Central Library, Jain Vishva Bharti University, Ladnun

Tatvnyayvibhakarah

2010/01

PDF Proofread

Front matter

प्रकाशकः प्राप्तिस्थानध- चन्दुलाल जमनादास शाह मंत्री, श्री लधिसूरीश्वर जैन प्रन्यमाला छाणी.(बडौदा स्टेट) 9408 - मुरका शाह गुलाबचद लल्लुमाई श्री महोदय प्रिन्टिंग प्रेस दाणापीठ-भावनगर. M

卐
भारती
9903
जैनरत्न व्याख्यानवाचस्पति कविकुलकिरीट सूरिसार्वभौम जैनाचार्य
श्रीमद्विजयलब्धिसूरीश्वरजी महाराज
ज

No text on this page.

निवेदन। जब हमने हमारी श्री लब्धिसूरीश्वर जैन ग्रन्थमाला की शुरुआत की थी तब हमें यह तनिक भी ख्याल न था कि, इतने थोडे ही से समय में जैन साहित्य के प्रौढ अन्थों के प्रकाशन का सौभाग्य हमें प्राप्त हो सकेगा। आज हम, हमारे पाठकों की सेवा में जैन साहित्य के एक महत्त्वपूर्ण ग्रन्थ को दे रहे हैं। अनेकों प्रन्थों में विकीर्ण जैन न्याय के विचारों का इस अन्य में गुरुदेव श्री विजय- लब्धिसूरीश्वरजी महाराज ने बडी खूवी से संकलन किया है, जो निःसंदेह जैन न्याय के अभ्यासियों के लिये बडे ही गम का है। अनेकों अन्थों को देखने के सिवाय केवल एक ही अन्य से जैन दर्शन के अधिकांश तस्वों एवं विचारों का परिचय उन्हें आसानी से प्राप्त होगा । और यह ग्रन्थ जैन साहित्य के लिये भी गौरव की चीज होगा । आज से करीब तीन वर्ष पूर्व हम ने इस मूल मात्र तत्वन्यायविभाकर को प्रकाशित किया था जिसको देख के अनेकों विद्वानों, पंडितों एवं दर्शनशास्त्रियों ने इस अन्य की उपादेयचा की सराहना की थी और टीका, जो कि उस समय वन रही थी शीघ्र ही प्रकाशित करने की इच्छा व्यक्त की थी उनकी इस इच्छानुसार आज यह ग्रन्थ स्वोपज्ञ न्यायप्रकाश नामक टीका के साथ प्रकाशित किया जा रहा है। अनेकों स्थानों पर जहां कि सटवा की आवश्यकता महसूस होती थी टिप्पणीयां भी लगायी गई है। इसके साथ साथ हम उदयप्रभसूरिजी कृत और हेमहंसगणी के वार्तिक से युक्त आरंभ- सिद्धि नामक ज्योतिष के ग्रन्थ को भी प्रकाशित कर रहे हैं, वह भी हमारे लिये गौरव की बात है। अब हम एक बात स्पष्ट करना चाहते हैं कि पुस्तक के अन्तिम पन्ने में छपे साहाय्य की रकम के व्यौरे को देख वाचको को यह संदेह होना संभव है कि, इतनी साहाय्य होने पर भी निवेदन । यह मूल्य क्यों ? इसके जवाब में यह कहना हम उचित समझते हैं कि रकमह केवल इस ही अन्य के प्रकाशन में नहीं परन्तु ग्रन्थमाला के साहित्यकार्य के लिये प्राप्त हुई है इसमें से हम उत्तरोत्तर जहां तक सभव होगा, साहित्य सेवा किया करेंगे | इस पुस्तक का मूल्य भी जब की लागत भी करीब छ: से अधिक होने जा रहा है, हमने केवल पांच ही रक्खा है जो पुस्तक के महत्व को और कलेवर को देखते अधिक नहीं कहा जा सकता। और उसमें भी वर्तमान विश्वयुद्ध ने तो चारों ओर महंगाई का ही बोलबाला बना रक्खा है । अन्त में हम हमारे आर्थिक सहायकों का जिनकी सहाय्य के आधार पर ही इतने विशा- लकाय ग्रन्थ का प्रकाशन सम्भव हो सका है, आमार मानते हैं और दूसरों के भी, जिन्हों ने हमें विविध रूप से साहाय्य दी है, हम ऋणी है। -प्रकाशक प्रस्तावना। सुनिश्चितमेवैतद्विदुषां यदनादिनाऽनन्तेनाऽनेहसा दुरन्तसंसारकान्तारे जानाविधाधिव्या- ध्युपाधिलक्षणमहादुःखदावानलसन्तप्तैर्निविडकर्मणा सुदृढं प्रवर्द्धर्मगतृष्णायमानविषयविपपानो- न्मत्तैश्चक्रवदनवरतानेकयोनिसमुद्भवपरिश्रान्तै वान्तरेण महता पूर्जितपुण्यप्रभावेण सघन- कर्मबन्धप्रबन्धसन्धुक्षणदक्षं पीयूपपाथोधिसहोदरानन्तसुखमयनिर्वाणपुरीप्रापणसमर्थ मानुपं जन्म लभ्यते, तल्लाभेऽपि नार्यक्षेत्रसमवायः सुलभः, तत्रापि नवा मिथ्यात्वतिमिरपरिहारेण सम् श्रद्धाया अवाप्तिरिति ।। - सा चेयं श्रद्धा जगत्रयविश्रुताईदमिहितानवद्यजीवादिपदार्थाभिरुचिलक्षणैव । यत इदमे- वाईत दर्शनं याथात्म्येन पदार्थतत्त्वावबोधाभिलापुकाणामादर्शभूतं दुर्गमभवचक्रपरिभ्रमणपरि- क्लिन्नानां भवोदधेः परम्पार जिगमिपूणामनपायं तरणिकल्पञ्च । नात्र दर्शने दर्शनान्तरेष्विव पक्षपाताभिनिवेशेन पदार्थस्वरूपनिरूपणं परस्परविरुद्धतया प्रतिपादितमस्ति, नवा कोऽपि पदार्थ- वरात्मकोऽचयत्मको वा चारुतया न चर्चितः । पारङ्गताचास्मिन् दर्शने महान्तस्साधवः प्रति. भावन्तो न कापि कदापि समासु सह दर्शनान्तरीयैर्विवदमाना अमोघानेकान्तकुन्निकाप्रभावेण मुद्रिताः पराजयमुद्रया जगति शासनस्यास्याईतस्य विजयवैजयन्ती प्रसारयाञ्चक्रुः । आगेपयच्च जयलक्ष्मी गले महात्मनां तेपामेव तदा तदा जयमालिकां यदा यदा समजनि दर्शनान्तरीयैर्वादः । येषाञ्च महात्मनां चमत्कारिप्रकाण्डप्रतिभाप्रभावेणाद्ययावद्धवनोदरस्य प्राणसन्निभमाहतशासनम- विच्छिन्नं चकास्ति | यत्र चापेक्षावादलक्षणं कुलिशं दुर्मतस्तम्बेरमाणामायत्तीकरणाय शोशुभ्यते यस्य निगूढाभिप्रायपरिज्ञानेन हृदि निष्पक्षपाततासाम्राज्यं मिथ्यात्वदावानलप्रशमश्च भविष्यति दूरे समुत्सारितोऽपि भविष्यति संशयवादः, तदेवंविधं दर्शनं तत्त्वज्ञानरत्नस्यानितरसाधारण- माकर भ्रान्ताः कुदृष्टिकल्पनाहालाहललतावितानसंवीतमानसाः निजार्थमात्रसंसिद्ध्यमिनिवेशिनः सङ्कुचितमविप्रचारा एव पण्डितमन्यास्संशयवादोऽयं विरुद्धवादोऽयं चक्रवादोऽयमिति मुधे कलङ्कयन्ति । ते च नितरां स्याद्वादसिद्धान्तानमिज्ञा एव । विलोकनीयाश्च तैः स्याद्वादप्रभाप्रवाहिण, सुदुर्भधयुक्तिजालजटिला जैनशासनाम्बरमणयो दूरीकृतकुदर्शनान्धकारा अपेक्षाविशेषेणाभ्यन्तरी- कृतसकलशास्त्रार्था आईतविचक्षणगीतार्थोदयाचलसमुज्झम्भिवा ग्रन्थमार्ताण्डा निरस्य पक्षपातति- मिरदोपम् । स्याद्बाटो हि वस्तुन्येकस्मिन्नविरोधेनावस्थितानामनन्तधर्माणामपेक्षया व्यवस्थापनपरः - सटीकस्य तत्वन्यायविमाकरस्य- यथा कत्र पुरुषे पितृत्वपुत्रत्वभ्रातृत्वपतित्वपितृव्यत्वमागिनेयत्वादयो धर्मास्सामान्यतो विरुद्धा अपि पुरुषविशेषाद्यपेक्षयाऽविरोधेन वन्ते तथैवात्मादयोऽपि निखिलाः पदार्थास्सापेक्षतया नित्य- त्वानित्यत्वभेदाभेदेकानेकादिधर्माण एव, नत्वपेक्षामन्तरेण ते नित्या एवानिया एव वा, परस्पर मिन्ना एवाभिन्ना एव वा, एकरूपा एवानेकरूपा एव वा । केवलमपेक्षापरिज्ञानविधुरा एव केचिदात्मा नित्य एवेति परे क्षणिक एवेति, अन्ये सामान्यरूप एवेति, अपरे विशेषरूप एवेति विवदन्ते अन्यतराङ्गज्ञानेन हस्विनस्तद्रूपत्वमेवेति विवदमाननात्यन्धा इव । न च पारयन्ति पदार्थ- याथात्म्यावधारणाय । तदेवं दर्पणमिव पदार्थस्वरूपप्रकाशकं दुर्वादिभिरप्रकम्प्यं सरलहृदयानां कोविदानां सुविशदमिदमाईत दर्शनं महता पूर्वपुण्यप्रभावेणैव प्राणिमिः प्राप्यते । अवाप्य चाईत- तत्त्वश्रद्धानरूपं दर्शनं ध्येयसिद्धेः परमनिदानभूताय झामाय चरणाय च प्रयतेत तयोरेव मोक्षं प्रति असाधारणकारणत्वात् । विहाय हि सन्मार्ग कुमार्गे परिभ्रमतो जीवानुत्पादयित्वा श्रद्धा व्यपोद्य च शवां ज्ञानं वन दृढीकरोति प्रोत्साहयति च क्रियायाम् । ज्ञानपूर्विका च क्रिया पुरुष परमसिद्धि नयति | तस्माद्विहगस्य पक्षाविवोमे अप्यसाधारणं कारणम् ॥ मात्मा स्वरूपतोऽनन्तज्ञानवान् । तच्च ज्ञानं छन्मस्थानामनादिना कालेनावृतं संत ज्ञानप्राप्ति- साधनमनुसृत्य वत्क्षयोपशमतारतम्येनाकरोद्धृतमणेः प्रसाधनवैचित्र्येण प्रकाश इव न्यूनाधिकरव- मनुभवति, तत्प्रतिबन्धकावरणस्यात्यन्तं क्षयेण चाविर्भवत्यनन्तं ज्ञानम् । आविर्भूतानन्तज्ञाना: केचित्तीर्थकृतः जगदुपकाराय सदेवमनुजायां पर्षदि देशनां विशन्ति । तत्प्रभाविताचे तीर्थकर- कल्पगणमृदादिभिस्तदीयं ज्ञानमागमरूपेण निबध्नन्ति यत्प्रभावणाल्पमेधसः सौकर्येण वस्तु- स्वरूपं यथार्थतया अवगच्छन्ति । ते निबन्धाः केचन प्रकरणरूपाः कतिचन सूत्ररूपा अपरे च सङ्ग्रहणीरूपाः । एषामपि सुलभतयाऽवबोधाय टीकाभाष्यचूर्ण्यवचूर्यादिरूपा बह्वयो व्याख्या निबद्धा वर्तन्ते, तैस्तैः ग्रन्थैः परमपूज्याः पूर्वजा महापुरुषाः स्वीयमद्भुतं चमत्कृतिकरश्च ज्ञान जगति प्रसार्य यशोऽक्षयमर्जयाञ्चक्रुः ।। यथा यथाऽवसार्पिणीकालः परिवृत्तिमेति तथा तथा वात्कालिकमनुजानां बुद्धेरपि परिवृत्ति- जायते करालव्यालसन्दष्टपुरुषमतेरिख । कुतर्कविपवायुना प्रणुन्नास्ते प्रबलान् सैद्धान्तिकानिर्ण- यानधिक्षिपन्तः सरलहृदयानां चेतसि अश्रद्धालक्षणमामयमुत्पादयन्ति । तानेतान्नवयुगीयकुतर्क- सरीसृपसन्दष्टान् जनाननूपतापं प्रतिक्रियेव चिकित्सितुं वर्त्मना नव्येनैव सैद्धान्तिकयुक्तीस्त- कांच सहकारीकृत्यार्षशैल्या चिरन्तनावर्णितान्यपि तत्त्वानि बहुधाऽवश्यं व्यवस्थापनीया- न्येव । अत एव चैतेऽपि ग्रन्था विदुषां मान्याः प्रमाणभूता एव । ते च ग्रन्थासम्मतितर्कस्याद्वादर- लाकरेत्याद्यभिधानाः सम्यग्ज्ञानसमुज्वलकरा बृहद्विमहा वादलक्षणत्वात्परिकर्मितमतेरेव सुमाझा प्रस्तावना 1 . न वाहनतत्त्वजिज्ञासूनामनधीतेतरदर्शनानां वालानाम् । निर्माय चैव विधाननेकान् प्रन्थरत्नान् । मध्यमयुगीया ग्रन्थकार आहेतविज्ञानं जगति प्रसार्य किरणैस्तपनस्विमिरमिव कुदृष्टिभ्वा. न्तमुन्मूलयाचक्रुः अवापुश्वानन्तरं परम्परच फलम् ॥ तथापि विनेयहितायान्तरेणापरदर्शनाध्ययनं तत्र तत्र प्रन्थेषु विवेचितानामतिगहनतया पदार्थानामेकत्र स्फुटतया निरूपणमप्यत्यावश्यकमेवेति मन्त्रानरेतद्न्थकर्तृभिः परमदयालुमि- प्रन्योऽयं सन्दृब्धः । अयं हि प्राधान्येन मोक्षकारणभूतं रत्नत्रयमाश्रित्य मागत्रयेणालङ्कतः । एकैको भागोऽपि वहुभिः किरणैर्विभूपितः । आईतामिमनसिद्धान्तानां समासतो लीलयान्तेवा. सिनो यथा धारयेयुस्तथा ऋजुमार्गेण सूत्रकल्पं मूलं जीवादितत्त्वानां तळ्यवस्थापकन्यायानाच निरूपणरूपत्वात्तत्त्वन्यायविभाकराभिधानमादावारचितम् । अभिप्रायगर्मितत्वात्तस्य परिष्करण- मन्तरा न किमपि वैशिष्ट्यं भवेदिति यथासम्भवं दलप्रयोजनप्रदर्शनपुरस्सरं न्यायवमना मूलार्थों विशदतया व्यावर्णितो यस्य व्यावर्णनस्य न्यायप्रकाश इति मूलनिलीनन्यायानां प्रकाशकत्वादन्वर्थ नाम | व्याख्यायामस्यां यथासम्भवमतिसारल्येन न्यायपूर्णेन वर्मनाऽतिगम्भीरार्था विषयास्तथा व्यावर्णिता यथाऽधीतव्याकरणकाव्यकोशा ऋजुमतयोऽपि दर्शनान्तरीयमुक्तावल्यादिनन्याध्ययन- निरपेक्षा एव न्यायाध्वनि प्रविशेयुः । व्याख्यायामस्या पदार्थनिरूपणमपि पूर्वाचार्यसरणिमनु- मृत्यैवारचितं कस्यापि हि ग्रन्थस्य व्याख्याया वा आविष्करणे प्राचीननामर्वाचीनानाञ्चोक्तः सा. क्षात्कारः तेषां सुगूढामिप्रायपरिज्ञानञ्च सर्वेषामावश्यकमेष, अपरथा तेषां प्रयासः प्रामाणिकैर- नादरणीय एव स्यादिति मन्वानन्थकर्तृमिः । भाषापि सरलाऽतिरमणीया च स्वीकृता । तथा प्रायः प्राचीनानामुक्तयोऽपि अनूदिताः ॥ यद्यपि वर्तमानकालापेक्षया ग्रन्थस्थास्य व्याख्या वर्तमानदेशभाषामवलम्ब्य कृता चेत्सक- लजनोपयोगिनी स्यात्तथापि तत्त्वज्ञानोपयोगिविषयाणां निरूपणं प्रचण्डदुर्वादिसिद्धान्तप्रभजनश्च ताशमाषया सुष्टु क मशक्यमिति अन्योऽयं विद्वज्जनपदि अनादरणीयो मा भूदिति च विभाव्य यथाशक्यं सुलभयैव गीर्वाणभापया व्याख्यातः । मूलस्य व्याख्यानं सुमनोहरेण वर्त्मना चमत्कृ- तिकरेण पदार्थानां निरूपणं न्यूनाधिकभावपरिहारेण सरलशैल्या मतान्तरखण्डनश्च दुष्परिहरेण युक्तिजालेन कृवमस्ति । अवो दार्शनिकग्रन्थनिकरेष्वर्य महारत्न इव साम्प्रतकालीनविद्वजनपरि- कलितप्रन्येभ्यः सर्वाशेनातिशायीत्यत्र नैव गुणैकग्राहिणां विदुपां विरोधः । सोऽयं ग्रन्थः आईता- भिमततत्त्वानां सर्वेषां सम्यक्प्रकाशकत्वादागमपयोनिधिं प्रवेष्टुकामानां तरणिकल्पत्वाच महा- विद्यालयादौ पाठ्यग्रन्थतया प्रवेशयितुमतीवोपयोगीति तत्तदष्यक्षेभ्यो निवेदयामः ॥ तदेवस्य ग्रन्थस्य टीकायाश्च कारो जगतीतलजेगीयमानयशोराशेः प्रकाण्डपाण्डित्यमण्डित- सठीकस्य तस्वन्यायविभाकरस्य स्य संयमिवरेण्यस्य। न्यायाम्भोनिधेः श्रीमद्विजयानन्दसूरीश्वरस्य प्रशिष्याः वदनन्यपट्टधरस्य शासनसार्वभौमस्य जैनाचार्यश्रीमद्विजयकमलसूरीश्वरस्य विनेयास्तत्पट्टालङ्कारभूवाश्च' सुविहित- नामधेयाः श्रीमद्विजयलब्धिसूरीश्वराः, ये स्वकीयमनोज्ञकविताचातुर्येण निखिलजनचेतोहारि- निर्वाणमुखामृतरसस्यन्दिरुचिरव्याख्यानसरण्या च कविकुलकिरीटेति व्याख्यानवाचस्पतीति च दवीयसी पदवीमवापुः । एभिर्विरचिता अन्येऽपि संस्कृतभापामया अनेके ग्रन्थापामरजनम- नमलिनतामपनयन्तो जगति विश्रुता वरीवृतति । एप प्रकृत्या शान्तस्वभावं निरुपमधर्मानुरागं जगति वर्चमानानामपि सर्वथा तव्यापारेष्वनासकतां सर्वदा शास्त्राध्यापनविरचनसंलीनताश्चा- वलोकयतः कस्य वा सचेतसस्तेषु गौरवधिषणा न जागृयात् । एपो जीवनचरित्रं विशेषतो बुमुत्सु- मिर्मविरचितो भापामयः कविकुलकिरीटामिधानो ग्रन्थोऽवश्यं लोचनगोचरो विरचनीयः ॥ मानवगणतापापनोदकस्यास्य ग्रन्थस्य संशोधनकर्मणि विहितश्रमो मदुरुभ्राता श्रीविक्रम- विजयः मच्छिष्यो भद्रङ्करविजयश्व जनसमाजस्योपकारक इत्यत्र नास्ति संशयलेशः । प्रकाशन- कर्मणि कृतद्रव्यसहाया धनिकवर्गा अपि भगवतः शासनस्य सहायका एवेति । विशेषतस्तु काशीस्थविश्वविद्यालयन्यायाध्यापकानां तार्किकरत्नानां श्रीमच्छ्रीशङ्करभट्टाचार्याणामन्तेवासी लब्ध- न्यायाचार्यप्रतिष्ठोऽस्मद्गुरुवर्याणां शिष्यमण्डलस्य विद्यया कृवसंस्कारो नारायणाचार्योऽस्मिन् कर्मणि कदापि न विस्मरणीयो येन महत्साहाय्यं दत्तम् ।। तथा भूयांसमायासमगीकृत्य संशोधकैः परिशीलितेऽप्यस्मिन् अन्थे वेषां दृष्टिदोषात् अक्षरसंयोजकमुद्रकादिदोपाद्वा यत्र क्वचिदुपलभ्यमाना अशुद्धीरुपेक्ष्य गुणैकग्रहणा विपश्चिदप- श्चिमाः समुत्सार्य मात्सर्य स्वयमेवास्मिन्नुररीकृतनयनसमर्पणायासा विचारामृततृप्ति भजन्तस्तेषां परिश्रमं फलेग्रहिं करिष्यन्त्येवेत्यवधारयन् सकलपदार्थतत्त्वज्ञं भगवन्तं जिनेश्वरमाराधयाम्यनेन व्यापारेणेति ॥ । निवेदक:- व्या० वा. आचार्यश्रीमद्विजयलब्धिसूरीश्वराणां चरणोपासका भुवनविजयोपाध्यायः . सटीकस्य तत्त्वन्यायविभाकरस्य-विस्तरतोविषयानुक्रमः। प्रथमो भागः। - ... ... यने कारणम् ... ... विषयाः विषया प्रथमः किरणः। २१ उपायशब्दस्य बहुपचनान्तत्वे बीजम् १ टीकामङ्गलम् ३ १/२२ क्षायिकसम्यश्रद्धादीनामेव २ टीकानामनिर्देश: ३ मुफ्त्युपायत्त्वमिति पूर्षपक्षनि- ३ मूलमङ्गलावतरणम् राकरणम् ४ मूलमङ्गलम् ३ १७ / २३ सम्यक्रद्धालक्षणम् ५ अतिशयप्रदर्शनम् ६/२४ सम्यक्त्वमेदप्रकारप्रदर्शनम्... १० ६ वीरशब्दार्थवर्णनम् ४ १३ /२५ सम्यश्रद्धात्वेन लक्षणप्रण- ७ शास्त्रारम्भादिसमर्थनार्थे पूर्वपक्षः ४ २० १० ८ अष्टविधाचार्यश्रीप्रदर्शनम् ५ १३ / २६ तस्वपदसार्थक्यम् . ९ सम्बन्धलयप्रदर्शनम् ५ १८२७ लक्षणस्थाभिरुचिशब्दार्थः १० अईहरुभुतानां क्रमेण तमने २८ तब तत्त्वानीति मूलस्यावतरणम् १० २६ निवन्धनम् ५ २१२९ तत्वविभागर ११ १ ११ द्विविधप्रयोजननिरूपणम् ५ २६ | ३० तस्वानीति नपुसकसमर्थनम्... ११ १२ लोकलयकृत्यवर्णनम् ६ ६३१ जीवादिशयानां व्युत्पत्तिमद- १३ मङ्गलशब्दार्थनिरूपणम्... र्शनम् ११ १४ मङ्गलस्य विनध्वंसहेतुतासमर्थनम् ६ २०३२ पुण्यादीनां जीवाजीवयोरन्त- १५ प्रथमं मुफ्त्युपायनिरूपणे हेतू- द्रावनम् ५३३ तस्समाधानम् १६ उद्देश्ये विधेये चैवकारयोज- ३४ क्रमेणोपन्यासे कारणम् ११ २२ नया व्याख्यानम् .... ७ २७ ३५ क्रमेणोपन्यासे प्रकारान्तरेण- १७ श्रद्धादौसम्यक्त्वनिरूपणम् ... २ कारणाभिधानम् १२ ३ १८ सम्यगिति विशेषणफलम् ८३६ नवग्रहणप्रयोजनम् ... १९ सम्यक्खादीनां क्रमेणोपन्यासे ३७ पुण्यपापयोरजीवेऽस्तविशङ्का समाधानश्च २० इन्द्रसमासफलप्रदर्शनम् ८ १९ | ३८ जीवसंख्याऽनयत्यनिरूपणम्... १२ १८ ... ... विशका ... ... ... .. ८ ... ... हेतु... ... U. ...

:: सटीकतत्वन्यायविभाकरस्य [प्रथममागे ... ... १ ... ... ... ६ ... ... ... - - १ १४ ... विषयाः विषयाः ३९ अजीवविभागः १२ २२ ६१ यशीतिविधानां ज्ञानावरणी ४० धर्मादेनिर्वचनम् १२ २३ यादिप्रकृतिकथनम् १७ २७ ४१ तत्क्रमोपन्यासे कारणम् १३ ६२ आश्रवविभागः ४२ पञ्चग्रहणप्रयोजनम् १३ ६३ आश्रवशब्दार्थः ४३ अजीवपदव्युत्पत्ति ६४ इन्द्रियपञ्चकादीनां नामग्राह ४४ धर्मादौ जीवसादृश्याभावाss वर्णनम् ... शङ्का १३ ६५ द्रन्याश्रवभावाश्रवप्रदर्शनम् - ४५ तत्समाधानम् १३ १३, ६६ इन्द्रियपञ्चकादीनां प्रवृत्ति- ४६ द्रव्यपदनिरूक्ति प्रदर्शनम् ... ४७ द्रव्यत्वसम्बन्धाइव्यमित्यस्य ६७ संवरभेदाः निराकरणम् . १३, २३-६८ पञ्चसमित्यादीनां नामनिर्देशः १९ ४ ४८ जीवादीनां साधर्म्यकथनम् ... १४ ६९ निर्जराभेदाः ४९ पदार्थान्तराणां षट्स्वेवान्त- ७० बाह्याभ्यन्तरतपसां नामानि... १९ १६ र्भाव.... ६ ७१ तपसस्संवरैकदेशत्वशङ्का ५० उक्तन्यायेन पुण्यादीनामपि समाधानञ्च पट्स्वन्तर्भाव इति व्याव- ७२ बन्धमेदार... नम् ७३ प्रकृतिबन्धादीनां स्वरूपप्रद- ५१ कालातिरिकानां पञ्चानां साधर्म्यम् .. ७४ मोअविभागः २० १४ ५२ अस्तिकायशब्दार्थवर्णनम् ७५ उपचारात्तद्भेद इति वर्णनम् २० १६ ५३ जीवादीनामुत्पादविनाशपति- ७६ प्रथमकिरणोपसंहार:... २० १९ पादनम् द्वितीयः किरणः। ५४ कालस्योत्पादव्ययभ्रौव्यात्मक- त्ववर्णनम् १५ १५.७७ जीवे प्रमाणाभाव इति पूर्वपक्षा २० २३ ५५ तथापि तस्य नास्तिकायत्व- ७८ मूले जीवलक्षणम् । मिति समर्थनम्... १५ २१ ७९ जीवे प्रमाणदर्शनम् .. २१ १७ ५६ प्रदेशावयवबहुत्वलक्षणसाघ- ८० अहंप्रत्ययविषयत्वं न देहादी- यस्य परमाणौ समर्थनम् १५ २८ नामिति निरूपणम् ५७ पुण्यप्रभेदा.... १६ ८१ परदेहे आत्मानुमानम् ५८ सातादीनां संक्षेपतस्स्वरूप- ८२ चेतनालक्षणो जीव इति लक्ष- वर्णनम् -णानुपपत्तिशां... २२ १२ ५९ पापविभाग: ८५ शानातिरिक्तात्मसाधनम् २२ १७ ६४ ज्ञानावरणादीनां समासेन स्व- ८४ नित्यात्मानभ्युपगमेऽनुपपत्ति- रूपवर्णनम्... ८.. प्रदर्शनम् ... in २२ २७ ... र्शनम् ... ५ ore . ... ... ... ... ८ ... ४ द्वितीय. किरण. ] विस्तरतो विषयानुक्रमः । . ... ... ... २ ... विषया. विषयाः ८५ बुद्धरात्मस्वरूपत्वासम्भवमाशं ११२ भाषापर्याप्तिनिरूपणम्... ३१ १८ ३२ २३ १६ | ११३ मनःपर्याप्तिनिरूपणम् .. क्य समाधानम् . ८६ आत्मनो ज्ञानस्वरूपत्वे सर्वदा ११४ पर्याप्तापर्याप्तस्वरूपम् विषयदर्शित्वादिदोषनिराक- ११५ एकेन्द्रियादिजीवानां पर्याप्ति-' रणम् २३ २६ कथनम् ८७ आत्मकत्वनिराकरणम्... २४ ६/११६ सूक्ष्मजीवादिनिदर्शनम्... ८ आत्मद्वैविध्यप्रदर्शनम्... ... २४ २३ ११७ न कर्मधारयादिति नियमस्य ८९ भादौ संसारिग्रहणे कारणम्... २४ २५ काचिकत्व प्रदर्शनम्... ३३ ९० संसारिणां विकल्पबाहुल्यमाव ११८ पृथिवीकायिकादिषु चेतनास- शयितुमावावेकविधत्ववर्णनम् २५ दावसमर्थनम् । ३३ १३ ९१ दैविध्यत्रैविध्यप्रदर्शनम् २५ १३ / ११९ पृथिवीकायिकादि जीवसिद्धिः ३३१७ ९२ प्रकारान्तरेण वैविध्यप्रदर्शनम् २५ .१७ / १२० अकायिकजीवसाधनम् ९३ द्विविधलिङ्गवर्णनम् २६ १ १२१ तेजसां सचेतनत्वसाधनम्... ३३ २७ ९४ चातुर्विध्यप्रदर्शनम् २६ ५/ १२२ वायोस्तत्साधनम् ९५ पञ्चविधत्ववर्णनम् २६ ८ १२३ असंक्षिपश्चेन्द्रियनिदर्शनम् ... ३४ ९६ षड्विधत्वनिरूपणम् २६ १२ / १२४ नाहारादियोगात्संक्षिन इत्यभि- ९७ विभागस्य परमावधिप्रदर्शनम् २६ २० घानम् ३४ १० ९८ संसारिलक्षणम् ... १२५ सम्प्रधारणसंहावन्तो वा सं. ९९ जीवपरिमाणम् ... शिन इत्यमिधानम् १२६ लक्षण मित्रमभिन्नश्च भवतीति १०० विमुपरिमाणन्युदासः... १०१ संसारिणां बहुविधत्वेऽपि मा. प्रदर्शनम् ... ...३४ १८ ध्यमिकममेदनिरूपणम् १२७ संक्षिपञ्चेन्द्रियाणां दृष्टान्तः... ३४ २४ १ १०२ एकेन्द्रियपदेन बादरैकेन्द्रियप्र- .१२८ चतुर्दर्शविधानामेषां प्राणित्वव- हणमितिन्यावर्णनम् नम् १०३ पर्याप्तिशब्दार्थ.... १२९ तत्रागमस्यापि प्रमाणत्वेनो- २८ १७ पन्यासः १०४ समाप्तः पर्याप्तिशब्दार्थत्वनिरा- ३५ १३० प्राणमेदप्रदर्शनम्... करणम् १०५ विषयमेदनिवन्धनतद्रेदमरू- १३१ मनोचलादीनां स्वरूपम् २३२ भायुषो वैविध्यम्... .. पणम्... १०६ महारपर्याप्तिनिरूपणम् १३३ कालायुषो वैविध्यम् ३५ २० २९ १५ १०७ प्रवचनानुसारेण तन्निरूपणम् ३० १३४ एकेन्द्रियादीनां माणसंख्यानि- यमनम् १०८ शरीरपर्यातिप्ररूपणम्... ३६ ३० ७ | १३५ सिद्धानां भावप्राणामिधानम् ३६ १०९ प्रवचनानुसारेण तत्त्ररूपणम्. ३० १७ | १३६ असंसारिस्वरूपम् १२० इन्द्रियपर्याप्तिवर्णनम्... ... ३० २७ १३७ जीवस्य संकोचविकासवत्व- १९१ उच्वासपर्याप्तिकथनम्... ९ ३६ २० २७ ... GC ... २८ १ ... ७ ... ... ... ८ ... १ ... ... ... ...

सटीकतत्वन्यायधिमाकरस्य [प्रथमभागे ... ... ... ... पनम्.. ... ... ... विषया. विषयाः १३८ जीवनिरूपणोपसंहारः... ३७ १ | १६५ लोकालोकाकाशमानम् तृतीयः किरणः। १६६ धर्मादीनां त्रयाणां त्रैविध्योक्ति. १२ १० १६७ काललक्षणम् १३९ अजीवलक्षणम्... ९ १६८ वर्तनालक्षणशब्दार्थः ४२. २४ १४० धर्मलक्षणम् ३७ १४ १४१ क्रियालक्षणम् १६९ द्रव्यकालप्रदर्शनम् ४२ २७ १४२ कारणवैविध्यम् .. १७० वर्त्तनानुमेयतया कालव्यवस्था- ४३ १४३ धर्मलक्षणपदकृत्यम् ५ १४४ धर्म प्रमाणप्रदर्शनायाशङ्का १७१ मनुष्यक्षेत्रात्परतो वर्त्तनाया न ३८ १० १४५ प्रमाणोपदर्शनम्... काललिङ्गत्वमित्यभिधानम् ... ४३ ११ १४६ गतिपरिणतानामित्यादिपूरणे १७२ नवपुराणादिपरिणामेन काल- फलप्रदर्शनम् साधनम् ३८ १६ १४७ साध्यकोटिस्थपदकृत्यम् १७३ मानान्नराभिधानम् ४३ २१ १४८ मानार्थव्यावर्णनम् १७४ इतरनिमित्तत्वं वर्तनाया न सम्भवतीत्यभिधानं १४९ देश एव गत्यपेक्षाकारणमित्य- ४३ २३ १७५ कालस्य द्रव्यत्वे द्रव्यलक्षणा स्य समाधानम्... ६ १५० धर्म प्रमाणान्तरप्रदर्शनम् व्याप्तिवारणम् ३९ १० १५१ धर्मस्य प्रदेशेयत्तानिरूपणम् , ३९ १५ १७६ स्कन्धदेशप्रदेशमेदा अस्य ने- १५२ धर्मस्य प्रदेशकल्पना औपचा- त्यभिधानम् ક ૧૩ रिकोत्यस्य खण्डनम्... १७७ नैश्चयिकव्यावहारिकमेदेन द्वै. १५३ धर्मस्याकाशप्रतिष्ठत्वकथनम्...३९ २३ विध्यवर्णनम् १५४ अघर्मलक्षणं प्रमाणञ्च... १७८ तत्र प्रमाणोपदर्शनम् . ६ १७९ नैश्चयिकव्यावहारिककालखस- १५५ आकाशलक्षणम् १५६ तत्रातिव्याप्त्याशङ्का समाधा- पवर्णनम् । नश्च... १८० कालस्योपचरितद्व्यत्वसमर्थ- ४० १९ १५७ अलोकेऽध्याप्तिधारणम् ४१ नम् . १५८ आकाशे प्रमाणप्रदर्शनम् १८१ वर्चनादिपर्यायाणां चतुर्विधत्व- ८ ४५ २५ १५९ युगपत्पदकृत्यम्... प्रदर्शनम् . ४१ ११ १६० आवरणामावस्यावकाशदातृत्व- १८२ द्रव्याणां स्थितेचातुर्विध्यनिरू- खण्डनम् ४१ १५ पणम् १६१ आकाशस्यावगाहकान्तरापेक्षा १८३ क्रियापर्यायाभिधानम् ... वारणम् ४१ १६ | १८४ क्रियात्रैविध्यवर्णनम् १६२ मानान्तरप्रदर्शनम् ४१ १८ | १८५ परिणामपर्यायनिरूपणम् १६३ तस्यौपाधिकमेदकथनम् ४२ ११८६ परत्वापरत्वपर्यायनिरूपणम्... ४७ १८ १६४ अलोकाकाशसाधनम् .... ३ / १८७ पुलद्रव्यनिरूपणम् ... ४७ २३ ... ... ... ... ... ... ४ ...

चतुर्थः किरणः] विस्तरतो विषयानुक्रमः। ... ... ... ... ... ... विषयाः विषयाः १८८ रूपशब्दवाच्या मूर्तिरित्यमिधा २१० पुद्गलानां धर्मान्तरप्रदर्शनम् ५२ १४ नम् .. ४७ २५/ २११ शब्दस्वरूपम् ५२ १५ १८९ चक्षुर्ग्रहणस्वरूपं रूपमिति वर्ण २१२ शब्दस्य द्रव्यत्वसमर्थनस् नम् १/२१३ अन्धकारस्य पुद्गलपरिणाम- १९० रूपवत्त्वस्यादौ लक्षणत्वेनामि- त्ववर्णनम्... मिधाने हेतुः ३२१४ उद्योतस्य पुद्गलपरिणामत्ववर्ण- १९१ रूपरसगन्धस्पर्शानां न सर्वपुर- ५३ २१ लगुणत्वमिति मतखण्डनम् ६ २१५ प्रमायास्तथात्ववर्णनम्... १९२ लक्षणान्तरप्रदर्शनम् ... ४८ १२ २१६ छायाया द्रव्यत्वसमर्थनम् ५३ २४ १९३ पुद्गलानामवगाहक्षेत्रकथनम् ४८ १७ | २१७ आतपस्य द्रव्यत्वसाधनम् १९४ पुद्गलानां चतुर्विधत्वप्रदर्शनम् ४८ २२ २१८ पृथिवीजलतेजोवायूनां परमाणु- २९५ स्कन्धम्वरूपम् परिणामविशेषत्वसमर्थनम् १९६ अवयवावयविनोगेंद इति पूर्वप २१९ अजीवनिरूपणोपसंहारः क्षारचनम्.. ૨ चतुर्थः किरणः १९७ तत्खण्डनम्... ४९ १२ १९८ अचयविनः स्वाश्रयेभ्यो नैकान्ते- २२० पुण्यलक्षणम् ५४ २६ न मेद इति साधनम्.. ४९ १९ २२१ तत्पदप्रयोजनम्... १९९ तत्र वृत्त्युपलब्धेरिति हेतौ व्य. २२२ पुण्यपापयोरात्मगुणत्वनिराक- भिचारमाशक्य तन्निराकर- रणम्... ५ णम्... ... ४९ २११२२३ पुण्यपापकर्मसाधनम् २०० अवयवाषयव्यादीनां कथञ्चि- २२० भूतातिरिक्तस्यैकस्य सुखदुःख- तादात्म्यमेव वृत्तिरिति वर्ण- हेतुत्वनियसः नम्- ५० २२५ कर्मणो मूर्तत्वसाधनस्... २०१ देशलक्षणकथनम् ६ २२६ कार्मणशरीरव्यवस्थापनम् २०२ तन्द्रावार्थाभिधानम् २०३ प्रदेशस्वरूपवर्णनम् २२७ कार्यकारणभेदेन पुण्यस्य द्वैवि. २०४ भेदादितःस्कन्धोत्पत्तिकथनम् ५० १५ ध्यम... २०५ परमाणुस्वरूपम्.. २२८ पुण्यपापात्मककर्मसम्बन्धस्या- २०६ तस्य सन्तिमकारणत्वोपव- नादित्वसमर्थनम्.. नम्... २२९ जीवस्य कर्मयोग्यपुगलग्रहणव- २०७ द्रव्यमाघारमना तस्य निरवयव- नम्... स्वसावयवत्वव्यवस्थापनम् ५१ १२/ २३० घात्यघातिभेदप्रदर्शनम्... २०८ परमाणोः संश्लेषसमर्थनम् .. ५१ २० २३१ द्रव्यभावपुण्यप्रतिपादनम् २०९ परमाणो प्रतियात्यप्रतिघाति- २३२ सातवेदनीयलक्षणं तत्पदकृत्यश्च ५८ त्वप्रतिपादन ५२ ३/२३३ उचैर्गोवलक्षणम् ... ... ... ... ... .. ... ar ... ... ... ... ... ...

सटीकतत्वन्यायविमाकरस्य - [प्रथमभागे - ... ... 21 ... ७० ४ विषयाः पृ पं. विषयाः २३४ मनुजगतिलक्षणम् १ | २६१ संहननस्वरूपम्... ६६ १४ २३५ आनुपूर्वीलक्षणम् ५९ १२ २६२ सपदकृत्यं वज्रर्षभनाराचसंहन- २३६ ऋजुवक्रगतिवर्णनम् नलक्षणम् ... २३७ मनुष्यानुपूा लक्षणम्... ६० १०२६३ सस्थानस्वरूपम्... ६७ २३८ देवगतिलक्षणम्... ६० १८ २६४ समचतुरस्रसंस्थाननामकर्मल- २३९ देवानुपूर्वीलक्षणम क्षणम् '६७ २४० पश्चेन्द्रियजातिलक्षणम्... ४ | २६५ प्रशस्तवर्णादिनामकर्मलक्षणानि ६७ १९ २४१ तत्पदकृत्यम्... ६१ ११ | २६६ प्रशस्ताप्रशस्तवर्णादिकथनम् ६८ १२ २४२ औदारिकशरीरलक्षणम्... ६१ २२ २६७ पुद्गलानां व्यवहारनयेन चतु- २४३ शरीरपर्यायावतिव्याप्तिवार- विधपरिणामप्रदर्शनम् ... णम् ... ६१ २५ / २६८ निश्चयनयप्रदर्शनम् २४४ वैक्रियशरीरलक्षणम् ७) २६९ पराघातस्वरूपम्... २४५ आहारकशरीरलक्षणम् २७० उच्छ्वासनामकर्मलक्षणम् ६२ १२ ६९ २० २४६ तेजसशरीरलक्षणम् ६२ २० | २७१ आतपनामकर्मलक्षणम्... २४७ कार्मणशरीरलक्षणम् ... ६२ २४ २७२ उद्योतनामकर्मस्वरूपं तत्पदन- योजनमः २४८ कार्मणशरीरसाधनम् ६३ २७३ शुभखगतिनामलक्षणं तत्पद- २४९ देहशब्दस्य नपुंसकनिर्देशे कार- कृत्यञ्च णम् ६३ ११ | २७४ अस्योदयः पक्ष्यादिष्वेवेति शं- २५० शरीरस्वामिनः... कासमाधानम् २५१ औदारिकादिशब्दार्थः. ६३ २२ २७५ तत्त्वार्थभाष्यानुसारेण लक्षणम् ७० २१ २५२ कार्मणमिन्नशरीराणामुपभोग- २७६ निर्माणनामकर्मलक्षणम् ७१ वत्त्ववर्णनम्...... २७७ तत्पदकृत्यम् ७१ २५३ औदारिकाङ्गोपाङ्गनामकर्मलक्ष- २७८ वसनामकर्मलक्षणंतत्पदकत्यञ्च ७१ १३ णम्.. ६४ २७ / २७९ बादरनामकर्मलक्षण तत्पदकत्यश्वर १९ २५४ अगुल्यादीनामुपाङ्गत्वप्रदर्श- २८० सपदकत्यं पर्यातनामकर्मलक्षणम्७२ ३ ने निमित्तकथनम्... ३ २८१ सपदकृत्यं प्रत्येकनामकर्मलक्ष- २५५ लक्षणपदकृत्यम्... णम्... २५६ वैक्रियाङ्गोपाङ्गनामलक्षणम् ६५ २१/ २८२ स्थिरनामकर्मलक्षणं तत्पदकृत्यञ्च७२ १७ २५७ आहारकाङ्गोपाङ्गलक्षणम् ६५ २४ २८३ शुभनामकर्मलक्षणं तत्पदप्रयोज- २५८ तेजसकार्मणयोनाङ्गोपाङ्गानीति वर्णनम् १/२८४ सौभाग्यनामकर्मलक्षणं तत्पदछ २५९ पृथिव्याघेकेन्द्रियाणां नाङ्गोपाङ्ग त्यञ्च.. त्वमित्यमिधानम् ६६ ३ | २८५ सपदकृत्यं सुस्वरनामकर्मलक्ष- २६० वनस्पत्यादौ तत्समर्थनम् ६ णम्... ७३ १२ ... ... ... ... ... . ... ... ७२ ११ ... ... ७२ २३ ... 4 ..

पञ्चमः किरणः] विस्तरतो विषयानुक्रमः । विषया विषया ... ७४ ... ... ... ... ... १ ... २८६ आदेयनामकर्मलक्षणम्... ७३ १४ ३११ बाधाकालकथनम्... २८७ यश-कीर्तिनामलक्षणम् ७३ २१ ३१२ श्रुतज्ञानावरणलक्षणम् . २८८ यशाकीयोमैदप्रदर्शनम् ७३ २४ ३१३ तत्पदकृत्यम् २८९ देवायुषो लक्षणम्... ६३१४ अवधिज्ञानावरणलक्षणम् ८१ २९० आयुःस्वरूपम् ... ७४ ७ | ३१५ तत्पदप्रयोजनवर्णनम् २९१ तवैविध्य तत्स्वरूपञ्च... ९ ३१६ मनापर्यवावरणस्वरूपम्.... ८१ २२ २९२ आयुर्वन्धकानां कथनम्... ... ७४ १५, ३१७ तद्भावार्थ:... ८१ २५ २९३ आयुषोऽवाधायां मनचतुष्टयम- ३१८ केवलज्ञानावरणस्वरूपम् दर्शनम् ... ... ७४ २५/३१९ अभव्यस्य मनःपर्यचाधावरण- २९४ मनुजायुषस्तिर्यगायुषश्च लक्ष- सद्भावसमर्थनम्... णम्. ७५ १० ३२० दानान्तरायलक्षणम् ६३ २ २९५ तीर्थकरनामकर्मलक्षणम् ७५ १६ । ३२१ सामग्रीसमवधानासमषधान- २९६ गणधरत्वे निमित्तप्रदर्शनम्... ७५ २० योरिति पदप्रयोजनाभिधानम् ८३ २९७ तीर्थकरकर्मणो निकाचनाकथ ३२२ लामान्तययादिस्वरूपम् नम् ७६ ३२३ सम्यग्याचितेऽपीति पदसार्थ- २९८ कार्यकारणमेदमिन्नं पुण्यं प्रदर्य क्यसमर्थनम् ८३ २३ तत्कारणप्रदर्शनम्... ... ७६ ५ ३२४ भोगान्तरायलक्षणम् ८३ २७ २९९ तदर्थवर्णनम् ३२५ उपभोगान्तरायस्वरूपम् ६ ३०० धातिकर्मभेदप्रदर्शनम्... २/३२६ वीर्यान्तययस्वरूपम् ३०१ पुद्गलविपाकित्वादिप्रदर्शनम् ७७ ३२७ अस्योदयन्यूनाधिकत्वप्रदर्शनम् ८४ ११ ३०२ पुण्यनिरूपणोपसंहार.... ... ७७ १६, ३२८ चक्षुर्दर्शनावरणलक्षणम् ... ३२९ अत्र तत्त्वार्थवृचिहारिभद्रटीका- पञ्चमः किरणः संवादः ... ८४ २३ ३०३ पापलक्षणम् ... ७७ २२ / ३३० भचक्षुर्दर्शनावरणलक्षणम् ३०४ पुण्यातिरिक्तपापसाधनम् ... ७८ ६ | ३३१ अवधिदर्शनावरणलक्षणम् ३०५ द्रध्यभावपापस्वरूपम् ... ... ७८ २९ ३३२ तत्पदकृत्यम् ३०६ भावार्थवर्णनम् ७९ १३३३ केवलदर्शनावरणलक्षणम् ३०७ मतिज्ञानावरणलक्षणम्... ... ७९ १३ ३३४ तद्भावार्थः... જ ૨૨ ३०८ वत्पदकृत्यम् - ....७१ २२ | ३३५ मनापर्यवदर्शनं मास्तीत्यभिधा- ३०९ आवरणकर्मणां सतामसतां म- नम... त्यादीनामावारकत्वमिति सम- ३३६ निद्रास्वरूपम् ३३७ भावार्थः पदकृत्यञ्च थेनम... ...७९ २६ ३३८ निद्रानिद्रास्वरूपं तत्पदकत्यञ्च ६ २३ ३१० मतिज्ञानावरणस्थितिकालवर्ण- ३३९ प्रचलालक्षणम् ६ | ३४० तद्भावार्थ: पदप्रयोजनश्च ३ ७६ ... ... ... ... ... - ... ... in.८७ ... ८० सटीकतत्त्वन्यायविभाकरस्य [प्रथमभागे विषयाः . विषया. ४ ... ... ८८ ... ... ... ... ... ... A ... ... ... ३४१ प्रचलाप्रचलालक्षणम् ... ८७ १२/ ३७३ अप्रत्याख्यानस्वरूपम्.. ३४२ स्त्यानद्धिस्वरूपम्... ... ८७ १६ / ३७४ अप्रत्याख्यानक्रोधादिस्वरूपम् ९५ १७ ३४३ तद्भावार्थः... ८७ १८ ३७५ प्रत्याख्यानस्वरूपम् ९५ २४ ३४४ दर्शनावरणस्य बन्धादिसंख्या ३७६ प्रत्याख्यानक्रोधादिस्वरूपम् ... ९६ प्रदर्शनम् ... ८७ २५ | ३७७ संज्वलनक्रोधादिस्वरूपम् ३४५ नीचैर्गोत्रलक्षणम्... ४ | ३७८ हास्यमोहनीयस्वरूपम्.. ९७ ३ ३४६ तहलप्रयोजनम् . ६ | ३७९ रतिमोहनीयस्वरूपम् ९७ ३४७ असातवदनीयस्वरूपम्... ८८ १७ | ३८० अरतिमोहनीयलक्षणम्... ९७ १४ ३४८ तत्पदप्रयोजनम् ८८ २० | ३८१ शोकमोहनीयलक्षणम् ३४९ मिथ्यात्वमोहनीयस्वरूपम् ८९ २ / ३८२ भयमोहनीयलक्षणम् ९७ २४ ३५० दर्शनमोहनीयमेदवर्णनम् ३ | ३८३ जुगुप्सामोहनीयलक्षणम् ६ ३५१ स्थावरनामलक्षणम् ८९ ११ ३८४ पुरुषवेदस्वरूपम्.. ३५२ तत्पदप्रयोजनम्... ... ८९ १२ / ३८५ स्त्रीवेदस्वरूपम्... ३५३ सूक्ष्मनामकर्मलक्षणम् ८१ २१ ३८६ नपुंसकवेदस्वरूपम् ९८ २३ ३५४ तत्पदकृत्यम्... १ ३८७ तिर्यग्गतिलक्षणम् ५ ३५५ अपर्याप्तनामस्वरूपम् ६/३८८ तिर्यगानुपूर्वीलक्षणम् ... ३५६ साधारणकर्मलक्षणम् । ९० १२ | ३८९ एकेन्द्रियजातिलक्षणम्... ९९ १४ ३५७ एकस्मिन् शरीरेऽनेकजीवप्रा ३९० द्वीन्द्रियादिजातिस्वरूपाणि... १०० ६ तिसमर्थनम् ... ९० १४ | ३९१ कुखगत्यादिस्वरूपाणि... ... १०० १७ ३५८ अस्थिरनामलक्षणम् .:. ९० २२/ ३९२ ऋषभनाराचादिसंहननलक्ष- ३५९ अशुभनामस्वरूपम् णानि... १०१ १४ २ ३६० दुर्भगनामस्वरूपम् ३९३ ऋषभनाराचविषये मतान्तर- ९ प्रदर्शनम् ... १०१२३ ३६१ दुःस्वरनामस्वरूपम् ३६२ अनादेयनामस्वरूपम् .. ૨૨ ૭ ३६३ अयश-कीर्तिनामलक्षणम् ३९५ न्यग्रोधपरिमण्डलादिस्वरू- ૨ ३६४ नरकगतिनामलक्षणम्... पाणि... ९२ ३६५ नरकायुर्लक्षणम् . ९२ १४ ३९६ वामनस्य हुण्डस्य च स्वरूपम् १०३ ४ ३९७ पापहेतुकथनम् १०३ १५ ३६६ नरकानुपूर्वीस्वरूपम् ९२ २० ३९८ तदर्थवर्णनम् १०३ १८ ३६७ अनन्तानुबन्धिशब्दार्थ.... ९३ ३९९ पापनिरूपणोपसंहारः... १०४ ५ ३६८ तत्रत्यपदानां भावार्थवर्णनम् ९३ ५ ३६९ अनन्तानुबन्धिक्रोधस्वरूपम्... ९३ २१ ३७० अनन्तानुबन्धिमानस्वरूपम्... ९४ ९४०० आश्रवलक्षणम् .. .. १०४ १४ ३७१ . मायास्वरूपम्... ९४ १६ ४०१ आश्रवस्य बन्धकारणत्वे शङ्का ३७२.- लोमस्वरूपम्... ९४ २३ / समाधानश्च ...१०४ २२ ... ... ९१ २० / ३९४ सेवार्चनिरूपणम् षष्ठः किरणः ... , " सतमः किरण. ] विस्तरतो विषयानुक्रमः। ... ... ... ... ... ... ... विषया. विषयाः ४०२ विवक्षामेदादाश्रवस्य द्विचः ४३२ अप्रत्याख्यानिकीलक्षणम् त्वारिंशद्विधत्वमिति समर्थ ४३३ दृष्टिकीस्वरूपम् नम् ... १०५ ७ | ४३४ स्पृष्ठिकीस्वरूपम् ४०३ क्रियास्वभावत्वं नाश्रवस्येति ४३५ प्रातीत्यिकीस्वरूपम्। वर्णनम् .. १०५ १६ | ४३६ सामन्तोपनिपातिकीस्वरूपम् ११५ २२ ४०४ द्रव्यमावाश्रवस्वरूपम् १०५ २६ / ४३७ नैशस्त्रिकीलक्षणम् ११६ ६ ४०५ स्पर्शेन्द्रियाश्रवस्वरूपम् १०६ १०४३८ स्वाहस्तिकीलक्षणम् ४०६ रसनेन्द्रियाश्रवस्वरूपम् .... १०६ १७ | ४३९ आज्ञापनिकीलक्षणम् ४०७ घाणेन्द्रियाश्रवस्वरूपम् २४४० विदारणिकीलक्षणम् ४०८ चक्षुरिन्द्रियाधाधवस्वरूपम् १०७ ७/४४१ अनाभोगप्रत्ययिकीस्वरूपम् ११७ ४०९ क्रोधाद्याश्रवाः... १०७ १५४४२ अनवकांक्षप्रत्ययिकीस्वरूपम् ११७ ११ ४१० हिंसाश्रवस्वरूपम् १०८ १४४३ प्रायोगिकीस्वरूपवर्णनम् . ४११ प्रमत्तस्वरूपम्... १०८ ३ ४४४ सामुदायिकीस्वरूपवर्णनम्... ११७ २५ ४१२ पदानां प्रयोजनानि १०८ १०४४५ प्रेमप्रत्ययिकीस्वरूपवर्णनम्... ११८ ४५३ हिंसायां भद्प्रदर्शनम् १०८ १७ ४४६ द्वेषप्रत्ययिकीस्वरूपवर्णनम् ११८ ४१४ असत्याश्रवलक्षणम् . १०९ २४४७ ईर्यापथिकीस्वरूपवर्णनम् ... ११८ ११ ४१५ स्तेयाश्रवलक्षणम् १०९ १२४४८ तत्त्वार्थभाज्यामिमतसम्यक्त्व. ४१६ कर्मग्रहणेऽप्यस्तेयत्वसमर्थ- मिथ्यात्वक्रिययोः स्वरूपम् ११८ १८ नम् .. १०९ १६ ४४९ शुभाशुभाश्रवप्रदर्शनम् ४१७ अब्रह्माश्ववस्वरूपम् .. ११० २४५० आश्रयनिरूपणोपसंहार ४१८ मैथुनशब्दामयोगे हेतु। ११० ६ ४१९ परिग्रहाश्रयस्वरूपम्... ४२० कायाश्रवस्वरूपम् १११ ३४५१ संवरलक्षणम् ४२१ वागाश्रवस्वरूपम् १११ १२४५२ कर्मनिरोधन्य संवरत्वे शंका- ४२२ मनआश्रवस्वरूपम्, समाधानञ्च ११९ १४ ४२३ कायिक्या लक्षणम् ... ११२ ७/४५३ समित्यादीनां संवरत्वसमर्थ- ४२४ आधिकरणिक्या लक्षणम् ... ११२ १३ नम्.. ११९ २० ४२५ प्रादोषिक्या लक्षणम्... ११३ १४५४ संवरस्यात्मपरिणामविशेष- ४२६ पारितापनिकीस्वरूपम् त्वकथनम्... ४२७ प्राणातिपातिकीस्वरूपम् ११३ १३ | ४५५ द्रव्यभावसंवरप्रदर्शनम् १२० १२ ४२८ आरम्भिकीस्वरूपम् । ११३ १८४५६ प्रकारान्तरेण संवरस्य द्वैवि- ४२९ पारिप्रहिकीस्वरूपम्... २ ध्यवर्णनम्... ४३० मायाप्रत्ययिकीलक्षणम् ११४ ७ ४५७ तयोर्गुणस्थानप्रदर्शनम् १२१ १३१ मिथ्यादर्शनपायकीलक्षणम् ११४ ११ | ४५८ गुणस्थानमेवा'... ... ४ सतमः किरणः ... .. ... ... ... ... ... ...

:१०: सटीकतत्वन्यायविभाकरस्य [ प्रथममागे . ... ... विषयाः विषयाः ४५९ गुणस्थानानां सामान्येन स्व ४८२ अनिवृत्तिकरणनामप्रवृचिनि- अपवर्णनम् ........१२१ २० मित्तकथनम् १२७ ४६० गुणस्थानस्वरूपम् १२२ ६४८३ अन्तरकरणस्वरूपम्... .१२७ १७ ४६१ प्रथमगुणस्थानभेदप्रदर्शनम् १२२ १४ | ४८४ श्रेणिजन्योपशमसम्यक्त्वस्य- ४६२ व्यक्तमिथ्यात्वस्वरूपम् ....१२२ २३ स्वरूपम् ... ४६३ तस्याधिकारिकथनम्... ૨૨૩ १/४८५ कस्य सास्वादनगुणस्थानमि- ४६४ मिथ्यादृष्टौ गुणस्थानसम्भव- त्यस्योत्तरम १२८ १७ वर्णनम् १२३ ३/४८६ सास्वादनस्य गुणस्थानत्वस- ४६५ तथापि तस्य मिथ्याष्टित्वस- मथनम् मर्थनम् । १२३ १० ४८७ अत्र कर्मप्रकृतीनां बन्धवेदनास- ४६६ अव्यक्तमिथ्यात्वस्वरूपम् चानां व्यावर्णनम् १२९ ५ ४६७ रत्नशेखरसूर्यमिप्रायप्रदर्श ४८८ मिश्रगुणस्थानस्वरूपम् नम्...... १२३ २४ | ४८९ भावार्थवर्णनम्... ४६८ स्वाशयवर्णनम् १२३ २७ ४९० अत्र नायुषो धन्धो मरणं वेति ४६९ मिथ्यात्वस्य चतुर्धा कालवि. कथनम् १२९ २० भाग विधाय जीवेषु तत्प्रदर्श ४९१ मिश्रगमने मतभेदप्रदर्शनम् १२९ २४ नम्... १२४ १ | ४९२ अत्र कर्मणां बन्यवेदनासत्ता- ४७० अत्र कर्मप्रकृतीनां बन्धो वेद- मिधानम्... १३० ना सत्ता च कियतीनामित्यस्य ४९३ चतुर्थमुणस्थानस्वरूपम् .... १३० कथनम् ....१२४ १२ | ४९४ तद्भावार्थकथनम् १३० १४ ४७१ द्वितीयगुणस्थानस्वरूम् १२४ १७, ४९५ औपशमिकक्षायोपशमिकयो- ४७२ तदर्थवर्णनम् १२४ २० विशेषप्रदशनम् ... १३० २४ ४७३ प्रन्थिसमीपगमनतनेदौपश ४९६ अस्योत्कृष्ठस्थितिसमर्थनम् १३१. १ मिकसम्यक्त्वलामादिवर्ण- ४९७ सम्यक्त्वोत्पत्तिनिदानप्रदर्श- मम्... १२४ १५ नस्.. ४७४ अब कार्मग्रंथिकमतसिद्धान्त ४९८ निसर्गसम्यक्त्वादिस्वरूपव- मताभिधानम् । मम् ४७५ उपशमसम्यक्त्वस्वरूपम् १२५ २३४९९ सम्यक्त्वलामकालकथनस... १३१ १६ ४७६ त दवर्णनम् १२५ २८ ५०० अत्र कर्मणां बन्धवेदनासताना ४७७ करणत्रयस्वरूपम् १२६ वर्णनम् । ४७८ आयुषो वर्जने कारण प्रदर्शनम् १२६ १६ | ५०१ पञ्चमगुणस्थानस्वरूपम् १३१ २४ ४७९ यथाप्रवृत्तिकरणाधिकारिक- ५०२ विरताविरतेमङ्गाष्टकप्रदर्श- थनम् नम्... ... १३२ १ ४८० अपूर्वकरणस्वरूपम् १२६ २४/५०३ जघन्यमध्यमोत्कृष्टदेशविरति- १२७ '४८१ अनिवृत्तिकरणस्वरूपम् प्रदर्शनम्... १३२ १२ ... ... ... ... ... ... - ... ... ... ... ... ....१२६ २२ सतमः किरणः] विस्तरतो विषयानुक्रमः :११ वर्णनम् ... ... 4.. ... ... ... IAL 3. ... . .. 400 i 10 ... . 0 - ... विषया. विषयाः ५०४ द्वादशाणुव्रतनामकथनम् १३२ १६ ५३० प्रथमगुणवतस्य पञ्चातिचार- ५०५ घटानामणुत्वकथनम्. ५०६ हिंसाया मेदप्रदर्शनम्....... १३२ २३ ५३१ द्वितीयगुणवतस्य पञ्चाति- ५०७ प्रथमाणुव्रतस्वरूपम्.. चारदर्शनम् .. ५०८ द्वितीयाणुव्रतवर्णनम्... १३३ १९ / ५३२ वृतीयगुणवतस्य पञ्चाति- ।" ५०९ न्यासनिवस्य पृथवचने चारा ५३३ प्रथमशिक्षापदवंतातिचापः १४५ २३ कारणकथनम् । १३३ २७ ५१० तृतीपाणुव्रतनिरूपणम् ५३४ कायदुषणिधानादीनामति- ५११ चतुर्थाणुव्रतनिरूपणम् चारत्वसमर्थनम्... ५१२ पञ्चमाणुव्रतनिरूपणम् ... १३४ २४/५३५ द्वितीयशिक्षावतातिचार.... १४६ १८ ५५३ प्रथमगुणवतस्वरूपम् .... १३५ ३५३६.सतीयशिक्षापदववातिचारा: १७७ १३ ५१४ द्वितीयगुणवतम् . ... १३५ १०/५३७ सतुर्थशिक्षापदवतातिचाराः १७७ २७ ५५ तृतीयगुणवतम् - ... १३५ २४ ५३८ अतिचारत्वे मतान्तरप्रदर्श- । ५१६ अनर्थदण्डमेदमरूपणम् ५१७ शिक्षापदनतगुणवतयोमेंदः | ५३९ पञ्चमगुणस्थानस्योत्तपस्थिन ।' कथनम् । तिकथनम्... ५१८ शिक्षापदबतमेदाः ... १३६ २९ ५४० अत्र कर्मणां बन्धवेदनासत्ता- ५१९ सामायिकस्वरूपम् १४८ १८ ५२० देशावकाशिकस्वरूपम् ... १३७ १२/५४१ षष्टगुणस्थानवर्णनम्... ५२१ पोषधवतस्वरूपम् ... १३७ २१ | ५४२ विशुद्धिप्रकर्षाप्रकर्षवर्णनम्... १४९.६ ५२२ पोषधोपंपासमेदप्रदर्शनम् .. १३७ २७ / ५४३ गुणस्थानस्यास्यस्थितौ मत- ५२३ अतिथिसंविभागस्वरूपम्... १३८ १३ मेदप्रदर्शनम् ५२४ सम्यग्दृष्टिदेशविरतानामंति ५४४ मगवत्यनुसारेण पूर्वकोटिन्य- चारसम्भवसमर्थनम्... वस्थाप्रदर्शनम्... ... १४९ ११ ५२५ प्रथमवतस्य पञ्चाविचारख ५४५ मत्र कर्मणां बन्धवेदनासत्तानां नम् व्यावर्णनम् ५२६ द्वितीयववस्य पञ्चातिचार ५४६ सप्तमगुणस्थानस्वरूपम् वर्णनम् ७५४७ अत्र निरालम्बनम्यानमारम्भ ५२७ तृतीयव्रतस्य पञ्चातिचारप्र. इति वर्णनम् .... १४९ २३ १४१५/५४८ अन्न कर्मणां बन्धवेदनासताना- ५२८ चतुर्थव्रतस्य पञ्चाविचार-।। १४२ १५४९ अष्टमगुणस्थानस्वरूपम् ५२९ पञ्चमवतस्य पञ्चाविचार १५० स्थितिधातादिस्वरूपम् , ... ११० १८ कथनम् .. १४३ ३ | ५५१ गुणसंक्रमणस्वरूपम् नामभिधानम् .. ... .. ... rl । .. .0 ... .. । ... दर्शनम् .. . मभिधानम्.... A दर्शनम् ...

सटीकतत्त्वन्यायविमाकरस्य प्रथमभागे F . ... . . 1 . १५८ . ... २ २ १५८ ४ . ..५ १५३ १ । विषयाः ! विषयाः ५५२ संक्रमयोग्यप्रकृत्यभिधानम्... १५१ ०१२/५७३ मानादिनां प्रतिपन्नस्य विशेप ५५३ अपूर्वस्थितिवन्धस्वरूपम् .. १५१ २१ प्रदर्शनमू... ... ५५४ गुणस्थानस्यास्यकालमानमः १५१ "२४ / ५७४ किहिवेदनादावर्णनम् ५५५ अत्र जीवस्य क्षपकोपशमक: ५७५ क्रदा क्षीणकमायो भवतीत्य-- त्वाभ्यां वैविध्युसमर्थनम् ... १५६ २५ स्य प्रकाशनम्... ५५६ अध्यवसायस्थानानामनुक्षण-. ५७६ क्षीणकषायोद्धाया,चरमसंख्ये- मधिकाधिकत्ववर्णनम् १५१ २७ यभागे कर्तव्यप्रकटनम् १५७ २३ ५५७ क्षपकश्रेणिप्रतिपतृप्रदर्शनस् १५२ ११ ५७७ केवलीभवनवर्णनम् .. ५५८ अनन्तानुबन्धिनां विसंयोज ५७८ उपशमश्रेणिप्रारम्भककथनम् १५८ , मायाः.वर्णनहेतु. ... १५२ - १४ | ५७९ तत्र मतान्तरप्रदर्शनम् ५५९ वहिसंयोजकानां वर्णनम् .. १५२ १५ ५८० मनन्तानुवन्ध्युपशमनानिरू- ५६० अनन्तानुबन्धिना क्षपणाय यो. प्रणम् . ग्यकरणामिधानम् १५२. १८५८१ उपशमनास्वरूपम १५८ २० ५६१ उद्यलनासंक्रमाभिधानम् ५८२ मतान्तरेणानन्तानुबन्धिनां वि- ५६२ प्राप्तानिवृत्तिकरणकृत्यम् :, १५३ ६ संयोजनैवेतिवर्णनम् ... ... १५८ २३ ५६३ दर्शनसोहनीयक्षपणारम्भक- प्रदर्शनम्,.. ५८३ वर्शनविकोपशमनानिरूपणं तदधिकारिवर्णनञ्च .. २५९ ५६४ तत्रानिवृत्तिकरणादायां कर्च- ५८४ चारित्रमोहोपशमनावर्णनम् १५९ १९ ध्यवर्णनम् ५६५ बद्धायुषः क्षपकश्रेण्यारम्भे ५८५ लोमवेदनाद्धाया विभागत्रय- वर्णनमः १६० विशेषवर्णनम् . १५४ २२ ५६६ अवधायुषस्तथात्वे चारित्र- ५८६ उपशान्तमोहात्पतने हेतुलय, मोहनीयक्षपणारम्भस्य नि- प्रदर्शनम्... '१६० २२ यम इति वर्णनम... ... ५८७ गुणस्थानेऽस्मिन् कर्मणां व- १५४ ३ ५६७ करणविशेषाणां तंत्राभिधानम् १५४ ३ न्यवेदनासत्तानां वर्णनम् ... १६१ ..., ५६८ षोडशकर्मक्षपणविषये मत- ५८८ नवमगुणस्थानस्वरूपम् १६१ १५४ .१४/५८९ तदर्थवर्णनम् ५६९ ततो नवनोकषायक्षपणवर्ण, ५९० अत्र झपकेण झीयमानकर्मप्रक- नम्..... तिवर्णनम्... २६१ . २३ ५७० स्पर्धक्रवर्णनम्,.. १५५..५:५९१ उपशमकेनोपशम्यमानकर्मण: ५७१ क्रिष्टिकरणाद्धानिरूपणे किहित कृतिवर्णनम् : स्वरूपवर्णनम् १५५ २९.५९२ अत्र कर्मणां बन्धवेदनासत्ता: ५७२ स्थूलजातिभेदापेक्षया किट्टी- नां प्रदर्शनम् नांद्वादशधा कल्पनप्रदर्शनम् १५५:२४ / ५९३ दशमगुणस्थानस्वरूपम् .. १६२ ९ ... . .. .. - 4 ૨ ...

- सप्तमः किरण ] विस्तरतो विषयानुक्रमः . १ . ... विषयाः विषयाः ५९४ मत ऊर्व क्षपकोपशमकयोर्ग ६१५ केवलिसमुद्घातवर्णनम् .. १६५ ,१९ न्तव्यस्थानस्याभिधानम् ... १६२ १५/६१६ अत्र कर्मणां बन्धवेदनासत्ता- ५९५ अत्र कर्मणां .पन्धवेदनासधा: संख्यावर्णनम ... १६५ २५ संख्यावर्णनम् ... १६२ १८/६१७ चतुर्दशगुणस्थानस्वरूपम् ... १६६ ५९६ एकादशगुणस्थानस्वरूपम् १६२ २२/११८ शैलेशीशब्दव्युत्पत्तिः ५९७ आसंसारमेकस्योपथेणिश्च- ६१९ शैलेशीक्रमः तुम्कृत्वइति वर्णनम् ... ... १६३ ७६२० अब कर्मक्षयप्रदर्शनम् ... ५९८ अवागमामिप्रायप्रदर्शनम्... १६३ १०६२१ अत्र कर्मणां वन्धवेदनासचा-.. १९९ उपशमश्रेण्यारम्भकाणाम- संख्याप्रदर्शनम्... विरतादीनां कथमत्र मिझ्या ६२२ भेदपूर्वकं समित्यादीनां नि- स्वादीनामुपशमनेत्यस्य स- रूपणम् माधानम्... १६३ ११ १२३ समितिलक्षणं पदसत्यञ्च... १६७ .१६ ६०० उपशमक्षयोपशमयोविशेष- ६२४ सपदकृत्यमीर्यासमिविलक्ष- प्रदर्शनम्..... णम् ६०१ तथात्वेऽपिन सम्यक्त्ववि- ६२५ भाषासमितेर्लक्षणम् .. घात इति वर्णनम् १६३ १६) ६२६ एषणासमितेर्लक्षणम् ६०२ मत्र कर्मणां बन्धवेदनास- ६२७ आदाननिक्षेपणासमितेर्लक्ष-- चासंख्यावर्णनम् पम्... ६०३ छादशगुणस्थानस्वरूपम् १६२८ उत्सर्गसमितेर्लक्षणम् ... ६०४ क्षपकणिरामवमेकवारमैवे ६२९ सप्रभेदं गुप्तिस्वरूपम् त्यभिधानम् ५/६३० सपदकृत्यं गुप्तिलक्षणम् १६९ ६०५ केवलज्ञानप्राप्तिकथनम् १६४ ६६३१ कायगुप्तिलक्षणम् ६०६ अत्र कर्मणां वन्धवेदनासत्ता ६३२ तत्र शास्त्रीयनियमप्रदर्शनम् १६९ १५ संख्याकयनम् ... १६४ ४६३३ नियमान्तरस्यापि प्रदर्शनम् १६९ २५ ६०७ तत्तद्गुणस्थानेषु कर्मप्रक- ६३४ वारगुप्तिलक्षणं तद्घटकप तिक्षयप्रदर्शनम् .१६४ ११ दार्थश्च ६०८ त्रयोदशगुणस्थानस्वरूपम्... १६४ १६/६३५ भाषासमित्यतिध्यातिपः ६०९ सप्रमेदं योगवर्णनम् ... रिहार ६१० केवलिनो योगत्रयस्य फलप्रद-. ६३६ मनोगुप्तिस्वरूपम्। १७० १९ र्शनम् १/६३७ परीपहस्वरूपम् १७० २५ ६११.सयोगिकेवलिनो भेदप्रदर्शनम् १६५ ४१६३८ परीपहशदव्युत्पत्तिा... २७०.२६ ६१२.पतद्गुणस्थानकालमानम् . १६५ ७/६३९ सपदकत्यं तल्लक्षणम्... ६१३ समुद्घातवर्णनम् ..... १३५ ११ ६४० नयैः परीषहस्वामिवर्णनम्... १७१ ६१४ तद्भेदाः १६५ १४ । ६४१ नयैरेषणमुत्पादकद्रव्यवर्णनम् १७९ ८ L ... ... ... ... ... 4 ...

सटीकतत्त्वन्यायविभाकरस्य [प्रथममाये - । ... ... ... ... .. ... ... ... . विषयाः विषयाः ६४२ नयैस्तत्कालवर्णनम् ... ... १७१ १९/६६५ अस्य चारित्रमोहनीग्रक्षयो- ६४३ परिषाभेदप्रदर्शनम्... ... १७१ २४ पशमजन्यत्वकथनम् ....। १७६ ४ ६४४ क्षुषादयो न परीपहा इति ६६६ वधपरीषहस्वरूपम्.. वर्णनम् .. १७२ १० | ६६७ अस्य चारित्रमोहक्षयोपश- ६४५ क्षुत्परीषहस्वरूपम् ૨૭૨ ૧૩ जत्वकथनम् ६४६ क्षुधासम्भवगुणस्थानप्रद ६६८ याचनादिपरीवहस्वरूपाणि १७६ १५ र्शनम् १७२ २१ ६६९ याचनापरीषहलक्षणम्' १७६ २० ६४७ पिपासापरीषहस्वरूपम् ... १७२ २२/ ६७० अस्य चारित्रमोहक्षयोपश- ६४८ शीतपरीषहस्वरूपम्... १७२ २७ मजत्ववर्णनम् ... १७६ २२ ६४९ उष्णपरीषहस्वरूपम्... २.६७१ अलामपरीमहस्वरूपम् १७६ २४ ६५० दंशपरीषहादिखरूपम् ९/६७२ लाभान्तरायक्षयोपशमज- ६५१ क्षुधादिपरीपहाणां चारित्र- न्यत्वमस्येति वर्णनम्... १ मोहनीयक्षयोपशमजन्यत्व- ६७३ रोगपरीषहस्वरूपम् १७७ २ वर्णनम् .. १७३ १४ ६७४ तृणस्पर्शपरीषहादिस्वरूपम् १७७ ११ ६५२ घेदनीयक्षयोपशमअन्या इत्य- ६७५ मलपरीषहनिरूपणम् १७७ २५ स्य भावार्थः १७३ १९, ६७६ चारित्रमोहमयोपशमजन्य- ६५३ अवस्नपरीषहस्वरूपम् १७४ ३ त्वमेषामिति वर्णनं ... १७८ ६५४ अरतिपरीषहस्वरूपम् १७४ ९/६७७ सत्कारपरीपहाभिधानम् १७८ ६५५ स्त्रीपरीषहस्वरूपम्... १७४ १३ ६७८ अस्य चारित्रमोहनीयक्ष- ६५६ अवस्त्रादिपरीपहाणां चारि- योपशमजन्यत्वकथनम प्रमोहनीयक्षयोपशमजन्य ६७९ प्रक्षापरीषहवर्णनम् १७८ १० स्वकथनम् ... १७४ १७/६८० अस्य शानावरणक्षयोपशम- ६५७ चर्यापरीषदादिस्वरूपम् ... १७४ २४ जत्ववर्णनम् १७८ १४ ६५८ चर्याद्वैविध्यप्रदर्शनम्... ५६८२ अज्ञानपरीषहस्वरूपम् १७८ १६ ६५९ चर्यापरीषहस्य चारित्रमो- ६८२ अस्य बानावरणक्षयोपशम- हनीयक्षयोपशमजन्यत्व. जन्यत्वकथनम्.. १७८ १९ वर्णनम् .. १७५. ८/६८३ सम्यक्त्वपरीषहस्वरूपम् '६६० निषद्यापरीषहस्वरूपम् १७५ १०६८४ अस्य दर्शनमोहनीयझयोप- ६६१ अस्य चारित्रमोहनीयक्ष- शमजन्यत्ववर्णनम् १७८ २४ योपशमजन्यत्वम् १७५ १६/६८५ एकत्र जीवे एतत्सत्वसंख्या-... ६६२ शय्यापरीषहस्वरूपम् ... ... कथनम् . १७८ २६ ६६३ अस्य चारित्रमोहक्षयोपश- ६८६ सप्रमेदं यतिधर्मस्वरूपम्... १७९ मजत्वमिति वर्णनं .... १७५ २२/ ६८७ सपदकत्यं यतिधर्मलक्षणम् १७९ ७ ६६४ आक्रोशपरीषहस्वरूपम् ... १७५ . २४ | ६८८ सप्रमेदं भावनास्वरूपम् ... १७९ १८ ૨ ... . ... ... ... ... . ...

सप्तमः किरणः] विस्तरतो विषयानुक्रमा । ... ६ इति कथनम् । ... . ... ... ... ... ... ... १९० ... - विषयाः विषयाः ६८९ सपदकृत्यं तल्लक्षणम् । १७९ २२/७१९ श्रुतद्वारविचारः ६९० सप्रमेदं चारित्रस्वरूपम् ४ ७२० शानद्वारेऽस्य द्वारस्यान्तर्भाव ६९१ तद्भावार्थः . ૨૮ ६९२ चारित्रस्यानेकधा विभाग- ७२१ तीर्थद्वारविचारः प्रदर्शनम्... १८० १५ / ७२२ लिङ्गद्वारविचार: १९३ सामायिकस्वरूपम् १८० २२ | ७२३ लिङ्गभेदप्रदर्शनम् ... .. १८९ १० ६९४ लक्षणपदकृत्यम्.. १८० २७, ७२४ शरीरद्वारविचार: १८२ १४ ६९५ अस्य गुतिभिन्नत्वसमर्थनम् १८१ ६/७२५ क्षेत्रद्वारविचारः १८९ २१ ६९६ इत्वरकालसामायिकस्वरूपम् १८१ ९ ७२६ जन्मसद्भावशब्दार्थः.... १ ६९७ यावज्जीवकालसामायिक- ७२७ कर्माकर्मभूमिप्रदर्शनम् स्वरूपम्....... १८१ १४/७२८ कालद्वारविचार: ६९८ छेदोपस्थापनस्वरूपम् .... १८१ २३ | ७२९ कालमेदप्रदर्शनम् ६९९ निरतिचारस्वरूपम् .... १०२ ७/७३० तेषां क्षेत्रप्रदर्शनम् ७०० सातिचारस्वरूपम् ८/७३१ तत्तदरकतुल्यकालवत्क्षेत्र- ७०१ परिहारविशुद्धिकस्वरूपम् ... १८२ १२ वर्णनम् . ७०२ तपोषिशेषप्रतिपादनम् १८२ २१, ७३२ परिहारविशुद्धिसंयताश्रयेण- ७०३ परिहारविशुद्धिकानां क्षेत्र- कालविचार i. १९१ ५ कालवर्णनम् ... १८३ १५/७३३ सूक्ष्मसम्पराययथाख्याता- ०४ सूक्ष्मसम्परायस्वरूपम् श्रयेण तद्विचार ७०५ तद्वैविध्यस्वरूपवर्णनम् ... १८४ १८४ १ ७३४ अपगतवेदयोरनयोस्संहरण- ७०६ यथाख्यातस्वरूपम् .. १८४.१२ समर्थनम्... . १९१ २४ ७०७ एतद्वैविध्यस्वरूपवर्णनम्... १८४ १७ ७३५ उत्सपिण्यादिकालस्वरूपम... १९२ २ ७०८ षट्त्रिंशद्वारनामानि. ३/७३६ अवसर्पिण्या: प्रथम-विमागे ७०९ प्रशापनाद्वारविचार.... हेतुवर्णनम् ७१० दद्वारविचार:... ... १८५ २३/७३७ परिमाणेन सहारकाणां व्यु- ७११ रागद्वारविचारः त्पत्ति ७१२ कल्पद्वारविचार : १८६ १६ १७३८ अरकेषु मनुष्याणां शरीरो- ७१३ स्थितास्थितकल्पपरिचयः... १८६ २२ च्छ्रायादिवर्णनम्... .. १९२ २४ ७१४ प्रकारान्तरेण कल्पद्वारवि- ७३९ गतिद्वारविचारा ३/७४० देवलोकनामनिर्देशा ७१५ चारित्रद्वारविचार ... ८७४१ सौधर्मादिदेवलोकानां स्थि- ७१६ प्रतिसेवनाद्वारविचार: तिव्यवस्था ७१७ प्रतिसेवनापदव्युत्पत्तिः १८७ २१ ७४२ कल्पोपपन्नशब्दार्थः... ७१८ शानद्वारविचार...... १८८ ७७४३ विजयादिशब्दनिरुक्तिः ... . ... ... ... ... ५ .. .. ... ...

सटीकतत्त्वन्यायविभाकरस्य [प्रथमभागे ... ... ४ ८ ... ... ... - ... विषया. विषयाः ७४४ ज्योतिष्कादीनां नामनिर्देशः १९५ १९/७७० उदीरणास्वरूपम् २०२ १६ ७४५ तेषां विमानप्रस्तारस्थान ७७१ उपसम्पद्धानद्वारविचार २०३ ६ र्णनम् . १९५ २२ ७७२ उपसम्पद्धानशब्दार्थः... ૨૦૨ ૨૭ ७४६ चन्द्रादीनां द्वैविध्यवर्णनम् १९६ २७७३ संज्ञाद्वारविवार २०४ ७४७ व्यन्तरशब्दनिर्वचनम् १९६ ६/७७४ संज्ञाखरूपमेदाश्च २०४ ७४८ भवनावासयोर्मेदकथनम् १९६ १५/७७५ आहारकबारविचार.... २०४ १७ ७४९ संयमद्वारविचारः १९६ १९) ७७६ भवद्वारविचारः २०५ .२ ७५० चारित्रद्वारादस्य भेदवर्णनम् १९६ २२/ ७७७ आकर्षद्वारबिचार एकमवा- ७५१ संयमस्थानस्यास्पबहुत्व- श्रयेण - ૨૦૫ चिन्तायामसत्स्थापनया ७७८ नानाभवाश्रयेणं तद्विचारः २०६ संयमस्थानप्रदर्शनम् ...... १९६ २८ | ७७९ कालमानद्वारविचार एक- ७५२ सत्रिकर्षद्वारविचार..... १९७ जीवापेक्षया २०६ २३ ७५३ सजातीयविजातीयापेक्षया ७८० नानाजीवापेक्षया तविचार२०७ १२ सामायिकस्यहीनाधिकसम- ७८१ अन्तरद्वारविचार एकजीवा त्ववर्णनम् पेक्षया २०८ ७५४ छेदोपस्थापनीयादेः तदपे- ७८२ पृथक्त्वापेक्षया तद्विचार... २०८ १२ क्षया तर्णनम्... १९७ २७ / ७८३ समुद्घातद्वारविचार: २०९ ४ ७५५ तत्राल्पबहुत्वचिन्ता १९८ १६/७४ समुद्घातस्वरूपम् वनेदश्च २०९ ७५६ -योगद्वारविचार १९८ २४७८५ तेषु निमिचभूतकर्मकथनम् २०९ ११ ७५७ उपयोगद्वारविचार... २७८६ क्षेत्रवारविचार.... २०९ १६ ७५८ कषायद्वारविचार १९९ १२/७८७ स्पर्शनाद्वारविचार: ७५९ लेण्याद्वारविचार १९९ २७ | ७८८ भावधारविचार २१० १५ ७६० किलपा लेश्येत्यस्य समा- ७८९ परिमाणद्वारविचार... २१० २२ घानम् २०० ४ | ७९० परिहारविशुद्धयादीनां परि- ७६१ लेश्याया मेदाः २०० १० माणविचार २११ १३ ७६२ शुभाशुमलेश्याकथनम् २०० १२/७२१ अल्पबहुत्वद्वारमू ....२११ २५ ७६३ परिणामद्वारविचार:... २०० १९/ ७९२ संवरनिरूपणोपसंहार ७६४ परिणाममेदकथनम् ... २०१ १ ७६५ क्रिश्चिदूनपूर्वकोटिसाधनम् २०१ १४ ७६६ वन्धद्वारविचार: २०१ १८७९३ निर्जरालक्षणम् ............ २१२ १७ ७६७ आयुर्वन्धका के इत्यस्य ७९४ तल्लक्षणभावार्थवर्णनम् २१२ १८ समाधानम् २०१ २२ | ७९५ निर्जराद्वैविध्यवर्णनम् . २१३ २ ७६८ वेदनाद्वारविचारः २०२ ५/७९६ विपाकोदयस्वरूपम् २१३ ७६९'उदीरणाद्वारविचार... २०२ १२ । ७९७ उदयावलिकाप्रवेशद्वैविध्यम .२१३ १३ २१० ... ... ... ... अष्टमः किरणः - . .. ... - अष्टमः किरण.] विस्तरतो विषयानुक्रमः :१७: .. ४ ... .in २२२ ,७ ... ... ... ... ... ... ... 9 ... विषया. विषयाः ७९८ प्रदेशोदयस्वरूपम् .... २१३ -१६ / ८२५ प्रतिक्रमणनिरूपणम् २२१ ७९९ पुनर्निर्जरायाः विभाग २१३ २६ / ८२६ मिश्रनिरूपणम् २२१ ११ ८०० सकामनिर्जयस्वरूपम् २१४ ११ ८२७ विवेकनिरूपणम्... ૨૨૨ ૧૨ ८०१ अकामनिर्जरास्वरूपम्... ....२१४ १७ / ८२८ व्युत्सर्गस्वरूपम्... ... ८०२ द्रन्यमावनिर्जरास्वरूपम् ... २१४ .२३ । ८२९ प्रायश्चित्तान्तर्गततपोनिरू- ८०३ तपस. स्वरूपम् २ पणम् २२२ १३ ८०४ अलब्धवृत्तीनां कर्मणां तप ८३० छेदस्वरूपम् २२२ १८ सा क्षय इति वर्णनम्... २१५ ९] ८३१ मूलस्वरूपम् २२३ ८०५ बाह्यतपोभेदप्रदर्शनम् २१५ १८८३२ अनवस्थाप्यस्वरूपम्... २२३ ११ ८०६ अनशनस्वरूपम् २१५ २३ ८३३ पाराञ्चितस्वरूपम् २२३ २१ ८०७ यावजीवस्य विभागः पादपो- ८३४ उपाध्यायस्यानवस्थाप्यान्तं पगमनमेदाश्च... ३ मूलान्तं सामान्यसाधूनां ८०८ इगिनीस्वरूपम्... २१६ प्रायश्चित्तमित्यभिधानम् ८०९ भक्तप्रत्याख्यानस्वरूपम् २१६ ११ / ८३५ विनयस्वरूपम् ८१० ऊनोदरिकास्वरूपकथनम् ... २१६ . १७ / ८३६ कनेवाः ૨૨ ૨૦, ८११ वृत्तिसंक्षेपस्वरूपकथनम् ४) ८३७ शानविनयस्वरूपम् - २२४ २२ ८१२ रसत्यायवर्णनम्... २१७ १३३८ दर्शनविनयस्वरूपम् ८१३ विरसपदार्थाभावशंकास- ८३९ चारित्रविनयस्वरूपम् २२५ माधानम् .. २१७ २०८४० उपचारविनयस्वरूपम् ૨૨ ८१४ विकृतिमेदवर्णनम् २१७ २१/ ८४१ सप्रमेदवयावृत्यनिरूपणम् २२५ १५ ८१५ अनशनोदरिकारसत्यागानां- ४२ सेवाया विषयः फलञ्च .... २२५ २० वृत्तिसक्षेपाद्भिन्नत्वसम- ८४३ स्वाध्यायस्वरूपम् थनम् २५८ ११ / ८४४ कालवेलास्वाध्यायमेदार ८१६ कायक्लेशस्वरूपम् फलञ्च ६ ८१७ संलीनतानिरूपणं भेदश्च २१९ २८४५ ध्यानस्वरूपम् २२६ २० ८१८ इन्द्रियसंलीनतादीनां निरू- २४६ लक्षणार्थस्फुटीकरणम् २२७ पणम् ............२१९ १९८४७ लक्षणेऽव्याप्तिशंका समाधा- ८१९ आभ्यन्तरतपोविभागः २१९ २१ नश्च... ८२० समभदं प्रायश्चित्तस्वरूपम् २१९ २५ / ८४८ ध्यानभेदार २२७ २४ ८२१ प्रायश्चिञ्चलक्षण पदकृत्यञ्च...२२० . ४ ८४९ आर्तध्यानलक्षणम् २२८ ८२२ तत्त्वाथै नवविधत्वं प्राय- ८५० तद्भेदप्रदर्शनम्... २२८ २२० १०.६६ आकार्यस्य विशेषणमुखेन ८२३ आलोचनस्वरूपम् प्रदर्शनम् .. ८२४ तद्भावार्थवर्णनम् ........ २२० १६ / ८५२ अस्य ध्यातवर्णनम् ... ... २२८ १८ ... ... ६ ... ... ... ... २२६ .. ... . i.. २२६ ... ... ... ... ... श्चितस्येति कथनम्.... ६ ... .

सटीकतस्थन्यायविभाकरस्य । [-प्रथममागे ... ... ... ... . ... ... ५." ... ... दीनां कथनम्... .... i. २३२ , विषयाः विषयाः ८५३ रौद्रध्यानलक्षणम् .. २२८ '२२ / ८७८ तद्विचार: ८५४ तद्भेदनिरूपणम् २२९ १ ८७९ कर्मसाधनम् ८५५ तत्कार्यप्रदर्शनम् ૨૨ ४] ८८० कर्मणः पौरालिकत्वसमर्थ- ८५६ तद्धयाहवर्णनम् २२९ . ७ नम... ३ ८५७ धर्मध्यानलक्षणम् २२९ ११ / ८८१ कर्मसमूहात्मककामणशरी- ८५८ तद्भेदवर्णनम् २२९ २३ रस्य मूत्वेऽप्यप्रत्यक्षत्व-- ८५९ भावनानां धर्मध्यानमिन्नत्व- समर्थनम्... समर्थनम्... २३० २०८८२ बन्धकारणकथनम् । २३८ ६ ८६० तथातृवर्णनम् २३० २३ / ८८३ मिथ्यादृश्यादीनां बन्धका- ८६१ अस्य भावनावलम्बनक्रमा- रणसंख्याकथनम् २३८ . ७ २३० २६ / ८८४ प्रमादस्वरूपं स तवश्व २३८ १५ ८६२ देशकालादीनां वर्णनम् २३१ ५,८८५ सप्रभेदं मिथ्यात्वस्वरूपम्... २३९ १ ८६३ शुक्लध्यानस्वरूपम् मेदश्च... २३१ २१/ ८८६ आभिग्रहिकलक्षणम् २३९ । ८ ८६४ पृथक्त्ववितर्कस्वरूपम् २८८७ तत्पदकृत्यम् । २३९ १२ ८६५ अस्य सविचारत्वकथनम्... २३२ १४ / ८८८ अनामिप्रहिकलक्षणम्... ८६६ एकत्ववितर्कस्वरूपम् २३२ १९८८९ तत्पदकृत्यम ... २३९ ,२१ ८६७ अस्याविचारत्ववर्णनम् २३२ २६ / ८९० आमिनिवेशिकलक्षणम् २४० ८६८ सूक्ष्मक्रियस्वरूपम् . २३३ २८९१ तत्पदप्रयोजनम्... ... २४० ८६९ व्युपरतक्रियस्वरूपम् २३३ १०८९२ सांशचिकस्वरूपम् -२४० १५ ८७० मेदद्वयस्यास्य मनसोऽभा- ८९३ तद्भावार्थवर्णनम् २४० १६ वेन ध्यानत्वं कथमिति शङ्का ८९४ अनामोगिकस्वरूपम्. २४० २२ समाधानम् २३३ १४ | ८९५ तद्भावार्थवर्णनम् २४० २३ ८७१ शुक्लभ्यानस्याधिकारिकथ- ८९६ द्वादशविधारतिस्वरूपम्.... २४१ नम् ... २३३- २१८९७ हिंसादीनां व्रतत्वशङ्का- ८७२ अस्य भावनादेशकालासना- २४१ १२ दीनां वर्णनम् . २३४ १) ८९८ पञ्चविंशतिविधकषायवर्ण: ८७३ एकेंद्रियादिदिशद्विधा- नम्.. ૨૨ ૨૨ नाश्रित्य ध्यानविचार. .... २३४ १२/९९ पञ्चदशयोगवर्णनम् ... ૨૨ ८७४ व्युत्सर्गस्वरूपम् २३५ ९९०० योगशब्दस्यानेकार्थप्रदर्शनम् २४२ १० ८७५ अपरिग्रहमायश्चित्तविशेषा- ९०१ द्रव्यभावयोगवर्णनम् .. २४२ १३ . भ्यामस्य भेदकथनम् २३५ १५/९०२ भावयोगस्य द्वैविध्यप्रदर्श- ८७६ निर्जरानिरूपणोपसंहार नम्.. २४२ १६ ९०३ प्रकारान्तरेण द्रव्यमावयोग- ८७७ बन्धलक्षणमू... ... ... २३६ वर्णनम् ....... ... निरास:... ... ... ... ... नवमः किरणः .

नवमः- किरण: ] विस्तरतो. विषयानुक्रमः . . ... . वर्णनम् ... . २४९ विषयाः विषयाः १०४ शुभाशुभशुभाशुभरूपेण द्रव्य- . ९२२ उत्कृष्टजघन्यप्रदेशबन्धाधि-. योगस्य त्रैविध्यम् २४२ १९ कारिवर्णनम् ९०५ भावयोगस्य शुभाशुभरूप- ९२३ प्रदेशबन्धस्य चतुर्विधत्व- तृतीयमेदो मास्तीति वर्णनम् २४२ २१ वर्णनम् ... ९०६ मनोवाग्योगयोः काययो- ९२४ शानदर्शनावरणवदनीयनाम- गेन मिन्नत्वकथनम्.. गोत्रान्तरायरूपमूलप्रकृति- ९०७ प्राणापानन्यापारम्यातिरि- षटकानुत्छष्टमदेशवम्धस्य कत्वनिरासः ......२४३ २२ साधादिभेदेन चतुर्विधत्व- ९०८ प्रकृतिवन्धस्वरूपम्... २४४ १३ ... -- २४८ २१ ९०९ स्थितिबन्धस्वरूपम्... २४५ १२/ ९२५ जघन्येऽजघन्ये उत्कृष्टेच ९१० रसबन्धस्वरूपम् द्विप्रकारबन्धकथनम्... ....२४८ २८ ९११ विपाकानुभवस्य द्वैविध्य:. ९२६ मोहस्यायुषश्च चतुर्विधप्रदे- वर्णनम् २ शवन्धे द्विविधो बन्धः ९१२ रसस्यैकस्थानिकत्वादिप्रद ९२७ योगस्थानादीनां प्रकृत्यादि-- र्शनम् २४६ ६ के प्रति कारणत्ववर्णनम् २४९ १४ ९१३ अशुभप्रकृतीनामेकस्थानि- ९२८ बन्धादीनामेकविधाध्यघसा- कत्वाविप्रदर्शनम् यसाध्यत्ववर्णनम् ९१४ शुभप्रकृतिनामकस्थानिक ९२९ करणानां भेदाः .० २५०-१० रसाभाववर्णनम्... ... ...२४६ १३ / ९३० करणस्वरूपम्... ... ... २५० २१ ९१५ सप्तदशविधकर्मभिन्नाशुभ- ९३१ वन्धनकरणस्वरूपम् ....... २५१ १२ प्रकृतिनामप्येकस्थानिक ९३२ चतुर्विघवन्धानां लक्षणा- रसो नास्तिती वर्णनम् . ....२४६ १४ न्तराणि ९१६ शुमानामेकस्थानिकरसामा: ९३३ स्थित्यनुसारेण शानावर- के कारणवर्णनम् २४६ १९ णीयादीनां भागवर्णनम् २५२ ९१७ शानावरणादीनामनुभाग- ९३४ शुभाशुभाध्यवसायानां प्रत्ये- संख्यावर्णनम्... कमसंख्येयलोकाकाशप्रदेश- ९१८ प्रदेशवन्धस्वरूपम् परिमाणत्वेऽपि-शुभानां विशे- ९१९ अष्टविघबन्धकादीनां दलि- पाधिकत्ववर्णनम् .... ... २५२ २५ कमागाभिधानम् २४७ २१ ९३५ अनुभागनिमित्ताभ्यवसायेन .९२० स्थित्यनुरोधेन मागे-आयुर- नीरसकर्मपुरले जीवग्रहण- पेक्षया नामगोत्रयोस्संख्यात- समय एवं भानावारकत्वादि- गुणत्वापतेनिरासः २४८.८ विचित्रस्वभावरसपरिणाम-.- ९२१ एवं ज्ञानाधरणाचपेक्षया वर्णनम् ... मोहनीयभायस्य तन्निरास.... २४८ १२ / ९३६ सङ्क्रमणकरणस्वरूपम् :...२५३ २१ . . १ ... ... ... - ... .. २५३ ५ सटीकतवन्यायविभाकरस्य [ प्रथमभागे . ९ ... ... ... ... ... ... .... ... । विषया. पृ. पं विषया. ९३७ तद्भावार्थवर्णनम् २५३ २३|९६१ उपशमनाकरणस्वरूपम् २६० ९३८ सङ्कमणस्य चतुर्विधत्वकथ- ९६२ तस्याः कृतकरणाकृतकरण- नम् २५४ भेदवर्णनम् २६० १४ ९३९ केषां न पतद्महत्वमित्य- ९६३ कृतकरणोपशमनामेदः स्थ वर्णनम् ३५४ ९ / ९६४ अधिकारिवर्णनपूर्वकमौपश- ९४० सकलकरणायोग्यप्रकृति- मिकसम्यक्त्वलामक्रमवर्ण- कथनम् नम् २६० २२ ९४१ धुवाध्रुवसत्ताककर्मप्रकृतयः, ९६५ आभोग विना विरतिपरिणा- धुवसत्ताकानाञ्च संक्रममधि- मांशष्टस्य पुनस्तां प्रपित्सो.. कृत्य साधादिचतुर्विधत्वम् २५४ १८ रकृतकरणत्वं आमोगाद्भट- ९४२ अध्रुवसत्कर्मणां साद्यधुव- स्य तादृशस्य कृतकरणत्वमि- त्वम् २५४ २५ ति वर्णनम् . २६२ ९४३ सङ्कामकानां वर्णनम् २५५ १९६६ लक्षणे सक्रमणोद्वर्तनापव: ९४४ पतप्रधुवबन्धिनीनां चा- नाकरणायोग्यत्वस्यानभि- '' तुर्विध्यवर्णनम्... ... २५५ १४ धाने कारणवर्णनम् । २६२ १५ ९४५ स्थितिसदमाभिधानम् २५५ २१ | ९६७ उदयपदार्थनिरुक्ति २६३' ५ ९४६ अनुभागसङ्कमाभिधानम् ... -२५६ १ / ९६८ शानावरणादिविंशतिप्रकृति- ९४७ पञ्चविधप्रदेशसङ्कमवर्णनम् २५६ . ६ मिनानां साधनादिकमुदीरे- ९४८ उद्धर्चनाकरणस्वरूपम् २५६११४ रणावदिति वर्णनम् । २६३ १० ९४९ उद्वर्तनायोग्यानां वर्णनम् .. २५६ .१५ / ९६९ निधत्तिस्वरूपम् २६३ १५ ९५० अपवर्चनास्वरूपम् ૨૭ ૨ ९७० देशोपशमनावर्णनम् २६३ २३ ९५१ उदयावलिकाबाह्यस्थितेरण- ९७१ मोहनीयादीनां देशोपशम- वर्तनेति वर्णनम् ૨૭. नामधिकृत्य प्रकृतिस्थानध- ९५२ उदयावलिकास्वरूपम् ૨૭ णनम् ...' .... રણ ९५३ अतीत्थापनावर्णनम् २५७ ९७२ निकाचनास्वरूपम् ૨૬ ૨૦, ९५४ उदीरणाकरणस्वरूपम् ૨૭ ૨૦ ९५५ तत्प्रभेदाः, ९७३ मूलप्रकृतिवन्धमेदवर्ण- २५७, २३ २६४ २६ ९५६ मूलप्रकृत्याश्रयेणोदीरकाणां वर्णनम् २५८ ११ / ९७४ तथाक्रमेणोपन्यासे हेतुवर्ण- नम्...' २६५ ९५७ तदाश्रयेणोदीरणास्थानव- र्णनम्, २५८ १५ / ९७५ एतेषां परस्परं व्याप्यव्यापक- ९५८ स्थित्युद्वीरणावर्णनमू २५८ २२ भाववर्णनम् ... ... २६५ २३ ९५९ अनुभागोंदीरणांवर्णनम् २८ २७, ९७६ एतेषामवान्तरभेदकथनम् . २६६ १४ ९६० विपाकमैदाः पुद्गलविपाकि- ९७७ तत्समर्थनम् २६६ १८ त्वादिवर्णनञ्च... २५९ १६ / ९७८ ज्ञानावरणस्वरूपम् ...'२६७ ... ... ... . १ ... ... ... ... नम्......... ... ... ... ... .. . ... ...

दशमः किरण.] विस्तरतो विषयानुक्रमः। - विषयाः विषया ... ... ... २६८ ... ... ... ... ... ... ... ... ९७९ सानावरणस्य विशेषहेतुप्र- चिदुच्छिद्यन्त इत्यनुमानख- वर्शनम् २६७ १३ ण्डनम् २७६ १६ ९८० दर्शनावरणस्वरूपम् २६७ २२ ५ चैतन्यमात्रेऽवस्थानं मोक्ष ९८१ चेटनीयस्य स्वरूपम् . ૨૮ इत्यस्य निरास:... ९८२ सदसवेदनीयस्य हेतवः ... ६ अत्यन्तञानसन्तानोच्छेदो ९८३ मोहनीयस्य स्वरूपम् २६९ २ मोक्ष इत्यस्य निरासः २७७ १५ ९८४ दर्शनमोहनीयस्य हेतुवर्णनम २६९ ७ मुक्तस्वरूपम् २७८ ११ ९८५ आयुपस्स्वरूपम्...... २६९ १८ ८ अनुयोगद्वाराणि ९८६ आयुषो हेतवः. २७० ९सत्पदप्ररूपणा... २७८ २३ ९८७ नामकर्मस्वरूपम् २७० १६ १० मन्त्रानुमानम् २७९ ३ ९८८ नामकर्महेतवः २७० १९ १९ मार्गणाभेदाः ૨૭૬ ૨૮ ९८९ गोत्रकर्मस्वरूपम् २७१ १२ तद्घटकशब्दार्थवर्णनम् १ ९९० वत्र हेतवः २७१ १३ गतिमार्गणोत्तरभेदाः ९९१ अन्तरायकर्मस्वरूपम् २७१ १६ १४ नरकपदनिक्षेपवर्णनम् २८१ १५ ९९२ तद्धेतवः... २७१ १९ १५ इन्द्रियमाणोचरमेदाः ૨૨ ९९३ मूलप्रकृतीनां स्थितिप्रद- १६ मध्यपेक्षयाएकेन्द्रियाणाम- शंनम् ૨૨ पि पञ्चन्द्रियत्वसमर्थनम् ... २८२ १४ ९९४ चन्धतत्त्वोपसंहार २७२ २६, १७ कायमार्गणोत्तरमेदाः २८२ २६ १८ तेषां स्वरूपप्रदर्शनम् १९ श्लक्ष्णवादरपृथ्वीकायमेदाः २८३ १० ९९५ मोक्षलक्षणम् ... २७३ २० अप्कायमेदाः ९९६ मोक्षे केषां मावानां स्थितिरि- २१ तेजस्कायमेदा त्यस्य वर्णनम्. २२ वायुकायमेदार... ૨૮૨ ૨૨ ९९७ आत्माभावो मोक्ष इति मत- २३ वनस्पतिकायभेदाः २८३ २४ २४ असमेवाः... २८४ २७३ २३ ९९८ मोक्षे ज्ञानसत्त्वसमर्थनम् ... २७४ २५ योगमार्गणाभेदाः ६ ૨૪ ૨૭ २६ वेदमार्गणोत्तरभेदाः ९९९ सवहनयेन मोक्षकथनम् ... २७४ १७ २७ कायमार्गणोत्तरमेदाः १००० व्यवहारनयेन तद्वर्णनम्... २७५ २ २८ क्रोधादीनां चतुष्प्रतिष्ठित- १त्रियो मोक्षसमर्थनम्... २७५ त्वसमर्थनम् ६ २ शानक्रियाभ्यां मोक्ष इति २९ क्रोधादीनां आमोगनिति वर्णनम् २७५ १५ तादिमेदा.... ३ अशेषविशेषगुणनिवृत्तिर्मु- ३० बानमार्गणोत्तरमेदा.... किरित्यस्य समाधानम् २७५ १९ ३१ शानस्य पञ्चधात्वादिमेदा- ४ आत्मनो विशेषगुणाः कदा. नुपपत्तिवर्णनम् ... दशमः किरणः ... ... ... निरास:- ... ... ... ५ ... .. . ... ...

:२२: सटीकतत्त्वन्यायविभाकरस्य [ प्रथमभागे विषयाः विषयाः ७ ... २९६ है ६ २९६ २२ २९७ ४ ... ... २९८ १६ २९९ १२ १ ... ३०० ३०० ३०१ १ ३२ तत्समाधानम् २८७ ३३ मतिज्ञानादौ ज्ञानत्वाशानत्वे निबन्धनप्रदर्शनम् ... २८८ १२ ३४ अत्राथै नयविचार.... ૮૮ ૨૮ ३५ मार्गणाद्वारेउसानादिग्रहणे कारणकथनम् ... २८९ ३६ चारित्रमार्गणावर्णनम् २८९ १३ ३७ दर्शनमार्गणाकथनम्... २८९ २० ३८ अवधिदर्शनस्य कथंपर्याय- विषयत्वमित्यस्योत्तरम् २९० ६ ३९ लेश्यामार्गणावर्णनम्... २९० १५ ४० कृष्णलेश्यावर्णनम् २९० १९ ४१ लेश्याविभागप्रदर्शनम् २९० २१ ४२ नीललेश्यास्वरूपम् . २९१ ६ ४३ कापोतलेश्यावर्णनम् ४४ तेजोलेश्यावर्णनम् २९१ १९ ४५ पद्मलेश्यास्वरूपम् २९२ ६ ४६ शुक्ललेश्यास्वरूपम् २९२ १२ ४७ भव्यमार्गणानिरूपणम् २९३ २ ४८ भव्यत्वामव्यत्वावगमनप्रकार:२९३ ५ ४९ भव्यत्वस्य स्वाभाविकत्वेऽपि विनाशव्यवस्थापनम्... २९३ १३ ५० कालक्रमेण भव्यसमुच्छेद- शङ्कानिवारणम् २९३ १७ ५१ सम्यक्त्वमार्गणावर्णनम् २९४ ४ ५२ सम्यक्त्वभेदप्रकारा:... ५३ दीपकसम्यक्त्वे आशङ्का समाधानश्च २९४ १७ ५४ वेदकक्षयोपशमसम्यक्त्वयो- विशेषप्रदर्शनम्... २९५ ५५ संशिमार्गणावर्णनम् ५६ आहारकमार्गणावर्णनम् ५७ आहारभेदनिरूपणम्... ५८ अनाहारकाणां कथनम् ५९ प्रोकमार्गणासु सिद्धसत्ता- विवेकः ६० नयेन तद्व्याख्यानम्... ६१ द्रव्यप्रमाणहारवर्णनम् ६२ क्षेत्रचिन्तनम्... ६३ स्पर्शनाद्वारवर्णनम् ६४ कालद्वारवर्णनम् ६५ अन्तरद्वारवर्णनम् ६६ भागद्वारनिरूपणम् ६७ भावद्वारच्यावर्णनम् . ६८ अल्पबहुत्वद्वारकथनम् ६९ अव्यवहितपूर्वपर्यायनयाव- लम्वनेन द्वारविवेकः... ७० तीर्थाविद्वारप्रदर्शनम् ७१ जिनाजिनसिद्धप्रदर्शनम् ७२ तीर्थातीर्थसिद्धवर्णनम् ७३ एतेषामल्पबहुत्वविचारः ७४ गृहिलिङ्गसिद्धवर्णनम् ७५ अन्यलिङ्गसिद्धाख्यानम् ७६ स्वलिङ्गसिद्धकथनम् ७७ स्त्रीलिङ्गसिद्धकथनम् ७८ प्रत्येकबुद्धसिद्धवर्णनम् ७९ स्वयंबुद्धसिद्धवर्णनम् ... ८० बुद्धवोधितसिद्धवर्णनम् ८१ एकसिद्धवर्णनम् ८२ सम्यश्रद्धानिगमनम् ८३ प्रथमभागोपसंहार:... ३०१ १० ३०२ १० ३०२, १९ ३०३ ३ ३०४ २ ३०४ १६ ३०४ २५ ३०६ २ ... M ... ... ... ३०६ २० ३०६ २५ ३०७ ७ ३०७ २० .. ...

प्रथमः किरण.] विस्तरतो विषयानुक्रमः द्वितीयो भागः। २ ८ ... .. ... ... ६ ... . ... ... विषया. विषयाः १०९ अननुगामिस्वरूपम् . ३२० २ प्रथमः किरणः। ११० हीयमानस्वरूपम् ३२० ८४ सम्यग्ज्ञान विभागः ३०९ १९१ वर्द्धमानस्वरूपम् ३२० १६ ५ शानदस्य सयुक्तिकं निरू- ११२ प्रतिपातिस्वरूपम् ३२० २१ पणम् ३०९ ८ ११३ अप्रतिपातिस्वरूपम् .. ३२१ ८६ क्रमेणाभिधाने कारणवर्णनम् ३१० ११४ मनापर्यवलक्षणम् ३२१ ९ ८७ एषामेव प्रमाणत्वमिति व्यव. ११५ तत्पदकत्यम् ३२१ ११ स्थापनम् .. ११६ मनापर्यवस्य दर्शनं नास्ती- ८८ सन्निकर्षस्य प्रमाणत्वव्यव- ति समर्थनम् . ३२१ २३ च्छेदः ३१० २० ११७ किरणोपसंहार ३२२ १८ ८९ प्रमाणलक्षणवर्णनम् ९० अत्र लक्ष्यत्वलक्षणत्वयोरु- द्वितीयः किरणः द्देश्यविधेयभाववर्णनम् ३११ २१ | ११८ परोक्षलक्षणम् . ९१ लक्षणपदत्यवर्णनम् ३१२ ९/११९ सांव्यवहारिकप्रत्यक्षलक्ष- ९२ प्रमाणभेदप्रदर्शनम् . ३१२ १४ णम् ३२३ ११ ९३ प्रत्यक्षपदव्युत्पत्तिः ३१३ ९ १२० तत्पदकृत्यवर्णनम् ९४ इन्द्रियजस्य परोक्षत्वप्रति- १२१ वैशयकथनम् 'ફરક पादनम् ... ३१३ १७ १२२ तद्भेदप्रदर्शनम् રિક રક ९५ परोक्षपदव्युत्पत्तिः ३१४ १ १२३ इन्द्रियभेदः ९६ प्रत्यक्षपरोक्षमेदाः ३१४ ११ १२४ इन्द्रियाणां पृथिव्यादिस्वरू- ९७ पारमार्थिकप्रत्यक्षलक्षणम्... ३१४ २७ पत्वब्युदासः ३२५ ९८ सकलज्ञानस्वरूपम् १२५ द्रव्येन्द्रियमेद.... ९९ तदुत्पत्तौ नयप्रदर्शनम् १२६ निवृत्तीन्द्रियभेदः ३१५ १३ રિલ ૨૦ ३२६ १२७ उपकरणेन्द्रियस्वरूपम् १०० केवलज्ञानलक्षणम् २ ३१६ १०१ केवलझाने प्रमाणम् १२८ भावेन्द्रियमेद.... ३१६ १२९ उपयोगेन्द्रियस्वरूपम् २ १०२ तत्र कारणवर्णनम् १३० इन्द्रियलाभक्रमः ३२७ १२ १०३ तद्वान् सर्वक्ष इति वर्णनम् ... ३१८ १ | १३१ उपयोगस्य प्रत्यक्षकरणत्वं १०४ विकलशानभेदा.... १०५ अवधिलक्षणम् ३१८ २३ १३२ शानस्यैव करणफलमावसम- १०६ पदत्यानि ३१९ चनम् ६ १०७ क्षेत्रकालादिना तद्भेदवर्णनम् ३१९ ९ १३३ मिलितानामिन्दियत्वन्यप- १०८ प्रकारान्तरेणावधिभेदकथनम् ३१९ २० देश इति वर्णनम् ३२८ १६ ... ... ... ... ... १ ... ... १ ... ... वर्णनम् ... ... ... ...

सटीकतवन्यायविभाकरस्य | ["द्वितीयभागे ... ... , र्शनम् .. २ ... १ ....... .. ... ... विषयाः विषयाः १३४ एकदैकैवोपयोग इति वर्णनम् ३२८ २० १५६ मनसो विभागः १३५ केवलज्ञानदर्शनयोर्युगपदुप- १५७ सांव्यवहारिकभेदाः ३३८ योगद्वयवादिमतप्रदर्शनम् ३२९ २|१५८ अवग्रहलक्षणम्... ३३८ १४ १३६ क्रमोपयोगवादिमतप्रदर्शनम् ३२९ १२ १५९ व्यञ्जनशब्दार्थ.... ३३८ २० १३७ सिद्धसेनदिवाकरमतप्रद- १६० प्रकारान्तरेण व्यञ्जनावग्रह- ३३० १३ वर्णनम् ३३९ १३८ चक्षुरादिभेदकथनम् ३३१ १० | १६१ नैश्चयिकापायग्रहखरूपम् .. ३३९ १२ १३९ चक्षुषो लक्षणम् ३३१ १४ | १६२ चक्षुर्मनसोर्विषयेण सम्वन्ध- १४० तस्य रूपग्रहण जघन्योत्कृष्ट- विशेषप्रदर्शनम् ३४० १ तो दूरमानकथनम् :.. ३३१ २७ | १६३ ईहालक्षणम् ३४० १५ १४१ चक्षुषोऽप्राप्यकारित्वसमर्थ १६४ अपायनिरूपणम् ३४१ नम्... २ | १६५ अस्य प्रमाणत्ववर्णनम् ३४१ १४ १४२ इतरेन्द्रियेष्वनुग्रहोपघात- १६६ अपायस्य व्याख्यान्तरनि- प्रदर्शनम... ३३२ ३४१ २२ १४३ अनुग्रहोपघातयोय॑मिचार- १६७ धारणास्वरूपम्... ३४२ मुद्भाव्य समर्थनम् ३३२ १० | १६८ धारणामेदाः ३४२ १० १४४ योग्यदेशाचस्थितनियतवि- १६९ वासनाया उपचरितज्ञान- षयग्राहकत्ववर्णनम् त्ववर्णनम् ३४२ १८ १४५ रूपरूपिणोः कथञ्चित्तादा- १७० अविच्युतेर्धारणारूपत्वमि त्यमेव सम्बन्ध इति वर्णनम् ३३३ २२ ति वदतां मतप्रदर्शनम् ३४३ १७ १४६ रसनेन्द्रियस्वरूपम् ......... ३३४ ७/१७१ अवग्रहादीनां भेदाभेदवर्ण- १४७ रसमेदवर्णनम्... .... ३३४ १४ नम्... ३४४ १२ १४८ घ्राणलक्षणम् ३३४ २४ | १७२ तेषामुत्पत्तिक्रमप्रदर्शनम् ३४४ २० १४९ स्पर्शनलक्षणम्... ... ३३५ ६ | १७३ अवग्रहेहयोनित्वसमर्थनम् ३४५ ११ १५० श्रोत्रलक्षणम् ३३५ १२ / १७४ मतिज्ञानलक्षणम् ३४६ ५ १५१ श्रोत्रस्य वद्धस्पृष्टविषयत्व- १७५ तत्पदानां प्रयोजनानि ३४६ ६ वर्णनम् .. ... ३३५ १६ / १७६ श्रुतानुसारित्वलक्षणम् ३४६ १५२ श्रोत्रस्य प्राप्तार्थग्राहित्व- १७७ श्रुतनिनितानुतनिधितत्व- समर्थनम् .. ३३६ २ वर्णनम् ३४६ १९ १५३ इन्द्रियाणामवगाहना- १७८ मतिज्ञानस्य प्रकारा: ३४७ वर्णनम् - ३३६ १२ १७९ मतिज्ञानस्योत्कर्षेण प्रकार- १५४ मनोलक्षणम् ३१६ २० ३४७ २३ कथनम् ... २ १५५ मनसोऽप्राप्यकारित्व- १८० श्रतज्ञानलक्षणम् विचारर... ३३७ ૨૮ ३] १८१ तहलप्रयोजनवर्णनम् .. १ ... ... ... ... ... ... ... ... ... ... ... ... ... ४ ...

चतुर्थः किरणः ] विस्तरतो.विषयानुक्रमः-I. विषयाः विषयाः ७ १ .. ... ८ ... ३६० ... ... १८२ मतिभुतयोमेंदकवर्णनम् ३४८ १५/२११ सदृष्यन्तं तवर्णनम् १८३ स्फुटतरंतवर्णनश्च... ... ३४८ १७ । २१२ सामान्यलक्षणायां प्रमाणा- १८४ श्रुतमानमेवार ३५० भाव इति वर्णनम् -३५८ २४ १८५ अक्षरभुवलक्षणम् ३५० १५/२३२ क्रमभावनियमस्योदाहरण- १८६ अनक्षरध्रुवलक्षणम् प्रदर्शनम्... १८७ संविश्रुतलक्षणम् ३५१ ९/ २३३ साध्यलक्षणम् ३६७ २५ १८८ असंशिभूतलक्षणम् ३५१ १५/५३४ तत्पदप्रयोजनम् ३६८ ३ १८९ सम्यक्धुतलक्षणम् ३५१ १७/२१३ नैयायिकाभिमततर्कनिरासः ३५९ १० १९० मिथ्यात्वचतलक्षणम्.. ३५१ २३ | २१४ तकस्य प्रामाण्यसाधनम् ... -३५९ २० १९१ सादिश्रुतस्वरूपम् ३५२ ४ | २१५ वाच्यवाचकभावविषयतर्क- १९२ अनादिश्रुतस्वरूपम् ३५२ प्रदर्शनम्... -३६० १९३ सपर्यवसितश्रुतस्वरूपम् ३५२ १५ / २१६ वर्ककारणोपलम्मानुपलम्भ- १९४ अपर्यवसितश्रुतस्वरूपम् ३५२ १७ प्रदर्शनम् ... १९५ गमिकक्षुतस्वरूपम् ३५२ २२२१७ वाच्यवाचकमावसम्बन्ध- १९६ मगमिकश्रुतस्वरूपम्... ३५२ २५ शानजननविधानवर्णनस् १९७ अङ्गप्रविष्टस्वरूपम् ३५३ १ / २१८ तदभिप्रायस्फुटीकरणम् ६ १९८ अनङ्गमविष्टस्वरूपम् ४२१९ किरणोपसंहारः ३६२ १७ १९९ मतिभुतोपसंहारः ३५३ .११ २०० सांव्यवहारिकप्रत्यक्षोप- चतुर्थः किरणः संहार ३५३ १९ २०१ किरणोपसंहार २२० अनुमान स्वरूपयति ३५३ २५ २२१ शानद्वयादेवानुमानं न परा- तृतीयः किरणः मोंऽप्यपेक्षित इति वर्णनम् ३६२ २६ २०२ स्मृतिलक्षणम्... २२२ हेतुलक्षणवर्णनम् ३६३ ६ ३५४ ३ २०३ स्मृतिपरिकरप्रदर्शनम् २२३ त्रिरूपस्य हेतुरूपत्वव्युदासः ३६३ ११ ३५४ ७ २०४ स्मृतेः प्रामाण्यन्यवस्थापनम् ३५४ २५ २२४ पञ्चरूपस्य हेतुरूपत्वन्यु- दासः २०५ प्रत्यमिक्षालक्षणम् २०६ स्मरणप्रत्यक्षाभ्यामस्या २२५ सामान्यविशेषवतोरविना- विशेषव्यवस्थापनम् । ३५५.२० भाष इति समर्थनम् २०७ संकलनात्मकत्वसमर्थनम २२६ व्याप्तिलक्षणम् २०८ प्रत्यभिज्ञादृष्टान्तप्रदर्शनम् ... ३५६ २५ / २२७ व्याप्तेरुभयवृत्तित्वेऽपि हेतु- २०९ उपमानस्य प्रत्यभिज्ञाया- वृत्तेर्गमकताङ्गत्ववर्णनम् ... ३६५ २२ मन्त ववर्णनम् ३५७ .१४ | २२८ अन्ययोगव्यवच्छेदलब्धार्थ- २१.तप्रमाणनिरूपणम्... ३५० १२ स्फुटीकरणम् ... ... ... 4 ... ८ . .

AI सटीकतस्वन्यायविभाकरस्य [द्वितीयभागे ... . ... विषया. पृ. पं. विषयाः २२९ तथोपपत्यन्यथानुपर्पस्योरः, २५२ अत्यन्ताभावलक्षणम्... ३७४ २३ न्यतरप्रयोगः कार्य इति २५३ अमावस्य मेदेऽपि प्रत्यक्ष- वर्णनम् ३६६ ११ प्रमाणेन ग्राह्यत्वमितिनि- २३० व्याप्तेद्वैविध्यप्रदर्शनम् ३६७ २ ३७५ ६ २३१ सहभावनियमस्योदाहरण- २५४ विधिहेतुमेदाः ३७६ २ प्रदर्शनम् । ३६७ ८ २५५ च्याप्यविधिहेतुदृष्टान्तः ३७६ २३५ धर्मर्मिणोः साध्यत्वेऽपेक्षा २५६ कार्यादिभेदानां व्याप्याढ़े- प्रदर्शनम्... ३६८ १९ देन विभागे कारणवर्णनम् ३७६ १७ २३६ धर्मिसिद्धौ कारणप्रदर्शनम् ३६९ ११ | २५७ अस्य स्वभावोपलब्धिरिति २३७ विकल्पार्मिसिद्धः समर्थ- नामान्तरमिति वर्णनम् ३७६ २१ नम्... ३६९ १७ | २५८ कार्यविधिहेतुदृष्टान्त. ३७७ २३८ प्रमाणादुभयाच धर्मिसिद्ध- २५९ कारणविधिहेतुदृष्टान्तः ३७७ १५ निदर्शनवर्णनम् ... ३७० १० | २६० न कारणं कार्यस्य गमकमिति २३९ हेतुविभागः ૨૭૦ ૨૬ बौद्धमतनिरासः ३७७ १७ २४० प्रत्येकस्य विधिप्रतिषेध- २६१ पूर्वचरविधिहेतुइष्टान्तः ૨૭૮ साधकत्ववर्णनम् ३७१ १ २६ कारणविधिहेतुतोऽस्य भेद २४१ विधिसाधकविधिहेतु- इति समर्थनम् ३७८ विभागा... ३७१ ८२६३ उत्तरचरविधिहेतोरुदा- २४१ प्रतिषेधविभौगः हरणम् ३७८ २३ २४३ मागभावादीनामनभ्युपगमे २६४ सहचरविधिहतोरुदाहरणम् ३७९ दोषाः ३७१ १९ / २६५ प्रतिषेध्यविरुद्धविधिहेतु- २४४ नास्तित्वस्य 'मेदामेदसम- विभागः... ३७९ १५ र्थनम् ३७१, २६ / २६६ प्रतिषेध्यस्वभावविरुद्धवि. २४५ प्रागभावः कार्यान्यवहितपूर्व- चिहेतोदाहरणम् ३७९ २३ क्षणपरिणाम इति मतवर्णनम् ३७२ १०२६७ प्रतिषेध्यविरुद्धच्याप्यविधि- २४६ स द्रव्यपर्यायात्मेति समर्थ- हेतोनिदर्शनम् ... नम्... ३७२ २० २६८ प्रतिषेध्यविरुद्धकार्यविधि- २४७ ऋजुसूत्रव्यवहारनयाभ्यां हेतोनिदर्शनम् ... ३८० १३ तत्स्वरूपवर्णनम्... ३७३ ६ / २६९ प्रतिषेध्यविरुद्धकारणवि- २४८ प्रध्वंसाभाषलक्षणम्... चिहेतोरुदाहरणम् ३८० १७ २४९ अत्रापि ऋजुसूत्रव्यवहारन २७० प्रतिपेध्यविरुद्धपूर्वचरा- यप्रमाणैस्तद्वर्णनम् . ३७३ २१ दिहेतूनामुदाहरणानि ३८१ २५० अन्योन्याभावस्वरूपम्. ३७४ १० | २७१ प्रतिषेभ्याविरुद्धानुपलम्म- २५१ तत्पदप्रयोजनम् ३७४ १२ अपप्रतिषेधहेतुविभाग ७ ... ... १ ... ... .

पंचमः किरणः ] विस्तरतो विषयानुक्रमः ... ... .. ... ... ... ... ... ... विषया विषयाः २७२ स्वभावानुपलम्भकपप्रतिषेध २९३ अत्र मतान्तरप्रदर्शनम् हेतोर्डधान्तः ३८१ १७ २९४ असिद्धलक्षणम... २७३ निषेध्यमारोप्य निषिध्यत २९५ तस्य भेदः ३२० २० इति समर्थनम्... ३४१ २१ | २९६ उभयासिद्धनिदर्शनम ३९. २५ २७४ कारणानुपलब्धिनिदर्शनम... ३८२ ८/२९७ पाद्यसिद्धनिदर्शनम् ... ३९२ २७५ पूर्वचरायनुपलब्धिनिदर्श- २९८ विशेष्यासिद्धादीनामत्रवान्वं- नानि र्भाव इति वर्णनम् ...३९१ २७६ विधिसाधकसाध्यविरुयानु २९९ प्रतिवाद्यसिद्धनिदर्शनम् .... ३९१ १५ पलम्भरूपनिषेधहेतुविभागः ३८३ ६/३०० अस्य हेत्वामाससमर्थनम् ३९१ २० २७७ कार्यादिहेतुत्रयाणां दृष्टान्ताः ३८३ १२ / ३०१ विरुद्धलक्षणम्... ३९२ ८ २७८ चतुर्थपञ्चमहेत्वोईष्टान्ती ३८४ १/३०२ अपविधविरुद्धमेदाः :... ३९२ १२ २७९ स्वार्थानुमानलक्षणम् ८/३०३ अनेकान्तिकस्वरूपम् भेदश्च ३९३८ २८० पदार्थानुमानस्वरूपम् ३८४ २४ | ३०४ संदिग्धविपक्षवृत्तिकस्य २८१ उपचारोपयोगिकारणवर्णनम् ३८५ ५ दृष्टान्तः ... २८२ प्रतिपाधवैचित्रात्परार्थानुमा ३०५ सर्वक्षस्य वचन विरुद्धमित्य- ने वचनभेद इति वर्णनम्... ३८५ १५ स्य निरास: ३९३ २० २८३ प्रतिक्षाशुद्धयादिपञ्चावयवा ३०६ निणींतविपक्षवृत्तिकस्य न्तरप्रदर्शनम् ३८६ २ दृष्टान्तः .. ३९४ २८४ प्रतिज्ञालक्षणम्... ३८६ १३ / ३०७ व्याप्यत्वासिद्धरत्रैवान्ती- २८५ हेतुपचनलक्षणम् ३८६ २३ व इति वर्णनम्... ३९४ १३ २८६ तस्य द्विविधत्वेऽपि सर्वत्र ३०८ पक्षत्रयव्यापकहेत्वादीनाम- न तत्प्रयोगोऽन्यतरप्रयोगे- त्रैवान्तर्भावकरणम् गोपपत्तेरिति वर्णनम् ३८७ १९| ३०९ पक्षामासविभागः ३९५ १५ २८७ उदाहरणस्वरूपं दृष्ट्वान्तलक्ष- ३१० प्रतीतसाध्यधर्मविशेषणंको. पश्च ३८७ २७ दाहरणम् ... ३९५ २४ २८८ साध्यसाधनयोस्तदभावयो- ३११ निराकतसाध्यधर्मविशेष- श्व व्याप्यव्यापकभावनियम- णकोदाहरणम्... प्रदर्शनम्... ३१२ प्रत्यक्षादिनिराकृतसाव्य- २८९ उपनयस्वरूपम् विशेषणकानामुदाहरणानि ३९६ १२ २९० निगमनस्वरूपम् ३८८ २६/३१३ तर्कनिराकृतसाध्यविशेषण- २९१ किरणोपसंहार कोदाहरणम् ३१४ अनमीप्सितसाध्यधर्मविशे- पञ्चमः किरणः पणकोदाहरणम् ३९७ १९ २९२ हेवामासविभागः .....३८९० १२ १ ३१५ भनुमानाभासस्वरूपम् ... PR. ... H २८. सटीकतत्त्वन्यायविभाकरस्य [ द्वितीयभागे ... ८ ... ... ४०७ १० ... ४०७ २४ w ... ४०८ ... - ... विषयाः विषयाः ३१६ तामासस्वरूपम् ३९८ - १/३३९ वचनस्यागमत्वसमर्थनम् ... ४०६ ४०६ ५ ३९७ प्रत्यभिज्ञामासस्वरूपम् ... ३९८ १७ | ३४० आगमप्रमेदः ४०६ ३१८ स्मरणामासस्वरूपम् ३९९ ४ | ३४१ शब्दस्यार्थप्रतिपादकत्व- ३१९ प्रत्यक्षाभासस्वरूपम् समर्थनम्... ४०६ १५ ३२० आगमाभासोऽग्रेइति वर्णनम् ३९९ २२ | ३४२ यथार्थवाः स्वरूपम् ... ३२१ दृष्टान्ताभासस्वरूप मेदश्च... ४०० १ | ३४३ वत्पदसार्थक्यवर्णनम् ४०७ १२ ३२२ साधर्म्यदृष्टान्ताभासमेवा.... ४०० ८ ३४४ यथार्थववृद्वैविध्यम्... ३२३ साध्यधर्मसाधनविकलतयो- ३४५ शब्दस्य स्वरूपम् ईष्टान्तौ... ... ४०० १४ ३४६ संकेतमात्रेण शब्दस्यार्थप्र- ३२४ संदिग्धसाध्यसाधनोभया- तिपादकत्वनिरासः नां दृष्टान्ताः ... ४०० २४ | ३४७ शब्दार्थयोः सम्बन्धो न सं. ३२५ अनन्वयदृष्टान्ताभासोदा- भवतीति मतस्य निरास: ४०८ २० हरणम् .... ४०१ ७/३४८ शब्दार्थयोर्योग्यताख्यः स. ३२६ विपरीतान्वग्रदृष्टान्ताभासो. म्बन्ध इति समर्थनमू... ४०९ २ दाहरणम... ... ४०१ १४ | ३४९ वक्तुगुणदोषप्रयुक्त शब्दस्य ३२७ अनन्वयादित्रयाणां दृष्टान्त- यथार्थत्वायथार्थत्वे इति- त्वं नोचितमिति मतं प्रदर्य- वर्णनम् ... ४०९ १७ निराकरणम् . ४०२ ४ | ३५० शब्दमेदाः ४०९ २४ ३२८ वैधय॑दृष्टान्तभासविभागः ४०२ २७ / ३५१ शब्दस्यापौद्भलिकत्वसाधक- ३२९ असिद्धसाध्यव्यतिरेका- हेतुनिरास: सिद्धसाधनव्यतिरेको....... ४०३ ७ ३५२ पदघटकवर्णानां वाचकत्व- ३३० असिद्धसाध्यसाधनोमय- साधनम्..... ४१० १५ व्यतिरेका ...-४०३ १५ ३५३ पदलक्षणम् ...-४१० २२ ३३१ संदिग्धसाध्यादिव्यतिरेकाः ४०३ २० | ३५४ एकाक्षरपदानां पदत्वसम- ३३२ अन्यतिरेका ४०४ १२ र्थनम् ३३३ अप्रदर्शितव्यतिरेका.... ४०४ २० | ३५५ वाक्यलक्षणम्.. ३३४ अन्यतिरेकादीनां दृष्टान्त- ३५६ यत्सत्तत्सर्व परिणामीति त्वसमर्थनम । ०४०४ २६ साधनवाक्यस्य वाक्यत्व- ३३५ उपनयामासः ... ४०५ समर्थनम्... ३३६ निगमनाभासः .. ४०५ ११ ३५७ वाक्यलक्षणनिष्कर्षः... ... ४५१ १५ ३३७ किरणोपसंहार. ४०५ १७ | ३५८ आकांक्षायोग्यताऽऽसत्ती- नां लक्षणानि . ३५९ विशिष्टक्रमाणां वर्णानां वाच- ३३८ भागमलक्षणम् -" ४०५:२२ . कत्वमिति साधनम्... ४१२ ३ ... ... ... ... - .. . . ... ७ ... पाठः किरणा.

षष्ठः किरणः] विस्तरतो विषयानुक्रमः । 1 :२९: विषयाः विषयाः ... - ४२३ १ ... ... ... ३६० पूर्णार्थप्रकाशकत्व एव शब्द ३८३ अभेदासम्भवसंघटनम् ४२३ स्य प्रामाण्यमिति वर्णनम् ... ४१२ २४ | ३८४ वत्समन्वयः ३६१ सप्तमकीलक्षणम् ... ४१३ ८३८५ प्रथमवाक्यार्थकथनम् ३६२ तत्पदानां कृत्यानि ४१३ १०३८६ अस्तित्वस्य नास्तित्वेनावि. ३६३ सप्तमझवाक्यानि नाभावित्वसाधनम् ર ૨ ३६४ पदानामर्थवर्णनपूर्वक प्रति ३८७ एवकारार्थवर्णनम् वाक्यं प्रतिपाद्यानां वर्णनम् ४१४ ४ | ३८८ कचित् क्रियासरतस्याप्येव- ३६५ सप्तविधवचनप्रवृत्तौ निमि- कारस्यायोगव्यवच्छेदकत्व- चवर्णनम्... मिति वर्णनम् ... .० ४२६ -१७ ३६६ सप्तविधधर्मप्रकाशनम् ४१५ २८ ३८९ प्रथमवाक्यफलितार्थवर्णनम् ४२६ २५ ३६७ धर्माणां परस्परं भेदण्याव ३९० प्रतियोगिवैयधिकरण्यपद- नम् प्रयोजनामिधानम् ३६८ क्रमार्पितत्वस्य धर्मान्वयित्व ३९१ औपादानिकबोधस्यावश्य- साधनम्... कत्वसमर्थनम्, ३६९ सहार्पितत्वमवक्तव्यस्याव ३९२ द्वितीयवाक्यार्थविवेचनम् ४२७ १८ च्छेदकं भवतीति निरूपणम् ४१७ ५/३९३ तृतीयवाक्यार्थः ३७० महानामांकर्येण विषयनि ३९४ अत्र सम्मतिकारमतादर्शनम् ४२८ यमव्यावर्णनम्... ४१७ १३ ३९५ तदनुसारेण वाक्यार्थवर्णनम् ४२८ १० ३७१ तृतीयचतुर्यधर्मयोरतिरिक्त- ३९६ समनियतधर्ममेदेन सप्तम- त्वकथनम्... हीमेदाभावनिरूपणम्... ३७२ सप्तमजीमेदः ४१८ १९ ३९७ अस्य पूर्वमङ्गखयातिरेकसा. ३७३ सकळादेशलक्षणं पदकृत्यश्च ४९८ २३ धनम् ... ४२८ १९ ३७४ विकलादेशस्वरूपम्... ... ४१९ २३ ३९८ चतुर्थवाक्यार्थः... ३७५ अभेदे प्रयोजककथनम् ४३९९ योगपद्यविवक्षायां शब्दा. ३७६ एकस्मिन् मले तत्समन्वयः ४२० १० पाच्यत्वसाधनम् ३७७ अन मलयगिरिचरणाना- ४०० सांकेतितशब्दस्याप्यभाव माशयप्रदर्शनम्... इति वर्णनम् । ४३० ३७८ केचित्विति मतान्तरप्रदर्श- ४०१ सेनादिशब्दा अन्येकार्था થી ૨૨ इति वर्णनम् ३७९ अपरे विति चापरमवसूचनम् ४२१ २९) ४०२ पुष्पदन्तपदे तु विशेष इति । ३८० सम्बन्धसंसर्गयोर्मेदप्रतिपा- वर्णनम् दनम् ४२२ ५/४०३ अवाच्यतास्थिरीकरणम् ... ४३० २० ३८१ अभेदप्राधान्ये हेतुमादर्शनम् ४२२ १४ | ४०४ पञ्चमभवाक्यार्थवर्णनम् ... ४३१ ३२ अभेदोपचारे हेतु प्रदर्शनम् ४२२ २२ ४०५ तशात्पर्यवर्णनम्, ७ ... ... नम्.. ... ... . ... ...

सटीकतवन्यायविभाकरस्य . [ द्वितीयमागे विषयाः । 3. ... ४३२ सप्तमः किरणः विरोधस्य धारणम् ... ... ... . ... ३ विषयाः ४०६ षष्टमङ्गवाक्यार्थ:::: ४३१ २१ | ४२८ विरोधविचार... ४३९ १८ ४०७ तदर्थवर्णनम् । ४३२ ३ ४२९ भागमाभासस्वरूपम्... ४०८ सप्तममनवाक्यार्थः ૨૨ ९/४३० किरणोपसंहारः છo ૨૨ ४०९ वाक्येष्वेषु नयप्रदर्शनम् ... ४३२ १८ ४१० स्वत्वपरत्वविवेकः ४३३ ३ ४११ स्वत्वपरवादिना सत्त्वास- ४३१ प्रामाण्याप्रामाण्यविचारः ४४१ ३ त्वयोरनभ्युपगमे दोषवर्ण- ४३२ ज्ञानमात्रस्य स्वरूप प्रामाण्ये नम्... ..४४१ ४१२ स्वरूपादिना सत्वमेव विशि ४३३ स्वात्मनि क्रियाविरोधनि. एं पररुपासत्वमित्यस्य निरा- रासः ४४१ १८ करणम् ४३४ ६/४३४ विशेषज्ञानकारणतानिरासः ४४२ ६ ४१३ असदित्यत्र प्रसज्यप्रतिषेध- ४३५ प्रामाण्यनिर्णयः कथमित्या- पर्युदासयोः स्वीकारवर्णनम् ४३४ ११ शंका ४४३ ४१४ सदसद्रूपस्य विलक्षणत्व- ४३६ तत्समाधानम्... ४४३ १३ व्यवस्थापनम् ... ४३४ १९ | ४३७ उत्पत्ति स्वत इतिमतोदा- ४१५ सखासत्खयोमिणा भेदा. चनम् ४४३ १७ भेदसमर्थनम् ... ४३५ ३/४३८ तन्निरास: ४४३ २७ ४१६ जीवादीनां सत्त्वासत्त्वयोः ४३९ प्रामाण्यस्य परत उत्पत्ती. स्वत्वपरत्वनिरूपणम्... ४३५ २० पूर्व ज्ञानस्य किं स्वरूप- ४१७ अपरधर्माणामपि स्वरूपपर- मित्यस्योचरम् .. रूपत्वमिति वर्णनम् . ४३६ ३/४४० दोषाभावकारणत्वनिरास: ४४४ २२ ४१८ घटविशेषस्य स्वपररूपसंघ- ४४१ प्रामाण्यनिश्चयः स्वत एवे. टनम त्याशंका ४४५ ५ ४१९ प्रकारान्तरेण तपाख्यानम् ४३६ १६, ४४२ समाधानम् ४२० सम्मतिमतादर्शनम् ४३७ ५४४३ प्रामाण्यग्राहकस्य परस्य ४२१ स्वद्रव्यपरदव्यनिरूपणम् .. ४३७ १४ निरूपणम् ४२२ अन्यथा दोषोद्भावनम् ४३७ २०४४४ प्रमाणविषयमाह ३ ४२३ क्षेत्रमादर्शयति..... ... ४३८ . ७४४५ सामान्यविशेषात्मकत्वस- ४२४ कालमादर्शयति र्थनम ४४८ ११ ४२५ स्वरूपादौ किमवच्छेदकाम ४४६ सामान्ये वृत्तिविकल्पशंका, त्यस्य समाधि..... ૮ ૨૨ समाधानश्च ४२६ सदसदात्मकत्वे विरोधादि ४४७ सामान्यविशेषयोरविनामाव. दोषोद्धावनम् .. व्यवस्थापनम् ... ४२७ तत्समाधानमू... ... ४३९ १४४४८ नित्यानित्यात्मकत्वसमर्थनम् , ४६० .१२ ... ... ..

बटमः किरणः] विस्तरतो विषयानुक्रमः:- ... ख्याति.... ... .... ... ... سه विषयाः विषयाः ४४९ एकान्तानित्यत्वे दोषोद्भाव ४७१ तानुमानप्रदर्शनम् ... .... नम्... ४५१ ४४७२ निर्विकल्ये वाघनिरासः .. ४६३ २० ४५० मेदामेदात्मकत्वसमर्थनम् ... ४५२ ८|४७३ शब्दसंघटनापेक्षायां प्रस.. ४५१ भेदाभेदस्य जात्यन्तरत्ववर्ण- कदोषनिरास:... ४६४ नम् ४५२ २२४७४ आरोपलक्षणं तद्भेदाच ४६४ ७ ४५२ उत्पादव्ययभ्रौव्यात्मकत्व- ४७५ विपर्ययलक्षणम् ४६४ २१ समर्थनम्... ४५३ १५ | ४७६ मीमांसकमतेन विवेक- ४५३ अनुवेधविवार:... ४५४ ४६९ ४५४ अमिलाप्यानमिलाप्यात्मक- ४७७ तन्मतेनेदं रजतमिति भ्रा. त्ववर्णनम् ४५४ १२ न्तिसमर्थनम् । ४५५ सामान्यस्वरूपनिरूपणम् ... ४५५ १२ | ४७८ स्वमशानचन्द्रद्वयज्ञानादीनां ४५६ सामान्ये प्रमाणप्रदर्शनम् ... ४५५ २१ समर्थनम्... ४६५ २१ ४५७ ऊर्चतासामान्यस्वरूपम् ४५६ ६४७९ तन्मतनिरास:... ४६६ ४५८ तत्र प्रमाणवर्णनम् ४५६ १० ४८० इदं रजतमिति भातस्याल- ४५९ विशेषविमांग. ... ... ४५६ २२ स्वनकथनम् ४६० पर्यायसमर्थनम् ४५७ २२ ४८१ प्रवृत्तिसामान्य कारणलाधवं ४६१ द्रव्यपर्याययोमेदाभेदसम- स्वमते इति वर्णनम् .. र्थनम् ४५९ १/४८२ मेदाग्रह विकल्प्य तनिरासः ४६६ १८ ४६२ गुणपर्याययोः कथञ्चिद्भेद- ४८३ स्वप्नादिज्ञानसमर्थनम् ४६७ १० प्रदर्शनम्... ४६० ३ ४८४ अख्यातिप्रदर्शनम् ४६७ २२ ४६३ प्रमाणफलप्रदर्शनम् ४६० ४६४ प्रमाणफलयोः कश्चिद्रेदा- ४८५ तद्वयुदासः भेट्वर्णनम् ४८६ असरण्यातिवादिबौद्धमत-- ४६५ केवलस्य व्यवहितफलप्रद- प्रदर्शनम्... र्शनम् ४१ १२ ४८७ तचिरासः ४६८ ४६६ करुणावतोऽपि माध्यस्थ्य- ४८८ प्रसिद्धार्थख्यातिवर्णनम् व्यवस्थापनम् ४६१ १७/४८९ तत्खण्डनम् ४६७ मत्यादीनां व्यवहितफलप्रद. ४९० आत्मख्यातिवर्णनम् ... ....४६९ र्शनम् ४६२ ५,४९१ तत्प्रतिषिधानम्... ४६८ प्रमाणफलयोरेकान्ते भेदे- ४९२ आत्मा वासनया पहिरिव भेदे च दोषप्रदर्शनम्... मातीत्यस्य निरास:... ४६९ किरणोपसंहार... ४६३ ४ ४९३ अनिर्वचनीयख्यातिवर्णनम् ४७०. ३ अष्टमः किरणः। ४९४ तस्य निरासः... ४७० प्रमाणस्य निश्चयात्मकत्वस- ४९५ स्वमतेन भ्रान्तरालम्बना- मर्थनम् ... "... .४६३ १० ४७० १९ ... ... " ... ... ... ... ... ... ... । ... ... । ... ... .

सटीकतवन्यायविभाकरस्य. द्वितीयभाये . - . ... .... ति कथनम् . नम्... . विषया. विषया. ४९६ तस्योत्तरम् ...:४७१ । ३ ५१८ लौकिकशान्द्रवोधस्याप्यपे- ४९७ नास्मन्मतेऽसख्यातिप्रस- क्षात्मकत्वमिति कथनं -४७७. २ तिरिति वर्णनम् ४७१ ७ | ५१९ अपेक्षाया आवश्यकत्वसम- ४९८ रजतभाने कारणप्रदर्शनम्... ४७१ ११ र्थनम् ४७७ ८ ४९९ भ्रान्तविपरीतख्यातिरूपते- ५२० वास्तविकवैज्ञानिकापेक्षयोः ० ४७१, १३ प्रदर्शनम् ... ક૭૮ ૨ ५०० इतरेषामभाने कारणम् ४७१ १५ ५२१ सुनयत्वदुर्नयत्वविचारः છ૮ ૨૨ ५०१ अत्र वृद्धमतादर्शनम् - ४७१ २४ | ५२२ नयस्य प्रमाणाप्रमाणाभ्यां ५०२ बाध्यबाधकमावर्विचार ....४७२ २ भेदप्रदर्शनम् ४७८ २८ ५०३ अनुमानादिविषयकविपर्यय ५२३ भावार्थकथनम् ' ४७९ ३ प्रदर्शनम्... ....४७२ २०५२४ नऽयोपिपतिशात एवेति ५०४ संशयस्वरूपम्... ४७३ कथनम् - ५०५ अनिश्चितेति पदस्य प्रयोज. . ५२५ नयविभागः ४८० ४७३ (१६ / ५२६ नैगमादीनां सर्वामिप्रायसं- ५०६ सशयकारणप्रदर्शनम् ४७३ २० ग्राहकत्वसमर्थनम् ४८० ६ ५०७ मावार्थकथनम्.. ४७३ २५/५२७ तेषां द्वेघा सड्डाहः ४८० २० ५०८ विरोधज्ञानस्य,संशयकारण- ५२८ द्रव्यार्थिकनयाभिप्रायः :..४८० -२५ त्वेनाकथने कारणम् ४७४ २५२९ पर्यायाथिकनयाभिप्रायः ....४८१ ६ ५०९ अनध्यवसायस्वरूपम्... ४७४ १४ / ५३० गुणार्थिकस्य पर्यायार्थिके- ५१० परोक्षविषयानध्यवसाय-- ऽन्तर्भाववर्णनम् ... ४८१ १६ ४७५ ,.२ | ५३१ सामान्यविशेषयोर्द्रव्यपर्या- ५११ संशयानध्यवसाययोमदाद- यान्तविकथनम् र्शनम् ... ४७५ १३ ५३२ व्यञ्जनपर्यायस्वरूपम् ४८१ २२ ५१२ संशयानध्यवसायंवोरारोप- ५३३ द्रव्यार्थिकस्य त्रैविध्यवादि- त्वसमर्थनम् ४७५ १८ सूरिनामनिर्देशः ५१३ अनध्यवसायस्य वस्तुत्व ५३४ जिनभद्रगणिक्षमाश्रमणानु- साधनम्... ४७५ २७ थायिमतामिधानम् .... ४८२ २ ५१४ किरणोपसंहार:... ४७६ ५] ५३५ तर्कानुसारिणां मतप्रदर्शनम् ४८२ ५३६ द्रव्यास्तिकद्वैविध्यम्... 'नवमः किरण: ५३७ नैगमनयामिप्रायो नराश्यन्त- ५१५ नयस्वरूपम् ४७६ १४ रमित्यभिधानम्... ४८२,१७ ५१६ज्ञानरूपस्य वाक्यरूपस्य च ५३८ नैगमस्वरूपम् ... ४८२ २२ नयस्य स्वरूपम्.. ४७६ २१ | ५३९ निर्दुष्टं तल्लक्षणम् ४८३ १४ ५१७ अपेक्षात्वपरिचयः ४७७ १, ५४० धर्मिविषयं तदुदाहरणम् ४८३ २३ ... ... .... ...४८१. १८ ... ...

नवमः किरणः ] विस्तरतो विषयानुक्रमः ... . , ... .. ४८७ १५ 4 विषयाः विषया ५४१ धर्मधर्म्युभयविषयमुसहरः ५६५ अर्थभेदव्याप्यत्वं संक्षाभेदस्य- णम्... ति-समर्थनम्:- ४९२ १५ ५४२ अनेकधा नैगमव्यवस्था ... ४८४ १९ / ५६६ अब प्रयोग ४९३ ५४३ सवाहनयः सप्रमेद:- ८५६७ समभिनष्यन्तप्रदर्शनम् ४९३ १३ ५४४ ससहमयाभिप्रायः .....४८५ १५६८ एवम्भूतनयस्वरूपम् ५४५ संग्रहावान्तरभेदाः ... ४८६ ११ ५६९ तनिष्कृष्टार्थ ५४६ व्यवहारनयखरूपम् ... २५७० व्युत्पत्त्यर्थान्धयनियतार्थ- ५४७ निष्कटं लक्षणम् बोधकत्वसमर्थनम् ........ ४९४ ५४८ तस्वार्थभाष्यानुरोधिलक्ष- ५७१ इतरथा संशयादिप्रसङ्ग- प्रदर्शनम् ४९४ १५ णम्... ५४९ तत्स्फुटीकरणम् ".. ... ४७ १४/ ५७२ व्युत्पत्तिनिमित्तस्यैव प्रकृ. .. ५५० पञ्चवर्णो अमर इत्यादीनी .. तिनिमित्वेऽतिप्रसकेस.. व्यवहाराननुगुणत्ववर्णनम् .. ४८८ ६ म्मतिप्रदर्शनम् ५५१ ऋजुसूत्रस्वरूपम्.... ... ४४८ १५ ५७३ एवम्भूतस्योदाहरणम्.. ....... ४९५ .८ ५५२ तच्छब्दार्थवर्णनम् ४८ .१९५७४ एतन्मते सिद्धो न जीव ५५३ निष्कटलक्षणम्... ४८९ : इति समर्थनम् . ४९५.१७ ५५४ वर्तमानपर्यायस्य प्राधान्य- । ५७५ शब्दार्थप्रधाननयविभागः साधनम् irat ४८९ ४/५७६ अर्थनयाभिप्रायवर्णनम् • ४९६ ५५५ विधिनिषेधात्मकल्यवहार- ५७७ शब्दनयतात्पर्यवर्णनम् .. ४९६ १९ प्रदर्शनम् ... ............ ४८९ ६५७८ अर्शितादिनयानामुक्केष्वन्तः .. .. ५५६ कुनकरणापरिसमातिदोष- र्भावकथनम् ...४९६ २६ निरास .... १८९ ११ ५७२ नयानां म्यूनाधिकविषय-:. ५५७ कृतस्य करणे क्रियावैफल्य- प्रदर्शनम्... ४८९ .२०५८० तदभिप्रायस्फुटीकरणम् .. ४९७ २० ५५८ अस्य सूक्ष्मस्थूलभेदप्रदर्श ५८१ नैगमनयामासः नम् ...... ४६ . ९ | ५८२ तत्स्फुटीकरणम् ५५९ शब्दनयस्वरूपम् ४९. . १७ ] ५८३ सङ्गहनयामासः २ ५६० ऋजुसूत्रापेक्षयास्य विशेषि-, .. ५८४ व्यवहाराभासः •: नतरत्ववर्णनम् ४९० २०/५८५ ऋशुसूत्रनयामासा ....... ४९९ ५६१ कालादिभेदेन उद्यान्सादर्श- ५८६ शब्दनयाभास ५०० .....४९१ ६५८७ समभिरूढनयाभास... .५०० १० १६२ तदभिप्रायवर्णनम् :... ४५१ १४ | ५८८ एवम्भूतनयामासः ५६३ सममिहढनयस्वरूपम् ७/५८९ वस्तुप्रतिपादकानां द्वैविध्य- ५६४ एतल्लक्षणम् ९२ १४ कंथनम् . . F परिहारः ...... 1 ... २ ...

सटीकतवन्यायविभाकरस्य [द्वितीयभागे । ... ... . दशमः किरणः ५०३ १२६१६ वादस्वरूपम् ... इति साधनम् ... 10 ... ... ... ५०५ १ त्वमिति कथनम् विषयाः 'विषया. ५९० लौकिकैर्व्यपदेशप्रकार ५०१ . .८ ६१२ विनाशोऽप्यहेतुक इति ५९१ तत्त्वचिन्तकैर्व्यपदेशप्रकारः ५०१ २४ निरूपणम्... ५९२ नयस्य फलप्रदर्शनम्... ८६१३ स्वतंत्राणां नामादिनयनां मि.. ५९३ नयविचारविशेषफलप्रदर्श- श्यादृष्ठित्वमिति वर्णनम् ... ५०९ १२ नम्... ..: ५०२ १६ / ६१४ नामादीनां नयैः सह योजनम् ५१० ५९४ निक्षेपलक्षणं तद्भेदश्च ५०२, २३६१५ किरणोपसंहार.... ५९५ नामनिक्षेपलक्षणं पदकृत्यश्च ५०३ २ ५९६ नामस्य द्विविधता ૧૦૩ ५९७ स्थापनालक्षणं तद्भेदश्च 2. ५११ १६ ५९८ स्थापनाया उपयोगित्वसम- ६१७ जयपराजयावपि वादस्य फले. र्थनम् ५०३ १६ ५९९ भावातिरिक्तविक्षेपत्रय- ६१८ साधनं दूषणश्च वचनं प्रमाण- साफल्यसमर्थनम्। ५०४ १० मेव स्यादिति वर्णनम्... ५१२ ६०० महानिशीथवचनाभिप्राय- ६१९ तद्भावार्थः वर्णनम् . ५०४ २१ / ६२० जल्पवितण्डयोर्न कथान्तर ६०१ द्रव्यनिक्षेपलक्षणम् ५१२ १७ ६०२ भावनिक्षेपस्वरूपम् ५०५ . ९९२१ तस्य स्फुटं वर्णनम्... ५१२ १८ ६०३ नामस्थापनादन्यनिक्षेपाणां ६२२ कथारम्भकविभागः... ५१३ मियो मेदसाधनम् ... ५०५ १० १२३ वादोन विजिगीषुविषय इत्य- ६०४ नामादित्रयाणामपि वस्तुत्व- । स्य निराकरणम्... ... ५१३ १२ समर्थनम् ५०६ ५, ६२४ जिगीषुतत्त्वनिर्णिनीष्वोः ६०५ नामादित्रयमावनिक्षेपयो- स्वरूपम्... ५९४ १ विशेषवर्णनम् ... ५०६ १६ / ६२५ तत्वनिर्णिनीधुमेदा..... ....-५१४ ६०६ सर्व वस्तु चतूरूपायिनाभूत ६२६ तद्भावार्थः ५१४ १२ मिति प्रदर्शनम्... ... ५०६ .१९ ६२७ तत्त्वनिर्णिनीपूणां निवर्शनम् ५१४ २१ ६१७ नाम्नो वस्तुधर्मत्वव्यवस्था--, ६२८ तत्स्फुटीकरणम् ... ५१४ २५ प्रनम् ५०७ २/६३९ आरम्भकप्रत्यारम्भकमेदाः ५१५ ११ ६०८ आकारमयत्वं सर्वेषामिति ६३० चतुरहकवादिप्रतिवादिनः ५१५ २३ निरूप्रणम्... ५०७ ११ ६३१ तफलितार्थः ६०९ द्रव्यात्मकत्वमखिलानामिति ६३२ प्रतिवादिविशेषाश्रयेणा- निरूपणम् in ५०७ ११८ नियमा ६९० सर्व भावात्मकमिति वर्णनम् ५०८ . ७, ६३३ तावार्थः ६११ अत्र मतेऽनपेक्षस्यैवोत्पद्यमा- ६३४ क्षायोपशमिकक्षानिवाद्यपेक्ष- नत्वमिति साधनम् । याऽङ्गनियमा, . ... .n . .. - ... . . ....५०८ प्रथमः किरण:] विस्तरतो विषयानुक्रमः। ૧૨૮ ૨૬ ar .." ६३७ तद्भावः विषयाः पृ. पं. विषयाः ६३५ तद्भावार्थ: ५१७ १४ ६४२ तत्क-व्यवर्णनम् ६३६ बादानईवर्णनम् ५१७ १४ | ६४३ तद्भावार्थः ५१७ १७ / ६४४ सभापतिस्त्ररूपम् ६३८ वाविप्रतिवादिस्वरूपं कर्त- ६४५ तत्रस्थपदप्रयोजनानि व्यञ्च ५१७ २२/ ६४६ तस्कर्चव्यवर्णनम् ६३९ तफलितार्थ ५१७ २४ | ६४७ सत्फलितार्थवर्णनम् ... ६४० सभ्यस्वरूपम् तनियमच ... ५१८ ८/६४८ वादोपसंहार ६४५ वत्पदप्रयोजनानि ५१८ १०। ६४९ शाननिरूपणोपसंहारः ५२० ... ५२० ११ ... ४ तृतीयो भागः। प्रथमः किरणः ६६९ तदभिप्रायः ५२७ २० ६७० चतुर्थव्रतविचारः ૧૨૮ २ ६५० वरणविभागः ६७१ तत्स्पष्टार्थः ६५१ करणचरणयोमैदः ५२१ १२ ६७२ पञ्चमव्रतविचार પ૮ ૨૦ ६५२ शानबरणयोर्गुणप्रधानभावः ५२१ १६/६७३ तस्य भावार्थ.... ६५३ चरणमेदा ६७४ पञ्चानां व्रतानां पञ्चपञ्च- ६५४ केपाश्चित्पृथगुपादाने कारण- भावना... ...-५२९ २० वर्णनम् ५२२ १११ ६७५ प्रथमवतभावनाः ६५५ व्रतविभागः ५२३ ૨ ६७६ द्वितीयवतभावना ५३० ६५६ पञ्चमीसमर्थनम् ६७७ तृतीयवतभावना. ६५७ व्रतशब्दार्थविचार... ५२३ १३ ६७८ चतुर्थव्रतभावनाः ६५८ प्रथमव्रतविचार ५२३ २४ ६७९ पञ्चमवतभावनाः ६५९ तत्पदार्थवर्णनम् ५२३ २६ ६६० द्वितीयव्रतविचारत ६८० श्रमणधर्मभेदा.... १ ६६१ अनृतमेदाः ३ ६८१ तदर्थः ५३२ ३ ६६२ चतुर्विधानामुदाहरणानि ६८२ क्षमास्वरूपम् ६६३ द्वाचत्वारिंशद्भापादृष्टान्त- ६८३ तदुत्तेजकवर्णनम् वर्णनम् ५२५ '१९ ६८४ मार्दवस्वरूपम्... ५३३ १७ ६६४ सत्यमेदाः ५२५ २३ ६८५ मदस्थानवर्णनम् ६६५ मृपाया दशमेदाः ५२६ १३६८६ आर्जवस्वरूपम्... १ ६६६ सत्यामृपामेदाः પર ૨૦ ૬૮૭ રાણા ६६७ असत्यामृपाभेदाः ५२७ ३८८ शौचस्वरूपम् ५३५ १० ६६८ तृतीयव्रतविचारः ... ५२७ १९ ] ६८९ तन्द्रदमाह... ... ... ... ... ... ...

सटीकतत्त्वन्यायविमाकरस्य । तृतीयभागे . ... ... ... ... ... ... ... विषयाः विषया: ६९० सत्यस्वरूपम्... ५३५ २३७१७ प्रव्राजकादीनां स्वरूपाणि ... ५४३ १२ ६९१ भाषासमितेरस्य भेदमद- ७२८ वदभिप्रायाः .. ५४३ १७ र्शनम् ५३६ । ७७१९ उपाध्यायस्वरूपम् ६९२ संयमस्वरूपम्... ५३६ १४ / ७२० तत्स्पष्टार्थवर्णनम् ६९३ तदभिप्रायवर्णनम् ५३६ ,१५ / ७२१ तपस्विशैक्षकयो. स्वरूपे,.. ५४४ १४ ६९४ स्यागस्वरूपम् .. ५३६ २८ ७२२ तयोः स्फुटीकारः ६९५ पोऽन्तर्गतादस्य भेदप्रद-, ७२३ ग्लानस्वरूपम्... .. ५४४ २५ र्शनम् ६ | ७२४ तदभिप्रायः ६९६ आकिञ्चन्यस्वरूपम् .. ५३७ १३ ७२५ गणकुलयोः परिचयः ५४५ ६९७ तावार्थः ... ५३७ १४ | ७२६ स्थविरपदविवक्षितार्थक- ६९८ ब्रह्मचर्यस्वरूपम् थनम्... ६२९ गुरुकुलवासफलम् ५३८ २ ७२७ जघन्यमन्चमोत्कृष्टगच्छव- ७०० गुरुकुलवासस्थावश्यकत्व- र्णनं तत्र संवासफलञ्च प्रदर्शनम्... ८ ५,७२८ संघस्वरूपम् । ५४५ २१ ७०१ क्षमादीनां हेतुहेतुमद्भाव- ७२९ तदर्थवर्णनम् ५४५ २२ कथनम् ... ५३८ २४ / ७३० साधुस्वरूपम् ५४६ ७०२ 'संयमस्वरूपं तनेदाश्च ५३९ ६ ७३१ अष्टगुणै. सुवर्णतुल्यताऽस्ये- ७०३ तत्स्फुटीकरणम् ५३९ ति वर्णनम् ७०४ नवविधानां संयमानां परि- ७३२ समनोज्ञस्वरूपम् चय. ५३९ १७ | ७३३ सामाचारीभेदाः ५४६ १५ ७०५ तद्भावार्थकथनम् .... ..: ५३९ २० / ७३४ ब्रह्मचर्यगुप्तिस्वरूपम्... ५४६ २० ७०६ प्रेक्ष्योपेक्ष्यसंयमयोःस्वरूपम् ५४० ४ | ७३५ तदर्थकथनम् ७०७ तद्भावप्रकाशनम् ७ | ७३६ वसतिगुप्तिस्वरूपम् ७०८ अपहृत्यप्रमृज्यसंयमयोः ७३७ फलप्रदर्शनपूर्वक भावार्थ- स्वरूपम् ... ५४० १५ वर्णनम् ६ ७०९ तद्भावप्रकाशनम् ५४० १८७३८ कथागुप्तिस्वरूपम् ५४७ १७ ७१० कायवाङ्मनउपकरणसंय- ७३९ तदभिप्रायः ५४७१८ मानां स्वरूपाणि ५४१ .. २ ४ ७४० निषधागुप्तिस्वरूपम् ७११ तदीयो भावार्थ.... ८७४१ तदर्थः ३८ ७२ वैयावृत्त्यस्वरूपं ... ५४१ २१ / ७४२ इन्द्रियगुप्तिकुख्यान्तरित- ७१३ 'तत्फलं तद्भेदाच ...५४१ २४ गुप्योः स्वरूपे... ७१४ आचार्यस्वरूपम् ५४२ १४ | ७४३ तदमिप्रायः ५४८ .. ७१५ आचार्यगुणाः ५४२ १७ | ७४४ पूर्वक्रीडितप्रणीनगुप्त्योः ७१६ तस्य सूत्रावाचकत्वे कारणम् ५४३ स्वरूपे -५४८.१७ ... १ . ... ... ५४८. ... - ... ४ द्वितीयः किरणः विस्तरतो विषयानुक्रमः ' . ... १ ... 4.. ... ... ... ... ... ... ७ विषया: विषयाः ४५ तदर्थ. ५४८ १९७७६ अशुचिभावनास्वरूपम् ... ५५९ २७ ७४६ थाहारगुप्तिभूषणगुप्त्योः ७७७ तद्भावार्थः ५६० स्वरूप ... ५४८ २४, ७७८ माश्रवमावनास्वरूपम् ७४७ तदभिप्रायः ....५४९ . १७७९ तदभिप्रायप्रकटनम्... ७४८ ब्रह्मचर्यधर्मप्रभाववर्णनम् .. ५४९ ११७८० संघरभावमास्वरूपम्... ७४९ ज्ञानादीनां स्वरूपाणि... ... ५४९ १७ ७८१ तदर्थप्रकाशनम्... ५६० १७ ७५० तदर्थकथनम् ... ५४९ २० / ७८२ निर्जरामावनास्वरूपम् ५६० २४ ७५१ तपसः स्मरणम् ... ५५० ६/७८३ तदभिप्रायावेदनम् ५६० २६ ७५२ क्रोधनिमहस्वरूपम् ९ ७८४ तत्फलम्... २ ७५३ तदर्थः .. ... ५५० १० ७८५ लोकभावनास्वरूपम् ७५४ चरणसंहरणम् ५५० १३/७८६ तद्भावार्थः ५६१ ७५५ किरणोपसंहार. ५५० १६७८७ तत्फलम् ७८८ लोकस्वरूपम् ... ५६२ १ द्वितीयः किरण: ७८९ तत्संस्थानपरिमाणमेदानां ७५६ चरणविभाग... ३ वर्णनम् ... ७५७ पिण्डविशुद्धिविभाग.... ७९० रज्जुप्रमाणकथनम् ७५८ षोडशोदमदोषविवरणम् ७९१ तद्भावार्थः ५६२ १९ ७५९ षोडशोपार्जनादोष विवरणम् ५५३ १९ ७६० दशैषणादोषवर्णनम्....... ५५५ ७९२ अधोभागवर्णनम् ७६१ पञ्चसंयोजनादोषाः... ५५५ २३ / ७९३ तद्भावार्थः ७६२ समितिस्वरूपम् ५५६ ११७९४ रुचकस्वरूपम्... ७६३ तद्विवरणम् ५५६ १३/ ७९५ रुचकस्य मध्यलोकमध्य- ७६४ भावनास्वरूपम् ५५६ २१ त्वदिग्विदिग्व्यवहारमूलत्व- ७६५ तद्विवरणम् कथनम् .. ७६६ अनित्यभावनास्वरूपम् ५५७ ७९६ दिशा प्रदेशवर्णनम्... २ ७६७ सफलं तद्विवरणम् . ७९७ पृथिवीमेदेनाधोलोकवर्ण- ७६८ अशरणभावनानिरूपणम् ५५७ २१ ७६९ फलेन सह तदावार्थः ७९८ धर्मादीनामवस्थानप्रमाण- ७७० संसारमावनानिरूपणम् ५५८ ७७१ सफल तयाख्यानम्... ... ५५८ १२ वर्णनम् ... ७७२ एकत्वभावनावर्णनम... ७९९ तासां सप्रतिष्ठत्ववर्णनम् ... ५६५ ६ ७७३ तत्फलनिर्देशेन वर्णनम् ५५९ ३/८०० तद्भावार्थः ७४ अन्यत्वभावनास्वरूपम् ५५९ १८८०१ अधोलोके वासयोग्यानां ७७५ तत्स्पष्टीकरणम् ५५९ २० वर्णनम् ... ... . ... १ ... ...

:३८: सटीकतवन्यायविमाकरस्य [तुतीयभागे ... ... ... ... ... ३ विषया. विषयाः ८०२ प्रत्येकपृथिव्यां सायुष्का- ८२५ जम्बूद्वीपादिशब्दार्थ.... ૧૭૨ ૨ सयोग्यवर्णनम्.... ५६६ ७ | ८२६ मेरुपर्वतस्वरूपकथनम् ૭ર ૨૦ ८०३ तेषां लेश्यादिदुःखकथनम् .. ५६६ १४ ८२७ जम्बूद्वीपपरिमाणम्... ८०४ नारकास्तित्वसाधनम् ... ५६७ १७ / ८२८ मेरोभूतलावगाहनामानम्... ५७३ १४ ८०५ प्रथमपृथिव्यां भवनपति- ८३९ मेरुसमुच्छायमानम्... स्थानवर्णनम् ५६८ ८८३० तत्रस्थ बनवर्णनम् ५७३ १८ ८०६ रत्नप्रभास्थौल्यकथनम् ५६८ १२८३१ तस्य कापडत्रयकथनम् ५७३ २४ ८०७ भवनस्वरूपोच्छ्रायादि- ८३२ सप्तक्षेत्रस्याभिधानम्... कथनम्। ५६८ १६ | ८३३ नामव्युत्पत्तयः.. ५७४ ६ ८०८ भवनावासयोः सत्ताविपये ८३४ तक्रमाभिधानम्... मतान्तरप्रदर्शनम् ५६८ १९ / ८३५ क्षेत्रव्यवच्छेदकनिरूपणम् ५७४ २० ८०९ असुरकुमारादीनां भवनसं- ८३६ वर्षवर्षधरादिसंख्यानियमः ५७५ ख्यावर्णनम् ५६८ २१ / ८३७ कर्माकर्मभूमिप्रज्ञापनम् ५७५ १७ ८१० भवनपतीनां स्थितिनिक ८३८ तद्भावार्थाभिधानम् .. ५७५ २० पणम् ५६८ २५ / ८३९ कर्मभूमित्वादौ नियामक- ८११ क तत्र नारकाणां स्थितिरि- कथनम्.. ५७५ २६ त्यस्य समाधानम् ५६९ १ ८४० विदेहवातुर्विध्यम् ... ८१२ शिष्टपृथिवीनां स्थौल्यवास ८४१ जम्बूद्वीपादीनां लवणसमु- ५६९ ६ द्रादीनां नामानि... ८१३ तदर्थवर्णनम् ८८४२ तद्भाव विष्करणम् । ५७६ १७ ८१४ व्यन्तरभवनप्रदर्शनम् ५६९ १५ ८४३ मानुषक्षेवकथनम् ५७७, ९ ८१५ तद्भावार्थप्रदर्शनम् १८४४ तत्परिमाणम् ५७७ १२ ८१६ व्यन्तरशब्दव्युत्पत्तिः... ५/८४५ मनुष्यत्रैविध्यम् ५७७ १४ ८१७ तेषामष्टमेदवर्णनम् ५७० १३ / ८४६ मानुषक्षेत्रसंख्या ८१८ पल्योपमस्वरूपप्रदर्शनम् ५७० १९८४७ मानुषोत्तरपर्वतस्वरूपम् ८१९ वानमन्तरवर्णनम् ५७० २४] ४८ नास्मात्परतो मनुष्याणां ८२० एषां देवविशेषत्वमिति कथ- जन्ममरणे इत्यस्य विवरणम् ५७८ नम् .....५७१ ३ ८४९ ज्योतिष्कनिवासयोग्यस्था- ८२१ तिर्यग्लोकस्वरूपम् ... ५७१ ९ नवर्णनम्... ५७८ १० ८२२ तदर्थवर्णनम् ५७१ ११ ८५० तारकविमानस्थानम् ... ५७८ १५ ८२३ सपरिमाणं द्वीपसमुद्रवर्ण- ५७८ १७ ८५१ सूर्यविमानस्थानम् नम्... ५७१ २१ ८२४ तिर्यग्लोकस्य मध्यलोकत्वे ८५२ चन्द्रविमानस्थानम् ... ५७८ २२ कारणनिरूपणम् ५७१ २५/८५३ नक्षत्रग्रहस्थानम् ५७८ २४ ... योग्यानां कथनम् ... ... ... ... ... ... ... :.... ...

नीयः किरणः ] विस्तरतों विषयानुक्रम ... ... ... ... ... ... ५८८ ... ... ७ ... ... विषयाः विपया: ५४ मनुष्यक्षेत्र एते गतिमन्तो ८८४ मासिक्यादीनां सप्तानांव- नान्यत्रेति कथनम् तत्सं- नम् ५७८ २६/८८५ अष्टमीप्रतिमास्वरूपम् ५८७ २१ ५५ ज्योतिष्काणां गतिविशेष: ५७९ ९/८८६ तदर्थाभिधानम् ३ ५६ तदर्थकथनम् .. ५७९ ११ / ८८७ नवम्यादीनां स्वरूपम् ७ ५७ ऊर्चलोकनिरूपणम् ... ५७९ १७ / ८८८ दशमीस्वरूपम्... ५८८ १० ५८ तदभिप्रायाविष्करणम् ५७९ १९/८८९ एकादशद्वादशप्रतिमावर्ण- ५९ तद्वासयोग्यनिरूपणम् नम्... ६० देवसत्चासाधनम् ... ५८० १९ / ८९० तद्भावस्फुटीकरणम्... १६१ वैमानिकशब्दार्थः ... ५८० २५ / ८९१ पञ्चन्द्रियनिरोधस्वरूपम् ... ५८९ :६२ कल्पोपपन्नदेवस्थानम् ५८१ ६८९२ तदर्थकथनम् ... ६३ तद्वयवस्थावर्णनम् ... ५८१ १९८९३ प्रतिलेखनास्वरूपम्... :६४ द्वादशकल्पस्थानां स्थितिः... ५८२ ५८९४ कालत्रयाश्रयेण तवर्णनम् ५८९ १८ ८६५ तदर्थकथनम् ५८२ ११८९५ उपधिमेदामिधानम्... ५९० १२ ८६६ महमिन्द्राणां निवासस्थानम् ५८२ १८८९६ प्रतिलेखनावाक्यप्रदर्शनम्... ५९० १६ ८६७ तेषामायूंषि ... ५८२ २४ ८९७ तत्स्फुटीकरणम् ८६८ विजयादिवर्णनम् ५८३ ६८९८ अङ्गप्रमार्जनारूपप्रतिलेखना- ८६९ विमानप्रस्तरनिरूपणम् ५८३ २० वाक्यानि... ५९१ ८७० विमानवर्णवर्णनम् ५८३ २३ ८९९ गुप्तित्रयप्रतिपादनायावतर- ८७१ एषां प्रतिष्ठानवर्णनम् २ णिका ८७२ कल्पातीतदेवकथनम्... ५८४ १२ / ९०० गुप्तिप्रदर्शनम्... ५९१ १६ ८७३ सिद्धक्षेत्रकथनम् ... ५८४ १६ / ९०. अभिग्रहस्वरूपं मेदाच ८७४ तद्भावार्थाभिधानम्... ५८४ १९ / ९०२ तदर्थः ५९१ २० ८७५ सिद्धनिवासस्थानकम् ५८५ १० / ९०३ द्रव्याघभिग्रहस्वरूपम् ८७६ ऊलोकस्य देवलोकाश्र- ९०४ तत्स्फुटीकरणम् येण परिमाणवर्णनम्... ५८५ १५ ९०५ किरणोपसंहार... :५९२ १२ ८७७ असनाडिकास्वरूपम्... ८७८ बोधिदुर्लभमाषनास्वरूपम् ५८६ २ तृतीयः किरणः ८७९ तद्विशदार्थः ५८६ ५/९०६ चारित्रिणां मेदाः ... ८८० धर्मस्वाख्यातमावनास्वक- ९०७ पुलाकस्वरूपम्.. ९८६ १५ ९०८ तद्विवरणम् ५९३ १ ८८१ तद्धावप्रतिपादनम् ५८६ १९ / ९०१ तस्य मेद: ८८२ मिथुप्रतिमास्वरूपम्... ५८६ २६ / ९१० लब्धिपुलाकवर्णनम्... ८८३ तद्भेदवर्णनम् ७,९११ सेवापुलाकमेदा ... ... ७ ... ... '- ... ... ... ...

सटीकतत्वन्यायविभाकरस्य [ तृतीयमांगे ... .... . ... ... ... ... . ... ... - . विषयाः विषया. ९१२ सेवापुलाकादिस्वरूपम् ५९३ १६ / ९४१ तदर्थवचनम् .. ....५९८ २७ ९१३ शानपुलाकवर्णनम्... ५९३ २३ / ९४२ उपशान्तमोहनिर्ग्रन्थस्वरू- ९१४ पर्शनपुलाकवर्णनम् ... .. ५९४ पम् ३ ९१५ चारित्रपुलाकवर्णनम्... ... ५९४ १० / ९४३ क्षीणमोहनिर्ग्रन्थस्वरूपम्... ५९९ ६ ९१६ लिङ्गपुलाकवर्णनम् .. ५९४ २३ / ९४४ पुनरस्य प्रकारान्तरेण भेद ११७ यथासूक्ष्मपुलाकवर्णनम् ... ५९४ २४ कथनम् ९१८ बकुशस्वरूपम्.. ५९४ २६ ९४५ तेषां मेदानां स्वरूपाणि .. ५९९ १७ ९१९ तत्मभेदः.. ५९५ ६ ९४६ भेदेष्वेषु विशेषप्रदर्शनम् ... ६०० : १ ९२० प्रकारान्तरेण बकुशविभाग' ५९५ १३ ९४७ स्नातकस्वरूपम् ६०० ९ ९२१ आभोगवकुशस्वरूपम् ५९५ २० / ९४८ तत्स्फुटार्थः ६०० १२ ९२२ अनामोगबकुशस्वरूपम् ... ५९५ २१ / ९४९ अनुयोगद्वारविचार. ६०० २० ९२३ संवृतबकुशस्वरूपम्........ ....... ५९५ २२ | ९५० संयमद्वारविचार ६०० .२४ ९९४ असंवृतवकुशस्वरूपम् ५९५ २५ ९५१ श्रुतद्वारविचारः ६०१ ।१ ९२५ सूक्ष्मबकुशस्वरूपम्... ५९५ २५ / ९५२ तदर्थः ... ६०१ । ५ ९२६ बकुशनिगमनम् ५९५ २६ / ९५३ प्रतिसेवनाद्वारविचारः । ६०१ ११ ९२७ कुशीलस्वरूपम्.. ५९६ ६/९५४ तदर्थः ६०१ १५ ९२८ तद्भदवर्णनम् •५९६ -१० ९५५ तीर्थद्वारविचारः ९२९ तयोःस्वरूपम् . ५९६ १३ / ९५६ तदर्थः.. ६०१ २२ ९३० प्रकारान्तरेण कुशीलभेद ९५७ भगवत्यनुसारेण विशेषा- प्रदर्शनम्... दर्शनम् ... ९३१ ज्ञानाचारमंदा.... ५९६ २७ ९५८ लिङ्गद्वारविचार: ६०२ ७ ९३२ दर्शनाचारभेदाः ५९७ .१७ | ९५९ तदर्थः ६०२ १० ९३३ चारित्राचारभेद्रा. ५९७ २९ / ९६० लेश्याद्वारविचारा... .. ६०२ १७ ९३४ तपाचारमेदाः ९६१ तद्विशदार्थः ९३५ प्रकारान्तरेण चारित्रप्रति- ९६२ उपपातद्वारविचार..... ... ६०३ २ '. सेवनाकुशीलवर्णनम् ५९८ २ ९६३ तदभिप्रायः ९३६ यथासक्ष्मप्रतिसेवनाकुशील- ६०३ ५ वर्णनम् ९६४ स्थानद्वारविचार ६०३ १४ ५९८ १२ ९३७ कषायकुशीलमेदप्रदर्शनम् ५९८ १५ / ९६५ तद्विशदार्थः............ ६०३.२४ ९३९ तदर्थवर्णनम् ५९८ १८ / ९६६ सम्यक्चरणनिगमनम् ....०४ १२ ९४० निर्ग्रन्थस्वरूपम् ... ... ५९८ २३ / ९६७ प्रन्थोपसंहारः....... ..... ६०४ २४ ... ... .. ... . . ६०२ २ ... ... ... १ ६०२ २१ ... ... ... ... P इति विषयानुक्रमणिका समाता 1

॥
अहम् ॥
जैनाचार्यश्रीमद्विजयलब्धिसूरीश्वरविरचितः
तत्त्वन्यायविभाकरः॥
स्वोपज्ञन्यायप्रकाशटीकायुतः।

No text on this page.

4 ॐ अहम् जैनाचार्यश्रीमद्विजयलब्धिसूरीश्वरविरचितः तत्त्वन्यायविभाकरः॥ स्वोपज्ञन्यायप्रकाशटीकायुतः . नयानेकवादप्रमाणप्रकाश, अवि ज्ञानचारित्रदचावकाशम् । इलादुर्गरत्नं जिनं शान्तिनाथ, नमामि प्रभामासुरं भावतोऽहम् ॥ १.॥ प्राचां प्रौढनिगूढभावभरितान् चाचां विलासान् परान्, शेमुष्या प्रविचार्य चारु गुरुमिर्दिष्टेन सद्वर्त्मना । तत्वन्यायविमाकरस्य कृतिनां मोदाय टीकामिमां, कुर्वे मञ्जलयुक्तिनालजटिला न्यायप्रकाशामिधाम् ॥२॥ क स्याबादो महाम्भोधिरल्पशक्तिर्मतिः क मे ।। बाहुना तं तितीर्षन्तं क्षमन्तां गुणवेदिनः ॥३॥ इह हि शास्त्रारम्भ कचिदमीष्टे प्रवर्तमानाः श्रेयस्काम्यया विशिष्टस्वेष्टदेवतानमस्कार- पुरस्कारेणैव प्रवर्तन्ते, स च नमस्कारो यद्यपि शरीरेण मनसा वा क्रियमाणो निखिल- प्रबलपत्यूहसमूहोन्मूलनपटिप्पतया प्रारिप्सितशास्त्रपरिसमाप्तये सम्पनीपद्यते, तथाप्यशेषा- न्तरायनिचयविधातनिमित्तमिष्ठदेवतानमस्कारपूर्वकमेवान्तेवासिनः प्रवर्तन्तामिति शिष्यान् शिक्षयितुं द्रव्याचपकृष्टमङ्गलानि विहाय नोआगमतो भावमङ्गलं प्रभुनमस्काररूपमादौ 15 निवघ्नाति- भत्तयुद्रेकनमत्सुराधिपशिरकोटीररत्नप्रभा- योतिस्मेरपदाम्बुजं निरुपमज्ञानप्रभाभासुरम् । 10 .

न्यायप्रकाशटीकायुते तत्त्वन्यायविभाकरे रागद्वेषतृणालिपावकनिभं वाणीसुधाम्भोनिधि, श्रीमद्वीरजिनेश्वरं प्रतिदिनं वन्दे जगद्वल्लभम् ॥१॥ भन्युकेति । भक्ति-आराध्यत्वेन ज्ञानं, आराधना च गौरवितप्रीतिहेतुः क्रिया । तस्या उद्रेकोऽतिशयेनाविर्भावः, तेन नमन्तो ये सुराधिपा इन्द्रादयः, तेषां शिरसां कोटी- 5 रेषु-मुकुटेषु यानि रत्नानि तेषां प्रमाणां द्योतनशीलं स्मेरं-विकसितं पदाम्बुनं यस्य तं, अनेन प्रभोः पूजातिशयः प्रकाशितः । तथा निरुपममतुलमनन्तमिति यावत्, तब तज्ज्ञानश्च, तदेव प्रभा साकल्येनाखिलपदार्थप्रद्योतकत्वात् , तया भासुर-जाज्वल्यमानं, अनेन ज्ञानातिशयो दर्शितः । तथा राग:-अभिष्वङ्गः, द्वेष:-अप्रीतिः, तावेव तृणालि- स्तृणव्रजः, रागद्वेषयोरतितुच्छत्वेन तृणतया रूपणम् , तस्मै पावकनिमः-हुताशनसंकाशस्तं, 10 अनेनापायापगमातिशय उद्भावितः । एवं पञ्चत्रिंशद्गुणालङ्कृता वाण्येव निरन्तरानन्दप्रद- त्वात्सुधा तस्या अम्मोनिधिरुत्पत्तिभूमिस्तम्, अनेन वागतिशय उक्तः, चतुस्विंशदतिशया- मिका भावाईन्त्यरूपा कत्मकर्मक्षयाविर्भूतानन्तचतुष्कसम्पद्रूपा वा श्रीसमृद्धिरस्यास्तीति श्रीमान् नित्ययोगे मतुम्, विशेषेणेरयति-क्षिपति कर्माणीति वीरः, तपसा विराजमानत्वात् तपोवीर्येण युक्तत्वाद्वा वीरस्चतुर्विंशतितमतीर्थकृत्, यद्यपि निरुक्तव्युत्पत्त्या वीरपदेन 15 तीर्थकर सामान्योपस्थितिसम्भवः, तथापि योगादूढिर्बलवतीति न्यायाद्वयक्तिविशेष एव विवक्षितः, निश्चयनये कभक्तौ सकलमक्तिसिद्धेः, आसन्नोपकारित्वेनास्यैव तात्पर्यविषय- त्वाच, स चासौ जिनेश्वरस्सामान्यकेवलिनामपीश्वरस्त, स्वस्यापि भक्त्युकं दर्शयति प्रति- दिन बन्द इति, वन्दे-स्तौमि, अभिवादये च, केवलानां स्तुतिबोधकानां नमस्कारबोधकानां वा धातूनामनुपादानात् । जगतां वल्लभो जगदल्लभस्तं सकळचराचरोपकारित्वादिति भावः ।। नन्विदं शास्त्रं नारम्भणीय, अभिधेयशून्यत्वात् काकदन्तपरीक्षावत्, तथा प्रेक्षावता प्रन्थोऽयमनादेय एष, छद्मस्थत्वे सति स्वतन्त्रतयाऽभिधीयमानत्वाथ्यापुरुषवाक्यवदित्येवं प्रवदतां संदिहानानां वा प्रेक्षावतां प्रवृत्त्यर्थ' वाच्योऽभिधेयः परमगुरूपदेशानुसारित्वन सम्बन्धः प्रथमतः । यदाहुः-"श्रुत्वाभिधेयं शास्त्रादौ पुरुषार्थोपकारकम् । श्रवणादौ प्रवर्तन्ते तजिज्ञासादिनोदिताः। नाश्रुत्वा विपरीतं वा श्रुत्वाऽऽलोचितकारिणः । 25 काकदन्तपरीक्षादौ प्रवर्तन्ते कदाचने "ति, तथा 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्त्तते । एवमेव प्रवृत्तश्चेञ्चैतन्येनास्य किं भवेदिति न्यायेन प्रयोजनमपि प्रकटनीयम् , अन्यथा प्रयोजनशून्यत्वादत्र नैव प्रवर्तेरन् प्रेक्षावन्तस्तथा वाच्यवाचकादि सम्बन्धवैधुर्येऽपि प्रवृत्त्यनुपपत्त्या सोऽपि वाच्य एवेति तदनमिधानप्रयुक्तप्रसज्यमानाऽऽशकातकसमुन्मूल- 20 'मङ्गलाचरणम् । नाय, परम्परया विशिष्टादरनिमित्ताईन्मूलताप्रख्यापनार्थश्चादौ गुरुपर्वक्रमलक्षणसम्बन्धप्रद- शेनपुरस्सरमभिधेयादिकं स्वकीयग्रन्थनाम चोपनिबध्नाति-:: : मज्ञावैभवसंमदिष्णुकथकमोडोक्तिविद्रावण- प्रख्यं जीवगणोपजीवकदयादृष्टिप्रकर्षोज्ज्वलम् । नत्वा श्रीकमलाख्यसरिमसकृद्ध्यात्वा च जैनागमं, तत्वन्यायविभाकर सुललितं ग्रन्थं प्रकुर्वे मुदा ॥ प्रज्ञावैभवेति । प्रज्ञा-विशेषविषयिणी बुद्धिस्तस्याः वैभवेन-नवनवोन्मेषरूपेण सम्य- मदिष्णूनां कथकानां-बाबदूकानां था: प्रौढोक्तयः सामान्यविद्वदुर्भधत्वात् तासां विद्रावणे- मलने प्रख्या प्रसिद्धस्तं, एतेन गुरोः प्रतिभातिशयः स्वसमयस्थापनसामर्थ्यश्चाविष्कृतम् । जीवगणस्योपजीविकायां-परिपालननिदानभूतायां दयायां दृष्ट्या-अवहितचेतसा प्रकर्षणो- 10 ज्वलं-निर्मलं, अनेन चानेकनृपतीनामहिंसाधर्मप्रवोधनद्वारा दयाधर्मसंस्थापनकौशल्यं सूचि- तम् । थ्यानलक्षणकर्तव्यापेक्षया पूर्वकालभावित्वात्कृत्वाप्रत्ययान्वं पदमाह-नत्वेति'नमस्क- तिविषयमारचश्येत्यर्थः । आचारश्रुतशरीरवचनवाचनमतिप्रयोगमतिसंग्रहपरिजालक्षणाष्टवि- धसम्पदः श्रियस्तासां कमलमिव आश्रयत्वात्कमल इति आख्या सार्थक नाम यस्य स्रेस्त्र, असकृत्-वारंवारं, ध्यात्वा-भक्तिश्रद्धाभ्यां मनोमन्दिरे संस्थाप्य, ग्रन्थरचनापेक्षया पूर्वकाल- 11 भावित्वात् क्त्वाप्रत्ययः । चः पुनरर्थको न पुनः समुचायकः, एकक्षणावच्छेदेन नमनचिन्त- नात्मकद्विविधक्रियाऽसम्भवेन पौर्षापर्यनैयत्यात् , गुरुपरम्परयैव जैनागमस्यात्मनो लाभेन तन्नमनत्य ध्यानपूर्वकालमावित्वस्यैवोचितत्वाच । अनेन गुरुपर्वक्रमलक्षणसम्बन्धः श्रद्धानु- सारिणः प्रति प्रदर्शितः | जयन्तीति जिना रागद्वेपविजेतारस्तैः प्रोक्तमागम-शास्त्रमनेना- गमनमस्कारेण स्वकीयग्रन्थस्य समूलत्वं सूचितं, एतेन छद्मस्थत्वे सति स्वतन्त्रतयाऽभिधी- 20 यमानत्वे हेतापसिद्धतोद्भाविता । तथा गुरोरप्युपास्यतया प्रथम गुरुतमस्याइतस्तदागमस्य च गुरुद्वारा प्राप्यमाणत्वात्प्रेस्ततो ग्रन्थस्यास्थ -मूलभूतस्याऽऽगमस्य प्रणामक्रम इत्यपि विनेयाः शिक्षिताः । तत्त्वानि जीवादीनि, न्यायास्तदधिगमका प्रमाणनयरूपास्नेपां विशिष्टा माः स्वरूपप्रकारप्रमाणानि वस्तुयाथार्यप्रकाशकत्वात्, वासामाकर, इवाकरस्ताः करोतीति वा तत्त्वन्यायविभाकरस्तम् । एतेन तत्वन्याया अभिषेयास्वज्ञान प्रयोजन, वर्कानुसारिणः 25 प्रत्युपायोपेयलक्षणसम्वन्धश्च प्रदर्शितः, अत्रेदम्बोध्यम् , प्रयोजनं ग्रन्थकर्चुगतं श्रोतृगतश्चेति द्विविधम् , अनन्तरपरम्परभेदतः प्रत्येकमपि पुनर्द्विविधम् , ग्रन्थकषुरनन्तरं प्रयोजनं सत्त्वा- प्रहः सर्वज्ञोदितपदार्थप्रतिपादनात् । परम्परन्तु मोक्षावाप्तिमव्यसत्त्वानुग्रहप्रवृत्तस्य वर्ग- , न्यायप्रकाशटीकायुते तस्वन्यायविभाकरे प्राप्त्यादिपरम्परया परमपदस्यावश्यप्राप्तेः । श्रोतृणाश्चानन्तरं प्रयोजनं ग्रन्थसारभूतपदार्थय- थावत्परिज्ञानं, परम्परन्तु परमपदप्राप्तिरेव, यथावद्विदितपदार्थसार्थानां निःसारसंसारोद्वेग- जननात् परमपदप्राप्तयेऽङ्गीकृतप्रयत्नानां निःश्रेयसावाप्तेरिति । सुललितं शब्दतो अलित्य- वन्तं, एतेनास्य ग्रन्थस्य बालानामनायासेन बोधजनकत्वमादर्शितम् । ग्रन्थं-वाक्यसन्दर्भरूपं 5 प्रकुर्व-निबध्नामि । मुदा-आनन्देन नतु क्लेशेनेतिभावः ॥ अन्थेनानेन श्लोकद्वयात्मकेनेष्टदेवतागुर्वागमानां नमस्कारोऽभिधेयायमिधानेन शिष्य- प्रवृत्तिप्रतिबन्धकशङ्काशङ्कसमुद्धरणश्च कृतम् । अनायासेन बालबोधप्रयोजकत्वोपदर्शकमुल- लितपदेन तत्त्वन्यायानां महामतिभिः पूर्वसूरिमिर्गम्भीरवाक्यप्रबन्धैाख्यातत्वेऽपि साम्प्रत- कालीनान्तेवासिनां मविमान्यतया तैर्ग्रन्थैर्यथावदर्थावगमो न भवेदिति मन्वानेन मया मन्द- 10 मविनाऽपि मन्दतरमतीनां शिष्याणमार्थावगमनिमित्तं सरलवचनप्रकारेणामुना प्रथ्यन्ते त इत्यपि भाव आविष्कृतः॥ ननु मङ्गयतेऽधिगम्यते येन हितं तन्मङ्गलं, मङ्गं धर्म लाति-समादत्त इति मगलं, मां भवात्संसारांद्वालयति-अपनयतीति मङ्गलं, मा:-सम्यग्दर्शनादिलक्ष्मीर्गलयति प्रापयतीति वा मङ्गलमितिनिरुक्तिभिर्हितप्रापकत्वधर्मप्रापकत्वसंसारापनायकत्वसम्यग्दर्शनादिप्रापकत्वरूपा- र्थानां शास्त्रमात्रेऽस्मिन् सत्त्वेन तदादौ मङ्गलकरणमनर्थकमितिवेन मयतेऽलनियते शास्त्र- मनेन, मन्यते-जायते निश्चीयते विनामावोऽनेन, मोदन्ते-शेरते विनामावेन निष्प्रकम्पतया सुता इव जायन्तेऽनेन, शास्त्रस्य वा पारं गच्छन्त्यनेन, मा मूगलो विघ्नो यस्माच्छास्त्रस्येति वा मङ्गलमिति निरुक्तिलब्धशास्त्रालङ्कारकत्वविघ्नाभावनिश्चायकत्वशास्त्रपारप्रापकत्वविघ्ननाश- कत्वरूपार्थावलम्बनतः प्रमुप्रभृतिनमस्कारप्रतिपादकश्लोकद्वयस्य मङ्गलत्वाभिधानात्, एतेन 20 शाखस्य मङ्गलस्य वाऽमङ्गलत्वसंशीतिनिरस्ता, व्युत्पत्तिभेदेनोभयत्रैव मङ्गलवाक्षतेः । तदिदं मजलं शास्त्रस्थादौ मध्ये पर्यन्ते च क्रियते, तत्रादौ मङ्गलं शास्त्रस्याविनेन पारगमनाया निर्विघ्नेन परम्परयोपागतस्य शास्त्रस्य स्थिरत्वापादनार्थ मध्ये, प्रान्ते च स्थिरीभूतस्य शिष्य- परम्परायामव्यवच्छेदनिमित्तं बोध्यम् । यद्यपि कचिन्मङ्गलाभावे विघ्नाभावद्वारा समाप्ति- ईश्यते, तथा तत्सत्वेऽपि समाप्त्यभावः । तथापि स्वतः सिद्धविघ्नविरहवता कृतस्य ग्रन्थस्य 25 समात्या मङ्गलस्य विघ्नध्वंसद्वारा समाप्ति प्रत्यहेतुत्वमेव, विघ्नात्यन्तामावादपि समाप्त्युदयेन मङ्गलस्य वैयर्थ्यांपत्तः, तत्तत्समाप्ति प्रति हेतुत्वे गौरवाचातो विघ्नध्वंसं प्रत्येव तस्य हेतुत्वं, असम्पूर्णमङ्गलघटितग्रन्थेषु च मङ्गलेन विघ्ननाशेऽपि विघ्नप्राचुर्यान्न समाप्तिः, सम्पूर्णमङ्गल- रहितग्रन्थेषु तु निर्विघ्नपरिसमाप्तिदर्शनेन वाचिकमगलाभावेऽपि मानसिकादिमङ्गलमनुमेय- मेव, कार्याकारणानुमानस्य- सर्ववादिसिद्धत्वात् । न च तत्र समाप्तिर्विघ्नभ्वंसप्रयुक्ता किन्तु 15 10 मुक्त्युपायनिरूपणम्। विनात्यन्ताभावप्रयुक्तैवेति चेन्न विनिगमनाविरहात्, न च मङ्गलादर्शनमेव विनिगमकमिति वाच्यम् । पर्वते धूमावस्यनुमानानुपपत्तेह्रयदर्शनात् । न चान्यत्र धूमसत्वेवढेष्टत्वादन सोऽनुमीयत इति वाच्यम् तुल्यत्वाद् दृश्यते ह्यन्यन्न निर्विघ्नसमाप्तिसत्त्वे मङ्गलमपि । तस्मात्सिद्धं मङ्गलस्य विघ्नध्वंसहेतुत्वमित्यन्यत्र विस्तरः ।। ननु अन्थेऽस्मिन्निरूप्यन्ते तत्वानि न्यायाश्च तत्तत्त्वज्ञानायेति तु युक्तं, परं तज्ज्ञानं कि वैषयिकसुखार्थ निर्वाणप्राप्तिलब्धाऽऽत्मसुखार्थ वेत्याशङ्कायां सर्वेषु पुरुषार्थेषु मोक्षस्यैव प्राधा- न्यतया तत्र च कृतस्यैव यत्नस्य वस्तुतः फलवत्त्वात् तदेवास्य ग्रन्थस्य तज्ज्ञानद्वारा परमं फलम् । तदुपायोपदेशस्यैव वास्तविकहितोपदेशत्वेनोपदेशरूपेऽस्मिन् अन्थे प्रथमं तदुपाय एव वक्तव्य इति मनसि निघायाऽऽह- सम्यक्श्रद्धासंविचरणानि मुक्त्युपाया। सम्यगिति । श्रद्धासंविञ्चरणानां द्वन्द्वानन्तरं सम्यगितिपदेन कर्मधारयः, द्वन्द्वादौ द्वन्द्वान्ते च श्रूयमाणपदस्य प्रत्येकमभिसम्बन्धात्सम्यक्श्रद्धासम्यक्सवित् सम्यक्चरणानां लामः । मुच्युपाया:-मुक्तरुपाया इति मुच्युपायाः नियतपुंलिङ्गोऽयमुपायशब्दः । मोक्षो- पायोद्देशेन सम्यक्श्रद्धादीनि विधीयन्ते । ननु पुरुषार्थेषु प्रधानत्वात् मोक्ष एवं प्रथम प्रदर्शनीयस्तत्कुतस्तदुपायः प्रदर्शित इति चेन्न, उपायोपदेशमन्तरेण भूतार्थकल्पस्य मोक्षो- 15 पदेशस्य वैयर्थ्यात् । विपयर्द्धिसंयोगसमुत्थस्य सुखस्य दुःखोत्तरत्वेन क्षणिकदुःखप्रतीकार- मात्रत्वेन च तदुद्वेगात्तवेतून परिजिहीर्षन्वं परमसुखानन्दनिमित्ताभिलाषुकं प्रति तदुपदेशस्यैव न्याय्यत्वाच्च । अभ्युदयहेतुधर्मार्थकामोपदेशो हि दुःखनिवृत्यार्थिनां न तदत्यन्ताभावप्रयोजक इति तस्य वस्तुतो न हितोपदेशत्वम् । ननु मुक्तिप्रसिद्धौ बदुपायोपदेशस्य युक्तियुक्तत्वेन तस्या एव निरूपणमादावुचितमितिचेन्न जिज्ञासुजिज्ञासाप्रमार्जनाशक्यत्वात् , तथा सति हि 20 मुक्त्युपायजिज्ञासोर्जिज्ञासाया निवृत्तिरकृता भवेत् । न च कथं न तेन जिज्ञासिवा मुक्तिरिति धाच्यम् , लोकस्य भिन्नरुचित्वात् कस्यापि मुक्तौ विप्रतिपत्त्यभावाच । न च वत्रापि भावा- भावादिरूपेणास्त्येव विप्रतिपत्तिवादिनामिति वाच्यम् । सर्वेषां साक्षात्परम्परया वा कृत्स्न- कर्मविप्रमोक्षास्मिकाया मुरविगानेनामिप्रेतत्वात् , न च प्रामुक्त्युपायनिर्देशाद्वन्धकारण- निर्देशो न्याय्यो बन्धपूर्वकत्वान्मुक्तरिति वाच्यम् , संसारकारागारावरुद्धस्य विना.मोक्षका- 25 रणोपदेशमाश्वासनासम्भवात् । कुतीर्थिकमणीतमोक्षकारणनिराकरणार्थत्वाचेति दिक् ।। अत एव सर्व वाक्यं सावधारणमितिन्यायेन सम्यश्रद्धासंविचरणान्येव मुक्त्युपाया इति-मूलार्थः । वन चोडेश्यविधेयभावस्य कामचारतया सम्यक् द्धादीनामुद्देश्यत्वे तत्रैव- :- न्यायप्रकाराटीकायुते तत्वन्यायविभाकरे कारयोगे सम्यक्षद्धादीन्येव मोक्षोपाया नान्य इत्यन्ययोगव्यवच्छेदस्य, विधेयेनं सह एवकारस्य च सम्बन्धे सम्यक्श्रद्धादीनि मुक्त्युपाया एवेत्ययोगव्यवच्छेदस्य च लामः । श्रद्धादौ सम्यक्त्वं यथावदवस्थितार्थपरिच्छेदित्वं, तच्च निसर्गश्रद्धायामधिगमश्रद्धायाश्च वर्तत एव, आद्यायां निमित्तान्तरनिरपेक्षतया द्वितीयायाञ्च गुर्वायुपदेशान्तरसापेक्षतयेति विशेषः । 5 श्रद्धा-आस्थारूपा दृष्टिः, सा चेन्द्रियानिन्द्रियार्थोपलब्धिः सा च सम्यग्रूपाऽव्यभिचारिणी, इदमेव तत्त्वं-परमार्थो न भवतीतर इत्येवंरूपा, नयप्रमाणविकल्पहेतुको जीवादिपदार्थयाथा- ल्यावगमः सम्यक्सवित् । अष्टविधकर्मनिवृत्ति प्रत्युद्यतस्य ज्ञानवतस्सामायिकादिसदसस्क्रिया प्रवृत्तिनिवृत्तिलक्षणं मूलोत्तरगुणशाखापशाख सम्यक्चरणम् । यस्य जीवस्य मिथ्यादर्शन- पुगलोदयस्तस्य श्रद्धासंविश्चरणानां मुक्ति प्रत्यनुपायत्वेन व्यभिचारवारणाय सम्यक्त्वं तेषां 10 विशेषणमुपाचम् । उत्तरोत्तरस्य सत्त्वे पूर्वपूर्वस्यावश्यम्भावनियमप्रकाशनाय श्रद्धासंविञ्चरणानां तथाक्रमविन्यासो विहितः । यत्र च स्वयम्बुद्धादीनां झटिति सम्यक्संविदुयस्तत्रापि निसर्ग- सम्यग्श्रद्धास्त्येवेति न तत्त्वरुचिलक्षणसम्यक् द्धाया व्यभिचारः । ननु पूर्वसत्त्वे उत्तरसत्व- स्यानियमो यथा सम्यग्दर्शनसत्त्वे स्यान्नवा सम्यक्सविदिति, तदनुचितं, अज्ञानपूर्वकश्रद्धान- प्रसङ्गात्, अविज्ञातेषु जीवादिषु श्रद्धानासम्भवेन सम्यश्रद्धाया अमावप्रसङ्गात् मिथ्याज्ञान- निवृत्तावुत्पन्नायामपि श्रद्धायां ज्ञानालाभे आत्मनो ज्ञानोपयोगाभावप्रसङ्गाचेति चेन्न यावति ज्ञाने ज्ञानमित्येतत्परिसमाप्यते तावत एवानयत्योक्तेः, उपशमक्षयोपशमक्षयात्मककारणत्रय- जन्यसम्यक्श्रद्धातः क्षयक्षयोपशमात्मककारणद्वयजन्यसम्यक्संविदो भेदोऽस्त्येव कारणभेदात्, सम्यक्श्रद्धायास्सर्वद्रव्यपर्यायविषयकत्वात् , श्रुतात्मकसम्यक्सविदश्च सर्वद्रव्यविषयकत्वे सति कतिपयपर्यायविषयकत्वादपि तयोर्मेंदः । समुदितानामेषां मुक्त्युपायत्वमिति सूचयितुं 20 द्वन्द्वसमासः कृतः । मोचनमष्टविधकर्मभ्यः पृथग्भावो मुक्ति-मुच्छ मोचन इतिधातो वे तिप्रत्ययात् । तस्या उपायाः साधनानि, सम्यक् द्धादिमिस्सामानाधिकरण्यादुपायशब्दाद् व्यक्तिबहुत्वप्रयुक्तं बहुवचनम् । ननु सम्यक्श्रद्धादिभ्य इतरविनिर्मुक्केभ्यो मुक्तिर्न भवत्येव, यथाहि भेषजे रोगापनयनार्थिनो रोगिणस्तत्र श्रद्धाया रोगापहारकत्वज्ञानस्य तदभ्यवहार- क्रियाप्रवृत्तेश्च विरहे नैव भवति रोगापनयस्तत्कथं त्रिष्वेककारणताबोधकमेकवचनं विहायो- 25 पायशब्दास्यक्तिबहुत्वप्रयुक्तं बहुवचनमङ्गीकृतं, तथा च सति प्रत्येकं कारणताप्राप्तिप्रसङ्गः स्यादिति चेत्सत्यम्, प्रोक्तमेव तथा पूर्वाचायः 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति, अत्र तु समासादेव तत्त्रात्या समस्तपदसामानाधिकरण्यानुरोधाद् बहुवचनमादृतम्, अत एवैकस्यैव सम्यग्दर्शनस्योत्पत्तौ निसर्गाधिगमयोयोहेतुत्वं मा प्रसाडीदिति मन्वानक- मास्वातिवाचकमुख्यैर्निसर्गाधिगमाभ्यामित्यनुक्त्वा 'निसर्गादधिगमाद्वा' इत्युक्तं टीकांक- . 15 5 सम्यक्त्वविचार] न्यायप्रकाशटीकायुते द्भिरपि समासाकरणस्य प्रयोजनमप्येवमेवोक्तम् । न च तथा सति 'तत्र तत्वानि जीवा- जीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षा नवेत्यादावपि समुदायस्यैव वस्वप्राप्सिर्न पुनः प्रत्येकमिति वाच्यं, प्रत्येकं तत्तापकस्य नवशब्दस्य तत्र सत्त्वात् । समुदायसमुदायिनोः कथञ्चिदमेदात् कथञ्चिद्भेदेऽपि वा प्रत्येकावृत्तेस्समुदायावृत्तित्वेन प्रत्येकमपि कारणता मभ्युपेत्य तथोक्ते, प्रत्येकं स्वरूपयोग्यतारूपकारणतासत्तादितरविरहे फलोपधायकत्वल- क्षणकारणसत्त्वप्रयुक्तकार्योत्पत्तिप्रसङ्गस्यापादयितुमशक्यत्वात् । फलोपधायकत्वलक्षणकारण- वाभिप्रायेण मोक्षमार्ग इति त्रित्वावच्छेदेनैककारणत्ववोधकैकवचनस्याहतत्वेनाविरोधात् । चरणसत्त्वे ज्ञानदर्शनयोरवश्यम्भावित्वेनानन्यथासिद्धनियतपूर्ववृत्तिचरणेनैव कार्यनिर्वाहे श्रद्धासंविदोरन्यथासिद्धिप्रसङ्गपरिहाराय प्रत्येकमपि कारणतावोधकत्वस्यावश्यकत्वात् । सम्पूर्णदर्शनस्यास्य मोक्षासाधारणकारणे रत्नत्रये तात्पर्येण वत्र गुरुत्वाभिमानेन बहुवचन- 10 स्योक्तत्वाचेति ।। ननु क्षायिकसम्यक्श्रद्धादीनामेव मुक्तिहेतुत्वं तत्कथं सम्यक्श्रद्धादीनां केवलानां मुक्त्यु- पायत्वमुच्यते अतएव हि सम्यग्दर्शनजानचारित्राणि मोक्षसाधनमित्यनुक्त्वा मोक्षमार्ग इत्यु- मास्वातिवाचकमुख्यैः सूत्रितम्, व्याख्यातच माण्यटीकाकृद्भिस्समस्तप्रत्यपायवियुतः पाटलि- पुत्रगामिमार्गवदेष त्रिविधः पन्था इति तन्न युक्तम् , एतानि समस्तानि मोक्षसाधनानीति 15 मोक्षमार्गपदस्य स्वयमेव सूत्रकृद्भिर्व्याख्यातत्वात् । साधनत्वातिरिक्तस्य मार्गपदार्थस्य वक्तु- मशक्यत्वाच , न च क्षायिकसम्यग्दर्शनाद्यतिरिक्तदर्शनादीनां व्यवहितत्वेनान्यथासिद्धत्वान साधनत्वमिति वाच्यम् । व्यवहितस्यापि कारणत्वाक्षतेः, अन्यथा कृत्स्नकर्मक्षयस्यैव कारण- त्वप्रसङ्गात् । विशेपेण सामान्यस्यान्यथा सिद्धत्वासमवाञ्च, नहि नीलदण्डेन दण्डस्यान्यथा- सिद्धत्वं कस्यापि सम्मतम् । न च कुत्स्नकर्मक्षय एव मोक्षस्तं प्रति क्षायिकसम्यक्त्वादीनाम- 30 व्यवहितत्वेन कारणत्वं, तदितरेषान्तु व्यवहितत्वेन मार्गत्वमेवेति वाच्यम् । तस्यात्मस्वभाव- रूपत्वेन स्थानत्वाभावात्सम्यग्दर्शनादीनां तं प्रति मार्गत्वेन रूपणाऽसम्भवात् । अत एव च भाष्यटीकाकृद्धिः कर्मक्षयलक्षणमोक्षपदार्थमुक्त्वाप्यथवेति कल्पान्तरावलम्बनेनेपत्ताग्भाग- धरणी मोक्षशब्देनाभिधातुमिष्टेत्युक्तमिति दिक् ।। ननु सम्यश्रद्धासंविच्चरणेषु त्रित्वावच्छेदेन कारणत्वोक्तावपि समुदायिनामज्ञाने समुदा- 25 यज्ञानाभावेन तत्र कारणताया वोधासम्भवात्तत्प्रतिपत्त्यर्थ यथोद्देशं सम्यक्श्रद्धां लक्षयति- तत्त्वेष्वास्था सम्यश्रद्धा ॥ तत्त्वेष्विति । तत्त्वेषु जीवादिपु आस्था-अभिरुचिः सम्यक्श्रद्धेयर्थः । आस्था च - तत्त्वन्यायविभाकरे [ प्रथम करणे पौरुषेयो जीवस्य शक्तिविशेषो यामासाद्यायं सम्यग्दर्शनीत्युच्यते । नतु सम्यक्त्वमोहनीय- कर्मपुद्गलद्रव्यं, आत्मपरिणामविशेषस्यैव मोक्षकारणत्वेन विवक्षितत्वात् । तत्रापनीतमिध्या- स्वभावसम्यक्त्वपुञ्जगतपुरलवेदनस्वरूपं झायोपशमिकं पौगलिकं सम्यक्त्वम् , केवलनीवपरि- णामरूपं पुञ्जत्रयस्य सर्वथा क्षयादुपशमाञ्च जातं क्षायिकमौपशमिकञ्चापौद्भलिकम् ।। 5 . . . तथा नैश्चयिकव्यावहारिकभेदेन सम्यक्त्वं द्विविधम् , तत्र यद्देशकालसंहननानुरूपं यथाशक्ति यथावत्संयमानुष्ठानरूपमविकलं मुनिवृत्तं तन्नैश्चयिकं सम्यक्त्वम्, व्यावहारिक तु न केवलं उपशमादिलिङ्गगम्यश्शुभात्मपरिणामः, किन्तु सम्यक्त्वहेतुरपि अर्हच्छासन- प्रीत्यादिः । तदपि पारम्पर्येण शुद्धचेतसामपवर्गहेतुर्मवति, एवं त्रिचतुःपञ्चदशविधमपि तद्भवतीति बोध्यम् ।। न च सम्यग्दर्शनं विहाय सम्यक्श्रद्धा कथमुक्तेति वाच्यम् । तथो- 10 तावपि श्रद्धाया एवाभिप्रेतत्वात् । न च तत्त्वपदेन न जीवादीनां ग्रहणं भाववाचित्वा- दिति वाच्यम् , भावस्य तदभिन्नत्वेनाध्यारोपाद् यथा ज्ञानमेवात्मेति । न च तहथेष्वास्थे. त्येवोच्यतामिति वाच्यं तत्त्वग्रहणमन्तरेण मिथ्यावादिप्रणीतेषु सर्वार्थेषु श्रद्धाया सम्य- श्रद्धात्वापत्तेः । तथा च तत्त्वाव्यभिचारिण्यभिरुचिः सम्यक्श्रद्धेति फलितार्थः । न चाभिरुचिरमिलाषा, सा चात्मनो बहुश्रुतत्वप्रख्यापनार्थमधीवाईतदर्शनेषु मिथ्यादृष्टिष्व- 15 प्यस्तीति वाच्यं, आत्मनः पौरुपेयशक्तिविशेषस्यैवामिरुचिपदेन विवक्षितत्वात् , अन्यथा लोभात्मिकाया अभिलाषाया क्षीणमोहकेवलिन्यभावेन तत्र सम्यक्त्वाभावप्रसङ्गात् , त- स्याश्च शक्तेः यथाईदागमं रागायनुद्रेकात् संवेगात् विपयानभिष्वगात् सर्वप्राणिषु कृपो- दयादास्तिक्यबुद्धेश्चाभिव्यज्यमानत्वात् । इयश्च शक्तिविशेषलक्षणाभिरुचिरान्तरप्रद्धेत्युच्यते, तदुपकारितया तत्प्ररूपणप्रवणसूत्रशब्दराशिरपि सम्यक्श्रद्धानमुच्यते, तदुत्पादोपकरणतया 20 च कर्मविशेषः सम्यक्त्वाख्यां लभते । इयं सर्वद्रव्यभावविषयाऽभिरुचिरूपा सम्यक्प करूपापि परोपदेशापरोपदेशरूपबाह्यनिमित्तभेदतो द्वैविध्यमभुते, उभयविधायामपि तस्थां क्षयक्षयोपशमोपशमसाखादनवेदकरूपनिमित्तभेदतश्च भेद आन्तरोऽवसेयः । तत्र परोपदेश उपलक्षकः, आगमप्रतिमादर्शनशिक्षानिमित्तादीनाम्, तथा च परसहकारेण तत्त्वाव्यमि- चारिजीवादिपदार्थाभिरुचिरधिगमसम्यक्श्रद्धा, यथाप्रवृत्त्यपूर्वानिवृत्तिकरणमात्रसहकारेण 25 तत्त्वाव्यभिचारिजीवादिपदार्थाभिरुचिनिसर्गसम्यक्श्रद्धेति च विज्ञेया॥ ननु तत्त्वेष्वास्था सम्यक्श्रद्धेत्युक्तं, तत्र कानि तत्त्वानि, येष्वमिरुचिस्सम्यक्छ्रद्धा भवेत् कियन्ति च तानि, यतस्तदियत्ताज्ञानाभावात्सम्यक्श्रद्ध श्रद्धाऽपूर्णा भवेदित्याशंकायामाह-- कमविन्यासहेतवः] न्यायप्रकाशटीकायुते तत्र तत्त्वानि जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षा नव । तत्रेति तच्छब्देन तत्त्वेष्वास्था सम्यक्श्रद्धेति वाक्यस्य परामर्शः, अल्पत्ययार्थों घटक- त्वम्, तथा च तत्त्वेवास्था सम्यक्पद्धति वाक्यघटकानि तत्त्वानि जीवादिभेदेन नवेत्यर्थः । अत्र तत्त्वशब्दस्य जीवादिभाववोधकस्य सामानाधिकरण्यानुरोधेन जीवादिषूपचरितश्वेऽपि विना मत्वर्थप्रत्यययोगमजहल्लिङ्गत्वेन नपुंसकत्वं, जीवादिषु वर्तमानत्वादेव बहुवचनान्त- 5 त्वञ्च । भाववाचकत्वेऽपि वा धर्मधर्मिणोः कथञ्चिदभेदेन तहहुत्वप्रयुक्त बहुवचनान्तत्वम् । जीवादिमोक्षान्तं यावदन्तः, तत्र कालत्रयेऽपि जीवनाजीवः, तद्विपरीतोऽजीवः, पुनाति प्रीणयत्यात्मानमिति पुण्यं पूयतेऽनेनेति वा पुण्यं सद्वेचादिकम् , तत्प्रतिद्वन्द्विरूपं पाति- रक्षत्यात्मानं शुभपरिणामादिति पापमसद्वेद्यादिकम् , येन कर्मास्रवति, आस्रवणमात्रं वाऽऽसवः, येन संवियते संरुध्यते, संरोधनमात्रं वा सवरः, यया निर्जीयते निरस्यते, निरसनमात्रं वा 10 निर्जरा, येन बध्यतेऽस्वतंत्रीक्रियते, बंधनमात्र वा वन्धः, येन मोल्यतेऽस्यते मोक्षणमात्र वा मोक्षः। एतेषां लक्षणप्रभेदादयश्चाने वक्ष्यन्ते । ननु पुण्यादयो न जीवाजीवाभ्यां पृथग्भूताः, यतः पुण्यपापबन्धाश्रवा अजीवरूपाः, संघरो निवृत्तिरूपो जीवपरिणामः, निर्जरा कर्मपार्थ- क्यापादकजीवपरिणामः शक्तिरूपः । मोक्षोऽपि समस्तकर्मक्षयरूपः, स्थानविशेषप्राप्तिरूपः, स्वस्वरूपावस्थितिरूपो वा जीवपरिणामविशेष एव । नैते जीवाजीवाभ्यामर्थान्तरभूता इति 15 कथं जीवाजीवाभ्यां द्वैविध्यं परिहत्य नवधा विभाग आहतः, मैवम् , जीवाजीवयोः परस्परो- पश्लेषात्मकसंसारस्य प्रधानहेतूनां तदुपरमस्य वा परिज्ञानाभावे प्राप्यस्य मोक्षस्य परिज्ञाना- सम्भवेन वत्परित्रापनार्थ पृथगुपादानात् । सिवसिद्धिभ्यां व्याघातेन पर्यनुयोगानुपपत्तेः । जीवाजीवाभ्यां हि पुण्यादीन्युपलभ्यार्थान्तरतया पर्यनुयोगेऽर्थान्तरत्वस्यात एव सिद्धत्वाद् व्याघाता, अनुपलभ्य पर्यनुयोगेऽनुपलम्भादेव पर्यनुयोगे व्याघात इति, पर्यायार्पणं गौणीकृत्य 20 द्रव्यार्पणप्राधान्येन जीवाजीवयोः कथञ्चिदन्तावेऽपि द्रव्यार्पणं गौणीकृत्य पर्यायार्पणप्राधान्ये तत्र तेषामन्तर्भावासम्भवेन तदपेक्षया पृथगुपादानाच्च । नन्वस्तु तेषां पार्थक्यमेवंक्रमण विन्यसने तु किं निबन्धनमिति चेदुच्यते, मोक्षशास्त्र हीदम् , तथा क्रियमाणे मोक्षोपदेशे सावधिकमोक्षशब्दश्रवणाच्छोतुराशङ्का स्वभावत एव जागृयात् कस्य कस्मात् कथं मोक्ष इति, वदपनोदनाय जीवस्य बन्धात् संवरनिर्जराभ्यां मोक्ष इति वाच्यम् । तत्र केन कथं बन्ध इति 25 जागृतेऽनुयोगेऽजीवेनाऽऽनवद्वारा वन्ध इत्यभिधानीयम् । तत्र कियन्तोऽजीवाः कि सबन्ध इति पृच्छायां, पञ्चधानीवाः, पुण्यपापात्मकपुरलविशेषैरेव बन्ध इचि समाहिते सामान्यतो बन्धमोक्षकारणेषु हेयोपादेयत्वबुद्धिः सुलभतया स्यादतो मुक्त्याश्रयत्वेन प्राधान्याजीवस्य १. हैमशब्दानुशासने तु (सप्तम्या ७।३।१४) इत्यनेन त्रम् ।

- :१२: तत्त्वन्यायविमाकरे [प्रथमकिरणे ततस्तद्विरुद्धस्याजीवस्य ततो मुक्तिप्रतिद्वन्द्विवन्धकारणत्वेन पुण्यपापाश्रवाणां मुक्तिकारणत्वेन संवरनिर्जरयोस्ततो मुक्तिप्रतिद्वन्द्विनो वन्धस्य ततः परिशेषान्मोक्षस्य निर्देश इति क्रमविन्या- सहेतवो वोध्याः । यद्वा जीवसंश्लिष्टकृत्वकर्मणां क्षयो हि मोक्षः, सोऽग्यात्मपरिणामविशेष एवेति प्राधान्यान्जीवस्य, कर्मणामजीवविशेपत्वेन तत्सामान्यज्ञानार्थमजीवस्य, पापात्मकस्यैव 5 कर्मणो विनाशे न मोक्षोऽपि तु पुण्यात्मकस्यापीति दर्शयितुमभ्यहित पूर्वमितिन्यायेन च ततः पुण्यपापे, पुण्यपापयोः कथं संश्लेपः कथं वा विनाश इति शंकासमाधानाय तत आस्रवस्तत आगच्छत्कर्मनिरोधपूर्वकागतकर्मपरिशाटनस्य सुकरत्वात् संवरनिर्जरे, ततश्च प्रतियोगितया कर्मसंश्लेषरूपबन्धस्य ततः परिशिष्टस्य मोक्षस्य निर्देश इति क्रमे सम्बन्धो विज्ञेयः । ननु द्वन्द्वोत्तरवहुवचनादेव तद्भटकपदार्थमात्रवृत्तिसंख्याया वोधसम्भवेन नवत्वप्राप्तौ नवग्रहणं न 10 कर्त्तव्यमितिचेद्युक्तमेतत्तथापि प्राधान्येनैकैकस्मिन् तत्त्वस्य प्रख्यापनाय तद्रहणमन्यथा समुदाय एव तत्त्वप्राप्तिशा स्यात् । आनुकूल्यप्रातिकूल्याभ्यामेवानि नवैव तत्त्वानि मोक्षोपयोगीनीति सूचयितुं वा तद्ग्रहणम् ॥ ननु पुण्यपापयोः कर्मलक्षणयोः पुदलात्मकतयाऽजीवेऽन्तर्भाव- सम्भवेन सप्तैव तत्त्वानीति चेन्मैव, शुद्धपुद्गलानां पुण्यपापरूपत्वाभावात् किन्तु जीवेनाध्यव- सायविशेषेण परिगृह्य कर्मत्वेन परिणमय्य चात्मसात्कृतानामेव, यावता न ते जीवेन परिगृह्यन्ते 15 तावन्तं कालं ते पुद्गला एव न कर्मरूपा, अपि तु कर्मप्रायोग्या इति सूचयितुं पृथगुल्लेखात्॥ अथ सम्यक् द्धाविषयीभूततत्त्वानामवान्तरप्रभेदानां बहुत्वात्तेषां सौलभ्येन बोधार्थ तत्त- तत्त्वनिरूपणावसरे वझेदाननुक्त्वाऽत्रैव सामान्यतोऽवान्तरवस्तुनिर्देशात्मकमुद्देशमारचयति- जीवा अनन्ताः। जीवा इति । यद्यपि जीवानां सङ्ग्रहप्रकारभेदा अग्रे वक्ष्यन्ते तथापि तेषां संख्याया 20 इयत्ता नास्ति न भवन्त्यसंख्याता अपीत्यभिप्रायेणानन्ता इत्युक्तम् ।। अथाजीवान् विमजते- धर्माधर्माकाशकालपुद्गलाः पश्चाजीवाः । धर्माधर्मेति । धर्मादयस्स्वप्रवचनप्रसिद्धा रूढसंज्ञा त्रेया:, यद्वा स्वतो गतिक्रियापरि- णतानां साचिव्याधानाद्धर्मः । तद्विपरीवोऽधर्मः। यस्मिन्नाकाशन्ते स्वैः स्वैः पर्यायव्याणी- 25 त्याकाश, स्वयं वाऽऽसमन्तात्काशत इत्याकाणं, परेपामवकाशदानाद्वाऽऽकाशं, मूर्चानामुप- चयानपचयांश्च कलयदि प्रकाशयतीति कालः, पूरणगलनक्रियांवत्त्वात् पुला इति क्रियानि- मित्तास्संना वोध्याः, एषां द्वन्द्व इतरेतरयोगलक्षणः, न समाहारस्समुदायस्य प्राधान्यापत्तेः।

. साधर्म्यनिरूपणम् ] न्यायप्रकाशसमलते :१३: प्रशस्तामिधानाद्धर्मस्यादौ मोक्षपूर्गमनोपकारित्वाद्वा, तत्प्रतिपक्षित्वे सति स्थिनिकारणत्वादध- मस्स तदनन्तरं, ततस्ताभ्यां परिच्छेद्यत्वात् सर्वांधारत्वाचाकाशस्य, एमिरमूर्तत्वेन साधाचतः कालस्य, सन्निमित्तकनानापरिणामवत्त्वादमूर्तप्रतिपक्षित्वाच ततः पुगलस्य ग्रहणं बोध्यम् | न्यूनाधिकसंख्याव्यवच्छेदार्थ प्रत्येकमजीवत्वद्योतनार्थ, धर्मादयो गत्याधुप- ग्रहान् प्रति वर्तमानास्वयमेव तथा परिणमन्ते न परप्रत्ययाधीना तेपा प्रवृत्तिरिति स्वातन्त्र्यं । प्रकटयितुं च पञ्चेत्युकम् । अजीवा इति । न जीवा अजीवाः, 'नयुक्तमिवयुक्तञ्च पदमन्यसदृशाधिकरणे वर्चत' इति न्यायेन भावान्तर एवाजीवशब्दो नाभावमाने वर्तते, यथाऽनश्वशब्दो गर्दमे वर्तते । भावान्तरानात्मकस्याभावमात्रस्याप्रसिद्धत्वाच ।। नन्वनश्वशब्दस्य गर्दमे स्थितियुक्ता, जीवत्वसदृशोदरैकशफादिलक्षणसादृश्यसत्त्वाद् हूस्वकर्णादितुरगविशेपलक्षणापेक्षया च प्रतिषेधात् । धर्मादौ तु तथाविधसादृश्याभावाची- 10 वासाधारणचैतन्यशून्यत्वमात्रेऽजीवशब्दो वर्तत इत्याशंकायां साधर्म्यधर्मप्रतिपादनद्वारा सामान्यविशेषात्मकत्वमपि जीवादीनां प्रदर्शयितुमाह- जीवेन सहैतान्येव षड् द्रव्याणि । जीवेनेति । तथा चैपामस्ति सादृश्य, जीवेन सह द्रव्यत्वं हि सर्वेषां समानो धर्मः, न चात्र द्रव्यत्वमपि प्रतिषेध्यम् , तथा सति गगनकुसुमायमानत्वं धर्मादीनां स्यात् न चैतदिष्ट, 15 जीवासाधारणधर्मप्रविपेघस्यैवामिमतत्त्वात्, तथा च जीवादीनां द्रव्यमिति सामान्यसंज्ञा, विशेषसंज्ञा च जीवो धर्मोऽधर्म इत्यादिरूपेति भावः । एतानीति, धर्मादय इति भावः, विधेयप्राधान्यासुदलशब्दस्य त्रिलिङ्गत्वाद्वा नपुंसकनिर्देशः। एवशब्दो भिन्नक्रमो द्रव्येयत्ता- बोधकषट्पदेन सम्बद्ध्यते, तथा चैतानि षडेवेत्यर्थः । एतानि षडेव किमात्मकानीत्यत आह द्रव्याणीति । बाह्याभ्यन्तरनिमित्तकोत्पादविगमैः स्वपर्यायै यन्ते गम्यन्ते तांस्तान् पर्यायान् 20 वा द्रवन्ति गच्छन्तीति न्याणि, वाह्यं निमित्तं द्रव्यक्षेत्रकालमावलक्षणं, आभ्यन्वरच स्वपरिणामविशेषः, तावेतौ मिलित्वोत्पादविगमयोर्हेतू भवतः नत्वन्यतरापाये, तथा चैवानि पर्यायवणाद्व्याणि न तु द्रव्यत्वसम्बन्धात्, द्रव्यत्वसम्बन्धात्पूर्वमेषामन्यत्वापत्तेः, न हि दण्डसम्बन्धात् प्राग देवदत्तो दण्ड्यासीत् । किन्तु यदा दण्डसम्बन्धस्वदैव । न च तथा प्रकृते द्रव्यताऽमिमता प्रारद्रव्यत्वसम्बन्धात् , अभिमतत्वे वा तत्सम्बन्धाऽऽनर्थक्यमेव। 25 यद्वा जातिः अब्दार्थ इत्यभ्युपगन्तद्रव्यास्तिकनयाभिप्रायेण द्रव्यत्वनिमित्ता द्रव्यसनैतेषां भवतु, तच द्रव्यत्वं वस्तुतः कथचिद्भिन्नाभिन्नमिति न कोऽपि दोषः। एवशब्दस्य द्रव्या- णीत्यनेनापि सम्बन्धः, तथा च जीवादीनि पट् द्रव्याण्येवेत्यपि लामेन धर्मादिपु द्रव्यत्वा- ।

20 तत्त्वन्यायविभाकरे [ प्रथमकिरणे योगस्य व्यावृत्तिरिति । एतेन च जीवादीनां द्रव्यत्वं सामान्यविशेषात्मकत्वमुत्पादव्ययधौ- व्यात्मकत्वं गुणपर्यायवत्त्वं तत्वञ्च साधयं लभ्यत इति भावः ।। ननु षडिति पदेनैवकारं संयोज्य षडेव द्रव्याणीत्युक्तम् , तन्न युक्तं नैयायिकादिमिः पृथिवीजलतेजोवायुदिङ्मनसां द्रव्यतया गुणकर्मसामान्यविशेषसमवायाभावानाञ्च पदार्थ- तयाऽभ्युपगतानां सत्त्वादित्याशङ्कायामाह- दर्शनान्तराभिमतपदार्थानामत्रैवान्तर्भावः । दर्शनान्तरामिमतेति। नैयायिकादीनां दर्शनान्तरेषु वैरभ्युपगतानां पृथिव्यादिपदार्थानां षट्स्वेतेष्वेवान्तर्भाव इत्यर्थः, तथाहिं पुद्गला विचित्रशक्तिमन्तस्तथा च शक्तिवैचित्र्येण परिणामवैचित्र्यात्पृथिवीजलतेजोवायुरूपेण परिणमन्त इति सर्वथा तेषां विभिन्नजातीयत्त्वे 10 मानाभाव एव, तथा दिगपि नास्त्यतिरिक्ता रुचकप्रदेशावधिकविशिष्टाकाशप्रदेशः सूर्योदया- द्याश्रयेणाकाशप्रदेशैवा प्राच्यादिव्यवहारोपपत्तेः । द्रव्यमनसोऽपि चक्षुरादिवत्युद्गलविशेषा- त्मकत्वमेव । अथ गुणादीनपि पराभ्युपगतानन्तर्भावयति- गुणपर्यायसामान्यविशेषादयष्षद्स्वेव सङ्गच्छन्ते । गुणेति । गुणो रूपादिः । पर्यायः कर्म क्रममावित्वात् । आदिना समवायाभावयोः- 15 हणम् । तथा च गुणकर्मसामान्यानि द्रव्यस्य पर्याया एव | विशेषस्त्वप्रामाणिक एव । समवायस्तु नास्त्येव, कथञ्चिचादात्म्यलक्षणसम्बन्धेनैव गुणादिविशिष्टबुद्धथुपपत्तेः । अभा- वोऽपि नाधिकरणाव्यात् सर्वथा मिना, ताहशे प्रमाणाभावात् , एवञ्च षडेव द्रव्याणि नाधिकानि नवा न्यूनानीति भावः ।। नन्वेवमपि षडेव द्रव्याणीत्यनुपपन्नं तेभ्यो मिन्नानां पुण्यपापादीनां सत्त्वात् , उक्तं हि पूर्व 20 'वत्र तत्वानि जीवाजीवपुण्यपापासवसंवरनिर्जराबन्धमोक्षा नवे' ति इत्याशङ्कायामाह- पुण्यादितत्स्वानामप्ययमेव न्यायः । पुण्यादितथानामपीति । अयमेव न्याय इवि, उक्तदिशा पटसु द्रव्येष्वेवान्तर्भावः करणीय इति भावः, पंक्तिरेषा व्याख्यातप्रायैव । स्वयं मूलकारोऽन्तर्भावमभिधत्ते- तत्र पुण्यपापाश्रवबन्धानां पुदलपरिणामत्वात्पुद्गलेषु, संवरनिर्जरा- मोक्षाणां जीवपरिणामत्त्वाजीवेष्वन्तर्भावः । - 25 5 साधयनिरूपणम् ] न्यायप्रकाशसमलङ्कते तत्रेति । आस्रवो हि नैकरूपः किन्तु कर्मप्रापकक्रियाविशेषोऽभ्यवसायविशेषो वा स्यात् पत्र मूर्तस्यैवात्मनः क्रियावत्त्वाक्रियाया मूर्तात्मकपुद्गलरूपत्वं, तक्रियाप्रयोजकाभ्यवसा- यविशेषत्वे तु जीवपरिणामात्मकतया जीवात्मकत्वं, बन्धस्योपश्लिष्टकर्मरूपत्वात्पौगलिक- त्वमिति भावः ॥ अथ कालं विहाय पचानां साधर्म्यमाह- कालं विहाय पञ्चास्तिकाया भवन्ति । कालमिति । अनागस्यानुत्पत्तेरुत्पन्नस्य च नाशात्प्रदेशप्रचयाभावेन कालेऽस्तिकायता नास्तीत्यभिप्रायेणाह काले बिहायेति । कायो हि समुदायः, मनुष्यलोकव्यापी कालस्त्वे- कसमयात्मकत्वेनैकोऽतो न तस्य कायरूपत्वमिति भावः। पञ्चेति, जीवधर्माधर्माकाशपुरला इत्यर्थः । अस्तिकाया इति, सकलजीवादिद्रव्यप्रौव्यप्रतिपादकोऽव्ययोऽस्तिशब्दः । आपत्ति- 10 वाचकः कायशब्दः, आपत्तिर्नामाविर्भावतिरोभावो, उत्पादविनाशाविति यावत् । एवञ्चो- त्पादव्ययधौव्यात्मका इत्यर्थः । ननु पुद्रलानामुत्पादव्ययवत्त्वसंभवेऽपि जीवादीनां कथं तदिति चेन्न जीवस्योत्पादविनाशिशरीरसम्बन्धादुत्पादविनाशवत्वात् अनित्यज्ञानादिमत्त्वावा, धर्मादीनामपि तत्तद्गत्यायुपग्रहव्यापाराणां जिगमिषुचैत्रादिनिमित्तत आविर्भूतानां समुपरत- गत्यादिव्यापारे च चैत्रादिके विरोहितानाञ्च सम्बन्धेनोत्पादविनाशवत्त्वात् । न च मनुष्य- 15 लोकान्तर्वर्तिनः कालस्यैकसमयात्मकत्वात्परमसूक्ष्मत्वानिर्विभागत्वाच न कायवा, अत एव नोत्पादविनाशित्वं, उत्पादविनाशाविनाभूतश्च प्रौव्यं तदभावात् ध्रौव्यमपि न भवेदेवेति समयात्मकः कालो बन्ध्यापुत्रवदसन्नेव स्यादिति वाच्यम्, यत्कायशब्देनोच्यते तदेवोत्पाद- विनाशवदिति नियमाभावात् । किन्तु स्वरससिद्धयोरेवोत्पादविनाशयोः कायशब्देन प्रका- शनात् । नहि शब्दसामर्थ्यादभूतयोरपि तयोः कल्पना समुचिता, तथा च कायशब्दप्रयोगा- 20 भावेऽपि स्वारसिकोत्सादविनाशौ तत्सहचरितं प्रौव्यश्च कालेऽप्यस्त्येवेति न दोपः। न चैवमपि कुतो न काले कायशब्दः प्रयुज्यत इति वाच्यम् । प्रदेशानामबयवानां वा वहुत्वाभावात् । अभ्यन्तरीकृतेवार्थो हि कायशब्दा, काया इव काया इति, ययौदारिकाशिरीरनामकों- दयवशात्सुरलैब्धीयन्ते इति कायाः तथा धर्मादीनामनादिपारिणामिकप्रदेशचयनात् कायत्वम्। तथा च प्रचीयमानाकारत्वं कायशब्दार्थः, स च समुदायरूपः, सोऽपि विभागे सति भवति, 25 विभक्ताश्च धर्मादिद्रव्यप्रदेशाः, एकस्मिन्धर्मादिप्रदेशेऽपरस्य धर्मादिप्रदेशस्याप्रतिष्ठितत्वात् । तथा प्रबिमक्तप्रदेशानां परस्पराविच्छेदरूपत्वात्समुदायरूपत्वमेतादृशश्च प्रचीयमानाकारत्वं काले नास्तीति दिन्। एवञ्च कालातिरिक्तानां प्रदेशावयववहुत्वं साधय फलितं, न चैकस्मिन् तत्त्वन्यायविभाकरे [प्रथमकिरणे परमाणौ अवयवबहुत्वमव्यासमिति वाच्यम् प्रदेशावयवबहुत्वसमानाधिकरणद्रव्यत्वव्याप्यधर्म- वत्त्वस्य- तदर्थत्वात् , तादृशो धर्मः पुदलत्वं परमाणवपीति नाव्याप्तिः, कालेऽतिव्याप्ति- वारणाय बहुत्वान्तम् । पर्यायार्थिकनयप्राधान्येनायमर्थ आहतः, वस्तुतस्तु तस्य द्रव्यावय- वैर्निरवयवत्वेऽपि ' एकरसगन्धवर्णो विस्पर्शश्चाणुर्भवतीति स्वशास्त्रप्रसिद्ध्या भावावयवै- 5 स्सावयवत्वमक्षतमेव । एवं जीवादीनां पञ्चानां अरूपित्वममूर्तत्वं, धर्मादिचतुर्णामेकद्रव्यत्वं निष्क्रियत्वं जीवादीनां त्रयाणां लोकाकाशस्य चासंख्येयप्रदेशत्वं, संख्येयासंख्येयानन्तान्यतमप्र- देशत्वं पुद्रलाना, जीवपुद्रलानान्त्वनेकद्रव्यत्वं क्रियावत्वं च साधर्म्य विज्ञेयमिति दिक् ।। अथ पुण्यस्य प्रभेदामाह- पुण्यस्य तु सांतोच्चैर्गोत्रमनुष्यद्विकसुरद्विकपश्चेन्द्रियजातिपञ्चदेहा- 10 दिमत्रितनूपाङ्गादिमसंहननसंस्थानप्रशस्तवर्णचतुष्कागुरुलघुपराघातोच्छ- वासातपोधोतशुभखगतिनिर्माणत्रसदशकसुरनरतिर्यगायुस्तीर्थकरनाम- कर्मरूपेण द्विचत्वारिंशद्भेदाः। पुण्यस्येति । शारीरमानसानेकविधसुखपरिणामप्रापकं सात वेदनीयकर्मोत्तरप्रकृतीदम् । लोकपूजितकुलप्रसवनिदानं कर्मोच्चैर्गोत्रं गोत्रकर्मोचरभेदः, मनुष्यद्विकं मनुष्यगतिमनुष्या- 15 नुपूर्वीरुपमेवमेवसुरद्विकमपि । अयमात्मा पञ्चेन्द्रिय इति व्यवहारनिमित्तं कर्म पञ्चेन्द्रिय- जातिः । पञ्चदेहा औदारिकवैक्रियाहारकतैजसकामणरूपाः । आदिमानां तिसृणामौदारिकवै- क्रियाहारकाणां तनूनामङ्गोपाङ्गानि शिरःप्रभृतीन्यङ्गुल्यादीनि च तन्निवर्तककर्माण्यादिमत्रि- तनूपानानि । आदिमसंहननसस्थाने, अस्थिवन्धनविशेषप्रयोजक कर्म संहननं, आदिमसंहननं वर्षभनाराचसंज्ञ, शरीराकृतिनिर्वृत्तिप्रयोजककर्म सस्थानं, आदिमसंस्थानं समचतुरस्रनामे- 20 त्यर्थः । प्रशस्तवर्णचतुष्क, शुक्लरक्तपीताः प्रशस्तवर्णाः, प्रशस्तो गन्धसुरमिः, कषायाम्ल- मधुराः प्रशस्तरसाः, मृदुलघुस्निग्धोष्णाः प्रशस्तस्पा एषां लामप्रयोजकानि कर्माणि चत्वारि प्रशस्तवर्णचतुष्कपदमाह्याणि । शरीराणामगुरुलघुत्त्वपरिणामनियामकं कर्मागुरुलघु । परत्रा- सादिजनक कर्म पराघातं, उच्छ्सनप्राप्तिहेतुरुच्छवासः । उष्णप्रकाशप्रापर्क कर्मातपं, अनुष्ण- प्रकाशप्रापकं कर्मोद्योतं, शुभान्तरिक्षगमनहेतुः कर्म शुभखगतिः, अङ्गोपाङ्गादिप्रतिनियत- 25 स्थानवृत्तिताप्रयोजकं कर्म निर्माण, प्रसबादरपर्याप्तप्रत्येकस्थिरशुभसौभाग्यसुस्वरादेययश:- कीर्तिरूपाणि दश कर्माणि सदशकपदग्राह्याणि, सुराश्च नराश्च तिर्यबश्च सुरनरतियश्चस्ते- षामायूंषि, तत्प्रयोजककर्माण्यन सुरनरतिर्यगायूंपि। धर्मतीर्थप्रवर्तयितृपदप्रापकं कर्म तीर्थकर- एषां द्वन्द्वस्वतः कर्मपदेन कर्मधारयः, ताशकर्माणि रूपं स्वरूपं यस्य पुण्यस्य तचार- । नाम, - परभेदाः] न्यायप्रकाशलमलते शकर्मरूपं तेन पुण्यस्य द्विचत्वारिंशद्धदात्मकत्वमिति भावः ॥ तत्र सातोच्चोंत्रवर्जानि पुरनरतिर्यगायुर्वनानि च शेपाणि कर्माणि नामप्रकृतयः, सातोश्चर्गोत्रे वेदनीयगोत्रकर्मणोरु- त्तरप्रकृती, सुरनरतिर्यगायूंषि आयुषः प्रकृतयो बोध्याः ॥ एतहिं पापस्य प्रभेदानाह- ज्ञानान्तरायदशकदर्शनावरणीयनवकनीचैर्गोत्रासातमिथ्यात्वस्थाव. 5 रदशकनिरयत्रिककषायपञ्चविंशतितिर्यद्विकैकद्वित्रिचतुर्जातिकुखगत्युप- घाताप्रशस्तवर्णचतुष्काप्रथमसंहननसंस्थानभेदात् द्वयशीतिविधं पापम्॥ ज्ञानान्तरायेति । बानानि चान्तरायाश्च ज्ञानान्तरायास्तेपां दशकं, ज्ञानानि विशेष- विषयबोधात्मकानि मत्यादिरूपतः पञ्चविधानि, कर्मप्रस्तावाञानपदेन तदावरणानां ग्रहणं, तथा च पञ्चविधानि ज्ञानावरणानि, दानलामभोगोपभोगवीर्याणां प्रत्यूहविधायकानि पश्चा- 10 न्तरायकर्माणि, तस्माद्दशविधत्वं बोध्यम् । दर्शनावरणीयनवक, दर्शनं सामान्योपलम्भः, तस्या- वरणमावारक, वञ्च द्विविधं दर्शनलब्धेर्दर्शनोपयोगस्य चावरणभेदात् , तत्राद्यं चतुर्विधं चक्षुर- चक्षुरवधिकेवलदर्शनावरणभेदात् द्वितीयन्तु पञ्चविधं निहानिद्रानिद्रामचलाप्रचलाप्रचलास्त्या- नर्द्धिरूपेण, उभयमपि मिलित्वा दर्शनावरणीयनवकमुच्यते । नीचैर्गोत्रं गर्हितकुलप्रभवप्रयोजक कर्म, असातं विशिष्टदुःखप्रयोजक कर्म, तत्त्वार्थश्रद्धानविपर्ययप्रयोजक कर्म मिथ्यात्वं स्थावर 15 दशकं स्थावरसूक्ष्मापर्याप्तसाधारणास्थिराशुभदुर्भगदुस्स्वरानादेयायश कीर्तिप्रयोजककात्मकं, निरयत्रिकं नरकगतिनरकायुर्नरकानुपूर्वीप्रयोजककर्मलक्षणं, कपायपञ्चविंशतिः, क्रोधमान- मायालोमाः कपायास्ते प्रत्येकमनन्तानुवन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनप्रभेदतप्पोडश- विधाः । हास्यरत्यरतिशोकमयजुगुप्सापुरुपवेदनीवेदनपुंसकवेदमेदतो नव नोकपाया ईपत्क- पायरूपत्वेनोभयसंमेलनतः कपायाणां पञ्चविंशतिर्भवति । तिर्यग्द्विकं तिर्यग्गवितिर्यगानुपूर्वी- 20 प्रयोजककर्मद्वयं, एकद्वित्रिचतुर्जातयः-एकेन्द्रियजातिद्वीन्द्रियजातित्रीन्द्रियजातिचतुरिन्द्रिय- जातिरूपाः, कुखगतिः कुत्सिताम्बरगमनप्रयोजक कर्म, उपघातं स्वावयवैस्वपीडाप्रयोजक कर्म, अप्रशस्ववर्णचतुष्कं नीलकृष्णाषप्रशस्तवर्णी, दुरभिरप्रगस्तगन्धः, तिक्तकटू अप्रगस्त- रसौ, कठिनगुरुरूक्षशीना अप्रशस्तस्पर्शाः, एपामुदयप्रयोजककर्मचतुष्टयं, अप्रथमसंहनन- संस्थानानि ऋपभनाराचनाराचार्धनाराचकीलिकासेवार्तलक्षणवन्धविशेपप्रयोजककर्माण्य- 25 प्रथमसंहननानि, न्यग्रोधपरिमण्डलसादिकुञ्जवामनहुण्डनिदानकर्माण्यप्रथमसंस्थानानि । एपो द्वन्द्वस्ततस्वान्येव भेदस्तस्मादिति समासः । तत्र मानारणीयपञ्चकं ज्ञानावरणीयस्यान्त- ३ तत्त्वन्यायविभाकरे [प्रथमकिरणे रायपञ्चकमन्तरायस्य, दर्शनावरणीयनवकं दर्शनावरणीयस्य, मिथ्यात्वकषायपञ्चविंशतिरूपाः षड्विंशतिविधा मोहनीयस्य प्रकृतयः । नरकायुरायुषो नीचर्गोत्रं गोत्रस्यासात वेदनीयस्य प्रकृतिः । शेषाणि नरकगत्यानुपूर्वीतियांगत्यानुपूर्येकद्वित्रिचतुरिन्द्रियजात्यप्रथमसंहननप- अवकाप्रथमसस्थानपञ्चकाप्रशस्तवर्णचतुष्कोपघातकुखगतिस्थावरदशकानि चतुस्त्रिंशन्नामप्रक- 5 तयो विज्ञेयाः॥ साम्प्रतमाश्रय विमजते- आश्रवस्तु इन्द्रियपञ्चककषायचतुष्काव्रतपञ्चकयोगत्रिकक्रियापञ्चविं- शतिभेदात् द्वाचत्वारिंशद्विधः। आश्रवस्त्विति । कायवादमनसां क्रियाविशेषो योगापरपर्याय आत्मकायाद्याश्रय 10 आश्रव उच्यते, स च यद्यपि सकषायस्याकषायस्य च भवति तथाप्यत्र सकषायस्यैवाश्रवं विभजते, स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपमिन्द्रियपञ्चकं, क्रोधमानमायालोमरूपं कपायचतुष्क, हिंसाऽसत्यस्तेयाब्रह्मपरिप्रहरूपमव्रतपश्चक, कायवाड्मनोरूपं योगत्रिकं, कायिक्यधिकरणिकी प्रादोपिकीपारितापनिकीप्राणातिपातिक्यारंभिकीपारिग्रहिकीमायाप्रत्ययिकीमिथ्यादर्शनप्रत्ययि- क्यप्रत्याख्यानिकीदृष्टिकीस्पृष्टिकीपातीत्यकीसामन्तोपनिपातिकीनःशस्त्रिकीखाहस्तिक्यानाप- 15 निकीविदारणिक्यनामोगप्रत्ययिक्यनवकांक्षप्रत्ययिकीप्रायोगिकीसामुदायिकीप्रेमप्रत्ययिकीद्वेष- प्रत्ययिकीर्यापथिकीरूपाः क्रियापञ्चविशतिः, एषां द्वन्द्व एता एव भेदो विशेषस्तस्मादित्यर्थः । यद्यपि योगेन्द्रियकषायावतानां सकपायसम्बन्धिनां क्रियास्वभावानतिवृत्तेः क्रियामात्रमे- वासवः प्रसक्तस्तथापि तेपां द्रव्यास्रवत्वं शुभाशुमानवपरिणामाभिमुखत्वात्, भावासवस्तु कर्मादानं, तच्च पञ्चविंशतिक्रियाभिरिति तेषां पृथग्रहणं, तत्रावतपञ्चकं सकलास्रवजालमूलं, 20 तत्प्रवृत्तावेवास्रवेषु प्रवृत्तिस्तन्निवृत्तौ च सर्वानवेभ्यो निवृत्ति., अत्र कषायचतुष्क सहकारि, उभयोरनयोः सत्त्वे इन्द्रियपञ्चकमास्रवेषु प्रवर्तते तदनन्तरश्च पञ्चविंशतिक्रिया आनषकारणिकाः प्रवर्तन्ते, सर्वत्र च कायवाश्मनोयोगस्सहकारी भवति । तथा च क्रिया- पञ्चविंशतिः नैमित्तिकी, इतराणि तु निमित्तानि यथा स्पर्शनेन्द्रिय कारणं स्पर्शनक्रिया कार्य तस्मिन् सति स्पृष्टिकी क्रिया, मूर्छा कारणं परिग्रहः कार्य वस्मिन् सति पारिग्रहिकी 25 क्रिया, क्रोधः कारणं प्रदोषः कार्य तस्मिन् सति प्रादोषिकी क्रिया, मानः कारण- मप्रणतिः कार्य तस्मिन् सति प्रातीत्यकी किया, कारणं माया कार्य कौटिल्यं तस्मिन् सति मायाप्रत्ययिकी क्रिया, प्राणातिपातः कारणं कार्य प्राणातिपातिकी क्रिया इत्येवं यथासंभवं निमित्तनैमित्तिकभावो विज्ञेयः ।।

-- निर्जराविमाग.] न्यायप्रकाशतमलते। :१९: इदानी संवरभेदानाह- पञ्चसमितित्रिगुप्तिद्वाविंशतिपरीषहदशयतिधर्मद्वादशभावना- पञ्चचारित्रभेदात्संवरस्सप्तपश्चाशद्विधः । पञ्चेति । ई-भाषैषणाऽऽदाननिक्षेपोत्सर्गरूपाः पञ्चसमितयः। कायवाइमनोनिग्रहात्मि- कात्रिगुप्तयः । क्षुत्पिपासाशीतोष्णदंशावत्रारतिवनिताचर्यानैपेधिकशय्याऽऽक्रोशवधयाच. । नाऽलाभरोगतृणस्पर्शमलसत्कारप्रज्ञाऽज्ञानसम्यक्त्वरूपा द्वाविंशतिपरीषहाः । क्षान्तिमार्दवा- जवनिर्लोमतातपःसंयमसत्यशौचाकिनन्यब्रह्मचर्यरूपा दश यतिधर्माः । अनित्याशरणसंसारै- कत्वान्यत्वाशुचित्वानवसंवरनिर्जरालोकस्वभावबोधिदुर्लभधर्मस्वाख्यातरूपा द्वादश भावनाः। सामायिकछेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसंपराययथाख्यातरूपाणि पश्च चारित्राणि, एपा द्वन्द्व एतान्येव मेदः प्रकारस्तस्मात् । संवरः पूर्वोदिताऽऽसवस्य निरोधः, शुभाशुभकर्मप्रह- 10 महेत्वात्मपरिणामाभाव इति यावत् । अर्थोऽयं संवरण संवर इति व्युत्पत्त्या विज्ञेयः । संब्रियते कर्मानेनेति व्युत्पत्या तु संवरसमित्यादयः । समित्यादिभिर्हि कर्म संबियते, तथा च शुभाशुभकर्मादानाभावे समित्यादयः करणमिति तात्पर्यम् ।। अधुना निर्जरां विभनते- बाह्याभ्यन्तरषट्करूपतपोभेदेन द्वादशमकारा निर्जरा। बाह्येति । तपो हि द्विविधं वाह्यमाभ्यन्तरश्चेति, तत्रानशनोनोदरिकावृत्तिसंक्षेपरस- यागकायक्लेशसलीनतारूपं पविध बाह्यं तपः । प्रायश्चित्तविनयवैयावृत्त्यस्वाभ्यायध्यानोत्सर्ग- रूपञ्च षड्विधमाभ्यन्तरं मिलित्वा च द्वादशप्रकाणि वांसि, एतान्येव च निर्जराशब्दवा- च्यानीति तस्या अपि द्वादशाविधत्वं, यद्यपि बाह्याभ्यन्तररूपाणि तपांसि कर्मादानामावा- त्मकसंवरकरणेष्वन्तर्गतानि, वस्मादेषामेव निर्जरात्वे संवरैकदेशो निर्बरेवि स्यात्तथा च 20 संवरवन्नेदं प्रधानं तस्वमिति नवत्वव्याघातस्तथापि कर्मसलिप्टेनात्मना कर्मादानानिवृत्तेनेव संश्लिष्टकर्महीनेनापि भवितव्यमेवान्यथा बन्धविनिर्मुक्तिस्तस्य न भवेदेव, ततश्च संश्लिष्टकर्म- प्रहाणमप्यावश्यकमतस्तदपि तत्त्वमेव, तदेव च निर्जरा वस्या उपायोऽवश्यं विधेयः, स चोपायस्तप एव, तस्य त्वागच्छत्कर्मनिरोघे संश्लिष्टकर्मप्रहाणे च सामर्थ्यादुमयाङ्गतया कीर्तन- मिति न कोऽपि दोषः॥ 15 . 25 सम्प्रति बन्धं विमजते- १. अत्र कर्मव्युत्पत्या क्षुधादीनां परीपहत्वमुक्तमेतत्तत्वमने वक्ष्यते । २. प्रधानतयेत्यादि ।

:२० । तत्त्वन्यायविमाकरे [द्वितीयकिरणे प्रकृतिस्थितिरसप्रदेशभेदाचतुर्विधो बन्धः । प्रकृतीति । जीवप्रदेशकर्मपुद्गलानां क्षीरोदकवत्सरस्पराश्लेषो बन्धः । बन्धन बन्धोऽस्व- तंत्रीकरणं, तचोभयोरपि पुद्गलात्मनोरिति क्रियाक्रियावतोः कथञ्चिदभेदात् ज्ञानदर्शनाव- रणवेदनीयमोहनीयाऽऽयुष्कनामगोत्रान्तरायात्मकाष्टविधाः प्रकृतयो बन्धपदवाच्या मवन्ति । 5 अथवाऽष्टविधकर्मजन्यास्स्वभावाः प्रकृतयः, यथा ज्ञानावरणीयस्यार्थानवगमो, दर्शनावरणीय- स्यार्थानालोचनं, वेदनीयस्य सुखदुःख सवेदन, तत्त्वार्थाश्रद्धानासंयमौ मोहनीयस्य, भवधार- णमायुषो नाम्नो नारकादिनामकरणं गोत्रस्य सदसत्कुलीनसंशब्दनं दानादिविघ्नकरणमन्त- रायस्येति । एतासां ज्ञानावरणीयादिप्रकृतीनामात्मप्रदेशेषु कालविभागेनावस्थान स्थितिबन्धः, तत्तत्प्रकृतिस्वभावादविच्युतिर्नियतकालमिति वा । नियतकालानां कर्मणां तीब्रमन्दादि- 10 भावेन विपाकवत्ता रसबन्धोऽनुभावबन्धापरनामा कर्मपुद्गलगतसामर्थ्यविशेषानुभवो वा । आत्मप्रदेशेषु कर्मपुद्गलद्रव्यपरिमाणनिरूपणं प्रदेशबन्धः, कर्मभावपरिणतपुद्गलस्कन्धानां पर- माणुपरिच्छेदेनावधारणं वेति चतुर्विधो बन्ध इति भावः ॥ अथ मोक्षं विभजते- मोक्षस्तु सत्पदनरूपणाद्रव्यप्रमाणक्षेत्रस्पर्शनाकालान्तरभाग- भावाल्पबहुत्वैवविधः ॥ मोक्षस्त्विति । कृत्स्नकर्मक्षयो मोक्षः, तत्र वस्तुतो यद्यपि वारतम्याभावेन तस्य प्रभेदान संभवन्त्येव, तथापि तद्वतां सिद्धानामाश्रयेण व्याख्याप्रकारेस्सत्पदप्ररूपणादिभिर्भेदोऽवसेय:, मोक्षस्यात्मपरिणामतया परिणामपरिणामिनोः कथञ्चिदभेदादिति भावः ।। इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टधरश्रीमद्विजयकमलसूरीश्वरचरण- नलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलधिसूरिणा विनिर्मितस्य तत्वन्याय- विभाकरस्य स्खोपज्ञायां न्यायप्रकाशव्याख्यायां तत्त्वोद्देशाख्यःप्रथमकिरणः समाप्तः।। अथ द्वितीयकिरणः ॥ ननु सर्वमिदं वदोपपद्यते जीवो नाम कश्चन पदार्थः प्रमाणपदं यद्यवतरेत् , यस्य मुक्तये तत्त्वोपदेशो भवेत् , तत्रैव च मानं न पश्यामः, लोके हि यदत्यन्तमप्रत्यक्षं तन्नास्त्येव यथा 25 गगनारविन्द, यत्त्वस्ति तत्प्रत्यक्षेण गृह्यत एवं यथा घटादिकं, न चायाति जीवः कदाचन 15 " 20 १. क्रिया- अस्वतन्त्रीकरणरूपा, क्रियावान् जनकतया दर्शनावरणादि । आश्रयतया चात्मा । यदि प्रकृतिशब्दस्य स्वभाववाचित्व न जानावरणादिवाचित्वमित्युच्यते तदा त्वाहायवेति ॥

। 10 जीवसिद्धि] न्यायप्रकाशसमलवृते प्रत्यक्षगोचरतां, ततो नास्त्यात्मा, न चासावनुमानगम्यः, लिङ्गलिगिनोः कचिदध्यक्षतोऽविना- भावग्रहेणैवानुमानप्रवृत्तः, न च लिगिनाऽऽत्मना कस्यापि सिद्धोऽस्ति प्रत्यक्षेणाविनाभावो लिङ्गस्य, तथा सति जीवस्य प्रत्यक्षत एव सिद्धावनुमाननरर्थक्यं स्यात् । न चादित्यो गतिमान् देशान्तरप्राप्तेर्देवदत्तवदिति सामान्यतोदृष्टानुमानेनादृष्टाया अप्यादित्यस्य गतेरनुमानवदत्रापि जीवस्सिद्ध्यतीति वाच्यम् , दृष्टान्ते देवदत्तादौ सामान्यतो देशान्तरप्राप्तेर्गतिपूर्वकत्वमध्यक्षतो- 5 ऽवधायैव सूर्ये तत्साधनात्, न चात्र तथा क्वचिदपि दृष्टान्ते जीवसचाऽविनाभूतं साधनं किमपि प्रत्यक्षेण लक्ष्यते । न चाप्यागमगम्यस्सः, वस्तुतस्तस्थानुमानादमिन्नत्वात् , न च कस्यचित्प्रत्यक्षो जीवो यस्य वचनमागमः स्यात्प्रमाणश्च भवेत् । तथा च सर्वमिदं निरूप- णमरण्यरुदितनिभमित्याशङ्कायां जीवासाधारणधर्मात्मकलक्षणप्रदर्शनद्वाराऽऽस्मानं साधयति- तत्र चेतनालक्षणो जीवः। तत्रेति । नवसु तत्त्वेषु मध्य इत्यर्थः । चेतना लक्षणमसाधारणो धर्मस्वरूपं वा यस्य सः, चेतनया लक्ष्यतेऽसाविति वा चेतनालक्षणः, अत्र जीव इति लक्ष्य, चेतनालक्षण इति लक्षणम् । चेवना-बुद्धिः-संवेदनं, सैषा जीवस्य पर्यायः, तदेव सामान्य लक्षणम्, जीवो लक्ष्यः । सर्वजीववर्तिनी चेयं चेतना, सूक्ष्मनिगोदापर्याप्तेष्वपि सर्वजघन्या साऽस्त्येव, त्रैलोक्यवर्तिनां सर्वपुद्गलानां कर्मतया परिणतानामपि सर्वात्मना चेतनां समावरीतुं सामर्थ्या- भावादतो न काऽव्यव्याप्तिः । न वाऽसम्भवोऽचेतन आत्मेति विरुद्धत्वादनावणशब्द इति- वत् । एवञ्च चेतनैवात्मनि प्रमाण, सुखदुःखादयो हि यथाऽऽत्मसंवेदनसिद्धास्तथा संशयानिवि- जानमपि स्वसंवेदनसिद्धमेव, यद्धि प्रत्यक्षं न तत्प्रमाणान्तरेण साध्यं भवति, न च सर्वे प्रत्यया निरालम्बनाः प्रत्ययत्वात् स्वप्नप्रत्ययवदिति शून्यवादिनमनुमातारं प्रति प्रत्यक्षसिद्धमपि सप्रामनगरं विश्वं साध्यत एवेति वाच्यम् , तत्र बाधकप्रमाणस्यैव निराकरणात् , अत्र त्वात्म- 20 प्राहके प्रत्यक्षे बाधकप्रमाणाभावात । ज्ञातवानहं जानेऽहं ब्रास्याम्यहमित्यादिकालिककार्य- व्यपदेशविपयाहम्प्रत्ययत आत्मनः प्रत्यक्षसिद्धत्वाच । न चाहम्प्रत्यय आनुमानिकोऽलैङ्गि- कत्वात् । नाप्यागमादिप्रमाणसम्भवस्तदनभिज्ञानामपि तस्योत्पादात् । न चास्य देह एव विपयो मृतदेहेऽपि तदुत्पत्तिप्रसङ्गात् । नापि निराश्रयः अहमित्यादिज्ञानस्य गुणत्वेन गुणिन- मन्तरेणासम्भवात् , न देहोऽत्र गुणी, मूर्त्तत्वान्जडत्वाच ज्ञानस्य त्वमूत्वाद् बोधरूपत्वाच । 25 न चाननुरूपाणां गुणगुणिमावो युज्यते, आकाशरूपादीनामपि तद्भावप्रसङ्गात् । तस्मादह- 15 १. कथाबिल्लेदापेक्षयेदं, स्वरूपमिति तु कश्चिदमेदापेक्षया । तथा च लक्षणशब्दो भेदाभेद्योतक इति भावः । तथा च जीवश्चैतन्यमेव चैतन्यमपि जीव एव परस्परेणाविनाभूतत्वादिति योभ्यम् ।।

:२२: तत्त्वन्यायविभाकरे [द्वितीयकिरणे म्प्रत्ययग्राह्यत्वादात्मा प्रत्यक्ष एव । तदपलापेऽश्रावणः शब्द इतिवत्प्रत्यक्षविरुद्धः पक्षाभासः स्यात् । यथा च रूपादिगुणप्रत्यक्षाद् गुणी घटः प्रत्यक्षः तथा संशयस्मृतिजिज्ञासादिज्ञान- विशेषाणां स्वसंवेदनप्रत्यक्षसिद्धत्वाद्गुणी जीवोऽपि प्रत्यक्षसिद्ध एव । तथेन्द्रियमपि न विज्ञात, तदुपरमेऽपि तदुपलब्धार्थानुस्मरणात् । अतः प्रत्यक्षोऽयमात्मा स्वदेहे । परदेहे पुन- 5 रिष्टानिष्टप्रवृत्तिनिवृत्तिदर्शनात्सात्मकत्वमनुमेयम् । परशरीरं सात्मकं, इष्टानिष्टप्रवृत्तिनिवृत्ति- दर्शनात्स्वशरीरवत् । तथाऽस्ति देहस्य विधाता, आदिमत्प्रतिनियताकारत्वात् घटवद्, यत्पुनर- ककं तदादिमप्रतिनियताकारमपि न भवति यथाऽभ्रं । मेादौ व्यभिचारवारणायादिमदिति विशेषणम् । तथा इन्द्रियं साधिष्ठातृकं, करणत्वाद्दण्डादिवत् , देहादयस्सभोक्तका भोग्यत्वात् वस्खादिवदित्यनुमानानि साधकानि बोध्यानि । न च विधात्रादिसाधकहेतूनां साध्यविरुद्ध- 10 साधकत्वं, घटादिकर्तृणां मूर्तिमत्त्वात्संघातरूपत्वादनित्यस्वभावत्वाञ्च , सिपाधयिषितश्चैतद्वि- परीतो जीव इति वाच्यम् , संसारिणो जीवस्यैव साधयितुमिष्टत्वेनादोपत्वात् , स हि अष्टविध- कर्मपुदलसंघातोपगूढत्वात्सशरीरत्वाच कथंचिन्मूर्तत्वादिधर्मयुक्त एवेति दिक् ।। नन्वस्तु जीवः प्रत्यक्षसिद्धस्तथापि चेतनालक्षणो जीव इति लक्षणं न सम्भवति, तथा सति हि चेतनास्वरूप जीव इत्युकं स्यात् तच्च न संभवति चेतनाया गुणत्वानीवस्य गुणित्वाच्च स्वरूपभेदात् तयोर्मेंदे 15 तुजीवस्यैव चेतना गुणो नघटादेरित्यवधारणं न स्यात्, तयोश्चाभेदे य एव जीवस्सैव चेतना, थैव चेतना स एव जीव इति भेदनिबन्धनलक्ष्यलक्षणभावो न भवेदिति चेन्न तयोः कथचिद्भिन्ना- भिन्नत्वेनोमयोपपत्तेः। ननु तथापि कथञ्चिद्भदेन चैतन्याश्रयो जीवो वर्तत इति न सङ्गच्छते सर्वभावानां क्षणिकत्वेन नित्यस्य चैतन्याश्रयस्यासिद्धेः। यद्धि सत् तत्क्षणिकं यथा घटः संश्च विवादाध्यासित इति, अत्र सत्त्वमर्थक्रियाकारित्वं नहि संञ्चार्थो न चार्थक्रियाकारीति 20 संभवति, तथा च ज्ञानान्येव सन्तन्यमानानि क्षणिकानि सन्ति न ततोऽन्यो नित्यस्तदायो जीवो नाम कश्चिदिति चेन्न घटादीनां कालान्तरस्थायित्वेन क्षणिकत्वस्यासिद्ध्या सत्त्वस्य क्षणि- कत्वेन व्याप्त्यसिद्धेः, न च घटादौ सामर्थ्यांसामर्थ्यलक्षणविरुद्धधर्माध्यासान्न कालान्तराव- स्थायित्वं, अन्यथा कालान्तरमाविजलाहरणादिकमिदानीमपि कुर्यान्न करोत्यतोऽसमर्थत्वेन पूर्वोत्तरकालयोनैको घट इति क्षणिकत्वं सिद्धमेवेति वाच्यम् , सामर्थ्यासामर्थ्यलक्षणविरुद्धध- माध्यासासिद्धेः । इदानीं जलाहरणं कुर्वतो घटस्य कालान्तरीयजलाहरणं प्रत्यपि सामर्थ्यात्। न च सति सामध्ये कार्यमवश्यं करणीयमित्यस्ति नियमो सहकारिलाभालामप्रयुक्तत्वात् करणाकरणयोः । तस्मान्न क्षणिकत्वव्याप्तं सत्त्वं, किञ्च नित्यात्मानभ्युपगमे क्षणिकत्वेन 25 १. आत्मा न प्रत्यक्ष इत्यत्रेति भाव ॥२ जीवोऽस्ति तदुणप्रत्यक्षत्वाइटवदिति प्रयोगोऽपि बोष्य. ॥ ३. अत एव च विरुद्धत्तम् । तत्र हेतुमाह घटादीति ॥

- ज्ञानात्मनोर्मेदाभेदः] न्यायप्रकाशसमलङ्कते :२३: ज्ञानानां स्मरणानुपपत्तिः, अन्यदृष्टस्यान्येनास्मरणात्, न च नानात्वेऽपि ज्ञानानां कार्यकारण- भावेन स्मरणं युज्यत इति वाच्यम् , उपाध्यायानुभूते शिष्यस्य स्मरणप्रसङ्गात् , तज्ज्ञानानां कार्यकारणभावाविशेषात्, न च शरीरभेदाग्रहोऽपि नियामक इति वाच्यम्, एसजन्मनि जातिस्मरणेन प्राग्जन्मानुभूतानां स्मरणासंभवात् , प्राग्भवीयस्वज्ञानानां सर्वज्ञेनाप्रतिसं- धानापत्तेश्च । कार्यकारणभावमात्रस्य स्मृतिहेतुत्वासंभवाच । कृतहान्यकृताभ्यागमप्रस 5 झाच, येन हि ज्ञानेन शुभाशुभं कर्माचरितं न तेन फलमुपभुज्यते येन तु न कृतं तेनो- पमुज्यते चेति। शुभाशुभकर्मप्रवृत्त्यप्रवृत्तिप्रसङ्गेन परलोकायनुष्ठानासंभवाच, न चैकज्ञानस्य कर्तृत्वभोक्तृत्वाभावेऽपि तत्सन्तानस्य स्थिरैकरूपस्य ते भविष्यत एवेति वाच्यम् , सन्तानस्य विज्ञानानतिरेकात्, व्यतिरिक्तत्वेऽप्यचेतनत्वात् , व्यतिरिक्तचेतनत्वे तु जीवस्यैव नामान्तरे- णाभ्युपगमप्रसङ्गात् , न च वासनासहकृतं ज्ञानमेव कर्तृ स्मर्तृ भोक्तृ च भवतीति किं तदति- 10 रिकसुखदुःखफलभोक्तृकल्पनयेति वाच्यम् , वासनाया अक्षणिकाया ज्ञानातिरिक्ताया त्वया- नभ्युपगमात्, ज्ञानात् सुखदुःखयोरपि कारणस्वरूपफलभेदेनाभेदासम्भवाच । न खलु वनि- तारूपादिज्ञानोत्पत्तौ या सामग्री वनितादिरूपा सैव सुखदुःखयोरपि, किन्तु रागादिवासना- विशेपोऽपीति कारणभेदः, स्वपरप्रकाशक ज्ञानं, अनुकूलप्रतिकूलवेदनीये च सुखदुःखे इति स्वरूपभेदः, प्रवृत्तिनिवृत्ती च ज्ञानस्य फलं, सृष्णावमुख्यादिजननं सुखदुःखयोरिति फलभेदः। 15 तस्माज्ञानमिन्नस्सुखदुःखादिफलभोक्ताऽतिरिक्त आत्मा सिद्ध इति ॥ ननु बुद्धिनात्मस्वरूप- भूता तद्विरुद्धधर्माधिकरणत्वाद् घटपटादिवत्, न चासिद्धो हेनुर्बुद्धेरुत्पादविनाशधर्मकत्वात् , आत्मनश्चानुत्पादविनाशधर्मकत्वादिति चेन्न, विरुद्धधर्माधिकरणत्वेऽपि सर्वथा भेदासिद्धेः मे- चकज्ञानवत् , तद्धि एकं, युगपदनेकपदार्थप्राहिशक्त्यात्मकं चातो विरुद्धधर्माध्यासःन चाने- कत्वधर्माधारा शक्तिरन्या, एकत्वधर्माधारश्च तज्ञानमन्यदिति वाच्यम् , अनेका शक्तिस्तस्येति व्यपदेशासम्भवात् , ततो भेदार्थान्तरवत् । न च सम्बन्धाइवतीति वक्तुं शक्य, अनेकया शक्त्या सम्बध्यमानस्यानेकरूपत्वापत्तेः । न चैकयैव शक्तयाऽनेकमर्थं गृहातीति वक्तुं शक्यं स- वार्थग्रहणप्रसङ्गात् , तस्मात्तयोः कथविभिन्नामिन्नत्वेन चेतनास्वरूपत्वं युक्तम्, साच प्रतिजीवं वारतम्यदर्शनाचेतनात्वेनैकापि पर्यायाद्भिन्ना ततश्चात्मापि द्रव्यत एकोऽपि पर्यायभेदाद् मिन्न इति विभावनीयम् । तच चैतन्यमेकरूपमपि कर्ममलदिग्धमनेकाषस्थान्तरावस्कन्दि भवति, 28 एतेन यद्यात्मा ज्ञानरूपस्तदा सर्वदा विषयदर्शी भवेत् , जानानं हि जीवं ज्ञानस्वरूपमिति - 20 १. एकसन्तानिकत्वेन स्मरण सम्भवतीत्साशकायान्त्वाह कार्येति, एकसन्तानिकलस्यापि हेतुत्वादिति भाव । २. अस्तूमयं हेतुरिसाशंकाया दोपान्तरमाह कृतेति, इष्टापत्तो वाधकमाह शुमेति ॥ ३ तथा च न स्थिरक- रूपत्वमत एव न व्यतिरिकत्वमिति भाव ॥ ४ उत्तोन वक्ष्यमाणेन च कारणेनेत्यर्थ ।

तस्वन्यायविमाकरे. द्वितीयकिरणे वक्तुं शक्यमन्यथा ज्ञानस्वरूपो न जानीते चेति विरुद्धं वचनं स्यात् , तथा विस्मृत्यनवबोध- संशया अपि न भवेयुः स्याञ्चात्मा सर्वदाऽशेपविशेषविज्ञानात्मक इति शङ्कापि परास्ता, प्रदे- शाष्टकं विहाय चलत्वेनानवरतमर्थान्तरेषु परिणमनात् , एकार्थेऽनवस्थितोद्धान्तमनस्कत्वेन चिरमुपयोगाभावात् । उपयोगस्थितिकालस्य स्वभावादेवोत्कर्षेणान्तर्मुहूर्तपरिमाणत्वात् । 5 आवरणस्वभावज्ञानावरणकर्मसद्भावात्कदाचिद्विज्ञानस्याव्यक्तबोधसंशयादीनाञ्चोपपत्तेश्चेति ॥ नन्वस्तु चेतनालक्षणो जीवस्स त्वेक' एव निखिलजगच्छरीराण्यभिच्याप्य शश्ववर्तते, नतु प्रतिशरीरं पृथगात्मास्तीत्याशंकायामाह- स द्विविधः। स इति । अयम्भावो यदि जीवो निखिलशरीराधिष्ठायकतयैको भवेत् तर्हि समस्त- 10 शरीरभाविना सुखदुःखादीनामेकस्मिन्नेव शरीरेऽनुभूयेत, अन्यथा निखिलशरीराधिष्ठायक- त्वमेव तस्य न भवेत्, दृश्यते हि बाल्यकौमाराद्यवस्थाभेदेऽपि जीवस्यैकत्वेन वाल्याद्यनुभूतस्य स्थविरावस्थायां स्मरणं, न च तथैकेनानुभूतं सर्वैः स्मयते तस्मात्सर्वशरीरेषु मिन्न एवात्मा, एवमात्मन एकत्वे सुखदुःखनिमित्तधर्माधर्मयोः सर्वसाधारण्येन कश्चिदेव सुखी न सर्वे, कश्चिदेव दुःखी न सर्व इति प्रत्यक्षसिद्धः प्रतिनियमो न भवेत् , न चैकस्येवाञ्चलस्य प्रसा- 15 रितस्य महतो वाय्वादिनिमित्तात् क्वचिदेव भागे कम्पनमनुभूयते तथा तत्तच्छरीरावच्छे- देनैव सुखादिकं भवति न सर्वत्रेति वाच्यम् । परम्परया तत्रापि सूक्ष्मकम्पस्यानुभवात् , योऽहं चैत्रोऽभूवं सुखी, सोऽहं मैत्रो दुःखी सम्प्रति जात इति प्रत्यभिज्ञापत्तेश्च । न च नात्म्यैक्येऽपि तत्तच्छरीरेष्वनुभूतसुखादीनां स्मरणापत्तिर्दोषः, पूर्वपूर्वशरीरानुभूतानामात्मैक्येऽप्यस्मरणा- दिति वाच्यम्, पूर्वपूर्वानुभवजनितसंस्कारस्य मरणगर्भवासादितीव्रतरदुःखैरमिभूतत्वात्, 20 जातिस्मरणेन केनापि स्मरणाच्च, नहि चैत्रज्ञानादिकं कदापि कथमपि स्मरवि मैत्रस्तस्मादात्मा नैकोऽपि तु प्रतिशरीरं भिन्नः परन्तु तेषां सुज्ञानाय प्रथमं तस्य द्वैविध्य भाव्यमिति भावः । केन प्रकारेण भेद इत्यत्राह- संसार्यसंसारिभेदात्। संसारीति । संसारोऽष्टविधं कर्म, तदुपष्टम्भेनैवात्मनस्ससरणाद् बलवन्मोहो नारका- 25 अवस्था वा संसारस्तद्योगात्संसारी, न संसारी-असंसारी निधूताशेषकर्मेत्यर्थः । तत्र संसारिणां - . १..तथा च प्रयोगः नानारूपा भुवि जीवा परस्पर भेदभाज., लक्षणादिभेदात्-यथा कुम्भादयः, एकत्ले हि सुखद् खबन्धमोक्षादयो नोपपद्यन्त इति ॥

- जीवप्रभेदाः] न्यायप्रकाशसमलते। विकल्पबाहुल्यात्, • असंसारिणां संसारिपूर्वकत्वात् स्वसंवेद्यत्वाचादौ प्रहणं, संसा- रिणो हि स्वसंवेद्याः, गत्यादिपरिणामानामनुभूतत्वात् , असंसारिणस्त्वत्यन्तपरोक्षास्तदनुभव- स्थाप्राप्तत्वादिति । कथं संसारिणां बहवो विकल्पा इत्याशङ्कायां संसारिजीवानां प्रभेदप्रदर्शनमुखेन सान् दिमात्रमुपदर्शयति- अत्र चेतनत्वेन जीव एकविधः । अत्रेति । जीवप्रकारनिरूपणप्रसङ्ग इत्यर्थः । जीव इति संसारिजीव इत्यर्थः असंसायु- पेक्षयाऽयं विभागारम्भः, यद्वा बीवमात्रस्य द्विधैव विभागः सम्भवतीति ग्रन्थोऽयं पूर्वेणान्वितः । तथा चात्र यश्चेतनत्वेनेकविधो जीवः स द्विविध इत्यर्थः । यद्यपि ईशामिप्रा- योऽत्रेतिवाक्यस्य जीवलक्षणानन्तरं योजने सुस्पष्टो भवति, वथापि जीवनानात्वसाधनार्थमेव- 10 मुपन्यासः कृतः । तसिद्धावेव प्रकारभेदनिरूपणसम्भवादिति बोध्यम् । तदन्तर्गतः संसारी जीवस्तु संसारित्वेनैकोऽपि त्रसस्थावरभेदेन द्विविध इत्यभिप्रायेणाह- बसस्थावरभेदेन द्विविधः। पुंस्त्रीनपुंसकभेदेन त्रिविधः । प्रसेति । वसनामकर्मोदयानुत्तिविशेषानसा द्वीन्द्रियादयो नतूद्वेजनक्रियाविशिष्टाः गर्भाण्डजमूञ्छितसुषुप्तादीनां त्रसत्वाभावप्रसङ्गात् , स्थावरनामकर्मोदयजनितविशेषाः 15 स्थावराः पृथिवीजलतेजोवायुचनस्पतयः। न तु स्थानशीला वायुतेजोऽम्भसामस्थावरत्वप्रसङ्घात्, 'अल्पाच्चरत्वात् विशेषोपयोगसम्भवेनाभ्यहितत्वात्स्पष्टलिङ्गत्वाश्चादौ प्रसग्रहणम् । द्वैवि- ध्यप्रदर्शनबेदमुपलक्षणं तेन समनस्कामनस्कभेदेनापि वैविध्य बोध्यम्, मनःपर्याप्तिलक्षण- करणनित्तिमन्तस्समनस्काः द्रव्यभावमनोयुता इति यावत् । तदहिता अमनस्काः केवलं भावमनोयुता इति यावत् । प्रकारान्तरेण संसारिणः त्रिधा विभजते पुमिति । तत्तद्वेदोदया- 20 १. एवम्मतनये हि दशविधप्राणधारी जीवोऽभिमतस्स च संसायेंव, सिद्धस्तु न तथाविधः, असुमान् प्राणीत्यादिव्यपदेशामावादिति भाव । केवलं भावप्राणवत्त्वातेऽपि जीवा इत्याशयेनाह यदेति ॥ २. उपलक्षकोऽयं विभाग., सैनन्द्रियानिन्द्रियसकायाकायसयोग्ययोगिसेवेदावेदसकषायाकपायसलेश्यालेश्यज्ञान्यज्ञानिसाकारानाकार- भेदेन विभागसम्भवेऽपि न क्षतिरिति ॥ ३ एवच प्रथम द्विभेदमुक्ला नानात्वं प्रसाध्य किं सर्वथा जीवा नाना एवेत्याशंकानिवारणाय वस्तूनामेकानेकस्वभावस्न तत्प्रदर्शनाय चात्रेतिग्रन्थोक्ति.। जीवत्वादिस्वभावे-25 नैकोऽपि संसारिवादितत्तद्धर्मस्वभावत्वेन तथातथान्यपदिश्यते, एकान्तकस्वभावताया तेपा वैचित्र्यायोगेन तथातथाभिषाने प्रवृत्तिन स्यादेवेति भाव. ॥

:२६: तत्वन्यायविभाकरे [ द्वितीयकिरणे 5 पादितपुंस्त्वस्त्रीत्वनपुंसकत्वपरिणामवन्तः, लिङ्ग द्विविधं द्रव्यभावमेदात् , यद्न्यलिङ्ग तदिह नाधिकृतं द्रव्यपरिणामत्वात् , आत्मपरिणामप्रकरणाचेह भावलिङ्गमेव ग्राह्यम् , तच्चान्योऽ- न्यामिलापलक्षणं बोध्यम् । यद्वा शरीरशरीरिणोः कथबिदभेदेन द्रव्यलिङ्गमादायापि भेदोऽवसेयः॥ चातुर्विध्यमादर्शयति- नारकतिर्यङ्मनुष्यदेवभेदेन चतुर्विधः। इन्द्रियभेदेन पञ्चविधः । नारकेति । तत्तद्गतिनामकर्मोदयप्रयुक्ततत्तद्भावपरिणाममादायाऽऽत्मनोऽयं विभागः । पञ्चविधत्वं प्रकटयति-इन्द्रियमेदेनेति । जातिनामकर्मोदयापादितैकेन्द्रियादिजाति- परिणामभाक्त्वात्पश्चविधत्वं जीवानामिति भावः। मनसोऽनिन्द्रियत्वात् बाह्यपश्चेन्द्रिय- 10 विधुरस्य समनसो जीवस्याप्रसिद्धेश्व न मन आदाय षड्विधत्वशङ्का कार्येति ॥ अथ पोढा विभजते- पृथिव्यतेजोवायुवनस्पतित्रसभेदेन षड्विध इत्येवं विस्तरत- स्त्रिषष्ट्यधिकपञ्चशतविधोऽपि भवतीति विज्ञेयः। पृथिवीति। स्थावरान्तर्वर्तिपृथिव्यलेजोवायुवनस्पतिवसनामकर्मोदयजनितपरिणामवन्त 15 एते षड्भेदा वेदितव्याः, वत्र सत्यां पृथिव्यां जलादिकं सुखेन घटादिमिर्ग्रहीतुं शक्य- मिति सुखग्रहणहेतुत्वात् , विमानभवनप्रस्तारादिभावपरिणामेन स्थूलमूर्तित्वात्प्रतिनियतजला- ग्रुपकारनिर्वर्तकत्वाचादौ पृथिव्याः, विरुद्धभूततेजोव्यवधायकतयाऽऽधेयतया च जलस्य, प्रथि- व्यप्परिपाकहेतुत्वात्तेजसः, तदुपकारकत्वाद्वायोः, पृथिव्यादिनिमित्वकत्वादनन्तगुणत्वाच वनस्पनेः, इन्द्रियाधिक्यादुपयोगबाहुल्याच त्रसस्य ग्रहणम् । इत्थमेव बहुधा विभागस्सम्भव तीत्याहेत्येवमिति, इत्येवंक्रमेणेत्यर्थः । ननु विभागानां परावधिरस्ति नवेत्याशङ्कायामवधिमाह- विस्तरत इति, सप्तविधनारकाणां चतुर्विंशतिविधतिरश्चामेकोत्तरशतविधगर्मजमनुष्याणां नवाधिकनवतिविधदेवानां प्रत्येकं पर्याप्तापर्याप्तमेदमाजामपर्याप्तकोत्तरशतविधसमच्छिमम- नुष्याणाश्च मेलनया त्रिपष्ट्यधिकपञ्चशतविधोऽपीत्यर्थः, विज्ञेय इति आगमादित्यादिः ॥ अथ प्रथमोक्ते द्वैविध्ये संसारिलक्षणमाह- सकर्मा संसारी। सकर्मेति । कर्मणा सहितः सकर्मा, कर्मभावयोग्यैः पुद्गलैरविभागेनोपश्लिष्ट इत्यर्थः । 20 25 - - जीवपरिमाणम् ] न्यायप्रकाशसमलते :२७: मोपश्लिष्टत्वं संसारिणां लक्षणं, तथैकेन्द्रियादारभ्य आ अयोगिकेवलिनस्सर्वत्रास्तीति न त्राप्यव्याप्तिः॥ तस्य परिमाणमाह- देहमात्रपरिमाणः। देहमानेति । देह एव देहमात्र, तत्परिमाणं यस्य सो देहमात्रपरिमाणः। यस्य जीवस्य । यो देहस्स यावत्परिमाणकस्तावदेव जीवस्यापि परिमाणमित्यर्थः । एवञ्च तत्तच्छरीराकार- परिमाणातत्तत्संसारिजीवा न सर्वेषामेकं परिमाण नियतमिति भावः। एतेन विमुपरिमाण- स्वमात्मनः प्रतिक्षिप्तं तत्तदेहावच्छेदेनैव सुखदुःखानुभवात् , सर्वगवत्वेऽदृष्टवत आत्मन- स्सर्वत्र सत्वेन सर्वत्र तदुपभोगप्रसङ्गात् , एवञ्च यो यन्यापित्वेनोपलभ्यमानगुणस्स तत्तुल्य- मान इति व्याख्या शरीरव्यापित्वमेव, वथा चानुमानं, आत्मा देहपरिमाणः, तद्व्यापित्वे- 10 नोपलभ्यमानगुणत्वादिति । न च मूलव्यापित्वेनोपलभ्यमानकपिसंयोगवतो वृक्षस्य मूल- समानमानत्वामान व्यभिचार इति वाच्यम् , कपिसंयोगस्य मूल एव वृत्तेः । न च मूले वृक्षे कपिसंयोग इति प्रतीत्या वृक्षेऽपि तस्य सत्त्वमिति वाच्यम्, स्वाभयाश्रितत्वसम्बन्धेनेव वृक्षे वृत्तित्वाभ्युपगमात् , संयोगस्य क्रममावित्वेन सहभाविपर्यायत्वरूपगुणत्वासम्भवाच, न चात्मा विमुनित्यमहत्वादाकाशवदिति विमुत्वं सिद्धयतीति वाच्यम् , अप्रयोजकत्वात् , न च यद- 15 पकृष्टं तज्जन्यमिति व्याप्त्याऽऽत्ममहत्परिमाणं यद्यपकृष्टं स्याचहि जन्यं स्थादित्युकूलस्तोंड स्त्येवेति वाच्यम्, परमाणुपरिमाणस्याप्यपकृष्टत्वान्नित्यत्वाञ्च व्यभिचारेण व्यास्यसिद्धेः।न च प्रतिशरीर परिमाणभेदे परिमाणनाशेनात्मनो नाशः स्यादिति वाच्यमिष्टापत्तेविशिष्टरूपेण नाशोत्पादयोरभ्युपगमात्, शुद्धस्वरूपेणैव तस्य नित्यत्वात् । न चापकृष्टमहत्वेन सावयवत्वं वस्माच कार्यत्वमात्मनः प्रसज्येतेति वाच्यम्, त्रिकालवर्तिन्यात्मनि कार्यत्वस्यासिद्धः, सर्वथा प्रागसतस्सत्त्वरूपकार्यत्वस्य क्वचिदप्यप्रसिद्धत्वाच्च । न चाकाशे व्यभिचारोऽवगाहनागुणस्य सर्वाधारवाया वा लोकावच्छेदेन सत्त्वेऽपि तत्तुल्यमानत्वाभावादिति वाच्यं तत्राप्यवगाहना- गुणस्य सत्त्वादवगाह्यपदार्थाभावादेवावगाहनानुपलम्भात् , न च सर्वगतत्वेऽप्यात्मनः स्वादृष्ट- निमित्तकदेहामावादेवान्यत्र न सुखदुःखोपभोग इति वाच्यम् ,अदृष्टेस्य स्वकीयत्वासिद्धेनेच स्वात्मनि तस्य समवायात्स्वकीयत्वमिति वाच्यम्, समवायस्यैकत्वेन सर्वगतत्वेन च परकीया: 25 दृष्टानामपि स्वात्मनि समवायात् , समवाये मानामावाश्चेत्यधिकमन्यमन्थेभ्योऽवसेयम् ॥ . अथ संसारिणां बहुधा प्रभेदानामुक्तत्वेऽपि., माध्यमिक योधविशेषाधायंकञ्च प्रभेदन 20 मधुना, पति- :२८: तत्त्वन्यायविमाकरे [ द्वितीयकिरणे स च सूक्ष्मैकेन्द्रियद्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञिपञ्चेन्द्रियभेदेन सप्तविधोऽपि प्रत्येकं पर्याप्तापर्याप्तभेदतश्चतुर्दशविधः । स चेति । सूक्ष्माश्चैकेन्द्रियाश्च सूक्ष्मैकेन्द्रियाः, द्वे च त्रीणि च चत्वारि च द्वित्रिचत्वारि तानि इन्द्रियाणि येषां ते द्वित्रिचतुरिन्द्रियाः, असंज्ञिनश्च संज्ञिनश्वासंनिसंज्ञिनस्ते च ते 5 पञ्चेन्द्रियाश्चासशिसंक्षिपञ्चेन्द्रियाः ततस्सर्वेषां द्वन्द्वः, त एव भेदो विशेषस्तेन जीवत्वेनैक- विधोऽपि जीवस्सप्तविधो भवति, प्रकारप्रकारिणोः कथञ्चिद्भेदाभेदत्वादेकवचनं, एवंभू- तोऽपि प्रत्येकं पुनः पर्याप्तापर्याप्तभेदमादाय चतुर्दशविधो भवतीति भावः, यद्यपि द्विविधा एकेन्द्रियाः, सूक्ष्मा बादराश्चेति तथाप्यत्र सूक्ष्माणामेकेन्द्रियत्वाव्यभिचारेण सूक्ष्मपदेन शाखप्रसिद्धत्वान्नामैकदेशग्रहणेऽपि नामग्रहणसंभवाच्च सूक्ष्मैकेन्द्रियाणां ग्रहणम्, बादराणा- 10 न्वेकेन्द्रियत्वव्यभिचारित्वं द्वीन्द्रियाणामपि बादरत्वात् , तो बादरमात्रग्रहणे बादरैकेन्द्रि- यालामात् लघुनिर्देशसम्भवे लाघवार्थिना गौरवेण निर्देशकरणानौचित्याच बादरैकेन्द्रियेति- गुरुभूवनिर्देशमपहायैकेन्द्रियेत्येवोक्तम् । सूक्ष्मवादरद्वित्रिचतुरिन्द्रियेत्यादिरूपेणोक्तौ तु सूक्ष्म- मिन्द्रियं येषां बादरमिन्द्रियं येषामित्येवाओं लभ्येत द्वे इन्द्रिये येषामित्यादिवत् समासानु- रोपान चैतदिष्टं तथापि बादरैकेन्द्रियालाभादतस्तथानिर्देशः कृत इति ध्येयम् ।। ननु सप्तविधानां पर्याप्तापर्याप्तभेदेन चतुर्दशविधत्वमुच्यते तत्र पर्याप्तशब्दार्थों वाच्योऽ न्यथा तु न सुकरं भेदज्ञानमित्याशंकायां पर्याप्तशब्दप्रवृत्तिनिमित्तमादर्शयति- आत्मनः पौगलिकक्रियाविशेषपरिसमाप्तिः पर्याप्तिः। आत्मन इति । पौद्गलिको यः क्रियाविशेषस्तस्य परिसमाप्तिया साऽऽत्मनिष्ठा पर्याप्ति- शब्दवाच्या शक्ति-करणविशेषः । पर्यापनं समापनं पर्याप्तिरिति नार्थः किन्तु पर्यापनं यत 20 इति व्युत्पत्त्या समाप्तिसाधनं ग्राह्यम् । एवं यस्याः शक्तस्सत्त्वे जीव आहारादिग्रहणाय समर्थों भवति सा, सा च शक्तियः पुगलोपचयैर्निवय॑ते ते पुद्गलोपचया अपि जीवेन गृहीवाश- न्युत्पत्तिजननपरिणमामिमुखाः पर्याप्तिशब्देनोच्यन्ते । एतद्विपरीता-अशक्तिः, तन्निर्वर्तक- पुद्रासम्बन्धो वाऽपर्याप्तिः, न च समाप्तिः पर्याप्तिशब्दवाच्या, क्वचिदपि प्रन्थेऽनुक्तत्वात्, न च क्रियापरिसमाप्तिः पर्याप्तिरिति तत्त्वार्थभाष्ये श्रूयत इति वाच्यम् । अभिप्रायापरिज्ञानात्, 25 क्रियायाः परिसमाप्तिर्यत इति व्युत्पत्तेः । अत एव भाष्यटीकायां "पर्याप्तिः पुद्गलरूपाऽऽत्मनः कर्तुः, करणविशेषः । येन करणविशेषेणाऽऽहारादिग्रहणसामर्थ्यमात्मनो.निष्पद्यते, तच्च करणं यैः पद्लैनिर्वय॑ते ते पुद्गला आत्मनाञ्चास्तथाविधपरिणतिभाजः- पर्यासिशन्दे- 15 - - - 10 भाहारपर्याप्तिः] न्यायप्रकाशसमलट्टते नोच्यन्त" इति दृश्यते । नचैवं न हि भाष्यकाराभिप्राय इति वाच्यम्, आसां युगपदा- रधानामपि क्रमेण समाप्तिरुत्तरोत्तरसूक्ष्मतरत्वादिति खयमेवोक्तत्वात् , न घासामिति- पदेन समाप्तिरूपा पर्याप्तिर्विवक्षिता समाप्रारम्भासम्भवात् , क्रमेण समाप्तेरसंभवाच । अत एव सामर्थ्यवाविपर्याप्तिशब्दस्य कथं नामकर्मरूपत्वमित्याशहायामुक्त 'पर्याप्तिनिर्वक पर्याप्तिनाम, अपर्याप्तिनिर्वतकमपर्याप्सिनामेति शक्तिप्रयोजकपुरलोपचयस्य नामकर्मत्व- 5 माविष्कृतमिति सूक्ष्मधिया विचारणीयम् । तथा चात्मसम्बन्धी पुगोपचयजन्यक्रियाविशेष- पूर्णताप्रयोजकशक्तिविशेषः, वादृशशक्तिनिमित्तकपुदलोपचयो वा पर्याप्तिरिति भावः ।। अथ पुद्रलरूपायाशक्तिरूपाया वा पर्याप्तेः स्वरूपतो भेदाभावाद्विषयभेदनिवन्धन एव तस्या भेद इत्याह- आहारशरीरेन्द्रियोश्वासभाषामनोरूपविषयभेदात् पर्याप्तिष्षोढा । आहारेति । तथा चाऽऽहारविषया पर्याप्तिः शरीरविषया पर्याप्तिरित्यादिक्रमेण पावि- ध्यं बोध्यम् । युगपदारब्धाः पडप्येतत्क्रमेणैव सिद्धिं यान्ति न समकालं व्युत्क्रम वेति सूचयितुमयं क्रमः, उत्तरोत्तरपर्याप्तीनां बहुतरकालत्वात् ।। अथाऽऽहारपर्याप्तिमाह- शरीरादिपञ्चयोग्यदलिकद्रव्यादानक्रियापरिसमाप्तिराहारपतिः । शरीरादीति । आत्मा हि सक्रियः, अन्यथा कायोत्पत्त्यनुकूलो यलो न स्यादेव, सा क्रियाऽऽत्मपरिस्पन्दरूपा, तथा चात्मा पूर्वदेहमुत्सृज्योपपातक्षेने समागतः प्रथमक्षण एव कार्मणकाययोगाख्येन स्वपरिस्पन्देनौदारिकादिशरीरयोग्यान पुद्रलान् गृहाति । वैजसकाम- णशरीरेणैव प्रथमसमय एव औदारिकादिशरीरयोग्यपुद्गलाहरणाच्छत्युत्पत्तेश्वाऽऽहारपर्या- तिरेकसामयिकी। वीर्यान्तरायक्षयोपशमेन वीर्यलब्धिर्भवति, तया च यथायोग्यं सूक्ष्मवादर- 20 परिस्पन्दरूपक्रियासहित सलेश्यवीर्यमुपजायते, इदमेव करणशब्दवाच्यं पर्याप्तिशब्दवाच्य योगसंज्ञकञ्च, तत्र च क्रियाप्राधान्ये योगशब्दः प्रयुज्यते, वीर्यस्य मुख्यत्वे करणशब्दः पर्या- मिशब्दश्च प्रयुज्यते, क्रियायाः पौगलिकत्वेन पर्याप्तिसम्बन्धिपुद्रलानां नामकर्मत्वं, आहारप- योति विहाय शरीरपर्यात्यादिक्रियाणां प्रत्येकमन्तर्मुहूर्तेन समापनाक्रियासहितं पर्याप्तिशब्दवा- १. उत्तवान्यत्र पुद्गलोपवयन. पुद्गलग्रहणपरिणमनहेतुश्शचिविशेष इति । अन्यत्र व "आहारसरीरदिय ऊसासवमोमणोऽहिनिवित्ती । होइ जो दलियानो करण एसा पज्जत्ती" इति ॥२ आगमे तत्त्वार्थे च भाषामनापर्याप्योरेकसमस्युपगम्य पाधा पर्याप्तियष्य ।। 15 .

तत्वन्यायविभाकरे [ द्वितीयकिरणे व्यं सलेश्यवीर्यमप्यन्तर्मुहुन समाप्यत इत्युच्यते तथा चौदारिकवैक्रियाऽऽहारकतैजसमापा- प्राणापानमनःकर्मभेदेनाष्टविधेषु पुरलेषु शरीरस्येन्द्रियाणामुच्छ्वासस्य भाषाया मनसश्च योग्या- नि यानि दलिकद्रव्याणि तेषां या आदानक्रिया-ग्रहणं तच्च परिसमाप्यते यया साऽऽहारपर्याप्ति- रित्यर्थः । अत्र पर्याप्तीनामासां स्वरूपाणि तत्त्वार्थभाष्यानुसारेण निरूपितानि । प्रवचनाद्यनु- 5 सारेण तु बाह्याहारग्रहणखलरसरूपपरिणमनप्रयोजकात्मशक्तिविशेष आहारपर्याप्तिः ॥ अथ शरीरपर्याप्तिमाह- गृहीतशरीरवर्गणायोग्यपुद्गलानां शरीराङ्गोपाङ्गतया रचनक्रि- यासमाप्तिश्शरीरपर्याप्तिः। गृहीतेति । सामान्यतो गृहीतानां शरीरवर्गणागतयोग्यपुद्गलानां शरीराङ्गोपाङ्गतया 10 या रचनक्रिया-विरचनामिका क्रिया सा परिसमाप्यते यता, स शक्तिविशेषश्शरीरपर्याप्तिः। लक्षणद्वयमिदं तत्त्वार्थोक्तमौदारिकवैक्रियाऽऽहारकशरीरत्रयेऽपि सङ्गच्छते । तत्राऽऽहारप- योप्तिरीदारिकशरीरिणामाहारपुरलाहणखलरसीकरणप्रयोजिका, इतरेषां शरीरयोग्यपुद्गल- ग्रहणप्रयोजिका, इयश्च पर्याप्तिस्सर्वेषां समयप्रमाणा, उपपातक्षेत्रे प्रथमसमय एवाहारक- वात्, औदारिकशरीरिणां शेषाः पर्याप्तयः प्रत्येकमन्तर्मुहूर्तेन कालेन निष्पाद्यन्ते, सर्वांसा 15 पर्याप्तीनां च परिसमाप्तिकालोऽप्यन्तर्मुहूर्तप्रमाणः, अन्तर्मुहूर्तानामसंख्यभेदभिन्नत्वात् । वैक्रियाहारकशरीरिणान्तु आहारेन्द्रियोच्छासभाषामनःपर्याप्तयः पश्चाप्येकेनैव समयेन समा- प्यन्ते, शरीरपर्याप्तिः पुनरन्तर्मुहूर्तेनेति भाव्यम् । प्रवचनादिषु तु रसीभूताहारस्य रसास- ङ्मांसमेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमनहेतुः शक्तिविशेषशरीरपतिः । इदं पूर्वोक्तञ्च लक्षणद्वयमौदारिकशरीर एव संगच्छते, इतरशरीरयोरसृड्मांसमेदसादिमयत्वामा: 20 वात् । अत्र च तादृशशक्त्युत्पादनद्वारा शरीराङ्गोपाङ्गादिनामकर्माणि, साक्षात् निर्माणबन्धन संघातननामकर्माणि केषाचिन्मतेनाऽऽनुपूर्वीनामकर्म च निमित्तानि भवन्ति । एषां सचारूपेण वर्तमानानामप्युदयः एव शरीरादीनां निष्पत्तेः । अङ्गोपाङ्गानां नियतस्थानवृत्तिवाप्रयोज- कत्वात् , गृहीतानां गृह्यमाणानाञ्च शरीरपुद्गलानामन्योन्यसंश्लेषकारित्वात्, शरीरत्वेन परिण. तपुद्गलानामन्योन्यसन्निधानेन व्यवस्थापकत्वाच । केषाचिन्मतेनानुपूर्व्या अङ्गोपाङ्गानां निर्मा-, 25 णनिर्मितानां प्रतिनियतस्थानवृत्तिताप्रयोजकत्वोपगमादिति ॥ अथेन्द्रियपर्याप्तिमाह- त्वगादीन्द्रियनिर्वत्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः। वगादीति | आदिना रसनघ्राणचक्षुश्नोत्राणां ग्रहणम्, तान्यपि द्रव्यरूपाण्येव प्रा. । .

. - - 10 भाषापर्याप्सि न्यायप्रकाशसमलते :३१: ह्याणि तेषामेवोत्सादनेऽङ्गोपाङ्गनामकर्मण इन्द्रियपर्याप्तेश्च हेतुत्वात् , भावरूपाणान्तु निर्व- ने इन्द्रियावरणक्षयोपशमस्यैव सामर्थ्यात्, नातिनामकर्मणस्त्वेकेन्द्रियादिशब्दप्रवृत्तिनिमित्त- समानपरिणतिलक्षणसामान्य प्रति प्रयोजकत्वात् , तथा च त्वगादीन्द्रियाणां तत्तदिन्द्रियस्व- रूपेण या निर्वचनक्रिया सा परिसमाप्यते यस्माच्छक्तिविशेषात्पुदलविशेषाद्वा सेन्द्रियप- योति: सर्वशरीरेन्द्रियव्यापिनी, धातुरूपतया परिणमितादाहारादेकस्य द्वयोस्त्रयाणां चतुर्णा 5 पञ्चानां वेन्द्रियाणां प्रायोग्यानि द्रव्याण्यादायकद्विच्यादीन्द्रियरूपतया परिणामयति यतस्से- न्द्रियपर्याप्तिः प्रवचनाद्यनुसारेणौदारिकशरीरेन्द्रियविषया ।। अथोच्छासपर्याप्तिमाह- श्वासोच्छ्वासयोग्यद्रव्यादानोत्सर्गशक्तिविरचनक्रियासमाप्तिः श्वा- सोच्छासपर्याप्तिः॥ श्वासोच्छ्वासेति । श्वासोच्छासयोग्यानां द्रव्याणां श्वासोच्छ्वासरूपाणामिति यावत्, तेषां यावादानोत्सर्गौ-प्रहणमोक्षणरूपौ तद्विपयिणी या शक्तिर्लब्धिर्या च श्वासोच्छवासनाम- कर्मसाध्या तदनुकूला या विरचनक्रिया सा समाप्यते यतशक्तिविशेषात्पुदलोयचयाद्वा सा श्वासोच्छ्रासपर्याप्तिरित्यर्थः । यद्यपि सर्वा लब्धयः क्षायोपशमिका एव न त्वौदयिक्यस्तथापि वैक्रियाहारकादिलब्धय औदयिका अपि संभवन्ति, तत्र वीर्यान्तरायक्षयोपशमस्यापि निमि- 15 तत्वेन शायौपशमिकत्वव्यपदेश इति बोध्यम् ।। अथ भाषापर्याप्तिमाह- भाषायोग्यद्रव्यपरिग्रहविसर्जनशक्तिनिर्माणक्रियापरिसमाप्तिर्भाषा- पर्याप्तिः॥ भाषायोग्येति । भापायोग्यानां द्रव्याणां ये परिग्रहविसर्जनेऽवलम्बनविसगौ तद्विप- यिणी या शक्ति:-सामर्थ्यविशेषः-अवलम्बनपूर्वकोत्सर्जनहेतुसामर्थ्यविशेषः, तस्य या निर्माणक्रिया सा परिसमाप्यते यया सा मापापर्याप्तिरित्यर्थः । अत्र वीर्यलब्धेस्सकाशादुप- जायमानस्सलेश्यवीर्यविशेषः, सूक्ष्मवादरपरिस्पन्दरूपक्रियाविशेषो वाग्योगापरनामाऽपि सहकारिकारणं विज्ञेयम् । पर्याप्त्या हि भापायोग्यपुरलग्रहणपरिणमने भवतः वाग्योगेन च 20 - १. पञ्चानामिन्द्रियाणा प्रायोग्यान् पुदलान् गृहीत्वाऽनाभोगनिवतितेन वीर्येण तद्भावनयनतिरिन्द्रियः पर्याप्तिरिति प्रज्ञापनायाम् ॥

:३२: तत्वन्यायविभाकरे [ द्वितीयकिरणे परिणतपुद्गलावलम्बनं निसर्गसामर्थ्य विशेषश्च भवति, मन्दशक्तनगरपरिभ्रमणाय याश्यवल- म्बनवद् वाग्योगावलम्बनं बोध्यम् ।। अथ मनःपर्याप्तिमाह- मनस्त्वयोग्यद्रव्याहरणविसर्जनशक्तिजननक्रियापरिसमाप्तिर्मना- 5 पर्याप्तिः॥ मनस्त्वयोग्येति । मनस्त्वयोग्यानि यानि द्रव्याणि तेषामाहरणविसर्जने अवलम्बन- मोक्षणे तद्विषयिणी या शक्तिः तज्जननक्रियायास्तदनुकूलक्रियायास्समाप्तिर्यत इत्यर्थः । मनः- पर्यात्या हि मनोयोग्यान् मनोवर्गणास्कन्धानादत्ते परिणमयति च ततश्चिन्तनार्थमवलम्ब्य मुश्चति च मनोयोगेन । एवं च प्रथममनेकपुद्गलग्रहणं ततः शरीरपर्याप्तिः तदनु इन्द्रिय- 10 पर्याप्तिस्तस्तः श्वासोच्छ्वासपर्याप्तिस्ततो भाषापर्याप्तिस्ततो मनःपर्याप्तिरिति क्रमः, परन्तु पर्याप्तिकार्यारम्भ उत्पत्तिप्रथमसमय एव, निष्ठा तु द्वितीयादीनामनुक्रमेण भवति तस्मात्स्व- स्वकार्यपूर्णतां यावचा अप्यपूर्णा एव कथ्यन्त इति बोध्यम् ।। - । एवमवगते पर्याप्तिप्रभेदे पर्याप्तापर्याप्तस्वरूपमाह- स्वस्वयोग्यपर्याप्तिपूर्णत्वभाजः पर्याप्ताः । स्वस्वपर्याप्तिपूर्णताविकला 15 अपर्याप्ताः॥ स्वस्वेति । यस्य यस्य यावत्यः पर्याप्तयोऽभिमतास्तावत्पर्याप्तिकार्य पूर्णतामाजस्ते ते पर्याप्ता उच्यन्त इत्यर्थः । एतद्विपरीतास्त्वपर्याप्ता इत्याह स्वस्वेति । केषां जीवानां कति पर्याप्तयो भवन्तीत्यत्राह- तत्रैकेन्द्रियस्याद्याश्चतस्रः। द्वित्रिचतुरिन्द्रियासंक्षिपञ्चेन्द्रियाणां पञ्च। 20 संज्ञिपञ्चेन्द्रियाणां षट् पर्याप्तयः ॥ तत्रेति । षट्सु पर्याप्तिषु मध्य इत्यर्थः । आद्याश्चतस्र इति आहारशरीरेन्द्रियोच्छास- रूपाश्चतस्र इत्यर्थः, भाषामनसोस्तस्याभावात् । पञ्चेति, तेषां मनसोऽभावेन मनःपर्याप्ति - स्तीति भावः । षट्पर्याप्तय इति, मनसोऽपि सत्त्वादिति भावः । एतामिश्च स्वस्वयोग्य- पर्याप्तिभिरपर्याप्ता एव ये कालं कुर्वन्ति तेऽप्याद्यपर्याप्तित्रयं समाप्य ततोऽन्तर्मुहुर्तेनायुर्वध्वा 25 तदनन्तरमवाधाकालरूपमन्तर्मुहूर्त जीवित्वैव च म्रियन्त इत्यप्यवधेयम् ॥

- जीवप्रभेदाः] न्यायप्रकाशसमलते अथ पर्याप्तापर्याप्तभेदभाजस्सूक्ष्मादिसप्तविधान जीवान् दिङ्मात्रेण निदर्शयति- सूक्ष्माश्च निगोदादिवर्तिनः। बादराः स्थूलपृथिवीकायिकादया। द्वी- न्द्रियाः क्रिम्यादयात्रीन्द्रियाःपिपीलिकादयः। चतुरिन्द्रिया भ्रमरादयः॥ सूक्ष्माश्चेति। सूक्ष्मजीवानां पृथिव्यादिपञ्चकायप्रभेदत्वेऽपि सूक्ष्मतरत्वादेकस्मिन् शरी- रेऽप्यनन्तानां सद्भावाच निगोदस्य सूक्ष्मपृथ्वीकायिकाथपेक्षया प्रथममुपादानं, आदिना च 5 सूक्ष्माणां पृथिवीकायिकादीनां ग्रहणम् । बादरैकेन्द्रियानिदर्शयति-बादरा इति, पृथिव्येव कायः पृथिवीकायः, स्थूलश्चासौ पृथिवीकायश्च स्थूलपृथिवीकायः, स विद्यत एषान्वे स्थूलपृथिवी- कायिकास्त्र आदिर्येषामिति तद्गुणसंविज्ञानो बहुव्रीहिः । न च स्थूलः पृथिवीकायो येषामिति बहुव्रीहिणैव विवक्षितार्थलामे 'न कर्मधारयान्मत्वर्थीयो बहुव्रीहिवेत्तदर्थप्रतिपत्तिकर' इति न्यायेन कर्मधारयान्मत्वर्थो न कार्य इति वाच्यम् , असुब्बत इति व्याकरणमहा- 10 भाष्यप्रयोगात् कृष्णसर्पवद्वल्मीकमित्यादिलौकिकप्रयोगाचोक्तनियमस्य क्वाचिकत्वात् । आदिनाऽप्कायिकतेजस्कायिकवायुकायिकवनस्पतिकायिकानां ग्रहणम् । स्पर्शेन्द्रियमानत्वा- देषामेकेन्द्रियत्वं बोध्यम् । यद्यपि पृथिवीकायिकादिषु नोपयोगादीनि जीवलक्षणानि व्यक्तानि तथापि हत्पूरकव्यतिमिनमदिरातिपानपित्तोदयाकुलीकृतान्तःकरणस्याव्यक्तचेतनेवानांपि चेतनाऽव्यकाऽभ्युपगन्तन्या । न च तत्राव्यक्तचेतनालिङ्गानि श्वासोच्छासादीनि सन्ति न 15 वत्र किमपीति वाच्यम् , अशोमांसाङ्गुरवत्समानजातीयलतोद्भेदादीनां चेतनाचिहाना सत्त्वात् , कठिनपुदलात्मकानामश्मादीनामपि शरीरानुगतास्थिवत्सचेतनत्वं बोध्यम् ॥ अत्र पृथिवीकाथिकादिजीवेष्विमानि प्रमाणानि विज्ञेयानि, सन्ति पृथिवीकायिका जीवास्त- विष्ठितशरीरोपलब्धेनवाश्चादिवत् । केनचिदमिसन्धिमताऽऽहतमिदं शरीरं, कफरुधिराङ्गो- पाङ्गादिपरिणतेः, अन्नादिवत् । उत्सृष्टमपि केनचिदभिसन्धिमता, आतत्वादनमलवत् । 20 आपः सचेतनाः शस्त्रानुपहतत्वे सति द्रवत्वात्, हस्तिशरीरोपादानकललवत् । तत्रैवानु- पहतद्रवत्वात्, अण्डकमध्यस्थितकललवत् एवं च्छेद्यत्वा यत्वादुत्क्षेप्यत्वाभोज्यत्वा य- त्वासनीयत्वात्स्पर्शनीयत्वादृश्यत्वादित्यादयो हेतवो बोध्याः । सर्वेषां पुदलद्रव्याणां द्रव्य- शरीराभ्युपगमान्नानैकान्तत्वं हेतूनाम् । तथा सचेतना हिमादयः अप्कायवादितरोदकवत्, जीवशरीराण्यङ्गारादयः, छेद्यत्वादिभ्यः । अङ्गारादौ प्रकाशपरिणाम आत्मसयोगाविर्भूतः 25 शरीरस्थत्वात् खद्योतदेहपरिणामवत्, अङ्गारादीनामूमा आत्मसम्प्रयोगपूर्वकः शरीरस्थत्वा- ज्वरोष्मवत् । सचेतनं तेजः यथायोग्याहारोपादानेन वृद्धिविशेषवत्त्वात् पुरुषाङ्गवत्, वृक्षा जीवशरीराणि, पक्षाधुपलब्धिभावात्पाण्यादिसंघाववत्, कदाचित् सचित्ता अपि वृक्षा जीव- . 1 तत्वन्यायविमाकरे [द्वितीयकिरणे शरीरत्वात्पाण्यादिसंघाववत् , मन्दविज्ञानसुखादिमन्तो वृक्षा अव्यक्तचेतनानुगतत्वात्सुप्तादि- पुरुपवत् । चेतनावान् वायुः, अपरप्रेरिततिर्यगनियमितगतिमत्त्वाद् गवाश्वादिवदित्यादीनि । द्वीन्द्रियान्निदर्शयति क्रिम्यादय इति । आदिनाऽपादिकनूपुरकगण्ड्पदशक्तिकाशम्बू- काजलुकाप्रभृतीनां ग्रहणम् , एपा स्पर्शनरसन इन्द्रिये भवतः । त्रीन्द्रियाणां निदर्शनमाह 5 त्रीन्द्रिया इति । आदिना रोहणिकोपचिकाकुंथुतुम्बुरुकादीनां ग्रहणम्, एतेषां स्पर्शनरस- नत्राणानीन्द्रियाणि । चतुरिन्द्रियानाह चतुरिन्द्रिया इति । आदिना बटरसारङ्गमक्षिका- पुत्तिकदंशादयो ग्राह्याः, स्पर्शनरसनबाणचक्षूष्येपामिन्द्रियाणि ॥ असंक्षिपञ्चेन्द्रियाणां निदर्शनमाह- 10 असंज्ञिपञ्चेन्द्रिया मनोहीना अगर्भजा मीनादयः । असंज्ञीति । संज्ञा हिताहितप्राप्तिपरिहारयोर्गुणदोषविचारणात्मिका साऽस्त्येषामिति संन्निनः, न त्वाहारमयमैथुनपरिग्रहसंज्ञासम्बन्धात्संज्ञिनः, सर्वेषामेव प्राणिनां दशविधसज्ञा- भ्युपगमात्, अत एव संज्ञा न ज्ञानरूपा विवक्षिता निवाभावात् , सर्वेषां प्राणिनां ज्ञाना- त्मकत्वात् , यद्वा कालिकीहेतुदृष्टिवादोपदेशाख्यासु तिसृषु संज्ञासु कालिकीसंज्ञा सम्प्रधार- णाख्या गृह्यते, येन सुदीर्घमपि कालमनुस्मरति भूतमागामिनश्चानुचिन्तयति कथं कर्त्तव्यं 15 किमनुष्ठेयमिति सा दीर्घकालिकी सम्प्रधारणेत्युच्यते तद्वन्तरसंझिनः, तथा च सम्प्रधारण- संज्ञा मनोरूपैव | न संज्ञिनोऽसंज्ञिनस्ते च ते पञ्चेन्द्रियाश्चासंज्ञिपजेन्द्रिया इति व्युत्पचिः, अमुनाऽभिप्रायेणैव मनोहीना इत्युक्तम् । अत्र मनोहीना इत्यसंज्ञिनः पर्यायकथनमेव न तु क्षणमभेदात् , अथवा लक्षणं मिन्नमपि भवति यथा वने प्रभूताम्भोजसौरभादिलक्षणेन महान जलाशयो लक्ष्यते, तथाऽभिन्नमपि भवति यथाऽनिरुष्णत्वेन लक्ष्यते तथा बहिर्व. 20 दिनाऽनुभवसिद्धन सम्प्रधारणसज्ञाविरहरूपासंनित्वेन मनोहीनत्वमनुमीयत इति बोध्यम् । ते च निखिलनारकदेवगर्भव्युत्क्रान्तमनुष्यतिर्यग्भिन्नास्सर्वेऽपि विज्ञेयाः, मीनादय इति, आदिना सम्मूछिममनुष्यपश्वादीनां ग्रहणम् ॥ अथ संक्षिपञ्चेन्द्रियाणां दृष्टान्वमाह- . संज्ञिपश्चेन्द्रिया देवमनुजादयः॥ संक्षिपञ्चेन्द्रिया इति । देवमनुजादय इति, मनुजपदेन संमूच्छिमभिन्ना ग्राह्याः, आदिना नारका गर्मव्युत्क्रान्तिकगोमहिण्यादयो गृह्यन्ते ।। 25 - प्राणी:] न्यायप्रकाशसमलते। ननु पृथिव्यप्तेजोवायुप्रभृतीनां कथं जीवत्वं परैरनभ्युपगमादित्याशङ्कायां प्राणवतां जीवत्वस्योभयवादिसिद्धतया तहिदयिपुराह- एत एवं प्राणिनः। एत एवेति । एक्शब्दो मिन्नक्रमः तथा चैते-चतुर्दशविधाः प्राणिन एव-प्राणवन्त एवातो जीवत्वमेषामिति भावः, अन्न प्रमाणान्युपदर्शितान्येव पूर्वमागमाश्च " पुढविकाइया । गंमते ! कि सागारोवओगोवउचा अणागारोवओगोवउचा गोयमा ! सागरोवओगो. वउच्चावि, अणागारोवओगोवउत्तावि" इत्यादयो द्रष्टव्याः । के तत्र प्राणा येन तद्वत्त्वमेषां भवेदित्यत्राह- तत्र प्राणा द्रव्यभावभेदेन द्विविधाः । द्रव्यप्राणाः पञ्चेन्द्रियमनो. वाकायबलोच्छासायूंषि दश । अनन्तज्ञानदर्शनचारित्रवीर्यात्मकाश्चत्वारो 10 भावप्राणा:॥ " - - " तत्रेति । तत्पदेन प्राणिनः परामर्शः, घटकत्वं सप्तम्यर्थः, तथा च प्राणिघटकीभूता इत्यर्थः । तत्रायस्य भेदमाह-द्रव्यप्राणा इति। मनोवाक्कायानां द्वन्द्वानन्तरं बलेन तत्पुरुषः, तत्र द्रव्यभावमनसोापारविशेषो मनोवलं, गृहीतयोग्यपुदलद्रव्याणां भाषात्वेन परिणमनोत्तरं मनोयोगेन विसर्जनशक्ति, शब्दोचारणरूपजीवशक्तिविशेषो वा वाग्बलं, 15 शरीरद्वारा पदार्थग्रहणपरित्यागरूपः जीवव्यापार, तदनुकूलजीवनिष्ठशक्तिविशेषो वा काय- वलं, गृहीतयोग्यपुद्गलानां शरीरयोगेनोच्छासनिश्वासत्वेन परिणमच्यावलम्बनपूर्वकपरित्याग उच्चासात्मक प्राणः । आयुस्तु द्रव्यकालतो द्विविधम् । कर्मपुदलविशेषो द्रव्यायुः । तत्सा- हाय्येन नियतकालं जीवनं कालायुः, तत्र नैति जीवो मृत्यु द्रव्यायुषस्समाप्तिमन्तरेण । कालायुवापनीयानपवर्तनीयभेदतो द्विविधम् । आयुर्वन्धावसरे जीवप्रदेशेष्वध्यवसा- 20 यमान्यादतिविरलतयोपाचानामायुषां शखाद्यमिघातेन नियतकालादागेव यदा समापन भवति तदपवर्तनीयायुरित्युच्यते । मन्दपरिणामप्रयोगोपचितमपवर्त्य, अध्यवसानादि- वैशेषाप्राक्तनजन्मविरचितस्थितेरल्पतापादनमपवर्त्तनेति यावत् । तीव्रतराध्यवसायाचीन- रिणामप्रयोगोपचितानामायुषां भक्षकप्रसङ्गेऽपि गाढबन्धनत्वानिकाचितवन्धात्मनियमाद् दा नियतकालादाग भङ्गामावस्तदनपवर्तनीयायुः प्रोच्यत इति ॥ अथ केषां कियन्तः प्राणा इत्यत्राह- १ एतेन यो जीवति स तावनियमानीव, अजीवस्यायु कर्माभावेन जीवनामावादिति व्याप्तिर्दर्शिता, तु जीव स स्थाजीवति, स्यान जीपति, सिदस्य केनचिन् नयेन जीवनामावात, 'सिलो पुणरजीवो पणपरिणामरहिओत्ति' इति वचनादिति बोध्यम् । - 5 - तत्त्वन्यायविमाकरे । द्वितीयकिरणे स्पर्शकायोच्छासायूष्येकेन्द्रियाणाम् , रसवाग्भ्यां सह पूर्वोक्ता द्वी- न्द्रियाणाम्, प्राणेन सहैते त्रीन्द्रियाणाम्, चक्षुषा सहैत एव चतुरिन्द्रि- याणाम् , श्रोत्रेण सहामी असंज्ञिनाम्, मनसा सहैते संज्ञिपञ्चन्द्रिया- णाम्, अनन्तज्ञानदर्शनचारित्रवीर्याणि चत्वारि सिद्धानां भावप्राणाः ।। स्पर्शेति । स्पर्शनेन्द्रियकायबलोच्छासायुर्लक्षणाश्चत्वारः प्राणा एकेन्द्रियाणां पृथिव्या- दीनामित्यर्थः। रसेति । स्पर्शनरसनेन्द्रियकायवाग्बलोच्छासायुस्स्वरूपाः घट्माणा इत्यर्थः । श्रोत्रेणेति । इन्द्रियपञ्चककायवाग्बलोच्छ्वासायुर्लक्षणाः नव प्राणा असंज्ञिपञ्चेन्द्रियाणामित्यर्थः। मनसेति । पूर्वोक्ता दशविधाः प्राणासंज्ञिनां भवन्तीत्यर्थः । सिद्धानान्तु निर्धूताखिलकर्मत्वात् कर्मप्रभवद्रव्यप्राणानामभावात्तेषां भावप्राणा एवेत्याह अनन्तेति । द्वन्द्वादौ श्रुतमनन्तपदं ज्ञाने 10 दर्शने चारित्र वीर्ये चान्वेति, अनन्तं ज्ञानं सकलज्ञेयपाहि समस्तज्ञानावरणक्षयप्रभवं, अनन्तं दर्शनं अशेषदर्शनावरणीयक्षयसमुज्मृम्भितं, अनन्तं चारित्रं सकलमोहक्षयाविर्भूतं, अनन्तं वीर्य निखिलवार्यान्तरायकर्मप्रध्वंसविलसितं । ज्ञानदर्शनचारित्रवीर्याणि जीवमात्रसाधारणानि परन्तु संसारिणामनादितस्तत्तत्कर्मावृत्तत्वेन यथाक्षयोपशमं न्यूनाधिकानि भवन्ति, मुक्तानान्तु कृत्स्नकर्मक्षयादाविर्भूतानि एतान्येव प्राणभूतानीति भावः ॥ अथासंसारिणं लक्षयति- निर्धूताशेषकर्मा असंसारी, स एव सिद्धो जिनाजिनतीर्थादिभेदभि- नश्चरमशरीरत्रिभागोनाकाशप्रदेशावगाही च ॥ इति जीवनिरूपणम् ॥ निधूतेति । नितानि निःशेषीकृतान्यशेषाण्यष्टविधानि ज्ञानावरणीयादिकर्माणि येन स निर्धूताशेषकर्मा । निधूतयत्किञ्चित्कर्मण्यतिप्रसङ्गवारणायाशेषेति । तत्र यो विशेषस्तमाह- 20 स एवेति । असंसार्यवेत्यर्थः । जिनाजिनेति । एतत्तत्त्वमने वक्ष्यते । चरमशरीरेति । यथा प्रदीपतेजोऽवयवाः स्वल्पेऽवकाशे संकोचं महति च विकासं भजन्ते तथैव लोकाकाश- प्रदेशमितस्यात्मनोऽपि प्रकृष्टसंकोचप्राप्तिदशायां लोकस्यैकस्मिन्नसंख्येयभागे स्थितिः, उत्कृष्ट; विकासकाष्ठावलम्बिनः केवलिनस्समुद्धातदशायां सर्वलोकेऽवगाहोऽन्यत्र चानेकविधा मध्य- ' मावस्थेति वस्तुस्थितिः । परन्तु सर्वस्य संसारिणोऽनन्नानन्तपरमाणुजन्यकार्मणशरीरेणाना- 25 दितस्संसृष्टतया स्वभावतोऽपि वा नैकादिप्रदेशावगाहित्वं किन्त्वसंख्येयप्रदेशावगाहित्वमेव, सिद्धानां योगनिरोधकाले च शरीरसुषिराणां पूरणात् तृतीयभागहीनावगाहत्वं, अतः परमना- वरणवीर्यस्यापि भगवतो न संकोचः, स्वभावश्चायमेतावानेव संहार इति न स्वभावे पर्यनु- योगः, कारणामावालयलाभावेनोपसंहाराभावाचेति ॥ - 15 5 धर्मनिरूपणम् ] न्यायप्रकाशसमलङ्कृते प्रकरणरूपत्वादस्य अन्धस्य विरतरेणाभिधानमनुचितमिति. जीवनिरूपणमुपसंहरति इतीति, उक्तदिशेति भावः, समाप्तमिति शेषः ।। इति तपोगच्छनमोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टधरत्रीमद्विजयकमलसूरीश्वर- चरणनलिनविन्यस्तभक्तिभरेण तत्पश्वरेण विजयलधिसूरिणा विनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपवायां न्यायप्रकाशव्याख्यायां जीवनिरूपणा- ख्यो द्वितीयकिरणस्समाप्तः ।। अथ तृतीयकिरणः ॥ अथ द्वितीयं तत्त्वं निरूपयितुं तल्लक्षणमाह- चेतनाशून्यं द्रव्यमजीवः॥ चेतनेति । चेतनाशून्यत्वे सति द्रव्यत्वमजीवस्य लक्षण, जीवेऽतिप्रसङ्गवारणाय विशे- 10 पणं, न भावोऽभाव इतिवच्चेतनाभावमात्रस्यानीवत्वप्रसङ्गवारणाय विशेष्यम् , तत्राजीव- स्य पञ्चविधत्वं पूर्वमुक्तमेव ॥ सम्प्रति प्रथमं धर्म लक्षयति- गत्यसाधारणहेतुर्द्रव्यं धर्मः॥ गत्यसाधारणेति । गतिर्गमनक्रिया, क्रिया च वाह्याभ्यन्तरनिमित्तापेक्षत्वे सति देशान्तर- 15 प्राप्तिहेतुत्वे सति द्रव्यपर्यायरूपा । तत्राभ्यन्तरं निमित्तं द्रव्यस्य क्रियापरिणामशक्तिः, वाह्य तु नोदनाभिघातादिः, एतेन च क्रियायाः कथञ्चिव्यभिन्नत्वमन्यथोपरमाभावप्रसङ्ग, द्रव्यप- योयत्वाच्च नात्यन्तिकभेदा, अन्यथा द्रव्यस्य निश्चलत्वप्रसङ्गः ज्ञानादीनामपि वायाभ्यन्तर- निमित्तापेक्षत्वे सति द्रव्यपर्यायत्वात्तद्वारणाय देशान्तरप्राप्तिहेतुत्वे सतीत्युक्तम् । सा च जीव- । पुरलयोरेव, तयोरेव देशान्तरप्राप्तिदर्शनात् । वां प्रत्यसाधारणहेतुभूतं द्रव्यं धर्म इत्यर्थः, तत्र 20 कारणं त्रिविधं निवर्तकनिमित्तपरिणामिभेदात् , यथा घटं प्रति कुलालो निर्वर्तकं कारणं, दण्डा- दिकं निमिचं, मुलिण्डः परिणामि, वथा जीवपुद्गलानां गति प्रति गतिक्रियाविष्टं तदेव जीव- पुदलद्रव्यं निर्वकं तदेव चगतिपरिणामि परिणामिकारण, धर्मद्रव्यञ्च निमित्तमिति । निमिर्च कारणञ्च प्रायोगिकवैससिकोमयक्रियावद् यथा दण्डादिः, तद्वत् केवलं वैनसिकक्रियावदपि, - - " १ आत्मपः प्रयोगः आत्मा सक्रियो देहपरिस्पन्ददर्शनायंत्रपुरुपवदिति, नच देहपरिस्पन्दहेत. प्रयत्लो न कि- येति वाच्यमनिये नमसि तदसंभववदलिय आत्मन्यपि तदसम्भवात् , तथाऽत्मा सक्रिय कर्तृत्वावकलालवदित्यपि प्रयोगो नचासिद्धो हेतुः, कर्ताऽस्मा स्वकर्मफलभोक्तृत्वादित्यनुमानतस्तसिद्धेरिति ।

- 10 तस्वन्यायविभाकरे [तृतीयकिरणे एतदेवः निमित्कारणमसाधारणकारणमपेक्षाकारणमुच्यते, द्रव्यगतक्रियापरिणाममपेक्ष्य धर्मादीनां जीवादिगत्यादिक्रियापरिणतः परिपोषणात्, ईडक्परिपोषणस्यान्यासाधारणत्वात् , धर्माचखिलद्रव्येषु वैनसिकक्रियायाः सद्भावेन प्रायोगिकक्रियापेक्षया निष्क्रियत्वेन धर्मादिषु दण्डादिवनिमित्तकारणत्वप्रसङ्गस्य निर्व्यापारत्वेनाकारणत्वप्रसङ्गस्य च नावकाशः । तथा 5 च जीवादावतिप्रसङ्गभङ्गाय हेत्वन्तम् । कस्यचिन्मते जीवविशेषगुणे रूढस्य धर्मस्य व्या- वृत्त्यर्थ द्रव्यपदम् । गतिमत्त्वे सति द्रव्यत्वमित्युक्तौ जीवपुद्गलयोरतिव्याप्तिरिति गत्यसा- धारणहेतुत्वे सतीत्युक्तम् । गतिहेतुत्वे सति द्रव्यत्वमित्युक्तौ कालादिसमवायानां कार्यमात्रकारणत्वे कालादावतिव्याप्तिवारणायापेक्षाकारणत्वापरपर्यायमसाधारणकारणत्व- मुक्तम्, अपेक्षाकारणत्वे सति द्रव्यत्वमित्युक्तावधर्मादावतिव्याप्तिरिति गतीति ।। ननु निखिलमिदं तदा सङ्गच्छते यदा लक्ष्यभूतं धर्मद्रव्यं प्रमितं स्यात, न झप्रमित लक्षयितुं शक्यमतिप्रसङ्गात् , तस्माच्छून्यमिदं जल्पनमित्याशङ्कायां वत्प्रमिणोति- तत्र प्रमाणं जीवपुद्गलानां गतिर्वाश्यनिमित्तापेक्षा गतित्वाजलस्थम- स्यादिगतिवदित्यनुमानम् ॥ तत्रेति । तच्छब्देन लक्ष्यभूतधर्मद्रव्यपरिप्रहः, सप्तम्यर्थो विशेष्यत्वं, तस्य च प्रमाणपद- 15 वाच्यप्रमितिकरणत्वैकदेशे प्रमितावन्वयस्तथा च लक्ष्यभूतधर्मद्रव्यविशेष्यकामित्यसाधा- रणकारणमित्यर्थस्तस्य.. चाप्रेतनेनानुमानपदेनान्वयः । जीवपुरलानामिति | गतिपरिणता- नामित्यादिः, अन्यथा धर्मद्रव्यस्य बलात्तत्र गतिजनकत्वापचेः, न चेष्टापत्तिा, गतिप- रिणतानां गति प्रति पोषकत्वाभ्युपगमात्, अनवरतगतिप्रसङ्गाय । बाह्यनिमित्तापेक्षेति, आन्तरनिमित्तजीवादिशक्तिमादाय सिद्धसाधनवारणाय वाह्येति । गतौ परिणामिकारणं 20 जीवादिकं निवर्चककारणश्चादाय सिद्धसाधनवारणाय कारणपदमुपेक्ष्य निमित्तपमहणं कृतम् । यथा च स्वयमेव सञ्जावजिगमिषस्य मत्स्यस्य गतौ जलमनुपघातकं सन्निमित्तत- योपकारक तथा स्वभावेन परिणतजीवपुद्गलगतिरप्यनुपघासक किम्वन द्रव्यं निमित्ततयोप- कारकमपेक्षत एष, गतित्वस्योभयत्र समानत्वात्, न च तादृशं द्रव्यमाकाशं भवितु- मर्हति, अवगाहनामात्रगुणत्वात्, नान्यस्य धर्मोऽन्यस्य भवितुमर्हति तथा च सत्यप्तेजो- १ तदुक्तं 'परिणामी गतेधमों भवेत्युदलजीवयो । अपेक्षाकारणालोके मीनस्येव जलं सदा' इति । तथा यशच्छुद्धपदवाच्यं तत्तदस्ति, यथा स्तम्भादि., तथा धर्मोपि, शुद्धपदवाच्यत्वं च प्रमाणान्तरवाषितविषयत्वाख्य दोषरहितत्वेन, न च खपुष्पादिषु केनापि संकेतितैस्स्वादिशुद्धपैदरनकान्त, वृद्धपरम्परायातसंकेतविषयाणा- मेव शुद्धपदाना वाच्यत्वस्येह हेतुत्वेन विवक्षणादिति ॥ , - .

- धर्मपरिमाणम् ] न्यायप्रकाशसमइते गुणा द्रवदहनादयः पृथिव्या एव प्रसज्येरन् । आकाशस्यैव निमित्तत्वेऽलोकाकाशेऽपि गम- नप्रसङ्गाच । न च कारणत्वमन्वयव्यतिरेकगम्य, यथा जलादिसद्भावे मत्स्यादीनां गतिस्तद- भावे च तदभाव इति, तथा च धर्मद्रव्यसत्त्वेऽपि जलाभावे मत्स्यादीनां गत्यभावाद्वयमिचा- रेण न कारणत्वं गतौ तस्यापि तु जलस्वैवेति वाच्यम् , सत्यपि भूम्यादावधिकरणे गगनस्य सर्वाधारत्वमिव सत्यपि झपादिगती जलादीनां कारणत्वे सर्वेषां गतिसामान्य प्रति निमित्ता-5 न्तरस्यापेक्षितत्वात् । न च देशान्तरप्राप्तिहेतुव्यपरिणामविशेषो गतिस्तथा च देश एव गत्यपेक्षाकारणमस्त्विति वाच्यम् , देशविशेषाणां देशत्वेनानुगतरूपेण कारणत्वासम्भवात् तथासति ह्यलोकेऽपि गमनं प्रसज्येत, तत्तद्गति प्रति तत्तद्देशत्वेन कारणत्वे त्वनन्तकार्यका- रणभावकल्पनाप्रसङ्गः स्यात् , न च धर्मस्यापि न धर्मत्वेन कारणत्वमतिप्रसङ्गात्, अपि तु तत्तत्प्रदेशत्वेनैवेति तवापि गौरवं दुर्वारमेवेति वाच्यम् , लोकालोकविभागान्यथानुपपत्त्यापि 10 धर्मद्रव्यस्यावश्यकत्वे तस्यैव गतित्वावच्छिन्न कार्यतानिरूपितकारणत्वाभ्युपगमात् पुदल- स्कन्धातिरिक्तस्याकाशातिरिक्तस्य वा देशस्याभावेन तयोर्गतिपरिणामिकारणत्वेनावगाहना. गुणत्वेन च गयपेक्षाकारणत्वासम्भवाञ्चति ॥ अस्यास्तिकायत्वात्प्रदेशेयत्तामाविष्करोति- - असंख्येयप्रदेशात्मको लोकाकाशव्यापी, च ।। 15 असंख्येयेति । शास्त्रसंव्यवहारार्थ प्रदिश्यन्त इति प्रदेशाः, द्रव्यपरमाणुमूर्तिव्यव- च्छिन्ना, कदापि ये न वस्तुव्यतिरेकेणोपलभ्यन्ते भागास्ते प्रदेशाः। असंख्येयाः प्रदेशा येषान्ते असंख्येयप्रदेशाः तदात्मको धर्मो न संख्येयप्रदेशात्मको नाप्यनन्तप्रदेशात्मक इति भावानच धर्मादीनां निरवयत्वेन तन्त्र प्रदेशकल्पना सिंहो माणवक इतिवदौपचारिकीति वाच्यम् ; प्रत्य- याभेदात् , मुख्यप्रत्ययात्सिहविशेपादध्यवसानरूपान्माणवके हि सिंह इति गौणप्रत्ययोऽ- 20 ध्यारोपरूपो भिन्न उपलभ्यते, न च तथा पुद्गलेषु धर्मादिषु च प्रदेशप्रत्ययो भिन्नोऽस्ति, उभयत्रावगाहभेदतुल्यत्वात् , न च परमाणुपु मुख्यः प्रदेशप्रत्यय इति वाच्यम् , अनादिर- मध्योऽप्रदेशो हि परमाणुरिति वचनात् । ननु धर्मादीन्याकाशवल्कि स्वात्मप्रतिष्ठान्युत जलादिवदाधारान्तरप्रतिष्ठानि, आधारान्तरप्रतिष्ठत्वेऽप्येकदेशेन सर्वात्मना वेत्याशशया- माह-लोकाकाशव्यापी चेति । आकाशप्रतिष्ठानि लोकाकाशमभितो व्याप्य च प्रतिष्ठिता. 25 नीति भावः । यद्यपि निश्चयनयेन सर्वमेव वस्तु स्वात्मन्येव प्रतिष्ठितं तथापि व्यवहारनया- १ न चेष्टापत्ति , अलोकस्यानन्तत्वालोकानिर्गत्य जीवपुदलाना तत्र पवैशालोके द्विव्यादिजीवपुगलसत्त्वस्य सर्वथा तच्छून्यत्वस्य वा प्रसहादिति ॥ ।

, । तस्वन्यायधिमाकरे [वृत्तीयकिरणे भिप्रायेणाकांशप्रविष्ठं विज्ञेयम् । धर्मादयो यत्र लोक्यन्ते स लोकः, लोकश्चासावाकाशव लोकाकाशस्तं व्याप्नोतीति लोकाकाशव्यापी, धर्माधर्मयोर्लोकाकाशेऽवगाहो न त्वलोक इति भावः ॥ अथ यत्र गतिस्तत्रावश्यं स्थितेरपि भावाद्गत्यपेक्षाकारणेनेव स्थिति प्रत्यप्यपेक्षाकार- 5 णेन केनापि भवितव्यमिति मन्वानस्वादृशद्रव्यसाधनार्थ प्रथमं तत्स्वरूपमाह- स्थित्यसाधारणहेतुर्द्रव्यमधर्मः । प्रमाणश्चात्र जीवपुगलानां स्थिति- अधिनिमित्तापेक्षा स्थितित्वात्तरुच्छायास्थपान्थवदित्यनुमानम् । असं- ख्येयप्रदेशात्मको लोकाकाशव्यापी च ॥ स्थित्यसाधारणेति । अत्रापि पूर्ववत् स्थितित्वावच्छिन्नकार्यतानिरूपितासाधारणकार 10 णत्वं लक्षणं पदकृत्यञ्चावसेयम् । स्थितिस्वदेशादाच्यवनहेतुर्गतिनिवृत्तिरूपा । अधर्मे मानमा- विष्करोति प्रमाणश्चेति, स्थितिपरिणतानामित्यादिः, अन्यथाऽधर्मस्य निवर्तककारणत्वापत्तेः । बाह्यनिमित्तापेक्षेति, निवर्तकपरिणामिक्रियाद्वयवानिमित्तकारणत्रयव्यतिरिक्तकारणान्तरसा- पेक्षेयर्थः । दृष्टान्तमाह-तरुच्छायास्थेति तरुच्छायायां पान्थस्थितिवदिति भावः । प्रदे- शेयत्तामाह-असंख्येयेति । अस्याप्याधार वृत्तित्वञ्चाह-लोकाकाशेति । अत्र पूर्ववदेव 18 विचारो विभावनीयः । अथ तृतीयमाकाशद्रव्यं लक्षयति- , अवगाहनागुणमाकाशम् ॥ अवगाहनेति । अवगाहनमनुप्रवेशस्स एव गुणो यस्य वदाकाशमिति विग्रहः, अव- गाहनांगुणत्वं आकाशस्य लक्षणम् । नन्विदमवगाहनं पुदलादिद्रव्यसम्बन्धि गगनसम्वन्धि 20 च, संयोगवत्तथा च तत्कथमाकाशस्यैव गुणा, उभयगुणत्वे चाविन्यात्यापत्या तत्कथं लक्षणं भवितुमर्हतीति चेन्मैवम् , लक्ष्य ह्याकाशं प्रधानमवगाह्यत्वात् अवकाशदानेनोपकार- कत्वाच, पुद्गलादिद्रव्यन्त्ववगाहकं, तथा च स्वानुकूलावकाशदातृत्वसम्बन्धेनावगाहनाव- १ यद्यत्कार्य तत्तदपेक्षाकारणवद्यथा घटादिकार्यम् । तथा चासौ स्थितिरपि, यच्च तदपेक्षाकारणं सोऽ- धर्मास्तिकायः । न च, नास्यधर्मास्तिकायोऽनुपलभ्यमानत्वाच्छशविषाणवदिति वाच्यम् , दिगादीनाम सियापत्तेर्वादिनः । न चं.दिगादिप्रत्ययलक्षणकार्यदर्शनतस्तेऽनुमीयन्त इति वाच्यम् , तुल्यत्वात्, न च नासौ कदाचिद्दष्ट इति वाच्यं, दिगादिष्वपि तुल्यत्वात् । न चास्य सर्वदा सर्वस्य सनिहितत्वेन सदा स्थिति- स्स्यादिति वाच्यम् , दिगादिष्वपि तुल्यत्वात् । न च निमित्तान्तरापेक्षणादिगादितो न सर्वदा कार्योत्पत्तिप्रसङ्ग इति वाच्यमधर्मास्तिकायेनापि स्वपरगतविश्रसाप्रयोगव्यापारापेक्षणादुक्तदोषासम्भवादिति भावः ॥ .

- 10 गगनसिदि] भ्यायप्रकाशसमलवृत्ते स्वमाकाशस्य लक्षणं वोध्यम् । तत्र धर्माधर्मप्रदेशा हि आ लोकान्तालोकाकाशप्रदेशनिर्वि- भागवर्तित्वेनावस्थिताः, तस्मादन्तरवकाशदानेन धर्माधर्मयोरुपकरोति, धर्माधर्मप्रदेशाना- माकाशप्रदेशाध्यन्तरवर्तित्वात् , अलोके च तदसम्भवात् । पुदलजीवानान्तु संयोगविभाग- श्योपकरोति तेषां क्रियावत्वात् । न चालोकाकाशे लक्षणमिदमन्यातमिति वाच्यम्, तत्रा- प्यवगाहानुकूलावकाशदातृत्वस्वमावस्य सत्त्वात्, अवगाहकाभावादेव नावगाहः, नहि । हंसस्यावगाहकस्थाभावेऽवगाह्यत्वं जलस्य हीयत इति ॥ अथाऽऽकाशे प्रमाणमादर्शयति- मानन्तु द्रव्याणां युगपदवगाहोऽसाधारणवाद्यनिमित्तापेक्षो युगप- दवगाहत्वादेकसरोवर्तिमत्स्यादीनामवगाहवदित्यनुमानम् । लोकालोक- भेदेन तद्विविधम् ॥ मानन्त्विति । द्रव्याणामिति, अवगाहमानानामित्यादिः । अनेकद्रव्याणामेकदा योऽ- वगाहस्तस्यैव पक्षत्वसूचनाय युगपदषगाह इत्युक्तं, अन्यथा स्थूलानामेव द्रव्याणां प्रतिधातात् सूक्ष्माणां परस्परावगाहप्रदत्वेन ताशावगाहेऽसाधारणबाह्यपरमाण्वन्तरसापेक्षत्वस्य सिद्ध- त्वेन सिद्धसाधनत्वापत्तेः । तथा च सर्वेषां युगपदवगाहं प्रत्यसाधारणं निमिचं गगनातिरिक न किमपि भवतीत्याकाशसिद्धिः । न चावरणाभाव एव तादृशोऽस्त्विति वाच्यम् , सर्वथाऽधि- 15 करणानात्मकस्यामावस्यापसिद्धान्तत्वेन तदधिकरणात्मकस्यैवाकाशत्वात् । न चाकाशस्यापि धर्मादीनामिवावगाहदायि द्रव्यान्तरं स्यादिति वाच्यम् ततोऽधिकव्यापिद्रव्यान्तराभावात् । धर्मिग्राहकप्रमाणेन तस्यात्रगायत्वेनैव सिद्धेश्च । एवमेव यद्यद्रव्यं तवत्साधारमिति व्या- स्याऽस्ति गगनं द्रव्याणां साधारत्वान्यथानुपपत्तरित्यनुमानादपि सर्वाधारत्वेनाकाशसिद्धिः। न च तस्यापि द्रव्यत्वेन साधारत्वं स्यात्तथा चानवस्थेति वाच्यम्, धर्मिग्राहकमानेनाधार- 20 मात्रस्वरूपतयैव सिद्धेः । न चाकाशे द्रव्यत्वसत्वेऽपि साधारवाभावेन व्यभिचार इति वाच्यम्, धर्मिसिद्धः पूर्व व्यभिचारास्फुरणात्, तदुत्तरं तत्स्फूरकिञ्चित्करत्वादिति ॥ १नच धर्मावविवाधारी भविष्यतः किमतिरिनाकाशेनेति वाच्यम् । तयोर्गतिस्थितिमायकत्वात, न ह्यन्यसाध्यं कार्यमन्यः प्रसाधयति, अतिप्रसङ्गात् । न च युतमिदानामेव कुण्डवदरादीनामाधाराधेयभाव- दर्शनाद्युतसिद्धाना न धर्माधर्माद्याकाशानामाधारावेयभाव इति वाच्यम्, युतमिद्धयभावेऽपि पाणी रेखेत्यादी तदर्शनात् । न चाकाशस्थावकाशदातृत्वे मित्यादिना गवादीना प्रतिघातो न स्यादिति वाच्यम्, मूर्तानां स्थूला- नामन्योऽन्यप्रतिष तात् सूक्ष्माणामन्योन्यप्रवेशशक्तियोगात्, अन्योन्यप्रदेशयोग्यानामवकागदातृत्वादाकाशस्य तावता मामबहानाभावादिति ॥

तत्वन्यायविभाकर [सुंतीयकिरणे धर्मिग्राहकमानेनाकाशस्यैकत्वे सिद्धे तस्योपाघिनिमित्तं भेदमाह-लोकालोकेति, लोका- 'काशोऽलोकाकाशश्चेति द्विविघमित्यर्थः, धर्माद्यवच्छिन्नं नमो लोकाकाशस्तद्विपरीतोऽलोका- काश इति भावः। ननु लोकाकाश एव भवतु किमलोकाकाशेनेति चेन्न लोको विद्यमान- विपक्षः, व्युत्पत्तिमच्छुद्धपदाभिधेयत्वादघटविपक्षकघटवदित्यनुमानेन तत्सिद्धेः, न च घटा- 5 दिरेवालोक 'इति वाच्यम्, नबा निषेध्यसदृशस्यैव वोधनात् , तस्माद्धर्माद्याधारात्मकलोका- काशस्य विपक्षोऽलोकाकाशमेव भवितुमर्हतीति बोध्यम् ।। लोकाकाशमानं वक्तुं परिच्छेदकलोकस्वरूपप्रदर्शनद्वारा परिच्छेद्यमानं स्पष्टयति- चतुर्दशरज्जुप्रमाणः पञ्चास्तिकायात्मको लोकस्तद्व्याप्योऽसंख्येयप्रदे- शाऽऽत्मको लोकाकाशः । तद्भिन्नोऽलोकाकाशोऽनन्तप्रदेशात्मकः । धर्मा- "10 दयनयोऽपि स्कन्धदेशप्रदेशभेदेन त्रिविधाः। पूर्ण द्रव्यं स्कन्धः। माध्य. मिकौपाधिकभागा देशाः। केवलप्रज्ञापरिकल्पितसूक्ष्मतमो भागः प्रदेशः।। चतुर्दशेति।लोको हि भुवनं, तच्च पञ्चास्तिकायात्मकं, चतुर्दशरन्जुपरिमितञ्च, तेन व्या- प्य:-परिच्छिन्नः, तत्र परिच्छिन्न इत्यनुक्त्वा व्याप्य इति वचनं पश्चास्तिकायेपु परिच्छेदकतया व्यापकस्य ग्रहणार्थ, वादृशश्च धर्मो वा स्यादधर्मोवा, वथा च तावत्प्रदेशत्वमेवास्यापीत्याशयेना- 1B ह-असंख्येयप्रदेशात्मक इति । अलोकाकाशमाह-तद्भिन्न इति। लोकाकाशभिन्न इत्यर्थः । अनन्त- प्रदेशात्मक इति, एतदपेक्षया चसमस्ताकाशस्यानन्तप्रदेशात्मकत्वमित्यपि बोध्यम् । अथ धर्मा- दीनां त्रयाणां विशेषमाह-धर्मादय इति । अपिना जीवोऽपि तथैवेति सूचितम् , स्कन्धमाह-पूर्ण- मिति निखिलस्वस्वप्रदेशपरिपूर्णमसंख्येयप्रदेशात्मकमिति यावत् । माध्यमिकेति, पूर्णसमुदाया- देकाविप्रदेशहीना आन्यादिप्रदेशं बुद्धिपरिकल्पिता विभागा देशा उच्यन्त इत्यर्थः । केवलेति । 20 केवलज्ञानेन परिकल्पितः सूक्ष्मतमो निर्विभागो भागः केवलप्रज्ञयापि दुर्भेद्यः प्रदेश इत्यर्थः ॥ अथ कालस्य धर्मादिद्रव्यपञ्चकपरिणामत्वेन तदन्तर्भूतत्वे पदार्थान्तरत्वे वा सर्वथा तत्स्वरूपनिर्वचनस्यावश्यकत्वेन तं लक्षयति- वर्तनालक्षणः कालः॥ वर्तनालक्षण इति । तत्र कालस्य पर्यायात्मकत्वे वर्तना लक्षणं स्वरूपं यस्य स इति 25 व्युत्पत्त्या वर्तनास्वरूपः काल इत्यर्थो बोभ्यः । तत्र च वर्तना सादिसान्तादिचतुर्भेदमिन्नायां स्थित्यां यत्किञ्चित्प्रकारेण द्रव्याणां वर्तनं, सैव कालव्यपदेशभाक् । वत्र च परिणामक्रिया- परत्वापरत्वानामप्युपलक्षकं वर्तनापदं, पामपि कालव्यपदेशभाक्त्वात् । एतेषाव द्रव्यप- - - .

कालस्वरूप.] न्यायप्रकाशसमलङ्कृते ययित्वात् कथञ्चिद् द्रव्याभिन्नत्वेन द्रव्यामेदवर्तिवर्तनादिविवक्षया कालोऽपि जीवाजीव- तयोदितः, न तु पृथग्भूतं द्रव्यं, वर्तनाविपर्यायाणां द्रव्यत्वेऽनवस्थाप्रसङ्गात्, कालस्यास्ति- कायत्वप्रसाच्च । अयमेव द्रव्यकालः । ईदृशामिप्रायेणाऽऽगमः " किमयं मंते ! कालेति पवुच्चई १ गोयमा ! जीवा चेव अजीवा चेव" इति ।। यदि सर्वद्रव्यवर्ती वर्तनादिपर्यायः कालनाम्ना पृथग् द्रव्यं मामूत्, परन्तु सूर्यादिचारा- 5 भिव्यङ्गयो मनुष्यक्षेत्रवर्ती परमाणुवत्कार्यानुमेय शुद्धपदवाच्यत्वात्सत्त्वेनानुमीयमानो लोक- प्रसिद्धः कालामिधानष्षष्ठद्रव्यतया कथं न सिद्धयेदिति विभाज्यते तदा वर्तनया लक्ष्यतेऽनुमी- यते योऽसौ वर्तनालक्षणः काल इत्यर्थो वाच्यः। एकस्मिन्नविभागिनि समये धर्मादीनि द्रव्याणि स्वकीयपर्यायैरादिमदनादिमद्भिरताव्ययधौव्यविकल्पैर्वर्तन्त इति तद्विषया वृत्तिर्वना । सा च तुल्यजातीयानां भावानां युगपद्धाविन्यत्र विवक्षिता, तस्या एव कालापेक्षत्वात् , माक 10 न्दादिषु मञ्जरिकादिवत् । एतेन मनुष्यक्षेत्रात्परत अधिोलोकयोश्च काललिङ्गानां वर्चना- दीनां सत्त्वेन कुतो न तत्र कालोऽभ्युपगम्यत इति शङ्का पराखा, तत्र भावानां वर्तनाया: कालानपेक्षत्वातत्र सतां पदार्थानां स्वयमेवोत्पद्यमानत्वाद्विनश्यमानत्वाद्वर्तमानत्वाच । सजा- तीयेषु सर्वेषु युगपत्तद्नुद्भवात् । विवक्षितेन नवपुराणादिना तेन तेन रूपेण परमाण्वादिप- दार्थानां शश्वद्भवनं सा वा वर्चना, तथा च स्वयमेव वर्तमानानां पदार्थानां या वर्तनशीलता सा 15 बानिमित्तान्तरसापेक्षा कार्यत्वाद्धदादिवदिति वर्तनशीलत्वनिरूपितापेक्षाकारणत्वेन काल- सिद्धिर्भवति । न च सा वर्तना समयपरिणतिस्वमावा दुरधिगमा चेति कथं तस्य पक्षत्व- मिति वाच्यम् , व्यावहारिकस्य पाकस्य वण्डुलविक्लेदनलक्षणस्यौदनपरिणामस्य दर्शनात्, प्रति- समयं प्रथमसमयादारभ्य सूक्ष्मपाकामिनिवृत्तेरिख सर्वेषामपि द्रव्याणां स्वस्वपर्यायाभिनिवृत्ती प्रतिसमयं वर्तनाया अनुमीयमानत्वादस्ति कालो नवपुराणादिपरिणामान्यथानुपपत्तेरिति ।। 20 तथा ह्याश्वोऽद्यादिकालवचनान्यपि बाह्यार्थनिबन्धनानि, असमस्तपदत्वाद्रूपादिशब्दवत्, ब- आदिकालवचनानि यथार्थानि यथाभ्युपगममाप्तस्तथाभिधीयमानत्वात्, प्रमाणावगम्यः प्रमे- योऽर्थ इत्येवंविधवचनवदित्याद्यनुमानानि भाव्यानि । न चादित्यगतिनिबन्धना वर्जना, तद्तावपि वर्चनाया दर्शनेनापरहेतुत्वप्रसङ्गात् । नवाऽऽकाशप्रदेशनिमिचा, तस्याधिकरणत्वात् तस्मालालोऽस्त्येवायमेव चाखाकाल उच्यते । एवञ्च यत्र कालस्तत्र वृत्तिवनाद्याकारेण 25 परिणमते नान्यत्रेति नियमः। न च बाह्यद्वीपेषु भावानां वृत्तिः कालापेक्षा वृत्तिशब्दवाच्यत्वा- दिहत्यकुसुमवृत्तिवदिति तत्रापि कालसिद्धिरिति वाच्यम्, अलोकस्य वृत्तौ समयवृचौ च व्यभिचारात्, तथा चोत्सादव्ययधौव्यव्यतिरेकेण सत्त्वस्य गुणपर्यायव्यतिरेकेण च द्रव्यत्व- स्थासम्भवात् कालस्यापि सत्त्वं द्रव्यत्वश्च सिद्धमेव । ननु कालस्याविभागित्वात् परमनिक- . तत्वन्यायविभाकरे [तृतीयकिरणे बैकसमयरूपत्वात्समुच्छिन्नपूर्वापरकोटित्वादस्तिकायत्वाभावेन प्रदेशशून्यत्वात्प्रागभावप्रर्व- साभावावस्थयोरसत्वेनोत्पादव्ययध्रौव्ययुक्तत्वं गुणपर्यायवत्त्वञ्च कथमिति चेदुच्यते, जिनव- चनस्य प्रधानोपसर्जनीकृतेतररूपद्रव्यपर्यायोभयनयावलम्बित्वादेकस्यापि समयस्य निष्पदे- शस्य द्रव्यपर्यायावबद्धवृत्तित्वमेव, द्रव्यार्थरूपेण प्रतिपर्यायमुत्पादव्ययधर्मापि स्वरूपानन्य- भूतक्रमाक्रममाव्यनाद्यपर्यवसानानन्तसंख्यापरिणामपर्यायप्रवाहव्यापिनमेकमेवात्मानमात- नोति, अतीतानागतवर्तमानावस्थास्वपि कालः काल इत्यविशेषश्रुते. सर्वदा धौन्यांशावलम्ब- नात्, तथा च श्वोभावेन विनश्याधत्वे प्रादुर्भवति, अद्यत्वेनापि विनश्य बस्त्वेनोत्सद्यते, काल- त्वेन तु श्वोऽवह्य पर्यायेषु संभवित्वादन्वयरूपत्वा ध्रुव एवेति, पर्यायार्थतया त्वत्यन्तविविक्तरू- पत्वात्पर्यायाणां प्रत्युत्पन्नमात्रविषयत्वादतीतानागतयोरभावादेव न वृत्तो नापि वयन्निति तेन 10 प्रकारेणासत्त्वं, तथा च स्यात्सत्त्वं स्यान्नास्तित्वमिति व्यवस्थानात् गुणपर्यायवांश्च काळ इति॥ इत्थमवधृते कालस्वरूपे वत्प्रमाणे च तस्यास्तिकायत्वाभावेन स्कन्धदेशप्रदेशा न सन्ति किन्तु एकविध एव स इत्याह- स च वर्तमानस्वरूप एक एव । सोऽपि निश्चयव्यवहाराभ्यां द्विविधः ॥ स चेति । वर्तनया लक्ष्यमाणोऽखाकाल इत्यर्थः, न तु वर्तनास्वरूपात्मा कालः, तस्य 15 जीवाजीवरूपत्वात् । एक एवेति वर्तमानकसमयात्मक इत्यर्थः । अस्य द्वैविध्यमादर्शयति- सोऽपीति । वर्तमानकसमयात्माऽद्धाकालविशेष:-प्रमाणकालोऽपीत्यर्थः । नैश्चयिको व्याव- हारिकश्चेति द्विविधः कालस्समयरूप इति भावः । अद्धाकालविशेषः-प्रमाणकालोऽतीतोऽ' नागतो वर्तमानश्चेति त्रिविधः । तत्र विद्यमानैकसमयात्मको वर्तमानो नैश्चयिकः । तमव- धीकृत्य भूतस्समयराशिरतीतः । तमेव समयं वर्तमानमवधीकृत्य यो भावी समयराशिः 20 सोऽनागतः कालः । वर्तमानसमयान्यः सर्वोऽपि कालो व्यावहारिक इति भावस्तदुक्तं- "अद्धाकालस्यैव भेदः प्रमाणकाल उच्यते । अहोरात्रादिको वक्ष्यमाणविस्तारवैभवः ॥ तथा, अत्र प्रमाणकालोऽस्ति प्रकृतस्स प्रतन्यते । अतीतोऽनागतो वर्तमानश्चेति त्रिधा स च ।। अव- धीकृत्य समयं वर्तमानं विवक्षितम् । भूतस्समयराशियः कालोऽतीतः स उच्यते॥ अवधीकृत्य १ तत्रानागत कालोऽनादित्वानन्तत्वाभ्या समानोऽपि समयाधिकः, वर्तमानसमयस्य तत्र प्रवेशात् , नचा- तीते कुतो न तस्य प्रवेश इति वाच्यम् । अतीतस्य विनष्टरूपतयाऽविनश्वररूपस्य तस्य तत्र प्रवेशासम्भवात, किन्त्वविनश्चरेऽनागत एवेति । अतीत कालवानागतकालात्समयेन न्यून । केचित्तु अतीतादातोऽनागताद्धाया अनन्तगुणवं समत्वे चेदानीं समयातिकमे समयोना स्यात् , अनन्तगुणत्वे तु नानन्तेनापि कालेन गतेनासौ क्षीयत इति वदन्ति । ।

कारप्रकारा ] न्यायप्रकाशसमलते समयं वर्चमानं विवक्षितम् । भावी समयराशिः कालस्स स्यादनागतः ॥ वर्तमानः पुन- वर्तमानकसमयात्मकः । असौ नैश्चयिकस्सर्वोऽप्यन्यस्तु व्यावहारिकः " ॥ इति जम्बूद्वीपप्रज्ञा- प्तिवृत्त्याद्यभिप्रायः ॥ वत्र नैश्चयिकं कालमाह- वर्तनादिपर्यायस्वरूपो नैश्चयिकः । ज्योतिश्चक्रभ्रमणजन्यस्समयाव- 5 लिकादिलक्षणः कालो व्यावहारिका ॥ वर्चनादीति । वर्तनादिपर्यायैः स्वरूप्यते लक्ष्यते यस्स नैश्चयिक इत्यर्थः, पर्तनादिलिगक इति यावत्, आदिना क्रियापरिणामपरत्वापरत्वानां ग्रहणम् । व्यावहारिकं कालमाह-ज्यो. विश्वक्रेति, ज्योतिषां विमानविशेषाणां चक्रं समुदायस्तस्य भ्रमणेन जन्यो व्यङ्गयः, सूर्यादि- चारव्यङ्गय इति भावः । समयावलिकादिलक्षण इति, योगिनापि यः कालविशेषो विभक्तुं न 10 शक्यतेऽतिसूक्ष्मत्वात्स कालविशेषः समय उच्यते | असंख्येयसमयसमुदयसमितिसमागम- निष्पन्नाऽऽवलिका | आदिना मुहूर्त्तदिवसाहोरात्रपक्षमाससंवत्सरयुगपल्यसागरोत्सर्पिणी- परावा मायाः। एतेषां विशेषो बोधः प्रवचनादवसेयः। कालस्यायं विभागकलाप उपचा- रार्थ कल्पितोऽबसेयः, समयस्यैकत्वेन विभागाभावात् समूहस्य चामुख्यत्वेनैव विभागा- सम्भवाच । परन्तु कालस्य समूहबुद्धयङ्गीकृतस्य विभागो वेदितव्यः ॥ अथ कालो नास्तिकायपञ्चकन्यतिरिक्तः किन्तु जीवाजीवद्रव्यपर्याय एव वर्तनादि- क्रियारूपः । स च वर्तितुर्भावादनन्तरं कालस्तत्परिणामत्वात् , कलनं संशब्दन पर्यायाणा- मिति व्युत्पत्तेः । तथा च तेन तेन रूपेण सादिसान्तादिरूपेण नवपुराणादिरूपेण वा वर्त- नैव द्रव्यसम्वन्धित्वाद् द्रव्यकाल उच्यते, जीवाजीवौ वा पर्यायपर्यायिणोरभेदोपचारात्। न खल्लु वर्चनापरिणामादिभ्यो भिन्नं द्रव्यमस्ति, समयावलिकादिरूपोऽपि नृक्षेत्रगः कालोन 20 जीवाजीवेभ्यो व्यतिरिक्त, सूर्यादिक्रियैव हि परिणामवती कालो नान्यः । पर्यायरूपत्वेन वत्येकत्वेऽपि किञ्चिन्मानविशेषविवक्षया द्रव्यकालोऽद्धाकाल इत्यादिव्यपदेशः । तस्मात- दुपचरितं द्रव्यमुच्यत इत्याशयेनाह- वस्तुतस्तु कालोऽयं न द्रव्यात्मकः। किन्तु सर्वद्रव्येषु वर्तनादिपर्या- याणां सर्वदा सद्भावादुपचारेण कालो द्रव्यत्वेनोच्यते । वर्तनादिपर्या- 25 याश्च वर्तनाक्रियापरिणामपरत्वापरत्वरूपेण चतुर्विधाः। तत्र सादिसा- । 15 :४६: तत्वन्यायविभाकरे [ तृतीयकिरणे तसाधनन्तानादिसान्तानाद्यनन्तभेदभिन्नेषु चतुःप्रकारेष्वेकेनापि केन- चित्प्रकारेण द्रव्याणां वर्त्तनं वर्तनेत्युच्यते । इयं वर्तना प्रतिसमयं परिवर्तनात्मिका, नातो विवक्षितैकवर्तना द्विसमयं यावदपि स्थिति कुरुते । अतो या वर्तनायाः परावृत्तिस्सा पर्यायत्वेनाभिधीयते । भूत- 5 काले भूता भविष्यति भविष्यन्त्यो वर्तमानकाले च भवन्त्योया द्रव्याणां चेष्टास्सः क्रियापर्यायःप्रयोगविस्रसापरिणामाभ्यां जायमाना नवीनत्व- प्राचीनत्वलक्षणा या परिणतिस्स परिणामः ॥ वस्तुतस्विति । न द्रव्यात्मक इति, अपि तु पर्यायात्मक इति भावः । नर्हि द्रव्यकाल इति कथमित्यवाह-किन्त्विति, तथा च पर्यायपर्यायिणोरभेदोपचारादिति भावः । अथ 10 कालस्वरूपानुपकारमूवान् वा वर्तनादीनिदर्शयति वर्चनादीति । तत्र द्रव्याणां वर्तनं वर्तना। देशान्तरप्रात्यादिलक्षणा चेष्टा क्रिया। द्रव्यस्य स्वजात्यपरित्यागेन परिस्पन्देतरप्रयोग जपर्यायस्वभावः परिणामः । यदाश्रयतो द्रव्यं परापरव्यपदेश्यं ते परत्वापरत्वे, परत्वं पूर्वमावित्वमपरत्वं पश्चाद्भावित्वमिति । यद्यपि परत्वापरत्वे प्रशंसाकते क्षेत्रकृतेऽपि भवतः। यथा परो धर्मोऽपरोऽधर्म इति, अत्र परत्वं ज्ञानत्वमपरत्वमज्ञानत्वं । एकदि- 15 क्कालावस्थितयोरयं परोऽयमपर इति, अत्र परत्वं विप्रकृष्टत्वं सन्निकृष्टत्वमपरत्वं वोध्यम्, तथापि कालप्रसङ्गेन पूर्वपश्चाद्धावित्वरूप एवात्र ग्राह्ये । अथ वर्तनां स्वरूप- यति-तत्रेति चतुर्विधेषु पर्यायेष्वित्यर्थः । द्रव्याणां स्थिनिश्चतुर्विधा, सादिसान्ना, साधनन्ता, अनादिसान्ता, अनाद्यनन्ता चेति ! आसु केनचिद्रूपेण द्रव्यस्य वर्चनमि- त्यर्थः, तत्र द्रव्यं चेतनाचेतनभेदाद्विविधम् । सचेतनस्य सुरत्वनारकत्वविर्यक्त्वमनुष्यत्व- 20 पर्यायमधिकृत्य सादिसान्ता स्थितिः । प्रत्येक सिद्धत्वापेक्षया साधनन्ता सिद्धानां । भव्यत्व- मानित्य भन्यानामनादिसान्ता, सिद्धत्वप्राप्तौ भन्यत्वनिवृत्तेः । अमव्यवमुररीकृत्याभन्य- जीवानामनाद्यनन्ता विज्ञेया। अचेतनेषु व्यणुकादिस्कन्धानां सादिसान्ता स्थितिः, उत्कृष्ट- तोऽप्येकेन द्वषणुकत्वादिपर्यायेण पुद्गलद्रव्यस्यासंख्येयकालमात्रस्थितेः । अनागताद्वाया भविष्यकालरूपाया साधनन्ता, अतीताद्धाया अतिक्रान्तकालरूपाया अनादिसान्ता, धर्मा- 25 धर्माकाशादीनां अनाद्यनन्ता वोध्या । प्रोक्तचतुर्विधस्थित्यन्यतमरूपेण खयमेव वर्तमानानां पदार्थानां समयानया वर्जनशीलता वर्त्तनेति मावः । इयमिति, समयाभयेत्यर्थः । तस्मादेव कापि वर्चना न द्विव्यादिसमयवार्चनी अत एव परिवर्तनशीला तदेव परिवर्तनं पर्याय उच्यत इत्याह-नात इति । क्रियापर्यायमाख्याति-भूतकाले भूता इति । करणं हि क्रिया स द्रव्य- ।

. 10 दललक्षणम् न्यायप्रकाशसमलवृत्ते । परिणामविशेपो यथा वर्तमानत्वमतीतत्वमनागतत्वञ्चेति, आकाशप्रदेशावल्यामहुली वर्तते अतीताऽनागता चेति अङ्गुलीनिष्ठा वर्चमानत्वातीतत्वानागतत्वपर्यायाः कालाश्रयाः क्रियारूपा द्रव्यस्य, समयानाश्रयत्वेऽतीत एव वर्तमानोऽनागतश्च स्यात्, एवमनागतो वर्तमानश्च सडीपूत, न चैवदिष्टम् , ततश्च समयभेदेन भूतसमयराश्यपेक्षया भूता अदुल्यादीनां क्रियाः, वर्तमानसमयापेक्षया भवन्त्या, अनागतसमयराश्यपेक्षया भविष्यन्त्यः क्रियाः पोया 5 उच्यन्ते, सा क्रिया त्रिधा प्रयोगविनसामिश्रजन्यभेदात् , तत्र प्रयोगजा जीवक्रियापरिणाम- सम्प्रयुक्ता शरीराहारवर्णगन्धरसस्पर्शसंस्थानविषया, विलसाजन्या प्रयोगमन्तरेण केवल- मात्मद्रव्यपरिणामरूपा, परमाण्वभ्रेन्द्रधनुःपरिवेषादिरूपा विचित्रसंस्थाना च, मिश्रजन्या तु प्रयोगविनसाभ्यामुभयपरिणामरूपत्वाजीवप्रयोगसहचरिता चेतनद्रव्यपरिणामा कुम्मस्त- 'म्भादिविषयेति बोध्या । एवंरूपत्वेऽपि क्रियायाः पदार्थानां भूतत्वभविष्यत्ववर्तमानत्व- विशिष्टा गतिक्रियारूपाः क्रियापर्यायत्वेन प्रायाः, कालानुकूलत्वात् । अथ परिणाममाह- प्रयोगेति । स्पष्टं, तदुक्तं " द्रव्याणां या परिणतिः प्रयोग विनसादिजा । नवत्वजीर्णताचा च परिणामस्स कीर्तित" इति । यद्यपि परिणाम: क्रियाविशेष एव तथापि परिणामेन स्थितेस्सनहात्त्रियातो भेदेनोत्कीर्तनम् । न च परिणाम एवोच्यतां कि क्रियया, तस्या अपि तत्रान्तर्गतत्वादिति वाच्यम् । द्रव्याणां द्वैविध्यप्रकाशनाय तदुपादानात् , द्रव्यं हि विविध परिस्पन्दरूपमपरिस्पन्दरूपमिति, तत्र परिस्पन्दः क्रिया, अपरिस्पन्दः परिणाम इति ।। अथ परत्वापरत्वपर्यायमाह- यदाश्रयतो द्रव्येषु पूर्वापरभावित्वव्यपदेशस्सः परत्वापरत्वपर्यायः॥ यदेति । कालोपकारप्रकरणात्कालकृते परत्वापरत्वेऽत्र ग्राह्ये न क्षेत्रप्रशंसाकृते, बाल- वृद्धयोः पुरुपयोः सन्निकृष्टे पर इति विप्रकृष्टेऽपर इति व्यवहारः कालकृतपरत्वापरत्वाभ्यां 20 भवतीति पूर्वापरभावित्वप्रयोजके परत्वापरत्वे पर्यायविशेषौ कालापेक्षे इति भावः ॥ अथ षष्ठं पुदलद्रव्यं निरूपयति- 15 रूपवन्तः पुनलाः ॥ रूपवन्त इति । रूपमस्त्येषामेषु वेति रूपवन्तः, पुदला इति, अन बहुवचनं परमाणु- भेदात्स्कन्धभेदाच तेषां भिन्नत्वप्रतिपादनार्थम् । अत्र रूपशब्दवाच्या मूर्तिः सा रूपादि- 25 संस्थानपरिणामा, रूपरसगन्धस्पशैः परिमण्डलत्रिकोणचतुरनायतचतुरस्राद्याकृतिमिश्च यः 'परिणामस्सा मूर्तिः। यदि धर्माधर्मसिद्धानां प्रतिविशिष्टसंस्थानपरिणामवत्त्वेनातिप्रसङ्ग इति .

। तस्वन्यायविभाकरे सुतीयकिरणे विभाव्यते तर्हि रूपं चक्षुम्रहणलक्षणं प्रायम् । रूपन्यतिरेकेण पुद्गलानामनुपलब्धे व्यार्था- देशतो रूपपरिणामात्पुद्रलद्रव्यमभिन्नं, पर्यायादेशाच्च कथञ्चिद्भेदः ततश्च कथञ्चिद्भेदा- भेदसम्बन्धेन रूपवत्त्वं पुदलद्रव्यस्य लक्षणं बोध्यम् । मूर्तिमत्त्वस्य रूपवश्वस्य च प्राप्त्यर्थ सर्वसंसारिजीवग्रहणयोग्यस्पर्शवत्वलक्षणं विहाय रूपवन्त इत्युक्तं, तेन यद्रूपवद्रव्यं तन्मूर्ति- 5 मदिति लभ्यते, यद्यपि स्पर्शरसगन्धा अपि मूर्ति न व्यभिचरन्ति तथापि स्पादिशब्दान- मिधेयत्वात्तल्लाभो न भवेदेवेति तल्लामार्थमेव तथोपादानम् । एतेन सर्वत्र रूपरसगन्धस्पर्शानां सत्त्वेन केषाश्चिदेव परमाणूनां रूपवत्त्वं केषाञ्चिदेव गन्धवत्त्वं रसवस्वं स्पर्शवत्त्वमिति भिन्नजातीयत्वं परमाणूनां व्युदस्तं, यत्र रूपपरिणामस्तत्र सर्वत्र स्पर्शरसगन्धानां सत्त्वादु- कटानुत्कटभेदेन च गुणानामुपलभ्यनुपलब्ध्युपपत्तेरिति ।। 10 एवञ्च पुद्गलमात्रस्य रूपरसगन्धस्पर्शवत्त्वाद्रूपवत्वमिव रसवत्त्वगन्धवत्त्वस्पर्शवत्त्वरू- पाणि व्यभिचारादिविधुराणि लक्षणानि सम्भवन्तीत्यभिप्रायेणाह- एते रसगन्धस्पर्शवन्तोऽपि । लोकाकाशव्यापिनः । ते च स्कन्धदेश- प्रदेशपरमाणुभेदेन चतुर्विधाः ।। एत इति । पुरला इत्यर्थः । कथञ्चिद्भेदाभेदादत्रापि मतुप् बोध्यः । अथवा नित्ययोगे 15 मतुप, रूपादिभिनित्यसम्बद्धा इत्यर्थः । तेनेन्द्रियसम्बन्धात्पूर्वमपि पुद्गला रूपाधाकारमान एव, न केवलं द्रव्यस्वभावा मूर्तिरेव चक्षुरादिग्रहणमासाद्य रूपादिव्यपदेशमश्रुते इति बोध्यम् । नन्वेषां पुद्रलानां कावगाहो लोकेऽलोकेऽपि वेत्याशङ्कायामाह-लोकाकाशेति । असंख्येय- प्रदेशात्मके लोकाकाश एवावगाहो न त्वलोके, धर्मास्तिकायविरहेण लोकादहिर्गमनासम्भवा- दिति भावः । ननु लोकाकाशेऽपि कि सामनाऽवगाहो घटजलाशयवद्वा एकदेशेनोच्यते- 20 परमाणुर्हि स्वयं प्रदेशरूपा, प्रदेशान्तररहितोऽतस्तस्यैकस्मिन्नेव प्रदेशेऽवगाहः, स्यणुकस्य परिणामवैचित्र्यादेकस्मिन् द्वयोश्च व्यणुकस्यैकस्मिन् द्वयोनिषु च, एवंक्रमेण चतुरणुकादीनां, संख्येयासंख्येयानन्तप्रदेशानां स्कन्धानामेकसंख्येयासंख्येयप्रदेशेष्ववस्थानमिति । अथैषां स्कन्धादिविभागमाह-ते चेति । पुद्गलास्संक्षेपतोऽबद्धा बद्धाश्चेति द्विविधाः, अबद्धाः परमाणव एते निरवयवाः, बद्धाश्च स्कन्धाः सावयवाः, स्कन्धापेक्षया देशप्रदेशभेदौ, वन 25 स्कन्धः स्थौल्यभावेन ग्रहणनिक्षेपणादिव्यापाराऽऽस्कन्दनात् स्कन्ध इति परमाणुसंघातरूपः ॥ तदाह- कृत्स्नतया परिकल्पितपरमाणुसमूह स्कन्धः ॥ कृत्स्नत्येति । विशिष्टरचनावान पूर्णः परमाणुसंधानः स्कन्ध इत्यर्थः, यथा घटादिः, पुदरमेदाः ] न्यायप्रकाशसमलते देशप्रदेशवारणाय पूर्ण इति, विशकलितपरमाणुव्रजवारणाय विशिष्टरचनावानिति, एतेनावय- विन. परमाणुसंघातात् सर्वथा भिन्नत्वं व्युदस्वम् नन्ववयवावयविनौ मिन्नौ भिन्नप्रतिभासत्वा- त्सयविन्ध्यवत्, न चासिद्धो हेतुस्साध्यधर्मिणि तत्सद्भावनिश्चयात्। न धानेकपुरुषप्रतिभास- विषये एकस्मिन्न भिन्नप्रतिमासत्वसत्त्वेन व्यभिचार इति वाच्यम् , एकपुरुषापेक्षया भिन्नप्र- तिमासत्वस्य हेतुत्वात् । न चैकेन पुरुपेण क्रमेण दृष्टे एकस्मिन्नेव घटे हेतोस्सत्त्वेन व्यमि-5 चार इति वाच्यम्, मिन्नलक्षणत्वे सत्येकपुरुषापेक्षया भिन्नप्रतिभासत्वस्य हेत्वर्थत्वात्, अस्ति हि घटकपालादौ विभिन्नलक्षणत्वं भिन्नप्रतिमासत्वञ्च । न च ययोन तादात्म्यं न तयोरमिन्न- देशत्वं, यथा साविन्ध्ययोः । अभिन्नदेशत्वचावयवावयविनोस्ततस्तादात्म्यमेवेति वाच्यम् , अवयवावयविनोरभिन्नदेशत्वासिद्धेः, घटादेहिँ कपालो देशस्तस्य च तदवयव इति देशस्य भिन्न- त्वमेवेति।नच कथञ्चित्तादात्म्यस्य प्रत्यक्षतः प्रतीतेस्सर्वथा भेदपक्षो बाधित इति वाच्यम्, भेद- 10 स्यैव पूर्वसिद्धत्वात् तादात्म्यस्य पूर्वसिद्धत्वाभावात् , कार्यकारणत्वधर्मधर्मित्वाधिकरणाधेयत्व- विमिन्नक्रियात्वादिभिर्मेदस्य सिद्धेस्तस्मादवयवावयविनोभेद एवेति चेन्मैवम्, वृत्त्यनुपपत्ते, सा हि वृत्तिः प्रत्याश्रयमेकदेशेन सर्वात्मना वा स्यात् , तत्र न होकस्य प्रत्याभयमेकदेशेन कृतित्वं, निरंशत्वात् , नवा सामस्त्येन, अवयविनां बहुत्वापचेः स्वावयचेषु प्रत्येकं सर्वात्मना वर्तमान- त्वात्, न चाप्यवयविनः प्रदेशवत्त्वं न्याय्यं, तत्रापि वृत्तिविकल्पेनानवस्थानात्, एकदेश- 15 सर्वात्ममिन्नवृत्तिवाया अप्रसिद्धत्वात् । न च समवाय एव प्रकारान्तरं वर्तत इति वाच्यम्, समवैतीति समवाय इति सम्प्रत्ययात् तत्रापि प्रत्याश्रयमेकदेशेन सर्वात्मना वेति विकल्पस्य निष्प्रत्यूहत्वात्, तत्र च दोषस्योक्तत्वात् । तस्मादवयविनः स्वाश्रयेभ्यो नैकान्तेन भेदस्तत्र वृत्युपलब्धेः । यतो यस्यैकान्तभेदतत्र तस्य न वृत्युपलब्धिर्यथा विन्ध्यस्य हिमवति । स्वाश्रयेषु त्ववयव्यादेवृत्त्युपलब्धेनैकान्तेनान्यत्वम् । अतरसर्वथा भेदस्य बाधितत्वेन मिन्न- 20 प्रतिभासत्वहेतोः कालात्ययापदिष्टत्वम् । न च घटे ततस्सर्वथा मिन्नस्थापि जलस्य वृत्त्युपड़- ब्ध्या व्यभिचार इति वाच्यम् । तत्र वृत्तेसंयोगस्य परिणामविशेषस्य संयोगिभ्यां घटजला- भ्यां सर्वथा भेदासिद्धेः । अन्यथा संयोगाभावप्रसङ्गात् । ताभ्यां हि भिन्नस्य संयोगस्योत्पत्ती जलस्य कथं घटे संयोग इति व्यपदेशो यतस्स तत्रैव वृत्तिर्मवेत्। संयोगस्य ताभ्यां जननाचथा व्यपदेश इति तु तस्य कालादितोऽपि जननात्तत्रापि तथा व्यपदेशप्रसङ्गतो व्युदंसनीयः । 25 वस्मान्न संयोगिभ्यां संयोगोऽर्थान्तरभूत इति नोक्तहेतौ व्यभिचारः, सर्वथाऽर्थान्तरभूतस्य . . १ कार्यकारणादिभेदस्य सर्वैः स्वीकृतत्वेन पूर्वसिद्धत्वादित्यर्थः । २ तत्प्रत्यक्षस्य विवादापनत्वेन तादा- म्ये सांध्ये हेती संदिग्धासिद्धरित्यर्थः । ३ एकस्यावयव्यादेर्भागाभावेनानेकवावयवादी वृत्तिन भवतीति भाव.।

5 तस्वन्यायविभाकरे [ तृतीयकिरणे क्वचिदपि वृत्त्यनुपलब्धेन विरोधोऽपि । ननु तावयवावयव्यादीनां का वा वृत्तिरिति चेत्कयनि- तादात्म्यमित्युच्यते, न च तथासति तवापि वृत्तिविकल्पदोषप्रसक्तिरिति वाच्यम्, पदार्थानां भेदाभेदशबलैकवस्तुस्वरूपत्वेनावयवादिभ्योऽवयव्यादस्तादात्म्यस्याशक्यविवेचनत्वेन तदोषा- नवकाशात् । एवमेव गुणगुणिनोः क्रियाक्रियावदोस्सामान्यतद्वतोरपि वृत्युपपत्ति|ध्येति दिक्॥ अथ देशमाह- प्रदेशादाचीनस्कन्धभागा देशाः॥ प्रदेशादर्वाचीनेति । अयम्भावः, व्यणुकादिक्रमेणानन्तानन्तपरमाणुकावसानाः संघात्- विशेषात्समुत्पन्ना बहवस्स्कन्धा भवन्ति, तत्र स्वेषु स्वेषु स्कन्धेषु प्रदेशात्मकमेकं परमाणु पूर्णश्च स्कन्धं विहाय तदपृथग्भूता द्वित्र्यादिपरमाणुसंघावा देशा उच्यन्ते, न वावचपृथग्भूत 10 एकः परमाणुदेशस्तस्य प्रदेशत्वात् , यथा घटस्य प्रीबोदरपृष्ठादयो देशाः । तत्पृथग्भूतानान्तु ग्रीवादीनां स्कन्धान्तरत्वमेवेति ।। अथ प्रदेशमाह- केवलप्रज्ञागम्यस्कन्धानुवर्तिसूक्ष्मतमो भागः प्रदेशः ॥ केवलप्रक्षेति। योऽयं भागोऽतितरां सूक्ष्मः स्कन्धादपृथग्भूतः केवलप्रज्ञयैव गम्यस्स प्रदेश 15 इत्यर्थः । यथा घटस्यापृथग्भूतस्सुसूक्ष्म एकः परमाणुमागः । स्कन्धोऽयं भेदात्सङ्घाताद् भेद- सहातांभ्याश्च जायते, तत्रं भेदः संहतानां बाह्याभ्यन्तरपरिणामकारणसन्निधाने सति विदारणं, यथा पूर्णस्कन्धादेकस्याणोर्मेंद एकाणुभेदात्तन्न्यूनस्कन्धो जायते, एवं द्वित्र्यादिपरमाणुभेदक्रमेण यावविप्रदेशस्कन्धैर्भाव्यम् । पृथग्भूतानामेकीभावः संघाता, यथा द्वयोः परमाण्वोस्संघातात् -द्विप्रदेशो द्विप्रदेशस्याणोश्च संघावात्रिप्रदेशस्कन्ध इत्यादिप्रकारेण जायते, एकसामयिका- 20 भ्यां भेदसंघाताभ्याञ्च द्विप्रदेशादयः स्कन्धा उत्पद्यन्ते यथाऽन्यस्य परमाणोसंघातेनान्यतः स्कन्धा देनेति । एवं परिप्राप्तबन्धपरिणाम एव स्कन्धः, तत्र च केषाञ्चित्स्कन्धाना बन्धो जीव- व्यापारसम्प्रयुक्तो यथौदारिकशरीरजतुकाष्ठादिविषयः । केषाञ्चित्स्कन्धानां प्रयोगनिरपेक्षो वैससिक आदिमदनादिमद्भिन्ना, तत्राद्यो विद्युतुल्कामेघादिविषयः स्निग्धरूक्षगुणनिमित्ता, अपरश्च धर्माधर्माकाशविषयः, केषाश्चिच स्कन्धानां जीवप्रयोगसहचरिताचेवनद्रव्यपरिणति- 25 लक्षणो यथा स्तम्भकुम्भादिविषयः । तथा स्कन्धा अन्त्यस्थौल्या आपेक्षिकसौक्ष्म्यस्थौल्या इत्थमनित्थसंस्थानाच, यथा निखिललोकव्यापी महास्कन्धोऽन्त्यस्थूलतावानवयवविकास- मपेक्ष्यैवं बोध्यम् , प्रवचने त्वस्य सूक्ष्मपरिणामत्वमुक्तम् ।बदरादौ चामलकापेक्षया बदरं सूक्ष्म 5 । परमाणुचर्चा ] न्यायप्रकाशसमलते चणकापेक्षया च स्थूलमिति, वृनव्यस्रचतुरसाऽऽयतपरिमण्डलाहिरूपमित्थं संस्थान, ततोऽ- न्यदनित्थं संस्थान, वृत्ादिरूपेण निरूपयितुमशक्यत्वादिति ॥ अथ परमाणुमादर्शयति- स एव पृथग्भूतश्चेत्परमाणुरिति व्यवह्रियते । अयं परमाणुस्सा- न्तिमकारणं द्रव्यानारभ्यः कार्यलिङ्गकश्च ।। स एवेति । प्रदेश एवेत्यर्थः, स्कन्धादिति शेषः । एतेन परमाणोर्मेंदादेवोत्पादोनसंघाता- नापि भेदसंघावाभ्यामिति सूचितम् । इदन पर्यायनयाभिप्रायेण कार्यत्वोपवर्णनं विज्ञेयम् , लेहरौक्ष्यादिविगमास्थितिक्षयतो द्रव्यान्तरेण भेदात्स्वभावगत्या च बणुकादिस्कन्धभेदानु- पजायमानत्वात् । द्रव्यनयापेक्षयात्वाह-अयमिति । सर्वान्तिमकारणमिति, सर्वेषां व्यणुका- दिव्याणां कारणं, सर्वमेव हि द्रव्यं विदार्यमाणमसंभवद्भेदपरमाणुपर्यवसानं जायते न 10 पुनरत्यन्तामावरूपं निरुपाख्यमिति भावः द्रव्यानारभ्य इति, स्वतो द्रव्यावयवद्वारेणामेधा, द्रव्यान्तरावयवदन्यभिन्नत्वात् । रूपादिभिस्तु स्याद्भेदवान्, न च परमाणुरसन् निष्प्रदेश- त्वाद्गगनकुसुमवदिति वाच्यम् , सावयवद्रव्याभावात् सावयवप्रतिक्षेपेण चावश्यमनवयवेन सता वस्तुनैव भवितव्यं स चादिमप्रदेशोऽणुरित्युच्यते, न च परमाणुः सावयवः संस्था- नित्वात् कलशादिवदिति वाच्यम्, असिद्धः, संस्थानस्य द्रन्यावयवप्रयुक्तत्वाद्रव्यावयवा- 15 सिद्धौ तसिद्धेः, नाप्यसन्परमाणुरसंस्थानित्वादिति वाच्यम् , आकाशादौ व्यभिचारात् । तथा च परमाणुव्यात्मना स्यान्निरवयवो भावात्मना च स्यात्सावयवा, रूपाधवयववत्त्वात् तथा द्रव्यार्थादेशात्स्यात्कारण, पर्यायार्थादेशाच स्यात्कार्य स्कन्धमेदादुपजायमानत्वादत एंव च स्यानित्यमनित्यश्च । कार्यलिङ्गकश्चेति । अणूनामस्तित्वं कार्यलिङ्गादवसेय, कार्यलिङ्ग हि कारणं, नासत्सु परमाणुषु शरीरेन्द्रियमहाभूतादिलक्षणस्य कार्यस्य प्रादुर्भावः । ननु सर्वा- 20 न्तिमकारणत्वेन परमाणोर्निरवयवत्वात्कथमणुकयोः संहतौ व्यणुकरकन्धो जायते, संश्लेषास- भवात् , संश्लेषो हि तयोरेकदेशेन सर्वात्मना वा स्यात् , नाद्यः सावयवत्वापत्तेः, नान्त्यः सक- कस्यापि जगत एकपरमाणुमात्रत्वापचेरिति चेन्न, अनेकवस्तुविपये निरवशेषाभिधायित्वेन प्रसिद्धस्य सर्वशब्दस्य द्रव्यात्मनकस्मिन् परमाणौ प्रयोगासम्भवात् । एकदेशशब्दस्यापि नानात्वेन निश्चितस्य पदार्थस्य कस्यचिदागाभिधायिनो निर्भागपरमाणुविषये प्रयोगासंमवाच। 25 स्वयं अवयवभूतः परमाणुः परमाणुना सह भेदेन योगमायाति, न त्वण्वन्तरमाविशति, तस्य सक्रियत्वेन परमाणुस्थाकाश एवाऽऽवेशनात् , न च परमाणावनावशे योगो न संभवति स्यङ्गु- १न्यपर्यायाथदिशतः इत्ययः ।।

:५२: तत्त्वन्यायविमाकरे [ तृतीयकिरणे " लवत् परसरमनाश्लिष्टत्वादिति वाच्यम् , आवेशतो योग इत्यनुक्तेः किन्तु निरवयवत्वात् , तस्य च द्रव्यप्रदेशान्तरं न संयुक्तमपि तु स्वयमेवेति न कश्चिदोपः । अपि च योगसम्प्राप्तिलक्षणो न चासौ प्रदेशैरेव क्रियते, निष्प्रदेशस्यापि स्वयं प्राप्तौ विरोधाभावात् । एवं परमाणव एते प्रतिधातिनोप्रतिघातिनश्च तत्र प्रविघातत्रिविधो बन्धलक्षण उपकारामावलक्षणो वेगलक्षण- 5 श्चेति । बन्धपरिणामप्रतिघातः स्निग्धरक्षत्वप्रयुक्तबन्धतः, लोकादन्यत्र जीवाजीवानां गतेः प्रतिघात उपकाराभावान् , आगच्छता वैनसिकवेगवता परमाणुना परमाणोः प्रतिघातो वेगात् वेगवतोरेवाण्वोः प्रतिघातात् , एकस्मिन्नेवाकाशप्रदेशेऽनन्तानामपि परमाणूनामवगादृत्व मप्रविघातपरिणामात्, व्याप्तैकापवरके प्रदीपप्रभयेवान्यप्रदीपप्रमाणां, शीततमश्शब्दपुद्गला- नामप्रतिपावित्वदर्शनात् । इत्यञ्च परिणामविशेषात्प्रतिपातित्वमप्रतिपावित्वञ्च सम्भवति 10 पुद्रलेषु, यथा शब्दस्तावत् तिरस्कृतोऽपि कुड्यादिभिरप्रतिहन्यमानः श्रवणपथमभ्युपैति, स एव कदाचिदुह्यमानत्वाद्वायुना प्रविहन्यते प्रतिवावस्थितेनानुपलभ्यमानत्वात्, अनुवात- स्थितेनोपलभ्यमानत्वाचेति दिक् ।। - 15 अथ पुगलानां न केवलं स्पर्शादय एव धर्मा अपि तु शब्दादयोऽपीत्याह- शब्दान्धकारोद्योतप्रभाच्छायाऽऽतपादिपरिणामवान् ॥ शब्देति । प्रत्यर्थनियतसकतवर्णादिविभागवान् ध्वनिः शब्दः, अनादिवृद्धपरम्परा संकेतप्रसिद्धिवशात् प्रत्यर्थनियतत्वं, परस्परापेक्षातः स्वाभिधेयैकार्थकारितया शिविकोद्वा- हकवत् सङ्गतत्वं वर्णपदवाक्यानि, अव्यक्तशब्दश्च विभागस्तद्वान् ध्वनिरेव शब्दस्स च पुद्गलपरिणामत्वात्प्रतिविशिष्टपरिणामानुगृहीतः पुदलद्रव्यरूप एव, अत एव मूर्तत्वं द्रव्या- न्तरविक्रियापादनसामर्थ्याच्च । न च शब्दो न पुदलपरिणामो निश्छिद्रभवनाभ्यन्तरतो 20 निर्गमनात्, तत्र बाह्यतः प्रवेशात्, व्यवधायकाभेदनादेश्च दर्शनात्, यस्तु पुद्गलस्वभावो न तस्यैवंदर्शनं, यथा लोठादेः, तथादर्शनं च शब्दस्य, ततो न पुगलस्वभावत्वमिति वाच्यम्, पुद्गलस्वभावत्वेऽपि तदविरोधात् सूक्ष्मस्वभावत्वाद्धि तस्य निश्छिद्रनिर्गमनाइयो न विरुद्धवरन् स्नेहादिस्पर्शादिवत्, कथमन्यथा पिहितकलशाभ्यन्तरतस्तैलजलादेवहिनि- १ बन्धपरिणामोऽन्योऽन्याहाशिभावपरिणाम , न तु नरन्तयेण परस्परं संयोगमात्र, तथा सति प्रतिघातो न स्यादेव । अनन्तानामपि परमाणुना संयोगवृत्त्यैकस्मिनाकाशप्रदेशेऽप्रतिघातेन वृत्तेरिति भाव 1२ एकस्मिन् परमाणी कथं प्रतिघातित्वाप्रतिघातित्वे विरुद्ध स्त इत्याशंकाया सदृष्टान्तमाहेत्यश्चेति । ३ स्वयं विशेषणानाम- थमाहानादीति । ४ शब्दस्य मूर्तपुद्गलपरिणामत्वादेवेत्यर्थः । शब्दस्य मूर्तत्वे हेत्वन्तरमाह द्रव्यान्तरेति, चशब्दो हेत्वन्तरसमुचायकः, तेन प्रतीपयायित्वाद्वारानुविधायित्वादित्यादयो हेतवो प्रात्या ॥ .

, शब्दादीनां द्रव्यत्वं ] न्यायप्रकाशसमलते। गमनं स्निग्धतादिविशेषदर्शनादनमीयेत । कथं वा पिहितनिश्छिद्रमृद्धटादे लाभ्यन्तरनि- हितस्यान्तश्शीतस्पर्शीपलम्भात्सलिलप्रवेशोऽनुमीयेत, वदभेदनादिकं वा तस्य निश्छिद्रतया प्रेक्षणात्कयमुत्प्रेक्षेत, तस्मात्स्नेहादिस्पर्शादिमियभिचारी हेतुः । न च शब्दो,न पुलस्व- भावा, अस्पर्शत्वात् सुखादिवदिति वाधकसद्भावान्न पुगलस्वभावत्वं शब्दस्येति वाच्यम् , हेतोरसिद्धत्वात्, यतः कर्णशकुल्या कटकटायमानस्य प्रायशः प्रतिघातहेतोः श्रवणाधुपा- 5 तिनः शब्दस्य प्रसिद्धिरस्पर्शत्वकल्पनामस्तगमयति । न च शब्दस्य पुद्गलपर्यायत्वे चाक्षुषत्व- प्रसङ्ग इति वाच्यम् , गन्धपरमाणुवदहश्यत्वात्, एतेन शब्दस्याकाशगुणत्वं निरस्तं भूतत्वात्, नहि रूपादयो व्योमगुणा इति व्यवहारः शोभते तस्मात् पुद्गलानामेव तथाविधः परिणाम: शब्दव्यपदेशमभुते, तथा च परिणामपरिणामिनोरभेदेन स्याद्रव्यं स्याद्गुण इति विज्ञेयम् । अन्धकारस्तावत्युदलपरिणाम एष भित्त्यादिवद् दृष्टिप्रतिरोधकारित्वात्, पटादिवदा- 10 वारकत्वात् , न तु तेजोऽभावरूपः, व्यवधानक्रियासामर्थ्यात् मित्त्यादिवत् , अभावरूपत्वे हि निष्क्रियत्वेन व्यवधानक्रियाकर्त्तत्वं न स्यातस्य, न च यत्कार्यद्रव्यं न तत्तैजसेन प्रकाशेन विरुध्यते, विरुध्यते च तमा, ततो न द्रव्यकार्य तदिति वाच्यम् , तेजःप्रकाशयोरे- कत्वेनाभ्युपगमात् , जलाविद्रव्यस्य च तद्विरोधकत्वेनोक्तहेतोरसिद्धत्वात् । न च तेज:प्रकाश- योरेकत्वं न सम्भवति, धाराधरे निरन्तरधार वर्षत्यलिन्दकाविप्रतिष्ठापितेन प्रदीपेन 15 बहिरपि प्रद्योतनात् , अन्यथा जलपातेन प्रशान्ततया बहि:प्रकाशो न दृश्यतेति वाच्यं, तथा विधत्वमपरित्यजवां प्रदीपसम्बन्धिनां पुद्गलानां अलबिन्दुसम्पर्केण तथाविधत्वपरित्यागात् तत्समकालमेव प्रदीपशिखया विकीर्णानां कृशानुपुरलानामपराणां वदाकाशदेशप्राप्तः तेषाश्च परिणामविशेषतो वडवानलावयवानामिव जलपातेन शमयितुमशक्यत्वात्, तथा च परि- णामपैचित्र्यात् पुदलानां विरोधाविरोधपरिणामभाक्त्वेन नास्माकं कश्चन विरोध इति । 20 एवमुद्योतोऽपि चन्द्रग्रहनक्षत्रादीनां शीतप्रकाशः, स आहादकत्वात् प्रकाशकत्वाच जला- ग्न्योरिव मूद्रव्यपरिणाम एव, पद्मरागादीनां प्रकाशोऽप्युद्योतोऽनुष्णाशीतत्वात्पुरल- परिणामः। प्रभा च सूर्याचन्द्रमसोस्तेजस्विपुद्गलानाश्च प्रकाशरश्मिभ्यो निर्यदुपप्रकाशः सोऽपि विरलप्रकाशरूपत्वात् पुदलपरिणाम एव । एवं छायापि द्रव्यं क्रियावत्त्वाद्धटवत् छाया गच्छतीति प्रत्ययात्तस्य क्रियावत्वम् । देशादेशान्तरप्रात्युपलम्भतोऽपि तसिद्धेः। न च वार- 25 कद्रव्येण तेजसा सान्निध्यनिपेचे वारकद्रव्यगतक्रियायाः तेजोऽभावरूपायां छायायामारोपेण छाया गच्छतीति व्यवहार इति वाच्यम्, मुख्यक्रियाया बाधाभावे आरोपासंभवात्, तस्या १ हटेर्व्यवधानकरणे सामादित्यर्थः । २ उत्पत्तिस्थानस्थानामेव प्रदीपपुदलाना जलेन बिरोधो, न ततो बहिनिस्सानामिति स्याद्विरोधस्स्यादविरोधयेति भाव।

- :५४: तत्त्वन्यायविभाकरे [ चतुर्थकिरणे गतिमत्त्वे बाधकामावात्, एवं शिशिरत्वादाप्यायकत्वाच.जेलवातादिवद् द्रव्यत्वसिद्धेः । एवमातपोऽपि दिवाकरविमानात्स्वभावतः शीतलादपि समुपजायमान उष्णप्रकाशरूपः पुदल- परिणाम एव तापजनकत्वात्, स्वेदहेतुत्वादुष्णत्वात्कशानुवदिति ।। ननु पृथिव्या गन्धरसरूपस्पर्शवत्त्वाजलस्य रसरूपस्पर्शवश्वातेजसो रूपस्पर्शवत्त्वाहा- 5 योस्स्पर्शमात्रवत्त्वान्न पुदलपरिणामत्वं स्पर्शरसगन्धवर्णवतामेवागमे पुद्गलत्वप्रतिपादनात्, एषां च पृथिव्यादीनां विजातीयपरमाण्वारब्धत्वादित्याशङ्कायामाह- परमाणूनां परिणामविशेषा एव पृथिवीजलतेजोवायवः ।। इत्यजीवनिरूपणम् ॥ परमाणूनामिति । परिप्राप्तबन्धपरिणामाः परमाणव एव स्कन्धरूपाः पृथिव्यादयः, 10 एवं पृथिव्यादयः परमाणुपरिणामविशेषाः स्पादिमत्त्वात् , ये न तत्पर्याया न ते सर्शवन्तो यथाऽकाशादयः, स्पर्शादिमन्तश्च पृथिव्यादयस्तस्मात्परमाणुपर्याया इति तत्परिणामविशेषत्व- सिद्धिः, न च स्पर्शादिमत्त्वं पक्षैकदेशासिद्धम् , जलादौ गन्धाद्यमावादिति वाच्यम् , ' स्पर्शव- स्वेन गन्धानुमानात्, क्वचिजलादौ गन्धाधुपलब्धेश्च । न च तत्संयोगिनां पार्थिवद्रच्याणां संयोगेन तद्गुणत्वेन गन्धोपलब्धिस्तत्रेति वाच्यम् , साध्यसमत्वात् , तत्र तद्वियोगकालादर्श- 15 नात्, क्वचिदनुभूतखभावत्वेनैवानुपलब्धेः । एवं तेजोऽपि स्पर्शादिस्वभावक, तद्वत्कार्यत्वाद् घटवत्, स्पादिमतां हि काष्ठादीनां कार्य तेजः, - तत्परिणामाच, उपमुक्तस्य याहारस्य स्पर्शादिगुणस्य वातपित्तश्लेष्मविपरिणामः, पित्वं च जठरामिरुच्यते तस्मात्पर्शादिमत्तेजः । तथा वातश्च प्राणादिः, ततो वायुरपि स्पर्शादिमानिति भावः। अथाजीवनिरूपणं निगमयतीतीति। इनि तपोगच्छनभोमणि श्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कार श्रीमद्विजयकमलसूरीश्वर चरणनलिनविन्यस्तंभक्तिमरेण तत्पट्टधरेण विजयलब्धिरिणा विनिर्मितस्य तत्व न्यायविमाकरस्य स्वोपक्षायां न्यायप्रकाशव्याख्यायामजीवनिरूपणो नाम तृतीयः किरणः ॥ अथ चतुर्थः किरणः ॥" तदेवं जीवाजीवौ लक्षणप्रकाराभ्यां समासतोऽमिधाय क्रमायातं पुण्यतत्त्वं निरूपयितुं 25 वलक्षणमाह- पौगलिकसुखोत्पत्तिजनकं कर्म पुण्यम् । पौगलिकमेतत् ॥ पौगलिकेति । पौगलिकसुखोत्पादहेतुत्वे सति कर्मत्वं लक्षणार्थः, पापेऽतिव्याप्ति- - 20 पुण्यकर्मसिविः] न्यायप्रकाशसमलते वारणाय सत्यन्तं कालादिसमवायेऽतिप्रसङ्गभङ्गाय विशेष्यम् । मुक्तिसुखवारणाय पौगलिकेति सुखविशेषणम् । यदि मोक्षसुखजनके कर्मत्वामावादेव नातिव्याप्तिरतः पौगलिकेति व्यर्थमित्युच्यते तदा पौगलिकसुखपदेनेष्टगतिजातिशरीरेन्द्रियविषयादयो विवक्षितास्तथाच शोभनगतिवर्णाद्यनुगुणं शुभानुमावश्च पुण्यमिति फलितार्थः । ननु पश्वादयो देवदत्तगुणाकृष्टासन्तो देवदत्तमुपसर्पन्ति तम्प्रति नियमेनोपसर्पणाद् । प्रासादिवदिति प्रासादेराकर्षण यथा प्रयत्नेनात्मगुणेन भवति तथा पश्वादीनां देवदत्तात्म- गुणाभ्यां धर्माधर्माभ्यां भवतीति न्यायादितंत्रान्तरीयैर्धर्माधर्मात्मकपुण्यपापयोरात्मगुण- स्वाभ्युपगमावत्रापि किं पुण्यं गुणो वा पुद्गलविशेषो वेति शंकायामाह-पौद्गलिकमेत- दिति । एतत्पुण्यं पौगलिकं पुदलपरिणामत्वात्पौगलिकमित्यर्थः । पश्वादेराकर्षणं हि लोके रब्यादिना संयोगेन दृष्ट, अदृष्टेन त्वेषामाकर्पणं कथं वा स्यान्न संयोगेन द्रव्ययोरेव 10 संयोगाभ्युपमात्, न समवायेन असिद्धेः, नापि स्वाश्रयसंयोगेन, अदृष्टाश्रयस्यात्मनो विभुत्व- स्याप्रमाणत्वेन पश्यादिना संयोगासंभवादिति भावः । ननु नास्त्येव पुण्यं पापं वा कर्म, कायाकारेण परिणतेभ्यो भूवेभ्य एव सुखदुःखाद्युत्पादसंभवादिति चेन्न, शरीराकारपरिणत- पुद्रलाना साधारण्येन सुखदुःखवैपम्यस्य जीवेषु दृष्टस्यानुपपत्तेः, दृश्यते हि सुखित्वं कस्य- चिदेव कदाचिदेव दुःखित्वञ्च तथा, भूतानामेव तन्निवन्धनत्वे वैचित्र्यमिदं न स्यादेव, न 15 चैतद्वैषम्य निनिमित्तं, तथात्वे परमाणुवन्नित्यं सत्त्वं गगनकुसुमादिवन्नित्यमसत्त्वं वास्यान तु कादाचित्तत्वं, न चाकस्मिकत्वमेव कादाचित्कत्वमिति वाच्यम् , कारणनिरपेक्षोत्पत्तिकत्वस्या- कस्मिकत्वे निरन्तरोत्पत्तिप्रसङ्गात् , सामग्रीवैकल्यस्य वा प्रतिवन्धकस्य वा कस्यचिदभावात्, कारणोत्पत्तिभ्यां रहितत्वमेव तदिति चेचदा तयोनित्यत्वं वा, अत्यन्तासत्त्वं वा स्यात्, भवतु नित्यत्वमिति चेन्न तयोरुत्पादविनाशित्वेनानुभवात् , अत एव च नात्यन्तासत्त्वं, अथ 20 नान्यस्मात् कस्मादपि भवनमपि तु स्वस्मादित्याकस्मिकत्वमिति चेदसतः स्वपदार्थत्वे तस्मात्कस्यचिदप्युत्पत्त्यभावात्, यदि स्वं सदेव वर्हि किमुत्पत्स्या, सत्त्वार्थमेवोत्पत्तेर्गवेपणात्, वस्मादवश्यं कारणेन केनापि भवितव्यमेव, भवतु वर्हि भूतातिरिक्तं किञ्चिदेकमेव तत्कारण- मंविलक्षणादपि कारणात् कार्यवैचित्र्यस्य प्रदीपादौ दर्शनात्, प्रदीपो हि प्रकाशकारी तेलवि- नाशकारी वर्तिविकारकारी चेति, तथापि वैचित्र्यानुपपत्तेः, सर्वे मुखिनो वा स्युर्दुःखिनो बा, 25 दृश्यते च सुखादिवैचित्र्य, ववश्यमेव विचित्रस्य कर्मणः फलमभ्युपेयम् । अस्त्येव प्रदीपादा- बपि वैचित्र्यं, येन रूपेण प्रकाशकारी प्रदीपादिन तेन रूपेण वर्तिविकारकारी प्रतिक्षणं १. भारोग्यचिरजीवित्वात्यसकाममोगसंतोषप्रवज्यामोक्षरूपेषु सुखेषु मोक्षमेव सर्वोत्तमं सुखम्, परेषा दुःखप्रतीकारमात्रत्वात् सुखाभिमानजनकत्वाच, तत्त्रतो न सुखमेतदेव च पौलिकं मुखमिति भाव. ।

१५६: तस्वन्यायविभाकरे [ चतुर्यकिरणे पर्यायभेदात्, न च सचन्दनवनितादयस्सुखस्य हेतवो विषाहिकण्टकादयस्तु दुःखस्येति प्रत्यक्षा एव सुखदुःखहेतवः किमदृष्टेन निमित्तान्तरेणेति वाच्यम् , व्यभिचारात् वाहग्व- निवादिपदार्थसत्त्वेऽपि पुत्रादिवियोगव्यथितस्य सुखाभावात् सुखेऽपि दुःखेऽपि तारतम्य- दर्शनात् , नैतदृष्टं कमपि हेतुमन्तरेण युज्यते, तदेव पुण्यपापात्मकं बहुविभेदमदृष्टं कर्मेत्यु- 5 च्यते, ननु काणत्वखात्वादिशरीरादिवलक्षण्येन यदि कर्म साध्यते तहिँ कार्यस्य मूर्तत्वेन कर्मापि मूर्त स्यादिवि चेत्सत्यमस्माभिः प्रयलेन साधयितव्यस्य भवतैव साधनात् मूर्तमेव हि कर्म, तत्कार्यस्य शरीरादेर्मूर्तत्वात् , यस्य यस्य कार्य मूर्त तत्वत्कार्यस्य कारणमपि मूर्तम्, यथा घटस्य परमाणवः, यच्चामूर्त कार्य न तस्य कारण मूर्त यथा ज्ञानस्यात्मा । तथा मूर्त कर्म, तत्सम्बन्धे सुखादिसंविः, यत्संबन्धे सुखादि संवेद्यते तन्मूर्त दृष्टं यथाऽशनायाहार, io यच्चामूर्त न तत्सम्बन्धे सुखादि संविदस्ति, यथाऽऽकाशसम्बन्धे, एवं यत्सम्बन्धे वेदनोद्भवः तन्मूर्त दृष्टं यथाऽनला, भवति च वेदनोद्भवः कर्मसम्बन्धे तस्मात्तन्मू,' तथा मूर्त कर्म, आत्मनो ज्ञानादीनाञ्च तद्धर्माणां व्यतिरिक्तत्वे सति बाह्येन नगादिना बलस्याधीयमानत्वाद् यथा स्नेहाद्याहितवलो घटः, आधीयते च बार्मिध्यात्वादिहेतुभूवैवस्तुमिः कर्मण उपचय- लक्षणं बलं, तस्मात्तन्मूर्त, एवं मूर्त कर्म, आत्मादिव्यतिरिक्तत्वे सति परिणामित्वात् , क्षीर- 15 वत्, न चाय हेतुरसिद्धः, कर्मकार्यस्य शरीरादेः परिणामित्वदर्शनात्, यस्य कार्य हि परि- णामि सोऽपि परिणामी, यथा दध्नस्तकादिभावेन परिणामात्सयसोऽपि परिणामित्वमिति । ने चाभादिविकाराणां यथा वैनसिकी विचित्ररूपतया परिणतिरभ्युपगम्यते तथा परिदृश्य- मानं शरीरमेव काणत्वखात्वसुखित्वदुःखित्वादिभावैविचित्रतया परिणमति किमन्तर्गहुना फर्मणेति वाच्यम् , कर्मणोऽपि शरीरत्वात् , तद्धि केवलं लक्ष्णतरमभ्यन्तरञ्च जीवसंश्लिष्टत्वात् , 20 यथा च बाह्यतनोरभ्रादिविकारवद्वैचित्र्यमभ्युपगम्यते तथैव कर्मतनोरपि तदभ्युपंगमस्थ न्याय्यत्वात् । न च बाह्यवनोस्तस्वीकार उचितो दृश्यत्वात्, कर्मरूपायास्तु सर्वथाऽप्रत्यक्ष- स्वाद्वैचित्र्यं कथमिच्छाम इति वाच्यम्, मरणकाले दृश्यमानस्थूलशरीरस्य सर्वथा विप्रमुक्तिस्य जन्तोमवान्तरंगतस्थूलशरीरग्रहणहेतुसूक्ष्मकर्मशरीरस्यावश्यकत्वात् ,अन्यथा देहान्तरमहणानु- पपत्तमरणानन्तरं सर्वस्याप्यशरीरत्वादयत्नेनैव संसारंग्यवच्छित्तिः स्यात् । न च.मूर्तस्य कर्म- णोऽमूर्तेनात्मना सम्बन्धो न स्यादिति वाच्यम् , मूर्तस्य घटस्यामूनाकाशेन सम्बन्धात्, संसारिणो जीवस्य सर्वथाऽमूर्तत्वाभावाच । तस्मात्सिद्धं कर्म विचित्रं मूर्तश्चेत्यलं प्रसङ्गेन । तत्र पुण्यमिदं कार्यकारणभेदेन द्विविधं, सुपात्रदानादिमिर्वक्ष्यमाणैः कारणैस्सातो- २ १ ननु घटेनाऽऽकाशस्य संयोगे न मूर्तत्वं निबन्धनमपितु व्यापकत्वमित्यनुयोगे वाह संसारिण इति ।

पुण्यस्वरूपम् ] न्यायप्रकाशसमलते र्गोत्रादिकमनुभूयते जीवैः, तत्र सुपात्रदानादिकं कारणात्मकं पुण्यं, सातोचैर्गोत्रादिकन्तु कार्यात्मकं, आत्मशुभाध्यवसायस्य तु पुण्यत्वमौपचारिकममूर्चत्वात् , मूर्तस्यैव वन्धकत्वाच । तदिदं पुण्यपापात्मकं कर्म संतत्याऽनाचं, संसारस्यानादित्वात्, अन्यथा पूर्व जीवस्य पश्चात्कर्म- णसम्भवः, पूर्व वा कर्मणः पश्चाजीवस्य, उभयोरपि वा युगपद्वाच्यः, तत्रैकोऽपि पक्षो न सम्भवति, निहेतुकत्वेनात्मनः प्रथम सम्भवासंभवात् , तस्यानादिसिद्धत्वेऽपि पश्चात् कर्मवन्धो 5 न संभवत्येव, कारणाभावात् । निष्कारणं वा सम्भवे मुक्तस्यापि कर्मवन्धापत्तेः, तथा प्रथम कर्मसमुद्भवोऽपि न न्याय्यः, कर्तुर्जीवस्य तदानीमभावात्, अक्रियमाणस्य कर्मत्वायोगात्, कारणं विनैव तस्य समुद्भवे नाशस्याप्यकारणत्वापतेः । तथा न युगपदुत्पत्तिसम्भवः, उभय- स्थापि निर्हेतुकत्वात् , युगपदुत्पन्नयोस्त्रयोः कर्तृकर्मभावस्य सव्येतरगोविषाणयोरिवासम्भवात् । तस्मादनादिरेव जीवकर्मणोः सम्वन्धः । न च जीवकर्मसंयोगसन्तानस्यानादित्वे जीवनभ- 10 सोरिवानन्तत्वमपि स्यादिति वाच्यम् , वीजाकुरादीनां संतानस्यानादेरपि सान्तत्वदर्शनात् , दृश्यते हि वीजाङरयोर्मध्येऽन्यवरस्यानिवर्तितकार्यस्यैव व्युच्छेद इति । तथा च मिथ्या- बाविरतिकषाययोगरूपैर्वन्धहेतुमिर्जीवोऽष्टविधेपु औदारिकादिकर्मवर्गणापुद्रलेषु कर्मशरीर- ग्रहणयोग्यान पुद्गलानादत्ते, कर्मतया च ग्रहणसमय एवं तान् परिणमय्य शुभाशुभपरिणामा- नुसारेण कर्मपुद्गलेषु स्थितिरसादीन् निष्पाद्य क्षीरोदकवदात्मप्रदेशैस्सह सश्लेपयति । एवम्भूत 15 एव तस्य खभावो यत् कर्मवर्गणागतं कर्मयोग्यमेव द्रव्यमेकक्षेत्रावगाढमेव रुचकप्रदेशभिन्नैः सर्वैरपि स्वप्रदेश रागद्वेषक्लिनस्वरूपत्वाज्जीवो गृह्णाति न तु स्वात्मभिन्न प्रदेशावगाढं कैश्चिदेव प्रदेशैऍहाति । तत्र कर्मराशिश्च घात्यघातिभेदेन द्विविधः, अनन्तज्ञानदर्शनचारित्रवीर्यात्मका- स्मगुणानां सर्वथा देशेन वा प्रतिहननसमर्थ कर्म घातिकर्मेत्युच्यते, ज्ञानदर्शनावरणवेदनीयमो. इनीयायुष्कनामगोत्रान्तरायरूपाष्टविधमूलप्रकृतिभूतकर्मसु ज्ञानदर्शनावरणमोहनीयान्तरायच- 20 तुष्टयमात्मनो ज्ञानादिगुणघातकत्वादज्ञानाद्यशुभविपाकजनकत्वाचाशुभरूपं घातिकर्म । वेदनी. थायुष्कनामगोत्रचतुष्टयन्तु शुभाशुभविपाकजनकत्वाज्ञानाद्यविघातकत्वाच शुभाशुभरूपमघा- तिकर्म, तत्र यच्छुभं कर्म तत्पुण्यमशुमन्तु पापम्, एतचोभयमपि न मेर्वादिभावेन परिणतस्क- न्धवदतिबादरं, सूक्ष्मेण कर्मवर्गणाद्रव्येण निष्पन्नत्वान्नापि परमाणुवदतिसूक्ष्ममिति विज्ञेयम् ॥ द्रव्यभावभेदेन द्विविधपुण्यमध्ये यत्पौगलिकं पुण्यत्वेनात्र वर्णितं तदेव द्रव्यपुण्यमित्याह- 25 इदमेव द्रव्यपुण्यमुच्यते । द्रव्यपुण्यनामकर्मोत्पत्तिहेतुरात्मनश्शु- भाध्यवसायो भावपुण्यम् ॥

- 5 तस्वन्यायधिमाकरे [चतुर्यकिरणे इदमेवेति । पौगलिकमेवेत्यर्थः, भावपुण्यमाह-द्रव्यपुण्येति । येनाऽऽत्मनोऽव्यवसा- यविशेषेण द्रव्यात्मकपुण्यस्य निष्पत्तिः सोऽध्यवसायो भावपुण्यनामेत्यर्थः ।। अथ मूलप्रकृतिबन्धानामष्टविधकर्मणामुत्तरप्रकृतिबन्धेषु यानि पुण्यरूपाणि द्विचत्वारि- शद्विधानि पूर्वोदितानि प्रत्येकं तेषां स्वरूपं निरूपयितुमुपक्रमते- आयुर्नामगोत्रकर्मभिन्नमनुकूलवेदनीयं कर्म सातम् । वेदनीयायुर्ना- मकर्मभिन्नं गौरवजनकं कर्म उच्चैगोत्रम् । मानुषत्वपर्यायपरिणतिप्रयोजक कर्म मनुजगतिः ॥ आयुरिति । आयुर्नामगोत्रकर्मभिन्नत्वे सत्यनुकूलवेदनीयत्वे च सति कर्मत्वं सातवेद- नीयस्य लक्षणम् । उच्चैर्गोत्रादावतिव्याप्तिवारणाय विशेषणे । अनुकूलवेदनीय कर्म सातमि- 10 त्येतावन्मात्रोको सर्वस्यैव पुण्यात्मककर्मणोऽनुकूलत्वेनाहादादिरूपेण वेदनीयत्वादतिव्याप्ति- रिति प्रथम सत्यन्तं, असातवेदनीयेऽतिव्याप्तिवारणाय द्वितीयं सत्यन्तम् । कर्मत्वानुक्को साता- नुकूलाध्यवसाये कालादिसमवाये वातिव्याप्तिरतस्तदुपात्तम् । देवादिषु गति कर्तुरात्मनश्श- रीरमनोद्वारेणाऽऽगन्तुकानेकमनोजद्रव्यक्षेत्रकालभावसम्बन्धसमासादितपरिपाकावस्थं बहु- भेदं सुखपरिणतिरूपमिष्टं यदुवयाद्भवति तत्सातवेदनीयमिति भावार्थः । पञ्चदशसागरोपम- 15 कोटीकोट्योऽस्य परा स्थितिः, पञ्चदशवर्षशतान्यबाधा, जघन्या काषायिकी द्वादशमुहूर्ता, अन्तर्मुहुर्तमबाधा, इयञ्च संक्षिपञ्चेन्द्रियस्यैव । अकषायिकी तु जघन्यत उत्कृष्टतोऽपि सयो- गिकेवल्यादौ समयद्वयमा स्थितिः । उच्चैर्गोत्रस्वरूपमाह-वेदनीयेति । वेदनीयायुनामकर्म- भिन्नत्वे सति गौरवजनकत्वे च सति कर्मत्वं लक्षणार्थः । सातादावतिव्याप्तिवारणाय विशे. पणद्वयम् । गौरवजनकत्वे सति कर्मत्वस्य सद्वेदनीयवतो देवायुष्कस्य तीर्थकरनामकर्मणश्च गौरवदर्शनात् तत्र तत्र सत्वादतिव्याप्तिव्युदासाय प्रथम सत्यन्तम् । नीचर्गोत्रेऽतिव्याप्तिरतो द्वितीयं सत्यन्तम् । अध्यवसायविशेषे कालादौ वाऽतिव्याप्तिवारणाय विशेष्यम् । यदुदया- जीव आर्यदेशे मगधादौ हरिवंशाधुत्कृष्टजातिषु सन्मातृकुलेषु प्रमुसमीपाऽऽस्थानेषु समवं मानसत्कारेश्वर्यादींश्च लभते सदुच्चैर्गोत्रमिति भावार्थः । अस्य परा स्थितिविंशतिसागरोपम- कोटीकोट्यः । अबाधाकालो वर्षसहस्रद्वयम् । जघन्या त्वष्टौ मुहूर्ता अन्तर्मुहूर्तमबाधा चेति । १ जीवस्याध्यवसायवशाद्रहणकाले शुभाशुमादिविशेषणाविशिष्टाना कर्मणां ग्रहणसमय एवं शुभत्वमशुभत्वं का भवतीति पुण्यकर्मनिप्पत्तावघ्यवसायो हेतुरिति भाव. ॥ २ शोधितमिथ्यात्वपुद्गलरूपसम्यक्त्वहास्यरतिपुरुषवेदाना केषाश्चिन्मते पुण्यरूपत्वेऽपि मोहनीयमेदवेन विपर्यासहेतुत्वात्पापरूपसमिति तदुपेश्य द्विचत्वारिद्विषत्वं पुण्य- स्यात्रोकम् ॥ ३ वाहुल्येन देवेषु मनुजेषु च सातोदय कदाचिदसातोदयोऽपि, तिर्यक्षु नारकेषु बाहुल्येनासातो- दय. कदाचित्सातोदयोऽपि ॥ " 20 10 मानुपूर्वाकर्म] न्यायप्रकाशसमलद्धृते मनुजगति लक्षयति मानुषत्वेति, मानुषत्वपर्यायपरिणविप्रयोजकत्वे सति कर्मत्वं लक्षणार्थः । आत्मनो हि ससारस्थस्य मानुषत्वदेवत्वनारकत्वतिर्यक्त्वरूपाश्चतुःपयार्या गतिप्रयुक्ताः । तत्र यस्य कर्मण उदयादेकं कश्चन पर्यायं विहाय मानुषत्वपर्यायपरिणामवान् भवति तत्कर्म मनुजगतिरिति भावः । सातादावतिप्रसङ्गवारणाय विशेषणम् । कालादावतिप्रसङ्गमगाय विशेष्यम्, परिणतिप्रयोजककर्मत्वमात्रोकौ देवगत्यादावतिव्याप्तिरतो मानुपत्वपर्यायेति । 5 पराभिमतमानुपत्वजाविव्युदासाय पर्यायेति । मानुषत्वपर्यायप्रयोजकत्वे सति कर्मत्वस्य मनुजानुपूादौ सत्त्वात्तद्वारणाय परिणतीति, आनुपूाः परिणामेऽप्रयोजकत्वात्परिणाम- योग्यस्यैव तत्स्थानप्रापकत्वादिति । अस्या उत्कृष्टा स्थितिः पञ्चदशसागरोपमकोटीकोट्यः, पश्चदशवर्षशतान्यबाधा, जघन्या तु सागरोपमस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागेन न्यूनौ, अवाधात्वन्तर्मुहूर्तम् ।। मनुष्यानुपूर्वी वक्तुकामः प्रथममानुपूर्वीमादर्शयति- वक्रगत्या स्वस्वोत्पत्तिस्थानं गच्छतो जीवस्यानुश्रेणि गतिनियामक कर्म आनुपूर्वी ॥ वक्रगत्येति । अयमत्र भावः, जीवानां पुद्गलानाश्च सर्वेदिगवच्छेदेन गतिरस्ति । सा च स्वामिमुखाकाशप्रदेशानां पंक्तिमनुसृत्यैव न विरुद्धदिगवच्छेदेन गतिः । तत्र भवान्तर- 15 संक्रान्त्यमिमुखो जीवो मन्दक्रियावत्त्वात्कर्मणो यानाकाशप्रदेशानवष्टभ्य शरीरवियोग विदन धावि प्रदेशान् तानेवाभिन्दन देशान्तर प्रयाति, विश्रेणिगत्यभावात् । त्रिधा च श्रेणिः, एका पूर्वापरायताकाशप्रदेशश्रेणि;, अन्या च दक्षिणोत्तरायता, इतरा तूर्वाध आयता, आलो- कान्तम् । तास्वेव जीवानां पुद्रलानाञ्च गतिर्न ता विभिद्य कदाचिदपि ते प्रयान्ति । वत्र जीवः कर्मायत्तत्वाद्भवान्तरप्राप्तौ वक्रां गतिमपि प्रपद्यते, भवान्तरसंक्रान्ती 20 ऋजुवक्रभेदेन गतेद्वैविध्यात् । वक्रगतौ च तावदेकद्वित्रिविमहरूपात्रिधा गतयो भवन्ति, आद्या द्विसमया, द्वितीया त्रिसमया तृतीया तु चतुस्समया भवति । तत्र- जुगतौ गच्छतो यथा वळीवर्दस्य न नासारज्जुरपेक्षिता, अपि तु तस्य वक्रतया नेयत्व एव, वथैव ऋज्यां गतौ जनिस्थान प्राप्तुरात्मनो नानुपूज्यपेक्षिता, किन्तु वक्रगत्या प्रवृत्तस्य, वथा च वक्रया गत्या स्वस्वोत्पत्तिस्थानं गच्छवो जीवस्य श्रेण्यनुसारिगतिनियामककर्मत्वमा-25 " १ यद्यपि जीवस्य विश्रेणिगतिरपि मेर्वादिप्रदक्षिणादिकाले दृष्टा तथापि भवान्तरसंक्रमे तथोचलोका- धोऽधोलोकादूर्व तिर्यग्लोकादध ऊर्य वाऽनुश्रेण्येव गतिरिति भावः ॥ २ मुकाना यतेनियमेनावकत्वादुफ कर्मायत्तत्वादिति ॥

10 तत्वन्यायविभाकरे [ बतुर्थकिरणे नुपूर्व्या लक्षणम् । तत्र कर्मत्वानुक्तौ धर्मास्तिकायादावतिन्याप्तिः, वक्रगत्येत्यनुक्तौ ऋजुग- त्यवोत्पत्तिस्थान प्राप्तुरात्मनः श्रेण्यनुसारि गविनियामकपूर्वायुष्ककर्मण्यतिव्याप्तिरतस्तत्पदम्। तथा च वक्रारम्भकाले पूर्वायुष्कस्य नाशादप्रायुष्कप्राप्तेश्च न तत्र पूर्वायुष्कं गतिनिया- मकं, नाप्यमायुष्कं, गत्यारम्भोत्तरं प्राप्तेः, किन्त्वानुपूयेव तादृशीति न दोषः । जीवस्ये. 5 त्यनुक्तौ पुदलानामपि परप्रयोगापेक्षया वक्रगतिसम्भवेन तत्रानुश्रेणिगमनप्रयोजकप्रयोक्त- कर्मण्यतिव्याप्तिः स्यात्तद्वारणाय तस्योपादानम् । न च ऋजुगत्यामिव वक्रगत्यामपि नानु- पूर्व्यपेक्षितेति वाच्यम् , पूर्वकायुप एवर्जुगतौ प्रयोजकत्वात् , चक्रगत्यान्तु पूर्वकायुषः क्षीणत्वे- नानुपूर्ध्या प्रयोजकत्वात् ॥ अथ मानुषानुपूर्वीलक्षणमाह- मनुष्यत्वोपलक्षिताऽऽनुपूर्वी मनुष्यानुपूर्वी । इमे मनुष्यद्विकशब्द- वाच्ये देवत्वपर्यायपरिणतिप्रयोजकं कर्म सुरगतिः ॥ मनुष्यत्वोपलक्षितेति । मानुषोपपातक्षेत्रं गच्छवो जीवस्य श्रेण्यनुसारिगतिनियाम- कानुपूर्वीत्वं मनुष्यानुपूर्वीलक्षणं । अत्रानुपूर्वीपदं धर्मास्तिकाये, मानुषपदं च देवाचानुपू- या॑मतिप्रसङ्गवारणायोपात्तम् । वक्रगत्येति पदन्त्वसम्भववारणाय । अस्याः परा स्थितिः 15 पञ्चदशसागरोपमकोटीकोट्यः । पञ्चदशवर्षशतान्यवाधा, जघन्या तु सागरोपमस्य द्वौ सप्त- भागौ पल्योपमासख्येयभागेन न्यूनौ, अन्तर्मुहूर्तञ्चाबाधाकालः । मनुजगतिर्मनुजानुपूर्वी च पूर्वोदितविभागवाक्यघटकमनुष्यद्विकशब्दवाच्येत्याह-इमे इति, मनुष्यगतिमनुजानुपूर्व्यावि- त्यर्थः । देवगतेः स्वरूपमाह-देवत्वेति । देवत्वपर्यायपरिणतिप्रयोजकत्वे सति कर्मत्वं लक्ष- णार्थः । पदकृत्यं मनुजगतिवद्विमावनीयम् । दशसागरोपमकोटीकोट्योऽस्याः परा स्थितिः । 20 दशवर्षशवान्यबाधा, जघन्या तु सागरोपमसहस्रस्य द्वौ सप्तभागौ पल्योपमासंख्येयमा- गेन न्यूनौ, अबाधा त्वन्तर्मुहूर्तकालः ॥ देवानुपूर्वीलक्षणमाह- देवत्वोपलक्षिताऽऽनुपूर्वी सुरानुपूर्वी । इमे सुरद्विके । पञ्चेन्द्रियश- ब्दप्रवृतिनिमित्तभूतसदृशपरिणत्यात्मकजातिविपाकोदयवेद्यं कर्म पञ्चे- 25 न्द्रियजातिः॥ १ तत्रानुपूर्वीनामकर्मणो नोदय , किन्तु पूर्वकर्मायुरनुभवन्नुत्पत्तिस्थान प्राप्त. पुरस्कृतमायुरासादयतीति भाव ॥२ वक्रयाऽन्तर्गत्येति शेष । पूर्वभवोत्तरकालीना तिर्यगाद्युत्तरोत्पत्तिस्थानप्राप्तिपूर्वभाविनी गतिरन्तर्गतिः । ।

। शरीरनामकर्म ] न्यायप्रकाशसमलङ्कृते । :६१: देवत्वोपलक्षितेति । देवोपपातक्षेनं वक्रगत्या गच्छतो जीवस्यानुश्रेणिगतिनियामका- नुपूर्वीत्वं लक्षणार्थः । प्राग्वदेव पदानां कृत्यं बोध्यम् । स्थितिरपि परा जघन्या च देवगति- वदेव । इमे इति देवगत्यानुपूळवित्यर्थः । सुरद्विके इति | विमागवाक्यस्थसुरद्विकपदवाच्ये इति भावः॥ पञ्चेन्द्रियजातेः स्वरूपमाह-पञ्चेन्द्रियेति । अयं पवेन्द्रिय इति, पञ्चेन्द्रियशब्दस्य प्रवृत्तौ निमिचभूता या सदृशपरिणतिरूपा जातिस्तदात्मकविपाकोदयेन विज्ञेयं यत्कर्म 5 सा पञ्चेन्द्रियजातिरित्यर्थः । पञ्चेन्द्रियत्वजातिसद्भावाद्धि पञ्चेन्द्रियोऽयमिति शब्दः प्रयुज्यते वतस्तादशजातिरूपविपाकोदयेन यत्कर्म विज्ञायते कारणतया सा पञ्चेन्द्रियजातिरिति भावः। जातिनामकर्मेदं संज्ञाव्यवहारनिमित्तजातौ प्रयोजकं न तु द्रव्यात्मकपञ्चेन्द्रियेषु, तत्रेन्द्रियप- याप्तिनामकर्मणः प्रयोजकत्वात् , नापि भावात्मकपञ्चेन्द्रियेषु तत्रेन्द्रियावरणक्षयोपशमस्यैव सामर्थ्यात्। तथा च पञ्चेन्द्रियसंज्ञाव्यवहारनिवन्धनजातिप्रयोजकत्वे सति कर्मत्वं लक्षणार्थः। 10 कालादिवारणाय विशेष्यं, सातादावतिव्याप्तिवारणाय विशेषणम् , जातिप्रयोजकत्वे सति कर्मत्वस्य एकेन्द्रियादिजातिषु सत्त्वात्तद्वारणाय निबन्धनान्तम् । पञ्चपदमप्यत एव । जाति- पदानुपादाने पञ्चेन्द्रियाणामपि पश्चेन्द्रियसंज्ञाव्यवहारनिबन्धनत्वात् तत्प्रयोजकेऽङ्गोपाङ्गनाम- कर्मणि इन्द्रियपर्याप्तौ चातिव्याप्तिरतस्तदुपादानम् , जाति माव्यभिचारिणा साहश्येनैकीक- तोऽर्थः । अस्याः परा स्थितिविंशतिसागरोपमकोटीकोट्यः, वर्षसहस्रद्वयमवाधा च । जघन्य 15 तु सागरोपमस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागेन न्यूनौ, अवाधा त्वन्तर्मुहूर्त्तकालः ॥ अधौदारिकादिशरीरनामकर्मस्वरूपमाख्याति- । औदारिकशरीरयोग्यगृहीतपुद्गलानां शरीरतया परिणमनप्रयोजक कमौंदारिकशरीरम् । वैक्रियपुद्गलानां शरीरत्वेन परिणमनहेतुः कर्म वैक्रियशरीरम्। आहारकपुद्गलानां देहतया परिवर्तनसमर्थ कर्माऽऽहारक- 20 शरीरम् ॥ औदारिकेति । शीर्यत इति शरीर प्रागवस्थातश्चयापचयाभ्यां प्रतिक्षणं विनाशीत्यर्थः । असारस्थूलद्रव्यवर्गणारब्धमौदारिक, उत्तरशरीरापेक्षयाऽल्पद्रव्यं स्थूलं शिथिलनिचयञ्च । यस्य कर्मण उदयादौदारिकवर्गणापुद्गलान् गृहीत्वौदारिकशरीरत्वेन परिणमयति तत्कौदा- रिकशरीरमित्यर्थः । न चैव शरीरपर्याप्तिरपि तादृशत्वात्तत्राविव्याप्तिरिति वाच्यम् । गृहीत- 25 पुगलानां शरीरतया परिणतेः शरीरनामकर्मणैव साध्यत्वात् , आरब्धाइसमाप्तेश्च पर्याप्ति- नामकर्मसाध्यत्वेनाविन्यात्यभावात् । उक्तनु " ननु देहोच्छ्वासनामकर्मभ्यामेत्र सिद्ध्यतः ।

:६२ : तत्त्वन्यायविभाकरे [चतुर्थकिरणे देहोच्छासौ किमेवाभ्यां पर्याप्तिभ्यां प्रयोजनम् ? अत्रोच्यते पुद्गलानां गृहीतानामिहात्मना । साध्या परिणतिदेहतया तन्नामकर्मणा । आरब्धाङ्गसमाप्तिस्तु तत्पर्यात्या प्रसाध्यते । एवं भेदः साध्यभेदादेहपर्याप्तिकर्मणो" रिति । विशेष्यविशेषणपदकृत्यं पूर्ववदेव । वैक्रियशरीर- नामकर्मादावतिव्याप्तिवारणायौदारिकशरीरयोग्येति । ग्रहणमन्तरेण परिणमनासम्भवेन गृही- 5 तेत्युक्तम् । शरीरतयेत्यनुक्तावौदारिकशरीरबन्धनेऽतिव्याप्तिरिति तस्योपादानम् । बन्धनस्य गृहीवानां गृह्यमाणानाञ्चौदारिकादिशरीरवर्गणापुद्गलानां परस्परसंश्लेषमात्रकारित्वादिति । अस्य च जघन्या परा च स्थितिः पञ्चेन्द्रियजातिवद्वोध्या । अथ वैक्रियशरीरनामाह- वैक्रियेति । विचित्रशक्तिकद्रव्यनिर्मापितं बहुतरद्रव्यं सूक्ष्मं घननिचयं च वैक्रियं । तथा च यस्य कर्मण उदयात् वैक्रियवर्गणापुद्गलान् गृहीत्वा वैक्रियशरीरत्वेन परिणमयति तद्वैक्रिय- 10 शरीरनामकर्मेति भावः, पदकृत्यं पूर्ववत् । परा स्थितिरस्य पञ्चेन्द्रियजातिवत् । जघन्या तु सागरोपमसहस्रस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागेन न्यूनौ, अबाधाऽन्तर्मुहुर्चम् । आहारकशरीरमाचष्टे-आहारकेति । शुभतरशुक्लविशुद्धद्रव्यवर्गणाप्रारब्धं प्रविविशिष्टप्रयो जनायाऽन्तर्मुहूर्तस्थितिकमाहारकं शरीरं सूक्ष्मपरिणामपरिणतं बहुतरपुदलद्रव्यारब्धश्च । सर्वे लक्षणविचाराः प्राग्वद्भाव्याः। अस्योत्कृष्टा स्थितिः सागरोपमकोटीकोटेरन्तः, अबाधा 15 त्वन्तर्मुहूर्त्तम् , जघन्यापि तथैव ।। तैजसशरीरमभिदधाति- तैजसवर्गणागतपुद्गलानां शरीरतया परिवर्तकं कर्म तैजसशरीरम् । कार्मणवर्गणागतपुद्गलानां शरीरत्वेन परिवर्तनहेतुः कर्म कार्मणशरीरम् । इमानि पञ्चदेहानि ॥ तैजसवर्गणेति । तेजोगुणोपेतद्रव्यवर्गणासमारब्धं तैजसशरीरं, यदा यस्योत्तर- गुणलब्धि रुत्पन्ना भवति तदा रोषप्रसन्नवाप्रसङ्गे शरीरमिदमुष्णशीवगुणं शापानुग्रह- सामर्थ्याविर्भावकञ्च भवति, यदा तु न सोत्पन्ना तदा तु केवलं सतताहवाहारपाचकं भवति । लक्षणं पदकृत्यञ्च पूर्ववत् । अस्य परा जघन्या च स्थितिः पञ्चेन्द्रियवत् । अथ कार्मणस्वरूपमाह-कार्मणवर्गणेति । जीवप्रदेशैर्दुग्धाम्बुवदन्योन्यं श्लिष्टा अनन्ता 25 ये कर्मप्रदेशाखदात्मकं कार्मणं निखिलशरीरहेतुभूतं भवान्तरगतौ तैजसशरीरयुतं सजीव- 20 १ यद्यप्यत्र बन्धनसंघातनामकर्मणी शरीरनामकर्मणो न प्रकृस्यन्तरमिति मत्वा न पृथगुपन्यस्ते, तथापि परस्पराषियोगस्याविवरमावेनैकत्वरूपस्य तत्कार्यस्य दर्शनतो भवत एवैते इत्यतिव्याप्तिरादर्शिता ॥ २ इदच कर्माण्येव कार्मणमिति व्युत्पत्त्या, तथा च न कर्मभ्य पृथवामणमत्र । कर्मणा निर्वृत्तं कार्मणमिति विप्रहे लाह कार्मणनामकर्मणस्त्विति ॥

शरीरस्वामिनः] न्यायप्रकाशसमलते सहायश्च । शरीराभ्यामेवाभ्यां जीवस्य गमनागमने प्रवेशनिर्गमने च स्याताम् । अत्यन्त- सूक्ष्मत्वाच भवान्तरगमनकालेऽपि नैतयोश्चक्षुर्विषयत्वम् । कार्मणनामकर्मणस्तु समानवर्गणा- पुलमयत्वेऽपि स्वकार्यभूतात्कार्मणशरीरादन्यत्वमेव कार्मणशरीरस्य कारणभूतत्वात् । यद्यपि सर्वेषामेव शरीराणां कर्मजन्यत्वं कर्मसमूहरूपत्वञ्च तथाप्यौदारिकादिनामकर्म- निमित्तकत्वादौदारिकादिसंज्ञाविशेषात् स्थौल्यादिलक्षणात् तिर्यक्ष्मनुष्यादिस्वामिभेदात् 5 सामयभेदाच मुद्रूपकारणाविशेपेऽपि सूत्समूहाविशेपेऽपि च घटशरावादिभेदवत्तेपां परस्पर वैषन्यमस्त्येव । न च नास्त्येव कामणं शरीरं निमित्ताभावात्खरविषाणवदिति वाच्यं प्रदीप- वत्स्वस्यैव निमित्तनिमित्तिभावात् , मिथ्यात्वाविरत्यादीनां निमित्त्वाच । अन्यथा निर्हेतुकस्य विनाशहेतोरप्यभावादनिर्मोक्षप्रसङ्ग आपद्येत । न च कार्मणस्यौदारिकादिवद्विशरणधर्मत्वा- भावात्कथं शरीरत्वमिति वाच्यम् , निमित्तवशात्तस्यापि सततं चयापचयधर्मत्वादिति । लक्षणं 10 कृत्यञ्च प्राग्वत् । अस्याप्युत्कृष्टजघन्यस्थिती पञ्चेन्द्रियवदेव । प्रसङ्गादाह-इमानीति । यद्यपि देहशब्दः पुलिङ्गे रूढस्तथापि कार्यभूतशरीराणां पञ्चविधत्वं पुण्यकर्मविभागवाक्यस्थकर्म- बोधकपञ्चदेहशब्दवाच्यत्वमेषां पञ्चविधकर्मणाञ्च सूचयितुं 'कायो देहः क्लीवपुंसो' रिति कोशानुरोधेन च नपुंसकनिर्देशः कृतः । तथा च कार्यभूतानीमान्येव पञ्चशरीराणि, कारण- भूतानीमानि पञ्चनामकर्माणि विभागवाक्यस्थपञ्चदेहशब्दवाच्यानीति भावः । शरीराणामेषां कार्यभूतानां स्वामिनमाह- तत्रायं शरीरं तिर्यमनुष्याणाम् । द्वितीयं देवनारकिणाम् । तृतीयं चतुर्दशपूर्वधरस्यैव । तुर्यपञ्चमे संसारिणां सर्वेषां । कार्मणं विहायान्या- न्युपभोगवन्ति ॥ तत्रेति । पञ्चानां शरीराणां कर्मजन्यत्वाविशेपेऽपि कर्मसमूहात्मकाविशेपेऽपि च कारण- 90 भेदानेदवत्स्वामिभेदादपि भेदेन पञ्चस्वेषु शरीरेषु आद्यस्यौदारिकशरीरस्य तिर्यदमनुष्याः खामिन इति भावार्थः । उदार प्रधानं तीर्थकरादिभिरङ्गीकरणात् , उत्कृष्टप्रमाणं वोदार अस्थि- ववनस्पतेः सातिरेकयोजनसहस्रप्रमाणत्वात्, शुक्रशोणितायुपादानप्रभृति प्रतिक्षणमुत्तरोतरां व्यवस्था स्वकीयपर्याप्त्याद्यपेक्षा प्राप्नोतीति वोदार तदेवौदारिकं, तच गर्भजानां सम्मूर्छन- जानाश्च भवतीति भावः। द्वितीयमिति वैक्रियमित्यर्थः । विशिष्टा क्रिया विक्रिया तस्यां भवं 25 वैक्रिय, समुपलब्धवैक्रियलब्धेरिच्छानुविधानादेकं भूत्वाऽनेक भवति प्रतिहननशील - १ भवधारकवैक्रियापेक्षयोत्कृष्ट प्रमाणं बोभ्यमन्ययोत्तरक्रियमेवोत्कटप्रमाणवत्स्यात् योजनलक्षप्रमाण- त्वातस्येति ॥

। 1 'वन्यायधिमाकरे [किरण भूत्वा स्थूलत्वात्सूक्ष्मावस्थामनुप्राप्तं सदप्रतिघाति भवति, एककालमेव च सर्वानमिहित- लक्षणान् भावान् वेदयते नैवमौदारिकादीनि, ईदृशं शरीरमौपपीतिक देवानां नारकाणामेव भवधारकमुत्चरवैक्रियभेदभिन्नञ्चेति भावः । तृतीयमिति, आहारकमित्यर्थः । प्रतिविशिष्टप्र- योजनसाधनायाऽऽहियते कार्यपरिसमाप्तेश्च पुनर्मुच्यत इत्याहारकं शुभद्रव्योपचितं शुभपरि- 5 णाममव्यापाति च चतुर्दशपूर्वधरस्यैव भवति । पूर्व प्रणयनात् पूर्वाणि, चतुर्दशसंख्यायुतानि पूर्वाणि चतुर्दशपूर्वाणि, तानि धारणाज्ञानेनाऽऽलम्बत इति चतुर्दशपूर्वधरः, एवंविधश्चतु- देशपूर्वधर एव सञ्जातलन्धिः श्रुतज्ञानगम्ये कस्मिंश्चिदर्थेऽतिगहने सदिहानः तदर्थनिश्चयार्थ क्षेत्रान्तरितस्य भगवतोऽहंतः पादमूलमौदारिकशरीरद्वारा गमनमसम्भवीति मन्वानो लब्धि- प्रत्ययमाहारकशरीरमुपजनय्य तत्राशु गत्वाऽभिवन्ध पृष्ट्वा च विच्छिन्नसंशयो भूत्वा तमेव 10 देशं पुनरागत्य प्रागौदारिकमनुप्रविशति विहायाऽऽहारकं शरीरमिति भावः । तुर्यपञ्चमे इति तैजसकामणे इत्यर्थः । संसारिणां सर्वेषामिति । अस्मिन्नेव जन्मनि समुद्भव इति नियमा- मावात्सर्वत्राप्रतिहतशक्तित्वात् सतैजस कार्मणं सर्वजन्मसु भवति, कार्मणसहचरितमिदं तैजसं कार्मणभेद उष्मलक्षणं रसायाहारपाकजनकं ग्राह्यम् , लब्धिप्रत्ययं तैजसन्तु न सर्वेषां, किन्तु वपोविशेषानुष्ठानात्समुद्भूवशक्तेः कस्यचिदेव । कार्मणन्तु नियमतस्सर्वेषां, इद- 15 बौदारिकादीनां बीज कार्यकारणरूपश्चेति भावः । ननु शरीराण्युपभोगवन्ति भवन्ति तत्र सर्वेषामेव किं शरीराणामुपभोगवस्त्वमुत केषाश्चिदेवेसाशंकायामाह-कार्मणमिति । कार्मण- भिन्नशरीरचतुष्टयेन जीवस्सुखदुःखोपभोगं कर्मबन्धनं तद्वदनं तन्निर्जराश्च विदधाति, अत- स्तान्युपभोगवन्ति न तु कार्मणं, सुखाधुपभोगस्यासंख्येयसामयिकत्वात् , चतुस्समयपरे विग्रहे एवास्य स्वातंत्र्येण भावात्, न विशिष्टकर्मबन्धस्तदानीमभिव्यक्तबन्धकारणाभावात् 20 स्पष्टहिंसाद्ययोगात्, नच विशिष्टानुभावेन वेद्यते कर्म, कर्मविग्रहस्याल्पकालत्वात् , उदीरणा- धयोगात् , नवा निर्जरणं, उपकरणामाषात् प्रतिविशिष्टभोगाद्यपेक्षया कामणं विहायेत्युक्त, न तेन तत्रोपभोगमात्रव्युदासः, किन्तु अभिव्यक्तसुखदुःखकानुबन्धानुभवनिर्जरालक्षणो- पभोगस्यैव व्युदास इति भावः ॥ अथौदारिकाङ्गोपाङ्गनामकर्म वक्तुमादावङ्गोपाङ्गानि दर्शयति- अङ्गानि शिरम्मभृतीन्यष्टौ उपाङ्गानि तदवयवाङ्गुल्यादीनि, एतन्नि- मित्तमौदारिकशरीरसम्बन्धिकमौदारिकाङ्गोपाङ्गनाम ॥ अडानीति । प्रभृतिपदेन वक्षःपृष्ठबाहूदरपादानां ग्रहणम्, वाहुद्वयं पादद्वयश्चादाया- । .. 25 . १ लब्धिप्रत्ययश्च तिर्यम्योनीना मनुष्याणाञ्च ॥

पारीरनामकर्म ] न्यायप्रकाशसमलते टत्वमङ्गानां भाव्यम् । उपाझान्याह-उपागानीति । तदवयवाकुल्यादीनीति, तेपामष्टानाम- क्यवान्यनुल्यादीन्युपाङ्गानीत्यर्थः । अङ्गुल्यो वाहुपादयोरुपाङ्गभूताः, आदिपदेन शिर- आदीनां ललाटतालुनयनकर्णादय उपाङ्गतया ग्राह्याः । यद्यप्यङ्गनिदर्शनभूतशिरसोऽनुगुण- मुपाङ्गतया तदवयवललाटादीनामेव कथनं युक्तं तथापि तथोक्तावेकस्यैव शिरस उपाई दर्शितं भवेत् , अङ्गुल्यादीनीत्युक्तौ तु पाणिपादयोरुभयोरेकपदेन दर्शितं स्यादिति ग्रन्थला- 5 घवैषिणा मया तथैवोक्तम् , तत्पदेनाष्टाङ्गानां वुद्धिस्थानां परामर्शसम्भवात् । तथाङ्गुल्यादी- नामप्यवयवभूतानि पर्वरेखादीन्यगोपाहानि, एवञ्चाङ्गानि चोपाङ्गानि चाङ्गोपाङ्गानि चेति द्वन्द्व एकपदशेपेऽङ्गोपाङ्गानि, यदुदयादौदारिकशरीरत्वेन परिणतानां पुद्गलानामगोपाइविभा- गेन परिणतिर्मवति तदौदारिकाङ्गोपाङ्गनामेत्यर्थः, औदारिकशरीरसम्बन्ध्यङ्गोपाङ्गनिष्पत्ति- प्रयोजकत्वे सति कर्मत्वं लक्षणं विशेषणविशेष्यपदकृत्यं पूर्ववत्, वैक्रियाङ्गोपाङ्गनामकर्मादाव- 10 तिप्रसक्तिविच्छेदायौदारिकशरीरसम्बन्धीति, औदारिकशरीरसम्बन्धिकर्मत्वमित्युक्तौ कार्म शरीरादावतिप्रसङ्गस्तस्यापि तत्कारणत्वेन तत्सम्बन्धिकर्मत्वात् । औदारिकशरीरसम्बन्धिनः प्रयोजककर्मत्वमित्युक्तौ तु वर्णगन्धादिनामकर्मण्यतिव्याप्तिवर्णादीनामौदारिकशरीरसम्बन्धि- स्वादतोऽङ्गोपाङ्केति पदम् । औदारिकशरीरवदस्य परा जघन्या च स्थितिळध्या ।। वैक्रियाङ्गोपाङ्गलक्षणमाह- तादृशं वैक्रियशरीरसम्बन्धि कर्म वैक्रियाङ्गोपाङ्गनाम। तादृशमेवाऽऽ- हारकशरीरसम्बन्धि कर्माऽहारकाङ्गोपाङ्गनाम । इमान्यादिमत्रितनूपा- हानि। तैजसकार्मणयोस्त्वात्मप्रदेशतुल्यसंस्थानत्वान्न भवन्त्यङ्गोपाङ्गानि। एवमेकेन्द्रियशरीराणामप्यङ्गोपाङ्गानि न भवन्ति वनस्पत्यादिषु शाखादी नामङ्गत्वादिव्यवहारो न वास्तविका, किन्तु मिन्नजीवस्य शरीराण्येव ते ॥ 20 तादृशमिति । अङ्गोपाङ्गनिमित्तमित्यार्थः । वैक्रियशरीरसम्बन्ध्यङ्गोपाङ्गनिष्पत्तिप्रयो- जकत्वे सति कर्मलं लक्षणार्थः । निष्पत्तिपदानुपादाने पर्याप्तनामकर्मण्यारब्धाङ्गसमापकेड तिव्याप्तिरतस्तदुपादानं, अन्यपदप्रयोजनं पूर्ववद्भाव्यम् । परा जघन्या चास्य स्थितिक्रिय- शरीरवत् । अथाऽऽहारकाङ्गोपाङ्गनामकर्माभिधत्ते-तादृशमेवेति । अत्रापि आहारकशरीर- सम्बन्ध्यगोपाडोत्पत्तिनिदानवे सति कर्मत्व लक्षणं कृत्यञ्च पूर्ववदेव । उभयविधा स्थितिर- 25 स्याप्याऽऽहारकशरीरवदेव भाव्या । विभागवाक्येऽमून्येवादिमत्रितनूपाङ्गशब्देनोक्तानीत्याह- इमानीति । आदिमा यास्तिनस्तनवस्तासामुपाङ्गानि अङ्गोपाङ्गाभिधानि इमान्येवेत्यर्थः । 15 .

। तस्वन्यायविभाकर [ चतुर्थकिरणे ननु शरीरत्वाविशेषातैजसकार्मणयोर्न कथमङ्गोपाङ्गानीत्यत्राह-तैजसकार्मणयोस्त्विति । आत्मप्रदेशतुल्यसंस्थानत्वादिति जीवप्रदेशसस्थानानुरोधित्वादित्यर्थः । प्रयोजनाभावात्प्रमा- णाभावाचान्तर्गतिं विहायान्यत्रैतयोस्स्वातंत्र्येणावर्त्तमानत्वादिति भावः । नन्वौदारिकशरीर- भाजां पृथिव्यप्तेजोवायुवनस्पतीनामप्यङ्गोपाङ्गानि सन्ति नवेत्याशङ्कायामाह-एवमेकेन्द्रि- 5 यशरीराणामपीति | यथा तैजसकार्मणयोनाङ्गोपाङ्गानि तथा एकेन्द्रियाणां पृथिव्यादीनां यानि शरीराणि तेषामपि नाङ्गोपाङ्गानि भवन्तीति भावः । ननु कथं वनस्पतीनां शरीराणा- मङ्गोपाङ्गरहितत्वं मूलस्कन्धशास्त्राप्रशाखात्वपत्रपुष्पफलादीनामवयवत्वावित्याशङ्कायामाह- वनस्पत्यादिष्विति । आदिपदेन वायुतेजोजलपृथिवीनां ग्रहणम्, पश्चानुपूर्व्या निर्देशः, वनस्पती मूलादिष्ववयवत्वस्य लोकप्रसिद्धतया तस्यैव प्रथममुपन्यासात् । प्रत्येकनामकर्म- 10 प्रभावाच्छाखादीनां भिन्नजीवशरीरत्वमेव न त्वङ्गोपाङ्गत्वं वृक्षस्येति भावः । बन्धनसंघात- नामकर्मणोस्तु शरीरविषयत्वादेव शरीरनामकर्मान्तर्भूततया नात्र तयोः पृथगुपन्यासः कृतः ।। । अथ शारीरिकपुद्गलानां गृहीतानां गृह्यमाणानाञ्च परस्परसंश्लेषे सति अन्योन्यसन्निधानेन च व्यवस्थापिते सति संहन्यमानपुद्गलानां संहननमुपकारि भवति तस्मात्संहननस्वरूपमाह- अस्थिरचनाविशेषः संहननम् । उभयतो मर्कटबन्धबद्धयोरस्थ्नोः 15 पधाकृतिनापरास्ना परिवेष्टितयोरुपरि तदस्थित्रयमेदिकीलिकात्मका- न्यास्थिविशिष्टत्वप्रयोजक कर्म वज्रर्षभनाराचम् । इदमादिमसंहननम् ॥ अस्थीति । अस्थ्नां बन्धविशेष इति भावार्थः । वज्रर्षभनाराचलक्षणमाह-उभयत इति | अत्र वनशब्दः कीलिकावचनः, ऋषभशब्दः परिवेष्टनपट्टवचनः, नाराचशब्दस्तु उभयपाविच्छेदेन मर्कटबन्धनवचनः । तथा च पट्टाकृतितृतीयास्थिपरिवेष्टितोभयपावि- 20 च्छेद्यमर्कटबन्धबद्धास्थिद्वयोपरि तदस्थित्रयभेदिकीलिकाकल्पान्यास्थिविशिष्टत्वप्रयोजकत्वे सति कर्मत्वं लक्षणार्थः, विशेषणविशेष्ययोः फलं पूर्ववत् । कर्मप्रकृतिग्रन्थेपूक्के वननाराच- कर्मण्यतिव्याप्तिवारणाय पट्टाकृतितृतीयास्थिपरिवेष्टितेत्युक्तम् । ऋषभनाराचकर्मण्यतिव्याप्ति- वारणाय पट्टाकृतितृतीयास्थिपरिवेष्टितोभयपाविच्छिन्नमर्कटबन्धबद्धास्थिद्वयप्रयोजककर्म- त्वमनुक्त्वा तदस्थित्रयभेदीत्याद्युक्तम् , अस्योत्कृष्टा स्थितिर्देवगतिवजघन्या तु मनुजगतिवत् । १ जीवप्रदेशानुरोधि तैजसं शरीर, ततो यदेव तस्या तस्या योनौ औदारिकशरीरानुरोवेन बैंक्रियशरीरा- नुरोधेन च जीवप्रदेशाना संस्थानं तदेव तैजसशरीरस्यापि, एवं कार्मणस्यापि भाव्यम् ॥ २ वृक्षादौ मूला- दिषु प्रत्येकमसंख्येया अपि जीवा. परस्परं विमिन्नशरीरा प्रवलरागडेपोपचितप्रत्येकनामकर्मपदलोदयत परस्परं संहता, छेषव्यसंपर्कमाहात्म्यात् परस्परबिमिथसर्पपत्तिरिवेत्याशयेनाह प्रत्येकेति ॥

- वर्णादिनामकर्माणि] न्यायप्रकाशसमलङ्कृते । :६७: नामकर्मेदं षडिधसंहननेषु प्राथमिकं तदेव च विभागवाक्योदितादिमसंहननशब्देन वाध्यमि- त्याहेदमिति । संहननं षडिधमपि औदारिकशरीर एव नान्येषु तेषामस्थ्यादिरहितत्वात् ॥ अथ षड्डिधेषु शरीराकृतिविशेषरूपसंस्थानेषु समचतुरस्रसंस्थानस्यादिमस्य प्रयोजक नामकर्म वक्तुमादौ संस्थानपदार्थमाह- आकारविशेषसंस्थानम् । सामुद्रिकलक्षणलक्षितचतुर्दिग्भागोपल- 5 क्षितशरीरावयवपरिमाणसादृश्यप्रयोजकं कर्म समचतुरस्रसंस्थानम् । इदमादिमसंस्थानम् । तीर्थकरास्सर्वे सुराश्चैतत्संस्थानभाजः ।। आकारविशेष इति | अवयवरचनामिका शरीराकृतिरित्यर्थः । समचतुरनसंस्थान- नामकर्माह---सामुद्रिकेति । समाः शरीरशास्त्रोक्तप्रमाणलक्षणाविसंवादिन्यः चतस्रोऽनयः चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यस्य तच्छरीरं समचतुरस्रं भवत्ति, तथा च सामुद्रि- 10 कलक्षणलक्षितचतुर्दिग्भागोपलक्षितशरीरावयवपरिमाणसादृश्यप्रयोजकत्वे सति कर्मत्वं लक्ष- णार्थः । यस्य कर्मण उदयात् औदारिकादिशरीराकृतिरूवाधोमध्येषु समप्रविभागेनान्यूना- नधिकमानोन्मानप्रमाणेनाविकलावयवतया स्वाङ्गलाष्टशतोच्छ्रायेण च युक्ता भवति तत्सम- चतुरखनामकर्मेत्यर्थः । चतुर्दिग्भागोपलक्षितेतिपदं न्यग्रोधपरिमण्डलादावतिप्रसङ्गभङ्गार्थम् । इदमिति, समचतुरस्रसंस्थान विभागवाक्योदितादिमसंस्थानपदवाच्यमित्यर्थः । संस्थान- 15 मिदं केषामित्यत्राह-तीर्थकरा इति । च शब्दोऽनुक्तसमुखयार्थः, तेन गणधरादिसङ्ग्रहः । अस्योच्या स्थितिदेवगतिवन्नघन्या तु मनुजगतिवत् ।। प्रशस्तवर्णादिनामकर्मणो लक्षणमाह- शरीरवृत्त्यालादजनकवर्णोत्पत्तिहेतुभूतं कर्म प्रशस्तवर्णनाम । शरीर- वृत्याहादजनकगन्धोत्पत्तिनिदानं कर्म प्रशस्तगन्धनाम । शरीरेष्वाह्ना- 20 दजनकरसोत्पत्तिकारणं कर्म प्रशस्तरसनाम । शरीरवृत्त्याहादजनकस्प- शोत्पादनिदानं कर्म प्रशस्तस्पर्शनाम । इमानि प्रशस्तवर्णचतुष्कशब्द- पाच्यानि । तत्र शुक्लरक्तपीतनीलकृष्णाः पञ्च वर्णाः । आयास्त्रयः प्रशस्ताः । अन्त्यो द्वावप्रशस्तौ। सुरभ्यसुरभिभेदेन गन्धो द्विविधः । आद्यश्शस्तः, अन्त्योऽशस्ता । रसः कषायाम्लमधुरतिक्तकटुरूपेण 25 पश्चविधः। आधास्त्रयश्शुभाः अन्त्यावशुभौ। स्पर्शोऽपि मृदुलघुस्निग्धो- ष्णकठिनगुरुरूक्षशीतभेदादष्टविधः । आद्याश्चत्वारः प्रशस्ताः, अन्त्या- :६८: - 10 तत्त्वन्यायविभाकरे [चतुर्थकिरणे स्त्वप्रशस्ताः। शरीरस्यागुरुलघुपरिणामप्रयोजक कर्म अगुरुलघुनाम । सर्वेषां जीवानामेतत्। परत्रासप्रज्ञापहननादिप्रयोजकं कर्म पराघातनाम। उच्छासनिःश्वासमाप्तिप्रयोजकं कर्मोच्छ्वासनाम ॥ शरीरवृत्तीति । स्वशरीरवृत्तीत्यर्थः । वर्ण्यतेऽलतियते गुणवत्क्रियते शरीराद्यनेनेति वर्णः । शुक्लादिः । यदुदयादौदारिकादिशरीरेषु आहादजनकस्य नेत्रानन्दकरस्य वर्णस्योत्पत्तिस्तत्र- शस्तवर्णनामेत्यर्थः । अप्रशस्तवर्णनामकर्मण्यतिव्याप्तिनिरासायाहादजनकेति, प्रशस्तगन्धना- मादिकर्मण्यतिव्याप्तिव्युदासाय वर्णेति । असंभववारणाय शरीरवृत्तीति । अस्य पश्चेन्द्रिय- वत्परा जघन्या च स्थितिर्विज्ञेया । प्रशस्तगन्धनामाह-शरीरवृचीति, गन्ध्यते आघायत इति गन्धः, लक्षणपदकृत्यं स्थितिश्च प्रशस्तवर्णवबोध्या । प्रशस्तरसनामाह-शरीरे- विति । कृत्यं स्थितिश्च प्रशस्तवर्णवदेव । प्रशस्तस्पर्शनामाह-शरीरवृत्तीति इदमपि प्रश- स्तवर्णवबोध्यम् , इमानीति, प्रशस्तवर्णगन्धरसस्पर्शनामकर्माणीत्यर्थः, प्रशस्तेति, विभागवा- क्यस्थेत्यादिः । वर्णादयः कतिविधास्तेषु के प्रशस्ता इत्याशंकायामाह-तत्रेति । स्फटिकादा- विव शुक्लः, हिङ्गुलकादाविव रक्ता, हरिद्रादाविव पीतः, प्रियशपर्णादाविव नीला, कब्जला- दाविव कृष्णो वर्णो भाव्यः । आद्यास्त्रय इति शुक्लरक्तपीतवर्णा इत्यर्थः, प्रशस्ता इति प्रायश 15 आशयवशात्प्राणिनां वल्लभास्सन्तस्सुखात्मकात्मपरिणामोपकारिण इति भावः । अन्त्याविति, नीलकृष्णापित्यर्थः, अप्रशस्ताविति । अनिष्टौ द्वेष्यौ सन्तौ स्वाशयापेक्षया दुःखात्मकात्मप- रिणामोपकारिणाविति भावः । गन्धभेदमाह-सुरभीति । श्रीखण्डादाविव सुरभिः, लशुना- दाविव दुरभिः । आद्य इति, सुरभिरित्यर्थः, शस्त इति, सौमुख्यकारित्वादिति भावः । अन्त्य इति दुरमिरित्यर्थः, अशस्त इति वैमुख्यकारित्वादिति भावः । रसभेदमाह- 30 रस इति । अपक्ककपित्यादाविव कपायः, आम्लवेतमादाविदाम्लः शर्करादाविव मधुरः, कोशातक्यादाविव तिक्तः, शुण्ठ्यादाविव कटा, लवणो मधुरान्तर्गत इत्येके, संसर्गज इत्यपरे । आद्या इति कपायाम्लमधुरा इत्यर्थः । अन्त्याविति तिक्तकटू इत्यर्थः । स्पर्श- भेदानाह-स्पर्शोऽपीति | हसरूनादाविव सूदुः, अर्कतूलादाविव लघुः, घृतादाविव स्निग्धा, वहयादाविवोष्णः, पाषाणादाविव कठिनः, वजादाविव गुरुः, भस्मादाविव रूक्षः, मृणाला- 'दाविव शीतः । आधा इति मृदुलघुस्निग्धोष्णा इत्यर्थः, अन्त्या इति कठिनगुरुरुक्षशीता इत्यर्थः । अथागुरुलघुनामकर्मस्वरूपमाह--शरीरस्येति । चत्वारो हि परिणामाः पुगलानां गुरुत्व- लघुत्वगुरुलघुत्वागुरुलघुत्वभेदात्, यस्य कर्मण उदयात्सर्वप्राणिनां शरीराणि स्वस्वापेक्षया नैकान्तेन लघूनि, तथात्वे वायुना विक्षिप्यमाणानां धारणासंभवात्, न चैकान्तेन गुरूणि, - । 25 .

उच्छासनामकर्म ] न्यायप्रकाशसमलङ्कते वोढुमशक्यत्वात् , किन्त्वगुरुलघुपरिणामपरिणतानि भवन्ति तदगुरुलघुनामकर्मेत्यर्थः । यदू- व तिर्यग्वा प्रक्षिप्तमपि पुननिसर्गादधो निपतति तद्गुरुद्रव्यं यथा लेष्ट्वादि । यत्तु निसर्गत एवोर्ध्वगतिस्वभाव द्रव्यं तल्लघु यथा दीपकलिकादि । यत्तु नोर्ध्वगतिस्वभावं नाप्यधोगति- स्वभावं किन्तु स्वभावेनैव तिर्यग्गतिधर्मकं तद्रव्यं गुरुलधु यथा वाय्वादि । यत्पुनरू- ध्वोधस्तियंगतिस्वभावानामेकतरस्वभावमपि न भवति सर्वत्र वा गच्छति तदगुरुलधु 5 यथा व्योमपरमाण्वादि । व्यावहारिकनयमिदं । निश्चयतस्तु एकान्तेन गुरुस्वभावं किमपि वस्तु नास्ति, गुरोरपि लेवादे. परप्रयोगादू दिगमनदर्शनात् , नैकान्तेन लघुस्वभावं, अति- लघोरपि वाय्बादेः करताडनादिनाऽधोगमनादिदर्शनात् । अतो नैकान्तेन गुरु लघु वा किमपि वस्त्वस्ति । किन्तु यत्किमध्यत्र लोके औदारिकवर्गणादिकं भूभूधरादिकं वा वादर वस्तु तत्सर्व गुरुलघु, शेपं तु भाषाऽऽनपानमनोवर्गणादिकं परमाणुद्वयणुकव्योमादिकच 10 सर्व वस्त्वगुरुलध्विति बोध्यम् । एवञ्च निश्चयनयेन कस्यापि शरीरस्य लघुत्वाभावात् गुरुत्वाभावाच गुरुलधुत्वमेव कार्मणातिरिक्तस्य, तत्रागुरुलघुत्वप्रयोजकं कर्म सर्व- शरीरिणामित्याशयेनाह-सर्वेपामिति । एतदिति, अगुरुलघुनामकर्मेत्यर्थः, भवतीति शेपः । अवागुरुलधुपदेन लघुगुरुपरिणामद्वयस्यैव निरासो बोध्यः, न तु अगुरुलधुनाम- परिणामस्यैकस्य ग्रहणम् । व्यवहारनयापेक्षया त्वन्योऽन्यापेक्षया शरीराणि लघूनि गुरूणि 15 अगुरुलधून्यपि भवन्तीति विज्ञेयम् । अस्य पञ्चेन्द्रियवदेवोत्कृष्टा जघन्या च स्थिति व्या । अथ पराघातस्वरूपं निरूपयति-परत्रासेति । यदुदयादोजस्वी दर्शनमात्रेण वाक्सौष्ठ- वेन वा नृपसभामपि गतः सभ्यानामपि क्षोभमापादयति प्रतिपक्षप्रविघातञ्च विधत्ते वत्पराघातनामेत्यर्थः । कृत्यं विशेषणविशेष्ययोः पूर्ववत् । स्थिती चोभयविधे पञ्चेन्द्रिय- वन । उच्छ्वासनामकर्म निरूपयति उच्छ्वामेति । ऊर्ध्वगामी वायुरुच्छ्रासः, अधोगतिमान् 20 वायुर्निश्वासः प्राणापानापरनामानावेतौ, तौ चानन्तप्रदेशस्कन्धपुद्गलपरिणामजन्यौ, वयोः प्राप्तिलब्धिः उत्प्रयोजक कर्म उच्छासनामकर्म । उच्छ्वासनिःश्वासप्रहणमोक्षणलब्धेच्छा- सनामकर्मसाध्यस्वादौदयिकीनामपि लब्धीनां सम्भवात्, ताशलब्धेयापारण एव च श्वासोच्छ्वासपर्याप्तहेतुत्वादिति भावः । उच्छ्रामनिःश्वासलब्धिप्रयोजकत्वे सति कर्मत्रं लक्ष- णार्थः । पदकृत्यं स्पष्टम्, उभयविधा स्थितिः पञ्चेन्द्रियवत् ॥ 95 १ निश्चयनये औदारिकवैक्रियाहारकतैजसद्रव्याणि यादररूपत्वाद्गुरुलघूनि, कार्मणमनोभापादिद्रव्याणि त्वगुरुपूनि, वादरनामकर्मोदयवर्तिजीवाना शरीराणि चादराण्यन्यानि गुरुलघूनि, सूक्ष्मनामकर्मोदयवर्तिजीव- शरीराणि सूक्ष्मपरिणतानीतराण्यगुरुलघूनि । तथा च गुरुलघुकं शरीरं प्रतीत्य नारकादयो गुरुलघुका', जीवं कार्मणश्च प्रतीत्यागुरुलधुका इति ॥ - ७५ : . तत्वन्यायविभाकरे । चतुर्यकिरणे अथाऽऽवपादिनामकर्माण्याचष्टे- स्वरूपतोऽनुष्णानां शरीराणामुष्णत्वप्रयोजकं कर्माऽऽतपनाम । तच भानुमण्डलगतभूकायिकानाम् । गात्राणामनुष्णप्रकाशमयोजक कोद्योतनाम । तच्च यतिदेवोत्तरवैक्रियचन्द्रग्रहतारारत्नादीनाम् । प्रश- 5 स्तगमनहेतुः कर्म शुभखगतिनाम ॥ स्वरूपत इति । यस्य कर्मण उदयानन्तुशरीराणि स्वभावेनानुष्णान्यपि उष्णप्रकाश- रूपमुष्णत्वं लभन्ते तदातपनामकर्मेत्यर्थः । स्वरूपतोऽनुष्णशरीरसम्भूतोष्णप्रकाशप्रयोजक- कर्मत्वं लक्षणार्थः । वहिशरीरोष्णस्पर्शस्य स्पर्शनामकर्मोदयजन्यत्वात्तत्रातिव्याप्तिवारणाय स्वरूपतोऽनुष्णेति । वादृशकर्मोदयः कुत्रेत्यत्राह-तञ्चेति । भानुमण्डलादिगतानां पृथिवी- 10 कायिकानामेवेत्यर्थो विपाकाभिप्रायेणेदम्, न तु वह्नौ तद्विपाका, प्रवचने प्रतिषेधात्, तत्रोष्णत्वस्योष्णस्पर्शनामोदयेन प्रकाशकत्वस्य चोत्कटलोहितवर्णनामोदयेन संभवात् । स्थिती च पञ्चेन्द्रियवत् । उद्योतनामस्वरूपमाह-गात्राणामिति । शरीरवृत्त्यनुष्णप्रकाश- प्रयोजकत्वे सति कर्मत्वं लक्षणं, कृत्यं पूर्ववत्, अस्य विपाकस्थानमाह-तश्चेति । विहितो- तरवैक्रियाणां मुनिदेवानां तथा चन्द्रादीनामित्यर्थः । स्थिती पंचेन्द्रियवदेव । अथ शुभ- 18 खगविनामाह-प्रशस्तेति । प्रशस्तगमनहेतुत्वे सति कर्मत्वं लक्षणम्, विशेषणविशे- ध्यकृत्यं प्राग्वत् । कुखगतावतिव्याप्तिवारणाय प्रशस्तेति, हंसगजवृषादीनामिव प्रशस्ता गविह्या, सिद्धजीवपुद्गलानां गतिस्तु स्वाभाविकी, न चास्य कर्मण उदयः पक्ष्यादि- म्वेव स्यान्न मनुजादौ तेषामाकाशे गयभावान्न शुभखगतिरिति वाच्यम् , विहायसस्सर्व- गतत्वेन गतिमात्रस्याकाश एव भावात्, न च सहि शुभगतिनामेत्येवोच्यता किं खपदेन व्यावयाभावादिति वाच्यम्, संशयव्यवच्छेदार्थ वद्विशेषणोपादानात्, अन्यथा देवत्वादि- पर्यायपरिणतिप्रयोजककर्मणशङ्ख्या पौनरुक्त्याशङ्का स्यादिति भावः । तत्वार्थभाष्ये तु लब्धिशिक्षद्धिप्रत्ययस्याकाशगमनस्य जनक विहायोगतिनामेति दृश्यते । व्याख्या च लब्धिर्देवादीनां देवोत्पत्त्यविनाभाविनी, शिक्षया ऋद्धिः शिक्षाः, तपस्विनां प्रवचनम- धीयानानां विद्याद्यावर्तनप्रभावाद्वाऽऽकाशगमनस्य, लब्धिशिक्षद्धिहेतोजनकं विहायोगति- 25 नामेति । अस्य परा स्थितिदेवगतिवत्, जघन्या तु मनुजगतिवत् ॥ १ यतिदेवमूलशरीरापेक्षयोत्तरकाल क्रियमाण वैक्रिय यतिदेवोत्तरवैक्रियमुच्यत इत्याशयेनाह विहितेति ॥ २ गतिविविधा भावगति. कर्मगतिथेति, आद्या पश्चास्तिकायाना, परिणामाश्रयत्वात् कर्मगतिविधिा विहा- योगति. चलनगतिश्चेति, विहायोगतिनामोदयवेदका जीवः प्रथमगतिमन्त , चलनगति प्रतीत्य सर्वे जीवाः पुद- लाच, सिद्धास्तु सिद्धिक्षेत्रगमनकाल एव न पश्चादिति बोध्यम् ॥ 20 - पारनामकर्म] न्यायप्रकाशसमलते अथ निर्माणनामकर्माचष्टे- जातिलिङ्गाङ्गप्रत्यङ्गानां प्रतिनियतस्थानसंस्थापनाप्रयोजक कर्म नि- माणनाम ॥ जातीति । जातिरेकेन्द्रियादिस्तत्र स्वस्वनात्यनुसारेणेनि यावत् , लिङ्ग ख्यादीनां यद- साधारणं चिई, तस्याङ्गानां प्रत्यङ्गानाञ्च प्रतिनियतस्थानेषु या संस्थापना व्यवस्था तत्र 5 प्रयोजकं यत्कर्म तन्निर्माणनामकर्मत्यर्थः, जातिलिङ्गाङ्गप्रत्यङ्गविषयकप्रतिनियतस्थानव्यव- स्थाप्रयोजकत्वे सति कर्मत्वं लक्षणार्थ. । अनोपासनामकर्मादावतिव्याप्तिवारणाय प्रति- नियतस्थानव्यवस्थेति पदम् । तदिदं कर्म सूत्रधारसन्निभम् , तदभावे हि निर्वर्तितानामप्यङ्गो- पानामादिकर्मणा शिरउरआदीनां नियतस्थानवृत्तितानियमो न स्यादिति भावः, अस्यो- भयविधा स्थितिः पञ्चन्द्रियवत् ।। अथ त्रसनामकर्माभिधत्ते- उष्णाभितधानां स्थानान्तरगमनहेतुभूतं कर्म त्रसनाम । उष्णादीति । उष्णादीत्युपलक्षणं तथा च सति कारण इति भावः । इदश्च विहायो- गत्यादावतिप्रसङ्गमगाय । विशेषणविशेष्यपदफलं पूर्ववत् । न च गर्भाण्डजमूञ्छितसुषु- तादीनां त्रसत्वं न स्यात्, भयहेतुप्राप्तावपि चलनाभावात्तथा चाव्याप्तिरिति वाच्यम् , तत्रापि 15 स्थानान्तरगमनयोग्यताया भावात् । पञ्चेन्द्रियवदस्य स्थिती बोध्ये ॥ 10 - बादरनामाह- चक्षुर्वेद्यशरीरमापकं कर्म चादरनाम ।। चक्षुर्वेयेति । अत्र चक्षुर्वेद्यत्वं नाम स्थूलतापरिणामो विवक्षितः, तथा च यस्योदयात् पृथिव्यादेरेकैकस्य जन्तुशरीरस्य चक्षुर्माहत्वाभावेऽपि बहूनां समुदाये स्थूलत्वपरिणामभा- 20 वाचक्षुषा ग्रहणं भवति तद्वादरनामेति भाषः । सूक्ष्मनामकर्मादावतिव्याप्तिवारणाय चक्षुर्वे- घेति । चक्षुर्ग्रहणयोग्यशरीरनिवर्तकत्वे सति कर्मत्वं लक्षणार्थस्तेन प्रत्येकं पृथिव्यादिशरीराणां प्रत्येक चक्षुर्वेधत्वाभावेऽपि स्थूलत्वपरिणामयोग्यत्वान्नाव्याप्तिः । विशुद्धावधिवेधशरीरमा- पकसूक्ष्मनामकर्मण्यतिव्याप्तिवारणाय चक्षुरिति । अस्य स्थिती पञ्चेन्द्रियवत् ॥ १ जीवविपाक्यप्येतच्छरीरपुद्रलेष्वपि काशिदभिव्यक्ति दर्शयति, म च जीवविपाकिकर्मणग्शरीरे स्वशकि- प्रकटनमसातमिति वाच्यम्, क्रोधादेजावविपाकिनोऽपि कुपितनरशरीरे भ्रमशादिजननदर्शनात्, कर्मशतर्वि- चित्रलाच ॥

७९ तस्वन्यायविमाकरे । चतुर्थकिरणे पर्याप्तनामकर्माह- स्वयोग्यपर्याप्तिनिर्वर्तनशक्तिसम्पादक कर्म पर्याप्तनाम ॥ स्वयोग्येति । यदुदयादात्मा स्वस्वयोग्याः पूर्वोदिताः पर्याप्तीः प्राप्नोति तत्पर्याप्तनाम- कर्मेत्यर्थः । स्वयोग्यपर्याप्तिनिवर्तनशक्तिसम्पादकत्वे सति कर्मत्वं लक्षणार्थः । स्वयोन्यायाः 5 पर्याप्तः पूर्णवानिवर्तिका याशक्तयः पर्याप्तिसंज्ञास्तासां सम्पादकमित्यर्थः । स्वयोग्यपर्यास्या- स्मकशक्तिसम्पादकत्वे सति कर्मत्वस्यापर्याप्तनामकर्मणि सत्त्वादतिव्याप्तिरनः पर्याप्तिनिर्वत- नेति शक्तविशेषणम् , अपर्याप्तानामपि पर्याप्तयो भवन्ति, परन्तु परिपूरिमतां नासादयन्ति, अपर्याप्ता एव ते म्रियन्त इति न दोषः । अस्यापि स्थिती पञ्चेन्द्रियवदेव ॥ अथ प्रत्येकनामकर्म वक्ति- 10 प्रतिजीवं प्रतिशरीरजनकं कर्म प्रत्येकनाम ।। प्रतिजीवमिति । जीवं जीवं प्रतीत्यर्थः, तथा च प्रतिजीवं भिन्नभिन्नशरीरनिर्वर्तकत्वे सति कर्मत्वं लक्षणम् | भिन्नभिन्नेवि पदन्तु साधारणनामकर्मणि व्यभिचारवारणाय । तस्योदयो नारकामरमनुष्यद्वीन्द्रियादिषु पृथिव्यादिषु कपित्यादिवृक्षेषु च, कपित्यादिवृक्षाणां मूलस्कंधादौ प्रत्येकमसंख्येयजीवत्वेऽपि शरीराणामन्यान्यत्वान्न कोऽपि विरोधः । पञ्चेन्द्रि- 15 यवत्परा जघन्या च स्थितिः ।। स्थिरनामकर्म लक्षयति- - . शरीरावयवादीनां स्थिरत्वप्रयोजकं कर्म स्थिरनाम ॥ शरीरेति । यस्योदयाच्छिरोऽस्थिदन्तादीनां शरीरावयवानां स्थिरता भवति तत्स्थि- रनामकर्मेत्यर्थः । शरीरावयवस्थैर्यताप्रयोजकत्वे सति कर्मत्वं लक्षणम, अङ्गोपाङ्गनामक 20 व्यभिचारवारणाय स्थैर्यतेति । अस्य परा स्थितिर्देवगतिवदपरा तु मनुजगतिवत् ।। शुभनामकर्माभिधत्ते- उत्तरकायनिष्ठशुभत्वप्रयोजकं कर्म शुभनाम ।। उत्तरेति । नाभेरुपरितनावयवसमूह उत्तरकायः, तत्र यच्छुभत्वं पादादौ स्पर्शन परस्य शुभभावोत्पादात् पवित्रता शिर आदीनां तन्निदानभूत कर्मेत्यर्थः । सातादौ पुण्य- " ।

यश कीर्तिनाम] न्यायप्रकाशसमलङ्कृते कर्ममात्रे शुभत्वप्रयोजकत्वे सति कर्मत्वस्य सत्त्वायभिचारवारणायोत्तरशरीरनिष्ठेति । स्थिरनामकर्मवदस्य स्थिती ॥ अथ सौभाग्यनामकर्माऽऽख्याति- १ . , अनुपकारिण्यपि लोकप्रियतापादकं कर्म सौभाग्यनाम ॥ अनुपकारिण्यपीति । अनुपकर्ता यो लोकानां प्रियो भवति यदुदयात्तत्सौभाग्यना- मेत्यर्थः । प्रियत्वं च मनस आहादकारित्वं, प्रशस्तवर्णादावतिप्रसङ्गधारणायानुपकारिण्य- पीति । अनुपकारिण्यपि पुत्रादौ मोहनीयनिवन्धनप्रियत्वसम्भवेन वत्र व्यभिचारनिरसनाय लोकेति । देवगविवत्परा स्थितिमनुजगतिवन्नघन्या ॥ सम्प्रति सुस्वरनाम सूचयति- कर्णप्रियस्वरवत्वप्रयोजकं कर्म सुस्वरनाम | वचनमामाण्याभ्युत्था- 10 नादिप्रापकं कर्माऽऽदेयनाम ॥ कर्णेति । यस्योदयात् उच्चरितशब्दो मधुरो गम्भीर उदारो भूयः प्रीतिकरश्च भवति तत्सुस्वरनामेत्यर्थः । दुस्स्वरनामकर्मणि व्यभिचारवारणाय कर्णप्रियेति । सौभाग्य- घदस्य स्थिती । आदेयनामाचष्टे वचनेति । यस्य वचनं युक्तिरिक्कमपि प्रामाण्यमास्कन्दति यदुदयात् यस्य च दर्शनमात्रेण लोकोऽभ्युत्थानादि समाचरति तदादेयनामेत्यर्थः । स्थिती 15 च सौभाग्यवत् ॥ यश-कीर्तिनाम वक्ति- यशाकीय॒दयप्रयोजकं कर्म यशाकीर्तिनाम । एकदिग्गमनामिका कीर्तिः। सर्वदिग्गमनात्मकं यशः । दानपुण्यजन्या कीर्तिः । शौर्यजन्य यश इति वा । इमानि त्रसदशकानि ॥ यश इति । यस्योदयेन यशाकीर्ती भवतस्तथश-कीर्तिनामेत्यर्थः । न चास्योदयेऽपि कचिन्न यशाकीर्ती भवत इति वाच्यम् । सद्गुणमध्यस्थपुरुषापेक्षयैव तदुदयाभ्युपगमात् । तेन केनचिद्यशाकीर्तिभ्यां कीर्तित एवायशःकी| कीर्तितोऽपि न क्षतिः । उत्कृष्टास्य स्थितिदेवगतिवत् जघन्या तु मुहूर्ता अष्टौ, अवाधा चान्तर्मुहूर्त्तकालः । ननु यशकीयोः पर्यायत्वात्कथं द्वन्द्वाश्रयण भेद उच्यते इत्यत्राह-एकेति, एकदिग्व्यापिनी पुण्यगुणख्याति: 25 -- 20 । 5 तित्वम्यायविभाकरे [ चतुर्यकिरणे कीर्तिरित्यर्थः, सर्वेति, सर्वदिग्व्यापिनी गुणख्यातियश इत्यर्थः । प्रकारान्तरेणाह-दानेति, अथवा पराक्रमतपरत्यागायुद्भूतयशसा यत्कीचनं श्लाघनं सा यश कीर्तिरिति तृतीयातत्पुरुषोऽ. पि भाव्यः । त्रसनामकर्मप्रभृति यशःकीर्तिनामपर्यन्तं यावत् दश नामकर्माणि विभाग- वाक्योक्तत्रसदशकशब्दवाच्यानीत्यभिप्रायेणाह इमानीति ॥ अथ देवायुषो लक्षणमाह- देवभवनिवासकारणायुः प्रापकं कर्म देवायुः॥ देवभवेति । भवः संसारः, चतुर्गतिको देवमनुष्यतिर्यड्नरकभेदात् । तत्र भवनिवासे आभ्यन्तरं कारणमायुः । तत्र यस्य भावादात्मनो जीवितं यदभावाच मरणमुच्यते तदायुः यत्सन्निधानाद्वा जीवेन शेषप्रकृतय उपभोगायाऽऽनीयन्ते तदायुस्सोपक्रमनिरुपक्रम- 10 भेदभिन्नं पौगलिकञ्च | आगमोक्तैरुपक्रमैरध्यवसायाधैर्बहुना कालेन वेद्यमपि यदल्पकालेन मुज्यते तत्सोपक्रममायुः । तच्च बन्धनसमये लथं बद्धं शक्यार्पवर्तनं तथा । यत्तु बन्धसमये गाढं बद्धं क्रमवेद्यफलं अशक्यापवर्त्तनं, अध्यवसानादिभ्यो निर्गतञ्च तन्निरुपक्रमम् | वना- नपवायुष औपपातिका अन्त्यदेहाः, तीर्थकरचक्रवर्त्यचक्रवर्तिनोऽसङ्ख्येयवर्षायुषो मनुष्यास्तिर्यग्योनिजाश्च । शेषा मनुष्यास्तिर्यग्योनिजाः सोपत्रमा निरुपक्रमाश्चापवायुषोऽ- 15 नपवायुषश्च भवन्ति । तत्रायुषो बन्धकाः सम्यड्मिध्यादृष्टिविरहिता मिध्यादृष्टेरारभ्या- प्रमत्चगुणस्थानं यावत् षट्त्सु स्थानेषु जन्तवोऽजघन्योत्कृष्टाभ्यवसायविशेषभाजः पृथुकषाया- स्साचध्रुवायुविकल्पयुजः । अप्रमत्तगुणस्थानवर्तिनस्तु निष्ठापका एव । तथा नारकदेवासंख्येय- वर्षायुष्कतिर्यड्मनुष्याः षण्मासावशेषायुषोऽध्यमवजीवितं बध्नन्ति | शेपास्तु निजायुष- स्तृतीये नवमे सप्तविशेऽवशेपायुर्भागे तद्वघ्नन्ति । तत्रापि पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतु- 20 रिद्रियाणां निरुपक्रमायुपाश्च पञ्चेन्द्रियाणां नियमतस्कृतीये, सोपक्रमायुपाश्च पवेन्द्रियाणां तृतीये नवमे सप्तविंशे वा भागेऽवशेषेऽवशिष्टान्तर्मुहूर्तायुषि वा बन्धो वोभ्यः । इयमेव भव- स्थितिः । एवञ्च देवभवनिवासे हेतुभूतं यदायुः वत्प्रापकं कर्म देवायुनर्नामेत्यर्थः । देवभव- निवासहेत्वायुःप्रापकत्वे सति कर्मत्वं लक्षणार्थः, मनुष्यायुरादौ व्यभिचारवारणाय हेत्वन्तं देवपदमप्यत एव । अस्य परा स्थितित्रयस्त्रिंशत्सागरोपमा, पूर्वकोटित्रिभागोऽबाधा, जघन्या 25 च दशवर्षसहस्राणि, अबाधा त्वन्तर्मुहूर्तम् । आयुषोऽबाधायां भङ्गचतुष्टयं पूर्वकोट्यायुष्को मनुजत्रिभागावशेषे आयुष्युत्कृष्टस्थितिकमागामिदेवभवायुपं यदा बध्नाति तदोत्कृष्टस्थि- १. येऽपवायुषस्तेषा विषशनकण्टकादिभिः क्षुत्पिपासादिभिश्चायुरपवयते, झटिति कर्मफलस्यान्तर्मुहूर्ता- दुपभोगोऽपवर्तना, तेन न कर्मण कृतनाशाकृता-पागमादिप्रसक्ति । २. एते सोपक्रमा निरुपक्रमाथ, । , तीर्थकरनाम ] न्यायप्रकाशसमलते त्युत्कृष्टावाधात्मकः प्रथमो भङ्गः। स एव जघन्यमध्यमायुष्को वा मनुजोऽन्तर्मुहूत्तविशिष्ट आयुष्युत्कृष्टस्थितिकमागामिदेवमवायुपं बध्नाति यदा तदोत्कृष्टस्थितिजघन्याबाधात्मको द्वितीयः । पूर्वकोट्यायुष्को मनुजो यदा पूर्वकोटित्रिभागावशेष आयुषि दशसहस्रप्रमाणं जघन्यस्थितिक देवायुर्वध्नाति तदा देवायुरपेक्षया जघन्यस्थित्युत्कृष्टाबाधात्मकस्तृतीयः । जघन्यायुष्कोऽन्तर्मुहूर्तावशेप आयुषि दशवर्षसहस्रात्मकं यदा देवायुर्वध्नाति तदा जघ- 5 न्यस्थितिजघन्यावाधात्मको भङ्गश्चतुर्थ इति ।। . - अथ मनुजायुराह- मनुजभवनिवासनिदानायुः मापकं कर्म मनुजायुः। तिर्यग्भवनिवा- सहेत्वायु-प्राप्तिजनकं कर्म तिर्यगायुः ।। मनुजभवेति । स्पष्टं लक्षणम्, त्रिपल्योपमा परा स्थितिः | जघन्या तु क्षुल्लकभवप्रमाणा, 10 अबाधाऽन्तर्मुहूर्तकालः । निर्यगायुराह-तिर्यगिति, लक्षणं स्पष्टम् । यावत्स्वायु:परि- समाप्ति कदापि मृत्युसमीहाभावादिदमाहादजनकत्वाच्छुभम् । तिर्यग्गतितियंगानुपूव्यौँ तु संश्लिष्टाध्यवसायैरात्मसाक्रियमाणत्वेनाशुभत्वात्पापात्मके इति । परा स्थितिः त्रिपल्योपमा, अपरा चान्तर्मुहूर्तम् ॥ तीर्थकरनामकर्माह- अष्टमहापातिहार्याचतिशयप्रादुर्भवननिमित्तं कर्म तीर्थकरनाम ॥ . अष्टेति । 'अशोकवृक्षः सुरपुष्पवृष्टिदिव्यध्वनिश्चामरमासनञ्च । भामण्डलं दुन्दुमि- रावपत्रं सत्रातिहार्याणि जिनेश्वराणा'मिति श्लोकेऽष्टौ प्रातिहााणि प्रतिपादितानि ग्राह्याणि । अष्टमहापातिहार्याचतिशयप्रादुर्भावनिमित्तत्त्वे सति कर्मत्वं लक्षणम् । विशिष्टर्चियुक्तानां चक्र- धरत्वादीनामुच्चैगोत्रेऽतिव्याप्तिवारणायाष्टविधप्राविहार्यादीति । गणधरत्वन्तु श्रुतज्ञानावरण- :20 क्षयोपशमनिमित्तत्वान्न तीर्थकरनामवत् गणधरनामकर्मोपसंख्यानापत्तिः । न च तीर्थकर- स्थापि श्रुतज्ञानावरणक्षयोपशमो वा चक्रधरादीनामिवोच्चैगोत्रविशेषो वा निमित्तमस्त्विति , वाच्य तीर्थप्रवर्तनफलत्वेन तीर्थकरनामकर्मणोऽभ्युपगमादिति । अस्योत्कृष्टा स्थितिः सागरों- पमकोटीकोटेरन्तः। अबाधान्तर्मुहूर्चमेवमेव जघन्या स्थितिरपि किञ्चिन्न्यूना ॥ एतत्कर्म 15 १. एतच्चकर्म मनुजगतिस्थ एव पुरुष. स्त्री नपुंसको वा तीर्थकरभवात्पृथ्वस्तृतीयभवं प्राप्य बजाति, बन्धोऽयं निकाचनारूपबन्धापेक्षया, अनिकाचनारूपस्तु तृतीयमवात्प्रागपि, जघन्यतोऽप्यन्तस्सागरोपमकोटी- कोटिप्रमाणत्वात् . तत्र निकाचितमवन्ध्यफलमितरतूमयथापि । निकाचनारूपश्च तृतीयभवादारभ्य यावृत्ती- ७६: तत्त्वन्यायविभाकरे [ चतुर्यकिरणे विशतेः स्थानकानामाराधनात् सम्यक्त्वशालिना नृगतावेव तृतीये भवे निकाच्यते । केव- लोत्पत्त्यनन्तरमस्योदयः, धर्मोपदेशनादिमिश्चैवदग्लान्या वेद्यत इति ॥ - । तदेवं द्विचत्वारिंशद्विधानि पुण्यकर्माण्यभिधायतद्धेतूनामध्यवसायविशेषप्रभवसुपात्र- दानादीनामपि पुण्यफलदत्वेन पुण्यरूपत्वमित्यभिमन्यमानः पुण्यस्य द्वैविध्यमादर्शयति- पुण्यमिदं कार्यकारणभेदेन द्विविधम् । एतानि कर्माणि कार्यरूपाणि जीवानुभवप्रकाराणि । एतेषां हेतवस्तु सुपात्रेभ्यो निरवद्यान्नवसतिवा- सोजलसंस्तारकादीनां प्रदानं, मनसशुभसंकल्पा, वाकाययोश्शुभव्या- पारः, जिनेश्वरमभृतीनां नमनादय इति दिक् । इति पुण्यनिरूपणम् ॥ पुण्यमिदमिति । पवित्रीकरणनिदानं पुण्यमिदमित्यर्थः । एतानीति सावादिद्विचत्वा- 10 रिंशद्विधानि कर्मप्रकृतिग्रन्थानुसारीणि कर्माणि भूतव्रत्यनुकम्पादिफलकानि कार्यरूपाणि जीव सुखादिरूपेणानुभवनीयानीत्यर्थः । कारणात्मकपुण्यमाह-एतेषामिति । द्वाचत्वारिंशद्विधानां कर्मणामित्यर्थः हेतव इति नमनादय इत्यप्रेतनेनान्वयः, भवन्तीति शेषः। सुपात्रेभ्य इति,सम्य- ग्दर्शनज्ञानचारित्रतपस्सम्पन्नेभ्य इत्यर्थः, निरवद्यस्यानस्य सुरभिलवणस्निग्धमधुरत्वादिमि- रच्युतस्य शालिव्रीहिगोधूमादिनिष्पन्नस्याशनस्य, वसतेसिसो जलस्य संस्तारकादीनाञ्च प्रदानम्-अनसूयाऽविषादादरपरमप्रीतिकुशलाभिप्रायदृष्टफलानपेक्षानिरुपधित्वानिदानत्वादि- गुणयुतदातृकृतातिसर्गः, पुण्योपचयनिर्जराहेतुः, मनसः शुमसंकल्प इति, अनभिध्यादिधर्म- शुक्लध्यानध्यायित्वादय इत्यर्थः, वाकाययोः शुभव्यापार इति, अहिंसाऽस्तेयादयश्शुभः काय- योगः, असावधादिवचनमागमविहितभाषणं च शुभवाग्योगः, योगैरेमिनिमिश्शुभकर्मण आस्रवो भवति । जिनेश्वरेति तीर्थपत्याचार्योपाध्यायादीनामित्यर्थः, यद्यपि वस्तुतो मनोवाका- 20 यानाः शुभव्यापारस्यैव द्विचत्वारिंशद्विधस्य पुण्यस्य कारणत्वं तथापि किचिद्विस्तरेण सामान्यशेमुषीकाणां बोधाय तस्यैव प्रपञ्च आदर्शितः । न च पुण्यस्यापि पापवत्पारतन्त्र्या- विशेषात्तयो दोऽनुचित इति वाच्यम् इष्टानिष्टनिमित्तभेदात्तत्सिद्धेः । इष्टगतिजातिशरी- रेन्द्रियविषयादीनां हि निर्वतकं पुण्यम् । अनिष्टगत्यादीनां निवत्तक पापमिति वैचित्र्यं सुप्रसिद्धमेवेति.॥ - र्थकरमवेऽपूर्वकरणस्य सख्येयभागा , तत ऊर्ध्व व्यवच्छेदः, केवलज्ञानोत्पत्तौ चाष्टमहापातिहादिरूपे सुरेन्द्रकृते पूजोपचारे सति सदेवमनुमासुराया परिषदि ग्लानिपरिहारेण धर्मदेशनया श्रुतचारित्ररूपधर्मप्ररूपणलक्षणया चतुर्विशता देहसौगन्ध्यादिमिरतिशयै. पञ्चत्रिंशता बुद्धिवचनातिशयैस्तद्वद्यत इति भावः ॥

, 1 , पापनिरूपणम् ] न्यायप्रकाशसमलङ्कृते । तत्र कर्मप्रकृतयः सामान्यवो द्विविधा, पार्तिका अघातिकाश्चेति, ज्ञानदर्शनावरण- मोहान्तराया घातिका; अपरा अघातिकाः। घातिकास्तु सर्वघातिका देशघांतिकाश्चेति द्विविधाः। तत्र केवलदर्शनावरणनिगानिद्राप्रचलामचलास्त्यानद्धिनिद्रापंचलाकेवलज्ञानावरण- द्वादशकषायमिथ्यात्वाख्या विंशतिप्रकृतयस्सर्वघातिकाः । ज्ञानावरणचतुष्कदर्शनावरणत्रया- तरायपञ्चकसंज्वलननोकपायसंज्ञका देशघातिनः । एवं शरीराङ्गोपाङ्ग निर्माणसंघातसंस्थान- 5 संहननस्पर्शरसगन्धवर्णागुरुलघुपराघातोपघाताऽऽतपोद्योतप्रत्येकसाधारणस्थिरास्थिरशुभाशु- भनामकर्माणि पुद्गलविपाकप्रदानि, आनुपूर्वी तु क्षेत्रविपाककरा, आयुर्भवधारणफलं, अवं. शिष्टाः प्रकृतयो जीवविपाकहेतवो बोध्याः। एवं नारकादिचतुर्गतिपु नरकगवौ वावरसा- तपश्चेन्द्रियवैक्रियतदद्गोपाङ्गतैजसकार्मणवर्णचतुष्कागुरुलघुपराघावोच्छ्रासनिर्माणनसवादर- पर्याप्तप्रत्येकस्थिरशुभनामानि कर्माणि उदयापेक्षया वर्तन्ते। तिर्यग्गतौ मनुष्यत्रिकासुरत्रिका- .10 ऽऽहारविकतीर्थकरनामकर्माणि विनाऽन्यानि वर्तन्ते । मनुजगतौ सुरत्रिकतिर्यगायुरावपना- मानि पञ्चविहायान्यानि वर्तन्ते । देवगतौ तु मनुजत्रिकतिर्यगायुरौदारिकद्विकातपाहारक- द्विकतीर्थकरनामानि वर्तयित्वा शेपाणि वर्तन्त इत्यादि विषयबाहुल्याभिप्रायेण दिगित्युक्तम् । दिङ्मात्रेणात्र पुण्यतत्त्वं व्यावर्णिवं विस्तरस्तु प्रवचने द्रष्टव्यमिति भावः । पुण्यतत्त्ववर्णन निगमयति इतीति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर चरणनलिनविन्यस्तभक्तिभरण तत्पधरेण विजयलन्धिसूरिणा विनिर्मितस्य वत्स्वन्यायविभाकरस्य स्वोपवायां न्यायप्रकाशव्याख्यायां पापनिरूपणं नार्म चतुर्थः किरणः ॥ अथ पञ्चमः किरणः अथावसरसङ्गया पापवस्वं निरूपयितुमुपक्रमते- दुःखोत्पत्तिप्रयोजकं कर्म पापम् ॥ दुःखोत्पत्तीति। विरोधिद्रव्योपनिपातादभिमतवियोगानिष्टसंयोगानिष्टश्रवणादेः पीडा- 16 . 20 १. केवलदर्शनज्ञानयोस्सर्वात्मनाऽऽवरणादनयोस्सर्वघातित्वं न तु दर्शनज्ञानमात्रावारकत्वात्. तथात्वे- जीवस्याजीवस्वापत्ते । २. स्वस्वविपयाणा सर्वात्मना घातकत्वासम्भवादिति भाव । अघातिकास्तु न ज्ञानादिगुणं घातयन्ति, किन्तु सर्वदेशघातिनीमिस्सह वैद्यमानास्सर्वदेशघातिरसविपाकं दर्शयन्ति, यथा चौर- स्सहाचौरचौर इवावभासते ॥ ३. शरीरान्तर्गतपुदगलेष्वात्मीयशक्तिप्रदर्शनात् । क्षेत्रेति, आकाश एवं स्वशक्तिप्रदर्शिका, विप्रहगतावेवास्या उदयादिति भावः । भवेति, स्वयोग्यभव एवोदयीसर्थ, नान्य- :७८ : । तत्त्वन्यायविभाकरे [पञ्चमकिरणे लक्षण आत्मनः परिणामो दुःखमित्यर्थः । दुःखोत्पत्तिप्रयोजकत्वे सति कर्मत्वं लक्षणं विशेष- णानुपादाने सातादौ विशेष्यानुपादाने कालादिसमवाये व्यभिचारादुभयम् । न चेदृशदुःखो- पतिप्रयोजकत्वे कर्मत्वस्यासातवेदनीय एव सत्त्वान्मतिज्ञानावरणादावव्याप्तिः । उक्तश्च तत्त्वार्थसूत्रकृता-“दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थानान्यसवेंदनीयस्वे"ति, 5 ज्ञानदर्शनावरणादीनां प्रदोषनिवादिजनकत्वेन न दुःखोत्पत्तिहेतुत्वमिति वाच्यम् । मतिज्ञाना- वरणादीनामपि परम्परया दुःखोत्पत्तिहेतुत्वात् साक्षाद्धि फलं प्रदोषनिह्नवादयः । ननु पुण्य- भेकमेवास्तु न पापम्, न च दुःखोपपत्तिः कस्यापि न स्यादिति वाच्यम् । पुण्यस्य तारतम्येन तदुपपत्तेः ।परां काष्ठामासादितस्य पुण्यस्यातिशयसुखं फलं, तस्यैव च तारतम्ययोगेनापकर्षांत मुखस्यापि हान्या तदपेक्षया वत्सुखस्य दुःखत्वम् ,एवमेव परमजघन्यस्य पुण्यलेशस्य नरकदुःखं '10 फलमिति कस्यापि दोषस्याभावात्पापलक्षणप्रणयनमसंगतमिति चेन्मैवम् ,विनिगमनाविरहेणो- भयस्यापि सिद्धेः । अनुभूयते हि सुखदुःखयोजात्यम् , तच्च विजातीयमनुरूपं कारणमन्त- रेण कथं हि भवेत् , तस्मादस्ति सुखस्यानुरूपं कारणं पुण्यं दुःखस्थानुरूपञ्च कारणं पापमिति । न च पुण्यपापे न सुखदुःखयोरनुरूपे कारणे, सुखदुःखयोरात्मपरिणामत्वात् पुण्यपापयोश्च पौगलिकत्वादिति वाच्यम्, सर्वथा कार्यानुरूपत्वस्य कारणेऽनिष्टत्वात् कार्याननुरूपत्वस्य • वा, अपि तु सकलमपि वस्तु परस्परं तुल्यातुल्यरूपमेव । अत्र तु कार्यस्य सुखादेः कारण- पुण्यादिपर्यायत्वादनुरूपत्वं प्रोक्तम् । न च कथं सुखदुःखे पुण्यपापयोः पर्याय इति वाच्यम्, सुखं प्रति जीवपुण्यसंयोगस्य दुःखं प्रति जीवपापसंयोगस्य हेतुत्वेन च सुखदुःखयोः पुण्य- पापपर्यायत्वात्। तथा च यथा सुखं शुभशिवकल्याणादिशब्दैव्य॑पदिश्यते तथा पुण्यमपि, यथा दुःखञ्चाशुभाशिवाकल्याणादिशब्दयंपदिश्यते तथा पापमपीति सिद्धं पुण्यातिरिक्त पापमिति ननु किं दुःखस्यात्मपरिणामविशेषस्यामूर्त्तत्वेन पापमिदमप्यमूर्त स्यात्पापपर्यायत्वादुखि- स, किंवा पापस्य बन्धकत्वेन मूर्तत्वात्तत्पर्यायभूतं दुःखमपि मूर्त स्यादित्याशङ्कायामाह- पौगलिकमेतत् । इदमेव द्रव्यपापमुच्यते । द्रव्यपापनामकको- त्पत्तिकारणात्मा शुभाध्यवसायो भावपापम् ॥ स्मिन् भवे गतय इवेति भावः । जीवेति, जीव एवादर्शनिवाज्ञानित्वाचारित्रित्वादातृत्वमुखित्वदु खित्व- कारिण्य इति भाव. ॥ १. विजायतीयकार्यदर्शनेनानुरूपेण विजातीयकारणेन भवितव्यमेवेत्याशयेनाहानुभूयत इति । २. नन्वेवं तहि कथमनुरूपविजातीयकारणानुमानमुच्यते, सर्वस्य सर्वेण तुल्यातुल्यरूपत्वादित्यवाहात्विति, तथा च सुखस्य पापापयित्वादु खस्य पुण्यापर्यायत्वात्सुखदु खे प्रति पापपुण्येऽननुल्ले, तयोः पुण्यपाप- पर्यायवाच ते प्रति तेऽनुरूपे इति भावः ॥ '20 " - 10 मतिज्ञानावरणम् ] म्यायप्रकाशसमलते पौलिकमेतदिति । एतद् दुःखोत्पत्तिप्रयोजकभूतं कर्मेदमित्यर्थः, पौगलिकं मूर्तमे- वेत्यर्थः । तथा च मूर्चपापपर्यायत्वेऽपि दुःखस्य न मूर्चत्वं जीवस्यापि तत्र हेतुत्वात, जीवो हि तत्र परिणामिकारणममूर्तश्चातस्तत्परिणामभूतं दुःखमप्यमूर्तमेवेति भावः, ननु कर्मवन्धे नियतो हेतुर्योगः, स च मनोवाकाययोगात्मकश्शुभोऽशुभो वा भवेत् , तत्रा- शुमकर्मबन्धेऽशुभो योगो हेतुश्शुभकर्मबन्धे च शुमो योगो हेतुः, योगश्च मनोवाकायानां 5 परिस्पन्दो द्रध्ययोगरूपः, तथा चाध्यवसायविशिष्टेनात्मना परिस्पन्दद्वारा कर्म बध्यते, तस्मात् कर्मपरिस्पन्दयोर्निबन्धनं जीवाध्यवसाय:, स च भावयोगरूपस्तस्य शुभत्वे भाव- पुण्यत्वमशुभत्वे भावपापत्वमित्याशयेनाह-इदमेवेति, पौगलिकपापकर्मेत्यर्थः, एक्शब्दो भिन्नक्रमः, तथा च पौगलिकं पापकर्म द्रव्यपापमेवोच्यत इत्यर्थः, तेन क्रियात्मकद्रव्ययो- गस्य पापत्वेऽपि न क्षतिः । अथ भावपापमाह-द्रव्यपापेति, स्पष्टम् ।। वत्र वक्ष्यमाणप्राणातिपावादिपापबन्धहेतुभियोगव्यापारैरर्जितमशुभं कर्म व्यशीविप्र- कारैर्जीवनानुभवनात्तत्प्रकारान् क्रमेण लक्षयितुं मतिज्ञानावरणं प्रथम लक्षयति- इन्द्रियानिन्द्रियजन्याभिलापनिरपेक्षबोधाऽऽवरणकारणं कर्म मति- ज्ञानाचरणम् ॥ इन्द्रियेति । इन्द्रियं चक्षुरादिरनिन्द्रियं मनः, इन्द्रियेतरद्वा, तथा तदुभयमेभिर्जन्या ये चोधा विशेपविषया अमिलापनिरपेक्षास्तेपामाच्छादनकारि यत्कर्म तन्मतिज्ञानावरणमित्यर्थः । ययेन्द्रियनिमित्तो वोधः, मनोरहितानामेकाक्षादीनां, अनिन्द्रियमनोनिमित्तः स्मृतिनिश्चि- तस्य धारणरूपः, इन्द्रियभिन्नमत्यज्ञानावरणीयक्षयोपशमजन्यमविभक्तरूपमोघज्ञानमनिन्द्रिय- निमित्तवोधरूपम्, तथा जापवस्थाकालीनः चक्षुरादीन्द्रियमनोनिमित्तको रूपरसादिवोधः इन्द्रियानिन्द्रियनिमित्तका, एवम्भूतानाममिलापनिरपेक्षाणां विशेपवोधात्मकानामावरणका- 20 रणं कर्मेति भावः । तथा चेन्द्रियानिन्द्रियजन्याभिलापनिरपेक्षवोधावरणकारणत्वे सति कर्मत्वं लक्षणार्थः । विशेष्य कालादिवारणाय विशेपणं सातादिवारणाय । श्रुतज्ञानावरणी- येऽविव्याप्तिवारणायामिलापनिरपेक्षेति । धारणाज्ञानावरणीयादावन्याप्तिवारणायानिन्द्रि- येति । रूपचाक्षुषादिज्ञानावरणीयेऽव्याप्तिवारणायेन्द्रियेति, दर्शनावरणीयादावविव्याप्तिवार- णाय विशेषविषयकज्ञानवाचिबोधपदम् । अवविज्ञानावरणीयादापतिव्याप्तिवारणाय जन्या- 25 न्तम् । नन्वावरणकर्मेदं सतां मत्यादीनामावारकमसतां वा ! नाद्यः प्राप्तात्मलाभत्वात्, सत्वेनैवावरणस्यानुपपत्तेः । नान्त्यः, तथा सति न स्यादेवावरणम, नहि खरविषाणादिव- दसदात्रियते इति चेन्न, आदेशवचनात् , कथञ्चित्सतामावरणं कथविचासतामिति | द्रव्या- 15 " तस्वन्यायविभाकरे [पममकिरणे. थांदेशेन हि सतां मत्यादीनामावरण, पर्यायार्थादेशेन चासताम् । यदि त्वेकान्तेन सतामा- वरणं तदा क्षायोपशमिकत्वमेषां न स्यात्, अथैकान्तेनासतां तदापि तन्नोपपद्यते,, असत्वात् सत एवावरणदर्शनाच,नमसो हि सतो मेघपटलादिनाऽऽवरणं दृश्यते, न च कुटीभूवानि मत्या- दीनि कानिचित्सन्ति, येषामावरणान्मत्याद्यावरणानामावरणत्वं भवेत् , किन्तु मत्यायावरण- 5 सन्निधाने जीवो मत्यादिज्ञानपर्याय!त्पद्यत इत्यतो मत्याचावरणानामावरणत्वमिति | देशघातीदम् , अस्योत्कृष्टा स्थितिविंशत्सागरोपमकोटीकोट्यः । वर्षसहनत्रयश्चाबाधाकालः ।, बाधाकालस्तु यत्प्रभृति ज्ञानावरणादिकर्मोदयावलिकाप्रविष्टं यावञ्च निःशेषमुपक्षीणं, तावद्भवति । तच्च कर्मबन्धकालादारभ्य त्रिषु वर्षसहस्रेष्वतीतेषूदयावलिकां प्रविशति, स खल्वबाधाकालो यतस्तत्कर्म नानुभूयते वावन्तं कालमिति। जघन्या तु अन्तर्मुहुर्चकालः। अबाधाप्यन्तर्मुहूर्तमेव ।। 10 श्रुतज्ञानावरणलक्षणमाह- मतिज्ञानसापेक्षशब्दसंस्पृष्टार्थग्रहणावरणकारणं कर्म श्रुतज्ञानावरणम् ॥ मतिज्ञानेति । मतिज्ञानसापेक्षं मतिज्ञानापेक्षाकारणकं, शब्दो द्रव्यश्रुतमुपचारात् तत्संस्पृष्टो वाच्यवाचकभावेन सम्बद्धो योऽर्थस्तद्विषयकं ग्रहण श्रुतानुसारि च, तदावरण. 1B कारणं कर्मेत्यर्थः। तथा च मतिज्ञानसापेक्षश्रुतानुसारिसामिलापज्ञानावरणकारणत्वे सति 'कर्मत्वं लक्षणम् । विशेष्यविशेषणयोः कृत्यं पूर्ववत् । साभिलापज्ञानावरणकारणत्वे सति कर्मत्वस्य शब्दोल्लेखसहितेहादिनानावरणकारणे मतिज्ञानावरणविशेषेऽतिव्याप्तिरिति श्रुतानु- सारीति पदमीहादीनां श्रुतानुसारित्वाभावेन न तत्र दोषः, न च मतिज्ञानसापेक्षसामिलाप- ज्ञानावरणहेतुत्वे सति कर्मत्वमित्युक्तावीहादीनां मतिज्ञानासापेक्षत्वेन तत्र नातिव्याप्तिरिति- 20 वाच्यम्, अवग्रहादिरूपमविज्ञानसापेक्षत्वादीहादेः । न चेहादीनां कथं न श्रुतानुसारित्वं संकेतकालादौ निशमितशब्दानुसरणमन्तरेण तत्र शब्दामिलापासम्भवादिति वाच्यम् , व्यवहारकाले शब्दानुसरणं विनापि पूर्व श्रुतपरिकर्मिवमत्तीनां प्रवृत्तिदर्शनात् , नहि तदा- नीमपि पूर्वगृहीतं संकेतं श्रुतं वाऽनुस्मृत्य प्रवर्ततेऽपि त्वभ्यासपाटवादेव, श्रुतानुसारिसाभि- १ मतिज्ञानस्य सामिलापानभिलापरूपत्वेऽपि व्यवहारकाले सङ्केतकालप्रवृत्तस्य श्रुतमन्थसम्बन्धिनो वा शब्दस्याननुस्मरणादश्रुतानुसारित्वं, श्रुतज्ञाने तादृशशब्दानुस्मग्णस्यावश्यकत्वेन श्रुतानुसारित्वमिति भाव ॥ न चैकेन्द्रियाणा सामध्यभावेन श्रुतानुसारित्वासम्भवाच्छ्रतज्ञानाभावेन तदावरणमपि न स्यात्, इष्टश्च तत्र तदुभयमिति वाच्यम्, भावभुतस्य तत्रापि स्वीकारेण दोषाभावात् , न चैवं तत्रयातनानावरणेऽव्याप्तिरिति वाच्यम्, पर्यायनयेन श्रुतानुसारिसामिलापज्ञानवृत्तिनानत्वसाक्षाश्चाप्यधर्मवदावरणकारणत्वे सति कर्मत्वस्य विषक्षया दोषाभावादिति भावः ॥ - आ पर्यावरणम् ] म्यायप्रकाशसमलते । लापज्ञानावरणकारणत्वे सति कर्मत्वमित्युक्तौ यद्यपि न कोऽपि दोषस्तथापि सामिलापज्ञाने मतिज्ञानस्य हेतुत्वमात्रप्रदर्शनपरं मतिज्ञानसापेक्षेति पदम् । यद्वाऽक्षरादिश्रुतविशेपेषु येऽव- महादयः समुपजायन्ते ते चाश्रुतानुसारित्वे मतिजानतया व्यपदिश्यन्ते श्रुतस्य मतिपूर्व- कत्वात् , यस्तु तेषु श्रुतानुसारी ज्ञानविशेषः स श्रुतज्ञानत्वेनेति सूचयितुं वा तत्पदम् । अस्योभयविधा स्थितिमविज्ञानावरणवत्, देशपातीदम् ॥ अथावधिज्ञानावरणलक्षणमाचष्टे- इन्द्रियानिन्द्रियनिरपेक्षमूर्त्तद्रव्यविषयप्रत्यक्षज्ञानावरणनिदानं क- विधिज्ञानावरणम् ॥ इन्द्रियेति । इन्द्रियानिन्द्रियनिरपेक्षमूर्तद्रव्यविषयकप्रत्यक्षज्ञानावरणनिदानत्वे सति कर्मत्वमवधिज्ञानावरणस्य लक्षणम् । विशेपणविशेष्यपदकृत्यं प्राग्वत् । मतिज्ञानावरणा- 10 दावविव्याप्तिवारणाय निरपेक्षान्तं प्रत्यक्षविशेषणम् , तस्य घटादिरूपयत्किञ्चिन्मूर्त- द्रव्यविषयकप्रत्यक्षज्ञानावरणनिदानकमत्वात्, यदि प्रत्यक्षपदेन पारमार्थिकप्रत्यक्षग्रहणान्न दोप इत्युच्यते तर्हि तत्सूचनायैव तदुपादानं विज्ञेयम् । न च तथात्वेऽपि मनःपर्यवावरणा- दावतिव्याप्तिः, तस्य मूर्तमनोद्रव्यविषयकप्रत्यक्षबानावरणकारणकर्मत्वात् , केवलजानावरण- स्यापि सकलमूद्रव्यविषयकप्रत्यक्षज्ञानावरणकारणकर्मत्वाच्चेति वाच्यम् , यावन्मू-मान- 15 द्रव्यविषयकप्रत्यक्षज्ञानावरणकारणत्वे सति कर्मत्वस्य लक्षणार्थत्वात् । हीयमानकवर्धमान- कानवस्थिवावधिज्ञानावरणविशेपेष्वपि उत्कृष्टावधिप्रहणेन लक्षण द्रव्यार्थिकप्राधान्यायोज- नीयम् । पर्यायनयप्राधान्यविवक्षायान्तु यावन्मूर्तद्रव्यमानविषयकप्रत्यक्षज्ञानवृत्तिज्ञानत्व- साक्षाद्व्याप्यधर्मवदावरणकारणत्वे सति कर्मत्वं लक्षणम् , तादृशो धर्मोऽवधित्वमेव, नत्वनुगा- मिल्लादिकं, तेन विभङ्गज्ञानावरणादौ नाव्याप्तिः। देशघातीदम् । स्थिती मतिज्ञानावरणवत् ।। 20 मनापर्यवज्ञानावरणस्वरूपमाह- इन्द्रियानिन्द्रियनिरपेक्षसंज्ञिपञ्चेन्द्रियमनोगतभावज्ञापकप्रत्यक्षज्ञा- नावरणसाधनं कर्म मनापर्यवावरणम् ॥ इन्द्रियानिन्द्रियेति । इन्द्रियानिन्द्रियनिरपेक्षसंज्ञिपञ्चेन्द्रियमनोगतमावज्ञापकात्मक- प्रत्यक्षज्ञानावरणकारणत्वे सति कर्मत्वं लक्षणम् । मनुष्यक्षेत्रवर्तिसजिपञ्चेन्द्रियैः काययोगेन 28 गृहीतानि मनोयोग्यद्व्याणि चिन्तनानुगुणं मनोयोगेन मनस्त्वेन परिणमय्याऽवलम्ब्य- - :: तवन्यायधिभाकरे पकिरन मानानि द्रव्यमनांसि बढ़ता ये भावाश्चिन्तानुकूलपरिणामास्तेषां बापकात्मकं यत्प्रत्यक्षबान तदावरणकारणं कर्मेत्यर्थः । अत्रापीन्द्रियानिन्द्रियपदं पारमार्थिकप्रत्यक्षमापनायैव, अन्यथा मनःप्रणिधानहेतुकवादनिन्द्रियनिरपेक्षत्वकथनं पूर्वत्रात्र चासङ्गवं त्यात् संनिपञ्चेन्द्रियपढेन मनुष्यक्षेत्रवर्तिसंजिपञ्चेन्द्रिया ग्राह्यास्तेन तहितिनां मनोगतमावजानं मनःपर्यविनो 5 न भवतीति सूचित्तम् , संज्ञिपञ्चेन्द्रियमनोगतभावमात्रज्ञापकप्रत्यक्षज्ञानावरणकारणत्वे सति कर्मत्वं वाच्यं तेन न केवलज्ञानावरणेऽतिव्याप्तिरालोचितवाह्यार्थजानन्त्रनुमानान् | याव- द्भावज्ञापकेत्यादि तु न वाच्यम्, ऋजुमतिमनःपर्यवावरणेऽव्याप्तेः, देशघातीदम् । स्थिती मविज्ञानावरणवन् ॥ अब केवलज्ञानावरणमाह- 10 मनइन्द्रियनिरपेक्षलोकालोकवतिसकलद्रव्यपर्यायप्रदर्शकप्रत्यक्षज्ञा- नावरणसाधनं कर्म केवलज्ञानावरणम् । इति ज्ञानावरणीयपञ्चकम् ।। मनइन्द्रियनिरपेक्षेति । अत्रापि मनइन्द्रियनिरपेक्षेति प्रत्यक्षविशेषणमव्यवहितात्म- द्रव्यसमुत्थत्वेन पारमार्थिकप्रत्यक्षत्वसूचनपरम् । अशेषद्रव्यपर्यायपाहिप्रत्यक्षबानावरण- हेतुकत्वे सति कर्मत्वं तु लक्षणम् । सर्वघातीदम् , उभयविधा स्थितिरपि मतिज्ञानावरण- 15 वत् । अत्रात्मनो ज्ञस्वभावस्य प्रकाशरूपस्य ज्ञानावरणक्षयोपशमक्षयसमुद्भवाः प्रकाशविशेषा मतिज्ञानादिव्यपदेश्याः पर्याया इति बहुविकल्पास्तत्र च मत्यादिनानावरणादयोऽपि बहु- विकल्पा भवन्तीति वोध्यम् । नन्वभव्यस्य मनःपर्यवज्ञानशक्तिः केवलप्राप्तिसामर्थ्यवास्ति न वा ? चेदस्ति, अभव्यत्वानुपपत्तिर्यदि नास्ति वर्हि कथं तत्र तदावरणसद्भावः, उभय- सामर्थ्याभावादिति चेन्नादेशवचनादुक्तं हि द्रव्यादेशेन सतोस्तयोरावरणम् । पर्या- 20 चार्थिकनयेनासतोरपीति । न च द्रव्यादेशेनाभव्यस्य तयोः सत्त्वे भव्यत्वापचिरिति- वाच्यम् | सम्यक्त्वादिपर्यायव्यक्तियोगाईत्वैव भव्यत्वं तद्विपरीतस्वामव्यत्वमिति निय- मात् न तु मनापर्यवकेवलजानसामर्थ्यवतो भव्यत्वं तद्विपरीतस्याभव्यत्वमिति नियम इति न कोऽपि दोषः । इमान्येव विमागवाक्ये पूर्वोक्त ज्ञानावरणीयपश्चकपदेनोकानीति सूचयतीति ॥ १. ऋजुनतिमनःपर्यवज्ञानं हि घोऽनेन चिन्तिन इत्यादिमामान्याचाराध्यवनावनिवन्धनकतिपयपाय- विशिष्टमनोद्रव्यपरिच्छित्तिरूपन्. नात्र सुवर्णत्वपाटलिपुत्रकवादितत्तत्पर्यायविषयकत्वमिति न तदाबरणेऽव्या- प्तिमात्रपदेन मनोमिन्नद्रव्यमावस्यैव बच्छदादिति भावः ॥

भोगान्तराय.] न्यायप्रकाशसमलते :: सम्प्रति दानान्तरायमभित्ते- सामग्रीसमवधानासमवधानयोस्सतोनिसामर्थ्याभावप्रयोजकं कर्म 'दानान्तरायः॥ सामग्रीति | अन्तरं मध्यं दातृदेयादीनां तदेति ईयते वाऽनेनेत्यन्तरायः । यस्मिन्म- ध्येऽवस्थिते दात्रादेर्दानादिक्रियाऽभावो दानादीच्छाया वहि वो वा सोऽन्तरायः । दान- 5 स्यान्तरायो दानान्तरायः । अन्तर्षीयतेऽनेनात्मनो दानादीत्यन्तरायः । अन्तर्धानमात्मनो दानादिपरिणामस्येति वाऽन्तरायः । दाने सामग्र्यः, देयद्रव्यं प्रतिमाहको दानफलवेतृत्व- मित्यादयस्तासां समवधानेऽसमवधाने वा यत्कर्मोदितं दानक्रियायास्तसामर्थ्यस्य वा प्रति- रोधकं वादशं कर्म दानान्तराय उच्यत इत्यर्थः । सामग्रीसमवाधानासमवधानयोस्सतोरिति पदमस्यस्य दानान्तरायभूतं कर्म दानसामर्थ्यादर्शनादित्यनुमाने कचियवस्त्वाद्यभावेन 10 दानसामर्थ्याभावसत्त्वेन व्यात्यसिद्ध्या तयोः प्रयोज्यप्रयोजकमाववैधुर्यशंकानिरसनार्थ- मुपाचम् , नत्वव्यास्यतिव्याप्त्यसम्भवदोपव्युदासाय, प्रसत्यभावात् । एवमग्रेऽपि भाव्यम् । विशेषणविशेष्यकृत्यं पूर्ववत्, लाभान्तरायादावतिप्रसङ्गवारणाय दानेति । मतिज्ञाना- वरणस्येवास्य स्थिती विज्ञेये ॥ लाभान्तरायमाह- 15 सम्यग्याचितेऽपि दातृसकाशादलाभप्रयोजकं कर्म लाभान्तरायः । अनुपहताङ्गस्यापि ससामग्रीकस्यापि भोगासामर्थ्यहेतुः कर्म भोगान्त- रायः। एकशो भोग्यं भोगो यथा कुसुमादयः। अनुपहताङ्गस्यापि मसा- मग्रीकस्याप्युपभोगासामर्थ्यहेतुः कोपभोगान्तरायः । अनेकशी भोग्य- मुपभोगो यथा वनितादयः। पीनाङ्गस्यापि कार्यकाले सामर्थ्यविरहप्रयो- 20 जकं कर्म वीर्यान्तरायः, इत्यन्तरायपञ्चकम् । सम्यगिति । सर्वदाऽर्थिप्रार्थनानुगुणं दातुस्सकाशाद् यस्य कर्मण उदयप्रभावेण याच- केन सविनयं याचितेऽपि अल्पमपि न लभ्यते वस्तु तत्कर्म लाभान्तराय इत्यर्थः । अत्रापि सम्यग्याचितेति पदं प्रयोज्यप्रयोजकमावरक्षायै। अन्यथाऽस्यालाभः किश्चित्प्रयोज्योऽलाम- वादित्यत्र याचनसामर्थ्यांमावस्य प्रयोजकत्वसिया सिद्धसाधनत्वापचेामान्तरायस्यासिद्धि- 25 प्रसङ्गः स्यात् । दानान्तरायादावतिव्याप्तिवारणाय लाभेति। स्थिती च मतिज्ञानावरणवत्। भोगान्तरायं लक्षयति-अनुपहताङ्गस्यापीति । निखिलाङ्गसम्मृतोऽपि माल्यचन्दनादि- । " तत्त्वन्यायविभाकरे [-पश्चमकिरणे सामग्रीसमवधानेऽपि यदुदयान्न मुले माल्यादीनि तत्कर्म भोगान्तराय इत्यर्थः । प्रयोज्यप्रयो- जक्रमावरक्षार्थमनुपहताङ्गस्यापि ससामग्रीकस्यापीति च पदम् । भोगपदन्तु दानान्तरायादाव- तिव्याप्तिवारणाय | स्थिती मविज्ञानावरणवत्। भोगोपभोगयोः पर्यायताब्युदसनार्थ भोगश- व्दार्थमाह --एकश इति एकवारं सकृदेवेति यावत् । तन्निदर्शनमाह-यथेति । कुसुमादयो 5 ह्येकदा भुक्ता न पुनर्भोगाय त एवोपयुज्यन्त इति सकृद्रोगसाधनत्वात्ते भोगा उच्यन्त इति भावः । उपभोगान्तरायमाह-अनुपहताङ्गस्यापीत्यादिना | स्पष्टम् , स्थिती ज्ञानावरणवत्, उपभोगपदार्थमाह-अनेकश इति बहुवारमित्यर्थः पुनः पुनरिति भावः, निदर्शनमाह-वनितादय इति । अथ वीर्यान्तरायमाचष्टे-पीनाङ्गस्यापीति । हृष्टपुष्टाङ्गस्येत्यर्थः, निरामये वपुषि सत्यपि कार्यकाले यौवनावस्थायामपि वर्तमानोऽल्पशक्तिर्भवति, साध्येऽपि प्रयोजने यदुदयान्न 10 प्रवर्त्तते तत्कर्म वीर्यान्तराय इत्यर्थः । लक्षणविचारः पूर्ववदेव । स्थिती मतिज्ञानावरणवत्। अस्योदयाधिक्यं पृथिव्यप्तेजोवायुवनस्पतिषु द्वीन्द्रियादारभ्य चरमसमयछद्मस्थं यावत् तत्क्षयोपशमजनिततारतम्याद्वीर्यस्य वृद्धिः । उत्पन्नकेवले भगवति तु सर्ववीर्यान्तरायक्षयः । एते पश्चान्तराया विभागवाक्येऽन्तरायपञ्चकशब्देनोक्ता इत्याह-इतीति । एते पश्चापि देशघातिनः ।। अधुना चक्षुर्दर्शनावरणं वक्ति- चक्षुषा सामान्यावगाहिबोधप्रतिरोधकं कर्म चक्षुर्दर्शनावरणम् । तद्भिन्नेन्द्रियेण मनसा च सामान्यावगाहियोधप्रतिरोधकं कर्माचक्षुर्दर्श- नावरणम् ॥ चक्षुषेति । चक्षुर्जन्यसामान्यमात्रविषयकबोधप्रतिरोधकत्वे सति कर्मत्वं चक्षुर्दर्शनाव- 20 रणस्य लक्षणम् । विशेष्यविशेषणकृत्यं पूर्ववत् । अचक्षुर्दर्शनावरणादौ व्यभिचारवारणाय चक्षुर्जन्येति, मतिज्ञानावरणविशेषेऽतिव्याप्तिवारणाय सामान्यमानविषयकेति । मात्रपदम- प्यत एव । दर्शनमुपलब्धिः सामान्यार्थग्रहणं स्कन्धावारोपयोगबत्तदर्जातबालदारकनप- नोपलब्धिवद्वा व्युत्पन्नस्यापि । चक्षुषा दर्शनं चक्षुर्दर्शन मिति तत्त्वार्थवृत्तिः, चक्षुर्दर्शनावरणीय- क्षयोपशमतोऽवबोधव्यापृतिमात्रसारं, सूक्ष्मजिज्ञासारूपमवाहप्राग्जन्म, मतिज्ञानावरणक्ष- 25 योपशमसम्भूतं, सामान्यमात्रग्राह्यवाहव्यगणं स्कन्धावारोपयोगवश्चक्षुर्दर्शन मिति तत्त्वार्थ- 15 १ दर्शनं हि पञ्चभिरिन्द्रियैर्भवति, चक्षुषोऽप्राप्यकारित्वेनेतरेन्द्रियाणाञ्च प्राप्यकारित्वेन चक्षुर्दर्शनमचा- दर्शनमितीन्द्रियाश्रयणाद्दर्शनस्य दैविध्यात्तदपेक्षया द्वैविध्यमावरणस्य, एकघा सङ्ग्रहासम्मवात् , मनस्त्वनिन्द्रिय- मतस्तदर्शनस्याचक्षुदर्शनेन सङ्ग्रहोऽत. प्रथमं चक्षुर्दर्शनावरणमाह ।

- केवलदर्शनावरणम् ] न्यायप्रकाशसमलङ्कते हारिभद्रटीका | उभयविधव्याख्यानेन विपयविषयिसन्निपातानन्तरसमुद्भूतनिःशेषविशेष- विमुखसद्विषयकं दर्शनमिति लभ्यते । विशुद्धनयेनेदम् । उपचारनयेन तु दृष्टिदर्शनं सामा- न्यविशेषात्मके वस्तुनि सामान्यबोधः, यथा वनमिदमिति । एवं पूर्वपूर्वज्ञानमुत्तरोतर- विशेषविषयकज्ञानापेक्षया दर्शनमवधेयम् । देशघातीदम् । अस्य स्थिती मविज्ञानावरणवत् । अचक्षुर्दर्शनावरणस्वरूपमाह,तद्भिन्नेन्द्रियेणेति । चक्षुर्मिनेन्द्रियेणेयर्थः,चक्षुर्दर्शनावरणवारणाय 5 तहिनेति । मनसेति, मनोजन्येत्यर्थः, तथा च चक्षुर्भिन्नेन्द्रियमनोऽन्यतरजन्यसामान्य- मात्रावगाहिबोधप्रतिरोधकत्वे सति कर्मत्वमचक्षुर्दर्शनावरणस्य लक्षणम् । कृत्यं पदानां स्पष्ट- मेव । देशघातीदम् । स्थिती अपि मतिज्ञानावरणवत् ॥ अवधिदर्शनावरणमाचष्टे- मूर्तद्रव्यविषयकप्रत्यक्षरूपसामान्यार्थग्रहणावरणहेतुः कर्मावधिद- 10 र्शनावरणम् ॥ मू-द्रव्येति । अवधिज्ञानं हि मूर्तद्रव्यमात्रविषयकप्रत्यक्षरूपं तस्मिन् यत्सामान्यार्थ- प्रहणं तदावरणहेतुः कर्म अवधिदर्शनावरणमित्यर्थः । चक्षुर्दर्शनावरणादौ व्यभिचारवारणाय प्रत्यक्षान्तं, तस्य यावन्मूर्तमानविषयकदर्शनावरणरूपत्वाभावात् । अवधिज्ञानावरणादौ व्यभिचारवारणाय सामान्यार्थग्रहणेति । तथा चावधिज्ञानिनामवध्युपयोगे यत्सामान्यार्थग्र- 15 हणं तदावरणकारणं कर्मेति भावः । अत्र सर्वत्र दर्शनमनाकारं ज्ञानं साकार बोध्यम् । स्थिती अपि मतिज्ञानावरणवत्, देशघातीदम् ॥ अथ केवलदर्शनावरणस्वरूपमाह- समस्तलोकालोकवत्तिमूर्तामूलद्रव्यविषयकगुणभूतविशेषकसामा- न्यरूपप्रत्यक्षपतिरोधक कर्म केवलदर्शनावरणम् । इति दर्शनावरणचतु- 20 कम्, दर्शनलब्धिप्रतिबन्धकम् ॥ समस्तेति । सकलानि यानि लोकालोकवर्चीनि मूर्तीमूर्तद्रव्याणि तद्विषयकं गौणीकृताः विशेषा यस्मिन् तादृशं यत्सामान्यविषयक प्रत्यक्षं तदावरणकारण कर्मेत्यर्थः । केवलदर्शन- १. नन्वविदर्शनिन उत्कृष्टतोऽप्येकवस्तुगतास्सस्येया असंख्यया पर्याया जघन्यतचत्वारः पर्याया उकाः पर्यायाच विशेषा एव, ते च ज्ञानस्यैव विषया न दर्शनस्य, तथा चावधिदर्शनस्यैवाभावेनावधिदर्शना- वरणमेवाप्रसिद्धमिति चेत्सत्यम्, पर्यायैरपि घटशरावोदवनानिमिर्मुदादिसामान्यमेव तथा विशिष्यते न पुनस्तेन एकान्तेन व्यतिरिच्यन्ते अतो मुख्यतया सामान्य गौणतया विशेषा अपि दर्शनस्य विषय इति न दर्शनाप्रसिदि ॥

- तंत्वन्यायविमाकरे | पचमकिरणे मिदं केवलंज्ञानोत्तरभावि, चक्षुझानादीनि तु चक्षुझाचादिपूर्वमावीनि, गौणीकृतसकलविशेष- विषयकसामात्यप्रधानविषयकप्रत्यक्षज्ञानावरणकारणत्वे सति कर्मत्वं लक्षणं, अनाकारस्यास्य दर्शनस्य प्रत्यक्षत्वेनोत्कीनं ज्ञानोत्तरकालभावित्वस्याव्यवहितात्मद्रव्यसमुत्थत्वस्य निखिल लसामान्यविशेषविषयकत्वस्य च सूचनाय, केवलं गुणप्रधानभावापेक्षया च तयोर्विशेषः। 5 सर्वघातीदम् । अस्यापि जघन्योत्कृष्टा स्थितिमतिज्ञानावरणवत्। अथ मनःपर्यवदर्शनं नास्त्येव, मनोमावविपयकत्वेन सामान्यविपयकबोधानात्मकत्वेन साकारत्वात्तस्य, अतो दर्शनावरणानि चतुर्विधान्येव, वान्येव च विभागवाक्ये दर्शनावरणचतुष्कपदेनोक्तानीत्याह-इतीति । चत्वा- रीमानि दर्शनावरणानि दर्शनस्योद्गममेव प्रतिरुन्धन्ति तस्मादर्शनचतुष्कं दर्शनलब्धिप्रतिबन्ध कमित्याह-दर्शनेति । तल्लधिरेव यदा प्रतिरुद्धा तदा कुतस्तदुपयोग इति भावः॥ 10 अथ निद्रा लक्षयति- चैतन्याविस्पष्टतापादकं सुखप्रबोधयोग्यावस्थाजनकं कर्म निद्रा। चैत- न्यस्याविस्पष्टतापादकं दुःखप्रबोध्यावस्थाहेतुः कर्म निद्रानिद्रा ।। चैतन्येति । चैतन्यस्य याऽविस्पष्टता तमसाऽऽवृतघटवदवस्थानं, निद्रोदयाद्धि जीवस्त- मोऽवस्थायामवस्थितो भवति, तस्या आपादकं सुखेनानायासेन योऽयं प्रबोधा, नखच्छो- 15 टिकादिमात्रेणैवावबोधस्तद्योग्यावस्था निद्रावस्थेत्युच्यते तजनकं कापि निद्रा कारणे कार्योपचारादत एव न जहल्लिङ्गत्वं निद्राशब्दस्येति भावार्थः । चैतन्याविस्पष्टतापादकत्वे सति कर्मत्वस्य निद्रानिद्रायां सत्त्वाचद्वारणाय सुखप्रबोधयोग्यावस्थाजनकत्वे सतीति । शुभ- कर्ममात्रस्य सामन्येनात्मनः सुखप्रबोधयोग्यावस्थाजनकत्वसंशयन्युदासाय चैतन्यस्थावि- स्पष्टतापादकत्वे सतीत्युक्तं न शुभकर्म चैतन्यस्यात्रिस्पष्टतापादकमतो न दोषः । यद्यपि 20 पापकर्म चैतन्याविस्पष्टतापादक, तथापि न निद्रातिरिकं तत्सुखप्रवोधयोग्यावस्थाजनक- मतो न दोषः । अस्या उत्कृष्टा स्थितिः त्रिंशत्सागरोपमकोटीकोटयो वर्षसहस्रत्रितयञ्चाबाधा, जघन्या तु सागरोपमस्य त्रयस्सप्तभागाः पल्योपमासंख्येयभागेन न्यूना अन्तर्मुहूर्तञ्चा- बाधा। निद्रानिद्रा लक्षयति-चैतन्यस्येति । चैतन्याविस्पष्टतापादकत्वे सति दुःखप्रबोधयो- ग्यावस्थापादकत्वे च सति कर्मत्वं लक्षणार्थः, मिथ्यात्वमोहनीयाविकर्मणां दुःखप्रबोधयोग्या- 25 वस्थापादकत्वाश्चैतन्यस्याविस्पष्टतापादकत्वाच्चानातिव्याप्तिवारणाय दुःखप्रवोध्यस्खापावस्थापा- दकत्वे सति कर्मत्वस्य विवक्षितत्वे चैतन्यस्याविस्पष्टतापादकत्वे सतीति पदं न देयमेव, अन्यपदप्रयोजनं पूर्ववत् । निद्रातोऽतिशायिनी निद्रेति मध्यमपदलोपिसमासेन निद्रानिद्रा निष्पन्नेति बोध्यम् । अस्याः स्थिती निद्रावत् ॥

न्यायप्रकाशसमलढते अथ प्रचलामाह- उपविष्टस्योस्थितस्य वा चैतन्याविस्पष्टतांपादकं कर्म प्रचला। उपविष्टस्येति । प्रचल्यत्यात्मानमिति प्रथला, स्वापावस्थाविशेषोऽयम् । अवस्थायाम- स्यामुपविष्ट ऊर्ध्वस्थितो वा प्रचलयति विघूर्णयत्यात्मानं, अत्र चैतन्यस्याविस्पष्टता च विनि- वृत्तेन्द्रियत्वास्नीतिलवमात्रनिदाना नेत्रगात्रक्रियाफला विज्ञेया, ईदृशविपाकप्रापर्क कर्मापि 5 प्रचलेत्युच्यते तथा चोपवेशनोत्थानकालावच्छिन्नस्थितिमत्पुरुषसम्बन्धिस्वापप्रयुक्तचैतन्यावि- स्पष्टतापादकत्वे सति कर्मत्वं लक्षणम् । निद्रादावतिव्याप्तिवारणाय सम्बन्ध्यन्तम् । प्रचलाप्र- चलादावतिव्याप्तिवारणाय स्थितिमदिति । निद्रादावतिव्याप्तिवारणायोपवेशनोत्थानकाला। वच्छिन्नेति । निद्रायां निद्रानिद्रायां च पुरुपो हि शेते । शोकश्रममदादिप्रभवेयं 'प्रचला। स्थिती निद्रावत् ॥ । 10 प्रचलाप्रचलामाह- - , 15 चङ्कममाणस्य चैतन्याविस्पष्टतापावकं कर्म प्रचलामचला। चङ्कममाणस्येति । चकमणकालावच्छिन्नपुरुषसम्बन्धिखापप्रयुक्तचैतन्याविस्पष्टतापा- दकत्वे सति कर्मत्वं लक्षणम् , कृत्यं स्पष्टम् । स्थिती अपि निद्रावत् ॥ स्त्यानचिमाह- जाग्रदवस्थाऽध्यवसितार्थसाधनविषयस्वापावस्थाप्रयोजकं कर्म स्त्या- नर्द्धि, इति दर्शनलब्ध्यावारकं निद्रापञ्चकम् ।। जाग्रदवस्थेति । स्त्याना पिण्डीभूता ऋद्धिरात्मशक्तिरूपा यस्यां सा स्त्यानदि, स्त्यानगृद्धिरपि नामान्तरं, स्त्याना बहुत्वेन संघावमापन्ना गृद्धिरभिकासा, जामवस्थाऽध्यव- सितार्थसाधनविषया यस्यां खापावस्थायां सा स्त्यानगृद्धिः । ईशावस्थापन्नस्य प्रथमसंहन- 20 नस्योत्कर्षतः केशवाईबलसहशी शक्तिरुपजायते प्रवचने प्रसिद्धोऽयमर्थः । तथा च जाप्र- देवस्थाध्यवसितार्थसाधनविपयकस्वापावस्थाप्रयोजकत्वे सति कर्मत्व लक्षणं निद्रादिवारणाय विषयकान्तम् । निद्रावदेवास्या उभयविधा स्थितिः । निद्रापञ्चकमिदं प्राप्तायां दशनीपलब्वे- रुपघातं करोतीत्याह-इतीति, न तु दर्शनावरणचतुष्टयवन्मूलत एव दर्शनलब्धिमुपहन्तीति । अत्रेदं विज्ञेयं दर्शनावरण बन्धे उदये सचायां च कदाचिच्चतुर्धा पोढा' नवधा प्राप्यते यदा 25 बन्धादिषु चतुर्क विवक्ष्यते तदा पूर्वोदितं दर्शनावरणचतुष्कं विज्ञेयम् । तदेव निद्वापच- तस्वम्यायविमाकरे [ पकिरणे लाभ्यां घोढा भवति तदा तु दर्शनावरणषटुमुच्यते । तदेव च निद्रादिपञ्चभियुतं नवधा भवत्येतदेव च विभागे दर्शनावरणनवकमित्युक्तमिति ॥ अथ नीचे!त्रमाह- , नीचकुलजन्मनिदानं तिरस्कारोत्पादकं कर्म नीचैर्गोत्रम् ।। नीचकुलेति । नीचकुलं हीनजात्यादिः, चण्डालमौष्टिकव्याधादयः । तत्र यजन्माss- विर्भावस्तन्निदान निन्दादितिरस्कारोत्पादकञ्च यत्कर्म तन्नीचैर्गोत्रमित्यर्थः । नीचकुलजन्मनि- दानत्वे सति तिरस्कारोत्पादकत्वे च सति कर्मत्वं लक्षणम्, विशेषणविशेष्यकृत्यं पूर्ववत् । सामान्येन पापकर्ममात्रस्य तिरस्कारोत्पादकत्वानीचकुलजन्मनिदानत्वे सतीत्युक्तम् । न केवलं नीचेोत्रं नीचकुलस्योत्पत्तौ निबन्धनं तथा च सति तत्रोत्पादानन्तरं तस्याभावप्रस- 10 लेन संक्रमणोद्वर्तनादिकं तदानीं तस्य न स्यात् , अतस्तिरस्कारोत्पादकत्वे च सतीत्युक्तं, तेन न निमित्तकारणमात्रमिदं दण्डादिवत, येन संक्रमणोद्वर्तनादिकं न स्यात्, अपि त्वसम- वायिकारणतुल्यं, तेन नीचकुलजस्यापि नोचैर्गोत्रोदयविरोधः । तदानीं नीचकुलजन्मनिदा- नतिरस्कारोत्पादककर्माभावात् । उचैर्गोत्रोदये हि न विरस्कारो भवतीति । अस्य विशतिसा- गरोपमकोटीकोट्यः परा स्थितिरबाधा वर्षसहस्रद्वयम् , जघन्या त्वष्टौ मुहूर्ताः, अवाधा 15 चान्तर्मुहुर्तम् ॥ असातवेदनीय लक्षयति- दुःखविशेषोपलब्धिकारणं कर्मासातवेदनीयम् । दुःखविशेषेति । दुःखं जन्मजरामरणप्रियवियोगानिष्टसंयोगव्याधिबन्धादिजन्य शारीरिकं बहुविधं मानसं वाऽतिदुस्सहं परिणतिविशेषरूपं तदुपलब्धेः कारणं यत्कर्म तद्- 20 सातवेदनीयमित्यर्थः । विशेष्यविशेषणदलप्रयोजनं स्फुटम् । दुःखविशेषपदेन च वैलझण्य- बोधकेन दुःख प्राणिनां केवलपुण्यापकर्षमात्रजनितं न भवति किन्तु, स्वानुरूपकर्मप्रकर्षज- नितं वेदनाप्रकर्षानुभवरूपत्वात्, अन्यथा दु.खमिदं पुण्यसम्पाद्येष्टाहारापचयमात्रादेव भवेत्, न तु पापोपचयसम्पाद्यानिष्टाहारादिरूपविपरीतबाह्यसाधनप्रकर्षमपेक्षेतेति, दुःख- विशेषानुभूतेः सकलपापकर्मसाधारण्येऽपि वेदनीयोत्तरप्रकृतेरेव साक्षात्तवेतुत्वमिति च 25 सूच्यते। त्रिंशत्सागरोपमकोटीकोट्योऽस्य परा स्थितिः, जघन्या सागरोपमस्य त्रयस्सप्तमागाः पल्योपमासंख्येयभागेन न्यूनाः, सूक्ष्मसंपराये जघन्या द्वादश मुहूर्ताः ॥....

10 सामनाम स्यायप्रकाशसमलट्टते । अथ मिथ्यात्वमोहनीयमाख्याति- तत्त्वार्थश्रद्धाप्रतिवन्धकं कर्म मिथ्यात्वमोहनीयम् ।। तत्वार्थेति। मिथ्यात्वं नाम दर्शनाख्यस्य मोहनीयस्य त्रिभेदस्य मिथ्यात्वसम्यक्त्व- मिभरूपस्यको भेदः, नच सर्वज्ञप्रणीततत्त्वार्थेपु श्रद्धावैमुख्यकारित्वेन बन्धकत्वेन च मोह- नीयम् । सम्यक्त्वमिनभेदौ त्वध्यवसायविशेषेण शोधितस्य तस्यैव परिणामविशेषौ, तन्मि-5 ध्यात्वमामिग्रहिकानामिप्रहिकसांशयिकादिभेदेनानेकविधमपि यथावस्थितवस्तुतत्त्वश्रद्धा- ननिरोधकत्वेनैकरूपतया विवक्षितम् । अस्य परा स्थितिः सप्तविसागरोपमकोटीकोट्या, अवाधाकालस्सप्तवर्पसहस्राणि, जघन्या तु सागरोपमस्य सप्तभागाः पल्योपमासंख्येयभागेन न्यूनाः, अवाधा चान्तर्मुहूर्तम् ॥ स्थावरनामाचण्टे- प्रातिकूल्येऽपि स्थानान्तरगमनाभावप्रयोजकं कर्म स्थावरनाम ॥ प्रातिकूल्येऽपीति । प्रातिकूल्ये सत्यपि स्थानान्तरगमनाभावप्रयोजकत्वे सति कर्मत्वं लक्षणार्थः । न च स्थानान्तरगमनाभावे न प्रयोजक कर्म, सिद्धानां धर्मादीनाच कामावेऽपि स्थानान्तरगमनाभावादिति वाच्यम्, प्रातिकूल्यप्रयुक्तं यत्स्थानान्तरगमनं तदभावे कर्मण एव प्रयोजकत्वात् , अत एव न तेजोवाय्वोरव्याप्तिः। नहि तयोर्गमनं प्राति- 15 कूल्यप्रयुक्तं, किन्तु स्वाभाविकं, अतः प्रातिकूल्यप्रयुक्तस्थानान्तरगमनाभावस्तयोरप्यस्त्येव तत्र च कर्मैव प्रयोजकमिति भावः । स्थावरनामकर्मोदयादेव पृथिव्यप्तेलोवायुवनस्पतीनां स्थानशीलत्वम् । विशतिसागरोपमकोटीकोट्योऽस्य परा स्थितिर्वसहस्रद्वयमबाधा । सागरोपमस्य सप्तमागाः पल्योपमासंख्येयभागेन न्यूना जघन्या, अवाधा त्वन्तर्मुहूर्तम् ।। सूक्ष्मनाम स्वरूपयति- सूक्ष्मपृथिव्यादिकायेपूत्पत्तिनिदानं कर्म सूक्ष्मनाम । यथा सर्वलोक- वर्तिनां निगोदादीनाम् ॥ सूक्ष्मेति । यदुदयादितरजीवानुग्रहोपघातायोग्यसूक्ष्मशरीरनिवृत्तिः तत्कर्मेति भावः । यस्य कर्मण उद्यान्नियतमेवैकैकस्य वा समुदितानां वहूनां वा जन्तुशरीराणामदृश्यत्वं न चक्षु- १. तेजोवाय्वोस्तु स्थावरनामकमोंदयेऽपि चलनं स्वाभाविकमेव, न पुनरुष्णाद्यमितापेन द्वीन्द्रियादीनामिव- - 20 विशिधमिति ॥

- . 5 सरवन्यायविभाकरे [पसमाहरणे ह्यत्वं तादृशं कर्मेति तात्पर्यार्थः । वादरशरीरन्तु कदाचिददृश्यं कदाचिञ्च दृश्यमतो नियत- मेवेत्युक्तम् । तथा च नियतादृश्यशरीरमाप्तिहेतुत्वे सति कर्मत्वं लक्षणम् । अस्योत्कृष्टस्थिति- रष्टादशसागरोपमकोटीकोट्यः, अष्टादशवर्षसहस्राण्यवाधा । जघन्या तु स्थावरनामवत् । निदर्शनं सूक्ष्मनामकर्मभाजामाह यथेति ।। अपर्याप्तनाम वक्ति- एकेन्द्रियादीनां यथास्वं श्वासोच्छ्वासादिपर्याप्त्यपरिपूर्णताप्रयोजक कर्म अपर्याप्तनाम | यथा लब्ध्यपर्याप्तानाम् ।। एकेन्द्रियादीनामिति । यस्योदये सति स्वयोग्याः श्वासोच्छासादिपर्याप्तयः परिपूर्णता नासादयन्ति, अपर्याप्त एव जीवो म्रियते वदपर्याप्सनामकर्मेत्यर्थः । यथायोग्यमित्यस्योदा- 16 हरणमेकेन्द्रियादीनामिति, तदेवाह यथेति । अस्य स्थिती अपि सूक्ष्मनामकर्मवत् ॥ अथ साधारणकर्माऽऽविष्करोति- अनन्तजीवानामेकशरीरवत्त्वनिदानं कर्म साधारणनाम। यथा कन्दादौ ।। अनन्तेति । यस्य कर्मण उयादनन्तानां जीवानां शरीरमेकं भवति तत्साधारण- नामकर्मेत्यर्थः । ननु प्रथममुत्पत्तिदेशमुपयातेन प्राणिना तच्छरीरस्य निष्पादिवत्वात्सर्वात्म- 15 नाऽन्योन्यानुगमनेन क्रोडीकृतत्वाच्च कथं तत्रान्येषां जीवानामवकाशः, सत्यपि चावकाशे येन तच्छरीर निष्पादितमन्योऽन्यानुगमनेन च क्रोडीकृतं स एव तत्र प्रधानः, तस्यैव च पर्याप्तापर्याप्तव्यवस्था प्राणापानादिपुद्गलोपादानश्च स्यान्न शेषाणामिति चेन्मैवम् , तथा विधकर्मोदयसामध्येंन समकमेव सर्वेषामुत्पत्तिदेशप्राप्तेः, तच्छरीराश्रयपर्याप्तिनिवर्तनस्य प्राणापानादियोग्यपुद्गलग्रहणस्य च सर्वरक्तत्वात् । प्रत्येकनामकर्मण्यतिव्याप्तिवारणाया- 20 नन्तजीवानामिति । निदर्शनमाह यथेति । अस्य स्थिती सूक्ष्मवत् ॥ अस्थिरनामाह- प्रयोगशून्यकाले भ्रूजिहादीनां कम्पनहेतुः कर्म अस्थिरनाम ॥ प्रयोगेति । भूजिह्वादीनामिति शरीरावयवद्योतकम् । प्रयोगकाले यच्छरीरावयवानां कम्पन न तत्कर्म निमित्तं, अपि तु जीवपरिणामप्रयुक्तं, तस्मात्प्रयोगशून्यकाल इत्युक्तं, तथा 25 च प्रयोगशून्यकालीनशरीरावयवास्थिरत्वप्रयोजकत्वे सति कर्मत्वमिति लक्षणम् । विहायोग- त्यादिव्यभिचारनिरासकं वा प्रयोगशून्यकाल इति पदम् । पनेन्द्रियवदस्य स्थिती ।। ।

- अनादेयनाम] न्यायप्रकाशसमलट्टते अशुभनाम लक्षयति- नाभ्यधोऽवयवाशुभत्वप्रयोजकं कर्म अशुभनाम ॥ नाभ्यधोऽवयवेति । नाभ्यधोऽवयवाशुभत्वप्रयोजकत्वे सति कर्मत्वं लक्षणम् । नामेर- धस्तनः पादाद्यवयवैर्हि स्पृष्टः परो रुष्यतीति तेषामशुभत्वमवसेयम् । कामिन्याः पादेनापि स्पृष्टः पये न रुष्यति किन्तु तुष्यत्येवेति व्यभिचार इति न च वाच्यम्, तत्तोषस्य मोह- 5 नीयनिबन्धनत्वात् । हुण्डसंस्थानादावतिव्याप्तिवारणाय नाभ्यघोऽवयवेति, हुण्डस्य तु सर्वा- वयवाशुभत्वप्रयोजकत्वान्नातिव्याप्तिः । पञ्चेन्द्रियवदस्य स्थिती ॥ दुर्भगनामस्वरूपमाह- स्वस्य दृष्टमात्रेण परेषामुद्वेगजनकं कर्म दुर्भगनाम ॥ स्वस्येति । यः प्राणी दृष्टमात्रोऽप्युपकारकृदपि रूपादिगुणोपेतोऽपि परेषामुढेजको 10 मनसोऽप्रियो भवति यत्कर्मप्रभावाचदुर्भगनामेत्यर्थः । सुरूपे सुगुणेऽपि च स्वस्मिन् परस्यो- द्वेगजनकत्वे सति कर्मत्वं लक्षणम् , हुण्डादिकर्मण्यतिव्याप्तिवारणाय सुरूप इत्यादिदलं भाव्यम्। अस्यापि स्थिती पञ्चेन्द्रियवत् ।। दुस्वरनामाभिधत्ते- अमनोहरस्वरवत्त्वप्रयोजकं कर्म दुस्स्वरनाम । यथा खरोष्ट्रादीनाम् ॥ - 15 अमनोहरेति । यस्योदयादमनोज्ञस्वरवान्-दीनहीनस्वरो भवति श्रूयमाणोऽप्यसुखमाव- इति स्वरः तदुस्स्वरनामेत्यर्थः। मुस्वरनामकर्मण्यतिव्याप्तिवारणार्थममनोहरेति । 'अस्य स्थिती पञ्चेन्द्रियजातितुल्ये । केषामीदृशं कर्म दृश्यत इत्यत्राह यथेति ।। . अनादेयनाम निर्वक्ति- 20 उचितवक्तृत्वेऽप्यग्राह्यतादिप्रयोजक कर्म अनादेयनाम ।। उचितवक्तृत्वेऽपीति | यस्य प्रभावतो युक्तमपि ब्रुवाणः परिहार्यवचनो भवति, अई- णाईस्याप्यहणां नाचरति लोकस्वदनादेयनामेत्यर्थः, निष्पभोपेतशरीरनिर्वकं कर्मानादेय नामेति केचित् । उचितवक्तसम्बन्धिवचनाद्यपाद्यताप्रयोजककर्मत्वं लक्षणार्थः । उचित- वक्तृसम्बन्धीति पदन्तु पूर्वोक्तनीत्याऽसंभववारणाय । अस्यापि स्थिती पञ्चेन्द्रियवत् ॥....

:९२२: तत्त्वन्यायविमाकरे [पञ्चमकिरणे -- . - 10 -- अयशःकीर्तिनामाह- ज्ञानविज्ञानादियुतत्वेपि यशाकीर्त्यभावप्रयोजकं कर्म अयश:- कीर्तिनाम | इति स्थावरदशकम् ॥ ज्ञानविज्ञानेति । व्यावहारिक यथार्थज्ञानं ज्ञानं, शास्त्रसंस्कृतं ज्ञानं विज्ञानं, यतो ज्ञाना- दियोग्यगुणपूर्णोऽपि यो न यशाकीर्तिमान् परन्त्वश्लाघ्यो भवति तदयश कीर्तिनामेत्यर्थः । ज्ञानविज्ञानादियुतत्वेऽपीत्यस्य सार्थकता पूर्ववदाव्या । स्थिवी पञ्चेन्द्रियवत् । स्थावरनाम- प्रभृति यावदयशकीर्तिकर्माणि विभागवाक्यस्थस्थावरदशकपदवाच्यानीत्याहेतीति ॥ नरकगतिनाम निरूपयति- नारकत्वपर्यायपरिणतिप्रयोजकं कर्म नरकगतिः । नारकत्वेति । लक्षणन्तु नारकत्वपर्यायपरिणतिप्रयोजककर्मत्वम् । कृत्यञ्च मनुजगति- वत् । अस्योत्कृष्टा स्थितिः पञ्चेन्द्रियवत् | जघन्या तु सागरोपमसहस्रस्य द्वौ सप्तमागौ पल्योपमासंख्येयभागेन न्यूनौ, अबाधा त्वन्तर्मुहूर्तम् ॥ नरकायुपो लक्षणमाचष्टे- आयुःपूर्णतां यावन्नरकस्थितिहेतुः कर्म नरकायुः॥ . आयुःपूर्णतामिति । यावत्स्वयोग्यायुः पूर्णत्वं नरकस्थितिहेतुत्वे सति कर्मत्वं लक्षणम् । नरकच तीब्रशीतोष्णादिपीडाकरं स्थानम् । नरकगवावतिव्याप्तिवारणाय यावत्स्वयोग्यायु:- पूर्णत्वमिति पदम् । नरकगतेरायुःपूर्णत्वेऽपि सत्तायां वर्तमानत्वान्न दोपः । त्रयस्त्रिंशत्साग- रोपमाणि परा स्थितिरबाधा च पूर्वकोटित्रिभागः, जघन्यं दशसहस्रमबाधा चान्तर्मुहूर्तम् ।। नरकानुपूर्वीलक्षणमाह-- चलानरकनयनानुगुणं कर्म नरकानुपूर्वी । इति निरयत्रिकम् ॥ बलादिति । प्रकृष्ट पापफलमुपभोक्तुं नरान्-गुरुपापकारिणः प्राणिनः कायन्ति शब्द- यन्तीति नरकास्वद्गतौ व्रजतो जीवस्य द्विसमयादिना विग्रहेण अनुश्रेणिनियता गमनपरिण- तिर्यतस्सो नरकानुपूर्वीति भावः । स्पष्टमन्यत् । उत्कृष्टा स्थितिः पञ्चेन्द्रियवत् | अधन्या तु तरकरातिवत् । इमान्येव विभागवाक्ये निरयत्रिकपदेनोक्तानीत्याहेतीति ।। सम्प्रति चारित्रमोहनीयस्य कषायवेदनीयनोकषायवेदनीयरूपेणं द्वैविध्याकपायस्य च क्रोधमानमायालोमात्मकस्य प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानपत्याख्यानसंज्वलनभेदेन पोडश- 15 20 25 - अनन्तानुवन्धिनः] न्यायप्रकाशसमलङ्कृते :९३ : विषत्वात्तान् क्रमेणाभिधातुमादौ अनन्तानुबन्धिशब्दं निर्वक्ति- 'अनन्तानुबन्धिनश्चानन्तसंसारमूलनिदानमिथ्यात्वहेतुका अनन्त- भवानुवन्धस्वभावा आजन्मभाविनो नरकगतिप्रदायिनः सम्यक्त्व- घातिनः ॥ अनन्तानुबन्धिनश्चेति । अनन्तः संसारश्चतुर्गतिरूपस्तमनुवघ्नन्त्यनुसन्दधतीत्येवं- 5 शीला ये जीवपरिणामविशेषाः क्रोधादयस्तेऽनन्तानुवन्धिनः, यद्यप्येतेषामितरकषायविर- हितानामुदयो नास्ति तथापि अवश्यमनन्तभवभ्रमणमूलकारणमिथ्यात्वोदयापेक्षकत्वादेते- पामेवैतन्नाम । न पुनः सहजोदयानामन्यकषायाणामपि, तेषामवश्यं मिथ्यात्वोदयापेक्ष- कत्वाभावात् एतदेवाह-अनन्तसंसारेवि । अनन्तस्वरूपसंसारस्य मूलकारणं यन्मिथ्यात्वं वदेव हेतुर्येषामित्यर्थः । मिथ्यात्वसत्त्वे हि नियतमविरतिस्तत्सत्त्वे प्रमादस्तत्सत्वे 10 चावश्यं कषाया इति मिथ्यात्वं कषायहेतुरिति भावः । कषायस्य च कर्मशरीरयोग्य- पुद्गलग्रहणे प्रधानहेतुत्वादवश्यं तत्सत्वे भवसम्बन्ध इत्याशयेनाहानन्तभवानुवन्धस्वभावा इति । क्रोधादय एकैका अपि अनन्तसंसारानुबन्धिन इत्यर्थः । अनुवन्धः सम्बन्धः परस्पराश्लेषरूपः । एषामवधिमाहाऽऽजन्मभाविन इति । यावन्नीवभाविन इत्यर्थः । इष्टानिष्टवियोगसंयोगाभिलषितालाभाधन्यतमहेतुना क्रोधादयस्समुत्पन्ना न शाम्यन्त्यामरणं 15 भवान्तरमप्यनुबध्नन्ति, अविद्यमानपश्चात्तापपरिणामास्तीबानुशया अत एवैपामाजन्मभावित्व- मिति भावः । तत्फलमाह नरकेति । तत्वार्थाश्रद्धानरूपमिथ्यात्वस्योदयात् सम्यक्त्वस्य संभव एव नास्तीति क्रोधादय एते स्वाभाविकस्यात्मनस्सम्यक्त्वस्य घातका इत्याशये- नाह सम्यक्त्वधातिन इति ॥ अधुनाऽनन्तानुबन्धिक्रोधस्वरूपमाह- एवम्भूतं प्रीत्यभावोत्पादकं कर्म अनन्तानुवन्धिक्रोधः ॥ एवम्भूतमिति । अनन्तानुबन्धित्वे सति प्रीत्यमावोत्पादकत्वे सति कर्मत्वं लक्षणम् । यदुदयाज्जीवोऽनन्तानुबन्धिनं स्वपरोपघातनिरनुग्रहाहितक्रौर्यपरिणामममीप्रीतिमन्युशब्द- वाच्यं क्रोधमवाप्नोति तत्कापि अनन्तानुवन्धिक्रोध उच्यत इति भावः । न चानन्तानुव- . 4 20 १. प्रायेणानन्तानुवन्ध्युदय भूतो नरकगतावेव गच्छति, तेनानन्तानुवन्युदयवतां मिथ्याशा केषाश्चिदुपरि- तनप्रैवेयकेपुत्पत्तावपि न क्षति. ॥ २. अनन्तानुबन्धिपूदिवेषु न मिथ्यात्वक्षयोपशमस्तदभावाच न मम्यक्त्वमि- त्युपचारेण सम्यक्त्वघातकस्वमेषा न मुख्यत., तैरेव सम्यक्त्वस्याबृतत्वेन मिथ्यात्वस्य वैयऱ्यांपत्ते । कपायाणा केवलज्ञानावरणहेतुत्वामावेऽपि कपायक्षयस्य तदेतुत्ववदनन्तानुबन्धिना क्षयोपशमे सम्यक्त्वलामो विज्ञेयः ॥

10 तत्त्वन्यायविभाकरे [ पञ्चमकिरणे न्धिपदं प्रीत्यभावे विशेषणं तस्यैव ताहशत्वान्न तु कर्मण इति वाच्यम् , तदनुकूलत्वेन कर्म- णोऽपि तथात्वाभ्युपगमात् । आयसत्यन्तमत्राप्रत्याख्यानक्रोधादावतिप्रसङ्गवारणाय, द्वितीय- वानन्तानुवन्धिमानादावतिप्रसङ्गवारणाय | अस्य परा स्थितिः त्रिंशत्सागरोपमकोटीकोट्यः । वर्षसहमत्रितयं चाबाधा, जघन्या सागरोपमत्य च चत्वारो भागाः पल्योपमासंख्येय- 5 भागन्यूनाः । अयं पर्वतराजितुल्यः क्रोधः शिलाचामुत्पन्नाया रानावच्छिलारूपमवस्थान तदुत्पन्नानन्तानुबन्धिकोषस्य यावचत्र भवे जीवति तावदनुवृत्तिस्तदनुमरणाञ्च प्रायो नरक- प्रापकत्वात्तुल्यत्वं भाव्यम् । क्षमया प्रविहन्यतेऽयम् ।। अनन्तानुवन्धिमानस्वरूपमाह- तादृशं नम्रताविरहप्रयोजकं कर्म अनन्तानुवन्धिमानः ।। तामिति । अनन्तानुवन्धीत्यर्थः । यदुइयादनन्तानुवन्धिनं जात्यायुत्सेकावष्टम्भात् पराप्रणतिरूपं नम्रताविरहं गच्छति तत्कर्मानन्तानुवन्धिमान इत्यर्थः । कृत्य पूर्ववदूयम् । स्थिती चानन्तानुबन्धिक्रोधवत् । शैलखम्भसमानोऽयं मानः । कुतश्चित्कारणात्समुत्पन्नोऽ नन्तानुवन्धिमान आमरणान्न व्यपगच्छवि, जात्यन्तरानुवन्धी निरनुनयोऽप्रत्यवमर्शश्चेति भाव्यम् । मार्दवेन प्रतिहन्यतेऽयम् ॥ अथानन्तानुवन्धिमायामाह- ईदृक् सरलताभावप्रयोजक कर्म अनन्तानुवन्धिमाया ॥ ईगिति । अनन्तानुवन्धीत्यर्थः । यदुदयतोऽनन्तानुवन्धिनी वञ्चनाद्यात्मकात्मपरिणति- रूपां सरलत्वामावात्मिकां मायामाप्नोति तत्कर्मानन्तानुवन्धिमायेति भावः । अनन्तानु- बन्धित्वे सति सरलवाभावादिप्रयोजकत्वे सति कर्मत्वं लक्षणम् , आदिना प्रणिध्युपधिनिक- 20 त्यादीनां सङ्ग्रहः, कृत्यं प्राग्वत् । स्थिती चानन्तानुवन्धिक्रोघवत्, घनवंशमूलसदृशीय माया, उपायशतेनापि ऋजूक मशक्यत्वात् । इयं आर्जवेन प्रतिहन्यते ॥ अनन्तानुबन्धिलोमं लक्षयति- ईदृशं द्रव्यादिमृच्छाहेतुः कर्मानन्तानुवन्धिलोमः ॥ ईशमिति । अनन्तानुवन्धीत्यर्थः । यस्योदयाइनन्तानुवन्धिनमनुग्रहप्रवणद्रव्याद्यमि- 28 कासवेशरूपमसंतोषात्मकजीवपरिणामविशेष लोममेति तत्कर्मानन्तानुबन्धिलोभ इति भावः। 15 १. प्रतिहननचोदयनिरोपोदितविफलीकरणरूपमेवनप्रेऽपि ।

- प्रत्याख्याना:] न्यायप्रकाशसमलट्टते अनन्तानुवन्धित्वे सति द्रव्याविमूर्छादिहेतुत्वे सति कर्मत्वं लक्षण, कृत्वं पूर्ववत् । लोमोऽयं लाक्षारागसदृशः, सन्तोषेण प्रतिहन्यते । स्थिती चानन्तानुबन्धिक्रोधवत् ॥ सम्प्रत्यप्रत्याख्यानक्रोधाद्यमिधानायाऽप्रत्याख्यानस्वरूपमाह- प्रत्याख्यानावरणभूता वर्षावधिभाविनस्तिर्यग्गतिदायिनस्सर्वदेश- विरतिघातिनश्चाप्रत्याख्यानाः ॥ प्रत्याख्यानावरणभूता इति । देशसर्वविरतिभेदतः प्रत्याख्यानं द्विविधं । प्रत्या- ख्यानं नाम प्रतिषेधस्याचार्यसन्निधावाख्यानं भावतः, न हन्मि यावज्जीवं सर्वान् प्राणिन इत्यादिरूपतः । अस्पं प्रत्याख्यानमप्रत्याख्यानं देशविरतिरूपं तदप्यावृण्वन्तीत्यप्रत्याख्या- नावरणास्त एवात्राप्रत्याख्यानशब्देनोक्ताः । तदेवाह प्रत्याख्यानावरणभूता इति देशतोऽपि प्रत्याख्यानस्यावरणभूता इत्यर्थः । एषामुदये हि विरतिर्न भवत्येव । किमेतेऽनन्तानुबन्धि- 10 वदाजन्मभाविन इत्यत्राह वर्षावधिभाविन इति । जघन्येनाष्टमासस्थितिका उत्कर्षेण वर्ष- स्थितिका इति भावः । न चानन्तानुबन्धिक्रोधमनुसृत्य मृतानां नरकेषुत्पत्तिरिवाप्रत्याख्या- नावरणक्रोधमनुसृत्य मृताना, किन्तु क्षुत्पिपासाशीतोष्णदशमशकादिविविधव्यसनवशीकृतति- यंगगतावेवेत्याह तिर्यग्गतिदायिन इति । किमेषां कार्यमित्यत्राह सर्वदेशविरविघातिन इति । देशतत्सर्वतश्च विरति निरन्धन्तीति भावः॥ एकान्थेन संक्षेपकामोऽप्रत्याख्यानक्रोधमानमायालोमानां स्वरूपाण्युपदर्शयति- एतद्विशिष्टाः पूर्वोक्तस्वरूपाः क्रोधादयोऽप्रत्याख्यानक्रोधादयः॥ एतद्विशिष्टा इति । अप्रत्याख्यानसहिता इत्यर्थः । पूर्वोक्तस्वरूपा इति प्रीत्यमावोत्पा- दुककर्मत्वनम्रताविरहप्रयोजककर्मत्वसरलतामाक्प्रयोजककर्मत्वद्रव्यादिमूछ हेतुकर्मत्वरूपा- इत्यर्थः । क्रोधादय इति । किन्त इत्यत्राहाप्रत्याख्यानक्रोधादय इति आदिनोभयत्र मान- 20 मायालोमानां ग्रहणम् । लक्षणं प्रयोजनश्च पूर्ववदूधम् । स्थिती चानन्तानुवन्धिक्रोधवत् । क्रमेण भूराज्यस्थिस्तम्भमेषविषाणकर्दमरागसहशा एते ॥ प्रत्याख्यानावरणक्रोधादीनमिधातुं प्रत्याख्यानावरणस्वरूपमाह- सर्वविरत्यावरणकारिणो मासचतुष्टयभाविनो मनुजगतिप्रदायिन- स्साधुधर्मघातिनः प्रत्याख्यानाः ॥ १. प्रायोवादापेक्षययमुक्ति, अप्रत्याख्यानावरणोदयवतामविरतसम्यग्दृशा तिर्यमनुष्याणाच सुरेपुत्पत्ते. प्रत्याख्यानावरणोदयवताच देशविरताना इवेगतरेप्रत्याख्यानावरणोदयक्तान सम्यग्दृष्टिदेवाना मनुजगतेय श्रुतेः॥ 15 - 25 - . । । 1 तत्त्वन्यायविभाकरे [ पचमकिरणे सर्वविरत्यावरणकारिण इति । सर्वविरतिरूपं प्रत्याख्यानमावृण्वन्तीति भावः। अस्यो- दये हि विरत्यविरनिर्भवति, उत्तमचारित्रलामस्तु न भवति । अवधिमाह मासचतुष्टयमाविन इनि । उत्कर्षणेयमुक्तिः, जघन्येन तु अहोरात्र विज्ञेयम् । कुनैपां जन्मप्रदुत्वमित्यत्राह मनुजगतिप्रदायिन इति मनुजेपूत्पत्ति लभत इति भावः । कार्यमाह साधुधर्मघातिन इति 5 साधुधर्मपरिणामोत्पत्ति नाशयन्तीत्यर्थः ।। प्रत्याख्यानावरणक्रोधचतुष्टयस्वरूपं संक्षेपेणाह- ईदृशाः क्रोधादय एव प्रत्याख्यानक्रोधादयः॥ ईदृशा इति । प्रत्याख्यानावरणभूता इत्यर्थः । क्रोधादय एवेति पूर्वोक्तस्वरूपाः क्रोधा- क्ष्य एवेत्यर्थः । प्रत्याख्यानक्रोधादय इति प्रत्याख्यानावरणभूताः क्रोधमानमायालोमा 10 इत्यर्थः । लक्षणं प्रयोजनञ्च प्राग्वत् । स्थिती चानन्तानुवन्धिक्रोधवत् , क्रमेणैते वालुकारा- जिदारुस्तम्भगोमूत्रिकाखञ्जनरागसदृशाः ॥ सज्वलनक्रोधादीनिक्तुमादौ संचलनस्वरूपमाचष्टे- ईषत्संज्वलनकारिणः पक्षावधयो देवगतिप्रदायिनो यथाख्यातचा- रित्रघातिनस्संज्वलनाः। ईदृशाश्च क्रोधादय एव संज्वलनक्रोधादयः ।। ईपत्संज्वलनकारिण इति ।,परीपहोपसर्गादिसंपाते सति चारित्रिणमपि संबईपद्- ज्वलयन्तीति संज्वलनाः, एषामुदये हि यथाख्यातचारित्रलाभो न भवति, अकषायचारित्र- लामो न भवतीति भावः । एषामप्यवधिमाह पक्षावधय इति । उत्कणेदम् पाक्षिकप्रतिक्रमण- काले प्रकर्षतो विध्यापनात् , जघन्येन तु पश्चात्तापोत्पत्त्यनन्तरमेव व्यपगच्छन्तीति भावः । ईदृशं क्रोधाविकमनुसृतानां का गतिरित्यत्राह देवगतिप्रदायिन इति । तेषां कार्यमाह यथा- t20 ख्यातेति | उपशान्तक्षीणकषायस्य यथाख्यातचारित्रावाप्तेरिति भावः । संक्षेपतस्संज्वलनको- वादिस्वरूपमुपदर्शयति ईदृशाश्चेति । संज्वलनात्मकाश्चेत्यर्थः चशब्दः प्रकारभेदसमाप्तियोतकः। क्रोधादय एवेति लक्षणं पूर्ववत् । उत्कृष्टा स्थितिः प्राग्वत्, जघन्या तु संज्वलनक्रोधस्य मासद्वयं सज्वलनमानस्य मौसः, संज्वलनमायाया अर्धमासः, संज्वलनलोभस्यान्तर्मुहूर्तम् , सर्वेषामवाधाकालोऽन्तर्मुहूर्त्तम् । क्रमेणोदकराजितणस्तम्भनिर्लेखनहरिद्रारागसहशा एते ॥ १. संज्वलना न केवलं यथाख्यातोपघातिन. किन्तु शेषचारित्राणामपि देशोपघातिनो भवन्ति, यतस्तेषा- मुदये शेपचारित्रमपि सातिचारं भवतीति भाव. ॥२, व्यवहारनयापेक्षयाऽयं कालनियम., बाहुबलिप्रमृतीनामन्येषा- संयतादीनाञ्च संज्वलनस्य पक्षात्परतोऽपि मासवर्षादिकाले प्रत्याख्यानावरणानामप्रत्याख्यानावरणानामगन्तानुव- धिनाचान्तर्मुहूर्तादिकालं स्थितिश्रवणात् ॥ 15 " नोकषायाः न्यायप्रकाशसमलते १९७ अथ चारित्रमोहनीयस्यापरभेदं नोकषायाख्यं पूर्वोदितकषायसहचारिणं कषायोद्दीपक सहचारिकषायसमफळं नवविधं क्रमेणाऽऽख्यातुमुपक्रमते- हास्योत्पादकं कर्म हास्यमोहनीयम् ।। हास्योत्पादकमिति । यस्योदयेन सनिमित्तमनिमित्तं वा हसति रजावतीर्णनटवत् तत्कर्म हास्यमोहनीयमित्यर्थः । हास्योत्पादकत्वे सति कर्मत्वं लक्षणं, कृत्यं सुस्पष्टम् । उत्कृष्टा । थितिरनन्तानुवन्धिक्रोधवत् , जपन्या तु सागरोपमस्य द्वौ सप्तभागौ पल्योपमासंख्येयभाग- न्यूनौ, अन्तर्मुहूर्तञ्चाबाधा ॥ रतिमोहनीयमाह- पदार्थविषयकप्रीत्यसाधारणकारणं कर्म रतिमोहनीयम् ॥ पदार्थेति । पदार्थविषयकप्रीत्यसाधारणकारणत्वे सति कर्मत्वं लक्षणम् । लोमादावति- 10 व्याप्तिवारणायासाधारणेति । सौभाग्यनामकर्मण्यतिव्याप्तिवारणाय पदार्थविषयकेति । स्थिती हास्यमोहनीयवत् ॥ अरविमोहनीयमाचष्टे- पदार्थविषयकोद्वेगकारणं कर्म अरतिमोहनीयम् ।। पदार्थविषयकेति । पदार्थविषयकोद्वेगकारणत्वे सति कर्मत्वं लक्षणम् । दुर्भगनाम- 15 कर्मण्यतिव्याप्तिवारणाय पदार्थविषयकेति । स्थिती हास्यमोहनीयस्येव ।। शोकमोहनीयं वक्ति- अभीष्टवियोगादिदुःखहेतुः कर्म शोकमोहनीयम् ॥ अभीष्टवियोगादीति । अभीष्टवियोगादिजन्यदुःखहेतुत्वे सति कर्मत्वं लक्षणम् । यदु- दयात् प्रियविप्रयोगादौ स्वोरस्ताडमाक्रन्दति, परिदेवते, भूपीठे चलुठति, दीर्घ निःश्वसिति, 20 तच्छोकमोहनीयमित्यर्थः । असातेऽतिव्याप्तिवारणाय जन्यान्तम् । स्थिती हास्यमोह- । नीयवत् ॥. भयमोहनीयमाचष्टे- भयोत्पादासाधारणं कारणं कर्म भयमोहनीयम् ॥ १३ तस्वन्यायविमाकरे [ पञ्चमकिरणे । 5 । 10 भयोत्पादेति । यस्योदयेन सनिमित्तमनिमित्तं वा त्रस्यति, वेपते, उद्विजते, तद्भय- मोहनीयम् । भयोत्पादासाधारणकारणत्वे सति कर्मत्वं लक्षणम् । पराघातेऽतिव्याप्तिवारणा- यासाधारणेति स्वनिखिलभयकारणमित्यर्थः, पराघातेन तु सभ्यादीनां परेषामेव भयं भवति अनेन तु स्वस्येति भावः, स्थिती हास्यमोहनीयवत् ।। जुगुप्सामोहनीयमाख्याति- बीभत्सपदार्थावलोकनजातव्यलीकप्रयोजकं कर्म जुगुप्सामोहनीयम् ॥ वीभत्सेति । यदुदयात् पुरीषादिवीभत्सपदार्थेषु जुगुप्सावान् भवति, शुभाशुभद्रव्य- विषयकं वा व्यलीकमुपजायते, तज्जुगुप्सामोहनीयमित्यर्थः । स्थिती हास्यमोहनीयवत् ।। पुरुषवेदखरूपमाचष्टे-~- स्त्रीमात्रसंभोगविषयकाभिलाषोत्पादक कर्म पुरुषवेदः ॥ स्त्रीमात्रेति । उद्रिक्तश्लेष्मण आम्रफलामिलापेव यस्योदये पुंसः स्त्रियाममिलाषा भवति, तृणामिज्वालासमानः स पुरुपवेद इत्यर्थः । नपुंसकवेदेऽतिव्याप्तिवारणाय मात्रेति । पुरुषवेदमोहाग्ने शं ज्वलतस्समासादिनप्रतिक्रियस्याश्वेव प्रशमो जायते समासादिततृणपुल- कस्येव, नातीव स्थास्तुरनुबन्धः । उत्कृष्टा स्थितिरस्य हास्यमोहनीयवत् जघन्या त्वष्टौ 15 वर्षाणि, अबाधाऽन्तर्मुहूर्त्तकालः ॥ स्त्रीवेदमाह- पुरुषमात्रसंभोगविषयकाभिलाषोत्पादकं कर्म स्त्रीवेदः ॥ पुरुषमात्रेति । पित्तद्रव्योदये मधुराभिलाषावत् यस्योदये पुंस्यमिलाषा स्त्रियास्समुप- जायते दृढतरखदिरादिकाष्ठप्रवृद्धज्वालाकलापज्वलनवत् , बहुतरकालावस्थायी चिरप्रशाम्यः 20 संभाषणस्पर्शनेन्धनामिवर्धितस्स स्त्रीवेदः । नपुंसकवेदेऽतिव्याप्तिवारणाय मात्रपदम् , हास्यमोहनीयवत् ॥ नपुंसकवेदमाख्याति- पुंस्त्रीसंभोगविषयकाभिलाषोत्पादक कर्म नपुंसकवेदः। इति कषा- यपञ्चविंशतिः॥ पुंस्त्रीति । पित्तश्लेष्मोदये मज्जिकामिलापावत् यस्योदये पण्डकस्य स्त्रीपुंसयोरमिलापा- समुदेति महानगरदाहदहनसन्निभकरीषकृशानुवदन्तर्विजृम्भमाणदीप्ततरकरनिकरो बहुवर- स्थिती 25 5 जातिनामकर्म ]] न्यायप्रकाशसमलङ्कृते कालप्रशमः स नपुंसकवेदः । स्त्रीपुरुपवेद्योरतिव्याप्तिवारणाय पुंस्त्रीति । स्थिती हास्यमोह- नीयस्येव । इमान्येव पञ्चविंशतिकर्माणि विभागवाक्यघटककषायपञ्चविंशतिपदनाथाणी- साह-इतीति । पोडशकषाया नवनोकपायाश्चेति मिलित्वेत्यर्थः ।। अथ तिर्यग्गविमाह- तिर्यक्त्वपर्यायपरिणतिप्रयोजकं कर्म तिर्यग्गतिः॥ तिर्यक्त्वेति । विर्यक्त्वपर्यायपरिणतिप्रयोजकत्वे सति कर्मत्वं तिर्यग्गतेर्लक्षणम् , कृत्यं मनुजगतिवत्, स्थिती पवेन्द्रियवत् ॥ तिर्यगानुपूर्वीस्वरूपमाह- तिर्यग्गतौ बलान्नयनहेतुकं कर्म तिर्यगानुपूर्वी । इति तिर्यग्द्विकम् ।। तिर्यग्गताविति । बलात्तिर्यग्गविनयनहेतुत्वे सति कर्मत्वं लक्षणम् । मनुजानुपूयादा- पतिव्याप्तिवारणाय नियंगिति । स्थिती च पश्चेन्द्रियवदेव । इमे एव विभागवाक्यघटकतिर्य- 10 ग्द्विकपदवोध्ये इत्याह इतीति ।। एकेन्द्रियजातिनाम निरूपयति- - - एकेन्द्रियव्यवहारहेतुः कर्म एकेन्द्रियजातिः । अस्याः स्पर्शेन्द्रियमेव ।। एकेन्द्रियेति । यदुदयादयं पृथिवीकायिकादिरेकेन्द्रिय इति संज्ञां लभते व्यपदिश्यते च, तादृशं कर्मेत्यर्थः । एकेन्द्रियव्यवहारकारणत्वे सति कर्मत्वं लक्षणम् । द्वीन्द्रियजात्यादि- 15 वारणायकेति । अत्र द्रव्येन्द्रियमङ्गोपाङ्गनामेन्द्रियपर्याप्तिनामसामर्थ्यावति । भावरूपन्तु तनादिन्द्रियावरणक्षयोपशमसामर्थ्याद्भवति, जातिनाम तु व्यवहारनिवन्धनसमानपरिणवी १. ननु व्यवहारस्थब्दप्रयोग , तथा चैकेन्द्रियादिशब्दप्रवृत्तिनिवन्धनभूतजातिविपाकवेधकर्मप्रकृतिरेकेन्द्रि- यादिजातिरिवि लक्षणार्थ , तब न युकं शब्दप्रवृत्तिनिमित्तत्पेन कापि जात्यसिद्धरितरथा हर्यादिपदप्रवृत्तिनि- मित्ततया हरित्वादिलातेरपि सिद्धि स्यात् तथाप्यकेन्द्रियादिशब्दप्रवृत्तिनिमित्ततया तादृशजातिस्वीकारे नार- कादिव्यवहारनियामकतया पश्चेन्द्रियत्वव्याप्यनारकत्वादिनातिसिद्धी गतिनाम्नो वैयपित्तश्चेति ष, अपकृष्ट- चैतन्यादिनियामकतयैकेन्द्रियवादिनातिसिद्धे, न तु गब्दप्रवृत्तिनिमित्ततया, सा च जातिरेकेन्द्रियादिव्यवहारनि- बन्धना, लाघवातचिवन्धनतया च जातिनामसिद्धि । नारकत्वादिकं तु न जातिरूपम् , तिर्यक्त्वस्य पश्चेन्द्रिय लादिना साहात् । मानुषत्वावच्छेदेन पञ्चेन्द्रियत्वे तिर्यक्त्वाभावसामानाधिकरण्यस्यैकेन्द्रियत्वावच्छेदेन तिर्यक्ले पञ्चेन्द्रियत्वाभावसामानाधिकरण्यस्य सत्त्वात् तदुभयस्य च तिर्यपञ्चेन्द्रियत्वावच्छेदेन वृत्ते, किन्तु सुखदु.स- विशेषोपभोगनियामकपरिणामविशेषतया नारकत्वादीनां तन्नियामकलेन गतिनाम्न आवश्यकत्वादिति । , 5 तत्वन्यायविभाकरे पञ्चमकिरणे] निबन्धनमिति भाव्यम् । इयं जातिः कीडशेन्द्रियव्यवहारप्रयोजिकेत्याशङ्कायामाहास्या इति, पञ्चम्यर्थः प्रयुक्तत्वं तथा चैकेन्द्रियजातिनामप्रयुक्तं सर्जेन्द्रियमेवेत्यर्थः, केवलस्पर्शेन्द्रिया- पेक्षया योऽयमेकेन्द्रियव्यवहारस्वत्र प्रयोजकमिदं कर्मेति भावार्थः । उत्कृष्टाऽस्य स्थितिः पञ्चेन्द्रियवत्, जघन्या तु देवगतिवत् ॥ द्वीन्द्रियादिजातिनाम लक्षयति- द्वीन्द्रियव्यवहारकारणं कर्म द्वीन्द्रियजातिः । स्पर्शरसने । त्रीन्द्रि- यव्यवहारसाधनं कर्म त्रीन्द्रियजातिः । स्पर्शरसनघ्राणानि । चतुरिन्द्रिय- व्यवहारनिदानं कर्म चतुरिन्द्रियजातिः । स्पर्शरसनघ्राणचक्षुषि ॥ द्वीन्द्रियेति । द्वीन्द्रियव्यवहारकारणत्वे सति कर्मत्वं लक्षणम् | कृत्यं पूर्ववत् । कीदृशे- 10 न्द्रियव्यवहारे प्रयोजकमित्यत्राह-स्पर्शरसन इति, अस्या इत्यनुषज्यते, शिष्टं सष्टम् । अस्या उत्कृष्टा स्थितिरष्टादशसागरोपमकोटीकोट्या, अष्टादशवर्षशतान्यबाधा, जघन्या तु देवगति- वत् । त्रीन्द्रियजातिनामाचष्टे-त्रीन्द्रियेति । लक्षणं कृत्यञ्च पूर्ववदेव । अस्या व्यवहारे निबन्धनानीन्द्रियाण्याह स्पर्शेति, अस्या इत्यनुषज्यते । स्थिती चास्या द्वीन्द्रियजातिवत् । चतुरिन्द्रियजातिनामाख्याति-चतुरिन्द्रियेति । स्पष्ट लक्षणं कृत्यञ्च | अस्या व्यवहारे 15 निबन्धनानीन्द्रियाण्याह स्पर्शरसनेति । स्थिती च द्वीन्द्रियजातिवत् ॥ अथ कुखगत्यादीन्याह- अप्रशस्तगमनप्रयोजकं कर्म कुखगतिः । यथा खरोष्ट्रादीनाम् । स्वा- वयवैरेव स्वपीडाजनननिदानं कर्म उपघातनाम । शरीरनिष्ठाप्रशस्तवर्ण- प्रयोजकं कर्म अप्रशस्तवर्णनाम | यथा काकादीनाम् । शरीरनिष्ठाप्रशस्त- 20 गन्धप्रयोजकं कर्म अप्रशस्तगन्धनाम । यथा लशुनादीनाम् । शरीरवृत्त्य- प्रशस्तरसप्रयोजकं कर्म अप्रशस्तरसनाम । यथा निम्बादीनाम् । शरीर- वृत्त्यप्रशस्तस्पर्शप्रयोजक कर्म अप्रशस्तस्पर्शनाम । यथा बच्चुलादीनाम् । इत्यप्रशस्तवर्णचतुष्कम् ॥ अप्रशस्तेति । अप्रशस्तगमनप्रयोजकत्वे सति कर्मत्वं लक्षणम् । यद्वशेन च खरोष्ट्र- 25 टोलादीनामिवाप्रशस्तगमनमशिनामुपजायते सा कुत्सिता विहायोगतिः कुखगतिः । नर- कगत्यादिलक्ष्यताव्युदासाय लक्ष्ये खेति । शुभखगतावतिव्याप्तिवारणायाप्रशस्तेति । स्थिती च पञ्चेन्द्रियवत् ! निदर्शनमाह यथेति | उपघातनाम निरूपयति-वावयवैरेवेति । स्वशरी- । संहननकर्म ] न्यायप्रकाशसमलते :१०१: रावयवैरेव प्रतिजिह्वागलवृन्दलम्बकचौरदन्तादिभिश्शरीरान्तर्वर्धमानैयदुव्यादुपहन्यते जन्तु- स्तदुपधातनामेत्यर्थः । शरीराङ्गोपाङ्गघातकं स्वपराक्रमविजयाद्युपघातजनकं वोपघातनामेति तस्वार्थभाष्यम् । असावादावविव्याप्तिवारणाय स्वावयवैरैवेति । पञ्चेन्द्रियवदेवास्य स्थिती । अप्रशस्तवर्णनामाह-शरीरनिष्ठेति । शरीरनिष्ठाप्रशस्तवर्णप्रयोजकत्वे सति कर्मत्वं लक्षणम् । अप्रशस्तो वर्णोऽतिवीभत्सदर्शन:कृष्णादिवर्णः । प्रशस्तवर्णनाम्न्यतिव्याप्तिवारणायाप्रशस्ता- 5 न्तम् । पुलनिष्ठाप्रशस्तवर्णे कर्मणोऽप्रयोजकत्वेनाप्रशस्तवर्णनामकर्म फलानुमेयं न भवेदिति शरीरनिष्ठेति । पल्बेन्द्रियवदस्य स्थिती । अप्रशस्तवर्णनामकर्मोदयवतो दृष्टान्तमाह ययेति । अप्रशस्तगन्धनामाचष्टे-शरीरेति । कुथितमृतमूपकादिदुर्गन्धताऽप्रशस्तगन्धः । शिष्टं सर्व- मप्रशस्तवर्णवत् । पञ्चेन्द्रियवदस्य स्थिती, निदर्शनमाह यथेति । अप्रशस्तरसनामामिघत्ते- शरीरवृतीति । लक्षणं पूर्ववत् स्थिती च | दृष्टान्तमाह यथेति । अथाप्रशस्तस्पर्शनामाह- 10 शरीरवृत्तीति । लक्षणं स्पष्टं कृत्यञ्च, स्थिती पूर्ववत् दृष्टान्तमाह ययेति । विभागवाक्ये एत एवाप्रशस्तवर्णचतुष्कपदेनोका इत्याह इतीति ।। ऋषभनाराचादिसंहननान्याह- उभयतो मर्कटवन्धाकलितास्थिसंचयवृत्तिपट्टबन्धसहशास्थिप्रयोजक कर्म ऋषभनाराचम् । उभयतो मर्कटवन्धमात्रसंवलितास्थिसन्धिनिदानं 15 कर्म नाराचम् । एकतो मर्कटवन्धविशिष्टास्थिसन्धिनिदानं कर्माधनारा. चम् । केवलकीलिकासहशास्थिबद्धवास्थिनिचयप्रयोजकं कर्म कीलिंका ॥ परस्परपृथकस्थितिकानामस्थ्नां शिथिलसंश्लेषनिदानं कर्म सेवाम् । इति संहननपञ्चकम् ॥ उभयत इति । उभयतो मर्कटबन्धसंवलितास्थिसंचयवृत्तिपट्टसदृशास्थिप्रयोजकत्वे सति कर्मत्वं लक्षणम् अत्र तादृशास्थिमात्रप्रयोजकत्वे सतीति वाच्यमन्यथा वर्षभनाराचे व्यभिचारापत्तेः । नाराचे व्यभिचारवारणाय पट्टसदृशास्थीति । अस्योत्कृष्टा स्थितिा- दशसागरोपमकोटीकोटयः, द्वादशवर्षशतान्यवाधा, पञ्चेन्द्रियबज्जघन्या । अस्य कर्मणः स्थाने वनस्वार्थ ऋपमस्याधं नाराचस्यामिति कृत्वाऽर्धवअर्पभनाराचनाम पठन्ति तत्त्वार्थभाष्य- काराः । कर्मप्रकृतिग्रन्थेष्वन पट्टहीन वनाराचनाम पठितम् । नाराचसंहननमाचष्टे- उभयत इति । उभयतो मर्कटबन्धमात्रसंवलितास्थिसन्धिनिदानवे सति कर्मत्वं लक्षणम्, वर्षभनाराचादावतिव्याप्तिवारणाय मात्रपदम् । अर्धनाराचे व्यभिचारवारणायोभयत इति । चतुर्दशसागरोपमकोटीकोट्यः परा स्थितिः चतुर्दशवर्षशतान्यबाधा, जघन्या पञ्चेन्द्रियवत् । 20 । 25 :१०२: तत्त्वन्यायविभाकर [ पञ्चमकिरणे अर्धनारांचमाचष्टे-एकत इति । एकपार्श्वमात्रावच्छेदेन मर्कटबन्धविशिष्टास्थिसंधिनिदानत्वे सति कर्मत्वं लक्षणम् । नाराचादिवारणायैकपार्श्वमात्रावच्छेदेनेति । अत एव मात्रपदमपि, षोडशसागरोपमकोटीकोट्योऽस्य परा स्थितिरबाधा च षोडशवर्षशवानि जघन्या पश्चेन्द्रि- यवत् । कीलिकामाह-केवलेति | केवलकीलिकासहशास्थिवद्धास्थिनिचयप्रयोजकले सति 5 कर्मत्वं लक्षणम् । वर्षभनाराचे व्यभिचारवारणाय केवलेति । उत्कृष्टा स्थितिरस्याष्टा- दशसागरोपमकोटीकोट्यः, अष्टदशवर्षशतान्यबाधा जघन्या तु पञ्चेन्द्रियस्येव । अब सेवार्चमाख्याति-परस्परेति । परस्परपृथस्थितिकानामध्नां शिथिलसंश्लेषनिदानत्वे सति कर्मत्वं लक्षणम् । अस्य संहननस्योदये सति जीवो नित्यमेव स्नेहाभ्यङ्गादिरूपां परिशील- नामाकांक्षति । अस्यैव च सृपाटिकेति तत्वार्थ नामान्तरम् । विंशतिसागरोपमकोटीकोध्योऽस्य 10 परा स्थितिः । वर्षसहस्रद्वयञ्चाबाधा, जघन्या पश्चेन्द्रियवत् । इमानि संहननानि औदारिक- शरीर एव भवन्ति । विभागवाक्येऽप्रथमसंहननशब्दवाच्यान्येतान्येवेत्याह इतीति ॥ अथ न्यग्रोधपरिमण्डलादिसंस्थानान्याह- नाभेरूवं विस्तृतिबाहुल्यसल्लक्षणनिदानं कर्म न्यग्रोधपरिमण्डलम् । नाभ्यधोभागमात्रस्य प्रमाणलक्षणवत्त्वप्रयोजकं कर्म सादिः । सलक्षण- 15 पाण्यादिमत्त्वे सति निर्लक्षणवक्षाप्रभृतिमत्त्वप्रयोजकं कर्म कुब्जं ॥ नामेरूर्वमिति । नामेरूयमेवेसर्थः । यथा न्यग्रोधो वृक्ष उपरि संपूर्णावयवोऽधस्तु हीनस्तयेदमपि कर्म नामेपरि विस्तारवहुलस्य संपूर्णलक्षणादिमत्त्वस्य चाधस्तद्धीनस्य शरी- रस्य प्रयोजकमिति भावः । नाभेरूलभागमात्रावच्छेदेन विस्तृतिबाहुल्यसल्लक्षणनिदानत्वे सति कर्मत्वं लक्षणम् । समचतुरस्रसंस्थानवारणाय नाभेरूर्वभागमात्रावच्छेदेनेति । नामे- 20 रूर्धनिखिलभागमात्रावच्छेदेनेत्यपि वाच्यं तेन यत्किञ्चित्पाण्यादीनां विस्तृतिबाहुल्यसलक्षण- प्रयोजके कुब्जनामकर्मणि नातिव्याप्तिः । स्थिती वर्षभनाराचवत् । सादिमाचष्टे-नाभ्य- धोमागेति । येन नामेरघस्तादेव सर्वेऽवयवाः समीचीनेन लक्षणेन च युतास्तदित्यर्थः । नाभ्यधस्सर्वभागमात्रावच्छेदेन सुप्रमाणलक्षणवत्त्वप्रयोजकत्वे सति कर्मत्वं लक्षणं समचतु- रोऽविव्याप्तिवारणाय नाभ्यधस्सर्वभागमात्रावच्छेदेनेति | इदमेव साचिस्खातिशब्दाभ्यां 25 व्यवड़ियते । स्थिती तु नाराचसंहननवत् । कुन्जमभिधत्ते-सलक्षणेति । यतः कन्धराया उपरितनावयवा हस्तपादन समचतुरस्रलक्षणयुक्तं अघस्तनकायस्तु लक्षणविसंवादी वत्कर्म कुन्जम् । सलक्षणपाण्यादिमत्त्वे सति निर्लक्षणवक्षःप्रभृतिमत्त्वप्रयोजकत्वे सति कर्मत्वम् । आदिना पादकन्धरोपरितना अवयवा ग्राह्याः, प्रभृतिना च वद्भिन्नाः । हुण्डेऽतिव्याप्तिवार- 5 पापहेतवः न्यायप्रकाशसमलट्टते .१०३: णायाचं सत्यन्तं, समचतुरस्रादावतिप्रसक्तिवारणार्थ द्वितीयं सत्यन्तम् । पाण्यादिमत्त्वञ्च प्रयोजकतासम्बन्धेन। अर्धनाराचसंस्थानवदस्य स्थिती ॥ वामन हुण्डल्याभिधत्ते- एतद्वैपरीत्यहेतुः कर्म वामनम् । सर्वाक्यवाशुभत्वनिदानं कर्म हुण्डम् । इति पञ्चसंस्थानानि । एते पापानुभवप्रकाराः ।। एतदिति । निर्लक्षणपाण्यादिमत्त्वे सति सलक्षणवक्षःप्रभृतिमत्त्वप्रयोजकत्वे च सति कर्मत्वं लक्षणम् | समचतुरनादौ साद्यादौ क्रमेण व्यभिचारवारणाय सत्यन्तद्वयं । कीलिका- बदस्य स्थिती। हुण्डमाह-सर्वेति । सर्वावयवाशुभत्वप्रयोजकत्वे सति कर्मत्वं लक्षणम् । अशुमनामकर्मण्यविव्याप्तिवारणाय सर्वेति । यद्यशुमपदेनात्र लक्षणविस्तारादिगुह्यते तदा नाशुभनामकर्मण्यतिप्रसक्तिः किन्तु न्यग्रोधादावेवेति बोध्यम् ॥ स्थिती च सेवावत् । 10 इतीति । विभागवाक्यान्तर्गताप्रथमसंस्थानशब्दवाच्यानीति शेषः । इमानि व्यशीविविधानि पापकर्माणि प्राणातिपातादिहेतुभिर्वद्धन जीवेनानुभूयन्ते इत्याह एत इति । व्यशीतिविधा कर्मविशेषा इत्यर्थः॥ पापहेतून दर्शयति- पापबन्धहेतवस्तु प्राणातिपातसृषावादादत्तादानमैथुनपरिग्रहापश- 15 स्तकोधमानमायालोभरागद्वेषकलहाभ्याख्यानपिशुनतारतिरतिपरपरि- वादमायामृषावादमिथ्यात्वशल्यानि । इतिपापतत्त्वम् ।। पापबन्धहेतवस्तु इति । नियतपुलिंगो हेतुशब्दः । यद्यपि जीवस्वाशुभाध्यवसायवि- शिष्टा वाकायमनसामशुमव्यापारा वन्धहेतवस्तथापि तानेव विशेषतो दर्शयति, यद्वा । व्यापारस्य शुभाशुभत्वं न शुभाशुभकर्मकारणत्वेन, शुभयोगस्यापि ज्ञानावरणादिवन्धहेतुत्वा- 20 भ्युपगमात् । किन्त्वशुभपरिणामनिवृत्तत्वादतस्ताने वाह प्राणातिपातेत्यादिना । प्राणानाम- तिपातो विनाशः पावनं शासनं वा प्रमत्तयोगाव्यतो भावतश्च । मृषावादो विद्यमानस्या- पलाप, अविद्यमानप्रकाशन शास्त्रप्रतिषिद्धवागनुष्ठानश्च । अदत्तादानं, परैरदत्तस्य परिगृही- तस्य वा पदार्थसार्थस्य स्वेच्छया ग्रहणं धारणश्च । मैथुनं मोहकमोदयादुद्भूतवीत्रकायादि. परिणामयोः स्त्रीपुंसयोमिथुनभावः परस्पराऽऽश्लेषः सुखोपलम्मकः । परिग्रहो वाह्याभ्यन्तरेषु 25 लोभानुरक्तचित्तवृत्त्या अमिलापा | अप्रशस्ताः क्रोधमानमायालोमरागद्वेषाः, प्रशस्वास्त्वेते न पापानुकूलाः । कलहो राटिः, अभ्याख्यानं प्रकटमसदोषारोपणं पिशुनता दौर्जन्यम् , मोहनी. - 5 10 . ०४. तस्वम्यायविभाकरे [पकिरणे योदयाचित्तोद्वेगोऽरतिस्तत्फला विषयेषु मोहनीयोदयाद्या चित्ताभिरतिः साऽरतिरतिः, परपरि- वादः परनिन्दा, मायया सह मृषा मायामृषा, मिथ्यात्वशल्यश्च, अनेकधा प्राणिगणशलना- च्छल्यं, मिथ्यात्वं तत्त्वाश्रद्धानं, तदेव शल्यं । एते द्वयशीतिविधपापकर्मणां हेतवः । इति पापतत्त्वमवसितमित्याहेतीति ।। इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर- चरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य तत्वन्यायविभाकरस्य स्वोपशायां न्यायप्रकाशव्याख्यायां पापतत्त्वनिरूपणो नाम पञ्चमः किरणः॥ अथ षष्ठः किरणः ॥ ननु निरूपितं पुण्यपापरूपं कर्म, सम्प्रति तदनन्तरमुदिष्ट आस्रवो निरूपणीयः । तत्र स कि स्वरूपो जीवो वा तत्पर्यायो वा अजीवो वा तत्पर्यायो वा स्यात् , चेतनाचेतनात्मक- पदार्थद्वयातिरिक्तस्याभावात् , जीवतत्पर्यायान्यतररूपत्वे जीव एव, अजीवतत्पर्यायान्यतर- रूपत्वे चाजीव एव भवेदित्याशङ्कायां लक्षणं निरूपयन पदार्थ सूचयति- शुभाशुभकर्मग्रहणहेतुराश्रयः॥ शुभाशुमेति । शुभाशुभरूपे ये कर्मणी पुण्यपापात्मकेऽष्टविधे, तयोर्यग्रहणमुपादानं बन्धात्मकं तत्र हेतुः साक्षात्कारणं शुभाशुभाध्यवसायविशेषः परम्पराकारणश्चेन्द्रियकषाया- प्रयोगक्रियाः, द्विविधो हेतुरास्रवपदार्य इत्यर्थः । तथा च प्रतिक्षणं कर्मग्रहणव्याप्तस्व- भावत्वावस्थनीवस्यावश्यं केनचिद्धेतुना भाव्य, निर्हेतुकस्य कार्यस्यानुत्पत्तेः । तथा च सति यस्तत्र हेतुः स आश्रवः, स चाहदर्चनवन्दनसर्वविरतितपःस्वाध्यायवीतरागप्रणि- धानधर्मध्यानादिप्रशस्तानुष्ठानात् प्राणासिपातमृषावादकषायाद्यप्रशस्तकर्मभ्यश्च भवति, भवति हि यथाक्रमं सत्कृत्यासत्कृत्याभ्यामसतोरपि शुभाशुमाध्यवसायादिरूपयोः शुभाशुभानवयोरा- विर्भावः, संतोश्च वृद्धिरिति भावार्थः, ननु शुभाशुभकर्मणामादानात्मकस्य बन्धस्य कारण- माश्रव इत्यायात, तच न सभवति, बन्धाभावे आश्रवासंभवादन्यथा मुक्तस्यापि तदापत्तेः । यद्यासवमन्तरेणापि बन्ध इष्यते तर्हि कथमाश्रवस्य बन्धहेतुत्वं तदभावेऽपि जायमानं प्रति तस्य हेतुत्वासम्भवादिति चेन्मैवम्, उभयोरप्यन्योऽन्य कार्यकारणभावाभ्युपगमात्, नप तर्हि बन्धाभावे नाश्रवस्तभावे च न बन्ध इति परस्पराश्रयप्रसङ्ग इति वाच्यम्, बन्धा- 15 20 25 " १. मायामृषावादोऽयं तृतीयकषायद्वितीयाश्रवसंयोगरूपः उपलक्षणोऽयमेवंविधसर्वसंयोगानाम् । वेषान्तर भीषान्तरकरणेन परवञ्चनरूपोवा बोभ्यः ॥

. " मात्र] न्यायप्रकाशसमलट्टते अवयोः कार्यकारणभावप्रवाहस्सानादितयोत्तरोत्तर प्रति पूर्वपूर्वस्य कारणत्वाभ्युपगमेन तद्- नवकाशात्, वीजाकुरयोः कार्यकारणभाववत् । ननु बन्धास्रवयोरेतायता समतैव स्यान तु विशेषस्तथा चाऽऽअवहेतुबन्ध इत्यपि वन्धस्य लक्षणं स्यान्न चैतदस्ति, कषायाधनुविद्धस्य जीवस्य नूतनकर्मपुद्गलैः सह सम्बन्धो बन्ध इति लक्षणश्रवणादिति चेन्न, शरीरस्य स्नेहा- भ्यगाद्रेणुसंश्लेषवदानवस्योत्पत्त्यनन्तरमेव बन्धहेतुत्वात्, न चैवं बन्धस्य साक्षादाभव 5 प्रति हेतुत्वं, क्षेत्रकालादिसहकार्यपेक्षयोदयावस्थाप्राप्तस्यैव कर्मणोऽर्थक्रियाकारित्वात् , न तु बद्धमात्रेणासवं जनयितुमलम् । सोऽयमानवः पूर्व द्विचत्वारिंशद्विधः प्रोक्तः । तत्र यद्यपि मनोवाक्कायानां शुभाशुभरूपा ये वीर्यान्तरायक्षयोपशमजन्या वीर्यप्राणोत्माइपराक्रमचेष्टा- शक्तिसामादिशब्दवाच्या योगास्त एवानवाः, तत्र कायात्मप्रदेशपरिणामोऽशुभो हिंसा- स्तेयाब्रह्मादिरूपः, एतद्विपरीतश्शुभो गमनादिक्रियाहेतुः काययोगः । भाषायोग्यपुदलात्म- 10 प्रदेशपरिणामोऽशुमस्सावधानृतपरुषपिशुनादिरूपः, शुभ एतद्विपरीतरूपो वाग्योगः । मनो- योग्यपुदलात्मप्रदेशपरिणामोऽशुभोऽभिध्याव्यापादेासूयादिरूपः, शुभश्चतविपरीतरूपो म- नोयोग इति, तथापि विवक्षाभेदाद्विचत्वारिंशद्विधाः प्रोक्ताः । अयमाश्रवस्सकषायस्याकषा- यस्यापि भवति, वत्राकषायस्य वीतरागस्यैकसमयस्थितिककर्मण एवास्रवो भवति, सकषा- यस्य मिथ्यादृष्ट्यादिसूक्ष्मसम्परायान्तस्य तु संसारपरिभ्रमणकारणकर्मण एवास्रवो भवतीति 15 बोध्यम् । यद्यपीन्द्रियकषायावतयोगानां क्रियाखमावानतिवृत्तेः क्रियावचनेनैवैषां गतार्थता, व्यापाराभाव इन्द्रियादीनामकिञ्चित्करत्वात्, वथापि क्रियास्वभावत्वमेतेषां न नियतं, नामस्थापनाद्रव्येन्द्रियादौ क्रियाभावात् , यहा नैवमेकान्ततस्तानि क्रियास्वभावान्येवेति, किन्तु द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्यतस्स्याक्रियास्वभावानतिवृत्तिः, पर्यायार्थिकगुणभावे द्रव्यार्थिकप्राधान्यात्स्याक्रियाखभावातिवृत्तिरिति । शुभाशुभानवपरिणामाभिमुखत्वादिन्द्रिय- 20 कषायावतानां द्रव्यास्रवत्वं, भावात्रवः कर्मादानं, तश्च पञ्चविंशतिक्रियामिरानवति कर्मत्ये- तदर्थमिन्द्रियकषायावतानामुपादानम् ॥ वस्तुतस्तु कायवाल्मनसां क्रिया आसवास्तेषां गतीन्द्रियकषायलेश्यायोगोपयोगज्ञान- दर्शनचारित्रवेदादिपरिणामवतो जीवस्य धर्मरूपत्वाचे जीवात्मकाः, कायवाड्मनःप्रभवत्वा- सत्स्वरूपा वा, एतदेवाभिप्रेत्याह- पौगलिकोऽयम् । आत्मप्रदेशेषु कर्मप्रापिका क्रिया द्रव्याश्रवा, कर्मों- पार्जननिदानाध्यवसायो भावाश्रवः ।। - 25 :१०६: तत्त्वन्यायविमाकरे [किरणे पौद्गलिकोऽयमिति । कायो हि जीवस्य निवासभूतः पुदलद्रव्यसंघातः, तद्योगाजी- वस्य यो वीर्यपरिणामस्स काययोगः, आत्मयुक्तकायायत्ता वाग्वर्गणायोग्यस्कन्धा विसृज्य- माना वाकरणतामापद्यन्ते तत्सम्बन्धाचात्मनो या वीर्यपरिणतिः स वाग्योगः, जीवेन सर्व- प्रदेशैर्गृहीता मनोवर्गणायोग्यस्कन्धाः करणभावमालम्बन्ते तत्सम्बन्धाश्चात्मनः पराक्रम- 5 विशेषो मनोयोगः, इत्येवं योगत्रिकैरात्मप्रदेशेषु कर्मप्रापिका क्रिया द्रव्याभव उच्यते, तदनु- कूलाध्यवसायस्तु भावाश्रव इत्याशयेनाह-आत्मप्रदेशेविति । शेष स्पष्टम् । तथा साम्परा- यिककर्मबन्धमाजां सत्स्वपीन्द्रियादिषु तुल्यतया निमित्तेषु तीब्रमन्दज्ञाताज्ञातभावेभ्यो वीर्य- विशेषाधिकरणविशेषाञ्चास्रवाणां विशेषो विज्ञेयः ॥ पूर्वोदितानामानवभेदानां स्वरूपमनुक्रमेणोपवर्णयितुमारमते- स्पर्शविषयकरागद्वेषजन्याश्रवः स्पर्शन्द्रियाश्रवः ।। स्पर्शेति । सर्शश्शीतादिरूपेणाष्टविधः स्पर्शेन्द्रियजन्यप्रत्यक्षविषयः, तद्विषयको यो रागद्वेषौ आनुकूल्यप्रातिकूल्याभ्यां प्रीत्यप्रीती तज्जन्यः कर्मबन्धानुगुण आत्माध्यवसायो वा योगक्रियाविशेषो वा स्पर्शेन्द्रियास्रव उच्यत इत्यर्थः । तथा च स्पर्शविषयकरागद्वेषान्यतर- जन्यत्वे सत्साश्रवत्वं लक्षणम् । रसनेन्द्रियास्रवादावतिप्रसङ्गभङ्गाय सत्यन्तम् । कालादि- 16 वारणाय विशेष्यम् । रसनेन्द्रियानवादावतिव्याप्तिवारणाय स्पर्शविषयकेति ॥ 10 रसनेन्द्रियाश्रवमाह-- रसविषयकरागद्वेषजन्याश्रवः रसनेन्द्रियाश्रवः ॥ रसविषयकेति । अम्लादिभेदेन पञ्चविधा रसाः रसनेन्द्रियजन्यप्रत्यक्षविषयाः तद्वि- षयको यौ रागद्वेषौ आनुकूल्यप्रातिकूल्याभ्यां प्रीत्यप्रीती तदन्यतरजन्यः कर्मबन्धानुगुणो 20 जीवाध्यवसायविशेषो योगविशेषो वाऽऽत्रवः रसनेन्द्रियात्रव इत्यर्थः, रसविषयकरागद्वेषा- न्यतरजन्यखे सत्याभवत्वं रसनेन्द्रियानवस्य लक्षणम् , कृत्यं प्राग्वत् ॥ १. परिणामस्य तीव्रमन्दभावे कर्मबन्धोऽपि तीम्रो मन्दश्च भवति, सिंहस्य गोर्धातिनश्च प्राणातिपाते समानेऽपि कर्मबन्धो न तुल्य, शौर्याभिनिवेशिनो बहुलं कर्मवन्धात् । ज्ञातभावोऽभिसन्धाय प्राणातिपा- तादौ प्रवृत्ति, अज्ञातभावोऽनभिसन्धाय तत्र प्रवृत्ति, वीर्यान्तरायकर्मक्षयोपशमजन्य. सामर्थ्यविशेषो वर्षभनाग वसंहननीयापेक्ष त्रिपृष्ठादीना सरब्धसिंहपाटनादिरूप तद्विशेषादपि कर्मवन्धविशेष. । अधिकरण दुर्गति- प्रापर्क निर्वर्तनासंयोजनादिभेदं कर्मबन्धविशेषहेतुरिति ।

5 क्रोपायाश्रवः] न्यायप्रकाशसमलते। :१०७: प्राणेन्द्रियाश्रयमाह- गन्धविषयकरागद्वेषजन्याश्रवा घ्राणेन्द्रियाश्रयः॥ गन्येति । सुरभ्यसुरमिरूपघ्राणजप्रत्यक्षयोग्यगन्धविषयकानुकूल्यप्रातिकूल्यप्रयुक्तप्रीत्य- प्रीतिजन्याश्रवो प्राणेन्द्रियाव इत्यर्थः। गन्धविषयकरागद्वेषान्यतरजन्यत्वे सत्याभवत्वं लक्षणं, कृवं पूर्ववत् ॥ चक्षुरिन्द्रियानवं श्रोत्रेन्द्रियाश्रवञ्बाचष्टे- रूपविषयकरागद्वेषजन्यावश्चक्षुरिन्द्रियाश्रवः । शब्दविषयकराग- द्वेषजन्याश्रयः श्रोत्रेन्द्रियाश्रवः । इतीन्द्रियपश्चकाश्रयः ॥ रूपेति । श्वेतादिरूपेण पञ्चप्रकारं चक्षुर्महणयोग्यं यद्रूपं तद्विषयकानुकूल्यपातिकूल्य- प्रयुक्तरागद्वेषान्यतरजन्य आवश्चक्षुरिन्द्रियाव इत्यर्थः, रूपविषयकरागद्वेषान्यतरजन्यस्वे 10 सत्याश्रवत्वं लक्षणं कृत्यं प्राग्वत् । श्रोत्रेन्द्रियाश्रवमाचष्टे-शब्दविषयकेति । सचित्ताचित्त- मिश्रात्मकत्रिविधशब्दविषयकरागद्वेषान्यवरजन्याश्रव इत्यर्थः । लक्षणं कृत्यञ्च स्फुटम् । एत एव विभागवाक्ये इन्द्रियपश्चकपदेनोक्ता इत्याह इतीति । अथ क्रोधाद्याश्रवानाह- प्रीत्यभावप्रयुक्ताश्रवः क्रोधाश्रवः । अननताजन्यावो मानाश्रयः। 15 कापव्यप्रयुक्ताश्रवो मायाश्रवः । सन्तोषशून्यतामयुक्ताश्रवो लोभानवः । इति कषायचतुष्काश्रयः॥ प्रीत्यमावेति । प्रीत्यभावः क्रौर्यपरिणामः, क्रोधोऽनन्तानुवन्ध्यादिभेदा, तत्प्रयुक्त आश्रवः शुभाशुभाध्यवसायः क्रियाविशेपो वा क्रोधाश्रव इत्यर्थः। मानावमाह-अनन- तेति । मानोऽनम्रता, अप्रणविस्वजन्याश्रव इत्यर्थः । स च भुवजात्यादिगर्वावलम्वना- 20 द्भवति । मायाश्रयमाचष्टे-कापटपेति | माया कापट्यं परविप्रलम्भः, छाप्रयोगस्तजन्यः शुभाशुभाध्यवसायो वा जीवक्रियाविशेषो वा मायाश्रव इत्यर्थः । लोभाश्रवममिघचे- सन्तोषेति । लोभः सन्तोषशून्यता तृष्णापिपासाभिष्वद्गास्वादलक्षणस्तजन्यः शुभाशुभा- ध्यवसायो वा क्रियाविशेषो वा लोमानव इत्यर्थः । विभागवाक्ये, एत एव कषायचतुष्क- पदेन प्राशा इत्याहेतीति ॥ - । 25 अधुना हिंसाभवमाह- " तत्त्वन्यायविभाकरे [ षष्ठकिरणे प्रमादिकर्तृकप्राणवियोगजन्याश्रवो हिंसाश्रवः ।। प्रमादिकर्तृकेति । प्रमादिपुरुषकर्तृको यः प्राणवियोगस्तजन्याश्रवो हिंसाश्रव इत्यर्थः। कषायविकथेन्द्रियनिद्राऽऽसवैः प्रमादमुपगतः प्रमादी, तत्र षोडशविधाः कषायास्तत्परिणत आत्मा प्रमादी बीभक्तजनपदराजवृत्तान्तप्रतिबद्धा विकथा, रागद्वेषाविष्टचेताः स्यादिविक- 5 थापरिणतः प्रमादी, स्पर्शनादीन्द्रियद्वारकरागद्वेषसमासादितपरिणामविशेष आत्मा प्रमादी दर्शनावरणकर्मोदयजन्यपञ्चविधनिद्रापरिणामविशिष्ट आत्मा प्रमादी । आसवो मद्यं मधु- वारशीधुमदिरादि, तदभ्यवहाराद्विह्वलतामुपेतः प्रमत्तः। प्रमादिकर्तृकः, प्रमत्तव्यापारजन्यः। प्राणाः पञ्चेन्द्रियाणि आयुःकायवाङ्मनःप्राणापानाश्चेति द्रव्यपरिणामरूपा दशविधा यथासंभवं जीवेष्ववस्थिताः, तेषां वियोग आत्मनः पृथक्करणं, तजन्याश्रव इति भावः । 10 प्राणिनः स्वतो निरवयवत्वेन पृथक्करणासम्भवात् प्राणवियोग इत्युक्तम् , तथा च प्राणवियो- गपूर्वकः प्राणिवियोग इति वात्पर्यम् । न च प्राणानामात्मनोऽन्यत्वेन तद्वियोगे नात्मनः किञ्चिद्भवतीत्यधर्माभाव इति वाच्यम् , जीवस्य तत्सम्बन्धिनः प्राणवियोगे दुःखोत्पाददर्श- नात्। शरीरिणोऽन्यत्वेऽपि पुत्रकलनादिवियोगे सन्तापदर्शनात् । बन्धापेक्षया कथञ्चिच्छरी- रशरीरिणोऽनन्यत्वाश्च । केवलं प्राणवियोगमात्रस्य हिंसात्वाभावात्प्रमादिपुरुषकर्तृत्युक्तम् । 15 तथा च प्रमत्त एव हिंसको नाप्रमच इति प्रतिपादितम् । प्रमत्तो ह्याप्तागमनिरपेक्षो दूरो- सारितपारमर्षसूत्रोद्देशः स्वच्छन्दप्रभावितकायादिवृत्तिरज्ञानबहुल: प्राणिप्राणापहारमवश्य- न्तया करोति । तत्र सोऽयं प्राणवियोगो हिंसापरनामा द्रव्यभावभेदेन द्विविधः, अत्र चतु- भेदाः, कदाचिट्ठन्यतः प्राणातिपातो न भावतः, कदाचिद्भावतो न द्रव्यतः, कदाचिद्रव्यतो भावतश्च । कदाचिञ्च न द्रव्यतो न वा भावत इति । यो हि ज्ञानी श्राद्धः स्वीकृवजीवस्व- 20 तत्त्व कर्मक्षपणार्थ प्रवृत्तचरणसम्पत् काचिद्धर्मक्रियामधितिष्ठन् प्रवचनमातृभिरनुगृहीतः पादन्यासमार्गावलोकितपिपीलिकादिसत्त्वः समुरिक्षप्तं चरणमक्षेप्तुमसमर्थः कदाचित् पिपी- लिकादेरुपरि पादं न्यस्यति, उत्क्रान्तप्राणश्च प्राणी भवति तदास्यात्यन्तशुद्धाशयस्य दयाद- सावधानविमलचेतसः द्रव्यप्राणव्यपरोपणमात्रान्नास्ति हिंसकत्वम् । द्वितीये व्याधस्य प्रम- चस्याकृष्टधनुषो लक्ष्यमृगमुद्दिश्य विसर्जितशिलीमुखस्य कदाचिच्छरपातस्थानादपसुते सारने 25 चेतसोऽशुद्धत्वाद् द्रव्यतोऽविनष्टेष्वपि प्राणिषु व्याधस्य हिंसारूपेण परिणतत्वाद्भवत्येव भावतो हिंसा | तृतीये तत्रैव मृगो यदा म्रियते तदा द्रव्यभावाभ्यां हिंसकत्वम् । चतुर्थे तु शैले- शीकरणवर्तिनस्सिद्धाश्च, तेषां योगाभावेन द्रव्यमावहिंसाऽसंभवादतो द्वितीये तृतीय एवं कल्पे हिंसकत्वं न प्रथमचतुर्थयोरिति विक् ।। - . ६.

स्तयांश्रवः] न्यायप्रकाशसमलते असत्यावं लक्षयति- . अयथावद्वस्तुप्रवृत्तिजन्याश्रवोऽसत्याश्रवः ।। अयथावदिति । अयथावद्वस्तुप्रवृत्तिर्नाम-ये पदार्था यथार्था न भवन्ति तेषु यथार्थ- तया वाकायमनसा प्रवर्तनम् , तजन्य आस्रव इत्यर्थः । अत्र प्रवृत्तिग्रहणेन कायजन्यानां पाणिनेत्रौष्टपादाद्यवयवक्रियाणां अलीकानां परवचनोपयुक्तानां, वाग्जन्यानां असद्वचनानां, 5 मनोजन्यानामसद्विचाराणाञ्च सट्नाहः । ज्ञानग्रहणेन वचनग्रहणेन वाऽन्यतमस्य सङ्ग्रहः स्यान तु सर्वेषाम् । नास्त्यत्मा, नास्ति परलोकः, इत्यादिवचनानि, श्यामाकतन्दुलप्रमा- णोऽङ्गुष्ठपर्वमात्रप्रमाणो वा आदित्यवर्णो निष्कियो वाऽयमात्मेत्याठिवचनानि, अश्वं यो गां ब्रवीति गामश्वमेतादृशान्यपि वचनानि, हिंसापारुष्यागन्तुदवासि च शास्त्रगर्हितत्वेनायथा- वस्तुविषयकाण्येवेति न क्वाप्यव्याप्तिरप्रशस्तार्थत्वादिति ।। 10 स्वेयाश्रवं निरूपयति- स्वाम्यवितीर्णपदार्थस्वायत्तीकरणजन्याश्रवः स्तेयाश्रवः । स्वामीति । स्वामिनाऽवितीर्णानां पदार्थानां यत्स्वायत्तीकरणं तजन्याश्व इत्यर्थः । स्वामिपदं जीवतीर्थकरगुरूणामुपलक्षकं, तेन स्वामिनाऽन्चस्य तृणादेः, जीवेनादत्तस्य वा पुष्पफलादेस्तीर्थकरप्रतिपिद्धस्याधाकर्मिकाहारादेः, गुरुमिरननुज्ञातमोज्यादीनामपि सङ्ग्रहः । 15 न चाष्टविधं कान्येनादत्तं ग्रहीतुः स्तेयत्वं स्यादिति वाच्यम् , दानादानप्रवृत्तिनिवृत्तियोग्य- वस्तुष्वेव तदुपपत्त्या कर्मण्यसम्मवात् । अन्यथा स्वाम्यवितीर्णेनिपदस्य वैयापतेः, कर्मणः सूक्ष्मत्वेन करादिना ग्रहणविसर्जनासम्भवाच । न च कथं तर्हि शुभाशुभकर्मणामादानं सद्ग- च्छत इति वाच्यम्, शरीराहारशब्दादिविषयेषु रागद्वेपादिपरिणामेन कर्मबन्धस्यैवाऽऽदान- रूपत्वात् । न च नित्यकर्मबन्धप्रसङ्ग इति वाच्यम् , गुत्यादिभिस्संवरणात् । स्वामिनेति पदेन 20 केनाप्यपरिगृहीतस्य ग्रहणं स्तेयमिति व्युतस्तं, अपरिगृहीतस्य शाषणानुनातस्य पदार्थस्य ग्रहणे शासने स्तेयत्वानुक्ते, ननु शावस्य परत्वाभावात् परप्रदत्तानेपणीयादेहणे कथं स्तेयत्वमिति चेन्मैवम् , शावं हि ज्ञानमात्मपरिणामविशेषः, परिणामपरिणामिनोरभेदेन च शास्त्रस्यापि परत्वं निष्प्रत्यूहमेव ।। - १. भादानं हि ग्राह्यधार्यद्रव्यविषयत्वाइम्यैकदेशविपर्य, नतु निसिलद्रव्यविषयं, ग्रहणधारणयोग्यच बादरपुलस्कन्धन द्रव्यं शरीराणि च साक्षात्, तद्द्वारा च जीवा नतु धर्मादयोऽविषयपुरला वा इति भाव.।।

तत्वन्यायविभाकरे [ बाटकिरणे अनहानवमाह- . सति वेदोदये औदारिकवैक्रियशरीरसंयोगादिजन्याश्रवोब्रह्माश्रवः ॥ सति वेदोदय इति । वेदोदये सवि औदारिकवैक्रियशरीरसंयोगादिजन्यत्वे सवि आनवत्वं लक्षणम् । आदिना पारस्परिकेक्षणवचनचिन्तनानां ग्रहणम् । वेदमोहोदयविरहि- 5 तेनानुष्ठितवन्दनादिकालीनशरीरसंयोगस्यानवनिमित्तत्वाभावसूचनाय वेदोदये सतीति । देव- मैथुनाश्रवसंग्रहाय वैक्रियेति । मानुषाद्यब्रह्मसंग्रहायौदारिकेति । मैथुनस्य सीपुंयोग एव प्रचुरप्रयोगात् कर्मप्रयुक्तपुरुषद्वयादिविलक्षणसंयोगजन्यावेऽव्याप्तिस्स्यादिति मैथुनशब्द विहाय सामान्यतः शरीरसंयोग एवोक्तः । तेन स्त्रीपुंसयोः पुरुषयोः स्त्रियोश्च सयोगस्य विलक्षणस्य लाभः । अत्र वेदोदयवतोऽपि सतोऽन्यथा पुरुषादिसंयोगेऽब्रह्माश्रवप्रसङ्गवार- 10 णाय वेदोदये सतीत्यस्य वेदोदयप्रयुक्तत्वमर्थः, अन्धयश्चास्य संयोगे, उक्तसंयोगस्य वेदो- दयप्रयुक्तत्वाभावान दोषः । न चैकस्य हस्तादिसंघटनादितोऽब्रह्माश्रवो न स्यादिति वा- च्यम् , बीपुंसयो रत्यर्थे संयोगे परस्परकृतस्माभिमानादिवानापि करादिसंघट्टनात् स्पर्शा- भिमानस्य तुल्यत्वात् । यथैकस्यापि पिशाचवशीकृतत्वात्सद्वितीयत्वं तथैकस्यापि वेदमोहो- दयाविष्कृतकामपिशाचवशीकृतत्वात्सद्वितीयत्वसिद्धेश्च ॥ अथ परिप्रहावमाख्याति- द्रव्यादिविषयाभिकाजाजन्याश्रवः परिग्रहाश्रवः । इत्यव्रतपञ्चकाश्रवः ।। द्रव्यादीति | वाह्यानां चेतनाचेतनानां रागादीनामाभ्यन्तराणामुपधीनां च संरक्षणार्जन- संस्कारादिलक्षणव्यापृतिद्रव्यादिविषयामिकाडा लोभपरिणतिरूपा विवेकभ्रंशिका वजन्या- श्रव इत्यर्थः । तत्र बाह्यो विषयो वास्तुक्षेत्रधनधान्यशय्यासनयानकुप्यद्विचतुःपाद्भाण्डादिः, 20 आभ्यन्तरश्च रागद्वेषक्रोधमानमायालोममिध्यादर्शनहास्यरत्यरविभयशोकजुगुप्सावेदास्य- श्वतुर्दशविधः, आदिनोपधीनां ग्रहणम् । न च यथाऽऽध्यात्मिकरागादौ जीवपरिणामस्वरूपे सङ्गः परिग्रह इत्युच्यते तथैव ज्ञानदर्शनचारित्रेष्वपि सङ्गः परिग्रहः स्यादिति वाच्यम् ज्ञानदर्शनचारित्रवतोऽप्रमत्तस्य मोहाभावेन परिग्रहासम्भवात् , जानादीनामहेयत्वेनात्मस्वभा- वानतिवृत्त्याऽपरिग्रहत्वाच्च । कर्मोदयतन्त्रत्वेन रागादीनामनात्मस्वभावत्वात् । शास्त्रसम्मतेषु 25 चारित्रोपयोग्युपधिशय्याहारादिषु काड्ढाया आश्रवाहेतुत्वेन रागद्वेषमोहाभिप्रायकमभीतिपदम्। द्रव्यपदं द्रव्यक्षेत्रकालभावात्मकचतुर्विधपरिमहसूचकम् । इमे हिंसाद्यानवा विभागवाक्येऽ प्रतपश्चकपदबोध्या इत्याहेतीति ॥ 15 मनमाश्रयः ] न्यायप्रकाशसमलते अधुना कायाभवमाह- - शरीरचेष्टाजन्याश्रवः कायाश्रवः ॥ शरीरेति । शरीरपदमौदारिकादिकायसप्तकान्यतमपरं यथौदारिककाययोग औदारि- कमिश्रकाययोगो वैक्रियकाययोगो वैक्रियमिश्रकाययोग आहारककाययोग आहारकमिश्रका- ययोगः कार्मणकाययोगः, तत्र प्रथमद्वितीयौ तिर्यमनुष्याणामेव, केवलिसमुद्घातकाले । चायः प्रथमाष्टमसमययोरिष्टः, द्वितीयः केवलिसमुद्धाते द्वितीयपष्ठसप्तमसमयेषु, तृतीयो नारकदेवानां तिर्यक्मनुष्याणाञ्च विभूतिप्राप्तानाम् , चतुर्थ औदारिकेण सह ग्रहणकाले, देवनारकयोस्त्वपर्याप्तावस्थायाम् कार्मणेन सह, पञ्चम ऋद्धिप्राप्तस्य साधोरेव, पष्ठ औदारि- केण सह ग्रहणकाले, सप्तमः पुनर्विग्रहसमापत्तौ केवलिसमुद्भाते वा त्रिचतुर्थपञ्चमसमयेषु भवति । तत्र यथासम्भवमेभिर्जन्यानवः कायाश्रय इति भावः ।। 10 अथ वागावं प्रतिपादयति- बाक्रियाजनिताश्रवो वागाश्रयः ।। चागिति । शरीरनामकर्मोदयावीर्यान्तरायक्षयोपशमादिनिमित्तकाभ्यन्तरवाग्लब्धिसा- निध्ये सति वाक्परिणामाभिमुखस्यात्मनो वाग्वर्गणालम्बनापेक्षप्रदेशपरिस्पन्दप्रभवाश्रव इत्यर्थः । तत्र वाग्योगश्चतुर्धा सत्यो यथा पापाद्विरमणीयमिति, असत्यो यथा पापं नाम 15 नास्ति किचिदिति, सत्यानृतो यथा इमा गावश्चरन्तीति, अत्र पुंसामपि सम्भवात्, अस- त्यामुषा यथा हे देवदत्त प्रामं गच्छेत्यादि । सम्प्रति मनावं प्ररूपयति- - मनश्चेष्टाजन्याश्रयो मनआश्रयः । इति योगत्रिकाश्रवः ।। 'मनश्चेष्टेति । वीर्यान्तरायानिन्द्रियावरणक्षयोपशमादिमनोलब्धिसन्निधाने मनोवर्गणा- 20 लम्बनापेक्षपरिणामोन्मुखात्मप्रदेशपरिस्पन्दप्रसूताश्रव इत्यर्थः । तत्रैकेन्द्रियाणां काययोगो वाड्मनोव्यापाराभावात् , द्वित्रिचतुरिन्द्रियासज्ञिपञ्चेन्द्रियाणां काववाम्योगी, सन्निपञ्चेन्द्रि- १. वैक्रियमिदं बौदारिकेण कार्मणेन वा सह भवति, तत्र कार्मणेन मिथं देवनारकाणामपर्याप्तावस्थाया प्रथमसमयादनन्तरं, पञ्चेन्द्रियतिर्यड्मनुष्याणाश्च वैक्रियलब्धिमता वैक्रियारम्भकाले बैंक्रियपरित्यागकाले वा औदारिकेण मिश्रमिति भावः ॥ २. मिद्धप्रयोजनस्य चतुर्दापूर्वविद. आहारकं परित्यज्य औदारिकमुपाददान- स्याऽऽहारकं प्रारममाणस्य वा भवतीति भाव ॥

तस्वन्यायविभाकरे याणां मनोवाकाययोगाः, उपशान्तकषायक्षीणमोहयोश्च मनोवाकाययोगाः प्रश्नमन्तरेण केव- लिनो वाकाययोगी इत्येवं यथासम्भवं समुदिताः कायादयः कचित् क्रियाहेतवः कचिबैकैका अपीति बोध्यम् । एत एव विभागवाक्ये योगत्रिकपदवाच्या इत्यभिप्रायेणाह इतीति ॥ अथेन्द्रियकषायावतैः संकीर्णाशुद्धा वा क्रिया एकास्रवत्वं प्रतिपद्यन्ते ताश्चात्मनः 5 समिथ्यात्वकषायकर्मणः क्रियारूपाः परिणामाः पञ्चविंशतिरेवेति ताः क्रमेण व्याचिस्या- सुराद्यां कायिकीनामक्रियामाह- अनुपरतानुपयुक्तभेदभिन्ना कायजन्यचेष्टा कायिकी । अनुपरतेति । कायेन निर्वृत्ता क्रिया कोयिकी, साऽनुपरतानुपयुक्तभेदतो द्विधा, अनु- परतकायिकी नाम प्रदुष्टमिथ्यादृष्ट्यादेः वाड्मनोनिरपेक्षा पराभिभवाद्यात्मककायोधमक्रिया, 10 स्वामी त्वविरतमिथ्यादृष्ट्यादिः, अनुपयुक्तकायिकी नाम प्रमत्तसंयतस्य सुबहुप्रकाराऽनेक- कर्तव्यतारूपा दुष्प्रयोगकायक्रिया, अस्या अधिकार्यनुपयुक्तसंयत इति भावः ॥ आधिकरणिकीमाह- संयोजननिर्वर्तनभेदभिन्ना नरकादिप्राप्तिहेतुर्विषशस्त्रादिद्रव्यजनिता चेष्टा आधिकरणिकी ॥ संयोजनेति । अधिक्रियते येनाऽऽत्मा दुर्गतिप्रस्थानं प्रति तदधिकरणं परोपघातिकूट- गलपाशादिद्रव्यजातं, तेन निर्वृत्ताऽऽधिकरणिकी, द्विविधा सा संयोजननिर्वर्तनभेदात् । संयोजनं विषगरलहलकूटधनुर्यत्रासिमुष्ट्यादीनां सम्बन्धनम् । निर्वनं मूलोचरगुणभेदात् द्विधा । तत्र मूलगुणनिर्वर्तन, पञ्चानामौदारिकादिशरीराणां मूलतो निष्पादन, उत्तरगुण- निर्वर्तनन्तु पाणिपादाद्यवयवकरणम् । अथवाऽसिशक्तितोमरादीनामादित एव करणं मूल- 20 गुणनिर्वचनम् । तेषामेव पानोज्ज्वलीकरणपरिवारादिसंपादनमुत्तरगुणनिवर्तनम् । विषश- खादिव्यजनितेति पदं द्रव्याद्रव्येषु वा जनितेति विप्रहभेदेन संयोजननिर्व-नार्थवर्णनपर- मेवेति बोध्यम् । नवमगुणस्थानं-यावद्भवत्येषा क्रिया ।। 15 . प्रादोषिकी क्रियामाह- १. कायिक्या सत्यामवश्यमाधिकरणिकी, कायस्याप्यधिकरणत्वात् , तस्या अपि कायिक्या प्रद्वेषमन्त- रेणासंभवेन प्रादेषिक्याऽपि सह परस्परमविनामाव', पारितापनिक्यास्सत्त्वे तिसृणामाशानामवश्यमाष, एवं प्राणातिपातिक्यास्सत्त्वे चतसृणामवश्यभावो विज्ञेय. । तत्र कस्यापि जीवस्याचत्रिक्रियत्वं कस्याप्यायचतु क्रिय- स्वं कस्यापि च पश्चकियत्वं भाव्यम् ॥

5 प्रारम्भिकीनिया न्यायमीशसमाते जीवाजीवविषयकद्वैषजनकक्रिया प्रादोषिकी ।। जीवानीवेति । प्रकृष्टो दोषः प्रदोपः क्रोधादिस्तत्र भवा, सा द्विविधा जीवादोषिकी, अजीवादोषिकी चेति, आद्या पुत्रकलत्रादिस्वपरजनविषया, द्वितीया क्रोधोत्पत्तिनिमित्त- मूतस्थाणुकण्टकट्टपच्छकलशर्करादिगोचरेति भावः, आनवमगुणस्थानमेषा । अस्या एवं प्राद्वेषिकीत्यपि नामान्तरमेतत्सूचनायैव मूले क्रोधेत्यनुक्त्वा द्वेपपदोपादानम् ।। पारितापनिकी वक्ति- स्वपरसन्तापहेतुः क्रिया पारितापनिकी ॥ स्वपरेति । इयमपि स्वपरपरिवापहेतुकत्वेन द्विविधा । तत्र स्वहस्तेन परहस्तेन वा पुत्रकलबादिवियोगदुःखभारातिपीडितस्यात्मनस्ताडनशिरस्फोटनादिना स्वपारितापनिकी । पुत्रशिष्यादिवाडनादिना तु परपारितापनिकी, एषा चानिवृत्तिबादरगुणस्थानं यावत् ॥ प्राणातिपातिकी निरूपयति- स्वपरमाणवियोगप्रयोजिका क्रिया प्राणातिपातिकी । स्वपरेति । प्राणातिपात: प्राणिविनाशनं वत्प्रधाना क्रिया प्राणातिपातिकी । सा द्विविधा स्वहस्तेन परहस्तेन च, गिरिशिखरपातजलवलनप्रवेशशत्रपाटनप्रभृतेः स्वपरहस्ताभ्या- मात्मविषयकरणकारणे । मोहलोमक्रोधाविष्टैः परस्य स्वपरहस्तपाणच्यावनमिति | आपञ्चम- 15 गुणस्थानं यावदियम् ॥ आरम्भिकीमाषष्टे- 10 - जीवाजीवभेदभिन्ना जीवाजीवधातात्मिका चेष्टाजम्भिकी ।। जीवाजीवेति । आरम्भः पृथिव्यादिकायोपघातलक्षणः शुष्कतृणादिच्छेदलेखनादिर्वा तत्र भवा क्रियाऽऽरम्भिकी । जीवेतरविषयेयम् । जीवमात्रस्य जीवन स्वपरहस्तादिना अजी- 20 वेन दण्डादिना योऽयं घावः प्राणवियोगरूपः, तथाऽजीवस्यालेण्यादौ स्थापनाद्यात्मकचेतना- वियुतस्य जीवेन स्वपररूपेणानीवेन दण्डशखादिरूपेण योऽयं पात:-विनाशस्तदात्मिका क्रियेत्ययः । आषष्टगुणस्थानमेषा | १. आरम्मिकीसत्त्वे पारिप्रहिक्यास्सत्त्वमसत्त्वं था, अस्पास्सऽवारम्भिको स्यादेव, आरंभिकोसत्त्वे नियमेन मायाप्रत्ययिको स्यात्, वैपरीत्येन तु न नियमः । भारम्भिकोसत्त्वे मिथ्यादर्शनप्रत्यायक्य प्रत्याक्ष्यानिक्योन नियमः, वैपरीत्येन तु नियमः ।

तंत्वन्यायविमाकरे [ पकिरणें भ्रांत्रशिष्यादौ, अजीचे स्वप्रतिमादौ समन्ततः सर्वदिग्भ्य आगत्यं स्तुतिकारकलोक तूर्यमाने या तुष्टिः प्रमोदः सा पुनः सामन्तोपनिपातिकीत्यर्थः । समन्तात्सर्वत उपनिपत- नमुपनिपात आगमनं क्यादीनां संपात्यसत्त्वानां वा यत्र देशे भोजनादौ वा से संमन्तोप- निपातस्तत्र भवा-क्रिया सामन्तोपनिपातिकी । आपञ्चममेषा । . नैशत्रिकी लक्षयति- - । - यन्त्रादिकरणकजलनिस्सारणधनुरादिकरणकशरादिमोचनान्यतर- रूपा क्रिया नैशस्त्रिकी॥ यन्त्रादीति । राजाद्यनुज्ञया यन्त्रादिद्वारा कूपादिभ्यो जलादीनां निष्कासन, धनुरादि द्वारा वा शरादीनां मोचनमित्यर्थः । मनुष्यादीनामिष्टकाशकलादीनाश्च यन्त्रादिभिः कोटा- id दिरक्षार्थादिविधीयमानतथाविधदावादिनिष्पादिवर्गोफणादिमिश्च निसर्जनं मोचनं नैःशंत्रिकी नैसृष्टिकीत्यपरनाम्नी क्रियेत्यर्थः । आपञ्चमं भवत्येषा । स्वाहस्तिकीमाह- सेवकयोंग्यकर्मणां क्रोधादिना स्वेनैव करणं स्वाहस्तिकी ॥ सेवकयोग्येति । क्रोधादिना गाढाभिमानादिनाऽन्यपुरुषप्रयत्ननिर्वयक्रियायाः स्वेनैव 15 करणम् , जीवाजीवाभ्यां जीवस्य मारणं, स्वहस्तेन जीवाजीक्योस्ताडनं वा, स्वास्तिकी- त्यर्थः । आपन्नममेषा ॥ आज्ञापनिकीमाचष्टे- अहंद्वाज्ञोल्लङ्घनेन जीवादिपदार्थनिरूपणजीवाजीवान्यतरविषयक- सविद्याज्ञापयोजकक्रियान्यतररूपाऽऽज्ञापनिकी ।। 200 अर्हदिति । भगवदहत्प्रणीताज्ञोलबनेन स्वमनीषया जीवादिपदार्थानां निरूपणम्, जीवस्य वाऽजीवस्य वा सापद्येष्वाज्ञापनम् । अईप्रणीताज्ञानिरपेक्षस्वातंत्र्यप्रयुक्तपदार्थनिरूपणजीवा- जीवान्यतरविषयकसावद्यानापनान्यतरत्वे सति क्रियात्वं लक्षणम् । अस्या एव च नयन- क्रिया आनयनिकीति च नामान्तरम् | पञ्चमगुणस्थानं यावदेषा । आद्यपक्षे तु प्रथममेव ।। विदारणिकीमाह-- पराऽचरिताप्रकाशनीयसावधप्रकाशकरणं विदारणिकी ।।.. 25 .

- 10 सामुदायिकी ] न्यायप्रकाशसमलट्टते पराऽऽचरितेति । परैराचरितानामप्रकाशनीयानां सावद्यानां प्रकाशकरणमित्यर्थः। जीवा- नामसद्भिर्गुणैरीदृशस्त्वं तादृशस्त्वमित्येवं वर्णनं, अजीवानां वेदशमेतदिति प्रतारणबुद्धपा भणनमित्यपि विदारणिकी। पष्ठगुणस्थानं यावदसौ।। अनाभोगप्रत्ययिकी निरूपयति- अनवेक्षितासंमार्जितप्रदेशे शरीरोपकरणनिक्षेपोऽनाभोगप्रत्ययिकी । । अनवेक्षितेति । अनवलोकिते रजोहरणेनाप्रमार्जिते देशे शरीराणां गमनागमनोहर- नादिभिरुपकरणानामुपध्यादीनान निक्षेपणं स्थापनमित्यर्थः । आभोग उपयोगस्तद्विपरी- चोऽनाभोगस्तेनोपलक्षिता क्रियाऽप्यनाभोगा न विद्यते वाऽऽभोगो यस्यां सा अनाभोगा क्रिया, आद्वादशममौ ॥ अनवकारात्ययिकीमाह- जिनोदितकर्त्तव्यविधिषु प्रमादादनादरकरणमनवकाङ्क्षप्रत्ययिकी ॥ जिनोदितेति । अवकाहा स्वपरयोरपेक्षणं सा न भवतीत्यनवकाडा सा प्रत्ययः कारणं यस्यास्साऽनवकाशप्रत्यया भवानवकादप्रत्ययिकी, जिनोतकर्तव्येषु विधिषु प्रमादादिहपर- लोकापेक्षयाऽनादरकरणमित्यर्थः । प्रमादप्रयुक्तजिनविहितकर्तव्यविधिविपयकानादरक्रियात्वं लक्षणार्थः । इहलोके परलोके च यानि विरुद्धानि तानि यो भजते तस्यापीय क्रिया कथि- 16 तेति बोध्यम् । पष्टं यावदियम् ।। प्रायोगिकीमाचष्टे- आर्तरौद्रध्यानानुकूला तीर्थकृद्विगतिभाषणात्मिका प्रमादगमना- त्मिका चक्रिया प्रायोगिकी। आति । प्रयोगस्य-धावनवलगनादिकायव्यापारहिंस्रपरुपानृतभापणादिवाग्व्यापा- 20 राभिद्रोहेाभिमानादिमनोव्यापाररूपस्य करणं प्रायोगिकी । आर्चरौद्रध्यानानुकूलेति मनोव्यापारः, तीर्थकृद्विगर्हितभाषणात्मिकेति वाग्व्यापारः, प्रमादगमनात्मिकेति कायन्या- पारा सूचितः । आपञ्चममियम् ।। सामुदायिकी निरूपयति- इन्द्रियस्य देशोपघातकारिसर्वोपघातकार्यन्यतररूपा क्रिया सामु. 25 दायिकी ।

:११८: तत्वन्यायविभाकरे षष्ठकिरणे - इन्द्रियस्येति । इन्द्रियसम्बन्धिदेशविघातकारिसर्वविघातकारिक्रियात्वं लक्षणम् । अस्याः समादानक्रियेत्यपि नामान्तरम् । यावत्पञ्चमगुणस्थानमेषा ॥ प्रेमप्रत्यायिकी लक्षयति- पररागोदयहेतुः क्रिया प्रेमप्रत्ययिकी । पररागेति। येन वाग्व्यापारेण परस्य रागोदयस्सा क्रियेत्यर्थः, प्रेमोत्पादकवाणीव्यवहारो वा प्रेमप्रत्ययिकी क्रिया । षष्ठगुणस्थानं यावदियम् ॥ 5 " द्वेषप्रत्ययिकीमभिधत्ते- क्रोधमानोदयहेतुः क्रिया द्वेषप्रत्ययिकी । क्रोति । स्वस्य परस्य वा क्रोधमानयोरुत्पादिका क्रियेत्यर्थः । आषष्ठं भवत्येषा ॥ ईर्यापथिकीमाख्याति- अप्रमत्तसंयतस्य वीतरागच्छद्मस्थस्य वा सोपयोगं गमनादिकं कुर्वतो या सूक्ष्मक्रिया सेापथिकी । इति क्रियापञ्चविंशतिः ।। 10 समाप्तमाश्रवतत्त्वम् ॥ - अप्रमत्तसंयतस्येति । ईरणमीर्या गमनं सैव पन्था मार्गों यस्य तदीपिथं, गमनादि- 15 द्वारकं कर्म, तस्य वध्यमानस्य वेद्यमानस्य वा निमित्चभूता या क्रिया सा निमित्तनिमित्ति- नोरभेदोपचारादीपिथिकी क्रिया । सा च केवलयोगप्रत्ययबन्धरूपा। शैलेश्यवस्थाऽवा- ग्वतिकेवलिना छन्मस्थवीतरागाणाश्च भवतीति भावः । इयश्च सयोगिगुणस्थानं यावद्भवति, इमा एव विभागवाक्ये क्रियापञ्चविंशतिपदेनोक्ता इत्याहेतीति । एतासु प्रेमद्वेषप्रत्ययक्रिया- स्थाने सम्यक्त्वमिध्यात्वक्रिये तत्वार्थभाष्यकारेणोके, वयोश्च या शुद्धमिथ्यात्वमोहदलिका- 20 नुमवप्रवृत्तप्रशमादिलिङ्गगम्यजीवादिपदार्थविषयकश्रद्धारूपा, जिनसिद्धगुरूपाध्याययतिजन- योग्यपुष्पधूपप्रदीपचामरातपत्रनमस्कारवस्त्राभरणानपानशम्यादानाद्यनेकवैयावृत्त्यामिव्यङ्गया, शुद्धसम्यक्त्वादिमावसंवर्धनहेतुर्देवादिजन्ममद्वेद्यबन्धकारणं सम्यक्त्वक्रिया। सा च सामा- न्येन सरागजीवस्वामिकत्वादन प्रेमप्रत्ययिकीत्युक्ता | मिथ्यात्वक्रिया तु सम्यक्त्वक्रिया विपरीचाऽभिगृहीतामिनिविष्टादिमिथ्यादृष्टिस्वामिकत्वेनात्र द्वेषप्रत्ययिकीति प्रोक्तति ध्येयम् । 25 सोऽयमानवः सरस्तुल्यस्यात्मनः परिणामविशेषः कर्मोदकप्रवेशे रन्धं तत्र प्राणातिपावादिनि- - 10 संवरनिकपणम् ] म्यायप्रकाशसमलते वृत्त्यादयः सत्यादयोऽपरिग्रहत्वं धर्मध्यानादयश्च शुभा आम्नवाः द्विचत्वारिंशद्विधस्य पुण्यस्य, वनत्यनीकाश्चाशुभाभवा यशीतिविषस्य पापस्य भवन्ति । क्रियानिरूपणं निगमयतीतीति ॥ आस्रवतत्त्वं समासतो निरूपितमित्याशयेनाह समाप्तमिति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर- चरणनलिनविन्यस्तभक्तिमरेण तत्पट्टधरेण विजयलन्धिसूरिणा विनिर्मितस्य 5 तत्त्वन्यायविमाकरस्य स्वोपक्षायां न्यायप्रकाशव्याख्यायामानवनिरूपणो- नाम षष्ठ. किरणस्समातः ॥ अथ सप्तमः किरणः। इत्थं संक्षेपतो वाचत्वारिंशद्विधानाभवानाख्याय कर्मग्रहणकारणभूताश्रवस्य प्रतिद्वन्द्वि- भूतमपूर्वकर्मप्रवेशनिषेधफळकं संवरं लक्षणप्रकाराभ्यामभिधातुं तलक्षणमाचष्टे- समित्यादिभिः कर्मनिरोधा संवरः॥ समित्यादिमिरिति । समितिर्वक्ष्यमाणस्वरूपा सैवादिर्येषां गुप्तिपरीषहादीनां तैरुपायैः कर्मणामागन्तुकानां यो निरोधो निवारणं स संवर इत्यर्थः । उपात्तकर्मणां प्रध्वंसस्तु तपसा विपाकेन वा भवति | नन्वास्रवनिरोधो हि संवरः, उक्तञ्च 'आस्रवनिरोधः संवर' (९-१) इति, आस्रवाश्चेन्द्रियकषायादिरूपा न कर्मात्मकास्तथा च कथं कर्मनिरोधस्संवर उच्यत इति 15 चेत्सत्यम् , कर्मागमनिमित्त आश्रवे निरुद्धे तत्पूर्वकस्यानेकदुःखवीजजनकस्य कर्मणोऽपि स्थगनात्कारणामावस्य कार्याभावप्रयोजकतया तत्र प्रयोज्योपचारात्तथोक्तरविरोधात् । प्रयोजक- स्यैव वाऽऽअवनिरोधस्यात्र प्रयोज्योपचारतः कर्मनिरोधत्वोक्तः । विनोपचार निरुज्यतेऽनेनेति व्युत्पत्त्या वा कर्मनिरोधपदेनाभवनिरोधस्यैव प्राप्तेः । तथानमिधानन्तु कर्मनिरोधस्या अवनिरोधप्रयुक्तत्वसूचनाय । एवं समित्यादयोऽप्याश्रवनिरोघे हेतुत्वेन संबरशब्दवाच्या 20 भवन्ति । प्रायश्चेष्टारूपत्वात्समितयोऽपि गुप्तिविशेषा एव । चेष्टा हि कायवाश्मनोन्यापार, तत्रेयर्यादाननिक्षेपोत्सर्गाः कायव्यापारे, एषणा मनोव्यापारे वाग्व्यापारे च भाषाऽन्नर्गता भवति । सुखवोधार्थमेव समितेः पृथगुपादानम् । तत्र रागद्वेषपरिणामात्मकातरौद्राध्यव- सायानिवृत्त्यैहिकामुध्मिकविषयेषु निराकृवामिलापस्य पुंसो मनसो गुप्तत्वेन रागादिप्रत्ययं कर्म नास्रोष्यति, अप्रियादिवचनेषु वाग्व्यापारविरतस्य यथा शास्त्रं पाग्व्यवहरतो वाचो 25 गुप्तत्वालाप्रियवचनादिहेतुकं कर्मास्रोष्यति, तथा कायोत्सर्गभाजः परित्यक्तहिंसादिदोष- विषयकक्रियाकलापकस्य समयविहितक्रियानुष्ठायिनः कायस्य गुप्तत्वाद्धावनवल्गनानवलोकि- तभूचंक्रमणादिनिमित्वं न कर्माश्लेक्ष्यतितम् । क्षमामार्दवावशौचर्यतिधर्मः क्रोधमानमायालो- --- तस्वन्यायधिमाकरे सतावते भानां सपरिकराणां निग्रहात्संवरावाप्तिः । सत्यत्यागाकिञ्चन्यब्रह्मचर्याणि चारित्रानुयायीनि। संयमेष्वपि सप्तदशप्रकारेषु केचिद् व्रतान्तःपातिनः केचिश्चोत्तरगुणान्तर्भूताः । तपस्तृतरगु- णान्तःपात्येव । संवृण्वतो हेतुभूता भावना अपि उत्तरगुणानुयायिन्यः । यथास्वमापतिता परीषहा अपि सम्यक्सहनेन संवरहेतवः । हिंसाऽसत्यादीनां तत्संश्लेषविशेषाहितकलुषस्य 5 कर्मास्रवनिमित्तत्वातन्निरोघे सति विरतस्य कर्म न निमित्ततामापतति । आधाकर्मादिपरि- भोगनिमित्तश्च कर्मासवणं हिंसाविपरित्यागे नैव भवतीति समित्यादयस्संवरहेतवः ॥ समित्यादिजन्यकर्मनिरोधस्य संवररूपत्वे किमात्मकोऽयमित्यत्राह- सोऽयमात्मपरिणामो निवृत्तिरूपः॥ सोऽयमिति । समित्यादिजन्यसंवरोऽयमित्यर्थः । कर्मोपादानहेतुभूतपरिणामामावस्य 10 संवररूपत्वेन परिणामनिवृत्यात्मा जीवस्य परिणामविशेषोऽयं संवर इति भावः ॥ अस्यापि द्रव्यभावभेदतो द्वैविध्यमादर्शयति- कर्मपुद्गलादानविच्छेदो द्रव्यसंवरा ॥ कर्मपुद्गलेति । संसारकारणस्य कर्मपुद्गलस्य यदादानं-ग्रहणं तद्विच्छेदे द्रव्यात्मककर्म- । पुदलानां संवरणरूपत्वाव्यसंवर इति भावः॥ भावसंवरपूर्वकत्वादस्य भावसंवरमाह- भवहेतुक्रियात्यागस्तन्निरोधे विशुद्धाध्यवसायो वा भावसंवरः । स पुनर्द्विविधो देशसर्वभेदात् ॥ भवहेविति । भवसंसारः, आत्मनो गत्यन्तरप्राप्तिस्तद्धेतुभूता ये आत्मनः क्रियावि- शेषास्तेषां निवृत्तिः, तन्निवृत्तौ जीवस्य शुद्धशुद्धतरशुद्धतमा अध्यवसायास्तेऽपि परिणाम- निवृत्तिरूपत्वाद्भावसंवरा इति भावः । नतु संवरो निखिलावद्वारनिरोधात्मका, सकला- भवच्छिद्राणाञ्च गोपनेच्छा न सर्वेषां सम्भवति, अखिलपरिसन्दनिराकरणस्याल्पशकि- 15 , 20 १. प्राणातिपातादिभ्य आश्रवद्वारेभ्यो मनोवाशायैर्यावजीवं तदकरणीयत्वादिपरिणाम इति भावः । स्थूलदर्शिनो हि समित्यादिमन्त मुनिमुपलभ्य संवृतोऽयमिति व्यवहरन्ति, तस्मादयं व्यवहारसंवर. । नैश्चयिक संवरनिमित्तत्वोपचारेण संवरतवं व्यपदिश्यते, अत एव समित्यादयोऽपि पञ्चदशद्वादशद्वाविंशतिपश्चभेदा- स्समुचयेन सप्तपञ्चाशद्विधा व्यवहारसंवरा उच्यन्ते । नैश्चयिकसंवरस्तु समुच्छिन्नक्रियध्यानसहकृतस्य भवति तदनन्तरमेव मुक्तिफलसिद्धेरिति ॥

10 गुणस्थानानि ] न्यायप्रकाशसमलवृते । :१९: कानामसंमवात्, योगत्रयस्य परिस्पन्दस्वभावत्वाच, किन्तु वर्पभनारावसंहननभाजां पराक्रमविशिष्टानामेव तत्सामर्थ्यसभवः, तथा च कथं सर्वेषां संवरसम्भव इत्याशायामाह स पुनरिति । नहि यावदाश्रवद्वारनिरोधस्यैव संवररूपत्वं ब्रूमो येनोक्तदोषः स्यादपि तु यत्किञ्चिदानवद्वारनिरोधोऽपि संवर एष, स एव देशसंवर उच्यते, सकलाभवद्वारनिरोधस्तु सर्वसंवरः, स च पूर्णशक्तिकानामेव भवति, देशसंवरस्तु योगत्रयस्य परिस्पन्दस्वभावत्वेऽपि 5 तत्त्वज्ञानां संसारपारावारपारजिगमिषूणां सामायिकादिचारित्रभाजां सम्भवत्येवेति भावः ॥ वत्र ज्ञानदर्शनचारित्रात्मकात्मगुणानां शुद्धाशुद्धिप्रकर्षाप्रकर्षाभ्यां वैचित्र्यादेशसंवरं गुणप्रकर्षादितारतम्यापेक्षया विभावयति- देशसंवरस्त्रयोदशगुणस्थानं यावद्भवति। सर्वसंवरस्त्वन्तिमगुणस्थान एव, निखिलाश्रवाणां निरुद्धत्वात् । इतरत्र तु न तथा ॥ देशसंवर इति । निखिलानवनिरोधरूपसर्वसपरस्य त्रयोदशगुणस्थानेष्वसम्भवादाह- सर्वसंवरस्त्विति । अन्तिमेति । चतुर्दशेत्यर्थः । हेतुमाह, निखिलेति । प्रथमादिगुणस्थानेषु कुतो नेत्यवाहेतरत्रेति, त्रयोदशसु गुणस्थानेण्वित्यर्थः । तयेति सर्वाश्रवाणां निरोध इत्यर्थः ।। तत्र किमिदं गुणस्थानं, कतिविधश्चेत्यत्र प्रथमं विभागमुक्त्वा ततो गुणस्थानस्वरूपमाह- तत्र मिथ्यात्वसास्वादनमिश्राविरतदेशविरतप्रमत्ताप्रमत्तापूर्वकरणा. 15 निवृत्तिकरणसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहसयोग्ययोगिभेदाचतु- देशविधानि गुणस्थानानि ॥ तत्रेति । मिथ्यात्वं सास्वादन मिश्रमविरत देशविरतं 'प्रमत्तमप्रमत्तमपूर्वकरणमनिट- त्तिकरणं सूक्ष्मसंपरायमुपशान्तमोहं क्षीणमोहं सयोग्ययोगि, चेत्येतेषां द्वन्द्वः ततो मेक्श- ब्देन पष्ठीतत्पुरुषसमासः । मिथ्यादर्शनोदयप्रयुक्तं मिध्यादृष्टिगुणस्थानम् । मिध्यादर्शनो- 30 दयाभावकालीनानन्तानुबन्धिकषायोदयप्रयुक्तं सास्वादनगुणस्थानम् । सम्यड्मिथ्यात्वोदय- प्रयुक्त मिश्रगुणस्थानस् । सम्यक्त्वसमानाधिकरणचारित्रमोहोदयप्रयुक्तमविरतसम्यग्दृष्टिगु- णस्थानम् । प्राणीन्द्रियविषयविरत्यविरतिपरिणामो देशविरतगुणस्थानम् । संयतस्य प्रमाद- वशेन किञ्चित्प्रस्खलितचारित्रपरिणामः प्रमत्तसंयतगुणस्थानम् । संयतस्याप्रमादविरहेणावि- चलितसंयमवृत्तिरप्रमत्तसंयतगुणस्थानम् । उपशमकक्षपकोपचारसमानकालीनापूर्वकरणपरि- 25 णामोऽपूर्वकरणगुणस्थानम् । स्थूलभावेनोपशमक्षयसमकालीनानिवृत्तिपरिणामोऽनिवृत्तिकर- १९: तरवायायविमाकर [समकिरणे णगुणस्थानम् ।'सूक्ष्ममावेन कपायोपशमक्षयपरिणामः सूक्ष्मसम्परायगुणस्थानम् । सर्वमो- होपशमप्रयुक्तमुपशान्तमोहगुणस्थानम् । सर्वमोहक्षयप्रयुक्तं क्षीणमोहगुणस्थानम् । योगका- लीनघातिकर्मक्षयोदिवज्ञानाधतिशयस्सयोगिगुणस्थानम् । योगविरहकालीनज्ञानाचतिशयोऽ- योगिगुणस्थानमिति चतुर्दशविध गुणस्थानमिति भावः ।। 5 गुणस्थानस्वरूपमाह- ज्ञानदर्शनचारित्रात्मकानां जीवगुणानां यथायोगं शुद्ध्यशुद्धिप्रकर्षा- प्रकर्षकृतास्वरूपभेदा गुणस्थानानि । ज्ञानदर्शनेति । गुणा ज्ञानदर्शनचारित्ररूपा जीवस्वभावविशेषाः, स्थीयते अस्मिन्निति स्थान ज्ञानादीनामेव शुद्धयशुद्धिप्रकर्षाप्रकर्षकृतः स्वरूपभेदः, गुणानां स्थानं गुणस्थानमिति 10 गुणस्थानशब्दार्थबोधकमिदं मूलमिति बोध्यम् । यत्र यत्रापूर्वगुणाविर्भावस्तत्तद्गुणस्थानमिति भावार्थः । एतानि भव्यजीवानां निःश्रेणिरिव सिद्धिसौधमारुरुक्षुणां गुणाद्गुणान्तरप्राप्तिरूपाणि विश्रामधामानि चतुर्दशसंख्याकानि ॥ अथ प्रथमगुणस्थानं वक्ति- मिथ्यात्वगुणस्थानश्च व्यक्ताव्यक्तभेदेन द्विविधम् । कुदेवकुगुरुकु- 18 धर्मान्यतमस्मिन् देवगुरुधर्मबुद्धिर्व्यक्तमिथ्यात्वम् । इदञ्च संज्ञिपञ्चन्द्रि याणामेव ।। मिथ्यात्वगुणेति । मिथ्यात्वं व्यक्ताव्यक्तभेदमिन्नं विपर्यस्तदृष्टिरूपं, तास्थ्याचव्यप- देश इति न्यायेन तद्योगाजीवोऽपि मिथ्यात्वं, अधिजन्तेन वा मिथ्यात्वा, मिथ्यात्व. वानित्यर्थः । तस्य यो गुणानां ज्ञानादीनां शुद्ध्यशुद्धिप्रकर्षाप्रकर्षकृतः स्वरूपविशेषः 20 तदात्मकं स्थान मिथ्यात्वगुणस्थानमित्यर्थः । अस्य संक्षिपञ्चेन्द्रियतदिनजीवसम्बन्धित्वेन द्वैविध्यमित्याशयेनाह -व्यक्ताव्यक्तभेदेनेति | व्यक्ताव्यक्तहेतुनेत्यर्थः। तथा च व्यक्तमि- ध्यात्ववतोऽव्यक्तमिथ्यात्ववतश्चेति तद्विविधमिति भावः । तत्र किं व्यक्तमिथ्यात्वं तदाह- कुदेवेति । देवगुरुधर्माभासरूपेषु देवगुरुधर्मबुद्धिरित्यर्थः, तेन यद्येषां कुत्सितत्वं वर्हि, कथं देवगुरुधर्मशब्दप्रयोग इति शङ्का परास्ता । उपलक्षणमेतत् तेन जिनोपदिष्टजीवादिपदार्थेषु 25 अश्रद्धा . मिथ्याश्रद्धा विपरीतप्ररूपणा संशयकरणमनादरश्च गृह्यन्ते । तथाऽधर्मधर्मोन्मा- गेमार्गाजीवजीवासाधुसाध्वमूत्रमूर्तेषु दशसु धर्माधर्ममार्गोन्मार्गजीवाजीवसाध्वसाधुमूर्तीमू- संज्ञानां, आमिग्रहिकानामिप्रहिकामिनिवेशिकसांशयिकानाञ्च मिथ्यात्वानां प्रणम् । .

मिथ्याष्टिगु.] न्यायप्रकाशसमलट्टते :१२३: अनामोगिक व मिथ्यात्वमव्यक्तमिथ्यात्ववत एवेति ध्येयम् । केषां व्यक्तमिथ्यात्वमित्य- बाह-इदब्वेति । एवपदेनैकद्वित्रिचतुरसंज्ञिपञ्चेन्द्रियाणां व्यवच्छेदः, तत्र व्यक्तमिथ्यात्व- क्रियाया अभावात् । ननु ज्ञानदर्शनचारित्रात्मका हि गुणाः, ज्ञानादीनां विपर्यासेन मिथ्यादृष्टौ कथं गुणस्थानसम्भव इति चेदुच्यते, तत्त्वेष्वास्थारूपजीवगुणस्य सर्वतो भावेन घातिनो मिथ्यात्वमोहनीयस्य विपाकोदयतो वस्तुप्रतिपत्तिरूपा दृष्टिर्यद्यपि विप- 5 यस्वा तथापि काचिन्मनुष्यपश्वादिप्रतिपत्तिरन्तवो निगोदावस्थायामपि तथाभूतान्यक्त. स्पर्शमात्रप्रतिपचिरविपर्यस्खा भवति चन्द्रप्रभाकरप्रभायां सघनधनपटलसमाच्छादिवायामपि काचित्यमेव । नहि तयोः प्रभा नूतनजलघरधनपटलेनैकान्तेन तिरस्कृता विनश्यति, दिनरजनिविभागाभावप्रसङ्गात् । तथा प्रबलमिच्यादर्शनकर्मोदयेऽपि काचिदविपर्यस्ता दृष्टि- भवतीत्येतदपेक्षया मिथ्यादृष्टेरपि गुणस्थानसम्भव उक्तः । न च कथमसौ मिथ्यादृष्टिरेव, 10 कथंचिदविपर्यस्तप्रतिपत्त्यपेक्षया सम्यग्दृष्टित्वादिति वाच्यम्, जिनोदितकाक्षरेऽप्यनादरे मिथ्याष्टित्वेनाप्रतिपन्नतत्त्वानामेषां सुतरां मिथ्यादृष्टित्वात् । न च जिनोदितसकलपदार्था- भिरोचनात्कतिपयपदार्थानामरोचनाञ्च सम्यड्मिध्यादृष्टिरेवायमिति वाच्यम् । एकस्मिन्नपि वस्तुनि पर्याये वा एकान्तेन विप्रतिपत्ति प्रतिपन्नसास्य मिथ्याष्टित्वात् । मतिदौर्बल्यादिना तत्रैकान्तेन सम्यक्परिज्ञानमिथ्यापरिज्ञानामावत एकान्तेन भद्धानविप्रतिपत्त्यमाववत एव 16 सम्यङिमध्यादृष्टित्वादिति धिमावनीयम् ॥ अव्यकमिथ्यात्वमाचष्टे- अव्यक्तो मोहोऽव्यक्तमिथ्यात्वम् । इदमनादि । व्यक्तमिथ्यात्व. प्राप्तुरेव मिथ्यात्वगुणस्थानं भवेदिति केचित् । अस्य स्थितिमव्यजीव- माश्रित्यानादिसान्ता | सादिसान्ता च पतितभव्यस्य । अभव्यमाश्रि-20 त्यानाद्यनन्ता॥ अव्यक्त इति । अत्र मिध्यात्वं न विपर्यस्तबुद्धिरूपम् अव्यवहारराशिवृत्तित्वात् । किन्तु दर्शनप्रतिबन्धकमोहनीयप्रकृतिरूपमित्याशयेनोक्तमव्यक्को मोह इति । इदचाव्यक्तमि- ध्यात्वं जीवेन सहानादिकालीनमित्याह-इदमिति । ननु मिध्यादृष्टयस्सर्वोण्यपि जीवस्था- नानि यद्यपि लभन्ते तथापि प्राप्तव्यक्तमिथ्यात्वबुद्धय एव व्यवहारराशिवर्तिनो जीवाः प्रथम- 26 गुणस्थानं लभन्त इति रत्नशेखरसूरीणामभिप्रायं दर्शयति व्यक्तमिथ्यात्वेति । एव शब्देना- व्यवहारराशिवर्तिनामन्येषाञ्चाव्यक्तमिथ्यात्वमाजां व्युदासः । गुणस्थानवहितस्य संसारिणो जीवस्य कस्याप्यमावाव्यक्तमिथ्यात्वभाजोऽपि प्रथमगुणस्थानान्तर्गता एवेति मन्थकृदाशयः।

. : १२: तत्त्वन्यायविभाकरे [सप्तमकिरणे मिथ्यात्वस्य कालचिन्तायामाह-अस्येति । मिथ्यात्वस्येत्यर्थः । चतुर्धा हि तस्य कालवि- भागसम्भवति, अनाद्यनन्तानादिसान्तसाधनन्तसादिसान्तभेदात् । तत्र भव्यजीवमाश्रित्याह- भव्यनीवमाश्रित्येति । जातिमव्येतरभन्यजीवमाश्रित्येत्यर्थः, अनादिसान्तेति । अनादिमिथ्या दृष्टेभव्यजीवस्य सम्यक्त्वावाप्तौ सत्यां मिथ्यात्वस्य सान्तत्वादिति भावः । पतितभव्यस्येति । 5 अनादिमिथ्यादृष्टेस्सम्यक्त्ववतः केनचिदपि कारणेन पुनः पतितस्य यन्मिध्यात्वं तस्य वत्सादित्वात् तत्र च जघन्यतोऽन्तर्मुहूर्त उत्कर्षेणाईदादिप्रचुराशातनापापबहुलतयाऽपार्थ- पुरलपरावर्त याषदुषित्वा पुनरपि सम्यक्त्वलामे सान्तत्वाच । यस्तु पुनरभव्यस्तस्य मिथ्या- त्वमनाधनन्तं, अनादिकालात्तस्मिन् सद्भावात्, आगामिकालेऽपि च तदभावासम्भवादित्याश- येनाह-अभव्यमाश्रित्येति । त्रयाणामेव भङ्गानां कण्ठतः प्रतिपादनात्साधनन्तत्वं तस्य न 10 संभवतीति सूचितम्, प्रतिपतितसम्यग्दृष्टीनां मिथ्यात्वत्यैव सादित्वेन तेषामवश्यं पुनस्स- म्यक्त्वलाभेन मिथ्यात्वस्यानन्तत्वासम्भवादिति भावः । एतादृशस्वामिकत्वेन प्रथमगुणस्था- नकमपि तावत्कालप्रमाणमवसेयम् । अत्रस्थो जीवो बन्धयोग्यकर्मप्रकृतिषु विशत्युत्तरशत- संख्याकासु तीर्थककर्माहारकद्वयं च विहायान्यासां बन्धकः । उदयप्रायोग्यकर्मप्रकृतीनां द्वाविंशत्युत्तरशतसंख्याकानां मध्यान्मिनसम्यक्त्वाऽऽहारकद्विकतीर्थकत्कर्मेति पञ्चप्रकृतीना- 1। मनुदयेन शेषाणां वेदयिता, अष्टचत्वारिंशदधिकशतसत्ताकश्च भवति ॥ अथ द्वितीयगुणस्थानस्वरूपं निरूपयति- उपशमसम्यक्त्वपतितस्यानवाप्तमिथ्यात्वस्य सर्वथा यदपरित्यक्त- सम्यक्त्वतयाऽवस्थानं तत्सास्वादनगुणस्थानम् । समयादिषडावलिका- कालपर्यन्तमिदम् ॥ उपशमेति । उपशमसम्यक्त्ववान् हि जीवो यदा शान्तानामनन्तानुबन्धिनां क्रोधा- दीनामन्यतमे उदीर्णे सत्युपशमसम्यक्त्वात्सतितो भवति परन्तु स यावन्मिथ्यात्वं नोपयाति लावन्मध्ये पायसमुक्तवान्तस्य कञ्चन समयं क्षीरानरसस्वादानुवृत्तिरिव तस्य सम्यक्त्वरसा- नुवृत्तिर्भवति, एवम्भूततया तस्य यदवस्थानं तत्सास्वादनगुणस्थान, सम्यक्त्वरसास्वादेन सह वर्तत इति सास्वादनस्तस्य गुणस्थानमिति व्युत्पत्तेरित्यर्थः । सासादनगुणस्थानं सासातनगुण- 25 स्थानश्चेत्यस्यैव नामान्तरम् । तञ्चेत्थमवसेयम् , संसारमहासागरान्तःपतितो जीवो मिथ्यादर्शन- मोहनीयनिदानानि यावदनन्तपुद्गलपरावर्ताननेकशारीरिकमानसिकदुःखलक्षाण्यनुभूय कथमपि १. सम्यक्त्वगुणनिमित्तकस्वात्तीर्थकरनामवन्धस्याहारकद्वयस्याप्रमत्तयतिसम्बन्धिसंयमनिमित्तकत्वाचेति भावः ॥ - 20 उपशमसम्यक्त्वम् ] न्यायप्रकाशसमलङ्कृते भव्यत्वपरिपाकेनानाभोगनिर्वतितेनाध्यवसायविशेषेण यथाप्रवृत्तिकरणेनाऽऽयुर्वजानि ज्ञाना- वरणीयादिकर्माणि सर्वाण्यपि पल्योपमासंख्येयभागन्यूनैकसागरोपमकोटीकोटिस्थितिकानि करोति, अत्र चान्तरे गुरुतरकठोरतरुप्रन्थिवडुर्भेदः कर्मपरिणामजन्यो जीवस्य घनरागद्वेषपरि- पामरूपोऽऽभिन्नपूर्वो प्रन्धिर्भवति, यथाप्रवृत्तिकरणेन कर्म क्षपयित्वा प्रन्थिमिमं यावदभव्या अप्यनेकशः समागच्छन्ति । ततो प्रन्थिमेदविधानासमर्थाः पुनरपि कर्माण्युत्कृष्टस्थितिकानि । सक्छशवशा वघ्नन्ति । यः पुनर्महात्मा कश्चिदासननिर्वृतिसुखो दुर्धवीर्यवानपूर्वकरण- स्वरूपेण परमविशुद्धिविशेषेण विधाय भेद तद्वन्धेः मिथ्यात्वमोहनीयकर्मस्थितेरन्त- मुहुर्तमुदयक्षणादुपरि गत्वाऽनिवृत्तिकरणसंज्ञितेनान्तर्मुहूर्त्तकालमानं तत्प्रदेशवेद्यदलिका- भावरूपमन्तरकरणं करोति, कृते च तस्मिन् कर्मणस्तस्य स्थितिद्वयं भवति, एकाs- न्तर्मुहूर्तमानाऽन्तरकरणादधस्वनी प्रथमा, तत उपरितनी द्वितीया, तत्र प्रथमस्थितौ 10 मिच्याइष्टिरेव, मिथ्यात्वदलिकवेदनात्, अन्तर्मुहूर्त्तनापगता गतायाञ्च तस्यामन्तरकरणस्याच एवं समये औपशमिकं सम्यक्त्वमवाप्नोति, मिथ्यात्वदलिकवेदनाभावात् । तस्यारोप- शान्ताद्धायामान्तमौर्तिक्या जघन्येन समयशेपायामुत्कर्षेण षडावलिकाशेषायां कस्य- चित्पुंसः केनचिनिमित्तविशेपेणानन्तानुबन्ध्युदयो भवति, तदानीमसौ सास्वादनगुणस्थाने वर्चते, उपशमश्रेणिप्रतिपतितो वा सास्वादनत्वं यातीति कार्मप्रन्थिकमतम् , सिद्धान्तमते तु 15 श्रेण्यास्समाप्तौ प्रतिपततः प्रमत्तगुणस्थानेऽप्रमत्तगुणस्थाने वाऽवतिष्ठते, कालगतस्तु देवे- ध्वविरतो भवतीति । सास्वादनोत्तरकालञ्चाऽवश्य मिथ्यात्योदयादयं मिथ्यावृष्टिर्भवतीति स कियन्तं कालमस्मिन् गुणस्थाने वर्तत इत्यत्राह-समयादीति । जघन्येनैकः समय उत्क- पण पडावलिकाप्रमाण, तत ऊर्च मिथ्यात्वोपगमात्, आवलिका चाऽसंख्यातसमयसमुदा- यरूपेति भावः ॥ 20 तत्र किं वावदुपशमसम्यक्त्वं यस्मात्पतितोऽनवाप्तमिथ्यात्वस्सास्वादनगुणस्थानमाग्भ- वतीत्यत्राह- अनादिकालानुवृत्तमिथ्यात्वप्रथमकषायचतुष्कोपशमनजन्यं सम्य- क्त्वमुपशमसम्यक्त्वम् । तद् द्विविधमन्तरकरणजन्यं स्वश्रेणिजन्यनेति। उपशमसम्यक्त्वं करणत्रयापेक्षम् ॥ अनादिकालेति । अनादिकालानुवृत् यन्मिध्यात्वं यच्च प्रथमकपायचतुष्कमनन्ता- नुवन्धिक्रोधमानमायालोमरूपं तस्योपशमेन जन्यं यत्सम्यक्त्वं तदुपशमसम्यक्त्वमित्यर्थः । एकस्यापि क्रोधादेरुदये प्रतिपातात् । एतस्य सम्यक्त्वस्य द्वैविध्यमाह-अन्तरेति । तत्रापूर्व- 25 :१२६ : तत्त्वन्यायविमाकरे [ सप्तमकिरणे करणेनैव कृतप्रन्थिभेदस्य मिथ्यात्वपुद्गलराशेरकृतमिथ्यात्वमिश्रसम्यक्त्वरूपत्रिपुञ्जस्यानिवृ. त्तिकरणेनोदीर्णे मिथ्यात्वे क्षीणेऽनवाप्तेऽनुदीर्णे चान्तरकरणादन्तर्मुहूर्त्तकालं यावत् सर्वथा मिथ्यात्वावेदकस्यान्तरकरणौपशमिकसम्यक्त्वं भवति । उपशमश्रेणिं प्रपन्नस्य तु मिथ्यात्व- स्यानन्तानुबन्धिनाञ्चोपशमे स्वश्रेणिगतमुपशमसम्यक्त्वं भवतीति बोध्यम् । नन्वन्तरकरण- 5 जन्यमुपशमसम्यक्त्वमुक्तं तत्र किं नामान्तरकरणमिति शङ्कायामुपशमसम्यक्त्वोपयोगि- करणत्रयप्रदर्शनबारेण तदिदर्शयिषुः प्राहोपशमेति ।। तत्र किं नाम करणत्रयमित्यत्राह- 10 15 करणत्रयन्तु यथाप्रवृत्त्यपूर्वानिवृत्तिकरणरूपम् । आयुर्वर्जसप्तकर्मण- रिस्थति पल्योपमासंख्येयभागहीनैककोटीकोटीपरिमाणां विधायाभिन्न- पूर्वघनीभूतरागद्वेषात्मकग्रन्थिसमीपगमनानुकूलाध्यवसायो यथाप्रवृत्ति- करणम्। घनीभूतरागद्वेषग्रन्थिमेदनप्रयोजकापूर्वाध्यवसायोऽपूर्वकरणम्। मिथ्यात्वस्थितेरन्तर्मुहूर्तमुदयक्षणादुपर्यतिक्रम्योपरितनी विष्कम्भयि- त्वान्तर्मुहूर्तपरिमाणं तत्प्रदेशवेद्यदलिकाभावप्रयोजकाध्यवसायोऽनिवृ. त्तिकरणम् । ताशतत्मदेशवेद्यदलिकाभावोऽन्तरकरणम् ।। करणेति । यथाप्रवृत्तिकरणमपूर्वकरणमनिवृत्तिकरणञ्चेत्यर्थः । यथाप्रवृत्तिकरणस्वरूप- माह आयुरिति । आयुष उत्कृष्टस्थितेनयत्रिंशत्सागरोपमरूपत्वात्सागरोपमकोटीकोट्यन्तर्गत- त्वेन तद्भिन्नत्वमुक्तम्, एवञ्च यादृशाध्यवसायविशेषादनाभोगनिर्वतितात् तदिनानि ज्ञानावरणादिकर्माणि निखिलान्यपि पृथक्पृथक्पल्योपमासंख्यातभागहीनैकसागरोपमकोटी- कोटीस्थितिकानि भवन्ति, ततश्च कर्कशकर्मपटलापहस्तितवीर्यविशेषैरसुमद्भिः कर्मपरिणाम- जनितो दुर्भेदोऽभिन्नपूर्वो धनरागद्वेषरूपो प्रन्थिः प्राप्यते तादृशाध्यवसायविशेषो यथाप्रवृत्ति- करणमित्यर्थः । अधिकारी चास्य तथामव्यत्वपरिपाकी किञ्चिन्यूनापार्धपुरलपरावविशेष- संसारशुलपाक्षिकः, कृष्णपाक्षिकोऽभव्यो वा। आयो अन्थिभेदं विषाय सम्यक्त्वं प्राप्नोति। द्वितीयस्त्वकृत्वा तद्भेदं पुनः परावर्त्तते । अस्यैवाथाप्रवृत्तकरणमपूर्वप्रवृत्तकरणमिति च नामान्तरम् । प्रन्थि समतिक्रामतो यत्करणं तदाह-घनीभूतेति । ये समुदश्चितादभ्रदुर्वार- 20 25 १. अनादिकालादारभ्य याबद्रन्थिस्थानं तावत्प्रथमं यथाप्रवृत्तकरणं भवति, कर्मक्षपणनिवन्धनस्याध्यवसाय- मात्रस्य सर्वदेव भावात् , अष्टाना कर्मप्रकृतीनामुदयप्राप्ताना सर्वदैव क्षपणात् । अन्थि समतिकामतोऽपूर्वकरणं, प्राक्तनाद्विशुद्धतराध्यवसायरूपेण तेनैव प्रन्थेमदात् । अमिमुखसम्यक्त्वे जीवेऽनिवृत्तिकरणं भवति तत एवातिशुद्धतमाध्यवसायादनन्तरं सम्यक्त्वलामात् ॥

: १२७ अपामसम्यक्त्वम् ] म्यायप्रकाशसमलते वीर्यप्रसरा उत्कर्षतोऽपार्धपुद्रलपरावर्त्तान्त विसंसारित्वेनासन्ननिर्वृतिसुखा अननुभूतपूर्व तं प्रेन्धि येनाध्यवसायविशेषेण मिन्दन्ति सोऽध्यवसायो जीवस्यापूर्वकरणमुच्यते । अस्य प्रथम. समये विशुद्धिर्जधन्याऽल्पा च, तस्यैवोत्कृष्टानन्तगुणा, द्वितीयसमये जघन्याऽनन्तगुणा इत्येवं क्रमेण यावदन्तर्मुहूर्तपरिसमाप्ति भाव्यम् । अथ तृतीयमनिवृत्तिकरणमभिधत्ते-मिथ्या- वेति | यादृशविशिष्टचरविशुद्धाध्यवसायमारूढो जीवः स्वाद्धायासंख्येयेषु भागेषु गतेषु । एकस्मिश्च संख्येयतमे भागेऽवशिष्टे उदयक्षणादुपरि मिथ्यात्वस्थितेरन्तर्मुहूर्तमतिक्रम्योपरि- तनीञ्च विष्कम्भयित्वाऽन्तर्मुहूर्त्तकालपरिमाणं तत्प्रदेशवेद्यदलिकामावं करोति ‘सोऽव्यव- सायविशेषोऽनिवृत्तिकरणमित्यर्थः । आसन्नसम्यक्त्वे जीवेऽनिवृत्तिकरणं भवति । अनेन च मिथ्यात्वकर्मणः स्थितिद्वयं जायत इति विज्ञेयम् । यत्र प्रविष्टानामखिलानां जीवांना समान- कालीनानामेकाध्यवसायस्थानानिवृत्तिावृत्तिनं भवति तदनिवृत्तिकरणं, अत्र हि प्रथमे 10 समये ये वर्तन्ते वृत्ता वर्तिष्यन्ते च सर्वेषां तेषामेकमेवाध्यवसायस्थानम्, द्वितीये समयेऽपि तथैव, किन्तु प्रथमसमयमाविविशोधिस्थानापेक्षयाऽनन्तगुणमध्यवसायस्थानमेवमेव यावद- निवृत्तिकरणचरमसमयं विभाव्यम् । अनिवृत्तिकरणाद्धायासंख्येयेषु भागेषु गतेषु एकस्मिंश्च संख्येयतमे भागेऽवशेपे मिथ्यात्वस्यान्तरकरणं करोति, अपूर्वकरणेऽनिवृत्तिकरणे च स्थिति- घातरसघातगुणश्रेणिगुणसंक्रमा भवन्ति । करणत्रयञ्च प्रत्येकमन्तर्मुहूत्र्तकालमानम्, करण- 15 त्रयकालोऽप्यन्तर्मुहूर्तप्रमाण एव, अन्तर्मुहूर्तस्यासंख्येयभेदत्वादिति ।। इत्यं संक्षेपेण करणत्रये निरूपिते सुज्ञानमेवान्तरकरणमपीति तत्स्वरूपमाह-तादृशेति । अन्तर्मुहुर्चकालमानेत्यर्थः । तनिष्पादनकालोऽप्यन्तरकरणकाल एव, सोऽप्यन्तर्मुहूर्तपरिमाणः, प्रथमस्थितेः किञ्चिन्यूनोऽमिनवस्थितिवन्धाद्धया तु समानः, तथाहि प्रथमस्थित्यन्तरकरणे द्वे अपि अन्तर्मुहूर्तप्रमाणे युगपदारभते । अन्तरकरणप्रथमसमय एव चान्य स्थितिवन्धं मिथ्या- 20 त्वस्यारभ्य स्थितिबन्धान्तरकरणे युगपदेव परिसमापयति । अन्तरकरणे च क्रियमाणे गुणश्रेणिसम्बन्धिनः संख्येया भागाः प्रथमद्वितीयस्थित्याश्रिवास्तिष्ठन्ति, एकन्तु गुणं- श्रेण्यासंख्येयतम भागमन्तरकरणदलिकेन सहोत्किरति । तदित्थं अन्तरकरणस्थितेमध्या- दलिकं कर्मपरमाण्वात्मकं गृहीत्वाधः प्रथमस्थितौ उपरि द्वितीयस्थितौ च प्रक्षिपति, एवं प्रतिसमयं तावत्प्रक्षिपति यावदन्तरकरणसत्कं सकलमपि तद्दलिकमन्तर्मुहून 25 क्षीयते, अन्तरकरणादधस्तनी स्थितिः प्रथमा स्थितिरुपरितनी स्थिनिर्वितीयेत्युच्यते, तत्र प्रथमस्थिती वर्तमान उदीरणाप्रयोगेण प्रथमस्थितिसकं दलिकं समाकृष्योदयसमये यत्प्रतिक्षिपति सोदीरणा, यत्तु द्वितीयस्थितेः सकाशात् उदीरणाप्रयोगेण समाकृष्योदय- समये प्रक्षिपति साप्युदीरणेव, आगाल इति नामान्तरेण प्रसिद्धा । उदयोदीरणाभ्यां - : १२० । सस्वन्यायविभाकरे.. [ सामकिरणे प्रथमस्थितिमनुमवस्तावद्गच्छति यावदावलिकाद्विकं शेष तिष्ठति, प्रथमस्थितेरावलिकाद्वि- कशेषे त्वागालो व्यवच्छिद्यते केवळमुदीरणैव प्रवर्तते । प्रथमस्थितावावलिकाशेषीभूताया- मुदीरणापि व्यवच्छिद्यते, ततः केवलेनैवोदयेन तामावलिकामनुभवति, तस्यामपि चापगता- यामुदयोऽपि मिथ्यात्वस्य न भवति दलिकाभावात् । तस्मिन्नेव समये उपशान्ताद्धायां । प्रविशति तत्र प्रविष्टस्य प्रथमसमय एव मोक्षवीजभूतमौपशमिकं सम्यक्त्वमवाप्नोतीति तात्पर्याथैः । प्रथमस्थितिचरमसमये द्वितीयस्थितिगतं दलिकमनुभागभेदेन त्रिधा करोति शुद्धमर्घशुद्धमशुद्धञ्चेति । तत्र शुद्धं सम्यक्त्वं देशघाति, देशघातिरसोपेतत्वात् । अर्धशुद्धं मिश्रमोहनीयमशुद्धन्तु मिध्यात्वमेतदुभयं सर्वघाति, सर्वधातिरसोपेतत्वात् ।। अथ श्रेणिगतं सम्यक्त्वमौपशमिकमुच्यते- 10 श्रेणितो मिथ्यात्वमोहनीयानन्तानुबन्धिचतुःकषायाद्युपशमनतः श्रेणिजन्योपशमसम्यक्त्वं भवति ।। श्रेणित इति । यदि 'चतुर्थपञ्चमषष्ठसप्तमान्यतमगुणस्थानेऽनन्तानुबन्धिनो दर्शनमो. हस्य च सर्वोपशमनायामुपशमसम्यक्त्वयुक्त उपशमश्रेणि जीवस्सम्पद्यते तस्य यदौपशमिकं सम्यक्त्वं तच्छेणिजन्योपशमसम्यक्त्वमुच्यत इति भावः ।। ननु द्विविधमुपशमसम्यक्त्वं लभमानाः सर्वे किमारोहका एव स्युरुतास्ति कश्चिद्विशेष इत्याशङ्कायामाह- उभयविधसम्यक्त्वात्पततः सास्वादनगुणस्थानं भवति ।। उभयविधेति । अस्ति विशेषः, कोऽसौ विशेष इत्याह पतत इति । न सर्वे आरोहका एष, किन्तु पतन्तीति भावः। ननु तर्हि किं तेषां गुणस्थानं भवतीत्यत्राह-सास्वादनेति । 30 साखादनमपीति भावः, अत्र तु सास्वादनमुभयविधसम्यक्त्वात्पतत एव भवति नान्येषामिति सूचयितुं तथोक्तिरिति भाव्यम् । उपशमश्रेणितः प्रतिपतन् कश्चिदनन्तानुबन्ध्युये साखा- दनगुणस्थान लभते । गुणस्थानमिदं प्रतिपतत एव भवति न त्वारोहतः, मिथ्यात्वगुणस्थान न्तु प्रतिपततोऽपि, मिश्रादीनि च प्रतिपतत आरोहतश्च । एकादशं दशमादारोहत एव, ततोऽत्रे आरोहणाभावात् ततोऽधःपावनियमात् द्वादशादीनि सर्वाणि आरोहत एव, तेभ्यः प्रतिपाना- 15 । - १ आन्तौहर्तिक्यामुपशमााया जघन्यतस्समयशेषायामुत्कृष्टत' षडावलिकाशेषाया सत्या कस्यधि- न्महाविभीषिकोत्थानकल्पोऽनन्तानुवन्ध्युदयो भवति, तदुदये चासौ ,सास्वादनसम्यग्दृष्टिगुणस्थाने वर्तते । मिथ्यात्वस्याद्याप्यप्राप्तत्वादव्यक्तमुपशमगुणस्य-वेदनादस्य गुणस्थानस्य गुणस्थानत्वमिति भावः-॥

मिश्रण.] न्यायप्रकाशसमलते भावात् । प्रथमादन्यानि गुणस्थानानि भन्यस्यैव । ननु साखादनादितरेपां गुणस्थानानामूर्ध्व- मूलमारोहरूपतया गुणस्थानत्वं युक्तं, मिथ्यात्वस्याप्यव्यक्तमिध्यात्वतो व्यक्तमिथ्यात्व, प्रात्याऽऽरोहणस्वरूपत्वेन वथात्वं सास्वादनस्य सम्यक्त्वात्प्रपातरूपस्य कथं गुणस्थानत्वमिति चेन्न मिध्यात्वगुणस्थानापेक्षयाऽस्याऽऽरोहणरूपत्वात् अपापुद्रलपरावविशेपसंसाराणां मव्यानामेवैतद्गुणस्थानेऽधिकारात् । अत्रस्थो जीव एकोत्तरशतवन्धकः, मिथ्यात्वनरक- 5 त्रिकैकेन्द्रियादिजातिचतुष्कस्थावरचतुष्काऽऽतपहुण्डसेवार्चनपुंसकवेदरूपपोडशप्रकृतिव्यव- च्छेदात् । तथा सूक्ष्मत्रिकाऽऽतपमिथ्यात्वोदयव्यवच्छेदान्नरकानुपूर्व्यनुदयाचकादशोचरशत- वेदयिता । तीर्थकत्सत्ताऽसम्भवात् सप्तचत्वारिंशदधिकशतसचाकच भवति ।। तृतीय मिश्रगुणस्थानं सम्यमिध्यादृष्टिगुणस्थानापराभिधं निरूपयति। मिश्रमोहनीयकर्मोदयादन्तर्मुहूर्त्तस्थितिकोऽहंदुदिततत्त्वेषु द्वेषाभावो 10 मिश्रगुणस्थानम् । यथान्नापरिचितनारिकेलद्वीपनिवासिमनुजस्थाने. अन्न जीवो नायुबंध्नाति न वा म्रियते । अपि तु सम्यत्वं मिथ्यात्वं वाऽवश्यं याति ॥ मिति । मिश्रमोहनीयकर्मोदयादर्शनमोहनीयप्रकृतिविशेपोदयात् जीवेऽन्तर्मुहूर्त्तकालं लब्धौपशमिकसम्यक्त्वेन मिथ्यात्वमोहनीयं कर्म शोधयित्वा कृतत्रिपुञ्जमध्येऽर्धविशुद्धपुखों- 15 दयतोऽर्धविशुद्धं यत्समतया सम्यक्त्वं मिथ्यात्वञ्च भवेयेन नाईदुदिततत्त्वेषु कश्चन द्वेपो न, वा श्रीविस्तन्मिभगुणस्थानमित्यर्थः, मित्रत्वचाऽस्योमयभावयोरेकरूपत्वात् , जात्यन्तरमेतत् वडवाखरयोस्संयोगेन जातस्य जात्यन्तराश्वतरवत्, दधिगुडसंयोगेन रसविशेपवञ्च । सम- खायां निदर्शनमाह-यथेति । तस्य बन्ने न देषो न वा प्रीतिस्तद्वदिदमिति भावः1 गुणस्था. नेऽत्र जीवः किं करोतीत्यत्राह-अत्रेति । अस्मिन् गुणस्थान इत्यर्थः । वन-हेतुमाह-अपि- ३० विति। अस्यान्तर्मुहुर्तस्थितिकत्वाद्भावान्तररामनमावश्यकं तत्रैव चायुर्वन्धो मरणश्चेति भावः। एवं क्षीणमोहे सयोगिन्यपि न मरणसम्भवशेषाणि मरणयोग्यानि गुणस्थानानि, तत्रापि: मिथ्यात्वसास्वादनाविरतसम्यग्दृष्टिरूपाणि गुणस्थानानि जीवेन- सहोपयान्ति परमवं, नापराण्यष्टाविति बोध्यम् । अत्र मिथ्यात्ववत एव मिश्रगमनमिति सिद्धान्तमतम् , कामप्रन्थि- कमते तु विहितविभागस्य सम्यक्त्ववतस्सम्यक्त्वप्रच्युतस्याष्टविंशतिसत्कर्मणो मिथ्या- 25 १. एवास मिथ्यास्वप्रत्ययत्वाभानिमेषु वन्धः, यत एता प्रायो नारकैकेन्द्रियविकलन्द्रिययोग्यत्वादत्यन्ता- शुभत्वाच मिथ्याइष्टिरेव बनातीति ॥ १७ + :११० तस्वन्यायविमाकरे । सप्तमाकरणे विनो वाऽविशुद्धः पुखो यदोदेति वदाऽर्धविशुद्धा भगवदईदुदिततत्वश्रद्धा आयत इत्यत- स्सम्यक्त्वात्प्रच्युतस्यापि मिश्रगमनमिति ॥ एतद्गुणस्थानस्थो जीवश्चतुस्सप्ततेर्बन्धकः, तिर्यक्- त्रिकस्त्यानचित्रिकदुर्भगदुःस्वरानादेयानन्तानुबन्धिमध्याकृतिमध्यसंहननचतुष्कनीचे!त्रोद्यो- ताप्रशस्तविहायोगतिस्त्रीवेदव्यवच्छेदान्मनुष्यदेवायुषोरबन्धाच । वेदयिता शतस्य, मिश्रोत्या- 5 देवमनुष्यतियंगानुपूर्व्यनुदयादनन्तानुबन्धिस्थावरैकेन्द्रियविकलत्रिकोदयव्यवच्छेदाच । सप्त- चत्वारिंशदुत्तरशतसत्ताकश्च भवति, तीर्थकत्सत्ताभावात् ॥ अथ चतुर्थ गुणस्थानमाह- सम्यक्त्वे सत्यप्रत्याख्यानावरणकषायोदयेन सावधयोगात्सर्वथा- विरमणमविरतसम्यग्दृष्टिगुणस्थानम् । उत्कृष्टतो मनुजभवाधिकषट्षष्टि- 10 सागरोपमस्थितिकमिदम् । सम्यक्त्वश्च भव्यसंज्ञिपश्चेन्द्रियाणां निसर्गादु. पदेशाद्वा भवति । उत्कृष्टतोऽपापुद्गलपराव वशिष्टसंसाराणामेत- भवेत् । जघन्यतस्तद्भवमुक्तिगामिनोपि ॥ सम्यक्त्वे सतीति । यत्राप्रत्याख्यानकषायोदयाजीवः सावधयोगप्रत्याख्यानं सुन्दर- मिति जानन्नपि न पालयति केवळं सम्यक्त्वमात्रमनुभवति तादृशमित्यर्थः । इदमुक्तं भवति 15 यो हि पूर्वोदितौपशमिकसम्यग्दृष्टिः शुद्धदर्शनमोहपुखोदयवर्ती वा क्षायोपशमिकसम्यग्दृष्टिा, क्षीणदर्शनसप्तको वा क्षायिकसम्यग्दृष्टिरविरतिप्रत्ययं दुरन्तनरकादिदुःखफलकं कर्मबन्धं, सावद्ययोगविरतिञ्च परममुनिप्रणीतसिद्धिसौधाध्यारोहनिःश्रेणिकल्पां जानन्नपि न विरति- मभ्युपगच्छति न च तत्पालनाय यततेऽप्रत्याख्यानावरणोदयेन विज्नितत्वात् , ते शल्प- मपि प्रत्याख्यानमावृण्वन्ति, स इहाविरतसम्यग्दृष्टिरुच्यत इति । मिध्यात्वमोहनीयस्यो- 20 दीर्णस्य क्षयानुदीर्णस्योपशमाञ्च निर्वृत्तं सम्यक्त्वं क्षायोपशमिकसम्यक्त्वमुच्यते, यदुद- यमागतं मिध्यात्वं तद् वेदितत्वात्क्षीणं, यत्तु शेषं सत्तायामनुदयगत वर्चते तदुपशान्तमुप- शान्तं नाम विष्कम्भितोदयभावमपनीतमिथ्यात्वस्वभावञ्च शेषमिथ्यात्वं, अत्र च मिथ्या- स्वमिळेपुजावाश्रित्य विष्कम्भितोदयं शुद्धपुञ्जमाश्रित्यापनीतमिथ्यात्वस्वभावमिति बोध्यम् । यद्यप्यौपशमिकेऽपि उदीर्णमिथ्यात्वस्य क्षयोऽनुदीर्णस्य चोपशमोऽस्ति तथाप्यत्र क्षायोप- 25 शमिकसम्यक्त्वे मिथ्यात्वं प्रदेशोदयेन वेद्यते, तत्र तदपि नेति विशेषोऽवसेयः । अत्र शोधितमिथ्यात्वपुद्गला यथावस्थिततत्त्वरच्यध्यवसायात्मकदृष्टेः सम्यक्त्वावारका न भवन्य- तस्तेऽप्युपचारेण सम्यक्त्वमुच्यन्त इत्यपि बोध्यम् । अनन्तानुबन्धिकषायचतुष्कझयानन्तरं मिथ्यात्वमिश्रसम्यक्त्वपुखलक्षणे त्रिविधेऽपि दर्शनमोहनीये सर्वथा क्षीणे सति क्षायिक सम्य- देशविरत०] न्यायप्रकाशसमलङ्कृते क्त्वं भवति ॥ अस्य गुणस्थानस्योत्कृष्ट स्थितिमाह-उत्कृष्टत इति मनुनभवेति । क्षायोपशमि. कमाश्रित्येदम् , क्षायिकमाश्रित्य तु त्रयविंगत्सागरोपमाणि साधिकानि | तथाहि कश्चिदितः स्थामादुत्कृष्ठस्थितिष्वनुत्तरविमानेपूत्पन्नः, तत्र चाऽविरतसम्यग्दृष्टित्वेन प्रयस्त्रिंशत्सागरोप- माणि स्थितस्ततश्युत्वाऽत्राऽप्याऽऽयातो यावदद्यापि विरतिं न लभते वायत्तद्भावेनैव स्थित इति मनुष्यभवसम्बद्धकतिपयवाधिकत्रयविंशत्सागरोपमत्वं विज्ञेयम् । कस्य कथं सम्यक्त्वमुप-5 जायत इत्यत्राह-भव्येति । भव्यसंज्ञिपञ्चेन्द्रियप्राणिनो यथावद्भगवदुदितेषु जीवादिपदार्थेषु निसर्गादासादितसुनिर्मलत्वगुणरूपात्मस्वभावात , उपदेशाय सद्गुरूपदिष्टशास्त्रश्रवणाद्वा सम्य- श्रद्धास्वरूपं सम्यक्त्वं समुन्मिपतीति भावः । दशविधमेतत् सम्यक्त्वमात्रस्य निसर्गोपदे- शाज्ञासूत्रवीनाभिगमविस्तारक्रियासंक्षेपधर्मप्रयुक्तत्वात् । उपदेशादिकमन्तरेण क्षयक्षयोपश- मादिना जीवाजीवादिपदार्थविषयिणी रुचिनिसर्गसम्यक्त्वम् । परोपदेशप्रयुक्तजीवादिपदार्था- 10 भिरुचिरुपदेशसम्यक्त्वं, सर्वज्ञाज्ञयैव धर्मानुष्यानविषया रुचिराबासम्यक्त्वं, सूत्राध्ययनाभ्या- सजन्यविशिष्टज्ञानतो जीवादिविषयिणी रुचिस्सूत्रसम्यक्त्वं, एकेन पदेनानेकपदार्थप्रतिसन्धा- नद्वारा प्रसरणशीला रुचि:जसम्यक्त्वं, अर्थतः सकलसूत्रविषयिणी रुचिरभिगमसम्यक्त्वं, सर्वप्रमाणनयनन्यसर्वद्रव्यभावविपया रुचिविस्तारसम्यक्त्वं, दर्शनज्ञानचारित्रतपोविनयाघ- नुष्ठानविपयिणी रुचिः क्रियासम्यक्त्वं, अनभिगृहीवकुदृष्टेः प्रवचनानिष्णातस्य निर्वाण- 15 पदमात्रविपयिणी रुचिः संक्षेपरुचिः, धर्मपदवाच्यविषयकरुचिर्धर्मसम्यक्त्वमिति ॥ कदा तद्भवतीत्यत्राह-उत्कृष्टत इति । सम्यग्दृष्टीनां सर्वेषां किञ्चिन्न्यूनापापुद्गलपरावर्त्तमात्रमेव संसारस्यावशेषात् , सोऽपि तीर्थकरादिकृताशातनाबहुलानामेव, न तु सर्वेपामिति भावः। जघन्यत इति, तस्मिन्नेव भवे मुक्तिगामिनोऽपीत्यर्थः ।। अत्रस्थो जीवरसप्तसप्ततेर्वन्धकस्तीर्थकदा- युर्दिकस्य च वन्धात् । चतुरुत्तरशतस्य वेदयिता मिश्रोदयव्यवच्छेदात् । आनुपूर्वीचतुष्क- 20 सम्यक्त्योदयाच । अष्टत्रिंशदधिकशतसत्ताकश्च । उपशमकस्तु चतुर्थादेकादशं यावत्सर्वत्राट- चत्वारिंशदधिकशवसत्ताकः क्षपकस्य तु सत्ता तगुणस्थाने दर्शयिष्यते ॥ सम्प्रति पञ्चमं गुणस्थानं दर्शयति- प्रत्याख्यानकषायोदयात्सर्वसावद्यस्यैकदेशाद्विरतस्य जघन्यमध्यमो. स्कृष्टान्यतमवद्विरतिधर्मावाप्तिर्देशविरतगुणस्थानम् ।। प्रत्याख्यानेति । सर्वसावयेभ्यो विरतिमभिलपतोऽपि वैराग्योपचयवतो जीवस्य सर्वविरतिघातकप्रत्याख्यानावरणकपायोदयानोत्पद्यते सर्वविरतिमामयम् , अपि तु जप- १. बद्धतीनाममणोऽचदायुषः प्राप्तक्षायिकसम्यक्त्वस्यापेक्षरेदम् ॥ 25 । - तत्वन्यायविभाकरे [ सप्तमकिरणे न्यमध्यमोत्कृष्टास्वेकतमा देशविरतिरेव जायते यत्र तद्देशविरतगुणस्थानमित्यर्थः । विरता- विरते ह्यष्टौ भङ्गाः, व्रतानि यो न जानाति नाभ्युपगच्छति न च पालनार्थ यतते, यथाऽविरवास्सर्वे | यो न जानाति न चाभ्युपगच्छति परं तु पालयति यथाऽज्ञान- तपस्वी । यो न जानाति, अभ्युपगच्छति न तु पालनार्थ यतते यथाऽज्ञपाव- 5 स्थसाधुः । यों न जानाति, अभ्युपगच्छति पालयति च यथाऽगीवार्थः । यो जानाति, नाभ्युपगच्छति, न . घ पालनाय यतते यथा श्रेणिकादयः। यो जानाति नाभ्युप- गच्छति पालयति यथा-अनुत्तरदेवः । यो जानाति स्वीकुरुते न च पालयति यथा संविन- पाक्षिकः। यो जानानि स्वीकरोति पालयति च यथा व्रतीति । तत्र प्रथमादिसप्तभङ्गेषु व्रतपरिपालनेऽपि निष्फलत्वेनाविरत एव भवति, सम्यग्ज्ञानग्रहणपूर्वकपालन एव साफ- 10 स्यात् । आद्यचतुर्पु हि सम्यग्ज्ञानाद्यभावः, ततत्रिषु सम्यग्ज्ञानसत्वेऽपि सम्यगभ्युपगम- पालनाद्यभावः । अन्तिमे तु देशतः पापाद्विरतो देशविरतोऽपि भवति । यावद् द्वादशनव- मेकद्विव्यादिव्रतधारणात् । यत्र परमेष्ठिनमस्कारमात्रनियमधारणमाकुट्टीस्थूलहिंसादित्यागो मद्यमांसादित्यागश्च सा जघन्या देशविरतिः। यत्र धर्मयोग्यतागुणा गृहस्थोचितानि षट् कर्माणि द्वादशत्रतपालनं सदाचारश्च भवति सा मध्यमा । सचित्ताहारवर्जन सदैकासनभोजनमनिन्ध- 1 ब्रह्मचर्यजतपालन महाव्रताङ्गीकारस्पृहा च यत्र भवति सोत्कृष्टा देशविरतिरिति बोध्यम् ॥ सर्वसावयस्यैकदेशाद्विरतस्येति, अवयं पापं तेन सह वर्तत इति . सावयं, हिंसाचौर्यादि- गर्हित कर्म, सर्वेभ्यः सावधेभ्यो विरनः प्रमत्तसंयतादिरपीत्येकदेशेनेत्युक्तम्, प्राणाति- साताधन्यतमो, देशः, निरपराधविनाशनादिरूपतदेकदेशो वा ताभ्यां विरत एकद्वयाधणुः व्रतधरः श्रावको द्वादशवतधारीति भावः, तानि च ब्रतानि अणुव्रतानि पञ्च गुणवतानि 20 त्रीणि चत्वारि च शिक्षाप्रतानि । तत्राणूनि लघूनि जवानि प्राणातिपानादिविरमणरूपा- णीत्यणुनवानि महाप्रतापेक्षयैषामल्पविषयत्वात्सर्वविरतापेक्षयाऽल्पगुणिपुरुषानुष्ठानरूपत्वाद्वा महाव्रतनिरूपणोत्तरकालमेवैपां निरूपणीयत्वादनु पश्चाद्वर्यमानानि यानि प्रतानि तान्यणु- व्रतानि, महाव्रतप्रतिपत्त्यसमर्थायैतन्निरूपणस्यावश्यकत्वात् । तत्र हिंसा प्रमादप्रयुक्तप्राणव्य- परोपणरूपा स्थूलसूक्ष्मभेदेन द्वैविध्यमन्नुते, स्थूलत्वं यन्मिध्यादृष्टीनामपि हिंसात्वेन प्रसिद्ध 25 संविषयकत्वाद्वा, सूक्ष्मत्वञ्च पृथिव्यादिविषयम् , तथैव मृषावादादावपि भाव्यम् , तेभ्यस्स्थू- लेभ्यो विरतिः पञ्चाणुव्रतशब्दवाच्या | साऽपि व्रतभङ्गेन भाव्या बाहुल्यात्, सामान्येन विरताविरतभेदेन श्राद्धानां वैविध्येऽपि विशेषतो, द्विविधत्रिविधादिमङ्गभेदेनाष्टविधास्ते ताहि-द्विविधं कृतं कारितं चेति, त्रिवित्रं मनसा वाचा कायेन, यथा स्थूलहिंसादिकं स्वयं न करोम्यन्यैवा न कारयामि मनसा वाचा कायेनेत्यभिप्रहवान् प्रथमः, नास्त्यस्यानुमति 30 निषेधः, अपत्यादिपरिग्रहस्य सद्भावाहिंसादिकरणे तस्यानुमतिप्राप्तः, यद्यनुमतिरप्यस्य श्रावकधर्मः] न्यायप्रकाशसमलते :१३३: स्यात्स्यादविशेषः प्रबजिताप्रबजितयोस्तद्विषये । द्विविघं द्विविधेनेति द्वितीयो भंगः, अस्योत्तरभङ्गास्त्रयः, तत्र द्विविधं स्थूलहिंसादिकं न करोति न कारयति द्विविधेन मनसा वचसेत्येकः, मनसा कायेनेत्यपरः, वाचा कायेनेत्यन्यः, तत्राचे मनसाऽभिसन्धिरहित एव हिंसादिकं वाचाऽब्रुवन्नेवासंज्ञिवकायेन दुश्चेष्टितादीनि करोति, द्वितीये मनःकायाभ्याममिस- न्धिदुश्चेष्टितादि परिहरनेवानाभोगाद्वा वाचैव हन्मि घावयामि चेति बृते । तृतीये च मनसै- 5 वामिसन्धिकृत्य करोति कारयति च । अत्र सर्वत्र त्रिभिरनुमतिरस्त्येव । द्विविधमेकेनेति तृतीयः, अत्राऽप्युत्तरमशास्त्रयः, द्विविधं करणं कारणकविधेन मनसा वा वचसा वा कायेन वेति । एकविधं त्रिविधेनेति चतुर्थः, अत्र चोत्तरौ द्वौ भङ्गो, तकविधं करणं वा कारणं वा मनसा वाचा कायेन चेति । एकविधं द्विविधेनेति पञ्चमः, उत्तरभङ्गाश्च षट् एकविध करणं वा कारणं वा मनोवाग्भ्यां वा मनःकायाभ्यां वा वचःकायाभ्यां वेति । एकविध- 10 मेकविधेनेति षष्ठः, अवान्तरभाषद्, एकविधं करणं वा कारणं वा एकविधेन मनसावा वाचा वा कायेन वेति, इत्येवं मूलभङ्गाः षद् । उत्तरगुणान् गुणवतशिक्षाव्रतरूपानाश्रित्य सामान्येनैक एव भेदो विवक्षिव इति सप्तमोऽविरतश्चाष्टम इति । तन्न स्थूलानां निरपरा- धानां निरपेक्षं सङ्कल्पपूर्वक प्राणिनां प्राणव्यपरोपणरूपां हिंसां प्रत्याख्यातीतीदं प्रथम- मणुनतम् , श्राद्धानां सूक्ष्मपृथिव्यादिप्राणिवधानिवृत्त्यभावेन स्थूलानामित्युक्तम् , कृष्याचार- 15 म्भजन्यद्वीन्द्रियादिजीवप्राणव्यपरोपणस्य शरीरकुटुम्वनिर्वाहान्यथानुपपत्त्या सम्भवेन सङ्क- ल्पपूर्वकमित्युक्तम् । सापराधे गुरुलाघवचिन्तनपूर्वकतत्प्रवृत्तिनिवृत्तिसम्भवेनानियमात् निर- पराधिनामित्युक्तम् , निरपराधेऽपि वाह्यमानमहिषवृषहयादौ पाठादिप्रमचपुत्रादौ च वध- बन्धादिकरणानिरपेक्षमित्युक्तम् । इत्यहिंसाणुव्रतं प्रथमम् । निखिलद्विपदचतुष्पदापद्व्य- विषयकालीकानि रक्षणाद्यर्थमन्यन्यस्तस्थापलापवचनं देयादेयविपयकमुत्कोचमत्सरादिप्रयुक्तं 20 प्रमाणपूर्वकं वचनञ्च क्लिष्टाशयोद्भूतत्वात्स्थूलासत्यरूपं तस्माद्विरमणं द्वितीयमणुव्रतम् , यथा कन्यालीकै द्विपाद्विपयक, वस्तुतोऽतथाभूनां द्वेपादिना विषकन्येयं दुश्शीलेयमविषकन्येयं सुशीलेयमित्यादिरूपेण कथनमेकविधमलीकं, गवालीकं चतुष्पाद्विषयमत्राप्यतथाभूतां गां बहुक्षीरेयमल्पक्षीरेयमित्यादिरूपेण वर्णनं द्वितीयमलीक, भूम्यलीकमपद्व्यविषयं, इहापि परकीयां भूमिमात्मीयामिति स्वीयां परकीयामिति ऊपरं क्षेत्रमनूपरमनूपरचोपरमिति बदत- 25 स्वादृग्वचनं तृतीयमलीक, न्यासनिङ्कवो रक्षणायान्यसमर्पितानां सुवर्णादीनामपलापवचनरूपं चतुर्थम्, अपद्व्यविषयकालीकेऽस्यान्तर्भावसम्मवेऽपि न्यासनिहवस्य महापापत्वात्पृथ- गुक्तिः,अदत्तादानेऽस्याऽन्तर्भावसम्भवेऽपि क्रियाप्राधान्यात्तस्मादस्य वचनप्राधान्येनारोक्तिः । फूटसाक्ष्यं लभ्यदेयविषये प्रमाणीकृतस्योत्कोचमत्सरादिनाऽइमत्र साक्षीत्येवं कूटं वदतस्तादृशं तत्त्वन्यायविमाकरे [ सप्तमकिरणे वचचं पञ्चमम्, अस्य इतरपापसमर्थनरूपत्वेन पूर्वालीकेभ्यः पार्थक्येनोपन्यासः । मृषावादो हि क्रोधमानमायालोमरागद्वेषहास्यमयक्रीडाब्रीडारत्यरतिदाक्षिण्यमौखर्यविषादादिमिः सम्भ- वृति, सत्यमपि पीडाहेतुश्चेन्सृपावाद एव, सद्यो हितं सत्यमिति व्युत्पत्यर्थाभावात् । स च सृषावादः स्थूलसूक्ष्मभेदेन द्विविधः, स्थूलभावस्य परिहार्य एव, स पञ्चविध उपर्युक्त एव, इ सूक्ष्ममृषावादे तु यतना । असत्यभेदा भूतनिहवादयः । एतद्तफलन्तु विश्वासयशस्वार्थ- सिद्धिप्रियाऽऽदेयाऽमोघवचनतादीति द्वितीयमणुव्रतम् ॥ चौर्यव्यवहारनिमित्स्य अदत्तस्य परद्रव्यस्य ग्रहणानिवृत्तिस्तृतीयमणुव्रतम् । अदत्तता च स्वामिजीवतीर्थकरगुरुभिर्माच्या । यथा यद्वस्तु तत्स्वामिनाऽवितीर्ण तत्वाम्यदत्तं, यञ्च खकीयस्यापि सचित्तफलादेविदारणं तत्फलजीवेन निजप्राणानर्पणान्जीवादत्तं, संयतानामाधाकर्मादि श्रावकाणाञ्च प्रासुकमनन्त- 10 कायमक्ष्यादिकं तीर्थकराननुज्ञातत्वात्तीर्थंकरादत्तं, सर्वदोषमुक्तमपि यद्गुरूननभिमंत्र्य भुज्यते तद्गुर्वदत्तमुच्यते । अत्र खाम्यदत्तेनाधिकारः, तच्च द्विविधं स्थूलसूक्ष्मभेदात्, अत्य- न्तस्थूलविषयं कनकादिक क्षेत्रखलादावल्पमपि फलादिकं वा दुष्टाव्यवसायपूर्वकं ग्रहणं स्वैन्यव्यवहारकारणत्वास्थूलं वद्भिन्नश्च सूक्ष्म स्वाम्यननुज्ञया तृणकाष्ठादिग्रहणरूपम् । तन्त्र श्राद्धस्य सूक्ष्मे यतना स्थूलात्तु निवृत्तिः । फडश्चास्य व्रतस्य सर्वजनविश्वाससाधुवाद- 15 समृद्धिवृद्धिस्थैयैश्वर्यस्वर्गादिकमिति तृतीयमणुव्रतम् ॥ स्वकीयकलत्रमात्रसन्तोषः स्वीया- न्ययोषित्परित्यागो वा श्राद्धानां चतुर्थ मैथुनाणुव्रतम् । अन्ययोपित्पदेन स्वान्यमनुष्याणां देवानां तिस्थाञ्च योषितः परिग्रहः, अपरिगृहीता देव्यस्तिरभ्यश्च काश्विद्यद्यपि सङ्ग्रहीतुः परिणेतुश्चाभावेन वेश्याकल्पा एव भवन्ति, तथापि परजातीयभोग्यत्वात्परदारा एव वा इति वर्जनीयाः । मैथुनं हि सूक्ष्मस्थूलभेदभिन्नं, कामोदयेनेन्द्रियाणामीषद्विकारसूक्ष्मम् । 20 योगैरौदारिकावित्रीणां सम्भोगस्स्थूलम् , यद्वा ब्रह्मचर्य द्विधा सर्वतो वेशतश्च, तत्र योगन: येण निखिलयोषितां सर्वथा सङ्गत्यागः सर्वतो ब्रह्मचर्य, तदितरत्तु देशतः । तत्र सर्व- वोऽशक्तौ देशतः, तच्च स्वदारसन्तोषरूपं वा परदारवर्जनरूपं वा । गृहिणस्त्वदार- संतोषे ब्रह्मचारिकल्पत्वमेव परदारगमने च वधबन्धादयो दोषाः स्फुटा एवेति चतुर्थमणु- व्रतम् । नवविधपरिग्रहेच्छायास्सर्ववस्त्यागासमर्थेन श्रावकेणेयत्वाकरण पञ्चममणुव्रतम् 25 तत्र धनधान्यक्षेत्रवास्तुरूप्यसुवर्णकुप्यद्विपदचतुष्पदरूपा नव परिग्रहाः । परिग्रहविरतिधा सर्वदेशभेदात् । मूछायास्सर्वथा सर्वभावेषु त्यागस्सर्वतः, तदिनरो देशतः, तत्र सर्वत- तत्प्रतिपचेश्श्रावकस्य सामर्थ्याभावे देशत इच्छाप्रसरनिरोधः कार्यः । इच्छाप्रसरो हि संसारिणां स्वाभाविकोऽतस्तदियत्ताकरणं महते गुगाय भवति, यथा यथा ह्यल्पो लोमः परि- प्रहारम्भश्च तथा तथा सुखं प्रवर्धते धर्मस्य च संसिद्धिर्भवति । एतद्भवस्य सन्तोषसौख्य- - धावकर्षः ] । न्यायप्रकाशसमलङ्कृते । लक्ष्मीस्थैर्यजनप्रशंसादिफलमिह परत्र च नरामरसमृद्धिसिद्धयादीति पञ्चममणुनतम् । एते- धामणुव्रतानां परिपालनाय भावनाभूतानि गुणब्रतानि त्रीणि भवन्ति । दिन भोगोप- भोगवतमनर्थदण्डविरमणश्चेति । नानाविधा दिशश्शास्त्रेऽभिहिताः, तत्र सूर्योपलक्षिता' या सा पूर्वा तदनुक्रमेण दक्षिणादिका भाज्या:, तत्र दिक्सम्बन्धिव्रत दिग्वतं, एतावत्सु पूर्वादि- दिग्विदिग्भागेषु गमनादि मयाऽनुष्ठेयं न परत इत्येवम्भूतं दिग्वतम् । गुणवतप्रतिपत्ति- । मन्तरेणाणुब्रतानां तथाविधविशुद्धिविरहेणेदं गुणव्रतमुच्यते, अनेन चावगृहीतक्षेत्राहिः स्थावरजङ्गमाभयदानलोभाम्भोधिनियंत्रणादिमहालाभो भवति | गृहस्थो ह्यारम्मपरिग्रहपर- त्वायत्र यत्र यावि मुळे शेते व्यापार वा कुरुते तत्र तत्र सप्तायोगोलकवजीवोपमई करोतीति तस्यैव हिंसादिपापस्थाननिवर्तकमेतत् , न साधूनाम्, समिविगुत्यादिप्रधानव्रतशालिवाचेपा- मिति प्रथमं गुणवतम् । भोगोपभोगमानवतं द्वितीय, तत्र भोगस्सकृदेव भोगयोग्यो यथाs 10 अमाल्यताम्बूलादि, पुनः पुनर्भोगयोग्य उपभोगो यथा वनितावनालङ्कारगृहशयनादि, तत्र यथाशक्ति परिमाणकरणं भोगोपभोगमाननतम् , वत्र श्रावकेण निसर्गतो निरवद्याहारमोजिना भवितव्यम् , तस्मिन्नसति सचित्तपरिहारः कर्तव्यः, तत्राप्यसामध्येऽतीव सावद्यान्मया मिषानन्तकायादीन् विहाय प्रत्येकमिश्रसचित्तादीनां परिमाणन्तु कर्त्तव्यमेव, तथा विना महोत्सवादिकारणविशेषणातीव चेतोविकारासक्तिजनापवादादिनिमित्तात्युटवेषवाहनाल- 15 कारादिकमपि श्रावको वर्जयेत्, एवमतिमालिन्यातिस्थूलहस्वसच्छिद्रवधादिपरिधानेऽपि फुचेलत्वकार्पण्यादिलोकापवादहास्यप्रसङ्गेन निजसम्पत्तिवयोवासस्थानकुलादियोग्य वेषमा- रचयेत् । उचितवेषादौ च प्रमाणनियमनमनुष्ठेयम् । एवं दन्तकाष्ठाभ्यङ्गतैलोद्वर्त्तनमननव- सविलेपनाभरणपुष्पफलधूपासनशयनभवनादेस्तथौदनसूपस्नेहशाकपेयाखण्डखाद्याधशनपान- खादिमस्वादिमादेस्त्यक्तुमाक्यस्य व्यक्त्या प्रमाण कार्य शेपञ्च त्याज्यम् , इत्येवं भोजन- 20 माश्रित्योक्तम् । कमतोऽपि आवकेण मुख्यतो निरवद्यकर्मप्रवृत्तिमता भवितव्यम् । तदशक्ता- चप्यत्यन्तसावद्यविवेकिजननिन्धक्रयविक्रयासिकर्म पर्जनीयं, शेषकर्मणामपि प्रमाणं करणी. यम् । इत्यनेदं न मोक्तुं योग्येषु परिमाणकरणेन इतरेषु तु वर्जनेन भवतीति द्वितीयं गुणवतम् । अनर्थदण्डविरमणं तृतीयं, अर्थः प्रयोजनं गृहस्थस्य क्षेत्रवस्तुधनधान्य शरीर पालनादिविषयं तदर्थमारंभो भूतोपमर्दोऽर्थदण्डः, दण्डो निग्रहो यातना विनाश इति पर्यायाः । अर्थेन प्रयोजनेन दण्डोऽर्थदण्डः, स चैवम्भूत उपमर्दनलक्षणो दण्डः क्षेत्रादि प्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते, स्वस्वीयस्वजनादिनिमित्तं हि विधीयमानो भूतोपमर्दस्स- प्रयोजनवादर्थदण्डो भवति, तद्विपरीतोऽनर्थदण्डः, तद्भेदास्तु चत्वारोऽपध्यानपापकर्मोपदेश- हिंसकार्पणप्रमादाचरणभेदात् । तत्राप्रशस्तं यदारौद्रभेदभिन्न स्थिराध्यवसानरूपं ध्यान 25 - - . " तस्वन्यायविमाकरे [सप्तमकिरणे तदपध्यानं, एतत्परिमाणश्चान्तर्मुहूर्तम् । पापप्रधानं तद्धेतुभूतं वा कर्म पापकर्म, यथा कृष्यादिकम् , तस्योपदेशस्तत्प्रवर्त्तनवाक्यं पापकर्मोपदेशः, यथा क्षेत्रं कृष, वृषवृन्दं षण्डय हयान् दमय क्रथय शत्रून् , यंत्रं वाहय, शस्त्रं सज्जय, इत्यादिरूपा उपदेशाः। तथा समा- पवितो वर्षाकालो दीयतां वल्लरेष्वग्निः, सनीक्रियतां हलफलकादि, अतिक्रामति वापकालो 5 भृताः केदारा गायन्तां सार्धदिनत्रयमध्ये, उप्यन्ताञ्च ब्रीहया, नातावस्था कन्यका विवा; हवां शीघ्र, प्रत्यासीदन्ति प्रवहणपूरणदिवसाः प्रगुणी क्रियन्तां प्रवहणानीत्यादि सर्वोऽपि पापोपदेश उत्सर्गतश्श्रावकेण त्यान्यः, अपवादवस्तु दाक्षिण्यादिविषये यतना कार्या। वथा हि सकानामायुधानलविषादीनामर्पणं दानं हिंसकार्पणं, एवम्भूताः पदार्थी उत्सर्गतो न देया अपवादतस्तु यतना विधेया । तथा प्रमादेन प्रमादस्य वाऽऽचरणं प्रमादाचरणम्, प्रमादाश्च 10 मद्यविषयकषायनिद्राविकथारूपाः पञ्चविधास्तदाचरणमपि वयमेव । एवमेव घृतादिपात्रा- णामनाच्छादनं सत्यपि जन्तुरहिते स्थाने सचित्तस्योपरि स्थिविकरणं गमनं वस्त्रादिनिक्षेपण वा, पनककुन्ध्वाद्याक्रान्तमुव्यश्रवणादेः परित्यजनं, अयतनया कपाटार्गलादानादि, वृथा पत्र- पुष्पादिवोटनमृत्खटीवर्णिकादिमदनवह्वयुद्दीपनगवादिघातदानशस्त्रव्यापारणनिष्ठुरमर्ममाषण-, हास्यनिन्दाकरणादि, रात्री दिवाप्ययतनया वा स्लानकेशप्रथनरन्धनखण्डनदलनभूखनन- 15 सदादिमर्दनलेपनवस्त्रधापनजलगालनादि च प्रमादाचरणम् , श्लेष्मादीनां व्युत्सर्गे स्थगनाः ययतनापि प्रमादाचरणम्, मुहूर्तानन्तरं तत्र संमूछिममनुष्यसंमूर्च्छनवद्विराधनादिमहा- दोषसम्भवात् , एवमधिकरणभूतस्य शस्त्रादेः मलमूत्रादेश्वाऽव्युत्सर्जनमपि । स्वकार्ये कृतेऽपि ज्वलदिन्धनप्रदीपादेरविध्यापनमपि तथा, अग्निविध्यानापेक्षया तदुद्दीपने बहुजीवविरा धनायाः प्रतिपादनात् | अपिहितप्रदीपचुल्हकादिधारणचुलकोपरि चन्द्रोदयाप्रदानाद्यपि 20 तथा, अशोधितेन्धनधान्यजलादिव्यापारणमपि तथा । एवमेष चतुर्विधोऽप्यनर्थदण्डोऽनर्थ- हेतुर्निरर्थकश्च, . तथा ह्यपध्यानेन नास्ति काचिविष्टसिद्धिः प्रत्युत चित्तोद्वेगवपुःक्षीणता शून्यवाघोरदुष्कर्मबन्धदुर्गन्याद्यनर्थ एव, अतोऽशक्यपरिहार जात्वपध्यानं क्षणमात्रं स्या- सदाऽमि सथ एव परिहार्य मनोनिग्रह य तनया, पापोपदेशहिंस्रप्रदाने चं स्वजनादावन्यथा निर्वाहादर्शनाःशक्यपरिहारे, अन्येषु तु पापाद्यनर्थफले एव। प्रमादाचरितेऽपि मुधैवाय- 25 तनादिनिमित्तो हिंसादिदोषः, यतनां विना च प्रवृत्तौ सर्वानर्थदण्ड एव, अतस्सदयतया सर्वव्यापारेषु सर्वशच्या श्रावकेण यतनायां यतनीयमिति तृतीयं गुणवतम् ।। शिक्षापवतं; शिक्षण शिक्षा, अभ्यासस्तस्यै तस्या वा पदानि शिक्षापदानि तान्येव व्रतानि शिक्षापद. व्रतानि, एतेषां नित्याभ्यसनीयत्वेन गुणबतानामपि शिक्षाव्रतेष्वन्तर्भावरसम्भवति तथापि- गुणत्रतानां प्रायो यावज्जीवकत्वात् स्वल्पकालिकत्वाच्च शिक्षापदबवानां भेदा, एतानि. .

श्रावकधर्मः न्यायप्रकाशसमलते चतुर्विधानि, सामायिक देशावकाशिकं पोषधोपवासोऽतिथिसंविभागश्चेति, आधे द्वे प्रतिनि- यतदिवसानुष्ठेये पुनः पुनरुचारणीये, अपरौ द्वौ प्रतिनियतदिवसानुष्ठेयौ । तत्र सामायिक, समो रागद्वेषवियुको यस्सर्वभूतान्यात्मवत्पश्यति तस्य प्रतिक्षणमपूर्वापूर्वकर्मनिर्जरा- हेतुभूताया विशुद्धेरायो लाभस्समायः स एव सामायिकम् , वाचिककायिकसावधकर्ममुक्त- सारौद्रध्यानरहितस्य च प्राणिनो घटीद्वयकालं यावत्समत्वं सामायिक, मनोवाकायचेष्टा- 5 परिहारमन्तरेण तदसम्भवाविशेषणद्वयम् । समस्य रागद्वेषविमुक्तस्य सत आयो ज्ञाना- दीनां लामः प्रशमसुखरूपः, समानां वा मोक्षसाधनं प्रति सशसमर्थानां सम्यग्दर्शनज्ञानचा- रित्राणामायो लाभस्समायः, समाय एव सामायिक, विनयादेराकृतिगणत्वात् ठक् प्रत्ययः । समायः प्रयोजनमस्येति वा सामायिकम् । सामायिकस्वश्रावकोऽपि यतितुल्यो भवत्यत एव सदानी देवपूजादौ नाधिकारः, सामायिके सति भावस्तवस्य प्राप्तत्वेन तदर्थ द्रव्यस्तवस्या- 10 नावश्यकत्वात् । सामायिकविधिस्तु वचदन्थेभ्यो ज्ञातव्यः । व्रतमिदं बहुनिर्जराफल- कत्वेन प्रत्यहं श्रावकेणानुष्ठेयम् । इति प्रथमं शिक्षापदव्रतम् । देशावकाशिकं, दिग्नत- गृहीतस्य दिपरिमाणस्य यात्रजीवं संवत्सरं चतुर्मासी वा यावत् दशदिक्षु योजनशता- धवधिकसंकल्पितगमनादेः मुहूर्तप्रहरदिनाहोरात्रादि यावत् संकोचनं गृहशय्यास्थानादेः परतो निषेधनरूपम् । देशे दिग्नतगृहीतपरिमाणस्य विभागेऽवकाशोऽवस्थानं देशावकाश:, 15 सोऽत्रास्तीति देशाधकाशिकम् । सर्वव्रतानां संक्षेपकरणावश्यकत्वेन तत्तद्बतसंक्षेपकरणस्य मिन्नभिन्नवतत्वे द्वादशसंख्याविरोधेन च प्रतमिदं अणुव्रतादिसंक्षेपकरणरूपमपीति सर्व व्रतसक्षेपकरणरूपमिति भाव्यम् । तथैवैतदतिचारोऽपि तत्तदनुसायतिचाराणामुपलक्षको शेयः । यद्वा प्राणाविपातादिवतान्तरसंक्षेपकरणेषु वधबन्धादय एवातिचारा, दिग्नत- संक्षेपकरणे तु क्षेत्रस्य सक्षिप्तत्वात् प्रेष्यप्रयोगादयोऽतिचाराः, मिन्नातिचारसम्भवाञ्च 20 दिग्नतसंक्षेपकरणस्यैव साक्षाद्देशावकाशित्वमुक्तमिति द्वितीय शिक्षापदव्रतम् ॥ पोषधव्रतं, अष्टमीचतुर्दशीपूर्णिमाऽमावास्यालक्षणपर्वतिथिपु आहारशरीरसकाराब्रह्मसावद्यकर्मणां त्यागः पोषधव्रतम् , पोषधोपवासस्य चतुर्विधत्वात् , तत्र धर्मस्य पोषं पुष्टिं धत्त इति पोषधः, स एव व्रतं पोषधव्रतं पोषधोपवास इत्युच्यते, प्रोक्तपर्वदिवसानुष्ठेयो व्रतविशेषः पोषध- स्तेनोपवसनमवस्थानं पोषघोपवासः, अथवा पोषधोऽटम्यादिपर्वदिवसः, उपावृत्तदोषस्य 25 सतो गुणैराहारपरिहारादिरूपैः उप-सह वास उपवासः पोपधेपूपवासः पोषधोपवास: । व्यु- त्पत्तिमात्रमिदम्, प्रवृत्तिस्तु पोषधोपत्रासशब्दस्योपर्युक्ताहारादिचतुष्कवर्जनेषु। तथा च पोष- घोपवास आहारशरीरसत्काराब्रह्माव्यापाररूपविषयमेदाचतुर्धा, पोषधशब्दोऽपि तत्र प्रयु- - १८ . तत्वन्यायविभाकरे [ ससमकिरणे ज्यते, तत्रापि प्रत्येकं देशसर्वभेदादष्टधा भवति, तत्राऽऽहारपोषधो देशको विवक्षितविकृतेर- विकृतेराचाम्लस्य वा सकृदेव द्विरेव वा भोजनमिति, सर्वतस्तु चतुर्विधस्याप्याहारस्याऽहोरात्र यावत्प्रत्याख्यानम्, शरीरसत्कारपोपधो देशनश्शरीरसत्कारस्यैकतरस्याऽकरणम्, सर्वतस्तु सर्वस्यापि तस्याऽकरणम् , अब्रह्मत्यागरूपब्रह्मचर्यपोषधोऽपि देशतो दिवैव रात्रावेव सकदेव 5 द्विरेव वा स्त्रीसेवा मुक्त्वा ब्रह्मचर्यकरणम् , सर्वतस्त्वहोरात्रं यावद् ब्रह्मचर्यपालनम् । अव्यापारपोषधस्तु देशतो एकतरस्य कस्यापि कुव्यापारस्याऽकरणम्, सर्वतस्तु सर्वेषां कृषिसेवावाणिज्यपाशुपाल्यगृहकर्मादीनामकरणम् । तत्र देशतः कुव्यापारनिषेधे सामायिक तु करोति न वा, सर्वतः कुत्र्यापारनिषेधे तु नियमाचत्करोति । अकरणे तु तत्फलेन वंच्यते । सर्वतः पोषव्रतश्व चैत्यगृहे वा साधुमूले वा गृहे वा पोषधशालायां वा सक्तमणि- 10 सुवर्णाद्यलंकारो व्यपगतमालाविलेपनवर्णक. परिहतपहरणः प्रतिपद्यते, वत्र च कृते पठति- पुस्तकं वाचयति, धर्मध्यानं ध्यायति यथैतान् साधुगुणानहं मन्दभाग्यो न समर्थों धारयितु- मिति । एतेषां चाहारादिपदानां चतुर्णा देशसर्वभेदानामेकट्यादिसंयोगजा अशीतिर्भङ्गा भवन्ति, तदेतत्सर्वमन्यग्रन्थेभ्योऽवसेयमिति तृतीयं शिक्षापदब्रम् ।। अथाऽतिथिसंविभाग व्रतं, न विद्यन्ते सततप्रवृत्त्या विशदैकाकारानुष्ठानतया तिथयो दिनविभागा यस्य सोऽतिथिः, 15 उक्तश्च 'तिथिपर्वोत्सवास्सर्वे त्यक्ता येन महात्मना । अतिथि तं विजानीयाच्छेपमभ्यागत विदु' रिति । तस्य सङ्गतो विभागोऽतिथिसंविभागः, तथा च तिथिपर्वादिलौकिकपर्व- परित्यागाद्भोजनकाल उपस्थितेभ्यः साधुभ्यो न्यायागतानां कल्पनीयानामनपानादीनां देश- कालभद्धासत्कारक्रमयुक्तेन परया भक्त्याऽऽत्मानुप्रबुद्ध्या यहीयते सोऽतिथिसंविभाग- स्तद्रूपं ब्रतमिति | आदिनात्र वनपात्रादीनां प्रहणम्, न च शास्ने वस्त्रादिदातार आहारदा- 20 तृश्रवणमिव न श्रूयन्ते न वा वनदानस्य फडमिति वाच्यम् , भगवसादौ वनादिदानस्य साक्षादुक्कत्वात् , संयमोपकारित्वाच तेषाम् । अत्र वृद्धोक्ता सामाचारी-पोषधं पारयवा श्राव- केण नियमात्साधुभ्यो दत्त्वा पारयितव्यमन्यदा पुनरनियमो दवा वा पारयति पारयित्वा , " १. अभ्यागतव्यावृत्तये साधुभ्य इत्यन्तं पदम् । अन्यायेनाऽऽगतानामन्त्रादीना व्यावर्तनाय न्यायागताना- मिति, द्विजात्रियविदादाणा स्ववृत्त्यनुवानं न्याय, स्ववृतिश्च प्रायो लोकव्यवहार्या प्रसिद्धव, अकल्पनीय- व्यवच्छेदाय कल्पनीयानामिति, उद्मादिदोषवर्जितानामिति तदर्थ । अन्नपानादीनामित्यत्रादिना वनपात्रौ- षवादिपरिग्रह., इदच विशेषणं हिरण्यादिव्यवच्छेदाय । अदेशाकालासत्काराक्रमव्यवच्छेदाय देशकाल- सत्कारक्रमयुक्तनेति, तत्र नानाबोहिकोद्रवकयुगोधूमादिनिष्पत्तिमाक् देश, सुभिक्षदुझिादि काल, विशुद्धचित्तपरिणाम श्रद्धा, अभ्युत्थानामनदानवन्दनानुब्रजनादि सत्कार, पाकस्य पेयादिपरिपाट्या प्रदान क्रम., तैर्युकेनेत्यर्थ. । फलप्राप्तौ भक्तिकृतमतिशयमाह परया भक्त्येति, यत्यनुपहबुद्धया प्रदानवारणायाऽऽ- मानुग्रहयुद्धपेति ॥ .

यदा भोजनकालो , . श्रावकधर्मः ] म्यायप्रकाशसमलङ्कृते :१३९ : वा ददाति, तस्मात् पूर्व साधुभ्यो दत्त्वा पश्चात्पारयितव्यम् । कथम् । यदा भवति तदाऽऽत्मनो विमूषां कृत्वा प्रतिश्रयं च गत्वा साधूनिमंत्रयते : मिक्षां गृहीते 'ति । साधूनाश्च तं प्रति का प्रतिपत्तिः ', उच्यते, तदैकः पटलमन्यो मुखान्तकमपरो भाजनं प्रत्युपेक्षते, मा अन्तरायदोषाः स्थापनादोपा वा भवन्तु इति । यदि स च प्रथमायां पौरुष्यां निमंत्रयते, अस्ति च नमस्कारसहितप्रत्याख्यानीयस्ततस्तद्गृह्यते, अथ नात्यसौ तदा न 5 गृह्यते यतस्तद्वोढव्यं भवति, यदि पुनर्वाडं लगेत् तदा गृह्यते संस्थाप्यते च, यो बोद्धाट- पौरुष्या पारयति पारणकवानन्यो वा तस्मै तबीयते, पश्चात्तेन श्रावकेण सह संघाटको प्रगति, एको न वर्तते प्रेषयितुम् , साधू पुरतः श्रावकस्तु मार्गे गच्छति, नवोऽसौ गृह मीत्वा तावासनेनोपनिमंत्रयते, यदि निविशेते, तदा भव्य, अथ न निविशेते तथापि विनयः प्रयुक्तो भवति, ततोऽसौ भक्तं पानश्च स्वयमेव ददाति, भाजनं वा धारयति, स्थित एवाऽऽ- 10 स्ते यावदीयते, साधू अपि पश्चारकर्मपरिहारार्थ सावशेष गृहीतः, ततो वन्दित्वा विसर्ज- यति, अनुगच्छति च कतिचित्पदानि, ततः स्वयं मुझे। यदि पुनस्तत्र प्रामादौ साघवो न भवन्ति तदा भोजनवेलायां धारावलोकनं करोति, विशुद्धभावेन च चिन्तयति । यदि साधवोs- भविष्यन् तदा निस्तारितोऽभविष्यमिति, एष पोपधपारणके विधिः, अन्यदा तु दत्त्वा मुझे भुक्त्वा वा ददावीति द्वादशब्रतानि श्रावकाणाम् । एतानि च निरतिचारतया परिपालितानि 15 विशेषतो गृहिधर्मो भवतीसतिचारा विज्ञेया, तत्र पञ्च पञ्चातिचाराः प्रतिव्रतं भवन्ति । ननु संज्वलनकपायोदयप्रभवत्वादतिचाराणामप्रत्याख्यानप्रत्याख्यानोदयवतां सम्यग्दृष्टिदेशविर तानों ते कथं सम्भवन्ति, संज्वलनकषायोदयवतरसर्वविरतस्यैव तेपो संभवात् , देशविरते- रल्पीयस्त्वात् कुन्थुशरीरे प्रणाद्यसम्भववत्, इति चेन्मैवम् , उपासकदशादिषु प्रतिव्रतमति- चारपञ्चकाभिधानात् सर्वविरतौ संज्वलनोदयेऽतिचारा भवन्ति शेषाणामुये मूलच्छेद्यमेव 20 स्यादित्यभिप्रायेण सर्वविरतावतिचारहेतुत्वेन संज्वलनोदयस्य शाने प्रोतत्वात् , न तु संस्खल- नोदयमात्रजन्यत्वमविचाराणाम् , 'सब्वेवि अ अइआरा सजलणाणं तु उदयओ हुँति । मूल- छिज्ज पुण होइ वारसहं कसायाण' इति । सर्वविरतेस्तृतीयानामुदये मूलच्छेदो देशविरतेर्द्धि- तीयानां सम्यक्त्वस्य प्रथमानामिति गाथापश्चास्याभिप्रायवर्णनेऽपि यथा संज्वलनोदये सर्व- विरविरवाप्यते तत्रातिचाराश्च भवन्ति तथा प्रत्याख्यानावरणोदये देशविरतिस्वदतिचाराश्च, 25 अप्रत्याख्यानोदये सम्यक्त्वं तदतिचाराश्च भवन्तु न्यायस्य समानत्वात् , विचित्रो खुदयः कषायाणां, ततोऽसौ गुणलाभस्याप्रतिवन्धकस्तदतिचाराणाञ्च निमित्तं भवति संज्वलनोदयव- दिति । तत्र प्रथमव्रतस्य प्रकष्टक्रोधोदयात् वधः, वन्धः, छविच्छेदः, अतिभायरोपणं, भक्त पानव्यवच्छेदश्चेति पश्चातिचारा भवन्ति, क्रोधाचतुष्पदादीनां लगुडादिना ताडनं वधः, प्रबल- .

:१४०: तत्त्वन्यायविमाकरे [ सप्तमकिरणे कषायोदयादेव विज्ञेयस्तेन विनयग्रहणार्थ स्वपुत्रादीनां ताडनेऽपि न क्षतिः। तेषामेव रज्वा- दिना नियंत्रणं बन्धः, सोऽपि पुत्रादीनां क्रियत इति प्रबलक्रोधादेवेति भाव्यम् । छविश्शरीर त्वग्वा, तस्याश्छेदः, छविच्छेदः, कर्णनासिकागलकम्बलपुच्छादिकर्तनम् , अयमपि क्रुध इत्येव तेन पादवल्मीकोपहतपादस्य पुत्रादेस्तत्करणेऽपि नातिप्रसङ्गः । अतिशयितो भारोऽतिभारत, । वोढुमशक्य इत्यर्थः,तस्यारोपण गोकरभरासभमनुष्यादेः स्कन्धे पृष्ठे शिरसि वा स्थापन, इहापि क्रोधालोमाद्वेति विज्ञेयम् । अशनपानादीनां निषेधः क्रोधाद्भक्तपानव्यवच्छेदः, एते पन्नाऽति- चारा नाममात्रेणोक्ता विस्तरस्तु वत्तद्वन्थेभ्योऽवसेयः, एषमप्रेऽपि, सहसाभ्याख्यानं मिथ्यो- पदेशो गुह्यभाषणं कूटलेखो विश्वस्तमंत्रभेदश्चेति द्वितीये व्रते पञ्चाविचाराः, अविमृश्यास- होषाध्यारोपणं सहसाभ्याख्यानं यथा चौरस्त्वं पारदारिको वेत्यादि । अन्ये त्वस्य स्थाने रहस्या- 10 भ्याख्यानं पठन्ति, तदा रह एकान्तस्तत्र भवं रहस्य, रहस्येनाभ्याख्यानमसद्ध्यारोपणं यथा वृद्धायै वक्ति-अयं ते भर्चा तरुण्यामतिप्रसक्तः, तरुण्यै वक्ति-अयं ते भत्ता प्रौढचेष्टितायां मध्यमवयसि प्रसक्त इत्यादि रहस्याभ्याख्यानमिति । असदुपदेशो मिथ्योपदेशा, प्रतिपन्न सत्यव्रतस्य हि परपीडाकरं वचनम सत्यमेव, ततः प्रमादात् परपीडाकरणे उपदेशोऽतिचारा, यथा वाह्यन्तां खरोष्ट्रादयो हन्यन्तां दस्यव इत्यादि, यद्वा यथास्थितोऽर्थस्तथोपदेशः साधी- 15 यान, विपरीतस्त्वयथार्थोपदेशो यथा परेण सन्देहापन्नेन पृष्टे न वथोपदेशः, यद्वा विवाहे खयं परेण वाऽन्यतरामिसन्धानोपायोपदेश इति । यन्न सर्वस्मै कथनीयं तस्यानधिकृतेनैवा- कारेजितादिभित्विाऽन्यस्मै प्रकाशन गुह्यभापणं, यथा-पते हीदमिदं च राजविरुद्धादिकं मंत्रयन्ते अथवा गुह्यभापणं पैशुन्यं, यथा द्वयोः प्रीतो सत्यामेकस्याकारादिनोपलभ्यामि- प्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यति, अस्याप्यतिचारत्वं रहस्याभ्याख्यानवत् 20 हास्यादिनैवेति । अन्यसहक्षाक्षरमुद्राकरणं कूटलेखः, एतच्च यद्यपि कायेनासत्यां वाचं न वदामि नवा वादयामीत्यस्य वा व्रतस्य भङ्ग एव तथापि सहसाकारानाभोगादिनाऽति- क्रमादिना वाऽतिचारः, अथवाऽसत्यमित्यसत्यभणनं मया प्रत्याख्यातं, इदं पुनर्लेखनमिति १. ननु बन्धादयो नातिचारा, श्रावकेण हिंसाया एव प्रत्याख्यातत्वात् हिंसाविरतरखण्डितत्वाश्च तेषामपि प्रत्याख्यातले च तस्करणे विरतिखण्डनाद् व्रतमा एव स्यात् तथा प्रतेयत्तामझोऽपि स्यात्प्रतिव्रतमतिचाराणा- माधिक्यादिति चेन्मैवम् , हिंसामात्रस्य प्रत्याख्यातत्वेऽपि तेषामप्यर्थतः प्रत्याख्यातत्वात् हिंसोपायत्वात्तेषाम् । न च तत्करणे व्रतभङ्ग एव नातिचार इति वाच्यम्, देशस्यैव भजनादेशस्यैव पालनादतिचारव्यपदेशात् । द्विविधं हि व्रतमन्तवृत्त्या वहिवृत्त्या च, यदा मारयामीति विकल्पविरहकालीनकोधादिप्रयुक्तनिरपेक्षवधादिप्रवृत्ति हिंसाऽभावश्च तदा निर्दयतया विरत्यनपेक्षप्रवृत्तितयाऽन्तर्वृत्त्या तस्य भंगो हिंसाया अभावाच बहिर्वृत्त्या पालनमिति ॥ २. अविमृश्यकारित्वं सहसाकार , असावधानताऽनामोगः, व्रतमाय केनचिनिमंत्रणे कृतेऽ. प्रतिषेधादतिक्रम., गमनादिन्यापारे व्यतिक्रम , क्रोधाद्वधवन्धादावतिचार., जीवहिंसादौ त्वनाचार इति ॥

भाषकधर्मः] न्यायमकाशसमलट्टते मावनया व्रतसापेक्षस्याविचार एव । विश्वासमुपगतानां मंत्रणस्य प्रकाशकरणं विश्वस्तमंत्र- करणम् , अस्यानुवादरूपत्वेन सत्यत्वाद्यद्यपि नाविचारता घटते तथापि मंत्रितार्थप्रकाशन- जनितलनादितो मित्रकलनादेर्मरणादिसम्भवेन परमार्थतोऽस्यासत्यत्वात् कथञ्चिद्रग- रूपत्वेनाविचारतैव । गुह्यभाषणे गुह्यमाकारादिना विज्ञायानधिकृत एव गुह्यं प्रकाशयति, इह तु स्वयं मंत्रयित्वा मन्त्रं भिनत्तीत्यनयोर्मेद इति ॥ स्तेनाहतप्रहः स्तेनप्रयोगः । मानविप्लवा, शत्रुराज्यगमनं, प्रतिरूपव्यवहार इति तृतीयत्रतस्याविचाराः। चोरानी- तपदार्थानां मूल्यादिना प्रहणं स्तेनाहतग्रहः, स्तेनाहृतं हि काणक्रयेण अधिकया वा प्रच्छन्नं प्रहणं चौरो भवति, यतो नीतिः 'चौरचौरापको मन्त्री भेदज्ञः काणककयी। अन्नदा स्थानदश्चेति चौरस्सप्तविधः स्मृतः' इति ततश्चौर्यकरणागतमगर, वाणिज्यमेव क्रियते मया न चौरिकेत्यध्यवसायेन तसापेक्षत्वाचामन इति भनाभंगरूपः प्रथमोऽ- 10 तिचारा | स्तेनानामभ्यनुज्ञानं हरत यूयमित्यादिरूपेण, स्तेनोपकरणानां वा कुशिका- करिकापरिकादीनामर्पणं विक्रयणं वा स्तेनप्रयोगः। अत्र च यद्यपि चौर्य न करोमि न कारयामीत्येवं प्रतिपन्नव्रतस्य स्तेनप्रयोगो अतभङ्ग एव, तथापि 'किमधुना यूयं नि- व्यापारास्विष्ठत, यदि वो भक्कादि नास्ति तदाऽहं तददामि, भवदानीतमोषस्य वा यदि विक्रायको न विद्यते तदाऽऽहं विशेष्ये' इत्येवंविधवचनैश्योरान् व्यापारयतः स्वकल्प- 15 नया तव्यापारणं परिहरतो व्रतसापेक्षस्यासावतिचार इति द्वितीयोऽतिचारः | मानस्य कुड- वादिपलादिहस्तादेः हीनाधिकत्वकरणं मानविप्लवा, हीनमानेन दानमधिकमानेन च महणं तत्त्वतश्चौर्यमेव, न चैवं श्रावकस्य युज्यत इति तृतीयोऽविचारः। विरुद्धयो राज्ञोर्यद्राव्यं तत्र राज्ञाऽननुज्ञाते गमनं शत्रुराज्यगमनम् । शत्रुराज्यगमनस्य यद्यपि स्वस्वामिनाऽननु- शातस्यादत्तादानरूपत्वेन तदनुष्ठातृणाश्च चौर्यदण्डयोगेनादचादानरूपत्वाद्रतभङ्ग एव 20 तथापि शत्रुराज्यगति कुर्वता मया वाणिज्यमेव कृतं न चौर्यमिति भावनया प्रतसापेक्षत्वा- लोके च चोरोऽयमिति व्यपदेशाभावादतिचारता, उपलक्षणत्वाद्राजनिपिद्धवस्तुमहणमपि तथेति चतुर्थोऽतिचारः । सदृशवस्तुना व्यवहरणं प्रतिरूपव्यवहारः, यथा ब्रीहीणां पलखि, घृतस्य वसा, तैलस्य मूत्रं, हिजोः खदिरादिवेष्टः चणकादिवेष्टं गुन्धादि वा, कुडमस्य कृत्रिमं तत् कुसुम्भादि वा, मञ्जिष्ठादेश्चित्रकादि, वथा विधाय विक्रयणं, यद्वाऽपडतानां 25 गवादीनां सहाणां अमिपक्ककालिगीफलस्वेदादिना शृङ्गाण्यधो मुखानि प्रगुणानि तिर्यग्व- लितानि वा विधायान्यत्वमिव तेपामापाद्य सुखेन धारणविक्रमादि करोतीति पञ्चमः । मानविप्लवः प्रतिरूपक्रिया च परव्यंसनेन परधनग्रहणरूपत्वादन एव, केवलं खात्रखननादि- कमेव चौर्य प्रसिद्धं मया तु वणिकालैव कृतेति भावनया व्रतरक्षणोधतत्वादतिचार इति ।। , . - तत्वन्यायविमाकरे [समकिरणे परविवाहकरण, अनातागमः , इत्वरात्तागमः, अनङ्गक्रीडनं, कामतीव्ररागम्चेति पञ्चाति- चाराश्चतुर्थव्रते । स्वस्वापत्यव्यतिरिकानां कन्याफललिप्सया स्नेहसम्बन्धादिना वा परिणय- नविधानं परविवाहकरणम् । इदञ्च स्वदारसन्तोपवता स्वकलनात्परदारवर्जकेन च स्वकलत्र- वेश्याभ्यामन्यत्र मनोवाक्कायमैथुनं न कार्य न च कारणीयमिति यदा प्रतिपन्नं तदा परविवाह- 5 करणं मैथुनकारणमर्थतः प्रतिपिद्धमेव भवति तद्बती तु मन्यते, विवाह एवायं मया विधीयते न मैथुनं कार्यते इति व्रतसापेक्षत्वादतिचारः । कन्याफललिप्सा च सम्यग्दृष्टेरव्युत्पन्नावस्थायां मिथ्यादृष्टेस्तु भद्रकावस्थायामनुग्रहार्थ व्रतदाने सा संभवतीति । अनात्तागमः, अनात्ता-अपरि- गृहीवा वेश्या स्वैरिणी पोषितभर्तृका कुलाङ्गना वाऽनाथा, तस्या गम आसेवनम्, अनामोगा- दिनाऽतिचारोऽयं स्वदारसन्तोषिणः । इत्वराचागमः, इत्वरी प्रतिपुरुषमयनशीला वेश्येत्यर्थः, 10 सा चासावात्ता च कश्चित्कालं भाटीप्रदानादिना सङ्गृहीता, इत्वरात्ता, इत्वरकालं वाऽऽचा इत्वरात्ता तस्या गम आसेवनमित्वरात्तागमः, अयश्च भाटीप्रदानत्वादित्वरकालस्वीकारेण स्व- कलत्रीकृत्य वेश्या सेवमानस्य स्वबुद्धिकल्पनया स्वदारत्वेन ब्रतसापेक्षत्वान्न भङ्गा, अल्पकाल- परिग्रहाच वस्तुतोऽन्यकलत्रत्वाङ्ग इति भनाभङ्गरूपत्वादतिचारः, अयमपि स्वदारसन्तोषिण एव, न तु परदारवर्जकस्य, इत्वरात्ताया वेश्यात्वेनात्तायास्त्वनाथतयैवापरदारत्वात् शेषा- 15 स्त्वतिचारा द्वयोरपि ॥ अनङ्गक्रीडनं, अनङ्गः कामः, स च पुंसः स्त्रीपुनपुंसकेषु सेवनेच्छा हस्तकर्मादीच्छा वा, वेदोदयात् योषितोपि योपिन्नपुंसकपुरुषासेवनेच्छा हस्तकर्मादीच्छा वा, नपुंसकस्याऽपि नपुंसकपुरुषस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा, एपोऽनङ्गो नान्यः कश्चित्, तेन तस्मिन् वा क्रीडनं रमणमनङ्गक्रीडनम् , अथवा स्वलिङ्गेन कृतकृत्योऽपि काटपुस्तफलमृत्ति- काचर्मादिघटितराहायैः प्रजननयोषितामवाच्यदेशं पुनः पुनः कुभाति केशाकर्पणप्रहारदान- दन्तनखकदानादिप्रकारेण मोहनीयकर्मावेशात्तथा क्रीडति यथा बलवान् रागः प्रसूयते, यद्वा 20 अङ्ग देहावयवो मैथुनापेक्षया योनिर्मेहनश्च, तन्यतिरिकान्यनगानि, कुचकक्षोरुवदनादीनि तेषु क्रीडनमनङ्गक्रीडनमिति। कामतीव्ररागः, कामे तीब्रो रागः, अतीवाऽऽग्रहः परित्यक्तान्यसकल- व्यापारस्य मैथुनेऽध्यवसायता,योषामुखकक्षोपस्थान्तरेषु अविवृप्ततया प्रक्षिप्य लिङ्ग महतीं वेलां निश्चलो मृत इवास्ते चटक इव चटका मुहुमुक्षुर्योपामारोहति, जातबलक्षयश्च वाजीकरणा- न्युपयुके इति । अत्र च श्रावकोऽत्यन्तपापभीरुतया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयासहि- 25 ष्णुतया तद्विधातुं न शक्नोति तदा यापनामात्रार्थ स्वदारसन्तोपादि प्रतिपद्यते, मैथुनमात्रेण च १. ननु स्वापत्यविवाहने कथं न दोष १ परविबाहनवदिति चेत्सत्यम् , निजकन्यायाः परिणयनामावे स्वच्छन्दचारिणीवप्रसझेन शासनोपघातसम्भवात् , कृते तु विवाहे पतिनियंत्रितत्वेन तदसम्मवादिति । सत्यपि कलने तत्र विशिष्टमन्तोषाभावात्स्त्रयं पुन कलत्रान्तरस्य विवाहन परकलविवाहन स्वदारसन्तोपवतोऽतिचार इति केचित् ॥ .. - ..

भावधर्मः] न्यायप्रकाशसमलते यापनायां सम्भवन्त्यामनङ्गक्रीडनकामतीव्ररागावर्थतः प्रतिषिद्धौ, तत्सेवने च न कश्चिद्गुणः प्रत्युत तात्कालिकी छिदा राजयक्ष्मादयश्च रोगा दोपा एव भवन्ति, एवं प्रतिषिद्धाचर: णाङ्गो नियमावाधनाचामन इत्यतिचारावेतौ ॥ धनधान्यसंख्यातिक्रमः, क्षेत्रवास्तुसंख्या- तिक्रमः, रूप्यस्वर्णसंख्यातिक्रमः, गोमनुष्यादिसंख्याविक्रमः, कुप्यसंख्यातिक्रमश्चेति पन्न पञ्चमवतातिचाराः । धनधान्यादीनां यावजीव चतुर्मासादिकालावधि वा यत्परिमाणं गृहीतं 5 तस्योल्लंघनरूपा एते, अतिचारा एते न साक्षात् गृहीतसंख्यातिक्रमरूपाः किन्तु बन्धन- योजनदानगर्भभावैः पञ्चभिहेतुमिः स्वबुद्ध्या व्रतमगमकुर्वत एव । तत्र धान्यस्य बन्ध- नात्संख्यातिक्रमो यथा-कृतधनधान्यपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनं धान्यं च ददाति तच्च उतभङ्गभयाचतुर्मास्यादिपरतो गृहतो धनादिविक्रये वा कृते ग्रहीष्यामीति भावनया वन्धनान्नियंत्रणात् रज्वादिसंयमनात् सत्यकारदानादिरूपाद्वा स्वीकृत्य तद्नेह एव स्थापय- 10 तोऽतिचारः । क्षेत्रवास्तुनो योजनात् क्षेत्रवास्त्वन्तरमीलनाद्गृहीतसंख्यातिक्रमोऽतिचारो भवति, तथाहि एकमेव क्षेत्र वास्तु चेत्यभिग्रहवतोऽधिकतरतदमिलापे सति व्रतभङ्गभयात् प्राक्तनक्षेत्रादिप्रत्यासन्नं सद् गृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थ वृतिभित्त्याचपनयने च तत्तत्र योजयतो व्रतसापेक्षत्वात्कयचिद्विरतिबाधनाचाऽविचारः। रूप्यसुवर्णस्य दानात्- वितरणाद् गृहीतसख्याया अतिक्रमो यथा केनाऽपि चातुर्मासाद्यवधिना रूयादिसंख्या 15 विहिता, तेन च तुष्टराजादेः सकाशात्तदधिक तल्लब्ध, तधान्यस्मै व्रतमगमयाददाति, पूर्णेऽवधौ ग्रहीष्यामीति भावनयेति व्रतमापेक्षत्वात् कथचिद्विरतिबाधनाचाविचार इति । गोमनुष्यादेगर्भवः संख्यातिकमो यथा केनाऽपि संवत्सराद्यवधिना द्विपद चतुष्पदानां परि- माणं कृतं, तेषां च संवत्सराधवधिमध्य एवं प्रसवेऽधिकद्विपदादिभावागतमः स्यादिति तद्भयात्कियत्यपि काले गते गर्भग्रहणं कारयतो गर्भस्थद्विपदादिमावेन बहिर्गततदमावेन च 20 कश्चिद्भवमङ्गादतिचारः । कुयस्य भावतरसंख्या विक्रमो यया कुष्यस्य या संख्या कना तस्याः कथञ्चिद् द्विगुणत्वे भूते सति व्रतभङ्गमयात्तेपो द्वयनकै महत्तरं कारयतः पर्याया- न्तरकरणेन संख्यापूरणात्स्वाभाविकसंख्यावाधनाचाविचार इति उक्ता अणुव्रतानां पञ्च पञ्चा- विचारास्संक्षेपेण ॥ . १. धनं गरिमवरिममेयपारिच्छेद्यभेदाचतुर्धा, यदाह-'गणिमं जाइफलफोफलाई धग्मि तु कुंकुम- गुडाई । मेज चोपडलोणाइ रयणवल्याइ परिच्छेज' इति, धान्यं चतुर्विषतिषा, सप्तदशधा वा । सस्योत्पत्तिमूमि. क्षेत्र सेतुमेतूभयात्मकभेदात्रिधा, अरपट्टजलासेच्य सेतुक्षेत्र, चारिदजलनिष्पायधान्यं केतुक्षेत्रं, उभयजलनिप्पावसस्यमुभयात्मक । वास्तु गृहादि प्रामनगगदि च, गृहादि त्रेधा स्वातं भूगृहादि उच्छ्रितं प्रासादादि उभयविषमुमयं । रुयं रजनं स्वर्ण उभयमपि घटितमघटितवानेकप्रकारम् । कुष्य कात्यलोहताम्रसीसकादिकम् ॥ , , 10 " :१४४: तस्वन्यायविमाकरे सप्तमकिरणे अवधिस्तिर्यक्षु निश्चितमानोल्लंघनरूपास्त्रयः क्षेत्रवृद्धिः स्मृतिभ्रंशोति पञ्च प्रथम- गुणवतस्यातिचाराः, दिग्बतविषयस्य पूर्वादिदेशस्य क्षेत्रस्य इस्वस्य पश्चिमादिक्षेत्रान्तर- परिमाणप्रक्षेपेण दीकिरण क्षेत्रवृद्धिः, यया केनाऽपि पूर्वापरदिशोः प्रत्येक योजनशन गमनपरिमाणं कृतं, स चोत्पन्नप्रयोजन एकस्यां दिशि नवति योजनानि व्यवस्थाप्यान्य- 5 स्यां तु दशोत्तरं योजनशतं करोति, उमाभ्यामपि प्रकाराभ्यां योजनावद्वयरूपस्य परिमाण- स्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्धयतो वसापेक्षत्वादतिचारश्चतुर्थः । स्मृतिभ्रंशो योजन- शतादिरूपदिक्परिमाणविषयस्यातिव्याकुलत्वप्रमादित्वमत्यपाटवादिना ध्वसः, तथाहि फेन- चित्पूर्वस्यां दिशि योजनशतरूपं परिमाणं कृतमासीत् गमनकाले च स्फुटतया न स्मरति शवं वा पंचाशद्वेति, यदि पञ्चाशतमतिक्रामति तदाऽतिचारः, शतमतिकामतस्तु भङ्गः, सापेक्षत्वा- निरपेक्षत्वाच्च तस्मात्स्मतव्यमेव गृहीतवतं, स्मृतिमूलं हि सर्वमनुष्ठानमिति पञ्चमोऽविचारः॥ सचिचः सचिचप्रतिबद्धः, संमिश्रः, अभिषवः, दुष्पकाहार इति द्वितीयगुणवतस्य पञ्चाऽतिचाराः, वित्तेन सह वर्तते इति सचित्ता, येन सचिवस्य परिहारः परिमाणं पा कृतमनामोगादिना सचित्तमधिकसचित्तं वा खादतस्तस्य सचिचाहाररूपः प्रथमोऽविचारः । सचित्तप्रतिबद्धस्सचेतनवृक्षादिसम्बद्धः, गुन्दादिः पक्कफलादिवा सचित्तान्तर्वीजः खर्जुरादिः 15 तदाहारो हि सचित्ताहारवर्जकस्यानामोगादिना सावद्याहारप्रवृत्तिरूपत्वादतिचारस, अथवा बीजं त्यक्ष्यामि सचेतनत्वात्तस्य, कटाहं त्वचेतनवादक्षयिष्यामीति धिया पकं खजूरादि- फलं मुखे प्रक्षिपतस्सचित्तवर्जकस्य सचित्तप्रतिवद्धाऽऽहारो द्वितीयः । सम्मिनः अर्धपरि- णतजलादिराद्रकदाडिमवीजपूरकचिर्मटिकादिमिश्रपूरणादिवा तिलमिश्रो यवधानादिवा, एत- दाहारोऽप्यनाभोगातिक्रमादिनाऽतिचारः। अथवा सम्मवत्सचिचावयवस्यापककणिकादे। 20 पिष्टत्वादिनाऽचेतनमिति बुद्ध्याऽऽहारः सम्मिश्राहारो ब्रतसापेक्षत्वादविचार इति तृतीयः । अभिषवः सुरासौवीरकादिः सुरामध्वायभिष्यन्दिवृष्यद्रव्योपयोगो वा, अयमपि सावद्याहारवर्जकस्यानाभोगादिनाऽविचार इति चतुर्थः । दुष्पकाहारः अर्द्धस्विन्नपृथुकतन्दु- लयवगोधूमस्थूलमण्डककङ्कड हुकफलादिरैहिकप्रत्यवायकारी यावता चांशेन सचित्तस्त्रावता परलोकमप्युपहन्ति, पृथुकादेर्दुष्पकतया सम्भवत्सचेतनावयवत्वात्मकेनाचेतन इति मुखान 25 स्यातिचार इति पञ्चमः, अमी पञ्च भोजनमाश्रित्य त्यक्तव्याः, भोगोपभोगोत्पादकं व्यापार- माश्रित्य तु पञ्चदशाविचारा धर्मसंग्रहादिग्रन्थेभ्योऽवसेयाः॥ कन्दर्पः, कौत्कुच्य, भोगभूरिता, १. स्मृतिभ्रंशादनाभोगाद्वा यदि परिमाणमतिकान्तो भवेत्तदा ज्ञाते तेन निर्वर्तितन्य परतश्च न गन्तव्यम् , अन्योऽपि न विसर्जनीय. । अब नाज्ञया कोऽपि ब्रजेत्तदा यत्तेन लब्ब स्वय विस्मृत्य गतेन वा नन्न गृह्यते, तीर्थ- यात्रादिधर्मनिमित्तं तु नियमितक्षेत्रात्परतोऽपि साधोरिवेर्यासमित्युपयोगेन गच्छतो न दोषः, धनार्मनायैहिक- फलार्थमेवाधिकगमनस्य नियमनादिति सम्प्रदाय ॥ ॥ .

भावधर्मः ] म्यायप्रकाशसमलते संयुक्ताधिकरणत्वं, मौखर्यश्चति पञ्चातिचारास्तृतीयगुणत्रतस्य । तत्र हेतुः कामप्रधानो वाक्प्रयोगः कन्दो मोहोदीपकं वा कर्मेति भावः । सामाचारी पात्र स्वस्य परस्य वा मोहोद्रेक जनक हि वास्यं श्रावकेण न वक्तव्यम् , अट्टहासोऽपि न कल्पते कर्तुं, यदि नाम हसितव्यमिति तदेवं प्रमादाकुर्वतोऽतिचारः । कुत्सितं कुचनि कुचभ्रूनयनोप्टनासाकरचरणमुग्धविकारै- संकुचतीति कुत्कुचः, कुदिति कुमायां निपातः, तस्य भावः कौकुच्यं, अनेकप्रकारा भण्डा- 5 दिविडम्वनक्रियेत्यर्थः । अथवा कौकुच्यमिति नामत्वे कुत्सितः कुचः संकोचादिक्रिया- भाक् तद्भावः कौकुच्यमिति विग्रहः। तत्र परे येन हसन्ति, आत्मनश्च लाघवं भवनि तादर्श श्रावकस्य न वक्तुं चेष्टितुं वा कल्पते, प्रमादात्त्याचरणे चातिचारः । भोगभूरिता भोगस्यो- पभोगस्य च स्नानपानभोजनचन्दनकुंकुमकस्तूरिकावस्त्राभरणादेः स्वस्वीयकुटुम्बव्यापारणा- पेक्षयाऽधिकत्वम् । भोगबहुत्वस्य प्रमादविषयात्मकत्वात्प्रमादाचरितस्यातिचारः । अत्र सामा- 10 चारी-ययुपभोग्यानि तैलामलकादीनि बहूनि गृहाति तदा तल्लोल्येन बहवः लातुं तडागादी ब्रजन्ति, ततश्च पूतरकादिवघोऽधिकः स्यात् स्यादेवं ताम्बूलादिष्वपि विभापा, न चैवं कल्पते, तत्र को विधिरुपभोगे ! स्नानेच्छुना वावगृह एव नातव्यं, नास्ति चेत्तत्र सामग्री तदा तलामलकैः शिरो घर्पयित्वा, तानि च सर्वाणि शाटयित्वा तडागादीनां तटे निविष्टोऽसलिमिः नाति, क्या येषु पुष्पादिषु कुन्थ्वादयस्सम्भवन्ति तानि परिहरति, एवं सर्वत्र वाच्यमिति । 15 संयुक्ताधिकरणत्वं, अधिक्रियते दुर्गतावात्माऽनेनेत्यधिकरणं उदूखलादि, संयुक्तञ्च तदधि- करणश्चेति विग्रहः। उदूखलेन मुसलं, हलेन फाला, शकटेन युग, धनुपा च शर इत्यादिरूप मित्यर्थः तद्भावस्संयुक्ताधिकरणत्वम्, एतच्च हिंस्रप्रदानवतस्यातिचारः । अत्रापि सम्प्रदाय आवकेण हि संयुक्तान्यधिकरणानि च न धारणीयानि, संयुक्ताधिकरणं हि या कश्चिदादीत, वियुक्त तु तत्र परः सुखेन प्रतिपेधितुं शक्यत इति । मौखर्य, मुखमस्यास्तीति मुखरस्तद्भावो 20 मौखर्य, पाष्टर्यप्रायमसभ्यासम्बद्धबहुप्रलपितम्, अयं पापोपदेशस्यातिचारः, मौखर्ये सति पापोपदेशसम्भवात् ,अपध्यानाचरितवते त्वनामोगादिनाऽपध्याने प्रवृचिरविचार इति गुणवत- स्यातिचाराः॥ योगदुप्पणिधान, मृत्यनवधारणं, अनादरश्चेति शिक्षापदन्नतस्य प्रथमस्याति- चाराः | योगदुष्प्रणिधानं त्रिविधं, कायदुष्पणिधानं वचोदुप्पणिधानं मनोदुष्प्रणिधानमिति, कायस्य सावद्ये प्रवर्तन कायदुष्पणिधानं शरीरावयवानां पाणिपादादीनामनिभृततावस्थान- 25 मित्यर्थः, वर्णसंस्काराभावोऽर्थानवगमश्चापलश्च बचोदुष्प्रणिधानम,क्रोधलोभद्रोहाभिमानेप्या- दयः कायव्यामङ्गसम्भ्रमश्च मनोदुष्प्रणिधानमिनि त्रयोऽनिचाराः। स्मृतेस्मामायिककरणावमा रविषयायाः कृतस्य वामामायिकस्य प्रचलनमादयोगादनवधारण मृत्यनवधारणम्, नया कदा - - - १९ तस्वन्यायविभाकरे [सतमकिरणे सामायिक कर्तव्यं, कृतं मया सामायिकं न घेत्येवरूपस्मरणभ्रंशोऽविचारो मोक्षानुष्ठानस्य स्मृतिमूलत्वादिति चतुर्थः । अनादरोऽनुत्साहः, प्रतिनियतवेलायां सामायिकस्याकरण, यथाकथञ्चिद्वा करणानन्तरमेव पारणञ्चेति पञ्चमोऽविचारः । ननु सति कायदुष्प्रणिधानादौ सामायिकस्य निष्फलत्वेन वस्तुन एवाभावः स्यात्, अतिचारस्तु तन्मालिन्यरूप एवं 5 भवतीति सामायिकस्यैवाभावेऽयमतिचारः कथं स्यादतो भङ्गरूपा एवैते नातिचारा इति चेदुच्यते, अनाभोगादतिचारत्वमिति । ननु द्विविधं त्रिविधेनेति सावंद्यप्रत्याख्यानं सामा- यिकं, तत्र च कायदुष्पणिधानादौ प्रत्याख्यानभङ्गात्सामायिकाभाव एव तद्गनितञ्च प्रायश्चित्तं विधेयं स्यात्, मनोदुष्पणिधानंञ्चाशक्यपरिहारं मनसोऽनवस्थितत्वादतस्सामायि- कप्रतिपत्तेस्सकाशात्तदप्रतिपत्तिरेव श्रेयसी, यदाहुः- अविधिकृताद्वरमकृत 'मिति, नैवम् , 10 यतः सामायिक द्विविधं त्रिविधेन प्रतिपन्न, तत्र च मनसा वाचा कायेन च सावचं न करोमि न कारयामीति षट् प्रत्याख्यानानीत्येकतरप्रत्याख्यानमङ्गेऽपि शेषसद्भावान्मि- ध्यादुष्कृतेन मनोदुष्पणिधानमात्रशुद्धश्च न सामायिकात्यन्ताभावः, सर्वविरतिसामा- यिकेऽपि तथाभ्युपगतं, यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चित्तमुक्तम् , अतो न प्रतिपत्तेर- प्रतिपत्तिर्गरीयसीति । किञ्च सातिचारादप्यनुष्ठानादभ्यासतः कालेन निरतिचारमनुष्यानं 16 भवतीति सूरयः । बाह्या अपि ' अभ्यासो हि कर्मणां कौशलमावहति, न हि सकृषिपात- मात्रेणोदबिन्दुरपि प्राणि निम्नतामादधाती'ति, न चाविधिकृताद्वरमकृतमिति युक्तमस्या- सूयावचनत्वात्तस्माद्धर्मानुष्ठानं निरन्तरं कार्यमेव, किन्तु तत्कुर्वता सर्वशच्या विधौ यतनीयं, इदमेव श्रद्धालोर्लक्षणमिति ॥ प्रेष्यप्रयोगः प्रेष्यानयनं शब्दानुपातनं रूपानुपातनं पुद्रलप्रेरणश्चेति पञ्चातिचारा द्वितीयशिक्षापदव्रवस्य, प्रेष्यस्य भृत्यादेविवक्षितक्षेत्राहिः 20 'प्रयोजनाय व्यापारणं प्रेष्यप्रयोगः । स्वयं हि गमने दिवसप्रहरमुहू दिपरिमाणस्य देशावकाशिकस्य अवस्य भङ्गः स्यादित्यन्यस्य प्रेषणं, गमनागमनादिव्यापारजनितप्रायुपमा मा भूदित्यभिप्रायेण हि तव्रतं गृह्यते से तु स्वयं कृतोऽन्येन वा कारित इति न कश्चित्फले विशेषः, प्रत्युत स्वयं गमने ईर्यापथविशुद्धेर्गुणः, परस्य पुनरनिपुणत्वादीर्यासमित्यभावे दोष इति प्रथमोऽतिचारः । प्रेष्यानयनं विवक्षितक्षेत्राद् बहिःस्थितस्य सचेतनादिगन्यस्य 25 प्रेष्येण विवक्षितक्षेत्रे प्रापणम् | स्वयं गमने हि व्रतभङ्गः स्यात् परेण त्वानयने न भर इति बुद्ध्या यदाऽऽनाययति सचेतनादिद्रव्यं तदाऽतिचार इति द्वितीयः । शब्दानुपातन क्षुत्कासितादेशश्रोत्रेऽवतारणम् , यथा विहितस्वगृहतिप्राकारादिव्यवच्छिन्नभूप्रदेशाभिग्रहः प्रयोजन उत्पन्ने विवक्षितक्षेत्राद्वहितभङ्गभयात्स्वयं गन्तुं वहिस्थितश्चासातुमशक्नुवम् वृतिप्राकारादिप्रत्यासन्नवर्तीभूय कासितादिशब्दमाह्वानीयानां श्रोत्रेऽनुपातयति, .ते च भावधर्म.] न्यायप्रकाशसमलते :१४७: तच्छ्रवणात्तत्समीपमागच्छन्तीति शब्दानुपानननामाऽविचारः । रूपानुपावनं यथा रूपं- शरीरसम्बन्धि, उत्पन्नप्रयोजनः शब्दमनुचारयन् आह्वानीयानां दृष्टावनुपातयति, बद्दर्शनाच ने तत्समीपमागच्छन्तीति रूपानुपातननामातिचारः । पुद्गलप्रेरणं पुदलाः परमाणवः तत्संघात- समुद्भवा चादरपरिमाणं प्राप्ता लोप्टादयोऽपि, तेपां क्षेपणं, विशिष्टदेशाभिग्रहे हि सति कार्यार्थी परगृहगमननिषेधाचदा लोष्टकान् परेषां वोधनाय क्षिपति पातसमनन्तरमेव ते 5 तत्समीपमनुधावन्ति ततश्च तान् व्यापारयत: स्वयमगच्छतोऽप्यविचारो भवतीति पञ्चमः । अत्रायद्वयमव्युत्पन्नवुद्धित्वेन सहसाकारादिना वा, अन्यत्रयन्तु मायापरतयाऽतिचारतां यातीति विवेकः । अत्र दिग्नवसंक्षेपकरणमणुप्रतादिसंक्षेपकरणस्याप्युपलक्षणं तेषामपि संक्षेपस्यावश्यं कर्तव्यत्वादिति विज्ञेयम् । ननु सर्वत्रातिचारा दिखतसंक्षेपकरणस्यैव श्रूयन्ते न वान्तरसंक्षेपकरणस्य तत्कथं ब्रतान्नरसंक्षेपकरणं देशावकाशिकनवमिति चेदुच्यते 10 प्राणातिपातादिब्रतान्तरसंक्षेपकरणेषु वधवन्धादय एवातिचाराः, दिग्वतसंक्षेपकरणे तु संक्षिप्तवाक्षेत्रस्य प्रेष्यप्रयोगादयोऽतिचाराः, भिन्नातिचारसम्भवाच दिनतसंक्षेपकरणस्यैव देशावकाशित्वं साक्षादुक्तमिति ।। अप्रत्युपेल्याप्रमृज्य च संस्वारः, अप्रत्युपेक्ष्याप्रमृज्य चा- दानं, अप्रत्युपेक्ष्याप्रमृज्य च हानं, अनादरः, अस्मृतिश्चति पश्चातिचाराः तृतीयस्य शिक्षा- पदनतस्य । तत्राप्रत्युपेक्ष्याप्रमृज्य च संवारः, संस्तीयते प्रतिपन्नपोषधव्रतेन दर्भकुशकम्बली 15 वस्त्रादिरिति संस्तारः, संस्तारशब्दश्च शय्योपलक्षणम् , तत्र शव्या-शयनं सर्वाङ्गीण वसतियां, संस्तारवार्धतृतीयहस्तप्रमाणः, स च प्रत्युपेक्ष्य प्रमाय च कर्तव्यः, प्रत्युपेक्षणं चक्षुषा निरीक्षणम् , प्रमार्जनञ्च रजोहरणवनप्रान्तादिना तस्यैव शुद्धीकरणम् । अथाप्रत्युपेक्ष्याप्रमृज्य च संस्तारकं करोति तदा पोषधव्रतमतिचरतीति प्रथमोऽतिचारः । अप्रत्युपेक्ष्याप्रमाज्यं चादानं, आदानं यष्टिपीठफलकादीनां ग्रहणम् , तदपि यष्टयादीनां निक्षेपस्योपलक्षणं तेनोभयमपि 20 प्रत्युपेक्ष्य प्रमृन्य च कार्यम् , अप्रत्युपेक्षिवस्याप्रमार्जितस्यादान निक्षेपश्चातिचार इति द्वितीयः। अप्रत्युपेक्ष्याप्रमाय च हान-उत्सर्गस्त्याग इति यावत्, तबोचारप्रश्रवणखेलसिङ्घाणका- दीनां प्रत्युपेक्ष्य प्रमृज्य च स्थंडिलादौ कार्यम् , अप्रत्युपेक्ष्याप्रसृज्य चोत्सर्जनमविचार इति तृतीयः । इह चाप्रत्युपेक्षणेन दुष्प्रत्युपेक्षणमप्रमार्जनेन च दुष्प्रमार्जनं सगृह्यते, नवः कुत्सास्यापि दर्शनात् यथा कुत्सितो ब्राह्मणोऽब्राह्मण इत्यादिः । अनादर:-अनुत्साहः 25 पोषधव्रतप्रतिपत्तिकर्तव्यतयोरिति चतुर्थः । अस्मृतिः अस्मरणं चद्विपयैवेति पञ्चमः ।। सचित्त स्थापन, सचित्तस्थगनं, मत्सरः, काललंघः, अन्यापदेशश्चेति चतुर्थस्य शिक्षापद- व्रतस्य पञ्चातिचाराः, तत्र सचिचे सचेतने पृथिवीजलकुम्भोपचुल्लीधान्यादौ स्थापन साधुदेवभक्कादेनिक्षेपणं तच्चादानबुद्ध्या मातृस्थानतो निक्षिपतीति प्रथमः । सचितेन कन्द- . तत्त्वन्यायविभाकरे [सक्षमकिरणे पत्रपुष्पफलादिना तथाविधयैव बुद्ध्या स्थगनं पिधानमिति द्वितीयः । मत्सर: कोपः यथा साधुभियांचितः कोपं करोति, सदपि मानि न ददाति अथवाऽनेन वावद्रवेण याचितेन दत्त, किमहं ततो न्यून इति मात्सर्यादाति । अत्र परोन्नतिवैमनस्यं मात्सर्य, इति तृतीयः । कालस्य साधूचितमिक्षासमयस्य लंघो-लंघनमतिक्रमः, अयं भावः कालं न्यून- 5. मधिकं वा ज्ञात्वा साधवो न ग्रहीष्यन्ति, ज्ञास्यन्ति च यथाऽयं ददातीत्येवं विकल्पतो दानार्थमभ्युत्थानमतिचार इति चतुर्थः। अन्यस्य परस्य सम्बन्धीदं गुडखण्डादीत्यपदेशः व्याजोऽन्यापदेशः अयं भावः परकीयमेतत्तेन साधुभ्यो न दीयत इति साधुसमक्षं भणनं, जानन्तु साधवो यद्यस्यैतद्भक्तादिकं भवेनदा कथमस्मभ्यं न दद्यादिति साधुसम्प्रत्ययार्थम् अथवास्माहानात् मम मात्रादेः पुण्यमस्त्विति भणनमिति पञ्चमः । इत्येवमविचारा आमो- 10 गेनापि विधीयमाना अतिचारा एवेत्युपासकदशावृत्तिः । धर्मबिन्दुयोगशालवृत्त्यादौ तु यदाऽनाभोगादिनाऽतिक्रमणादिना वा एतानाचरति तदाऽविचाराः, अन्यथा तु भङ्गा एवेति भावितमिति संक्षेपः । विस्वरस्तु अन्यग्रन्येभ्योऽवगन्तव्यः ॥ अस्योत्कृष्टां स्थितिमाह- उत्कर्षतो देशोनपूर्वकोटिं यावस्थितिकमिदम् ॥ उत्कर्षत इति । गर्मस्थो हि किल नवमासान् सातिरेकान् गमयति, जातोऽपि चाष्टौ वर्षाणि यावद् विरत्यनो भवति तवं ऊर्ध्व देशविरर्ति प्रतिपद्य पूर्वकोटिं जीवति तत उक्त देशोनेति, किञ्चिदूनवर्षनवकलक्षणेन देशेनोनेत्यर्थः । यतिधर्मासमर्थस्यागारिण इयं देशविरति- भवति । अत्रस्थो जीवोऽप्रत्याख्यानकषायचतुष्कमनुष्यत्रिकायसंहनवौदारिकद्वयबन्धन्यव- च्छेदात्सप्तषष्टेबन्धकः । अप्रत्याख्यानकषायनरत्तिर्यगानुपूर्वीद्वयनरकत्रिकदेवत्रिकवैक्रिय- 20 द्वयदुर्भगानादेयायशोरूपसप्तदशप्रकृतीनामुदयव्यवच्छेदात्सप्ताशीतेर्वेदयिता, अष्टत्रिंशदधिक- शतसत्ताकश्च भवति ॥ अधुना षष्ठं गुणस्थानं निरूपयति- संज्वलनकषायमात्रोदयप्रयुक्तप्रमादसेवनं प्रमत्तसंयतगुणस्थानम् प्रमादाश्च मदिराकषायविषयनिद्राविकथानामानः पञ्च । देशविरत्यपेक्ष: 25 याञ्च गुणानां विशुद्धिप्रकर्षोऽविशुद्ध्यपकर्षश्च, अप्रमत्तसंयतापेक्षया तु १ वर्षाणामष्टानामधो वर्तमानानां परिभवक्षेत्रत्वेन देशतसर्वतो वा चरणपरिणामो न भवति, पामा सिकानों वजस्वामिनों चरणप्रतिपत्तिस्त्वाश्चर्यभूता कादाचित्कीति बोध्यम् ॥ 15 . .

. . सप्तमगुण]. न्यायप्रकाशसमलते :१४: विशुद्ध्यपकर्षोऽविशुद्धिप्रकर्षश्च । एतदन्तर्मुहर्तमानमिति केचित् । पूर्व- कोटिं यावदित्यन्ये ॥ संज्वलनेति । यो हि सर्वसावधेभ्यस्सम्यगुपरतोऽपि केवलसंचलनकपायस्य तीब्रो- दयान्मदिरादिपञ्चविधप्रमादेष्वन्यतमं सन्विाऽन्तर्मुहूर्त सेवते तस्येदं गुणस्थानमित्यर्थः, अन्तर्मुहूतांदुपरि सप्रमादश्वेत् तस्मादधःपतनमेव स्यात् , प्रमादरहितश्चेदप्रमत्तगुणस्थानमारो- 5 हति । के ते प्रमादा इत्यत्राह-प्रमादाश्चेति । देशविरतगुणपेक्षयैतद्गुणानां विशुद्धिप्रकों - शुद्ध्यपकर्षश्च, अप्रमत्तसंयतगुणापेक्षया तु विपर्ययः, एवं सर्वगुणस्थानेषु भाव्यमित्यभिप्राये. णाह-देशविरत्यपेक्षयेति । अस्य स्थिती मतभेदं दर्शयत्येतदिति, परतो गुणस्थानान्तर- गमनात् मरणाद्वेति भावः, जघन्यतस्त्वेकरसमयस्तदूर्व मरणभावेनाधोगमनादिति । अष्ट- वर्षोनां पूर्वकोटिं यावदुत्कर्षतः प्रमत्तता स्यादिति केपाचिन्मतमादर्शयति-पूर्वकोटिमिति | 10 षष्ठसप्तमयोर्देशोनपूर्वकोटिं यावस्थितेव्यवस्था भगवतीसूत्रे त्वेवं-प्रमत्ताप्रमत्तगुणस्थाने प्रत्येक- मन्तर्मुहूर्तप्रमाणे एव, ते च पर्यायेण जायमाने देशोनपूर्वकोटिं यावदुत्कर्षेण भवता, महान्ति चाप्रमत्तापेक्षया प्रमत्तान्तर्मुहूतानि कल्प्यन्ते, एवं चान्तर्मुहूर्तानां प्रमत्ताद्धानां मेलने देशोन- पूर्वकोटीकालमानं भवतीति दृश्यते । अत्र जीवः प्रत्याख्यानावरणकपायचतुष्कव्यवच्छेदा: निषष्टेबन्धकः । तिर्यगतितिर्यगायुर्नीचैर्गोत्रोद्योतप्रत्याख्यानरूपाष्टप्रकृत्युदयव्यवच्छेदादाहा- 15 रकद्वयोदयाचकाशीतेर्वेदयिता, अष्टत्रिंशदधिकशतसत्ताकश्च भवति ।। एतईि सप्तमं गुणस्थानमाह- संज्वलनकषायनोकषायाणां मन्द्रोदयतः प्रमादाभावोऽप्रमत्तसंयत- गुणस्थानम् । नोकषाया हास्यादयषड् वेदत्रयश्च । अन्तर्मुहर्तस्थितिक- मिदम् ॥ संज्वलनेति । यत्र हि महाव्रती साधुः संज्वलनाभिधक्रोधादीनां कपायचतुष्टयानां नोकपायाणां नवविधानाञ्च मन्द्रोदयतोऽतीब्रविपाकोदयेन पूर्वोदितपश्चविधप्रमादरहितो भवति तदप्रमत्तसंयतगुणस्थानमित्यर्थः । अत्र नष्टाखिलप्रमादो महाव्रतादिमिरष्टादशस- 20 . . १. ननुदेशविरतादिवत्प्रचुरमपि कालं न कथं प्रमत्तत्व मजेत । यतोऽन्तर्मुहूर्तमेव तदिति नित्यः स्यादिति चेन्न, संक्लेशस्थानापेक्षं हि प्रमत्ततं, संशस्थानानि च संख्येयलोकाक शप्रदेशप्रमाणानि, यावदुप- शमणि क्षपकणिं वा मुनि रोहति तावदवश्य स्वभावादेवान्तर्मुहूर्त संक्लेशस्थानेपु स्थित्वा विशोधिस्थान याति तत्रापि तावत्कालमेव स्थित्वा सक्लेशस्थानं याति, एवमेव निरन्तरं परावृत्ती. देशोनपूर्वकोटिं यावत्क- रोतीत्येकजीवाश्रयेणोत्कर्पतोऽप्यन्तर्मुहर्तमिति भावः ॥

5 :१५० तत्वन्यायविभाकरे [ सप्तमकिरणे हस्रशीलाङ्गलक्षणैरन्वितो ज्ञानध्यानधनो मौनी सम्यक्त्वमिश्रमिथ्यात्वानन्तानुबन्धिचतु- ष्टयलक्षणसप्तकातिरिक्तकविंशतिप्रकृतिरूपस्य मोहनीयस्य प्रशमाय क्षयाय वा निरालम्बन ध्यानप्रवेशप्रारम्भ कुरुते । के ते नोकषाया इत्यत्राह-नोकपाया इति । हास्यादय इत्यादिना रत्यरतिशोकमयजुगुप्सा ग्राह्याः, वेदत्रयबेति, पुंस्त्रीनपुंसकरूपमित्यर्थः । स्थितिमस्य गुण- स्थानस्याह-अन्तरिति । जघन्या त्वेकः समयः । अत्र वर्तमानो जीवः शोकारत्यस्थिरा- शुभायशोऽसातव्यवच्छेदादाहारकद्विकबन्धाच्चैकोनषष्टेबन्धकः । तथा यदि देवायुरपि न बध्यते वदाष्टपञ्चाशतो बन्धकः । एवं स्त्यानर्द्वित्रिकाहारकद्विकोदयव्यवच्छेदात् षट्सप्ततेर्वेद यिवा, अष्टत्रिशदधिकशतसत्ताकश्च भवति ॥ .इंदानीमष्टमं गुणस्थानं प्रदर्शयति- स्थितिघातरसघातगुणश्रेणिगुणसंक्रमापूर्वस्थितिबन्धात्मकानामर्था- वां विशुद्धिप्रकर्षादपूर्वतया निवर्तनमपूर्वकरणगुणस्थानम् ॥ :: स्थिनिघातेति । स्थिवर्षातः स्तोककरणं करणविशेषेण, एवं रसघातोऽपि, गुणानां श्रेणिरनन्तगुणवृद्धिकरणम्, गुणेन संक्रमण-नयनं गुणसंक्रमः,, अपूर्वायास्थिते घुतया बन्धोऽपूर्वस्थितिबन्धः । एतेषां विशुद्धिविशेषादिदम्प्रथमतया करणं यत्रेत्यर्थः । अपूर्वम- 15 मिनवमनन्यसदृशं करणं स्थितिघातरसघातगुणश्रेणिगुणसंक्रमस्थितिबन्धानां पञ्चानां पदा- यांनां निर्वनं यत्र तदपूर्वकरणमिति व्युत्पत्तेः ॥ 1 - 10 ., स्थितिघातादीनां किं स्वरूपमित्याशवायामाह- .. प्रचुरमानाया ज्ञानावरणीयादिकर्मस्थितेरपवर्तनाभिधकरणेन तनू- करणं स्थितिघातः। प्रचुररसस्य तेनैव करणेन तनूकरणं रसघातः । तेनैव 20 करणेनावतारितस्य दलिकस्य प्रतिक्षणमसंख्येयगुणवृद्धया . विरचनं गुणश्रेणिः॥ प्रचुरमानाया इति । गरीयस्या ज्ञानावरणादिकर्मणां स्थितेरपवननाकरणेनाल्पीकरण- मित्यर्थः । रसघातस्वरूपमाह-प्रचुररसस्येति । कर्मपरमाणुगतस्निग्धलक्षणस्य प्रचुरीभूतस्य रसस्येत्यर्थः, तेनैव करणेनापवर्तनाकरणेनेत्यर्थः, पूर्वगुणस्थानेष्वेतौ द्वावपि विशुद्धघल्पतया- - १. कश्चित्प्रमत्त सन् सुरायुर्वद्धमारमते बन्धश्च समापयति तदा सप्त व्यवच्छियन्त इति भावः ।

अपूर्वस्थितिबन्धः ] न्यायप्रकाशसमलड़ते ऽल्पावेव करोत्यस्मिस्तु विशुद्धिवृद्धितः बृहत्प्रमाणतयेमावपूर्वो करोति । गुणश्रेणिस्वरूपमा- चष्टे-तेनैव करणेनेति । अपवर्तनाकरणेनैवोपरितनस्थितेर्विशुद्धिवशादवतारितस्य दलिका स्यान्तर्मुस यावदुयक्षणादुपरि द्रुततरक्षपणाय प्रतिक्षणमसंख्येयगुणवृद्ध्या शुद्धधपकर्षतः पूर्वगुणस्थानेषु दलिकरचनामाश्रित्य उघीयस्तया कालतो वाघीयस्तया दलिकस्याल्पस्याए- 'वर्चनाकरणेन कृतस्य कालवो हस्खतरवया दलिकरचनामाश्रित्य च पृथुतरतया बहुतरस्य 5 वस्य थद्विरंधनं सा गुणश्रेणिरित्यर्थः ॥ गुणसंक्रमस्वरूपमाह- बध्यमानशुभप्रकृतिध्ववध्यमानाशुभप्रकृतिदलिकस्य विशुद्धितो नयनं गुणसंक्रमः॥ बध्यमानेति । गुणेन प्रतिसमयमसख्येयलक्षणेन गुणकारेण संक्रमो बध्यमानप्रकृति- 10 व्यतिरिक्तप्रकृतिदलिकं बध्यमानासु शुभप्रकृतिषु प्रक्षिप्य बध्यमानप्रकृतिरूपतया तस्य परिणमनं गुणसंक्रमः, अपूर्वकरणादारभ्य पट्चत्वारिंशदशुभप्रकृतीनां सक्रमो भवति, ताश्च प्रकृतयो मिथ्यात्वातपनारकायुर्वजो मिथ्यादृष्टियोग्यास्त्रयोदश, अनन्तानुबन्धिविर्यगायुरु- योतर्जात्सास्वादनयोग्या एकोनविंशतिः, मध्यमकपायाष्टकास्थिराशुभायश कीर्तिशोका- ! रत्यसातवेदनीयाः । तत्र मिथ्यात्वस्यानन्तानुबन्धिनाञ्चापूर्वकरणादागेव संक्रमः, अत एवा: 15 विरतसम्यग्दृष्ट्यादयश्च क्षपयन्ति | आतपोद्योते च शुभे, अशुभप्रकृतीनामेव गुणसंक्रमात् । आयुषाञ्च परप्रकृतौ सक्रमासमवादिह तद्वर्जनं बोध्यम् । निद्राद्विकोपघाताप्रशस्तवर्णादि- जवकहास्यरतिजुगुप्सानां त्वपूर्वकरणे स्वस्वबन्धव्यवच्छेदादारभ्य गुणसंक्रमो भवति तदेत- -दुक्तं बध्यमानशुभप्रकृतिष्वबध्यमानाशुभप्रकृतिदलिकस्येति ।। अपूर्वस्थितिवन्धमाख्याति-- विशुद्धिप्रकर्षेण गुयाः कर्मस्थितेलघुतया बन्धनमपूर्वस्थितिबन्धः । अन्तर्मुहर्तकालमेतत् । अत्रस्थो जीवः क्षपक उपशमकश्चेति द्विविधः ।। विशुद्धिप्रकणेति। प्राकर्मणामशुद्धत्वाझाघीयस्तया बद्धायाः स्थितेविशुद्धिवशात् पल्यो पमासंख्येयमागेन हीनहीनतरहीनतमतया बन्धनमपूर्वस्थितिबन्ध इत्यर्थः । अस्य गुणस्था- नस्य कालमानमाह-अन्तरिति । जघन्यतस्त्वेकरसमयः । अत्र श्रेणिद्वयं दर्शयितुमाह- 35 अत्रस्थ इति । क्षपणाईत्वादुपशमनाहत्वाच क्षपणोपशमनाभावेऽपि राज्याईकुमारस्य राज- बत् तथोच्यत इति बोध्यम् । गुणस्थानेऽस्मिन् त्रैकालिकानेकजीवापेक्षया प्रतिसमयं यथो- 20 ।।

- . वस्वन्यायविभाकरे [ससमकिरणे चरमधिकत्याऽसंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति । आयक्षण एचैतद्गुणस्थानप्रपन्नत्रैकालिकेनानाजीवाश्रयेण जघन्यादीन्युत्कृष्टान्तानि असंख्येयलोकाकाश- प्रदेशप्रमाणान्यव्यवसायस्थानानि भवन्ति, ततोऽधिकाधिकानि द्वितीयाविक्षणेषु तु स्युः। स्व- भावविशेषाच द्वितीयादिसमयेषु अध्यवसायस्थानानां वृद्धिः । अत्र च प्रथमसमयजघन्या- , व्यवसायादनन्तगुणविशुद्धं प्रथमसमयोत्कृष्टाध्यवसायस्थानम् । तस्माच द्वितीयसमयजघन्या- ध्यवसायस्थानमनन्तगुणविशुद्धम्, ततश्च तदुत्कृष्टमनन्तगुणविशुद्धमित्येवं यावद् द्वि- चरमसमयोत्कृष्टाध्यवसायस्थानाचरमसमयजघन्याध्यवसायस्थानमनन्तगुणविशुद्धं तस्मादपि तदुत्कृष्टमनन्तगुणविशुद्धमिति । अस्यैव च निवृत्तिबादरसम्परायमिति नामान्तरम् । अनेकजीवानामेतद्गुणस्थानं युगपत्प्रविष्टानां परस्सरमध्यवसायस्थानव्यावृत्तेः । एकसमयगतानि 10 चामून्यव्यवसायस्थानानि परस्परं षट्स्थानपतितानीति दिक् ॥ अथ क्षपकश्रेणिरुपशमश्रे- णिश्च बोधायोच्यते संक्षेपतः प्रसङ्गात् । वर्षाष्टकोपरि वर्तमानो, वर्षभनाराचसंहननवाम् शुद्धध्यानातिमना अविरतदेशविरतप्रमत्ताप्रमत्तसयवानामन्यतमः पुमान् आपकश्रेणिप्रति- पता भवति । केवलं यद्यप्रमत्तसंयतः पूर्वविचर्हि शुक्लध्यानोपगतः, शेषस्तु सर्वोऽपि धर्म- ध्यानोपगतः । सम्प्रति प्रथममनन्तानुबन्धिनां विसयोजना प्रोच्यते, श्रेणिप्रतिपत्रवश्यं पूर्व- मनन्तानुबन्धिनो विसंयोजनाया आवश्यकत्वात् । अनन्तानुबन्धिनां विसंयोजकञ्चतुर्ग- .' तिको जीवस्तवाऽपि देवो नैरयिको वाऽविरतसम्यग्दृष्टिः, तिर्यक्पश्चेन्द्रियः सर्वाभिः पर्याप्तिमिः पर्याप्तोऽविरतसम्यग्दृष्टिर्देशविरतो वा, मनुष्यस्त्वविरतसम्यग्दृष्टिदेशविरतसंवविरतो वा भवति । तत्र यथासम्भवं विशुद्धपरिणामोऽनन्तानुबन्धिनां क्षपणाय यथाप्रवृत्त्यपूर्वानिवृत्ति- करणानि करोति, अन्तरकरणं तु न करोत्यत एव प्रथमस्थितिमपि न करोति, उपशमोऽपि न भवति, तेषां गुणसंक्रमश्चात्रापूर्वकरणप्रथमसमयात्प्रवर्तते । तथाहि ताशसमय एव दलि- कमनन्तानुबन्धिनां शेषकषायात्मकपरप्रकृतौ स्तोकं संक्रमयति, द्वितीये समये ततोऽसंख्येय- गुणं, तृतीये च. ततोऽप्यसंख्येयगुणमेवमेव यावदपूर्वकरणचरमसमयम् । एष गुणसंक्रमः । 'अपूर्वकरणे उद्वलनासंक्रमानुविद्धगुणसंक्रमेणानन्तानुबन्धिनश्शेषप्रकृतिरूपतया व्यवस्था- 15 20 :, १. यद्यप्यत्र कालत्रयापेक्षणात् अनन्तजीवरस्य प्रतिपन्नत्वात्प्रतिपत्स्यमानत्वाचैतद्गुणस्थानं प्रतिपन्नाना- मनन्ताध्यवसायस्थानानि प्रसज्यन्ते तथापि बहूनामेतत्स्थानप्रतिपतॄणामेकाध्यवमायस्थानवर्तित्वादपि न दोष । अध्यवसायस्थानाना भिन्नत्व एव तथा सम्भवात् ॥ २. अनन्तभागवद्धयसंख्यातमागविसंख्यातभागवृद्धि सख्ये- । गुणवृद्धचसंख्येयगुणवृद्धयनन्तगुणवृद्धिरूपपदस्थानकपतितानीत्यर्थ ॥ ३. प्रथमस्थितिखण्डस्य स्थित्यपेक्षया बृहत्तरस्य द्वितीयादिस्थितिखण्डानाच विशेषविशेषहीनाना यद्धातन तेन निष्पनो व उद्वलनासंक्रमस्त- पदविध इत्यर्थः॥

अपकणिः ] न्यायप्रकापसमलते पनेन विनाशयति । उद्वलनासंक्रमे तु प्रथमतः पल्योपमासंख्येयमागमानं स्थितिखण्डमन्त- मुहूर्तेन कालेनोकियते । उत्कीरणं नाम घनदलान्वितस्याल्पदलोचारणं, तदेव चोरलनमु- च्यते । ततो द्वितीय स्थितिखण्ड प्रथमस्थितिखण्डाद्विशेषहीनतरं पल्योपमासंख्येयभागमात्र- मन्तर्मुहर्चेन कालेन विनाशयति, एवं प्रत्येकमन्तर्मुहुःन कालेनोत्कीर्यमाणानि पल्योपमा- संख्येयभागमात्राणि स्थितिखण्डानि पूर्वपूर्वस्थित्यपेक्षया विशेषतो हीनानि विनाशयवि, B इत्येवंरूप उद्वलनासंक्रमः । अनिवृत्तिकरणं च प्राप्तो गुणसंक्रमानुविद्धोद्वलनासंक्रमेणाधस्सा- दावलिकामानं मुक्त्वोपरि निरवशेषानन्तानुबन्धिनो विनाशयति, आवलिकामानं तु स्तिबुक- संक्रमेण वेधमानासु प्रकृतिषु संक्रमयति, ततोऽन्तर्मुहूर्तात्परतोऽनिवृत्तिकरणपर्यवसाने शेषकर्म- णामपि स्थितिघातरसघातगुणश्रेणयो न भवन्ति, किन्तु स्वभावस्थ एव भवति चतुर्विशतिम- कर्मा । तदेवं क्षपिताऽनन्तानुवन्धिचतुष्को दर्शनमोहनीयक्षपणाय यतते, तदारम्भको मनुष्यो 10 जिनकालसम्मवी वर्षाष्टकोपरि वर्तमानो वर्षभनाराचसंहननश्च भवति । दर्शनमोहक्षपणार्थ यथाप्रवृत्यादीनि त्रीणि करणानि करोति, अनिवृत्तिकरणादायाच वर्चमानो दर्शनत्रिकस्य स्थितिसत्कर्म तावदुद्वलनासंक्रमेणोद्वलयति यावत्पल्योपमासंख्येयभागमानमवतिष्ठते, ततो मि- ध्यात्वदलिकं सम्यक्त्वमित्रयोः प्रक्षिपति, तश्चैवं, प्रथमसमये स्तोकं द्वितीयसमये ततोs- संख्येयगुणमेवं यावदन्तर्मुहुर्तचरमसमय, आवलिकागत मुक्त्वा शेष द्विचरमसमयसंक्र. 15 मितदलिकादसंख्येयगुणं संक्रमयति, आवलिकागवन्तु स्विबुकसंक्रमेण सम्यक्त्वे प्रक्षि- पति, एवं मिथ्यात्वं क्षपितम् । ततोऽन्तर्मुहुःन सम्यमिथ्यात्वमप्यनेनैव क्रमेण सम्य- क्त्वे प्रक्षिपति, ततस्सम्यमिथ्यात्वं अपितम् । ततस्सम्यक्त्वमपवर्तयितुं तथा लग्नो यथाऽन्तर्मुहुर्तेन तदप्यन्तर्मुहूर्तमानस्थितिकं जातं, वञ्च क्रमेणानुभूयमानमनुभूयमानं सप्त समयाधिकावलिकाशेष जावं, तोऽनन्तरसमये तस्योदीरणाव्यवच्छेदस्ततो विपाकानु- 30 भवेनैव केवलेन वेदयति यावञ्चरमसमयं, ततोऽनन्तरसमयेऽसौ क्षायिकसम्यग्दृष्टिर्जायते । इह यदि बद्धायुः क्षपकश्शेणिमारमते तदाऽनन्तानुबन्धिक्षयानन्तरच मरणसम्भवतो व्युपरमते, ततः कदाचिन्मिथ्यात्वोदयाद्भूयोऽप्यनन्तानुबन्धिन उपचिनोति, वद्वीजस्य मिथ्यात्वस्या- विनाशात् । क्षीणमिथ्यादर्शनस्तु नोपचिनोति मिथ्यात्वाभावात् । क्षीणसप्तका पूर्ववद्धायु- राश्रित्य सर्वगनिभाग्भवति यदि तिर्यड्मनुष्यो वा भवति तदाऽसंख्येयवर्षायुष्केष्वेव । 25 बद्धायुष्कोऽपि यदि तदानीं कालं न करोति तथापि सप्तके क्षीणे नियमादवतिष्ठते, न तु चारित्रमोहक्षपणाय यत्नमादधाति, अथ क्षीणसप्तको गत्यन्तरं संक्रामन् कतितमे भवे २० तस्वन्यायविभाकरे [ससमीकरण मोक्षमुपयातीति चेदुच्यते तृतीये चतुर्थे वा भवं इति । तथा क्षीणसमकः पूर्वबद्धायुष्कोऽपि यदि वदानीं कालं न करोति तर्हि कश्चिद्वैमानिकेष्वेव बद्धायुष्कश्चारित्रमोहनीयोपशमार्थ- मपि यतते, न शेषभवेषु बद्धायुष्कः । यदि पुनरबद्धायुः आपकश्रेणिमारमते ततः सप्तके क्षीणे .नियमादनुपरतपरिणाम एव चारित्रमोहनीयक्षपणाय यतते । यतमानश्च तत्र 5 यथाप्रवृत्त्यादीनि त्रीणि करणानि करोति, अप्रमत्चगुणस्थाने यथाप्रवृत्तिकरणमपूर्वगुणस्थानेऽ- पूर्वकरणमनिवृत्तिबादरसम्परायेऽनिवृत्तिकरणम् । तत्रापूर्वकरणे स्थितिघातादिमिरप्रत्याख्या- नप्रत्याख्यानावरणकषायाष्टकमनिवृत्तिकरणाद्धाप्रथमसमये पल्योपमासंख्येयमागमात्रस्थितिक यथा भवेत्सथा क्षपयति । अनिवृत्तिकरणाद्धायाश्च संख्येयेषु भागेषु गतेषु स्त्यानईित्रिकनरक- तिर्यग्गतिनरकतिर्यगानुपूर्येकद्वित्रिचतुरिन्द्रियजातिस्थावरातपोद्योतसूक्ष्मसाधारणानां षोडश- 10 प्रकृतीनामुलनासंक्रमेणोद्वल्यमानानां पल्योपमासंख्येयभागमात्रा स्थितिर्जाता, ततो बध्य- मानासु प्रकृतिषु तानि षोडशापि कर्माणि गुणसंक्रमेण प्रतिसमयं प्रक्षिप्यमाणानि निःशेष- तोऽपि क्षीणानि भवन्ति, इहाप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं पूर्वमेव क्षपयितुमा- रब्धं परं वन्नाचापि क्षीणं केवलमपान्तराल एव पूर्वोकं प्रकृतिषोडशक क्षपितं पश्चात्तदपि कषायाष्टकमन्तर्मुहुःन क्षपयतीत्येष सूत्रादेशः । अन्ये त्वाहुः षोडशकर्माण्येव पूर्व क्षपयितु- 15 मारभते केवलमपान्तरालेऽष्टौ कषायान् क्षपयति पश्चात् षोडशकर्माणीति । ततोऽन्तर्मुहूर्तेन नवानां नोकषायाणां चतुण्णां संज्वलनानाचाऽन्तरकरणं करोति । तच्च कृत्वा नपुंसकवेद- दलिकमुपरिवनस्थितिगतमुद्वलनविधिना क्षपयितुमारमते । तच्चाऽन्तर्मुहूर्तेन पल्योपमासंख्ये- यभागमात्रं भवति, ततःप्रभृति बध्यमानासु प्रकृतिषु गुणसंक्रमेण तहलिक प्रक्षिपति, तश्चैवं प्रक्षिप्यमाणमन्तर्मुहून निःशेष क्षीणम् | अघस्तनस्थितिदलिकं च यदि नपुंसकवे- 20 देन झपकणिमारूढस्ततोऽनुभवतः क्षपयति, अन्यथा त्वावलिकामात्रं तद्वति, तब वेद्य- मानासु प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयति । तदेवं क्षपितो नपुंसकवेदः । ततोऽन्तर्मुहूर्तेन स्त्रीवेदोऽप्यनेनैव क्रमेण क्षिप्यते, ततः षट् नोकषायान् युगपत्क्षपयितुमारभते, ततःप्रभृति च तेषामुपरितनस्थितिगत: लिकं न पुरुषवेदे संक्रमयति किन्तु संज्वलनक्रोध एव, एतेऽपि च पूर्वोदितविधिना क्षिप्यमाणा अन्तर्मुहूर्चेन निशेिष क्षीणास्तत्समय एव च १. यदि स्वर्ग नरके वा गच्छति तदा स्वर्गमवान्तरितो नरकमवान्तरितो वा तृतीयमवे मोक्षमुप. याति, यदि तु तिर्यक्षु मनुष्येषु बोत्पद्यते तदावश्यमसंख्येयवर्षायुकेध्वेव, न सख्येयवर्षायुष्केषु, ततस्तद्भवान- न्तरं देवभवं ततश्युत्वा मनुष्यभवं ततो मोक्षं यातीति चतुर्थमवे मोक्षगमनम् । इदश्च प्रायिक, क्षीणस- तकस्य कृष्णस्य पञ्चमभवेऽपि मोक्षगमनश्रवणात् । २. नपुंसकवेदेन श्रेणिमनारूढश्वेदित्यर्थ. ।

- क्षपकश्रेणिः] न्यायप्रकाशसमलट्टते पुंवेदस्य ‘बन्धोदयोदीरणाव्यवच्छेदा, समयोनाबलिकाद्विकवद्धं मुक्त्वाऽशेषदलिकायश्च, वत्तोऽसाविदानीमवेदको जाना, क्रोधं च वेदयतस्तस्य क्रोधाद्धायास्त्रयो विमागा भवन्ति, अश्वकर्णकरणाद्धा किट्टिकरणारा किट्टिवेदनाद्धा चेति, नत्राश्वकर्णकरणाद्धायां वर्चमानः प्रतिसमयमनन्तान्यपूर्वस्पर्धकानि चतुर्णामपि संज्वलनानामन्तरकरणादुपरितनस्थितौ करोति, अथ किमिदं स्पर्धकमुच्यते-इह तावदनन्तानन्तः परमाणुमिनिष्पन्नान् स्कन्धान जीवः । कर्मतया गृह्णाति वन चैकैकस्मिन् स्कन्धे यः सर्वजघन्यरसः परमाणुस्तस्याऽपि रसः केवलि- प्रज्ञया छिद्यमानः सर्वजीवेभ्योऽनन्तगुणान् रसभागान् प्रयच्छति अपरस्तानप्येकाधिका- नन्यस्तु पधिकानेवमेकोत्तरया वृक्ष्या वा वन्नेयं यावदन्त्यपरमाणुरभव्यानन्तगुणान् सिद्धा- नन्तभागेनाधिकान रसमागान् प्रयच्छति, वत्र जघन्यरसा ये केचन परमाणवस्तेषां समुदा- यस्समाननातीयत्वादेका वर्गणेत्युच्यते, अन्येषां वेकाधिकरसमागयुक्तानां समुदायो द्वितीया 10 वर्गणा, अपरेषां तु व्यधिकरसभागयुक्तानां समुदायस्तृतीया वर्गणा, एक्मनया दिशैकैक- रसभागवृद्धानामनां समुदायरूपा वर्गणासिद्धानन्तमागकला अभव्यानन्तगुणा वाच्याः । एवासाञ्च समुदायः स्पर्धकमित्युच्यते । इत ऊर्ध्वमेकोत्तरया निरन्तरया वृद्ध्या प्रवर्धमानो- रसो न लभ्यते किन्तु सर्वजीवानन्तगुणैरेव रसमागैः, ततस्तेनैव क्रमेण ततःप्रभृति द्वितीय स्पर्धकमारभयते, एवमेव च तृतीयमेवं वावद्वाच्यं यावदनन्तानि स्पर्धकानि, एतेभ्य 15 एव चेदानी प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवशादनन्तगुणहीनरसाः कृत्वा पूर्ववत्स्पर्ध- कानि करोति, न चैवंभूतानि पूर्व कदावनापि कृतानि ववोऽपूर्वाणीत्युच्यन्ते, अस्यां चाश्व- कर्णकरणाद्धायां वर्तमानः पुवेदं समयोनावलिकाद्विकेन कालेन क्रोधे गुणसंक्रमेण संक्रमयन् चरमसमये सर्वसंक्रमेण संक्रमयति, तदेवं क्षीणः पुंवेदः, अश्वकर्णकरणाद्धायाञ्च समाप्तायां किट्टिकरणाद्धायाश्च वर्तमानश्चतुर्गामपि संज्वलनानामुपरितनस्थितिदलिकस्य किट्टीः करोति, 20 किट्टयो नाम पूर्वस्पर्धकेभ्यः प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवशादत्यन्तहीनरसाः कृत्वा तासामेकोत्तरवृद्धित्यागेन वृहदन्तरालवया व्यवस्थापनम् । यथा यासामेव वर्गणानाम- सत्कल्पनयाऽनुमागभागानां शतमेकोत्तरादि वाऽऽसीत् तासामेव विशुद्धिप्रकर्षादनुभाग- भागानां दशकस्य पञ्चदशकादेश्व व्यवस्थापनमिति । एताश्च किट्टयः परमार्थतोऽनन्ता अपि स्थूलजातिभेदापेक्षया द्वादश कल्प्यन्ते, एकैकस्य कपायस्य तिम्नस्विनः, वद्यथा, प्रथमा 25 १. पुवेदिन प्रारम्भकस्यैतत् । यदा नपुंसकबेदी प्रारम्भक. तदा प्रथमं त्रीवेदनपुंसकवेदी युगपरक्षपयति; तत्क्षयसमय एव पुंवेदवन्धव्यवच्छेद । तत. पुंवेदहास्यकट्के युगपत्क्षपयति । यदा स्त्रीवेदी प्रारम्भक. तदा प्रथमं नपुंमकवेदं ततस्त्रीवेदं क्षपयति तत्सयसमकालमैव व पुंवेदवन्धव्यवच्छेदः, तत 'पुवेदहास्यपट्रकयो- युगपत्क्षय इति ॥ २. 'वेदिन इत्यर्थः ।, , । तत्वन्यायविभाकरें [ सप्तमकिरणे द्वितीया तृतीया च, एवं क्रोधेन पकणि प्रतिपन्नस्य द्रष्टव्यम् । यदा तु मानेन प्रति- पद्यते तदोलनाविधिना क्रोचे क्षपिते सति शेषाणां त्रयाणां पूर्वक्रमेण नव कीट्टीः करोति, मायया चेत्प्रतिपन्नस्तहि क्रोधमानयोरुद्वलनविधिना क्षपितयोः सतोः शेषद्विकस्य पूर्वक्रमेण षट् किट्टीः करोति, यदि पुनर्लोभेन प्रतिपद्यते तत उद्वलनविधिना क्रोधत्रिके क्षपिते सति 5 लोभस्य किट्टित्रिकं करोति, एष किट्टिकरणविधिः ॥ किट्टिकरणाद्धायां निष्ठितायां क्रोधेन प्रनिपन्नः सन् क्रोधस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थिति करोति वेदयते च तावद्यावत्समयाधिकालिकामानं शेषः। ततोऽनन्तरसमये द्वितीयकिट्टिदलिकं द्वितीय- स्थितिगतमाकृj प्रथमस्थितिं करोति वेदयते च तावद्योवत्समयाधिकावलिकामानं शेषः । ततस्तृतीयकिट्टिदलिकं द्वितीयस्थितिंगतमाकृष्य प्रथमस्थिति करोति वेदयते च तावद्याव- 10' समयाधिकावलिकामानं शेषः, तिसंवपि चामूषु किट्टिवेदनाद्धासूपरितनस्थितिगतं दलिक गुणसंक्रमेणापि प्रतिसमयेमसंख्येयगुणवृद्धिलक्षणेन संज्वलने माने प्रक्षिपति, तृतीयकिट्टिवेद- नाद्धायाश्चरमसमये संज्वलनक्रोधस्य बन्धोदयोदीरणानां युगपद्वयवच्छेदः, सत्कर्माऽपि च तस्य समयोनावलिकाद्विकबद्धं मुक्त्वाऽन्यन्नास्ति सर्वस्य माने प्रक्षिप्तत्वात् , ततो मानस्य प्रथमकिद्विदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तांवद्यावदन्त- 15 मुंहूर्त, क्रोधस्याऽपि च बन्धादौ व्यवच्छिन्ने सति तस्य दलिकं समयोनावलिकाद्विकेन कालेन गुणसंक्रमेण संक्रमयन् चरमसमये सर्व संक्रमयति, मानस्यापि च प्रथमकिट्टिदलिक प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकाशेषं जातं, तवो मानस्य द्वितीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथम स्थिति करोति वेदयते च तावद्यावत्समयाधिकावलिकामा शेषः, ततस्तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च 20 तावद्यावत्समयाधिकावलिकामानं शेषः, तस्मिन्नेव च समये मानस्य बन्धोदयोदीरणानां युगपद्व्यवच्छेदः, सत्कर्मापि च तस्य समयोनावलिकाहिकबद्धमेव, शेषस्य क्रोधशेषस्येव मायायां प्रक्षिप्तत्वात् , ततो मायायाः प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थिति करोति चेदयते च तावद्यावदन्तर्मुहूर्त संज्वलनमानस्य च बन्धादौ व्यवच्छिन्ने सति तस्य दलिकं समयोनावलिकाद्विकेन कालेन गुणसंक्रमेण मायायां सर्व प्रक्षिपति, मायाया अपि 25 च प्रथमकिट्टिदलिकं द्वितीयस्थितिगतं प्रथमस्थितीकृतं वेद्यमान समयाधिकावलिकाशेष जातं, ततो मायाया द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः, वनस्तृतीयकिट्टिदलिक द्वितीयस्थि- तिगतमाकृष्य प्रथमस्थिति करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः, तस्मिन्नेव च समये मायाया बन्धोदयोदीरणानां युगपद्व्यवच्छेदः, सत्कर्मापि च तस्याः .

, क्षपकणिः] न्यायप्रकाशसमलङ्कृते । :१५७: समयोनावलिकाद्विकवद्धमात्रमेव, शेपस्य गुणसंक्रमेण लोभे प्रक्षिप्तत्वात् ततो लोभस्य प्रथमकिट्टिदलिकं द्वितीयस्थिनिगतमाकृष्य प्रथमस्थिति करोति वेदयते च तावद्यावदन्तर्मुहुर्त, संचलनमायायाश्च वन्धादौ व्यवच्छिन्ने सति तस्या दलिक समयोनावलिकादिकेन कालेन गुणसंक्रमेण लोभे सर्व संक्रमयति, संचलनलोभस्य च प्रथमकिट्टिइलिक प्रथमस्थितीकृतं वेद्यमान समयाधिकावलिकामानं शेषं जातं, ततो लोभस्य द्वितीय किट्टिदलिक द्वितीयस्थिति-5 गतमाकृष्य प्रथमस्थितिं करोति वेदयते च, तां च वेदयमानस्तृतीयकिट्टिदलिकं गृहीत्वा सूक्ष्मकिट्टीः करोति तावद्यावद् द्वितीयकिट्टिदलिकस्य प्रथमस्थितीकृतस्य वेद्यमानस्य समया- धिकावलिकामात्र शेषः, तस्मिन्नेव च समये संज्वलनलोभस्य वन्धव्यच्छेदो बादरकपायो- दयोदीरणाव्यवच्छेदोऽनिवृत्तिवादरसम्परायगुणस्थानकव्यवच्छेदश्च युगपन्नायते ततस्सूक्ष्म- किट्टिदलिकं द्वितीय स्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तदानीमसौ सूक्ष्मसम्प- 10 राय उच्यते, पूर्वोक्ताश्चावलिकास्तृतीयकिट्टिगताः शेपीभूवास्सर्वा अपि वेद्यमानासु परप्रक- तिपु स्तिवुकसंक्रमेण संक्रमयति प्रथमद्वितीयकिट्टिगताश्च यथास्वं द्वितीयतृतीयकिट्टयन्तर्गता वेद्यन्ते, सूक्ष्मसम्परायश्च लोभस्य सूक्ष्मकिट्टीवेदयमानः सूक्ष्मकिट्टिदलिकं समयोनावलिका- द्विकबद्धं च प्रतिसमयं स्थितिघावादिभिस्तावत्क्षपयति यावत्सूक्ष्मसम्परायातायाः संख्येया भागा गता भवन्त्येकोऽवशिष्यते, ततस्तस्मिन् संख्येये भागे संज्वलनलोम सापवर्तनयाs- 15 पवर्य सूक्ष्मसम्परायाद्धासमं करोति, सा च सूक्ष्मसम्परायाद्धाऽद्याप्यन्तर्मुहुर्तमाना, ततः प्रभृति च मोहस्य स्थितिघातादयो निवृत्ताः, शेपकर्मणान्तु प्रवन्त एव, वां च लोभस्याप- वर्जितां स्थितिमुदयोदीरणाभ्यां वेदयमानस्तावद्गतो यावत्समयाधिकावलिकामानं शेषः, तत उदीरणा स्थिता, तत उदयेनैव केवलेन तां वेदयते यावञ्चरमसमय, तस्मिश्च चरमसमये ज्ञानावरणपञ्चकदर्शनावरणचतुष्कयशःकीत्युच्चैर्गोत्रान्तरायपश्वकरूपाणां पोडशकर्मणां वन्ध- 20 व्यवच्छेदः, मोहनीयस्योदयसत्ताव्यवच्छेदश्च भवति, ततोऽसौ क्षीणकषायो जायते, तस्य च शेपकर्मणां स्थितिघातादयः पूर्ववत्प्रवर्तन्ते यावत्क्षीणकपायातायाः संख्येया भागा गता भवन्त्येकस्संख्येयो भागोऽवतिष्ठते, तस्मिंश्च ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरण- चतुष्टयनिद्राद्विकरूपाणां षोडशकर्मणां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य क्षीणकपायाखासम करोति, केवलं निद्राद्विकस्य स्वस्वरूपापेक्षया समयन्यून सामान्यतः कर्मरूपतया तु तुल्यं, 25 सा च क्षीणकपायावाऽद्याप्यन्तर्मुहूर्तमाना, ततः प्रभृति च तेषां स्थितिघाताइयः स्थिताः, शेषाणान्तु भवन्त्येव, तानि च पोडाकर्माणि निद्राद्विकहीनानि उदयोदीरणाभ्यां वेदयमा- नस्तावद्गतो यावत्समयाधिकावलिकामानं शेपः, तत उदीरणा निवृत्ता, तत आलिकामा थावदुदयेनैव केवलेन वानि वेदयते यावत्क्षीणकपायावाया द्विचरमसमयम् , तस्मिश्च द्विचर- . :१५८: तत्त्वन्यायविभाकरे [ससमकिरणे मसमये निद्राद्विक स्वरूपसत्तापेक्षया क्षीणं, चतुर्दशानां च प्रकृतीनां चरमसमये क्षया, ततोऽनन्तरसमये केवली जायत इति क्षपकश्रेणिः ॥ अथोपशमश्रेणिस्तदारम्भकोऽप्रमत्त- संयत एव, उपशमश्रेणिपर्यवसाने त्वप्रमत्तप्रमत्तसंयतदेशविरगविरतानामन्यतमो भवति, अन्ये स्वविरतदेशविरतप्रमचाप्रमत्तसंयतानामन्यतमोऽमन्तानुबन्धिनः कषायानुपशमयति 5 दर्शनत्रिकादिकं तु संयम एव वर्तमान इत्याहुः । तत्र प्रथममनन्तानुबन्धिनामुपशमनाऽमि- धीयते, अविरवादीनामन्यतमोऽन्यतमस्मिन् योगे वर्तमानस्तेजःपद्मशुक्ललेश्यान्यतमलेश्या- युक्तः साकारोपयोगयुक्तोऽन्तःसागरोपमकोटीकोटिस्थितिसत्कर्मा करणकालापूर्वमप्यन्तर्मुहूर्त यावविशुद्ध्यमानचित्तसन्तविरवतिष्ठते, तथावतिष्ठमानश्च परावर्तमानाः प्रकृतीः शुमा एव बन्नाति, नाऽशुभाः, प्रतिसमयञ्चाऽशुभानां कर्मणामनुभागमनन्तगुणहान्या करोति 10 शुभानाश्चाऽनन्तगुणवृद्ध्या, स्थितिबन्धेऽपि च पूर्णे सत्यन्य स्थितिबन्ध पूर्वपूर्वस्थिति- बन्धापेक्षया पल्योपमासंख्येयभागहीनं करोति, पूर्णे चान्तर्मुहुर्ने क्रमेण प्रत्येकमा- न्तर्मुर्तिकानि त्रीणि यथाप्रवृत्त्यादीनि करणानि करोति, चतुर्थी तूपशमाखां, फरण वक्तव्यता च सर्वापि कर्मप्रकृतेरवसेया, अनिवृत्तिकरणादायाश्च संख्येयेषु भागेषु गतेषु एकस्मिन् भायेऽवतिष्ठमानेऽनन्तानुबन्धिनामधस्तादावलिकामानं मुक्त्वाऽन्तर्मुहर्तमान- 1B मन्तरकरणममिनवस्थितिबन्धाद्धासमेनान्वर्मुहूर्तेन करोति, अन्तरकरणदलिकं चोत्कीर्यमाणं बध्यमानासु परप्रकृतिषु प्रक्षिपति प्रथमस्थित्यावलिकागतं च दलिक स्तिबुकसंक्रमेण वेद्यमानासु परप्रकृतिषु प्रक्षिपति, अन्तरकरणे च कृते द्वितीयसमयेऽनन्तानुबन्धि- नामुपरितनस्थिविदलिकमुपशमयितुमारभते, तथा हि प्रथमसमये स्वोकं, द्वितीयसमये ततोऽ- संख्यातगुणं, तृतीयसमयेऽपि ततोऽसंख्येयगुणं यावदन्तर्मुहून साकल्यतोऽनन्तानुवन्धिन 20 उपशमिता भवन्ति, उपशमना नाम यथा रेणुनिकरः सलिलबिन्दुनिवहरभिषिच्याभिषिच्य दुषणादिमिनिकुट्टितो निस्पन्दो भवति तथा कर्मरेणुनिकरोऽपि विशुद्धिवारिपूरेण परिपिच्य परिपिच्यानिवृत्तिकरणरूपद्रुघणनिकुट्टितः संक्रमणोदयोदीरणानिधचनिकाचनाकरणानामयोग्यो भवति, अन्ये त्वनन्तानुबन्धिनामुपशमनां न मन्यन्ते किन्तु विसंयोजनां-क्षपणां, सा च १. या. प्रकृतयोऽन्यस्या प्रकृतेर्वन्धमुदयं वा विनिवार्य स्वकीयं बन्धमुदयमुभयं वा दर्शयन्ति ता. परावर्तमानाः । तत्र ज्ञानावरणपञ्चकमन्तरायपञ्चकं दर्शनावरणचतुष्टयं पराघाततीर्थकरोच्छासमिध्यात्वमय- जुगुप्सागुरुरघूपघातनिर्माणतेमसवर्णादिवतुष्ककार्मणानि चैत्येकोनत्रिंशत्प्रकृतयो अन्धमुदयावाप्रित्यापरा- वर्तमानाः, आसा बन्धस्योदयस्य वा शेषप्रकृतिमिर्वध्यमानामिवेद्यमानाभिर्वा हन्तुमशक्यत्वात् । शेषा बन्ध- माश्रित्यकनवतिसंख्या उदयापेक्षया सभ्यक्त्वसम्यमिथ्यात्वसहितानिनवति परावर्तमाना- ! पोडश कषाया निद्रापञ्चकं च स्वोदये सजातीयप्रकृत्युदयनिरोधात्सरावर्तमानाः स्थिरशुभास्थिराशुभप्रकृतयो बन्धं प्रति परावर्तमाना. ॥ इतरास्तु बन्धोक्ष्याभ्यामपि परावर्तमाना इति ॥

उपशमणिः] न्यायप्रकाशसमलङ्कृते प्रागेवोका, संप्रति दर्शनत्रिकस्योपशमना भण्यते, इह क्षायोपशमिकसम्यग्दृष्टिः संयमे वर्तमानोऽन्तर्मुहूर्तेन दर्शनत्रिकमुपशमयति, उपशमयंश्च पूर्वोक्तकरणत्रयनिवर्त्तनेन विशुद्धया वर्धमानोऽनिवृत्तिकरणाद्धाया असंख्येयेषु भागेषु गतेष्वन्तरकरणं करोति, तच्च कुर्वन् सम्य- क्त्वस्य प्रथमस्थितिमन्तर्मुहूर्तमानां स्थापयति मिथ्यात्वमित्रयोश्चावलिकामात्रं उत्कीर्यमाणश्च दलिकं त्रयाणामपि सम्यक्त्वस्य प्रथमस्थितौ प्रक्षिपति, मिथ्यात्वमिनयोः प्रथमस्थितिद-5 लिकं सम्यक्त्वस्य प्रथमस्थितिदलिकमध्ये स्तिबुकसंक्रमेण संक्रमयति, सम्यक्त्वस्य पुनः प्रथमस्थितौ विपाकानुभवतः क्रमेण क्षीणायामुपशमसम्यग्दृष्टिर्भवति, उपरितनलिकस्य चोपशमना त्रयाणामपि मिथ्यात्वादीनामनन्तानुवन्धिनामुपरितनस्थितिवृलिकस्येवाव- सेया, एवमुपशान्तदर्शनत्रिका प्रमत्ताप्रमत्तपरिवृत्तिशवानि कृत्वा चारित्रमोहमुपशमयितु- काम: पुनरपि यथाप्रवृत्त्यादीनि त्रीणि करणानि करोति, केवलमिह यथाप्रवृत्तिकरण- 10 मप्रमत्तगुणस्थानेऽपूर्वकरणञ्चापूर्वकरणगुणस्थाने अनिवृत्तिकरणश्वानिवृत्तिवादरसंपरायगुण- स्थानके अपूर्वकरणे च स्थितिघातादिभिर्विशुद्धष ततोऽनन्तरसमयेऽनिवृत्तिकरणे प्रविशति, अनिवृत्तिकरणाद्धायाश्च संख्येयेषु भागेषु गतेपु दर्शनसप्तकवर्जितानामेकविंशतेर्मोहनीयप्रकृती- नामन्तरकरणं करोति, तत्र यस्य वेदस्य संज्वलनस्य चोदयोऽस्ति तयोः स्वोदयकालमानां प्रथमस्थितिं करोति शेषाणान्त्वेकादशकपायाणामष्टानां च नोकषायाणामावलिकामात्रं, 15 वेदन्त्रिकसंज्वलनचतुष्कोदयकालमानमन्तरकरणगतदलिकप्रक्षेपस्वरूपश्च कर्मप्रकृतितीकातोs- वसेयम्, अन्तरकरणश्च कृत्वा ततो नपुंसकवेदमन्तर्मुहूत्रेनोपशमयति, तथाहि प्रथमसमये स्तोक, द्वितीयसमये ततोऽसंख्येयगुणं, एवञ्च प्रतिसमयमसंख्येयगुणं तावदुपशमयति यावच्च रमसमयं, परप्रकृतिषु च प्रतिसमयमुपशमितदलिकापेक्षया तावदसंख्येयगुगं प्रक्षिपति यावद् द्विचरमसमयम्, चरमसमये तूपशम्यमानं लिकं परप्रकृतिषु संक्रम्यमाणदलिका- 20 पेक्षयाऽसंख्येयगुणं द्रष्टव्यम् । उपशान्ते च नपुंसकवेदे त्रीवेदं प्रागुंक्तविधिनाऽन्तमुहूं- नोपशमयति, ततोऽन्तर्मुहूर्तेन हास्यादिषट्कं तस्मिश्चोपशान्ते तत्समयमेव पुरुषवेदस्य १. अनन्तानुवन्धिवांना द्वादशाना कषायाणा नव नोकषायाणामित्यर्थः ॥ २. स्त्रीवेदनपुंसक- वेदयोदयकालस्सर्वस्तोक., स्वस्थाने तु परस्परं तुल्य तत पुरुषवेदस्य संख्ययगुण- ततस्संज्वलन- क्रोधस्य विशेषाधिकः, ततोऽपि संचलनमानस्य विशेषाधिकः, ततोऽपि संज्वलनमायायास्ततोऽपि संचलनलोभस्येति स्वोदयकालप्रमाण वद्यम् । अन्तरकरणसत्कदलिकप्रक्षेपविविश्व येषा कर्मणा तदानीं वन्ध उदयश्च विद्यते तेषामन्तरकरणसत्कदलिक प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति, यया पुरुषवेदाल्ल पुरुषवेदस्य । येपा केवलमुदय एंव तेपामन्तरकरणसत्कदलिकं प्रथमस्थितावेव प्रक्षिपति, यया स्त्रीवेदस्य । येषान्तु केवलं बन्ध एव तेषा तद्दलिक द्वितीयस्थितावेव प्रक्षिपति, यथा संज्वलनक्रोधाडसंज्वलनमानादीनाम् । येषा पुनर्न बन्धो नाप्युदयस्तेषा दलिक परप्रकृती प्रक्षिपति यया द्वितीयतृतीयकषायाणामिति ॥ . .

- . तस्वम्यायविमाकर [ सप्तमकिन बन्धोदयोदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन पुंवेदमुपशमयति, ततो युग. पदन्तर्मुहूर्त्तमात्रेणाप्रत्याख्यानप्रत्याख्यानावरणक्रोधौ, तदुपशान्तौ च तत्समयमेव संज्वलन- क्रोधस्य बन्धोदयोदीरणाव्यवच्छेदः, ततस्समयोनावलिकाद्विकेन संज्वलनक्रोधमुपशमयति ततोऽन्तर्मुहूर्तेनाऽप्रत्याख्यानप्रत्याख्यानावरणमानौ युगपदुपशमयति, तदुपशान्तौ च वत्स- 5 मयमेव संज्वलनमानस्य बन्धोदयोदीरणाव्यवच्छेदः, ततस्समयोनावलिकाद्विकेन संज्वलन- मानमुपशमयति, ततो युगपदन्तर्मुहूर्तेनाऽप्रत्याख्यानप्रत्याख्यानावरणमाये उपशमयति, तदुप- शान्तौ च तत्समयमेव संज्वलनमायाया बन्धोदयोदीरणाव्यवच्छेदः, ततोऽसौ लोभवेदको जातः, लोभवेदनाद्धायाश्च त्रयो विभागास्तद्यथा-अश्वकर्णकरणाद्धा किट्टिकरणाद्धा किट्टिवेद नाद्धा च, तत्राग्रयोयोनिभागयोर्वर्तमानः संचलनलोमस्य द्वितीयस्थितेः सकाशाइलिकमा- 10 कृष्य प्रथमस्थितिं करोति वेदयते च, अश्वकर्णकरणाखायाश्च वर्तमानः प्रथमसमय एवं त्रीनपि लोमानप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनरूपान् युगपदुपशमयितुमारभते । विशुद्धया वर्ध- मानवापूर्वाणि स्पर्धकानि करोति संज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने सति ततः समयो- नावलिकाद्विकेन संज्वलनमायामुपशमयति, एवमश्वकर्णकरणाद्धायां गवायां किट्टिकरणादायां प्रविशति, तत्र च पूर्वस्पर्धकेभ्योऽपूर्वस्पर्धकेभ्यश्च द्वितीयस्थितिगतं दलिकं गृहीत्वा प्रतिसमय- 15 मनन्ताः किट्टीः करोति । किट्टिकरणाद्धायाश्चरमसमये युगपदप्रत्याख्यानप्रत्याख्यानावरणलो. भावुपशमयति तदुपशान्तौ च तत्समयमेव संज्वलनलोभबन्धव्यवच्छेदो बादरसंज्वलनलोमो- दमोदीरणाव्यवच्छेदश्च, वतोऽसौ सूक्ष्मसंपरायो भवति, तदा चोपरितनस्थितेः सकाशात्क- तिपयाः किट्टीः समाकृष्य प्रथमस्थिति सूक्ष्मसंपरायाद्धातुल्यां करोति वेद्यते च, सूक्षास- म्परायादा चाऽन्तर्मुहूर्तमाना, शेषं च सूक्ष्म किट्टीकृतं दलिकं समयोनावलिकाद्विकबद्धं 20 चोपशमयति, सूक्ष्मसम्परायाद्धायाश्च चरमसमये संज्वलनलोम उपशान्तो भवति, ततोऽ- नन्तरसमयेऽसावुपान्तमोहो भवति, स च जघन्येनैकसमयमुत्कर्षतोऽन्तर्मुहूतं यावदुप- तिष्ठवे तत अर्व नियमादसौ प्रतिपतति, प्रतिपातश्च द्विधा भवक्षयेणाद्धाक्षयेण च, तत्र भवक्षयो म्रियमाणस्य, अद्धाक्षय उपशान्ताद्धायां समाप्तायां । अद्धाक्षयेण च प्रतिपतन यथैवारूढस्तथैव प्रतिपतति, यत्र यत्र बन्धोदयोदीरणा व्यवच्छिन्नास्तत्र तत्र प्रतिपत्ता 25 सता तेन ता अद्धाक्षयेणारभ्यन्त इति यावत् , प्रतिपतंश्च तावत्प्रतिपतति यावत्प्रमत्तसंयत- गुणस्थानं, कश्चिऍनस्ततोऽप्यधस्तनं गुणस्थानद्विकं याति कोऽपि सास्वादनभावमपि, यः , । . १. पश्चानुपूर्व्या पतित प्रमत्तगुणस्थानमागस तत्र विश्रम्य प्रमत्ताप्रमत्तगुणस्थानकयो प्रभूतानि सहस्राणि यावत्परिवृत्ती कृत्वा कश्चिद्देशविरताविरतसम्यग्दृष्टिगुणस्थानद्विकमपि गच्छेदिति भाव । २. येषा मतेनाऽनन्तानुवन्धिनामुपशमना भवति तेषां मतेन कश्चित्सास्वादनभावमपि गच्छेदिति भाव ॥

ममितिकरण. ग्यापनकायसमलवे पुनर्भवक्षयेण प्रतिपचति स नियमावनुचरविमानसर्वार्थसिद्धवासित्पद्यते, उत्पन्नश्व प्रथम- समय एव सर्वाण्यपि बन्धनादीनि करणानि प्रवयतीति विशेष इत्युपशमणिः ।। अस्मिन्नष्टमगुणस्थाने जीवः निद्राद्विकदेवद्विकपश्चेन्द्रियत्वप्रशस्तविहायोगतित्रसनवकवैक्रिया- हारकवैजसकामणवैक्रियाङ्गोपाङ्गाहारकाङ्गोपाहायसंस्थाननिर्माणतीर्थचत्ववर्णचतुष्कागुरुलघू- पघातपराघातोच्छासरूपद्वात्रिंशत्प्रकृतिव्यवच्छेदात् षड्विंशतिबन्धकः । अन्त्यसंहननत्रिकस- 5 म्यक्त्वोदयव्यवच्छेदाद् द्वासप्ततेर्वेदयिता, अष्टत्रिंशदधिकशतसत्ताकश्च भवति ॥ अधुना नवमं गुणस्थानमाचष्टे- अन्योन्याध्यवसायस्थानव्यावृत्त्यभावविशिष्टसूक्ष्मसम्परायापेक्ष- स्थूलकषायोदयवत्स्थानमनिवृत्तिकरणगुणस्थानम्। अन्तर्मुहूर्त्तकालमेतत्। अवस्थोऽपि द्विविधः क्षपक उपशमकश्चेति। क्षपकश्रेणिस्था क्षपका, अयं 10 दर्शनावरणीयप्रकृतित्रिकं नामप्रकृतित्रयोदशकं मोहनीयप्रकृतिविंशति- खात्र क्षपयति । उपशमश्रेणिस्थ उपशमकः । मोहनीयप्रकृतिविंशतिमे- वोपशमयत्ययम्॥ अन्योऽन्येति । युगपदेव यत्स्थानप्रविष्टानामनेकेषामपि जीवानां परस्पराव्यवसायस्था- नानि न व्यावृत्यन्ते तथा सूक्ष्मसम्परायापेक्षया यत्र स्थूलकषायोदयो भवेत् तादृशम- 15 निवृत्तिकरणगुणस्थानमित्यर्थः । युगपदेतद्गुणस्थान प्राप्तानामनेकेषामपि जीवानामन्योऽन्य- मध्यवसायस्थानस्य निवृत्तिनास्ति यत्र, यदीयगुणस्थानाद्धायामान्तौहर्जिक्या प्रथमसमया- दारभ्य प्रतिसमयमनन्तगुणविशुद्धं यथोचरमध्यवसायस्थानं भवति, यावन्तश्चाऽन्तर्मुहूत्तै समयास्तावन्त्येवाऽव्यवसायस्थानानि तत्प्रविष्टानां भवन्ति नाऽधिकानि, एकसमयप्रविष्टानां सर्वेषामप्येकाव्यवसायस्थानत्वात्, तथा सूक्ष्मकिट्टीकृतकषायोदयापेक्षया स्थूलः कषायोदयो-20 भवति वाहशमनिवृत्तिकरणगुणस्यानमिति भावः । अस्योत्कृष्टकालमाह-अन्तरिति । जघन्य- तस्त्वेकरसमयः । अत्रापि जीववैविध्यं दर्शयति-अत्रस्थोऽपीति । क्षपकस्वरूपमाह-क्षपकेति । कषायाष्टकादीनां क्षपयितेत्यर्थः । काः कर्मप्रकृतीः क्षपयतीत्यवाह-अयमिति । दर्शना- धरणीयत्रिकमिति, निद्रानिद्रामचलाप्रचलास्यानद्धिरूपमित्यर्थः, नामेति, नरकठिकतिपूरिद्ध- कसाधारणोद्योतसूक्ष्मनामकद्वित्रिचतुरिन्द्रियनासातपस्थावररूपमित्यर्थः । मोहनीयेति, अ- प्रत्याख्यानप्रत्याख्यानकपायनपुंसकतीवेदहाखरसरतिभयशोकजुगुप्सापुरुषवेदसंज्वलनक्रोध- 25 . १. देवायुर्व युर्वन्धे उपशमश्रेण्यारोहणाभावादिति भाव ॥

तस्वन्यायविभाकरे . [सहमकिरणे मानमायारूपामित्यर्थः । उपशमकखरूपमाह-उपशमेति । कपायाष्टकादीनामुपशमयितेत्यर्थः । मोहनीयेति । अप्रत्याख्यानप्रत्याख्यानसंज्वलनकोधमानमायाप्रत्याख्यानप्रसाख्यानलोमहा- स्यपटुवेदत्रयरूपविंशतिप्रकृतिमेवेत्यर्थः । अत्रस्थो जीवो हास्यरत्यरतिभयशोकजुगुप्साव्यव- च्छेदाद द्वाविंशतेर्बन्धकः । अत्र पड्विंशतिप्रकृतिभ्यो हास्यादिषटप्रकृतिविगमे विशतेरवशेषा- । यद्यपि द्वाविंशतेर्बन्धकत्वमनुपपन्नं तथापि नानाजीवापेक्षया तथोक्तिः, एकजीवापेक्षया तु चतसृणामेवापगमः । हास्यषट्रोदयव्यवच्छेदाच षषष्टेवेंदयिता, ध्युत्तरशतसत्ताकच, माना- न्तपश्चत्रिंशत्प्रकृतिसत्ताव्यवच्छेदात् ॥ " साम्प्रतं दशम गुणस्थानस्वरूपमाह- मोहनीयविंशतिप्रकृतीनां शमनात् क्षयाद्वा सूक्ष्मतयां लोभमात्राव- 10 स्थानस्थानं सूक्ष्मसम्परायगुणस्थानम् । अन्तर्मुहूर्त्तमानमेतत् ॥ मोहनीयेति । विंशतिप्रकृचिस्से मोहे शान्ते क्षीणे वा सूक्ष्मखण्डीभूतातिदुर्जयसं- खलनलोभमानावस्थानस्य स्थानमित्यर्थः, शमनात् क्षयादिति पदाभ्यामत्रस्थोऽपि जीवः क्षपक उपशमकश्चेति द्विविध इति सूचितम् । अत्र क्षपकश्रेण्या समागत उपशमश्रेण्या समागतश्च संज्वलनलोभं क्रमेण क्षपयत्युपशमयति चेत्यर्थः । सूक्ष्मतयेति-अनिवृत्तिबादरेण 16 किट्टीकृतत्वादिति भावः । अस्य कालनियममाह-अन्तरिति । उपशान्तकषायस्तु सज्वलनलो- भमुपझमय्यैकादशगुणस्थानं यातीति । क्षपकस्तु लोभ क्षपयित्वोचं द्वादशगुणस्थानं यातीति च विज्ञेयम् । सूक्ष्मसम्परायाद्धाचरमसमये तस्य लोभस्य क्षयो वोपशमो वा भवतीति विभावनातोऽन्तर्मुहूर्तमानमुक्कम् , अत्रस्थो जीवः पुंवेदसंज्वलनचतुष्कबन्धव्यवच्छेदात्सप्त- दुशकर्मप्रकृतेर्बन्धकः, त्रिवेदनिसंज्वलनोदयव्यवच्छेदात् पष्टेर्वेदयिता, मायासत्ताव्यवच्छेदादू- 30 धुत्तरशतसत्ताकश्च ॥ ... : . उपशमश्रेणिद्वारा समायातस्योपशान्तसब्बलनलोमस्य प्राप्यं गुणस्थानमेकादशमाह - उपशमश्रेण्या सर्वकषायाणामुदयायोग्यतया व्यवस्थापनस्थानमुप- शान्तमोहगुणस्थानम् । अत्राष्टाविंशतिमोहनीयप्रकृतीनामुपशमो भवति, उपशान्तमोहस्तूत्कर्षेणाऽन्तर्मुहर्तकालमत्र तिष्ठति । तत ऊर्ध्व निय- 25 मादसौ प्रतिपतति । चतुर्वारं भवत्यासंसारमेषा श्रेणिः ॥ उपशमश्रेण्यति । उपशमश्रेण्या सर्वेषां क्रोधादीनां कपायाणां विद्यमानानामपि भस्म- -- .

सरुमसम्पराय.] न्यायप्रकाशसमलङ्कृते च्छन्नामिरिव संक्रमणोद्वर्तनादिकरणायोग्यतया यन्त्र व्यवस्थापनं तादृशमुपशान्तमोहगुण- स्थानमित्यर्थः, इदमेव चोपशान्तकषायवीतरागच्छद्मस्थगुणस्थानमित्यप्युच्यते, क्रोधमानमाया- लोभोदयविगमात्, ज्ञानावरणीयादिधातिकर्मोदयावस्थानाच । सूक्ष्मस्यापि संज्वलनलोभस्य सर्वथोपशमनादृष्टाविंशतिमोहनीयप्रकृतीनामुपशमो जात इत्याशयेनाह-अत्रेति । एतद्गुण- स्थान उपशमयितुस्स्थितिकालनियममाह-उपशान्तमोहस्त्विति । जघन्येनैकस्समय इत्यपि 5 घोध्यम् । अन्तर्मुहूर्तानन्तरमसौ क यातीत्यवाह-वत ऊर्ध्वमिति । उपशान्तस्यावश्यमुदय- नियमेनोदिते च चारित्रमोहनीये व्यवत्येवेति भावः । ननूपशमश्रेणिरेकेनासंसारं कतिवार कर्तुं शक्यत इत्यत्राह-चतुर्वारमिति । एकस्मिन् भवे तूत्कर्षतो द्वौ बारावुपशमश्रेणि प्रतिपद्यते परन्तु तस्य नियमेन तस्मिन् भवे न क्षपकश्रेणिः, यस्त्वेकवारमुपशमश्रेणि प्रति- पद्यते तस्य क्षपकश्रेणिर्भवेदपि, आगमाभिप्रायेण तु एकस्मिन् भवे एकामेव श्रेणि प्रतिपद्यत 10 इति ध्येयम् । ननूपशमश्रेणिमविरतादय एषारभन्ते ते च यथासम्भवं मिथ्यात्वानन्तानुबन्ध्य- प्रत्याख्यानप्रत्याख्यानावरणानामुपशमाद्भवन्ति, अन्यथा तेपामुदये सम्यक्त्वादिलाम एव न स्यात् ततः कथमिदानीमुपशमस्तेषामुच्यत इति चेन्न पूर्व हि तेषां क्षयोपशम एवासीत् नोपशमस्तत इदानीमुपशमः क्रियते । ननु क्षयोपशमोऽप्युदिते कर्माशे क्षीणेऽनुदिते चोप- शान्ते भवति उपशमोऽपि चैवम्भूत इति तयोविंशेपाभाव इति चेन्न क्षयोपशमे तदावार- 15 कस्य कर्मणा प्रदेशतोऽनुभवनात् , उपशमे तु सर्वथा तदभावात् , ननु यदि सत्यपि क्षयोपशम मिथ्यात्वानन्तानुबन्ध्यादिकषायाणां प्रदेशानुभवोऽस्ति तर्हि कथं न सम्यक्त्वादिगुण- विधातः, वदुदये नियमेन सवोऽपि सम्यक्त्वादेरपगमात्, यथा साखादनसम्यग्दृष्टेरिति चेन्न प्रदेशानुभवस्य मन्दानुभावत्वात्, मन्दानुभावो युदयो न खावार्यगुणविघातमाधातु- मलम्, यथा चतु निनो मतिबानावरणादीनां विपाकतोऽप्युदयः । तथाहि मविज्ञानावरणा- 20 दिकं कर्म ध्रुवोदयं ध्रुवोदयत्वाचाऽवश्यं विपाकतोऽनुभवनीयं, विपाकानुभवापेक्षयैव ध्रुवो- दयत्वाभिधानात्, अथ च वत्सकलचतु निनो न मत्यादिनानविघातकद् भवति, तदुदयस्य मन्दानुभावत्वात् , तद्यदि विपाकतोऽप्यनुभूयमानं मन्दानुभावोदयत्वान्न खावार्यगुणविधावाय प्रभवति, तदा प्रदेशतोऽनुभूयमानमनन्तानुबन्ध्यायपि सुतरां तदुणविघाताय न भविष्यति, तदुदयस्यातीव मन्दानुभावत्वादिति ।। अत्रस्थो जीव एकप्रकृतेर्बन्धकः, एकोनषष्टिप्रकृतेर्वेद- 25 यिता, अष्टचत्वारिंशदधिकशतसचाकश्च भवेदिति ।। । . - अथ क्षपकणिमाश्रितस्य किट्टीकृतसंज्वलनलोभस्य ततः प्राप्यं स्थान द्वादशमाचष्टे- १. पूर्वगुणस्थानेष्वप्युपशमकस्यत्येव सत्ता विज्ञेया ॥

वि: तत्वन्यायविभाकरे [ससमकिरणे क्षपकण्या-कषायनिस्सत्तापादकं स्थानं क्षीणमोहगुणस्थानम् । क्ष- पंकणिश्चाभवमेकवारमेव भवति । एतदनन्तरमेव सकलत्रैकालिकव- स्तुस्वभावभासककेवलज्ञानावाप्तिः। आन्तमौहूर्तिकमिदम् ॥ क्षपकण्येति । क्षपकश्रेण्या कषायाणां सर्वेषां यत्र सत्ताराहित्यकरणं वादशं 5 स्थानं क्षीणमोहगुणस्थानमित्यर्थः, अस्याः श्रेण्या आमवमेकधैव संभव इत्याह-क्षपक- श्रेणिश्चेति-अत्र चोपान्त्यसमये निद्राप्रचले क्षीणमोहस्यान्त्यसमये च चक्षुर्दर्शनावरणादि दर्शनचतुष्कज्ञानावरणपञ्चकान्तरायपश्चकानि क्षपयति, ततोऽशेषसामान्यविशेषावमासिकेव- लज्ञानवान् भवतीत्याह-एतदनन्तरमेवेति । कालमानमस्याह-आन्तरिति । एतद्गुणवर्ती ७ जीवो दर्शनचतुष्कज्ञानावरणान्तरायदशकोचे!त्रयशोरूपषोडशबन्धव्यवच्छेदादेकस्य साद- 10 वेदनीयस्य बन्धकः, संज्वलनलोमर्षभनाराचनाराचोदयव्यवच्छेदात्सप्तपञ्चाशत्प्रकृतेर्वेदयिता, लोभसत्ताक्षपकत्वादेकोत्तरशतसत्ताकच भवति । तथा चतुर्थगुणस्थान एकप्रकृतेः पञ्चम एकस्याः सप्तमेऽष्टानां नवमे षट्त्रिंशत्प्रकृतीनां द्वादशे सप्तदशकृतीनां क्षय इति कृत्वा क्षीणमोहान्ते त्रिषष्टिप्रकृतीनां स्थितिक्षयः शेषाः पञ्चाशीतिप्रकृतयो जरद्वषप्रायाः सयोगि- । गुणस्थाने भवन्तीति ॥ अधुना त्रयोदशं गुणस्थानमाह- योगत्रयवतः केवलज्ञानोत्पादकं स्थानं सयोगिगुणस्थानम् । इदयो- स्कृष्टतो देशोनपूर्वकोटिप्रमाणम् । जघन्यतोऽन्तर्मुहर्तम् ॥ योगत्रयवत इति । 'मनोवाकाययोगात्मकयोगत्रयवतः केवलज्ञानोद्भवायोजकस्थान- मित्यर्थः। योगो नाम वीर्यान्तरायक्षयक्षयोपशमसमुद्भूतलब्धिविशेषाविभूतो जीवस्य वीर्य- 20 विशेषः स्थामोत्साहपराक्रमचेष्टाशक्तिसामादिपर्यायः । स द्विविधा, सकरणोऽकरणश्चेति । झेयदृश्येष्वखिलवस्तुषूपयुखानस्य केवलिनः केवलज्ञानदर्शनयोर्योऽसावप्रतिषो वीर्यविशेषः सोऽकरणः, स नात्र विवक्षितः । मनोवाक्कायकरणको योगस्त्वत्र विवक्षितः, तैयोंग- रुपेतः केवली सयोगिकेवलीत्युच्यते, केवलिनोऽपि मनोवाकायना योगा भवन्ति | तत्र 15 । १. नारकायुषः स्थित्यमाव, । २. तिर्यगायुषः स्थित्यमाषः । ३. दर्शनमोहनीयसप्तकस्य क्षयः देवा- युषश्च स्थित्यमावः । ४. नरकतिर्यदिकसाधारणोद्योतसूक्ष्मविकलत्रिकैकेन्द्रियजातिस्त्यानदित्रिकातपस्थावर- मध्यमाष्टकषायनपुंसकत्रीवेदहास्यादिषटू पुवेदसंज्वलनकोधमानमायानामित्यर्थः । ५. संचलनलोभनिद्राद्विक- ज्ञानान्तरायदशकदर्शनावरणीयचतुष्कक्षय. कर्मप्रन्ये तु संज्वलनलोमस्य दशमान्ते क्षयः ॥

। सयौगिगु०] न्यायप्रकाशसमलते :१६५ काययोगो गमनागमननिमेषोन्मेषाविषु । वाग्योगो धर्मदेशनादिषु । मनोयोगोऽनुत्तरदेवैमन:- पर्यववद्भिर्वा मनसा पृष्टस्य मनसैव देशनायां, ते हि भगवत्प्रयुक्तानि मनोद्रव्याणि अव- विज्ञानेन मनःपर्यवज्ञानेन वा पश्यन्ति, दृष्ट्वा च ते विवक्षितवस्त्वालोचनाकारान्यथानु- पपत्त्याऽलोकस्वरूपादिकमपि बाह्यमर्थ पृष्टमवगच्छन्तीति । सयोगिकेवल्ययं तीर्थकृदतीर्थ- कृञ्च भवति । येन हि पूर्वस्मिन् भवेऽहंसिद्धप्रवचनगुरुस्थविरबहुश्रुततपस्विषु वात्सल्या- 5 दिभिर्विशतिपुण्यस्थानकैस्तीर्थकृत्कर्माऽर्जितं तस्यात्रोदयात्रिभुवनाधिपतिर्जिनेन्द्रस्तीर्थकरश्चतु- विशदतिशयैर्युक्तस्तीर्थप्रवर्तको भवति । यस्य तु न तीर्थकृत्कर्म स इतरः सामान्यकेवली, केव- लिनामत्र गुणस्थाने स्थितिमाह-इदश्चेति। चतुरशीतिलक्षेण चतुरशीतिलक्षे गुणिते लब्धा संख्या पूर्वमुच्यते तेषां कोटि:-पूर्वकोटिस्तत्प्रमाणं देशोनमस्य गुणस्थानस्य कालमानमित्यर्थः । देशोनेति, किञ्चिदूनवर्षनवकलक्षणदेशोनेत्यर्थः । जघन्यकालमानमाह-जघन्यत इति । 10 अत्रेदमवसेयं यस्याऽऽयुषस्थितिवेदनीयादिकर्मणस्सकाशान्न्यूना भवति तदा स कर्मणां समी- करणार्थ समुद्धात करोति नेतरः । तत्र वेदनादिमिरेकीभावमुपगतेन जन्तुना बहूनां वेद- नीयाविकर्मप्रदेशानां कालान्तरानुभवयोग्यानामुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय च निर्जरीकरणं समुद्धातः, स च सप्तधा वेदनाकषायमरणवैक्रियतेजसाहारककेवलिभेदात् । वेद- नासमुद्धावादयष्पडनुक्रममसातवेदनीयकषायान्तर्मुहूर्तावशिष्टायुक्रियशरीरनामवैजसशरीर- 15 नामाहारकशरीरनामकर्माश्रयाः प्रत्येकमान्तर्मुहूर्तिकाः, केवलिसमुद्धातस्तु सदसद्वेयाशुभ- शुभनामोचनीचर्गोत्रकर्मानयोऽष्टसामयिकः । आहारककेवलिसमुद्धातातिरिक्ताः पञ्चैके- न्द्रियाणां, एम्वेव वैक्रियवर्जिताश्चत्वारो विकलेन्द्रियाणामसंज्ञिपश्चेन्द्रियाणाञ्च, सर्वे च मनुष्याणां भवन्ति । अन्तर्मुहूर्तावशेषायुः केवली वेदनीयायुषोस्तुल्यताकरणाय नानादिक्षु आ लोकान्तमात्मप्रसारणया दण्डकपाटमन्थनान्तरालपूरणानि चतुर्भिस्समयैः कुर्वन् व्यापी-20 भूत्वा चतुर्मियोपसंहरन् स्वशरीरस्थो भवति, परं वदानी मनोवाग्योगौ न व्यापारयति । तत्र प्रथमाष्टमसमययोरौदारिकाङ्गयोगः, द्वितीयषष्ठसप्तमसमयेषु औदारिकमिश्रकाययोगः तृतीय- चतुर्थपञ्चमसमयेषु च केवलं कार्मणकाययोगो भवति । अत एव तदानीमनाहारकश्च । समुद्धाताच निवृत्तो योगत्रयमपि व्यापारयति । ततो योगनिरोधाय ध्यानं ध्यायति । अत्रस्थो जीव एकविधवन्धका, ज्ञानान्तरायदर्शनचतुष्कोदयव्यवच्छेदाद् द्विचत्वारिंशत्प्रक- तीनां वेदयिता, निद्राप्रचलाक्षानान्तरायदर्शनचतुष्करूपपोडशप्रकृतीनां सत्ताव्यवच्छेदात्प- वाशीतिसचाको भवति ।। 25 सम्प्रत्यन्तिम चतुर्दशं गुणस्थानमाह- :१६६: तस्वन्यायविभाकरे [ सप्तमकिरणे योगप्रतिरोधिशैलेशीकरणप्रयोजक स्थानमयोमिगुणस्थानम् । आदि- महस्वपञ्चस्वरोचारणाधिकरणकालमात्रमानमेतत् । इति चतुर्दशगुण- स्थानानि ॥ योगेति । योगनिरोधावस्थारूपा या शैलेशी तत्करणप्रणेजकं यत्स्थानं वदयोगि- 5 गुणस्थानमित्यर्थः, लेश्याविधुरपरमप्रकर्पप्राप्तयथाख्यातचारित्रस्य शीलस्य ईशः शीलेशोऽ- योगिकेवली, तस्य त्रिभागेन संकुचिताऽऽत्मदेहस्य इयं शैलेशी, मेरुशैलेशः तस्येव या निष्ण- कम्पावस्था भगवतस्सा शैलेशीति वा व्युत्पत्तिः । अत्र पूर्वोक्तविविधोऽपि योगः प्रत्येक सूक्ष्मबादरभेदेन द्विधा, केवलोत्पत्तेरनन्तरं जघन्येनान्तर्मुहूर्त्तकालमुत्कर्षेण देशोनपूर्वकोर्टि विहृत्याऽन्तर्मुहूर्तावशेपायुष्कस्सयोगिकेवली शैलेशी प्रतिपित्सुः शुक्लध्यानविशेपध्यायी प्रथम 10 बादरकाययोगाश्रयेण स्थूलवाड्मनोयोगयुग्मं सूक्ष्मीकरोति । ततस्सूक्ष्मवाचिचयोरवष्टम्मेन बादरकाययोगं सूक्ष्मत्वं नयति । ततस्सूक्ष्मकाययोगे तिष्ठन् सूक्ष्मवाचितयोनिग्रहं करोति, ततश्च तत्रैव तिष्ठन् सूक्ष्मक्रियमनिवृत्तिशुलथ्यानं ध्यायन् सूक्ष्मकाययोग स्वात्मनैव निरु- पछि, अन्यस्यावष्टम्भभूतस्य योगान्तरस्याभावात्, वन्निरोधानन्तरं समुच्छिन्नक्रियमप्रतिपादि शुलध्यानं ध्यायन् अ इ उ ऋ ल इत्यादिमहस्वपञ्चस्वरोचारणाधिकरणकालमान शैले- 15 शीकरणमारमते, योगलेश्याकलङ्कविप्रमुक्तयथाख्यातचारित्रस्वामिसम्बन्धिनी या त्रिभागो- नस्वदेहावगाहनायामुदरादिरन्ध्रपूरणप्रयुक्तसंकुचितस्वप्रदेशस्यात्मनोऽत्यन्तस्थिराऽवस्थितिस्सा शैलेशी तस्यां करणं-पूर्वरचितशैलेशीसमयसमानगुणश्रेणिकस्य वेदनीयनामगोत्राख्यस्या- घातिकर्मत्रितयस्यासंख्येयगुणया श्रेण्याऽऽयुःशेषस्य तु यथास्वरूपस्थितया श्रेण्या निर्जरणं शैलेशीकरणं, तत्राऽसौ प्रविष्टोऽयोगिकेवली भवति । अत्रौदारिकद्विकास्थिरद्विकविहायोगति- 20 द्विकप्रत्येकत्रिकसंस्थानषटकागुरुलघुचतुष्कवर्णचतुष्कनिर्माणकर्मवैजसकार्मणद्वयप्रथमसंहनन- स्वरद्विकैकवेदनीयरूपत्रिंशत्प्रकृत्युदयव्यवच्छेदो बोभ्यः, मुक्त्युपान्त्यसमये देहपञ्चकबन्धनप- वकसंघातपश्चकाङ्गोपाङ्गत्रयसंस्थानपटकवर्णपञ्चकरसपञ्चकसंहननषट्कस्पर्शाष्टकगन्धद्वयनी- चैर्गोत्रानादेयदुर्भगागुरुलघूपधातपराघातनिर्माणापर्याप्तोच्छासायशोविहायोगतिद्वयशुमाशुभ- स्थैर्याऽस्थैर्यदेवगत्यानुपूर्वीप्रत्येकसुस्वरदुःस्वरैकवेदनीया द्वासप्ततिप्रकृतयः क्षयमुपयान्ति, अ- न्त्यसमये चैकवेद्यादेयपर्याप्तत्रसवादरमनुष्यायुर्यशोमनुष्यगत्यानुपूर्वीसौभाग्योचैर्गोत्रपञ्चेन्द्रि- यत्वतीर्थचनामानीति त्रयोदशैप्रकृतीः क्षयं नीत्वा कर्मसम्बन्धविमोक्षलक्षणसहकारि- 25 १. द्रविडतलसादिभाषाया एकारीकारयोरपि हस्वत्वासद्वारणायादिमेति ॥ २. अत्र केचित् मनुष्यानुपूर्व्या द्विचरमसमये व्यवच्छेद उदयामावाद, उदयवतीनां हि स्तिवुकसक्रमाभावात्स्वरूपेण चरमसमये दलिकं दृश्यत एवेति युक्तस्तासा चरमसमये व्यवच्छेद, आनुपूर्वानाम्नान्तु क्षेत्रविपा- । - । धमितिनि.] न्यायप्रकाशसमलङ्कृते । समुत्थस्वभावविशेषादूर्व गच्छन् प्राप्तसिद्धत्वनामा ऋजुश्रेण्या यावत्वाकास्पदेशेष्वि- हावगाहस्तावद्भय एवं प्रदेशेभ्य ऊर्ध्वमप्यवगाहमानों विवक्षितसमयाच्चान्यसमयान्तरमस्पृशन् लोकान्तं ब्रजति न परतोऽपि, धर्मास्तिकायाभावात् तत्र गतश्शाश्वतं कालमवतिष्ठत इत्य- भिप्रायेणोक्तमादिमेति । एतद्गुणस्थानस्थो जीवोऽबन्धकः, उपयुक्तत्रयोदशप्रकृतिवेदयिता । अन्त्यसमयद्वयात्पूर्व पञ्चाशीतिसत्ताका, उपान्त्यसमये त्रयोदशप्रकृतिसत्ताका, चरमसमये 5 त्वसत्ताको बोध्यः । गुणस्थानेष्वेषु बहुवक्तव्यत्वेऽपि सक्षेपेण ग्रन्थगौरवमिया प्रोक्तमित्या- शयेनोपसंहरतीति, विस्तरतस्त्वागमेभ्योऽवगन्नव्य इति भावः ।। इत्यं प्रसङ्गतो गुणस्थानानि सवरस्य 'विभावनार्थ निरूप्याश्रवां कर्मणां निरोधसाध- नभूतास्समित्यादयः क्रमेण निरूपयितुमुपक्रमते- उपयोगपूर्विका प्रवृत्तिस्समितिः। सेर्याभाषेषणाऽऽदाननिक्षेपोत्सर्ग- 10 भेदेन पञ्चधा । स्वपरवाधापरिहाराय युगमात्रनिरीक्षणपूर्वकं रत्नत्रय- फलकं गमनमीयों । कर्कशादिदोषरहितहितमितानवद्यासन्दिग्धाभिद्रो- हशून्यभाषणं भाषा। सूत्रानुसारेणान्नादिपदार्थान्वेषणमेषणा । उपधि- प्रभृतीनां निरीक्षणप्रमार्जनपूर्वकग्रहणस्थापनात्मकक्रियाऽऽदान निक्षेपणा। जन्तुशून्यपरिशोधितभूमौ विधिना मूत्रपुरीषादिपरित्यजनमुत्सर्गः ।। उपयोगेति । उपयोगपूर्वकत्वे सति प्रवृत्तित्व लक्षणं स्वपरप्राणिपीडापरिहारेच्छया गमनाविप्रवृत्तिरिति भावः । उदासीनप्रवृत्तिवारणाय विशेषणं ज्ञानादिवारणाय विशेष्यम् , ईयादिपञ्चानामेव समितित्वात् । योगक्रियारूपप्रवृत्तेर्विवक्षणाञ्च ज्ञानादिरूपात्मप्रवृत्तौ न दोपः । उपयोगपूर्वकत्वस्य साकासलादाकासावारणाय वा प्रवृत्तिपदम् । तां विमजते सेति, समिति- रित्यथैः । पञ्चानामीर्यादीनी तान्त्रिकी संज्ञाऽन्वर्या विज्ञेयेति भावः ॥ अर्यासमिति स्वरू- 20 पनि स्वपरैति । स्वस्य परस्य वा यथा वाधा न भवेत् तथा पुरतो युगमात्रं प्रेक्षमाशों वीजहरितादिप्रदेशान् परिहरन् यद्गमनं करोति यया च रलवयं सुरक्षितं भवेत्सर्यासमिति- रित्यर्थः । स्वपरयाधापरिहारप्रयोज्ययुगमात्रनिरीक्षणपूर्वकत्वे सति रत्नत्रयफलकत्वे सति च गमनत्व लक्षणम् । स्वपरवाधापरिहारप्रयोज्ययुगमात्रनिरीक्षणपूर्वकगतित्वस्य सत्काराद्य- मिलाघुकपुरुषकर्तृकगतौ गतत्वातद्वारणाय रत्नत्रयफलकत्वे सतीति । धर्मार्थ प्रयतमानस्य 25 15 . कित्वेन भवापान्तरालगतावेवोदय , तेन भवस्थस्य तदुदयासम्भव , तदसम्भवाचायोग्यवस्थाद्विचरमसमय एव मनुष्यानुास्सत्ताव्यवच्छेद इति द्विचरमसमये त्रिमप्ततिप्रकृतीना चरमसमये द्वादशानां सत्ताव्यवच्छेद इति वदन्ति । , ।

5 तखम्यायविभाकर (सतमाकरले गमने व्यभिचारवारणाय स्वपरवाधापरिहारप्रयोज्ययुगमात्रनिरीक्षणपूर्वकत्वे सतीत्युक्तम् ॥ भाषासमितेर्लक्षणमाह-कर्कशादीति । हितं स्वस्य परस्य वा मोक्षपदप्रापणसमर्थ, मितम- नर्थकबहुप्रलपनशून्यं प्रयोजनमानसाधनं वचनं, अनवयं जीवनिकायानामनुपधातकं, असंदिग्धं स्फुटार्थ व्यक्ताक्षरं वा, अभिद्रोहशून्य क्रोधमायालोमैरयुक्तं, एवं विधं कर्कशादिदोष- शून्यन भाषणं भाषासमितिरित्यर्थः । अहिवामितावासंदिग्धादिवचनवारणाय तत्तत्पद- ग्रहणमवसेयम् । एषणासमितिमाचष्टे-सूत्रेति । आगमानुसारेणाशनखायस्वाद्यभेदमिन्न- स्यान्नस्य, आरनालतण्डुलक्षालनादेशगमादिदोषपरिशुद्धस्य पानस्य, रजोहरणादिचतुर्दश- विधोपधीनां स्थविरकल्पयोग्यानां जिनकल्पयोग्यानां द्वादश विधानां आर्यिकायोग्यानां पञ्चविंशतिविधानामुपधीनां गवेषणैषणासमितिरित्यर्थः । सूत्रानुसारेणेस्यनेन दोषर्जनम- 10 मिमतं, तत्राधाकौदेशिकादिषोडशगृहस्थहेतुका उद्गमदोषाः, धात्रीपिण्डदूतीपिण्डादि- षोडशसाधुजन्या उत्पादनादोषाः, उभयजन्याश्च शक्षितम्रक्षितादयो दशैषणा दोषाः, एमिर्दोषै रहिता अन्नादयः श्रुवचरणधर्मसाधकाः । तथा चोद्गमादिदोषरहितान्नादि- पदार्थान्वेषणमेषणासमितेर्लक्षणम् । वनीपककर्तृकभक्ताओषणायां व्यभिचारनिरासायोगमादि- दोषरहितेति ॥ आदाननिक्षेपणासमितिमाख्याति--उपधीति । उपधयश्चतुर्दशविधा द्वादश- विधाः पञ्चविंशतिविधाश्च, प्रभृतिपदेन पीठफलकाद्यौपाहिकोपकरणानां प्रहणं, एतेषामुप- योगाय निरीक्ष्य स्थिरतरं प्रमृज्य च रजोहरणेन ग्रहणस्थापनारूपा क्रिया आदाननिक्षेपणा- समितिरित्यर्थः । निरीक्षणप्रमार्जनपूर्वकोपधिविषयग्रहणस्थापनात्मकक्रियात्वमस्या लक्षणम्, उदासीनपुरुषकृवोपधिविषयकग्रहणस्थापनात्मकक्रियावारणाय निरीक्षणप्रमार्जनपूर्वकेति ॥ उत्सर्गसमितिस्वरूपप्रकाशनायाऽऽह-जन्तुशून्येति । स्थावरजङ्गमजन्तुशून्यायां परिशोषित- भूमावुज्झितव्यवस्तुयोग्यायां विधिना निरीक्षणप्रमार्जनात्मकेन मूत्रपुरीषादीनां परित्याग उत्सर्गसमितिरित्यर्थः । आदिना वनपात्रादीनां ग्रहणम् । तथा च जीवाविराधनेन योग्यभूमौ विधिना भूत्रपुरीषादिस्यजनं लक्षणार्थः, सर्वत्र रत्नत्रयफलकले विवक्षणीय, वेन पूजाइमि- लाषुकानुष्ठितोतक्रियाणां व्युदासः । इति चेष्टावतां संवरसिद्धिफलवत्यः क्रिया उकाः || अथ कायादिनिरोधात् संवरफलिका गुप्तीराह- योगस्य सन्मार्गगमनोन्मार्गगमननिवारणाभ्यामात्मसंरक्षण गुप्तिः। साच कायवाङमनोरूपेण त्रिधा । शयनासननिक्षेपादानचंक्रमणेषु चेष्ठा- नियमः कायगुप्तिः । उपसर्गपरीषहभावाभावेऽपि शरीरे नैरपेक्ष्यं, योग- निरोदुस्सर्वथा चेष्टापरिहारोऽपि कायगुप्तिः । अर्थवविकारादिसंकेत- 15 20 । 25 गुप्तिनि.1 न्यायप्रकाशसमलते हुंकारादिप्रवृत्तिरहितं शास्त्रविरुद्धभाषणशून्यं वचोनियमनं वाग्गुप्तिः अनेन सर्वथा वाङ्निरोधस्सम्यग्भाषणञ्च लभ्यते। भाषासमिती सम्य- ग्भाषणमेव । सावद्यसंकल्पनिरोधो मनोगुप्तिः॥ योगस्येति । कायवाश्मनोरूपस्य योगस्य ये सन्मार्गगमनोन्मार्गगमननिवारणे ताभ्या- मात्मसंरक्षणं गुप्तिरित्यर्थः । योगसम्बन्धिसन्मार्गोन्मार्गप्रवृत्यप्रवृत्तिप्रयुक्तात्मसंरक्षणत्वं । लक्षणं, तेन वाचि मनसि च गमनागमनयोरसत्त्वेन नाव्याप्तिशङ्का । रागद्वेषापरिणतपुरुष- कर्तृकत्वमपि निवेशनीयम्, तेन निविडवन्धनबद्धतस्करादिकर्तृकयोगसम्बन्धिनिप्रहस्थ व्युदासः। योगानां सर्वथा निरोधस्तत्प्रवृत्चिद्वारा मुक्तिमार्गानुकूलपरिणामो वा गुप्तिरिति ध्येयम् । सर्वथा कायादिचेष्टानिरोधस्यापत्र विवक्षितत्वेन गुप्तेयापकत्वान्न व्याप्ये- योसमित्यादावतिव्याप्तिशङ्कासम्भवः, परिमितकालविषयस्सर्वयोगनिमहोऽपि गुप्तिस्तत्रास- 10 मर्थस्य कुशलेषु प्रवृत्तिस्समितिरिति भेदात् । तस्या विभागमाचष्टे सा चेति । तत्र कायगुप्ति निरूपयति शयनेति । शयनादिविषयककायक्रियानियमत्वं लक्षणं, नेत्रपरिस्प- न्दादिखामाविकक्रियायाः कुतूहलेन'कृतस्य नियमस्य वारणाय शयनादिविषयकेति । शय- नादिविषयकमानसिकनियमवारणाय कायक्रियेति । उच्छृखलपुरुषानुष्ठितशयनादिविषयक- नियमवारणाय नियमपदेन शाखीयो नियमो ग्राह्यः । तथा च निशीथिनीप्रथमयामा- 13 दनन्तरं गुर्षनुज्ञानात्सप्रमाणायां वसतौ स्वावकाशनिरीक्षणप्रमार्जनपूर्वक संस्तरणपट्टवय- मास्तीर्य सपादं कायमूर्ध्वमंधश्च प्रमृज्यानुज्ञापितसंसारकावस्थानोऽनुष्ठितसामायिकविधि- वमिवाहूपधान आकुंचितजानुस्ताम्रचूडवद्विहायसि प्रसारितजङ्गः प्रमार्जितपृथ्वीतलान्यस्तपादो वा संकोचसमये भूयः प्रमार्जितसन्देशक उद्वर्तनकाले च रजोहरणेन प्रेसृष्टकायो नात्यन्त. तीव्रनिद्रशयीत । यत्र भुवि विवक्षितमासनं तत्रावेक्षणप्रमार्जने विधाय बहिनिषद्यामास्त्रीय 20 निविशेन, निविष्टोऽप्याकुचनप्रसारणादिकं पूर्वेणैव विधिना कुति, वर्षादिषु च वृसिका- पीठिकादिकमनेनैव विधिनावेक्ष्य प्रमृज्य च तत्र संनिवेशनं कुर्वीत । दण्डकोपकरणचेष्टा- भोजनादिविषयो निक्षेपादानावपि वीक्षणप्रमार्जनपूर्वको निर्दशौ स्यावाम् । गमनमपि प्रयोजनवतो युगमात्रप्रदेशविन्यस्तदृष्टीवपरित्यागेन मन्दं मन्दं पदं न्यसतः प्रशस्तं स्यादि- त्यादिरूपाः कर्त्तव्याकर्तव्यविषयाश्शास्त्रीया व्यवस्था अवगन्तव्याः, एवमन्येऽपि नियमा: 25 १. गुप्तापकत्वम्छ यस्समितस्स नियमावत, गुप्तयो हि प्रतीचाराप्रतीचारोमयरूपा प्रतीचारो नाम कायिको वाचिको व्यापारः, तथा च यस्समित. सम्यग्गमनभाषणादिचेष्टाया प्रवृत्तस्स गुप्तोऽपि भवति । यस्त कायवाचौ निरुध्य शुभं मन उदीरयन धर्मध्यानाद्युपयुक्तचित्तो भवति स गुप्त उच्यते न तु समित केवलाप्रतीचार रूपत्वातस्येति बोध्यम् ॥

. तत्वन्यायविभाकरे [सतमकिरणे क्रोशवधयाचनाऽलाभरोगतृणस्पर्शमलसत्कारप्रज्ञा ज्ञानसम्यक्त्वरूपेण द्वाविंशतिविधः। सत्यामप्यतिशयितक्षुद्वेदनायांसविधिभक्ताद्यलामेऽपि क्षुषोपसहनं क्षुत्परीषहः । सत्यां पिपासायामदुष्टजलायभावेपितृपरि- षहणं पिपासापरीषहः । प्रचुरशीतबाधायामप्यत्यल्पैरेव वस्त्रादिभिश्शी- 5 तोपसहनं शीतपरीषहः । प्रभूतोष्णसन्तप्तोऽपि जलावगाहनागनासे- वनमुष्णपरीषहः। "स चेति । परीषहश्चेत्यर्थः, द्वाविंशतिविध इत्यनेन संम्बन्धः । ननु सहनस्वरूप- स्य परीषहस्याविशेषेणं कथं' द्वाविंशतिविधत्वमित्यत्राह-शुदिति । तथा च परिसोढव्यानां क्षुधादीनां 'द्वाविंशतिविधत्वेन' तत्साध्यसहनस्याऽपि द्वाविंशविविधत्वमिति भावः । सम्यro क्त्वरूपेणेति, सांध्यत्वादिति शेषः । न च परिषह्यन्त इति कर्मव्युत्पत्त्या व्युत्पन्नेन बाहुलकंघप्रत्ययान्तेन परीषहशब्देन क्षुधादय एव वाच्या इति वाच्यम् । क्षुधादीनां संवर रूपत्वाभावात् । तज्जयस्थैव तथात्वात् संवररूपस्यैव परीषहस्य वाच्यत्वात् । अत एव सर्वत्र भूले जयपरत्वेनैव परीषहा लक्षिता इति ॥' अथातिदुस्सहत्वात् द्वेदनायास्तत्सहनरूपक्षुत्परी- अहमेवादी लक्षयति-सत्यामपीति । अनशनाध्वरोगतपस्वाध्यायश्रमवेलातिक्रमावमौदर्यास- 13 वैद्योदयादिभ्यो जठरविदाहिन्यां शरीरेन्द्रियहृदयसंक्षोभिकायां क्षुद्वेदनायां समुदिवायां तस्या सहनं क्षुत्परीषह इति भावः । क्रोधादिजन्यक्षुधुपसहनस्य परीषहत्वधारणाय सविधिमक्ता- चलाभेऽपीति, एतेनास्य विशेषणस्यातिशयताद्योतकत्वेन साम्यताया लामात् साम्यताप्रयुक्त- क्षुधोपसहनत्वस्यैव · लक्षणार्थत्वेन क्रोधादिजन्यक्षुषोपसहने क्रोधप्रयुक्तत्वस्यैव सत्त्वा मातिव्यासिरेवमग्रलक्षणेष्वपि भाव्यम, शास्त्रप्रतिपादितेन भक्तेन तां शमयतोऽनेष- 20 णीयञ्च समुत्सृजतः, क्षुत्परीपहः, - लक्षणन्तु सविधिभक्ताद्यलाभेऽपि क्षुधोपसहनत्वमेवेवि ध्येयम् । क्षुधायाश्चतुर्दशस्वपि गुणस्थानेषु सम्भवस्तत्कारणस्य वेदनीयस्य सद्भावादिति ।। बुमुक्षापीडितस्य पिपासासंभवात्तन्नयरूपं पिपासापरीषहमाह-सत्यामिति । स्नानाव- गाहपरिषेकत्यागिनोऽतिलवणस्निग्धरूक्षविरुद्धाहाराऽऽतपानशनपित्तज्वरादिमिरुदितां शरीरे- न्द्रियशोषिको पिपासां क्षुद्भिनसामर्थ्यवतीं प्रत्याद्रियमाणस्य, निवाघेऽपि विहारादिषु 25 हेदेष्वासन्नेष्वप्यकायिकजीवपरिज्ञानेन जलमनादधानस्य, भिक्षाकालेऽप्यनेषणीयजलायन- सिलाषुक्रस्य पिपासासहनं जायत इति भावः । अदुष्टजलाधभावेऽपि तृट्परिषहणत्वं लक्षणं, कृत्यंमूह्याम् । पिपासेयं सर्वेष्वपि गुणस्थानेषु सम्भविनीति ॥ शीतपरीपहमाह-प्रचुरेति । महत्यपि शोते'जीर्णवसने नाकल्प्यानि वासांसि गृह्णाति, शीतत्राणायाऽऽगमोक्तन विधिनैपणी यमेवं कल्पादि गवेपयेत्परिंभुञ्जीत 'वा, नापि शीवार्ता ज्वलनं ज्वालयेत्, नान्यचालितं वा, - परीषहाः ]: न्यायप्रकाशसमलट्टते सेवेत, एवमनुविष्ठता शीतोपसहनं कृतं भवेदिति भावः। सर्वेषु गुणस्थानेषु शीवं सम्भवि ।। उष्णपरीषहमाचष्टे-अभूतेति । पटीयो नैदादिवाकरकरनिकरसन्तप्तकलेवरस्य तृष्णानश- नपिचरोगधर्मश्रमादितस्य स्वेदशोषदाहाभ्यर्दिवस्य जलावगाहनव्यजनवातावलेपनकदलीपत्रा- खासेवनविमुखस्य पूर्वानुभूतशीतलद्रव्यप्रार्थनापेतान्तरङ्गस्योष्णवेदनाप्रतीकारक्रियानादरस्य चारित्रिणश्चारित्ररक्षणायोष्णतासहनमुष्णपरीषह इति भावः, प्रभूतोष्णसन्तापेऽपि जलाव- 5 गाहनाचनासेवनत्वं लक्षणम् । चारित्रिकर्तृकत्वं सर्वत्र वाच्यमन्यथा पूजाघभिलाषिणानु- ष्ठितवादृशानासेवनस्याप्युष्णपरीषहत्वप्रसक्ति स्यात्, उष्णोऽयमखिलेषु गुणस्थानेषु सम्भवी ॥ वंशपरीषहं निर्वति- समभावतो दंशमशकाग्रुपद्रवसहनं दंशपरीषहः। एते वेदनीयक्षयो- पशमजन्याः । सदोषवस्त्रादिपरिहारेणाल्पमूल्याल्पवस्त्रादिभिर्वर्तनम- 10 वनपरीषह। अप्रीतिप्रयोजकसंयोगसमवधाने सत्यपि समतावलम्बन- मरतिपरीषहः । कामवुद्ध्या रुयाद्यङ्गप्रत्यङ्गादिजन्यचेष्टानामवलोकन- चिन्तनाभ्यां विरमणं स्लीपरीषहः । एते च चारित्रमोहनीयक्षयोपशम- जन्याः॥ • सममावत इति । दंशमशकमत्कुणवृश्चिकादिक्षुद्रसत्त्वैर्वाध्यमानोऽपि निजकर्मविपाक- 18 मनुचिन्तयन्न तत्स्थानादपगच्छेत् , न च तदपनयनाय धूमविद्यामंत्रौषधादीनि प्रयुञ्जीत, न वा व्यंजनादिभिर्निवारयेत् , तथा च दंशाग्रुपद्रवजयस्स्यात्, समभावतो दंशाग्रुपद्रवसह- नत्वं लक्षणम् । वंशाग्रुपद्रवोऽपि निखिलेषु गुणस्थानेषु सम्भवति । एषां क्षुधादीनां पञ्चानां वेदनीयोदये समववागत् तेषां जयाश्चारित्रमोहनीयक्षयोपशमादिजन्या इत्याहैत इति, वेदनीये सति क्षयोपशमनन्याः, अर्थात् चारित्रमोहनीयक्षयोपशमादिजन्या इत्यर्थः, सहनस्य चारित्र- 20 रूपत्वादिति भावः, एवमोऽपि । उक्तश्च भगवतीटीकायां " एतेषु पीडैव वेदनीयोत्था, वदधिसहनन्तु चारित्रमोहनीयक्षयोपशमादिसम्भवमधिसहनस्य चारित्ररूपत्वादिती” ति, सहनस्य केवलं चारित्रमोहनीयक्षयोपशमादिजन्यत्वेन वेदनीयचारित्रावरणक्षयोपशम- जन्या इत्यनुक्त्वा केवलं वेदनीयक्षयोपशमजन्या इत्युकं, क्षुधादौ तजये च कारणप्रदर्शनाय तथोपन्यासः कृतः । भानावरणवेदनीयमोहनीयाऽन्तरायात्मकप्रकृतिचतुष्टयोदय एव द्वार्वि- 25 १ यद्यपि शीतोष्णयोरेकदैकत्रासम्भवस्तथापि भात्यन्तिके शीते तथाविधानिसभिषौ च युगपदेवैकस्य घुससम्भवतस्ती, एकदिगवच्छेदेन शीतस्यापरदिगवच्छेदेनोष्णस्य सम्बन्धादिति नाशक्यम् , . काळकृतशीतो. प्योरेवाश्मयणात, तयोर्योगपद्यासम्भवात्, एवविधव्यतिकरस्य वा प्रायेण तपस्विनामभावादिति बोध्यम् ।

. - :१७४: तत्वन्यायविमाकरे [ सहमकिरणे शतीनां जेयानां क्षुधादीनामवतारो यथायोगं भवति । एते पञ्चैव परीषहा वेदनीये सति चारित्रमोहनीयक्षयोपशमादिजन्या इति न वाच्यमन्येषामपि भावात् किन्तु क्रमं परीषहाणा- मुद्दिश्यैवमुक्तमिति भावः ।। अथावस्त्रपरीषहमाह-सदोषेति । उद्गमादिदोषविशिष्टवस्त्रादिप- रिहारेणेत्यर्थः । इदबाल्पमूल्यानामल्पवत्राणां सदुष्टानामग्राह्यताज्ञापनाय। अल्पमूल्येति । 5 इदश्च निर्दुष्टबहुमूल्याल्पवनपरिग्रहव्युदासाय । अन्यथा परिग्रहादिदोषः प्रसज्येत | अल्प- वस्त्रेति । इदन निर्दुष्टाल्पमूल्यनिरर्थकबहुवनसङ्ग्रहनिराकरणाय । एवञ्च सर्वथा वस्त्रशून्य- वायामेवाऽवस्त्रपरीषहत्वं निराकृतं । लक्षणं सष्टम् , अस्य संभवो नंवर्मगुणस्थानं यावत् । चारित्रमोहनीयस्य सम्भवात् । नानिमगुणस्थानकेषु, तत्र मोहनीयस्य क्षीणत्वादिति ॥ अरतिपरीषहमभिधत्ते-अप्रीतीति । सूत्रोपदेशेन विहरतस्तिष्ठतो वा संयमविषयककृति- 10 वैपरीत्यमुत्पद्यते, एतादृशाप्रीतिप्रयोजकसंयोगसम्मवेऽपि सम्यग्धर्माराधनरविमता भवि- तव्यं तथासत्यरतिविजयो भवेदिति भावः । अप्रीतिप्रयोजकसंयोगसमवधानाऽसमवधान- कालीनसाम्यभावावलम्बनत्वं लक्षणम् । क्षुत्परीषहादिव्युदासाय कालीनान्तम् । नवमंगुणस्थानं यावदियमरतिः ॥ त्रीपरीषहमाह-कामबुद्ध्येति । कामबुद्ध्या स्त्रीणामङ्गप्रत्यङ्गसंस्थानहसि- तललितविभ्रमादिचेष्टानां यद्विलोकनं चिन्तनं वा, ताभ्यां सर्वथा विरंमणमित्यर्थः । काम- 15 प्रयुक्तस्त्र्यायङ्गप्रत्यङ्गादिचेष्टावलोकनचिन्तनप्रवृत्चिराहित्य लक्षणम् । धर्मोपदेशबुद्ध्या ख्याय- हायवलोकने दोषाभावात्कामबुद्ध्येत्युक्तम् । अवलोकनमात्रोक्तौ चिन्तनस्य, तन्मात्रीको चावलोकनस्य व्युदासासम्भवादुमयोहणम् | नवमगुणस्थानं यावत्कामबुद्धमा स्याग्रहांधव- लोकनादिसम्भवः चारित्रमोहनीयोदयसम्मषात्, अग्रिमेषु स्थानेषु न संभवः मोहनीयस्य क्षपणादुपशमाद्वा तस्मादयं परीषहश्चारित्रमोहनीये सति चारित्रमोहनीयक्षयोपशमजन्य 30 इत्येभिप्रायेणाह-एते चेति । अवखारतिस्त्रीपरीषहाश्वेत्यर्थः । चारित्रमोहनीयक्षयोपशमजन्या इति यथाक्रमं जुगुप्साया अरतिमोहनीयस्य पुंवेदस्य च क्षयादुपशमाद्वा परीपहा एते भवन्तीति भावः॥ पर्यापरीषहमाह- एकत्र निवासममत्वपरिहारेण सनियमं ग्रामादिभ्रमणजन्यक्लेशादि- 28 सहनं चर्यापरीषहः । वेदनीयक्षयोपशमजन्योऽयम्। स्त्रीपशुपण्डकवर्जिते स्थाने निवासानुकूलप्रतिकूलोपसर्गसम्भवेऽप्यविचलितमनस्कत्वं निष- धापरीषहः चारित्रमोहनीयक्षयोपशमजन्योऽयम् । प्रतिकूलसंस्तारकवस- तिसेवनेनुद्विग्नमनस्कत्वं शय्यापरीषहः। अयश्च वेदनीयक्षयोपशमजन्यः।

परोषहा ] न्यायप्रकाशसमलते निर्मूलं समूलं वास्वस्मिन् कुप्यत्सु जनेषु समतावलम्बनमाक्रोशपरीषहः। चारित्रमोहनीयक्षयोपशमजन्योऽयम् । परप्रयुक्तताडनतर्जनादीनां काय- विनश्वरत्वविभावनया सहनं वधपरीषहः। वेदनीयक्षयोपशमजन्योऽयम् ॥ एकत्रेति । निस्संगतामुपगतस्य संयतस्य केशक्षमस्य देशकालप्रमाणोपेतमध्वगमनम- नुभवतो यानवाहनादिगमनमस्मरतस्सम्यग्वज्यादोषमुज्यतश्चर्यापरीपहो भवति, चर्या चरणं । द्विविधं द्रव्यतो भावतश्च, प्रामानुपामविहरणं द्रव्यतश्चर्या, एकस्थानस्थस्याऽपि तत्र निर्ममत्वं भावतश्चर्या सैव परीषहः, एतदुभयप्रदर्शनायैकत्रनिवासममत्वपरिहारेणेत्युक्तम् । सनियम- मिति । एकरात्रं प्रामे पश्चरात्रं नगरेऽवस्थातव्यमित्यादिनियमपूर्वकमित्यर्थः । सर्वेषु गुणस्था- नेषु प्रामादिश्रमणजन्यक्लेशादिसम्भवो वेदनीयोदयादतश्चर्यापरीपहस्य वेदनीये सति चारि- त्रमोहनीयक्षयोपशमजन्यत्वमित्याशयमाविष्करोति वेदनीयेति ॥ निपद्यापरीषहं वक्ति-स्त्रीति। 10 निषीदन्त्यस्यामिति निषद्या स्थान, स्त्रीपशुपण्डकविवर्जितम् , विदितसंयमतत्त्रस्य स्त्रीपश्यादि- वर्जितस्थानवासिनोऽनुकूलप्रतिकूलोपर्गसम्भवेऽपि तत्प्रदेशादविचलतो मन्त्रविद्यादिप्रतीकारा- ननपेक्षमाणस्य प्रागनुभूतसुखास्वरणादिस्पर्शसुखमविगणयतोऽविचलितमनस्कत्वं निषधापरी- षह इति भावः । नैपेधिकीति केचिदत्र पठन्ति, निपेधनं निषेधः पापकर्मणां गमना दिक्रियायाश्च प्रतिषेधः, स प्रयोजनं यस्यास्सा नैपेधिकी शून्यागारश्मशानादिका स्वाध्या- 15 यभूमिः, सैव परीषहो नैपेधिकीपरीषह इति व्याख्यायन्ति । अस्या निषद्याया याव- अवमगुणस्थानं सम्भवः, अतश्चारित्रमोहनीयस्य क्षयोपशमतो जायतेऽयं परीपह इत्याह- चारित्रेति ॥ शय्यापरीपहं निरूपयति -प्रतिकूलेति । संस्तारकपट्टकादीनां कठिनत्वादिप्राति- कूल्याद्वसतेश्च पांसूत्करादिप्रचुरत्वाद्वा पूर्वानुभूतनवनीतसनिममृदुशयनरतिमननुस्मरतोऽ. त्रानुद्विग्नमनस्कता शय्यापरीषह इत्यर्थः । प्रतिकूलसंस्तारकवसतिसेवनजन्योबेगराहित्यं 20 लक्षणम् । जन्यान्तं निषद्यापरीपहव्यावृत्तये । निषद्यापरीषहस्तूपसर्गजन्योबेगराहित्यरू- पोऽयश्योचावचपांसूत्करप्राचुर्यजन्योबेगराहित्यरूप इत्यनयो पम्यमवसेयम् । वेदनीयोदय- प्रयुक्तत्वाच्छय्याया निखिलेषु गुणस्थानेषु सम्भवस्समभावावलम्बनेन चारित्रमोहनीयक्षयो- पशमतश्च वजयो जायत इत्याशयेनाह-अयश्चेति शय्यापरीपहवेत्यर्थः || आक्रोशपरीपह स्वरूपयति-निर्मूलमिति । आक्रोशनमनिष्टवचनमाक्रोशस्तस्य परीपहः परितस्सहनमाक्रोशप- 25 १. बर्या हि प्रामादिषु सचरणमतो विहारस्पा, निपया तु प्रामादिषु प्रतिपन्नमामकल्पाढे स्वाध्यायादिनि- मित शम्यातो विविधोपाय गत्वा निषदनमिति अवस्थानरूपमित्खनयोविरोधः, चर्याया वर्तमानो अदाइ- निवृत्ततत्परिणाम एव विश्रामभोजनाद्यर्थमित्वरकालं शय्याया आसेव्यमानत्वात् न तया शय्याया विरोध इति बोध्यम् ॥

, " - - २७६ न्यायधिभाकरे' [ ससारमा रोषहः स्वस्मिन्निर्मूलं समूलं वा जनेषु कुप्यत्सु, कुप्यन्ति चेत्समूलं शिक्षयन्ति हि मामेते, नैव च मया कार्यमेवं पुनरिति, निर्मूलनेचाहिँ सुतरां कोप एव न मया कार्योऽसत्यत्वादिति चानुषि- न्तनया सौम्यताऽवलम्ब्यते चेत्तदा तस्याऽऽक्रोशजयो जायत इति भावः । हेतुसत्त्वाऽसत्त्वाभ्यां कुप्यजनविषयकसमतापरिग्रहत्वं लक्षणम् । आक्रोशस्य चारित्रमोहनीयोदयप्रयुक्तत्वेन नवम- 5 गुणस्थानं यावत्सम्भवेन तन्नयस्तरक्षयोपशमजन्य इत्याशयेनाह-चारित्रेति । परीषहं लक्षयति-परप्रयुक्तति । दुरात्मकः परैश्चौरम्लेच्छशबरपरुषपूर्वापकारिद्विषल्लिकान्तरैः पाणि- पाणिलत्ताकशादिमिः कृतानां प्रद्वेषतस्वाडनतर्जनबन्धनाकर्षणादीनां दद्यमानेनाऽपि सुगन्ध- मेवोत्सृजवा चन्दनेनेव पौद्गलिकमनियमिदं शरीरमात्मनोऽन्यदेव, आत्मा- पुनर्नित्यतया न शक्यत एव ध्वंसयितुं, अवस्वकृतफलमुपनतमिदं ममेवि विभावयता सम्यक्सहनं 10 वधपरीषह इति भावः । परप्रयुक्तताडनतर्जनादिसहनत्व लक्षणम् । वधस्य वेदनीयोदय- प्रयुक्तत्वेनाखिलगुणस्थानेषु सम्भवात् चारित्रमोहनीयक्षयोपशमजन्यत्वं तजयस्येत्याशयमा, विष्करोति वेदनीयेति ॥ याचनापरीषहमभिधत्ते- स्वधर्मदेहपालनार्थ चक्रवर्तिनोऽपि साधोर्याचनालज्जापरिहारो याच: 15 नापरीषहः । चारित्रमोहनीयक्षयोपशमजन्योऽयम् । याचितेऽपि वस्तु न्यप्राप्तौ विषादानवलम्बनमलामपरीषहः । लाभान्तरायक्षयोपशमज- न्योऽयम् । रोगोद्भवे सत्यपि सम्यक्सहनं रोगपरीषहः । स्वधर्मेति । स्वधर्मार्थ देहस्य पालनाय, न तु पुष्टयर्थ, परेण लभ्यानपानवस्त्रपात्रप्रति- अयादेश्चक्रवर्चिनापि सता साधुनाऽवश्यमेव याचनं कार्य, नतु दीक्षितः श्रीमानपि लज्जयां- 20 याचनताऽऽद्रियेत, तथा च सति याचनाविजयः कृतस्स्यादिति भावः । स्वधर्मदेहपालनप्रयुक्त साधुककयाचनालजापरिहारत्वं लक्षणम् । रक्षादिकृतलजापरिहारपरिहाराय कर्तृकान्तम् । देहपुश्चभिलाषेण सोधुकृतयाचनालनापरिहारवारणाय स्वधर्मदेहपालनप्रयुक्तति । चारित्र- मोहोदय एव याचनालयासमवेन यावन्नवमगुणस्थानं सम्भवात् तत्क्षयोपशमनन्यस्तजय इत्यभिप्रायेणाह-चारित्रेति ।। अलामपरीषहमाचष्टे-याचितेऽसीति । वस्तुन्यावश्यक याचितेऽ पि परेणाऽदत्तेऽभवत्रादिके परगृहे ब्रहस्ति, तद्यस्य तु स्वं स वत्कदाचिद्ददाति, कदाविध न, कस्तत्रास्माकमपरितोषो यन यच्छतीत्यादिरूपेण विचारयन् यद्यविकृवान्तरङ्गो भवेत तदाऽलामपरीपहप्त्यादिति भावः । याचितवस्त्वलाभप्रयुक्तविषादानवलम्बनत्वं लक्षणम् । इवरपरीषहवारणाय प्रयुक्तान्तम्, सावन्मात्रोक्तौ तु विषादावलम्बनेऽतिव्याप्तिस्यादवो . . 25 - 10 परीपहा न्यायप्रकाशसमलते विषादानवलम्बनत्वमुक्तम् । अलामस्य लाभान्तरायोदयनिवन्धनवाचाववादशगुणस्थानं सम्भवेन तत्क्षयोपशमादस्य परीषहस्यावतार इत्याह लाभान्तरायेति । रोगपरीप- हमाचष्टे-रोगोद्भव इति । ज्वरातिसारकासश्वासादिमहद्रोगोद्भवेऽपि गच्छनिर्गता जिनक- ल्पिकादयश्च न चिकित्साविधापने प्रवर्तन्ते, किन्तु सम्यगेव तदधिसहन्ते स्वकृतक- मणः फलमिदमुदितमिति चिन्तयन्तः । गच्छवासिनस्त्वल्पबहुत्वालोचनया सम्यक्सहन्ते, 5 प्रवचनोकेन वा विधिना चिकित्सामपि कारयन्ति, एवञ्च रोगजयः स्यादिति भावः । यथाशास्त्रानुष्ठानमुद्भूतरोगसहनत्वन्तु लक्षणम् । सर्वथा चिकित्साधुर्यमेव कार्यमिति निय. मामावसूचकं यथाशाखानुष्ठानमिति पदम् , तच्च सम्यक्पदेन लभ्यते । वेदनीयोदयप्रयु- कत्वेन रोगस्याखिलगुणस्थानेषु सम्भवोऽवसेयः॥ तृणस्पर्शपरीषहमाह- जीर्णशीर्णसंस्तारकापस्तनतीक्ष्णतृणानां कठोरस्पर्शजन्यक्लेशसहनं तृणस्पर्शपरीषहः । शरीरनिष्ठमलापनयनानमिलाषो मलपरीषहः । वेद- नीयक्षयोपशमजन्या एते । भक्तजनानुष्ठितातिसत्कारेऽपि गर्वपराङ्मु- खत्वं सत्कारपरीषहः । अयश्च चारित्रमोहनीयक्षयोपशमजन्यः । बुद्धि- कुशलत्वेऽपि मानापरिग्रहः प्रज्ञापरीषहः । ज्ञानावरणक्षयोपशमजन्यः। 15 बुद्धिशून्यत्वेऽप्यखिन्नत्वमज्ञानपरीषहः । ज्ञानावरणक्षयोपशमजन्यः । इतरदर्शनचमत्कारदर्शनेऽपि स्वदेवतासान्निध्याभावेऽपि जैनधर्मश्रद्धा-, तोऽविचलनं सम्यक्त्वपरीषहः । दर्शनमोहनीयक्षयोपशमजन्योऽयम् ॥ जीर्णशीर्णेति । गच्छनिर्गतानां गच्छवासिनाञ्च यतीनामशुषिरतृणस्य हि दर्भादेः परि- भोगोऽनुज्ञातः, तत्र येषां शयनमनुज्ञातं ते तान् दर्भान भूमावीषदातादियुक्तायामास्वीय दर्भा-20 णामुपरि संस्तारकोत्तरपट्टौ च विधाय शेरते, चौरापहतोपकरणो वाऽत्यन्तजीर्णत्वात्प्रतनु- संस्तारकपट्टको वा तदुपरि शेते, तत्र च शयानस्य यद्यपि कठिनतीक्ष्णाप्रभागैस्मृणैरत्यन्वपीडा समुपनायते तथापि परुषदांदितृणस्पर्श सम्यक्सहेत, एवञ्च सति तृणपरीपहस्स्यादिति भावः । षधपरीषहादिवारणाय तृणानामित्यन्तम् । वेदनीयोदयप्रयुक्तत्वेन तृणस्पर्शवेदनायाः निखिलगुणस्थानेषु सम्भवोऽवसेयः ॥ मलपरीषहं निरूपयति-शरीरनिष्ठेति । शरीरनिष्ठो 25 यो धर्माम्बुसम्बन्धजन्यो घनपरागबनः स्थिरतामापन्नो ग्रीष्मोष्मणा चातां गतोऽत एव दुर्गन्ध उद्वेगकरश्च तस्यापनयनाय न कदापि जलाधवगाहनाभिलाषः कार्यः, सत्येवं १७८ तस्वन्यायविभाकरे सममकिरणे मलपरीषहः स्यादिति भावः । लक्षणं स्पष्टम् । अस्यापि मलस्य वेदनीयोदयप्रयुक्तत्व निखिलगुणस्थानसम्मवित्वं विज्ञेयम् । एषां रोगणस्पर्शमलपरीपहाणां वेदनीये सति चारि- त्रमोहनीयक्षयोपशमजन्यत्वमित्याह-वेदनीयक्षयोपशमजन्या इति, वेदनीये सति चारित्रमो- हनीयक्षयोपशमादिजन्या इत्यर्थः ॥ सत्कारपरीषहं वक्ति-भक्तजनेति । भक्तजनैरनुष्ठिता 5 भक्तपानवलपात्रादिमिः कृतास्सत्काराः, सद्भूतगुणोत्कीर्तनवन्दनाभ्युत्थानासनप्रदानादिव्यव- हाराश्च, एमिर्न मानमुद्हेत, नोकर्षाद्याकुलं चेतः कुर्यात् , अकृते वा सत्कारादौ न विषाद- मुपयायात् ततश्च सत्कारस्य परिसहनं स्यादिति भावः । भक्तजनानुष्ठितसत्कारसम्बन्धिगर्व- पराङ्मुखत्वं लक्षणम् । भक्तजनानुष्ठितेति स्वरूपविशेषणं, प्रज्ञापरीषहादिवारणाय सम्ब- न्ध्यन्तम् । सत्कारसम्बन्धिमानस्य चारित्रमोहनीयोदयप्रयुक्ततया नवमगुणस्थानं यावत्सम्भ- 10 वेन तत्क्षयोपशमजन्यस्तत्परीषह इत्याहायचेति ॥ अथ सम्यग्ज्ञानात्मकमोक्षमार्गाच्यवन- फलकं प्रज्ञापरीषहमाचष्टे-बुद्धिकुशलत्वेऽपीति । बुद्ध्यतिशयप्राप्तौ हि न गर्वमुद्वहेत्, प्रज्ञा- प्रतिक्षेपेणाभ्यबुद्धिकत्वेन परीषहो भवति, नाहं किञ्चिन्नाने मूखोऽहं सर्वैः परिभूत इत्येवं परितापमुपागतस्य कर्मविपाकोऽयमिति मत्वा तदकरणातनयो भवतीति भावः । विज्ञान- प्रयुक्तमदनिरासत्वं लक्षणम् । सत्कारपरीषहवारणाय विज्ञानप्रयुक्तति । एवाशप्रज्ञाया 15 ज्ञानावरणक्षयोपशमतन्त्रत्वेन द्वादशगुणस्थानं यावत्सम्भवात् तत्क्षयोपशमे सति माना- भावजन्यत्वं तस्य परीषहस्येयाविष्करोति ज्ञानावरणेति ॥ अज्ञानपरीषहमाह-बुद्धिशून्य त्वेऽपीति । बुद्धिस्सोपाई चतुर्दशपूर्वकादशागरूपं श्रुतं तद्वैधुर्येण मनोमालिन्यं न विदध्यान् केवलं ज्ञानावरणोदयविजृम्भितमेतत् स्वकृतकर्मपरिभोगतस्तपोऽनुष्ठानतोषापैतीति भाव- यतोऽज्ञानस्य जयो भवेदिति भावः । बुद्धिशून्यताप्रयुक्तखेदापरिग्रहत्वं लक्षणम् , अज्ञानस्य 20 ज्ञानावरणोदयविलसितत्वेन यावद् द्वादशगुणस्थानं संभवात्तत्क्षयोपशमतस्तंद्विजयं इत्याह शीनावरणेति ॥ अथान्तिम सम्यक्त्वपरीषहममियत्ते-इतरदर्शनेति, दर्शनान्तरीयाणां चमत्कारादिदर्शनेऽपि निजदेवतासामीप्याभावेऽपि वा जैनधर्मश्रद्धातस्सर्वथाऽविचलनमि- त्यर्थः । इतरदर्शनचमत्कारस्वदेवतासान्निध्याभावान्यतरप्रयुक्तजैनधर्मश्रद्धाशैथिल्याभाववत्त्वं लक्षणम् । अश्रद्धाया दर्शनमोहनीयोदयप्रयुक्तत्वेन यावन्नवमगुणस्थानं सम्भवात् तत्क्षयोप- 25 शमजन्यस्तनय इत्याह-दर्शनेति । आवश्यक तत्त्वार्थे चाऽत्राऽसम्यक्त्वपरीषहं अदर्शन- परीषहामिधं पठन्ति ॥ जेया क्षुधादय एते उत्कृष्टत एकत्र प्राणिनि विंशतिवर्तन्ते, शीतोष्ण- १. नपुसकवेदायुपशमकालेऽनिवृत्तिवादरसम्परायो भवति, तच्छमनावसरे च सतो दर्शनमोहस्य प्रदेशत उदयोऽस्ति न तु सत्तेव, ततस्तत्प्रत्ययस्सम्यक्त्वपरीषहस्तस्यास्ति, सूक्ष्मसम्परायस्य तु मोइसत्त्वेऽपि न सूक्ष्मोऽपि तदुदय, ततो न तनिमित्तकपरीषहसम्भव इति भाव ॥

भावना] न्यायप्रकाशसमलते :१७९: योश्चर्यानिषद्ययोश्चैकत्रैकदाऽसम्भवात् , जघन्यतस्त्वेक एव । एवमसंकल्पोपस्थितान् क्षुधादीन् सहमानस्सासंक्लिष्टचेतसो रागादिपरिणामासवाभावान्महान्संबरो भवतीति ।। निरूपितेषु समितिगुप्तिपरीपहेषु चतुर्थ संवरहेतुं यतिधर्ममाचष्टे - मोक्षमार्गानुकूलयतिप्रयत्नो यतिधर्मः। स च क्षान्तिमार्दवार्जवनि- लोभतातपस्संयमसत्यशौचाकिश्चन्यब्रह्मचर्यभेदादशाविधः । एतल्लक्षणा- 5 न्यग्ने वक्ष्यन्ते ॥ मोक्षमार्गेति । मोक्षमार्गानुकूलत्वे सति यतिप्रयत्नत्वं लक्षणम् । क्षमादिसमुदयस्य संव- रधारकत्वाद्धमत्वं तच्चागारिधर्मेऽपि, अतो यतीत्युक्तमनेन तस्यालक्ष्यत्वं ख्यापितम् , यविधर्म, इत्युक्तत्वाधविस्वरूपरक्षकचारित्रव्युदासः, सति हि चारित्र उत्तमधर्मप्रवृत्तिर्मवेत्, तत्र गुप्तिः प्रवृत्तिनिग्रहाय, त्रासमर्थानां प्रवृत्तिनिमहोपायदर्शनाय समितयः, मोक्षमार्गा- 10 सम्यग्दर्शनादिवोऽच्यवनार्थ क्षमाद्यर्थश्च परीषहाः, प्रमादनिवृत्त्यर्थ यतिधर्माः, परीषहानुकू- लतया भावनाः, कर्मनिर्जरणार्थश्च चारित्राणीति विज्ञेयम् । यथा च प्रमादनिवृत्चिद्वारा यति- धर्मस्य मोक्षमार्गानुकूलत्वमवसेयम् । यद्यपि सर्व एव गुप्त्यादयः कर्मनिर्जरणार्थाः, तथापि चारित्रे सति तथा, अतश्चारित्रस्यैव सत्र प्राथमिकहेतुत्वमुक्तम् । स कतिविध इत्यत्राह- स चेति । अग्रे वक्ष्यन्त इति सम्यक्चरणनिरूपण इत्यर्थः ।। ननु क्रोधाधनुत्पत्तिः क्षमादिविशेषगुणानामवलम्बनाद्भवति तत्र कस्मात्क्षमादीनामव- लम्बनमित्याशङ्कायामाह- मोक्षप्रवृत्त्युत्तेजकं चिन्तनं भावना । अनित्याशरणसंसारकत्वान्य- त्वाशुचित्वाऽश्रवसंवरनिर्जरालोकस्वभावबोधिदुर्लभधर्मखाख्यातभेदा- द् द्वादशधा सा । एतल्लक्षणान्यायग्रे वक्ष्यन्ते ।। 20 मोक्षप्रवृत्तीति । मोक्षप्रवृत्तौ मोक्षानुकूलप्रवृत्तौ उत्तेजक प्रविबन्धकसमवधानकालीन- कार्यजनक यच्चिन्तनं-अनित्यत्वादिरूपेण द्वादशधाऽनुचिन्तनं सा भावनेत्यर्थः । मोक्षानुकूल- प्रवृत्त्युत्तेजकत्वे सति चिन्तनत्वं लक्षणम् । असत्प्रवृत्तिचिन्तनब्युदासाय सत्यन्तम् । समित्यादौ स्थितस्यापि कदाचिद्रव्यक्षेत्रकालभावेभ्यो मोक्षप्रवृत्तेर्मालिन्यतायां संजाताया- 15 . - १. सापेक्षनिरपेक्षत्वाभ्यामयं मुनिसम्बन्ध्यनुष्ठानविशेषो द्विविधा, गुरुगच्छादिसाहाय्यमपेक्षमाणो यः प्रव्रज्या पालयति तस्य धर्मस्सापेक्षो गच्छवासलक्षण, इतरस्तु निरपक्षस्य जिनकल्पादिलक्षणः, तत्र सापेक्ष- यतिधर्मा मूलोका भाव्या. ॥

::१८०: तवन्यायविभाकरे [सप्तमकिरणे मियमुत्तेजिका भवतीति भाव्यम् । अस्याः प्रकारभेदान् प्रकटयति-अनित्येति । एषामपि स्वरूपाणि सम्यक्चरणनिरूपणे प्रोच्यन्त इत्याह एवदिति ॥ अथ चारित्रलक्षणमभिधत्ते- कर्माष्टकशून्यतामयोजकमनुष्ठानं चारित्रम् । तच्च सामायिकच्छेदोप- 5 स्थापनपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातभेदेन पञ्चविधम् ॥ कर्माष्टकेति । चारित्रमोहोपशमक्षयक्षयोपशमसद्भावे चर्यते वदिति चारित्रं कर्मसाधनं, अष्टविधकर्म द्रव्यक्षेत्रकालभवभावपरिवर्तनारमकसंसारस्य कारणभूतं, तस्य या शून्यताऽऽत्य- न्तिकी निवृत्तिः, तस्याः प्रयोजक यहनुष्ठान, बाह्याभ्यन्तरक्रियाविशेषोपरमसहचरितमनुष्यानं परस्परं प्रकर्षाप्रकर्षयोगिक्रियाविशेषरूपं तच्चारित्रमिति भावार्थः, तश्च संयतासंयवादिषु सूक्ष्म- 10 साम्परायिकान्तेषु प्रकर्षाप्रकर्षयोगि, वीतरागेषु परमोत्कृष्ट विज्ञेयम् । कर्माष्टकशून्यताप्रयो- जकत्वे सत्यनुष्ठानत्वं लक्षणम् । असदनुष्ठानव्यावृत्तये सत्यन्तम् । गुप्त्याद्यात्मधर्मविशेषेषु व्यभिचारवारणाय विशेष्यम् । गुप्त्यादयश्चारित्रप्रकर्षानुकूलाः, अत एव च कर्माष्टकशून्यत्व उपचाराद्धेतवः । यद्यपि समित्यादयः क्रियात्मका: कर्मशून्यतायां प्रयोजकास्तथापि ते चारित्रापेक्षिणः किश्चिदेव कर्म विरहयन्ति न सर्वाणि, चारित्रं तु कर्मणामष्टविधानामपि 16 विरहे प्रयोजकीभूतयोग्यतावदिति न कोऽपि दोषः। ननु यैः क्षुधादिमिः परिसहनीयैरक्षुब्धा विपश्चितोऽभिनवानि कर्माणि नोपचिन्वन्ति पूर्वप्रचितानि च निर्जरयन्ति ततः कर्मनिर्जर- णार्थमाहितसामर्थ्य चारित्रं चारित्रमोहनीयोपशमक्षयक्षयोपशमलक्षणात्मविशुद्धिलब्धिसामा- न्यापेक्षयक, प्राणिपीडापरिहारेन्द्रियदर्पनिग्रहशक्तिभेदाद् द्विविध, उत्कृष्टमध्यमजघन्यविशु- द्धियोगाधिविधं, विकलज्ञानविषयकसरागवीतरागसकलाववोधगोचरसयोगायोगविकल्पाच- 20 तुर्विधमेवं सामायिकादिभेदेन पञ्चविधमपि, वत्र स्फुटावबोधार्थ पञ्चधैव विभजते तथेति ॥ अथ सामायिक लक्षयति- छेदोपस्थापनादिचतुष्टयभिन्ना सर्वसावद्ययोगविरतिः सामायिकम् । तद्विविधम् । इत्वरकालं यावजीवकालञ्चेति । भाविव्यपदेशयोग्यं स्वल्प- कालं चारित्रमित्वरकालं । प्रथमान्तिमतीर्थकरतीर्थयोरेवैतत् । भाविव्य- 26 पदेशाभावेन यावजीवं संयमो यावज्जीवकालम् । इदश्च मध्यमद्वाविंशति तीर्थकरतीर्थान्तर्गतसाधूनां विदेहक्षेत्रवर्तिनाञ्च ॥ छेदोपस्थापनादीति । छेदोपस्थापनादिचतुष्टयमिन्नत्वे सति सर्वसावद्ययोगविरतित्वं - छेदोपस्थापनम् ] न्यायप्रकाशसमलट्टते :१८१: लक्षणम् । छेदोपस्थापनादिवारणाय सत्यन्तम् । यतिधर्मान्तर्गतसंयमस्तु सप्तनशविधश्चारित्रा- पेक्ष इति भेदः, अवधं गर्हितं पापं, सहावयेन वर्तत इति सावधो योगः कायिकादिव्यापारः, सर्वेभ्यः सावधयोगेभ्यो विरमणे, रागद्वेषविरहितः समः तस्य-आयो गमनं, सर्वक्रियोप- लक्षकमेवत्, सचैव क्रिया हि साधोररक्तद्विष्टस्य निर्जरफलैव भवति । समाय एवेति विग्रहे स्वार्थे विनयादित्वाहक्प्रत्यये सामायिकशब्दनिष्पत्तिः । सर्वसावद्ययोगविरतिस्वरूपमेव । सामायिक, विशुद्धतराध्यवसायविशेषविशिष्टा तादृशविरतिरेव छेदोपस्थापनादिः न च निवृ- त्तिपरत्वात्सामायिकस्य गुप्तित्वप्रसङ्ग इति वाच्यम्, योगप्रवृत्तेरत्र सद्भावात्, नच प्रवृत्तिरूपत्वे समितित्वप्रसङ्ग इति वाच्यम् सामायिके चारित्रे, यतत एव समितिषु प्रवृत्त्युपदेशेन तत्कारणरू- पत्वात्। वद्विभजते तदिति । अथेवरकालं लक्षयति भाविव्यदेशयोग्यमिति ।भाविव्यपदेशयो- ग्यत्वे सति स्वल्पकालचारित्रत्वं लक्षणम्। प्रव्रज्याप्रतिपत्त्यनन्तरमधीतशवप्रतिज्ञाध्ययनादेश्छे- 10 दोपस्थाप्यसंयमारोपणे क्रियमाणे सामायिकन्यपदेशविगमादिति भावः । छेदोपस्थापनादि- वारणाय सत्यन्तम् , तथा च स्वल्पकालेवि इत्वरशब्दार्थवर्णनपरमेव, न तु व्यावर्तकम् । इत्थरकालसंयतस्य छेदोपस्थाप्यचारित्रग्रहणादा मृतस्य चारित्रेऽव्याप्तिवारणाय योग्येति । क्वेद चारित्रं भवतीत्यत्राह-प्रथमेति । यावज्जीवकालमाह-भाविव्यपदेशेति । इत्वरस्य हि भाविव्यपदेश उको नेतरेपाम् । यस्तु भाविन्यपदेशं नालुते यावज्जीवश्च भवति स संयमो 15 यावबीवकालिक इति भावः । सामायिक एव सन् चतुर्याम चतुर्महाब्रवानि मनोवाकार्ययः पालयन् यावनीवं वर्तते स यावज्जीवकालिकसामायिकसंयत इति यावत् । प्रव्रज्याप्रतिपत्ति- कालादारभ्याऽऽप्राणप्रयाणकालमवतिष्ठत एवम्भूतं चारित्रमिति भावः, यथाख्यातस्यापि भावि- व्यपदेशाभावेन यावज्जीवं संयमरूपत्वात्तद्वयुदासाय सामायिकत्वं वाच्यम्, सामायिकत्वं सा. मायिकपदव्यपदेशयोग्यत्वमित्यर्थस्तेन तस्यापि विशुद्धिविशेषविशिष्टनिरुतसामायिकत्वेऽपि न क्षतिः । केपामयं संयम इत्यत्राह इदश्चेति । एषामुपस्थापनाया अभावादिति भावः ॥ 20 छेदोपस्थापनमाख्याति- पूर्वपर्यायोच्छेदे सत्युत्तरपर्यायारोपणयोग्यं चारित्रं छेदोपस्थापनम् । तच निरतिचारसातिचारभेदेन द्विविधम् । शैक्षकादेरधीतविशिष्टाध्ययन- --- । .१. भाविव्यपदेशयोग्यताविशिष्टचारित्रस्येवोपस्थापनाया त्यागो न चारित्रात्य, तस्येदानी विशुद्धतयां तत्र सस्थात, तेन व्रतमहणकाले सामायिक यावज्जीव करोमीतीत्वरसामायिकस्य गृहीतत्वेऽपि उपस्थाप- नाया मुखतोऽपि न प्रतिज्ञालोप , तस्यान्ययात्वाभावादित्याशयेन सामायिकव्यपदेशविगमादिन्युक्तम्, इत्वर- सामायिकम्पपदेशविगमादिति भाव., तस्यैव प्रकृतत्वादिति ॥

तत्वन्यायविभाकरे [ सप्तमकिरणे विदो यदारोप्यते तन्निरतिचारम् | खण्डितमूलगुणस्य पुनर्वतारोपणं सातिचारम् । उभयमपि प्रथमान्तिमतीर्थकरतीर्थकाल एव । पूर्वपर्यायोच्छेद इति । सामान्यसामायिकपर्यायोच्छेदोत्तरकालं यद् विशुद्धतर- सर्वसावद्ययोगविरत्यवस्थापन-विविक्तमहाव्रतारोपणं तद्योग्यं चारित्रं छेदोपस्थापनमि- त्यर्थः । पूर्वपर्यायच्छेदेनोत्तरपर्यायारोपणयोग्यत्वे सति चारित्रत्वं लक्षणम् | सामायिकादि- वारणाय पूर्वपर्यायच्छेदेनेति पूर्वपर्यायश्च चारित्रस्यैव विज्ञेयः । अस्य विभागमाह-तक्षेति'। निरतिचारस्वरूपमाह-शैक्षकादेरिति । आदिना तीर्थान्तरसंक्रामतो प्रहणं तस्य हि चतु- महाव्रतधारिणः पञ्चमहावतारोपणं भवति । सातिचारस्वरूपमाचष्टे-खण्डितेति । मूलगुण- हन्तुः पुनर्वतारोपणमित्यर्थः । उभयविधमपि छेदोपस्थापनं क भवतीत्यत्राह-उभयमपीति । 10 चारित्रमिदं भरतैरावतेष्वाधन्ततीर्थकरतीर्थयोर्भवति नान्यत्रेति भावः ॥ 5 । - परिहारविशुद्धिकमाख्याति- तपोविशेषविशिष्टं परिशुद्धिमच्चारित्रं परिहारविशुद्धिकम् । तदपि निर्विशमानकं निर्विष्टकायिकश्चेति द्विविधम् । निर्विशमानका प्रक्रान्तचा- रित्रोपभोक्तारः, निर्विष्टकायिकाश्च समुपभुक्तप्रक्रान्तचारित्रकायिकाः । 18 एते चाऽऽद्यान्तिमतीर्थकरतीर्थकाल एव ।। तपोविशेषेति । परिहरणं परिहारः प्राणिवधानिवृत्तिस्तपोविशेषो वा तेन विशिष्टा शुद्धिर्यस्मिन् तत्परिहारविशुद्धिकमिति विग्रहः । अस्य भेदमाह तदपीति परिहारविशुद्धिकम- पीत्यर्थः, निर्विशमानकं परिभुज्यमानकमित्यर्थः । निर्विष्टकायिकमुपमुक्तमित्यर्थस्तपोविशेषो- पभोगकालीनचारित्रमुपमुक्ततपोविशेषकालीनञ्चारित्रं चेति तद्विविधमिति भावः। तपोविशेष 20 सूचयितुं निरुक्तरूपेण तयोः स्वरूपमनुक्त्वा वदनुष्ठायिपुरुषस्वरूपनिरूपणद्वारा निरुतमपि सूचयति-निर्विशमानकाश्चेति । प्रक्रान्तेति वपोविशेषसहकृतेत्यर्थः, एवमप्रेऽपि । अत्रेदम्बो- ध्यम्-उभयविधानामेषां तपो जघन्यमध्यमोत्कृष्टमेदेन त्रिविधमपि प्रत्येकं शीतकाल उष्ण- काले वर्षाकाले च भवति तत्राऽतिरूले ग्रीष्मकाल एकोपवासरूप चतुर्थ अधन्य, उपवा- सद्वयरूपं षष्ठं मध्यममुत्तमलोपवासत्रयरूपमष्टमम् । प्रीष्मतः किञ्चित्सुकरे शिशिरे जघन्यं षष्ठं मध्यममष्टममुत्कृष्टचोपवासचतुष्टयरूपं दशमम् । साधारणे काले वर्षामु जघन्यमष्टमं मध्यमं दशममुत्कृष्टञ्चोपवासपञ्चकरूपं द्वादशं तपो भवति, त्रिष्वपि कालेषु पारणे त्वाचालं, । 25 १. यथा पार्श्वनाथतीर्थाद्वर्धमानस्वामिती सक्रामत. पञ्चयामधर्मप्राप्तौ ॥

संख्मसम्परायम् ] न्यायप्रकाशसमलवृते । संसृष्टादिसप्तभिक्षासु प्रथमद्वयं वर्जयित्वा पश्चानां मिक्षाणां प्रहः पुनरपि विवक्षितदिने पञ्चानां मध्ये द्वयोरभिग्रहो भवति । तत्र तपोविशेषमुपगतानां नवानां गणो भवति, तत्र परिहाराचारिणश्चत्वारोऽनुपरिहारिणश्चत्वारः कल्पस्थित एको वाचनाचार्य इति । सर्वेषां श्रुताद्यतिशयपरिपूर्णत्वेऽपि तेष्वेकः कल्पत्वात्कल्पस्थितोऽवस्थाप्यते । पूर्वोदितं तपो येऽनु- तिष्ठन्ति ते परिहाराचारिणः, पूर्वोक्तभिक्षाभिग्रहयुक्ता नियताचाम्लभक्ता अनुपरिहारिणस्ते- 5 पामेव वैयावृत्त्यकराः, कल्पस्थितोऽपि नियताचाम्लभक्त एव । परिहाराचारिणश्च यावत् षण्मासांस्तपश्चरित्वाऽनुपरिहारिकत्वं, अनुपरिहारिणो निर्विशमानकत्वापरपर्यायं परिहारा- चारित्वञ्च यावत् षण्मासं भजन्ते । मासद्वादशकानन्तरं वाचनाचार्योऽप्येवं पाण्मासिक परिहारतपः करोति तदाऽष्टसु सप्वानुपहारिका एकः कल्पस्थितो भवति, एवमयं कल्पोऽष्टा- दशमासप्रमाणो विज्ञेयः । ततश्च ते पुनरमुमेव कल्पं जिनकल्पं गच्छं वाऽनुसरन्ति । तत्र 10 येऽन्यवधानेन जिनकल्पानुसारिणस्ते यावत्कथिकाः परिहारविशुद्धिका इतरे स्वित्वराः, इत्वराणां देवमानुपतिर्यग्योनिककृता उपसर्गास्सद्योघातिन आतका अतीयाविषह्या वेदनाश्च न प्रादुर्भवन्ति, कल्पप्रभावात् । यावत्तथिकानान्तु सम्मवेयुरपि जिनकल्पिकानामुपसर्गादि- सम्भवात् । कल्पोऽयं तीर्थंकरपार्श्वे तत्समीपासेवकस्य पार्श्वे वा प्रतिपद्यते नाऽन्यस्य पाछे । तथा चैतेपां यचारित्रं तत्परिहारविशुद्धिकमिति । एते परिहारविशुद्धिकाः कस्मिन् क्षेत्रे 15 काले वा सम्भवन्तीत्यत्राह-एते चेति । जन्मत: सद्भावतश्च भरतेष्वैरवतेष्वेव, संहरणा- भावान महाविदेहादिषु । जन्मतोऽवसर्पिण्या प्रथमचरमतीर्थपतितीर्थयोः तृतीये चतुर्थे वाऽऽरके, सदावतः पञ्चमेऽपि, उत्सर्पिण्या जन्मतो द्वितीये हतीये चतुर्थे च, सद्भावत- स्तृतीये चतुर्थ आरके, नोत्सर्पिण्यवसर्पिणीरूपे तु चतुर्थारकप्रतिभागकाले न सम्भवन्त्येव, महाविदेहक्षेत्रे तेषामभावादिति भावः । विशेषस्त्वस्मिन् चारित्रेऽन्यतो विशेयः ।। सूक्ष्मसम्परायस्वरूपममिधचे- अत्यन्तकृशकषायवञ्चारित्रं सूक्ष्मसम्परायम् । इदं संक्लिश्यमानकं विशुद्ध्यमान चेति द्विप्रकारम् । उपशमश्रेणीतः प्रपततः प्रथमम्, द्वितीयं तु श्रेणिमारोहतः ॥ अत्यन्तेति । संसारभ्रान्तिहेतुः कपायो लोभरूपोऽतिसूक्ष्मतया वेदनाविषयत्वेन यत्र 25 सूक्ष्मसम्परायमित्यर्थः । अत्यन्तसूक्ष्मकषायसमानकालीनचारित्रत्वं लक्षणम्। १. अत एव प्रथमतीर्थपतितीय परिहारकल्पोऽय देशोनपूर्वकोटिद्वयं परम्परानुवर्तते, चरमतीर्थपति- ती च देशोनवर्षशतयं, न तु तृतीया पूर्वकोटी, न वा तृतीय वर्षशतमिति ॥ - 20 वर्तते तचारित्रं तस्वन्यायविभाकरे [सममकिरणे कृत्यं स्पष्टम् । तद्विभजते इदमिति | उपशान्तकषायामिरल्पप्रत्ययलाभान्मुखवस्त्रादिषु ममत्व. वायुना सन्धुक्षमाणश्चरणेन्धनमामूलतो दहन सक्लिश्यमानाध्यवसायबलेन प्रतिविशिष्टाध्यव- सायाचं प्रच्यावयति अत इदं सक्लिश्यमान चारित्रमुच्यते, वञ्चोपशमश्रेणीतः पतवो भव- तीत्याशयेनाह-उपशमश्रेणीत इति । तत्रोपशम्या अनन्तानुबन्धिनो मिध्यात्वत्रयं नपुंसक- 5 स्त्रीवेदी हास्यादिषट्कं पुंवेदोऽप्रत्याख्यानप्रत्याख्यानावरणाः संज्वलनाश्च | आरम्भकोऽस्या श्रेणेरप्रमत्तसंयतः । अविरतदेशप्रमत्ताप्रमत्तविरतानामन्यतम इति केचित् ।। अनुक्षणं विशु. द्वाध्यवसायवतश्चारित्रं विशुद्धयमानकमुच्यते तच्च श्रेणिमारोहत एष भवतीत्याह-द्वितीय- न्विति । क्षय्यास्त्वनन्तानुबन्धिनो मिथ्यात्वनिकमप्रत्याख्यानप्रत्याख्यानावरणा नपुंसकत्री- वेदौ हास्यादिषट्कं पुंवेदस्संज्वलनाश्च, क्षपकश्रेण्यामारोहकश्चाविरतदेशप्रमत्ताप्रमत्तविरता- 10 नामन्यतमो विशुध्यमानाध्यवसायः ॥ - यथाख्यातसंयमलक्षणमाह- निष्कषायं चारित्रं यथाख्यातम् । इदमप्युशमश्रेणिमुपयातस्य कषा- याणामुपशमादनुदयाचाऽन्तर्मुहूर्त्तस्थितिकम् । क्षपकश्रेणिमधिगतस्य तु कषायाणां सर्वथा क्षयाजघन्यतोऽन्तर्मुहर्तस्थितिकालीनमुत्कृष्टतश्च देशो- 15 नपूर्वकोटिप्रमाणं बोध्यम् । आयं प्रतिपाति, द्वितीयमप्रतिपाति ॥ निष्कषायमिति । कषायरहितत्वे सति चारित्रत्वं लक्षणम् । सिद्धावस्थायां व्यभिचार- वारणाय विशेष्यम् । उपशमकक्षपकवृत्तित्वादस्यापि वैविध्यमिति मनसिकृत्याह-इदमपीति। एकादशगुणस्थानवनिो हि सर्वथा कपायाणामुपशमनादुदयाभावाचाऽऽधमिदं यथाख्यातचा- रित्रं केवलमन्तर्मुहूर्त्तकालीनमुत्कृष्टता, ततो नियमेन च्यवनादिति भावः । क्षपकनेण्या समाया- 20 तस्य तु द्वादशादिगुणस्थानवनिः सर्वथा कषायाणां क्षयाचाहश चारित्रं द्वितीयं जघन्येनान्त- मुंहतस्थितिकमुत्कृष्टतो देशोनपूर्वकोटिप्रमाणं भवतीत्याह-क्षपकेति । तत्राद्यचारित्रस्य कषाय- सत्तासमानाधिकरणत्वात्तस्य च नियमेनोदयसंभवात् यस्माद्गुणस्थानाद्यया रीत्या समागतस्तथैव प्रतिपततीत्याशयेनाह-आद्यमिति। क्षपकश्रेणीतः कषायाणां सर्वथा क्षयेण प्रतिपाताभावो द्विती- यचारित्रवत इत्याह-द्वितीयमिति । इदमेव चारित्रं मोक्षाव्यवहितसाधनं सामायिकादयोऽप्य- त्रागमने क्रमेण श्रेणिकल्पत्वादसाधारणकारणान्येव । गुप्त्यादयस्तु पञ्चविधधारित्रनैर्मल्या- पादकतया परम्परयोपकारीभूता इति दिछ । 26 १. यथाख्यातचारित्रं द्विविध प्रस्थकेवलिस्वामिमेदाद, छप्रस्थसम्बन्धि व द्विविध मोहक्षयसमुत्य, तदुपरामप्रभव चेति । केवलिसम्बन्ध्यपि द्विविध, सयोग्ययोगिकेवलिमेदादिति ।।

द्वाराणि] स्पायप्रकाशसमलते। सम्प्रति प्रसङ्गादेतेपां विशेषप्रतिपत्त्यर्थ सामायिकादिसंयमिन आश्रित्य पत्रिंशत्प्रकारेण विवेचयितुकामस्तान् प्रकारानामग्राहमादौ वक्ति- तत्र द्वाराणि प्रज्ञापनावेदरागकल्पचारित्रप्रतिसेवनाज्ञानतीर्थलिङ्ग- शरीरक्षेत्रकालगतिसंयमसन्निकर्षयोगोपयोगकषायलेश्यापरिणामबन्ध- वेदनोदीरणोपसम्पद्धानसंज्ञाऽहारभवाकर्षकालमानान्तरसमुद्धातक्षेत्र- 5 स्पर्शनाभावपरिणामाल्पबहुत्वेभ्यः षत्रिंशद्विधानि ॥ वत्रेति । वाराणीत्यस्य षट्त्रिंशद्विधानीत्यप्रेतनेनान्वयः ॥ अथादौ प्रज्ञापनाद्वारमाह- तत्र प्रज्ञापनाद्वारे-सामायिकसंयत इत्वरिको यावत्कथिकश्चेति 10 द्विविधः । छेदोपस्थापनीयस्सातिचारी निरतिचारी चेति द्विविधः। परि- हारविशुद्धिको निर्विशमानो निर्विष्टकायिकश्चेति द्विविधः। सूक्ष्मसम्पराय- संयत उपशमश्रेणीतः प्रच्यवमानः, उपशमक्षपकश्रेण्यन्यतरारूढश्चेति द्विविधः । यथाख्यातोऽपि छद्मस्था केवली चेति द्विविध इति बोध्यम् ॥ तत्रेति । सामायिकसयमस्तेन सयत इत्यर्थः । इत्वरिक इति । भाविव्यपदेशान्तर- 15 योग्याल्पकालिकसंयमयुक्त इत्यर्थः । स च प्रथमान्तिमतीर्थसाधुर्योध्यः । यावत्कथिक इति | व्यपदेशान्तरायोग्ययावनीवसंयमभृत्, मध्यमतीर्थकद्विदेहक्षेत्रसम्बन्धिसाधुरिति भावः। सातिचारीति । अतिचारवानारोप्यमाणसयमवानित्यर्थः । निरतिचारीति | अतिचारविधुर आरोप्यमाणपुनर्बतिक इत्यर्थः । सोऽयं शैक्षका पार्श्वनाथतीर्थादन्तिमतीर्थ संक्रममाणश्च | निर्विशमान इति । प्रक्रान्तचारित्रभोक्तेत्यर्थः । निर्विष्टकायिक इति । उपमुक्तप्रक्रान्तचारित्र 20 इत्यर्थः । इतरत्स्पष्टम् ॥ बेदद्वारमाह-- वेदद्वारे-सामायिको नवमगुणस्थानावधि वेदको वेदनयवांश्च । नवमान्ते तूपशमात्क्षयाद्वा वेदानामवेदकोपि भवेत् । एवं छेदोपस्थाप- नीयोऽपि । पारिहारिकः पुरुषवेदो वा घुनपुंसकवेदो वा स्यात् । सूक्ष्मस- 25 म्परायो यथाख्यातश्चावेदक एवेति ।।

तस्वम्पायविभाकरे [सप्तमकिरण वेदद्वार इति । सामायिक इति, यावनवमगुणस्थानं सामायिकसंयतव्यपदेशः, नवमे च वेदानामुपशमः क्षयो वा भवति, अतस्तदवधि सवेदा, वेदत्रयवानपि । उपशान्ते वा क्षीणे वा वेदे तदानीमवेदकोऽपीति भावः । इदमेवातिदिशत्यन्यत्रापि एवमिति । पारिहारिक इति तपोविशेषयुक्तः परिहारविशुद्धिक इति यावत् । परिहारविशुद्धिकलब्धेः त्रियोऽभावान्न 5 स्त्रीवेदकः । पुनपुंसकवेदो वेति । पुरुष एव सन् यो वर्द्धितकत्वादिभावानपुंसकवेदको, न तु जन्मनपुंसकवेदक इत्यर्थः । अस्योपशमक्षपकण्योरमावेनावेदको नेति भावः । सूक्ष्मसम्प- राय इति | उपशमक्षपकणिद्वय एवैतयोर्भावेनावेदकावेवेति भावः । एवञ्चोपशान्तवेदको वा क्षीणवेदको वैतौ स्यातामिति तात्पर्यम् ॥ रागद्वारमाह- 10 रागद्वारे-सामायिकादिचत्वारस्संयतास्सरागा एव । यथाख्यातसं- यतस्त्वराग एवेति ॥ रागद्वार इति । सामायिकादीति । सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्म- सम्परायसंयतास्सरागा एव सकषाया एवेत्यर्थः । अराग एवेति, अकषाय एवेत्यर्थः, उप- शान्तकषायवीतरागः क्षीणकषायवीतरागश्चेति भावः ॥ 15 कल्पद्वारमाह- कल्पद्वारे-सामायिकसूक्ष्मसम्पराययथाख्याताः स्थितकल्पेऽस्थितक- ल्पे च, छेदोपस्थापनीयस्थितकल्प एव भवेत् । परिहारविशुद्धिकोऽपी- दृश एव । अस्थितकल्पो मध्यमतीर्थकरतीर्थेषु विदेहे चेति ॥ अथवा सामायिको जिनकल्पस्थविरकल्पकल्पातीतेषु भवेत् छेदोपस्थापनीयपरि- 20 हारविशुद्धिको न कल्पानीते । सूक्ष्मसम्पराययथाख्यातौ तु कल्पातीत एव स्याताम् ॥ कल्पद्वार इति । दशविधसाधुसमाचारः कल्पः, स च सततं प्रथमचरमजिनसाधु- भिरवश्यमासेव्यते, अतस्सततासेव्यमानस्स कल्पः स्थितकल्पः । साधुसमाचारेषु दश- स्वाद्याश्चत्वारो नियतं मध्यमजिनसाधुभिरासेव्यन्ते नेतरे, इत्यस्थितकल्पा च्यन्ते । 25 सामायिक इति, एषां चतुर्विंशतितीर्थकरतीर्थेषु सत्त्वेनैते स्थितकल्पेऽस्थितकल्पे च १. कालस्वभावात्साधवस्त्रिविधपरिणामिन , तत्राद्यसाधव अजुजडा अन्त्यसाधवो वक्रजडा मध्यमास्त ऋजुप्राशा, तत्र ऋजुजडा यावन्मात्रं परिस्फुटन वचसा वार्यते तावन्मात्रमेवेते वर्जयन्ति न सामयसम्धमिति । 'द्वाराणि ] न्यायप्रकाशसमलते- भवन्तीति भावः । छेदोपस्थापनीय इति ।छेदोपस्थापनीयपरिहारविशुद्धिकयोस्तु महाविदेहे 'मध्यमतीर्थकरतीर्थेषु चासत्वेनास्थितकल्पस्य चात्रैव भावात् स्थितकल्प एव तौ भवत इति भावः । ईदृश एव स्थितकल्पवृत्तिरेवेत्यर्थः ॥ कल्पस्य जिनकल्पस्थविरकल्परूपेण दैवि. ध्याचमप्याश्रित्याह-अथवेति । कल्पातीतः, जिनकल्पस्थविरकल्पाभ्यामन्य इत्यर्थः, छेदोपस्थापनीयेति । स्यावामिति परेणान्वयः। कल्पातीत एवेति । न जिनकल्पे न वा-स्थवि- 5 रकल्पे स्याता, जिनकल्पस्थविरकल्पधर्माणामभावादिति भावः ।। - 10 चारित्रद्वारमाह- चारित्रद्वारे-सामायिका पुलाको बकुशः कषायकुशीलो वा.स्यात् । एवं छेदोपस्थापनीयोऽपि । परिहारविशुद्धिकसूक्ष्मसम्परायौ कषायकुशी- लावेव। यथाख्यातस्तु निर्गन्धः स्नातको वेति ।। चारित्रद्वार इति । सामायिक इति, पुलाकवकुशकशीलनिन्थस्नातकरूपेण पञ्चनि- ग्रन्थभेदा अग्रे वक्ष्यन्ते । सानाश्रित्येयं विचारणा वोध्या, पुलाकादिपरिणामस्य चारित्र- त्वात् । सामायिकच्छेदोपस्थापनीयौ प्रतिसेवनाकुशीलावपि स्यावां, न तु कषायनुशीला- विति केचित् । कषायकुशीलावेवेति । न तु पुलाकबकुशप्रतिसेवनाकुशील निम्रन्थस्नातकरू- पाविति भावः । यथाख्यास्त्विति । उपशान्तक्षीणमोहो निर्मन्थः सयोगायोगकेवली चलातक इति भावः ।। - 15 प्रतिसेवनाद्वारमाश्रित्याह- प्रतिसेवनाद्वारे-सामायिकच्छेदोपस्थापनीयौ मूलोत्तरगुणप्रतिसेव- 'कावप्रतिसेवकौ च भवतः। परिहारविशुद्धिको प्रतिसेवकः । एवं सूक्ष्मस- म्पराययथाख्यातावपि विज्ञेयाविति ।। प्रतिसेवनाद्वार इति । अन्न परिनिवीत्युपसर्गपूर्वकादेव पेवृधातोः पिवुधातोवा पत्व- विधानेन प्रतिपूर्वकस्य षत्वाप्राप्तेः प्रतिसेव्यत इति प्रतिसेवनेत्येव व्युत्पत्तिः, इदमेव द्वार 20 तेषा दशधा समाचार आइतः, अस्यसाधवश्च वक्रत्वेन किमप्यकृत्य प्रतिसेव्यापि न कथयन्ति नालोषयन्ति चेति एषामपि दशधा समाचार आज्ञप्त., तथाविधसामग्रीसमवधान एवैते तथा प्रवर्तन्ते न स्वत., तपा-चरणं न प्रन्ति. मध्यमास्तु रहस्यपि यत्प्रतिसवितं तदवभ्यमालोचयन्ति, तजातीयानांच्यभ्यूह्य वर्जयन्ति, अतस्तेषा चतुई नियम. कृत इति ॥

तत्त्वन्यायविमाकरे, [ सप्तमकिरणे विराधनाद्वारमित्यप्युच्यते । मूलोत्तरगुणप्रतिसेवकाविति । इमौ प्रतिसेवकावप्रतिसेवको च, यदि प्रतिसेवको वदा मूलगुणानां प्राणातिपावविरमणादीनामनाश्रवाणामन्यतम प्रति- सेवेताम् । संज्वलनकपायोदयासंयमप्रतिकूलार्थस्य कस्यचित्सेवना प्रतिसेवना । तथोत्तर- गुणानां दशविधप्रत्याख्यानानामन्यतम प्रतिसेवेतामिति भावः । उपलक्षणञ्चैवत् तेन पिण्ड- 5 विशुद्धयादीनां विराधकत्वमपि सम्भाव्यते ॥ 10 । ज्ञानद्वारमाचष्टे- ज्ञानद्वारे-सामायिकादिचतुर्णा द्वेवा त्रीणि वा चत्वारि वा ज्ञानानि भवन्ति । यथाख्यातस्यैकादशद्वादशगुणस्थानयोश्चत्वारि ज्ञानानि, ऊर्ध्व- गुणस्थानयोः केवलज्ञानं भवतीति ॥ ज्ञानद्वार इति । द्वे वेति । आभिनिवोधिकज्ञानश्रुतज्ञाने इत्यर्थः । त्रीणि वेति । आमि. निबोधिकश्रुतावधिज्ञानानि, आभिनिवोधिकश्रुतमनःपर्यवज्ञानानि वेत्यर्थः । चत्वारि वेति, आमिनिबोधिकश्रुतावधिमनःपर्यवज्ञानानीत्यर्थः । चत्वारि ज्ञानानीत्युत्कणेति शेषः, तथा च छमस्थवीतरागययाख्यातचारित्रिणोद्वे वा त्रीणि वा चत्वारि वा ज्ञानानि भवन्तीति भावः । ऊर्ध्वगुणस्थानयोरिति, सयोग्ययोगिगुणस्थानयोरित्यर्थः ॥ अथ ज्ञानप्रसङ्गेन मध्य एव ज्ञानविशेषभूतस्य श्रुतस्य प्रकार विभावयति- श्रुतद्वारे-सामायिकच्छेदोपस्थापनीययोजघन्यतोऽष्टौ प्रवचनमातर उत्कर्षतस्तु यावचतुर्दशपूर्व श्रुतम् । परिहारविशुद्धस्य जघन्यतो नवम- पूर्वस्याचारवस्तु । उत्कृष्टतस्त्वपूर्णदशपूर्व यावत् । सूक्ष्मसम्परायिकस्य तु सामायिकस्येव । यथाख्यातस्य निर्ग्रन्थस्य सामायिकस्येव । स्नातकस्य 20 श्रुतं नास्तीति ॥ श्रुतद्वार इति । तथा च ज्ञानद्वार एव श्रुतद्वारस्यान्तर्गततया नाधिकारशका कार्यो । आचारवस्त्विति । नवमस्य पूर्वस्य तृतीयांऽऽचारवस्तुनामाधिकारविशेष इति भावः । अपूर्णदशपूर्वमिति । देशोनदशपूर्वमित्यर्थः । सामायिकस्येवेति | जघन्यतोऽप्टौ प्रवचनमा- , तर उत्कृष्टतस्तु यावञ्चतुर्दशपूर्वमित्यर्थः, श्रुतं नास्तीति, केवलज्ञानित्वादिति भावः ।। 15 - - १. परिहारविशुद्धिकोऽपूर्वमागम नावीते, यतस्तस्कल्पमधिकृत्य प्रगृहीतोचितयोगाऽऽराधनात एव कृत- कृत्यता भजते, पूर्वाधीतन्तु विस्रोतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनास्सम्यक् प्रायोऽनुस्मरतीति ॥

द्वाराणि] न्यायप्रकाशसमलवृत्ते : १८९ : तीर्थद्वारमाह- तीर्थद्वारे-तीर्थेऽप्यतीर्थेऽपि सामायिको भवेत् । अतीर्थे तु तीर्थकरः प्रत्येकवुद्धश्च स्यात् । छेदोपस्थापनीयपरिहारविशुद्धिको तीर्थ एव । सूक्ष्म- संपराययथाख्यातौ सामायिक इवेति ॥ तीर्थद्वार इति । स्पष्ठम् ॥ लिङ्गद्वारमाह- लिङ्गाद्वारे-सामायिकच्छेदोपस्थापनीयसूक्ष्मसंपराययथाख्याताद्रव्यत- स्वलिङ्गे अन्यलिङ्गे गृहिलिङ्गेऽपि । भावतस्तु स्वलिङ्ग एव भवेयुः। परिहार- विशुद्धिकस्तु द्रव्यतो भावतश्च स्वलिङ्ग एवेति ।। लिङ्गद्वार इति! लिङ्गं द्विधा, द्रव्यभावभेदात्, भावलिङ्गं ज्ञानादि, द्रव्यलिङ्गं तु द्विधा 10 स्वपरलिङ्गभेदात् , स्वलिङ्ग रजोहरणादिक, परलिङ्गं द्विविधं कुतीर्थिकलिङ्गं गृहस्थलिन- वेति । स्पष्टमन्यत् ॥ शरीरद्वारमाह- शरीरद्वारे सामायिकच्छेदोपस्थापनीययोरौदारिकतैजसकार्मणानि, औदारिकतैजसकार्मणवैक्रियाणि, औदारिकवैक्रियाहारकतैजसकार्म- 15 णानि वा शरीराणि भवन्ति । शेषाणान्त्वौदारिकतैजसकार्मणानीति ॥ शरीरद्वार इति । कार्मणवैक्रियाणीति । पूर्वापेश्याऽत्र वैक्रियस्यैवाधिक्यप्रदर्शनाय क्रमोल्लंघनम् । शेपाणामिति, परिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यानानामित्यर्थः । त्रीण्येव शरीराणि भवन्तीति भावः। क्षेत्रद्वारमाह- क्षेत्रद्वारे-जन्मसद्भावावाश्रित्य सामायिकच्छेदोपस्थापनीयसूक्ष्मस- पराययथाख्याता कर्मभूम्यां संहरणापेक्षया त्वकर्मभूमौ भवेयुः। परि- हारविशुद्धिकस्तु कर्मभूमावेव-भवेत् । नास्य संहरणं भवेदिति ॥ 20 १. नियमेनोभयत्र वर्तते, एकनापि विना विवक्षितकल्पोचितसामाचार्ययोगादिति माव.

१०: तत्वन्यायविमाकरे [सप्तमकिरणे क्षेत्रद्वार इति । जन्मसद्भावाविति । जन्म-उत्पत्तिः, सद्भावो विवक्षितक्षेत्रादन्यत्र वत्र वा जातस्य तत्र चरणभावेनास्तित्वम् । कर्मभूम्यामिति | अकर्मभूमौ जन्मतो न भवन्ति, तत्र जातानां चारित्राभावात्, अत्रैवैते चत्वारः स्वयं विहरन्ति, परकृतविहारापेक्षया तु कर्म भूमावकर्मभूमौ वेत्यपि बोध्यम् , पञ्चभरतपञ्चमहाविदेहपञ्चैरावतानि कर्मभूमयः। हैमवत- 5 हरिवर्षदेवकुरुत्तरकुरुरम्यकैरण्यवतानि पञ्चभिर्गुणिवानि षडकर्मभूमय इति । संहरणापे- क्षयेति, संहरणं नाम क्षेत्रान्तरारक्षेत्रान्तरे देवादिमिर्नयनम् । अकर्मभूमाविति, कर्मभूमावपीति बोध्यम् । कर्मभूमावेवेति, तत्रैव जायते विहरति चेति भावः । नास्येति, एतल्लब्धिमतो देवादिमिस्संह मशक्यत्वादिति भावः ॥ कालद्वारमाह- 10 कालद्वारे-सामायिक उत्सर्पिण्यामवसर्पिण्यां नोउत्सर्पिण्यवस- पिण्यांमपि काले स्यात् । तत्र यद्युत्सर्पिण्यां स्यात्तदा जन्मतो दुष्प- 'मादुष्षमसुषमासुषमदुष्षमारूप अरकत्रये, सद्भावतस्तृतीयतुर्ययोः, संहरणतो यन्त्र कापि स्यात् । यद्यवसर्पिण्यां तदा जन्मसद्भावाभ्यां तृतीयचतुर्थपञ्चमेषु पूर्वक्रमविपरीतेष्वरकेषु, संहरणतस्सर्वेषु स्यात् । 18 यदि नोउत्सर्पिण्यवसर्पिण्यां तदा महाविदेहे दुष्षमसुषमासघशारके स्यात्। एवं छेदोपस्थापनीयोपि, परन्तु जन्मसद्भावापेक्षया नोउत्सर्पिण्य- वसर्पिण्यां न स्यात् ।। 'कालद्वार इति । उत्सर्पिण्यवसर्पिणी नोउत्सर्पिण्यवसर्पिणी चेति त्रिविधः कालः | तत्राद्यौ द्वौ काली भरतैरावतक्षेत्रयोः, तृतीयो महाविदेहहेमवतादिषु भवति । जन्मतो 20 दुषमेति, द्वितीयतृतीयचतुर्थरूप इत्यर्थः । तत्र द्वितीयस्यान्ते जायते तृतीये चरणं प्रतिपद्यते, तृतीयचतुर्थयोस्तु जायते चरणं प्रतिपद्यते चेति बोध्यम् । सद्भावमाश्रित्य तु तस्य तृतीयचतुर्थयोरेव सचेत्याह सद्भावत इति । तयोरेव चरणप्रतिपत्तेरिति भावः । यत्र कापीति, षट्स्वपीति भावः । पूर्वक्रमविपरीतेविति, सुषमदुष्पमा- दुष्पमसुषमादुष्पमारूपेष्वित्यर्थः । संहरणतस्त्विति, देवादिकृतसंहरणावच्छेदेनेत्यर्थः । 25 सर्वेष्विति, अरकेष्विति शेषः, यस्य कस्यचिदरकस्य सदृशः कालो यत्र तत्रापीत्यर्थः । सुषमसुषमायाः सदृशः कालो देवकुरुत्तरकुरुषु, सुषमासमकालो हरिवर्षरम्यकेषु, सुषमदुष्षमासमानकालो हैमवतैरण्यवतेषु, दुष्षमसुषमातुल्यकालो महाविदेहेषु, दुष्षमा- दुष्षमदुष्पमासनिमः कालो न कापि क्षेत्र इति बोध्यम् । छेदोपस्थापनीयस्य प्रायः सामा- , हासणि- বাঙ্কাইভস यिकतुल्यत्वेऽपि तत्र यो विशेषस्तमाहेवमित्यादिना, प्राय इति शेषः । छेदोपस्थापनीय: प्राय एवमेव सामायिकवदेवेत्यर्थः । प्रायश्शब्दसूचित विशेषमाह परन्विति । छेदोपस्थापनीयस्य चतुर्विधारकतुल्यारकवत्सु क्षेत्रेषु नो जन्म न वा सद्भावः, संहरणवस्तु स्यात्सद्भाव इति भावः ।। " परिहारविशुद्धिसंयतमधिकृत्याह- परिहारविशुद्धिसंयत उत्सर्पिण्यवसर्पियोः काले स्यान्न तु नोउत्स- 5 पिण्यवसर्पिणीकाले। उत्सर्पिण्यवसर्पिण्योर्यथायोगं द्वितीयतृतीयचतु- थपञ्चमारकेषु ।। परिहारविशुद्धिसंयत इति । परिहारविशुद्ध्या संयम इत्यर्थः । उत्सर्पिण्यवसर्पिण्यो, काल इति । उत्सर्पिण्यवसर्पिणीसंज्ञके काल इत्यर्थः, उत्सर्पिणीनामके कालेऽवसर्पिणी नामके काले चेति भावार्थः । यथायोगमिति । उत्सर्पिण्या जन्मतो दुष्षमादुष्पमसुषमा- 10 सुषमदुष्षमारूपेषु, सद्भावतस्तु दुष्पमसुषमासुषमदुष्पमारूपयोरवसर्पिण्यां जन्मतस्सुषमदु- षमादुष्पमसुषमारूपयोस्सद्भाववस्सुषमदुःषमादुष्षमसुषमादुष्पमारूपेष्वरकेध्विति भावः ।। अथ सूत्मसम्पराययथाख्याताधाभित्याह- सूक्ष्मसम्परायो जन्मसद्भावाभ्यां कालत्रये, अरकमाश्रित्य तु यथा- योगं सामायिकवत्स्यात्। यथाख्यातोऽप्येवम्, संहरणतस्तु सर्वेष्वरकेषु ॥ 15 कालत्रय इति । उत्सर्पिण्यवसर्पिणीनोउत्सर्पिण्यवसर्पिणीरूपे कालत्रय इत्यर्थः । अरकेषु कथमित्यत्राहारकमाभित्येति । यथायोगं सामायिकवदिति । सामायिको हि उत्सर्पिण्या जन्मतो द्वितीयतृतीयचतुर्थेषु भवति, अयमपि तथैव, सामायिकस्सद्भावापेक्षया तृतीयचतुर्थयोः । अयन्तु सद्भावतो द्वितीयतृतीयचतुर्थेषु, द्वितीयस्यान्ते जायते तृतीये तु चरणं प्रतिपद्यते, तृतीयचतुर्थयोस्तु जायते चरणं प्रतिपद्यते च, चरणभावेन सद्भावषिवक्षणे तृतीयचतुर्थयोरेवायमपि । अवसर्पिण्या सामायिको जन्मसद्भावाभ्यां तृतीयचतुर्थपञ्चमेषु, अयं तु जन्मतस्तृतीयचतुर्थयोः, सद्भावापेक्षया तृतीयचतुर्थपञ्चमेष्विति यथायोगशब्दार्थ इति भावः । इदमेव यथाख्यातेऽप्यतिदिशति यथाख्यातोऽभीति, उभयोस्संहरणं स्यानवेत्या- शंकायामाह सहरणतस्त्विति । ननु सूक्ष्मसम्पराययथाख्यातयोरपगतवेदत्वात् कथं संहरणं, क्षीणवेदानां सहरणस्य शास्त्रे निषिद्धत्वादिति सत्यम् , सामायिकादिषु पूर्व संहृतो यदा 25 सूक्ष्मसंपरायो यथाख्यातो वा भवति तदा भूतसहरणमाश्रित्यैवमुक्तत्वेनादोषादिति ध्येयम् ।। 20 - वस्वन्यायविभाकरे [ससमकिरणे का इमा उत्सर्पिण्यादय इत्यत्राह- रूपरसाद्युत्कर्षप्रयोजकः काल उत्सर्पिणी । रूपरसादिहानिप्रयोजक कालोऽवसर्पिणी । तत्रावसर्पिण्यां सुषमसुषमासुषमासुषमदुष्षमा- दुषमसुषमादुष्षमादुष्षमदुष्षमारूपाषडरका भवन्ति । उत्सर्पिण्यां 5 व्युत्क्रमतष्षडरकास्त एव ।। रूपेति । उत्सर्पति वर्धत अरकापेक्षया, उत्सर्पयति वा मावानित्युत्सार्पिणीति विभ- हः । रूपरसादीनामुत्कर्षः क्षेत्रे भवति स च कालहेतुकस्तस्माद्रूपरसायुत्कर्षप्रयोजकीभूतो यः कालसोत्सर्पिणीत्युच्यत इति भावः । आदिना जीवगवानामनुभवायु:प्रमाणशरीरा- दीनां ग्रहणम् । सूक्ष्माद्धासागरोपमाणां दशभिः कोटीकोटीमिनिष्पन्नोऽयमुत्सर्पिणीकाल- 10 विशेषः । अवसर्पिणीस्वरूपमाह रूपरसेति । अवसर्पति हीयत अरकापेक्षया, अवसर्प- यति भावान् रूपादीनित्यवसर्पिणीति विग्रहो लक्षणं स्पष्टम् । अयमपि कालविशेष उत्सर्पिणी परिमाण एष । यत्र तु भावा रूपादिस्वरूपा न हीयन्ते न वा वर्द्धन्ते तादृशः काल- विशेषो नोउत्सर्पिण्यवसर्पिणीत्युच्यते । मूले तु सुस्पष्टत्वान्न पृथग्लक्षिता । अथावस- र्पिणीं विभजते तनेति । सुषमसुषमाया अतिशोभनत्वेन तस्या एव प्रथमं निर्दिदिक्षया 15 क्रममुल्लंघ्यावसर्पिण्वेवादौ विभक्का । सुषमसुषमेति । शोभनास्समा वर्षा यत्रेति सुषमा, अत्यन्तसुषमत्वाद्वीप्सया सुषमसुषमेति। सर्वथा दुष्षमानुभावरहित एकान्तसुषमारूपो सागरोपमचतुष्कोटीकोटिरूपोऽयं कालः | सुषमेति । सागरोपमाणां कोटीकोटित्रयात्मिका सुषमसुषमापेक्षया हानिमती बोध्या । सुषमदुष्षमेति । दुष्टास्समा यत्र सा दुष्षमा, सुषमा चासौ दुषमा चेति विग्रहः । सुषमानुभावबहुलाऽल्पदुष्षमानुभावा सागरोपमाणां कोटी- 20 कोटिद्वयप्रमाणाऽवसेया। दुष्पमसुषमेति, दुष्षमा चासौ सुषमा चेति कर्मधारयः, दुष्प- मानुभावबहुलाऽल्पसुषमानुभावा ' द्विचत्वारिंशद्वर्षसहस्रन्यूनैकसागरोपमकोटीकोटिप्रमाणा भवति । दुष्षमेति । इयमेकविंशतिवर्षसहस्रमाना दुष्षमानुभावा । दुष्षमदुष्पमेति । अस्या अपि मानमेकविंशतिवर्षसहस्राणि, सर्वथा सुषमानुभावरहिताऽतिदुष्षमानुमावा चेति षड्भागा अवसर्पिण्या द्रष्टव्याः । अत्र सुषमसुषमायां मनुष्याणां गव्यूतत्रितयं शरीरोच्छ्रायत्रीणि 25 च पल्योपमान्यायुः शुभपरिणामोऽपि कल्पव्रक्षादिरनेकच, तत एषां परतो भागेष्वनन्तगुणा १. अत्र कालस्वरूपतो नित्य इति न तस्य हानिरुपपद्यतेऽन्यथाऽहोरात्रं सर्वदा त्रिंशन्मुहूर्तात्मकमेव न स्यात्, किन्तु अनन्तगुणपरिहाणिभिर्वर्णगन्वरमसादिभिहायमानोऽनन्तगुणवृद्धिभिस्तैर्वर्धमान. कालो- होयमानकाो बर्धमानकालश्वेत्युच्यत इति द्रव्यतो नित्यत्वं पर्यायतोऽनित्यत्वमित्याशयेन रूपरसाधुस्कत्यादि रूपेण लक्षणं प्रणीतमिति ॥ , हाराणि] ग्यायप्रकाशसमलते परिहाणिः, सुषमायां गव्यूतद्वयं समुच्छ्रायः पल्योपमद्वयमायुः कल्पवृक्षादिश्च । सुषमदुष्ष- मायामेकगव्यूतसमुच्छाय एकपल्योपमायुः कल्पवृक्षाविः । दुष्षमसुषमायां पूर्वकोट्यायुः पंच- शतधनुस्समुच्छ्रायः दुष्पमायां दुःषमदुष्षमायाचानियतं शरीरोच्छ्रायादिः, तथाप्येवं मण्यते दुष्षमायान्तु प्रारम्भे वर्षशतमायुः सप्तहस्तसमुच्छ्रायः, दुःषमदुष्षमायां पर्यन्ते तु हस्तप्रमाणं वपुः षोडशवर्षाणि परमायुर्निरवशेषौपधिपरिहाणिश्चति बोध्यम् । उत्सर्पिण्यामपि त एव । भागास्तावन्मानास्तस्वरूपाः पूर्वोदितक्रमविपरीतक्रमा भवन्तीत्यभिप्रायत आहोत्सपिण्या- मिति । एवञ्च विंशतिसूक्ष्माद्धासागरोपमकोटीकोटीप्रमाणद्वादशारकरूपमवसर्पिण्युत्सर्पिण्योः कालचक्रं पञ्चसु भरतेषु पञ्चस्वैरवतेषु चानाद्यनन्तं परिवर्तते । कुरुषु तु सुषमसुषमातुल्यः कालः, हरिरम्यकेषु सुषमातुल्यः, हैमवतैरण्यवतेषु सुषमदुष्पमानिमः, षट्पञ्चाशइन्तरद्वीप- सहितपश्चविदेहक्षेत्रेषु दुष्पमसुषमासदृश इति दिछ । . 10 - सम्प्रति गतिद्वारमाह- गतिद्वारे-सामायिकछेदोपस्थापनीयौ मृत्वा देवगति यायाताम् । तत्रापि वैमानिक एव । तत्रापि जघन्यतः प्रथमदेवलोकमुत्कृष्टतस्त्वनु- त्तरविमानं यावत् । विराधकश्चेद्यः कोऽपि भवनपतिः स्यात् । परिहार विशुद्धिको वैमानिक एव स्यात् । तत्रापि जघन्यतस्सौधर्मकल्प उत्कृष्ट- 15 तस्सहस्रारकल्पे स्यात् । सूक्ष्मसम्परायोऽनुत्तरविमाने स्यात् । यथाख्या- तसंयतो देवगतौ स्याचेत्तदाऽनुत्तरविमान एव स्यादथवा सिद्धिगति यायादिति ॥ गतिद्वार इति । तत्रापीति देवगतावपीत्यर्थः, वैमानिक एवेत्यत्रैवशन्देन भवनवासि बानमन्तरज्योतिष्कपूत्पादो व्युदस्यते । तत्रापीति, वैमानिकेष्वपीत्यर्थः । प्रथमदेवलोक- 30 मिति सौधर्मदेवलोकमित्यर्थः । एतत्सर्व संयमाविराधनया बोध्यम् । देवलोके स्थितिस्तु १. ननूश्वत्व शरीरस्य स्वावगावमूलक्षेत्रादुपरितननभ प्रदेशावगाहित्य, तत्पर्यवा असंख्याता एवेति कयमनंतभागपरिहाणि, एवमायुप पर्यवा एकसमयोनादिरूपा असंख्याता एव, भायुस्थितेरसंख्यातसम- यात्मकत्वात्कथमनन्तरायु पर्यवैर्हानि , उच्यते, प्रथमारके प्रथमसमयोत्पन्नमुत्कृष्टं शरीरोषत्व भवति, ततो द्वितीयादिसमयोपनाना यावतामेकनम प्रतरावगाहिलक्षणपर्यबाणा हानिस्तावत्युद्गलानन्तक हीयमान द्रष्टव्यमाधारहानाबाधेयहानेरावश्यकत्वाद, तेनोचपर्यवाणामप्यनन्तत्व सिद्ध, नम.प्रतरावगाहस्स पुदलो- पचयसाध्यत्वात्, एवं प्रतिसमयं होयमानस्थितिस्थानकारणीभूतान्यनन्तान्यायु कर्मदलिकानि परिहीयन्ते, तत. कारणहानी कार्यहानेरावश्यकस्वात्तानि च भवस्थितिकारणत्वादायु पर्यवा एव, अतस्तेऽनन्ता इति ।

१९४ तस्वन्यायविमाकरे [ससमकिरणे जघन्येन द्वे पल्योपमे, उत्कर्षेण तु त्रयस्त्रिंशत्सागरोपमाणीति । तद्विराधकम्वेद्भवनपतीनाम- न्यतमेषु देवेषूत्पत्तिः, विराधितसंयमस्य भवनपत्याधुत्पादस्य शास्त्रानुमतत्वादित्याशये- नाह विराधकश्वेदिति | संयमाविराधकत्वे वाह परिहारविशुद्धिक इति, सष्टमन्यत् | संयमविराधकोद्भवनपत्यन्यतमेषत्पद्यते, देवलोके स्थिविरपि जघन्येन द्वे पल्योपमे, उत्क- .5 घेणाष्टादशसागरोपमाणीति । अनुत्तरविमान इति, अजघन्योत्कृष्टत इति भावः । अयम- विराधनां प्रतीत्याहमिन्द्रतयोत्पद्यते, विराधनां प्रतीत्य तु यः कोऽपि भवनपतिः स्यादिति बोध्यम् । अनुत्तरविमान एवेति, अजघन्योत्कृष्टत इति भावः उभयोरपि संयतयोर्देव- लोके स्थितिरजघन्योत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणीत्यपि बोध्यम् । यदा तु न देवगतो तदात्वाहाथवेति ॥ - 10 के देवलोकाः के वा भवनपतय इति प्रसङ्गेनोदितायामाशंकायां अमे पक्ष्यमाणानपि संक्षेपतोऽत्र वक्ति- तत्र सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलान्तकमहाशुक्रसहस्राराऽऽ- नतप्राणताऽऽरणाऽच्युतभेदेन द्वादशविधा देवलोकाः कल्पोपपन्नदेवा- नाम् । तदुपरि सुदर्शनसुप्रतिबद्धमनोरमसर्वभद्रविशालसुमनससौमन- 15 समीतिकरावित्यभेदेन नव ग्रैवेयकाः । तदुपरि विजयवैजयन्तजयन्ताप- राजितसर्वार्थसिद्धभेदेन पश्चानुत्तराः। उभये कल्पातीतानाम् ॥ तत्रेति । देवा हि सामान्येन विमानवासिज्योतिष्कव्यन्तरभवनपतिभेदेन चतुर्विधाः। विमानवासिनोऽपि कल्पोपपन्नाः कल्पातीताश्चेति द्विविधाः । एवंविधानां देवानां निवास- योग्यस्थानं देवलोक इत्याशयेन : तत्स्थानान्याह-सौधर्मेत्यादिना । ज्योतिष्कोपरितनप्रस्ता- 20 रादसंख्येययोजनाध्वानमारुह्य मेरूपलक्षितदक्षिणभागाधैं प्राग्व्यवस्थितः प्राचीप्रतीच्यायत उदग्दक्षिणविस्तीर्णोऽर्धचन्द्राकतिर्भास्वरः परिक्षेपत आयामविष्कम्भाभ्याचासंख्येययोजन- कोटीकोटयो लोकान्तविस्तारस्सर्वरत्नमयोऽशोकसप्तपर्णचम्पकचूतसौधर्माववंसकोपशोभिव- शक्रापासस्सौधर्मः कल्पः । तस्योपरि चोदग्व्यवस्थित ईपदुपरितनकोट्या समुच्छ्रिततरो मध्यव्यवस्थिताङ्कस्फटिकरजतजातरूपेशानावतंसकविभूषित ऐशानकल्पः । सौधर्मस्योपरि 25 बहूनि योजनान्यतिक्रम्य सौधर्मकल्पवत्सनत्कुमारः ।अस्योपरि माहेन्द्रः कल्प ऐशानकल्पवत् । सनत्कुमारमाहेन्द्रकल्पयोरुपरि बहूनि योजनान्यतीत्य मध्यवर्ती सकलनिशाकराकृतिब्रह्मक- ल्पः। एवमुपर्युपरि लान्तकमहाशुक्रसहस्रारास्नयः कल्पाः, तदुपरि बहूनि योजनान्यतिक्रम्य सौधर्मशानकल्पद्वयवदानवप्राणतनामानौ द्वौ कल्पौ, तदुपरि समश्रेणिव्यवस्थितौ सनकुमार- - द्वाराणि] न्यायप्रकाशसमलते माहेन्द्रवदारणाच्युताविति द्वादश देवलोकाः ॥ वत्र कीदृशानां देवानां निवास इत्य- वाह-कल्पोपपन्नदेवानामिति । दीव्यन्तीति देवाः, प्राग्भवोपात्तपुण्यप्राग्भारोपनतविशिष्ट- मोगसुखाः प्राणिविशेषाः, तत्र कल्पा इन्द्रादिदशवया कल्पनात् कल्पाः, कल्पाः आचाराः ते चानेन्द्रसामानिकत्रायस्त्रिंशदादिव्यवस्थारूपाः, तान् प्रतिपन्नाः कल्पोपपन्नाः, ते व ते देवाय कल्पोपपन्नदेवा वैमानिकविशेषास्तेषामेते लोका इत्यर्थः । तदुपरीति द्वादश- 5 देवलोकोपरीत्यर्थः, नव प्रैवेयका इति । लोकपुरुषस्य प्रीवाप्रदेशे भवा प्रैवेयकास्ते नव यथागर्म व्यवस्थितास्सुदर्शनादिशब्दवाच्या नवविधा इत्यर्थः । तदुपरीति अवेयको- परीत्यर्थः । अभ्युदयविघ्नहेतूनां जयात्, कर्मणां विजितप्रायसयोपस्थिवपरमकल्याण- त्वाम प्रतनुकर्मपटलावच्छिन्ना विजयवैजयन्तजयन्ताः, अभ्युदयविनहेतुमिन परा- जिताः क्षुधादिभिर्वा न पराजिता अपराजिताः, सांसारिकसर्वकर्तव्यपरिसमास्याऽनन्त- 10 रजन्मनि सकलकर्मक्षयलक्षणमोक्षस्य भावित्वेन सिद्धप्रायास्सर्वार्थसिद्धा एतेषां विमान- विशेषा अध्येतनामका एष । मूले तु विमानविशेषाणां नामान्यमिहिसानि | अनुचरा इति, न विद्यन्ते उत्तराणि प्रधानानि विमानानि येभ्यस्तेऽनुत्तराः, देवलोका अपि अनुत्तरा सच्यन्त इति भावार्थः । विमानान्येतानि न परस्परमुपर्युपरि भवन्ति परन्तु मध्ये सर्वार्थसिद्धविमानं परितश्चत्वारीति । उभय इति अवेयका अनुत्तराश्चेत्यर्थः । 18' कल्पातीतानामिति, इन्द्रादिदशतया कल्पनाविरहिणामित्यर्थः, तेषां सर्वेषामपि अह- मिन्द्रत्वादिति भावः । तथा च पड्विंशविवैमानिका विज्ञेयाः ।। अथ ज्योतिष्कादिदेवभेदानाह- चन्द्रसूर्यग्रहनक्षत्रतारकाः पञ्च ज्योतिष्काः। पिशाचभूतयक्षराक्ष- सकिन्नरकिम्पुरुषमहोरगगन्धर्वा अष्टविधा व्यन्तराः । असुरनागसुपर्ण: 20 विद्युदग्निद्वीपोदधिदिक्पवनस्तनितकुमारभेदेन दशविघा भवनपतयः॥ चन्द्रेति । नवयधिकसप्तशतयोजनानि भूभागादूचं तारकविमानप्रस्तारः। ततो दश- योजनानामुपरि सूर्यविमानप्रस्वारः । ततोऽशीतियोजनानामूलचन्द्रविमानप्रस्वारः । तदुपरि १. ये इन्द्रतुल्यतया धुतिवैभवादिभ्यश्चरन्ति ते सामानिका, ये तु मंत्रिकल्पाः परस्परेण साहाय्यकारिण उदात्ताचारास्संसारभीरको गृहपतयन्त्रयस्त्रिंशत्परिमाणानायस्त्रिंशा, कल्पयोर्देवा. सम्यग्दृष्टयोऽपि मिथ्यादृष्टयो:- मि सम्यमिप्यादृष्टयोऽपि, अनुत्तरोपपातिनस्तु सम्यग्दृष्टय एष, विमानाधिपतयस्तु सम्यग्दृष्टय एष,- मुलमबोधिताहेतुतीर्थकदाशातनापरिहारान्यथानुपपत्ते. । सामानिकदेवा न विमानाधिपतय., देवीमामिव मूल- विमानेकदेश एव तदुत्पत्तियोग्य स्थानम् । जिनजन्मोत्सबादौ तेषा सिंहासनाना शऋविमाने मण्डितत्वात् । शाप्रमहिषीसिंहासनमण्डनवदिति बोध्यम् । - IR - तत्त्वन्यायविमाकरे [ सप्तमकिरणे विशतियोजनान्यारुह्य नक्षत्रप्रहाणां विमानप्रस्तारः। एतद्विमानवर्तिनोऽपि चन्द्रादय उच्यन्ते। ते च द्विविधा मनुष्यक्षेत्रवर्त्तिनो मानुपोत्तरपर्वतात्परतो यावत्स्वयम्भूरमणसमुद्रं वर्तिन- श्वेति । तत्र प्रथमे मेरोः पादक्षिण्येन सर्वदा भ्रमणशीलाः, अपरे च सदावस्थानस्वभावाः, अत एव घण्टावत्स्वस्थानस्था एव तिष्ठन्ति । ज्योतिष्का इति, घोवयन्ति जगत् प्रकाशयन्तीति 5 ज्योतींषि विमानानि, तेषां लोका ज्योतिष्काः, तेषु भवा अपि ज्योतिष्का इति भावः । अथ तृतीयदेवभेदान्व्यन्तरानाह पिशाचेति । देवत्वावान्तरतचनामकर्मोदयप्रयुक्ता एते देवभेदा व्यन्तराः, विविधमन्तरं शैलान्तरं कन्दरान्तरं वनान्तरं वाऽऽश्रयरूपं येषां ते व्यन्तराः, विगतं अन्तरं विशेषो मनुष्येभ्यो येषां ते वा व्यन्तराः, मनुष्यानपि चक्रवर्तिवासुदेवप्रभृतीन् भृत्यवदुपचरन्ति केचिद्व्यन्तरा इति मनुष्येभ्यो विगतान्तरा 10 इति विग्रहः । चतुर्थदेवभेदानाहासुरेति । कुमारशब्दोऽसुरादिमिः प्रत्येकं योज्यः । एते हि देवाः कान्तदर्शनास्सुकुमारा मृदुमधुरललितगतयश्शृङ्गारामिजातरूपविक्रियाः कुमार- चोद्धतरूपवेपभाषाऽऽमरणप्रहरणावरणपातयानवाहका उल्बणरागाः क्रीडनपराश्चेत्यतः कुमारा उच्यन्ते । भवनपतय इति | भवनानां पतयस्तन्निवासित्वात्स्वामिनो भवनप- तयः । नागकुमाराद्यपेक्षया बाहुल्यतो भवननिवासित्वं द्रष्टव्यम् । प्रायो हि ते भवनेषु 15 कदाचिदावासेषु वसन्ति । असुरकुमारास्तु प्राचुर्येणावासेषु कदाचिद्भवनेषु । बहिर्वृत्ता- न्यन्तस्समचतुरस्राण्यध:कर्णिकासंस्थानानि भवनानि, कायमानस्थानीया महामण्डपा विचित्रमणिरत्नप्रभाभासितसकलदिक्चक्रा आवासा इति, विस्तरस्त्वन्यत्र निभालनीयः॥ अथ संयमद्वारमाचष्टे- संयमद्वारे-सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्प- 2 रायाणां प्रत्येकं संयमस्थानान्यसंख्यातानि । यथाख्यातस्य त्वेकमेव संयमस्थानमिति॥ संयमद्वार इति | संयमश्चारित्रं तस्य स्थानानि विशुद्धिप्रकर्षाप्रकर्षकृतमेदाः, ते च, प्रत्येकं सर्वाकाशप्रदेशाप्रगुणितसर्वाकाशप्रदेशपरिमाणाः पर्यवोपेता भवन्तीति, तेन चारित्र- द्वारादस्य नाभेदशक्षा कार्या, संयमस्थानखात्र विचार्यमाणत्वात् । असंख्यातानीति, सूक्ष्मसम्प- 25 रायस्य त्वान्तमौहूर्तिकान्यसंख्येयानि संयमस्थानानि क्षयोपशमवैचित्र्याद्भवन्ति, तदद्धाया अन्तर्मुहूर्तमानत्वात् तत्र प्रतिसमयं संयमविशुद्धिविशेषस्य भावादिति विशेषो बोध्यः । एकमेव संयमस्थानमिति । एकस्मिन्नेव समये कषायाणामुपशमेन क्षयेण वा चरणशुद्धेनि- विशेषत्वादिति भावः । अत्र संयमस्थानस्याल्पबहुत्वचिन्तायां संयमस्थानानि सर्वाण्येक- द्वाराणि-7- न्यायप्रकाशसमलट्टते :.१९७: विंशतिरसद्भावस्थापनया, तत्र यथाख्यावस्य प्रथममजघन्योत्कृष्टमेकं, ततोऽधस्तनानि चत्वारि तस्मादसख्येयगुणानि सूक्ष्मसम्परायस्य, ततोऽधस्तनानि चत्वारि बिहायाष्टौ पराणि ततोऽसंख्येयगुणानि परिहारविशुद्धिकस्य, त्यतानि चत्वारि पूर्वोदितान्यष्टौ ततोऽधस्तनानि चत्वारि चेति षोडशपूर्वेभ्योऽसंख्यातगुणानि सामायिकछेदोपस्थापनीययोः, एतानि च द्वयोरपि तुल्यान्येवेति विज्ञेयम् ॥ 5 सनिकर्षद्वारमभिधत्ते- सन्निकर्षद्वारे-सामायिकसंयतस्य चारित्रपर्याया अनन्ताः। एवं यथाख्यातपर्यन्तानां सर्वेषां बोध्या। सामायिकस्सामायिकान्तराद्धीन- समानोऽधिकोपि स्यात् । हीनाधिकत्वे च षस्थानपतितत्वं स्यात् । . छेदोपस्थापनीयपरिहारविशुद्धिकापेक्षयाऽपीत्थमेव भाव्यम् । सूक्ष्म- 10 सम्परायिकयथाख्यातापेक्षया त्वनन्तगुणहीनचारित्रपर्यायवान् स्यात् ।। सनिकर्षद्वार इति । चारित्रपर्याया इति, सर्वविरतिरूपपरिणामस्य चारित्रस्य पर्याया भेदास्ते च बुद्धिकता विषयकृता वा बोध्याः । बोध्या इति, चारित्रपर्याया अनन्ता इत्यनु- पन्यते । ननु सामायिकादीनां सर्वेषां चारित्रभेदस्यानन्तत्वाविशेषेण साम्यतापत्त्या स्वस्व- सजातीयेभ्यस्स्वविजातीयेभ्यो वा हीनाधिकमावोऽस्ति नवेत्याशंकायामाह सामायिक इति | 15 सामायिकान्तरादिति, स्वसजातीयादित्यर्थः । हीन इति, विशुद्धसंयमस्थानसम्बन्धित्वेन विशुद्धतरपर्यायापेक्षयाऽविशुद्धसंयमस्थानसम्वन्धित्वेनाविशुद्धवराः पर्याया हीनाः, तद्योगा- संयतोऽपि हीन इति भावः । समान इति, सदृशविशुद्धिकपर्याययोगात्समान इत्यर्थः । अधिकोऽपीति, विशुद्धतरपर्याययोगादधिक इत्यर्थः, षट्स्थानपतितत्वमिति । वस्तूना- मनन्तासंख्यातसंख्यातभागः, संख्यातासंख्यातानन्तगुणैश्च वृद्धिा हानिया भवति, 20 सर्वविरतिविशुद्धिस्थानादीनां वस्तूनां वृद्धिर्वा हानिर्वा विचिन्त्यमाना षट्स्थानगता प्राप्यते यथा अनन्तभागवृद्धिरसंख्यातमाग वृद्धिः, संख्यातभागवृद्धिः, संख्यातगुणवृद्धिः, असंख्यातगुणवृद्धिः, अनन्तगुणवृद्धिश्च, एवं दानावपीति । स्वविजातीयसंयतापेक्ष- याप्येवमेव हीनाधिकत्वं स्यादित्याईवमिति । इत्यमेवेति, हीनस्समानोऽधिकोऽपि स्यात् होनाधिकत्वे च षट्स्थानपतितत्वं स्यादित्यर्थः । विजातीययत्सयतापेक्षया सामायिकस्य विशेषस्तमधिकत्साह सूक्ष्मेति । अनन्तगुणेति तथाविधविशुद्धिविरहादिति भावः ॥ छेदोपस्थापनीय आयत्रयचारित्र्यपेक्षया सामायिकवत्स्यात् । अन्त्यः । तत्वन्यायविमाकरे [ सामकिरने द्वयापेक्षयापि तथैव । एवमेव परिहारविशुद्धिकोऽपि । सूक्ष्मसम्पराय. आयत्रयापेक्षयानन्तगुणाधिक एव । सूक्ष्मसम्परायान्तरापेक्षया तुल्यो- नन्तगुणेन हीनोऽधिकोऽपि स्यात् । यथाख्यातापेक्षयाऽनन्तगुणहीनः । यथाख्यातस्तु विजातीयसंयतापेक्षयाऽनन्तगुणेनाधिक एव, सजातीया- 5. पेक्षया तु तुल्य एवेति ॥ आयत्रयचारित्र्यपेक्षयेति-सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकरूपसजातीय- विजातीयसंयतापेक्षयेत्यर्थः । सामायिकवदिति, हीनाधिकसमत्वानि भवेयुहीनाधिकत्वे तु षट्स्थानपतितत्वञ्च भवेदिति भावः । अन्त्यद्वयापेक्षयापि तथैवेति, सूक्ष्मसम्पराययथा- ख्यातरूपविजातीयसंयतापेक्षयाऽनन्तगुणहीनचारित्रपर्यायवानित्यर्थः । परिहारविशुद्धि- 10 कोऽपि सामायिकतुल्य एवेत्याह एवमेवेति । अनन्तगुणाधिक एवेति । सामायिकछेदोप- स्थापनीयपरिहारविशुद्धिकानां तथाविधविशुद्धपर्यायामावेनाऽयमनन्तगुणाधिक एव, न हीनो न वा समान इति भावः। सजातीयसंयनान्तरापेक्षया तु हीनाधिकतुल्यतास्स्युरेवेत्याह- सूक्ष्मेति । यथाख्यातापेक्ष्या तु कथमित्यत्राह-यथाख्यातेति । अनन्तगुणहीन इति, अनन्तगुणेन हीन एवेत्यर्थः समत्वे वाऽयमपि यथाख्यात एव स्यादिति भावः । 15 यथाख्यातोऽपि विजातीयचारित्र्यपेक्षयाऽधिक एवान्यथा स्वरूपहान्यापत्तेः, सजाती- यान्तरापेक्षया तुल्य एव, परस्परं तारतम्याभावादित्याशयेनाह यथाख्यातस्त्विति । अल्प- बहुत्वचिन्तायान्तु सामायिकछेदोपस्थापनीययोर्जघन्याश्चारित्रपर्यायाः परस्परं तुल्यास्सर्वे- भ्यस्तोकाश्च । परिहारविशुद्धिकसंयतस्य जघन्याश्चारित्रपर्याया अनन्तगुणास्तस्यैवोत्कर्षका- श्वारित्रपर्याया अनन्तगुणाः, सामायिकछेदोपस्थापनीययोश्चैवयोरुत्कर्पकाश्चारित्रपर्याया द्वयो- 20 रपि तुल्याः परिहारतस्त्वनन्तगुणाः, सूक्ष्मसम्परायस्य जघन्यकाचारित्रपर्याया स्तस्यैव चोत्कर्षकाश्चारित्रपर्याया अनन्तगुणाः, यथाख्यावसंयतस्याजघन्योत्कृष्टकाश्चारित्र- पर्याया अनन्तगुणा इति ॥ " अनन्तगुणा- योगद्वारमाह- योगद्वारे-आद्यश्चत्वारस्संयता योगत्रयवन्तः । यथाख्यातस्तु सयोगी अयोगी चेति ॥ योगद्वार इति । योगत्रयवन्त इति, मनोवाकायरूपयोगत्रयवन्तो न त्वयोगिन इत्यर्थः । सयोगीति, एकादशद्वादशत्रयोदशगुणस्थानान्तर्भावेण योगत्रयवानित्यर्थः । अयोगीवि चतुर्दशगुणस्थानान्तर्भावेण योगत्रयाभाववानित्यर्थः ।।

द्वाराणि न्यायप्रकाशसमले उपयोगद्वारमाख्याति- उपयोगद्वारे-आद्यालयो यथाख्याताश्च साकारनिराकारोपयोग- वन्तः स्युः सूक्ष्मसम्परायस्तु साकारोपयोग्यवेति ॥ उपयोगद्वार इति । उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यते जीव एमिरित्युपयोगा बोधरूपा जीवस्य स्वतश्वभूता व्यापाराः, ते च द्विधा-साकारा अनाकाराश्च, तत्राकारः, । प्रतिषस्तु प्रतिनियतो ग्रहणपरिणामरूपो विशेषः, सहाकारेण वर्तन्त इति साकाराः, सामान्यविशेषात्मके वस्तुनि विशेषांशप्राहिण इत्यर्थः । तद्विपरीतास्त्वनाकाराः सामान्यांश- प्राहिण इत्यर्थः । आद्या इति । सामायिकछेदोपस्थापनीयपरिहारविशुद्धिका यथाख्याताय साकारोपयोगवन्तो निराकारोपयोगवन्तश्च । साकारोपयोग्येवेति, नाऽनाकरोपयोगयुक्त- स्वस्य तथास्वभावत्वादिति भावः ।। - । - 10 कायद्वार वक्ति-- कषायद्वारे-सामायिकस्सकषाय एव । छेदोपस्थापनीयोऽप्येवम् । परन्तु श्रेणिगतयोस्तु प्रथमं चत्वारः कषाया, ततः क्रोधादिषु क्रमेण प्रथमादीन् विहाय प्रयो द्वावेको वा स्यात् । परिहारविशुद्धिकस्तु सकषाय एव श्रेणिप्राप्त्यभावात् । सूक्ष्मसम्परायस्संज्वलनलोभकषाय- 15 वान् यथाख्यातस्त्वकषायीति ॥ कषायद्वार इति । सकषाय एवेति एवशब्देनाकषायत्वव्यवच्छेदः । तथात्वेऽपि यो विशेषतमाह परन्विति । श्रेणिगतयोरिति । उपशमश्रेणि वा क्षपकनेणि वा प्रविष्टयो- स्सामायिकछेदोपस्थापनीययोरित्यर्थः । प्रथममिति, श्रेणिप्रविपत्तिपूर्वमित्यर्थः । चत्वार इति, संज्वलनक्रोधमानमायालोमरूपा इत्यर्थः, तत इति, श्रेणिना संज्वलनकोषादिके 20 उपशान्ते क्षीणे वेत्यर्थः । क्रमेणेति, क्रोधं विहाय त्रयः, क्रोधमानौ विहाय द्वौ, क्रोधमानमाया हित्वैको वा स्यादित्यर्थः । सकषाय एवेति । संन्वलनक्रोधमानमायालोभ- लक्षणपतु:कषायबानेव, न तु तस्य त्रयो द्वावेको वा कपायो भवेदित्यर्थः । किमयमेवमेव भवेदित्यत्राह श्रेणीति, उपशमक्षपकान्यतरणिप्रात्यभावात् , तथास्वभावत्वादिति भावः । यथाख्यातस्विति । उपशान्तकपायवान् क्षीणकषायवान्वा स्यादिति भावः ॥ लेण्याद्वारमभिधत्ते- लेण्याद्वारे-सामायिकछेदोपस्थापनीयौ षड्विधलेश्यावन्तौ । 25 तस्वन्यायविमाकरे [ समान परिहारविशुद्धिकः शुभलेश्यावयवान् । सूक्ष्मसम्परायश्शुल्लमानलेश्या- वान् । यथाख्यातस्तु परमशुक्ललेश्यावान्, चतुर्दशगुणस्थाने तु लेश्या- रहित इति ॥ लेण्याद्वार इति । कृष्णादिद्रव्यसाचिव्यप्रयुक्तजीवपरिणामविशेषो लेश्या । योगनिमि- 5 चेयं, तेन सहान्वयव्यतिरेकानुविधानात् । तत्रापि योगघटकद्रव्यरूपा, न तु योगनिमित्त- कर्मद्रव्यस्वरूपा, योगनिमित्तकर्मणो घात्यघात्यन्यतरात्मकत्वात्, तत्र च धातिस्वरूपत्वे यथाख्याते सयोगिनि परमशुक्छलेश्याया असत्वप्रसङ्गः, अघातिस्वरूपत्वे तु चतुर्दशगुणस्था- नस्थे यथाख्याते लेश्यायाः सत्त्वप्रसङ्गश्च स्यात् । अयोगिनो योगपरिणामाभावे लेश्या- परिणामाभावाद्योगपरिणाम एत्र लेश्या, योगघटकत्वेन चास्याः कषायाणामुदयोपबृंहक- 10 त्वमनुभागहेतुत्वञ्च, इयं भावलेश्या, द्रव्यलेश्या तु कृष्णादिद्व्यात्मिका, सा च कृष्णनील- कापोततेज:पद्मशुक्लभेदात् षोढा | कृष्णद्रव्यसम्बन्धप्रयुक्ताविशुद्धपरिणामः कृष्णलेश्या, एवं नीलनीललोहितलोहितपीतशुक्लद्रव्यप्रयुक्तत्वं नीलादिलेश्यानां भाव्यम् । कृष्णनीलकापोता अशुभाश्शेषाशुभाः । षड्विधलेश्यावन्ताविति, सकषायमेवाश्रित्येदम् । शुभलेश्यात्रयवा- निति, तेजापनशुक्खलेश्यावानिति भावः । भाषलेश्यापेक्षया प्रशस्ता एते । परमशुक्लेश्या- 15 वानिति, अतिविशुद्धपरिणामत्वात् शुक्लध्यानस्य तृतीयो भेदस्तत्रोपयोगिनी, परमशुक्छेश्ये- त्युच्यते, एकादशद्वादशगुणस्थानस्थयोः केवळं शुक्ला । चतुर्दशे तु नास्ति लेश्येत्याह-चतुर्द- शेति । योगाभावादिति भावः ॥ परिणामद्वारमाह- परिणामद्वारे-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिका बर्द्धमा- 20 नहीयमानस्थिरपरिणामवन्तः। सूक्ष्मसम्परायः श्रेण्यां वर्धमानो-हीयमा नश्च स्यान्न स्थिरपरिणामवान् । तत्कालस्तु जघन्यतस्समय एक उत्कृष्ट तोऽन्तर्मुहूर्तपरिमाणः। एवमाद्यानां कालो ज्ञेयः। यथाख्यातस्तु न हीयमानपरिणामवान् । वर्धमानपरिणामकालस्तु जघन्यत उत्कृष्टतथा- न्तर्मुहर्तमानमिति । स्थितिस्तु जघन्येनैकस्समयः । उत्कृष्टतस्त्रयोदश- 15 गुणस्थानस्थस्य किश्चिदूनपूर्वकोटिपर्यन्ता बोध्येति ॥ १. पूर्वप्रतिपन्नस्तु सर्वास्वपि कथग्विनवति, तत्रापि नात्यन्तसंक्लिष्टासु वर्तते, तथा भूतासु वर्तमानो न प्रभूत कालमवतिष्ठते, किन्तु स्तोकम्, तत्र प्रवृत्तिस्तु कर्मवशादिति ॥ -- द्वाराणि] न्यायप्रकाशसमलते । :२० परिणामद्वार इति । त्रिविधः परिणामइशुद्धवर्धमानहीयमानस्थिरभेदात् । शुद्धेरुत्क- पंप्राप्तिर्वर्धमानपरिणामः, अपकर्पप्राप्तिहीयमानपरिणामः, अवस्थानञ्च स्थिरपरिणामः । त्रिवि- घोऽज्ययं परिणामस्सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकानां भवतीत्साह सामायिकेति । न स्थिरपरिणामवानिति, गुणस्थानकस्वभावादिति भावः । ननु सूक्ष्मसम्परायसंयतस्य वर्ध- मानहीयमानपरिणामौ कियत्कालं भवत इत्यत्राह तत्कालस्त्विति, वर्धमानो हीयमानश्च काल 5 इत्यर्थः । जघन्यत इति । तावेकसमयवर्तिनावित्यर्थः । प्रतिपत्तिसमयानन्तरमेव मरणस- म्भवादिति भावः । सिंहावलोकनन्यायेन सामायिकादित्रयाणां परिणामकालमाहाऽऽद्या- नामिति | काल इति, वर्धमानकालो हीयमानकालोऽवस्थितकालो वेति भावः । तत्र वर्धमा- नपरिणामकाले वाघिते कषायेणैकसमयमनुभवनाजघन्येनैकस्समयः, वर्धमानपरिणामस्या- न्तर्मुहूर्त्तकालावस्थानस्वभावत्वादुत्कर्षेणान्तर्मुहूर्तः। एवमेव हीयमानावस्थितपरिणामौ बोध्यौ। 10 यथाख्यातस्य वर्धमानावस्थितपरिणामावेवेत्याह यथाख्यातस्विति । प्रत्येक कालमानमाह वर्धमानेति | यः केवलज्ञानमुत्पादयिष्यति यश्च शैलेशी प्रतिपन्नस्तस्यैवं बोध्या, तदुत्तरकालं तस्यवच्छेदात् । एकस्समय इति, उपशमाद्धायाः प्रथमसमयानन्तरमेव मरणादिति भावः । किञ्चिदूनेति, नववर्षोंनेत्यर्थः । पूर्वकोट्यायुपः पुरुषस्य जन्मतो जघन्येन नवसु वर्षेषु गतेषु केवलज्ञानमुत्पद्यते, ततोऽसौ तदूनां पूर्वकोटीमवस्थितपरिणामझौलेगी यावद्विहरति 15 शैलेश्याच वर्द्धमानपरिणामः स्यात्, अतो देशोनेत्युक्तमिति भावः ।। बन्धद्वारमाचष्टे- वन्धद्वारे-सामायिकादयस्त्रयोऽष्टौ कर्मप्रकृतीरायुर्वर्जसप्तकर्मप्रकृतीर्वा बन्नन्ति । सूक्ष्मसम्परायो मोहनीयायुर्वपदकर्मप्रकृतीबंध्नाति। यथाख्या- तस्तु एकादशद्वादशत्रयोदशगुणस्थानेषु वेदनीयमेव बध्नाति । चतुर्दशे 20 तु वन्धरहित एवेति ॥ बन्धद्वार इति, अष्टौ कर्मप्रकृतीरिति, आयुर्वधकाले परिपूर्णा इति शेपः | आयुर्व- जेति, त्रिमागाधवशिष्टायुपामेव जीवानामायुर्वन्यकतया विभागद्वयादौ नायुर्वन्धकत्वमिति - १. आयुपि वध्यमाने नियमेनाष्टावपि प्रलयो बध्यन्ते, मोहनीये तु बध्यमाने अष्टी, आयुर्वस्मित वा, जानदर्शनावरणनामगोत्रान्तरायेधु वध्यमानेषु, अष्टौ, सप्त, पद, पद च मोहनीयायुर्वजास्तमसम्मगये प्राप्यन्ते, वेदनीये तु वध्यमानेऽष्टौ मत पडेका च, तत्रका वेदनीयरमा उपशान्तादिनियु स्थानेगु नाविश्वन्धश. अप्रमत्तान्ता, सप्तविधवन्धका- अनिवृत्तिबादरान्ताः पद्विधर्वन्धमस्सहममम्मराया, एने सरागा. मोह- नीयोदयादिति बोध्यम् ॥ , - - तस्वन्यायविमाकरे । सप्तमकिरणे तादृशमाश्रित्यायुर्वर्जेत्युक्तम् । मोहनीयायुर्वर्जेति । अप्रमत्त्वाद्वादरकषायोदयाभावाचेति भावः । वेदनीयमेवेति, वन्धहेतुषु योगानामेव सत्त्वादिति स्पष्टार्थः । बन्धरहित एवेति, बन्धहेतूनां सर्वेषामभावादिति वात्पर्याथैः ॥ वेदनाद्वारमाह- वेदनाद्वारे-सामायिकाद्याश्चत्वारोऽष्टौ कर्मप्रकृतीरनुभवन्ति । यथा- ख्यातस्तु निर्ग्रन्थावस्थायां मोहवर्जसप्तकर्मप्रकृतीनां वेदको मोहनीयस्यो- पशान्तत्वात्क्षीणत्वाद्वा । लातकावस्थायां घातिकर्मप्रकृतिक्षयाचतसृणां वेदक इति ॥ वेदनाद्वार इति । अष्टाविति, नियमेनेति शेषः । मोहवर्जेति, वत्र हेतुमाह 10 मोहनीयस्येति, उपशमश्रेण्या क्षपकोण्येति भावः ॥ उदीरणाद्वारमाह- उदीरणाद्वारे-सामायिकछेदोपस्थापनीयपरिहारविशुद्धिका अष्टौ सम्म षड्वा कर्मप्रकृतीरुदीरयन्ति । सूक्ष्मसम्पराय आयुर्वेदनीयवर्जषद्कर्म- प्रकृतीरायुर्वेदनीयमोहवर्जपञ्चकर्मप्रकृतीर्वोदीरयति । यथाख्यातस्तु द्वेषा 15 पञ्च वा कर्मप्रकृतीरुदीरयति चतुर्दशगुणस्थाने त्वनुदीरक इति ॥ उदीरणाद्वार इति । उदयावलिकातो बहिवर्तिनीनां स्थितीनां दलिक कपायैस्सहिते- नासहितेन वा योगसञकेन वीर्यविशेपेण समाकृष्योदयावलिकायां प्रवेशनमुदीरणा, तस्याः पश्चस्थानानि, सप्ताष्टौ षट् पञ्च द्वे इति । अष्टाविति, प्रमत्तगुणस्थानं यावत्परिपूर्णा अष्ट- प्रकृतीरित्यर्थः । सप्तेति, केवलमनुभूयमानभवायुष्कावलिकावशेषे सत्यायुष आवलिका- 20 प्रविष्टत्वेनोदीरणाया अभावादिति भावः । षड्वेति, अप्रमत्तापूर्वकरणानिवृत्तिबादरा वेदनीया- युर्वर्जानां पण्णां कर्मणामुदीरकाः, न तु वेदनीयायुषोः, तदुदीरणायोग्याध्यवसायाभावात् अतिविशुद्धत्वादिति भावः । सूक्ष्मसम्पराय इति, यावन्मोहनीयमावलिकाशेषं न भवति तावत् पण्णां, आवलिकाशेपे च मोहनीये तस्याप्युदीरणाया अभावात्पञ्चानामुदीरक इति १. मोहनीयस्योदयेऽष्टानामुदय , मोहनीयवर्जाना त्रयाणा घातिकर्मणामुदयेऽष्टाना मप्ताना वा तत्राटाना सूक्ष्मसम्परायगुणस्थान यावत् सप्तानामुपशान्तमोहे क्षीणमोहे वा, वेदनीयायुर्नामगोत्राणामुदयेऽष्टाना समाना चतमणा बोदय , सूक्ष्मसम्परायं यावदष्टाना उपशान्तमोहे क्षीणमोहे वा सप्ताना चतसृणामेतासामेव वेदनीया- दीना सयोगिकेवलिन्ययोगिकेवलिनि चेति ॥

- द्वाराणि] न्यायप्रकाशसमलते :२०३: भावः । द्वे वेति, क्षीणमोहे ज्ञानदर्शनावरणान्तरायेष्वावलिकामात्रावशिष्टेषु तेषामुदीरणाया अभावानामगोत्रलक्षणे द्वे एव कर्मणी उदीरयतीति भावः । पञ्च वेति, उपशान्तमोहे वेद्य- मानस्यैवोदीरणानियमेन मोहनीयस्योदयाभावेनोदीरणाया अभावाद्वेदनीयायुपोश्च पूर्वोक्त- कारणेनाभावात्, क्षीणमोहे मोहस्य क्षीणत्वाच्च पञ्चानां कर्मणामुदीरक इति भावः । अनुदीरक इति, उदीरणाया योगसन्यपेक्षत्वेन तत्र योगाभावादिति भावः ॥ 5 उपसम्पद्धानद्वारमाचष्टे- उपसम्पद्धानद्वारे-सामायिकस्सामायिकत्वं त्यजन् छेदोपस्थापनी- यत्वं सूक्ष्मसम्परायत्वमसंयतत्वं वा प्राप्नुयात् । छेदोपस्थापनीयत्वं त्यजन् सामायिकत्वं परिहारविशुद्धिकत्वं सूक्ष्मसम्परायत्वमसंयतत्वं वा प्राप्नुयात् । परिहारविशुद्धिकः परिहारविशुद्धिकत्वं त्यजन् पुनर्गच्छाद्या- 10 अयणाच्छेदोपस्थापनीयत्वं देवत्वोत्पत्तावसंयतत्वं वा भजेत् । सूक्ष्म- सम्परायस्तत्त्वं श्रेणिप्रतिपातेन त्यजन् पूर्व सामायिकश्चेत्तत्वं छेदोप- स्थापनीयश्चेत्तत्त्वं श्रेणिसमारोहणतो यथाख्यातत्वं वा यायात् । यथा- ख्यातसंयतस्तु तत्त्वं त्यजन् श्रेणिप्रतिपाततो सूक्ष्मसम्परायत्वं असंयम वा प्रतिपद्यते, उपशान्तमोहत्वे मरणाद्देवोत्पत्ति लातकत्वे तु सिद्धि- गति प्रतिपद्यत इति ॥ उपसम्पद्धानद्वार इति । उपसम्पत् छेदोपस्थापनीयत्वादीनां सामायिकादेः प्राप्तिः, हानं वस्यैव सामायिकत्वादीनां त्यागस्ते अधिकृत्य विचार इत्यर्थः। छेदोपस्थापनीयत्वमिति चतुर्यामधर्मात्पञ्चयामधर्मसंक्रमे पार्श्वनाथशिष्यवत् तथा शिष्यको वा महाप्रवारोपण इति भावः । सूक्ष्मसम्परायत्वमिति, श्रेणिप्रतिपत्तित इति भावः । असंयतत्वमिति भावप्रतिपा- तादिति भावः । यजनिति, यथाऽऽदिदेवतीर्थसाधुरजितस्वामितीर्थ प्रतिपद्यमानः, अजित- स्वामिशासने छेदोपस्थापनीयत्वाभावादिति भावः । परिहारविशुद्धिकत्वमिति परिहारविशु- द्विकसंयमे हि छेदोपस्थापनीयसंयनस्यैव योग्यता, अत एवं सामायिकस्य स्वस्वभाव- परित्यागे परिहारविशुद्धिकत्वप्राप्तिर्मूले नोक्तेति भावः । सूक्ष्मसम्परायत्वं श्रेण्यारोहणा- द्भावप्रतिपाताचासयतत्वं संयतासंयतत्वं वा प्रतिपद्यत इत्याह सूक्ष्मसम्परायत्वमिति, स्पष्टं शिष्टम् । तत्त्वमिति, सूक्ष्मसम्परायत्वमित्यर्थः । श्रेणिप्रतिपातेनेति, अद्धाक्षयेण भवक्षयेण वोपशमश्रेणीतः प्रतिपातेनेत्यर्थः, येन संयमेन सूक्ष्मसम्परायत्वमाप्तः तत्त्वं पतन्नवाप्नो. तीत्याशयेनाह पूर्वमिति । श्रेण्यां वर्द्धमानः सूक्ष्मसम्परायो यथाख्यातत्वमेवाप्नोतीत्याह 15 " , 20 65 - २०४: तत्त्वन्यायविभाकरे [ससमकिरणे श्रेणिसमारोहणत इति । तत्त्वं यजन्निति, यथाख्यातत्वं त्यजनित्यर्थः, श्रेणीप्रतिपातत इति उपशमश्रेणीतः प्रतिपातादित्यर्थः । स्पष्टमन्यत् ।। संज्ञाद्वारमाचष्टे- संज्ञाद्वारे-सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकास्संज्ञोपयुक्ता 5 नोसंज्ञोपयुक्ता भवन्ति, संज्ञोपयुक्ता आहारादिष्वासक्ताः, नोसंज्ञो- पयुक्ता आहारादिष्वासक्तिरहिताः । सूक्ष्मसम्पराययथाख्यातौ तु आहारादिकर्तृत्वेऽपि नोसंज्ञोपयुक्तौ स्यातामिति ॥ संज्ञाद्वार इति । जीवस्संज्ञायतेऽनयेति संज्ञा, वेदनीयमोहोदयाश्रिता ज्ञानदर्शना- वरणक्षयोपशमाश्रिता च विचित्राहाराधभिलाषादिक्रिया, सा चोपाधिमेदाइशविधा, आहार- 10 भयपरिग्रहमैथुनक्रोधमानमायालोभौघलोकभेदात् । सामायिक इति, संज्ञोपयुक्ता इति वेदनीयमोहोदयादिनिमिचसद्भावादिति भावः । नोसंज्ञोपयुक्ता भवनिमित्तोपशमप्रभावादिवि भावः । सरागत्वे निरमिष्वङ्गतायास्सर्वथाऽभाव इति नियमाभावादिति तात्पर्यम् । नोसंज्ञो- पयुक्ता इति, ज्ञानप्रधानोपयोगवन्तः, आहाराद्युपभोगेऽपि तत्रानभिष्वक्ताः नीरागत्वादिति भावः । संज्ञोपयुक्तशब्दार्थमाह संज्ञोपयुक्ता इति, नोसंज्ञोपयुक्तशब्दार्थमाह नोसंज्ञोपयुक्ता 15 इति, स्पष्टमवशिष्टम् ।। . • - 20 आहारकद्वारमाह- आहारकद्वारे-सामायिकाश्चत्वार आहारका एव, यथाख्यातस्त्रयो- दशगुणस्थानं यावदाहारकश्चतुर्दशगुणस्थाने केवलिसमुद्धाततृतीयचतु- थपश्चमसमयेष्वनाहारक इति ॥ आहारकद्वार इति । औदारिकवैक्रियाहारकपुद्गलादानमाहारस्तं करोतीत्याहारकः । तंत्तद्वयोग्यपुगलादानस्यावश्यकत्वात्सामायिकादीनामाहारकत्वमेवेत्यभिप्रायेणाह सामायिका इति, सामायिकत्वादिविशिष्टा इत्यर्थः, यथाख्यातस्सयोग्यन्तमाहारक एवेत्याह यथाख्यात इति । अष्टमियिके समुद्धाते तृतीयचतुर्थपञ्चमसमयेषु केवलकार्मणयोगयुतत्वेनाहार- ग्रहणासम्भवादनाहारकः, अयोगिनशैलेश्यवस्थायां हस्वपञ्चस्वरोचारणप्रमाणमात्रमाना- 25- याश्च तथेति भावः॥ १. तत्राहारसंज्ञा वेदनीयोदयात्, भयपरिग्रहेमधुनक्रोधमानमायालोभसंजा. मोहोदयात् . ओघसंज्ञा ज्ञानावरणीयाल्पक्षयोपशमात् लोक स्वच्छन्दपरिकल्पितविकल्परूप., लोकसंज्ञा च ज्ञानावरणीयक्षयोपशमान मोहोदयाश्च भवति ॥

- द्वाराणि ] न्यायप्रकाशसमलङ्कृते :२०५: भवद्वारमाह- भवद्वारे-सामायिको जघन्यतः एकं भवमुत्कृष्टतोष्टौ भवान् गृह्णी- यात्। एवं छेदोपस्थापनीयोऽपि । परिहारविशुद्धिको जघन्यत एकमु- स्कृष्टतस्त्रीन् । एवं यथाख्यातं यावदिति ॥ भवद्वार इति । सामायिक उत्कृष्टपरिणामतो यदि क्षपकश्रेणिमारोहेचदा तस्मिन्नेव । भवे सिद्ध्यतीत्याह जघन्यत इति । यदि तु श्रेणिमनारूढो जघन्येन सामायिकचारित्रं स्पृशेत्तदाऽऽष्टौ भवग्रहणानि तस्य स्युरित्याशयेनाहोत्कृष्टत इति | जघन्यत एकमिति, परिहारविशुद्धिकस्तत्त्वं विहाय छेदोपस्थापनीयत्वमवाप्य विशुद्धिविशेपेण क्षपकश्रेणिमा- रोहति चेत्तदेदमिति भावः । देवलोकगमनश्चेद्भवेत्तदा मनुष्यो भूत्वा तेनैष भवेन सिद्ध्य- तीत्याशयेनाहोत्कृष्टतस्त्रीनिति । एत्रमिति यथाख्यातस्तु सद्भाव एव मृत्वाऽनुत्तरदेवत्वविशेष- 10 माज्य पुनर्मनुष्यो भूत्वा यदि सिद्धथेत्तदा भवत्रयं बोध्यम् ।। आकर्षद्वारमभिधत्ते- . आकर्षद्वारे-सामायिक एकमवमाश्रित्य जघन्यत एकवारं, उत्कृष्ट- तश्शतपृथक्त्ववारं सामायिकसंयतत्वं प्राप्नोति । छेदोपस्थापनीयो जघ- न्यत एकवारमुत्कृष्टतो विंशतिपृथक्त्ववारं छेदोपस्थापनीयत्वं प्राप्नु- 15 यात् । परिहारविशुद्धिको जघन्यत एकवारमुत्कृष्टतनिवारं प्राप्नु- यात्। सूक्ष्मसम्परायो जघन्यत एकवारमुत्कृष्टतश्चतुरो वारान् प्रति- पद्यते, यथाख्यातस्तु जघन्यत एकवारमुत्कृष्टतो द्विवारं यथाख्यातत्वं प्राप्नुयादिति ॥ आकर्षद्वार इति । आकर्षणमाकर्षः प्रथमतया मुक्तस्य वा सामायिकत्वादेहणमि- 20 त्यर्थः । स चैकं भवं नानाभवांश्चाश्रित्य विचार्यते तत्रैकमवाश्रयेण सामायिकस्य जघन्यत एक आकर्ष उत्कर्षेण चाकर्षाणां शतपृथक्त्वं भवति परतस्तु प्रतिपातोऽलामो वेत्याशयेनाह सामायिक इति । पृथक्त्वं द्विप्रभृत्यानवभ्य उच्यते, शतपृथक्त्वमिति, शतद्वयादारभ्य याव- नवशतमित्यर्थः । विंशतिपृथक्त्ववारमिति, पञ्चषादिविंशतय आकर्षाणां भवन्तीति भावः । त्रिवारमिति, एकस्मिन् भवे उत्कर्षेण वारत्रयमेव परिहारविशुद्धिकत्वोक्तरिति भावः। 25 प्राप्नुयादिति परिहारविशुद्धिकत्वमित्यादिः । चतुरो वारानिति, एकमवे उपशमणिद्वयस- म्भवे प्रत्येक संक्लिश्यमानविशुद्ध्यमानलक्षणसूक्ष्मसम्परायद्वयमावाच चत्वार आकर्षास्तस्य - :२०६: तत्वन्यायविमाकरे [ससमकिरणे सम्भवन्तीति भावः । प्रतिपद्यत इति सूक्ष्मसम्परायत्वमित्यादिः । द्विवारमिति, उपशम- श्रेणियसम्भवादिति भावः ॥ - अथ नानाभवावच्छेदेन विचारयति- अनेकभवाश्रयेण सामायिकस्य जघन्यतो द्विवारं उत्कृष्टतस्सहस्र- 5 पृथक्त्वमाकर्षा भवन्ति । छेदोपस्थापनीयस्य जघन्यतो द्विवारमुत्कृष्टतो नवशतादूर्ध्व सहस्रावध्याकर्षा भवन्ति । परिहारविशुद्धिकस्य जघन्यतो द्विवारमुत्कृष्टतस्सप्ताकर्षा, सूक्ष्मसम्परायस्य जघन्यतो विचारमुस्कृष्टतो नवाकर्षा, यथाख्यातस्य जघन्यतो द्विवारमुत्कृष्टतः पञ्चाकर्षा भवन्तीति। अनेकमवाश्रयेणेति । अनेकभवत्वस्य प्रथमाधारभूतमधद्वये जघन्यतः प्रतिभवमेकस्यै- 10 वाकर्षस्योक्तत्वादनेकभवापेक्षया जघन्यतो द्वावेवाकर्षों भवत इत्यभिप्रायेणाह जघन्यतो द्विवारमिति | सहस्रपृथक्त्वमिति सहस्रद्वयादारभ्य यावन्नवसहस्रं सहपृथक्त्वमुच्यते । सामायिकस्य ऐकभवे आकर्षाणां शवपृथक्त्वकथनात् भवानामुत्कृष्टतचाष्टत्वाच्छवपृथ- क्त्वेऽष्टभिर्गुणिते सहस्रपृथक्त्वं भवतीति भावः । नवशतादूर्वमिति । आकर्षाणां पड़ि- शतिरेकमवेऽस्य भवति, भवाश्चास्योत्कर्षेणाष्टौ, तथा चाकर्षास्ता अष्टाभिर्गुणिताः षष्ठयधिक- 15 नवशतानि भवन्ति । संभवमात्रामयणेनेदमुक्तम्, अन्यथा सामायिकस्य नवानां शताना- मेकमवीयानामष्टभिर्गुणने शतद्वयाधिकसप्तसहस्राणि बोध्यान्येवमन्येषामपि ज्ञेयं । उत्कर्ष- तस्सप्लेति । भवैकावच्छेदेनाकर्षाणां त्रित्वात भवस्यापि त्रित्वादेकत्र तेषां त्रयं द्वितीये द्वयं तृतीयेऽपि दूयमित्येवं विकल्पनया सप्ताकर्षा इति भावः। नवाकर्षा इति । अस्यैकस्मिन् भवे आकर्षचतुष्कस्योक्तत्वाद्भवत्रयस्यामिधानाच्चैकत्र चत्वारो द्वितीयेऽपि चत्वारस्तृतीये वैक इति कृत्वा नवाऽऽकर्षा भवन्तीति भावः । पञ्चाकर्षा इति, अस्यैकत्र भवे द्वावाकर्षों भवत्रयञ्चेत्यतः एकत्र द्वौ द्वितीये द्वौ तृतीये चैक इति पञ्चाकर्षा इति भावः ।। । 20 कालमानद्वारमाचष्टे- कालमानद्वारे-सामायिकस्य संयमकालमान जघन्येनैकस्समयः। उत्कृष्टतो देशोननववर्षन्यूनपूर्वकोटिं यावत् । एवमेव छेदोपस्थापनीयस्य । 25 परिहारविशुद्धिकस्य जघन्येनैकस्समयः, उत्कृष्टत एकोनत्रिंशद्वर्षन्यून- कोटिं यावत् । सुक्ष्मसम्परायस्य जघन्येनैकस्समयः । उत्कृष्टतोऽन्तर्मुह तम् । यथाख्यातस्य तु सामायिकस्येव स्यादिति ॥

द्वाराधि] न्यायप्रकोशसमलते ::०७: कालमानद्वार इति । मानशब्देन पूर्वोदितकालद्वारापेक्षयाऽस्य वैलक्षण्यमादार्शनम् । एकस्समय इति, सामायिकत्वप्राप्तिसमनन्वरं मरणसम्भवमामिप्रेत्येदमवसेयमेवमप्रेऽपि भाव्यम् | उत्कर्षेण देशोनेति, गर्भसमयान्तर्भावणेदम् । तदहि वेण जन्मसमयादारभ्य त्वष्टवर्षन्यूनपूर्वकोटि यावत्स्यात् जन्मतोऽष्टवर्षान्ते चरणप्रतिपत्तेरिति भावः । सामायिका- च्छेदोपस्थापनीयस्याविशेषादाविमिति । एकोनत्रिंशद्वर्षन्यूनेति । देशोननववर्षजन्मपर्यायेण 5 केनापि चारित्रं पूर्वकोव्यायुषा गृहीतं तस्य च विंशतिवर्षप्रबन्यापर्यायस्य दृष्टिवादोऽनुज्ञात- स्ततश्चासौ परिहारविशुद्धिकं प्राप्तस्तचाष्टादशमासमानमप्यविच्छिन्नतत्परिणामेन तेनानन्म पालितमित्येवमेकोनत्रिंशद्वर्षाणां पूर्वकोटिं यावत्तत्स्यादिति भावः । अन्तर्मुहर्चमिति, तत्स्थानस्य तावत्प्रमाणत्वादिति भावः । क्षीणमोहापेक्षयोत्कर्षेण देशोननववर्षन्यूनपूर्वकोटि- बोध्या । सर्वमिदमेकजीवापेक्षयाऽवसेयम् ।। 10 - नानाजीवापेक्षया वाह- - अनेकजीवापेक्षया तु सामायिकास्सर्वदा भवेयुः । छेदोपस्थापनीया जधन्यतस्साद्विशतवर्षपर्यन्तमुत्कृष्टतः पञ्चाशल्लक्षकोटिसागरोपमं या- वत्स्युः । परिहारविशुद्धिका जघन्येन किञ्चिदूनद्विशतवर्षकालमुत्कृष्टतः किञ्चिदूनद्विपूर्वकोटिकालपर्यन्तं स्युः ॥ 15 अनेकजीवापेक्षयेति । सर्वदा भवेयुरिति । प्रत्येकं तेषां बहुकालस्थितिकत्वात् महा- विदेहापेक्षयैवदिति शेयम् । सार्धद्विशतवर्षपर्यन्तमिति । उत्सर्पिण्यामादितीर्थकरशासनस्य सार्धशतद्वयवर्षमानत्वेन तत्र छेदोपस्थापनीयसंयतस्य भावादिति भावः । पञ्चाशलक्षेति । अक्सपिण्यामादितीर्थकरशासनस्य पञ्चाशल्लक्षकोटिसागरोपममानत्वेन तत्र छेदोपस्थापनीय. सयतसद्भावादिति भावः । जघन्येन किञ्चिदूनेति । उत्सर्पिण्या प्रथमजिनसमीपे केनचिद्वर्ष-20'' शवायुष्केण परिहारविशुद्धिकसंयमः परिगृहीतस्तजीवितान्ते तस्यान्तिकेऽपरेण वर्षशतायु. केण स एव संयमो गृहीतस्ततश्च न परिहारविशुद्धिकस्य प्रतिपत्तिरस्ति, तीर्थकरस्य तीर्थ- करागृहीतपरिहारविशुद्धिकसयतस्य वाऽन्तिक एव तद्गृहीतुं शक्यत्वात् । ततश्च वर्षशतद्वयं जातं, तत्राप्येकोनत्रिंशद्वर्षेषु व्यतीतेष्वेवैतच्चारित्रप्रतिपत्त्या मेलनतोऽष्टपञ्चाशद्वर्षाणि जातानि, अतस्तन्यूनद्विशतवर्षकालं भवतीति भावः । किश्चिदूनेति । अवसर्पिण्यामादिमजिनस्यान्तिके पूर्वकोट्यायुष्कः कश्चित्परिहारविशुद्धिकत्व प्रपन्नस्तस्यान्तिके च तज्जीवितान्ते वाहश एवान्य. स्तत्प्रविपन्नः पुनस्तदभावेन पूर्वकोटिद्वयं जातं, तत्र चैकोनत्रिंशद्युग्मस्य न्यूनताकरणे तथा 25 तत्वन्यायविमाकरे ( सकिने भावादिति भावः । सूक्ष्मसम्परायाणां जघन्येनैकस्समय उत्कणाऽन्तर्मुहूर्तसमयो यथाख्या- वानान्तु सामायिकवदेवाऽतस्तेषामेकजीवापेक्षयाऽत्र विशेपाभावान्मूले कण्ठतो नोक्ताः ॥ अन्तरद्वारमाह- अन्तरद्वारे-एकस्य संयमग्रहणानन्तरमन्यस्य संयमग्रहणे जघ- 5 न्यत एकस्समय उत्कृष्टतस्संख्यातवर्षाण्यन्तरकालः । एवं यथाख्यातप- यन्तं बोध्यः॥ अन्तरद्वार इति । स्पष्टोऽयं पाठः | एकजीवमाश्रित्य तु विशेषोऽयं सामायिकस्य सामायिकत्वं त्यक्त्वा पुनर्वहणे जघन्यमन्तरमन्तर्मुहूर्तमुत्कृष्टतस्त्वनन्तकालमेवं सर्वेषामपि ज्ञेयम् । इदमुत्कृष्टमन्तरं तीर्थकरगणधरादिमहापुरुषाणां घोराशातनया प्रवचनोडाहकानां 10 भवतीति भाव्यम् । पृथक्त्वापेक्षया वाह- सामायिकश्शून्यः कालो नास्त्येव । छेदोपस्थापनीयैश्शून्यः कालो जघन्येन त्रिषष्टिसहस्रवर्षाण्युत्कृष्टतोऽष्टादशकोटाकोटिसागरोपमा । परिहारविशुद्धिरहितः कालो जघन्येन चतुरशीतिसहस्रवर्षाण्युत्कृष्टतोऽ- 15 ष्टादशकोटाकोटिसागरोपमः । सूक्ष्मसम्परायरहितः कालो जघन्येनैक- स्समयः । उत्कृष्टतषण्मासाः। यथाख्यातरहितः कालो नास्त्येवेति ॥ सामायिकैरिति । त्रिषष्टिसहस्रवाणीति | अवसर्पिण्या दुष्षमा यावच्छेदोपस्थाप- 'नीयसंयमः प्रवर्तते, ततस्तस्या एवैकविंशतिसहस्रवर्षमानायामेकान्तदुःषमायामुत्सर्पिण्या श्चैकान्तदुःषमायां दुष्षमायाश्च तत्प्रमाणायामेव तदभावस्स्यादेवञ्चैकविंशतित्रयेण त्रिषष्टिव- 20 र्षसहस्राण्यन्तरमुक्तमिति भावः | अष्टादशकोटाकोटिसागरोपम इति । उत्सर्पिण्या चतुर्वि- शतितमजिनतीर्थे छेदोपस्थापनीयस्य प्रवृत्तेस्ततोऽतीते च क्रमतो द्वित्रिचतुस्सागरोपमकोटी- कोटिप्रमाणे सुषमदुःषमादिसमात्रयेऽवसर्पिण्याच्चैकान्तसुषमादित्रये क्रमेण चतुनिद्विसागरो- पमकोटीकोटिप्रमाणेऽतीतंप्राये प्रथमजिनतीर्थे छेदोपस्थापनीयत्वं प्रवर्तते इत्येवं छेदोपस्था- पनीयस्यान्तरं भवति । चतुरशीतिवर्षसहस्राणीति । दुष्षमैकान्तदुष्षमयोरवसर्पिण्या 88 एकान्तदुःषमादुष्पमयोरुत्सर्पिण्याश्च प्रत्येकमेकविंशतिवर्षसहस्रप्रमाणत्वेन चतुर्भिर्गुणिते च तावप्रमाणकालान्तरं भवति, वन च परिहारविशुद्धिकस्याभावादिति भावः । अष्टादशकोटा- बाराणि ] न्यायप्रकाशसमलते :२०९: कोटिसागरोपम इति । छेदोपस्थापनीयस्योत्कृष्टवयं वोध्यः, षण्मासा इति मुक्तिविरह- कालस्य तावन्मात्रत्वादिति भावः ॥ समुद्धातद्वार वक्ति- समुद्धातद्वारे-सामायिकछेदोपस्थापनीययोर्वेदनाकषायमरणवैक्रिय- तैजसाऽऽहारकाषट् समुद्धाता भवन्ति । परिहारविशुद्धिकस्य वेदना- 5 कषायमरणात्मकास्त्रयः। सूक्ष्मसम्परायस्य न कोऽपि। यथाख्यातस्य केवलिसमुद्धात एव भवेदिति ॥ समुद्धातद्वार इति । वेदनाद्यनुमवज्ञानेन सहकत्वमापन्नो जीवः बहून् वेदनीयादि- कर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय च तेषां स्वप्रदेश- संश्लिष्टानां निर्जरणं समुद्धातः । स च सप्तविधो वेदनाकषायमरणवैक्रियतेजसाहारककेवलि 10 भेदात् । ते च यथाक्रमं असातवेदनीयकषायाख्यचारित्रमोहनीयान्तर्मुहर्चावशेषायुःकर्म- वैक्रियतेजसाहारकशरीरनामसदसद्वेद्यशुमाशुभनामोश्चर्नीचैर्गोत्रकर्माश्रयाः । आद्याष्षट् समु- द्धावाः प्रत्येकमान्तमौहूर्तिकाः, अन्यस्त्वष्टसामयिकः, तत्रान्तिमं विहायाऽन्ये षट् सामायिक- छेदोपस्थापनीययोस्सम्भवन्ति तन्निमित्तसम्भवादित्याशयेनाह सामायिकेति । स्पष्टमन्यत् ।। क्षेत्रद्वारमाह- 15 क्षेत्रद्वारे-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्प- राया लोकस्याऽसंख्यातभागे स्युः। यथाख्यातस्त्वसंख्यातभागे, असंख्या- तभागेषु केवलिसमुद्धातापेक्षया सर्वलोकव्याप्तश्च स्यादिति ॥ क्षेत्रद्वार इति । क्षेत्रमवगाहनाक्षेत्रं तदानयतो विचारे प्रवृत्ते सामायिकादिचतुर्णा १. तत्र वेदनापीडितो नीव. स्वप्रदेशाननन्तानन्तकर्मस्कन्धवेथितान् शरीराद्वहिरपि विक्षिपति तेच प्रदे- शेवंदनजठरादिरन्ध्राणि कर्णस्कन्धाद्यपान्तरालानि चापूर्याऽऽयामतो बिस्तारतश्च शरीरमा क्षेत्रमभिव्याप्यान्त- मुंइत्तं यावदवतिष्ठते, तस्मियान्तर्मुहूर्ते प्रभूतासातवेदनीयकर्मपुदलपरिशाट करोति । एवमेव कषायसमु- बातोऽपि भाव्य । मरणसमुद्धातगत आयु कर्मपुद्गलान परिशाट्यति, वैक्रियलब्धिमाश्च तद्गत सप्रदेशान् शरीरार् बहिनिष्कास्य शरीरविष्कम्भवाहल्यमानमायामत संख्येययोजनप्रमाणं दण्डं निसृजति ततो यथा- स्थूलान् वैक्रियशरीरनामकर्मपदलान् प्राग्वत् शाटयति । एव तैजसाहारकममुद्धातौ माग्यौ । केवलिसमु- बावगत केवली तु सदसदेवादिकर्मपुदलपरिशाटनं करोतीति ।।

:२९० तस्वन्यायविमाकरे [ससमकिरणे लोकस्यासंख्येयभागमात्रावगाहित्वादाहासंख्यातमागे स्युरिति । तथाचासंख्येयमागेऽसंख्ये- येषु भागेषु भवेयुर्न संख्येयभागे नवा संख्येयेषु भागेपु नवा च सर्वलोक इति भावः । असख्यातभाग इति, तस्य दण्डकपाटकरणकाले लोकासख्येयभागवृत्तित्वं, तदेवगाहस्य तावन्मात्रत्वादिति भावः । असंख्यातमागेष्विति, मधिकरणकाले बहोर्लोकस्य व्याप्तत्वेन । स्तोकस्य चाव्याप्ततयोक्तत्वाल्लोकस्यासंख्येयेषु भागेषु वर्चत इति भावः । लोकाऽऽपूरणे च सर्वलोके वर्तत इत्याह केवलीति ॥ स्पर्शनाद्वारमाचष्टे- स्पर्शनाद्वारे-सामायिकादयो यावत्सु भागेषु लोकस्य स्युस्ते तावतो भागान् स्पृशेयुः । समीपतरवर्तिपार्श्वभागस्पर्शनेन च किश्चिदधिका- 25 नपीति ॥ स्पर्शनाद्वार इति । येषां यथावगाहना उक्तास्तथा तेषां स्पर्शना अपीत्याह सामा- यिकादय इति । तत्रापि किञ्चिद्विशेषमाह समीपतरेति । क्षेत्रमवगाहनाविपयं स्पर्शना त्वव- गाढक्षेत्रस्य तत्पार्श्वतरवर्तिनश्चेत्येतयोविशेषः ॥ भावद्वारमभिधचे- 20 भावद्वारे-सामायिकाश्चत्वारः क्षायोपशमिकभावे स्युः । यथाख्या- तस्त्वौपशमिके क्षायिके च स्यादिति ॥ भावद्वार इति । यद्यपि परिहारविशुद्धिकेतरेषां केषाञ्चित् क्षपश्रेणिसम्भवस्तथापि सज्वलनलोभस्य दशमं यावद्धावान्न क्षायिको भाव इत्यत आह सामायिका इति । यथा- ख्यात स्त्विति, एकादशगुणस्थानापेक्षयोपशमिकत्वं तदूर्ध्वगुणस्थानापेक्षया तु झायिक- 10 त्वमिति भावः॥ परिमाणद्वारमाह- परिमाणद्वारे-सामायिकाः प्रतिपद्यमानापेक्षयैकस्मिन् काले कदा- चिद्भवेयुः कदाचिच न । यदा भवेयुस्तदा जघन्यनैको द्वौ त्रयो वा, उत्कृ- ष्टतो द्विसहस्राबावन्नवसहस्रम् | पूर्वपतिपन्नापेक्षया जघन्यत उत्कृष्ट- 15 तश्च द्विसहस्रकोटीतो यावन्नवसहस्रकोटि भवेयुः । छेदोपस्थापनीयास्तु प्रतिपयमानापेक्षया कदापि स्युः कदापि न । यदा स्युस्तदा जघन्येनैको द्वाराणि ] न्यायप्रकाशसमलङ्कृते द्वौ त्रयो वोत्कृष्टतो द्विशताद्यावन्नवशतम् । प्रतिपन्नापेक्षया तु कचिन्न स्युः कचिच जघन्येनोत्कृष्टतश्च द्विशताद्यावन्नवशतकोटि स्युः ।। परिमाणद्वार इति । यावन्नवसहस्रकोटीति, कोटीसहस्रपृथक्त्वमित्यर्थः । यद्यपि सर्वसंयतानामेतावन्मात्रमानत्वेनास्यैव वावन्मानत्वे इतरसंयतमानमादाय संयतानामाधिक्य- शङ्का स्यात् तथापि कोटीसहस्रपृथक्त्वस्य द्विव्यादिकोटीसहस्ररूप कल्पयित्वा इतरेषां संख्या- 5 याः प्रवेशेनोक्तमानातिरेकसम्भवो व्युदसनीयः । द्विशतादिति, द्विशतकोटीतो यावन्नवशव- कोटीत्यर्थः, कोटीशतपृथक्त्वमिति यावत् । इदञ्च छेदोपस्थापनीयसंयतपरिमाणमादिमतीर्थ- करतीर्थान्याश्रित्य सम्भवति, जघन्यन्तु सम्यड् नावगम्यते, यतो दुष्पमान्ते भरनादिषु दशसु क्षेत्रेषु प्रत्येकं तहूयस्य भावाविंशतिरेव तेषां श्रूयते । केचित्पुनराहुः, इदमप्यादि- तीर्थकराणां यस्तीर्थकालस्तदपेक्षयैव समवसेयम् , कोटीशवपृथक्त्वञ्च जघन्यमल्पतरं उत्कृ- 10 ष्टश्च बहुतरमिति ॥ परिहारविशुद्धयादीनां परिमाणं विचारयति- परिहारविशुद्धिका अप्येवमेव, किन्तु प्रतिपन्नापेक्षया जघन्येनैको द्वौ त्रयः, उत्कर्षेण च द्विसहस्राद्यावन्नवसहस्रम् । सूक्ष्मसम्परायाश्च कचिन्न स्युः कचिच्च जघन्येनैको द्वौ त्रयः, उत्कृष्टता क्षपकश्रेण्यामष्टोत्तरशतमु. 15 पशमश्रेण्यां चतुःपञ्चाशत्स्युः । प्रतिपन्नापेक्षया कचिन्न स्युः कचिजघन्ये- नैको द्वौ त्रयः, उत्कृष्टतो द्विशतान्नवशतं यावत्स्युः, यथाख्यातास्तु सूक्ष्मसम्परायवत् । प्रतिपन्नापेक्षया तु जघन्येनोत्कृष्टतश्च द्विकोटीतो यावन्नवकोटि भवेयुरिति॥ परिहारविशुद्धिका इति । एवमेवेति, प्रतिपद्यमानकं प्रतीत्य स्यात्सन्ति स्यान्न सन्ति, 20 यदि सन्ति तदा छेदोपस्थापनीयवजघन्यत एको द्वौ त्रयो वा, उत्कृष्टतशतपृथक्त्वम् । प्रति- पन्नापेक्षया त्वेषां वैशिष्ट्यमस्तीत्याह-किन्विति । सूक्ष्मसम्परायवदिति क्वचित्स्युः क्वचिन्न स्युः, यदि स्युस्तदा क्षपकश्रेण्यपेक्षयाऽष्टोत्तरशतं, उपशमश्रेण्यपेक्षया तु चतुःपञ्चाशत्स्युरिति भावः । प्रतिपन्नापेक्षया त्वाह प्रतिपन्नेति । कोटीपृथक्त्वमिति यावत् ।। - अथाऽल्पबहुत्वारमाह- 25 अल्पबहुत्वद्वारे-पञ्चसुसंयतेषु सर्वेभ्योऽल्पास्सूक्ष्मसम्पराया,तेभ्यः परिहारविशुद्धिकाः संख्यातगुणाः, तेभ्यो यथाख्यातास्संख्यातगुणाः, 10 :२१२: तत्त्वन्यायविभाकरे [अमकिरणे तेभ्योऽपि छेदोपस्थापनीयास्संख्यातगुणाः, तेभ्योपि च सामायिकारसं- ख्यातगुणा बोध्या इति । इति षत्रिंशद् द्वाराणि । इति संवरतत्वम् ॥ अल्पबहुत्वद्वार इति । सर्वेभ्योऽल्पा इति, तत्कालस्याऽल्पत्वात् शतपृथक्त्वप्रमाण- त्वाचेति भावः । परिहारविशुद्धिका इति, तत्कालस्य सूक्ष्मसम्परायापेक्षया बहुत्वात् सहल । पृथक्त्वमानत्वाचेति भावः । यथाख्याता इति । कोटीपृथक्त्वमानत्वादिवि भावः । छेदोपस्था- पनीया इति कोटीशवपृथक्त्वमानत्वादिति भावः । सामायिका इति, कोटीसहस्रपृथक्त्व- मानत्वादिति भावः । इतीति सर्वत्रेतिशब्दस्तत्तहारसमाप्तिद्योतक इवि बोध्यम् । इत्यं सामा- न्येन द्वाराणि वर्णितानीत्याहेतीति । एवमेव चास्रवदोषानवलेपसाधनः परिस्पन्दवतोऽपि चरणकुशलस्य प्रायः कर्मागमद्वारसंवरणरूपस्संवरो दिङ्मात्रेणोपपादित इत्याह इतीति ।। इति तपोगन्छनमोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टधरत्रीमद्विजयकमलसूरीश्वर- चरणनलिनसत्यस्तात्मभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनि- मितस्य तत्त्वन्यायविभाकरस्य स्वोपक्षायां न्यायप्रकाशव्याख्यायां संवरनिरूपणं नाम सप्तमः किरणः ॥ अथाष्टमः किरणा अवसरसङ्गत्या संवरे सति निर्जरायाः फलवत्त्वेन प्रयोज्यतासङ्गत्या वा संवरनिरूप- णानन्तरमभिधीयमानां निर्जरा लक्षयति- क्रमेण पद्धकर्मपुद्गलानां तपोविपाकान्यतरेण विध्वंसो निर्जरा ॥ क्रमेणेति । तपो बाह्याऽभ्यन्तरतया द्विविधं, वेन हि नूतनकर्मणां प्रवेशामावः पूर्वस- श्चितकर्मणां च परिक्षयो भवति, तत्राऽऽधस्संवररूपो द्वितीयश्च निर्जरारूपः, तस्माचप उभय- 20 स्याऽपि हेतुः । विपाको गतिनामादिकर्मणां नामानुगुणमुदयोऽनुभवः, ताभ्याच जीवेन बद्धानां कर्मपुद्गलानां ज्ञानावरणादिरूपाणां विध्वंसः कर्मपरिणतेविगमो जायते, सैर्व निजैरे- त्यर्थः । अवस्थानहेत्वमावेन ह्यनुभूताः कर्मपुद्गला न पुनरावरणादिरूपेणाऽवतिष्ठन्ते, वथा च तपोविपाकान्यतरजन्यबद्धकर्मविध्वंसत्वं लक्षणम् । जन्थान्तन्तु तत्र कारणत्वप्रतिपाद- नपरमेव । तदपि कारणमसाधारण विज्ञेयम् ॥ 15 । " १, विवादाध्यासितः पुरुषो निर्जीर्णघातिचतुष्कः केवलज्ञानक्त्वात् उभयवादिसिद्धताइक्पुरुषवत् इत्य- न्वयव्यतिरेकिणः, अन्वयासिद्धौ वा यो न जीर्णधातिचतुष्को नासौ केवलज्ञानवान् यथाऽस्मदादिरिति केवलव्यतिरेकिणो वाऽजमानात् निर्जराऽस्मदादिमिरवसीयते, आतागमाच । सर्वज्ञेन तु स्वानुभवप्रत्यक्षेणेति ॥ २. महावतादिषु इत्वन्तरेषु सत्स्वपि तपस एव प्रधानतया निर्जराजत्वादिति भावः ।।

निर्जरा] न्यायमकाशसमलते :२१३. विपाकजाविपाफजभेदेन तस्या वैविध्यमादर्शयति- विध्वंसोज्यं विपाकोदयेन प्रदेशोदयेन च द्विधा भवति । विपाकोद- यश्च मिथ्यात्वादिहेतुककर्मपुद्गलानां जघन्योत्कृप्रस्थितितीव्रमन्दानुभा- वानां स्वभावेन करणविशेषेण चोदयापलिकाप्रविष्टानां रसोदयपूर्वकानु- भवनम् । अनुदयप्राप्तकर्मप्रकृतिदलिकमुदयमाप्तममानकालीनसजातीय- 5 प्रकृतो संक्रमय्यानुभवनं प्रदेशानुभवः ।। विचमोज्यामिति । विपाकोटयनेनि, विपचनं उदयावलिकाप्रवेशो विपाकः, अप्रश- स्तपरिणामानां कर्मणां तीयतया शुभपरिणामानान मन्दतया व्यत्ययेन वा नानाप्रकारः पाको वा विपाकः, म एवोदयस्तेनेत्यर्थः । प्रदेशोदयेन चेति, संक्रमणेनेत्यर्थः । मिथ्या- त्वादीति, मिध्यादर्शनाविरतिकपाययोगैर्वद्धानां शानदर्शनावरणवेदनीयमोहनीयायुप्कनाम- 10 गोत्रान्तरायात्मकानां फर्मपुगठानामित्यर्थः । जपन्येति, जघन्यस्थितिकानामुत्कृष्टस्थितिकानां मन्दानुभावानां तीयानुभावानामित्यर्थः । अध्यवसायादिवैचित्र्यव इयं विचित्रताऽवसेया। स्वभावेनेत्यादिनोदयावलिफाप्रवेशो हि शुद्धप्रायोगिकभेदेन द्विविधा, अबाधाकालक्षयेणोद- यावलिकाप्रवेशश्शुद्धः, उटीग्णाकरणेनोढयावलिकाप्रवेशः प्रायोगिक उच्यत इति सूचितम् । स्वभावेन, अवाधाकालमयेण करणविशेषणोदीरणाकरणेन । रसोदयपूर्वकमनुमवनमिति, 15 रममहितस्यानुममयमिच्छयाऽनिच्छया वाऽनुभूतिरिति भावः । प्रदेशोदयस्वरूपमाहानु- दयेति । यत्कर्माप्राप्तविपाकालमोपक्रमिकक्रियाविशेषमामादनुदीण बलादुदयप्राप्तायां स्वममानकालीनायां स्वसजातीयायाच प्रकृती संक्रमय वीर्यविशेपत आम्रपनसादि. पाकवद्वद्यते म प्रदेशोदय इत्यर्थः, नत्रापि रमोऽस्त्येवेनि सूचयितुं प्रदेशोदय इत्यनुक्त्वा प्रदेशानुभव इत्युक्तं, अनुभावो रमो मेय इत्युक्त्याऽनुभवशब्देन रमप्रतीतेः । स्वासमान- कालीनायां प्रकृती संक्रमो न मम्भवतीति मूचयितुं ममानकालीनेति पदम, मिन्नजातीया- याच प्रकृती तन्न भवतीति सूचयितुं मजातीयेत्युक्तं, माजात्यच मूलप्रकृतिविभाजकता- वच्छेदकधर्मेण । तेन कर्मत्वेन सजातीयत्वेऽपि ज्ञानावरणादौ दर्शनावरणादेर्न सक्रम इति भावः ॥ । 20 25 उभयविधापि निर्जरा पुनरियं द्विविधेत्याह- सेयं सकामाकामभेदाभ्यां द्विधा । सम्यग्दृष्टिदेशविरतसर्वविरतानां साभिलाषं कर्मक्षयाय कृतप्रयत्नानां यः कर्मणां विध्वंसः सा सकामा।

" - १ तत्त्वन्यायविभाकरे [ अष्टमकिरणे मिथ्यादृष्टीनामैहिकसुखाय कृतप्रयत्नानां तपस्यादिना कर्मणां विध्वं- सोकामा ।। सेयमिति । सा तपोविपाकान्यतरजन्या, इयं निर्जरा, कामनासहितत्वात्सकामा, तद्विशेषरहितत्वाचाकामेति द्विविधेति भावः । तत्र कामोऽमिलापः, वपःपरीषहजयादिना 5 कर्म क्षपयामीत्येवं रूपो बुद्धिविशेषः, तेन सहिता सकामा, साक्षात्परम्परया वा तपःपरीषहादिजन्यो विपाको मोक्षसाधनमिति भावः, तत्र देवेषु तावदिन्द्रसामानिका- दिस्थानान्यवाप्नोति, मनुष्येपु च चक्रवर्तिबलदेवमहामण्डलिकादिपदानि लब्ध्वा ततः सुखपरम्परया मोक्षमवाप्स्यति, तपःपरीपहचतो निखिलकर्मक्षयस्वरूपो विपाकस्तु साक्षान्मोक्षायैव भवतीति । नास्ति कामो बुद्धिविशेषो जनकतया यस्यामित्यकामा, 10 नरकविर्यड्यानुषदेवेषु ज्ञानावरणादिकर्मणः फलभूताद्विपच्यमानादाच्छादनादिरूपाद्या कर्म- निर्जरा साऽकामा, न हि नारकादिभिस्तपः परीषहो वाऽमिलषितस्तदर्थम् । तत्र सकामा- मांचष्टे सम्यग्दृष्टीति । सम्यग्दर्शनमात्रमाक्, शक्त्यनुगुणं द्वादशविधधर्मस्यैकदेशेनाप्य- नुष्ठाता सम्यग्दर्शनभाक्च देशविरतः । ससम्यक्त्वः साधुधर्मानुष्ठायी यावनीवं सर्वेभ्यः प्राणातिपातादिभ्यो विरतस्सर्वविरतः, तेपामित्यर्थः । सामिलापं बुद्धिविशेषपूर्वकमि- 15 त्यर्थः । कर्मक्षयाय कृतप्रयलानामिति, आनुषङ्गिकदेवत्वादौ निःस्पृहतंया मुख्याय कर्म- क्षयाय 'प्रवर्त्तमानानामिति भावः । सम्यग्दृष्ट्यादीनां निर्जरा न समा, अपि तु यथोचरम- संख्येयगुणा इति भाव्यम् ॥ अकामामाख्याति, मिथ्यादृष्टीनामिति, सम्यग्दृष्टिविरहिता- नामित्यर्थः, ऐहिकसुखाय कृतप्रयत्नानामिति, ये केचन मिथ्यादृष्टिविशेषारस्वर्गाद्यर्थ वयं तप- स्याम इत्यभिसन्धिमन्तोऽपि प्रवर्तन्ते तेषामपीति भावः । तादृशाभिसन्धेरज्ञानरूपत्वादका- 20 मत्वमेव, तपस्यादिनेति, वपस्त्वादिरूपेण तेषामभिमतेनेत्यर्थः ।। निर्जरेयं कर्मपुद्गलद्रव्यध्वंसरूपत्वाव्यनिर्जरेत्युच्यते, तन्निमित्तात्माभ्यवसायो भाव- निर्जरेत्युच्यत इत्याह- आत्मप्रदेशेभ्यः कर्मणां निर्जरणं द्रव्यनिर्जरा, निर्जरानिमित्तशुभा- ध्यवसायो भावनिर्जरा ॥ आत्मप्रदेशेभ्य इति । विश्लेषावधौ पञ्चमी, निर्जरणं पृथक्करणम्, न तु विध्वंसः, 25 पञ्चम्यनुपपत्तेः । आत्मप्रदेशेषु कर्मसम्बन्धाभाव इति भावः ।। १. निर्जरात्वेनेकविधापि साऽष्टविधकर्मापेक्षयाऽष्टविधाऽपि । द्वादशविर्वतपोजनितत्वेन च द्वादश. विधाऽपि, अमक्षुत्पिपासाशीतातपदंशमशकसहनब्रह्मचर्यधारणाचनेकविध कारणजनितत्वेनानेकविधापि, अन्यतो , 1 - , अनशनम् ] न्यायप्रकाशसमलङ्कते। : ३१५ : ननु तपसा निर्जरा भवतीत्युक्तं तत्र किन्तप इत्यत्राह- शरीरवृत्तिरसादिधातुकर्मान्यतरसन्तपनं तपः ॥ शरीरवृत्तीति । तप्यन्तेऽनेन बाह्याभ्यन्तरमेदमिन्नानशनप्रायश्चिचादिना यानि श- रीरनिष्ठानि रसामृड्यांसमेदोऽस्थिमज्जाशुक्राणि मिथ्यादर्शनार्जितकर्माणि चेति तपोऽनश- नादि, तथा च शरीरनिष्ठरसादिकर्मान्यतरसन्तापप्रयोजकप्रवृत्तित्वं लक्षणम् । शरीरवृत्ति- 5 रसादीनि कर्माणि च सन्तप्यन्ते नीरसीक्रियन्तेऽनेनेति व्युत्पतेः, विपाकस्य नीरसीकरण- प्रयोजकत्वेऽपि प्रवृत्तिरूपत्वाभावान्नातिप्रसक्तिी, साक्षात्कर्मसन्तापकस्य धातुक्षयपूर्वकं संग- सागशरीरलाघवेन्द्रियविजयसंयमरक्षणादिद्वारा कर्मसन्तापकस्य च संग्रहायान्यतरेत्युक्तम् । न चालव्धवृत्तीनां कर्मणां तपसा क्षयाभ्युपगमे तेषां निष्फलत्वं स्यात्, अनुपभुक्तानां क्षया- नुपपत्तिश्च, उपपत्तौ वोपभुन्यमानानामपि क्षयापातादिति वाच्यम् , कारणस्य नियमेन कार्य- 10 जनकत्वानभ्युपगमात्, अन्यथा कुशूलस्थादपि बीजारोत्सत्तिप्रसङ्गात् । मण्यादिसमव- हितवहिना दाहापाताच किन्तु सहकारिवैकल्यशक्तिप्रतिवन्धादिना कारणस्य कार्यानन· कत्वेन कर्मणामपि द्रव्यक्षेत्रादिसहकारिविरहान् प्रवलकर्मान्तरेण शक्तिप्रतिवन्धाद्वा वृत्य- लाभः । तादृशानाञ्च कर्मणां वपसा क्षय इति न कोऽपि दोषः । भोगेन कर्मणः क्षय इति तूत्सर्गः, स च तपसस्तत्त्वज्ञानाद्वा कचित् कथञ्चित् क्षयाभ्युपगमेनापोद्यत इति नासम्भ- 15 वो लक्षणस्येति दिक् ॥ तत्र तपसो वाह्याभ्यन्तररूपेण वैविध्यस्य प्रदर्शितत्वादधुना वाह्यं तद्विभजते- तत्र वाह्यतपांसि अनशनोनोदरिकावृत्तिसंक्षेपरसत्यागकायक्लेशसं- लीनतारूपेण षड्विधानि ॥ तत्रेति । अनशनादिरूपे तपसि वाह्यत्वं अन्नादिवाह्यद्रव्यनिमित्तकत्वात् परप्रत्यक्ष-20 विषयत्वात् प्रायो बाह्यशरीरतापकत्वात् तीर्थिकगृहस्थानुष्ठेयत्वाचेति विज्ञेयम् ॥ सम्प्रत्यनशनं लक्षयति- इत्वरं यावजीवं वाऽहारपरित्यागोज्नशनम् ।। बनादेर्भावत. कर्मणामेवं द्विविधाऽपि वा । ननु निर्जरामोक्षयो के प्रतिविशेष ! उच्यते देशतः कर्मभयो निर्जरा, सर्वतस्तु मोक्ष इति ॥ २. यथा महाबलाश्रयस्य नवीनजलागमनमागें निरुद्ध विद्यमाने जले अरष- शुदिना निष्कासिते रविकिरणादिना क्रमेण गोपणं भवेत् तथा प्राणिवधादिपापकर्मणा निरोधे संयत्तस्थापि द्वादशदिवेन तपसा भवकोटिसंचित कर्म निजीर्यत इति भाव. ॥

, तत्वन्यायविमाकरे [अमकिरण इत्वरमिति । इत्वरं परिमितकालं यथा नमस्कारसहितादि षण्मासपर्यन्तं महावीर- स्वामितीर्थे, संवत्सरपर्यन्तं श्रीनामेयतीर्थे, यावदष्टौ मासान द्वाविंशतिमध्यमतीर्थकरतीर्थेषु । पादपोपगमनेङ्गिनीमतप्रत्याख्यानभेदतो यावजीवमनशनं त्रिविधम् । अत्राथमपि निया- घातसव्याघानभेदेन द्विविधम् । प्रव्रज्याशिक्षापदादिक्रमतो जराजर्जरितशरीरस्य चतुर्विधा- 5 हारप्रत्याख्यानपूर्वकं जन्तुशून्यस्थण्डिलमाश्रित्य निपत्यैकस्मिन्नेव पार्श्वे प्रशस्खध्यानं मृत्वा परिस्पन्दशून्यतया जीवोत्क्रमणं यावद्वर्त्तनं निर्व्याघातम् । आयुस्सद्भावेऽपि समुपजातव्या- घिनोत्पन्नमहावेदनेन यदुपक्रान्तिः क्रियते तत्सव्याघातम् । श्रुतविहितक्रियाविशेषविशिष्टं मरणमिङ्गिनी, इयश्च यः प्रबन्यादिप्रतिपत्तिक्रमेणैवाऽऽयुषः परिहाणिमवबुध्याऽऽतनिजोप- करणः स्थावरजङ्गमप्राणिविवर्जितस्थंडिलशायी एकाकीकृतचतुर्विधप्रत्याख्यानश्छायाया 10 उष्णमुष्णाच्छायां संक्रामन् सचेष्टः सम्यग्ज्ञानपरायणः प्राणाजहाति तस्य बोध्यम् । गच्छान्तर्वर्ती सन् कदाचित्रिविधस्य कदाचिञ्चतुर्विधस्य पर्यन्ते च सर्वथाऽऽहार- प्रत्याख्यानं कुर्वन् समाश्रितमृदुसंस्तारक उत्सृष्टशरीरोपकरणममत्वस्स्वयमेवोद्ाहितन- मस्कारो निकटवर्विसाधुदत्तनमस्कारो वोद्वर्तनपरिवर्चनादिकं कुर्वाणस्समाधिना यत्कालं करोति तद्भक्तप्रत्याख्यानम् , एवमेवाऽनशनं विविच्य शास्त्रोक्तं विज्ञेयम् , तथा चेवरयाव- 15 जीवान्यवरखरूपाहारपरित्यागोऽनशनमिति भावः। अनोदरिकामाचष्टे- स्वाहारपरिमाणावल्पाहारपरिग्रहणमूनोदरिका ॥ स्वाहारेति । यस्य पुरुषस्य यावदाहारपरिमाणं ततोऽल्पस्याऽऽहारस्य ग्रहणं, उत्कृष्टा- वकृष्टपरिमाणको वर्जयित्वा मध्यमेन कवलेन पुंसो द्वात्रिंशत्कवलके स्त्रियोऽष्टाविंशतिकवल- 20. प्रमाणे आहारेऽष्टसंख्याकेन, द्वादशसंख्याकेन षोडशकेन चतुर्विंशतिकेन, एकेनापि न्यूनेन वा वर्तनमूनोदरिकेति भावः । अत्राऽनशनादौ च सम्यक्त्वं विशेषणीयं तच्च यथागमात्मकं, . १. पादपोपगमनमविचार इंजिनीभक्तप्रत्याख्याने सविचारे, चेष्टात्मकेन कायसम्वन्धिना वर्तमानत्वा- सविचार, तविपरीतमविचारं, इङ्गिनीमतप्रत्याख्याने सपरिकर्म, स्थाननिषदनत्वग्वर्तनादिना विश्रामणा- दिना व वर्तमानत्वात्, एकत्र स्वयमन्येन वा कृतस्य, अन्यत्र तु स्वयं विहितस्योद्वर्तनादिचेयरमक- परिकर्मणोऽतुज्ञानात् । अपरिकर्म पादपोपगमन निप्रतिकर्मताया एवं तत्राभिधानात् ॥ २. अयं भाव. 25 एककवलादारभ्य यावदष्टौ कवला जघन्यमध्यमोत्कृष्टविशिष्टा अल्पाहारोनोदरिकाः, नवभ्य कवलेभ्य आरभ्य यावादशकवलास्ताशा अपा!नोदरिका , त्रयोदशभ्य आरम्य यावत् षोडशकवास्ताहशा त्रिभागोनोद. रिकाः, सप्तदशभ्यो यावच्चतुर्विंशतिकवला. प्राप्सोनोदरिका, पञ्चविशतेरारभ्य यावदेकत्रिंशत्कवला किविदूनो- दरिका उच्यन्ते, एवं बीणामपि पुरुषानुसारेण भाव्यमिति । .

रसत्यागः] न्यायप्रकाशसमलते तेन नृपशत्रुतस्करादिकृताहारनिरोधादेव्यवच्छेदः, उपहतभावस्य हि पुंसोऽनशनादिकं न संयमरक्षणाय न वा कर्मनिर्जरायै समर्थम् ।। , अथ वृत्तिसंक्षेपमाह- नानाविधाभिग्रहधारणेन भिक्षावृत्तेः प्रतिरोधनं वृत्तिसंक्षेपः ॥ नानाविधेति । अभिग्रहो नियमस्स चागमविहितः, अनेकविधा येऽभिग्रहास्तेषां । धारणेनावलम्बनेनेत्यर्थः, नियमाश्च भिक्षाविषयाः उत्क्षिप्तनिक्षिप्तान्तप्रान्तचर्यादिरूपा द्रव्य- क्षेत्रकालभावप्रविभक्ताः । यथा पटलकादिकं कडुच्छकादिनोपकरणेन दानयोग्यतया दायके- नोक्षिप्तं यदि लप्स्ये तदा ग्रहीष्यामीत्यादिरूपाः, तानवलम्ब्यापरमिक्षाया यत्प्रतिरोधनं स वृत्तिसक्षेपः, दत्तीनां नियमेन एका दत्तिमद्य ग्रहीष्यामि द्वे वा तिस्रो वेत्यादिरूपेणेतरासां दत्तीनां प्रतिरोधोऽपि वृत्तिसक्षेपस्तत्र दत्तिः पात्रकादौ पटलकादीनां यदेकमुखेन प्रक्षेपः 10 सा । हस्तेन कडुच्छकेनोदकिकया वा यदुत्क्षिप्य ददाति सा भिक्षेति विशेषः ॥ रसत्यागस्वरूपं वक्ति- - रसवत्पदार्थेषु द्विश्यादीनां त्यागपुरस्सरं विरसरुक्षाचाहारग्रहणं रसत्यागः॥ रसवदिति । गुणविशेपवाचिनो रसत्यागपघटितरसशब्दस्यान गुणिपरत्वमेव, 15 रसवत्पदार्थपरित्यागस्यैवामिमतत्वात, शुक्ल पट इत्यादिवदतो रसत्याग इति लक्ष्यनिर्देशो द्रव्यत्यागपुरस्कारेणैव रसपरित्याग इति सूचयितुं रसवत्पदार्थेन्वित्युक्तं, न सर्वेषा- मेव रसवतां परित्यागो रसत्यागोऽपि तु द्विघ्यादीनामपीत्याशयेनाह द्विव्यादीनामिति, अनशनेऽपि द्विव्यादिपदार्थपरित्यागोऽस्त्येव, तस्य सर्वपदार्थपरित्यागरूपत्वादित्याशंका- यामाह विरसरूक्षादीति । न च रूपरसगन्धस्पर्णवन्तः पुद्गला इति नियमेन सर्वेषामेव 20 पदार्थांना रसवत्त्वाद्विरसेति कथमिति वाच्यम्, प्रकृष्टरसशून्यताया एव विवक्षितत्वाः दिति भावः । विरस विकृतिमिरसंस्पृष्टं, रूक्षं प्रकृष्टरसशून्यम् । चित्तविकारहेतुभूता हि पदार्था मद्यमांसमधुनवनीतात्मकाः क्षीरदधिवृत्तैलगुडावगाह्याश्च विकृतिरूपाः । मयं हि गुड- पिष्टद्राक्षाखघुरादिसम्भवं गणनातीतजीवोत्पत्तिस्थानं जीवस्यास्वातंत्र्यं विधत्ते, तेन चाक्रान्तः कृत्याकृत्यविवेकभ्रष्टो विनष्टस्मृतिसंस्कारो गर्हितमाचरत्येव । मांसं प्राणिशरीरावयवरूपमनन्त-35 जन्तुप्रसवनिदानं प्राणव्यपरोपणमन्तरा, दुष्मापं, प्राणातिपातश्चातिदुःखप्रदत्वेन कृतकारितानु- २८ तस्वन्यायविमाकरे मधमकिरणे मतिमिस्सर्वथा परिहरणीयम् । मांसश्च वृष्यतमत्वादवश्य गावर्षहेतुत्वात्त्याज्य एव । अन्नादयस्तु न तादृशाः मधु च माक्षिककौतिकभ्रामररूपं त्रिविधमपि विना प्राणातिपातेन सम्भवतीति तदपि त्याज्यमेव । गोमहिष्यनाविकसम्बन्धिनवनीतमपि वृष्यत्वात्परि- हार्यमिति, प्रत्याख्यानमेतेषां द्रव्यक्षेत्रकालभावापेक्षया विवक्षितम् । गोमहिष्यजाविकोष्ट्री 5 सम्बन्धित्वेन क्षीरविकृतिरपि पञ्चधा । दधिविकृतिस्तु करभीवर्जा चतुःप्रकारा । घृत- विकृतिरपि दधिविकृतिवञ्चतुर्धा । तिलातसीसिद्धार्थककुसुम्बकाख्यानि तैलानि । इक्षुविका- रात्मिका गुडविकृतिः खण्डशर्करावर्जा | घृताद्यवगाहनिष्पन्नाइशष्कुलीप्रभृतयोऽवगाहा, एतासां रसविकृतीनां प्रत्याख्यानं तपः, तत्रापि मांसादिचतुर्णा सर्वथा परित्यागः कार्य एव, क्षीरादिविकृतिषु सर्वेषां परित्यागस्तपस्तत्रासामर्थ्य द्विव्यादिपरिग्रहेऽपि न तपो 10 ध्याहन्यते, तप्तायापिण्डप्रक्षिप्तघृतादिविन्दुवदित्येतत्सूचनाय द्विव्यादीनां त्यागपुरस्सरमि- युक्तमिति बोध्यम् । न चानशनोनोदरिकारसत्यागानां वृत्तिपरिसंख्यानावरुद्धत्वेन पृथक्छ निर्देशोऽनुचितो भिक्षाचरणे नियमकारित्वस्य सर्वत्राविशेषादिति वाच्यम्, विशेषात्, मिक्षाचरणे प्रवर्तमानो हि साधुरेवावक्षेत्रविषयां कायचेष्टां कुर्वीत, कदाचिद्यथाशक्ति विषयगणनार्थ वृत्तिपरिसंख्यानं क्रियते । अनशनन्सभ्यवहर्तव्यनिवृत्तिः, ऊनोदरिकारस- 16 परित्यागावभ्यवहर्त्तव्यैकदेशनिवृत्तिपरावतो महान्भेद इति ध्येयम् ॥ । सम्प्रति कायक्केशं लक्षयति- केशोल्लुचनादिक्लेशसहनं कायक्लेशः ॥ केशेति । कायसम्बन्धी छेशः कायक्लेशः, सोऽपि यथातथारूपो न कायझेशात्मक तपोऽत उक्तं केशोल्लुचनादीति । आदिना कायोत्सर्गवीरोत्कटुकासनैकपार्श्वदण्डायतशयना- 20 तापनाऽप्रावृतादीनां ग्रहणम् , तथा चागमानुसारिकेशोल्लुचनादिजन्यक्लेशसहनत्वं लक्षणम् । संसार्यवस्थायां हि शरीरात्मनोरन्योन्यानुगतत्वेनाभेदात् सति कायक्लेशे तद्वाराऽऽत्मनोऽपि केशोत्पत्त्या कर्मनिर्जरणादेषां तपोरूपत्वं, विनैकत्वपरिणतिमात्मनस्सुखदुःखासम्भवात् । स्वमात्रकृतकायक्लेशरूपत्वादुद्धिपूर्वकत्वाचास्य स्वपरनिमित्तकात् यादृच्छिकोपनताश्च क्षुधा- दितो विशेषोऽवसेयः॥ १. सर्वज्ञप्रणीतागमानुसारिकेशोल्लुचनाऽऽतापनानशनादिकायझेशो विशिष्टेष्टफलसावक , आगमोदि- तत्वे सति कायलेशत्वात् वृक्षमूलादिसेबनवीरासननिष्प्रतिक्रियादिवदित्यनुमानेन केशोस्लचनादिकायक्लेश- स्य कर्मविच्छेदहेतुत्व सिद्धपतीत्याशयेनाह संसार्यवस्थायामिति ॥

प्रायश्चित्तम् ] न्यायप्रकाशसमलङ्कते :२१९६ अथ संलीनवामाचष्टे- इन्द्रिययोगकषायादीनियम्य विविक्तस्थानासेवनं संलीनता, सा चतुर्विधा इन्द्रियकपाययोगविविक्तचर्याभेदात् ॥ इन्द्रियेति । विविक्त-विजनं-बाधाविवर्जितं स्थान प्रतिश्रयशय्याफलकासनपीठादिकं तस्याऽऽसेवनं । शरीरोपधावकरैः स्थूलसूक्ष्मजन्तुसहितः स्त्रीपशुपण्डकादियुतेश्च प्रविश्रयादि- 5 मिस्सम्यक्त्वादीनां बाधा स्यादतस्तद्रहितस्थानाऽऽसेवनमित्यर्थः । तदप्यासेवन सस्वान्ता- नीन्द्रियाणि संयम्य योगाग्निष्फलेभ्यः क्रोधादिकपायकदम्बकं चोदयनिरोधप्राप्तोदयवैफल्य- करणाभ्याञ्च विज्ञेयमिति भावः । सा च संलीनता ज्ञानदर्शनचारित्रसंस्थापिका इन्द्रिय- कपाययोगनियमनपूर्वकत्वाद्विविक्तस्थानसम्बन्धित्वाच चतुर्विधा भवतीत्याशयेनाह सेति ।। ता एवं क्रमतो लक्षयति- 10 - मालेन्द्रियविषयेष्वरक्तद्विष्टताभावः इन्द्रियसंलीनता। अनुदितको धस्योदयनिरोधः प्राप्तोदयस्य नैष्फल्यकरणं कषायसंलीनता । कुशला- कुशलयोगानां प्रवृत्तिनिवृत्ती योगसंलीनताशून्यागारादौ निर्याधे रुया- दिवर्जिते स्थाने स्थितिर्विविक्तचर्यासलीनता ।। प्राप्मेन्द्रियेति । विशदं मूलं व्याख्यातप्रायश्च । पडिधादप्यस्माद्वाह्यतपसो बाह्याभ्य- 15 न्चरोपधिपु निर्ममत्वं प्रत्यहमल्पाहारोपयोगाप्रणीवाहारवर्जनाच शरीरलाघवं, उन्मादानु- देकादिन्द्रियजयः, चर्याजनितजन्तूपरोधाभावात्संयमरक्षणं निस्सनतादिगुणयोगादनशनादि- तपोऽनुतिष्ठतश्शुमध्यानव्यवस्थितस्य कर्मनिर्जरणश्वावश्य जायत इति बोध्यम् ।। अथातिशयेन कर्मनिर्दहनक्षम क्रमिक स्वप्रत्यक्षभूतमन्तःकरणब्यापारप्रधानं प्रधानतो बहिर्द्रव्यानपेक्षमितरतीथिकानभ्यस्तमनशनादिभ्योऽन्तरङ्गभूतमान्तरं तपो विभजते- प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायध्यानोत्सर्गाष्षडाभ्यन्तरतपांसि ।। प्रायश्चित्तेति । आभ्यन्तरतपासीति । मोक्षप्राप्तावन्तरङ्गाणि आभ्यन्तरकर्मतापकानि आभ्यन्तरैरैवान्तर्मुखैभगवद्भिायमानानीमानि तपांसीति भावः ।। अथ प्रत्येकं परिज्ञापयितुं प्रायश्चित्तं निरूपयति- अतिचारविशुद्धिजनकानुष्ठानं प्रायश्चित्तम् । तच्चाऽऽऽलोचनप्रतिक- 25 - 20 - । :१२०: तत्त्वन्यायविभाकरे [अष्टमकिरणे मणमिश्रविवेकव्युत्सर्गतपश्छेदमूलानवस्थाप्यपाराश्चितभेदाइशविधम् ॥ अतिचारेति । प्रायस्साधुलोकः, यस्मिन् कर्मणि तस्य चित्तं तत्प्रायश्चित्तं, प्रायो वाऽपराधः, तस्य चित्वं शुद्धिः यस्मादनुष्ठितात्तत्प्रायश्चित्तमपराधविशुद्धिफलकानुष्ठानमि- त्यर्थः, तदेव तस्य स्वरूपमित्याशयेनोक्तमतिचारेति, अतिचारविशुद्धिजनकत्वे सत्यनुष्ठानत्वं 5 लक्षणं, प्रमादजन्यो मूलोत्तरगुणविषयको हि दोषोऽविचारस्सोऽयमल्पोऽपि चित्तमालिन्य विधात्येव, अतस्तच्छुद्ध्यै प्रायश्चित्तममिमतमिति भावः । यद्यप्यतिचारस्य कस्यचिद्भवति निवृत्तिः प्रकाशनमात्रादपि, यथा श्रुतोपदिष्टव्यापारानुयायिनो मोक्षार्थ यतमानस्यावश्य- करणीयेष्वत्यन्तोपयुक्तस्य व्यस्तस्थूलाविचारस्य सूक्ष्मास्रवप्रमादक्रियाणाम् । तत्रानुष्ठानत्वा- भावाव्याप्तिप्रसङ्गस्तथापि मानसानुष्ठानरूपत्वात्तस्य न दोषः, एवमेव पश्चात्तापादावपि 10 विज्ञेयम्, तद्विभागमाह बच्चेति । तत्त्वार्थे तु मूलानवस्थाप्यपाराञ्चितानां स्थाने परिहारो- पस्थापने पठित्वा नवविधत्वं प्रायश्चित्तस्य दृश्यते ।। 'अथाऽऽलोचनमाचष्टे- गुर्वभिमुखं समर्यादं स्वापराधप्रकटनमालोचनम् ।। गुर्वभिमुखमिति । मर्यादया मायामदादिदोषरहितेन कार्यमकार्यञ्च सत्यतया भणता 15 बालेनेव खापराधस्य स्वेनाऽऽसेवितक्रमेणाऽऽलोचनाय गुरवे प्रकटनमालोचनाप्रायश्चित्त- मित्यर्थः । गुरुणाऽनुज्ञातस्वयोग्यमिक्षावखपात्रशय्यासंस्तारकपादप्रोञ्छनादीनि आचार्यो- पाध्यायस्थविरबालग्लानशैक्षकक्षपकासमर्थप्रायोग्यवनपात्रभक्तपानौषधादीनि वा गृहीत्वा, उच्चारभूमेर्विहाराहा, चैत्यवन्दननिमित्तं. पूर्वगृहीतपीठफलकादिप्रत्यर्पणनिमित्तं, बहुश्रुतापूर्व- संविग्नवन्दनप्रत्ययं, संशयव्यवच्छेदाय, श्राद्धस्वज्ञात्यवसन्नविहाराणां श्रद्धावृद्ध्यर्थ, साधर्मि- 20 काणां संयमोत्साहनिमित्तं हस्तशवात् परं दूरमासन्नं वा गत्वा च समागतो यथाविधि गुरुसमक्षमालोचयेदिति भावः । आलोचना चेयमावश्यकेषु यातायातेषु सूपयुक्तस्यादुष्टमाष- त्वादतिचारविधुरस्याप्रमत्तस्य छद्मस्थस्य यतेद्रष्टव्या, साविचारस्य त्वन्यप्रायश्चित्तसम्भवात् । केवलज्ञानिनश्च कृतकृत्यत्वेनालोचनाया अयोगात् । छद्मस्थस्याप्रमत्चस्य तु यथाशावं १. विहायायोग्यवस्था सर्वासु सरागवीतरागाद्यवस्थासु भवस्थजीवाना कर्मवन्धवैचित्र्यं सूरय आहुः केचिदायुर्वर्जसप्तविधकर्मोपार्जका. केचिन्मोहायुर्वर्जपविधकर्जिका केचिच द्विसमयस्थितिककविधकर्मवन्धका इति, तथाच विराधनायास्मम्भवेन भिक्षाटनादिविहितानुष्ठानमपि आलोचनाप्रतिक्रमणादिप्रायश्चित्तसमन्वित भवतीति भाव. ॥ २. तत्र परिहारशब्देन मूलप्रायश्चित्तमुपलक्षितम्, उपस्थापनपदेन चानवस्याप्यपाराधिक सगृहीते, परिहारच मासादिक. षण्मासान्त इति ॥

तप:] न्यायप्रकाशसमलते :२२१: प्रवृत्त्या निरतिचारत्वेऽपि चेष्टासूक्ष्मप्रमानिमित्तसूक्ष्मानक्सम्भवेन तच्छुद्ध्यर्थमालोचनाss- वश्यकीति विज्ञेया ।। - प्रतिक्रमणमाह- अतिचारात्प्रतिनिवर्तनं प्रतिक्रमणम् || अतिचारादिति । यन्मिध्यादुष्कृतिमात्रेणैव शुद्धिमासादयति नच गुरुसमक्षमालोच्यते 5 तदई प्रायश्चित्तं प्रतिक्रमणम् । यथा सहमाऽनुपयुक्केन यदि श्लेष्मादि प्रक्षिप्यते न च हिंसा- दिका दोपा आपद्यन्ते तालोचनामन्तरेणापि मिध्यादुप्कृतप्रदानेन शुक्ष्यति, तत्मतिक्र- मणमिति भावः । समितिप्रमुखाणां सहसाऽनाभोगतो वा कथमपि प्रमादे सति अन्यथाकरणे प्रतिक्रमण मिध्यादुष्कृतप्रदानलक्षणं प्रायश्चित्तं क्रियत इति तात्पर्यम् ॥ मिश्रमाचष्टे- 10 उभयात्मकं मिश्रम् ॥ उभयात्मकमिति । आलोचनविशिष्टप्रतिक्रमणमित्यर्थः । यस्मिन् पुनः प्रतिसेविते यदि गुरुसमक्षमालोचयति आलोच्य गुरुसन्दिष्टः प्रतिक्रामति-पश्चाच्च मिध्यादुष्कृतमिति ब्रूते तदा शुद्ध्यति तदालोचनप्रतिक्रमणलक्षणोमयाहत्वान्मिश्र, नानाप्रकारान् शब्दादीनि- न्द्रियविषयीभूतान् विपयाननुभूय कस्यचिदेवं संशयस्त्याद्यथा शब्दादिपु विषयेषु रागद्वेषौ 15 गतोऽहं नवेति ततस्तस्मिन् संशयविपये पूर्व गुरूणां पुरत आलोचनं तदनन्तरं गुरुसमा- देशेन मिध्यादुष्कृतदानमित्येवंरूपं प्रायश्चित्तं भावयतो मिनं प्रतिपद्यते, यदि हि निश्चित भवति यथाऽमुकेषु शब्दादिपु विषयेषु राग द्वेपं वा गत इति, तत्र तपोऽहं प्रायश्चित्तं, अथैवं निश्चयो न गतो राग द्वेपं वेति तत्र स शुद्ध एव न प्रायश्चित्तविपय इति भावः ॥ विवेक व्याख्यावि- - 20 गृहीतवस्तुनोऽवगतदोपत्वे परित्यजनं विवेकः ।। १. महमाकारतो वाऽनाभोगतो वा यदि मनमा दुचिन्तितं वत्रमा दुर्भापिनं कायेन दुश्चेष्टितं यदौर्यायो क्या क्ययन् ब्रजेन्, भाषायामपि यदि गृहल्यमापया इदरम्बरेम या भापेन, एपणाया भकपानगवेषण- वेलायामनुपयुको भाण्डोपरपसादाने निक्षेपे वाऽप्रमार्जविताऽनपेक्षिने स्वण्डिले उचारादीना परिठापयिता च नव हिमादिदोपमापन., तथा गदा कन्दो हासो वा नीमकचौरजनपदकथावरण वा क्रोधमानमारालोमेषु गमनं विषयेषु वा शब्दादिष्वनुपको जानदर्शनचारित्रप्रतिरूपविनयाकरणे च तदा प्रतिक्मणं प्रायश्चित्तनिनि भार ॥

:२२२ तत्त्वन्यायविमाकरे [अष्टमकिरणे गृहीतेति । यथाऽऽधाकर्मणि गृहीते परित्याग एवं कृते बुद्धिमासादयति नाऽन्यथा, सोऽयं परित्यागो विवेकात्मक प्रायश्चित्तमित्यर्थः । अशठभावेन साधुना सवितुरुगतादि- अमतो गृहीतमशनादिकं ततो भ्रमेऽपगते शठभावेनाऽशठमावेन वाऽर्धयोजनाविक्रमेण नीते आनी वाऽशनादिके तत्र विवेक एव प्रायश्चिचमिति भावः, अत्र शठ इन्द्रियमायावि- 5 कथाक्रीडादिभिः कर्म कुर्वन् , ग्लानभयादिकारणतस्त्वशठः ॥ व्युत्सर्गमभिधत्ते- गमनागमनादिषु विशिष्टचित्तैकाग्यपूर्वकं योगव्यापारपरित्यागो व्युत्सर्गः॥ गमनागमनादिष्विति । विशिष्टचित्तैकाप्रतापूर्वकं योगव्यापारनिरोधः कायोत्सर्गा- 10 परनामा यः प्रायश्चित्तविशेषः प्राणातिपावादिसावधबहुले गमनागमनदुस्स्वप्ननोसन्तरणा- दिविषये भवति स व्युत्सर्ग इति भावः ॥ तपो निरूपयति- छेदग्रन्थजीतकल्पान्यतरानुसारेण गुर्वनुशिष्टानुष्ठानविशेषस्तपः ॥ छेदग्रन्थेति । सचित्तपृथिवीकायादिसट्टने समापतिते छेदप्रन्थानुसारेण जीतक- 15 ल्पानुसारेण वा षण्मासावसानो निर्विकृतिकादिको यस्तपोविशेषो दीयते तत्तपःप्राय- श्चित्तमित्यर्थः ।। छेदमाह- तपसा दुर्भेद्यस्य दिवसमासादिक्रमेण श्रमणपर्यायापनयनं छेदः ।। तपसेति । विशोधयितुं तपसा मुनेरशक्यस्य यन्महाव्रतारोपणकालादारभ्याहोरात्र- 20 पञ्चकादिना क्रमेण श्रामण्यपर्यायछेदनं क्रियते स छेदा, तपोदुर्दमश्च षण्मासक्षपकोऽन्यो १. रात्रिदिवपञ्चकादारभ्य रात्रिंदिवपञ्चकादिवृद्धथा तावनेयं यावत् पष्मासम् । उत्सारकं शाई छेदअन्य स च षड्विष., निशीथं महानिशीथं दशावतस्कन्धो बृहत्कल्पो व्यवहार पञ्चकल्पश्चेति । जीतमाचरित तस्य कल्पो वर्णना जीतकल्प तत्प्रतिपादकः जिनभद्रगणिक्षमाश्रमणरचितोऽष्टपञ्चाशगाथामयः छेदश्रुतविशेष । २. ब्रतपर्यायच्छेदनमा छेद सर्वपर्यायछेदस्तु न भवति, तथात्वे च मूलमेघ स्यात् । यथा शेषाकर- क्षार्य व्याधिदूषितमनं छिद्यते एवं ब्रतशेषपर्यायरक्षार्थ अतिचारानुमानेन दूषित पर्याय एव छिद्यत इति भावः ॥

तपः] न्यायप्रकाशसमलट्टते :१२३ वा विकृष्टतपःकरणसमर्थस्तपसा गर्वितो भवति किमनेन तपसा ममेत्यभिसन्धिमान् तपः करणासमर्थो वा ग्लानासहबालवृद्धादिस्तथाविधतपाश्रद्धानरहितो वा निष्कारणतोऽपवाद- रुचिर्वेति ध्येयम् ॥ 5 मूलमाह- प्रारम्भतः पुनर्महाव्रतारोपणं मूलम् ॥ प्रारम्भत इति । यस्मिन् समापतिते निरवशेषपर्यायोच्छेदमाधाय पुनर्महाब्रवारोपणं क्रियते तादृशं प्रायश्चित्तं भूलमित्यर्थः । आकुट्टया पञ्चेन्द्रियवधे विहिते दर्पण मैथुने सेविते मृषावादादत्तादानपरिग्रहेषु प्रतिसेवितेपूत्कृष्टेषु अनाकुट्टया पुनः पुनस्सेवितेषु वा मूलामि- धानमेतलायश्चित्तं भवतीति भावः ।। अनवस्थाप्यमाचष्टे- 10 अकृततपोविशेषस्य दुष्टतरस्य कियत्कालं व्रतानारोपणमनवस्था- प्यम् ॥ अकृतेति । येन पुनः प्रतिसेवितेनोत्थापनाया अप्ययोग्यो न स्थाप्यते व्रतेषु कनि- कालं, यावन्नाद्यापि प्रतिविशिष्टं तपश्चीर्ण भवति पश्चाच चीर्णतपास्तदोषोपरतो तेषु स्थाप्यते तदनवस्थाप्यं प्रायश्चित्वमित्यर्थः । मुष्टियष्टिप्रभृतिभिस्स्वस्य परस्य स्वपरपक्षगतस्य 15 वा घोरपरिणामतः प्रहरणेनातिसक्लिष्टचित्ताध्यवसायो न स्थाप्यते तेषु यावदुचितं तपो न कृतं स्यात्, उचितश्च तपः कर्म उत्थाननिपदनाद्यशक्तिपर्यन्तं, स हि यदोत्थानायपि कर्तुम. शक्तस्तदाऽन्यान प्रार्थयते, आर्याः ! उत्थातुमिच्छामीत्यादि, ते तु तदा तेन सह संभापण- मकुर्वाणास्वत्कृत्यं कुर्वन्ति, एतावति तपसि कृते तस्योपस्थापना क्रियत इति बोध्यम् ।। - 20 अथ पाराश्चितमाह- राजवधादितीर्थकराद्याशातनाकरणेन यावद् द्वादशवर्षमतिचारपार- गमनतो राजप्रतिवोधादिप्रवचनप्रभावनया पुनः प्रव्राजनं पाराश्चितम् ।। १. एव मूलोत्तरगुणमासम्पर्के वान्तदर्शनचारित्रे यकदशविवमामाचारीरूसे तपोगवितादिषु च भूल प्रायश्चित्तं बोयम् । मवमन्शमप्रायश्चित्तापत्तावपि मिक्षोर्मूलमेव प्रायश्चित्त, अकृतकरणस्याचार्यस्य कृतकरण- स्योपाध्यायस्य वनवस्याप्यं प्रायश्चित्तमिति ॥

तत्वन्यायविमाकरे [अमकिरणे राजवधादीति । यस्मिन् प्रतिसेविते लिङ्गक्षेत्रकालतपसां पारमञ्चति तत्पाराजितं, पारमन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावादपराधानां वा पारमश्चति गच्छतीत्येवं शीलं पाराञ्चि, तदेव पाराम्बिकमिति नामान्तरम् । राजवधस्वलिनिघावादिसेवनाभिरिदं प्रायश्चित्तमापद्यते, एतच्चाचार्याणामेव जघन्यत षण्मासानुत्कृष्टतो द्वादशवर्षाणि यावद्भवति 5 ततश्चाऽतिचारपारगमनानन्तरं प्रव्राज्यते । प्रब्राजनच राजप्रतिबोधादिप्रवचनप्रभावेण तस्य भवतीति भावार्थः । तद्दशविधं प्रायश्चित्तं देशं कालं शक्ति संहननं संयमविराधनाज कायेन्द्रियजातिगुणोत्कर्पाञ्च प्राप्य विशुद्धयर्थं यथाई दीयते चाचर्यते च । तत्रोपाध्यायस्य पाराश्चिकयोग्यापराधसम्भवेऽपि अनवस्थाप्यमेव प्रायश्चित्तं न तु पाराश्चितं, अनवस्था- प्यान्तस्यैवोपाध्यायस्य शाले प्रतिपादनात् सामान्यसाधूनामपि अनवस्थाप्यपाराञ्चितयो- 10 ग्यापराधसम्भवे मूलान्तमेव प्रायश्चित्तं, तच्चानवस्थाप्यमाशातनानवस्थाप्यमाश्रित्य जघ- न्यतो यावत् पण्मासान् वर्षमुत्कर्षेण प्रतिसेवनानवस्थाप्यापेक्षया तु जघन्यतो वर्षमुत्क- तो द्वादशवर्षाणि भवति । तीर्थंकरप्रवचनगणधराद्यधिक्षेपकारी-आशातनानवस्थाप्यः, हस्त- ताडनसाधर्मिकान्यधार्मिकस्तैन्यकारी प्रतिसेवनानवस्थाप्य इति ॥ - 15 अधुना विनयं निरूपयति- ज्ञानदर्शनचारित्रोपचारान्यतमो विनयः, तत्र नम्रतापूर्वकं ज्ञाना- भ्यासो ज्ञानविनयः । जिनेन्द्रोक्तपदार्थेषु निश्शङ्कितत्वं दर्शनविनयः । श्रद्धयाऽनुष्ठानेन च चारित्रप्ररूपणं चारित्रविनयः, गुणाधिकेष्वभ्युत्था- नाद्यनुष्ठानमुपचारविनयः॥ ज्ञानदर्शनेति । अनाशातनाभक्तिबहुमानकीर्तिप्रकाशनात्मको विनयः कर्मरनोहारक- 20 स्वात् स च ज्ञानाद्यात्मकविषयभेदाचतुर्विधः तथा च शानदर्शनचारित्रोपचारान्यतमविष- यकानशातनादिमत्त्वं विनयस्य लक्षणम् । ज्ञानलाभायाऽऽचारविशुद्धये सम्यगाराधनाय च विनयो भवति । ज्ञानविनयमाह-तत्रेति, अनलसेन शुद्धमनसा देशकालादिविशुद्धिविधान- । . , १. मूळे राजवधाहीत्यनेन प्रतिसेवनापाराधिक तीर्थकरादीत्यनेनाशातनापाराश्चिकश्च सूचित । आये नादिनामात्यप्राकृतगृहस्थादोना वध सङ्ग्रह द्वितीयेन च सद्भभुताचार्यगणवरमहातपस्विनाम् ॥ २. जघन्य- मिदमाशातना पाराश्चिकस्य, अस्योत्कर्षों द्वादशमामा । प्रतिसेवनापाराशिकस्य तु जघन्यं संवत्सरकाल, उत्कर्षतस्तु द्वादशवर्षाणीति ॥ ३ अनाशातना तीर्थकरादीना सर्वथाऽहेलना, तेष्वेवोचितोपचारमा भति तेष्वेवान्तरभावप्रतिवन्धो बहुमानः, तेषामेव सद्भूतगुणोत्कीर्तना” कीर्तिप्रकाशनम् । तीर्थकरसिद्धकुलगण- संघक्रियाधर्मध्यानज्ञानजान्याचार्यस्थविरोपाध्यायगणिना सम्बन्धीनीति विनयपदानि त्रयोदश तेषा अनाशातना- शुपाधिभेदेन चतुर्भिर्गुणनातू द्विपञ्चाशतेंदा भवन्तीति ॥

. वैगाएत्वम् न्यायप्रकाशसमलते विचक्षणेन सबहुमानं यथाशक्ति सेन्यमाना ये मत्यादयस्तेषु योऽभ्यासः ग्रहणधारणस्मरणा- दिर्शानविनय इति भावः । दर्शनविनयमाह-जिनेन्द्रोक्तति, भगवतिरुपदिष्टाः पदार्थाः यथा- लक्षणा एवं वर्तन्ते नान्यथावादिनो जिना इति निःसंशयता, स्थाऽईत्प्रणीतस्य धर्मस्या- चार्योपाध्यायस्थविरकुलगणसंघसाधुसमनोज्ञानां चानाशातना प्रशमसंवेगनिर्वेदानुकम्पाss- स्तिक्यानि च दर्शनविनय इति भावः । चारित्रविनयमाह-श्रद्धयेति । सामायिकादिपञ्च-5 विधचारित्रेषु श्रद्धा तत्पूर्वकमनुष्ठानं यथावत्चत्तरूपणच चारित्रविनय इत्यर्थः । उपचारवि- नयमाह-गुणाधिकेष्विति । उपचरणमुपचारः श्रद्धासहितो व्यवहारो नैकविधस्सः, प्रत्यक्षे- ध्वाचार्यादिषु अभ्युत्थानामिगमनाञ्जलिकरणवन्दनानुगमनादिरात्मानुरूप. परोक्षेष्वपि कायवाङ्मनोभिरञ्जलिक्रियागुणसंकीर्चनानुस्मरणादिरूप उपचारविनयः । गुणैः सम्यग- ज्ञानदर्शनैर्देशविधसामाचारीसम्पद्भिश्चाधिका ये तेष्वित्यर्थः । शिष्टजनाचरिता विशिष्टक्रिया 10 सामाचारी स्वार्थिकष्यबन्तेन सामाचार्यशब्देन खीत्वविवक्षायां निष्पन्नोऽयं शब्दः । साच प्रतिलेखनाप्रमार्जनमिक्षोऽऽलोचनभोजनपात्रकधावनविचारस्थंडिलावश्यकभेदतः प्रतिदिन- प्रमवा दशविधा भवतीति दिक् ॥ सम्प्रति वैयावृत्त्यमाह- ममुसिद्धान्तोदितसेवाद्यनुष्ठानप्रवृत्तिमत्त्वं वैयावृत्त्यम् । तथाचार्यो- 13 पाध्यायतपस्विशक्षकग्लानकुलगणसंघसाधुसमनोज्ञभेदाइशविधम् । एत- लक्षणान्यग्रे वक्ष्यन्ते ॥ प्रविति । कामचेष्टाया द्रव्यान्तराद्वा व्यावृत्तस्य प्रवचनप्रेरितक्रियाविशेषानुष्ठान- परस्य भावः तथापरिणामः कर्म वा वैयावृत्त्यम् । प्रवचनेषु कथितानि यानि सेवादि- रूपाण्यनुष्ठानानि तत्र या प्रवृत्तिस्तथाविधपरिणामस्वद्वत्त्वमित्यर्थः । सेवा च क्षेत्रषसति- 30 प्रत्यवेक्षणभक्तपानवस्त्रपात्रभेषजशरीरशुश्रूषणतदादेशगमनविद्यामंत्रप्रयोगादिविषया, समा- ध्याधानविचिकित्साभावप्रवचनवात्सल्यसनाथत्वादिफलवती च । वैयावृत्त्यस्यास्याऽऽचार्या- दिविषयकत्वाइशविधत्वमिति ज्ञापनायाऽऽह-तवेति, वैयावृत्त्यमपीत्यर्थः, समनोजभेदादिति, समनोबानां भेदादिति विग्रहः, तथाचाऽऽचार्यादीनां भेदाद् वैयावृत्त्यमपि दविधमित्यर्थः, वैयावृत्ययोग्यानां दशविधत्वाद्वैयावृत्त्यमपि दशविधमिति भावार्थः, इश्व क्रियायाः प्राधान्य- 25 " १. आचार्यादिविषयकशास्त्रोटितक्रियाविशेषानुमानप्रवृत्तपुरुषपरिणाम इति भावपुत्पत्त्यर्थ., कर्मव्युत्पत्ययक्ष ताशानुष्ठानप्रवृत्तपुरुषक कक्रियेत्यय , भावभ्युत्पत्ती तादशब्यापारपरिणतस्यैव वैयावृत्यमुक भवति तदा . तस्वन्यायविभाकरे | अष्टमौकरने पक्षे । क्रियाक्रियावतोरभेदपक्षे यथाश्रुतमपि सम्यगेव । तत्र किंरूपा आचार्यादय इत्यत्राह एतदिति, लक्षणानि स्वरूपाणि अग्रे सम्यकूचरणनिरूपणे ॥ स्वाध्यायमाह- - 5 कालादिमर्यादयाऽध्ययनं स्वाध्यायः ॥ कालादीति । आ मर्यादया शास्त्रप्रतिपादितयाध्ययनं पठनं आध्यायः सुष्टु शोभन आध्यायः स्वाध्यायः, तत्र हि अखाध्यायिक संयमघात्युत्पातनिमित्तदेवताप्रयुक्तसंग्रामशा- रीररूपेण पञ्चविधं परसमुत्थं, एषु स्वाध्यायं विदधतस्साधोस्तीर्थकदाज्ञाभङ्गादयो दोपा भवन्ति । अत ईदृशं कालं विहाय उचितकालेषु अध्ययनं स्वाध्याय उच्यते । आदिना पौरुष्यपेक्षा ग्राह्या, तथाच कालवेलापरिहारेण पौराण्यपेक्षयाऽध्ययनं स्वाध्याय इत्यर्थः । स 10 च वाचनाप्रच्छनापुनरावर्तनाऽनुत्प्रेक्षाधर्मकथाभेइतः पञ्चविधः, शिष्येभ्यः कालिकस्योत्का- लिकस्य वाऽऽलापकप्रदान निरवद्यमन्थार्थोभयप्रदान वा वाचना, गृहीतवाचनेनापि शिष्येण सति संशये पुनः प्रष्टव्यमिति पूर्वाधीतसूत्रादेशङ्कितादौ प्रश्नः प्रच्छना, स्वोन्नतिपराति- सन्धानोपहाससघोषप्रहसनादिमिवर्जितः संशयोन्मूलनाय निश्चयदाढाय वा परं प्रत्य- नुयोग इति भावः । प्रच्छनया विशोधितस्य सूत्रादेविस्मरणं मा भूदिति तस्य दुतविलम्बिता- 15 दिदोषशून्यं घोपादिविशुद्धं गणनं परावर्तना, सूत्रवदर्थेऽपि विस्मरणसमवेन तस्य मनसा विचिन्तनमनुत्प्रेक्षा, इत्थमभ्यस्तश्रुतेन कृतं धर्मस्य श्रुतरूपस्य व्याख्यानं धर्मकथा । प्रज्ञातिशयप्रशस्ताभ्यवसायप्रवचनस्थितिसशयोच्छेदपरवादिशंकानिरासपरमसवेगतपोख्याति- चारविशुद्ध्यादयोऽस्य फलमिति ॥ अधुना ध्यानस्वरूपमभिधत्ते- चेतसो योगनिरोधपूर्वकैकविषयस्थिरतापादनं ध्यान, योगनिरोधा केवलिनां ध्यानम् ॥ चेतस इति । ध्यानशब्दो विवक्षाभेदेन भावककरणसाधनः, तत्र ध्येयं प्रत्यव्या- वृत्तस्य भावमात्रेणाभिधाने ध्यातिानमिति भावसाधनः, ध्यायतीति ध्यानं वाहुलकल्युद्- , - - 20 विपयभेदात् वैयावत्या भदो वाण, किगाप्राधान्यपक्षेऽवमेन वाचाम् । यदा तु तादृशांक्राणामाचार्यादि सम्वन्धित्वेन क्रियाया. निगावतथाभेद स्वीक्रियते तदाऽचायोदय एव वयात्यामा इसि यथाश्रुतं आचार्यादिरूपतया वैयावत्स्यविभजन सम्यगेवेति भाव.॥

" ध्यानम् ] न्यायप्रकाशलमलङ्कृते :२२७: प्रत्ययेन कर्तृसाधनः । करणप्रशंसापरायामभिधानप्रवृत्तौ समीक्षितायां यथा साध्यमिः छिन- नीति प्रयोक्तृनिर्वय॑योस्मतोरप्युद्यमननिपतनतंत्रत्वाच्छेदनस्यासौ कर्तृधर्माध्यारोपः क्रियते था दिध्यासोरप्यात्मनः ज्ञानावरणवीर्यान्तरायक्षयोपशमविशेपनत्रत्वाद् ध्यानादिपरिणामस्य कर्तृत्वं युज्यते, पर्यायपर्यायिणोर्मेदाचास्य करणत्वमपि । एकविषयस्थिरतापादनमिति। " एको- न्यार्थेऽसहाये च प्रथमे केवले तथे" ति कोशादेकाब्दस्य वह्वयत्वेऽपि संख्यावाच्यत्रैकशब्दः।। वीर्यविशेपाद्धि निरावाचे स्थाने प्रचालिता दीपशिखेव चेतस एकस्मिन्विपये स्थिरतापादनं अनियतक्रियार्थस्य नियतक्रियाविशेपकर्त्तत्वेनावस्थापनम् , तच्च पाकाययोरपि निरोध एवेति प्रोक्तं योगनिरोधपूर्वकेति वाकायनिरोधपूर्वकेत्यर्थः, अथवा मनोवाकायनिरोधपूर्वकेति तदर्थः, चेतशब्दस्य चिन्तापरपर्यायस्य ज्ञानमर्थः, तस्यैव वैकस्मिन्नर्थे स्थापनं ध्यानमुच्यते न्यमत्वे च तस्य ज्ञानत्वमेव नतु ध्यानतं, तथा च योगत्रयनिरोधपूर्वकं ज्ञानस्यैकविषयस्थि- 10 रखापादनं ध्यानमिति फलितार्थः । व्यापकमिदं लक्षणं छद्मस्थानां केवलिनाश्च ध्यानेष्विति सूचयितुमुक्तं योगनिरोध इति, योगनिरोधात्मकं केवलिनां ध्यानमप्येतादृशमेवेत्यर्थः । तत्रापि योगत्रयनिरोधपूर्वकं ज्ञानस्यैकविपयस्थिरतापादनस्य सत्त्वात् । नन्वेकस्मिन्नर्थे चित्तस्यैक- क्रियाकर्तृत्वेन यद्यवस्थापनत्वस्यैव ध्यानत्वं वयर्थव्यञ्जनयोगसंक्रान्तिपु अर्थसङ्कमे द्रव्या- पर्याये पर्यायाश्च द्रव्ये सङ्कमरूपे शुक्लध्यानविशेपेऽव्याप्तमेकविपयकत्वाभावादिति चेन्मैवम् , 15 एकशब्दस्य प्राधान्यवाचित्वात् , अस्ति हि सङ्कमे तस्य तस्य प्राधान्यम् । तदिदं ध्यानमा- न्तमौहूर्तिकमेव, न दिवसमासादिपरिमाणं, ततःपरं दुर्ध्यानत्वाद् इन्द्रियोपघातप्रसङ्गात् अत एव न प्राणापानविनिग्रहो ध्यान, तदुद्भूतवेदनाप्रकर्षेण शरीरपातप्रसङ्गात् , नापि मात्रा- कालपरिगणनं ध्यानं, वैयत्र्येण ध्यानस्वरूपहानिप्रसङ्गात् । ध्यानश्चेदं गुप्यादिमिर्भवति । अन्यसंहननिनां तावत्कालमध्यवसायधारणसामर्थ्याभावादुत्तमसंहननवानेवाधिकारी, उत्तम- 20 संहननानि वर्षभनाराचवननाराचनाराचार्घनाराचरूपाणीति ॥ नन्वनेन ध्यानेनाऽऽचोदयस्संगृहीता नवेति शनायां सामान्येनो ध्यानं विमजमा- नस्सर्वानुस्यूनत्वं लक्षणस्याऽऽविष्करोति- तदातरौद्रधर्मशुक्लभेदेन चतुर्विधम् ।। १. तथाच मनएकाग्रवालम्वन ध्यान, ध्यानाभ्यासक्रिया भावना उत्तप्रकारद्वयरहिता या मनश्चेष्टा सा चिन्तेति सूच्यते । २. योगनिरोष एव केवलिनो ध्यानं न तु चित्तावस्यान, चित्तस्यैवाभावात् योगाश्चौदारिकादिशरीर- सयोगसमुत्था आत्मपरिणामविशेपव्यापारा एव । ३. मप्तसप्ततिलषप्रमाण कालविशेषो मुद्दत्तं तदन्तर एवघ्यानं छअस्थाना, तत्परतो भावना चिन्ता वा भवेत् बहुवस्तुसक्रमे सति सुचिरमपि ध्यानप्रवाहो वा भवेष त्वेकमेव ध्यान दिवसादिमानं भवेदिति भाव ॥

:२२८ 5 नत्वन्यायविभाकरे [अपमकिरण तदिति । ध्यानमित्यर्थः शोकाक्रन्दनविलापादिलक्षणमार्त्तम् । उत्सन्नवद्धादिलक्षणं रौद्रम् | जिनप्रणीतभावश्रद्धानादिलिङ्ग धर्मम् । अबाधाऽसंमोहनादिलक्षणं शुक्खमिति, विस्व- रस्तु यथाक्रममिति ॥ अथाऽऽत्तं लक्षयति- इष्टानिष्टवियोगसंयोगरोगनिदानान्यतमविषयकं सोदेगचिन्तनमा- तम् । षष्ठगुणस्थानं यावदिदं भवति । इष्टानिष्टेति । ऋतं दुःखं शारीरं मानसनाऽनेकप्रकार, अथवाऽर्दनमात्तिस्तत्र भवमा- म् । वद्धि चतुर्विध, तत्र प्रथममिष्टानां मनोहराणां विषयाणां वियोगे सति तत्प्राप्त्यर्थ सोद्वेगचिन्तनं अर्थान्तरचिन्तनादाधिक्येन प्रकृतेऽवरोधः, ते कथं नाम मे स्युरित्येवं विधि- 10 न्तनरूपम् । द्वितीय, अनिष्टानां शब्दस्पर्शरसगन्धानां विषयाणां संयोगे-इन्द्रियसम्बद्धे सोद्वेगचिन्तनं तद्वियोगाय, कथमहमेभ्यो विमुच्येयेति चेनसो निश्चलीकरणम् | तृतीयं, रोगस्थ प्रकुपितानां पवनपित्तश्लेष्मणां सन्निपातेन संजातस्य शूलवरादिरूपस्य प्रविचिकीर्षा प्रत्यापूर्णस्यानवस्थितमनसः धैर्योपरमात् सोद्वेगचिन्तनम् । चतुर्थ पुनः निदानं कारणं मोक्ष- सुखं विरहय्य पुनर्भवविषयकसुखाय हेतुभूतं कामोपहतचेतसां तद्विषयकं सोद्वेगचिन्तनमिति । 16 चतुर्विधमपीदमा कृष्णनीलकापोतलेश्यावलाधानमज्ञानप्रमवं पौरुपेयपरिणामसमुत्थं पाप- प्रयोगाधिष्ठित परिमोगप्रसङ्ग नानासङ्कल्पासङ्गं धर्माश्रयपरित्यागि कषायाश्रयोपस्थानमनु- पशमप्रवर्धनं प्रमादमूलमकुशलकर्मादानं कटुकविपाकासद्वेद्यं तिर्यग्भवगमनपर्यवसान क्रन्दन- शोचनपरिदेवनताडनादिलिङ्गगम्यं विज्ञेयम् । ध्यानस्यास्य ध्यातारं दर्शयति पठेति, अविरतासंयतासंयताः प्रमत्तसंयताश्चाऽस्य ध्यावारः केचित्प्रमत्तसंयता निदानं वर्नयित्वा 30 प्रमादोदयोद्रेकादातंत्रयं विद्धति नाप्रमत्तसंयतादयोऽस्य ध्यातार इति भावः ।। अथ रौद्रमाह- हिंसाऽसत्यस्तेयसंरक्षणान्यतमानुबन्धिचिन्तनं रौद्रम् । आपञ्चम- मेतत् ॥ १. भमनोज्ञवस्तुसम्बन्धेन सम्बदस्य तद्वियोगार्थ स्मृति. मनोजवस्तुसंयोगेन सम्वद्धस्यामनोज्ञवियोगार्थ 'स्मृतिः, प्रथमो मैद, शलशिरोरोग्यदिवेदनाया वियोगप्रणिधानं तादृशवेदनाया अभावेऽपि असम्प्रयोगचिन्ता द्वितीयो भेदः, इष्टवस्तूनामिष्ठवेदनायाश्चावियोगाध्यवसानं तृतीयो भेद, निपेवितकामभोगसम्प्रयोगसम्प्रयु- कस्य तदविप्रयोगस्मृनिसमन्वाहारश्चतुर्थों भेद इत्यपि कचित् ॥ .

. - प्यानम् ] न्यायप्रकाशसमलते हिंसेति । रोदयतीति रुद्रः क्रूरस्तस्येदं कर्म रौद्रं वत्र भवं वा । तदपि चतुर्विकल्पं, हिंसानुबन्धिचिन्तन-हिंसानिमित्तं चिन्तनमा, असत्यनिमित्तं द्वितीय, स्तेयनिमित्त तृतीय, चतुर्थन्तु संरक्षणानुवन्धि विपयाणां शब्दादीनां तदानीं मनसः परितोपकराणां पश्चाच भृशं भीकरफलानां तत्साधनभूतानाश्च धनधान्यादीनां संरक्षणानुवन्धिध्यानमित्यर्थः । तदिद अतिकृष्णनीलकापोतलेश्यावलाधानं प्रमादाधिष्ठान, नरकगतिफलावसानं मारणाभिलाप- मरणेहाऽपरव्यसनप्रसन्नतानिर्दयत्वपरक्लेशकारित्वादिलिङ्गगम्यं, तीब्रवधबन्धसंलिष्टाध्यवसाय- प्रसवमवसेयम् । अस्य ध्यावारमाचष्टे आपञ्चममेतदिति । देशविरतं यावदित्यर्थः । - रौद्रे ध्याने प्रकृष्टतमरागद्वेपानुगतत्वात् नरकादिचतुर्गतिकसंसारस्यैव हेतू भवतो न जातुषिन्मुक्तिहेतू इत्यवधेयम् ।। सम्प्रति धर्मध्यानमाह- आज्ञापायविपाकसंस्थानान्यतमविषयकं पर्यालोचनं धर्मध्यानम् । अप्रमत्ततः क्षीणमोहं यावत् ॥ आक्षेति, धर्मः क्षमादिदशलक्षणकः, तत्सम्बन्धिध्यानं धर्मध्यानम् । तचतुर्षिधं, आज्ञाविषयकपर्यालोचनं, अपायविपयकपर्यालोचनं, विपाकविषयकपर्यालोचन, संस्थान- विषयकपर्यालोचनश्चेति । तत्रोपदेष्टुरमावेऽपि मन्दबुद्धित्वेऽपि कर्मोदयात्सूक्ष्मत्वाच 15 वस्तूनां लिङ्गनिदर्शनालाभेऽपि अवितथवादिनः क्षीणरागद्वेषास्सर्वज्ञा अन्यथासन्तमन्यथा न जानन्त्येव न भाषन्त एव तत्कारणाभावात् अतस्सर्वथा सत्यमिदं तच्छासनं संसार- सागरोत्तारकश्चेत्याज्ञां प्रमाणीकृत्यार्थावधारणमाशाविषयकं पर्यालोचनरूपं प्रथमं धर्मध्या- नम्। रागद्वेषकषायेन्द्रियवशीभूतानां प्राणिनां शारीरमानसदुःखचिन्तनं द्वितीयम् , रागद्वेषा- 10 १. एकेन्द्रियादीना वधवेषबन्धनदहनाङ्कनमारणादिप्रणिवान, पिशुनासभ्यासद्भुतघातादिवचनप्रणिधान, परलोकापायनिरपेलपरनव्यहरणप्रणिधानं, शब्दादिविषयसाधनपरिपालनव्यग्रत्वमिति चतुर्विधं रौद्रध्यानमिति भावः ॥२. अपायोपायजीवाजीवविपाकविरागभवसंस्थानाऽऽज्ञाहेतुविचयानि चेति चतुर्विधन संक्षिप्तमपि दशविध तत् । दुष्टमनोवाकापव्यापाराणामपाय. कथ हेय. स्मादित्येवंभूतस्मकल्पप्रवन्धो दोपपरिवर्जनस्य कुशलप्रवृत्ति- वादपायविचयम् । तेषामेव कुशलाना स्वीकरणमुपाय स कथमनुमेयः स्यादिति संकल्पप्रवन्ध उपायनिचर्य । असंख्येयप्रदेशात्मकसाकारानाकारोपयोगलक्षणादिस्वकृतकर्मफलोपभोगित्वादिचिन्तनं जीवविचयम् । धर्मा- धर्माकाशकालपुदलानामनन्तपर्यायात्मकत्वादिविचारोऽजीवविचयम् । विपाकविचयं टीकायामुक्कमेव । प्रेस स्वकृत- कर्मफलभोगाथै पुनः प्रादुर्भावो भव., स चारघट्टघटीयंत्रवन्मूत्रपुरीपात्रतत्रनिवदुर्गन्धजठरपुरकोटरादिप्वननमा- वर्तनं, न चात्र किचिजन्तो स्वकृतकर्मफलमनुभवतश्चेतनमचेतन वा सहायभूतं शरणता प्रतिपद्यत इत्यादि भव- सक्रातदोषपालोचनं भवक्चियम् । संस्थानविचयन्तु टीकायामुक्तम् । मानाविचयमपि तत्रैच आयमविषयप्रतिपत्ती तर्कानुसारिखुद्धः पुंस. स्वावादप्ररूपकागमस्य कपच्छेदतापशुद्धिसमाधयणीयत्वगुणानुचिन्तनं हेनुविचयमिनि ॥

:२३० मत्वन्यायविभाकरे , [ अष्टमकिरणे दिभिः प्रदुष्टान्तःकरणा जन्तधो मूलोत्तरप्रकृतिविभागसम्भूतजन्मजरामरणगहनविपिनपरि- भ्रमणपरिश्रमप्रभवप्रभूतदुःखाकुलासांसारिकसुखस्पृहयालवारीरेन्द्रियाद्याश्रवद्वारप्रवाहप- तिता मिथ्यात्वाबानाविरतिपरिणता यथायोगमारौद्रध्यानविशेपाभ्यां पर्याप्तं कर्मजाल- मादाय दीर्घकालं नरकादिगतिष्वपार्ययुज्यन्ते । केचिदिहापि कृतवैरानुबन्धाः परस्परमा- 5 क्रोशवधबन्धाद्याक्रोशमाजः क्लिश्यन्त इत्येवं प्रत्यवायप्रायेऽस्मिन् संसारे उद्वेगार्थमपा- यानां विचिन्वनं द्वितीयं धर्मध्यानम् । विपाकः कर्मफलानुभवस्तद्विवेक प्रति प्रणिधानं विपाकविषयकपर्यालोचनं, तत्र जानावरणाद्यष्टविध कर्म प्रकृतिस्थित्यनुभावप्रदेशभेदभिन्न- मिष्टानिष्टविपाकपरिणाम जघन्यमध्यमोत्कृष्टस्थितिकं नरकादिविविधविपाक, तद्यथा ज्ञाना- वरणार्मेधस्त्वं, दर्शनावरणाचक्षुरादिवैकल्यं निद्रायुद्भवच, असāद्याद् दुखं सद्वद्यासुखानु- 10 भवः, मोहनीयाद्विपरीतग्राहिता चारित्रविनिवृत्तिश्च, आयुषोऽनेकभवप्रादुर्भावः, नान्नोऽशुभ- प्रशस्तदेहादिनिर्वृत्तिोत्रादुच्चनीचकुलोत्पत्तिः, अन्तरायादलाभ इति, एवं निरुद्धचेतसः कर्म- विपाकानुस्मरणं तृतीयं धर्मध्यानं । लोकद्रव्यसंस्थानस्वभावावधान संस्थानविषयकपर्यालो. चनम् , लोकस्य द्रव्यस्य च संस्थानमाकारविशेपः, लोकस्याधोमुखमल्लसंस्थानमधोलोकः, तदु- व झल्लाकृतिस्तिर्यग्लोकः, स च ज्योतिय॑न्तराकुलोऽसंख्येयद्वीपसमुद्रपरिवेष्टितः ऊर्ध्वलोक 15 अर्वीकृतमृदङ्गाकृतिरुत्कृष्टशुभपरिणामोपेतः कल्पोपपन्नकल्पातीतदेवव्याप्त इत्येवं विचा- रणा, द्रव्याणां तावद् धर्माधौं लोकाकारौ गतिस्थितिहेतू, आकाशमवगाहलक्षणं, आत्मान उपयोगलक्षणाशरीरादर्थान्तरभूता अरूपाः कर्तार उपभोक्तारो निजकर्मणां शरीराकारा मुक्तौ त्रिभागहीनाकाराः, कालो वर्तनादिपरिणामी समयात्मकः, पुद्गलद्रव्यं शरीरादि- कार्य, द्रव्यल्चोत्पादव्ययधौल्ययुक्तमनन्तधर्मात्मकं नित्यानित्येकानेकमेदाभेदसदसदादिस्वरूप- 20 मित्येवं प्रणिधानं चतुर्थ धर्मध्यानमित्यर्थः, ननु भावनानां धर्मध्यानेऽन्तर्भावस्तब्नातीयत्वा- दिति चेन्न, अनित्यादिविषयविचिन्तनस्य ज्ञानरूपत्वे भावनाव्यपदेशात्, एकाग्रचिन्तानिरोध- रूपत्वे धर्मध्यानत्वादित्येवं प्रवृत्तिनिमित्तभेदात्। ध्यानोपरमकालभावित्वाच भावनानां ततो- थान्तरत्वात् । अस्य ध्यातारमाहाप्रमत्तत इति, सर्वप्रमादै रहिता अप्रमचास्तेभ्य आरभ्य क्षीणमोहपर्यन्तवर्तिनोऽस्य ध्यावारः, अत्र लक्षणघटकतया ध्यानकारणभूतो ध्यानव्यवस्तु- 25 निर्देशो,धर्मध्यानावान्तरभेदा, अप्रमत्तत इत्यादिना ध्यातारश्च प्रदर्शिता उपलक्षकतया । तेन ज्ञानदर्शनचारित्रवैराग्यविषया भावनाः, योग्यदेशकालाऽऽसनविशेपा वाचनाद्यालम्बनं मनोनिरोधादिक्रमः, अनित्यत्वादिभावनाः लेश्याविशेषः श्रद्धानादिलिङ्गं सुरलोकादिफलं च गृह्यते । सदा हि बानविषयकोऽभ्यासोऽशुभव्यापारनिरोधेन चेतस एकस्मिन् विपयेऽ- वस्थापको विशुद्धिकृद् भवनिर्वेदकच भवति, एवं च बानेन ज्ञातपरमार्थो निष्पकम्म " ध्यानम् ] . न्यायप्रकाशसमलते । :२३१ : ध्यायायति । शवादिदोपरहितत्वात्प्रशमस्थैर्यादिगुणगणोपेतः तत्त्वान्तरेऽभ्रान्तचित्तो दर्शन- शुद्ध्या ध्यानाय प्रवर्चते, चारित्रभावनयोपात्तकर्मक्षपणमनुपात्ताशुभानादानं सम्यक्त्वादि- शुभकर्मादानमयत्वेन ध्यानश्च प्राप्नोति, जगत्तत्त्वम्य सम्यग्ज्ञानाद्विपयस्लेहसनामावादिह लोकादिसप्तभयराहित्यादिहपरलोकाकांक्षावैधुर्यात् तथाविधक्रोधादिराहित्याच वैराग्यमावि- वमना ध्याने निश्चलो भवति, अपरिणतयोगादीनां युवत्यादिव्यतिरिक्तापेक्षया विजनो देशो 5 ध्यानयोग्यदेशः, युवत्यादियुतदेशस्तु सर्वदा वयं एव । परिणतयोगानां सुनिश्चलमनसां तु जनाकीर्णो जनशून्यो वा देशो ध्यानाय कल्पते । यत्र काले मनोयोगादिस्वास्थ्यमुत्तम लभते स एव ध्यानकालो न तु दिवसनिशावेलाविशेषाः । या काचिन्निपण्णतादिरूपा देहा- वस्था प्रकृतध्यानानवरोधिनी स एवाऽऽसनविशेपो ग्राह्यो न विदमेवासन कार्यमिति नियमः । श्रुतधर्मानुगतानां वाचनप्रच्छनपरिवर्तनानुचिन्तनादीनां चारित्रधर्मानुगतानां सामा- 10 यिकादिसामाचारीणां सम्यगासेवनया वर धर्मध्यानं समारोहति, योगनिरोधक्रमस्तु धर्म- ध्याने न नियमितः परन्तु यथा स्वास्थ्यं भवेत्तथा कार्यः । धर्मध्यानोपरमेऽपि सदा साधु- नाऽनित्याशरणैकत्वससारभावनाः सचित्तादिष्वनभिष्वङ्गभवनिर्वेदादिन्थिरतायै भावनीयाः। अत्र स्थितस्य क्रमविशुद्धाः पीतप शुक्ललेश्यास्तीव्रमन्दादिभेदा अनुकूला भवन्ति । आग- मोपदेशाऽऽज्ञानिसर्गतस्तीर्थकरप्ररूपितानां द्रव्यादिपदार्थानां श्रद्धानमस्य लिङ्गं, सूत्रमागमः, 13 तदनुसारेण कथनमुपदेशः, अर्थ आजा, निसर्गः स्वभावः । तथा जिनसाधुगुणोत्कीर्तन- प्रशंसादानविनयसम्पन्नः श्रुतशीलसंयमरतो धर्मध्यायीति विज्ञायते, तथैवं ध्यायतस्सुरलो- कादिकं भवतीति धर्मध्याने निमित्तानि विज्ञेयानि । क्षीणमोहं यावदिति, उपशान्तमोह- क्षीणमोहयोस्तु शुक्ले ध्याने वक्ष्यमाणे प्राथमिकद्विभेदे अपि भवत इत्यपि बोध्यम् ॥ 20 अथान्तिमं शुक्ध्यानमाह- आज्ञाधविषयकं निर्मलं प्रणिधानं शुक्लम् । तच्च पृथक्त्ववितककत्व- वितर्कसूक्ष्मक्रियव्युपरतक्रियभेदेन चतुर्विधम् ।। आज्ञादीति | आज्ञापायाद्यविषयकनिर्मळप्रणिधानत्वं लक्षण आदिवारणाय निर्म- लेति, धर्मध्यानन्यावृत्तये आजाद्यविषयकेति, ताहशज्ञानवारणाय प्रणिधानमिति । लक्षणे- नास्य भेदाप्राप्तेः कण्ठतस्तमाह नवनि । पृथक्त्ववितर्कमाय, पृथक्वेन भेदेन-विस्तीर्ण-25 भावेन वितर्कः श्रुतं यस्मितत्पृथक्त्ववितर्क, एकत्वविनर्क द्विनीयं, एकत्वेनाभेदेन बितों व्यानरूपोऽर्यरूपो वा यस्य तदेकत्वविनर्क, सूक्ष्मनिय तृतीयं, सूक्ष्मा क्रिया यम्मिन्तत्सूक्ष्म- क्रियं, अत्रोच्छ्वासनिश्वासादिकायक्रिया सूक्ष्मा भवनि, युपरतक्रियं तुर्य, न्युपरता योगा- भावात् क्रिया यस्य तव्युपरतक्रियमिति विप्रहः ।।

तत्वन्यायविभाकरे ममकिरणे अथ प्रत्येकं तेषां भावमाह- 5 पूर्वविदां पूर्वश्रुतानुसारतोऽन्येषां तमन्तरेणार्थव्यञ्जनयोगान्तरस- शान्तिसहितमेकद्रव्य उत्पादादिपर्यायाणामनेकनरनुचिन्तनं पृथक्त्व- वितकम् । इदं सविचारम् ॥ पूर्वविदामिति । एकस्मिन् द्रव्ये पुद्रलास्मादिरूप उत्पादव्ययप्रौव्यमूर्त्तामूर्तनित्यानित्या- दियथायोग्यपर्यायाणां नानानयैर्द्रव्यास्तिकादिभिरनुचिन्तनं स्मरणं, कथमित्यत्राह पूर्वविदां पूर्वश्रुतानुसारेण, अन्येषां मरुदेव्यादीनां तमन्तरेणापि श्रियः पूर्वश्रुतानधिकारात् । एतेन पूर्वज्ञानस्यैकान्तनियमो नास्तीति सूचितम् , पूर्व प्रणयनात् पूर्वाणि चतुर्दश, तद्विदः पूर्वविद- स्तेषां पूर्वविदां, पुनः कथंभूतं चिन्तनमित्यत्राहार्थव्यञ्जनयोगान्तरसट्टान्तिसहितमिति । 10 अर्थो ध्येयः-द्रव्यं पर्यायो वा, व्यञ्जनं तस्य वाचकं वचनं, योगः कायवाड्मनाकर्म- लक्षणः, अन्यो योगो योगान्तरं तेषां संक्रान्तिः परिवर्तनं द्रव्यं विहाय पर्याय पर्याय विहाय द्रव्यं यदुपैति साऽर्थसङ्क्रान्तिः, एकं श्रुतवचनमुपादाय वचनान्तरमालम्बते तदपि विहायान्यदिति व्यञ्जनसङ्गान्तिः, काययोगं त्यक्त्वा योगान्तरं गृह्णाति तच्च यंका- न्ययोगमिति योगसङ्क्रान्तिः, अर्थव्यञ्जनयोगान्तरसहितत्वादिदं ध्यानं सविचारमुच्यत 15 इत्याशयेनाहेदमिति । सविचारमिति, सह विचारेणार्थव्यञ्जनयोगान्तरसान्त्या वर्तत इवि सविचारम् । योगान्तरसङ्क्रान्तिरूपत्वादस्य ध्यानस्य योगत्रयव्यापारवतस्सम्भव इत्यपि पदेनानेन सूच्यते ॥ अथ द्वितीयप्रकारभावमाह- पूर्वविदां पूर्वश्रुतानुसारेणाऽन्येषां तद्भिन्नश्रुतानुसारेणाऽर्थव्यञ्जनयो- 20 गान्तरसङ्क्रान्तिरहितमेकद्रव्ये एकपर्यायविषयानुचिन्तनमेकत्ववितर्कम् । इदन्त्वविचारम् ॥ पूर्वविदामिति । व्याख्यातोऽर्थः, तदिन्नश्रुतानुसारेणेति, अत्र मरुदेव्यादीनां द्रव्यश्रुता. भावेऽपि यत्किञ्चित् श्रुतमस्त्येवेति-सूचयितुं तमन्तरेणेयनुक्त्वा तद्भिन्नश्रुतानुसारेणेत्युक्तम् । अर्थव्यञ्जनयोगान्तरसंक्रान्तिरत्र नास्तीत्याहार्थव्यञ्जनयोगान्तरसङ्क्रान्तिरहितमिति, एकद्रव्य 25 इति, अभेदेनेति शेषः, अभेदेनेकद्रव्ये पर्यायविषयकालोचनमित्यर्थः, द्रव्यामिन्नपर्याय विषयकं पर्यायाभिन्नद्रव्यविषयकं वेति यावत् । अर्थव्यञ्जनयोगान्तरसंक्रान्तिरहितत्वादेवेदं ध्यानमविचारमुच्यत इत्याहेदन्विति ।। " ध्यामम्] म्याथमकायसमलते अथ सूक्ष्मनियमाह- सूक्ष्मकायक्रियाप्रतिरुद्धसूक्ष्मवाङ्मनाक्रियस्य सूक्ष्मपरिस्पन्दात्मक- क्रियावद्धयानं सूक्ष्म क्रियम् । इदमप्रतिपाति, प्रतिपाताभावात् ।। सूक्ष्मकायक्रियेति । मोक्षगमनप्रत्यासन्नसमये केवलिनो मनोवाग्योगवये निरुद्ध सत्यनिरुद्धकाययोगस्योच्छासनिःश्वासलक्षणा तन्वी क्रियैव यत्र तथाविधं सूक्ष्मक्रियात्मकं । ध्यानमित्यर्थः । प्रथमं मनोयोगनिग्रहे ततो वाग्योगनिग्रहे ध्यानमिदं भवति । ध्यातुरस्य परिणामविशेषस्य प्रवर्धमानत्वेनेदं ध्यानमप्रतिपातीत्युच्यते, इत्याहेदमिति, हेतुमाह प्रति- पाताभावादिति, परिणामविशेषस्येत्यादिः ॥ अथ व्युपरतक्रियमाचष्टे- निरुद्धसूक्ष्मकायपरिस्पन्दात्मकक्रियस्य ध्यानं व्युपरतक्रियम् इद- 10 मप्यपतिपाति । आधे द्वे एकादशद्वादशगुणस्थानयोरन्त्ये द्वे केवलिन एच त्रयोदशचतुर्दशगुणस्थानक्रमेण || निरुद्धेति । शैलेश्यवस्थावस्थितानां मनोवाकाययोगत्रयरहितानां यख्यानं तद्वापरतक्रिय- मुच्यते । ननु शुक्खध्यानस्यान्तिमभेदद्वये मनसोऽभावेन मनोविशेषरूपध्यानत्वं कथमस्तीति चेन्न मनोमात्रस्य ध्यानरूपत्वाभावात् किन्तु सुनिश्चलस्यैव योगस्य तथात्वात् तस्य केवलि- 15 नस्सयोगिनस्सूक्ष्मक्रियात्मके ध्यानेऽक्षते:, कायात्मकयोगस्य सुनिश्चलत्वात् न च तथाऽप्य- योगिनो ध्याने चतुर्थे योगस्यापि कायस्याभावेन तत्राऽनुपपत्तितादवस्थ्यमिति वाच्यम्, कुलालचक्रभ्रमणवन्मनःप्रभृतियोगोपरमेऽपि पूर्वप्रयोगाझ्यानोपपत्तेः, द्रव्यमनसोऽभावेऽपि भावमनसस्सत्त्वेन भ्यानसम्भवात्, चेतसो ज्ञानरूपत्वेनेकविषयस्थिरीभूतबानपरिणामरूप- ध्यानस्यात्राप्यक्षतत्वाच ॥ प्रवर्धमानपरिणामविशेषवत्वादिदमप्यप्रतिपातीत्याहेदमपीति । 20 शुक्लध्यानस्याधिकारिणमाहाये इति । पृथक्त्वस्तिककलवित इत्यर्थः, एकादशद्वादश- गुणस्थानयोरिति । यथाक्रममिति शेपः, तथाच पृथक्त्ववितर्कमेकादशे, एकत्लवितक द्वादश इत्यर्थः । अन्तिमावधिप्रदर्शनपरमिदं, नाग्रिमगुणस्थानतिनी इमे भवत इति भावः। सेन पृथक्त्ववितर्कस्याऽपूर्वगुणस्थानादिवर्तिनसम्भवेऽपि न क्षतिः । एकत्ववितर्कन्तु द्वादश- गुणस्थान एव । अपूर्वगुणस्थानादाद्वादशमिदमपीति केचित् । अन्त्ये द्वे इति सूक्ष्मक्रिय- 25 तस्वम्यायविमाकरे [अमकिरणे न्युपरतक्रिये इत्यर्थः, सूक्ष्मक्रिय संयोगिनो व्युपरतक्रियमयोगिन इति तात्पर्यम् । अत्र भावनादेशकालासनविशेषा धर्मध्यानवत् | ध्यावन्या अवान्तरभेदा ध्यातारश्च मूल एव प्रदर्शिवाः, क्षान्तिमार्दवार्जवादीन्यालम्बनानि, मनोयोगनिप्रहस्ततो वाग्योगनिप्रहस्ततः काय- योगनिग्रह इति भवान्तकाले केवलिन आश्रित्य योगनिग्रहक्रमः, छद्मस्थत्रिभुवनविषयमन्ता- करणं प्रतिवस्तु त्यागलक्षणक्रमेण संकोच्याणौ विधायाऽतीव्र निश्चल शुक्लं ध्यायति, जिनस्तु चरमद्वयध्याता ततोऽपि प्रयत्नविशेषान्मनोऽपनीयाविद्यमानान्त:करणो भवति । तत्राऽपि शैलेशीमप्राप्तोऽन्तर्मुहूर्चेनाऽऽद्य शैलेश्याच द्वितीयं ध्यायति । आश्रवद्वारापायान् संसाराशुभानु- भावं अनन्तभवसन्तानं वस्तुविपरिणामञ्च चिन्तयतीति भावना, आद्यद्वयभेदापेक्षयाऽस्य भावना, शुक्ललेश्या प्रथमन्त्रयभेदेऽन्तिमे च लेश्याविरहो वोभ्यः । अवधासंमोहविवेक- 10 व्युत्सर्गा लिङ्गानि । शुभाऽऽस्रवनिर्जरानुचरामरसुखानि द्वयोश्शुक्लयोः, अन्त्ययोस्तु परम- निर्वाणं फलमिति बोध्यम् ॥ । - अत्र ध्याने षोडशपादात्मक एकेन्द्रियविकलेन्द्रियस्थावरसंश्यसंज्ञिमनुजगतित्रसकाय- पञ्चेन्द्रिययोगत्रयकषायचतुष्टयाहारकानाहारकोपशमक्षयोपशमक्षायिकसम्यक्त्ववेदनिकज्ञान- त्रिकदर्शनत्रिकमव्याभव्यमिथ्यात्वसास्वादन मिश्राविरतिदेशविरतिगतित्रिकाज्ञानत्रिकलेश्या- 15 षट्ककेवलज्ञानदर्शनसामायिकछेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातमनःपर्य- वान् षट्त्रिंशद्विधानाश्रित्य विचार्यमाणे, एकेन्द्रियविकलेन्द्रियस्थावरासंज्ञिनां मनसोऽमावेन नेकविधमपि ध्यान सम्भवति, मनुजगतित्रसकायपञ्चेन्द्रियक्षायिकसम्यक्त्वभव्येषु प्रत्येक षोडशविधध्यानस्य सम्भवः, योगत्रयाहारकत्वयोः पञ्चदशविधध्यानसामानाधिकरण्यस्य सम्भवः, व्युपरतक्रियात्मकध्यानविशेषसामानाधिकरण्यासम्भवात् । उपशमसम्यक्त्वकपाय- 20 चतुष्टयवेवत्रिकेषु त्रयोदशविधध्यानसहचारित्वस्य सम्भवः, क्षीणमोहादिगुणस्थानेष्वेषामस- म्भवेन तत्स्थानभाव्येकत्ववितर्कसूक्ष्मक्रियव्युपरतक्रियैस्सहचारित्वासम्भवात् । ज्ञानत्रिक- दर्शनत्रिकसंज्ञित्वेषु चतुर्दशविधध्यानसहवृत्तित्वसम्भवः, मनोविरहकालमाविसूक्ष्मक्रिय- व्युपरतक्रियध्यानविशेषसहवृत्तित्वासम्भवात् । अनाहारकत्वकेवलज्ञानदर्शनेषु सूक्ष्मक्रिय- व्युपरतक्रियध्यानविशेषसामानाधिकरण्यमेव । त्रयोदशचतुर्दशगुणस्थानमावित्वात्तेषाम् । 25 इतरध्यानानां मनोविषयकत्वाच्च । पञ्चसु लेश्यासु क्षायोपशमिकसम्यक्त्वे च द्वादशध्यानसह- । १. काययोग एव सूक्ष्मक्रियस्य भावात् , एकत्ववितर्कस्य कायवाल्मनोऽन्यतमयोग एव भावात् पृथक्त्व- वितर्कस्य तु मनोवाकाययोगव्यापारवत एव भावादिति भेदो विजेय. ॥ २. अणोरपीत्यर्थ ॥ ३. भावि- नारकाधपेक्षयेति भाव..

निर्जरा] न्यायप्रकाशसमलङ्कृते :२३५: चारित्वं, शुलध्यानसामानाधिकरण्याभावात् । शुखलेश्यायाश्च व्युपरतक्रियातिरिक्तध्यानवि- शिष्टत्वं, अयोगिनि लेश्यावैधुर्यात् । सामायिकछेदोपस्थापनीययोर्निदानातिरिक्तातभेदत्रयं धर्म- ध्यानचतुष्टयं पृथक्त्ववितर्कञ्च भवति । परिहारविशुद्धिकस्याऽनन्तरोक्तानि पृथक्त्ववितर्कविर- हितानि भवन्ति श्रेणिप्रात्यभावात् । सूक्ष्मसम्परायस्य पृथक्त्ववितर्क धर्मचतुष्टयं वा । दशम- गुणस्थानमात्रवृत्तित्वाचस्य यथाख्यातस्य चतुर्विधं शुक्लध्यानं धर्मध्यानं वा । मनःपर्यवजानिनो 5 निदानातिरिक्तमात्रयं धर्मचतुष्टयं शुक्लस्याद्यद्वयश्च भवति । गतित्रिकाज्ञानत्रिकाविरतिदेश- विरत्यभव्यतामिध्यात्वसास्वादन मिश्रभावानां ध्यानाष्टकसाहचर्य, धर्मशुक्लाभावादिति दिक् ॥ अथाऽभ्यन्तरतपोभेदस्यावान्तरमन्तिमं व्युत्सर्गमाह- अनेषणीयस्य संसक्तस्य वाऽनादेकायकषायाणाञ्च परित्यजनमुत्सर्गः॥ 10 इति निर्जरातत्वम् ॥ अनेषणीयस्येति । विविधस्योत्सर्गो व्युत्सर्गः, व्युत्सर्जनं व्युत्सर्गः । स द्विविधा, बाह्य आभ्यन्तरश्चेति । अनेषणीयस्य संसक्तस्यानपानोपध्यादेवाधद्रव्यस्य शास्त्रोदितविधिना परित्यागो वाह्यव्युत्सर्गः । आभ्यन्तरस्तु पर्यन्तकाले कायस्य संसारपरिश्रामककषायाणां करणत्रिकैः कृतकारितानुमतिभिश्च परित्यागः, वदेतदभिप्रायेण समुचित्य तत्स्वरूपमाहानेष- णीयस्येति । न चाऽपरिग्रहादस्य गवार्थत्वमिति वाच्यम् , वस्य धनहिरण्यायमूर्छाविषयक- 15 त्वात् । नच प्रायश्चित्तान्तर्गतोऽयमिति वाच्यम् , तस्य प्रतिद्वन्त्यतिचारसापेक्षत्वात् , अस्य तु निरपेक्षेत्वात् । नचाऽनेकनास्य वचनमनर्थकमिति वाच्यम् कचित्सावधप्रत्याख्यानात्, कचिन्निरवद्यस्यापि नियतकालं प्रत्याख्यानात् कचिच्चाऽनियतकालमिति निवृत्तिधर्मस्य पुरुप- शक्त्यपेक्षत्वादुत्तरोत्तरगुणप्रकर्षानुत्साहोत्पादनार्थत्वाच न पौनरुक्त्यमितिभावः । अथ निर्जरां निगमयतीतीति ।। 20 इति तपोगन्छनभोमणि-श्रीमद्विजयानंदसूरीश्वरपट्टधर-श्रीमद्विजयकमलसूरीश्वरचरण- मलिनसन्न्यस्तात्मभक्किमरेण तत्पधरेण विजयलब्धिसूरिणा विनिर्मितस्य तस्वन्यायविभाकरस्य स्वोपक्षायां न्यायमकाशव्याख्यायां निर्जयनिरूपणं नामाएमकिरणः॥ १. अतिचारविशेषापेक्षणरहितत्वात, सामान्येन निर्जरार्थत्वादिति भावः ॥

5 :२३६ : तत्त्वन्यायविभाकरे [ नवमकिर अथोक्त आगन्तुककर्मनिरोधकस्संवरो बर्द्धकर्मविध्वंसिका निर्जरा च, तत्र किमात्मकः कर्मणां बन्धः केन वा स इत्याकांक्षायामुपोद्घातसङ्गत्या बद्धकर्मणामित्यादिनिर्नरालक्षणेन बन्धस्य स्मृतत्वात्प्रसङ्गसङ्गत्याऽवसरसङ्गत्या वा बन्धं निरूपयितुकामः प्रथमं बन्धं लक्षयति- आत्मप्रदेशैरशुभाशुभकर्मसम्बन्धो बन्धः ।। आत्मप्रदेशैरिति । सहार्थे तृतीया, आत्मप्रदेशैस्सह शुभानां पुण्यरूपाणामशुमानां पापात्मकानाच कर्मणां पुदलविशेषाणां सम्बन्धो नीरक्षीरवत्परस्पराश्लेषः कथञ्चिद्भदा- भेदरूपस्तदतिरिक्तसम्बन्धाभावात् सम्बन्धनरूपत्वाबन्ध इत्यर्थः । आत्मना सहेव सम्ब- द्धानां कर्मपुद्गलानां सम्बन्धो बन्ध उच्यते न घटादिना पुदलसम्बन्धस्येति सूचयितु- मात्मेत्युक्तं, प्रदेशेन सहाऽपि बन्ध इति सूचयितुं प्रदेशैरिति । अत्र शुभाशुभकर्मस- 10 म्बन्धस्यैवबन्धरूपत्वं विवक्षितं, न तु शुभाशुभात्मककर्मवर्गणानामित्यभिप्राय सूचयितुं शुभाशुभकर्मसम्बन्ध इति, अत एव पुण्यपापाभ्यां बन्धस्य पृथगुपादानं कृतम् । वस्तुतः कर्मणःशुभरूपत्वमशुभरूपत्वञ्चेति वैविध्यमेव, उभयविधेनाऽपि कर्मणा सम्बन्धो बन्धो भवतीति सूचयितुं शुभाशुभेति, कर्मपदेन कर्मयोग्यपुद्गला ग्राह्याः, जीवग्रहण- पूर्व तेषां कर्मपरिणामाभावात् । शुभाशुभकर्मपदेनोत्तरप्रकृतिबोधात्तस्यैव बन्धो लक्षितो न मूलप्रकृतिबन्धस्तथाचाऽव्याप्तिस्तत्र स्यात्तद्वारणायात्मप्रदेशैः कर्मसम्बन्धो बन्ध इत्येव लक्षणशरीरं विज्ञेयम् । अयश्च भावबन्ध उच्यते । यस्तु प्रयोगबन्धो विनसाबन्धश्च द्रव्यव- न्धरूपस्स नेहविवक्षितोऽप्रकृतत्वात् । आत्मप्रदेशैः पुद्गलसम्बन्धस्य न बन्धत्वं, मुक्तात्मना जीवेन सह पुद्गलसम्बन्धसत्त्वात् , पुद्गलानां व्यापकत्वात् लोकस्याञ्जनचूर्णपूर्णसमुद्रकव- सुद्गलैः परिपूर्णत्वात कर्मपदोपादाने च कर्मयोग्यपुद्गलानामेव ग्रहेण तत्सम्बन्धस्य तन्त्र 20 विरहान्न क्षतिः, रागादिगुणयोगाद्धि जीवः कायादियोगेन कर्मवर्गणायोग्यपुद्गलस्कन्धाना- दाय कर्मरूपतया परिणमय्याऽऽत्मसात्करोति नान्य इति, आत्मप्रदेशेरियनेन जीवरस्व- प्रदेशावगाढमेव दलिकं गृहाति न त्वनन्तरपरम्परप्रदेशावगाढं, तत्राऽपि एकस्मिन् जीव- प्रदेशे यदवगाढं ग्रहणप्रायोग्यं दलिकं तदेकमपि सर्वैरेवात्मप्रदेशैहाति तस्य सर्वप्रदेशानां शृंखलावयवानामिव परस्पर संबद्धत्वात् , व्याप्रियमाणे चैकप्रदेशेऽनन्तरपरम्परतया वा- 28 व्यग्रहणाय सर्वप्रदेशानामपि व्याप्रियमाणत्वात्तथा सर्वत्रापि सर्वप्रदेशेष्वपि सर्वान् ग्रहण- प्रायोग्यानवगाढान् स्कन्धान्सवरेवाऽऽत्मप्रदेशैहातीत्यप्यर्थस्सूचितः। ननु कमैव नास्ति कुत- स्तस्य जीवप्रदेशस्सम्बन्ध इति चेन्न, आत्मा स्वरूपेण शश्वज्ञानवान् तत्स्वभावत्वात्, 16 यो १. प्रयोगेण भावबन्धो व्यबन्धश्च भवति तत्र प्रयोगजन्यो व्यबन्धो नेह विवक्षितस्तेन भावन- न्धस्य प्रयोगजन्यत्वेऽपि न क्षतिरितिभाव. ॥

बन्ध: j न्यायप्रकाशसमलते । यत्स्वमावस्स गश्वचद्वान् यथोष्णस्वभावो वहिश्शश्वदौष्ण्यवान् ज्ञानस्वभावश्चाऽऽस्मा- ततस्सोऽपि शश्वसद्वानित्यनुमानेन शश्वज्बानवतः स्वगोचरज्ञा प्रतिबन्धदर्शनेन तत्प्रति- वन्धकज्ञानावरणादिकर्मसिद्धेः, भूताविष्टपुरुषस्य स्वज्ञानप्रतिवन्धकभूतवत् । तच कर्म- पौगलिकमेव, नात्मगुणरूपं, अमूर्तेरनुग्रहोपघाताभावात् आकाशं यमूर्च दिगादीनाम- मूर्तानां नानुपाहकं न वोपघातकच दृष्टं तथैवामूर्त कर्म कथममूर्तस्थात्मनोऽनुग्रहोपघातयो- 5 हेतुर्भवेत् | न च तथापि कथं मूर्तेन कर्मणाऽमूर्तस्यात्मनो बन्धो नहि पुद्लेनामूर्तेन अमू- चीनामाकाशादीनामनुग्रहोपघातौ दृष्टावितिवाच्यम् , आत्मनः कर्मसम्बन्धस्यानादित्वेनैका- न्तिकामूर्तत्वासिद्धेः । अत एवामूर्तस्य ज्ञानस्य कथं मून ज्ञानावरणीयेन प्रतिवन्ध इति शंकापि परास्ता कथञ्चिन्मुर्तादात्मनो ज्ञानस्य सर्वथा भेदाभावेन तस्याऽपि कथचिन्मूर्त- त्वात् । एवञ्च निखिलकात्मकस्य कर्माधारभूतस्य सर्वेषामौदारिकादिशरीराणां कारणभू- 10 तस्य प्रवाहतोऽनादिरूपस्य आमोक्षं जीवाविनाभूतस्य कार्मणशरीरस्य मिथ्यात्वादिप्रसूतस्य सिद्धौ तच्छरीरयुक्तो जीवः कर्मप्रायोग्यवर्गणा औदारिकादिवर्गणाश्च गृहन् योगवान् कपायस्नेहानुलिप्तः कर्मरजोभिरौदारिकादिशरीरैश्च कथञ्चिदभेदेन सम्बध्यते, अत एव च तवच्छिन्नस्यात्मनस्सुखदुःखानुभवः, स्ववीर्येणौदारिकादिपुरलानां चेतनत्या परिणमित- त्वात् । अन्यथा शरीरस्य जीवादत्यन्तभेदात्तदवच्छेदेन तस्य सुखदुःखसंवेदनं न स्यादिति। 15 न च कार्मणशरीरस्य मूर्तत्वे औदारिकादिभरीरवत्तस्यैन्द्रियकत्वप्रसङ्ग इति वाच्यम्, मूर्च- मात्रस्यैन्द्रियकत्वमिति नियमाभावात्, अत्यन्तसूक्ष्मतया परिणतत्वेन तस्य वैक्रियादिगरी- रस्येव चर्मचक्षुषामतीन्द्रियत्वोपपत्तेः । कार्मणशरीरवत्व एव जीवो भवान्तरं प्राप्नोति, नान्यथा, औदारिकादिशरीरस्य तद्भव एव त्यागात् शरीरान्तरस्य चाभावात् । न चाऽशरी- रस्यैव भवान्तरप्राप्तिरिति वाच्यम्, सदेहस्यैव तस्याऽत्र गमनदर्शनेनाऽन्यत्राऽपि तथाऽनुमा- 20 नात्, अत एष पूर्वप्रयोगादेवाशरीरस्य मुक्तस्य गमनमुक्तं, न चाऽचेतनस्य कथं देशान्तरप्राप- णसामर्थ्यमिति वाच्यम् चेतनाधिष्ठितस्याचेतनस्याऽपि पोतादेरिव देशान्तरमापणसामथ्र्यो- न १. अखिलजेयजातृस्वभावस्यात्मनो ज्ञानं सप्रतिबन्धक, स्वगोचरज्ञानप्रतिवन्धदर्शनात् भूताविष्टपुरुष- ज्ञानवत् इत्यनुमाने तेन भूताविधपुरुपज्ञानप्रतिवन्धकभूतवत् निखिलजेयजातृलभावस्यात्मनोऽपि ज्ञानस्य प्रतिबन्धक कर्म सिथति तेन च कार्मणशरीरमारभ्यते, तदभावे औदारिकादिश्शरीरमम्बन्धासिद्ध, 25 हि मूर्तामूर्तयोघंटाकाशयोरिवौदारिकादिशरीरात्मनो परस्परानुप्रवेशसम्भवति । न च कथं कार्मणशरीर- स्वात्मनामूतेन सम्बन्ध, अनादिकालादात्मना कश्चित्तादात्म्पस्याभ्युपगम्यमानखेन तत्र पर्यनुयोगा सम्भवात् । जीवकर्मसंयोगस्यानादित्वेऽपि बीजाकुरयोर्मध्येऽनिवर्तितकार्यस्प कस्यचिन्नाश. तत्ममाननाशवत् तपस्संयमाचपायात्म व्यवच्छियत इति बोध्यम् ॥

:२३८ तत्वन्यायविमाकरे [नवमकिरणे पलम्मात । तस्मात्कार्मणशरीरेणानादिसम्बद्धस्याऽऽत्मनस्संसारिण औदारिकादिशरीरसम्ब- न्धाद्बन्धसिद्धिरिति ॥ " ननु कारणमन्तरेण न कापि कार्य दृष्टं, बन्धश्च कार्य तेनापि सकारणेन भवितव्यं, यद्यकस्मात्स तर्हि मोक्षोऽपि तथैव स्यात् न च तौ तथा, तदर्थ क्रियायाः विरोधप्रसङ्गात् 5 अतो बन्धकारणनिर्देशोऽवश्य वाच्य इति तत्कारणान्याह- स च मिथ्यात्वाविरतिकषाययोगैर्यथायोग समुत्पद्यते । स चेति । बन्धश्चेत्यर्थः । नतु बन्धकारणता मिथ्यात्वादीनां समुदाय वा स्यादवयवे वा स्यादित्याशङ्कायामाह यथायोगमिति । तथाच न सर्वेषामेव हेतुत्वमपि तु मिध्याहटे- श्वत्वारः समुदिता बन्धहेतवः, सास्वादनसम्यग्दृष्टिसम्यमिध्यादृष्ट्यसंयतसम्यग्दृष्टीनाम- 10 विरत्यादयस्त्रयः, संयतासंयतस्याविरतिमित्रो कपाययोगौ च, प्रमत्तसंयतस्य, अप्रमत्तादीनां चतुर्णा च कषाययोगी, शान्तक्षीणकषायसयोगकेवलिनां योग एव, अयोगकेवलिना न बन्धहेतुः । तत्रापि मिथ्यात्वादीनि अवान्तरभेदविशिष्टानि प्रत्येकं बन्धकारणानि, नहि सर्वाणि मिथ्यात्वादीनि एकत्र जीवे युगपत्सम्भवन्ति नाऽपि हिंसादयः सर्वे परिणामा ' इति यथायोगशब्दरहस्यार्थः । यद्यपि तत्त्वार्थे प्रमादमपि गृहीत्वा पञ्चहेतुकत्वं 15 वन्धस्योक्तं, तथाऽप्यत्र कर्मपन्थानुसारेण चातुर्विध्यमुक्तम्, तत्र प्रकर्षेण माद्यत्यनेनेति प्रमादः, विपयक्रीडाभिष्वङ्गः, यत्नारब्धेऽप्यनुत्थानशीलता वा । प्रचुरकर्मेन्धनप्रभवनिरन्त-' राविध्यातशारीरमानसानेकदुःखहुतवहज्वालाकलापपरीतमशेषमेव संसारवासगृहं पश्यंत्र- न्मध्यवर्त्यपि, सति च तन्निर्गमनोपाये वीतरागप्रणीतधर्मचिन्तामणो यस्माद्विचित्रको दयसाचिव्यजनितात्परिणामविशेषादपश्यन्निव तदुभयमविगणय्य विशिष्टपरलोकक्रियाविमुख 20 एवाऽऽस्ते जीवस्स खलु प्रमादस्तत्र हेतवोऽष्टौ, अज्ञान-मूढवारूपम् , किमेवं स्यादन्यथावे- त्यादिरूपस्संशयः, विपर्यस्तवाप्रतिपत्तिरूपं मिथ्याज्ञानं, रागो द्वेषो विस्मरणशीलता लक्षणस्स्मृतिभ्रंशः, अर्हत्प्रणीतधर्मानादरात्मकोऽनुधमः, मनोवाकायानां दुष्टताकरणमिति, प्रमादोऽयं मद्यविषयकपायादिमिर्जायत इति मिथ्यात्वादिचतुर्विधेष्वेव यथायथमन्ताव इति कृत्वा लाघवार्थिना मूलकारेण पृथड्नोक इत्यवधेयम् । एते चत्वारो बन्धस्य सामान्य- 25 हेतवो विशेषहेतवस्तु प्रदोषनिह्ववादयोऽप्र आवेदयिष्यन्ते इति दिक् ॥ तत्र मिध्वात्वादीनामवान्तरभेदापेक्षया बन्धस्य सप्तपश्चागद्विषत्वाचानाख्यातुमादी मिथ्यात्वं निर्वक्ति- मिथ्यात्वम् ] म्यापप्रकाशसमलते तत्रायथार्थश्रद्धानं मिथ्यात्वम् । तबाऽऽभिग्रहिकानाभिग्रहिका- भिनिवेशिकसांशयिकानाभोगिकभेदेन पञ्चविधम् ॥ तत्रेति | मिथ्यात्वादिचतुष्टय इत्यर्थे । यथार्थश्रद्धा हि सम्यग्दर्शनं, तद्विपरीतं मिथ्यात्व, वत्स्वार्थश्रद्धानाभावोऽतस्वाभ्यबसायरूपः, न तु विपर्यस्तश्रद्धानं विवक्षितं, सांशयिकादाव- सम्बध्यमानत्वात् तथा च तेषामसम्यग्रूपतया सम्यग्दर्शनविपरीतत्वान्नासङ्ग्रहः । तद्विभजते 5 बेति॥ - अथाऽऽमिग्रहिकमाचष्टे- कुदर्शने सदर्शनजन्यं श्रद्धानमामिग्रहिकम् ॥ कुदर्शन इति । कुदेवकुगुरुकुधर्ममये दर्शने सद्दर्शन मिति मान्यता । इदमेव दर्शन समीचीन नान्यदित्येवं वा यच्छ्रद्धानं, दर्शनाभासे वस्मिन् प्राह्यत्वमतिस्तदभिग्रह आग्रहस्त- 10 निवृत्तत्वादाभिग्रहिकं मिथ्यात्वमुच्यत इति भावः । कुदर्शनविशेष्यकसदर्शनत्वप्रकारक- मानजन्यश्रद्धानत्वं लक्षणम् । सद्दर्शने सद्दर्शनत्यप्रकारकज्ञानजन्यश्रद्धानवारणाय कुदर्शन- विशेष्यकेति । कुदर्शनं दर्शन मितिश्रद्धानस्य मिध्यारूपत्वाभावात्सदिति, कुदर्शनं तुच्छ- मिति शानजन्यस्वदर्शनश्रद्धानेऽतिप्रसक्तिनिवारणाय सदर्शनत्वप्रकारकेति । अहंदर्शनं सत्य- मन्यद्वेति सांशयिकमिथ्यात्वे व्यभिचारवारणाय जन्यश्रद्धानमिति । एवमग्रेऽपि यथा- 15 सम्भवमूहम् ॥ अनाभिग्रहिकमभिधत्ते- सर्वदर्शनविशेष्यकसमत्वप्रकारकप्रतिपत्तिप्रयोजक श्रद्धानमनाभि- ग्रहिकम् ।। सर्वदर्शनेति । सर्वाणि दर्शनानि समीचीनान्येवेति मन्वानस्सर्वत्र साम्यतया श्रद्धां विदधाति सा श्रद्धा अनामिग्रहिकमिथ्यात्वमिति भावः। तथा मन्वानो यदा सन्देग्धि तदा सांशयिक मिथ्यात्वं भवति तद्वारणाय श्रद्धानपदम् । अत्र ताशप्रतिपत्तिजन्यं श्रद्धान 20 १. लक्षणमिदमुपलक्षण तेन सदर्शनधर्मिककुदर्शनत्वप्रकारकमाननिवन्धनश्रद्धानत्वस्याऽपि साह । दर्शनशब्दोपादानेन देवगुरुधर्माणामपि तदन्तर्गततया तेऽपि गृहीता एवेति न न्यूनता बोध्या । २. एवं 'देवगुरुधर्माणामपि ग्रहण विजेयम् ॥

तसन्यायविमाकरे [ मवमकिरणे जनकमप्यमाभिग्रहिकं भवतीति सूचयितुं पूर्वत्र जन्यतयाऽत्र च 'जनकतया लक्षणममिहित- मिति ध्येयम् ।। आमिनिवेशिकमाख्याति- - 5 । " तत्त्ववेत्तृत्वेऽप्यतदर्थेषु तदर्थताऽभिग्रह आभिनिवेशिकं ॥ तत्ववेत्तृत्वेऽपीति । शास्त्रतात्पर्यबाधप्रतिसन्धानत्वेऽपीत्यर्थः । तेन श्रीजिनभद्रसिद्ध- सेनादिप्रावचनिकप्रधानविप्रतिपत्तिविषयके पक्षद्वयेऽप्यन्यतरस्य वस्तुनः शास्त्रबाधितत्वात् वदन्यतरश्रद्धानवतो नाभिनिवेशित्वप्रसङ्गः। तेषां स्वाभ्युपगतार्थे शास्त्रतात्पर्यबाधप्रति- सन्धानेऽपि पक्षपातेन तत्प्रतिसन्धानाभावान् किन्त्वविच्छिन्नप्रावचनिकपरम्परया स्वाभ्यु- पगवार्थानुकूलत्वेन शाखतात्पर्यस्यैव प्रतिसन्धानात् । अतदर्थेषु अतथाभूतेष्वर्थेषु, तदर्थता- 10 मिग्रहा-दुष्टाभिनिवेशेन तथाश्रद्धानमित्यर्थः, गोष्ठामहिलादयो हि दुरमिनिवेशविप्ला- वितधियश्शास्त्रतात्पर्यबाचं प्रतिसन्धायैवान्यथा श्रयते। अभिनिवेशे दुष्टत्वञ्च सम्यग्वक्त- वचनानिवर्तनीयत्वं, तेन सम्यग्दृष्टेरपि अनामोगात्प्रज्ञापकदोषाद्वा अन्यथा श्रद्धानसंभवेऽपि नाभिनिवेशिकत्वम् , तेषामभिनिवेशस्य सम्यग्वतृवचननिवर्त्तनीयत्वादिति भावः ॥ सांशयिक वक्ति- अर्हतत्त्व वर्मिकसत्यत्वसंशयजनकं मिथ्यात्वं सांशयिकम् ॥ अर्हत्तत्त्वेति । भगवत्प्रोक्तानि जीवादितत्त्वानि सत्यानि नवेत्येवरूपस्य संशयस्य जनक तजन्यं वा यन्मिथ्यात्वं तत्सांशयिकमित्यर्थः । अन्यप्रोक्ततत्त्वेषु सत्यत्वसंशयस्य जनक न तादृमिथ्यात्वमित्यतोऽहदिति यद्यपि सूक्ष्मार्थादिविषयस्संशयस्साधूनामपि संभवति तथापि स आगमोदितभगवद्वचनप्रामाण्यपुरस्कारेण निवर्तते, स्वरसवाहितयाऽनिवर्तमानश्च 20 स सांशयिकमिथ्यात्वरूपस्सन्ननाचारापादक एव, अत एवाकांक्षामोहोदयादाकर्षप्रसिद्धिरिति । अथानाभोगिकमिथ्यात्वमाह- दार्शनिकोपयोगशून्यजीवानां मिथ्यात्वमनाभोगिकम् ॥ दार्शनिकेति । विशेषज्ञानविकलानामित्यर्थः, ते च विचारशून्या एकेन्द्रियादयो वा, अन्वतस्पर्शोपयोगस्यैकेन्द्रियादावपि सत्त्वादुपयोगशून्यजीवाप्रसिद्धिप्रयुक्तासम्भवन्याचाराय 25 दार्शनिकेति । तत्राऽऽभिप्रहिकाभिनिवेशिके विपर्यासरूपत्वेन सानुबन्धक्लेशमूलत्वागरीयसी, 15 - करायः ] प्यायप्रकाशसमलते शेषाणि च त्रीणि नात्यन्तानर्थसम्पादकानि विपरीतावधारणरूपत्वाभावेन सुप्रतीका- रत्वात् इति ॥ - अविरतिमाख्याति- हिंसायव्रतेभ्यः करणैर्योगैश्चाऽविरमणमविरतिः । तस्याश्च मनः पञ्चेन्द्रियाणां स्वस्वविषयेभ्यः पृथिव्यप्तेजोवायुवनस्पतित्रसरूपषड्विध- 5 जीवहिंसातश्चाप्रतिनिवर्तनरूपत्वाद्वादशविधत्वम् ॥ हिंसाधतेभ्य इति । अविरमणमविरविः, केभ्यः, अब्रतेभ्यः, तथाचाऽत्रतेभ्योऽविर- मणमविरतिः । अकरणं हि विरतिः करणश्चाऽविरतिस्तथा च कैः करणमितिकरणाकांक्षा जायते, तत्राऽऽह-करणैर्योगैश्चेति । इन्द्रियैर्मनोवाकायरूपयोगैश्चेत्यर्थः, यदि कायेनैवेन्द्रिया- णामपि ग्रहणं भवतीत्युच्यते तदा करणैः कृतकारितानुमतिमिरित्यर्थः । अब्रतानि कानी- 10 त्यत्राह हिंसादीति | आदिनाऽसत्यस्तेयाऽब्रह्मपरिग्रहाणां ग्रहणम् , यद्यपि हिंसादिभ्योऽविर- मणमेवाव्रतं तथापि हिंसादीनामपि अविरतिं प्रत्यनुकूलतयाऽतत्वोक्तिः, न च हिंसादयो व्रतरूपा अपि स्युखद्विपयकविरमणरूपत्वाव्रतस्येति वाच्यम् , अत्यन्तप्रतिकूलतया विरति प्रति तथाकथनस्यानुचितत्वात् एवञ्च हिंसाधनतेभ्यः कृतकारितानुमतिमनोवाकायान्यत- मेनाविरमणमविरतिरिति भावः । हिंसाधन्यवमस्य कृतकारितानुमतिमनोवाकायान्यतमेन 15 करणमितियावत् । तस्या द्वादशविधत्वं द्वादशस्थानप्रदर्शनद्वारा प्रकटयति तस्याश्चेति, अवि- रतेश्चत्यों द्वादशविधत्वमित्यनेनाऽस्य सम्बन्धः । कथं द्वादशविधत्वमित्यत्राह मन इति । मनसस्वस्वविषयेभ्योऽप्रतिनिवनमित्येका पञ्चेन्द्रियाणां घाणरसनचक्षुश्श्रोत्रस्पर्शानां स्वस्व- विषयेभ्योऽप्रतिनिवर्तनानीति पञ्च, षविधजीवहिंसादिभ्योऽप्रतिनिवर्तनानीति पट् मिलित्वा च द्वादशविधत्वमिति भावः ॥ " . 20 कषायमाह- कषायः पूर्वोदितपञ्चविंशतिविधः। वेदत्रयहास्यषट्कात्मकनोकषायः कषायसहगामित्वात्कषायपदवाच्यः ॥ कषाय इति । पूर्वोदितेति पापनिरूपणोदितेत्यर्थः । तथाचाऽनन्तानुवन्धिक्रोधमान- मायालोमाः, अप्रत्याख्यानक्रोधमानमायालोमाः, प्रत्याख्यानक्रोधमानमायालोमाः, संज्वलन- 35 क्रोधमानमायालोमा इति षोडशविधः कषायः । पुंस्त्रीनपुंसकहास्यरत्यरतिशोकमयजुगु- तस्वम्यायविभाकरे मिलाकर सारूपो नवविधो नोकपाय इति मेलनतः कषायः पञ्चविंशतिविध इति भावः । मनु नवविधनोकषायस्य कथं कषायत्वमित्यत्राह वेदत्रयेति पुंस्त्रीनपुंसकेतिवेदत्रयेत्यर्थः, हास्य- षट्केति, हास्यरत्यरविभयशोकजुगुप्साषट्केत्यर्थः । कषायसहगामित्वादिति कपायेण सहैव वर्तमानत्वादित्यर्थः, दिग्दर्शनमिदं, तेन यहोषो यः कषायस्वत्सहचारिणां हास्यादीनामपि । तदोषत्वेन तत्कार्यकारित्वात्कषायत्वं तत्राप्यल्पकार्यकारित्वाच नोकषायत्वमितिबोध्यम् ॥ 10 चतुर्थ योगमाचष्टे- योगो मनोवाकायव्यापारः। तत्र सत्यासत्यमिश्रव्यवहारविषयक मनोवाग्व्यापारा अष्टौ, तथौदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्राऽऽ- हारकाऽऽहारकमिश्रकार्मणशरीरजन्यव्यापारास्सप्तेति पञ्चदशयोगाः ॥ योग इति । युन्यतेऽनेनेतियोगः, तत्र यद्यपि वन्धेऽभीप्सितारब्धवस्तुलाभे मेलने संयोगे शब्दादीनां प्रयोगे समुदायशब्दस्यावयवार्थसम्बन्धे द्रव्यतो वाह्ये मनोवाक्कायव्या- पारे भावतोऽध्यवसायविशेषे च योगशब्दो वर्त्तते तथापि प्रकृतोपयोगिनं तदर्थ सूचयितुं मनोवाकायच्यापार इत्युक्तत्वान्मनोवाकायव्यापार एवात्र विवक्षितः । सोऽयं योगो द्विविधा, द्रव्ययोगो भावयोगश्चेति । जीवेनागृहीतानि गृहीतानि वा स्वव्यापाराप्रवृत्तानि मनोवागा- 15 दिद्रव्याणि द्रव्ययोगः । जीवस्य परिणामविशेषो वीर्यस्थामादिशब्दवाच्यो भावयोगः । अयमपि द्विधा प्रशस्तोऽप्रशस्तश्चेति । तत्र प्रशस्तरसम्यक्त्वादिरात्मनोऽपवर्गेण योजनात्, अप्रशस्तो मिथ्यात्वादिरष्टविधकर्ममिर्योजनात् । यद्वा मनोवाकायप्रवर्तकानि द्रव्याणि मनोवाकायपरिस्पन्दात्मको योगश्च द्रव्ययोगः, एतदुभययोगहेतुरध्यवसायो भावयोगः । तत्र द्रव्ययोगशुमोऽशुमो शुभाशुभश्च व्यवहारनयमात्रापेक्षया विधिमतिक्रम्य दानादि- 20 वितरणचिन्तनात्मकमनोयोगस्तथैव दानादिधर्मोपदेशात्मकवाग्योगस्तथैव जिनपूनावन्दनादि. कायपरिस्पन्दात्मककाययोगश्च शुभाशुभो भवति । भावयोगस्तु शुभो वाऽशुमो वा न शुभाशुभरूपः, आगमे शुभाशुभात्मकाध्यवसायस्थानस्य तृतीयस्यानुक्तत्वात् । तदेव योगा अनुपयुक्तस्य कर्मवन्धायोपयुक्तस्य च कर्मनिराकारिणो भवन्ति । सोऽयं योगः स्वरूपे- गैकोऽपि मनोवाकायलक्षणसहकारिभेदात्रिविधः, मनसा करणेन योगो मनोयोगो वाचा 25 करणेन योगो वाग्योगः कायेन करणेन योगः काययोग इति । स वीर्ययोगो वीर्यान्तराय- क्षयक्षयोपशमसमुत्थलब्धिविशेषप्रत्ययोऽभिसन्ध्यनभिसन्धिपूर्वकत्वात्सकरणः, अकरणच भवति । तत्रालेश्यस्य केवलिनः कृत्स्नयो यदृश्ययोरर्थयो केवलज्ञानं केवलदर्शनचो. पयुञ्जानस्य योऽसावपरिस्पन्दोऽप्रतिषो वीर्यविशेषः सोऽकरणः । स च नेहाधिक्रियते वीर्या- । योग.] न्यायप्रकाशसमलते :२४३: न्तरायक्षयोपशमजन्यवीर्यविशेषस्यैव सकरणस्य कर्मसम्बन्धकस्याधिकृतत्वात्। तत्रौदारिकादि शरीरस्यात्मनोवीर्यपरिणतिविशेषः काययोगः, औदारिकवैक्रियाऽऽहारकशरीरव्यापाराहृत- वाग्द्रव्यपुखसाचिव्याजीवव्यापारो वाग्योगः, मनसा करणेन युक्तस्य जीवस्य योगो जीव. पर्यायो दुर्बलस्य यष्टिकाद्रव्यवदुपष्टम्भकरो मनोयोगः । सोऽयं मनोव्यापारो वाग्व्यापारश्च प्रत्येकं सत्यमृषाससमृषाऽससमृषाभेदेन चतुर्विधत्वादुमयमेलनेनाष्टविधमनोवाग्जन्यो योग । इत्याशयेनाह सत्यासत्येति । मिश्रः सत्यमृषारूपो व्यवहारोऽसत्यमृषारूपः । काययोगस्य भेदमाह तथेति तत्र शुद्धा औदारिकवैक्रियाऽऽहारककार्मणशब्दा व्याख्याता औदारिकमिश्र- स्तूच्यते औदारिक एवापरिपूर्णो मिन इति, यथा गुडमिश्र दधि न गुडखया नापि दतिया व्यपदिश्यते ताभ्यामपरिपूर्णत्वादपितु मिश्र इति तद्वदनापि औदारिकमिनमौवारिकत्वेन कार्मणत्वेन वा न व्यपदिश्यते किन्तु औदारिकमिश्रतयेति, एवं वैक्रियाऽऽहारकमिश्रावपि । 10 थद्वा शुद्धा औदारिकाद्यास्तत्पर्याप्तकस्य मिश्रास्त्वपर्याप्तकस्येति । तत्रोत्सत्ताबौदारिककायः कार्मणेन, औदारिकशरीरिणश्च वैक्रियाऽऽहारककरणकाले च वैक्रियाहारकाभ्यां मित्रो भवतीत्यौदारिकमिशः । देवाधुत्पत्तौ कार्मणेन वैक्रियमिश्रः कृतवैक्रियस्य चौदारिक- प्रवेशाायामौदारिकेण । आहारकमिश्नस्तु साधिताऽऽहारककायप्रयोजनः पुनरौदारिक- प्रवेशे औदारिकेणेति । कार्मणस्तु विग्रहे केवलिसमुद्घाते चेति । एतेभ्यो जन्या 15 व्यापारा सप्त कायन्यापारा इतिमिलित्वा पञ्चदशयोगा भवन्तीतिभावः । ननु मनोवाग्योगा: काययोगविशेषा एव, शरीरिणां कस्याश्चिदप्यवस्थायां काययोगस्यानिवृत्तेः, अशरीरिणामेव वनिवृत्त्यभ्युपगमात् तथा च मनोवाग्योगास्वद्भिन्ना न सन्तीति चेदुच्यते, एकस्यैव काय- योगस्योपाधिमेदात्तथान्यवहारात् । येन काग्रयोगेन हि मनोवारद्रव्याणामुपादानं करोति स काययोगः, येन संरम्भेण वचोद्रव्याणि मुञ्चति स वाग्योगः, येन तु मनोगव्याणि 20 चिन्तायां व्यापारयति स मनोयोग इति । तथाच मनोवाग्योगौ काययोग एव, कायेनैव तद्रव्यग्रहणात्, प्राणापानवत् यथाहि प्राणापानव्यापारः कायेनैव तद्रव्यग्रहणात्कायिकयो- गान्न भिद्यते तथा मनोवाग्योगावपि, न चेत्तथा, प्राणापानयोगोऽपि योगान्तरं स्यान्न चैत- दिष्ट, तस्मात्काययोग एवाऽयं तद्वदिमावपि । न च मनोवाग्योगवाणापानन्यापारः किमिति- नोक्ता, काययोगत्वस्याविशेषात्, अन्यथा प्राणापानन्यापारवत्तौ पृथग् न वाच्यावुपाधि- 25 भेदेनापि, उपाधिभेदेन योगचतुष्टयस्यैव वक्तव्यत्वौचित्यादितिवाच्यम् लोकलोकोत्तररूढस्य व्यवहारस्य सिद्ध्यर्थ तावेवोकत्वात् कायव्यापारातिरिक्ततया हि वाग्व्यापारो मनोव्यापा- रश्व स्पष्टतथा दृश्यते लोके, यथा वाचः स्वाध्यायाचरणं परप्रवोधनादिक मनसश्च धर्मध्या- नादिकं व्यापारः, नैवं प्राणापानयोस्तयो स्वनुयोगान्ततितयैव व्यवहारात् न च जीवय- , तत्त्वन्यायविभाकरे [ नवमकिरणे त्यसाविति प्रनीतिजननादिकं प्राणापानफलमस्तीति वाच्यम् , एवंविधप्रयोजनमात्रस्य सर्वत्र विद्यमानत्वेन धावनवलानादिव्यापाराणामपि योगत्वप्रसङ्गात् तस्माद्विशिष्टव्यवहाराङ्गभूत- परप्रत्ययनादिफलत्वाद् वाङ्मनोयोगावेव पृथग्वाच्यौ तदेवं तनुयोगो बानिसर्गविषये व्याप्रियमाणो वाग्योगो मनने व्याप्रियमाणो मनोयोगो भवति वाग्विषयो योगो पाग्योगः 5 मनोविषयो योगो मनोयोग इतिव्युत्पत्तेः । यद्वा काययोगगृहीतवारद्रव्यसमूहसाचिव्यातन्नि- साथ यो जीवव्यापारविशेषस्स वाग्योगो वाचा सहकारिकारणभूतया जीवस्य योगो वाग्योग इति व्युत्पचेः, काययोगगृहीतमनोद्रव्यसमूहसहकारेण वस्तुचिन्तनाय योऽयं जीवस्य व्यापारः स मनोयोगो मनसा सहकारिकारणभूतेन जीवस्य योगो मनोयोग इति व्युत्पन्चेः, अस्मिन् पक्षे च मनोवाग्योगौ काययोगाद्भिन्नावेव, वाङ्मनोद्रव्यनिसर्गचिन्त- 10 नादिकाले सतोऽपि काययोगस्याविवक्षणादितिदिछ। तदेवं सप्रभेदान् बन्धहेतूनमिधाय प्रकृतिस्थित्यनुभागप्रदेशरूपेण चातुर्विध्यस्य बन्धस्य पूर्वोक्तस्वरूपस्य प्रथमं प्रकृतिबन्धमधुना लक्षयति- रक्तद्विष्टात्मसम्बद्धानां कार्मणस्कन्धानां परिणामविशेषेण स्वस्वयो- ग्यकार्यव्यवस्थापन प्रकृतिवन्धः ।। 15 रक्तद्विष्टेति । रागो मायालोमकषायलक्षणः, द्वेषः क्रोधमानकषायलक्षण- स्ताभ्यां केवलयोगेन वा युक्तनात्मना सम्बद्धानां गृहीतानामित्यर्थः, अत एव रक्तद्विष्टसंबद्धानामित्यनुक्त्वा रक्तद्विष्टात्मसंबद्धानामित्युक्तं तेनाकषायिवन्धस्यापि संग्रहः । अनेनात्मनि कर्मसम्बन्धे हेतुरादर्शितः, रागादिस्नेहगुणयोगादात्मनि कर्मपुद्गलद्रव्य लगतीति । कामणस्कन्धानामिति, कर्मयोग्यस्कन्धानामित्यर्थः । एतेन क्षेत्रान्तराष- 20 गाढाः कर्मपुद्गला न ग्रहणयोग्या भिन्नैदेशस्थानां ग्रहणयोग्यत्वाभावादिति सूचितम्, यत्र ह्याकाशे जीवोऽवगाढस्तत्र य आकाशप्रदेशा आत्मन्याश्रितास्तत्र ये कर्मपुद्गला रागादि- लेहयोगत आत्मनि लगन्ति त एव कर्मपुरला जीवानां सहयोग्या इति गूढार्थः । परि- - । १. विशिष्टो हेतुरादर्शित., तेन मिथ्यादर्शनाविरत्यादीना कर्मबन्धहेतुत्वेऽपि न क्षतिः, उतच 'यद- तिदुख लोके यच सुसमुत्तमं त्रिभुवने । तजानीहि कषायाणा वृद्धिक्षयहेतु सर्व' मिति । तत्र राग- वेषहेतुकोबन्धस्स साम्परायिकबन्ध उच्यते, केवलयोगहेतुको वन्ध ईपिथिकबन्ध उच्यते, स चोपशान्त- क्षीणमोहसयोगिकैवलिनो भवति, वेदनीयस्यैकस्यैव च स बन्धो विज्ञेय इति । २. अनाश्रिताना तनावपरि- णामामावादिति भावः । ३. न तु गतिसमापना इत्यय , गतिपरिणता हि ते वेगवत्वात् गच्छेयुरेख, नला- स्मनि शिष्यन्त इति भाव. ॥

रसबन्धः ] न्यायप्रकाशसमलट्टते णामविशेपेणेति, अध्यवसायविशेषेणेत्यर्थः । आत्मा हि सर्वप्रकृतिप्रायोग्ययुद्गलान् सामा- न्येनादाय तानध्यवसायविशेपेण ज्ञानावरणीयत्वादिरूपेण परिणमयति तथापरिणमने हेतुरध्यवसायविशेष उक्तः । स्वस्खयोग्यकार्यव्यवस्थापनमिति । तेषां पुद्गलानां स्वस्खयोग्य- कार्यकरणसमर्थतयाऽऽरचनमित्यर्थः । केषाचित्पुरलानां ज्ञानावरणसमर्थत्वेन केपाश्चिद्द- र्शनावरणसमर्थत्वेन केषाश्चित्सुखदुःखानुभवसमर्थतया केषानिदर्शनचारित्रमोहकतया केपा- 5 बिदायुवेन केषाञ्चिद्गतिशरीराधाकारेण केषाञ्चिद्गोत्रस्वेन केषाश्चिञ्चान्तरायत्वेन व्यवस्था- पनमितिभावः । स्थित्यनुभागप्रदेशवन्धानां यस्समुदायस्स प्रकृतिवन्ध इत्यपि लक्षणं कषाय- प्रयुक्तप्रकृतिवन्धे सङ्गच्छते न तूपशान्तमोहादौ केवलयोगवशाबध्यमाने प्रकृतिबन्धे तत्र स्थित्यनुमागाभावात् यदि तु तत्रापि समययस्थितिः कश्चनानुभागोऽपि विद्यत इति विमान्यते तदा लक्षणमिदं युज्यत एवेति बोध्यम् ॥ 10 अधुना स्थितिबन्धमाह- प्रविभक्तानां कर्मस्कन्धानां विशिष्टमर्यादया स्थितिकालनियमनं स्थितिबन्धः॥ प्रविभक्तानामिति । ज्ञानावरणीयत्वादिरूपेण प्रविभक्कानामित्यर्थः, विशिष्टमर्यादयेति, यथा ज्ञानावरणदर्शनावरणान्तरायवेदनीयानां त्रयस्त्रिंशत्सागरोपमकोटीकोट्यः सप्ततिर्मोह- 15 नीयस्य नामगोत्रयोविंशतिरायुषस्त्रयस्त्रिंशत्सागरोपमाणि परास्थितिर्जघन्या च द्वादशमुहूर्चा वेदनीयस्य नामगोत्रयोरष्टौ शेषाणामन्तर्मुहूर्वमित्येव रूपेणेति भावः, इत्थं यस्थितिकालस्य नियमनं स स्थितिवन्ध इत्यर्थः । स्थितिरियं द्विधा कर्मत्वेनावस्थितिरूपाऽनुभवयोग्या चेति, तत्राधभेदमधिकृत्य जघन्योत्कृष्टप्रमाणमभिहितं, द्वितीया चावाधाकालहीना येषां कर्मणां यावत्यस्सागरोपमकोटीकोट्यस्तेषां तावन्तिवर्षशतान्यबाधाकालः तत्र च स्वोदयतः कर्म काचिदपि बाधां जीवस्य नोत्पादयति, नवा वत्र वेद्यदलिकनिक्षेपः किन्तु तत ऊर्ध्वमेव, तथाचावाधाकालहीनाऽनुभवयोग्या स्थितिरिति भाव्यम्, विशेपप्रकृतीनां स्थितिस्तु तत्त- निरूपण एवोक्तवि॥ अथ रसबन्धमाचष्टे- " । 20 परिपाकमुपयातानां विशिष्टकर्मस्कन्धानां शुभाशुभविपाकानुभव- 35 नयोग्यावस्था रसबन्धः॥ परिपाकेति । रसवन्धोऽनुभाववन्धोऽनुभागबन्ध इति पर्यायाः। परिपाकमुपयावानां तत्वन्यायविभाकरे, [ नमकिरणे फलं धातुममिमुखीभूतानां विशिष्टकर्मस्कन्धानां ज्ञानावरणीयत्वादिना व्यवस्थापितकर्म- स्कन्धानां शुभाशुभविपाकानुमवनयोग्यावस्था रसबन्ध इत्यर्थः, विपाकानुभावो हि द्विविधः शुमोऽशुभश्चेति शुभप्रकृतीनां शुभो रसः शुभाध्यवसायनिष्पन्नत्वात् , अशुभप्रकृतीनाचा- शुभोऽशुभाध्यवसायनिष्पन्नत्वात्, तत्राशुभप्रकृतीनां तादृशतादृशकषायनिष्पाद्यः कटुको 5 कटुकतरः कटुकतमोऽतिकटुकतमः शुभप्रकृतीनाश्च मधुरो मधुरतरो मधुरतमोऽतिमधुरतरत्र रसो यथासंख्यमेकद्वित्रिचतुस्थानिको भवति, निम्बरसवदिक्षुरसवञ्च, निम्बादीनामिक्ष्वादीनां हि सहजोऽक्वथितः कटुको मधुरच रस एकस्थानिक उच्यते स एव भागद्वयप्रमाणस्था- ल्या कथितोऽर्धावर्णितः कटुकतरो मधुरतरश्च द्विस्यानिको भवति, भागत्रयप्रमाणाध कथितः कटुकतमो मधुरतमलिस्थानिको भागचतुष्टयप्रमाणो विभिन्नस्थाने कथितश्चतुर्थभागान्वोऽति- 10 कटुकतमोऽतिमधुरतमश्च भवति, एवं कर्मापि । इयमुपमा सर्वजधन्यस्पर्धकरसस्य जप- न्यात्मिका विज्ञेया। स्पर्धकान्यसंख्यानि भवन्ति, उत्तरोत्तरस्पर्धकानि चानन्तगुणरसानि, अशुमानां निम्बोपमवीर्यो य एकस्थानिको रसस्तस्मादनन्तगुणवीर्यों द्विस्थानिकस्तोऽप्यन- न्तगुणवीर्यविस्थानिकस्तस्मादप्यनन्तगुणवीर्यश्चतुस्स्थानिकः । शुभप्रकृतीनां सर्वांसां पुनरे- कस्थानिको रसो नास्त्येव, इतिपञ्चसंग्रहाभिप्रायः, दानलाममोगोपभोगवीर्यान्तरायाणां 15 पश्चानां मतिश्रुतावधिमनःपर्यवज्ञानावरणानां चतुणां चक्षुरचक्षुरवधिदर्शनावरणानां त्रयाणां पुंवेदसंज्वलनक्रोधमानमायालोमानां मेलनया सप्तदशविधानां कर्मणामेकस्थानिकरसवावं तद्भिन्नाशुभप्रकृतीनामपि एकस्थानिको रसो न भवति, अनिवृत्तिवादरासंख्येयमागेभ्यः परत एव तत्प्राप्तिसंभवेन तत्र च सप्तदशप्रकृतीविना शिष्टानां बन्धस्यैवाभावात् केवलज्ञान- दर्शनावरणयोस्तत्र बन्धेऽपि सर्वघातित्वेन तयोस्थिानिकरसवत्वेनैव निर्वर्तनात् । शुमा- 20 नामकस्थानिकरसाभावे कारणन्तु सक्लेशस्थानानि विशोषिस्थानानि च प्रत्येकमसंख्येयलो- काकाशप्रदेशप्रमाणानि, प्रासादमारोहतामारोहणे सोपानस्थानानि यावन्ति, तावन्त्येवं यथा- ऽवतरतामपि, तथा यान्येव क्षपकमिन्नो विशुद्धिसंक्लेशस्थानान्यारोहति संलिश्यमानस्तावस्था- नान्यवरोहति तेऽवेवावतारात् विशुद्धिस्थानानि तु विशेषाधिकानि क्षपकश्रेणिकामारोहतः आप- कस्य विशुद्धिस्थानेषु पुनस्सक्लेशाभावतो निवनामावात् अवस्तानि विशुद्धिस्थानान्येव, न तु 25 सक्लेशस्थानानि तस्माद्विशुद्धिस्थानानामधिकत्वं तथाचात्यन्तविशुद्धौ वर्तमानश्शुभप्रकृतीनां चतुस्स्थानिकरसमभिनिवर्तयति, अत्यन्तसंकेशे वर्तमानस्य शुभप्रकृतयोवन्ध एव नागच्छन्ति । या अपि वैक्रियतैजसकार्मणाद्याश्शुमा नरकप्रायोग्यास्सलिष्टोऽपि बध्नाति तासामपि स्वभाव- वस्सर्वसंक्लिष्टोऽपि द्विस्थानिकमेव रसं विदधाति । येषु मध्यमाभ्यवसायस्थानेषु शुभप्रकृतयो अभ्यन्ते तेषु तासां विस्थानिकपर्यन्त एव रसो बध्यते नकस्थानिको मध्यमपरिणामत्वादेव ।

" प्रदेशमा स्थापनकाशसमलते तत्र गिरिरेखासदशैरनन्तानुवन्धिमिः कषायैरशुभप्रकृतीनां चतुस्स्थानिकरसवन्धः, आतपशो- पितवडागमहीरेखासदृशैरप्रत्याख्यानावरणैत्रिस्थानिकरसबन्धः, वालुकारेखासदृशैः प्रत्या- ख्यानावरणैबिस्थानिकरसवन्धः, जलरेखासहशैरसंज्वलनामिषैः कषायैः पूर्वोदितसप्तदशाशु. मप्रकृतीनामेकस्थानिकरसबन्धः । शुभानान्तु वालुकाजलरेखासदृशैः कषायैश्चतुस्स्थानि- करसवन्धः, महीरेखासहशैखिस्थानिको रसवन्धः, गिरिरेखासा स्थानिको रसबन्धः, 5 भासामेकस्थानिकरसबन्धी नास्त्येव । तत्रानुभागो रागद्वेषपरिणामयशेन जीवेन कर्मरूप- तया परिणमितस्याऽऽत्मप्रदेशसंश्लेषमुपगतस्य पुनरप्यावेष्टनपरिवेष्टनरूपतयाऽतिगाढतरं बद्धस्याऽबाधाकालासिक्रमेणोत्तरकालवेदनयोग्यतया संचितस्योत्तरोत्तरस्थितिषु प्रदेशहान्या रसवृद्ध्याऽवस्थापितस्य समानजातीयप्रकृत्यन्तरदलिककर्मणोपचयं नीतस्येषत्पाकाभिमुखी- भूतस्य विशिष्टपाकमुपागतस्यातएव फलं दातुमभिमुखीभूतस्य सामग्रीवशादुदयप्राप्तस्य वढेन 10 जीवेन निष्पादितस्याऽनाभोगिकवीर्येण बन्धसमय एव ज्ञानावरणीयादिवया व्यवस्थापितस्य प्रदोषनिहवादिविशेषप्रत्ययैरुत्तरोतरं परिणाम प्रापितस्य परनिरपेक्षमुदयप्राप्तस्य परेण योदय- मुपमीतस्य स्वपररूपेण वोदयमुपनीयमानस्य कर्मणः काचिद्गति स्थिति भवं वा प्राप्य स्वयं, परं या पुदलपरिणाम प्राप्य भवति, तन ज्ञानावरणीयस्य दर्शविधा, दर्शनावरणीयस्य नव- विधः, वेदनीयस्याष्टविधः, मोहनीयस्य पञ्चविधः, आयुषश्चतुर्विधः शुभाशुभनामकर्मण- 15 श्वतुर्दशविधः, गोत्रस्याष्टविधः, अन्तरायस्य पञ्चविध इति । तदेवं कृतस्थितिकस्य स्वस्मिन् काले परिपाकमितस्य या शुभाशुभाकारेणानुभूयमानावस्था स रसबन्ध इति दिछ । अथ प्रदेशबन्धमाह- - प्रकृत्यादित्रयनिरपेक्षं दलिकसंख्याप्राधान्येन कर्मपुद्गलानां ग्रहणं प्रदेशबन्धः॥ प्रकृत्यादीति । तत्राष्टविधवन्धकनैकाभ्यवसायेन गृहीतस्याप्टौ भागाः सप्तविधवन्धकस्य सप्तभागाः पविधवन्धकस्य षड्भागाः, एकविधवन्धकस्यैको भाग इति दलिकानां भागाः, तत्र 20 १. श्रोत्रेन्द्रियविषयक्षयोपशमावरणश्रोत्रेन्द्रियोपयोगावरणचक्षुर्विषयक्षयोपशमावरणचक्षुरुपयोगावरणप्राण- विषयक्षयोपशमावरणघाणोपयोगावरणरसनाविषयमयोपशमावरणरसनोपयोगावरणस्पर्शनविपयक्षयोपशमावरणस्प- र्शनोपयोगावरणरूपेण दशविध । निद्रा निद्रानिद्रा प्रचला प्रचलाप्रचलस्त्यानदिचक्षुर्दर्शनावरणाचक्षुदर्शनावरणा- वधिदर्शनावरणकेवलदर्शनावग्णरूपेण नवविध. । मनोजशब्दरूपगधरसस्पर्शा मनोत्रच कायमुखिता चेत्यष्टविधः । सम्यक्त्ववेदनीयमिध्यात्ववेदनीयसम्यमिथ्यात्ववेदनीयकपायवेदनीयनोकपायवंदनीयभेदत पञ्चविधा । २. प्रज्ञा- पनायाअयोविंशतिपदमत्र द्रष्टव्यम् ।

तस्वन्यायविभाकरे [मनमषिरी हि जीवो यदाऽऽयुषो बन्धकालेऽष्टविधबन्धको भवति, तदाऽनन्तस्कन्धात्मकस्य शेपकर्मापेक्षया आयुषोऽल्पस्थितिकत्वेन गृहीतस्य कर्मद्रव्यस्य सर्वस्वोको भाग आयुष्कतयापरिणमति । तत आयुष्कभागापेक्षयाधिकरस्वस्थाने तुल्यस्थितिकत्वेन तुल्यो नामगोत्रयोर्भागः, ततस्तयोर- पेक्षया विशेषाधिकस्वस्थाने तुल्यस्थितिकत्वेन तुल्योऽन्तरायावरणयोर्भागः, ततस्तयोरधिको 5 मोहनीयस्य भागः, ततो वेदनीयस्याधिका, सुखदुःखजननस्वभावस्य वेदनीयस्य तद्भावपरि- णतपुद्गलानामाधिक्यत एव स्वकार्यजननसमर्थत्वात् शेषाणान्तु स्वल्पत्वेऽपि तत्सम्भवात् । वेदनीयाच्छेषकर्मणां भागस्य हीनाधिकत्वे स्थितिविशेष एव निबन्धनम् , यथा नामगोत्रादे- रायुष्काद्यपेक्षया स्थितेराधिक्ये तयोर्भागस्याधिकत्वं हीनत्वे च हीनत्वमिति । यद्यपि स्थि- सनुरोधेन भागो भवन्नायुषस्सकाशानामगोत्रयोर्मागस्य संख्यातगुणत्वं स्याचथापि गत्यादि- 10 निखिलकर्मकलापानामायुष्कोदयमूलत्वेनायुषः प्रधानत्वाद् बहुपुद्गलद्रव्यं तत् । वयोर्भागस्य विशेषाधिकत्वन्तु नामगोत्रयोस्सततबन्धित्वेन, आयुष्कं हि कादाचित्कबन्धि, ततोऽल्प- द्रव्यम् । यद्यपि च ज्ञानावरणाद्यपेक्षया मोहनीयभागस्य संख्यातगुणस्थितिकत्वेन संख्याव- गुणत्वं प्राप्तं न विशेषाधिकत्वं तथापि चारित्रमोहनीयस्य कषायलक्षणस्य चत्वारिंशत्साग- रोपमकोटीकोटीस्थितिकत्वेनैतदपेक्षया तद्भागस्यविशेषाधिकत्वमुक्तं, दर्शनमोहनीयद्रव्यं तु 15 सर्वघातित्वेन चारित्रमोहनीयदलिकादनन्तभाग एव वर्तत इति न किञ्चित्तेन वर्धत इति । तत्राल्पतरप्रकृतिबन्धस्सर्वोत्कृष्टयोगव्यापारवान् पर्याप्तस्संज्ञीजीव उत्कृष्टप्रदेशबन्धं करोति, बहुतरप्रकृतिबन्धको मन्दयोगोऽपर्याप्तकोऽसंज्ञी जघन्यप्रदेशबन्धं विधत्ते । तथा प्रदेशबन्ध- श्चतुर्विध उत्कृष्टोऽजुत्कृष्टो जघन्योऽजघन्यश्चेति । सर्वबहवः कर्मस्कन्धा यदा गृह्यन्ते स उत्कृष्टः प्रदेशबन्धः, ततस्कन्धहानिमाश्रित्य यावत्सर्वस्तोककर्मस्कन्धग्रहणं तावत्सर्वोऽप्य- 20 नुत्छष्टः, यदा सर्वस्वोककर्मस्कन्धग्रहणं स जघन्यः, तत एकस्कन्धवृद्धिमाश्रित्य यावत्सर्वबहु- स्कन्धग्रहणं तावत्सर्वोऽप्यजघन्यः । तत्र ज्ञानदर्शनावरणवेदनीयनामगोत्रान्तरायलक्षणमूल- प्रकृतिषट्रेऽनुत्कृष्ट एव प्रदेशवन्धः साद्यनादिध्रुवाध्रुवरूपेण चतुर्विधः, प्रकृतिषटूस्योत्कृष्टप्रदेश- बन्धः क्षपकस्योपशमकस्य वा सूक्ष्मसम्परायस्य सर्वोत्कृष्टयोगे वर्तमानस्यैक द्वौ वा समयौ यावत्प्राप्यते, मोहनीयायुःकर्मद्वयस्यावन्धकत्वात्तस्य, उत्कृष्टयोगेनैवोत्कृष्टप्रदेशबन्धलामाङ- 25 स्कृष्टयोगस्य, उत्कृष्टयोगावस्थानकालस्य वावन्मानस्वादेकद्विसमयस्यात्रग्रहणम् । तथाचोत्कृष्ट प्रदेशबन्धं विधायोपशान्तमोहावस्थाश्चारुहा पुनः प्रतिपस्योत्कृष्टयोगाद्वाऽस्मादेव प्रतिपय यदा पुनरनुत्कृष्टप्रदेशवन्धं करोति तदाऽसौ सादिः । एतत्स्थानमप्राप्तपूर्वाणामनादिनिरन्तरं मानत्वात् । ध्रुवोऽभव्यानां भव्यानां त्वध्रुव इति । जघन्येऽजघन्ये उत्कृष्ठे च साद्यध्रुवलक्षणो द्विप्रकारो बन्धः । उपरि वर्णितस्सूक्ष्मसम्पराय उत्कृष्टप्रदेशबन्धस्सादिस्तत्प्रथमतया वध्यमा- - यव्य- अपविचार न्यायप्रकाशसमलते नत्वात्। उपशान्ताद्यवस्थायर्या पुनरनुत्कृष्टवन्धगमने च स नावश्यं भवतीत्यवःजघन्यः पुन- रमीषां षटूर्मणां प्रदेशबन्धोऽपर्याप्तस्य सर्वमन्दवीर्यलब्धिकस्य सप्तविधबन्धकस्य सूक्ष्मनिगोद स्य भवायसमये लभ्यते, द्वितीयादिसमये त्वसंख्येयगुणवृद्धेन वीर्येणास्य वर्धमानत्वात् , द्विती- यादिसमयेष्वयमप्यजघन्यं बध्नाति, पुनस्संख्यातेनासंख्यातेन वा कालेन पूर्वोक्तजघन्ययोग प्राप्य स एव जघन्यप्रदेशवन्धं करोति पुनरप्यजघन्यमित्येवं जघन्याजघन्ययोः प्रदेशबन्ध-5 योस्संसरतामसुमतां द्वावपि साद्यधुवौ भवतः । मोह आयुपि च चतुर्विघे प्रदेशबन्धे साथ- ध्रुवलक्षणो द्विविधो बन्धो भवति | मिध्यादृष्टिसम्यग्दृष्टिर्वाऽनिवृत्तिबादरान्तरसप्तविधवन्ध- काल उत्कृष्टयोगे वर्तमानो मोहनीयस्योत्कृष्टप्रदेशबन्धं, पुनरनुत्कृष्टयोगं प्राप्यानुत्कृष्टं प्रदेश- धन्धं करोतिं पुनरुत्कृष्टं पुनरप्यनुत्कृष्टमित्येवमुत्कृष्टानुत्कृष्टप्रदेशयोत्संसरतां जन्तूनां द्वावपि बन्धौ साधध्रुवौ भवतः, जघन्याजघन्यौ त्वेतादेशबन्धौ सूक्ष्मनिगोदादिषु संसरताम- 10 मुमतां कर्मषटूनिरूपण उपर्येव भावितौ तद्वदेवात्रापि । आयुष्कस्य त्वध्रुवबंधित्वादेव तत्प्रदेशबन्ध उत्कृष्टादिचतुर्विकल्पोऽपि सायध्रुव एव भवतीति, एवंरूपेण कर्मपुद्गलाना- मेव प्रकृतिस्थितिरसनिरपेक्षं दलिकसंख्यामाधान्येनैव यद्हणं करोति स प्रदेशबन्धो विज्ञेयः । वत्र योगस्थानानि कारणं प्रकृतयः प्रदेशाध वकार्य, स्थितिबन्धाभ्यवसायस्था- नानि कारणं स्थितिविशेषावकार्य, अनुभागबन्धाध्यवसायस्थानानि कारणमनुभागस्था- 15 नानि तत्कार्य, तथा प्रकृतिप्रदेशवन्धयोर्योग एव प्रधान कारणं, मिथ्यात्वाविरतिकषाया- णामभावेऽपि उपशान्तमोहादिगुणस्थानेषु वेदनीयस्य प्रकृतिप्रदेशबन्धसद्भावात् । स्थित्यनु- भागबन्धयोस्तु कषायजनिवजीवाध्यवसायविशेषः कारणं तदभावे उपशान्तमोहादिषु तयो- रभावात् मिथ्यात्वाविरत्यभावेऽपि प्रमत्तादौ कषायसद्भावेन तयोस्सत्त्वाच । मिध्यादृष्टि- गुणस्थानवत्ती मिथ्यात्वादिचतुःप्रत्ययैानावरणादिकर्म सास्वादनमिनाविरतिदेशविरति- 30 लक्षणेषु मिथ्यात्ववनिमिा, प्रेमचाप्रमत्तापूर्वकरणानिवृत्तिवादरसूक्ष्मसम्परायेषु कषाय- योगाभ्यां, उपशान्तमोक्षीणमोहसयोगिषु योगेन यथायोग बध्नाति । इति मूलप्रकृत्याश्रयेण सामान्येन बन्धा उक्ताः, उत्तरप्रकृत्याश्रयेण तु कर्मप्रकृत्यादितोऽवसेया इति दिक् ।। ननु जीवो रागाधाविष्टो यत्कर्म बध्नाति तदध्यवसायविशेषेण, तत्र किं चतुर्विधमपि बन्धमेकेनैवाव्यवसायेन बध्नाति, उत्त विभिन्नेन, तत्र योकेन तहिं कथमेकेन वन्धवै-25 चित्र्यं, यदि वनेकेन वर्हि ताशवाहशाध्यवसायविगमे ताशवाशबन्धाभावप्रसक्त्या कदाचिद्रागिणोऽपि प्रकृतिबन्धमात्रं कदाचिस्थितिबन्धसहित, कदाचित्रय कदाचितुष्टयमपि स्थानतु चतुष्टयनियमो न चैतदिष्टमित्याशंकायामाह- 'तस्वन्यायविभाकरे समितिले धन्धाश्चैते चत्वार एकविधाध्यवसायविशेषेण जायन्ते सङ्कमोदन- नादिकरणविशेषाश्च ॥ बन्धाश्चैत इति । एकविधेति, तथाचैकेनैवाध्यवसायेन चतुर्विधो बन्धो युगपञ्जायत इत्यर्थः, न च कथं कार्यवैचित्र्यमिति वाच्यम् , योगस्य प्रकृतिप्रदेशवन्धयोः कपायस्य 5 स्थितिरसबन्धयोनिमित्चत्वेन विचित्रकाध्यवसायेन विचित्रकार्योत्पत्तौ वाधकाभावात् तथाच योगेन कपायेण च सामान्येन गृहीतानां कर्मपुरलानां विचित्राध्यवसायविशेपादेकविधाज्ञा- नावरणीयत्वादिभेदेन स्थितिमत्त्वेन रसवत्वेन प्रदेशवत्वेन च परिणमनं जायत इति भावः । केवलं बन्धा एवैते एकविधाघ्यवसायेन जायन्ते किन्तु करणविशेषा अपीत्याह समेति॥ कियन्ति करणानीत्यत्राह- 10 करणविशेषाश्च बन्धनसङ्कमोद्वर्तनापवर्तनोदीरणोपशमनानिधत्ति निकाचनामेदादष्टविधाः॥ अपवत्येते यया; निधीयते यया, करणविशेषाश्चेति । दात्रादिद्रव्यकरणे क्षेत्रकरणे कालकरणे भावकरणे निष्पादने संय- मव्यापारे समाचरणे करणकारणानुमोदनरूपे करणत्रिके जीववीर्यविशेपेऽपि च करण- शब्दप्रवृत्तरत्र जीववीर्यविशेषग्रहणाय विशेषपदमुक्तम् । वध्यते येन, संक्रम्यन्ते येन, 18 उद्वत्येते यया, उदीयते यया, उपशम्यते यया, निकाच्यते ययाऽऽत्मपरिणयाऽध्यवसायरूपयेति तत्तच्छन्दव्युत्पत्तिरवसेया । तत्र वन्धनकरणाव्यव- सायास्सर्वस्तोकास्तेभ्य उदीरणाव्यवसाया असंख्येयगुणास्ततोऽपि संक्रमाध्यवसाया असं- ख्येयगुणा उद्वर्त्तनापवर्त्तने संक्रमभेदावतस्तत्रान्तर्भावः । तत उपशान्तोपशमनाध्यवसाया असंख्येयगुणास्तूतोऽपि निधत्स्यव्यवसायास्ततोऽपि निकाचनाध्यवसाया इति ॥ अथ करणस्वरूपमादशैयति- तत्र बद्धात्मनो वीर्यपरिणामविशेषः करणं । वीर्यश्चात्र योगकषाय- रूपं विवक्षितम् ॥ तत्रेति । वृद्धात्मन-इति, सलेश्यस्येत्यर्थः, तेनायोगिनां सिद्धानाञ्च व्यावृत्तिस्तद्वी- यस्य बन्धाद्यहेतुत्वात् । वीर्यपरिणामविशेष इति । क्षायिकक्षायोपामिकरूपवीर्यलब्धिजन्यो 25 वीर्यविशेष इत्यर्थः, अयञ्च छद्मस्थानां सयोगिनाश्च भवति, --उभयेषामपि स बुद्ध्यबुद्धिपू. वकत्वाभ्यां द्विविधः, घावनवलानादिक्रियासु नियुज्यमानो धुद्धिपूर्वकः, मुक्ताहारस्य.धातु- 20 . - बन्धनकरणम्.] न्यायप्रकाशसमलङ्घते १२५१ लत्वादिपरिणामापादक एकेन्द्रियादीनां तत्तक्रियाप्रयोजकश्चाबुद्धिपूर्वकः, तत्रापि झायोपश- मेकवीर्यलब्धिजन्यं छानस्थिकं वीर्यमकपायिसकषायिभेदतो द्विविधमुपशान्तमोहक्षीणमोहा- मकवायिक सूक्ष्मसम्परायान्तानाञ्च सकषायिकं विज्ञेयं, तथाच बन्धाद्यनुकूलतया मनो- कायसहकृतः कषायसहकृतश्च स्थूलसूक्ष्मपरिस्पन्दो वीर्यपरिणामविशेष उच्यते इति भावः। उत्तस्क्रियासहितानां मनोवाकायानान्तु योगात्मकत्वमितरस्य कषायात्मकत्वमेतौ कषाय- 5 योगी च वीर्यमुच्यत इत्याशयेनाह-वीर्यश्चेति । अत्र बन्धादिप्रकरणे, योगः परिणामाले- बनग्रहणसाधनं प्रकृतिप्रदेशबन्धयोनिमित्त, कपायरिस्थविरसवन्धहेतुः कषायाः क्रोधमान- मायालोमास्तजनितो जीवस्याध्यवसायविशेषः कपायशब्देनेहोच्यते । एतस्य वीर्यविशेषस्य योगस्य विषयेऽविभागवर्गणास्पर्धकान्तरस्थानानन्तरोपनिधापरम्परोपनिषावृद्धिसमयजीवा- सबहुत्वप्ररूपणाः कर्मप्रकृत्यादितोऽवसेयाः ॥ ...10 अथ करणविशेषान् लक्षयितुमुपक्रमते- कर्मणामात्मप्रदेशैरसहान्योन्यानुगमनप्रयोजकवीर्यपरिणामो बन्ध- नकरणम् । अत्र योगात्मकवीर्येण प्रकृतिप्रदेशयोः कषायैश्च स्थित्यनुमा: गयोर्बन्धो जायते ॥ कर्मणामिति । जीवप्रदेशैस्सहान्योऽन्यानुगतीक्रियतेऽष्टप्रकार कर्म येन वीर्यविशेषेण 15 बन्धनकरणमित्यर्थः । जीवो हि योगेनौदारिकादिशरीरयोग्यान् पुदलस्कन्धान गृहाति, तत्र योगानां जघन्यमध्यमोत्कृष्टत्वे पुद्गलानामपि स्तोकमध्यमप्रभूतानां ग्रहणं जायते, ग्रह- णयोग्या: पुद्गलस्कन्धा अन्यतो विज्ञेयाः । स्वप्रदेशावगाढं ग्रहणयोग्यं दलिकमेकमपि सर्वैरेवात्मप्रदेशैः शृंखलावयवानामिव परस्परं सम्वद्धैर्गुहाति पुद्गलद्रव्याणाञ्च परस्पर सम्बन्धस्लेइतो विज्ञेयः । तथाच वन्धनकरणसामाध्यमानानां मूलोतरप्रकृतीनां 20 ज्ञानावारकत्वादिस्वभाववैचित्र्या दो भवति । दृष्टश्चैतत्तृणदुग्धादीनां स्वभावभेदाद्वस्तुभेद- स्वथात्रापि कर्मत्वेन तुल्यत्वेऽपि स्वभावभेनाद्भेदः । अयश्च प्रकृतिवन्धः, कर्मणां नाना- वारकत्वादिस्वभावस्यैव प्रकृतित्वात्, यथा मोद्रकस्य वातविनाशकत्वादिस्वभावः प्रकृतिः।। तथाचाविवक्षितस्थितिरसप्रदेशः प्रकृतिवन्धोऽविवक्षितरसप्रकृतिप्रदेशः स्थितिबन्धोऽ विवक्षितप्रकृतिस्थितिप्रदेशो रसबन्धोऽविवक्षितप्रकृतिस्थितिरसा प्रदेशबन्ध इत्यपि बन्धच-25 । १. आत्मप्रदेशाथासंख्येयास्तषु सर्वप्रकृतिपुद्गला , वध्यन्ते एककोऽप्यात्मप्रदेशोऽनन्तनावरणादिकर्म- स्कन्धैर्वद । अनन्तानन्तप्रदेशा कर्मवर्गणारे. पुदला वघ्यन्ते । न संख्येयप्रदेशा नवाऽसंख्येयप्रदेशा नाम्यनन्तप्रदेशा । अनन्ते राशौ पुनरनन्सयुदलप्रक्षेपादनन्तानन्त इति व्यवहार, इति ।

1 :२५२: २६: तस्वन्यायविभाकरे [ नवमकिरणे तुष्टयलक्षणमूह्यम् । कर्मणां स्थितिश्च मोदकस्य द्वित्रिविनावस्थानरूपेव प्रतिनियतकालाव- स्थानरूपा, तस्य स्निग्धमधुरादिरसवकर्मणोऽपि रसः शुभाशुभादिः, तथा तस्य प्रदेशा यथैकद्विप्रसृत्यादिप्रमाणातथा कर्मणोऽपि बहुतरबहुतमादिरूपा अवसेयाः । तत्र प्रकृतिप्र- देशबन्धौ योगतः स्थितिरसबन्धौ कषायत इत्याहात्रेति । युक्तिः पूर्वमेवोक्ता । प्रकृतिबन्धः 5 पूर्वमादर्शितः सायध्रुवादिश्च । प्रदेशबन्धोऽपि जन्तुनाष्टविधबन्धकेन यदेकेनाध्यवसायेन विचित्रवागर्मेण गृहीतं दलिक तस्याष्टौ भागा भवन्ति, सप्तविषबन्धकस्य सप्तभागाः, पविध- बन्धकस्य षड्भागा एकविधबन्धकस्य त्वेको भाग इति मूलप्रकृतिभागविभागा उक्ताः, तत्रो- चरमकवीनान्तु ज्ञानावरणीयस्य स्थित्यनुसारेण पूर्वोदितरूपेण यो मूलभाग आभजति तस्या- नन्तवमो भागः केवलज्ञानावरणाय दीयते, तस्यैव भागस्य सर्वघातिप्रकृतियोग्यत्वात्, शेषस्य 10 भागचतुष्टयं विधाय मतिश्रुतावधिमनःपर्यवज्ञानावरणेभ्य एकैको भागो दीयते | दर्शनाव- रणस्यापि यो मूलभागः प्राप्तस्वस्यानन्तवमं मागं षोढा विधाय सर्वघातिभ्यां निद्रापक्षक- केवलदर्शनावरणाभ्यां दीयते, शेषस्य भागत्रयं विधाय चक्षुरचक्षुरवधिदर्शनावरणेभ्य एकको भागो दीयते । अन्तरायस्य प्राप्तं मूलभाग निखिलमपि पञ्चधा कृत्वा दानान्तरायादिभ्यो दीयते, सर्वधात्यवान्तरभेदाभावात् | मोहनीयस्य लब्धमागेऽनन्ततम सर्वघातिप्रकृतियोग्य 15 द्विधा कृत्वा दर्शनमोहनीयचारित्रमोहनीयाभ्यां प्रयच्छति । दर्शनमोहनीयस्य प्राप्तो ‘भागस्सर्वोऽपि मिथ्यात्वमोहनीयस्यैव भवति चारित्रमोहनीयभागन्तु द्वादशधा विभज्याय- द्वादश कषायेभ्यो दीयते । मोहनीयशेषमागं द्विधा कृत्वा कषायमोहनीयाय नोकपाय- मोहनीयाय च दीयते । कषायमोहनीयभागं चतुर्धा विधाय संज्वलनक्रोधादिभ्यः, नोकपाय- मोहनीयभागं पञ्चषा कृत्वा बध्यमानवेदाय बध्यमानहास्यादियुगलाय भयजुगुप्साभ्याच 20 दीयते, नान्येभ्यो बन्धाभावात् । तथा वेदनीयायुगोत्रेषु यो मूलमाग आमजति स एषां स्वस्वैकप्रकृतेर्बध्यमानाया उपढौकते द्विप्रभृतीनाममीषां युगपद्वन्धाभावात् । नाम्नो भागस्तु यदा यदा यावत्यो वन्धमायान्ति तावतीभ्यस्तदा तदा समानतया विभज्य दीयते । विस्तरोऽन्यत्र ॥ अनुभागस्य कारणं काषायिका अध्यवसायाः, ते च द्विधाः, शुभा अशुभाश्च, शुभैः क्षीरखण्डरसोपमाहादजनकभागं कर्मपुद्गलानामाधत्ते 2 निम्बकोशातकीरसोपमञ्चाशुभैः, ते च शुभा अशुभा वाऽध्यवसायाः प्रत्येकमसंख्येय- - । १. मिथ्यात्वादिचतुष्टयस्य सामान्येन कर्मबन्धहेतुत्वेऽपि प्राथमिककारणत्रयामावेऽप्युपशान्तमोहा- दिगुणस्थानकेषु योगवलतो वेदनीयस्य बन्धात योगाभावनायोगिगुणस्थाने बन्धाभावाच प्रकृतिप्रदेशबन्धयो- योग एवं प्रधान कारणमवसीयते, कर्मणो जघन्योत्कृष्टरूपतया स्थितिन्धोत्तरकालीन स्थितिसवनरूपम- नुभवनय कोधादिपकपायजनितजीवाध्यवसायविशेषात्मककषायावतीति भावः ॥ , न्यायप्रकाशसमलते लोकाकाशप्रदेशप्रमाणाः शुभाः केवलं विशेषाधिकाः | यानेव धनुभागवन्धाभ्यव- सायान् क्रमिकान् संक्लिश्यमानः क्रमेणाघोऽध आस्कन्दति वानेव विशुध्यमानः क्रमेणो. प्रमूर्ध्वमारोहतीति सोपानारोहणावतरणतुल्यानामुभयेषां साम्येऽपि क्षपकस्याव्यवसाय. विशेषे वर्तमानस्य श्रेणिमारोहवस्तेभ्यः प्रतिपाताभावेन शुभानामशुभापेक्षया विशेषत आधिक्यम् । एवञ्च येन केनाप्यध्यवसायेनानुभागनिमित्वेन जीवो योग्यपुद्गलादानसमये 5 कर्मपरमाणौ प्रत्येकं रसस्य निर्विभागान् भागान् सर्वजीवेभ्योऽनन्तगुणानुत्पादयति, कर्मवर्गणान्तःपातिनः कर्मपरमाणवो हि जीवग्रहणपूर्व प्रायो नीरसा एकस्वरूपा आसन् यदा तु जीवेन गृह्यन्ते ते तदानीं ग्रहणसमय एव काषायिकाध्यवसायेन वाशवाशरसा विभागा ज्ञानावारकत्वादिविचित्रस्वभावा आपद्यन्ते, जीवानां पुद्गलानाञ्च शकेरचिन्त्य- न चेदमसम्मवि, गोगृहीवशुष्कतृणादिपरमाणूनामत्यन्तनीरसानामपि क्षीरादिरूप- 10 खेन सप्तधातुत्वेन च परिणामदर्शनात् , ते च रसा विभागाः कर्मपरमाणुषु क्वचित्स्तोकाः, क्वचिचेभ्यः प्रभूता, क्वचिच प्रभूततमा भवन्ति, अत्र वर्गणास्पर्धकादिविचाराः कर्मप्र- न्थेभ्यो द्रष्टव्याः। स्थितिबन्धेऽपि संक्लेशस्थानानि विशोधिस्थानान्यपि सर्वत्रासंख्येयगुण- वया पूर्ववदेव भाव्यानि, तत्र मूलप्रकृतीनां जघन्योत्कृष्टा च स्वितिरप्रेऽस्माभिर्वक्ष्यते मूल एव सा च कर्मरूपतयाऽवस्थानस्वरूपा विज्ञेया, अनुभवप्रायोग्या तु सैवावाधाकालहीना, 15 येषां कर्मणां यावत्यस्सागरोपमकोटीकोट्यस्तेषां तावन्ति वर्षशतान्यबाधाकालो विज्ञेयः । अबाधाकालहीनश्च कर्मदलिकनिषेकः, जघन्यस्त्वबाधाकालोन्तर्मुहर्त्तम् । बन्धकानाश्रित्य जघन्योत्कृष्टस्थितिविवेचना कर्मप्रकृत्यादितः कार्या । एवं स्थितिस्थानादिप्ररूपणान्यपि । इत्येवं बन्धनकरणविचारो दिशा दर्शित इति ॥ त्वात्, 20 अथ सङ्क्रमणकरणं स्वरूपयति- अन्यकर्मरूपतया व्यवस्थितानां प्रकृतिस्थित्यनुभागप्रदेशानामन्य- कर्मरूपतया व्यवस्थापनहेतुर्वीर्यविशेषस्संक्रमणम् ।। अन्यकर्मेति । तथा तथा बध्यबन्धकमावे जीवकर्मणोहि परस्परं सव्यपेक्षत्वम् । जीवाध्यवसायविशेषमाश्रित्य कर्मवर्गणान्तःपातिनो जीवस्वप्रदेशागाढाः पुरला ज्ञानावरणीया- दिकर्मरूपतया परिणमन्ते, जीवोऽपि स्वप्रदेशावगाढतथाविधकर्मविपाकोदयात्तथापरिणमते। 25 तत्र संशसंज्ञितेन विशोधिसंहितेन वा येन वीर्यविशेषेणान्यकर्मरूपतया व्यवस्थितानां- विवक्षितबध्यमानप्रकृत्यादिन्यतिरिक्ततया स्थितानां प्रकृत्यादीनां अन्यकर्मरूपतया-वध्य. मानासु प्रकृत्यादिपु मध्येऽबध्यमानप्रकृत्यादिदलिकं प्रक्षिप्य वध्यमानप्रकृतिरूपतया, वध्य- " :५४: तत्त्वन्यायविभाकरे [नवमकिरणे मानानां वा प्रकृतीनामितरेतररूपतया परिणमयति स वीर्यविशेषस्सङ्कमणमित्यर्थः । यथा वध्यमानसातवेदनीयेऽवध्यमानासातवेदनीयस्य, उद्बोने वा तादृशे नीचर्गोत्रस्य ताह- शस्येत्यादि । तथा बध्यमाने मतिज्ञानावरणीये बध्यमानस्यैव श्रुतज्ञानावरणीयस्य श्रुतक्षा नावरणीये वा तादृशे वादृशमतिज्ञानावरणीयस्येत्यादि । सोऽयं सङ्कमा प्रकृतिस्थित्यनु- 5 मागप्रदेशरूपविषयभेदाचतुर्विध इति सूचयितुं प्रकृतिस्थित्यनुमागप्रदेशानामित्युक्तम् । दर्शनत्रिकस्य बन्धं विनापि संक्रमाद् बन्धघटितं संक्रमलक्षणं नोक्तम् । मिध्यात्वस्यैव हि कन्धो न सम्यक्त्वसम्यमिथ्यात्वयोः, विशुद्धसम्यग्दृष्टिः सम्यक्त्वसम्यड्मिध्यात्वयो। पतहरूपबन्धाभावेऽपि मिथ्यात्वं सङ्कमयति, सम्यक्त्वे च सम्यड्मिथ्यात्वम् । संक्रम्य- माणप्रकृतेराधारभूता प्रकृतिः पतगृह उच्यते, किन्तु कृतेऽन्तरकरणे प्रथमस्थितौ समयोना.. 10 वलिकात्रिकशेषायां बध्यमानेष्वपि संज्वलनेषु चतुर्वपि प्रकृत्यन्तरदलिकसंक्रमाभावात्तदानीं। न तेषां पवद्हत्वं, तथान्तरकरणे कृते द्वयोरावलिकयोः प्रथमस्थितिसत्कयो पुवेदस्य प्रकृत्य- न्तरसंक्रमामावेन न पतगृहत्त्वं,मिथ्यात्वे क्षपिते सभ्यरिथ्यात्वस्य सम्यमिथ्यात्वयोश्च क्षपित- योस्सम्यक्त्वस्योद्वलिवयोस्तु सम्यक्त्वसम्यमिथ्यात्वयोमिथ्यात्वस्य न पतगृहत्वमित्यादिक विभावनीयम् । दर्शनमोहनीयचारित्रमोहनीययोरायुषों मूलप्रकृतीनाञ्च परस्परं न सङ्कमः । 15 यो यस्मिन् दर्शनमोहनीये पर्वते न तस्यान्यजं संक्रमोऽविशुद्धदृष्टित्वात् । तथा परप्रकृतियुः संक्रान्तं दलिकमावलिकामांवकालं बन्धाधलिकागतमुदयावलिकागतमुद्वर्तनावलिकागतो. द्वर्तनादिसकलकरणायोग्यम्, दर्शनमोहनीयत्रिकवर्जमुपान्तमोहनीयं सकलकरणायोग्य द्रष्टव्यम् । तत्र सम्यक्त्वसम्यमिध्यात्वनरकद्विकमनुजद्विकदेवद्विकवैक्रियसप्तकाहारकसप्त- कतीर्थकरोथैर्गोत्ररूपाश्चतुर्विशतिप्रकृतय आयुश्चतुष्टयज्वाध्रुवसत्ताकम् | शेष पुनविंशदुत्तर प्रकृतिशत ध्रुवसत्कर्म, ततोऽपि सातासातवेदनीयनीचैर्गोत्रमिध्यात्वरूपं प्रकृतिचतुष्टयमप- सार्यते, ततोऽवशिष्टास्सर्वा ध्रुवसत्कर्मप्रकृतयः षड्विंशत्युत्तरशतसंख्यास्सङ्गममधिकृत्य सोचादिरूपतया चतुर्विधा अपि भवन्ति । आसां हि संक्रमस्संक्रमविषयप्रकृतिबन्धव्यवच्छेदे न भवति, तासां पुनर्वन्धारम्भे भवत्यतोऽसौ सादिः । तत्तद्वन्धन्यवच्छेदस्थानमप्रातस्य पुनर- नादिः, अभव्यस्य कदाचिदपि व्यवच्छेदाभावेन ध्रुवः । कालान्तरे व्यवच्छेदसम्भवेन भव्यस्य 25 त्वध्रुवः । अध्रुवसत्कर्मणामध्रुवसत्कर्मत्वादेव संक्रमस्साद्यध्रुवः सातासातवेदनीयनीचों- त्राणान्तु परावर्त्तमानत्वात्साधध्रुवोऽवसेयः, वध्यमाने सातेऽसातस्य, असाते का वादृशे सातस्य, उबैगोत्रे तथाविधे नीचैर्गोत्रस्य, नीचैर्गोत्रे वाहशे उच्चैगोत्रस्य संक्रमो नान्यदाऽत 20 १. बद्धमिथ्यात्वमुद्रलाना मदनकोद्रवस्थानीयानामोपचविशेषफल्नौपशमिकसम्यक्त्वानुगते' विशॉर्षि स्थानेन शुद्धार्धविशुद्धाविशुबकरणादिति भाव ॥

संक्रमण न्यायप्रकाशसमलते एषों संक्रमस्य सादित्वमध्रुवत्वञ्च । मिथ्यात्वस्य तु संक्रमो विशुद्धसम्यग्दृष्टेर्भवति, विशु- द्धसम्यग्दृष्टित्वच कादाचित्कमतस्तस्य संक्रमो साधध्रुव एवेति । मिथ्यादृष्ट्यादिप्रमत्ता- न्वारसातवेदनीयस्य संक्रामकाः, परतस्संक्रम्यमाणप्रकृत्याधारभूतासातवेदनीयस्य बन्धा- भावान्नेतरे वत्संक्रामकाः, अपि तु तत्र साते वध्यमानेऽसातस्यैव संक्रमः | अनन्तानुवन्धिना मिथ्यारष्ट्यादयोऽप्रमत्तसंयतान्तास्सङ्कामका न परे, परंतस्तेषामुपशमनाक्षयाद्वा । मिथ्या- 5 दृष्टयादयोऽपूर्वकरणान्ता यशाकीस्रेस्सनामका नेतरे, परतः केवलायास्तस्या एवं बन्धेन पतहाभावात् । अनन्तानुबन्धिवर्जद्वादशकषायाणां नोकषायाणाच- - मिथ्याध्यादयो निवृत्तिवादरसम्परायान्तास्सट्टामका न परे, परतस्तेषामुपशमात्क्षयावा । मिथ्यात्व- सम्यमिध्यात्वयोरविरतसम्यग्दृष्ट्यादय उपशान्तमोहपर्यवसानास्सक्रामकाः, न परे, परत- स्तयोस्सचाया अभावात् । सम्यमिथ्यात्वं पुनर्मिध्यादृष्टिरपि सक्रमयति, सम्यक्त्वस्य 10 मिथ्यादृष्टिरेव सङ्कामको नान्ये, मिध्यात्वे वर्तमानस्यैव संक्रामकत्वात् । उच्चैौत्रस्य मिथ्या- दृष्टिसाखादनौ, अन्येषां नीचैर्गोत्रावन्धकत्वात् । इतरासां मतिज्ञानावरणीयादिप्रकृतीनां सूक्ष्मसम्परायपर्यवसाना मिथ्यादृष्ट्यादयस्सङ्ग्रामका न परे परतो बन्धाभावेन पतगृहा- भावादिति । एवं ज्ञानावरणपञ्चकदर्शनावरणनवकपोडशकषायभयजुगुप्सातैजससप्तकवर्णा- दिविंशतिनिर्माणागुरुलघूपघातान्तरायपश्चकलक्षणाः पतहा ध्रुववन्धिन्यस्सप्तपष्टिप्रकृत- 15 यस्साद्यनादिधुवाध्रुवरूपचतुर्भेदाः । अभव्यभव्यापेक्षया ध्रुवाध्रुवत्वे, स्वस्ववन्धव्यवच्छेदे पतवहत्त्वाभावेन तत्र संक्रमासमवान्धारम्भे च हेतुतः पतगृहत्वेन सादित्वं तत्तद्वन्ध- व्यवच्छेदस्थानमप्राप्तस्यानादित्वं, शेषास्त्वध्रुववन्धिन्योऽष्टाशीतिसंख्याः प्रकृतयोऽध्रुवबन्धि- त्वादेव पतगृहत्वमधिकृत्य साधध्रुवा भावनीयाः । मिथ्यात्वस्य पुनर्बुववन्धित्वेऽपि यस्य सम्यक्त्वमिथ्यात्वे विद्यते स एव ते तत्र सक्रमयति नान्य इति तस्य सायध्रुवपतद्ब्रहत्वं 20 भाव्यम्, विशेषोऽत्र कर्मप्रकृत्यादितोऽवसेयः । अष्टमूळप्रकृतीनामष्टपञ्चाशदधिकशत- संख्याकोत्तरप्रकृतीनाञ्च या स्थितिईस्वीभूता सती दीर्घाकृता दीर्घाभूता सती' हवी- कृता पतगृहप्रकृतिस्थितिपु वा मध्ये नीत्वा निवेशिता स स्थितिसंक्रम उच्यते, तत्र थितीनामन्यत्र निवेशनं न साक्षादशक्यत्वादपितु स्थितियुक्तपरमाणुद्वारैव, ततो मूलप्रकृतीनां परस्परं संक्रमाभावात् तासां प्रकृत्यन्तरनयनलक्षणस्थितिसङ्गमो 25 न भवति किन्तु द्वावेवोद्वर्तनापवर्तनालक्षणौ सङ्कमौ, ह्रस्वीभूतस्य दीर्घाकरण- १. तथाच कर्मपरमाणना इस्वस्थितिकालतामपहाय वीर्षस्थितिकालतया व्यवस्थापन, पामेव दीर्घ- स्थितिकालवामपहाय इस्वस्थितिका नया व्यवस्थापन, पुन मनम्यमाणप्रकृतिस्थितीना पतप्रकृतौ नीला निवेशनमिति भाग्यम् ॥ - । तस्वन्यायधिमाकरे [ मारने मुद्वर्तना, दीर्घाभूतस्य इस्वीकरणमपवर्तनेति । एवमनुभागसंक्रमोऽपि मूळोत्तरप्रकृति- विषया, लक्षणन्तु यस्खासा रसो इस्वीभूतस्सम् दीर्घाकृतो दीर्घाभूतस्सन् इस्वीकृतोऽन्यप्रकृति- स्वभावेन परिणमिवो वा स सर्वोऽप्यनुभागसंक्रमः, परन्तु मूलप्रकृतीनां परस्परं सत्र भाभावेनान्यप्रकृतिखमावपरिणामरूपरससङ्कमो न भवति । एवं यत्संक्रमप्रायोग्य कर्म- 5 दलिकमन्यप्रकृतिरूपतया परिणम्यते स प्रदेशसङ्कमा, स चोद्वलनाविध्यातयथाप्रवृत्तगुण- सर्वसङ्कमभेदेन पञ्चविधः, घनदलान्वितस्याल्पदलस्योकिरणमुलन, यासां प्रकृतीत गुणप्रत्ययतो भवप्रत्ययतो वा बन्धो न भवति तासां संक्रमकरणं विभ्यावसङ्गमः । अपूर्वकरणप्रभृतयोऽबध्यमानाशुभप्रकृतीनां सम्बन्धिकमदलिकं प्रतिसमयमसंषयगुणतया बध्यमानासु प्रकृतिषु यत्प्रक्षिपन्ति स गुणसङ्कमः । सर्वेषामपि संसारस्थानां जीवानां ध्रुव- 10 बन्धिनीनां बन्धे परावर्तमानप्रकृतीनान्तु स्वखभवबन्धयोग्यानां वन्धेऽबन्धे वा यस्सङ्कमः प्रवर्तते स यथाप्रवृत्तसक्रमः । चरमसमये यत्परप्रकृतिषु प्रक्षिप्यते दलिकं स सर्वसङ्कम- उच्यते । अत्र सर्वेषां विशेषः कर्मप्रकृत्यादिवो विज्ञेय इति दिक् ।। अधुनोद्वर्तनामाचष्टे- कर्मस्थित्यनुभागयोः प्रभुतीकरणप्रयोजकवीर्यपरिणतिरुद्धर्चना ॥ कर्मेति । स्थित्यनुभागमात्रविषयेयमुद्वनेतिसूचनाय कर्मस्थित्यनुभागयोरित्युतमेव- मेवोचरलक्षणे विज्ञेयम् । उदयावलिकातो बहिर्वर्जिनीनां स्थितीनामुद्वर्तना संवति उदया- पलिकागतास्तु सकलकरणायोग्याः । तथाऽबाधाकालादुपरिवन्य एव सितयः उद्वयते, वध्यमानप्रकृत्यबाधया समाना हीना वा या पूर्वषद्धप्रकृतीनां स्थितिस्साऽवाधाकालान्ता प्रविष्टत्वानोहय॑ते । तथाचाबाधान्तःप्रविष्टा निखिला अपि स्थितय उद्वर्तनापेक्षया 20 परित्याच्या भवन्ति, तत्रोत्कृष्टाऽबाघोत्कृष्टातीत्वापनेत्युच्यते, अतीत्थापना उलंघनीया ! समयेनोना योत्कृष्टाऽबाधा समयोनोत्कृष्टातीत्थापना भवति, द्विसमयेनोना सा द्विसभयो- नोत्कृष्टातीत्थापना, एवं प्रतिसमयहान्या तावदतीत्थापना भवन्ति यावनधन्याऽवाधाऽन्तर्मु- हर्तप्रमाणा, ततोऽपि जघन्यतराऽतीत्थापना यावदुदयावलिका तावद्वाच्या,उदयावलिकागवानां तु स्थितीनामनुद्वर्तनीयत्वात् । कर्मदलिकनिक्षेपविचारस्तु कर्मप्रकृत्यादिवो बोध्य इति दिक् ।। १. उद्वर्तनापवर्तनारूपी संक्रमौ तु भवत इति भावः । २. यथाऽनन्तानुवन्धिवतुष्टयसम्यक्त- मिथ्यात्ववेदविकनरकटिकवैकियसप्तकाहारकसप्तकमनुजतिकोवर्गोत्राणा पल्योपमासंख्येयमागमात्रमन्तहान कालेन स्थितिखण्डमुस्किरति पुनस्तयैव द्वितीयं प्रथमखण्डाविशेषहीन, एवमेव पूर्वस्मात्पूर्वमाविशेषता होनानि स्थितिखण्डानि यावद् द्विवरमस्थितिखण्डमन्तर्मुहूःकालेनोत्कीर्यन्त इति ॥ 15 - अपवतनोदोरणे ] भ्यायप्रकाशसमलर अथापवर्जनामाह- कर्मस्थित्यनुभागयोईस्वीकरणप्रयोजकवीर्यविशेषोपवर्तना ॥ कर्मस्थितीति । कर्मपरमाणूनां दीर्घस्थित्यनुमार्गवतां दीर्घस्थित्यनुमागावपहृत्य हूस्व- स्थितिरसवत्या व्यवस्थापने प्रयोजकीभूतवीर्यविशेष इत्यर्थः । उदयावलिकाया बाह्यान् सम- यमात्रद्विसमयमात्रादिस्थितिभेदानपवयति । उदयवतीनामनुदयवतीनां प्रकृतीनामुदयसमया- 5 दारभ्यावलिकामात्रा स्थितिरुदयावलिकेति विज्ञेया। ते चापवर्त्यमानास्थितिविशेषा यावदंघा- वलिकाहीना सर्वा कर्मस्थितिस्तावल्लभ्यन्ते । उदयावलिकाया उपरितनी या समयमात्रा स्थितिस्तस्या दलिकमपवर्तयन्नुदयावलिकाया उपरितनौ द्वौ त्रिभागौ समयोनावतिक- म्याधस्तने समयाधिके तृतीये भागे निक्षिपति, एष जघन्यो निक्षेपो जघन्या बातीस्थापना, यदाचोदयावलिकाया उपरितनी द्वितीया स्थितिरपवर्त्यते तदातीत्थापना प्रागुक्तप्रमाणा 10 समयाधिका भवति निक्षेपस्तु तावन्मात्र एव । एवं तृतीया यदापवय॑ते वदा प्रागुलमा- नाऽतीत्थापना द्विसमयाधिका भवति निक्षेपस्तु तावानेव । एवमतीस्थापना प्रतिसमयं वावद्वर्धयितव्या यावदावलिका परिपूर्यते निक्षेपविषयाणां स्थितीनाञ्च समयाधिक आव- लिकात्रिभाग एवानुवर्चते, ततः परमतीत्थापना सर्वत्र तावन्मात्रैव प्रवते, निक्षेपस्तु यावद्वन्धावलिकातीत्थापनाऽवलिकारहिताऽपवय॑मानस्थितिसमयरहिता च सकलापि 15 कर्मस्थितिस्तावद्वर्धते । इत्येवं निर्व्याघातापवर्तना विज्ञेया । सध्याघाताऽपवर्तनोद्वर्तना- पवर्तनयोस्संयोगेनाल्पवहुत्वं कर्मप्रकृत्यादिभ्यो विज्ञेयम् । एवमनुभागोद्वर्तनापवर्तनादिकमपि तत एवाऽवगन्तव्यम् । उद्वर्तनापवर्तने संक्रमभेदावेव स्थित्यनुभागाश्रये इत्यलं विस्तरेण ॥ सम्प्रत्युदीरणामाह-- अनुदितकर्मदलिकस्योदयावलिकाप्रवेशनिदानमात्मवीर्यमुदीरणा ॥ 20 अनुदितेति । येन योगसंज्ञकवीर्यविशेषेण कषायसहितेन तद्रहितेन वोदयावलिका- बहिर्तिनीभ्यस्थितिभ्यः परमाण्वात्मकं दलिकमपकृष्योदयावलिकायां प्रक्षिप्यते स एष वीर्यविशेष उदीरणेत्यर्थः । सापि प्रकृतिस्थित्यनुभागप्रदेशभेदतश्चतुर्षा । प्रत्येकमपि मूलो- सरप्रकृतिविषयत्वाद्विविधम् । अष्टधा च मूलप्रकृतिविषया, बन्धनादीनां पृथगविवक्षि- १. अपवर्तना च स्थित्यनुमागविषयेवे, न प्रकृतिप्रदेशाविषयेत्यागयनोक स्थित्यनुभागवतामिति । के ते- स्पितिविशेषा यानपवर्तयतीत्यत्राहोदयावलिकाया इति, उदयावलिकागतास्तुनिस्चिलकरपायोग्यत्वेनापवर्चना- महत्वात् वामानिति ॥ . rs । तस्वन्यायविभाकर (मामाकरण तत्वे द्वाविंशत्यधिकशवमुदयसमकक्षतयोत्तरप्रकृतीनां भवति, पृथक् तद्विवक्षाथान्तु अष्टप. वाशदधिकशतभेदास्तेषाम् । ज्ञानावरणदर्शनावरणनामगोत्रान्तरायाणां मूलप्रकृतीनां अना- वित्वं ध्रुवत्वमध्रुवत्वञ्च । वेदनीयमोहनीययोश्चतुर्विधत्वमपि । तत्र ज्ञानावरणदर्शनावर- णान्वरायाणां यावत्क्षीणमोगुणस्थानकस्य समयाधिकावलिकाशेषो न भवति तावत्सर्वजी- 5 वानामुदीरणाया अवश्यंभावेन, नामगोत्रयोश्च यावत्सयोगिचरमसमयं तावत्सर्वेषामवश्यं- भावेनानादित्वं, ध्रुवत्वममन्यापेक्षयाऽध्रुवत्वश्च भव्यापेक्षयेति । वेदनीयस्य यावत्प्रमत्तगुण- स्थानकं मोहनीयस्य सूक्ष्मसम्परायगुणस्थानकं यावदुदीरणाया मावेनाप्रमचादिगुणस्थान- केभ्यः प्रतिपततो वेदनीयस्योपशान्तमोहगुणस्थानकाच प्रतिपततो मोहनीयस्योदीरणाया सावित्वं, तत्स्थानमप्राप्तस्यानादित्वं, ध्रुवत्वाधुवत्वे पूर्ववत् । आयुरुदीरणायास्सादित्वम- 10 ध्रुवत्वश्च । पर्यन्तावलिकायामायुषो नियमेनोदीरणाया अभावाध्रुवत्वं पुनरपि भवोत्पत्ति- प्रथमसमये प्रवर्त्तमानत्वाच सादित्वं उत्तरप्रकृतीनान्तु कर्मप्रकृत्यादिभ्यो ज्ञातव्याः । ज्ञाना- वरणदर्शनावरणान्तरायाणां क्षीणमोहान्तास्सर्वेप्युदीरकाः। मोहनीयस्य सूक्ष्मसम्परायान्ता उदीरकाः। वेदनीयस्य प्रमत्तगुणस्थानकपर्यन्तास्सर्वेऽप्युदीरकाः। आयुषोऽचरमावलिक- प्रमत्तान्ता उदीरकाः, नामगोत्रयोस्तु सयोगिकेवलिपर्यवसानास्सर्वेऽप्युदौरका इति । 18 अधिकमन्यत्र द्रष्टव्यम् । तथा ज्ञानावरणवेदनीयायुर्गोत्रान्तरायाणामेकैकमुदीरणास्थानं, यथा ज्ञानावरणान्तराययोः पञ्चप्रकृत्यात्मकमेकैकं, वेदनीयायुर्गोत्राणां वेद्यमानक- प्रकृत्यात्मकं, नैतासां द्विव्यादिकाः प्रकृतयो युगपदुदीयन्ते युगपदुदयाभावात् । दर्शनावरणीये चक्षुर्दर्शनावरणादीनां पञ्चानां चतसृणां वा प्रकृतीनां युगपदुदीरणा भवति । मोहनीये एकस्या' द्वयोम्नतमृणां पश्चानां षण्णामष्टानां नवानां दशानां वा । 20 नामकर्मणो दशोदीरणास्थानानि एकचत्वारिंशत्-द्विचत्वारिंशत्-पञ्चाशत्-एकपञ्चाशत्- द्विपञ्चाशत्-त्रिपञ्चाशत्-चतुः--पञ्चाशत् पञ्चपञ्चाशत्-षट्पञ्चाशत् -सप्तपञ्चाशश्चेति । विशे- पस्त्वन्यतो द्रष्टव्य इति प्रकृत्युदीरणा । स्थित्युदीरणायां प्रथमं लक्षणमुच्यते, उदयो हि द्विविधः, सम्प्राप्त्यसम्प्राप्तिभेदात् कालक्रमेण कर्मदलिकस्योदयहेतुद्रव्यक्षेत्रादिसामग्रीस- सम्प्राप्तौ य उदयस्स सम्प्राप्त्युदयः, अकालप्राप्तं कर्मदलिकमुदीरणाप्रयोगेण वीर्यविशेष- 25 संज्ञितेन समाकृष्य कालप्राप्तेन दलिकेन सहानुभूयते सोऽसम्प्रात्युदया, तथाचासम्प्राप्त्यु- दय' एवोदीरणा या स्थितिरप्राप्तकालापि सती उदीरणाप्रयोगेण सम्प्रात्युदये प्रक्षिप्ता दृश्यते केवलचक्षुषा सा स्थित्युदोरणेति । भेदादिकमन्यतो द्रष्टव्यम् । अनुभागो- दीरणायां संज्ञाद्विभेदा, स्थानघातिभेदात् स्थानं चतुर्विध एकद्वित्रिचतुस्स्थानभेदात 1 । १. वेदनीयायुगोत्रप्रकृतीनामित्यर्थः ।

उदीरणा ] न्यायप्रकाशसमलट्टते तच पूर्वमुपदर्शिवम् धातिसंज्ञा तु सर्वघातिदेशघात्यपातिभेदतखिविधा । तथा भकर्मणामनुभागः क्षीरखण्डरसोपमः, अशुभकर्मणान्त्वशुभो घोषातकीनिम्बरसोपमः । स्वविषयं याः पूर्णतया प्रन्ति तास्सर्वघातिन्यः, केवलज्ञानदर्शनावरणमाघद्वादशकषाया मिध्यात्वं निद्रापञ्चकञ्चेति विशतिः । एता हि प्रकृतयो यथायोगमात्मपात्यं गुणं सम्यक्त्वं ज्ञानं दर्शन चारित्रं वा सर्वात्मना घातयन्ति । मतिश्रुतावधिमनःपर्यवज्ञानावरणानि चक्षुरचक्षु- रवधिदर्शनावरणानि संज्वलनकषाया नोकषाया अन्तरायाच पञ्चविंशतिप्रकृतयो देश- घातिन्यः । ज्ञानादिगुणैकदेशविघातित्वात् । केवलज्ञानदर्शनावरणीयाभ्यामावृतयोरपि केवलज्ञानदर्शनयोर्मन्दमन्दतरादिविशिष्टप्रकाशरूपाणां मतिज्ञानादिचक्षुर्दर्शनादीनां ज्ञान- दर्शनेकदेशरूपाणां विघातकत्वात् आद्यद्वादशकषायक्षयोपशमसमुत्थचारित्रलब्धरतिचार- सम्पादकतया देशतो विघातकत्वात् सर्वद्रव्यैकदेशविषयकदानादिविघातकारित्वाच । 10 नामगोत्रवेदनीयायुरन्तर्गवास्तु प्रकृतयो हन्तव्याभावान्न किमपि धनन्तीति वा अघातिन्यः । सर्वघातिनीनां रसो हि ताम्रभाजनवनिश्छिद्रो घृतवदतिस्निग्धो द्राक्षावत्तनुप्रदेशोपचितः स्फटिकाभ्रवनिर्मलः सकलस्वविषयघावित्वेन सर्वघाती । देशघातिनीनान्तु रसः कश्चि- वंशदलनिर्मापिवकटवदतिस्थूलच्छिद्रशतवत्संकुला, कश्चित्कम्बलवन्मध्यमविवरशतसकुला, कोऽपि मसणवासोवदतिसूक्ष्मविवरसंवृतोऽल्पस्नेहो विमलाच स्वविषयैकदेशपातित्वादेश- 15 घाती भवति । अघातिनीनां रस उभयविलक्षणः। विपाकोऽपि पुद्गलक्षेत्रमवजीवविपाक- भेदाचतुर्विधः । पुलानधिकृत्य यस्य रसस्य फलदानामिमुख्यं स पुरलविपाकः । स च संस्थानषटूसंहननषटकातपशरीरपञ्चकाङ्गोपाङ्गत्रयोद्योतनिर्माणस्थिरास्थिरवर्णादिचतुष्कागुरु- लघुशुभाशुभपराधातोपघातप्रत्येकसाधारणनाम्नां पत्रिंशत्प्रकृतीनाम् । क्षेत्रे गत्यन्तरसंक- मणहेतुनमःपथे यस्य रसस्य फलदानाभिमुख्यं स रसः क्षेत्रविपाको यथा चतसृणामा - 20 पूर्वीणाम् । भवे नरकादिरूपे स्वयोग्ये यस्य रसस्य फलदानामिमुखता स भवबिपाको यथा । चत्वार्यायूंषि परमवे सक्रमेणाप्युदयाभावात् । गतीनान्तु परभवे संक्रमादुदयेन स्वभवव्य- क - १. अधातिन्यो न कवन ज्ञानादिगुणं घातयन्ति केवलं सर्वघातिनीमिस्सह वैधमानास्सर्वघातिरस- विपाकं दर्शयन्ति देवघातिनीमिश्वसह वेद्यमाना देशघातिरसं, चोरैस्सह वर्तमानोऽचौरो यथा चौर स्वाभासते तद्वदितिभावः ॥ २. शरीरतया परिणतेषु पुरलेषु यासा विपाकस्ताः पुदलविपाकिन्य इतिभावः ॥ ३. ननु विप्रहगत्यभावेऽपि संक्रमकरणेनानुपूर्वाणामुदयो विद्यत इति कथं क्षेत्रविपाकिन्यस्ता., न गतिवज्जीवविपा- किन्य इति चेदुच्यते विद्यमानेऽपि संक्रमे यथा तासा क्षेत्रप्राधान्येन स्वकीयो विपाकोदयो न तथाऽन्यासा- मिति क्षेत्रविपाकिन्य एवेति ॥ ४. यथा मोक्षगामिनोऽशेषा गतयो मनुष्यभये क्षयं यान्तीति भवं प्रति गतीना न यस्यमितिभावः ॥ .

- तत्त्वंन्यायविमाकरे [ मवमकिरदे मिचारित्वान्न भेवविपाकित्वम् । जीवमेवाधिकृत्य यो रसोऽनुग्रहोपघातादिसम्पादनामिमुखो भवति स जीवविपाकः। यथा ज्ञानावरणपञ्चकं दर्शनावरणनवकं वेदनीयद्वयं दर्शन- मोहनीयत्रिकं पञ्चविंशतिमोहनीयप्रकृतयोऽन्तरायपञ्चकं गतिचतुष्टयं जातिपञ्चकं विहा. योगतिद्विकं त्रसत्रिकं स्थावरत्रिकं सुस्वरदुस्स्वरसुभगदुर्भगादेयानादेययशःकीय॑यश कीर्ति 5 तीर्थकरोच्चासनामानि गोत्रद्वय त्यष्टसप्ततिप्रकृतयः । उदययोग्यतापेक्षयाऽष्टसप्ततिरिति, बन्धयोग्यतामाश्रित्य तु सम्यक्त्वसम्यमिध्यात्वपरिहारेण षट्सप्ततिर्बोध्या । प्रत्ययसाधना- दिस्वामित्वप्ररूपणा अन्यतो विज्ञेयाः। एवं साधनादिस्वामित्वप्ररूपणात्मिकाप्रदेशोदीरणापि॥ अधुनोपशमनामाख्याति- कर्मणामुदयोदीरणानिधत्तिनिकाचनाकरणायोग्यत्वेन व्यवस्थापना. 10 हेतुर्वीर्यपरिणतिरुपशमना। उदयश्च यथास्थितिवद्धानां कर्मपुद्गलाना- मबाधाकालक्षयात्संक्रमापवर्त्तनादिकरणविशेषाद्वोदयसमयप्राप्तानामनु- भवनम् ॥ कर्मणामिति । यादृशवीर्यविशेषतः कर्मणामुदयस्योदीरणानिधत्तिनिकाचनानाम- योग्यतया व्यवस्थापनं भवति ताशवीर्यपरिणतिरुपशमनेत्यर्थः । कर्मणामुपशमना द्वि- 15 विधा, कृतकरणाऽकृतकरणा चेति, यथाप्रवृत्त्यपूर्वानिवृत्तिकरणसाध्यक्रियाविशेपकृता कर णकृता, यथाप्रवृत्त्यादिकरणक्रियाविशेषमन्तरेणापि वेदनानुभवनादिकारणैयोपशमना साऽकृ. तकरणेत्यर्थः, द्वैविध्यमिदं देशोपशमनाया एव, न सर्वोपशमनायास्तस्याः करणेभ्य एव भावात्। अकरणकृतोपशमनाया अकरणाऽनुदीर्णरूपभेदभिन्नायास्सम्प्रत्यनुयोगस्य व्यवच्छिन्नत्वेन कृतकरणोपशमनाऽत्र किञ्चिद्विचार्यते कृतकरणोपशमना देशसर्वविषयमेदतो 20 द्विविधा, सर्वविषयोपशमना गुणोपशमना प्रशस्तोपशमनेति नामद्वयवती देशविपयोपशमना अगुणोपशमनाऽप्रशस्तोपशमना चेति नामद्वयवती । वत्र सर्वोपशमना मोहनीयस्यैव, शेषक- मणान्तु देशोपशमना। पञ्चेन्द्रियस्संज्ञी सर्वपर्याप्तः उपशमलब्ध्युपदेशश्रवणलब्धिकरणत्रयहेतु- प्रकृष्टयोगलब्धित्रिकयुक्तो वा करणकालाप्रागपि यावदन्तर्मुहूर्त प्रतिसमयमनन्तगुणवृद्ध्या विशुद्धयाऽवदायमानचित्तसन्ततिरभव्यसिद्धिकविगोधिकमतिक्रम्य वर्तमानो मनिश्चताज्ञान- 25 विमङ्गज्ञानानामन्यतमस्मिन् साकारोपयोगे वर्तमानो मनोवाकायान्यवमयोगे या वर्तमानो विशुद्धलेश्यान्यतमयुक्तः कृतान्तस्सागरोपमकोटीकोटिप्रमाणस्थितिकायुर्वर्जसप्तकर्मा चतुस्स्था- . . १. यद्यपि सर्वा एव प्रकृतय. परमार्थतस्साक्षात्परम्परया वा जीवस्यैवान महमुपपातञ्च कुर्वन्तीति जीवविपाकिन्य एव तथापि मुख्यतया क्षेत्रमवपद्लेषु तद्विपाकस्य विवक्षितत्वात् तथा प्रोता इति ॥ .

उपशमना] न्यायप्रकाशसमलङ्कृते नकाशुभकर्मानुभागस्य द्विस्थानककारी द्विस्थानकशुभकर्मानुभागस्य चं चतुस्स्थानककारी झानावरणीयादिसप्तचत्वारिंशद्धृवप्रकृतीस्वस्वभवप्रायोग्याः परावर्त्तमानमध्यस्था अतिवि- शुद्धपरिणामत्वेनायुर्वर्जाशुभा एव बध्नम् वध्यमानप्रकृतीनां स्थितिमन्तस्सागरोपमकोटी- कोटिमात्रप्रमाणां धनन् जघन्यमध्यमोत्कृष्टयोगवशतः प्रदेशानं जघन्यमध्यमोत्कृष्टरूपेण वघ्नन् परिपूर्णे च स्थितिबन्धे पूर्वस्थितिबन्धापेक्षयापल्योपमासंख्येयभागन्यूनमन्यं स्थिति- 5 बन्धं कुर्वन् तथैवान्यमन्य स्थितिवन्धं विदधत् बध्यमानानां प्रकृतीनामनुभागमशुभानां द्विस्था- नकं प्रतिसमयमनन्तगुणहीनं वध्नन शुभानाश्च चतुस्स्थानकं प्रतिसमयमनन्तगुणवृद्धं कुर्वन्नेवमे- वमेव यावदन्तर्मुहूर्तपरिसमाप्ति व्यापूतः परिणामविशेषाणि प्रत्येकमान्तर्गौहूर्तिकानि समुदाये- नाप्यान्तर्गौहूर्तिकानि त्रीणि यथाप्रवृत्त्यपूर्वानिवृत्तिकरणानि विधायान्तमौहूर्तिकीमुपशमाता- मवाप्नोति । करणत्रयनिरूपणा अन्यतोऽवगन्तव्या, अनिवृत्तिकरणाद्धायासंख्येयेषु भागेषु 10 गतेपु संख्येयतम एकस्मिंश्च भागेऽवशेपेऽन्तर्मुहूर्त्तमात्रमधो मुक्त्वा मिध्यात्वस्यान्तरकरणं करोति, अन्तरकरणं नामोदयक्षणादुपरि मिथ्यात्वस्थितिमन्तर्मुहूर्त्तमानामतिक्रम्योपरितनीञ्च विष्कम्भयित्वा मध्येऽन्तर्मुहूर्तमानं तत्प्रदेशवेद्यदलिकामावकरणं, वनिष्पादनकालोऽप्यन्तरकर- णकाल एव, सोऽप्यन्तर्मुहूर्तप्रमाणः प्रथमस्थितेः किचिन्यूनोऽमिनवस्थितिवन्धाद्धया समानः। तथा हि प्रथमस्थित्यन्तरकरणे द्वे अपि अन्तर्मुहूर्तप्रमाणे युगपदारभते, अन्तरकरणप्रथम- 15 समय एष चान्य स्थितिबन्ध मिथ्यात्वस्यारभते स्थितिबन्धान्तरकरणे च युगपत् समापयति । अन्वरकरणे च क्रियमाणे गुणश्रेणेसंख्येयतमं भागमन्तरकरणदलिकेनोकिरति,उत्कीर्यमाणञ्च दलिक प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति | अन्तरकरणादयस्वनी स्थितिः प्रथमोपरि- तनी च द्वितीयेत्युच्यते, तत उदयोदीरणाभ्यां प्रथमस्थितिमनुभवन् तावद्तो यावदावलि- काद्विकं शेषम् । तत्र स्थितस्य पूर्वप्रवृत्तो द्वितीयस्थितेस्सकाशादुदीरणाप्रयोगेण दलिक 20 समाकृष्योदये प्रक्षेपरूप आगालोऽत्र न भवति किन्तु केवलमुदीरणव । साऽपि तावदेव यावदावलिकाशेषो न भवति । ततस्सापि निवर्तते ततः केवलेनवोदयेन तामावलिकामनु- भवति तस्यामप्यपगतायां मिध्यात्वस्योदयोऽपि निवर्तते तदलिकाभावात् तस्मिन्चापगते उपशान्तावासमागमस्वत्र प्रथमसमय एव चोपशमसम्यक्त्वं लभते । अत्रोदयोदीरणादीनां निवृत्तेरीडशोपशमनाकरणाध्यवसाय एवोपशमनेत्युच्यते । पर वत्रौपशमिकलाभप्रथमसम- 25 यादारभ्य मिथ्यात्वदलिकं प्रतिसमयं यावदन्तर्मुहूर्व सम्यक्त्वसम्यक्मिध्यात्वयोस्सं- क्रमयति, प्रथमस्थितिचरमसमये द्वितीयस्थितिगतदलिकस्यानुमागभेदेन शुद्धमिश्राशुद्धतया विभक्तत्वात् । अयं गुणसंक्रम उच्यतेऽन्तरकरणस्थितेनौपशमिकसम्यक्त्वलक्षणप्रशस्तगु- णान्वितेन क्रियमाणत्वात् । इत्येवं सम्यक्त्वोत्पादो निरूपितः । ईदृशौपशमिकसम्य- :२६२. तत्त्वन्यायविमाकरे [ नवमकिरणे क्त्वयुवो न चारित्रमोहोपशमाय यतते किन्तु वेदकसम्यग्दृष्टिः क्षायोपशमिकस- म्यग्दृष्ट्यपरनामा, स चाविरतो देशविरतरसर्वविरतो वा विशोध्यद्धायां वर्तमान एव, संक्लेशाद्धायां वर्तमानस्तु न चारित्रमोहनीयोपशमनाय प्रवर्तते । तत्राविरतो यथाप्रवृ- त्यपूर्वकरणे विधाय देशविरतस्सर्वविरतो वा भवति देशविरतस्तु करणवयं कृत्वा 5 सर्वविरतिमवाप्स्यति, अनयोः प्रतिपत्त्यनन्तरं यावदन्तर्मुहूत्त वर्षमानपरिणामनिय- मात् तावन्मानां उदयावलिकाया उपरि गुणश्रेणि प्रतिसमयं दलिकरचनापेक्षयानन्त- गुणवृद्धामारचयति ततः परं कोऽपि वर्धमानपरिणामः कोऽपि च हीयमानपरिणामः कोऽ- प्यवस्थितपरिणामश्च भवति | वर्धमानपरिणाम ऊर्ध्वमपि वर्धमानां गुणश्रेणिं करोति हीय. मानो हीयमानामवस्थितोऽवस्थितां । परिणामहासेन देशसर्वविरतिपरिणामात् आभोगमन्तरेण 10 परिभ्रष्टास्सन्तः पुनः पूर्वप्रतिपन्नां देशविरतिं सर्वविरति वा प्रतिपद्यमाना अकृतकरणा एव प्रतिपद्यन्ते, ये त्वाभोगेनैव मिध्यात्वं गताः पुनस्तत्प्रपित्सवः करणपुरस्सरमेव प्रतिपद्यन्ते तदेवं कृतकरणाकृतकरणदेशविरतिसर्वविरतिलाभो विज्ञेयः । एवं चारित्रमोहोपशमनाऽन्यत्र द्रष्टव्या । एवमुपशान्तमोहनीयप्रकृतयस्संक्रमणोद्वर्तनापवर्तनोदीरणानित्तिनिकाचनाकरणा- नामयोग्या भवन्ति, दर्शनमोहनीयत्रिके तूपशान्तेऽपि सक्रमापवर्त्तने भवतः, तत्र सम्य- क्त्वे मिथ्यात्वसम्यमिथ्यात्वयोः सक्रमः, अपवर्तना तु त्रयाणामपि । यद्यप्युपशान्ते मोहे 15 संक्रमणोद्वर्तनापवर्तनान्यपि करणानि न भवन्ति ततो लक्षणे तदनभिधानान्यूनवा तथापि सर्वविधोपशमनासंग्रहायैवानि विहाय लक्षणमाचरितमन्यथा देशोपशमनासमहो न स्यादिति । इति सर्वोपशमना संक्षेपत आदर्शिता । यथाप्रवृत्तापूर्वकरणाभ्यां प्रकृत्यादीनां देशोपशमना प्रकृतिस्थित्यनुभागप्रदेशदेशोपशमनारूपेण प्रत्येकं मूलप्रकृत्युत्तरप्रकृतिविषय- 20 कत्वभेदमिन्नेन चतुर्विधा । देशोपशमना सर्वेषां कर्मणां भवति, एकद्वित्रिचतुरिन्द्रिया- संशिसंक्षिपञ्चेन्द्रियतिर्यनारकदेवा मनुष्याश्च यथासंभवमपूर्वकरणगुणस्थानपर्यवसाना देशोपशमनया मूलप्रकृतिमुत्तरप्रकृति वोपशमयितुं समर्थाः । देशोपशमनयोपशमिवानां कर्मणामुद्वर्तनापवर्चनासंक्रमणरूपाणि करणानि प्रवर्तन्ते नान्यानि | दर्शनत्रिकोपश- मका विरतास्वापूर्वकरणान्तसमयं यावद्देशोपशमनां कुर्वन्ति, अनन्तानुवन्धिनां विसं- १. केवलं कथञ्चित्परिणामहासाद्देशविरतोऽविरतिं सर्वविरतो वा देशविरति प्रतिपन्नस्सन् भूयोऽपि पूर्व- प्रतिपन्ना देशविरति सर्वविरतिं वा करणरहितोऽपि प्रतिपद्यते एवमकृतकरणेऽनेकशी गमागम करोतीति- भाव. ॥ २. यस्त्वाभोगप्रतिपत्त्या नष्टकरणो देशविरतत्सर्वविरतेर्वा परिभ्रष्टो मिध्यात्वञ्चगनस्स मूमो. ऽपि जघन्यनान्तर्मुहूर्त्तकालेन उत्कर्षतः प्रभूतेन कालेन पूर्वप्रतिपन्नामपि देशविरतिं सर्वविरर्तिवा करण- दूयपुरस्सरमेव प्रतिपद्यत इतिभाव ॥३. गुणस्थानप्रन्थे पूर्वोक्ति ।

- 5 मिति: म्यायप्रकाशसमलाही १६१ योजने चातुर्गसिका अपि स्वापूर्वकरणान्तिमसमय यावद्देशोपशमकाः । शेषचारित्र- मोहनीयप्रकृतीनामुपशमनायां क्षपणायां वा यावदपूर्वकरणगुणस्थानचरमसमयं तावदेशो- पशमना । शेषप्रकृतीनाव सर्वोपशमना न भवत्येव किंतु देशोपशमनैव सापि चाs- पूर्वकरणगुणस्थानं यावत् । अधिकं कर्मप्रकृत्यादिभ्यो विज्ञेयमितिदिक् ॥ लक्षणान्त- गतोदीरणादीनां करणविशेषत्वेन ज्ञातत्वादुदयपदार्थ निर्वक्ति-उदयश्चेति । स्थितिक्षयेण प्रयोगेण वा द्विविधोदयो भवति, उदयहेतूनां द्रव्यक्षेत्रकालभवभावरूपाणां प्राप्तौ स्थि- तेरवाधाकालरूपाया नाशे सति च यः कर्मपुद्गलानां स्वभावत उदयः प्रवर्तते स स्थिति- क्षयेणोदयः । यः पुनरुदयेऽन्यस्य प्रवर्तमाने करणविशेषरूपप्रयोगेणोदयो भवति स प्रयोगेणोदय इत्याशयेनोक्तं कर्मपुद्गलानामित्यादिना । प्रायो यत्रोदयस्तत्रोदीरणा यत्रोदीरणा वत्रोदय इति, उदयस्योदीरणासहमावित्वाज्ञानावरणपञ्चकदर्शनावरणचतुष्टया- 10 न्तरायपश्चकसज्वलनलोभवेदत्रयसम्यक्त्वसम्यड्मिथ्यात्वरूपविशतिप्रकृति मुक्त्वा शेषाणां उदीरणावदेव साधनादिकं भवति । एतासान्तु स्वस्त्रोदयपर्यवसान उदीरणामन्तरेणापि केवलेनोदयेनावलिकाकालमात्रमनुभवनं भवति ! विशेषोऽत्रान्यतोविलोकनीय इति ।। अथ निधतिमाह- कर्मणामुद्वर्तनापवर्तनान्यकरणायोग्यत्वेन व्यवस्थापनानुकूलवीर्य- 15 विशेषो निधत्तिः॥ कर्मणामिति । येन वीर्यविशेपेण कर्मणामुद्वर्तनापवर्त्तनाभिन्नानि करणानि न प्रवर्तन्ते प्रवत्तेते च ते ताशो वीर्यविशेपो निधचिनामेत्यर्थः । देशोपशमनावद्भेदस्वामि- नावस्यापि । यत्रगुणश्रेणिस्तत्र प्रायो देशोपशमनानिधत्तिनिकाचनायथाप्रवृत्तसङ्कमा अपि सम्भवन्ति, वत्र गुणप्रदेशानं स्तोकं ततो देशोपशमनाया असंख्येयगुणं ततो निधत्तम- 20 संख्येयगुणं ततो निकाचितमसख्येयगुणं ततोऽपि यथाप्रवृत्तसंक्रमेण संक्रान्तमसंख्येयगुणं भवति । स्वामिनस्तु सर्वेऽप्येकद्वित्रिचतुरिन्द्रियासंज्ञिसंक्षिपञ्चेन्द्रियतिर्यनारकदेवा मनुष्याश्च यथासम्भवमपूर्वकरणपर्यवसानास्सर्वकर्मणां देशोपशमनास्वामिनः । अथ प्रसनादेशोपश- मना किञ्चिद्विचार्यते । देशोपशमना मूलप्रकृतीनामष्टानामपूर्वगुणस्थानकादूर्ध्व गत्वा पतता प्रवर्त्तमाना सादिः, तत्स्थानमप्राप्तानामनादिः, ध्रुवाऽभव्यानां, मन्यानां त्वध्रुवा देशो- 25 १. मूलोत्तरप्रकृतिविषयउदयो ध्रुवावसायनादिरूपतचतुर्विध., जानदर्शनावरणान्तरायाणामुदयः क्षीण- मोहान्तसमयं यावत् मोहस्योपशान्तमोहगुणस्थानक यावत् वेदनीयनामगोत्रायुषा सयोगान्तसमयं याव. द्राव्यः, तत्र स्थित्युदयमधिकृत्याह स्थितिक्षयेणेति । अनुभागमधिकृत्याह प्रायो यत्रेति ॥

तवन्यायधिमाकरे [मवार पशमनामधिकृत्य मोहनीयस्य चतुःपञ्चषट्सप्ताष्ट्रकविंशतिभेदेन घटप्रकृतिस्थानानि, शेषाणि तु अनिवृत्तिबादरे प्राप्यमाणत्वादत्र न सम्भवन्ति । मिथ्याष्टिसास्वादनसम्यािण्याष्टि- वेदकसम्यग्दृष्टीनामष्टाविंशतिस्थानं, उद्वलितसम्यक्त्वस्य मिध्यादृष्टेः सम्यमिध्यादृष्टेवा सप्तविंशतिस्थानम् | उद्वलितसम्यक्त्वसम्यमिथ्यात्वस्यानादिमिथ्यादृष्टेवों षड्विंशतिस्थानं, 5 षड्विंशतिसत्कर्मणो मिथ्यादृष्टेस्सम्यक्त्वमुत्पादयतोऽपूर्वकरणात्परतः पञ्चविंशतिस्थानं वेदि. तव्यं मिथ्यात्वप्रदेशोपशमनाया अभावात् । तथानन्तानुबन्धिनामुलनेऽपूर्वकरणात्परतो विद्यमानस्य चतुर्विंशतिस्थानं, चतुर्विशतिसत्कर्मणो वा चतुर्विंशतिस्थानं । क्षपितसप्तकस्यै- कविंशतिस्थानमिति । नामकर्मणस्तु व्युत्तरशतं व्युत्तरशतं षण्णवतिः पञ्चनवतिः, त्रिनवतिः, चतुरशीतियशीतिश्चेति देशोपशमनायोग्यानि । तत्रादिमानि चत्वारि यावदपूर्वकरणगुण- 10 स्थानकचरमसमयं तावद्वेदितव्यानि न परतः, शेषाणि त्रीणि एकेन्द्रियाणां भवन्ति श्रेणि प्रतिपद्यमानानान्तु न सम्भवन्ति शेषाणि स्थानानि अपूर्वकरणगुणस्थानकात्परतो लभ्यन्त इति तानि देशोपशमनाऽयोग्यानि | ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामेकैकं प्रकृतिस्थान देशोपशमनायोग्य तत्र ज्ञानावरणान्तराययोः पञ्चप्रकृत्यात्मक, दर्शनावरणस्य नवप्रकृत्या- त्मक, वेदनीयस्य द्विप्रकृत्यात्मकं आयुषो द्वे प्रकृतिस्थाने द्वे प्रकृती एका च, तनावद्धपरम- 15 वायुष्कस्यैका, बद्धपरमवायुषस्तु द्वे, गोत्रस्य द्वे प्रकृतिस्थाने देशोपशमनायोग्ये, एका द्वे चेति; अनुदलितोचैर्गोत्रस्य द्वे, उद्वलितोचैर्गोत्रम्यैकेति ॥ एवं स्थित्यनुभागप्रदेशदेशोपशमनास्थित्यनुभागप्रदेशसंक्रमवत्प्रायो भवत्यतस्साऽन्यत्र द्रष्टव्या 20 अथ निकाचनामाह- करणसामान्यायोग्यत्वेनावश्यवेद्यतया व्यवस्थापनामयोजकवीर्यवि- शेषो निकाचना ।। करणेति । येन वीर्यविशेषेण कर्माणि' संकलकरणायोग्यत्वेनावश्यवेद्यतया च व्यव- स्थापयति सं वीर्यविशेषो निकाचनेत्यर्थः । इयमपि भेदादितो देशोपशमनातुल्यैवावेसेयेति ॥ इत्येवं चतुर्विधं वन्धं करणानि च लक्षयित्वाऽथ मूलोत्तरमेदमिन्नं प्रकृतिवन्धं पुण्य- 25 पापनिरूपणे निरूपितोत्तरभेदं सम्प्रति मूलभेदप्रदर्शनेन साझं विदधातुकाम आह- तत्र मूलमकृतिवन्धश्च ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नाम- गोत्रान्तरायभेदेनाष्टविधः॥

प्रकृतिकमः] न्यायप्रकाशसमलते तत्रेति । ज्ञानदर्शनयोर्द्वन्द्वोत्तरमावरणशब्देन तत्पुरुषस्ततस्सर्वेषां द्वन्द्वः । ज्ञान दर्शनं हि जीवस्य स्वतत्वभूतं तदभावे जीवत्वस्यैवायोगात् चेतनालक्षणत्वाज्जीवस्य, ज्ञानदर्शनयोरपि मध्ये ज्ञान प्रधान, तद्वशादेव सकलशास्त्रादिविचारसन्ततिप्रवृत्तेः । किश्च सर्वा अपि लब्धयो जीवस्य साकारोपयुक्तस्य जायन्ते न दर्शनोपयोगयुक्तस्य । अपिच यस्मिन् समये सकलकर्म विमुक्तो जीवस्सजायते तस्मिन् समये ज्ञानोपयोगयुक्त एच, न दर्शनोपयोगयुक्तः, दर्शनो- 5 पयोगस्य द्वितीयसमये भावात्। ततो ज्ञान प्रधानं तदावरणं ज्ञानावरण कर्म, ततस्तत्प्रथममुकं। तदनन्तरं च दर्शनावरणं, ज्ञानोपयोगाच्च्युतस्य दर्शनोपयोगात् । एते च बानदर्शनावरणे स्वविपाकमुपदर्शयती यथायोगमवश्यं सुखदुःखरूपवेदनीयकर्मविपाकोदयनिमित्ते भवतः, तथा हि ज्ञानावरणमुपचयोत्कर्षप्राप्तं विपाकतोऽनुभवन् सूक्ष्मसूक्ष्मतरवस्तुविचारासमर्थ त्मानं जानानः खिद्यते भूरिलोका, जानावरणकर्मक्षयोपशमपाटयोपेसश्च सूक्ष्मसूक्ष्मतराणि 10 वस्तूनि निजप्रज्ञया विन्दानो वहुजनातिशायिनमात्मानं पश्यन सुख वेदयते। तथाऽतिनिवि- उदर्शनावरणविपाकोदये जात्यन्धादिरनुभवति दुःखसम्मोहं वचनगोचरातिक्रान्तं, दर्शनावर- णक्षयोपशमपटिष्ठतापरिकरितश्च स्पष्टचक्षुराद्युपेतो यथावस्तुनिकुरुम्वं सम्यगवलोकमानो वेदयतेऽमन्दमानन्दसन्दोहम् । तत एतदर्थप्रतिपत्त्यर्थ दर्शनावरणानन्तरं वेदनीयग्रहणम् । वेदनीयञ्च सुखदुःखे जनयतीत्यभीष्टानभीष्टविषयसम्बन्धे चावश्यं संसारिणां रागद्वेषौ, तौ च 15 मोहनीयहेतुको, तत एतदर्थप्रतिपत्तये वेदनीयानन्तरं मोहनीयग्रहणं, मोहनीयमूढाश्च जन्तवो बह्वारम्भाः परिग्रहप्रभृतिकर्मादानासक्ता नरकाद्यायुष्कमारचयन्ति, ततो मोहनीयानन्तरमायु- ग्रहणम् । नरकायायुष्कोदये चावश्यं नरकगत्यादिनामान्युदयमायान्ति, तत आयुरनन्तरं नाममहणम् । नामकर्मोदये च नियमादुञ्चनीचान्यतरगोत्रकर्मविपाकोदयेन भवितव्यमतो नामग्रहणानन्तरं गोत्रग्रहणम् । गोत्रोदयेन चोवैःकुलोत्पन्नस्य प्रायो दानलामान्तराया- 20 दिक्षयोपशमो भवति राजप्रभृतीनां प्राचुर्येण दानलाभादिदर्शनात्। नीचैःकुलोत्पन्नस्य तु दान- लाभान्तरायायुदयो नीचजातीनां तथा दर्शनात , तत एतदर्थप्रतिपत्त्यर्थ गोत्रानन्तरमन्तरी- यग्रहणमिति । यस्य ज्ञानावरणीयं तस्य नियमेन दर्शनावरणीयमस्ति. यस्य दर्शनावरणीय- मस्ति तस्यापि नियमेन ज्ञानावरणीयमस्ति | यस्य ज्ञानावरणीयं तस्य नियमेन वेदनीय- मस्ति, यस्य वेदनीयमस्ति तस्य केवल्यपेक्षया ज्ञानावरणीयं नास्ति, तद्भिन्नापेक्षया चास्ति 25 तत् | मोहक्षये सति यावदनुत्पन्नकेवलज्ञानं तस्य क्षपकस्य ज्ञानावरणीयमस्ति मोहनीयञ्च मास्ति, अक्षपकस्य सूभयमस्ति । मोहनीयसवे ज्ञानावरणस्यावश्यम्भावनियमात् । शानापरणेन सह वेदनीयवदायुनामगोत्राणामपि भाव्यम् । अन्तरायस्य तु दर्शनावरणीयव- :,२६६ तस्वन्यायविभाकरे नवकिरणे परस्परं व्याप्यव्यापकभावो विज्ञेयः । दर्शनावरणीयेन समं शेषकर्मणां भावाभा- बविचारो ज्ञानावरणीयवदेव | वेदनीयेन सहाक्षीणमोहापेक्षया नियमेन मोहनीयमस्ति क्षीणमोहापेक्षया तु मोहनीयं नास्ति, यस्य तु मोहनीयमस्ति तस्य नियमेन वेदनीयमस्ति । एवं वेदनीयेन सहायुर्नामगोत्राणां परस्परं व्याप्यव्यापकमावो विशेयः | अन्तरायस्तु 5 वेदनीयसत्त्वेऽकेवलिनां नियमेनास्ति, केवलिनान्तु नास्ति । अन्तरायसत्त्वे च वेदनीय नियमेन वर्तते । यस्य मोहनीयमस्ति वस्य नियमेनायुरस्ति यस्यायुरस्ति तस्याक्षीणमोहस्य मोहनीयमस्ति क्षीणमोहस्य तु नास्ति । एवमेव यस्य मोहनीयं तस्य नामगोत्रान्तरायाणि नियमात्सन्ति, यस्य तु तानि सन्ति तस्याक्षीणमोहस्य मोहनीयमस्ति परस्य नास्ति । यस्या- युरस्ति तस्य नियमेन नामगोत्रे यस्य नामगोत्रे तस्य नियमेनायुरस्ति । यस्य त्वायुस्तस्यान्त- 10 रायः केवल्यपेक्षया नास्ति, अकेवल्यपेक्षयात्वस्ति । नामगोत्रयोश्च परस्परं व्याप्यव्यापक- भावनियमः, नामसत्त्वेऽन्तरायस्तु क्वचित् स्यात्क्वचिन्न स्यात् । अन्तरायसत्त्वे तु नामा- वश्यमस्ति । एवं गोत्रान्तराययोरपि भाव्यमिति ।। , ज्ञानावरणीयादीनामवान्तरभेदा एव प्रकृतिवन्धस्योत्तरभेदा विंशतियुतशतरूपा इत्याह- . । एषामवान्तरभेदा विंशत्युत्तरशतात्मका बोध्याः। विवृताश्चैते पुण्य- 15 पापतत्त्वयोः । उदये च सम्यक्त्वमोहनीयमिश्रमोहनीयसहिता द्वाविं- शत्युत्तरशतभेदा भवन्ति । सत्तायान्त्वष्टपश्चाशदुत्तरशतभेदाः स्युः। विवृताश्चैते सर्वे कर्मग्रन्थे ॥ एषामिति । ज्ञानावरणीयादिकर्मणामित्यर्थः । के ते भेदा इत्यत्राह विधृता इति, एते-भेदाः, उदये कियन्तो भेदा इत्यत्राहोदये चेति । अयं भावः, बन्धोदययोश्चिन्त्यमान- 20 योर्बन्धननामानि सघातननामानि च स्वस्वशरीरान्तर्गततया विवक्ष्यन्ते, न तु पृथक्तया, तथा वर्णचतुष्टयस्योत्तरभेदाः क्रमेण पञ्चद्विपश्चाष्टसख्याका बन्धोदययो पृथक् विवक्ष- णीयाः परन्तु वर्णगन्धरसस्पर्शाश्चत्वार एव | वन्धे चिन्त्यमाने च सम्यक्त्वसम्यमि- ध्यात्वे न गृह्यते तयोर्बन्धाभावात् । तथा च बन्धचिन्तने बन्धनपञ्चकसंघातनपञ्चकवर्णा- दिषोडशकानि सत्तागतनाम्नलिनवतेरपनीयन्ते शेषास्सप्तषष्टियन्ते, मोहनीयप्रकृत्यश्च 35 सम्यक्त्वसम्यड्मिथ्यात्वहीनाष्षडिंशतिस्ततस्सर्वप्रकृतिसख्यायोगे बन्धे विंशत्युत्तरशतं प्रक- तयो भवन्ति । उदये च चिन्त्यमाने सम्यक्त्वमिश्रे अप्युदयमायात इति ते अपि परि- गृहोते, तस्मादुदय द्वाविशंशवमित्यभिप्रायेणोक्तं सम्यक्त्वेत्यादि । सचायां कियन्त इत्यत्राह दर्शनावरणम् ] न्यायप्रकाशसमलवृत्ते :२७: सत्तायान्विति | सत्तायान्तु चिन्त्यमानायां बन्धनपश्चकसंघातनपञ्चकवर्णादिषोडशकञ्च सयोज्य प्रकृतीनामष्टचत्वारिंशं शतं विज्ञेयम् । यदा तु पुनर्गर्षिशिवशर्मप्रभृत्याचार्याणां मतेनाष्टपञ्चाशदधिकं प्रकृतिशतं सत्तायामधिक्रियते तदा बन्धनानि पञ्चदश विवक्ष्यन्ते ततोऽष्टचत्वारिंशदधिकस्य प्रकृतिशतस्योपरिवन्धनगतताशप्रकृतयोऽधिकाः प्राप्यन्ते तदा भवत्यष्टपञ्चाशदुत्तरं प्रकृतिशतमितिभावः । तदेतत्सर्व कर्मग्रन्थादौ दर्शितमित्याह विवृता । इति, श्रीविजयदेवेन्द्रसूरिमहर्षिकृते, कर्मपन्थे-कर्मविपाकादिग्रन्थषटू इतिमावः ॥ - अथ ज्ञानावरणस्वरूपमाह- । आत्मनो विशेषवोधावरणकारणं कर्म ज्ञानावरणम् ।। आत्मन इति । सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको यो बोघस्तज्ज्ञानं तदावरणकारणं यत्कर्म तज्ज्ञानावरणमित्यर्थः । सामान्यविशेषात्मकवस्तुनिष्ठविशेषविषयक. 10 बोधावरणकारणत्वे सति कर्मत्वं लक्षणं, अन सामान्यविशेषात्मकेति विशेषणं वस्तुनस्सा- मान्यविशेषात्मकत्वमिति दर्शयितुं । तेन सामान्यरूपत्वमेव विशेषरूपत्वमेव वा वस्तुन- स्वरूपमिति पक्षो निरस्तो दर्शनावरणवारणाय वस्तुनिष्ठविशेषविषयकेतिपदम् । अत्र विशेषहेतवो ज्ञानस्य ज्ञानवतां ज्ञानसाधनानाश्च प्रदोषो निहवो मात्सर्यमन्तराय आसादन- मुपघातश्च । मत्यादिज्ञानपञ्चकं मोक्षं प्रति मूलसाधनमित्युको कस्यचिदनभिन्याहार्यों योऽ- 15 न्तदौजन्यपरिणामः स प्रदोषः । यत्किञ्चित् परनिमित्तमभिसन्धाय ज्ञानिनो ज्ञानस्य वाऽप- लापो निहवः । दानयोग्याय दानामपि भावित ज्ञानं यस्मान दीयते तन्मात्सर्यम् । कालु- ध्यादिना ज्ञानस्य व्यवच्छेदकरणमन्तरायः । मनसा वचसा कायेन वा ज्ञानस्य ज्ञानिनो चाऽनादर आसादनम्, प्रशस्तज्ञानदूषणमुपघात इति । इत्थमेव च दर्शनविपया हेतवो दर्शनपदप्रक्षेपेणैत एव भाव्याः ॥ अथ दर्शनावरणस्वरूपमाह- 20 आत्मनस्सामान्यवोधावरणसाधनं कर्म दर्शनावरणम् ॥ आत्मन इति । सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको यो बोधो दर्शनं १ ज्ञानदर्शनयोस्तद्वत्तद्धेतूनाश्च ये किल विघ्ननिहवपैशुन्याऽऽशातनाघातमत्सरा, ते ज्ञानदर्शनावरण कर्महेतव भाश्रवा ॥ इति ।

. 5 तत्वन्यायधिमाकरे [ नवकिरण तदावरणकारण कर्मेत्यर्थः । वस्तुनिष्ठसामान्यविषयकबोधावरणकारणत्वे सति कर्मत्वं लक्ष- णम्॥ ज्ञानदर्शनावरणयोरालस्यस्वपनशीलतानिदादरप्राणातिपावादयोऽपि हेतवोऽवसेयाः ।। दिनीयं लक्षयति- सुखदुःखानुभवप्रयोजकं कर्म वेदनीयम् । सुखेति । यद्यपि वेदनीयत्वमनुभवयोग्यत्वं तच्च सर्वकर्मणां तथापि पङ्कजादिशब्दवदस्य शब्दस्य रूढिविषयत्वात्सातासातरूपमेव कर्म वेदनीयमुच्यते शास्त्रव्यवहारात् । अत एव चानुभवप्रयोजकमित्यनुक्त्वा सुखदुःखानुभवप्रयोजकमित्युक्तम् | तत्र दुःखशोकचापानन्द- नवधपरिदेवनानि स्वपरोमयस्थान्यसद्वेद्यस्य भूतव्रत्यनुकम्पादानसरागसंयमादियोगक्षान्ति- शौचानि सद्यस्य हेतवः । विरोधिद्रव्योपनिपातादभिलषितवियोगादनिष्टनवणानिष्ठुर- 10 श्रवणादात्मनः पीडालक्षणः परिणामो दुःखम् । अनुप्राहकबान्धवादिसम्बन्धविच्छेने 'वैक्लव्यविशेषः शोकः । परीवादपरिभवपरुषवचनादिश्रवणनिमित्तापेक्षः कलुषान्तःकर- णस्य तीव्रानुशयपरिणामस्वापः । परितापजन्याश्रुपातप्रचुरविलापाङ्गविकाराधभिव्यङ्गय- माक्रन्दनम् । प्राणिप्राणवियोजनं वधः । सक्लेशप्रवणं स्वपरानुग्रहामिलापविषयमनुकम्पा- प्रचुर परिदेवनम् । यद्यपि शोकादयस्सर्वे दुःखजातीया एव तथापि यथा गौरित्युक्छे 15 अॅनितिविशेषे तत्प्रतिपादनाय खण्डमुण्डशुक्लाद्युपादानं क्रियते तथा दुःखमित्युक्ते विशेषा- बोनाकतिपयविशेषप्रदर्शनेन तद्विवेकप्रतिपत्तये शोकादीनामुक्तिवोध्या । एतानि च दुःखा- दीनि कदाचित् क्रोधाद्याविष्टेनात्मना स्वस्मिन् कषायवशात्कदाचित्परस्मिन् जनयति कदाचिचाधमर्णसमवाये सत्युत्तमर्णस्य तन्निरोधपरस्य भुजिक्रियानिवृत्तावुभयत्र क्षुत्कृतानि दुःखादीनि सम्भवन्ति । आयुनामगोत्रोदयवशाद्भवन्तीति भूतानि प्राणिना, अहिंसादिबवा. 20 मिसम्बद्धाः तिनस्तेष्वनुग्रहार्दीकृतचेतसोऽनुकम्पनमनुकम्पा । परानुप्रहबुद्ध्याऽऽत्मीयवस्त्व- 'तिसर्जनं दानम् । सज्वलनकषायसहवर्तिनः पुरुषस्य प्राणिवधायुपरतिस्परागसंयमा, आदिना संयमासंयमाकामनिर्जरावालतपोयोगा ग्राह्याः। अनात्यन्तिकीविरतिस्संयमासं- यमः। विषयनिवृत्तिञ्चात्माभिप्रायेणाकुर्वतः पारतन्याद्भोगनिरोधोऽकामनिर्जरा । यथार्थ- प्रतिपत्त्यभावादक्षानिनस्तपो बालतपः । लोकाभिमत निरवद्यक्रियानुष्ठान योगः | मनो- 25 वाकायैधर्मप्रणिधानाकोपनिवृत्तिः शान्तिः । लोमतृष्णादिमिरुपरमशौचमित्येवं कारण- स्सद्वेचं भवतीति ॥ २. दुःखशोकवधास्तापक्रन्दने परिदेवनम् । स्वान्योभयस्था स्युरसद्वद्यत्वामी इहाश्रया ॥ २. देवपूजा- गुरुमास्तिपात्रदानदयाक्षमा । सरागमयमो देशसयमोऽकामनिर्जरा। शीच वालतपश्चेति सद्वैद्यस्य स्युराभवाः ।

आयुः] न्यायप्रकाशसमलते :२६९: मोहनीयं कर्म स्वरूपयति- रागद्वेषादिजनकं कर्म मोहनीयम् ॥ रागेति । मोहयति सदसद्विकलं करोत्यात्मानमिति मोहनीयम् । मोहाय-हेयोपादेय- विवेकामावाय चित्तव्याकुलतायै मिध्यात्वकषायविषयामिलाषाय वा योग्यं मोहनीयम् । अत एवात्मा रक्तो द्विष्टश्च भवतीत्याशयेन रागद्वेपादिजनकत्वे सति कर्मत्वं लक्षणमुक्तं, 5 यावदेव हि मोहनीयं तावदोषाः, तत्क्षये चावश्यम्भावी कर्मक्षयोऽतो रागद्वेषयोः प्रधान कारणमिदम् | आदिना कामगुणा ग्राह्याः, वेदस्य मोहनीयान्तःपतितत्वात् । केवलिनां श्रुतस्य सघस्य धर्मस्य देवानाञ्चावर्णवादा दर्शनमोहनीयस्य हेतवः । केवलिनां विषयेऽवा- स्तविकदोषोदावनं, असभ्यवाक्प्रयोगो निन्दाप्रकटनमित्यादयः केवल्यवर्णवादाः । तीर्थक- रोपदिष्टयथास्थितज्ञेयानुसारिणि साझोपाझे श्रुतेऽविदग्धप्राकृतभाषाप्रचुरमिदं व्रतकायप्राय- 10 श्चित्तप्रमादोपदेशपुनरुक्तवाबहुलं कुत्सितापवादप्रायमित्यादिभाषणं श्रुतावर्णवादः । चतु- विधे संघे संयतादिविषये सचित्तादिन्यवहारपरायणाः परिपेलववाह्यशौचाचारा जन्मा- न्तरकृतकर्मोदयजन्यकेशोल्लुञ्चनातापनादिदुःखानुभविनः कलहकारिणोऽसहिष्णवः प्राग- दत्तदाना भूयोऽपि दु:खिता एव भविष्यन्तीत्येवंरूपा अवर्णवादाः, एवमेव श्रावकप्रभृति- संघादिषु भाव्यम् । क्रोधादिकषायोदयादात्मनश्शन्नादिविषयेषु गादियस्तीत्रपरिणामा. 15 श्वारित्रमोहनीयस्य हेतवो भान्याः ॥ अथायुषस्वरूपमाह- - गतिचतुष्टयस्थितिप्रयोजकं कर्म आयुः ॥ १. वीतरागे श्रुते सघे वमै सर्वसुरेषु च । अवर्णवादिता तीवमिथ्यात्वपरिणामिता । सर्वसिद्धदे- वापहचो धार्मिकदूषणम् । उन्मार्गदर्शनानर्थाऽऽग्रहोऽसयतपूजनम् । असमीभितकारित्वं गुर्वादिष्ववमानना । इत्यादयो दृष्टिमोहस्याश्रवा परिकीर्तिता ॥ .. कपायोदयतस्तोत्र. परिणामो य आत्मनः । चारित्रमोहनी- यस्य स आश्रव उद्दीरित ॥ उत्प्रासन सकंदर्पोपहासोहासशीलता, चहुप्रलापो दैन्योकिहाँस्यस्यामी स्युरा- श्रवा , देशादिदर्शनोत्सुक्य चित्रे रमणखेलने । परचित्तावना चेत्याश्रवा कीर्तिता रते. ॥ असूयापापशीलत्वं परेषा रतिनाशनम् । अकुशलपोत्सहन चारतेराश्रवा अमी॥ परशोकाविष्करणं खगोकोत्पादशोचने । रोद- नादिप्रसचिव शोकस्यैते स्युराश्रवाः । स्वय भयपरीणाम. परेपामय मापनम् । वामनं निदयत्वं च भय प्रत्याश्रवा अमी ॥ चतुर्वर्णस्य संघस्य परिवादजुगुप्मने । सदाचारजुगुप्मा च जुगुप्माया स्युराधवा ॥ ईर्ष्या विषादगाध्य च मृषावादोऽदिवकता। परदाररतासक्ति स्त्रीवेदस्याश्रवा इमे ॥ स्वढारमात्रसंतोपोऽनीा भन्दकषायता । अवक्राचारशीलत्व पुवेदस्याश्रवा इति ॥ स्त्रीपुमाननमेवोग्रा. कपायास्तीवकामना | पाखंडित स्लीव्रतभंग: पंढवेदाश्रवा अमी ॥ साधूना गर्हणा धन्मुिखता विघ्नकारिता । मधुमांसविरतानामपिरत्य- मिवर्णनम् ॥ विरताविरताना बान्तरायकरण मुहु । अचारित्रगुणाख्यान तथा चारित्रदूषणम् ॥ कपा- मनोकपायाणामन्यस्यानामुदीरणम् । चारित्रमोहनीयस्य सामान्यनाश्रवा अमी ॥

5 तस्वन्यायविमाकरे [ नवकिरण गतिचतुष्टयेति । देवतिर्यामनुजनरफरूपगतिचतुष्टयेत्यर्थः । स्वस्वकृतकर्मभिः प्राप्त- नारकादिगतितो निर्गन्तुमिच्छतोऽपि जन्तोः प्रतिवन्धकतया यदा गच्छति न तु निष्क- मणायावकाशं ददाति स्थितिपर्यन्तञ्च तत्रैव तं स्थापयति तदायुःकर्मत्यर्थः । गतिचतुष्टयस्थि- तिप्रयोजकत्वे सति कर्मत्वं लक्षणम् । प्रभूतप्राणिप्राणव्यपरोपणमनवरतखण्डनीपेषणी- 5 चुल्ल्युदकुम्भप्रमार्जनीव्यापारी बाह्याभ्यन्तरवस्तुषु ममत्वं कुणपाहाराभ्यवहारित्वं कपा- योदयात्तीव्रपरिणामो मिथ्यादर्शनश्लिष्टाचारत्वमुत्कृष्टमानत्वं शैलभेदसडशरोषस्तीप्रलोभा- नुरागपरपरितापप्रणिधानवधबन्धनामिनिवेशानृतवचनप्रस्वादनाविरतमैथुनोपसेवास्थिरवैराव- शेन्द्रियनिरनुमहस्वभावकृष्णलेश्यापरिणामरौद्रध्यानादयो नरकायुषो हेतवः । मनोवा- कायशठत्वमिध्यात्वावष्टम्भाधर्मदेशनाकूटकर्मनीलकापोतलेश्यापरिणामार्तध्यानादयस्तियंगा- 10 युषो हेतवः । अस्पारम्भपरिग्रहस्वभावमार्दवानवमिध्यादर्शनालिङ्गितातिविनीतता वालु- काराजिसशरोषस्वागताधमिलापलोकयात्राऽनुग्रहौदासीन्यगुरुदेवतातिथिपूजासंविभागशील- ताकापोतलेश्यापरिणामधर्मध्यानादयो मनुष्यायुषो हेतवः । सरागसंयमो देशविरतिरकाम- निर्जराबालतपकल्याणमित्रसम्पर्कधर्मश्रवणतपोभावनापानदानतपनलेश्यापरिणामाव्यक्तसा- मायिकाविराधितसम्यग्दर्शनादयो दैवायुषो हेतष इति ॥ 16 सम्प्रति नामकर्माऽऽचष्टे- नरकगत्यादिनानापर्यायप्रयोजकं कर्म नामकर्म ॥ नरकेति । यद्धि जीवं नारकोऽयं तिर्यग्योनिकोऽयं मनुजोऽयं देवोऽयं एकेन्द्रि- योऽयं द्वीन्द्रियोऽयं त्रीन्द्रियोऽयं चतुरिन्द्रियोऽयं औदारिकोऽयं वैक्रियोऽयं हस्तवानयं पादवा- नयमित्यादिव्यपदेशैरनेकधा नामयति-करोति तन्नामकर्मत्यर्थः । कायवाचनाकौटिल्य १. पंचेन्द्रियप्राणिवधो बहबारंभपरिप्रहौ। निरनुपहता मासभोजनं स्थिरबैरता ॥ रौद्रध्यान मिथ्या- वान्तानुवन्धिकषायता । कृष्णनीलकपोताच लेझ्या अनृतभाषणम् ॥ परव्यापहरणं मुहुमैथुन सेवनम् । अवशेन्द्रियता चेति नरकायुष आश्रवा ॥ उन्मार्गदेशना मार्गप्रणाशो गूढचित्तता । मार्तण्यानं सश- ल्यत्वं मायारंभपरिवहौ ॥ शीलवते साविचारो नीलकापोतलेश्यता । अप्रत्याख्यानकषायास्तिर्यगायुप थाधवाः ॥ अल्पो परिप्रहारंभी सहजे मार्दवार्जवे । कापोतपीतलश्यात्व धर्मध्यानानुरागिता । प्रत्याख्यान- कषायत्वं परिणामश्च मध्यम. । सविभागविधायित्वं देवतागुरुपूजनम ॥ पूर्वालापप्रियालापी ज्ञानप्रज्ञाप- पनीयता । लोकयात्रासु माध्यध्वं मानुषायुष आश्रवा ॥ मरागमयमो देशसंयमोऽकामनिराकल्याणमित्र- संपर्को धर्मश्रवणशीलता ॥ पाने दानं तप श्रद्धा रत्नत्रयाविराधना । मृत्युकाले परीणामो लेश्ययो पद्मपीतयो. ॥ पालं तपोऽमितोयादि साधनोलंबनानिच । अव्यक्तसामायिकताल देवस्यायुप आश्रवाः ।।

1 अन्तण्या ] म्यायप्रकाशसमलते विसंवादो मिथ्यादर्शन मायाप्रयोगो पिशुनताऽस्थिरचित्ततादयश्चाशुभस्य हेतवः | कायवा- डानोऋजुत्वमविप्रलम्भो धार्मिकदर्शनसम्भ्रमस्संसारभीरुता प्रमादवर्जन सदावार्पणं सम्य- क्त्वमार्जवादयश्च शुभस्य हेतव इति ॥ अथ गोत्रमाख्याति- उच्चनीचजातिव्यवहारहेतुः कर्म गोत्रम् ॥ उच्चेति । गूयते सशब्धत उच्चावचैशद्वैर्यत् तद्गोत्रं, उच्चनीचकुलोत्पत्तिलक्षणपर्यायविशे- षवेधं कर्म, पूज्योऽयमपूज्योऽयमित्यादिव्यपदेशरूपां गां त्रायतेऽर्थाविसंवादेन पालयति यत्तद् गोत्रम् । तथाचोचनीचान्यतरविषयकव्यवहारासाधारणकारणत्वे सति कर्मत्वं लक्षणम् । उभयगोत्रसङ्ग्रहायान्यनरेति । तिर्यग्गत्यादावतिव्याप्तिवारणायासाधारणेति । तत्र परनिष्ठय- थायथार्थान्यतरदोषोद्भावनेच्छा, स्वनिष्ठयथार्थायथार्थान्यतरगुणोद्भावनाभिप्रायः, सदस- 10 गुणच्छादनोद्भावने जातिकुलरूपवलश्रुताज्ञैश्वर्यतपोमनपरावज्ञानोपासनकुत्सनादयो नीचे- गोत्रस्य कारणोनि । आत्मनिन्दापरप्रशंसे गुणोत्कृष्टेषु विनयेन वृत्तिर्विज्ञानादिमिरुत्कृष्ट- स्यापि सतस्तत्कृवमदविरहो जातिकुलरूपबलवीर्यवानैश्वर्यतपोविशेपवतोऽपि स्वोत्कर्षाप्रणि- धानं परावज्ञानौद्धत्यनिन्दास्ववोपहासपरपरिवादनिवृत्तिरित्यादय उच!त्रस्य हेतवः ।। अथाष्टममन्तरायकर्म लक्षयति- आत्मनो वीर्यादिप्रतिवन्धक कर्मान्तरायकर्म ॥ आत्मन इति । दातृप्रतिगृहीत्रोरन्तमध्ये एत्योदयद्वीर्य प्रत्युत्पन्नं वस्तु यदुपहन्यते आगामिनो वा लब्धव्यस्य मार्ग उपहन्यते च तदन्तरायं कर्मेत्यर्थः । आदिना भोगोपभोग- दानलामा गृह्यन्ते । वीर्यादीनां विघ्नकरणं जानप्रतिषेधसत्कारोपघातादयोऽस्य हेतवः । अत्र प्रदोपादयो विशेषहेववो ज्ञानावरणादीनां प्रदेशबन्ध एव हेतव इति न नियमः, एमि- 15 20 १. मनोवाकायवक्रत्व परेपा विप्रतारणम् । मायाप्रयोगोमिभ्यान्य पैगुन्य चलचित्तता ॥ सुवर्णाटि प्रतिच्छन्दकरण कूटसाक्षिता। वर्णगन्धरसस्पर्शान्यथोपपादनानि च । मनोपानच्यावनानि यंत्रपंजरकर्म च । कुटमानतुलाकर्मान्यनिन्दाऽत्मप्रशसनम् ॥ हिसानृतस्तेयावधमहारम्भपरिग्रहाः ॥ परुपामभ्यवचनंशुचिवपादि नामद ॥ मौखर्याकोशौ सौभाग्योपघाता काममक्रिया. । परकौतहलोत्पादः परहास्यविडम्बने ॥ वक्ष्या- दीनामलंकारदानं दावामिदीपनम् । देवादिन्याजाइन्धाठिचौर्यतीत्रकपायता । चत्यप्रतिश्रयारामप्रतिमाना विना- शनम् । अझारादिक्रिया चेत्यशुभस्य नाम्न माधव । एतएवान्यथारूपास्तथा मंसारमीस्ता। प्रमादहानं सद्भावार्पण क्षान्त्यादयोऽपि च ॥ दर्शने धार्मिकाणाश्च संभ्रम स्वागतकिया। परोपकारसारत्वमानवा. शुमनामनि । २. परस्य निन्दावज्ञोपहासासद्गुणलोपनम् । सदमहोषकयनमात्मनस्तु प्रशसनम् ॥ मदसद्गुणशंसा त्र स्वदोषाच्छादनं तथा । नात्यादिभिमर्दश्चेति नौगावाश्रवा अमी ॥ नीचर्गोत्रावविपयानो विगतगर्वता । यचित्तविनय उबैर्गोवाधवा अमी।

तरवन्यायविभाकरे [ नवमाकरले शानावरणे बध्यमाने युगपदितरेषामपि कर्मणां वन्धात्तथापि अनुभागविशेष नियमेन हेतु- तया विशिष्य हेतवो दर्शिताः ॥ अथ मूलकारो मूलप्रकृतीनां स्थितिमाह- ज्ञानदर्शनावरणवेदनीयान्तरायाणां त्रिंशत्सागरोपमकोटीकोटि- 5 कालं यावत्, मोहनीयस्य सप्ततिसागरोपमकोटीकोटिकालं यावत्, विंश- तिसागरोपमकोटीकोटिकालं यावन्नामगोत्रयोः, आयुषश्च त्रयस्त्रिंशत्सा- गरोपमकालं यावत्परास्थितिर्बोध्या। एवमेव वेदनीयस्य द्वादशमुहूर्ता, नामगोत्रयोरष्टमुहूर्ता, शेषाणाश्चान्तर्मुहूर्तमपरा स्थितिरिति ॥ ॥ इतिवन्धतखम् ॥ ज्ञानेति । त्रिंशदिति । उत्कृष्टसक्लेशे स्थितस्य मिथ्यादृष्टेरियं परास्थितिः । 10 सप्ततिसागरोपमेति | मिथ्यात्वापेक्षयेयम् । सम्यमिथ्यात्वस्योत्कर्षतोऽप्यन्तर्मुहूर्त्तमान- त्वात् , कषायस्य चत्वारिंशत्सागरोपमकोटिकोटिप्रमाणत्वात् । नोकषायाणाश्च विंशति- सागरोपमकोटीकोटिप्रमाणत्वात् । विंशतीति । नरकतिर्यग्गत्येकेन्द्रियादिजात्यपेक्षयेयम् । नीचर्गोत्रापेक्षया च गोत्रस्य तावती स्थितिः | त्रयस्त्रिंशदिति । देवनरकायुषोऽपेक्ष- येयम् । तत्र ज्ञानावरणादिचतुर्णामबाधाकालश्च त्रीणि वर्षसहस्राणि, एतद्धीना कर्म- 15 स्थितिरनुभवयोग्या-कर्मदलिकनिषेका, ज्ञानावरणीयादिकं हि कर्म उत्कृष्टस्थितिकं बद्ध सद्वन्धसमयादारभ्य त्रीणि वर्षसहस्राणि यावन्न किञ्चिदपि जीवस्य बाधा स्वोदयत उत्पा- दयति, तावत्कालमध्ये दलिकनिषेकस्याभावात् तत ऊर्ध्व हि दलिकनिषेका, निषेको नाम कर्मपुद्रलानामनुभागरचना, स निषेकः प्रथमस्थितौ प्रभूतो द्वितीयस्थितौ विशेषहीन इत्येवं क्रमेण यावच्चरमसमयं रचना | द्वादशमुहूर्त्ता इति, सातवेदनीयस्य सकषायस्येदं, इतरस्य 20 तुं प्रथमसमये बन्धो द्वितीयसमये वेदनं तृतीयसमये त्वकर्मीभवनमिति, अष्टमुहूर्ता इति, यशकीलुंचे!त्रापेक्षयेदम् । शेषाणामिति ज्ञानावरणदर्शनावरणमोहनीयायुरन्तरायाणा- मित्यर्थः । पञ्चानां ज्ञानावरणानां चक्षुर्दर्शनावरणादीनां चतुर्णा दर्शनावरणानां उदयापेक्षया सम्यक्त्वसम्यमिथ्यात्वयोसज्वलनलोभस्य पञ्चानामन्तरायप्रकृतीनां तिर्यगायुषश्चापेक्षयेयं स्थितिरिति । इतरासान्तु प्रकृतीनां जघन्योत्कृष्टस्थितयस्तत्तत्प्रकृतिनिरूपण एवोक्ता इति 25 दिछ । अथ बन्धतत्त्वं निगमयतीतीति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर चरणनलिनविन्यस्तभक्तिभरण तत्पट्टधरेण लब्धिसूरिणा विनिर्मितस्य तत्व- न्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां बन्धनिरूपणनामा ॥ नवमः किरण. समात.॥ ।

मोक्षनिरूपणम् ] न्यायप्रकाशसमलते अथ दशमः किरणः॥ तदेवं वन्धविगमोपायभूतसंवरनिर्जरानिरूपणोत्तरकालं बन्ध प्ररूप्य तत्प्रतिद्वन्द्रिभूत- मवसरप्राप्तमोक्षतत्त्वं निरूपयति- कृत्स्नकर्मविमुक्त्याऽस्मनः स्वात्मन्यवस्थानं मोक्षः ।। कृत्स्नेति । कृत्स्नं निखिलं यत्कर्म मूलोत्तरप्रकृतिभेदमिन्नं तस्य या विमुक्तिरात्म- 5 प्रदेशेभ्योऽत्यन्तमपगमस्तयाऽऽत्मनो यत्स्वात्मन्यवस्थानं स्वस्वभावेन वर्तनं स मोक्ष इत्यर्थः । विमुक्तिपदेन कृत्स्नस्य कर्मपुरलस्य कर्मत्वेन रूपेण क्षयोऽत्र विवक्षितो न द्रव्यत्वेन, तन्मुखेन तस्य नित्यत्वात् , कर्मत्वेनैव तस्य नाशात् , कर्मयोग्यपद्लेष्वात्मना परिगृहीतेष्वेव कर्मत्वपर्यायोत्पादेन तस्मादत्यन्तमपगतेषु तेषु तत्पर्यायनाशेन तद्रूपेण तेषामपि नाशात् । ननु पौगलिककर्मप्रकृतीनामेव किं निरासो मोक्षः, सतौपशमिकक्षायोपशमिकौद- 10 यिकक्षायिकपारिणामिकानां भावानामपीत्याशंकायामाहाऽऽस्मन इति, तथा च स्वस्थ यस्वरूपं तस्मिन्नवस्थानं वर्चनमित्यर्थः, तेन केवलसम्यक्त्ववानदर्शनानि जीवस्य स्वरूपं तद्रूपेणाऽऽत्मनोऽवस्थानं मोक्षः, एते च भावाः क्षायिकाः, औपशमिकक्षायोपशमिकौदयि- कानान्तु सर्वथा अभाव एवेति सूचितम्, कथमेषामभाव इत्यत्राह विमुक्त्येति, कर्मत्वेन पुद्गलसत्त्वे झुपशमादयः सम्भवन्ति, तस्यैव विमुक्त्या तदाधाराणां तेषां सम्भव एव 15 नास्ति, यस्तु न तदाधारः क्षायिकादिर्भावस्सोऽस्त्येव त्रिविधदर्शनमोहनीयादीनामात्यन्ति कक्षयेणैव केवलसम्यक्त्वादीनां भावादिति भावः । एतेन सर्वथाऽऽत्माभावो मोक्ष इति निरस्त मोक्षाधारपदार्थस्याऽऽवश्यकत्वात् । न च केवलसम्यक्त्वज्ञानदर्शनानामेव यदि सत्त्वं सद्यनन्तवीर्यसुखादीनामपि निवृत्तिप्रसङ्ग इति वाच्यम् । तदविनामावित्वेन तेपा. मत्रैवाऽन्तर्गतत्वात् , अनन्तसामर्थ्यांमावे हि नानन्तावबोधस्संभवति, सुखमपि च न 30 ज्ञानातिरिक्तं किश्चिदपि तु ज्ञानविशेषरूपमेव, एवं सिद्धत्वास्तित्वादिभावा अपि तद्- विनामाविन एव, भव्यत्वन्तु केबलसम्यक्त्वादिनिष्पत्तिविनाशित्वेन तदुत्पत्तौ नास्त्येवेति भावः । नन्वात्माभाव एव मोक्षः, तथा हि संसारो नारकतिर्यड्मनुष्यदेवत्वमेव, नान्यः, नारकादिपर्यायमिन्नश्च न कोऽपि जीवः, कदाचिदपि तद्भिन्नत्वेन जीवस्यानुपलब्धेः, ततो नारकादिभावनाशे जीवस्य खस्वरूपनाशात्सर्वथा जीवाभाव एवं प्राप्त इति चेन्न, पर्याय- 25 मात्रनाशे पर्यायिणस्सर्वथा नाशस्थानिष्टत्वात् , नहि कनककुण्डलादिपर्यायनाशे स्वर्णस्य . १. धर्मिणमात्मानं विना सदनुमानमोक्षादीनां विचारायोग्यत्वात्, नहि बन्ध्यामुतस्याभावे तमिष्ठ- सुरूपकुरूपत्वादीन् कश्चिदारभते चिन्तयितुमिति भावः।।

. . तस्वन्यायविमाकरे [ दशमकिरणे नाशः कस्यापीष्टः । न च संसारः कर्मकृतः, ततखन्नाशे संसारो नश्यति वथा तन्नाशे च जीवस्यापि नाश एवेति वाच्यम्, कारणब्यापकयोरेव कार्यव्याप्यनिवर्चकत्वात् संसा- स्थ कर्मकार्यमतस्तन्नाशे तन्नाशो युक्तः, जीवस्तु तु न कर्मकृतः, अनादिकालप्रवृत्तत्वात् अतः कर्मनाशे न तस्य नाशः । विकारानुपलम्माच न सर्वथा विनाशधर्मा, दृश्यन्ते हि मुद्ररा- दिना ध्वस्वस्य घटस्य कपाललक्षणा विनाशधर्माः, न तथा जीवस्यातो नित्यत्वं तद्धर्मलाच मोक्षस्यापि नित्यत्वम् ॥ ननु स्वात्मन्यवस्थानमित्यनेन ज्ञानादिमत्त्वं मुक्तस्योक्तं तन्न सङ्गच्छवे ज्ञानकारणाभावात् , ज्ञाने हि शरीरेन्द्रियादिकं कारण मुक्तस्य तदभावान्न ज्ञानं भवितुमई- तीति चेन्न व्यायसिद्धेः, न हि शरीरेन्द्रियादीनि ज्ञानस्य कारणं व्यापकं वा, येन तन्निवृत्ती तस्यापि निवृत्तिः स्यात् , ज्ञानस्यात्मस्वभावत्वेन शरीरादिनिवृत्तावपि न निवृत्तिः, तस्मादस्ति 10 मुक्तो जीवस्स च ज्ञानरहित इति विरुद्धं वचनमेव | स्वात्मनि देहे प्रत्यक्षानुभवादेव जीवस्य ज्ञानस्वरूपत्वसिद्धेः, इन्द्रियव्यापारोपरमेऽपि तद्व्यापारोपलव्धार्थानुस्मरणादिन्द्रियसत्त्वेऽपि चान्यमनस्कतायामनुपलम्मात् । अदृष्टाश्रुतानामध्यर्थानां तथाविधक्षयोपशमपाटवायाख्या- नाद्यवस्थायां कदाचित्स्फुरणाञ्च तस्मात्सर्वदा प्रकाशमय एव जीवः, परं संसार्यवस्थायां छन्नस्थः किञ्चिन्मात्रमवभासयति क्षीणाक्षीणावरणच्छिद्रश्वावभासनात्, सच्छिद्रकुड्याद्यन्त- 15 रितप्रदीपवत्। मुक्तावस्थायाञ्च सर्वावरणक्षयात्सर्वमर्थ प्रकाशयति, विगतकुड्याद्यावरणप्रदी- पवत्, न तुजीवस्य तदानीं प्रकाशामावः, इति सिद्धं तदानी ज्ञानस्वरूपत्वम् । एवं सुखादि- स्वरूपत्वमपि भाव्यम्॥ अत्र कृत्स्नकर्मविमुक्याऽऽत्मनस्वात्मन्यवस्थानमित्यनेन सङ्ग्रहनयेन मुक्तिक्ता, तेन ह्यावरणोच्छित्या व्यङ्गयं सुखं मुक्तिरिष्यते, ससारदशायां जीवस्वभावस्य सेन्द्रियदेहाथपेक्षाकारणस्वरूपावरणेनाच्छाद्यमानत्वात् प्रदीपस्यापवरकावस्थित्तपदार्थप्रका- शकत्वस्वभावस्येव तदावारकबृहच्छरावादिना । तदपगमे तु प्रदीपस्येव जीवस्यापि विशिष्ट- प्रकाशस्वभावोऽयत्नसिद्ध एवेति । न च शरीराद्यभावे ज्ञानसुखादीनामभावप्रसङ्ग इति वाच्य- मप्रयोजकत्वात् , अन्यथा शरावाधभावे प्रदीपादेरभावप्रसङ्गस्यात् , न च शरावादेः प्रदीपाय- १. आत्मा हि सामान्यतो निखिललोकालोकतिपदार्थाना सम्यक् परिच्छेदनिपुण , पर च कर्म- पटलावृततज्ज्ञानत्वादस्मदादीनां विषयेषु संशयाऽज्ञानविपर्यया अतीतादिविप्रकृयादिपदार्थेष्वसम्यक्प्रसी- तिश्चाविर्भवति, निशेषतया ज्ञानावरणादिकममलापगमे च प्रतिवन्धकामादेन निखिलपदार्थशानस्वमा- बतायां न कोऽपि विरोध इति भावः ॥ २. एवं सुखस्वरूपोऽप्यात्मा, यथा संमारिण सुखदुःखे परस्स- रानुषक्ते न तथा मुक्तात्मन., दुःखमूलस्य शरीरस्याभावात्, आत्मस्वरूपत्वाच मुखस्य । न चेदं सुखं दुःखामावरुपम्, मुख्ने बाधकाभावात् रोगान्मुक्तोऽह सुखी जात इत्यादौ सुखीति पदस्य पौनरुत्यापते ईदृशनहरूपात्मतत्त्वस्य मोक्षस्य पुमामुपादेयत्वासंभवात् सासारिकमुखस्य दुःखरूपत्वादेवात्पन्तिकरा विशेषलिसयैव मुमुक्षुण प्रवृत्तेश्चेत्यभिप्रायेणाह-एवं सुखादिस्वरूपत्वमपि भाव्यमिति ॥ 20 ।

मोक्षनिरूपणम् ] न्यायप्रकाशसमलङ्कृते । जनकत्वान्न दोष इति वाच्यम्, तथाभूतप्रदीपपरिणत्यजनकत्वे शरावादेखनावारकत्वास- झात् । व्यवहारनयेन तु स्वीकृतपुंस्त्रीशरीरस्यात्मनस्सम्यग्जानक्रियाभ्यां साध्यः कर्मणां क्षयो मुक्तिरिष्यते, अन्वयव्यतिरेकाभ्यां तयोस्तं प्रति कारणत्वात्, न च कर्मक्षयस्य मुक्तित्वेऽ पुमर्थत्वं स्यादिति वाच्यम् , मुक्तस्साक्षात् दुःखहेतुनाशोपायेच्छाविषयत्वेन परमपुरुषार्थ- त्याविरोधात् । दुःखे हि द्वेपे तद्धेतून नियमेन द्वेष्टि ततस्तन्नाशहेतुषु ज्ञानादिषु प्रवर्तते, 5 ततो नाशोपायेच्छा जायत इति । न च सम्यग्ज्ञानक्रियाभ्यामित्युक्तं तन्न युक्तं सम्यग्दर्शन- स्यापि हेतुस्वादिति वाच्यम् द्वयोरप्यनयोआनदर्शनयोस्सहचारित्वात् । ननु स्वीकृवपुंषी- शरीरस्यात्मन इत्युक्तं तत्र स्वीकृत'शरीरस्य तु सम्यग्नानक्रियासम्भवाद्युक्तं मोक्षाधि- कारित्वं स्त्रीणान्तु न तथा, तासां बानदर्शनयोस्संभवेऽपि चारित्रासंभवात्, वनपरिमोगस्या- वश्यकत्वान्, अन्यथा विवृताङ्गयस्ताः पुरुषाणाममिभवनीया लोके गर्हणीयाश्च भवेयुः, 10 वनपरिभोगे च परिग्रहवत्वेन संयमाभाव एव स्यादिति चेन्न, वस्त्रसंसर्गमात्रस्य परिग्रह- त्वासंभवात् , मूछ विशिष्टस्यैव तादृशस्य परिग्रहत्त्वात् , अन्यथा भरतचक्रवर्तिनो निष्परि- ग्रहत्ववर्णनं केवलोत्पादश्वासंगतं स्यात् , जिनकल्पप्रतिपन्नस्य कस्यचित् साधोस्तुषारकणा- नुपक्के शीते पतति सति केमाप्यविषयमद्य शीतमिति विचिन्त्य तस्य शिरसि वबे प्रक्षिप्ते परिग्रहत्वापातप्रसङ्गात्, तासामपि सम्यग्दर्शनादिप्रकर्षसम्भवाञ्चेति दिक् । स च 15 सम्यग्जानक्रियाभ्यां भवति, क्रियारहितस्य बानस्य तद्रहितायाः क्रियाया वाऽसमर्थत्वात्, न च प्रत्येक कारणताविरहे कथं समुदाये कारणत्वमिति वाच्यम् , प्रत्येकं देशोपकारित्वात् समुदायस्य च सम्पूर्णोपकारित्वादिति दिक् ।। ननु धर्माधर्मयोर्मुको तावदात्यन्तिकी निवृत्तियुक्ता, अन्यथा तदनुपपत्तेः, तनिवृत्तौ च वस्फळभूतानां वुयादीनामपि निवृत्तिरावश्यकी निमित्तापाये नैमित्तिकस्याप्यपायात्, 20 मुक्तस्यात्मनोऽन्तःकरणसंयोगाभावेन न तत्कार्यस्य वुझ्यादेरुत्पत्तिः, तथाचाशेषविशेषगुण- निवृत्तिर्मुक्तौ सिद्ध्यत्येवेति चेन्नेष्टापत्ते, को हि निवारयति मुक्तावदृष्टहेतुकानां आत्मान्त:- - १. ननु बानमेव प्रधान मोक्षकारणं न क्रिया, तस्या अपि ज्ञानकार्यत्वात् , ज्ञानं हि मोक्ष प्रति कारण, तदपान्तरालमाविना मर्वसंगमकियादीनामपि, तस्मात्तदेव मौनं प्रति प्रधान कारणमिति चेन्च जानस्य परम्परयोपकारकत्वे क्रियाया एवानन्तर्येण प्रवानकारणत्वापत्ते., अव्यवधानेन यदुपकारकं तस्यैव प्रधान कारणत्वात् , युगपत्कायोत्सत्ती द्वयोरप्यनुकूलत्वे योरपि प्राधान्यस्यौचित्यात्, अपान्तराले भवन्स्या अपि क्रियाया मोक्षामाघनत्वे केवलादपि मानान्मोक्षापत्ते, अकारणस्यानपेक्षणीयत्वात् । द्वयोरपि सहचारित्वे च क्थमेकं जानं कारणं भवेश किया, न च कियैव कारण भवतु न जानमिति वाच्यम् , तथासत्युन्मत्तादिक्रिया- तोऽपि मोलापत्त., तस्माजानकियोमयात् मुक्तिरिति भाव ।।

" तत्त्वन्यायविभाकरे [ दशमकिरणे करणसंयोगजानाञ्च बुद्ध्यादीनां निवृत्तिम्, किन्तु कर्मक्षयहेतुकानां प्रशमसुखानन्तज्ञानादीनां निवृत्तिमेव निवारयामः, तथा च मुक्तौ कथञ्चिद् बुद्ध्यादिविशेषगुणानां निवृत्तिः कथचिद- निवृत्तिव्यंवतिष्ठते । न च ज्ञानत्वावच्छिन्न एवादृष्टान्तःकरणादिहेतुत्वान्मुक्तौ तदनन्य- ज्ञानाद्यनुपपत्तिरिति वक्तुं युक्तम् , परैरीश्वरज्ञानादिव्यावृत्तये जन्यत्वस्य कार्यतावच्छेदककोटौ 5 दानात्, तस्य च ध्वंसप्रतियोगिरूपत्वेन | वंसाप्रतियोगिज्ञानादीनां . मुक्तावनुपपत्त्य भावात् । न च जन्यत्वेन ज्ञानादीनां मुक्तावपि ध्वंस आवश्यक इति वाच्यम् | जन्यत्वेन ध्वंसहेतुत्वे मानाभावात्, प्रतियोगिनो विशिष्य हेतुत्वेऽपि मुक्तज्ञानादीनां ध्वंसाहेतुत्वकल्पन एव लाघवात् । न चोपयोगस्य संसारदशायामन्तर्मुहूर्तादिकालनाश्यत्वदर्शनान्मुक्तावपि कालान्नाशप्रसङ्ग इति वाच्यम् । केवलज्ञानादीनां कालानाश्यत्वादुपयोगस्य क्षणिकत्वेऽपि 10 प्रवाहतस्तदानन्त्यस्य च सिद्धान्तसिद्धत्वात् । वस्तुतस्तु अदृष्टान्तःकरणसंयोगकर्मक्षयादयो न ज्ञानोत्यचौ निमित्तभूताः । अपि तु आविर्भावविरोभावावेति पूर्वमेवोक्तम् । न चात्मनो बुद्धयादिगुणाः कदाचिदुच्छिद्यन्ते, सन्तानरूपेण जायमानत्वात् प्रदीपवत्, अमीषां जन्मनो निरन्तरं सर्वानुभवसिद्धत्वान्नासिद्धिः, साध्यविपर्ययेण व्याप्सेरसिद्धया न विरुद्धः, विपझे गगनादौ हेतोरसत्त्वेन च नानकान्तिक इति वाच्यम् । विकल्पासहत्वात्, सन्तानपदेन पितृ- 18 पुत्रपौत्राविक्रमेण पुरुषसम्प्रदायो गोत्राद्यपरनामा सन्तानो विवक्षितः, उत उपादानोपादेय- भावेनोत्तरोत्तरकार्यपरम्परोत्पादा, अथवा सामान्येन सजातीयकार्यकारणप्रवाह इति, तत्र नायस्तस्य पुरुषेष्वेव प्रसिद्धया गुणादौ तदसम्भवात् । न द्वितीयः, तेषामात्मोपादेयत्वेन स्वीकृततया परस्परमुपादानोपादेयभावानगीकारात् । नान्त्यो बुद्ध्यादिभ्यो विजातीयाना- मिच्छादीनामप्युत्पत्तिदर्शनेन सजातीयकार्यकारणोत्पत्त्यभावात् । स्मृत्यादीनाञ्च भवदभिप्राये- 20 णाप्रमाणतया विजातीयानामपि सम्यग्ज्ञानादिभ्यसंस्कारोदोघद्वारेणोत्पत्तेः । पाकजपरमाणु- रूपादीनाञ्चैवंविधसन्तानरूपेणोत्पत्तावपि भवताऽत्यन्तोच्छेदानभ्युपगमात्, संसारस्य चैवं रूपस्याप्यत्यन्तोच्छेदाभावेन व्यभिचारात्, मुक्तावनित्यबुद्धमादीनामत्यन्तोच्छेदस्यास्माभिरपि स्वीकृतत्वेन सिद्धसाधनाच॥ तथा स्वस्वरूपे चैतन्यमात्रेऽवस्थानमात्मनो मोक्ष इति कपिल- मतमपि प्रमाणबाधितं, चैतन्यविशेषेऽनन्तज्ञानादौ स्वरूपेऽवस्थानस्य मोक्षत्वसाधनात् । न 25 ह्यनन्तज्ञानादिकमात्मनोऽस्वरूपं सर्वज्ञत्वादिविरोधात । प्रधानस्य सर्वज्ञत्वादिस्वरूप नात्मन इति चेन्न, तस्याचेतनत्वादाकाशादिवत्, ज्ञानादेरप्यचेतनत्वादचेवनप्रधानस्वभावत्वं युक्तमेवेति चेत्कुतस्तदचेतनत्वसिद्धिः, अचेतना ब्रानादय उत्पत्तिमत्वाद घटवदित्यनुमाना- दिति चेन्न, हेतोर्बुद्धिनिष्ठप्रतिबिम्बहेतुविम्वचैतन्यलक्षणेनानुभवेन व्यभिचारात्, तस्य चेव- नत्वेऽप्युत्पत्तिमत्त्वात् । न च कथमुत्पत्तिमाननुभव .इति वाच्यम्, बुद्ध्यादिवत्सरापेक्ष- मोक्षनिरूपणम् ] न्यायप्रकाशसमलते त्वात् । परापेक्षो बसौ बुद्ध्यध्यवसायापेक्षत्वात् , बुद्धिप्रतिविम्बितमर्थ पुरुषश्चेवयत इति वचनात् । बुद्ध्यध्यवसितार्थानपेक्षत्वेऽनुभवस्य सर्वत्र सर्वदा सर्वस्य पुंसोऽनुभव- प्रसङ्गात् , सर्वदा सर्वदर्शित्वापत्तस्तदुपायानुष्ठानवैयर्यमेव स्यात् , यदि पुनरनुभवसामा- न्यमात्मनो नियमनुत्पत्तिमदेवेति मतं तदा ज्ञानादिसामान्यमपि नित्यत्वादनुत्पत्तिमद्भवे- दिति तब हेतुरसिद्धः । न च ज्ञानादिविशेषाणामुत्पत्तिमत्त्वान्नासिद्ध इति वाच्यम्, 5 तबनुभवविशेषाणामप्युत्पत्तिमत्त्वाट्यभिचारापत्तेः । न चानुभवस्य न विशेषास्सन्तीति वाच्यं, वस्तुत्वविरोधात् । सकलविशेषरहितत्वे हि खरविषाणवदनुभवोऽवस्त्वेव भवेत् । न चात्मनानेकान्तः, तस्यापि सामान्यविशेषात्मकत्वादन्यथाऽवस्तुत्वापत्तेः । कालात्ययाप- दिष्टश्चोत्पत्तिमत्त्वहेतुः, ज्ञानादीनां स्वसंवेदनप्रत्यक्षत्वाश्चेतनत्वप्रसिद्धः, न च चेतन- संसर्गादचेतनस्यापि ज्ञानादेश्चेतनत्वप्रतीतिः प्रत्यक्षतो भ्रान्नैवेति वाच्यम्, शरीरा- 10 देरपि चेतनत्वप्रतीतिप्रसङ्गात् चेतनसंसर्गाविशेषात् । न च शरीराद्यसम्भवी बुद्ध्यादे- रात्मना संसर्गविशेष इति वाच्यम्, कथञ्चिचादात्म्यातिरिक्तस्य संसर्गस्याभावात् । ततो नाचेतना ज्ञानादयः स्वसंविदितत्वात्, अनुभववत्, ते स्वसंविदिताः परसंवेदनान्यथा- नुपपत्तेः, तथाचात्मस्वभावा ज्ञानादयः चेतनत्वादनुभववत्, इति न चैतन्यमानेऽवस्थान मोक्षः, अनन्वनानादिचैतन्यविशेपेऽवस्थानस्य मोक्षत्वप्रतीतेरिति ॥ नन्वत्यन्तज्ञान- 15 सन्तानोच्छेद एव मोक्षः, तथाहि बद्धस्य संसारिणो मोक्ष इति वक्तव्यं वन्धश्च रागा- दिभिः, स चैकान्तनित्य आत्मनि न संभवति विकारापत्तेः, तस्मान्नात्मनो बन्धो नवा मोक्षस्तयोरनुपपत्त्या च वादशात्मनोऽभाव एव युक्तः, ज्ञानस्य कार्यतया विकारित्वेन रागादियोगेन बन्धसम्भवात् कथञ्चिद्भावनावलेन तद्विगमाच मोक्ष उपपद्यते, अयमेव च तस्य मोक्षो यद्विनाश इति चेन्न, ज्ञानस्य क्षणिकत्वादुत्पत्स्यनन्तरं विनापि विनाशकं 30 तद्विनाशात्, न च रागादिमिर्ज्ञानक्षणस्य वन्ध आपादयितुं शक्यते, एकान्तनित्यस्येव एकान्तानित्यस्याप्यविकार्यतया रागादियोगवियोगासम्भवात् । ततो बन्धाभावात्कथं मोक्षः। ननु ज्ञानस्य तदसम्मवेऽपि तत्सन्तानस्यैकत्वादक्षणिकत्वाच्च रागादियोगाद्वन्धो भावना, धतिशयाच सन्तानानुत्पत्तिलक्षणो मोक्षश्च संभवति, सन्तानञ्च ज्ञानानामनादिः कार्यकारण- प्रवाह इति चेन्न ज्ञानव्यतिरिक्तस्यैकस्याक्षणिकस्य परमार्थसत्चयाऽभ्युपगम्यमाने नामा- 25 . १. अयं भाव वर्तमानज्ञानक्षणः कर्म वघ्नन् न प्राग् बध्नीयात् असतो बन्धायोगात् न वा सह, बह- भाविनोस्सव्येतरगोविषाणयोरिव तदर्मभवात् नापि पश्चात, उत्पादानन्तरं निरन्वय ईमेन द्वितीयादिक्षणा- वस्थासमवेन तदनुपपत्तेरिति ॥ २. ननु मा भूत एकैकशो जानक्षणाना बन्यो रागाद्युत्पादो वा, तत्सन्तानस्य लेकस्य सन्ततमनुवर्तमानस्यासौ स्यादिति शंकते नन्विति ।

:२७८: तत्त्वन्यायविभाकरे [ दशमकिरणे न्वरेणात्मनोऽभ्युपगतत्वेन वस्यैव बन्धमोक्षयोरुपपादितत्वात , न च नित्यस्याविकार्यतया तदनुपपत्तिरिति वाच्यम् एकान्तनित्यत्ताया निरासेन परिणामिनियस्यैवास्माभिरङ्गीकारात् । तस्मादात्माभाव इति रिक्तं वचः । यद्यस्माभिरपि सन्तानस्य संवृतिसत्तयैवाभ्युपेयते नर्हि सन्तानिनां ज्ञानक्षणानामेव वस्तुसत्वं तेपाञ्चानेकत्वक्षणिकत्वाभ्यामेकस्यैव बन्धमोक्षयोर- 5 नुपपत्त्याऽन्यस्य वन्धोऽन्यस्य मोक्ष इति स्यात्, तथाचानुगतस्यैकस्याभावेन मोक्षप्रवृत्तिर्न स्यात, एवं सन्तानिभ्यस्सन्तानस्याभिन्नत्वेऽपि पूर्वोक्तदोष एव | नवा सन्तानस्यानागता- नुत्पादलक्षणमोक्षस्संगच्छते, बानणस्य ज्ञानक्षणान्तरजननस्वभावत्वादिति ।। एवं स्वरूपतो मोक्षमभिधाय तत्त्वभेदपर्यायाख्या कार्येति नियममनुसरन् त - दान प्रदर्शयितुकामः सिद्धान्ते सिद्धानां सत्पदप्ररूपणादिमिनिरूपणदर्शनेन स्वयमपि तयैव 10 विदधातुं सिद्धानवतारयति- । 15 तद्वान् मुक्तः ॥ तद्वानिति । कृत्स्नकर्मक्षयप्रयुक्तस्वस्वरूपावस्थानपर्यायवान्मुक्त इत्यर्थः । तेन पर्या- यपर्यायिणोः कथञ्चिदभेदात्सत्पदप्ररूपणादिमिस्सिद्धभेदे वाच्ये तदमिनमोक्षात्मकपर्याय- स्याऽपि भेदः प्रज्ञापित एवेति भावः ॥ तत्र मुक्ताः कतिविधा इत्यत्राह- सोऽनुयोगद्वारैस्सिद्धान्तप्रसिद्धस्सत्पदप्ररूपणादिभिर्नवभिनिरूप- णादुपचारेण नवविधः ॥ स इति । मुक्त इत्यर्थः । अनुयोगद्वारैरिति, विधिनिषेधाभ्यामर्थप्ररूपणारूपैया॑ख्या- प्रकारैरित्यर्थः । मिद्धेषु परस्परं वस्तुतो वैलक्षण्याभावेन कर्थनवविधत्वमित्याशंकायामा- 20 होपचारेणेति | नवमिः प्रकारैर्विचार्यमाणत्वादेव नवविधत्वं तेषां न तु वस्तुतो नवविधत्व- मिति भावः॥ तत्राद्यां सत्पदप्ररूपणामाह- गत्यादिमार्गणाद्वारेषु सिद्धसत्ताया अनुमानेनागमेन वा निरूपणं सत्पदमरूपणा॥ गत्यादीति | सत्तामिधायक पदं सत्पदं तम्य प्ररूपणा सत्पत्प्ररूपणा, विद्यमानार्था- मिधायिपदस्य तत्त्वकथनमिति भावः, असत्यप्यर्थे वाो शशविपाणादिपदप्रयोगात् बाहार्थे 25 मार्गणाः ] न्यायप्रकाशसमलते : २७९ सत्यपि घटपदप्रयोगदर्शनान्मोक्षशब्दः सिद्धशब्दो पा घटपदवद् विद्यमानार्थाभिधायको वा शशशृङ्गवदविद्यमानार्थाभिधायको वेत्याशङ्कायामाह सिद्धसचाया इसादि । मोक्षादिशब्दस्य विद्यमानार्थीमिधायकत्वमाप्तोपदेशात्, असमस्तपदत्वहेतोरनुमानाद्वा निरूपणमित्यर्थः, अनु- मानप्रयोगश्च मोक्षशब्दरिसद्धशब्दो वा विद्यमानार्थाभिधायी, असमस्तत्वे सति पदत्वाद्धटादि- पदवदिति । शशशृङ्गादिपदे व्यभिचारवारणाय विशेषणम् । अनर्थकवर्णसमुदाये व्यभिचा- 5 रवारणाय विशेष्यम् । अत्र पदत्वं न सुप्तिडन्तत्वरूपं, द्योतकेपु निपातेषु तादृशपदत्वस- स्वेन साध्याभावास्यभिचारापत्तेः । किन्तु स्वार्थप्रत्यायने शक्तिमद्यत्पदान्तरघटितवर्णान्तरा- पेक्षणरहितं परस्परस्वघटितवर्णसहकारिवर्णसङ्घातरूपं तदेव चासमस्तं पदं, राजपुरुष इत्यादिसमस्ते पदत्वव्यवहारस्तु सुप्तिइन्तत्वात् , न तूतलक्षणतः, स्वार्थप्रत्यायने समस्त- पदसमुदाये शक्यभावात् । यढि चैकदेशसमुदाययोः कथञ्चित्तादात्म्येन तत्रापि स्वार्थ- 10 प्रत्यायनशक्तिमत्वं वर्ततेऽन्यथाऽर्थवत्त्वाभावे नामसंज्ञाऽप्रवृत्तौ विभक्त्यनुपपत्तिस्स्यादिति वि- भाव्यते तदापि न तस्य पदत्वं, पदान्तरघटितवर्णान्तरसापेक्षत्वात्। न च पदलक्षणे पदस्य घटि- तत्वेनात्माश्रयापत्तिरिति वाच्यम् । पदलक्षणे सुप्तिडन्तरूपस्य पदस्यैवान्तर्गतत्वात् । अत एव हिं घटादिशब्दानां पदत्वमन्यथा घटधातूत्तरस्याप्रत्ययस्य कर्थकत्वेन शक्तिमत्त्वात्पदत्वप्राप्ती पदान्तरघटितवर्णान्तरापेक्षत्वेन पदत्वं न स्यात् , तथा चेदृशं पदत्वं न शशशृंगादि- 15 शब्देषु वर्तते पदान्तरघटितवर्णान्तरापेक्षत्वात् , अर्थवत्त्वं पुनरस्त्येव, अन्यथा नामसंज्ञाऽ प्राप्त्या विभक्त्यनुत्पत्तिप्रसङ्गः स्यात्, एवञ्च मोक्षशब्दस्य योऽयं विद्यमानोऽर्थस्स एव कृल्मकर्मक्षयरूपो मोक्ष इति निश्चीयते । यद्यपि मोक्षशब्दस्य विमुक्तिरूपस्य कारागा. रान्मोलो जात इत्यादि प्रतीत्या प्रसिद्धिरस्ति तथापि सर्वबन्धक्षयस्यैव तत्पदस्य मुख्यार्थ- तया तस्य सिद्धिर्विवक्षिता, उक्तप्रतीतौ तु यत्किञ्चिद्वन्धविमुक्तिवाचकत्वं मोक्षपदस्य 2c लाक्षणिक, असति प्रतिवन्धके शब्दार्थसकोचस्यान्याय्यत्वात् । अतो न सिद्धसाधनत्वा. पत्तिः । तथा च ताशपर्यायवां सिद्धानामपि विद्यमानत्वं सिद्धमेव, पर्यायमानस्य साधि- करणत्वादिति मन्वानो गत्यादिचतुर्दशमार्गणासु ते क सन्तीत्याशंकायां मनुजादिगत्या- दावेव तेषां सिद्धिरिति शास्त्रतो यनिरूपणं सेव सत्पदप्ररूपणेति दर्शयति गत्यादीत्यनेन वाक्येन । तथा च सिद्धसत्ताया अनुमानेनागमेन वा गत्यादिमार्गणाद्वारेषु सिद्धसत्ताया आगमेन निरूपणं सत्पदप्ररूपणेति योजना कार्या, प्रथमयोजनाया भावस्तु प्रदर्शित एव, द्वितीययोजनाया भावमाख्यातुं गत्यादिमार्गणा विभागेन स्वरूपेण च दर्शयति- तत्र गतीन्द्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्याभव्यसम्य- क्त्वसंख्याहारकरूपाश्चतुर्दश मूलभूता मार्गणाः ॥

. तस्वन्यायविभाकरे [दशमकिरणे तत्रेति । गतीति, गम्यते प्राप्यते स्वकर्मरजसा समाकृष्टैर्जन्तुमिरिति गतिः, तत्तन्नाम- कर्मोदयानारकत्वादिपर्यायपरिणतिस्तद्विपाकवेद्यकर्मप्रकृतिरपि, कारणे कार्योपचारात् । ननु सर्वेऽपि पर्याया जीवेन प्राप्यन्त इति सर्वेषामपि गतित्वप्रसङ्गो नैवं, यतो-विशेषेण व्युत्पा- दिता अपि शब्दा रूढितो गोशब्दवत्प्रतिनियतमेवार्थ विषयीकुर्वन्तीत्यदोषः। तथा च नारक- । त्वादिरेवात्र शास्त्रीयरूड्या गतिशब्दवाच्यो न प्रामादिगमनक्रिया, नापि यानादिक्रियेति- भावः। इन्द्रियेति । इदि परमैश्वर्य इति धावोरिन्दनादिन्द्रो जीवः, आवरणाभावे सर्वविषयो- पलब्धिभोगलक्षणपरमैश्वर्ययोगात्, तस्य लिङ्ग-चिह्नमविनाभाविलिङ्गसत्तासूचनात्, इन्द्रिय- विषयोपलम्भाद्धि ज्ञापकत्वसिद्धिस्तत्सिद्भावुपयोगलक्षणो जीव इति जीवत्वसिद्धिरिति । इन्द्रेण दृष्टं सृष्टं जुष्टं दत्तमिति वेन्द्रियम् । आत्मना दृष्ट्या स्वविषये नियोजनात्, आत्मकृत- 10 शुभाशुभकर्मणा चक्षुरादीनां सर्जनात् । इन्द्रियद्वारेणास्य विज्ञानोत्पादान्, विषयग्रहणायात्मना विषयेभ्यः समर्पणाच्च । अत्र यन्नीवलिङ्गं तत्सर्वमिन्द्रियमिति न नियमः परन्तु यदिन्द्रिय तत्तथाविधमिति, यथा ये वृक्षास्त आम्रा इति न नियमः किन्तु य आम्रास्ते वृक्षा इति । इन्द्रियविशेषचर्चा अग्रे करिष्यते । कायेति, चीयते उपचयं नीयते यथायोगमौदारिकादिव. गंणागणैर्यरस कायः, योगेति, युज्यते इति योगो मन आदि वनवल्गनादिक्रियासु वीर्यान्त- 15 रायक्षयोपशमजन्यपर्यायेण व्यापार्यमाणत्वात् तत्तक्रियास्ववलम्वनरूपत्वाद्वीर्यशक्तिस्थामादि- पदवाच्यस्सामर्थ्य विशेषो योगः । वेदेति, अङ्गोपाङ्गनिर्माणादिनामकर्मोदयजन्यशरीरवृत्त्या- कारविशेषो वेदाः । कषायेति कृषन्ति विलिखन्ति कर्मक्षेत्रं सुखदुःखफलयोग्य कषाया औणादिक आयप्रत्ययो निपातनाञ्च ऋकारस्याकारः। कलुषयन्ति शुद्धस्वभावं सन्तं जीवं कर्ममलिनं कुर्वन्तीति कषाया निपातनाकलुषशब्दस्य कषायादेशः । कष्यन्ते बाध्यन्ते 20 जीवा अनेनेति कपं कर्म भवो वा तस्यऽऽयो लाम एषां यतस्ते कषायाः मोहनीयकर्मपदलो- दयसम्पाद्यजीवपरिणामविशेषाः क्रोधादयः । ज्ञानेति ज्ञातिर्ज्ञानं, ज्ञायते वस्तु परिच्छिद्यतेऽ नेनेति ज्ञान, यथास्थिवार्थपरिच्छेदनं, यद्वा ज्ञातिनिमावरणक्षयाद्याविर्भूत आत्मपर्यायवि- शेषः, सामान्यविशेषात्मके वस्तुनि विशेषांशग्रहणप्रवणः, ज्ञायतेऽनेनास्माद्वा ज्ञानं तदा वरणस्य क्षयः क्षयोपशमो वा । संयमेति, संयमनं संयमः, सावधयोगात्सम्यगु. 25 परमणम् , संयम्यते नियम्यते आत्मा पापव्यापारसम्भारादनेनेति संयमः शोभना यमाः प्राणातिपातानृतभाषणादत्तादानाब्रह्मपरिग्रहविरमणलक्षणा यस्मिन्निति संयमश्चारित्रम् । दर्शनेति, दृष्टिदर्शनं सामान्यविशेषात्मवस्तुवृत्तिसामान्यविषयकवोधः, अनाकारात्मको बोधो वा, दृश्यतेऽनेन वा दर्शनं दर्शनावरणक्षयः क्षयोपशमो वा । लेश्येति । लिश्यते प्राणी कर्मणा यया सा लेश्या, कर्मवन्धस्थितिविधात्री, कृष्णादिद्रव्यसाचिन्यादात्मनः कुर्वन्तीति - ।

गतिमार्गणा ] न्यायमकाणशमशहते :२८१: परिणामविशेषः । भन्येति, मुक्तियोग्यो भवतीति भन्यः परमपदयोग्यतावान्, विवक्षित- पर्यायेण भविष्यतीति वा भव्यः, अनादिपारिणामिकभव्यभावयोगी । सम्यक्त्वेति, सम्यक्शब्दः प्रशंसार्थोऽविरुद्धार्थों वा सम्यगित्यस्य भावः सम्यत्वं प्रशस्तो मोक्षा- विरोधी वा प्रशमसंवेगादिलक्षण आत्मधर्मस्तत्त्वार्थश्रद्धानं वा मिथ्यात्वमोहनीयक्षयो- पशमादिजन्यम् । संज्ञीति, संज्ञा भूतभवद्भाविभावस्वभावपालोचनं सा विद्यते यस्य स 5 संज्ञी, विशिष्टस्मरणादिरूपमनोविज्ञानसहिवेन्द्रियपञ्चकसमन्वित: प्राणी, संबा देवगुरु- धर्मपरिज्ञानं सा विद्यते यस्य स संज्ञीति वा । आहारकेति, आहरणमाहारः, ओजोलोम- प्रक्षेपरूपः, तमाहारयतीत्याहारकः । मूलभूता इति, उत्तरभेदा अग्रे वक्ष्यन्त इति भावः, मार्गणा इति, मार्यन्ते आमिरिति मार्गणाः, पर्यालोचनाहेतुभूवा अन्वयिधर्माः, पदार्था- न्वेषणस्थानानि वेत्यर्थः॥ , 10 अथोत्तरमार्गणा आचष्टे- नरकतिर्यङ्मनुष्यदेवभेदेन चतस्रो गतिमार्गणाः ।। नरकेति । नरकगतितिर्यग्गतिमनुष्यगतिदेवगतिभेदेनेत्यर्थः । नरान् कायन्ति शब्द- यन्ति-योग्यवानतिक्रमेण जन्तूनाकारयन्ति स्वस्वस्थान इति नरकाः पापकर्मणां यातनास्था- नानि तत्र गतिस्तद्योग्यपर्यायविशेषो नारकत्वरूपः, नामस्थापनाद्रव्यक्षेत्रकालभावमेदान्नरक- 15 पदनिक्षेपाष्पोढा, तन्त्र नामस्थापने प्रसिद्धे, आगमतो नोआगमतश्च द्रव्यनरको द्विधा, आगम- वोऽनुपयुक्तो ज्ञाता,नोआगमतो जशरीरमव्यशरीरव्यतिरिक्ता इहैव भवे तिर्यग्भवे केचना- शुभकारित्वादशुभास्सत्त्वाः कालकसौकरिकादयः । अथवा यानि कानिचिदशुभानि स्थानानि चारकादीनि याश्च नरकप्रतिरूपा वेदनास्तास्सर्वा अपि द्रव्यनरकतयामिधीयन्ते, यद्वा कर्म- द्रन्यनोकर्मद्रव्यभेदाइव्यनरको द्वेधा, तत्र नरकवेद्यानि यानि बद्धानि कर्माणि तानि चैकम- 20 विकस्य बद्धायुष्कस्याऽभिमुखनामगोत्रस्य चाश्रयेण द्रव्यनरकरूपाणि भवन्ति । नोकर्मद्रव्यनर- कास्तु इहैव येऽशुभा रूपरसगन्धशब्दस्पर्शास्ते । क्षेत्रनरकस्तु नरकावकाशकालमहाकालरौरव- महारौरवप्रतिष्ठानाभिधानादिनरकाणां चतुरशीविलक्षसंख्यानां विशिष्टो भूभागः, कालनर- कस्तु यत्र यावती स्थितिः। भावनरकाश्च ये जीवा नरकायुष्कमनुभवन्ति ते, तथा नरक- प्रायोग्यकर्मोदयः । एतद्वितयमपि भावनरकत्वेनाभिधीयत इति । निरोऽवन्ति गच्छन्तीति 25 तिर्यो व्युत्पत्तिनिमिचञ्चैतत् प्रवृत्तिनिमित्तं तु तिर्यग्गतिनाम | तियनामफर्मोदयनि- पाद्यतिर्यक्त्वलक्षणपर्यायविशेषस्तिर्यग्गतिः, मनुजगतिनामकर्मोदयसमापादिवमनुष्यत्व- 5 तस्वन्यायविमाकरे [माहरण लक्षणपर्यायविशेषो मनुजगतिः, देवगविनामकर्मोदयप्रभवदेवत्वलक्षणपर्यायविशेषो देवगति- रित्येवं गतिमार्गणोत्तरभेदाश्चत्वार इति भावः ॥ इन्द्रियमार्गणोत्तरभेदानाह- एकद्वित्रिचतुःपञ्चेन्द्रियभेदेन पञ्चेन्द्रियमार्गणाः ।। एकेति । तत्रेन्द्रियाणि स्पर्शनरसनघ्राणचक्षुश्श्रोत्राणि, द्रव्यमावभेदेन तानि द्विविधानि, निवृत्त्युपकरणभेदेन द्रव्येन्द्रियमपि द्विविधम् , भावेन्द्रियमपि लब्ध्युपयोगभेदेन द्विवियम्, निवृचिर्नाम प्रतिविशिष्टस्संस्थानविशेषः, सापि वाह्याभ्यन्तरभेदेन द्विधा, वाह्या पर्पटिका- दिरूपा सा च विचित्रा न प्रतिरूपनियतरूपतया वक्तुं शक्यते, आभ्यन्तरनिवृत्तिस्तु सर्वेषामपि समाना कदम्बपुष्पाद्याकारा, स्पर्शनेन्द्रियस्य तु बाह्याभ्यन्तरभेदा नास्ति |उपकरणं 10 शक्तिविशेष आभ्यन्तरनिवृत्तिनिष्ठः कथञ्चिदर्थान्तरभूतः, कश्चिदभेदाच द्रव्यादिना तत्य विघातसम्भवः । लब्धिस्तचदिन्द्रियविषयवस्तत्तदिन्द्रियावरणक्षयोपशमः, शेपेन्द्रियाणि लन्धिप्राप्तावेव भवन्ति, श्रोत्रादीन्द्रियस्य स्वस्वविषये शब्दादौ परिच्छेचव्यापार उपयोगः, स चैकस्मिन् काले एकेनैव केनापीन्द्रियेण भवति, तस्मादुपयोगमाश्रित्य सर्वेऽपि जीवा एकेन्द्रियाः, एकेन्द्रियद्वीन्द्रियादिव्यपदेशस्तु निवृत्त्युपकरणलब्धीन्द्रियाणि प्रतीत्य, एवं 15 लब्धीन्द्रियमाश्रित्य सर्वे पृथिव्यादयोऽपि जीवा पञ्चेन्द्रिया वकुलचम्पकतिलकविरहकादीना वनस्पतिविशेषाणां रसनघ्राणचक्षुःोत्रलक्षणेन्द्रियसम्वन्ध्युपलम्मदर्शनेन तदाधरणक्षयोपश- मसम्भवानुमानात् , दृश्यते हि शृङ्गारितकामिनीवदनार्पिवचारुमदिरारागगण्डूपेण वकुलस्य, विलकस्य कामिनीकटाक्षविक्षेपेण, विरहकस्य पञ्चमोदारश्रवणेन पुष्पपल्लवादिसम्भवः । वाह्येन्द्रियापेक्षया तु एकेन्द्रियादिव्यवहारः। न च वकुलादीनामेकैको रसनादीन्द्रियोपरम्भ 20 एवोक्तः कथं सर्वविषयोपलम्भसम्भव इति वाच्यम्, मुख्यतया वत्सम्भवेऽपि गौणवृत्या शेपेन्द्रियोपलम्मसम्भवात्, शृंगारितस्वरूपवरुणीगण्डूपार्पणात् तस्याश्च तनुलतास्पर्शाधर- रसचन्दनादिगन्धशोभनरूपमधुरोल्लापलक्षणानां पल्लानामपीन्द्रियविषयाणां सम्भवानिति । द्रव्येन्द्रियापेक्षया त्वेकेन्द्रियमार्गणा द्वीन्द्रियमार्गणा त्रीन्द्रियमार्गणा चतुरिन्द्रियमार्गणा पञ्चेन्द्रियमार्गणेति इन्द्रियमार्गणाः पञ्चविधा इति भावः ॥ अथ कायमार्गणाभेदमाह- पृथिव्यतेजोवायुवनस्पतित्रसभेदेन षट् कायमार्गणाः ॥ पृथिवीति । पृथिवीकायाप्कायतेजस्कायवायुकायवनस्पतिकावत्रसकायरूपाः पडित्यर्थः । पृथिव्येव कायो यस्य सः पृथिवीकायः, स द्विविधस्सूक्ष्मवादरभेदान्, तन्न 25 .

" | कायमार्गणा ] न्यायप्रकाशसमलते :२८३: सूक्ष्मत्वं वादरत्वञ्च सूक्ष्मवादरनामकर्मोदयापेक्षं, सूक्ष्मास्सकललोकव्यापिनस्समुद्रकपर्याप्त- प्रक्षिप्तगन्धावयववत्, प्रतिनियतस्थानवर्तिनो बादराः, सूक्ष्मपृथिवीकायिकाः पर्याप्तापर्याप्त- भेदेन द्विविधाः, पर्याप्तिनोंम पुद्गलोपचयजनशक्तिविशेषः, तत्प्रभेदास्स्वरूपाणि च पूर्वतो विज्ञेयानि, तत्रैकेन्द्रियाणां चतस्रो विकलेन्द्रियाणां पञ्च संजिनां पडिति चोध्या:, लब्ध्या करणेन च स्वयोग्यपर्याप्तिपूर्णताभाजस्सूक्ष्मपृथिवीकायिकाः पर्याप्तसूक्ष्मपृथिवीकायिकाः, 5 लब्ध्या करणेन वा स्वयोग्यपर्याप्तिपूर्णताविकलास्तेऽपर्याप्तसूक्ष्मपृथिवीकायिकाः, येऽपर्या- सका एव सन्तो नियन्ते ते लब्ध्यपर्याप्तकाः, ये पुनश्शरीरेन्द्रियादीनि न तावन्निवर्तयन्ति, अथ चावश्यं निवर्तयिष्यन्ति ते करणापर्याप्ताः, वादरपृथिवीकायिका अपि वक्ष्णखरभे- दतो द्विविधाः, लक्ष्णा चूर्णितलोष्ठकल्पा मृदुपृथिवी, तदात्मकजीवा अप्युपचारेण लक्ष्ण- वादरपृथिवीकायिका उच्यन्ते ते च कृष्णनीललोहितहारिद्रशुक्लपाण्डुपानकमृत्तिकाभेदेन 10 सप्तविधाः । देशविशेषे धूलिरूपा सती पाण्डु इति प्रसिद्धा मृत्तिका पाण्डुमृत्तिका, जीवो- प्युपचारेण तादृशः, नद्यादिपूरप्लाविते देशे पूरेऽपगते भूमौ श्लक्ष्णमृदुरूपो यो जलमला- परपर्यायः पङ्कस्सा पानकमृत्तिका, उपचारात्तद्युत्को जीवोऽपि तथा । खरवादरपृथिवीका- यिकास्तु अनेकविधा अपि मुख्यतया शर्करावालुकोपलादिभेदेन चत्वारिंशद्विधाश्शाले प्रोक्तास्ते वत एवाऽवगन्तक्या: । संक्षेपतस्तु पर्याप्तापर्याप्तभेदेन द्विविधास्ते, साकल्येन पर्या- 15 प्सीविशिष्टवर्णादीन् वाऽसम्प्राप्ता अपर्याप्ताः, उच्छासपर्याप्त्यपर्याप्त्या मृतत्वेन स्पष्टतरवर्णादि विभागाप्राप्तेस्तद्विपरीतास्तु पर्याप्ताः ॥ आपः कायो येषां तेऽप्कायाः, तेऽपि सूक्ष्मवादर- भेदेन द्विविधाः प्रत्येकञ्च पर्याप्तापर्याप्तभेदतो द्विविधाः । बादराप्कायिकाः करकशीतोष्णक्षा- रक्षत्रकटुम्ललवणवरुणकालोदपुष्करक्षीरघृतेक्षुरसोदादयः । तेजाकायो येषां ते तेजस्कायाः, तेऽपि पूर्ववत् सूक्ष्मवादरपर्याप्तापर्याप्तभेदेन चतुर्विधाः | शुद्धवज्रबालाहारविद्युदु- 20 ल्कामुर्मुरालावनिर्घातसंघर्षसमुत्थसूर्यकान्तमणिनिस्मृतार्चिरग्निप्रभृतिभेदतो बादरतेजस्काया भवन्ति । वायुःकायो येषान्ते वायुकायिकास्तेऽपि पूर्ववञ्चतुर्धा। प्राचीनावाचीनोदीचीनदक्षिणो- धिस्तियेग्विदिगनवस्थितोत्कलिकामण्डलिकागुञ्जायासंवर्चकघनतनुशुद्धवातवातोत्कलि- कावातमण्डलीभेदेन वादरवायुकायिका विज्ञेयाः । वनस्पतिः कायो यपान्ते वनस्पति- कायाः, सूक्ष्मवादरभेदभिन्नाः, पर्याप्तापर्याप्तभिन्नास्सूक्ष्मास्सर्वलोकापन्ना अचक्षु ह्या अने- 25 काकाराध । बादरास्समासतो द्विविधाः प्रत्येकसाधारणभेदात्, पत्रपुष्पफलमूलस्कन्धादीन् प्रति प्रत्येकं जीवो येपान्ते प्रत्येकजीवाः, साधारणास्तु परस्परानुविद्धानन्तजीवसघातरूप- शरीरावस्थानास्तत्र प्रत्येकारीरा वृक्षगुच्छगुल्मलवावल्लीपर्वतृणवलयहरितौपधिजलरुहकुह- णेति द्वादशविधाः प्रत्येकजीवाः । सर्वेऽप्येते वनस्पतिजीवास्समामतप्पोढा भवन्ति, अन. " ।

:२८४: तत्वन्यायविभाकरे [दशमनिरपे वीजमूलबीजपर्ववीजस्कन्धवीजबीजरुहसम्मूछैननभेदात् । अप्रवीजाः कुरण्टादयः, मूल- वीजा उत्पलादयः, पर्ववीजा इक्ष्वादयः, स्कन्धवीजाः सल्लक्यादयः, वीचरुहारशाल्यादयः, सम्मूर्छनजास्तृणादयः । सर्वोऽपि वनस्पतिकायो द्विविधः पर्याप्तापर्याप्तमेदादिति । वसा द्विविधाः, गवित्रसा उदारत्रसाश्चेति, तेजोवायवो गवित्रसाः सञ्चलनधर्मत्वात् परन्तु । ते नात्र विवक्षिताः, सनामकर्मोदयप्रभवानामेव विवक्षितत्वात् । ते चोदारनसा एव, उक्तश्च तत्त्वार्थे " तेजोवायू द्वीन्द्रियादयश्च त्रसा” इति । तेजोवाय्वोः क्रियावनसत्वं, द्वीन्द्रियादीनां लन्धित इति भावो भाष्यटीकाकृद्भिराविष्कृतः, उदारा द्वीन्द्रियत्रीन्द्रिय- चतुरिन्द्रियपञ्चेन्द्रियाः, व्यक्तश्वासोच्छ्वासादिप्राणयोगात्, उदारा अपि पर्याप्तापर्याप्त देन द्विविधाः, कृमिशंखादयो द्वीन्द्रियाः कुन्थूपिपीलिकादयत्रीन्द्रियाः, भ्रमरमक्षिकादयश्चतु- 10 रिन्द्रियाः, नारकतिर्यमनुष्यदेवाः पञ्चेन्द्रियास्सर्वे त्रसा एव न त्वेकेन्द्रिया इव त्रसा- रस्थावराश्च । तत्र नरकावासेषु भवा नारकाः । तियचो गवादयो. जलचरस्थलचरखे- घरभेदमिन्नाः । संमूछिमा गर्मजाश्चेति मनुष्या द्विविधाः, कर्मभूम्यकर्मभूम्यन्तरद्वीपेषु मनुष्या गर्भव्युत्क्रान्तास्ते गर्मजाः, एषां पुरीषमूत्रश्लेष्मसिंघाणवान्तपित्तशोणितशुक्रसृत- शरीरपूयत्रीपुंसंयोगशुक्रपुदलविच्युतिनगरनिर्घमननिखिलापवित्रस्थानेषु ये सम्मूञ्छिनास्ते 15 सम्मूच्छिमाः । एतेऽपर्याप्ता एव । समूच्छिमभिन्ना मनुजास्तु पर्याप्ता अपर्याप्ता अपि । देवास्तु चतुर्निकायाः चतुर्विधोत्पत्तिस्थानत्वात् व्यन्तरज्योतिष्कवैमानिकभवनवासिभेदात् विवेचिता एते पूर्वमेव तेऽपि पर्याप्तापर्याप्तभेदमिन्ना इति दिक् ।। योगमार्गणाभेदमाह- मनोवाकायास्तिस्रो योगमार्गणाः ॥ ये 20 मन इति । मनःप्रायोग्याणि द्रव्याण्यात्मप्रदेणैः काययोगेनादाय मनस्त्वेन परि- णमितानि वस्तुचिन्ताप्रवर्तकानि च मनांसि तैस्सहकारिकारणभूतैस्सहितो जीववीर्यविशेषो मनोयोगः । सत्यादिभेदतस्स चतुर्विधः । भाषापुद्गलग्रहणोत्तरं भापापरिणाममापन्नाः पुदला वागित्युच्यते, तत्सहकारिकारणको योगो जीवशक्तिविशेपो वाग्योगः, सोऽपि पूर्ववदेव चतुर्विधः । केवलं कायावष्टम्भनन्यस्सामर्थ्यविशेषः काययोगः । स चौदारिकादिभेदेन 28 सप्तविधः । अवान्तरभेदानां स्वरूपाण्यन्यत्र पूर्वे वा द्रष्टव्यानि ॥ अथ वेदमार्गणाभेदमाचष्टे- पुंस्त्रीनपुंसकभेदेन तिस्रो वेदमार्गणाः॥

5 कषायमार्गणा] न्यायप्रकाशसमलट्टते । पुमिति । त्रयोऽपि वेदी द्रव्यभावभेदेन द्विविधाः । पुरुषस्य ज्यभिलापो भाववेदो निर्माणाङ्गोपाङ्गाविनामकर्मजन्यः पुरुषस्य श्मश्रकूर्चशिश्नादिविशिष्टो द्रव्यपुरुपवेदा, त्रियः स्त- नयोनिनिलाममुखादिविशिष्टाकारो द्रन्यस्त्रीवेदः, एतदुभयविलक्षणाकारो द्रव्यनपुंसकवेदः ॥ कषायमार्गणाभेदमभिधत्ते- क्रोधमानमायालोमरूपाश्चतस्रः कषायमार्गणाः ॥ क्रोघेति । चतुःप्रतिष्टितः क्रोधः, यथाहि स्वयमाचरितमैहिकमामुध्मिकं प्रत्यपाय- मवबुद्ध्य यदा कश्चिदात्मन एवोपरि क्रुध्यति तदा स क्रोध आत्मप्रतिष्ठितः । यदा पर उदीरयत्याक्रोशादिना कोपं तदा किल तद्विषये क्रोध उपजायत इवि स परप्रतिष्ठितः। यदा कश्चित्तथाविधापराधादात्मपरविषयक्रोधमाधत्ते स उमयाश्रितः, यदा तु स्वयं दुश्चरण- माक्रोशादिकञ्च कारणं विना केवलक्रोधवेदनीयादुपजायते स हि नात्मप्रतिष्ठितः, स्वयं 10 दुश्चरणानाचरणेनात्मविषयत्वाभावात्, न परप्रतिष्ठितः परस्यापि निरपराधित्वात् , अत एव नोमयप्रतिष्ठितः, अतोऽप्रतिष्ठित इवि, एवं मानादयोऽपि । अनन्तानुबन्ध्यादिभेदाः पूर्वमे- वोक्ताः, तथा आभोगनिर्वतितानाभोगनिवर्तितोपशान्तानुपशान्तभेदतोऽपि ते चतुर्धा भवन्ति, यदा यस्यापराधं सम्यगववुध्य कोपकारणञ्च व्यवहारतः पुष्टमवलम्च्य नान्यथाऽस्य शिक्षो- पजायत इत्याभोग्यकोपञ्च विधत्ते तदा स कोप आमोगनिर्वर्तितः । यदा त्वेवमेव तथाविधमुहू- 15 विशागुणदोषविचारणाशून्यः परवशीभूय कोपं कुरुते तदा स कोपोऽनामोगनिर्तितः, अनु- दयावस्थ उपशान्तो निर्निमित्तमुदयावस्थोऽनुपशान्तः । अनन्तानुवन्धिक्रोधादयः सम्यग्दर्श- नसहभाविक्षमादिस्वरूपोपशमादिचरणलवप्रतिबन्धिना, चारित्रमोहनीयत्वात् , न चोपश- मादिमिरेव चारित्री, अल्पत्वायथैककार्पापणो न धनपतिः किन्तु महता मूलगुणादि- रूपेण चारित्री मनःसंज्ञया संजिवत्, अत एव त्रिविधं दर्शनमोहनीयं पञ्चविंशतिविधं 20 चारित्रमोहनीयम् । न च चारित्रावारकस्य सम्यक्त्वावारकत्वानुपपचिस्तथा च सप्तविध दर्शनमोहनीयमेकविंशतिविधश्च चारित्रमोहनीयमिति वाच्यम्, अनन्तानुबन्धिभिरेव सम्य- क्वे आयते मिथ्यात्वस्य वैयपिचे, आवृतस्याप्यावरणेऽनवस्थानात्, तस्माद्यथा कपायाणां केवलज्ञानानावारकत्वेऽपि कषायक्षयः केवलजानकारणतयोच्यते तस्मिन् सत्येव तस्य भावात्, तथानन्तानुवन्धिपूदितेषु न मिथ्यात्त्रं क्षयोपशममुपयाति तदभावाच्च न सम्य- 3 . १. पुरुषवेदो निरन्तरं भवन् जघन्यतोऽन्तमुहर्तमुत्कर्यतस्सातिरेकसागरोपमशतपृथक्वं । त्रीवेदो जघन्येनकस्समय । उत्कर्षत पल्योपममतं पूर्वकोटिपृथक्त्वञ्च, नपुसकवेदो जघन्यत एकस्समयः, उत्कषतोऽनन्तादा॥

- 5 :२८६: तत्त्वन्यायविमाकरे [.दशमकिरणे क्त्वमिति सम्यक्त्वसहचार्युपशमादिगुणावारकत्वमनन्तानुबन्धिना, सम्यग्दर्शनमोहनीयस्य कचित्सप्तविधत्वकथनन्तु सम्यक्त्वसहचारिगुणेषु. सम्यक्त्वोपचारात् । देशविरत्यावारका अप्रत्याख्यानाः, सर्वविरसिंघातिनः प्रत्याख्यानाः, संज्वलना यथाख्यातचारित्रावारकाः ॥ सम्प्रति ज्ञानमार्गणाभेदमाह- मतिश्रुतावधिमनापर्यवकेवलमत्यज्ञानश्रुताज्ञानविभङ्गज्ञानभेदादष्टौ ज्ञानमार्गणाः। मिथ्यादृष्टीनां मतिश्रुतावधयः क्रमेण मत्यज्ञानश्रुताज्ञान- विभङ्गज्ञानान्युच्यन्ते । अत्र पञ्चविधत्वेऽपि ज्ञानानामन्वेषणाप्रस्तावे आद्यत्रयविपरीतानामपि मत्यज्ञानादीनां ज्ञानत्वेन ग्रहणादष्टविधत्वं ज्ञानमार्गणाया बोध्यम् । मनापर्यवकेवलयोस्तु वैपरीत्याभाव एव । 10 अग्रे संयमादिष्वप्येवमेव वैपरीत्येन मार्गणा विज्ञयाः॥ मतीति । ज्ञायन्ते परिच्छिद्यन्ते अर्था अनेनास्मिन्नस्माद्वेति ज्ञान, ज्ञानदर्शनावरणयो। क्षयः क्षयोपशमो वा, सातिर्वा ज्ञानं, आवरणद्वयक्षयाद्याविर्भूत आत्मपर्यायविशेषः, विशेषांशग्राहको ज्ञानपञ्चकाज्ञानत्रयरूपः । ननु सकलमपीदं शान ब्रत्येकस्वभावं शत्येक- स्वभावत्वस्य सर्वत्राविशेषेण किं कृतोऽयं पञ्चधाऽष्टघा वा भेदः, न च वार्तमानिकं वस्तु 15 मतेः, त्रिकालविषयः परिणामो ध्वनिगोचरः श्रुतस्य, रूपिद्रव्याण्यवधेः, मनोद्रव्याणि मनापर्यवस्य, समस्तपर्यायान्वितं सर्व वस्तु विषयः केपलस्येति ज्ञेयभेदस्तकृतो ज्ञानभेद इति पाच्यं केवलज्ञानस्य बहुभेदत्वापत्तेः, वार्त्तमानिकादिवस्तूनां तत्राऽपि ज्ञेयत्वादन्यथा तद्- विषयत्वे तस्य केवलिनोऽसर्वज्ञत्वापतिप्रसङ्गः, न च याशी प्रतिपत्तिर्मत्यादिज्ञानस्य न तादृशी श्रुतादिज्ञानस्येति प्रतिपत्तिप्रकारभेदाढ़ेद इति वाच्यम्, एकस्मिन्नपि ज्ञाने तत्तद्दे- 20 शकालपुरुषस्वरूपभेदेनानन्तभेदप्रसक्तेः प्रतिपत्तिप्रकारस्यानन्त्यात् । न चावारकाणां मतिज्ञानावरणादीनां भेदाझेद इति वाच्यम्, ज्ञानस्यैकत्वे आवारकाणां पञ्चधात्वानु- पपत्तेः, आवार्यापेक्ष ह्यावरकं, आवार्यञ्च ज्ञानं ज्ञप्तिरूपत्वादेकमत आवारकं कथं पञ्चधा भवेत् । न च स्वभावादेव पञ्चधात्वं स्वभावे च न पर्यनुयोग इति वाच्यम्, भगवतस्सर्वज्ञत्व- हानिप्रसङ्घात् , ज्ञानस्यात्मधर्मत्वेन मत्यादीनां स्वाभाविकत्वेन च 'क्षीणावरणस्यापि तद्भा- 25 वप्रसत्याऽस्मदादिवत्तस्यासर्वज्ञत्वं स्यात्, यदि केवलनानभावतस्समस्तवस्तुपरिच्छेदानास- १. शमसंवेगनिर्वेदानुकम्पास्तिक्येषु ॥ २. मत्यादिज्ञानविपयजातस्य तेनाप्रहणादिति भावः । ३, नहि कोऽप्येव पर्यनुयुक्ते कथं घट एव बलाहरणं करोति न पट इतीति भाव ॥

ज्ञानमार्गा] 10 न्यायप्रकाशसमलङ्कृते वत्रत्वमित्युच्यते तदापि केवलोपयोगविरहकाले मविज्ञानोपयोगसम्भवेन देशतः परिच्छेदेन वदा तस्यासर्वज्ञत्वं बलादापतत्येव। न च तस्य तदुपयोग एव न भविष्यतीति वाच्यम्। आत्मनः स्वभावत्वेन तस्यापि क्रमेणोपयोगस्य निवारयितुमशक्यत्वात्, केवलज्ञानानन्तरं केवलदर्शनोपयोगवत् , ततः केवलज्ञानोपयोगकाले सर्वज्ञत्वं मत्यादिज्ञानोपयोगकालेऽसर्वज्ञत्व- मापद्यते, न चैतविष्ट, सस्माज्ञानं असकलसंज्ञितं सकलसंज्ञितमिति विभेदमेव, अवग्रहज्ञाना- 5 दारभ्य यावदुत्कर्पप्राप्तपरमावधिज्ञानं तावत्सकलमध्येकं,तच्चासकलसंज्ञितमशेषवस्तुविषयत्वा- भावात्, अपरच केवलिनस्तञ्च सकलसंज्ञितमिति चेदुच्यते, ज्ञानानां शत्येकस्वभावत्वं सामान्यतो वा विशेपतोवा भवताऽभ्युपगम्यते ? नाधस्सिद्धसाध्यतया वस्य बाधकत्वायोगातू बोधरूपतयाऽस्माभिरपि सकलज्ञानस्याप्येकत्वाभ्युपगमात्, नापि द्वितीयोऽसिद्धत्वात् , स्वसंवेदनप्रत्यक्षेण प्रतिप्राणि ज्ञानस्योत्कर्षापकपदर्शनाद्विशेषत एकत्वानुपलम्भात्। न चोक पिकमात्रभेददर्शनेन यदि ज्ञानस्य भेदस्तहि प्रतिप्राणि देशकालापेक्षयोत्कर्पापकर्पयोरनेक- विषत्वेन ज्ञानस्यानेकविधत्वमेव प्राप्तं न तु पञ्चविधत्वमिति वाच्यम्, परिस्थूलनिमित्त भेदतः पञ्चधात्वस्य प्रतिपादनात् । तथाहि सकलघातिक्षयो निमित्तं केवलज्ञानस्य, मनःप- यायज्ञानस्य त्वमपोपध्यादिलब्ध्युपेतस्य प्रमादलेशेनाप्यकलङ्कितस्य विशिष्टाध्यवसायानु- गतोऽप्रमादा, अवधिज्ञानस्य पुनस्तथाविधानिन्द्रियरूपिद्रव्यसाक्षादवगमननिवन्धनः क्षयो- 15 पशमविशेषः, मतिश्रुतयोस्तु लक्षणभेद इति । ज्ञेयभेदमावतो ज्ञानस्य भेदानभ्युपगमान्न तत्पक्षोक्तदोषः, एकेनाप्यवाहादिना बहुविधवस्तुमहणोपलम्मात् । नापि प्रतिपत्तिप्रकारभेद- कृतो दोपस्सम्भवति देशकालाद्यपेक्षया ज्ञानानामानन्त्येऽपि परिस्थूलनिमित्तभेदेन व्य. वस्थापितज्ञानपञ्चकेभ्योऽनतिरिक्तत्वात् तज्जातीयत्वानतिक्रमणात् । परिस्थूलनिमित्तभेद- मधिकृत्य ज्ञानानां भेदव्यवस्थापनाच नावरणभेदप्रयुक्तदोपस्यावकाश इति । न व्यवस्थापिता ज्ञानभेदा ज्ञानस्यात्मभूता अनात्मभूता वा, आत्मभूतत्वे क्षीणावरणेऽपि तबावप्रसङ्गः, अनात्मभूतत्वे न ते पारमार्थिकाः, ततः कथमावार्यापेक्षो वास्तव आवारकभेद इति वाच्यम्, वस्तुतत्त्वापरिज्ञानात् । इह हि सकलधनपटलबिमि- मुंक्तशारददिनमणिरिव समन्ततस्समस्तवस्तुस्तोमप्रकाशनकस्वभावो जीवः, तस्य च तथा- भूतस्वभावः केवलज्ञानमिति व्यपदिश्यते । स च यद्यपि सर्वघातिना केवलज्ञानावरणेना- बियते तथापि तस्यानन्ततमो भागो नित्योद्घाटित एव । ततस्तस्य केवलजानावरणावृतस्य धनपटलाच्छादितस्येव सूर्यस्य यो मन्दप्रकाशस्सोऽपान्तरालावस्थितमतिज्ञानाद्यावरणक्षयो- पशमभेदसम्पादित नानात्वं भजते मतिज्ञानावरणक्षयोपशमजनितो मन्दप्रकाशो मतिनानं, श्रुतज्ञानावरणक्षयोपशमजनितस्स श्रुत्तज्ञानमित्यादिरूपेण । तत आत्मस्वभावभूता मत्यादयो चैव 20 25 . :२८८ तत्वन्यायविभाकरे [ दशमकिरते भेदार, तेच प्रवचनोपदर्शितपरिस्थूलनिमित्तमेदतः पञ्चसंख्याः, तदपेक्षमावारकमपि पञ्चचेति न विरुद्ध्यते । न चैवमात्मस्वभावभूतत्वे क्षीणावरणस्यापि तद्भावप्रसङ्गः, यत' एते मतिज्ञा- नावरणादिक्षयोपशमरूपोपाघिसम्पादितसत्ताकास्वतः कथं ते तथारूपक्षयोपशमाभावे भवि- तुमईन्ति, नहि सूर्यस्य घनपटलावृतस्य मन्दः प्रकाशः कटकुड्याद्यावरणविवरभेदोपाधिस- 5 म्पादितस्सकलघनपटलकटकुड्याचावरणापगमे सूर्यस्य ते तथारूपा मन्दप्रकाशभेदा भवन्ति । यथा वा जन्मादयो भावा जीवस्यात्मभूता अपि कर्मोपाधिसम्पादितसत्ताकत्वात्तदमावे न सन्ति तद्वन्मत्यादयो भेदा जीवस्यात्मभूता अपि मतिज्ञानावरणादिक्षयोपशमसापेक्षत्वासदभावे केवलिनो न भवन्ति ततो नासर्वज्ञत्वदोषः । यदपि मतिज्ञानादिविषयस्य केवलज्ञानाविषय- त्वेऽसर्वज्ञत्वापत्तिरुक्ता सापि न सम्भवति, तद्विषयत्वेन तस्याग्रहेऽपि केवलज्ञानेन तद्गृह- 10 णात्,मत्यादिज्ञानमात्रनिरूपितत्वेन ज्ञेयताया केवलज्ञानस्याभावेऽपि न तावताऽसर्वज्ञत्वापत्तिः, अल्पास्पष्टझानाभावमात्रेण सर्वज्ञत्वाक्षतेः, कापदिकमात्रधनाभाववतो महर्टिकस्य निर्धनि- वाभाववदिति दिक् ॥ मत्यादिज्ञानलक्षणादीन्यो वक्ष्यन्ते ॥ ननु किं सर्वेषामेव जीवानां ज्ञानानि मत्यादीनि भवन्तीत्यत्राह मिथ्याष्ठीनामिति । मिथ्यादृष्टीनां मतिज्ञानं श्रुवनानम- वधिज्ञानश्च मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानमित्युच्यते विपर्ययत्वात् , प्रमाणाभासत्वेन तेषां 15 ज्ञानान्यज्ञानानि, दर्शनमोहनीयोदयप्रयुक्तमिथ्यादर्शनपरिणामेन सह वृत्तित्वान्मतिश्रुताव- घयोऽज्ञानत्वं भजन्ते । ननु यथार्थपरिच्छेदित्वं ज्ञानत्वमयथार्थपरिच्छेदित्वमज्ञानत्वं तदुमयं च मिथोविरोधि, शीतोष्णवत् वत्कथमेकस्मिन्नेव मतिज्ञानादौ तदुभयसम्भवः, मैवमाधारदो. पात्, दृश्यते हि कटुकालाबूभाजने निहितं दुग्धं स्वगुणं परित्यजति तथा मत्यादीन्यपि मिथ्या- दृष्टिभाजनगतानि दुष्यन्ति पारिणामिकशक्तिविशेषात्, न च रूपादिविषयोपलब्धिव्यभिचा- 20 राभावात्तेषां विपर्ययाभावः, यथैव हि मतिज्ञानेन सम्यग्दृष्टयो रूपादीनुपलभन्ते तथैव मिथ्यादृष्टयोऽपि मतिज्ञानेन, यथैव घटादिषु रूपादीन् श्रुतेन निश्चिन्वन्त्युपदिशन्ति च परेभ्यस्सम्यग्दृष्टयस्तथा मिथ्यादृष्टयोऽपि श्रुतज्ञानेन, यथैवावधिना रूपिणोऽनवगच्छन्ति तथैव विभड्रेनापीति वाच्यम् । विद्यमानाविद्यमानार्थयोर्यथावदववोधाभावेन तादृशोपलब्धेर्या- दृच्छिकत्वात् , उन्मत्तोपलब्धिवत् । उन्मत्तो हि दोषोदयात्कदाचिल्लोष्ठं सुवर्णमिति सुवर्ण लोठ- 25 मिति जानाति कदाचिञ्च लोष्ठं लोष्ठमिति सुवर्ण सुवर्णमिति च, तथैव मिथ्यादर्शनोदयात् वस्तुनोऽनेकान्तात्मकस्यैकान्तात्मकत्वं कर्तृरहितं जगत्सककच जानात्यतो यथार्थवोधामावेन कदाचित्तस्योपलब्धेर्यथार्थरूपादिविषयकत्वेऽपि अज्ञानमेवेति भावः। एवन्तष्टिविधत्वं जाना- नामत्र कथमुक्तमित्यत्राहात्रेति मार्गणाप्रकरण इत्यर्थः। पञ्चविधत्वेऽपि ज्ञानानामिति। शब्दन- यमते सर्वजीवानां चेतनास्वभावत्वात् शस्वभावत्वाचन कश्चिन्मिध्यादृष्टिरलो वा जीवो विद्यते, - दर्शनमार्गणा ] न्यायप्रकाशसमा अत एव मत्यज्ञानादयो विपर्यया न सन्ति तस्मात्पञ्चविधत्वमेव जानानां तन्मतेनेति भावः । नैगमादिनयेन तु मत्यज्ञानादीनामप्यर्थपरिच्छेदकत्वेन ज्ञानत्वात्तन्मताश्रयेणात्र ज्ञानाना- मष्टविधत्वमुक्तमित्याशयेनाहान्वेपणाप्रस्ताव इति । आधत्रयेति मतिश्रुतावधीत्यर्थः । ज्ञान- खेन ग्रहणादिति, अर्थपरिच्छेदित्वादिति भावः। ननु ज्ञानादिपु किमर्थमज्ञानादिविपरीतग्रह- णमिति चेदुच्यते चतुर्दशस्वपि मार्गणास्थानेषु प्रत्येकं सर्वसांसारिकसत्त्वसंग्रहार्थमिती 5 त्याशयेन बोध्यमित्युक्तम् । मनःपर्यवकेवलयोर्विपरीतवाऽस्ति नवेत्यत्राह मन इति । निर्मूलतो मिथ्यात्वस्य क्षयेण केवलस्य क्षयोपशमोपशमाभ्याञ्च मनापर्यवस्य जायमानत्वा- दिति भावः । विपरीतानामपि मार्गणासु ग्रहणमन्यत्राप्यतिदिशति अग्र इति वक्ष्यमाणासु मार्गणास्वित्यर्थः, कासु मार्गणास्वित्यत्राह संयमादिष्वपीति, आदिना भव्यसम्यक्त्वा- हारकाणां प्रहणम् । एवमेवेति, ज्ञानमार्गणायामुक्तप्रकारेणैवेत्यर्थः, वैपरीत्येनेति, तत्तद्विप 10 रीतघटिता इत्यर्थः ।। - अथ चारित्रमार्गणाभेदमाचष्टे- । सामायिकछेदोपस्थापनपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातदेश- विरत्यविरतिरूपास्सप्त चारित्रमार्गणाः ॥ सामायिकेति । निरूपितानि पूर्वमेवैतानि पञ्च चारित्राणि लक्षणभेदद्वारैः । देशविर- 15 विस्तु सावधयोगस्यैकादिवतविषये स्थूलसावद्ययोगादौ विरतिविशिष्टं चारित्रम् । पञ्चाणु- व्रतानि त्रीणि गुणनतानि चत्वारि शिक्षापव्रतानीति द्वादशप्रकारा देशविरतस्य भवन्ति, एपां विस्तरस्तु अन्यन्न विलोकनीयः । चारित्रविपरीताऽविरतिमार्गणोपयोगित्वात्संगृहीता ।। दर्शनमार्गणाभेदमाह- चक्षुरचक्षुरवधिकेवलभेदेन चतस्रो दर्शनमार्गणाः ॥ चक्षुरिति । दर्शनावरणक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनं । इन्द्रियावरणक्षयो- पशमाद्रव्येन्द्रियानुपघाताच चक्षुदर्शनलब्धिमतो जीवस्य घटादिषु चाक्षुपं दर्शनं चक्षुर्दश- नम् । सामान्यविषयत्वेऽपि चास्य घटादिविशेपाभिधानं वत्सामान्यविशेषयोः कथंचिद- भेदादेकान्तेन विशेपेभ्यो व्यतिरिक्तस्य सामान्यस्याग्रहणल्यापनार्थम् । ' निर्विशेष विशे- पाणां ग्रहो दर्शनमुच्यते' इत्यभिधानात् । चक्षुर्वर्डशेपेन्द्रियचतुष्टयं मनश्वाचक्षुरुच्यते, 25 अचक्षुर्दर्शनमिन्द्रियावरणक्षयोपशमाद्रव्येन्द्रियानुपघाताचाचक्षुर्दर्शनलब्धिमतो जीवस्य विषय 20 तस्वन्यायविभाकरे [मार संश्लिष्टतासम्बन्धेन भवति। एतादृशसम्बन्धाभावादेव जायमानत्वाञ्चक्षुर्दर्शनस्य पृयक्तिः, इतरेन्द्रियाणां प्राप्यकारित्वात् । मनसस्त्वप्राप्यकारित्वेऽपि प्राप्यकारीन्द्रियवर्गस्य तनु- सरणीयस्य वहुत्वादचक्षुर्दर्शनान्तर्गतं तद्वोद्धव्यम् । अवधिदर्शनावरणक्षयोपशमसमुद्भूताव- घिदर्शनलब्धिमतो जीवस्यावधिदर्शनं सर्वरूपिद्रव्येषु भवति, न पुनः सर्वपर्यायेषु शास्त्रज्व- 5 घेरुत्कृष्टतोऽप्येकवस्तुगतसंख्येयासंख्येयान्यतरपर्यायविषयत्वस्यैवोक्तत्वात् । बघन्यतस्तु रूप- रसगन्धस्पर्शलक्षणाश्चत्वारः पर्यायास्तस्य विषयाः । ननु पर्याया विशेषा उच्यन्ते न च दर्शनं विशेषविषयं भवितुमर्हति ज्ञानस्यैव तद्विपयत्वात् , तत्कथमवधिदर्शनविषयाः पर्याया भवितुमर्हन्तीति चेत्सत्यं, केवलं पर्यायैरपि घटअरावोदश्चनादिमिर्मंदादिसामान्यमेव तथावि- शिष्यते पुनस्ते नैकान्तेन व्यतिरिच्यन्ते, अतो मुख्यतस्सामान्यं गुणीभूवास्तु विशेषा अप्यस्य 10 विषयीमवन्तीति । केवलदर्शनिनस्तदावरणक्षयाविर्भूततल्लब्धिमतो जीवस्य सर्वद्रव्येषु मूर्ता- मूर्तेपु सर्वपर्यायेषु च सकलदृश्यविषयत्वेन परिपूर्णात्मकं केवलदर्शनं भवति । मनःपर्यव- ज्ञानन्तु तथाविधक्षयोपशमपाटवात् सर्वदा विशेषानेव गृहदुत्पद्यते न सामान्यम्, अत- स्तदर्शनं नोक्तम् ॥ सम्प्रति लेश्यामार्गणाभेदमाख्याति- कृष्णनीलकापोततेजःपद्मशुक्लभेदेन षड् लेझ्यामार्गणाः ॥ कृष्णेति । लिश्यते प्राणी कर्मणा यया सा लेश्या, कृष्णादिद्रव्यसहकारवलेनात्मनः परिणामविशेषः । अत्र विशेषतो यद्वक्तव्यं तत्पूर्वमेवादर्शितम् ॥ लेश्यानां स्वरूपाण्यादर्शयितुमुपक्रमते- 15 अल्पफलाय फलिन आमूलं विनाशकरणाध्यवसायः कृष्णलेल्या। 20 यथा फलग्रहणार्थ वृक्षच्छेदाध्यवसायः ।। अल्पेति । भावलेश्या द्विधा विशुद्धाविशुद्धभेदात्, अकलुषद्रव्यसम्पर्कजन्यात्मपरि- णामो विशुद्धलेश्या । कलुपद्रव्यसम्पर्कजन्यात्मपरिणामोऽविशुद्धलेश्या । विशुद्धा कपायाणां क्षयेणोपशमेन च जायत इति द्विधा, अविशुद्धापि रागविषया द्वेषविषया चेति द्विधा, तेजःपनशुला विशुद्धलेश्याः कृष्णनीलकापोता अविशुद्धलेल्याः। वेतादीनां विशुद्धलेश्या- 28 त्वमेकान्तविशुद्धिमाश्रित्योक्तं तेन तेन:पद्मशुक्लानां झायोपशमिकत्वेऽपि न क्षतिः । आसां लक्षणानि तु तचद्रव्यसाचिव्यवनिमध्यवसाया एव । मूले तु संडेशविशोधिपरिणामप्रदर्शन- लेण्याविधेपाः ] न्यायप्रकाशसमलङ्कृते :२९१: : द्वारा तत्स्वरूपाणि प्रदर्शितानि । पञ्चाश्रवप्रमचो मनोगुत्यादिरहितः पृथ्वीकायादिषु तदुप- मईकस्वादेरविरतः तीव्रसावधव्यापारपरिणतो गुणदोषपर्यालोचनारहितोऽत्यन्तमैहिकामुष्मि- कापायशंकाविकलो नृशंसोऽनिगृहीतेन्द्रियो जीवः कृष्णलेश्यायामेव परिणमेदिति भावः। संछेशमेवोदाहरणेनाविष्करोति यथेति ॥ .. नीललेश्यां स्वरूपयति- अल्पप्रयोजनाय तदंशच्छेदनाध्यवसायो नीललेश्या । यथा फलाय शाखाच्छेदाध्यवसायः॥ अल्पेति । कृष्णलेश्यापेक्षयात्र विशुद्धिमुत्तरलेश्यापेक्षया च संक्लेशं सूचयति तदंश- च्छेदनाध्यवसाय इति । ईयाम(तपोऽविद्यामायानिनवाविषयामिकासापद्वेषयुतः प्रमत्तो रसलोलुपः सुखगवेषकः प्राण्युपमर्दनेनाविरतः साहसिको जीवो नीललेश्यायामेव परिण- 10 मैतीति भावः । तत्रानुरूपं दृष्टान्तमाह यथेति ॥ कापोसलेश्यां स्वरूपयति- अल्पफलार्थ तदंशांशच्छेदनाध्यवसायः कापोतलेझ्या । यथा तदर्थ प्रतिशाखाच्छेदाध्यवसायः ।। अल्पफलार्थमिति । अत्रापि विशुद्ध्यविशुद्धी पूर्ववत् । वचसा वक्र क्रियया वक्रसमा- 15 चारो मनसा निकृतिमाननुजुकः स्वदोषप्रच्छादकश्छली मिथ्यादृष्टिरनार्य उत्प्रासकदुष्टवादी चौरः परसम्पदाऽसहनो लुब्धः कापोतलेश्यायां परिणमतीति भावः। तत्र दृष्टान्तमाहू यथेति ।। तेजोलेश्यां स्वरूपयति- . अल्पफलार्थमंशांशापेक्षया न्यूनांशच्छेदनाध्यवसाय तेजोलेश्या ।। यथा फलग्रहणाय स्तबकच्छेदनाध्यवसाया | 20 १. लक्षणन्तु पश्चाधवप्रमतत्वादिरेव इतरेषा भावकृष्णलेश्यासद्वावस्योपदर्शकत्वात् , यो हि यत्सद्भाव एव भवति स तस्य लक्षणं यथौष्ण्यमग्ने । अस्या जघन्या स्थितिमुहर्षिम् , अन्तर्मुहृत्तांधिक नि त्यनि- शत्सागरोपमाणि स्थितिरस्कृष्टा भवति । सप्तमनारकापेक्षयेयं योध्या ॥ २. स्थितिश्चास्या जपन्या मुहूर्तार्षम् उत्कर्षेण पल्योपमासंख्येयभागाधिकानि दशसागरोपमाणि धूम्रप्रमोपरितनप्रस्तरापेक्षयेयम् ॥ ३. स्थितिजन्या मुहर्षिम् पल्योपमासंख्येवमागाधिकानि त्रीणि सागरोपमाण्युत्कृष्टा वालकाप्रमोपरितनप्रस्तरनारकापेक्षया ॥

तत्त्वन्यायविमाकरे [ दशमकिरणे अल्पेति । कायमनोवाग्भिरनुत्सितोऽचपलोऽमायी अकुतूहल: विनीतविनयः दान्त- स्वाध्यायादिव्यापारवान् विहितशास्रोपचारः अमिरुचितधर्मानुष्ठानोऽङ्गीकृतब्रतादिनिर्वा- हकः पापभीरहितैषकः परोपकारचेता हिंसाधनाश्रवस्तेजोलेश्यायां परिणमेत् । दृष्टान्तमाह यथेति ॥ पालेश्यामाह- ईषत्क्लेशप्रदानेन फलग्रहणाध्यवसायः पद्मलेश्या । यथा वृक्षाफल- मात्रवियोजनाध्यवसायः॥ ईषदिति । अतीवाल्पक्रोधमानमायालोमः प्रशान्तचित्तो दान्तः स्वाध्यायादिप्रवृत्तो विहितशास्रोपचारः प्रतनुभाषक उपशान्तो वशीकृताक्षः पालेश्यायां परिणमेत् । दृष्टान्त- 10 माह यथेति ।। शुक्छलेश्यामाह- इतरक्लेशाकरणतः फलग्रहणाध्यवसायश्शुक्ललेश्या । यथा भूपतित- फलग्रहणाध्यवसायः ॥ इतरेति । प्रशान्तचित्तो दान्तात्मा धर्मशुलध्यानध्यायी समितो गुप्तस्सरागो वीतरागो 15 वा जितेन्द्रियशुक्ललेश्यायां परिणमेत् । दृष्टान्तमाह यथेति । इह शुभलेश्यासु केपाधि- द्विशेषणानां पुनरुपादानेऽपि लेश्यान्तरविषयत्वादपौनरुत्यम् । पूर्वपूर्वापेक्षयोत्तरोत्तरस्य विशुद्धितः प्रकृष्टत्वञ्च भावनीयम् । विशिष्टलेश्यापेक्षयैवं कारणविधानान्न देवादिभिव्यमि- पारः। सर्वासामेव द्रव्यलेश्यानां अनन्तप्रदेशात्मकत्वं, असंख्यप्रदेशावगाढत्वञ्च विजे- यम् । आद्यास्तिस्रोऽप्रशस्तवर्णगन्धरसोपेता अप्रशस्ताव्यवसायहेतवः संजिष्टार्चरौद्रध्याना- 20 नुगताध्यवसायस्थानहेतवः, उत्तरास्तिनः प्रशस्तवर्णगन्धरसोपेवाः प्रशस्ताव्यवसायहेतवोऽ संक्लिष्टधर्मशुक्छध्यानानुगवाध्यवसायहेतषश्च ।। १. जघन्या स्थितिर्मुहूर्धम् , उत्कृष्टा तु पल्योपमासंख्येयभागाधिके द्वे सागरोपमे । ईशानापेक्षयेय वोध्या ॥ २. मुहूर्ता जघन्या स्थिति., उत्कृष्ट तु मुहूताधिकानि दशसागरोपमाणि ब्राह्मदेवलोकापेक्षयेयम् ।। ३. मुहूर्ता जघन्या स्थिति. त्रयस्त्रिंशत्सागरोपमाणि मुहूर्ताधिकान्युत्कृष्टा अनुत्तरापेक्षयेयम् ॥ ४. अनन्तप्रदेशव्यतिरेकेण स्कन्धस्य जीवग्रहणयोग्यत्वामावादिति भावः ॥ ५, अनन्तानामपि वर्गणानामा धारभूर्ताकाशप्रदेशा असंख्येया एव, सकलस्यापि लोकस्य प्रदेशानामसंख्यात्वादिति भावः ॥

-- . " । भव्यमार्गणा ] न्यायप्रकाशसमलते अथ भव्यमार्गणाभेदमाह- भव्याभव्यभेदेन द्विविधा भव्यमार्गणाः । तत्र भव्यस्सिद्धिगमन- योग्यस्तद्विपरीतोऽभव्यः ॥ भव्येति । प्रतिपक्षतयाऽत्रामव्यस्यापि ग्रहणम् । अनादिपारिणामिकभन्यत्वाभव्य- त्वयोगाजीवो भव्योऽभव्यश्च भवति । ननु भव्यत्वमभव्यत्वं वा जीवे कथमवगम्यत इति 5 चेदुच्यते सिद्धिगमनयोग्योऽहं नवेति संशय एव तत्साधकः, स च संशयोऽभव्यस्य न कदाचिदपि भवति । तथा चायं भव्यस्सिद्धिगमनयोग्यत्वप्रकारकसंशयान्यथानुपपत्तेरित्सनु. मानमेव मानम् । मोक्षप्रवृत्तियोग्यतावच्छेदकतया च भव्यत्वं सिद्ध्यति, नत्र योग्यतागमक- संशय एव । संसार्यकस्वभावत्वे च कदाचिदपि कस्यचिदपि मोक्षार्थ प्रवृत्तिरेव न स्यात् । न च मोक्षप्रवृत्तियोग्यतावच्छेदकत्वं शमादिमत्त्वस्यैवेति वाच्यम् , शमादेर्मोक्षप्रवृत्त्युत्तर- 10 कालीनत्वात् , शमादेरपि कार्यतया तत्र भव्यत्वस्यैव कारणतावच्छेदकत्वप्रसङ्गे मोक्षप्रवृत्ति- योग्यताया एवावच्छेदकत्वस्यौचित्याच्च । तथा च भव्यत्वममन्यत्वञ्च परोक्षज्ञानिनामस्माह- शामनुमानगम्यं प्रत्यक्षजानिनाश्च प्रत्यक्षं तथाऽनादिसिद्धम् । ननु भव्यत्वमभव्यत्वञ्च न नारकत्वादिवत्कर्मकृतं किन्तु चेतनत्वादिवत्स्वाभाविकमुच्यते तथा सति भव्यत्वमविनाशि स्यात् , जीवत्ववत् स्वाभाविकत्वात् , न चैतदिष्टं, तत्सत्त्वे निर्वाणाभावात् , सिद्धो न भन्यो 15 नाप्यभव्य इति वचनादिति चेन्न, प्रागभावस्यानादिस्वभावत्वेऽपि घटोत्पत्तौ विनाशदर्श- नात् । एवं भव्यत्वस्यापि सम्यग्दर्शनज्ञानचारित्रोपायतो नाशसम्भवे क्षत्यभावात् । न च प्रागभावस्यामावरूपतयाऽवस्तुत्वमिति न तस्योदाहरणत्वं युक्तमिति वाच्यम् , तस्य घटानु- सत्तिविशिष्टतत्कारणभूतानादिकालप्रवृत्तपुद्गलसंघातरूपत्वेन भावत्वात् । न चैवं सति स्तोकस्तोकाकृष्यमाणधान्यस्य धान्यपूर्णकोष्ठागारस्य कदाचित्समुच्छेद इव पण्मासपण्मास- 20 पर्यन्ते भव्यस्यैकस्यावश्यं सिद्धिगमनात् क्रमेणापचीयमानस्य सर्वस्यापि भव्यराशेः कदा- चिदुच्छेदप्रसङ्ग इति वाच्यम्, अनन्तत्वाद्भव्यराशेरनागतकालाकाशवत् । इह यहदनन्त. केनानन्तकं तत्स्तोकस्तोकवयाऽपचीयमानमपि नोच्छिद्यते, यथा प्रतिममयं वर्तमानतापत्याs- पचीयमानोऽप्यनागतकालसमयराशिः प्रतिसमयं बुद्ध्या प्रदेशापहारेणापचीयमानस्सर्वनम:- प्रदेशराशियों तथा भव्यराशिरपि । यस्माचातीतानागतकालौ तुल्यावे यश्चातीतेनानन्ते- 25 नापि कालेनैक एव निगोदानन्ततमो भागोऽद्यापि भव्यानां सिद्धा, एण्यतापि कालेन ताव- न्मान एव भव्यानन्तमागसिद्धि गच्छन् युक्तो न हीनाधिका, भविष्यवोऽपि कालस्याती- . " १. सर्वकालीनापेक्षयाऽत्र तुल्यत्वमुच्र्छ नतु विवक्षितकालापेक्षयवेति भावः ।।

:२९४, तत्त्वन्यायविभाकरे [ दशमकिरणे ततुल्यत्वात् ततो न सर्वभव्यानामुच्छेदो युक्तः सर्वेणापि कालेन तदनन्तभागस्यैव सिद्धि- गमनसम्भवस्योपदर्शितत्वादित्येतत्सर्वमभिप्रेत्योक्तं तत्रेति ॥ अथ सम्यक्त्वमार्गणाभेदमाचष्टे- औपशमिकक्षायोपशमिकक्षायिकसास्वादनवेदकमिथ्यात्वरूपेण षट्- 5 सम्यक्त्वमार्गणाः॥ औपशमिकेति । उपाधिभेदाविवक्षया सम्यक्त्वमेकविधम् , सम्यक्त्वञ्चाज्ञान- संशयविपर्ययनिरासेनेदमेव तत्त्वमिति निश्चयपूर्विका जिनोदितनीवादिपदार्थेष्वमि प्रीतिः । उपाधिभेदात्तु द्विविधं त्रिविधं चतुर्विधं पञ्चविधं दशविघं । तत्र द्विविध द्रव्यतो भावतो वा, निश्चयेन व्यवहारेण वा, पौगलिकापौगलिकमेदेन वा, नैसर्गिका- 10 घिमिकभेदतो वा । कारकरोचकदीपकभेदेन क्षायिकौपशमिकक्षायोपशमिकभेदेन वा त्रिविधं, औपशमिकक्षायिकक्षायोपशमिकसास्वादनभेदेन चतुर्विधं, औपशमिकक्षा- यिकक्षायोपशमिकसास्वादनवेदकमेदेन पञ्चविधम् , इदमेव च प्रत्येकं निसर्गाधिगमभेदेन दशविघं विज्ञेयम् । द्विविधन्तु पूर्वमादर्शितम् । त्रिविधमुच्यते, कारक सूत्रोफाज्ञाशुद्धा क्रिया, तस्याः परगतसम्यक्त्वस्योत्पादकत्वेन सम्यक्त्वं, तादृशक्रियावच्छिन्नं वा सम्यक्त्वं 15 कारकसम्यक्त्वमेतच विशुद्धचारित्रिणां भवति । यत्सम्यक्त्वं सदनुष्ठानं रोचयत्येव केवलं न पुनः कारयति तद्रोचकं यथा श्रेणिकादीनाम् । स्वयं मिध्यादृष्टिरभन्यो वा धर्मकथया परेभ्यो जीवादिपदार्थान् दीपयति तदीपकं, ननु स्वयं मिध्यादृष्टिरथ च तस्य सम्यक्त्वं कथमुच्यते विरोधात्, मैवम् , मिथ्यादृष्टेरपि सतस्तस्य यो व्यापारविशेषस्स खलु प्रति- पत्तॄणां सम्यक्त्वस्य कारणमतः कारणे कार्योपचारादायुर्घनमितिवन् सम्यक्त्वमित्युच्यते । 20 अथ चतुर्विधं, मिथ्यात्वमोहनीयस्य कर्मणो यो विपाकप्रदेशरूपतया द्विविधस्याप्युदयस्य भस्मच्छन्नामिवद्विष्कम्भणमुपशमस्तस्मादौपशमिकं सम्यक्त्वं भवति, तत्तूपशमणिमनुप्र- विष्टस्य जन्तोरनन्तानुबन्धिषु दर्शनत्रिके चोपशम नीने भवति, तथा प्रथमतोऽनादिमिथ्या- दृष्टेस्सतो जीवस्य योऽसौ सम्यक्त्वलामस्तस्मिन् वौपशमिकं सम्यक्त्वं भवति । अनन्ता- नुबन्धिकषायझयानन्तरं मिथ्यात्वमिश्रसम्यक्त्वलक्षणत्रिविधदर्शनमोहनीयकर्मण आत्यन्ति. १. विशेषेण विशुद्धिकृता मिथ्यात्वपुरला एव द्रव्यत. सम्यक्त्व, भावतस्तु तदुपष्टम्भोपजनितो जीवस्य जिनोक्ततत्वरुचिपरिणाम., देशकालसंहननानुरुष यथाशक्ति मुनिवृत्तं यथावत्संयमानुष्ठानरूपं सम्यक्त्व नैश्चयिकम् । सम्यक्त्वहेतुसहित उपशमादिलिगम्यशुभात्मपरिणामो व्यावहारिकसम्यक्त्वम् । क्षायोपशामिक पौगलिकसम्यक्त्वं क्षायिकमौपशमिकच्चापौगलिकमिति भावः ॥

मझिमार्गणा] म्याथमकाशसमल द । कक्षयात्क्षायिकं सम्यक्त्वं भवति, तथोदीर्णस्य मिथ्यात्वमोहनीयकर्मणः क्षयानुदीर्णस्य चोपशमात्सम्यक्त्वरूपतापत्तिलक्षणाविष्कम्भितोदयस्वरूपाच्च क्षायोपशमिकं सम्यक्त्वं भवति । पुनरनन्तानुबन्धिकपायोदयेनौपशमिकसम्यक्त्वाञ्चयवमानस्य मिथ्यात्वमद्याप्य- प्राप्नुवतोऽत्रान्तरे जघन्यतस्समयप्रमाणमुत्कृष्टतष्पडावलिकाः सास्वादनसम्यक्त्वं भवति । वेदकसम्यक्त्वेन पूर्वोक्तानि चत्वारि गृहीत्वा सम्यक्त्वस्य पञ्चविधत्वमपि । क्षपकणि 5 प्रतिपन्नस्थानन्तानुवन्धिकषायचतुष्टयं भपयित्वा मिथ्यात्वमिश्रपुखेषु सर्वथा क्षपितेषु सम्यक्त्वपुञ्जमप्युदीर्यानुभवेन निर्जरयतो निष्ठितोदीरणीयस्य चरमग्रासेऽवविष्ठमानेऽद्यापि सम्यक्त्वपुद्गलानां कियतामपि वेद्यमानत्वाद्वेदकं सम्यक्त्वमुपजायते । नन्वेवं सति क्षायोपशमिकेनास्य को विशेषः, सम्यक्त्वपुलपुरलानुभवस्योभयनापि समानत्वात् , सत्यं किन्त्वेतवशेषोदितपुरलानुभूतिमतः प्रोक्तं, इतरत्तूदितानुदितपुद्गलस्यैतन्मात्रकृतो विशेषः, 10 परमार्थतस्तु क्षायोपशमिकमेवेदम् , चरमप्रासशेपाणां पुद्गलानां क्षयाचरमग्रासवर्तिनान्तु मिथ्यास्वभावापगमलक्षणस्योपशमस्य सद्भावादिति । पुञ्जत्रये च तस्मिन् अशुद्धस्य पुखस्योदयान्मिथ्यात्वं जीवस्य भवत्यकृतपुञ्जत्रयस्य वा, तस्य च सम्यक्त्वप्रतिपक्षितयात्र ग्रहणं मार्गणोपयोगित्वादिति ॥ 15 संज्ञिमार्गणामेदं विमनते- संश्यसंज्ञिभेदेन द्विधा संज्ञिमार्गणा । समनस्कास्संज्ञिनो मनोहीना असंज्ञिनः ॥ संझीति। संज्ञा दीर्घकालोपदेशिकी हेतुबादोपदेशिकी दृष्टिवादोपदेशिकी चेति त्रिविधा । वत्रेतकरोम्यहमेतत्कृतं मया करिष्याम्येतदहमित्यादिकालिकवस्तुविषयां संत्रा यो धारयविस संझी, सच गर्भजस्तिर्यदमनुष्यो वा देवो नारकश्च मनःपर्याप्तियुक्तः। तद्विपरीतोऽसंझी तथावि- 20 धत्रिकालविपयविमर्शशून्या, स च संमूछिमपञ्चेन्द्रियविकलेन्द्रियादिरित्याशयेनाह समनस्का इति। ये पुनरिष्टानिष्टवस्तुषु सश्चिन्त्य सञ्चिन्त्य खदेहपरिपालनहेतोरिष्टेपु वर्तन्तेऽनिष्टेभ्यस्तु निवर्तन्ते प्रायेण साम्प्रतकाल एव, नातीवानागतकालयोः,ठे हेतुवादोपदेशिकीसंज्ञयासंझिनो द्वीन्द्रियादयस्तद्विपरीता असंज्ञिनः पृथिव्यादयः, द्वीन्द्रियादेरपि प्रतिनियतेष्टानिष्टप्रवृत्तिनिवृ- त्तिदर्शनेन वानमानिकमानसिकपर्यालोचनवत्त्वात्, पृथिव्यादयस्तु धर्माद्यमितापेऽपि तन्निरा- 25 १. दीर्घकालोपदेशिकीमित्यर्थ., इह सर्वत्र च मंज्ञित्वासंशितव्यवहार एतत्संज्ञापेक्षयैव भवतीति विशेयः ॥ २. हेनुवादोपदेशेनाल्पमनोलब्धिसम्पन्नस्यापि संज्ञित्वेनाभ्युपगमादिति भावः ॥

. तवन्यायविमाकरे [किरने करणाय प्रवृत्तिनिवृत्तिरहिता एवं | दृष्टिवादोपदेशेन तु बायोपशमिके ज्ञाने वर्तमानस्सम्य. ग्दृष्टिरेव संज्ञी सम्यग्ज्ञानयुक्तत्वात् , मिथ्यादृष्टिः पुनरसज्ञी सम्यग्नानसंज्ञारहितत्वादिति ॥ आहारकमार्गणाभेदमाचष्टे- आहारकानाहारकभेदेन द्विविधाऽहारकमार्गणा । आहारकरण- 5 शीला आहारकास्तद्भिन्ना अनाहारकाः॥ आहारकेति । आहरणमाहारो ग्रहणमभ्यवहारो वा, स चौजोलोमप्रक्षेपरूपेण त्रिविधः । यावदौदारिक शरीरं न निष्पद्यते वावजससहितेन कार्मणेन यदाहारयति स ओजआहारस्तेनाहारकास्सर्वेऽप्यपर्याप्तकाः । तत्र प्रथमोत्पत्तौ जीवः पूर्वशरीरपरित्यागे विग्रहेणाविग्रहेण वोत्पत्तिदेशे तैजससहितेन कार्मणेन वप्तस्नेहपतितापूपकवत्तत्प्रदेशस्थानात्पु- 10 गलानादत्ते तदुत्तरकालमपि यावदपर्याप्तकावस्थां स ओज आहारः । शरीरपर्यात्युत्तरकालं वाह्यया त्वचा लोममिराहारो लोमाहारः, इन्द्रियादिमिः पर्याप्तिमिः पर्याप्ताः केपाञ्चिन्मतेन शरीरपर्याप्तका वा लोमोहारिणो भवन्ति । प्रक्षेपण कवलादेराहारः प्रक्षेपाहारः, सच वेदनीयोदयेन चतुर्मिरस्थानराहारसद्भावाद्भवति । पर्याप्तका यदेव प्रक्षेपं कुर्वन्ति तदैव प्रक्षेपाहारा नान्यदा, लोमाहारता तु वाय्वादिस्पर्शात्सर्वदेव, स च लोमाहारोऽर्वाग्दृष्टिमतां 15 न दृष्टिपथमवतरति प्रायशः प्रतिसमयवर्ती च | प्रक्षेपाहारस्तूपलभ्यते प्रायस्स च नियत कालीयः देवकुरूत्तरकुरुप्रभवा अष्टममताहाराः, संख्येयवर्षायुपामनियतकालीयः प्रक्षेपाहारः। एकेन्द्रियाणां देवनारकाणाञ्च नास्ति प्रक्षेपः, पर्यास्युत्तरकालं स्पर्शेन्द्रियेणैवाऽऽहरणाल्लोमा- हारः, द्वीन्द्रियादीनां तिर्यमनुष्याणाश्च प्रक्षेपाहारस्तमन्तरेण कायस्थितेरेवाभावात् । अन्ये तु यो जिलेन्द्रियेण स्थूलशरीरे प्रमिप्यते स प्रक्षेपाहारः, यस्तु प्राणदर्शनश्रवणैरुपलभ्यते धातु- 20 भावेन परिणमति स ओज आहारः, यः पुनस्स्पर्शेन्द्रियेणैवोपलभ्यते धातुमावेन प्रयाति स लोमाहार इति वदन्ति । तदेतदाहाऽऽहारकरणशीला इति त्रिविधान्यतमाहारकरणशीला इत्यर्थः । अथानाहारकानाह तद्भिन्ना इति त्रिविधाहारिमिन्ना इत्यर्थः । विग्रहगतौ वक्र- गतिमापन्ना वक्रद्वये त्रिसमयोत्पचावेकस्मिन् समये, वक्रत्रये चतुस्समयोत्पत्तिके मध्यवर्ति- नोईयोस्समययोर्वक्रचतुष्टये पञ्चसमयोत्पत्तिके मध्यवर्तिपु त्रिपु समयेषु, केवलिनस्समुद्धा- - । १. क्षायिकनाने वर्तमानोऽपि दृष्टिवादोपदेशेन न संज्ञी, अतीतार्थस्मरणस्यानागतचिन्तायाश्च केवलिन्य- भावात् , तक्ज्ञानस्य सर्वदा सर्वार्थावभासकत्वादिति भावः ॥ २. तत्र स्पन्द्रियेणोष्मादिना तप्तच्छायया शीतवायुनोदकेन च प्रीयते प्राणी, गर्भस्थोऽपि पर्याप्युत्तरकालं लोमाहार एवेति ॥ ३. तंत्र देवाना मनसा परिकल्पिताशुभा. पुनलारसणेव कायेन परिणमन्ति, नारकाणान्त्वशुमा इति विशेयम् ॥ - 5 । मार्गणासु -सिदाः] न्यायप्रकाशसमलट्टते। वस्थायां तृतीयचतुर्थपश्चमसमयेषु शैलेश्यवस्थायाच हस्वपञ्चाक्षरोदिरणकालमात्र, लेखाश्च सदैवानाहारका इति भावः ॥ इत्येवं चतुर्दशमूलमार्गणोत्तरभेदानाख्यायाऽऽसु सिद्धसत्ता केति निरूपयति- तत्र नरगतिपश्चेन्द्रियजातित्रसकायभव्यसंज्ञियथाख्यातक्षायिका- नाहारककेवलज्ञानकेवलदर्शनेषु मोक्षो न शेषेषु ।। तत्रेति । चतुर्दशमार्गणावान्तरभेदमधिकृत्येत्यर्थः । नरगतीति, अनन्तरपश्चात्कृतनयम- घिकृत्य नरगतौ मुक्ति प्राप्यते न शेषासु गतिषु, पाश्चात्यमेकान्तरं गतिविशेषमधिकृत्य पुन- सामान्यतश्चतसृभ्योऽपि गतिभ्य आगतस्सिद्ध्यति । सिद्धप्रस्तावासिद्ध इत्यनुक्त्वा मोक्ष- पदग्रहणं कर्मभयसिद्धरिहाधिकारस्तेषामेव मोभपर्यायेणानन्यत्वादिति सूचनाय, तेन कर्मशि- पविद्यामन्त्रयोगागमार्थयात्राभिप्रायतपःसिद्धानां व्युदासः । अनन्तरैकान्तरपश्चात्कृतौ 'नयो 10 नैगमसङ्ग्रव्यवहाररूपौ सकलार्थप्राहित्वात्, वर्तमानकालार्थग्राहक सूत्रशब्दसममिरूदैव- म्भूतनयरूपप्रत्युत्पन्नभावापेक्षया तु सिद्धस्सिद्धगतौ सिद्ध्यति । पञ्चेन्द्रियजातीति, अनन्तर- पश्चात्कृतजात्यपेक्षयेदम् , नर एव सन्यतः सिद्ध्यत्यत एव पञ्चेन्द्रियजातावेवेति भावः, एका- न्तरितपश्चात्कृतजात्यपेक्षया त्वन्यत्तमस्यां जातौ प्रत्युत्पन्नभावापेमया व नैकस्यामपीन्द्रिय- मार्गणायां मर्वथा शरीरपरित्यागेनैव सिद्धत्वपर्यायोत्पत्तेरिति भावः। सकायेति, अत्रापि पूर्वव- 13 देव भाव्यम् । भव्येति, अनन्तरैकान्तरितपश्चात्कृतनयापेक्षयेदम्, मन्यानामेव सिद्धिोध्या भव्यानान्तु कथमपि सिद्धाभावात् , प्रत्युत्पन्ननयापेभया तु सिद्धो न मन्यो नाण्यभव्य इति । संजीति, पूर्ववदेव । यथाख्यातेति, अनन्तरपश्चात्कृतनयापेक्षयेदम्, एकान्तरपश्चात्कृतनया- पेक्षयातु केचित्सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रिणः, केचित्सामायिकच्छेदोपस्थापन- सूक्ष्मसम्पराययथाख्यातचारित्रिणः केचित्सामायिकपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्या- 20 तचारित्रिणः केचित्तु सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्पराययथास्यावचा- रित्रिणः, तीर्थकृतस्तु मामायिकसूक्ष्मसम्पराययथाख्यातचारित्रिण एवं । प्रत्युत्पन्ननयापेक्षया सिद्धो न चारित्री नाप्यचारित्रीति । भायिकेति, भायिकं द्विविधं शुद्धमशुद्धन, तत्र क्षायिकी १. भष्टविधर्मदहनानन्तरं सिद्धस्यैव सतस्सिद्धत्वमुपजायते नामिदस्य, तात्मनो हि स्वाभाविक मसिद्धत्वमनादिकर्मावृतं तदावरणविगमेनाविभवत्येव न पुनरसदुपजायते न हसत खरविषाणादेर्जन्म भवति मिद्धस्य सिद्धल मद्धावरूपमुपजायते न तु प्रदीपनिर्वाणकल्पमभावरूपमिति भाव ॥ २. यस्य हि सिदिर्भा- विनी म भव्य उच्यते, सिदस्य तु न मा भाविनी माक्षारसधातत्वात् , ततोऽसौ न मन्यो नाप्यमव्य इति भाव, ॥

[ मारने - :३०० तत्त्वन्यायविभाकरे संसात्मिसंख्यापेक्षया कियागे सिद्धा इति विचारो भागद्वारम् । अनन्तानन्तसंसारिजीवापेक्षया अनन्ता अपि सिद्धास्तदनन्तभागे भवन्ति ॥ संसारीति | संमारिजीवराश्यपेक्षया सिद्धाः कस्मिन् भागे वर्तन्त इति विचारो माग- 5 द्वारमित्यर्थः । उत्तरयति अनन्तेति । जीवसंख्या मध्यमानन्तानन्तसंज्ञकाष्टमानन्तप्रमाणा, तदपेक्षया सिद्धानामनन्तत्वेऽपि अनन्ततमे भागेऽवतिष्ठन्ते ते, तेषां पञ्चमानन्तसख्याप्रमि- तस्वादिति भावः ॥ . सन्प्रति भावद्वारमाख्यातुं भावानाह- औपशमिकक्षायिकक्षायोपशमिकोदयिकपरिणामिकमेदेन पञ्च भा- to वाः । कर्मणामुपशमेनौपशमिका, क्षयेण क्षायिका, क्षयोपशमाभ्यां क्षा- योपशमिका, उदयेनौदयिका, स्वभावावस्थानेन च पारिणामिको ज्ञेयः । एषु सिद्धाः कतमस्मिन् भावे वर्तन्त इति विचारो भावद्वारम् । तेषां ज्ञानदर्शने क्षायिक जीवत्वञ्च पारिणामिकमिति भावद्वयं स्यात् ॥ औपशमिकेति । तान स्वरूपयति कर्मणामिति, कर्मणामनुद्भूतस्ववीर्यता उपशमस्तेन 15 निर्वृत्तो भाव औपशमिका, स द्विविधः औपशमिकसम्यक्त्वचारित्रभेदात् , दर्शनचारित्र- मोहनीयोपशमजन्यावेतौ भेदौ । क्षयेणेति, कर्मणामत्यन्तोच्छेदेन निवृत्तः क्षायिको भाव इत्यर्थः, ज्ञानदर्शनदानलाभभोगोपभोगवीर्यसम्यक्त्वचारित्रभेदेन नवविधः, केवलज्ञानद- र्शनावरणीयान्तरायपञ्चकदर्शनचारित्रमोहनीयक्षयजन्या एते भावाः। क्षयोपशमाभ्यामिति । कर्मणामेकदेशक्षयेणैकदेशोपशमनाञ्च जातः झायोपशमिका, ब्रानचतुष्काज्ञानत्रयदर्शनत्रिका- 30 धिपञ्चकसम्यक्त्वचारित्रसंयमासंयमरूपेणाष्टादशविधः, तत्तत्कर्मणां क्षयोपशमजन्यः। उद- येनेति, द्रव्यादिनिमित्तककर्मफलप्राप्तिरूपोदयफलको भाव औदयिका, गतिचतुष्टयकपा- यचतुष्कवेदत्रयमिथ्यादर्शनाज्ञानासंयनासिद्धत्वलेश्याषट्कभेदेनैकविंशतिविधस्तत्कर्मोदयजः । द्रव्यात्मलाममात्रहेतुकः परिणाम स एव तेन वा निवृत्तः पारिणामिका, जीवत्वमव्य- त्वामव्यत्वादयः । द्वारार्थमाहैम्विति प्रोक्तेषु भावेध्वित्यर्थः । क्षायिक ज्ञानदर्शनादौ पारि- णामिके जीवत्वे नतु भव्यत्वादौ तनिषेधात् सिद्धानां वृत्तिरित्यभिप्रायेणोत्तरयति वेषामिति मावद्वयमिति क्षायिकपारिणामिकरूपभावद्वयमित्यर्थः ।। 25 - अधुनाऽल्पबहुत्वद्वारमाह- - अल्पबहुलाहारम् ] न्यायप्रकाशसमलते :३०१ कतमस्मिन् वेदे सिद्धा अल्पाः कतमस्मिंश्च बहव इति विचारोऽल्प- बहुत्वद्वारम् । नपुंसके स्तोकाः स्त्रीपुरुषयोः क्रमतः संख्येयगुणा विज्ञेयाः ॥ कतमस्मिन्निति । पुत्रीनपुंसकमेदमिन्ने वेदे कुत्राल्पा: कुन वा वहन इत्याशवायां यो विचारस्तदल्पवहुत्वद्वारमित्यर्थः, यद्यपि सिद्धानां पूर्वमवेदत्वमुक्तं तथा चायं विचारो न मम्भवति तथाप्यव्यवहितपूर्वनयापेक्षयाऽयं विचारो बोध्यः । उत्तरयति नपुंसकं इति । नपुंसके सर्वस्तोकाः, श्रीवेदे संख्येयगुणास्तेभ्योऽपि पुरुषसिद्धास्संख्येयगुणा इत्यर्थः । पुरुषाणामष्टशतं त्रीणां विंशतिर्दश नपुंसकानाम् , इदश्च ये पुरुषेभ्य उद्धृताः पुरुषा एवं जायन्ते तेषामष्टशतं बोध्यम् , ये च पुरुपेभ्य उद्धृताः खियो नपुंसका वा जायन्ते ये च स्त्रीभ्य उद्धृताः पुरुषा नपुंसका वा जायन्ते ये तु नपुंसकेभ्यः उद्धृता नपुंसकाः पुरुषास्त्रियो वा जायन्तेऽष्टस्वेतेपु भङ्गेषु प्रत्येक दश दश भवन्तीति भावः । अत्र पुनस्ते 10 सिद्धा अव्यवहितपूर्वपर्यायनयावलम्बनेन क्षेत्रकालगतिलिङ्गतीर्थचारित्रबुद्धज्ञानावगाहान्तर- संख्याल्पबहुत्वैर्विचार्यन्ते, तत्र तीर्थलिङ्गबुद्धद्वाराण्याश्रित्य मूलकृदेवानुपदं विवेचयति शेषा- पेक्षया तूच्यते क्षेत्रतस्सार्धद्वितीयद्वीपसमुद्रद्वयलक्षणे मनुष्यक्षेत्रे तिर्यग्लोके सिद्धत्वं लभते जन्मसंहरणापेक्षया, अधोलोकेऽघोलौकिकेषु प्रामेषु, ऊर्ध्वलोके तु पाण्डुकवनादौ, तीर्थकृतः पुनः पञ्चदशसु कर्मभूमिषु न शेपासु, व्याधातासम्भवादिति । कालत:-उत्सर्पिण्या 15 जन्माङ्गीकृत्य द्वितीयतृतीयचतुर्थारकेपु, सिद्धिगमनन्तु तृतीयचतुर्थयोरेष, अवसर्पि- ण्यान्तु तृतीयचतुर्थपञ्चमारकेषु सिद्ध्यति, केवलं चतुर्थे जातः पञ्चमे सिद्ध्यति, न तु पञ्चमे जातः पञ्चमे मिद्ध्यति तत्र जातस्य सर्वथा सियनईत्वात् , व्याघातापेक्षया तु त्रिष्वप्युत्सपिण्यादिषु मिद्ध्यति । तीर्थकृतां पुनरवसर्पिण्यामुत्सर्पिण्याच जन्म सिद्धि- गमनं च सुपमंदुष्पमादुष्पमसुषमारूपयोरेवारकयोवेदितव्यम् । गतित:- मनुष्यगतावेव 20 न शेषासु प्रोक्तमेवेदं मूले । व्यवहितप्राकनपर्यायनयानीकारेण तु सामान्यतश्चतसृभ्योऽपि गतिभ्यः । चारित्रद्वारमाश्रित्य पूर्वमेवोक्तम् । ज्ञानद्वारापेक्षयापि तथैव । अवगाहनान:-- उत्कर्षेण पञ्चविंशत्यधिकपनधनुश्शतप्रमाणायामवगाहनायां सिद्ध्यन्ति, यथा मरदेवीका- । १. तत्रापि निर्व्याघातेन पञ्चदशसु कर्मभूमिषु व्याघातन ममुद्रनदीवर्षधरपर्वतादावपि विक्षयम् ॥ २. यथा भगवान् · ऋषमस्वामी सुपम पमारकपर्यन्ते ममुदपादि, एकोननयतिपक्षषु शेपेषु सिदिमग- मत्, वर्षमानस्वामी तु भगवान्, दुपमसुपमारकपर्यन्तेपु एकोननवतिपलेषु शेपेषु सिद्धिसौधमध्यमध्या- स्तेति ॥ उत्सर्पिण्या चतुर्विंशतितमस्तीर्थकरस्सुषमाध्यमायामेकोननवतिपक्षेषु व्यतिकान्तेषु जन्मासाद- यति, एकोननवतिपक्षाधिकचतुरशीतिपूर्वक्षातिकमे च सिद्धपतीति ..

नस्वन्यायविभाकरे [ दशमकिरणे लवर्चिना, मरुदेव्यामपि. यथोक्तप्रमाणावगाहना द्रष्टव्या, जघन्येन द्विहस्तप्रमाणायाम् , यथा वा मनककूर्मसुतादीनाम् । तीर्थकृतान्तु जघन्यावगाहना सप्तहस्तप्रमाणा महावीर- बत् । उत्कृष्टा पञ्चधनुशवमाना नाभेयवत्, शेषात्वजघन्योत्कृष्टाः । अन्तरतः जप- न्यत एकसमयः, उत्कृष्टतः षण्मासाः, निरन्तर जघन्यतो द्वौ समयौ, उत्कृष्टतोऽष्टौ ममयाः, संख्यातः-जघन्यत एकस्मिन् समये एकस्सिद्ध्यति, उत्कर्षेणाष्टाधिकं शतम् | तथा चास्मिन् भरतक्षेत्रेऽस्यामवसर्पिण्या भगवतो नाभेयस्य निर्वाणसमये श्रूयतेऽब्दोत्तर शतमेकसमयेन सिद्धम् । अल्पबहुत्वतः-युगपत् द्विव्यादिकाः सिद्धाः स्तोका एककाः सिद्धाः संख्येयगुणा इति संक्षेपतः प्रदर्शितानि द्वाराणि, विस्तरतस्तु सिद्धप्रास्तादौ द्रष्टव्यानि ॥ अथ तीर्थलिङ्गबुद्धद्वाराणि मनसि कृत्य पुनः प्रकारान्तरेण सिद्धानाह- सिद्धा अपि जीनाजिनतीर्थातीर्थगृहिलिङ्गान्यलिङ्गस्वलिङ्गस्त्रीलिङ्गपु- (रुषलिङ्गनपुंसकलिङ्गप्रत्येकबुद्धस्वयम्वुद्धबुद्धबोधितैकानेकसिद्धभेदेन पञ्च- दशविधाः ॥ सिद्धा इति । अयम्भावः, सिद्धानामयं भेदो न वास्तविक कृत्स्नकर्मक्षयस्य केवलज्ञा- नादीनाञ्च सर्वत्राविशेषात् किन्तु सिद्धत्वप्राप्तिपूर्वकालीनभवावस्थामाश्रित्य वाच्यः । तत्रा- 15 प्येते नासंकीर्णाः, जिनाजिनरूपे, तीर्थातीर्थरूपे, एकानेकरूपे वा भेदद्वये, गृहिलिङ्गान्यलि- स्वलिङ्गरूपे स्त्रीलिङ्गपुरुषलिङ्गनपुंसकलिङ्गरूपे, प्रत्येकबुद्धस्वयम्बुद्धबुद्धबोधितरूपे वा भेद- त्रये शेषभेदानामन्तवात् , किन्तु विशेषपरिज्ञानार्थमेव पन्थारम्भ इति || - 10 - अथ जिनाजिनसिद्धानाह- अनुभूततीर्थकरनामविपाकोदयजन्यसमृद्धयो मुक्ता जिनसिद्धाः । 20 यथा ऋषमादयः, अननुभूततीर्थकरनामविपाकोवयजन्यसमृद्धयो मुक्ता अजिनसिद्धाः । यथा पुण्डरीकगणधरादयः ।। १. नाभिकुलकरपत्नी मरुदेवी, नामेश्च शरीरप्रमाणं पञ्चधनु शतानि पञ्चविंशत्यधिकानि यावदासीत्, तत्पत्नीत्वेऽपि तस्या. प्रमाणतस्तदपेक्षया किचिन्यूनत्वमेवेति सम्प्रदायः कियता न्यूनाधिक्येऽपि समत्वा- तिदेशानामागमे दर्शनेनावाधकत्वात् । अथवा तस्या हस्तिस्कन्धाधिरूढायास्सिद्धत्वात् हस्तिस्कन्धा- घिल्द्वानाच संकुचिताहत्वेन नोक्तावगाहनाया विरोध उतच ' अहषा सकोयओ सिता ' इति ।। २. अत्रेदं बोध्यम् सिद्धकेवलनानं हि द्विविष, अनन्तरसिद्धकेवलनानं परम्परसिद्ध केवलज्ञानवेति । सिद्धत्वप्रथमसमये वर्तमानस्य केवलज्ञानमार्य, विवक्षितसिद्धत्वप्रथमसमयाद द्वितीयादिषु समयेषु अनन्तामद्धा यावद्वर्तमानाना केवलशानं द्वितीयम् । तत्रानन्तरसिद्ध केवलज्ञानं पञ्चदयविध, तब सिद्धवप्रायव्यवहित- पूर्वकालीनमवावस्थामाश्रित्य सिद्धा पञ्चदशविधा, प्रोका । परम्परसिद्धक्वलज्ञानन्वनेकविध, तचाप्राम- समयसिद्विसमयसिद्धत्रिसमयसिद्धचतुस्समयसिंचादिभेदतो भाव्यमिति - . - सीपातीसियो] न्यायप्रकाशसमलवृत : sai अनुभूतेति स्पष्टम् । अजिनसिद्धानाह अननुभूति । स्पष्ठम् ।। तीर्थातीर्थसिद्धानाह- प्रवर्तिते तीर्थे मुक्तास्तीर्थसिद्धाः । यथा गणधारिणः । अर्वाक तीर्थ- स्थापनाया एव मुक्ता अतीर्थसिद्धाः। यथा मरुदेवा ।। प्रवर्तित इति । संसारापारवारांनिधिस्तीर्यतेऽनेनेति तीर्थ प्रवचनं परमगुरुप्रणीतं 5 यथावस्थितसकलनीवाजीवादिपदार्थप्ररूपकम् , तञ्च न निराधारं भवितुमर्हतीति कृत्वा सघा प्रथमगणघरो वा तदिति चेदितव्यं, वस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धा इत्यर्थः । निदर्शनमाह यथेति । अतीर्थसिद्धानाहा गिति । तीर्थस्याभावोऽतीर्थ, अभावश्चात्रानुत्पादो व्यवच्छेदो वा विवक्षितः । तस्मिन् सति ये सिद्धास्तेऽतीर्थसिद्धाः । तत्र तीर्थस्यानुत्पादे सिद्धानां निदर्शन- माह-यथेति । नहि मरुदेव्यादिसिद्धिगमनकाले तीर्थमुत्पन्नमासीन् किन्तु केवलज्ञानावाप्ति 10 प्रभोनिशम्य पुत्रवियोगेन रुदती पटलावृतनेत्रां तां वारणस्कन्ध आरोप्य वन्दनार्थ प्रचलिते भरते दूरादेव दिव्यनिध्वानं निशम्य प्रदृष्टान्तरङ्गा हर्षाश्रुणा दूरीकृतचक्षुरावरणा विभुवैभवं दृष्ट्वाऽचिन्तयत् पुत्रस्नेहेन मया नेत्रे गततेजस्के कृते, नानेन किमपि सदिष्टमिति, पुत्रस्नेहं विधूय विरक्ता पातिकर्मक्षयोदितकेवलजाना वारणस्कन्ध एव सा सिद्धिमुपयावाऽतस्तीर्थसंस्थापन- पूर्व मुक्तिगमनाइतीर्थसिद्धेति भावः । अथैतेषां सत्पदप्ररूपणा द्रव्यकालान्तराण्याश्रित्य परम्परयाल्पबहुत्वस्य विचारे क्रिय- माणे तीर्थकरतीर्थे तीर्थकरीतीर्थेऽतीर्थे च सिद्ध्यन्त्येते, युगपदेकसमयेनोत्कर्षतस्तीर्थकृत- श्चत्वारस्सियन्ति, अष्टातमतीर्थकृतां विंशतिस्त्रीणां द्वे तीर्थकों । तीर्थकरतीर्थ तीर्थक- रीतीर्थे वाऽतीर्थकरसिद्धा उत्कृष्टतोऽष्टौ समयान् तीर्थकरास्तीर्थकर्यश्च द्वौ द्वौ समयौ निर- न्तरं सिद्ध्यन्ति। तीर्थकृतः पूर्वसहनपृथक्त्वमुत्कर्षतोऽन्तरं, तीर्थकरीणामनन्तः कालः, अतीर्थ 26 कराणां साधिक वर्ष नोतीर्थसिद्धानां संख्येयानि वर्षसहस्राणि नोतीर्थसिद्धाः प्रत्येकबुद्धाः । जघन्यतस्सर्वत्रापि समयः । सर्वस्तोकाः तीर्थकरीसिद्धाः, ततस्तीर्थकरीतीर्थे प्रत्येकबुद्धसि- द्धास्संख्येयगुणाः, तेभ्योऽपि तीर्थकरीतीर्थेऽतीर्थकरीसिद्धाः सख्येयगुणाः, तेभ्योऽपि तीर्थकरीतीर्थेऽतीर्थकरसिद्धासंख्येयगुणाः, तेभ्यस्तीर्थकरसिद्धा अनन्तगुणाः, वेभ्योऽपि तीर्थकरतीर्थे प्रत्येकबुद्धसिद्धाः संख्येयगुणाः, तेभ्योऽपि तीर्थकरतीर्थे साध्वीसिद्धाः ॐ संख्येयगुणाः, तेभ्योऽपि तीर्थकरतीर्थेऽवीर्थकरमिद्धाः संख्येयगुणा इति ।। १. वीर्थस्य व्यवच्छेदय चन्द्रप्रभस्वामिमुविधिस्वाम्यपान्तराले, तत्र ये जातिस्मरणादिनाऽपवर्ग- मवाप्य सिद्धास्ते तीर्थव्यवच्छेदसिद्धा इत्यपि बोध्यम् । 15 - ।

5 ३० तस्वन्यायविमाकरे. अथ गृहिलिङ्गसिद्धानाह- पूर्वभवाऽसेवितसर्वविरतिसामर्थ्यजन्यकेवलज्ञाना ज्ञानप्राप्त्यूल बहुलायुषोऽभावाद्गृहस्थावस्थायामेवान्तमुहूर्ताभ्यन्तरे मुक्ता गृहिलिङ्ग- सिद्धाः। यथा भरतचक्रीत्युच्यते ॥ पूर्वभवेति । लिङ्गं त्रिविधं पुंस्त्रीनपुंसकभेदात् , अथवा द्विविधं द्रव्यभावभेदात् । तत्र द्रव्यलिङ्ग त्रिविधं गृहिलिङ्गमन्यलिङ्गं स्वलिङ्गश्चेति, एतत्सर्वापेक्षया क्रमेण -विचार्यते तत्र प्रथमं गृहिलिङ्ग वक्ति पूर्वेत्यादिना | गृहिणां लिङ्गं दीर्घकेशकच्छवन्धादि गृहिलिङ्गम् । भाव- श्रुतज्ञानक्षायिकसम्यत्त्वचरणानि तेषु च वर्तमाननयचिन्तया किञ्चिदनुवर्तते किनि- निवर्तते क्षायिकसम्यक्त्वमनुवर्तते श्रुतचरणे तु निवाते न तद्विना कस्यचित्सिद्धत्वमि- 10 समिप्रेत्याव्यवहितप्राग्जन्मनि तददर्शनेऽपि तत्पूर्वजन्मापेक्षया द्रव्यचारित्रसत्त्वमेवजा- न्मनि च ज्ञानसत्त्वं सूचयन्नत्र गृहिलिङ्गसिद्धत्वं व्याख्यत् | दृष्टान्तमाह यथेति । केवल- ज्ञानोत्पत्त्यपेक्षया निदर्शनमिदं, उत्पन्नकेवलानामवश्यं मोक्षनियमात् । अन्यथा केवलप्रात्य- नन्तरं देवार्पितसाधुद्रव्यलिङ्गस्य धारणपूर्वक विहरणेन भव्यप्रतिवोधस्य शाख्ने श्रुतस्य विरोधापत्तेः, अत एवोच्यत इत्युक्तम् । अत्र निरुपचरितनिदर्शनं तु मरुदेवीप्रभुतयः ।। 15 अन्यलिङ्गसिद्धानाह- भवान्तराऽसेवितसर्वविरतिजन्यकेवलज्ञाना अल्पायुष्कास्सन्त स्तापसादिलिङ्गेनान्तर्मुहूर्तान्तरे मुक्ता अन्यलिङ्गसिद्धाः । यथा वल्कल- चीरी॥ भवान्तरेति-। आदिना भौतपरिव्राजकादितीर्थान्तरीयलिङ्ग ग्राह्यम् । स्पष्ट । दृष्टान्तमाह 30 यथेति । प्रसन्नचन्द्रर्षेर्धाताऽयं स्वपितुस्समीपे बसन् वृक्षत्वगादिपरिवसनो गुणनिष्पन्नामि- धानः पितुस्तुम्बी प्रतिलेख्यमानां कदाचित्समीक्ष्य .समुत्पन्नजातिस्मृतिः पूर्वभवासेवित- सर्वविरतिमहिनाऽत्र समधिगतकेवलज्ञानो मुक्तिं तल्लिङ्ग एव प्रपन्न .इति तस्यान्यलिगमि- द्वत्वं, भावापेक्षया स्वलिङ्गसिद्धत्वञ्च विज्ञेयम् ॥ स्वलिङ्गसिद्धानाह- रत्नत्रयवन्तो रजोहरणादिलिङ्गेन युक्ना मुक्तास्वलिङ्गसिद्धाः । यथा साधवः॥ , 25 स्त्रीलिसिद्धाः] न्यायप्रकाशसमलट्टते :३०५ रत्नत्रयेति । स्पष्टम् । निदर्शनमाह यथेति । शास्त्रोदितमूलोत्तरगुणयुक्ता नं तद्गुणर- हिताः केवलं मिक्षाचरा इति भावः । तत्र गृहिलिङ्ग एकसमय उत्कृष्टतश्चत्वारः अन्यलिङ्गे दश, स्वलिङ्गेऽष्टशत सिद्ध्यन्ति। निरन्तरश्च स्खलिङ्गेऽष्टौ समयाः अन्यलिङ्गे चत्वारस्समयाः, गृहिलिङ्गे द्वौ समयौ । अन्तरन्तु सर्वेष्वपि जघन्यत एकरसमयः, उत्कर्षेणान्यलिले गृहि- लिङ्गे च प्रत्येक संख्येयानि वर्षसहस्राणि, स्वलिङ्गे साधिक वर्षम् । गृहिलिङ्गसिद्धारसर्व- स्तोकाः तेभ्योऽप्यन्यलिङ्गसिद्धा असंख्येयगुणाः, तेभ्योऽपि स्वलिसिद्धा असंख्येयगुणा इति ॥ अथ श्रीलिङ्गसिद्धानाचष्टे- सम्यग्दर्शनादिमहिम्ना स्त्रीशरीरान्मुक्तास्त्रीलिङ्गसिद्धाः । यथा चन्दनाप्रभृतयः । रत्नत्रयेण पुरुषशरीरान्मुक्ताः पुरुषलिङ्गसिद्धाः । यथा गौतमगणधरादयः । कृत्स्नकर्मक्षयानपुंसकशरीरान्मुक्ता नपुंस- 10 कलिङ्गसिद्धाः । यथा गाङ्गेयः ।। सम्यगिति । अन्न स्त्रीलिङ्गादिकं शरीरनिर्वृत्तिरूपं न तु वेदो नेपथ्यं वा, वेदसत्त्वे सिद्धत्वाभावात् । स्पष्टं मूलं, निदर्शनमाह यथेति । पुरुषलिङ्गसिद्धानाह रत्नत्रयेणेति स्पष्टम् । दृष्टान्तमाह-ययेति । नपुंसकलिङ्गसिद्धानाह कृत्स्नेति स्पष्टम्, निदर्शनमाह यथेति ।। १. मूले सम्यग्दर्शनादिमहिम्नेति पदेन स्त्रीणामपि प्रवचनाभिरुचिः षडावश्यककालिकोकालिका- दिभेदभिनं श्रुतं सप्तदशविषसंयमस्याकलङ्कतया धारण दुर्घरब्रह्मचर्यपालनं मासक्षपणादितपोऽनुपानश्च वर्तत इति सूचितम् । न च स्त्रीणा रत्नत्रयसम्भवेऽपि न तत्सम्भवमानं मुतिप्रापर्क, किन्तु प्रकर्षप्राप्तमन्यथा दौसानन्तरमेव सर्वेषा मुक्तिपदप्राप्तिप्रसक्तः, तत्त्रकर्षश्व स्त्रीणामसम्भवीति वाच्यम् , तासा तत्प्रकर्षासम्भव- प्राहकप्रमाणाभावात् । न च स्वभावत एव श्रीत्वेन रलत्रयप्रकर्षों विरुद्धयते, आतऐन छायेवेति वाच्यम्, अदृष्टेन सह विरोधावधारणासम्मवात्, यस्मादनन्तरं मोक्षपदप्राप्तिस्स हि रत्नत्रयप्रकर्ष., स चायोग्यवस्था चरमसमये, अयोग्यवस्था चास्मादृधामप्रत्यक्षेति । न च सर्वोत्कृष्टपदप्राप्तिस्सर्वोत्कृष्टाध्यवसायेन भवति, सर्वोत्कृष्टश्च दु.खस्थान मुखस्थानच, सर्वोत्कृष्टदुःखस्थाने सप्तमनरकपृथिव्या वीणा गमनं निषिद्धं शाले, तासा तथाविधाभ्यवसायविरहात् अत एव चानुमीयते तासामुस्कृष्टाध्यवसायविरहात्सर्वोत्कृष्टमुखस्थानं निर्वाण भास्तीति वाच्यम् , स्त्रीणा नि श्रेयसं प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावनिश्वायकप्रमाणामावात् , नहि भूमि- कर्षणादिक कर्तुमशक्तवतश्शास्त्रावगाहनेऽपि सामर्थ्याभावो निश्चेत पार्यते, प्रत्यक्षविरोधात् । न च सम्मूछि- मादिपूमयमपि प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यमावो घट इत्यत्रापि तथानुमीयत इति वाच्यम्, बहियाप्ति- मात्रेण हेतोर्गमकत्वाभावात् , अन्तात्या हि गमक , सा च प्रतिबन्धवलात्सिवयति न चात्र सोऽस्ति, सप्तम- पृथिवीगमनस्य निर्वाणगमनहेतुत्लामावात, चरमशरीरिणा सप्तमपृथिवीगमनमन्तरेणैव निर्वाणगमनाच, सम्मूञ्छि- मादीनान्तु मवस्वाभाव्यादेव यथावत्सम्यग्दशर्नादिप्रतिपत्यसंभवेन निर्वाणगमनाभाव. मुजपरिसर्पपक्षिचतुष्पदो- रगाणा यथाक्रममधो यावद् द्वितीयतृतीयचतुर्थपश्चमपृथिवीगमनेऽप्यूर्व सर्वेषामुत्कर्षतो यावत्सइसारं गमनात् नाघोगतिविपये मनोवीर्यपरिणतिवैषम्ये अर्दुगतावपि तद्वैषम्यमनुमातुं शक्यत इति । . .

- 10 :३०६: तत्वन्यायविमाकरे [दशमकिरणे प्रत्येकबुद्धसिद्धानाचष्टे- एकनिमित्तमात्रदर्शनजन्यवैराग्यास्तत्कालसम्पाप्तरत्नत्रया मुक्ता प्रत्येकबुद्धसिद्धाः । यथा करकण्डुद्विमुखनमिराजर्षिप्रभृतयः ॥ एकेति । ये बाहप्रत्ययमपेक्ष्य बुद्धवन्ते ते प्रत्येकबुद्धास्तथाभूतास्सन्तो ये सिद्धास्ते 5 'प्रत्येकबुद्धसिद्धा इति भावः, निदर्शनमाह यथेति । बाह्यवृषभादिप्रत्ययसापेक्षा करकण्ड्वा- दीनां बोधिः । एषां जघन्यत उपधिविविध उत्कर्षेण नवविधः प्रावरणवर्जः, तथा पूर्वा. धीवं श्रुतं नियमतो भवति, तञ्च जघन्यत एकादशाङ्गानि, उत्कृष्टतः किश्चिन्यूनानि दश- पूर्वाणि, लिङ्गं तेभ्यः कदाचिदेवता प्रयच्छति कदाचिञ्च लिङ्गरहिता अपि भवन्ति ।। स्वयम्बुद्धसिद्धानाह- निमित्तदर्शनमन्तरा बोधप्राप्तिपूर्वकं केवलिनो मुक्तास्वयम्बुद्ध- सिद्धाः। यथा कपिलादयः॥ निमिचेति । स्वयम्बुद्धा बाह्यप्रत्ययमन्तरेण स्वयमेव निजजातिस्मरणादिना बुद्धाः, ते च तीर्थकरास्तीर्थकरव्यतिरिक्ताश्च, एषामुपधि दशविध एव पात्रादिकः । पूर्वाधीतं श्रुतश्च भवति न वा, यदि भवति ततो लिङ्गं देवता वा प्रयच्छति, गुरुसन्निधिं गत्वा वा 15 प्रतिपद्यन्ते; यदि चैकाकिनो विहरणसमर्था इच्छा च तेषां तथारूपा जायते तव एका- किनो विहरन्ति, अन्यथा गच्छवासेऽवतिष्ठन्ते | अथ पूर्वाधीतं श्रुतं न भवति तर्हि निय- मागुरुसन्निधिं गत्वा लिङ्ग प्रतिपद्यन्ते गच्छञ्चावश्यं न मुञ्चन्ति, एतत्सर्व तीर्थकरव्यति- रिक्तानां बोध्यम् , दृष्टान्तमाह बुद्धबोधितसिद्धानाह- उपदेशजन्यप्रतिबोधा अवातरत्नत्रया मुक्ता बुद्धघोधितसिद्धाः । यथा जम्बूस्वामिप्रभृतयः॥ उपदेशेति । बुद्धराचार्यादिभिर्बोधितासन्तो ये सिद्धास्ते बुद्धबोधिवसिद्धा इति भावः दृष्टान्तं दर्शयति यथेति ॥ - - यथेति ॥ 20 एकसिद्धानाह- - 25 इतरानवाप्तमुक्तिकैकसमयावाप्तमुक्तिकाएकसिद्धाः। यथा श्रीमहावीर । 10 श्रद्धोपसंहार ] न्यायप्रकाशसमलद्धृते । वामिनः । एकस्मिन् समयेऽनेकैस्सह मुक्ता अनेकसिद्धाः । यथा ऋषभ- वायाः ॥ इति मोक्षतत्त्वनिरूपणम् ॥ इतरेति । एकस्मिन्नेकस्मिन् समये एकका एव सन्तो ये सिद्धास्त एकसिद्धा इत्यर्थः, निदर्शनमाह यथेति । अनेकसिद्धानाह एकस्मिन्निति । एकस्मिन् समयेऽनेके सिद्धा अनेक- सिद्धा इत्यर्थः । दृष्टान्तमाह-यथेति । मोक्षतत्त्वं निगमयति इतीति ॥ मुच्युपायभूतां सम्यक्सां निगमयति- सम्यक्प्रद्धा यथाशास्त्रं सविभागा सलक्षणा। संक्षेपेण समाख्याता स्यान्मोदाय विपश्चिताम् ।। सम्यकश्रद्धेति, प्रशंसाथै सम्यगिति निपातस्तत्त्वञ्च श्रद्धायां यथावस्थितार्थपरि- च्छेदित्वं परापेक्षामन्तरोपजायमानत्वं वा, अथवा समञ्चति सर्वान् द्रव्यपर्यायान् व्याप्नो- 10 तीति सम्यक् द्रव्यपर्यायनयद्वयापेक्षया जीवादयोऽस्तित्र यदा दृष्टिः प्रवर्तते तदा रुचिरूपां श्रद्धामञ्चति अतः सम्यक्, सा चासौ श्रद्धा च सम्यक्त्रया अविपरीतार्थवाहिणी चिरित्यर्थः । समाख्यातेत्यप्रेतनेनान्वयः । कथं समाख्यातेत्यत्राह सविभागा सलक्षणेति लक्षणविभागाभ्यां निरूपितेति भावः । निरूपणेऽस्मिन् श्रोतजनग्राह्यतासम्पादनाय प्रामा- णिकत्वमस्याविष्करोति, यथाशास्त्रमिति । शास्त्रमनुसृत्यैव प्रोक्ता न तु कल्पनयेति भावः । 15 अन्यस्यास्य प्रणयने हेतुं दर्शयति संक्षेपेणेति । आगमानामतिविस्तृतत्वेन व्युत्पन्नकल्पानां सुगमवया आगमार्यबोधार्थमयं प्रयास इति भावः । तदिदं प्ररूपणं शास्त्रानुसारित्वात्सनहरूप- त्वाच्च विपश्चितां विवेचनाचतुराणां परित्यक्तमनोमालिन्यानां मोदायानन्दाय भवेदेवेत्याशय माह स्यान्मोदाय विपश्चितामिति ॥ इति तपोगच्छनमोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमल- सूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टघरेण विजयलन्धिरिणा- विनिर्मितस्य तत्त्वन्यायविमाकरस्य स्वोपक्षायां न्यायप्रकाश व्याख्यायां मोक्षनिरूपणनामा दशमः किरणः समाप्तः समाप्तोऽयं सम्यश्रद्धाख्या प्रथमो भागः ॥ १. उत्कृष्टतोऽटोत्तरशतसंख्या चेदितव्या ॥

सटीके
तत्त्वन्यायविभाकरे
प्रथमो भागः समाप्तः।
-

अथ द्वितीयो भागः 10 प्रथमः किरण अथावसरप्राप्तं सम्यग्ज्ञानं विभजते- मतिश्रुतावधिमनःपर्यवकेवलानि ज्ञानानि ।। मतीति । मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्यवज्ञानं केवलज्ञानमित्यर्थः । ज्ञानानीति- बहुवचनमेकैकस्मिन् ज्ञानताख्यापनाय । ज्ञानं चात्मनस्स्वपरावमासकोऽसाधारणो गुणः कथ- चिदभिन्नः कथचिदिन्नंश्च । स चाम्वुधरपटलपरिमुक्तस्य दिनमणेरिवापास्तसमतावरणस्य जीवस्य स्वभावभूतः केवलज्ञानव्यपदेशभाग्भवति | सकलघातिकेवलज्ञानावरणेन कास्न्येन ज्ञानस्यावरणासम्भवात् तदानीं योऽयं मन्दप्रकाशः स केवलज्ञानावरणावृत्तस्य भवति तस्यैव मेदा मत्यादयश्चत्वारः। तादृशे भन्दप्रकाशे केवलज्ञानावरणस्यैव हेतुत्वं, स्पष्टप्रकाश- प्रतिवन्धकस्यापि तस्य तत्र हेतुत्वात् , दृष्टश्नोत्कटेऽभ्राद्यावरणे स्पष्टप्रकाशप्रतिबन्धकत्वं मन्दप्रकाशजनकत्वञ्च । अत एव न मतिज्ञानावरणक्षयादिना मतिज्ञानाद्युत्पादनप्रसङ्गः। सोऽयं ज्ञानस्वभावः केवलज्ञानावरणेनावृतोऽपि अनन्तवममागावशिष्टोऽनावृत एव सामा- न्यत एकोऽपि अनन्तपर्यायकिर्मीरितमूतिर्मन्दप्रकाशनामधेयो भवति । स चापान्तराला. 15 वस्थितमविज्ञानाद्यावरणक्षयोपशमसम्पादितं नानात्वं भजते, धनपटलाच्छन्नरवर्मन्दप्रकाश इवान्तरालस्थकटकुट्याद्यावरणविवरप्रवेशात् । न च केवलज्ञानावरणेन बलीयसाऽऽवरीतुमश क्यस्यानन्ततममागस्य दुर्बलेन मविज्ञानावरणादिना नावरणसम्मव इति वाच्यम्, कर्मणस्वा- वार्यावारकतायां सर्वघातिरसस्पर्धकोदयस्यैव बलत्वात्तस्य च मतिज्ञानावरणादिप्रकृतिप्वप्य- विशिष्टत्वात् । तथा च सर्वघातिरसस्पर्धकवन्मतिज्ञानावरणादिक्षयोपशमजनितं मतिश्रुताव- 20 धिमनःपर्यवभेदाचतुर्विध क्षायोपशमिकं ज्ञानं पञ्चमञ्च क्षायिक केवलज्ञानमिति पञ्च प्रकारा १. जीवेन ज्ञानस्यात्यन्तभेदेऽन्यज्ञानेनान्यस्य विषयपरिच्छेदाभाववत् स्वात्मनोऽपि तक स्याद्भिजवा- विशेषात् । न च समवायेन यत्रैव शान समवेतं तत्रैव मपति विषयपरिच्छेद इति वाच्यम्, समवाय- स्पैकत्वेन नित्यत्वेन च वृत्तविशेषात् । सर्वथा चामेदे गुणग्रहणेन गुणिनोऽपि गृहीतत्वादरिततस्तरुण- पाखाविसररन्नोदरान्तरत. किमपि शुलं पश्यन् किमिय पताका किमियं वलाकेत्येवं प्रतिनियतगणिविषयक- संशयो न स्यादिति भाव ।

:३०: वस्वन्यायविमाकरे [प्रथमाकरगे ज्ञानस्येति भावः । मैतिश्रुतयोस्स्वान्येकत्वान्नानाजीवापेक्षया द्वयोस्सार्वदिकत्वादेकजीवापेक्षया चोभयोरपि निरन्तरसातिरेकषट्षष्टिसागरोपमस्थितिकत्वादिन्द्रियमनसोरवस्वावरणक्षयो- पशमस्य च तुल्यत्वात् सर्वव्यादिविषयकत्वात्परोक्षत्वान्मतिश्रुतसत्व एव चावध्यादीनां प्राप्यमाणत्वाच तयोः प्रथममुपादान, तत्रापि श्रुतस्य मतिपूर्वकत्वात् इन्द्रियानिन्द्रियनिमि- 5 तकस्य सर्वस्यैव मतिज्ञानत्वात्परोपदेशत्वागमवचनत्वरूपविशिष्टतामादायैव श्रुतस्य पार्यक्य- वर्णनेन मतिविशेषत्वात्प्राधान्येन मतेरुपन्यासस्ततश्श्रुतस्य । ततो मतिश्रुताभ्यां नानाजीवापे- क्षयकजीवापेक्षया च काळसाधान्मतिश्रुतयोमिथ्यात्वोदयेऽज्ञानवदवघेरपि तथात्वात्स्वामि- साधात्कस्यचित्त्रयाणाममीषां युगपल्लामसम्भवेन लामसाधाच ततोऽवघेरुपन्यासः, अब- धिमनःपर्यवयोछद्मस्थेनाप्यमानत्वात्पुद्गलमात्रविषयकत्वात्क्षायोपशमिकभाववृत्तित्वात् प्रत्य- 10 क्षत्वादिसाम्याच ततो मनापर्यवस्योपन्यासः, उत्तमत्वाद्विशिष्टचारित्रस्वामिकत्वादपर- शांनावसानलाभाचान्ते केवलज्ञानस्योपन्यासो बोध्यः ।। - एतान्येव पञ्च प्रमाणानीत्याह- - एतान्येव प्रमाणानि ॥ . एतान्येवेति । मत्यादिज्ञानान्येवेत्यर्थः, प्रमाणानि हेयोपादेयवस्तुविरस्कारस्वीका- 15 रक्षमाणीत्यर्थः, तथा च यतः प्रमाणानि हेयोपादेयवस्तुतिरस्कारस्वीकारक्षमागि अतो ज्ञानान्येव प्रमाणानि न सन्निकर्षाद्यज्ञानरूपाणि, एवञ्च प्रमाण ज्ञानमेव हेयोपादेयवस्तु- विरस्कारस्वीकारक्षमत्वायत्तु न ज्ञानं न तद्धयोपादेयवस्तुतिरस्कारस्वीकारसमर्थ यथा घटादि, हेयानां तिरस्कारायोपादेयानां महणाय च प्रामाणिक प्रमाणानामेव प्राय॑मान- त्वान्न साधनासिद्धिा, तञ्च न सन्निकर्षादिकं भवितुमईति, घटादेरचेतनरूपस्य स्वार्थव्यव- 20 सिति प्रति यथा साधकतमत्वाभावान्न प्रमाणत्वं तथा सन्निकर्षादेरपि, प्रयोगश्च सन्निक- दिन प्रमाणव्यवहार्यः स्वार्थनिश्चयासाधकतमत्वाद् यन्नैवं तन्नैवं यथा घटादिरिति न च - १. मविज्ञानस्यैवाऽऽमिनियोधिकज्ञानमिति नामान्तरम्, अभिमुसं योग्यदेशावस्थितं नियतममिन्द्रि- यमनोद्वारेणात्मा यैन परिणामविशेषेणावबुध्यते स परिणामविशेषो ज्ञानापरपर्याय आमिनिबोधिकम् । तद् द्विविधं श्रुतनिश्रितमश्रुतनिश्रितवैति । शास्त्रपरिकर्मितमतेरुत्पादकाले शास्त्रार्थपर्यालोचनमनपेक्ष्यैव यदुपजायते मतिज्ञानं तच्छुतनिधितमेवप्रहादि । सर्वथा शास्त्रसंस्पर्शरहितस्य तथातथाविधक्षयोपशममावत एवमेव यषा- वस्थितवस्तुसस्पर्शि मतिज्ञानं यदुपजायते तद्भुतनिश्रित, औत्पातिकीवैनयिकीकर्मजापारिणामिकीभेदमिनमिति ।। २. मतिश्रुते अप्राप्यावध्यादीनामप्राप्यमाणलादिति भाव ॥ ३. पूर्वमवग्रहादिमतिज्ञानप्रवृत्ति विना अतप्रवृत्तरभाषादिति भावः ॥ ४, अतीतानागतवर्तमाननि.शेपज्ञयस्वरूपाचभासित्वादुत्तमत्वमिति भाव ।

प्रमाणानि] न्यायप्रकाशसमलट्टते हेतोरसिद्धता, अचेतनत्वेन घटादेरिव स्वव्यवसितावकरणत्वस्य सिद्धत्वात् , स्वनिश्चिताव- करणत्वादेव च कुम्भादेरिख परव्यवसितावकरणत्वम् । न च यथा काटछेदादिकं फलं कुठा- रादिकरणजन्यं तथैवार्थव्यवसितेरपि सन्निकर्ष एव करणं न प्रमाता करणं कर्तृत्वान्न प्रमेयं कर्मत्वान्न वा ज्ञानं कार्यत्वादिति वाच्यम्, सन्निकर्षस्य करणत्वानुपपत्तेः, सद्भिन्नस्य भावे- न्द्रियविशेषस्यैव करणत्वात् न च परव्यवसित्यकारणत्वसाधकस्वव्यवसित्यकरणत्वरूपहेतोः । प्रदीपे व्यभिचारः, स्वनिश्चितावकरणस्यापि तस्य घटादिनिश्चिती करणत्वात् प्रतीयते हि प्रदीपेन पन्थानं पश्याम इत्यादौ करणत्वमिति वाच्यम्, प्रदीपस्य चक्षुर्मनोरूपमुख्यकारण- सहकारितयैव पदार्थपरिच्छेदे करणत्वेन मुख्यतया करणत्वासम्भवात् , उपचारतः करणत्वे च व्यभिचाराभावात्तस्योपचारतः पदार्थपरिच्छेदकत्ववत्स्वपरिच्छेदेऽपि करणत्वात् । न च चक्षुरादौ व्यभिचारः, भावेन्द्रियोपकरणभूतद्रव्येन्द्रियस्य चक्षुरादेरुपचारेण करणत्वात् 10 लब्धेरपि उपयोगात्मकमुख्यकरणकारणत्वेनोपचरितमेव कारणत्वमिति दिक् ॥ ननु किं तत्प्रमाणमित्यत्राह- यथार्थनिर्णयः प्रमाणम् ॥ यथार्थेति । अत्रार्थपदेन ज्ञानं घटादिविपयश्च विवक्षितः, यथावस्थितत्वेनार्थों निर्णीयतेऽनेनेति यथार्थनिर्णयः, यथावस्थितस्वपररूपार्थपरिच्छेदकं ज्ञानमित्यर्थः, लक्षणञ्च 15 यथावस्थितार्थपरिच्छेदकज्ञानत्वं, लक्ष्यश्च प्रमाणम् । यद्यपि प्रमाणशब्दस्य सर्वकारकै वेन च व्युत्पत्तिर्मवति तया च क्रमेणाऽऽत्मार्थनानार्थक्रियाकारणकलापक्षयोपशमक्रियारूपाः प्रमाणशब्दवाच्या भवन्ति तथापीह परीक्षाक्षमत्वेन ज्ञानमेवाधिक्रियते, इतरेषां परीक्षाया ज्ञानपूर्वकत्वात् । येन चार्थ परिच्छिद्यार्थक्रियासमर्थार्थप्रार्थनया प्रमातारः प्रवर्तन्ते तदेव ज्ञानमिहात्मना सह धर्मितयाऽभिन्नमपि प्रमीयतेऽऽनेनेति व्युत्पत्त्या धर्मरूपतया व्यति-20 रिक्तं प्रमाणमुच्यते । तत्र विप्रतिपन्नान् तीर्थान्तरीयान् प्रति प्रमाणोद्देशेन लक्षणं विधे- यम्, यद्भवतामरमाकच प्रमाणतया प्रसिद्धं तद्यथावस्थितार्थपरिच्छेदकं ज्ञानमिति । यदाऽव्युत्पन्नमतीन् प्रति लक्षणं तदा प्रतिप्राणि यस्य कस्यचिद्यथार्थनिर्णयस्य प्रसिद्धत्वेन योऽयं भवतां यथार्थनिर्णयः प्रसिद्धस्तत्प्रमाणमिति वुद्ध्यतामिति प्रमाण विधेयम् । प्रमाणप्रमेयापलापिनः प्रत्युभयं विधेयम् , स्वदर्शनश्रद्धालून् प्रति त्वनुवाद्यमिति । एव- 25 . १. अत्रानुमान सभिकर्यादिर्न स्वनिधयासाधारणकारणमचेतनत्वाद्धटादिवादिति ॥ २. प्रयोगः सन्निकर्षादिर्न परनिश्चयासाधारणकारण स्वनिचितावकरणवाइटादिवदिति ॥ यथार्थनिश्चये सत्रिकर्षस्य साधकतमलमागकते न च यथेति ॥ ३. द्रव्यादेशनेत्यर्थ । ४. पर्यायनयादेगनेत्यर्थः ।

तस्वन्यायविभाकरे [अपमाकरण मेव सर्वत्र लक्ष्यलक्षणभावोऽवसेयः । यथावस्थितार्थपरिच्छेदे च ज्ञानमेव साधकतमं न तु सन्निकर्षादि, साधकतमन्तु यत्र प्रमात्रा व्यापारिते सत्यवश्यं कार्यस्योत्पत्तिस्तदभावेऽनुत्प- तिरेव तत्र तत्, यथा कुठारग्छेदने | न च तथा सन्निकर्षादि, नभसि नयनसन्निकर्ष- सम्भवेऽपि प्रमानुत्पत्तेः, तदभावेऽपि प्रातिभप्रत्यक्षाणामासंवेदनविशेषाणाञ्च समुद्भवात् । 5 न च नमसि रूपाभावान प्रमोत्पत्तिरिति वाच्यम् , रूपस्य प्रत्यक्षानुपपत्तिप्रसङ्गात् नहि तत्र रूपमस्ति । न च तदाधारभूते द्रव्ये रूपान्तरमस्तीत्यतो नानुपपत्तिरिति वाच्यम्, त्वयैकत्र व्याप्यवृत्तिसजातीयगुणद्वयानङ्गीकारात् । न चावयवरूपमवयविरूपोपलब्धौ कार- णमिति वाच्यम्, त्र्यणुकनिष्ठरूपप्रत्यक्षानुपपत्तेः, व्यणुकरूपस्यानुपलम्मेन सहकारित्वास- म्भवादिति ॥ निर्णयत्वमात्रोक्तौ निर्विकल्पकप्रत्यक्षस्य बौद्धः प्रामाण्यतयोक्तस्य प्रमाणवा- 10 पत्तिरतो यथार्थनिर्णयत्वमुक्त, अर्थनिर्णयत्वमात्रस्य विपर्ययानभ्यवसायादौ गतत्वेन तद्वार- णाय यथेति, अत एव चानन्तधर्मात्मकवस्तुनिष्ठकधर्मविषयकज्ञानस्यापि व्युदासोऽनन्त- धर्मात्मकवस्तुनिष्ठानन्तधर्मविषयकज्ञानस्यैव यथार्थनिर्णयरूपत्वात् । निर्णयशब्देन च संशय- व्युदासः । समग्रेण चार्थोपलब्धिहेतुत्वानधिगतार्थगन्तृत्वादीनां परोक्तलक्षणानां व्युदासः | अर्थोपलब्धि प्रति परम्परया हेतुत्वेऽखनादीनां प्रमाणत्वापत्तेः, अनन्तरभूतेन्द्रियस्यैव हेतु- 15 व उपयोगात्मकेन्द्रियातिरिक्तस्येन्द्रियस्य प्रमाणत्वासम्भवात् , व्यवधानात् | प्रत्यमिज्ञादा- वनधिगतार्थगन्तृत्वस्याभावेन प्रमाणत्वानुपपत्तेस्वस्याधिगतार्थगन्तृत्वादिति तात्पर्यम् ॥ तत्र वादिनां भेदे विप्रतिपत्तेसंख्यानियममाह- तद्विविधं पारमार्थिकप्रत्यक्षं परोक्षश्चेति ॥ तदिति । प्रमाणमित्यर्थः । सर्वस्य - वाक्यस्य सावधारणत्वात्प्रमाणं द्विविधमेव, न 20 वेकविधं प्रत्यक्षात्मकमेव चार्वाकवत् । स्वेष्टस्यानुमानमन्तरा साधयितुमशक्यत्वात् , वचन- सङ्केतमहादिकं विना पर प्रति बोधयितुमशक्यत्वाचापरोदिवानामनुमानादीनां सम्भवत्प्रमाण- १. फलायोगव्यवच्छिन्न कारणं करणमिति भाव ।२. यथा घटस्य प्रत्यक्षे जननीये विषयातिरिक रुम कारणमपेक्षितं तथा रूपस्य प्रत्यक्षे जननीये विषयातिरिक्त रूपमपेक्षणीयं स्यात्तथा च घटे रूपप्रत्यके रूपान्तरसत्त्वाभ्युपगमस्त्वया कर्तुं न शक्यते, एकस्मिन् द्रव्ये व्याप्यवृत्तेस्सजातीयस्य गुणदयस्यानभ्युपगमेन तब सिद्धान्तव्याघात इति भाव., तैरव्याप्यवृत्तिसंयोगद्वयाद्यभ्युपगमेन व्याप्यवृत्तीत्युक्त, स्वाधिकरणावृत्तिस्वाभावकत्वं तदर्थः। नास्ति हि रूपाधिकरणे रूपाभाव. 1 घटे व्याप्यवृत्तिरूपरसयोरभ्युपगमात्सजातीयेति, तत्वञ्च गुणत्व- व्याप्यजास्या, तथा च स्परसयोस्तथा साजात्यामावान क्षति॥ ३. निर्णयलं हि निश्चयत्वं संशयभिन्नशानलं वा, तच्च बौद्धाभ्युपगते निर्विकल्पके प्रकारतादिरहिते वर्तत इति भवत्यतिव्याप्तिरतो यथार्थनिर्णयत्वमुक, नथा च प्रकारतादिविशिष्टमिद न निष्प्रकारके निर्विकल्पकेऽस्तीति भाव । नन्वयनिर्णयत्वमात्रोक्तावपि तबारणसम्भवाद्ययेति पदं निरर्थकमित्याशक्याहार्थनिर्णयत्वमात्रस्येति । तथा च यद्वस्तु येनैव प्रकारेण वर्तत तेनैव प्रकारेण तनिश्चयो यथार्थनिर्णय , तेन न्यूनप्रकारकरवे विपरीतप्रकारकत्वे वा न प्रमाणत्वमिति भाव ॥

- - प्रेमाणमेदा:] न्यायप्रकाशसमलते :११३ त्वानां परोक्ष एवान्तीवान त्रिचतुरादिरूपम् । तत्रानुमानागमो परोक्षेऽन्तर्गतो, उपमान प्रत्यमिज्ञानात्मके परोक्षभेदे अर्थापत्तिरप्यनुमाने, अनुपलब्धरप्यभावप्राहिकायास्सांन्यवहारि- कप्रत्यक्षेऽन्तर्भाव इति भावः । ननु से किं तं पमाणे ? पमाणे चउबिहे पण्णचे। जहा, पलक्खे, अणुमाणे, ओवमे, आगमे जहा अणुओगदारे तहा गेयव्यं पमाणं " इत्यागमे प्रमाणस्य चतुर्विधत्वेनोक्तत्वाद् द्वैविध्ये विरोध इति चेत्सत्यं, अनुमानोपमानागमानां परोक्षेs न्तर्भावणान द्वैविध्यस्योक्तत्वात् । उक्तश्चागमेऽपि " समासओ दुविहं पण्णत, तं जहा पञ्च. खं च परोक्खं च” इति ।। द्वैविध्यं नामप्राहमाह पारमार्थिकेति । एतच्च विशेषणमुपचरिता व्यावहारिकप्रत्यक्षस्य वस्तुतः परोक्षस्य व्युदासाय । इन्द्रियानिन्द्रियादिबाह्यसामग्रीसापेक्षस्य सांव्यवहारिकप्रत्यक्षस्य धूमादग्निज्ञानवद्वस्तुगत्या परोक्षत्वात् । अश्नुत्रे व्याप्नोत्यानि- त्यक्ष आत्मा, तम्प्रति साक्षाद् यद्वते ज्ञानं तत्प्रत्यक्षं निश्चयतोऽवधिमनापर्यवकेवलानि, 10 तेषामेव साक्षादर्थपरिच्छेदकत्वेन जीवं प्रति साक्षाद्वर्तमानत्वात् । अक्षमिन्द्रियं प्रतिगत- मिति विग्रहे प्रत्यक्षशब्दस्य यदिन्द्रियमाश्रित्योत्पद्यते तदर्थसाक्षात्कारिज्ञानमर्थः, एतच्चा- वध्याक्षावन्याप्तं तस्मादक्षाश्रितत्वं गमनक्रियाया इव गोशब्दस्य व्युत्पत्तिनिमित्वमेव वाच्यम् , प्रवृत्तिनिमितं तु गतिक्रियोपलक्षितं गोत्वमिवामाश्रितत्वोपलक्षितसाक्षाद्वाह्यग्राहकज्ञान. विशेष एव, तच प्रवृत्तिनिमित्तं गतिक्रियादिशून्येऽपि गवादिपिण्डविशेष इवामाश्रित- 15 त्वशून्येऽप्यवध्यादावस्त्येवेति न कोऽपि दोषः । पारमार्थिकञ्च तत्प्रत्यक्षश्च पारमार्थिकप्रत्य- क्षम्, ननु यदिन्द्रियद्वारेण प्रवर्तत आत्मनि ज्ञानं तत्प्रत्यक्ष, न चेन्द्रियव्यापारव्यवहितत्वा- वात्मना साक्षानोपलव्धमिति वाच्यम्, इन्द्रियाणामुपलब्धि प्रति करणतया व्यवधायकत्वास. म्भवात् , न खलु देवदत्तो हस्तेन भुञ्जानो हस्तव्यापारव्यवहितत्वान्न साक्षाद्भोक्तति व्यपदेष्टुं शक्यमिति चेन्मैवम् , आत्मना चक्षुरादिसागुण्यापेक्षणात्, यदा हि चक्षुस्सद्गुणं भवति तदा 20 बाघमर्थ स्पष्टं यथावस्थितञ्चोपलभते यदा तु तिमिराश्रुभ्रमणनौयानपित्तादिसंक्षोभदेशदवी- यस्त्वाद्यापादितविनमं भवति तदा विपरीतं संशयितं वोपलमते तथा चावश्यमात्माऽर्थोप- लब्धौ पराधीनः । तथा चक्षुरादिनोपदर्शितेऽपि वाह्येऽर्थे यदि सशयमधिरूढो भवति तदा चक्षुरादिसाद्गुण्यमेव प्रतीत्य निश्चयं विदधाति, यथा न से चक्षुस्तिमिराद्युपप्लुतं ततोऽयमर्थ- स्समीचीन इति, तस्माचक्षुरादिसागुण्यावधारणतो वस्तुयाथात्म्यावधारणाद्वस्तुतस्तत्परोक्षमिति 25 १ न धानभ्यासदशामापनस्यैव वस्तुयायात्म्यावधारणमिन्द्रियसागुष्पावधारणपूर्वक भक्तु न लभ्या- सदशापनस्य, तदन्तरेणापि प्रकृष्टाभ्यासबलात् साक्षात्तस्याववोधादतस्तस्येन्द्रियाश्रित भान प्रत्यक्ष स्यादिति वाच्यम्, तत्रापीन्द्रियसाहुण्यसापेक्षत्वस्य दुरित्वात् , अभ्यासप्रकर्षवशाचेन्द्रियसागुण्यस्य झटित्येव निश्चयात् कालमौम्यासदनुपलब्धेः । अपायमान अवग्रहहापूर्वक, तत्रेहा विचारस्पा विचार थेन्द्रियसागुण्यमद्भतवस्तु- धर्माधित न हौन्द्रिये वस्तुनि वा सम्यगविचारिते सति यज्नान तत्समीचीनं भवतीति ।।

तत्त्वन्यायविभाकरे । प्रथमाकर भावः। परोममिति, आत्मापेक्षया पुगलमयत्वेन द्रव्येन्द्रियमनोरूपेभ्यःपरेभ्यः अक्षस्य जीवस्य यद्वर्त्तते तत्परोक्षं मतिश्रुतरूपम् । पुदलनिचयनिष्पन्नानि हि द्रव्येन्द्रियमनांसि जीवस्य परभूतान्यतस्तेभ्यो यन्मतिश्रुतलक्षणं प्रानं धूमादेरग्न्यादिज्ञानवत्परनिमित्तत्वात्सरोक्षं, किल्ले- न्द्रियमनोनिमित्तं ज्ञानं परोक्षं तत्र संशयविपर्ययानध्यवसायसम्भवात् , इन्द्रियमनोनिमित्त- 5 कासिद्धानेकान्तिकविरुद्धानुमानवत्, तत्र निश्चयसम्भवाद्भूमादेवयनुमानवत्, यत्तु प्रत्यक्षं तत्र न संशयादयो निश्चयश्च सम्भवति यथावध्यादिषु, न चावध्यादिषु निश्चयसंभवाप- भिचार इति वाच्यम् । संकेतस्मरणादिपूर्वकत्वे सतीति विशेषणात्, न चावभ्यादीनो मनो- निमित्तकत्वात्परोक्षता स्यादिति वाच्यम्, मनःपर्याप्त्याऽपर्याप्तानां मनुष्यदेवादीनामवधिज्ञा- नश्रवणेन तेषां मनोनिमित्तकत्वाभावादिति ॥ - 10 तत्र पञ्चविधज्ञानमध्ये किंवा पारमार्थिकप्रत्यक्षं किंग परोक्षमिति शंकायामाह- तत्रावधिमनःपर्यवकेवलानि पारमार्थिकप्रत्यक्षाणि । मतिश्रुते परो- क्षे । परोक्षमपि सांव्यवहारिकप्रत्यक्षस्मरणप्रत्यभिज्ञातानुमानागम- भेदात् षड्विधम् ॥ तत्रेति, स्पष्टम् । परोक्षस्य प्रकारान्तरेण भेदमाह परोक्षमपीति । अपिशब्दः पुनरर्थे, 15 मतिश्रुतभेदेन द्विविधमपि परोक्षं पुनस्सांव्यवहारिकप्रत्यक्षादिभेदेन पड्विधमिति भावः । समी- चीनो बाधारहितो व्यवहारः प्रवृत्तिनिवृत्तिलक्षणस्संव्यवहारः, तत्र भवं स एव वा प्रयोजनम- स्येति सांव्यवहारिक तच्च सत्प्रत्यक्षश्च सांव्यवहारिकप्रत्यक्षमिति विग्रहः । बालेन्द्रियादि- सामग्रीसापेक्षत्वाद्वस्तुतः परोक्षमेवेति परोक्षमध्ये परिगणितमेतत् । अनुमानादिभ्योऽति- रेकेण नियतवर्णार्थीकाराणां प्रतिमासनाचानुमानादितो भेदेनोत्कीर्तनम् । सामान्यतो हि 20 स्पष्टत्वं प्रत्यक्षस्य लक्षणं तच्चानुमानाद्याधिक्येन विशेषप्रकाशनं, एतदपेक्षया च पारमार्थिक- प्रत्यक्षस्येवास्थापि प्रत्यक्षत्वम्, गाढान्धकारे मलिनवस्तुसंवेदनमपि संस्थानमात्रे सष्टत्वेन प्रत्यक्षमेव । न च स्मृतिप्रत्यभिज्ञादिरखरूपसंवेदने परोक्षरूपे प्रत्यक्षलक्षणस्यातिव्याप्तिरिति वाच्यम्, स्मृतिप्रत्यभिज्ञानादिस्वरूपसवेदनस्य परोक्षवामम्भवात् , क्षायोपशमिकसवेदनाना स्वरूपसवेदनस्यानिन्द्रियप्रधानतयोत्पत्तेरनिन्द्रियाध्यक्षव्यपदेशसिद्धेः, बहिरर्थग्रहणापेक्षया च 5 विज्ञानानां परोक्षत्वव्यपदेशेन सर्वज्ञानानां स्वरूपे स्पष्टप्रतिभासत्वात्प्रत्यक्षत्वमेवेति ।। अधुना पारमार्थिकप्रत्यक्षं लक्षयति- अव्यवहितात्मद्रव्यमानसमुत्पन्नं ज्ञानं पारमार्थिकप्रत्यक्षम् । तहि. विधं सकलं विकलश्च ॥ ' सकलज्ञानम् । न्यायप्रकाशसमलते :३१५: अव्यवहितेति । स्वोत्पत्तौ सांव्यवहारिकप्रत्यक्षादिकमिन्द्रियानिन्द्रियादिव्यवहितात्मद्र- न्यमानित्य जायते, पारमार्थिकप्रत्यक्षन्तु न तथा, किन्तु ज्ञानदर्शनावरणक्षयोपशमात् तत्क्ष- याद्वेन्द्रियानिन्द्रियद्वारनिरपेक्षमात्मद्रव्यमेवान्यवहितमाश्रित्य समुन्मिपतीत्यतोऽव्यवहि- तात्मद्रव्यमानसमुत्पन्नत्वे सति ज्ञानत्वं तल्लक्षणं, भवगुणसम्यक्त्वादीनामपेक्षणेऽपि तेषां द्रव्यत्वाभावान्नावभ्यादावव्याप्तिरिति भावः । तद्विभजते वदिति पारमार्थिकप्रत्यक्षमित्यर्थः। 5 सकलमिति सर्वद्रव्यपर्यायविषयकत्वात्सकलमित्यर्थः, विकलमिति, कतिपयदन्यपर्याय- विषयकवाद्विकलमित्यर्थः॥ किन्तत्र सकलं ज्ञानमित्यत्र दृष्टान्तमाह- कृत्लावरणक्षयात्केवलं ज्ञानं सकलम् ।। कृत्लेति, कृत्वावरणक्षयः समस्तघातिकर्मवियोगः स चान्तरङ्गवहिरङ्गसामग्री- 10 जन्यः । अन्तरजसामग्री सम्यग्दर्शनादिरूपा, बहिरङ्गा तु जिनकालिकमनुष्यभवादिरूपा, तथा चान्तरणबहिरङ्गसामग्रीप्रसूतसकलावरणक्षयाद्यत्केवलजानमुदेति तत्प्रतिवन्धस्य कस्य- चिदमावेन सकलविषयकत्वात्सकलं पारमार्थिकप्रत्यक्षमिति भावः । अत्र कृत्स्नावरणक्षयादि- त्युच्याऽव्यवहितोत्तरक्षणे केवलज्ञानोत्पत्तिः प्रकाशिता व्यवहारनयेन, आवरणस्य क्षय- समये क्षीयमाणत्वात् क्षीयमाणस्य चाक्षीणत्वात् क्रियाकालनिष्ठाकालयोर्भेदात् तयोरभेदे च 15 कियावैयर्यप्रसङ्गात् क्रियाकालेऽपि कार्यस्य सत्त्वात्समकालभाविनोश्च सव्येतरगोविपाणयो- रिव क्रियाकार्ययोः कार्यकारणभावायोगादिति । निश्चयनयेन तु क्षीयमाणावरणममय एव केवलज्ञानोत्पत्तिः क्रियाकालनिष्ठाकालयो/दे क्रियाविरहेऽपि कार्योत्पत्त्यभ्युपगमापत्त्या क्रियारम्भकालात्पूर्वमपि कार्योत्पत्तिप्रसङ्गात् क्रियाकालेऽप्यावरणक्षयाभावे पश्चादपि पूर्व- कालवत्तदभावप्रसङ्गः स्यादक्रियत्वात् । अक्रियस्य तदभ्युपगमे क्रियान्वितसमयेऽपि क्रियाया 20 वैयापत्तेः क्रियाविरहितसमयवत् । वस्मानियाकालनिष्ठाकालबोरेकत्वं प्रतिबन्धकामावा. देव चावरणस्य क्षीयमाणवासमये निष्ठा न विरुद्धेति ॥ अथ केवलज्ञानस्य लक्षणमाचष्टे- - १. अन्यस्मिन् काले क्रिया, अन्यस्मिंश्च कार्योत्पत्तिरिति भेद इत्यर्थ । २. एवं आवरणक्षी- यमाणकाले क्रियाया अमावे आवरणक्षयो न स्यादेव, क्रिया विना तनान्यस्य हेतोरभावात् आवरणक्षी- यमाणकाले च तदेतक्रियामताभ्युपगमे क्रियाकालनिष्टाकालयोक्लमर्थसिमित्याप गाव्यम् ॥

तत्त्वन्यायविभाकरे [प्रथमकिरणे अशेषद्रव्यपर्यायविषयकसाक्षात्कारः केवलम् ॥ अशेषेति । अशेषाणि यानि द्रव्याणि पर्यायाश्च तद्विषयकः साक्षात्कार इत्यर्थः, मुख्यतया निखिलधर्मप्रकारकत्वे सति निखिलधर्मिविषयकज्ञानमिति भावः, तत्त्वं केवल- ज्ञानस्य लक्षणम् , केवलदर्शनेऽतिव्याप्तिवारणाय सत्यन्तम् । पर्यायवाभिमवप्रतीत्यसमु. । त्पादरूपसन्तानविषयकनिखिलधर्मप्रकारकज्ञानेऽतिव्याप्तिवारणाय विशेष्यम् । प्रमेयवदित्ति ज्ञानस्य प्रमेयत्वेन निखिलधर्मप्रकारकज्ञानस्य वारणाय सामान्यधर्मानवच्छिन्नत्वं निखिलधमें विशेषणीयम् । तत्र प्रमाणञ्च ज्ञानत्वमत्यन्वोत्कर्षवद्वृत्ति, अत्यन्तापकर्षवदृत्चित्वात्परि- माणत्ववदित्यनुमानम् । न चेदमप्रयोजक, ज्ञानतारतम्यस्य सर्वानुभवसिद्धत्वेन तद्वि- श्रान्तेरत्यन्तापकर्षोत्कर्षाभ्यां विनाऽसम्भवात् । न चेन्द्रियागयज्ञानस्यैव तारतम्यदर्शनेन 10 तत्रैवात्यन्तप्रकर्षः प्रसक्त इति वाच्यम् , अतीन्द्रियेऽपि मनोबाने, शाखार्थावधारणरूपे शानभावनापकर्षजन्ये शास्त्रातिक्रान्तविपयेऽतीन्द्रियविषयसामर्थ्ययोगप्रवृत्तिसाधनेऽध्यात्म- शाखप्रसिद्धप्रातिभनामधेये च तरतमभावदर्शनात् । न च भावनाजन्यमेव प्रातिभवते. वलज्ञान प्राप्तं, तथा चाप्रमाणं स्यात् कामातुरस्य सर्वदा कामिनी भावयतो व्यवहित- कामिनीसाक्षात्कारवदिति वाच्यम् , अप्रामाण्ये भावनाजन्यत्वस्याप्रयोजकत्वात्, बाधित विषयत्वस्यैव प्रयोजकत्वात् , भावनानपेक्षेऽपि शुक्तिरजतादिभ्रमे बाधादेवाप्रामाण्यस्वीकारान् प्रकृते च विषयबाधाभावात् । न च व्यवहितकामिनीविभ्रमादौ दोषत्वेन भावनायाः क्लृप्त- त्वाचजन्यत्वेनास्याप्यप्रामाण्य, बाधितविषयत्ववदोषजन्यत्वस्यापि भ्रमत्प्रयोजकत्वादिति वाच्यम् ,भावनायाः क्वचिहोषत्वेऽपि सर्वत्र दोषत्वानिश्चयात् , अन्यथा शंखपीतत्वभ्रमकारणी. भूतस्य पीतद्रव्यस्य स्वविषयज्ञानेऽप्यप्रामाण्यप्रयोजकत्वं स्यादिति न किञ्चिदेवत् । क्वचिदेव 20 कश्चिदोष इत्येवाङ्गीकारात् विषयबाधेनैव दोषजन्यत्वकल्पनाच्छ। दुष्टकारणजन्यस्याप्यनुमाना- देविषयाबाधेन प्राम.ण्याभ्युपगमात् । न च परोक्षज्ञानजन्यभावनाया अपरोक्षज्ञानजनक- त्वासम्भवः न हि व धनुमितिज्ञानं सहस्रकृत्व आवृत्तमपि वहिसाक्षात्काराय कल्पत इति वाच्यम्, तजन्यप्रकृष्टाऽऽवरणक्षयादेव केवलज्ञानोत्पत्तिरिति सिद्धान्तादिति संक्षेपः ।। नन्वावरणक्षयात्केवलज्ञानोत्पत्चिरित्यसङ्गतं, तथाहि किमिदमावरणं, शरीरं वेशकाला- 25 दिकं वा, नाद्यस्तत्सत्त्वेऽप्यर्थोपलम्भात्, न द्वितीयो देशकालयोरमूर्तत्वात् , परमाण्वादेश्व सूक्ष्मस्वभावत्वात् , । न च मूलकीलकोदकादेर्लोकप्रसिद्धमेव भूम्याद्यावरणत्वमिति वाच्यम्, अतिशयसमृद्धिशालिनापि योगिनेशस्यावरणादेरभावस्य कर्तुमशक्यत्वात् । न चान्यकि- चिदावरणं प्रसिद्धमित्याशङ्कायामाह- 15 । - केवलस्योत्पत्ति.] न्यायप्रकाशसमलते इदश्च घातिकर्मक्षयाद्भवति ॥ इदम्चेति । पात्यपातिरूपेण पूर्व प्रपश्चितस्य द्विविधस्य कर्मणो मध्ये घातिकम आवरणं तरक्षयतः केवलमुदेति । तथाहि यत्स्वविषयेऽप्रवृत्तिमत् तत्सावरण दृष्टं यथा वैमिरिकस्यैक- चन्द्रमसि चाक्षुषं विज्ञानम् , अप्रवृत्तिमच्चास्मदादिज्ञानं स्वविषये निखिलद्रव्यपर्यायलक्षणे। तस्मात्तत्रावरणमपेक्षितम् , तश्चान्यस्यासम्मवाद्धातिकर्मरूपमेव । न चास्मदादिनानस्य 5 समस्तार्थविषयकत्वमसिद्धमिति वाच्यम् , आवरणापाये तत्प्रकाशकत्वात् । न चान्योऽन्या- श्रयः, सिद्धे सकलविषयकत्वेऽस्मदादिज्ञानस्य तदावरणापाये तत्प्रकाशकत्वं सिद्ध्यति, तसिद्धौ च विज्ञानस्य सकलविषयकत्वसिद्धिरिति वाच्यम्, विशेषविषयकानुमान- मिच्छता भवता निःशेषविषयकव्याप्तिज्ञानस्याभ्युपगतत्वात् । एवं यज्ज्ञानं स्वविषयेऽस्पष्टं तत्सावरणं यथा नीहारधूलिव्यवहितवृक्षादिक्षानम्, अस्पष्टश्च स्वविषये सर्व सदनेकान्ता- 10 त्मकमित्यादिज्ञानमिति । तथा मिथ्यात्वपटलविलुप्सविवेकशां यदेतत्सर्वस्मिन्ननेकान्तात्म- कवस्तुनि विपर्ययज्ञानं तत्सावरणं मिथ्याज्ञानत्वाखत्तूरकाधुपयोगिनो मृत्तिकाशकले कनकज्ञानमिवेवि वसिमावरणं कर्म । तच कार्यकारणप्रवाहेण प्रवर्तमानमनायपि सम्यग्दर्शनादिरलत्रयलक्षणेनावरणनिर्जराहेतुभूतसामग्रीविशेषेण निर्मूलं प्रलीयते, कार्य- रणरूपेणानादितः प्रवर्तमानस्य वीजाङ्करसन्तानस्य निर्दग्धवीजेऽङ्करे वा प्रलयवत् | 15 तस्मासिद्धमशेषावरणविलयात्समस्तवस्तुविषयं केवलज्ञानमिति । केवलज्ञानमिदं साथ- पर्यवसितं, घातिकर्मक्षयादाविर्भूतत्वात्सादि, तथोत्पन्नस्य तस्य पश्चान्नावरणमस्त्यतोऽनन्तम् , सत्तामाश्रित्येदमनन्तस्वं बोध्यम् । तेन भवस्थकेवलिविशेषपर्यायाणां पनपेमनाराच- संहननादीनामपगमे तदव्यतिरिक्तस्य केवलज्ञानस्यात्मद्रव्यारेण विगमेऽपि न क्षतिरन्य- थाऽवस्थातुरवस्थानामात्यन्तिकभेदप्रसक्तः, सिद्धत्वरूपेण पुनरुत्पद्यते, उत्पादव्ययध्रौव्यात्म- 20 कत्वाद्वस्तुनोऽन्यथा वस्तुहानिः प्रसज्येतेति ॥ अथेदं कि विषयं प्राप्य परिच्छिनचि किं वाऽप्राप्येत्याशङ्कायामाह- - १. कयश्चित्तस्यात्माव्यतिरिकत्वादात्मनश्च द्रव्यरूपतया नित्यत्वात्तदूपण केवलज्ञानमपि अनन्तमिति भाव. ॥ न च केवलज्ञानस्य साद्यपर्यवसितत्वात जीवस्यानादिनिघनत्वात् छायातपबदलन्तभेदेन कथं जीव. कैवलं, तथा ज्ञानदर्शनयो. क्षायिकत्वात् क्षायोपथमिकत्वात् जीवस्य पारिणामिकत्वाश्चेति वाच्यम्, द्रव्यपर्याय- भेदाभेदेकान्तपक्षप्रतिपेधेन कथविद्वेदामेदात्सर्वस्याप्युपपत्त, दरिद्रोऽयमिदानी राजा जात इत्यादिप्रतीत्या राजत्वपर्यायस्य, राजत्वपर्यायात्मकस्वेन वा पुरुषस्य जातत्वावगाहनान् पर्यायाणामभेदाध्यवसितभेदात्मत्वात् द्रव्यस्य वा भेदानुपकामेदात्मकत्वादिति ।।

तत्त्वन्यायविभाकरे [प्रथमकिरये तद्वानेव सर्वज्ञः॥ 'तद्वानेवेति । केवलज्ञानवानेवेत्यर्थः । इदञ्च केवलज्ञानस्य कथञ्चिदात्मव्यतिरेकम- भ्युमेत्योक्त तथा च कथञ्चिद्भेदाभेदसम्बन्धेन केवलज्ञानवान्सर्वज्ञ इत्यर्थः। आत्मपर्यायो हि केवलज्ञानं, आत्मा च परिच्छिन्नपरिमाणः, यो हि यस्य धर्मरस तत्रैव वर्तते यथा घटे 5 रूपम् , आत्मन्येव संवेदनाचात्मस्थं तत्, तथा चात्मस्थमेव विषयं परिच्छिनत्ति न विषय प्राप्य तस्य ज्ञेयदेशे गमनासम्भवात् , गमने चात्मनो निस्स्वभावत्वप्रसङ्गः स्यात्, तत्स्वभाव- त्वादात्मनः, आत्मधर्मस्वहान्यापत्तिश्च, आत्मविरहेऽपि भावात्। तथा केवलज्ञानं हि सकलज्ञान मुच्यते अलोकस्यानन्तत्वेन गमनतस्सकलोऽलोको ज्ञातुमशक्य इति । अत एव तद्वानित्यन्न नित्ययोगे मतुबू बोथ्यः । मर्वज्ञ इति, अहंदादिरित्यर्थः, एवशब्दो भिन्नक्रमः अर्हन् श्रीवर्ध- 10 मानादिरेव तद्वान्निर्दोषत्वात् , नान्यः कपिलादिः प्रमाणविरुद्धभाषित्वेन निर्दोषत्वासिद्धेस्तथा चाहन् मोक्षसंसारतत्कारणेषु निर्दोषस्तत्र प्रमाणाविरोधिवाक्यत्वाधथा कचिद् व्याथ्युपशमे वैद्यः न चासिद्धिः, अर्हन् मोक्षसंसारतत्कारणेषु प्रमाणाविरोधिवचनवान् तत्र प्रमाणा- बाध्यमानामिमततत्तत्वात् , यस्य यत्राभिमतं तत्त्वं प्रमाणेन न बाध्यते स तत्र प्रमाणाविरो- धिवाक्, यथा रोगस्वास्थ्ये तत्कारणतत्त्वे भिषग्वर इत्यनुमानेन तत्सिद्धेरिति ॥ विकलस्य प्रकार दर्शयति- अवधिमनःपर्यवौ तु तत्तदावरणक्षयोपशमजन्यत्वाद्विकलौ ॥ अवधीति । तत्तदिति, अवधिज्ञानावरणस्य मनापर्यवज्ञानावरणस्य च यः क्षयोपश- मस्तजन्यत्वादित्यर्थः । अनयोर्मूर्तद्रव्यविषयकत्वेन मनोद्रव्यविषयकत्वेन च न सर्वविषय- कत्वमिति विकलत्वम् । क्षयोपशमजन्यत्वादित्यनेन केवलज्ञानभिन्नता केवल्यवृत्तित्वञ्च 20 सूचितम्, केवलज्ञानस्य क्षायिकत्वात् केवलिनः क्षायिकभाववस्वाच । निरन्तरं तस्य स्वमा- वतः केवलज्ञानदर्शनोपयोगव्यामृतत्वेनेतरोपयोगासम्मवाचेति ।। तत्रावधि लक्षयति- इन्द्रियसंयमनिरपेक्षो रूपिद्रव्यविषयकस्साक्षात्कारोऽवधिः। स द्वि- विधो भवजन्यो गुणजन्यश्चेति । भवो जन्म, तस्माजन्यो यथा सुरना- 25 रकाणाम् ,-गुणस्सम्यग्दर्शनादि, तज्जन्यो यथा नरतिरश्चाम् ।। इन्द्रियेति, यद्विषयकज्ञानत्वावच्छिन्नं प्रति नियमेनेन्द्रियाणां संयमस्य चापेक्षा १. गमनं हि स्वदेशपरित्यागपूर्वकमपरदेशप्राप्ति , तया च ज्ञानस्यात्मदेशं विहाय जेयदेशप्राप्तौ निःस्वभाव- त्वमात्मनो भवेद, स्याच शेयस्यात्मरूपत्वं एवचात्मधर्मत्वं केवलस्य न स्यात्, थारमविरहेऽपि भावादिवि भाव. ॥ - 15 . " " अवधिमेदाः 1 न्यायप्रकाशसमलते नास्ति वाहशो रूपिद्रव्यविषयकः साक्षात्कारोऽवधिरित्यर्थः । मतिज्ञानादौ मनःपर्यवज्ञाने चातिव्याप्तिवारणायेन्द्रियसंयमनिरपेक्षेति पदम् । संयमप्रत्ययावधिविशेपेऽव्याप्तिवारणाय नियमेनेत्युक्तं, पुद्गला रूपिणं इति शाब्दबोधस्य वारणाय साक्षात्कार इत्युक्तम् । यादृशा- बघिस्सयमानन्तरमेव जातः तादशावधेस्संयमसापेक्षत्वेनाव्याप्तिरतो रूपिसमव्याप्यविप- यताशालिज्ञानवृत्तिज्ञानत्वव्यायजातिमत्त्व लक्षणम् । परमावधिज्ञानमादाय सर्वाधिषु । लक्षणसमन्वयः कार्यः । रूपिव्यापकविषयताकत्वं तु न वाच्यं केवलज्ञानेऽतिव्याप्तेः। ज्ञानत्वमादाय भत्यादावविप्रसङ्गोन्मूलनाय ज्ञानत्वव्याप्येति । विषयतापदेन स्पष्टीयविष- यता प्राह्या तेन पुगला रूपिण इति शान्दवोघे नातिप्रसङ्गः, तस्यास्पष्टीयविषयताकत्वादिति ।। स चावधिजघन्यतोऽङ्गुलासंख्येयभागादारभ्य प्रदेशान्तरवृद्ध्योत्कृष्टतोऽलोकेऽपि लोक- प्रमाणान्यसंख्येयखण्डानि क्षेत्रविषयः, कालोऽपि जघन्यत आवलिकाऽसंख्येयमागादारभ्य 10 समयोत्तरया वृद्ध्योत्कृष्टतोऽसंख्येयोत्सर्पिण्यवसर्पिणीलक्षणो विषय इति क्षेत्रकालरूपविषय- भेदादसंख्येयभेदः । द्रव्यभावलक्षणविषयापेक्षया चानन्ता अपि भेदास्तथापि सक्षेपेण तस्य भेदमाह स इति, अवधिरित्यर्थः । भवजन्य व्याख्याति भवो जन्मेति । तस्याधि- कारिणमाह यथेति । गुणजन्यं व्याख्याति गुण इति, तस्याप्यधिकारिणमाह यथेति । तथा च तेषु भेदेषु मध्ये केचन भवप्रत्ययाः केचन गुणप्रत्ययाः, ननु सम्यग्दर्शनादिगुणजन्यस्य 15 क्षायोपशमिकत्वं भवस्यौदायिकत्वेन तजन्यस्यौदयिकत्वं प्राप्त, क्षायोपशमिकभावे चावधि- ज्ञानमुच्यत इति विरोध इति, मैवम् , मुख्यतया भवजन्यस्यापि क्षयोपशमनिमित्तकत्वात् सोऽपि क्षयोपशमो नारकामरभवे सत्यवश्यं भवतीति तेषां भवजन्यत्वमुक्तमिति ।। पुनरवधीनां पोढाऽपि सहस्सम्भर भवतीत्याह- अनुगाम्यननुगामिहीयमानवर्धमानप्रतिपात्यप्रतिपातिभेदात् षड्वि- ४0 धोऽवधिः। अवधिमत्पुरुषसहगमनस्वभावोऽनुगामी ॥ अनुगामीति | स्पष्टम् । अनुगामिन लक्षयति अवधिमदिति, यस्समुत्पन्नो देशान्तर- ममिब्रजन्वं स्वामिनमनुगच्छति नेत्रादिवत्सोऽनुगाम्यवधिरित्यर्थः । ईश एवावधिनारकाणां देवानाख्न भवति ॥ १. यत्र यत्रावधिविषयता तत् वत्सर्वं रूपिद्रव्य तथा यद्यपिद्रव्यं तत्र सर्वत्रावधिविषयतेति समस्याप्यव्यापकभावो विज्ञेय । २. तेजसमाषाव्यापान्तरालवय॑नन्तप्रदेशिकाइयादारभ्य विचित्रवृद्धया सर्वमूर्तद्रव्याप्युत्कृष्टविषयपरिमाणमववेरिति द्रव्यतो भावतश्च प्रतिवस्तुगतासंख्येयपर्यापरूपं विषयमानं, तस्मात्सर्वमपि पुद्गलास्तिकायमवधिप्राह्याश्च तत्पर्यायानावित्यावधिविषयोऽनन्तो भाव्यः । तथा च यमैदेन ज्ञानमेदाहुल्यभावलक्षणविषयापेक्षया अनन्तत्वमवधेरपीति भावः ।।

तखन्यायविभाकरे [प्रथमकिरणे - - - अननुगामिनमाह- उत्पत्त्यवच्छेदकशरीरावच्छेदेनैव विषयावभासकोऽननुगामी ॥ उत्पत्तीति । शरीरपदमाश्रयपरं तथा च कायोत्सर्गस्थानादिपरिणामविशिष्टयाश- शरीरावच्छेदेनावधिरुत्पन्नः तत्स्थानादन्यस्थानमुपयातस्य तादृशपरिणामाभावेन वाश- 5 शरीराभावादवधिरपि नश्यति तत्रैव स्थितस्य वर्तते च सोऽवधिरननुगामीत्यर्थः, अयं पूर्व- श्वावधिर्मनुष्यतिरश्चां भवतीति भाव्यम् ॥ हीयमानमाचष्टे- स्वोत्पत्तितः क्रमेणाल्पविषयो हीयमानः ।। स्त्रोत्पत्तित इति । षड्डिधहानिष्वत्र प्रथमान्तिमपरित्यागेन चतुर्विधा हानिया, अब- 10 घिविषयभूतयोः क्षेत्रकालयोरनन्तत्वासम्भवेनानन्तभागहानेरनन्तगुणहानेश्वासम्भवान् । द्रव्यापेक्षया चानन्तभागहानिरनन्तगुणहानिरिति द्विविधैव स्वामाव्यात् । पर्यायापेक्षया हु षड्विधापि,हानिर्भवति । द्रव्यक्षेत्रकालपर्यायाणां संयोगे एकस्य हानावपरस्थापि हानिर्न तु वृद्धिा, तथा द्रव्यादेर्भागेन हानौ अपरस्यापि भागेनैव प्रायो हानिने तु गुणेन तथा गुणेन हानौ अपरस्यापि.गुणेनैव हानि तु भागेन । एवं वृद्धावपि भाव्यम् ॥ " 15 वर्धमानमाह- - स्वोत्पत्तितः क्रमेणाधिकविषयी वर्धमानः || स्त्रोत्पत्ति इति । यावत्क्षेत्रं प्रथमावधिज्ञानिना दृष्टं ततः प्रतिसमयमसंख्यातमागवृद्धि कश्चित्पश्यति कोऽपि सख्यातमागवृद्धि अन्यस्तु संख्यातगुणवृद्धिमपरश्वासंख्यातगुणवृद्धि- मित्येवं वृद्धिमानवधिरित्यर्थः ॥ 20 प्रतिपातिनमाचष्टे- उत्पत्त्यनन्तरं पतनशील प्रतिपाती ।। उत्पत्तीति । उत्पत्त्यनन्तरं कियन्तमपि कालं स्थित्वा वतो. धंसनस्वभाव इत्यर्थः । अत्रायं भावः, अवधिज्ञानावरणक्षयोपशमजन्यावधिज्ञाननिर्गमस्थानानि फडकान्युच्यन्ते । सानि चैकजीवस्य संख्येयान्यसंख्येयानि च भवन्ति तत्र चैकफडकोपयोगे च जन्तुर्नियमा- सर्वत्र सर्वैरपि फडकैरुपयुक्तो भवत्येकोपयोगत्वात् जीवस्यैकलोचनोपयोगे द्वितीयलोचनो- - 10 मन.पर्यव.] न्यायप्रकाशसमलते पयोगवत् । एतानि च फडकानि त्रिधा भवन्ति, अनुगामुकानि अननुगामुकानि मिश्राणीति । एतानि च पुनः प्रत्येकं त्रिधा भवन्ति प्रतिपातीन्यप्रतिपातीनि मिश्राणि च एतानि च मनु- प्यतिर्यक्षु योऽवधिस्तस्मिन्नेव भवन्ति न देवनारकावधौ ।। अथाप्रतिपाविनमाह- तद्विपरीतोप्रतिपाती। तद्विपरीत इति । प्रतिपातिविपरीत इत्यर्थ । तत्र नैरयिकभवनपतिवानमन्तरज्योति- कवैमानिका अनुगाम्यप्रतिपात्यवधय एव विर्यपञ्चेन्द्रियाणान्तु षडपि ।। अथ मनःपर्यव लक्षयति- संयमविशुद्धिहेतुकं मनोद्रव्यपर्यायमात्रसाक्षात्कारि ज्ञानं मनः- पर्यवः । स ऋजुमतिविपुलमतिभेदेन द्विविधः ॥ संयमेति । मनोद्रव्यपर्यायमानसाक्षात्कारिजानत्वं लक्षणम् । संयमविशुद्धिहेतुक- मिति तु अप्रमत्तत्वर्द्धिप्राप्तिधान्यादिमत एवेदमिति सूचनाय । मात्रपद अवधिज्ञाने केवले वाऽतिव्याप्तिवारणाय । अवधिर्धाहं मनस्साक्षात्कार्यपि स्कन्धान्तरसाक्षात्कारीति न दोषः, एवं केवलेऽपि । न च मनस्त्वपरिणतस्कन्धालोचित बालमप्यर्थ मनःपर्यवज्ञानं साक्षात्करो- तीत्यसम्भव इति वाच्यम् , वाह्यार्थानां तथाविधमनःपरिणामान्यथानुपपत्तिलिङ्गकानुमाने- 15 नैव ग्रहणाभ्युपगमात्, मनःपर्यवस्य धर्मिग्राहकप्रमाणेन मनोद्रव्यमात्रालम्बनतयैव सिद्धेः। अर्धवृतीयद्वीपसमुद्रपरिमाणमानुपक्षेत्रवृत्तिमनोद्रव्यविषयमिदं ज्ञानं न वदहिभूतप्राणि- मनास्यवगच्छति । तथा सशिजीवर्मनोद्रव्याणि गृहीत्वा मनस्त्वेन परिणमितानां द्रव्यमनसामनन्तान् पर्यायान् विषयीकरोतीदम् । न तु भावमनसः पर्यायान् , अमूर्त्तत्वात् छद्मस्थस्य चामूर्तविपयायोगात् । अत एव मनःपर्यायमात्रविषयकसाक्षात्कारिज्ञानत्वमित्य- 20 नुक्त्वा मनोदव्येत्युक्तम् । मनोद्रव्याणि वीक्ष्य चिन्तनश्चातीवानागतपल्योपमासंख्येयभाग- विषयम् । पटुतरक्षयोपशमप्रभवत्वादिदं यतो विशेषमेव गृहदुत्पद्यते न सामान्यमतो ज्ञानरूपमेव न तु दर्शनरूपम् । अत्र मनःपर्यवज्ञानी मनश्चिन्ताप्रवर्तकानि द्रव्याणि जानाति वाह्याांचाचक्षुर्दर्शनेन पश्यतीत्यतः कथं न वस्य दर्शनरूपता, अन्यथा पश्यतीति प्रयोगानुपपत्तिः स्यात् यदि चाचक्षुर्दर्शनेन पश्यति वर्हि मतिश्रुतवत्परोक्षत्वं प्राप्तं, अचक्षु- 25 दर्शनस्य तत्रैव समावेशात् प्रत्यक्षार्थविषये मनःपर्यवज्ञाने परोक्षार्थविषयस्याचमुर्दर्शनस्य ४१ १३२१: तस्वन्यायविमाकरे [प्रयमकिरणे कथं प्रवृत्तिरिति पूर्वपक्षः, अत्र केचिद्वदन्ति समाधानम् , मनःपर्यवज्ञानी पश्यत्यवधिदर्शनेन, मनापर्यवज्ञानेन जानावीत्यतो न विरोध इति तन्न सम्यक, अवधिमन्तरेणापि मतिश्रत- मनःपर्यवरूपज्ञानत्रयस्यागमे प्रतिपादितत्वात् , किन्तु एकस्यैव मनःपर्यवज्ञानिनःप्रमातुर्मन:- पर्यवज्ञानानन्तरमेव मानसमचक्षुर्दर्शनमुत्पद्यत इति न जानाति पश्यतीति व्यवहारयोरनु- 5 पपत्तिा, अत एव न परोक्षत्वाद्यापत्तिा, ज्ञानभेदात् । न चैवं मनःपर्यवज्ञानिनः प्रत्यक्ष- ज्ञानित्वं विरुध्यते, परोभज्ञानवत्त्वादिति वाच्यं मिन्नविषयत्वात्, न झवधिज्ञानिनश्च- क्षुदर्शनाचक्षुर्दर्शनाभ्यां पश्यतः प्रत्यभज्ञानितायां कोऽपि विरोष इति विभावनीयम् ॥ मनापर्यवज्ञानसमृद्धिमतामप्रमत्तसंयतानामुत्पद्यमानमिदं द्विधा समुत्पद्यत इत्याह स इति मनापर्यव इत्यर्थः । मननं मतिसंवेदनमित्यर्थः, ऋज्वी सामान्यप्राहिणी मतिः ऋजुमतिः, 10 घटोऽनेन चिन्तित इत्यादिसामान्याकाराध्यवसायनिबन्धनभूता कतिपयपर्यायविशिष्ट- मनोद्रव्यपरिच्छेदरूपेत्यर्थः । विपुला विशेषग्राहिणी मविर्घटोऽनेन चिन्तितस्स च सौवर्णः पाटलिपुत्रकोऽद्यतनो महानपवरकस्थितः फलपिहित इत्याद्यव्यवसायहेतुभूता प्रभूतविशिष्ट- मनोद्रव्यपरिच्छेदरूपेत्यर्थः॥ -- " भेदयोरनयोविशेषान्तरमाह- -- 18 आद्यज्ञानं कदाचित्मच्यवते द्वितीयन्तु न कदापीत्यनयोवैषम्यम् ।। आयेति । कदाचिदित्युक्तत्वादाकेवलं कदाचिन्न प्रतिपततीति भावः । द्वितीयं विति विपुलमविरिति भावः, न कदापीति आकेवलमिति शेषः, वैषम्यमिति स्वगतो भेद इत्यर्थः ।। इति तपोगच्छनमोमणि श्रीमद्विजयानन्दसूरीश्वरपट्टधर-श्रीमद्विजयकमलमूरीश्वर- चरणनलिनविन्यस्तमक्तिमरेण तत्पट्टधरेण विजयलब्धिरिणा विनिर्मितस्य तत्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां पारमार्थिकप्रत्यक्ष- निरूपणो नाम प्रथमः किरणः॥ 20 १.न चावधेर्दर्शनवन्मन पर्यवस्थापि दर्शन स्यात् ततस्तेनासौ पश्यतीति व्यपदेश उपपत्त्यत इति वाच्यम् चतुर्विधदर्शनादधिकस्य दर्शनस्यागमेजुतत्वात् । न च चक्षुर्दर्शनादिवतुष्टयाधिक्येनानुकमपि विमादर्शन यथाऽवधिदर्शनेऽन्तर्भूतं तथा मनःपर्यवदर्शनमपि अवधिदर्शनान्तर्भूतं सदधिदर्शनसशितं भविष्यतीति वाच्यम्, तथापि शास्त्रविरोधात, मतिश्रुतमन पर्ययज्ञानवतो दर्शनद्वयत्त्यैव मतिश्रुताबधिमन पर्ययज्ञानवतय दर्शनत्रयस्यैव शान्ने प्रोफत्वात्, यदि मन पर्यायदर्शनमपि स्यात्तदा मतिश्रुतमन पर्ययज्ञानी दर्शनद्वयवाश स्यादिति ॥

- 10 सांव्यवहारिकम् ] न्यायप्रकाशसमलते अथ द्वितीयः किरणः। एवं प्रत्यक्षभेदे निरूपिते परोक्षभेदाग्निरूपयितुं प्रथमतः परोक्षलक्षण प्रकाशयति- व्यवहितात्मद्रव्यजन्यं ज्ञानं परोक्षम् ॥ व्यवहितेति । साक्षादात्मना न जन्यते यज्ज्ञानमपि तु व्यवधायकानिन्द्रियादीनाश्रित्य, तादृशं ज्ञानं निमित्तापेक्षत्वाद् व्यवहितारमद्रव्यजन्य अतः परोक्षमित्युच्यत इत्यर्थः । न च 5 निमित्तापेक्षत्वं व्यभिचारि, अवधिनान्तरणस्य क्षयोपशमस्य बहिरजस्य विषयादेरपेक्षणात, एवं मनापर्ययज्ञानमपि निमित्तापेक्षं, केवलज्ञानमपि धातिकर्मक्षयं विषयञ्चापेक्षत एवेति वाच्यम् , विशिष्टनिमित्तापेक्षत्वस्यैव वाच्यत्वात्, तच्च विशिष्टं निमित्तमिन्द्रयानिन्द्रियाख्यं श्रुते च मतिपूर्वकत्वमपि, अतो न व्यभिचारः ॥ अथ सांव्यवहारिकप्रत्यक्षलक्षणमाचष्टे- इन्द्रियमनोजन्यो विशदावभासस्मांव्यवहारिकप्रत्यक्षम् ॥ . इन्द्रियेति । इन्द्रियेण मनसा तदुभयेन वा जन्यो विशदावमास इत्यर्थः, तत्रेन्द्रिय- निमित्तको विशदावमासो मनोहीनानामेकद्वित्रिचतुरिन्द्रियाणामसंज्ञिपश्चेन्द्रियाणाञ्च | मनो- जन्यो विशदावमासो मानसमुखादिज्ञानम्, वन चक्षुरादिव्यापारामावात् । तदुभयजन्यो विशदावमासः पञ्चेन्द्रियाणां घटादिरूपादिचाक्षुषादिनानम् । इन्द्रियजन्यविशदावभासत्वस्य 15 सुखादिमानसेऽव्याप्त्या मनःपदम् । मनोजन्यविशदावभासत्वस्येन्द्रियमनोजन्यविशदाव- मासत्वस्य वैकेन्द्रियादीनां प्रत्यक्षेऽसत्त्वादिन्द्रियजन्यविशदावमासत्वमपि विवक्षितं, स्मृति- प्रत्यभिज्ञादावविव्याप्तिवारणाय विशदावभासत्वमुक्तम् । तदुभयजन्यविशदावभासंत्वन्तु लक्षणे न प्रवेशनीयं फलाभावात्, पञ्चेन्द्रियचाक्षुपादिप्रत्यक्षस्य मानसस्य चेन्द्रियमनोऽन्यतर- जन्यत्वात् , तथा चेन्द्रियमनोऽन्यतरजन्यविशदावभासत्वं सांव्यवहारिकप्रत्यक्षस्य लक्षणम्, 20 मनःपदमुपलक्षकमोघस्य, ओघस्सामान्यमप्रविभक्तरूपम् । ओघज्ञाने नेन्द्रियादि निमिर्च, केवलं मत्यावरणक्षयोपशमविशेष एव कारणम् । वल्ल्यादीनां नीबाघभिसर्पणबानमोधना- नम् । सांव्यवहारिक प्रत्यक्ष केपाश्चिदालोकविषयेन्द्रियाण्यपेक्षाकारणानि, सति प्रकाशे विषय इन्द्रिये च ज्ञानोदयस्य दृष्टत्वाचत्राप्यन्तरङ्गापेक्षाकारणमिन्द्रियाणि, पारमार्थिकन्तु कारणं क्षयोपशमस्सर्वज्ञानसाधारणमिति ॥ १. परैरकै सम्बन्धन जन्यजनकभावलक्षणमस्येति, परेभ्य, पुलमयत्वेन जीवापेक्षया मिनेभ्यो द्रव्येन्द्रियननोभ्योऽक्षस्य जीवस्य यत्तत्परोक्षमिति वा व्युत्पत्त्या इन्द्रियमनोव्यवधानेन जीवस्याविषयसाक्षा- कार इति भाव ॥ 25 -- तस्वन्यायचिमाकरे [द्वितीयकिरणे ननु किन्तावज्ञानस्य विशदावभासत्वं, नेन्द्रियार्थसन्निकर्षोत्पन्नत्वं चाक्षुपनानेऽ व्याप्तेश्चक्षुषोऽप्राप्यकारित्वेनार्थसन्निकर्षाभावात् । नापि प्रतीत्यन्तराव्यवधानेन प्रतिभास- मानवमीहादिषु सन्देहायपेक्षिष्वव्याप्तेः। न चान्यान्येन्द्रियव्यापारादेवेहादीनामुत्पत्तेने तत्र संशयादीनामपेक्षेति वाच्यमनुभवपराहतत्वात्सन्देहादिभ्यो जायमानत्वेनैवेहादीनां 5 प्रतीयमानत्वात् । ने चावग्रहहापायधारणा एकसंवेदनरूपास्वतः प्रतीत्यन्तराव्यवधानेन प्रतिमासमानत्वमक्षतमेवेति वाच्यं स्याद्वादिभिरस्माभिस्तेषामेकत्वस्येवानेकत्वस्यापि स्वीकृत- स्वादन्याप्तिः स्थास्यत्येवेत्याशङ्कायामाह- अनुमानादिभ्यो विशेषप्रकाशनाद्विशदत्वमस्य । अनुमानादिम्य इति । विशेषप्रकाशनादिति, नियतवर्णसंस्थानार्थीकाराणां प्रतिभास- 10 नात्, अनुमाने च तदभावादिति भावः । ज्ञाने च विशदावमासत्वं प्रवलतरज्ञानावरण- वीर्यान्तरायकर्मक्षयोपशमविशेषाद्भवति, न पदार्थधर्मो विशदावभासत्वं सर्वदा तस्य तथै- वावमासप्रसङ्गाद्रूपादिवदिति ।। अथ तद्विभजते- -तविविधमैन्द्रियं मानसश्च । इन्द्रियजन्यप्रत्यक्षमैन्द्रियम् । मनोज- 15 न्यप्रत्यक्षं मानसम् ॥ तदिति । सांव्यवहारिकप्रत्यक्षमित्यर्थः । ऐन्द्रियं लक्षयति इन्द्रियेवि, इन्द्रियजन्य- त्वस्य प्रत्यभिनानादौ प्रत्यक्षत्वस्य मानसप्रत्यक्षे सत्त्वादुमयम् । मानसं लक्षयति मन इति, स्मृत्यादौ मनोजन्यत्वस्यैन्द्रिये प्रत्यक्षत्वस्य सत्त्वादुमयम् | मनोऽत्र द्रव्यरूपं ग्राममन्य- थेन्द्रियेऽतिब्यामिस्तदषस्था स्यात् । अवध्यादिषु मनसो हेतुत्वेऽपि न तत्र तदसाधारणमतो 20 न तत्रातिव्याप्तिरसाधारणतया मनोजन्यत्वस्य विवक्षणात्, अत एव वा नैन्द्रियेऽति- व्याप्तिरिति ॥ ननु प्रत्यक्षलक्षणेऽस्मिन्निन्द्रियमनोजन्यत्वमुक्तम् । नत्र किन्तावदिन्द्रियं परैर्मनसोऽपी- न्द्रियत्वेन ग्रहणादन तस्य पार्थक्ये किंवा वीजमित्याशङ्कायामाह- तत्रेन्द्रियं द्रव्यभावभेदेन द्विविधम् ॥ तत्रेति । सांव्यवहारिकप्रत्यक्षलक्षगघटकीभूतमिन्द्रिय द्रव्यत्वभावत्वरूपविभाजकधर्म- द्वयवदित्यर्थः । द्रव्यं परिणामविशेषपरिणतवर्णादिचतुष्टयवत्सुदलात्मकम् , भाव आत्मपरि- - 25 - - - इन्द्रियनिरूपणम् ] न्यायप्रकाशसमलते । :३२५: गतिविशेषः, एतेन पृथिव्यप्तेजोवाय्वाकाशरूपत्वं व्युदस्तम्, तथाहि-त्राणं पार्थिवं रूपा- दिषु सन्निहितेषु गन्धस्यैवाभिव्यञ्जकत्वाद्गोघृतवदित्यनुमानं पृथिवीगन्धामिव्यञ्जकजलेऽनै- कान्तिकम् । रसनं जलीयं रूपादिषु सन्निहितेषु रसस्यैवाभिव्यञ्जकत्वान्मुखशोपिणां लाला- वदित्यनुमान लवणे व्यभिचरितम् । चक्षुस्तैजस रूपादिपु सन्निहितेषु रूपस्यैवामिठ्यक्षक- त्वात्प्रदीपवदित्यनुमान मणौ व्यभिचरितम् , रूपस्यैव प्रकाशकत्वात् मणेस्तैजसत्वानभ्युपं.5 गमाश्च तथा चन्द्रकिरणादौ व्यभिचाराश्च । न च तस्य तेजसत्वान्न व्यभिचार इति वाच्यम्, उष्णस्पर्शशून्यत्वेन तैजसत्वासम्भवात् , चन्द्रकिरणं न तैजसं शैत्यानलवदित्यनु- मानेन तैजसत्वाभावसिद्धेः । पर्शनं वायवीयं रूपादिपु सन्निहितेषु स्पर्शस्यैवामिव्यञ्जक- त्वादङ्गसगिसलिलशैत्याभिव्यञ्जकव्यजनपवनवदित्यनुमानं धनसारादावनैकान्तिकम् तस्य हि जले शीतस्पर्शस्यैवाभिव्यञ्जकत्वाद्वायवीयत्वाभावाच । पृथिव्यादीनामत्यन्तभिन्नजाती- 10 यत्वासिद्धषा तदारब्धत्वासिद्धेश्च । शब्दरस्वसमानजातीयविशेषगुणवतेन्द्रियेण गृह्यते सामान्यविशेषवत्त्वे सति वायैकेन्द्रियप्रत्यक्षवादूपादिवदित्यनुमानश्च शब्दस्याकाशगुणत्वा- सिद्ध्याऽसिद्धमिति न पार्थिवत्वादिकमिन्द्रियाणामिति भावः ।। द्रव्येन्द्रियं विभजते- निर्वृत्त्युपकरणमेदेन द्रव्येन्द्रियं द्विविधम् । निर्वृत्तिराकारः॥ निर्वृचीति । निवर्तनं निर्वृत्तिः प्रतिविशिष्टसंस्थानविशेषस्तदेवाह नित्तिरा- कार इति । अपक्रियतेऽनेनेत्युपकरणमुभयमपि पुदलपरिणामम्, मावेन्द्रियस्योपयोगस्य निमित्तं भवति॥ निवृत्तीन्द्रिय विभजते- निवृत्तीन्द्रियमपि द्विविधं वाह्याभ्यन्तरभेदात् । बाह्य पर्पटिकादि, 20 आन्तरं कदम्बपुष्पाद्याकारः पुद्गलविशेषः॥ निर्वृत्तीति । आभ्यन्तरबाझमेदभिन्नं निर्वृत्तीन्द्रियं निर्माणनामकर्मविशेषेण च निर्व- चैितमुपयोगेन्द्रियस्यावधानप्रदाने द्वारभूतम् । वत्र वाह्याया निवृत्तहुविधाऽऽकारता पर्पटिकादिरूपेणेसाशयेनाह बाह्य पर्पटिकादीति । श्रोत्रस्येयं वाह्या निवृत्तिः | नेत्रादीनां ध्रप्रभृतयः । आन्तरस्वरूपमाहान्तरमिति, कदम्वेसि, अयं श्रोत्रस्यान्तनिवृत्तिरूपा, आदिना 25 धान्यमसूराकारश्चक्षुषः, अतिमुक्तककुसुमचन्द्रकाकारो घ्राणस्य क्षुरप्राकारो रसनस्य नाना- कार: स्पर्शनस्य ग्राह्यः । शब्दादिप्रहणोपकारे निर्वृत्तिते ॥ 15 , - " वत्वन्यायविभाको [ वित्तीयकिरणे अथोपकरणेन्द्रियमाचष्टे- आन्तरेन्द्रियनिष्ठस्स्वस्वार्थग्रहणसामथ्यात्मकशक्तिविशेष उपकर- गेन्द्रियम् । पुद्गलशक्तिरूपत्वादस्य द्रव्यत्वम् । अस्योपघाते च निवृत्ती- न्द्रियसत्त्वेऽपि नाथग्रहः ॥ 5 , आन्तरेति । आन्तरेन्द्रियं श्रोत्राधन्तनिवृत्ति कदम्बपुष्पाद्याकारस्तवृत्तियों विषयग्रहण- सामर्थ्यात्मक शक्तिविशेषश्शक्तिशक्तिमतोरभेदात् सोऽपि द्रव्येन्द्रियमुच्यत इति भावः । इदमपीन्द्रियं बाह्याभ्यन्तरनिर्वृत्तिनिष्ठत्वाद् द्विविधमिति तत्वार्थमाष्यकृत् । आगमे तु न कापि तादृशी व्यवस्था दृश्यतेऽतः केवलमान्तरेन्द्रियनिष्ठ इत्युक्तम् । अस्य शक्तिरूपेन्द्रि- यस्य द्रव्येन्द्रियत्वे युक्तिमाह पुद्लेति । शक्तिशक्तिमतोः कथञ्चिदभेदादिति भावः । अस्य 10 शक्तिविशेषस्य, द्रव्यत्वं द्रव्येन्द्रियत्वमित्यर्थः । अभेद एवानयोरुच्यतां किं कनिद्रेदनेख- बाह अस्येति शक्तिविशेषस्येत्यर्थः, उपघात इति वातपित्तादिना विनाश इत्यर्थः, निर्वृत्तीन्द्रिय- सत्त्वेऽपीति, कदम्बपुष्पाधाकाराया अन्तर्निर्वृत्चेस्सत्त्वेऽपीयर्थः, नार्थग्रह इति, न जीवश्चन्ना दिविषयं गृहातीत्यर्थः, तथा चास्ति कथचिदिन्न आन्तरेन्द्रियनिष्टशक्तिविशेष इति भावः ॥ भावेन्द्रिय विमजते- भावेन्द्रियमपि द्विविधम् । लब्ध्युपयोगभेदात् । आत्मनिष्ठेन्द्रिया- धरणक्षयोपशमरूपार्थग्रहणशक्तिलन्धिः ॥ भावेति । सष्टम् । लब्धीन्द्रियस्वरूपमाहाऽऽत्मनिष्ठेति । लामो लब्धिः प्रातिरित्यर्थः, आवरणक्षयोपशमप्राप्तिरिति भावः । बानस्य तदावरणस्य चात्मनिष्ठत्वेन तत्क्षयोपशमोऽपि वनिष्ठ एवेत्यत उक्तमात्मनिष्ठेति । इन्द्रियावरणक्षयोपशमादिति, गतिजात्यादिनामकर्मोदयतो 20 मनुष्यत्वपञ्चेन्द्रियत्वादिप्राप्तौ सत्यामिन्द्रियविषयेष्वेव शब्दाविषु योऽयं विशेषोपयोगस्तदा- वरणक्षयोपशमादित्यर्थः । कारणे कार्योपचारातु मूले इन्द्रियावरणक्षयोपशमेत्युक्तम् । केचित्वन्तरायकर्मक्षयोपशमापेक्षिणीन्द्रियविषयोपभोगज्ञानशकिलब्धिरिति वदन्ति ताश- क्षयोपशमस्यैवार्थप्रहणशक्तिरूपत्वमित्याहेन्द्रियावरणक्षयोपशमरूपाथग्रहणशक्तिरिति । शेष- मपि द्रव्येन्द्रियं लब्धिप्राप्तावेव भवति नान्यथेति ॥ - 16 १. कदम्बपुष्पाद्याकृतासगोलकाकाराया' श्रोत्रायन्तनिवृत्तया शब्दादेविषयपरिच्छेत्री शकिस्तस्या वातपित्तादिनोपाते 'सति यथोक्तान्तनिवृत्तस्सद्भावेऽपि न शब्दादिविषयं गृह्णाति जीव इत्यतो झाक्तेः- स्त्यन्तर्नितिशतिरूपमुपकरणेन्द्रियं कथचिद्भिनमिति तात्पर्यार्थ ॥

menu -1 - ir- . . इन्द्रियनिरूपणम् । न्यायप्रकाशसमलाते :३२७: अथोपयोगेन्द्रियमाचष्टे-- अर्थग्रहणनिमित्त आत्मव्यापारपरिणामविशेष उपयोगः ।। अर्थग्रहणेति । उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यते जीवोऽनेनेत्युपयोगः करणे घम् । उपयोगो ज्ञान संवेदनं प्रत्यय इति पर्यायाः । स द्विविधस्साकारोऽनाकारश्चेति, स + चेतनेऽचेतने वा वस्तुन्युपयुखान आत्मा यदा सपर्यायमेव वस्तु परिच्छिनत्ति तदा स 5 1 उपयोगसाकार उच्यते, स च कालतश्छद्मस्थानामन्तर्मुहर्तम् , केवलिनामेकसामयिकः । : सोऽयं मतिश्रुतादिभेदेनाष्टविधः, यस्तु वस्तुनस्सामान्यरूपतया परिच्छेदस्सोऽनाकारोपयोगः | कालः पूर्ववदेव, अयमपि चक्षुर्दर्शनादिरूपेण चतुर्विधः । एतत्सर्वानुस्यूतं लक्षणमाह-अर्थ- महणेति । आत्मव्यापारमात्रस्योपयोगत्वाभावार्थग्रहणनिमित्त इति, तावन्मात्रस्य च निर्वृत्त्यादावपि सत्त्वाद्विशेष्यम् । अयमुपयोगो यदा द्रव्येन्द्रियापेक्षो भवति तदेषोपयोगे- 10 न्द्रियनाममाग्भवति नान्यथा, अत एषावध्याधुपयोगस्य नेन्द्रियत्वमवध्यादीनामतीन्द्रियत्वात् । इन्द्रियाणां लामक्रमस्तु प्रथममिन्द्रियावरणक्षयोपशमरूपा लन्धिस्ततो बाह्याभ्यन्तरभेदभिन्न निवृत्तशक्तिरूपमुपकरणं तदनन्तरछेन्द्रियार्थोपयोग इति ॥ अयमेव ज्ञानात्मोपयोगस्वपरव्यवसिनौ साधकतमत्वात्प्रमाणं, न सन्निकों नवा द्रव्येन्द्रियमित्याह- अयमेव प्रत्यक्ष प्रति करणम् । समुदितान्येतानि शब्दाद्यर्थ गृहन्ति, इन्द्रियव्यपदेशभानि च ॥ अयमेवेति । उपयोग एवेत्यर्थः, एवशब्देन सन्निकर्षादीनां व्युदासः, लब्ध्युपयोगावा- स्मनः फले जनयितव्ये योग्यत्वाद्व्याप्रियमाणत्वाच प्रसिद्धौ, उक्तन" भावेन्द्रियाणि लब्ध्यात्मोपयोगात्मानि जानते । स्वार्थसंविदि योग्यत्वाव्यापुतत्वाश संविद" इति । 30 संविदात्मा, सेयं लब्धिस्स्वार्थसंविदि योग्यत्वेऽपि प्रकृतानुपयोगित्वान्न प्रमाणव्यपदेशभाक, प्रमितौ साधकतमस्यैवोपयोगित्वात्तादृशश्योपयोग एव प्रमाणं व्यापारमन्तरेण स्वार्थसंवि- । दोऽनुपपत्तेः, अन्यथा सुपुप्तस्यापि तत्प्रसङ्गस्यात् । न च तदानीं सन्निकर्पाभावादेव न प्रसङ्ग इति वाच्यम्, स्पर्शनादीन्द्रियैरतिमसृणतूलिकाताम्बूलमालतीमांसलामोदसुन्दरगेय- शब्दादिसन्निकर्षस्य तदानीमपि भावात् । ननु जिज्ञासासहकृतस्यैव सत्रिकर्षादेहेतुत्वम- 25 न्यथा तवापि तदानीमुपयोगः कथं न स्यात्, न च क्षयोपशमामावानोपयोग इति वाच्यम्, १. साकारानाकारद्वयात्मक उपयोग एवेति भाव., सोऽपि उपसर्वनीकृततदितराकार. स्तविभासकलेन प्रवर्तमान. प्रमाकरण न तु निरस्तेतराकारः, तथाभूतवस्वभावेन निर्विषयतया प्रमाणत्वानुपपत्तेरिति तात्पर्यम् । 15 . - है . . , . :३२८ तत्त्वम्यायविभाकरे [ द्वितीयकिरणे तत्रैव प्रयोजकस्य पर्यनुयोगात् , जिज्ञासामन्तरेणान्यस्यासंभवादिति चेन्न जिज्ञासाया ज्ञाना- तिरिक्ताया असम्भवात् , तस्या-एवोपयोगरूपत्वात् , अतिरिक्तत्वे वा तस्यास्सन्निकऽकिञ्चि- करायास्सहकारित्वासम्भवात , किञ्चित्करत्वे च तस्या एव कारणत्वमस्तु किमन्तर्गडुना सन्निकर्षण | न च तदानी मनस इन्द्रियेण सन्निकर्षाभावान्न प्रसङ्ग इति वाच्यं मनसोऽ- 5 णुत्वासिद्धः, द्रव्यमनसोऽशेषात्मप्रदेशव्यापिनः पौगलिकस्याने व्यवस्थापयिष्यमाणत्वेनेन्द्रि- यैस्संयोगसिद्धेरिति । तस्मादुपयोग एव प्रत्यक्षं प्रति करणमिति भावः । न च'ज्ञानस्यैव करणत्वे फलत्वं कस्येत्ति वाच्यम्, स्वार्थसंवित्तेः फलत्वात् , न च स्वार्थव्यवसितिः फर्म प्रमाणश्चेति कथं १ विरुद्धत्वान्नहि स्वमेव फलं स्वमेव प्रमाणं भवितुमर्हतीति वाच्यम् , प्रमाणफलयोः कथचिनेदाभेदादुभयोपपत्तेः । एवमेव ततोऽर्थग्रहणाकारा' शक्तिनिमि- 10 हात्मनः । करणत्वे विनिर्दिष्टा न विरुद्धा कथञ्चने ' ति लब्धीन्द्रियस्य करणत्ववादिना मतमपि न समीचीनम् , तया फले जनयितव्ये उपयोगेन व्यवधानात्साधकतमत्वासिद्धेः । तस्या ज्ञानशक्तः प्रत्यक्षेत्वे शक्तीनां परोक्षत्वसाधनमाहतानां विरुद्धं स्यात् । परोक्षवे च मीमांसकमतप्रवेशापत्तः, तैः करणज्ञानस्य परोक्षतायाः फलज्ञानस्य च प्रत्यक्षताया अभ्युपग. मात् । अस्माभिश्चोभयोः करणफलयोः प्रत्यक्षताभ्युपगमात्तथा च न लब्धीन्द्रियं करणं 15 प्रमाणं वा, उपचारेण तु सन्निकर्षाविवत्सापि प्रमाणं स्याविति ।। ननु शब्दाद्यर्थग्रहणे चतुर्विधानामेतेषामिन्द्रियाणां मिलित्वा हेतुत्वं किंवा द्वित्र्यादी- नामित्याशङ्कायामाह समुदितानीति, निर्वृत्त्यादीनामेकतरामांवेऽपि जीवस्य शब्दादिविषय- स्वरूपावबोधो न कदापि भवति विकलकरणत्वादतो मिलितानां हेतुत्वं, अत एव च मिलि- तानामिन्द्रियव्यपदेश इत्याहेन्द्रियेति । तथा.च. यस्य यावन्ति द्रव्यमावरूपाणीन्द्रियाणि तस्य 20 तावत्सु समुदितेष्विन्द्रियव्यपदेशो न न्यूनेविति भावः । सोऽयमुपयोग एकस्यैकोपयोग- कालावच्छेदेनैक एव, नान्यः, अर्थान्तरोपयोगकाले, पूर्वोपयोगवलस्य विनाशात् , तथा- नुभवात् , नहि चक्षुर्दर्शनकाले श्रोत्रज्ञानोत्पत्तिरतुभूयते, न चावृतत्वात्तदनुत्पत्चिरिति-वाच्यम्, स्वसमयेऽप्यनुत्पत्तिप्रसङ्गात् । न चाणुना मनसा यदा यदिन्द्रियसंयोगखदा तज्ज्ञानमिति क्रमेणैव ज्ञानोत्पत्तिरिति वाच्यम् , सर्वाङ्गीणसुखोपलम्भाद्युपपत्त्ये मनोवर्गणापुढलानां शरीर- 25 व्यापकत्वकल्पनात्, तस्माद्युगपदनेकप्रत्ययानुत्पत्तौ स्वभाव एव कारणं नान्यत् ; एवं सन्निहि- तेऽपि सामान्यविशेषात्मके वस्तुनि विपये प्रधानीकृतसामान्य उपसर्जनीकृतविशेषः केवल- दर्शनोपयोग एतद्विपरीतः केवलज्ञानोपयोगः । अत्र केवलज्ञानं स्वसमानाधिकरणं यत्केवल । १९ प्रयोजकत्येति शेष, तथा च जिज्ञासाया आवश्यकत्वे । तत्सहकृतसन्निकर्षस्येव हेतुत्वमिति तदेव प्रमाण व्यभिचासभावादिति : पूर्वपक्षाशयः ॥ - - .

उपयोगः] न्यायप्रकाशसमलते । दर्शनं तत्समानकालीनं नवा', केवलज्ञानक्षणत्वं वा स्वसमानाधिकरणदर्शनक्षणाव्यवहितो. त्तरत्वव्याप्यं नवेति संशये युगपदुपयोगद्वयवादिनो मल्लवादिप्रभृतय आहुः, चक्षुरचक्षुरवधि- ज्ञानानि चक्षुरचक्षुरवधिदर्शनेभ्यः पृथक्कालानि, छद्मस्थोपयोगात्मककालस्वान्, श्रुतमनःप- यवज्ञानवत्, वाक्याविषयश्रुतज्ञाने मनोगव्यविशेषालम्बनमनःपर्यायाने चादर्शनस्वभावे मत्यवधिनादर्शनोपयोगाद्भिन्नकालत्वं प्रसिद्धमेव, तथैतान्यपि, केवलिनो ज्ञानदर्शनोपयोगी । त्वेककालीनौ युगपदाविभूतस्वभावत्वाद्यथा रवेः प्रकाशतापी, क्षीणावरणे च जिने यथा मत्यादिज्ञानस्यावग्रहादिचतुष्टयरूपबानस्य वाऽसम्भवस्तथा विश्लेषतो ज्ञानोपयोगकालभिन्न- काले दर्शनं नास्ति, क्रमोपयोगत्वस्य मवित्वादिचतुष्टयव्याप्यत्वात् सामान्यविशेषोभया- लम्बनक्रमोपयोगत्वस्य चावग्रहायात्मकत्वव्याप्यत्वात् केवलयोः क्रमोपयोगत्वे व्यापकयोर- प्यापत्तिः स्यात्तथाऽऽगमेऽपि यत्केवलज्ञानदर्शनयोः साद्यपर्यवसितत्वमुक्तं तदपि सङ्गच्छते, 10 अन्यथा द्वितीयसमये जानाभावेन तृतीयसमये दर्शनाभावेन च तयोः पर्यवसानेनापर्यव- सितत्वं व्याहतं स्यादिति । मोपयोगवादिनो जिनभद्रगणिक्षमाश्रमणपूज्यपादाश्च प्राहुः प्रजापनानगै हि सिद्धस्साकारोपयोग एव सिद्ध्यतीत्युक्तं साकारानाकारोपयोगयोयुगपद- भ्युपगमे साकारेति विशेषणं निरर्थकं स्यात् , एवञ्च तरतमोपयोगता सिद्धस्य साकारो- पयोगोऽन्यस्मिन् कालेऽन्यदा चानाकारोपयोग इति । अत एव च सिद्धान्ते तत्र तत्र 15 सिद्धानां शानदर्शनयोः पार्थक्येन कथनं सङ्गच्छते, अनयोरविशेपे तु केवलज्ञानदर्शना- वरणद्वयमपि न घटेत, न टेकस्य द्वे आवरणे युज्येते, तथा साकरोपयोगस्याष्टधात्वमना- कारस्य चतुर्विधत्वं ज्ञानस्य पञ्चविधत्व दर्शनस्य चतुर्विधत्वं व्याइन्येत, न च " असरीरा जीवघणा उवउत्ता दसणे य नाणे य इत्यत्र युगपदेव केवलज्ञानदर्शनोपयोगश्रवणा- युगपत्तौ सिद्ध्यत इति वाच्यम् " नाणम्मि दसणम्मि य एतो एगयरयम्मि उवउत्तो । 20 सव्वस्स केवलिस्स जुगवं दो नत्थि उवओगा" इति भद्रवाहुस्वामिभिर्युगपदुपयोगस्य : निपिद्धत्वात् , न च सर्वस्यैव केवलिनो न द्वावुपयोगौ, किन्तु कस्यापि द्वौ स्यातां . - भ १. अत्र क्रमिकोपयोगवादिना निषेधपक्ष , विविपक्षस्तु युगपदुपयोगवादिनाम् । अपरविप्रतिपत्ती चैपरीत्यं भाव्यम् ॥ २. केवलज्ञानक्षणत्वे दर्शनक्षणाव्यवहितोत्तरत्वव्याप्यत्तसशय सिद्धत्वापेक्षयाऽन्यथा- प्राथमिककेवलज्ञानक्षणे दर्शनक्षणाव्यवहितोत्तरत्वस्याभावेन व्याप्यत्वमनुपपन्न स्यादिति ॥ ३, यत्र क्रमोप- योगत्व तत्र मतित्यादिचतुष्टय, यत्र च सामान्यविशेषोभयालम्बनकमोपयोगलं तत्रावग्रहाद्यात्मकस्वमिति नियमः, तथा च केवलज्ञानदर्शनयोर्यदि क्रमोपयोगत्व स्वीक्रियते तहिं तापकस्य मतित्वादिचतुष्टयस्यावग्रहाद्यात्म. कत्वस्य चापतिः स्यादिति भाव ॥४. ननु मर्वमेव सिद्धस्य जान दर्शन वा माकारमेवेति सूचयितुं साकारमिति स्वरूपविशेषणमतो न दोष इत्याशंकायामाहात एवेति, मानदर्शनयोक्शिपावेत्यर्थ ॥

- 5 । तस्वन्यायधिमाकरे [द्वितीयकिरणे कस्यापि त्वेकः, स च केवली सिद्धो वा भवस्थकेवली वा भवेत्, भवस्थकेवलिनोऽद्यापि सकर्मकत्वादेकदैक एबोपयोगः, सिद्धकेवलिनस्तु सकलकर्मविमुक्तत्वेन युगपद् द्वावप्युपयोगी भवत इति भद्रबाहुम्वाम्यभिप्राय इति वाच्यम्, सिद्धाधिकारे सिद्धस्यैव तैयुपयोगस्य निषिद्धत्वात् । ' उवउचा सणे व नाणे य' इति वचनन्तु समुदायविषयमेव न तु कस्य- चिदपि युगपर्दुपयोगप्रतिपादनपरम् । साद्यपर्यवसितत्वमपि तयोर्न वाधकं, यद्बोधस्वभावेन सदावस्थितं तस्योपयोगेनापि सदा भवितव्यमिति नियमाभावात् , लब्ध्यपेक्षया वयो- रपर्यवसितत्वोक्तः । केवलज्ञानदर्शनमिन्नज्ञानदर्शनानां निजनिजस्थितिकालं यावदुपयोगा- भावेऽपि सत्त्वस्या दर्शनात् । उपयोगो ह्येषामान्तर्गौहर्तिका, तस्मात्सतोऽप्यवश्यमुप- योगेन भवितव्यमिति न नियमो व्यभिचारात् । न च ऋमिकोपयुक्तत्वे केवलिनो दर्शनो- 10 पयोगाभावकालेऽसर्वदर्शित्वं ज्ञानोपयोगाभावकाले चासर्वज्ञत्वं प्राप्नोति न चैवदिष्टं सर्वदेव केवलिनः सर्वज्ञत्वसर्वदर्शित्वयोरिष्टत्वादिति वाच्यम्, छद्मस्थस्यापि ज्ञानदर्शनयोरेकतरस्मि- चुपयोगे प्रोक्तदोषसमूहस्य जागरूकत्वात् । तथा च निरावरणत्वेऽपि केवलिनस्वभावादेव युगपदुपयोगाभाव इति । यदेव केवलनानं तदेव केवलदर्शन मिति वादिनस्सिद्धसेनदिवाकरा वदन्ति-सामान्यविशेषपरिच्छेदावरणापगमे कस्य प्रथमतरमुत्पादो भवेत् । एकस्योत्पादेऽ 15 परस्याप्युत्पादापत्तेः, एकसामग्र्या अपरोत्पत्तिप्रतिबन्धकत्वे विनिगमनाविरहेणापरसामग्र्या अप्येकोत्पत्तौ प्रतिवन्धकत्वेनोभयोरप्यभावप्रसङ्गात् " सच्चाउ लद्धीठ सागारोवउगोवत- तस्से" ति बचनप्रामाण्यात्प्रथम केवलज्ञानस्य पश्चात्केवलदर्शनस्योत्पाद इति चेन्न लब्धि- योगपद्य एवास्य वचनस्य साक्षित्वेनोपयोगक्रमाक्रमयोरौदासीन्यात् । योगपयेनाप्युक्त वचनस्य निर्वाहे दर्शनस्यानन्तरोत्पत्त्यसिद्धेश्च, न च ज्ञानोपयोगसामान्ये दर्शनोपयोगत्वेन 20 हेतुति निर्विकल्पकसमाधिरूपछद्मस्थकालीनदर्शनात्प्रथम केवलज्ञानोत्पत्तिः केवळदर्शने केवलज्ञानत्वेन विशेपहेतुत्वाञ्च द्वितीयक्षणे केवलदर्शनोत्पत्तिस्ततश्च क्रमिकसामग्रीद्वयस- म्पत्या क्रमिकोपयोगद्वयधायनिर्वाह इति वाच्यम् , " ईसणपूव्वं नाणं " इत्यादिना तथा हेतुत्वस्य प्रमाणाभावेन निरसनीयत्वात् , उत्पन्नस्य केवलज्ञानस्य भार्यिकमावत्वेन नाशा- योगाच्च । न च मुक्तिसमये क्षायिकचारित्रनाशवनश्यतीति वाच्यम्, तस्य भायिकत्वेऽपि 25 योगस्थैर्य निमित्तकत्वेन निमित्तनाशनाश्यत्वात् केवलज्ञानस्य चानमित्तिकत्वादुत्पत्ती जप्ती , . १. अनन्ता हि सिदास्तसमुदाय केऽपि ज्ञाने उपयुक्ता केऽपि च दर्शन इति समुदायापेक्षं युगपदुष- योगप्रतिपादनं न तु प्रत्येकापेक्षया प्रत्येकस्य युगपदुमयोपयोगनिपेषादिति भावः । सिद्धो हि बोध स्वभावेन सदावस्थित , अतस्तेन मोपयोगेन भवितव्यमिति द्वयोर्युगपदुपयोगस्मिद्ध इति साद्यपर्यवमिनत्वं तयोरित्याशंकायामाह साद्यपर्यवसितत्वमपीति ॥

- इन्द्रियाणि ] न्यायप्रकाशसमलट्टते चावरणक्षयातिरिक्तानपेक्षणात् , तथैव हि तस्य स्वतन्त्रप्रमाणत्वव्यवस्थितिः । एवं च ज्ञानं व्यक्तवारूपं दर्शनन्त्वव्यक्ततारूपं न च क्षीणावरणेऽर्हति व्यक्तवाव्यतते युज्येते ततस्सामा- म्यविशेषज्ञेयसंस्पर्म्युभयैकस्वभाव एवार्य केवलिप्रत्ययः, न च ग्राह्यद्वित्वाद्वाहकहित्वमिति सम्भावनापि युक्ता, केवलज्ञानस्य ग्राह्यानन्त्येनानन्ततापत्तेः विषयभेदकृतो न ज्ञानभेद इत्यभ्युपगमे तु का प्रत्याशा दर्शनपार्थक्ये, आवरणद्वयक्षयादुभयैकस्वभावस्यैव कार्यस्य स-5 म्भवात् , न चैकस्वभावप्रत्ययस्य शीतोष्णस्पर्शवत्परस्परविमिन्नस्वभावद्वयविरोध इति वाच्यम् , दर्शनस्पर्शनशक्तिद्वयात्मकैकदेवदत्तवत्स्वभावद्वयात्मकैकप्रत्ययस्य केवलिन्यविरोधात्, ज्ञान- स्वदर्शनत्वाभ्यां शानदर्शनयोर्भदोन तु धर्मिभेदेन, अत एव वदावरणभेदेऽपि स्यावाद एवेति ।। एवमिन्द्रियस्वरूपमुपदर्य सम्प्रति तत्संख्यामाह-- तत्रेन्द्रियाणि चक्षुरसनघ्राणत्वकश्रोत्ररूपाणि पञ्च ॥ . तत्रेति । अत्र रूपरसगन्धस्पर्शशब्देतिलौकिकव्यवहारप्रसिद्धक्रमापेक्षया रूपिणः पुदला इति सूत्रमनुसृत्य च चक्षुरादिक्रमोऽवलम्वितोऽनानुपूर्वीक्रमस्यापि शाने प्रसिद्धत्वात् ॥ सम्प्रति चक्षुषो क्षणमाचष्टे- रूपग्राहकमिन्द्रियं चक्षुरमाप्यप्रकाशकारि । रूपं श्वेतरक्तपीतनील- कृष्णरूपेण पञ्चविधम् ॥ रूपग्राहकमिति । अत्र लक्ष्यमिन्द्रियव्यपदेशभाक् निर्वृत्त्युपकरणलब्ध्युपयोगरूपमि- न्द्रियम्, अन्यतमापायेऽपि रूपग्रहणासम्भवात् । रूपविषयकबानसाधनत्वे सर्तीन्द्रिय- त्वं चक्षुषो लक्षणम् । आत्मादिवारणायेन्द्रियत्वोपादानम् । रसनादावतिव्याप्तिनिवृत्तये सत्यन्तम् । अत्रेदम्बोध्यम् एकस्यैव वस्तुनोऽवस्थाभेदेन रूपादिस्वरूपत्वं भवति, तथाहि चक्षुषा यदेव विलोकितं तदेव रसनया रस्यते, घ्राणेन प्रायते स्पर्शनेन स्पृश्यते तदेव 20 चातिकठिनीभूतमभ्यवह्रियमाणं ध्वनिमातनोति न तु क्वचिद्देशे रूपं क्वचिद्देशे रसः क्वचिद्देशे गन्धादयः । तस्मात्तदेव पुदलद्रव्यं चक्षुर्विषयतामापन्नं श्वेताद्याकारेण विषय-, तया परिणतिमुपागच्छद्रूपमिति व्यपदिश्यते, रसनग्रहणविषयवामितं तितादिपरिणाम- भाग रस इति व्यपदेशमन्नुते, एवमितरेन्द्रियप्राप्तानामपि भाव्यम्, दृश्यते ह्येक एव पुरुषः पितृस्वसभावाद्यनेकपुरुषापेक्षया वयावथा व्यपदेश्यतया । तदेवं द्रव्यमिन्द्रिय- 25 नानात्वान्नानाऽऽकाररूपादिभेदमापद्यते, स्वनिमित्चतस्त्वेकाकार, द्रव्यस्वलक्षणविशिष्ट- त्वात् । तदिदचक्षुः प्रकणात्माङ्गुलप्रमितसातिरेकयोजनलक्षावस्थितं प्रकाशनीयरूपं गृहाति, - *16 - : ३३२: तत्त्वन्यायविभाकरे [ द्वितीयकिरदे जघन्यतोऽङ्गुलसंख्येयभागप्रमितदेशवर्ति रूपमिति | ननु चक्षुर्विषयभूतान् पदार्थान् स्पृष्ट्या झान जनयत्यस्पृष्ट्वा वेत्याशङ्कायामाहापाप्यप्रकाशकारीति | विषयदेशं स्वदेशे वा विषय- मप्राप्यासंश्लिष्यैव वस्तु प्रकाशयतीत्यर्थः । ननु सर्वत्रेन्द्रियत्वे तुल्येऽपि नयनातिरिक्तानामि- न्द्रियाणां प्राप्यकारित्वं नयनस्य मनसश्चाप्राप्यकारित्वमिति कुतो विशेष इति चेन्न, उपघाता- 5 नुप्रदर्शनाद्रसनादीनां प्राप्यकारित्वं, दृश्यते हि त्रिकटुकाद्यास्वादने, अशुच्यादिपुद्गलाघ्राणे, कर्कशकम्बलादिस्पर्शने, भेर्यादिशब्दश्रवणे तेषामुपघातः, क्षीरशर्कराद्यास्वादने, कर्पूरपुदला- घाणे, मृदुतूलिकादिस्पर्शने, मृदुमन्दशब्दाद्याकर्णनेऽनुग्रहः । नयनस्य निशितकरपनप्रोसळू ल्लादिवीक्षणेऽपि पाटनाग्रुपघातानवलोकनात् चन्दनागरुकर्पूराद्यवलोकनेऽपि शैखाद्यनुग्रहाननु- भवात् । मनसश्च वह्वयादिचिन्तनेऽपि दाहायुपघातादर्शनात् , जलचन्दनादिचिन्तायामपि पिपा- 10 सोपशमनानुग्रहाऽसम्भवाच्च न प्राप्यकारित्वम् । न च नयनस्याप्राप्यकारित्वेऽनुग्रहोपघाता- भावौ व्यभिचरतः, दृश्यते हि घनपटलविनिमुक्त नैदाघार्यमाणं निरन्तरमवलोकयतश्चक्षुषो विधाता, राकानिशाकरकरनिकुरुम्ब तरङ्गमालामण्डितं जलं हरितं तरुमण्डलं शाद्वलन निरन्तरं निभालयतोऽनुग्रह इति वाच्यम् , सर्वथा विषयकृतानुग्रहोपघातासम्भवस्यानुस्व- त्वात् । किन्त्वेतादेव वदामो यदा विषयं विषयतया चक्षुरवलम्वते तदा तत्कृतावनुग्रहो- 15 पघातौ तस्य न भवत इत्यप्राप्यकारि वत्, शेषकालन्तु प्राप्तेनोपघातकेनानुपाहकेण वोपघातोऽ नुग्रहश्च भविष्यति, दिनकरस्य यंशवः प्रसरणशीला यदा वत्समुखमवलोक्यते तदा ते चक्षुर्देशं प्राप्ताश्चक्षुरुपनन्ति, स्वभावशीतलाशीतकररश्मयोऽपि सम्प्राप्ता एव चक्षुरनु- गृह्णन्ति, तरङ्गमालासङ्घलजलावलोकने च जलबिन्दुसंपृक्तपवनसंस्पर्शनानुग्रहः, हरित- तरुमण्डलशालविलोकने च तच्छायासम्पर्केण शीतलभूतवायुसस्पर्शादेवानुग्रहः, अन्यदा 20 तु जलाधवलोकनेऽनुग्रहाभिमान उपघातामावाद्भवति, नान्यथा । प्राप्यकारित्वे तु समाने सम्पर्के यथा सूर्यमीक्षमाणस्य सूर्येणोपघातो भवति तथा वैश्वानरजलशूलाद्यवलोकने दाह- क्लेदपाटनादयः कस्मान्न भवन्ति, किश्च यदि चक्षुः प्राप्यकारि तदा स्वदेशगतरजोमलाञ्जन- १. विषयपरिच्छेदमात्रकालेऽप्रहोपघातशून्यता हेतु, पश्चात्तु चिरमवलोकयत. प्रतिपत्तु प्रासन रविकिरणादिना चन्द्रमरीचिनीलादिना वा मूर्तिमता निसर्गत एव केनाप्युपघातकेनानुप्राहकेण वा विषयेणोपघा- तानुग्रही मवेतामिति भावः ॥ २. न च नायनरश्मयो क्षेत्रानिर्गल विषय प्राप्य सूर्यबिम्बरमय इव प्रकाशयन्ति, रविविम्बरमय इव च सूक्ष्मत्वान्न वहचादिमिस्तेपा दाहादय इति वाच्यम् , नायनरश्मिपार- कमानाभावात, तथात्वेऽपि तेषामभ्युपगमेऽतिप्रसमात्, न च वस्तुपरिच्छेदान्यथानुपपत्तिरेख तत्र लिमिति वाच्यम्, तानन्तरेणापि तत्परिच्छेदोपपत्ते नहि मनसो समयस्सन्ति, वस्तु च परिच्छिद्यते नच तदनि प्राप्यकार्यवेति वाच्यम्, अप्राप्यकारित्वत्य टीकाकृर्विक्ष्यमाणत्वात् । हत्वन्तरेणापि तम्याप्राप्यारित्वमाह यदि चक्षुरिति ।

. - चक्षुरिन्द्रियम् ] न्यायप्रकाशसमलङ्कृते :३३३: शलाकादिकं कुतो न पश्यति तस्मादप्राप्यकार्येव । ननु यदि चक्षुरप्राप्यकारि भवेत्तर्हि दूरव्यवहितानप्यर्थान् गृहीयात् मनोवत् न च तथा, किन्तु अनावृतमदूरभवमेवार्थ, तस्मि- नेव तस्य सम्बन्धसम्भवात् , अन्यथाऽऽवरणमावादनुपलब्धिरन्यथोपलब्धिरिति न स्यात्, नहि तदावरणमुपघातकरणसमर्थम् , प्राप्यकारित्वे तु मूर्तद्रव्यप्रतिघातात्सम्भवत्यावर- णादिकम् , मैवम्, दृष्टान्तस्य साध्यविकलत्वात् , न खलु मनोऽप्यशेषान् विषयान् गृहाति 5 वस्थापि सूक्ष्मेष्वागमादिगम्येष्वर्थेषु मोहदर्शनात् तस्माद्यथा मनोऽप्राप्यकार्यपि स्वा- वरणक्षयोपशमापेमत्वानियतविषयं तथा चक्षुरपि वावरणक्षयोपशमापेक्षत्वादप्राप्यकार्यपि योग्यदेशावस्थितनियतविपयमिति न व्यवहितोपलम्भप्रसङ्गो नापि दूरदेशस्थितानामिति । दृष्टचैतदप्राप्यकारित्वेऽप्ययस्कान्तस्य स्वभावविशेषादेव योग्यदेशापेक्षणम् । अन्यथा सर्वाण्यत्ययांसि जगद्वर्तीनि तेन आकृष्येरन् न तु प्रतिनियतमेव । न चायस्कान्तोऽपि 10 प्राप्यकारी, छायाणुभिस्समाकृष्यमाणवस्तुसम्बन्धात् छायाणूनां सूक्ष्मत्वादेव नोपलम्भ इति वाच्यम्, तद्बाहकप्रमाणाभावात् । न चाप्रमाणकं प्रतिपत्तुं शक्यमतिप्रसङ्गात् । न च यदाकर्षण तत्संसर्गपूर्वकं, यथाऽयोगोलकस्य सन्देशेन आकर्षणञ्चायसोऽयस्कान्तेन, तत्र साक्षादयसोऽयस्कान्तेन ससर्गस्य प्रत्यक्षबाधितत्वेऽपि सूक्ष्मछायाणुभिनिर्वाह्य इति वाच्यम् हेतोरनैकान्तिकत्वात्, मन्त्रेण हि व्यभिचारः, स स्मर्यमाणो विवक्षितं संसर्गाभावेs 18 प्याकर्षति । तथा छायाणुभिरयांसीव काष्ठादीन्यप्याकृष्येरन् सम्बन्धाविशेषात् । न चास्ति तत्र शक्तिप्रतिनियम इति वाच्यम् , अप्राप्तावपि तेनैव निर्वाहे छायाणुकल्पनाया वैयर्थ्यात् । न च चक्षुः प्राग्यकारि व्यवहितार्थानुपलब्धेरिति प्रमाणं तत्साधकमस्तीति वा- च्यम् , व्यभिचारात्, काचाभ्रपटलस्फटिकैरन्तरितस्याप्युपलब्धेरिति न तस्य प्राप्यकारित्व- मिति ।। सम्प्रति चक्षुर्विषयभूतरूपप्रकारमाह रूपमिति । पञ्चविधमिति । एतद्व्यतिरिक्तहरि- 20 तादिवर्णानां पञ्चविधवर्णेषु यादीनां मेलनेन जायमानत्वान्नाधिकरूपशङ्का, अत एव ते हरिता- दयस्सान्निपातिका इति कथ्यन्ते, एते द्रव्यात्कथचिद्भिन्नाः, कथञ्चित्तादात्म्यमेवानयोस्सम्बन्धो विशिष्टबुद्धिनियामकः, नीलो घटो नीलरूपवान् घट इति प्रतीतेः, नतु समवायः, नीलो घट इत्यत्र नीलपदस्य विनाऽनुपपत्ति लाक्षणिकत्वापत्तेः, समवायस्य प्रमाणबाधितत्वाच्च । तथाहि समवायिभ्यस्स मिन्नोऽभिन्नो वा स्यात् , यद्यभिन्नस्तर्हि न कश्चन समवायोऽस्ति, समवायि- 5 भिरव्यतिरिक्तत्वातत्स्वरूपवत् । यदि भिन्नस्स कथं समवायिषु वर्तते सामस्थेनेकदेशेन वा, यदि सामस्त्येन, वहि प्रतिसमवायि तस्य पर्याप्तत्वेन समवायनानात्वप्रसङ्गः, यद्येकदेशेन , - १. प्रयोगश्च चक्षुर्न विषयपरिणामवत् अप्राप्यकारित्वात् मनोवदिति, अप्राप्यकारित्वे सत्यपि, ना- विशेषेण अधिधु मन प्रवर्तत इति व्यभिचार ज्ञानदर्शनावरणादे प्रतिबन्धकत्ववाह दृष्टान्तस्येति ॥

- तत्वन्यायविमाकरे [द्वितीयकिरणे तर्हि निरंशताऽभ्युपगमव्याघातः, एकावयवावच्छेदेन वृत्तेः । किञ्चैकदेशेनापि समवायस्य केन सम्बन्धेन वृत्तिता, न समवायेनाऽपसिद्धान्तात् । न स्वरूपेण, तस्य प्रतियोग्यनु- योगिमिन्नत्वाभावेन शून्यत्वात् समवायिनोरपि स्वरूपेणैव वृत्तिताप्रसङ्गात्, यदि स्वरूप- सम्बन्धस्य भेदस्तहिं तस्यापि स्वरूपिषु वृत्तिवायां सम्बन्धान्तरप्रसङ्गेनानवस्थापानादिति । यत्किञ्चिदेतत् ॥ अथ रसनेन्द्रियं निरूपयति- रसग्राहकमिन्द्रियं रसनं, प्राप्यकारि । रसश्चामलमधुरतिक्तकषाय- कटुभेदेन पञ्चविधः॥ रसग्राहकमिति । रस्यत आस्वाद्यते इति रसः, तद्विषयकज्ञानसाधनमिन्द्रियं रसन- 10 मित्यर्थः, रसविषयकमतिज्ञानसाधनत्वे सतीन्द्रियत्वन्तु लक्षणम् , कृत्यं पूर्ववदूधम् । नेद- मिन्द्रियं चक्षुर्वदप्राप्यकारि किन्तु जघन्यतोऽकुलासंख्येयभागप्रमितप्रदेशादागतमुत्कर्पण नवयोजनादागतं वा स्वदेशमालिङ्गितमात्मप्रदेशैरात्मीकृतं रसं गृहातीत्याशयेनाह प्राप्य- कारीति । स्वदेशे विषयं स्पृष्टं ततो बद्धं प्राप्य रसनेन्द्रियं ज्ञानमुत्पादयति, श्रोत्रापेक्षयाऽ स्यापटुत्वात् शब्दापेक्षया च रसस्य स्वोकत्वात् बादरत्वाचेति भावः । रसं विभजते रस- श्चेति । अग्निदीपनकृदम्ला, पित्तादिप्रशमनो मधुरः, श्लेष्मादिदोषहन्ता तिक्तः, रक्तदोषा- द्यपहा कषायः, गलामयादिप्रशमनः कटुः । तथा च मिपक्शावं-" अम्लोऽग्निदीप्ति- कृत्स्निग्धश्शोफपित्तकफापहः । छेदनः पाचनो रुच्यो मूढवातानुलोमकः ॥ पित्तं वातं विपं हन्ति धातुवृद्धिकरो गुरुः । जीवनः लेशकद्वालवृद्धक्षीणौजसां हितः ॥ श्लेष्माणमरुचि पित्त तुषं कुष्ठं विषं ज्वरम् । हन्यात्तिक्तो रसो बुद्धेः कर्ता मात्रोपसेवितः ॥ रक्तदोषं कर्फ पित्तं कषायो हन्ति सेवितः । रुक्षशीतो गुणग्राही रोचकश्च स्वरूपतः ।। कटुर्गलामयं शोफं हन्ति युक्त्योपसेवितः । दीपनः पाचको रुच्यो बृंहणोऽतिकफापहः " इति । लवणस्तु मधु- रादिसंसर्गजत्वान्न पृथगुक्त इति ॥ 15 20 । घ्राणं लक्षयति- - - गन्धज्ञानासाधारणकारणमिन्द्रियं घ्राणम्, प्राप्यकारि । गन्धोऽपि 25 सुरमिदुरभिभेदेन द्विविधः ॥ गन्धज्ञानेति । गन्ध्यत आघायत इति गन्धस्तद्विषयकाने यदसाधारणं कारणमि- न्द्रियं तद् घाणमित्यर्थः । संभिन्नस्रोतोलब्धिवारणायासाधारणेति, एवं सर्वत्रे वाच्यम् ।

5 - - 10 धोत्रेन्द्रियम् ] न्यायप्रकाशसमलते नहि सा गन्धज्ञानमात्रेऽसाधारणं कारणं किन्तु एकाधिकविषयकज्ञान एवेति । लक्षणं कृत्यञ्च पूर्ववत् । इदमपि रसनवब्जघन्यतोऽङ्खलासंख्येयभागप्रमितदेशादुत्कर्षेण नवयोजना- बागतं स्वदेशं स्पृष्टं बद्धश्च गन्धं गृहातीत्याशयेनाह प्राप्यकारीति । गन्धं विभजते गन्धोऽ पीति । सौमुख्यकृत्सुरभिमुख्यकहुरमिरिति ।। स्पर्शनं लक्षयति- स्पर्शग्राहकमिन्द्रियं त्वक्, प्राप्यप्रकाशकारिणी। शीतोष्णस्निग्ध- रूक्षमृदुकर्कशगुरुलघुरूपेणाष्टविधस्स्पर्शः ॥ स्पर्शग्राहकमिति । लक्षणं कृत्यमूह्यम् । अस्येन्द्रियस्य निर्वृत्तेने बाह्याभ्यन्तरभेदो वर्तते । त्वगिन्द्रियमपि रसनादिवत्तावप्रमाणादागतं विषयं प्राप्य ज्ञानमुत्पादयतीत्याह प्राप्येति । स्पर्श विभजते शीवेति ॥ अथ श्रोत्रं लक्षयति- शब्दग्राहकमिन्द्रियं श्रोत्रम्, प्राप्यकारि । सचित्ताचित्तमिश्रभेदा- त्रिविधश्शब्दः॥ शब्देवि। वाग्योगप्रयत्लनिसृष्टोऽनन्तानन्तप्रादेशिकपुद्गलस्कन्धप्रतिविशिष्टपरिणामः पुद्गल- द्रव्यसंघातविशेपजन्मा वा गर्जितादिशब्दोऽवसेयस्खद्विपयकज्ञानजनकमिन्द्रियं श्रोत्रमित्यर्थः 15 लक्षणं कृत्यं प्राग्वदूधम् । शब्दद्रव्याणि घाणेन्द्रियादिविषयभूतेभ्यो द्रव्येभ्यस्सूक्ष्माणि, बहूनि तथा वक्षेत्रमाविशब्दयोग्यद्रव्यवासकानि च वतस्सूक्ष्मत्वादतिप्रभूतत्वात्तदाऽन्यद्रव्यवासक- त्वाच आत्मप्रदेशस्पृष्ठमात्राण्यपि निवृत्तीन्द्रियमध्ये प्रविश्य अटित्युपकरणेन्द्रियमभिव्य- अयन्ति । श्रोत्रेन्द्रियश्च घ्राणेन्द्रियाद्यपेक्षया स्वविषयपरिच्छेदे पटुतरं, ततस्पृष्टमात्राण्यपि तानि श्रोनेन्द्रियमुपलभन्ते नास्पृष्टानि श्रोत्रेन्द्रियस्य प्राप्तविपयपरिच्छेदस्वभावत्वादित्या- शयेनाह प्राप्यकारीति, स्पृष्टाग्राहीत्यर्थे । जघन्येनाङ्खलासख्येयभागादागतं प्रकर्षेण द्वादशयो- जनादागतं स्पृष्ट शब्दं गृहाति, नातः परत आगतं तस्य स्वमावतो मन्दपरिणामत्वात् , - 20 १. ननु घ्राणस्य प्राप्यकारित्वं न युज्यते, स्वदेशादिनदेशस्यस्यापि स्वविषयस्यैव गृहतोऽनुभवसिद्ध- त्वात् । कर्पूरकुकुमकुसुमादीना दूरस्थानामपि गन्यस्यानुमवादिति चेन्न, अन्यत मागस्य गन्धेन घ्राणेन्द्रियस्य स्पर्शनात् वायुना हि प्रेरितस्सक्रिय पुलमयो गन्धो घ्राणेन्द्रियं स्पृशति, अन्यथा घाणेन्द्रियस्य सत्कृतानु- ग्रहोपघातौ न स्याताम्, दृश्यते च कर्पूरादिगन्धप्रवेशे इन्द्रियानुग्रह , अशुच्यादिगन्धप्रवेशे पुतिरोगाशों- व्याधिरूपो प्राणस्योपघात इति, एवं श्रोत्रेऽपि भाव्यम् ॥ .

तत्वन्यायविभाकरे [ द्वितीयकिरणे श्रोत्रेन्द्रियस्यापि तथाविधमद्भुततरं बलं न विद्यते। येन परतोऽप्यागतान् शब्दान् शृणुया- विति भावः न श्रोत्रस्य प्राप्तार्थप्राहित्वं न युज्यते, स्वदेशादिनदेशस्थस्यापि शब्दस्य ग्रहणा- नुभवात् , नहि कश्चिच्छन्दः श्रोत्रेन्द्रिये प्रविशन्नुपलभ्यते, नवा श्रोत्रेन्द्रियं शब्ददेशे गच्छन् , स- मीक्ष्यते, दूरे एष कस्यापि शब्दः श्रूयते इति जनोक्तिरपि श्रूयते इति चेन्मैवम् , श्रोत्रं हिशनः 5 प्राप्नोति न तु शब्दं श्रोत्रमबाह्यकरणत्वादात्मनः। ते च शब्दा गत्यादिक्रियावन्तः पुगलमया, वायुनोह्यमानत्वात्ते क्रियावन्तो धूम इव, विशेपेण द्वारानुविधानात्तोयवत् , पर्वतनितम्बादिषु प्रतिघाताद्वायुवदिति, श्रोत्रमप्यागतं शब्दं गृहाति, उपघातानुग्रहोपलब्धेः, भेर्यादिमहाशब्द- प्रवेशे हि श्रोत्रस्य बाधिर्यरूप उपघातो दृश्यते, कोमलशब्दप्रवेशेत्वनुग्रहः, श्रोत्रेण सन्निकृष्ट- स्यापि अब्दस्य ग्रहणे तत्र दूरादिव्यवहारस्य दूरादिदेशादागतत्वेनोपपद्यमानत्वं, दृश्यते 10 हि गन्धस्य नाणेन्द्रियेण सन्निकृष्टस्यापि ग्रहणे दूरादिदेशादागतत्वेन दूरे बकुलपरिमल इत्यादिव्यवहारः । अव्यवहितदेशोत्पन्ने शब्दे देशश्चाक्षुषप्रत्यक्षेण लक्ष्यते व्यवहितदेशस- मुद्भवे च तस्मिन् देशप्रतिपत्तिरानुमानिकीति । अत्रेदम्बोध्यं सर्वस्तोकप्रदेशावृगाढं चक्षु- रिन्द्रियम् ततः श्रोत्रेन्द्रियमवगाहनार्थतया संख्येयगुणं अतिप्रभूतेषु प्रदेशेषु वस्यावगाहन- भावात् । ततोऽपि नाणेन्द्रियमवगाहनार्थतया संख्येयगुणमतिप्रभूतेषु प्रदेशेषु तस्यावगाह- 15 नोपपत्तेः । ततोऽपि रसनेन्द्रियं संख्येयगुणं ततोऽपि स्पर्शनेन्द्रियमवगाहनार्थतयाऽसंख्येय- गुणम् । एवमेव प्रदेशार्थतयापि । सर्वाणीन्द्रियाणि च वर्तमानार्थग्राहीणीति ।। अथ शब्द- भेदानाह सचित्तेति, जीवेन मुखद्वारा भापमाणो यश्शब्दस्स सचित्तः, परस्परं पाषाणद्वय- परिस्फालनप्रभवोऽचित्तः, आत्मप्रयत्नतो वाद्यमानेषु वादित्रादिषु समुन्मिषन शब्दो मिश्रः ॥ अथ मनो लक्ष्यति- मतिश्रुतविषयीभूतार्थज्ञानसाधनमनिन्द्रियं मनः, अमाप्यप्रकाश- । 1 20 कारि ॥ मतीति । मतेश्रुतस्य वा विषयीभूतोऽर्थस्तद्विपयकज्ञानसाधनत्वे सत्यनिन्द्रियत्वं मनसो लक्षणमित्यर्थः। मतिश्रुतान्यतरचानसाधनत्वे सत्यनिन्द्रियत्वमिति यावत् । औदारि- कादित्वार्थपरिच्छेदकत्वलक्षणधर्मद्वयोपेतमिन्द्रियं भवति, ईपदूनमिन्द्रियमनिन्द्रियं मनस्तत्त्वं ॐ तस्यौदारिकादित्वधर्मलक्षणदेशनिषेधात् अर्थपरिछेदकत्वलक्षणेन्द्रियसादृश्याच । अर्थावग्रहात १. ननु शब्दपरमाणव उत्पत्तिदेशादारभ्य सर्वतो जलतरगन्यायेन प्रमरममिगृहाना श्रोत्रेन्द्रियदेश प्राप्नुवन्ति प्राप्ता तान् श्रोत्रेन्द्रियं गृहाति नाप्राप्तानिति यद्युच्यते तहि शब्द दूरासन्नादिमेदप्रतीतिर्न स्यान् प्राप्तो हि विषय परिच्छिद्यमानस्सर्वोऽपि सनिहित एव, प्रतीयते च दूरे शब्दोऽन्तिके शब्द इति तत्र पूरा- सन्मादिभेद इत्याशङ्कायामाह थोत्रेण सनिकृष्टस्यापीति ।

मनोनिरूपणम् । न्यायप्रकाशसमलते परतो मतिज्ञानमेव श्रुतज्ञानं भवति तच्च न सर्वेपामिन्द्रियाणामर्थावग्रहात् परतः, किन्तु मनोऽ- र्थावग्रहात् परतो मविः श्रुतीभवतीति श्रुतस्य मनोविषयत्वं वोध्यम् । शब्दादिष्विन्द्रियव्या- पारानन्तरं मनो व्याप्रियते त्रिकालविषयश्च । ननु मे मनोऽमुत्र गतमित्याद्यनुभवेन मनो देहानिर्गय जाप्रति स्वप्ने वा ज्ञेयेन सम्बध्य ज्ञानमुत्सादयत्यत इदं किं प्राप्यकारीत्यत्राहा- प्राप्यप्रकाशकारीति । ज्ञेयेन सह न संश्लिष्यति मनो विषयकृतानुग्रहोपघाताभावाचक्षुर्वदिति, 5 ज्ञेयसंपर्केऽभ्युपगम्यमाने तोयचन्दनादिचिन्तनकाले शैत्यानुभवनेन स्पर्शनवदनुगृह्येत, विष- शादिचिन्तनसमये च तद्वदेवोपहन्येत न चैवं, तस्मादप्राप्यकारि मन इति, तथा तस्य वहिनिस्सरणमपि नोपपद्यते भावमनसश्चिन्ताज्ञानपरिणामरूपतया जीवादव्यतिरिक्तत्वेन देहमात्रैव्यापित्वात् । नहि ये देहमात्रव्यापिनस्तेषां वहिनिस्सरणं युज्यते तद्गतरूपादिवत् । द्रव्यमनसश्च घटादिवदचेतनत्वेन गत्वापि विषयदेशमकिश्चित्कारित्वात् । न च तस्य स्वय- 10 मचेतनत्वेऽपि प्रदीपवत् करणत्वात् विषयदेशं प्राप्याऽऽत्मनो ज्ञानं जनयतीति वाच्यम्, द्रव्यमनसोऽन्तःकरणत्वात् , तथा च प्रयोगो यदन्तःकरणं तेन शरीरस्थेनैव जीवो विषयं गृहाति यथा स्पर्शनेन, अन्तःकरणञ्च द्रव्य मन इति, प्रदीपादिकन्तु बाह्यकरणमात्मन इति साधनविकलो दृष्टान्तः । न च मृतनष्टादिकं वस्तु चिन्तयतो मनस उपधातो ज्ञायते, इष्टसंगमविभवलाभादिकल्ब चिन्तयतोऽनुग्रह इति वाच्यम् , असि, मनस्त्वपरिणतानिष्ट- 15 पुद्गलनिचयरूपं द्रव्यमनोऽनिष्टचिन्ताप्रवनेन जीवस्य देहदौर्बल्याद्यापत्त्या हनिरुद्धवायुव- दुपघातं जनयति, तदेव च शुभपुदलपिण्डरूपं तस्यानुकूलचिन्ताजनकत्वेन हर्पाद्यमिनि- वृत्त्या भेपजवदनुग्रह विधत्ते, अतो जीवस्यैवतौ अनुग्रहोपघातौ द्रव्यमनः करोति, नतु मन्य- मानमेदिक ज्ञेयं मनसः किमप्युपकल्पयतीति । न च चिन्तैव कार्याधुपघातादिजनिका न द्रव्यमन इति वाच्यम्, तस्या अपि द्रव्यमनोजन्यत्वात् अन्यथा चिन्ताया ज्ञान- 20 रूपत्वेनामूर्त्ततया गगनादिवदुपघातायहेतुत्वापत्तेः । तस्मात्प्राप्यकारीदं न भवतीति भावः ॥ अस्यापि विभागं दर्शयति- इदमपि द्रव्यभावभेदेन द्विविधम् । मनस्त्वेन परिणतमात्मप्रदेश- व्यापि पौगलिक द्रव्यमनः । तदावरणक्षयोपशमजन्योऽर्थग्रहणोन्मुख आत्मव्यापारविशेषो भावमनः ।। 25 १. तथा चात्र प्रयोग. भावमन जीवरूप न देहावहिनिस्सरति देहमात्रन्यापित्वात् ये देहमात्रवृत्तियो न तेपा बहिनिस्सरणमुपपद्यते यवा तदतरूपादीना, देहमानब्यापि च जीवरुप भावमन इनि ॥

:३३८: 10 तत्त्वन्यायविभाकरे [वितीयकिसे इदमपीति, चक्षुरादिषन्मनोऽपीत्यर्थः । द्रव्यमनसः स्वरूपमाह मनस्त्वेनेति, मन नयोग्यैर्मनोवर्गणाभ्यो गृहीतैरनन्तैः पुगलैनिवृत्तमित्यर्थः । आत्मप्रदेशव्यापीति, स्वस्वका- यपरिमितमित्यर्थः, न त्वणुरूपं युगपज्ज्ञानानां युगपदुपयोगाभावादेवानुत्पचेरिति भावः। आहवारिकत्वनित्यत्ववारणायाह पौगलिकमिति पुदलसमूहात्मकमित्ययः । भावमन आइ 5 तदावरणेति मनोजन्यज्ञानावरणेत्यर्थः । अर्थग्रहणोन्मुख इति, तत्तदर्थपरिच्छेदोन्मुख इत्यर्थः, आत्मव्यापारविशेष इति, चित्तचेतनायोगाध्यवसानस्वान्तमनस्कारादिशब्दवाच्य आत्मनः परिणामविशेष इत्यर्थ इदमपि ज्ञानरूपं भावमनस्वदेहपरिमाणमेव ॥ एवं सांव्यवहारिकप्रत्यक्षलक्षणं सविस्तर विचार्य सम्प्रति तद्विमजते- सांव्यवहारिकश्चावग्रहहापायधारणाभेदेन चतुर्विधम् ॥ सांव्यवहारिकश्चेति । तत्तदिन्द्रियनिमित्तं चतुर्विधं यथा चक्षुरवग्रहश्चक्षुरीहा चक्षुरपायश्चक्षुर्धारणा, रसनावग्रहो रसनेहा रसनापायो रसनाधारणेत्येवं सर्वेन्द्रियमादाय मनोऽप्यादाय चातुर्विध्य सांव्यवहारिकप्रत्यक्षस्य भाव्यम् ॥ अथावग्रहलक्षणमाख्याति- विषयेन्द्रियमनोऽभिसम्बन्धजन्यदर्शनजनितं सत्तावान्तरसामान्य- 1B वस्तुविषयकं ज्ञानमवग्रहः । यथाऽयं मनुष्य इत्यादि । विषयेन्द्रियेति । द्रव्यपर्यायस्वरूपोऽर्थों विषयः, इन्द्रियं चक्षुरादि मनः प्रसिद्ध, तेषाममितः पूर्णतया भ्रान्ताद्यनिमित्तकत्वेन यस्सम्बन्धो योग्यस्थानावस्थिविरूपस्तेन जन्यं यदर्शनं सन्मानविषयकनिर्विशेषकवोधस्तेन जनितं यत्सत्तावान्तरसामान्यध- द्वस्तुविषयकं ज्ञानं सत्त्वव्याप्यमनुष्यत्वादिप्रकारकेदत्वाद्यवच्छिन्नविशेष्यकज्ञानं तद्- 20 वग्रहपदवाच्यमित्यर्थः । निदर्शनमाह यथेति । अनावग्रहो यद्यपि व्यञ्जनार्थाव- ग्रहभेदेन द्विविधः, तत्रान्वनिवृत्तीन्द्रियाणां शब्दादिविषयपरिच्छेदहेतुशक्तिविशेष उपकर- जेन्द्रियरूपः, शब्दादिरूपेण परिणतद्व्यसमूहः, उपकरणेन्द्रियपरिणतशब्दादिद्रव्ययोरस- म्बन्धश्च व्यजकत्वाद्व्यज्यमानत्वाधोपलक्षणेन त्रितयमपि व्यञ्जनमुच्यते । व्यक्ष- - १. इन्द्रियमनोनिमित्तकमतिज्ञानस्य श्रुतनिश्रिताश्रुतनिश्रितमेदभिन्नस्य भेदा इमे, यद्यपि धुतनिधि- तस्यावग्रहादयश्चतुर्विधा, अभ्रतनिश्रितस्यौत्पत्तिक्याइयो भेदा भवन्ति तथापि औत्पत्तिक्यादिष्वप्ययग्रहादयो विद्यन्त एव । परन्तु श्रुतनिश्रितापग्रहादयो व्यवहारकाले श्रुतानपेक्षया प्रवर्तन्ते पूर्व श्रुतपरिकर्मितमतिर्मवेद औत्पत्तिक्यादिषु लोहाघमिलाप. श्रुतानुसरणमन्तरेण भवति तथाविधकर्मक्षयोपशमादिति योध्यम् ॥

- . 10 आलोचनम् ] न्यायप्रकाशसमलट्टते नेन सम्बधेनावग्रहणं व्यज्यमानस्य शब्दादिरूपार्थस्याव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः अथवा व्यञ्जनानां शब्दादिरूपवया परिणतद्व्याणामुपकरणेन्द्रियसम्प्राप्तानामवग्रहोऽ व्यकपरिच्छेदो व्यञ्जनाऽवग्रहः, व्यञ्जनेनोपकरणेन्द्रियेण स्वसम्बद्धस्यार्थस्य शब्दा- देरवग्रहणमव्यक्तपरिच्छेदो व्यञ्जनावग्रह इति, अयश्च सम्बन्धानन्तरं प्रथमसमयादारभ्यार्थी- वग्रहात्प्राक् सुप्तमत्तमूर्च्छितादिपुरुषाणामिव शब्दादिद्रव्यसम्बन्धमात्रविषयोऽव्यक्तो ज्ञान । रूपोऽन्तर्मुहूर्तप्रमाणः । अव्यक्तत्वादेव च न संवेद्यते संवेदनाभावात्तस्याभावाङ्गीकारे तु द्वितीयादिसमयेऽपि तस्याभावप्रसस्या चरमसमयेऽर्थावग्रहो न स्यादेव, अर्थावग्रहस्तु स्वरूपनामजातिक्रियागुणद्रव्यकल्पनारहिवस्सामान्यार्थग्रहणरूपः, तथा चोक्तदृष्टान्तेऽमनुष्य- व्यावृत्तिरूपविशेषप्रतिभासनेऽपि नैश्चयिकव्यावहारिकरूपेणावग्रहस्य द्वैविध्यादन्न व्यावहारि- कावग्रहो निदर्शितस्तदुत्तरमपीहादीनां प्रवृत्तेः । अन्यथा तेषां प्रवृत्तिर्न स्यादेवेति भावः ॥ नैश्चयिकावग्रहं विशेषमात्रानवगाहित्वेन दर्शनापरपर्याय स्वरूपयति- सत्तामात्रावगाहिज्ञानं दर्शनमालोचनम् । यथेदं किञ्चिदिति ॥ सत्तामात्रेति | मात्रपदेन नामजात्यादिव्युदासो दर्शनस्य नामान्तरमाहालोचनमिति । एतस्य दृष्टान्तमाह यथेति । इतीति, एतादृशशब्दप्रयोगामिव्यङ्गषशब्दप्रयोगरहितो ज्ञान- विशेष इत्यर्थः । अन्यथा शब्दोल्लेखित्व आन्तमौर्तिकत्वापत्त्याऽर्थावग्रहस्यैकसामयिकत्व- 15 सिद्धान्तब्याकोपरस्यादिति भावः । इदचोदाहरणं नैश्चयिकाव्यकाव्यावृत्तवस्तुसामान्य- प्राहि । तत ईहिते सति मनुष्योऽयमिति निश्चयात्मकोऽपायो भवति । ततोऽपि मनुष्योऽयं पाश्चात्यः पौरस्त्यो वेति संशयोत्तरं पाश्चात्येन भवितव्यमितीहोदयाचदपेक्षया मनुष्योऽय- मिति ज्ञानस्य व्यावहारिकावग्रहत्वं, एवमेव यावत्तारतम्येनोत्तरोत्तरविशेषाकाड्डा समुदेति तावत्तत्तदपेक्षया पूर्वपूर्वस्य सामान्यविषयकतयाऽवग्रहरूपता, पूर्वपूर्वापेक्षया चोत्तरोत्तर- 20 निश्चयानां विशेषविषयकत्वेनापायरूपताऽवसेयेति ॥ .. ननु विपयेन्द्रियमनोऽमिसम्बन्धेत्यादिना यदवग्रहस्य लक्षणमुक्तं तचक्षुर्मनसोप्राप्य- कारित्वेन तन्जन्यावग्रहेऽव्याप्त सम्बन्धाभावादित्याशङ्कायामाह- . १. यस्य शानस्यान्ते तज्ज्ञेयवस्तूपादानात्तत एव ज्ञानमुपजायते तज्ञान दृष्टं, यथाऽविग्रहपर्यन्ते तज्ज्ञेयवस्तूपादानात् ईहासद्भावादर्थावग्रहो जानम् , ज्ञायते च व्यजनावग्रहस्य पर्यन्ते तज्ज्ञेयवस्तूपादाना- तत एवार्थावप्रहज्ञान तस्माशजनावग्रहो ज्ञानमिति, अव्यचत्वञ्च तस्यैकतेजोऽवयवप्रकाशवत् स्वसवेदनेनाप्यन व्यज्यमानत्वादिति भाव ॥

तत्त्वन्यायविभाकरे [द्वितीयकिरणे : : योग्यतैवात्र विषयेण चक्षुर्मनसोस्सम्बन्धः । सा चानतिदूरासन्नव्य- वहितदेशायवस्थानरूपा । इतरेन्द्रियेषु संश्लेषः ॥ 'योग्यनैवेति । अत्रास्मिन् लक्षणे विषयेण रूपादिना चक्षुमनसोसम्बन्धो योग्यतेव इत्यन्वयः । एवपदेन संश्शेषस्य व्यवच्छेदः । तेन तयोपियेण संश्लेपलक्षणसम्बन्धामावेऽ 5 मिन क्षतिः, अभ्युपगन्तव्या परैरपि योग्यता, इतरथा स्फटिकान्तरितस्येव कलुपितजला- न्तरितस्यापि मावस्योपलम्भप्रसङ्गस्यात् जलेन विश्वस्त्र लोचनतेज इति न साम्प्रतम्, स्वच्छजलान्तरितस्याप्यग्रहणप्रसङ्गात् । का सा योग्यतेत्यत्राह सा चेति, निरुक्तप्रमाणादति- दूरवर्तिनोऽत्यासन्नस्य कुड्यादिव्यवहितस्य च भावस्याग्रहणादनतिदूरासनव्यवहितदेशाइव- स्थानरूपा योग्यतेत्यर्थः । केषाबिदतिशयज्ञानभृतामस्मदाद्यगोचरविप्रकृष्टस्वविषयस्य स्व. 10 च्छस्फटिकजलादिव्यवहितस्य च चक्षुषा परिच्छेदादीदृशी योग्यता न सार्वत्रिकीत्यत आदिपदमुपात्तं तेन तारशतदावरणक्षयोपशमविशेष एव योग्यतेति भावः । श्रोत्रादिस्थले तु वत्तदावरणक्षयोपशमविशिष्टसंश्लेषोऽपीत्याहेतरेन्द्रियेष्विति, अन्यथा स्पृष्टत्वबद्धत्वासम- वेन तत्चविषयग्रहणं न स्यादेवेति भावः ।। अहाँ लक्षयति- अवगृहीतधर्मिण्यवगृहीतसामान्यावान्तरविशेषस्य पालोचनमीहा। इयश्चावगृहीतसामान्यधर्मावान्तरधर्मविषयसंशयाज्जायते । यथाऽयं म- नुष्या पौरस्त्यो वा पाश्चात्यो वेति संशयालक्षणविशेषेण पौरस्त्येनानेन भवितव्यमिति ॥ : अवगृहीतेति । अवगृहीतधर्मावच्छिन्नविशेष्यतानिरूपिततादृशधर्मावान्तरधर्मनिष्ठविल- 20 क्षणप्रकारवानिरूपकज्ञानत्वमीहाया लक्षणम् । विलक्षणप्रकारताच पौरस्त्येनानेन मविवन्य- मित्याकारकप्रतीतिसिद्धा बोध्या, उत्प्रेक्षात्मकज्ञानीयप्रकारतेति यावत् । अवमहादुत्तर- कालमपायात्पूर्वकालं सद्भूतार्थविशेषोपादानाभिमुखा असद्भूतार्थविशेषपरित्यागामिमुखाः प्रायः पौरस्त्यधर्मा दृश्यन्ते नतु पाश्चात्यावतोऽनेन पौरस्त्येन भवितव्यमित्येवं ज्ञान, अब एवास्यायं पाश्चात्यो वा पौरस्त्यो वेति सर्वात्मना सुप्तमिव स्थितासशया दः, तस्य व्यति- - - 15 . १. उत्प्रेक्षा च " अरण्यमेतत्सविताऽस्तमागतो न चाधुना संभवतीह मानव । प्रायस्तदेतेन समादि- भाजा भाज्यं मृटानीपतितुल्यनाम्ना ।" इत्यादिरूप ज्ञानम् ॥ २ उपलक्षणमिद संशयस्य वस्त्वप्रतिपत्ति- रूपत्वेनाज्ञानात्मकत्वान्मतिभेदत्वेनहाया वस्तुतो ज्ञानस्वभावत्वात् , ज्ञानामानयोश्च परस्परपरिहारेण रत्तेना ज्ञानरूपसंशयस्य जानाशात्मकहाल्पत्वमिति बोध्यम् ॥

अपायनिरपणम् ] न्यायप्रकाशसमलते :३४१: रेकधर्मनिराकरणप्रवणत्वे सत्यन्वयधर्मघटनप्रवृत्तिरहितत्वात् किन्तु संशय ईहायां कारणं भवति व्यतिरेकधर्मान्वयधर्मोपस्थापकतयेत्याशयेनाहेयश्चेति, ईहा चेत्यर्थः । संशयो- तरकालं विशेषोपलिप्सायां प्रवचनरूपेहा भवति, तत ईहा संशयमिन्नेति भावः। ईहाया दृष्टान्तमाह यथेति । नैश्चयिकाव्यक्तवस्तुमात्रग्रहणात्मकार्थावग्रहोत्तरं किमिदं वस्तु मया गृहीतं शब्दोऽशब्दो वेति सशय्य शब्देनानेन भवितव्य इत्येवं भवितव्यताप्रत्ययाभिमुखी 5 ईहापि भाव्या ॥ अपायं निरूपयति- ईहाविषयविशेषधर्मवत्तानिर्णयोपायः । यथाज्यं पाश्चात्य एवेति । अयमेव प्रत्यक्षप्रमाणमुच्यते, नत्ववग्रहेहे तयोरनिर्णयरूपत्वात् ॥ ईहेति । ईहाविषयीभूतपाश्चात्यत्वादेर्धर्मस्य निर्णयो याथात्म्येन निश्चयः पाश्चात्य 10 एवायमिति सोऽपाय इत्यर्थः । दृष्टान्तमाह यथेति पाश्चात्य एवेति, एव शब्देन पौर- स्त्यत्वादिधर्मनिपेधः, अन्यतरवचने अन्यतरनिषेधस्य सामर्थ्यलब्धत्वात् । यदा तु नायं पौरस्त्य इति करोत्यपायं तदापि सामर्थ्यात्पाश्चात्य एवेति लभ्यते तदीयविशेषलिङ्गात् । नैश्चयिकापायस्तु शब्द एवायमित्येवंरूपः । ननु स्वस्वविषये सम्यगर्थनिर्णयात्मकत्वा- दवाहेहयोरपायात्सर्वथामिन्नत्वाभावाच प्रमाणात्मकत्वेऽपि उत्तरोत्तरापेक्षयाऽवग्रहस्य सामा- 15 न्यमानविषयकत्वेन पर्यालोचनारूपत्वाचेहाया हेयोपादेयवस्तुतिरस्कारस्वीकारयोस्पष्टतया सामर्थ्यविरहाचाशस्य निश्चयात्मकस्यापायस्यैव वादृशं प्रमाणत्वमित्याशयेनाहायमेवेति अपाय एवेत्यर्थः । एवशब्दव्यवच्छेद्यमाह नरिवति, प्रमाणमुच्यत इत्यनेन सम्बन्धा, नात्र प्रमाणस्य सर्वथा निषेधो भाव्यः । अन्यथाऽपायस्यावग्रहादिपर्यायत्वेन तस्यापि प्रमाणत्वमनुपपन्न स्यादव एव चावग्रहहयोः सांव्यवहारिकप्रत्यक्षप्रमाणभेदत्वं किन्तु 20 अवहेहे व्यापारांशौ, जिज्ञासानिवृत्त्यनन्तरकालीनापायस्तु फलांश इत्यस्य हेयहानोपा- देयोपादानक्षमत्वादित्यभिप्रायेणैवास्य प्रमाणत्वमुक्तमिति ध्येयम् ॥ असद्भूतार्थविशेष- व्यतिरेकावधारणमेव नापायः, क्वचित्तदन्यव्यतिरेकपरामर्शात् यथा नेह शिरःकण्डू- यनादयः पुरुपधर्मा दृश्यन्तेऽतस्स्थाणुरेवायमिति, क्वचिदन्वयधर्मसमनुगमात्, यथास्था- गुरेवायं वल्ल्युत्सर्पणपक्षिनिलयनादिधर्माणामिहान्वयादिति, कचिचोमाभ्यामपि, यथा पुरु- 25 . . १ नत्र विद्यमानस्याण्वादिभिमपुरुषवृत्तिशिर कण्ड्यनादिवर्मविशेषाणा पुरोवत्तिनि प्रतिषेधमात्रमेवापायो न तु सद्भूतार्थविशेपावधारणरुपोऽपि, तस्य धारणारपत्वादिति पूर्वपक्षस्य भाव ॥

:३४२: तत्त्वन्यायविभाकरे [ द्वितीयकिरणे षधर्माः शिरकण्डूयनादयो न दृश्यन्ते, स्थाणुधर्माश्च वल्ल्युत्सर्पणादयो दृश्यन्तेऽ तस्स्थाणुरेवायमिति भवतोऽपायस्य निश्चयकरूपेणं भेदाभावात् ॥ 5 अथ धारणां निरूपयति- स्मरणोत्पत्त्यनुकूलोपायो धारणा। इयश्च संख्येयासंख्येयकालवनि- नी ज्ञानरूपा संस्कारशब्दवाच्या च । अवग्रहादयस्त्वान्तमौहूर्तिकाः ॥ स्मरणेति । स्मरणमतीतपदार्थचिन्तनरूपा स्मृतिः, तदुत्पत्त्यनुकूलस्तस्याः परिणामि- कारणं संस्कारवासनापरपर्यायो ज्ञानात्मा अपाय एव धारणेत्यर्थः । नहि संस्कारादयोऽ- ज्ञानरूपात, ज्ञानात्मकस्मृतिजनकत्वानुपपत्तेः, आत्मधर्मत्वासम्भवाञ्च, चेतनधर्मस्याचेतन- 10 खाभावात् । यद्यपि धारणाऽविच्युतिवासनास्मृतिभेदेन त्रिविधा, अपायनिश्चितार्थविषय- कोपयोगसातत्समविच्युतिः । अपायानन्तरमर्थोपयोगस्यावरणभूतकर्मणः पुनः प्राप्तस्य काला- न्तरे क्षयोपशमेन युक्तो जीवो यदा पुनरप्यर्थोपयोगं स्मृतिरूपं प्राप्नोति सा चेयं तदा वरणक्षयोपशमरूपाऽथवा तद्विज्ञानजननशक्तिरूपा वासना प्रोच्यते, कालान्तरे वासना- वशादिन्द्रियैरुपलब्धस्य तैरनुपलब्धस्य वा मनसि या स्मृतिराविर्भवति स तृतीयभेदा, एवं स्मृतिहेतोरेव धारणात्ववर्णनमनुचितं तथाप्यविच्युतिरपाय एवान्तर्भूता, दीर्घदीर्घ- 15 तरादिरूपापायस्यैवाविच्युतिरूपत्वात् तस्या अपि स्मृतिहेतुत्वात् स्मरणोत्पत्त्यनुकूलत्वे सत्य- पायत्वेन धारणयैव संस्कारवत् सङ्गृहीतत्वाद्वा न दोषः । न ह्यविच्युत्पनात्मकादपाया- स्मरणं भवितुमर्हति, गच्छत्तॄणस्पर्शप्रायाणामपायानां परिशीलनविकलानां स्मृतिजनकत्वा- दर्शनात् । स्मृतिरपि धारणैव परन्तु तस्याः परोक्षप्रमाणभेदत्वादिह न सहीवा । ननु अविच्युतिस्मृतिरूपौ ज्ञानविशेषौ गृहीतग्राहित्वान्न प्रमाणभूतौ, वासना तु किमात्मिका, न 20 तावत्स्मृतिज्ञानावरणक्षयोपशमस्तज्ज्ञानजननशक्तिविशेषो वा सा, ज्ञानरूपत्वाभावान्जान- भेदानामेवेह विचार्यमाणत्वात् । संख्येयमसंख्येयं वा कालं वासनाया इष्टत्वेन तत्तद्वस्तु १. व्यतिरेकादन्वयादुभयस्माद्वा भूतार्थविशेषावधारणं कुर्वतो योऽध्यवसायस सर्वोऽप्यपाय , नतु सद्भताई. विशेषावधारणं धारणा, तथाऽभ्युपगम्यमाने आमिनियोधिकज्ञानस्य पञ्चभेदत्वापत्ते, व्यतिरेकस्यापायत्वेनान्वयस्य धारणात्वेनावग्रहहापायधारणायाश्चतुर्विधत्वात् स्मृतेश्च पञ्चभेदत्वात् अविच्युतेरपाये वासनायास्स्मृतावन्तर्गत- त्वात् । अस्मन्मते तु न तथा व्यतिरेकस्यान्वयस्यापि अपायत्वेन स्मृतेर्धारणान्तर्गतत्वादिति ॥ २, अपायस हि वस्तुनिश्चय फलं तच्च प्रथमप्रवृत्तापायेनैव निष्पन्नमिति द्वितीयाद्यपायस्य निष्फलवं, निप्पलं फलं प्रति पुनर्निष्पादकत्वाभ्युपगमे निष्पन्नस्यापि घटस्य पुनर्निप्पादनाय कुलालप्रवृत्ति स्यात् स्मृतिरपि पूर्वोत्तरकाल- भाविज्ञानद्वयगृहीत एव वस्तुनि प्रवर्तते इति सापि गृहीतस्यैव प्राहिका, पूर्वोत्तररूपकालभेदेन च वस्तुनो भेदायकत्वासिद्धया स्मृते. तस्याप्यप्राहकत्वेनाविच्युतिस्मृत्योर्न प्रमाणत्वमिति भावः ॥

मतान्तरम् ] न्यायप्रकाशसमलते :३४३ : विकल्परूपापि सा न संभवत्येतावन्तं कालं तद्वस्तु विकल्पायोगादियाशंकायामाहेयश्चेति वासनालिका धारणा चेत्यर्थः । संख्येयवर्षायुषां संख्येयकालवर्तिनी, असंख्येयवर्षा- युषामसंख्येयकालवर्तिनीत्यर्थः ज्ञानरूपेति, तथा चैषा वासना स्मृतिविज्ञानावरण- क्षयोपशमरूपा स्मृतिविज्ञानजननशक्तिविशेषरूपा वेष्यते, सा यद्यपि स्वयं ज्ञानरूपा न भवति तथापि पूर्वप्रवृत्ताविच्युतिरूपज्ञानकार्यत्वादुत्तरकालमाविस्मृतिरूपज्ञानकारणत्वाचो- 5 पचारतो ज्ञानरूपताभ्युपगम्यत इति भावः । यच्चोक्तमविच्युतिस्मरणयोगेंहीतग्राहित्वमिति तदपि स्पष्टस्पष्टतरस्पष्टतमरूपविमिन्नधर्मकवासनाजनकत्वेनाविच्युतेः पूर्वोत्तरदर्शन- वयानविगतवस्त्वेकत्वमाहित्वाच स्मृतेर्विशेषग्राहित्वेन प्रमाणत्वमक्षतमेवेति । अथ प्रसङ्गतो- ऽवग्रहादीनां कालमानमुच्यतेऽवग्रहादयस्त्विति । आदिना ईहापायाविच्युतिस्मृतीनां ग्रहण- मवग्रहपदेन व्यावहारिकावग्रहस्य ग्रहणम् । व्यञ्जनावग्रहस्य कालो जघन्यत आवलिकाया 10 असंख्येयभागः प्रकर्षेण संख्येयावलिका आनपानपृथक्त्वकालमानाः । नैश्चयिकाविग्रहस्य समयो वासनायास्तु संख्येयोऽसंख्येयो वा काल इति मूल एवोक्तः ॥ अत्र केचिद्वदन्ति सांव्यवहारिकप्रत्यक्षभेदात्मकधारणा दृढतमावस्थापन्नोपयोगापरपर्या- याविच्युत्यात्मकापायरूपैव, न वासनारूपा, क्षयोपशमविशेषरूपायाश्शक्तिविशेषरूपाया वा वस्या अज्ञानरूपत्वेन धारणावासम्भवात् , नापि स्मृतिरूपा, तथा सति ताशधारणाया- 15 स्सांव्यवहारिकप्रत्यक्षप्रमेदत्वासम्भवादिति तन्मतं केचिन्मुखेन प्रतिक्षिपति- केचित्तु आत्मशक्तिविशेष एव संस्कारशब्दवाच्योऽव्यवहितस्मृति- हेतुश्च, न धारणा, क्षायोपशमिकोपयोगानां युगपद्भावविरोधात् । पर- म्परया तस्यास्तद्धेतुत्वे न किञ्चिद्दषणमिति माहुः ॥ केचिचिति । श्रीमद्वादिदेवसूरिपादा इत्यर्थः । एपामयम्भावो विवक्षितवस्तुविषय- 20 कोपयोगरूपधारणाया यदि साक्षात्स्मृतिहेतुत्वं तदा स्मृतिकालं यावदनुवर्तनं स्यात् न चैतत्सम्भवति, छानस्थिकोपयोगानामान्तमाहूर्तिकत्वेन तावदनुवृत्त्यसम्भवात् । नवा तावत्कालावस्थानमनुभूयते. अद्यानुभूतस्य परेगुस्स्मरणीयस्य च घटादेरान्तरालिका- नेकप्तमत्ताथवस्थासु प्रतीत्यभावात् , स्वरूपतो ज्ञानरूपस्संस्कारो धारणाभिधान इत्यपि न चतुरस्त्रम्, तथा सति यस्य पदार्थस्य कालान्तरे स्मृतिस्तावत्कालं प्रत्यक्षज्ञा- 25 १. प्रथमापायनान्यकालविशिष्ट द्वितीयापायेनेतरकालविशिष्ट वस्तु गृह्यत इति न गृहीतग्राहित्वं, स्मृत्यापि कालभेदेन मिनस्यापि सत्त्रप्रमेयत्वसस्थानादिभिरेकत्वेन वद्विशिष्ट वस्तु गृह्यत इति न गृहीनपाहिलं तस्या इतिभाव ॥

- 10 - तत्त्वन्यायविभाकरे [द्वितीयक्तिम नात्मिका सा धारणाऽनुवर्तत इति प्राप्तं, तथा च सति यावदेकपदार्थसंस्काररूप प्रत्यक्षं पुरुषे भवेत्तावदपरपदार्थसवेदनमेव नोदीयात , क्षायोपशमिकोपयोगाना युगपदाः वृविरोधात् तस्मादात्मशक्तिविशेषस्यैव साक्षात्स्मृतिहेतुत्वं न तूपयोगरूपायाः ज्ञानरू- पाया वा धारणायाः । न च स्मरणजनने नास्त्येवाऽऽत्मनश्शक्तिविशेष इति वाच्यम्, 5 सर्वत्र शक्तिविलोपप्रसङ्गात् । चिरन्तनातीतपर्यायविशेपस्यैव कस्यचित्कार्योत्पत्तौ सर्वत्र कारणत्वेन कल्पयितुं शक्यत्वात् । पारम्पर्येण तादृशधारणाया हेतुत्वोत्तौ तु नास्माक विरोध इति ॥ अव्यवहितस्मृतिहेतुश्चेति, स्मृति प्रति साक्षात्कारणमित्यर्थः । न धारणेति, उपयोगरूपा ज्ञानरूपा वा धारणा न साक्षाद्धेतुरिति भावः । परम्परया कारणत्वानीकारे सम्मतिमाह परम्परयेति ॥ ननु मतिज्ञानस्य प्रमाणत्वादनिर्णयात्मकावग्रहेहयोः कथं यथार्थनिर्णयात्मकप्रमाणत्व- मित्याशङ्कायामाह- एषाश्च द्रव्यार्थिकनयापेक्षयैक्यं,पर्यायार्थिकनयापेक्षयाचं भिन्नत्वम्॥ एषाश्चेति । मतिज्ञानप्रभेदानामवग्रहादीनामित्यर्थः । द्रव्यार्थिकनयापेक्षयेति, एक- जीवद्रव्यतादात्म्येनेत्यर्थः । पर्यायाथिकनयापेक्षयेति । अपूर्वापूर्वस्य वस्तुपर्यायस्थ प्रकाशक- 15 त्वादसंकीर्णस्वभावतयानुभूयमानत्वात्क्रमभावित्वाञ्चेति भावः, दृश्यते हि कदाचिदर्शनमात्र कदाचिद्दर्शनावग्रहो, कदाचिदर्शनावग्रहेहाः, कदाचिद्दर्शनावग्रहेहापायाः, कदाचिञ्च दर्शना- वाहेहापायधारणाः प्रोक्तकमेणैवोत्पद्यमाना इति, तस्मादसंकीर्णतयाऽनुभूयमानत्वेन भेदेऽमि एकजीवद्रव्यतादात्म्येनाभेदान प्रमाणत्वन्याघात इति भावः ॥ ननु किं दर्शनादीनामयमेवोत्पत्तिक्रमः किं वा प्रकारान्तरेणापीत्याशवायामाह- तथा चायं क्रमः, इन्द्रियार्थयोर्योग्यताख्ये सम्बन्धे सति सन्मानं दर्शनाख्यं प्रथमतस्समुन्मीलति, इदं किश्चिदिति । ततः केनचिजात्या- दिनाऽवग्रहोऽयं मनुष्य इति ततोऽनिर्धारितरूपेण संशयोऽयं पौरस्त्यो वा पाश्चात्यो वेति । ततो नियताकारेण सम्भावनात्मिकहाऽनेन पाश्चा- त्येन भवितव्यमिति । अनन्तरमीहिताकारेण निर्णयात्मकोऽपायोऽयं 25 पाश्चात्य एवेति । ततः कालान्तरस्मृतिहेतुत्वेन धारणोदेतीति ॥ १. एव व्यञ्जनाविप्रहभेदेन द्विरुपोऽप्यवग्रहोऽवग्रहसामान्यादेकरुपस्तथाऽविच्युतिवासनांस्मृनिमेदेन त्रिविधाऽपि धारणा धारणात्वेनेकविधेति न मतिनानमेदाधिक्यशद्वेत्यपि बोध्यम् ॥ । . 20 सीव्यवहारिकम् ]] म्यायप्रकाशसमलते तथा चेति । कथञ्चित्तेषां भेदे चेत्यर्थः, क्रमः, उत्पत्तिक्रमः, तथैवानुभवात् तथैव तत्तदावरणक्षयोपशमभावादिति भावः । इन्द्रियार्थयो:-विषयविषयिणोः, योग्यताख्ये- यथायोगमनतिदूरासन्नव्यवहितदेशाद्यवस्थानरूपे संश्लेषरूपे वा सम्बन्धे, सन्मानं दर्शनाख्यं निःशेषविशेषवैमुख्येन निराकारो बोधः । तस्यामिलापकं शब्दप्रयोगमाह इदमिति, तत इति तदुत्तरकालमित्यर्थः, अष्टस्यावग्रहणाभावादिति भावः । केनचिन्नात्यादिनेति, सत्त्वव्याप्य- 5 मनुष्यत्वादिजातिविशिष्टत्वादिनेत्यर्थः । अवग्रह इति, उदेवीत्युत्तरस्थेनान्वयः । व्यावहारि- कावग्रहोऽयं, नैश्चयिकापायश्च । तत इति, विनावग्रहं सन्देहाभावादिति भावः । अनिर्धारित- रूपेणेति, कस्यापि विशेषधर्मस्थानुपलम्भेन नानाधर्मप्रकारतयेत्यर्थः । तत इति सशय- मन्तरेणेहाया अप्रवृत्तेरिति भावः । नियताकारेणेति यत्किञ्चिद्विशेषधर्मोपलम्भेनेत्यर्थः । संभावनात्मिकेति न्पष्टीयविषयताया अभावेऽपि तदुन्मुखत्वाद्विलक्षणप्रकारतावतीति भावः। 10 अनन्तरमिति, अन्तरेणेहामपायाप्रवृत्तेरिति भावः । न चावग्रहेहयोने ज्ञानत्वं संशयादि- वत्स्पष्टायनि साभावादिति वाच्यम्, आत्मधर्मत्वे सति सशयविपर्ययानभ्यवसायेष्व- नन्तर्भावण तत्सिद्धेः । न च निश्चयान्यस्य संशयरूपत्वेनाजानत्वमिति वाच्यम् , निश्चयो- पादानक्षणस्यापि सर्वथाऽज्ञानलप्रसद्भात्, न चेष्टापत्तिनिश्चयस्याप्यज्ञानतापत्तेः । न चाव- ग्रहस्यानिर्देश्यसामान्यमात्रावगाहित्वेनानध्यवसायत्वमिति वाच्यम्, तत्र साक्षाव्यवसा- 15 यत्वाभावेऽपि तद्योग्यतायास्सत्त्वात् , अन्यथा तत्कार्येप्वपायादिष्वपि तदभावप्रसङ्गात्, अतिमत्तमूच्छितादीनामेव ज्ञानस्यानव्यवसायरूपत्वात् , तदुत्तरं तत्रापायादर्शनेन तद्योग्य- वाया अभावादिति । ईहिताकारेण निर्णयात्मक इति, तचिधर्मानुगमनतवृत्तिधर्मव्य- चिरेकाभ्यां वद्धर्मवचानिश्चयरूपस्तदितरधर्माभाववत्तानिश्चयरूपो वेत्यर्थः । तत इति अवे- तस्यैव धार्यमाणत्वादिति भावः, धारणेति, अविच्युतिरूपा वा तज्जन्यवासनासस्कारशब्द- 20 वाच्याऽऽत्मशक्तिविशेषरूपा वेत्यर्थः । उदेतीतीति । ईगक्रमेणैवावग्रहादय उत्पद्यन्ते नोकमन्यतिक्रमाभ्यां न्यूनत्वेन वा, झेयक्षयोपशमस्येत्थमेव ज्ञानजननस्वभावत्वात् । कचिद- १. प्राथमिकनायकार्यावग्रहापेक्षयास्यापायत्वेऽपि भाविविशपापेक्षया सामान्यस्य ग्राहकवाझ्यावहारिकार्थी वग्रहरूपत्वेन तदमिलापकशब्दसत्त्वे बाधकामावादित्यागयेनाह तस्यामिलापकमिति ॥ २० नैश्चयिकाविग्रहो मिरुपचरित एकमामयिकत्वासामान्यवस्तुमात्रग्राहक सामयिकानि हि सानादीनि वस्तनि परमयोगिन एवा- बगच्छन्तीति नश्चयिक उच्यते, सामयिकत्वादेव चासो न विशेषविषय, विशेषज्ञानस्यासंख्येयसामयिकत्वात्, विशेषविषयकले तस्याभ्युपगम्यमाने च निश्चयरूपत्वापस्या मतिमात्रस्यापायस्पत्वं स्यात्, निश्चयस्यापायत्वा. दिसभिप्रायण नैयिकापायव मूलोकावग्रहस्योक्तम् , छमस्थव्यवहारिमिस्तस्य व्यवहियमाणत्वात् व्यावहा- रिकोविग्रह उपचरित इति भाव ।।

तरवम्यायविभाकरे [द्वितीयकिर भ्यस्तेऽपायमात्रस्य दृढवासने विषये स्मृतिमात्रस्य च दर्शनेऽपि सौम्यादुत्पलपत्रशतन्य- तिभेद इवावग्रहादिक्रमो नोपलक्ष्यत इति भावः ।। 5 न तदेवमिन्द्रियानिन्द्रियजभेदेन सांव्यवहारिकप्रत्यक्षं निरूप्य द्वयोरप्यनयोर्मतिश्रुत्त- भेदत्वेन द्वैविध्यात्प्रथमतो मतिज्ञानं लक्षयति- इन्द्रियमनोऽन्यतरजन्योऽभिलापनिरपेक्षत्स्फुटावभासोमतिज्ञानम्।। इन्द्रियेति । इन्द्रियमनोऽन्यतरजन्यत्वे सति अमिलापनिरपेक्षज्ञानत्वं लक्षणम् । अत्र स्फुटावभासत्वपदं सर्वज्ञानानां स्वांशे स्पष्टावभासत्वमेवेति सूचयितुं, तेनास्य परोक्षत्वेन कथं स्वप्रकाशत्वमिति शङ्का निरस्ता । श्रुतजानवारणाय विशेष्यम् , अवध्यादिवारणाय विशेषणम् , अमिलापनिरपेक्षत्वञ्च श्रुताननुसारित्वं तत्र श्रुतानुसारित्वञ्च धारणात्म- 10 कपदपदार्थसम्बन्धप्रतिसन्धानजन्यत्वं तेनेहापायधारणात्मकेषु मतिनानविशेपेषु पदवि- षयतायास्सत्त्वेऽपि नाव्याप्तिः, वत्र पदविषयतायास्सविकल्पकसामग्रीमात्रप्रयोज्यत्वात्, चेहादीनि पदपदार्थप्रतिसन्धानजन्यज्ञानानि, घट इत्याद्यपायोनरमयं घटनामको नवैति संशयादर्शनात् तत्तन्नाम्नोऽप्यपायत्वेन ग्रहणात् पदपदार्थसम्बन्धप्रतिसन्धानाभाववतोऽपि पुरुषस्याभ्यासपाटवेन तदुदयाञ्च । सकेतमहकाल एव हि श्रुतानुसारित्वमीहादीनां, न तु 15 व्यवहारकाले । अत एव मतित्वसामानाधिकरण्येन श्रुतपूर्वत्वनिषेधः " न मई सुअपु- धिया " इत्यनेनामिहिवः । श्रुतज्ञानं प्रति धारणात्वेन मतिज्ञानस्य हेतुत्वेन तद्धारणोपयोगे 'इदं पदमस्य वाचकं, अयमर्थ एतत्सवाच्य ' इति पदपदार्थसम्बन्धमहस्यापि धौम्येण तजनितज्ञानस्यैव श्रुतानुसारित्वं, अतएव च श्रुतत्वावच्छेदेन मतिपूर्वत्वविधिः 'मइ- पुखं सुरं' इत्यनेन कृतः । व्यवहारकाले जायमानावग्रहादीनां श्रुतोपयोगामावादेव पद- 20 पदार्थसम्बन्धवासनाप्रबोधकालीनत्वेऽपि श्रुतनिश्रितमतिज्ञानत्वम् स्वसमानाकारश्रुतज्ञाना- हितवासनाप्रबोधसमानकालीनत्वे सति श्रुतोपयोगाभावकालीनस्यैवावग्रहादेश्भुतनिभि. तत्वात् । उक्तवासनाप्रबोधकाले मतिज्ञानसामग्रीसत्त्वेऽपि श्रुतोपयोगे श्रुतज्ञानमेव जायते, श्रुषोपयोगस्योत्तेजकत्वात् परैरपि प्रत्यक्षज्ञानसामग्र्याः शाब्दबोधप्रतिबन्धकत्वेऽपि शाब्दे- च्छायां शाब्दवोवस्य स्वीकृतत्वात् । निरुतवासनाप्रवोधासमानकालीन मतिज्ञानोत्पत्ति- 25 क्यादिचतुर्भेदमश्रुतनिश्रितं भवति । अपूर्वाभयकुमारादिव्यक्तिविशेषबुद्धौ त्वौत्पत्तिकीत्वमे- १. यौकस्मिन्वस्तुनि प्रत्यक्षज्ञानस्य सामग्री गान्दवोधस्य च सामग्री वर्तते तत्र प्रत्यक्ष ज्ञानमेव भवति न शाब्दबोबस्तत्र प्रत्यक्षसामग्या प्रतिबन्धकत्वात्परन्तु शाब्देच्छा यटि स्यातदा शाब्दबोध एव भवतीति शाब्दबोधे सेच्छा उत्तेजिका, तथैव प्रकृतऽपीति भाव. ॥ ।

5 मविज्ञानमेदाः] न्यायप्रकाशसमलते । वाश्रयणीयम् , प्रागनुपलब्धेऽर्थे श्रुतज्ञानाहितवासनाप्रयोधाभावेन श्रुतनिश्रितज्ञानासम्भवात् । धारणायाः श्रुतज्ञानहेतुत्व एव च मतिश्रुतयोर्लब्धियोगपद्येऽप्युपयोगक्रमस्सगच्छते प्रागुप- लब्धार्थस्य चोपलम्भे धारणाहितश्रुतनानाहितवासनाप्रबोधान्वयाच्छ्रुतनिभिवत्वमावश्यकम् , धारणादिरहितानामेकेन्द्रियादीनां त्वाहारादिसंज्ञान्यथानुपपत्त्याऽन्तर्जल्पाकार विवक्षितार्थ- वाचकं शब्दसंस्पृष्टार्थज्ञानरूपं श्रुतज्ञानं क्षयोपशममात्रजनितं जात्यन्तरमेवेति संक्षेपः॥ अथ मतिज्ञानस्य यावत्मकारान् दर्शयति- इदश्च प्रत्येकेन्द्रियैर्मनसा चावग्रहादिक्रमेण जायमानत्वाचतुर्विशति- विधम् । रसनादीन्द्रियैश्चतुभिरेव चतुर्विधा व्यञ्जनावग्रहा भवन्ति, न चक्षुर्मनोभ्यां, विषयेन्द्रियसंश्लेषाभावात् । स्पर्शनादीन्द्रियाणामुपकरणा- मकानां स्पर्शाद्याकारेण परिणतपुद्गलानाञ्च यः परस्परं संश्लेषस्सा व्य- 10 अनेत्युच्यते । सोऽयं चतुर्विधो व्यञ्जनावग्रह इति मिलित्वाष्टाविंशति- विधं मतिज्ञानम् । श्रुतज्ञाने तु नावग्रहादयो भवन्ति ॥ इदश्चेति, मतिज्ञानश्चेत्यर्थः । प्रत्येकेन्द्रियैः-प्रत्येकं चक्षुरसनध्राणत्वश्रोत्रेन्द्रियैः; अवग्रहादिक्रमेणेति, चक्षुरवग्रहश्चक्षुरीहा चक्षुरपायश्चक्षुर्धारणेत्येवंक्रमेणेत्यर्थः । तत्रावग्रहस्य व्यञ्जनार्थावग्रहरूपेण वैविध्यात्पूर्वोक्तावग्रहस्यार्थावप्रहरूपत्वेन व्यञ्जनावग्रहं वक्ति रसना- 15 दीति, आदिना प्राणत्वक्षोत्राणां ग्रहणम् । चतुर्मिरेवेत्यत्रैवान्दव्यवच्छेद्यमाह नेति । तत्र निवन्धनमाह विषयेति । निश्चयतः कार्योत्पत्चावविकलकारणस्यैव व्याप्यत्वेन ज्ञाने उपयोगे. न्द्रियस्यैवाविकलकारणत्वेन व्यञ्जनावग्रहकालेऽव्यक्ततथा तत्सत्वात्तदा ज्ञानमवश्यं भव- त्येवेति व्यसनावग्रहोऽयं ज्ञानात्मा कारणांशो बोध्यः । व्यञ्जनां स्वरूपयति स्पर्शनादी- न्द्रियाणामिति, आदिना श्रोत्रमाणरसनानां ग्रहणम् । ननु व्यञ्जनावग्रहः प्राप्यकारिणामे- वेन्द्रियाणां न स्वप्राप्यकारिणां वन कः कारणांशः, यद्यविग्रहस्तर्हि स एव व्यञ्जनावग्र- हस्थलेऽप्यस्तु इति चेन्न तत्रापि प्रागर्थावग्रहालब्धीन्द्रियस्य ग्रहणोन्मुखपरिणामस्यैव कार- गांगतयांऽभ्युपगमात् । निगमयति मतेर्भेदं सोऽयमिति । अष्टाविंशविविधमिति, उपलक्षण- मेतत् , तेन स्वस्वप्रतिपक्षसहितैर्वहुबहुविधक्षिानिभितनिश्वितध्रुवैः प्रत्येकं मिन्नानामेषां षट्- त्रिंशदधिकत्रिशतविधत्वेऽपि न क्षतिः, अत्र सर्वत्र क्षयोपशमस्योत्कर्षापकर्षों निमित्ते भवत 25 इति । किं श्रुतबानेऽप्यवग्रहादिभेदोऽस्तीत्यत्राह श्रुतज्ञाने विति । तुर्भिन्नार्थोपक्रमे, मतिज्ञा- नामाचे भुतज्ञानाभावाद्विशेषविषये तस्मिन्नवग्रहासम्भवेनेहादीनामप्यसम्भवादिति भावः ॥ 1 20 .

:३४८: वत्त्वन्यायविभाकरे [द्विवीयकिरणे तर्हि किन्तच्छ्रुतज्ञानमित्यत्राह- मतिज्ञानापेक्षो वाच्यवाचकभावपुरस्कारेण शब्दसंस्पृष्टार्थग्रहण- विशेषः श्रुतज्ञानम् । तदनुकूलोपयोगोऽपि श्रुतम् ॥ मतिज्ञानेति ! मतिज्ञानसापेक्षत्वे सति वाच्यवाचकभावपूर्वकशब्दसंस्पृष्टार्थग्रहणत्वं 5 श्रुतज्ञानस्य लक्षणम्, ईहादीनां शब्दसंस्पृष्टार्थग्रहणरूपत्वादवग्रहात्मकमतिज्ञानापेक्षत्त्वाव श्रुतत्ववारणाय वाच्यवाचकभावपुरस्कारेणेत्युक्तम् । मतिज्ञानापेक्ष इति पदेन धारणा प्राह्या, श्रुतं प्रति धारणात्वेन हेतुत्वात्तथा च नेहादावतिव्याप्तिरिति चेत्तर्हि स्मृतावतिव्याप्तिवार- णाय तत् । एकेन्द्रियाणामपि द्रव्यश्रुताभावे सत्यपि भावश्रुतमस्ति क्षायोपशमिकत्वात्, न च. तर्हि लक्षणमव्याप्तं तत्र वाच्यवाचकभावपूर्वकं शब्दसंस्पृष्टार्थग्रहणरूपत्वाभावादिति 10 वाच्यम् ,, विशिष्टश्रुतज्ञानस्यैव लक्षणत्वात् , मतिज्ञानापेक्षवाच्यवाचकमावपूर्वकशब्दसंस्पृ. ष्टार्थग्रहणवृत्तिज्ञानत्वव्याप्यजातिमत्त्वस्य वा लक्षणार्थत्वात् , तादृशी जातिः श्रुतज्ञानत्वं तश्च सर्वस्मिन् श्रुतज्ञाने वर्चत इति न कुत्राप्यव्याप्तिः । ननु श्रुतोपयोगो मत्युपयोगान पृथक्, मत्युपयोगेनैव तत्कार्योत्पत्तौ तत्पार्थक्यकल्पनाया व्यर्थत्वादित्याकांक्षायामाह तदनु- कूलोपयोगोऽपीति, श्रुतज्ञानेऽनुकूलभूत उपयोगोऽपीत्यर्थः, श्रुतोपयोगोपरमेऽपि मतिज्ञानो- 18 दयानं मत्युपयोगश्रुतोपयोगयोरैक्यमिति भावः । अत्र यद्यपि स्वामिकारणकालविषय- परोक्षवैतिश्रुतयोरेकत्वं तथापि लक्षणभेदात्कार्यकारणभावाद्भेदविशेषादिन्द्रियविभागाद्वः ल्केतरभेदादक्षरेतरभेदान्मूकेवरभेदाच भेदोऽवसेयः, तथाहि-निरुक्तरूपेण लक्षणमेदान्म- तिश्रुतयोर्मेदः । कार्यकारणभावात्तयोर्मेदः, मतिज्ञानापेक्षं हि श्रुतं न मतिश्श्रुतज्ञानापेक्षिणी, उपयोगरूपयोस्तयोस्तथैव पौर्वापर्यात् , कार्यकारणयोश्च कथञ्चिद्भेदात्, लब्धिंतो मतिश्रुते 20 समकालेऽपि भवतोऽत एव लक्षणे मत्यपेक्ष इत्यनुक्त्वा मतिज्ञानापेक्ष इत्युक्तः, लब्धितरतु- ल्यकालयोः कार्यकारणभावाभावात्, यदपि परशब्दाकर्णनान्मतिज्ञानमुदेति तदपि द्रव्यश्रुत- निमित्तकमेव न भावश्रुतंनिमित्तकमतो न मतिज्ञानस्य श्रुतजानकारणकत्वम् । श्रुतोपयोगा- च्युतस्य मतिज्ञानन्तु न श्रुतोपयोगनिमित्तकं किन्तु स्वकारणप्रभवमेव । अन्यथा कारण- नैयत्याभावप्रसङ्गस्स्यात् । तथा स्वस्वावान्तरभेदात्तयोमेंदः, मतिज्ञानं हि अष्टाविंशतिविधमुक्छे, 25 श्रुतज्ञानं चतुर्दशविधमिति वक्ष्यते, तयोरभेदेऽवान्तरभेदवलक्षण्यं न भवेदेवेत्ति वयोर्मेदः, - । " १. भवग्रहादिकं विना श्रुतज्ञानानुदयेन तत्पूर्व मतिज्ञानरूपस्य तस्यावश्यम्भावादिति भावः ॥२ मतिज्ञान- समानकाले श्रुतज्ञानेऽभ्युपगम्यमाने तदा श्रुताजानं जीवस्य प्रसज्यते, श्रुतजानोत्पत्तिमन्तरेण तदज्ञानानिवृत्ते न व ज्ञानाज्ञानयोस्समानकालमवस्थितियोग्ययोर्मतिश्रुतयो. क्वचिदप्यागमेऽजुमन्यत इत्यागयेनाह लन्धित इति ।।

. मतिश्रुतमेदः] न्यायप्रकाशसमलद्धृते इन्द्रियविभागादपि तयोर्भेदः, श्रुतं हि श्रोत्रेन्द्रियद्वारकमवग्रहाचनात्मकं ज्ञानं, मविज्ञानं च सर्वेन्द्रियद्वारकम् , यद्यपि शेपेन्द्रियद्वाराऽक्षरलामोऽपि श्रुतमेवेति सर्वेन्द्रियविषयत्वं श्रुतस्य प्राप्तं वयाप्यक्षरलाममात्रस्य न श्रुसत्वमीहादीनामपि तथात्वापत्तरपि तु श्रुतानुसारिसाभि- लापरूपाक्षरलाभस्यैव, तस्य च शेपेन्द्रियद्वारोत्पन्नत्वेऽपि योग्यतया श्रोत्रेन्द्रियोपलब्धित्व- मेव, अभिलापस्य सर्वस्यापि श्रोत्रेन्द्रियग्रहणयोग्यत्वात् । तथा च श्रोत्रविषयमेव सर्व श्रुत- 5 ज्ञानं मतिज्ञानन्तु तद्विपयं शेपेन्द्रियविपयश्चेति । वल्कशुम्घोदाहरणात्तयो दस्तु-मतिपूर्व हि मावश्रुतं मतिश्च वल्कसमा, भावश्रुतं शुम्वसदृशं, यथा वल्काः शुम्वकारणं तथा मतिरपि भावश्रुतस्य, यथा च शुम्ब वल्कानां कार्य तथा मावश्रुनमपि मतेः कार्य, मत्या विचिन्त्य वाच्यवाचकभावेन वस्तुनि परोपदेशश्रुतग्रन्थानां योजनात् | अक्षरानक्षरभेदादपि तयोर्भेदः अक्षरं द्विविधं हव्याक्षरं भावाक्षरब्बेति, पुस्तकादिन्यस्ताकारादिस्तावादिकारणजन्यशब्दो 10 वा द्रव्याक्षरम् । अन्तःस्फुरदकारादिवर्णज्ञानं भावाक्षरं, भाषाक्षरापेक्षया मतिज्ञानमधरवत् ययेहादयः, भावाक्षराभावादेवावग्रहरूपं मतिनानमनक्षरम् । द्रव्याक्षरमाश्रित्य तु मतिज्ञान- मनक्षरमेव, द्रव्यमतित्वेनाप्रसिद्धत्वात् । श्रुतज्ञानन्तु द्रव्यभावभेदं साक्षरमनक्षरमपि द्रव्य- श्रुतं उच्छ्वसितनिःश्वसितादिरूपमनक्षरं पुस्तकादिन्यस्ताक्षररूपं शब्दरूपं च, तदेव साक्षरम् । मावश्रुतमपि श्रुतानुसार्यकारादिवर्णविज्ञानात्मकत्वात्साक्षरं, पुस्तकादिन्यस्ताकाराद्यक्षररहि- 15 तत्वाच्छब्दाभावाचानक्षरम् । पुस्तकादिन्यस्ताक्षरस्य शब्दस्य च द्रव्यश्रुतान्तर्गतत्वेन भावे- श्रुतेऽमत्त्वान् । मूकेतरभेदात्तु तद्भेदः-द्रव्यश्रुत हि श्रुतज्ञानस्यासाधारण कारणं तच्च परप्रति- वोधनसमर्थमतश्श्रुतज्ञानमपि तद्भटकत्वेन परप्रतिबोधकत्वान्न मूकम् , मतिज्ञानस्येदृशकारणेनं केनाप्यघटकत्वेन परप्रतिवोधनासमर्थवान्मूकम्।नच करादिचेष्टा मतिजनिकाः परप्रतिबोध- नसमर्थाः सन्तीति मतिज्ञानस्य कथं मूकत्वमिति वाच्यम् , करादिचेष्टान मतिनानं प्रत्यमाधा- 20 रणकारणत्वाभावात् करवक्त्रसंयोगादिचेष्टादर्शनतस्तद्विपयावग्रहादिवद्भोक्तुमिच्छत्ययमित्या- दिश्रुतानुसारिविकल्पात्मकश्रुतज्ञानस्यापि जायमानत्वात् । तस्वतः करादिचेष्टानां मतिज्ञानं प्रति कारणत्वाभावेन तासां तत्रानन्तर्भावात् । यद्वा पुस्तकादिन्यस्ताचारादिग्रन्थाक्षरं गुरुज- " १. अन्न श्रोत्रेन्दियोपलब्धिरेव श्रुतमित्ययोगव्यवच्छेदोऽमिमन', न तु धोत्रेन्दियोपलब्धिश्रुतमेवेत्यन्मयो- गव्यवच्छेद , कस्याबिच्छोडेन्द्रियोपलव्धेरवग्रहादिमानरूपाया मतित्रानवादित्यागयेन शेपेन्द्रियद्वारकमित्यनु. क्त्वा सन्द्रियद्वारकमित्युक्तम् ॥ २. तया च मतिनानमवप्रहापेक्षयाऽनक्षरवत् ईहायपेक्ष्या चाक्षरखत् । दव्याक्षरापेक्षया चानभरवदेव, नहि मतिज्ञाने पुस्तकादिन्यस्ताकारादिकं गब्दो वा व्यजनक्षरं विद्यते तस्य द्रव्यश्रुतत्वेन प्रमिद्धत्वादिति भावः ॥ ३ अनेदं बोय मतेविश्रुतस्य चाक्षरानक्षरकृतो विशेषो नास्ति, उभयस्य साक्षरत्वादनक्षरत्वाच, परन्तु श्रुतमध्ये द्रव्य श्रुतस्याप्यन्तविण द्रव्यश्रुतमाश्रित्य द्रव्याक्षरमस्ति मती तु तनास्तीति मेदो विनेय इति ॥

. :३५० नवन्यायविभाकरे [द्वितीयांकरले नोदीरितदेशनाशब्दरूपञ्च द्रव्यश्रुतं, मोक्षासाधारणकारणक्षायिकबानदर्शनचारित्रलक्षणवस्तु- कलापस्य हेतुत्वात् बहारेण श्रुतज्ञानमपि परप्रवोधक, करादिचेष्टाया मविज्ञानकारणत्वेऽपि न विशिष्टपरप्रबोधकत्वमतस्तद्वारा मतित्रानमपि न तथा, एवं करादिचेष्टानां मतिज्ञान हेतुत्वेऽपि कथञ्चित्परप्रबोधकत्वेऽपि च न तद्वारा मतिज्ञानं परप्रबोधक, द्रव्यमतित्वस्य 5 क्याप्यप्रसिद्धत्वेन तासां तत्रानन्तर्गतत्वादिति । विशेषस्तु विशेषावश्यकादौ द्रष्टव्यः । अथ श्रुतज्ञानं विभजते- तचाक्षरानक्षरसंज्यसंजिसम्यमिथ्यात्वसाधनादिसपर्यवसितापर्य- वसितगमिकागमिकाङ्गप्रविष्टानङ्गप्रविष्टश्रुतभेदेन चतुर्दशविधम् || तचेति । श्रुतज्ञानश्चेत्यर्थः । अत्रानङ्गप्रविष्टपदं यावद् द्वन्द्वस्ततः श्रुतेन कर्मधारयः । 10 यद्यप्येते भेदा अक्षरश्रुतानक्षरश्रुतरूपभेदद्वय एवान्तर्भवन्ति, तथाप्यन्युत्पन्नमतीनां विशेषावगमसम्पादनाय तथोक्तिर्नहि भेदद्वयोपादानमात्रादव्युत्पन्नमतयः शेषमेदानवगन्तुं समर्थाः, अवो विनेयजनानुग्रहायेतरभेदोपन्यास इति । तत्राक्षश्रुतानक्षरश्रुते लक्षयति- संज्ञाव्यञ्जनलब्ध्यन्यतमवच्छुतमक्षरश्रुतम् । यथा क्रमेण लिपिवि- 18 शेषो भाष्यमाणाकारादिस्त्वङ्मनोनिमित्तकश्श्रुतोपयोगः । भावभुत- हेतुरुच्छ्वासादिरनक्षरश्रुतम् ॥ संज्ञेति | संज्ञाव्यञ्जनलब्धिभेदादक्षरं त्रिविधम् । संज्ञाव्यञ्जने उपचाराच्छ्ते । उदाहरणमाह यथा क्रमेणेति | लिपिविशेष इति, अकाराधक्षरस्य संस्थानाकारः, नाहयादि- लिपिभेदतोऽनेकप्रकारः । भाष्यमाणाकारादिरिति, अर्थव्यञ्जकत्वेनोच्चार्यमाणाकारादिव- 30 समूह इत्यर्थः, तमसि वर्तमानघटादेय॑क्षकप्रदीपपदर्थस्य प्रकटीकरणादकारादिय॑खना- क्षरमिति भावः, तच्च यथार्थनियतमयथार्थनियतश्चेति विभेदम् , यथार्थनियतं यथा तपतीति तपन इत्याधन्वर्थयुक्तशब्दा, अयथार्थनियतञ्च पलं नानाति तथापि पलाश इत्यादिशब्दः । एकार्थानेकार्थभेदेन वा द्विविधम् , यथाऽलोकस्थण्डिलादिशब्दा एकार्थाः जीव इत्यादिशब्दा अनेकार्थाः, प्राण्यपि भूतोऽपि जीवशब्दार्थः । एकाक्षरानेकाक्षरभेदेन वा द्विविधं तत् श्रीरित्यादिकमेकाक्षरं लता मालेत्यादिकमनेकाक्षरमिति। त्वड्मनोनिमित्तक श्रुतोपयोग इति, त्वच उपलक्षकत्वादिन्द्रियमनोनिमित्तं श्रुतग्रन्थानुसारिश्रुतबानोपयोग इत्यर्थः, उपलक्षक मेतत् तदावरणकर्मक्षयोपशमस्य, तेनैकेन्द्रियादीनामप्यव्यक्त्ताक्षरलब्धिस्संगृहीता, तदिदं । 25 - श्रुतमेदाः] যাথসন্ধায়মন্ড लब्ध्यक्षरं मनष्पष्ठेन्द्रियनिमित्तकत्वात् पविधम् । अनक्षरश्रुतमाह भाषश्रुतहेतुरिति । उच्छा- सादिरिति, आदिना निःश्वासनिष्ठीवनकासनक्षुतादीनां ग्रहणम्, एताहक् श्रुतमात्रमेवान- क्षरश्रुतं भावभुतहेतुत्वात् , भवति च तथाविधोच्छासादिश्रवणे शशकोऽयमित्यादिज्ञानम् विशिष्टाभिसन्धिपूर्वकोच्छासादिभिश्च विशिष्टपदार्थज्ञानम् । श्रुतज्ञानोपयुक्तस्यात्मनस्सा- मनैवोपयोगात्सर्वोऽप्युच्छसितादिको व्यापारउश्रुतमेव । गमनागमनचलनस्पन्दादिचेष्टा । अपि तादृगस्य श्रुतमेव तथापि शास्त्रलोकप्रमियोच्छ्वसितादिकमेव श्रुतं श्रूयमाणत्वात् न तादृश्यश्चेष्टाः दृश्यत्वादिति ॥ अथ संझ्यसंज्ञिश्रुते आह- समनस्कस्य श्रुतं संज़िश्रुतम् । तद्विपरीतमसंज्ञिश्रुतम् ॥ समनस्कस्येति । संज्ञाऽत्र दशविधा न विवक्षिता व्यापकत्वात् , किन्तु ज्ञानावरणकर्म- 10 क्षयोपशमजन्यमनोज्ञानसंचयैव सजिनश्शोभनत्वादिस्यतस्समनस्कस्येत्युक्तम । सा संज्ञा दीर्घ कालिकी विजेया यो यः कश्चिन्मनोज्ञानावरणकर्मक्षयोपशमान्मनोलन्धिसम्पन्नो मनोयोग्यान- नन्तान् स्कन्धान्मनोवर्गणाम्यो गृहीत्वा मनस्त्वेन परिणमय्य मन्यते चिन्तनीयं वस्तु ताहशो गर्भजस्तियइ मनुष्यो वा देवो नारको वा तत्सम्बन्धि यच्छ्रुतं तत्संज्ञिश्रुतमिति भावः । असंज्ञिश्रुतमाहेतद्विपरीतमिति, एकेन्द्रियादीनां दीर्घकालिकीसबारहितानां श्रुवमित्यर्थः ।। अथ सम्यमिथ्यात्वश्रुते आह- सम्यग्दृष्टीनां श्रुतं सम्यछुतम् । मिथ्यादृष्टीनां श्रुतं मिथ्यात्वश्रुतम् ।। सम्यग्दृष्टीनामिति, अनन्तानुबन्धिकपायचतुष्टयक्षयानन्तरं मिथ्यात्वमिश्रसम्यक्त्व- पुञ्जलक्षणे दर्शनमोहनीये सर्वथा श्रीणे क्षायिकं सम्यक्त्वं भवति, एवं चत्वार्य्यन्यानि भवन्ति, तदेतत्सम्यक्त्वपञ्चकपरिग्रहात्सम्यक् श्रुतं भवति, चतुर्दशपूर्वेभ्यः प्रारभ्य यावत्सम्पूर्णदश. 20 पूर्वाणि तावनियमेन सम्यक्श्रुतमेव भवति, एतावच्छ्वसद्भावे च सम्यग्दृष्टिरेव न मिध्या- दृष्टिः, मिन्नदशपूर्वादिके सामायिकश्रुतपर्यन्ते श्रुतसद्भावे तु कोऽपि सम्यग्दृष्टिः कश्चिन्मि- ध्यादृष्टिरपि भवति, तथा च सम्यक्त्वपरिग्रहात् श्रुतं सम्यकश्रुतं भवतीति भावः । मिथ्या- 15 . १. तथा सम्यग्दृष्टयेऽईवणीतं मिथ्याष्टिप्रणीनच सम्यक्श्रुतं भवति, यथास्वरूपमवगमात्, मिव्या- दृष्टये लहत्प्रणीतं मिथ्याष्टिप्रणीतच मिथ्यास्वरूप भवति यथास्वरूपमनवगमात् । मिग्याष्टिहि मर्वमेव- कान्तस्वरूपं प्रतिपद्यते घट एवायमित्यादि व्यवहरन् घटपर्यायव्यतिरेकेण मतोऽपि मत्त्वजंयत्वपदार्थवादि. पर्यायानपलपति घटः सभेवेति ब्रुवन् पररूपेण नास्तित्वमनभ्युपगच्छन् तवासती पररूपतामप्यभ्युपैति, सम्यग्दृष्टिस्तु न तयेत्यपि बोध्यम् ॥

- तत्त्वन्यायविभाकरे [ तृतीयकिरणे अथ तृतीयः किरणः अथावसरप्राप्तां मतिश्रुतकार्यभूतां स्मृति प्रत्यभिज्ञादिहेतुभूता निरूपयति- अनुभवमात्रजन्यं ज्ञानं स्मृतिः । यथा स घट इत्यादि, अत्र प्रायेण तत्तोल्लिख्यते। अनुभवोत्र प्रमाणरूपः। आत्मशक्तिरूपसंस्कारो 5 द्वारम् । प्रबोधस्सहकारी। पूर्वानुभूतविषयिणीयम् । अर्थाविसंवादकत्वा- वास्याः प्रामाण्यम् । इति स्मृतिनिरूपणम् ॥ अनुभवमात्रेति । अत्र धारणात्वेन सङ्ग्रहीताऽविच्युतिस्संस्कारो वाऽनुभवपदेन प्राह्या, तत्र संस्कारस्साक्षात्स्मृति प्रति हेतुरविच्युतिस्तु संस्कारद्वारेति विशेषः, अनुभवेतराजन्यत्वे सति अनुभवजन्यत्वे सति ज्ञानत्वं लक्षणार्थः, आचं सत्यन्तं प्रत्यभिज्ञानादिन्युदासाय द्विती- 10 यमवग्रहादिव्युदासाय, अनुभवध्वंसेऽतिव्याप्तिवारणाय ज्ञानत्वमिति । अत्र निदर्शनमाह यथेति, ननु स घट इत्याकारप्रदर्शनेन स्मरणमात्रं तत्तोल्लेखशालीति प्राप्तं, तथा च सखि 'याता स्मरसि चैत्र । काश्मीरेषु वत्स्यामस्तत्र द्राक्षा भोल्यामह' इत्यादिस्मरणानां तच्छन्दोल्लेखाभावेन स्मरणरूपता न स्यादित्याशङ्कायामाहात्रेति, प्रायेणेत्यनेन वदित्यु - खयोग्यतावत्वमपेक्षितमिति सूच्यते, उक्तस्थलेषु तद्योग्यताऽस्त्येव, 'तेषु काश्मीरेषु' इत्यपि 15 वक्तुं शक्यत्वादिति भावः । अप्रमाणभूतानुभवेनापि स्मरणसम्भवाचद्वयुदासायाहानुमवोऽ. ति, एतल्लक्षणघटकीभूतानुभवः प्रमाणरूपो प्रायः, अन्यथाऽनुभवसामान्यविवक्षणे भ्रमा- मकानुभवजन्यभ्रान्तस्मरणस्यापि ग्रहणे स्मृतित्वावच्छेदेन प्रामाण्यवोधनातनवाक्येन विरोधस्स्यादिति भावः। नन्वविच्युतेरस्मरणहेतुत्वे तस्यान्तमौहूर्तिकत्वेन कालान्तरभाविस्मृति प्रति हेतुत्वं कथं स्यादित्यत्राहाऽऽत्मशक्तीति, न साक्षाचस्याः स्मृति प्रति हेतुत्वमभिमतं येन 20 प्रोक्तदोषस्स्यादपि तु संस्कारद्वारेवि त्रूमः, स च संख्येयासंख्येयकालवर्तीति न दोप इति भावः । न चात्मशक्तिरूपसंस्कारस्य तावत्कालमानस्य सर्वदा सद्भावेन सततं स्मरण स्यादित्यवाह प्रवोधस्सहकारीति । तथा चोहुद्ध एव संस्कारः स्मृतिजनको न केवल: संस्कारः वस्योद्बोधकश्चावरणक्षयोपशमसदृशदर्शनादिसामग्रीति भावः। ननु मर्यमाण- स्यार्थस्याभावेन निरालम्बना स्मृतिः स्यादित्याकांक्षायामाह पूर्वानुभूतेति । पूर्वमनुभूतो यो 25 विषयस्तेनैवास्याः सविषयत्वेन न निरालम्वनत्वमिति भावः । ननु स्मृतिर्न प्रमाणमतीतेऽर्थे उत्पद्यमानत्वात् गृहीतमाहित्वात् , अर्थादनुत्पद्यमानत्वात्, विसंवादकत्वात् , प्रयोजना- प्रसाधकत्वाचेत्याकांक्षायांमाहार्थाविसंवादकत्वाचेति, चशब्दः पूर्वोदितस्य पूर्वानुभूतविपयि- णीति हेतुगर्भविशेषणस्यापि समाहकः । तथा च विसंवादकत्वं स्मृतेरसिद्धं, स्वप्रतिपन्ने धृव- . प्रत्समिज्ञानम् ] न्यायप्रकाशसमलते :.३५५ द्रव्याद्यर्थेऽविसंवादकत्वात् यत्र तु विसंवादस्स प्रत्यक्षाभासवत्स्मरणाभास एव । अनुभूतार्थेन सविषयकत्वादेवादिनुत्पद्यमानत्वमप्यसिद्धं स्वविपयानुभूतार्थांदुत्सद्यमानत्वात् , अनुभव- प्रमात्वपारतंत्र्यादस्या अप्रमात्वमिति चेदनुमितेरपि व्याप्तिज्ञानप्रमात्वपारतंत्र्येणाप्रमात्वप्र- सङ्गः स्यात् । नाप्यतीतेऽर्थे प्रवर्त्तमानत्वादप्रमाणत्वं, अतीतार्थस्य हि किं स्वकालेऽसत्त्वं स्मृतिकाले वा, नाया वस्य विद्यमानत्वात्, न द्वितीयः तस्याप्रामाण्यासाधकत्वात योगि:-5 सक्षकाले विषयाभावेऽपि प्रवर्त्तमानस्य तस्य प्रमाणत्वात् । नापि गृहीतग्राहित्वादप्रमाणं, अनुमानेनाधिगते वहौ तदुत्तरकालमाविनः प्रत्यक्षस्याप्रमाणताप्रसङ्गात्, वर्तमानकालाव- च्छेदेनाधिगतस्यार्थस्यातीतकालावच्छेदेनाधिगतेरगृहीतवाहित्वाच । न च वर्तमानकालाव- च्छिन्नत्वविशिष्टेऽतीतकालावच्छिन्नत्वस्य स घटोऽस्तीत्यादी भानादतीतकालवर्तित्वरूपायां वा तत्तायामेतत्कालीनपदार्थवृत्तित्वस्य वा भानेनाप्रमाणत्वमिति वाच्यम् , विशेषणे सर्वत्र विशे- 10 ज्यकालमाननियमस्यानभ्युपगमात् वर्तमानकालीनत्वविशिष्टे चातीतकालीनत्वभानानभ्युपग- मात्र किन्तु वर्तमानकालीनत्वातीतकालीनत्वयोस्स्वातंत्र्येणैव भानाभ्युपगमाताप्रत्यभिज्ञानादि- प्रवृत्तिनिहितधनादिप्राप्तिलक्षणप्रयोजनसाधकत्वेन प्रयोजनाप्रसाधकत्वमप्रसिद्धमेवेति भावः।। अथ मतिस्मृतिहेतुको प्रत्यभिज्ञां लक्षयति- अनुभवस्मरणोभयमात्रजन्यं ज्ञानं प्रत्यभिज्ञानम् । इदं तत्तेदन्तो- 15 ल्लेखनयोग्यमेकत्वसादृश्यवलक्षण्यप्रतियोगित्वादिविषयकं सङ्कलनज्ञाना- परपर्यायमतीतवर्तमानोभयकालावच्छिन्नवस्तुविषयकश्च ॥ अनुभवेति । अनुभवस्मरणोमयमात्रजन्यत्वे सति ज्ञानत्वं लक्षणम्, अनुभवमात्र- जन्यत्वे सति ज्ञानत्वस्य स्मृती, स्मृतिजन्यत्वे सति ज्ञानत्वस्यानुमित्यादौ अनुभवस्मरणो- भयनन्यत्वस्यापि तत्रैव सत्त्वेन व्यभिचारातत्चत्पदानि चाच्यानि । ननु ज्ञानमिदं प्रत्यक्ष-20 सरणाभ्यां भिन्नं भवितुं नार्हति तदेवेदमिति हि प्रत्यभिज्ञानं, तत्र तदिति स्मरणमिद- मिति प्रत्यक्षमतो नान्यः कश्चिदस्य विषयोऽतो नेदं प्रमाणान्तरमिति चेन्न, ताभ्यामस्य वैलक्षण्यात्, अस्ति पत्र विलक्षणो विषयो यस्य ग्रहणं स्मरणप्रत्यक्षाभ्यामशक्यं पूर्वा- पराकारैकधुरीणं द्रव्यं प्रत्यभिज्ञानस्य विषयः, न च वत्स्मरणस्य विषयः, अनुभूतार्थविषय- - १. सम्बन्धस्मरणादाप्तिप्रत्यभिजादिफलोपयोगे प्रामाण्यमेव, फलीभूतस्मृतेरपि विपयवाधाभावादेव याथार्य दुनिवारं, तस्या. प्रमावस्यानुभवप्रमात्वपारतंत्र्येऽपि व्याप्तिजानप्रमालपरतंत्रानुमितिप्रमात्ववदविरोधात् ॥ २. किच प्रत्ययाना प्रामाण्यनिवन्धनं न केवल विषयातिरेक एव, संदिग्धस्य मन्देहापकरणस्यापि निवन्धन- वात् । तथाहि पटादय. कदाचिदुपलक्षिताकाराः अन्यदाऽनुपलक्ष्यमाणाः सदसत्तया सन्देहविषयतामापद्यन्ते प्रत्यभिज्ञा च तेषां सन्देहविषयतामपाकुर्वाणा प्रमाणतामभुत एवेति ।।

- तत्वन्यायविमाकरे [तृतीयकिरणे त्वाचस्य, नापि प्रत्यक्षस्य, वर्तमानार्थमात्रवृत्तित्वात् , अस्य दर्शनस्मरणोत्तरकालभावित्वेन ज्ञानान्वरत्वेनानुभवाच्च, न ह्यनुभूयमानस्यापलापो युक्तोऽतिप्रसङ्गादित्याशयेन प्रत्यभिज्ञार" विषयमुपनिबध्नातीदमिति, प्रत्यभिज्ञानमित्यर्थः, तत्तेदन्तोल्लेखनयोग्यमिति, प्रायस्मृता- विवात्रापि तत्तेदन्तयोरल्लेखनं भवतीति भावः, ननु तत्ताऽस्पष्टता, इदन्वा स्पष्टता, तथा : 5 स्पष्टास्पष्टाकारभेदान्नैकं प्रत्यभिज्ञानस्वरूपमस्ति, विरुद्धधर्माध्यासेऽप्यभेदे प्रत्यक्षानुमान- योरप्यैक्यं स्यादिति चेन्न, चित्रज्ञानवदाकारभेदेऽपि तस्यैकज्ञानत्वेनानुभवात् तर्हि विलक्ष. णविषयाभावानेदमस्तीत्यत्राहैकत्वसादृश्यलक्षण्यप्रतियोगित्वादिविषयकमिति, क्वचिदे- कत्वं क्वचित्सादृश्यं क्वचिद्वैलक्षण्यं क्वचिच्च प्रतियोगित्वमस्य विषय इति भावः । ना स एवायमित्यादिप्रत्यभिज्ञानं स्मृतिप्रत्यक्षात्मकज्ञानद्वयमेव, परन्तु तयोर्भेदस्याग्रहादेक- 10 रूपतया भासत इत्याशशायामाह संकलनज्ञानापरपर्यायमतीतवर्तमानोमयकालावच्छिन्न- वस्तुविषयकञ्चेति । सङ्कलनं नाम विवक्षिवधर्मयुक्तत्वेन वस्तुनः प्रत्यवमर्शनम्, प्रत्यक्षस्म- रणोत्तरकालमनुभूयमानत्वेन न तत् ज्ञानद्वयमपि तु सङ्कलनात्मकं ज्ञानान्तरमेव, अन्या विशिष्टज्ञानमात्रोच्छेदः प्रसज्येत, सर्वस्यापि विशिष्टज्ञानस्य विशेषणज्ञानविशेष्यज्ञानोमय- पूर्वकत्वेनावश्यनियततदुभयेनैवोपपत्तौ विशिष्टज्ञाने स्वीक्रियमाणे गौरवात् । तथा प्रत्यक्षं 15 वर्तमानमात्रकालावच्छिन्नवस्तुविषय, स्मरणश्चातीतमात्रकालावच्छिन्नवस्तुविषयं, प्रत्यभिज्ञा- नन्तु तदग्राह्यवर्तमानकालातीतकालोभयावच्छिन्नवस्तुविषयकमिति न ज्ञानद्वयात्मकं प्रत्य- मिज्ञानमिति भावः। न चेन्द्रियविषयसम्बन्धे सति प्रत्यभिज्ञानस्य भावात्तदभावे तदभावाच प्रत्यक्षमेवेदमिति वाच्यम्, इन्द्रियविषयसम्बन्धाव्यवहितोत्तरं तस्यानुत्पत्तेः, प्रत्यक्षस्मर- णान्वयव्यतिरेकतस्तस्य भावा भावात् , संस्कारसत्त्वे तस्य भावाचदभावे तदभावाञ्च तस्य 20 स्मरणत्वापत्तेः, अतीतवर्तमानयोरेकत्वस्य प्रत्यक्षाविषयत्वाच्च तस्य वार्त्तमानिकत्वात् , न च स्मरणसहकृतमिन्द्रियमेकत्वं गृहातीति वाच्यम्, स्वाविपये सहकारिबलेनाप्यप्रवृत्तेः, नहि गन्धस्मृतिसहकृतं चक्षुः कदापि गन्धे प्रवर्तते अविषयश्च वर्तमानातीतकालीनत्व- व्याप्यमेकत्वमिति ॥ क्रमेण प्रयमिज्ञानस्य दृष्टान्तान्याह- तत्रैकत्वविषयं स एवायं देवदत्त इत्यादिज्ञानम् । सादृश्यविषयक 25 , १. तया च प्रत्यभिज्ञानं प्रमाणं, अविसंवादित्वे सति स्वार्थव्यवसायात्मकत्वात् , अन्यथा हि विसंवाद स्यात् संशयादिवत् न चेदं प्रत्यभिचानमव्यवसायात्मक, तदेवेद तत्सदृशमेवेदमित्याधेकत्वसादृश्यादिविषयस्य प्रत्यभिज्ञानस्यावाधितस्य संशयादिव्यवच्छेदनावगमात् । थाध्यमानस्य चाप्रमाणत्वोपपत्तेस्तदामामत्वान् । न च सर्व प्रत्यभिज्ञानं वाध्यमानमेव, तत्साधकप्रमाणाभावादित्यपि चितम् ॥

प्रत्यभिज्ञानम् ] न्यायप्रकाशसमलते गोसहशो गवय इत्यादि, अत्रैवोपमानस्यान्तर्भावः । वैलक्षण्यविषयक गोविसहशो महिष इत्यादि, प्रतियोगित्वविषयकञ्चेदं तस्माहूरं समीप- मल्पं महद्वेत्याशुदाहरणानि घोध्यानि । इति प्रत्यभिज्ञाननिरूपणम् ।। तत्रेति । ईदृशे प्रत्यभिज्ञान इत्यर्थः, इत्यादिवानमिति, तद्देशतत्कालवचिदेवदत्ततद्देशै- तत्कालपचिदेवदत्तयोश्च पूर्वापरपर्यायव्यापिदेवदत्तद्रव्यात्मकोर्खतासामान्यमवलम्ब्यैकत्वं । विषयीक्रियते, प्रत्यभिज्ञापरिच्छेद्यस्यैकत्वस्याभावे पूर्वोत्तरपर्यायवत्येकजीवासिद्ध्या बन्ध- मोक्षव्यवस्थैव न स्यात् बद्धस्यैव मुक्तत्वे हि विमाव्यात्मानं दुःखितं परमसुखप्राप्तये दुःख- विगमोपाये प्रवर्तते, अन्यथाऽन्यस्य सुखार्थ किमर्थमन्य उद्युखीतेति भावः । सादृश्यविष- यकं वदुदाहरति सादृश्येति, गोसदृश इति, दृष्टे सादृश्यविशिष्टे पिण्डे स्मृते च गवि संकलना- त्मकं गोसदृशो गवय इति ज्ञानमुपजायते, इदश्च तिर्यक्सामान्यविषयकं, तिर्यक्सामान्यज्ञान 10 सहपरिणामात्मकमिति भावः । ननु गोदर्शनजन्यसंस्कारवतः प्रमातुः कालान्तरे गवयदर्शन- गोस्मरणाभ्यामुपजायमानस्य तत्सहशोऽयमिति बानस्योपमानत्वरूप प्रमाणान्तरमेवोचितं न तु प्रत्यभिज्ञानत्वं तस्यैकत्वमात्रविषयकत्वादिति परस्याकांक्षायामाहात्रैवोपमानस्यान्तर्भाव इति । तथा च साश्यविशिष्टपिण्डस्य दृष्टस्य स्मृतस्य गोश्च सङ्कलनात्मकस्य गोसहशो गवय इति ज्ञानस्य प्रत्यभिज्ञानतानतिक्रमात् । स एवायमित्यादिरूपा यथा पूर्वपर्यायेणोत्तरपर्यायस्यैक- वाविपरिणी प्रतीतिः सङ्कलनात्मकत्वात् प्रत्यभिज्ञान तथैव गोसदृशो गवय इत्यपि प्रतीतिःप्रत्य- भिज्ञानमेव, सङ्घलनात्मकत्वाविशेपात्, यद्येकत्वमात्रविषयकं तत् न तु सादृश्यादिविषयक- मित्युच्यते तर्हि सादृश्यज्ञानस्योपमानत्वात्मकप्रमाणान्तरत्ववत् गोविधर्मा महिष इत्यादिरूप- वैसादृश्यञानस्यापि प्रमाणान्तरत्वं स्यात् ,न च वैसादृश्यज्ञानमुपमानान्तर्गतम् ,तस्य सादृश्य- मानविषयकत्वात् , इष्टापत्तौ वव प्रमाणसंख्याव्याघातस्स्यात् । न च वैसादृश्य सादृश्याभाव- 20 स्तथा चाभावविषयकत्वेनानुपलब्धिप्रमाणान्तर्गतत्वान्न प्रमाणसंख्या व्याहन्यत इति वाच्यम्, तथा च सति साहश्यस्यापि वैलक्षण्याभावरूपत्वेनामावविषयकतया तत्रैवान्तर्गतत्वेनोपमा. नेप्रमाणाभावप्रसङ्ग स्यादिति भावः । एतेनातिदेशवाक्यार्थजानकरणकं सादृश्यविशिष्टपिण्ड दर्शनव्यापारकं संज्ञासंज्ञिसम्बन्धज्ञानमुपमानमित्यपि निरस्तम्, अस्यापि प्रत्यभिज्ञानत्वाऽन- तिक्रमात् , इदत्वेनानुभूतगवयादिव्यक्तौ गवयादिपदवाच्यत्वस्य सङ्कलनात् । न चेदन्त्वेनैव गषयस्यानुभूतत्वेन गवयत्वावच्छिन्ने गवयपदवाच्यत्वस्योपमानविषयस्य न प्रत्यभिज्ञान- तस्सिद्धिर्गक्यत्वेन तस्याननुभवादिति वाच्यं प्रत्यभिज्ञावरणकर्मक्षयोपशमविशेषेण यद्ध- १. ननु सादृश्यं न वैलक्षण्याभावमात्र, किन्तु समानधर्मयोग एवेति नोपमानोच्छेद इति चेत्र, बैलक्षण्य- स्यापि विसदृशधर्मयोगरूपत्वेन सादृश्याभावमात्ररूपत्वामम्मवादिति ।। 15 25 - :३५८ : तत्वन्यायविमाकरे [वृतीयकिरणे विच्छेदेनातिदेशवाक्यानूधधर्मदर्शनं तद्धर्मावच्छेदेनैव पदवाच्यत्वपरिच्छेदोपपवेरिति। एवं वैलक्षण्यविषयक दृष्टान्तयति वैलक्षण्येति, गोदर्शनाहितसंस्कारस्य महिषदर्शिनो जाय- मानेयं प्रतीतिसंकलनात्मकत्वात्प्रत्यभिज्ञानं विसशविषयकमिति भावः । प्रतियोगित्वविष- यकं दृष्टान्तयति, इदमिति, इदं तस्मादिति पदद्वयं समीपादिपदैरप्रेतनैस्सम्बध्यते, तस्मादि- । त्यत्र पञ्चम्यर्थोऽवध्यपरपर्यायः प्रतियोगित्वं, तथा चेदं तदवधिकदूरत्ववत्तत्प्रतियोगिकदूर- त्ववद्वेत्यर्थः एवमग्रेऽपि, इत्यादीत्यत्रादिना 'रोमशो दन्तुरश्श्यामो वामनः पृथुलोचनः । यस्तत्र चिपिटघ्राणस्तं चैत्रमवधारयेः ॥ पयोम्बुभेदी इंसस्स्यात् षट्पदैर्धमरः स्मृतः । सप्तपर्णस्तु विद्वद्भिर्विज्ञेयो विषमच्छदः ॥' इत्येवमादिशब्दाकर्णनोत्तरकालं तथाविधवस्त्व- वलोकनतो यदा तथावचनं सत्यापयति तदा तथाविधानि ज्ञानानि संकलनात्मकत्वादुदाह- 10 रणतया प्रायाणीति । प्रत्यभिज्ञानप्रमाणं निगमयतीतीति ॥ सम्मति तर्कप्रमाणं निरूपयति- उपलम्भानुपलम्भादिजन्य व्याप्त्यादिविषयकं ज्ञानं तर्कः । यथा वह्नौ सत्येव धूमो भवति, वहावसति धूमो न भवत्येवेति ज्ञानं व्या- सिविषयकम् ॥ उपलम्मेति । उपलम्मानुपलम्भौ-यथाक्षयोपशमं सकृदसकृता प्रमाणमात्रेण साध्य- साधनयोर्ग्रहणाग्रहणे, न तु केवलं प्रत्यक्षेण, अनुमानादिनापि अतीन्द्रियसाधननिश्चया- निश्चययोरुपादानात् । आदिनाऽऽवापोद्वापयोहणं ताभ्यां जन्यं वक्ष्यमाणस्वरूपव्यात्या- दिविषयकं ज्ञानं तर्क इत्यर्थः, अत्रादिना वाच्यवाचकमावो प्रायः, तथाचोपळम्मानुपल- म्भनन्यव्याप्तिविषयकज्ञानाऽऽवापोद्वापजन्यवाच्यवाचकभावज्ञानान्यतरत्वं सर्कस्य लक्षणम्। 20 दृष्टान्तमाह यथेति, प्रत्यक्षेण सकृदसकृद्वा वहिधूमयोहणाग्रहणानन्तरं यावान् कश्चिद्ध- मस्स सर्वोऽपि वह्नौ सत्येव भवति वहावसति धूमो न भवत्येवेति सर्वदेशकालाषच्छेदेन साध्यसाधनसम्बन्धविषयकं ज्ञानमुदेति तस्मादयं तर्क इति भावः, सर्वदेशकालावच्छेदेन साध्यसाधनसम्बन्धो व्याप्तिः तद्विषयकश्च कः, तदुल्लेखश्चेदमस्मिन् सत्येव भवति, इदम- स्मिन्नसति न भवतीत्येवरूपः । अत्र सहकारिकारणे च प्रमाणेन सकद्वाऽसकता साध्या 25 साधनयोर्महणाग्रहणे, महानसादौ वहिधूमयोहणं हूदादौ तयोरग्रहणमिति । न च भूयो- . 15 -- १. सर्वोपसंहारेण व्याप्ते प्रत्यक्षाविषयत्वं, उपलम्भानुपलम्भस्वभावस्य द्विविधस्यापि प्रत्यक्षस्य सनिहित मात्रविषयकत्वात् । तथा च व्यभिचारादर्शनभूयोदर्शनसहकृतमपि प्रत्यक्षं न व्याप्ति ग्राहयति, स्वाविषये सहकारिसहलसहकृतेनापि स्वेन तद्रहायोगात् ॥

तर्क] न्यायप्रकाशसमलते ३५९ : दर्शनव्यभिचारादर्शनसहकृतेनेन्द्रियेणैव व्याप्तिर्योग्यत्वागृह्यते, सामान्यलक्षणाप्रत्यासत्त्या सकळसाध्यसाधनव्यक्त्युपसंहारस्यापि सम्भवेन तदुपसंहाराय व्यर्थ एव तर्क इति वाच्यम् , तर्कयामीत्यनुभवसिद्धेन तर्केणैव सकलसाध्यसाधनव्यक्त्युपसंहारेण व्याप्तिग्रहोपपत्ची सामा. न्यलक्षणाप्रत्यासत्तिकल्पने प्रमाणाभावात्, ऊहं विना ज्ञानेनापि सामान्येन सकलव्यक्त्य- नुपस्थितेश्च । अपेक्ष्यते हि तया सामान्यं यदि व्यक्तिसाकल्यव्यभिचारि स्यात्तदा सामान्य- 5 मेव न स्यादित्येवंविधस्तकः । अस्ति तस्य प्राणिनो धर्मविशेषो विशिष्टसुखादिसद्धावान्य- थानुपपत्तेरित्यादौ साध्यस्य धर्मविशेषस्य शुभः पुण्यस्येत्याद्यातवचनादेव ग्रहणं हेतोश्चानु- मानात् । अस्त्यादित्यस्य गमनशक्तिः गमनान्यथानुपपत्तेरित्यादौ साध्यस्यानुमानात्पूर्व यत्कार्य तच्छक्तिमत्कारणपूर्वकं यथा सम्प्रतिपन्नं, कार्यञ्च गमनमित्येवरूपानुमानान्तराद्रहणं हेतोश्च देशान्तरप्राप्तिरूपलिङ्गादिति । एतेन व्याप्यारोपेण व्यापकारोपस्तकः स च क्वचिद्विरोधिशङ्का- 10 निवर्तकत्वेन प्रमाणानुग्राहकः, न चायं स्वतः प्रमाणमिति मतमपास्तम्, सामान्यलक्षणा- प्रत्यासचौ मानामावेन सकलसाध्यसाधनोपसहारेण व्याप्तिग्राहकस्याभावप्रसङ्गात् । न चान्व- यव्यतिरेकसहकतेन प्रत्यक्षेण व्याप्तिर्गत इति वाच्यम्, प्रतिनियतदेशकालावच्छिनार्थे- ज्वेवेन्द्रियस्य प्रवृत्त्या सकलदेशकालावच्छिन्नसाध्यसाधनोपसहारेण तेन तद्ब्रहणासम्भवात् । बहिरिन्द्रियनिरपेक्षस्य मनसो बहिरर्थसाक्षात्कारे सामर्थ्यविरहेण तद्वृत्तिव्याप्तेस्तेना- 15 ग्रहात् । नाप्यनुमानाचगुहः, प्रकृतानुमानेनैव तत्प्रतिपचावन्योन्याश्रयात् व्याप्तिकाने सत्य- नुमानं सति च तस्मिन् व्याप्तिग्रह इति । अनुमानान्तरतस्तत्प्रतिपत्तौ त्वनवस्था, तस्यापि गृहीतव्याप्तिकस्यैव प्रकृतानुमानव्याप्तिप्राहकत्वात् तद्व्याप्तिग्रहश्चान्यानुमानगृहीतव्याप्तिका- नुमानादिति । तस्मादुपलम्मानुपलंभादिजन्यं व्याप्त्यादिविषयकं तर्काख्यं ज्ञानमवश्यम- भ्युपेयम् । तथा स्वविषयभूते व्याप्त्यादौ अविसंवादकत्वात्प्रमाणत्वं तर्कस्य, अत्र प्रयोगस्तक: 20 प्रमाणमवाध्यमानविषयकत्वात्प्रत्यक्षादिवदिति, स्वपरव्यवसायित्वेन च स्वतः प्रमाणम् | अयञ्च वर्कः सम्बन्धप्रतीत्यन्तरनिरपेक्ष एष स्वयोग्यतासामर्थ्यात्सम्बन्धप्रतीति जनयतीति नानवस्था । पराभिमततर्कोऽपि क्वचिद्व्याप्तिविचाराङ्गत्या क्वचियभिचारिशानिवर्तक- तया चोपयुज्यत इति ॥ अथाविपद्मावाच्यवाचकसम्बन्धविषयकतर्कस्य दृष्टान्तमाह- " - 26 १. न च साधनसामान्यसाध्यसामान्ययोरनवयवयोस्सनिकृष्टवादेकत्रापि साकल्येनेन्द्रियेण ग्रहणमस्ति, विशेषप्रतिपत्तिस्तु सर्वत्र हेतो. पक्षधर्मतावलादेवेति वाच्यम्, व्याप्तिग्रहणकाल एव सामान्यस्वरूपस्य साध्यस्य सिधा साधनवैफल्यापत्ते, पक्षधर्मताया धूमविशेष एव सत्त्वे न तस्य वहिविशेषेण व्याप्तेरगृहीततया गमकत्वा- सम्भवात् धूमसामान्ये सत्त्वे तु बहिसामान्यस्यैव मिद्धि स्यान्न तु विशेषस्येति ।

:: तस्वन्यायधिमाकरे- [मृतीयकिरणे यथा वा घटजातीयश्शब्दो घटजातीयस्य-वाचको घटजातीयोऽथों घटजातीयशब्दवाच्य इति ज्ञान-वाच्यवाचकभावसम्बन्धविषयकम् ॥ यथावेति । ननु वाच्यवाचकभावविषयकं ज्ञानं कथं तर्क-इति चेन्मैव इतरप्रमाणा- साधारणत्वात् नहीदं प्रत्यक्ष, चक्षुरादिज्ञानस्य शब्दपरिहारेण रूपादावेव श्रोत्रज्ञानस्य च 5 रूपादिपरिहारेण शब्द एव प्रवर्त्तमानत्वात् । न च सकलशब्दार्थगोचरमन्यज्ञानमस्ति ततस्तर्क एव-तद्विषयक इति ।। कथमुप्रलम्भानुपलम्भौ तक प्रति कारणे भवत इत्यत्राह- व्याप्तिविषयकज्ञानश्च व्याप्तिज्ञानकाले सकृदुपलम्भानुपलम्माभ्यां साक्षादेव जायते। क्वचित्तु पूर्वमसकृदुपलम्भानुपलम्भाभ्यामेव काला- 10 न्तरे साधनग्रहणप्रारदृष्टसाध्यसाधनस्मरणप्रत्यभिज्ञानपरम्परया जायते। उपलम्भश्च साध्यसत्त्व एव हेतूपलम्भ इति । अनुपलम्भश्च साध्याभावे हेतोरनुपलम्भ इति । साध्यसाधनग्रहणाग्रहणात्मकाविमौ प्रमाण- मात्रेणाभिमतौ॥ व्याप्तिविषयकेति । साक्षादेवेति स्मरणप्रत्यभिज्ञानिरपेक्षमेवेत्यर्थः, तादृशक्षयोपशम- 15 विशेषबलात्तथा जायत इति भावः । परम्परया तर्कोत्पत्तिमाह क्वचित्त्विति । उपलम्मा- नुपलम्भौ दर्शयति उपलम्मश्चेचि साध्यसाधनयोर्महणमिति मावः । अनुपलम्मश्चेति, साध्य- साधनयोरग्रहणमित्यर्थः, तथा च धूमाधिकरणे वह्निदर्शनं, वहयभावाधिकरणे धूमाभाव- दर्शन मिति द्वयोस्तात्पर्यार्थः । कथं तयोर्ग्रहणमित्यत्राह साध्यसाधनेति, तेनातीन्द्रियसाध्य- हेतुर्कस्थलेषु न दोष इति भावः ॥ अथ वाच्यवाचकभावसम्बन्धज्ञानजननविधानमाह- वाच्यवाचकभावसम्बन्धज्ञानन्तु कचिदावापोद्वापाभ्यां समुदेति । यथा प्रयोजकवृद्धप्रयुक्तगामानयेतिवाक्यश्रवणसमनन्तरगवानयनप्र. त्तिमत्प्रयोज्यवृद्धचेष्टाप्रेक्षणजन्यैतद्वाक्यजन्यैतदर्थविषयकज्ञानवानयमि- त्यनुमानज्ञानवतोऽपि बालस्य तत्तदर्थविशेष्यकतद्वाक्यघटिततत्तत्पदवा- 25 व्यत्वसंशयवतः कालान्तरीयप्रयोजकवृद्धप्रयुक्तगां नयाश्वमानयेति गो- शब्दानयनशब्दविषयकावापोद्वापवद्वाक्यश्रवणजन्यप्रयोज्यवृद्धप्रवृत्तितो १. यथाऽस्ति तपनस्य गमनशक्तिर्गमनान्यथानुपपत्तरित्यत्र गमनमो वर्म आप्तचनात्, गमनशक्तिशो- कानुमानादर्वाक् नहि सिद्ध किन्तु यत्कार्य तच्छक्तिमत्कारणपूर्वकं, यथा घटादि. कार्यश्च- गमनमित्येवस्या मुमानान्तरात् सिद्धधति, तयोरतीन्द्रियत्वात् इति माव. ॥ 20 न्यायप्रकाशसमल मलते गोजातीयोऽर्थो गोशब्दस्य वाच्यो गोजातीयश्च शब्दो गोजातीयस्य वाचक इत्येवंरूपस्तर्कस्समुल्लसति । कचिचाप्तपुरुषप्रयुक्तेन परार्थतरूपे णेहशोर्थ ईशशब्दवाच्य ईशशब्दश्वेशार्थस्य वाचक इति वाक्येन वाच्यवाचकभावप्रतिपत्तिात चानुभवस्स्मृति प्रत्यभिज्ञानश्च कारणम् । इति तर्कनिरूपणम् ॥ पाच्यवाचकेति । आवापोद्वापाध्यामिति, आवापोऽनुवृत्तिरुद्वापो व्यावृत्तिः । वत्प्र- कारं विशदयति यथेति, अयमभिप्राय:, एकः प्रयोजकवृद्धो य आज्ञापयति कमपि, द्वितीयः प्रयोज्यवृद्धो य आज्ञप्तो भवति, तृतीयो बालो यः प्रयोज्यवृक्षप्रवृत्तितः प्रयोनकवृद्धोदितस्य वास्यस्यार्थ परिच्छिनत्ति । तत्र प्रयोजकवृद्धेन प्रयोज्यवृद्धं प्रति गामानयेषिवाक्ये प्रयुक्त गृही- ततत्सङ्केतस्य प्रयोज्यवृद्धस्य तच्छ्रोतुरगृहीततत्सङ्केतस्य च बालस्य पर्णविषयकं पदविषयकं 10 वाक्यविषयकश्च सङ्कलनात्मकं प्रत्यभिज्ञानं समुदेखि । यथा पूर्वपूर्ववर्णावयवश्रवणेन संजात संस्कारस्यान्त्यावयवनवणानन्तरं पूर्वतदवयवस्मरणे इस्वादिविषयकसङ्केतस्मरणे च सत्ययं वर्णो हूस्यो दीर्घः प्लुतो वेति प्रत्यभिज्ञानमुभयोर्जायते तथा पूर्वपूर्ववर्णश्रवणजन्यसंस्कारस्था- न्त्यवर्णश्रवणानन्तरं तत्तत्पूर्ववर्णानामनुक्रमविशिष्टानां स्मरणे पदविषयकसङ्केतस्मरणे च सतीदं सुवन्तं तिङन्तं वा पदमिति प्रत्यभिज्ञानं जायते । एवं पूर्वपूर्वपदश्रवणसमुदितसं- 15 स्कारस्यान्त्यपदश्रवणानन्तरमनुक्रमविशिष्टानां पूर्वपदानां वाक्यविषयकसंकेतस्य च स्म- रणे सति वाक्यमिदमिति प्रत्यमिनानं जायते । इत्थं प्रत्यमित्रानाद्वर्णपदवाक्यग्रहणे जाते प्रयोज्यवृद्धस्य गोकर्मकानयनानुकूलां गमनामिकां चेष्टामाकलय्य बाल. कारणान्तरासन्निधौ प्रयोजकवृद्धप्रयुक्तशब्दश्रवणसमनन्तरं प्रवृत्तस्य प्रयोज्यवृद्धस्येयं चेष्टा प्रयोजकवृद्धशब्दजन्य- यत्किञ्चित्प्रतिपत्तिप्रयोज्येति मन्यते । ततस्तेनानीयमानां गां निभाल्य गवानयनरूपोऽर्थोऽ- 20 नेन प्रयोन्यवृद्धेन तस्माद्वाक्यादवगत इति प्रत्येति, परन्तु न पारयति तदानीं कस्य पदस्य कोऽर्थ इति विविच्य निश्वेतुं। पुनश्च कालान्तरे प्रयोजकवृद्धन प्रयुक्त गां नयेत्यादिवाक्यं गोशब्देनानुवृत्तमानयशन्देन च घ्यावृत्तं श्रुत्वा दृष्ट्वा च प्रयोज्यवृद्धस्य विशिष्ट प्रवृत्ति विनानाति तदाऽर्थस्य गोरनुवृत्ति व्यावृत्तिश्चानयनस्य, तथैव प्रयोजनयुद्धे. नोदितमन्धमानयेति वाक्यं गोशब्देन व्यावृत्तमानवशब्देन चानुवृत्तं निशम्य विलोक्य प प्रयोज्यवृद्धस्य ताशी चेष्टां समाकलयति गवादेरथस्य व्यावृत्तिमानयनस्यानुवृत्तिन्छ । ततश्चेदशावापोद्वापाभ्यां समुल्लसति तस्य तर्कः गोजातीयोऽर्थो गोजागीयशब्दवाच्यो गोजातीयश्च शब्दो गोजातीयस्य वाचक इत्येवंरूपो षाच्यवाचकमावावलम्वन इति । 25 + तस्वन्यायविभाकरे चितुर्यकिरणे गामानयेतिवाक्येति, गामानयेत्यनुकरणं पदं तद्बोधकञ्चतिपदं, तस्य च वाक्यपदेन सह सुपा' इत्यनेन समासः । एवमग्रेऽपि । तत्र प्रयुक्तपदस्य वाक्यपदेन समनन्तर- पदस्य प्रवृत्तिपदेन जन्यपदस्यानुमानज्ञानपदेनान्वयः । प्रेक्षणं वालनिष्ठं, अवशिष्ट मूलं स्कु- टार्थम् । नन्वावापोद्वापाभ्यां क्वचिदेव तर्कस्समुल्लसतीत्युक्तं तत्किमन्येनापि प्रकारेण स 5 समुदेतीति जिज्ञासायामाह क्वचिश्चेति । अत्रायं भावः, कश्चिदाप्तस्वयं तर्केण वाच्यवाचक- भावं शब्दार्थयोरवगत्य परं प्रति बोधयितुं परस्मिन्तदनुसारितकोत्पत्तिहेतुं परार्थतममि- धत्ते, वत्स ! गोजातीयोऽर्थो गोजातीयशब्दवाच्यो गोजातीयश्च शब्दो गोजातीयार्थस्य वाचक इत्यवेहीति, ततश्चासौ वाध्यवाचकयोरुपलम्मानुपलम्भद्वारेण तथाप्रतिपयमानतको- देव वाच्यवाचकभावं विजानाति, इयञ्च व्याप्त्या वाच्यवाचकमावप्रतीवित्रोंच्या, शङ्गग्राहि- 10 कतया तु नियतव्यतावयं पुरोवर्ती भावोऽस्य शब्दस्य वाच्य इति, तथाऽऽगमादेरपि सा भवति, तदूर्ध्व तु व्याप्तिद्वारेण वर्कादेव प्रत्येति, इत्यम्भूतसर्व इत्यम्भूतस्य सर्वस्य शब्दस्य वाच्य इत्थम्भूतशब्द इत्थम्भूतस्य सर्वस्यार्यस्य वाचक इति ॥ ननु वाच्यवाचकभाव- विषयके तऽपि व्याप्तिज्ञानात्मकतर्क इवानुभवस्मृत्योः क्वचिदेव कारणत्वं किं वा सर्वत्रेत्यत्राह सकें चेति, वाच्यवाचकभावविपयकेत्यादिः, अन्यथा साक्षादेव जायत 15 इत्यनेन विरोधापत्तेः, कारणमिति, वथा चात्र तयोः कारणत्वं नियतमिति भावः । अथ तक निगमयतीतीति ।। . 20 इति श्रीमद्विजयानन्दसूरीश्वरपट्टालंकारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्य- स्तभक्तिभरेण तत्पयरेण विजयलब्धिमूरिणा विनिर्मितस्य तत्त्वन्यायविभाक- रस्य स्वोपशायांन्यायप्रकाशव्याख्यायामनुमानपरिकरो नाम तृतीय किरणः ।। अथ चतुर्थः किरणः॥ अथानुक्रमायातमेतेषां कार्यभूतमनुमान स्वरुपयति- हेतुज्ञानव्याप्तिस्मरणकारणकं साध्यविज्ञानमनुमानम् । यथा पर्वतो पहिमानिति विज्ञानम् ॥ हेतुज्ञानेति । हेतोर्वक्ष्यमाणस्वरूपस्य ज्ञान- निश्चयः, व्याप्तेरविनाभावरूपायाम्मरण 25 ते. कारण यस्य तथासूतं साध्यस्यामिधास्यमानस्वरूपस्य विज्ञानं निश्चयोऽनुमानमित्यर्थः । अत्र हेतुज्ञानं व्याप्तिस्मरणच मिलित्वाऽनुमितौ कारणमन्यथा विस्मृतव्याप्तेरनधिगतव्या- सर्वाऽवस्थमनुष्यस्य नारिकेलद्वीपवासिनो वा हेतुज्ञानमानाचभाववतो वा व्याप्तिस्मरण- . 5 । . . 10 न्यायप्रकाशसमलते हेतुलक्षणम् ] :-३६६ : वतोऽनुमानोत्पत्तिस्स्यात् । एवं नानद्वयादेव सर्वत्रानुमानोत्पत्त्या निरुक्तज्ञानद्वयजन्याति- रिक्तपरामर्शात्मकविशिष्टज्ञानस्यानुमानहेतुत्वमप्रामाणिकमेवेति बोध्यम् , तथाकल्पने गौर- वात् प्रयोजनाभावाच । अनुमानं दृष्टान्तयति यथेति, गृहीतधूमस्य स्मृतव्याप्तिकस्य च यत्पर्वतो बतिमानिति विज्ञानमुदेवि तदनुमानमिति भावः ॥ इदानीमनुमानलक्षणघटकहेतुलक्षणमाह- निश्चितव्याप्तिमान् हेतुः। यथा वह्नौ साध्ये धूमः । व्याप्तिमत्वमेव हेतो रूपं न तु पक्षसत्त्वसपक्षसत्त्वविपक्षासत्वात्मकं त्रिरूपं, अबाधित त्वासत्मतिपक्षितत्वाभ्यां पञ्चरूपं वा, असाधारणत्वाभावात् ॥ निश्चितेति । निश्चिता निर्णीना चासो व्याप्तिश्च निश्चितव्याप्तिस्ततो नित्ययोगे भतुवं अत एव निश्चिता व्याप्तिर्यस्मिन्निति बहुव्रीहिर्न कृतः, निश्चयविषयव्याप्तेर्नियसम्बन्धस्य कर्मधारयोत्तरमतुवन्तेनैव लाभात् । एवञ्च निश्चितव्याप्त्या नित्यसम्बद्धो हेतुरिति भावः । हेतुं दृष्टान्तयति यति । ननु हेतुर्निश्चितपक्षसत्त्वसपक्षसत्त्वविपक्षासंवरूपत्रयंयुक्त एव, तत्र पक्षसत्त्वं सिद्धत्वव्यवच्छेदार्थ सपक्षसत्त्वं विरुद्धत्वव्यवच्छेदार्थ विपक्षा- सत्त्वञ्चानेकान्तिकत्वव्यवच्छेदार्थ निश्चीयते तेषामनिश्चये तु असिद्धादिहेतोरप्यनुमाना: पत्तिः प्रसन्येतेत्याशङ्कायामाह व्याप्तिमत्त्वमेवेति, एवशब्देन व्यवच्छेद्यमाइ नस्विति । निरूपमिति बौद्धानामेवमभ्युपगमः । नैयायिकास्तु वाघितसत्प्रतिपक्षितहेतुभ्युदासाया- 15 बाधितत्वासप्रतिपक्षाभ्यां प्रोक्तत्रिरूप हेतो रूपमिति वदन्ति तदपि नेत्याहाबाधितत्वेति । अनयोहेनुरूपत्वाभावे कारणमाहासाधारणत्वाभावादिति । अविनाभावनियमनिश्चयादेव दोषत्रयादिपरिहारोपपत्तेरविनाभाव एष हेतोरसाधारणं रूपं, स चासिद्ध विरुद्धेऽनका न्तिके वा न सम्भवति, तदभावाच त्रिरूपे विद्यमानेऽपि हेतोर्गमकत्वं न दृष्टं, यथा स श्यामों मैत्रातनयत्वादितरमैत्रापुत्रवदित्यादौ । न च नैयत्येन विपक्षव्यावृत्तिनास्तीति वाच्यम्; 20 विषक्षानियमेन व्यावृत्तेरेव व्याप्तित्वेनेतररूँपद्वयवैयोपत्तेः । पक्षधर्मत्वाभावेऽपि नदे. ज्यति शकटं कृत्तिकोदयात्, उपरि सविता भूमेरालोकवत्त्वात् अस्ति नभश्चन्द्रो जलचन्द्रा- १. नैयायिकाना मतेऽपि हेतुजानसम्बन्धज्ञानयोरावश्यकत्वमेव, साध्यव्याप्यहेतुमत्ताज्ञानरूपपरामर्शात्मक विशिष्टज्ञान प्रति विशेषणज्ञानमुद्रया तयोः कारणत्वात् , तथा च ताभ्यामेवामित्युत्पत्त्या व्यर्थः परामर्श इति भाव ।। २ अयम्भाव व्याप्तिरेव केवलं हेतो स्वरम, सत्त्वासत्त्वे तु तद्धर्मो, न हि धर्मिसत्त्वे धर्मा- स्सदा सर्वे भवन्त्येवेति नियम , पयदे शुक्लत्वादिधर्मयभिचारात् यद्यपि सत्त्वासत्त्वधर्मो कचिद्धेतौ तथापि धर्मिस्वरूपा व्याप्तिर्मविष्यतीति न विरोध । यत्रापि च यूमादी सत्त्वासले हेती दृश्येते तत्रापि व्यारेख प्राधान्यमतस्सत्त्वासत्त्वादिकं साधारणमिति ।। .

। . तस्वन्यायविभाकरे [ चतुर्थकिरणे दित्याद्यनुमानदर्शनात् । वत्रापि कथञ्चित्कालाकाशादीनां पक्षत्वकल्पने काककाष्ण्येन हेतुना प्रासादधावल्यस्यापि साध्यत्वप्रसङ्गरस्यात्तत्रापि कथचिजगतः पक्षत्वसम्भवात् । जगत् प्रासादधावल्ययोगि, क्राककायॆयोगित्वादिति । जगतः पक्षत्वस्य लोकविरुद्धत्वे काम- काशादीनामननुभूयमानत्वेन लोकविरुद्धत्वं तुल्यमेव, लिष्टकल्पनापत्तिश्च । नापि सपक्ष- 5 सत्वं गमकं, सपक्षेऽसतोऽपि श्रावणत्वादेशब्दानित्यत्वे गमकत्वप्रतीतेः । न च श्रावण- । त्वस्थासाधारणत्वादनकान्तिकत्वमिति वाच्यम् , यद्यदसाधारणं तत्वदनैकान्तिकमिति ब्यास्य- सिद्धेः सपक्षविपक्षासत्वेन निश्चितेऽपि श्रावणत्वे पक्षान्त वेणाविनाभावग्रहसम्भवात् । अन्यथा सर्वानित्यत्वे साध्ये सत्त्वादेहेतुत्वं तव न स्यात् । नापि सपक्षविपक्षयोरसक्वेन संशयितत्वादसाधारणः, श्रावणत्वादेस्वदसत्त्वेनैव निश्चयात् । तस्मानिश्चितान्यथानुपपत्ति- 10 रेव हेतो रूपं तचासिद्धादिहेतौ न सम्भवत्येवेति किं त्रिरूपेण । एवं पञ्चरूपत्वमपि न हेतु. लक्षणं, अग्निजन्योऽयं धूमस्सत्त्वात्पूर्वोपलब्धधूमवदित्यादौ पक्षे धूमे हेतोस्सत्त्वस्य सपने पूर्वदृष्टयूमे च सत्त्वात्. खरविषाणादौ विपक्षेऽसत्त्वात् पक्षे बाधाभावात्साध्याभावसाध- कानुमानासम्मवाच्च पञ्चरूपत्वेऽक्षतेऽप्यगमकत्वात् , न च यावद्विपक्षावृत्तित्वं हेतोर्नास्तीति वाच्यम्, तस्यैवान्यथानुपपत्तिरूपत्वेन हेतुलक्षणत्वे शेषाणामकिञ्चित्करत्वात्। एवमबाधित- 18 विषयत्वं निश्चितमेव हेतुलक्षणमिष्टं भवतस्तन्निश्चयश्च न सम्भवति, तनिश्चयसाध्यनिश्चय, योरन्योऽन्याश्रयात् । सति हि हेवौ बाधितविषयत्वाभावनिश्चये साध्यनिश्चयस्तन्निश्चये च बाधितविषयत्वाभावनिश्चय इति, न च प्रमाणान्तरेण बाधितविषयत्वाभावनिश्चयान्नान्योऽ- न्याभय इति वाच्यम्, वस्याकिञ्चित्करत्वात् , कुतश्चिद्वाधनाभावनिश्चये कुतश्चित्साध्यामाष- स्यापि सद्भावसम्भवात् । नन्धविनाभावोऽपि हेतुलक्षणं माभूत् अन्योऽन्याश्यात्, साध्य- 20 सद्भावनिश्चये व्याप्तिनिश्चयात् तन्निश्चये च साध्यनिश्चयादिति मैवम् व्याप्तिनिश्चये साध्य- निश्चयस्याप्रयोजकत्वात् तर्काख्यप्रमाणान्तरादेव तन्निश्चयात् । न च हेतावविनामावनि- श्वायकेन तर्केणैव साध्यस्यापि सिद्धेईतोरकिचित्करत्वं स्वादिति वाच्यम्, हेतुना देशादि- विशेषावच्छिन्नस्य साभ्यस्य साधनात् तर्काच सामान्यत एव सिद्धत्वात् । एवमसत्प्रतिप- १. शन्देऽनित्यत्वसद्भाव एव श्रावणत्वोपपत्तिरूपतथोपपत्तिसम्मवादिति भाव ॥ २. सत्त्वस्य विपक्षा- वृत्तित्वेन निश्चितत्वेऽपि सपक्षावृत्तित्वनिश्चयतो गमकत्वं सत्त्वस्य न स्यात् न च तत्र सपक्ष एवं नास्ति इति वाच्यम्, विद्यमाने सपने हेतोरवृत्तित्वनिययस्य गमकतायामनजत्वादिति, वात्पर्यम् ॥ ३. सण व्याप्तिग्रहणवेलाया हि न पर्वतादीना मानं सर्वत्रानुवृत्त्यभावात् । तर्खनुमितौ मक्ष कथं भासत इति चेत हेनुग्रहणाधिकरणतया क्वचित्तद्भानम् । हेतोर्हि ग्रह पर्वतादौ जातोऽतस्साध्यस्थापि तत्रैवेति तदानम् । क्वचिदन्ययाऽनुपपत्त्यवच्छेदकतया, अस्ति नभसि चन्दो जलचन्द्रादित्यादी नभसि हेतोराहेऽपि नभसि चन्द्रास्तिवं विना जलचन्द्रानुपपत्तेरन्यथानुपपत्त्यवच्छेदकसया नमसो भानमिति ॥

-- -- व्याप्ति-] न्यायप्रकाशसमलट्टते 'क्षितहेतोरपि न हेतुलक्षणत्वं उभयत्र हेतावविनाभावासम्भवात् तस्थितमेवनिश्चितन्याप्ति- । मत्त्वमेव हेतोरसाधारण-रूपं न तु त्रिरूपं पश्चरूपं वेति ॥ अत्रेदं विचार्यम्', 'अविनाभावः : किं सामान्यस्य सामान्येन, विशेषा, विशेषाणां सामान्येन, विशेषैति । सामान्यस्य । सामान्येन व्याप्तिानुमानाङ्गभूता, क्या च सामान्यस्यैव सिद्धेः सामान्यतया सर्वदेशकाल. सम्बन्धित्वेन प्रसिद्धस्य साध्यस्य साधने सिद्धसाधनत्वापत्तः । नापि विशेषैः, देशकालाई । भवच्छिन्नस्तैस्तथात्वे देशकालानवच्छिन्नवहयादीनां सुप्रसिद्धत्वे सिद्धसाधनत्वापत्तेः, तदव- च्छिन्नव्याप्तित्वे चानुगमाभावात् , नहि धूमसामान्यस्य पर्वतादिस्थैरग्निविशेषैरनुगमोऽस्ति पर्वतीयवहयभावेऽपि घूमसामान्यस्योपलम्भात् । विशेषाणां सामान्येनापि न ज्याप्तिः, पूर्वोदितविधिना सिद्धसाधनत्वापत्तेः पर्वतीयधूमाभाववति महानसादौ वहिसामान्यस्य वृत्त्या व्यभिचाराच । नापि विशेषाणां विशेषैः, तेषामानन्त्येन दुर्महात् । अत्रोच्यते, 16 सामान्यविशेषवनस्सामान्यविशेषवता व्याप्तिस्तद्ब्राहकस्तकः, अत एव. यावान् कश्चिम इत्याधमिलापकं वाक्यमुक्त तत्र यावत्पदेन सामान्यस्य कश्चिदित्यनेन विशेषस्य बोधः, तत्रापि न. सामान्यविशेषौ केवलौ व्याप्यव्यापकभावेनानुभूयेते, किन्तु जात्यन्तरस्य सामान्यविशेषोमयात्मनस्तद्रूपतयाऽवमासनादिति ॥ अधुनाऽनुमानलक्षणघटकव्याप्तिस्मरणविषयभूतां व्याप्तिमाह- हेतौ साध्याभाववदवृत्तित्वं व्याप्तिः । इयमेवाऽन्यथाऽनुपपत्तिप्रति धन्धाविनाऽभावशब्दैरुच्यते । वहि विना धूमस्यानुपपत्तेर्वह्निसत्त्व एव धूमोपपत्तेच वह्निनिरूपिताऽन्यथाऽनुपपत्त्यादिशब्दवाच्या व्याप्तिधूमें वर्तते । अतो धूमो व्याप्यो निरूपकश्च वहिर्व्यापकः । तथा च व्याप्य । सत्वेऽवश्यं व्यापकसत्त्वं, व्यापकसत्त्व एव च व्याप्येन भवितव्यमिति 20 व्याप्यव्यापकभावनियमः सिद्ध्यति ।। हेताविति । यो हि व्याप्नोति यश्च व्याप्यते तयोरुभयोधर्मो व्याप्तिः, यदा व्यापक- - 15 १. मात्र वैशेपिका सामान्ययो विनाभाव सिद्धसाधनात् , अपास्तविशेष हि व्याप्ति सामान्य सिद्ध, नियत- । देशकालावच्छेदेन विशेषार्थिना प्रवृत्तिनिवृत्त्योरभावप्रसलाच । न च विशेषयोरविनामाव तेषामानन्त्येना- प्रसिद्ध तवायत्तस्याविनाभावस्य च.प्रसिद्ध.। पावतामुपलम्भस्तावत्स्वेवाविनामावग्रहणे च नागृहीताविना. भावस्य विशेषस्योपलम्भावनुमान स्यात् नैतदूषणम्, सामान्यक्तोरविनाभावग्रहणाभ्युपगमात् ॥ २. वहिईि धूमं व्याप्नोति घूमश्च वहिना व्याप्यत इति व्याप्तिर्वहिघूमयोधर्म. यत्र पर्मिणि पर्वतादौ, सर्वत्रेति व्यमि- चारचारणाय, सत्त्वमेवेति वाधवारणाय । तत्रैवेति व्यमिधारवारणाय ॥ .

! - तत्त्वन्यायविभाकरे [ चतुर्षकिरणे धर्मतया तस्या विवक्षा तदा व्यापकस्य यत्र धर्मिणि व्याप्यमस्ति तत्र सर्वत्र सत्त्वमेव व्यापकगतो धर्मों व्याप्तिः । यदा तु व्याप्यधर्मतया व्याप्तिर्विवक्ष्यते बदो यत्र धर्मिणि व्यापकोऽस्ति तत्रैव व्याप्यस्य भावो न तदभावेऽपीति सैव व्याप्तिः ! पूर्वत्रायोगव्यव- च्छेदेनेह चान्ययोगव्यवच्छेदेनावधारणं बोध्यम् । तत्र हेतुनिष्ठव्याप्लेरेव गमकताङ्गतया । हेवावित्युक्तम् । तथा चान्ययोगन्यवच्छेदलब्धार्थमाह साध्याभावेति । यत्र धर्मिणि व्यापक साध्यमस्ति तत्रैव हेतोर्मावः, साध्यं यत्र नास्ति तत्र तस्याभाव एवेति हेतुनिष्ठा व्याप्तिरिति भावः, एतेन यत्र धर्मिणि साध्यमस्ति तत्र साधनस्यैव भावोऽथवा यत्र धर्मिणि साध्यमस्ति. तत्र साधनस्य भाव एव व्याप्तिरित्यवधारणं न साधु, तथा च सत्यव्याप्यस्यापि तत्र भावेन हेत्वभावप्रसङ्गः प्रथमावधारणे, द्वितीये च साधारणस्य प्रमेयत्वादेहेतुत्वप्रसङ्गा, सपक्षक- 10 देशावृत्तेश्चाहेतुत्वप्रसङ्गः स्यादिति । इयमेव व्याप्तिरत्र शास्त्रेऽन्यथाऽनुपपत्तिप्रतिशब्दव्य- वड़ियत इत्याहेयमेवेति, ननु वथोपपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकारेण हेतुप्रयोगो दृश्यते वन तत्र शाले, यथा. पर्वतो वहिमान् तथैव धूमोपपत्तेधूमान्यथानुपपत्तेवेति । तत्र तथोपपत्ति- रन्बयोऽन्यथानुपपत्तियतिरेकस्तत्कथमत्रान्यथाऽनुपपत्तरेव व्याप्तित्वमुक्तमिति जिज्ञासावा- माह वहिं विनेति, वह्नि विना घूमस्यानुपपत्तेरित्यनेन व्यतिरेकरूपान्यथानुपपत्तिा, बहिसत्व' 15 एव धूमोपपत्तेश्चेत्यनेनान्वयरूपा तथैवोपपत्तिश्च प्रदर्शिता । अनयोरुभयोरपि परस्पराज्यमिचा- रित्वेन तयोरन्यथानुपपत्तिशब्दप्राह्मत्वमेव, नहि कश्चिद्विशेषस्तयोरित्यभिप्रायेणाहान्यथानुप- पत्यादिशब्दवाच्येति । तेनैकत्र तयोरन्यवरस्य प्रयोगे साध्यसिद्धावपरप्रयोगस्य वैययमेवेति भावस्सूचितः। आदिना प्रतिबन्धाविनाभावी ग्राह्यौ, हेतुनिष्ठव्याप्तेरेवानुमानौपयिकतया हेतुाप्यो निरूपकच साध्यं व्यापकमित्याहात इति, हेतुनिष्ठव्याप्रलुमित्यौपयिकत्वा 20 दित्यर्थः, व्याप्यो व्याप्त्याश्रयः, वहिप्तिनिरूपका तथा च वहिनिरूपितव्याप्स्याश्रयत्वादमो वहिन्याप्यः, धूमवृत्तिव्याप्तिनिरूपकत्वाद्वहिपूंमन्यापक इति भावः । व्याप्यव्यापकयोरभयत्र व्यालेनैकाकारप्रतीतिविषयत्वमिति स्पष्टयति तथा चेति, घूमस्य व्याप्यत्वे वढेच व्यापकत्वे इत्यर्थः । अवश्यं व्यापकसत्त्वमिति, व्यापकस्य सत्त्वमेवेत्यर्थः, नतु व्यापकस्यैव भाव इति, व्यापकाभावप्रसगात्, मूर्त्तत्वादेरव्यापकस्यापि तत्र सत्त्वात् । व्यापकसत्त्व एव 25 चेति,, तथा चायोगाऽन्ययोगव्यवच्छेदाभ्यां विभिन्नाकारतयोभयत्रैकाकारत्वविरहेणैवमेव व्याप्यव्यापकभावस्य नियमो भवतीति भावः ।। . १. पर्वतो बहिमान् धूमादित्यादिहेतोरित्यर्थः, सपक्षकदेशेऽयोगोलकादौ घूमस्याविद्यमानत्वादिति भावः ॥ २. यत्र धर्मिणि व्यापोऽस्ति तत्रैव व्याप्यस्थ भावो न तदभावेऽपीत्सवधारणमभ्युपेय लक्षणप्रणयनेन तदन्तर्गततयोभयविधस्यापि लाभेनेशव्याप्तेरन्यथानुपपत्तिशब्दवाच्यत्वे तदुभयोरपि ग्रहणसंभवादिति भाव ।

। ध्यातिमे। म्यायप्रकाशसमलवे ईशनियमस्य स्वरूपत एकविधत्वेऽप्याश्रयविशेषापेक्षया द्वैविध्यमाह- सोऽयं व्याप्त्यपरपर्यायो नियमो द्विविधा, सहभावनियमा, क्रम- भावनियमश्चेति ॥ सोऽयमिति । पूर्वोपदर्शितस्वभावोऽयमित्यर्थः, अस्य नियम इत्यनेन सम्बन्धो नियम एव व्याप्तिरिति सूचयितुमुक्तं व्याप्त्यपरपर्याय इति । सहेति, हेतुसाध्ययोरेकस्मिन् काले 5 विद्यमानयोनियम इत्यर्थः । कमेति, पौर्वापर्यक्रमेण जायमानयोस्तयोनियम इत्यर्थः ।। तत्र सहभावनियमः केषामित्यत्राह- तत्र सहभावनियम एकसामग्रीमसूतयो रूपरसयोाप्यव्यापक- योश्च शिंशपात्ववृक्षत्वयोर्भवति ॥ तत्रेति । द्विविधे नियम इत्यर्थः । सह भाव उत्पत्तिः स्थितिर्वा सहभावस्तस्य नियम 10 इति व्युत्पत्ति मनसि निधायाद्याया निदर्शनमाहेकसामग्रीप्रसूतयोरिति, जनकसामग्र्या एकत्वेन रूपरसयोस्सहैवोत्पादेन तयोनियमस्सहभावनियम उच्यत इति भावः । अत्रान्य- वरस्य न्याप्यत्वं व्यापकत्वञ्च यादृच्छिकमिति बोध्यम् । द्वितीयां व्युत्पत्तिमभिप्रेत्याह ध्याप्यव्यापकयोरिति परस्परं न्यूनाधिकदेशवर्तिनोरित्यर्थः, तथा च रूपं वृक्षत्वं वा विना रसस्य शिशपाया वाऽनुपपत्ते रूपस्य वृक्षत्वस्य च सत्त्व एव रसस्य शिंशपात्वस्योपपत्तेश्च 15 वयोनियमस्सहभावनियम इति भावः ।। - केषां क्रमभावनियम इत्यत्राह- क्रमभावनियमस्तु कृत्तिकोदयरोहिण्युदययोः पूर्वोत्तरभाविनोः, का- यकारणयोश्च धूमवह्नयोर्भवति ॥ क्रममावेति । क्रमः पूर्वापरभाषः, स चाकार्यकारणयोः कार्यकारणयोग्ध भवती- 20 साद्यस्य निदर्शनमाह कृत्तिकेति । अत्र शकटोदये न कृतिकोद्यस्य कारणत्वमपि तु पौर्वापर्यमात्रमिति भावः । कार्यकारणयोदृष्टान्तमाह कार्येति, भवतीति, नियम इति शेषः ।। ननु हेतुज्ञानसहछतेन व्याप्तिस्मरणेन साध्यविज्ञानमनुमानमिति प्राग्वर्णितं, तत्र किन्तावत्साध्यमित्यत्राह- प्रमाणाबाधितमनिर्णीतं सिषाधयिषितं साध्यम् । यथा वहिमपर्व-:25 - " दरवन्यायविमाकरे [चतुपकरण तः । अस्यैव च पक्ष इति नामान्तरम् । साध्यविशिष्टत्वेन धर्मिणः एव सिपाधयिषितत्वात्, इदश्चानुमानजन्यप्रतिपत्तिकालापेक्षया ॥ प्रमाणेति । प्रमाणपदेनात्र प्रमाणत्वावच्छिन्नं पाह्य तथा च प्रमाणत्वावच्छिन्नेन येन केनचिदप्यबाधितमित्यर्थः, एतेन बाधितस्य साध्यत्वव्यावृत्तिः कृता भवति, यथा शब्दोऽ- 5 श्रावण इति प्रत्यक्षबाधितं साध्यम् , नित्यशब्द इति शब्दस्यानित्यत्वसाधकेनानुमानेन वा- धितम् , धर्मः प्रेत्यासुखप्रद इति धर्मः प्रेत्यसुखप्रद इत्यागमन बाधितम् , माता में वन्ध्येति स्ववचनबाधितं, नरशिरकपालं शुचीति लोकबाधितम् , एवरूपाणां व्यावर्तनाय प्रमाणा- बाधिवमिति पदम् । स्थाणुर्वा पुरुषो वेति संशयविषयस्य, शुक्तिकाशकलं रजतमिति विप- यासविषयस्य, यथावदनिश्चितस्वरूपस्य गृहीतस्यागृहीतस्य वार्थस्य साध्यताप्रतिपत्त्यर्थम- 10 निविपदम्, एतद्वैपरीत्ये हि साधनं विफलमेव भवेदिति । अनिष्टस्य सर्वथाऽनित्यत्वादेर- साध्यत्वप्रतिपचये सिषापयिषितमित्युक्तम् | साधनेच्छाविषयीभूतमित्यर्थः, साधनं स्वाभि- ।। प्रेतार्थस्य, इच्छा वक्तुस्वथा च स्वामिप्रेतार्थसाधनविषयकवकिच्छाविषयीभूतमिति भावः, वाद्यपेक्षया साधतेच्छा भवति, संहतपरार्थत्वं चक्षुरादीनां स्वीकार बौद्धं प्रति सांस्येन पराांश्चक्षुरादय इत्येवं पारार्थ्यमात्रस्याभिधानेऽपि सांख्येच्छाविषयीभूतमात्मार्थत्वमेव 15 सांध्यं भवति, अन्यथा साधनं निरर्थकमेव स्यात् । प्रमाणाबाधितमिति पदं वादिप्रतिषा- युभयापेक्षयां । वादिप्रतिवादिनोः प्रमाणेन यन्न वाध्यते तदेव हि कथायां साध्यमिति । • ! साध्यस्य दृष्टान्तमाह यथेति, वहिना विशिष्टः पर्वतस्साध्य इत्यर्थः, अस्यैव साध्यस्य पर्याय- शब्दमाहास्यैव चेति, अत्र हेतुमाह साध्येति । प्रतिनियतसाभ्यधर्मविशेषणविशिष्टतयां धर्मि- णस्साधयितुमिष्ठत्वात्साध्यव्यपदेशः कथायां पक्षव्यपदेशभाग भवतीति भावः, ननु साध्य धर्मो वा धर्मविशिष्टो धर्मा वा, .यदि धर्मखदा कथं पक्षस्य साध्यत्वमुक्तं, यदि धर्मवि- शिष्टो धर्मों साध्यं, तदा कदाऽयं साध्यशब्दवाच्य इत्याशंकायामाहेद ति, पक्षापरपर्याय- धर्मविशिष्टो धर्मी चेत्यर्थः । प्रयोगकालापेक्षया साध्यशब्दवाच्यो भवतीति भावः ॥ अनुमानप्रभवप्रतिपत्तिकालापेक्षया साध्यधर्मविशिष्टप्रसिद्धर्मिणस्साध्यत्वेऽपि तेन सह हेतोरविनाभावासंभवात्कथमनुमितिरित्यत्राह- 1. व्याप्तिग्रहणवेलायान्तु वहयादिधर्म एव साध्या । 20 25 १. संशयितस्य पुरुषस्य संशयापनोदनार्यमिव विपर्यस्ताव्युत्पभयोरपि विपर्ययामध्यवसायापनयनायानु मानप्रवत्तिर्भवत्येव, परपक्षदिक्षादिना विपर्यस्तस्याव्युत्पन्नस्य स्वयं तत्वयुभुत्सया च परं प्रत्युपसर्पणसम्भवा- दिति भावः ॥ .

धर्मिप्रसिद्धिः न्यायप्रकाशसमलट्टते व्याप्तीति । वदयादिधर्म एवेति, एवशब्देन तद्विशिष्टधर्मिणो व्यवच्छेदः, तत्र व्या- प्रसम्भवात्, नहि धूमदर्शनात् सर्वत्र पर्वतो वह्निमानिति व्याप्तिश्शक्या विधातुं प्रत्यक्षा- दिप्रमाणविरोधात् । साध्य इति साधयितुं योग्य इत्यर्थः । इत्थश्चानुमानस्य त्रीण्यङ्गानि, धर्मी साध्यं साधनञ्च, तत्र साधनं गमकत्वेनाइम्, साध्यन्तु गम्यत्वेन, धर्मी पुनः साध्यधर्मा- धारत्वेन, आधारविशेषनिष्ठतया साध्यसिद्धेनुमानप्रयोजनत्वात् । अथबा पक्षो हेतु- 5 रित्यनुमानाङ्गं द्वयं, साध्यधर्मविशिष्टधर्मिणः पनत्वात्, इदश्च धर्मधर्मिणोरभेदापेक्षया, पूर्वन्तु भेदापेक्षया विज्ञेयम् ॥ ननु सिपाधयिपितस्यैव धर्मिणस्साभ्यत्वोच्या प्रसिद्धस्यैव धर्मित्वं लब्धं सामान्यतो विज्ञातस्यैव किञ्चिद्धर्मविशिष्टत्वेन सिपाधयिपितत्वात् तथा च तत्प्रसिद्धिः कयन्तरां स्यादिति पर्यनुयोगे प्राह- धर्मिणश्च प्रसिद्धिः प्रमाणाद्विकल्पादुभयतो वा ज्ञेया। यथाऽस्ति सर्वज्ञ इत्यत्र धर्मिणस्सर्वज्ञस्य विकल्पासिद्धिः । पर्वतो वह्निमानित्यत्र पर्वतस्य प्रत्यक्षप्रमाणात्, शब्दः परिणामीत्यादौ कालत्रयवर्तिशब्द- 10 धर्मिण उभयस्मात् ॥ धर्मिणश्चेति । प्रमाणादिति निश्चितप्रामाण्यकप्रत्यक्षाद्यन्यतमादित्यर्थः, विकल्पादिति, 15 अनिश्चितप्रामाण्याप्रामाण्यकप्रत्ययादित्यर्थः, उमयत इति, निश्चितप्रामाण्यकप्रत्यक्षाद्यन्य- तमादनिश्चितप्रामाण्याप्रामाण्यकप्रत्ययाश्चेत्यर्थः । नन्वस्तु निश्चितप्रामाण्यकप्रत्यक्षादिभ्यो धमिप्रसिद्धिः, प्रामाण्येनाप्रामाण्येन वाऽनिर्णीतया प्रतीत्या कथं धर्मिप्रसिद्धिः, तस्याः प्रमाणत्वामावात्, प्रमाणात्मिकयैव च प्रतीत्या वस्तुसिद्धेः । तस्याश्च प्रमाणत्वे प्रमाणा- दित्यनेनैव गतार्थतथा विकल्पादिति व्यर्थमेव भवेत् । अप्रमाणत्वे तु न ततो धमिसिद्धिः, 20 किच विकल्पसिद्धे धर्मिणि सत्त्वमसत्त्वं वा प्रमाणवलेन साधनीयं यथाऽस्ति सर्वतो नास्ति पष्ठं भूतमित्यादौ । सच न सम्भवति. धर्मिणो वस्तुतोऽसत्त्वेन भाववृत्तिधर्मस्य हेतुत्वेऽसिद्धिप्रसरात्, भाववृत्तिधर्मस्य तत्र सत्त्वे च धर्मिणोऽपि भावत्वापत्त्या नास्ति- बसाधनमसङ्गत स्यात् । अभाववृत्तिधर्मस्य हेतुत्वे त्वस्तित्वसाधनस्य विरोधात् , उभय- वृत्तिधर्मस्य हेतुत्वे व्यभिचारादित्यनुयोगे प्रवले जाते प्रमाणाद्धर्मिप्रसिद्धरुदाहरणप्रदर्शन विहाय प्रथमव एव विकल्पप्रसिद्धधर्मिणमुदाहरति यथेति, अनायम्भावः, ये विकल्पेन धर्मिप्रसिद्धिं नाभ्युपगच्छन्ति ते विकल्पसिद्धो धर्मी न भवति वस्याप्रमाणत्वादित्यपि । 25 . . . सत्वन्यायविभाकरे [ पतुर्यकिरणे वक्तुं न शक्नुवन्ति, प्रोक्तक्रमेणासिद्धिविरोधादीनां सम्भवात् , प्रमाणेनात्र धर्म्यसिद्धेः । तथात्वे च परं प्रत्याश्नयासिद्ध्यायुद्भावनं व्यर्थमेव स्यात् येन हि यो धर्मितयोपाचस्तत्रैव दोषः प्रदर्शनीयस्तथा च तत्र दोषमुद्भावयता भवताऽवश्यं विकल्पेन धर्मिप्रसिद्धिरभ्युपे- यैवान्यथा तूष्णीम्भावापत्तिः, एवञ्चास्ति सर्वज्ञ इत्यादिमानसप्रत्यक्षे भावरूपस्वैव धर्मिणः 5 प्रतिपन्नत्वान्न कोऽपि दोषः, न च तत्सिद्धौ तत्सत्त्वस्यापि प्रतिपन्नत्वेन व्यर्थमनुमानमिति वाच्यम् , तदभ्युपेतमपि वैयात्याद्यो न प्रतिपद्यते तं प्रत्यनुमानस्य साफल्यात्, न च षष्ठभूतादेः कथं धर्मित्वं, मानसप्रत्यक्षेण तत्सत्त्वस्यापि प्रतिपन्नतया नास्तित्वसाधनस्य वाधितत्वादिति वाच्यम् , तदानीं वाधकप्रत्ययानुदयेन सत्त्वे सम्भावितेऽपि पश्चात्तत्सचाया निषेधनात्, एवमेव गगनकुसुमादीनामपि विकल्पकाले सत्त्वेन सम्भावितानामपि पश्चाद्वाध- 10 कप्रत्ययेन तन्निरासाचाशमानसबानस्य मानसप्रत्यक्षाभासत्वमवसेयमिति ॥ अथ प्रमा- णाद्धर्मिप्रसिद्धेर्निदर्शनमादर्शयति पर्वत इति, अत्र प्रत्यक्षेण पर्वतस्य प्रसिद्धिरिति भावः । एतेनानुमानानुमेयव्यवहारस्सर्व एव बुद्धावेव किमपि धर्मित्वेन किमपि च धर्मत्वेन प्रकल्प्य प्रवर्तते, नतु बाह्यं सदसत्त्वमपेक्ष्येति मतमपास्तम्, अन्तर्वहिर्वाऽनासादिताऽऽलम्बनाया बुद्धधर्ममित्वेन कस्यापि व्यवस्थापनाऽसामर्थ्यात् । तस्मात्प्रमाणेन व्यवस्थापितः पर्वता- 16 दिरेव विषयभावं भजन् धर्मित्वादिकं प्रतिपद्यत इति | उभयसिद्धं निदर्शयति शब्द इति, अत्र हि शब्दमात्रस्य धर्मित्वमिष्टमन्यथा यस्मिन् कस्मिन्नेव शब्दे परिणामित्वस्य सिद्ध्या- पत्तेः, तथा च सर्वेषां शब्दानां श्रवणेन प्रत्यक्षासम्भवेन केषाश्चित्प्रत्यक्षतः केपाश्चिञ्च विक- ल्पतः प्रसिद्धिर्मवतीति भावः । ननु पर्वतो वहिमानित्यत्रापि प्रत्यक्षसिद्धत्वं पर्वतस्य कथं, दृश्यमानभागेऽग्निमत्त्वसाधने प्रत्यक्षबाधा, तत्र वह्रथुपलब्धौ वा साधनवैयर्थ्यमदृश्यमा- 20 नभागे तु साधने कुतो धर्मिणः प्रत्यक्षसिद्धत्वमिति चेन्मैवम् , अवयविद्रव्यापेक्षया पर्वता- देस्सांव्यवहारिकप्रत्यक्षप्रसिद्धताभिधानात् । अतिसूक्ष्मेक्षिकया पर्यालोचने तु न किञ्चि- प्रत्यक्षं, अस्मदादिप्रत्यक्षस्याशेषविशेषतोऽर्थसाक्षात्कारे सामर्थ्यविरहात् 'केवलिप्रत्यक्षस्यैव तत्र सामर्थ्यादिति ॥ तदेवं धर्मिसाध्यसाधनरूपमनुमानस्य प्रधानभूतमङ्गत्रयं निरूप्य सम्प्रति हेतुं विभजते- हेतुर्द्विविधो विधिस्वरूपः प्रतिषेधस्वरूपश्चेति । तथा विधिस्वरूपो हेतुर्द्विधा, विधिसाधको निषेधसाधकश्चेति, एवं प्रतिषेधस्वरूपो हेतुरपि॥ हेतुरिति । विधिस्वरूप उपलम्भस्वरूपः, प्रतिपेधस्वरूपोऽनुपलम्मस्वरूपः । विधिस्व- रूपस्यापि द्वैविध्यमाह तथेति, ईदृशमेव प्रकारभेदं प्रतिपेस्वरूपहेतावप्यविदिशति एव- 25 " : ३७१ : विधिहेतुः] न्यायप्रकाशसमलङ्कृते मिति । तथा च विधिसाधको विधिरूपः, निषेधसाधको विधिरूपः, विधिसाधकः प्रतिपेध- रूपः, निषेधसाधका प्रतिषेधरूपश्चेति हेतुश्चतुर्विधः फलितः । एतेनोपलम्भस्वरूपस्य हेतोविधिसाधकत्वमेवानुपलम्भस्वरूपस्य हेतोः प्रतिपेधसाधकत्वमेवेति केपाञ्चिन्नियमो निरस्तः । साध्यसाधनयोगम्यगमकभावे व्याप्तेरेव प्रयोजकतया व्याप्तिसत्त्वेन विधिसाध्ये उपलम्भरूपहेतोर्गमकत्वस्येव तत्सत्त्वेऽनुपलम्भहेतोरपि तत्साधने गमकत्वस्य दुर्निवार- 5 तयैकशेपस्यानुचितत्वादिति ॥ तत्र विधिसाधकं विध्यात्मकं हेतुं पोढा विभजते- तत्र विधिसाधको विधिरूपो हेतुाप्यकार्यकारणपूर्वोत्तरसह- चरभेदात् पोढा । विधिस्तु सदसदात्मके पदार्थे सदंशा, असदशश्च प्रतिषेधः॥ तत्रेति, व्याप्यं कार्य कारणं पूर्वचरमुत्तरचरं सहचरं चेति हेतुभूतानि वस्तूनि पडिधानि विधिभूतसाध्यसाधकानीत्यर्थः । विधिप्रतिषेधशब्दार्थ वक्ति विधिस्त्विति, पदार्थों हि सदसदात्मकः, तत्र योऽयं सदंशस्स एव विधिरुच्यते, अभावापरपर्यायस्त्वसदंशः प्रतिषेध उच्यत इति भावः ।। 10 प्रसङ्गादभावस्य सर्वथा भावस्वरूपातिरिक्तत्वं दूपयितुं प्रतिषेधं विभज्य तत्स्वरूपं 15 वक्तुमुपक्रमते- प्रतिषेधश्चतुर्धा प्रागभावप्रध्वंसाभावान्योऽन्याभावात्यन्ताभावभे- दात्। यन्निवृत्तावेव कार्याविर्भावःस प्रागभावः, यथा घटं प्रति मृत्पिण्डः॥ प्रतिपेध इति । अत्रायम्भावः, पदार्थानामस्तित्वेनैवोपगमे सर्वेषाममावानामपहवेन सर्वस्य सर्वात्मकत्वप्रसङ्गः। प्रागभावानगीकारे निर्विकारत्वं द्रव्यस्य स्यात् तथा च घट- 20 ‘पटादीनामभाव एव स्यात् । प्रध्वंसामावानभ्युपगते कटककुण्डलादीनामनन्तत्वप्रसङ्गः अन्योऽन्याभावापलापे जीवस्यानीवात्मकत्वेऽजीवस्य जीवात्मके सर्वात्मकत्वप्रसङ्गेन तयोर्लक्षणभेदो न स्यात् । अत्यन्तामावानभ्युपगमे च जीवे अजीवत्वात्यन्ताभावानभ्यु- पगमात् अजीवत्वस्याजीवे च जीवत्वामावानभ्युपगमानीवत्वस्य प्राप्तः । तस्माद्वस्तुनो यथाऽस्तीति प्रत्ययविषयमस्तित्वं पर्यायस्तथा नास्तीति प्रतीतिविपयं नास्तित्वमपि पर्यायः, 25 तच नास्तित्वं न सर्वथा वस्तुनोऽर्थान्वरम्, निःस्वभावत्वप्रसगात्, न च नास्तीति :३७२ तत्वन्यायविमाकरे [ चतुर्थकिरणे प्रत्ययजनकरवरूपसद्धावान्नाभावस्य नि:स्वभावत्वमिति वाच्यम् , तथा सति तस्य भावस्व- भावत्वसिद्धेः, प्रत्ययाभिधानविषयस्यार्थक्रियाकारिणः पदार्थस्य भावस्वभावत्वात् , नास्ति- त्वस्य च वस्तुधर्मत्वाद्धर्मस्य कथञ्चिद्धमिमिन्नत्वेन कथञ्चिद्भेदोऽपि, तत्राभेदाश्रयणे भावत्वेन भेदाश्रयणे च तद्वृत्तित्वेनामावस्य प्रतीतिः, एतेन भूतलस्य घटाभावत्वे 5 भूतले घटाभाव इति प्रतीतिर्न स्यात् स्याच्च भूतले भूतलमिति धीरित्यपास्वम् । अभेदेऽपि घटाभावत्वेनाधेयवाया भूतलत्वेन चाधारताया यथाप्रतीति स्वीकारादिति भावः। अथ प्रागभावं लक्षयति यन्निवृत्तावेवेति, विलक्षणपरिणामविशिष्टस्य मृत्पिण्डस्य तेन रूपेण विनाशे हि घटरूपतया मृत्पिण्डः परिणमत इति घटरूपतयोत्पत्तेः प्रागव्यवहितप- रिणामविशिष्टं मृद्रव्यमेव तत्प्रागभाव उच्यते न तु मृत्पिण्डोत्सर्वथाऽर्थान्तरमिति भावः, 10 इदमेव दृष्टान्तद्वारा प्रदर्शयति यथेति, घटस्य प्रागभावश्च तदव्यवहितपूर्वक्षणपरिणाम इत्येके, तेषां तत्पूर्वानादिपरिणामसन्ततौ कार्यसद्भावप्रसङ्गः, कार्यध्वंसतत्प्रागभावाना धारकालस्य कार्यवत्त्वव्याप्यत्वात् । तत्पूर्वानादिपरिणामसन्ततौ कार्यभेदसत्त्वाच्च दोप इति चेन्नाव्यवहितकार्यपूर्वपरिणामेऽपि कार्यभेदसत्त्वेन तेनैव तदानी कार्याभावसिद्धेः प्रागभाव- खीकारनिरर्थकतापा, न च कार्यस्य प्रागभावाभावस्वभावत्वसिद्ध्यर्थं तदभ्युपगम इति- 15 वाच्यम् , कार्यपूर्वोत्तरनिखिलपरिणामेषु कार्यानन्तरपूर्वपर्यायमिन्नेषु कार्यस्वभावताप्रसन्नात् । न च न कार्यप्रागभावाभावत्वं कार्यस्वभावत्वव्याप्यं किन्तु कार्यप्रागमावध्वंसत्वमेव, सोऽपि ध्वंसोऽव्यवहितोत्तरक्षण -एव वर्त्तते, तदुत्तरक्षणेषु घटादिव्यवहारश्च सडश- कार्योत्पत्तिदोपादिति वाच्यम् । एतस्य सौगतानामेव शोभनत्वादरैमामिः प्रागभावस्थानादि- त्वोपगमात् । प्रागभावध्वंसय द्वितीयादिक्षणेष्वसत्त्वे प्रागभावोन्मन्ननप्रसङ्गेन प्राग- 20 भावक्षण इव तत्रापि कार्यस्यासद्भावप्रसङ्गात्तत्र दोषाभ्युपगमस्य चाप्रामाणिकत्वात् । तस्माद् द्रव्यपर्यायात्मा प्रागभावः स च स्यात्सादिस्स्यादनादिरिति सिद्धान्तात् । न चै द्रव्यरूप- तयाऽनादित्वेऽनन्तत्वप्रसक्तस्सर्वदा कार्यानुत्पत्तिः स्यात् पर्यायरूपतया च सादित्वे प्राग- भावात्पूर्वमपि पश्चादिव कार्योत्पत्तिः स्यादित्युभयत्र दोपात् भावखभावो न पागभावतस्य भावविलक्षणत्वेन सर्वदा भावविशेषणत्वादिति वाच्यम्, सर्वथा भावविलक्षणाभावमाहक • १. इदानीं घट इत्यादिप्रतीत्या तत्तत्क्षण एवं तदभिन्नकार्याणा बौद्धमते तादात्म्येन कालगृत्तित्वोपगमात कार्यभिन्नक्षणे कार्यत्वस्यापादयितुमशक्यत्वादिति भाव ॥ २. ते हि पर्यावार्थमात्रादेश स्वीकुर्वन्तीति तेपामेवेदं शोभनं उभयनयवादिनामस्माकन्तु नत्सिद्धान्तविरुद्धमिति भाव ॥ ३. ननु भवदुक्के वं फलति पूर्वपर्यायेषु मृहव्ये व प्रागभावल व्यासज्यवृत्तीति तन सम्यक् प्रत्येकात्तस्समुदायावृत्तित्वात्, प्रत्येकवृत्तित्वे च दोपादित्याशयेनाशंकते न चेति ।

प्रध्वंसांभाव.] न्यायप्रकाशसमलते । प्रमाणाभावात् । न च स्वोत्पत्तेः पूर्व नासीद्धट इति ज्ञानमभावविषयकं भावप्रत्ययविल- क्षणत्वावस्तु भावविषयो नासौ भावप्रत्ययविलक्षणो यथा घट इत्यादिप्रत्यय इत्यनुमान प्रागभावग्राहकमिति वाच्यम्, प्रागभावादौ नास्ति प्रध्वंसाभावादिरिति प्रत्ययेन व्यमि- चारात् । न च सोऽपि प्रत्ययोऽभावविपय इति न व्यभिचार इति वाच्यम्, अभावानव- स्थाप्रसङ्गात् । अत एवं प्रागभावस्य सर्वदा भावविशेषणत्वमसिद्धं प्रध्वंसाभावादौ । न प्रागभाव इत्यादौ प्रागभावस्याभावेऽपि विशेषणत्वात् । तस्मादृजुसूत्रनयार्पणात् कार्यस्याव्यवहितपूर्वोपादानपरिणाम एव प्रागभावः । न च तत्पूर्वानादिपरिणामसन्तती कार्यसद्भावप्रसङ्ग इति वाच्यम् , यतो घटस्य प्रागभावः कुसूलं तस्य कोशस्तस्य स्थास. स्तस्यापि मृत्पिण्ड एवं परमाणौ तत्परम्पराया विश्रान्तिस्तथा च तत्परम्परानाधारघटध्वं- सपरम्परानाधारकालत्वस्यैव घटव्याप्यत्वेन नाघटकाले घटवत्त्वप्रसङ्ग इति । व्यवहार- 10 नयार्पणात्तु मृदादिद्रव्यं घटादेः प्रागभावः स चानाविः । न च घटादेः प्रागभावाभाव- स्वभावत्वं न सम्भवति मृदादिद्रव्यस्याभावासम्मवादिति वाच्यम्, घटादिरहितस्य पूर्व- कालविशिष्टस्य मृदादिद्रव्यस्यैव घटादिप्रागभावरूपतया तस्य च कार्योत्पत्तौ विनाशसिद्धेः, नहि कार्यरहितत्वस्य विनाशमन्तरेण कार्यसहिततयोत्पत्तिस्सम्भवति, प्रमाणार्पणाच द्रव्य- पर्यायात्मा प्रागभाव इति ॥ " 15 प्रध्वंसाभावं निरूपयति- यदुत्पत्तिनिवन्धनं कार्यविघटनं स प्रध्वंसाभावः। यथा घटं प्रति कपालकदम्बकम् ।। यदुत्पत्तीति । यस्य भावे नियमेन कार्यस्य विघटनं भवति स प्रश्वंसामाव इत्यर्थः, दृष्टान्तमाह यथेति कपालकदम्बकोत्पत्तौ सत्यां यवश्यं घटस्य विपद्यमानता भवत्यत: 20 कपालकदम्बकमेव तत्प्रध्वंसाभाव इवि भावः । अत्रापि ऋजुसूत्रार्पणादुपादेयक्षण एवोपादा- १. अमावाधिकरणकाभावप्रतियोगिकामावस्याधिकरणात्मकत्वेन प्रागभावमिन्नप्रध्वंसाभावाभावाविषयकत्वेन हेतुसत्त्वेऽपि साध्याभावाश्यभिचार इति भाव ॥ २. कालविशेपावच्छिमस्वरूपसम्बन्धेन व्यं घटप्राग- भावव्यवहारनिमित्तं, पूर्वकालात्मकस्य कालविशेषस्य संसर्गघटितस्वेन तस्य च प्रागनुपस्थितस्य संसर्गवे कस्याप्यविवादादत्र नान्योऽन्याश्रयः । न चैवं कालबिशेपघटितसम्बन्धेन मृदादिद्रव्यमेव घयदिव्यवहार- विषयोऽस्तु किमतिरिकेन घटादिद्रव्येणेति वाच्यम्, मृदादिद्रव्याटादिइन्यस्य पृथगनुभूयमानत्वेन तन्मा- त्रत्वाकल्पनात्, प्रागभावादेस्तु पृथगनुभूयमानत्वामावेनाधारमात्रस्वरूपत्वकल्पनात्, घटस्वरूपे मृदादिद्रव्य आवारभिन्नलमुद्भूतं, अभावपर्याय बनुभूतमिति भाव ॥

:३७४ : तत्वन्यायविभाकरे [ चतुर्थकिरणे नस्य प्रध्वंसः, न चैवं तदुत्तरक्षणेषु प्रध्वंसस्याभावेन घटादेः पुनरुज्जीवनं स्यादिति वाच्यम्, कारणस्य कार्योपमर्दनात्मकन्वाभावात् उपादानोपमर्दनस्यैव कार्योत्पत्त्यात्मकत्वात् प्रागमा- वप्रध्वंसयोरुपादानोपादेयरूपतोपगमेन तदुपमर्दनेनैव प्रध्वंसस्य कार्यात्मन आत्मलामात् । प्रागभावे कारणात्मनि पूर्वक्षणवर्तिनि सति हि प्रध्वंसस्य कार्यात्मनस्वरूपलाभोपपत्तिरिति । 5 व्यवहारनयादेशाच घटोत्तरकालवचिंघटाकारविक्रलं मृदादिद्रव्यं घटप्रध्वंस: । स चानन्तः । तेन घटात्पूर्वकालवर्ति मृदादिद्रव्यं घटस्य प्रागभाव एव नतु प्रध्वंसः, तथा घटाकारमपि तत्तस्य प्रध्वंसो मा भूदिति घटाकारविकलमिति विशेषणम् । प्रमाणार्पणया तु प्रध्वंसो द्रव्यपर्यायात्मैकानेकस्वभावश्चेति ॥ अथान्योऽन्याभावमाख्याति- 10 स्वरूपान्तरात्स्वरूपव्यवच्छेदोऽन्योन्याभावः, यथा पटस्वभावाट- स्वभावस्य । स्वरूपान्तरादिति । स्वभावान्तरात्स्वभावव्यवच्छेदोऽन्यापोहापरनामकोऽन्योऽन्या- भर्भावः । दृष्टान्तमाह यथेति व्यवच्छेद इति शेषः । न चेदं लक्षणं प्रागभावप्रध्वंसाभाव- '. योरपि गतमिति वाच्यम्, कार्यात्पूर्वोत्तरपरिणामयोस्स्वभावान्तरत्वेऽपि कार्यस्य पूर्वोत्तर- 15 परिणामरूपन्यावृत्तेविलक्षणत्वात् यदभावे हि नियमतः कार्यस्योत्पत्तिस्स प्रागभावः, यद्भावे च कार्यस्य नियता विपत्तिस्स प्रथ्वंमाभावः, न चान्योऽन्णमावस्याभावे भावे च कार्यस्यो- सत्तिविपत्तिा, जलस्यामावेऽप्यनलस्यानुत्पत्तेः कचिनद्भावे च तस्याऽविपत्तेः । एतस्य लक्षणस्य नात्यन्तामावेऽतिव्याप्तिः, अस्य कालत्रयापेक्षत्वात् । अन्योऽन्याभावस्तु न कालन- यापेक्षो घटभिन्नस्यापि कदाचित् पुद्गलपरिणामानामनियमेन पटस्य घटत्वपरिणामसम्भवात, 30 तथा परिणामकारणसम्पत्तौ विरोधाभावात् । न चैवं चेतनाचेतनयोः कदाचित्तादाम्य- परिणामः, तत्त्वविरोधादिति भावः ॥ अत्यन्ताभावं लक्षयति- कालत्रयेऽपि तादात्म्यपरिणतिनिवृत्तिरत्यन्ताभावः यथा जीवा. जीवयोः । सोऽयं प्रतिषेधः कथश्चिदधिकरणाद्भिन्नाभिन्नः ॥ • १ कारणस्य घटस्य कार्य त यस्तस्योपमर्दनात्मकत्वाभावानाशानात्मकत्वादित्यर्थः, घटो हि कारणं तेन घरध्यसनाशो न घटात्मेति भाव. ॥ २. घटप्रध्वंसव्यवहारविषयत्वं न घटोत्तरकालवत्तिघटाकारविकल- व्यत्वेन, ध्वंसंघटितोत्तरत्वमर्मितत्वेनान्योऽन्याश्रयात् किन्तु स्वोत्तरकालवृत्तित्वस्वाकारविकलत्वस्वटव्यत्वे- तत्रितयसम्बन्धेन घटविशिष्टत्वेन ।। - - , । - अत्यन्ताभाषः ] न्यायप्रकाशसमलते कालत्रयेऽपीति । भूतभविष्यद्वर्तमानरूपकालत्रयापेक्षयापि ययोस्तादात्म्यपरिणतिनि- वृत्तिरेकत्वपरिणामो न भवति सोऽत्यन्ताभाव इत्यर्थः । दृष्टान्तमाह यथेति । अस्तित्ववन्ना- स्तित्वस्यापि वस्तुपर्यायत्वेन पर्यायपर्यायिणोश्च कथञ्चिदभेदान्न सर्वथाऽभावोऽधिकरणभिन्न इत्याह सोऽयं प्रतिषेध इति | सर्वथा तस्य भेदे निःस्वभावत्वमभेदे च तद्वृत्तित्वेनाप्रतीतिः स्यात् सर्वथा अभावस्य भावभिन्नत्वे च तस्य प्रमाणावेद्यत्वापचेः, प्रमाणस्य भावविषयत्वात्। 5 न च प्रत्यक्षमभावविषयं भवत्येव तस्येन्द्रियैस्संयुक्तविशेषणसम्बन्धसद्भावात् घटामावविशिष्टं भूतलं गृहामीति प्रत्ययादिति वाच्यम्, तत्रापि प्रत्यक्षस्य भूतलादिभावमात्रविषयत्वात् तस्याभावविषयकत्वे क्रमतोऽनन्तपररूपाभावप्रतिपत्तावुपक्षीणशक्तिकत्वेन भावदर्शनस्यानव- सरत्वप्राः । प्रत्यासत्यविशेषात् अभावग्राहकसामग्र्यविच्छेदाच्च । न चाभावज्ञाने प्रति- योगिज्ञानस्य कारणत्वात्तस्य च कादाचित्करवेनामावग्रहस्यापि कादाचिकत्वात् प्रतियोगि- 10 ज्ञानाभावकालेऽभावज्ञानान्तर्गतभावपदार्थग्रहस्यावसरो लभ्यत इति वाच्यम्, प्रत्यक्षस्य प्रतियोग्यादिस्मरणानपेक्षत्वात् , तस्य च स्मृत्यपेक्षायामपूर्वार्थसाक्षात्कारित्वविरोधात् । न च कचिद्धावप्रत्यक्षं स्मरणनिरपेक्षं योगिप्रत्यक्षवत् । कचिस्मरणापेक्षं सुखादिसाधनार्थ- व्यवसायवत् । तथा कचिदभावप्रत्यक्षं स्मरणनिरपेक्षं योगिनोऽभावप्रत्यक्षवत् कचित्प्रतिपे. ध्यस्मरणापेक्षं तथैव प्रतीतेरिति वाच्यम् , स्मरणापेक्षस्य विकल्पज्ञानस्य प्रत्यक्षत्वविरोधादनु- 15 मानादिवत् । तस्य स्मरणापेक्षत्वेऽनवस्थाप्रसद्भाच्च । ततो नामावः प्रत्यक्षविषयः । सकल- शक्तिविरहरूपस्य निरुपाख्यस्याधिकरणात्सर्वथामिन्नस्थाभावस्य स्वभावकार्यादेरभावाना- नुमानिकत्वं, सस्वभावत्वे भावत्वप्रसङ्गान् । अनुपलव्ध्यापि न तद्व्यवस्था तया तस्यासिद्ध- ताया एव व्यवस्थापनात्, न च मावानामनुपलब्ध्या तत्त्रमितिरिति वाच्यम्, ततो भावा- न्तरस्वमावस्यैवाभावस्यावमासनादिति ॥ - 20 १. सर्वयाऽभावस्याभेदे हि भाविकान्तनिश्चयस्स्यात्, अस्तित्वमेवेति निश्चयात् तथाऽभ्युपगम्श्माने सर्वेषामेवाभावानामपहवस्स्यात् तथा च सति सर्वेपी सर्वात्मकत्व अनादिस्वमनन्तत्व च स्यादित्यपि बोध्यम् ॥ २. अभावग्राहकसामन्यविच्छेदादनन्तघटपटाघभावग्रहणे मावग्रहो न भवेदेवेति भाव ॥ ३. ननु केवला- भावप्रत्यक्षाभ्युपगमे भवेदय दोपः, स एव च नास्ति, अमावाने प्रतियोगिज्ञानस्यापि हेतुत्वात्तस्य च कादाचित्करवादित्याशकते न चेति ॥ ४. स्मृते पूर्वानुभवस्य तस्याप्यपरस्मरणस्य तस्याप्यपरपूर्वानुभव- स्यापेक्षणादनवस्था । सुदूरमपि गत्वा कस्यचिदनुभवस्य स्मृतिनिरपेक्षत्वे प्रकृतानुभवस्यापि स्मृतिसापेक्ष- त्वकल्पनावियादिति भाव. ॥ ५ नच स्मृतित्वेन स्मृतिजन्यत्वस्य प्रत्यक्षाभाषच्याप्यत्वेऽपि विशेपणजानलेन तबन्यताया अतथात्वान्नायं दोप इति वाच्य विशिष्टज्ञानत्वावच्छिन्नं प्रति विशिष्ट प्रत्यक्षत्वावरिछन्न प्रति का विशेषणज्ञानहेतुले मानाभावाद, तद्विशेपणेन्द्रिय सन्निकर्षतदमसर्गाग्रहादिनैव तद्विशिष्टप्रत्यक्षोत्पते. । सुरभि चन्दनमित्यादि शानं तु प्रत्यभिमानमेवेति ॥

तस्वन्यायविमाकरे [ चतुर्थकिाने अथ विधिस्वरूपहेतोः प्रकारान् प्रकाशयति- विध्यात्मको हेतुस्साध्याविरुद्धप्रतिषेध्यविरुद्धभेदेन द्विधा, एवं निषेधात्मकोऽपि ॥ विध्यात्मक इति । एवमेव प्रतिषेधरूपहेतावपीत्याहैवमिति । अत्रेदमवसेयम् यथा 5 साध्याविरुद्धो विध्यात्मको हेतुर्विधिसाधकः, प्रतिपेभ्यविरुद्धो विधिहेतुः प्रतिषेधसाधकः, तथा प्रतिपेध्येनाविरुद्धो निषेधात्मको हेतुः प्रतिषेधसाधकः, साध्यविरुद्धनिषेधात्मको हेतुर्विधिसाधक इति ॥ तत्र साध्याविरुद्धविधिसाधकविधिस्वरूपहेतून पूर्वोदितपविधानुदाहरति- अत्र शब्दः परिणामी प्रयत्नानन्तरीयकत्वादिति व्याप्यो विधि- 10 हेतुः ॥ तत्रेति । व्याप्याविरुद्धकार्याविरुद्धकारणाविरुद्धपूर्वचराविरुद्धोत्तरचराविरुद्ध सहचरा- विरुद्धभेदेश्वित्यर्थः, अस्य व्याप्यो विधिहेतुरित्यनेन सम्बन्धः । शब्दः परिणामीति प्रतिज्ञायां शब्दो धर्मी साध्यधर्मः परिणामः प्रयत्नानन्तरीयकत्वं हेतुः, प्रयत्नधेतनव्या- पारसदनन्तरसम्भूतत्वं तदर्थः, यत्र यत्र प्रयत्नानन्तरीयकत्वं तत्र तत्र परिणामित्वं यथा 15 घटादिरित्युदाहरणम् , प्रयत्नानन्तरीयकश्च शब्द इत्युपनयः, तस्मादयं परिणामीतिनिगमन- मिति साधम्र्येण पञ्चावयवप्रयोगः, वैधम्र्येण तु यो न परिणामी स न प्रयत्नानन्तरीयका, यथा वन्ध्यासुतः, इत्युदाहरण एव विशेषो नेवरावयवेषु वैलक्षण्यम् । ननु कार्यादि- रूपाणां पञ्चानामपि हेतूनां स्वस्वसाध्येन व्याप्तत्वादविरोधाच्च न्यायाविरुद्धस्वरूपत्वमेव, व्याप्यत्वाभावे च तेषां साधकत्वानुपपत्तेस्तथा चानेनैव सर्वेषां तेषां गतार्थतया पृथग्विभागो 20 नोचित इति चेन्न साध्यनिरूपितव्याप्तिमत्त्वमात्रेण व्याप्यस्यानाविवक्षणात् कथञ्चित्साध्येन तादात्म्यपरिणाममापन्नस्य कार्यादिविलक्षणस्य हेतुस्वरूपस्य विवक्षणात् । अस्यैव च स्वभावोपलब्धिरिति नामान्तरम् । प्रयत्नानन्तरीयकत्वं हि साध्यधर्मस्य परिणतिमत्त्वादेः कथञ्चिदपृथग्भूतं स्वरूपम् । न चैवं स्वभावभूतधर्मस्य व्याप्यस्य हेतुत्वे हेदोर्निश्चये १. ननु निषेधात्मकहेतो. कथं द्विविधत्वस्यातिदेशः न तावत्साध्याविरुद्धत्वप्रतिषेध्यविरुद्धत्वाभ्या, अनि- मोदाहरणानुपपत्तेरिति पर्यनुयोगे त्याहादमिति ॥ २. पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणतिशून्य त्वरूपे सर्वथा नित्यत्वे शब्दस्य प्रयत्नानन्तरीयकत्वानुपपत्ते. प्रयत्नानन्तरीयकत्वं परिणतिमत्त्वेन ब्याई विज्ञेयम् ।

5 - विधिहतवः ] न्यायप्रकाशसमलद्धृते तदभिन्नस्य साध्यस्यापि निश्चयेन सिद्धसाधनत्वापत्तिहेंतोरनिश्चये च न तेन साध्यसिद्धिर- जातस्य ज्ञापकत्वासम्भवादिति वाच्यम् , अनेकस्वभावस्य शब्दादिवस्तुनो निश्चितेऽपि प्रयत्नानन्तरीयकत्वादी स्वभावभूते साधनधर्मे परिणामित्वादिसाध्यधर्मनिश्चयनियमस्या- भावात् , निश्चितानिश्चितात्मकत्वञ्चैकस्य वस्तुनश्चित्राकारैकज्ञानवन्न विरुध्यते, तस्मानिश्चि- तेऽपि हेतुधर्मे साध्यधर्मानिश्चयेन तत्प्रतिपत्त्यर्थमनुमानं सफलमेवेति ॥ साध्याविरुद्धकार्यस्वरूपविधिहेतुं निदर्शयति- पर्वतो वहिमान् धूमादिति कार्यात्मकः ॥ पर्वत इति । अत्र हि वः कार्य घूमः, साध्याविरुद्धश्च, वहिसद्भाचे एव धूमस्यो- त्पत्तेः तदभावे च नियमेन धूमस्य निवर्चनात् ननु वन्यभावेऽपि घूमो न निवर्तते गोपाल- घटिकादौ वन्यमावेऽपि धूमसद्भावप्रतीतेरिति चेन्न घूमस्य ह्यात्मलाभो वही सत्येव, तत्कथं 10 गोपालघटिकादावग्न्यभावे धूमसद्भावाशवापि, न च तर्हि पर्वतादाविव तत्रापि धूमोऽग्नि गंमयेदिति वाच्यम्, पर्वतादिधूमादस्य वैलक्षण्यात् , बहिसमानसमयसत्ताको हि पर्वतादि- धूमो बहला पताकायमानस्वरूपोऽनुभूयते, न च गोपालघटिकादिधूमस्तथेवि ॥ साध्याविरुद्धकारणरूपविधिहेतु दृष्टान्तयति- भविष्यति वृष्टिविलक्षणमेघोपलम्भादिति कारणात्मकः । भविष्यतीति । विलक्षणपदेन सातिशयोन्नतत्वादिधर्मोपेतत्वं विवक्षितं तस्यैव वृष्टि- कारणत्वात् । ननु कारणं न कार्यस्य गमकं, तेन सहाविनाभावाभावात् , प्रतिबन्धकेन विनाशेन वा कार्याभावात् , अवश्य कारणानि कार्यवन्तीत्यनियमात् । नवा कारणविशेपस्य गमकत्वं, विशेपस्य निश्चेतुमशक्यत्वात्, प्रचण्डानामपि तडित्वतां वर्षमकृत्वैवोपरमदर्शनादिति चेन्मैवम् , आखाद्यमानफलनिष्ठरसेन तन्ननिका सामग्रीमनुमाय तया रूपानुमानस्य सौगतेन 20 त्वयाऽप्यभ्युपगमात् । प्राकनो हि रूपक्षणः सजातीय रूपक्षणान्तरलक्षणं कार्य करोतीत्येवं रूपानुमानमिच्छद्भिरिटमेव किञ्चित्कारणं लिगतया, प्राक्तनस्य रूपक्षणस्य सजातीयरूप- क्षणान्तराव्यभिचारात् । अन्यथा रससमानकालभाविनो रूपस्य प्रतिपत्त्यनुपपत्तेः । कारण- १ नापन्तिमकारणस्य व्याप्तल, तया सति व्याप्तिस्मरणकाल एवं कार्यस्य प्रत्यक्षतयाऽनुमानकल्य स्थादित्यपि बोध्यम् ॥ १ तथा च विशिष्ट कारणमेव लिझम् , विशिष्टता च समर्यतेव, मा च वैकल्येन प्रतिबन्धन वा न प्राप्यते यादृशश्च सामर्थ्य यत्र न प्रतिवद्ध तादृशं कारण लिङ्ग भवितुमर्हति, तनिश्चयश्व निपुणाना प्रमातृष्णा सम्मवत्येव, यत्र कार्यस्य व्यमिचारस्तत्रापि न कारणस्य टोप' किन्तु प्रमातृदोष एव, अन्यथा सकलव्यवहारविलोपप्रसङ्ग. स्यादिति भाव । - 15 ४८ 10 सवग्यायविभाकरे [मनुर्यकिरणे त्वमपि नानुकूलत्वमात्रं किन्तु कार्याविनामावित्वेन निश्चितं विशिष्टमेव, यत्र हि सामर्थ्या- प्रतिबन्धः कारणान्तरावैकल्यञ्च निश्चीयते तस्यैव हेतुत्वमन्यथा तृप्त्याद्यर्थ भोजनादावप्य- प्रवृत्तेनिखिलव्यवहारोच्छेदः प्रसज्येतेति ।। पूर्वचरं साध्याविरुद्धं विधिहेतुमादर्शयति-- उदेष्यति शकटं कृत्तिकोदयादिति पूर्वचः ॥ उदेष्यतीति । कृत्तिकोदयानन्तरं मुहूर्तान्तेऽवश्य शकटोदयो जायत इति पूर्वचर: कृत्तिकोदयशकटोदयं गमयतीति भावः । ननु कृत्तिकोदयस्य शकटोदयपूर्वमावित्वेनायं कारणाविरुद्धविधिहेतुरेव न ततः पृथग्भूत इति चेन्न, पूर्वमावित्वमात्रस्य कारणत्वाप्रयोज- कत्वात् किन्तु कार्यस्वरूपप्राप्तौ हेतूनामेव पूर्ववर्तिनामन्वयव्यतिरेकतः कारणत्वावधारणात्, 10 न छत्र कृत्तिकोदयाच्छकटोदयस्य खरूपप्राप्तिरस्ति, अव्यवहिततदुत्तरं तदुदयाभावात् कालविशेषापेक्षया तस्मात्तदुदयत्वेऽभ्युपगम्यमाने चाश्चिन्युदयादीनामपि हेतुताप्रसङ्गात् । ततः कृत्तिकोदयः पूर्वचर एव न कारणमिति तन्निदर्शनं युक्तमेव, तथा च प्रयोगः, यस्मा- दनन्तरं यन्नास्ति न तस्य तेनोत्पत्तिः, यथा भविष्यच्छड्सचक्रवर्तिकालेऽसतो रावणादेः, नास्ति च शकटोदयाधनन्तरं कृत्तिकोदयादिकम् । न चैव व्यवहितयोः कार्यकारणभावा. 15 भावे जामत्सवेदनसुप्तोत्थितमाविसवेदनयोः मरणारिष्टयोः कार्यकारणभावो न स्यादिति वाच्यम्, इष्टापत्तेः व्यवहितत्वेन त्योापारपराङ्मुखत्वात् , अन्वयव्यतिरेकाभ्यां व्यापा- रसापेक्षयोरेव कार्यकारणभावावधारणात् , दृष्टश्च व्यापारविशिष्टस्यैव घटं प्रति कुलालस्य कारणत्वं, न चात्र व्यापारपरिकल्पनं युक्तमतिप्रसङ्गात्, परम्परया व्यवहितानामन्येषां कारणत्वप्रसङ्गात् । तस्माच्छरीरनिवर्तकादृष्टादिकारणकलापादरिष्टकरतलरेखादयो निष्पन्ना 20 भाविनो मरणादेरनुमापका इति प्रतिपत्तव्यम् । जामशाबानं तु न सुप्नोस्थितज्ञानस्य हेतुः, ज्ञानादमिन्नस्यात्मनः कालत्रयस्थायित्वात्सर्वथा चैतन्यविच्छेदस्य कदाप्यसम्मवादिति ॥ साध्याविरुद्धमुत्तरचरं विधिहेतुमाह-- उदिता चित्रा स्वात्युदयादित्युत्तरचरः ॥ उदितेति । स्वात्युदयो हि चित्रोदयस्योत्तरचरः ततस्तं गमयति, उत्तरचरस्य तत्का- - , १. धर्ट प्रति कालाकाशदिगादीना कुलालपितृपितामहादीनामपि पूर्ववृत्तितया कारणत्वप्रसनः । अप- घहितोसरत्वप्रवेशे कृत्तिकोदयस्य कारणलवर्णनमनुचितं भवेत् मुहूतादिकालविशेपनिवेशे स्मृति प्रत्यनुभवस्त कारणत्वं न स्यात् भरण्युदयस्यापि कारणत्वप्राप्तरिति भाव ॥

- विधिहेतवः ] न्यायप्रकाशसमलङ्कृते । यत्वामावेन कार्याविरुद्धेनागतार्थत्वात्पृथगुक्तिः, निश्चितव्याप्तिमत्त्वाचानयोोप्यज्ञापकभाव इति भावः । नक्षत्राणां पूर्वोत्तरचरत्वे निबन्धनञ्च नानाप्रकारः सकलपाणिसन्दोहसम्बन्धी सुखदुःखसम्वन्ध्यदृष्टविशेपस्तथास्वभाव एव वा ।। अथ षष्ठं साध्याविरुद्धं सहचरं विधिहेतुं दर्शयति- रूपवान् रसादिति सहचर इतीमान्यविरुद्धविधिहेतोरुदाहरणानि ॥ 5 रूपवानिति । रसो हि नियमेन रूपसहचरितोऽतस्तदभावेऽनुपपद्यमानस्तद्गमयतीति- भावः, एतेपदाहरणेषु भावरूपानेव परिणामादीन् प्रयत्नानन्तरीयकत्वादयो हेतवो भावरूपा अविरुद्धा एवं साधयन्तीति विधिसाधकविधिरूपाः साध्याविरुद्धोपलव्धय इत्यपरनामान इत्याशयेनाहेतीमानीति । अत्र रूपरसयोस्तुल्यकालभावित्वेन सव्येतरगोविषाणयोरिव न कार्यकारणभावः परस्परपरिहारेणावस्थानान्न तयोस्तादात्म्य, तस्मात्पूर्वोकेषु पञ्चविधेषु 10 हेतुषु नास्य समावेशसम्भवतीति पृथगुक्तिी, एवमविरुद्धकार्यकार्यादेः कारणकारणादेः पूर्वपूर्वचरादेरुत्तरोत्तरचरादेश्च कार्यकारणपूर्वचरोत्तरचरभेदैरेव सङ्ग्रहानाधिक्यशङ्का कार्येति ॥ अथ विधिहेतुर्विधिसाधक एवेति नियमप्रतिपेधाय प्रतिषेधसाधकत्वमुपवर्णयितुं प्रथमं तत्रभेदानाह- विरुद्धविधिहेतुः प्रतिषेधसाधका प्रतिषेध्यस्वभावविरुद्धतव्याप्यादि 15 भेदेन सप्तप्रकारः॥ विरुद्धविधिहेतुरिति । प्रतिपेध्येन विरुद्धो विधिहेतुरित्यर्थः, अस्य विभागप्रकारमाह प्रतिपेध्यस्वभावविरुद्धति, अयमेको भेदः, तस्याप्येति, प्रतिपेध्यविरुद्धव्याप्येत्यर्थः, आविना कार्यकारणपूर्वचरोत्तरचरसहचराणां ग्रहणम् तथा च प्रतिपेभ्यस्वभावविरुद्ध- विरुद्धव्याप्यविरुद्धकार्यविरुद्धकारणविरुद्धपूर्वचरविरुद्धोत्तरचरविरुद्धसहचरभेदेन सप्तविध 20 इति फलितार्थः ॥ A- . - अथ प्रतिपेध्यस्वभावविरुद्धोपलम्मरूपं विधिहेतुं निदर्शयति- नास्त्येव सर्वथैकान्तोऽनेकान्तोपलम्भादिति प्रतिषेध्यस्य यस्स्वभा. वस्सर्वथैकान्तत्वं तेन साक्षाद्विरुद्धो विधिहेतुः ।। नास्त्येवेति । सर्वथैकान्तोऽत्र प्रतिपेभ्यस्तस्य स्वभावेन सर्वथैकान्तत्वेन साक्षाद्विर- 25 दूस्य कथञ्चित्सदसदाद्यात्मकत्वस्वरूपस्यानेकान्तस्योपलम्भो विध्यात्मको हेतुरित्याशयेनाह :३८०:- -- तत्वन्यायविभाकरे [ चतुर्थकिरणे प्रतिषेध्यस्येति । अत्रोपलम्मपदोपादानान्निपेधमात्रस्यानुपलम्भादेव सिद्धेभेदोऽयमनुप- लब्धावेवान्तर्भाव्य इति मतमपास्तम् , न चोष्णशीतस्पर्शयोरिव सर्वथैकान्वानेकान्तयो- विरोधस्य प्रथममनुपलब्ध्या प्रतिपद्यमानत्वेन तन्मूलकस्यास्य हेतोरनुपलब्धिरूपत्वमेव- युक्तमिति वाच्यं यन्मूलं यत्तस्य तद्रूपत्वेऽनुमानस्यापि प्रत्यक्षत्वप्रसङ्गात् , पर्वतादौ हि धूमे 5 प्रत्यक्षेणावगते पश्चात्तेन वह्नयनुमानं भवत्यतः प्रत्यक्षमूलत्वादनुमानमपि प्रत्यक्षं स्यादिति ।। प्रतिषेध्यविरुद्धव्याप्यं विधिहेतुं निदर्शयति- नास्य नवतत्त्वनिश्चयस्तत्संशयादिति प्रतिषेध्यस्य नवतत्वनिश्चयस्य विरुद्धनानिश्चयेन व्याप्यः॥ नास्येति । नवतत्त्वनिश्चयोऽत्र प्रतिषेध्यस्तद्विरुद्धानिश्चयत्वन्याप्यत्वात्तत्संशयस्य विरु- 10 व्याप्यत्वमित्याह प्रतिषेध्यस्येति । अनिश्चयो हनध्यवसायादौ संदेहमन्तरेणापि वर्तते, संदेहस्तु नानिश्चयमन्तरेण कदापि सम्भवतीत्यनिश्चयसंशययोाज्यव्यापकभावोऽवसेयः ॥ प्रतिषेध्यविरुद्धकार्यस्य विधिहेतोदृष्टान्तमाह- नास्त्यत्र शीतं धूमादिति प्रतिषेध्यशीतविरुद्धवह्निकार्यरूपः ।। नास्त्यत्रेति । अत्र प्रतिषेध्यश्शीतस्पर्शस्तद्विरुद्धो- बतिस्तत्कार्यत्वाड्रमस्य विरुद्ध- 15 कार्यत्वमित्यमिप्रायेणाह प्रतिषेध्येति ॥ प्रतिषेध्यविरुद्धकारणं लिङ्ग विध्यात्मकमाह- न देवदत्ते सुखमस्ति हृदयशल्यादिति प्रतिषेध्यसुखविरुद्धदुःखका- रणरूपः॥ नेति । सुखं यत्र प्रतिषेध्यं तद्विरुद्धं दुःखं तत्कारणञ्च हृदयशल्यमिति प्रतिव्यविरुद्ध 20 कारणं लिङ्गमिदमित्याह प्रतिषेध्येति || प्रतिपेभ्यविरुद्धपूर्वचरविरुद्धोचरचरविरुद्धसहचरानाह- १. न च स्वभावविरुद्धोपलब्धिरियं पृथक् न वाच्या, स्वभावानुपलब्धावन्तर्भावसम्भवात, निषेधमात्र- स्थानुपलम्भगम्यत्वादिति वाच्यम्, अत्रानुपलब्धेरश्रवणात्, न बानुपलम्भमूलत्वादनुपलब्धिस्पत्वं, प्रथम सर्वथैकान्तानेकान्तयोश्शीतोष्णस्पर्शयोरिव विरोध स्वभावानुपलभ्या निश्चित्यैवानुमानस्यास्य प्रवृत्तेरिति बा. च्यम्, अनुमानस्यापि प्रत्यक्षत्वापत्ते प्रत्यक्षतो वहिधूमयोस्साहचर्य दृष्ट्वा धूमेनानुमानप्रवृत्तरिति ।

। -- 10 प्रतिषेधहेतवः ] न्यायप्रकाशसमलते मुहर्तान्ते नोदेष्यति शकटं रेवत्युदयादिति प्रतिषेध्यशकटोदयविरु- द्धाविन्युदयपूर्वचरः। मुहर्तात्पाङ्नोदगाद्भरणिः पुष्योदयादिति प्रतिषेध्य- भरण्युदयविरुद्धपुनर्वसूदयोत्तरचरः। नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्श- नादिति प्रतिषेध्यमिथ्याज्ञानविरुद्धसम्यग्ज्ञानसहचर इति ॥ मुहर्चान्त इति । अत्र हि प्रतिपेध्यशकटोदयस्तद्विरुद्धोऽश्विन्युदयस्तत्पूर्वचरो रेव- 5 त्युदय इति विरुद्धपूर्वचरोऽयं हेतुरित्याह प्रतिपेध्येति । विरुद्धोत्तरचरहेतुमाह मुहूर्ता- दिति । स्पष्टम् । विरुद्धसहचरमाह नास्त्यस्येति, स्पष्टम् । एते हेतवस्साक्षात्प्रतिपेध्य- विरुद्धत्वमाश्रित्याभिहिताः परम्परया विरुद्धत्वमाश्रित्य त्वनेकप्रकारा भवन्तीति ते विस्तर. मिया नोकाः । इति समाप्तो विधिहेतुप्रपश्चः ।। अथ प्रतिपेध्याविरुद्धवस्तुनोऽनुपलब्धिरूपस्य प्रविपेचहेतो/दानाचष्टे- अविरुद्धनिषेधात्मको हेतुः प्रतिषेधसाधने स्वभावव्यापककार्यकारण- पूर्वचरोत्तरचरसहचरभेदेन सप्तधा ॥ अविरुद्धेति । अयं हेतुः प्रतिपेधसाधकः प्रतिपेध्यार्थाविरुद्धपदार्थानुपलम्मरूपत्वात् । स्वमावेति, स्वभावानुपलब्धिव्यापकानुपलब्धिकार्यानुपलब्धिकारणानुपलब्धिपूर्वचरानुपल- व्ध्युत्तरचरानुपलब्धिसहचरानुपलब्धिभेदेन सप्तप्रकार इति भावः ।। प्रतिपेयपदार्थप्रतिपेघनापकं स्वभावानुलब्धिरूपं प्रतिपेघहेतुं निदर्शयति- भूतलेऽत्र कुम्भो नास्ति दृश्यत्वे सति तत्स्वभावानुपलम्मादित्यवि. कद्धस्वभावानुपलब्धिरूपो निषेधात्मको हेतुः ॥ भूतल इति । भूतले दृश्यस्य कुम्भस्वभावस्यानुपलम्भात्कुम्भप्रतिपेस्सिद्ध्यतीति भावः । पिशाचादिमियभिचारवारणाय तस्वरूपे दृश्यत्वविशेषणमुपाचं, पिशाचादीनां 20 स्वभावो हि न जातुचिदृश्यः तस्मात्ते न नास्तित्वेनावगन्तुं शक्या इति भावः । ननु यो यत्र नास्ति स कथं दृश्यो यदि पुनश्यस्तर्हि कथं तस्य नास्तित्वमिति चेन्न निषेध्यस्य सर्वत्रा- रोपविषयत्वात् , एतद्रूपं ह्यारोप्य निपिध्यते, यद्यत्र कुम्भः स्यापर्युपलभ्येत नोपलभ्यतेऽतो नास्तीति, न चादृश्यस्यापि पिशाचादेदृश्यरूपतयाऽऽरोप्य प्रतिषेधः किमिति कर्तुं न शक्य इति वाध्यम् , तस्यारोपायोग्यत्वात् तद्योग्यस्यैवारोपात्, यस्य सत्वे नियमेनोपलम्भस्स 25 एवारोपयोग्यो न पिशाचादिः, सत्त्वेऽपि तस्य नियमेनोपलम्भाभावात् , उपलम्भकारण- 15 ..

:३८२ : तवन्यायविमाकरे [ चतुर्थकिरणे साकल्यवतो घटादेस्तु नियमेनोपलम्भयोग्यत्वं गम्यते उपलम्भकारणसाकल्यनिश्चयश्च घट- स्यैकज्ञानसंसर्गिणि प्रदेशादावुपलभ्यमानत्वात् घटप्रदेशयोरुपलम्भकारणस्य तुल्यत्वात् । यद्देश- वृत्तित्वेन यस्य कल्पना स एव तेनैकज्ञानसंसर्गी न देशान्तरस्थः, एकेन्द्रियग्राह्यं हि लोचना- दिप्रणिधानामिमुखवस्तुद्वयमन्योन्यापेक्षमेकज्ञानसंसर्गात्युच्यते तयोहि विद्यमानयो कनिय- 5 तामावप्रतिपत्तिर्योग्यताया द्वयोरप्यविशिष्टत्वात् । एवञ्च कल्पितस्यैकज्ञानसंसर्गित्वे सिद्धे एकज्ञानसंसर्गिपदार्थान्तरोपलम्भे योग्यतया सम्भावितस्य घटस्य दृश्यस्यानुपर्लम्भसिद्ध्यति । व्यापकानुपलब्धिकार्यानुपलब्धिकारणानुपलब्धीः दर्शयति- अत्र शिशपा नास्ति वृक्षाभावादित्यविरुद्धव्यापकानुपलब्धिर्ना- स्त्यत्र सामर्थ्यवद्वीजमङ्कुरानवलोकनादित्यविरुद्धकार्यानुपलब्धिः। ना- 10 स्त्यत्र धूमो वयभावादित्यविरुद्ध कारणानुपलब्धिः ॥ अत्रेति । प्रतिपेध्यशिशपाऽविरुद्धव्यापकवृक्षानुपलब्ध्या शिंशपाप्रतिषेधः क्रियत इति भावः । कार्यानुपलब्धि दर्शयति नास्त्यत्रेति । अडरादेरनुपलम्भे सत्यपि कचिद् वीजदर्शना- व्यभिचारवारणाय सामर्थ्यवदिति, तथा चाङ्खरानुपलम्मे बीजमात्राभावो न प्रयोजका, किन्तु सामर्थ्यवद्वीजाभाव इति न व्यभिचार इति भावः । कारणानुपलब्धिमाह 15 नास्तीति स्पष्टम् ॥ अथ पूर्वचरोत्तरचरसहचरानुपलब्धीनिदर्शयति- न भविष्यति मुहूर्तान्ते शकटं कृत्तिकोदयानुपलब्धेरित्यविरुद्धपूर्व- चरानुपलब्धिः । नोदगाहरणिर्मुहर्त्तात्माक्कृत्तिकोदयानुपलम्भादित्य- विरुद्धोत्तरचरानुपलब्धिः । नास्त्यस्य सम्यग्ज्ञानं सम्यग्दर्शनानुपलम्भा- 20 दित्यविरुद्धसहचरानुपलब्धिः ।। नेति । अत्र प्रतिपेध्यशकटोदयाविरुद्धपूर्वचरकृत्तिकोदयानुपलम्मरूपोऽयं हेतुः । उत्तरचरानुपलब्धि दर्शयति नोदगादिति, अत्र प्रतिषेध्यभूतभरण्युदयाविरुद्धोत्तरचरकृत्ति- १. ननु केवलभूतलस्य प्रत्यक्षत्वे तद्रूपस्य घटामावस्यापि प्रत्यक्षतया किमयं स स्वभावानुपलब्ध्या साध्यत इति चेडुचमुकं तथापि यस्सर्वं सर्वत्र विद्यत इति कुमतवासितान्त करण प्रत्यक्षप्रतिपमेऽपि घटाद्यभावे भ्राम्यति सोऽनुपलम्भ निमित्तीकृत्य प्रतिपाद्यत इति ॥ २. यद्यपि कारणानुपलब्धेयापरानुप- लब्धिरुपलं, कार्यकारणयो व्याप्यव्यापकमावात्तथापि कार्यानुपलन्धिमाहचर्येण कारणानुपलब्धेरप्युपस्थिते- विशेषज्ञानार्थ पृथनिर्देशो वोध्य. ॥

: :: . 5 10 प्रतिषधहतवः न्यायप्रकाशसमलते कोदयानुपलम्भरूपोऽयं हेतुः । सहचरानुपलब्धि दृष्टान्तयति नास्त्यस्येति, अत्र प्रतिषेध्य- अम्यग्ज्ञानाविरुद्धसहचरसम्यग्दर्शनानुपलम्भरूपोऽयं हेतुरिति । इमान्यप्युदाहरणानि स्वभावकार्यादीनां साक्षादनुपलम्मरूपहेतुद्वारा दर्शितानि, परम्परानुपलम्मरूपा हेतवोऽन्यत्र वेलोकनीयाः॥ अथ विधिसाधकसाध्यविरुद्धानुपलब्धिरूप निषेधहेतुं विभजते- विरुद्धनिषेधात्मको हेतुर्विधिप्रतीतो कार्यकारणस्वभावव्यापकसह- घरभेदेन पञ्चधा ।। विरुद्धति, तथा च विरुद्धकार्यानुपलब्धिविरुद्धकारणानुपलब्धिविरुद्धस्वभावानुपल- ब्धिविरुद्धव्यापकानुपलब्धिविरुद्धसहचरानुपलब्धिभेदेन पञ्चविधो विधिसाधको निषेध- हेतुरिति भावः ॥ तत्र प्रथमद्वितीयतृतीयहेतूनां निदर्शनान्याह- अत्र शरीरिणि रोगातिशयो वर्तते नीरोगव्यापारानुपलब्धेरिति साध्यविरुद्धारोग्यकार्यव्यापारानुपलब्धिरूपो निषेधहेतुः। अस्त्यस्मिन् जीवे कष्टमिष्टसंयोगाभावादिति साध्यविरुद्धसुखकारणानुपलब्धिः। सर्व वस्त्वनेकान्तात्मकमेकान्तस्वभावानुपलम्भादिति साध्यविरुद्धस्वभावा- 15 नुपलब्धिः।। अनेति । पञ्चविधेपु हेतुष्वित्यर्थः, शेपं स्पष्टम् । विरुद्धकारणानुपलब्धिमाहास्तीति, स्पष्टम् । विरुद्धस्वभावानुपलब्धिमाह समिति, नैकोऽनेकः, स चासावन्तश्च धर्मोऽनेका- न्तस्स एवात्मा स्वरूपं यस्य तदनेकान्तात्मकं तत्त्वं साध्यधर्मः, सर्वमित्यान्तरवाह्यपदार्थसमूहो धर्मी, एकान्तस्वभावस्सदसदाचन्यतरात्मकः, तस्यानुपलम्मादिति हेतुः । अत्र साध्येना-20 नेकान्तात्मकत्वेन विरुद्धो यस्स्वभावस्सदसदाद्यन्यतरस्वभावः तस्य प्रमाणमात्रेणानुपल- म्भरूपोऽयं हेतुः । प्रमाणहि स्वरूपेण सदात्मकाः पररूपेणासदात्मकास्सन्तस्सामान्यवि- शेपात्मका नित्यत्वानित्यत्वाद्यनेकधर्माण एव पदार्थाः प्रतीयन्ते न केवलं सद्रूपा असद्रूपा वा सामान्यस्वरूपा विशेषस्वरूपा वा नित्या अनित्या वा पदार्थास्तेभ्यो विरुद्धस्वभावानु- पलब्ध्याऽनेकान्तात्मकत्वसिद्धिरिति ।। . 25 चतुर्य पञ्चमश्च हेतुमाह- - .

तस्वन्यायविमाकरे [ चतुर्थकिरणे अस्त्यत्र छाया औष्ण्यानुपलब्धेरिति साध्यविरुद्धतापव्यापकानुप लब्धिः । अस्त्यस्य मिथ्याज्ञानं सम्यद्गर्शनानुपलब्धेरिति साध्यविरुद्धस- म्यग्ज्ञानसहचरानुपलब्धिः॥ अस्त्यत्रेति । सष्टम् । विरुद्धसहचरानुपलब्धि दृष्टान्तयति, अस्तीति स्पष्टम् , 5 समाप्तो हेतुविभागः॥ इत्येवं हेतुनिरूपणेन धर्मिसाध्यसाधनानां साकल्येन निरूपणाद्नुमाने निरूपितेऽपि वत्र किचिद्विशेष ज्ञापयितुमाह- अनुमानं द्विविधं स्वार्थ परार्थश्च | वचननिरपेक्षं विशिष्टसाधना- साध्यविज्ञानं स्वार्थम् । यथाहि वह्निधूमयोहीताविनाभावः पुरुषा 10 कदाचिद्भूधरादिसमीपमेत्य तत्राविच्छिन्नधूमलेखां पश्यन् यो यो घूमवान स स वह्निमानिति स्मृतव्याप्तिका पर्वतो वह्निमानिति प्रत्येति । इदमेव स्वार्थमुच्यते ॥ अनुमानमिति । स्वार्थ स्वात्मप्रतिपचिहेतुकं, परार्थ परप्रतिपत्तिहेतुकम् । स्वार्थ- लक्षणमाह वचननिरपेक्षमिति, पूर्वोदितपक्षहेतुप्रतिपादकशब्दविशेपो वचनं तदपेक्षणरहित- 15 मित्यर्थः, विशिष्टसाधनादिति निश्चितव्याप्तिमत्साधनादित्यर्थः, स्वस्मै पदार्थपरिच्छेदे. शब्दप्रयोगानपेक्षतया स्वयमेव निश्चितास्याप्तिविशिष्टसाधनात साध्यज्ञानं यत्समुदेति तत्स्वा- र्थमित्यर्थः, वदुत्पत्तिप्रकारमाह-यथाहीति । गृहीताविनाभाव इति, सकृदसकद्वोपलम्भानु- पलम्भाभ्यां तर्केण गृहीतव्याप्तिक इत्यर्थः, भूधराविसमीपमेत्येति, धर्मिज्ञानसम्पादनायेदं वचनम् , अविच्छिन्नधूमलेखामिति, व्याप्तिस्मारकतयास्योपयोगः, गोपालघटिकास्थधूमा- 30 दिव्यावर्चनायाविच्छिन्नेति, स्मृतव्याप्तिक इति, संस्कारस्य प्रवोधेन व्याप्तिस्मरणवानित्यर्थः । इदमेवेति, एवं रूपेण जातं वह्निविशिष्टपर्वतज्ञानमित्यर्थः । स्वार्थमिति, स्वव्यामोहनिवर्तन क्षमत्वात्स्वार्थमित्यर्थः ॥ परार्थानुमानस्वरूपमाह- वचनसापेक्षं विशिष्टसाधनात्साध्यविज्ञानं परार्थम् । उपचाराद्वच 25 नमपि परार्थम् ॥ वचनसापेक्षमिति । स्वस्मिन्निश्चितस्यानुमानस्य परं प्रति प्रबोधयितुं वचनमन्तरेणा- सम्भवाद्वचनसापेक्षं यनिश्चितव्याप्तिमत्साधन प्रयोज्यं साध्यविज्ञानं तत्परव्यामोहनिवर्तन- क्षमत्वात्परार्थानुमानमिति भावः । ननु वचनप्रयोगप्रयुक्तनिश्चितन्याप्तिकसाधनजन्यसाध्य - .

वचनानि ] न्यायप्रकाशसमलते विज्ञानस्यैव परार्थत्वे तत्त्वेन पक्षादिप्रतिपादकवचनानां कथन प्राचामसङ्गतं स्यादित्यत्राहो. पचारादिति, नेदं वचनं निरुपचरितपरार्थानुमानमचेतनत्वात् किन्तु मुख्यानुमानहेतुत्वेन परार्थ तदपि स्यात् कारणे कार्यस्य समारोपात्, अनुमानतोऽयं मयाऽववोधनीय इत्यभिप्रा- यवत्पुरुषप्रयुक्तपक्षादिववचनेन हि श्रोतुः परस्य व्यासिविशिष्टहेतुस्मरणादिद्वारा साध्यवि- ज्ञानमनुमानात्मकमुद्देति । ननूपचारस्तन भवति यत्र मुख्यबाधः प्रयोजन सम्बन्धश्च भवे. 5 दत्र कथमुपधारत्वमिति चेन्न ज्ञानमेव हि प्रमाणं, तत्कथं जबरूपं वचनं परार्थानुमानरूपं प्रमाणं भवेदतोऽस्ति ज्ञान प्रमाणमिति मुख्यस्य बाधः, कारणान्तरबैलक्षण्येन कार्यकारित्व. मस्य प्रयोजनम्, पक्षादिवचनवदन्यस्य कस्यापि परस्यानुमानजनकताया अप्रसिद्धेः । सम्बन्धोऽपि कार्यकारणभावरूपो वर्तत एव, अनुमानतोऽयं मयाऽववोधनीय इतीच्छया वक्ता पक्षादिवचनं प्रयुते, श्रोवापि एतद्वचनश्रवणद्वारा व्याप्तिमल्लिङ्गादमुमर्थमवबुद्धवानिति 10 मन्यत इति श्रोतुः प्रतीतिकारणत्वमस्तीति भावः ।। ननु परः कतिमिर्वचनैव्याप्तिमल्लिङ्गमवबुध्यत इत्यत्राह- वचनश्च प्रतिज्ञाहेत्वात्मकम् । मन्दमतिमाश्रित्य तूदाहरणोपनयनि- गमनान्यपि ॥ वचनश्चेति । प्रतिपाद्या हि विचित्राः केऽपि व्युत्पन्नमतयः केऽपि नितरामव्युत्पन्ना 15 नितरां केचिद्व्युत्पन्नाः, तत्र व्युत्पन्नमतिः प्रतिज्ञावचनेन हेतुवचनेन व्युत्पादयितुं शक्या, नितरां व्युत्पन्नस्तु केवलं हेतुवचनेन व्युत्पादितो भवति तस्मान्मुख्यतया प्रतिज्ञारूपं हेतु- रूपल द्विविधवचनमुपयोगि, तावतैव प्रतिपन्नविस्मृतव्याः प्रमातुस्साध्यप्रतिपत्तेनियमेनो- दयात् , अतस्तं प्रति दृष्टान्तादिवचनं व्यर्थमेव । व्याप्तिनिर्णयस्यापि तस्य तर्कप्रमाणादेव जातत्वात् प्रतिनियवव्यक्तिरूपदृष्टान्तस्य सर्वोपसहारेण व्याप्तिवोधनाननुकूलत्वादिति 20 भावः, ननु परार्थप्रवृत्तः कारुणिकैः परे यथाकथञ्चिद्रोधयितव्या न तेषां प्रतीतिमङ्गः कर- णीयस्तरमाद्यथा यथा परस्य सुखेन साध्यप्रतिपत्तिर्भवेत्तथा तथा प्रतिपादकेन प्रतिपादनीयः, . १. एतेन नात्यानुमानवचनस्यानुवादमानवा, इतरानधिगतार्थोपदेशकत्वात् , अन्यथाऽभवचनस्यापि अनुवादमात्रत्वं स्यात्, इदानीं स्वावगतार्थबोधकत्वादिति सूचितम् ।। २. पक्षहेतुवचनाभ्यामेवाविस्मृतय्या- तिक पुरुषो चोवयितु शक्य इति न तदर्थ दृष्टान्तवचनस्यावश्यकता, व्याप्तिनिर्णयस्तु तकदिव व्याप्ति- स्मृतिरपि व्युत्पश्चस्य पक्षहेतुप्रदर्शनाभ्यामेव भवति, उपनयनिगमने अपि न परप्रतिपत्त्यर्थ भवतः, समर्थ नं विनाऽसम्मवादिति भाव ॥

१८41 तस्वन्यायविभाकरे [ चतुपकिरणे वोध्यास्तु नैकविधास्तथा चाव्युत्पन्नप्रज्ञान प्रति कदाचिदुदाहरणोपनयनिगमनान्यपि वक्तव्या- न्येव भवन्तीति मन्वानः प्राह मन्दमतिमिति । अपिशब्दोऽनुक्तसमुचायकः तेन प्रतिक्षा- शुद्धिहेतुशुद्धिदृष्टान्तशुद्ध्युपनयशुद्धिनिगमनशुद्धीनां ग्रहणम्, तथा च कथाया बोध्यापेक्षया जघन्यमध्यमोत्कृष्टमेदेन त्रैविध्य वेदितव्यम् , अतिव्युत्पन्नमत्यपेक्षया केवलं हेतुवचनं जपन्या । कयेयम्, मध्यमापेक्षया प्रतिज्ञादीनां ध्यादीनां वचनं मध्यमा कथा, अतिमन्दमत्त्वपेक्षया च पञ्चशुद्धिसहितानां प्रतिज्ञादीनां पञ्चानां वचनमुत्कृष्टा कथेति । प्रतिपाद्यापेक्षयो प्रयोगायेन प्रकारेण तस्य प्रतीतिर्मवेत्तथैव प्रतिपादनीयो न तु क्रमेणैव प्रतिपादनीय इत्यस्ति नियमः, तत्र पक्षदोपपरिहारादिः प्रविबाशुद्धिः, हेत्वामासोद्धरणं हेतुशुद्धिः, दृष्टान्तदूषणपरिहरणं दृष्टान्तशुद्धिः उपनयनिगमनयोः प्रमादाइन्यथाकृतयोनियतस्वरूपेण 10 व्यवस्थापके वाक्ये उपनयनिगमनशुद्धी । प्रतिज्ञादय एते परानुमानरूपकार्यस्याङ्गभूतत्वाद- षयवा इत्युच्यन्ते ॥ - अथ प्रतिज्ञाया लक्षणमाह- 15 अनुमेयधर्मविशिष्टधर्मिबोधकशब्दप्रयोगः प्रतिज्ञा । यथा पर्वतो वहिमानिति वचनम् ॥ अनुमेयेति । अनुमेयः प्रतिपिपादयिपितो यो धर्मो वयादिस्तद्विशिष्टस्य धर्मिणो वोधको वोधजनको यशब्दप्रयोगः पर्वतो वद्विमानित्यादिरूपस्स प्रतिमेत्यर्थः | साध्यधर्म- स्याधारे सशयव्युदासाय साध्यस्य विशिष्टधर्मिसम्बन्धित्वावबोधक प्रतिज्ञावचनमावश्यकम् । भवति हि पर्वतो वहिमानिति प्रयुक्तेन वचनेन वहिमान् पर्वतो घटो वेति संशयस्य निवृत्तिः, वहौ पर्वतसम्बन्धित्ववोधश्चेनि | धर्मविशिष्टता हस्तित्वाधपेक्षया सर्वपदार्थेविति वबोध- 20 कवचनव्यावृत्तये प्रतिपिपादयिषितार्थकमनुमेयपदं धर्मविशेषणतयोपात्तम् । धर्मिणि निर्दुष्ट- त्वमपि विशेपणं देयं तेन न पक्षाभासेऽतिव्याप्तिः । दृष्टान्तमाह यथेति ॥ अथ हेतुवचनं लक्षयति- उपपश्यनुपपत्तिभ्यां हेतुपयोगो हेतुवचनम्। यथा तथैव घूमोपपत्ते, १. एतेन प्रयोजनाभावात्पक्षवचनमनर्थकमिति धौद्योक्तिनिरस्ता प्रतिपाद्यप्रतिपत्तिविशेषस्य तस्माच्यप्रयो- जनस्य सद्भावाच्च । तच हेतूपन्याससमन्वितमेव साध्यं प्रतिपादयति, न च तर्हि तस्मादेव तत्र मामों पपत्ते किं पक्षवच नेति वाच्यम् । तथा सति हेतो समर्थनापेक्षस्य साध्यमिद्धिनिबन्धनत्वोपपत्ती हेतुवच. नस्यापि वैयपित्ते हेतोरवचने कस्य समर्थनमिति चेत्सास्याप्यप्रयोगे के हेतुस्माध्यं साधयेदिति न्यायस्य तुल्यत्वादिनि ।

उदाहरणम् ] न्यायप्रकाशसमलते मस्यान्यथानुपपत्तेरिति च । एकत्रोभयोः प्रयोगो नावश्यकः। अन्य- तरेणैव साध्यसिद्धेः ॥ उपपत्तीति । हेतुप्रयोगों हेतुवचनमिति । हेतुत्वेन हेतोरभिधायकशब्दप्रयोगो हेतुवचन- मेत्यर्थः । हेतुत्वेन हेतोरभिधानं नाम तदभिव्यञ्जकविभक्त्यन्तत्वं, सा च विभक्तिः पञ्चमी तृतीया वा, तथा च हेतुत्वव्यञ्जकविभक्त्यन्तत्वे सति हेतुप्रयोगत्वं लक्षणम्, धूम इति 5 वचनवारणाय सत्यन्तम्, वह्निमान् द्रव्यत्वादित्यादौ द्रव्यत्वादित्यव्याप्तवचनवारणाय हेतु प्रयोगत्वमिति, तत्र व्याप्तेरभावान्तद्वाक्यं हेतुप्रयोगरूपमिति । कथं तस्य प्रयोग इत्यत्रा- होपपत्त्यनुपपत्तिभ्यामिति, सहाथै तृतीया, उपपत्त्यनुपपत्तिपई तद्बोधकशब्दपरम् । तथा चोपपत्तिपदेन सहानुपपत्तिपदेन सहेत्यर्थः, तत्र दृष्टान्तमाह-यथेति, व्याप्त्युपदर्शनार्थ हेतुप्रयोगो वोध्यः । वथैवेति, वह्नौ सत्येवेत्यर्थः, घूमस्यान्यथानुपपत्तेरिति, वहावसति 10 घूमानुपपत्तेरित्यर्थः । ननु उपपत्त्यनुपपत्तिभ्यामिति द्विवचनान्तेन पदेनोभयोः प्रयोग- नियमो गम्यते तश्च न युक्तं तयोरेकतरस्याः प्रयोगेणैव व्याप्तिबोधेन साध्यसिद्ध- रन्यतरस्याः प्रयोगे नैरर्थक्यापातादित्यनेष्टापत्तिमाविष्करोति एकत्रेति, एकस्मिन् साध्ये द्विविधप्रयोगस्य निष्फलत्वमेवेत्यर्थः, तत्र हेतुमाहान्यतरेणैवेति, तथैव हेतोरुपपत्ते- रन्यथानुपपत्तेर्वा प्रयोगेणेत्यर्थः, व्यास्युपदर्शनार्थ हि हेतुप्रयोगस्तञ्चैकेनैव निष्पन्नमिति 15 विफलो द्वयोः प्रयोग इति भावः । ननु शब्दः प्रयत्नानन्तरीयकः कादाचित्कवादित्यादौ प्रयत्नानन्तरीयकेषु सर्वत्र कादाचित्कत्वस्य सत्त्वेन तथोपपत्तिसत्त्वेऽप्यगमकत्वेन कथमन्य- तरेण साध्यसिद्धिस्तनान्यथानुपपत्तेरभावादेवानुमानामावादिति चेन्न तत्र तथोपपत्तेरेवामा- वात् नहि प्रयत्नानन्तरीयकेपु सर्वत्र कादाचित्कत्वसत्त्वमेव तथोपपत्तिः किन्तु तथैवोप- पत्तिरेव-साध्यसत्त्वे एव हेतुसत्त्वरूपं, न तादृशं प्रकृतेऽस्ति, अप्रयलानन्तरीयकेऽपि 20 विद्युदादौ कादाचित्कत्वस्य भावात् तथा च तथैवोपपत्तिकथनेऽप्यन्यथानुपपत्तिर्गम्यत एव तथाऽन्यथाऽनुपपत्तिमात्रामिधानेऽपि तथैवोपपतिर्गम्यत एव, तात्पर्यस्य शब्दभेदेऽप्यमे- वात् । तथा च तथोपपत्त्यन्यथानुपपत्योः परस्पराव्यभिचारित्वेनैकप्रयोगेऽपरस्य तात्पर्यतो लव्धेरन्यतरप्रयोगो निरर्थक एवेति भावः ॥ यस्तु क्षयोपशमविशेषाभावेन पक्षहेतुप्रयोगेऽपि पूर्वप्रतिपन्नप्रतिवन्ध न स्मरति तम्प्रति 25 दृष्टान्तवचनस्यावश्यकतया तत्खरूपमाह- दृष्टान्तवोधकशब्दप्रयोग उदाहरणम् । साधर्म्यतो वैधय॑तो वा व्याप्तिस्मरणस्थानं दृष्टान्तः । यथा महानसाविईदादिश्च ।।

- :३८८: तत्त्वन्यायधिमाकरे [चतुर्यकिरणे दृष्टान्तेति । वक्ष्यमाणलक्षणो दृष्टान्तस्तप्रतिपादकं वचनमुदाहरणमित्यर्थः । दृष्टान्त- स्वरूपमाह साधयंत इवि व्याप्तिस्मरणस्थानं दृष्टान्त इति, व्याप्तिर्हि द्विविधा, अन्ता- प्तिर्बहिर्व्याप्तिरिति, पक्षीकृत एव साधनस्य साध्येन व्याप्तिरन्ताप्तिः, पक्षीकृतादहि- दृष्टान्तादौ तस्य तेन व्याप्तिपहियाप्तिः तथा च प्रोक्तबहियाप्तिस्मरणं यत्र भवति स 5 दृष्टान्त इत्यर्थः कस्यचित्प्रमातुर्दृष्टान्तदृष्टबहिाप्तिबलेनान्ताप्तिप्रविपत्तिर्भवतीति स्वार्था- नुमानेऽपि कचिदङ्ग बोध्यम् । तद्भेदज्ञापनायाह साधर्म्यतो वैधय॑तो वेति, साधनसत्वाप्रयुक्त- साध्यधर्मसत्तारूपान्वयतः साध्याभावसत्ताप्रयुक्तसाधनाभावसत्तारूपव्यतिरेकतो वेत्यर्थः, तत्र निदर्शनमाह यथेति धूमसत्ताप्रयुक्तवह्रियोगित्वान्महानसं साधर्म्यदृष्टान्तः, वहिनिवृत्ति- प्रयुक्तधूमनिवृत्तियोगित्वाद्धदो वैधर्म्यदृष्टान्त इति भावः । साध्यं व्यापकं भवति साधनन्तु 10 व्याप्य, व्यापकञ्च व्याप्यसद्भावेऽसद्भावे च भवति, व्याप्यन्तु व्यापकसद्भाव एव । तथा च तत्सत्ताप्रयुक्तवत्सत्तायोगिदृष्टान्तप्रतिपादकं वचनं साधोदाहरणमित्येकम् । व्यापकस्य निवृत्तिाप्यं भवति, व्याप्यस्य निवृत्तिश्च व्यापकं भवति तथा च तन्निवृत्तिप्रयुक्ततन्नि- वृत्तियोगिदृष्टान्तप्रतिपादकं वचनं वैधयोदाहरणमित्यपरं पर्यवसन्नम् । तदुक्तं " व्याप्य- व्यापकभावो हि भावयोर्याडगिज्यते । स एव विपरीतस्तु विज्ञेयस्तदभावयोः" इति ॥ यस्तु दार्टीन्तिके हेतु योजयितुं न जानीते तं प्रत्युपनयस्यावश्यकत्वात्तत्स्वरूपमाह- दृष्टान्तप्रदर्शितसाधनस्य साध्यधर्मिण्युपसंहारवचनं उपनयः । यथा तथा चायमिति। दृष्टान्तेति । साधनधर्मप्रयुक्तसाध्ययोगिनि साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्तियो- गिनि वा दृष्टान्ते प्रदर्शितस्य हेतोस्साध्यर्मिणि य उपसंहारो योजना तत्प्रतिपादकं वचन- 20 मुपनीयते साध्यधर्मिण्युपसंह्रियते व्याप्तिविशिष्टो हेतुर्येन वचनेनेत्युपनयो दृष्टान्ते साध्येन सह दृष्टस्य हेतोस्साध्यधर्मिण्यनुसन्धानवचनमिति भावार्थः, साध्यधर्मिण्युपसंहारवचनम- न्यस्यापि सम्भवतीति साधनस्येत्युक्तम्, दृष्टान्तप्रदर्शितसाधनस्यान्यत्राप्युपसंहारंवचनं तथा स्यादिति साध्यधर्मिणीत्युक्तम् साध्यमिणि गृहीताविनाभावस्य साधनस्य प्रतिपादकं हेतु- वचनमपीति दृष्टान्तप्रदर्शितसाधनस्येत्युक्तम् । उपनयस्य दृष्टान्तमाह यथेति ॥ . दाष्टान्तिके हेतु योजयित्वापि यस्साकांक्षस्तं प्रति निगमनस्यावश्यकत्वात्तत्स्वरूपमाह- साध्यधर्मस्य धर्मिण्युपसंहारवचनं निगमनम् । यथा तस्मात्तथेति ॥ इति सद्धेतुनिरूपणम् ॥ 15 25 10 हेत्वाभासाः।] न्यायप्रकाशसमलते साध्यधर्मस्येति । साध्यधर्मस्य वयादेस्तद्धर्मिणि पर्वतादौ येन वचनेनोपसंहरणं तद्वचनं निगम्यन्ते प्रतिज्ञाहेतूदाहरणोपनयार्थी अनेनेति निगमनमित्यर्थः । तत्र दृष्टान्त- माह तस्मादिति वहिव्याप्यघूमवत्त्वादित्यर्थः तथा-पर्वतो वह्निमानित्यर्थः । एते नान्तरीय- उत्वप्रतिपादका वाक्यैकदेशरूपाः पञ्चावयवाः प्रदर्शिता इत्याशयेनाहेतीति, इत्थमित्यर्थः, उद्धेतुनिरूपणं व्याप्तिविशिष्टहेतुनिरूपणमित्यर्थः ॥ इतितपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकम- लसूरीश्वरचरणनलिनविन्यस्तमतिमरेण नत्पट्टधरेण विजयलधिसू. रिणा विनिर्मितस्य तत्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रका- शब्याख्यायां सतुनिरूपणं नाम चतुर्थः किरणः ॥ अथ पञ्चमः किरणः ॥ अथ हेतुप्रसङ्गादेत्वाभासान्निरूपयितुमुपक्रमते- असिद्धविरुद्धानकान्तिकालयो हेत्वाभासाः ॥ असिद्धेति । हेत्वाभासा इति हेतुवदामासन्त इति हेत्वाभासा, दुष्टहेतव इत्यर्थः, हेतुस्वरूपस्य निश्चितच्याप्तिमत्त्वस्याप्रतीतिविपर्याससदेहः पञ्चम्यन्वत्वेन च हेतोरिवा- भासमानत्वादसिद्धादीनां हेत्वाभासत्वमवसेयम् । त्रय इति संख्यान्वरव्यवच्छेदाय, तेन 15 वाघसत्प्रतिपक्षयोहेत्वाभासत्वन्यवच्छेदः । बाघस्य पक्षदोषेष्वन्तर्भावात् | सत्प्रतिपक्षस्य दोषत्वासम्भवाच्च । यथोक्तलक्षणेऽनुमाने प्रयुक्तेऽदूपितेऽनुमानान्तरस्यासम्भवात् । तुल्यवले साध्यतद्विपर्ययसाधकहेतुद्वये सत्यपि तत्र प्रकृतसाध्यसाधनयोात्यनिश्चयेऽसिद्ध एवान्त- मावसम्मवाच । अत्रेदम्बोध्यमनेकान्तविरुद्धबुद्धिमिरुपन्यस्यमानास्सर्व एव हेतवोऽसिद्धा इत्येकविध एव हेत्वामास इति श्रीसिद्धसेनदिवाकरसूरयः । विरुद्ध एवेति विरुद्ध एक 20 एवेति मल्लवादिनः, समन्तभद्राचार्यास्तु तेऽनैकान्तिका इति स एव हेत्वाभास इत्याहुः, शिष्टानां तत्रैवान्तर्भावात् तदुक्तं ' असिद्धसिद्धसेनस्य विरुद्धो मल्लवादिनः । द्वेधा समन्त- " । १. नित्यशब्दोऽनुपलभ्यमानानित्यधर्मकत्वात् अनित्यशब्दोजुपलभ्यमाननित्यधर्मकत्वादित्यत्र सत्प्रति- पक्षता वकव्या सा च न सम्भवति, अनुपलभ्यमाननित्यधर्मकत्वस्य पक्षेऽसत्त्वेऽसिद्धरेव दोषत्वात्, साध्यधान्वितधर्मिणि तत्सिद्धौ गमकत्वमेव स्यात्, अविनामावसत्त्वात् पश्चात्तत्र साध्यं सिद्धचति नेदानी- मिति चेत्तर्हि विरुद्धता स्यात्, इदानीमत्र संदेहस्साध्यस्येति चेदनकान्तिकत्वं, न च पक्षान्तविण व्य- भिवारो न दोपः विपक्षव्यावृत्तस्य सपने पक्षे च सत एव गमकत्वादिति वाच्यम्, पक्षान्तविण व्याय निधये धयन्तर एव स्वसाध्येन व्याप्तिनिश्चये पक्षे हेतुसत्त्वेऽपि स्वसाध्यामाधकत्वापत्ते तत्र व्याप्तरग्रह- णादिति न सत्प्रतिपक्षी दोष इति भाव. ॥ २. अनकान्तिक इत्यर्थः ।

:३९०: तत्वन्यायविभाकरे [पञ्चमकिरले . भद्रस्य हेतुरेकान्तसाधने ॥” इति, तदिदमिष्टमपि नितरां संक्षिप्ततया शिष्यमतिविकासनाय तत्स्वरूपप्रदर्शनस्यावश्यकतयाऽत्र त्रैविध्यमादर्शितम्, केचिच्च तीर्थान्तरीयोपन्यस्तहेतुषु प्रत्येकं दोषत्रयं मन्यन्ते यथा अनित्य एव शब्दः कृतकत्वादित्यादौ कृतकत्वमसिद्धं, एकान्ता- नित्ये तदसम्भवात् । नित्यानित्यात्मकस्यैव कृतकत्वसम्भवात् । एकान्तानित्यविपरीतनित्यानि- 5 त्यात्मकस्यैव शब्दस्य साधकत्वेन विरुद्धम् । विपक्षेऽपि नित्ये वर्तमानत्वाचानकान्तिकम- पीति || अकिञ्चित्करोऽपि न हेत्वाभासान्तरं तद्धि सिद्धसाधनरूपं बाधितविपयरूपञ्च, द्विविधमपीदमप्रयोजकापरामिधानं पक्षदोपेष्वेवान्तर्गतम् । न च यत्र पक्षदोषस्तत्रावश्य हेतुदोषोऽपि वाच्य इति वाच्यं तथा सति दृष्टान्तादिदोषस्याप्यवश्य वाच्यत्वापचेरिति ॥ 10 अधुनाऽसिद्धं लक्षयति- हेतुस्वरूपाप्रतीतिप्रयुक्तामतीतव्याप्तिको हेतुरसिद्धः ॥ हेतुस्वरूपेति । अप्रतीतव्याप्तिको हेतुरिति हेतोः सत्त्वस्यासिद्धौ संदेहे वाऽप्रतीत- व्याप्तिक इत्यर्थो न तु व्याप्तवपरीत्येन निश्चयात् संशयाद्वाऽप्रतीतच्याप्तिकस्ताशस्य विरु- द्धानकान्तिकत्वात् तदेतत्सूचयितुं हेतुस्वरूपाप्रतीतिप्रयुक्तेति विशेषणम् । यत्र सत्त्वं नास्ति तस्य संशयो वा स हेतुरेव न भवति तथा च तादृग्वस्तु हेतुत्वलक्षणविरहादसिद्धं, न तु 15 पक्षधर्मत्वाभावात् । नहि पक्षधर्मत्वं हेतोर्लक्षणमन्यथानुपपत्तिबलेन तदभावेऽप्यनुमाना- हेतुत्वस्य पूर्वमुपदर्शितत्वात् । यथा नित्यश्शन्दश्चाक्षुषत्वादित्यादौ व्याप्तित्वरूपलक्षण- विरहाचाक्षुषत्वमसिद्धं, स्वरूपाप्रतीतिश्चानासत्त्वात् । तथा वाष्पादिभावेन सन्दिह्यमानो धूमो वहिसिद्धौ प्रयुज्यमानोऽसिद्ध उच्यते तत्र संदिग्धसत्त्वेन व्याप्त्यभावादिति ।। तस्य प्रभेदमाह- स द्विविधो वादिप्रतिवाशुभयासिद्धोऽन्यतरासिद्धश्चेति । तत्रायो यथा शब्दोऽनित्यश्चाक्षुषत्वादिति, अन शब्दस्य चाक्षुपत्वं नोभयस्य सिद्धम् ॥ स इति । असिद्ध इत्यर्थः, वादीति, वाद्यपेक्षया प्रतिवाद्यपेक्षया चासिद्ध इत्यर्थः । अन्यतरेति वाद्यपेक्षया प्रतिवाद्यपेक्षया वेत्यर्थः । पूर्वपक्षं विदधानो वादी, उत्तरपक्षमव- 25 लम्बमानः प्रतिवादी, प्रथमभेदस्य दृष्टान्तमाह वत्राद्य इति, चक्षुपा ग्राह्यश्चाक्षुषस्तस्य भाव- श्वाक्षुपत्वं तस्मादिति विग्रहश्चक्षुर्जन्यज्ञानविपयत्वं तदर्थः, तच्च नित्यत्ववादिनोऽनित्यत्ववा- दिनो वा कस्यापि शब्दे न सम्मतमिति वादिप्रतिवाद्युभयापेक्षोऽयमसिद्ध इति भावः ।। 20 असिद्ध ] न्यायप्रकाशसमलते :: अथ वाद्यसिद्धमाह- वाथसिद्धो यथा शब्दः परिणामी उत्पत्तिमत्त्वादिति । अत्र शब्द- स्योत्पत्तिमत्त्वं वादिनस्सांख्यस्यासिद्धम् ॥ वाद्यसिद्ध इति । इदं प्रतिवादिनोऽनुमानम् । सङ्गमयति अत्रेति, सांख्यस्यासिद्ध- मिति, तन्मतेऽसत उत्पत्त्यभावात्सतश्च विनाशाभावादुत्पादविनाशयोराविर्भावतिरोभाव- 5 रूपेण प्रागभावप्रतियोगिमत्त्वरूपमुत्पत्तिमत्त्वमसिद्धमिति ।। ननु विशेष्यविशेषणव्यर्थवि- शेष्यव्यर्थविशेषणासिद्धारस्वरूपासिद्धो व्यधिकरणासिद्धादयश्च कथं न हेत्वाभासत्वेनोक्ता इति चेदुच्यते विशेष्यविशेपणव्यर्थविशेष्यव्यर्थविशेषणासिद्धा वादिनः प्रतिवादिनो वोभ- यो भविष्यन्तीति तेषां तत्रैवान्तर्भाव । स्वरूपासिद्धः स्वरूपं असिद्धं यस्य सो स्वरूपा- सिद्धः स्वरूपेणासिद्ध इति वा यथाऽनित्यः शब्दश्चाक्षुषत्वादिति, नायं व्यधिकरणासिद्धः 10 रूपस्य चाक्षुषत्वादित्यनुक्तत्वात् । एवञ्चायं वस्तुतो न हेत्वाभासः तस्य हेतुस्वरूपत्वामावा- देवागमकत्वात् । व्यधिकरणासिद्धो न वस्तुतो हेतुदोषः, विभिन्नाश्रयस्यापि उदेष्यति शकटं कृत्तिकोदयादित्यादेर्गमकत्वप्रतीतेः, एवमन्यत्रापि भाव्यम् ॥ प्रतिवाद्यसिद्धं दर्शयति- द्वितीये प्रतिवाद्यसिद्धो यथा वृक्षा अचेतना मरणरहितत्वादिति । हेतु- 15 रयं वृक्षे जैनस्य प्रतिवादिनोऽसिद्धः, प्राणवियोगरूपमरणस्य स्वीकारात्।। द्वितीय इति । अन्यतरासिद्धरूप इत्यर्थः, अस्य वादिप्रतिवाद्यन्यतरापेक्षत्वेनादौ प्रति- वाद्यसि माह प्रतिवाद्यसिद्ध इति, इदं वादिनो वौद्धस्यानुमानम् , मरणरहितत्वादिति विज्ञानेन्द्रियायुनिरोधो मरणम् | सङ्गमयति हेतुरयमिति, हेतुमाह प्राणेति, द्रुमेष्वप्यागमे विज्ञानेन्द्रियायुपा प्रमाणतस्स्थापितत्वादिति भावः । ननु न सम्भवत्यस्य भेदस्य 20 हेत्वाभासत्वं, प्रतिवाद्युद्भावितासिद्धि विभाव्य तत्र वादिना प्रमाणेऽनुद्भाविते प्रमाणाभावा- देवोमयोरसिद्धत्वात्, उद्भाविते चोभयोरेव तसिद्ध्याऽन्यतरासिद्धत्वासम्भवात् प्रमाण- स्यापक्षपातित्वात् । न च यावत् प्रमाणानुद्भावनं तावदसिद्धमिति वाच्यम्, तथा सति गौणत्वापत्तेः, नहि रत्नादिपदार्थो यावत्तत्त्वतोऽप्रतीयमानखावन्तं कालं मुख्यतया सदाभासो - १. अविनाभावस्यैव गम्यगमकभावनिवन्धनवं न सामानाधिकरण्यस्य, तदभावेऽप्यनुमितिदर्शनादि- स्याह व्यधिकरणेति, तत्सत्त्वेऽपि स श्यामो मित्रातनयत्वादित्यादेरगमकत्वादिति भाव ॥ २. अन्यत्रापि भागासिदसदिग्धासिद्धादावपीत्यर्थ , एषामुमयस्यान्यतरस्य वाऽसिद्धत्वादुक्तेष्वन्तर्भाव इति भाव.। पक्षतावच्छे- एको हेतुर्न हवामास , प्रमाणं स्वपरव्यवसायिनानमेव भवति, प्रमाणत्वान्यथानुपपत्तेरित्यादेप्रेमकत्वादिति ॥

। 10 तस्वन्यायविमाकरे [ पाकिसे भवति । यदि चान्यतरासिद्धो वस्तुतो हेत्वाभासस्तदा वादी निगृहीतः स्याचतः पश्चाद- निग्रहो युक्ता, नवा हेतुसमर्थनं युकं निग्रहान्तत्वाद्वादस्येति चेन्मैवम् , सम्यग्धेतुत्वं प्रतिपद्यमानेनापि वादिना तत्समर्थनन्यायविस्मरणादिनिमित्तेन यदा हि प्रतिवादिनं वोधयितुं न शक्यते न स्वीक्रियते चासिद्धता तदान्यतरासिद्धत्वेनैव स निगृह्यते, एवं स्वानभ्युपग- 5 मतोऽपि परस्य सिद्ध इत्येवाववैवोपन्यस्यमानो हेतुरन्यतरासिद्धो भवतीति यथा सांख्यस्य जैनं प्रति, अचेतनाः सुखादय उत्पत्तिमत्त्वाद्धटवदिति ॥ सम्प्रति विरुद्धं लक्षयति- साध्यधर्मविपरीतव्याप्तिको हेतुर्विरुद्धः । यथा शब्दो नित्यः कार्य- त्वादिति, अत्र कार्यत्वमनित्यत्वव्याप्यम् ॥ साध्यधर्मेति । केनचित्पुरुषेण साध्यधर्मविपरीतस्यैव व्याप्यो हेतुर्धान्त्या साध्य- व्याप्यत्वेनोपन्यस्यते तदा स साध्यधर्मविपरीतव्याप्तिकत्वाद्विरुद्ध इति भावः। दृष्टान्तमाह- यथेति घटयति अत्रेत, अयं पक्षविपक्षन्यापको हेतुः । अत्र परैरष्टविधा विरुद्धभेदा उच्यन्ते यथा पक्षविपक्षव्यापकस्सपक्षावृत्तिः, पक्षव्यापको विपक्षैकदेशवृत्तिस्सपक्षा- वृत्तिश्च,पक्षविपक्षैकदेशवृत्तिस्सपक्षावृत्तिश्च पक्षैकदेशवृत्तिस्सपक्षावृचिर्विपक्षव्यापकश्च, पक्ष- 15 विपक्षव्यापकोऽविद्यमानसपक्षश्च, पक्षविपक्षकदेशवृत्तिरविद्यमानसपक्षश्च, पक्षव्यापको विपक्षकदेशवृत्तिरविद्यमानसपक्षश्च, पक्षकदेशवृत्तिर्विपक्षव्यापकोऽविद्यमानसपक्षश्चेति । आद्याश्चत्वारस्सति सपक्षे परे चत्वारश्वासति सपक्षे बोध्यास्तत्र प्रथमो यथा शब्दो नित्यः कार्यत्वादिति कार्यत्वं हि शब्दमात्रेऽनित्यघटादिमात्रे वर्चते नतु नित्य आकाशादौ । द्वितीयो यथा-नित्यशब्दसामान्यवत्त्वे सत्यस्मदादिवाझेन्द्रियग्राह्यत्वात् , अन्नाय हेतुः 20 शब्दमात्रे क्वचिदनित्ये घटादौ वर्त्तते क्वचिच्चानित्ये सुखादौ नित्य आकाशादौ न वर्त्तत इति । तृतीयो यथा वाङ्मनसे अस्मदादिवायकरणप्रत्यक्षे सामान्यविशेषवत्त्वे सति नित्यत्वादयं हेतुः पक्षकदेशे मनसि वर्तते न तु वाचि, विपक्षकदेशे गगनादावस्ति न तु सुखादौ, नास्ति पुनर्घटादौ सपक्षे । चतुर्थो यथा-नित्या पृथिवी कृतकत्वादिति हेतुः, इदं कृतकत्वमनित्यपृथिव्यामस्ति परमाणौ च नास्ति, नित्यमाने नास्ति, अनित्यमाने चास्ति । 25 पञ्चमो यथा-आकाशविशेषगुणशब्दः प्रमेयत्वादिति, अयं हेतुश्शब्दमात्रेऽनाकाशविशेष- गुणमात्रे च वर्चते सपक्षश्चात्र नास्ति । षष्ठो यथा-आकाशविशेषगुणशब्दः प्रयत्नानन्तरी- १. पूर्वोत्तराकारपरिहारप्राप्तिस्थितिलक्षणपरिणामनवाविनाभूतं कृतकत्वं बहिरन्तर्वा प्रतीतिविषय, तव सर्वथा नित्ये क्षणिक वा सम्भवत्येवेति विरुद्धत्वमिति भाव. ॥

मदेशान्तिकः] न्यायप्रकाशसमलते : ३९३ - यकत्वादिति, अयञ्च हेतुः शब्दविशेपे वर्तते नास्ति च शब्दविशेषे, घटादावस्ति मेघादौ नास्ति च, अत्रापि सपक्षो नास्ति । सप्तमो यथा-आकाशविशेषगुणशब्दो बान्द्रिय- पाह्यत्वादिति, हेतुरयं शब्दमाने विपक्षैकदेशे रूपादौ वर्चते न तु सुखादौ विपक्षे सपक्षस्तु नास्त्येव । अष्टमो यथा-आकाशविशेषगुणशब्दोऽपदात्मकत्वादिति, अत्र हेतुध्वनौ वर्चते नतु पदात्मकशब्दे, रूपादौ विपक्षमाने वर्तते सपक्षस्तु नास्त्येवेति । सर्व एवैते हेतवो 5 मोक्तविरुद्ध एवान्तमवन्ति, पक्षकदेशवृत्तिषु असिद्धतापीति ।। अधुनानकान्तिकं निरूपयति- सन्दिग्धव्याप्तिको हेतुरनैकान्तिकः । स द्विविधस्सन्दिग्धविपक्ष- त्तिको निर्णीतविपक्षवृत्तिकश्चेति ।। सन्दिग्धेति । यस्य हेतोाप्तिस्सन्दिह्यते स हेतुरनैकान्तिक इत्यर्थः । अयं हि 10 साव्येन विना देतोमावस्य संशये निर्णये वा भवतीत्याशयेन तस्य द्वैविध्यमाह स द्विविध इति | सन्दिग्वेति विपक्षे यस्य वृत्तिस्सन्दिग्धा स इत्यर्थः निर्णीतेति, विपक्षे यस्य वृत्ति- निर्णीता स इत्यर्थः, विरुद्धो हेतुस्तु विपक्ष एव वृत्तितया निर्णीत इति न साङ्कर्यम् ॥ वत्राद्यस्य निदर्शनमाह- आयो यथा विवादापन्नः पुरुषो न सर्वज्ञो वक्तृत्वादिति । अत्र 15 विपक्षे सर्वज्ञ वक्तृत्वं सन्दिग्धम् ॥ आद्य इति । सन्दिग्वविपक्षवृत्तिक इत्यर्थः, दोपं हेतौ सङ्कमयति अति, सन्दिग्ध- मिति, सर्वज्ञः किं वक्ता नवेति संशयात्, न च वक्तः सर्वज्ञस्य केनाप्यदर्शनान्न वक्ता स इति निश्चीयत एवेति वाच्यम् , अल्पप्र.रस्मामिस्तस्य भापमाणस्यादर्शनेऽपि न वक्तति निश्चतुमशक्यत्वेन सन्दिग्धत्वात् । ननु सर्वज्ञस्य वचनं विरुद्धं तस्य रागस्वभावविवक्षाजन्य- 20 खेन प्रक्षीणमोहे दस्मिन् मोहापरपर्यायरूपतदिच्छाया असभवात् । तथा च वचनामाव एवं १. बौद्धा धर्मविशेषविपरीतसाधको घर्मिविशेषविपरीतसाधकश्चेति विरुद्धस्य वैविध्यमाहुः तत्र सर्वा- जमानोच्छेदप्रसवात्, पर्वताधिकरणक्धूमस्य सिपाधयिपितवहिविशेषविपर्ययसाधकत्वेन विरुद्धत्व वाच्यम्, तब तदा स्यात् धूमसामान्योपन्यासेन बहिविशेपो जिज्ञास्येत । यदा च विशेष साध्यमभिलपता विशिष्ट एव हेतुरूपन्यस्यते तदा नोकदोप , तया धर्मिविशेषविपरीतसाधनोऽपि न विरुद्ध, अन्यथा यो यो धूमवान् अ पर्वतो न भवति यथा महानसम्. इति धर्मिणस्तिरस्कारामोऽपि हेतुर्न भवेत. तथाचानुमानमात्रविलो पापत्त्या नेतौ विरदहेत्वाभामाविवि बोध्यम् ॥

. 10 तस्वन्यायविमाकरे raमकिर निश्चित इति चेन्न, सुषुप्त्यादौ निरमिनायवागादिप्रवृत्त्यनापत्तेः, नहि सुषुल्यादौ वाग्व्यवहारा- दिहेतुरिच्छाऽस्ति । न चैषा वागादिप्रवृत्तिरिच्छापूर्विका, बागादिप्रवृत्तित्वात् प्रसिद्धेच्छापूर्व- कवागादिप्रवृत्तिवदित्यनुमानेन तत्रापि साऽनुमेयैवेति वाच्यम् , हेतोरप्रयोजकत्वात् , यादृशस्व हि जाग्रतोऽनन्यमनसो वा तत्प्रवृत्तिरिच्छापूर्विका दृष्टा तत्प्रवृत्तिविशेषेण देशान्तरे काला- न्तरे च तादृशस्यैव तत्प्रवृत्ताविच्छापूर्वकत्वं साधयितुं शक्यते, न पुनरन्याशि। न च सुपुप्त- स्यान्यमनस्कस्य वा तत्प्रवृत्तिरिच्छापूर्वकत्वेन व्याप्ताववगता तस्मान्न वक्तृत्वं विरुद्धम् ॥ अथापरं हेतुं दर्शयति- द्वितीयो यथा पर्वतो वहिमान् प्रमेयत्वादिति । अत्र विपक्षे इदादो प्रमेयत्वं निर्णीतमिति॥ द्वितीय इति । निर्णीतविपक्षवृत्तिक इत्यर्थः, योजयत्यतिव्याप्ति हेतावनेति सपक्षे महानसादौ विपक्षे हृदादौ प्रमेयत्वस्य दर्शनात् किं प्रमेयत्वं वविना व्याप्तमुत वह्नयमावेनेति च्याप्सेस्सन्दिह्यमानतयाऽनेकान्तिकत्वमिति भावः । व्याप्यत्वासिद्धनामा सोपाधिको हेतुरपि संदिग्धविपक्षधृत्तिक एव, तथाहि साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः, यथा स श्यामो मित्रातनयत्वात्परिदृश्यमानतत्तनयवदित्यत्र शाकाद्याहारपरिणतिपूर्वकत्वमुपाधि, 15 सत्यपि मित्रावनयत्वे यश्शाकाद्याहारपरिणतिपूर्वकस्स एव श्यामो न त्वपर इति, मिनाव- नयत्वस्य हि न व्यापकं शाकाचाहारपरिणतिपूर्वकत्वं तदन्तरापि मित्रातनयत्वस्य सङ्का- वात् श्यामत्वस्य तु व्यापकं तत्, तदन्तरेण तस्यानुपलब्धेः, तथा च तस्योपामित्वेन मित्रातनयत्वं सोपाधिको हेतुः, अयमेव चाप्रयोजको हेत्वाभास उच्यते परमयुक्तव्यात्युपजी- वित्वात् परश्नोपाघिरेवेति । उपाधिना हेतौ व्यभिचारसंशयोदयात्सन्दिग्धविपक्षवृत्तिरेव । १. नहि तदानीमनुभूयमाना इच्छाऽस्ति, तथात्वे पश्चादिच्छान्तरवत्तस्या अपि स्मरणं स्यात् अवि- दिवेच्छा तु न सम्भवति इच्छायास्स्वसमानाधिकरणज्ञानविषयकल्लनियमेनाज्ञातेच्छामा असम्मवादिति भावः ॥ २. वचन प्रति नियतो हेतुश्चैतन्यं करणपाटवच, न च तयोस्सत्त्वेऽपि बचनप्रवृत्तरदर्शनात विवक्षापि सहकारिकारणमिति वाच्यम्, सहकारिकारणस्य नियमनापेक्षणीयत्वाभावात् नवरदेस्संस्कृतचक्षुपो थाऽन- पेक्षितालोकसभिधे रूपोपलम्मात् ता विना सुषुप्त्यादौ तदर्शनाच, क्वचित कण्ठाद्यमिधातजनकप्रवृत्तिजनकेच्छा जनकेष्टसाधनताज्ञानविषयस्येष्टतासम्पादनार्थमुपयुज्यते इति ॥ ३ अत्र सौगता नैयायिकाश्चासाधारणमपि हेर्नु संशयजनकत्येनानकान्तिक स्वीकुर्वन्ति यथा शब्दो नित्यः श्रावणवादित्यत्र सपक्षे गगनादी विपक्षे घटादी न कापि हेतुरस्ति पक्षे व वर्तमानस्स निसव्यायत्ततया शब्देऽनित्यत्तस्यानित्यव्यावृत्ततया च नित्यत्वस्य संभावनया संशयजनको भवतीति, तन्न सर्वथा नित्यत्वसाधने विरुद्धलात् कथञ्चिदनित्यत्वमन्तरेण श्रावण- वासम्भवात् , अश्रावणत्वस्वभावपरित्यागेनैव हि श्रावणत्वस्वभावोपपत्ति. कथञ्चिचित्यत्वसाधने तु सद्धेनुरेख तेन सहान्यथानुपपत्तिसत्त्वादिति ।। " पक्षामासः ] न्यायप्रकाशसमलते : ३९५ तथा परोकानामष्टविधानां हेतूनामनैवान्वर्भावः, ते च हेतवो यथा पक्षत्रयव्यापकः-नित्य- शब्दः प्रमेयत्वादिति, अयं पक्षसपक्षविपक्षव्यापकः, पक्षसपक्षव्यापको विपक्षकदेश- वृत्तिर्यथा गौरयं विषाणित्वादिति, एतद्गवि गवान्तरे च सर्वत्र क्वचिन्महिषादौ च हेतो- स्तत्त्वात् । पक्षविपक्षव्यापकस्सपक्षकदेशवृत्तिर्यथा नायं गौर्विषाणित्वात् पक्षे मेपे विपक्ष गोमाने कचित्सपक्षे महिषादौ सत्त्वात्, पक्षव्यापकस्सपक्षविपकदेशवृत्तिर्यथा अनित्य- 5 श्शब्दः प्रत्यक्षत्वात्, शब्दमात्रे कचिद्रूपादौ कचिदात्मादौ सत्त्वात् , पक्षकदेशवृचिस्स- पक्षविपक्षव्यापको यथा न द्रव्याण्याकाशकालदिगात्ममनांसि क्षणिकविशेपगुणरहितत्वात् आकाशात्ममिनेषु गुणादौ सर्वत्र पृथिव्यप्तेजोवायुषु वर्तमानत्वात् । पनविपक्षैकदेशवृत्ति- स्सपक्षव्यापी यथा न द्रव्याणि दिकालमनांस्यमूर्तत्वात् मनोमिन्ने पक्षे कचिदात्मनि गुणादौ सर्वत्र च सत्त्वात्, पक्षसपकदेशवृत्तिविपक्षव्यापी अशा द्रव्याणि दिकालमना- 10 स्यमूर्तत्वात् मनोभिन्ने पक्षे आकाशात्मनोर्गुणादौ सर्वत्र च सत्त्वात् । पक्षत्रयैकदेश- वृत्तिर्यथा अनित्या पृथिवी प्रत्यक्षत्वात् जन्यपृथिव्यां कचिजलादौ आत्मादौ सत्त्वादिति । हेत्वाभासस्य समाप्ति धोतयतीतीति ॥ सम्प्रत्यवसिते हेत्वाभासे तदितराङ्गानां कारणानाञ्चामासान् प्रसङ्गाद्वक्तुमुपक्रमते- पक्षाभासस्त्रिविधा, प्रतीतसाध्यधर्मविशेषणको निराकृतसाध्य- 15 धर्मविशेषणकोऽनभीप्सितसाध्यधर्मविशेषणकश्चेति ।। पक्षामास इति । पक्षवदुद्देश्यविधेयभावेनाभासते-प्रतीयते न तु तत्कायं करोतीति पक्षामास:-पक्षत्वलक्षणविनिर्मुक्त इत्यर्थः, त्रैविध्यं दर्शयति प्रतीतेति, प्रतीतः प्रमाणप्रसिद्धो यस्साध्यधर्मस्स एव विशेषण यस्येवि विग्रहः, निराकृतेति, निराकृतः प्रमाणबाधितो यस्सा- ध्यधर्मस्स एव विशेषणं यस्येवि विग्रहः, अनभीप्सितेति, अनमीप्सितोऽनिष्टस्साध्यघमों 20 विशेषणं यस्येति विग्रहः । अप्रतीतानिराकृताभीप्सितसाध्यधर्मविशिष्टधर्मिण एष पक्षवेनो- पवर्णितत्वात्तद्विपरीतत्वेनैया पक्षाभासत्त्वमिति भावः ।। तत्र प्रथमं दर्शयति- आयो यथा महानसं वह्निमदिति पक्षीकृते महानसे वहे प्रसिद्ध- स्वादयं दोषः, इदमेव सिद्धसाधनमपि ।। आध इति । प्रतीतसाध्यधर्मविशेषणक इत्यर्थः, प्रसिद्धत्वादिवि प्रत्यक्षेण निर्णीत- वादित्यर्थः, निर्णयैकपदवीमधिरूढस्य नहि साध्यत्वं, निर्णीतार्थे न्यायस्याप्रवृत्तः, तथा च 25 " 5 10 , तत्त्वन्यायविभाकरे [ पञ्चमकिरणे तस्यासाध्यत्वेन तद्विशिष्टर्मिणः पक्षाभासत्वमेवेति भावः। अस्यैव च सिद्धसाधनं प्रसिद्धस- म्बन्ध इत्यपि संज्ञाद्वयमस्तीत्याहेदमेवेति, विधेयप्राधान्यानपुंसकत्वं, प्रतीतसाध्यधर्मविशे. षणका पक्षाभास एवेत्यर्थः, अपिशब्दोऽनुक्तस्य प्रसिद्धसम्बन्धस्य समुच्चायकः ॥ द्वितीयभेदं निदर्शयति- द्वितीयो यथा वहिरनुष्ण इति प्रत्यक्षेण निराकृतसाध्यधर्मविशे- षणकः । अपरिणामी शब्द इति पक्षा परिणामी शब्द इत्यनुमानेन तथा। धोऽन्ते न सुखप्रद इति धर्मोऽन्ते सुखप्रद इत्यागमेन तथा। चैत्रः काण इति पक्षोविद्यमानाक्षिद्वयस्य चैत्रस्य सम्यक्स्मरतस्स्मरणेन तथा ।सदृशे वस्तुनि तदेवेदमिति पक्षस्तेन तुल्यमिदमिति प्रत्यभिज्ञया तथा ॥ द्वितीय इति । निराकृतसाध्यधर्मविशेपणक इत्यर्थः, निराकरणस्यात्र प्रत्यक्षानुमाना- गमस्मरणप्रत्यभिज्ञानतर्कलोकस्ववचनैर्विवक्षितत्वेन तत्क्रमेणैव निदर्शनान्यभिधत्ते यथा वहिरिति । प्रत्यक्षेणेति, उष्णत्वविपयकत्वाचप्रत्यक्षेणेत्यर्थः । अनुमाननिराकृतसाध्यधर्म- विशेषणकमाह । अपरिणामीति । परिणामी शब्द इति, अर्थक्रियाकारित्वं कृतकत्वमुत्य- तिमत्त्वं वात्र हेतुः । अर्थक्रियाकारित्वादेर्घटे परिणामित्वसत्त्व एवोपलम्भाच्छन्द उप- 15 लभ्यमानं तत् परिणामित्वं साधयतीति शब्दोऽपरिणामीति पक्ष आभास एवेति भावः, यद्यपि शब्दोऽपरिणामीत्यनुमानस्यानुमानेन बाधनं न सम्भवति सत्प्रतिपक्षापातात्तथापि स्वकीयानुमानस्य बलवत्त्वादयं व्यपदेशो युज्यत एवेति । तथेति, निराकृतसाध्यधर्म- विशेषणक इत्यर्थः, एवमप्रेऽपि । आगमनिराकृतसाध्यधर्मविशेषणकमाह धर्म इति, अन्त इति प्रेत्येत्यर्थः । आगमेनेति, तत्र हि धर्मस्याभ्युदयनिःश्रेयसहेतुत्व तद्विपरीतत्वञ्चाधर्मस्य 20 प्रतिपाद्यत इति भावः । स्मरणनिराकृतसाध्यधर्मविशेषणकमाह चैत्र इति, सम्यक्सरत इति, बोद्धृभ्यां हि द्वाभ्यामेकदा नेत्रयुगलसमलङ्कृतश्चैत्रोऽवलोकितः पुनः कालान्तरे तन्म- ध्यादेको नेत्रद्वयं विस्मृत्यापरं प्रत्यभिधते, अयि वयस्य स चैत्रः काण इति, तदाऽपर आचष्टे तवायं पक्षो मामकीनेन सम्यक्स्मरणेन निराकृतः, यतोऽहं,चैत्रं तं विद्यमाना- क्षिद्वयतया सम्यक्स्मरामीति तदेवं स्मरणनिराकृतसाध्यधर्मविशेषणका पक्षामास इति भावः। 25 प्रत्यभिज्ञाननिराकृतसाध्यधर्मविशेषणकमाख्याति सदृश इति, प्रत्यभिज्ञयेति, कस्मिंश्चित्सदृशे वस्तुनि कञ्चनाधिकृत्योर्द्धतासामान्यभ्रान्या कोऽपि पक्षीकुरुते तदेवेदमिति, तदास्याऽयं पक्षा तिर्यक्रूसामान्यावलम्बिना तेन तुल्यमिदमिति सम्यक्प्रत्यभिज्ञानेन निराक्रियत इति भावः ।। तर्कनिराकृतसाध्यधर्मविशेपणकादीनाचष्टे- । , - पक्षामास: ] न्यायप्रकाशसमलते :३२७: यो यो मित्रातनयरस स श्याम इति पक्षो यो यश्शाकाद्याहारपरि- णामपूर्वकमित्रातनयस्स श्याम इति तर्केण तथा । नरशिरःकपालं शुचीति लोकेन तथा । नास्ति प्रत्यक्षातिरिक्तं प्रमाणमिति पक्षीकुर्वत- चार्वाकस्य पक्षोज्यं स्ववचनेन तथा ॥ यो य इति । शाकाद्याहारेति, शाकाद्याहारपरिणामपूर्वकत्वमन्तरेणानुपलब्धत्वाच्छ्या- 5 मत्वस्य तद्विशिष्टश्यामत्वमेव मित्रातनयत्वव्यापकं न तु केवलं श्यामत्वं तदन्तरेणापि मित्रा. वनयत्वस्य भावादिति भावः । लोकनिराकृतसाध्यधर्मविशेषणकममिघत्ते नरेति, लोकेनेति लोके हि प्राण्यङ्गत्वाविशेपेऽपि वस्तुखभावतः किञ्चित्पवित्रं किञ्चिदपवित्रमिति प्रसिद्ध, यथा गोपिण्डोत्पन्नत्वाविशेपेऽपि तदुग्धं शुद्ध न तु तन्मांसमिति लोकव्यवहारतस्वत्पक्षनिराकरण- मिति भावः । स्ववचननिराकृतसाध्यधर्मविशेषणकमाचष्टे नास्तीति स्ववचनेनेति, अयम्भावः, 10 चार्वाको हि प्रत्यक्षमेकमेव प्रमाणं नान्यवनुमानादिकमिति स्वीकरोति तदा वचनस्यास्य न प्रत्यक्षातिरिक्तं प्रमाणमस्तीत्येवं रूपस्य स्वाथै प्रमाणाभावात् तस्य कथं स्वेष्टसिद्धिः यदि प्रमाणमभ्युपगच्छति तदा स्ववचनस्य प्रत्यक्षातिरिक्तस्यापि प्रमाणतया तेन वचनेन स्वपक्षो बाधित एवेति । ननु लोकप्रतीतसाध्यधर्मविशेषणकस्य प्रत्यक्षनिराकृतसाध्यधर्मविशेषणका- दिष्वेव वचनस्य शब्दरूपतया स्ववचननिराकृतसाध्यधर्मविशेषणकस्याऽऽगमनिराकृतसाध्य- 15 धर्मविशेपणके चान्वर्भावसम्भवादनयोः पृथगुपन्यासो निरर्थक इति चेत्सर, शिष्यशेमुपी- विकसननिमित्चमनयोः पार्थक्येनामिधानादिति ॥ अथ तृतीयमनमीप्सितसाध्यधर्मविशेषणकं पक्षाभासमाह- 20 तृतीयो यथा शब्दस्यानित्यत्वमिच्छतश्शब्दो नित्य इति पक्षस्तस्यान- भीप्सितसाध्यधर्मविशेषणक इति ॥ तृतीय इति । तस्येति समाक्षोमादिनैवं वदत इत्यर्थः । अनीप्सितेति, अनित्यत्व- स्यैवेष्टतया नित्यत्वस्यानभीप्सितत्वादिति भावः, इतिशब्दः पक्षामाससमाप्तिद्योतका, तेना- प्रसिद्धविशेषणाप्रसिद्धविशेष्याप्रसिद्धोभयेषां पक्षामासत्वं निरस्तमप्रसिद्धविशेषणस्यैव साध्य- त्वात् अन्यथा सिद्धसाधनत्वापत्तिः स्यात् सर्वत्राप्रसिद्धस्य साध्यस्य दोपत्वे क्षणिकत्व साधयतो बौद्धस्य पक्षोऽन्यान् प्रति पक्षामासस्स्यात् क्षणिकतायाः काप्यप्रसिद्धत्वात् , 25 धर्मिणश्च विकल्पात्प्रतीतिसम्भवेनाप्रतीतविशेष्योऽपि न पक्षाभासः, एतेनाप्रदीसोभयोऽपि निराकृत इति ॥

:३९८: तत्त्वन्यायविभाकरे [ परमनिने एवं पक्षामासे हेत्वाभासे च निरूपिते हेतुपक्षोभयानकानुमाने स्मृते तदाभासमप्याचष्टे- पक्षाभासादिसमुद्भूतं ज्ञानमनुमानाभासः॥ पक्षामासादीति । आदिना हेत्वाभासदृष्टान्तामासादीनां प्रणम् , प्रोकेन पक्षाभासेन हेत्वाभासेन वा वक्ष्यमाणदृष्टान्तामासादिना वा सम्भूतं बानमनुमानवत्पक्षसाभ्यरूपेणामा- 5 समानत्वादनुमानाभास इत्यर्थः । एवं स्वप्रतिपत्तिफलक पक्षाभासादिसमुद्भूतं ज्ञानं स्वार्थानु- मानाभासः परप्रतिपत्तिफलकं पक्षामासादिसमुद्भूतं ज्ञानं परार्थानुमानाभास इत्यपि योध्यम् ॥ अथानुमानामासात्मकज्ञानलनकहेत्वाभासनिष्ठगमकताप्रयोजकवादीनामामासरूपाणां स्वरूपं वक्तुं प्रथमं तर्कामासमाह- असत्यां व्याप्तो तर्कप्रत्ययस्ताभासः । यथा यो यो मित्रातनया 10 स म श्याम इति ॥ असत्यामिति । अविद्यमानायामित्यर्थः, तथा च व्याप्तिास्ति ययोः तत्र केवल माकारमात्रेण तकरूपतया यो भासते स तौभास इत्यर्थः । दृष्टान्तमाह यथेति स श्यामो मित्रातनयत्वादित्यत्र हि श्यामत्वमित्रातनयत्वयोर्वस्तुतो व्याप्तिनास्ति श्यामभिन्नस्यापि मित्रा- वनयस्य संभवात् परन्तु यावान् कब्धिन्मित्रातनयस्स श्याम इति सर्वाक्षेपेण प्रत्ययावस्य 15 तर्कामासत्वं शाकाचाहारपरिणामपूर्वकमित्रातनयत्वस्यैव व्याप्यत्वादिति भावः ॥ तर्कस्य प्रत्यभिज्ञास्मरणजन्यत्वेन तयोराभासौ वकि- तुल्ये वस्तुन्यैक्यस्य, एकस्मिश्च तुल्यतायाः प्रत्यभिज्ञानं प्रत्यभि- ज्ञाभासः । यथा तदेवौषधमिति, एकस्मिश्च घटे तेन सहशमिति ज्ञानम् । अननुभूते तदिति बुद्धिस्मरणाभासः । यथाऽननुभूतशुक्लरूपस्य 20 तच्छुक्लं रूपमिति बुद्धिः ।। तुल्य इति । तिर्यक्सामान्यविषयकत्वेनोर्द्धतासामान्यविषयकत्वेन च प्रत्यमिझाया वैविध्यात्तुल्ये वस्तुनि तिर्यक्सामान्यालिङ्गिते भावे ऐक्यस्य अर्वतासामान्यमवलम्ब्य प्रत्यभिज्ञानं तथा एकस्मिंश्च वस्तुनि ऊर्धनासामान्यस्वभावे तिर्यसामान्यमवलम्ब्य तुल्यतायाः प्रत्यमित्रानं प्रत्यभिज्ञाभास इति भावः। ऐक्यस्येति पदस्य प्रत्यभिज्ञानमित्यप्रेतने 25 नान्षयः । दृष्टान्तमावेदयति यथेति-औषधव्यत्योमध्यादेकत्रौषधे तिर्यक्सामान्यालीटे- परेण तुल्यमिदमिति वक्तव्ये तदेवौषधमिदमित्यूलतासामान्यावलम्बिज्ञान प्रत्यभिज्ञामास , - " সমষাশঃ ] न्यायप्रकाशसमलते इति भावः । द्वितीयं दृष्टान्तमाहेकस्मिंश्च घट इति, एकस्मिन् घटाद्यात्मके वस्तुनीत्यर्थः, विषयप्रदर्शकमात्रमिदं पदं न तु प्रत्यभिज्ञानाकारे तस्योल्लेखः, प्रत्यभिज्ञानाकारस्तु वस्त्विदं वेन सहमित्येव नातो नपुसकत्वविरोधः । अव॑तासामान्यस्वभावे एकस्मिन् घटे तिर्य- क्सामान्यावलम्विज्ञानं तेन सहशमिदमिति ज्ञानं प्रत्यभिज्ञाभास इति भावः । स्मरणाभास- माह-अननुभूत इति, प्रमाणमात्रेण कदाचिदप्यनुपलब्ध इत्यर्थः, दृष्टान्तयति यथेति, 5 सुगमं शिष्टम् ।। स्मृतिहेतुत्वेन प्रत्यक्षस्योपस्थानात्सांव्यवहारिकादिप्रत्यक्षाभासानाह- मेघादौ गन्धर्चनगराविज्ञानं दुःखादौ सुखादिप्रत्यक्षश्चेन्द्रियानिन्द्रि- यनिमित्तकसांव्यवहारिकप्रत्यक्षाभासः। शिवराजर्षेरसंख्यातद्वीपसमु. द्रेषु सप्तद्वीपसमुद्रज्ञानमवध्याभासः। मनापर्यवकेवलयोस्तु नाभासत्वं 10 संयमविशुद्धिजन्यत्वात्कृत्स्नावरणक्षयसमुद्भूतत्वाच ॥ मेषादाविति । इदश्चेन्द्रियनिमित्तकसांव्यवहारिकप्रत्यक्षामासस्य निदर्शनम् । अनि- न्द्रियनिवन्धनसांव्यवहारिकप्रत्यक्षाभासस्य दृष्टान्तमाह दुःखादाविति, अवग्रहादीनामामासा एवमेव स्वयमूयाः। पारमार्थिकप्रत्यक्षस्यावध्यामासात्मकस्य विभङ्गज्ञानापरपर्यायस्य निदर्शन- माह शिवराजरिति, अयं कश्चन राजर्पिस्वसमयप्रसिद्धस्तस्य किल विभङ्गात्मकमवध्यामास- 15 मसंख्यातेपु द्वीपसमुद्रेषु सप्तद्वीपसमुद्रसंवेदन समुदभूदिति सैद्धान्तिका आहुः, सोऽयमवध्या- मास इत्यर्थः । पारमार्थिकप्रत्यक्षविशेषयोर्मन.पर्यवकेवलयोन भासत्वसम्भव इत्याह मन इति, तत्र हेतुमाह सयमेति, कृस्नेति हेतुरयं केवलस्यानाभासत्वे, घातिकर्माख्यनिखिला- घरणविनाशादित्यर्थः॥ । नन्वेवं मत्यादीनामामामत्वं प्रदर्शितं परं तदन्तर्गतश्रुतविशेषस्याभासत्वं कथमित्या- 20 शङ्कायामाह- आगमाभासस्त्वने वक्ष्यते ॥ आगमाभास इति | आगमस्वरूपस्यैवाविज्ञातत्वेन तदाभासोऽधुना वर्णयितुमशक्य इति तन्निरूपणोत्तरमेव निरूपणीय इत्याशयेनाहाने वक्ष्यत इसि, आगमनिरूपणानन्तरम- मिधास्यत इत्यर्थः॥ एवमनुमाननियत्तोपकरणामासानुक्त्वाऽधुना मन्दमत्यपेक्षयाऽनुज्ञातदृष्टान्तादीनां याथा- ध्यायायायप्रकाशनाय तदामासानाह- 25 - - ४००: तस्वन्यायविमाकरे पिनमकिने दृष्टान्तवासमानो दृष्टान्ताभासः, स द्विविधः । साधर्म्यदृष्टान्ता- भासो वैधHदृष्टान्ताभासश्चेति । साधर्म्यदृष्टान्ताभासो नवविधः, साध्यसाधनोभयविकलसन्दिग्धसाध्यसाधनोमयानन्वयाप्रदर्शितान्वय- विपरीतान्वयभेदात् ॥ दृष्टान्तेति । यो दृष्टान्तप्रतिरूपक एव नतु दृष्टान्तत्वलक्षणसहितस्स दृष्टान्ताभास इत्यर्थः । दृष्टान्तस्य पूर्व साधम्र्यवैधयंतथा वैविध्यस्य प्रदर्शनेन तदामासोऽपि सामान्यतो द्विविध इत्याह स इति, परार्थानुमान एव दृष्टान्तस्योद्भावनेनोदाहरणदोषा इमे बोध्याः, तेषां च दृष्टान्तप्रभवत्वाद् दृष्टान्तदोषतयोत्कीर्तनम् । तत्र साधयंदृष्टान्तामासो विशेषेण नवविध इत्याह साधम्र्येति, तथा च साध्यविकलस्साधनविकलस्तदुभय- 10 विकलस्संदिग्धसाध्यस्सन्दिग्धसाधनस्सन्दिग्धत्तदुभयोऽनन्वयोऽप्रदर्शितान्वयो विपरीतान्धय- श्रेति नवविधस्स इत्यर्थः ॥ - " तत्रैकस्मिन्नेवानुमाने दृष्टान्तभेदे क्रियमाणे प्रथमभेदत्रयस्य निदर्शनं भवतीति प्रन्थ- लाघवकामस्तथैवाह- नित्यश्शब्दोऽमूर्तत्वादित्यत्र दुःखस्य दृष्टान्तत्वे तस्यानित्यत्वेन 15 साध्यधर्मविकलता । परमाणोदृष्टान्तत्वे मूर्तत्वेन तस्य साधनविकलता, घटस्य दृष्टान्तत्वे तूभयविकलता ।। नित्य इति, इत्यत्रेति, ईदृशानुमान इत्यर्थः, दृष्टान्तत्व इति दृष्टान्ते क्रियमाण इत्यर्थः, तस्येति दुःखस्येत्यर्थः, अनित्यत्वेनेवि पुरुषप्रयलजन्यत्वेनानित्यत्वादिति भावः साध्येति नित्यत्वधर्मशून्यत्वादिति भावः, साधनविकलदृष्टान्तमाह, परमाणोरिति, नित्यश- 20 ब्दोऽमूर्त्तत्वादित्यनुषज्यत एवमप्रेऽपि, तस्येति परमाणोरित्यथा, साधनेति, अमूर्त्तत्वधर्म- शून्यत्वादिति भावः, उभयविकलं दृष्टान्तमाह घटस्येति तस्यानित्यत्वेन मूर्तत्वेन च साध्य साधनचात्र नास्तीति भावः ॥ एवं सन्दिग्धसाध्यसाधनोभयान्याह- अयं चैत्रो रागी वक्तृत्वाद्देवदत्तवदित्यत्र देवदत्ते रागित्वस्य संदि. 25 ग्यतया संदिग्धसाध्यधर्मा । अयं वक्ता रागिवान्मैत्रवदिति सन्दिग्ध- साधनधर्मा । अयं न सर्वज्ञो.-रागित्वान्मुनिवदिति दृष्टान्तेऽसर्वज्ञत्वरा- गित्वयोः सन्दिग्धत्वात्सन्दिग्धोभयधर्मा ।।

1 दयन्ताभासा:] न्यायप्रकाशसमलवृत्ते अयं चैत्र इति । सन्दिग्धतयेति, देवदत्ते रागित्वस्य सत्त्वमसत्त्वश्च सन्दिग्धं, पुरु- पान्तरमनोवृत्तीनां दुरधिगमात् रागित्वाव्यभिचारिलिङ्गानुपलब्धेश्चेति भावः, सन्दिग्ध- साधनं दृष्टान्तमाहाय वक्तेति, मैत्रे रागित्वस्योक्तहेतोस्सन्देहादित्यर्थः । सन्दिग्धोमयं दृष्टा- न्तमाचष्टे अयमिति, मुनिवदिति मुनिविशेपवदित्यर्थः, मुनिविशेषे हि असर्वज्ञत्वरागित्व- योसंशयस्तव्यभिचारिहेनदर्शनात , सर्वज्ञत्वारागित्वनिर्णायकहेत्वदर्शनाचेति भावः ॥ अनन्वयं दृष्टान्तमभिधवे- चैत्रोऽयं रागी वक्तृत्वान्मत्रवदिति हप्रान्ते साध्यहेत्वोस्सत्त्वेपि यो यो वक्ता स स रागादिमानिति व्याप्यसिद्ध्याऽनन्धयः ।। चैत्रोऽयमिति । व्याप्स्यसिद्धयेति, यद्यप्यभिमते मैत्रादौ वक्तृत्वं रागित्वञ्चास्ति पाषाणादौ त्वरित तयोनिवृत्तिस्तथापि यो यो वक्ता स स रागादिमानिति प्रतिवन्धस्वयोन सिद्ध्यति, 10 अतोऽभिमतमेत्रादिरनन्वयदृष्टान्त इति भावः । अष्टभ्योऽयं न भिन्नो व्याप्यसिद्धेस्सर्वत्र सत्त्वादित्यष्टावेव साधर्म्यदृष्टान्ताभासा इति श्रीहेमचन्द्राचार्याः ॥ अप्रदर्शितान्वयं दृष्टान्त विपरीतान्वयदृष्टान्तश्चाह- अनित्यश्शन्दः कार्यत्वाद्धटवदित्यत्रान्वयसहचारसत्त्वेऽप्यप्रदर्शना- दप्रदर्शितान्वयः । तत्रैव यदनित्यं तत्कृतकं यथा घट इत्युक्तौ 15 विपरीतान्वयः॥ अनित्य इति । अप्रदर्शनादिति, वचनेनाप्रकाशितत्वादित्यर्थः, अत्रेदम्बोध्यमप्रदर्शिता- न्वयस्थले वस्तुनिष्ठो न कधिहोपः, परार्थानुमाने च वचनगुणदोपानुसारेण वक्तुर्गुणदोषौ परीक्षणीयाविति भवति वाचनिकमस्य दोपत्वं, एवं अप्रदर्शितव्यतिरेकेऽपि बोध्यम् । अथ विपरीतान्वयं नवमं दर्शयति-तत्रैवेति, पूर्वोपदर्शितेऽनित्यः शब्दः कार्यत्वाद्धटवदित्यत्रैवे- 30 त्यर्थः, यदनित्यमिति, यत्कृतकं तदनित्यमित्यनुक्त्वेत्यादिः । अन्वये हि प्रथमं हेतुं प्रदश्य साध्यं प्रदर्शनीयमत्र तु विपर्यासेन प्रदर्शनाद्विपरीतान्वय इति भावः । न च यदनित्यं तत्कृतक- - १. एव भिधानेऽनिलत्वं व्याप्य कार्यस्वं व्यापकमिति विपरीता व्याप्यव्यापकभावप्रतिपत्ति स्यात्, तया च समन्याप्तिके साधनस्य व्यापकत्वाभिधाने साध्यस्य प्रतिपत्तिर्न स्यादिति दूषणम् , विषमव्याप्तिके तु तया व्याप्त्यमहथ व्यभिचारजानात् । विषमव्याप्तिक एव विपरीतान्वयो दोष इति केचित् ॥ २. यद्यत् कार्य तत्तदनिलं यथा घटादिरिति वचनं विनाऽन्वयस्थाप्रतीतेरिति भाव ॥

. :४०२: तस्वन्यायविभाकरे [परमावर मिति अत्रैवं प्रदर्शितेऽपि व्यभिचारामावेन न काप्यनुपपत्तिरितिवाच्यम्, समन्याप्तिकस्यले तथात्वेऽपिशब्दोऽनित्यः प्रयत्नानन्तरीयकत्वादित्यादिविषमव्याप्तहेतुस्थले बदनित्यं तत्प्रयत्ना- नन्तरीयकमित्युक्तौ विद्युदादौ व्यभिचारेणानुपपत्तिसत्त्वात् , साधर्म्यप्रयोगे साधनस्वैव पूर्व- प्रदर्शनीयत्वादिति । अत्र केचिन् अनन्वयाप्रदर्शिवान्वयविपरीतान्वयरूपदृष्ट्वान्तत्रयाभिधानन ई सुपोलोचितं, तथाहि न तावदनन्वयो दृष्टान्वाभासो भवितुमर्हति, यदि हि दृष्टान्तवलेन व्या- प्तिसाध्यसाधनयोः प्रतिपायेत ततस्स्यादनन्वयो दृष्टान्तामासः स्वकार्याकरणात्, यदा तु पूर्व- प्रवृत्तसम्बन्धमाहिप्रमाणगोचरस्मरणसम्पादनार्थ दृष्टान्तोदाइतिरिति स्थितं तदाऽनन्वयलक्षणो न दृष्टान्तदोषः, किन्तर्हि, हेतोरेच, प्रतिवन्धस्याद्यापि प्रमाणेनाप्रतिष्ठितत्वान् प्रतिवन्धाभावे चान्वयासिद्धेः, न च हेतुदोपोऽपि दृष्टान्ते वाच्यः, अतिप्रसङ्गात् । तथाऽप्रदर्शितान्वय- 10 विपरीतान्वयावपि न दृष्टान्ताभासतां स्वीकुरुतः, अन्वयाप्रदर्शनत्य विपरीतान्वयप्रदर्शनस्य च वक्तृदोपत्वात्, वदोषद्वारेणापि दृष्टान्ताभासप्रतिपादने वदियत्ता विशीर्यत, चक्तृदोषा- णामानन्त्यात् । नन्वनयोर्वक्तृदोषत्वेऽपि परार्थानुमाने तत्कौशलमपेक्षत एव, अन्यथो- पन्यासे बुभुत्सितार्थासाधकत्वादिति चेन्न, करणापाटवादीनामपि दृष्टान्नाभासत्वापत्तेः, करणपाटवव्यतिरेकेण हि न परप्रत्यायनं समस्ति, विस्पष्टवांग्रहणे व्यक्ततया वावगमा- 15 भावादित्याहुः, वन्न परस्मै व्याप्तिप्रतिपादनस्थान हि दृष्टान्तः, प्रतिपाद्यानुरोधेन पराया- नुमाने उदाहरणस्यानुज्ञातत्वेन तस्य च दृष्टान्ताभिधानरूपत्वात् , सोऽपि महानसादिर- धान्तो यदि साध्यसाधनयोगी न भवेत्तहि कथं ततो व्याः स्मरणं भवेन् दृष्ट्वान्ततदा- भासयोश्च विवेकः स्यात् ततोऽवश्यमेव स साध्यसाधनयोगी स्यात् प्रदर्शनीयञ्च परस्मै तत्र साध्यं साधनञ्च तत एव वयोस्सत्त्वासत्त्वाभ्यां घटान्ववदाभासौ मवेताम्, अन एष 20 च तत्साधय॑तो वैधयंतश्च वैविध्यं सङ्गतिमञ्चति, उक्तञ्च हेमचन्द्राचार्यः दृष्टान्तस्य लक्षणं वझेदश्च " स व्याप्तिदर्शनभूमिः, स साधयंवैधाभ्यां द्वेषा" इति, उक्तश्चान्यत्र तैरेव परार्थानुमानप्रस्तावादुदाहरणदोषा एवैते दृष्टान्तप्रभवत्वात्तु दृष्टान्तशेषा उच्यन्त इति । परस्य व्याप्तिस्मरणानुत्पादे वक्त्रुपन्यस्तदुष्टोदाहरणस्यैव निवन्धनत्वमन्यथोड़ाह- रणादिदोपोद्भावनमेव निरर्थकं भवेत् साध्यधर्मादिविकलदृष्टान्तोद्भावनस्य वक्तृदोपति- 25 बन्धनत्वेन तस्यापि वान्तामासत्वं न स्यादिति यत्किञ्चिदेवत् ॥ अथ वैधHदृष्टान्ताभासं विभजते- वैधयंदृष्टान्ताभासोऽपि नवविधः, असिद्धसाध्यसाधनोभयव्यतिरे- कसन्दिग्धसाध्यसाधनोभयव्यतिरेकाव्यतिरेकाप्रदर्शितव्यतिरेकविपरी- तव्यतिरेक भेदात् ॥ .

:४०३ 5 ms- 10 । दृष्टान्ताभासाः] न्यायप्रकाशसमलट्टते वैधHदृष्टान्ताभासोऽपीति । न केवलं साधर्म्यदृष्टान्ताभास एक नवविधः किन्तु वैधHदृष्टान्ताभासोऽपि नवविध इत्ययः, साध्याभावसाधनाभावव्याप्तिदर्शनस्थानं वैधयं- दृष्टान्तस्तस्याभासोऽसिद्धसाध्यन्यविरेकोऽसिद्धसाधनव्यतिरेकोऽसिद्धोभयव्यतिरेकस्सन्दिग्ध- साध्यव्यतिरेकस्सन्दिग्धसाधनव्यतिरेकस्सन्दिग्धोभयव्यतिरेकोऽव्यतिरेकोऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश्चेति नवविध इति भावः ।। तेषु प्रथमप्रकारमुपदर्शयति- अनुमानं भ्रमः प्रमाणत्वाद्यो भ्रमो न भवति स न भवति प्रमाणं यथा स्वमज्ञानमिति दृष्टान्तः, स्वमज्ञाने भ्रमत्वनिवृत्त्यसिद्ध्या असिद्धसा- ध्यव्यतिरेका निर्विकल्पकं प्रत्यक्षं प्रमाणत्वात् यन्न प्रत्यक्षं न तत्प्रमाणं यथानुमानमित्यत्रानुमानेप्रमाणत्वासिद्ध्या सिद्धसाधनव्यतिरेकः ।। अनुमानमिति । अत्र वैधयंदृष्टान्तमाह य इति, सङ्गमयत्ति स्वमन्नान इति । असि- द्वेति, असिद्धः अप्रतीतस्साध्यस्य व्यतिरेको यस्मादसाविति विग्रहः । द्वितीयं दृष्टान्तामा- समाह निर्विकल्पकमिति, वैधदृष्टान्तमाह यन्नेति, घटयति अनुमान इति ।। अथ तृतीयमाह- घटो नित्यानित्यः सत्त्वात् यो न नित्यानित्या न स सन् यथा पट 15 इति दृष्टान्तोऽसिद्धसाध्यसाधनोभयव्यतिरेकः ॥ घट इति । वैधय॑दृष्टान्तमाह यो नेति, दृष्टान्त इति पटान् नित्यानित्यनिवृत्चेस्सत्त्व- निवृत्तेश्चासिद्धत्वादिति भावः॥ चतुर्थपञ्चमधष्ठानाह- कपिलोऽसर्वज्ञोऽक्षणिकैकान्तवादित्वात् यन्नैवं तन्नैवं, यथा बुद्ध इति 20 दृष्टान्तस्सर्वज्ञत्वस्य वुद्धे संदिग्धतया सन्दिग्धसाध्यव्यतिरेकः । चैत्रोऽ- प्रायवचनो रागित्वात् यन्नैवं तनैवं यथा तथागत इति दृष्टान्तस्तथाग- तेरागित्वस्य संशयात्सन्दिग्धसाधनव्यतिरेकः । वुधोऽयं न सर्वज्ञो रागित्वादित्यत्र यस्सर्वज्ञस्स न रागी यथा बुद्ध इति दृष्टान्ते उभयस्य संशयात् संदिग्धसाध्यसाधनोभयव्यतिरेकः ।। कपिल इति । अक्षणिकेति नित्यकान्तवादित्वादिति भावः वैधदृष्टान्तमाह यन्नैव- - 26 ज- सत्त्वन्यायविभाकरे [पचमकिरणे मिति यो नासर्वज्ञस्स क्षणिकैकान्तवादीत्यर्थः । सन्दिग्धतयेति सामान्यप्रमातॄणामिति शेषः, तेन प्रमाणबाधितक्षणिकैकान्तवादिनोऽसर्वज्ञत्वनिश्चयेन साध्यव्यावृत्तेरसिद्ध्याऽसिद्धसाध्य- व्यतिरेकित्वेऽप्यस्य न क्षतिः । असर्वज्ञत्वव्यतिरेकसंशयस्तु तेन सह क्षणिकैकान्तवादि- त्वस्य व्याप्त्यसिद्धेः । असर्वज्ञेनापि परप्रतारणाभिप्रायेण तथावादस्य कत्तुं शक्यत्वादिति । । पञ्चममाह चैत्र इति, वैधय॑दृष्टान्तमाह यनैवमिति, यो नामाह्यवचनस्स न रागीत्यर्थः । संशयादिति, अपक्षपातिनामिति शेषः । तेन तदर्शनानुरागिणां तथागते ग्राह्यवचनत्वस्य प्रसिद्धत्वेऽपि न क्षतिः। रागित्वव्यतिरेकसंशयश्च तन्निर्णायकप्रमाणराहित्यात् । अथ षष्ठमाह बुधोऽयमिति, वैधदृष्टान्तमाह य इति, उभयस्य संशयादिति, बुद्धे सर्वत्र- त्वस्यारागित्वस्य च निश्चायकप्रमाणाभावेन सर्वज्ञोऽसर्वज्ञो वा रागी वाऽरागी वेति 10 संशयादिति भावः ॥ १ अथ सप्तममाह- चैत्रोऽयमरागी, वक्तृत्वाद्यन्नैवं तन्नैवं यथा पाषाणशकलमिति दृष्टान्ते साध्यसाधनोभयव्यतिरेकस्य सत्त्वेपि व्याप्त्या व्यतिरेका- सिद्धेरव्यतिरेकः ।। चैत्रोऽयमिति । वैधय॑दृष्टान्तमाह यन्नैवमिति, यो रागी न स वक्तेत्यर्थः, व्याप्त्या व्यतिरेकासिद्धेरिति, साध्यसाधनव्यतिरेकयोः पापाणशकले साहचर्यदर्शनेऽपि तयोव्यात्य- सिद्ध्याऽव्यतिरेक इत्यर्थः । अनेन सहाष्टविधानां वैधयंदृष्टान्तामासानामभिन्नतयाऽट- विधत्वं वैधय॑दृष्टान्तामासानामिति श्रीहेमचन्द्राचार्याः ॥ 15 - 1 अष्टम नवमचाह- 20 अनित्यश्श्ब्दः कृतकत्वाद्गगनवदिति दृष्टान्तो व्यतिरेकस्याप्रदर्श- नादप्रदर्शितव्यतिरेकः । तत्रैव यदकृतकं तन्नित्यमित्युक्ते विपरीत- व्यतिरेकः ॥ : अनित्य इति । व्यतिरेकस्येति यो नित्यस्स न कृतक इति व्यतिरेकस्येत्यर्थः सत्त्वेऽ पीति शेषः 1 विपरीतव्यतिरेकमाख्याति तत्रैवेति पूर्वोपदर्शितेऽनित्यशब्दः कृतकत्वादित्य- 25 नुमान इत्यर्थः, वैधयंस्थले हि प्रथमं साध्यव्यतिरेक प्रदश्यैव साधनव्यतिरेका प्रदर्शनीयः, अन्न तद्वैपरीत्येन प्रदर्षनाद्विपरीतव्यतिरेक इति भावः । अत्रापि केचित अन्वयव्यतिरेका- . 1 5 10 आगमः] न्यायप्रकाशसमलते .४०५: प्रदर्शितव्यतिरेकविपरीतव्यतिरेकाणां वैधय॑दृष्टान्तत्वं नाभ्युपयन्ति, अव्यतिरेकिताया हेतु- दोषत्वात् इतरयोर्वक्तृदोषत्वादिति, अन समाधिस्तु पूर्ववत् ॥ अथोपनयाभासमाह- पर्वतो वह्निमान् धूमात् यो धूमवान् स वहिमान् यथा महानसं, वहिमांश्च पर्वतो धूमवन्महानसं वेत्युपसंहरणे उपनयाभासः। पर्वत इति । साधर्म्यनिदर्शनमाह य इति, उपनयमाह-वहिमांश्चेति । साध्यमिणि हेतोरुपसंहरण हि उपनयो भवति परं प्रान्त्या साध्यस्य वहयादेस्साध्यधर्मिणि पर्वतादा- वुपसंहरणे उपनयाभास एव स्यादिति भावः, तथैव हेतोषूमादेरन्यत्र महानसादावुपसंहारेऽ पि स एवेति दर्शयति धूमवन्महानसमिति ।। अथ निगमनाभासनिदर्शनमाह- तत्रैव तस्माद्धमवान् पर्वतो वह्निमन्महानसमिति निगमने निगमना- भास इति दिक् । इत्याभासनिरूपणं समाप्तञ्चानुमानम् ॥ तत्रैवेति । पर्वतो वहिमान् धूमादित्यत्रैवेत्यर्थः निगमनमाह, तस्मादिति, साध्यधर्मस्य साध्यधर्मिणि निगमनं कार्य तथाऽकृत्वा भ्रान्त्या साधनस्य धूमस्य साध्यघर्मिणि पर्वतादौ साध्यस्य वहेर्दृष्टान्तधर्मिणि महानसादौ च निगमने निगमनाभासो भवतीत्यर्थः । एवं 15 निरूपितानां प्रमाणानामाभासा निरूपिता इत्याहेतीति ।। इति तपोगच्छनमोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालकारश्रीमद्विजयकमलसूरीश्वरच- रणनलिनविन्यस्तभक्तिभरण विजयलब्धिरिणा विरचितस्य तत्त्वन्यायविमाकर- स्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायामामासनिरूपणो नाम पञ्चमः किरण ॥ षष्ठः किरणः अथ क्रमायातमवसरसङ्गत्याऽऽगमं निरूपयति- यथार्थप्रवक्तृवचनसम्भूतमर्थविज्ञानमागमः ।। यथार्थेति । यथार्थप्रवक्ता वक्ष्यमाणस्वरूपस्तेन प्रणीतं वर्चनं तस्मात्सम्भूवमाविर्भूतं यदर्थविज्ञान स आर्गम इत्यर्थः । अर्थविज्ञानं प्रत्यक्षादिरूपमपि अतो वचनसम्भूतमिति १. प्रतिविशिष्टवर्णानुपूर्वीविन्यस्तवर्णपदवाक्यमंघातात्मकमित्यर्थ ॥ २. यद्यपि वचनमात्रस्य नागमत्व किन्तु आचारातादीनामटपूर्वाणाञ्च श्रुतस्वं नवमपूर्वादीना श्रुतत्वेऽपि अतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमत्वेनैव व्यपदेशस्तथापि लौकिकलोकोत्तरमेदामिप्रायेण व्यापक लक्षणमादर्शितम् ॥ 20 - :४०३: तत्त्वन्यायविमाकरे [पछकिरण तादृशं च विप्रलम्भकवचनजन्यार्थविज्ञानमपीति यथार्थप्रवत्रिति, परार्थानुमानस्यापि ताश- त्वेन द्वारणाय वैलक्षण्यबोधकविपदघटितं विज्ञानपदमुपाचम् ।। ननु यदीदृशार्थविज्ञानमेवाऽऽगमस्तहिं कथं सिद्धान्तविदामाप्तवचने आगमप्रत्यय इत्याशङ्कायामाह- अर्थविज्ञानहेतुत्वादातशब्दोऽप्यागम ऽप्यागम उपचारात्। यथागोष्ठे गौरस्ति, धर्मसाध्या परलोकोऽस्तीत्यादयः॥ अथेति । उपचारादिति, कारणे कार्यस्योपचारादित्ययः, प्रतिपाद्यज्ञानस्य याप्तवचनं कारणमिति भावः। तत्र शाब्दस्य लौकिकशास्त्रजभेदेन द्वैविध्याल्लौकिकस्य दृष्टान्तमाह यथेति, एतद्वाक्यं तज्जन्यशाब्दवोधश्चागम इति भावः, उपलक्षणञ्चैतत् चतुर्दशविद्यास्थानानाम् 10 शास्त्रज निदर्शयति, धर्मेति, ईदृग्वाक्यानि, तज्जन्यबोधश्चागम इति भावः । उपलक्षणश्चैतदपि द्वादशाङ्गचतुर्दशपूर्वाणाम् , अथवाऽऽगमस्त्रिविधः आत्मागमोऽनन्तरागमः परम्परागमश्चेति, गुरूपदेशमन्तरेणाऽऽत्मन एवागमः आत्मागमः, यथा तीर्थकराणाम् , तीर्थकरादागतत्वाद्ग- पधराणामर्थागमोऽनन्तरागमः, सूत्रस्य त्वात्मागमस्स्वयमेव प्रथितत्वात्, जम्बूस्वामि- प्रभृतीनान्तु सूत्रस्यागमोऽनन्तरागमोऽर्थस्य तु परम्परागमः । तत ऊर्ध्व प्रभवाणान्तु 15 परम्परागम एव ॥ नन्वर्थप्रतिपादकत्वं शब्दस्य न सम्भवति, तथाहि ये शब्दा अर्थे सति दृष्टास्त एवातीवानागतादौ तदभावेऽपि दृश्यन्ते, यदभावे च यदृश्यते न तत्तत्प्रतिबद्धम् यथाऽश्वाभावेऽपि दृश्यमानो गौर्न तत्प्रतिबद्धः, अर्थाभावेऽपि च दृश्यन्ते शब्दाः तन्नैतेऽर्थप्रतिपादकाः, किन्वन्यापोहमात्राभिधायका इति चेन्नार्थवतश्शब्दान्तद्रहितस्य शब्दस्यान्यत्वात् , न चान्यस्य व्यभिचारेऽन्यस्यापि व्यभिचारो भवितुमर्हति, गोपालध- 20 टिकाविधूमस्याग्निमव्यभिचारोपलम्भेन पर्वतादिप्रदेशवर्जिनोऽपि वहयगमकत्वापत्तेस्वथा च कार्यहेतवे जलाञ्जलिदत्ता स्यात् किञ्च प्रतीतिविरोधोऽपि स्याच्छन्दस्यान्यापोहामिधायकत्वे, गवादिशब्देभ्यो विधिरूपतयाऽर्थप्रतीते:, अन्यनिषेधमात्रामिधायकत्वे च तेन सास्नादि- मतोऽर्थस्य प्रतीत्यनापत्त्या ततस्तबोधो न स्यात् , न चैकस्य गोशब्दस्य बुद्धिद्वयजनकत्वान " - १ शब्दांना न परमार्थतः किञ्चिद्वाच्यं वस्तुस्वरुपमस्ति, शाब्दप्रत्ययाना सर्वेषा भ्रान्तत्वात् मिशेष्वेवा- भेदाकाराध्यवसायेन प्रवृत्ते, यत्र तु पारम्मण वस्तुप्रतिबन्धस्तत्रार्थसबादो प्रान्तलेऽपि तत्र यत्तदारोपित विकल्पबुद्धयाऽये मिन्नं स्पं तदनन्यव्यावृत्तपदार्थानुभववलायातत्वात् स्वयच्चान्यव्यावृत्ततया प्रतिमासमात् भाने स्वान्यव्यावृत्याऽर्थेन सहैक्येनाध्यवसितत्वादन्यापोढपदार्थाधिगतिफलत्वाच्चापोह उच्यते, अतोऽपोहनशब्दार्थ इति प्रसिद्धम् ।।

यथार्यवका ] न्यायप्रकाशसमलते :४०७: दोष इवि वाच्यम् , एकस्य शब्दस्य युगपगुद्धिद्वयजनकत्वस्यादर्शनात् । किञ्चापोहलक्षण- सामान्यस्य पर्युदासरूपत्वे सिद्धसाध्यता, अगोनिवृत्तिस्वरूपस्य गोशब्देनोच्यमानस्य सामा- न्यस्यास्माभिर्भावस्वरूपतया गोशब्दवाच्यत्वस्वीकारात् अभावस्य भावात्मकतया व्य. वस्थापितत्वात् । भवद्भिरभ्युपगतोऽश्वादिनिवृत्तिस्वभावो भावोऽपि न तावदसाधारणो गवादिस्खलक्षणात्मा, तस्य सकलविकल्पागोचरत्वात् नापि शावलेयादिव्यक्तिविशेषः, 5 असामान्यत्वप्रसङ्गात् तस्मात्सर्वेषु शाबलेयादिपिण्डेषु यत्प्रत्येक विश्रान्तं यन्निवन्धना च गोबुद्धिस्तञ्च गोत्वाख्यं सामान्यमन्यापोहरूपं गोगब्दवाच्यम् , सामान्यविशेषवद्वस्तुन एव गवादिशब्दवाच्यत्वात् । प्रसन्यप्रतिपेधस्तु तुच्छाभावानभ्युपगमेन व्युदस्त इति ॥ कोऽसौ यथार्यवक्ता भवेद्यद्वचनसम्भूतार्थविज्ञानमागमतया प्रमाण स्यादित्यत्राह- प्रक्षीणदोषो यथावस्थितार्थपरिज्ञाता यथावस्थिनार्थप्रख्यापको यथा- 10 र्थवक्ता, अयं द्विविधो लौकिकः पित्रादिलोकोत्तरस्तीर्थकरादिः ॥ प्रक्षीणदोष इति । यादृशार्थविज्ञानं यादृशशब्देन प्रतिपिपादयिषितं ताशशब्दार्थोभय- सम्बन्धिदोपशून्यत्वं तदयः, अत्र शब्ददोपोऽसाधुशब्दत्वादिकः अर्थदोपोऽयथावस्थित- त्वादिक उभयदोपो वाच्यवाचकत्ववैधुर्यादिको विज्ञेयः । यद्यपि वस्तुतः प्रक्षीणदोषत्वं रागद्वेषशून्यत्वमेव तथापि लौकिकातसंग्रहायांशिकाओं व्यावर्णितः। सर्वजेऽप्ययमर्थस्स- 15 गच्छत एव, तस्यैवाखिलशब्दार्थोभयदोपशून्यत्वात् । यथावस्थितार्थपरिनातेति, यथा. वस्थितत्वेनाभिधेयस्य प्रत्यक्षादिप्रमाणतः परिक्षातेयर्थः, विना ज्ञानमुपदेशासंभवज्ञापनायेदं विशेषणम् । यथावस्थितार्थप्रख्यापक इति यथावस्थितार्थस्य यथाज्ञान तथोपदेशक इत्यर्थः । यो हि भ्रमादर्थमन्यथाभूतं यथावस्थितत्वेन जानीते यथाज्ञानमभिधत्ते च वस्य यथार्थव- क्तृत्ववारणाय प्रक्षीणदोप इत्युक्तम् | केवलमर्थस्य यथावस्थितत्वेन परिचातुर्मूकादेराग- 20 मेऽनुपयुक्तत्वान्न स यथार्थवतेत्यतो यथावस्थिवार्थप्रख्यापक इत्युक्तम् । तथा च यो यस्या- वञ्चकस्स तस्याप्त इति वृद्धप्रणीतसृष्यार्यन्लेच्छसाधारणमाप्तलक्षणमनेनानूदितमिति विभा- बनीयम् । ताहशस्त्र पुरुषस्य तत्तदर्थबोधकतत्तद्वचनस्याबिसंवादकत्वेन वावन्मात्रमाप्तत्वात् । तं विमजते अयमिति यथार्थववेत्यर्थः, लोके सामान्यजने भवो लौकिकः, तस्योदाहरणमाह पित्रादिरिति, आविना जनन्यादिपरिग्रहः । द्वितीय भेदमाह-लोकोचर इति, लोकादुत्तरः 25 । " १. नहि क्षीणदोपवचनं व्यतिरिच्यान्यत प्रेक्षावता परलोकादावदष्टेऽथे प्रवृत्तिर्युका अतस्तस्यैव वचनं परम प्रमाणमिति भावः ॥

पाकि :४०८: तस्वन्यायविमाकरे प्रधान, मोक्षमार्गोपदेशकत्वादिति लोकोत्तरः, स क इत्यत्राह तीर्थंकरादिरिति, आदिना गणधरादीनां ग्रहणम् । तीर्थ प्रवचनं तत्करणशीलोऽचिन्त्यमाहात्म्यमहापुण्यापरामिधान- तीर्थकरनामकर्मविपाकादिति तीर्थकरः, श्रीवर्धमानजिनप्रमुखपुरुषविशेष इत्यर्थः । ननु यथार्थवक्तृवचनरूप आप्तशब्द उपचरितागमतया प्रोक्ता तत्र कोऽसौ वचनात्मक- 5 शब्द इत्यत आह- शन्दश्च सङ्केतसापेक्षा स्वाभाविकार्थबोधजनकशक्तिमांश्च ॥ शब्दश्चेति । सङ्केत इदं पदमस्य वाचकमिदञ्चास्य पदस्य वाच्यमित्येवंरूपो वाच्यवा- चकयोविनियोगः, वत्सापेक्ष इत्यर्थः; सङ्केतस्स्वार्थावबोधे शब्दस्यापेक्षाकारणं बोध्यम् । सङ्केतमात्रेण शब्दोऽर्थ प्रतिपादयतीति मतव्युदासायाह स्वाभाविकेति, स्वाभाविकी सहजाऽ- 10 र्थप्रतिपादनशक्तियोग्यताभिधाना वद्वानित्यर्थः । सङ्केतमात्रस्य पुरुषाधीनतया न तदिच्छया वस्तुनियमो युक्ता, तदिच्छाया अन्याहतचारित्वेन कदाचिदर्थोऽपि वाचकशब्दोंऽपि वाच्यः स्यात्, न च शब्दधर्मा ये गत्वौत्वादयस्तद्वानेव वाचको भवति परस्तु वाच्यो यथा द्रव्यत्वाविशेषेऽप्यग्नित्वादिविशिष्ट एव दाहादिजनको नान्य इति किं स्वाभा- विकयोग्यतयेति वाच्यम् , अतीन्द्रियशक्तिमन्तरेणाग्नित्वादीनामपि कार्यकारणभावानि- 15 यामकत्वात् । न च तत एव शब्दादर्थप्रतीतौ कि सङ्केतेनेवि वाच्यम् , अडरोत्पत्तौ शक्ति- मतोऽपि बीजस्य क्षितिजलादीनामिव तस्य सहकारिकारणत्वात् । न चैवं देशभेदेन शब्हा. नामर्थभेदो न स्यादेकत्रैव शब्दानां स्वाभाविकशक्तियुक्तत्वादिति वाच्यम्, अत एव सः- शब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वाङ्गीकारेणादोषात् । न च घटशब्दश्रवणानिखिलार्थबोध: स्यादिति वाच्यम्, क्षयोपशमसापेक्षत्वाबोधस्य, स च संकेताद्यपेक्ष इत्यदोषान, ५0 एतेन शब्दार्थयोस्सम्बन्धो न सम्भवति, स हि तादाम्यो वा स्यात्तदुत्पत्तिरूपो वा स्यात् तत्र नाद्यस्सम्भवति शब्दार्थयोभिन्नदेशत्वात् । अग्निगुडादिशब्दोच्चारणे वदने दाहम. धुराग्रुपलब्धिप्रसङ्गाच । नापरोऽपि अङ्गुल्यो करियूथशतमित्यादिशब्दानामर्थाभावेऽपि स्थानकरणप्रयत्नानन्तरमुत्पत्तिदर्शनात् । तथा च शब्दाः कथं बाह्यार्थे प्रतीति जनयितुं समर्था अर्थसंस्पर्शित्वाभावात् । किन्तु विकल्पमात्रप्रभवाः तिरस्कृतबालार्थाः स्वमहिम्ना 25 प्रत्ययान् जनयन्ति यथा करशाखादिवाक्यानि । किञ्च शब्दो न सामान्यवाचकः तस्यार्थ- क्रियाकारित्वाभावेन गगनकुसुमायमानत्वात, नवा विशेषस्य वाचकः स्खलक्षणलक्षणस्य तस्य विकल्पज्ञानाविषयत्वेन संकेतगोचरत्वासम्भवात् , तथात्वेऽपि वा वस्य व्यवहारकाला- ननुयायित्वेन संकेतवैयर्थ्यात् । अत एव न सामान्यविशेषयोस्नादास्यानापन्नयोः । नापि ।

शब्द.] म्यायप्रकाशसमलते वादात्म्यापन्नयोस्तयोाच्यवाचकत्वं युकं विरुद्धधर्माध्यासेन तयोस्तादात्म्यस्यैवासम्भवात् तस्मान्न किञ्चिद्वाच्यं वाचकं वा विद्यत इति मतमपास्तम् । शब्दार्थयोर्योग्यताभिधानसम्बन्धस्य सद्भावात् , अङ्गुल्यो करिणां शतमित्यादावर्थाभावेऽपि नयनरूपयोरिव योग्यतोपलेम्भात्, नहि कलशरूपेण समं चक्षुषस्तादात्म्यं तदुत्पत्तिा समस्ति । न च योग्यतायास्सम्बन्धत्वे शब्दस्येवार्थस्यापि वाचकत्वं स्यादिति वाच्यं ज्ञानज्ञेययो प्यज्ञापकशक्तिवत्पदार्थानां प्रति- । नियतशक्तिकत्वात् , सामान्यविशेषवद्वस्तुबोधकत्वाच न शब्दस्य वाचकत्वासम्भवोऽपि, सामान्यविशेषवतोऽर्थस्य संकेतव्यवहारकालानुगामित्वेन प्रतीयमानतया न विशेषवाच- कत्वपक्षोपात्तदोषोऽपि । सामान्यविशेपात्मनि स्खलक्षणे संकेतकरणात् । न चानन्त्याध्यक्तीनां परस्पराननुगमाञ्च संकेतकरणानुपपचिरिति वाच्यम् , समानपरिणत्यपेक्षया क्षयोपशम. विशेषाविर्भूततकोख्यप्रमाणे व्यक्तीनां प्रतिभासमानतया सङ्केतविषयत्वसम्मवादिति संक्षेपः॥ 10 ननु प्रदीपः प्रकाशमानो यथाऽन्यानपेक्ष एव स्वसन्निहितं शुभमशुभं वा भावं प्रका- शयति तस्मात्तस्यार्थप्रकाशकत्वं स्वाभाविक तथा प्रयुज्यमानशब्दोऽपि श्रुतिगतस्सत्ये वाऽसत्ये वा संगते वाऽसगते वा सफले वा निष्फले वा सिद्धे वा साध्ये वा वस्तुनि प्रतीतिमुत्पादयत्यतोऽस्यार्थयोधजननसामध्ये स्वाभाविकमुच्यते, परन्त्वयं संकेतसापेक्षः पदार्थप्रतीतिजनकः इति प्रदीपतोऽस्य विशेषः, एवञ्चार्थबोधसामर्थ्यमेवाऽस्य स्वाभाविक 15 न तु स्वनिष्ठयाथार्थ्यांयाथाये अपि स्वाभाविके इत्याशयेनाह- वक्तृगुणदोषाभ्याश्चास्य याथार्थ्यायाथायें ।। वक्तगुणदोपाम्याश्चेति । चस्त्वर्थे, तथा चास्य याथार्थ्यायाथाय न स्वभावप्रयुके किन्तु पुरुपगुणदोपप्रयुक्ते इति भावः । पुरुपस्य गुणाः करुणादया, दोषाश्च द्वेषादया, यदि ते स्वाभाविके स्यातां नहिं प्रतारकतद्भिन्नप्रयुक्तवाक्येष्वर्थव्यभिचाराव्यभिचारनियमो न 20 स्थात् तथा च सम्यग्दर्शिनि पुरुपे शुचौ वक्तरि यथार्थी शाब्दी प्रतीतिरन्यथा तु - मिथ्याङ्केति भावः॥ अथ तं विमजते- - सोऽयं शब्दो वर्णपदवाक्यरूपेण त्रिविधः। भाषावर्गणात्मकपर- माण्वारब्धो मूर्तिमानकारादिवर्णः । घटादिसमुदायघटकवर्णानामपि 25 प्रत्येकमर्थवत्त्वमेव । तद्व्यत्ययेान्तरगमनात् ।।

तत्वन्यायविभाकरे सोऽयमिति .। व्यावर्णितस्वस्पो वचनालकोऽयनित्यर्थः । तत्र वर्ण लगने भाषावर्गणेति, अविधासु वर्गणासु भाषायोन्या या वर्गणा तहालकपरनापुनिरारम्शे चो मूर्तिमानकारादिस्त वर्ण इयर्थः । परनाण्वारन्ध इति पदेन वर्णव पौडलिकन्व- माइर्शितम् , वत्र मूर्तिमत्त्वं हेतुगर्भविशेषणम, तथा च यो नृर्तिनान्त पौनटिकः 5 यथा घटादयः, मूर्चिमांच वर्णततः पौडलिक इति भावः । न च सन्का- अयत्वातिनिविडप्रदेशे प्रवेशनिर्गनारप्रविणतान् पूर्व पञ्चाचावयवानुपलब्धेः रू. मूर्तद्रव्यान्तरानेरकत्वान्गनगुणत्वाच न वर्णः पौगलिक इति वाच्यं सर्वेषां हेन्ग- मासत्वान्, तत्र न प्रथमः, शब्दपर्यायस्याश्यो हि भाषावर्गणा तत्र पर्यो निनोन एव, अनुवातप्रतिवातयोपिकृष्पनिकटझरीरिणोपलभ्यमानानुपलभ्यनानेन्द्रियार्यवान् तथा- 10 विधगन्धाधारदव्यपरमाणुवन्, न द्वितीयो गन्धद्रव्येण व्यभिचारात्, न द्वितीयो गन्धद्रव्येण व्यभिचारात्, वर्जनानगायकरि- कादिगन्धद्रव्यं हि पिहितद्वारापरकत्सान्तर्विशति बहिब निर्याति । न तृतीयः तमिहतोल्लादि- मिरनैकान्तिकवान् । चतुर्थोऽपि गन्वद्रव्यविशेषसुश्मरजोधूमादिमियभिचारी, नारायां निविशमानस्य गन्चंद्रच्यादेतद्विवरद्वारदेशोभिन्न मझुप्रेरकत्वादर्शनान् । नापि पचमः, नाना- शगुणश्शन्नोऽस्मादिप्रत्यक्षत्वानुपादिवदित्यनुमानेनासिद्धस्तलाल शैलिक एवेति भावः ! 15 ननु स्वार्थप्रत्यायनातिनानेत्र झोऽत्र विवक्षितो न ताछ शब्दत्तं वर्णे निरर्थक्ला- दित्वाशङ्कायामाह घटाीति, क्या व घनादिसमुदायघटका वर्णाः प्रत्येजनर्यवन्तः तद्वंद- त्ययेऽर्थान्तरगमनान् तस्य व्यत्यये हि राक्षसाः साझरा इत्यादावन्तरगमनं दृश्यते तलावश्यं वर्णा अर्थवन्तः, उपलगोऽयं हेतुस्तेन वर्णत्वाचातुप्रत्यवनिपातयन् वर्णविशे- पानुपलब्धौ पूर्वष्टार्थासम्प्रत्ययान् च्या प्रतिष्टन इत्यत्र प्रशन्नानुपलब्धौ प्रत्यानपत्यार्य- 50 स्वास-प्रत्यचादित्याइयो हेतवोऽत्र सहन्ते ॥ अथ पदलक्षणमाह- स्वार्थप्रत्यायने शक्तिमान् पदान्नरघरितवर्णापेक्षणरहिनः परस्पर- सहकारिवर्णसंघातः पदम् ।। स्वायति । स्वार्थबोधजनकझळिमानियर्थः. पनान्तरवि पनन्ततिवर्णान्तरजनितोप- 25 कारपराहमुत्र इत्ययः, परस्परेति, अर्थबोधजनने परस्पर तहकारिमापेन वर्तमानान्दा वर्णानां यत्संघात आनुपूर्वीत्यर्थः । ननु हा दिवाचकाक्षराजारादीनां क्यं पढ़त्वं परम्पर सहकारिवर्णसंघानमत्वाभावात्, नत्र प्रथमाद्वितीयादिविभक्तिसहितत्वेनादोष इति वाच्यम् सम्बोधने क्वचिद्विभक्रयमाणत्वेन तनाव्याप्रेरिवि चेन्न, अश्रुताया अपि विनर्बुद्धपा- 5 पक्यिम् । न्यायप्रकाशसमलते हढत्वेन वर्णसंघावत्वसम्भवात् अन्यथा सम्बोधनत्वज्ञानाभावप्रसङ्गः स्यात् । तादृशस्थले पदान्तरवर्तिवर्णान्तरापेक्षणरहितत्वविशिष्टशक्तिमद्वर्णत्वस्यैव वा पदत्वात् ॥ अथ वाक्यलक्षणमाचष्टे- स्वार्थप्रत्यायने शक्तिमान् वाक्यान्तरघटितपदापेक्षणरहितः परं- स्परसहकारिपदसमूहो वाक्यम् ॥ स्वार्थप्रत्यायन इति । स्वघटकानां परस्परसहकारितया व्यवस्थितानां पदानां स्वाघट- कपदापेक्षारहितानां समुदायस्स्वार्थप्रत्यायनशक्तियुक्तो वाक्यमित्यर्थः, न च यत्सत्तत्सर्व परि- णामि यथा घटः संश्च शब्द इति साधनवाक्यं कथं भवेत् ? तस्मात्परिणामीत्याद्याकांक्षणा- दिति वाच्यम्, वादशाकांक्षानुदयो यस्य तदपेक्षयैव तस्य वाक्यत्वात् नान्यापेक्षया, निरा- कांक्षतायाः प्रतिपत्तृधर्मत्वेन वाक्ये उपचारात्, तस्याचेतनत्वात् । स चेत् प्रतिपत्ता साध- 10 नवाक्यज्ञानेऽपि निगमनमपेक्षते तर्हि वदपेक्षत एवेति न तं प्रति तावन्मात्रस्य वाक्यत्वं, तावता वाक्यार्थप्रतिपत्तावपि परापेक्षायां पञ्चावयववाक्यादप्यर्थप्रतिपत्तौ परापेक्षा- प्रसङ्गेन न क्वचिनिराकांक्षत्वसिद्धिप्रसङ्गरस्यादिति । दश दाडिमानि षडपूपाः कुण्डमजा- जिनमियादि पदसंघातस्य परस्परनिरपेक्षस्य पदसंघातत्वेऽपि न वाक्यत्वं परस्परसापेक्ष- पदसमूहत्वाभावात् । तथा च परस्परसापेक्षाणां पदानां निरपेक्षस्समुदायो वाक्यमिति 15 निष्कर्षः । निरपेक्षपदञ्च चैत्रः स्थाल्यां पचतीति कर्मपदरहितेऽतिव्याप्तिवारणाय | ननु 'स्फटिकाकृतिनिर्मलः प्रकाममि' यादी वाक्य आकृतिपदघटितत्वेनाधिकेऽतिव्याप्ति- वारणार्थ विशेपणान्तरनिवेशप्रसंगः, न च तत्तहोपाभावकूटविशिष्टपदसमुदायत्वं वाक्य- त्वमुच्यते न्यूनत्वाधिकत्वादिकं च दोष एवेति न तत्रातिव्यातिरिति वाच्यमननुगमा- दिति चेन्नाऽऽकांक्षायोग्यतासत्तिमत्पदसमूहस्यैव वाक्यत्वात् तत्राकांक्षा अभिधाना- 20 पर्यवसानं, अभिधानं पदं तस्यापर्यवसानमन्वयाननुभावकत्वम्, तथा च यस्यपदस्य सममिव्याहृतयत्पदव्यविरेकप्रयुक्त यादृशान्वयाननुभावकत्वं वादृशान्वयाननुभवे सममि- व्याहृततत्पदस्य तेन तादृशान्वयाननुभावकत्वं तयोराकांक्षा, अस्ति च द्वितीयादिपदस्य घटादिविशिष्टकर्मत्वाद्यन्वयाननुभावकत्वं घटादिपव्यतिरेकप्रयुक्तं न तु कर्मत्वादिपदस्य, घंटादिपदसत्त्वेऽपि स्वत एव तस्याननुभावकत्वादिति घटमित्यादावाकांक्षा, न तु घट: 25 कर्मत्वमित्यादाविति, योग्यता चैकपदार्थेऽपरपदार्थससर्गवत्त्वम्, न चैकविध्यर्थयोः कृती- ऐसाधनत्वयोः परस्परमन्वयो न स्यादुक्तयोग्यताविरहादिति वाच्यम्, एकवृचिविषये- परवृत्तिविषयसंसर्गवत्वस्यैव तदर्थत्वात् । आसत्तिस्तु एकपदार्थोपस्थिंयव्यवधानेनापर- - :४१२: तवन्यायविभाकरे [ पटकिरणे पदार्थोपस्थितिः, अव्यवधानं व्यवधानाभावः, तेन युगपन्नानापदार्थोपस्थितावपि न क्षतिः, तच्चार्थसिद्धं, तत्वत्पदार्थशान्दबुद्धौ तत्तत्पदार्थोपस्थितेहेतुतया विनाऽव्यवहितोप- स्थिति शाब्दबोधासम्भवात् । ननु वर्णानां समुदायः पदं, तत्समुदायो वाक्य- मित्युक्तं, तत्र व्यस्तानामर्थप्रतिपादकत्वे वर्णेनैकेनैव गवाद्यर्थप्रतिपत्तौ द्वितीयादिवर्णोच्चारणा- 5 नर्थक्यापत्तिः, तत्समुदायोऽपि च न सम्भवति, क्रमोत्पन्नानामनन्तरविनष्टत्वेन समुदा- : यासम्भवात्, न च युगपदुत्पन्नानां तेषां तत्सम्भावना युक्ता, एकपुरुषापेक्षया युगपदुत्पादासम्भवात् प्रतिनियतस्थानकरणप्रयत्नप्रभवत्वात्तेपाम् । मिन्नभिन्नपुरुषप्रयुक्तग- कारौकारविसर्जनीयानां नहि समुदायार्थप्रतिपादकत्वं दृष्टम् । न चान्त्यो वर्णः पूर्वपूर्ववर्णानु- गृहीतोऽर्थप्रत्यायक इति साम्प्रतम् , पूर्ववर्णानामन्त्यवर्ण प्रत्यनुप्राहकत्वायोगात् । अनुमा- 10 हकत्वं हि न जनकत्वं वर्णाद्वर्णोत्पत्तेरभावात् नियतस्थानादिसम्पाद्यत्वाद्वर्णानाम् । नाप्यर्थ- ज्ञानोत्पत्तौ सहकारित्वं, अविद्यमानानां सहकारित्वानुपपत्तेः, नवा पूर्ववर्णानुभवजासंस्का- रास्तत्सहायता प्रतिपद्यन्ते, संस्काराणां स्वोत्पादकविषयस्मृतिहेतुत्वादिति चेन्न परिमितसं- ख्यानां पुद्गलद्रव्योपादानापरित्यागेनैव परिणतानामश्रावणस्वभावपरित्यागन्याप्तश्रावणस्व- भावानां विशिष्टानुक्रमयुक्तानां वर्णानां वाचकत्वाच्छब्दत्वाभ्युपगमात् । सोऽपि क्रमो 15 वर्णेभ्यो नार्थान्तस्मेव, वर्णानुविद्धस्य प्रतीतेः, नापि वर्णा एव क्रमः, वद्विशिष्टतया तेषां प्रतीते, न च तद्विशेपणत्वेन प्रतीयमानस्य क्रमस्यापहवो युक्ता, वर्णेष्वपि वत्प्रसक्तेः । ततो भिन्नाभिन्नानुपूर्वी विशिष्टा वर्णा विशिष्टपरिणामवन्तः शब्दाः, ते च पदवाक्यादिरू- पतया व्यवस्थिता इति ॥ - सोऽयं शब्दो द्विविधः प्रमाणात्मको नयात्मकश्चेति यतः कास्न्येन तत्वार्थाधिगमः 20 स प्रमाणरूपः, यथाऽन्तर्बहिर्वा भावराशिः स्वरूपमाविमति तथैव तं प्रकाशयितुं सप्तमगी- समनुगत एव शन्नस्समर्थो भवतीति स एव प्रमाणरूपः, तथैव परिपूर्णार्थप्रापकत्वलक्षण- तात्त्विकाम,ण्यनिर्वाहात् | देशवस्तत्वार्थाधिगमकस्तु नयात्मकः परिपूर्णवस्त्वेकदेशप्राप- कत्वात्, एतत्स्वरूपमरे वक्ष्यते । तत्र सप्तभङ्गीस्वरूपमादौ दर्शयति- अनेकान्तात्मके पदार्थ विधिनिषेधाभ्यां प्रवर्त्तमानोऽयं शब्दस्सप्त- 28 भङ्गीं यदानुगच्छति तदैवास्य पूर्णार्थप्रकाशकत्वात्मामाण्यम् । घटोऽ स्तीत्यादिलौकिकवाक्यानामर्थप्रापकत्वमात्रेण लोकापेक्षया प्रामाण्येऽपि न वास्तविकंप्रामाण्यं, पूर्णार्थाप्रकाशकत्वात् सप्तभङ्गीसमनुगमाभावाच ।। अनेकान्तात्मक इति । सदसन्नित्यानित्यादिसकलैकान्तपक्षविलक्षणनात्यन्तरसदसत्त्व- ससमडी] न्यायप्रकाशसमलते नित्यानित्यत्वादिनानाधर्मकरम्बित इत्यर्थः । सप्तमङ्गीमिति, सप्तानां भङ्गानां समाहारस्ता- मिति विग्रहः । ननु घटोऽस्तीत्यादिवाक्यानां सप्तमङ्गीसंपर्यशून्यत्वेऽपि अर्थप्रापकत्वेन प्रमाणत्वात्कथं सप्तभङ्गीसमनुगतानामेव प्रामाण्यमित्याशङ्कायामाह घटोऽस्तीति, अर्थप्रापक- त्वमात्रेणेति किञ्चिदर्थप्रापकत्वेनेत्यर्थः मात्रपदेन परिपूर्णार्थप्रकाशकत्वाभावः सूच्यते । लोका- पेक्षया प्रामाण्येऽपीति, तद्वति तत्प्रकारकत्वरूपलौकिकप्रामाण्यवत्वेऽपीत्यर्थः, वास्तविक- 5 प्रामाण्यामावे हेतुमाह पूर्णार्थेति । अत्र हेतुमाह सप्तेति ।। - का नाम सप्तमङ्गीत्यत्राह- तत्र प्रश्नानुगुणमेकर्मिविशेष्यकाविरुद्धविधिनिषेधात्मकधर्मप्रका- रकबोधजनकसप्तवाक्यपर्याप्तसमुदायत्वं सप्तभङ्गीत्वम् ॥ तत्रेति । प्रच्छकप्रश्नज्ञानप्रयोव्यत्वे सत्येकवस्तुविशेष्यकाविरुद्धविधिप्रतिपेधात्मकधर्म 10 प्रकारकबोधजनकसप्तवाक्यपर्याप्तसमुदायत्वं लक्षणार्थः । वक्ष्यमाणवाक्यसप्तके लक्षणमिदम- व्याहतम् । वक्ता हि प्रच्छकप्रभज्ञानेन विवक्षति ततश्च वाक्यं प्रयुनक्ति, अतस्सप्तवाक्यसमु. दायस्य साक्षात्मज्ञानप्रयोज्यत्वाभावेऽपि परम्परया तत्सत्त्वान्न क्षतिः । एकस्मिन् वस्तुनि घटादौ द्रव्यक्षेत्रकालभावापेक्षया सत्त्वस्यासत्त्वस्य, कथञ्चित्सदसत्त्वस्य, कथञ्चिवक्तव्यत्वस्य कथञ्चित्सत्त्वावक्तव्यत्वयोः, कथञ्चिदसत्वावक्तव्यत्वयोः, कथश्चित्सत्त्वासत्त्वावक्तव्यत्वानां 15 च सत्त्वेन वाहावाक्यसप्तकाद्धदादिरूपैकवस्तुविशेष्यकाविरुद्धसत्स्वादिप्रकारकवोधस्योदयेन लक्षणसमन्वयः। घटोऽस्ति पटो नास्तीत्यादिनानावस्तुनि सत्यासत्त्वादिवोधकवाक्येऽतिप्रस- अचारणायकर्मिविशेष्यकेति । एकस्मिन्नेव धर्मिणि प्रत्यक्षादिविरुद्धविधिनिषेधबोधकवाक्य- सप्तके व्यभिचारवारणायाविरुद्धेति । विरोधस्फूतौ वाक्यस्याबोधकत्वे तदनुपादेयमेव । घट- स्स्यादस्तीत्यादिद्विवादिवाक्यसमुदाये व्यभिचारधारणाय सप्तति । विवक्ष्यमाणसप्तवाक्यघटि- 20 वोदासीनवाक्ययुतसमुदाये व्यभिचारवारणाय सप्तवाक्यपर्याप्तेति । सत्यन्तन्तु नाव्याप्त्या- दिवारकमपि तु प्रष्टप्रश्नानां सप्तविधातिरिक्तत्वाभावेन वाक्यानामुत्तररूपाणामपि सप्त- विधत्वमेवेति सूचनायोपात्तम् । एकस्मिन् धर्मिणि रूपरसादिधर्मसप्तकवोधकेऽतिप्रसङ्ग- वारणाय सत्त्वासत्त्वादिवोधक विधिनिषेधात्मकधर्मपदम् । नयसप्तमङ्गया अपि लक्ष्यत्वे न वनातिच्याप्तिः, यदि तु प्रमाणनयसप्तमङ्गयोः पृथक्पृथगेव लक्ष्यत्वं तर्हि सकलादेशत्व- मप्यत्र विवक्षणीयम्॥ 25 तानि कानि वाक्यानीत्यत्राह- " " :४१४: तत्वन्यायविमाकरे [ पटकिरणे वाक्यानि च स्यावस्त्येव घटः, स्यानास्त्येव घटा, स्यादस्ति नास्ति च घटः, स्यादवक्तव्य एव, स्यादस्ति चावक्तव्यश्च, स्थानास्ति चावक्त- व्यश्व, स्यादस्ति नास्ति चावक्तव्यश्चेति ॥ वाक्यानि चेति । घटे सत्यासत्त्वादिरूपधर्मापेक्षया सप्तविधानीमानि वाक्यानि 5 विजेयानि, सामान्यविशेपाभ्यामपि तथैव भवन्ति, सामान्यस्य विधिरूपत्वात् व्यावृत्ति- रूपतया विशेपस्य निषेधात्मकत्वात् । एवं प्रतिपर्यायापेक्षया सप्तविधत्वं वाक्यानां भाव्यम् । स्यादस्त्येवेति, स्यादिति पदमनेकान्तद्योतकं कथश्चित्पर्यायमव्ययम् । पदमात्रस्यैव वाक्या घोतकत्वं वाक्यस्यैव वाचकत्वमिति सिद्धान्तात् । न च वाक्यस्यैव वाचकत्वे तत्र पदशक्ति- प्रहस्यानुपयोगित्वं स्यादिति वाच्यम् । वाक्यशक्तिमह एव तस्योपयोगात्तथैवान्वयव्यतिरे- 10 कतः । अस्तिशब्दोऽत्रास्तित्वधर्मस्य मुख्यतया प्रतिपादकः, एक्शब्दोऽवधारका, घटस्य स्व. रूपादिमिरस्तित्वमिव तैरेव नास्तित्वमपि स्यादित्यनिष्टार्थनिवृत्त्यर्थं तद्ग्रहणस्यावश्यकत्वादत एच घटस्सन्नेवेत्यतः निखिलधर्मावच्छिन्नसत्त्वप्रतीतौ तदपवादाय नियत्तावच्छेदकस्फोरणार्थ स्यात्पदम् | यदि तु व्युत्पन्नस्य घटस्सन्निति निरवधारणप्रयोगेऽपि स्वद्रव्यादिचतुष्टया- वच्छिन्नस्वरूपसत्त्वप्रकारकवोधो भवतीत्युच्यते तदा तदपेक्षयाऽप्रयोगोऽपीत्यत्राप्यनेकान्त 15 एव । न चानेकान्तस्य वाचकेन द्योतकेन वा स्याच्छब्देन सस्वासत्त्वाद्यनेकधर्मवद्वस्तुनः प्रतिपादनासदादिवचनमनर्थकमिति वाच्यम् । एकान्तबुद्धिविलक्षणबुद्धिविशेषविषयतावच्छे- दकत्वेन स्यात्पदस्य सत्त्वासत्त्वादिधर्मसप्तकघटितसप्तभङ्गीबोधकत्वेऽपि प्रातिस्विकरूपेण- तत्तद्धर्मबोधनार्थ तत्प्रयोगस्यावश्यकत्वादिति । धर्मान्तराप्रतिपेधकं प्राधान्येन विधिबोधक वाक्यमिदं, तेन प्रतिषेधकल्पनैव सत्यमिति निरस्तमभावैकान्तस्य प्रतिपेधादिति भावः । 20 विधिकल्पनाया एव सत्यत्वात्तयैकमेव वाक्यं स्यादित्याशंकायामाह स्यान्नास्येच घट इति । विध्येकान्तस्य निराकरणेन प्रतिपेधकल्पनाया अपि सत्यत्वान्नैकमेव वाक्यमिति भावः । धर्मान्तराप्रतिषेधकं प्राधान्येन प्रतिपेधविपयकत्रोधजनक वाक्यमिदम् । ननु सदर्थप्रतिपादनाय विधिवाक्यमसदर्थप्रतिपादनाय च निषेधवाक्यमिति वाक्यद्वयमेवास्तु, प्रमे- यान्तरस्य शब्दविषयस्यासम्भवादिति शंकानिरासायाह स्यादस्ति नास्ति च घट इति | तथा 25 च प्रधानभावेनार्पितस्य सदसदात्मनो वस्तुनः प्रधानभूतैकैकधर्मात्मकादर्थादर्थान्तरत्वसिद्धेः सत्त्ववचनेनैवासत्त्ववचनेनैव वा क्रमाप्तियोः प्रधानीभूतसदसत्त्वयोः प्रतिपादयितुमश- १. ननु सामान्यविशेपघटितसप्तमङ्गीवाक्यस्य घट स्यात्सामान्यं स्याद्विशेष इत्यादिरूपस्यैकर्मिण्य- विरुद्धविधिनिषेधात्मकवोवजनकत्वाभावेन लक्षणस्याव्याप्तिप्रसझे वाह-सामान्यस्येति ।

सप्तभङ्गी ] न्यायप्रकाशसमलते :४१५: क्यत्वेनावश्यकत्वं तद्बोधकतया तृतीयवाक्यस्येति भावः । प्राधान्येन क्रमार्पितविधिनिषेधनो- धकमिदम् । नन्वस्तु वर्हि वाक्यत्रयमेव प्रोक्तधर्मत्रयातिरिक्तस्य कस्याप्यभावादित्यत्राह स्या- दवक्तव्य एवेति । क्रमेणार्पितयोस्तयोर्यथा वक्तव्यता तथा सहार्पिवयोः कथं वक्तव्यत्वमिति स्वाभाविके पर्यनुयोगे विलसिते तथा सर्वथा वक्तुमशक्तेरवक्तव्यत्वरूपधर्मान्तरप्रतिपादकस्य वाक्यस्याल्यावश्यकतेति भावः । तथा चावक्तव्यत्ववोधकमिदं वाक्यम् । तथापि वाक्यच-5 तुष्टयमेव स्यादित्यत्राह स्यादस्ति चावक्तव्यश्चेति । तथा च सदवक्तव्यत्वधर्मान्तरस्यापि सम्भवेनेदमपि वाक्यं नियतमेवेति भावः, सत्त्वविशिष्टावक्तव्यत्ववोधकवाक्यमिदम् । एवमस- दवक्तव्यत्वस्यापि धर्मान्तरस्य सिद्ध्या तत्प्रतिपादकं वाक्यमप्याह स्यान्नास्ति चावक्तव्यश्चेति, नास्तित्वविशिष्टावक्तव्यत्ववोधकवाक्यमिदम् । एवं सदसदवक्तव्यत्वधर्मस्यापि प्रतीयमान- त्वेन तद्वोधकं वाक्यमाह स्यादस्ति नास्ति चावतव्यश्वेतीति । सस्वासत्त्वविशिष्टावक्तव्य- 10 त्वबोधकवाक्यमिदम् । इतिशब्दो वाक्यान्तराभावसूचकस्तादृशविलक्षणधर्मान्तराभावात्। न चावक्तव्यत्वस्य धर्मान्तरत्ववत् वक्तव्यत्वस्यापि धर्मान्तरत्व सम्भवेन तद्वोधकस्याष्टमवाक्यस्य सत्त्वात्कथं सप्तैव वाक्यानीति वाच्यम् । सत्त्वादिभिरभिधीयमानस्य वक्तव्यत्वस्य प्रसिद्धेः ।। नन्वेकन धर्मिणि विधीयमाननिपिध्यमानानन्तधर्मसद्भावेनानन्तभङ्गी स्यान्, मैवम्, अनन्तानामपि सप्तभङ्गीनामिष्टत्वात्सत्वासत्त्वादिधर्मकल्पनयेव नित्यत्वानित्यत्वादिकल्प- 15 नयापि सप्तानामेव भङ्गानामवतारात् तावतामेव प्रतिपाद्यप्रश्नानां सम्भवात् प्रश्नवशादेव सप्तभङ्गीति नियमादित्याशयेनाह- सप्तविधप्रष्टप्रश्नवशात्सप्तवाक्यप्रवृत्तिः, प्रश्नानां सप्तविधत्वं तन्जि- ज्ञासायास्सप्तधात्वात्, सप्तधात्वं जिज्ञासायाः सप्तधा संशयोदयात्, संशयानां सप्तधात्वन्तु तद्विषयधर्माणां सप्तधात्वाद्विज्ञेयम् ॥ सप्तविधेति । यावन्तः प्रश्नास्तदुत्तरत्वेन तावतामेव वाक्यानां प्रवृत्तिरिति भावः । कुतः प्रश्नसप्तविध एवेत्यत्राह प्रश्नानामिति जिज्ञासानुगुणमेव प्रश्नप्रवृत्तरिति भावः, जिज्ञासायास्स- सविधत्वं कुच इत्यत्राह सप्तधात्वमिति, संशयानन्तरं हि तद्विधूननाय जिज्ञासा समुदेति संश- यानाश्च सप्तविधत्वे जिज्ञासापि तावत्येवेति भावः । सोऽपि सप्तप्रकार एवेत्सत्र कि नियामक- मिति प्रवाह संशयानामिति, विपयनिवन्धनो हि संशयः, विषयस्य सप्तत्वे कथं संशया 25 अधिका भवेयुः, तथा च विषयाणां सप्तधात्वेन प्रमाणसिद्धत्वात्तावन्त एव संशया इति भावः ॥ - - 20 धर्माः क इत्यत्राह- ते च धर्माः कथञ्चित्सत्त्व, कथञ्चिदसत्त्वं, क्रमार्पितोभयम् , कथञ्चि- तत्त्वन्यायविमाकरे [षकिरणे दवक्तव्यत्वं, कथश्चित्सत्त्वविशिष्टावक्तव्यत्वं, कथञ्चिदसत्त्वविशिष्टावक्त- व्यत्वं, क्रमार्पितोभयविशिष्टावक्तव्यत्वश्च ।। ते चेति । संशयविषयीभूताश्चेत्यर्थः । कथञ्चित् सत्त्वमिति, वस्तुधर्मोऽयं, तदनभ्युप- गमे वस्तुनो वस्तुत्वमेव न स्यात् खरविषाणादिवत् , स्वद्रव्यक्षेत्रकालभावापेक्षया सर्व वस्तु 5 सदेव, परद्रव्यादेरिव स्वद्रव्यादेरपि वस्तुनोऽसत्त्वे शून्यताप्रसङ्गः स्यात् , सर्व सदेवेत्यपि न, सर्वपदार्थानां परस्परमसांकर्यप्रतिपत्तेरसत्त्वस्यापि सिद्धेः, अत एव कथञ्चिदसत्त्वमपि वस्तुधर्म इत्याह कथबिदसत्त्वमिति, स्वरूपादिव पररूपादपि वस्तुनस्सत्वे प्रतिनियतस्व- रूपाभावाद् वस्तुप्रतिनियमविरोधो दुरि इति भावः । क्रमार्पितोभयमिति, क्रमाप्तिसदसदु- भयत्वमित्यर्थः, तदभावे हि क्रमेण सदसत्त्वविकल्पशब्दव्यवहारस्य विरोधः स्यादिति भावः। 10 न चायं व्यवहारो निर्विषयः क्रमार्पितोमयज्ञानतद्व्यवहारतत्प्राप्तीनामविसंवादात तथाविध- रूपादिव्यवहारवत् , तस्यापि निर्विपयस्वे सकलप्रत्यक्षादिव्यवहारोच्छेदान्न कस्यचिदिष्टतत्व. व्यवस्था स्यात् , एवमग्रेऽपि भाव्यम् । ननु स्यादस्ति नास्ति च घट इति वाक्यादस्तिनास्ति पदाभ्यां सदसत्त्वयोश्चकारेणोभयस्य चोपस्थित्या सदसदुभयत्वं तादृशन्यवहारस्य विपयः, तत्र केवलसत्त्वांसत्त्वाभ्यां भिन्न भवतु उभयत्वस्यैकविशिष्टापरत्वरूपत्वाभावात् अविशिष्ट 15 योरपि गोत्वाश्वत्वयोरुभयत्वप्रत्ययात् तत उभयत्वं भिन्नं, तद्भेदे च कथञ्चिदुभयभेदोऽप्य- सिद्ध एव । परन्त्वेतद्वाक्यस्य क्रमादुभयमुख्यविशेष्यताकवोधजनकत्वेन क्रमार्पितत्वं कथमत्र धर्मेऽन्वेति, ऋमिकशाब्दबोधद्वयेच्छाविपयविपयत्वरूपस्य तस्य पदानुपस्थितत्वेन वस्तुधर्मवया तद्वोधासम्भवादिति चेन्न, स्यात्पदेन क्रमार्पितत्वस्य द्योतनात् अनुभूयते हि स्यादस्ति स्यान्नास्ति च घट इति वाक्याक्रमाप्तिसत्त्वासत्त्वोभयधर्मवन्तममुं घर्ट •20 जानामीति, वत्र चैकत्वेन गृहीते सदसत्त्वे उभयत्वप्रत्ययस्य भातोभयावगाहित्वेन तत्र च क्रमाप्तित्वस्यावच्छेदकत्वात् न च क्रमबलादेवात्र ज्ञानद्वयस्य सिद्धपाऽस्य प्रथमभङ्गद्वयाभेदः स्यादिति वाच्यम्, मग भयप्राधान्यवोधकत्वामिप्रायेणास्तिनास्ति- १. सदसदुभयत्वं न सत्त्वविशिष्टासत्त्वत्वरूपं, अत्र हि वैशिष्टय सामानाधिकरण्येन बाध्य तथा च गोत्वाश्चत्वयो परस्परं सामानाधिकरण्याभावेन वैशिष्टयविरहेऽपि गोत्वाश्चत्वोमयमित्युभयत्वावगाहिप्रतीत्यु- स्पत्तैस्तथा चोभयत्वं वैशिष्ट्यानिमिति स्वीकार्य, तस्य भेदादेव च सत्त्वासत्त्वाच्या सत्त्वासत्त्वोभयमपि कथचिदिन्नमिति भावः ॥२. क्रमेण सत्यासत्त्वोमयविषयकशाब्दबोवय जायतामितीच्छाविपर्य योधद्वयं तद्विषय सत्त्वासात्योभयमित्यर्थः । पदानुपस्थितत्वेनेति, शब्दोपस्थितस्यैव शाब्दबोचे भाननियमादिति भावः ॥ ३. तृतीयमझो हि क्रमेण शाब्दबोवो जायतामितीच्छाप्रयुक्तस्तथा च सत्त्वप्रकारकघटविशेष्यकमसत्त्वप्रकार- कघटविशेप्यकं बोधद्वयमेव जायत इति भगद्वयसंयोगल्स एवायं मन प्रसक इति शङ्काशयः, समाधानय प्रकारताद्वयनिरूपितैकविशेष्यताशालियोधस्याऽभ्यनुभवसिद्धवेन तादृशो बोधोऽस्य भास्य फलमिति ॥

सप्तमहो] न्यायप्रकाशसमलते En७: पदप्रयोगेणैकत्र द्वयमिति रीत्या विलक्षणविषयताशालिवोधान्तरस्यानुभवसिद्धत्वात् । न चक्रमो हि शब्दव्यापारः, अर्थस्तु विशिष्टः क्रमाघटित एवेति तत्र क्रमादिकम- नतिप्रयोजनमिति वाच्यम् शब्दगतस्यापि क्रमस्यार्थेऽध्यारोपेण तत्सम्भवादिति । एवं सहा- वक्तव्यत्वादिष्वपि चिन्तनीयम् । कथश्चिदवक्तव्यत्वमिति, युगपद्विधिनिषेधात्मनाऽवक्त- व्यत्वमित्यर्थः, सहार्पितावक्तव्यत्वमिति यावत् । ननु सहार्पितत्त्वं एकदैकपदानुभयवोधो 5 जायतामितीच्छाविषयत्वं सा चेच्छा वाधिते नोदेतीति न तवक्तव्यस्यावच्छेदकम् न चोभयपदेन युगपटुभयप्राधान्येन बोधसम्भवादवक्तव्यत्वमेवासिद्धं दृष्टं हि पुष्पदन्त- पदाश्चन्द्रत्वसूर्यत्वाभ्यां चन्द्रसूर्ययोर्युगपदेव बोध इति वाच्यम् , पुष्पदन्तपदवदुभयपदस्यासा- धारणत्वाभावात् , वुद्धिविषयतावच्छेदकत्वेनास्तित्वनास्तित्वधर्मयावच्छिन्नस्य वोधकत्वेऽपि प्राधान्येन सहार्पितोभयाकारवोधासिद्धेरिति चेन्न, पुत्रनाशे सत्यपि पुत्रदिक्षाया आनु- 10 भविकत्वेन क्वचिद्वाधितेऽपीच्छोदयतोऽवक्तव्यस्यावच्छेदकत्वे वाधाभावात् । अथ पञ्चमं धर्ममाह कथञ्चित्सत्त्वेति । अथ पष्ठं धर्ममाह कथञ्चिदसत्त्वेति । सप्तममाह क्रमार्पितेति ।। ननु प्रथमद्वितीयधर्मवत्प्रथमतृतीययुक्तधर्मान्तरस्य सिद्धेः कथं सप्तविधधर्मनियम इति चेन्न क्रमाक्रमार्पितयोः प्रथमतृतीयधर्मयोधर्मान्तरत्वेनाप्रतीतेः सत्त्वद्वयस्यासम्भवात् विवक्षि- तस्वरूपाविना सत्त्वस्यैकत्वात् , एवमेव द्वितीयतृतीयधर्मयोः क्रमाक्रमार्पितयोर्न धर्मान्तरत्वेन 15 प्रतीतिरसत्वद्वयस्यासम्भवात् पररूपादिनाऽसत्त्वस्यैकत्वात् । ननु तथा सति प्रथम- चतुर्थयोद्धितीयचतुर्थयोस्तृतीयचतुर्थयोश्च सहितयोः कथं धर्मान्तरत्वं, चतुर्थे सहार्पित- सत्त्वासत्त्वभानादिति चेन्न चतुर्थे तयोरपरामर्शात् किन्तु तथार्पितयोस्तयोसर्वथा वक्त. मशक्तेरवक्तव्यत्वरूपधर्मान्तरस्यैव तेन प्रतिपादनात् , न च तेन सहितस्य सत्त्वस्यासत्व- स्योमयस्य वाऽप्रतीतिधर्मान्तरत्यासिद्धिर्वेति भङ्गानां विषयनियममाह- तत्र प्रथमे भने सत्त्वस्य प्रधानतया भानं, द्वितीयेऽसत्त्वस्य प्राधा- न्येन, तृतीये क्रमाप्तिसत्वासत्त्वयोश्चतुर्थेऽवक्तव्यत्वस्य पञ्चमे सत्व- 20 १. पुष्पदन्तपदस्य चन्द्रलेन चन्द्र सूर्यत्वेन सूर्ये व्यासभ्यवृत्तिरेका शक्तिरिति तेनोभयधर्मनिष्टप्रकार- वाद्वयनिरूपितो बोधो भवेत् परन्तुभयपदस्य बुद्धिविषयतावच्छेदकत्वेन यत्किश्चिद्धर्मद्वये शकिसंभवेऽपि प्राति- स्विकवर्मावच्छिमप्रकारताद्वयनिरूपितमुख्यविशेप्यताशालियोधस्तस्मान भवेदेवेति भावः । २. क्रमार्पितास्ति- वनास्तित्वोमयस्मिन्नस्तित्वरूपधर्मान्तरस्येति भाव ॥ ३. क्रमार्पितास्तित्वनास्तिस्वोभयस्मिन्नास्तित्वरूपधर्मा- न्तरस्पैति भावः ॥ ४, सहार्पितसत्यासत्त्वोभयावच्छेदेन तृतीयभाजन्यशाब्दबोधविपयत्वामावस्यैव स्वाद- बकव्यपदार्थत्वादिति भावः ॥

10 तत्त्वन्यायविमाकरे [ पटकिरणे मिति भावः, मेदोपचारेण वेति, प्राधान्येन द्रव्यार्थिकायतोऽमिन्नेऽपि भेदाभ्यारोपेणेत्यर्थः, क्रमश्चास्त्यादिरूपैकशब्दस्य कालादिमिन्निनास्तित्वाद्यनेकधर्मवोधने शक्यभावाद्वोध्यः ॥ अभेदवृत्त्यभेदोपचारप्रयोजकान् दर्शयितुमाह- अभेदवृत्त्यभेदोपचारौ कालस्वरूपार्थसम्बन्धोपकारगुणिदेशसंसर्ग- 5 शब्दैरष्टाभियो॥ अभेदेति । समानकालीनत्वं, एकगुणिगुणत्वं, एकाधिकरणत्वं, एकसम्बन्धप्रतियोगित्वं, एकोपकारकत्वं, एकदेशावच्छिन्नवृत्तित्व, एकसंसर्गप्रतियोगित्वं, एकशब्दवाच्यत्वञ्चाभेद- वृत्तावमेदोपचारे वा प्रयोजकमिति भावः ॥ एकस्मिन् भने घटयति- तथाहि स्यादस्त्येव घट इत्यादावस्तित्वाद्यात्मकैकधर्मवोधजनकत्वं वर्त्तते तथा एककालावच्छिन्नैकाधिकरणनिरूपितवृत्तित्वैकगुणिगुणत्वै- काधिकरणवृत्तित्वैकसम्बन्धप्रतियोगित्वैकोपकारकत्वैकदेशावच्छिन्नवृत्ति- त्वैकसंसर्गप्रतियोगित्वैकशब्दवाच्यत्वधमैरस्तित्वेनाभिन्ना अनेके ये धर्मास्तदात्मकपदार्थपोषजनकत्वमपीति ।। 15 तथाहीति । इत्यादाविति, अस्तित्वाधात्मकैकधर्मबोधजनकत्वं वर्तत इत्यनेनैकधर्मविष- यकबोधजनकत्वमिति सकलादेशलक्षणांशस्सङ्घटितः, वाक्य इति शेपा, इत्यादावित्यस्येत्या- दिवाक्य इति वाऽर्थः । कालादिभिर्धर्माणामभेदवृत्ति घटयति तथेति, एककाराच्छिन्नैका- धिकरणनिरूपितवृत्तित्वेति, यादृशकालावच्छेदेन यत्र घटादावस्तित्वं वर्तते तत्कालावच्छेदेन तत्रानन्ता अपि धर्मा वन्त इत्यस्तित्वेन सह शेपधर्माणामेककालावच्छिन्नैकाधिकरणधुचित्वं 20 वर्त्तत इति कृत्वा तेषां कालेनाभेद इति भावः | एकगुणिगुणत्वेति, अस्तित्वं हि घटस्य गुणस्तस्मादस्तित्वस्य घटगुणत्वं स्वरूपं तथा तद्वृत्तिशेषधर्माणामपीति सर्वेषां धर्माणामेक- गुणिगुणत्वस्वरूपतया स्वरूपेणाभेदवृत्तिरिति भावः । एकाधिकरणवृत्तित्वेति, यथा धस्तित्वस्याधिकरणं घटस्तथैव निखिलधर्माणामपीत्येकाधिकरणवृत्तित्वादेपामर्थेनाभेदवृत्ति- रिति भावः। एकसम्बन्धप्रतियोगित्वेति, यो ह्यस्तित्वम्य घटेन कथञ्चित्तादात्म्यरूप- 25 सम्बन्ध स एवाशेषाणामपीति सर्व धर्माः कथञ्चिचादात्म्यलक्षणसम्बन्धस्य प्रतियोगि- - । . १. तादात्म्यातिरिक्तसम्बन्धासिद्धेरिति भाव, यद्यपि कार्यकारणभावदैगिककालिकाधाराधेयभावादीना- मतादात्म्येऽपि तत्तत्सम्बद्धव्यवहारकारित्वं दृश्यते तथापि तत्रापि वसन्यवहारप्रयोजकशक्त्यात्मना स्य- चित्तादात्म्याभ्युपगमाददोषः, तथा च यत्राभेदव्यवहारस्तत्राभेद उद्भूतोऽनुभूतो भेद , पृथक्सम्बन्यिस्थले तु वैपरीयेनेति बोध्यम् ॥

10 सप्तमी] न्यायप्रकाशसमलते :४२१: नस्तस्मादेकसम्बन्धप्रतियोगित्वादेषां सम्बन्धेनामेदवृत्तिरिति भावः। एकोपकारकत्वेति; अस्तित्वस्य योऽयमुपकारः स्वप्रकारकर्मिविशेष्यकज्ञानजनकत्वं स एवोपपकारस्त्वा- न्याखिलधर्माणामिति सर्वेषामेकोपकारकत्वेनोपकारेणाभेदवृत्तिः । एकदेशावच्छिन्नवृत्ति- वेति, अस्तित्वं हि यद्देशावच्छेदेनास्ति तद्देशावच्छेदेनैव स्वेतरेऽखिलधर्मास्सन्तीलेक. देशावच्छिन्नवर्विन एते, न ह्यस्तित्वं कण्ठावच्छेदेन पृष्ठदेशावच्छेदेन नास्तित्वमिति देश- 5 भेदो वर्तत इति गुणिदेशेनैतेषामभेदवृत्तिरिति भावः । एकसंसर्गप्रतियोगित्वेति, य एव हि घटे नास्तित्वस्यैकवस्त्वात्मना ससर्गस्स एवान्येपामपीति तेषामेकसंसर्गप्रतियोगित्वा- संसर्गेणाभेदवृत्तिः, एकशब्दवाच्यत्वधमैरिति, अस्तित्वधर्मात्मकस्य य एवास्तिशब्दो वाचकस्स एव तद्भिन्नानन्तधर्मात्मकस्यापि वस्तुनो वाचक इति एकशब्दवाच्यत्वाच्छब्दे- नाभेदवृत्तिरिति भावः । धर्मान्तं पदमस्तिनाऽभिन्नत्वे प्रयोजकप्रदर्शनपरम् । जनकत्वमपी- तीति सकलादेशलक्षणसमन्वय इति शेपः । अत्र मलयगिरिचरणास्समभङ्गयां प्रतिमहं प्रमा- णवाक्यमेव, नतु नयः, स्याच्छन्देन विवक्षितधर्मोपरागेण कालादिभिरमेदवृत्त्याऽभेदो- पचारेण वाऽनन्तधर्मात्मकवस्तुप्रतिपादने प्रमाणवाक्यस्यैव व्यवस्थितेः, अत एव स्याच्छ- ब्दलान्छिततयैत्र सर्वत्र साधूनां भाषाविनयो विहितः, अवधारणी भापा च निपिद्धा तस्या नयरूपत्वात्, नयानां च सर्वेषां मिथ्याष्टित्वात् तथा चानुस्मरन्ति "सच्चे गया मिच्छा- 15 वायिणो" ति, न च सप्तभङ्गात्मक प्रमाणवाक्यं एकमडात्मकच नयवाक्यमित्यपि नियन्तुं शक्यम्, सप्तमहानां सप्तविधजिज्ञासोपाधिनिमित्तत्वेनासार्वत्रिकत्वात् को जीव इति प्रश्ने लक्षणमात्रजिज्ञासया स्याज्ञानादिलक्षणो जीव इत्येकवाक्यस्य प्रमाणवाक्यरूपस्योत्तरस्य सिद्धान्तसिद्धत्वात् स्याच्छब्दस्य चात्रानन्तधर्मात्मकत्वद्योतनेन प्रमाणाङ्गत्वादिति वदन्ति वन्मतेनात्र प्रत्येकवाक्यस्य प्रमाणरूपत्वं दर्शितम्, एतन्मते नयदुनयविभागो नास्ति अर्था- 20 विशेषात् । केचित्तु 'सदेव सत्स्यात्सदिवि विधार्थो मीयेत दुर्नीतिनयप्रमाणै' रिति हेम- सूरिभिरपि प्रमाणनयदुर्नयरूपेण विभज्याभिधानात् आकरे नयतहाभासानामपि स्पष्टं बोधितत्वाचास्ति नयदुनयभेदः, अवधारणीमापैकान्तवादात्मिकैव निषिद्धा न तु नयरूपापि, वस्याः प्रमाणपरिकरत्वात् प्रमाणात्मकमहावाक्यजन्यशान्दवोधजनकावान्तरवाक्यार्थ- ज्ञानजनकत्वेन तदनुकूलाकांक्षोत्थापकत्वेन वा नयवाक्यस्य शिष्यमतिविस्फारकत्वाच, अस 25 एव नयोऽप्यादरणीय एव | प्रमाणवाक्यमपि हि अनेकान्तरुचिशालिनं पुरुपविशेपमधि- कृत्यैव प्रयुज्यते, तस्मात् स्याज्जानादिलक्षणो जीव इत्यपि सुनयवाक्यमेव, एकमतरूप- बात् । तत्रापि प्रमाणवाक्यत्वमुत्थाप्याकांक्षाक्रमेण भङ्गपटूसंयोजनयैव । सकलादेश- त्वञ्च प्रतिमनमनन्तधर्मात्मकत्वद्योतनेन, अन्यथा च विकटादेशत्वमेवेत्याहुः । अपरे तु 5 :४२२: तत्त्वन्यायविभाकरे [ पकिरणे अखण्डवस्तुविषयत्वेन त्रिध्वाधभङ्गेषु सकलादेशत्वं चतुर्षु चोपरिवनेम्वेकदेशविषयत्वेन विकलादेशत्वमित्यूचुः॥ नन्वभिन्नताप्रयोजककालाद्यष्टासु मध्ये सम्बन्धसंसर्गों द्विधा कथमुपात्तौ तयोर्मेंदा- दर्शनादित्यत्राह- सम्बन्धे कथश्चित्तादात्म्यलक्षणेऽभेदः प्रधान मेदो गौणा, संसर्ग त्वमेदो गौणो भेदा प्रधानम् । तथा च भेदविशिष्टाभेदस्सम्बन्धः, अभेदविशिष्टभेदस्संसर्ग इति विवेकः । अयश्च पर्यायार्थिकनयस्य गुण- भावे द्रव्यार्थिकनयस्य प्रधानभावे युज्यते ॥ सम्बन्ध इति । कथञ्चित्तादात्म्यं हि सम्बन्धः, स च भेदाभेदघटितमूर्चिकः, तत्र 10 यदाऽभेदस्य प्राधान्यं भेदस्य च गौणत्वं क्रियते तदा स सम्बन्धशब्दव्यवहारमाग्भवति, यदा तु भेदस्य प्रधानतयाऽभेदस्य च गौणतया विवक्ष्यते तदा स संसर्ग इति व्यवह्रियत इति भावः । फलितार्थमुभयोराह तथाचेति । भेदविशिष्टाभेद इति, अन्न भेदो गौणो विशे- पणत्वात् , अभेदस्य विशेष्यत्वेन प्रधानता बोध्या । अभेदविशिष्टेति, अत्रापि विशेषणत्वाद- भेदस्य गौणत्वं विशेष्यत्वाच भेदस्य प्राधान्यमवसेयम् । ननु कथमत्र कालादिमिरभेदवृत्ति- 15 रभेदोपचारो वेत्यत्राहायश्चेति, पूर्वसंघटितस्सकलादेशबोध इत्यर्थः । पर्यायार्थिकनयस्य गुणभाव इति, तस्य प्राधान्ये त्वमेदवृत्त्यसम्भव इति भावः । अस्य गौणत्व एव द्रव्यार्थि- कनयस्य प्राधान्यं संभवति, एकदा नयद्वयस्य प्राधान्यासम्भवादित्याशयेनाह द्रव्यार्थिकन- यस्येति, तत्र पर्यायार्थिकनयो गौणीकृत्य धर्मिणं धर्मात्मकपर्यायप्राधान्यप्रख्यापका, द्रव्या- थिकनयः पर्यायोपेक्षया धमिमात्रप्राधान्यप्रख्यापक इति ॥ द्रव्यार्थिकनयस्य तु गौणत्वे पर्यायार्थिकस्य च प्राधान्येऽभेदोपचारं कृत्वा लक्षणसम- न्वयःकार्य इत्याशयेनाह. द्रव्याथिकनयस्य गौणत्वे पर्यायार्थिकस्य प्राधान्ये त्वभेदोपचार कार्योऽभेदासम्भावात् ॥ द्रव्याथिकनयस्येति । मुख्यामेदवृत्तिसमर्थकस्येत्यर्थः । पर्यायार्थिकस्येति, मुख्यभेद- 25 समर्थकस्येत्यर्थः हेतुमाहाभेदासम्मवादिति, अभेदवृत्त्यसम्मवादित्यर्थः ॥ १. स्यादस्त्येव, स्यानास्त्येव, स्यादवकव्यमेवेति भात्रय इत्यर्थः । २. द्रव्यपर्यायात्मकं हि वस्तु, तत्र द्रव्यनयार्पणाया तदभिन्नपर्यायाणामभानेऽपि ते सन्त्येव परन्तु पर्यायनयस्य गोणीकृतत्वाते गुणभूता. एकदोभयनयस्य प्राधान्यासम्भवात् न तावता तेषा नास्तित्वं दुर्नयप्रवेशापते., पर्यायार्पणया द्रव्यनयस्य गुणमावेन च पर्यायाः प्राधान्येन भासन्ते द्रव्यन्तु तदमिन्नं गुणतयेति ॥ 20 :४२३॥ सप्तमही ] न्यायप्रकाशसमलते कथमभेदासम्भव इत्यत्राह- तथाहि नैकत्रैकदा विरुद्धनानागुणानामभेदसम्भवो धर्मिभेदात् । नापि स्वरूपेण,प्रतिगुणं स्वरूपभेदात्, नाप्यर्थेन, स्वाधारस्यापि भेदात्, नवा सम्बन्धेन सम्बन्धिभेदेन सम्बन्धभेदात्, नाप्युपकारण, तत्तजन्य- ज्ञानानां भेदात्, नापि गुणिदेशेन, तस्यापि प्रतिगुणमनेकत्वात् , नापि 5 संसर्गेण, संसर्गिभेदेन भेदात्, नापि शब्देन, अर्थभेदेन तस्य भेदा- दिति। तस्मादभेदमुपचर्य तद्धर्माभिन्नानेकयावद्धात्मकवस्तुबोधजनकत्वं वाक्यानामिति ॥ तथाहीति । कालेन भेदमाह नैकत्रेति, एकाधिकरण इत्यर्थः, एकदेति एककालाव- च्छेदेनेत्यर्थः, विरुद्धनानागुणानामिति, परस्पर विरुद्धानां विविधानां गुणानामित्यर्थः । 10 असम्भवेनेति शेषः, तथा च परस्पर विरुद्धानामनेकगुणानामेककालावच्छिन्नैकाधिकरण- वृत्तित्वस्यासम्भवेनेत्यर्थः। अभेदसम्भव इति, पूर्वस्थितनमोऽत्र सम्बन्धः, मुख्यतयेत्यादिः तथा च मुख्यतया नाभेदस्य सम्भव इति भावः, तेन गौणतयाऽभेदसम्मवेऽपि न क्षतिः । एकत्रैकदा विरुद्धगुणानां सत्त्वे गुणभेदेन गुणिभेदस्यावश्यकत्वान्न धयॆक्यं स्यादित्याह धर्मि- भेदादिति, तावदाश्रयस्य तावत्प्रकारेण भेदात्, पर्यायभेदेन पर्यायिभेदस्यावश्यकत्वादिति 15 भावः । स्वरूपेण भेदासम्भवमाह नापि स्वरूपेणेति, विरुद्धनानागुणानामभेदसम्भव इत्यनु- षज्यते, एवमुत्तरत्रापि । हेतुमाह प्रतिगुणमिति, तत्तद्गुणानां स्वस्वरूपस्य भिन्नत्वादिति भावः, न च घटादिगुणत्वं हि स्वरूपशब्देन विवक्षितं तच्च घटादिवृत्तिसकलगुणेषु समानमेवेति कथं स्वरूपभेद इति वाच्यम् , गुणभेदेन गुणिभेदस्यावश्यकतया प्रतिगुणं वस्तुभेदेन तद्गुणत्व- स्यापि भेदादित्यत्र तात्पर्यात् । नापि गुणत्वधर्मत्वादिस्वरूपाणामभेद इति वाच्यम् , तथा 20 सति तेन रूपेण जगद्वृत्तिगुणानां धर्माणाश्चाभेदप्रसङ्गेन परस्परमेदस्य विरोधप्रसङ्गादिति। अर्थेनाभेदवृत्त्यसम्भवमाह नाप्यर्थेनेति, हेतुमाह स्वाधारस्यापीति मेवादिति, नानात्वादित्यर्थः, अन्यथाऽनेकगुणाश्रयस्यैकत्वं विरुध्येतेति भावः, सम्बंधेनाभेदवृत्त्यसम्भवमाह नवासम्ब- न्धेनेति, कारणमाह सम्बन्धिभेदेनेति, प्रतियोग्यनुयोगिभेदेनेत्यर्थः, घटभूतलसंयोगात्पट- भूतलसंयोगस्य भेददर्शनादिति भावः । उपकारभेदेनाभेदवृत्त्यसम्भवमाह नाप्युपकारेणेति, 25 वीजमाह तत्तजन्येति, तत्तद्गुणजन्येत्यर्थः, न केवलं बानमुपकारः किन्तु तत्तद्गुणविषयक ज्ञान तथा च विषयभेदेन ज्ञानभेदावश्यकतया तत्तगुणविषयकज्ञानानां भेदेन नैकोपकार- १. यदनेकगुणाश्रयं तदनेकमिति व्याप्ते । अन्यथा सकलगुणात्रयस्यैकाधारवं प्रसज्येतेति तु परमार्थ.

४४: तत्त्वन्यायविमाकरे [ षष्ठकिरणे कत्वं गुणानां, अन्यथा नानागुणजन्योपकारस्यैकत्वमविरुद्धं स्यादिति भावः । देशेनाभेद- वृत्त्यनुपपत्तिमाह नापि गुणिदेशेनेति, निदानमाह तस्यापीति, गुणिदेशस्यापीत्यर्थः । अन्यथा भिन्नपदार्थवृत्तिगुणानां गुणिदेशानामप्यभेदप्रसङ्गात, गुणिदेशत्वसाम्यात्, घटात्मक- गुणिदेशानामेवाभेद इयत्र विनिगमनाविरहादिति भावः । संसर्गेणाभेदवृत्त्यसम्भवमाह 5 नापि संसर्गेणेति, हेतुमाह संसर्गीति, तदभेदे संसर्गिभेदविरोधादिति भावः | शब्देना भेदासम्भवमाह नापि शब्देनेति, हेतुमाहार्थभेदेनेति, वाच्यभेदेनेत्यर्थः, अन्यथा सर्वेषां गुणानामेकशब्दवाच्यत्वे तत एव सर्वार्थवाच्यसापत्त्या शब्दान्तरवैफल्यापत्तिप्रसङ्गमस्या- दिति भावः, इतिशब्दः कालायष्टाववलम्च्य भेदासम्भवनिरूपणसमाप्तियोतकः । तथा चेत्थं प्राधान्यतः पर्यायार्थिकनयचक्रवर्तिसाम्राज्येनामेदवृत्त्यसम्भवादभेदमभ्यारोप्यास्तित्वधर्मा- 10 भिन्नत्वमनेकाशेषधर्मेषु सम्पादनीयं ततश्च तादृशधर्मात्मकवस्तुबोधजनकवाक्यमपि सकला- देशः परिपूर्णार्थप्रकाशकत्वादित्याशयेनाह तस्मादिति, यस्मात्कालादिना मिन्नानां धर्माणाम. भेदवृत्तिर्न सम्भवति तस्मादित्यर्थः । इति पदं सकलादेशसमाप्तिद्योतकम् ।। तदित्यं प्रकाशिवाभ्याममेदवृत्त्यमेदोपचाराभ्यामेकेनास्तिनात्यादिशब्देनकधर्मप्रतिपा- दनमुखेन तद्भिनयावदनन्तधर्मात्मकवस्तुबोधस्सम्भवतीति निरूप्य सम्प्रति प्रत्येकं वाक्या- 15 नामर्थं निरूपयितुमुपक्रमते- घटस्स्यादस्त्येवेति प्रथमं वाक्यमितरधर्माप्रतिषेधमुखेन विधिवि- षयकं बोधं जनयति । अत्र स्याच्छन्दोऽभेदप्राधान्येनाभेदोपचारेण वा सामान्यतोऽनन्तधर्मवन्तमाह, 'अस्तिशब्दोऽस्तित्वधर्मवन्तमाह, एवका- रोज्योगव्यवच्छेदमाह, तथा चाभेदप्राधान्येनाभेदोपचारेण वा सामा- 20 न्यतोऽनन्तधर्मात्मको घटः प्रतियोग्यसमानाधिकरणघटत्वसमानाधि- करणात्यन्ताभावाप्रतियोगिस्वद्रव्याद्यवच्छिन्नास्तित्ववानिति बोधः || घट इति । इतरधर्माप्रतिपेधमुखेनेति, तथावोधकशब्दाभावादिति भावः । विधिवि- पयकमिति, अस्तित्वस्य विधिरूपत्वादिति भावः, मुख्यतयेति शेपः, तेन नोस्तित्वस्यान वोऽपि न क्षतिः, न च नास्तित्त्वस्यात्र कथं बोध इति वाच्यम् , अस्तित्वस्य प्रति- पेध्येन नास्तित्वेनाविनामावित्वात् , प्रयोगश्वास्तित्वं नास्तित्वेनकर्मिण्यविनाभावि, अस्ति- १. एकस्मिन् काले तयोरविनामावित्वेन सिद्धवासिद्धसाधनवारणायकर्मिणीति, विशेषणत्वमात्रीको नीलोत्पलमित्यादौ विशेषणे नीले चेतनो जीव इत्यादौ च जीवविशेषणे चैतन्ये लोकदृष्ट्याऽनीलाविना- भावित्वस्याचैतन्याविनामावित्वस्य चासत्वात् पररूपणाविनामावित्वस्य साध्यसमत्वाद्वाऽस्तित्वनास्तित्वोमयध- टितधर्मीति पदम् । तत्र सामान्यमुखी व्याप्ति दर्शयति यदिति । एवञ्च साधर्म्यस्य वैधम्यणाविनामावित्वे- नैतनये केवलान्वयी नास्त्येव ।। " 25 ससमझी] न्यायप्रकाशसमलते बनास्तित्वोभयघटितमिविशेषणत्वात् , यत्स्वस्वेतरयदुभयघटितयद्धर्मिविशेषणं तत्तत्र वेना- विनाभावि, यथान्वयव्यतिरेकच्याप्तिद्वयघटितव्याप्यविशेषणभूताऽन्वयव्याप्तिः व्यतिरेक- व्याप्यविनाभाविनीदि। उत्तप्राया अपि पदार्था वाक्यार्थबोधजननशक्तवाक्यनिष्ठाया उद्बोध. कविधया हेतवोऽतः वाक्यार्थनिरूपणप्रस्तावेऽस्मिन् पदार्थानुपस्थापयति कण्ठतोऽत्रेति, अस्मिन् वाक्य इत्यर्थः, अनन्वधर्मवन्तमिति, अनन्तधर्मात्मकमित्यर्थः, सामान्यत इत्युक्तत्वेनानन्त- 5 धर्मान्तर्गतवयाऽस्तित्वस्यापि बोधात्तद्बोधकास्तिपदं निरर्थकमित्याशङ्का गता, तस्य तथा सामान्यतो वोधेऽपि प्रातिस्विकरूपेण तद्वोधनाय विशेषपदस्यावश्यकत्वात् , यथा सर्वेषां वृक्षाणां वृक्षवेन वोऽपि विशेपवृक्षवोधार्थ पनसादिपदप्रयोगः । एकान्तबुद्धिविलक्षणबुद्धि- विशेषविषयतावच्छेदकत्वेनेति तदर्थ. । कथमनन्तधर्माणामेकशब्देन बोध इत्यत्राहाभेदमा- धान्येनेति, द्रव्याथिकनयेनाभेदस्य प्राधान्येनेति भावः । प्राधान्यश्च शब्देन विवक्षितत्वा- 01 च्छब्दाधीनं बोध्यं, अभेदोपचारेण वेति, पर्यायाथिकनयस्य प्राधान्ये मुख्यतयाऽभेदासम्मवेन वदुपचारादिति भावः, शब्दानुपाचस्यार्थतो गम्यमानस्याप्रधानता वोध्या । स्यादित्यादिपदानां द्योतकत्ववाचकत्वयोरनेकान्तत्वेनानन्तधर्मात्मकस्य द्योतकं वाचकं वेत्यनुक्त्वाऽनन्तधर्मवन्त- माहेत्युक्तं द्योतकतया वाचकतथा वा स्याच्छन्दोऽनन्तधर्मात्मकं वस्तु प्रकाशयतीति भावः, एवमरेऽपि । अस्तित्वधर्मवन्तमिति, अस्धातोस्सत्त्वपर्यवसन्नमस्तित्वं, आख्यातस्याश्रयत्वमर्थ 15 इति मत्वाऽस्तित्वधर्मवन्तमित्युक्तं, आहेति, योतकतयेति शेषः, वाक्यार्थे पदमात्रस्य द्योत- कत्वादिति भावः । अस्तित्वञ्च स्वद्रव्यक्षेत्रकालभावापेक्षया विवक्षितं, सत्पदमनुक्त्वाऽस्ति- पदोपादानं विवक्षितस्वरूपावच्छिन्नसवाद्यपेक्षायै नैयायिकादिमतसिद्धसामान्यात्मकसत्त्वस्य लोकाप्रतीतस्याविवक्षिसत्वसूचनाय च । तथा च स्वद्रव्याधवच्छिन्नसत्त्वस्यैव प्रतीतेस्सर्वथा निरवच्छिन्नसत्त्वं अप्रामाणिकमेव, इदमपि सत्त्वमर्पितानर्पितदृष्ट्या सावच्छिन्नं निरव- 20 च्छिन्नमपीति बोध्यम् । अयोगव्यवच्छेदमिति, अयम्भावः, एवकारखिविधा, अयोगव्यवच्छे- दबोधकोऽन्ययोगव्यवच्छेदवोधकोऽत्यन्तायोगव्यवच्छेदबोधकश्चेति, विशेपणान्वितेवकारोऽ. योगव्यवच्छेदबोधकः, यथा शंखः पाण्डुर एवेति, विशेष्ये विशेषणस्य योऽयोगः सम्बन्धा- - " १ सामान्यतइत्यस्यार्थ । २. ननु सर्व वाक्य सावधारणमिति न्यायेनाप्रयुक्तोऽपि यथैवकारो लभ्यते तथा वस्तुनोऽनेकान्तस्वरूपत्वादेवाप्रयुक्तोऽपि स्याच्छन्दो लभ्यत एवेति व्यर्थस्तत्प्रयोग इति मैवम्, विशिष्टविषयत्वे तात्पर्यास्कोरणेऽवच्छेदकास्फुरणात्सर्वथकान्तबहाया अव्यवच्छेदेनाधिकृताया भनेकान्तप्रति- पत्तेरयोगान् एवमेवशन्दाप्रयोगेऽपि विवक्षितार्थस्य सदाययोगव्यवच्छेदादिरूपस्याप्रतिपत्तिबोध्या ।।

तस्वन्यायविमाकरे 'षटकिरणे भावस्तस्य यो व्यवच्छेदस्सोऽयोगव्यवच्छेदः उद्देश्यतावच्छेदकसमानाधिकरणामावाप्रतियो- गित्वमिति यावत्, शंखः पाण्डुर एवेत्यत्रोद्देश्यश्शंखो विधेयं पाण्डुरत्वं तथा चोदेश्य- तावच्छेदकं यच्छंखत्वं तद्वति वृत्तिर्योऽभावो घटाद्यभाव एव न पाण्डुरत्वामावस्तत्र पाण्डुर- त्वस्य सत्त्वात् तथा च तदप्रतियोगित्वं पाण्डुरत्व इति शंखत्वसमानाधिकरणाभावाप्रतियोगि- 5 पाण्डुरत्ववानयं शंख इत्येवकारमहिम्ना नाशवाक्याबोधो भवति, विशेष्यसङ्गवैवकारे- णान्ययोगव्यवच्छेदस्य बोधो जायते, यथा पार्थ एव धनुर्धर इत्यादौ, अन्यस्मिन् विशेष्य- मिन्ने योऽयं योगसम्बन्धो विशेषणस्य तस्य व्यवच्छेदः, उद्देश्यतावच्छेदकावच्छिन्नप्रति- योगिकभेदसमानाधिकरणाभावप्रतियोगित्वमिति यावत् पार्थत्वावच्छिन्नप्रतियोगिकदा पुरु- पान्तरे तत्र धनुर्धरत्वाभावोऽस्ति, तस्मात्पार्थत्वावच्छिन्नप्रतियोगिकभेदसमानाधिकरणामा- 10 वप्रतियोगिधनुर्धरत्ववान् पार्थ इति बोधस्ततो जायते । क्रियासमतादेवकाराचात्य- न्तायोगव्यवच्छेदस्य बोध उदेति, यथा नीलं सरोज भवत्येवेत्यादौ, उद्देश्ये विशेषणस्य योऽयमत्यन्तमयोगोऽसम्बन्धस्तस्य व्यवच्छेद इत्यर्थः, उद्देश्यतावच्छेदकव्यापकाभावाप्र- तियोगित्वमिति यावत् । अत्रोद्देश्य सरोजं तदवच्छेदकं सरोजत्वं तच्च यत्र यत्र तत्र सर्वत्र नीलवत्त्वाभावो न वर्तते, कचिन्नीलस्यापि सत्त्वात् तथा चोद्देश्यतावच्छेदकन्यापकोदासी- 15 नाभावाप्रतियोगित्वस्य नीलवत्वे सत्त्वेन सरोजत्वव्यापकाभावाप्रतियोगिनीलरूपवत्सरोज- मिति बोधस्तादृशवाक्याद्भवति । स्थादस्त्येव घट इत्यत्रापि घटत्वसमानाधिकरणाभावा- प्रतियोगित्वस्य स्वरूपाचवच्छिन्नसत्त्वे सत्त्वेनायोगव्यवच्छेदक एवकारः, न चात्रैवकार- स्थास्तीति क्रियासङ्गतत्वेन तस्मादयन्तायोगव्यवच्छेदस्यैव बोधो भवेदिति कथमयोगव्यय- च्छेदस्तदर्थः प्रकृत इति वाच्यम् , ज्ञानमर्थ गृहात्येवेत्यादौ ज्ञानत्वसमानाधिकरणामावाप्र- 20 तियोगित्वस्यार्थप्राहकत्वे धात्वर्थे बोधात्कियासद्भवस्याप्येवकारस्य कचिदयोगव्यवच्छेद- बोधकत्वात्, न च तत्राप्यत्यन्तायोगव्यवच्छेदक एवैवकारो वाच्य इति वाच्यम्, तथा सत्येकस्मिन्नपि वाने रजतत्वग्राहकत्वसत्त्वेऽत्यन्तायोगव्यवच्छेदसम्मवेन ज्ञान रजत गृहात्येवेति प्रयोगप्रसङ्गात्, तस्मात्प्रकृते क्रियासङ्गतोऽप्येवकारोऽयोगव्यवच्छेदबोधक इति न कापि क्षतिः, अस्तीति विभक्तिप्रतिरूपकान्ययाश्रयणात् सत्त्वबोधेन विशेषणे 25 सत्त्वे एवकारान्वयेनायोगव्यवच्छेदबोधाद्वा न कोऽपि दोषः । तदेवं पदाक्तिग्रहे जाते वाक्यशक्तेरुदुद्भतया वाक्यार्थ प्रदर्शयति तथा चेति, वाक्यादस्मात् प्रधानतयाऽस्तित्व- - १. ननु क्रियासनवकारस्यात्यन्तायोगव्यवच्छेदकत्वे प्रयोगोऽयं भवत्येव, न बनायोगव्यवच्छेदो भासते येन सर्वेषा ज्ञानाना रजतं न विषय इति कृत्वोतप्रयोगो न भवेत्, किन्तु ज्ञानं कदाचिदपि रमतं न गृह्णातीत्येव विवासन्तायोगस्यैवात्र व्यवच्छेदत्वेनेष्टत्यादित्यस्वरसाक्षाहास्तीतिविभक्तिप्रतिरूपकाव्ययाश्रयणादिति ॥

:४२७. सप्तमी] न्यायप्रकाशसमलते मात्मकत्वस्य गौणतया च तदिवरसकलधर्मात्मकत्वस्य वोधेन द्रव्यार्थिकनयार्पणया घटेऽनुपचरितैकविशेष्यतायाः पर्यायाथिकनयार्पणयोपचरितकविशेष्यताया वा मानेन एव कारार्थामावाप्रतियोगित्वघटकामावे विशेष्यतावच्छेदकसामानाधिकरण्यस्य विशेष्यवाचक- पदसमभिव्याहारेण लाभाच प्रतियोग्यसमानाधिकरणघटत्वसमानाधिकरणात्यन्ताभावाप्रति- योगिस्वद्रव्याचवच्छिन्नास्तित्वनिष्ठस्वेतरसकलधर्मात्मकत्वसम्बन्धावच्छिन्नप्रकारतानिरूपिता-5 दप्राधान्याभेदोपचारप्रयुक्तकविशेष्यताको घट इति बोधः फलित इति भावः । घटत्वस- मानाधिकरणेऽभावे प्रतियोगिवैयधिकरण्यञ्चास्तित्वाभावरूपस्य नास्तित्वस्य घटे सत्त्वेना- स्तत्वेऽप्रतियोगित्वरक्षायै । तथा चास्तित्वामावो न प्रतियोग्यसमानाधिकरणखत्रास्ति- त्वस्यापि सत्त्वादिति | अयश्च वोधः केवलं घटस्यैव विशेष्यत्वमङ्गीकृत्योक्तः, यदि स्यात्प- दार्थोऽपि विशेष्यकोटी प्रवेश्यते तदा प्रकृतेतरसकलधर्मात्मको घटो घटत्वसमानाधिकरण- 10 प्रतियोगिव्यधिकरणाभावाप्रतियोगिस्वद्रव्याधवच्छिन्नास्तित्वनिष्ठकथञ्चित्तादात्म्यसम्बन्धाव- च्छन्नप्रकारतानिरूपितकविशेष्यतावानिति बोधो भाव्य इति । अत्र च प्रधानभावेनास्ति- स्वधर्मात्मकत्वं गुणभावेन च तदितरसकलधर्मात्मकत्वं बोभ्यते ततो गुणप्रधानभावापन्नं वाक्यं जातं तथा सति प्रधानभावेनाशेषधर्मात्मकवस्तुवोधकत्सकलादेश इति नियमो व्याहत इत्युच्यते वहि एतद्वाक्यवोधानन्तरमनन्तधर्मात्मकं सर्वमित्यौपादानिकबोधोऽङ्गी- 15 कार्यः । अत एवास्य सकलादेशरूपत्वमिति ॥ अथ सत्त्वोपसर्जनासत्त्वप्रधानप्रतिपादकवाक्यार्थ विवेचयति- घटस्स्यानास्त्येवेति द्वितीयं वाक्यमन्यधर्माप्रतिषेधमुखेन निषेध- विषयकं वोधं जनयति, अत्रापि तादृशो घटा प्रतियोग्यसमानाधिकरण- घटत्वसमानाधिकरणात्यन्ताभावाप्रतियोगिपरद्रव्याचवच्छिन्ननास्तित्व- 20 वानिति बोधः ।। घट इति । अन्यधर्माप्रतिषेधमुखेनेति, धर्मान्तरप्रतिषेधे हि दुर्नयत्वं स्यात्तथा च धर्मा- न्तरप्रतिषेधाकरणात्स्यात्पदमहिम्नाऽनन्तधर्मविषयो गृहीतधर्मप्रतिपादको यो बोधविशेषस्तं जनयतीति भावः । पूर्ववदेवात्रापि शाब्दबोधो विज्ञेय इत्याशयेनाहानापीति, स्पष्टमन्यत् ।। तृतीयवाक्यार्थमाह- स्यादस्ति नास्ति च घट इति तृतीयं वाक्यं तादृशे घटेक्रमाप्तिस्वपर- रूपाचवच्छिन्नास्तित्वनास्तित्वावच्छिन्नत्वं बोधयति, तथा च तादृशो घटा प्रतियोग्यसमानाधिकरणघटत्वसमानाधिकरणात्यन्ताभावाप्रतियोगिक- , 25 :४२८: तत्त्वन्यायविमाकरे [पाकिरणे माप्तिस्वपररूपाचवच्छिन्नास्तित्वनास्तित्वोभयधर्मवानिति बोधः॥ स्यादस्तीति । मलयगिरिपादाभ्युपगमापेक्षयात्र शाब्दबोध उत्तो व्याख्यातप्रायश्च । प्रथमद्वितीयचतुर्थवाक्यानामेव सकलादेशत्वं निरवयवद्रव्यविषयत्वाच्छेषाणान्तु सावयवद्रव्य- विषयत्वाद्विकलादेशरूपत्वं देशभेदं विनैकत्र क्रमेणापि सदसत्त्वविवक्षायास्सम्प्रदायविरुद्धत्वा- 5 दिति सम्मत्यायनुसारेण तु घटस्यैकदेशः अस्तित्वेऽवच्छेदकतयाऽपरश्च देशो नास्तित्वस्याव- च्छेदकत्वेन विवक्षितस्तदा देशाभेदद्वारा घटोऽप्यस्ति नास्ति च भवति, अक्षिपाणिगतकाणत्व- कुण्टत्वापेक्षया यथा देवदत्तःकाणः कुण्टः । अन्यथा क्रमेणाप्येकत्र सदसत्त्वविवक्षाया अनुद- येन भङ्गविलोपः प्रसज्येत । देशोऽप्यवयवो धर्मों वा, अवयवावयविनोधर्मधर्मिणोश्च कथञ्चि- दभेदेनावयवादिधमैरपि अवयव्यादीनां तथा व्यपदेशस्सुघट एव, उभयप्रधानावयवाभेदेना- 10 स्तित्वं नास्तित्वश्चात्राप्यते, तथा चास्माद्वाक्यास्वाश्रयसमवायित्वरूपपरम्परासम्बन्धावच्छि- नास्तित्वनास्तित्वरूपधर्मद्वयप्रकारतानिरूपितैकविशेष्यताशालिबोधो भवति । इदचौपादानिक- बोधापेक्षया, अन्यथा घटपदस्य देशपरस्याऽऽवृत्त्या प्रकारताद्वयनिरूपितविशेष्यताद्वयशाल्ये व बोधस्स्यात् । न च प्रकारभेदेन सप्तमगीभेदशास्त्रसिद्धः प्रकारश्च विधेयधर्म उद्देश्यतावच्छेद- कधर्मो वेत्यत्र न कश्चिद्विशेषः, अत एत्र शुद्धघटादिधर्मिकसप्तभङ्गयपेक्षया नीलघटादिधर्मिक- 16 सप्तमङ्गया अविगानेन भेदस्तथा च प्रकृते धर्मितावच्छेदकस्यावयवस्य धर्मान्तरस्य वा भेदा- सप्तभङ्गीभेदप्रसङ्ग एकधर्मावच्छिन्नत्वघटितत्वात्सप्तभङ्गया इनि वाच्यम्, वत्तद्धर्मितावच्छेद- कसमनियतधर्मावच्छिन्नविशेष्यतास्थले सप्तमगीभेदाभावात् ,अन्यथा कम्बुप्रीचादिमान् स्याद- स्तीत्यादितोऽपि घटविशेष्यकसप्तभङ्गीभेदापत्तेरिति । वाहशे घट इति, प्रकृतेतरसकलधर्मा- मके घट इत्यर्थः । मार्पितेति, ऋमिकशाब्दबोधद्वयेच्छाविपयेत्यर्थः । न च क्रमवलादुमय- १. तत्र देशो नाम सकलस्य वस्तुनो थुद्धिच्छेदविभक्तोऽवयव । विकलादेश इत्यादेशे वस्तुनो वैकल्यञ्च स्वेन तत्त्वेनाप्रविभक्तस्यापि विविक्त गुणादिरूपं स्वरूपेणोपरजकमपेक्ष्य परिकल्पिनमंशभेदं कृत्वाऽनेकान्तात्म- कैकत्वव्यवस्थाया समुदायात्मकमात्मरूपमभ्युपगम्याभिधानम् । अनेकधर्मस्वभावमेकं हि वस्तु, दृष्टचाभि- अस्याप्यात्मनो भिन्नो गुणो भेदकः, यथा परुद्भवान् पटुरासीत् ऐषमस्तु पटुतरोऽन्य एवामिसंवृत्त इति, अत्र हि पटुवातिशयस्सामान्यपाटवाद्गुणादन्य , स च वस्तुनो भेदं कल्पयति, प्रयोजनार्थिना तथाऽऽभितत्वाद, तस्मात्ते गुणास्तस्यारम्भकत्वाद् भागा वस्त्वंशमनुभवन्ति, अनेकानेकस्वरुपत्वादात्मादिवस्तुन , पुरुषस्येव पाण्यादयः, ते च क्रमेण वृत्ता, ऋमयोगपद्याम्याच, तत्र तृतीयेऽस्मिन् भने क्रमेण वृत्ता, न्येन तद्विशेषेण वा पर्यायसामान्येन तद्विशेषेण वा वस्तूच्यते यथा आत्मा चैतन्यसामान्येनास्ति चैतन्य- विशेषविवक्षायां वा एकोपयोगवादस्ति, पर्यायसामान्यात् अचैतन्येन नास्ति घटोपयोगकाले वा पटोपयो- गैन नास्ति, चैतन्येन तद्विशेषेण वर्तमान एव तदभावेन तद्विशेषाभावेन वा न वर्तत इत्युभयायीन आत्मेति तृतीयवाक्यतात्पर्यम् । एवञ्च सङ्ग्रव्यवहाराभिप्रायात् त्रयस्सकलादेशा चत्वारस्तु जसूत्रशब्दसममिस्ट- बंभूतनयाभिप्रायादिति तत्त्वार्थभाष्यटीकाकारा ॥ । , व्यावसामा- 10 सप्तमी ] न्यायप्रकाशसमलट्टते :४६९ : मुख्य विशेष्यताकबोधस्यार्थसिद्धत्वेनाद्यभङ्गद्वयानतिरेक इति वाच्यं • क्रमग भयप्राधान्य- बोधकत्वामिप्रायेणोभयपदप्रयोगात् , तत्रैकत्र द्वयमिति विषयताशालिनो धर्मद्वयप्रकारतानि- रूपिकविशेष्यतानिरूपकस्य वोधान्तरस्यानुभविकत्वात् , वस्तुत इच्छाविशेषरूपस्य क्रमा तित्वस्य भङ्गप्रयोजकत्वान्न भने सत्त्वासत्वोभयनिष्ठविषयतावच्छेदकत्वं स्वपरद्रव्यादी. नामेव तत्रावच्छेदकत्वात् तथा च चालनीन्यायेन स्वद्रव्यपरद्रव्याविचतुष्टयावच्छिन्नं 5 सत्त्वासत्वोमयमस्य भङ्गस्य विपय इत्याशयेन स्वपररूपाचवच्छिन्नेत्युक्तम् । वाक्यार्थ निग- मयति, वथा चेति, ताहशो घट इति प्रकृतेतरसकलधर्मात्मको घट इत्यर्थः, क्रमार्पितत्वस्यो- भयधर्मावच्छेदकत्वं यथाश्रुतामिप्रायेण, जिज्ञासाया भङ्गीयविषयतानवच्छेदकत्वामिप्रायेण तु स्वपररूपादीति, शिष्टं पूर्ववद्भाव्यम् ॥ चतुर्थभगवाक्यार्थमाह- स्यादवक्तव्य एव घट इति चतुर्थ वाक्यं युगपत्स्वपररूपादीनामपे- क्षणे वस्तु न केनापि शब्देन वाच्यमिति बोधयति, तथा च तादृशो घटः सत्त्वादिरूपेण वक्तव्य एव सन् युगपत्प्रधानभूतसत्त्वासत्त्वोभयरूपेण प्रतियोग्यसमानाधिकरणघटत्वसमानाधिकरणाभावाप्रतियोग्यवक्तव्य- स्ववानिति बोधः॥ स्यादिति । निरवयवद्रव्यविषयकमिदम् । प्राधान्यतो गुणभावतो वा सत्वासत्त्वधर्म- योर्युगपत्प्रतिपादने कस्यापि वचसः सामर्थ्याभावेन घटादिकं वस्तु वाभ्यामवक्तव्यं भव- तीत्याशयेनाह युगपदिति । एकदैकपदादुभयबोधो जायतामितीच्छाविषयत्वेनेत्यर्थः । स्वप- ररूपादीनामित्यनेन स्वरूपाचवच्छिन्नसत्त्वपररूपाधवच्छिन्नासत्त्वे विवक्षिते, समुदितन्या- येन स्वरूपपररूपादीनां सत्त्यासत्त्वनिष्ठविषयतावच्छेदकतया विवक्षण इति वाऽपेक्षण इति 20 पदान्तस्यार्थः, आदिना द्रव्यक्षेत्रकालानां ग्रहणम् । न केनापि शब्देन वाच्यमिति, कस्यापि पदस्य समस्तपदस्य वाक्यस्य वा तथाविधवाच्यवाचकभावाविषयीभूतत्वादिति मावा, एक हि पदमेकया शत्याऽर्थमेकमेव बोधयति शब्दशक्तिस्वामाव्यात् सदिति पदस्यासदविषय- त्वादसदिति पदस्य सदविषयत्वात् , अन्यथा वदन्यतरप्रयोगसंशयप्रसङ्गात्, नानार्थविषय- स्यापि गवादिपदस्य वस्तुतोऽनेकत्वात् सादृश्योपचारादेव हि तस्यैकत्वेन व्यवहारः, 25 इतरथा सर्वस्यैकशब्दवाच्यत्वं स्यात् , प्रत्येकमप्यनेकशब्दप्रयोगवैफल्यमपि प्रसज्येत, तथा च यथा शब्दभेदेनार्थभेदो ध्रुवस्तथाऽर्थभेदादपि शब्दभेदस्सिद्ध एव, अन्यथा वाच्यवाचक- नियमन्यवहारो विलीयेत, एवं वाक्यमप्येक न युगपदनेकार्थविपयं वेदितव्यम् । ननु 15 ।

। तत्त्वन्यायविमाकरे [पकिरणे शाब्दबोधस्य सङ्केताधीनत्वेन कस्यचिच्छब्दस्य सदसत्त्वयोस्संकेतकरणेन व्याकरणे सदिति संज्ञाशब्देन संकेतबलात् शतृशानचोर्योधादिव सह सदसत्त्वयोः कथं ततो न बोपो भवेदिति चेन्न वत्रापि प्रत्ययद्वयस्य क्रमेणैवोत्पत्तिाच्यवाचकभेदेन वाचकतारूपशोरपि भेदादनेकार्थशब्दस्थल इव बोध्यमेदे शब्दभेदकल्पनात्, उपचारेण चैकत्वाभिमानात् । 5 सेनादिशब्दानामपि करितुरगपदातिप्रत्यासत्तिविशेषरूपैकार्थस्यैव वोधकत्वं, एवमेव वन- यूथपलिमालादिशब्दा अपि । न च वृक्षाविति पदं वृक्षद्वयस्य घृक्षा इति पदश्च बहूनां वृक्षाणां कथं बोधकमिति वाच्य द्वन्द्वापवादैकशेषसमासाभ्युपगन्तुमतेन द्वाभ्यां वृक्षपदाभ्यां वृक्षद्वयस्य बहुमिश्च बहूनां वृक्षाणां बोधात् न तु सकृदेकेन, शिष्टलुप्तशब्दयोस्सारूप्याद्वा- च्यसादृश्याच्चैकत्वोपचारेणैकशब्दप्रयोगोपपत्तः । तत्रैकशेपसमासानभ्युपगन्तुमतेन तु द्विब- 10 हुवचनान्तो वृक्षशब्दस्वभावत एव स्वाभिधेयमर्थं द्वित्वबहुत्वविशिष्टमाचष्टे तथासामात्, अन्यथा शब्दव्यवहारानुपपत्तेः, अनेकनयमयेऽस्मन्मते तु वृक्षौ वृक्षा इत्यतः प्रत्यय- वत्या प्रकृत्या वृक्षत्वतदाश्रयलिङ्गसंख्यादिविषयकक्रमिकोपस्थितिपरिणत एव लिङ्गसंख्यादि- प्रकारको वृक्षविशेष्यकश्शाब्दबोधो जायते तत्र विशेष्यतया वृक्षस्य प्राधान्यं द्वित्वबहुत्व- संख्यादीनान्तु विशेषणतया गौणत्वमिति प्राधान्येनैकार्थवाचकत्वमेवैकपदस्यामिमतम् । 15 न च पुष्पदन्तादिपदवदनापि केनचित्पदेन सदसतोरपि प्राधान्येनोपस्थितिः स्यादिति- वाच्यम्, एकयोच्या पुष्पदन्तौ दिवाकरनिशाकरा" विति कोशस्वरसादेकोचारणान्त- भावेण गृहीतनानाशक्तिकपुष्पदन्तादिपढ़े व्युत्पत्तिवैचित्र्यात्, अत्र पुष्पदन्तपदं चन्द्रे सूर्ये च शक्तमित्याकारशक्तिमहः तत्कार्यतावच्छेदकञ्च चन्द्रत्वप्रकारकत्वे सति सूर्यत्वप्रकार- कस्मृतिजननद्वारा तादृशशाब्दत्वम् , चन्द्रत्वसूर्यत्वोभयस्मिन् व्यासज्यवृत्तिरूपमेकं शक्यताव- 20 च्छेदकत्वं, एकत्र चान्यतापहे न शक्त्या बोधोऽपि तु लक्षणयेति नैयायिकाः । तथा- विधस्यात्र सहार्पितसत्त्वासत्त्वोमयाश्रयबोधकस्य कस्यापि पदस्याभावादवक्तव्यत्वमेव साधु, तथा जिज्ञासाया वाधितत्वज्ञाने च तथा ज्ञानस्य विपरीतव्युत्पत्या जायमानस्याप्यनिष्ट- त्वप्रतिसन्धानान्न तदर्थ कश्चित्मामाणिक: पदप्रयोग इति तदाऽवक्तव्यत्वेन ज्ञानस्यैवे. ष्टत्वात् , अत एवैकक्षणे बोधद्वयं जायतामित्यादिस्थलेऽप्यवक्तव्यत्वाभिधानसाम्राज्य, वाधि- 25 तेच्छाविषयत्वावच्छेदेनावक्तव्यत्वव्यवस्थापनादिति । १. इन्द्रस्य प्रवृत्तिस्त्वेकपदप्रतिपाद्यत्वसामानाधिकरण्येनापरपदप्रतिपाद्यत्वावच्छिन्नमेटे, एकपटजन्य- प्रतिपत्तिविषयितात्वसामानाधिकरण्येनापरपदजन्यप्रतिपत्तिविषयितात्व वच्छिनभेदे वा भवति, घटाविसादावेक- पदप्रतिपाद्येऽपरपदप्रतिपाद्यत्वावच्छिन्नभेदाद्विशेष्यतामेदेन विपयिताभेदाद्वा तदुपपत्ति ॥ २ सकृदुचरितमन्द- स्सकृदेव प्रधानतयाऽर्थ बोधयतीत्येव नियमात् ।

5 सप्तमही] न्यायप्रकाशसमलट्टते :४३१: सत्त्वादिरूपेणेति, आदिनाऽसध्वस्त्र प्रहः, अवक्तव्य एव घट इत्युको घटस्य सर्वथाs- वाच्यत्वं प्राप्नोति तथा चास्तित्वादिमुखेनापि घटस्याभिधानं न स्यादेवश्च प्रथमद्वितीया- दिमङ्गभङ्गप्रसङ्ग इति स्यात्पदप्रयोगः क्रियते, तेन च सत्त्वाद्येकैकधर्ममुखेन वाच्यमेव सर्व वस्तु, युगपत्प्रधानभूतसत्वासत्त्वोभयधर्मावच्छिन्नत्वेनावाच्यत्वमित्याशयेन सत्त्वादि- रूपेण वक्तव्य एव सन्नित्युक्तम् ।। अथ पञ्चमभङ्गवाक्यार्थमाह- स्यादस्ति चावक्तव्यश्च घट इति पञ्चमवाक्येन स्वद्रव्याद्यपेक्षया स्तित्वविशिष्टो युगपत्स्वपरद्रव्याद्यपेक्षयाऽवक्तव्यत्वविशिष्टो घटो बो- ध्यते, तथा चाभेदप्राधान्येनाभेदोपचारेण वा सामान्यतोऽनन्तधर्मा- स्मको घटः प्रतियोग्यसमानाधिकरणघटत्वसमानाधिकरणात्यन्ताभावा- 10 प्रतियोगिस्वद्व्याघवच्छिन्नास्तित्वविशिष्टयुगपत्स्वपरद्रव्याद्यवच्छिन्नस- स्वासत्त्वोभयविषयकावक्तव्यत्ववानिति बोधः । स्यादस्ति चेति, विध्यात्मना मुख्यविषयतावच्छिन्ना योषयात्मना युगपदवक्तव्यत्व- मुख्यविषयत्ता तद्वतो बोधोऽस्य भङ्गस्य फलमित्याशयेनाह-स्वद्रव्याद्यपेक्षयेति, मतान्तरेण तु एको देशो घटस्य धर्मिणोऽस्तित्वे आदिष्टोऽपरश्च देशोऽस्तित्वनास्तित्वप्रकाराभ्यामेक- 15 देष विवक्षितः, तदा स घटोऽस्ति चावक्तव्यश्च भवति, उक्तोभयधर्माकान्तदेशद्वारेण धर्मिणो विवक्षितत्वात् । अत एव प्रथमचतुर्थभङ्गसयोगेनान्यथासिद्धिव्युदासः, तत्र हि केवलं धर्मविवक्षा, सा च देशाविशेपितद्रव्य एव सम्भवति, अत्र तु देशद्वारा हव्य उभय. धर्मविवक्षा, एवमप्रेऽपि माव्यम् । फलिवार्थमाह तथा चेति, स्पष्टमन्यत् ।। षष्ठमणवाक्यार्थमाह- स्यानास्ति चावक्तव्यश्चेति षष्ठं वाक्यं परद्रव्याद्यपेक्षया नास्तित्वत्रि- शिष्टं युगपत्माधान्येन स्वपरद्रव्याद्यपेक्षयाऽवक्तव्यत्वविशिष्टं घटं प्रनि- पादयति । तथा च ताहशो घटः प्रतियोग्यसमानाधिकरणघटत्वसमाना. 20 १. अनेकद्रव्यपर्यायात्मकत्याटस्य सत• कश्चिद् द्रव्यार्थविशेषमाश्रित्यास्तीति घटस्य व्यपदेश., तस्यै- धान्यपटरव्यमामान्यं तद्विशेष दूय वासीकृल्ल युगपद्विवक्षायामवकब्धता घटत्वेन घटविशंपेण कथाशि वर्तमानो घट. घटस्खापटलादिना नदेकविशेषापरविशेषादिना वा युगाद्विवक्षाया सादास्न चावतव्यय घट इति पञ्चमवाक्यबोध ॥

तत्वन्यायविमाकरे [ पटकिरने धिकरणात्यन्ताभावाप्रतियोगिपरद्रव्याद्यवच्छिन्ननास्तित्वविशिष्टयुगप- स्वपरद्रव्यावच्छिन्नसत्त्वासत्त्वविषयकावक्तव्यत्ववानिति बोधः ॥ स्यानास्ति चेति, निषेधात्मना मुख्यविपयतावच्छिन्ना योभयात्मना युगपदवक्तव्य- त्वविषयता तद्वतो बोधोऽस्माद्भवतीत्याशयेनाह-परद्रव्याद्यपेक्षयेति । मतान्तरेण तु घटस्यैको 5 देशो नास्तित्वे नियतोऽपरश्च सत्त्वासत्वाभ्यां युगपदादिष्टरस घटस्तथाविधविकल्पवशात् नास्ति चावक्तव्यश्च भवति, तात्पर्यार्थमाह तथा चेति, शिष्टं स्पष्टम् ॥ अथ सप्तमभङ्गवाक्यार्थमाह- स्यादस्ति नास्ति चावक्तव्यश्च घट इति सप्तमं वाक्यन्तु क्रमार्पित- 10 स्वपरद्रव्यादीन् सहार्पितस्वपरद्रव्यादीनाश्रित्यास्तित्वनास्तित्वविशिष्टा- वक्तव्यत्ववद्धटमाह । तथा च ताहशो घट: प्रतियोग्यसमानाधिकरणघ- टत्वसमानाधिकरणात्यन्ताभावाप्रतियोगिक्रमाप्तिस्वपरद्रव्याघवच्छि- नास्तित्वनास्तित्वोभयविशिष्टसहार्पितस्वपरद्रव्याचवच्छिन्नास्तित्वना- स्तित्वोभयधर्मविषयकावक्तव्यत्ववान् घट इति बोधः ॥ स्यादिति, क्रमादुभयमुख्यविषयताद्वयावच्छिन्नावक्तव्यत्वमुख्यविपयताको बोधोऽस्य फलमित्याशयेनाह-क्रमार्पितेति, मतान्तरेण तु यस्यैको देशोऽस्तित्वेऽपरो नास्तित्वेऽन्यश्यो- भयथा नियतस्ताहशो घटो विकल्पवशादस्तिनास्त्यवक्तव्यश्च भवतीति । भावार्थमाह तथा चेति सष्टम् । वाक्येष्वेषु सप्तसु नयविभागस्तु सामान्यपाहिणि सद्महे प्रथमो 'मन, विशेपमाहिणि' व्यवहारे द्वितीयः सङ्ग्रहव्यवहारयोस्तृतीयः, सूक्ष्मवर्तमानक्षणाहिणि 20 ऋजुसूत्रे चतुर्थः एकदोभयार्पणाया वर्तमानक्षणनियतत्वात् , पञ्चमस्सङ्ग्रह सूत्रयोः, षष्ठो व्यवहारर्जुसूत्रयोः, सप्तमस्तु सङ्ग्रहव्यवहारर्जुसूत्रेष्विति । एते त्रयो नया ववभिप्रायरूपत्वा- दर्थनया, प्रथमद्वितीयावेव भङ्गौ शब्दादिषु त्रिषु नयेष्वपीति केचित् ॥ 15 . १. अयम्भाव. अर्थप्रधानो वभिप्रायोऽर्थनय सङ्ग्रहादि., व्यञ्जनस्य परार्थत्यात्तच्छ्रवणसम्भूत शब्दादि- श्रोत्रभिप्रायस्तु शब्दप्रभवमर्थमुपसर्जनतया व्यवस्थापयति, अतस्स शन्दनयश्शब्दसमभिरूढवम्भूतभेदभिन्न । तत्र वचनमार्गश्च सविकल्पनिर्विकल्पकभेदेन द्विविध., सविकल्प सामान्य निर्विकल्प पर्यायः, तत्प्रतिपादक- त्वाचनमपि तथा संज्ञाक्रियाभेदेनामिनार्थप्रतिपादकावपि शब्दममभिस्ती भेदजिज्ञासाल्पविकल्पसाहित्यात्तद्- मिप्रायेण सविकल्पको वचनमार्गः प्रथममकरूप , एवम्भूतस्तु क्रियामेदादिन्नमेवार्य तत्क्षणे प्रतिपादयतीति तदुत्तरं भेदजिज्ञासाल्पविकल्पविरहानिर्विकल्पो द्वितीयभङ्गल्पो वचनमार्ग । अवकष्यत्वभास्तु व्यजननये न सम्भवत्येव व्यजननयस्य श्रोत्रभिप्रायलेन तत्र शन्दाभावात् तथा चैतन्नये प्रथम द्वितीयावेव भन्नाविति ॥

सप्तमी न्यायप्रकाशसमलते ननु पूर्वोदितेषु भङ्गेषु सत्त्वाद्यवच्छेदकतया स्वद्रव्यक्षेत्रकालभावा उक्ताः पां स्वत्वप- रस्वविवेकाय प्रथमं भावपदवाच्य स्वरूपं दर्शयत्यसाधारणत्वादादौ- अत्र सर्वत्र घटस्य स्वरूपमयं घट इति ज्ञानीयप्रकारताश्रयान्यूनान- तिप्रसक्तं घटत्वमेव, ताशप्रकारत्वानाश्रयं विशेष्यावृत्ति च पटत्वादिकं पररूपं, नतु-तद्भिन्नत्वमानं, द्रव्यत्वादीनां पररूपत्वापत्तेः । घटादीनाश्च- 5 पररूपादिनापि सत्वे पदार्थत्वव्याघातप्रसङ्गा, स्वपररूपग्रहणव्यवच्छेदा- भ्यां हि पदार्थत्वं व्यवस्थाप्यम् ।। अत्र सर्वत्रेति। पूर्वोदितेपु सप्तसु भङ्गेष्वित्यर्थः, अयं घट इति ज्ञानीयप्रकारतेति, तादृश- ज्ञाननिरूपितप्रकारताश्रयत्वे सति अन्यूनानतिप्रसक्तत्वं घटत्वस्यैव घटमात्रवृत्तित्वे सति घटे- बरावृत्तित्वात् , तस्मात्सदृशपरिणामलक्षणो घटत्वरूपो धर्मो घटस्य स्वरूपमिति भावः । पर- 10 रूपमाह तादृशेति, अयं घट इति ज्ञाननिरूपितेत्यर्थः, तथा च ताशप्रकारवानाश्रयत्वं पट- स्वादावेव, ते च पटत्वादयः विशेष्ये घटे न वन्त इति पररूपा भवन्तीति भावः । वाहश- प्रकारत्वानयमिन्नत्वमानं तु न पररूपत्वं तस्य द्रव्यत्वादावपि सत्त्वेन पररूपत्वापत्तरित्याह न तु वद्भिन्नत्वमात्रमिति, हेतुमाह द्रव्यत्वादीनामिति, ननु घटादिकमस्ति नास्तीति बदता वित्वं नास्तित्वञ्च वस्तुधर्मतयाऽभ्युपगतं भवेत् तत्कथमेकमेव घटादिकं वस्तु सच्चासच्च- 15 स्यात् सत्त्वस्यासत्वपरिहारेणासत्त्वस्य च सत्त्वपरिहारेण व्यवस्थितत्वात् , अन्यथा तयोर- विशेषः स्यात् , तथा च घटादिकं यदि सहिँ कथमसत्, यदि चासत् कथं सदेकत्र सद- सत्त्वयोर्विरोधादित्याशंकायामाह घटादीनाश्चेति, निरवच्छिन्नसस्वासत्त्वयोरप्रामाणिकत्वेन स्वरूपादिघटितमूतैरेव सत्त्वादेः प्रतीते: घटादिकं वस्तु स्वरूपेणास्ति पररूपेण नास्तीत्येव वस्तुतस्त्वं, स्वरूपेणेव पररूपेणापि सत्वे घटोऽप्यघटः स्यात्, अघटस्वरूपपटादिवत्, पर• 20 रूपेणेष स्वरूपेणाप्यसत्त्वे घटादिकं घटवस्त्वेव न स्यात् स्वस्वभावादिनाप्यसत्वात् खरविषाणवदिति इतरेतररूपापत्त्या पदार्थस्वरूपहानिप्रसङ्ग इति भावः, घटावात्मकत्वञ्च स्वस्वभावादिरूपेण ग्रहणात्परस्वभावादिना व्यवच्छेदाच सम्भवति नान्यथेत्याशयेनाह स्वपरेति, न चैकत्र वस्तुनि सत्त्वमसत्त्वञ्च परस्परविरुद्धधर्मयोस्सामानाधिकरण्यायोगा- शुक्तिविरुद्धमिति वाच्यम् , स्वरूपपररूपाभ्यां विवक्षितयोस्तयोशीतोष्णस्पर्शवभिन्नाधिक- 25 रणत्वाप्रतीत्या विरोधासिद्धः, ताशयोस्तयोरेकाधिकरणत्वधीसद्भावात्, न च दृष्टेऽनुपपन्नं नाम, स्पष्टास्पष्टविषयवया मिनस्वभावत्वेन सिद्धयोः प्रत्यक्षशाब्दबोधयोरेकविषयत्वस्य , , वन्यायविभाकरे [पष्टीकरण एकद्रव्याश्रयत्वस्य चेव सत्त्वासत्त्वयोरेकाश्रयत्वस्याविरुद्धत्वात् । न च स्वस्वभावाविना सत्त्वमेव परस्वभावादिनाऽसत्त्वं स्यान्न वतो भिन्नमिति वाच्यम्, तस्यैकस्वभावत्वेऽवस्तुत्व- प्रसङ्गात्, यदि हि घटत्वादिना सत्त्वमेव पटत्वाद्यवच्छिन्नासत्त्वं स्यात् वदा पटत्वादिनापि सन् स्यात् पटत्वाद्यवच्छिन्नासत्वस्थ घटत्वावच्छिन्नसत्त्वाव्यतिरिक्तत्वात् , तथा घटत्वेनाव्य- । सन् स्यात् पटत्वाचवच्छिन्नासत्त्वाभिन्नत्वाद्धटत्वावच्छिन्नसत्त्वस्य, तथा च तदितररूपाप- त्यादिनाऽपदार्थत्वप्रसङ्गो दुर्वार एव स्यात् । ननु निरुपाख्यं किश्चित् पररूपाद्यसत्त्वं नास्त्येव येनाव्यतिरिक्तत्वविकल्पकल्पनयाऽवस्तुत्वापत्तिस्स्यात् , किन्तु स्वरूपादिसत्त्वमेव विशिष्ट- मेकस्वभावं पररूपायसत्त्वमुच्यते, अतो नोक्तदोष इति चेन्मैवम् , स्ववाचैवानेकान्तत्व- प्रतिपादनात् , विशिष्टं स्वरूपावच्छिन्नसत्त्वमेव पररूपाधवच्छिन्नासत्त्वमुच्यते सदसद्रूपत्वच 10 वस्तुनो न प्रतिपद्यत इति चित्रम् , स्वपररूपाचवच्छिन्नसत्वासत्त्वोभयरूपतामन्तरा वस्तुनो विशिष्टताया असम्भवात् । नन्वेवमपि सदसद्रूपं वस्तु न सम्भवति, तथाहि असदिति प्रसज्यप्रतिषेधो वा स्यात्पर्युदासो वा, किश्चातः, उभयत्र दोषात् सन्न भवतीत्यसदिति प्रस- ज्यप्रतिषेधे सन्निवृत्तिरूपनिरुपाख्यस्यासत्त्वेन प्रमाणागोचरत्वाद्वस्तुधर्मत्वानुपपत्तेः, तत्त्वेऽ भ्युपगम्यमाने वा निरुपाख्यधर्मवतस्सोपाख्यत्वासम्भवेन वस्त्वपि निरुपाख्यं स्यात् , सतोऽ 1B न्यदसदिति पर्युदासाश्रयणे सदन्तरमसद्भवति, एवमपि वस्तुनस्सदात्मकत्वेन सतोऽन्यत्वा- भाषान्न सदसदात्मकं, नहि सत् सदन्तरात्मकमिति चेन्न उभयपक्षाश्रयणेऽपि वस्तुनस्सदसदा- स्मकत्वात् , सत्त्वाननुविद्धस्यासत्त्वस्यामावेन सन्न भवतीत्यत्रापि परद्रव्याविरूपेण सत्र एव प्रतिषेधान् तस्य च तत्रासत्त्वात्तत्स्वरूपस्य च सत्त्वानुवेधान्न निरुपाख्यमेव तदसत्त्वमिति न तत्पक्षोपक्षिप्तदोषप्रसक्तिः, पर्युदासपक्षदोषस्तु अनभ्युपगमादेव निरस्तः । तथा च सदस- 20 दात्मकं वस्तु, तत्र न स्वरूपसवासम्पृक्तं पररूपासत्त्वं नवा पररूपासत्वासम्पृक्तं स्वरू - १. न चैकस्मिन्नपि द्रव्ये प्रत्यक्षविषयता मिनकाले भिन्नकाले च शाब्दीविषयतेति यकालमैदान तयोविरोध इति वाच्यमेककालावच्छेदेन चित्रज्ञाने नीलतदितरविषयत्वयोर्विरोधेनामानापत्ते, न च तत्र तथाप्रतीतिरेका विरोधसाधिका तयोरिति वाच्यं प्रकृतेऽपि तुल्यत्वात् । किञ्च भावाभावयोविरोधस्यापि तत्तत्प्रतियोगिघटितत्वेन विशेष एव विश्रान्ततया जायन्तरभूते वस्तुनि तदेकदेशसत्त्वासत्वयोरविरोधकल्पन एव लाघवमिति ॥ २. निरु राख्य-नि.स्वभावम् पररूपाद्यसत्त्व-पररूपायवच्छिन्न' सत्त्वाभावः बौद्धमतेनार्य पूर्वपक्षः । विशिष्ट मेकस्वभाव-स्वेतरसकलव्यावृत्तिरूपं सदैकस्वभावम् ॥ ३ परब्रव्यादिरूपेण सतः पटादेस्स्वद्रव्यादिरूपेण प्रति घटे प्रतिषेधः क्रियते पररुपाचवच्छिन्नसत्त्वस्य च घटेऽभावात् तदप्यसत्त्वं न निरुपाख्य तस्वरुपसत्व स्थानुवेधात् रात्त्वाभावो हि घटात्मक. तस्मात्तत्सत्त्वेन सोऽनुविद्ध इति न निरूपाख्य इति भावः ॥ ४. धो हि स्वरूपेणास्ति, पररूपाचवच्छिन्नपटाद्यात्मकत न भवति एवञ्च सत्त्वं तत्प्रतिषेधश्च घटस्वरूपमतस्सत्त्व मसत्स्वानुविद्धमसत्त्वञ्च सत्त्वानुविचमिति भाव. ॥

सतमही ] न्यायप्रकाशसमलते पसत्त्वं, न चानयोरेकत्वमेव, अविगानेन सम्यगुमयोपलब्धेः, न च नानात्वमेव, तयवस्थाs योगात् तथानुपलव्धेश्वेत्यन्योऽन्यानुविद्धं भेदाभेदवृत्तिवत्स्वभावं विशिष्टमुभयमेव तत अन्यथा वस्तूनां वैशिष्टयानुपपत्तेरिति । ननु भवतु सस्वमसत्त्वञ्च वस्तुधर्मो वस्तुस्वरूपत्वं तयोः कथम् , तथाहि धर्मधर्मिणोः किन्ताब व उताभेद आहोस्विद्धेवाभेदों वा, नाद्या, वस्तु- नस्सदसदात्मकत्वासम्भवात् न द्वितीया, एकधर्म्यमिन्नत्वात्तयोरेक्यापत्तेस्तत्स्वरूपवत्, 5 धर्मिणो वा भेदस्स्यात् सदसत्त्वयोर्भेदात् नापि तृतीयः, येनाकारेण भेदस्तेन भेदैकान्त्यात् येन चाकारणामेदस्तेनामेदेकान्त्यात्, तथाप्येकस्योभयरूपत्वासम्भवात् , न च येनैवाकारेण भेदस्तेनैवाभेदो येन चाभेदस्तेन भेद इति वक्तुं युज्यते विरोधादिति चेन्मैवम् , प्राथमिकविक- सवयोक्तदोषस्यानभ्युपगमतिरस्कृतत्वात् भेदाभेदपक्षस्यैवाभ्युपगमात् । न चात्रापि दोष उक्त एवेति वाच्यम्, अन्योऽन्यव्याप्तिभावेनास्य नात्यन्तरात्मकत्वेन केवलभेदाभेदप्रयुक्तदोष- 10 स्यात्रानवतारात् । तस्माधेनाकारेण भेदस्तेन भेद एव, येन चाभेदस्तेनामेद एवेत्सत्यन्त- परित्यक्तानेकान्तवादविषयमेतत् । अभेदाननुविद्धस्य केवलभेदस्य भेदाव्याप्यस्यामे दस चाप्रसिद्धेः, न च येनाकारेण मेदस्तेनैवाभेद इत्याद्यपि साम्प्रतम् , सर्वथैकनिमित्त्वे भेदाभेदद्वयानुपपत्तेः, वहि कथं धर्मधर्मिणोर्मेदाभेद इति चेत्कथविद्वेदः कथबिदभेद इति गृहाण, धर्माणां मियो भेदात्प्रतिनियवधोभितत्वाच कथञ्चिद्भेदः, धर्माणां धर्मिणा सर्वथैः 15 करवे धर्मतयापि भेदासम्भवात् , तथा धर्माणामेवाभ्यन्तरीकृतधर्मिस्वरूपत्वात् धर्मिणोऽपि चाभ्यन्तरीकृतधर्मस्वरूपत्वात्कथञ्चिदभेदः, अत्यन्तमेरे धर्ममिकल्पनाऽसम्मवात् , अति- प्रसङ्गात् , अनुवृत्तव्यावृत्तस्य च वस्तुनोऽध्यक्षसिद्धत्वेन न भेदाभेदस्योत्प्रेक्षितत्वमपि, अमवो हि पुरोऽवस्थिते घटादौ तदतद्रूप एवोपजायते, अन्यथा वस्त्वभाषप्रसङ्गादिति । ननु जीवादीनां द्रव्यत्वावच्छिन्नानां सत्त्वासत्त्वादिसप्तभङ्गीसाधने किं स्वद्न्यं किं वा 20 परद्रव्यं, तदवच्छिन्नभेदाप्रसिद्ध्या परत्वस्य तदभावे च स्वत्वस्य दुर्वचत्वादिति चेदुच्यते शुद्धं द्रव्यं स्वं सत्त्वावच्छेदकं, अशुद्धञ्च परमसद्रव्यं असत्वावच्छेदकं, शुद्धत्वाशुद्धत्वे च भेदाभेदप्रधानन्यवहारनिश्चयसाक्षिकाखण्डोपाधिरूपे, न च 'शुद्धद्वन्यस्य स्वपरद्रव्यव्य- वस्था कथं, तस्य द्रव्यक्षेत्रकालभावात्मकत्वादिति वाच्यम्, सकलद्रव्यक्षेत्रकालभावरूप व्यापकं स्वद्रव्यं विकलद्रव्यादिकं परद्रव्यामित्यङ्गीकारादेवमन्यत्रापि मान्य ।। - 25 . १. सत्त्वासत्वयोमिन्नत्वादिति भाव । ऐल्यापतेरिति, तदमिनामिन्नस्य तदभिन्नत्वनियमादिति ।। २. स्वभावस्य धर्मत्वेन धर्मपर्मिणोरकान्तमेदे धर्मिणो निस्स्वभावत्वं स्यात् तथा व मयत्वादिधर्माननु वेधार्मिणोऽभावप्रसङ्गः, तदभावादेव च धर्माणा निराश्रयत्वादाश्रयं विना ग्रहणासम्मवादभावप्रसङ्ग इत्यतिप्र- सपदार्थ. ॥ ३. ज्ञानवैद्या हि वस्तुव्यवस्थिति. नहि भेदाभेदात्मकत्व मवेद्यते, उभयस्मस्य संवेदनस्याभावा- दित्याशंकायामाहाजमवो हीति ॥ ४. भाव एव हि द्रवति द्रोप्यति अदुवदिति द्रव्य, क्षीयन्ते क्षेष्यन्ति - - :४३६ तत्त्वन्यायविभाकरे [ पाटकिरणे अथ स्ववृत्त्यसाधारणधर्म एव स्वरूपमित्युक्त्वा पुनरिदानीमन्येऽपि घटस्य स्वरूपाः पररूपाश्च भवन्तीत्यभिप्रायेणाह- एवं तनिष्ठाः स्थौल्यादिधर्मवर्तमानकालीनपर्यायपृथुवुध्नोदराया- काररूपादिगुणघटनक्रियाकर्तृत्वादयस्वरूपा अन्ये पररूपा बोध्याः ॥ एवमिति | तन्निष्ठा इति, घटनिष्ठा इत्यर्थः । स्थौल्यादिधर्मेति, स्थौल्यादयो धर्माः, वर्तमानकालीनपर्यायविशेषाः, पृथुबुध्नोदराद्याकाराः, रूपादिगुणाः, घटनक्रियाकर्तृत्वमि- यादयस्वरूपास्तद्भिन्नाः पररूपा इत्यर्थः । घटमात्रस्य पूर्व स्वपररूपमुपदय घटविशेषस्य तदर्शयितुं वा पाहैवमिति । तनिष्ठा इति, तत्तद्धटनिष्ठा इत्यर्थः, अयं भावः, घटत्वाकान्ते हि घटविशेषे योऽयं स्थौल्यादिधर्मस्स तस्य स्वरूपं घटान्तरनिष्ठो धर्मविशेषः पररूपम्, 10 घटोऽयं स्थौल्यादिस्वरूपेणास्ति, अन्यघटनिष्ठधर्मेण नास्ति, स्वरूपेणाप्यसत्त्वे घटोऽयमसन् स्यात्, पररूपेणास्तित्वोपगमे सर्वघटानामैक्यप्रसङ्गेन सामान्यायव्यवहारविलोपप्रसङ्गः । अनेकघटवृत्तिसामान्याभावात् । प्रतिक्षणं घटादौ सजातीयपरिणामोत्पत्तेस्सिद्धान्तसिद्धतया ऋजुसूत्रनयतो वर्तमानक्षणवृत्तिघटपर्यायो घटस्य स्वरूपं, अतीवानागतक्षणनिष्ठघटपर्यायाः पररूपं, तथा च वर्तमानकालीनपर्यायेण घटोऽस्ति, क्षणान्तरवृत्तिपर्यायेण च नास्ति, तेन 15 रूपेणापि सत्वे घटस्यैकक्षणावृत्तित्वं स्यात् स्वीयरूपेणाप्यसवे घटव्यवहारस्यैव विलोपा- पत्तिः, विनष्टानुत्पन्नघटव्यवहाराभाव इव | अथवा पूर्वोत्तरकुसूलकपालाद्यवस्थाकलापो मध्य- वर्तिघटस्य पररूपं मध्यवर्तिघटपर्यायः स्वरूपं तथा च यदि ताशपररूपेणापि स्यात्तदा कुसूलाद्यवस्थायां तदुपलब्धिप्रसङ्गो घटपर्यायोत्पत्तिविनाशार्थ प्रयत्नवैफल्यप्रसङ्गश्च स्यात् । यदि च स्वरूपेणापि न स्यातर्हि तत्कार्यजलाहरणादिकमपि नोपलभ्येत । कालविशेपाव- 20 स्थायिनि क्षणमात्रवर्जिनि वा घटे वर्चमानो यः पृथुबुध्नोदराधाकारस्स तस्य स्वरूप, इतराकार पररूपम् , स्वरूपेण सोऽस्ति पररूपेण च नास्ति, उभयथापि सत्त्वे उद्धट इतरेषा व्यवहारप्रसङ्गः, आकारविशेषसत्त्वाधीनत्वाव्यवहाराणाम् । उभयथापि नास्तित्वे घटा- सत्त्वप्रसङ्गः । रूपविशिष्टो घटश्चक्षुर्माह्य इति व्यवहारे रूपद्वारा घटो गृह्यत इति रूपं घटस्य • स्वरूपं, न रसादिमुखेन चक्षुाह्य इति रसादिकं पररूपं, तथा च स स्वरूपेणास्ति पर- 25 पेण च नास्ति, उभयथापि सत्त्वे रसस्यापि चक्षुर्जन्यज्ञानविषयत्वापत्त्या रसनादीन्द्रियक- ल्पना व्यर्थी स्यात् । उभयथापि नास्तित्वे घटस्याग्रहणप्रसङ्गा रूपादिज्ञाननियतत्वाइटादि- , । क्षिताचास्मिन् पदार्या इति क्षेत्र, कल्यन्ते कलयिष्यन्ते कलितायास्मादिति काल, भवति भविष्यत्यभूदि- ति भावः पर्याय इति सत्त्व द्रव्यक्षेत्रकालभावात्मना विशेष्यते तस्या एव तथा व्यवहारविषयत्वघटनादिति ॥

- सप्तमी] न्यायप्रकाशसमलते :४३७: मानस्य । समभिरूढनयार्पणतः शब्दभेदेऽप्यर्थभेदधौव्येण घटकुटादिशब्दानामर्थभेदोऽस्ति तथा च घटत इति व्युत्पत्त्या घटनक्रियाकर्तृत्वं घटस्य स्वरूपं भवति, इतरच पररूपं भवति, घटश्च तेन रूपेणास्ति पररूपेण च नास्ति, उभयथापि सत्त्वे मिन्न- प्रवृत्तिनिमित्ताभावेन शब्दभेदो न स्यात्, उभयथाप्यसत्त्वे घटादिशब्दानां निरर्थ- कत्वापत्तेः । एवं सम्मत्यानुसारेण नामस्थापनाद्रव्यभावभिन्नेषु विधिसिताविधि-5 त्सितप्रकारेण सत्त्वासत्त्वे ताभ्याश्य युगपदवाच्यत्वं भाव्य, व्यतिरेके च प्रतिनियत. व्यवहारोच्छेदो बाधकः । अत्रायं क्रमोऽवसेयः नामस्थापनाद्रव्यभावभिन्नेषु घटादिषु विधित्सिताविधित्सितप्रकारेण सत्त्वासत्त्वे, स्वीकृतप्रतिनियताकारे नामादिके घटादौ संस्था- नमादाय, स्वीकृतप्रतिनियतसंस्थानादिके मध्यमावस्थारूपवर्तमानकालीनपर्यायमादाय, ततो मध्यमावस्थारूपे तस्मिन् वर्तमानावर्तमानक्षणपर्यायमादाय, क्षणपरिणतिरूपे च चक्षुर्ज- 10 न्यज्ञानविषयत्वाविषयत्वाभ्यां, लोचनप्रतिपत्तिविषये तत्रैव घटतदितरशब्दवाच्यत्वाभ्यां, घटशब्दाभिधेये च हेयोपादेयान्तरङ्गवहिरङ्गोपयोगानुपयोगरूपतया, उपयुक्त त्वभिमतार्थवो- धकत्वानमिमतार्थयोधकत्वाभ्यां विज्ञेये इति || तदेवं स्वरूपपररूपाभ्यां सदसत्त्वं व्यवस्थाप्य द्रव्यावलम्यनेन तदाह- एवं शुद्धं मृद्रव्यं घटस्य स्वरूपं, तदिन्नं स्वर्णादि परद्रव्यम्, तद्रूपे- 15 णापि घटादीनां सत्त्वे द्रव्यस्य प्रतिनियमो न स्यात् ।। एवमिति, पूर्वोपदर्शितस्वपररूपप्रकारेणेत्यर्थः, शुद्धं मृव्यमिति मृत्त्वेन लोकप्रसिद्ध- मित्यर्थः, तेन मृत्तिकामात्रस्य न ग्रहः सुवर्णादीनामपि मृद्रव्यत्वेन पररूपत्वासम्भवात् एवञ्च पार्थिवत्वेनेत्यस्यापि लाभः । स्वर्णादीत्यादिनाऽवादीनां ग्रहः । एवञ्च घटः स्वद्रव्येण मृदात्मना पार्थिवत्वेन वाऽस्ति परद्रव्येण स्वर्णादिनाऽवादित्वेन वा नास्तीति भावः । 20 अन्यथेतरेतररूपापत्याऽयं मृदात्मकोऽयं स्वर्णात्मक इत्यादिद्रव्यप्रतिनियमो न स्यादि- त्याभयेनाह तद्रूपेणापीति, स्वर्णादिरूपेणापीत्यर्थः, तथोभयथाव्यसत्त्वे घटादिन्यवहारविलोप इत्यपि बोध्यम्। न चोभयथापि सत्त्वे न द्रव्यप्रतिनियमव्याघातः तथाहि अनेकद्रव्य- निष्ठस्यापि संयोगविभागादेन द्रव्यप्रतिनियमव्याघातो घटपटसंयोगस्य घटात्मना पटात्मनापि - १ घटादिषु विधिस्सितरूपेण सत्वमविधित्सितरूपेणासत्त्वं ताभ्या युगपदवाच्यं विनेयं विपर्यये प्रतिनि- यतव्यवहारोच्छेदो बाधक, विधिसित घटादौ स्वसस्थानापेक्षया सत्त्वं परसंस्थानापेसया चासत्वं ताभ्या युगपदवाच्यत्वमित्येवंरीत्या भन्नत्रयं प्रमाणात्मकं विजेयमिति भावार्थ । संस्थानमादायेति, तदृत्तिस्थौल्यादि- धर्ममादायेत्यर्थ -1 मध्यमावस्थारूपेति, पूर्वोत्तरकसूलकपालाद्यन्तरालवर्तिपर्यायेत्यर्थः स्पष्टमन्यत् ॥

. तत्त्वन्यायविभाकरे [ पकिरने सत्त्वादथ च तयोरेव संयोग इति नियमाचेति वाच्यम , तस्यानेकद्रव्यगुणत्वेनानेकद्रव्यस्यैव स्वद्रव्यत्वात् स्वानधिकरणद्रव्यान्तरस्य च परदन्यत्वात् तथा च स्वद्रव्यापेक्षयाऽस्तित्वा. भावेऽयं संयोगोऽनयोरेवेति प्रतिनियमो व्याहन्यत एव । अत्रायन्तु विशेषः, अव्यास- ज्यवृत्तिधर्माणामस्तित्वे स्वसमवायिद्रव्यमात्रापेक्षा, व्यासज्यवृत्तिधर्माणान्तु स्वपर्याप्तिम- 5 व्यापेक्षेति ॥ क्षेत्रावलम्बनेन ते घटयति- एवं घटस्य निजं क्षेत्रं भूतलादि परक्षेत्रं तदिन्नं कुडयादि स्वक्षेत्र इव परक्षेत्रेऽपि सत्वे क्षेत्रनियमानुपपत्तिप्रसङ्गः ॥ एवमिति । क्षेत्रमिति, अधिकरणमित्यर्थः, इहत्यत्वं घटस्य क्षेत्रं तेन रूपेणास्ति 10 तद्भिन्नमिति भूतलादिभिन्नमित्यर्थः स्वानधिकरणदेश इति भावः, स्वानधिकरणदेशाऽवच्छे. देन च नास्तीति तात्पर्यार्थः । उभयथा सत्त्वे इतरेतररूपापत्तिमाह-स्वक्षेत्र इवेति, क्षेत्र- नियमानुपपत्तिप्रसङ्ग इति, अस्मिन्नेव क्षेत्रे घटोऽस्ति न तत्क्षेत्र इति नियमभङ्ग इत्यर्थः, उभयथाप्यसत्त्वे तु निराश्रयत्वापत्तिरिति भावः ।। - 16 अथ कालमाश्रित्य ते निरूपयति- एवं वर्तमानकाल एव घटस्य काला, तद्भिन्नातीतादिः परकाला स्व- कालवत्परकालेपि घटस्य सत्त्वे प्रतिकालनियमानुपपत्तिः प्रसज्येत । इति सप्तभङ्गीनिरूपणम् ॥ एवमिति । घटाधिकरणीभूतः कालो घटस्य स्वकालः, तदनधिकरणः भूतकालो ध्वंस. कालो वा परकालः, उभयथा घटस्य सत्त्वे दोषमाह स्वकालवदिति, प्रतिकालेति, अस्मि- 20 नेव काले घटोऽस्ति नातीतादिकाल इति नियतकालव्यवहारो न भवेदेव इष्टापचौ तु नित्यत्वापत्तिप्रसङ्गः, उभयथाऽसत्त्वे तस्य सर्वकालासम्बन्धित्वेनावस्तुत्वापत्तिः स्यादिति भावः । ननु घटस्य सत्त्वे यथा स्वरूपादिरवच्छेदकः तथा स्वरूपादौ स्वरूपाबन्तरमस्ति न वा ' यदि नास्ति कथं तर्हि तस्य सत्त्वं यद्यस्ति तर्हि कथं नानवस्था ? यदि सुदूरमपि गत्वा गत्यन्तराभावेन कस्यचित्सत्त्वे स्वरूपाचनपेक्षयाऽनवस्था वार्यते तई घटादीनां 25 सत्त्वेऽपि तथा भवतु किमनया स्वगृहप्रक्रिययेति मैवम्, वस्तुनो हि यथैवायाधिता प्रतीतिस्तथैव तव्यवस्था, प्रतीतिश्च स्वरूपादिघटितमूरेव सत्त्वादेहिका, अन्यथा नाना- निरंकुशविप्रतिपत्तीनां वारयितुमशक्यत्वात् । न च तस्यां स्वरूपादिकमन्यदेव प्रतीयते सप्तमी] न्यायप्रकाशसमलते येन स्वरूपान्तरापेक्षा स्यात् । न च जिज्ञासाधीना हि स्वरूपाधपेक्षा तथा च तत्रापि प्रकृत इव जिज्ञासा स्यादेव तथा चास्त्यनवस्थेति वाच्यम्, यत्रैव न सा तत्रैव विश्रान्त्या तदभावात् केनचिन्नयेन वरूपादेः स्वरूपत एवावच्छेदकत्वं निर्णीयैवास्तित्वाविप्रवृत्तरनव- स्थाया अभावादिति । एतेनैकस्मिन् धर्मिणि सत्त्वासत्त्वरूपी विधिनिषेधात्मको धमाँ न सम्भवतो विधिमुखप्रत्ययविषयत्वनबुल्लिखितप्रत्ययविषयत्वरूपत्वेन शीतोष्णयोरिव 5 वयोः परस्पर विरोधात्, यत्रास्तित्वं तत्र नास्तित्वस्य यत्र च नास्तित्वं वत्रास्ति- त्वस्य विरोधात् । तथाऽस्तित्वाधिकरणस्य नास्तित्वाधिकरणस्य च मिन्नत्वेनैकत्र तयोस्सत्त्वे विभिन्नाधिकरणवृत्तित्वरूपवैयधिकरण्यं दोषः स्यात् , तथा येन रूपेणास्वित्वं येन च नास्तित्वं ताशरूपयोरस्तित्वनास्तित्वनियामकस्वपररूपाद्यन्तरापेक्षायामनवस्थादौस्थ्यम्, तथा येन रूपेण सत्त्वं तेनैवासस्वस्य येनासत्त्वं तेनैव सत्त्वस्य च प्रसङ्गेन सङ्करः, येन 10 रूपेण सत्वं तेनासत्त्वमेव स्यान तु सत्त्वं येन रूपेण चासत्त्वं तेन सत्त्वमेव स्यान्न त्वस- त्वमिति व्यतिकरो दोपः, तथा सत्त्वासत्वस्वरूपत्व इदमित्थमिति निश्चेतुमशक्तस्संभयो दोषः, ततश्चानिश्चयरूपाप्रतिपचिर्दोषः, ततश्च सत्त्वासत्त्वात्मनो वस्तुनोऽभावो दोप इत्यष्टौ दोपारसम्भवन्तीति प्रत्युक्तम् , स्वपररूपाधपेक्षया विवक्षितयोस्सत्त्वासत्त्वयोः प्रतीयमानयोर्व- स्तुन्यविरोधात् स्वरूपादिना सत्त्वस्येष पररूपादिनाऽसत्त्वस्यापि प्रतीनिसिद्धत्वेनानुपलम्भ- 15 प्रयुक्तस्य विरोधस्याभावात् । न च विरोधादेकन तयोः प्रतीतिमिध्येति वाच्यम् , परस्परा- श्रयात्, विरोधे सति तेन बाध्यमानत्वान्निध्यात्वसिद्धिः, सिद्धे च तस्मिन् सत्त्वासत्व योर्विरोधसिद्धिरिति । न च वध्यघातकभावरूपोऽप्यहिनकुलादिवद्विरोधः, तस्यैकस्मिन् काले वर्तमानयोस्सम्बन्धे सत्येव भावात् , न ह्यसयुक्तमहिं नकुलो नाशयति, तथा सति सर्वत्राहे- रमावप्रसङ्गात् तथाप्रकृते सति सम्बन्धे बलीयसाऽपरो बाध्यत इति वाच्यं नहि तथा सद- 30 सत्त्वयोः क्षणमात्रमपि परेण सत्त्वमेकत्राभ्युपगम्यते तथा च कथं वध्यघातकरूपो विरोधः, अभ्युपगमे वा तुल्यबलत्वेन तयोर्न वध्यघातकमावः । नापि सहानवस्थानलक्षणो विरोधः, कालभेदेनैकन वर्तमानयोः श्यामत्वपीतत्वयोरेव तत्सम्भवात् , उत्पद्यमानो हि पीतं श्यामो विनाशयति, नहि तथास्तित्वं नास्तित्वच पूर्वोचरकालभावि, अस्तित्वकाले नास्तित्वाभावे सत्तामात्रं सर्व प्राप्नुयात् , नास्तित्वकालेऽस्तित्वाभावे तु सत्त्वाभयवन्धमोक्षव्यवहारो 25 विरुद्धयेत, सर्वथाऽसत आत्मलाभासम्भवात् सर्वथा च सतो विनाशासम्भवान् । न चापि प्रतिवध्यप्रतिवन्धकभावरूपो विरोधः, अस्तित्वकाले नास्तित्वस्य प्रतिबन्धका- भावात् । स्वरूपेणास्तित्वकालेऽपि पररूपादिना नास्तित्वस्य प्रतीतिसिद्धत्वात् । सत्तास. त्वयोरेकाधिकरणवृत्तित्वेन प्रतीतत्वाच न वैयधिकरण्यं दोषः, नाप्यनवस्थादोपः, अनन्त- , 10 तवन्यायविभाकरे [किरणे धर्मात्मकस्य वस्तुनः प्रमाणप्रतिपन्नत्वेनापदार्थपरम्पराकल्पनाविरहेण तस्या अभ्युपगमात् नापि संकरव्यतिकरौ प्रतीतिसिद्धेऽर्थे कस्यापि दोषस्याभावात्, दोषाणां प्रतीत्यसिद्धपदार्थ- विषयकत्वात् , परस्परानुविद्धसत्त्वासत्त्वयोर्जात्यन्तरात्मकत्वेनैकान्तसत्वावलम्बिदोषासम्भ- वाच, नवा संशयो' दोषः, स हि सामान्यप्रत्यक्षाविशेषाप्रत्यक्षाद्विशेषस्मृतेश्च जायते 5 स्थाणुत्वपुरुषत्वोचिते हि वेशे नातिप्रकाशान्धकारकलुषितायां वेलायामूर्खतामानं सामान्य विलोकयतो वक्रकोटरपक्षिनीडादीन स्थाणुगतान् पुरुषगांश्च वनसंयमनशिरकण्डूयनशि- खाबन्धादीन् विशेषाननुपलभमानस्य तेषाञ्च स्मरतः पुरुषस्यायं स्थाणुवा पुरुषो वेति संशय उदेति, अनेकान्तवादे च विशेषोपलब्धिरप्रतिहतैव, स्वरूपपररूपादिविशेषाणां प्रत्यर्थमुपलम्भात् तथा च विशेषोपलब्धेः कथं संशयः, अवच्छेदकभेदेनार्यमाणयोस्सत्त्वा- सत्त्वयोरेकत्र विरोधाभावेन संशयलक्षणानाक्रान्तत्वात्, एवञ्च संशयमूलकावप्रतिपत्ति- वस्त्वभावरूपी दोषौ दूरापास्ताविति न कोऽपि दोप इति । तदेवं स्वसमयसर्वस्वरूपा सप्तमङ्गी समासतो निरूपितेत्याहेतीति ॥ इत्थमागमं निरूप्य तदामासमाह- अनासपुरुषप्रणीतवचनसम्भूतमयथार्थशाब्दज्ञानमागमाभासः, तद्- 15 चनमायागमाभासः। समाप्तमागमनिरूपणम् ॥ अनाति । अयथार्थवक्तृवचनेन समुद्भूतं यदयथार्थ शाब्दज्ञानं स आगमाभास इत्यर्थः । निजविनोदाद्यर्थ क्रीडापरवशो रागाक्रान्तः पुरुषः किञ्चन वस्वन्तरमलभमानो बालेस्साकं क्रीडामिलापेण सोमोद्भवाया रोधसि तालहिन्तालयोर्मूले सुलभाः पिण्डखजूरा- स्सन्ति त्वरित गच्छत गच्छत शावकाः ? इति वाक्यमुच्चारयति, तजन्यं च यच्छाब्दज्ञान तद्विसंवादित्वादागमाभासरूपमिति भावः । तादृशज्ञानजनकवाक्यमपि कारणे कार्योपचारा- दागमाभासात्मकमेवेत्याह तद्वचनमपीति । तदेवं परोक्षप्रमाणस्य पञ्चमभेद आगमस्संग्रहेण निरूपित इत्याशयेन निगमयति समाप्तमिति ॥ - १ 20 । इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमल- सूरीश्वरचरणनलिनविन्यस्तभकिमरेण तत्पधरेण विजयलन्धि- सुरिणा विनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपक्षायां न्याय- प्रकाशव्याख्यायामागमनिरूपणं नाम षष्ठः किरणः ॥

- 5 , .. प्रामाण्यादिस्वरूपम् ] न्यायप्रकाशसमलट्टते अथ सप्तमः किरणः। एवं प्रमाणे निरूपिते तस्त्र प्रामाण्ये वादिनां विप्रतिपत्तेस्तद्विवेचयितुमाह- ज्ञानस्य प्रामाण्यं प्रमेयाव्यभिचारित्वमेव । स्वातिरिक्तग्राह्यापेक्षया प्रमेयव्यभिचारित्वं ज्ञानस्याप्रामाण्यम्, सर्वन्तु स्वापेक्षया प्रमाणमेव बाह्यार्थापेक्षया तु किश्चित्प्रमाणं किञ्चिचाप्रमाणम् ।। ज्ञानस्येति । प्रमेयेति, प्रमीयमाणो योऽर्थस्तदन्यभिचरणशीलत्वं ज्ञाननिष्ठं प्रामाण्य- मित्यर्थः । अप्रामाण्यपदार्थमाह स्वातिरिक्तेति, सर्वसंवित्तेस्वसवेदनस्य कथञ्चिप्रमाणत्वो- पपत्तेवहिपदार्थापेक्षयैव किबिज्ञान प्रमाण किचित्र प्रमाणामासमित्यभिप्रायेणाह सर्व- विति, न चैत्र विरोधः प्रसज्यत इति वाच्यम्, जीवस्यैकस्यावरणविगमविशेषात्सत्ये. तरसंवेदनपरिणामसिद्धेः श्वेतघटे पीतघटनानषत् । तथा च सर्वत्र जाने स्वरूपे प्रामाण्य- 10 मनावृतमेव, बहिरर्थे त्वनियतस्तक्षयोपशम इति स्वभावकल्पनान्न विरोध इति भावः । एतेन ज्ञानमात्र स्वापेक्षया प्रत्यक्षप्रमाणम् , न चैवमनुमितित्वादिना प्रत्यक्षत्वस्य सायमिति कचित्संकीर्णजातेरप्यदुष्टत्वोपगमात्, एवज ज्ञानस्यार्थोन्मुखतयेव स्वोन्मुखत- यापि प्रतिमासनं भवतीति सूचितम् । न च यस्यानुभाव्यत्वं तस्याननुभूतित्वं दृष्टं यथा घटादिः, ज्ञानस्यानुभाव्यत्वेऽननुभूतित्वप्रसङ्ग इति वाच्यमनुभूतित्वेनैव ज्ञानस्यानुभवात् , न 15 पुनरनुभाव्यत्वेन, ज्ञातुर्मातत्वेनानुभववत्, नापि ज्ञानस्यानुभाव्यत्वं दोपः पदार्थापेक्षया ' नुभूसित्वात् , स्वापेक्षया त्वनुमाव्यत्वात् । न च विरोधः, अपेक्षाभेदात् , एकस्य पितृत्वपुत्र- त्ववत् । न च स्वात्मनि क्रियाविरोधः, अनुभवसिद्धेऽर्थे विरोधासिद्धः। किन का नाम क्रियाऽऽत्मनि विरुद्धा, न तावत्परिस्पन्दस्वरूपा, तस्या द्रव्यवृत्तिवेनाद्रव्ये ज्ञानेऽसम्भवात् । न धात्वात्मिका, सापि न तावदकमिका, वृक्षस्तिष्ठतीत्यादौ तस्या वृक्षादिरूपे स्वात्मन्येव 20 प्रतीत्याऽप्यविरोधवत् ज्ञान प्रकाशत इसादावपि अकर्मक क्रियाया ज्ञानस्वरूपत्वेऽविरोधात् , प्रतीतेभयत्रापि तुल्यत्वात् । अथ ज्ञानमात्मानं जानातीति सकर्मिका क्रिया स्वात्मनि विरुद्धा स्वरूपादपरत्रैव कर्मत्वप्रतीरित्युच्यते तदपि न चारु, आत्माऽऽत्मानं हन्ति प्रदी- पस्स्वात्मानं प्रकाशयतीत्यादिकायाः क्रियाया अपि विरोधापत्तेः । न च नात्र पारमार्थिक कर्मत्वं किन्त्वात्मादौ कर्तर्युपचरितमेवेति वाच्यम्, कर्तरि जानेऽपि स्वरूपस्यैव ज्ञानक्रिया- निरूपितकर्मत्वेनोपचारात्, न च शाने कर्मत्वं वात्त्विक प्रमेयत्वादिति वाच्यम् , सर्वथा कर्म- त्वस्य कानादभिन्नत्वे स्याद्विरोधः यदि कन कथं कर्म यदि कर्म कथं फर्विति, अथ सर्वथा बाच्यम्, -- " - । , --- :४४२: तत्त्वन्यायविभाकरे [सप्तमकिरणे भिन्नं कर्मत्वं, नहिं कथं तत्र ज्ञानस्य जानातीति क्रिया स्वात्मनि स्याद्येन विरुध्येत, तथात्वे कथं घटं करोतीति क्रियाऽपि कटकारस्य स्वात्मनि न स्याद्यदि न विरुध्यते । कर्तुः कर्मत्वं कथचिद्भिन्नमित्येतस्मिंस्तु दर्शने ज्ञानस्यात्मनो वा सर्वथा स्वात्मनि क्रिया दूरो- सारितैवेति न विरुद्धतामधिवसतीति । न च नानक्रियायाः कर्तृसमवायिन्याः कर्मतया 5 स्वात्मनि विरोधस्ततोऽन्यत्रैव कर्मत्वदर्शनादिति वाच्यम् , तर्हि करणत्वमपि तत्र न स्यात् दृश्यते हि ज्ञानेनार्थमहं जानामीति करणत्वम् , न चे ज्ञानेनेयनेन विशेषणज्ञानं करणत्वेन विवक्षितमर्थ जानामीत्यनेन विशेष्यवानं कर्मत्वेन विवक्षितं तस्मात्करणमन्यत् कर्मान्य- दिति वाच्यम्, कस्यापि विशेपणज्ञानेन विशेष्यं जानामीति प्रवीतेस्नुदयात । किन्तु विशे- पणज्ञानेन विशेषणं विशेष्यज्ञानेन च विशेष्यं जानामीत्यनुभवात् । न चादौ दण्डाग्रहे 10 दण्डिनमहं वेझीति कथं न दण्डविशिष्टपुरुषवुद्धिरेन्यथा दण्डरहितेऽपि पुरुपे तथा प्रत्य- यप्रसङ्गादिति वाच्यम् , दण्डविशिष्टे पुरुपे प्रवर्तमानया धुद्ध्या सफदेव दण्डविशिष्टपुरुष- प्रहणात् दण्डरहिते च तद्वैशिष्ट्यामावादेव तथा प्रतीत्यनुदयात् । ततो विशेष्यज्ञानं सचदेव विशेषणविशेष्योभयालम्बनमेव न तु विशेषणज्ञानेन जन्यत्वात्केवलं विशेष्य- विषयम् । विशेषणज्ञानस्य करणत्वे विशेष्यज्ञानस्य च ज्ञानकायंत्वे विशेषण- 15 ज्ञानं प्रत्यपि करणान्तरापत्तिश्च स्यात् तत्रापि दण्डत्वादिजातिज्ञानस्य करणत्वाभ्युपगमे तत्राप्यन्यस्य वक्तव्यत्वापत्ते, तस्माद्विशेषणविशेष्यज्ञानयोर्न करणत्वक्रियात्वे अपि तु ते एकज्ञानस्वरूपे अत एव च तयोर्यथा न विरोधस्तथा कर्मत्वेनापि, तस्मात् प्रमातु- रात्मनो वस्तुपरिच्छित्तौ साधकतमत्वेन व्यापृतं रूपं करणं निर्व्यापार तु क्रिया स्वातंत्र्येण पुनर्व्याप्रियमाणः का आत्मेति ज्ञानात्मक एवात्मा ज्ञानात्मनाथ जानातीति कर्तृकरण- 20 क्रियाविकल्पेन प्रतीतिसिद्धा, एवं कर्मव्यवहारोऽपि ज्ञानात्माऽऽत्मनाऽऽत्मानं जानातीति . - ज्ञानानां १. ज्ञानक्रियाया करणनानस्य च भिन्नत्वान्नास्ति विरोध इति चेकि करणज्ञान का वा ज्ञानक्रियेत्यवाह न चेति ॥ २. दण्डाग्रहेऽपि दण्डविशिधपुरुषबुद्ध्यभ्युपगम इत्यर्थ ॥ ३. तुल्यदेशाषस्थायिनि तुल्येन्द्रियमोऽथे घटपटादौ एकस्यापि वानस्य व्यापारेऽविरोध , न च तत्रापि विषयभेदेन मानभेदो भाव्य, युगपद्भावानभ्युपगमात् नापि क्रमेण, तथाऽप्रतीते , युगपद्भावे च कार्यकारणभावोऽपि न स्यादेव सव्ये- तरगोविषाणवत तस्माद्विशेष्यज्ञान विशेषणविशप्योभयावलम्बनमेवेत्याशयनाह ततो विशेष्यज्ञानमिति ॥ ४. ननु चक्षुरादिकं हि करणं ज्ञानमिय तो मिन्नमेव, न च ज्ञानेनार्थ जानामीति प्रतीत्या बानस्यापि करणत्वमिति वाच्यम् तत्र ज्ञायतेऽनेनेति व्युत्पत्त्या भानपदस्य चक्षुपो बोधकवादिति चेन्न तस्य साधक- तमत्वासम्भवात् व्यवधानात् ज्ञानस्यैव साधकतमत्वात् न च यदेव ज्ञान पदार्थस्य ज्ञानक्रियाया कर तदेव ज्ञानक्रियेति कथ तत्र कियाकरणव्यवहार प्रातीतिक स्याविरोधादिति वाच्यम् कयाबिनेदादिलाशये- नाह तस्मात्प्रमातुरिति ॥

. अस्पत्ती परत्वम् ] न्यायप्रकाशसमलते :४४३: घटते सर्वथा कर्तृकरणकर्मक्रियाणामभेदानभ्युपगमात् तासां कर्तृत्वादिशक्तिनिमित्त्वात्कथन बिद्भेदसिद्धः । ततश्च ज्ञानं स्वप्रकाशमेवेति संक्षेपः ॥ ननु तलामाण्यनिश्चयरस्वतो वा परतो वा स्यात् न स्वतः, स्वसंविदितत्वेऽपि ज्ञान- त्वेनैव ज्ञानस्य ग्रहणात न तु तनिष्टप्रामाण्येन, ज्ञानत्वस्य त्वामाससाधारणत्वात् प्रामा- ण्यस्यापि प्रहे सर्वेषां विप्रतिपत्यभावप्रसङ्गाश्च स्वस्त्रजानरय हि प्रामाण्यग्रहे सर्वे प्रवादा-5 स्सत्याः स्युः । ज्ञानेन स्वतः प्रामाण्यग्रहे प्रामाण्यनिश्चयात्संशयोच्छेदप्रसङ्गश्च यदि हि शानं न गृहीतं तदा धर्मिज्ञानामावादेव न तत्संशयः, समानधर्मवत्तया धमिजानस्य संशयहेतु- त्वात् गृहीते च जाने तत्रामाण्यमपि गृहीवमेवेति तदापि संत्रयो न स्यादिति । नापि परतः, परो हि नानान्तरं वा अर्थक्रियानि सो वा, तद्गोचरनान्तरीयकार्थदर्शनं वा तब सर्व स्वतोऽगृहीतप्रामाण्यमव्यवस्थितं कथं पूर्वप्रवर्तकज्ञानं व्यवस्थापयेत् स्वतो 10 वाऽस्य प्रामाण्ये प्रवर्तकज्ञानमपि तथैव स्यात् परस्याप्यन्यतः प्रामाण्ये त्वनवस्था प्रसज्येनेत्याशङ्कायामाह- प्रामाण्यामामाण्ये च स्वकारणवृत्तिगुणदोषापेक्षयोत्पत्तौ परत एव ।। प्रामाण्याप्रामाण्ये चेति । स्वकारणेति, स्वस्य ज्ञानस्य यत्कारणं चक्षुराविकारण- कलापः वनिष्ठौ यौ गुणदोषौ तावपेक्ष्य प्रामाण्याप्रामाण्ये भवत इति परमपेक्ष्योत्पद्यमान- 15 वादुसत्तिविषये वे परत एव भवत्त इति भावः, तेनार्थतथाभावप्रकाशकत्वरूपख प्रामा- ण्यस्य स्वशानकारणातिरिक्तगुणानपेक्षत्वात्स्वत एवोत्पचिः, तथाहि कारणगता न ते गुणा उपलभ्यन्ते चक्षुरादीनां ज्ञानकरणानामतीन्द्रियत्वेन तद्गुणाना प्रत्यक्षतः प्रतिपत्त्यसम्भवात् नाप्यनुमानेन, इन्द्रियनिष्ठगुणैस्साकं कस्यापि लिङ्गस्य प्रत्यक्षतः प्रतिवन्धानहेण प्रत्य- क्षवो गृहीतव्याप्तिकलिङ्गाभावात् । अनवस्थाप्रसरेणानुमानतो गृहीतव्याप्तिकलिङ्गाभावाच, 20 लिङ्गनिष्टव्याप्तिमाहकानुमानस्याप्यनुमानान्तरतो गृहीतव्याप्तिकत्वात् अनुमानान्तरस्यापि तथात्वादिति । किम्चायतथात्वपरिच्छेदकशक्तिरूप हि प्रामाण्य, शक्तयश्च सर्वारस्वत एव भवन्ति, नोत्पादककारणकलापाधीनाः, यथाहि मृत्पिण्डे वर्तमाना रूपादयो मृत्पिण्डा- दुपजायमाने घटेऽपि कार्ये तत एवोत्पद्यन्ते, न तु कारणेष्वविद्यमानाः कार्यधर्माः कारणेभ्यः कार्ये उदयमासादयन्ति किन्तु स्वत एव, घटस्यैवोदकाहरणशक्तिवत्, तथा 25 मानेऽप्यर्थतथात्वपरिच्छेदशक्तिश्चक्षुरादिध्वविद्यमाना न तस्मादुपजायते किन्तु स्वत एवेति मतमपास्तम्, अर्थतथामावप्रकाशकत्वरूपप्रामाण्यस्य खत एवोत्पत्तौ निहेतुकत्वेन देशकालस्वभावप्रतिनियमानुपपत्तेः गुणवञ्चक्षुरादिसत्त्वे यथावस्थितार्थप्रतिपत्तेस्तदभावे च - - . 'तत्त्वन्यायविमाकरे [ ससमकिरणे तदभावस्य दृष्टत्वेन बद्धेतुकत्वव्यवस्थापनात्, कार्यकारणमावस्यान्वयव्यतिरेकनिबन्धन- त्वात्, अन्यथा दोषवञ्चक्षुराधन्वयव्यतिरेकसत्त्वेऽप्यप्रमाणत्वस्यापि खत एवोत्पतिः प्रसज्येत, न चेष्टापत्तिरपसिद्धान्तताप्रसङ्गात् । प्रत्यक्षादितोऽनुपलभ्यमानानामपि खकारणचक्षुराविगतदोषाणामप्रामाण्योत्पत्तौ कारणत्वमिव गुणानामपि चक्षुरादिनिष्ठानां 5 प्रामाण्योत्पत्तिकारणत्वे बाधकामावाच, शक्तिरूपप्रामाण्यमपि न खत उत्पत्तुमर्हति, तथा सत्यप्रामाण्यस्थापि अयथार्थपरिच्छेदकशक्तिरूपस्य केनचित्कर्तुमशक्केस्तत्स्वत एव स्थात् वत्कारणेषु तिमिरादिदोपवत्सु चक्षुरादिपु तस्या अविद्यमानत्वात् । इन्द्रियादीनां स्वेष्वविद्यमानाया अपि वानरूपताया इव तादृशशक्करप्याविर्भावकत्वे बाधका- भावात् ज्ञानविशेषाणां स्वतोऽनुत्पत्या तनिष्टशक्तीनां स्वत एवोत्पत्त्यसम्भवाच, न च 10 शक्तयो ज्ञानव्यतिरिक्ताः, स्वाधाराभिमतभावकारणेभ्यो भावस्योत्पत्तावपि स्वाश्रयै- स्ततोऽभवन्तीनां सम्बन्धासम्भवात् । भिन्नानां कार्यकारणभावातिरिक्तसम्बन्धासम्भवात् आश्रयायिभावस्थापि जन्यजनकभावनियतत्वात् , नापि धर्मघर्मिभावस्सम्बन्धः शकेर- पारवन्ध्ये धर्मस्वासम्मवात्, न चार्थतथाभावप्रकाशनरूपप्रामाण्यस्य स्वसाममीतो ज्ञानो- त्पत्तावघ्यनभ्युपगमे तद्विज्ञानस्य किं स्वरूपं १ नहि तव्यतिरेकेण विनानस्वरूपं भवन्मते 16 सम्भवति, किञ्च तदुत्पत्तावपि तन्नोत्पद्यते- पश्चाश्च तस्यतिरिक्तसामप्रीत उत्पद्यत इत्यभ्यु- पगमे विरुद्धधर्माभ्यासाकारणभेदाच्च भेदः स्यात् , तयोरेव भेदहेतुत्वेनाभ्युपगमादिति वाच्यम् , विज्ञानस्य चक्षुरादिसामग्रीजन्यत्वेऽपि नैर्मल्यादिसामग्र्यन्तरात्प्रामाण्यस्य पश्चा- दुत्पचेरनभ्युपगमात्, किन्तु गुणवञ्चक्षुरादिसामग्रीत आगृहीतप्रामाण्यस्वरूपस्यैव विज्ञान- स्योत्पत्त्यभ्युपगमात् , तस्मादेव च ज्ञानमिव तदव्यतिरिक्तखभावं प्रामाण्यमपि परत उच्यते, 20 तथा च प्रामाण्यं स्वोत्पत्ती ज्ञानोत्पादककारणव्यतिरिक्तकारणान्तरापेक्षं तदन्वयव्यति- रेकानुविधायित्वात् , यच्चक्षुरादिव्यतिरिकस्यान्वयव्यतिरेकानुविधायि तत्तत्सापेक्षम् , यथाऽ- प्रामाण्यमिति प्रयोगेणोत्पत्तौ तस्य परायेक्षत्वं सिद्धम् । ननु भवतु प्रामाण्यमुत्पत्ती परतः परश्च दोषाभाव एव स्यान्न गुणः, दोपसत्त्वे प्रामाण्यानुदयेन तदुदये तदभावस्यैव हेतुत्वौ- चित्यात्, तथा व ज्ञानहेत्वतिरिक्तभावानपेक्षत्वेनोत्पत्तौ तस्वत इत्युच्यत इत्याशंकायामुकं 25 स्वकारणवृत्तिगुणदोषेति, ज्ञानकारणातिरिक्तगुणदोषापेक्षयेति तदर्थः, तथा प्रामाण्ये गुणोऽ प्रामाण्ये दोषो हेतुः, न तु प्रामाण्ये दोषाभावोऽन्यथा गुणसत्त्वेऽप्रामाण्यानुदयेन तदुदये गुणाभावस्यैव हेतुत्वौचित्यात्तस्यैव स्वतस्त्वापत्तिः स्यात्, न चाप्रामाण्यं प्रति दोषाणामन्वय- व्यतिरेको स्त इति वाच्यम्, गुणानामप्यन्वयव्यतिरेकसम्भवात् । न च प्रामाण्ये गुणा दोषोत्सारणमात्रप्रयुक्तसन्निधिका न तु प्रामाण्ये निमित्ता इति वाच्यम्, दोपा गुणोत्सार- । . . - शप्ती स्वतः] न्यायप्रकाशसमलते :४४५ णमात्रप्रयुक्तसनिधिका नत्वप्रामाण्ये निमित्ता इत्यपि तुल्यत्वात् दोषाभावस्य तुच्छस्य गुण- निष्पावत्वासम्भवाच, सस्वभावत्वे वा व्यतिरिक्तत्वे कारकव्यापारस्यासम्भवः स्यादप- सिद्धान्तश्च प्रसज्येत, तथा च पर्युदासवृत्त्या गुणात्मक एव दोपाभावोऽभ्युपगन्तव्यः तथा गुणाभावोऽपि दोपात्मकः, इति युक्तं गुणदोषाभ्यां प्रामाण्याप्रामाण्ये इति भावः ॥ ननु प्रमाण प्रामाण्यनिश्चये नान्यापेक्षं यदि सपेक्षेत तत्तदा किं गुणान् संवाद । वाऽपेक्षेत, नाद्या, स्वकारणगुणानां प्रत्यक्षादिप्रमाणाग्राह्यत्वात् यदि यो यः कार्यविशेषः स गुणवत्कारणपूर्वको यथा प्रासादादिविशेषः, कार्यविशेषश्च यथावस्थितपरिच्छेद इति खभावहेतुना गुणवत्कारणपूर्वकत्वं सिद्धयतीत्युच्यते तदपि न युक्तम् , परिच्छेदे यथावस्थि. तार्थपरिच्छेदत्वासिद्धः, वथा हि शुद्धकारकजन्यत्वेन संवादित्वेन बाधारहितत्वेनार्थतथात्वेन वा तसिद्धिर्वाच्या, तञ्च न सम्भवति, परिच्छेदस्य यथावस्थितार्थपरिच्छेदत्वे गुणवत्कारण- 10 जन्यत्वस्य गुणवत्कारणजन्यत्वे च यथावस्थितार्थपरिच्छेदत्वस्यापेक्षितत्वेन प्रथमेऽन्योs- न्याश्रयात् संवादार्थिनां विज्ञाने यथावस्थितार्थपरिच्छेदत्वसिद्धिमन्तरेण तत्पूर्वकप्रवृत्तः प्रवृत्तिमन्तराऽऽयक्रियासंवादस्य विना यथावस्थितार्थपरिच्छेदत्वसिद्धेश्चासम्भवेन द्वितीये चक्रकापत्तेः, न तृतीया, तुच्छस्वभावस्य वाधाविरहस्य सत्त्वेन ज्ञापकत्वेन वाऽनङ्गीकारात् पर्युदासवृत्त्या तदन्यज्ञानलक्षणस्य विज्ञानपरिच्छेदविशेषाविषयत्वेन तस्यवस्थापकत्वानुप- 15 पत्तेश्च । नापि चतुर्थः, अन्योन्याश्रयात, अर्थतथाभावे सिद्धे तद्विज्ञानस्यार्थतथाभाषपरिच्छे- दत्वसिद्धिः, वसिद्धब्धार्थतथामावसिद्धिरिति । नापि संवादापेक्षया तज्ज्ञप्तिसिद्धिः, संवादक समानजातीयं भिन्नजातीयं वा, यदि समानजातीयं वर्हि एकसन्तानप्रभवं मिन्नसन्ता; नामवं वा, तत्र भिन्नसन्तानप्रभवस्य समानजातीयस्य संवादकत्वे देवदत्तघटविज्ञान प्रति यमदत्तघटान्तरविज्ञानस्यापि संवादकत्रं स्यात्, समानसन्तानप्रभवसमानजातीयज्ञानान्तरस्य 20 संवादकत्वे च तस्यैकार्थविषयकत्वे संवाद्यसंवादकयोरविशेषः, एकविपयत्वेऽपि यथा प्राक्तनं विबानं स्वसमानजातीयस्यैकसन्तानप्रभवस्योत्तरकालभाविनो विज्ञानस्य न संवादकं तथो- सरमपि पूर्वस्येति, किम्वोत्तरजानं प्रमाणमिति कुतस्सिद्धं येन प्रथमस्य प्रामाण्यनिधा- । १. ननु नैर्मल्यादयो गुणा प्रामाण्येऽनुपयोगिन किन्तु तेभ्यो दोपाणामभावः समुन्मिपतीत्यत्राह दोषा- मावस्येति, तस्य तुच्छस्वभावतया कार्यत्वधर्माधारत्वं न भवेदिति भाव, अवश्यमनुभूयते दोषामावस्य कार्यत्वाधारत्वम् , अञ्जनादेश्वचरादौ क्रियमाणस्य प्रतीते , तथा च दोपामावस्य दोषप्रतियोगिगुणस्वरूपत्व वाच्य, व्यतिरिकत्वेऽनुमवयाधापते , अनुभूयते च पुरा चक्षुपी सदोपे समभूतामधुना लब्धिसम्पन्ने इति । यदि दोषामावो नि स्वभाव स्यात्तहि भावान्तरविनिर्मुक्तस्य भावस्यैवाभावत्वप्रतिपादकत्वसिदा-तविरोध इत्याशयेनाह सस्वभावत्वे वेति ।। - 1 :४४६: तत्वन्यायविभाकरे [ ससमकिरणे यकं भवेत्, न चान्यस्मात्तथाविधात्, अनवस्थापत्तेः । न चोत्तरञानस्य कारणशुद्धिपरिज्ञाना- नन्तरभावित्वेन विशेषात्सम्भवति संवादकत्वमिति वाच्यम्, कारणशुद्धिपरिज्ञानस्यार्थ- क्रियापरिज्ञानं विनाऽसम्भवेन तत्र चक्रकदोषस्य दुर्वारत्वात् सम्भवे वा वस्यैव निधाय- कत्वेनोत्तरकालभाविनः कारणशुद्धिज्ञानसमन्वितस्य प्रामाण्यहेतुत्ववर्णनं व्यर्थ स्यात् । 5 अथ भिन्नजातीयज्ञानान्तरस्य संवादकत्वे घटज्ञानस्यापि पटज्ञानप्रामाण्यनिश्चायकत्वा- पत्तिः स्यात् , स्वस्मिंश्च प्रामाण्यनिश्चयाभावे प्रवृत्त्यमावेन तन्निश्चयस्यावश्यकत्वे चक्रक- प्रसङ्गेनार्थक्रियाकारिरूपं भिन्नजातीयमपि न तनिश्चायकम् , न च प्रामाण्यसंशयादपि प्रवृत्तिसम्भवेनार्थक्रियाज्ञानसम्भव इति वाच्यम, प्रामाण्यनिश्चयस्य निष्फलत्वापत्तेस्तदन्त- रेणैव प्रवृत्तेः । प्रामाण्यनिश्चयमन्तरेण प्रवृत्तो विसंवादमाङ मा भूवमिति ह्यर्थक्रियार्थी 10 प्रामाण्यनिश्चयाय कुरुते प्रवृत्ति सा च तदन्तरेणापि संजातेति, अर्थक्रियाज्ञाने च प्रामा- ण्यायान्यस्यापेक्षायामनवस्था भवेदित्याशंकायामाह- ज्ञप्तौ त्वनभ्यासदशापन्ने परतोऽभ्यासदशापन्ने च स्वत एवेति ॥ ज्ञताविति । तुशब्दः पूर्वस्माद्वैलक्षण्यप्रकाशकः, तदेवाहानम्यासेति, ज्ञाताविति विषयसप्तमी, ज्ञप्तिविषये तावदभ्यासदशापन्ने स्वमपेक्ष्य, अनभ्यासदशापन्ने च ज्ञाने परम- 15 पेक्ष्य प्रामाण्याप्रामाण्ये भवत इत्यर्थः, एवशब्देनोभयस्यापेक्षाविशेपेण स्वापेक्षत्वं परापेक्ष- त्वञ्च व्यावर्तितम् । तथा च प्रामाण्याप्रामाण्ये अभ्यासदशापन्नज्ञाने स्वाश्रयग्राह्ये, अनभ्यास. दशापन्ने तु परतो ग्राह्ये, अभ्यासानभ्यासौ ज्ञानावरणक्षयोपशमविशेषप्रयोज्यौ जाति- विशेषावेष ज्ञानगतो, विषयगतत्वन्तु तयोरुपचारात्, आत्मनः परिणामित्वेनोमयस्वभावात्, तेन सर्वथा क्षणिकस्य नित्यस्य वाऽऽत्मनोऽभ्यासानभ्यासस्वभावत्वं कथमिति शक्षा परास्ता। 20 द्रव्यत्वस्य परिणामित्वव्याप्यत्वात । प्रामाण्यग्राहकञ्च परं स्वाश्रयातिरिक्तं सवादज्ञानमेव, कारणगुणबाधकज्ञानयोरप्येतन्मुखापेक्षित्वात | कारणगुणानां संवादप्रत्ययमन्तरेण ज्ञातुम- शक्यत्वात् संवादप्रत्ययतः कारणगुणपरिज्ञानाभ्युपगमे च तत एव प्रमाण्यनिश्चयस्यापि १. अनभ्यासदशायामपि स्वगतं प्रामाण्यं यदि स्वयमेव ज्ञायेत यथार्यपरिच्छदेकमहमस्मीति तदेदं जान प्रमाणं नवेति प्रामाण्यमशयो न स्यादेव, जानत्वे संगयाभाववत्, न च निश्चितेऽपि प्रामाण्ये प्रमा- णाप्रमाणसाधारणज्ञानत्वधर्मदर्शनेन विशेषादर्शनेन च संशयो भवतीति वाच्यम्, साधकबाधकप्रमाणतिरस्कारेण साधारणधर्मदर्शनस्य संशयं प्रत्यकारणत्वादन्यया संशयानुच्छेदप्रमश स्यात् प्रकृते च स्वत प्रामाण्याप्ति- रूपस्य प्रामाण्यसाधकस्याप्रामाण्यवाधकस्य सत्वात् तस्मात्संशयानुरोधेन तत्र न स्वतो ग्राह्य प्रामाण्यमिति भावः । २. संवादकज्ञानच यादृशोऽर्थ पूर्वस्मिन् विज्ञानेऽवगतस्स तादृश एवेति येन विज्ञानेन व्यवस्थाप्यते तत्, भन्न पक्षे कारणगुणज्ञानस्य बाधकामावज्ञानस्य च संवादकजानत्वेन प्रामाण्यनिश्चायकत्वे न क्षति ॥

सप्तौ स्वतः] न्यायप्रकाशसमलते सिद्धत्वेन कारणगुणपरिकल्पनानर्थक्यात् । न चैकदा सवादप्रत्ययेन निश्चिय कारणगुणान- न्यदा वन्निश्चयादेव तजन्यज्ञानस्य निश्चयो न तत्र पुनस्संवादापेक्षेति वाच्यम् , अतीन्द्रियेषु चक्षुरादिषु कालान्तरेऽपि संवादकज्ञानमन्तरा गुणानुवृत्तनिश्चेतुमशक्यत्वात् , न च संवादप्रत्य- यात्प्रामाण्याभ्युपगमे संवादप्रत्ययस्याप्यपरसंवादप्रत्ययात्प्रामाण्यावगमेनानवस्थेति वाच्यम्, संवादप्रत्ययस्य संवादरूपत्वेनापरसंवादापेक्षाभावादनवस्थानवतारात्। न च प्रथमस्यापि 5 संवादापेक्षा मा भूदिति वाच्यम् , सवादजनकत्वस्यैव प्रामाण्यत्वेन तदभावे प्रामाण्यासम्भ- पात् अर्थक्रियाज्ञानरूपं संवादजानन्तु साक्षादविसवादि, अर्थक्रियालम्बनत्वात् , वस्य स्वविषय- संवेदनमेव प्रामाण्यं, तच्च स्वतस्सिद्धमिति नान्यापेक्षा । न चार्थक्रियाज्ञानस्याप्यवस्तुवृत्तिशङ्का- यामन्यप्रमाणापेक्षयाऽनवस्था स्यादिति वाच्यम, अर्थक्रियाजानस्यार्थक्रियानुभवस्वभावत्वेना- थक्रियामानार्थिनां भिन्नार्थक्रियात एतज्बानमुत्पन्नं किं वा तद्व्यतिरेकेणेत्येवंभूतायाचिन्ताया 10 निष्प्रयोजनत्वात् निष्पन्नत्वाद्वान्छितफलस्य । एवञ्च संवादकज्ञानस्य परत्वे समानजातीय- मिनजातीयैकसन्तानमिन्नसन्तानविकल्पकृतदोषाणां नोपनिपातः, उभयस्वीकारात्, देवदत्तष- टझाने समानजातीययजदचघटज्ञानस्य, प्रथमप्रवृत्तजलनाने भिन्नजातीयस्योत्तरकालभाविस्ता- नपानावगाहनाद्यर्थक्रियानानस्य, एकसन्तानगतेऽन्धकारकलुपितालोकप्रभवकुम्भज्ञाने निस्ति- मिरालोकप्रभवकुम्मज्ञानस्य, मिन्नसन्ताने च समानजातीयकुम्भज्ञानस्योक्तस्य संवादकत्वस्वी- 15 कारात्, एकसन्तानेऽभिन्नविषये संवाद्यसंवादकभावाविशेषस्य मन्दप्रवलसामग्रीसमुत्पाद्यवयैव निरासात् । वथा न संवादकज्ञानात्रामाण्यनिश्चये चक्रको दोपः, सवादज्ञानेन प्रथमं प्रामाण्यं निश्चित्यैव प्रवर्तत इत्यनभ्युपगमात्, वहिस्वरूपदर्शनेऽमत्येकदा शीतपीडितोऽन्यकार्यार्थ वतिमद्देशमुपसर्पस्वस्पर्शमनुभवति, कृपालना वा केनचित्तद्देशं वहेरानयने तस्पर्गमनुभवति, तदाऽसौ वह्विस्वरूपदर्शनस्पर्शनज्ञानयोस्संवन्धमवगच्छति 'एवम्भूतो भाव एवम्भूतप्रयोज- 20 ननिवर्तक' इति, एवमवगतसम्बन्धोऽन्यदाऽनभ्यासदशायामनुमानात् ' ममाऽयं स्वरूप- प्रतिभासोऽभिमतार्थक्रियासाधनः, एवरूपप्रतिभासत्वात्पूर्वोत्पन्नवरूपप्रतिभासवदि' त्येवं- रूपात्पूर्वदर्शनस्य प्रामाण्यं निश्चिय प्रवर्तत इति चक्रकाभावात् । न च संशयात्प्रवृत्तौ तत्रार्थ- क्रियामानात्प्रामाण्यनिश्चयो विफल इति वाच्यम् , तत्रार्थक्रियाबानजन्यप्रामाण्यनिश्चयस्य संशयापनयनफलत्वात् । सशयापगमस्य त्वभ्यासः प्रयोजनम् । एकदाऽर्थक्रियाज्ञानात् प्रामा- ज्यनिश्चयेऽन्यदा प्रतिपत्तॄणां सुखेनैवाभ्यासात् स्वतः प्रामाण्यनिश्चयपूर्वकप्रवृत्तिसम्भवात् । न च संशयासवर्तमानस्य कथं प्रेक्षावत्वमिति वाच्यम् , अप्रेक्षावत्वस्यैवेष्टत्वात् , नहि कश्चि- जात्या प्रेक्षावान् तदन्यो वा, प्रेशावरणक्षयोपशमविशेपस्य सर्वत्र सर्वदा सर्वेपामसम्भवान, प्रक्षीणाशेपावरणादशेपवेदिनोऽन्यत्र क्वचिकदाचित्कस्यचिदेव प्रेक्षाववादित्यलं पल्लवितेन ॥ 25 :४४८: - तत्वन्यायविभाकरे- [ सप्तमकिरणे तदेवं मत्यादिपञ्चविधं प्रत्यक्षपरोक्षरूपं सलक्षणं सभेदश्च संक्षेपत आख्याय प्रमाण- विपग्रफलप्रमातृरूपेषु:चतुर्विघेषु तत्त्वस्य परिसमाप्त द्विषयमभिधातुकाम आह- परिच्छेद्यमस्य प्रमाणस्य सामान्यविशेषाद्यनेकान्तात्मकं वस्तु ॥ परिच्छेद्यमिति । परिच्छेत्तुं योग्यो विषय इत्यर्थः, परिच्छेचमस्यानेकान्तात्मक 5 वस्त्विति योजना, अनेकान्तः कीदृश इत्यत्राह सामान्यविशेषादीति, सामान्यञ्च विशेषश्च सामान्यविशेषौ वक्ष्यमाणस्वरूपौ तावादियस्य सः, सचासावनेकान्तश्च, स एवात्मा स्वरूप यस्य तदिति विग्रहः, वस्तुपदेन बाझोऽभ्यन्तरच भावराशिाह्यः, नित्यानित्यभेदाभेदा- मिलाप्यानभिलाप्यादीनामादिना ग्रहणम् । ननु सत्त्वासत्त्वाचनेकान्तात्मकमिति कुतो नोक्त- मितरेषां तदधीनत्वादिति चेन्न, सत्त्वासत्वात्मकत्वस्य सप्तभङ्गीनिरूपणेनावगतप्रायत्वात्, 10 सामान्यशब्देन द्रव्यबोधकेन नित्यत्वस्य पर्यायवाचिविशेषशब्देनोत्पादव्यययोश्च लामेनोत्पा- दव्ययध्रौव्यात्मकत्वस्यापि वस्तुनि लाभाञ्च तथोपन्यासः । ननु कथं सामान्यविशेपात्मकत्वं वस्तुनस्सम्भवति, सामान्य ह्येक, अनेके विशेषाः, नित्यं सामान्यं, अनित्या विशेषाः, निरव यवं सामान्यं, सावयवा विशेषाः, अक्रिय सामान्यं, सक्रिया विशेषाः, सर्वगतं सामान्य, असर्वगता विशेषाः, तथा च वस्तु यदि सामान्यरूपं कथं विशेषरूपम्, अथ विशेषरूपं 15 कथं सामान्यरूपम् , तदुभयरूपत्वे च वस्तुनस्सकललोकप्रसिद्धव्यवहारनियमोच्छेदप्रसङ्गा, तथाहि विषमोदकक्षीरादिव्यत्यभिन्नमेकं सामान्यं यदि वर्तते वर्हि विषं विषमेव, मोदको मोदक एवेति न स्यात्, मोदकाभिन्नसामान्यामिन्नत्वात् विषस्य, विषामि- नसामान्याभेदात् मोदकस्य, अपि तूमयमुभयरूपं स्यात् ततश्च विषे मोदके च विषार्थी प्रवर्तेत, मोदके विषे च मोदकार्थी, लोके च विषार्थी विप एवं प्रवर्तते, मोदकार्थी 20 मोदक एवेत्यस्य नियमस्योच्छेदः, तथा विषे मक्षिते मोदकोऽपि भक्षितस्यात् मोदके मक्षिते विपमपि, तथा च सति प्रतीतिविरोध इति चेन्मैवम् , सामान्यविशेषात्मकवस्तुनोऽ नुभवसिद्धत्वात् , घटेषु घटो घट इत्यनुवृत्तप्रत्ययस्य ताम्रो मार्तिकस्सौवर्णइत्येवं व्यावृ- । १. तथा च प्रयोगो जीवादिधर्मा अनन्तधर्मात्मक प्रमेयत्वान्यथानुपपत्तेरिति, न च धर्मे व्यभिचार, तस्याप्यनन्तधर्मात्मकत्वे धमित्वअसते. इष्टापत्तौ न धर्मी स्यात्कोऽपि, धर्माभावादिति वाच्यम्, सर्वथा धर्मस्यैव , कस्यचिदसम्भवात् ,- विवक्षितधर्मापेक्षया हि सत्त्वादिम , स स्वधर्मान्तरापेक्षया धर्म्यपि, न चानवस्था, अनाद्यनन्तत्वाद्धर्मर्मिस्वभावमेदव्यवहारस्य । न च साधनस्य प्रमेयत्वस्यानन्तधर्मशून्यत्वे तेनै- वानेकान्त, तस्यानन्तवर्मात्मकत्वे धर्मित्वेन पक्षान्तर्गतत्वान हेतुस्वमिति वाच्यम्, बर्मिगो जीवादेरपो- द्रियमाणस्य प्रमेयत्वादधर्मस्य नविषयस्य नयत्वेनाप्रमेयत्वापभिचाराभावात् व्यभिचारलक्षणे साध्याभाव- तवृत्तित्वयोरेकावच्छेदेन प्रवेशादिति बोध्यम् ॥ ।

, १ सामान्यविशेषात्मकम् ] न्यायप्रकाशसमलते तप्रत्ययस्यावाध्यमानस्य प्रतिप्राणि प्रतीतत्वात् न चार्य प्रान्तः प्रत्ययः, अर्थसामर्थ्यजन्य- त्वात् , अर्थविज्ञानसद्भावाद्धि तन्निश्चयो नार्थसद्भावमात्रात् सर्वार्थानामपि सद्भावस्याविशे- पेणं सर्वेषां सर्वज्ञत्वप्रसङ्गात्, उपजायते च ज्ञानं सामान्यविशेषाकारमेव, एकादिस्वभावं सामान्यमनेकादिस्वरूपो विशेष इति तु युक्तिविरहानाभ्युपगम्यते, एकादिस्वभावं हिं सामान्य किमनेकेषु विशेषेषु सर्वात्मना देशेन वा वर्चेत, न तावत्सर्वात्मना, आनन्त्यप्रस- 5 गात् विशेषाणामनन्तत्वात् एकत्रैव सर्वात्मना वृत्तौ तद्भिनविशेषाणां सामान्यशून्यत्वापत्तेः, अनन्तत्वे चैकत्वविरोधात् नापि देशेन, सदेशवप्रसङ्गात्, नापि गगनवत्यापित्वावर्तत इति साम्प्रतं कायदेशव्यतिरेकेण वृत्त्यदर्शनात् नमसस्सप्रदेशत्वेन न वद्वृत्तिरुभयन्यति- रिक्ता, अनेकत्र वृत्तेरनेकत्वं व्यापक वद्विरुद्धं सर्वथैक्यं सामान्ये त्वयाभ्युपगम्यते 'सतो नानेकवृत्ति स्यात् विरोध्येकत्वसद्भावे तु व्यापकस्यानेकत्वस्य निवृत्त्या व्याप्यस्यानेक- 10 वृत्तित्वस्यावश्यं निवृत्तिः स्यात् न च यदि नित्यं व्याप्येकं निरवयवं सामान्यवस्तु न स्यान्न तदा देशकालस्वभावभेदभिन्नेषु घटशरावादिपु विशेपेषु सर्वत्र मृन्मृदित्यभिन्नौ बुद्धि- शब्दौ स्याताम्, न ह्यत्यन्तभिनेपु जलादिषु मृन्सृदित्येकाकारा बुद्धिर्भवति नाप्येका- कारः शब्दः प्रवर्त्तते, ततोऽभिन्नबुद्धिशब्दप्रवृत्तिनिमित्तस्य सामान्यस्य वादृशस्य स- त्वमवश्यमाश्रयितव्यमिति वाच्यम् , वनिबन्धनस्यास्माभिरनिषेधात् किन्त्वेकत्वादिधर्मयुक्त- 15 परपरिकल्पितसामान्यस्यैव निषेधात् । अनेकान्वधर्मात्मकवस्तुनस्समानपरिणामस्यैव वाह- शबुद्धिशब्दनिबन्धनत्वात् तुल्यज्ञानपरिच्छेद्यवस्तुरूपस्य समानपरिणामस्य विलक्षणत्वेन न वृत्तिविकल्पप्रयुक्तदोषसम्भवः, अस्यैव समानभावत्वोपपत्तेः, समानानां भावस्सा- मान्यमिति, समानस्तथा भवनमित्यन्वर्थयोगात्, अर्थान्तरभूतभावस्य तस्यतिरेकेणापि तत्समानत्वेऽनुपयोगान, अन्यथा समानानामित्यभिधानाभावादयुक्तव तत्कल्पना।समानत्वञ्च 20 भेदाविनाभाव्येव तदभावे च सर्वथैकत्वतस्समानत्वानुपपचिरिति समानपरिणाम एव समानबुद्धिशब्दद्वयप्रवृत्तिनिमित्तम् , अत एव य एवासावेकस्मिन् विशेपे स एव विशेषा- - १ अनुभवसिद्धत्वमेव विशदयति अर्थविज्ञानसद्भावाद्धीति ॥ २ नार्थसद्भावोऽर्थसद्भावादेव कारणा- शिश्चीमत इति भाव. ॥ ३ आकाशस्य निष्प्रदेशत्वऽयं दोष तथाहि येन देशेन तद्विन्ध्येन संयुकं तेनव देशेन हिमवदादिमिस्सयोगे विन्ध्यहिमवदादीनामेकत्रैवावस्थान स्यात् अन्यथा निष्प्रदेशकाकाशसंयोग एव न स्यात् । अन्न देशेन संयोगे तु सप्रदेशत्वमेव । किञ्च यत्र विन्ध्यस्य सत्त्वं यत्र वा तस्यामावस्तयो- राकाशभागयोस्सर्वधाऽनन्यत्वे यत्र विन्ध्यस्य भावस्तत्राप्यभाव स्यात् विन्ध्यवन्नमोभागस्य विन्ध्यामावक- अमोमागानतिरिकत्वात् कश्चिदमैदेऽनेकान्तवादप्रवेश मर्वथा मैदेऽन्यतरस्यानभोंमागस्वप्रसाः। अथ कश्चित्तहि स्वदर्शनपरित्यागो दोष इति ।। ५७ तस्वन्यायविमाकरे [ ससमकिरणे - न्तर इति न, किन्तु समान इति, न चैवं सति विशेषाणां परस्परविलक्षणत्वान्न स्यात्स- मानबुद्धिशब्दद्वयप्रवृत्तिरिति वाच्यम् , वैलक्षण्ये सत्यपि समानपरिणामसामर्थ्यास्प्रवृत्तेः । असमानपरिणामनिबन्धना चेह विशेषबुद्धिः। समानपरिणामस्यासमानपरिणामाविनाभूतत्वेन यत एव वस्तु सामान्यरूपं तत एव विशेषरूपम् । यत एव च विशेषरूपमत एव च सामा- 5 न्यरूपम् , न चानयोर्विरोधः, समानासमानपरिणामयोरुभयोरपि संवेदनस्योभयरूपत्वात् सोऽयं समानपरिणामो न विशेषादर्थान्तरं सर्वथैकखभावं वा, येन सकललोकप्रसिद्धसंज्य- वहारनियमोच्छेदप्रसङ्गस्स्यात् । किन्तु भेदाविनाभूतत्वाद्य एव विषादमिन्नो न स एष मोदकादिभ्योऽपि, सर्वथा तदेकत्वे समानत्वायोगात् । न च समानपरिणामस्यापि प्रतिवि- शेषमन्यत्वेऽसमानपरिणामवत्तद्धावानुपपत्तिरिति वाच्यम्, परिणामस्यान्यत्वे सत्यपि समा- 10 नासमानपरिणामयोमिन्नस्वभावत्वात् समानबुद्धिशब्दप्रवृत्तिनिमित्तस्वभावो हि समानप- रिणामः, विशिष्टबुद्धिशब्दजननस्वभावो विशेष इति । तस्माद्वस्तु सामान्यविशेषोभयात्म- कमेवेति सिद्धम् । एवं नित्यानित्यात्मकत्वमप्यध्यक्षेणावगम्यते, अन्यथा वस्त्ववगमामावः प्रसज्येत, तथाहि-अप्रच्युतानुत्पन्नस्थिरैकस्वभावं सर्वथा नित्यमभ्युपगम्यते यदि तर्हि वस्तु विज्ञानजननस्वभावं वा स्यादजननस्वभावं वा, यदि प्रथमः, तदा सर्वत्र सर्वदा 15 सर्वेषां तद्विज्ञानप्रसङ्गः, तस्यैकस्वभावत्वात्, न ह्येवं दृश्यते, क्वचित्कदाचित्कस्यचि- देव तद्विज्ञानस्योदयात् । न च तस्य सर्वथैकम्वभावत्वेऽपि देशादिकृतविशेषात्तथेति वाच्यम् , प्राक्स्वभावविनिवृत्ति विना विशेषासम्भवेन तद्भावेऽनित्यत्वप्रसङ्गात् । नापि सहकारिणमपेक्ष्य तन्जनयतीति वाच्यम , एकान्तनित्यत्यापेक्षाऽयोगात् । सहकारिणा क्रिय माणस्य विशेषस्य ततोऽर्थान्तरत्वे नित्यस्य वस्तुनस्तेन प्रयोजनाभावात् वस्तुनस्तदव- 20 स्थत्वात्, वस्तुनि तस्य किश्चित्कारित्वाभावात् किश्चित्कारित्वे च तदिदं भिन्नमभिन्नं वेत्या- वृत्त्यानवस्थापातात् । विशेषस्थानान्तरभूतत्वे स विशेपो विद्यमानः क्रियमाणो भवत्य- विधमानो वा, नाद्यो विद्यमानः कथं क्रियते, करणे वा भूयो भूयः करणं स्यात् विद्यमान- त्वाविशेपात्, नाप्यविद्यमानः क्रियते व्याहतत्वात , स तस्मादभिन्नोऽविद्यमानश्चेति, करणे वाऽनित्यत्वापत्तिः क्रियमाणे च तस्मिन् पदार्थस्यैव क्रियमाणत्वात् वस्य तदभिन्नत्वात् । 25 विशेषस्याकरणे च स न तत्सहकारी स्यात् अकिञ्चित्करत्वात् । अकिञ्चित्करस्यापि सह- कारित्वे सर्वभावानामेव तत्सहकारित्वप्रसङ्गः स्यात् , न च वस्तुन एव तथास्वभावो यद्- विशेषमकुर्वाणमेव प्रतिनियतं सहकारिणमपेक्ष्य कार्यकरणमिति न कश्चिदोष इति १. एवच विषार्थी विष एव प्रवर्तते, तद्विशेषपरिणामस्यैव तत्समानपरिणामाविनाभूतत्वात्, न तु मोदके तद्विशेषपरिणामस्य, तत्समानपरिणामाविनाभावाभावादिति बोध्यम् ॥

भेदाभेदात्मकम् ] न्यायप्रकाशसमलङ्कृते वाच्यम्, कार्यकरणावस्थायां तस्य सहकार्यपेक्षालक्षणस्वभावव्यावृत्तावनित्यत्वप्रसङ्गात् स्वभावव्यावृत्तौ तदभिन्न स्वभाववतोऽपि व्यावृत्तताया आवश्यकत्वात् । अव्यावृत्तौ च पूर्व इवेदानीमपि कार्याकारित्वप्रसङ्गात् स्वभावापरावृत्तः, सर्वदा वा जननप्रसङ्गस्यादिति नैकान्तनित्यपक्षे विज्ञानादिकार्याजननेन तदवगमसम्भवः । अथ स्वभावादेकक्षणस्थिति- धर्मकमेकान्तानित्यं वस्त्वित्यभ्युपगम्यते तदापि विज्ञानादिकार्यायोगान्न तवगमसम्भवा, . न च सर्वथा एकक्षणस्थिविधर्मिणो विज्ञानादिजनकत्वमुपपद्यते, वस्यैवायोगात् । तथाहि क्षणस्थितिधर्मक नाम क्षणस्थितिस्वभावं वथा चास्य द्वितीयादिक्षणेष्वस्थितिः स्यात् तत्र तयोः स्वित्यस्थित्योः परस्परमन्यत्वमनन्यत्वं वा, यधन्यत्वं सर्वथा तदा- द्वितीया- दिक्षणेष्वपि वितिप्रसङ्गः, अन्यथा द्वितीयादिक्षणास्थित्या प्रथमस्थितेरेकान्तभेदो न भवेत् , अनन्तराक्रान्तविग्रहाणां भावानामस्थित्यकान्तभिन्नया वर्तमानसमयमाविभावानां 10 स्थितेरविरोधात् । कथञ्चिदन्यत्वे चानेकान्तवादापत्तेः । यदि तयोस्सर्वथाऽनन्यत्वं तदा प्रथमक्षणस्थितेरेव द्वितीयादिक्षणास्थितिरूपतया तस्याश्च भावात्मकत्वेन द्वितीयादिक्षणे- ध्वपि स्थितेरापत्तेः । द्वितीयादिक्षणास्थितेनिरुपाख्यत्वेन वद्रूपत्वात्प्रथमक्षणस्थितेः प्रथम क्षणेऽप्यभावप्रसगाच । कथाश्चिदभेदे चानेकान्तवादापत्तेः । न च स्थित्यस्थित्योर्मेदा- भेदकल्पनाऽयुक्ता, अस्थितेरभावरूपत्वादिति वाच्यम्, भेदाभेदयोरभावपरिहारेणावृत्तेः। 15 न च तदुत्तरकालभाविपदार्थान्तरस्थिविरेव विवक्षितस्य द्वितीयादिक्षणास्थिति न्या काचनास्थिति]न भेदाभेदकल्पना स्यादिति वाच्यम्, तथा सति सुतरामन्यत्वानन्यत्व- कल्पनाप्रसरेण पूर्वोदितेदोषस्यानिवार्यत्वात् । न च परिकल्पिता द्वितीयादिक्षणास्थिति तो भेदाभेदकल्पनेति वाच्यम्, तथात्वे च द्वितीयादिक्षणेष्वपि स्थित्यापतेः। न च द्वितीयादिक्षणा- स्थिती सत्यां प्रथमक्षणस्थितेरसम्भवात् सम्भवे वा तदनुपपत्तेः प्रतियोग्यभावेन भेदाभेद- 20 कल्पनाऽसम्भवानोक्तदोषप्रसङ्ग इति वाच्यम्, अस्थितेस्तद्धमत्वप्रसङ्गस्य दुरित्वात्, स्थित १. कार्याजननकाले य एव स्वभावस्स एवेदानीमिति कथं जनयति कयं वा पूर्वमपि न जनयति । सहकारिणा सह जननस्वभावत्वमवस्तत्सद्भावे जनयत्यन्यथा नेति चेत्सोऽयमपि स्वभावो गदि नित्यस्तदा सदा जननामा अजनयतश्च कथं सदा तत्स्वभावलं, तस्माद्यदा यद्भवति तदा तेन सह तज्जननस्वभाव न तु सदैत्यहीकर्तव्यमेवश्च स्वभावभेदै कथमकान्तनित्यतेति भाव. ॥ २. यथा प्रथमक्षणवर्तिघटपटादीना या स्थितयस्ता अन्यस्वान्न परस्पर विरुद्धास्तथाऽन्यत्वाविशेषादस्थितिकालेऽपि तस्य स्थिति स्यादिति भावः ॥ ३. स्थित्यस्थिती परस्परं मिने भवतोऽमिन्ने वेति गवा न सभवति अस्थितरमावरपत्वादिति शहागय. समाधानाशयस्तु भेदाभेदाकारी अभावादन्यत्रैव भवत इति यदि नियम स्यात्तदेवं भवेत् न लेवमस्तीति । १. प्रथमक्षणात्तरकालमावीत्यर्थ ॥ ५, अन्यत्वे उत्तरकालीनपदार्थान्तरस्थितिक्षणेऽपि प्रथमकालभाविप- दार्यक्षणस्थितिप्रसा, अनन्यखे तु तयोरन्यतरस्या सत्तामा इति ॥ ६. द्वितीयादिक्षणस्थिते परिकल्पि- तत्वेनासत्त्वादिति याव ॥

:५५२: तवन्यायविभाकरे [सप्तमकिरणे एव यस्थितो भवति तथा च यथा स्थितत्वं तद्धमतथाऽस्थितत्वमपीति, अतद्धर्मत्वे वा स्थित्या- पत्तेः । ततश्च स्वहेतुभ्य एव स्थित्यस्थितिधर्मकं समुत्पश्चत इति प्रतिपत्तव्यम् , न चाक्रमवतः कारणात्क्रमवद्धर्माध्यासितकार्योत्पत्तियुज्यते तथा च यदैव स्थितिस्तदैवास्थितिः स्यात् कुतः क्षणस्थितिधर्मकत्वमतो न विज्ञानादिकार्ययोगः, नित्यानित्यं पुनः कथञ्चिदवस्थितत्वादनेक- । स्वभावत्वाजनयति विज्ञानादिकमतोऽवगम्यते, नित्यानित्यत्वञ्च वस्तुनो द्रव्यपर्यायोमय- रूपत्वादनुवृत्तव्यावृत्ताकारसंवेदनप्राह्यत्वात्प्रत्यक्षसिद्धमेव । न चास्य स्वसंवेद्यस्यापि संवेदनस्यापहवः कत्तुं युज्यते प्रतीतिविरोधात्, न चेवं भ्रान्तम्, देशान्तरे कालान्तरे नरान्तरेऽवस्थान्तरे च मृत्पिण्डादिषु तादृशसंवेदनस्य प्रवृत्तेरिति । एवं भेदाभेदात्मकमति वस्तु प्रत्यक्षेणावगम्यते, तथाहि मृन्मुदित्यनुगताकारप्रत्ययवेद्यं वस्तुनो रूपमभेदः, तस्य 10 यच्छिवकस्थासकघटकपालादिना भेदेन भवनं स भेदा, अभेदस्यैव च भेदरूपेण भवनाद- विरोधेन तदुभयस्वरूपत्वं वस्तुनः । नन्वभेदस्य भेदेन भवनमसङ्गतम् , एकस्वभावत्वं बभेदो नानारूपत्वञ्च भेदस्तयोस्तु परस्पर विरोधान्नैकत्र तौ सम्भवतः, ततो यद्ययमभेदस्तदा न कदाचिद्भेदो भवेत् भावानां स्वभावान्यथात्वाभावात्, न च भावस्स्वस्वभावापरिहारेणैव भेदरूपतामासादयतीति वाच्यम् , भेदाभेदयोः परस्परविरुद्धयोरेकस्वभावत्वायोगात् भेदो- 15 पलम्भस्याभेदप्रतिषेधाऽऽवेदकत्वात् । अन्यथा एतत्सकलस्तम्भेमकुम्भाम्भोजभास्करादि- कमेकस्यैव ब्रह्मणो रूपमित्यपि स्यात् । तस्मान्नाभेदो भेदमासादयति, तन्न युक्तम् , सर्वथा भेदाभेदयोर्हि स्याद्विरोधोऽयन्तु भेदोऽभेवश्च विलक्षणः, स्यादभेदस्य स्या दे को विरोधः ? यत एव ह्ययं भेदो भवत्यत एव स्यादभेदः, न च भेद एव कुतो नेति वाच्यम् सर्वथा नानात्वाभावात् , प्रमाणाधीना हि प्रमेयव्यवस्था, ततस्तत्र यस्सर्वथैकरूपतः प्रकाशतेऽसा- 20 बभेदो भवति, सर्वथा नानारूपतया तु प्रतिभासमानो मेदा, यस्तु न सर्वथैकरूपः प्रकाशते न च सर्वथैव नानास्वभावः स नाभेद एव न च भेद एव अपितु भेदाभेदात्यं जात्यन्तरमेवेदम् , दृश्यते हि द्रव्यपर्याययोरसंख्यासंज्ञालक्षणकार्यभेदा दो देशकालस्वभावा- भेदाचाभेदः, एको हि घटो रूपादयो बहव इति संख्याभेदः घटो रूपादय इति सज्ञाभेदा, अनुवृत्तिलक्षणं द्रव्यं नित्यञ्च, व्यावृत्तिलक्षणाः पर्यायाः क्षणिकाश्चेति १. अभ्यन्तरीकृतपर्यायवाद् द्रव्यात्मना नित्यं, अभ्यन्तरीकृतद्रव्यत्वात्पर्यायात्मनाऽनित्यमित्यर्थः, ननु पर्यायनिवृत्तौ द्रव्यनिवृत्तिर्मवति न वा, आये निवृत्तिमत्वात्तदनित्यमेव, पर्यायस्त्रात्मवत्, अन्त्ये च पर्याय- निवृत्तावपि तस्यानिवृत्त्या तेभ्योऽन्यदेव द्रव्यं स्यात् क्रमेलकादिव कर्क, मैवम् कश्चिभिवृत्तिभावान इतरेतरविनिमुकस्योभयस्याग्रहणाद्धि द्रव्यपर्यायोभयरूप वस्तु ऊर्ध्वाधाकाररहितस्य च मृहन्यस्यासम्भवात कपालकालेऽपि घटपर्यायवुद्धथा मृदनुभूयते भूनिवृत्ती तादिपर्यायवनानुभूयेत एवमूर्खाद्या कारस्यापि मृद्रव्यरहितस्यासम्भवः, न ह्यद्रव्या घटादिपर्यायास्सन्ति ।।

, उत्पादाद्यात्मकम् ] न्यायप्रकाशसमलट्टते :४५३: लक्षणभेदः, घटेनोदकाहरणं क्रियते, रूपादिभिस्तु वस्तुराग इति कार्यभेदः, देशादिभिस्त्व. भेवः, न च स्वभावतो भेदाभावे धर्मधर्मिणोरसंख्यादितोऽपि कथं भेदस्स्यादिति वाच्यम् , द्रव्यपर्याययोहि स्वभावभेदे प्रतिषिद्धे सत्यभेदः साध्या, स च सम्बन्धः । सम्बन्धश्चैकस्यै- वात्मनो न सम्भवति द्वयनिष्ठत्वादस्य, नहि घटो घटादभिन्न इति कदाचिदपि व्यवहारः प्रवर्त्तमानस्समुपलभ्यते, न चैकत्रापि दृष्ट एवं व्यवहारो यथा घटस्य तत्स्वरूपस्य चाभेद । इतीति वाच्यम् , तत्रापि कथसिद्भेदाश्रयणात् घट इति धमिवचनशब्दः, स्वरूपन्तु स्वं रूपं स्वरूपमिति तस्यैव भावस्यानित्यत्वादिरूपं धर्ममाह, तस्माइन्यपर्याययोरयमेव स्वभाव- विशेषो यन्नेतराननुविद्धमेकस्यापि किञ्चिदात्मीयं रूपम् , अत एव न तद्न्यमित्येव व्यप- दिश्यते नापि पर्याया इत्येव, किन्तु सप्तमङ्गया पाशिरूपितया, इत्यमेव वस्तुस्वरूपतोपपत्तेः । न च संख्यादयः पररूपा भिद्यमाना अपि कथमात्मभूतमभेदं न बाधितुं समर्था इति वाच्यम्, 10 यतो नास्माकं नैयायिकादीनामिवैकान्वेन भावन्यतिरेकिणः केचित्संख्यादयोऽपि, किन्तु स एव भावो भेदाभेदतया व्यवस्थितः कदाचिदनेकत्वप्राधान्येन विवक्ष्यते कदाचिदेकत्व- प्राधान्येन, ततो यदाऽनेकत्वप्राधान्येन विवक्षितस्तदा स एष रूपादिपर्यायात्मको भवति, एकत्वप्राधान्येन विवक्षितस्तु स एव द्रव्यमिति, तदेवं प्रमाणप्रतिपन्नत्वेन भेदाभेदात्मकं वस्त्विति । एवमुत्पादव्ययधौव्ययुक्तत्वं वस्तुनः, न चोत्पादव्यययोधौव्येण विरोध इति 15 वाच्यम् , कथञ्चिदुत्पादव्यययोः कथञ्चिद् ध्रौव्यस्य च स्वीकारात् न च यथोत्पादन्ययो न तथा प्रौव्यं यथा प्रौव्य तथा नोत्पादव्ययाविति नैक वस्तु यथोक्तलक्षणं स्यात् , यद्धि यत्प्रकारव्यवच्छेदेन व्यवस्थाप्यते न तत्र तत्प्रकारसम्भवः यथा नीलप्रकारव्यवच्छेदेनानील- प्रकारव्यवस्थायां पीते । अस्ति चोत्पादव्ययव्यवच्छेदेन धौन्यव्यवस्थापन प्रौव्यव्यवच्छेदेन चोत्पादव्ययव्यवस्थापनम् , उत्पादस्य वस्तुभावत्वात् विनाशस्य व्ययत्वात् , अन्वितरूपस्य 20 धौव्यत्वादिति मिन्नप्रकारत्वं तेषामिति वाच्यम् , एकान्तोत्पादव्ययध्रौव्याणामनभ्युपगमात् १. अत्र स्थित्यादीना हि वस्तुनो यद्यभेदस्तदा स्थितिरेवोत्पत्तिविनाशी, विनाश एव स्थित्युत्पत्ती, नत्प- तिरेव च विनाशावस्थाने इति प्राप्तम्, एकस्मादमिन्नाना स्थित्यादीना भेदविरोवात् तया च कथं त्रिलक्षणत्वं स्यात्, अथ भेदस्तहि प्रत्येक स्थित्यादीना विलक्षणत्वासा. सत्त्वात् , अन्यथा स्थित्यादीनामसत्त्वापत्ते, तथा वानवस्था स्यादिति पूर्वपक्ष, पक्षद्वयमपि कथञ्चिदिष्टमस्माकम् , तत्र स्थित्यादिमतस्सकाशात्कथञ्चिद भेदोपगमे स्थित्यादीना स्थितिरेयोत्पद्यत, उत्पद्यमानद्रव्याभदमामाच विनश्यति, विनाश एव तिष्ठति, सामयादुत्पद्यते च उत्पत्तिरेच नश्यति सामर्थ्यात्तिष्ठतीति च ज्ञायते, इति विलक्षणजोवादिपदार्थाभिनाना स्थित्यादीनामपि विलक्षणत्वसिदः, एतेनैव च ततस्तेपा भेदोपगमेऽपि प्रत्येकं त्रिलक्षणत्वसिद्धि, न चानवस्था, सर्वथा भेदपक्षे तत्प्रसके, न स्याद्वादपक्षे, येन हि स्वभावेन विलक्षणात्तत्वादमिना स्थित्यादयस्तन प्रत्येकं त्रिलक्षणाः, पर्यायार्पणात्परस्परं तद्वतश्च भिन्ना अपीव्यन्ते, तथा प्रतीतेर्वाधकासम्भवादित्युत्तरपक्ष । .

B४५४ तत्त्वन्यायविभाकरे [ सप्तमकिरणे . किन्तु स्याद्वाई निष्कलङ्कितमतिसमुत्प्रेक्षितमाश्रित्य कथञ्चिदेव तद्व्यवस्थापनाङ्गीकारात्। एकान्ताभ्युपगमें झुत्पादव्ययध्रौव्याणां यथोक्तो व्यवच्छेदसम्भवत्यन्यथा विरोधायोगात् । स्याद्वादाश्रयणातु नान्यव्यवच्छेदेनान्यव्यवस्थापनं किन्तु यत एव तद् प्रौव्यमुत्पादव्ययानु- विद्धमत एव तत्कथविद् धौव्यमुत्पादव्ययावपि, यत एवं प्रौव्याजुविद्धावत एव तो 5 कश्चिदुत्पादव्ययाविति । ननु कोऽयमनुवेघो नाम, किमभेदो भेदो भेदाभेदो वा, नाधः एकरूपतापत्तेः, अन्यथा तदयोगात् , भेदे तु भिन्नमेव रूपद्वयं स्यात् , भेदाभेदपक्षस्तु विरो- धव्याहत इति तन्न, अभिप्रायापरिज्ञानात् , यतो यदेतद् धौव्यमप्रच्युतानुत्पन्नस्थिरैकरूपं न भवति, अपि तु परिणामात्मकं तदुत्पादव्ययावप्युच्यते, न पुनस्तावितो व्यतिरिक्तावेव कौचि- दपि स्त:, अत एवोत्पादव्ययावपि यौ तौ नात्यन्तिकभिन्नौ, किन्तु वस्तुन एव परिणामा- '10 त्मकौ तौ प्रौव्यमप्युच्येते, न पुनस्तदपि किञ्चिदेतव्यतिरिक्तमस्तीति, तदेवं या यथोक्तरूपता वस्तुनस्सोऽयमनुवेधः न पुनरत्र मिन्नस्य कस्यचिदभेदापादनमत्यन्तभेदो वा, तस्मादुत्पाद- व्ययध्रौव्यात्मकमेव वस्तु इति, इतरथा वस्त्वेव तन्न स्यादिति ॥ एवमभिलाप्यानभिलाप्या- त्मकं वस्तु, अस्यैव प्रमाणसिद्धत्वात् तथाव्यवहारोपपत्तेश्चान्यथा व्यवहारोच्छेदप्रसङ्गात् तथाहि वस्तु यदेकान्तेनानमिलाप्यमेव तदा तथाविधशब्दात्तथाविधार्थप्रतीत्यनुदयप्रसङ्गः '15 स्यात् , दृश्यते चानलाद्यानयेत्युक्ते तत्प्रतीतिस्तत्पूर्विका बहधादी प्रवृत्तिस्तत्समासादनं समा- सादिते च तथा निवेदनमिति कश्चिदमिलाप्यत्वसिद्धिः, अपि चानभिलाप्यतैकान्ते स्व- वचनविरोधापत्तिरनमिलाप्यतैकान्तशब्देनानमिलाप्यतैकान्तस्याभिधानात् । अनमिलाप्यतै- कान्तस्याप्यनमिलाप्यत्वे कुतः परस्य प्रतिपादन स्यात्, परमार्थतो न कश्चिद्वचनात्प्रतिपाद्यते चेत्स्वयं कथमवाच्यताप्रतिपत्तिः, वस्तुनि वाच्यतानुपलब्धेरिति चेत्सा यदि दृश्यानुप- 20 लब्धिस्तदा सिद्धा क्वचिद्वाच्यता, क्वचित्सिद्धसत्ताकस्यैव कुम्भादेश्यानुपलब्धिवशादमाव- प्रतीतेः । अथादृश्यानुपलब्धिः न तर्हि वस्तुनि वाच्यत्वाभावनिश्चयः, स्याद्वादाश्रयणे तु न कश्चिदोषः कथञ्चिद्वाच्यत्वावाच्यत्वयोवस्तुनि प्रतीतेः, न खल्वेकान्तेनामिलाप्यस्वभावं वस्तु भवत्युपलम्भमाजनम्, अमिलाप्ययोग्यपर्यायैरेव स्थूलैः कालान्तरस्थायिभियंजनपर्या- यांपराभिधानश्चेतनाचेतनस्य सकलवस्तुनोऽमिलाप्यत्वप्रतीतेः, न पुनरनमिलापयोग्यपर्यायै- रपि । नाप्येकान्तेनानभिलाप्यस्वरूपमुपलब्धिभाजनमनमिलापयोग्यपोथैरेव सूक्ष्मैः प्रति- क्षणमाविभिरर्थपर्यायापरनामधेयैस्सर्वस्यानमिलाप्यत्वप्रतीतेन त्वमिलापयोग्यपर्यायैरपि । ननु यदि वस्त्वमिलाप्यानमिलाप्यधर्मकं वर्हि अमिलाप्यानां शब्देनाभिधीयमानत्वालि- मित्यकृतसंकेतस्य पुरोऽवस्थितेऽपि वाच्ये शब्दान सम्प्रत्ययप्रवृत्ती भवतः, मैवम् तज्ज्ञाना- परणकर्मक्षयोपशमाभावात् , तस्य सङ्केतामिव्यङ्गयत्वात् , स्वभावस्यात्मनो हि मिथ्यात्वा- , . 25 10 सामान्यम् ] न्यायप्रकाशसमलते दिजनितज्ञानावरणादिकर्ममलपटलाच्छादितस्वरूपस्य संकेततपश्चरणदानप्रतिपक्षभावनादि- मिस्तदावरणकर्मक्षयोपशमक्षयावापयेते, ततो विवक्षिताकारसंवेदनं प्रवर्तत इति, अन्य- था तत्प्रवृत्त्यभावात्, न चात्र विरोधबाधा, भिन्ननिमित्तत्वात् , ययोभिन्ननिमित्तत्वं न तयो- रेकत्र वस्तुनि विरोधो यथा ह्रस्वत्वदीर्घत्वयोः, मिन्ननिमित्तत्पश्चानयोरमिलाप्यधर्मकलापनि मित्तापेक्षया तस्यामिलाप्यत्वात् अनमिलाप्यधर्मकलापनिमित्चापेक्षया चानमिलाप्यत्वात् । । धर्मधर्मिणोच कथञ्चिद्वेदात् । ततश्च तद्यत एवानमिलाप्यमत एवाभिलाप्यम् , अभिलाप्य- धर्मकलापनिमित्तापेक्षयैवामिलाप्यत्वात् अमिलाप्यधर्माणाञ्चानमिलाप्यधर्माविनामूतत्वात् यत एव चामिलाप्यमत एव चानभिलाप्यम, अनमिलाप्यधर्मकलापनिमित्तापेक्षयैवानभिला- प्यत्वात् , अनभिलाप्यधर्माणाञ्चामिलाप्यधर्माविनाभूतत्वादिति । ततस्सिद्धममिलाप्यानभिला- प्यस्वभावं पस्त्वित्यधिकमन्यग्रन्थेभ्योऽवसेयम् ।। सम्प्रति सामान्यविशेपाद्यात्मकत्वं वस्तुनोऽभिघातुं प्रथम सामान्यस्वरूपं निदर्शयति- तत्र सामान्यं द्विविधं तिर्यक्सामान्यमूर्खतासामान्यश्चेति । व्य- क्तिषु सहशी परिणतिस्तिर्यक्सामान्यं, यथा शुक्लकृष्णादिगोव्यक्तिषु गौगौरिति प्रतीतिसाक्षिको गोत्वादिधर्मः । प्रमाणश्चात्र गौगौरिति प्रत्य- यो विशिष्टनिमित्तनिवन्धनो विशिष्टवुद्धित्वादिति ।। तत्रेति । सामान्यविशेपाचनेकान्तात्मकमित्यत्रेत्यर्थः । प्रकारभेदं दर्शयति-तिर्यगिति । तिर्यगुल्लेखिनाऽनुवृत्ताकारप्रत्ययेन गृह्यमाण तिर्यक्सामान्यमित्यर्थः । ऊर्ध्वतेति, अमुल्लेखि. नाऽनुगताकारप्रत्ययेन परिच्छिद्यमानमूर्खतासामान्यमित्यर्थः । तत्र प्रथममेदं लक्षयति व्यक्तिध्विति, प्रत्येकं व्यक्तिष्वित्यर्थः, दृष्टान्तमाह यथेति । ननु शुक्लकृष्णादिगोमिन्नस्या- परस्य तिर्यक्सामान्यस्य गोत्वाधात्मकस्याप्रतीतितस्तलक्षणप्रणयनमसमीचीनं विजातीयव्या- 20 वृचेरेवानुगताकारप्रतीतेर्भावादित्यवाह प्रमाणमात्रेति, अत्र तिर्यक्सामान्य इत्यर्थः । गौगा- रिति प्रत्ययोऽत्र धर्मा, विशिष्टनिमित्तनिवन्धनत्वं साध्यधर्मः विशिष्टवुद्धित्वं हेतु; । तथा च तादृशं विशिष्टं निमित्तमितरासम्भवात्सदृशपरिणाम एवेति तिर्यक्सामान्यसिद्धिः। एवञ्चा- वाधितप्रत्ययविषयत्वेन सामान्यसिद्धिः, तथाविधस्याप्यस्यासत्त्वे विशेपस्याप्यसत्त्वप्रसङ्गः, 'अबाधितप्रत्ययत्वव्यतिरेकेण प्रमाणान्तरस्य तस्यवस्थापकस्याभावात् अबाधितप्रत्ययस्य 25 विषयमन्तरेणापि सद्भावाभ्युपगमे ततो न कस्यापि व्यवस्था स्यात्, न चानुगवाकारत्वं बुद्धे- धितं, सर्वत्र देशकालादावनुगतप्रतिमासस्यास्खलद्रूपस्य तथाभूतव्यवहारहेतोरुपलम्भात् । अतो व्यावृत्ताकारानुभवेनानधिगतमनुवृत्ताकारमवभासयन्ती बुद्धिरियमवाधितरूपानुभूय- 15 , तत्त्वन्यायविमाकरे [ सप्तमकिरणे , मानानुगताकारं वस्तुभूतं सामान्य व्यवस्थापयति । न च विजातीयव्यावृत्त्यालम्बनत्वमस्याः, विधिप्राधान्येन प्रवृत्त्यनुपपत्तेः, सकलव्यक्तिष्वेकव्यावृत्तेस्तुच्छाया असम्भवात् , धर्मिरूपत्वे च न' ततो मिन्ना काचिद्व्यावृत्तिरिति कथमनुगता धीरस्यात् सामान्यमन्तरेणैवानुगत प्रत्ययोत्पत्ती व्यावृत्तप्रत्ययस्यापि विशेषमन्तरेणोत्पत्तिप्रसङ्गात् ॥ 5 किं पुनरूवतासामान्यमित्यत्राह- पूर्वोत्तरपरिणामानुगामि द्रव्यमूर्ध्वतासामान्यम्, यथा कटककर- णादिपरिणामेषु काश्चनमिति प्रतीतिसाक्षिकं काश्चनद्रव्यम् ॥ पूर्वोत्तरेति । पूर्वोत्तरयोः कटककङ्कणादिपरिणामयोरनुगामिसाधारणमेकं द्रव्यं कालत्र- यानुयायी यो वस्त्वंशस्तदूर्ध्वतासामान्यमित्यर्थः । दृष्टान्तमाह यथेति, तत्र प्रमाणे दर्शयितुं 10 प्रतीतिसाक्षिकमित्युक्तम , तथा च यथा गौगौरित्यनुवृत्तप्रत्ययेन समानकालींनास्वपि व्य- तिषु तिर्यक्सामान्य गोत्वाख्य सिद्ध्यति तथैव पूर्वोत्तरपर्यायेष्वपि काञ्चनमिदं काञ्चनमिद- मित्यादिप्रतीत्या तादृशपर्यायासाधारणं द्रव्यरूपमूर्खतासामान्यं कथञ्चिदभिन्नं सिद्धयत्येवेति भावः । ननु पूर्वोत्तरपरिणामसाधारणस्य तद्व्यतिरिक्तस्य द्रव्यस्याप्रतीतेलक्षणमिदमसङ्गतमिति चेन्न, अर्थानामन्वयरूपस्य प्रत्यक्षादेव प्रतीतेः, यथैव च पूर्वोत्तरपर्याययोावृत्तप्रत्ययाद- IB न्योऽन्यभेदः प्रतीतस्तथाऽनुवृत्तप्रत्ययास्थितिरपि प्रतीयत एव, अनुवृत्त्यविनामावित्वाद्वया- वृत्तेः, अत एव न घटादीनां भेद एवावभासते नाभेद इत्यभिधातुं शक्यम् , अभेदवियुक्तस्य भेदस्य स्वप्नेऽप्यसवेदनात् । न च द्रव्यग्रहणे तदभिन्नत्वादतीताद्यवस्थानामध्यवसायापत्ति- रिति वाच्यम् , अभिन्नत्वस्य ग्रहणं प्रत्यनङ्गत्वात् । यत्रैवात्मनोऽज्ञानपर्यायप्रतिबन्धकापा- यस्तत्रैवाध्यवसायकत्वनियमात् । आत्मा हि प्रत्यक्षसहायोऽनन्तरातीतानागतपर्याययोरेकत्वं 20 स्मरणप्रत्यभिज्ञानसहायश्च व्यवहितपर्याययोरेकत्वञ्चावबुध्यत इति न काप्यनुपपत्तिरिति ॥ अधुना विशेष विभजते- विशेषोऽपि द्विविधो गुणः पर्यायश्चेति । सहभावी गुणः, यथाऽऽत्मन उपयोगादया, पुद्गलस्य ग्रहणगुणः,धर्मास्तिकायादीनाञ्च गतिहेतुत्वादयः॥ . विशेष इति । यथा सामान्यं द्विविधं तथा विशेषोऽपीत्यर्थः कथं वैविध्यमित्यत्राह 35 गुण इति, यद्यपि पर्यायशब्दो विशेषमात्रवाचकस्तथापि सहवर्तिविशेषवाचिगुणशब्दस- निधानेन क्रमवर्तिविशेषवाचक एवेति बोध्यम् । तत्र गुणं लक्षयति सहेति, अभिन्नका- .

. . पर्याया ] न्यायप्रकाशसमलते :४५७: लवर्तिविशेषो गुण इति भावः, दृष्टान्तमाह यथेवि उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यते जीवोऽनेनेत्युपयोगः, सचेतनेऽचेतने वा वस्तुनि जीवो यदोपयुञ्जानस्सपर्यायं सामान्य- तया वा वस्तु परिच्छिनचि तदा ताशपरिणाम उपयोग उच्यते, स च परसरसव्यपे- क्षसामान्यविशेषग्रहणप्रवृतदर्शनज्ञानस्वरूपद्वयात्मको यदा तदा प्रमाणमन्ययाऽप्रमाणं निरपेक्षनिरस्तेतराकारत्वात् । सर्वजीवत्तित्वादस्य सहभावित्वेन गुणत्वं वोध्यम् 15 आदिना सुखपरिस्पन्दयौवनादयश्च गृह्यन्ते, अजीवस्य तान्वक्तुमाह पुद्गलस्येति, प्रहणगुण इति, ग्रहणरूपो गुणः, औदारिकशरीरादितया प्रणरूपो वर्णादित्वाद्वाह्यतारूपः परस्पर- सम्बन्धरूपो वा धर्मः ग्रहणगुण उच्यते । गतिहेतुत्वादय इति, नीवपुदलयोर्देशान्तरगति- परिणतयोरुपकारकत्वं धर्मास्तिकायस्य गुण इत्यर्थः, आदिना स्थितिहेतुत्वावकाशदातृत्वाद- योऽधर्माकाशादीनां गुणा ग्राह्याः । एते हि यदैव द्रव्यमुत्पद्यते तदैव समवेतास्तेन द्रव्येण 10 गुणा उत्पद्यन्ते पौर्वापर्यभाव एव नास्ति, गुणगुणिनोः समानसामग्रीकत्वात् सन्येवरविषाण- वत्, अनादिनिधनानां द्रव्यगुणानामुत्पत्तिदर्शन व्यवहारतः कृष्णादिघटवत् । अत्रे बोय जीवस्यास्तित्ववस्तुत्वद्रव्यत्वप्रमेयत्वागुरुलधुत्वस्वाश्रयक्षेत्रावधित्वचेतनत्वामूर्चत्वानि अष्टौ गुणाः, अजीवे चेतनत्वामूर्त्तत्वहीना अचेतनत्वमूर्तत्वयुताः पुद्गलस्याष्टो, इतरेषा मूर्त्तत्वहीना अमूर्त्तत्वयुतास्त एवाप्टौ गुणाः, ज्ञानदर्शनसुखवीर्याणि जीवस्य, स्पर्शगन्धरस- 15 वर्णाः पुद्गलस्य, गतिस्थित्यवगाहनावनाहेतुत्वानि धर्मादीनां क्रमेण विशेषगुणाः, अवि- कृतद्रव्येऽविशिष्टतया स्थितत्वात् विकृतस्वरूपास्तु पर्याये गच्छन्ति । चेतनत्वाचेतनत्व- मूर्तत्वामूर्चत्वानि चत्वारि सामान्यगुणा विशेषगुणाश्च, स्वजात्यपेक्षयाऽनुगतन्यवहार- कारित्वात् , परजात्यपेक्षया चेतनत्वादीनां स्वाश्रयव्यावृत्तिकरत्वात् । अत एवैते परापर- सामान्यवत् सामान्यविशेषगुणा इति पोडश विशेषगुणा विज्ञेया इति ॥ अथ पर्याय निरूपयति- क्रममावी पर्याय:, यथा सुखदुःखहर्षविषादादयः । अभिन्नकाल- वर्तिनो गुणा, विभिन्नकालवर्तिनस्तु पर्यायाः ॥ क्रममावीति । क्रमवर्चिनः परिणामा नवपुराणादयः पर्याया इति भावः । सामान्येन 20 १. उपचारवर्जिता स्वीयस्वभावा एवं गुणा., गुणा हि सहभाविनोऽतोऽनुपरिताः, यश्चोपचरितः स पर्यायः, अत एव द्रव्याश्रिता गुणा, उमयाश्रिता पर्यायाः, तदुक्तं 'गुणाणमासओ दवं एगदम्वस्तिया गुणा लक्षण पबवाण तु उभभो अस्सिया मवे' इति ।

[ सप्तमकिरणे :४५८ तस्वन्यायविभाकरे पोयो द्विविधो व्यानपर्यायोऽर्थपर्यायश्चेति, त्रिकालस्पर्शिनः व्यञ्जनपर्यायाः यथा घटादीनां मृदादिपर्यायः, घटस्य कालत्रयेऽपि मृदादिपर्यायत्वव्यञ्जनात् । सूक्ष्मवर्तमानकालवी अर्थ- पर्यायः, यथा घटादेस्तत्तत्क्षणवत्ती पर्यायः, यस्मिन् काले वर्तमानतया स्थितस्तकालापेक्षया कृतविद्यमानत्वेनार्थपर्याय उच्यते । प्रत्येकं द्विभेदो द्रव्यतो गुणतश्च तत्रापि पुनः प्रत्येक ६ द्विविधश्शुद्धाशुद्धभेदात्, तत्र शुद्धद्रव्यव्यवनपर्यायो यथा चेतनद्रव्यस्य सिद्धत्वपर्यायः । अशुद्धद्रव्यव्यञ्जनपर्यायो नरदेवनारकतिर्यग्रूपः, शुद्धगुणव्यञ्जनपर्यायः केवलज्ञानादिरूपः अशुद्धगुणव्यञ्जनपर्यायो मतिश्रुतावधिमनःपर्यवरूपः । ऋजुसूत्रमतेन क्षणपरिणतोऽर्थपर्यायः शुद्धः, यो यस्मादल्पकालवर्ती स तस्मादल्पत्वविवक्षयाऽशुद्धार्थपर्यायः, यथा नरत्वं व्यञ्जन- पर्यायस्तथा बालत्वादिकमर्थपर्याय इति । शुद्धगुणव्यञ्जनपर्यायस्य केवलस्यापि प्रतिक्षणं 1G भेदात् तत्पर्याय शुद्धगुणस्यार्थपर्यायः । शुद्धद्रव्यव्यञ्जनपरमाणुश्शुद्धपद्रलपर्यायस्तस्याविना- शित्वात् , संयोगजनिता व्यणुकादिका अशुद्धद्रव्यव्यञ्जनपर्यायाः। परमाणुगुणश्शुद्धगुणव्य- अनपर्यायः, द्विदेशादिका गुणा अशुद्धगुणव्यञ्जनपर्यायाः । एवं धर्मादिष्वपि भाव्यम् । ननु य एव गुणाः क्रमेण सह वा भवन्ति त एव च पर्याया इति कथं तेषां भेद उक्त इत्यत्राहामि- नेति, सदैव सहवर्तित्वाद्वर्णगन्धरसादयस्सामान्येन गुणा उच्यन्ते नहि मूर्ते वस्तुनि वर्णादिकं 1B कदाचिदपि व्यवच्छिद्यते, वर्णविशेषाणां कृष्णनीलादीनामपि प्रायः प्रभूतकालं सहवृत्तित्वाहु- णत्वमेवं जीवधर्मादीनां भाव्यम् । विभिन्नेति । एकगुणकालकत्वादयो विभिन्नाः पर्याया द्रव्यस्यावस्थान्तरप्राप्तिरूपाः पर्याया इत्यर्थः । त्रैलोक्यगतस्य सर्वस्यापि कालस्यासत्कल्पनया यो गुणोंऽशस्सर्वजघन्यः तेन कालकः परमावादिरेकगुणकालक उच्यते, एवं व्यादिगुणका- लकादयो भाव्याः। वस्तुतस्तु नास्ति गुणस्य पर्यायस्य च कश्चन भेदः, द्रव्यपर्यायनयद्वयाति- "20 रिक्तनयस्य भगवद्भिरनुपदेशात् । पर्यायभिन्ने गुणविशेपे ग्राह्ये सति हि तबाहकगुणास्तिकन- योऽपि स्यादेव, अन्यथा नयानामव्यापकता स्यान्न चायमादिष्टो भगवद्भिः ततोऽसौ न मिन्ना, गुणानाञ्च पर्यायत्वे गुणपर्यायवद्रव्यमित्यादिवचनं युगपदयुगपद्भाविपर्यायविशेषप्रतिपादक- मेव, अत एव य एव पर्यायस्स एव गुण इत्याधागमोऽपि सङ्गच्छते, एतेन गुणविकारः पर्याय इति व्युदस्तम् , गुणस्यैव पर्यायोपादानकारणत्वे द्रव्यप्रयोजनस्य गुणेनैव सिद्धत्वाद्गुणप. 25 यियोरेव पदार्यत्वप्रसङ्गेन द्रव्यस्यानर्थकत्वापत्तेः, न च द्रव्यपर्यायगुणपर्यायरूपकार्यभेदेन द्रव्यगुणरूपकारणभेदान्न द्रव्यं निष्फलमिति वाच्यम्, अन्योऽन्याश्रयात्, कारणभेदे सति १. न चैवमपि मतुव्योगाव्यभिन्नगुणपर्यायसिद्धिरिति वाच्यम् , नित्ययोगे मतुविधानात् द्रव्यपर्याय- योस्तादात्म्यात् सदा निर्विभागवत्तित्वात् अन्यथा प्रमाणबाधापत्ते.। संज्ञासंख्यास्वलक्षणार्थक्रियामदाद्वा कथ- बित्तयोरभेदेऽपि भेदसिद्धन मतुवनुपपत्तिरिति ।

पर्याया ] :४५९: - न्यायप्रकाशसमलते कार्यभेदः कार्यभेदे च कारणमेदसिद्ध्यतीति । तदेवं द्रव्यपर्यायात्मानौ सामान्यविशेषावेक वस्तु, प्रतिमासभेदेऽप्यव्यतिरिक्तत्वात् यत्प्रतिभासभेदेऽप्यव्यतिरिक्तं तदेकं यथा मेचकज्ञानम् तथा च द्रव्यपर्यायौ न व्यतिरिच्यते तस्मादेकं वस्त्विति, न चायमसिद्धो हेतुः केवलद- व्यस्य केवलपर्यायस्य वस्तुत्वे हि स्यादसिद्धिः, तदेव नास्ति क्रमयोगपद्यविरोधेनार्थकि- याऽसम्भवात् , न च क्रमयोगपद्यविरोधस्तत्रासिद्ध इति साम्प्रतम् , द्रव्यस्य पर्यायस्य वा 5 सर्वथैकस्वमावस्य क्रमयोगपद्यादर्शनात् अनेकपर्यायात्मन एव द्रव्यस्य तदुपलम्भात् । न च द्रव्यपर्याययोर्वास्तवत्वेऽप्यभेदोऽसिद्धः घटादिद्रव्याद्रूपादिपर्यायाणां ज्ञानप्रतिभासभेदात्, घटपटादिवदिति वाच्यम् , तस्यैकत्वाविरोधित्वात् , उपयोगविशेषाद्धि रूपादिज्ञानप्रतिमास- भेदो न स्वविषयकत्वं निराकरोति, सामग्रीभेदेऽयुगपदेकार्थोपनिवद्धविशदेतरज्ञानवत् । नापि विशेषणविरुद्धो हेतुः, विशेषणस्य प्रतिभासभेदस्याव्यतिरिक्तत्वहेतुना विरोधासिद्धेः। 10 नन्वव्यतिरिक्तत्वमैक्यमेव, तथा च साध्याविशिष्टो हेतुरिति चेन्न कथनिदप्यशक्य. विवेचनत्वस्याव्यतिरिक्तत्वस्य हेतुत्वेन प्रयोगात् । न चाशक्यविवेचनत्वमप्यसिद्धमिति वाच्यम् , विवक्षितद्रव्यपर्यायाणां द्रव्यान्तरं नेतुमशक्यत्वस्य सुप्रतीतत्वात, वेद्यवेदका- कारज्ञानवत् तदाकारयोर्ज्ञानान्तरं नेतुमशक्यत्वस्यैव तस्यामिमतत्वात् । न च द्रव्यपर्याययोर युतसिद्धत्वादशक्यविवेचनत्वमिति वाच्यं यतः किमिदमयुतसिद्धत्वं, न वावद्देशाभेदः पर्वना- 15 तपयोस्तत्प्रसङ्गात् नापि कालाभेदस्तत एव । स्वभावाभेद इत्यपि न, सर्वथा तथात्वे विरोधात् . कथञ्चिच्चेत्तदेवाशक्यविवेचनत्वम् । स एवाविष्वग्भावः समवाय इति परमवप्रसिद्धः, अन्यथा वस्याघटनात् । न च घर्मिप्राहकप्रमाणेन वाधनाद्बाध इति वाच्यम्, तेन धर्मिणोः कथञ्चिन्नियोरेव ग्रहणात् । सर्वथा भिन्नयोर्द्रव्यपर्यायत्वासम्भवात् । न च द्रव्यपर्याय- योनियोः कथममेदो विरोधादिति वाच्यम् , तथोपलम्भात् मेचकवानवत् नहि तत्र विरो- 20 धवैयधिकरण्यसंशयव्यतिकरसङ्करानवस्थाऽप्रतिपत्त्यभावाः प्रसज्यन्ते, तेषां तथाप्रतीत्या दूरोत्सारितत्वोक्तत्वात् । तस्मोरिसद्धं द्रव्यपर्याययोः कथञ्चिदेक्यमिति ।। . .. १ पृथगाश्रयानाधयित्वं पृथगगतिमत्त्वरूपमप्ययुतसिद्धत्व नाशक्यविवेचनत्वादन्यदित्यपि बोध्यम् ॥ २. एवं द्रव्यपर्याययोरेकले भेद. कर्य सिद्धपतीति चेत्सरस्परविविचस्वभावपरिणाममंजामत्याप्रयो. जनादिभ्य इत्यवेहि, द्रव्यं हि अनाद्यनन्तकस्वभाववैससिकपरिणाम, पर्यायश्च साधन्तानकस्वभावपरिणामः, द्रव्यस्य व्यमिति पर्यायस्य पर्याय इत्यन्वर्थसजाभेद, एक व्यमित्येकत्वमख्या द्रव्ये, पर्याया वहब इति पर्याये बहुत्वसत्येति संख्या मेद, द्रव्यस्यैकत्वान्वयज्ञानादिक पर्यायस्यानेकत्वव्यावृत्तित्रानादिक प्रयोजनमिनि प्रयोजनमेद., द्रव्यं त्रिकालगोचरं पर्यायो वर्तमानकाल इति काल भेद, इति । एवन द्रव्यपर्यायात्मक वस्तु स्थानानैव स्वलक्षणमेदात् , स्यादेकमेवाशक्यविवेचनत्वात् स्यादुमयमेव मार्पितद्वयात् , स्यादवकल्यमेव, सहापितद्वयाद्वक्तुमशक्यत्वाद, स्यामानाऽवतव्यमेव, विरुधर्माध्यामसहापितद्वयात् । म्पादेकमवतव्यमेय;

तत्त्वन्यायविभाकरे [ सप्तमकिरणे 5 . - ननु सुखज्ञानादीनां गुणत्वं सुखदुःखादीनां पर्यायत्वमिति कथं ? पर्यायगुणयोर- भेदादित्यत्राह- अत्र य एव सुखादयो गुणास्त एव पर्याया इति कथं भेद इति नो वाच्यम्, कालभेदेन भेदस्यानुभवात् ।। अत्रेति । कालभेदस्यानुभूयमानत्वेन तदपेक्षयैव भेदो न सर्वथेति भावः ॥ तदेवं प्रमाणस्य परिच्छेचे समासत आदर्शिते किमीशस्य प्रमाणस्य फलमिति जिज्ञासायामाह- प्रमाणजन्यं फलं द्विविधमनन्तरं परम्परमिति । अज्ञाननिवृत्तिरन- न्तरफलम्, केवलिनामपि प्रतिक्षणमशेषार्थविषयाज्ञाननिवृत्तिरूपपरि- 10 णतिरस्त्येव, अन्यथा द्वितीयादिसमये तदनभ्युपगमेज्ञत्वप्रसङ्गः ॥ प्रमाणजन्यमिति । अनन्तरमिति, अन्तररहितमव्यवहितं फलमित्यर्थः । परम्पर- मिति, व्यवहितं फलमित्या, अनन्तरं फलं प्रमाणानां दर्शयति अज्ञाननिवृत्तिरिति, प्रमाणप्रवृत्तिपूर्वकालीनं प्रमाविवक्षितविषयकं यदज्ञानं तस्य निवृत्तिरव्यवहितं फलं अज्ञान- मुद्दलयतामेव प्रमाणानां प्रवृत्तिरज्ञानस्य सर्वानर्थमूलतया प्रमात्रपकारित्वात्तनिवर्तनस्य 15 प्रयोजनता युक्तैव, एतच्चाव्यवहितं फलं सर्वज्ञानानामेकरूपत्वात् सामान्येनोक्तमिति भावः, एतदुपलक्षकमर्थप्रकाशस्य, तस्याप्यव्यवहितफलत्वात् प्रमातॄणां सर्वेपामर्थाथित्वादर्थप्रकाशस्य फलत्वौचित्यात् । ननु प्रमाणस्याप्यर्थसंवेदनरूपत्वेन तस्यैव प्रमाणस्य फलत्वेनोक्तिः पर्यव- सिता, किमतः ? प्रमाणफलयोरभेदः स्यात् , ततोऽपि किं ? असतः कारणत्वस्य सतश्च फलत्वस्य प्रसङ्गः स्यादिति चेन्मैवम् , जन्मन्येवास्य दोषत्वाद् व्यवस्थायामदोषात्, 20 कर्मोन्मुखज्ञानव्यापारस्य फलत्वात् कर्तव्यापारोल्लेखिवोधस्य प्रमाणत्वात् कर्तृस्थायां प्रमाण- रूपायां क्रियायां सत्यामर्थप्रकाशसिद्धेः। एकज्ञानगतत्त्वेन प्रमाणफलयोरभेदो व्यवस्थाप्य- व्यवस्थापकमावाच्च भेद इति भेदाभेदरूपः प्रमाणफलभावोऽवाधितं स्याद्वादमनुगच्छति, करणस्य क्रियायाश्च कश्चिदेकत्वात्प्रदीपनमोविगमवत्, नानात्वं च परश्वधादिवत् । न च यथा देवदनः काष्ठं परशुना च्छिनतीति करणस्य परशोदेवदत्तनिष्ठत्वेन छिदायाः काष्ठ- 25 स्थत्वेन च नानात्वं यथैव च प्रदीपस्तमो नाशयत्युद्योतेनेत्यत्रापि करणस्योद्योतस्य तमोनाशा- मकक्रियायाश्च नानात्वं प्रतीयते तथैव करणस्य प्रमाणस्य क्रियायाश्च फलज्ञानरूपाया भशक्यविवेचनसहार्पितद्वयात् स्यादुमयावक्तव्यमेव, क्रमाक्रमाप्तिद्वयादिति सप्तमझी भाव्येति भाव ॥ , प्रमाणफलम् ]. न्यायप्रकाशसमलते नानात्वेनैव भवितव्यमभेदे दृष्टान्ताभावादिवि वाच्यम् , प्रदीपस्वात्मनाऽऽत्मानं प्रकाश- यतीति प्रतीतेः प्रदीपात्मनः कर्तुरनन्यस्य कथञ्चित्करणस्य प्रकाशनक्रियायाश्च प्रदीपात्मि- कायाः कथञ्चिदभेदसिद्धेः, तद्वत्प्रमाणफलयोरपि कथञ्चिदभेदसिद्धिरुदाहरणसद्भावात्, तथा सर्वथा वादाम्येन प्रमाणफलयोर्व्यवस्था च भवितुमर्हतीति भावः । ननु केवलिनां सदा सर्वप्रमेयस्य प्रत्यक्षवादज्ञाननिवृत्तिः कथं फलमित्यत्राह केवलिनामपीति, ननु । प्रथमसमय एव केवलस्याशेपार्थसंवेदनरूपेण परिणती प्रदीपप्रकाशयोरिवाज्ञानध्वंससम्म- वेऽपि द्वितीयादिक्षणे कथमज्ञाननिवृत्तिपरिणतिरित्यत्राहान्यथेति, तदनभ्युपगमेऽज्ञान- निवृत्तिपरिणामानभ्युपगमे, अज्ञत्वप्रसङ्ग इति, अज्ञाननिवृत्तेरभावादिति भावः, तथा च प्रथमसमयेऽज्ञाननिवृत्तिः प्रथमसमयविशिष्टतयाऽऽसीत् द्वितीयादिसमये तु द्वितीयादि- समयविशिष्टतया भवतीति न फलाभावलक्षणो दोप इति भावः ॥ अथ किं तस्थ व्यवहितं फलमित्यत्राह- 10 केवलज्ञानस्य परम्परफलं माध्यस्थ्यं हानोपादानेच्छाया अभावात्, तीर्थकरत्वनामोदयात्तु हितोपदेशप्रवृत्तिा, सुखन्तु न केवलज्ञानस्य फलं, अशेषकर्मक्षयस्य फलत्वात् ।। केवलज्ञानस्येति । माध्यस्थ्यमिति, मध्यस्थवृत्तितेत्यर्थः, उपेक्षेति भावः । हेतुमाह 15 हानेति, संसारतत्कारणस्य हेयस्य हानात् मोक्षतत्कारणस्योपादेयस्योपाचवाध सिद्धप्रयो- जनत्वादिति भावः । ननु करुणावतः परदुःखजिहासोः कथमुपेक्षा, तदभावे च कयमाप्त इति चेत्र निष्पन्नयोगस्य मैत्र्यादिवर्जितसद्वोधमात्रचित्तस्य मोहविलासरूपकर- णाया असम्भवान्, अन्यदुःखनिराचिकीर्षायां स्वदुःखनिवनवदकरुणयापि वृत्तेः, ननु यः स्वस्मिन् दुखनिवर्चकरस स्वात्मनि करुणावान् यथाऽस्मदादिः तथा च योगी स्वदुःखनि- 20 वर्तक इति प्रयोगेण दयालोरेवात्मदुःखनिवर्चकत्वं इति चेन्न स्वभावतोऽपि स्वपरदुश्वनि- वर्तकत्वोपपत्तेः प्रदीपवत् । नहि प्रदीपः कृपालुतयाऽऽस्मानं परं वा तमसो दुःखहेतोनिवर्स- यति किन्तु स्वभाषादेव, ततो निश्शेषान्तरायक्षयादमयदानं प्रक्षीणावरणस्यात्मनः स्वरूपमेव परमा दया, सैव च मोहामावादागद्वेपयोरप्रणिधानान्माध्यस्थ्यमिति भावः। नन्वेवं कथं तस्य हितोपदेशे प्रवृत्तिरिष्टसाधनताज्ञानस्य तद्धेतुत्वाद्योगिन इष्टाभावादित्यत्राह तीर्थ- 25 करत्वेति, हितोपदेशप्रवृत्तिरिति, तया परदुःखनिराकरणमिद्धिरिति भावः । ननु केवल- ज्ञानस्य सुखमपि फलमन्यथा 'केवलस्य सुखोपेक्षे ' इति पूर्वाचार्यवचनविरोधो दुष्प- रिहर इति चेत्सत्यं, किन्तु न सहृदयक्षोदक्षमोऽयं केवलज्ञानस्य सुखफलत्वपक्ष इत्युपेक्षितः। - :४६२: तत्त्वन्यायविमाकरे [ सप्तमकिरणे - 5 सुखस्य हि संसारिणि सद्वेद्यकर्मोदयफलत्वं मुक्त तु समस्तकर्मक्षयफलत्वं प्रमाणोपपन्नं न पुननिफलत्वं, तस्मात्पारंपर्येण केवलज्ञानस्य फलमौदासीन्यमित्यभिप्रायेणाह सुखन्त्विति, तर्हि कस्य फलं सुखमित्यत्राहाशेपेति ।। मतिश्रुतादीनाचतुर्णान्तु व्यवहितं तदाह- तद्भिन्नप्रमाणानान्तु हानोपादानोपेक्षाबुद्धयः फलम् ॥ तद्भिनेति । केवलज्ञानमिन्नेत्यर्थः । व्यवधानेन जिहासाननिका उपादित्साननिका वहिःप्रवृत्तिनिवृत्तिविषयान्तरसञ्चारशून्यनिभृतज्ञानरूपा वा बुद्धयः फलमित्यर्थः । जिहा. साजनकोपादित्साजनकबुद्धिद्वारेण च हेयहानोपादेयोपादानात्मिका विरतिरपि फलम् । स्मृत्यजनकज्ञानरूपोपेक्षायास्तु न कथमपि मत्यादिप्रमाणफलत्वं, अवग्रहादिधारणापर्यन्तत्वा- 10 मत्युपयोगस्येति केचित् ॥ प्रमाणानां फलं प्रमाणाद्भिन्नमेवेनि केचित्, परे चाभिन्नमेवेति, तत्र तत्त्वजिज्ञासायां श्रोतुस्समुदितायां तदपनोदनायाह- फलञ्च प्रमाणाद्भिन्नाभिन्नं, प्रमाणतया परिणतस्यैवात्मनः फलत्वेन परिणमनाक्षयोः कथश्चिदभेदा, कार्यकारणभावेन प्रतीयमानत्वाच कथ- 15 चिड्रेदः ।। इति समाप्तं प्रमाणनिरूपणम् ॥ फलश्चेति । प्रमाणफलश्चेत्यर्थः चोऽनुक्तसमुबयार्थः । अनेन धर्मिनिर्देशः कृतः, प्रमा- णाद्भिन्नाभिन्नमिति, साध्यधर्मनिर्देशः, प्रमाणफलत्वान्यथानुपपत्तेरिति हेतुः पूरणीयः । एकान्ततस्तयोमेंदे प्रमाणफले इमे स्वकीये इमे च परकीये इति नैयत्यं न स्यात् , तस्मादेक- प्रमातृतादात्म्येन तयोः कथञ्चिदमेदो वाच्य इत्याशयेनाह प्रमाणतयेति, यो यात्मा प्रमाणा- 20 कारेण परिणमते स एव फलरूपनया परिणमते नान्यः, तथादर्शनात् , अन्यथा प्रमाणफल- नियमो न भवेदेवेति भावः । अस्तु तर्हि तयोरभेद एवेत्यवाह कार्यकारणभावेनेति, कुठार- च्छेदनयोरिव प्रमाणफलयोहेतुहेतुमद्भावेन प्रतीयमानत्वात्कथचिनेदोऽपि स्यादर्थप्रकाशनादौ हि प्रमाणं साधकतमं कारणमर्थप्रकाशस्तत्साध्यं फलमिति प्रतीयते, सर्वथाऽभेदे हि नेयं व्यवस्था भवेदिति भावः । चशब्देनानुक्तस्यात्मनः प्रमातुसंग्रहः । तेन प्रमाणफलयोर्यत् 28 परिणामिकारणं स प्रमाता, यदि प्रमाता न भवेन्न भवेदेव तदा प्रमाणफलयोमेंदामेदा, प्रमाणामिनात्माभिन्नत्वाद्धि प्रमाणफलयोरमेदो वाच्यो गत्यन्तराभावात् , तथा चात्मनोऽभावे . , .

5 भारोपः ] न्यायप्रकाशसमलट्टते :४६३: सर्वथा क्षणिकत्वे सर्वथा नित्यत्वे च तदभेदासम्भवेन प्रमाणफलव्यवस्थाविच्छेदापत्त्या प्रमाणफलाभ्यां भिन्नाभिन्न उत्पादव्ययध्रौव्यात्मकः प्रमाताऽभ्युपेय इति दर्शितः । तदेवं प्रमाणविषयफलप्रमातॄणां निरूपितत्वादवसित प्रमाणनिरूपणमित्याहेतीति ।। इतितपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयंकमलसूरीश्वर- चरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलन्धिसरिणा विनिर्मितस्य तस्वन्यायविभाकरम्य स्वोपक्षायां न्यायप्रकाशव्याख्यायां प्रमाणनिरूपणं नाम सप्तमः किरणः। अथाष्टमः किरणः॥ ननु यथार्थज्ञानस्य प्रमाणत्वमनुस्त्वा यथार्थनिर्णयस्य तत्वं कुतः प्रोक्तमित्यत्राह- प्रमाणश्च निश्चयात्मकमेव, आरोपविरोधित्वात् ।। 10 प्रमाणश्चेति । निश्चयात्मकमेवेति, एवकारेण निराकारदर्शनस्य प्रमाणत्वव्यवच्छेदः कृता, आरोपो हि संशयादिरूपो न वस्तुतथाभावग्राहकः, वस्तुतथाभावप्राहकञ्च निश्चया- स्मकमेव ज्ञानं भवितुमर्हति, एवञ्च निश्चयात्मकत्वं व्यापकं व्याप्यश्च वस्तुतथामाव- ग्राहकत्वं, वस्तुतथाभावग्राहकं ज्ञानं प्रमाणमुच्यतेऽतस्तेन निश्चयात्मकेन भवित- व्यम् , दर्शनञ्च न वस्तुतथाभावग्राहकं निराकारत्वादवो न वत्प्रमाण निश्चयात्मक- 15 चेति भावः । निश्चयात्मकत्वे हेतुमाह आरोपेति, वक्ष्यमाणखरूपस्यारोपस्य विरोधि- वादित्यर्थः, आरोपी यथावस्थितवस्तुप्राहकः प्रमाणश्च यथावस्थितवस्तुपाहकमत- खद्विरोधित्वं प्रमाणस्य, तथा च प्रमाणं निश्चयात्मकमेव, आरोपविरोधित्वात् यत्सुनर्न निश्चयात्मकं न तदारोपविरोधि, यथा घटः, आरोपविरोधि च प्रमाणमतवन्निश्चया- मकमेव । न च पक्षकदेशे प्रथमाक्षसन्निपातसमुद्भूतसवेदनस्वरूपे निर्विकल्पकप्रत्यक्षे 20 वाधस्तस्य कल्पनाशून्यत्वेन निश्चयात्मकत्वासम्भवादिति वाच्यम् , सर्वैरेव सर्वदा सर्वत्र १. नामजातियोजनाशून्यत्वेनेत्यर्थः । अत्र बौद्धा. स्वलक्षणरूपविपयसामर्थ्यबलेनोत्पन्नत्यानिर्विकल्पदर्शने प्रतिभासमाने स्वलक्षणल्पोऽर्थ प्रतिभासते न नामादयः, न बर्थे शब्दाः सन्ति तदात्मानो वाऽर्याः, येन तस्मिन् प्रतिमासमाने तेऽपि प्रतिभासेरपिति वदन्ति तन, स्वलक्षणस्य ज्ञानविषयत्वासम्भवात् मान- जनकत्वेन शानमास्यत्वे मानामावात् , अन्यथा इन्द्रियनिष्ठज्ञानजननशक्तेरपि प्रतिभासप्रमझात् न च नीलाद्य- ध्यवसायहेतुत्वेन दर्शनस्य नीलादिविषयत्वमिति वाच्यम् , नीलाध्यवसायहेतुत्वेन दर्शनस्य नीलविषयत्वं, तत्त्वन च नीलाम्यवसायहेतुत्वमित्यन्योऽन्याश्रयात् । तस्यामिलापशून्यत्वेनाध्यवसायहेतुत्वासम्भवाञ्च नास्ति तादर्श निर्विकल्पकमिलाशयेनाह सर्वेरेवेति ॥

:४६४: तस्वन्यायविमाकरे [ अष्टमकिरणे - नीलमहं संवेमीत्युल्लेखशेखरस्य निश्चयात्मकस्यैव प्रत्यक्षतोऽनुभूयमानत्वात् , न 'च शब्दरहितनीलादिपदार्थसामध्येनोत्पत्त्या तद्रूपप्रतिभासित्वमेव तस्योचितं नत्वभिलापप्रति- भासित्वमपीति वाच्यम्, असत्य मिलापप्रतिभासित्वे निश्चयस्वभावत्वासम्भवात् , नि:- शब्दकार्थजनितत्वमात्रेण शब्दं विना इत्यस्यामिधानासम्भवाच्च, न च नीलादिपदार्थे 5 सत्युपयोगेऽपि यदीन्द्रियजं ज्ञानमर्थ न परिच्छिन्द्यात् किन्तु स्मृतिसामर्थ्यजन्यतदर्थप्रवि- पादकशब्दसंघटनं यावत्प्रतीक्षेत तदार्थग्रहणाय दवाखलिस्स्यात् , नीलादिकं धर्थमनीक्ष- माणो न तत्र गृहीतसङ्केतं शब्दं स्मरत्युपयोगाभावात् , अननुस्मरन्न तं पुरोवर्तिनि पदार्थे घटयति स्मरणमन्तरेण संघटनासम्भवात् असंघटयंश्च त्वदृष्टया न निरीक्ष्यत एवार्थमिति सुषुप्तप्रायं जगद्भवेदिति वाच्यम् , भवत्पक्षेऽप्यस्य दोषस्य तुल्यत्वात् , उत्पन्नेऽपि हि निर्वि- 10 कल्पके प्रत्यक्षे विधिनिषेधद्वारा विकल्पद्वयं यावन्न भवेत् तावदिद नीलं नेदं पीतमितीदन्त- याऽनिदन्तया नियतार्थव्यवस्था न स्यात् । यत्रैष जनयेदेनां तत्रैवास्य प्रमाणते "ति त्वद्वच- नात् । तद्व्यवस्थापकञ्च विकल्पयुगलमेव तञ्च शब्दयोजनासहितैमिति त्वदुक्तरीत्या जगत्सुषुप्त- प्रायं स्यादिति । प्रत्यक्षस्य सविकल्पकत्वे शब्दसंपृक्तमेव स्यात्तथा च शब्दाद्वैतमतप्रवेश- इति न च वाच्यम्, स्वत एव तस्य व्यवसायात्मकत्वात् न पुनः शब्दसंपर्कापेक्षया, तद्- 15 पेक्षायां वर्णपदव्यवसायासम्भवात् तद्व्यवसाये परस्य शब्दस्यावश्यकतायामनवस्थापत्तेरिति॥ कोऽयमारोपो यद्विरोधित्वं प्रमाणस्य स्यादित्यत्राह- अतत्प्रकारके वस्तुनि तत्प्रकारकत्वज्ञानमारोपः, स विधा विपर्यय- संशयानध्यवसायभेदात् । अन्यथास्थितवस्त्वेककोटिमात्रप्रकारकनि- श्चयो विपर्ययः, यथा शुक्ताविदं रजतमिति ज्ञानम् ॥ अतत्प्रकारक इति । यत्प्रकारकं ज्ञानं क्रियते तत्प्रकाराभाववति वस्तुनीत्यर्थः । तं विभजते स इति । अथ विपर्ययलक्षणमाहान्यथेति, अतदाकारे वस्तुनि तन्मात्राकारप्रकारकनिश्चय इत्यर्थः, अत्र निश्चयत्वं सशयभिन्नज्ञानत्वमेव, अनध्यवसायस्य संशयभिन्नत्वेऽपि एककोटि- '२० , १. इदमस्य नामेति गृहीतसंकेतमित्यर्थ , तदस्मरणे च इटमेतत्पदवाच्यमिति तेन नाम्ना तवाच्यं न योजयितुमीष्टे इत्याहाननुस्मरचिति, न निरीक्ष्यत इति, तदेतदितिशब्देन नाभिलपितुं शक्नोतीत्यर्थः ॥ २. क्षणिकवादिमते नामनात्यादियोजनं विकल्पे कयमपि नोपपद्यते, दीर्घकालिकत्वात्तदुपयोगस्येत्सपियोध्यम् ॥ ३. अन्यथा दृश्यस्य दर्शनेन पूर्वानुभूतनीलादिज्ञाननामविशेपयो सह स्मरणेन प्रकृते नामयोजनासंभवस्य वक- ध्यतया सह स्मृतिद्वयस्वीकारापत्ति स्यात् अत एव वर्णपदाना ऋमिकाणा क्रमेणैवाध्यवसायेन युगपदध्यवसाना- संभव , कथञ्चिदध्यवसाये वा नाम्नो नामान्तरेण विना स्मृत्यसंभवेन सदावश्यकताया भवत्यनवस्थेति भावः ॥

विपर्ययः ]. न्यायप्रकाशसमलते मात्रप्रकारकनिश्चयत्वाभावान्नातिव्याप्तिः विशिष्टविशेपास्पर्णित्वात्तस्य । दृष्टान्तमाह यथेति, अरजताकारायां शुक्तिकायां रजताकारतया रजतमिदमिति मानं विपर्यासरूपत्वाद्विपर्ययरूप विपरीतख्यातिरिति भावः ॥ अत्रेदमवधेयम्, मीमांसका भ्रमस्थले विवेकाख्यातिमाहुः, तथाहि नन्विदं रजतमित्यादिभ्रान्तत्वेनामिमतप्रत्ययजनने को हेतुः न तावदिन्द्रियम, तस्य पुरोवर्तिशुन्यादावेव सम्बद्धत्वेनासनिकृष्टरजतादिज्ञानजनने सामर्थ्याभावात् , सम्बद्धस्य 5 वर्तमानस्यैव तद्वाह्यत्वात् , न च दोषसहकृतेनासन्निकृष्टेनापि तेन रजतज्ञानजनने प्रभुणा भवितव्यमिति वाच्यम् , स्वाभाविककार्यजननसामर्थ्यविहननेन प्रतिहतशक्तिकस्य दोपस्य विपरीतकार्योत्पत्तौ तत्सहकारित्वासम्भवात् । नहि कलुषितं गोधूमवीनादिकं ब्रीह्यकुरादि- जननसमर्थ दृश्यते । नेतरकिञ्चित्कारणमस्ति विनिवृत्तेन्द्रियव्यापारस्यापि तथाविधवोधो- त्पत्तिप्रसक्तस्तस्मादिदं रजतमिति प्रत्यक्षस्मरणरूपं ज्ञानद्वयमेव, इदमंशे प्रत्यक्षहेतोरिन्द्रिय- 10 सन्निकर्षस्य रजतांशे च साधारणरूपादिदर्शनेनोबुद्धसंस्कारस्य पूर्वानुभवजन्यस्य स्मरण- हेतोस्सत्त्वात् । तत्रेदमिति ज्ञानं पुरोवनियुक्तिकाविषयक, रजतमिति जानञ्च परोभरज. तावगाहि न रजतज्ञानस्य शुक्तिकाशकलं विषयोऽन्याकारस्यातिप्रसङ्गेनान्यविषयकत्वा- सम्भवात् । न च तत्तानवमासनेन रजतज्ञानं न स्मरणमिति वाच्यम्, तत्तारहितानामपि बहूनां स्मरणस्योपलम्भात्, न च तर्हि कथमिदं रजतमित्येकज्ञानतया मानम्, न तु 15 द्वित्वेन, रजते चातीतताया नावमास इति वाच्यम्, दोषमहिम्नेदमिति ज्ञानस्य शुक्ति- कात्वेन शुक्तिकाया विषयीकरणेऽसामर्थेन उभयसाधारणधर्मदर्शनाच रजतशुत्योस्त. ज्ज्ञानयोश्च भेदाग्रहेण द्वित्वस्यातीततायाश्चाप्रतिभासनात् । न च सर्वेषामेव यथार्थज्ञानत्वे नेदं रजतमित्यादिवाधकप्रत्ययाः कस्य वाधका भवेयुरिति वाच्यम् । तेपामिदमन्यद्रजत- मन्यदिति विवेकस्य प्रकाशकत्वेनैव वाधकज्ञानत्वात्, न तु रजतनानस्यासत्यत्वप्रकाश-20 कत्वेन | स्वप्नज्ञानस्यैकत्वेऽपि तस्य स्मृतित्वेनाग्रह एव विवेकाग्रहः । न च सदा- दर्शनमन्तरेण तस्य कथं स्मृतित्वमिति वाच्यम् , निद्रोपद्रुतस्य मनस एव वन निमित्तत्वात् । एवं चन्द्रद्वयज्ञाने द्विधाकृतया नयनवृत्त्या चन्द्रकत्वाग्रहणं दोषीत् तिक्ता शर्करेत्यादौ च पित्त- १. परोक्षेति पदेन रजते इन्द्रियसनिक मावस्सूचितः, रजतस्यातिविप्रकृष्टत्वात् लिकाानुपलम्भेन चानु- मानादिविषयत्वासम्भवाद्रजतज्ञानं स्मृतित्पमेवावसेयम् ॥ २, तत्तनाने मकलविषयप्रतिभाराप्रसजेन गभानाना समस्तविषयकत्व, मपाच सर्वज्ञत्वं स्यादित्यतिप्रमा' तयाऽन्याकारज्ञानस्यान्यविषयकन्यं स्वविपयव्याभि- चारित्वेन सर्वज्ञानेपु विश्वासासम्भवात् कुवापि कस्यापि प्रवृत्तिनिवृत्तिन स्यादित्यप्यतिग्रमा इति भावः ॥ ३. एकत्वेऽपि स्मृतिरूपत्वेऽपि, न स्वप्न प्रलयं, इन्द्रियव्यापाराभावात् ॥ ४, तिनिरादिदोपादित्यर्थः ॥

:४६६: तत्त्वन्यायविभाकरे [ अष्टमकिरणे द्रव्यगततिक्तमहशर्कराग्रहयोभैदानहाद्विवेकाख्यातिः । सर्वत्रैवं सम्यगग्रहणस्यैव तदर्थत्वम्, न तु शुक्तौ रजतप्रतीतिः, ज्ञानान्तरेऽपि मिथ्यात्वसम्भावनया सर्वत्रानाश्वासेन प्रवृत्त्यादि- व्यवहारोच्छेदप्रसङ्गः स्यादिति चेन्मैवम् शुताविदं रजतमिति प्रत्ययस्य स्वाकारसंवरण- रजतरूपापत्तिपरिणामविशेषवत्यारशुक्तेरेवालम्बनत्वात् , दुष्टेन्द्रियादीनामेव तादृशज्ञानहेतु- । त्वात् | कार्यप्रतीतौ हि न कारणाभावशका युक्तिमती, प्रतीयते चात्रैकज्ञानात्मकमिदं रजत- मिति कार्य, तदनुरोधेन च कारणस्य कल्पना उचिता दावानलदग्धवेत्रवीजात्कदलीप्रकाण्डोत्स- त्तिदर्शनाच दुष्टकारणस्य स्वकार्यानुत्पादकत्वे सति विपरीतकार्यस्याप्युत्पादकत्वात् । न च दावानलो वेत्राङ्कुरे दोषरूपोऽपि कदल्यकुर प्रत्यनुकूल इति वाच्यम् , अत्रापि दोषस्य सम्यग्- ज्ञाने दोषरूपत्वेऽपि मिथ्याज्ञानं प्रत्यनुकूलत्वस्य न्याय्यत्वात् , इदं रजतमिति ज्ञानं न विशि- 10 ष्टज्ञानं किन्तु प्रहणस्मरणरूपं ज्ञानद्वयमित्यपि न सम्यक् , रजतार्थिप्रवृत्तिसामान्ये रजतत्वप्र- कारकज्ञानस्य संवादिप्रवृत्तिस्थले समानविशेष्यताप्रत्यासत्त्या हेतुत्वेन विसंवादिप्रवृत्तिहेतो. रपि मिथ्याज्ञानस्यैकत्वसिद्धेः । सवादिप्रवृत्तौ विशिष्टज्ञानं विसंवादिप्रवृत्तौ चोपस्थितेष्टभेदा- ग्रह इति कल्पने वीजामावाद्गौरवाच्च । न चेन्द्रियसंस्काररूपकारणभेदात्कार्यभेद इति युक्तम् , रूपालोकलोचनादिमिरनेकैः कारणैरुत्पद्यमानस्य घटादिसंवेदनस्याप्यनेकत्वप्रसक्तेः, न च 15 विभिन्नज्ञानसामग्रीभेदात्कार्यभेद इति वाच्यम् , इदं रजतमित्यादौ सामग्रीमेदासिद्धेः, चक्षु- रादिकारणसमुदायस्यैवात्र कारणत्वात् , न चास्य प्रत्यक्षस्मरणरूपज्ञानद्वयरूपत्वात्सामग्री- भेदोऽनुमेय इति वाच्यम् , अन्योन्याश्रयात् ज्ञानभेदे सिद्धे कारणभेदः, तत्सिद्धौ च ज्ञानमेद इति । किञ्च भेदाग्रह इत्यत्र कोऽयं भेदः, वस्तुस्वरूपमा वा परस्परामावो वा व्यावर्तक-- धर्मयोगो पा, नाद्यो विद्यमानपदार्थप्राहिपूर्वानुभूतपदार्थयाहिप्रत्यक्षस्मरणाभ्यां भेदस्य 20 गृहीतत्वात् वस्त्वभिन्नत्वाञदस्य । वैपरीत्येन गृहीतमिति चेद्विपरीतख्यातिप्रसङ्गः। युष्माभिरमावानभ्युपगमादेव न द्वितीयः पक्षो युक्तः, अभ्युपगमे तु, स्मृतरजतस्य कथमत्र नाभावज्ञानम्, न च नियतदेशतयाऽवगतस्य दोषमहिम्नाऽनियतदेशत्वेनात्रावग- मानामावज्ञानमिति वाच्यम् , नियतदेशस्यानियतदेशत्वेन भानाभ्युपगमाद्विपरीतख्याति- प्रसङ्गात् । न च देशविनिर्मुक्तस्यैव स्मरणान्नान्यथाख्यातिरिति वाच्यम्, पूर्वावगतरजत 25 स्मरणे सति केवलाधिकरणग्रहस्यैव तव मते तदभावोपलम्मरूपत्वात्, न चास्ति शुक्ती - १. विशेष्यतासम्बन्धेन रजतप्रवृत्तित्वावच्छिन्न प्रति विशेष्यतासम्बन्धेन रजतत्वप्रकारकज्ञानं कारणम् अत्र कार्य कारणञ्च रजतेऽस्तीति समानविशेष्यताप्रत्यासत्त्या कार्यकारणभाव', कारणतावच्छेदकाक्रान्त रजतत्वविशिष्टरजतप्रमाज्ञानं रजतत्वप्रकारकयत्किञ्चिद्विशेष्यकज्ञानश्च भवति, तस्मादेकेनैव कार्यकारणभावे- नोभयत्र निर्वाह इति भ्रमात्मकैकज्ञानस्वीकारे लाघवमिति भावः ॥

विपर्ययः ] न्यायप्रकाशसमलङ्कृते रजताभावः परन्तु -दोषमहिम्ना नावगत इति युक्तम् दोपस्य शुक्तिनिष्ठभेदग्रहप्रति- बन्धकत्वकल्पनापेक्षया रजततादात्म्यग्रहहेतुत्वकल्पनाया एवं न्याय्यत्वात् । नापि तृतीयः, स्मर्यमाणे रजते च्यावर्तकधर्मस्य रजतत्वस्यैव भानात् तस्य व्यावर्तकत्वं पुरोवर्तिन्यविद्यमानत्वात् तस्य च तन्न भाने विपरीतख्यातिप्रसक्तः । अथ गृह्यमाणा- स्मर्यमाणस्य व्यावर्तकधर्मेऽवगतेऽपि स्मयमाणाद् माणस्य स नावगतः, शुक्तिकायां प्रति- 5 भासमानशुक्लत्वादिमिन हि सा व्यावर्तयितुं शक्यते, तेषां रजतेऽपि सत्त्वादिति चेन्न, धेशकालावस्थाशून्यतया स्मर्यमाणाद्जतात् पुरोवर्तिनोऽनुभूयमानस्य व्यावर्चकानां देशका- लावस्थाविशेषाणां प्रतीयमानत्वात् । नापि वाधकप्रत्ययो विवेक प्रकाशयतीदमन्यद्रजत- मन्यदिति, बाधकप्रत्ययेन प्रसक्तरजतत्वामावस्यैवावगाहनात् न हि सोऽप्रसकाविविक्त- त्वाप्रतिषेधेन विविक्तत्वमवगमयति, अन्यथा चामीकरादीनामपि प्रतिपेधं कुर्य्यात्। रजता- 10 दिविषयकस्वप्ने स्मरणत्वेनामहे रूपान्तरत्वेन च अहे विपरीतख्यात्यापत्तिः, सर्वात्म- नाऽग्रहणस्य ग्रहणविरुद्धत्वञ्च स्यात् । चन्द्रद्वयवेदनमपि न दोषाञ्चन्द्रकत्वामहरूपम् , चन्द्र- त्वामहेऽपि द्वित्वानुभवानुपपत्तेः, न च नयनसमाश्रितद्वित्वासंसर्गाग्रह एव चन्ने द्वित्वग्रह इति साम्प्रतम् , परोक्षस्य तस्योपस्थित्यभावात् । अनवगतेन्द्रियवृत्त्यैव सर्वत्र रूपादीनां वोधात् । एतेन तिका शर्करेत्यादिव्यवहारस्य पित्तद्रव्यगततिक्तत्वशर्करामहभेदामह- 15 निमिचत्वं प्रत्युक्तम् , अगृह्यमाणतिकत्वस्यैव पित्तस्य शरीरगतस्य ज्वरोत्पादकत्ववद्रसन- गतस्य विपरीतप्रत्ययोत्पादकत्वात्, सर्वानुभूयमानमामानाधिकरण्यानुपपत्तेश्च । किञ्चेदं रजतमिति यदि ज्ञानद्वयं तदा तयोः सहैवोत्पादः क्रमेण वा नायः सहशानद्वयोत्पत्त्यनभ्यु- पगमात् न द्वितीयः प्रत्यक्षात्पूर्व संस्कारस्यानुद्वोपेन स्मरणामम्मवात् प्रत्यक्षादुचर रजतस्मरणे च प्रत्यक्षादनन्तरं विपरीतव्यापारेऽपि चक्षुपि तदापचे, तस्मात्सकललोकसिद्धं रजतात्मना 20 पुरोवर्तिमानं दुरपहचमिति ॥ केचिदिदं रजतमित्यत्र न कश्चिद्विषयतया भासते, रजतसत्ताभानेऽभ्रान्तत्वप्रसक्ते, विधिमुखतयाऽस्य प्रवृत्तेने रजताभावो विषय:, असदाकारत्वादेव च नापि शुक्तिकाविषयः, " १. अत्रेदमपि बोध्यम् रमतादिविषयकस्वप्नस्य स्मृतित्वेनाप्रहे लयापि संवित्तेः स्वप्रमशवेनाभ्यु- पगतत्वाकेन रूपेण भान, यदि स्मृतित्वेन तर्हि केन रूपेणाग्रह । यदि वनुभवत्वरण प्रह उच्यते तदाऽन्यथाख्याति, स्मृतेरजमवलपत्वाभावात् , अथ शानलेन, तदपि न मम्भवति ज्ञानत्वय्याप्यस्मग्णत्वा- नुभवत्वशून्यस्य शानववतः कस्याप्यभावादिति । २. पुरोवतिन पदार्थ गृहीत्वा पश्चादजतं स्मरामि प्रथमं वा रजतं स्मृत्वा पश्चात् पदार्थममुं गृहामीति क्रमेण भवदमिमतमानयप्रादुर्भावस्यानुभव- विरुदत्वादित्यर्थः।

- . :४६८: तत्त्वन्यायविमाकरे [ अष्टमकिरणे नवा रजताकारतयां शुक्तिविषयः, अन्यस्यान्याकारेण दुर्महत्वात्ततोऽयमख्यातिरूप एवेति, तन्न, भ्रान्तेनिर्विषयकत्वे भ्रान्तिसुषुप्तावस्थयोरभेदप्रसङ्गात् , अर्थभानाभानाभ्यां हि वयो. विशेषाद्भेदो वाच्यः, स एव त्वया नाभ्युपगम्यत इति, तस्य ज्ञानस्य निर्विषयत्वेऽख्याति- रूपत्वस्याप्यसम्भवाच, स्वरूपेण पररूपेण वा कस्यापि ततोऽप्रतिमासे रजतज्ञानमिति 5 व्यपदेशासम्भवाञ्चेति ॥ बौद्धास्तु तस्यासत्ख्यातित्वमाचक्षते तथाहि रजतमिदमिति प्रतीयमानं वस्तु ज्ञानं वा स्यादों वा, न प्रथमः, अहं रजतामित्यहत्वसामानाधिकरण्ये- नाप्रत्ययात् ज्ञानस्यान्तर्मुखाकारत्वात् । तन्निष्पाचार्थक्रियाभावेन द्वितीयोऽपि पक्षो नोचितः वितथज्ञानविपयीकृतस्य वस्तुनो बाधकज्ञानेनार्थताया बाध्यमानत्वाच, तस्मादसदेव तत्तत्र प्रतिभावमिति, तदपि न युक्तम, रजतत्वव्यपदेशासंभवात् , देशान्तरे विद्यमानस्यास्य 10 प्रथनरूपत्वेऽसत्ख्यातित्वस्य विपरीतख्यातित्वप्रसङ्गात्, सर्वथाऽसतोऽर्थस्य प्रथनरूपत्वे च शशविषाणस्यापि प्रतीतिप्रसङ्गात्, असतस्सद्रूपेण प्रथनत्वस्यापि विपरीतल्यातेरनुल्लंघनात् न च रजतं सदेव तत्संसर्गस्त्वलीको भ्रान्तौ सदुपरागेण भासत इति वाच्यम् , विषयताया- स्सद्वृत्तित्वव्याप्यत्वात् अन्यथा गवि शशशृङ्गीयत्वविशिष्टसम्बन्धेन शृङ्गभानापत्तेः। रजतमि- दमिति भासमाने वस्तुनि ज्ञानत्वार्थत्वद्वयविकल्पोऽपि न युक्ता, आधविकल्पानभ्युपगमात्, 15 द्वितीयस्य चेष्टत्वात् , अर्थविशेषप्रयुक्तार्थक्रियाविशेषवैधुर्येऽपि तत्सामान्यनिबन्धनाभिलाप- प्रवृत्त्यादिरूपार्थक्रियायास्तत्राव्याहतत्वात् , एवं तर्हि कथं नार्थनिश्चयः इति चेन्न, अर्थवि- शेषप्रयुक्तार्थक्रियाकारिण एवार्थव्यवसायात्मकत्वात् । बाधकप्रत्ययेनापि न तद्विषयस्यार्थत्व- मपोद्यते, किन्तु मिध्याज्ञानस्य मिथ्यात्वमेव प्रकाश्यते, ततो नासत्ख्याति प्रमाणसहेति ॥ अपरे त्वत्र प्रसिद्धार्थख्यातिमाहुः विपर्ययज्ञाने हि प्रसिद्धस्यैवार्थस्य भानं, न च तद्वि- षयस्याविद्यमानत्वं विचारासहत्वादिति वाच्यम्, प्रतीतिव्यतिरेकेणान्यस्य विचारस्या नुपपत्तेः प्रतीतिबलेनैव हि करस्थमुक्ताफलादेव्यवस्था । तां चात्रापि प्रवर्तमानां केन हि निरोढुं शक्यते । न चोत्तरकाले तत्प्रतिभासाभावेन तद्विषयस्यासत्त्वमिति वाच्यम्, तदानीं तद्विषयस्यामानेऽपि पूर्वप्रतिभासकाले तस्य विद्यमानत्वात्, अन्यथोत्तरकाले तोयबुद्ध- दादीनामप्रतिभासनेन पूर्वप्रतिभाससमयेऽप्यविधमानताप्रसङ्गादिति, मनोरमं न तत्, अन्तरा 20 १ १. ज्ञानातिरिकवाह्यार्थानुपपत्तौ च तदशे सत्ख्यातिरेव स्यादिति ज्ञानवाद्यभ्युपगतासत्ख्यातिरेर स्थानत्वख्यातिरिति स्वसिद्धान्तमङ्गोऽपि स्यादित्यपि बोध्यम् ॥ २. इदं रजतमिति बहिर्मुखतयैव प्रति- भासनादिति भाव ॥ २. यो यस्मिन् देशे सत्तामनुभवति तस्य तत्रैव प्रतिभासनं युकं, नहि स्तम्भदेशे कुम्भः प्रतिभासत इति भावः ॥

विपर्ययः ] न्यायप्रकाशसमलते प्रमाणसिद्धिमर्थस्य प्रसिद्धत्वायोगात् , अन्यथा भ्रान्ताभ्रान्तव्यवस्थासमुच्छेदप्रसक्तः, नहि संवेदनमिदं प्रान्तमिदमभ्रान्तमिति निर्णयो निमित्तमन्तरेण कतुं शक्यते, सर्वेषामेव यथा- वस्थितवस्तुव्यवसायित्वात् । प्रतिभाससमये वस्तुनो विद्यमानता कि देशान्तरे शुक्तिकादेशे वा, आयेऽन्यथाख्यातेरेव नामान्तरत्वापत्तिः दोपमहिम्ना नत्र स्थितस्य शुक्तिदेशे भाना- भ्युपगमात् । अन्यथा तत्रैव प्रतिभासस्स्यात् । द्वितीये चोत्तरकालेऽपि तस्य प्रतिमासापत्तेः । नहि जलबुदुदवदस्य क्षणिकत्वं किञ्चित्कालं स्थिरत्वात् । नेदं रजतमिति बाधकज्ञानस्य शुक्तिकादेशे रजतनिषेधकस्य प्रवर्तमानत्वादन तस्य विद्यमानत्वासिद्धेश्चेति ॥ अन्ये तु शुक्तिकायां रजतं यश्चकास्ति तस्य बाह्यतया प्रतिमानं न संभवति, वाधकप्रत्य- येन तद्वायतायाः प्रतिपेधात् ततो ज्ञानात्मन एवायमाकारोऽनादिवासनामाहात्म्यात् वहिरिष परिस्फुरतीत्यात्मख्यातिरेवेयमित्याहुः, तेऽपि न प्रेक्षावन्तः, नेदमिति बाधकेनान्यत्र वर्त- 10 मानस्य रजनादेश्शुक्तिकादेशस्थत्वस्यैव बाधनेन तद्बाह्यतामात्रस्यावाधनात् । नाप्यात्मा वासनया वहिरिव परिस्फुरतीति युक्तम् , तथाहि सा वस्तुस्वरूपा, अवस्तुस्वरूपा वा. नान्त्यो गगनकुसुमायिततया तस्या रजतव्यवस्थापकत्वासम्भवात् न प्रथमो जानाद्भिन्नत्वे तस्यास्त्वदभ्युपगवज्ञानाद्वैतक्षतेः नानामिन्नत्वे बानाकारो ज्ञानाकारमाहात्म्यावहिरिव प्रति- भासत इत्युक्तं स्यात् , तथा च सति तदेव साध्यं साधनमियविशेपप्रसङ्गः, ततो न वासना 15 युक्तिमती । ज्ञानाकारस्यैव रजतस्य संवेदने चाहं रजतमित्यन्तर्मुखतया प्रतीतिः स्यात् । न विदं रजतमिति बहिर्मुखतया, ज्ञाननिष्ठोऽपि रजताकारोऽनादिवासनामाहात्म्याच्छु- क्तिनिष्ठतया प्रतिभासत इत्यभ्युपगमे चान्यथाख्यात्यगीकारापत्ति. स्यात् , न च भ्रान्तयः स्वाकारमेव रजतादिकं बहीरूपतया प्रकाशयन्तीति वाच्यम्, प्रमाणाभावान्, अनुभवस्य रजतबानाकारासाक्षित्वात् , इदन्तया कलधौतस्यैव भासकत्वात् शुक्तिकायां रजवाकारता- 20 प्रविपेधकत्वेन च वाधकज्ञानस्यापि तत्राप्रमाणत्वात् । न च रजते पुरोवत्रिशुक्ल्याकारत्वस्य प्रतिपेऽर्थतो वोधाकारत्वस्य सिद्धिरिति वाच्यम्, तत्प्रतिपेऽर्थतो देशान्तरसत्त्वस्येव सिद्धे, दृष्टातिकमेणारज्ञानाकारत्वकल्पने वीजाभावान्, ने रजतमपि तु शुक्तिकाशकल मित्युल्लेखेन निषेधानुपपत्तेः, सव मते शुक्तिकायां रजतस्याप्रसक्तत्वात् शुक्तिरियं मया रजतत्वेन ज्ञातेति प्रत्यभिज्ञानुपपचेः, आन्तरं कलधौवं वहीरूपतया शावमिति प्रत्यभिनाया 25 एवापचेः । ज्ञानस्य वाह्यार्थीविषयकत्वे रजताकारोल्लेखेनेव नीलाद्याकारोदेखेनापि प्रवृत्त्या. १..नहि तन्त्रकारतया प्रतिभासमात्रेण तस्य तत्प्रकारकत्वमेव स्वीकर्तु युज्यते, भ्रान्त्युच्छेदापत्तगित भावः ॥ २. रजतानुभवस्यैत्यर्थ , स हि रजतमिदन्तेनव बोधयति, न तु बानाकारतन, येन प्रमाणे भवेदिति भावः । तत्र वाधकप्रत्ययोऽपि न प्रमाणमित्याह शुक्तिकायामिति ।

४७० तत्त्वन्यायविभाकरे [ अष्टमकिरणे पर्नियामकाभावात् , वासनाया एवं रजतदेशकालादीनामसतामवमासे नियामकत्वे चासत्ख्यात्यापत्तश्चेति ॥ वेदान्तिनस्तु अनिर्वचनीयख्यातिमाहुस्तथाहि नात्र शुक्तौ भासमानं रज सत्, तथात्वे तदुद्धेर्वास्तवरजतबुद्धिचदभ्रान्तत्वं स्यात्, असत्त्वे तु तस्य गगनारविन्दवत्प्रतिमासप्रवृत्त्यो- 5 रविषयत्वप्रसङ्गः, सदेसद्रूपत्वे तूमयपक्षोपक्षिप्तदोषानुषड्ग इत्यनिर्वचनीयमेवेदमिति, तदपि न सुन्दरम् , शुक्तौ रजतभ्रमे विषयभूतशुक्तिशकलस्य स्वपररूपाभ्यां सदसद्रूपस्यान्याह- तत्वात्, न च तस्य रजतप्रकारिताकत्वे किं नियामकमिति वाच्यम्, विशेषणज्ञानस्य तादात्विकशुक्तिपरिणामविशेषस्यैव वा नियामकत्वात्, अर्थेनैव घियां विशेषात्, न च कुतो न विलक्षणरजतोत्पाद- इति वाच्यं तदुत्पादककारणाभावात् नहि परिणामिकारणादि- 10 सामग्री विना कार्योत्पत्तिः क्वचिदपि दृष्टा । न च शुक्रज्ञानमेव प्रतीयमानरजतस्य कारणमिति वाच्यं तस्य परिणामकारणत्वायोगात् तत्तत्पर्यायपरिकरितद्रव्यस्यैव परिणामि- कारणत्वात् , अज्ञानपर्यायाविष्टमात्मद्रव्यमेव तत्परिणामिकारणमस्त्वित्यपि न चार, चेत- नस्याचेतनं प्रति कथमपि परिणामिकारणत्वानुपपत्तेः । न च सम्यग्ज्ञानप्रागभावमि- ध्याज्ञानान्यतरमिन्नं मायाऽविद्यादिशब्दवाच्य- वस्त्वन्तरमेवाज्ञानमनिर्वचनीयरजतहेतुरिति 15 वाच्यं तादृशे मानाभावात् । नापि शुक्त्यज्ञानं रजतहेतुः, तस्य पाषाणादावपि सत्त्वेन देशनियमाभावात् । न चेदन्त्वावच्छेदेन शुक्त्यज्ञानमिदन्त्वावच्छेदेन रजतहेतुरिति वाच्यम्, दोषाभावकालेऽपि तस्मात्तत्प्रसङ्गात् दोषस्याप्यपेक्षणे चेदमंशावच्छेदेनाज्ञानान्तरस्योदासी- नस्य च हेतुत्वं दुर्निवारमिति यत्किञ्चिदेतत् ॥ ननु तर्हि रजतमिदमिति भ्रान्तरालम्बनं किम् ? रजतं वा स्याच्छुक्तिकाशकलं वा, 20 नाद्या, असरख्यातेरेव प्रसङ्गात् विषयभूतं हि रजतं तत्रासत् । न चान्यत्र सत एव तत्र भानानासत्ल्यातिरिति वाच्यम् , तथा सतीदं रजतमित्युल्लेखेन ज्ञानानुदयप्रसङ्गात् विप्रकृष्टे रजते चाक्षुषज्ञानासम्भवात् अन्यथा सर्वत्र चाक्षुषज्ञानोत्पादप्रसङ्गेन चक्षुपो जगन्मात्रमाह- कत्वापत्तेः । न द्वितीयः, रजताकारतयोत्पद्यमानत्वासम्भवात् । अन्याकारज्ञानस्यान्यविषय- कत्वासम्भवात् । प्रतीतेश्शुक्तिकाविषयकत्वे भ्रान्तित्वासम्भवाच । न च रजतस्य प्रतिमा- 25 सेऽप्यालम्बनमन्यदेवेति वाच्यम् शुक्तिकाया अप्रतिमासमानत्वेनालम्बनवायोगात्, न च सन्निहितत्वाद्भवत्यालम्वनमिति वाच्यम् , सन्निहितानामन्येषामन्यालम्बनत्वापत्ते तथा चं १. संवतस्वाकारसमुपात्तरजतरूपापत्तिपरिणामविशेषस्यत्ययं ॥ २. सम्यग्ज्ञानप्रागभावो वा मिथ्याज्ञान का कारणमस्त्वित्यत्राह तत्तत्पर्यायेति ॥ .

5 " विपर्यय] न्यायप्रकाशसमलट्टते :४७१: यदेव प्रतीताववभासते तदेव रजतमालम्बनतया वाच्यं रजतञ्च तत्रासदेवेससख्यातिरेवाऽऽ याता न विपरीतख्यातिरित्याशङ्कायामाह- अन हि स्मरणोपढौकितं रजतं तद्देशतत्कालयोरविद्यमानमपि दोष- महिम्ना सन्निहितत्वेन भासत इति विपरीतख्यातिरूपमिदम् । स्मरणश्च चाकचिक्यादिसमानधर्माणां शुक्तौ दर्शनाद्भवति ॥ अत्रेति । इदं रजतमिति भ्रान्तावित्यर्थः, रजतं भासत इति योजना, तेन रजतमेवाल- म्बनमित्युक्तम्, ननु तदानीमसख्यातित्वं स्यादित्यानाइ तद्देशतत्कालयोरविद्यमानमपीति, यदा यस्मिन् तज्ज्ञानं भवति तद्देशतत्कालयोरविद्यमानमीत्यर्थः, एतद्देशकालावच्छेदेनैव तस्याविद्यमानत्वं न तु देशान्तरे कालान्तरेऽपीति यावत् । तथा च देशान्तरादौ रजतस्य विद्यमानत्वं फलितम् , असत्ख्यातिवादो हि सर्वथाऽसनोऽर्थस्य प्रथने स्यान्न चात्र तथेति 10 नासल्यातिप्रसक्तिरिति भावः । ननु तत्राविद्यमानस्य रजतस्य नयनासनिकृष्टत्वेन कथं भानं भवेदित्यत्राह दोषमहिम्नेति, तथा चातदेशकालस्यापि रजतस्य दोपमहिम्ना सन्निहि- तत्लेन प्रतिभासनं नानुपपन्नामिति भावः। दोपमहिम्ना तथाभासमानत्वादेव प्रतीतेरस्या विपरीतल्याविरूपतेत्याशयेनाह इति विपरीतख्यातिरूपमिदमिति, अस्मादेव हेतोरिद मान विपरीतख्यातिरूपमित्यर्थः । ननु दोषमहिम्ना यद्यवद्देशकालयोरपि भानं तर्हि जगतोऽपि ग्रहणं स्यादित्यत्राह स्मरणोपढौकितमिति, स्मरणेनोपस्थितं रजतमेव न तु विश्वं, चेतसि परिस्फुरतः पदार्थस्य वहिरवमासनं हि उपरथानं, चेतसि च न सर्व परिस्फुरतीति भावः । कथं न विश्वस्य स्मरणमित्यत्राह स्मरणश्चेति, सादृश्यविशिष्टार्थदर्शनेन हि स्मरणं भवति सादृश्यञ्च चाफचिक्यादिकं शुक्तिकारजतयोरेव न विश्वस्य, अतस्समानधर्मदर्शनेन स्मरण रजतस्य, तेन च रजतमेवोपस्थापितं न विश्वमिति भावः, एवञ्च सवेदनात्पृथग्भूतस्य 30 पदार्थस्यात्र परिस्फुरणान्नात्मख्यातिरत्यन्तासतः प्रतिभासाभावाच नासत्ख्यातिरिति शेयम् । ननु रजतमिदमित्याविज्ञानस्य प्रत्यक्षरूपत्वेन स्मरणानपेक्षत्वात्कृतस्तदुपस्थापितार्थावभा- सित्वमिति चेन्न, अस्य प्रत्यक्षाभासत्वेनैवंविधपर्यनुयोगानास्पदत्वात् ॥ अत्र वृद्धाः, संवृतस्थाकारा समुपातकलधौताकारा शुक्तिकैवालम्बनं तज्ञानस्य, त्रिको- णत्वादिस्वविशेषग्रहणाभावात्, चाकचिक्यादिसमानधर्मदर्शनजन्यरूप्यस्मरणारोपितरूप्या- कारवाच । न च रजताकारज्ञानस्य कथं शुक्तिका विपय इति वाच्यम्, अगुल्यादिना निश्यि- मानस्य कर्मतया ज्ञानजनकस्यैवालम्बनत्वात , अन्यथा प्रकृतनानेन साऽनपेक्षणीया भवेत् । अपेक्षणीया च सा, अन्यथा तदसन्निधानेऽपि प्रकृतम्रानोत्पादापत्रः, उत्तरकालं 15 05 :४७२: . तसन्यायविमाकरे [ भटमकिरणे. तद्विषयकप्रत्यभिज्ञानस्य बाध्यबाधकमावस्य चानुपपत्तेश्च भिन्नविषययोस्तदसम्भवात् । ननु ज्ञानानां कोऽयं बाध्यबाधकभावः, सहानवस्थानं वा वध्यघातकभावो वा विषया- पहारो वा फलापहारो वा, नाद्यः, सम्यक्प्रत्ययेनेव मिथ्याप्रत्ययेनापि सम्यक्प्रत्ययस्य बाधा. पत्तेः सहानवस्थानाविशेषात् । अत एव न द्वितीयः, उभयोर्वध्यघातकमावाविशेषात् । 5 नापि तृतीयो विषयस्य प्रतिपन्नत्वेनापहारासम्भवात् । प्रतिपन्नस्थाप्रतिपन्नत्वबोधकतया बाधकनानस्यानुत्पादाच्च । नापि चरमः, उपादानादिज्ञानस्य प्रमाणफलस्योत्पन्नत्वेनामहरणा- सम्भवात्, नहि यदुत्पन्नं तदनुत्पन्नमित्यभिदधाति बाधकः । किञ्च तुल्यविषययोर्बाध्यबाधक- भावो भिन्नविषययोर्वा स्यात् । नाद्यः धारावाहिज्ञानानां बाध्यबाघकभावप्रसङ्गात् । नान्त्यः, घटपटज्ञानयोरपि बाध्यबाधकमावापत्तेरिति चेदुच्यते प्रतिपन्नविषयस्यासत्त्वप्रति- 10 पादकत्वेन विषयापहारकस्यैव बाधकत्वमिति । तत्रापीदानीमुपनतस्यैवासत्त्वं न ख्याप्यते किन्तु तदैव तस्यासत्त्वम् , न च प्रथमज्ञानेन तदानीं तस्य सत्त्वस्य गृहीतत्वेन तदैव तत्र बाधकेनासत्त्वस्य ख्यापने स्वरूपेणैव तस्य सदसत्त्वापत्तिविरुद्धा प्रसन्यत इति वाच्यम्, पूर्वप्रतिपन्नाकारोपमर्दद्वारेण बाधकप्रत्ययोत्पत्तेः, यन्मया तदा रजतमिति प्रतिपन्नं वद्जतं. न भवत्यन्यदेव तद्वस्त्विति, न च ज्ञानानां स्वस्वकालनियतत्वेनोत्तरज्ञानं पूर्वज्ञानोत्पाद- 15 कालावच्छिन्नतद्विषयाभावप्रतिपत्तौ कथं समर्थमिति वाच्यम्, स्वसामग्रीतस्तथैवोत्तरस्य बाधकप्रत्ययस्योत्पद्यमानस्य प्रतीतेरित्यलमधिकेन । नन्विद रजतमिति ज्ञानमित्यत्रेतिशब्दः प्रकारार्थोऽभिमतः । तथा चैवं प्रकार ज्ञानं विपर्यय इति तद्भावार्थः, प्रकारता च प्रत्यक्षादिरूपेण, तत्र पूर्वोदितमुदाहरणन्तु प्रत्यक्षवि- षयमनुमानादिविषयको विपर्ययः कीदक्ष इत्यनुयोगे वाह- एवं बाष्पधूलीपटलादौ धूमभ्रमावल्लिविरहिते देशे वयनुमानमयं देशो वहिमानिति । क्षणिकाक्षणिके वस्तुनि बौद्धागमात्सर्वथा क्षणिक- त्वज्ञानं, भिन्नाभिन्नयोर्द्रव्यपर्याययोनैयायिकवैशेषिकशास्त्रतं. एकान्त- भेवंज्ञानं, नित्यानित्यात्मके 'शब्दे मीमांसकशास्त्रत एकान्तनित्यत्व- ज्ञानमित्यादीनि विपरीतोदाहरणानि ॥ एवमिति । न केवलं प्रत्यक्षविपय एव विपर्ययोऽनुमानादिविषयोऽपि स इत्येवंशब्द- तात्पर्यार्थः। अनुमानविषयविपर्ययमाह बाष्पधूलीपटलादाविति, आदिना नीहारादिप्र- १. यन्मया पूर्व रजतत्वेन ज्ञातं तदेवेदं शुक्तिकाशकलमिति प्रत्यभिज्ञान, नेदं रजतमपितु शुक्तिकेति ज्ञानस्य भिन्नविषयकत्वेन बाधकत्वमपि न स्यादिति भाव ॥ - . 30 25 'संशयः] म्यायप्रकाशसमलते हणम् । अधूम इति शेषः, धूमभ्रमादिति, कुतोऽपि कारणात् भ्रान्त्या धूमस्वेन ज्ञाते सतीति भावः । वहिविरहिते देश इति, अन्यथास्थितवस्तूपदर्शकं पदमिदम् | वहषचमानमिति, एककोटिमात्रप्रकारकनिश्चयत्वप्रदर्शनपरम् । तदुल्लेखप्रकारमाहायं देश इति । इतीति, मैकिकविपर्ययाणामुपदर्शकमिदम् । अथ परीक्षकविपर्ययमाह-क्षणिकेति, क्षणिकाक्षणिकत्वं मिन्नामिन्नत्वं नित्यानित्यत्वञ्च वस्तुनः परीक्षया निर्णीतं तथाभूतं वस्तु तत्तच्छाखवलेन । भ्रान्तिसहकृतेनैकान्तक्षणिकत्वाविज्ञाने सति विपर्ययत्वमिति भावार्थः, स्पष्टं सर्वम् ।। अथ संशयस्वरूपमाह- अनिश्चितनानांशविषयकं ज्ञानं संशयः। यथा स्थाणुर्वा पुरुषो वेति ज्ञानम् । इदञ्च स्थाणुत्वपुरुषत्वान्यतरनिश्चायकप्रतिषेधकप्रमाणाभावादा- रोहपरिणाहात्मकसाधारणधर्मदर्शनात्कोटिद्वयविषयकस्मरणाच समु- 10 मिषति । अयं प्रत्यक्षर्मिकः संशयः। परोक्षधर्मिविषयको यथा कचि. द्वनप्रदेशे शृङ्गमात्रदर्शनेन किं गौरयं गवयो वेति संशयः ॥ अनिश्चितनानांशविषयकमिति । यतो विधौ प्रतिषेधे वा कस्यचिदसमर्थ अत एव तनानं अनिश्चितनानाशविषयकमित्यर्थः, ज्ञानमिति, बोधविशेष इत्यर्थः, संशय इति, यत्सर्वप्रकारैश्शेत इवातस्संशय इत्यर्थः । एकस्मिन् धर्मिणीत्यादिः, तथा चैकस्मिन् 18 धर्मिणि अनिश्चितनानांशविषयकं ज्ञानं संशय इति भावः | अनिश्चितेति विशेषणात् स्वप- ररूपेण सदसदात्मकं वस्त्विति ज्ञानानां न्युदासः । दृष्टान्तमाह यथेति, अयमिति शेषः, सामान्यतसंशयं प्रति धर्मिज्ञानं साधारणधर्मदर्शनं विशेषादर्शनमनेकविशेषस्मरणश्च कार- णमिति लक्ष्ये तत्सङ्गमयति इदश्चेति, संशयात्मकमिदं ज्ञानश्चेत्यर्थः । स्थाणुत्वेति, स्थाणुत्व- पुरुषत्वयोविशेषयोरन्यतरस्य निश्चयजनकं प्रतिषेधकं वा यत्प्रमाणं तदभावादित्यर्थः । एतेन विशेषादर्शनरूपकारणसम्पत्तिर्दर्शिता, आरोहपरिणाहात्मकेति, स्थाणुपुरुषयोरारोहपरिणा- हात्मकसाधारणधर्मस्य दर्शनादित्यर्थः, अनेन साधारणधर्मदर्शनरूपकारणसम्पत्तिदर्शिता, कोटिद्वयविषयकस्मरणाचेति, स्थाणुत्वपुरुषत्वरूपकोटिद्वयविषयकस्मरणादित्यर्थः, अनेना- नेकविशेषस्मरणं दर्शितम् , दूरात्प्रत्यक्षगोचरः पुरोवर्ती धर्मी सशयस्यानो धर्मिज्ञानं कारण- मायातम् , ततश्चायं स्थाणुर्वा पुरुषो वेति संशयः समुन्मिपति । साधकबाधकप्रमाणा- भावाद्धि पुरोवर्जिनि यदा स्थाणुरयमिति निर्णेतुमभिलपति सदा पुरुषविशेषानुस्मरणवलेन पुरुषे समाकृष्यते, यदा च पुरुषोऽयमिति निश्चेतुमिच्छति तदा स्थाणुविशेषानुस्मरण- 20 25 ७४ .. तत्वन्यायविभाकरे [अष्टमकिरणे . महिम्ना स्थाणावाकृष्यत इसनेकार्थे समाकृष्यमाणस्य प्रतिपत्तुरनवस्थितरूपतया दोलाय- मानः स्थाणुर्वायं पुरुषो वेति प्रत्ययः प्रादुर्भवतीति भावः । ननु कोटपोर्विरोध- ज्ञानमपि संशयकारणमस्ति तत्कुतो नोक्तमिति चेत्सत्य, संशये तदधिकरणावृचित्वरूप- विरोधस्थ प्रकारत्वे तस्य तदभावव्याप्तिपर्यवसायित्वेन तदभावव्याप्यवचानिश्चयरूपसंशय- 5 प्रतिबन्धकसत्त्वाचदभावस्य च कार्यसहभावेन हेतुत्वात्संशयमात्रस्य दुर्लभत्वापत्तेः, किन्तु संशये तद्विरोधस्संसर्गतया भासते तस्य च पूर्वमुपस्थिति पेक्षितेति विरोधज्ञानं न संशय. हेतुत्वेनोक्तम् । एवं गृहे स्थितस्य वाप्यामापस्सन्तीति ज्ञानं साधकबाधकप्रमाणामावा- पेक्षया संशयात्मकं, तस्यानेकांशानुल्लेखित्वेऽपि न सन्तीसंशोऽन्तर्निंगीर्णः स्फुरत्येवेति बोध्यम् । ननु किमयं सशयः प्रत्यक्ष एव भवति परोक्षेऽपि वेत्यत्राहायमिति, स्थाणुर्वा 10 पुरुषो वेत्याकारकस्संशय इत्यर्थः, प्रत्यक्षधर्मिक इति, सांव्यवहारिकप्रत्यक्षर्मिक इत्यर्थः । परोक्षधर्मिविषयकमाह परोक्षेति, अत्र गोत्वगवयत्वविषयकसाधकबाधकप्रमाणाभावाद्वि- शेषदर्शनेन शृङ्गेणानुमिते धर्मिणि परोक्षे संशय इति परोक्षधर्मिविषयक इति भावः ।। अथ क्रमायातमनध्यवसायं निरूपयति- विशिष्टविशेषास्पर्शिज्ञानमनध्यवसायः। यथा गच्छता मार्गे किमपि 15 मया स्पृष्टमिति ज्ञानम् । अयमनध्यवसाय प्रत्यक्षविषयः॥ विशिष्टेति । विशिष्टरूपेण-स्पष्टतया विशेपं यन्न स्पृशति तादृशं ज्ञानमित्यर्थः, दूरा- न्धका दिवशादसाधारणधर्मावमर्शरहितः प्रत्ययोऽनिश्चयरूपत्वादनव्यवसाय इति भावः । उदाहरति यथेति, अन्यत्रासक्तचित्तत्वात् पथि बजता मया किमपि स्पृष्टं परं किं वरिवति न ज्ञातमिति यो बोधस्स वस्तुविशेषाध्यवसायाभावास्किमपि स्पृष्टमित्यनिर्णयात्मकमनध्य- 20 वसायज्ञानमिति भावः । अत्रापीतिशब्देनेशदिशा प्रत्यक्षयोग्यविषया अनध्यवसाया विज्ञेया इति सूचितं, तदेवाहायमिति, ईदृग्जातीय इत्यर्थः ।। A १. यथा पर्वतो वहिमानवेस्यत्र वहि बहयभावश्च प्रकार , तत्र तदधिकरणावृत्तित्वरूपो विरोधोऽपि भासत यदि तदा वही बयभावाधिकरणावृत्तित्वस्य भाने तस्य वहिव्याप्तिरूपत्वेन पर्वते वहिन्याप्यवत्ताज्ञा- नेन वयभाववत्तानानं, वयधिकरणावृत्तित्वस्य पहयभावे भाने च तस्य वहयभावाभावाधिकरणावृत्तित्व- लक्षणवयभावव्याप्तिमत्वेन पर्वते वायभावव्याप्यवत्ताज्ञानात् वहिमत्ताशानं न स्यात् तद्वत्तावृद्धि प्रति तदभावन्या यवत्ताज्ञानस्य प्रतिबन्धकस्य सत्त्वात् , न च संशयोत्पत्तिकाले प्रतिबन्धकसत्त्वेऽपि प्रतिबन्धकाभाव- रूपकारणस्य कार्याध्यवहितपूर्वक्षणे सत्त्वेन न सशयोत्पत्तौ वाधकः कश्चिदिति वाच्यम् , प्रतिवन्धकामावस्य कार्यकालवृत्तित्वेन हेतुलादित्याशयेनाह सशय इति ॥ २. तत्प्रकारकज्ञान एव तज्ञानस्य हेतुत्वेन विरोधस्य संसर्गतया भाने न तज्ज्ञानापेक्षेति भाव ॥ ३. भादिनाऽन्यास कचित्तत्वादीना प्रहणम् ॥

अनभ्यवसायः न्यायप्रकाशसमलट्टते ::४७५ परोक्षविषयमनभ्यवसायमाह- परोक्षविषयस्तु गोजातीयपरिज्ञानविधुरस्य विपिननिकुने सास्ना: मात्रदर्शनेन सामान्यतः पिण्डमात्रमनुमाय प्रदेशेऽस्मिन् कोऽयं प्राणीति विशेषानुल्लेखि ज्ञानम् । अनिश्चितानेककोटिविषयकस्संशयः । सर्वथा कोट्यविषयकोऽनध्यवसाय इत्यनयोर्भेदः । तथाऽनवस्थितानेकांशाप्रका• 5 रके वस्तुन्यनवस्थितानेकांशप्रकारकत्वावगाहनात्संशय आरोपरूपः । अनध्यवसायस्य संशयविपर्ययात्मकारोपेण सहायथार्थपरिच्छेदकत्व- साम्यादारोपरूपत्वमुपचारकृत्या भाव्यम् ॥ इत्यारोपनिरूपणम् ॥ परोक्षेति । गोजातीयपरिक्षानविधुरस्येवि, गोज्ञानविधुरस्य द्वीपान्तरवासिन इत्यर्थः । विपिननिकुञ्ज इति, देशान्तरमायातस्य कस्मिंश्चिदरण्यलतासमूह इत्यर्थः, सास्नामात्रदर्शने- 10 नेति, प्राण्यविनाभूतसास्नामात्रावलोकनेनेत्यर्थः, पिण्डमात्रमनुमायेति, प्राणिमात्रमनध्यव- सायधर्मिणमनुमायेत्यर्थः । मात्रपदेन प्राणिविशेषनिर्णयाभावः प्रकाशितः, अनध्यवसायज्ञा- नाकारमाह प्रदेशेऽस्मिन्नित्यादिना । विशेषानुल्लेखीति, जातिविशेषाविषयकमित्यर्थः । ननु संशयो यथा विशेपानवधारकस्तथानध्यवसायोऽपीति कथं संशयतोऽस्य भेदो येन त्रैविध्य- मारोपस्य स्यादित्यत्राहानिश्चितेति, अस्ति तयोर्लक्षणभेदोऽनवधारितानेककोटिविषयको हि 15 संशयः, अनध्यवसायस्तु सर्वथा विशेषोल्लेखविधुर इति भावः । सर्वथा कोट्यविषयक इति, सर्वथा विशेषकोट्यविषयक इत्यर्थः । तेन प्राणित्वस्योल्लेखेऽपि न क्षतिः । नन्धतत्प्रकारके वस्तुनि तत्प्रकारकत्वज्ञानमारोप इति लक्षणं विपर्ययेऽन्यथास्थितवस्त्वेक- कोटिप्रकारकनिश्चयरूपे सङ्गतमेव, किन्त्वारोपविलक्षणयोस्संशयानध्यवसाययोः कथमारोप- रूपतेत्याशङ्कायामाह तथेति, एवञ्च संशये आरोपविलक्षणत्वमेवासिद्धं, वस्तुतोऽनेककोट्य. 20 प्रकारके वस्तुनि स्थाण्वादावनेककोटिगोचरत्वादित्याशयेनाहानवस्थितेति, तथा चारोपरू- पत्वेऽपि विपर्ययस्यैककोटिविषयकत्वात्संशयस्य च नानाकोटिविषयकत्वानेदेनोल्लेख इति भावः । नन्वेवं तर्हि कोटिविशेषविधुरस्यानध्यवसायस्य कथमारोपता, कथमपि तल्लक्षणा- ननुवृत्तेरित्यत्राहानध्यवसायस्येति, यथा हि सिंहनिष्ठशौर्यादिगुणसदृशशौर्यादिगुणयोगतो माणवके सिंहत्वं सिंहाब्दश्योपचर्यते सिंहो माणवक इति, तथैव विपर्ययसंशयात्मकारोप- 25 निष्ठायथार्थपरिच्छेदकत्वरूपगुणसहशायथार्थपरिच्छेदकत्वगुणयोगेनारोपत्वमारोपशब्दश्वोप- चर्यतेऽनध्यवसाय आरोप इतीति भावः । एतेन संशयविपर्यययोरेव वस्तुत्वं नत्वनध्यवसाय- , १. संशयस्यानेकाशानवस्थितप्रतिभासरूपत्वात् विपर्ययस्य च विपरीताकाराध्यवसायस्वरूपत्वाद्वस्तुत्वं,बन-, :४७६: तस्वन्यायविभाकरे [ नवमकिरणे - स्येति मतमपास्तम्, तस्याकिञ्चित्करवेदनरूपत्वात् सम्यग्ज्ञानानुत्पादकत्वेनावस्तुत्वे संशय- विपर्यययोरपि तथास्वापत्तेः, न चारोपलक्षणाभावादवस्तुत्वमिति वाच्यम् , मुख्यवृत्त्या तथा- वेऽप्युचारवृत्त्याऽऽरोपरूपत्वादित्याशयेनोपचारवृत्त्या मान्यमित्युक्तम् । इत्येवं प्रमाणपरि- पन्ध्यारोपनिरूपणमवसितमित्याहेतीति ।। 5 इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर- वरणनलिनविन्यस्तभक्तिमरेण तत्पधरेण विजयलब्धिसूरिणा विनिर्मितस्य तत्वन्यायविभाकरस्य खोपक्षायां न्यायप्रकाशव्याख्यायामारोपनिरूपणं नामाष्टमः किरणा॥ अथ नवमः किरणः॥ 10 नन्वस्मिन्प्रवचने सर्व वस्त्वनन्तधर्मात्मकतया सङ्कीर्णस्वभावं, अतस्तत्परिच्छेदकतया प्रमाणमपि तादृशमेव, व्यवहारस्त्वसंकीर्णप्रतिनियतधर्मप्रकारकोऽतस्तादृशव्यवहारसिद्धये समर्थः कश्चिदपेक्षणीय एव, यस्तादृशः स एंव नय उच्यत इति तत्प्रबोधनार्थमाह- श्रुताख्यप्रमाणबोधितांशग्राहकोऽनिराकृतेतरांशो वक्तुरभिप्रायवि. 15 शेषो नयः॥ श्रुतेति । श्रुतमाहतप्रवचनं तद्रूपं यत्प्रमाणं तेन बोधितमनेकान्तात्मकं वस्तु तस्यांश एक- देशो नित्यत्वादिस्तद्राहकः अनिराकृतेतरांशः, अप्रतिषिद्धानित्यत्वाचेकदेशो यो वक्तुरभिप्राय- विशेषस्स नय इत्यर्थः । नय इति, अनन्तधर्माध्यासितं वस्तु स्वामिप्रेकधर्मविशिष्टं नयति प्रापयति संवेदनमारोहयतीति नया, प्रमाणप्रवृत्तेरुत्तरकालभावी परामर्श इत्यर्थः तदेवोतं 20 श्रुताख्यप्रमाणबोधितांशेति । इतरांशप्रतिक्षेपे तु नयत्वव्याहतेराहानिराकृतेतरांश इति, वक्तुरमिप्रायविशेष इत्यनेन ज्ञानरूपस्य नयस्यापेक्षात्मशाब्दबोधत्वं प्रदर्शितं तथा चान- तधर्मात्मकवस्त्वंशभूतप्रतिनियतधर्मप्रकारकापेक्षात्मकशाब्दबोधत्वं ज्ञानरूपस्य नयस्य स्वरू- पम्, नयवाक्यस्य तु ताशापेक्षात्मकशाब्दबोधजनकवाक्यत्वं स्वरूपं बोध्यम् । अपेक्षा- ध्यवसायस्य तु निस्स्वरूपलादवस्तुत्वमिति शङ्काकर्तुराशय. अकिश्चित्करवेदनत्वं तस्य स्वरूम सकलस्वमाष- शून्यत्वे तस्याप्रमाणत्वमपि वा न शक्यते, अप्रमाणवरूपस्वरूपस्य तत्र सत्त्वापत्या वस्तुन्वापत्तेरिया- शयेनोत्तरमाह तस्येति ॥ १. दुर्नयस्याप्यधिकृताशाप्रतिक्षेपकवक्त्रभिप्रायत्वात्तत्रातिव्याप्तिवारणाय श्रुताख्यप्रमाणबोधिताशप्राहकेति । स्मादिग्राहकरसायप्रतिक्षेपकापायादिवारणाय विशेषपदम् ॥

नयः] न्यायप्रकाशसमलट्टते त्व क्षयोपशमजन्यतावच्छेदकजातिविशेषो विलक्षणविषयिता वा । तत्र. मानश्च वी- प्रतिपक्षधर्मवत्तया ज्ञातेऽपि तद्धर्मवचया जायमानस्यानुभवस्यान्यथानुपपत्तिरेव । ननु लोकैः कुम्भोऽस्तीत्यादिवाक्यश्रवणसमनन्तरं कुम्भविषयकशाब्दज्ञानस्यैव स्वात्मन्यनुमब- नात्कुम्भविषयकापेक्षात्मकशाब्दवोधस्याननुभवनादपेक्षात्मकनयबानसत्त्वे मानाभाव इति चेन्न, विरुद्धतया भासमानैरनेकैमिश्रितस्य वस्तुनोऽपेक्षा विना विवक्षितकधर्मप्रका- रकनिश्चयविषयीकरणासम्भवात् । अनपेक्षात्मकस्य तद्विरुद्धधर्मप्रकारकमानस्य तत्रानुप- पत्ते : । न चापेक्षां विना लौकिकोऽपि व्यवहारस्सङ्गच्छते, अपावच्छेदेन कपिसंयो. गाभाषवति घृक्षे शाखापेक्षयैव कपिसंयोगवस्वव्यवहारात् । ननु धर्माणामप्यनन्तानां धर्म्य- भिन्नत्वेन धर्मिग्राहकप्रत्यक्षादेष निखिलधर्माकलितवस्तुनो विवक्षितधर्मप्रकारेणापि निश्चित- त्वात्किमपेक्षयेति चेत्सत्यं, यद्यप्येकस्मिन् घटादौ गृह्यमाणे तद्धर्मद्वारा द्रव्यार्थादेशेन मूत- भविष्यवर्तमानानां तद्वृत्तियावद्धर्माणां ग्रहो जायत एव, यथा परेषां सामान्यलक्षणाप्रत्या. सचेस्थानेऽभिषिक्तस्य घटविषयकतिर्यक्सामान्योपयोगस्य घटत्वव्यापकविपयवाकप्रत्यक्षत्वं तादृशज्ञानत्वं वा कार्यतावच्छेदकं तथा घटविषयकोचंतासामान्योपयोगस्यापि तादात्म्य- सम्बन्धेन वाशप्रत्यक्षत्वस्य वाशज्ञानत्वस्य वा न्यायसिद्धत्वात् , न चैवं सति सर्वस्य सर्व ज्ञत्वापत्तिर्दोषा, द्रव्यार्थिकतया तस्या इष्टत्वात् तथापि स्फुटतया प्रतिनियतधर्मप्रकारकबोध- स्सापेक्षः, शाब्दस्थले नयापेक्षा, प्रत्यक्षादिस्थलेऽवध्यवच्छेदकाविज्ञानापेक्षः । यथाहि दण्डादिग्रहकाले तत्परिमाणग्रहेऽपि दीर्घत्वप्रकारकमयमस्मादीर्घ इनि जान नियतावध्यपेक्ष वथा सदसवात्मकवस्तुपहेऽपि सत्त्वादिप्रकारकं जानं स्वद्व्यायपेक्षं, अयमस्माहीर्घ इति- वत्स्वद्रव्याचपेक्षयाऽयं सन् परद्रव्याद्यपेक्षया घासन्नित्येव व्यवहारात् | न च व्यवहार 10 15 - १. असत्त्वप्रतिपक्षमत्त्ववत्तया जातेऽपि घटेऽसत्त्ववत्ताया अनुभवो जायते स चापेक्षा विना न सम्भवति, निरपेक्षसत्त्वासत्त्वयोरेकत्र परस्पर विरोधात् अनुभूयमानस्य लपलापो न सम्भवत्यतिप्रमहादत. अपेक्षावलम्ब- नैनव तयोयवस्था कार्येति सिद्धयत्यपेक्षेति भाव । अनुभवस्यैवासिद्धत्वमाशहते नन्विति ।। २. तथा चानपेक्षात्मकतहमवत्तावृद्धि प्रति, अनपेक्षात्मकतदभाववत्तानिश्चयस्यैव प्रतिवन्धकतयापेक्षाया अमावे तधर्म- वत्तया ज्ञातेऽनपेक्षात्मकतद्विरुद्धधर्मप्रकारकज्ञानं न स्यादिति भाव. ॥ ३. येन धर्मेण धर्मी गृहीतस्वधर्म- द्वारेत्यर्थः । न्यायनये हि घट एकस्मिन् दृष्टे घटत्वरूपसामान्यलक्षणाप्रत्यासत्या सकलपटप्रत्यक्षमझौक्रियते सामान्यलक्षणायाश्च कार्यतावच्छेदकं घटत्वव्यापकविपयिताकप्रत्यक्षत्वं, इदमेवास्मन्मते सामान्यलक्षणास्थाना- मिषिकस्य तिर्यक्सामान्योपयोगस्य घटविषयकस्य कार्यतावच्छेठकं भवति तकधर्ममुखेन घटे भाते सति तदाश्रयाणा तदमिन्नानां यावता धर्माणा ज्ञानमूर्खतासामान्येन भवति, अत ऊर्ध्वतासामान्योपयोगस्य कार्य- तावच्छेदकं तादात्म्यसम्बन्धेन घटव्यापकविषयताकप्रत्यक्षत्वं भवति, घटस्य तादात्म्येन व्यापकीभूता विषयता घटामिभयावद्धर्मेष्विति ताशविषयताकप्रत्यक्षत्वमिति तदर्थ इति भावः ॥

:४७८ :- तत्त्वन्यायविभाकरे [ नवमकिरणे - एव सापेक्षो न तु बोध इति वाच्यम्', व्यवहारस्य व्यवहर्तव्यज्ञानादधिकानपेक्षत्वेन व्यवह- र्तव्यज्ञानेऽपेक्षाया अविषयत्वे व्यवहारस्य सापेक्षत्वासम्भवात् । सेयं नयप्रवृत्तिहेतुरपेक्षा वास्तविकी, क्वचिद्वैज्ञानिक्यपि यथा बौद्धौपनिषदादिदर्शनभेदः स्वेच्छानिवेशितत्वेनाने- कनयविकाररूपोऽपेक्षया व्यक्तः, शुद्धपर्यायविशुद्धद्रव्याद्यपेक्षयैव तत्तदर्थव्यवस्थितेः । 5 नयविशेषतात्पर्यमेतन्न त्वपेक्षेति चेन्न तत्वात्पर्यस्यापि वस्तुसम्बन्धनरूपापेक्षामालम्व्य प्रवृत्ते- रसति सम्बन्धे तात्पर्यस्य प्रामाण्यासंभवात् सा चेयमपेक्षा वैज्ञानिकस्सम्बन्धः । अत एव साम्प्रदायिका विकल्पसिद्धस्य धर्मिणः प्रतिपेधादिसाधनमामनन्ति, ईश्वरो नास्ति प्रकृतिना- स्वीत्यादौ विशिष्टज्ञानाकारविषयत्वेन तत्र धर्मिणो विकल्पेसिद्धत्वात् । न च विशिष्टाप्रसिद्धौ कथं विशिष्टाकारज्ञानमिति वाच्यम्, परेषां विशिष्टशुद्धयोरनतिरेकेऽपि प्रतीतिबला- 10 द्विशिष्टामावस्यातिरिक्तत्ववत् विशिष्टाभावेऽपि विशिष्टाकारज्ञानसम्भवात् । न चांसत्ख्या- तिप्रसङ्गोऽत्यन्तासतो विशिष्टाकारस्य भानादिति वाच्यम् , खण्डशः प्रसिद्धधर्मर्मिरूप- सदुपरागेणासदाकारोत्पत्तेः । यद्वाऽनित्यत्वभावनोद्देशेन बौद्धदर्शनस्यैकत्वभावनोद्देशेन वेदान्तिकदर्शनस्य प्रवृत्त्या तत्चद्दर्शनार्थज्ञानेषु तत्तद्भावनोद्देशप्रयुक्तत्वमेवापेक्षात्वम् , तेनैव तस्य सुनयंत्वव्यवस्थितेः, अन्यथा बौद्धसिद्धान्ते वाह्यार्थज्ञानादिवादानां वेदान्तिसिद्धान्ते च 15 प्रतिविम्बामासावच्छेदकदृष्टिसृष्टिवादादीनामन्योऽन्यप्रतिषिद्धत्वेन जात्या दुर्नयत्वस्य सम्य- ग्दृष्टिपरिग्रहेणापि निराकर्तुमशक्यत्वात् । नहि जात्या हालाहलं सद्वैद्यहस्तोपादानमात्रेणा- सृतायते, रसायनीकरणन्तु तस्योकापेक्षयैवेति दृढतरमवधेयम् । ननूक्कापेक्षयापि शुद्धर्जु- सूत्रादीनामितरनयार्थप्रतिपेघप्रवृत्तौ कथं न दुर्नयत्वं, अनिराकृतेतरांशत्व एव सुनयत्वात् दृश्यन्ते च स्वपरसमयेषु स्वेतरनयार्थवाधेनैव प्रगल्भमाना इति चेन्न तत्रेतरार्थनिषेधस्य 20 प्रकृतकोटेरुत्कटत्वकारित्वात् द्वेषबुद्ध्या क्रियमाण इतरनयनिषेध एव दुर्नयत्वात् पूर्वोक्त- भावनादाढर्यानुकूलस्वविषयोत्कर्षाधानाय क्रियमाणेऽपि प्रतिषेधे सुनयत्वात् जात्या दुर्नय- स्यापि चिन्ताज्ञानेन सुनयीकरणात् भावनाज्ञानेनैदम्पर्यार्थप्रधानकप्रमाणवाक्यैकदेशत्वापाद- नाचेत्यधिकमन्यत्र ।। ननु नयस्य प्रमाणाद्भेदेन लक्षणप्रणयनमयुक्तं, स्वार्थव्यवसायकत्वात्पूर्वमप्रतिज्ञातत्वाथ, यदि स्वार्थैकदेशव्यवच्छेदकत्वान्नयस्य न स्वार्थव्यवसायकत्वमुच्यते तदा यदि स्वार्थेकदेशो वस्तुरूपस्तदा वस्तुपरिच्छेदकत्वान्नयः प्रमाणमेव, न चेद्वस्तुरूपस्स तर्हि तद्विपयस्य नयस्य , मिथ्याज्ञानत्वं स्यादित्यत्राह- यथार्थवस्त्वेकदेशग्राहकत्वान्नयस्य यथार्थनिर्णयत्वरूपप्रमाणत्वं ना. 25 ।

- नयः ] न्यायप्रकाशसमलट्टते :४७९: स्त्येव । अत एव च नाममाणत्वं, अपि तु प्रमाणाप्रमाणाभ्यां भिन्नं ज्ञानान्तरमेव ॥ यथार्थेति । यथार्थ हि वस्त्वनन्तधर्मात्मकं, तदेकदेशः प्रतिनियवधर्मवान् तत्परिच्छे- दकत्वानयो न यथार्थपरिच्छेदकः, अतो न प्रमाण, स्वार्थकदेशो हि न वस्तु, अन्यस्वार्थक- देशानामवस्तुत्वप्रसङ्गाद् वस्तुबहुत्वानुषनाद्वा, तथा च वस्त्वेकदेशपरिच्छेदको नयः कथं । प्रमाणं स्यात्, कथञ्चिद्वस्तुभिन्नत्वादिवैकदेशस्य कथञ्चित्प्रमाणमिन्नत्वान्नयस्येति भावः । तर्हि मिथ्याज्ञानं स्यादित्यत्राहाव एवेति, यथा वस्त्वेकदेशो नावस्तु, इतरैकदेशानामप्यवस्तु- त्वप्रसङ्गेन क्वचिदपि वस्तुव्यवस्थानुपपत्तः, तथा प्रमाणैकदेशो नयोऽपि नाप्रमाणं, किन्तहीं- यत्राहापित्विति, प्रमाणैकदेशो नयो राश्यन्तर एवेति भावः, न खलु नयः प्रमाणमेव, एकान्तेन प्रमाणाभिन्नतयाऽनिष्टत्वात नाप्यप्रमाणमेकान्ततस्ततो भेदस्यानभ्युपगमात्, नापि संशयः, 10 प्रकारस्यैक्यात्, एकत्र विरुद्धोमयप्रकारकज्ञानरूपत्वात्संशयस्य, नापि विपर्ययः, द्रव्यार्थि- कादीनां नयानामस्तित्वादिमति कथञ्चिदस्तित्वाधवगाहनात् , नवाऽनध्यवसायो विशेषकोटयु. लेखित्वात्। सप्तमङ्गपरिकरितवस्त्वगाहितात्पर्याभावादेव चालौकिकप्रामाण्यामाववत्त्वं तस्य, तद्वति तत्प्रकारकत्वरूप लौकिक प्रामाण्यन्तु न तस्य बाधितमतो न व्यवहारविरोधः, तथा च नयसमुदायसम्पाद्यत्वात्प्रमाणस्य तत्प्रतिमाने तददूरवर्तिनो नयस्य वन्मध्यपति- 15 तस्तद्रहणेन गृह्यत' इति न्यायेन प्रतिज्ञातत्वमेवेति लक्षणप्रणयनं नाप्रस्तुतमिति भावः ॥ ननु प्रमाणस्य नयसमुदायात्मकत्वात्प्रत्येक नयानामप्रमाणत्वे तत्समुदायस्य कथमलौकिक- प्रमाणता, प्रत्येकं हि सिकतासु तैलमभवत्तासां समुन्शये न तदृश्यते इति चेन्न यतः प्रत्येकमनर्येषु मणिषु रत्नावलीत्वव्यवहाराभावेऽपि गुणविशेषपरिपाट्या प्रतिबद्धास्व एवासादयन्ति यथा रलावलीव्यपदेशं तथैव नयाः स्वविषयपरिच्छेदकत्वेन सुनिश्चिता 20 अपि नान्यपक्षनिरपेक्षाः प्रमाणसंज्ञां प्राप्नुवन्ति त एव द्रव्यध्रौव्यादिषु मिलिता: प्रमाणसंज्ञां लभन्त इति न कोऽपि दोषः ।। - १. ननु नया न समुदायतामासादयन्ति, नापि समेता प्रमाणता भजन्ते प्रत्येकावस्थाया मिथ्याष्टि- स्वात, तत्समुदाये महामिथ्यात्वप्रसवात्, विषविन्दूना प्रचुराणा समुदाये महाविषवत्, नापि समेता वस्तुनो गमका प्रत्येकावस्थायां तदगमकत्वात् ममुदिताश्च ते विचदमाना वस्तुविधातायैव भवन्ति, मैवम् परस्परविरुद्धानामपि भाईतमतिवशवर्तिल्वे प्रमाणभावप्रतिपत्ते राजवशवर्तिनानाभिप्रायभूत्पवर्गवत् । प्रत्येक सावधारणत्वेऽपि समुदिताना निखधारणाना स्याच्छन्दलान्छितत्वेन प्रमाणत्वात् । प्रचुरविपलवाना- मपि प्रौढमत्रवादादिमिनिर्विपीकृत्यामृतरूपताकरणात् । सामान्यतो टैगग्राहकाणा नयाना समुदिताना मिथ्यात्तापगमेन सम्यक्त्वसमावे क्रमेण विशुद्धधमानाना सर्वावरणप्रतिबन्धाभावेन समस्तवस्तुग्राहकत्वा. स्केवलज्ञानवदिति ॥

तस्वन्यायविमाकरे [ नवमकिरणे - ये अत्र यद्यपि वस्तुन्यनन्वधर्मात्मके एकांशविषयकप्रतिपत्रभिप्रायविशेषस्य नयरूपतया वस्त्वंशानामनन्तत्वेनाभिप्रायरूपनया अध्यनन्तप्रकारा एव तथापि चिरन्तनाचार्यस्सर्व- समाहिसप्ताभिप्रायपरिकल्पनाद्वारेण सप्त नया: प्रतिपादिता इति तथैव विभजते- स च नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूदैवम्भूतभेदात्सप्त- 5 विधः॥ स चेति । एते सर्वाभिप्रायसङ्ग्राहकाः कथमिति चेदुच्यते, अमिप्रायास्तावदर्थद्वारेण शब्दद्वारेण वा प्रवर्तन्ते, गत्यन्तराभावात् , अर्थश्व सामान्यरूपो विशेषरूपी वा, शब्दोऽपि रुढयात्मको यौगिको वा, व्युत्पत्तिरपि सामान्यनिमित्तायुक्ता वा स्यात्तत्कालभाविनिमित्त- प्रयुक्का वा स्यात् तत्र ये केचनार्थनिरूपणप्रवणाः प्रमात्रभिप्रायास्ते सर्वेऽप्याये नयचतुष्टयेऽन्त- भवन्ति, तत्रापि परस्परं विशकलितौ सामान्यविशेषाषिच्छन्ति,ये तत्समूहसम्पाद्यो नैगमः। ये पुनः केवलं सामान्यं वान्छन्ति तत्समूहजन्यस्सङ्ग्रहः, ये पुनरनपेक्षितशास्त्रीयसामा- न्यविशेष लोकव्यवहारमवतरन्तं घटादिकं पदार्थममिप्रयन्ति तन्निचयजन्यो व्यवहारः। सौगतास्तु क्षणक्षयिणः परमाणुलक्षणा विशेषास्सत्या इति मन्यन्ते तत्संघावघटित ऋजु- सूत्रः । तथा ये मीमांसका रूढितश्शब्दानां प्रवृत्ति वाञ्छन्ति नान्यथा तद्वारा जन्यः 15 शब्दः । ये तु व्युत्पत्तिवो ध्वनीनां प्रवृत्ति वाञ्छन्ति तन्निवहसाध्यस्सममिलढः । ये च वर्तमानकालभाषिव्युत्पत्तिनिमित्तमधिकृत्य शब्दाः प्रवर्तन्ते नान्यथेति मन्यन्ते तत्संघटित एवम्भूतः । तदेवं न स कश्चन विकल्पोऽस्ति वस्तुगोचरो योऽत्र नयसप्तके नान्तर्यातीति सर्वाभिप्रायसङ्ग्राहका एत इति ध्येयम् ॥ उक्ताभिप्रायविशेषान् द्विधा सह्य दर्शयति- आद्यास्त्रयो द्रव्यार्थिकाः, परे चत्वारा पर्यायार्थिकाः, द्रव्यमात्रविष- यकत्वात् पर्यायमात्रविषयकत्वाच । गुणानां पर्यायेऽन्तर्भावः, ऊर्ध्वता- सामान्यस्य द्रव्येऽन्तर्भावः, तिर्यक्सामान्यस्य तु व्यञ्जनपर्यायरूपस्य पर्यायेऽन्तर्भावः । स्थूलाकालान्तरस्थायिनः शब्दानां सङ्केतविषया व्य- अनपर्याया इति प्रावचनिकप्रसिद्धिः । अतो नाधिकनयशङ्का ॥ आया इति । नैगमसङ्ग्रहन्यवहारा इत्यर्थः । द्रव्यार्थिकनया इति । येष्वभिप्रायेषु द्रव्यमेवार्थो विषयतयाऽस्ति न पर्यायास्ते द्रव्यार्थिकनयाः द्रव्यार्थिकमते हि द्रव्यमेव परमार्थतया सत्, अतो द्रव्याद्भिनं विकल्पसिद्धं गुणपर्यायरूपं तत्त्वं नेष्टं, संवृतिसतोऽपि तस्य परमार्थतोऽसत्त्वात् यथा शुक्तौ रजतभ्रान्तौ सत्यां बाधावतारानन्तरं रजताभाव- 20 - 25 - संप्त नया: ] न्यायप्रकाशसमलते :४८५ : भानेऽपि तत्र शुक्त समानत्वाच्छुक्तरसत्यत्वं रजतस्य चासत्यत्वं तथा सुवर्णादिपु परस्पर- समानाधिकरणानां रूपाविपर्यायाणां परस्परभिन्नकालीनानाञ्च कुण्डलादिपर्यायाणामसत्यत्वं, वदभावमानेऽपि हेम्नः प्रतिभासनाद्धेमद्रव्यस्य मत्यत्वं तथैव परस्परसमानाधिकरणानां परस्परसमानकालीनानां रूपरसादीनामसत्यत्वं तदाधारद्रव्यत्यैव सत्यस्वं, कुण्डलादयो रूपादयश्च वासनाविशेषप्रभवविकल्पसिद्धत्वेनापारमार्थिका इत्येवमभिप्रायो द्रव्यार्थिकनय । इति बोध्यम् । परे चत्वार इति, ऋजुसूत्रशब्द दममभिरूद्वैवम्भूताश्चत्वार इत्यर्थः, पर्याया- र्थिकनया इति, उत्पादविनाशवदर्थ एव विषयो येषां नाशा नया इत्यर्थः, एते हि पर्याय- लक्षणविषयव्यवस्थापनपराः द्रव्यार्थिकनयाभिप्रेतवस्तुव्यवस्थापनयुक्तिप्रतिक्षेपपराः, पर्याया- र्थिकमते हि द्रव्यपदार्थस्सशक्षणसन्ततिरेव न तु पर्यायेभ्यः पृथगस्ति पर्यायेभ्य एवार्थ- क्रियासम्भवात् , अप्रच्युतानुत्पन्नस्थिरैकखभावस्य वस्तुनोऽर्थक्रियाऽसम्भवेनामत्वमेव यत- 10 स्तत्वमर्थक्रियाकारित्वं, तच क्रमयोगपद्याभ्यां व्याप्तं, नहि क्रमाक्रमाभ्यामन्यः प्रकार: सम्भवति व्याघातात् , तौ च स्थिरेऽसम्भवन्तावर्थक्रियामपि ततो व्यावर्तयनः, मा च व्यावर्तमानाऽर्थक्रिया सत्त्वं स्वव्याप्यमपि व्यावतयतीबसन्नेत्र स्थिरो भाव इत्येवमभि- प्रायाः पर्यायार्थिकनया इति भावः । एतदभिप्रायेणैवोभयस्य क्रमेण हेतुमाह द्रव्यमानेति, मात्रपदेन पर्यायव्यवच्छेदः, पर्यायमात्रेत्यत्र मात्रपदेन द्रव्यव्यवच्छेदः । एतेन समनया- 15 धिकत्वादनयोर्नयस्य नवविधत्वमिति प्रत्युक्तम्, ननु गुणविपयस्तृतीयो गुणार्थिक इति कुतो नोक्त इत्यत्राह गुणानामिति, तथा च पर्यायार्थिक इति पर्यायगन्देन महक्रम- माविविशेपमात्रस्य परिप्रहेण तत्रैव सहभाविगुणानामन्तर्भावान्नाधिक्यप्रसद्गः । ननु द्रव्यपर्यायव्यतिरिक्तो सामान्यविशेपौ विद्यते ततस्तहिपयकं नयद्वयं स्यादित्या- शङ्कायामाहोतेति, विर्यगूज़ताभेदेन द्विविधं हि सामान्य चोर्ध्वनामामान्यस्य 20 द्रव्यात्मकत्वेन द्रव्ये, प्रतिव्यक्ति सदृशपरिणामलक्षणस्य व्यखनापरपर्यायस्य निर्यक्सा- मान्यस्य पर्याय एवान्तर्भाव इति भावः । तिर्यक्सामान्यस्य व्यसनापरपर्यायत्वं कथ- मित्यत्राह स्थूला इति, प्रवृत्तिनिवृत्तिनिवन्धनार्थक्रियाकारित्वोपलक्षितो व्यानपर्याय इनि भावः, स्थूलाः कालान्तरस्थायिन इत्यनेन भूतभविष्यत्रसंस्पर्शरहिनवर्तमानकालावच्छिन्न- वस्तुस्वरूपार्थपर्यायस्य व्यवच्छेनः । शब्दानां संकेतविपया इति, शब्दप्रवृत्तिनिमित्तभूता इत्यर्थः वैसादृश्यविवर्तलक्षणविशेषस्य पर्यायरूपत्वस्य स्पष्टतया पृथपर्यायान्तर्भूतत्त्वेन म १ एतन्मते कालनिष्ठासन्नाभावाप्रतियोगित्वमेव मत्यन्यम् , द्रव्यस्य हि पदापि गम्पयन्नामा इनि तत्सत्यम् , पर्यायाणान्तु तत्प्रतीयमानकाल एव नत्मसाभानेननरकाने नम्भारमनादगारयमिनि बोणम् ॥

:४८२. वत्वन्यायविमाकरे [ नवमकिरणे नोक्तः । निर्गमयति अत इति । अत्र द्रव्यार्थिकनयस्य त्रैविध्योक्तिवादिसिद्धसेनदेवसूरिम- तानुसायभिप्रायेण, जिनमद्रगणिक्षमाश्रमणवचनानुसारिणामभिप्रायेण त्वाद्याश्चत्वारोद्रव्या- र्थिकनया वोध्याः, तत्र द्रव्यसृजुसूत्रो यदि नाभ्युपेयात्तदा " उजुसुयस्स एगे अणुवउत्ते एगं दव्यावस्सयं पुहुत्तं णेच्छइ" इति विरुध्येतेति शमाश्रमणानुयायिनामभिप्रायः । तार्कि- 5 कानुसारिणस्तु अतीवानागतपरकीयभेदपृथक्त्वपरित्यागाहजुसूत्रेण स्वकार्यसाधकत्वेन स्व- कीयवर्तमानवस्तुन एवोपगमानास्य तुल्यांशघ्रौव्यांशलक्षणद्रव्याभ्युपगमः, अत एव नास्या- सद्धटितभूतभाविपर्यायकारणत्वरूपदव्यत्वाभ्युपगमोऽपि, अध्रुवधर्माधारांशदव्यमपि नास्य विषयः, शब्दनयेष्वतिप्रसङ्गात् , उक्तसूत्रन्तु अनुपयोगांशमादाय वर्तमानावश्यकपर्याचे द्रव्यपदोपचारासमाधेयम्, पर्यायार्थिकेन मुख्यद्रव्यपदार्थस्यैव प्रतिक्षेपादिति वदन्ति । 10 अत्र द्रव्यास्तिको द्विविधः शुद्धाशुद्धभेदात्, सङ्ग्रहनयामिमतविषयप्ररूपकरशुद्धो हुन्या- यिका, सङ्ग्रहनयामिप्रायतः प्ररूपणाविषयस्य सर्वत्र भावमात्रत्वाम् भेदप्रतिभासस्तु भेद- प्रतिपादकागमोपहवान्तःकरणानां तिमिरोपप्लुतहशामेकशशलाञ्छनमण्डलस्यानेकत्वावमा- सर्वदसन्नेवेति । व्यवहारनयमतावलम्बी द्रव्यार्थिकोऽशुद्धो हेयोपादेयोपेक्षणीयवस्तुविषय- निवृत्तिप्रवृत्त्युपेक्षालक्षणा हि व्यवहाराः, तत्र परस्परं विमिन्नस्वभावा भावासद्रूपतया समु- 15 लसन्ति, असद्रूपत्वे तादृशन्यवहारा एव न भवेयुः, न ह्येकान्ततः सन्मात्राविशिष्टेषु सम- हाभिमतेषु पृथक्स्वरूपतया परिच्छेदो बाधितरूपो व्यवहारनिबन्धनस्सम्भवतीत्यतो व्यवहारो नानारूपतया सत्ता व्यवस्थापचतीत्यशुद्धा द्रव्यार्थिकप्रकृतिः । नैगमनयामि- प्रायस्तु शुद्धाशुद्धरूपराश्यन्तरेण न वाच्यः क्वचिदपि तथानमिधानात्, सामान्यग्राहिणो नैगमस्य सङ्ग्रहे विशेषग्राहिणञ्च व्यवहारेऽन्तर्भूतत्वात् पर्यायस्याद्या प्रकृतिः ऋजुसूत्रो 20 नित्याशुद्धः, शब्दशुद्धः, सममिरूढः शुद्धतरः, एवम्भूतस्तु शुद्धतम इति ।। सम्प्रति नैगमस्वरूपमाह- तत्र गौणमुख्यभावेन धर्मद्वयमिद्वयधर्मधर्म्युभयान्यतमविषयक १, तथा च परस्परविविक्तसामान्यविशेषविषयत्वाद् द्रव्यपर्यायाथिकावेब नयो न च तृतीयं प्रकारान्त- रमस्ति यद्विषयोऽन्यत्ताभ्या व्यतिरिको नय: स्यात् तद्भेदा एव नंगमादयः । न च द्रव्यपर्याययोस्सम्बन्ध- रूपोऽन्यो विषयोऽस्ति तस्मात्तद्विषयेण केनविनयेन भाव्यमिति वाच्यम् , मेदाभेदविनिर्मुक्तस्मन्यस्य सम्बन्ध- स्यामावान् भावे वा द्रव्यपर्यायविकल्पानतिवृत्ते., तत्स्वभावातिक्रमे वा नभस्सरोजसालप्रसो, ताभ्या सर्वथा अर्थान्तरस्य मम्बन्धस्त्र प्रतिपादनोपायासम्भवात् सम्बन्धस्य ताभ्यामसम्बन्धे च तयोरेव व इति व्यपढेशा- सम्भवात् सम्बन्धान्तरकल्पनायामनवस्थापत्तेश्च न कोऽपि सम्बन्धस्सिदयतीति न कोऽप्येनन्नययवहिमावि- विषयस्सियतीति भावः ॥

नेगम.] " न्यायप्रकाशसमलते :४८३: विवक्षणं नैगमनयः । यथा पर्वते पर्वतीयवहिरिति । अत्र वयात्मको धर्मः प्रधान विशेष्यत्वात्, पर्वतीयत्वरूपव्यञ्जनपर्यायो गौणो वहिवि- शेषणत्वात्, एवमनित्यज्ञानमात्मनः, घटे नीलं रूपमित्यादयो धर्मद्वय- विषयकदृष्टान्ता भाव्याः॥ तत्रेति । सप्तसु नयेपु मध्य इत्यर्थः । निगम्यन्ते परिच्छिद्यन्तेऽर्था इति निगमाः, 5 पत्र भवो योऽभिप्रायो नियतपरिच्छेदरूपस्स नैगमः, अर्थाश्रयेणोत्पत्तिमत्त्वमिति भावः । अर्थश्च लोकप्रसिद्धः, व्यवहाराश्च सामान्याश्रया अन्यथाऽनुगतवुद्ध्यभावः स्यात् विशेषा- श्रयाः, तदभावे व्यावृत्तिबुद्ध्यभावप्रसङ्गादित्येवंविधाः, तथा च तलक्षणमाह गौणेति, मुख्या- मुख्यतया धर्मद्वयस्य पर्याययोः, धर्मिद्वयस्य द्रव्ययोधर्मधर्म्युभयस्य पर्यायव्ययोश्च विवक्षण- मित्यर्थः, ननु स्वतंत्रतया सामान्यविशेषोपगमे दुर्नयत्वं काणादवत्स्यात् । शबलवया तदभ्यु- 10 पगमे च प्रमाणत्वमेव यथास्थानं प्रत्येकं गौणमुख्यभावेन मूलोक्तरीत्याऽभ्युपगमे च सह- व्यवहासन्यतरप्रवेशः स्यादिति चेन्न, तृतीयपक्षाश्रयणे दोपाभावात् क्वचित्मनहव्यवहार- विषयत्वेऽपि क्वचिदेकस्य सत उभयग्रहणोपयोगव्यावृत्तत्वेन तदतिरेकान, अत एव नयद्वय- संयोगेन नान्यथासिद्धिः प्रत्येकविषयताद्वयातिरिक्तस्वतंत्रत्रिपयताकत्वादस्य, तथा : गौण- मुख्यभावेन सामान्यविशेषोभयस्वीकर्तृजातीयैकदेशवोधत्व नैगमस्य लक्षणम् । अयश्च नय: 15 सचालक्षणं महासामान्य द्रव्यत्वादीन्यवान्तरसामान्यानि तथाऽन्त्यान् विशेषान् मकलासा- धारणरूपलक्षणानवान्तरविशेपानपेक्षया परस्परव्यावर्तनक्षमान सामान्यादत्यन्त विनिर्मुठिन- स्वरूपानभिप्रैति । क्रमेणामुमुदाहरति यथेति, व्यञ्जनपर्याययोर्मुख्यामुख्यतया विवक्षणे उदाहरणमिदम् , तदेव सङ्गमयति अत्रेति, उदाहरणेऽस्मिन्नित्यर्थः, दृष्टान्तान्तराण्यावमिति, अत्र ज्ञान प्रधान विशेष्यत्वात् , अनित्यत्वमप्रधान विशेषणत्वात । रूपं प्रधान विशेष्यत्वान् 20 नेल्यमप्रधानं विशेषणत्वादिति क्रमेण मुख्यामुख्यभावो विशेयः ।। धर्मिद्वयविषयकमुदाहरति- काठिन्यवद्रव्यं पृथिवीत्यादौ पृथिवीरूपमिणो विशेष्यत्वान्मुख्यत्वं काठिन्यवद्व्यस्य विशेपणत्वाद्गौणत्वम् यद्वा काठिन्यवदन्यस्य विशेष्य. त्वान्मुख्यता, पृथिव्या विशेषणत्वागीणता । एवं रूपबद्रव्यं मर्त, पर्या- 25 यवद्रव्यं वस्त्वित्यादीनि धर्मिद्वयविषयकविवक्षणे उदाहरणानि || - :४८४ तत्त्वन्यायविभाकरे [ नवमकिरणे - काठिन्यवदिति । द्रव्ययोर्मुल्यामुख्यभावेन विवक्षणे उदाहरणमिदम् , वत्सङ्गमयति, पृथिवीति, विशेष्यविशेषणभावे विनिगमनाविरहेण काठिन्यवद्रव्यं पृथिव्यास्त ‘इति विवक्षायां गौणमुख्यभावः प्रतिपादितः, यदा तु पृथिवी काठिन्यवद्रव्यं वर्तत इति विव- क्ष्यते तदाह यद्वेति, अपरमुदाहरणमाहेवमिति, रूपवद्रव्यं मूत वर्तत इति विवक्षणे मूर्च 5 प्रधानं विशेष्यत्वात् रूपवद्न्यं गौणः विशेषणत्वात् मूर्त रूपवद्रव्यं वर्तत इति विवक्षायान्तु रूपवद्व्यं विशेष्यत्वात्प्रधानं, मूर्तमप्रधानं विशेषणत्वादिति, पर्यायवद्रव्यं वस्त्विति विव- क्षायां वस्तुनो विशेष्यत्वान्मुख्यता, पर्यायवद्रव्यस्य विशेषणत्वागौणता, वस्तु पर्यायवद्रव्यमि- त्यत्र तु वसुनो विशेषणत्वाद्गौणता, पर्यायवद्रव्यस्य च विशेष्यत्वात्प्रधानता बोध्येति-भावः॥ धर्मधर्म्युभयविषयकविवक्षणे दृष्टान्तयति- 10 रूपवान् घट इत्यत्र तु घटस्य धर्मिणो विशेष्यत्वात्प्रधानता, रूपस्य धर्मस्य तद्विशेषणत्वाद्गौणता । इत्थं ज्ञानवानात्मा, नित्यसुखी मुक्का क्षणिकसुखी विषयासक्तजीव इत्यादीनि धर्मधर्म्युभयविषयकविवक्षणे निदर्शनानि ॥ रूपवानिति । सङ्गमयति घटस्येति । दृष्टान्तान्तराण्याहेत्थमिति, आत्मनो धर्मिणो 16 विशेष्यत्वात् ज्ञानस्य धर्मस्य विशेषणत्वात् मुक्तस्य धर्मिणो विशेष्यत्वान्नित्यसुखस्य धर्मस्य विशेषणत्वात् धर्मिणो विषयासकजीवस्य विशेष्यत्वाद्धर्मस्य क्षणिकसुखस्य विशेषणत्वा- प्रधानत्वं गौणत्वञ्च भाव्यम् । न चाम्य तृतीयप्रकारस्य प्रमाणत्वं शक्यम्, धर्मधर्मिणोः प्राधान्येनात्र ज्ञातेरभावात् तयोरन्यतर एव हि नैगमनयेन प्रधानतयाऽनुभूयते प्राधान्येन तदुभयावगाहिन एव ज्ञानस्य प्रमाणत्वात् । स पुन.गमोऽनेकधा व्यवस्थितः प्रतिपत्रभिप्रा- 20 यत्रशान्नयव्यवस्थानात्, यथा पुरुष एवेदं सर्वमिति, पुरुषोऽप्येकत्वनानात्वमेदाकैश्चिदभ्यु- पगतो द्वेषा, नानात्वेऽपि तस्य कर्तृत्वाकर्तृत्वभेदो परैराश्रिता, कर्तृत्वेऽपि सर्वगतेतरमेवा, असर्वगतत्वेऽपि शरीरव्याप्यव्यापिभ्यां भेदः अव्यापित्वेऽपि मूर्तेतरभेदः, अपरैस्तु प्रधान- कारणिकं जगदभ्युपगतम् तत्रापि सेश्वरनिरीश्वरभेदोऽभ्युपगतः, अन्यैस्तु परमाणुप्रभवत्व- . V १. नयेऽत्र हि प्रधानोपसर्जनभावस्य विशेष्यविशेषणभावप्रयुक्तत्वं न तु कल्पनाप्रयुकलं, न चेतावता प्रामाण्यप्रसङ्ग , धर्मधर्मिणो प्राधान्येनाबोधकत्वात् , नैगमो हि तयोरन्यतरस्यैव प्रधानत्वमभ्युपैति । प्रधान- तया तु तदुभयात्मक वस्त्वनुभवद्विज्ञानं प्रमाणमेव, न चात्र नये विशेषणं कल्पितमेवेति वाच्यम्, पर्याया- र्थिक एव द्रव्यस्य कल्पितस्य विशेषणत्वात् द्रव्याथिके तु पर्यायस्याकल्पितस्यापि विशेषणत्वात् , उभयविष- यकेण नैगमेनोभयविषयस्य सत्यताया एवाभिमानादिति ।।

सह.] न्यायप्रकाशसमलते मभ्युपगतं जगतः, तत्रापि सेश्वरनिरीश्वरभेदोऽभ्युपगतः, सेश्वरपक्षेऽपि कर्मसापेक्षत्वान- पेक्षत्वाभ्यां भेदाभ्युपगमः, कैश्चित्स्वभावकालयादृच्छिकवादाः समाश्रिताः, तेष्वपि सापेक्ष- बानपेक्षत्वाभ्युपगमाद्भेदव्यवस्थाऽभ्युपगतैव । तथा कारणं नित्यं कार्यमनित्यमित्यपि द्वैतं कैश्चिदभ्युपगवं तत्रापि कार्य स्वरूपं नियमेन यजति नवेत्ययमपि भेदाभ्युपगमः, एवम्भू- तैरेव मूर्तमारभ्यते, मूत्तरमूर्त, अमूत्तमित्यायनेकधा प्रतिपत्रभिप्रायतोऽनेकधा निगम- 5 नान्नेगमोऽनेकमेद इति ॥ अथ सङ्ग्रहं लक्षयति- स्वव्याप्ययावद्विशेषेष्वौदासीन्यपूर्वकं सामान्यविषयकाभिप्रायवि- शेषस्सङ्ग्रहः । स द्विविधः परापरभेदात् । परसामान्यमवलम्व्य विधा- यौदासीन्यं तद्विशेषेषु अर्थानामेकतया ग्रहणाभिमायः परसङ्ग्रहः। यथा 10 विश्वमेकं सदविशेषादिति । अनेन वकभिप्रायेण सत्वरूपसामान्येन विश्वस्यैकत्वं गृह्यते, एवं शब्दानामप्रयोगाच विशेषेपूदासीनता प्रती- यते। अपरसामान्यमवलम्ब्य तथाभिप्रायोऽपरसङ्ग्रहः । यथा धर्मा- धर्माकाशपुगलजीवानामैक्यं, द्रव्यत्वाविशेषादिति । अनेनाप्यभिमाय विशेषेण द्रव्यत्वरूपापरसामान्येन धर्मादीनामेकत्वं तद्विशेषेपूदासी- 15 नत्वञ्च गृह्यते॥ स्वच्याप्येति । वं महासामान्यं सत्त्वं तद्व्याप्या यावन्तो विशेपाः द्रव्यत्वादयः तेष्वी- दासीन्यपूर्वकं परस्परं तामनिराकुर्वन् सत्तारूपसामान्यविषयको द्रव्यत्वादिरूपसामान्य- विषयको वाऽभिप्रायविशेषस्स सङ्ग्रह इत्यर्थः । सामान्यमात्राभ्युपगमप्रवणैकदेशबोधत्वं लक्षणम् । परापरसामान्योभयपाहित्वन्तु न लक्षणं प्रत्येकग्राहिण्यव्याप्तेः प्रत्येकग्राहित्वमपि 20 न लक्षणमननुगमात् , अयं हि सङ्ग्रहो मन्यते ननु भोवलक्षणसामान्यान्यतिरिच्यमान- मूर्तयो विशेषा अव्यतिरिच्यमाना वा, नाद्यः पक्षो निःस्वभावतापत्तेः, भावव्यतिरेकित्वात्, गगनारविन्दवत् । न द्वितीयो भावमात्रत्वापत्तेः, तथा हि भावमा विशेपास्तभिन्नत्वात् यद्यतोऽमिन्नं तत्तदेव, यथा भावस्यैव स्वरूपम्, अभिन्नाश्च विशेषा असस्तद्रूपा एव । ननु च यदि भावमात्रमेव तत्त्वं तदा तस्य सर्वत्राविशेषाय एते प्रतिप्राणि प्रसिद्धा स्तम्भमकुम्मा- 25 १. मनमतेनाशेषविशेषतिरोधानप्रकारमादर्शयति नन्विति । २. मित्रत्वे भावलक्षणतो विशेषाणा स तस्यैवेलन नियामकामावेन भावस्वभावशून्यत्वानि स्वभावत्वं स्यादित्याशयेनाह भावव्यतिरेकिस्यादिति ॥

:४८६: . " तत्त्वन्यायविमाकरे [ नवमकिरणे म्भोरहादिविशिष्टवस्तुसाध्यव्यवहारास्ते सर्वेऽपि प्रलयमापधेरन् अतो विशेषा अपि विविक्त- व्यवहारहेतवोऽभ्युपगन्तव्याः मैवम् , व्यवहारस्याप्यनाद्यविद्याबलप्रवर्चितत्वात् तेन पार- मार्थिकप्रमाणप्रतिष्ठिवतत्त्वप्रतिबन्धाभावात् किश्च विशेषाग्रहो विशेषेण त्याज्या, विशेष- व्यवस्थापकप्रमाणाभावात् तथाहि भेदरूपा विशेषाः, न च किञ्चिप्रमाणं भेदमवगाहते, 5 प्रत्यक्षं हि तावद्भावसम्पादितसत्ताकं तमेव साक्षात्का युक्तम् नाभावम् , तस्य सकलशं- क्तिविरहरूपतया तदुत्पादने व्यापाराभावात् , अनुत्पादकस्य साक्षात्कारकरणे सर्वसाक्षा- करणप्रसङ्गात् तथा च विशेषाभावात्सों द्रष्टा सर्वदर्शी स्यात् अनिष्टश्चैतत् वसादाव- प्राहकमेव तदिष्टम् , स च मावस्सर्वत्राविशिष्ट इति तथैव तेन ग्राह्यः, तदुत्तरकालंभावि- विकल्पो घटोऽयं पटादिर्न भवतीत्येवमाकार रचयन्नविद्यामूलत्वान्न प्रमाण तन्न प्रत्यक्षा- 10 विशेषांवगतिः, नाप्यनुमानादिभ्यः, प्रत्यक्षमूलकत्वाच्छेषप्रमाणवर्गस्य, तस्मात्सामान्यमेव परमार्थो न विशेषा इति सङ्ग्रहः । तं विभजते स इति, परसवाहमाह, परसामान्यमिति सन्मात्रमित्यर्थः, तद्विशेषेष्विति सत्त्वावान्तरप्रभेदेष्वित्यर्थः, उदाहरति यथेति, एवमुक्के हि सदिति ज्ञानाभिधानानुवृत्तिलिङ्गानुमित्तसत्ताकत्वेनैकत्वमशेषार्थानां सङ्घयत इत्यभि- प्रायमाहानेनेति, सन्ति विशेषा इत्यनुक्तत्वाद्विशेषेषूदासीनता व्यज्यत इत्याहैवं,शब्दाना; 15 मिति, उदासीनतेति, प्रत्यनीकधर्मेषूपेक्षेत्यर्थः, धर्मान्तरादानोपेक्षाहानिलक्षणत्वात्प्रमाण- नयदुनयानां, प्रमाणात्तदतत्स्वभावप्रतिपत्त यात्तत्प्रतिपत्ते? यादन्यनिराकृतेश्चेति भावः । अथ द्वितीयभेदमाहापरेति, द्रव्यत्वादीन्यपरसामान्यानीति भावः, सत्तापेक्षया कतिपय- व्यक्तिनिष्ठत्वाव्यत्वस्यापरसामान्यत्वं बोध्यम्, तथाभिप्राय इति, स्वव्याप्यावान्तरविषय- कोपेक्षासहकृततदर्थेकत्वग्रहणाभिप्राय इत्यर्थः, अवान्तरविषयप्रतिक्षेपामिप्रायत्वे तुर्नयत्वप्र- सक्तः । दृष्टान्तमस्याह ययेति, द्रव्यं द्रव्यमित्यभिन्नज्ञानाभिधानलक्षणलिङ्गानुमिनद्रव्यवा- मकत्वेन धर्मादीनां पण्णामैक्य सङ्घयत इत्यभिप्रायेणाहानेनेति, गौणव्यवहारास्तत्तद्या- वृत्तिरूपविशेषाश्च नैगमव्यवहारयोरिष्टाः, . एतदुभयापेक्षया स्वविषयोत्कर्षामिमानिना सब्रहेण तु. ते नेष्यन्ते तथा च नैगमव्यवहारसम्मतोपचारविशेषानवलम्बित्वादस्य शुद्धत्वं, स्वसमयोचितोपचारविशेषयोः क्वचिदवलम्बनेनापि तन्नापोद्यत इति ध्येयम् ॥ " 20 . १. ननु सामान्यमेव प्रमाणप्रतिष्ठं न विशेषा इति न युक्तं विनिगमनाविरहेण चैपरीत्यस्यापि वक्तुं शक्यत्वादित्याशवाया.दोषान्तरमाह किश्चेति ॥ २. भावेन सहैव योग्यत्वादिन्द्रियस्य सम्बन्धादिति भावः । भेदस्थाभावात्मकस्यायोग्यत्वेन विषयमुद्रया कारणत्वासम्भवेनानुत्पादकत्वं तथापि तस्येन्द्रियेण प्रत्यक्षत्वाभ्यु- पगमे सर्वेषामपीन्द्रियेण ग्रहणं स्यात्, यद्वा वस्तुतोऽभावग्रहणेऽयोग्यतयाऽनुत्पादकैनेन्द्रियेण तज्ज्ञानं जायत इत्यभ्युपगमे सर्वेषामपि तेन ग्रहणं स्यादित्याशयेनाहानुत्पादकस्यति ॥

:४८७: - व्यवहारः] न्यायप्रकाशसमलते श्रीवादिदेवसूरिसूत्रावलम्बनेन व्यवहारनयस्य लक्षणमाह- प्रतिषेधपरिहारेण सङ्ग्रहविषयीभूतार्थविषयकविभागप्रयोजकाभि- पायो व्यवहारनयः । यथा सत्त्वधर्मेणैकतया सङ्ग्रहीतस्य सतो द्रव्यपर्या- याभ्यां विभागकरणाभिप्रायो यत्सत्तविधा, द्रव्यं पर्यायश्चेति । एवं द्रव्यत्वेन सङ्गहीतस्य द्रव्यस्य धर्मादिरूपेण षोढा विभागकरणाभिप्रायो । यहव्यं तद्धादिरूपेण षोढेति ।। प्रतिपेधपरिहारेणेति, सुनयीकरणायैतत् । सङ्ग्रहगृहीतान् सत्त्वाधर्थानुपेल्य तद्विभज- नाविषयो योऽभिप्रायस्स व्यवहारनय इत्यर्थः, परसामान्यमवलम्ब्य वद्विभागाभिप्राय निद- र्शयति यथेति, अपरसामान्यमवलम्व्य तमाहेवमिति । पश्चइ विणिच्छिअत्थं ववहारो सबदवेसु "वि नियुक्तिप्रतीकानुसाराद्विनिश्चितार्थप्रापकत्वं व्यवहारस्य लक्षणं लभ्यते, 10 विशेपेणावह्रियते निराक्रियते सामान्यमनेनेति निरुत्यनुसारात् । विनिश्चिवार्थप्राप्ति- श्रास्य सामान्यानभ्युपगमे सति विशेषाभ्युपगमात् जलाहरणाद्युपयोगिनो घटादिविशेषाने- पायमङ्गीकरोति नतु सामान्यम् , गां वधानेत्याद्युक्ते गोत्ववन्धनाथध्यवसायस्य कस्याप्यनु- दयात् । न च कथं गोष्वनुगतव्यवहार इति वाच्यमन्यापोहादिनापि तदुपपत्तेः शब्दानु- गमादेवानुगतव्यवहारोपपत्तेश्च । “लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहार इति तत्त्वार्थमाष्यानुरोधातु शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणपक्षपाती गौणीवृत्त्याs- तिशयेन व्यवहारकरः नानाव्यक्तिकशब्दमकेतग्रहणप्रवणो यो घोषस्स व्यवहार इति तदर्थः, उपचारबहुलाध्यवसायवृत्तिनयत्वव्याप्यजातिमत्वन्तु लक्षणम् । उपचाराधिक्यं यथा गिरि- दह्यते, अध्वा याति, कुण्डिका सवति, इत्यादौ प्रथमे गिरिपदस्य गिरिस्थतॄणादौ लक्षणा, अतिशयदग्धत्वप्रतीतिः फलं द्वितीये मार्गगन्तुपुरुषसमुदाये लक्षणा नैरन्तर्यप्रतीतिः फलं, 20 तृतीये कुण्डिकास्थोदके लक्षणाऽनिविडत्वप्रतीतिः प्रयोजनमित्येवं भाव्यम् । लक्ष्या मुख्यार्थप्रतीतिश्चाभेदाध्यवसायात् । विशेषप्राधान्यादेवाय विस्तृतार्थः, प्रधानता च 15 - १. यथा सत्यपि पश्चवर्णादौ भ्रमरे कृष्णवर्ण एव लोकस्य निश्चयो भवति तस्माद्विनिथितार्थप्रापको व्यबहारनय तस्यैष गमकत्वात्प्ररूपकत्वाच, स एव हि लोकव्यवहारानुकूलतया स्पटतम., तस्माच्छेपवर्णा- दीनयं नयो मुञ्चतीति विनिश्चितार्थप्रापकत्वमस्य बोध्यम् ॥ २. उपचारबहुलाध्यवसायत्वमात्रस्य लक्षणत्वे- ऽनुपचरितव्यवहारेऽव्याप्तिरिति नयत्वव्याप्यजातिमत्त्वमुक, तावन्मात्रस्य नैगमसदहादावपि सत्त्वावृत्त्यन्तम्, अत एव नयत्ववत्त्वमुपक्ष्य नयतव्याप्यजातिमत्त्वमुक्त, काचित्कोपचाराध्यवसायमादाय नेगमाद्यतिव्याप्ति- वारणाय बहुलेति ॥ ३. ननु गिरिस्थतृणादिमार्गगन्तुपुरुपसमुदायकुण्डिकास्थजलादी गिरिमार्गकुण्टिका- दिमुख्यार्थप्रतीतिः कथमित्यत्राह लक्ष्यार्थ इति ।।

संस्वन्यायविभाकरे [ नवमकिरणे व्यक्तिध्वेवोपयुक्ततया सङ्केताद्याश्रयणात् । वस्तुतः पञ्चवर्णद्विगन्धपञ्चरसाष्टस्पेशेशरीरवतो भ्रमरादेवश्यामवादिनैव निश्चयनादसौ लौकिका, लोकः कृष्णवर्णत्वेनैवास्याङ्गीकारात्, उद्भूतवर्णविवक्षयैवामिलापादिव्यवहारप्रवृतेः कृष्णो भ्रमर इत्यादेखद्भूतत्वेनेतरवर्णाविव- क्षणान्न भ्रान्तत्वम्, तात्पर्यज्ञं प्रति प्रामाण्याल्लोकव्यवहारानुकूलविवक्षाप्रयुक्तत्वाचास्य 5 भावसत्यत्वं, पीतो भ्रमर इत्यादीनान्तु न तथा, लोकव्यवहाराननुकूलत्वात् , नापि निश्चयतोऽ स्य भावसत्यत्वं पञ्चवर्णपर्याप्तिमति पञ्चवर्णप्रकारकत्वाभावेनावधारणाक्षमत्वात् । ननु पञ्चवर्णो भ्रमर इत्यादिवाक्यानां कथं न व्यवहारनयानुरोधित्वं तस्यापि व्यवहारानुगुण्यात्, आगमप्रतिपादितार्थेऽपि व्युत्पन्नानां व्यवहारोपलब्धेः, न च.लोकेनास्य वाक्यस्य बाधि- वार्थविषयकत्वेन न व्यवहारानुरोधित्वमिति वाच्यम् आत्मा न रूपवानित्यादिवाक्यस्यापि 10 अव्यवहारकत्वापत्ते,आत्मगौरत्वादिबोधकलोकप्रमाणबाधितार्थबोधकत्वात् , अभ्रान्तलोकस्य विवक्षणे चोभयत्र साम्यमेवेति चेन्न पञ्चवर्णो भ्रमर इत्यादौ कृष्णेतरवाशे व्यावहारिक- विषयताया अभावात् , तत्तन्नयाभिप्रायप्रयुक्तो हि शब्दः, वत्र तन्नयीयविषयतैव शाब्द- बोधिका, ततो नोक्तव्यवहार इति ।। अथर्जुसूत्रं स्वरूपयति- द्रव्यं गौणीकृत्य प्राधान्यतया वर्तमानक्षणवृत्तिपर्यायमात्रप्रदर्शना- भिप्रायविशेष ऋजुसूत्रः । यथा सम्प्रति सुखपर्यायोऽस्ति दुःखपर्यायो- स्ति द्वेषपर्यायो वास्तीत्यभिप्रायाः। अत्र हि सदप्यात्मद्रव्यं नार्यते सुखादिपर्यायास्तु प्रधानेन प्रकाश्यन्ते ॥ द्रव्यमिति, ऋजु-अवर्क सूत्रयति गमयत्यभ्युपगच्छतीति ऋजुसूत्रः अतीतानागतयोः 20 पर्याययोर्विनाशानुत्पत्तिभ्यामभावेन तदभ्युपगमे कुटिलत्वं ततस्तत्परिहारेण परोपकारप्रव- णवात्तैमानिकपर्यायप्ररूपणमेवाकुटिलं प्ररूपणमिति ऋजुसूत्रशब्दभावः, तदेवाह द्रव्यं गौणी- कृत्येति नयत्वरक्षायै विशेपणमिदम् , अस्य मते भावत्वं वर्तमानत्वव्याप्यम् , तथाहि विन- टत्वादतीतस्यानागतस्यालब्धात्मलाभत्वात् अविशिष्यमाणतया च सकलशक्तिविकलरूपत्वात् 16 १. एवशब्देन सामान्यस्य संकेतजप्रतीत्यविषयत्वं सूचितम् शब्दाना हि सामान्ये संकेनोऽनुपयुक्तः, घटमानयत्यादिवाक्यात शाब्दबोधानुत्पत्तिप्रसङ्गात् नहि घटत्वस्यानयन सम्भवति, अमूर्तत्वादिति भाव. ॥ २. तत्तनयामिप्रायप्रयुचो हि शब्द., तथा च पञ्चवों श्रमर इति शब्दामिलापो निश्चयनयेन, अतः प्रोकामिलापजन्यशाब्दबोधे कृष्णेतररूपाशे न व्यावहारिकी विषयताऽस्ति लोकव्यवहारानगुणत्वात् किन्तु तत्र नैश्चयिकी विषयतैव कृष्णांशे तूमयविषयतेति भावः ।।

. - न्यायप्रकाशसमलट्टते अर्थक्रियानिर्वर्तनाक्षमत्वेनावस्तुत्वाच, वर्तमानक्षणालिङ्गितस्यैव सकलार्थक्रियासु व्याप्रिय- माणस्वेन तदेव पारमार्थिक वस्त्विति, तथा च शब्दाद्यमिमतविशेषापक्षपातिवर्तमानत्व- मात्र व्याप्तभावविषयकाभिप्रायः ऋजुसूत्र इति भावार्थः । शब्दादिनयेषु व्यभिचारवारणाय शब्दाधमिमतविशेषापक्षपातीति पदम् । अत्र द्रव्यस्य गौणत्वं वर्तमानपर्यायस्य प्राधान्यञ्च, तत्रैव संकेतार्थक्रियादिसंभवात् , एकावस्थापन्ने द्रव्ये भिन्नावस्थासम्बन्धासम्भवात् विभि- 5 मकालिकपर्यायद्वयाधारपदार्थाभावाच, सिद्धावस्थासाध्यावस्थयोरेकत्र विरोधात् , यथा पलालं न दहति वहिः, घटो न मिद्यते, असंयतो न प्रब्रजति, असिद्धो भव्यो न सिक्यतीत्यादी दहनादिक्रियाकाल एव तन्निष्ठाकालः, अतस्तवस्थाविलक्षणपलालाद्यवस्थावता समं दहनादि- क्रियान्वयो न युज्यते दह्यमानादेर्दग्धत्वाद्यव्यभिचारात् । अत एवैते निषेधात्मका व्यवहारा उपपद्यन्ते, विधिरूपास्तु अपलालं दह्यते, अघटो भिद्यते, सयतः प्रव्रजति, सिद्धस्सिङ्ख्यती- 10 त्येवंरूपाः । न चात्र नये कृतकरणापरिसमाप्तिर्दोषः स्यात् सिद्धस्थापि साध्यमानत्वेन करणव्यापारानुपरमादिति वाच्यम्, उत्पाद्य कार्य क्रियोपरमेण तत्समाप्तेः । न च यादृश- व्यापारावच्छिन्नदण्डादेर्घटोत्पत्त्यव्यवहितपूर्ववृत्तित्वं तादृशव्यापारावच्छिन्नस्य तस्य तदुत्प- त्यनन्तरमपि सत्त्वे तदुत्पत्तिप्रसङ्ग इति वाच्यम् , तदानीं सूक्ष्मक्रियाविरहकरूपतात्, न च घटोत्पत्तेः पूर्व तस्क्रियायाः सत्वे तदापि तदुत्पत्तिप्रसङ्गः असत्त्वे च कार्याव्यवहितपूर्ववृत्ति- 15 त्वामावेन कारणत्वाभावप्रसङ्ग इति वाच्यम्, कार्यव्याप्यतावच्छेदकपरिणामविशेषरूपाया: कारणतायाः कार्यसहवृत्तिवानियमात् , ननु यदि क्रियमाणः कृत एव चक्रनम्याद्युपलक्षित- दीर्घक्रियाकाले कुतो न घटो दृश्यत इति चेन्न, घटानुकूलच्यापारलक्षणक्रियाया दीर्घकाल- वासिद्धेः चरमसमय एव तदभ्युपगमात् , घटविषयकोत्कृष्टाभिलाषेणैव सन्मदनाचान्तरालिक- कार्यकरणवेलायां घट करोमीति व्यवहारात्, कृतस्यैव करणे न क्रियावैफल्यमपि, क्रिययैव 20 निष्ठां जनयित्वा कार्यस्य कृतत्वोपपादनात् । न चान्योऽन्याश्रयः, कृतस्यैव क्रियाजन्यत्वात् कृतमेव च क्रियां जनयति नाकृतमसरवादिति वाच्यम् , घटत्वादिनैव क्रियायाः कार्यकारण- अर्थादेव तस्य कुतत्वोपपत्तेः । क्रियमाणस्य कृतत्वाभावे च क्रियासमये कार्याभावे १. यथा हि व्यवहारनयो व्यवहाराननुकूलत्वाच सहते सामान्य तथा ऋजुसूत्रनयोऽपि अतीतमनागतश्च पर्याय परकीयस्वाल सहते, अभिधानमपि तथाविधार्थवाचकं ज्ञानमपि तथाविधार्यविषयं न सहते स्वदेश- कालयोरेव सत्साविश्रामात तया च यवर्तमानकालीनं वस्तु यश्च तस्यात्मीयं रूपं तदेतदुभयमेवास्य नयस्या- मिमतमिति भाव. ।। २. घटोसत्त्यनुकूलसूक्ष्मनियाविरहकल्पनादित्यर्थ ॥ ३. घट प्रति क्रिया कारणं ननु कृतघटं प्रति, येनान्योऽन्याश्रयः स्यात् तथा च कार्यतावच्छेदके कृतत्वं न प्रवेश्यते, तत्र कृतत्वस्य लाभश्व कारणसमाजाधीन , यथा नीलघटत्वं म कपालादिकायतावच्छेदकं किन्तु नेल्यसामग्या. घटसामग्याच समाजात् नीलपटो भवति तथेति भाव ॥ भावात्, । . .

तस्वन्यायविमाकरे [ मवमकिरने । ततः पूर्व पश्चाच,तन्न स्यादेव, कारणाभावात् । सामठ्याः स्वसमये कार्यव्याप्यत्वाभावेऽपि अव्यवहितोत्तरसमयावच्छेदेन तद्व्याप्यत्वोपगमान्न दोष इति चेन्नाव्यवहितोत्तरत्वप्रवेशे गौरवेणोत्तरत्वमात्रप्रवेशे व्यवहितोचरकालावच्छेदेन कार्योत्पत्तिप्रसङ्गेन च स्वसमयावच्छेदे- नैव सामग्र्याः कार्यव्याप्यत्वोपगमस्योचितत्वात् । कारणामावस्य कार्याभावव्याप्यत्वेन 5 कारणोत्तरकाले कार्यासिद्धेश्चेति दिछ । सङ्घहसम्मतं सामान्यमनुपयोगादनुपलम्भाञ्च व्यवहा- रनयेन यथा नेष्यते तथैव स्वप्रयोजनासाधकत्वेन परधनवनिष्फलमतीतमनागतं वस्तु ऋजुसूत्रेण नेष्यते किन्तु साम्प्रतकालीनमेव लिङ्गवचनभिन्नमपि वस्तु स्वीक्रियते तत्रैकमपि त्रिलिङ्गं यथा तटस्वटी तटमित्यादि । तथैकमप्येकवचनबहुवचनवाच्यं यथा गुरुर्गुरवः, आपो जलं, दाराः कलत्रमित्यादि, एवमिन्द्रादेर्नामस्थापनाद्रव्यमावरूपचतुर्मेदमपीष्यते, सोऽयं नयो 10 द्विभेदस्सूक्ष्मस्थूलभेदात् सूक्ष्मस्तु क्षणिकपर्यायं मनुने पर्यायाणां स्ववर्तमानतायां क्षणावस्था- यित्वस्यैवोचितत्वात् परतोऽवस्थान्तरभेदादिति, स्थूलस्तु मनुष्यादिपर्यायं वर्तमान मनुवे, न त्वतीतानागतादिनारकादिपर्यायम् । व्यवहारेण तत्स्वीकारादेतदपेक्षया स्थूलत्वमिति । अथर्जुसूत्रस्य दृष्टान्तमाह यथेति, वाक्येन ह्यनेन क्षणस्थायिसुखाख्यं पर्यायमानं प्राधा- न्येन प्रदश्यते तदधिकरणभूतमात्मद्रव्यन्तु गौणतया नायंत इत्याशयमाहात्र हीति 15 आदिना दुःखादिपरिग्रहः ।। अथ शब्दनयमुपदर्शयन्नाह- कालकारकलिङ्गसंख्यापुरुषोपसर्गाणां भेदेन सन्तमप्यभेदमुपेक्ष्यार्थ- भेदस्य शब्दप्राधान्यात्मदर्शकाभिप्रायविशेषरशब्दनयः॥ कालेति । कालादीनां भेदेन द्रव्यरूपतया विद्यमानमप्यभेदमुपेक्ष्य गौणीकृत्य शब्द- 20 भेदप्राधान्यप्रयुक्तार्थभेदप्रज्ञापकाभिप्रायविशेषश्शब्दनय इत्यर्थः । अयमत्र भावः, ऋजुसूत्रा- पेक्षयाय विशेषितवरः, अयं हि पृथुबुनोदराद्याकारविशिष्टं मुन्मयं जलाहरणाविक्रिया- समर्थ प्रसिद्ध भावघटमेवेच्छति न शेषान्नामस्थापनद्रव्यरूपांस्त्रीन् घटान् नवा विभिन्न- कालकारकादिविशिष्टशब्दवाच्यानामेकत्वम्, शब्दप्रधानो ह्येष नयः, चेष्टालक्षणश्च घट. शब्दार्थः घटत इति घटो घटचेष्टायामिति धातुना व्युत्पन्नत्वात् । ततश्च य एष जला- 25 हरणादिक्रियार्थ प्रसिद्धो घटस्तमेव भावरूपं घटमिच्छत्यसो तत्रैव शब्दार्थोपपत्तेः, न तु नामादिघटान् घटशब्दोऽभिधत्ते शब्दार्थानुपपत्तेः, तथा घट घटेनेत्यादीनामपि भिन्नार्थत्वं द्वितीयाविशिष्टघटशब्दस्य तृतीयादिविशिष्टघटशब्दस्यान्यत्वात् तथा च नामस्थापना- द्रव्यरूपा घटा न भवन्ति, जलाहरणादितत्कार्याकरणात् पटादिवत्, तथा प्रत्यक्षविरोधात् - 5 शब्दः] न्यायप्रकाशसमलट्टते घटलिङ्गादर्शनाच, अघटल्पास्ते प्रत्यक्षेणैव दृश्यन्ते इति प्रत्यक्षविरोधः, जलाहरणादिक घटलिङ्गच वेषु न दृश्यत इत्यनुमानविरोधोऽपि, न च कथं ते नामादिघटव्यपदेशमान इति वाच्यम्, अनिष्टत्वात् यथाहि ऋजुसूत्रस्यातीवानागवाः कुम्भा नेष्टाः प्रयोजनाभावाचथा- नामादयोऽपि तुल्यत्वादिति ॥ अथ क्रमेण कालादीनां दृष्टान्तानुपदर्शयति- यथा बभूव भवति भविष्यति सुमेरुरिति कालभेदेन सुमेरुभेद, करोति कुम्भः क्रियते कुम्भ इत्यादौ कर्तृत्वकर्मत्वरूपकारकमेदाकुम्भ- भेदं, पुष्यस्तारका इत्यादौ लिङ्गामेदेनार्थभेदं, आपोभ इत्यादौ संख्या भेदेन जलस्य भेदं, एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पितेत्यादौ मध्यमोत्तमरूपपुरुषभेदेनार्थभेदं, सन्तिष्ठतेऽवतिष्ठत इत्यादा- 10 वुपसर्गभेदेन चार्थभेदं प्रतिपादयति शब्दनयः, कालादिप्राधान्यात्, अभेदं पुनर्न तिरस्करोति, अपि तुगौणीकरोति । पर्यायभेदे तु नार्थभेद- मभ्युपैति नयोऽयम् ॥ यथेति । सुमेरुभेदमिति, प्रतिपादयतीत्यप्रेतनेन सम्बद्ध्यते एवमग्रेऽपि । भूतभविष्य- द्वर्तमानरूपकालत्रयभेदेन सुमेरोमदं शब्दनयः प्रविपद्यते, कालभेदादप्यर्थस्याभेदप्रति- 15 ज्ञाने रावणशंखचक्रवनिोरप्यतीतानागतकालयोरेकत्वापत्तरिति भावः । कारकभेदप्रयुक्तार्थ- भेदस्य दृष्टान्तमाह करोतीति, अत्र कारकयोः कर्तृकर्मणोंमेंदाद् घटस्य भेदः, जलाहरणापर्य- क्रियानिरूपितकर्तृत्वस्य कुम्भकारनिरूपितकर्मत्वस्य च भानात् । न च यः कर्ता स एव कातिप्रसङ्गात् तस्मात्कर्तृकर्मस्वभावौ घटस्य मिन्नावभ्युपगमनीयाविति भावः । लिङ्गमेदप्रयुकार्यभेदमुदाहरति पुष्यस्तारका इति, पुंस्त्रीलिङ्गयोर्मेदनार्थभेदा, अन्यलिङ्ग- 20 वृत्तशब्दस्यान्यलिङ्गभेदलक्षणेन वैधघेणार्थभेदस्य कान्तः कान्वेत्यादिपु सष्टमनुभवा- दिति भावः । संख्याभेदप्रयुक्तार्थभेदं निदर्शयति आपोऽम्म इति अत्र बहुवैकलसंख्य- योदेन जलस्य भेदं शब्दनयः प्रतिजानीतेऽन्यथा पटतन्तब इत्येत्राप्येकत्वमतीसापचे संख्याभेदाविशेषात् । पुरुषभेदनिवन्धनार्थभेदनिदर्शनमादर्शयति एहि मन्य इति. अत्र युष्मदस्मदाख्ययोः पुरुषयोमदादर्थस्य भेदं शब्दनयः स्वीकुरुते अन्यथाऽहं पचामि 25 पचसीत्यादावपि पुरुषमेदेऽपि एकार्यत्वप्रसङ्गात् । उपसर्गभेदनिदानार्थभेददृष्टान्तमाविष्करोति सन्तिष्ठत इवि, अत्राप्युपसर्गभेदादर्थभेदं मनुते शब्दनयो विहरलाहरवीत्यादाविव । अन्यथा तिष्ठति प्रतिष्ठत इत्यादावपि स्थितिगतिक्रिययोरभेदप्रसङ्गः स्यादिति भावः । अयं तत्र तत्र तस्वन्यायविमाकरे [ नवमकिरणे -परमैश्वर्यप्रवृत्तिविशिष्ट इन्द्रशब्दवाच्यः, सामर्थ्य क्रियाविशिष्टश्शक्रप- दयोध्या, असुरपुरभेदनक्रियाविशिष्टः पुरन्दरशब्दवाच्य इत्येवंरूपा- भिनायाः ॥ तत्तक्रियेति । जलाहरेणादिक्रियाविधुरस्यार्थस्य घटादेस्तत्वच्छन्दवाच्यत्वं घटादिश- ॐ देवाच्यत्वमप्रतिक्षिपन् द्वेषबुख्याऽनिराकुर्वन् जलाहरणादिक्रियाविशिष्टमेव घटादिकं घटा- दिशब्दो वतीत्येवंरूपोऽभिप्राय एवम्भूतनय इति भावः । तथा च पदानां व्युत्पत्त्यर्यान्वय- नियतार्थबोधकत्वाभ्युपगन्तृत्वमिति निष्कर्षः । नियमश्च देशतः कालतश्चातो न सममि- संढादावविव्याप्तिः । या क्रिया विशिष्टशब्देनोच्यते तामेव क्रियां कुर्वद्वस्तु एवंभूतशब्देनो- च्यते तत्प्रतिपादको नयोऽप्युपचारादेवम्भूतः, अयं व्यञ्जनार्थोभयं स्थापयति, शब्दं अर्थे- 'ro नार्थश्च शब्देनेति, यथा घटचेष्टायां घटते योषिन्मस्तकाचारूढश्चेष्टत इति घट इत्यत्र तदेवासौ घटो यदा तादृशचेष्ठावान् नान्यदा, घटशब्दोऽपि नादृशचेष्टाकारिण एव वाचको नान्यदेत्येवं चेष्टावस्थानोऽन्यत्र घटस्य घटत्वं घटशब्देन निवत्यैते घटशब्दस्यापि तदवस्था- तोऽन्यत्र घटेन स्ववाचकत्वं निवर्त्यते, तथा च प्रयोगो यथाऽभिधायकशब्दस्तथैवाभिधेयं 'प्रतिपत्तव्य, तथाभूवार्थस्यैव प्रत्ययसम्भूतेः प्रदीपवत्कुम्भवद्वा, प्रदीपशब्देन हि प्रकाशवानेवा- 15 थोऽभिधीयते, अन्यथा संशयादयः प्रसज्येरन् तथाहि यदि दीपनक्रियाविकलोऽपि दीपस्तहिं दीपशब्दे समुचरिते किमनेन प्रदीपेन प्रकाशवानर्थोऽमिहितः किंवाऽप्रकाशकोऽप्यन्धोपला- दिरिति संशयः, अन्धोपलादिरेवानेनाभिहितो न दीप इति विपर्ययः, तथा दीप इत्युक्तेऽन्धो. पलादी चोक्त दीपे प्रत्ययात्पदार्थानामेकत्वं सार्य वा स्यात्तस्माच्छन्दवशॉदेवाभिधेयममि- घेयवशाय शब्द इति । एवञ्च संज्ञाभेदाद्वस्तुभेदवत् क्रियामेदादपि, सा च क्रिया तक्षेत्री 20 यदैव' तामाविशति तदेतन्निमित्तं तत्तद्वथपदेशमासादयति नान्यदाऽतिप्रसङ्गात् । यदा घटते देवासो घटों न पुनर्घटितवान् घटिष्यते वा घट इति व्यपदेष्टुं युक्तः, सर्ववस्तूना घटता- पत्तिप्रसङ्गात् किञ्च चेष्टासमये एव वस्तु चक्षुरादिव्यापारसमुद्भूवशब्दानुविद्धप्रत्ययमास्कन्दति, चेष्टावन्तः पदार्था इति, यथावस्थितार्थप्रतिभास एव च वस्तूनां व्यवस्थापको नान्यथाभूतोऽ- न्यथा चेष्टावत्तया शब्दानुविद्धाभ्यक्षप्रत्यये प्रतिमासस्याभ्युपगमे तत्प्रत्ययस्य निविषयतया -१. योऽर्थो यद्देशे यत्काले व्युत्पत्त्यर्थेन सम्बद्धः सोऽर्थस्तत्र तदानीं तच्छन्दबोष्य, तथा चार्य नयो यस्मिचर्ये शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तभूतोऽर्थो यदैव वर्तते तदैव तं शब्द प्रवर्तमानम- मिति, नातीता भाविनी वा चेष्टामधिकृत्य सामान्येनैवोच्यते शब्द, तयोर्विनष्टानुत्पन्नत्वेन फर्मरोमक- रुपवार यद्यतीतभाविधपेक्षया घटादिशब्दोऽवेष्टावत्यपि प्रयुज्येत तर्हि कपालमृत्पिण्डावावपि प्रयुज्यता विशेषाभावात्तस्माचत्र क्षणे व्युत्पत्तिनिमित्तम विकलमस्ति तदेव सोऽर्थस्तच्छन्देन वाच्य इति निर्गलितार्थः ।

शब्दार्यनयाः] न्यायप्रकाशसमलट्टते :९५. भ्रान्तस्यापि वस्तुन्यवस्थापकत्वे सर्वः प्रत्ययः सर्वस्यार्थस्य व्यवस्थापक: स्यादित्यति- प्रसङ्गः, तन्न घटनसमयानाक् पश्चाद्वा घटस्तन्यपदेशमासादयतीत्येवम्भूतनयमतम् । नन्वतन्मते व्युत्पत्तिनिमित्तस्यैव प्रवृत्चिनिमित्चत्वेन केनचिद्रूपेणास्यानतिप्रसकत्वं वाच्यम् , इवरथा गच्छतीति गौरिति व्युत्पत्त्या गच्छन्नश्वादिरपि गौः स्यात् , मैवम् प्रसिद्धार्थ- पुरस्कारेण प्रवृत्तस्यैवंभूतनयस्य स्वार्थाविप्रसङ्गो न दूषणं किन्तु तन्निवारकनयान्तरोपायकत्वे- 5 न भूषणमेव, एतदुपजीवी व्यवहारस्तु यथावृत्ति, एतेन राजनशब्दस्य छत्रचामरादि- शोमाविरहकाले राजपदव्युत्पत्तिनिमित्ताभावेऽपि इतरातिशयपुण्यादिप्रयुक्तराजनस्थानति- प्रसक्तस्य सत्त्वेन राजा वाच्य एवेति न्युदस्तम् । एवम्भूतनयस्योदाहरणमाह यथेति, सम- मिरूढो हि सत्यामसत्याञ्चन्दन क्रियायां वासवादेरर्थस्येन्द्रादिव्यपदेशममिति क्रियोपलक्षित. सामान्यस्यैव प्रवृत्तिनिमित्तत्वात्, पशुविशेषस्य गमनक्रियायां सत्यामसत्याच गोव्यपदेश- 10 वत् रथारूढेस्सद्भावात् । एवम्भूतः पुनरिन्दनादिक्रियापरिगतमर्थ तत्तक्रियाकाले इन्द्रादि- व्यपदेशमाजममिमन्यते, नहि कश्चिदक्रियशब्दोऽस्यास्ति, गौरव इत्यादिजातिशब्दाभि- मंतानामापि क्रियाशब्दत्वात् गच्छतीति गौराशुगामित्वादश्व इति, शुक्लो नील इत्यादि- गुणशब्दामिमता अपि क्रियाशब्दा एव, शुचीभवनाच्छुल्लो नीलनान्नील इति, देवदत्तो यज्ञदत्त इत्यादियादृच्छिकशन्दामिमता अपि क्रियाशब्दा एव देव एनं देयायज्ञ एन देया- 15 दिति । संयोगिद्रव्यवाचकशब्दासमवायिद्रव्यवाचकशब्दा अपि क्रियाशब्दा एव दण्डोऽस्या- स्त्रीति दण्डी विषाणमस्यास्तीति विषाणीत्यादिक्रियाप्रधानत्वादिति । एवमेतन्मते सत्त्वादि- योगात्सदादिसंश्यपि तत्वत्पर्यायभाक्त्वेनास्मादिसंज्ञाधार्यपि सिद्धो न जीवः, जीवप्राण- धारण इति धात्वर्थानन्वयात् । एतेन सिद्धो निश्चयतो जीव इति मतमपास्तम्, शुद्धनिश्चयो सेवम्भूतनय एव, तन्मतेन तु सिद्धोऽजीव इत्येव प्रसिद्धिः, औदयिक भावं व्युत्पत्तिनिमि- 30 समेव प्रवृत्तिनिमिचतया गृहता संसारिण एव जीवशब्दव्यपदेश्यत्वप्रतिपादनात् सिद्धस्य पुरलादिगव्यस्य वाऽजीवपदार्थत्वस्येष्यमाणत्वादिति ।। नयानाममीषा सप्तविधानां मध्ये के पुनरर्थप्रधानाः के च शब्दप्रधाना इत्याशङ्कायामाह- तत्राथाश्चत्वारो नया अर्थनया अर्थप्रधानत्वात् । अन्त्यास्तु शब्द- नयाः शब्दवाच्यार्थविषयत्वात् ॥ 25 १. औदयिकमायिकक्षायोपशमिकपारिणामिकलक्षण पञ्चभिर्मावै पञ्चस्वपि गतिधु जीव इष्ट., व्युत्प- तिनिमित्तजीवनलक्षणोदयिकमावोपलक्षितात्मस्वरूपपारिणामिकमावविशिष्टस्य जीवस्य भावपचकात्मनो जीव- पदार्यत्वात् प्रसिद्धनगम ईदृशपारिणामिकमावमेव जीवपदप्रतिनिमित्तमभ्युपगच्छति, एवम्भूतस्तु व्युत्पत्ति- निमित्तमेव प्रतिनिमित्तं गृहाति इति भावः ॥

तस्वम्यायविभाकरे [ मवमकिरणे तत्राद्याश्चत्वार इति । अर्थतंत्रत्वान्नैगमसंग्रहव्यवहारर्जुसूत्रा अर्थनया उच्यन्ते, ऋजु- सूत्रान्ता हि नया प्रधानभूतमर्थ शब्दचाप्रघानं त्रुवते । अन्यास्त्रयस्त्विति, शब्दसमभिरूढे- वम्भूतात्रयस्त्वित्यर्थः, अर्थोपसर्जनाइशब्दप्रधानाः अतश्शब्दनया उच्यन्त इति भावः । अत्रैवमर्थनयतात्पर्यमवसेयम्-यद्यपि प्रमाणप्रमेययोनिबन्धनं सामान्यतशब्दार्थों भवतः, 5 तथापि साक्षात्परम्परया वा प्रमाणस्य कारणमेव स्वाकारार्पको विषयः, न शब्दः 'नाननु- कृतान्वयव्यतिरेक कारणं नाकारण विषय' इत्यादिवचनात् , तदाकारानुविधायिनी वद- ध्यवसायेन च तत्राविसंवादात् संवित्प्रमाणत्वेन गीयते, अध्यक्षधीश्वाशब्दमर्थमात्मन्या- पत्ते, अन्यथाऽर्थदर्शनप्रच्युतिप्रसङ्गात्, न ह्यध्यक्षगोचरेऽर्थे शब्दास्सन्ति, तदात्मानो वा, येन तस्मिन् प्रतिभासमानेऽपि नियमेन ते प्रतिमासेरन् इति कथं शब्दसंस्पृष्टाफ- 10 क्षधीभवेत् किञ्च वस्तुसन्निधानेऽपि तन्नामानुस्मृति विना तदर्थस्यानुपलब्धाविष्यमाणा- यामर्थसन्निधिरक्षहग्जननं प्रत्यसमर्थ इत्यभिधानस्मृतावुपक्षीणशक्तिकत्वान्न कदाचनापी- न्द्रियबुद्धिं जनयेत् सन्निधानाविशेषात् , यदि चायं भवतां निर्बन्धस्स्वामिधानविशेषणा- पेक्षमेव चक्षुरादिस्स्वार्थमवगमयतीति तदाऽस्तङ्गवेयमिन्द्रियप्रभवाऽर्थाधिगतिः, तन्नामस्मू- यादेरसंभवात् , तथाहि यत्रार्थे प्राक् शब्दप्रतिपत्तिरभूत् पुनस्तदर्थवीक्षणे तत्सङ्केतितशब्दस्मृ- 15 तिर्भवेदिति युक्तियुक्तमन्यथाऽतिप्रसङ्गः स्यात्, न चेदनमिलापमर्थ प्रतिपत्ता पश्यति तदा तत्र दृष्टमभिलापमपि न स्मरेत् , अस्मरंश्च शब्दविशेष न पत्र योजयेत्, अयोजयंश्च न तेन विशिष्टमर्थ प्रत्येतीत्यायातमाध्यमशेषस्य जगतः । ततः स्वाभिधानरहितस्य विषयस्य विषयिणं चक्षुरादिप्रत्ययं प्रति स्वत एवोपयोगित्वं सिद्धम् , न तु तदमिधानानां तदर्थ- सम्बन्धरहितानां, पारम्पर्येणापि सामासम्भवादिति । शब्दनयस्तु मनुते कारणस्यापि 20 विषयस्य प्रतिपत्ति प्रति नैव प्रमेयत्वं युक्तम् यावदध्यवसायो न भवेत् , सोऽप्यध्यव- सायो विकल्पश्चेत् तदभिधानस्मृति विना नोत्पत्तुं युक्त इति सर्वव्यवहारेषु शब्दसम्बन्धः प्रधानं निबन्धनम् । प्रत्यक्षस्यापि तत्कृताभ्यवसायलक्षणविकलस्य बहिरन्तर्वा प्रतिक्षण- परिणामप्रति पत्चाविव प्रमाणतानुपपत्तेः अविसवादलक्षणत्वात्प्रमाणानाम् । प्रतिक्षणपरि- णामग्रहणेऽपि तस्य प्रामाण्याभ्युपगमे प्रमाणान्तरप्रवृत्तौ यत्नः क्रियमाणोऽपार्थक: स्यात् । 25 ततः प्रमाणव्यवस्थानिबन्धनं तन्नामस्मृतिव्यवसाययोजनमर्थप्राधान्यमपहनयतीति शब्द एव सर्वत्र प्रमाणादिव्यवहारे प्रधान कारणमिति । ननु नैगमादिनयसप्तकस्यैव प्ररूपण- मयुक्तं तदतिरिक्तयोरप्तिानर्पितयोनिश्चयव्यवहारयोज्ञानक्रिययोश्च सत्त्वादिति चेन्मैवम् , अर्पितनयस्य विशेषप्राहित्वेनानर्पितनयस्य च सामान्यप्राहित्वेनोक्तेष्वेवान्तर्भावात् , तत्रान. पिंतनयमते तुल्यमेव रूपं सर्वेषां सिद्धानाम् । अर्पितनयमते त्वेकद्वियादिसमयसिद्धाः - विवर्यविचार] म्यायप्रकशिसमलते खसमानकालसिद्धैरेव तुल्या इति | वथा लोकप्रसिद्धार्थानुवादपरस्य व्यवहारनयस्य तात्वि- कार्थाभ्युपगमपरस्य निश्चयनयस्यापि उत्तेष्वेवान्तर्भावः । यथा पञ्चखपि वर्णेषु भ्रमरे सत्सु श्यामो भ्रमर इति व्यवहारः, पञ्चवर्णो भ्रमर इति निश्चयः, तच्छरीरस्य बोदर- स्कन्धत्वेन पञ्चवर्णपुलैर्निष्पन्नत्वात्, शुक्लादीनाञ्च न्यग्भूतत्वेनानुपलक्षणात् । अयवैक- नयमतार्थग्राही व्यवहारः सर्वनयमतार्थपाही च निश्चयः । न चैवं निश्चयस्य प्रमाणत्वेन । नयत्वव्याघात:, सर्वनयमतस्यापि स्वार्थस्य तेन प्राधान्याभ्युपगमात् । तथा ज्ञानमात्र- प्राधान्याभ्युपगमपरा झाननयाः, क्रियामात्रप्राधान्याभ्युपगमपराः क्रियानयाः, तत्र सूत्रा- दयश्चत्वारो नयाधारित्रलक्षणायाः क्रियाया एव प्राधान्यमभ्युपगच्छन्ति, तस्या एष मोक्षं प्रत्यव्यवहितकारणत्वात् । नैगमसङ्घहव्यवहारास्तु यद्यपि चारित्रश्रुतसम्यक्त्वानां त्रयाणामपि मोक्षकारणत्वमिच्छन्ति तथापि व्यस्तानामेव नतु समस्तानाम्, एतन्मते ज्ञानादित्रयादेव 10 मोक्ष इत्यनियमात्, अन्यथा नयवहानिप्रसङ्गान् समुदायवादस्य स्थितपक्षत्वादिति द्रष्टव्यम्। नन्वेषु नयेषु सर्वेषां समानविषयत्वमुत न्यूनाधिकविषयत्वं वेत्यत्र शुद्धाशुद्धत्वामि- प्रायत आह- नैगमो भावाभावविषयका सहस्सर्वभावविषयका, व्यवहार कालत्रयवृत्तिकतिपयभावप्रकारप्रख्यापका, वर्तमानक्षणमात्रस्थायिप- 15 दार्थविषय ऋजुसूत्रः, कालादिभेदेन भिन्नार्थविषयश्शब्दनयः, व्युत्पत्ति- भेदेन पर्यायशब्दानां भिन्नार्थतासमर्थनपरस्समभिरूढः, क्रियाभेदेन विभिन्नार्थतानिरूपणपर एवम्भूतनय इत्युत्तरोत्तरनयापेक्षया पूर्वपूर्व- नयस्य महाविषयत्वं बोध्यम् ॥ नैगम इति | भावाभावभूमिकत्वासङ्ग्रहापेक्षया नैगमो बहुविषय इति भावः, सद्वि- 20 शेषप्रकाशकव्यवहारापेक्षया समस्तसत्समूहोपदर्शकस्य सङ्ग्रहस्य बहुविषयत्वमित्याह सङ्ग्रह इति । वर्तमानविषयावलम्धिन ऋजुसूत्रास्कालत्रयवय॑र्थवातावलम्बिनो व्यवहारस्य बहु- विषयत्वमित्याह व्यवहार इति, कालादिभेदेन भिन्नार्थोपदेशकशब्दापेक्षया वद्विपरीतवेदक अजुसूत्रो भूमविषय इत्यत्राह वर्तमानेति, न केवलं कालाविभेदेनैवर्जुसूत्रादस्पार्थता शब्द- स्य, किन्तु नामादितोऽपि, शब्दो हि नामस्थापनाद्रव्यमावरूपचतुर्विधनिक्षेपेषु भावघट- 25 मेव व्यवहर्तव्यं मन्यते शब्दार्थप्रधानतया तस्यैव जलाहरणादिक्रियाक्षमत्वात् , यद्वा सप्त- धर्मार्पणादस्य विशेषः, ऋजुसूत्रस्य हि प्रत्युत्पन्नोऽविशेषित एष घटोऽभिप्रेत:, शब्दनयस्तु .

तस्वन्यायविमाकरे मवमकिरणे सद्भावासद्भावादिमिरर्पितस्य स्याद्धटः स्यादघटः, स्यादवक्तव्यः स्यान् संश्वासंश्चोभयं, स्यात्सन्न वक्तव्यः, स्यादसन्नवतव्यः, स्यात्सन्नमन्नवक्तव्य इति स्याद्वाददृष्टभेदं घटादिकमर्थं यथा- विवक्षितमेकेन केनापि भङ्गकेन विशेषिततरं प्रतिपद्यते नयत्वादिति विशेपः । प्रतिपर्यायशब्द. मर्थभेदमभीप्सतस्समभिरूढाच्छब्दो बहुविषय इत्याह कालादीति, आदिना कारकलिङ्गादीनां 5 परिप्रहः । प्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवम्भूतात्समभिरूढस्तदन्यथार्थस्थापकत्वा- बहुविषय इत्याह व्युत्पत्तिभेदेनेति, एवम्भूतविपयं दर्शयन्निगमयति क्रियाभेदेनेति ॥ एवं नयस्वरूपे निरूपितेऽर्थतस्फुटमपि सुलमतया दुर्नयस्वरूपं वुवोधयिपया नयाभा- सान् क्रमेणाह- धर्मद्वयमिद्वयधर्मधर्मिद्वयानां सर्वथा पार्थक्याभिप्रायो नैगमा- 10 भासः, यथा वह्निपर्वतवृत्तित्वयोरनित्यज्ञानयो रूपनैल्ययोरात्मवृत्तिस- त्वचैतन्ययोः काठिन्यवद्रव्यपृथिव्यो रूपवद्रव्यमूर्तयोः पर्यायवद्व्यव- स्त्वोर्ज्ञानात्मनोनित्यसुखमुक्तयोःक्षणिकसुखविषयासक्तजीवयोश्च सर्वथा भेदाभिप्रायः । वैशेषिकनैयायिकयोदर्शनमेतदाभास एव ॥ धर्मद्वयेति । पूर्वोक्तदृष्टान्तेष्वेवैकान्तिकपार्थक्याभिसन्धिश्चेन्नैगमाभासस्स्यादित्याश- 16 येन तमेव दर्शयति यथेति, वतिपर्वतवृत्तित्वयोरिति सर्वथा भेदाभिप्राय इत्यप्रेतनेन सम्ब- ध्यते, एवमग्रेऽपि । पर्वते पर्वतीयवद्विरित्यत्र तयोरसर्वथा भेदाभिप्रायश्चेत्तदा धर्मद्वयविषयको नैगमाभास इति भावः । अनित्यज्ञानमात्मन इत्यत्रानित्यनानयोस्सर्वथा पार्थक्यामिसन्धी धर्मद्वयविपयकनैगमामास इत्याहानित्येति । घटे नीलं रूपमित्यादौ नैल्यरूपयोरेकान्तभेदा- भिप्राये धर्मद्वयविषयकनैगमाभास इत्याह रूपेति । सञ्चैतन्यमात्मनीत्यादौ प्रधानोपसर्जन- 20 भावेन चैतन्याख्यसत्त्वाख्यन्यखनपर्याययोधर्मद्वययोर्विवक्षणे नैगमत्वेऽपि तयोरेकान्तभेदे- नोतिर्नयामासरूपा स्यादित्याह-आत्मवृत्तीति | काठिन्यवद्रव्यं पृथिवीत्यादौ धर्मिद्वययोः काठिन्यवद्रव्यपृथिव्योस्सर्वथा पार्थक्येन कथने नैगमाभास इत्याह काठिन्येति । रूपवद्रव्यं मू-मित्यादौ धर्मिद्वययो रूपव्यमूर्तयोस्सर्वथा भेदाभिप्राये तथेत्याह रूपपदिति । पर्याय- वद्रव्यमित्यत्रापि तथेत्याह पर्यायवदिति । ज्ञानवानात्मा, नित्यसुखी मुक्तः, क्षणिकसुखी विषयासक्तजीव इत्यादि धर्मधर्म्युभयविपयके सर्वथा भेदाभिप्राये नैगमाभासत्वं स्यादित्याह ज्ञानेति । कस्य दर्शनमेतन्नयामासरूपमित्यत्राह वैशेपिकेति ।। १. ऊर्चग्रीवकालकुक्षिघुनादिमि. स्वपर्यायसद्धावेनापितश्चेत् स्याट, पटादिगते. परपर्यायरसदावेना- पित. स्यावघटो भवति । स्वपरोभयपर्याय. मदमदावाभ्यामर्पितो युगपद्वमिष्ट वेदवतव्यो भवतीत्येवं बोध्यः ॥ 25 5 भाभासा..] न्यायप्रकाशसमलते सङ्घहाभासमाचष्टे- परसामान्यमपरसामान्यं वाभ्युपगम्य तद्विशेषनिराकरणाभिमाय- स्सङ्ग्रहनयाभासः। यथा जगदिदं सदेव तद्व्याप्यधर्मानुपलम्भादिति । अद्वैतसांख्यदर्शने एतदाभासरूपे । एवं द्रव्यमेव तत्त्वं तद्विशेषाणाम- दर्शनादित्यादयोऽभिप्रायविशेषाः॥ परसामान्यमिति । स्पष्टम् , दृष्टान्तमाह यथेति, तद्व्याप्येति. ततः पृथग्भूतानां तया- प्यानां विशेषधर्माणामदर्शनादिति हेतुना विशेषधर्मनिराकरणाभिप्रायस्य व्यक्ततया परस- यहाभासत्वमिति भावः, अखिलान्यद्वैवदर्शनानि सांख्यदर्शनचात्रान्तर्भवन्तीसाहाद्वैतेति । अपरसङ्ग्रहामासमाहेवमिति ॥ व्यवहाराभासमाचष्टे- काल्पनिकद्रव्यपर्यायाभिमन्ता व्यवहाराभासः । यथा चार्वाकदर्श- नम्, तत्र हि काल्पनिकभूतचतुष्टयविभागो दृश्यते, प्रमाणसम्पन्नजीव द्रव्यपर्यायादिविभागस्तिरस्क्रियते ।। काल्पनिकेति । अपारमार्थिकद्रव्यपर्यायविभागामिप्राय इत्यर्थः । उदाहरति यथेति, चार्वाको हि प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायादिप्रविभागं कल्पनारोपितत्वेनापइत्याविचा- 15 रितरमणीय भूतचतुष्टयप्रविभागमात्रं स्थूललोकव्यवहारानुयायितया समर्थयतीत्याशयमाह तत्र हीति चाकिदर्शने हीत्यर्थः ॥ 10 ऋजुसूत्रनयाभासमाह- कालत्रयस्थायिपदार्थव्युदसनपूर्वकं वर्तमानक्षणमात्रवृत्तिपर्यायाव- लम्बनाभिप्राय ऋजुसूत्रनयाभासः । यथा बौद्धदर्शनम्, बुद्धो हि क्षण- 20 मात्रस्थायिनमेव पदार्थ प्रमाणतया स्वीकरोति, तदनुगामिप्रत्यभिज्ञा- प्रमाणसिद्धमेकं स्थिरभूतं द्रव्यं नान्युपैति ॥ कालत्रयेति । उदाहरति यथेति, तथागतो हि प्रतिक्षणविनश्वरपर्यायानेव पारमार्थिक- तया समर्थयते तदनुगामि तु प्रत्यभिज्ञादिप्रमाणसिद्धं नित्यं द्रव्य तिरस्कुरुतेऽतस्तन्मतमृजु- सूत्रामास इत्याह बुद्धो हीति ।।

:५००: तत्त्वन्यायधिमाकरे [नवमकिरणे शब्दानयभासमाह-- कालादिभेदेन शब्दस्य भिन्नार्थवाचित्वमेवेत्यभेदव्युदसनाभिप्रायः शब्दनयाभासः। यथा बभूव भवति भविष्यति सुमेरुरित्यादी भूत- वर्तमानभविष्यत्कालीनान् भिन्नभिन्नानेव प्रमाणविरुद्धान रत्नसानून 5 भिदधति तत्तच्छब्दा इत्यायभिप्रायः ॥ कालादिमेदेनेति । दृष्टान्तमाह यथेति, भिन्नकालशब्दाचाक्सिद्धान्यशब्दवभूष भवति भविष्यति सुमेरुरित्यादयः शब्दा भिन्नार्थमेवाभिदधति इत्येवं प्रमाणविरुद्धाभिप्राय- स्वाच्छन्दाभास इति भावः ॥ 10 15 J सममिरूढनयाभासमाह- पर्यायशब्दानां निरुक्तिभेदेन भिन्नार्थत्वमेव न त्वर्थगतोऽभेदोऽ. पीति योऽभिप्रायः स समभिरूढनयाभासः । यथा शक्रपुरन्दरेन्द्रशब्दा- नां भिन्नाभिधेयत्वमेव भिन्नशब्दत्वादित्यभिप्रायः॥ पर्यायशब्दानामिति । दृष्टान्तमाह यथेति, करिकुरङ्गशब्दवद्भिन्नशब्दत्वाच्छनादि- शब्दानां भिन्नार्थत्वमेव न त्वेकार्थतेत्यभिप्रायः समभिरूढनयाभास इति भावः ।। एवम्भूतनयाभासमाह- प्रवृत्तिनिमित्तक्रियाविरहितमर्थ शब्दवाच्यतया सर्वथाऽनभ्युपग- च्छन्नभिप्रायविशेष एवम्भूतनयाभासः । यथा घटनक्रियाविरहितघटा- देर्घटादिशब्दवाच्यत्वब्युदासाभिप्राय इति ।। प्रवृचिनिमित्तेत्ति । स्वव्युत्पत्तिनिमिचक्रियाविशिष्टं वस्तु ध्वनिवाच्यतया प्रतिजाना- 20 नोऽपि यः परामर्शस्तदनाविष्टं तदवाच्यतया प्रतिक्षिपति न तूपेक्षते स एवम्भूतनयाभास इति भावः, व्युत्पत्चिनिमित्तस्यैव प्रवृत्तिनिमित्तत्वमस्य मतमिति धोतयितुं प्रवृत्तिनिमित्ते- त्युक्तम् । निदर्शनमस्याह यथेति, एवमेव द्रव्यमानाही पर्यायप्रतिक्षेपी.द्रव्यार्थिकामासः, पर्यायमात्रमाही द्रव्यप्रतिक्षेपी पर्यायार्थिकामासः, अर्थाभिधायी शब्दप्रतिक्षेपी अर्थनया- भास, शब्दामिधाम्यर्थप्रतिक्षेपी शब्दनयाभासः, अर्पितमभिधानोऽनर्पित प्रतिक्षिपन्न- 25 पिँतनयामासः, अनर्पितमभिप्रयन्नर्पित प्रतिक्षिपन्ननर्पितनयाभासः, एवमेव निश्चयनया- 8. भासादिकं भाव्यम् ॥ " - वचनसत्यता] न्यायप्रकाशसमलते ननु ययेककधर्मसमर्थनपरायणाश्शेषधर्मतिरस्कारकारिणोऽभिप्राया दुर्नयंता प्रतिप- धन्ते तदा वचनमप्येकधर्मकथनद्वारेण प्रवर्त्तमानं सावधारणत्वाच्छेषधर्मप्रतिक्षेपकार्य- लीकमापद्यते, ततश्चानवधर्माध्यासितवस्तुसन्दर्शकमेव पचनं यथावस्थितार्थप्रतिपादकत्वा- सत्यम् न चैवं वचनप्रवृत्तिः, घटोऽयं शुक्लो मूर्त इत्यायेकैकधर्मप्रतिपादननिष्ठतया व्यवहारे शब्दप्रयोगदर्शनात, सर्वधर्माणां योगपधेन वक्तुमशक्यत्वात् , तदभिधायकानामप्यानन्त्यात्। 5 म चैकैकधर्मसन्दर्शकत्वेऽप्यमूनि वचनान्यलीकानि वक्तुं पार्यन्ते, समस्तशाब्दव्यवहारो- च्छेदप्रसङ्गात् । तदलीकत्वे ततः प्रवृत्त्यसिद्धेश्चेति चेदत्रोच्यते, द्विविधा वस्तुप्रतिपादकाः लौकिकास्तत्त्वचिन्तकाश्चेति, अर्थित्वेन प्रत्यक्षादिप्रसिद्धमर्थ लौकिकास्तावन्मध्यस्वभावेन व्यवहारकाले व्यपदिशन्ति, नीलमुत्पलं सुगन्धि कोमलमिति, न तु तद्धर्मिगतधर्मान्तरग्रहण- निराकरणयोराद्रियन्ते, अनर्थित्वात् , तावतैव विवक्षितव्यवहारपरिसमाप्तेः। न च नवचनाना- 10 मलीकता, शेषधर्मान्तरानिराकरणात् तथात्व एवालीकत्वात् । न च सर्व वचनं सावधारणमिति न्यायेन तेषामपि वचनानामिनरधर्मतिरस्कारत्वसिद्धेरलीकत्वमेव स्यादिति वाच्यम् , अवधा- रणस्य तदसंभवमात्रन्यवच्छेदे व्यापारात् , अनेकपुरुषसम्पूर्णे सदसि द्वारादौ स्थितस्य किमत्र देवदत्तस्समस्ति नास्तीति वा दोलायमानबुद्धेः केनचिदभिधीयते यथा देवदत्तोऽस्तीति । अत्र यद्यप्युपन्यस्ततत्पवयस्य सावधारणता गम्यते, अन्यथा तदुच्चारणवैयर्थ्यप्रसङ्गात् , तथाप्यव- 15 धारणं तदसंभवमानं व्यवच्छिनत्ति न शेषपुरुषान्तरान् । नापि पररूपेण नास्तित्वं, तद्व्यव- च्छेदाभिप्रायेण प्रस्तुतवाक्याप्रयोगात्, प्रयोक्कुरभिप्रायादिसापेक्षतयैव शब्दस्य स्वार्थप्रतिपा. दनसामर्थ्यात् । न च वाच्यवाचकमावसम्बन्धानर्थक्यम् , तदभाचे प्रयोक्त्रभिप्रायादिमात्रेण नियोक्तुमशक्यत्वात् । न च समस्तधर्मयुक्तमेव वस्तु प्रतिपादयचनं सत्यमभिदध्महे, येनैकै- कधर्मालिङ्गितवस्तुसन्दर्शकानामलीकता स्यात्, किन्तु सम्भवदर्थप्रतिपादकं सत्यमिति, 20 सम्भवन्ति च शेषधर्माप्रतिक्षेपे बचनगोचरापन्ना धर्मा, तस्मात्तत्प्रतिपादकं सत्यमेव । यदा तु दुर्नयमतामिनिविष्टवुद्धिमिस्तीर्थान्तरीयैस्तद्धर्मिगतधर्मान्तरनिराकरणामिप्रायेणैव सावधारणं तत्प्रयुज्यते यथा नित्यमेव वस्तु अनित्यमेव वेत्यादि, तदा निरालम्बनत्वादलीकता प्राप्नु- वत्केन वार्यत । तत्त्वचिन्तका पुनः प्रत्यक्षादिप्रमाणसिद्धमनेकान्तात्मकं वस्तु दर्शयन्तो द्वेषा दर्शयेयुः सकलादेशेन विकलादेशेन वा, तत्र विकलादेशो नयाधीनः, सकलादेशः प्रमाणा- 25 धीनः । मध्यस्थमावेन ह्यार्थित्ववशात्कञ्चिद्धर्म प्रतिपिपादयिषवश्शेषधर्मस्वीकारनिराकरण. विमुखया धिया वाचं प्रयुखते तदा तत्त्वचिन्तका अपि लौकिकवत्संमुग्धाकारतयाऽऽचक्षते जीवोऽस्ति कर्ता भोक्ता प्रमातेत्यादि । अतस्सम्पूर्णवस्तुप्रतिपादनाभावाद्विकलादेशोऽभिधी- । १. तापदार्थाप्रसिदया निरालम्बनत्लादिति भाव ॥ २. सर्व वाक्यं सावधारणमिति न्यायादिति ॥

:५०३: तत्वन्यायविमाकरे [ नवमकिरणे । . यते । यदा तु प्रमाणव्यापारमविकलं परामृश्य प्रतिपादयितुमभिप्रयन्ति तदाऽङ्गीकृतगुण- प्रधानमावा अशेषधर्मसूचककथञ्चित्पर्यायस्याच्छन्दभूपितया सावधारणया वाचा दर्शयन्ति स्यावस्त्येव नीव इत्यादिकया । अतोऽयं स्याच्छब्दसंसूचिताभ्यन्तरीभूतानन्तधर्मकस्य साक्षा- दुपन्यम्तजीवशब्द क्रियाभ्यां प्रधानीकृतात्मभावस्यावधारणव्यवच्छिन्नतदसम्भवस्य वस्तु- 5 नस्मन्दर्शकत्वात्सकलादेश उच्यते । तस्मान्नयप्रमाणामिना स्याहादी सकलादेशविकलादे- शावधिकृत्य यद्यद् ब्रूते तत्तत्सत्यं दुर्नयमतावलम्बिनो यद्यदाचक्षते तत्तदलीकमिति । तदेवं नयस्य लक्षणान्यमिधायाधुना तस्य फलं स्फुटयति- नयस्येदृशस्य वस्त्वेकदेशस्याज्ञाननिवृत्तिरनन्तरफलम् । परम्परफ- लन्तु वस्त्वेकदेशविपयकहानोपादानोपेक्षाघुद्धयः । उभयविधमपि फलं 10 नयात्कथञ्चिद्भिन्नाभिन्नं विज्ञेयम् । इति नयनिरूपणम् ॥ नयस्येशस्येति ! प्रोक्तस्वरूपनयस्येत्यर्थः । नयस्य प्रमाणेकदेशत्वाद्वस्त्वंशमाहित्वाच वस्त्वंशस्य यदज्ञानं तन्निवृत्तिरव्यवहितं फलमिति भावः। पारम्पर्य फलमादर्शयति परम्परेति, यथा प्रमाणस्य सर्ववस्तुविषयकहानोपादानोपेक्षाबुद्धयः परम्परं फलं तथा नयस्यापि वस्त्वं अविपयकहानोपादानोपेक्षा बुद्धयः परम्परफलत्वेनावधारणीया इति भावः । तदिदं नयस्य 15 द्विविधमपि फलं ततः कथञ्चिद्भिन्नमभिन्नच नयफलत्वान्यथानुपपत्तेरित्याहोमयविधमपि फलमिति, साक्षात्परम्परं फलञ्चेत्यर्थः । नयविचारविशेषफलन्तु यो निक्षेपनयप्रमाणतोऽर्थ सूक्ष्मेक्षिकया न परिभावयति तस्याविचारितरमणीयतयाऽयुक्तं युक्तं युक्तं वाऽयुक्तं प्रति- भात्यतस्तदपनोदनाय तद्विचारः कर्तव्यः, तथा सर्वथाऽनित्यत्वादिप्रतिपादकचौद्धादिपर- समयस्य ऋजुसूत्रनयविधिज्ञेन तत्प्रतिपक्षभूतनित्यत्वादिप्रतिपादकद्रव्यास्तिकनयतो निरा- 20 करणाय, स्वसमये वाऽजानवपादिदोपकलुपितेन परेण दोपवुझ्या किमपि जीवादिकं वस्तु परिगृहीतं तदपि नयविधिन नयोक्तिभिर्गुणरूपतया स्थापनाय नयविचारः कर्तव्या, तथा दृष्टिवादे सर्वार्थप्ररूपणा सूत्रार्थवर्णना च सर्वनयैः क्रियत इति ॥ पदार्थानां प्रतिविशिष्टज्ञानोत्पत्त्यर्थ शास्त्रे निक्षेपा नामादिनयरूपा उक्तास्तान सप्त- नयेष्वन्तर्भावयितुं संक्षेपेण ते निरुप्यन्ते । निक्षिप्यते शास्त्रमध्ययनोदेशादिकश्च नामस्था- 28 पनादन्यादिभेदैर्व्यवस्थाप्यतेऽनेनास्मिन्नस्माद्वेति निक्षेपः, प्रकरणादिवशेनाप्रतिपत्त्यादि- व्यवच्छेदकयथास्थानविनियोगाय शब्दार्थरचनाविशेपो निक्षेपः । मालादिपदार्थनिशे- पान्नाममङ्गलादिविनियोगोपपचेश्च निक्षेपाणां फलवत्वम् , अप्रस्तुतार्थापाकरणात्प्रस्तुतार्थ- ।

निक्षेपाः] न्यायप्रकाशसमलते :५०३: व्याकरणाच निक्षेपः फलवानित्यभियुक्तोक्तेः । स जघन्यतोऽपि चतुर्विधः नामस्थापना- द्रव्यभावभेदात् । अन्यार्थे स्थितोऽपि स्वार्थनिरपेक्षस्समानार्थक शब्दानमिषेयो विवक्षिता. थसङ्केतवान् नामनिक्षेपः । यथा सङ्केतितमात्रेणान्यार्थस्थितेनेन्द्रादिशब्देन गोपालदार- कोऽभिधीयते, स च गोपालदारको नेन्द्रसमानार्थकशकादिपर्यायशब्दाभिधेयोऽतो गोपा. लदारकादौ इन्द्राथभिधानं यत् क्रियते तन्नाम भण्यते । यद्यपि समानार्थकशब्दानभि-5 घेयत्वं गोपालदारकगतधर्म एव तथापि नाम्न्युपचरितोऽवसेयः ॥ अन्यत्रावर्चमानपि यहच्छयैवमेव गोपालदारकादेर्डित्थोडवित्थ इत्याधमिधानं क्रियते तदपि नामेति सूचयितु- मन्यार्थे स्थितोऽपीत्यत्रापिशब्दः । वदिदं नाम द्विविधं यावदन्यभाव्ययावगव्यभावि चेति, मेरुद्वीपसमुद्रादिनाम यावद्रव्यमात्रि यावत्तच्छन्दवाच्यद्व्यावस्थानं तावत्ततत्तनाम्नो वृत्तेः । देवदत्तादिनाम तु न यावत्तद्वाच्यद्रव्यावस्थानमवतिष्ठते, अपरापरनामपरावर्तस्य लोके दर्शनात्, ततस्तन्नामायावन्यमाच्युच्यते । अपिशब्दोऽन्यस्यापि समुचायकस्तेन पुस्त- कपत्रचित्रादिलिखितस्य वस्त्वभिधानभूतेन्द्रादिवर्णावलीमात्रस्य सङ्ग्रहः ॥ सद्भूतार्थाध्यव- सायेन सद्भूतार्थशून्यं सद्भूतार्थसमानाकारं निराकारं वाऽल्पकालीनं यावत्कथिकं वा यद्वस्तु स्थाप्यते सा स्थापना | यथा सद्भूतेन्द्रसमानाकारं चित्रलेप्यकाठपाषाणादिपु, अक्षाविषु निराकारमिन्द्रस्यापनम् , एतत्वरकालम् । नन्दीश्वरचैत्यप्रतिमादि तु याव- 15 कथिकम् । अत्र केचित्स्थापनामत्यन्तानुपयोगिनी मन्वते तदतीव तुच्छम् । नामा- दिवत्स्थापनाया अप्युपकारित्वात् । यदि भगवदादीनां स्थापनाऽनुपकारिणी स्याना. मस्मरणमप्यनुपकारि स्यात्, नान. पुदलात्मकत्वेनात्मानुपकारित्वात् । न च नानः स्मरणेन नामिस्मरणे तगुणसमापत्त्याऽस्ति फलमिति वाच्यम् , भगवत्प्रतिमादर्शनादपि 10 १. निक्षेपणं शाखादेर्नामस्थापनादिभेदयसनं स्थापनमिति वा निक्षेप सोऽयं जघन्यतोऽपि चतुर्विधो दर्शनीय , यत्र तावत्रामस्थापनाद्रपक्षेत्रकालभवभावादिलक्षणा भेदा ज्ञाप्यन्ते तत्र सर्वेरपि वस्तु निक्षि- प्यते, यत्र तु सर्वे मेदा न जायन्ते तत्रापि नामादिचतुष्टयेन वस्तु चिन्तनीयमेव, सर्वव्यापकत्वातस्य, नहि किमपि तादृशं वस्त्वस्ति यमामादिचतुष्टय व्यमिचरतीति भावः ॥ २. ननु गङ्गाया घोप इत्यादी गादिपदेन गवातीयद्यभिधीयते, तत्र किं नामनिक्षेपस्य प्रवृत्तिनिक्षेपान्तरस्य वा, नाद्य , जाहव्यादिपर्याय- शब्दाभिधेयत्वेन नामनिक्षेपाप्रत्ते, न द्वितीय प्रसिद्धनिक्षेपान्तराविषयेऽप्रमिनिक्षेपकल्पने तदियत्ताक्षति- प्रसादिति चेत्र, स्थापरिज्ञान निक्षेपान्तरकल्पनाया अप्यनुमतत्वेन दोपाभावात् । आभिप्रायिक्यारस्था- पनाया वैज्ञानिकस्य भावनिक्षेपस्य च स्वीकारे दोपाभावात् । गङ्गापदेन तोरे गळाभेदाभिव्यक्ति बिना गढ़ा- गतशत्यपावनत्वादिधर्मयोगस्याभिव्यमयितुमशक्यत्वात् । भावनिक्षेपविपयामेदव्यवहारोपथिकस्परहितत्वविशे- पणेनातिव्याप्तिविरहादिति ॥ ३. स्थापनाबुद्धे स्थाप्यस्मृतिद्वारा स्थाप्यगतगुणप्रणि पानोद्रेकस्य तजन्यनिर्जरा- तिशयस्य वा फळत्वम् । स्थापनाविपये उत्कटदोपे प्रतिसन्धीयमाने तु न सा फलवतीति बोध्यम् ।

तस्वन्यायविभाकरे [ नवमकिरणे . , सकलाविशायिभगवद्गुणध्यानस्य सुतरां सम्भवात् । सिद्ध एव च बहूनां प्रतिमादर्शनाद्वो- ध्युदयोऽपि । न च नाम्नो नामिना सह वाच्यवाचकमावसम्बन्धोऽस्ति न स्थापनाया इति विशेष इति वाच्यम्, इतरनिक्षेपानिरूपकेण भावनिक्षेपेण सह नामस्थापनयोस्सम्बन्धा- विशेषात् । वाच्यवाचकभावसम्बन्ध एव ग्राह्यो न स्थाप्यस्थापकभाव इत्यत्र विनिगम- 5 काभावात् , तस्मात्त्वया नामस्थापनाद्वयमेव भगवदध्यात्मोपनायकत्वाविशेषेण वन्यं स्यात् द्वयमेव वा त्याज्यं स्यात्, अन्तरङ्गप्रत्त्यासत्त्यभावस्य तुल्यत्वात् , न चैतदिष्टम् , परेणापि नाम्नोऽङ्गीकारात । तथा च स्थापना यद्यवन्द्या स्याचदा नामाप्यवन्यं स्यादिति विपर्ययः पर्यवसायकस्तकी, भावनिक्षेपो यद्यवन्यस्थापनानिक्षेपप्रतियोगी स्यादवन्धनामनिक्षेपप्रति- योग्यपि स्यादित्यनिष्टप्रसञ्जकस्तों बोध्यः । तथा च निक्षेप्यमाणभावाहतोऽभेदबुद्धेर्नामादि 10 त्रयमेव कारणमागमप्रामाण्यात्स्वानुभवाच्च । एतेन भावनिक्षेपाध्यात्मोपनायकत्वेन नामादि- निक्षेपत्रयस्याहत्प्रतिमास्थापनानिक्षेपस्वरूपत्वेनानादृतवतां भावनिक्षेपं पुरस्कुर्वतां मतं व्युव- स्तम् । निक्षेपत्रयानादरे भावोल्लासस्यैव कर्तुमशक्यत्वात् , शास्त्र इव नामादित्रये हृदयस्थिते सति भगवान् पुर इव परिस्फुरति, हृदयमिवानुप्रविशति, तन्मयीभावमिवापद्यते, तेन सर्व- कल्याणसिद्धिस्तस्माद्भावोल्लासस्तदधीनो नहि नैसर्गिक एव भावोल्लास इत्यस्ति जैनमत एका- 15 तः, सर्वव्यवहारविच्छेदप्रसङ्गात् । न च भाषाईदर्शनं भव्यानां यथा स्वगतफलं प्रत्यव्यमि- चारि न तथा निक्षेपत्रयप्रतिपत्तिरिति तदनादर इति वाच्यम्, स्वगतफले स्वव्यतिरिक्तभाव- निक्षेपस्याप्यन्यभिचारित्वाभावात् , नहि भावार्हन्तं दृष्ट्वा भव्या अभव्या वा प्रतिबुझ्यन्त इति । स्वगतभावोल्लासनिमित्तत्वन्तु समान निक्षेपचतुष्टयेऽपि । एतेन स्वगताध्यात्मोपनाय- कतागुणेन वन्द्यत्वमपि चतुष्टयाविशिष्टमेव । शिरश्चरणसंयोगरूपचन्दनस्य भावभगवतोऽपि 20 शरीर एव सम्भवात्, न त्वरूपे भावभगवति, आकाश इव तदसम्भवात् । भाषसम्ब- न्धाच्छरीरसम्बद्धं वन्दनं भावस्यैवाऽऽयातीति तु नामादिष्वपि तुल्यमेष । न च महा- निशीथे भावाचार्यस्य तीर्थकृत्तुल्यत्वमुक्तमतो निक्षेपत्रयस्याकिञ्चित्करत्वमिति भावनिक्षेप पुरस्कुर्वतां कोऽपराध इति वाच्यम् , तद्वचनस्य परमशुद्धभावाहिनिश्चयनयविषयत्वात्, यन्मते ोकस्यापि गुणस्य त्यागे मिथ्याष्टित्वमिष्यते तन्मते निक्षेपान्तरानादरेऽपि 25 गमाविनयवृन्देन नामादिनिक्षेपाणां प्रामाण्याभ्युपगमारक इव व्यामोहो भवतः, सर्वनय- सम्मतस्यैव शास्त्रार्थत्वात् , अन्यथा सम्यक्त्वचारित्रैक्यप्राहिणा निश्चयनयेनाप्रमत्तसंयत एव सम्यक्त्वस्वाम्युक्तो न प्रमचान्त इति श्रेणिकादीनां बहूनां प्रसिद्धं सम्यक्त्वं न स्वीकरणीय स्यात् । एवञ्च ' जो जिणदिढे भावे चउविहे सदहाइ सयमेव । सयमेव न णिहत्ति य स निओगरुईत्ति गायव्यो' इत्युत्तराध्ययनवचनाचतुर्विधशब्दस्य नामस्थापनाद्रव्यभावभेद- । निक्षपा. न्यायप्रकाशसमलते मिन्नत्वेन व्याख्यानिक्षेपचतुष्टयस्यापि यथौचित्येनाराध्यत्वमविरुद्धमिति ॥ अनुभूतस्यानुमबि. ध्यमाणस्य वा पर्यायस्य योग्य यन्निक्षिप्यते स द्रव्यनिक्षेपः । यथाऽनुभूतेन्द्रपर्यायोऽनुमवि- ध्यमाणेन्द्रपर्यायो वेन्द्रः, अनुभूतघृताधारत्वपर्यायेऽनुभविष्यमाणघृताधारत्वपर्याये वा घृत- घटव्यपदेशवत्तत्रेन्द्रशब्दव्यपदेशोपपत्तेः । कचिदप्राधान्येऽपि द्रव्यनिक्षेपः प्रवर्त्तते यथाङ्गार: मईको द्रव्याचार्यः, आचार्यगुणरहितत्वादप्रधानाचार्य इत्यर्थः । कचिदनुपयोगेऽपि, यथा-5 नाभोगेनेहपरलोकाद्याशंसालक्षणेनाविधिना च भक्त्यापि क्रियमाणा जिनपूजादिका ,व्य- क्रिया एव, अनुपयुक्तक्रियायास्साक्षान्मोक्षागत्वाभावात् । भक्त्याऽविधिनापि सा क्रियमाणा पारम्पर्येण मोक्षागत्वापेक्षया द्रव्यतामानुते भक्तिगुणेनाविधिदोषस्य निरनुवन्धीकृतत्वात् ।। वकृविवक्षितक्रियानुभवयुक्तो भावो यो निक्षिप्यते स भावनिक्षेपः, यथेन्दनक्रियापरिणतो भावेन्द्र इति । ननु भावमिन्ननामादिषु त्रिषु नाम्नो भावार्थशून्यत्वेन स्थापनाया द्रव्यस्य 10 चाविशेषेण वृत्तेविरुद्धधर्माध्यासाभावाच न कोऽपि भेद इति चेन्न, रूपान्तरेण विरुद्धधर्मा- ध्याससम्भवेन भेदोपपत्तेः । स्थापनायां परिदृश्यमानानामाकाराभिप्रायवुद्धिक्रियाफलानों नाम्नि द्रन्ये चामावात् , तथाहि स्थापनेन्द्र लोचनसहस्रकुण्डलकिरीटशचीसन्निधानकर- कुलिशधारणसिंहासनाध्यासनादिजनितातिशयो देहसौन्दर्यादिराकारो दृश्यते, स्थापना- कर्तुश्च सद्भूतेन्द्राभिप्रायो विलोक्यते, द्रष्टुश्च तदाकारदर्शनादिन्द्रबुद्धिरुपजायते, एनमुप- 15 सेवमानानां तद्भक्तिपरिणतबुद्धीनां नमस्करणादिक्रिया संवीक्ष्यते । प्रायेण पुत्रोत्पत्त्यादिक फलब्बोपलभ्यते, न च तथा नामेन्द्रे द्रव्येन्द्रे वा, तस्मात्ताभ्यां स्थापनाभेदः । द्रव्यमपि भावस्य कारणत्वात्ताभ्यां भिन्नम्, यथाऽनुपयुक्तो वक्ता द्रव्यं कदाचिदुपयुक्तकाले भाव- स्योपयोगलक्षणस्य भवति कारणम् , सोऽपि वोपयोगलक्षणो मावस्तस्यानुपयुक्तवक्तृरूपस्य १. लक्षणे योग्यता चकमविकवद्धायुष्काभिमुखनामगोत्रमेहेन त्रिविधा, अतीतानागतौ च वर्तमान- भवमावेन कचिदन्तररहितौ प्राखौ, अन्यथाऽतीतानागतानन्तमवेष्वपि व्यपव्यपदेश्यप्रसास्स्यात् , वर्तमान- भवस्थितो हि पुरस्कृतभव पश्चात्कृतभवबायुष्कर्म सव्यतया स्पृशति, यया प्रत्यूषसन्ध्यायामादित्यः पूर्वविदेह मरतच प्रदोषसन्ध्यायान्तु भरतमपरविदेहबावभासयति । तीर्थग्नामकर्मघटितयोग्यतया तु नानामवव्यब- धानमापि भवति मरीचे व्यतीर्थकरत्वप्रतिपादनात् । सुदूरव्यवहितानामपि द्रव्यतीर्थकृतां वन्द्यत्वप्रतिपाद- नस्य नानाभवसम्बन्धघटितयोग्यता विनाऽनुपपत्तयेति ॥ २. सूत्रबोधितबलवदनिधननुवन्धीष्टसाधनताक- ततगुणस्मृतिवनकसस्कारोबोवकामिप्रायाकारान्यतरसम्बन्दवत्वं तत्स्थापनालम्। एवञ्च सादृश्यसम्बन्धत्य न स्थापनानिक्षेपनियामकत्वम्, असद्धावस्थापनोच्छेदप्रमझात् । नाभिप्रायसम्बन्धस्यापि, नाम्न्यपि तस्य सुवचत्वेनातिप्रसङ्गादिति । अत एव द्रव्यालिशिनि स्थापनाया न भावमाधुवुद्धि, उत्कटदोषवत्वन प्रतिमधी. यमानस्य सादृश्यागुणवदनुस्मृते सूत्रबोधितबलबदनिधनुबन्धिनीत्वात् ।। .

तस्वल्यायविमाकरे " द्रव्यस्य पर्यायो. भवति, यथा वा साधुजीवो द्रव्येन्द्रस्सन् मावेन्द्ररूपायाः परिणतः कारणं भवति न तथा नामस्थापने । नामापि च स्थापनाव्याभ्यां प्रोक्तवैधादेव भिद्यते । यद्यपि पूर्वोदितप्रकारेणैपामभेदस्तथापि निरुतप्रकारेण भेदोऽपि सिद्ध एव । नहि दुग्धतकादीनां श्वेतत्वादिनाऽभेदेऽपि माधुर्यादिनापि न भेदोऽनन्तधर्माध्यासितत्वाद्वस्तुन 5 इति । ननु नामादिविचारे प्रक्रान्ते भाव एव वस्तु विवक्षितार्थक्रियासाधकत्वादुमय- सम्मतवस्तुवत्, नहि भावेन्द्रवद्विवक्षितार्थसाधनसमर्था गोपालदारकाद्या नामेन्द्रादयोऽतः फिमत्र भावार्थशून्यैर्नामादिभिरिति चेन्न, नामादीनामपि वस्तुपर्यायत्वेन सामान्यतो भावत्वानतिक्रमात्ततः सिद्धसाधनम् । अविशिष्ट इन्द्रादिवस्तुन्युच्चरिते नामादिकं भेद- चतुष्टयमपि प्रतीयत एव, किमनेन नामेन्द्रो विवक्षित आहोस्विस्थापनेन्द्र उत द्रव्ये- 10-न्द्रो भावेन्द्रो वेति । अतस्सामान्येनेन्द्रवस्तुनश्चत्वारोऽप्यमी पर्याया भावविशेषा एव । अथ विशिष्टार्थक्रियासाधकं भावेन्द्रादिकं भावमाश्रित्य वस्तुत्वसाधनेऽपि न काचित्क्षतिः, भावेन्द्रादेर्भावस्य विशिष्टक्रियानिवर्चकत्वे नामेन्द्रादिपर्यायाणामपि तद्रष्टव्यमेव । द्रव्य- रूपतया पर्यायाणां परस्परमभेदात् । भावपरिणामनिमित्तभावाद्वा नामस्थापनाद्रव्याणां भावागतयोपयोगः, जिननामजिनस्थापनामुक्तिगतमुनिदेहदर्शनाद्भावोल्लासात् । केनचिदुच्चरितं 13: हि जिननाम श्रुत्वा जिनप्रतिमास्वस्तिकादीनि प्रेक्ष्य परिनिर्वृतमुनिदेहं भविष्यद्यतिपर्यायं जनं वाऽवलोक्य च प्रायशस्सम्यग्दर्शनादिभावपरिणामो दृश्यते । अयन्त्वत्र विशेषो नामादि- त्रयमनकान्तिकं समीहितसाधने निश्चयाभावादनात्यन्तिकच कारणमात्यन्तिकप्रकर्षप्राप्त- तथाविधविशिष्टफलसाधकत्वाभावात् । मावस्त्वैकान्तिकः, आत्यन्तिककारणश्चातोऽभ्यहित- तम इति । अयञ्च नामादीनां प्रधानेतरभावो भिन्नवस्तुगतापेक्षया, अभिन्नवस्तुगतानान्तु नामा- 20 दीनां भावाविनाभूतत्वादेव वस्तुत्वम् । सर्वस्य हि वस्तुनस्स्वाभिधायकं नामरूपम् , यथाऽऽता- नवितानीभूततन्तुसन्तानः पट इति, ऊर्ध्वकुण्डलेज्वायतवृत्तपीवो घट इत्यादि । स्वाकारः स्थापनारूपः, यथा सर्ववस्तुनः स्वस्वाकारः । अतीतानागतभावकारणं द्रव्यम् , कार्यापन्नश्च स्वं भावरूपम् , यथा मृत्पिण्डादिवस्तुनो जन्यत्वापन्नं घटादिकम् । इत्यं सर्व वस्तु चतूरूपाविनाभूतं दृष्टमेवमेव सम्यग्दर्शनव्यवस्थानाजिनमतस्य सर्वनयसमूहा- १. अनेन यद्यवस्तु तत्तनिक्षेपचतुथ्यवदिति व्याप्तिलभ्यते 'जत्य य ज जाणिना णिल्खेवं णिस्खेवे गिरवसेसं । जत्थवि य ण जाणिज्जा चउकयं णिखेचे तत्थ' इत्यनुयोगद्वारसूत्राच्च । तथापि प्रायिकीयं व्यासिरप्राप्य वस्तुनि नाम्नोऽप्रयोगात् , जीवत्वेन द्रन्मत्वेन च भूतमविष्यत्पर्यायभावेन तत्कारणत्वामा- पाजीवे द्रव्यनिक्षेपस्यायोगाच। उकं तत्वार्थटीकाका अधकस्मिन्न सम्भवति नैतावता भवत्सन्यापिते' ति । अप्रज्ञाप्यजीवद्रव्यभिन्नं यद्यवस्तु तत्तन्निक्षेपचतुष्टयवदिति व्यासर्वा विवक्षणादिति ।।

नामपि तत्प्रसङ्गात्, - निक्षेपा.] न्यायप्रकाशलमलते :५०७.. स्मकत्वात् । न ह्येकस्मिन्नेव वस्तुन्येककालं विद्यमानानां पर्यायाणां मध्य इदं वस्त्वपर- त्ववस्त्विति वक्तुं शक्यते, द्रव्यरूपतया सर्वेपामपि तेपामेकत्वात्। तथा चस्तुप्रत्ययहेतु- वानाम वस्तुधर्मः, यद्यस्य प्रत्ययहेतुस्तत्तस्य धर्मों यथा घटस्य स्वधर्मा रूपादयः, यञ्च यस्य धर्मो न भवति न तत्तस्य प्रत्ययहेतुर्यथा घटस्य धर्माः पटस्य, भवति च घटामिधानाटस्य सम्प्रत्ययः । सर्वेषां वस्तूनाश्च नामरूपत्वाव्यभिचारान्नानैकान्तिकत्वम् । यध्यमिधानरहितं । वस्त्वेव न भवति, यथाऽभिधानरहितत्वेनावाच्यष्पष्ठभूतलक्षणो भावः । अवस्तुत्वे तु कुतस्तत्प्रत्ययहेतुत्वस्य हेतोवृत्तिः स्यात्, तत्र तद्वृत्तौ वा वस्यापि वस्तुत्वमेव भवेत् , खप्रत्ययजनकत्वाद्धटादिवदिति । न च नद्यास्तीरे पञ्च फलानि सन्तीति शब्द- श्रवणसमनन्तरं प्रवृत्तस्य कस्यचिद्वस्त्वप्राप्तेरवस्तुधर्मता तस्येति वाच्यम् , प्रत्यक्षादिप्रमाणा- तेभ्योऽपि प्रवृत्तस्य कदाचिद्वस्त्वप्राः । नचावाधिवप्रमाणेभ्यः प्रवृत्ता- 10 वस्त्येवार्थप्राप्तिरिति वाच्यम् । सुविवेचितादामशब्दादपि वस्तुप्राप्तेरवश्यम्भावादिति । एवं यदस्ति तत्सर्वमाकारमयमेव, यथा मतिशब्दवस्तुक्रियाफलाभिधानानि । यत्त्वनाकार तन्नास्त्येव, यथा वन्ध्यापुत्रादिः, मतिर्हि ज्ञेयाकारग्रहणपरिणतत्वादाकारवती, अन्यथा नीलस्येदं संवेदनं न पीतस्येति नैयत्यं न स्यात्, नियामकाभावात् । नीलाधाकारो हि नियामको यदा स नेष्यते तदा नीलग्राहिणी मतिर्न पीतग्राहिणीति कथं व्यवस्थाप्येता- 16 विशेषात् । शब्दोऽपि पौगलिकत्वादाकारवानेव । क्रियाऽप्युत्क्षेपणादिरूपा क्रियावतोऽनन्य- वादाकारवत्येव, फलमपि कुलालादिक्रियासाध्यं घटादिकं मृत्पिडादिवस्तुपर्यायरूपत्वादा. कारवदेव अभिधानमपि शब्दस्तस्याकारवत्वमुक्तमेव । तथा द्रव्यात्मकञ्च सर्वमुत्फणावि- फणकुण्डलिताकारसमन्वितमपंवद्विकाररहितस्याविर्भावमात्रपरिणामस्य द्रव्यस्यैव सर्वत्र सर्वदाऽनुभवात् , न ह्यपूर्व किश्चिदुत्पद्यते, छन्नरूपतया विद्यमानम्यैवाविर्भावात्, नाप्या- 20 विभूतं सद्विनश्यति, छन्नरूपतया तिरोभावस्यैवाऽऽसादनात् । तथा चाविर्भावविरोभाव. रूपपरिणाम एव कार्योपचाराद्रव्यस्य चोपचरितकारणत्वेनोत्पादन्ययरहितं निर्विकार . १ मिन्नवस्तुनि भिन्नकाले विद्यमानाना पर्यायाणा तथा वक्तुं शक्यत्वादेकस्मिन्नेव वस्तुन्येककाल- मिति । शक्यत इति, विनिगमनाविरहात्सर्वस्यैव वस्तुत्वं सर्वस्यैवावस्तुत्व वा भवेदिति भाव । चतूरूमा. बिनाभूतस्वे च विनिगमकमाह द्रव्यरुपतयेति । ननु वस्तुधर्मत्वमेव तेषा न मम्भवति कुतो द्रव्यल्पतयेक रूपत्वमित्यत्राह तथेति ॥ २. यदि नाम वस्तुधर्मो न स्यात्तदा घटगले प्रोक्त श्रोतुः किमयमाहेति संशय एव स्यान तु घटप्रतिपत्ति पटप्रतिपत्तिरुपो वा विपर्यय: स्यान्, न जाने क्मिप्यननोकामति- चित्तव्यामोहेम वस्त्वप्रतिपत्तिरूपो वाऽनध्यवसायो भवेत् , कदाचिद्धटस्य कदाचित्परस्य कदाचिच्च स्तम्भादेवा बोध स्थादित्यपि बोध्यम् ॥ ३. एवञ्चोत्पाढव्ययधोव्ययुक्त मत्, गुणपर्यायवाव्यमित्यनयोर्न पौनइत्यम् । भत एवं चान न विरोधोऽन्यथा व्यस्योत्पादव्ययात्मकत्व तद्रहितत्वोफिविरदयेतति ।।

तत्त्वन्यायविभाकरे [ नवमकिरणे द्रव्यमुच्यते । न . च द्रव्यस्यैकस्वभाववे निर्विकारत्वे चानन्तकालभाविनामनन्ताविर्भाव. तिरोभावानामेकहेलयैव कारणत्वं स्यादिति वाच्यम् , अचिन्त्यस्वभावत्वाव्यस्य, सादि- द्रव्येऽवेकस्वभावेष्वपि उत्फणविफणादिपर्यायाणां क्रमप्रवृत्तेरनुभवसिद्धत्वात् । न चोत्फण- चिफणादिबहुरूपत्वात्पूर्वावस्थापरित्यागेनोत्तरावस्थाधिष्ठानादनित्यता द्रव्यस्य स्यादिति वा- 5 च्यम्, वेषान्तरापन्ननटवद्हुरूपस्यापि द्रव्यस्य नित्यत्वात् । यथाहि नायकविदूषककपि राक्षसादिपात्रावसरेषु वेषान्तराण्यापन्नो नटो बहुरूप एवमुत्फणविफणादिभिर्भावैद्रव्यमपि- ब्रहुरूपं तथापि नित्यमेव, स्वयमविकारित्वादाकाशवत् | तथा सर्व भावात्मकम् , परा- परकार्यक्षणसन्तानात्मकस्यैव तस्यानुभवात्, प्रतिक्षणं भवनमेव ह्यनुभूयते, पूर्वक्षणस्य निवृत्तिरपरस्योत्पत्तिरिति । न चोत्पत्तिनिवृत्ती कारणापेक्षिण्यौ, यच्च कारणं तदेव द्रव्यमिति 10 वाच्यम् , निरपेक्षस्यैवोत्पादात् । अपेक्षा हि विद्यमानस्यैव, न च मृत्पिण्डादिकारणकाले घटादिकार्यमस्ति, अविद्यमानस्य चापेक्षायां खरविषाणस्यापि तथाभावप्रसङ्गात् । यदि जोत्पत्तिक्षणात्प्रागपि घटादिस्स्यात्तदा किं मृत्पिण्डापेक्षया, स्वत एव तस्य विद्यमानत्वात् । न चोत्पन्नस्सन् घटादिपिण्डादिकमपेक्षत इति वाच्यम् । मुण्डितशिरसो दिनशुद्धिपर्याः लोचनवदपेक्षावैयर्थ्यात् । ननूत्पद्यमानतावस्थायामसावपेक्षत इति चेन्न, विचारासहत्वात्, 15 वल्पयंसानता हि किमनिष्पन्नावयवता, उत निष्पन्नावयवता, आहोस्विदर्धनिष्पन्नावयवता स्यात् - नाद्योऽनुत्पन्नस्यापेक्षाऽयोगाद्गगनारविन्दवत् । न द्वितीयो निष्पन्नस्य परापेक्षा- वैयात्, नान्त्यो वस्तुनस्सांशताप्रसङ्गात् ।। सांशतायामप्यनिष्पन्नांशः किं कारणमपेक्षते निष्पन्नो.वोमयं वा, नाद्यौ निष्पन्नानिष्पन्नयोरपेक्षाऽसम्भवस्योक्तत्वात् , नान्त्य उभयपक्षो- दीरितदोषसङ्कमात् । तस्मान्मृत्पिण्डागुत्तरकालं भवनमेव घटादेस्तदपेक्षा, कार्यत्वाभिमत- 20 घटादिप्रारभावित्वमेव मृत्पिडादेः कारणत्वं, न पुनस्तत्र व्याप्रियमाणस्वात्, व्यापारस्य व्यापरिवद्भिन्नत्वे तस्य निर्व्यापारत्वप्रसङ्गात् , अभिन्नत्वे व्यापाराभावप्रसङ्गात् । कारण- व्यापारजन्याया अप्युत्पत्तेरुत्पत्तिमतो भेदे उत्पत्तिमतोऽजन्मप्रसङ्गः, तस्मात्पूर्वोचरकाल- भावित्वमात्रेणैवार्य कार्यकारणभावो वस्तूनां लोके प्रसिद्धो न पुनः किञ्चित्केनचिनिवर्तित- मिति न कस्यचिद्भावस्य सम्बन्ध्यपेक्षा, ततो हेत्वन्तरनिरपेक्ष एव सर्वो भावस्समुत्पद्यत 25 .इति-स्थितम् । एवं विनाशोऽप्यहेतुक एव । न च मुद्रादिसव्यपेक्षा एव घटादयो विनाशमा. विशन्तो दृश्यन्ते न निर्हेतुका इति वाच्यम् , विनाशहेतोरयोगात्, विनाशकाले मुद्गरादिना कि घटांविरेव क्रियते कपालादयो वा तुच्छरूपाभावो वा, नाघः कुलालादिसामग्रीत एष तस्योत्पत्तेः ।.न द्वितीयो घटादीनां तादवस्थ्यप्रसङ्गात् । न तृतीयो नीरूपस्य तस्य खर; शृङ्गस्येव कर्तुमशक्यत्वात् । न च तेन घटादिसम्बद्धनाभावो विहितस्तेन घटादेनिवृत्तिरिति - निक्षेपा.] न्यायप्रकाशसमलङ्कृते : ५०९: वाच्यम्, सम्बन्धानुपपत्तेः, किं पूर्व घटः पश्चादभावो वैपरीत्यं वा, उत समकालं जी घटामावौ, नायौ द्विनिष्ठसम्बन्धस्य भिन्नकालयोरसम्भवात् । अन्त्ये घटामावयोर्यदि क्षण- मात्रमपि सहावस्थितिरभ्युपगम्यते तासंसारमसौ स्याद्विशेषाभावात्, तथा च सति घटता- दवस्थ्यप्रसङ्गः । न च घटोपमनाभावो जायतेऽतो घटादिनिवृत्तिरिति वाच्यम् , उपमईस्ये घटादिरूपत्वे तस्य स्खहेतुत एवोत्पत्तेः, कपालादिरूपत्वे तद्भावेऽपि घटतादवस्थ्यप्रसङ्गात् ।। तुच्छाभावरूपत्वे च घटाद्यमावेन घटाद्यमावो जायत इत्युकं स्याचथा च सत्यात्मनैवात्म- भवनानुपपत्तिस्यात् । तस्मान्मुद्रादिमहकारिकारणवसादृश्याद्विसहशः कपालादिक्षणं उत्पद्यते घटादिस्तु क्षणिकत्वेन निर्हेतुकरवरसत एव निवर्तत इत्येतावन्मात्रमेव शोभनमतो हेतुन्यापारनिरपेक्षा एव समुत्पन्ना भाषाः क्षणिकत्वेन स्वरसत एव विनश्यन्ति न हेतुल्या- पारादिति स्थितम् । तस्माजन्मविनाशयोर्न किश्चित्केनचिदपेक्ष्यते, अपेक्षणीयाभावाच' न 10 किञ्चित्कस्यचित्कारणं तथा च सति न किञ्चिद्रव्यं, किन्तु पूर्वापरीभूतापरापरक्षणरूपाः पर्याया एव सन्तीति । एते हि स्वतन्त्रा नामादिनया मिध्यादृष्टयोऽसम्पूर्णार्थवाहित्वाद्गनगात्र- भिन्नदेशसस्पर्शनेन बहुविधविवादमुखरजात्यन्धवृन्दवत् । अनुभवप्रत्यक्षसिद्धन्तु जैनाभ्युपगम- रूपं निःशेषसमूहाभ्युपगमनिवृत्तमनवयं, नामादिनयपरस्परोद्भाविताविद्यमाननिःशेषदोषत्वेन सम्पूर्णार्थयाहित्वात् , चक्षुष्मतां समन्तात्समस्तहस्तिदर्शनजोल्लापवत् । तथा च यत्र शब्दो- 15 लापवुद्धिपरिणामसद्भावस्तत्सर्व नामादिचतुष्पर्यायम्, चतुष्पर्यायत्वामावे शशशृङ्गादौ शब्दा- दिपरिणामाभावदर्शनात्, तस्माच्छब्दादिपरिणाममद्भावे सर्वत्र चतुष्पर्यायत्वं निश्चितमेवा- तोऽन्यसवलितनामादिचतुष्टयात्मन्येव वस्तुनि घटादिशब्दस्य तदमिधायकत्वेन पृथुतुनो- दराद्याकारस्य नामादिचतुष्टयात्मकतया बुद्धस्तदाकारग्रहणरूपतया परिणविस्तात्मन्येव वस्तुनि समुपलब्धा । न चेदं दर्शनं भ्रान्तं बाधकामावात् । नाप्यदृष्टाशंकयाऽनिष्टकल्प- 30 नाऽतिप्रसङ्गात् । नहि - दिनकरास्तमयोदयोपलव्धरात्रिंदिवादिवस्तूनां बाधकम्भावन- याऽन्यथात्वकल्पना सङ्गतिमद्गति । तस्मादेकत्वपरिणत्यापननामादिभेदेष्वेव शब्दादि- परिणतिदर्शनात्सर्व चतुष्पर्याय वस्त्विति स्थितम् । मिन्नखरूपतया च नामादयः खानयभूतवस्तुनः कथविद्भवकारिणः, - एकस्मिन्नपि वस्तुनि चतुर्णा प्रतीयमानस्वात्क- थञ्चिदभेदकारिणश्च । ययाहि केनचिदिन्द्र इत्युचरितेऽन्यः प्राह किमनेन नामेन्द्रो विवक्षितस्थापनेन्द्रो द्रव्येन्द्रो भावेन्द्रो वा, नामेन्द्रोऽपि द्रव्यतः कि गोपालंदी- रको हालिकदारकः क्षत्रियदारको वैश्यदारको ब्राह्मणदारकश्शूद्रदारको वा, क्षेत्रतोऽपि नामेन्द्रः कि भारत ऐरावतो महाविदेहजो वा, कालतोऽपि किमतीतकालसम्मवी वार्तमानिको भविष्यन् वा, अतीतकालसम्मन्यपि किमिशोऽनन्तसमयभावी, असंख्यात- 25 :५१०: तत्त्वन्यायविभाकरे [ नवमकिरणे तमसमयभावी, संख्याततमसमयभावी वेति । भावतोऽपि किं कृष्णवर्णो गौरवर्णो दीर्थो मन्थरो वैत्यादि । तदेवमेकोऽपि नामेन्द्रस्याश्रयभूतोऽर्थस्वावद्रव्यक्षेत्रकालभावाधिष्ठितो- ऽनन्तभेदत्वं प्रतिपद्यते । तथा स्थापनाद्रव्यभावाश्रयस्याप्युक्तानुसारेण प्रत्येकमनन्तभेद- खमनुसरणीयम् । एते च नामादयो भेदकारिणः । एवमेकस्मिन्नपि शचीपत्यादाविन्द्र इति । नाम्नस्तदाकारस्थापनाया उत्तरावस्थाकारणरूपद्रव्यस्य दिव्यरूपसम्पत्तिकुलिशधारणपारमैश्व- प्रोविसम्पन्नत्वलक्षणभावस्य च प्रतीयमानत्वान्नामादिचतुष्टयस्याभेदकारित्वमपि । अत एते नामादयो धर्मा उत्पादव्ययध्रौव्यत्रिकवत्प्रतिवस्तु परस्पराविनोमाविन- इत्यलं चर्चया । अथ नामादिनिक्षेपाणां नयैस्सह योजने शब्दनयैर्भावनिक्षेप एवेष्टः परैरर्थनयैर्नामादयम- त्वारोऽपीष्ठाः । यद्यपि नामादिचतुष्टयस्याप्यभ्युपगमे नैगमादीनां द्रव्यार्थिकत्वक्षतिः 10 द्रव्यार्थिकेन द्रव्यस्यैवाभ्युपगमात् पर्यायस्य प्रतिक्षेपाच । द्रव्यपर्याययोर्गुणप्रधानभावेन तेनाभ्युपगमाद्भावनिक्षेपसह एवेति चेत्तदा शब्दनयानामपि द्रध्यनिक्षेपसहत्वं स्यात्तथापि नैगममेदानामविशुद्धानां नामाघभ्युपगमप्रवणत्वेऽपि विशुद्धनगमभेदस्य द्रव्यविशेषणतया पर्यायाभ्युपगन्तृत्वान्न भावनिक्षेपानुपपत्तिर्न चैतावता तस्य पर्यायार्थिकत्वप्रसक्तिरितरा- विशेषणत्वरूपप्राधान्येन पर्यायानभ्युपगमात् । शब्दादीनां पर्यायार्थिंकानान्तु नैगमबद- 15 विशुद्धयभावान नामाद्यभ्युपगन्तृत्वमिति । सङ्ग्रह सूत्रयोरपि विषयविशेषे शुद्धपर्याय- विशिष्टद्रव्यविषयीकरणात् भावनिक्षेपसहत्वम् । ऋजुसूत्रो नामभावनिक्षेपावेवेच्छतीत्यन्ये, वन्न, तेन द्रव्याभ्युपगमस्य सूत्राभिहितत्वात् । पृथक्त्वाभ्युपगमस्यैव निषेधात् । सङ्ग्रह- व्यन्नहारौ स्थापनावर्जास्त्रीनिक्षेपानिच्छत इति केचित्तदपि न, नैगमो हि सङ्ग्रहाभिमतसामा- न्यवादी व्यवहायमिमतविशेषवादी, तदुभयवादी, च, तथा च सङ्ग्रहस्य स्थापनास्वीकनै- 90 गमसमानत्वेन कथं स्थापनानभ्युपगन्तृत्वम् । न च व्यवहाराभिमतस्वीकर्तृनैगम एव स्थापनाभ्युपगन्ता न सामान्यवादी नैगमोऽतस्सङ्ग्रहो न स्थापनामिच्छतीति वाच्यम्, तथा सति व्यवहारस्य स्थापनाभ्युपगन्तृत्वं स्यात् । अथोभयविषयक एव नैगमस्थापनाविष- यको नातम्सनव्यवहारयोस्स्थापनाविषयकत्वमिति चेत्सुतरां वत्प्राप्तिरेव, एकतरनिक्षे- पयोस्साहन्यवहारयोः प्रत्येकं स्थापनानभ्युपगमेऽपि समुदितयों गमरूपत्वेन तेन तद- 25 भ्युपगमे तयोरप्यभ्युपगमस्य दुर्वारत्वात् । स्थापनासामान्य सङ्ग्रह इच्छति, स्थापनाविशे- षांस्तु व्यवहार इत्येतदेव युक्तम्, अनिच्छा तु सर्वथा नैव युक्तति । न च सहनये स्थापना - १. पाश्चात्यनयाद्विशेषोपयोगेन विशेषमनुभवताऽन्त्यनेगमेन शुद्धपर्यायविशिष्टं द्रव्यं विषयीक्रियत इति भाव । न तु स्वविषयविशुद्धिकृतपर्यायविषयताशालिवाद्भावनिक्षेपसहत्वमेषाम् , सङ्घहर्जुस्खयोरव्याः, तज्जातीयेऽत्रिशुद्धधभावेनोपसर्जनीकृतपर्यायविषयतया तच्छोधनस्य दुस्साध्यत्वादिति ॥

वाद:- न्यायप्रकाशसमलट्टते नेष्टा, नामनिक्षेपेणैव स्थापनायास्सङ्ग्रहात्, व्यापकं हि नाम व्याप्यभूतां स्थापना सहा- त्येव, इन्द्रचित्रस्येन्द्रनामकपिण्डवन्नामेन्द्रत्व स्यादविशेषात् पदप्रतिकृतिभ्यां नाम्नो वैवि- ध्यादिति वाच्यम् , द्रव्यनिक्षेपस्यापि नाम्ना सङ्ग्रहप्रसः । न च भावप्रवृत्प्रियोजकस- बन्धभेदेन तयोर्मेदा, द्रव्यं हि परिणामितया भावे सम्बद्धं नाम च वाचकत्वेनेति वाच्यम्, गोपालदारके नामेन्द्र नियामकस्य दुर्वचत्वाद्भावावाचकत्वादिति । ततश्च सिद्ध-5 मृजुसूत्रान्तास्सर्वे नयाश्चतुरो निक्षेपानभिलषन्तीति सिद्धान्तवादिनः । सहव्यवहारी नामादित्रयं ऋजुसूत्रादयश्चत्वारो भावमिच्छन्ति, नैगमस्तु साहे व्यवहारेऽन्तर्गत इति सिद्धसेनदिवाकरसूरयः ॥ अवसित नयनिरूपणमित्याहेतीति ।। इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर चरणनलिनविन्यस्तभक्तिमरेण तत्पधरेण विजयलधिसूरिणा विनिर्मितस्य तत्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां नयनिरूपणं नाम नवम. किरण 10 . अथ दशमः किरणः॥ ननु व्यवस्थापितं प्रमाणनयतत्त्वं, परन्त्वनयोः प्रयोगः क कार्य इत्याशङ्कायां वस्तु- निर्णयायोपक्रान्ते बाद एवेति विभावयन् वादस्वरूपमाविष्करोति- स्वपरपक्षसाधनदूषणविषय तत्त्वनिर्णयविजयान्यतरप्रयोजनं वचनं वाद: ।। 15 स्वपरेति | वादिनः प्रतिवादिनो वा स्वपक्षसिद्धये यरसाधनं परपक्षविषयकत्र यषणं तद्विषयकं वचनं वादिप्रतिवादिनोर्वाद उच्यते । तस्य किं प्रयोजनमित्यत्राह तत्व- निर्णयविजयान्यतरप्रयोजनमिति | साधुजनहृदयपयोजविराजमानतत्त्वानां निश्चयस्त द्वारा 20 विजयो-वा प्रयोजनं यस्य ताशमित्यर्थः । वादिनः प्रतिवादिनो वा स्वपक्षम्य सिद्धिर्नया, तदसिद्धिश्च पराजयः । विज्ञावप्रमाणतदाभासस्वरूपेण वादिना सम्यक्प्रमाणे स्वपक्षसाध. नायोपन्यस्तेऽविज्ञावतत्स्वरूपेण वा वादिना प्रमाणाभास उपन्यस्ते प्रतिवादिनाऽनिश्चितत- स्वरूपेण दुष्टवया सम्यक्प्रमाणेऽपि तदामासतायां निश्चिततत्स्वरूपेण वा प्रमाणाभासे- तदाभासतायामुद्भावितायां वादिनः प्रतिवादिनो वा प्रमाणसदाभासौ परिहतापरिहतदोषी- 25 साधनदूषणे भवतः, ते च जयेतरव्यवस्थाया निबन्धने स्यातामिति जयपराजयावपि वादस्य फले । तथा वपक्षे साधनमब्रुवन्नपि प्रतिवादी वादिसाधनस्याभासतामुद्भावयन् - - तरवल्यायविमाकरे, [दामाकरण वादिनो जयति । आभासतोद्भावनयैव स्वपक्षे साधनस्योक्तत्वात् , पराजयोऽपि सम्यक्सा. धने परोक्तदूषणानुद्धरणादपि भवतीति भावः ।। साधनदूषणात्मकं वचनं कीहक् स्यादित्यत्राह- साधनात्मकं दूषणात्मकञ्च वचनं स्वस्वाभिप्रेतप्रमाणरूपमेव स्यात् 5 तदन्यस्य प्रमाणाभासत्वानिर्णायकत्वानुपपत्तेः ।। साधनात्मकमिति। स्वपक्षविषयसाधनपरपक्षविषयदूषणवचने प्रमाणरूपे एव स्याता- मिति भावः । अन्यथात्वे दोषमाह तदन्यस्येति, प्रमाणान्यस्य वचनस्येत्यर्थः । निर्णायक- स्वानुपपत्तेरिति, प्रमाणस्यैव वस्तुनिर्णायकत्वादिति भावः । ननु यस्मिन्नेव धर्मिण्येकतरध- मनिरासेन तदन्यधर्मव्यवस्थापनाय वादिनस्साधनवचनं भवति तत्रैव प्रतिवादिनस्तद्विप- 10 रीतं कथं दूषणवचनं स्याद्व्याघातादित्याशङ्कायामुक्तं स्वस्वाभिप्रेतेति विशेषणं प्रमाणस्य, सर च स्वस्वामिप्रायानुसारेण प्ररूपिते साधनदूषणवचने विरोधाभावः । वादी हि पूर्व स्वाभि- प्रायेण साधनं वक्ति ततः प्रतिवाद्यपि स्वाभिप्रायेण दूषणमुद्रावयति, न खल्वत्र साधन दूषणब्लैकत्र धर्मिणि तात्त्विकमस्तीति विवक्षितमपि तु निजामिप्रायानुसारेण वादिप्रतिवादिनी प्रयुमाते इति भावः॥ ननु दर्शनान्तरे वादजल्पवितण्डारूपेण कथायात्रैविध्योक्तेः कथं वाद एक 'एवोक्त इत्यत्राह- जल्पवितण्डयोस्तु न कथान्तरत्वं वादेनैव चरितार्थत्वात् ॥ जल्पेति । दर्शनान्तरे हि प्रमाणतर्कसाधनोपालम्भस्सिद्धान्ताविरुद्धः पश्चावयवोपपन्ना पक्षप्रतिपक्षपरिग्रहों बादः, ' यथोक्कोपपन्नच्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पा, स 50 प्रतिपक्षस्थापनाहीनो वितण्डेति तल्लक्षणान्यभिहितानि । तत्र जल्पस्य न कथान्तरत्वं वादेनैव चरितार्थत्वात् । न च जल्पे छलजातिप्रयोगस्यानुज्ञानात् वादे चासदुत्तरत्वेन तस्याभावान्न तेन चरितार्थत्वं जल्पस्येति वाच्यम् | असदुत्तरैः परप्रतिक्षेपस्य कर्तुमशक्य- स्वात्, नहन्यायेनं जयं यशोधनं वा महात्मानस्समीहन्ते । अथ प्रबलप्रतिवादिदर्शना- तनये धर्मध्वंससम्भावनातः प्रतिभाक्षयेण सम्यगुत्तरस्याप्रतिभासौदरादुत्तराण्यप्यवाकि- * रत्नेकान्तपराजयावर सन्देह इति धिया न दोषमावहतीति चेन, अस्यापवादिकस्य जात्या- युचरप्रयोगस्य कथान्तरसमर्थनसामर्थ्याभावाद्वादतोऽविशेषात् । द्रव्यक्षेत्रकालभावानुसारेण हि यद्यसदुत्तरं कथञ्चन प्रयुञ्जीव किमेतावना कथान्तरं प्रसज्येत । न च निग्रहस्थानानामप्यत्र 16 न्यायप्रकाशसमलते प्रयोगाद्विशेष इति वाच्यम् । वादेऽपि तदभ्युपगमात् , वादलक्षणे हि सिद्धान्तावि- रुद्ध इत्यनेनापसिद्धान्तस्य पचावयवोपपन्न इत्यनेन न्यूनाधिकत्वयोर्हेत्वाभासपञ्चकस्य निग्रहस्थानाष्टकस्य तदुपलक्षणेनापरनिग्रहस्थानानाञ्च परेण स्वीकारात् । प्रतिपक्षस्थाप- नाहीनाया वितण्डायास्तु कथात्वमयुक्तमेव । वैतण्डिको हि स्वपक्षमभ्युपगम्यास्थापयन् यत्किचिद्वादेन परपक्षमेव दूषयन् कथमवधेयवचनो भवेदिति । तस्माजल्पवितण्डानिराक- 5 रणेन वाद एवैककथात्वं लभत इति स्थितम् ।। अङ्गनियमभेदप्रदर्शनार्थ वादे प्रारम्भकविशेषमाह- कथारम्भकस्तु जिगीषुस्तत्त्वनिर्णिनीषुश्च ॥ कथारम्भकस्त्विति । कचिजिगीषुः प्रथम बादमारभते, कचिञ्च तत्त्वनिर्णिनीषुः । तथा प्रतिवादिन्येकस्मिन्नपि प्रौढे बहवोऽपि सम्भूय विवदेरन् जिगीषवः, पर्यनुयुञ्जीरंश्च 10 तत्त्वनिर्णिनीषवः । स च प्रौढतयैव तान तावतोऽप्यभ्युपैति प्रत्याख्याति तत्वश्वाचष्टे । कचिदेकमपि तत्त्वनिर्णिनीषु बहवोऽपि प्रतिबोधयेयुः । अत एव तत्वनिश्चयसंरक्षणं जल्प- वितण्ठयोरेव फलं, वादस्य तु तत्त्वनिर्णय एव, तत्र निगीपोरनधिकारादिवि प्रत्युक्तम् । वादस्याविजिगीषुविषयत्वासिद्ध, वादो नाविजिगीपुविषयो निग्रहस्थानवत्त्वात् जल्पवित- ण्डावदित्यनुमानाच । न च वादे सतामप्येषां निग्रहबुद्धयाऽनुद्भावनान विजिगीषाऽस्ति, 15 किन्तु तत्र निवारणवुद्ध्यैवोद्भावनमिति वाच्यम् जल्पवितण्डयोरपि तथोद्भावननियमन- सङ्गात् । तत्त्वाव्यवसायसंरक्षणस्य छलनातिनिग्रहस्थानैर्वस्तुतः कर्तुमशक्यत्वाचेति ।। अथ कोऽसौ जिगीपुस्तत्त्वनिर्णिनीपुश्चेत्यत्राह- १. बक्त्राऽभिप्रायेण प्रयुक्तस्य शब्दस्याभिप्रायान्तरकल्पनया तनिषेवनं छलम् । यथा नवकम्बलोऽयमिति नूतनकम्वलामिप्रायेणोके पर. कुतोऽस्य नव कम्बलाः, दृश्यते स एवेति प्रत्यक्षविरोधमुद्भावयति, एवमेवान्यत्रापि भाव्यम् । वादिना सम्पग्धेतौ हेत्वाभासे वा प्रयुक्त झटिति तहोपतत्त्वाप्रतिभासे हेतुप्रति- बिम्बनप्राय साययंतो वैधयेतो वा यदि प्रयुक्त किमपि स जाति., यथाऽनित्यदशन्दः कृतकत्वाइटवदिति प्रयोगे कूते साधणैव प्रत्यवस्थानं यथा नित्यशब्दो निरवयवत्वादाकाशवदिति, न चास्ति विशेपहेतुर्घट- साधात्छतकत्वादनिलश्शब्दो न पुनराकाशसायानिरवयवत्वात्स नित्य इति । तत्रैव वैधयण प्रसव- स्थानं यया तत्रैव प्रतिहेतुबंधण प्रयुज्यते अनित्य हि सावयवं दृष्ट यथा घटादीति, न चास्ति विशेपहे. तुर्घटसापात् कृतकत्वादनित्यशब्दो न पुनस्तद्वधाभिषयवत्वानिलमितीति । वादकाले वादी प्रतिवादी वा येन निगृह्यते वनिग्रहस्थानं, हेत्वामासादिबहुविचं, गौरवात्तमात्र प्रदर्श्यते, अन्यत्र विलोकनीयमिति ।

तस्वन्यायविभाकरे- [परामकिरणे अङ्गीकृतधर्मसाधनाय साधनदूषणवचनैर्विजयमिच्छुर्जिगीषुः । स्वी- कृतधर्मस्थापनाय साधनदूषणवचनैस्तत्त्वसंस्थापनेच्छुस्तत्त्वनिर्णिनीषुः ॥ अङ्गीकृतेति । अङ्गीकृतो यो धर्मः कथञ्चिन्नित्यत्वादिस्तस्य साधनाय व्यवस्थापयितुं तत्साधनं कत्तुं पंरपक्षं दूषयितुश्च प्रवृत्तः स्वविजयं परपराजयश्वेच्छुर्जिगीषुरित्यर्थः । परपरा- 5 जयमन्तरेण स्वविजयासम्भवादिति भावः । तत्वनिर्णिनीषुमाह स्वीकृतेति, शास्त्रेणेति शेषः, परस्मिन् स्वस्मिन् वा कथञ्चिन्नित्यत्वादिव्यवस्थापनार्थ साधनदूषणवचननिचयैः कथञ्चि- नित्यत्वादिलक्षणतत्त्वप्रतिष्ठाकाम इत्यर्थः ।। " . अस्य प्रकारान् प्रकाशयति- अयं स्वस्य सन्देहादिसम्भवे स्वात्मनि तत्त्वनिर्णयं यदेच्छति तदा 10 स्वात्मनि तत्त्वनिर्णिनीषुर्भवति । परानुग्रहार्थं परस्मिन् तत्त्वनिर्णय यदेच्छति तदा परात्मनि तत्त्वनिर्णिनीषुर्भवति ।। अयमिति । तत्त्वनिर्णिनीपुरित्यर्थः, तत्वनिर्णयः खस्य परस्य च भवति, यदा स्वस्थ सन्देहादिसम्भवस्तत्परिहारेच्छा च भवति तदा स स्वात्मनि तत्त्वनिर्णयाभिलाषुकत्वात्स्वात्मनि तत्त्वनिर्णिनीषुरित्युच्यते । यस्तु परानुग्रहकप्रवणः परस्य तत्वं प्राहयितुमिच्छति तदासौ 15 परात्मनि तत्त्वनिर्णिनीषुरित्युच्यते इत्याशयेनाह स्वस्येत्यादिना, सष्टमन्यत् । ननु परत्र तत्त्व- निर्णिनीषुणा परस्मिन् निर्णय उत्पादिते सभ्यैस्तस्य जयघोषस्य क्रियमाणत्वात्तस्य जिगीषुता प्राप्तेति जिगीषोरस्य कथं भेद इति चेन्न, तदनिच्छातस्तस्य परोद्घोषमात्रेण तदमिलापुकत्वा- सम्भवात् । न च तबसौ नाश्नुते जयमिति वाच्यम्, जयिनोऽपि तदभिलाषाभावात् । अनिष्टानामप्यनुकूलप्रतिकूलदेवोपकल्पितानां फलानां जनैरुपभुज्यमानतयाऽत्रलोकनात् । 90 तथा च परत्र तत्त्वनिर्णिनीपोः परस्य तत्त्वाववोधनं मुख्य फलमानुषङ्गिकन्तु जय इति । स्वात्मनि तन्वनिर्णिनीषुश्शिष्यसब्रह्मचारिसुहृदादयः । परस्मिन् तत्त्वनिर्णिनीषुश्व गुर्वादिः । अयं ज्ञानावरणीयकर्मणः क्षयोपशमात्स- मुत्पन्नमत्यादिज्ञानवान् केवलज्ञानवान् वा भवति । स्वात्मनि तत्त्वनि- र्णिनीषुस्तु क्षायोपशमिकज्ञानवानेव, जिगीषुरप्येवमेव ॥ स्वात्मनीति । शिष्यः शिक्षणायोपाध्यायस्योपासको ग्रहणधारणपटुः, सदाऽऽज्ञावि: धायी सम्यग्विनयपरिपालकः । सब्रह्मचारी सतीर्थ्यः, सुहृन्मित्रम् । परस्मिन् तत्त्वनिर्णि- नीषुमाह परस्मिन्निति, गुर्वादिरिति, सम्यग्ज्ञानक्रियायुक्तस्सम्यग्धर्मशास्त्रार्थदेशकः 'धर्मज्ञो । 25 वादः] । न्यायप्रकाशसमलङ्कृते :५१५: धर्मका च सदा धर्मपरायणः । सत्त्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते' इविलक्षण- लक्षितः, आदिना सब्रह्मचारिसुहृदादीनां ग्रहणम् , यथाक्रमेण वादिप्रतिवादिनावत्रांवसेयौ। परत्र तत्त्वनिर्णिनीपोर्मेंदमाहायमिति, परत्र तत्त्वनिर्णिनीपुरित्यर्थः । ज्ञानावरणीयेति, ज्ञानावरणीयकर्मविशेषप्रतियोगिकक्षयोपशमाविर्भूतव्यस्तसमस्तान्यतरमतिश्रुतावधिमनःपर्य- वरूपज्ञानवानेका, ज्ञानावरणकर्मसामान्यप्रतियोगिकक्षयाविर्भूतकेवलज्ञानवानपर इति 5 द्विभेदो भाव्यः । समस्तपदार्थतत्त्वज्ञानशालिनः केवलिनस्वात्मनि तत्त्वनिर्णयेच्छाया जयेच्छाया वा सुतरामसम्भवेन परिशेपात् स्वात्मनि तत्वनिर्णिनीपुर्विजिगीषुश्च क्षायोप- शमिकज्ञानवानेव भवतीत्याशयेनाह स्वात्मनीति, एवमेव क्षायोपशमिकज्ञानवानेव, वीत. रागत्वेन केवलिनो जयेच्छाया अभावादिति भावः ।। नन्वेचं सत्यारम्भकः कतिविधस्सम्पन्न इत्यत्राह- - 10 . तथा चारम्भको जिगीषुः, स्वात्मनि तत्त्वनिर्णिनीषुः क्षायोपशमिक- ज्ञानवान् केवली चेति चतुर्विधस्सम्पन्नः । एवं प्रत्यारम्भकोपि ॥ तथा चेति । क्षायोपशमिकज्ञानवानित्यनेन परन तत्त्वनिर्णिनीषुः केवलिमिन्नो ग्राह्या, स्पष्टमन्यत् । आरम्भकप्रत्यारम्भकयोहस्तिप्रतिहस्तिन्यायेन प्रसिद्धेर्यावन्त आरम्भकास्ताव- न्त एव प्रत्यारम्भका इत्याशयेनाहैवमिति, आरम्भकवदेवेत्यर्थः, तथा चायमपि चतुर्विध 15 इति भावः ॥ वादोऽयं चतुरङ्गोऽपि भवति, तत्रैकस्याप्यङ्गस्य वैधुर्य कथावानुपपत्तेः वादिप्रतिवा- धपेक्षयाऽङ्गनयत्यात्, न हि वर्णाश्रमपालनक्षम न्यायान्यायव्यवस्थापकं पक्षप्रतिपक्षरहि- तत्वेन समदृष्टिं सभापति वक्ष्यमाणलक्षणान् प्रानिकांश्च बिना वादिप्रतिवादिनौ स्वाभि- मतसाधनदूपणसरणिमाराधयितुं क्षमी, नापि दु:शिक्षितकुतर्कलेशवालिशजनविप्लावितो 20 गतानुगतिको जनस्सन्मार्ग प्रतिपद्येत, तस्मात्कयोः कयोदे वादिप्रतिवादिसभ्यसमाप- तिरूपेषु वक्ष्यमाणलक्षणेषु चतुरजेपु कत्यङ्गान्यवश्यमपेक्षितानीत्येतद्दर्शयति- यदोभावपि जिंगीपू, जिगीषुक्षायोपशमिकज्ञानिनौ, जिगीषुकेव- लिनौ वा वादिप्रतिवादिनौ भवतस्तदा वाविप्रतिवादिसभ्यसभापति- रूपाणि चत्वार्यङ्गान्यपेक्षितानि ॥ यदेति । उभावपीति, आरम्भकप्रत्यारम्भकावुभावपीत्यर्थः, जिगीपू इति, वादिप्रति- वादिनौ भवत इत्यग्रेतनेन सम्बद्ध्यते । जिगीपुक्षायोपशमिकेति, क्षायोपशमिकज्ञानी हि 25 तत्त्वन्यायविभाकरे [ दशमकिरणे जिगीषुः, स्वात्मनि तत्त्वनिर्णिनीपुः, परत्र तत्त्वनिर्णिनीषुश्च । तत्र जिगीषोः प्रत्यारम्भक- तया. यदोभावपि जिगीषू इत्यनेनोक्तत्वात् , जिगीषोः स्वात्मनि तत्वनिर्णिनीषोश्च वादि- प्रतिवादित्वासम्भवेन च परत्र तत्वनिर्णिनीपुरेवान क्षायोपशमिकज्ञानिपदेन विवक्षितः । चत्वार्यान्यपेक्षितानीति, वादिप्रतिवाद्यभावे हि वाद एवानुत्थानोपहतो जयपराजयौ तु दूर 5 इति ताववश्यं सिद्धावेव, उभावपि यदि जिगीपू स्यानां तदा परस्परं जयपराजयव्यवस्था- विलोपकारिशाध्यकलहादिसम्भवात्परागद्वयं विवक्षितमेव, क्षायोपशमिकज्ञानी केवली वा यदा प्रत्यारम्भकस्तदापि जिगीषोविनश्शाठ्यकलहायपोहनाय लाभादिहेतवे तदपेक्ष्यत एवेति भावः ॥ स्वात्मनि तत्वनिर्णिनीपुरारम्भका क्षायोपशमिकज्ञानी तृतीयः प्रत्यारम्मकसदा 10 तत्रागनियममाह- यदा स्वात्मनि तत्त्वनिर्णिनीपुर्वादी प्रतिवादी च परत्र तत्वनिर्णिनीषुः क्षायोपशमिकज्ञानवान् तदा समर्थश्चेत्पतिवादी वादिप्रतिवादिरूपाङ्ग- द्वयमेवापेक्षितम् । असमर्थश्वेत्सभ्येन सहाङ्गत्रयमपेक्षितम्, केवली चेत्पतिवादी तदाङ्गद्वयमेव ॥ .यदेति । समर्थश्चेदिति, जयपराजयनिरपेक्षो वादिनो विवक्षिततत्त्वावबोधनपटुश्चे- दित्यर्थः । अङ्गद्वयमेवेति, अनुपयोगेन सभ्यसभापत्यात्मकाङ्गद्वयाऽनावश्यकत्वात् न ह्यनयो- स्स्वपरोपकारायैव प्रवृत्तयोशाठ्यलाभादिकामनासम्भव इति भावः । यदा पुनरुत्ताम्यतापि प्रतिपादिना कथञ्चिदपि तत्त्वनिर्णय कत्तुं न पार्यते तदा तन्निर्णयार्थमुभाभ्यामपि सभ्या- नामपेक्षितत्वेन कलहलाभाधनभिप्रायेण च सभापतेरनपेक्षणीयत्वाचदाऽङ्गत्रयमेवापेक्षित- 20 मित्याहासमर्थश्चेदिति । केवली चेत्प्रतिवादी तदा कथमनियम इत्यत्राह केवली चेदिति । प्रतिवादिनस्तत्त्वनिर्णयासामर्थ्यासम्भवेन तदर्थ सभ्यानपेक्षणात्, उभयोः कलहाद्यभिप्राया- भावेन च सभापतेरप्यनपेक्षणादिति भावः ॥ ननु वादी क्षायोपशमिकज्ञानी परत्र तत्त्वनिर्णिनीषुः प्रतिवादी च जिगीषुरन्ये वा प्रति- पादिनस्तदाङ्गनियमनाय पाह- 25 यदाक्षायोपशमिकज्ञानवान् परत्र तत्त्वनिर्णिनीपुर्वादी प्रतिवादी च जिगीषुस्तदा चत्वार्यङ्गानि, स्वात्मनि तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञा- नवान् परत्र तत्त्वनिर्णिनीपुर्वा प्रतिवादी तदाऽसमर्थत्वेऽङ्गात्रयं समर्थत्वे 16 - - वादः] न्यायप्रकाशसमलङ्कृते चाङ्गद्वयम् । केवली चेत्पतिवादी तदाङ्गद्वयमपेक्षितम् । यदा तु केवली चादी जिगीषुश्च प्रतिवादी तदा चत्वार्याङ्गानि, स्वात्मनि तत्त्वनिर्णि- नीषुः क्षायोपशमिकज्ञानवान वा प्रतिवादी तदाङ्गाद्वयमेवापेक्षितम् ॥ यदेति । चत्वार्यानीति, कलहादिसम्भवात् लाभेच्छासम्भवाच्च सभासदस्सभापति- श्वापेक्षित इति भावः । यदा प्रतिवादी स्वात्मनि तत्त्वनिर्णिनीपुः परत्र तत्त्वनिर्णिनीपुर्वी 5 तदाङ्गनियम सामर्थ्यासामर्थ्यप्रयुक्तमाह स्वात्मनीति । प्रतिवादी केवली चेत्तदाह केवलीति । ननु परत्र तत्त्वनिर्णिनीपोर्यादिनः केवलिना कथं वादः परस्य केवलिनस्समापदार्थपरमार्थ- दर्शित्वादिति चेत्सत्यम् , असीममहिममोहहतत्वातादिन आत्मानं निर्णीततत्त्वमिव मन्यमा- नस्य केवलिन्यपि तत्त्वनिर्णयोपजननार्थ प्रवृत्तः, परमकृपापीयूषपूरपरिपूरितान्त:करणत्वेन केवलिनस्तस्यापि बोधकत्वात् । केवलिनो वादित्वे जिगीषोः स्वात्मनि तत्त्वनिर्णिनीपो: 10 परत्र तत्त्वनिर्णिनीपोळ प्रतिवादित्वेऽगनियममाह यदा विति, केवलिनो वादित्वं परोप- कारैकप्रवणत्वाद्विज्ञेयम् । शेपं मूलमुत्तानार्थम् ॥ - बादः केषां न भवतीत्यत्राह- - 20 जिगीषुस्वात्मतत्त्वनिर्णिनीष्वोः, स्वात्मतत्वनिर्णिनीषुजिगीष्यो, स्वात्मतत्त्वनिर्णिनीष्वोरुभयोरुभयोश्च केवलिनोर्वाविप्रतिवादिभावास- 15 म्भवान्न वादः प्रवर्तते ॥ जिगीविति । उभयोरिति, स्वात्मनि तत्त्वनिर्णिनीयोः स्वस्मिन् तत्त्वनिर्णयाभावेन परावयोधार्थ प्रवृत्तेरसम्भवान्न वादित्वं प्रतिवादित्वं वाऽनुत इति भावः । उभयोश्चेति, परोपकारिणः केवलिनः परत्र तत्त्वनिर्णिनीपायास्सम्भवेऽपि केवलकलावलोकितसकलवस्तु- तया कृतकृत्ये केवलिनि विषये न सा समुदेतीति तयोर्न वादिप्रतिवादित्वमिति भावः ।। अथ प्रत्येकमहानि निरूपयितुमारभते- प्रथमं वादारम्भको वादी, तदनु तद्विरुद्धारम्भका प्रतिवादी, एतौ स्वपरपक्षस्थापनप्रतिषेधौ प्रमाणतः कुयाताम् ॥ प्रथममिति । चतुरङ्गेण व्यङ्गेण व्यङ्गेन वा समलङ्तायां परिषदि यनादौ वाद आर- भ्यते स वादीत्यर्थः । वदन्धिति, यश्च तत्पश्चाद्वादिनो वादमनुवदन्नननुवदन वा तदुक्तपक्षे 25 तद्विरुद्धं प्रमाणप्रतिपन्नं दूषणं समुद्रावयति स प्रतिवादी प्रत्यारम्मक इत्यर्थः । उभयोः तत्वन्यायविमाकरे [दशमकिरणे 10 कृत्यमाहेताविति, वादिप्रतिवादिनावित्या, वादिना हि निर्जपक्षस्थापनं परपक्षनिषेध- नश्च तत्त्वनिर्णयान्यथानुपपत्त्या विधेयं तदपि स्वामिमतात्प्रमाणादेव, एवं प्रतिवादिनापि कार्यम् । कचिदेवप्रयत्नेनापि स्वपक्षस्थापनपरपक्षप्रतिक्षेपौ भवत इति सूचनाय समा. सनिर्देशः । यदा हि वादिनिरूपणेऽवसिते प्रतिवादी वदति तदा वाद्यमिधानं प्रमाणोपका- 5. नत्वात् स्वपक्षस्थापनरूपमेव परपक्षप्रतिक्षेपः, यदा तु वादिप्रतिवचने विरुद्धत्वादिकमुद्भा- वयेत्तवा परपक्षप्रतिक्षेप एव स्वपक्षसिद्धिरित्येवं प्रतिवाद्यभिधानेऽपि भाव्यम् ॥ • अर्थ सभ्यलक्षणमाचष्टे- : उभयसिद्धान्तपरिज्ञाता धारणावान् बहुश्रुतः स्फूर्तिमान् क्षमी मध्यस्था सभ्यः । वादोऽयं त्रिभिस्सभ्यैरन्यूनो भवेत् ॥ - उभयसिद्धान्तपरिज्ञातेति । वादिप्रतिवादिसिद्धान्ततत्त्वकुशल इत्यर्थः, न चैतबहु- श्रुतत्वे सत्यवश्यम्भावि, तस्यान्यथापि भावात् ।' सभ्यानामुमयसिद्धान्तपरिक्षातृत्वाभावे व वादिप्रतिवादिप्रतिपादितसाधनदूषणेषु सिद्धान्तसिद्धत्वादिगुणानामवधारयितुमशक्यता स्या- दिति भावः | धारणावानिति, उभयसिद्धान्तवेतृत्वेऽपि विना धारणां स्वावसरे न गुण- दोषावबोधकत्वमतस्साप्यपेक्षितेति भावः । कचिद्वादिप्रतिवादिभ्यां स्वप्रौढिमप्रकटनाया- 15 मसिद्धान्तानमिहितयोरपि व्याकरणादिप्रसिद्धयोः प्रसङ्गतः प्रयुक्तोद्भावितयोर्गुणदोषयो। परिज्ञानार्थ बहुश्रुत इति । स्फूर्तिमानिति, ताभ्यामेव खप्रतिमयोत्प्रेक्षितयोखचद्गुणदोषयो- निर्णयार्थ स्फूर्तेरपेक्षणमिति भावः । वादिप्रतिवाद्यन्तरस्मिन् सभ्यर्दोषे निर्णीते कदाचिदन्यत- रेण परुषेऽमिहितेऽपि वैर्निष्कोपैर्भवितव्यमन्यथा तत्त्वावगमव्याघातप्रसङ्गस्स्यादत- उक्त क्षमीति ।' तस्ववेदिनोऽपि पक्षपातेन गुणदोषौ विपरीतावपि प्रतिपादयेयुरिति मध्यस्थ 20 इति । वादे प्रायिक सभ्यसंख्यानियममाह-वादोऽयमिति, उपलक्षणमिदम् , तेन त्रिचतुरा- दीनामेषामलाम एकोऽपि सभ्यो भवितुमर्हतीति सूचितम् ।। विधेयमेषामादर्शयति- सौरेतैर्यथायोग वाविप्रतिवादिनोः प्रतिनियतवादस्थाननियमनं कथाविशेषनियमनं पूर्वोत्तरवादनिर्देशस्तद्वचनगुणदोषावधारणं तत्त्व 25 प्रकाशनेन यथासमय वादविरामः जयपराजयप्रकाशनश्च कार्यम् । सम्यैरेतैरिति । निरुक्तलक्षणैरसभासद्भिरित्यर्थः । यथायोगमिति, वादिप्रतिवादिनी, यदा स्वीकृतप्रतिनियनवादस्थानकतयोपस्थितौ भवतस्तदा तयोः प्रतिनियतवादस्थाननियमन- . - . 10 बाद : न्यायप्रकाशसमलवृत्त करणमित्यर्थः । कथाविशेपनियमनमिति, सर्वानुवादेन दूष्यानुवादेन वर्गपरिहारेण वापत व्यमित्यादिरूपेण कथाविशेपस्य नियमनमिति भावः । पूर्वोत्तरेति, अस्य प्राथमिकों वादा, -अस्योत्तरवाद इत्येवं वादनिर्देश इति भावः। तद्वचनेति, वादिप्रतिवादिभ्यामभिहितयोः साधक- याधकयोर्गुणस्य दोपस्य च निश्चयीकरणमिति भावः । तत्वप्रकाशनेनेति, यदैकतरेण प्रतिः पादितमपि तत्त्वं मोहादभिनिवेशाद्वाऽन्यतरोऽनङ्गीकुर्वाणः कथायां न विरमति, यदा वा 5 द्वावपि तत्त्वपराइमुखमुदीरयन्तौ न विरमतस्तदा तयोस्तत्त्वप्रकाशनेन कथातो वहिष्करण- मिति भावः। जयपराजयेति, कथाफलस्य यथायोगं जयपराजयरूपस्योद्घोषणमित्यर्थः ।। अथ सभापतिस्वरूपं दर्शयति- प्रज्ञाऽऽज्ञासम्पत्तिसमताक्षमालङ्कृत्तः सभापतिः ॥ प्रक्षेति | समापतेरपाजत्वे कचिद्वादिना प्रतिवादिना वा जिगीषुणा शाठ्यात्सभ्योन् प्रत्यपि विप्रतिपत्तौ विधीयमानायां तत्समयोचितकार्यकर्तृत्वं न स्यादिति तेन प्रज्ञालङ्कतेन भाव्यमिति भावः । स्वाधिष्ठितवसुन्धरायामस्फुरिताश्वयों विवादं न व्यपोहितुमुत्सहत इति आनासम्पत्त्यलङ्कत इत्युक्तम् । कृतपक्षपाते च सभापतौ सभ्या अमि मीतमीता इवैकवः किल कलङ्कः, अन्यतश्चावलम्बितपक्षपातः प्रतापाधिपतिस्सभापतिरितीतस्तटमितो व्याघ्र इति न्यायेन कामपि कष्टां दशामाविशेयुर्न पुनः परमार्थ प्रथयितुं प्रभवेयुरतस्समता- 15 लाव इत्युक्तम् । उत्पन्नक्रोधाः पार्थिवा यदि तत्फलं नोपदर्शयेयुस्तदा निदर्शनमकिग्नि- कराणां स्युरिति तेषां को सफले वादोपमर्द एव भवेदिति क्षमालङ्कृत इत्युक्तम् ।। अस्य कर्तव्यमाह- अनेन च वादिप्रतिवादिभ्यां सभ्यैश्च प्रतिपादितस्यास्यावधारणं तयोः कलहनिराकरणं तयोश्शपथानुगुणं पराजितस्य शिष्यत्वादिनिय. 20 मनं पारितोषिकादिवितरणश्च कर्त्तव्यम् ।। अनेन चेति, सभापतिना चेत्यर्थः । तयोरिति, वादिप्रतिवादिनोरित्यर्थः, सर्वमन्यत्प्र- काशम् । तथा च वादस्य कविजिगीषुविषयत्वेन चतुरङ्गत्वं, नतु वादत्वात् , स्वाभिप्रेतार्थ- व्यवस्थापनफलत्वाद्वा त्यगव्यङ्गवादानामपि तथात्वापचः, अपि तु विजिगीषुवाद एवं तयां, तत्रैकस्याङ्गस्यापि वैकल्ये प्रस्तुतार्थापरिसमाप्तेः । मर्यादोल्लंघनेन हि प्रवर्त्तमानानामहङ्कारमह- 25 प्रस्तानां वादिप्रतिवादिनां प्रभुत्वादिशक्तित्रयसम्पन्नमाध्यस्थ्यादिगुणोपेतसभापतिमन्तरेण १. वादिना प्रतिवादिना या प्रोक्त सर्व परस्परमनूद्य दूष्याशमात्रं वाउनूद्य कवर्गादीन् परिहत्व वा पकम्यमित्यादिरूपतो वादनियमनमित्यर्थ ॥ --- . - .

तस्वन्यायविमाकरे शर्माकरण लक्षितलक्षणालमृतसभास्तारांश्च विना को नाम नियामक: स्यात् । प्रमाणतदामासपरिज्ञान- सामोपेतवादिप्रतिवादिभ्याश्च विमा कथं वादः प्रवर्तेत । न चेदृशस्य वादस्य चतुरङ्ग- त्वेऽपि वचन विकल्पोपपत्तितो वचनविघातलक्षणेन छलेन, साधर्म्यवैधान्यवरप्रयुक्तदूष- णात्मकजात्या, विप्रतिपत्त्यप्रतिपत्तिरूपनिग्रहस्थानेन च जयेतरव्यवस्था, न तु प्रमाणतदामा- 5 सयोर्दुष्टतयोद्भावितयोः परिहतापरिहतदोषमात्रेण सेति वाच्यम्, छलजात्योरसदुत्तररूपत्वेन स्वपरपक्षयोस्साधनदूषणत्वासम्भवतो जयेतरव्यवस्थानिबन्धनवायोगात् । स्वपक्षासिद्धिरू- पपराजयस्यैव निग्रहहेतुत्वेन निग्रहत्वात्, विप्रतिपत्त्यप्रतिपत्त्योश्च निमहस्थानत्वस्यैवायोगा- दिति, अधिकमन्यतोऽवसेयम् । तदेवं प्रमाणप्रयोगभूमिभूतो वादो निरूपित इत्याहेतीति ।। इत्थं सम्यग्ज्ञानं प्रमाणविषयफलप्रमातृरूपेण चतुर्विधव्याख्याप्रकारेण तदनदया नयं 10 प्रमाणप्रयोगभूमिश्चाभिधाय निरूपणस्यास्य प्रामाणिकतामाविष्करोति- पूर्वागमान् पुरस्कृत्य भेदलक्षणतो दिशा। बालसंवित्प्रकाशाय सम्यक्संवित्प्रकाशिता ।। पूर्वागमानिति । अस्मदवधिकपूर्वत्वविशिष्टानाचार्यसिद्धसेनजिनभद्रगणिहेमचन्द्रषा- दिदेवसूरियशोविजयवाचकप्रभृतिसन्हब्धान ग्रन्थरत्नानित्यर्थः । पुरस्कृत्येति, अक्षिलक्षीकृत्य 15 विचार्य वेत्यर्थः, तेन निजप्रन्थस्य पूर्वागमसंमतार्थप्रकाशकत्वेन प्रामाण्यं प्रकाशितम्, पूर्वाग- मपदेन भगवदहदागमस्य मङ्गलभूतस्य स्मरणात् सम्यग्ज्ञाननिरूपणान्ते मङ्गलस्य प्रकाशनन्न कृतं भवति । सम्यक्संविदा प्रकाशनं कथं कृतमित्यत्राह भेदलक्षणतो दिशेति, अवान्तरभेदै- स्वलक्षणैश्च संक्षेपेण पूर्वाचार्यग्रन्थप्रवेशानुकूलतयेत्यर्थः । तेन स्वग्रन्थस्य पूर्वाचार्यप्रकाशि- वार्थप्रकाशकत्वेन पिष्टपेषणकल्पत्वमपाकृतम् । ननु परिकर्मिवचेतसामनायासेनैव तेभ्यो 20 बोधो भविष्यत्येवेति संक्षेपकरणं निष्फलमेवेत्याशंकायामाह वालसंविप्रकाशायेति, भवत्येष निस्संशयं तेभ्यः परिकर्मितमतीनां वोघो गम्भीरार्थग्रहणसामर्थ्यात्, वाशसामर्थ्यविकलानां तत्प्रवेष्टणां वालानान्तु दुरषगाहत्वाचत्र प्रवेशस्य दुष्करत्वेन तत्प्रवेशसम्पादनायैव सुगम- तया संक्षेपेण सम्यक्संविदो निरूपणमारचितमिति सफलमेवेति न पिटपेषणकल्पताऽस्येति भावः । प्रकाशितेति भूतकृदन्तेन सम्यक्संविनिरूपणं पूर्णमिति सूचितमिति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालड्वारश्रीमद्विजयकमलसूरीश्वरचरण- नलिनविन्यस्तभक्तिमरेण तत्पट्टधरेण विजयलन्धिसूरिणा विनिर्मितस्य तत्त्वन्याय- विमाकरस्य स्वोपक्षायां न्यायप्रकाशव्याख्यायां वादनिरूपणं नाम दशमः किरणः ॥ समालो द्वितीयो भाग: । .

अथ तृतीयो भागः प्रथमः किरणः तदेवं मोक्षसाधनावयवभूते सम्यक्रद्धासविदौ निरूपिते तथा निरूपितमेव च संवर- 5 निरूपणे सम्यक्चरणं तदङ्गत्वेन संक्षेपतः, अत्र तु कर्माष्टकशून्यताप्रयोजकानुष्ठानलक्षण- चारित्रस्य नित्यानुष्ठानप्राप्तप्रयोजनानुष्ठानतो द्वैविध्यात्तनुबोधयिषया एककार्यकारित्वप्रयो- ज्यत्वावसरसङ्गतिमिोननिरूपणानन्तरं चरण निरूपयति- चरणकरणमेदेन द्विविधं चरणम् ॥ चरणेति । पर्यते मुमुक्षुभिस्सदाऽऽसेव्यत इति चरणम्, चर्यते गम्यते प्राप्यते भवो- 10 दधे पर फूलमनेनेति चरणं व्रतश्रमणधर्मादिमूलगुणरूपम् । क्रियतेऽनुष्ठीयते सति प्रयोजने यतकरणं पिण्डविशुद्ध्यादिकं तदेवदिविधरूपेण सम्यक्चरणं द्विभेदमित्यर्थः । नित्यानुष्ठान- रूपं चरणं, प्रयोजने प्राप्त क्रियमाण करणम् । ब्रतादयो हि सर्वकालमेव साधुभिश्चर्यन्तेऽ. न्यथा स्वरूपहान्यापत्तेः, न तु व्रतशून्यस्तेषां कश्चित्कालोऽस्ति, पिण्डविशुद्ध्यादिकन्तु प्राप्ते प्रयोजन एव विधीयत इति तदुभयात्मकं चारित्रमिति भावः । तत्र चरणगुणस्थितस्य साधो- 15 विशुद्धिरतो ज्ञानाचरणं प्रधान तत्फलत्वात् । ननु चरणं संवरणरूपा क्रिया सा च ज्ञानामावे हता, तदुक्तं ' हया अन्नाणतो किरिया' इति, तस्माज्ज्ञानक्रिययोस्समुदितयोमोक्षसाधनस्वे- नोभयोस्समानत्वमेव न चरणस्य प्रधानत्वमिति चेत्सत्यम् , सम्यक्त्रद्धासंविचरणानि मुच्यु- पाया इति यद्यपि त्रयाणामपि समानकारणत्वमुक्तं तथापि गुणप्रधानभावोऽस्ति, ज्ञान प्रका- शकमेव, चरणन्त्वभिनवकर्मादाननिरोधफलं निर्जराफलच, ततो यद्यपि ज्ञानमपि प्रकाश- 30 कतयोपकरोति सदर्शनज्ञानचरणद्विकाधीनो मोक्षस्तथापि प्रकाशकतयैव व्याप्रियते ज्ञानं कर्म- मलशोधकवया तु चरणमिति प्रधानगुणभावाचरणं ज्ञानसारः । उक्तश्च नाणं पयासयं वी गुत्तिविसुद्धिफलं च जं चरणं । मोक्खो य दुगाहीणो चरणं नाणस्स तो सारो' इति । एवं सम्यक्षद्धाया अपि सारश्चरणं तस्मानितयस्यैव समुदितस्य निर्वाणहेतुत्वं तत्रोभयोश्चरणद्वारा चरणस्य च साक्षावेतुत्वमिति विशेषः, ततो न केवलं ज्ञानं मोक्षहेतुः, केवलज्ञानसद्भावेऽपि शैलेश्यवस्थामाविसर्वसंवररुपचारित्रमन्तरेण निर्वाणाभावादतस्सम्यग्ज्ञानस्यैव मोक्षसाधन- , तस्वन्यायविभाकरे । प्रथमाकर त्वेन शास्त्रार्थपर्याप्तेश्वरणनिरूपणं निष्फलमित्यपास्तम् । ज्ञानमेव नेप्सितार्थप्रापर्क, सक्रिया- विरहात्; स्वदेशप्रात्यभिलषितगमनक्रियाशन्यमार्गज्ञानवदित्यनुमानेनासाधकत्वाचेति ॥ अथ चरणभेदमाह-- व्रतश्रमणधर्मसंयमवैयावृत्त्यब्रह्मचर्याप्तिज्ञानादिताक्रोनिग्रहरूपे- 5 णाष्टविधमप्यवान्तरभेदतरसप्ततिविधं चरणम् ॥ व्रतेति । प्राणातिपातविरमणादि व्रत पञ्चविधम् , श्रमणधर्मस्साधुधर्मः क्षान्त्यादिवश- :, विधा, संयम उपरमस्सप्तदशविधः, वैयावृत्त्यमाचार्यायुद्देशेन यत्कर्तव्य तत्र व्यपवारूप दशषिधम्, ब्रह्मचर्यस्य गुप्तयो वसत्यादिका नव, ज्ञानमामिनिंबोधिकादि सदादिः येषां नानि ज्ञानादीनि : ज्ञानवर्शनचारित्ररूपाणि त्रीणि; तपो द्वादशविधम् , क्रोधनिग्रहः। क्रोधादीनां 10 निग्रहश्चतुर्विध इति मूलतोऽष्टविधमपि स्वस्वावान्तरभेदविवक्षया. सप्ततिविधं घरणमित्यर्थः ननु गुप्तीनां व्रतेषु श्रमणधर्मान्तर्गतचारित्रस्य व्रतात्मकत्वेन प्रतेषु संयमतपसोः श्रमणधर्मेषु तपोग्रहणे तत्र वैयावृत्त्यस्य क्षान्त्यादिश्रमणधर्मग्रहणे तत्र क्रोधादिनिग्रहस्य चान्तर्गतत्वेन ... तेषां पृथग्रहणं व्यर्थमिति चेदुच्यते, गुप्तेनिरपवादत्वैप्रदर्शनाय पूर्वपश्चिमतीर्थकरतीर्थयोर्वि- शेषेणैतद्भवति महातमिति प्रकाशनाय,' तचारित्रस्यैकांशत्वेन छैदोपस्थापनीयादिचतुर्विध- 15 चारित्रग्रहणीय अपूर्वकर्माश्रवसंवरहेतुभूतसंयमस्य पूर्वगृहीतकर्मक्षयहेतुभूतपसन्ध ब्राह्मणी आयाता वसिष्ठोऽध्यायात इति न्यायेन मोक्षा प्रति ..प्राधान्यख्यापनाय वैयावृत्स्यस्य स्वपरोपकारकत्वेतानशनादिभ्योऽतिशयतासूचनाय उद्योदीरणावलिकांगतत्वेनः क्रोधादीनां क्षान्त्यादिभिरुदय एव न कर्तव्य, इति ख्यापयितुं धान्यादयो प्रायाः कोषादयो हेया इति वोपदर्शनाय तदुपन्यास इति न कोऽपि दोष इति भावः॥ .....: initi १. इदमित्यमासेवनीय नत्वित्यमिति ज्ञानादेवावगम्यतेऽतो ज्ञानमेव प्रमाण न तु बाह्य कारण पिण्ड- विशुद्धर्थादि चारित्रं का, तज्ज्ञानामावे तस्याप्यभावात् , सति च तस्मिन् 'चरणस्यापि भावात, ज्ञान एवं तीर्थस्य स्थितत्वात, दर्शनस्यापि "अधिगमजन्यस्य जीवादिपदार्थपरिच्छेदतस्सिद्देतिस्मरणजेन्यनैसर्गि- कस्याप्यागमरहितत्वाभावात् । यतस्वयम्भूरमणमत्स्यादीनामपि , जिनप्रतिमायाकारमत्स्यदर्शनाबातिमनुस्खाल भूतार्थालोकनपराणामेव नैसर्गिकसम्यक्त्वमुपजायते, भूतार्थालोकनच हानमिति ज्ञान प्रधानमिति ज्ञाननयः । क्रियान्यस्त क्रियेव प्रधानमैहिकामुप्मिकफलप्राप्तिकारण युक्तियुक्तत्वात, ज्ञानन्तु क्रियोएकरणत्यादौणम्, प्रयत्नादिक्रियांविरहेण हि ज्ञानवतोऽप्यमिलपितार्थसम्प्रोसिन दृश्य, आगमेऽपि च तीर्थकरंगणधरै. "क्रिया- विकलानां ज्ञानं निष्फलमेवोक्तम्, ज्ञानेनायक्रियासमर्थार्थप्रदर्शनेऽपि प्रेक्षापूर्वकारी 'प्रमाता यदि ' हानोपादा- नरूपा प्रवृत्तिं न कुर्यात्तदा तद्विफलमेव, तदर्थत्वातस्य । संविदा विप्रयव्यवस्थानस्याप्यक्रियास्वास्कियव प्रधानम् । न..केवलमेवं क्षायोपशमिकी, चरणक्रियामशीकृत्यैव प्रावान्यं तस्याः, किन्तु क्षायिकीमप्याश्रिय, एतदपे. क्ष्याऽपि तस्याः प्राधान्यं भगवतोऽपि समुत्पन्नकेवलज्ञानस्य यावच्छलेश्यवस्थाया, सर्वसंवररूपचारित्रक्रिया न भवति तावन्मुक्त्यनवाप्से., यद्यत्समनन्तरमावि तत्तकारणमिति व्याप्ते क्रियेव कारणमिति ॥ - - + । . ग्रतानि ] न्यायप्रकाशसमलङ्कृते अर्थ व्रतस्वरूपनिर्णयार्थमाह- हिंसान्तस्तेयाब्रह्मपरिग्रहेभ्यो विरमणरूपाणि पञ्च व्रतानि ।। हिंसेति । परिग्रहान्ताः कृतद्वन्द्वा हिंसादयः पञ्चम्यन्ता, 'जुगुप्माविरामप्रमादा- थानामुपसंख्यान' मिति पञ्चमी । ननु ध्रुवत्वेन प्रसिद्धस्यार्थस्य 'ध्रुवमपायेऽपादान मित्यपादानत्वेन प्रामादागच्छतीसादाविव प्रकृते हिमादिपरिणामानां ध्रुवत्वाभावात्कथमपा- 5 दानवम्, न च द्रव्यार्थादेशादिसादिपरिणत आत्मैव हिंसादिव्यपदेशभागिति ध्रुवत्वमिति वाध्यम् , तथा संति तस्य नित्यत्वेन विरमणानुपपवेरिति चेन्न बुद्ध्या ध्रुवत्वविर्वभयाs- पादानत्वोपपत्ते, प्रेक्षाकारी हि मनुष्यो य एते हिंसादयः परिणामाः पापहेतवः पापकर्माणि च.वत्र प्रवर्तमानमिदेव राजानो दण्डयन्ति परत्र व बहुविघं दुःखमवाप्नोतीति बुद्धया ध्रुवत्वं सम्प्राप्य निवर्तत इति तेषां ध्रुवत्वं काल्पनिकं सम्पादनीयम् । वस्तुतस्तु ध्रुवत्वा- 10 भावेऽप्यपादानसंशाकरणाय जुगुप्सेत्यादिप्रवृत्तेर्न दोपोऽन्यथा ध्रुवत्वं परिकल्यापांदाने पञ्चमीत्यनेनैव पञ्चमीसिद्धौ तद्वचनवैयर्थ्यांपत्तेरिति ध्येयम् । सर्वेषु तेष्वहिंसायाः प्रधानत्वाचप्रतियोगिन्या हिंसाया आदाबुपादानम् । यद्यपीदमेवेत्थमेव वा कर्तव्यमिति बुद्धिपूर्वकपरिणामविशेपेण कृताऽन्यनिवृतिब्रतशब्दवाच्या, नया च निवृत्तौ प्रवृत्तौ चं व्रत- शब्दो, वर्तते; यथा पयो व्रतयतीत्यादौ व्रतशब्दा, पयोऽभ्यवहार एव प्रवर्तते नान्यत्रेति 15 वदर्थः । एवं हिमादिभ्यो निवृत्तश्शास्त्रचोदितकर्मानुष्ठान एव प्रवर्तते, मानक्रियाभ्यां मोक्ष- श्रुतेश्शास्त्रविहिवनिवृचिप्रवृत्तिक्रियासाध्यकर्मक्षपणस्यैव मोक्षावाप्तिमाधनात्तथापि निवृत्तेः प्राधान्यात्साक्षात्सैव दर्शिता । सम्बन्धिशब्दत्वाञ्चकतरोपावानेऽन्यतरस्थापि प्रतीत्या हस्ति- पकदर्शनाद्धस्तिबोधवत् तत्पूर्वकप्रवृत्तेरपि गम्यत्वात् । अन्यथा निवृत्तिमात्रस्य निष्फलखा- पतिः स्यात् संवराविशेषप्रसङ्गश्च स्यात् । तदिदं ब्रत देशमर्वभेदेन द्विविधमपि संवर- 30 हेतुभूतमगार्यनगारिसाधारणम् ।. अन्न चानगारिसम्बन्ध्येव प्रायं मम्यक्चरणाद्गत्वान ! एवमेवान्यन्त्र तत्तद्गतयोक्तानामपि पुनरत्र तन्निर्देशस्तथा बोध्यः ॥ अथ हिंसादिस्वरूपनिरूपणपूर्वक तद्विरमणरूपं व्रतं वर्णयत्ति- प्रमावसहकारेण कायादिव्यापारजन्यद्रव्यभावात्मकप्राणव्यपरो- पणं हिंसा तस्मात्सम्यग्ज्ञानश्रद्धानपूर्विका निवृत्तिः प्रथमं वनम् ॥ प्रमादेति । प्रमाद्यन इति प्रमादोऽयत्नोऽनुपयोगी वा, प्रबलकर्मदावानलप्रभूननायिक- मानसिकानेकदुःखज्वालामालाकलापपरीतनिखिललोकावलोकनोऽपि तन्मध्यपतपि तनो । - तस्वन्यायविमाकरे [प्रथमकिरणे बहिर्भवननिदानानन्यसाधारणवीतरागप्रणीतधर्मचिन्तामणि यनन्यपरिणामविशेषान्न पश्यति पश्यन् वा नाचरति जीवः स प्रमादो मधादयः, अज्ञानसंशयविपर्ययरागद्वेषस्मृतिभ्रंशयोग- दुष्पणिधानधर्मानादरभेदेनाष्टविधो वा, तरसहकारेण तन्निमित्तकात्मपरिणामविशेषेण वा कायमनोवाग्व्यापारेण जन्यं यद्रव्यात्मकानां भावात्मकानामुभयात्मकानां वा पल्बेन्द्रियादि- 5 प्राणानां व्यपरोपणं वियोगीकरणं जीवात्पृथक्करणं सा हिंसेत्यर्थः, तस्माद्यपरोपणानिवृत्ति- विरतिः प्रथमं महाव्रतम् , सा देशतोऽपि स्यादित्यवाह सम्यगिति, सर्वप्रकारेण भङ्गत्रयेणं तादृशी निवृत्तिहानश्रद्धानमन्तरेण न सम्भवतीति सूचनाय मिध्याहशां तथाविरतेरज्ञाना- श्रद्धानपूर्वकत्वसूचनाय च ज्ञानश्रद्धानपूर्विकेत्युक्तम् । यतो हि मिथ्यादृशां सम्यक्त्वामावेन ज्ञानं श्रद्धा च वस्तुतोऽज्ञानरूपमश्रद्धारूपा चेति भावः । इत्वरकालतादृशविरविवारणाय 10 सन्यगित्यनेन यावजीवमपि विवक्षणीयम् । तथा च हिंसाया ज्ञानश्रद्धानपूर्वक मङ्ग- त्रयेण यावन्नी निवृत्तिरिति भावार्थः । एकद्वित्रिचतुःपञ्चेन्द्रियाख्यान् प्राणिनः सम्यक् शावतो ज्ञात्वा बदनुसारेण च श्रद्धयोपरमः सर्वेषु तेषु प्रधानत्वात्सूत्रक्रमप्रामाण्याच प्रथमं व्रतमिति यावत् । भङ्गत्रयं च द्रव्यमावतदुभयरूपम् ।। अथ तत्परिपालनार्थानि जवानीतराण्याह- 15 अंतद्वति तत्प्रकारकमप्रियमपथ्यं वचनमवृतं तस्मात्तथा विरतिद्वि- तीयं ब्रतम् । असत्यं चतुर्विधं भूतनिहाभूतोद्भावनार्थान्तरगर्दाभेदात्। आघमात्मा पुण्यं पापं वा नास्तीत्यादिकम् । आत्मा सर्वगत इति द्विती. यम् । गव्यश्वत्ववचनं तृतीयम् । क्षेत्रं कृष, काणं प्रति काण इत्यादि वंचनं तुर्यम् ।। १. पीडाकर्तृत्वयोगेन शरीरविनाशापेक्षया प्राणिनमेनं मारयामीत्येवरूपसंक्लेशात्प्राणव्यपरोपणं हिंसा इय सनिमित्ता, परिणामवादे हि पीडकस्य पीडनीयस्य परिणामित्वात्पीडाकर्तृत्वमुपपद्यते, एकान्तबादे त्वेका- ततो नित्यले कस्यापि कार्यस्य करणेऽक्षमत्वात् सर्वथा भेदे च शरीरकृतकर्मणो भवान्तरेऽनुमषानुपपत्तेः । सर्वथाऽनित्यत्वेऽभेदे व परलोकहान्यापत्ते शरीरनाशे जीवनाशात् हिंसादीनामसम्भव एव । नित्यानित्ये चात्मनि सर्व घटत एव, भूमूितत्वाभ्याच देहात्मनोः कथविद्भदः देहस्पर्शने च जीवस्य वेदनोत्सत्ते. कपश्चिदमेदश्च, न व नाशहेतुना देहाद्धिने नाशे क्रियमाणे देहतादवरूप्यं, अमिन्ने च क्रियमाणे देह एष कृत. स्यादिति वाच्यम्, अमिन्ननाशकरणे देहस्य नाणितत्वेन कृतत्वाभावात् । न च स्वकृतकर्मक्शा- दिसाया भावे हिंसकस्याहिंसकलं यावृत्त्यकरस्येव कर्मनिर्जराहेतुत्वेन गुणत्वमेव स्यात्, कर्मामाये व निर्वि- शेषात्सर्व हिंसनीयं भवेदिति वाच्यम् कर्मोदयस्य प्राधान्येन हेतुत्वेऽपि हिंमकस्यापि तत्र निमित्तत्वात् । न व तत्र तस्य निमित्चत्वे वैद्यादीनामपि हिंसाप्रसङ्ग इति वाच्यम् , दुधामिसन्धिलस्यापि लिमितत्वादिति ॥

। प्रतानि] न्यायप्रकाशसमलते अतद्वतीति । अचौर चौर इत्याक्रोशनमलीकमित्यर्थः । अप्रियमपध्यन व्यवहारत- सत्यमपि अप्रीतिकारित्वादायतावहिवकारित्वात्परमार्थतोऽसत्यम् , एवंविधाद्वचनात्सर्वथा शानभद्धानपूर्वक विरमणं सत्यव्रतं द्वितीयमित्यर्थः । ननु ऋतशब्दस्सत्यार्थे वर्चते सत्सु साधुस्सत्यं प्रत्यवायकारणानिष्पादकत्वात्, न ऋतमनृतमसत्यमित्यर्थः, तथा च मिध्या- वचनमसत्यमित्येवोच्यतां लाघवादित्याशङ्कायामाहासत्यमिति, अयं भावो मिध्याशब्दो । विपरीतार्थे वर्तते तेन भूतनिहवाभूतोद्भावनार्थान्तराणामेवासत्यत्वं स्यात् यथा नास्त्यात्मा सर्वगत आत्मेत्यादिवचनानि, यत्तु विद्यमानार्थविषयं व्यवहारतस्सत्यमपि प्राणिपीडाकर परमार्थतोऽसत्यरूपं गात्मकवचनमसत्यं न भवेदिति न तथोपन्यासः साधुरिति, उदाह- रणान्याहायमिति, भूतनिहवात्मकमलीकमित्यर्थः, केचिदात्मनः कर्तुर्विद्यमानस्यानुभव- वेद्यस्य शुभाशुभकर्माधारस्यानुभवस्मरणाद्याधारस्य मोहान्नास्तित्र प्रतिजानते, तेपाममिधानं 10 भूवनिहवरूपमिति भावः । अभूतोद्भावनस्य दृष्टान्तमाहात्मेति, केचित्स्वरुच्या यथावस्थित- यसंख्येयप्रदेशपरिमाणमाश्रयवशात्संकोचविकासधर्माणमरूपरसगन्धस्पर्शमनेकप्रकारक्रियमा- स्मानमवधूयाज्ञानवलेन सर्वगतं निष्क्रियमङ्गुष्ठपर्वमादित्यवर्ण प्रमाणशून्यं समुद्भावयन्ति तदेतेषामभिधानमभूतोद्भावनात्मकमनृवमिति भावः । अर्थान्तरं निदर्शयति गवीति, यो गां तुरङ्गमं प्रवीति तुरखमञ्च गामिति मौन्याच्छाठयाद्वा वैपरीत्येन तद्वचनमर्थान्तररूपमसत्य- 15 मित्यर्थः । शास्त्रप्रतिषिद्धं कुत्सितं वागनुष्ठानं गाँ, तामुदाहरति क्षेत्रमिति, हिंसानिवृत्ति प्रतिवन्धकत्वादस्य वचनस्यासत्यत्वम्, हिंमानिवृत्तिपरिरक्षणार्थ मृपावादादिनिवृत्तरुपदिष्ट- स्वात् । काणं प्रति काण इतीति, निष्ठुरवचनमेतत् , तदपि परपीडोत्पादहेतुत्वात्सत्यमपि गर्हितम् , एवं छलदम्भकटुकादिवचसामनृतत्वं भाव्यम् । अत्र च व्रते चतस्रो भापा द्वाचत्वा. रिंश दमिन्नाः सम्यगववोध्याः, तत्र व्यवहारनयेन सत्या, मृपा, सत्यामृपा, असत्यामृपा 20 चेति चतुर्विधा भापा निश्चयनयेन तु सत्यासत्यभेदाविधा, आराधकत्वविराधकत्वरूपभेदा- नुगुण्यात् । शुद्धनयेन देशसर्वभेदेनाराधाकत्वविराधकत्वभेदाभावात् , एकदा योगद्वयम्य चानभ्युपगमात्, अन्यथा शवलकर्मवन्धप्रसङ्गात् । वत्र सत्यं जनपदसम्मतस्थापनानामरू- पप्रतीत्यव्यवहारभावयोगौपम्यसत्यभेदेन दुशविधम् | जनपदसत्यश्च नानादेशभाषारूपम्, १. पुण्यं पापमपि न बुद्धयादिवदात्मगुण. कर्मण आत्मगुणत्वे तस्य पारतंत्र्ये निमित्त न भवेन् । न हि यो यस्य गुण. स तस्य पारतंत्र्यनिमित्तं भवति यया पृथिव्यादे स्पादिः । अभ्युपगम्यते च पर. कर्माल्मगुणमिति । न चात्मन. पारतंत्र्यमसिद्धम् हीनस्थानपरिग्रहवत्यातमिद्धेः । मद्योडेकपारतंत्र्येण पुर- येणाशुचिस्थानपरिग्रहवत् । शरीरं हि होनस्थानमात्मनो दुःखहेतुत्वात् । न च गुणवेऽपि प्रोपादौना पारतंत्र्यानिमित्त इष्टमिति वाच्यम् तेपा पौलिकत्वेन गुणस्वानुपपत्ते, भावकोषादीनान्तु न पारतंच. निमित्तत्वमिति पुण्यपापे न्यरूपे एवेति ॥

। " - : ५५६ "तत्त्वन्यायविभाकरे [प्रथमाकर एकत्र देशे यदर्थवाचंकत्वेने रुढं यद्वचनं तदन्यत्र तर्देवाचकत्वेन त्यज्यमानमपि व्यवहारप्रवृत्ति- हेतुत्वासत्यम् । यथा कोकणादिषु पयः पिनमित्युच्यत इत्यादि । सम्मतसत्य सकललोक सम्मत्या सत्यत्वेन प्रसिद्धं यथा डजन्यत्वस्य 'कुमुदकुवलयादौ ' तुल्यत्वेऽपि अरविन्दमेव पङ्कजमित्याचीलंगोपालप्रसिद्धमित्तरने त्वसम्मतत्वादसत्यम् ।स्थापनासत्य यथाऽभैरविन्यासा- हार्वयं भाषक कापणो वा शतमिदं सहस्रमिदमित्यादि । नामसत्यं यथा कुले धन वोऽवर्धयन्नपि कुलवर्द्धनोऽसौ 'धनवर्द्धनोऽसाविति वचनम् । रूपसत्य' यथाऽतद्गुणस्य तथारूपधारण दम्भेनं गृहीतयतिवेषस्य यतिरयमिति । प्रतीत्यसत्यं वस्त्वन्तरमाश्रित्य वस्त्वन्तरे दीर्घव॑हस्वत्वादिमणने यथा कनिष्ठाकुल्यपेक्षयाऽनासिका दी| मध्यमांपेक्षया इस्वैतिः अनन्तपरिणामस्य तादृर्शतादृशसहकारिसन्निधाने तत्तद्रूपामिव्यक्त सत्यत्वम् । 10 व्यवहार सत्यं यथा गिरिगततृणादिदाहें गिरिदेहतीत्यादिकम् । भावसत्य यथा पञ्चवर्ण सम्भवे सत्यपि शैला चलाकेत्यादिकम् । 'योगसत्य यथा छत्रयोगांदण्डयोर्गाद्वा कदाचित योरभाऽपि छन्त्री दण्डीत्यादिवचनम् । औपम्यसत्य यथा समुद्रवत्तडांग इति । अथ मृषा अपि' दशभेदाः क्रोधमानेमायालोभप्रेमद्वेषहास्यभयाख्यायिकोपंथातेनिहतमेवात क्रोधनिस्मृती वचने यो कुद्धा पिता पुत्र प्रत्याहन में वपुत्र ईत्यादिग" माननि हत is मानाकश्चिदल्धनोऽपि वक्ति महाधनोऽहमित्यादि । मार्यानिस्सृतं यथा मायाकारप्रभुतम आहुनेष्टो गोलक इत्यादि । लोभनिस्सृतं यथा वणिकप्रभृतयोऽन्यथाक्रीतमेवेत्थ क्रीतमित्यादि । प्रेमनि:सृतं यथाऽतिरिक्तानां वचनं ख्यादिक प्रत्यहं तव दास इत्यादि । 'द्वेषनिहितं यथा गुणवत्यपि निर्गुणोऽयमित्यादि । हास्यनिस्मृतं यथा गृहे स्थितमर्पि हास्यानात्र मे पितेत्यादि । भयनि:सृतं यथा' तस्करादिभवेऽसमञ्जसाभिधानम् । आख्यायिकानिस्सृत यथा काल्पनिक 20 कथाभिधानम् । उपधानिसृतं यथाऽचौरे चौरस्त्वमित्यसभ्याख्यानम् । सत्यामुषारूपच वचन "उत्पन्नविगतमिश्रकजीवाजीवनीवानीवानन्तप्रत्येकानाद्धाद्धामिश्रितभेदाईविधम् ।। उत्पन्न मिश्रित यथा दर्शन्यूनाधिकमविन दारकाणी कचिद्रास उत्पादेऽद्य तत्र दर्शदारका उत्सना तथा श्वस्त शत दास्यामीत्युक्त्वा पञ्चाशद्दानम्, अत्र लोके मृषात्वादशनाद- नुत्पन्नांशे मृषात्वव्यवहाराच्च । विगतमिश्रितं यथा तथैव मरणकथनम्। मिश्रकमिश्रित यथा 25 तथैवाद्यानगरे वश दारका जाता देश वृद्धा विगताश्चेति । जीवमिश्रितं यथाजीवन्मुतकृमिराशी जीवराशिरिति । अजीवमिश्रितं यथा प्रभूतसूतकृमिरोशौ स्तोकेषु जीवत्सुअजीवरांशिर- साविति । जीवाजीवमिश्रितं यथा तत्रैव यशवेतावन्तो जीवन्त्येतावन्तः भता इति । अनन्तमिश्रित यथा मूलकन्दादौ, परीतपत्रादिमत्यनन्तकायस्सर्वोऽप्येष इत्यभिधानम् । प्रत्ये- कमिश्रितं यथा प्रत्येकमनन्तेन सह दृष्टा सर्वोऽपि प्रत्येक इति कथ्रनम् । प्रशामिश्रितं यथा . - .----. FIR ---- -- im TEA57 FIR MT 4. - ।

प्रवादि न्यायमकाशसमलते कश्चिस्वरयन् कञ्चन दिवसेऽपि रात्रि तेति वदति परिणतप्राये वासरे । अवादामिश्रित प्रद्धाचा नाम दिवसस्य रात्रेर्वा एकदेशा, यथा प्रथमपौरुष्यामेव त्वरयमाणः कश्चन वक्ति सीबो-भव मध्याहो जात इति । असत्यसृषारूपं वचनन्तु आमंत्रणाबाफ्नयाचनप्रच्छन:- ज्ञापनप्रत्याख्यानेच्छानुलोमानमिगृहीतामिगृहीतसंशयकरणव्याकृताव्याकृतभेदावादगविधम् । तत्रामंत्रणं यथा हे. देवदत्त इत्यादि वचनमिदं पूर्वोदितसत्यादिभेदत्रयविलक्षणत्वान्न 5 सत्यादिरूपमपि तु व्यवहारप्रवृत्तिहेतुत्वादसत्यामृषारूपम् । आज्ञापनं यथा इदं कुर्वियादि, इंदमपि तस्य करणाकरणभावतः परमार्थेनैकत्राप्यनियमात्तथाप्रतीतेरदुष्टविवक्षाप्रसूतत्वाद- संसामधारूपेमेवमन्यत्रापि भाव्यम् । योचनं यथा मिक्षां प्रयच्छेति । प्रच्छनं यथा अविज्ञातस्य सन्दिग्धस्य वाऽर्थस्य परिज्ञानाय तद्विदः कथमेतदिति प्रच्छनम् । प्रज्ञापनं यथा हिंसाप्रवृत्तो दुःखितादिर्भवतीति । प्रत्याख्यानं याचमानस्य प्रतिपेधवचनम् । इच्छानुलोम 10 यथा केनचित्कचिर्दुतस्साधुसकाशं गच्छाम इति स आह शोमनमिति तादृग्वचनम् । अनमिंगृहीत प्रविनियतार्थानवारणानुकूल वचा, यथा बहुषु कार्येषपस्थितेषु यत्ते प्रति- भासते तत्कुर्विति वचनम् । अभिगृहीतं यथा तत्रैवेदमिदानी कर्त्तव्यमिति वचनम् । यद्वा यदर्थमनभिगृह्य डियादिवद्वचनमनभिगृहीत घटादिवद्वचनमभिगृहीतम् । संशयकरणं यथा नानार्थसाधारण सैन्धवमानयेत्यादिवचनम् । व्याकृतं प्रकटार्थ यथा देवदत्तस्यैप भ्राते- 15 त्यादिरूपम् । अव्याकृतमप्रकटार्थ बालकादीनां थपनिकेत्यादिवचनम् । एवं चतुर्विधेषु वचनेषु:सम्यगवगतेषु प्रथमचतुर्थों भेदी वाच्यौ न द्वितीयतृतीयाविति ।। :: क्रमप्राप्त तृतीयं व्रतमाख्याति- स्वाम्याँद्यदत्तवस्तुपरिग्रहणं स्तेयं तस्मात्तथा विरतिस्तृतीयं व्रतम् ॥ स्वाम्यादीति | स्वामिजीवतीर्थकरगुरुमिरदत्तस्य वस्तुन आदान प्रमत्तयोगात्स्तेय- 20 मुच्यते, सर्वप्रकारेण यावनीवं तस्माद्विनिवृचिस्तृतीयमस्तेयत्रतमित्यर्थः । तृणोपलकाप्टादिकं तत्स्वामिनाऽदत्त, यत्स्वामिना दत्तमपि जीवेनादत्तं यथा प्रवव्यापरिणामविकलो मातापि- सृभ्यां पुत्रादिर्गुरुभ्यो दीयते । यत्तीर्थकरैः प्रविपिद्धमाधाकर्मादि गृह्यते तत्तीर्थकरादत्तम् । आधाकर्मादिदोषरहित स्वामिना दत्तं गुरूनननुज्ञाप्य गृहीतं तद्गुर्वदत्तमिति तदेतत्सर्व स्तेय. मुच्यते तदेततुर्विधस्य प्रणपरिणामाभावोऽस्तेयमिति भावः । अत्राष्टविधकर्मादानस्य स्तेयत्वध्युदासाय स्वाम्यादीत्युक्तम् । न च शब्दादिविषयरध्याद्वारादीन्याइदानस्य साघोस्ते यत्वप्रसङ्ग इति वाच्यम् प्रमत्तयोगादिति पूरणात्, यत्नवतो ह्यप्रमत्तस्य जानिनश्शानदृष्ट्या शब्दादीनामादानेऽपि विरतस्यास्तेयत्वप्रसिद्धेः, सामान्यतस्तेषां मुक्तत्वेन दत्तमेव वा मर्य न सौ पिहिवादिद्वारादीन् प्रविशतीति भावः ।। 25 तसन्यायविभाकरे [प्रपाकरण अथ चतुर्थ व्रतमभिदधाति ॥ औदारिकवैक्रियशरीरविलक्षणसंयोगादिजन्यविषयानुभवनमब्रह्म तस्मात्तथा विरतिस्तुर्य व्रतम् ।। औदारिकेति । तिर्यमनुष्याणां देवानां यच्छरीरद्वयं तस्य योऽयं विलक्षणसंयोगः बीपुंसंसर्गविशेषस्सम्पर्कः, आदिना संकल्पनाममहणदर्शनादीनां ग्रहणम् , तज्जन्यं यद्विषया. नुभवनं तदब्रह्म, पञ्चशरीरेषु औदारिकवैक्रियशरीरावच्छेदेनैवाब्रह्मसम्भवो नान्यशरीरा- वच्छेदेनेति सूचनाय तदुक्तिः । तदिदमब्रह्म द्रव्यादितो निर्जीवप्रतिमादिद्रव्येषु सनीन- पुरुषाङ्गनाशरीरेपूर्वाधस्तिर्यग्लोकेषु दिवा वा रात्रौ वा क्रोधमानमायालोमेभ्यः सम्भवति, न च चेतनस्याचेतनेन सह विलक्षणसंयोगो न मुख्यतया मैथुनमुखानुभवनहेतुरपि तूपचारत 10 इति वाच्यम् , मुख्यफलाभावप्रसङ्गात् , मुख्यसिंहगतक्रौर्यशौर्यादेर्माणवकेऽप्रवृत्तिवत्, दृश्यते च तत्र मुख्यं फलमतो नोपचारः । आसन्नदेशस्थितभ्रातृभगिन्योः शरीरसंयोगस्यावा- नुकूलत्वामावेन वषावृत्त्यै विलक्षणसंयोगेत्युक्तम् , तथा च वेदोदयप्रयुक्तविलक्षणसंयोग- वित्तपरिणामविशेषद्वारको येन विषयसुखमनुभूयते तदप्रोति फलिताः । ईशानक्ष- णोऽब्रह्मचर्य रौद्रं प्रमादोऽनन्तसंसारो लोकानादरोऽधर्म इहपरलोकापायो दर्शनचारित्र- 15 मोहनीयबन्धोऽनन्तप्राणिधातश्च फलम् । तथा चैवंविधादब्रह्मणो योगकरणत्रयेणाष्टादशंधा ज्ञानश्रद्धानपूर्वकं विरमणं चतुर्थ व्रतमित्यर्थः । औदारिकापेक्षया स्वयं न करोति मनसा पाचा कायेन वा, नान्येन कारयति मनसा वाचा कायेन वा कुर्वन्तं वा नानुमोदते मनसा वाचा कायेन वेति नवविधा, एवं वैक्रियापेक्षयापीति ॥ अथ पञ्चमं प्रतमाचष्टे- सचित्ताचित्तमिश्रेषु द्रव्येषु मूर्छा परिग्रहस्ततश्च तथा विरतिः पञ्चमं व्रतम् ॥ - . 20 १. मूलतोऽब्राह्म द्विविधमौदारिकं दिव्याच, माय तिर्यत्मनुष्याणामपरं भवनवास्यादीनाम् । तद्धि- विधमपि मनोवाकायैः करणकारणानुमोदनैश्च यथायधमटादशविध विज्ञेयम् । तच देवमनुबासुरैरभिलष- णीयं कलङ्कनिमित्तत्वेन दुर्मोचनत्वेन च पडुपनकपाशजालसनिभं स्त्रीपुनपुंसकवेदचिई तपस्सयमब्रह्मचर्यविघ्न- कर बहुप्रमादमूलं कुपुरुषरासेव्यं जन्मजरामरणशोकहेतुकं दर्शनचारित्रमोहस्य निमित्तमवसेयम् । ब्रह्मचर्यन्तु उत्तमतपोनियमझानदर्शनचारित्रसम्यक्त्वविनयमूलं यमनियमगुणप्रधानयुकं व्रतेषु प्रभाववत् प्रशस्तगम्भीर- स्थिरान्तःकरणं सुखहेतुः सिद्धगतिनिलयं मुनिवरप्रतिपालितं पञ्चमहानतमध्ये मुटु रक्षितं प्रधानमिति ।

प्रतानि ]. ५४९ न्यायप्रकाशसमलते सचिचेति । मूर्छा लोभपरिणतिभेदः, ययाऽऽत्मा मोहमुपनीयते विवेकापच्याव्यते च, प्रच्युतविवेकश्च प्रतिविशिष्टलोभकषायोंपरागायुक्तप्रवृत्तिर्न किञ्चित्कार्यमकार्य था जानाति, मूर्छयं सर्वदोषप्रसूः, ममेदमिति सति संकल्पे हि रक्षणादयस्तस्य संजायन्ते, तत्र च हिंसाऽवश्यंभाविनी तदर्थमनृतं जल्पति चौर्यश्चाचरति कचिन्मथुने कर्मण्यपि प्रवर्तते तत्प्रभवाचं नरकादिषु दुःखप्रकारा अनुभवाः, सा च मूर्छा एकद्वित्रिचतुःपञ्चेन्द्रि- 5 येषु चेतनावरसु, -आभ्यन्तरेषु क्रोधमानमायालोममिध्यादर्शनहास्यरत्यरतिभयशोकजुगु- प्सावेदास्येपु, बायेषु वास्तुक्षेत्रधनधान्यशय्यासनयानकुप्यद्विचतुष्पाद्भाण्डाल्येषु द्रव्येषु भवति क्रोधादिषु परिग्रहहेतुत्वाचस्प्रयुक्तस्वगौरवरक्षणाय तत्रानुरागाद्वा परेषु च ममेद- मित्यज्ञानविषयत्वान्मूर्छा भवति । तथा च सचित्ता योषिदादयोऽचिचा आहारादयो मिश्रा भूषणविभूषितभामिनीप्रभृतयः, एवम्भूतेषु द्रव्येषु या मूर्छा परिणामविशेषः स परिग्रहः। 10 पद्यपि वातपित्तश्लेष्मणामन्यतमस्य दोषस्य प्रकोपादुपजायमानपरिणामविशेषोऽपि मूछो तथाप्यन्त्र सचिचादिविपयिणी परिणतिर्घाया । प्रमादसहकारेणेत्यस्यानुवृत्त्या च राग- द्वेषमोहमूला हिंसावन्मूछेति लभ्यते, तेन तद्गहितस्याप्रमत्तकायमनोवाग्ज्यापारस्य संयमो- पकरणादिपूपधिशय्याहारशरीरेष्वागमानुज्ञातेषु न मूछेति विज्ञेयम् , अन्यथा शरीराहार- शिष्यादिपरिग्रहस्यापि मूत्विापत्तेः धर्मोपष्टम्मकत्वस्य त्वत्रापि समानत्वात् । न च 15 यथाऽऽध्यात्मिकेऽपि, रागादावात्मपरिणामे सङ्गो मूछों तथा ज्ञानदर्शनचारित्रेषु सङ्गो मूछा स्यादिति वाच्यम्, आत्मस्वभावानतिवृत्तेः, रागादयो हि कर्मोदयतत्रा, इत्यनात्मस्वभावा न झानादयस्तथा, आत्मस्वभावभूतत्वात् । ततश्चेति, निरुक्तपरि- महादित्यर्थः, तथा विरतिरिति, सर्वप्रकारेण यावनीवं ज्ञानश्रद्धानपूर्विका विरतिरित्यर्थः । पञ्चविधस्यास्य महाव्रतस्य दाढयोपादनार्थमेकैकस्य पञ्च पञ्च भावना भवन्ति, भावनामि- 20 नभ्यस्यमानानि महानतान्यनभ्यस्यमानविद्यावन्मलीमसानि भवन्ति । वनाहिंसाया- खावदीर्यासमितिमन समितिर्वचनसमितिरादानसमिचिरालोकितपानभोजनमिति पञ्च भा- बनाः । स्वपरवाधापरिहारफलिका पुरतो युगमात्रनिरीक्षणपूर्विका सोपयोगिनो गमन- विपयिणी प्रवृत्तिरीयर्यासमितिः । गमनक्रियायामसमितो हि प्राणिनः पादेन ताडयेत्, अन्यत्र पातयेत्तथा परितापयेत् । वस्मादीर्यासमितेनावश्यंभवितव्यम् । आरौद्रध्यानपरि- 25 १. ईर्यायामकृतेऽवधाने प्राणिनोऽभिहन्यात् पादेन ताडयदन्यत्र प्राणिनः पातयेत् पौहामुत्पादये- जोषितानपरोपयेत् तथा च कोपादानत्वातत्र समितेन भाव्यम्, तया समित्या भावितान्तरात्मा जीवो मालिन्यमात्ररहितत्वात् विशुद्धथमानपरिणामस्वादक्षतचारित्रवान्भुषावादाशुपग्मान्मोक्षसाधको भवती- त्येवं सर्वत्र भावनीयम् ॥

तत्वस्यायविमाको [यमारने हारेण धर्मध्यान, उपयोगो मनस्समितिः, वधेन बन्धेन परितापेन नृशंसं न, किचन कर्म कदापि मनसाऽल्पमपि ध्यातव्यमनेन प्रकारेण मनस्समितियोगेन जीत्रश्चित्तसत्प्रवृत्तिक- क्षणव्यापारेण वासितो. भवति । पर्व, वचसापि. प्राणिनां परिवापादिकारिणा न भणितव्यम् । किन्तु साधुना तत्र समितेन भवितव्यम् । उपधिप्रभृतीनामागमानुसारेण निरीक्षणप्रमा. । जनरूपाऽऽदानसमितिः । संयतेन हि सदा प्रत्युपेक्षणप्रस्फोटनाभ्यां प्रमार्जनया च भाजन- बलादिकं निक्षेप्तव्यं ग्रहीतव्यश्च । सनियममाहारादीनां प्रत्यवेक्षणरूपा पञ्चमी भावना; एमिः पञ्चभिर्भावनाविशेषेरहिंसापालनहेतुभिस्सदा स्वस्थचित्तेनासेवितमेहिंसालक्षणं प्रतमनाश्रवस्योपायः। द्वितीयव्रतस्य क्रोधलोमभीरुत्वहास्यप्रत्याख्यानानि- आलोच्यभाष- णमिति- पश्च भावनाः । क्रुद्धः क्रोधतरलितमनस्कतया मिथ्या बेयात्, लोभपरवशश्वार्थीको 10 क्षया, भयानः प्राणादिरक्षणेच्छया, हसन् कौतुकेनेति तत्प्रत्याख्यानानि चतस्रो. भावनाः, सम्यग्ज्ञानपूर्वक पर्यालोध्य मिथ्या मा भूदिति मोहतिरस्कारद्वारेण माषणं पञ्चमी भावना । तृतीयव्रतस्य विचिन्त्यावग्रहयाचना, पुनः पुनरवग्रहयाचना, अवग्रहधारणम् , साधर्मिकेभ्यो- ऽवमहयाचनमनुज्ञापितपानान्नग्रहणमिति पञ्च भावनाः, तत्र देवेन्द्रराजगृहपतिशय्यावर- साधर्मिकभेदमिन्नावग्रहेषु पूर्वः पूर्वो बाध्य उत्तर उत्तरो बाधक इति सम्चिन्य यः स्वामी 15 स एव याच्योऽस्वामियाचने तु दोषबाहुल्यमुक्तमित्येवं विचिन्त्यावप्रहयाचन प्रथमा । सकृहत्तेऽप्यवग्रहे स्वामिना भूयोऽवग्रहयाचन कार्य, पूर्वलब्धेऽवग्रहे ग्लानाद्यवस्थासु भूत्र- पुरीपोत्सर्गपात्रकरचरणप्रक्षालनस्थानानि दावृचित्पीडापरिहारार्थ याचनीयानि, एवं याचा- माचरनादत्तापानजनितेनागसा स्पृश्यत इति द्वितीया । एतावन्मात्रपरिमाणमेव, क्षेत्रादि ममोपयोगि नाधिकमित्यवाहस्य धारणमिति तृतीया। एवमवग्रहधारणे हि तदभ्यन्तरवर्तिनी- 20 मूलस्थानादिक्रियामासेवमानो न दातुरुपरोधकारी भवति, याञ्चाकाल एवावग्रहानवधारणे विपरिणतिरपि. दातुश्चेतसि स्यात्, आत्मनोऽपि चादत्तपरिभोगजनिवः कर्मबन्धः स्या- दिति । साधुभ्यः पूर्वपरिगृहीतक्षेत्रेभ्योऽवग्रहो मासादिकालमानेन. पञ्चकोशादिक्षेत्ररूपो याच्यः, वदनुज्ञानाद्धि तत्रासितव्यम्, तदनुज्ञातं हि तत्रोपाश्रयादि समस्तं गृहीयात्, अन्यथा स्तेयं स्यादिति, चतुर्थी । अनुज्ञया स्वीकृतानपानयोरभ्यवहारः, सूत्रोक्तप्रकारेण १. मृषावादविरतिलक्षणस्य संवरस्य गुरुसमीपे प्रयोजनमाकये हेयोपादेयवचनैदम्पर्यः सम्यग्ज्ञात्वा विकल्पव्याकुलतारहितो बचनचापल्यं विहायार्थत. कटु शब्दतः परुष साहसमतर्कित परस्य जन्तोः पीडा- कर सावधं वचनं न भाषेत.। किन्तु. सद्भूतार्थ पथ्य परिमिताक्षरं प्रतिपाद्यविवक्षितार्थप्रतीतिजनक वचनदोष. रहित उपपत्तिमिरषावितं पूर्व वुद्धया पर्यालोचितमवसरे मापेत । एवं सति संमतकर वरणनयनवदन- शूरः सत्यार्जवसम्पञ्चो भवति ।

" श्रमणधर्मा न्यायप्रकाशसमलट्टते :५३१: प्रासुकमेपणीय कल्पनीयञ्च पानान्नमानीयालोचनापूर्व गुरवे निवेद्यानुज्ञातो गुरुणा मण्डल्या- मेकको वाऽभीयात्, उपलक्षणमेतत् , यत्किञ्चिदौधिकोपप्रहिकभेदमिन्नमुपकरणं धर्मसाधनं तत्सर्व गुरुणाऽनुज्ञातं परिभोक्तव्यम् । एवं विदधानो नातिकामत्यस्तेयव्रतमिति पञ्चमी। चतुर्थव्रतस्य वीषण्डपशुमद्वेश्मासनकुझ्यान्तरोज्झनं, सरागस्त्रीकथात्यागः प्राप्रतस्मृतिवर्जनम् , स्त्रीणां मनोहरागावलोकनखाहसंस्कारपरिवर्जन,प्रणीतात्यशनत्याग इति पञ्च भावनाः देवमा-5 नुपभेदास्सचित्ताः स्त्रियः प्रतरलेप्यचित्रकर्मादिनिमिचाश्चाचित्ताः नपुंसकवेदवर्तिनो महा- मोहकर्माणः पुंस्त्रीसेवनाभिरताः षण्डाः पशवः प्रसिद्धास्तत्संसक्तवसत्यासने, अन्तरस्थेऽपि कुध्यादौ यत्र मोहनादिशब्दः श्रूयते तादृशं स्थानश्च ब्रह्मचर्यभङ्गमयेन त्याज्यमिति प्रथमा । मोहोदयानुकूलवनिताकथात्यागः, तादृशी हि रागानुबन्धिनी शृङ्गारानुविद्धा कथा चित्तविक्षेप- कारिणीति तामवश्यं त्यजेदिति द्वितीयां । प्रव्रज्याग्रहणात्पूर्व गृहस्थावस्थानुभूतकामिनीनिधु- 10 वनस्मरणस्य कामानिसन्दीपकत्वात्तद्वर्जनं तृतीया । अपूर्वविस्मयरसनिर्भरतयाऽऽपांतर- मणीयानि स्त्रियो मुखनयनस्तनजघनादीनि सप्रेम विलोकयतो निजागसंस्कायनुष्ठांनपरायण. स्य च ब्रह्मचर्य विघातोऽवश्यम्भावीवि तत्परित्यजनं चतुर्थी । स्निग्धमधुरादिरसंवत्पदार्थान् रूक्षभेक्ष्यानप्याकण्ठमभ्यवहरतो ब्रह्मक्षतिः शरीरपीडा च भवतीति तद्वर्जनं पञ्चमी । पञ्चम- व्रतस्य तु पञ्चानामिन्द्रियार्थानां मनोज्ञानां स्पर्शरसगन्धवर्णशब्दानां प्राप्तौ स्नेहवर्जन, 15 अमनोज्ञानां प्राप्तौ च द्वेषवर्जनमिति पञ्च भावनाः ।अभिष्वङ्गी हि मनोज्ञानमिलपेदमनोज्ञांश्च विद्विष्यात् | मध्यस्थस्तु मूर्छारहितत्वान्न कचित्प्रीतिमप्रीति वा करोति । एतान्येव महोब्रतानि शेषधर्माणां मूलभूतत्वात् मूलगुणाभिधेयानि, चरणसप्ततेरपि मूलगुणभूतानि, रात्रिभो- जनविरमणन्तु व्रतं न तु महाव्रतमिति न तस्यात्र निरूपणमिति ।। अथ संवरापादनसामर्थ्य निमित्तमुत्तमगुणप्रकर्षमनगाराणां धर्ममाह- 20 १. चतुर्विधस्याशनपानखादिमस्वादिममेदमिन्नस्याहारस्य सर्वथा परिवर्जन रात्राविति रात्रिभोजनविरम- णम् । स मूलगुण संयतस्यैव देशविरतस्य तूत्तरगुणस्तपोवदाहारविरमणरुपत्वात् , तप एवं वा तत्, चतुर्था- दिवदाहारत्यागरूपत्वात्, समित्यादिवन्महाव्रतसरक्षणात्मकत्वादुत्तरगुण. । न चैव व्रतधारिणोऽपि न तन्मू- लगुणमं भवतीति वाच्यम् । समस्तव्रतसंरक्षणेनात्यन्तोपकारित्वेन ब्रतिनो मूलगुणत्वाद, अन्यथा हि मूलगुणा महानतादयो न परिपूरिमतामासादयन्ति, रात्रौ मिक्षार्थमचक्षुर्विषये पर्यटनप्रसङ्गेन बहिनदीपादिसंस्पर्शनात्, दुष्टाहारग्रहणादेव प्राणातिपातप्रसङ्गात्, अन्धकारखशेन च पतितहिरण्यादिद्रविणग्रहणादिप्रसद्धात्, योपिप- रिमोगसम्भवाच । न चैव तप.प्रमृतीनामपि मूलगुणत्वप्रसको मूलगुणोपकारित्वाविशेषादिति वाच्यम् रात्रिभोजनविरमणबदस्यात्यन्तोपकारित्वाभावात् । यथाहि प्राणातिपातादीनां पञ्चानामैकतराभाये पाणाम- भावान्मूलगुणत्व तथा रात्रिभोजनविरमणस्याप्यमावे सर्वव्रतामावादत्यन्तोपकारिखान्मूलगुणत्वम् । देशविरतस्य तु उत्तरगुणत्वमारम्मनप्राणातिपातादस्यानिवृत्तत्वादिति भाव्यम् ॥

:५३२: तत्त्वन्यायविमाकरे [प्रथमकिरणे क्षमामार्दवार्जवशौचसंत्यसंयमतपस्त्यागाऽऽकिश्चन्यब्रह्मचर्याणि मणधर्माः॥ क्षमेति । अनगारा हि सर्वावस्थां क्षमन्ते सकलमदस्थाननिग्रहिणः शाट्यरहिता- स्सन्तोषामृतस्प्तास्सत्यवादिनस्संयमिनस्तपस्विनो यथावत्यागिनः कनकादिकिश्चनरहिता- । सर्वप्रकार ब्रह्म बिभ्रति न गृहिणोऽत एते क्षमादयः . श्रमणधर्माः कथ्यन्ते । यो हि सर्पसमः परकृताश्रयनिवासात्, गिरिसमः परीषहोपसर्गनिष्पकम्पत्वात्, न्वलनसमस्तप- स्तेजोमयत्वात् , सागरसमो गम्भीरत्वात् , ज्ञानादिरलाकरत्वात्स्वमर्यादानतिक्रमाच, नम- स्तलसमः सर्वत्र निरालम्बनत्वात् , तरुगणसमः सुखदुःखयोरदर्शितविकारत्वात्, भ्रमर- समोऽनियतवृत्तित्वात् , मृगसमस्संसारभयोंद्विग्नत्वात्, धरणिसमः सर्वखेदसहिष्णुत्वात्, 10 जलरुहसमः कामभोगोद्भवत्वेऽपि पङ्कजलाभ्यामिव तदूर्ध्व वृत्तः, रविसमः धर्मा- स्तिकायादिलोकमधिकृत्याविशेषेण प्रकाशकत्वात् पवनसमश्च सर्वत्राप्रतिबद्धत्वात्, एवंभूत- स्य अंमणस्यैते धर्मो इति भावः ।। . , वन क्षमास्वरूपमाह- सति सामर्थ्य सहनशीलता क्षमा । सापराधिन्यप्युपकारबुद्धिरव- 15 इयम्भावित्वमंतिरपायेषु, क्रोधादिषु दुष्टफलकत्वज्ञानमात्मनिन्दान- वणेऽप्यविकृतमनस्कत्वं क्षमैवात्मधर्म इति बुद्धिश्च क्षमायामुपकारिकां ॥ सतीति । प्रतीकारानुष्ठानेऽशक्तस्य दुर्मेधसो या सहिष्णुता तद्वपावनाय सति सामर्थ्य इति, सहनशीलतेति, क्रोधोत्पत्तिनिमित्तानां सन्निधाने कालुष्याभावः उदिवस्य वा क्रोधस्य नैष्फल्यापादन विवेकादिभिः सा क्षमेति भावः । तथा च प्रतीकारानुष्ठाने शक्त- 20 स्यापि सहनपरिणामविशेषः क्षमेति भावः । वस्या उत्तेजकानाह सापराधिनीति, आत्मनि परप्रयुक्त क्रोधनिमित्तं पश्यन्नपि निर्विवेकोऽयमेष एवास्य स्वभावो मूढत्वाद्यदेवं प्रयुके प्रत्यक्षं परोक्षं वाऽऽक्रोशषचनादिकम् , यद्वाऽयं मयि क्रोधनिमित्तं नोद्भावयेत्तदा मे कथ सहनशीलताजनितकर्मक्षयात्मको लाभः स्यादतोऽत्राय महानुपकारीत्येवं विचिन्तयता क्षमितव्यमेवेति भावः । निरपराधिन्युपकारबुद्धिन क्षमाया महत्त्वापादिका किन्तु सापरा- 28 धिनीति सूचयितुमपि शब्दा। अवश्यम्भावित्वेति, अपायेषु परप्रयुक्तप्रत्यक्षपरोक्षाकोशता- डनमारणधर्मादिषु अवश्यम्भावित्वमतिः जन्मान्तरोपात्तस्य कर्मणो विपाकोऽयमवश्यम्भावी, यदाक्रोशताडनादिकं विदधाति केवलं निमिचमात्रमेव पर: कर्मोदयस्य । आख्यातो हि धमणधर्माः न्यायप्रकाशसमलते भगवता द्रव्यक्षेत्रकालभवभावापेक्षः कर्मणामुदयः स्वकृतच कर्मानुभवितव्यमवश्यन्तया निकाचितं तपसा वा क्षपणीयमिति भावः । क्रोधादिष्विति, कपायपरिणतो विद्वेषी कर्म बध्नाति परं वा निहन्ति, अतः प्राणातिपातनिवृत्त्यात्मकनतमङ्गः स्यात् , क्या गुरूनधिक्षिपेत् । अवो ज्ञानादिनिर्वाणसाघनप्रहाणमवश्यम्भावि, क्रुद्धो वा प्रभ्रष्टस्मृतिम॒घाऽपि माषेत्र विस्मृत- प्रत्रव्याप्रतिपत्तिः परेणादत्तमायादीत, द्वेषात्परपाखण्डिनीषु ब्रह्मव्रतमगमप्यासेवेत, तथा । प्रद्विष्टरसहायबुद्धया गृहस्थेष्वविरतेपु मूर्हामपि कुर्यात् उत्तरगुणभक्कमप्याचरेदिति भावः । आत्मनिन्देवि, आत्मनो निजस्य या निन्दा परप्रयुक्ता क्रोधादिनिमित्ता तस्याः श्रवणेऽपि स्वस्मिन् सदसत्त्वचिन्तयाऽविकृतमनस्कत्वं क्रोधादीनामुदयनिरोध उदितस्य वा विवेकबलेन नैष्फल्यापादन क्षमोपकारीत्यर्थः । क्रोधादिनिमित्तानां स्वस्मिन् भावे हि किमत्रा- सौ मिथ्या ब्रवीति ? विद्यन्त एव मय्येते दोषा इति क्षमितव्यम्, अमाचे 10 च न सन्त्येव मयि दोषा अज्ञात्वैवैतान् दोषानयमुपक्षिपति, एवञ्चात्मानं निरपराधिन- मवेत्य सुतरां क्षमितव्यमिति भावः । क्षमैवेति, आत्मनः अमैव मूलोत्तरगुणप्रवर्धकोऽ- साधारणो धर्म इति बुद्ध्या प्राप्तेऽपि क्रोधादिनिमित्ते क्षमितव्यमिति भावः। ईदृशीनां भावनानां सत्त्वेऽवश्यम्भाविनी क्षमेत्याह क्षमायामुपकारिकेति, उपकारेण क्षान्तिरपकारेण शान्तिविपाकक्षान्तिर्वचनारक्षान्तिर्वारमान्विरिति पञ्चधा क्षान्तिर्भाच्या ॥ अथ मार्दवं स्वरूपयति-- गर्वपराङ्मुखस्य श्रेष्ठेष्वभ्युत्थानादिभिर्विनयाचरणं मार्दवम् । जाति- रूपैश्वर्यकुलतपाश्रुतलाभवीर्येष्वहम्भावो मार्दवविरोधी अतस्ततो 15 . निवर्तत॥ 20 गर्नेति । चित्तपरिणामविशेपो गर्वस्तस्मात्पराद्रमुखस्य तद्विघुरस्य श्रेप्टेष्वाचार्यादिषु यथायोग्यमभ्युत्थानासनादिभिर्विनयाचरणं नीचैवर्तनं मार्दवं मदनिग्रह इत्यर्थः । मदो हि जात्यादिप्रयुक्तोऽहम्भात्रो यद्विजृम्भणादेते जात्यादिमदाः प्रादुर्भवन्ति यस्य निग्रह उदय- निरोध उदितस्य वा निष्फलत्वापादनम् , तद्धाते चावश्यम्भावी मदविनाश इति भावः । मार्दवे सति हि जीवोऽनहड्तारित्वं प्राप्नोति तेन सकलमध्यजनमनस्सन्तोषहेतुत्वाकोमलो द्रव्यतो भावतश्च सरलो भवति तादृशम्मन्नष्टौ मदस्थानानि क्षपयतीति, तत्र मार्दवविरोधभूनान्यष्टौ 25 मदस्थानान्याह जातीति, पितुरन्वयो जातिस्ततो विख्यावतमवंशतया गर्वमुद्वहति जन्तुः, विशिष्टजात्युद्भवोऽहमिति । विदितकर्मपरिणामस्तु जातिमदं स्वकृतकर्मफलभाक्त्वानीब उच्चावचनानाजाती: प्राप्नोतीत्यप्रेयस्कारतया निरुणद्धि। लावण्ययुक्ताकायावयवानां विशि- 1 . तस्वन्यायविमाकरे [प्रथमकिरणे प्रसन्निवेशो रूपम् , कश्चित्तेनापि माधति, कारणादिपर्यालोचनया च तेनापि मंदो न कार्यः । ऐश्वर्य धनधान्यादिकम् , तेनापि कर्मानुभावादप्राप्तेन प्राप्तेन वा संरक्ष्यमाणेन छेशकारिणाऽ- काण्डमङ्गुरेणाऽऽयतावायासबहुलेन को मद इत्येवं प्रत्याचक्षीत । मातुरन्वयः कुलम्, सेनापि जातिमदवन्न कार्यः । तपो बाह्यान्तरभेदभिन्नम् , तेन चाहमेव तपस्वीति मन्यमानः परान 5 परिमवति, तस्माचाशुभ कर्म बन्धमेति यदनेकभवपरम्परासु परिनिष्ठास्यतीति सापायम- वगम्य तन्मदं प्रत्याचक्षीत । श्रुतमाप्तप्रणीत आगमः, तद्विज्ञानेनाहमेवैको विज्ञो नापर इति मायचि तस्माचान्यं वालिशमेव मन्यते तच्च निजिघृक्षुरेवं विचिन्तयेत्, क्षयोपशमो हि प्रकर्षाप्रकर्षरूपो मत्तोऽन्येऽपि बहुश्रुताः सन्त्येव, अहं कदाचिदन्येभ्योऽल्पश्रुतः, आगमाना- मतिगहनार्थत्वात् , अधिगतश्रुतोऽपि दुरधिगततदर्थः स्यामिति श्रुतमदत्यागः श्रेयान् । 10 लामः प्राप्तिः, विज्ञानतपोऽभिजनशौर्यायाधिकानृपतिसन्मित्रभुत्यस्वजनेभ्यो विशिष्टफलं सत्कारसन्मानादिकमहमेव लभेयं नापरः प्रयत्नवानपि, इति स्वलामेन माद्यन्ति सकल- जनवल्लमतां प्राप्तोऽहमयमपरो न कस्मैचिद्रोचते वचनमप्यस्य नाद्रियन्तेइति सर्वोऽप्ययं लाममदो निग्रहीतव्य एव, लाभान्तरायकर्मोदयादलाभस्तरक्षयोपशमाच सत्कारादिलामा, संसारे परिभ्रमतो जीवस्य कादाचित्को न शाश्वतः कर्मतन्त्रत्वात्संसारानुवन्ध्येवेति लाम- 16 मदत्यागः श्रेयस्करः । वीर्य पराक्रमः, तन्मदोऽपि विचारात्त्यान्यः, वीर्यान्तरायक्षयोप- शमाद्वीर्यस्य प्रादुर्भावः, संसारानुवन्धिनस्तस्य कषायरूपत्वेनाशाश्वतत्वान्न तन्मदः कार्यः, बलिनोऽपि हि पुरुषा नैवल्यमुपयन्तो दृश्यन्ते निर्बलाश्च बलवन्तस्तथा व्याधिजराप्रभृति- पूतबलेषु चक्रवर्तिहरिसीरिणोऽपि सीदन्ति ससुरासुराः किमुतान्ये जना इति वीर्य- मदान्धुपरमः श्रेयानिति । अहम्भाव इति, मद इत्यर्थः । मार्दवविरोधीति, मवस्थानैरे- 20 मिरष्टमिर्मचः परात्मनिन्दाप्रशंसाभिरतस्तीव्रवराहकारोपहतमना इहामुत्राशुभफलं कर्मोपचि. नोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते तस्मादेते श्रमणधर्मस्य मार्दवस्य विघातका इति भावः । अत इति, यत एते माईषविरोधिनोऽत एवेत्यर्थः, ततो निवतेति, एषां भदस्थानानां निग्रहो विधेय इत्यर्थः ।। अथ मायाप्रतिपक्षिभूतमार्जवमाह- । - १, वीर्य विविध औदविकभावनिष्पन्नस्य कर्म, औदधिकोऽपि भाव कर्मोदयनिष्पन्न एव वालवीर्यम् वीर्या- न्तरायक्षयजनितं जीवस्य सहज वीर्य, चारित्रमोहनीयोपशमक्षयोपशमजनितञ्च पण्डितवीर्यमिति । माया नानाविधक्रिया प्रवर्तमानमुत्साहवलसम्पन्नपुरुषं दृष्ट्वा वीर्यवानमिति व्यपदिश्यते तथा तदावारककर्मणः क्षयादन- न्तबल्युक्तोऽयमिति च व्यपदिश्यत इति ।

5 . - भ्रमण धर्माः] न्यायप्रकाशसमलते कायवाचनसां शाव्यराहित्यमार्जवम् | भावदोषयुक्तो हि इहामुत्र चाकुशलाशुभफलं कर्मोपचिनोति ॥ कायेति । अन्यनिमित्तं कुन्जादिवेषभ्रूविकारादीनामकरणादुपहासादिहेतोरन्यदेशादि- भाषया भाषणपरित्यागात् परविप्रतारणाद्यचिन्तनाच जीवो धर्मस्याराधको भवति, विशु- द्वाध्यवसायत्वेन जन्मान्तरेऽपि तदवाप्तः, तस्मान्मायावक्रतापरित्याग आर्जवमिति भावः । मायावी हि सर्वाभिसन्धानपरतया सर्वामिशङ्कनीयः कपटपटप्रच्छादितकायादिक्रियस्सुख- देऽपि दुह्यति । शाव्यकृत्यमाह अकुशलेति, अकुशलं पापं तदपि बद्धं. कदाचित्कुशलफलतया परिणमत इत्यशुभफलमित्युक्तम् ॥ अथ लोभप्रतिद्वन्द्वि.शौचं स्वरूपयति- कालुष्यविरहः शौचम् । तद् द्रव्यभावमेदाद् द्विधा, शास्त्रीयविधिना 10 यतिजनशरीरगतमहाव्रणादिक्षालनमाद्यम् । रजोहरणाविष्वपि मम- ताविरहो द्वितीयम् । ममत्वमत्र मनाकालुष्यम् । कालुष्येति । कालुष्यमशुचिलोंभरूपा, सचित्ताचित्चमिश्रवस्तुविषयाभिष्वङ्गलक्षणलो. भाति क्रोधमानमायाहिंसानृतस्तेयाब्रह्मपरिग्रहार्जनमलजालेनोपचीयमान आत्मा भवत्यशुचिः, तत्तस्तद्विरहः शौचमित्यर्थः । तद्विमजते तदिति, शौचमित्यर्थः । शास्त्रीयविधिनेति, प्रासुकैष- 15 णीयेन जलादिनेति भावः । क्षालनमिति, निर्लेपनिर्गन्धतापादनमित्यर्थः । द्वितीय भेदमाह रजोहरणादिष्वपीति, आदिना मुखवत्रिकाचोलपट्टकपात्रादयो ग्राह्याः, अत्र कल्मषरूपममखस्य लोमरूपतया मनोविषयत्वादाह ममत्वमिति, ननु मनोगुप्तौ शौचस्यान्तर्भावात्पृथग्ग्रहणमन- र्थकमिति चेन्न मनोगुप्तौ मानमपरिस्पन्दप्रतिषेधावत्र तु परकीयेषु वस्तुष्यनिष्टप्रणिधानोपर- मस्य विधानात् । न चाकिञ्चन्येऽन्तर्माव इति वाच्यम्, तस्य निर्ममत्वप्रधानत्वात् , स्वश- 20 रीरादिषु संस्काराद्यपोहार्थमाकिश्चन्यमिष्यते तेन द्रव्यशौचासङ्ग्रहोऽपि स्यादिति ।। अथ सत्यं निरूपयति- यथावस्थितार्थप्रतिपत्तिकरं स्वपरहितं वचः सत्यम् ॥ यथावस्थितेति । यथावस्थितस्यानन्तधर्मात्मकस्यार्थजातस्य तथैव प्रतिपत्तिकर वोधक स्वस्मै-परस्मै च हितं वचनं सत्यमित्यर्थः । अनेकपर्यायकलापमानामर्थानां हि यथावस्थि- 25 तविवक्षिवपर्यायप्रतिपादन सत्यम्, एतदेव जीवाजीवेभ्यो हितं यद्यथार्थप्रतिपादनमिति . तत्वम्यावविभाकरे [प्रथमकिरणे भावः । तथा भूतनिहवाभूतोद्भावनविपरीतकटुकसावधादिपूर्वोदितस्वरूपभिन्नं न परपीडा- कारि, सत्यासत्यदोषाख्यानप्रीतिविच्छेदकारिवचनभिन्नत्वात् । सभासु यन्न विगहितं नाना- लोचितवचनं प्रसन्नवचनं, श्रोतुरनादरवाक्यप्रयोगाच्छ्रवणवैरस्यकारिभाषणमिन्नमव्यक्त- वर्णपदलोपत्वादप्रत्ययकारित्वरितवचनभिन्न प्रसन्नपदघटितं श्रुतिसुखं विनयसहित निराकांक्षं 5 निश्चितार्थमनौद्धत्यप्रदीपकमुदारार्थ विद्वजनमनोरम,मायालोमाभ्यां क्रोधमानाभ्याश्चायुकं वचन सूत्रमार्गानुसारि, अर्थिजनचित्तग्रहणसमर्थमात्मपरानुप्राहक देशकालोपपन्नं प्रभव्या- करणमिति सत्यात्मको धर्मः। ननु भाषासमितावस्यान्तर्भाव इति चेन्न भाषासमिती सीध्वसांधुभाषाव्यवहारे हितमिवार्थत्वात् , संयतो हि साध्वंसाधुषु च भाषाव्यवहार कुर्वन् हितं मितञ्च ब्रूयात् , अन्यथा रागानर्थदण्डादिदोपानुषङ्गः स्यादिति समितिलक्षणमुक्तम् , 10 अत्र तु सन्तः प्रबजितास्तद्भता वा तेषु साधु सत्य ज्ञानचारित्रशिक्षणादिषु धर्मोपहणार्थ बह्वपि वक्तव्यमित्यनुज्ञायत इति विशेषः ।। चरणे- पृथगुक्तस्यापि संयमस्य श्रमणानामसाधारणधर्मत्वप्रज्ञापनाय तदसतया तव्या- ख्याति- इन्द्रियदमनं संयमः । तपस्तु पूर्वमेवोक्तम् ॥ इन्द्रियेति । इन्द्रियानिन्द्रियनियम इत्यर्थः । पञ्चेन्द्रियाणां स्वस्वविषयेषु स्पर्शादिषु लाम्पट्यपरिहारेण वर्तन, प्राणातिपातमृषावादादचादानमैथुनपरिग्रहात्मकपञ्चाभिनवकर्मन- न्धहेतुभ्यो विनिवर्तनं क्रोधमानमायालोमानां जयो मनोवाक्कायानामशुभप्रवृत्तिनिरोध इति सप्तदशविधानां संयमानामन्त्र ग्रहणार्थ - बोपलक्षणतयेन्द्रियदमनमित्युक्तम् । इन्द्रियाणां पञ्चानां दमनं स्वस्वविषयेभ्यो.लोलुपत्वाभावापादनं संयम इत्यर्थः । उपलक्षकमिदमुपर्यु- 20 कानां सर्वेषाम् । अत एवं भाषादिनिधृत्तिर्विशिष्टा कायादिप्रवृत्तिरात्यन्तिकस्ससस्थावरवध- प्रतिषेध इति लक्षणान्युक्तानि, प्रथमस्य निवृत्तिनधानायां गुप्तौ द्वितीयस्य च समितावन्त- भर्भावापते, ,अन्त्यस्य च यथाख्यातविशुद्धचारित्रान्तर्भावापत्तेः पृथसंयमग्रहणानर्थक्यं स्यात् । किन्त्वीर्यासमित्यादिषु वर्तमानस्य मुनेसत्पाळनार्थमिन्द्रियादिनिवृत्तिरेव संयम इति भावः । रसादिधातूनां कर्मणां वा सन्तपनहेतुस्तपो निर्जराव्याख्यायां व्याख्यातमेवेति 25 नात्र पुनरुच्यत इत्याह-तपस्त्विति, चरणमध्ये पठितमपि श्रमणधर्मत्वप्रख्यामनायात्र पुन- रक्तमपि न पौनरक्य भाछ । पूर्वमेवेति, निर्जरानिरूपणावसर एवेत्यर्थः ॥ अर्थ मुक्त्यपरपर्याय त्यागमभिदधाति- बाह्याभ्यन्तरोपधिशरीरानपानादिविषयकभावदोषपरित्यजनं त्यागः।। 15 - , . श्रमणपा] न्यायप्रकाशसमलते पायेति । भावदोषो मूर्छा तृष्णा स्नेहो वा तत्परित्यजनं परिहारस्त्याग इत्यर्थः, वन विषयनियममाह बाह्येति, बाझो रजोहरणपात्रादिः स्थविरजिनकल्पयोग्य उपधिः, आभ्यन्तरः क्रोधादिरतिदुस्त्यजः, शरीरमाभ्यन्तरमन्नपानादि बाह्यमेतद्विषया ये बाह्यदोषा- स्तत्परित्यजनं त्याग इत्यर्थः, रजोहरणादीनि धर्मसाधनानीत्येवं बुद्ध्या धारयेन्न तु रागा. दिप्रयुक्तः शोमाद्यर्थम् । तथाचार्य त्यागो वाह्याभ्यन्तरवस्तुविषय आसवद्वाराणि संवृणोति, 5 अवस्सर्वात्मना त्यागिना भवितव्यमित्येष श्रमणधर्मः । ननु तपोऽन्तर्गतेऽनेषणीयस्य संस- कस्य वाऽन्नादेः कायकषायाणाञ्च परित्यजनरूप उत्सर्गे त्यागस्यास्य ग्रहणादन तदुपादा- नमनर्थकमिति चेन्न तस्य नियतकालं सर्वोत्सर्गरूपत्वात् अस्य तु यथाशक्त्यनियतकाल- त्वेन विशेषात् । न च शौचेऽन्तर्भावसम्भव इति वाच्यमसन्निहिते कर्मोदयवशादुदितस्य गार्श्वस्य निवृत्त्यात्मकत्वाच्छौचस्य, त्यागस्य तु सन्निहितेऽपि तन्निवृत्तिरूपत्वात् , संयतस्य 10 खयोग्यज्ञानादिदानस्य वा त्यागरूपत्वादिति ।। अथ यागोत्तरकालभाविनमाकिश्चन्यमाह- शरीरधर्मोपकरणादिषु मूर्छाराहित्यमाकिश्चन्यम् ।। शरीरेति । नास्ति किञ्चन द्रव्यमस्येत्यकिञ्चनस्तस्य भाव आकिश्चन्यमुपलक्षणत्वाच्छ- रीरधर्मोपकरणादिष्वपि निर्ममत्वमित्यर्थः । मूर्छा हि ममेदमित्यभिसन्धिस्तत्सत्त्वे च 13 शरीरादीनवयवसन्निवेशशोमार्थ परिपालयेत् , ववश्चासवे पतेत्, अतो नश्वरा एते शरीरा- दयोऽशुचिवड्यांसादिपरिपूर्णा धर्मसाधनार्थमेवाहारादिनोपप्राया इति मूछ तो निवर्चेत, तथा चोपातेष्वपि शरीरधर्मोपकरणादिषु ममेदमित्यभिसन्धिनिवृत्तिराकिञ्चन्यमिति भावः ।। अथाऽऽकिश्चन्येऽवस्थितस्य ब्रह्मचर्यपरिपालनमावश्यकमिति तत्स्वरूपमाविष्करोति- व्रतपरिपालनाय ज्ञानाभिवृद्धये कषायपरिपाकाय च गुरुकुलवासो 20 ब्रह्मचर्यम् ॥ व्रतेति | व्रतमब्रह्मनिवृचिरूप मैथुनवर्जनं तत्परिपालनाय गुरुकुले वासो ब्रह्मचर्य- मुच्यते, एतेन स्वातंत्र्येणावस्थान प्रविक्षिप्तम्, सदा गुर्वधीनेन गुरुनिर्देशावस्थायिना च भवितव्यम् । गुरुकुलवासात्मकब्रह्मचर्यस्य फलान्तरमन्याह-ज्ञानामिवृद्धये कषाय- परिपाकाय चेवि, तत्र वासे ज्ञानवृद्धिर्मवति दर्शने चारित्रे च स्थैर्य भवति तथा 28 क्रोधादीनां परिणतेरुपशमः क्षयोपशमः क्षयो वा भवति । गुरुरहितस्य हि परिणाम. ।

तस्वन्यायविमाकरे [प्रथमाकरण वैचित्र्याद्विकथादिदोषादसज्जनसम्पर्कादसत्क्रियासनादनुस्रोतोगामित्वदोषात्सद्य एव मोक्ष- मार्गावंशः स्यात् । तस्मादाप्राणितागुरुकुलवास: श्रेयानिति भावः । गुरुकुले वसता ह्याप्तोपदेशपालनाद्यथाशक्ति ज्ञानाभिवृद्धिद्वारा चरणं परिपूर्ण सम्पद्यते । ननु गुरुकुले वसतोऽपि कदाचित्तदविकलं न दृश्यत इति चेन्न ग्लानाद्यवस्थासु प्रत्युपेक्षणादिबाह्यसद- 5 नुष्ठानासदावेऽपि सद्गुरूपदेशश्रवणसञ्जनितसंवेगेन तद्भावान् । ननु श्रमणधर्मे प्रक्रान्ते क्षमादीनामेवोत्कर्षण युक्तं तद्रूपत्वात्तस्य, किं गुरुकुलवासोत्कर्षणेन, आश्रयमानत्वात्तस्येति चेन्न गुरुकुल एव सम्यग्विनीतवया स्थितानां यतीनां साधुधर्मतया सम्मतानां क्षमादीनां प्रकर्षतो निष्पत्तेः, तद्वासत्यागे चैतेषां सुष्ठु विशुद्धिर्न भवेदेव, इतरेतरस्नेहरोषविषादादीनां भावादेषणायाश्च बाधसम्भवादपरिशुद्धिरेव स्यात् , तथा न केवलं क्षमादीनामविशुद्धिरपि 10 तु गुरुकुलवासत्यागिनो नियमेन शान्त्यायभाव एव, कषायोदयात् । ततो ब्रह्मचर्य न भवति तत्त्यागे तगुप्तिरपि न भवति, यतिजनसहायतायामेव ब्रह्मचर्यगुप्तित्वात्, ततः शेषाण्यपि नेति समस्तव्रतमङ्गः स्यात् । अत एवैकाकित्वे बहुतमदोषाः शाने श्रूयन्ते एगस्स को घम्मो' इत्यादि । गुरुविषयकवैयावृत्त्येन जिनप्रवचनार्थप्रकाशनगच्छ- पालनादौ सहायकरणतः कर्मक्षयलक्षणं महाफलं गुरुकुलवासिनो भवति, अन्यथा सर्वदा 15 वैयावृत्त्यतपोज्ञानचारित्रविशुद्धबादीनां गुरुसंसर्गसाध्यगुणानां व्याघातादिप्राप्तः । शोभन- गुणान्तरायान्महान् दोषोऽपि स्यात् , तथा च तत्र वसन् गुदेशं प्रतीक्षमाणस्समीपव- त्येव स्यात् । इत्थंभूत एव ज्ञानदर्शनचरणेषु स्थिरतरो भवति यतोऽष्टादशशीलाङ्ग- सहस्ररूपनिखिलगुणमूलभूतो गुरुकुलवासः, अतश्चरणकामी गुरुकुलेऽवश्यं वसेत् । नन्या- गमे यतेराहारशुद्धिरेव मुख्यतश्चारित्रशुद्धिहेतुरुक्ता, पिण्डविशुद्धिश्च बहूनां मध्ये वसतां 20 दुष्करैव प्रतिभासते, इत्येकाकिनापि भूत्वा सैव विधेया, किं ज्ञानादिलाभेन, मूलभूतस्य चारित्रस्यैव मुख्यतया पालनीयत्वादिति चेन्न वस्य गुरुपारतंत्र्यस्यावर्जितत्वात् , द्वितीयसाध्व पेक्षाभावे लोभस्यातिदुर्जयत्वात्, प्रतिक्षणं परिवर्तमानपरिणामेनकाकिना पिण्डविशुद्धेरपि पालयितुमशक्यत्वात्, अत एव गुरुवासपरित्यागाच्छुद्धोञ्छशुद्धोपाश्रयवनपात्रादिपरिग्रह- स्याप्यशोभनत्वमागमे प्रोक्तमिति । क्षमया क्रोधं निहन्यात्, निहतकोधो माईवं धारयेत्, 25 परित्यक्तमदस्थान आर्जवं भावयेत्, मावदोषवर्जनेन निगूढदोषां मायामार्जवेन दूरीकृत्या- " १. यदि तु गच्छो गुरुश्च सर्वथा निवगुणविकलो भवेत्तदाऽऽगमोकेन विधिना त्यजनीया, परं कालापेक्षया योऽन्यो विशिष्टतरस्तस्योपसम्पद् ग्राह्या न पुन स्वतंत्र स्थातव्यम् , तस्माद्यावजोवं गुरोरन्तिक सन्मार्गानुष्ठानमिच्छेत् । स एव हि परमार्थतो मनुष्यो यो यथाप्रतिजातं निर्वाहयति तच्च सदा गुरोरन्तिके व्यवस्थितेन सदनुष्ठानरूप समाधिमनुपालयता निर्वायते तस्मात्सदा गुरुकुलवासोऽनुसतव्य इति बोध्यम् ॥

संयमभेदाः] न्यायप्रकाशसमलट्टते :५३९ : लोभसंश्रयेण शौचमाचरेत्, लोभाशौचमलोभशौचेन संशोध्य विशुद्धामा सत्यं ब्रूयात, सत्यभाषी सप्तदशविधं संयममनुतिष्ठेत् , संयतात्मा शेषाशयविशोधनार्थ तपश्चरेत् ततः कायवाइमानसेषु धर्मोपकरणेषु च निःस्पृहत्वान्निर्ममत्वाख्यमाकिञ्चन्यं भावयेत्, सत्या- किश्चन्ये परिपूर्ण ब्रह्मचर्य भवतीति पूर्वपूर्वस्य कारणत्वमुत्तरोत्तरस्य कार्यत्वं भाव्यम् ॥ अथ चरणमूलभेदं तृतीयं संयममाह- सनियमं शरीरवाझनोनिग्रहः संयमः । स च सप्तदशविधा, प्रथि- व्यतेजोवायुवनस्पतिकायद्वित्रिचतुः पञ्चेन्द्रियप्रेक्ष्योपेक्ष्यापहृत्यप्रमृज्यका- यवाझनउपकरणसंयमभेदात् ।। सनियममिति । क्रियाविशेषणमिदम् , शरीरवाअनसां प्रवचनोकेन एवमेव- गन्तव्य स्थातव्यं चिन्तयितव्यं भापितव्यमिति नियमानुगुणं निग्रहः स्वाभाविकप्रवृत्तिनि- 10 रोधः संयम इत्यर्थः । तस्य प्रभेदमाह स चेति, संयमश्चेत्यर्थः, सप्तदशविघत्वं दर्शयति पृथिवीति, वनस्पत्यन्तं द्वन्द्वं विधाय कायपदेन बहुव्रीहिः, तथा द्वयादिपश्चान्त्र द्वन्द्वं विधायेन्द्रियपदेन वहुव्रीहिस्ततः सर्वेषामुपकरणान्तानां द्वन्द्वं कृत्वा संयमपदेन तत्पुरुषः, तथा च पृथिवीकायसंयमोऽष्कायसंयम इत्यादिरों लभ्यते, ये जीवाः पृथिव्यादिकायाः द्वीन्द्रियादयश्च तेषां संयम इत्यर्थः । 15 वान् दर्शयति- तत्र पृथिवीकायिकादारभ्य पञ्चेन्द्रियं यावद्ये नवविधा जीवास्तेषां करणत्रयैः कृतकारितानुमतिभिा संघपरितापव्यापत्तिपरिहारः पृथिवी- कायिकादिसंयमो नवविधो ज्ञेयः॥ . तत्रेति । सप्तदशविधसंयमेषु मध्य इत्यर्थः, पृथिवीकायिकादारभ्येति, ये जीवाः पृथि- 20 व्यादिशरीरा द्वीन्द्रियादयश्च नवविधानां तेषामित्यर्थः, करणत्रयैरिति, कायवाल्मनोमि- रित्यर्थः, कृतकारितानुमतिभिरिति, करणकारणानुज्ञानैरित्यर्थः। संघट्टपरितापच्यापत्तिपरिहार इति, संघट्टः संरम्भः प्राणातिपातकरणसङ्कल्पः, प्राणिवधानुकूलान्योऽन्यगात्रसंहतीकरणं वा पाराश्चिकादिप्रायश्चित्तयोग्यम् । परितापस्समारम्मो मानसिकवाचिककायिकभेदः, तत्राद्यः परपीडाकरोच्चाटनादिनिवन्धनमंत्रादिध्यानरूपः, द्वितीयः परपरितापकरक्षुद्रविद्या- 25 दिपरावर्तनासंकल्पसूचकम्वनिरूपः, तृतीयोऽभिघाताय यष्टिमुष्ट्यादिकरणं तद्वर्जनमिति- १ :५४०: तत्वन्यायविमाकरे [प्रथमकिरणे भावा, ज्यापत्तिविनाशः प्राणवियोग इति यावत् तस्या अपि वर्जनमित्यर्थः । एवेन नवविधस्संयम उक्त इसाह नवविध इति । प्रेक्ष्योपेक्ष्यसंयमे आह- स्थानादीन् विलोक्य क्रियाचरणं प्रेक्ष्यसंयमः । साधुप्रभृतीन् प्रवच- नोदितक्रियासु व्यापारयता स्वस्वक्रियासु व्यापारवतो वा गृहस्थादीनुपे- क्षमाणस्य संयम उपेक्ष्यसंयमः॥ स्थानादीनिति । स्थानं शयनासनचकमणयोग्य, आदिना स्थण्डिलादेः परिग्रहः, विलोक्य चक्षुषा सम्यक्तया दृष्ट्वा यथा बीजहरितजन्तुसंसक्तादिरहितं भवेदित्यर्थः । क्रियाचरणं शयनादिविधान प्रेक्ष्यसंयमः प्रेक्षासंयम इत्यर्थः । उपेक्ष्यसंयममाह साधुप्रभृती- 10 निति, उपेक्षाशब्दोऽत्र चित्तव्यापारविशेषेऽव्यापारे च वर्तते व्याख्यानात्, तत्र क व्या- पारः क वाऽव्यापार इत्यत्राह प्रवचनेति, वथा च संयम प्रति सीदतां साधूनां प्रवचनवि- हितानुष्ठानेषु प्रेरणं, पापव्यापारमाचरतो गृहस्थस्याप्रेरणमिदं प्रामचिन्तनादिकं सोपयोगं कुर्वियादिरूपेणाशनच कुर्वत उपेक्ष्यसंयम उपेक्षासंयमापरनामा भवतीति भावः ॥ अपहत्यादिसंयम वक्ति- चरणानुपकारकवस्तुनिग्रहो विधिना च प्राणिसंसक्तभक्तपानादिप- रित्यजनमपहृत्यसंयमः | दृष्टिदृष्टस्थण्डिलवस्त्रादीनां विशिष्टप्रदेशगमने रजोऽवगुण्ठितपादादीनाच रजोहरणादिना प्रमार्जनं प्रमृज्यसंयमः ॥ चरणेति । अपहृत्यापुनर्ग्रहणतया त्यक्त्वा संयम लभते, तत्र त्यागः संयमानुपयोगिनां वस्त्रपात्रायतिरिक्तानाम् , तदुपयोगिनां प्राणिसंसक्तानामन्नपानादीनां जन्तुरहिते स्थाने 20 समयमणितेन विधिना परिष्ठापनं, तथाकुर्वतश्च परिष्ठापनासंयमापरपर्यायोऽपत्यसंयमो भवतीत्याशयेनाह चरणेति । वत्स्यथ प्रमृज्यसंयम दृष्टीति, प्रमार्जनं कुर्वतः संयमो भवति तब द्विविधं यथा प्रेक्षितेऽपि स्थण्डिले वस्त्रपात्रादौ चरजोहरणादिना प्रमार्जनमेकम् , अपरन कृष्णभूप्रदेशात्पथि पाण्डभूप्रदेशं गच्छतः स्थण्डिलादस्थण्डिलाद्वा स्थण्डिलं संक्रामतः स- चित्ताचिचमिभरजोऽवगुण्ठितपादादीनां सागारिकाधनिरीक्षणे सति रजोहरणादिना प्रमानने 15 - १. द्विविधो युपेक्षासंयम , यतिव्यापारोपेक्षा गृहस्थव्यापारोपेक्षा चेति, उभौ यथाक्रमं चोदनाचोदन- विषयौ, विषीदन्तं साधु दृष्ट्वा संयमव्यापारेषु चोदयतः संयमव्यापारोपेक्षा प्रथमः, गृहस्थमधिकरणव्यापारेषु प्रवृत्तं दृष्ट्वा तत्र प्रवृत्तमचोदयतो गृहस्थव्यापारोपेक्षारूपो द्वितीय इति तात्पर्यार्थः ॥

- वैयावृत्त्यम् ] न्यायप्रकाशसमलट्टते सागारिकादिनिरीक्षणे स्वप्रमार्जनमप्यन्तर्गमित बोध्यम् । एवं विदधतः प्रमाननासंयमो भव- तीत्याशयेनाह दृष्टिदृष्टेत्यादिना ।। अथ कायादिसंयममाख्याति- धावनादिदुष्टक्रियानिवृत्तिशुभक्रियाप्रवृत्त्युभयरूपः कायसंयमः । हिंस्रपरुषादिनिवृत्तिशुभवाक्प्रवृत्युभयरूपो वाक्संयमः । अभिद्रोहा- 5 दिनिवृत्तिपूर्वकधर्मध्यानादिप्रवृत्तिर्मनस्संयमः । पुस्तकायजीवकायसंयम उपकरणसंयमः॥ धावनादीति । संयमोऽयं न केवलं शरीरस्य सर्वात्मनोपरमरूपोऽशक्यत्वादपि तु यथाशास्त्र प्रवृत्तिनिवृत्तिरूपः, केभ्यः कायस्य निवृत्तिरित्यत्राह धावनेति, आदिना वलान- प्लवनादीनां परिग्रहः । गमनागमनादिष्ववश्यकरणीयेषु धर्मसाधनभूतेषु च सोपयोगं काय- 10 व्यापारः प्रवृत्तिरूप इत्याशयेनोकं शुभक्रियाप्रवृत्तीति । वाक्संयममाचष्टे हिनेति, प्राणव्यप- रोपणे जातशक्तिहिनः परुष रूक्षं स्नेहरहितं परोद्वेगकारि, आदिना पिशुनासभ्यादीनामुप- प्रहः, ईशवचसो निवृत्तिः, शुभवचसि सूत्रमार्गानुसारप्रवृत्तार्थे निजपरार्थानुपाहकेरागद्वेष- युक्त प्रवृत्तिश्च वाक्संयम इत्यर्थः । तथा च पृथिवीकायिकारम्भादिप्रेरणरहिता परुषनिष्ठु- रादिपरपीडाकरप्रयोगनिरुत्सुका व्रतशीलदेशनाविप्रधानफला हितमितमधुरमनोहरा संयतस्य 15 योग्या वाक् , तदधिष्ठानाश्च सर्वसम्पद इति भावः । मनस्संयममाचष्टेऽभिद्रोहेति, स्पष्टम् । उपकरणसंयममाह पुस्तकादीति, अजीवरूपाण्यपि पुस्तकादीनि दुष्पमादिदोषात्तथावि- धप्रज्ञाऽऽयुष्कश्रद्धासंगोद्यमवलादिहीनायकालीनविनेयजनानुग्रहाय प्रतिलेखनाप्रमार्जनापूर्व यतनया धारयतोऽजीवसंयमापरपर्याय उपकरणसंयम इति भावः ॥ अथ वैयावृस्यमाख्याति- शास्त्रोदितविधिना गौरवजनकक्रियानुष्ठानप्रवृत्तियावृत्त्यम् । तथा- चार्योपाध्यायतपस्विशैक्षकग्लानगणकुलसवसाधुसमनोज्ञसम्बन्धित्वा- दशविधम् । शास्त्रोदितविधिनेति । आगमोक्तप्रकारेण न तु यथालोकमिति भावः, सामायिकादि- क्रियानुष्ठानप्रवृत्तेवैयावृत्त्यरूपत्वामावादाह गौरवजनकेति, भावतीर्थकरनामकर्मबन्धजनक- क्रियानुष्ठानप्रवृत्तिरित्यर्थः, आहारादिसाहाय्येन वैयावृत्त्येन हि तीर्थकरनामगोत्रं कर्म बघ्नाति, ताश्च क्रियाः क्षेत्रवसतिप्रत्यवेक्षणं शुश्रूषणं भेषजक्रियाः कान्तारविषमदुर्गोपसर्गेषु -- 20 25 :५४२: वस्वन्यायविभाकरे [प्रथमकिरणे अन्नपानादिमिः परिरक्षणमित्यादिरूपाः, तदनुष्ठाने प्रवृत्तिः परिणामविशेषः परितः सर्वतो भावेन वृत्तिः प्रवृत्तिरिति व्युत्पत्त्या तल्लामात्, न ह्यपरिणतः सर्वतो भावेन धर्वितुं शक्यः'। शास्रोदितविधिनेत्युक्तत्वात्प्रवचनवात्सल्यमपि वैयावृत्त्यस्य फलम् , तथा च महानिर्जरास- नाथत्वप्रवचनवात्सल्यविचिकित्साऽभावतीर्थकरनामकर्मबन्धादयोऽस्य फलमिति सिद्धम् । 5 आचार्यादीनां दशानां भकपानशय्यासनक्षेत्रोपधिप्रत्युपेक्षणभेषजदानाध्वोपग्रहशरीरोपधि- स्तनसंरक्षणदण्डग्रहग्लानशुश्रूषणमूत्रिकत्रिकढौकनरूपत्रयोदशमिः पदैवैयावृत्त्यं कर्त्तव्यम् , तत्राचार्यादीनाह तश्चेति, वैयावृत्त्यञ्चेत्यर्थः, दशस्वामिकत्वाइशविधत्वं वैयावृत्त्यस्येवि भावः। अत्राचार्यपदेन वीर्थकरोऽपि गृहीतस्तेन तीर्थकरवैयावृत्त्याकथनप्रयुक्ता न न्यूनवा, न च तीर्थकरत्रिलोकाधिपतिराचार्यस्तु सामान्य इति कथमाचार्यग्रहणेन-स गृहीत इति वाच्यम्, 10 पञ्चविधाचारोपदेशकत्वे सति स्वयमप्यनुष्ठातृत्वस्यैवाचार्यपदप्रवृत्तिनिमित्तत्वेन तस्य तीर्थ- करसाधारण्यात् । तीर्थकरस्य धर्माचार्यत्वप्रसिद्धेश्च । एतेषां दशानां. प्रत्येक प्रयोदशभिः पदैवैयावृत्त्यं कर्तव्यमिति भावः ।। तत्राचार्य स्वरूपयति--- ज्ञानाद्याचारे प्रधान आचार्यः। स पञ्चविधः प्रव्राजको दिगाचार्यः 15 श्रुतोदेष्टा श्रुतसमुद्देष्टाऽऽम्नायार्थवाचकश्चेति ।। ज्ञानाद्याचार इति । आदिना दर्शनचारित्रतपोवीर्याणां ग्रहणम् । तत्र प्रधानः, स्वयं करणात् प्रभाषणात् प्रदर्शनाच्च । अयमाचार्यः सूत्रार्थतनुभयोपेतो ज्ञानदर्शनचारित्रेषु कृतोपयोगो गच्छचिन्ताविप्रमुक्तः शुभलक्षणोपेतश्च भवति, तदुणाश्च षट्त्रिंशत्, तत्र पञ्च गुणा ज्ञानादय उक्ता एव, इतरे गुणाश्च देशकुलजातिरूपसंहननधृतियुक्तताकांक्षा- 20 बहु भाषामायावैधुर्यसूत्राद्यनुप्रयोगपरिपाटीदाढर्योपादेयवचनपर्षजयाल्पनिद्रत्वमाध्यस्ध्यदेश- कालभावज्ञत्वप्रतिभाविविघदेशभाषाज्ञानसूत्रार्थतदुभयविधिज्ञत्वदृष्टान्तहेतूपनयनयनैपुण्यप्र-- तिपादनशक्तिस्वपरसमयवेत्तृत्वगाम्भीर्यदीप्तिकल्याणकारित्वशान्तदृष्टित्वरूपा विज्ञेयाः । सम्यग्ज्ञानादिगुणाधाराद्यस्मादाहत्य व्रतानि स्वर्गापवर्गसुखामृतवीजानि भव्या हिवार्थ- माचरन्ति स आचार्यः । अथवा ज्ञानादीत्यादिना दर्शनचारित्रतपसां ग्रहा, ज्ञानादीना- 25 १. चतुर्विध, सामान्येनाचार्य., इहलोके हितो न परलोके, परलोके हितो नेहलोके, इहलोके हितो- ऽपि परलोके हित. नेहलोके हितो नापि परलोके हित इति । तत्र यो मकवनपात्रपानादिक समस्तमपि साधूनां पूरयति न पुनस्संयमे सीदतस्मारयति स इहलोके हितोऽपि साररहितो न परलोकहितः। यय संयमयोगेषु प्रमाचता सारणा करोति नच वस्त्रादिकं प्रयच्छति स द्वितीय । एवमेव तृतीयचतुर्थो भाग्यौ ।

यावत्यमैदाः न्यायप्रकाशसमलते माचारे प्रधानः सः, - तहणसमन्वितत्वात् । तथाहि ज्ञानाचारस्य कालविनयादयोऽष्टौ गुणाः, दर्शनाचारस्य निःशङ्कितत्वादयोऽष्टौ, चारित्राचारस्येयांसमित्यादयोऽष्टौ, वाह्याभ्य- न्तरभेदभिन्नस्य तपसोऽनशनादयो द्वादशभेदास्तथा च ज्ञानाचाचारविषयकषट्त्रिंशद्गुणयुक्त आचार्य इति फलितार्थः, अयश्चार्थमेव केवलं भाषते नतु सूत्रमपि वाचयति । ननु कुतोऽयं सूत्रं न वाचयति, उच्यते, अर्थचिन्तायां यस्यैकाप्रवाऽर्थव्याख्यानार्थम् , यदि पुनस्सूत्रमपि 5 वाचयेत्तदा बहुव्यप्रत्वादर्थचिन्तायामेकाग्रता न स्यात्, एकाप्रतया धर्थ चिन्तयतः सूत्रेषु सूक्ष्मार्थोन्मीलनात्सूत्रार्थस्य वृद्धिरुपजायते, तीर्थकरानुकारित्वाचाचार्यस्य, तीर्थकृतो हि केव- उमर्थमेव भाषन्ते नतु सूत्र नवा गणचिन्तां कुर्वन्ति तथाऽऽचार्या अपि, सूत्रवाचनां तु प्रय- च्छतामाचार्याणां लाघवमप्युपजायते तस्या उपाध्यायादिभिः क्रियमाणत्वात् । तस्य किञ्चिद्गुणप्राधान्यौपाधिकं प्रभेदमाह स इति आचार्य इत्यर्थः ॥ , 10 तत्र प्रव्राजकादीनां स्वरूपाण्याह- सामायिकादिवतारोपयिता प्रव्राजकः । सचित्ताचित्तमिश्रवस्त्व- नुज्ञायी दिगाचार्यः। प्रथमत आगमोपदेष्टा श्रुतोद्देष्टा । उद्दिष्टगुर्वाद्य- भावे स्थिरपरिचितकारयितृत्वेन सम्यग्धारणानुप्रवचनेन च तस्यै- वागमस्य समुद्देष्टा अनुज्ञाता वा श्रुतसमुद्देष्टा । आम्नायस्योत्सर्गापवा- 15 दात्मकार्थप्रवक्ता आम्नायार्थवाचकः ।। सामायिकेति । आत्मार्थं परार्थ वा सामायिकादेव॑तस्य केवलमारोपयिता प्रवा- जकाचार्य इत्यर्थः । दिगाचार्यस्वरूपमाह सचित्तेति, स्पष्टम् गुर्वादिष्टदिग्वर्तिसाधूनां सारणादिकारोऽपि दिगाचार्याः । श्रुतोदेष्टारमाह प्रथमत इति, विशदं मूलम् । श्रुत- समुद्देष्टारमाचष्टे-उद्दिष्टेति, पूर्वोद्दिष्टगुर्वाधभाव इत्यर्थः, उद्दिष्टं स्थिरपरिचितं कुरु, 20 सम्यगधारय, अन्याञ्च प्रवेदयेति समकालं मिन्नकालं वा समुद्देशकोऽनुज्ञापको वा श्रुतसमुद्देष्टेति भावः । आम्नायार्थवाचकममिधत्ते-आनायस्येति, आम्नायस्यागमस्य, उत्सर्गः सामान्येनोक्तो विधिर्यथा त्रिविधं त्रिविधेन प्राणातिपातविरतिः, अपवादः, विशेपेणोक्तो विधिः, यथा 'पुढवाइसु आसेवा उप्पण्णे कारणम्मि जयणाए। मिगर- हियस्स ठियस्स अववाओ होइ नायव्यो " इति । तदेवं उत्सर्गमपवादमुत्सर्गापवादश्च 25 यथावत्परिज्ञाय सूत्रार्थानामुपदेशक इत्यर्थः ।। अथोपाध्यायं परिचाययति-- .

: ५५ तस्वन्यायविभाकरे (प्रथमाकरले आचारविषयविनयस्य स्वाध्यायस्य वाऽऽचार्यानुज्ञया साधूनामुप- देशक उपाध्यायः॥ आचारेति, आचारस ज्ञानदर्शनचारित्रतपोवीर्यात्मना पञ्चविधः, तद्विषयकविनयस्य खा- ध्यायस्य वाचना प्रच्छनापरावर्तनानुप्रेक्षाधर्मोपदेशात्मना पञ्चविधस्माचार्यानुवया साधूना- 5 भुपदेशका, उप, समीपमागत्याधीयते, आधिक्येन गम्यते स्मयते सूत्रतो जिनप्रवचनं येने- युपाध्यायः, यो द्वादशाङ्गः स्वाध्यायः प्रथमतो जिनैरागतस्ततो गणधरादिभिः कथितः । स्वाध्यायं सूत्रतशिष्यानुपदिशति से उपाध्यायः, स हि सूत्रवाचनां शिष्येभ्यो यच्छन् स्खय- मर्थमपि परिभावयति, तस्य तदर्थे स्थिरत्वमुपजायते, ऋणस्यापि सूत्रलक्षणस्य वाचनाप्रदानेन मोक्षः कृतो भवति, उत्तरकाले चाचार्यपदाध्यासेऽत्यन्ताभ्यस्ततया यथावस्थिततया स्वरूपस्य 10 सूत्रस्यानुवर्तनं भवति, येऽन्यतो गच्छान्तरादागत्य साधवस्सूत्रोपसम्पदं, गृहते ते प्रतीच्छका उच्यन्ते ते च सूत्रवाचनाप्रदानेनागृहीता भवन्ति, मोहस्य जयोऽपि कृतो भवति, सूत्र- वाचनादानव्यग्रस्य प्रायश्चित्तविश्रोतसिकाया अभावात् । अत: उपाध्यायस्सूत्रं वाचयेदिति ॥ तपस्विनं शैक्षकवाह- किञ्चिदूनषण्मासान्तोपतपोऽनुष्ठाता तपस्वी। अनारोपितविविक्त- 15 व्रतशिक्षायोग्यश्शक्षकः ॥ किचिदिति । दशमादिकिञ्चिन्न्यूनषण्मासान्तमुनस्य भावविशुद्धस्य अनिश्रितस्याल्पसत्त्व- भयानकस्य वा तपसोऽनुष्ठातेत्यर्थः । अनिश्रितं तपो नाम शुभयोगसंग्रहाय परसाहाय्यानपेक्षं भावतपः। अथ शैक्षकमाह अनारोपितेति, अनारोपितं विविकं दोषरहितं व्रतं यस्य तादृशः, शिक्षायोग्यश्च शैक्षका, अभिनवप्रवजितो महणासेवनाशिक्षायोग्यः तत्र शैक्षको- द्विविधः, आज्ञया परिणामको दृष्टान्तेन परिणामकञ्चेति, तदेव सत्यं यनिनैः प्रवेदित- मित्येवं यो निस्संशयं श्रद्धधाति न च कारणमपेक्षते स आज्ञापरिणामक उच्यते, यस्तु लिङ्गेन गम्यमर्थ प्रत्यक्षप्रसिद्धदृष्टान्तेनात्मबुद्धावारोपयन् वर्तते स दृष्टान्तपरिणामक उच्यते । सप्तराविन्दिवचतुर्मासषण्मासर्जघन्यमध्यमोत्कृष्टरुपैरुपस्थाप्यतेऽयम् ।। - 20 " । 25 अथ ग्लानमाह- अपटुाध्याक्रान्तो मुनिग्लानः ।। अपरिति । मिक्षादिकं कर्तुमसमर्थः ज्वरादिव्याध्याक्रान्त इत्यर्थः । अस्य वैयावृवं कार्यमन्यथा प्रायश्चित्तमाक् स्यात् , तस्माद्भगवदाझामनुवर्तमानेन फर्मनिर्जरालामलिप्सया वैचाहत्यमेव न्यायप्रकाशसमलते ग्लाने समुत्पन्ने मायाविप्रमुक्तेन यत्र कुत्रापि स्थितेन त्वरितमागन्तव्यमेवं कुर्वता साधर्मि- कवासल्यं कृतं भवति, आत्मा च निर्जराद्वारे नियोजितो भवति, तत्राशक्तत्वमप्रशस्य- भाषाऽपमानं लुब्धत्वमुद्भाव्य प्रतिवन्धयतः प्रायश्चित्तं स्यादिति ॥ गणं कुलश्वाह- श्रुतस्थविरपरम्परानुयायीगणः। एकजातीयानेकगच्छसमूहः कुलम्।। । श्रुतेति । श्रुतेनागमेन स्थविरो वृद्धः श्रुतस्थविरस्तृतीयचतुर्थाङ्गधरस्साघुस्तत्परंपरानु- गमनशीलो गण इत्यर्थः, श्रुतेति विशेषणेन वयसा पर्यायेण वा वृद्धस्य न प्रहणम् । वय- स्थविरस्सप्तत्यादिवर्षजीविता, पर्यायस्थविरः यस्य दीक्षितस्य विशत्यादीनि वर्षाणि गवानि सः, पदेन स्थविरस्तु प्रवर्तितव्यापारान् संयमयोगेषु सीदतस्साधून ज्ञानाविष्वैहिकाऽऽमुष्मि- कापायदर्शनतः स्थिरीकर्चा, कुलसमुदायो वा गणो भाव्यो यथा कौटिकादिः, कुलमाह एक- 10 जातीयेति, बहूनां गच्छानामेकजातीयानां समूहः कुलमियों यथा चान्द्रादि । गच्छस्सु- विहितमुनिवृन्दरूप एकाचार्यप्रणीतो जघन्यतत्रिपुरुषप्रमाणः साधुसमुदायरूपत्वात् चतु:- पञ्चप्रभृतिपुरुषसंख्याका मध्यमा गच्छाः, द्वात्रिंशत्सहस्राण्येकस्मिन् गच्छे साधूनामुत्कृष्टा संख्या यथा श्रीऋषभस्वामिप्रथमगणधरस्य भगवतो ऋषमसेनस्य । अशुभफलप्रदत्वादस- वाचारगच्छसंवासपरिहारपूर्वकं परमशुभफलदत्वादिहपरलोकहितार्थ सदाचारगच्छसंवास: 15 कार्य: । तत्र वसतां हि महती निर्जरा भवति, सारणावारणाचोदनादिभिर्दोषावाप्रमा- वात् विस्मृते कचित्कर्तव्ये भवतेदं न कृतमिति सारणा, अकर्तव्यानां निषेधो वारणा, संयमयोगेषु स्खलितस्थाऽयुक्तमेतद्भवादृशामित्यादिस्वरमधुरवचनैः प्रेरणं चोदना । षड्डि- घानां जीवानां बाधा मरणान्तेऽपि यत्र करणत्रयैनं क्रियते मुनिमिस्स गच्छ इति ।। अथ संघमाह- ज्ञानदर्शनचरणगुणवान् श्रमणादिः सङ्घः ।। ज्ञानदर्शनेति । गुणरत्नपात्रभूतसत्त्वसमूहः सः कोऽयं समूहः तादृश इत्यत्राह श्रमणादिरिति, आदिना श्रमणीश्रावकनाविकानां ग्रहणम् । आम्यन्ति तपस्यन्तीति अमणाः। शृण्वन्ति निनवचनमिति श्रीवकाः । तीर्थकरवन्दनीयं सहूं जानादिगुणरूपं न तिरस्कुर्यात् सहादहिष्करणमयेन श्रुतकेवलिनापि सो मानितः तस्मात्सवः पूज्य इति ।। १ श्रावकत्वं न श्रवणमात्रनिवन्धन, तया च सति श्रोत्रेन्द्रियलब्धिमता सर्वेषा श्रावकत्वं स्यादिस्यत्रोक जिनवचनमिति, जिनवचनमासागमो न पुनरनातागम. तस्याप्रमाणत्वेन परलोकहितवासम्भवाच्छ्रवणयापत्ते, 20 25 तस्वम्यायधिमाकरे [प्रथमकिरणे '' अथ-- साधुस्वरूपमाचष्टे- ज्ञानादिपौरुषेयशक्तिभिर्मोक्षसाधका साधुः ॥ ज्ञानादीति। ज्ञानदर्शनचारित्रक्रियोपेतो मोक्षमार्गव्यवस्थितस्साधुरित्यर्थः, शास्त्रोक्तगुणी साधुन शेपास्तगुणरहितत्वात् व्यतिरेकवस्सुवर्णवत् सुवर्ण हि विषघाति रसायनं वयस्स्त- 5 म्भनं मङ्गलप्रयोजक कटकादियोग्यतया प्रदक्षिणावर्त्तममितप्तं प्रकृत्या गुरु सारतयाऽदाचं सारतयैवाकुथनीयमित्यसाधारणाप्टगुणविशिष्टं तथैव साधुरपि मोहविषघातका केषांचिद् वैद्योपदेशादसायनं भवति, अत एव परिणतान्मुख्यं गुणतश्च मङ्गलार्थ करोति प्रकृत्या विनीतः सर्वत्र मार्गानुसारिप्रदक्षिणावर्तता गम्भीरश्चेतसा गुरुः क्रोधाग्निनाउदाह्यस्सदो- बितेन शीलभावेनाकुथनीयश्च भवति तथा च यथा निखिलगुणयुक्तमेव सुवर्ण तात्त्विक, न 10 तु नामरूपमात्रेण गुणेन युक्तं, तथैव शास्त्रोदितमूलगुणैरेव साधुर्मवति, न पुनर्गुणरहित- स्सन् यो भिक्षामटति स इति ॥ इदानी समनोजमाह- एकसामाचारीसमाचरणपरस्साधुः समनोज्ञः ॥ एकेति । समाचरणं समाचारः, शिष्टाचरितक्रियाकलापः, तद्भावष्यमन्वेन खीत्व- 16 विवक्षायां डीषि सामाचारीति पदसिद्धिः, सा च त्रिधा ओघसामाचारी दशविधसामा- चारी पदविभागसामाचारी चेति । संक्षेपतः क्रियाकलापः ओघसामाचारी, इच्छाकारादि- लक्षणा दशविधसामाचारी, पदविभागसामाचारी छेदसूत्राणीति तत्रैकस्यां सामाचार्या वर्तमानस्साधुः समनोज्ञ इत्यर्थः ॥ अथ ब्रह्मचर्यगुप्तिमाह- वसतिकथानिषयेन्द्रियकुडयान्तरपूर्वक्रीडितप्रणीतातिमात्राऽऽहारभू- षणगुप्तिमेदेन ब्रह्मचर्यगुप्तिनवधा ॥ -- " -- 20 तत्रापि साक्षात्परलोकहितं प्राह्यं, तेन ज्योतिषप्रामृतिकादेरभिप्रायविशेषेण परलोकहितत्वेऽपि न क्षति, श्रवणमपि न प्रत्यनीकादिभावेन, तेन तथा शृण्वता न श्रावकत्व प्रसङ्गः । उपयोगपूर्वकमित्यपि विवक्षणीयम्, तेनानुपयोगेन भृण्वतो व्यवच्छेद । इदम्ब श्रावकत्वमत्युत्कटज्ञानावरणमिथ्यात्वादिविनाशालभ्यत इति ॥ १ तंत्रौघसामाचारी नवमात्पूर्वाद तृतीयाद्वस्तुन आचाराभिधानात्तत्रापि विंशतितमात्रामृतात् तत्राप्योधना- मृतात् नियूँदेति, एतदुक्तं भवति साम्प्रतकालप्रवजिताना तावच्छूतपरिज्ञानशक्तिविकलानामायुष्कादिहासम- पेक्ष्य प्रत्यासचीकृतेति । दशविवसामाचारी पुनः पविशतितमादुत्तराध्ययनात्स्वल्पतरकालप्रमजितपरि- झानार्थ नियूंढेति । पदविभागसामाचार्य्यपि छेदसूत्रलक्षणानवमपूर्वादेव नियूटेति ॥

- 5 - ब्रह्मचर्यगुप्तिः] न्यायप्रकाशसमलते :५४७: वसतीति । भूषणान्तं द्वन्द्वस्ततो गुप्त्या तत्पुरुषः । बह्मचर्यगुप्तिमैथुनविरतिव्रतस्य रक्षाप्रकारः, नवविधगुप्तिसेवनाद्धि सर्वकालं प्रमादरहितस्सनप्रतिवद्धविहारितया गुप्ती- ब्रह्मचारी घरेदिति॥ अथ वसतिगुप्तिमाह- स्त्रीपण्डादिवासस्थानवर्जनं वसतिगुप्तिः ॥ नीति लियो दिव्या मानुष्यो वा पण्डो महामोहकर्मा स्त्रीपुंससेवनामिरतः आदिना पशवो प्रायाः तदाकीर्णवसतौ शयनासनादीन्युपभुञ्जानस्य ब्रह्मचारिणोऽपि सतो ब्रह्मचर्ये स्वस्थ किमेतास्सेवे उत नेति परेषां वा किमसावेवंविधशयनासनादिसेवी ब्रह्मचार्युत नेति संशयस्समुपजायते, ख्यादिमिरत्यन्तापहृतचित्तत्वाच विस्मृतसकलाप्तोपदेशस्य ' अस्मिन्न- सारे संसारे सारं सारङ्गलोचने 'त्यादिकुविकल्पान् विकल्पयतो मिथ्यात्वोदयतः कदाचि- 10 देतत्परिहार एव तीर्थदिनोंता, एतदासेवने वा यो दोप उक्तस्स दोष एव न भवतीत्येवं- रूपा विचिकित्सा स्यात्, धर्म प्रत्यपि किमेवावतः कष्टानुष्ठानस्य फलं भविष्यति न वेति संशयः स्यात् , ततश्च केवलिप्रज्ञप्ताद्धर्माच्छूतचारित्ररूपात् समस्तादश्येत् तस्मात्खीषण्डा- चाकीर्णतारहितानि शयनासनस्थानादीनि यः सेवते स एव निर्मन्थो द्रव्यमावग्रन्थानि- कान्तत्वादतः वादृशशयनासनस्थानादिपरिवर्जनं वसतिगुप्तिरिति भावः ॥ कथागुप्तिमाह- रागानुवन्धिस्त्रीसंलापचरित्रवर्णनपरित्यागः कथागुप्तिः ।। रागेति । एकाकिनीनी स्त्रीणां रागानुवन्धिनसल्यापाः, 'कर्णाटी सुरतोपचार- चतुरा लाटी विदग्धप्रिये ' त्यादिरूपाः कथाश्च ब्रह्मचर्यगुप्तिकामेन सर्वथा परित्यांच्याः, अन्यथा पूर्वोदितरीत्या संशयादयो भवेयुः, देशजातिकुलनेपथ्यभाषागतिविभ्रमगीतहास्य- 20 लीलाकटाक्षप्रणयकलशृङ्गाररसानुविधा. कामिनीनां कथा हि रागनुवन्धिन्य, ता अब- . श्यमिह मुनीनामपि मनोविक्रियां नयन्तीति तासामपि परित्यागः कार्य इति भावः ।। . 15 १ यत्संयत, क्षायादिप्रमादेन रागद्वेषवशं गतो न तु मध्यस्थः परिकथयति किश्चित्सा विकथा, सा चन कयनीया, तथाविधपरिणामविशेषकारणत्वाद्वक्तृश्रोत्रो., वाररसेन मन्मथदीपिकया तयोत्तेजितम्बारि- प्रमोहनीयकर्मोदयप्रयुजालपरिणामरूपो मोहो जायते तस्मात्स्वपरात्मनोरुभयोर्वा पापोपादानभूता कथा न कुर्यादिति तथा व तपस्संयमगुणवारिणश्चरणरता. ता' कथा काययुर्या सर्वजीवहितका निर्जरांख्यफलमाधना कर्तृणां श्रोतृणामपि चेतः कुशलपरिणामनिबन्धनेति ॥

- :५४८: तस्वन्यायविमाकरे प्रथमकिरले निषपागुप्तिमाह- रुयासनपरिवर्जनं निषयागुप्तिः॥ स्त्रीति । स्त्रीणां यदासनं यत्र ताभिस्सह नोपविशेदुस्थिताखपि मुहूतं तत्र नोपवेष्ट- व्यमिति सम्प्रदायः, यश्चैवंविधस्स निर्मन्थः, अन्यथोक्तदोषप्रसङ्गः स्यादतस्तदासन सर्वथा 5 परिहरणीयमिति भावः ।। इन्द्रियगुप्ति कुड्यान्तरगुप्तिश्चाह- रागप्रयुक्तरुयङ्गोपाङ्गविलोकनत्यजनमिन्द्रियगुप्तिः । एककुयान्तरित- मैथुनशब्दश्रवणस्थानपरित्यागः कुड्यान्तरगुप्तिः ॥ रागेति । अनुरागेण वनितानामङ्गोपाङ्गानां निरीक्षणत्यागः कार्यः, वासां नयनना- 10 सिकादीनि निरीक्षितमात्राण्यपि चेतो हरन्ति तथा दर्शनानन्तरं विभाव्यमानानि चेतो दूष- यन्ति, ततस्तेषां सम्यग्दर्शन ततश्चाहो ! सलवणत्वं लोचनयोः, ऋजुत्वं नासावंशस्येत्येवं विचिन्तनच ब्रह्मचर्यभङ्गप्रसङ्गेन नैव कार्यमिति भावः । कुड्यान्तरगुप्तिमाह एकेति, कुड्यं कटादिरचितं पक्केष्टकादिनिर्मिता वा मितिः तयाऽन्तरितेऽपि स्थाने यत्र विविधविहगादि- भाषया अन्यक्तशब्दः सुरतसमयभावी रुदितशब्दः रतिकलहादिरूपः मानिनीकृतः गीत- 15 शब्दो वा पञ्चमादिहुंकृतिरूपो हसितशद्रो वा श्रूयते तादृशस्थानपरित्यागः कार्य इति भावः ॥ पूर्वक्रीडितप्रणीतगुप्ती पाह- प्राक्तनतकीडामरणवैधुर्य पूर्वक्रीडितगुप्तिः । अतिस्निग्धमधुराया- हारपरिहारः प्रणीतगुप्तिः॥ प्राक्तनेति । पूर्व गृहस्थावस्थाकाले ल्यादिमिस्सह विषयानुभवस्य कृतस्य दुरोदरादि- 20 रमणस्य चानुचिन्तना न विधेया तथाच सति ब्रह्मचर्यरक्षणं भवेदिति भावः । अथ प्रणीतगुप्तिमाह अतिस्निग्धेति, गलस्नेहरसमत्यन्तधातूद्रेककारिणमाहारं पानभोजनादिकं वर्जयेदित्यर्थः॥ आहारगुप्ति भूषणगुप्तिश्चाह- मानाधिकाऽहारपरिवर्जनमतिमात्राहारगुप्तिः । स्नानविलेपनादि- 26 शरीरशुश्रूषावर्जनं भूषणगुप्तिः ॥ - - ज्ञानादि ]] न्यायप्रकाशसमलट्टत मानाधिकेति । पुरुषस्य कवलपरिमाणं द्वात्रिंगत्कवलाः लियाः पुनरष्टाविंशतिः, ततोऽप्यधिकवया पानमोजनादिसंसेवन ब्रह्मक्षतिकारित्वाच्छरीरपीडाकरत्वाचावश्यं त्याज्यं, केवलं संयमनिर्वाहार्थ चित्तस्वास्थ्योपेतो भुञ्जीव न तु रागद्वेषवशगः सर्वकालमतिमात्रा- हारस्य दुष्टत्वात् , कदाचित्तु कारणतोऽतिमात्राहारो न दुष्ट इति । भूषणगुप्तिमाह स्नानेति, शरीरोपकरणादीनां विभूषार्थ युवतिजनमनस्तोषार्थ संस्कारो न विधेयः, अन्यथा खीजना- 6 मिलषणीयत्वात्तस्य ब्रह्मचर्ये शंका स्यात्, उज्ज्वलवेषपुरुषदर्शनेन युवतीनां कामो- देकात्, किमेवास्तावदित्यं प्रार्थयमाना उपमुझे, आयतौ तु यदावि तद्भवतु उतश्वित् कश्वानि शाल्मलीश्लेषादयो नरक एतद्विपाका इति परिहरामि वेत्येवं रूपो वितर्कः स्यात्तस्मा- दिक्षुधर्मारामो धृतिमान् वान्तश्शङ्कास्थानभूतानेतान् आज्ञाऽनवस्थामिध्यावविराधनादो- पान्विचिन्तयन् ब्रह्मचर्ये समाहितो भवेत्, तथाविधन तं देवदानवगन्धर्वयक्षरक्षःकिन्न- 10 रादयोऽपि नमस्यन्ति, अयश्चाष्टादशविधो ब्रह्मचर्यधर्मः परेप्रवादिमिरप्रकम्प्यतया ध्रुवः, अप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वान्नित्यो द्रव्यार्थतया, शश्वदन्यान्यरूपतयोत्पादात्पर्यायार्थ- तयापि शाश्वतः जिनैः प्रतिपादिता, अनेन ब्रह्मचर्येण पुरा अनन्तासूत्सर्पिण्यवसर्पिणीपु महाविदेहे तत्कालापेक्षया इहापि वा सिद्धाः सिद्ध्यन्ति अनागताद्धायाश्च सेत्स्य- न्तीति सर्वोत्तमोऽयमिति ॥ 15 अथ ज्ञानादि निरूपयति- ज्ञानदर्शनचरणभेदतो ज्ञानादि त्रिविधम् । कर्मक्षयोपशमसमुत्थाव- बोधतद्धेतु द्वादशाङ्गाधन्यतरत् ज्ञानम् । तत्त्वश्रद्धानं दर्शनम् । पाप- व्यापारेभ्यो ज्ञानश्रद्धानपूर्वकविरतिश्चरणम् ।। ज्ञानेति । स्पष्टम् , तत्र ज्ञानमाह कर्मेति, वत्तज्ञानावरणभूतकर्मेत्यर्थः, तथा च वत्त- 20 ज्ञानावरणक्षयोपशमरूपोपाघिसम्पादितसत्ताक आमिनिवोधिकरूपप्रकाशविशेषः, सन्नि- दानभूतं द्वादशाङ्गैरूपं श्रुतञ्च ज्ञानमित्यर्थः । दर्शनमा तत्त्वेति, दर्शनमोहनीयक्षयाद्या- " १. "दिव्यात्कामरतिमुखात्रिविघं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तब्रह्माष्टादश- विकल्पमि' स्ययादशविघं ब्रह्मचर्यम् तदेतत्सर्वस्त्रीणां मनोवाकायस्सर्वथा संगत्यागस्सर्वतो ब्रह्मचर्यम्. संय- मिनो, एष्वेव देशतत्त्वदारसंतोषल्पं देशतो देशविरतानाम् । व्रतेषु प्रधान, उत्तश्च व्रताना पहाचर्य हि निर्दिष्टं गुरुकं व्रतं । तजन्यपुण्यसम्भारसंयोगादुरुरुच्यते इति । वीर्यान्तरप्युकं, 'एकतचतुरो वेदा ब्रह्म- चर्यच एकतः । एकवस्सर्वपापानि, मद्यं मासच एकतः' इति ॥ २. तथापुरुषस्य द्वादशानानि तद्वच्छतात्म- परमपुरुषस्यापि द्वादशाहानि, तानि च 'मायारो सुयगडो ठाण, समवानो विवाहपत्नत्ती नायाधम्मक- हामो उवासगदसामो अंतगडदसामो अनुत्तरोववाइयवसामो पण्हावागरणाई विवागसुर्य दिहिवामी य' इति ।

: ५५०: तरवन्यायविमाकरे [प्रथमकिरणे विर्भूततत्वश्रद्धानरूप आत्मपरिणामविशेषो दर्शनमित्यर्थः । तत्वञ्च सकलपर्यायोपेतस- कलवस्तुस्वरूपम् तस्य सर्वविदुपदिष्टतया पारमार्थिकस्य जीवादेः पदार्थस्यैतदेवमेवेति प्रत्ययविशेषः श्रद्धानं, तस्वेन वा भावतोऽर्थानां श्रद्धानं तत्वश्रद्धानमिति भावः । चरण- माह-पापेति, सष्टम् ॥ 6 अथ तपोनिरूपणायाह- बाधाभ्यन्तरभेदेन द्वादशविधानि तपांसि पूर्वमेवोक्तानि ॥ बाह्यति । पूर्वमेवेति, निर्जरानिरूपण इत्यर्थः ।। क्रोधनिग्रहमाचष्टे- उदीर्णक्रोधादिचतुष्टयनिग्रहः क्रोधनिग्रहः । इति चरणनिरूपणम्॥ उदीर्णेति । क्रोधादिमोहनीयकर्मविपाकादुदयमागतेत्यर्थः, आदिना मानमायालोमाना ग्रहणम् तेषां निग्रहस्तितिक्षा, क्रोधनिग्रहेण हि जीवः क्षान्ति जनयति, क्रोधवेदनीयं कर्म पुनर्न बध्नाति, पूर्वबद्धश्च कर्म निर्जरयति ततश्च जीवविशिष्टवीर्योल्लासो भवति, एवं माना- दावपि भाव्यम् । तदेवं व्रतपश्चकस्य श्रमणधर्मदशकस्य संयमसप्तदशकस्य वैयावृत्त्यदश- कस्य ब्रह्मचर्यगुप्तिनवकस्य ज्ञानादित्रिकस्य तपोद्वादशकस्य क्रोधनिग्रहचतुष्टयस्य छ मैलनेन 15 सम्भूतं सप्ततिविधं घरणं निरूपितमित्याह इतीति ।। 10 इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टधर-श्रीमद्विजयकमलसूरीश्वर- चरणनलिनविन्यस्तभक्तिमरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मि- तस्य तत्वन्यायविभाकरस्य स्वोपक्षायां न्यायप्रकाशटीकायां चरण- निरूपणनामा प्रथमः किरणः ॥ । - । -- यद्यपि, गणधरा. प्रथमं पूर्वाण्येवोपनिवनन्ति, तथापि दुर्मेबसा तदवधारणाययोग्यानां त्रीणाचानुग्रहार्थ शेषश्रुतस्य विरचना विज्ञेया ॥ । १ कोषमानमायालोमानां चतुर्णा विजयो यस्मात्तपस. तम्बैकाशन निर्विकृतिकमाचाम्लमुपवासमित्येका लता, प्रतिकषायमेकैका लता क्रियते, एतत्कषायविजयं तप , अस्मिच तपसि चतस्रो लता. षोडशदिव- सानि भवन्ति-1.

करणम् । न्यायप्रकाशसमलते अथ द्वितीयः किरणा॥ मूलगुणसद्भाव एव मोक्षार्थिमिस्साधुभिर्यनिष्पाद्यते तत्करणं सप्ततिविधमित्याह- पिण्डविशुद्धिसमितिभावनाप्रतिमेन्द्रियनिरोधप्रतिलेखनागुप्त्यभिग्र- हमेदेनाष्टविधमपि करणमवान्तरमेवात्सप्ततिविधम् ।। पिण्डविशुद्धीति । सप्ततिविमिदमुत्तरगुणरूपं बोध्यम् ॥ अर्थतान् सप्रभेदान् व्याख्यातुकामः प्रथम पिण्डविशुद्धिमाह- सर्वदोषरहिताऽऽहारोपाश्रयवस्त्रपात्रपरिग्रहात्मिकाश्चतस्रः पिण्ड- विशुद्धयः॥ सर्वेति । पिण्डनं पिण्डा, बहूनां सजातीयानां विजातीयानां कठिनद्रव्याणां एकत्र समुदाय इत्यर्थः, तत्र च समुदायसमुदायिनोरभेदेन त एव बहवः पदार्थो एकत्र संश्लिष्टाः पिण्ड- 10 शब्देनोच्यन्ते, तस्य विविधमनेकैराधाकर्मादिपरिहारप्रकारैश्शुद्धिनिदोषता पिण्डविशुद्धिा, तथा चात्र पिण्डशब्देन भावपिण्डोपष्टम्भकमचित्तद्रव्यरूपमाहारशय्यावस्नपात्ररूपवस्तुचतुष्टयं गृह्यते तस्मात्पिण्डविशुद्धेश्चतुर्विधत्वमित्याशयेनाह सर्वदोषरहितेत्यादि । तथाऽऽहारशय्या- वनपात्राणां सर्वदोषरहिवानां ग्रहणं पिण्डविशुद्धिरित्यर्थः, तत्र दोषाश्चाहारविषया षोडशोग- मदोषाः षोडशोपार्जनादोषाः दशैषणाटोपाः पञ्च संयोजनादोषा इत्येवं मिलिवासप्तचत्वा- 15 रिंशदेषणाया दोषा एवोच्यन्ते, एतेषां विशोधनेन पिण्डस्य विशुद्ध्या चारित्रशुद्धिद्वारा मोक्षा- वाप्तिः । क्त्रोद्मदोपे आधाकर्म तावत् साघुप्रणिधानेन यत्सचेतनमचेतनं क्रियते अचेतन पच्यते गृहादिकं वा सपृश्यते वयते वा वस्त्रादिकं कारयति वा पात्रादिकममुकस्मै साधवे देयमिति, ताशपाकादिक्रिया उद्योगाद्वक्तायपि आधाकर्मोच्यते, तबाधोगतिकारणम् , प्राणातिपाताधावप्रवृत्तः, तथा तत्प्रतिसेवनप्रतिश्रवणतद्भोक्त्रादिसंवासा अभ्याधाकर्मात्मका: 20 भवति । औदेशिकं तावत्-दुर्भिक्षापगमे वाचा साध्वादीनुद्दिश्य यद्भिक्षावितरणं तदुद्दिष्टौहे. शिकं, यदुद्धरितमोदनादि व्यञ्जनादिना मिश्रयित्वा तस्य वितरणं तत्कृतौदेशिकं, यच्च तप्त्वा गुडादिना मोदकचूरीवन्धवितरणं तत्कौदेशिकमिति । पूतीकर्म-पवित्रस्यापवित्रकरणं, यथा शुचिः पयोघटोऽपि मद्यविन्दुनैकेनाशुचिः स्यात्तथा विशुद्धाहारोऽप्याधाकर्मावियोगात्पूतिकः स्यात् उद्मादिदोषरहितं भक्कं सदपि तादृशं मुज्यमानं निरतिचारमपि धरणं पूर्ति करोतीत्ययं दोषः । मिश्रजात-गृहिसंयतोभयप्रणिधानेन पाकादिभावमुपगत-सामान्यतो भिक्षाचरस्व- कुटुम्वनिमित्तं मिलित्वा पाचितं, पाखण्डिस्वकुटुम्बनिमित्तं मिलित्वा पाचित, केवलसाधु. , 25 . तत्वन्यायविभाकरे। [ द्वितीयविरले स्वकुटुम्बनिमित्त सम्मील्य पाचितश्च तद्भवति । स्थापना-साधुभ्यो देवमिदमिति चुलीस्था- ल्यादौ स्वस्थाने सुस्थितछजकादौ परस्थाने चिरकालमल्पकालच घृतादीनां क्षीरादीनां स्थापनम् । प्राकृतिका-कालान्तरमाविनां विवाहादीनामन्तर एवं साधुसमागमे तेषामप्युपयोगो विवाहादिसम्भवमोदकावीनां भवत्विति बुद्ध्या इदानीमेव करणं 5 सन्निकृष्टस्य वा विवाहादेः कालान्तरे साधुसमागम विभाव्य तदानीमेव करणं तद्यो- गात्तादृशमकादिकमपि । प्रादुष्करणम्-वहिप्रदीपमण्यादिना भित्त्यपनयनेन वा बहिनि- काश्य द्रव्यधारणेन वा प्रकटकरणम् । तद्विधा प्रकटकरणं प्रकाशकरणश्चेति, अन्धकारा- दपसार्य बहिः प्रकाशे स्थापनं प्रकटकरणं, स्थानस्थितस्यैव मित्तिरन्ध्रकरणादिना प्रकटी- करणं प्रकाशकरणम् । रत्नेन पद्मरागादिना प्रदीपेन ज्योतिषा ज्वलता वैश्वानरेण तत्रैवं 10 प्रकाशना सुविहिवानां न कल्पते, प्रकाशकरणेन प्रकटकरणेन च यद्दीयते भक्तादि तत्संयमिना न कल्पते, ज्योति प्रदीपाभ्यान्तु प्रकाशितमात्मार्थे कृतमपि न कल्पते, तेजस्कायदीप्तिसंस्पर्शादिति । क्रीतम्-साध्वादिनिमित्तं क्रयेण निष्पादितम्, तदपि आत्मद्रव्यक्रीवमात्मभावक्रीतं परद्रव्यनीतं परभावक्रीतश्चेति चतुर्विधम् , स्वयमेवोज- यन्तभगवन्नतिमाशेषादिरूपेण द्रव्येण परमावर्य यत्ततो भक्तादि गृह्यते तदात्म- 15 द्रव्यक्रीतम, यत्पुनरात्मना भक्ताद्यर्थ धर्मकथादिना परमावयं भक्तकादि ततो गृह्यते तदात्मभावक्रीतम् , तथा यत् परेण साधुनिमित्तं द्रव्येण क्रीतं तत्परद्रव्यक्रीतं यत्पुनः परेण साध्वर्थ निजविज्ञानप्रदानेन परमावळ ततो गृहीतं तत्परभावक्रीतम् । प्रामित्यं-साध्वर्थ- मन्नादि वनमुच्छिन्नमानीयते तत्ामित्यं, अपमित्य-भूयोऽपि वव दास्यामीत्येवमभिधाय यत्साधुनिमित्चमुच्छिन्नं गृह्यते तत्तथा, तच्च लौकिकलोकोत्तरभेदतो द्विविषम्, साधुविषयं भगि- 20 न्यादिभिः क्रियमाणद्रव्यमाद्यम् , द्वितीयन्तु परस्परं साधूनामेव वनादिविषयम् । परिवर्तितम्- साधुनिमित्तं कृतपरावर्तरूपं तदपि लौकिकलोकोत्तरमेदाभ्यां द्विविधम् कुथितं घृतं दत्त्वा साधु- निमित्तं सुगन्धिघृतग्रहण,कोद्रवकूर समर्पयित्वासाधुनिमित्तं शाल्योदनप्रहणश्चाद्यम्,द्वितीयन यत्साघुस्साधुना सह वनादिपरिवर्तनकरणरूपम् । अभ्याहवं-साधुदानाय स्वप्रामात्सरप्रा- माद्वा समानीतम्-आचीर्णमनाचीणमिति तद्विविधम् , निशीथाभ्यातनोनिशीथाभ्याइतमे- 25 देनानाचीर्ण द्विविधम्, यदर्धरात्रावानीतं प्रच्छन्नं साधूनामपि यदभ्याहृतमियविदितं तदार्थ, नोनिशीथाभ्याहृतं तु.सद्विपरीतं यत्साधूनामभ्याहृतमिति विदितम् , देशे देशदेशे चाचीर्ण, हखशतप्रमितक्षेनं देशः तावन्माने आचीर्ण उपयोगपूर्वकाणि यदि त्रीणि गृहाणि भवन्ति ततः कल्पते, हस्तशतमध्ये तु देशदेशः, एतन्मध्यवर्ति मध्यमम् । यदोवोपविष्टा कथमपि स्वयोगेन मुष्टिगृहीतेन मण्डकादिना यदि वा स्वापत्यादिपरिवेषणार्थमोदनभृतया करोटिकयो.

पिण्डविशुद्धिः] म्यायप्रकाशसमलट्टते :५५: त्पाटिता, अत्रान्तरे च कथमपि साधुरागच्छति भिक्षार्थ तस्मै च यदि करस्थं ददाति तदा करपरिवर्तनमानं जघन्यमभ्याहृतमाचीर्णम् , हस्तशतादभ्याहृतमुत्कृष्टम् । उद्भिन्नम्-साधुभ्यो घृतादिदाननिमित्तं कुतुपादेर्मुखस्य गोमयादिस्थगितोद्घाटनम् , इदन पिहितोदिन्नमुच्यते, यत्तु पिहितं कपाटमुद्धाट्य साधुभ्यो दीयते तत्कपाटोद्भिन्नम् , मालापहृतम्-उच्चस्थानात्साध्वर्थमुत्ता- योऽऽहारादीनां दानम् , द्विविध जघन्यमुत्कृष्टश्चेति तत्, भूपिन्यस्ताभ्यां पादयोरप्रभागाभ्यां । फलकसंज्ञाभ्यां पाणिभ्यां चोत्पाटिताभ्यामूर्ध्वविगलितोश्चसिककादिस्थितं दाच्या दृष्ठेरगो- चरं यहीयते तनधन्य मालापहृतम् बृहन्नि श्रेण्यादिकमारुह्य प्रासादोपरितलादानीय यहीयते तदुत्कृष्टमुभयमप्यकल्प्यम् । आच्छेद्यम्-आच्छिद्यापहृत्य यकादिकं प्रभुः मृत्यादीनां कर्म- करादीनां सत्तं ददाति वत् । त्रिप्रकारं तत् प्रभ्वाश्रितं, स्वामिविषयं, स्तेनकविषयच । एत- त्रिविधमप्याच्छेचं तीर्थकरगणधरैः निराकृतमतः श्रमणानां तद्रहीतुं न कल्पते । अनिसृष्टम्- 10 यदा वित्राणां पुरुषाणां साधारणे आहार एकोऽन्याननापुच्छय साधवे ददाति तादृशमनि- सृष्टम्-अननुज्ञातं तीर्थकरगणधरैरिति यावत्, अनुनातं पुनः कल्पते सुविहितानाम् तच्चानि- सृष्टमनेकधा मोदकविषयं चुलकविभोजनविषयम् विवाहादिविषयं दुग्धविषयं आपणादि- विषयमित्यादि । अध्यवपूरकम्-अघि आधिक्येनावपूरणं स्वार्थदत्ताधिश्रयणादेस्साध्यागमन- मवगम्य तद्योग्यभक्तसिद्ध्यर्थं प्राचुर्येण भरणमध्यवपूरः, स एवाभ्यवपूरकखद्योगाद्भताधण्य- 15 ध्यवपूरकम् , तदपि स्वगृहयावदर्थिकमिश्नं स्वगृहसाधुमित्रं स्वगृहपापण्डमिश्रश्चेति स्पष्ट- स्वरूप त्रिविधम्, प्रथमतः पाकारम्भकाले स्वनिमित्तं पाके निष्पाद्यमानेऽत्रान्तर एव यथा- सम्भवमुपस्थितयावदर्थिजननिमित्वं पुनरवताय विशेषेण तण्डुलादीन् प्रक्षिप्य पचति सोऽ- ध्यवपूरक इत्युमदोषाः । धात्रीपिण्डः बालस्य क्षीरमजनमण्डनक्रीडनालङ्काराऽऽरोपणकर्म- कारिण्यः पञ्च धान्यः, एतासां कर्मधात्रीत्वं तेन लब्धः पिण्डो धात्रीपिण्डः, रुदन्तं वाल- 20 कमुद्वीक्ष्य मिक्षार्थ प्रविष्टस्साधुः प्रथमं मिक्षा दत्त्वा स्तन्यं पायय, पश्चाद्वा भिक्षां देहि, नो घेदहमस्मै क्षीरं दास्याम्यन्यस्या वा स्तन्यं पाययामीत्यादिरूपेण वदन्यं पिण्ड लभते स धात्री- पिण्डः। परस्परसन्दिष्टार्थकधिका दूती सा द्विधा खमामे परमामे च यस्मिन् प्रामे साधु- वसति तस्मिन्नेव प्रामे यदि सन्देशकथिका तर्हि स्वप्रामदूती, या तु परमामे गत्वा सन्देशं कथ- यति सा परग्रामदूती,तन्निमिचं पिण्डः दूतीपिण्डः। निमित्तपिण्ड:-अतीतानागतवर्तमानकालेषु 25 १. ज्ञानदर्शनशुद्धाविवोदमादिदोषपरिशुद्धाहारे गृहीवे चारित्रशुद्धिर्मवति सथा च ज्ञानावरणादिकर्मणोऽ. पगमो भवति, तदपगमे आत्मनो यथावस्थितस्वरूपलामात्मको मोक्षस्ततो मोक्षार्थिना चरणशुश्पर्य नियमेनो- हमादिदोपपरिशुद्ध माहारो प्राय इति ।। ७.

-- . - . " - . १५४ स्वन्यायविभाको बितायाकरण लाभादिकथनं मिक्षार्थ कुर्ववोत्पादनाढोषसंपर्केण गृहीतपिण्डः, लाभालामसुखदुःखजीवि- तमरणरूपविपयभेदात्स पविधः । आजीवनपिण्ड:-जातिकुलगणकर्मशिल्परूपाजीवनेनो- त्पादिताऽऽहारशय्यादिकम्, मातृसमुत्था जातिव्रह्मणादिवा, पितृसमुत्थं कुलमुप्रादि वा, गणो मल्लादिवृन्द, कर्म कृष्यादि, शिल्पं तृणादितूण्डनसीवनप्रभृति, जात्या जीवनं पृष्ठो 5ऽपृष्टो वाऽऽहारार्थ स्वजाति प्रकटयति यथाऽहं ब्राह्मण इत्यादि तदा स जात्या 'जीवनपिण्डः एवमन्येष्वपि भावनीयम् । वनीपक:-दायकामिमतेषु श्रमणादिध्वात्मानं भक्कं दर्शयित्वा याचनया लब्धः पिण्डः । भोजनप्रदाने क्रियमाणे सति कोऽप्याहार- लम्पट साधुराहारादिलुब्धतया तत्तद्भगृहिणः पुरतश्शाक्यादिभक्तमात्मानं दर्शयति, नि- शाक्यतापसगेरुकाऽऽजीवकरूपेण पञ्चधा श्रमणाः । चिकित्सापिण्डा-वमनविरेचन- 10 बस्तिकर्मादि कारयतो भैषज्यादि सूचयतो वा मिक्षार्थे यः पिण्डः स चिकित्सापिण्डा, सूक्ष्मः औषधविधिवैद्यज्ञापनेन, बादरः स्वयं चिकित्साकरणेन । अन्यस्मात्कारणाच भिक्षार्थ गृहे प्रविष्टेन साधुना निजव्याधिप्रतीकारोपाये पृष्टे ममाप्येकदैवं सञ्जातोऽमुकेनौषधेन चोपशम गत इत्येवं वदता रोगिणो भैषज्यकरणाभिप्रायोत्पादनादौषधसूचनं कृतं भवतीति सूक्ष्मो बादरः प्रसिद्ध एव । कोपिण्ड:-विद्यातपःप्रभावज्ञापन राजपूजादिल्यापन क्रोधफल 15 दर्शनं वा मिक्षार्थ कुर्वतोऽयं दोपः। मानपिण्डा-साधूनां समक्षं पणं कृत्वा तदाऽहं लब्धिमान् यदा भवतां सरसमाहारममुकगृहादानीय ढदामीत्युक्त्वा गृहस्थं विडम्ब्य गृहाति तदाऽयं दोषः । मायापिंड:-वेषपरावर्त्तादिना मायया प्रतारणेन दापयत्यात्मने भक्तादिदानाय च पर प्रयोजयति यदा तदाऽयं दोषः । लोभपिण्ड:-अद्याहममुकं सिंहकेसरादिकं ग्रहीष्यामीति बुद्ध्याऽन्यदलचनकादिकं लभ्यमानमपि यन्न गृहाति किन्तु तदेवेप्सितं स लोभपिण्डः । 20 अथवा पूर्व तथाविधबुद्ध्यभावेऽपि यथाभावं लभ्यमानं प्रचुर उपनकश्रीप्रभृतिक भद्रकर समिति कृत्वा यद्गृहाति स लोमपिण्डः । संस्तवपिण्डः-पूर्व जननीजनकादिद्वारेण पश्चाच श्वश्रूश्वशुरादिद्वारेणात्मपरिचयानुरूपं सम्बन्धं मिक्षार्थ घटयता प्रायः पिण्डः, सम्बन्धिसंस्तवो वचनसंस्तवश्चेति स द्विविधः मातृश्वधादिरूपतया संस्तवत्सम्बन्धिसं- स्तवः । श्लाघारूपतया संस्तवो पचनसंस्तवस्तथाकरणेन लब्धः पिण्डो दूषितः । विद्या- 25 पिण्डः-यया विद्यया सुरं साधयित्वाऽऽहारं गृह्णाति तदा विद्यापिण्डः, अथवा विद्या पाठ- यित्वा भोजनादिकं गृहस्थागृहाति तदा विद्यापिण्डः । मन्त्रपिण्ड:-मंत्रेणावाप्तः पिण्डः, पादलिप्तसूरयो मुरुण्डराजानं प्रति मंत्रं प्रयुक्तवन्तः परं तत्र न कोऽपि दोषस्तेषां तं प्रत्यु- पकारित्वादेवं संधादिप्रयोजनेन मंत्रे प्रयुज्यमाने न दोषः किन्तु केवळ भिक्षार्थमेव मंत्र- योगे क्रियमाणे दोषः । चूर्गपिण्ड:-वशीकरणाद्यर्थ अञ्जनादिचूर्णप्रयोगादवाप्तः पिण्डो दुष्टः । । - " पिण्डविशुद्धि.] न्यायप्रकाशसमलट्टते योगपिण्डः यदा मुग्धलोकान् सौभाग्यादिविलेपनराजवशीकरणादितिलकेन अलस्थलमार्गो- लंघनसुभगदुर्भगविधिमुपदिश्याऽऽहारं . गृह्णाति तदा योगपिण्डदोषः । मूलकर्मपिण्ड:- पुत्रादिजन्मदूषणनिवारणार्थ मघाज्येष्ठाऽऽश्लेषामूलादिनक्षत्रशान्त्यर्थं मूवनस्पत्यवयवैस्स्ना- नमुपदिश्याहारादिकं गृहावि तदायं दोषः । इत्युपार्जनादोषाः । शङ्कितदोषः, भक्तपानादौ या शका कल्पनीयाकल्पनीयधर्मविषया, न विनः किमिदमुद्रमादिदोषयुक्तं किं वा नेत्या- 5 शंकास्पदीभूतं असति कल्पनीयनिश्चये ददती प्रत्याचक्षीत न मम कल्पते एतादृशमिति । मेक्षितदोपः-सचित्तपृथिव्यादिना गुण्ठितं, तद्विविधं सचित्तेन पृथिव्यप्कायवनस्पतिकाये- नावगुण्ठितं, अचित्तन्नक्षितञ्चेति, अचित्तपदेन वसादिः पूतादिन गृह्यते । निक्षिप्तदोष:- सचित्तायुपरिस्थापितपिण्डादिः । पिहितदोष:-उदकुंभेन पेपण्या पीठकेन शिलापुत्रकेण मुल्लेपादिना केनचिजतुसिक्थादिना वा स्थगितं लिप्तं वा सदुद्भिय दायकश्मणार्थ यदि 10 दद्यात्तदा तद्ब्रहणेऽयं दोपः । संहृतदोष:-दानानुचितं सचित्तेषु पृथिव्यादिध्वचित्तेषु वा केषु- चित्पात्रेषु निक्षिप्य तेन रिकीकृतपाकेणैव भक्त यदा दीयते तदायं दोषः । दायकदोष:- बालवृद्धमत्तोन्मत्तमहगृहातवेपमानज्वरितान्धप्रगलितारूडपादुकादीनां चत्वारिंशतां दायकानां हस्तादिक्षादीनां ग्रहणम् । उन्मिश्रदोषः, अशनपानखाद्यस्वाद्यादिकं जातिपाटलादिमिः पुष्पैर्बीजहरितादिमिर्वा मिनं संयत्तानामकल्पिकं ददतो न मम कल्पत इति प्रत्याचक्षीता- 15 न्यथा दोपस्यात् । अपरिणतदोष:, रूपान्तरानापन्नमपरिणतं यथा दुग्धं दुग्धभाव एव स्थित दधिभावमनापन्नम् , भावोनस्तूमयोः पुरुपयोराहारो वर्तते तन्मध्ये एकस्य साधये दातुं मनोऽस्ति एकस्य च नास्ति तदाहारोऽपरिणतदोपयुक्तः स्यात् । लिसदोप:-सर्वतः पिच्छि- लीकृतं, मृत्तिकया सर्वतः खरण्टितं, गर्हितद्रव्यादिना लिप्तम् । छर्दितदोषा-दीयमानस्या. श्रादेः पृथ्वीकायादिसंसक्तत्वादि छर्दितम, छर्दितमुज्झितं त्यक्तमिति पर्यायाः, तदपि कदा- 20 चिच्छद्यते सचित्तमध्ये, कदाचिदचित्ते कदाचिन्मिश्रे, ततश्छदितानां सचिचाचित्तमिश्रद्रव्या- णामाधारभूतानामाधेयभूतानाञ्च संयोगतश्चतुर्भशी भवति, एतत्सम्बन्धिसर्वेषु भङ्गेषु भक्का- दिग्रहणं प्रतिषिद्धमिति दशैषणादोषाः । संयोजनादोपाः पञ्च, सयोजनं नाम भक्तादेर्गुणान्त- रोत्पादनीयद्रव्यान्तरमीलनम, ते च संयोजनातिबहुकाङ्गारघूमनिष्कारणरूपाः पञ्चविधाः तत्र १. अपरिणत द्विविधं द्रव्ये भावे च प्रत्येकमपि दातृप्रहीतृसम्बन्धाद्विधा, दुग्धत्वात्परिभ्रष्ट दषित्वमा- पन्न परिणतमुच्यते, दुग्वभावे वाऽवस्थितेऽपरिणत, भावविषयन्तु उभयो पुरुपयोरिति टीकोक्तं वेदित- व्यम् ॥ २. सयोजना द्विविधा द्रव्यविषया भावविषया च, द्रव्यसंयोजना च बहिरन्तश्च, यदा मिनाथ हिण्डमानस्सन् क्षीरादिक खण्डादिमिस्सह रसगृया सयोजयति तदा वाया संयोजना, यदा तु बसता- वागत्य भोजनबेलाया पात्रे कवले बदने वा सयोजयति तदाऽभ्यन्तरा। एक कुर्वन् आत्मनि ज्ञानावग्णादिक कर्म संयोजयति, दीर्घतरमवाच दुःख संयोजयति ॥ - - - तत्वन्यायविभाकरे [ द्वितीयकिरणे लोभाद्रव्यस्य मण्डकादेव्यान्तरेण खण्डघृतादिना रसविशेषोत्पादनाय बसतेवहिरन्तर्वा योजन संयोजना । धृतिबलसंयमयोगा यावता न सीदन्ति वावधाहारप्रमाणं, अधिकाहारस्तु वमनाय मृत्यवे व्याधये वेति अतिबहुको दोषः । स्वान्नं तदावार वा प्रशंसयन् यद्भुढे स रागाग्निना चारित्रेन्धनस्याङ्गारीकरणादारदोषः । निन्दन् पुनः चारित्रेन्धनं दहन 5 धूमकरणाद्धमदोषः । षड्भोजनकारणाभावे मुखानस्य कारणाभावो दोषः । क्षुद्वेदनाऽसहन, क्षामवैयावृत्त्याकरणं, ईर्यासमित्यविशुद्धिः, प्रत्युपेक्षणाप्रमार्जनादिसंयमापालनं क्षुधातुरस्य प्रवलारत्युदयात्प्राणप्रहारशङ्का, आर्चरौद्रपरिहारेण धर्मध्यानस्थिरीकरणमिति षड् भोजन- कारणानि, तदेवं नामग्राहं संक्षेपेण वर्णिता एते दोषाः, विस्तरतस्तु पिण्डविशुद्धयादिनन्थे- भ्योऽवगन्तव्या एवं सत्यादिनिमित्तदोषा अपि ॥ 10 - अथ समितिमाह- साध्वाचरणे शास्त्रोदितविधिना सम्यक्मवृत्तिस्समितिः, सा चेर्या- दिरूपा पञ्चविधा पूर्वमेवोक्ता वेदितव्या ॥ साध्वाचरण इति | साधुयोग्य आचरणेऽहत्प्रवचनानुसारेण प्रशस्ता प्रधृत्तिस्समितिः । गमने सम्यक् सत्त्वपरिहारतः प्रवृत्तिरीयर्यासमितिः, निरवद्यवचनप्रवृत्तिापासमितिः, द्विच- 15 त्वारिंशदोषवर्जनेन भक्कादिग्रहणे प्रवृत्तिरेषणासमितिः, आसनसंखारफपीठफलकवनपात्र- दण्डादिकं चक्षुषा निरीक्ष्य प्रतिलिख्य सम्यगुपयोगपूर्व रजोहरणादिना यगृहीयात् यञ्च निरी- क्षितप्रतिलेखितभूमौ निक्षिपेत्साऽऽदाननिक्षेपणासमितिः, पुरीपप्रस्रवणनिष्ठीवनश्लेष्मशरीर- मलानुपकारिवसनानपानादीनां जन्तुरहितस्थण्डिले उपयोगपूर्वकं परित्यजनं परिठापनास- मितिरिति पञ्च समितयः पूर्वमेव संवरनिरूपणे प्रदर्शिता इत्याशयेनोक्तं पूर्वमेवोक्ता इति ॥ अथ भावनामाख्याति- धर्मार्थ चित्तस्थिरीकरणहेतुर्विचारो भावना द्वादशविधा सा चेत्थम् ।। धर्मार्थमिति । भाव्यतेऽनयेति भावना, अभ्यासक्रिया, सा चाव्यवच्छिन्नपूर्वपूर्ववर- 20 १. मुख्यतया भावना पऋविधा दर्शनज्ञानचारित्रतपोवैराग्यभेदात् तत्र तीर्थकृतां प्रवचनस्य प्रावच- निकानामाचार्यादीनामतिशायिना केवलिमन.पर्यवावधिमञ्चतुर्दशपूर्वविदा अभिगमननमनदर्शनकीर्तनसम्पूजन- स्तवनादिमिर्दर्शनभावना, भाव्यमानयानया दर्शनशुद्धिर्भवति । मौनीन्द्र ज्ञान प्रवचनं यथावस्थिताशेषपदार्था- विविकं यत इहैव प्रवचने सम्यग् ज्ञातव्यजीवाजीवादिनवतत्वपरिज्ञान दृष्टं तथा परमार्थरूपं मोक्षास्य कार्यम्, करणं सम्यग्दर्शनशानचारित्राणि, कारक सम्यग्दर्शनाद्यनुष्ठाता साधुः, क्रिया सिचिव मोक्षावाप्तिसक्षणा भावनामेदा: ] न्यायप्रकाशसमलते संस्कारस्य पुनस्तदनुष्ठानरूपा, आत्मगुणः ज्ञानजाज्ञानहेतुश्च दृष्टानुभूतश्रुतेष्वर्थेषु स्मृतिप्र- त्यभिज्ञानकार्योन्नीयमाना च, धारणात्मकमतिविशेषरूपैवेयं यदा धर्मार्थ चित्तस्थिरवायां कारणं भवति तदा सा भावनोच्यत इत्याशयेनोक्तं धर्मार्थ चित्तस्थिरीकरणहेतुरिति, स्थाच ज्ञानदर्शनचारित्रतपोवैराग्यादिषु चित्तस्थैर्याय यो विचारस्सा भावनेत्यर्थः । तस्या भेदा अनित्यादिरूपा द्वादशविधाः पूर्वमेव संवरे प्रोक्ताः परन्तु प्रत्येकं स्वरूपाणि न दर्शितानीति 5 तत्स्वरूपाणि दर्शयितुं प्रतिजानीते द्वादशविधेति ।। तत्रादावनित्यभावनामाह- बाद्याभ्यन्तरनिखिलपदार्थेष्वनित्यत्वचिन्तनमनित्यभावना अनया चैषां संयोग आसक्तिर्विप्रयोगे च दुःखमपि पुरुषस्य न स्यात् ॥ बाह्यति । बाह्येषु शय्याऽऽसनवनौषोपधिषु प्रतिदिवसमिमे रजसा विपरिणम्यमाना- 10 स्सर्वप्रकारेण स्वां सन्निवेशावस्थां विहाय विशरारता प्रतिपद्यन्ते, आभ्यन्तरं शरीरद्रव्यं जीवप्रदेशव्याप्तत्वात् , इदमपि जन्मनः प्रभृति पूर्वपूर्वावस्था जहदुत्तरोत्तरावस्थामास्कन्द- प्रतिक्षणमन्यान्यरूपेण च भवन्नराजर्जिताशेपास्यवं पुद्गलजालविरचनमानं पर्यन्ते परि- त्यतसन्निवेशविशेष विशीर्यते, निरीक्ष्यते हि भवे यत्मातरस्ति न तन्मध्याह्ने यश्च मध्याहे न वनिशीथिन्यामत एव वृद्धास्सचेतनमचेतनमप्यशेषमुशन्त्युत्पादानित्यधर्मकमिति विचारोऽ- 15 नित्यभावनेत्यर्थः, ईशभावनाफलमाविष्करोति अनयेति-अनित्यभावनयेत्यर्थः एषामिति, प्राणप्रियाणामपि शरीरशय्यासनवस्त्रादीनां संयोगे आत्मना सम्बन्धे सति आसक्तिरमि- ध्वगा, विप्रयोगे-वियोगे सति दुःखमपि शारीरं मानसं वा पुरुषस्य न स्यान्न भवेदेव तृष्णाविनाशेन निर्ममत्वादिति भावः ॥ अशरणभावनामाह- - 20 जन्मजरामरणादिजन्यदुःखपरिवेष्टितस्य जन्तोस्संसारे कापि अर्ह- च्छासनातिरिक्तं किमपि शरणं न विद्यते इति भावनाऽशरणभावना । एवं भावयतस्सांसारिकेषु भावेषु वैराग्यं समुत्पद्येत ॥ बध नान्यत्रैवं भावयतो ज्ञानभावना, मनया नित्य गुरुकुलवासो भवति चारित्रभावना पूर्वमेव टीकाकता प्रदर्शिता । केन निर्विकृत्यादिना तपसा मम दिवसोऽवन्ध्यो भवेत् कतरद्वा तपोऽहं विधातुं प्रभु, कतरच तप. कस्मिन् प्रन्यादी मम निर्वहति इति भावनीयं, इत्यादिरूपेण तपसि भावना । वैराग्यभावना च द्वादशविधा अन्यकृता सम्प्रति प्रदर्यत इति ॥

तत्त्वन्यायविमाकरे [ द्वितीयकिरणे जन्मेति । पितृमातृभ्रातृदयितातनयादिपरिवेष्टितस्यापरिवेष्टितस्य वा त्रैलोक्यविध्वंसन- पदिष्ठसामर्थ्यस्यासामर्थ्यस्य वा मंत्रतंत्रादिक्रियासुगूढस्यानिगूढस्य वा नानाशास्त्रकृतपरिश्रम: स्यापरिश्रमस्य वा जन्तुमात्रस्य. जन्मजरामरणादिजन्यदुःखपरिवेष्टितत्वेन दुःखदावाग्निच्च- लज्वालाकरालकरम्वितेऽस्मिन् संसारे शरणं भयापहारिस्थानमईच्छासनातिरिक्तं किमपि न 5 विद्यत इत्येवं पर्यालोचनमशरणभावनेत्यर्थः, तथा चिन्तयतो लाममाह एवं भावयत इति, अशरणभयात्सांसारिकपदार्थजातेषु प्रीत्यभावेन वैराग्यं लभते, जन्मजरामरणभयाक्रान्ता- नाश्चाईच्छासनोकविधेरेव प्रकृष्टशरणत्वाज्ञानदर्शनचरणलक्षणे तद्विधौ प्रवर्तत इति भावः ।। - संसारभावनामाह- संसारे बम्ञम्यमाणानां जनानां सर्व एव स्वजनाः परजनाचेति 10 विचारस्संसारभावना । एवं विचारयतः केष्वपि ममत्वाभावानिर्वि- पणस्य संसारपरिहाराय यत्न उदीयात् ॥ संमार इति । इतश्चेतश्च परिभ्रमण संसारः, तत्र जीवपुरलानां यथायोगं भ्रमण द्रव्य- संसारः, क्षेत्रसंसारो येषु चतुर्दशरज्वात्मकेपु द्रव्याणां संसरणं सः, नारकतिर्यड्नरामरगति- चतुर्विधानुपूर्युदयाद्भवान्तरसंक्रमणं भवससारः, दिवसपक्षमासवयनसंवत्सरादिलक्षणस्य 1B चक्रन्यायेन भ्रमणं कालसंसारः, भावसंसारस्तु संमृतिखभाव औदयिकादिमाषपरिणतिरूपः, तत्र च प्रकृतिस्थित्यनुभागानां प्रदेशविपाकानुभवनम् , तथा च कर्मसंवन्धात्संसारी जन्मजरा- मरणरोगशोकादिप्रस्खत्वेन दुःखखभावे जन्मान्तरे नरकादिदुःखभावाहुःखफले "पुनःपुनर्मुःख- सन्तानसन्धानाडुःखानुवन्धिनि सुरनरनैरयिकतिर्यक्सुभगदुर्भगादिविचित्ररूपे सुखलेशाभावा; दसारे चक्रवसौनःपुन्येन भ्राम्यतां जनिजुषामेकद्वित्रिचतुःपञ्चेन्द्रियास्सर्व एव यदा जनकता- 20 सम्बन्धेन स्वान्यादिसम्बधेन वा सम्बन्धिनस्तदा खजना उच्यन्ते यदा च न तेन सम्बन्धेन सम्बन्धिनस्तदा परजना न पुनः सर्वथा स्वजनत्वं परजनत्वं वा नियतं, रागद्वेषमोहामिभूव- स्वेन जन्तूनां नानायोनौ पृथक् पृथक् परिभ्रमणात्, अत एव प्रकृष्टानि दुःखान्यनुभवन्ति इत्येवं विधो विचारः संसारभावनेत्यर्थः, फलमाह एवमिति, प्रचुरदुःखफलनानायोनिभ्रमण- भयेन कापि ममत्वाभावात् सांसारिकसुखेषु तडिकल्पेषु विषमिश्रपयोनिभेषु जिहासितो 25 भवति, ततश्च संसारपरित्यागाय प्रयत्नवान् भवतीति भावः ।। एकत्वभावनामाचष्टे- एक एवाहं जाये म्रिये न मे कश्चिदात्मीयः परो वा नवा कश्चिन्म- - भावनामेदाः ] न्यायप्रकाशसमलते 'दीयं दुःखाद्यपहर्तु प्रभवतीत्येवं विचिन्तनमेकत्वभावना । अनया ष निस्सङ्गतां यायात् ॥ एक एवेति । एव शब्देन कदाचिदपि जननमरणानुभवो नेवरसहायो भवतीति सूचितम् , यमलकयोरपि क्रमेणैव निस्सरणान्मरणाच । संसारे हि जन्तुरेकक एवोत्पद्यते विपद्यतेऽन्ये- कक एव, दुःखी सन्नेकक एव कर्मार्जयति फलमपि तस्यैकक एवासेवते, वहुविधैः क्लेशैरर्जितं 5 धनन्तु कलत्रमित्रादिमिस्सम्भूय मुज्यते परन्तु दुःखं स्वकर्मकृतमेकक एव सहते यदर्थमपि जीवः प्रत्यहं भ्रमति क्लिश्यते समालम्बते दैन्य भ्रश्यति धर्माद् वञ्चयत्यहितानपत्रामति च न्यायात्सोऽपि देहः परभवप्रयाणे पदमेकमपि नानुवर्तते; तथा च सर्वेषां स्वार्थकनिष्ठत्वेन धर्माहते नापरः कश्चन सहायो दुःखाद्यपहरणे दक्ष इत्येवंमावनैकत्वभावनेत्यर्थः । ननु गृहा- बासकालीनममतायाः कलत्रादिविपयिण्याः प्रव्रज्याकाले साधुमिस्त्यागः कृतः परन्तु साम्प्रत- 10 कालीनमाचार्यानिविषयं ममत्वं कथं परिहाय्यं भवेदिति चेदुच्यते बाह्यप्रेमणि पूर्व तनूकते एकत्वभावनादिदाढात् आचार्यादिविषयेऽपि ममत्वानुदयेन पश्चादाहारे उपधौ देहे न सन्नति छिन्नममत्वश्च सर्वेऽपि जीवा असकृदनन्तशो वा सर्वजन्तूनां स्वजनभावेन परजनभावेन च संजाताः, अतः कोऽत्र स्वजनः परजनो वा इति भावनया त्रुटितप्रेमवन्धो भवतीति भावः । एवं सति यद्भवति तदाहानयाचेति । निस्सङ्गनामिति, स्वजनसंज्ञकेषु स्वीयत्वेन प्रसिद्ध शरीरे 15 च लेहानुरागवैधुर्यमित्यर्थः, यायादिति, प्राप्नुयादित्यर्थः, ततो मोक्षायैव चेष्टत इति भावः ।। अन्यत्त्वभावनामाह-- वैधम्र्येण शरीरभिन्नतयाऽऽस्मानुचिन्तनमन्यत्वभावना। अनया च देहात्माभिमाननिवृत्तिर्जायेत ॥ वैधय॒णेति । यस्मान्जीवः कायमपि व्यपास्य लोकान्तरं यात्सतोऽयं वपुपो भिन्नः ८ सहगमनरूपसाधाभावात् । तथा सेन्द्रियं शरीरमतीन्द्रियोऽहं, अनित्यं तन्नित्योऽहं, आद्य- न्तवच्छरीरमनाघनन्तश्चाई, संसारे भ्रमतो मे वहूनि शरीराणि प्राप्तानि परं स एवाहमन्य- स्तेभ्य इत्यादिविरुद्धधमैरन्यत्वचिन्तनमन्यत्वभावनेत्यर्थः, तत्फलमाहानया चेति । देहात्मा- मिमाननिवृत्तिरिति, शरीरमेवात्मेति बुद्धेः शरीरममवाया वा विच्छेद इत्यर्थः, तथाचैव भावयतस्सर्वस्वनाशेऽपि शोकांशोपि न जायत इति भावः ।। अशुचिभावनामाह-- अशुचिमया कायोऽशुचिहेतुकोऽशुचिस्यन्दी चेति विचारोऽशुचिभा. 'चना। एतया च शरीरविषये निर्ममत्वं स्यात् ।। - दत्वम्यायविमाकरे [द्वितीयकिरणे अशुचिमय इति । अशुचिप्रचुर इत्यर्थः तत्कथमित्यत्राहाशुचिहेतुक इति यतो-गर्भ शुकशोणितमेलनप्रभवो जरायुवेष्टितो मात्रभ्यवहृतानपानरसवार्द्धतः क्लिवद्धातुसमाकुलो. ऽतोऽशुचिमय इत्यर्थः, उत्पन्नादपि तस्मात्सदाऽशुचीन्येव मलमूत्रश्लेष्मपित्तस्वेदादीनि निर्या- न्तीत्यतोऽप्यशुचिमय इत्याहाशुचिस्यन्दीति, भावनाया अस्याः प्रयोजनमाह एतया चेति, 5 निर्ममत्वमिति, शरीरपोषणशृङ्गारादाबौदासीन्यमुदेतीति भावः ।। आश्रवभावनामाह-- - इन्द्रियाद्याश्रवद्वारा कर्मागमनचिन्तनमाश्रवभावना । अनया चा- श्रवनिरोधाय यतेत॥ इन्द्रियादीति | बहुतरविद्याबलादियुता अपि तत्तदिन्द्रियविषयप्रसक्तचित्ता इहामुत्र च 10 विनाशं प्राप्नुवन्ति अत एते चक्षुरादयो निजप्रवाहपतितमात्मानं सन्मार्गाद्धशयन्ति नदीप्रवाहो स्वस्मिन् पतितानां तृणकाष्ठादीनामिव । अत इन्द्रियादयश्शुभाशुभकर्मागमद्वारभूता जीव. स्थापकारिण इति चिन्तनमाश्रवभावनेति भावः । लाममाहानयाचेति, अनया भावनया इन्द्रियविषयेषु मनोव्यावृत्त्या अनर्थपरम्परैकजनकादाश्रवोधात्परावर्तन इति भावः ।। संवरभावनामाविष्करोति- 15 आश्रवदोषास्सर्वे पापोपार्जननिरोधपटिष्ठसंवरवतो नैव स्पृशन्तीति विलोकनं संवरभावना । अनया च संवराय घटते ॥ आश्रवदोषा इति । मनोवचःकायकर्मप्रभवासवास्सर्वे पापसम्पादननिरोधसमर्थ- प्राणातिपावनिवृत्त्यादिपरिरक्षकगुप्त्यादिधारणतो नैव भवन्तीत्येवं चिन्तनमित्यर्थः, फल- माहानयेति, तदेवं विचारयतोऽवश्यं मिथ्यात्वकषायादिनिरोधाय तत्परिपन्थिभूतेषूपायेषु 20 प्रवृत्तिर्भवति तथा च सद्दर्शनेन मिथ्यात्वं क्षमया क्रोधं मार्दवेन मानमानवेन मायामनीहया लोमं संयमेन विषयान्विषतुल्यान् गुप्तित्रयेण योगमप्रमादेन प्रमादं सावद्ययोगहानेन चाविरतिं शुभस्थैर्यचेतसाऽऽतरौद्रात्मकं ध्यानं च निरंध्यादिति भावः ।। निर्जराभावनामाह- नरकादिषु कर्मफलविपाकोदयोऽधुद्धिपूर्वकस्तपापरीषहादिकृतश्च कु- 25 शलमूल इति विभावनं निर्जराभावना । अनया च कर्मपरिक्षयाय यतेत ॥ नरकादिग्विति । नरकादिषु कर्मफलविपाकोदयस्याबुद्धिपूर्वकत्वेन संसारानुवन्धित्वा- . - लोकस्वरूपम् ] न्यायप्रकाशंसमलते सापरूपत्वं तपसा परिषजयेन वा कृतस्य बुद्धिपूर्वकत्वेन शुभानुवन्धित्वाभिरनुवन्धित्वाद्वा उपकारकमित्येवं विचिन्तयतो निर्जराभावना प्रोच्यत इति भावः, फलमाहानया चेति कर्म- परिक्षयाय तपःप्रभृतिभिर्वर्धमाननिर्जरया ममत्वादिरूपकर्मणां परिशाटनायेत्यर्थः ।। लोकभावनामाचष्टे- पश्चास्तिकायरूपानेकपरिणाम्युत्पादव्ययधौव्यात्मको लोको विचि- 5 त्रस्वभाव इति विचारणा लोकभावना । एतया च निर्ममत्वमुदियात् ।। पश्चास्तिकायेति । लोक्यते दृश्यते केवलज्ञानभास्वतेति लोकः, स च धर्मास्ति: कायेनाधर्मास्तिकायेन वाऽवच्छिन्नो निखिलद्रव्याधारो विशिष्टसस्थानो गगनभागः क्षेत्र- रूपः, द्रव्यरूपस्तु जीवाजीवरूपा, एतदभिप्रायेणैव पञ्चास्तिकायरूपेत्युक्तम् , यत ईशो लोकोऽत एवानेकपरिणामी, नानाविधपरिणामवान् प्रतिक्षणवर्तिनी कालान्तरवर्तिनी द्विवि- 10 धामुत्पत्ति विभर्ति, भावा हि प्रतिक्षणमुत्पद्यन्तेऽन्यान्यरूपेण, कालान्तरवर्तिनी चोत्पत्तिः पिण्डाधाकारेण मृदादिद्रव्यमपहाय तस्य घटादिरूपेण परिणमनम् , एवं विनाशमृदपि, बिनायो हि द्विविधो क्षणिकः कालान्तरवर्ती च विवक्षितक्षणाद्वितीयक्षणे हि विनाशोऽवश्य- म्भावी, सोऽप्यवस्थान्तरापत्तिरेव न तु निरन्वयः । स्वित्युत्पत्ती अर्थक्रियाकारित्वेन सत्त्वा- नामनुग्रहकारिण्यो, घटो हि समुत्पन्नस्तिष्ठंश्च जलाहरणधारणादिरूपेणानुगृहाति, विनाशो- 15 ऽपि कालान्तरमावी कुण्डलार्थिनः कटकविनाशवद्भवत्यनुप्राहकः तथावस्थानमपि वित्ति, अस्तिकायरूपेण भावानां सर्वदा सद्भावात् धर्मास्तिकायादिव्यपदेशमजहतो हि ते वर्धनार्थ- पर्यायस्सर्वदा व्यवतिष्ठन्ते इत्यादिरूपेण जीवाजीवाधारस्य लोकस्य विचित्रस्वभावतया विभा- चनमिति विभाविते चैवं किं स्यादित्यत्राहेतया चेति, कचिदपीडशे लोके शाश्ववस्था- नाभावेन प्रीत्यसम्भवान्निर्ममत्वं भवेत् तथा वत्त्वज्ञानविशुद्धिश्च ततोऽवश्यं मोक्षाय 20 चेतोवृत्तिः स्यादिति भावः ॥ तत्त्वज्ञानविशुद्ध्यर्थ लोकस्वरूपं विस्तरेणादर्शयितुं तत्स्वरूपसंस्थानादीन् वक्तुमुपक्रमते-- भावा, -- १. अनेन निक्षेपस्सूचित. तथाहि रूप्यरूप्यात्मक सप्रदेशासप्रदेशरूप जीवाजीवसमुदायो द्रव्यलोको नित्यानित्यात्मक , आकाशस्य प्रदेशा ऊर्ध्वास्तिर्वच क्षेत्रलोक, मनोकाकाशप्रदेशापेक्षया चानन्त., सम- यावलिकामुर्तदिवमाहोरात्रपक्षमाससवत्सरयुगपल्योपमसागरोपमोत्सर्पिणीकालचक्रपुद्गलपरावर्तरूप. काललोक, चतुर्गतिपु वर्तमाना जीवास्तत्र तत्र भवे यदनुमावमनुभवन्ति स भवलोक., औदायिकौपशमिकशायिकक्षा- योपशामिकपारिणामिकसानिपातिकरुपो भावलोक इति ॥

तस्वन्यायविभाकरे [दितीयकिरणे तत्रालोकभिन्नः केवलिनाज्वलोक्यमानो लोका, स च पश्चास्तिका- यात्मकः कटिन्यस्तहस्तयुग्मवैशाखसंस्थानसंस्थितपादनराकृतिरुत्पत्ति- स्थितिव्ययात्मकश्चतुर्दशरज्जुपरिमाण अधिस्तियंग्मेदभिन्नः ॥ तत्रेति । लोकमावनायामित्यर्थः, अस्मदादिमिरवलोक्यमानत्वं न सर्वनास्तीति केव- । लिनेत्युक्तम् , केवलिनाऽवलोक्यमानत्वमलोकस्यापीति तद्भिन्नत्वमुक्तं तावन्मानं शशशृङ्गादा- धपीति विशेष्यम् , यद्देशावस्थितेनः केवलिना विलोक्यते स देशो लोक इति तु न लोकमा- अव्यापक परिच्छिन्नदेशवृत्तित्वात्तस्य, लोके स्थित्वा विलोक्यत इति तु परस्पराश्रयमिति । कोऽसावियत्राह पञ्चास्तिकायात्मक इति जीवाजीवरूप इत्यर्थः । तस्य संस्थानमाह कटिन्य- स्वेति, कट्यां न्यस्त विन्यस्त करयुग्मं यस्य ताशस्य, वैशाखस्य यत्संस्खानं पूर्वापरायत- 10 कोटिरूपं तदिव संस्थितौ न्यस्तौ पादौ यस्य तादृशस्य च नरस्य पुरुषस्याकृतिरिवाकृतिर्यस्य तथाभूत इत्यर्थः, उत्पत्तिस्थितिव्ययस्वभावपदार्थपरिपूर्णत्वात्सोऽपि तयेत्याहोत्पादेति । तत्परिमाण सूचयति, चतुर्दशरज्जुपरिमाण इति, अधस्ताद्देशोनसप्तरज्जुविस्तारः, तिर्यग्लो- कमध्य एकरज्जुविस्तारः ब्रह्मलोकमध्ये पञ्चरज्जुविस्तीर्णः, उपरि तु लोकान्त एकरन्जु- विस्तारः, शेषस्थानेषु कोऽपि कियानस्य विस्तार इति उच्छ्रायतस्तु चतुर्दशरनवोऽस्य 15 प्रमाणमिति भावः । तस्य विभागमाहोधिस्तियग्भेदभिन्न इति, ऊलोकोऽधोलोकस्ति- बैंग्लोकश्चेति भागत्रयवानित्यर्थः ।। , रनोः प्रमाणमाह- असंख्येययोजनकोटाकोटिप्रमाणा रज्जुः ॥ असंख्येयेति | सख्यातुमयोग्यस्स्त्रसमयपरिभाषितोऽसंख्येयः कोटाकोटीति, कोटे 20 कोटिना गुणने लब्धायासंख्यायाः कोटाकोटीति संज्ञा बोध्या। असंख्येयानां योजनानां या कोटाकोटिस्तत्प्रमाणा रन्जुर्भवति, कृत्स्नद्वीपपयोधिपर्यन्तवर्तिनस्वयम्भूरमणाभिधान- जलनिधेः परतटवर्चिपूर्ववेदिकान्तादारभ्य यावचस्यैव तोयनिधेरपरवेदिकान्तमेतावप्रमाणा रज्जुरिति ॥ - तत्र प्रथममधस्तनलोकस्वरूपमभिधातुकामोऽधोभागमाविष्करोति- 25 तत्र रुचकादधो नवशतयोजनान्युलंध्य साधिकसप्तरज्जुप्रमाणो लो- कान्तावधिरघोमुखमल्लकाकृतिभवनपतिनारकनिवासयोग्योऽधोलोकः ॥

- लोकस्वरूपम् ] न्यायप्रकाशसमलते :५६३ तत्रेति । लोक इत्यर्थः, वहुसमभूमिभागे रत्नप्रभाभागे मेरुमध्ये पक्ष्यमाणस्वरूपो मध्यलोकस्य मध्यभूतो रुचको भवति, तस्मादधोभागे नवशतयोजनानि यावत्तिर्यग्लोको भवति तदुक्तं " योजनानां नवशतान्यतीत्य रुचकादितः। आलोकान्तमधोलोकन्तप्राकृति- रुदाहत" इति । साधिकेति, वदुक्तं 'साविरेकसप्तरज्जुमानोऽधोलोक इण्यत्त' इति, अधोमुखमल्लकाकृतिरिति, ऊमल्पोच्छायत्वादधोऽधो महाविस्तारत्वाचाधोमुखशरावाकार- संस्थान इति भावः । वत्र वासयोग्यानाह-भवनपतीति, विस्तरस्त्वप्रे पक्ष्यते, अघोलोक इति, अध:-अशुभः परिणामो बाहुल्येन क्षेत्रानुभावाद्यत्र लोके द्रव्याणामसावधो- लोक इत्यर्थः ॥ कोऽसौ रुचक इत्यत्राह- रुचकस्तु रत्नप्रभापरनामधर्मापृथिव्युपरितनक्षुल्लकमतरद्विके मेरुध- 10 राधरमध्ये उपय॑धोभावेन स्थितश्चतुरस्राकृतिराकाशप्रदेशाष्टका । अयश्च मध्यलोकस्य मध्यं दिग्विदिग्व्यवहारमूलञ्च ॥ रुचकस्त्विति । अष्टविधासु पृथिवीपु धर्मानाम्न्येका पृथिवी, यस्या रत्नप्रभा इति नामान्तरं, तत्र मध्ये मेरुर्वते, तत्र चायामविष्कम्भाभ्यां प्रत्येक रज्जुप्रमाणौ सर्वप्रतराणां सुलको द्वौ नमःप्रदेशप्रतरौ विद्यते उपर्यधोभावेन, वयोश्च मेरुमध्यप्रदेशे मध्यं लभ्यते, 15 तत्र च मध्य उपरिननप्रतरस्य ये चत्वारो नमःप्रदेशास्तथाऽधस्तनप्रतरस्य ये चत्वारो व्योमप्रदेशास्तेषामष्टानामपि प्रदेशानां समये रुचक इति परिभाषा | अयश्चाष्टप्रदेशको रुचकस्समस्ततिर्यग्लोकमध्यवर्ती गोस्वनाकारः क्षेत्रतः पण्णामप्रि दिशां चतसृणामपि विदिशां प्रभव इत्याशयेनाहायग्नेति, चशब्दो भिन्नक्रम एवार्थे, तथा च तिर्यग्लोकस्यैव मध्यं, न तु लोकस्य, भगवत्यादौ रत्नप्रभाधनोदधिधनतनुवावान् गगनस्यासंख्येयभागश्चा- 20 तीत्य लोकमध्यव्यवस्थितेः, तस्मादेव चोर्ध्वमधश्च सम्पूर्णास्सप्तरज्जवो भवन्ति, तदुक्तं घाघनोदधिधनतनुवातान् विहायसः । असंख्यमागचातीत्य मध्यं लोकस्य कीर्तितम् । अस्मादूर्ध्वमधश्चैव सम्पूर्णास्सप्तरजवः' इति भावः । दिग्विदिग्व्यवहारमूलमिति, अस्मा- देव रुचकाहिशो विदिशश्च प्रभवन्ति, विजयद्वारानुसारेण प्रथमा दिगन्द्री, ततोऽवशिष्टाः १. अस्य लोकस्य मध्यन्तु चतुर्थ्या. पञ्चम्याश्च पृथिव्या यदवकाशान्तरं तस्य मातिरेकमधमनिवास भवति ॥ २. तियंग्लोकमध्यभागवर्तिनाविमौ, उपरितनक्षुल्लकमवधीकृत्योर्थ प्रतरद्धिरप शुभकमवधीकृत्याध. प्रतर- वृद्धिः प्रवृत्ता, अतः शेषापेक्षयेमी लघुतरौ रनुप्रमाणायामविष्कम्भौ वृद्धिहानिवनिनो लोपस्य बहुममी भागी चोध्यौ ॥

तत्वन्यायविभाकरे [ द्वितीयकिरणे प्रदक्षिणतो भवन्ति, ऊर्धश्च विमला तमा चाधः, रुचकादारम्मात्सर्या दिशस्साद्याः, वहि- श्यालोकाऽऽकाशाश्रयणादपर्यवसिताः, दशापि विशोऽनन्तप्रदेशात्मिकाः, तत्र रुचकादहि- श्चतसृष्वपि दिक्षु प्रत्येकमादौ द्वौ द्वौ नमःप्रदेशौ भवतः, तदप्रतश्चत्वारः, तत्पुरतप्पट् ततो- ऽप्यनतोऽष्टौ व्योमप्रदेशा इत्येवं व्यादिद्वयुत्तरश्रेण्या चतसृष्वपि विक्षु पृथक्पृथक् नेतन्यम् , 5 तत एताः शकटो/संस्थानाः पूर्वादिका महादिशश्चतस्रो भवन्ति, एतासाञ्च चतसृणामपि दिशां चतुर्वन्तरालकोणेष्वेकैकनमाप्रदेशनिष्पन्ना अनुत्तरा यथोत्तरं वृद्धिरहिताश्छिन्नमु- कावलीसंस्थिताश्चतस्र एव विदिशो भवन्ति, अयन्तु चतुरो नभःप्रदेशानादौ कृत्वा यथोत्तरं वृद्धिरहितत्वाश्चतुष्प्रदेशिकैव रुचकनिभा च चतुरनदण्डाकारैकैव भवति, अधो- ऽप्येवं प्रकारा द्वितीयेति, निश्चयनयेन वोध्यम् , व्यवहारेण तु यत्र सवितोदेति सा प्राची, 10 यत्रास्तं याति सा प्रतीची कांदिधनुरन्तान् राशीन यत्र स्थितश्चरति सा दक्षिणा, मक- रादीन् मिथुनान्तान् यत्र स्थितश्चरति सोत्तरेति सूर्यगतिकृतो नियमः, एवं विदि- शोऽपि भाव्या इति ॥ तत्राधोलोकस्वरूपं पृथिवीभेदेनोच्यते- रत्नशरीवालुकापङ्कधूमतमोमहातमाप्रभापरपर्याया धर्मावंशाशै- 15 लाञ्जनारिष्टामघामाघवत्यभिधानास्सप्त पृथिव्योज्योऽधः पृथुतराः ॥ रत्नेति । रत्नादीनां महातमापर्यन्तानां द्वन्द्वः प्रभाशब्दस्य प्रत्येकममिसम्बन्धा, तेनरल- प्रभेत्यादिरों विजेयः, रत्लादीनां प्रभायोगानोत्रेणोत्कीर्तनम् , अथवा प्रभाशब्दस्स्वभाववाची प्राचुर्येण रत्नस्वभावा रत्नमयी रलवहुला वेत्यर्थः एवं शर्कराप्रमादावपि । नाम वासामाहघ- मैति, तथा च प्रथमा पृथ्वी नाम्ना धर्मा गोत्रेण रत्नप्रभा द्वितीया नाना वंशा गोत्रेण शर्कराप्रमे 20 त्येवं भाव्यम्, पृथिव्य इति, पदमिदमधिकरणविशेषप्रतिपत्त्यर्थ, यथा च स्वर्गविमानपटलानि भूमिमनानित्यावस्थितानि न तथा नारकावासाः, किन्तर्हि ? भूमिमाश्रित्य व्यवस्थिता इति भावः, सप्ताहणं न्यूनाधिकसंख्याव्यवच्छेदाय, अधोऽघ इति, सप्तापि भूमयो नोतिर्यक्प्रच- येनावस्थिता अपि त्वघोऽध एवेति भावः । पृथुतरा इति, उपर्युपरितनपृथिन्यपेक्षयाऽधोऽधः पृथिवीनामायामविष्कम्माभ्यां महत्तमत्वं, तथाहि विष्कम्भायामाभ्यां रत्नप्रभैकरज्जुप्रमाणा, 25 शर्कराप्रमा रज्जुद्वयप्रमाणा, वालुकाप्रमा रज्जुत्रयप्रमाणेत्वेवरूपेण भाज्या, तथा रत्नप्रमा- - १. अस्या. पृथिव्या. काण्डवयं सरकाण्डपंकबहुलकाण्डजलबहुलकाण्डमेदात्, तत्क्रमेण च षोडशचतुर- शीलशीतियोजनसहसवाहल्यविभागात्मकम् , खरकाण्ड पोडविघरलात्मकत्वात् पोडशविधम् तत्र य. प्रथम्गे भागों रलकाण्ड नाम तद्दशयोवनशतानि वाहल्येन, एवमन्यान्यपि पञ्चदश भाव्यानि रलविशेषमयानि चैति ।

. लोकस्वरूपम् ] न्यायप्रकाशसमलते बाहल्यं अशीतिसहस्राधिकैकलक्षयोजनमितम् , द्वितीयाया द्वात्रिंशत्सहस्रोचरलक्षप्रमाणं तृतीयाया अष्टाविंशतिसहस्रोचरलक्षप्रमाणं चतुर्थ्याः विशतिसहस्रोत्तरलक्षप्रमाणम् पञ्चम्या अष्टादशसहस्रोचरलक्षप्रमाणं पष्ठयाप्पोडशसहस्रोचरलक्षप्रमाणं सप्तम्यास्तु सहस्राष्टकोचर- लक्षप्रमाणमिति । एतासां पृथिवीनां कि निरालम्बनत्वं सालम्बनत्वं वेत्यत्राह- 5 ताश्च प्रत्येकमनुक्रमतो घनोदधिधनवाततनुवाताकाशैलब्धप्रतिष्ठा चलयिताश्च ॥ ताश्चेति । पृथिव्यः पुनरित्यर्थः, न व्यवधानेन रत्नप्रभादयशर्कराप्रमादिषु प्रति- ठिता नापि निरालम्वना अपि तु प्रत्येकं पृथिव्योऽनुक्रमं घनोदध्यादिषु प्रतिष्ठिता इति भावः, तथा च रत्नप्रभा घनोदधौ घनोदधिश्च घनवाते स च तनुवाते सोऽप्याकाशे तवोऽयश- 10 कराप्रमा सापि घनोदधावित्येवं पृथिवीनां प्रतिष्ठितत्वमाकाशन्तु स्वस्मिन्नेव प्रतिष्ठितं नत्वाधारान्तरसमासादितप्रतिष्ठं, सर्वद्रव्याधारतया तसिद्धेः, तस्यैवाधाराधेयरूपत्वाचेति तात्पर्यार्थः । घनोदधीति, घनः स्त्यानीभूतोदक एवोदधिर्धनोदधिः, अयं वाहल्येन विशतियो- जनसहस्रपरिमिते मध्यमागे, घनः पिण्डीभूतो वातो धनवानोऽसंख्येययोजनसहस्रपरिमितो वाहल्येन मध्यभागे, तनुश्चासौ वातश्च तनुवातोऽसख्येययोजनसहस्रपरिमितो वाहल्येन 15 मध्यभागे, आकाशोऽवकाशान्तरं असंख्येययोजनसहस्रपरिमितं वाहल्येन मध्यभागे, एते हि मध्यमागे यथोकप्रमाणवाहल्यास्वतः प्रदेशप्रदेशहान्या हीयमानाः स्वखपृथिवी- पर्यन्तेषु तनुवरभूताः, तनुतरीभूत्वा च स्वस्खपृथिवीं वलयाकारेण वेष्टयित्वा स्थिताः, अव एवामूनि बलयान्युच्यन्ते वेपामुच्चैस्त्वं स्वस्वपृथिव्यनुसारेणेत्याशयेनाह चलयिताश्चेति, घनोदध्यादिमिर्वलयाकारेण वेष्टिवा इत्यर्थः ।। 20 व्यावर्णितस्वरूपेऽस्मिन् लोके रत्नप्रभाविपृथिवीपु प्रत्येकमूर्ध्वमधश्चैकैकं योजनसहस्र १. ईपलाग्भाय तु पृथिवी आकाशप्रतिष्ठितव, तथा पृथिवीप्रतिष्ठितानसा. स्थावर प्राणा प्राय., आकाशपर्वतविमानप्रतिष्ठिता अपि ते, शरीरादिपुद्गला जीवप्रतिष्टा. जीवधु तेपा स्थिते., जीवा कर्मप्रतिष्ठा अनुदयावस्थकर्मपुदलसमुदायरूपेषु कर्मसु संसारिजीवानामाश्रितत्वात् । नारकादिभावेन कर्ममिजावा. प्रति- छिता वा । अजीवा जीवसगृहीता मनोभापादिपुद्गलाना जीवैस्मंगृहीतत्वात् संग्राह्यसंग्राहकभावेनेदम् । पूर्वत्रत्वाधारवेयभावेन । जीवा मपि कर्ममगृहीता संसारिजीवानामुदयाहार्मवशवर्तित्वात ये यशास्ते तत्र प्रतिष्ठिता एवेति ॥

:५६६ तत्वन्यायविमाकरे [द्वितीयकिरणे विहाय मध्ये नरका भवन्ति महातमाप्रभायान्तु मध्ये त्रिषु सहनेष्वेव नरका भवन्ति तेषु कुत्र कियदायुष्काः कीदृशाश्च नारका वसन्तीति शङ्कायामाह- एतस्मिन् लोके रत्नप्रभादिक्रमेणोत्कर्षत एकत्रिसप्तदशसप्तदशद्वा- विंशतित्रयस्त्रिंशत्सागरोपमायुष्का जघन्यतो दशवर्षसहस्रकत्रिसप्त- 5 दशसप्तदशद्वाविंशतिसागरोपमायुष्का । अनवरताशुभतरलेश्यापरि- णामशरीरवेदनाविक्रिया अन्योन्योदीरितदुःखा नारका वसन्ति । एतस्मिन् लोक इति । अधोलोके व्यावर्णितस्वरूप इत्यर्थः, रत्नप्रभादिक्रमेणेति, रत्नप्रभायामुत्कर्षेणैकसागरोपमायुष्काश्शर्कराप्रभायां त्रिसागरोपमायुष्कास्तृतीयायां सप्त- सागरोपमायुष्कास्तुर्यायां दशसागरोपमायुष्काः पञ्चम्यां सप्तदशसागरोपमायुष्काः षष्ठयों 10 द्वाविंशतिसागरोपमायुष्कारसप्तम्यां त्रयस्त्रिंशत्सागरोपमायुष्का नारका निवसन्तीति भावः । किमेतन्न्यूनायुष्का न निवसन्तीत्यत्राहोत्कर्पत इति, नन्वेवं कुत्र कियन्न्यूनायुष्का वासयोग्या इत्यत्राह जघन्यत इति, प्रथमायां दशवर्पसहस्राणि द्वितीयायामेकसागरोपमं तृतीयायां त्रीणि सागरोपमाणि तुर्यायां सप्तसागरोपमाणि पञ्चम्यां दशसागरोपमाणि षष्ठयां सप्तदशसाग- रोपमाणि सप्तम्यां द्वाविंशतिसागरोपमाणि तेषां जघन्या स्थितिरिति भावः । नारकाणां 15 लेश्यादिदुःखानाहानवरतेति, अनवरतं या अशुभतरा लेश्यापरिणामशरीरवेदनाविक्रियास्ता- स्सन्त्येषामिति तादृशाः, अशआदित्वान्मत्वर्थीयोऽप्रत्ययः । नरकगतिनरकपञ्चेन्द्रियजा- त्योर्नियमादशुभवरलेश्यादिभिस्सम्बन्धा, निमेषमात्रमपि कदाचिन्न शुभलेश्यादीनां सम्भव इति सूचयितुमनवरतेति लेश्यादीनां विशेषणम् । कापोतनीलकृष्णास्तिन एव तीव्रतावार- तम्येन नारकाणां भवन्ति तथापि लेश्येति, सामान्यत उक्तिनारकाणां सम्यक्त्वप्रतिपत्ते- प्पडपि लेश्याः सम्भवन्तीति च सूचयितुम् । तत्र प्रथमायां कापोता तीबा, द्वितीयायां सैव तीव्रतरा, तृतीयायां कापोता तीव्रतमा तीव्रा च नीला, तुर्यायां नीला तीब्रवरा, पञ्चम्यां - 20 १. रलप्रभाया पृथिव्यामायामविष्कम्माम्या नरका द्विविधाः संख्येयविस्तृता असंख्येयविस्तृताश्चेति तत्र ये संख्येयविस्तृतास्ते संख्येयानि योजनसहस्राणि आयामविष्कम्भेण, संख्येयानि योजनसहनाणि परि- क्षेपेण प्रज्ञता. येऽसंख्येयविस्तृतास्ते असख्येयानि योजनसहस्राणि आयामविष्कम्मेण, असंख्येयानि योजन- सहस्राणि परिक्षेपण, एवं षष्टथिवीं यावत् । सप्तमपृथिव्या द्विविधा. संख्येयविस्तृत एक', स चाप्रतिष्ठाना- मिधानो नरकेन्द्रकोऽवसातव्य । असंख्येयविस्तृताश्चत्वार, ये असंख्येयविस्तृतास्तेऽसंख्येयानि योजनशतसह- माणि आयामविष्कम्मेण, असंख्येयानि योजनसहस्राणि परिक्षेपण । अप्रतिष्ठानामिधानश्च एक योजनशतसहस- मायामविष्कम्भेण, त्रीणि योजनशतसहस्राणि षोडशसहस्राणि दे योजनशते सप्तविंशत्यधिक अय कोशा अधाविंश धनुश्शतं त्रयोदशागुलानि अर्धाहुलच किंचिद्विशेषाधिक परिक्षेपणेति ॥ । . , . लोकस्वरूपम् ] न्यायप्रकाशसमलते तीब्रतमा नीला तीबा कृष्णा च, पाठयां तीव्रतरा कृष्णा, सप्तम्यां तीब्रतमा कृष्णैवेति । अशुभतराः पुद्गलपरिणामाः स्पर्शरसगन्धवर्णशब्दसंस्थानभेदगतिबन्धागुरुलधुनामानो दश वैर्यथायोग सन्तप्ता वेदितव्याः। अशुभतरदेहा अशुभनामकर्मोदयात्सर्वाण्यगोपालादीमि तदेहेष्वशुमानि नियमेन हुण्डशरीराणि वीभत्सानि, तेषां हि द्विविधानि शरीराणि, भव- धारकाणि उत्तरवैक्रियाणि च, जघन्येनाकुलासंख्येयभागप्रमाणं भवधारकं सर्वासु, उत्कर्षेण 5 सप्त धषि त्रयो हस्ताः षट् चाडलानि प्रथमायामुत्सेधाङ्गुलमधिकृत्येदम् , अधोऽधोऽन्यासु च द्विगुणवृद्ध्या विज्ञेयम् । उत्तरवैक्रियन्तु प्रथमायां जघन्येनालसंख्येयभागप्रमितमन्यासु च, उत्कर्षेण पञ्चदश धनूंष्यर्धतृतीयाश्च रत्नयः प्रथमायामेतदेव द्विगुणं द्वितीयस्यामेवं ताव- ज्ज्ञेयं यावत्सप्तम्यां धनुस्तहस्रमिति । अशुभतराश्च वेदनाः, नरकेषु अघोऽधश्शी- तोष्णाविप्रयुक्ता विचित्रा वेदितव्याः, अशुभतरा विक्रिया नारकाणां भवन्ति, शुभं 10 करिष्याम इत्यशुभतरमेव विकुर्वते दुःखाभिहतमानसाश्च दुःखप्रतीकार चिकीर्पयो गरीयस एव ते दुःखहेतून विकुर्वते इति भावः । किमेषां शीतोष्णजनितमेव दुःखमुतान्यथापीत्यत्रा- हान्योऽन्योदीरितदुःखा इति, भवप्रत्ययविभङ्गज्ञानानुगतत्वान्मिध्यादृष्टयो दूरादेव दुःखहेतून- वगत्योत्पन्नदुःखाः प्रत्यासत्तौ परस्परालोकनाच समुज्वलितक्रोधकृशानवोऽभिघातादिभिरु- दीरितदुःखा भवन्ति, सम्यग्दृष्टयस्तु सज्ञित्वादेवातीतजन्मन्यनाचारकारिणमात्मानं जानन्तः 15 क्षेत्रस्वभावजानि दुःखानि सहमानाः परैरुदीरितवेदनास्वायुःक्षयमुदीक्षन्तेऽतिदुःखिताः न पुनर्वेदनाम्समुदीरयन्त्यन्यनारकाणाम् , एषामवधिज्ञानं न विमङ्गज्ञानमिति भावः नारका इति, नरको विद्यते एषान्ते नारका नरकेपु भवा इति वा, ननु चन्द्रसूर्यादयो देवाः प्रत्यक्षसिद्धा एव, ये चाप्रत्यक्षा अन्ये देवा मंत्रविद्योपयाचितकादिफलसिद्धयाऽनुमानतो गम्यन्ते ये पुनर्नार- कास्ते साक्षादलुमानतो वाऽनुपलभ्यमानत्वेन तिर्यनरामरेभ्यो न सर्वथा मिन्नजातीया- 20 स्सन्ति खरविषाणवदिति चेन्मैवम् , सर्वज्ञप्रत्यक्षविपयत्वेन सर्वथाऽनुपलभ्यमानत्वस्या- सिद्धत्वात् । अस्मत्प्रत्यक्षाविषयत्वान्न तसिद्धिरिति तु एकस्याप्रत्यक्षस्यापि अपरप्रत्यक्षविष- यत्वे वाधकामावेन व्युदसनीयम्, इन्द्रियप्रत्यक्षस्योपचारमात्रेणैव प्रत्यक्षत्वाच, सन्ति केचि- प्रकृष्ठपापफलभोक्तारस्तस्य कर्मफलत्वात् जघन्यमध्यमफलभोगितियङ्नरवत् , ये च प्रकृष्ट- १. शीतोष्णनुमुक्षापिपासाखपारतंत्र्यभयशोकनराज्याविरूपा दशविधा वेदना । तिर्यमनुष्यभवानर- केयूत्पन्नासत्या अन्तर्मुहूर्सन निर्लनाण्डजसचिमानि शरीराण्युत्पादयन्ति, पर्याप्तिभावमागताश्चातिभयानकान् शब्दान् परमाधार्मिकजनितान् शृण्वन्ति हत, छिन्द, भिन्तेत्येवं रुपान् । श्रुत्वा ते भयोड्रान्तलोचना नधन्त करणा नष्टसमाश्च का दिश बजाम फुत्र वैतदु:सस्य त्राण स्यादिति काक्षन्ति, मदिराजारसंनिभा बाला ज्योतिर्मयी भूमिमाक्रमन्तो दह्यमानाः करुणमाक्रन्दन्तीलादिरूपेण वेदना विज्ञया ॥

- - वस्वन्यायविमाकरे [द्वितीयकिरणे पापफलभोगिनस्ते नारका इसनुमानादपि तसिद्धेः, न चात्सर्थ ये दु:खितास्तिर्यमनुष्यास्त एव प्रकृष्टपापफलभोगित्वान्नारकव्यपदेशमाजो नादृष्टनारकाः केचिदिति वाच्यम् , नरतिर- श्वामुत्कृष्टपापफलभोक्तृत्वाभावात् , येषामुत्कृष्टपापफल्मोगस्तैश्च संभवद्भिस्सर्वैरपि दुःख- प्रकारैर्युतैर्भवितव्यं, न चैवमतिदुःखितानामपि तिर्यगादीनां दृश्यते, आलोकतरुच्छायाशीत- 5 पवनसरित्सरःकूपजलादिसुखस्यातिदुःखितेष्वपि तेषु दर्शनात् , छेदनभेदनपाचनदहनदम्भ- नवज्रकण्टकशिलास्फालनादिभिश्च नरकप्रसिद्धैः प्रकारैर्दुःखस्यादर्शनादिति ।। ननु किमधोलोके सर्वत्र नारका एव वसन्ति नान्ये इत्याशंकायामाह- रत्नप्रभायाश्चाशीतिसहस्रोत्तरैकलक्षयोजनस्थूलाया, योजनसहन- मुपर्यधश्च विहायान्तर्जघन्यतो दशसहस्रवर्षायुष्काणामुत्कृष्टता किञ्चि- 10 दधिकसागरोपमायुष्काणां भवनपतीनां भवनानि वर्त्तन्ते । तत्रैव भागा- न्तरे रत्नमभीया नारका वसन्ति ।। रत्नप्रभायाश्चति । तस्याः स्थौल्यमाहाशीतिसहनेति, तावत्स्थूलायां न सर्वत्र भवन- पतीनां भवनानि किन्तु परिमिते भाग इत्याह योजनसहस्रमिति, एक योजनसहस्रमुपर्यधश्चैक योजनसहस्रं विहाय मध्येऽष्टसप्ततिसहस्राढणे लक्ष इत्यर्थः, तत्र केषां निवास इत्यत्राह 16 भवनपतीनामिवि, भवनानां गृहविशेषाणां पतयोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वी- पदिकुमारा दश देवविशेषास्तेषामित्यर्थः, भवनमायामापेक्षया किञ्चिन्यूनोच्छ्रायमानं, प्रासाद आयामद्विगुणोच्छ्रायः, बहिर्वृत्तान्यन्तस्समचतुरस्राणि अधकर्णिकासंस्थानानि भवनानि, आवासास्तु कायमानस्थानीया महामण्डपा विचित्रमणिरत्नप्रभामासितसकलदिश्चका इति विशेपोऽवसेयः । भवनानीति, असुरादीनां विचित्र संस्थानानि विमानानीत्यर्थः, अन्ये तु नव- 20 तियोजनसहस्राणामधस्ताद्भवनानि, अन्यत्र चोपरितनमधस्तनश्च योजनसहसं मुक्त्वा सर्वत्रापि यथासम्भवमावासा इत्याहुः । तत्रासुरकुमारादीनां दक्षिणोत्तरदिगमाविना सर्वसंख्यया भव- नानि चतुष्षष्टिलक्षा भवन्ति, नागकुमाराणां चतुरशीतिलक्षाः, सुपर्णकुमाराणां द्विसप्ततिलक्षा, वायुकुमाराणां षण्णवतिलक्षाः, द्वीपकुमारदिक्कुमारोदधिकुमारविद्युत्कुमारस्तनितकुमाराग्नि- कुमाराणां षण्णामपि दक्षिणोचरदिग्पर्तिश्लक्ष्णयुग्मरूपाणां प्रत्येकं षट्सप्ततिर्लक्षा भवन्ति । 25 भवनपतीनां स्थिति नियमयति जघन्यत इति, उत्कृष्टामाहोत्कृष्टत इति, एते भवनपतयः कुमारवदुद्धतभाषाऽऽभरणप्रहरणावरणयानवाहनत्वादुल्बणरागक्रीडनपरत्वाच कुमारा उच्च्य- ते नन्वष्टसप्ततिसहस्राढये लक्षे रत्नप्रभायां यदि वासो भवनपतीनां नारकाणां तर्हि क वास इत्याशंकायामाहतत्रैवेति, तावन्मात्रायामेव रत्नप्रभायामित्यर्थः, ननु वर्हि त्योस्सांकर्य " - 5 लोकस्वरूपम् ] न्यायप्रकाशसमलवृत्त स्यादित्यत्राह भागान्तर इति, भवनपतिवासानां दक्षिणोत्तरभेदतस्सत्त्वेनान्यत्र नारकाणां निषासा इति भावः, रत्नप्रभायां नारकाणां त्रयोदश प्रस्ताराः। नारकावासाश्च शिक्षाणि, द्रव्याधतया नित्या रत्नप्रभा प्रतिनियतसंस्थानादिरूपाकारस्य तादवरध्यात्, वर्णपर्यायर्गन्ध- पर्याय रसपर्यायस्पर्शपर्यायैश्वाशाश्वताः वर्णादीनामन्यथाभवनादिति ॥ अवशिष्टानां पृथिवीनां स्थूलपरिमाणादिकं प्रकाशयवि नारकप्रस्तावाल- द्वात्रिंशदष्टाविंशतिविंशत्यष्टादशषोडशाष्टसहस्राधिकलक्षयोजन- बाहल्याइशर्करादयः । अत्र तु नारका एव वसन्ति । द्वात्रिंशदिति । शर्करादीनां पृथिवीनां बाहल्यं द्वात्रिंशत्सहस्राधिकलक्षयोजनादिक्रमेण वोध्यमित्यर्थः, अत्र वासयोग्यानाहान विति, शर्करादिपृथिवीम्वित्यर्थः, एवशब्देनाऽऽद्याया- मिवात्र भवनपत्तिनिवासो नास्तीति सूच्यते, तथा क्रमेण प्रस्तारा नरकाणां एकादशनवस- 10 सपञ्चत्र्येकाः, आवासाश्च द्वितीयायां पञ्चविंशतिर्लक्षाणि, तृतीयायां पञ्चदश लक्षाणि, चतुर्थी दश लक्षाणि पञ्चम्यां त्रीणि लक्षाणि षष्ठयां नरकपञ्चोनैकलक्षाः सप्तम्यान्तु पञ्चैवेति ॥ रत्नप्रभापृथिव्यन्तनिरूपणप्रसङ्गेन मध्यलोकवनिनामपि व्यन्तरवानमन्तराणां निवास- स्थानमाह- उपरितनसहस्रयोजनस्योर्ध्वमधश्च योजनशतं मुक्त्वा मध्ये पिशा- 13 चाद्यष्टविधानां जघन्यतो दशसहस्रवर्षायुष्काणामुत्कृष्टत एकपल्योप- मायुष्काणां व्यन्तराणां भवनानि सन्ति ।। " १ नारकावासा द्विविधाः आवळिकाप्रविष्टा प्रकीर्णकरूपाखेति, आवलिकाप्रविष्टा नाम अष्ठासु दिक्षु समण्या व्यवस्थिताः, आनलिकासु श्रेणीषु प्रविष्टा व्यवस्थिता इति व्युत्पत्तः, ते संस्थानमधिकृत्य निविधाः, वृत्ताः व्यसा चतुरना , आवलिकावाझा प्रकीर्णका. नानासस्थानसंस्थिताः, सप्तमपृथिव्यान्तु नारका आवलिकाप्रविष्य एव । तया चोभयविधनारकवाससंख्येय रत्नप्रमाया निशलक्षेति ॥२ रत्नप्रमेयं द्रव्या- देशेन शाश्वती आकारस्य सर्वदाभावात् पर्यायादिशेनाशाश्वती, कृष्णसुरमितिककठिनत्वादिपर्यायाणा प्रति- क्षणं कियत्कालादनन्तरं वाऽन्यथान्यथाभवनात् । अनादित्वान कदाचिनासीत न कदाचिन भवति सदा भावात् न कदाचिन्न भविष्यति, अपर्यवसितत्वात् किन्तु अभूत् भवति भविष्यति च, एवं त्रिकालमावि- त्वाद्धृवा, ध्रुवत्वानियतावस्थाना, धर्मास्तिकायादिवत् , नियतत्वादेव शाश्वती, शश्वद्भावे प्रलयाभावात् शाश्व- तत्वादेव च सतत गंगासिन्धुप्रवाहप्रवृत्तावपि पौण्डरीकहद इवान्यतरपुदलविचटनेऽपि अन्यतरपदलोपचय- भावादक्षया, अक्षयत्वादेव चाव्यया मानुषोत्तराद्वहिस्समुद्रवत्, अव्ययत्वादेव स्वप्रमाणावस्थिता, सूर्यमण्डला- दिवत्, एवं सदावस्यानेन चिन्त्यमाना नित्या जीवस्वरूपवदित्येवं सर्वातु पृथिवीषु बोध्यम् ॥

:५५० तस्वन्यायविभाकरे [हितीयकिरणे उपरितनेति । रलप्रमाया हि काण्डत्रयं भवति तत्रोपरितनं पोडशसहस्रयोजनमितं खरकाण्ड ततश्चतुरशीतिसहस्रयोजनमितं पङ्कबहुलं काण्डं, ततश्चाशीतिसहस्रयोजनमित जलबहुलं तत्र खरकाण्डस्योपरितनयोजनसहस्रस्योर्ध्वमधश्चैकैकं योजनशतं विहाय मध्येऽष्ट- शवयोजने व्यन्तराणां नगराणि वहिर्विभागे वृत्तानि चतुरस्राण्यन्तरेऽधोमागे चारुपुष्कर- 5 कर्णिकानुकारीणि नगराण्यासत इति भावः, व्यन्तराणामिति, अन्तरमवकाशः तच्चाश्रय- रूपं, विविधं भवननगरावासरूपमन्तरं येषां ते व्यन्तराः, तत्रोपर्युक्तस्थाने भवनानि, नगरा- ण्यपि तिर्यग्लोके यथा जम्बूद्वीपद्वाराधिपतेर्विजयदेवस्यान्यस्मिन् जम्बूद्वीपे द्वादशयोजन- सहस्रप्रमाणा नगरी, आवासानिष्वपि लोकेषु तत्रोप्रलोके पण्डकवनादाविति । अथवा विगतमन्तरं मनुष्येभ्यो येषां ते व्यन्तराः, तथाहि मनुष्यानपि चक्रवर्जिवासुदेवप्रभृतीन 10 भृत्यवदुपचरन्ति केचिद्व्यन्तरा इति मनुष्येभ्यो विगतान्तराः, एते हि देवनिकायविशेषाः पूर्वोदिवाष्टशतयोजनेषूत्पन्नारसन्तत्रिलोक्यामूर्ध्वमस्तियक्षु च स्वभवननगरावासेषु स्वमा- वानवस्थितेर्वालवत्स्वातंत्र्याद्देवेन्द्राधाज्ञया वा बाहुल्येनानियतगतिप्रचारा गिरिकन्दरान्तरा- रण्यविवरादिषु प्रतिवसन्तीति भावः । एते चाष्टविकल्पा इत्याह पिशाचायष्टविधानामिति, पिशाचभूतराक्षसयक्षगन्धर्वमहोरगकिम्पुरुषकिन्नररूपेणाष्टविधानामित्यर्थः । देवगतिनाम- 15 कर्मोचरप्रकृतिविशेषोदयादेते विशेषसंज्ञाः पिशाचनामकर्मोदयात्पिशाचाः भूतनामकर्मोदया- द्भूता इत्येवमादिरूपाः न तु पिशिवाशनापिशाचा इति क्रियानिमिचाः शुचिवैक्रियदेहत्वाद- शुच्यौदारिकशरीरसम्पर्कासम्भवात् , न च मांसमदिरादिषु पिशाचादीनां प्रवृत्तिलोंक दृष्टेति वाच्यम्, क्रीडासुखनिमित्तत्वान्मानसाहाररूपत्वाचेति । एषां जघन्योत्कृष्टस्थितिमाह जघन्यत इति, उत्कृष्टत इति, योजनविस्तीर्ण योजनोच्छ्रायं पल्यमेकरात्राद्युत्कृष्टसप्तरात्रजाता. 20 नामङ्गलोमभिर्गाढं पूर्ण स्यात्, वर्षशतावर्षशतादेकैकस्मिन्नुद्धियमाणे यावता कालेन तद्रिक्तं स्यात्तावान् काल: पल्योपमं चौद्धिकव्यवहारेणोच्यते व्यन्तराश्चैतारशैकपल्योपमायुष्का भवन्तीति भावः ॥ अथ वानमन्तरानाह- - ऊर्ध्वशतयोजनेषु चोपर्यश्च दशयोजनानि विहाय मध्ये वानमन्तर- 28 निकाया निवसन्ति । एते च व्यन्तराणामवान्तरमेदाः॥ १. चक्र रत्नभूत. प्रहरणविशेष तेन विजयाधिपस्ये वर्तितुं शीलमस्येति चक्रवर्ती भरतक्षेत्रे मरतादयो द्वादश चक्रवर्तिनोऽस्यामवसर्पिण्यामभूवन्, त्रिखण्डभरताधिपो बलदेवलधुम्राता वासुदेव , अवसर्पिण्या ते नव उत्सर्पिण्यां च नव भवन्ति ।

. गेटपालम] न्यायप्रकाशममनाने ऊचंशनयोजनेपिनि। नमाथि गन्नानगगेपग्निनानियोनेए . मयश्च दस दस योजनानि मुत्वाऽसीनियोजनेषु अगपनियमनगिन्तीनां गानगनगनां देवानां निकायास्मन्नीति भावः, ननु देवानां भवनपनिम्यागनिमानिया. अतुर्मिकायत्वमिति प्रमापनावत्वार्याशवुठं तत्र ज्योनिपचनानि रगगन पी इनि वक्ष्यते भवनपतिव्यन्तगै नृतो, इसे घ वानमन्नगः . मनाया स्तिर्यञ्चो नारका वेत्याकायामाने नि दानगनगन्यथः, नामनग्माया- देत देवविशेषा एवेति भावः ।। अथ तिर्यग्लोफ व्यावर्णयितुमादौ निर्गलोक म्वरुपयनि- मचकादुपर्यघश्चाष्टादशशनयोजनमिनो व्यन्नरनरज्योतिपादिनिया- सयोग्यो मल्लांकृनिस्नियग्विशालग्रामपरिणामी निर्यगन्नांकः ।। रुचकादिति । यम्मादूर्ध्वमधन लोकम्य पृसिग्नम्मामकादिनः, न नयना योजनान्यधो नवशनयोजनानि मिलिन्चा पाटादामनयोजनानि भवन्ति नायर्णिमा इत्यर्थः, सन्न वामयोग्यानाह व्यानरेति, आपारमाह घाटयां शनिगिनि, मर्गन ममगरनुप. विष्फम्मायामो षादिनविशेपो ग्रहगी, नवनिर्गन्द्रोफमनियोऽन्योन्जायमागमायागणित. कम्मरूपमहाविस्तारान्यर्थ ऊर्वाधोमानम्मानिसकोबाटा निम्मिान. विमा. यामाभ्यामेकरग्नुप्रमाण इत्यर्थः । निर्यग्लोक नि. चन: अमन्य गमगंभूरमार्या. निर्यप्रणयविशेषणापस्थिना द्वीपममुद्राग्नतस्निग्लोरमशिनः, अथवा निगम म. मपर्यायः, तर क्षेत्रानुभावात्सायो मध्यमपरिणामवन्येव इत्यागि माननि, IIT. चौगाह लोकोऽपि तिर्यगक न्ययः ।। । के पुनस्तनारस्थिना इसबाह- मध्यलोकाभिधाने निर्यग्लोक पूर्वापक्षया हिगुणपिन्नाग असं. न्याना वलयाकृनयो सम्वीपादिम्बयम्भरमणममुद्रान्ना हीपनमुद्रा स्मन्नि॥ मध्यलोकाभिधान इति । गिर गमगीन नमान.ir. गार परजानन्य मला, मनु Trifier ... नामिति स मम्ममा न्या:, जागो .

:५७२ : तस्वन्यायविमाकरे [द्वितीयकिरणे रूपितं हि ऊर्ध्वत्वमधस्त्वञ्च तदेव मध्यं भवतीति भावः । जम्बूद्वीपादीति, द्विर्गता आपो- ऽत्रेति द्वीपाः, द्वाभ्यां प्रकाराभ्यां स्थानदातृत्वाहाराधुपष्टम्भहेतुलक्षणाभ्यां प्राणिनः पान्तीति वा द्वीपाः । जम्ब्वा सुदर्शनापरनाम्न्याऽनाहतदेवावासभूतयोपलक्षितो द्वीपस्तत्प्रधानो वा द्वीपो जम्बूद्वीपो निखिलद्वीपसमुद्राणामभ्यन्तरीभूतः, अथवा प्रतिविशिष्टस्य जम्बूवृक्षस्या- 5 साधारणाधिकरणत्वादयं जम्बूद्वीप उच्यते, न च केनायं संकेतितो जम्बूवृक्षसत्त्वाजम्बूद्वीप इतीति वाच्यम्, संज्ञासंज्ञिसम्बन्धस्यानादित्वात्, न च तथापि संज्ञाकरावश्यकत्वमेका- न्तानावित्वामावादिति वाच्यम् , पुरुषप्रवाहस्याप्यनादितया प्रवाहानादित्वोपपत्तेर्जम्बूसरोध सर्वदा सत्त्वालोकसन्निवेशस्य च न कदाचिदनीहशत्वात्, तस्मादनादिप्रवाहरूपत्वेन शब्दा- र्थसम्बन्धस्य पुरुषव्यवस्थाप्यत्वसम्भवात् । अनिष्टविनिवेशव्युदासाय पूर्वपूर्वापेक्षयेति, 10 जम्बूद्वीपादयो लवणसमुद्रादयश्च येन क्रमेणाने वक्ष्यन्ते तेनैव क्रमेण तत्तदपेक्षयेत्यर्थः, चतुरस्रादिनिवृत्त्यर्थमुक्त वलयाकृतय इति, वृत्तसंस्थानसंस्थितत्वात्सर्वे एकस्वरूपा इत्यर्थः, विस्तारमधिकृत्याह-द्विगुणविस्तारा इति, तथाच जम्बूद्वीप एकं लक्ष लवणसमुद्रो वे लक्षे धातकीखण्डश्चत्वारि लक्षाणीत्येवं विस्तारमधिकृत्य नानारूपा इत्यर्थः । स्वयम्भूरमणसमु- द्रान्ता इति, स्वयं भवन्तीति स्वयम्भुवो देवास्ते यत्रागत्य रमन्ते स स्वयम्भूरमणस्तादृश- 15 स्समुद्रः स्वयम्भूरमणसमुद्रः, अर्धरज्जुप्रमाणः प्रान्तसमुद्रः, अस्य महर्द्धिको देवौ स्वय- म्भूवरस्वयंभूमहावरौ, स्वयम्भूरमणद्वीपस्य तु स्वयंभूभद्रस्वयंभूरमणमहाभद्रौ वेदितव्यौ । तथा च जम्बूद्वीपादयो द्वीपास्स्वयंभूरमणद्वीपपर्यवसाना लवणसमुद्रादयस्समुद्रास्वयंभू- रमणसमुद्रपर्यवसानास्तिर्यग्लोकेऽसंख्येया द्वीपसमुद्रा भवन्तीति भावः ॥ ननु जम्बूद्वीपस्यापि द्वीपत्वावलयाकृतित्वप्रसङ्ग इत्यत्राह- मध्ये लक्षयोजनपरिमाणस्य जम्बूद्वीपस्य नाभिरिव भूतलं योजन- सहस्रेणावगाहमानश्चत्वारिंशद्योजनचूलायुतो नवाधिकनवतिसहस्रयो- जनसमुच्छ्रायोज्यो दशयोजनसहस्रं विस्तृत ऊर्ध्व चयोजनसहस्रविस्तारो । - 20 १ जम्बूद्वीप. निखिलसमुद्राणामभ्यन्तरवर्ती शेषद्वीपसमुद्रेभ्यः क्षुलक. तैलापूपसंस्थानसंस्थितः अद्वितीय- बजरलात्मकजगत्या जम्बूद्वीपप्राकाररूपया द्वीपसमुद्रसीमाकारिण्या महानगरप्राकारकल्पया सर्वदिक्षु सम्परिक्षिप्तः चतुरोपशोमित भरतैरवतहैमवतहेरण्यवतहरिरम्यकमहाविदेहवर्षोपशोमिताश्च । तथाऽयं पृथिवीपरिणामोऽपि, पर्वतादिमत्त्वात् अपरिणामोऽपि, नदीहूदादिमत्त्वात् , जीवपरिणामोऽपि, मुखवनादिषु वनस्पत्यादिमत्त्वात् । पुदलपरिणामोऽपि मूर्तत्वस्य प्रत्यक्षसिद्धत्वात् । अत्र पृथग्जीवपरिणामत्वाभिधानं परमते पृथिवीजलयो. जीवत्वाव्यवहारात् ॥

" लोकस्वरूपम् ] न्यायप्रकाशसमलङ्कृते :५७३: भद्रशालादिभिश्चतुभिर्वनैः परिवृतो मेरुभूधरः काञ्चनमयो वर्नुलाकारो विलसति ॥ मध्य इति । निश्चयतो मध्यभाग इत्यर्थः, तथा च जम्बूद्वीपस्य मध्यभागे भूतलमव- गाय मेरोस्थितत्वस्योक्त्या वलयस्येव जम्बूद्वीपस्याकतिर्नास्तीति सूचितम् , तथात्वे हि मध्ये विवरसद्भावप्रसङ्गेन भूतलाभावात् , अवगाहमानत्वोक्ति-विरुध्येतात: कुलालचक्रस्येवायं 5 प्रतरवृत्त इति भावः । वलयभूतानां समुद्रद्वीपादीनां पूर्व सामान्येन द्विगुणविस्तारत्वोक्ते- स्तद्विशेपतो विज्ञानाय परिवेष्टितस्यास्य प्रमाण उकेऽन्येषां परिमाणं सुवेद्यं भवेदित्याशये- नाह लक्षयोजनपरिमाणस्येति, इतरेपां जम्बूद्वीपानां व्यावर्तनायाह-नाभिरिव भूतलमिति, यथा च नाभिश्शरीरमध्यावस्थिता शरीरिणामवयवभूता तथा मेरुरपि जम्बूद्वीपस्य मध्येऽ- वस्थित इति भावः । ननु भूतलमवगाह्य किमस्ति इत्यत्राह मेरभूधर इति, सकलतिर्यग्लोक- 10 मध्यभागस्य मर्यादाकारित्वान्मेरुदेवयोगाद्वा मेरुः, एवंभूतो भूधरो मेरुभूधरः, अयं हि जम्बू- द्वीपस्य नाभिरिव कालचक्रस्य भ्रमिदण्ड इव तिर्यग्लोकपङ्कजस्याष्टदिग्दलवतः परागभरपिञ्ज- रोऽन्तस्थो वीजकोश इव पूर्व विदेहेभ्यः प्रत्यक् पश्चिमविदेहतः प्राक् देवकुरुभ्य उदक् उत्तर- कुरुभ्योऽवाग् वर्तत इति भावः । भूतलावगाहनपरिमाणमाह योजनसहस्रेणेति, वसुधान्त- योजनानां सहनेणावगाथेत्यर्थः, पुनस्तं विशेषयति चत्वारिंशदिति, मेरोरस्य वैडूर्यप्रचुरा 15 चूलिकाऽऽस्ते, सा चोद्गमप्रदेशे विष्कम्भायामाभ्यां द्वादशयोजनैमध्येऽष्टामिरुपरि चतुर्मि- योजनरुच्छ्रायेण चत्वारिंशद्योजनैः परिवृतो वर्तते इति भावः, अधुना मेरोस्समुच्छ्रायमाह नवाधिकेति, अयञ्च दृश्योच्छ्रायो वोध्या, भूमिमवगाय स्थिवस्यास्यान्वर्विष्कम्भायाममाहाध इति, उपरि यत्र चूलोद्गमस्तत्र विष्कम्भायाममाहोयश्चेति, पुनस्तं विशिनष्टि भद्रशालादिमि- रिति, आदिना नन्दनसौमनसपाण्डुकानां ग्रहणं तत्र मूले वलयपरिक्षेपिमद्रशालवनं वस्मा- 20 त्पश्चयोजनशतान्यारुह्योपरि प्रथममेखलायां पञ्चयोजनशवप्रमाणविस्तृतं नन्दनं द्वितीयं वनं तवोऽर्धत्रिपष्टिसहस्राण्यारुह्य पञ्चयोजनशतप्रमाणविस्तीर्णमेव द्वितीयमेखलायां सौमनस नाम तृतीयं वनं ततोऽप्युपरि पत्रिंशद्योजनसहस्राण्यारुह्य चतुर्नवत्युत्तरचतुर्योजनशविस्तीर्ण मेरोशिशरसि तुर्य पाण्डुकं वनमास्त इति भावः, पुनः कीदृश. इत्यत्राह काञ्चनमय इति, कनकाचलेऽस्मिन् हि काण्डत्रयं वर्तते कन्दतस्सहस्रयोजनमानं मृचिकापाषाणवनशर्करामयं 38 प्रथमं काण्डं, समभूतलात्रिषष्टिसहस्रयोजनोन्मान रजतजातरूपांकस्फटिकवहुलं द्वितीय काण्ड, ततषत्रिंशत्सहस्रयोजनावधि जाम्बूनदबहुलं तृतीयं काण्डं, तथा च काञ्चनप्राचु- यत्किाञ्चनमयोऽयमिति भावः, स कथं विलसतीत्यत्राह वर्तुंलाकार इति, काञ्चनस्थालना- मिरिष वृत्त इत्यर्थः॥

:५७४ तत्त्वन्यायविमाकरे [द्वितीयकिरणे एवंविघे जम्बूद्वीपे पद्मिा कुलपर्वतैर्विभक्तानि सप्त क्षेत्राणि सन्तीत्याह- जम्बूद्वीपे चोत्तरोत्तरक्रमेणोत्तरदिरवर्तीनि क्षेत्रव्यवच्छेदकहिमव- न्महाहिमवनिषधनीलरुक्मिशिखरिवर्षधरपर्वतालङ्कृतानि भरतहैमवत- हरिविदेहरम्यकहैरण्यवतैरावतनामभाजि सप्त क्षेत्राणि। एवमेव घातकी- 5 खण्डे पुष्कराधै च द्विगुणानि क्षेत्राणि ॥ जम्बूद्वीपे चेति । कानि तानि क्षेत्राणीत्यत्राह भरतेति, यत्र भरतो नाम देवो महर्चिको महायुतिको महायशाः पल्योपमस्थितिकः परिवसति तरक्षेत्र भरतं, क्षुद्रहिमवतो महाहिमव- तश्चापान्तरालं क्षेत्र हैमवतं, तत्रत्ययुग्मिमनुष्याणामुपवेशनाद्युपभोगे हेममयाः शिलापट्टका उपयुज्यन्त इति हैमवतं, हेम्नो नित्यसम्बन्धाद्वा हैमवतं, हैमवतनामकमहर्दिकपल्योपम- 10 स्थितिकदेवयोगाद्वा हैमवत, हरिः सूर्यश्चन्द्रश्च यत्र केचन मनुष्या सूर्य इवारुणावमासाः केचन चन्द्र इव श्वेता निवसन्ति वादशं क्षेत्र हरयः क्षेत्रवाची हरिशब्दो नित्यं बहुवचनान्त:, विशिष्टशरीरवत्पुरुषसम्बन्धात् महाविदेहनामदेवसम्बन्धाद्वा विदेहं देवकुरुचरकुरुषु मनु- ज्याणां त्रिगव्यूतोङ्गायत्वात् , रम्यकं, रम्यते क्रीड्यते नानाकल्पद्रुमैः स्वर्णमणिसचिवैश्य तैस्तै प्रदेशेरतिरमणीयतया रतिविषयता नीयत इति रम्यं तदेव रम्यकं रम्यकदेवसम्ब. 15 न्धाद्वा वाहशम् । हैरण्यववदेवसम्बन्धाद्वैरण्यवतं, ऐरावत ऐरावतयोगाचादृशं तथा चैतानि सप्तक्षेत्राणीत्यर्थः । एषां विशिष्टक्रमसन्निवेशानिधित्सया प्राहोत्तरोत्तरक्रमेणेति, भरतोत्तरं हैमवतं तदुचरं हरिक्षेत्रमित्येवं क्रमेणेत्यर्थः । कतमदिगवच्छेदेनेयवाहोत्तरदिग्व नीति, उत्तरदिगवच्छेदेनेत्यर्थः, तथा च जम्बूद्वीपस्य दक्षिणगामिनि पर्यन्ते स्थितं कालचक्रेन नाव. स्थमधिन्यधनुराकारं पूर्वदक्षिणपश्चिमसमुद्रेण स्पृष्टं भरवक्षेत्रं षड्विंशत्युत्तरपंचशतयोजनमित 20 तदुत्तरं हेमवतं तदुत्तरं हरिक्षेत्रमित्येवं क्रमो विज्ञेयः । क्षेत्राणामेषां कि कुता विभाग- व्यवस्थेत्याशङ्कायामाह क्षेत्रव्यवच्छेदकेति, प्राचुर्येण हिमामिसम्बन्धाद्धिमवान् महांश्चासौ' हिमवान् महाहिमवान् इन्द्रगोपवदसत्यपि हिमे रूढिविशेषबलाद्धिमवदाख्या। यस्मिन् देवा देव्यश्च क्रीडार्थ निषीदन्ति प्राचुर्येण स निषधः । नीलवर्णयोगानीला, रुक्मस. द्वावादुक्मी, शिखरबाहुल्याच्छिखरी, एते षवर्षधरपर्ववाः, वंशो वर्षों वास्य इति 25 पर्यायनामानि क्षेत्रस्य, वर्षसन्निधानाद्वर्षा भरतादयः, तानसंकरेण विभज्य धारणाद्वर्षधरा एवभूताः पर्वता वर्षधरपर्वताः, तैरलक्ष्कृतानि स्वस्वपूर्वापरकोटिभ्यां लवणसमुद्रस्पर्शिभि- १. हिमवतो दक्षिणस्या । दाक्षिणात्यलवणसमुद्रस्योत्तरस्या पौरस्य लवणसमुद्रस्य पश्चिमायो प्राथा- सलवणममुद्रस्य पूर्वस्या दिशि भरतनामा वर्षों वर्तते । चक्रवर्तिनाऽखण्डितातपत्रेण सलक्षणेन सुन्दराशेण विनीता राजधानी प्रभूतेन भरतेन शासितत्वादरतनामाऽस्य वर्षस्य ॥ ।

लोकस्वरूपम् ] न्यायप्रकाशसमलते विभक्कानि, यथा च भरतहैमवतयोर्मध्यस्थत्वाद्धिमवान् तयोविभागमापादयति, हैमवतह- रिवर्षयोर्मध्यगत्वान्महाहिमवान् तयोर्व्यवच्छेदक इत्येवं कृतो क्षेत्रविमाग इति भावः, अन विस्तरस्तु ग्रन्थान्तरादवसेयः । अथ जम्बूद्वीप इव वर्षवर्षधरादीनां संख्यानियम धातकीखण्डस्य पुष्कराघस्य चाहेवमेवेति, जम्बूद्वीपवदेवेत्यर्थः, धातकीखण्ड इति, घातकीनां वृक्षविशेषाणां खण्डो वनसमूहो धातकीखण्डस्ताको द्वीपोऽपि धातकीखण्डो लवण- 5 समुद्रं परिक्षिप्य स्थितः कालोदसमुद्रपरिक्षिप्ता वलयाकारसंस्थानसंस्थितो विजयवैजयन्त. जयन्तापराजितरुपद्वारचतुष्टययुतश्च । लक्षचतुष्टयविष्कम्मो जम्ब्यपेक्षया द्विगुणभरतादि- क्षेत्रयुतः पद्विभाजकद्वादशवर्षधरपर्वतविलसितश्च । द्वे भरतक्षेत्रे द्वे हैमवतक्षेत्रे इत्येवं वथा हौ हिमवन्तौ द्वौ महाहिमवन्तावित्येवं क्रमेण च द्विगुणक्षेत्रपर्वताः मेर्वादयोऽपि द्वौ द्वौ वेदि- वव्याविति भावः । पुष्कराधे चेति, पद्मवाहुल्यातू पुष्करद्वीप, तदर्धमागे द्वीप इत्यर्थः, च- 10 शब्देन जम्बूद्वीपापेक्षयैव क्षेत्रादीनामत्र द्वैगुण्यं सूच्यते न तु धातकीखण्डापेक्षया, तथा च यथा धातकीखण्डे भरतादिक्षेत्रपर्वतादीनां द्वैगुण्यं तथा पुष्करार्धेऽपि जम्बूद्वीपापेक्षं द्वैगुण्यम्, तत्र पुष्करद्वीपः कालोदसमुद्रपरिक्षेपी षोडशलक्षविष्कम्भस्तस्यार्घमारातममष्टौ योजन- लक्षाणि तस्मिन् पुष्कराधे एव द्वैगुण्यं भरतादिक्षेत्राणां हिमवदादिपर्वतानाच नापरा], पुष्करद्वीपाविभागकारी च मानुषोत्तरो नाम सुनगरप्राकारवृतशैलविशेष इति भावः ॥ 15 अथवभूतेषु सार्धद्वयद्वीपेषु आर्यम्लेच्छभूयिष्ठेषु कर्माकर्मभूमिप्रज्ञापनायाह- मेरुगिरदक्षिणतो निषधस्योत्तरतो देवकुरवः, नीलपर्वताइक्षिणेन तदुत्तरेणोत्तराः कुरवा, देवकुरुत्तरकुरुभ्योऽन्यत्र भरतैरावतविदेहाः कर्मभूमयः ।। मेरुगिरेरिति । पल्योपमस्थितिकदेवकुरुनामदेवसम्बन्धाद्देवकरवा, एते च विदेह- 20 क्षेत्र वोध्याः। उत्तरकुरुनाह नीलपर्वतादिति, तदुत्तरेणेति. देवकुरूत्तरेणेत्यर्थः, एषञ्च विदेहा मन्दरदेवकुरूत्तरकुरुमिय॑वच्छिन्नमर्यादा एकक्षेत्रान्तःपातिनोऽपि क्षेत्रान्तरा इव भवन्ति परसरेण तत्रत्यमनुष्याणां गमनागमनाभावादिति बोध्यम्, उपसंहरति देवेति, विदेहान्त:- पातिनां देवकुरुचरकुरूणां कर्मभूमित्वप्रसङ्गवारणायान्यत्रेति, तथा च देवकुरुत्तरकुरवो हैमवताव्यश्चाकर्मभूमय इति भावः, भरतैरावतविदेहा इति, पञ्च भरतानि पञ्चराषतानि 25 पञ्च विदेहा इत्या, कर्मभूमय इति, यद्यप्यष्टविधस्य कर्मणो वन्धस्तत्फलानुभवनं सर्वेष्वेव १. कल्पपादपफलोपमोगप्रधाना भूमयो हैमवतपञ्चकहरिवपंपचकदेवकुरुपञ्चकोत्तरकुरुपचकरम्यकपचकहर- ण्यवतपञ्चकरूपास्त्रिंशदकर्मभूमय । क्षेत्रभेदेनामुनाऽकर्मभूमिका अपि. त्रिंशद्विधाः, हैमवतपत्रके हरण्यवतपञ्चक - " । ५७६ : तस्वन्यायविमाकरे द्वितीयकिरणे मनुष्यक्षेत्रेषु साधारण तथापिं सम्यग्दर्शनज्ञानचारित्रात्मकमुक्त्युपायस्य ज्ञातारः कार उप- देष्टारश्च भगवन्तः परमर्षयस्तीर्थकरा अत्रोत्पद्यन्तेऽत्रैव जातास्सिद्ध्यन्ति तस्मात्सकलकर्माग्ने. विंध्यापनाय सिद्धिभूमयः कर्मभूमय इत्यस्यार्थः, अकर्मभूमिषु वर्तमानानाश्च मनुष्याणां ज्ञान- दर्शनयोस्सत्त्वेऽपि सततमोगपरिणामित्वेन सर्वदा चरणप्रतिपत्ति स्ति, यद्वाऽसिकृषिमषि- 5 विद्यावणिक्शिल्पात्मकषड्विधकर्मणां भरतैरावतविदेहेष्वेव पूर्वोक्तेषु दर्शनात्कर्मभूमय इति भावः । ततश्च विदेहयतुर्विधः पूर्वविदेहो यो मेरोर्जम्बूद्वीपगतः प्राग्विदेहः, एवं पश्चिम- तस्सोऽपरविदेहः, दक्षिणतो देवकुरुनामा विदेहा, उत्तरतस्तु उत्तरकुरुनामा विदेह इति । ननु पूर्वापरविदेहयोः कर्मक्षेत्रानुभावकत्वेन महाविदेहव्यपदेशताऽस्तु, देवकुरूत्तरकुरूणां त्वकर्मभूमित्वेन कथं महाविदेहत्वेन व्यपदेशो, मैवम्, प्रस्तुतक्षेत्रयोर्भरताद्यपेक्षया महाभोग- 10 त्वान्महाकायमनुष्ययोगित्वान्महाविदेहदेवाधिष्ठानत्वाच महाविदेहशब्दवाच्यत्वोपपत्तेरिति ।। ननु जम्बूद्वीपादिखयम्भूरमणसमुद्रान्ता इति पूर्वमुक्तं तत्र के जम्बूद्वीपादयः के च समुद्रा इत्यत्राह-- एवं लवणोदकालोदपुष्करोदवरुणोदक्षीरोदघृतोदेक्षुवरोदनन्दीश्वरो- दारुणवरोदादिमिः समुद्रैः क्रमेणान्तरिता जम्बूधातकीखण्डपुष्करवरवर- 15 णवरक्षीरवरघृतवरेक्षुवरनन्दीश्वरारुणवरादयोऽसंख्यातास्स्वयम्भूरमण- पर्यन्ता द्वीपसमुद्राः परित एकरज्जुविष्कम्मे वर्तन्ते ॥ एवमिति । समस्तद्वीपसमुद्राभ्यन्तर्भूतत्वेनादौ जम्बूवृक्षेणोपलक्षितो जम्बूद्वीपस्तं परि. वृत्य लवणरसाखादनीरपूर्णो लवणसमुद्रस्तं परिक्षिप्य धातकीवृक्षखण्डोपलक्षितो धातकी- खण्डस्तमावृत्य विशुद्धोदकरसास्वादः कालोदस्तं परिक्षिप्य पद्मवरैरुपलक्षितः पुष्करवर- 20 स्तस्य परितश्शुद्धजलरसास्वादः पुष्करोदस्तमभितो वरुणवरद्वीपः ततो वारुणीरसास्वादो वरुणोदस्ततः क्षीरवरो द्वीपस्ततः क्षीररसास्वादः क्षीरोदस्ततो घृतवरखमभिव्याप्य घृतरसा- स्वादो धृतोदस्तत इक्षुवरस्तं परिवृत्येक्षुरसाखाद इक्षुरसः ततो नन्दीश्वरवरततो इक्षुरसाखाद एव नन्दीश्वरोदस्ततोऽरुणवरस्ततश्चक्षुरसास्वाद एवारुणवरोद इत्येवमादयोऽसंख्याना द्वीप- समुद्रास्स्वयंभूरमणसमुद्रपर्यन्ताः परितो वलयाकारेणैकरन्जुविस्तृते रत्नप्रभापीठे वर्तन्ते च पल्योपमायुष्काश्चतुर्थातिकममोजिनो गन्यूतिप्रमाणशरीरोच्छाया बर्षभनाराचसहननिन. समचरस- संस्थाना., पञ्चसु हरिवर्षेषु पञ्चसु रम्यकेषु द्विपल्योपमायुष्का षष्ठभकातिकमाहारग्राहिणो द्विगव्यूतिप्रमाण- शरीरोच्छ्राया संहननसस्थानाभ्या पूर्वोक्ताभ्या युका., पञ्चसु देवकरुषु पञ्चस्तरकुरुषु त्रिपल्योपमायुष्का अष्टमभक्कातिकमाहारिण. गव्यूतित्रयप्रमाणशरीरोच्छाया. पूर्वोत्तसंहननसंस्थानयुता मनुष्या भवन्ति ।।

स्वसम् । न्यायप्रकाशसमलते :५७७। नान्यत्रेति भावः । स्वयम्भूरमणसमुद्रस्तु शुद्धोदकरसः, आदिनाऽरुणावासकुण्डलवरशंख- वररुचकवरादीनां द्वीपानां ग्रहणं समुद्राणां नामान्यपि द्वीपनामतुल्यान्येव। एते सर्वेऽपि जम्बूद्वीपादरभ्य नैरन्तर्येण व्यवस्थिताः, ततो रुचकवरादसंख्येयान् द्वीपसमुद्रान् गत्वा मुजगवरो नाम द्वीपः, ततोऽप्यसंख्येयान् तानुल्लंध्य कुशवरो द्वीपस्ततोऽपि तथैवोलंध्य कोंचवरस्वतोऽपि तथैवोल्लंघ्याभरणादयो द्वीपा भाव्यासमुद्रा अपि तादशनामान एव, 15 मध्यगानां द्वीपानां नामानि लोके यावन्ति शुभनामानि शंखध्वजकलशश्रीवत्सादिरूपाणि तावन्येवेति ॥ ननु निखिलेषु द्वीपेषु मनुष्या वसन्यथवा द्वीपविशेष इत्याशङ्कायामाह-- तत्र पुष्करवरद्वीपाच यावन्मानुषं क्षेत्रम्, ततः परं मनुष्यलोक- परिच्छेदकः प्राकाराकारो मानुषोत्तरो नाम भूधरो वर्तते । नास्मात्परतो 10 जन्ममरणे मनुष्याणां जायेते ॥ तत्रेति । प्रोक्तद्वीपेषु मध्य इत्यर्थः, तथाच यावत्पुष्करवरद्वीपाय मानुपं क्षेत्रं पञ्चच- त्वारिंशद्योजनशतसहस्राणि आयामविष्कम्भेण, एका योजनकोटी द्वाचत्वारिंशच्छतसहस्राणि त्रिंशत्सहस्राणि वे योजनशते एकोनपञ्चाशत् किचिद्विशेषाधिके परिक्षेपेण बोध्यम , मनुष्यक्षेत्र कर्मभूमिका अकर्मभूमिका अन्तरद्वीपकाश्चेति त्रिविधा मनुष्याः परिवसन्ति, तथा च 315 जम्बूद्वीपस्य सप्त क्षेत्राणि धातकीखण्डस्य चतुर्दश पुष्कराधस्य च चतुर्दशेति संमिलितानि पञ्चत्रिंशक्षेत्राणि मानुषाणीति भावः । अस्य व्यवच्छेदकमाह ततःपरमिति, पुष्करवरार्धात्परं बायपुष्करवरार्धक्षेत्रं प्रतिरुख्य नरक्षेत्रसीमाकारी प्राकाराकारः यथा भित्तिहं द्वेधाकरोति तथा द्वीपस्यास्य भेदकोऽन्वर्थनामा मानुषोत्तरोभूधरो वर्वर्तीति भावः,अयं पर्वत एकविंशत्युत्तर- सप्तदशयोजनशतान्युश्चैस्त्वेन मूले द्वाविंशत्युत्तराणि दशयोजनशतानि विष्कम्भेण वर्तने, अमुं 20 मानुषा न कदाचिदपि व्यतिब्रजितवन्तो व्यतिब्रजन्ति व्यतिव्रजिष्यन्ति वाऽन्यत्र चारणा- १. पुष्कराणि पानि तेवर. पुष्करवर , स चासो द्वीपश्च पुष्करवरद्वीप. तस्यावं इनि विग्रहः । पूर्षेि उत्तरकुरुषु य. पद्मवृक्ष., पश्चिमाधैं उत्तरकुरुपु यो महापप्ररक्ष , तयोरन पुष्करवरद्वीपे यथारम पद्मपुण्डरीको देवो महर्डिको यावत्सल्योपमस्थितिको पूर्वार्धापरार्धाधिपती परिवसत । अतिविशालवास्प वृक्ष इव पद्मावं, पाच पुष्करमिति पुष्करवरोपलक्षितो द्वोप. पुष्करपरद्वीप उच्यत इति । २ देवकुल्तरकुरूणा महाविदेहेऽन्तविगतद्वोध्यमन्यया पंचदशकर्मभूमिविशदकर्मभूमिरिति पाचन्या- रिंशतक्षेत्रसंख्या व्याहन्येत ॥

10 तत्वन्यायविमाकरे [ द्वितीयाकरले दिभ्यः । ततः किमित्यत्राह नास्मात्परत इति, यस्मादयं पर्वतो मानुषक्षेत्रमात्रस्योत्तरं वर्ततेऽव एवास्मात्परतः क्षेत्रेषु मनुष्याणां न जन्ममरणे भवतः, मनुष्याणां हि जन्म मरणं चात्रैव क्षेत्रे, यदि नाम केनचिद्देवेन दानवेन विद्याधरेण वा पूर्वानुनद्धवैरनिर्यातनार्थमेवरूपा बुद्धिः क्रियते यथाऽयं मनुष्योऽस्मात्स्थानादुत्पाट्य मनुष्यक्षेत्रस्य बहिः प्रक्षिप्यतां येनोर्द्ध- शोषं शुष्यति प्रियते वेति तथापि लोकानुमावादेव सा काचनापि बुद्धिर्भूयः परावते, यद्धा संहरणमेव न भवति, संहृत्य वा भूयस्समानयति तेन संहरणतोऽपि मनुष्यक्षेत्राहि- मनुष्याणां न कदापि मरणम् , येऽपि नवाचारिणो विद्याचारिणो वा नन्दीश्वरादीनपि यावद्गच्छन्ति तेऽपि वत्र गता न मरणमश्नुवते किन्तु मनुष्यक्षेत्रमागता एवेति भावः ।। इत्थं तिर्यग्लोके मनुष्यनिवासयोग्यानि क्षेत्राण्यभिधाय ज्योतिष्कनिवासयोग्यं प्रदेशमाह- रुचकाभिधानसमतलादूर्ध्व नवत्युत्तरसप्तशतयोजनान्तेऽनुक्रमेण जघन्योत्कृष्टतः पल्योपमाष्टमचतुर्थभागायुष्काणांतारकाणां विमानानि, तत ऊर्ध्व दशयोजनेषु सहस्राधिकपल्योपमायुष्कसूर्यविमानं, तदुपर्य- शीतियोजनेषु लक्षाधिकपल्योपमायुष्कचन्द्रविमानम्, ततोऽप्यूर्ध्व विंश- तियोजनेषु अर्घपल्यैकपल्योपमायुष्काणां नक्षत्रग्रहाणां विमानानि ॥ रुचकेति । अनुक्रमेणेति, तारकाणां जघन्या स्थितिः पल्योपमस्याष्टमो भाग उत्कृष्टा तु पल्योपमस्य चतुर्थो भाग इत्येवं क्रमेणेत्यर्थः, तारकाणां विमानानीति, ज्योतिष्कविशे- पाणां विमानप्रस्तारा इति भावः, तत ऊमिति, तारकविमानादूर्वमित्यर्थः, सहस्रा. धिकेति, उत्कृष्टत इदमिति विज्ञेयम् , जघन्यतस्तु सूर्यचन्द्रनक्षत्रप्रहाणां पल्योपमचतुर्थ- भागः, यद्यपि स्या॑चन्द्रमसोः कनीयसी स्थिति संभवति तथाप्येषु विमानेषु नाकिननि- 20 विधास्सन्ति विमाननायकाः तत्सदृशाः परिवारसुराश्चेति, वत्र नायकवत्सदृशापेक्षया परा स्थितिः परिवारदेवापेक्षया तु जघन्या विज्ञेया, एवं ग्रहविमानादिष्वपि, अत एव सहस्रा. धिकपल्योपमायुष्केति पदस्य सूर्यविशेषणत्वाजघन्या स्थिति!क्ता, एवमप्रेऽपि । चन्द्र- विमानमाह तदुपरीति सूर्यविमानोपरीत्यर्थः, नक्षत्रग्रहाणां विमानान्याह ततोऽपीति चन्द्रविमानादपीत्यर्थः, विंशतियोजनेविति, विंशतियोजनेषु मध्ये इत्यर्थः । नक्षत्रमहाणा- 25 मिति, नक्षत्राणां ग्रहाणानेत्यर्थः ग्रहा मङ्गलादयः, कीदृशानामित्यत्राहार्धपल्येति, उत्कर्षेणा- धपल्योपमायुष्काणां नक्षत्राणामेकपल्योपमायुकाणाञ्च प्रहाणामित्यर्यः, एवे मनुष्यो- त्रान्तर्वर्तमानाश्चन्द्रसूर्यनक्षत्रग्रहताररूपा विमानोपपन्ना मण्डलगत्या परिभ्रमणमाश्रिता- वारसहिताः स्वभावतो गतिरतिकास्साक्षागतियुक्ता देवा इति मनुष्यक्षेत्राद्वहिर्वर्तिनश्चन्द्रा- 15 " : ५७९ : लोकस्वरूपम् ] न्यायप्रकाशसमलते दयस्तु विमानोपपन्ना अपगतचारा नो गविरतयो नवगवियुकाश्च वास्थ्याचद्व्यपदेश इति न्या- दिति भावः । तत्र मानुपोचरपर्वताद्वहिवर्तिनां चन्द्रसूर्याणां तेजास्यवस्थितानि भवन्ति तेजसा नात्युष्णास्सूर्याः सर्वदेवानतिशीततेजसः चन्द्रास्सर्वदामिजिता नक्षत्रेण सूर्याश्च पुष्येण युक्ता भवन्ति तत्र जम्बूद्वीपे द्वौ चन्द्रौ द्वौ स्यौं चत्वारो लवणोदे द्वादश धातकीखण्डे द्वाचत्वारिंशकालोदे द्वासप्ततिरभ्यन्तरपुष्कराः सर्वसंख्यया चन्द्रसूर्याणां प्रत्येकं द्वात्रिंशं । शतं भाव्यम् । नक्षत्रपरिमाणन्तु मनुष्यलोके अष्टाविंशतिसंख्यां द्वात्रिंशेन शतेन गुणयित्वा भाव्यम् ॥ एषां ज्योतिष्काणां गतिविशेषप्रतिपत्यर्थ वक्ति- एवममी ज्योतिर्गणा एकविंशत्युत्तरैकादशशतयोजनदूरतो मेरुं परिभ्रमन्ति॥ एवमिति । पुनश्चेत्यर्थः, ज्योतिर्गणा इति, ज्योतिष्मद्विमानसमूहा इत्यर्थः, किं कुर्वन्तीत्यत्राह परिभ्रमन्तीति, प्रादक्षिण्येन परितो भ्रमन्त्रीत्यर्थः, के परितो भ्रमन्तीत्य- बाह मेरुमिति मेरुभूधरमित्यर्थः, किं विप्रकृष्टास्सन्निकृष्टा वेत्यबाहेकविंशत्युत्तरेति, ननु चेतनानां गतिलोंके कारणवती दृष्टा, न च विमानस्थानां न्योतिकाणां गमने कारणम- स्त्यत एतद्युक्तमितिचेन्न तेषां कर्मवैचित्र्येण गतिरतित्वात् इति भावः ॥ अथोललोक निरूपयितुमुपक्रमते- ततश्चो किञ्चिदूनसप्तरज्जुप्रमाण ऊर्वीकृतमृदङ्गाकृतिरालोकान्त- मूर्ध्वलोका क्षेत्रत उत्कृष्टशुभपरिणामोपेतः ।। ततश्चेति । रुचकोर्ध्व नवयोजनशतानि परिहत्य तत अलोकस्यारंभात्किञ्चिन्यूनसप्त- 10 15 - १ जम्बूद्वीपे एक' सूर्यो मेरोदक्षिणमागे चारं चरन् वर्सते, एक उत्तरमागे, एकश्चन्द्रमा मेरो पूर्व- भागे, एकोऽपरमागे ॥ २ अनेन चारेण मनुष्याणा सुखदु.खविधयो भवन्ति, मनुष्याणा कर्माणि सदा द्विविधानि, शुभवेद्यान्यशुभवेद्यानि चेति, कर्मणां विपाकहेतवसामान्येन पद्ध, द्रव्यक्षेत्रकालभवभावमेदात् । शुभवेद्यन्नां कर्मणा शुभद्रप्रक्षेत्रादिसामग्री विपाकहेतु, अशुभवेद्यानाबाशुमद्रव्यक्षेत्रादिसामग्री तथा । ततो यदा येषां जन्मनक्षत्रादिविरोबी चन्द्रसूर्यादीनां चारो भवति तदा तेपा प्रायो यान्यनुभवेद्यानि कर्माणि तानि तथाविधविपाकसामग्रीमवाप्य विपाकमायान्ति, विपाकमागतानि शरीररोगोत्पादनेन बनहानिकरणतो वा प्रियविप्रयोगजननेन वा कलहसम्पादनतो वा दु.खमुत्पादयन्ति, यदा चैषां जन्मनक्षत्राद्यनुकूलचन्द्रा- दीना चारस्तदा प्रायस्तेषा शुभवेद्यानि कर्माणि शुमद्रव्यादिसामग्रीमधिगम्य प्रतिपमविपाकानि शरीर- नौरोगताधनविरोपशमनप्रियसम्प्रयोगामीष्टप्रयोजननिष्पत्यादिना सुखमुपजनयन्तीति ।।

:५८०: तस्वन्यायविमाकरे [द्वितीयकिरणे रन्जुप्रमाणतोलोकस्येति भावः । अव॑लोकस्याकारमाहोवीकृतेसि, तिर्यड्मृदङ्गाकारच्या- वर्तनायोध्वीकृतेति विशेषणम् । वादिनविशेषो मृदङ्गो मध्ये दीर्घस्ततः प्रदेशहान्योपरिष्टादयश्च संक्षिप्तस्तथैवोललोको मध्ये पश्चरज्जुप्रमाणः ऊर्वाधस्तदूनप्रमाण इति भावः । लोकस्या- स्योांवधिमाहालोकान्तमिति ऊवं यावलोकसमाप्तीत्यर्थः। ईषत्प्राग्भारोभागे सिद्धक्षेत्रा- 5 वतिरिति भावः । क्षेत्रत इति अशुभतरपरिणामिनारकयोगाद्धि अधोलोकोऽशुभपरिणामी, शुभाशुमपरिणामिमनुष्ययोगात्तिर्यग्लोको मध्यपरिणामी, अतोऽपि तस्य मध्यलोक इति संज्ञा, क्षेत्रप्रचुरमध्यलोकापेक्षयोत्कृष्टशुभपरिणामिवैमानिकदेवयोगादवाप्तमोक्षाणां सिद्धानां निवासाचार्य लोकः क्षेत्रत उत्कृष्टशुभपरिणामी, अथवाऽघोलोकतिर्यग्लोको क्षेत्रस्वभावा- देवाशुभमिश्रपरिणामिनावूर्वलोकोऽपि स्वस्वाभाव्यादुत्कृष्टशुभपरिणामी, यतो घमुमति- 10 स्तोकाः शुभकर्माणः क्षपितकर्माणो वाऽवाप्नुवन्ति, यथा यथाहि जीवस्य कर्ममलप्रध्वंस- स्वथातथा जले तुम्बिकावदूर्व निर्मलस्थानप्राप्तिः, अत्र हि वर्चमानान् जना विशेष- तस्सम्मानयन्तीति भावः ॥ अत्र तर्हि के वासयोग्या इत्यत्राह- तन्त्र च कल्पोपपन्नाः कल्पातीताश्च वैमानिका देवा वसन्ति ॥ तत्र चेति । उर्वलोके चेत्यर्थः, दीन्यन्तीति देवा देवगविनामकर्मोदयसहकारेण युत्या- द्यर्थावरुद्धत्वाद्देवाः प्रकृष्टपुण्यहेतुकसर्वप्रकारसुखभोगिनः, ते च जिनजन्मदीक्षाकेवल- निर्वाणमहोत्सवादिकं विना तिर्यगलोकं कदापि नागच्छन्ति, संक्रान्तदिव्यप्रेमत्वाद् विषय- प्रसक्तत्वात् , असमाप्तकर्तव्यत्वात् , अनधीनमनुजकार्यत्वात्, नरभवस्याशुभत्वेन तद्गन्धा- सहिष्णुत्वाच । सन्ति देवा जातिस्मरणप्रत्ययितपुरुषेण कथनात्, नानादेशप्रचारिपत्ययित- 20 पुरुषावलोकितकथितविचित्रबहादेवकुलादिवस्तुवत् । कस्यापि वपाप्रभृतिगुणयुक्तस्य प्रत्यक्ष- दर्शनप्रवृत्तेश्च दूरविप्रकृष्टनगरादिवत् । विद्यामंत्रोपयाचनेभ्यः कार्यसिद्धेः प्रसादफलानुमित- राजादिवदित्यनुमानाहेवानां सिद्धिः । ते च बहुक्षुत्पिपासासंस्पर्शशून्या अनवरतक्रीडा- प्रसक्तमानसाः स्वच्छन्दचारिणो भास्वरशरीराः अस्थिमांसासूझबन्धरहिताः सर्वाङ्गोपाङ्ग- सुन्दराः विद्यामंत्राञ्जनादीनन्तरेण प्राकृततपोविशेषापेक्षया जन्मलाभसमनन्तरमेवा- 25 काशगतिमाज इति विमावनीयम् । तिर्यग्लोकादिनिवासिभ्य एतान् विशिनष्टि वैमानिका इति, यत्र स्थिता विशेषेण परस्परस्य भोगातिशयं मिमते मन्यन्ते वा विज्ञानाचानि विमानानि, इन्द्रकोणिपुष्पप्रकीर्णकभेदेन त्रिविधानि, इन्द्रवन्मध्येऽवस्थितानि इन्द्रकाणि तेषां चतुर्दिक्षु आकाशप्रदेशनेणिवृवस्थानाच्छेणिविमानानि, प्रकीर्णपुष्पवदयस्थानात् पुष्प- 15 :५८१: . . लोकस्वल्पम् ] न्यायप्रकाशसमलते प्रकीर्णानि तेषु भवा वैमानिका इति भावः, तेषां द्वैविध्यमाह कल्पोपपन्ना इति, कल्प आचार:, . स चेहेन्द्रसामानिकत्रायस्त्रिंशादिन्यवहाररूपस्तमुपपन्नाः प्राप्ताः कल्पोपपन्नाः सौधर्मशानादिदेवलोकनिवासिनः, कल्पानतीताः कल्पातीता अवेयकादिवासिनोऽहमिन्द्रा वैमानिकदेवा इत्यर्थः ॥ तेषामवस्थानविशेषविज्ञापनायाह- सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्राराऽऽन. तपाणतारणाच्युतभेदेन द्वादशविधानि कल्पोपपन्नदेवानां स्थानान्यु- पर्युपरि भवन्ति ॥ सौधर्मेति । सौधर्मदेवलोकस्य मध्यभागवत्ति शक्रनिवासभूतं सौधर्मावतंसकं नाम विमानं तदुपलक्षितत्त्वात्सौधर्मः, कल्पः-सग्निवेश:-विमानप्रस्तारः, सकलविमानप्रधाने- 10 शानावतंसकोपलक्षितस्थानविशेप ईशानः, सनत्कुमारनामप्रधानविमानविशेषस्सनत्कुमारः, एवमेव माहेन्द्रादयोऽपि तत्तइवाधिष्ठितस्थानविशेषा भाव्याः । एते च द्वादशविधाः कल्पोपपन्नदेवानां निवासयोग्याः । उपर्युपरीति, सामीप्ये द्वित्वं न चात्र न सामीप्यमस्ति, असंख्येययोजनोचरत्वाचेषामिति वाच्यम् , तुल्यजातीयेनाव्यवधानस्यैव सामीप्येन विवक्षि- तत्वात् न च तेषां तुल्यजातीयं व्यवधायकमिष्टमिति भावः, स्थानान्युपर्युपरि भव- 15 न्तीत्यनेन देवानां विमानानाञ्चोपर्युपरिमवनं प्रतिषिद्धं तस्यानिष्टत्वात् श्रेणिप्रकीर्णकानां विमानानामपि तिर्यगवस्थानाच, अपि तु कल्पा पवोपर्युपरि भवन्ति, ते च कल्पास्सौष- मादयो नैकस्मिन् प्रदेशे नापि तिर्यक् न वाऽधस्तात् वर्तन्ते किन्तु यथानिर्देशमुपर्युपरीति भावः । एवञ्च विर्यग्लोकादूर्वमसंख्येययोजनोपरि मेरूपलक्षितदक्षिणभागार्धव्यवस्थिव- स्सौधर्मः कल्पः, मेरूपलक्षितोत्तरदिग्भागव्यवस्थित उपरितनकोट्या ईपत्समुच्छ्रिततरः ऐशान: 20 कल्पः, सौधर्मस्योपरि बहुयोजनोज़ समश्रेणिव्यवस्थितः सनत्कुमारः, ऐशानस्योपरि ईष- समुच्छ्तिोपरितनकोटिमर्माहेन्द्रः, सनत्कुमारमाहेन्द्रयोरुपरि बहुयोजनात्परतो मध्ये ब्रह्म- , १. भावलिकाप्रविष्टानि चतुसषु दिक्षु श्रेण्या व्यवस्थितानि, पावलिकाबायानि तु प्राणप्रदेशे कुसुमप्रकर इव इतस्ततो विप्रकीर्णानि, तानि च मध्यवर्तिविमानेन्द्रस्य दक्षिणतोऽपरत उत्तरतम्य विद्यन्ते नतु पूर्वस्या दिथि, नानासंस्थानसंस्थितानि च, आवलिकाप्रविष्टानि च प्रतिप्रस्तटं विमानेन्द्रकस्य पूर्वदक्षिणापरोत्तर- रूपास चतस दिक्षु श्रेण्या व्यवस्थितानि, विमानेन्द्रकश्च सर्वोऽपि वृत , ततः पार्थवत्तीनि चतसष्वपि दिक्ष ध्यत्राणि तेषा पृष्ठत. चतसृष्वपि दिक्ष चतुरस्राणि वेषा पृष्टतो वृत्तानि, ततोऽपि यत्राणि पुनश्चतुरक्षा- णीत्येव आवलिकापर्यन्तं भाव्यम् । एव प्रैवेयकविमानं यावद्वोध्यम् ।।

:५८२. 5 तत्वन्यायविमाकरे [ द्वितीयकिरणे लोकनामा कल्पः, तत उपरि बहुयोजनान्तरं उपर्युपरि लान्तकमहाशुक्रसहस्रारकल्पास्त्रयः, ततो बहुयोजनादूर्व सौधर्मेशानकल्पवत् आनतप्राणतो कल्पौ वदुपरि समश्रेणौ सनत्कु. मारमाहेन्द्रवत् आरणाच्युतौ व्यवस्थिताविति द्वादशकल्पा विज्ञेयाः ।। अथ क्रमेण द्वादशकल्पेष्ववस्थितानां देवानां स्थितिमाह- तत्र सौधर्मदेवस्योत्कृष्टतो द्विसागरोपममायुः, ईशानस्य किश्चिवधिक द्विसागरोपमं सनत्कुमारस्य सप्तसागरोपमं माहेन्द्रस्य किश्चिदधिकं तत्, अग्रिमाणाञ्च दशचतुर्दशसप्तदशाष्टादशैकोनविंशतिविंशत्येकविंशति- द्वाविंशतिसागरोपमाणि । जघन्यतस्सौधर्मस्य पल्योपमं, ईशानस्य किश्चिदधिकं पल्योपम, अग्रे तु यदधोऽधो देवानामुत्कृष्टमायुरुपरितन- 10 देवानां तजघन्यम् ॥ तत्रेति । तत्-सप्तसागरोपमं, अप्रिमाणाश्चेति, ब्रह्मलोकस्थस्य दशसागरोपमाणि, लान्तकस्थस्य चतुर्दशसागरोपमाणि, महाशुक्रस्थस्य सप्तदशसागरोपमाणि, सहस्रारस्थस्या- ष्टादशसागरोपमाणि, आनतस्थस्यैकोनविंशतिसागरोपमाणि, प्राणतस्थस्य विंशतिसागरोप- माणि, आरणस्थस्यैकविंशतिसागरोपमाणि, अच्युतस्थस्य द्वाविंशतिसागरोपमाणीति भावः । 15 अथ जघन्यामेषां स्थितिमाह-जघन्यत इति, अग्रे विति, सनत्कुमारादीनामिति भावः शिष्टं स्फुटार्थम् ॥ अथाहमिन्द्राणां निवासस्थानमाह- ततश्चोपर्युपरि भयोविंशतिसागरोपमादेककाधिकसागरोपमाधि- कोत्कृष्टायुष्काणां तदधो देवोत्कृष्टजघन्यायुष्काणां देवानां सुदर्श 20 नसुप्रतिबद्धमनोरमसर्वभद्रविशालसुमनससौमनसप्रीतिकरादित्यभेदतो लोकपुरुषस्य ग्रीवाप्रदेशस्थाः कण्ठाभरणभूता नव अवेयकाभिख्याः स्थानविशेषास्सन्ति ॥ ततश्चेति । कल्पोर्ध्वमित्यर्थः, त्रयोविंशविसांगरोपमादिति, आरभ्येति शेषस्तथा च 25 सुदर्शनस्य परा स्थितित्रयोविंशतिसागरोपमं, सुप्रतिबद्धस्यैकाधिकं चतुर्विंशतिसागरोपमं मनोरमस्य पञ्चविंशतिसागरोपमं सर्षभद्रस्य षड्विंशतिसागरोपमं विशालस्य सप्तविंशति- सागरोपमं सुमनसस्याष्टाविंशतिसागरोपमं सौमनसस्यैकोनत्रिंशत्सागरोपमं प्रीतिकरस्य त्रिंशत्सागरोपमं, आदित्यस्य एकत्रिंशत्सागरोपमं भवतीति मावा, वदधोदेवेति, यस्य लोकस्वरूपम् ] म्यायप्रकाशसमलते देवस्यायो यो देवो वर्तते तस्य यदुत्कृष्टमायुस्तदेवोर्ध्वस्थस्य जघन्यं यथा सुदर्शनस्यायो- ऽच्युतदेवस्खस्योत्कृष्टमायुद्वाविंशतिसागरोपमं तदेव सुदर्शनस्य जघन्यमित्येवं भाव्यम् , लोक- पुरुपस्वेति, ग्रीवेव ग्रीवा लोकपुरुपस्य त्रयोदशरज्जुपरिवर्तिप्रदेशस्तन्निविष्टतयाऽतिभ्राजिष्णु- तया च तदाभरणभूता |वेयका नवात्मका इति नव प्रैवेयका उच्च्यन्ते इति भावः ।। सम्प्रति विजयादीनाह- - 5 ततश्वोपरि पूर्वादिक्रमेण विजयवैजयन्तजयन्तापराजितानि विमा. नानि सन्ति । मध्ये च सर्वार्थसिद्धविमानम् । आद्यचतुर्विमानस्थाना- मुत्कृष्टतो द्वात्रिंशत्सागरोपमं जघन्यत एकत्रिंशत्सागरोपममायुः । सर्वार्थसिद्धस्थानान्तु जघन्याभावेनोत्कर्षेण त्रयस्त्रिंशत्सागरोपममायुः। आद्यस्थानद्वयं घनोदधिप्रतिष्ठं तदुपरि स्थानत्रयं वायुप्रतिष्ठं तदुपरि 10 स्थानत्रयञ्च घनोदधिधनवातप्रतिष्ठं शेषाणि च गुरुलघुगुणवत्त्वादाका- शप्रतिष्ठानि ॥ ततथोपरीति । नवप्रैवेयकोपरीत्यर्थः, पूर्वादिक्रमेणेति, पूर्वस्यां विजयः दक्षिणस्या वैजयन्तः उत्तरस्यां जयन्त इत्येवंक्रमणेत्यर्थः । देवानामप्येवमेवामिधानानि, पैरभ्युदय- विनहेतवो जितास्तैश्च ये न पराजितास्ते देवास्तानि विमानान्यपि तदमिख्यानानीति 15 भावः । मध्ये चेति, विनयादीनां मध्य इत्यर्थः, सर्वेऽभ्युदयास्सिद्धा येषामिनि सर्वार्थ- सिद्धास्तेषां विमानमित्यर्थः, एभ्य ऊवं विमानानामभावादेवानि अनुचरविमानान्यु- ध्यन्ते । एतेषां जघन्योत्कृष्टस्थिती आह आधेति, विजयवैजयन्तापराजितदेवानामि- त्यर्थः, सर्वार्थसिद्धानान्विति तु शब्देन द्योतितं विशेपमाह जघन्यामावेनेति । सर्वार्थसिद्धं संख्येयविस्तृतं शेपाणि चत्वार्यसख्येयविस्तृतानि, विमानप्रस्तटाश्च सौधर्मेशानयोस्खयोदश 20 सनत्कुमारमाहेन्द्रयोद्वादश ब्रह्मलोके पद् लान्तके पञ्च शुके चत्वारः, एवं सहस्रारे, आनन- प्राणतयोश्चत्वारः, एवमारणाच्युतयोः, मवेयकेवधस्तनमध्यमोपरिमेषु प्रत्येकं त्रयः, अनुत्तरे. वेक इति द्विषष्टिस्ते भवन्ति । सौधर्मेशानयोर्विमानानि पञ्चवर्णानि, सनत्कुमारमाहेन्द्रयो. श्वतुर्वर्णानि कृष्णवर्णामावात् । ब्रह्मलोकलान्तकयोः त्रिवर्णानि कृष्णनीलवर्णाभावात्, महाशुक्रसहस्रारयोद्धिवर्णानि कृष्णनीलहारिद्रवर्णाभावात्, आनतप्राणवारणाच्युतकल्पेषु के एकवर्णानि शुरुवर्णस्यैकस्यैव भावात्, प्रैवेयकविमानान्यनुचरविमानानि च परम- । , १. एतान्यावलिकाप्रविष्टान्येव, मध्यवर्तिसर्वार्थसिद्धविमानं वृतं, शेषाणि विजयादीनि चत्वार्यपि त्र्यखामि ।

। तस्वन्यायधिमाकर, [द्वितीयकिसने शुक्लानि 'निखिलानि च विमानानि नित्योद्योतानि नित्यालोकानि स्वयंप्रभाणि चेति । ननु आगमे पृथिवीनामष्टसख्याकत्वस्यैवोकत्वेनाघोलोके सप्तानां मुक्तिस्थाने ईषत्याग्भार- नाम्न्याः पृथिव्यास्सत्त्वेन सौधर्मादिदेवविमानानामन्तराले पृथिव्यभावेनैतानि कि प्रतिष्ठानीत्यत्राहायस्थानद्वयमिति, सौधर्मेशानविमानबलद्वयमित्यर्थः, जगस्वभावादेवासी 5 धनोदधिन स्पन्दते विमानान्यपि तत्रस्थानि न कदाचन जीर्यन्ति । तदुपरि स्थानत्रयमिति सनत्कुमारमाहेन्द्रब्रह्मलोकत्रयमित्यर्थः । वायुप्रतिष्ठमिति, अतिनिचिते निश्चले धनवाता- ख्ये पातसञ्चये लब्धप्रतिष्ठमित्यर्थः । तदुपरि स्थानत्रयश्चेति, लान्तकमहाशुक्रसहस्रार- स्थानत्रयमित्यर्थः । शेषाणीति, आनतप्राणतारणाच्युतविमानानि नव प्रैवेयकाणि अनुचर- विमानानि चेत्यर्थः आकाशप्रतिष्ठानीति, वत्र हेतुमाह गुरुलघुगुणवत्त्वादिति, ऊर्वाघो- 10 गतिस्वभावविरहेणाकाशप्रतिष्ठानीत्यर्थः । प्रैवेयकेषु अनुत्तरविमानेषु ये देवा वसन्ति ते कल्पातीता उच्यन्त इत्याह- अवेयकेषु अनुत्तरे च कल्पातीता देवा निवसन्ति ।। अवेयकेष्विति । कुलकुक्षिणीवाभ्यः श्वास्यलकारेष्विति हकप्रत्ययः । सामानिकादि- कल्पनाविरहादेते कल्पातीवास्तेषामहमिन्द्रत्वादिति भावः ।। अथ सिद्धक्षेत्रमाह- तत ऊर्ध्व द्वादशयोजनात्पश्चचत्वारिंशल्लक्षयोजनपरिमाणा मध्ये चाष्टयोजनबाहल्याऽन्ते मक्षिकापक्षवत्कृशतरोत्तानातपत्राकारेषत्माग्- भाराभिधानाऽष्टमी स्वच्छस्फटिकरूपा सिद्धशिलापराभिधाना पृथिवी ।। तत ऊर्ध्वमिति । अनुत्तरादूर्ध्वमित्यर्थः, काऽस्तीत्यत्राह-ईषत्प्राग्भारामिधानाऽष्टमी 20 पृथिवीति, ईषदल्पो रत्नप्रभाद्यपेक्षया प्राग्भार उच्छायादिलक्षणो यस्याः सा ईषत्प्राग्भारा, ऊर्ध्वलोकापस्था सिद्धानां निवासभूताऽष्टमी पृथिवीत्यर्थः । द्वादशयोजनादिति, सर्वार्थसिख- विमानस्य द्वादशभिर्योननरूर्व वर्तमानेत्यर्थः । अस्या विस्तारमाह पञ्चचत्वारिंशदिति, आयामविष्कम्माभ्यामिति बोध्यम् । मनुष्यक्षेत्रपरिमाणमिदं बोध्यम्, मध्य इति बहुम- 'ध्यदेशमांग इत्यर्थः, उच्चस्त्वमाहाष्टयोजनबाहत्येति, तर्हि सर्वासु दिनु विदिक्षु च कथमि- 15 - " १. ईषद् अल्पो योजनाष्टकबाहल्यपश्चचत्वारिंशलक्षविष्कम्भात् प्राग्मार. पुदलनिचयो यस्या. सेषत्मा- ग्भारा अष्टमी पृथिवी, शेषयिन्यो हि रत्नप्रभाया. महाप्राम्भारा. अशीयादिसहस्राधिकयोजनलक्षवाह- ल्यत्वात् ऊर्चलोकस्य चूडाकल्पेयमिति ॥

न्यायप्रकाशसमला " 10 लोकस्वरूपम् ] समलते त्यत्राहान्त इति परितः प्रान्तमाग इत्यर्थः, मध्यतः प्रदेशहान्या परिहीयमाणा सर्वेषु चर- मान्तेषु मक्षिकापत्रतोऽप्यतितन्वी बाहल्येनाकुलासंख्येयभागमितेति भावः । पृथिव्या अस्या आकारमाहोचानातपत्राकारेति, उत्तानीकृतच्छत्रसंस्थानवत्संस्थितेत्यर्थः घृतपूर्णतथाविधकरो- टिकाकारा वा बोध्या। अस्याः स्वरूपमाह स्वच्छस्फटिकरूपेति, निर्मलस्फटिकमृणालचन्द्रक- रजस्तुपारहिमगोक्षीरहारवर्णा श्वेवसुवर्णमयीति भावः । अस्या नामधेयान्तरमाह सिद्ध- शिलापराभिधानेति, सिद्धिक्षेत्रस्य प्रत्यासन्नतयोपचारात्सिद्धानां शिलाऽऽधारभूता सिद्ध- शिला, तथा लोकाग्रस्तूपिका सर्वेषां प्राणभूतजीवसत्त्वानामुपद्रवकारित्वाभावात्सर्वप्राणभूत- जीवसत्त्वसुखावहा मुक्तानामाश्रयत्वान्मुक्तालयेत्यादिनामानि भाव्यानि ।। ननु यदि सिद्धक्षेत्रस्य प्रत्यासन्नत्वासिद्धशिलेत्युच्यते तर्हि क सिद्धक्षेत्रमित्यत्राह- तत ऊर्ध्व चतुर्थगव्यूतिषष्ठभागे आलोकान्तं सिद्धानां निवामः ॥ तत ऊर्ध्वमिति । सिद्धशिलाभिख्यपृथिव्या ऊर्ध्वमित्ययः, तस्याश्वोपरि योजनमेक लोकस्ततोऽलोकः, योजनस्यास्याधस्तनकोशत्रय विहाय परिशिष्टस्य चतुर्थक्रोशस्योपरितन- पाठमागे त्रयस्त्रिंशदुत्तरधनुत्रिशतीसम्मिते धनुस्तृतीयभागाधिके सिद्धानां निवास इति भावः।। सम्प्रति लोकस्योर्ध्वस्य देवलोकनियमतः किञ्चिदूनसप्तरज्जुमानं विशेषतः प्रदर्शयति- तत्र रुचकात्सौधर्मशानौ यावत्साघरज्जुस्तत आसनत्कुमारमाहे. 15 न्द्रमेकरज्जुस्ततस्सहस्रारं यावत्सार्घ रज्जुद्वयं तस्मादच्युतं यावदेक- रज्जुस्तत आलोकान्तं किश्चिदूनैका रज्जुः ।। तत्रेति । उत्तानार्थ मूलम् ॥ अथ किं चतुर्दशरज्जुपरिमितेऽस्मिन् लोके सर्वत्र चातुर्गतिकानां जीवानां निवासो गमनागमनं वा भवेदथ वाऽस्ति कश्चित्प्रतिनियम इत्यत्राह- अधोलोकान्तादूर्ध्वलोकान्तं चतुर्दशरज्जुपरिमाणैकरज्जुविस्तृता त्रसनिवासस्थानरूपा बसनाडिकास्ति, अस्या बहिरेकेन्द्रिया एव निवसन्तीति ॥ अधोलोकान्तादिति । स्पष्टम् , अस्या इति नाडिकाया इत्यर्थः, एक्शब्देन तत्र . द्वीन्द्रियादीनां निवासो नास्तीति सूच्यते । इतिशब्दो लोकनिरूपणसमाप्तिद्योतकः ।। 20 25 5 . । B.५८६: तस्वम्यापविमाकरे [वितीयकिरणे अथ बोधिदुर्लभभावनामाह- नरकादिषु मुहुर्मुहुः परिभ्रमतो मिथ्यादर्शनाद्युपहतचेतसा सम्य- ग्दर्शनादिनिर्मलाईद्धर्मावाप्तिर्दुश्शक्येति परिचिन्तनं बोधिदुर्लभभा- वना । अतो घोधिप्राप्तावप्रमादी स्यात् ॥ नरकादिष्विति । बोधिर्जिनप्रणीतधर्मलाभः, सा त्रिविधा दर्शनशानचारित्रबोधि- भेदात, आधा दर्शनमोहनीयक्षयोपशमादिसम्पन्नश्रद्धानलामरूपा, द्वितीया ज्ञानावरणक्ष- योपशमभूता ज्ञानप्राप्तिः, तृतीया च, चारित्रमोहनीयक्षयोपशमजा । संसारोऽयं जनादिः, तन्त्र नरकतिर्यड्मनुष्यामरमवगहनेषु कुलालचक्रवदम्भ्रन्यमाणस्य जन्तोः नेकविधैः काय- वाङ्मानसैर्दुःरमितप्तस्याकामनिर्जरया कथमपि शुभं पुण्यं संप्राप्य असत्वमघाप्तस्य 10 सत्क्षेत्रादिसम्पदः प्राज्यराज्यसुखमवाप्तस्यापि रागद्वेषमोहमलिनमानसत्वातत्त्वार्थेषु श्रद्धैव सर्वविदेशिताऽक्षयमोक्षसौख्यजननी दुःखेन भवति किमुत ज्ञानं चारित्रञ्च, यद्येकदाऽपि जीवेन बोधिलभ्यते तदा नैव भवपर्यटनं भवेदित्येवं चिन्तनं बोधिदुर्लभभावनेत्यर्थः । तत्फलमाहात इति, एवमनुचिन्तयतो नैव सम्यग्दर्शनादौ प्रमादस्स्यादिति भावः ॥ अथान्तिमा धर्मस्वाख्यातभावनामाचष्टे- सम्यग्दर्शनमूलः पञ्चमहाव्रतसाधनो गुप्त्यादिविशुद्धिव्यवस्थानः संसारपारकरो धर्मः परमर्षिणार्हता व्याख्यातः स्वयमप्यनुष्ठितश्चेत्येवं चिंतनं धर्मस्वाख्यातभावना । अस्याश्च धर्मे श्रद्धा गौरवं तदनुष्ठानास- क्तिश्च जायत इति ॥ सम्यगिति । सम्यग्दर्शनमेव मूळं यस्य धर्मस्य स इत्यर्थः, पञ्चेति, पञ्चमहाब्रतानि 20 साधनं यस्येत्यर्थः, गुप्त्यादीति, गुप्त्यादिपरिपालनमेव यस्य स्वरूपावस्थानं स इत्यर्थः, एवम्भून एवं धर्मः संसारनिस्तारक इत्याह संसारपारकर इति । स च भगवताईतेवामोध. वचनेन व्याख्यात इत्याह परमर्षिणेति, न केवलं' व्याख्यात एवापि तु स्वयमप्यनुष्ठित इत्याह स्वयमपीति, एवं विचिन्तयतः किं भवेदित्यत्राहास्याश्चेति, एवं विचारणाया इत्यर्थः । इति शब्दो भावनासमाप्तिद्योतका ।। सम्प्रति भिक्षुप्रतिमामाह विशिष्टतपोऽभिग्रहो मिथुपतिमा, सा द्वादशविधा, आमासं विशि- 15 " , 25 प्रतिमाः1 न्यायप्रकाशसमलते टस्थानावस्थितदात्रविच्छिन्नसकृत्पदत्तानपानपरिग्रहा एकमासिकी प्र- तिमा। एवं द्विमासादि यावत्सप्तमासं विशिष्टस्थानावस्थितव्यत्त्या क्रमेण द्वित्रिचतुःपञ्चषट्सप्तवारं प्रदत्तानपानपरिग्रहणरूपाः षट् प्रतिमा भाव्याः॥ . 15 विशिष्टेति ।। भिक्षोरुद्गमोत्पादनैषणादिशुद्धमिक्षाशीलस्य प्रतिमा प्रतिज्ञाविशेषः, 5 भिक्षुशब्दस्वरसात्सा प्रतिज्ञाऽऽहारविषया माह्या, तथा च विशिष्टस्य तपस आहारादिनिय- मनरूपस्याभिग्रहः प्रतिज्ञाविशेषो भिक्षुप्रतिमेत्यर्थः । नस्या भेदानाह सा चेति, मासिकी द्वैमासिकी त्रैमासिकी चातुर्मासिकी पञ्चमासिकी पाण्मासिकी सप्तमासिकी प्रथमसप्तरात्रि- दिवा द्वितीयसतरात्रिंदिवा तृतीयसप्तरात्रिदिवाऽहोरात्रिकी एकरात्रिकी चेति द्वादेशविधा सेत्यर्थः । तत्र मासिकीमायां प्रतिमा वक्ति आमासमिति, यावन्मासपरिसमाप्तीत्यर्थः, 10 विशिष्टेति, विशिष्टस्थानेऽवस्थितेन दानाऽविच्छिन्नरूपेण सकदेव दत्तस्यानस्य पानस्य च परिग्रहरूपेत्यर्थः, एलूकस्यापवरकस्यैक पादमन्तः परं वहिव्यवस्थाप्य ददत्या-नो गुर्विण्या नो वालवत्साया नवा बालकं क्षीरं पाययन्त्या हस्तेनाहारोऽत्र ग्रहीतुं कल्पते, एका अशनस्य पानीयस्य चैका दत्तिरेव प्राया, दत्तिश्च करस्थाल्यादिभ्योऽव्यवच्छिन्नधारया या भिक्षा' पतति सा, मिक्षाविच्छेदे च द्वितीया दत्तिर्भवति, प्रतिमामेनां प्रतिपन्नो भिक्षुनित्यं परिकर्म- वर्जनाद्व्युत्सृष्टकायः, देवमानुषतिर्यग्योनिकृतपरिषह्याणामविकृतभावेन सहनशील क्षमी भवेत् , नियमविशेषा अधिका आगमेभ्यः प्रतिपत्तव्याः। ईदृशक्रमविशेषेण द्वैमासिकी त्रैमासिकी चातुर्मासिकी पञ्चमासिकी पाण्मासिकी सप्तमासिकी च प्रतिमा -विज्ञेया, परन्तु प्रथमातो द्वैमासिक्यादिषु एकैकदत्तिवृद्धिर्भवेदित्याशयेनाह एवमिति ॥ अथाष्टमीमाह- सप्ताहोरात्रप्रमाणा एकान्तरनिर्जलोपवासात्मिका आचाम्लपारणा- १. भावभिक्षुर्दिघा नोआगमत भागमतश्च, आगमतो भिक्षुशब्दार्थस्य ज्ञाता, उपयोगो भावनिक्षेप, इति वचनात् , नोमागमतः संयत मिक्षणशीलो मिथुरिति व्युत्पत्ते., मनु मिक्षणशीलत्वं रकपटादापति- व्यासं तेषा मिक्षाजीवित्वेन मिक्षणशीलत्वाद, मैवं, तेषामनन्यगतिकत्वेन मिक्षाशीलत्वात् अयम्भाव. शब्दस्य निमित्तं द्विविध व्युत्पत्तिनिमित्तं.प्रवृत्तिनिमित्तमिति, यथा गोशब्दस्य गमनक्रिया व्युत्पत्तिनिमित्तं, सदुपलक्षितच पास्नादिमत्त्वं प्रवृत्तिनिमित्तं, तेन गच्छत्यगच्छति चा गषि गोशब्द प्रवर्तते उमया- ।। वस्थायामपि प्रतिनिमित्तसद्भावात् । तथा प्रकृतेऽपि मिक्षाशीलत्व व्युत्पत्तिनिमित्त, तदुपलक्षितचेहपरलोका- साविप्रमुक्ततया यमनियमेषु व्यवस्थितत्वं प्रवृत्तिनिमित्त, मिक्षमाणे अभिक्षमाणे वा भिक्षी प्रवृत्तिनिमित्त सनावात्स एव भिक्षु न रपयादि., नवकोटयपरिशुद्धाहारमोजितया तेषु प्रतिनिमित्तस्याभावादितिना . 20 - :५८८: तत्वन्यायविभाकरे [ द्वितीयकिरने रूपा प्रामादिभ्यो बहिरूर्ध्वमुखशयनाद्यासनस्थितिपूर्वकघोरोपसर्गसह- नरूपा प्रतिमा अष्टमी॥ सोति । सप्त अहोरात्राणि प्रमाणं यस्यास्सा, एकान्तरेति, चतुर्थमक्तेन पानीयपरि- वर्जनेन च विशिष्टेत्यर्थः । प्रामादिभ्य इति, आदिना नगरादीनां प्रहणं, ऊर्ध्वमुखशयना- । दीति, उत्तानशायित्वमित्यर्थ आदिना पार्श्वशायित्वं निषण्णत्वं वा गृह्यते ॥ एवं नवम्यादीनाह- उत्कटिकावासनस्थितिपूर्विका पूर्वोक्तैव नवमी प्रतिमा । गोदोहिका- वासनस्थितिपूर्विका तादृश्येव दशमी प्रतिमा ।। उत्कटिकेति | आदिना दण्डायतिकत्वं गृह्यते, पूर्वोक्तैवैति, तपःपारणकं प्रामाहि- 10 बृत्तिश्चाष्टमसप्तमरात्रप्रतिमोक्तरूपैवेत्यर्थः । दशमीमाह गोदोहिकेति, गोदोहनप्रवृत्तस्येव पुतयोः पाणिभ्यां संयोगे अप्रपाइतलाभ्यामवस्थानक्रिया गोदोहिकासनस्थितिः, तथा वामपादो दक्षिणस्योरोपरि दक्षिणपादश्च वामस्योरोरुपरि यत्र क्रियते दक्षिणकरतल- स्योपरि वामकरतलं वामकरतलस्योपरि च दक्षिणकरतलमुचानं नाभिलग्नश्च यत्र क्रियते तद्वीरासनं तथा वा संस्थितो भवेत्, यद्वा सिंहासनोपविष्टस्य भून्यस्तपादस्यापनीतसिं- 15 हासनस्येव यदवस्थानं तद्वीरासनं बोध्यम् । आम्रफलवद्वक्राकारेण वा तिष्ठेत्, तथा तपःपारणमामबहिनिवासादिविधिः पूर्ववदेवेसाह तादृश्येवेति, इमास्तिस्रः प्रतिमा एक- विशत्या दिवसैर्यान्तीति बोध्यम् ॥ एकादशी द्वादशीचाह- निर्जलषष्ठभक्तप्रत्याख्यानपूर्विका प्रामावहिश्चतुरकुलान्तरचरणवि- 20 न्यसनरूपा प्रलम्बितबाहुकायोत्सर्गकरणात्मिकाऽहोरात्रप्रमाणा प्रति- मैकादशी। अष्टमभक्तपानीया ग्रामावहिरीषदवनमितोत्तरकाया एक- पुद्गलन्यस्तदृष्टिकानिमिषनेत्रा सुगुप्तेन्द्रियग्रामा दिव्यमानुषायुपसर्ग- सहनसमर्था कायोत्सर्गावस्थायिन्येकरात्रिकी प्रतिमा द्वादशी ।। निर्जलेति । जलरहितस्य षष्ठमक्तस्य प्रत्याख्यानं कुर्वन्नित्यर्थः, षष्टभक्तमुपवासद्वयरूपं 25 तपा, वत्र धुपवासद्वये चत्वारि भक्तानि वय॑न्ते, एकाशनेन च तदारभ्यते तेनैव च निष्ठां यातीत्येवं षष्ठभक्तप्रत्याख्यानं बोध्यम् । प्रामादहिरिति, प्रामनगरादिभ्यो बहिश्चतु- रहलान्तरे चरणौ विधाय मलम्बितभुनः कायोत्सर्गेऽवतिष्ठेत, षष्ठभक्तप्रत्याख्यानकरणा- 5 प्रतिलेखना] न्यायप्रकाशसमलट्टते :५८९: हिनत्रयेणेयं प्रतिमा यातीवि भावः । अथ द्वादशीमाहाष्टमभक्तति, यस्यामुपचासत्रयरूपेण पानाहाररहितेनावस्थान बहिश्च प्रामादेरीषकुजो नद्यादिदुस्तटीस्थितो वा एकपुरलगत- दृष्टिर्निनिमेषलोचनो गुप्तसपेन्द्रियो दिव्यमानुषतिर्यग्विहितघोरोपद्रवसहिष्णुः क्रमौ जिन- मुद्रया व्यवस्थाप्य कायोत्सर्गावस्थानावस्थितो भवेत् सैकरात्रिकी प्रतिमा, रात्रेरनन्तरम- ष्टमकरणाचतूरात्रिंदिवमाना स्यादिति भावः ।। अथेन्द्रियनिरोधमाह- तत्तद्विषयेभ्यस्तत्तदिन्द्रियाणां विरमणरूपाः पञ्चेन्द्रियनिरोधाः ॥ तत्चद्विषयेभ्य इति । स्पर्शरसगन्धवर्णशब्दात्मकविषयेभ्य आजुकूल्येन प्रातिकूल्येन वा प्राप्मेभ्यस्तत्तदिन्द्रियाणां स्पर्शनरसनघ्राणचक्षुश्श्रोत्ररूपाणां विरमणमासक्तिवैधुर्यमित्यर्थः, इन्द्रियाणां पञ्चविधत्वात्तनिरोधोऽपि पञ्चविध इत्याशयेनोक्तं पञ्चेति । अनियंत्रितानि हीन्दि- 10 याणि पदे पदे शमहासागर एव पातयन्तीत्यतस्तनिरोधोऽवश्यङ्करणीय इति भावः ।। प्रतिलेखनामाचष्टे- आगमानुसारेण वनपात्रादीनां सम्यनिरीक्षणपूर्वकं प्रमार्जन प्रतिलेखना॥ आगमेति । लिख अक्षरविन्यास इत्यस्य प्रतिपूर्वकस्य भावे ल्युटि प्रतिलेखनेति 15 प्रयोगः, उपसर्गमहिम्ना धात्वर्थभेदेन शास्त्रानुसारेण वस्त्रादीनां निरीक्षणमर्थः सा च सर्व. क्रियामूलभूता, अनेकप्रकारापि सा दिनचर्योपयोग्युपकरणविषयाऽत्रोक्ता वसपात्रादीति पदेन । कालत्रयभाविनी चैषा, रात्रेश्चतुर्थप्रहरे, दिनस्य तृतीयप्रहरान्ते, उद्घाटपौरुण्याग्नेति, तत्र प्रभाते उत्सर्गादिकरणानन्तरं प्रथमं वनविषया प्रतिलेखना, सापि मुखपोतिकारजोह- रणनिषद्याद्वयचोलपट्टकल्पत्रिकसंस्तारकोत्तरपट्टरूपाणां दशानां भवति, दण्डकमपीति केचित् । अनुदत एव सूर्ये विधेयम् , वत्रोत्कटिकासनस्थो मुखपोतिको प्रतिलिख्य प्रकाशदेशस्थो रजो- हरणं प्रतिलिखति तत्र प्रभाते आन्तरी सूत्रमयीं निषधामपराहे तु बाह्यामूर्णामयी प्रतिलि- खेत् , ततश्चोलपट्ट ततस्त्रयोदशभिः प्रतिलेखनाभिः स्थापनाचार्य प्रतिलिख्य स्थाने संस्थाप्य मुखवत्रिका प्रतिलिखेत्, ततश्चैकेन क्षमाश्रमणेनोपधिसन्देशमाप्य द्वितीयेन तेनोपधि प्रति- लिखेत् , तत्र पूर्वमौर्ण कल्पं ततस्सौनं कल्पवयं ततसंस्तारकं वनश्चोत्तरपट्टमिति प्रतिलेख- 25 नाक्रमः | उपयुक्तस्सनेपा प्रत्युपेक्षणां कुर्यात्, तथा च पण्णामाराधको भवति, अकरणे च दोषाः । ततश्च जाते सूर्योदये शेपमप्युपधि प्रविलिख्य वसति ततो दण्ड प्रमार्जयेत्, प्रतिले. 20 तत्वन्यायविमाकरे [द्वितीयकिरणे खनं चक्षुपा निरीक्षणं प्रमार्जनञ्च रजोहरणादिमिरिति भेदेऽपि अविनामावित्वेन तयोः प्रतिलेखनाशब्देनैव लक्षितं मूलेन । इति प्रातः प्रतिलेखना मान्या । ततश्चरमपौरुभ्यां प्राप्तायां पात्राणि प्रतिलेख्यानि, तृतीयप्रहरान्ते मुखवखिकाचोलपट्टगोच्छकपात्रप्रतिलेख- निकापात्रवन्धपटलरजखाणपात्रस्थापनमात्रकपतद्हरजोहरणकल्पत्रिकाण्यनुक्रमं प्रत्युपेक्षणी- 5 यानि, तथाऽन्योऽप्यौपग्रहिकोपधिः, प्रत्युपेक्षणीयः । उद्घटापौरुष्याञ्च सप्तविधपात्रनिर्योग- प्रत्युपेक्षणा भवति, तत्रासने समुपविष्टः प्रथमं मुखवत्रिका प्रत्युपेक्ष्य गोच्छकं प्रत्युपेक्षते ततः पटलानि ततः पात्रकेसरिकां ततः पात्रबन्धं ततो रजत्राणं धतः पात्रं ततः पात्रस्थापनमिति, अत्र अरुणादावावश्यक पूर्वमेव कृत्वा तत अरुणोद्मसमये प्रत्युपेक्षणा क्रियते । अपरे वाहुः अरुणे उद्गते सति प्रभायां स्फुटिवायां सत्यामावश्यक पूर्व कृत्वा ततः प्रत्युपेक्षणा 10 क्रियत इति, अन्ये त्वाहुर्यदा परस्परं मुखानि विभाव्यते तदा प्रत्युपेक्षणा क्रियत इति, इतरे !, वाहुर्यस्यां वेलायां पाणिरेखा दृश्यन्ते तदानीमिति, वेलायाञ्च न्यूनायामधिकायां वा प्रत्यु- पेक्षणा न कार्या, तत्र जिनकल्पिकानामोघोपधिदिशविधः, स्थविरकल्पिकानां चतुर्दशविधा, आर्याणां पञ्चविंशतिविधः । अत ऊर्च यथासम्भवमौपग्रहिकोपधिर्भवति, • तत्र प्रतिलेखनाक्रमो विधियुत आगमादौ सुस्पष्टमुपपादितोऽत्र तु केवलं स्थानाशू- 15 न्याथ तस्या वाक्योचारणात्मिकाया विशेषमादर्शयति. सा च सूत्रार्थतत्त्वश्रद्धानसम्यक्त्वमिश्रमिथ्यात्वमोहनीयवर्जनका- मस्नेहदृष्टिरागपरिहारशुद्धदेवगुरुधर्मादरकुदेवकुगुरुकुधर्मपरिवर्जनज्ञान- दर्शनचारित्रादरज्ञानदर्शनचारित्रविराधनापरिहारमनोवचनकायगुप्त्या- दरमनोवाक्षायदण्डपरिहाररूपभावनागर्मितवचनोचारणपूर्वकवस्त्रादिनि- 20 रीक्षणप्रमार्जनरूपा पञ्चविंशतिप्रकारा विज्ञेया ॥ सा चेति । इयश्च प्रतिलेखनोपकरणविषया, सूत्रतदर्थयोः तत्त्वतः श्रद्धानमेकं, सम्य- क्वमिश्रमिथ्यात्वमोहनीयानां वर्जनात्मकानीति त्रीणि, कामस्नेहदृष्टीनां रागस्य परिहार इति त्रीणि; शुद्धा ये देवगुरुधर्मास्तेषामादर इति त्रीणि, कुदेवकुगुरुकुधर्माणां परिवर्जनमिति त्रीणि, ज्ञानदर्शनचारित्राणामादर इति त्रीणि, ज्ञानदर्शनचारित्राणां विराधनायाः परिहार 28 इति त्रीणि, मनोवचनकायानां गुप्तेरादर इति त्रीणि, मनोवाकायानां दण्डस्य परिहार इति त्रीणि, सर्वेषां - मेलनेन पञ्चविंशतिवचनानामुञ्चारणपुरस्सरं भावनया पञ्चविंशति- विधानां वस्त्रादीनां निरीक्षणपूर्वकं प्रमार्जनं विधेयमिति भेदानेतानादाय पञ्चविंशतिप्रकारा प्रतिलेखना प्रोक्ता, स्वसमये एषा सुप्रसिद्धेति नात्र विशेपतो विचार उपन्यस्यते ॥ .

मनिग्रहाः ] म्यायप्रकाशसमलहते अङ्गप्रमार्जनारूपां प्रतिलेखनामाचष्टे- हास्यरत्यरतिपरिहारभयशोकजुगुप्सापरिहारकृष्णनीलकापोतलेश्या- परिहाररसर्द्धिसातगौरवपरिहारमायामिथ्यानिदानशल्यपरिहारकोधमा- नमायालोमपरिहारपृथिव्यतेजोवायुवनस्पतित्रसकायरक्षणात्मकभावपू- णवचनोचारणपूर्वकस्वाङ्गप्रमार्जनात्मिका वा सा पञ्चविंशतिरूपोपल- क्षणतो बोध्या ॥ हास्येति । स्पष्टम्, अथारौद्रध्यानानुबन्धिकल्पनानिधयवियोगात्मिकायाशास्त्रानु- सारिण्याः परलोकसाधिकाया धर्मध्यानानुबन्धिन्या माध्यस्थ्यपरिणविरूपायाः कुशलाकुशल- मनोवृत्तिनिरोधेन योगनिरोधावस्थामाविन्या आत्मारामात्मिकाया मनोगुप्तः, अर्थसूचकाङ्ग- चेष्टापरिहारेण वागभिमहकरणरूपाया वाचनप्रच्छनपरपृष्टार्थव्याकरणादिषु लोकागमाविरो- 10 धेन मुखवत्रिकाच्छादितमुखवया भाषणात्मिकाया वाग्गुप्तेः, दिव्यमानुषायुपसर्गसद्भावे- ऽपि क्षुत्पिपासादिसम्मवेऽपि कायोत्सर्गकरणादिना निश्चलताकरणरूपायाः सर्वथा कायचेष्टा- निरोधरूपाया वा तथा गुरुप्रच्छनशरीरसंस्तारकभूम्यादिप्रतिलेखनप्रमार्जनादिसमयोतक्रिया- कलापपुरस्सरं शयनादिरूपायाः कायगुमेश्च पूर्वमेव प्रायो निरूपितत्वादिह निरूपणं पुनरुक्त- प्रायमिति मत्वा प्राह- प्रागुपदर्शिता गुप्तयस्तिस्रः।। प्रागिति । संवरनिरूपणे उपदर्शिता इत्यर्थः ॥ अथाभिग्रहमाख्याति- साधुनियमविशेषोऽभिग्रहः । स च द्रव्यक्षेत्रकालभावतश्चतुर्विधः ।। साध्धिति, अमिगृह्यन्ते साधुभिर्नियमविशेषा द्रव्यादिमिरनेकप्रकारास्तेऽमिग्रहाः, 80 वथा च साधूनां नियमविशेषोऽभिग्रहो यथेत्थमाहारादिकममीषां कल्पते नेत्यंभूतमित्येवं- रूप इति भावः । द्रध्यक्षेत्रकालभावविशेषप्रयुक्तत्वात्स चतुर्विधो भवतीत्याशयेनाह स चेति ॥ तत्र द्रव्याधमिग्रहानाह- विशिष्टद्रव्यपरिग्रहो द्रव्याभिग्रहः । विशिष्टक्षेत्रस्थदातृसकाशाद- नादिग्रहणं क्षेत्राभिग्रहः । विशिष्टकाल एवानादिग्रहणं कालाभिग्रहः । 25 विशिष्टभावयुतदातृसकाशादन्नादिपरिग्रहो भावाभिग्रहः । इति करण- निरूपणम् ॥ 15 १ तसन्यायविमाकरे [वृतीवकिरण विशिष्टेति । विशिष्टं द्रव्य लेपवन्जुगार्यादि.तन्मिनं अलेपवता मण्डकादिद्रव्यमद्य ग्रहीष्यामि दर्वाकुन्तादिना, अथवा यद्यहं कुल्माषबाकुलान् शूककोणस्थान लप्स्ये तान् ग्रहीष्यामि नान्यथेत्येवमादिरूपो द्रव्यविषयो नियम इत्यर्थः । क्षेत्राभिप्रहमाह विशिष्टक्षेत्रेति, निगडनियंत्रितचरणा यद्यक पादमुदुम्बरस्य मध्ये द्वितीयं च बहिष्टादात्री करिष्यति तदाई B मिक्षा ग्रहीष्यामि नान्यथेत्यादिरूप इत्यर्थः । कालाभिग्रहमाचष्टे विशिष्टकालेति, यदि दिवसद्विवीयपौरुष्यामतिक्रान्तायां दास्यति तदा मिक्षा ग्रहीष्यामि नान्यथेत्येवरूप इत्यर्थः । भावाभिग्रहमाह विशिष्टभावेति, उरिक्षप्तचरकाः, संख्यादत्तिका इष्टलामिकाः पृष्टलामिका इत्यादयः, त एते गुणगुणिनोः कथञ्चिदभेदादावयुता अभिप्रहा भवन्ति, यद्वा गायन यदि दास्यति तदा मया ग्रहीतव्यं, एवं रुदन वा, निषण्णो वा, उस्थितो वा, संप्रस्थितो वा 10 यद्ददाति तद्विषयो योऽभिग्रहः सर्वोऽपि स भावाभिग्रह इत्यर्थः । लेशेनैवं सति प्रयोजने क्रियमाणा मोक्षार्थिमिः करणसप्ततिनिरूपितेत्याइतीति ।। इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर- चरणनलिनविन्यस्तमक्तिमरेण तत्पट्टघरेण विजयलब्धिसूरिणा विनिर्मितस्य तत्व न्यायविभाकरस्य स्योपशायां न्यायप्रकाशव्याख्यायां करणसतिनिरूपणं 15 नाम द्वितीयः किरणः ॥ अथ तृतीयः किरणः ॥ अथ चारित्राणां सामायिकादीनां निरूपणे कृतेऽपि प्रकारान्तरेण चारित्रिणस्तानिरूप- यितुमाह- तद्वान् चारित्रीत्युच्यते । स पञ्चविधः पुलाकबकुशकुशीलनिर्गन्ध- 20 स्नातकभेदात् ॥ तद्वानिति । करणचरणरूपचारित्रविशिष्ट इत्यर्थः । तस्य भेदानाह पुलाकेति । तत्र मुलाकं स्वरूपयति- सङ्घादिप्रयोजनाय सबलचक्रवर्तिविध्वंससामथ्र्योपजीवनज्ञानाथ- तिचाराऽसेवनान्यतरेण दोषवान् जिनागमादप्रतिपाती च पुलाका, स 28 द्विविधः लब्धिपुलाकस्सेवापुलाकश्चेति, देवेन्द्रसम्पत्तिसदृशसम्पत्तिमान लब्धिविशेषयुक्तः पुलाको लन्धिपुलाकः । सेवापुलाकस्तु ज्ञानदर्शनचारित्र- लिङ्गयथासूक्ष्मभेदेन पञ्चविधः ॥

'पुलाका: ] न्यायप्रकाशसमलट्टते :५९३: सवादीति । वन्दुलकणशून्या पलजिः पुलाको लोके प्रोच्यते निस्सारत्वात् । तदृदयं चारित्री सारभूतानां ज्ञानदर्शनचारित्राणामतिचारानासेवते तपश्श्रुताभ्यामुत्पन्नां लब्धि 'विमति प्रयुक्त च समये, जिनप्रणीतादागमादनवरतमप्रतिपाती च, सम्यग्दर्शनज्ञानचरणानि 'निर्वाणकारणानीति अबुधानो ज्ञानानुसारेण क्रियानुष्ठायी च, तत्र संघाविप्रयोजने सबलवाह- नस्य चकवादेरपि चूर्णने समर्थायास्तपाश्रुतहेतुकाया लब्धेरुपजीवनेन ज्ञानाद्यतिचारासे- बनेन वा यस्संयमसाररहितो जिनप्रेरितात्त्वागमात् सदैवाप्रतिपाती सन् ज्ञानानुसारेण क्रिया- नुष्ठायी स पुलाक इति भावः । उपजीवनान्तेन लब्धिमता दोषवानित्यन्तेन निस्सारताऽव- शिष्टेन प सम्यग्दृष्टिता सूचिता । तस्य भेदमाह-स चेति, भेदप्रकारमाह लब्धिपुलाकेति, लब्ध्या युतः पुलाको लब्धिपुलाकः, सेवया अतिचारसेवनया युतः पुलाकस्सेवापुलाका इत्यर्थः । तत्र लब्धिपुलाकमाह देवेन्द्रेति, देवेन्द्रस्य या सम्पत्तिस्तत्सशसम्पत्तिमानित्यर्थः, 10 कुन इत्यत्र हेतुगर्भविशेषणमाह लब्धिविशेषेति, साधारणलब्धियुतो न, किन्तु देवेन्द्रसम्प- चितुल्यसम्पत्तिप्रसवयोग्यलब्धिविशेषयुक्त इति भावः, सोऽन्योऽपि भवेदित्यत्र आह पुलाक इति, केचित्तु आसेवनतो यो ज्ञानपुलाकस्तस्येयमीहशी लन्धिः, स एव च लब्धिपुलाको न कश्चित्तव्यतिरिक्तोऽपर इत्याहुः । सेवापुलाकस्य प्रकारानाह सेवापुलाकस्त्विति ।। सम्प्रति सेवापुलाकादीनां स्वरूपमाह- सूत्राक्षराणां स्खलितमिलितादिभिरतिचारैज्ञानमाश्रित्याऽऽत्मनो निस्सारकारी ज्ञानपुलाकः । कुदृष्टिसंस्तवादिभिरात्मगुणघातको दर्शन- पुलाकः । मूलोत्तरगुणप्रतिसेवनया चारित्रविराधनेनात्मनंशकश्चारित्र- पुलाका, तत्र मूलगुणा महाव्रतादयः, उत्तरगुणाः पिण्डविशुद्धयादयः। उक्तलिङ्गाधिकलिङ्गाग्रहणनिर्हेतुकापरलिङ्गकरणान्यतरस्मादात्मनो निस्सा- 20 रको लिङ्गपुलाकः । ईषत्प्रमादमनाकरणकाकल्प्यग्रहणान्यतरेणात्म- भ्रंशको यथासूक्ष्मपुलाकः॥ स्त्राक्षराणामिति । सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् पदानामनेकेषां सीवनात् सम्यक्- कथनाद्वा सूत्रं, अल्पाक्षरं महाथ द्वात्रिंशदोषविधुरं अष्टमिर्गुणैरुपेतञ्च तद्भवति, गुणाश्चैवं 'निर्दोष सारभूतञ्च हेतुयुक्तमलकृतम् । उपनीतं सोपचार मितं मधुरमेव चेति । ईदृशञ्च 29 सूत्रमस्खलितादिगुणोपेतमुच्चारणीयमपरथाऽतिचारप्राप्तिः स्यात् , तथा च सूत्राणां पूर्वोत. लक्षणानां स्खलितमिलिताद्युञ्चारणेन परिप्राप्ताविचारैर्ज्ञानस्य मालिन्याद् य आत्मानं निर्वलं 15 ये वस्वन्यायधिमाकरे [वृतीयकिरणे विधाति स ज्ञानपुलाक इत्यर्थः । सूत्रे तदर्थे वा यहच्छया प्रवृत्तौ हि करणचरणस्थानवस्था भवति, ततश्च न तीर्थमनुसरति, नैव च प्रतिषिद्धं समाचरतस्तस्य संयमो भवति, तद्- भावे दीक्षा निरर्थका तन्निरर्थकतायाञ्च मोक्षस्याप्यभावः स्यादिति निस्सारो भवत्यात्मा, अथ दर्शनपुलाकं लश्यति कुदृष्टीति, कुत्सिता जिनागमविपरीतत्वादृष्टिदर्शनं येषां ते कुदृष्टयः 5 पाखण्डिनः, तेषां संस्तवः पुण्यमाज एते, सुलब्धमेषां जन्म, दयालव एत इत्येवं स्तुतिः, अयं हि सम्यक्त्वस्याविचारः, यद्वा कुदृष्टिभिरेकत्र संवासात्परस्परालापजन्यः परिचय: कुदृष्टिसंस्तवः, अयमपि, सम्यक्त्वस्यातिचारः, एकत्र वासे हि तत्प्रक्रियाश्रवणात्तत्तक्रिया- दर्शनाच दृढसम्यक्त्वस्यापि दृष्टिभेदस्सम्भाव्यते, किमुत मन्दबुद्धेनवधर्मस्य, तथा च कुदृष्टिसंस्तवादिमिर्य आत्मनो गुणस्य सम्यक्त्वस्य घातकस्स दर्शनपुलाक इति भावः । 10 अथ चारित्रपुलाकमाह मूलोत्तरेति, मूलानीव , चारित्रकल्पद्रुमस्य मूलानि, तद्रूपा गुणास्ते मूलगुणाः प्राणातिपातादिविरमणरूपास्तेषां प्रातिकूल्येन सेवनं मूलगुणप्रति- सेवनं, यथैकेन्द्रियाणां संघट्टनगाढागाढपरितापनोपद्रवणादिरूपं, मूलगुणापेक्षयोचरभूता गुणा वृक्षशाखा इवोत्तरगुणाः, पिण्डविशुद्ध्यादयः तेषां प्रतिसेवना, उत्तरगुणप्रतिसे- वना, तत्र मूलोचरगुणप्रतिसेवनापदेन मूलोत्तरगुणाविचारप्रतिसेवना ग्राह्या पदैकदेने 15 पदसमुदायोपचारेण प्रातिकूल्येन वा सेवनेनाविचारसम्भवात्कारणे कार्योपचारेण वा वथोक्तिः । मूलगुणानां पञ्चविधत्वादविचारप्रतिसेवना पश्चंविधा, उत्तरगुणानां दशवि- धत्वात्तदतिचारप्रतिसेवनापि दशधा, एवम्प्रतिसेवनातश्चारित्रविराधनासमवेनाऽऽत्मनः पातयिता चारित्रपुलाक उच्यत इत्यर्थः, अतिचारसूचनाय मूलोत्तरगुणान्स्मारयति तत्रेति, प्रतिसेवनासम्बन्धिन इत्यर्थः महानतादय इति प्राणातिपातादिविरमणरूपमहाप्रवादय 20 ,इत्यर्थः, आदिना रात्रिभोजनविरमणस्य ग्रहणम्, पिण्डविशुद्ध्यादय इति पिंडविशुद्धि- रेक उत्तरगुणः, पञ्च समितयः पञ्चोचरगुणाः, एवं तपो बाह्यं षट्मभेदं सप्तम उत्तरगुणा, अभ्यन्तरषट्प्रभेदमष्टमः, भिक्षुप्रतिमा द्वादश नवमः, अभिग्रहाश्चतुर्विधा दशम 'इति । सम्प्रति लिङ्गपुलाकमाहोक्केति, शास्त्रोक्तलिङ्गाधिकप्रहणात् निष्कारणमन्यलिङ्गकरणालिम: पुलाको भवतीत्यर्थः । यथासूक्ष्मपुलाकमाहेषदिति, ईषत्प्रमादात् मनसाऽकल्प्यानां ग्रहणा- 25 चात्मघातक इत्यर्थः ॥ अथ बकुशमाह- देहस्योपकरणानां वाऽलङ्काराभिलाषुकश्चरणमलिनकारी बकुशः । शरीरोपकरणभेदाभ्यां स द्विविधः । अनागुप्तव्यतिरेकेण भूषार्थ करचर- णादिप्रक्षालननेत्रादिमलनिस्सारणदन्तक्षालनकेशसंस्काराद्यनुष्टाता श- - ।

बकुशा.] न्यायप्रकाशसमलते रीरवकुशः शृङ्गाराय तैलादिना दण्डपात्रादीन्युज्वलीकृत्य ग्रहणशील उपकरणवकुशः॥ देहस्येति । अगोपाइसंघातरूपस्य देहस्य वस्त्रपात्राधुपकरणानाञ्चालङ्करणेऽनुवर्तना- शीला, अष्टाविंशविविधमोहनीयक्षयाकांक्ष्यपि ऋद्धियशस्कामत्वात् सुखशीलतावाप्तिव्यापार- प्रषणत्वाचाहोरात्राभ्यन्तरानुष्ठेयासु क्रियासु नितरामनुद्यततया चरणपटस्य विशुद्ध्यविशुद्धि- 5 संकीर्णस्वभावतामापादयतीति कर्बुरत्वादूकुश उच्यत इत्यर्थः, तत्प्रभेदमाह शरीरेति । शरीर- बकुशं निरूपयति, अनाग्रसेति, मलनिस्सारणेति, मलानां दूरीकरणं दन्तानां धावनं केशानां च संस्कारः, इत्यादीनामनुष्ठातेत्यर्थः, अयं मूलगुणान्न विराधयति उत्तरगुणांस्तु भ्रंशयति, उपकरणबकुशमाह श्रृंगारायेति, विभूषार्थ दण्डपात्रकादि तैलादिनोज्ज्वलीकृत्य ग्रहणप्रवणः, अकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिः प्रभूतकलपात्रांदिकामुक उपकरणवकुश 10 इति भावः ॥ बकुशमेव प्रकारान्तरेण विभज्य दर्शयति- पुनरपि यकुशः पञ्चविधा, आभोगानाभोगसंवृतासंवृतसूक्ष्मभेदात् शरीरोपकरणानामलंकारस्साधूनामकार्य इति ज्ञानवान् कर्ता च बकुश आभोगवकुशः। सहसा च शरीरोपकरणानामलंका वकुश अनाभोगः। 15 लोकैरविदितदोषो बकुशस्संवृतः। प्रकटं दोषानुष्ठाता वकुशोऽसंवृतः। किश्चित्तमादी नेत्रमलाथपनयकारी पकुशंस्सूक्ष्मबकुशः। एते बकुशाः सामान्येनड़ियशस्कामास्सातगौरवाश्रिता अविविक्तपरिवारा छेदयोग्य- शबलचारित्रा बोध्याः॥ पुनरपीति, स्पष्टम् । आभोगवकुशमाह-शरीरेति, शरीरोपकरणानां विभूपार्थ संस्कारो 20 न कार्य इति ज्ञात्वापि तथाकारीत्यर्थः, यस्तु तथाऽज्ञात्वा सहसा करोति स त्वनाभोगवकुश उच्यत इत्याह सहसेति, संवृत्तवकुशमाह लोकैरिति, यद्यपि संवृतशब्दो निरुद्धानवद्वारे सर्व- विरते मनोवाचायगुप्ते यमनियमरते वा वर्चते तथापि वकुशशब्दसामानाधिकरण्येन लोका- विक्तित्वमाने वर्तते तथा च यथा लोका दोषान् स्वानुष्ठितान्न बानीयुस्तथादोपानुष्ठाता वकुशतादृश इत्यर्थः। असंवृतवकुशमाह प्रकटमिति, सूक्ष्मवकुशमाह किञ्चित्प्रमादीवि, स्पष्ट, 28 वकुशस्यैव स्वरूपं पुनर्दर्शयति एत इति उक्तप्रकारा वकुशा इत्यर्थः, ऋद्धियशस्कामा इति, प्रभूत- वनपात्रांदिकामृद्धिं गुणवन्तो विशिष्टास्साधव, इत्यादिरूपां ख्यातिन से कामयन्ते.व इत्यर्थः, सातगौरवाश्रिता इति, साते सुखे यगौरवमादरंस्तदाश्रिता इत्यर्थः, यत एवम्भूता एते अत एव 5 - . तस्वन्यायविमाकरे [वतीयकिरने नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियासूधता इति भावः । अविविक्तपरिवारा इति, असं- यमान . पृथग्भूता धृष्टजंघास्तैलादिकृतशरीरमृजाः कर्तरिकाकल्पितकेशाश्च परिवारा येषां ताशा इत्यर्थः, . छेदयोग्यशवलचारित्रा 'इति, सर्वदेशच्छेदाहोतिघारजनितशबलत्वेन युक्ता इत्यर्थः ॥ - अथ कुशीलमाह- उत्तरगुणविराधर्मसंज्वलनकषायोदयान्यतरस्मादर्हितचारित्रः शील। स चाऽऽसेवनाकषायमेदेन द्विविधः ॥ उत्तरेति । कुत्सितं शीलमाचारो यस्य स कुशीलः, या कुत्सितमुत्तरगुणप्रतिसेवनया संज्वलनकषायोदयेन वा दूषितत्वाच्छीलमष्टादशसहस्राङ्गशीलभेदं यस्य स कुशीला काल- 10 विनयादिभेदमिन्नानां ज्ञानदर्शनचारित्राचाराणां विराधक इत्यर्थः । वस्य प्रमेदं दर्शयति स चेति, आसेवनाकुशील इत्यर्थः । तौ दर्शयति,-- वैपरीत्येन संयमाराधक आसेवनाकुशीलः । अयमेव प्रतिसेवनाकु- शील उच्यते । संज्वलनक्रोधाद्युदयारहितचारित्रः कषायकुशीलः ॥ वैपरीत्येनेति । यो नैन्थ्यं प्रति प्रस्थितोऽनियतेन्द्रियः कथञ्चित्किञ्चिदेवोचरगुणेषु पिण्डविशुद्धिसमिविभावनातपःप्रतिमादिषू विराधयन् सर्वज्ञाज्ञोल्लंघनमाचरति स आसेवना- कुशीलं इत्यर्थः, आसेवनाप्रतिसेवनापदयोरेकार्थतयाऽऽहायमेवेति आसेवनाकुशील एवेत्यर्थः कषायकुशीलमाह संज्वलनेति, यस्य तु संयतस्यापि सतः कथञ्चित्संज्वलनकषायां उदीयन्ते स कषायकुशील इत्यर्थः ॥ पुनस्तस्य प्रकारान्तरमाह- द्विविधोऽपि स पञ्चविधः । ज्ञानदर्शनचरणतपोयथासूक्ष्मभेदात् । ज्ञानदर्शनचरणतपसां वैपरीत्येनाऽसेवकाश्चत्वारः प्रतिसेवनाकुशीलाः। शोभनतपस्वित्वप्रशंसाजन्यसंतोषवान् यथासूक्ष्मप्रतिसेवनाकुशीला । द्विविधोपीति । आसेवनाकषायभेदेन द्विभेदोऽपीत्यर्थः, तथा च प्रतिसेवनाकुशील: 25 पञ्चविधः, कषायकुशीलोऽपि पञ्चविध इत्यर्थः । आधान चतुर्विधानेकप्रन्येन लाघवादाह ज्ञानदर्शनचरणवपसामिति, यो हि ज्ञान-शानाचारं वैपरीत्येनासेवते स ज्ञानप्रतिसेवनाकु- शीला, मानाचारोऽष्टविधः, कालविनयबहुमानोपधानानिहवव्यञ्जनार्थतदुभयभेदात् । मान- 15 20 - कुशीला.] न्यायप्रकाशसमलते पदेन श्रुतं विवक्षितं यो यस्यांगप्रविष्टादे श्रुतस्य काल उक्तस्तस्य तस्मिन्नेव काले स्वाध्यायः कर्तव्यो नान्यदा, तीर्थकरवचनात् , दृष्टश्च लोकेऽपि ध्यादेः काले करणे फळ विपर्यये हु विपर्यय इति, एषमनाचरणे प्रायश्चित्तमस्ति, तथा श्रुतग्रहणं कुर्ववा गुरोविनयः कार्यः, विनयोऽभ्युत्थानपादधावनादिः, अविनयहीन हि तदूषरोप्तवीजमिव विफलं भवति, क्या श्रुतमहणोधतेन गुरोर्वहुमानः कार्यः, बहुमानो नामाऽऽन्तरो भावप्रतिबन्धः, एतस्मिन् । सत्यक्षेपेणाधिकफलं श्रुतं भवति, अङ्गोपाङ्गानां सिद्धान्तानां पठनाराधनार्थमाचाम्लोपवास- निर्विवत्यादिलक्षणस्वपोविशेष उपधानम् । न निहवोऽपलापः अनिवः, यतोऽधीतं तस्यान- पलापः, यतोऽनिवेनैव पाठादि सूत्रादेविधेयं न पुनर्मोनादिवशादात्मनो लाघवाचाशङ्कया श्रुतगुरूणां श्रुतस्य वाऽपलापः कार्यः । व्यञ्जनार्थतदुभयमेदाः यथा श्रुतप्रवृत्तेन तत्फलमभी- प्सता व्यञ्जनभेदोऽर्यभेदस्तदुभयभेदश्च न कार्यः, तत्र व्यञ्जनमेदो यथा-'धम्मो मङ्गलमु- 10 कि ' इति वक्तव्ये 'पुण्णं कल्लाणमुकोस 'मित्यादि, अर्थभेदस्तु यथा ' आवंती केयावंती लोगसि विपरामुसंति' इत्याचारसूत्रे यावन्तः केचन लोके अस्मिन् पाखण्डिलोके विपरामृ. शन्तीत्येवंविधार्थीमिषाने अवन्तिजनपदे केया-रज्जुर्वान्ता पतिता लोकः परामृशति कूप इत्याह, तदुभयभेदस्तु द्वयोरपि याथात्म्योपमर्दैन यथा 'धर्मो मङ्गलमुत्कृष्टः अहिंसापर्वत- मस्तक इत्यादि, अन दोषश्च व्यञ्जनभेदेऽर्थभेदस्त दे क्रियाभेदस्वभेदे मोक्षाभावस्तदभावे 18 च निरर्थिका दीक्षेति । एवश्व ज्ञानाचारान् यः प्रतिसेवते स ज्ञानप्रतिसेवनाकुशीलो पोध्या, एवं दर्शनं दर्शनाचारं वैपरीत्येनासेवते स दर्शनप्रतिसेवनानुशीलः । दर्शनं सम्यक्त्वं वदाचारः निश्शक्षितत्वादिष्टविधः निश्शङ्कितनिष्कांक्षितनिर्विचिकित्साऽमूढदृष्टषुपबृंहण- स्थिरीकरणवात्सल्यप्रभावनाभेदात् । शङ्कितं सन्देहस्तस्याभावो निःशङ्कितम् , कांक्षा अन्या- न्यदर्शनग्रहस्तदभावो निष्कांक्षित, विचिकित्सा मतिविभ्रमः युक्त्याऽऽगमोपपन्नेऽप्यर्थे फलं 20 प्रति संमोहः तदभावो निर्विचिकित्सम् । अमूढाऽविचला तपोविद्यातिशयादिकुतीर्थिकर्चि- दर्शनेऽप्यमोहस्वभावा दृष्टिस्सम्यग्दर्शनममूढदृष्टिः, उपबृंहणं समानधार्मिकाणां क्षमणावैया- वृत्त्यादिसद्गुणप्रशंसनेन तत्तगुणवृद्धिकरणम् , स्थिरीकरणं धर्माद्विषीदतां तत्रैव चारुवचन- चातुर्यादवस्थापनम् , वात्सल्यं समानदेवगुरुधर्माणां भोजनवसनदानोपकारादिमिस्सम्मा- ननम्, प्रभावना धर्मकथाप्रतिवादिविजयदुष्करतपश्चरणकरणादिमिर्जिनप्रवचनप्रकाशनम् , 25 यद्यपि च प्रवचनं शाश्वतत्वाचीर्थकरभाषितत्वात्सुरासुरनमस्कृतत्वाता स्वयमेव दीप्यते तथापि दर्शनशुद्धिमात्मनोऽभीप्मुर्यो येन गुणेनाधिकः स तेन वप्रवचन प्रभावयति-यथा भगवदाचार्यवनस्वामिप्रभृतिक इति । तदेवं दर्शनाचार या प्रतिसेवते स दर्शनप्रतिसेवना. कुशील उच्यते । एवं चारित्राचारा अष्टौ प्रणिधानयोगयुक्तस्य पञ्चसमितयषिगुप्तय इति । , - :१५८ १ 'तस्वन्यायविमाकरे [ तृतीयकिरणे तान, या प्रतिसेवते स चारित्रप्रतिसेवनाकुशीलः । तपआचांरास्तु द्वादशविधा बाह्याभ्यः न्चररूपाः तद्विराधकस्तपःप्रतिसेवनाकुशील इति । यद्वा चरणप्रतिसेवनाकुशीलो यः कौतुक- भूविकर्मप्रश्नप्रिनिमिचाजीवकल्ककुरुकालक्षणविद्यामन्त्रादीन्युपजीवति सा, तत्र कौतुकं आश्वयं यथा मायाकारको मुखे गोलकान् प्रक्षिप्य कर्णेन निष्काशयति नासिकया वा। 5. तथा मुखाग्नि निष्कासयतीत्येवंभूतम्, भूतिकर्म नाम यजवरितादीनामभिमंत्रितेन क्षारेण रक्षाकरणम् |. प्रश्नाप्रश्नं नाम-यत्स्वमविद्यादिमिा शिष्टस्यान्येभ्यः कथनम् । निमित्वं नामातीतादिभावकथनम् । आजीवो नामाऽऽजीविका सच जात्यादिभेदस्सप्तप्रकारः । कल्को नाम प्रसूत्यादिषु रोगेषु क्षारंपादनमथवाऽऽत्मनश्शरीरस्य देशतसर्वतो वा लोधादि- मिरुद्वर्त्तनम् । कुरुका नाम देशतस्सर्वतो वा शरीरस्य प्रक्षालनम् । लक्षणं. पुरुषलक्षणादि । 19 तथा विद्यामंत्राथुपजीवकः ससाधना विद्या, असाधनो मंत्रः, यद्वा यस्याधिष्ठात्री देववा सा विद्याः यस्य चाधिष्ठाता देवस्स मंत्रा, आदिना मूळकर्मचूर्णादीनां प्रहणं, मूलकर्म-गोत्पादन गर्भपातनमित्यादिचूर्णादयस्तु'. प्रसिद्धा एव.।. यथासूक्ष्मप्रतिसेवनाकुशीलमाह-शोमनेति । अयं शोमनस्तपस्वीत्येवंविधलोकायुक्तप्रशंसाश्रवणजन्यसंतोषवान कुशील, इत्यर्थः ॥ 'कषायकुशीलस्यापि भेदानाह- संज्वलनक्रोधादिमिनिदर्शनतपस िस्वाभिप्रेतविषये व्यापारयिता ज्ञानादिन्त्रिविधकषायकुशीलः । कषायाक्रान्तश्शापमदा कुशीलश्चारित्र कषायकुशीलः । मनसा कोषादिकर्ता कुशीलो यथासक्ष्मकषायकुशील। संज्वलंनेति । संज्वलनक्रोधादिना स्वाभिप्रेतविषये विद्यादिज्ञानं दर्शनग्रन्थं च प्रयु ५. खानः तपसा शापं ददत् , चारित्रतो लिङ्गान्तरं कुर्वन् ज्ञानकषायनुशीलो. दर्शनकषायकु. 20 शीलः चारित्रकषायकुशीलस्तपःकषायकुशीलन भवतीत्यर्थः । मनसा केवलं क्रोधादीन कुर्वन्. यथासूक्ष्मकायकुशील इति ॥ : अंथ निम्रन्थमाह- निर्गतमोहनीयमात्रकर्मा चारित्री निर्ग्रन्थः । स चोपशान्तमोहा क्षीणमोहश्चेति द्विविधः। संक्रमणोद्वर्त्तनादिकरणायोग्यतया व्यवस्थापितः 25 मोहनीयकर्मोपशान्तमोहः । क्षपितसर्वमोहनीयप्रकृतिको निर्धन्या, क्षीणमोहः ॥ । निर्गति दन्यतो भावतश्च मिथ्यात्वादिमोहनीयकर्मभ्यो निर्गतश्चारित्री निर्मन्थ 15 . - . - मिश्रन्या -- न्यायप्रकाशसमलते इत्यर्थः । क्रोधादिमिरान्तरमन्थैस्सर्वैरपि केचिद्विप्रमुक्ताः केचिच्च सहिता भवन्ति, ये सहितास्ते पुलोकबकुशकुशीला उक्ताः । यस्तु सर्विप्रमुक्तस्सोऽपि तेषामुपशमावस्यां क्षयावस्थाश्चा- भ्युपगम्य द्विविधो भवतीत्याशयेनाह स चेति-उपशान्तमोहनिर्मन्थमाह-संक्रमणेति, यो विद्य- मानानपि कषायानिगृहाति संक्रमणोद्वर्तनायोग्यं करोति, उदीयमानानेव प्रथमतो निरुणद्धि, स सतामपि कषायाणामसत्कल्पकरणात्सरागसयतोऽपि उपशान्तकपायनिर्भन्थो भवतीति 5 मावः । क्षीणमोहनिर्मन्थमाह क्षपितेति, यस्तु संज्वलनकपायादीनामुदयनिरोधोदयप्राप्तवि- फलीकरणाभ्यां क्षयकरणायोद्यतस्सन्नन्तरमन्थनिग्रहप्रधानो भवति स विशेषेणापुनर्भावण रागस्य गतत्वाद्वीतरागः क्षीणमोहनिम्रन्थ उच्यत इति भावः ॥ अस्यैव प्रकारान्तरेण भेदमाह- द्विविधोऽपि स प्रथमाप्रथमचरमाचरमसमययथासूक्ष्मभेदात्पञ्च- 10 विधः । अन्तर्मुहूर्तप्रमाणे निर्ग्रन्थकालसमयराशौ प्रथमसमय एव नि- ग्रन्थत्वं प्रतिपद्यमानः प्रथमसमयनिर्ग्रन्थः । अन्यसमयेषु विद्यमानो- प्रथमसमयनिर्ग्रन्थः । अन्तिमसमये विद्यमानश्चरमसमयनिर्ग्रन्थः । शेषेषु विद्यमानोऽचरमसमयनिर्ग्रन्थः । आद्यौ पूर्वानुपूर्ध्या अन्त्यौ च पश्चानुपूा व्यपदिष्टौ । प्रथमादिसमयाविवक्षया सर्वेषु समयेषु.वर्त- 15 मानो यथासूक्ष्मनिर्ग्रन्थः ॥ द्विविधोऽपीति । उपशान्तक्षीणमोहरूपोऽपीत्यर्थः । प्रथमसमयनिर्ग्रन्थमाहान्तर्मुहुर्त- प्रमाण इति, उपशान्तमोहत्वक्षीणमोहत्वान्यवररूपनिम्रन्थत्वस्यान्तर्मुहूर्तमानत्वात्तदूर्व परि- णामान्तरपासेरिति भावः । प्रथमसमय एवेति, उपशान्तमोहत्वादिरूपो यो भावो यत्समया- वच्छेदेन जीवेनावाप्तपूर्वस्तादृशभावविशिष्टस्तत्समयस्तस्य जीवस्याप्रथमसमयभाव उच्यते, 20 अप्राप्तपूर्वमावसम्बद्धसमयस्तु प्रथमसमय उच्यते तदानीमेव प्राप्तत्वात् , उक्तञ्च 'जो जेण पत्तपुब्यो भावो सो तेण अपढमो होइ । सेसेसु होइ पढमो अपत्तपुन्चेसु भावेसु' इति तत्र वाशप्रथमसमयावच्छिन्ननिर्मन्थत्वात् प्रथमसमयनिन्ध इति भावः । प्राप्तपूर्वभावविशिष्ट- समयवानप्रथमसमयनिर्मन्थ इत्याहान्यसमयेष्विति, अप्राप्तपूर्वभावसम्बद्धसमयान्यतदा- बसम्वद्धसमयेष्वित्यर्थः । चरमसमयनिर्ग्रन्थमाहान्तिमसमय इति, चरमत्वं पर्यन्तवार्तवं 25 तञ्च सापेक्षिक, तथा च .निर्मन्यावस्थायाः यावन्तस्समयास्तेषु प्रान्तपर्तिसमयविशिष्टनि- ग्रन्थावस्थावान् चरमसमयनिम्रन्थ इत्यर्थः । तत्पूर्ववर्तिसमयविशिष्टनिन्थावस्थावांस्त्वचरम- समवनिर्मन्थ उच्यत इत्याह शेपेविति प्रान्तसमयपूर्ववर्तिसमयेष्वित्यर्थः । ननु अथमा- .

. तवन्यापविमाकरे हितीविरल प्रथमसमयनिप्रन्थयोश्चरमाचरमनिर्भन्थयोः किं कृतो विशेष इत्यत्राहायाविति, पूर्वानुपूयेति, विवक्षितसमयसंमुदाय यः प्रथमस्तस्मादनुक्रमेण परिपाटिविरच्यते चेत्तदा स.क्रमः पूर्वानु- पूर्वोत्युच्यते तामवलम्ब्याधद्वयभेद आहत इति भावः । अन्त्यो चेति पश्चानुपूष्यति, तंत्र या पाश्चात्यचरमस्तस्मादारभ्य व्यत्ययेन क्रमपरिपाटिर्विरच्यते चेत्तदा स क्रमः पश्चानुपूर्वी 5 त्युच्यते, वामवलंब्यान्त्यभेदद्वय उक्त इत्येष विशेष इति भावः । यथासूक्ष्मनिर्ग्रन्थमाह प्रथमादीति, निर्विवक्षितसमयविशेषो वस्तुतस्तत्समयेषु वर्तमानो निन्थो अथासूक्ष्म- निर्ग्रन्थ इत्यर्थः॥ अंथ स्नातकमादर्शयति- निरस्तघातिकर्मचतुष्टयस्स्नातकः । स सयोग्ययोगिभेदेन द्विविधः 10 मनोवाकायव्यापारवान् स्नातकस्सयोगी । सर्वथा समुच्छिन्नयोगव्या- पारवान स्नातकोऽयोगी॥ निरस्तेति । क्षालितसकलपातिकर्ममलत्वात्स्नात इव स्नातस्स एव स्नातक इत्यर्थः, स्नाकवच क्षपकश्रेणीत एव लभ्यते । अस्यापि द्वैविध्यमाह स इति, सयोगिनमाह मन इति योगो वीर्य शक्तिरुत्साहः पराकम इति पर्याया:, स च मनोवाकायलक्षणकरणमेदाचित्र: 15 संज्ञा लभते मनोयोगो वाग्योगः काययोगश्चेति, ईशयोगत्रयविशिष्टस्स्नातकस्सयोगीत्युच्यते मनःपर्यायज्ञानिप्रभृतिभिर्मनसा पृष्टस्य देशनाय मनोयोगस्य, धर्मदेशनादौ वाग्योगस्थ, निमेषो. न्मेषचंक्रमणादौ काययोगस्यावश्यकत्वादिति भावः, अयोगिनमाह सर्वथेति, सर्वथायोग- निरोधोत्तरं शैलेश्यवस्थावानित्यर्थः । योगनिरोधशैलेशीकरणञ्च पूर्वमेवोपदर्शितम् ।। अथ स्वरूपतोऽभिहितानामेषां चारित्रिणामनुयोगद्वारैस्साधनायाह- संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानैर्विचार्या एते । पुलाक- बकुशप्रतिसेवनाकुशीलास्सामायिकसंयमे छेदोपस्थाप्ये च वर्तन्ते । कषायकुशीलाः परिहारविशुद्धौ सूक्ष्मसम्पराये च। निर्ग्रन्थाः स्नातकाच यथाख्यात एव।। संयमेति । अष्टावेवान्यनुयोगद्वाराणि संक्षेपेणोकानि नातो न्यूनता शङ्का कार्या । पत्र 25 कस्मिन् संयमे के भवन्तीत्यत्राह पुलाकेवि । सप्रभेदा एते आधचारित्रद्वय एव वतन्त्र इत्यर्थः, कषायकुशीला इति, वस्वार्थमाध्यानुसारेणैवमुक्तिी, भगवत्यायनुसारेण तु आथ- होमि भवत्येत ति बोध्यम । शिष्ठं सष्टम् ॥ 20 10 बाराणि न्यायप्रकाशसमलते १०१: पुलाकवकुशंप्रतिसेवनाकुशीला उत्कर्षेणानूनकाक्षराणि दशपूर्वाणि श्रुतानि धारयन्ति, कषायकुशीला निर्ग्रन्थाश्च चतुर्दशपूर्वधराः, जघन्येन पुलाकानां श्रुतमाचारवस्तु, बकुशकुशीलनिर्ग्रन्थानामष्टौ प्रवचनमातरम्, स्नातकास्तु श्रुतरहिताः केवलज्ञानवत्वात् ॥ पुलार्केति । अनूनेति, एकेनाप्यक्षरेणान्यूनानि दशपूर्वाणीत्यर्थः । कषायेति चतुर्दशेति, 5 उत्कर्षेणेदं वोध्यम् , आचारवस्त्विति, नवमपूर्वान्तःपातितृतीयमाचारवस्तु यावत्तेषां श्रुत- मित्यर्थः । अष्टौ प्रवचनमातर इति, एतत्पालनरूपत्वाचारित्रस्य, तथा च चारित्रिभिरव- श्यं तावदानवद्भिर्मवितव्यं चारित्रस्य ज्ञानपूर्वकत्वात् तज्ज्ञानञ्च श्रुतादिति तेषामष्टप्रवचन- मातृप्रतिपादनपर श्रुतं बोध्यम् , अवशिष्टं मूलं स्फुटार्थम् ।। प्रतिसेवनाद्वारमाह- क्षपाभोजनविरतिसहितपञ्चमूलगुणानामन्यतमं बलात्कारेण प्रति- सेवते पुलाका, बकुशो मूलगुणाविराधक उत्तरगुणांशे विराधका, प्रति- सेवनाकुशीलो मूलगुणाविराधक उत्तरगुणेषु काश्चिद्विराधनां प्रतिसेवते, कषायकुशीलनिर्ग्रन्थस्नातकानां प्रतिसेवना नास्ति । क्षपामोजनेति । बलात्कारेणेति राजादिकृतबलात्कारेण न तु स्वरसत इति तत्त्वार्थ- 15 भाष्यानुसारेण । भगवत्यनुसारेण पञ्चानां महावतानामन्यतम प्रतिसेवेत, उत्तरगुणान् प्रविसेवमानो दशविधप्रत्याख्यानान्यतम प्रतिसेवेवेति, उचरगुणांशे विराधक इति, दश- विधपत्याख्यानान्यतमं विराधयतीत्यर्थः । काचिदिति तत्त्वार्थभाज्यानुसारेणेदम् , भगव- त्यान्तु प्रतिसेवनाशील पुलाकवदुक्तः ॥ तीर्थद्वारमाह- पुलाकादयस्सर्वे सर्वेषां तीर्थकृतां तीर्थेषु भवन्ति । पुलाकादय इति । तरन्त्यनेनेति तीर्थ प्रवचनं प्रथमगणधरो वा, तीर्यतेऽनेनेति वा वीर्य सहो ज्ञानदर्शनचारित्रगुणयुता, प्रवचनमपि श्रुतज्ञानरूपत्वाचीर्थमेव, वन जैनमेव तीर्थ अभिप्रेवार्थसाधक, सम्यक्षद्धानोपलब्धिक्रियात्मकत्वाद्यदेवं तदेवं यथा सम्यक्परि- च्छेदवती रोगापनयनक्रिया यन्नैवं तत्तु नैवं यथोन्मत्प्रयुक्तक्रिया । नेतरेपो तीर्थानि अभि- 98 प्रेतफलानि, समप्रनयविकलत्वात् , विफलक्रियावत्, मिषक्प्रतिचारकातुरौषधाधन्यत- - - 20 यथा - 10 " तस्वन्यायविभाकरे... [ तृतीयकिरणे मानविकला क्रिया न सम्पूर्णाभिप्रेतफलसाधनभूता तथैतदन्यतीर्थान्यप्रीति । तीर्थेषु भव- न्तीति, तत्त्वार्थमाष्यानुसारेणेदम्, भगवत्यान्तु पुलाकवकुशप्रतिसेवनाकुशीलास्तीर्थे एव, कषायकुशीलनिम्रन्थस्नातकास्तु तीर्थे वाऽतीर्थे वा भवन्ति, कषायकुशीलः छमस्थावस्थायां तीर्थकरोऽपि स्यात्चदपेक्षया, तीर्थव्यवच्छेदे ..तदन्योऽप्यसौ स्यादिति तदन्यापेझया 5 चातीर्थेऽपि स्यादिति ॥ लिङ्गद्वारमाह- ज्ञानदर्शनचारित्ररूपभावलिङ्गानि सर्वेषां स्युः, रजोहरणादिद्रव्य- लिङ्गानि तु केषाश्चित्सर्वदेव भवन्ति, केषाश्चित्कदाचित्, केषाश्चिच नैव भवन्ति ॥ ज्ञानेति । लिङ्गं द्विधा, द्रव्यभावभेदात् , भावलिङ्ग ज्ञानादि, एतञ्च स्वलिगमेव, ज्ञानादिमावस्याईतामेव भावात् , द्रव्यलिङ्गन्तु स्वलिङ्गपरलिङ्गभेदावधा, रजोहरणादि स्वलिङ्गम्, परलिगमपि कुतीथिंकगृहस्थलिङ्गभेदाविविधम्, वत्र भावलिङ्गस्य तदन्तरा चरणासम्भवात्सर्वेषामस्तित्वमेवेत्याह ज्ञानेति, द्रव्यलिङ्गमामित्याह रजोहरणादीति, चरण- परिणामस्य द्रव्यलिङ्गानपेक्षत्वाधिविधलिड्नेऽप्येते भवन्तीति भावः । नैव भवन्तीति, यथा 15 मरुदेवीप्रभृतीनामिति ॥ लेश्याद्वारमाह- पुलाकस्योत्तरास्तिस्रो लेश्याः,, बकुशमतिसेवनाकुशीलयोषडपि, परिहारविशुद्धिस्थकषायकुशीलस्योत्तरास्तिस्रा, सूक्ष्मसम्परायस्थस्य तस्य निर्ग्रन्थस्नातकयोश्च केवला शुक्ला लेश्या, अयोगस्य शैलेशीप्रतिपन्नस्य 20 न काचिदपि भवति ॥ पुलाकस्येति । लेश्याः पूर्वोक्ताः, उत्तरा इति, भावलेश्यापेक्षया वेजःपद्मशुखलेश्या- स्विस्र इत्यर्थः । बकुशेति, षडपीति, तत्त्वार्थभाष्यानुसारेणेदम् , भगवत्यान्तु पुलाकस्येवेत्यु. कम् । परिहारविशुद्धिस्थेति, तिस्र इति तेज:पद्मशुद्धलेश्या इत्यर्थः, तत्त्वार्थानुसारेणेदम्, भगवत्यान्तु कषायकुशीलस्तु षट्स्वपीत्युक्तम् , तन्याख्यायां सकपायमेवानित्य " पुषपडि- 25 वण्णओ पुण अण्णयरीए लेस्साए " इत्येतदुक्तमिति संभाव्यत इति दृश्यते । तस्येवि कषायकुशीलस्येत्यर्थः । केवलेति, अन्यलेश्यानिरपेक्षेबर्थः । स्नातकस्य परमशुक्लेश्या प्रोता मग त्यां, परमशुक्ललेश्या.च शुक्लध्यानतृतीयभेदावसरे या लेश्या सा, अन्यदा तु शक्लेव, सापीतरबीवशुञ्जलेश्यापेक्षया स्नातकस्य परमशुक्लेति । शिष्टं सष्टम् ॥ म - द्वाराणि- न्यायप्रकाशसमलते :६०३: .' उपपातद्वारमाह- पुलाकस्योपपात आसहस्रारं, बकुशप्रतिसेवनाकुशीलयोदशदे- वलोके । कषायकुशीलनिर्ग्रन्थयोस्तु सर्वार्थसिद्धे । सर्वेषामपि. जघन्यः पल्योपमपृथक्त्वस्थितिके सौधर्मे । स्नातकस्य निर्वाणे ॥ पुलाकस्येति । उपपात: पूर्वजन्मपरित्यागेन स्थानान्तरप्राप्तिः। आसहस्रारमिति, 5 उत्कणेदम् । बकुशप्रतिसेवनाकुशीलयोरिति, द्वादशदेवलोक इति, अच्युत इत्यर्थः । सर्वार्थसिद्ध इति, निर्ग्रन्थस्याजघन्योत्कृष्टत्वं बोध्यम् । सर्वेषामपीति, जघन्ययोग्यानां सर्वे- पामित्यर्थः, तथा च पुलाकवकुशकुशीलानां जघन्येन सौधर्मे कल्पे उपपात इति भावः, पल्योपमपृथक्त्वस्थितिक इति, पल्योपमस्य द्विप्रभृत्यानवभ्यः पृथक्त्वपरिभाषणात् तावस्थिविक इत्यर्थः । उत्कर्पेण तु पुलाकस्य तत्राष्टादशसागरोपमा स्थितिकुशस्य द्वावि- 10 शतिसागरोपमस्थितिः । एवं प्रविसेवनाकुशीलस्यापि, कपायकुशीलस्य तु त्रयविंशत्सा- गरोपमा स्थितिरस्वस्वोत्कृष्टलोकेष्विति ज्ञेयम् ॥ - स्थानद्वारमाह- पुलाककषायकुशीलयोर्लब्धिस्थानानि सर्वजघन्यानि।तो युगपदसंख्ये- यानि स्थानानि गच्छतः। ततःपुलाको व्युच्छिद्यते।कषायकुशीलस्तु गच्छ- 15 त्यसंख्येयस्थानान्येककः । ततः कषायकुशीलपतिसेवनाकुशीलवकुशा युगपदसंख्येयानि संयमस्थानानि गच्छन्ति, ततो षकुशो व्युच्छियते ततोऽसंख्येयस्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते ततोऽसंख्ये- यस्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते, अत ऊर्ध्वमकषायस्थानानि निर्ग्रन्थः प्रतिपद्यते । सोऽप्यसंख्येयस्थानानि गत्वा व्युच्छिद्यते, अंत 10 ऊर्ध्वमकषायस्थानानि निर्ग्रन्थः प्रतिपद्यते । सोऽप्यसंख्येयस्थानानि गत्वा व्युच्छिद्यते, अत अलस्थानं गत्वा स्नातको निर्वाण प्रामोतीति दिक् ॥ इति पुलाकादिनिरूपणम् ।। पुलाकेति । पुलाको बकुशप्रतिसेवनाकुगीलापेक्षया वयाविषविशुद्धयभावेन हीन एव स्यात् , कषायकुशीलापेक्षया हीनो वा स्यात्, अविशुद्धसंयमस्थानवृचित्वात, तुल्यो वा 25 समानसंयमस्थानवृत्तित्वात् , अधिको वा स्याच्छुद्धतरसंयमस्थानवृत्तित्वात् । यतः पुलाकस्य । कपायकुशीलस्य च सर्वजघन्यानि संयमस्थानान्यघ इति भावः । युगपदसंख्येयानीति, तुल्याभ्यवसायत्वादिति भावः । न्युच्छिद्यत- इति हीनपरिणामत्वादिति भावः- तु शब्देन .

:०४ तत्वन्यायविभाकरे [ तृतीयकिरणे पुलाके व्युच्छिन्नेऽपीति गम्यते । एकक इति, शुभवरपरिणामत्वादिति भावः, निर्वाणमिति, मोक्ष कृत्स्नकर्मक्षयरूपमित्यर्थः,निखिलनयाभिप्रेतार्थत्वात् ,जैनदर्शने च षड्दर्शनसमूहमयत्वस्य सम्मतत्वात् , तथाहि ऋजुसूत्रादिमिर्नयैः ज्ञानसुखादिपरम्परा मुक्तिरिष्यते, तैरत्तरोत्तरषि- शुद्धपर्यायमात्राभ्युपगमात्, क्षणविद्यमानत्वेन ज्ञानादीनां क्षणरूपतायास्सिः क्षणविद्यमा- 5 नत्वस्य क्षणतादात्म्यनियतत्वात् , क्षणस्वरूपे तथादर्शनात् | सङ्ग्रहेण त्यावरणोच्छिन्त्या व्याय सुखं मुक्तिरिसभ्युपगम्यते, व्यवहारेण प्रयत्नसाध्या कर्मणां क्षयो मुक्तिरिष्यते, दुःखहेतु- नाशोपायेच्छाविषयत्वेन परमपुरुषार्थत्वात् ज्ञानादिषु दुखोपायनाशहेतुषु प्रवृत्ति यत एवेति । अन्तेऽस्य अन्थस्य निर्वाणपदनिर्देशेन पर्यन्तमालमपि शिष्यपशिष्यपरम्परया ग्रन्थस्यास्याविच्छेदफलक निबद्धमिति सूचितम् । अन्येऽस्मिन् सर्वे विषया न पूर्णतया 10 दर्शिता, अपि तु लेशत एवेत्याशयेनाह दिगिति। पुलकादिचारित्रिनिरूपणं निगमयतीतीति ।। सम्यक्चरणनिरूपणमपि निगमयति- - जिज्ञासूनां यथाशास्त्रं सम्यक्चरणमीरितम् । स्वरूपेण विधानेन सम्यग्ज्ञानाभिवृद्धये ॥ जिज्ञासनामिति । जैनतत्वज्ञानाभिलाषिणामित्यर्थः, यथाशास्त्रमिति, शास्त्रमर्या- 18 दामनुल्लड्ध्येत्यर्थः, सम्यक्चरणमीरितमिति, चर्यते मुसुक्षुमिरासेव्यत इति चरणं यक्षा चर्यते प्राप्यते परं पारं भवोदधेरनेनेति चरणं व्रतश्रमणधर्माविरूपं, सम्यगविपरीतं मोक्ष- सिद्धि प्रतीत्यानुगुणं यच्चरणं तदीरिवं कथितमित्यर्थः, कथमित्यत्राह स्वरूपेण विधानेनेति, लक्षणेन प्रभेदेन चेत्यर्थः, किमर्थमित्यत्राह सम्यग्ज्ञानाभिवृद्धय इति, श्रोतृणां स्वस्य च सम्य- रज्ञानस्य विवृत्यर्थमित्यर्थः ॥ 20 इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर- चरणनलिनविन्यस्तभक्तिभरण तत्पट्टधरेण विजयलधिसूरिणा विनिर्मितस्य तस्वन्यायविमाकरस्य स्वोपक्षायां न्यायप्रकाशव्याख्यायां पुलाकादि- निरूपणं नाम तुतीयः किरणः ॥ पूर्वर्षिकृतशास्त्राणां सारमादाय केवलम् । रचितेयं मया टीका मूलस्येव विभाव्यताम् ।। 25 तुतीयो भागः समाप्तः॥ + ममा व्याख्यासहितस्तस्सन्यायविमाकरः ॥ इति शिवमस्तु ।।

मुनिश्री मद्रकरविजयजीविरचितो ग्रन्थप्रशस्तिरूपः ग्रन्थकारपरम्परापरिचयः॥ 5 10 - शकश्रेणीमुकुटमणिभिः स्पृष्टपादारविन्दा, स्याद्वादीशश्वरमजिनपो वर्धमानः श्रियोढः । ज्ञानानन्त्यो यतिततिलतापूर्वबीजं विरागः, भूयाभूत्यै सुकृतिकृतिनां शासनाधीश्वरोऽसौ ॥१॥ तत्पट्टाने हिमरुगिव यो भासते कान्तकान्तिः, विद्याम्मोधिः प्रथितगणभृत्पञ्चमः संयताक्षः । प्रातध्येयन्त्रिदिवपतिवत्सत्सुधर्माश्रितः सः, होय स्तात्सहृदयहृदां श्रीसुधर्मशिता वै ॥२॥ जम्बूः कम्बूशवलतस्यशास्तत्सुपट्टाजपूपा, नन्योढाभिर्जितसुभगतास्वर्गरम्मोर्वशीभिः । जहे स्त्रीमिः सुदृढमनसो यस्य यूनो मनो नो, वात्यामियों वितरतु यथा मेरुकूटं स सौख्यम् ॥ ३॥ तत्पप्राक्शिखरिरवयः श्रीलजम्बूपदेशाद्, दीक्षा प्राप्त प्रभवविभवो येऽभवन्पान्तु ते का। अर्हन्मूल् कुमततिमिरं सूर्यदीप्त्येव नष्टं, तत्पद्देशोऽवतु सुमनसो यस्य शय्यम्भवः सः ॥ ४॥. ततो यशोभद्रगुरुर्वभूव, तत्पदृशुद्धाम्बरपुष्पदन्तौ । सम्भूतविद्वन्मणिभद्रबाहू, उभावभूतां कुमताजराहू ॥ ५ ॥ वेश्यावश्मन्युषित्वा त्रिभुवनविजयी येन कामो विजिग्ये, कोशावेश्याकटाक्षप्रस्मरविशिखानिर्जितस्वान्तयोधः । कीर्तिः प्रातत्रिलोक्यां नरसुरदनुजैः कीर्त्यते यस्य नित्यं, भद्र.स स्थूलभद्रो-दिशतु मतिमतां पट्टानं तयोर्यः ॥ ६ ॥ 15 20 25 5 10 10 : प्रन्थकारपरम्परापरिचयः श्रीमन्महागिरिसुहस्तिगुरू अभूतां, तत्पमालतिलको च सुहस्तिशिन्यौं । श्रीसेस्थितो विभुषसुप्रतिबुद्ध एतौ, जातौ च कौटिकगणा समभूत्ततोऽसौ ॥७॥ क्रियास्वखिमोऽभवदिन्द्रविन्ना, ततोऽभवच्च बतिदिन्नसूरिः। गम्भीरवक्षा गिरिवत्सुधीर, ततोऽभवत्सिंहगिरिः सुवीरः ॥ ८॥ वज्रस्वामी जिनशिखरिध्वंसवजोपमाना, बाल्येऽपाठीमतिसुरगुरुयोऽखिलैकादशाङ्गीम् विद्याधीशः समजनि यतो वज्रशाखा प्रभाब्या, विश्वं पायाद्रवननदवात्सैष तत्पराजः ॥ ९ ॥ श्रीवसेनो विजिताक्षसेनः, तत्पपूर्वाद्रिरविभूवं । तत्पट्टरत्नो गुरुचंद्रसरिः, ततोऽभवञ्चान्द्रकुलस्य मूलम् ॥ १० ॥ सामन्तभद्रा कृतमध्यभद्रा, ततोऽजनि स्वागमपारदृश्या- विद्याक्रियासत्त्वकृपासमुद्रा, निरस्ततन्द्रो नतभूरिमरिः ॥ ११ ॥ श्रीवृद्धदेवोजनि सरिवर्यः, तत्पट्टपूर्वाचलचित्रभानुः । साधुक्रियाकर्मठताप्रतीतः, ज्ञानप्रमोदप्रतिपूर्णचेताः ॥ १२ ॥ श्रीपयोतनसरिराट् समभवत् तत्पट्टपुण्ड्रायितो. देवीमिर्विजयादिभिश्चतसृमिः संसेव्यपादद्वयः । यः शान्तिस्तवगुम्फतः समहरन्मारि दयामेदुरा, तत्पट्टाभरणं सुखं दिशतु वा श्रीमानदेवः कृती ॥ १३ ॥ अद्वैतव्रतिमानतुझंविबुधः सिद्धान्तपारङ्गता, श्रीभक्तामरकान्यचारुरचनाचातुर्यचञ्चुः सुचित् ।' तत्पट्टामलहारनायकमणि-स्तन्याद्रमां धीमतां, विद्याविनमहीप्रतीतमहिमाऽर्हच्छासनामार्यमा ॥१४॥ यो नागपूर्या नमिनाथविम्ब, प्रातिष्ठिपत्स्फारमहत्त्वपूर्णम् । श्रीवीरसैरिः समभूत्तः सः, तत्पशेषोरंगवासुदेवः ॥ १५ ॥ तत्पढे जयदेवरिरभव-चारित्रपावित्र्यमृद्। देवानन्दगुरुस्तता समजनि त्राता प्रवत्प्राणिनाम् । 15 20 -- 25 1. W . 14 . । 10 . , সময়রিং, विद्वान् विक्रमैसूरिराङ गणपतिनिग्रन्थ आसीत्ततः, योगिश्रीनरसिंह रिषभो,जोऽथ विशेश्वरः ॥ १६ ॥ श्रीनागदतीर्थरक्षणकृते नग्नाटजेता क्षणाद , तत्पद्देशसमुद्रसूरिनृपतिः सज्ञाततचोऽभवत् । सञ्जातो हरिभद्रसरिसवयाः श्रीमानदेवस्तता, आसीच्छीविधप्रभो यतिपतिः प्राज्ञप्रकाण्डस्ततः ॥ १७ ॥ . भन्यानन्ददरिवलजजयानन्दस्ततो जातवान् , भक्ताम्भोजरवी रविप्रभगुरु संख्यावतामग्रणी। सूरीशोऽजनि शुद्धकीर्तिकर्यशोदेवो बभूवाँस्ततः, प्रद्युम्नस्मयहत्ततः समजनि प्रद्युम्न सूरीश्वरः ॥ १८ ॥ येनाकार्युपधानवान्यरुचिरग्रन्थो मुदे ज्ञानिनां, उत्पेदे स ततस्तपोधनवरः श्रीमानदेवः प्रभुः । जज्ञे श्रीविमलादिन्द्रसुगुरुः सत्स्वर्णसिद्धिस्ततः, जेवा गोपगिरीशकोविदमणे दाङ्गणे शास्त्रवित् ॥ १९ ॥ वेदावामिते समं सुमनुजैः श्रीवैक्रमान्दे गते, श्रीलोद्योतनरिराट् प्रविहरन् पूर्वावनीतः सुधीः । आगात्सोर्बुदमुख्यशैलसविघे टेलीवटदोरया, लग्नेऽच्छे स्वपदेऽष्टमरिकृषमान प्रातिष्ठिपत्पावनः ॥ २०॥ सन्मौक्तिकाच्छो वटसंज्ञगच्छा, ततो जगत्यां सुगुणैकगुच्छः । अपप्रथव्यासतमोऽपहारी, यथाऽन्तरिक्ष सवितुः प्रकाशः ॥ २१ ॥ श्रीसर्वदेवो नतसर्वदेवः, प्रशस्यशिष्यैः कृतपादसेवः । प्रख्यातकीर्तिः प्रथमोज सरिः, जज्ञेऽथ तत्पट्टसरसरोजम् ।। २२ ॥ रूपश्रीविरुदं प्रजेशसविधात्माप्तं स्ववैदुष्यतः, येन श्रीयुतदेवसँरिनृपतिर्जातः स विज्ञस्ततः । तत्पडेजनि सरिशेखरवरः श्रीसर्वदेवः पुनः सद्विद्याललनाविलाससदनं चारित्रिचूडामणिः ॥ २३ ॥ . 15 . . , 4 20 । , 10 জাবেথত্রিকা ततो यशोभद्रकनेमिचन्द्रो तत्पट्टभद्रासनमुख्यराजौ।.. जातौ मुनी संयमशौर्यभाजौ, द्वौ कोविदौ सरिवरौ सतीखें ॥ २४ ॥ अतात्यजीद् यो विकृतीः समया, अपात्सदा.काश्चिकनीरमेकम् । सोऽभूचतः श्रीमुनिचन्द्रसूरि तत्पशाली शमवीचिमाली ॥ २५ ॥ आचार्यवजितदेववादि-श्रीदेवसरिप्रमुखा अभूवन् । प्राज्ञा विनया विनयप्रशस्या, शिष्येषु धुर्या मुनिचन्द्रसरेः ॥ २६ ॥ तत्रादिमाच्छीजयसिंहसरिः, कुशाग्रबुमा जितदेवसरिः । जज्ञे मुनीश: कविचक्रवर्ती, दिगन्तरालप्रथितातिकीर्तिः ॥ २७ ॥ सोमप्रभाचार्यवरः शवार्थी, पूर्वो द्वितीयो मणिरत्नसुरिः। उमौ च तस्याभवतां विनेयो, प्रतीक्ष्यपादौ जितवादिवादौ ।। २८ ।। सानुग्रहप्रचरणप्रथितोदयो यः, स्वं सानुमानिव बभौ मणिरत्नपट्टे । चारित्ररत्नखनिमान् गुणधातुपूर्णः, कल्याणराजिजटिल सुरसेव्यपादः ॥ २९॥ श्रीमज्जगचन्द्रमुनीन्द्रमुख्यः, तत्वज्ञराट् चान्द्रकुलाधिचन्द्रः । चन्द्रातिसौम्याकृतिकस्तपस्वी, स सरिवर्यस्तनुताच्छिवं वः ॥३०॥ सुदुस्तपा धीरवरेण याव-जीवं मुदा येन तपस्विना सः। आचाम्लरम्या विदघे तपस्या, प्रशंसनीयो न कथं सुधीभिः ॥ ३१ ॥ यो द्वादशाब्दे विगते सुराज्ञः, 'श्रीराणकात्सत्तमजेत्रसिंहात् । आघाटसंज्ञे नगरेऽभिरामे, प्रापत्सुरम्य विरुदं तपेति ॥ ३२ ॥ पाणाष्टवक्षोरुहचन्द्रसङ्ये, वर्षे सुधान्यादिकसनिकः । : विस्तीर्णतेजा सुवि-पप्रयेऽयं, तपेति गच्छ। सुखदस्ततोऽन्छ। ॥३३॥ सदालिजुष्टः सुमनोऽतिरम्या, फलेग्रहिः शिष्यलतावितानः । . . . पर्वाधिशाली सुरगच्छवत्सः, तपेति गच्छा स्म चकास्ति नित्यम् ॥३४॥ अनन्यसाधारणचिच्चरित्रः, शैथिल्यमुक्तश्चरणप्रवृत्तौ । यस्य द्वितीया वटगच्छसंज्ञा, विभर्ति केषां न स पूज्यमावम् ।। ३५ ॥ स्फारस्फुरत्संवरवीचिराजि-मर्यादितो भव्यरमानिमित्तम् ।। अस्तापमूलो मुनिरत्नपूर्णः, शश्वद्ध्यभात्सागरवत्स ग्रन्छ। ।। ३६ ॥ 16 . 20 25 , 10 प्रन्यप्रशस्तिरूपा देवेन्द्र रिविजयादिमचन्द्रवरी, शिष्योत्तमौ कुमतसन्तमसांशुमन्तौ । विद्याविशारदवरौ श्रमणौ समास्तां, तत्पट्टनाकवडवातनयौ मुनीन्द्रौ ॥३७॥ विद्यानन्दगणिविचक्षणमणिदेवेन्द्रसूरीशितः पूर्वोऽन्यो मुनिधर्मपोषगणपो खेतौ विनेयावुभौ । सेनान्यो जिनशासनक्षितिपतेः पुण्याडिवाहूपमौ, जातो तत्पदमौलिमौलिमणिभृत-श्रीधर्मघोषः क्षमी ॥ ३८ ॥ समुद्राधिष्ठाता जलनिधितरङ्गावलिमिषाद, : डुढौके रत्लादीननिमिषवरो यस्य सविधे । स्वपक्षान्यस्त्रीभिः प्रवचनवचोमञ्जनकृते, गले केशव्यूहः कुमतिमिरकारि स्ववलतः ॥ ३९ ॥ तदा विद्याद्रङ्गे विदितकपटो यो मुनिवरो, भृशं तस्तम्मैतास्तदतु सदयः सङ्घवचनात् । बधूनां निबन्धालघु सममुचच्चातिशयभृत् , समग्रन्थीच्छ्रच्या जयवृषभसंज्ञादिकविताः ॥ १० ॥ मिषज्यते कमरुजापहारे, सम्राज्यते सरिसमूहमध्ये | धर्मोपदेशे जलमुच्यते यः, ओजायते पण्डितमण्डलेषु ॥ ११ ॥ कश्चिद्योगिशठोऽवसद्वरनरे द्रङ्गे विशालामिधे, साधून्मापयते स्म सौववलतो जैनान्समभ्यागतान् । भूम्यां संविहरन्हरन्कलितमा कुर्वञ्जनस्योद्धति, श्रीवरीश्वरधर्मघोषविवुधस्तत्राजगामकदा ॥ ४२ ॥ ईयाज्वालाज्वलितहदयोऽहतिञ्चस्तबुद्धिः, ज्ञात्वा योगी प्रति मुनिवरान् भापनायाददर्शन। मीष्मान्दन्तान्नकचविषमान्दयित्वा कफोणि, जग्मुर्मीताः स्वगुरुसविधे साधवः प्रोचुराशु ॥ ४३ ॥ प्रावोचगुरुराट् मुनीस्ततदयो मा भैष्ट यूयं मनान, युष्मद्रक्षणदक्षशक्तिसमितो वैवेधि यावत्तदा । 15 25 - . 5 .10 ग्रन्थकारपरम्परापरिचयः श्रुत्वा भीतिकरान्बहिश्च वसतेहीकून्दुराहिस्वरांन् , नांनोपद्रवमीतसाधुनिकरो द्राकान्दिशीकोऽभवत् ॥ ४४ . ज्ञात्वा यावदिमा प्रवृत्तिमृषिराट्-श्रीधर्मघोपो गुरुः, प्राकूसजीकृतकुम्भके निजकरं दया पटाच्छादिते । निर्मीका प्रजजाप तावदुदिता सर्वाङ्गगामिव्यथा, धूर्ते योगिनि सेवकानथ तदा योगी जगाद प्रिये ॥ ४५ ॥ योगी स्वीयं विलसितमिदं व्याकुलो द्रांगहापीत्, गत्वाऽऽक्रन्दन श्रमणवसतौ वक्त्रंदत्ताडलिः सः। भ्रान्त्याऽवोचद् यदिह विहितं क्षम्यतां सर्वमेतत् , कुर्वे नातः प्रति मुनिवरान् क्लेशकुन्त्रीचकृत्यम् ॥ १६ ॥ लीनं व्यधात्तं गुरुधर्मघोषः, स्वकीयपादाम्बुजयोस्तदानीम् , ततः प्रवृद्धिर्जिनशासनस्य, कामं बभूवाधविनाशनस्य ॥ ४७ ॥ यत्राखिलादिप्रवरस्तुतीर्यः, पादीमत्काव्यकलाविदग्धः । सोमप्रभाचार्यवरो बभूवान् , तत्पादसेवानलिनीद्विरेफः ॥४८॥ आसीत्सरिवरेण्यसोमतिलँकस्तपट्टलक्ष्मीधरः, सत्संवेगतरङ्गसङ्गविशदीभूतक्रियाज्ञानभृत् । यस्यायो गणिचन्द्रशेखरतपस्व्यन्यो जयानन्दका, प्रान्त्यः श्रीगुरुदेवसुन्दरवर शिष्यत्रयी प्राजनि ॥ १९ ॥ श्रीमरीश्वरदेवसुन्दरेशमी प्राम्यस्त्रयोगोऽभवत् , सम्प्राप्ताखिलमत्रतत्रविभवः तत्पट्टरोचिष्पतिः । नृन्यालानलसर्वसाध्वसहरो नैमित्तिकेष्वग्रणी, हर्ता स्थावरजङ्गमाखिलविषस्यायों नृपामात्यकैः ॥ ५० ॥ यः पञ्चभिः पण्डितशिष्यमुख्यैः, शिलीमुखैः काम इव व्यभात्तैः । ज्ञानादिमा सागरमरिरायः, आसीत्कृतावश्यककावचूरिः ॥ ५१ ॥ विश्वश्रीधरपुस्तकादिरचना-सौन्दर्यनैपुण्यभाग, संरिश्रीकुलमण्डनाहगुरुराट् जज्ञे द्वितीयस्ततः । . ।' 20 25 সুখবি :: - . - 10 . आसीच्छीगुणरत्नहरिमृगपो वैराग्यरजाश्चितः, श्रीवैयाकरणाग्रणीगणिगणे पर्यस्वतीयस्ततः ।। ५२ ।। आचार्याग्रिमसोमसुन्दरगणिर्जातश्चतुर्थस्ततः, दृष्ट्वा केचन निन्दका मुनिपतेर्यस्य क्रियापात्रताम् । तद्धाताय सहस्त्रमानवगणं पाखण्डिनो मानुषा, प्रेषुः श्रीगुरवश्च यत्र शयितास्तत्रागतोऽयं गणः ।। ५३ ॥ रात्रौ चन्द्रमसः प्रकाशपतने धर्मध्वजेनादिता, पाच सद्विधिना प्रमाय गुरुराट् प्रोद्वर्तयन्वीक्षितः। तेनोचे लघुजन्तुरक्षणकरो वध्यः कथं पापकै- रस्माभिः खल निन्धवृत्तिनिपुणैः कारुण्यवारांनिधिः ।। ५४ ।। ततो गणोऽयं गुरुपादनमः, असान्क्षमस्वेति जगाद सरिम् । गतो गणः स खगृहं क्षमित्वा, तत्र प्रभावः प्रससार रेः॥ ५५ ॥ श्रीसाधुरत्नगणपोजनि पञ्चमोऽत्र, श्रीसोमसुन्दरगणिः समसाधुमध्ये । कल्याणिकाभिधसुकाव्यविधानदक्षा, तत्पशेषभुजगाग्रमणिबभूव ।। ५६ ॥ सिंहासनाशोकसरोवरार्ध-भ्रमान्जमेरीमुरजादिनच्यैः । त्रिंशत्सुबन्धै रमणीयमागां, चित्राक्षरद्वथक्षरपञ्चवर्गाम् ॥ ५७ ॥ तां त्रिदशतरङ्गिणी नामधेयां सुपत्रिकाम् । योऽष्टोत्तरशतेईस्तै-र्षां प्रैपीद्गुरुं प्रति ॥ ५८ ॥ युग्मम् ॥ प्रापालसरखतीति विरुदं यो दक्षिणे राष्ट्रके, बाल्ये श्लोकसहलकं नवनवं कण्ठे चकारानिशम् । स्तोत्रं संतिकरं तृणां सुखकर प्रादीमत्सुन्दरं, आसीच्छीमुनिसुन्दरीभिधगुरुस्तपट्टधौरेयकः ॥ ५९ ॥ श्रीरत्नशेखैरविशारदवर्यधुर्यः, सूरीशशेखरसमो नयभङ्गविज्ञः । श्राद्धप्रतिक्रमणसूत्रसुवृत्तिकर्ता, तत्पशेखरवरः समभूत्ततोऽसौ ॥ ६ ॥ श्रीलक्ष्मीसागरः सूरिजज्ञे तत्पट्टमण्डनः । अभूच्छीसुमतिः साधुः तत्पदाधिविधूपमः ॥ ६१ ॥ 15 20 25 ६१२: 5 10 प्रन्थकारपरम्परापरिचयः दाक्षिण्यदाक्ष्यमुनितादिगुणालिपुष्टाः, तत्पट्टचैत्यशिखराप्रसुवर्णकम्माः । ये जैनशासननमाकिरणेशिवारः, दीक्षां ददुहरगिरिप्रमुखर्षिनणाम् ॥६२|| स्वाचारमार्ग मुमुचुर्न धन्या, ये ते वसन्तः श्लथसाधुमध्ये । गच्छप्रभूतप्रभुता विशिष्टाः, हेमाविमा:श्रीविमलो अभूवन्।।६शायुग्मम्।। आनन्दसरिविमलान्तिमोऽभूत् , तत्पदीन्यन्मणिहारनाथः । समुद्धरन साधुपथं श्लथं या, तपस्विनिर्ग्रन्थसमाजराजः ॥ ६ ॥ प्रभावयजैनमिदं सुशासन, समर्थयबागमतत्त्वगूढताम् । प्रचारयन्देशनया स्वधर्मक, प्रवर्धयन्विश्वतले यशोलताम् ॥ १५ ॥ तत्पथभद्रासनराजतेजाः, आलोक्तिवेत्ता जयिदानसैरिः। हतप्रमादो जितवादिवादो, महाप्रतापी समभून्सुनीन्द्रः ॥६६।। युग्मम् ॥ वैराग्यरत्नप्रभवावनीभृद्, वैदग्भ्यचूतस्य वसन्तमासः । सौभाग्यसौजन्यविहारभूमिः, क्रियाङ्गनाक्रीडनकान्तकुंजः ॥६७।। तत्पनुपयाकरराजहंसा, कुपाक्षिकाज्ञानतमिस्रहंसः। कारुण्यसिन्धुः शमराजसौधा, श्रीहीरसॅरिनतशरिरासीत् ॥ ६८ ॥ स्याद्वादसिद्धान्तमवाध्यमेनं, प्रमाणयन्युक्तिततिप्रयुक्तम् । समन्वयन्भिन्नमतानि विद्वान् , स्वकीयसिद्धान्तसुचारुदृष्ट्या ॥ ६९ ॥ मध्येसभ भाति यदीयवाणी, पानीयवत्कर्ममलं हरन्ती । औदात्यगाम्भीर्यमयी सुचार्वी, माधुर्यधुर्या शुचितां वहन्ती ॥ ७० ॥ हिंसापराजश्रीमदकब्बरादीन् , नृपाननेकान्यवनेषु मुख्यान् । दयामयाँस्तान्विदधजगत्यां, व्याख्यानधाराघरधारया यः॥ ७ ॥ श्रीसेनसरिनमुखैः स्वशिष्यैः, विद्याश्चतस्रः समुपेयिवद्भिः । वजीव देवैः समुपास्यमानः, जगदुर्जलमकल्पशाखी ॥ ७२ ॥ समागतान्वादिगजान्सुसजान्, वादस्थले सिंह इवाधिगर्जन् । स हीरसरिजिनशासनस्य, पुस्फोर जित्वा विजयध्वजं तान् ।। ७३ ! श्रीसेन रिः शमिसेनतामाक्, तत्पट्टचूडामणिताधरोऽभूत् । वादे विजेता वदवादिइन्दम्, श्रीजैनसच्छासनदण्डनाया-।। ७४ ॥ . 15 . H 20 . 25 ग्रन्थप्रशस्तिरुपः 10 रूपेण कामतुल्यो यो, वृत्या कामविनाशनः । स जीयात्सेनसूरीशा, पादाम्यां लोकपावनः ॥ ७५ ॥ यस्मै जहागिरनृपेण सगौरवेण, सन्मण्डपाचलचये विरुदं प्रदत्तम् । दीव्यजहागिरमहासुतपेति सोऽभूत् , तत्पट्टहाटकपटो गणिदेव रिः ॥७६ ॥ तत्पदृवरोजनि सिंहसरिः, दुर्वादिदन्तावलसिंहरूपः । वदन्तिपत्सत्यगणिर्वभूव, क्रियाप्रियाश्लेषसुखोपभोक्ता ॥ ७७ ॥ न्यायाचार्ययशासतीयविनयोपाध्यायसाहाय्यता, शैथिल्यं स्वगणे समीक्ष्य विदधौ कामः क्रियोद्धारकम् । सत्यं नाम चकार सत्यमिति यः स्वीयं तपस्वी तता, गच्छं स्वच्छममुं तपेति विदध-जीयात्स सत्यश्विरम् ॥ ७८ ॥ तच्छिष्यकर्पूरगणिस्ततोऽभूत्, क्रियेककर्पूरसुगन्धपूर्णः । क्षमागणीशः समभूततः सा, तदीयशिष्ये वरतां दधानः ॥ ७९ ॥ प्रतिष्ठिता सप्तशती च येन, तीर्थङ्करस्य प्रतिमा मनोज्ञा । तत्पादवासी जिननीमकोऽभूत, षड्जीवरक्षाकरणप्रवीणः ॥८॥ युग्मम् ॥ भीमानभूदुमनामधेयः, तच्छिष्यवों गणितमोऽसौ । 15 पन्यासपद्मास्यजयो गणीशः, ततोऽभवद् गौर्जरकान्यकारी ॥१॥ पबद्रहेति प्रथितोरुकीर्तिः, वनिपूर्णा सह झुण्डकैर्यः । कुर्वन्विवादं विजयं तदापत् , क्रियाभिकाही सततं विहारी ।। ८२ ॥ तच्छिष्य आसीद्गणिरूंपनामा, ततोऽभवत्कीर्तिगणिः सुकीर्तिः। पन्यासकस्तूरगणिस्ततोऽभूत् , विभ्रस्क्रियाचिन्मृगनाभिगन्धम् ॥८३॥ 30 सप्तर्षिमिर्गणिमणिः प्रयुतो यथानं, दीव्यचपाः सदमृतादिविनेयवः । 'तत्पट्टमौलिमुकुटोऽप्रतिवद्धचारी, संवेगरङ्गकलितः शमितेन्द्रियोऽभूत् ॥४॥ अद्यापि पर्वति तदीयशिष्यः श्रीसिद्धिसरिः स्वपरागमनः । घोर तपस्या तपति स्म वृद्धा, विनयवयः परिपेव्यमाणः ॥ ८५॥ ततोऽभवबुद्धिगणिर्मनीपी, विलोक्य शास्त्रे प्रतिमाविधानम् । विहाय यो दुष्ठककापथं सा, जग्राह संवेगपथं विधिज्ञम् ॥ ८६ ॥ 25- 101 अन्धकारपरम्परापरिचयः चञ्चत्पश्चनदे पराक्रमपदे राजन्यवंशेऽवशे, . रूपाम्बाजठरे गणेशभवने ग्रामे लहेराभिधे । व्यकाष्टाजमितेऽन्दके जनिरभूयेषां शुमे वैक्रमे, हिंसोच्छित्तिकृतेऽत्र भारततले सद्धर्मरक्षाकृते ।। ८७ ।। व्योमाब्जाकविभावरीपतिमिते संवत्सरे पैक्रमे, दीक्षा ढुण्डकवत्मनः प्रजगृहुदैरङ्गिका ये मुदा । पश्चाच्छास्त्रविलोकनाध्ययनतः टीकानिरुज्युक्तितः वन्येति प्रतिमा जिनस्य शिवदा ज्ञातं च यैाकृतेः ।। ८८ ॥ सत्यान्वेषणचञ्चुभिः प्रति मुनीन्प्रोक्तं तदन्यांश्च यः, केचित्सत्प्रविधार्य तन्मुनिवराः सत्यार्थसाहकाः । आवद्धास्यपटा बुधा निरगमन् सत्यप्रचाराय वै, शास्त्रोक्त प्रतिमानमस्कृतिविधिः सर्वत्र घोषितः ।। ८९ ॥ मूर्त्यर्चाप्रवणान्व्यधुहिजनान्कैवल्यकासावता, धर्मार्थ जिनभक्तये प्रतिपुरं कष्ट सहन्ते स्म ये । आजग्मुर्गुरुघुद्धिसाधुसविधे संवेगरगोज्वला!, सत्संवेगपथस्य ते प्रजगृहुर्दीक्षां तदानीं विधेः ॥ १० ॥ अहम्मदाबादमहानगर्या, आनन्दरोमाश्चितपूर्जनायाम् । आनन्दपूर्वा विजयान्तिमास्ते, प्रापप्रथन्भूमितले महान्तः ॥११॥ येभ्यः मरिपदं ददौ प्रमदतः सम्भूय सङ्घोऽखिला, विद्वद्भयो रुचिरे महोत्सववरे श्रीपादलिप्ते पुरे । 'पाश्चालोद्धृतिकारिणोऽजनिषत श्रीजैनसैद्धान्तिकाः, न्यायाम्मोनिधिसरिवर्यविजयानन्दाभिधानाच ते ॥ ९२ ॥ विद्याभृङ्गीललनसदनं शासनप्रेमकन्दा, जैनाजैनोपकृतिविकसच्चारकासामरन्दः । भीमरीशचरणकरणव्यग्रताकर्णिकावान्, प्रादुर्भूतः कमलविजयस्तत्सुपट्टाम्बुजातः ॥ ९३ ॥ श 20 25 5 10 प्रन्यप्रशस्तिरूपा ईलाख्यदुर्गोपरि शान्तिचैत्यं, भवार्तभव्यागिकुनातिशैन्यम् । जीर्ण समीक्ष्योद्धरति स रुच्यं, जिनेशभक्तः कमलाख्यमूरिः ॥ ९४ ॥ पापदिहिंसादिपरानरेशान् , नैकाँस्तदन्यान्पुरुषानृशंसान् । जीमूतगम्भीरवचा प्रवाहात्, प्रायोधयच्छ्रीकमलाहरिः ।। ९५ ॥ पध्यासदानमुनिलब्धिसुधीवरेण्यौ, पट्टे स्त्रके कमलरिवरो न्यधात्तौ । सङ्घाग्रहात्स्वपदयोग्यतया महर्षिः, छायापुरी महपुर:सरतः प्रमोटात् ॥ ९६ ॥ महाव्रती भूतिवतिप्रतीतः, शिवान्वितो दग्धमनोजराजः। श्रीलन्धिसरिः समभूगणेन्द्रः तदीयपट्टाचलरागिरीशः ॥ १७ ॥ तर्के सूक्ष्म पिणधिपणा पोस्फुरीति प्रतीक्ष्णा, येषां कृत्स्नागमगनयने लक्षणे दक्षशिक्षा । जैनाजैनप्रवचनवचःपाटवं पूर्णवाभाग्, ज्योतिशाख्ने वरनिपुणता कोविदैरप्यगम्ये ॥ ९८॥ अन्य काव्यं प्रसूमरगुणं चाल्सन्दर्भगर्भ, श्रुत्वा लोक कविकुलकिरीटेत्युपाधिः प्रदत्तः। येभ्यः पूज्यक्रमणकमला लब्धिमरीशितारः, ते पायासुभविककृपिकान्देशनावारिदानात् मूलत्राणप्रदेशे दुरधिगमतमे कष्टकोटिं सहित्वा, प्राणिप्रत्राणमय्या मधुमधुरगिरा देशनागाहुनीरम् । भुञ्जानान् सन्निहत्य द्विजपशुसमज काश्यपं हिंस्रलोकान्, चकुस्तान्पाययित्वा पलपसिरहितान् लब्धिसूरीश्वरास्ते ॥ १० ॥ श्रीलब्धिमुरिर्वटपद्रपूर्या, जिला मुकुन्दाश्रमवादिवर्यम् । वादाक्षवाटे जिनशासनेऽस्मिन् , जेतेतिकीर्ति विभाञ्चकार ।। १०१ ।। तत्चन्यायसुमावलीविलसितं स्याद्वादकुजाश्रितं, भङ्गीवल्लिनयागराजिजटिलं न्यायप्रकाशाख्यया । गुञ्जलक्षणभृङ्गसङ्गघटित जात्याङ्कितं व्याख्यया, तत्चन्यायविभाकरोपवनक, मच्छन्दलालित्यभृत् ।। १०२ ।। 15 ग्रन्थकारपरम्परापरिचयः A -- . 5 नगमाग्यसुनीतिरीविसरणि पालम्ब्य विद्यावता, यद्येनारचि मालिकन महता कारुण्यपुण्याम्धिना। तचाकाहिविलासिखेलनकृते व्याख्यानवाचस्पतिः, जीयाभूमितले स निर्मलयशाः श्रीलब्धिसूरीश्वरः ॥ १०३ ॥ । युग्मम् ॥ वर्षे व्यङ्कनवौषधीपतिमिते तीर्थे वरे स्तम्भने, तत्त्वन्यायविभाकरं सुललितं ग्रन्थं समारब्धवान् । ईलादुर्गपुरे समाप्तिमकरोदं तस्यैकसत्पद्धते, , सद्गुह्मार्थकमूलमत्ररचनात् श्रीलब्धिमुरीश्वरः ॥ १०४ ॥ चाणाकालमृगावत्सरमिते श्रीवैक्रमे तत्र वै, व्याख्यामारमते स तस्य महतीं न्याप्रकाशामिधाम् । गुर्वा फलवर्धिनामनगरे व्याख्यां समापसुंघी:, सप्ताकाकसुधामरीचिशरदि श्रीलब्धिसरीश्वरः ॥ १०५॥ ; तच्छिष्यो भुवनादिनामविजयो-पाध्यायमुख्योऽभवत् , तच्छिष्येण मया प्रशस्तिशतकं भद्ररेणारचि । योऽत्राज्ञानवशात्प्रविस्मृतिवशाद् दुष्टप्रयोगः कृतः, तं संशोध्य विवेकहंसविदुरैर्वाच्यं हि तद्धीधनैः ॥ १०६ ॥ 10 15 .. 4908 सटीकस्य तत्वन्यायविभाकरस्य शुद्धाशुद्धपत्रिका प्रष्टे पंकी अशुद्धम् पृष्ठे पंको अशुद्धम् शुद्धम् ६ १० णमार्था णामों २४ १० भूयेत भवेत् ६ सुखार्थ सुखार्थ २४ १७ नाम्येक्ये नात्मैक्ये ८ २१ स्सामाधिक- समानाधि- २६ : २६ १३ पष्टय पथ्य रण्या करणा २६ २३ पष्ठप पष्टय ८ २३ भेषने भेषजेन २७ १६ त्युकूल त्यनुकूल ३ पौद्गलिक पौगलिक २७ १९ यवत्वं यवत्वं १० १४ मिलाषा, सा मिलापः, स २९ ६ पुदलो पुदलो १० १६ मिकाया त्सकस्या- २९ ७ निमित्तक निमित्त अभिलाषाया मिलापस्य ९ पुदला पुदला ११ ४ चरितश्वे चरितत्वे पदल ९ जातीयत्वे जातीयत्वे ३० २२ पुद्रला पुदन्दा ७ अनागस्या अनागतस्या ३० २३ पुटला पुदला २ परमाणवपीति परमाणावपीति ३० २८ निर्वतन निर्वर्तन १६ १६ तिसृणा तिसृणा ३० २८ चक्षुभोत्राणां चक्षुश्मोत्राणां १७ २७ ज्ञानारणी ज्ञानावरणी ३१ १३ पुटलोयच 'पुलोपर १८ २६ किया क्रिया ३१ १६ श्रायोप भायोप १९ १ इदानी इदानी १ पुदला पुदल १० स्तरत: ३३ २२ च्छेद्य ग २२ २४ सिद्ध सिद्ध २४ १. भाविना भाविनः ३९ १७ प्रदेला पान्ने प्रदेशा २४ . १० दीनामे ३९ १९ निरवचन्न निरखपावन - पृष्ठे पंको अशुद्धम् ६ घेयत्त्वा ४८ २६ तदाह , १२ विधा २ पयायों ६ पूा :२१ सटीकतत्वन्यायविमाकरस्य- शुद्धम् पृष्ठे पंक्ती अशुद्धम् शुद्धम् ४३ १९ निवृत्ती निवृत्ती ९८ ११ लाषा लापो ७ चत्वे यत्वेन ९८ १८ लाषावत् लाषवत् २ द्वेदः द्विनं ९८ १८ लाषा धेयत्वा ९८ २५ लाषावत् लाषवत् तमाह ९८ २५ लाषा लाष: ५१ १९ स्यान्नित्यः स्थानित्योऽनित्यश्च । १०० १० रसन रसने मनित्यञ्च विधा: ५३ १८ मपराणां भपरेषां १०३ २१ निवृत्त निर्वृत्त ५९ पर्याया १०३ २६ लाषा लाव: पूाः १०४ १० मुदिष्ट मुद्दिष्ट ६० २४ प्रवृति प्रवृत्ति १०८ १६ प्रभा प्रधा ६१ १५ जघन्य जघन्या ११० २२ परिमह परिग्रह ६५ २१ मित्यार्थः मित्यर्थः ११३ २३ क्रियेत्यर्थः क्रियेत्यर्थः ६ प्रयोजक प्रयोजक. ११५ १५ विशेष विशेषण ७ लक्षणार्थ लक्षणार्थः १२५ भेदं ७१ २२ तेन प्रत्येकं तेन १२८ ५ प्रविष्टस्य प्रविष्टः ७४ २६ युषं यदा युर्यदा १३५ २४ वस्तु वास्तु २ युषं बध्नाति युध्नाति १३६ १८ विध्याना विध्यापना ७५ २० चक्रधरत्वादी चक्रधरादी १ प्रतिनियतदिवसा प्रतिदिवसा १० त्रिका त्रिक १४२ २४ मुहूं मुंह १४ द्रष्टव्यमिति द्रष्टव्य इति १४४ १८ राद्रक राईक ७८ ,३, प्रयोजकत्वे प्रयोजकत्वे सति | १४७ १६ लक्षणम् लक्षक: ७८ पर्याये १४७ २० लक्षणं लक्षक ९ समवाधा. समवधा १४९ ६ गुणपेक्ष गुणापेक्ष ८६ १ चक्षु नादीनि चक्षुर्दर्शनादीनि १५० २४ विशुद्ध विशुद्धय ८९ २३ निवृत्तिः निर्वृतिः २ नोकियते नोकीर्यते ४ चत्वारो चत्वारस्सप्त १५३ २ उत्कीरण उकिरणं ९८ ११ लाषेव लाष इव १५८ २१ निस्सन्दो निःसन्दों ७ भेद ७७ १६ पर्याय . , १ मांसश्च ७ कांच 1111111111 ४ सदुष्टाना शुद्धाशुद्धपत्रिका। पृष्ठ पंको अशुद्धम् शुद्धम् पृष्ठ पंक्ती अशुद्धम् शुभम् १६५ १६ मुंहूर्तिकाः मौहूर्तिकाः २१८ मांसश्च १६५ १९ शेषायुः शेपायूः २१८ १ च्याज्य एव त्याज्यमेव १६५ २० मन्थना मन्थाना २२४ कर्पन्न २ समयाधान्य समयाच २२४ २१ कानशा कानागा १६७ ९ भूतास्समि• भूतान् समि- २३० ९ दुखं दुःखं यादयः त्यादीन २३१ १ ध्यायायति ध्यायनि १६९ ९ सापत्र स्याप्यत्र २३२ २२ विदाभिति विदामिति १७२ ५ सन्तप्तोऽपि सन्तापेऽपि २३६ ७ सम्बन्ध सबन्ध १७२ २८ न्यज्वा न्यज्या १९ सुदलेः पुद्गलैः १७४ दुष्टाना २३९ इत्यर्थः १२ फूलोपर्ग कूलोपसर्ग २४२ ७ काय काय ९ विभावयवा विभावयतः २४२ २२ तेदव तदेवं १७६ २० ताऽऽद्रियेत तामाद्रियेत २४३ १६ व्यापारा व्यापाराः १८१ ९ व्यदेश व्यपदेश २४३ २७ तावेवो तयोरेवो १८२ ७ तीर्थान्तर- तीर्थान्तरं २४५ त्यर्थः संक्रामतो संक्रामतो २४५ मित्येवं १८४ १२ प्युशम प्युपशम २४६ २४ निर्वर्तना निवर्तना १८७ १५ पाविति पा इति २४८ २ परिणमति परिणमते १९० १२ रूप रूपे २५२ २४ द्विधाः द्विधा १९१ ८ संयम संयत २५८ २ भेदास्तेपाम् भेदास्तामाम ४ खिंशदादि विशादि २५८ २३ सामग्रीम मामग्री १९८ २४ आय आद्या २५९ ३ वरणमा. २०२ २६० २४ विशुद्धया विमुद्रपा २०२ १६ दलिक दलिकस्य ६ विधोदयो विध उदयो २०३ ८ छेदो छेदोपस्थापनीयः २६५ ४ कारोपयुकस्य कारोपयोगयुगम्य छेदो २७१ २१६ तीधे भेदो २१८ १ णीयम् णीयः जीवा: ३ इत्यर्थ १ त्यर्थः १७ मित्येव वरणे आ २ तीथे ९ भेदा १५ जीवा शुद्धम् .. ह्यावारक : , . %3 - 3: . सटीकतवन्यायविभाकरस्य- पृष्ठ पंको अशुद्धम् पृष्ठ पंको अशुद्धम् शुद्धम् २८५ १. पुरुषस्य स्य- पुरुषादेः:', ४८० २० पर्यायार्थिकाः पर्यायार्थिकनयाः भिलाषो ख्याधभिलाषो, ४८५ ५ प्रायतोऽनेकधा प्रायतो २८६ २२.सावरक ४८५ ११ वकभिप्रायेण · बक्रमिप्रायेण: २८८ १०,शेयताया, ज्ञेयतायाः ४८९ १४ कल्पतात् कल्पनात् ૧૬૮ १९ दुष्यन्ति दुःष्यन्ति, . ४९१ २९३ २, मार्गणाः मार्गणा ४९४ २१ वासो वासो ३०२ - १० जीना जिना ४९५ , १३ नामापि नामपि ३१० ,२.१ , यन्नैवं तनैवं यदेवं तदेवं ४९७ २० भूमिकत्वा- भूमिकत्वा- ३१६ ११ पकर्ष प्रकर्ष सङ्ग्रहा सङ्ग्रहा ३२६ १९ शमादिति शमेति ५०० १ शब्दानयभास शब्दनयाभास ३२६ २१ शमादित्यर्थः शमेत्यर्थः ५०३ ६ वर्तमानपि वर्तमानमपि सत्वस्या ५०३ ९त्ततत्तन्ना থা ३३३ . १९, व्यभिचारात् व्याप्त्यसिद्धेः ५३४ १० द्याधिकान्नृपति द्याधिकान्नृपति ३३६ .१७ भाषमाणो भाष्यमाणो ५३६ २६ रुत्व रुक्त्य ३४९ २० चेष्टान चेष्टानां ५४४ १३ शैक्षकवाह शैक्षकचाह ३५३ १५ स्सनो स्सतो ५४८ तत्क्रीडा ३५६ - २४ दृष्टान्तान्याह दृष्टान्तानाह ५५८ २० सम्बन सम्बन्धेन ३६२ १० कतया कया ५६० १० प्रवाहो प्रवाह ३६७ २१ कृतिको : कृत्तिको ५६१.१९ हेतया हैतया ३६९ १ वषादिधर्म 'वयादिधर्म ५६२ तेन ३७६ । ९ अत्र , तत्र ५६५, १३ दक एवो दकमेवो नुपलब्धि.. ३८१...१६ नुलब्धि मितो ५६५ नान्ते ५७४ २६ एवभूताः एवम्भूताः ३९२.२६ गुणशब्दों : गुणशब्दः ५७७ . ३ दरभ्य क्रौंच ५७७ '४०४ २६ अन्वयव्यति ३.वोत्पत्ति ५७९ १ नव नवा ३ प्युचार ४७६ १ न्यादिति 'न्यायादिति , प्युपचार, नक्षत्रेण चन्द्राः ४८० -२० द्रव्यार्थिकाः । द्रव्यार्थिकनयाः । ५७९ १७ तक्कीडा . १ F . ६'तेनः १४ मिते ३९१ः, १७.नादौ ५ क्रोच अन्यति, वोत्पत्ते : . ३ 'नक्षत्रेण पंको अशुद्धम् ५८२ १ नान्वरं ९ शुद्धाशुद्धपत्रिका। शुद्धम् पृष्ठ पंक्ती अशुद्धम् शुद्धम् नानन्तरं । ५९२ १७ त्रिगस्तानि त्रिणो नि 'रज्जू ५९३ ३ वागमा दागमा वेति ५९३ ७ मता मत्ता ५९३ १५ कादीनां कानां विधेया ५९५ वर्तन उद्धाट ५९५ १५ वकुश बकुशोऽ अरुणोदया ५९७ ४ अविनय विनय व्यन्ते ५९९ ७ सन्नन्तर सन्नान्तर खनायाः । ५९९ १९ पाते प्राप्त विशिष्टभावाश्च उल्लि ६०० १४ कम क्रम त्रिणां ६०० १८ निरोध निरोधकी ५८८ चैति ५८९ १० हीन्दि ५८९ २१ विधेयम् ५९० ५ उद्धटा ५९० ८ अरुणा ५९० ५९० १४ खना ५९२ ५९२ १७ त्राणां ३ वर्जना १० व्यते ८ उत्क्षि

1
हमारे आर्थिक साहाय्यकों की सूची।
Hai
देनेवाले सज्जनों के शुभ नाम
फलौदी (मारवाड)
नाम
रुपये
३२७) तपागच्छ श्री संघ
(वि. सं. १९९७ के चातुर्मास में हुई ज्ञान की आमदनी से)
३००) श्रीमान शेठ जमनालालजी संपतलालजी छाजेड.
१२१) श्रीमान् शेठ माणेकचन्दजी अमरचन्दजी कोचर.
७५) श्रीमान् शेठ लालचन्दजी मीलापचन्दजी ढहा.
७५) श्रीमान् शेठ कीसनलालजी संपतलालजी लूणावत.
७५) श्रीमान् शेठ भभूतमलजी कानुगा.
४५) श्रीमान शेठ पक्षचन्दजी संपतलालजी कोचर,
४५) श्रीमान् शेठ कंवरलालजी कानुगा.
४५) श्रीमान् शेठ पुनमचन्दजी उदयराजजी कानुगा.
३०) श्रीमान् शेठ लखमीलालजी मीश्रीलालजी बैद,
३०) श्रीमान् शेठ नेमीचन्दजी वैद.
३०) श्रीमान् शेठ संपतलालजी गुलाबचन्दजी कोचर.
२१) श्रीमान् शेठ लक्ष्मीलालजी मीश्रीलालजी कोचर.
२१) श्रीमान् शेठ नवनीधमलजी कोचर.
२१) श्रीमान् शेठ संपतलालजी बैद,
१५) श्रीमान् शेठ मगनमलजी कानमलजी कोचर.

साहाय्यकों की सूची।
१५) श्रीमान् शेठ अगरचन्दजी लुंकड.
१५) श्रीमान शेठ अमरचन्दजी बैद,
१५) श्रीमान शेठ जेठमलजी कानुगा.
१५) श्रीमान शेठ जुगराजजी नाहर.
१५) श्रीमान् शेठ सुगनचंदजी कोचर.
बीकानेर (राजपूताना)
३८५) जैन श्वेताम्बर श्री संघ, ह. श्रीमान् मोतीलालजी वैद.
(वि. सं. १९९८ के चातुर्मास में हुई ज्ञान की आमदनी से)
३००) श्रीमान् बाबु नथमलजी संपवलालजी रामपुरीया.
१००) श्रीमान् घावु भंवरलालजी रामपुरीया.
३०) सतीबाई का उपाश्रय ( ज्ञान की आमदनी से ).
३०) श्रीमान् अभयराजजी नाहटा,
बगडी (मारवाड)
६७) जैन श्वेताम्बर श्री सघ.
साणंद (गुजरात).
७५) विजयाणसुर नानागच्छ, ह. माणेकचन्द केशवजी
-
-
ईडर (महीकांठा)
७५) जैन श्वेताम्बर श्री संघ ह. शेठ आणंदजी मंगलजी की पेढी.
जूना डीसा (गुजरात)
३०) जैन धर्मशाला का संघ, इ. न्यालचंद गोडीदास.

श्री लब्धिसूरीश्वरजैनग्रन्थमालाप्रकाशितग्रन्थसूची । ०-८-० ... ०-१२-० ... ........ ... ........ ........ १ जैनवतविधिसंग्रहः २ हीरप्रश्नोत्तराणि ३ श्रीपालचरितम् ... ४ तत्चन्यायविभाकरः (मूलम् ) ५ पंचसूत्रम् सटीकम् ६ हरिश्चन्द्रकथानकम् ७ वैराग्यरसमंजरी ... ८ चैत्यवन्दनचतुर्विंशतिः ९ कविकुलकिरीट १० मूर्तिमंडन (गुजराती) ११ मूर्तिमंडन (हिन्दी) १२ आरंभसिद्धिः सटीका १३ तत्त्वन्यायविमाकरः (स्वोपज्ञवृत्तियुतः) १४ सद्भावनाप्रकाश (हिन्दी) ०-२-० ... ०-८-० ०-४-० ... २-०-० ५-०-०

No text on this page.

Tatvnyayvibhakarah

Author
Not Available
Title
Tatvnyayvibhakarah
File name
Tatvnyayvibhakarah
Text
OCR done
Published
2010/01
Publisher
Baroda.,shri Labdhisuriswar Jain Granth Mala,chhani
Language
Sanskrit
Pages
662
Library
Central Library, Jain Vishva Bharti University, Ladnun
DLI number
313038
Barcode
99999990309458.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
mbhe84RoXfE
Download PDF

Tatvnyayvibhakarah