Archaeological Survey Of India, New Delhi
Kavyamala Part.v
Front matter
KĀVYAMĀLĀ.
A collection of old and rare Sanskrit Kāvyas,
Natakas Champūs, Bhānas, Prahasanas,
Chhandas, Alankāras &c.,
Part V.
EDITED
BY
PANDIT DURGĀPRASAD
AND
KĀSİNĀTH PANDURANG PARAB.
ERCHAESecond Edition.
Second Edition.
En-fragrano Fiat
CENTRAL
(New Delhi
PUBLISHED
BY
PANDURANG JAWAJI,
PROPRIETOR OF THE “NIRNAYA SĀGÅR" PRESS,
Sa 8
BOMBAY
1937.
Price 1 Bupees
MATIVO
CENTRAL A" 10
LIBR... Y WL
11.10. No.....8387
-inte....... 28-2-5%.
Call No.
Sa8
Kaw
[All rights reserved by the publisher.]
Publisher:-Pandurang Jawaji,
Nirnaya Sagar Press,
Printer:-Ramchandra Yeşu Shedge, 26-28, Kolbhat Street, Bombaye
}20-2
॥ श्रीः॥ काव्यमाला नाम नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसन- छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः । पञ्चमो गुच्छकः। जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना पण्डित- दुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाह्व- पाण्डुरङ्गात्मजकाशिनाथशर्मणा, च संशोधितः। द्वितीयावृत्तिः। मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः, खीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रयित्वा प्राकाश्यं नीतः। शाकः १८५८, ख्रिस्ताब्दः १९३७. मूल्यं
अनुक्रमणिका।
....
१
....
..
१. मूककविकृता पञ्चशती
२. क्षेमेन्द्रकृतश्चतुर्वर्गसंग्रहः
८५
३. वीरेश्वरकृतमन्योक्तिशतकम्
१०१
४. शिवरामत्रिपाठिप्रणीता नक्षत्रमाला (सटीका)
११९
५. नीलकण्ठदीक्षितविरचितं कलिविडम्बनम्.... १३२
६. सोमप्रभाचार्यविरचिता शृङ्गारवैराग्यतरङ्गिणी (सटीका) १४२
७. नारायणभट्टपादविरचितं कोटिविरहम्
८. राजानकरुय्यकप्रणीता सहृदयलीला
....
....
....
काव्यमाला। महाकविश्रीभूककृता पञ्चशती। कटाक्षशतकम्। मोहान्धकारनिवहं विनिहन्तुमीडे मूकात्मनामपि महाकवितावदान्यान् । १. अयं द्रविडदेशोद्भवः कविः कदा बभूवेति न निश्चयः, किं तु नायमति- प्राचीन इति भाति. काञ्चीपुराधिष्ठात्र्याः कामाक्ष्याः स्तुतिरूपेयं पञ्चशती विरलप्र- चारैवास्ति. जीवानन्दभट्टाचार्येणेयं कलिकातानगरे मुद्रयितुमुपकान्ता. परं तेन च कथमप्यशुद्धं शतकचतुष्टयं मुद्रयित्वा पञ्चमं शतकमलभमानेन संख्यापूरणाय तत्र माहिषशतकं मुद्रितम्. अन्येन तु केनचन नाद्याप्ययं ग्रन्थः प्राकाश्यं नीत इत्य- स्माकं मुद्रणारम्भः, पुस्तकचतुष्टयाधारेण चास्माकं पुस्तकशोधनोपक्रमः, तत्र प्रथमं पञ्जाबदेशान्तर्वर्तिन्यमृतसरोनान्नि नगरे वर्तमानानां काश्मीराभिजनानां श्रीरामचन्द्रपण्डितानां प्रत्नपुस्तकात्प्रतिरूपकं गृहीतं नातिशुद्धं क-चिह्नितम्. द्वितीयं जयपुरमहाराजाश्रितानां पण्डितश्रीसरयूप्रसादशर्मणां पुस्तकं प्रायः शुद्धं नवीनं ख-चिह्नितम्. तृतीयं केरलीयसदाशिवशंकरशास्त्रिणां कश्मीरलिखितं नवीनं शुद्धं ग-चिह्नितम्. चतुर्थ जयपुरीयजैनपाठशालाध्यापकद्रविडकाशिनाथशास्त्रियां प्राचीनमिवोपलक्ष्यमाणं नातिशुद्धं घ-चिह्नितम्.अस्मिन्पुस्तकचतुष्केऽप्यशुद्धताम- पहाय भूयान्पाठभेदो नास्ति. केवलं शतकोपन्यासभेदो वर्तते. तत्र क-ख-पुस्त- कयोः (१) मन्दस्मितशतकम्, (२) पादारविन्दशतकम्, (३) आर्याशतकम् , (४) कटाक्षशतकम् , (५) स्तुतिशतकम्, अयं क्रमोऽस्ति. ग-पुस्तके (१) पादार- विन्द...(२) आर्या, (३) कटाक्ष०, (४) मन्दस्मित०, (५) खुति०, अयं क्रमः. घ-पुस्तके (१) कटाक्ष०, (२) मन्दस्मित०, (३) पादारविन्द्र (४) आर्या०, (५) स्तुति०, अयमसदनुसृतः कमोऽस्ति.
GRY २ काव्यमाला॥ श्रीकाञ्चिदेशशिशिरीकृतिजागरूका- नेकामनाथतरुणीकरुणावलोकान् ॥ १॥ मातर्जयन्ति ममताग्रहमोक्षणानि माहेन्द्रनीलरुचिशिक्षणदक्षिणानि । कामाक्षि कल्पितजगत्रयरक्षणानि त्वद्वीक्षणानि वरदानविचक्षणानि ॥२॥ आनङ्गतब्रविधिदर्शितकौशलाना- मानन्दमन्दपरिघूर्णनमन्थराणाम् । तारल्यमम्ब तव ताडितकर्णसीनां कामाक्षि खेलति कटाक्षनिरीक्षणानाम् ॥ ३ ॥ कल्लोलितेन करुणारसवेल्लितेन कल्माषितेन कमनीयमृदुस्मितेन । मामञ्चितेन तव किंचन कुञ्चितेन कामाक्षि तेन शिशिरीकुरु वीक्षितेन ॥ १ ॥ साहाय्यकं गतवती मुहुरैर्जुनस्य मन्दस्मितेन परितोषितभीमचेताः । कामाक्षि पाण्डवचमूरिव तावकीना कर्णान्तिकं चलति हन्त कटाक्षलक्ष्मीः ॥ ५ ॥ अस्तं क्षणान्नयतु मे परितापसूर्य- मानन्दचन्द्रमसमानयतां प्रकाशम् । १. एकाम्रनाथः काञ्चीपुराधिष्ठाता महेश्वरः. २. 'परिघूर्णित' इति क-ख- पुस्तकपाठः, ३. अर्जुनस्य शौक्लयस्य मध्यमपाण्डवस्य च. ४. भीमः शिवो भीमसेनश्च. ५. कर्णान्तिकं श्रवणसमीपं राधेयाभ्यर्ण च.
पञ्चशती। ३ कालान्धकारसुषमां कलयन्दिगन्ते कामाक्षि कोमलकटाक्षनिशागमस्ते ॥६॥ ताटङ्कमौक्तिकरुगङ्कुरदन्तकान्तिः कारुण्यहस्तिपशिखामणिनाधिरूढः । उन्मूलयत्वशुभपादपमस्मदीयं कामाक्षि तावककटाक्षमतङ्गजेन्द्रः ॥ ७ ॥ छायाभरेण जगतां परितापहारी ताटङ्करत्नमणिपल्लवतल्लजश्रीः । कारुण्यनाम विकिरन्मकरन्दजालं कामाक्षि राजति कटाक्षसुरद्रुमस्ते ॥ ८॥ सूर्याश्रयप्रणयिनी मणिकुण्डलांशु- लौहित्यकोकनदाकाननमाननीया । यान्ती तव सरहराननकान्तिसिन्धुं कामाक्षि राजति कटाक्षकलिन्दकन्या ॥९॥ प्राप्नोति यं सुकृतिनं तव पक्षपाता- कामाक्षि वीक्षणविलासकलापुरंध्री। सद्यस्तमेव किल मुक्तिवधूर्वृणीते तस्मानितान्तमनयोरिदमैकमत्यम् ॥ १० ॥ यान्ती सदैव मरुतामनुकूलभावं भ्रूवल्लिशक्रधनुरुल्लसिता रसाः । कामाक्षि कौतुकतरङ्गितनीलकण्ठा कादम्बिनीव तव भाति कटाक्षमाला ॥ ११ ॥ १. 'कलयेत्' इति ग-पाठः. २. कारुण्यमेव हस्तिपश्रेष्ठस्तनाधिरूढः. ३. सूरि- आश्रय-; सूर्य-आश्रय. ४. मरुतां वायूनां देवानां च. ५. नीलकण्ठः शिवो मयूरच.
काव्यमाला। गङ्गाम्भसि सितमये तपनात्मजेव गङ्गाधरोरसि नवोत्पलमालिकेव। वक्रप्रभासरसि शैवलमण्डलीव कामाक्षि राजति कटाक्षरुचिच्छटा ते ॥ १२ ॥ संस्कारतः किमपि कन्दलितान्रसज्ञ- केदारसीन्नि सुधियामुपभोगभाग्यान् । कल्याणसूक्तिलहरीकलमाकुरान्नः कामाक्षि कन्दलयतु त्वदपाङ्गमेघः ॥ १३ ॥ चाञ्चल्यमेव नियतं कलयन्प्रकृत्या मालिन्यभूः श्रुतिपथाक्रमजागरूकः । कैवल्यमेव किमु कल्पयते नतानां कामाक्षि चित्रमपि ते करुणाकटाक्षः ॥ १४ ॥ संजीवने जननि चूतशिलीमुखस्य संमोहने शशिकिशोरकशेखरस्य । संस्तम्भने च ममताग्रहचेष्टितस्य कामाक्षि वीक्षणकला परमौषधं ते ॥१५॥ नीलोऽपि रागमधिकं जनयन्पुरारे- लोलोऽपि भक्तिमधिकां द्रढयन्नराणाम् । वक्रोऽपि देवि नमतां समतां वितन्व- कामाक्षि नृत्यतु मयि त्वदपाङ्गपातः ॥ १६ ॥ कामगृहो हृदययन्त्रणजागरूका कामाक्षि चञ्चलगञ्चलमेखला ते । 1. उपभोगयोग्यान्' इति ग-पाठः, २. 'चित्रमयते इति ग-पाठः.
पञ्चशती। आश्चर्यमम्ब भजतां झटिति स्वकीय- संपर्क एव विधुनोति समस्तबन्धान् ॥ १७ ॥ कुण्ठीकरोतु विपदं मम कुञ्चितभ्रू- चापाञ्चितः श्रितविदेहभवानुरागः । रक्षोपकारमनिशं जनयञ्जगत्यां कामाक्षि राम इव ते करुणाकटाक्षः ॥ १८ ॥ श्रीकामकोटिशिवलोचनशोषितस्य शृङ्गारबीजविभवस्य पुनः प्ररोहै। प्रेमाम्भसामचिरात्प्रचुरेण शङ्के केदारमम्ब तव केवलदृष्टिपातम् ॥ १९ ॥ माहात्म्यशेवधिरसौ तव दुर्विलचक- संसारविन्ध्यगिरिकुण्ठनकेलिचुचः । धैर्याम्बुधिं पशुपतेश्चुलकीकरोति कामाक्षि वीक्षणविजृम्भणकुम्भजन्मा ॥ २० ॥ पीयूषवर्षशिशिरा स्फुरदुल्लसच्छी- मैत्री निसर्गमधुरा कृततारकाप्तिः । कामाक्षि संश्रितवती वपुरष्टमूर्ते- ज्योत्स्नायते भगवति त्वदपाङ्गमाला ॥ २१ ॥ अम्ब स्मरप्रतिभटस्य वपुर्मनोज्ञ- मम्भोजकाननमिवाञ्चितकण्टकाभम् । भृङ्गीव चुम्बति सदैव सपक्षपाता कामाक्षि कोमलरुचिस्त्वदपाङ्गमाला ॥ २२ ॥ १. विदेहभवा सीता. २. रक्षारूपमुपंकारम्; (पक्षे)..रक्षसामपकारम्. ३. अगस्त्यः४. शिवस्य.
६ काव्यमाला। केशप्रभापटलनीलवितानजाले कामाक्षि कुण्डलमणिच्छविदीपशोभे । कने कटाक्षरुचिरङ्गतले कृपाख्या शैलूषकी नटति शंकरवल्लभे ते ॥ २३ ॥ अत्यन्तशीतलमतन्द्रयतु क्षणार्ध- मस्तोकविभ्रममनङ्गविलासकन्दम् । अल्पस्मितादृतमपारकृपाप्रवाह- मक्षिप्ररोहमचिरान्मयि कामकोटि ॥ २४ ॥ मन्दाक्षरागतरलीकृतिपारतत्र्या- कामाक्षि मन्थरतरां त्वदपाङ्गदोलाम् । आरुह्य मन्दमतिकौतुकशालि चक्षु- रानन्दमेति मुहुरर्धशशाङ्कमौलेः ॥ २५ ॥ त्रैर्यम्बकं त्रिपुरसुन्दरि हर्म्यभूमि- रङ्गं विहारसरसी करुणाप्रवाहः । दासाश्च वासवमुखाः परिपालनीयं कामाक्षि विश्वमपि वीक्षणभूभृतस्ते ॥ २६ ॥ वागीश्वरी सहचरी नियमेन लक्ष्मी- भ्रूवल्लरीवशकरी भुवनानि गेहम् । रूपं त्रिलोकनयनामृतमम्ब तेषां कामाक्षि येषु तव वीक्षणपारतत्री ॥ २७ ॥ माहेश्वरं झटिति मानसमीनमम्ब कामाक्षि धैर्यजलधौ नितरां निमग्नम् । १. नटी. २. 'तरलीकृत' इति ग-पाठः. ३. मन्दमिति क्रियाविशेषणम्, ४. त्रयम्बकमङ्गं हर्म्यभूमिरित्यन्वयः. ५. 'करुणाकटाक्षः' इति घ-पाठः, पञ्चशती। जालेन शृङ्खलयति त्वदपाङ्गनाम्ना विस्तारितेन विषमायुधदाशकोऽसौ ।। २८ ॥ उन्मथ्य बोधकमलाकरमम्ब जाड्य- स्तम्बेरमं मम मनोविपिने भ्रमन्तम् । कुण्ठीकुरुष्व तरसा कुटिलाग्रसीम्ना कामाक्षि तावककटाक्षमहाङ्कुशेन ॥ २९ ॥ उद्वेल्लितस्तबकितैललितैर्विलासै- रुत्थाय देवि तव गाढकटाक्षकुञ्जात् । दूरं पलाययतु मोहमृगीकुलं मे कामाक्षि सत्वरमनुग्रहकेसरीन्द्रः ॥ ३० ॥ स्नेहादृतां विदलितोत्पलंकान्तिचोरां जेतारमेव जगदीश्वरि जेतुकामः । मानोद्धतो मकरकेतुरसौ धुनीते कामाक्षि तावककटाक्षकृपाणवल्लीम् ॥ ३१ ॥ श्रौतीं व्रजन्नपि सदा सराणं मुनीनां कामाक्षि संततमपि स्मृतिमार्गगामी। कौटिल्यमम्ब कथमस्थिरतां च धत्ते चौर्य च पङ्कजरुचां त्वदपाङ्गपातः ॥ ३२ ॥ नित्यं श्रुतेः परिचितौ यतमानमेव नीलोत्पलं निजसमीपनिवासलोलम् । प्रीत्यैव पाठयति वीक्षणदेशिकेन्द्रः कामाक्षि किं नुं तव कालिमसंप्रदायम् ॥ ३३ ॥ १. शिवमेव. २. गुरुः, ३. 'तु' इति घ-पाठः..
काव्यमाला। प्रान्त्वा मुहुः स्तबकितस्मितफेनराशौ कामाक्षि वक्ररुचिसंचयवारिराशौ । आनन्दति त्रिपुरमर्दननेत्रलक्ष्मी- रालम्ब्य देवि तव मन्दमपाङ्गसेतुम् ॥ ३४ ॥ श्यामा तव त्रिपुरसुन्दरि लोचनश्रीः कामाक्षि कन्दलितमेदुरतारकान्तिः । ज्योत्स्नावती स्मितरुचापि कथं तनोति स्पर्धामहो कुवलयैश्च तथा चकोरैः ॥ ३५ ॥ कालाञ्जनं च तव देवि निरीक्षणं च कामाक्षि साम्यसरणिं समुपैति कान्त्या । निःशेषनेत्रसुलभं जगतीषु पूर्व- मन्यत्रिनेत्रसुलभ तुहिनाद्रिकन्ये ॥ ३६॥ धूमाकुरो मकरकेतनपावकस्य कामाक्षि नेत्ररुचिनीलिमचातुरी ते । अत्यन्तमद्भुतमिदं नयनत्रयस्य हर्षोदयं जनयते हरिणाङ्कमौलेः ।। ३७ ॥ आरम्भलेशसमये तव वीक्षणस्य कामाक्षि मूकमपि वीक्षणमात्रनम्रम् । सर्वज्ञता सकललोकसमक्षमेव कीर्तिवयंवरणमाल्यवती वृणीते ॥ ३८ ॥ कालाम्बुवाह इव ते परितापहारी कामाक्षि पुष्करमधः कुरुते कटाक्षः । १. श्यामवर्णा, रात्रिश्च. २. कीर्तिरेव स्वयंवरणमाल्यं तद्वती सर्वज्ञता. ३. कमलं तिरस्करोति, मेघश्च पुष्कर जलमधः पातयति.
पञ्चशती। ९ पूर्वः परं क्षणरुचा समुपैति मैत्री- मन्यस्तु संततरुचिं प्रकटीकरोति ॥ ३९ ॥ सूक्ष्मेऽपि दुर्गमतरेऽपि गुरुप्रसाद- साहाय्यकेन विचरन्नपवर्गमार्गे । संसारपङ्कनिचये न पतत्य, ते कामाक्षि गाढमवलम्ब्य कटाक्षयष्टिम् ॥ १०॥ कामाक्षि संततमसौ हरिनीलरत- स्तम्भे कटाक्षरुचिपुञ्जमये भवत्याः । बद्धोऽपि भक्तिनिगडैर्मम चित्तहस्ती स्तम्भं च बन्धमपि मुञ्चति हन्त चित्रम् ॥ ११ ॥ कामाक्षि कार्ण्यमपि संततमञ्जनं च बिभ्रन्निसर्गतरलोऽपि भवत्कटाक्षः । वैमल्यमन्वहमनञ्जनतां च भूयः स्थैर्य च भक्तहृदयाय कथं ददाति ॥ ४२ ॥ मन्दस्मितस्तबकितं मणिकुण्डलांशु- स्तोमप्रवालरुचिरं शिशिरीकृताशम् । कामाक्षि राजति कटाक्षरुचेः कदम्ब- मुद्यानमम्ब करुणाहरिणेक्षणायाः ॥ १३ ॥ कामाक्षि तावककटाक्षमहेन्द्रनील- सिंहासनं श्रितवतो मकरध्वजस्य । साम्राज्यमङ्गलविधौ मणिकुण्डलश्री- नीराजनोत्सवतरङ्गितदीपमाला ॥ ४४ ॥ १. विद्युता; (पक्षे) क्षणमात्रस्थायिन्या कान्त्या.
काव्यमाला। मातः क्षणं स्वपय मां तव वीक्षितेन मन्दाक्षितेन सुजनैरपरोक्षितेन । कामाक्षि कर्मतिमिरोत्करभास्करण श्रेयस्करेण मधुपातितस्करेण ॥ ४५ ॥ प्रेमापगापयसि मज्जनमारचय्य युक्तः स्मितांशुकृतभस्मविलेपनेन । कामाक्षि कुण्डलमणिद्युतिभिर्जटालः श्रीकण्ठमेव भजते तव दृष्टिपातः ॥ ४६॥ कैवल्यदाय करुणारसकिंकराय कामाक्षि कन्दलितविभ्रमशंकराय । आलोकनाय तव भक्तशिवकराय मातर्नमोऽस्तु परतन्त्रितशंकराय ॥ ४७ ॥ साम्राज्यमङ्गलविधौ मकरध्वजस्य लोलालकालिकृततोरणमाल्यशोभे । कामेश्वरि प्रचलदुत्पलवैजयन्ती- चातुर्यमेति तब चञ्चलदृष्टिपातः ॥ १८ ॥ मार्गेण मञ्जुकचकान्तितमोवृतेन मन्दायमानगमना मदनातुरासौ। कामाक्षि दृष्टिरयते तव शंकराय संकेतभूमिमचिरादभिसारिकेव ॥ १९ ॥ श्रीडानुवृत्तिरमणीकृतिसाहचर्या शैवालितां गलरुचा शशिशेखरस्य । १. 'मन्देक्षितेन' इति ग-पाठः, २. 'प्रचुरमुत्पल' इति ग-पाठः३. 'तम द्यतेन' इति पुस्तकेषु पाठः.
पञ्चशती।
कामाक्षि कान्तिसरसीं त्वदपाङ्गलक्ष्मी-
मन्दं समाश्रयति मज्जनखेलनाय ॥ ५० ॥
काषायमंशुकमिव प्रकटं दधानो
माणिक्यकुण्डलरुचिं ममताविरोधी ।
श्रुत्यन्तसीमनि रतः सुतरां चकास्ति
कामाक्षि तावककटाक्षयतीश्वरोऽसौ ॥ ५१ ॥
पाषाण एव हरिनीलमणिर्दिनेषु
प्रम्लानतां कुवलयं प्रकटीकरोति ।
नैमित्तिको जलदमेचकिमा ततस्ते
कामाक्षि शून्यमुपमानमपाङ्गलक्ष्म्याः ।। ५२ ॥
शृङ्गारविभ्रमवती सुतरां सलज्जा
नासाग्रमौक्तिकरुचा कृतमन्दहासा ।
श्यामा कटाक्षसुषमा तव युक्तमेत-
कामाक्षि चुम्बति दिगम्बरबक्रबिम्बम् ॥ ५३ ।।
नीलोत्पलेन मधुपेन च दृष्टिपातः
कामाक्षि तुल्य इति ते कथमामनन्ति ।
शैत्येन निन्दति यदन्वहमिन्दुपादा-
पाथोरुहेण यदसौ कलहायते च ॥ ५४ ॥
ओष्ठप्रभापटलविद्रुममुद्रिते ते
भ्रूवल्लिवीचिसुभगे मुखकान्तिसिन्धौ ।
कामाक्षि वारिभरपूरणलम्बमान-
कालाम्बुवाहसरणिं लभते कटाक्षः ॥ ५५ ॥
काव्यमाला। मन्दसितैर्धवलिता मणिकुण्डलांशु- संपर्कलोहितरुचिस्त्वदपाङ्गधारा । कामाक्षि मल्लिकुसुमैनवपल्लवैश्व नीलोत्पलैश्च रचितेव विभाति माला ॥५६॥ कामाक्षि शीतलकृपारसनिझराम्भ:- संपर्कपक्षमलरुचिस्त्वदपाङ्गमाला । गोभिः सदा पुररिपोरंभिलष्यमाणा दूर्वाकदम्बकविडम्बनमातनोति ॥ ५७ ।। हृत्पङ्कजं मम विकासयतु प्रमुष्ण- त्रुल्लासमुत्पलरुचेस्तमसां निरोद्धा । दोषानुषङ्गजडतां जगतां धुनानः कामाक्षि वीक्षणविलासदिनोदयस्ते ॥ ५८ ॥ चक्षुर्विमोहयति चन्द्रविभूषणस्य कामाक्षि तावककटाक्षतमःप्ररोहः । प्रत्यङ्मुखं तु नयनं स्तिमितं मुनीनां प्राकाश्यमेव नयतीति परं विचित्रम् ॥ ५९॥ कामाक्षि वीक्षणरुचा युधि निर्जितं ते नीलोत्पलं निरवशेषगताभिमानम् । आगत्य तत्परिसरं श्रवणावतंस- व्याजेन नूनमभयार्थनमातनोति ॥ ६० ॥ आश्चर्यमम्ब वदनाभ्युदयावलम्बी कामाक्षि चञ्चलनिरीक्षणविभ्रमस्ते । १. 'दृष्टिभिः; (पक्षे) धेनुभिः. २. 'अभिलक्ष्यमाणा' इति क-ख-ग-पाठः. ३. 'अभयार्थित' इति घ-पाठः, पञ्चशती। धैर्य विधूय तनुते हृदि रागबन्धं शंभोस्तदेव विपरीततया मुनीनाम् ॥ ६१ ॥ जन्तोः सकृत्प्रणमतो जंगदीड्यतां च तेजस्वितां च निशितां च मति सभायाम् । कामाक्षि माक्षिकझरीमिव वैखरी च लक्ष्मी च पक्ष्मलयति क्षणवीक्षणं ते ॥ ६२॥ कादम्बिनी किमयते न जलानुषङ्गं भृङ्गावली किमुररीकुरुते न पद्मम् । किं वा कलिन्दतनया सहते न गङ्गां कामाक्षि निश्चयपदं न तवाक्षिलक्ष्मीः ।। ६३ ।। काकोलपावकतृणीकरणेऽपि दक्षः कामाक्षि बालकसुधाकरशेखरस्य । अत्यन्तशीतलतमोऽप्यनुपारतं ते चित्तं विमोहयति चित्रमयं कटाक्षः ॥ ६४ ॥ कार्पण्यपूररसवर्धितमम्ब मोह- कन्दोद्गतं भवमयं विषपादपं मे । तुङ्गं छिनत्तु तुहिनाद्रिसुते भवत्याः काञ्चीपुरेश्वरि कटाक्षकुठारधारा ॥ ६५ ॥ कामाक्षि घोरभवरोगचिकित्सनार्थ- मभ्यर्थ्य देशिककटाक्षभिषक्प्रसादात् । तत्रापि देवि लभते सुकृती कदाचि- दत्यन्तदुर्लभमपाङ्गमहौषधं ते ॥ ६६ ॥ १. जगत्पूज्यताम्. २. मधुधारामिव वाणीम्. ३. विषाग्निनिवारणे. ४. 'दक्षं इति पुस्तकेषु पाह: ५. शिवस्य.
काव्यमाला। vi कामाक्षि देशिककृपाङ्कुरमाश्रयन्तो नानातपोनियमनाशितपाशबन्धाः । वासालयं तव कटाक्षममुं महान्तो लब्ध्वा सुखं समधियो विचरन्ति लोके ॥ ६७ ।। साकूतसल्लपितगर्भितमुग्धहासं व्रीडानुरागसहचारिविलोकनं ते । कामाक्षि कामपरिपन्थिनि मारवीर- साम्राज्यविभ्रमदशां सफलीकरोति ॥ ६८ ॥ कामाक्षि विभ्रमबलैकनिधिविधाय भ्रूवल्लिचापकुटिलीकृतिमेव चित्रम् । खाधीनतां तव निनाय शशाङ्कमौले- रङ्गार्धराज्यसुखलाभमपाङ्गवीरः ॥ ६९ ॥ कामाकुरैकनिलयस्तव दृष्टिपातः कामाक्षि भक्तमनसां प्रददाति कामान् । रोगान्वितः खयमपि प्रकटीकरोति वैराग्यमेव कथमेष महामुनीनाम् ॥ ७० ॥ कालाम्बुवाहनिवहैः कलहायते ते कामाक्षि कालिममदेन सदा कटाक्षः । चित्रं तथापि नितराममुमेव दृष्ट्वा सोत्कण्ठ एव रमते किल नीलकण्ठः ॥ ७१ ।। कामाक्षि मन्मथरिपुं प्रति मारताप- मोहान्धकारजलदागमनेन नृत्यन् । १. 'प्रददातु' इति ग-पाठः. २. 'मार्गान्वितः' इति घ-पाठः...
पञ्चशती। दुष्कर्मकञ्चकिकुलं कवलीकरोतु व्यामिश्रमेचकरुचिस्त्वदपाङ्गकेकी ।। ७२ ।। कामाक्षि मन्मथरिपोरवलोकनेषु कान्तं पयोजमिव तावकमक्षिपातम् । प्रेमागमो दिवसवद्विकचीकरोति लज्जाभरो रजनिवन्मुकुलीकरोति ॥ ७३ ॥ मूको विरिञ्चति परं पुरुषः कुरूपः कंदर्पति त्रिदशराजति किंपचानः । कामाक्षि केवलमुपक्रमकाल एव लीलातरङ्गितकटाक्षरुचः क्षणं ते ॥ ७४ ।। नीलालका मधुकरन्ति मनोज्ञनासा- मुक्तारुचः प्रकटरूढबिसाङ्कुरन्ति । कारुण्यमम्ब मकरन्दति कामकोटि- मन्ये ततः कमलमेव विलोकनं ते ।। ७५ ॥ आकाश्यमाणफलदानविचक्षणायाः कामाक्षि तावककटाक्षककामधेनोः । संपर्क एव कथमम्ब विमुक्तयाश- बन्धाः स्फुटं तनुभृतः पशुतां त्यजन्ति ॥ ७६ ।। संसारधर्मपरितापजुषां नराणां कामाक्षि शीतलतराणि तवेक्षितानि । चन्द्रातपन्ति धनचन्दनकर्दमन्ति मुक्तागुणन्ति हिमवारिनिषेचनन्ति ॥ ७७ ॥ १. 'विलोचनं' इति क-ग-घ-पाठः.
काव्यमाला। प्रेमाम्बुराशिसततस्त्रपितानि चित्रं कामाक्षि तावककटाक्षनिरीक्षणानि । संधुक्षयन्ति मुहुरिन्धनराशिरीत्या मारद्रुहो मनसि मन्मथचित्रभानुम् ॥ ७८ ॥ कालाञ्जनप्रतिभट कमनीयकान्त्या कंदर्पतन्त्रकलया कलितानुभावम् । काञ्चीविहाररसिके कलुषार्तिचोरं कल्लोलयख मयि ते करुणाकटाक्षम् ।। ७९ ॥ क्रान्तेन मन्मथमदेन विमोद्यमान- खान्तेन चूततरुमूलगतस्य पुंसः। कान्तेन किंचिदवलोकय लोचनस्य प्रान्तेन मां जननि काञ्चिपुरीविभूषे ॥ ८० ॥ कामाक्षि केऽपि सुजनास्त्वदपाङ्गसङ्गे कण्ठेन कन्दलितकालिमसंप्रदायाः । उत्तंसकल्पितचकोरकुटुम्बपोषा नक्तंदिवप्रसवभूनयना भवन्ति ॥ ८१ ॥ नीलोत्पलप्रसवकान्तिनिदर्शनेन कारुण्यविभ्रमजुषा तव वीक्षणेन । कामाक्षि कर्मजलधेः केलशीसुतेन पाशत्रयाद्वयममी परिमोचनीयाः॥ ८२ ।। अत्यन्तचञ्चलमकृत्रिममञ्जनं किं झंकारभङ्गिरहिता किमु भृङ्गमाला । १. कामाग्निम्. २. एकाम्रनाथस्य. ३. सूर्यचन्द्रनेत्राः ४. शिवत्वं यान्तीत्यर्थः. ५. अगस्त्येन.
पञ्चशती। कामाक्षि पालयतु धूमाङ्कुरः किमु हुताशनसङ्गहीनः कामाक्षि नेत्ररुचिनीलिमकन्दली ते ॥ ८३ ।। कामाक्षि नित्यमयमञ्जलिरस्तु मुक्ति- बीजाय विभ्रममदोदयघूर्णिताय । कंदर्पदर्पपुनरुद्भवसिद्धिदाय कल्याणदाय तव देवि दृगञ्चलाय ॥ ८४ ॥ दर्पाकुरो मकरकेतनविभ्रमाणां निन्दाकुरो विदलितोत्पलचातुरीणाम् । दीपाङ्कुरो भवतमिस्रकदम्बकानां मां त्वदपाङ्गपातः ॥ ८५ ।। कैवल्यदिव्यमणिरोहणपर्वतेभ्यः कारुण्यनिर्झरपयःकृतमजनेभ्यः । कामाक्षि किंकरितशंकरमानसेभ्य- स्तेभ्यो नमोऽस्तु तव वीक्षणविभ्रमेभ्यः ॥ ८६ ।। अल्पीय एव नवमुत्पलमम्ब हीना मीनस्य सा सरणिरम्बुरुहां च किं वा । दूरे मृगी तदसमञ्जसमञ्जनं च कामाक्षि वीक्षणरुचौ तव तर्कयामः॥ ८७ ॥ मिश्रीभवद्गरलपङ्किलशांकरोरः- सीमाङ्गणे किमपि रिङ्खणमादधानः । हेलावधूतललितश्रवणोत्पलोऽसौ कामाक्षि बाल इव राजति ते कटाक्षः ॥ ८८॥.. २ पंच काव्यमाला। प्रौढीकरोति विदुषां नवसूक्तिघाटी- चूताटवीषु बुधकोकिललाल्यमानम् । माध्वीरसं परिमलं च निरर्गलं ते कामाक्षि वीक्षणविलासवसन्तलक्ष्मीः ॥ ८९ ॥ कूलंकषं वितनुते करुणाम्बुवर्षी सारखतं सुकृतिनः सुलभं प्रवाहम् । तुच्छीकरोति यमुनाम्बुतरङ्गभङ्गी कामाक्षि किं तव कटाक्षमहाम्बुवाहः ॥ १० ॥ जागर्ति देवि करुणा शुकसुन्दरी ते ताटङ्करत्नरुचिदाडिमखण्डशोणे । कामाक्षि निर्भरकटाक्षमरीचिपुञ्ज- माहेन्द्रनीलमणिपञ्जरमध्यभागे ॥ ९१ ।। कामाक्षि सत्कुवलयस्य सगोत्रभावा- दाक्रामति श्रुतिमसौ तव दृष्टिपातः । किं च स्फुट कुटिलतां प्रकटीकरोति श्रूवल्लरीपरिचितस्य फलं किमेतत् ॥ ९२ ।। एषा तवाक्षिसुषमा विषमायुधस्य नाराचवर्षलहरी नगराजकन्ये। शङ्के करोति शतधा हृदि धैर्यमुद्रां श्रीकामकोटि यदसौ शिशिरांशुमौलेः ॥ ९ ॥ बाणेन पुष्पधनुषः परिकल्प्यमान- त्राणेन भक्तमनसां करुणाकरण । १. शुक्री.
पञ्चशती। कोणेन कोमलदृशस्तव कामकोटि शोणेन शोषय शिवे मम शोकसिन्धुम् ॥ १४ ॥ मारद्रुहो मुकुटसीमनि लाल्यमाने मन्दाकिनीपयसि ते कुटिलं चरिणः । कामाक्षि कोपरभसाहलमानमीन- संदेहमङ्कुरयति क्षणमक्षिपातः ॥ ९५ ॥ कामाक्षि संवलितमौक्तिककुण्डलांशु- चञ्चत्सितश्रवणचामरचातुरीकः । स्तम्भ निरन्तरमपाङ्गमये भवत्या बद्धश्चकास्ति मकरध्वजमत्तहस्ती। ९६ ॥ यावत्कटाक्षरजनीसमयागमस्खे कामाक्षि तावदचिरान्नमतां नराणाम् । आविर्भवत्यमृतदीधितिबिम्बमम्ब- संविन्मयं हृदयपूर्वगिरीन्द्रशृङ्गे ॥ ९७ ॥ कामाक्षि कल्पविटपीव भवत्कृटाक्षी दित्सुः समस्तविभवं नमतां नराणाम् । भृङ्गस्य नीलनलिनस्य च कान्तिसंप- सर्वस्वमेव हरतीति परं विचित्रम् ॥ ९८॥ अज्ञातभक्तिरसमप्रसरद्विवेक- मत्यन्तगर्वमनधीतसमस्त्रशास्त्रम् । अप्राप्तसत्यमसमीपगतं च मुक्तः क्रामाक्षि त्रैव तव काङ्क्षति दृष्टिपावः ॥ ९९ ॥ १. "स्मित' इति क-ख-ग-पाठः, २. 'अप्राप्यसत्य' इति क-ख-ग-पाठः.
२० काव्यमाला। अत्यन्तशीतलमनगलकर्मपाक- काकोलहारि सुलभं सुमनोभिरेतत् । पीयूषमेव तव वीक्षणमम्ब किंतु कामाक्षि नीलमिदमित्ययमेव भेदः ॥ १०० ॥ इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यां कटाक्षशतकं प्रथमम् । मन्दस्मितशतकम्। बनीमो वयमञ्जलिं प्रतिदिनं बन्धच्छिदे देहिनां कंदर्पागमतन्त्रमूलगुरवे कल्याणकेलीभुवे । कामाक्ष्या घनसारपुञ्जरजसे कामद्रुहश्चक्षुषां मन्दारस्तबकप्रभामदजुषे मन्दस्मितज्योतिषे ॥१॥ सनीचे नवमल्लिकासुमनसां नासाग्रमुक्तामणे- राचार्याय मृणालकाण्डमहसां नैसर्गिकाय द्विधे । खर्धन्या सहयुध्वने हिमरुचेरर्धासनाध्यासिने कामाक्ष्याः स्मितमञ्जरीधवलिमाद्वैताय तस्मै नमः ॥ २ ॥ कर्पूरद्युतिचातुरीमतितरामल्पीयसी कुर्वती दौर्भाग्योदयमेव संविदधती दोषाकरीणां त्विषाम् । क्षुल्लानेव मनोज्ञमल्लिनिकरान्फुल्लानपि व्यञ्जती कामाक्ष्या मृदुलस्मितांशुलहरी कामप्रसूरस्तु मे ॥ ३ ॥ या पीनस्तनमण्डलोपरि लसत्कर्पूरलेपायते या नीलेक्षणरात्रिकान्तिततिषु ज्योत्साप्ररोहायते । या सौन्दर्यधुनीतरङ्गततिषु व्यालोलहंसायते कामाक्ष्याः शिशिरीकरोतु हृदयं सा मे स्मितप्राचुरी ॥४॥ १. 'सध्रीचे', 'आचार्याय', इत्यादिपदानि तुल्यतां लक्षयन्ति.
पञ्चशती। २१ येषां गच्छति पूर्वपक्षसरणिं कौमुद्वतः श्वेतिमा येषां संततमारुरुक्षति तुलाकक्षा शरच्चन्द्रमाः । येषामिच्छति कम्बुरप्यसुलभामन्तेवसत्प्रक्रियां कामाक्ष्या ममतां हरन्तु मम ते हासत्विषामङ्कुराः ॥ ५॥ आशासीमसु संततं विदधती नैशाकरी व्याक्रियां काशानामभिमानभङ्गकलनाकौशल्यमाबिभ्रती। ईशानेन विलोकिता सकुतुकं कामाक्षि ते कल्मष- क्लेशापायकरी चकास्ति लहरी मन्दस्मितज्योतिषाम् ॥ ६॥ आरूढस्य समुन्नतस्तनतटीसाम्राज्यसिंहासनं कंदर्पस्य विभोर्जगत्रयजयप्राकट्यमुद्रानिधेः । यस्याश्चामरचातुरी कलयते रश्मिच्छटाचञ्चला सा मन्दस्मितमञ्जरी भवतु नः कामाय कामाक्षि ते ॥ ७ ॥ शंभोर्या परिरम्भसंभ्रमविधौ नैर्मल्यसीमानिधि- गाणीव तरङ्गिणी कृतमृदुस्यन्दा कलिन्दात्मजाम् । कल्माषीकुरुते कलङ्कसुषमां कण्ठस्थलीचुम्बिनी कामाक्ष्याः मितकन्दली भवतु सा कल्याणसंदोहिनी॥८॥ जेतुं हारलतामिव स्तनतटीं संजग्मुषी संततं गन्तुं निर्मलतामिव द्विगुणितां मना कृपास्रोतसि । वक्तुं विस्मयनीयतामिव हरं रागाकुलं कुर्वती मञ्जुस्ते स्मितमञ्जरी भवभयं मनातु कामाक्षि में ॥ ९॥ श्वेतापि प्रकटं निशाकररुचां मालिन्यमातन्वती शीतापि स्मरपावकं पशुपतेः संधुक्षयन्ती सदा । १. 'कौमुद्वतश्वेतिमा' इति ख-ग-पाठः. २. 'मे' इति ग-पाठः. ३. गङ्गेव.
२२ काव्यमाला। खाभाव्यादधराश्रितापि नमतामुच्चैर्दिशन्ती गति कामाक्षि स्फुटमन्तरा स्फुरतु नस्त्वन्मन्दहासप्रभा ॥ १०॥ वक्रश्रीसरसीजले तरलितश्रूवल्लिकल्लोलिते कालिन दधतीं कटाक्षजनुषा माधुव्रती व्याधुतिम् । निर्निद्रामलपुण्डरीक कुहनापाण्डित्यमाबिभ्रती कामाक्ष्याः मितचातुरी मम मनःकातर्थसुन्मूलयेत् ॥ ११ ॥ नित्यं बाधितबन्धुजीवमधरं मैत्रीजुषं पल्लवैः शुद्धल द्विजेमण्डलस्य च तिरस्कारमप्याश्रिता । या वैमल्यवती सदैव नमतां चेतः पुनीतेतरां कामाक्ष्या हृदयं प्रसादयतु मे सा मन्दहासप्रभा॥ १२ ॥ द्रुह्यन्ती तमसे मुहुः कुमुदिनीसाहाय्यमाबिभ्रती यन्तिी चन्द्रकिशोरशेखरवपुःसौधाङ्गणे प्रेक्षणम् । ज्ञानाम्भोनिधिबीचिका सुमनसां कूलंकषां कुर्वती कामाक्ष्याः खितकौमुदी हरतु मे संसरितापोदयम् ॥ १३ ॥ काश्मीरद्वधातुकर्दमरुची कल्माषतां बिभ्रती हसीधैरिव कुर्वती परिचिति हारीकृतैौक्तिकैः । वक्षोजन्मतुषारशैलकटके संचारमातन्वती कामाक्ष्या मृदुलस्मितद्युतिमयी भागीरथी भासते ॥ १४ ॥ कम्बोवंशपरम्पस ईव कृपासंतानवलीभुवः सफुल्लतबका इव प्रसमरा मूर्ताः प्रसादा इचं । १. कुहन दम्भचयो. २. बन्धूनों जीवः; (पक्षे) बन्धुजीवो बन्धूकापरप- र्यायो रक्तपुष्पविशेषः. ३. बिट; (पक्ष) किसलयः. ४. ब्राह्मणसमूहस्य; (पक्षे) दन्तपक्के, ५. 'धामकर्दम' इति ग-पाठः.
पञ्चशती।
२३
वाक्पीयूषकणा इव त्रिपथगा पर्यायमेदा इव
प्राजन्ते तव मन्दहासकिरणाः काञ्चीपुरीनायिके ॥ १५॥
वक्षोजे घनसारपत्ररचनाभङ्गीसपत्नायिता
कर्णे बन्धुरदन्तपत्रकुहना व्यापारमुद्रायिता ।
ओष्ठश्रीनिकुरुम्बपल्लवपुटे प्रेखनसूनायिता
कामाक्षि स्फुरता मदीयहृदये त्वन्मन्दहासप्रभा ॥ १६ ॥
येषां बिन्दुरिवोपरि प्रचलितो नासाग्रमुक्तामणि-
येषां दीन इवाधिकण्ठमयते हारः करालम्बनम् ।
येषां बन्धुरिवोष्ठयोररुणिमा धत्ते खयं रञ्जनं
कामाक्ष्याः अभवन्तु ते मम शिवोल्लासाय हासाङ्कुराः ॥१७॥
या जाच्याम्बुनिधि क्षिणोति भजतां वैरायते कैरकै-
नित्यं या नियमेन या च यतते कर्तुं त्रिनेत्रोत्सवम् ।
बिम्बं चान्द्रमसं च वञ्चयति या गर्वेण सा ताशी
कामाक्षि सितमञ्जरी तव कथं ज्योत्लेत्यसौ कीयते ॥१८॥
आरूढा रभसात्पुरः पुररिपोराश्लेषणोपक्रमे
या ते मातरुपैति दिव्यतटिनीशङ्काकरी तत्क्षणम् ।
ओष्ठं वेश्यति ध्रुवौ कुटिलयत्यानम्रयत्याननं
तां वन्दे मृदुहासपूरसुषमामेकाम्रनाथप्रिये ॥ १९ ॥
वक्रेन्दोस्तव चन्द्रिका स्थितरुचिर्वल्गु स्फुरन्ती सतां
स्याच्चेद्युक्तमिदं चकोरमनसां कामाक्षि कौतूहलम् ।
एतच्चित्रमहर्निशं यदधिकामेकां सदा गाहते
बिम्बोष्ठधुमणिप्रभाखपि च यहिब्बोकमालम्बते ॥ २० ॥
२४
काव्यमाला।
साहाय्यं कलशाम्बुधेर्वहति ते कामाक्षि मन्दस्मितं
शोभामोष्ठरुचा च विद्रुमभवामेतद्भिदां ब्रूमहे ।
एतस्मादुदितां पुरा किल पपौ शर्वः पुराणः पुमा-
नेतन्मध्यसमुद्भवां रसयते माधुर्यरूपां सुधाम् ॥ २१ ॥
उत्तुङ्गस्तनकुम्भशैलकटके विस्तारिकस्तूरिका-
पत्रश्रीजुषि चञ्चलाः मितरुचः कामाक्षि ते कोमलाः ।
संध्यादीधितिरञ्जिता इव मुहुः सान्द्राधरज्योतिषा
व्यालोलामलशारदाभ्रशकलव्यापारमातन्वते ॥ २२ ॥
क्षीरं दूरत एव तिष्ठतु कथं वैमल्यमात्रादिदं
मातस्ते सहपाठवीथिमयतां मन्दस्मितैर्मञ्जुलैः ।
किं चेयं तु निदास्ति दोहनवशामेतत्तु संजायते
कामाक्षि स्वयमर्थितं प्रणमतामेतत्तु दोदुह्यते ॥ २३ ॥
कर्पूरैमृतांशुभिर्जननि ते कान्तैश्च चन्द्रातपै-
मुक्ताहारगुणैर्मृणालवलयैर्मुग्धस्मितश्रीरियम् ।
श्रीकाञ्चीपुरनायिके समतया संस्तूयते सज्जनै-
स्तत्ताडङ् मम तापशान्तिविधये किं देवि मन्दायते ॥ २४ ॥
मध्ये गर्भितम वाक्यलहरीमाध्वीझरीशीतला
मन्दारस्तबकायते जननि ते मन्दस्मितांशुच्छटा ।
यस्या वर्धयितुं मुहुर्विकसनं कामाक्षि कामद्रुहो
वल्गुर्वीक्षणविभ्रमव्यतिकरो वासन्तमासायते ॥ २५ ॥
बिम्बोष्ठद्युतिपुञ्जरञ्जितरुचिस्त्वन्मन्दहासच्छटा
कल्याणं गिरिसार्वभौमतनये कल्लोलयत्वाशु मे ।
फुल्लन्मल्लिपिनद्धहल्लकमयी मालेव या पेशला
श्रीकाञ्चीश्वरि मारमर्दितुरुरोमध्ये मुहुर्लम्बते ॥ २० ॥
पञ्चशती। २५ बिभ्राणा शरदभ्रविभ्रमदशां विद्योतमानाप्यसौ कामाक्षि स्मितमञ्जरी किरति ते कारुण्यधारारसम् । आश्चर्य शिशिरीकरोति जगतीमालोक्य चैनामहो कामं खेलति नीलकण्ठहृदयं कौतूहलान्दोलितम् ॥ २७ ॥ प्रेङ्क्षप्रौढकटाक्षकुञ्जकुहरेष्वत्यच्छगुच्छायितं वक्रेन्दुच्छविसिन्धुवीचिनिचये फेनप्रतानायितम् । नैरन्तर्यविजृम्भितस्तनतटे नैचोलपट्टायितं कल्माषं कवलीकरोतु मम ते कामाक्षि मन्दस्मितम् ॥ २८ ॥ पीयूषं तव मन्थरस्मितमिति व्यथैव सापि प्रथा कामाक्षि ध्रुवमीदृशं यदि भवेदेतत्कथं वा शिवे । मन्दारस्य कथालवं न सहते मश्नाति मन्दाकिनी- मिन्दं निन्दति कीर्तिते च कलशीपाथोधिमीर्ष्यायते ॥ २९ ॥ विश्वेषां नयनोत्सवं वितनुतां विद्योततां चन्द्रमा विख्यातो मदनान्तकेन मुकुटीमध्येन संमान्यताम् । आः किं जातमनेन हाससुषमामालोक्य कामाक्षि ते कालङ्कीमवलम्बते खलु दशां कल्माषहीनोऽप्यसौ ॥ ३० ॥ चेतः शीतलयन्तु नः पशुपतेरानन्दजीवातवो नम्राणां नयनाध्वसीमसु चरच्चन्द्रातपोपक्रमाः । संसाराख्यसरोरुहाकरखेलीकारे तुषारोत्कराः कामाक्षि स्मरकीर्तिबीजनिकरास्त्वन्मन्दहासाङ्कुराः ॥ ३१ ॥ कौघाख्यतमःकचाकचिकरान्कामाक्षि संचिन्तये त्वन्मन्दस्मितरोचिषां त्रिभुवनक्षेमंकरानकुरान् । १. ईर्षायति' इति ग-पाठः. २. 'खिलीकारे' इति म-पाठः..
काव्यमाला। ये वकं शिशिरश्रियो विकसितं चन्द्रातपाम्भोरुह- द्वेषोद्घोषणचातुरीमिव तिरस्कर्तुं परिष्कुर्वते ॥ ३२ ॥ कुर्युनः कुलशैलराजतनये कूलंकर्ष मङ्गलं कुन्दस्पर्धनचुञ्चवस्तव शिवे मन्दस्मितप्रक्रमाः । ये कामाक्षि समस्तसाक्षिनयनं संतोषयन्त्यान्तरं कर्पूरप्रकरा इव प्रसृमराः पुंसामसाधारणाः ॥ ३३ ॥ कस्रेण नपयख कर्मकुहनाचोरेण मारागम- व्याख्याशिक्षणदीक्षितेन विदुषामक्षीणलक्ष्मीपुषा । कामाक्षि स्मितकन्दलेन कलुषस्फोटक्रियाचुञ्चना कारुण्यामृतवीचिकाविहरणप्राचुर्यधुर्येण माम् ॥ ३४ ॥ वन्मन्दसितकन्दलस्य नियतं कामाक्षि शङ्कामहे बिन्धः कश्चन नूतनः प्रचलितो नैशाकरः शीकरः । किं च क्षीरपयोनिधिः प्रतिनिधिः स्वाहिनीवीचिका- बिब्बोकोऽपि विडम्ब एव कुहना मल्लीमतल्लीरुचः ॥ ३५॥ दुष्कर्मार्कनिसर्गकर्कशमहः संपर्कतप्तं मिल- सर्वं शंकरवल्लभे मम मनः काञ्चीपुरालंक्रिये । अम्ब त्वन्मृदुलस्मितामृतरसे मङ्क्त्वा विधूय व्यथा- मानन्दोदयसौषशृङ्गपदवीमारोढुमाकाङ्क्षति ॥ ३६ ॥ नम्राणां नगराजशेखरसुते नाकालयानां पुरः कामाशि खरया विपप्रशमने कारुण्यधाराः किरन् । आगच्छन्तमसुग्रहं प्रकटयत्नानन्दबीजानि ते नासीरे मृदुहास एव तनुते नाथे सुघाशीतलः ॥ ३७॥ १. 'लक्ष्मीजुषा' इति ख-पाठ, पञ्चशती। कामाक्षि प्रथमानविभ्रमनिधिः कंदर्पदपप्रसू- मुग्धस्ते मृतुहास एव गिरिजे मुष्णातु मे किस्विषम् । यं द्रष्टुं विहिते कराह उमे शंभुस्त्रपामीलितः मेरं कारयति स्म ताण्डवविनोदानन्दिना तण्डुना ॥ ३८॥ क्षुण्णं केनचिदेव धीरमनसा कुत्रापि मानाजनैः कर्मप्रन्थिनियन्त्रितैरसुगमं कामाक्षि सामान्यतः । मुग्धैर्द्रष्टुमशक्यमेव मनसा मूढस्य मै चक्षुषो मार्ग दर्शयतु प्रदीप इव ते मन्दस्मितश्रीरियम् ॥ ३९ ॥ ज्योत्साकान्तिभिरेव निर्मलतर नैशाकरं मण्डलं हंसैरेव शरद्विकाससमये व्याकोचमम्भोरुहम् । खच्छैरेव विकखरैरुडुमणैः कामाक्षि बिम्बं दिवः पुण्यैरेव मृदुस्मितैस्तव मुखं पुष्णाति शोभाभरम् ॥ ४०॥ मानग्रन्थिविधुतुदेन रभसादाखाद्यमाने नव- प्रेमाडम्बरपूर्णिमाहिमकरे कामाक्षि ते तत्क्षणम् । आलोक्य मितचन्द्रिका मुहुरिमामुन्मीलनं जरमुषीं चेतः शीलयते चकोरचरितं चन्द्रार्धचूडामणेः ॥ ११ ॥ कामाक्षि मितमञ्जरी तव भने यस्मास्त्विषामङ्कुरा- नापीनस्तनपानलालसतथा निःशङ्कमक्केशयः । ऊर्ध्व वीक्ष्य विकर्षति प्रस्मरानुद्दामया शुण्डया सूनुस्ते बिसशङ्कयाशु कुहना दन्तावलग्रामणीः ॥ ४२ ॥ गाढाश्लेषविमर्दसंभ्रमवशादुद्दाममुक्तागुण- प्रालम्बे कुचकुम्भयोर्विगलिते दक्षद्विषो वक्षसि । १. तण्डुः शिवस्य कश्चिदणः.
२८ काव्यमाला। या सख्येन पिनयति प्रचुरया मासा तदीयां दशां सा मे खेलतु कामकोटि हृदये खच्छा स्मितांशुच्छटा ॥ ४३ ।। मन्दारे तव मन्थरमितरुचो मात्सर्यमालोक्यते कामाक्षि स्मरशासने च नियतं रागोदयो लक्ष्यते । चान्द्रीषु द्युतिमञ्जरीषु च महान्द्वेषाङ्कुरो दृश्यते शुद्धानां कथमीदृशी गिरिसुतेऽशुद्धा दशा कथ्यताम् ॥ ४४ ॥ पीयूषं खलु पीयते सुरजनैर्दुग्धाम्बुधिर्मथ्यते माहेशैश्च जटाकलापनिगडैर्मन्दाकिनी नद्यते। शीतांशुः परिभूयते च तमसा तस्मादियं तादृशी कामाक्षि सितमञ्जरी तव वचोवैदग्ध्यमुल्लङ्घते ॥ १५ ॥ आशङ्के तव मन्दहासलहरीमन्यादृशी चन्द्रिका- मेकानेशकुटुम्बिनि प्रतिपदं यस्याः प्रभासंगमे । वैक्षोजाम्बुरुहे न ते रह्यतः कांचिद्दशां कौङमली- मास्याम्भोरुहमम्ब किं च शनकैरालम्बते फुल्लताम् ॥ १६ ॥ आस्तीर्णाधरकान्तिपल्लवचये पातं मुहुर्जग्मुषी कामद्रोहिणि मांसलस्मरशरज्वालावलिं व्यञ्जती। निन्दन्ती घनसारहारवलयज्योत्स्नामृणालानि ते कामाक्षि सितचातुरी विरहिणीरीतिं जगाहेतराम् ॥ ४७ ।। सूर्यालोकविधौ विकासमधिकं यान्ती हरन्ती तमः- संदोहं नमतां निजस्मरणतो दोषाकरद्वेषिणी। १. 'साधु स्मितांशु' इति ग-पाठः. २. 'दोषाकरो दृश्यते' इति ग-पाठः. ३. 'तस्मादनेतादृशी' इति क-ख-पाठः. ४. 'वक्षोजाम्बुरुही' इति ग-पाठः. ५. 'दोषाङ्कर' इति क-पाठः.
पञ्चशती। निर्यान्ती वदनारविन्दकुहरान्निधूतजाब्या नृणां श्रीकामाक्षि तव मितद्युतिमयी चित्रीयते चन्द्रिका ॥ ४८ ॥ कुण्ठीकुर्युरमी कुबोधघटनामस्मन्मनोमाथिनी श्रीकामाक्षि शिवंकरास्तव शिवे श्रीमन्दहासाङ्कुराः । ये तन्वन्ति निरन्तरं तरुणिमस्तम्बरमग्रामणी- कुम्भद्वन्द्वविडम्बिनि स्तनतटे मुक्ताकुथाडम्बरम् ॥ ४९ ॥ प्रेडन्तः शरदम्बुदा इव शनैः प्रेमानिलैः प्रेरिता मज्जन्तो मदनारिकण्ठसुषमासिन्धौ मुहुर्मन्थरम् । श्रीकामाक्षि तव स्मितांशुनिकराः श्यामायमानश्रियो नीलाम्भोधरनैपुणी तत इतो निन्द्रियन्त्यञ्जसा ॥ ५० ॥ व्यापार चतुराननैकविहृतौ व्याकुर्वती कुर्वती रुद्राक्षग्रहणं करेण सततं वागूर्मिकल्लोलिता । उत्फुल्लं धवलारविन्दमधरीकृत्य स्फुरन्ती सदा श्रीकामाक्षि सरस्वती विजयते त्वन्मन्दहासप्रभा ॥ ५१ ॥ कर्पूरद्युतितस्करेण महसा कल्माषयत्याननं श्रीकाञ्चीपुरनायिके पतिरिव श्रीमन्दहासोऽपि ते । आलिङ्गत्यतिपीवरां स्तनतटीं बिम्बाधरं चुम्बति प्रौढं रागभरं व्यनक्ति मनसो धैर्य धुनीतेतराम् ॥ ५२ ॥ वैशयेन च विश्वतापहरणक्रीडापटीयस्तया पाण्डित्येन पचेलिमेन जगतां नेत्रोत्सवोत्पादने । कामाक्षि स्मितकन्दलैस्तव तुलामारोढुमुद्योगिनी ज्योत्स्वासौ जलराशिपोषणतया दूष्यां प्रपन्ना दशाम् ।। ५३ ॥ १.'मनोमन्थिनी' इति क-ख-पाठः, काव्यमाला। लावण्याम्बुजिनीमृणालवलयैः शृङ्गारगर्जतिप- प्रामण्यः श्रुतिचामरैस्तरुणिमस्वाराज्यबीजाङ्करैः । आनन्दामृतसिन्धुवीचिपृषतैरास्याब्जहंसैस्तव श्रीकामाक्षि मथान मन्दहसितैमत्कं मनःकल्मषम् ।। ५४ ॥ उत्तुङ्गस्तनमण्डलीपरिचलन्माणिक्यहारच्छटा- चञ्चच्छोणिमपुञ्जमध्यसरणिं मातः परिष्कुर्वती। या वैदग्ध्यमुपैति शंकरजटाकान्तारवाटीपत- वापीपयसः मितद्युतिरसौ कामाक्षि ते मखुला ॥ ५५ ॥ सन्नामैकजुषा जनेन सुलभं संसूचयन्ती शनै- रुत्तुङ्गस्य चिरादनुग्रहतरोरुत्पत्स्यमानं फलम् । प्राथम्येन विकखरा कुसुमवत्प्रागल्भ्यमभ्येयुषी कामाक्षि मितचातुरी तव मम क्षेमंकरी कल्पताम् ॥ ५६ ॥ धानुष्काग्रसरस्य लोरुकुटिलभूलेखका बिनतो लीलालोकशिलीमुखं नववयःसाम्राज्यलक्ष्मीषुषः । जेतुं मन्मथमर्दिनं जननि ते मन्दस्सितप्रक्रमो वल्गुर्विश्रमभूभृतो वितनुते सेनापतिप्रक्रियाम् ॥ ५७ ॥ यन्नाकम्पत कालकूटकवलीकारे चुचुम्बे न यद्- ग्लान्या चक्षुषि रूषितानलशिखे रुद्रस्य तचाइशम् । चेतो यत्प्रेसभं स्मरज्वरशिखिज्वालेन लेलिह्यते तत्कामाक्षि तब मितांशुकणिकाहेल्पभवं प्राभवम् ॥ ५८ ।। संमिन्नेव सुपर्वलोकतटिनी वीचीचयैर्यामुनैः संमिव शशाङ्कदीप्तिलहरी नीलैर्महानीरदैः । १. 'पयसां' इति ग-पाठः. २. प्रभवस्थिरज्वरशिखिज्वालेच' इति ग-पाठः.
पञ्चशती। कामाक्षि स्फुरिता तव मितरुचिः कालाञ्जनस्पर्षिना कालिन्ना कचरोचिषां व्यतिकरे कांचिद्दशामभुते ॥ ५९ ॥ जानीमो जगदीश्वरि प्रणमतां त्वन्मन्दहासप्रभा श्रीकामाक्षि कुमुद्रतीमभिनवामेषा यतः सर्वदा। आस्येन्दोवलोकने पशुपतेरभ्येति संफुल्लतां सन्द्रालुस्तदभाव एव तनुते तद्वैपरीत्यक्रमम् ॥ ६०॥ यान्ती लोहितिमानमभ्रतटिनी धातुच्छटाकर्दमै- मन्तिी बालगभस्तिमालिकिरणर्मेधावली शारदी । बिम्बोष्ठद्युतिपुञ्जचुम्बनकला शाणायमानेन ते कामाक्षि सिंतरोचिषा समदशामारोढुमाकाङ्क्षति ॥ ६१ ॥ श्रीकामाक्षि मुखेन्दुभूषणमिदं मन्दसितं तावकं नेत्रानन्दकरं तथा हिमकरो गच्छेद्यथा तिग्मताम् । शीतं देवि तथा यथा हिमजलं संतापमुद्रास्पद श्वेतं किं च तथा यथा मलिनतां धत्ते च मुक्तामणिः ॥१२॥ त्वन्मन्दस्मितमञ्जरी प्रसृमरां कामाक्षि चन्द्रातपं सन्तः संततमामनन्त्यमलतां तल्लक्षणं लक्ष्यते । येनासौ विधुनोति तापमधिकं नाभ्यन्तरं मानस- ध्वान्तं तखल दुःखिनो व्यममी के नेति जानीमहे ॥ ६३ ॥ नम्रस्य प्रणयप्ररोहकलहच्छेदाय पादाब्जयो- मन्द चन्द्रकिशोरशेखरमणेः कामाक्षि रागेण ते । बन्धूकप्रसवश्रियं जितवतो बहीयेसी तां रुचिं बिम्बोष्ठस्य रुचिनिरस्य हसितज्योत्सा व्यस्यायते ॥ ६४ ॥ १. 'मितदीधितिः सर दशा'इति ग-पाठा. २,'बहीयसी' इति क-ख-पाठः.
३२ काव्यमाला। मुक्तानां परिमोचनं विदधतस्तत्प्रीतिनिष्पादिनी भूयो दूरत एव धूतमनसस्तत्पालनं तन्वती। उद्भूतस्य जलान्तरादविरतं तद्रूरतां जग्मुषी कामाक्षि सितमञ्जरी तव कथं कम्बोस्तुलामश्नुते ॥६५॥ श्रीकामाक्षि तव स्मितद्युतिझरीवैदग्ध्यलीलायितं पश्यन्तोऽपि निरन्तरं सुविमलं मान्या जगन्मण्डले । लोकं हासयितुं किमर्थमनिशं प्राकाश्यमातन्वते मन्दाक्षं चिरमस्तु वस्तुविभवो मन्दारचन्द्रादयः ॥ ६६ ॥ क्षीराब्धेरपि शैलराजतनये त्वन्मन्दहासस्य च श्रीकामाक्षि वलक्षिमोदयनिधेः किंचिद्भिदां ब्रूमहे । एकस्मै पुरुषाय देवि स ददौ लक्ष्मी कदाचित्पुरा सर्वेभ्योऽपि ददात्यसौ तु सततं लक्ष्मी च वागीश्वरीम् ॥६७॥ श्रीकाञ्चीपुररत्नदीपकलिके नान्यानि विश्वान्तरे चाकोराणि चराचरेश्वरि परं धन्यानि मन्यामहे । कम्पातीरकुटुम्बचङ्कमकलाचुखूनि चऋपुटै- नित्यं यानि तव स्मितेन्दुमहसामास्वादमातन्वते ॥ ६८ ॥ शैत्यप्रक्रममाश्रितोऽपि नमतां जाड्यप्रथां धूनय- रागव्यञ्जनपेशलोऽपि गिरिजे वैमल्यमुल्लासयन् । लीलालापपुरःसरोऽपि सततं वाचंयमान्प्रीणय- कामाक्षि मितरोचिषां तव समुल्लासः कथं वर्ण्यते ॥ ६९ ।। श्रोणीचञ्चलमेखलामुखरितं लीलागतं मन्थर भ्रूवल्लीचलनं कटाक्षवलनं मन्दाक्षवीक्षाचणम् । १. 'विरहय्य' इति क-ख-पाठः. २. 'तान्येव' इति क-ख-पाठः.
। पञ्चशती। यद्वैदग्ध्यमुखेन मन्मथरिपुं संमोहयंत्यञ्जसा श्रीकामाक्षि तवं सिताय सततं तस्मै नमस्कुर्महे ॥ ७० ॥ श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्प्ररोहे तव स्फीतश्चेतिमसार्वभौमसरणिप्रागल्भ्यमभ्येयुषि । चन्द्रोऽयं युवराजतां कलयते चेटीधुरं चन्द्रिका गङ्गा सा च सुधाझरी सहचरीसाधर्म्यमालम्बते ।। ७१ ॥ ज्योत्स्ना किं तनुते फलं तनुमतामौष्ण्यप्रशान्ति विना त्वन्मन्दस्मितरोचिषा तनुमतां कामाक्षि रोचिष्णुना । संतापोऽपि निवार्यते नववचःप्राचुर्यमतर्यते सौन्दर्य प्ररिपूर्यते जगति सा कीर्तिश्च संचार्यते ॥ ७२ ॥ वैमल्यं कुमुदश्रियां हिमरुचः कान्त्यैव संधुक्षते ज्योत्लारोचिरपि प्रदोषसमयं प्राप्यैव संपेद्यते । खच्छत्वं नवमौक्तिकस्य परमं संस्कारतो दृश्यते कामाक्ष्याः मितदीधितेर्विशदिमा नैसर्गिको भासतें ॥७३॥ प्राकाश्यं परमेश्वरप्रणयिनि त्वन्मन्दहासश्रियः श्रीकामाक्षिं मम क्षिणोतु ममतावैचक्षणीमक्षयाम् । यद्धीत्येव निलीयते हिमकरो मेघोदरे शुक्तिका- गर्भ मौक्तिकमण्डली च सरसो मध्ये मृणाली च सा ॥७॥ हेरम्बे च गुहे च हर्षभरितं वात्सल्यमङ्करय- मारद्रोहिणि पूरुषे सहभुवं प्रेमाङ्करं व्यञ्जयन् । आननेषु जनेषु पूर्णकरुणावैदग्ध्यमुत्तालय- कामाक्षि मितमञ्जरी तव कथंकारं मया कथ्यते ॥ ७५॥ १. 'संधुक्ष्यते' इति ग-पाठः. २. 'संपाद्यते' इति सर्वेषु पुस्तकेषु पाठः. ३. "विलीयते' इति ग-पाठः, ३ पंच काव्यमाला। संक्रुद्धद्विजराजकोऽप्यविरतं कुर्वन्द्विजैः संगमं वाणीपद्धतिदूरतोऽपि सततं तत्साहचर्यं वहन् । अश्रान्तं पशुदुर्लभोऽपि कलयन्पत्यौ पशूनां रतिं श्रीकामाक्षि तव स्मितामृतरसस्यन्दो मयि स्यन्दताम् ॥ ७६॥ श्रीकामाक्षि महेश्वरे निरुपमप्रेमाङ्कुरप्रक्रम नित्यं यः प्रकटीकरोति सहजामुन्निद्रयन्माधुरीम् । तत्ताहक्तव मन्दहाससुषमा मातः कथं मानितां तन्मूर्धा सुरनिम्नगां च कलिकामिन्दोश्च तां निन्दति ।। ७७॥ ये माधुर्यविहारमण्डपभुवो ये शैत्यमुद्राकरा ये वैशधदशाविशेषसुभगास्ते मन्दहासाङ्कुराः । कामाक्ष्याः सहजं गुणत्रयमिदं पर्यायतः कुर्वतां वाणीगुम्फनडम्बरे च हृदये कीर्तिप्ररोहे च मे ॥ ७८ ॥ कामाक्ष्या मृदुलस्मितांशुनिकरा दीक्षान्तके वीक्षणे मन्दाक्षमहिला हिमद्युतिमयूखाक्षेपदीक्षाङ्कुराः । दाक्ष्यं पक्ष्मलयन्तु माक्षिकगुडद्राक्षाभवं वाक्षु मे सूक्ष्मं मोक्षपथं निरीक्षितुमपि प्रक्षालयेयुर्मनः ॥ ७९ ॥ जात्या शीतलशीतलानि मधुराण्येतानि पूतानि ते गाङ्गानीव पयांसि देवि पटलान्यल्पमितज्योतिषाम् । एनःपङ्कपरम्परामलिनतामेकाम्रनाथप्रिये प्रज्ञानात्सुतरां मदीयधिषणां प्रक्षालयन्तु क्षणात् ।। ८० ।। अश्रान्तं परतत्रितः पशुपतिस्त्वन्मन्दहासाङ्कुरैः श्रीकामाक्षि तदीयवर्णसमतासङ्गेन शङ्कामहे । १. दक्षान्तकः शिवस्तत्संबन्धिनि. २. 'गुण' इति क-ख-पाठः, ३ वाणीकु पञ्चशती। इन्, नाकधुनी च शेखरयते मालां च धत्ते नवै- वैकुण्ठैरवगुण्ठनं च कुरुते धूलीचयैर्भासनैः ॥ ८१ ॥ श्रीकाञ्चीपुरदेवते मृदुवचःसौरभ्यमुद्रास्पदं : प्रौढप्रेमलतानवीनकुसुमं मन्दस्मितं तावकम् । मन्दं कन्दलति प्रियस्य वदनालोके समाभाषणे लक्षणे कुङ्मलति प्ररूढपुलके चाश्लेषणे फुल्लति ।। ८२ ॥ किं त्रैःस्रोतसमम्बिके परिणतं स्रोतश्चतुर्थ नवं पीयूषस्य समस्ततापहरणं किं वा द्वितीयं वपुः । किंखिन्नैकटिक गिरो मधुरिमाभ्यासाय नव्यं पयः श्रीकाञ्चीपुरनायकप्रियतमे मन्दस्मितं तावकम् ॥ ८३ ॥ भूषा वक्रसरोरुहस्य सहजा वाचां सखी शाश्वती 'नीवी विभ्रमसंततेः पशुपतेः सौधी दृशां पारणा । जीवातुर्मदनश्रियः शशिरुचेरुच्चाटनी देवता श्रीकामाक्षि गिरामभूमिमयते हासप्रभामञ्जरी ॥ ८४ ॥ सूतिः श्वेतिमकन्दलस्य वसतिः शृङ्गारसारश्रियः पूर्तिः सूक्तिझरीरसस्य लहरी कारुण्यपाथोनिधेः । वाटी काचन कौसुमी मधुरिमखाराज्यलक्ष्म्यास्तव श्रीकामाक्षि ममास्तु मङ्गलकरी हासप्रभाचातुरी ॥ ८५ ॥ उत्तुङ्गस्तनमण्डलस्य विलसल्लावण्यलीलानटी- रङ्गस्य स्फुटमूर्ध्वसीमनि मुहुः प्राकाश्यमभ्येयुषी । भीकामाक्षि तब स्मितयुतिततिबिम्बोष्ठकान्त्यकुरै- श्चित्रां विद्रुममुद्रिकां वितनुते मौक्ती वितानश्रियम् ॥ ८६ ।। १. नीवी मूलधनम् २. मूर्वसीनि च' इति क-ख-पाठः, “मुक्ता- वितानश्रियम्' इति क-पाठः.
३६ काव्यमाला। जन्तूनां जनिदुःखमृत्युलहरीसंतापनं कृन्ततः प्रौढानुग्रहपूर्णशीतलरुचो नित्योदयं बिभ्रतः । श्रीकामाक्षि विसृत्वरा इव करा हासाङ्कुरास्ते हठा- दालोकेन निहन्युरन्धतमसस्तोमस्य मे संतेतिम् ॥ ८७ ॥ खाभाव्यात्तव वक्रमेव ललितं संतोषसंपादनं शंभोः किं पुनरञ्चितस्मितरुचः पाण्डित्यपात्रीकृतम् । अम्भोज खत एव सर्वजगतां चक्षुःप्रियंभावुकं कामाक्षि स्फुरिते शरद्विकसिते कीदृग्विधं भाजते ।। ८८॥ पुंभिर्निर्मलमानसैर्विदधते मैत्रीरसं निर्मलं कर्तुं कर्मलयं च निर्मलतमां कीर्ति लभन्तेतराम् । सूक्तिं पक्ष्मलयन्ति निर्मलगुणां यत्तावकाः सेवका- स्तत्कामाक्षि तव सितस्य कलया नैर्मल्यसीमानिधेः ।। ८९ ॥ आकर्षन्नयनानि नांकिसदसां शैत्येन संस्तम्भय- निन्दं किं च विमोहयन्पशुपतिं विश्वार्तिमुच्चाटयन् । हिंसन्संसृतिडम्बरं तव शिवे हासाहयो मान्त्रिकः श्रीकामाक्षि मदार्तितापतमसो विद्वेषणे चेष्टताम् ॥ ९० ॥ क्षेपीयः क्षपयन्तु कल्मषभयान्यस्माकमल्पमित- ज्योतिर्मण्डलचक्रमास्तव शिवे कामाक्षि रोचिष्णवः । पीडाकर्मठकर्मधर्मसमयव्यापारतापानल- श्रीपाता नवहर्षवर्षणसुधास्रोतखिनीशीकराः॥ ९१ ।। श्रीकामाक्षि तव सितैन्दवमहःपूरे परिस्फूर्जति प्रौढ्यं वारिधिचातुरीं कलयते भक्तात्मनां प्रातिभम् । १. 'निहन्तु' इति ग-पाठः, २. 'संततम्' इति ग़-पाठः. इति ग-पाठः, पञ्चशती। ३७ दौर्गत्यप्रसरास्तमःपटलिकासाधर्म्यमाबिभ्रते किं किं कैरवसाहचर्यपदवीरीत्यां न धत्ते पदम् ॥ ९२ ॥ मन्दारादिषु मन्मथारिमहिषि प्राकाश्यरीति निजां कादाचित्कतया विशङ्कय बहुशो वैशद्यमुद्रागुणः । श्रीकामाक्षि तदीयसंगमकलामन्दीभवत्कौतुकः सातत्येन तव मिते वितनुते वैरासनावासनाम् ।। ९३ ॥ इन्धाने भववीतिहोत्रनिवहे कर्मोघचण्डानिल- प्रौढिम्ना बहुलीकृते निपतितं संतापचिन्ताकुलम् । माता परिषिञ्च किंचिदमलैः पीयूषवरिव श्रीकामाक्षि तव सिंतद्युतिकणैः शैशियलीलाकरैः ॥ ९४ ॥ भाषाया रसनानखेलनजुषः शृङ्गारमुद्रासखी लीलाजातरतेः सुखेन नियमनानाय मेनात्मजे । श्रीकामाक्षि सुधामयीव शिशिरा स्रोतस्विनी तावकी गाढानन्दतरङ्गिता विजयते हासप्रभाचातुरी ॥ ९५ ॥ संतापं विरलीकरोतु सकलं कामाक्षि मच्चेतना मज्जन्ती मधुरस्मितामरधुनीकल्लोलजालेषु ते । नैरन्तर्यमुपेत्य मन्मथमरुल्लोलेषु येषु स्फुटं प्रेमेन्दुः प्रतिबिम्बितो वितनुते कौतूहलं धूर्जटेः ॥ ९६ ॥ चेतःक्षीरपयोधिमन्थनचलद्रागाख्यमन्थाचल- क्षोभेव्यापृतिसंभवां जननि ते मन्दस्मितश्रीसुधाम् । १. 'हासचर्यपदवी' इति ग-पाठः, २. 'देशीयलीलाकणः' इति ग-पाठः. ३. 'रसनाग्रलेखन' इति ग-पाठः. ४. 'मरुल्लीलेषु' इति क-ख-पाठः. ५. 'क्षो- भात्संप्रतिसंभवां' इति क-ख-पाठः.
३८ काव्यमाला। खादं खादमुदीतकौतुकरसं नेत्रत्रयी शांकरी श्रीकामाक्षि निरन्तरं परिणमत्यानन्दवीचीमयी ॥ ९७ ॥ आलोके तव पञ्चसायकरिपोरुद्दामकौतूहल- प्रेसन्मारुतघट्टनप्रचलितादानन्ददुग्धाम्बुधेः । काचिद्वीचिरुदञ्चति प्रतिनवा संवित्प्ररोहात्मिका तां कामाक्षि कवीश्वराः स्मितमिति व्याकुर्वते सर्वदा ॥९८॥ सूक्तिः शीलयते किमद्वितनये मन्दस्मिताचे मुहु- माधुर्यागमसंप्रदायमथवा सूक्तेस्तु मन्दस्मितम् । इत्थं कामपि गाहते मम मनः संदेहमार्गभ्रमी श्रीकामाक्षि न पारमार्थ्यसरणिस्फूर्ती निधत्ते पदम् ॥ ९९ ॥ क्रीडालोलकृपासरोरुहमुखीसौधाङ्गणेभ्यः कवि- श्रेणीवाक्परिपाटिकामृतझरी सूतीगृहेभ्यः शिवे । निर्वाणाङ्कुरसार्वभौमपदवीसिंहासनेभ्यस्तव श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्कणेभ्यो नमः॥१०॥ इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यां मन्दस्मितशतकं द्वितीयम् । पादारविन्दशतकम् । महिम्नः पन्थानं मंदनपरिपन्थिप्रणयिनि प्रभुनिणेतुं ते भवति यतमानोऽपि कतमः । तथापि श्रीकाञ्चीविहृतिरसिके कोऽपि मनसो विपाकस्त्वत्पादस्तुतिविधिषु जल्पाकयति माम् ॥ १ ॥ १. हे कामारिदयिते. २. वाचालयति. मुखरीकरोतीत्यर्थः.
पञ्चशती। my गेलग्राही पौरंदरपुरवनीपल्लवरुचा धृतप्राथम्यानामरुणमहसामादिमगुरुः । समिन्धे बन्धूकस्तबकसहयुध्वा दिशि दिशि प्रसर्पन्कामाक्ष्याश्चरणकिरणानामरुणिमा ॥ २ ॥ मरालीनां यानाभ्यसनकलनामूलगुरवे दरिद्राणां त्राणव्यतिकरसुरोद्यानतरवे । तमस्काण्डप्रौढिप्रकटनतिरस्कारपटवे जनोऽयं कामाक्ष्याश्चरणनलिनाय स्पृहयते ॥ ३ ॥ वहन्ती सैन्दूरी सरणिमवनभ्रामरपुरी- पुरंध्रीसीमन्ते कविकमलबालार्कसुषमा । त्रयीसीमन्तिन्याः स्तनतटनिचोलारुणपटी विभान्ती कामाक्ष्याः पदनलिनकान्तिर्विजयते ॥४॥ प्रणम्रीभूतस्य प्रणयकलहत्रस्तमनसः स्मरारातेश्चडावियति गृहमेधी हिमकरः । ययोः सांध्यां कान्ति वहति सुषमाभिश्चरणयो- स्तयोर्मे कामाक्ष्या हृदयमपतन्द्रं विहरताम् ॥ ५॥ ययोः पीठायन्ते विबुधमुकुटीनां पटलिका ययोः सौधायन्ते खयमुदयभाजो भणितयः । ययोर्दासायन्ते सरसिजभवाद्याश्चरणयो- स्तयोमें कामाक्ष्या दिनमनु वरीवर्तु हृदयम् ॥ ६॥ नयन्ती संकोचं सरसिजरुचं दिक्परिसरे सृजन्ती लौहित्यं नखकिरणचन्द्रार्धखचिता ।। १. तिरस्कारकः. २. नन्दनवनतरुकिसलयानाम्. ३. तरुणरविकिरणानाम्. ४. देदीप्यते. ५. 'पुरारातेः' इति ग-पाठ:.
काव्यमाला।
कवीन्द्राणां हृत्कैरवविकसनोद्योगजननी
स्फुरन्ती कामाक्ष्याश्चरणरुचिसंध्या विजयते ॥ ७॥
विरावैञ्जिीरैः किमपि कथयन्तीव मधुरं
पुरस्तादानने पुरविजयिनि मेरवदने ।
वयस्येव प्रौढा शिथिलयति या प्रेमकलह-
प्ररोहं कामाक्ष्याश्चरणयुगली सा विजयते ॥ ८॥
सुपर्वस्वीलोलालकपरिचितं षट्पदकुलैः
स्फुरल्लाक्षारागं तरुणतरणिज्योतिररुणैः ।
मृतं कान्त्यम्भोभिर्विसृमरमरन्दैः सरसिजै-
विधत्ते कामाक्ष्याश्चरणयुगलं बन्धुपदवीम् ॥ ९॥
रजःसंसर्गेऽपि स्थितमजरसामेव हृदये
परं रक्तत्वेन स्थितमपि विरक्तैकशरणम् ।
अलभ्यं मन्दानां दधदपि सदा मन्दगतितां
विधत्ते कामाक्ष्याश्चरणयुगमाश्चर्यलहरीम् ॥ १० ॥
जटाला मञ्जीरस्फुरदरुणरत्नांशुनिकरै-
निषीदन्ती मध्ये नखरुचिझरीगाङ्गपयसाम् ।
परित्राणं कर्तुं जननि मम कामाक्षि नियतं
तपश्चर्या धत्ते तव चरणपाथोजयुगली ॥ ११ ॥
तुलाकोटिद्वन्द्वक्कणितभणिताभीतिवचसो-
विनम्र कामाक्ष्या विसृमरमहःपाटलितयोः ।
क्षणं विन्यासेन क्षपिततमसोमें ललितयोः
पुनीयान्मूर्धानं पुरहरपुरंध्रीचरणयोः ॥ १२ ॥
पञ्चशती। ४ भवानि द्रुह्येतां भवनिबिडितेभ्यो मम मुहु- स्तमोव्यामोहेभ्यस्तव जननि कामाक्षि चरणौ । ययोर्लाक्षाबिन्दुस्फुरणदशया धूर्जटिजटा- कुटीरा शोणाङ्कं वहति वपुरेणाङ्ककलिका ॥ १३ ॥ पवित्रीकुर्युनः पदतलभुवः पाटलरुचः परागास्ते पापप्रशमनधुरीणास्तव शिवे । कणं लब्धं येषां निजशिरसि कामाक्षि नियतं वलन्तो व्यातन्वन्त्यहमहमिकां वासवमुखाः ॥ १४ ॥ बलाकामालाभिर्नखरुचिमयीभिः परिवृते विनम्रखर्नारीविकचकचकालाम्बुदकुले । स्फुरन्तः कामाक्षि स्फुटदलितबन्धूकसुहृद- स्तडिल्लेखायन्ते तव चरणपाथोजकिरणाः ॥ १५॥ सरागः सद्वेषः प्रसृमररजस्कः प्रतिदिनं निसर्गादाक्रामन्विबुधजनमूर्धानमधिकम् । कथंकारं मातः कथय पदपद्मस्तव सतां नतानां कामाक्षि प्रकटयति कैवल्यसरणिम् ॥ १६ ॥ जपालक्ष्मीशोणो जननि परमज्ञाननलिनी- विकासव्यासङ्गो विफलितजगज्जाड्यगरिमा । मनःपूर्वादि नस्तिलकयतु कामाक्षि तरसा तमस्काण्डद्रोही तव चरणपाथोजरमणः ॥ १७ ॥ नमस्कुर्मः प्रेवन्मणिकटकनीलोपलमहः- पयोधौ रिवद्भिर्नखकिरणफेनैर्धवलिते। १. चरणरूपसूर्यः.
४२ काव्यमाला। M स्फुटं कुर्वाणाय प्रबलचलदौनिलशिखा- वितर्क कामाक्ष्याः सततमरुणिन्ने चरणयोः ॥ १८ ॥ शिवे पाशायेतामलघुनि तमःकूपकुहरे दिनाधीशायेतां मम हृदयपाथोजविपिने । नभोमासायेतां सरसकवितारीतिसरिति त्वदीयौ कामाक्षि प्रसृतकिरणौ देवि चरणौ ॥ १९ ॥ निषक्तं श्रुत्यन्ते नयनमिव सद्वृत्तरुचिरैः समैर्जुष्टं शुद्धरधरमिव रम्यैर्द्विजगणैः । शिवे वक्षोजन्मद्वितयमिव मुक्ताश्रितमुमे त्वदीयं कामाक्षि प्रणतशरणं नौमि चरणम् ॥ २० ॥ नमस्यासंसज्जन्नमुचिपरिपन्थिप्रणयिनी- निसर्गप्रेढोलकुरलकुलकालाहिशबले । नखच्छायादुग्धोदधिपयसि ते वैद्रुमरुचां प्रचारं कामाक्षि प्रकटयति पादाजसुषमा ॥ २१ ॥ कदा दूरीकर्तुं कटुदुरितकाकोलजनितं महान्तं संतापं मदनपरिपन्थिप्रियतमे । क्षणात्ते कामाक्षि त्रिभुवनपरीतापहरणे पटीयांसं लप्स्ये पदकमलसेवामृतरसम् ॥ २२ ॥ ययोः सांध्यं रोचिः सततमरुणिम्ने स्पृहयते ययोश्चान्द्री कान्तिः परितपति दृष्ट्वा नखरुचिम् । ययोः पाकोद्रेकं पिपठिषति भक्त्या किसलयं प्रदिन्नः कामाक्ष्या मनसि चरणौ तौ तनुमहे ॥ २३ ॥ १. 'निषिक्तं' इति क-ख-पाठः, २. शची. ३. केशकलापः. ४.'क्षणं ते' इति क-ख-पाठ, पञ्चशती। ४३ जगन्नेदं नेदं परमिति परित्यज्य यतिमिः कुशाग्रीयखान्तैः कुशलधिषणैः शास्त्रसरणौ । गवेष्यं कामाक्षि ध्रुवमकृतकानां गिरिसुते गिरामैदंपर्य तव चरणमाहात्म्यगरिमा ॥ २४ ॥ कृतस्त्रानं शास्त्रामृतसरसि कामाक्षि नितरां दधानं वैशयं कलितरसमानन्दसुधया। अलंकारं भूमेर्मुनिजनमनश्चिन्मयमहा- पयोधेरन्तःस्थं तव चरणरत्नं विजयते ॥ २५ ॥ मनोगेहे मोहोद्भवतिमिरपूर्णे मम मुहु- दरिद्राणीकुर्वन्दिनकरसहस्राणि किरणैः । विधत्तां कामाक्षि प्रसृमरतमोवञ्चनचणः क्षणा सांनिध्यं चरणमणिदीपो जननि ते ॥ २६ ॥ कवीनां चेतोवनखररुचिसंपर्कि विबुध- स्रवन्तीस्रोतोवत्पटुमुखरितं हंसकरवैः । दिनारम्भश्रीवन्नियतमरुणच्छायसुभगं मदन्तः कामाक्ष्याः स्फुरतु पदपङ्केरुहयुगम् ॥ २७ ॥ सदा किं संपर्क प्रकृतिकठिनैन किमुकुटै- स्तटै हारादेरधिकमणुना योगिमनसा । "विभिन्ते संमोहं शिशिरयति भक्तानपि दृशा- मदृश्यं कामाक्षि प्रकटयति ते पादयुगलम् ॥ २८ ॥ १. नखा एव नखरास्तत्कान्तियुक्तम् । (पक्षे) न खररुचिसंपर्कि. २. हंसकः पादकटकः; (पक्षे) हंसा एव हंसकाः. ३. 'संपर्कात्' इति सर्वपुस्तकपाठः. ४. 'विभङ्गे' इति ग-पाठः; "विभन्ने' इति क-ख-पाठः, ५. 'पादयुगली' इति ग-पाठः.
१४ काव्यमाला। पवित्राभ्यामम्ब प्रकृतिमूदुलाम्यां तव शिवे पदाभ्यां कामाक्षि प्रसभमभिभूतैः सचकितैः । प्रवालैरम्भोजैरपि च वनवासवतदशाः सदैवारभ्यन्ते परिचरितनानाद्विजगणैः ॥ २९ ॥ मरालीनां पादाहतिमदनिशं हंसनिवहै- नमस्यं निर्जाडयं नियतजलमध्यैकशरणम् । अदोषव्यासङ्गं सततमपि दोषाप्तिमलिनं पयोजं कामाक्ष्याः परिहसति पादाब्जयुगलम् ॥ ३० ॥ सुराणामानन्दप्रवलनतया मण्डनतया नखेन्दुज्योत्स्नाभिर्विसृमरतमःखण्डनतया । पयोजश्रीद्वेषत्रतरततया त्वचरणयो- विलासः कामाक्षि प्रकटयति नैशाकरदशाम् ॥ ३१ ॥ सितिन्ना कान्तीनां नखरजनुषां पादनलिन- च्छवीनां शोणिना तव जननि कामाक्षि. नमने। लभन्ते मन्दारप्रथितनवबन्धककुसुम- सजा सामीचीन्यं सुरपुरपुरंध्रीकचभराः ॥ ३२ ॥ नखश्रीसंनद्धस्तबकनिचितः खैश्च किरणैः पिशङ्गैः कामाक्षि प्रकटितलसत्पल्लवरुचिः । सतां गम्यः शङ्के सकलफलदाता. सुरतरु- स्त्वदीयः पादोऽयं तुहिनगिरिराजन्यतनये ।। ३३ ।। स्फुरन्मध्ये शुद्धे नखकिरणदुग्धाब्धिपयसां वहनब्ज चक्र दरमपि च लेखात्मकतया । म १. 'मण्डिततया' इति ग-पाठः, २. 'रेखात्मक' इति ग-पाठः.
पञ्चशती। ४५ श्रितो मात्स्यं रूपं श्रियमपि दधानो निरुपमा त्रिधामा कामाक्ष्याः पदनलिननामा विजयते ॥ ३४ ॥ वषट्कुर्वन्माजीरजकलकलैः कर्मलहरी- हवींषि प्रोद्दण्डं ज्वलति परमज्ञानदहने । महीयान्कामाक्षि स्फुटमहसि जोहोति सुधियां मनोवेद्यां मातस्तव चरणयज्वा मम सदा ॥ ३५॥ महामन्त्रं काञ्चीमणिकटकनादैरिव जय- क्षिपन्दिक्षु खच्छं नखरुचिमयं भास्सनरजः । नतानां कामाक्षि प्रकृतिपटुरुच्चाट्य ममता- पिशाची पादोऽयं प्रकटयति ते मात्रिकदशाम् ।। ३६ ॥ उदीते बोधेन्दौ तमसि नितरां जग्मुषि दशां दरिद्रां कामाक्षि प्रकटमनुरागं विदधती । सितेनाच्छाद्याङ्गं नखरुचिपटेनानियुगली- पुरंध्री ते मातः खयमभिसैरत्वेव हृदयम् ॥ ३७ ॥ दिनारम्भः सध्यङ्गलिनविपिनानामभिनवो विकासो वासन्तः सुकविपिकलोकस्य नियतम् । प्रदोषः कामाक्षि प्रकटपरमज्ञानशशिन- श्वकास्ति त्वत्पादस्मरणमहिमा शैलतनये ॥ ३८ ॥ धृतच्छायं नित्यं सरसिरुहमैत्रीपरिचितं निधानं दीप्तीनां निखिलजगतां बोधजनकम् । मुमुक्षूणां मार्गप्रथनपटु कामाक्षि पदवीं पदं ते पातङ्गी परिकलयते पर्वतसुते ॥ ३९ ॥ १. विष्णुः: २. 'च दधती' इति ग-पाठः, ३. 'सरसेव' इति ग-पाठः. ४. परिचितिं दधानं' इति ग-पाठः.
काव्यमाला। A शनैस्तीवा मोहाम्बुधिमथ समारोढुमनसः श्रमात्कैवल्याख्यां सुकृतिसुलभां सौधवलभीम् । लभन्ते निःश्रेणीमिव झटिति कामाक्षि चरणं पुरश्चर्याभिस्ते पुरमथनसीमन्तिनि जनाः ॥ ४०॥ प्रचण्डार्तिक्षोभप्रमथनकृते प्रातिभसरि- प्रवाहप्रोदण्डीकरणजलदाय प्रणमताम् । प्रदीपाय प्रौढे भवतमसि कामाक्षि चरण- प्रसादौन्मुख्याय स्पृहयति जनोऽयं जननि ते ॥४१॥ मरुद्भिः संसेव्या सततमपि चाञ्चल्यरहिता सदारुण्यं यान्ती परिणतिदरिद्राणसुषमा । गुणोत्कर्षान्मञ्जीरजकलकलस्तर्जनपटुः प्रवालं कामाक्ष्याः परिहसति सा पादयुगली ॥ ४२ ।। जगद्रक्षादक्षा नलिनरुचिशिक्षापटुतरा सुरैर्नम्या रम्या सततमभिगम्या बुधजनैः । द्वयी लीलालोला श्रुतिषु सुरपालादिमुकुटी- तटीसीमाधामा तव जननि कामाक्षि पदयोः॥ ४३ ॥ गिरां दूरौ चौरौ जडिमतिमिराणां कृतजग- परित्राणौ शोणौ मुनिहृदयनीडैकनिपुणौ । नखैः मेरो सारौ निगमवचसां खण्डितभव- ग्रहोन्मादौ पादौ मम मनसि कामाक्षि कलये ॥ ४४ ॥ अविश्रान्तं पकं यदपि कलयन्यावकमयं निरस्यन्कामाक्षि प्रणमनजुषां पङ्कमखिलम् । १. 'समारूढमनसः इति काख-पाठः. २. 'सुकृत' इति ग-पाठः. ३. 'प्र- चण्डार्चिः' इति क-ख-पाठः, पञ्चशती। तुलाकोटिद्वन्द्वं दधदपि च गच्छन्नतुलतां गिरां मार्ग पादो गिरिवरसुते लङ्घयति ते ॥ ४५ ॥ प्रवालं सनीडं विपिनविवरे वेपयति या स्फुरल्लीलं बालातपमधिकबालं दधति या। रुचिं सांध्यां वन्ध्यां विरचयति या वर्धयतु सा शिवं मे कामाक्ष्याः पदनलिनपाटल्यलहरी ।। ४६ ॥ किरज्योत्स्नारीति नखमणिरुचा हंसमनसां वितन्वानः प्रीति विकचतरुणाम्भोरुहरुचिः । प्रकाशः श्रीपादस्तव जननि कामाक्षि तनुते शरत्कालप्रीतिं शशिशकलचूडप्रियतमे ॥ १७ ॥ नखाङ्करस्मेरद्युतिविमलगङ्गाम्भसि सुखं कृतखानं ज्ञानामृतममलमाखाद्य नियतम् । उदञ्चमाञ्जीरस्फुरणमणिदीपे मम मनो मनोज्ञे कामाक्ष्याश्चरणमणिहये विहरताम् ॥ ४८ ॥ भवाम्भोधौ नौका जडिमविपिने पावकशिखां प्रणनेन्द्रादीनामधिमुकुटमुत्तंसकलिकाम् । जगत्तापज्योत्स्वामकृतकवचःपञ्जरपुटे शुकस्त्री कामाक्ष्या मनसि कलये पादयुगलीम् ॥ ४९।। परात्मप्राकाश्यप्रतिफलनचुचुः प्रणमतां मनोज्ञस्ते पादो मणिमुकुरमुद्रां कलयते । यदीयां कामाक्षि प्रकृतिमधुरां शोभनदशां विधातुं चेष्टन्ते बैलरिपुवधूटीकुचभराः ॥ ५० ॥ १. "विधति'. इति क-ख-पाठः. २. शची.
काव्यमाला। अविश्रान्तं तिष्ठन्नकृतकवचःकंदरपुटी- कुटीरान्तः प्रौढां नखरुचिसटाली प्रकटयन् । प्रचण्डं खण्डत्वं नयतु मम कामाक्षि तरसा तमोवेतण्डेन्द्रं तव चरणकण्ठीरवपतिः ॥ ५१ ॥ पुरस्तात्कामाक्षि प्रचुररसमाखण्डलपुरी- पुरंध्रीणां लास्यं तव सकलमालोक्य शनकैः । नखश्रीभिः मेरा बहु वितनुते नूपुररवै- श्चमत्कृत्या शङ्के चरणयुगली चाटुरचनाः ॥ ५२ ॥ सरोजं निन्दन्ती नखकिरणकर्पूरशिशिरा निषिक्ता मारारेर्मुकुटशशिरेखा हिमजलैः । स्फुरन्ती कामाक्षि स्फुटरुचिमये पल्लवचये तवाधत्ते मैत्री पथिकसुभगां पादयुगली ॥ ५३ ।। नतानां संपत्तेरनवरतमाकर्षणजपः प्ररोहत्संसारप्रसरगरिमस्तम्भनजपः । त्वदीयः कामाक्षि स्मरहरमनोमोहनजपः पटीयान्नः पायात्पदनलिनमञ्जीरनिनदः ॥ ५४ ॥ वितन्वीथा नाथे मम शिरसि कामाक्षि कृपया पदाम्भोजन्यासं पशुपतिदृढप्राणदयिते । पिबन्तो यन्मुद्रां प्रकटमुपकम्पापरिसरं दृशा नानन्द्यन्ते नलिनभवनारायणमुखाः ॥ ५५ ॥ प्रणामोद्यद्वृन्दारकमुकुटमन्दारकलिका- विलोलद्रोलम्बप्रकरमयधूमप्रचुरिमा । १. अज्ञानरूपं गजेन्द्रम्. २. चरणरूपो मृगेन्द्राधिपः. ३. 'स्मेरं' इति ४. क-ख-पुस्तकयोरस्मिश्लोके पूर्वार्धात्तरार्धयोर्व्यत्ययोऽस्ति. क-ख-पाठः.
पञ्चशती। ४९ प्रदीप्तः पादाब्जद्युतिविततिपाटल्यलहरी- कृशानुः कामाक्ष्या मम दहतु संसारविपिनम् ॥ ५६ ॥ वलक्षश्रीब्रक्षाधिपशिशुसदृक्षा तव नखै- र्जिघृक्षुर्दक्षत्वं सरसिरुहभिक्षुत्वकरणे । क्षणान्मे कामाक्षि क्षपितभवसंक्षोभगरिमा वचोवैचक्षण्यं चरणयुगली पक्ष्मलयताम् ।। ५७ ।। समन्तात्कामाक्षि क्षततिमिरसंतानसुभगा- ननन्ताभिर्भाभिर्दिवमनु दिगन्तान्विरचयन् । अहंताया हन्ता मम जडिमदन्तावलरिपु. विभिन्तां संतापं तव चरणचिन्तामणिरसौ ॥ ५८ ॥ दधानो भाखत्ताममृतनिलयो लोहितवपु- विनम्राणां सौम्यो गुरुरपि कवित्वं च कलयन् । गतौ मन्दो गङ्गाधरमहिषि कामाक्षि भजतां तमाकेतुर्मातस्तव चरणपद्मो विजयते ॥ ५९ ॥ नयन्ती दासत्वं नलिनभवमुख्यानसुलभ- प्रदानां दीनानाममरतरुदौर्भाग्यजननीम् । जगजन्मक्षेमक्षयविधिषु कामाक्षि पदयो- धुरीणामीष्टे कस्तव भणितुमाहोपुरुषिकाम् ॥ ६० ॥ जनोऽयं संतप्तो जननि भवचण्डांशुकिरणे- रेलब्ध्वैकं शीतं कणमपि परज्ञानपयसः । तमोमार्गे पान्थस्तव झटिति कामाक्षि शिशिसं पदाम्भोजच्छायां परमशिवजाये सृमयते ॥ ६१॥ १. 'रलब्ध्वा किं त्वेकं' इति ग-पुस्तके, 'रलब्धः कं शीत' इति च ख-पुस्तके पाठः ४ पंच० काव्यमाला। जयत्यम्ब श्रीमन्नखकिरणचीनांशुकमयं वितानं बिभ्राणे सुरमुकुटसंघट्टमहणे। निजारुण्यक्षौमास्तरणवति कामाक्षि सुलभा बुधैः संविन्नारी तव चरणमाणिक्यभवने ।। ६२ ।। प्रतीमः कामाक्षि स्फुरिततरुणादित्यकिरण- श्रियो मूलद्रव्यं तव चरणमद्रीन्द्रतनये । सुरेन्द्राशामापूरयति यदसौ ध्वान्तमखिलं धुनीते दिग्भागानपि च महसा पाटलयते ॥ ६३ ।। महाभाष्यव्याख्यापटुशयनमारोपयति वा स्मरव्यापारेापिशुननिटिलं कारयति वा । द्विरेफाणामध्यासयति सततं वा निवसतिं प्रणम्रान्कामाक्ष्याः पदनलिनमाहात्म्यगरिमा ॥ ६४ ॥ विवेकाम्भःस्रोतःस्वपनपरिपाटीशिशिरिते समीभूते शास्त्रस्मरणहलसंकर्षणवशात् । सतां चेतःक्षेत्रे वपति तव कामाक्षि चरणो महासंवित्सस्यप्रकरवरबीजं गिरिसुते ॥ ६५ ॥ दधानो मन्दारस्तबकपरिपाटी नखरुचा वहन्दीप्तां शोणाङ्गुलिपटलचाम्पेयकलिकाम् । अशोकोल्लासं नः प्रचुरयतु कामाक्षि चरणो विकासी वासन्तः समय इव ते शर्वदयिते ॥ ६६ ॥ नखांशुपाचुर्यप्रसृमरमरालीधवलितः स्फुरन्मञ्जीरोद्यन्मरकतमहःशैवलयुतः । १. विष्णुशिवब्रह्मरूपान्करोतीति भावः.. २. 'मरालालिघवलः' इति क-ख- पाठः. ३. 'शैवललघुः' इति ग-पाठः.
पञ्चशती। भवत्याः कामाक्षि स्फुटचरणपाटल्यकपटो नदः शोणामिख्यो नगपतितनूजे विजयते ॥६७ ॥ धुनानं पकौघं परमसुलभं कण्टककुलै- विकासव्यासङ्गं विदधदपराधीनमनिशम् । नखेन्दुज्योत्स्लाभिर्विशदरुचि कामाक्षि नितरा- मसामान्यं मन्ये सरसिजमिदं ते पदयुगम् ॥ ६८॥ करीन्द्राय द्रुह्यत्यलसगतिलीलासु विमलैः पयोजैर्मात्सर्य प्रकटयति कामं कलयते । पदाम्भोजद्वन्द्वं तदपि तव कामाक्षि हृदयं मुनीनां शान्तानां कथमनिशमस्मै स्पृहयते ॥ ६९ ॥ निरस्ता शोणिना चरणकिरणानां तव शिवे समिन्धाना संध्यारुचिरचलराजन्यतनये । असामर्थ्यादेतत्परिभवितुमेतत्समरुचां सरोजानां जाने मुकुलयति शोभा प्रतिदिनम् ॥ ७० ॥ उपादिक्षद्दाक्ष्यं तव चरणनामा गुरुरसौ मरालानां शङ्के मसृणगतिलालित्यसरणौ । अतस्ते निस्तन्द्रं नियतममुना सख्यपदवीं प्रपन्नं पाथोजं प्रतिदधति कामाक्षि कुतुकम् ॥ ७१ ॥ दधानः संसर्ग प्रकृतिमलिनैः षट्पदकुलै- जिाधीशश्लाघाविधिषु विदधद्भिर्मुकुलताम् । रजोमित्रैः पद्मनियतमपि कामाक्षि पदयो- विरोधस्ते युक्तो विषमशरवैरिप्रियतमे ॥ ७२ ॥ १. 'पुनानं' इति ग-पाठः २. 'करीन्द्राणां' इति ख-पाठः. 8387 न काव्यमाला। कवित्वश्रीमिश्रीकरणनिपुणौ रक्षणचणौ विपन्नानां श्रीमन्नलिनमसृणौ शोणकिरणौ। मुनीन्द्राणामन्तःकरणशरणौ मन्दसरणौ मनोज्ञौ कामाक्ष्या दुरितहरणौ नौमि चरणौ ॥ ७३ ॥ परस्मात्सर्वस्मादपि च परयोर्मुक्तिकरयो- नखश्रीषु ज्योत्स्नाकुलिततुलयोस्तानतलयोः । निलीये कामाक्ष्या निगमनुतयो किनतयो- निरस्तप्रोन्मीलन्नलिनमदयोरेव पदयोः ॥ ७४ ।। खभावादन्योन्यं किसलयमपीदं तव पदं प्रदिन्ना शोणिन्ना भगवति दधाते सदृशताम् । वने पूर्वस्वेच्छा सततमवने किं तु जगतां परस्येत्थं भेदः स्फुरति हृदि कामाक्षि सुधियाम् ।। ७५॥ कथं वाचालोऽपि प्रकटमणिमञ्जीरनिनदैः सदैवानन्दादाविरचयति वाचंयमजनान् । प्रकृत्या ते शोणच्छविरपि च कामाक्षि चरणो मनीषानैर्मल्यं कथमिव नृणां मांसलयते ॥ ७६ ॥ चलतृष्णावीचीपरिचलनपर्याकुलतया मुहुर्मान्त्वा तान्तः परमशिववामाक्षि परवान् । तितीर्घः कामाक्षि प्रचुरतरकर्माम्बुधिम, कदाहं लण्ये ते बरणमणिसेतुं गिरिसुते ॥ ७७ ॥ विशुष्यन्त्यां प्रज्ञासरिति दुरितग्रीष्मसमय- प्रभावेण क्षीणे सति मम मनःकेकिनि शुचा । १. "विलीये' इति क-ख-पाठ...
पञ्चशती। ५३ त्वदीयः कामाक्षि स्फुरितचरणाम्भोदमहिमा नभोमासाटोपं नगपतिसुते किं न कुरुते ॥ ७८ ॥ विनम्राणां चेतोभवनबलभीसीन्नि चरण- प्रदीपे प्राकाश्यं दधति तव निर्धूततमसि । असीमा कामाक्षि स्वयमलधुदुष्कर्मलहरी विघूर्णन्ती शान्ति शलभपरिपाटीव भजते ॥ ७९ ॥ विराजन्ती शुक्तिर्नखकिरणमुक्तामणितते विपत्पाथोराशौ तरिरपि नराणां प्रणमताम् । त्वदीयः कामाक्षि ध्रुवमलधुवह्निर्मववने मुनीनां ज्ञानानेररणिरयमद्धिर्विजयते ॥ ८० ।। समस्तैः संसेव्यः सततमपि कामाक्षि विबुधैः स्तुतो गन्धर्वस्त्रीसुललितबिपञ्चीकलस्वैः । भवत्या भिन्दानो भवगिरिकुलं जृम्भिततमो- बलद्रोही मातश्चरणपुरुहूतो विजयते ॥ ८१ ॥ वसन्तं भक्तानामपि मनसि नित्यं परिलस- द्धनच्छायापूर्ण शुचिमपि नृणां पापशमनम् । नखेन्दुज्योत्स्नाभिः शिशिरमपि पद्मोदयकर नमामः कामाक्ष्याश्चरणमधिकाश्चर्यकरणम् ।। ८२ ।। कवीन्द्राणां नानाभणितिगुणचित्रीकृतवचः- प्रपञ्चव्यापारप्रकटनकलाकौशलनिधिः। अधःकुर्वन्नब्जं सनकभृगुमुख्यैर्मुनिर्जनै- नमस्यः कामाक्ष्याश्चरणपरमेष्ठी विजयते ॥ ८३ ॥ १. 'लघुदावो भववने' इति क-ख-पाठः, aas ५४ काव्यमाला। भवत्याः कामाक्षि स्फुरितपदपङ्केहभुवां परागाणां पूरैः परिहृतकलङ्कव्यतिकरैः । नतानामामृष्टे हृदयमुकुरे निर्मलरुचि प्रसन्ने निःशेष प्रतिफलति विश्वं गिरिसुते ॥ ८४ ॥ तव त्रस्तं पादाकिसलयमरण्यान्तरमगा- त्परं रेखारूपं कमलममुमेवाश्रितमभूत् । जितानां कामाक्षि द्वितयमपि युक्तं परिभवे विदेशे वासो वा शरणगमनं वा निजरिपोः ।। ८५ ॥ गृहीत्वा याथार्य निगमवचसां देशिककृपा- कटाक्षार्कज्योतिः शमितममताबन्धतमसः । यतन्ते कामाक्षि प्रतिदिवसमन्तढयितुं त्वदीयं पादाब्जे सुकृतपरिपाकेन सुजनाः ॥ ८६ ॥ जडानामप्यम्ब स्मरणसमये त्वचरणयो- भ्रमन्मन्थक्ष्माभृद्भुमधुमितसिन्धुप्रतिभटाः । प्रसन्नाः कामाक्षि प्रसभमधरस्पन्दनकला विभान्ति खच्छन्दं प्रकृतिपरिपक्का भणितयः ॥ ८७ ॥ वहन्नप्यश्रान्तं मधुरनिनदं हंसकमसौ तमेवाधःकर्तुं किमिव यतते केलिगमने । भवस्यैवानन्दं विदधदपि कामाक्षि चरणो भवत्यास्तद्रोहं भगवति किमेवं वितनुते ॥ ८८ ॥ यदत्यन्तं ताम्यत्यलसगतिवार्तास्वपि शिवे तदेतत्कामाक्षि प्रकृतिमृदुलं ते पदयुगम् । १. 'मेवाश्रयमगात्' इति ग-पाठः. २. 'प्रपन्नाः' इति क-ख-पाठः, पञ्चशती। किरीटैः संघट्ट कथमिव सुरौघस्य सहते मुनीन्द्राणामास्ते मनसि च कथं सूचिनिशिते ॥ ८९ ॥ मनोरङ्गे मत्के विबुधजनसंमोदजननी सरागव्यासङ्गं सरसमृदुसंचारसुभगा। मनोज्ञा कामाक्षि प्रकटयतु लास्यप्रकरणं चलन्मञ्जीरा ते चरणयुगली नर्तकवधूः ॥ ९० ॥ परिष्कुर्वन्मातः पशुपतिकपर्दै चरणराद पराचां हृत्पध्र परमभणितीनां च मुकुटम् । भवाख्ये पाथोधौ परिहरतु कामाक्षि ममता- पराधीनत्वं मे परिमुषितपाथोजमहिमा ॥ ९१ ।। प्रसूनैः संपर्कादमरतरुणीकुन्तलभवै- रभीष्टानां दानादनिशमपि कामाक्षि नमताम् । खसङ्गात्कलिप्रसवजनकत्वेन च शिवे त्रिधा धत्ते वाता सुरभिरिति पादो गिरिसुते ॥ ९२ ॥ महामोहस्तेनव्यतिकरभयात्पालयति यो विनिक्षिप्तं खस्मिन्निजजनमनोरत्नमनिशम् । स रागस्योद्रेकात्सततमपि कामाक्षि रुचिरां किमेवं पादोऽसौ किसलयरुचिं चोरयति ते ॥ ९३ ॥ सदा खातुंकारं विषयलहरीशालिकणिकां समाखाद्य श्रान्तं हृदयशुकपोतं जननि मे । कृपाजाले भालेक्षणमहिषि कामाक्षि रभसा गृहीत्वा रुन्धीथाश्चरणयुगलीपञ्जरपुटे ॥ ९४ ॥ १. "हृदयसुकपोतं' इति ख-पाठः.
काव्यमालम। धुनानं कामाक्षि स्मरणलबमात्रेण जडिम- ज्वरप्रौढिं गूढस्थितिनिगमनकुञ्जकुहरे । अलभ्यं सर्वेषां कतिचन लभन्ते सुकृतिन- श्चिरादन्विष्यन्तस्तव चरणसिद्धौषधमिदम् ॥ ९५ ॥ रणन्मञ्जीराभ्यां ललितगमनाभ्यां सुकृतिनां मनोवास्तव्याभ्यां मथिततिमिराभ्यां नखरुचा। निधेयाभ्यां पत्या निजशिरसि कामाक्षि सततं नमस्ते पादाभ्यां नलिनमृदुलाभ्यां गिरिसुते ॥ ९६ ॥ यशः सूते मातर्मधुरकवितां पक्ष्मलयते श्रियं दत्ते वित्ते कमपि परिपाकं प्रथयते । सतां पाशग्रन्थिं शिथिलयति किं किं न कुरुते प्रपन्ने कामाक्ष्याः प्रणतिपरिपाटी चरणयोः॥ ९७॥ मनीषां माहेन्द्रीं ककुभमिव ते कामपि दशा प्रधत्ते कामाक्ष्याश्चरणतरुणादित्यकिरणः । यदीये संपर्के धृतरसमरन्दा कवयतां परीपाकं धत्ते परिमलवती सूक्तिनलिनी ॥ ९८ ॥ सुरागे राकेन्दुप्रतिनिधिमुखे पर्वतसुते चिराल्लभ्ये भक्त्या शमधनजनानां परिषदा मनोभृङ्गो मत्कः पदकमलयुग्मे जननि ते प्रकामं कामाक्षि त्रिपुरहरवामाक्षि रमताम् ।। ९९ ॥ पदद्वन्द्वं मन्दं गतिषु निवसन्तं हृदि सतां गिरामन्ते भ्रान्तं कृतकरहितानां परिवृढे । १. 'प्रसन्ने इति क-ख-पाठः. २. 'प्रकृति' ग-पाठः. ३. क-ग-पुस्तकयोः 'सुरागे' इत्यादि, 'पदद्वन्द्वं' इत्यादि च पयं नास्ति. ।
पञ्चशती।
जनानामानन्दं जननि जनयन्तं प्रणमतां
त्वदीयं कामाक्षि प्रतिदिनमहं नौमि विमलम् ।। १००॥
इदं यः कामाक्ष्याश्चरणनलिनस्तोत्रशतकं
जपेन्नित्यं भक्त्या निखिलजगदाहादजनकम् ।
स विश्वेषां वन्द्यः सकलकविलोकैकतिलक-
श्चिरं भुक्त्वा भोगान्परिणमति चिद्रूपकलया ॥ १०१ ।।
इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यां पादारविन्दशतकं तृतीयम् ।
आर्याशतकम् ।
कारणपरचिद्रूपा काञ्चीपुरसीनि कामपीठगता।
काचन विहरति करुणा काश्मीरस्तबककोमलाङ्गलता ॥१॥
कंच न काञ्चीतिलकं करघृतकोदण्डबाणसृणिपाशम् ।
कठिनस्तनभरननं कैवल्यानन्दकन्दमवलम्बे ॥२॥
चिन्तितफलपरिपोषणचिन्तामणिरेव काञ्चिनिलया मे।
चिरतरसुचरितसुलभा चित्तं शिशिरयतु चित्सुधाधारा ॥ ३ ॥
परतन्त्रा वयमनया पङ्कजसब्रह्मचारिलोचनया।
परया काश्चीपुरया पर्वतपर्यायपीनकुचभरया ॥ ४ ॥
ऐश्वर्यमिन्दुमौलेरैकात्म्यप्रकृति काश्चिमध्यगतम् ।
ऐन्दवकिशोरशेखरमैदंपर्य चकास्ति निममानाम् ॥ ५ ॥
तुङ्गाभिरामकुचभरशृङ्गारितमाश्रयामि काञ्चिगतम् ।
गङ्गाधरपरतन्त्रं शृङ्गाराद्वैततन्त्रसिद्धान्तम् ॥ ६ ॥
मधुरधनुषा महीधरजनुषा नन्दामि सुरभिवाणजुषा ।
चिद्वपुषा काञ्चिपुरे. केलिजुषा बन्धुजीवकान्तिमुषा ॥ ७॥
काव्यमाला। कुटिलकचं कठिनकुचं कुन्दस्मितकान्ति कुङ्कुमच्छायम् । कुरुते विहृतिं काञ्च्यां कुलपर्वतसार्वभौमसर्वखम् ॥ ८ ॥ पञ्चशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन । काञ्चीसीम्नि कुमारी काचन मोहयति कामजेतारम् ॥ ९॥ श्रितकम्पासीमानं शिथिलितपरमेशधैर्यमहिमानम् । कलये पाटलिमानं कंचन कञ्चकितभुवनभूमानम् ॥ १० ॥ आइतकाञ्चीनिलयामाद्यामारूढयौवनाटोपाम् । आगमवतंसकलिकामानन्दाद्वैतकन्दलीं वन्दे ॥ ११ ॥ काञ्चीरत्नविभूषां कामपि कंदर्पसूतिकापाङ्गीम् । परमां कलामुपासे परशिववामाङ्कपीठिकासीनाम् ॥ १२ ॥ कम्पातीरचराणां करुणाकोरकितदृष्टिपातानाम् । केलीवनं मनो मे केषांचिद्भवतु चिद्विलासानाम् ॥ १३ ॥ आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूषम् । आरब्धयौवनोत्सवमाम्नायरहस्यमन्तरवलम्बे ॥ १४ ॥ अधिकाञ्चि परमयोगिभिरादिमपरपीठसीन्नि दृश्येन । अनुबद्धं मम मानसमरुणिमसर्वखसंप्रदायेन ॥ १५ ॥ अङ्कितशंकरदेहामङ्कुरितोरोजकङ्कणाश्लेषैः । अधिकाञ्चि नित्यतरुणीमद्राक्षं कांचिदद्भुतां बालाम् ॥ १६ ॥ मधुरस्मितेन रमते मांसलकुचभारमन्दगमनेन । मध्येकाञ्चि मनो मे मनसिजसाम्राज्यगर्वबीजेन ॥ १७ ॥ धरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोतृमयीम् । अम्बुमयीमिन्दुमयीमम्बामनुकम्पमादिमामीक्षे ॥ १८ ॥ १. 'परमशिवधैर्य' इति ख-ग-घ पाठः, २. कम्पानदीसमीपे.
पञ्चशती। ५९ लीनस्थिति मुनिहृदये ध्यानस्तिमितं तपस्यदुपकम्पम् । पीनस्तनभरमीडे मीनध्वजतन्त्रपरमतात्पर्यम् ॥ १९ ॥ श्वेता मन्थरहसिते शाता मध्ये च वाङ्मनोतीता। शीता लोचनपाते स्फीता कुचसीम्नि शाश्वती माता ॥ २०॥ पुरतः कदा नु करवै पुरवैरिविमर्दपुलकिताङ्गलताम् । पुनतीं काञ्चीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ॥ २१ ॥ पुण्या कापि पुरंधी पुडितकंदर्पसंपदा वपुषा। पुलिनचरी कम्पायाः पुरमथनं पुलकनिचुलितं कुरुते ॥२२॥ तनिमाद्वैतवलग्नं तरुणारुणसंप्रदायतनुलेखम् । तटसीमनि कम्पायास्तरुणिमसर्वखमाद्यमद्राक्षम् ॥ २३ ॥ पौष्टिककर्मविपाकं पौष्पशरं संविधसीन्नि कम्पायाः । अद्राक्षमात्तयौवनमभ्युदयं किंचिदर्धशशिमौलेः ॥ २४ ॥ संश्रितकाञ्चीदेशे सरसिजदौर्भाग्यजाग्रदुत्तंसे । संविन्मये विलीये सारखतपुरुषकारसाम्राज्ये ॥ २५ ॥ मोदितमधुकरविशिखं स्वादिमसमुदायसारकोदण्डम् । आहतकाञ्चीखेलनमादिममारुण्यभेदमाकलये ॥ २६ ॥ उररीकृतकाञ्चिपुरीमुपनिषदरविन्दकुहरमधुधाराम् । उन्नमस्तनकलशीमुत्सवलहरीमुपास्महे शंभोः ॥ २७ ॥ एणशिशुदीर्घलोचनमेनःपरिपन्थि संततं नमताम् । एकामनाथजीवितमेवंपददूरमेकमवलम्बे ॥ २८ ॥ स्मयमानमुखं काञ्चीमयमानं कमपि देवताभेदम् । दयमानं वीक्ष्य मुहुर्वयमानन्दामृताम्बुधौ मनाः ॥ २९ ॥ १.कृशा. २. 'सौधसीनि' इति क-ख-ग-पाठः...
काव्यमाला। कुतुकजुषि काञ्चिदेशे कुमुदतपोराशिपाकशेखरिते। कुरुते जनो मनोऽयं कुलगिरिपरिवृढकुलैकमणिदीपे ॥३०॥ वीक्षेमहि काञ्चिपुरे विपुलस्तनकलशगरिमपरवशितम्। विद्रुमसहचरदेहं विभ्रमसमवायसारसंनाहम् ॥ ३१ ॥ कुरुविन्दगोत्रगानं कूलचरं किमपि नौमि कम्पायाः । कूलंकषकुचकुम्भं कुसुमायुधवीर्यसारसंरम्भम् ॥ ३२ ॥ कुङ्मलितकुचकिशोरै कुर्वाणैः काञ्चिदेशसौहार्दम् । कुङ्कुमशोणैर्निचितं कुशलपथं शंभुसुकृतसंभारैः ।। ३३ ।। अङ्कितकुचेन केनचिदन्धंकरणाषधेन कमलानाम् । अन्तःपुरेण शंभोरलंक्रिया कापि कल्प्यते काञ्च्याः ॥ ३४ ॥ उररीकरोमि संततमूष्मलफालेन लालितं पुंसा। उपकम्पमुचितखेलनमुर्वीधरवंशसंपदुन्मेषम् ॥ ३५ ॥ अङ्कुरितस्तनकोरकमकालंकारमेकचूतपतेः । आलोकेमहि कोमलमागमसंल्लापसारयाथार्थ्यम् ॥ ३६ ॥ युञ्जितकरुणमुदञ्चितशिञ्जितमणिकाञ्चि किमपि काञ्चिपुरे । मञ्जरितमृदुलहासं पिञ्जरतनुरुचि पिनाकिमूलधनम् ॥ ३७ ॥ लोलहृदयोऽस्मि शंभोर्लोचनयुगलेन लेह्यमानायाम् । लालितपरमशिवायां लावण्यामृततरङ्गमालायाम् ॥ ३८॥ मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः । मण्डितकम्पातीमङ्गलकन्दैर्ममास्तु सारूप्यम् ॥ ३९ ॥ वदनारविन्दवक्षोवामाङ्कतलीवशंवदीभूता । पुरुषत्रितये त्रेधा पुरंघ्रिरूपा त्वमेव कामाक्षि ॥ ४० ॥ १. 'पिञ्जरित' इति पुस्तकचतुष्टयेऽपि छन्दोभङ्गदूषितः पाठः.
पञ्चशती। बाधाकरी भवाब्धेराधाराद्यम्बुजेषु विचरन्तीम् । आधारीकृतकाञ्ची बोधामृतवीचिमेव विमृशामः ॥ ४१ ॥ कलयाम्यन्तः शशधरकलयाङ्कितमौलिममलचिद्वलयाम् । अलयामागमपीठीनिलयां वलयाङ्कसुन्दरीमम्बाम् ॥ ४२ ॥ शादिपरमसाधकगुनीताय कामपीठजुषे । सर्वाकृतये शोणिमगर्वाय समर्प्यते हृदयम् ॥ ४३ ॥ समया सांध्यमयूखैः समया बुद्धया सदैव 'शीलितया । उमया काञ्चीरतया न मया लभ्येत किं नु तादात्म्यम् ॥४४॥ जन्तोस्तव पदपूजनसंतोषतरङ्गितस्य कामाक्षि । बन्धो यदि भवति पुनः सिन्धोरम्भःसु बम्भ्रमीति शिला॥ ४५ ॥ कुण्डलि कुमारि कुटिले चण्डि चराचरसवित्रि चामुण्डे । गुणिनि गुहारणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ॥ ४६॥ अभिदाकृतिभिंदाकृतिरैचिदाकृतिरपि चिदाकृतिर्मातः । अनहंता त्वमहंता भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥४७॥ शिव शिव पश्यन्ति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः। विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिम्बोष्ठम् ।। ४८॥ कामपरिपन्थिकामिनि कामेश्वरि कामपीठमध्यगते । कामदुघा भव कमले कामकले कामकोटि कामाक्षि ॥४९॥ मध्येहृदयं मध्येनिटिलं मध्येशिरोऽपि वास्तव्याम् । चण्डकरशक्रकामुकचन्द्रसमामां नमामि कामाक्षीम् ॥ ५० ॥ १. 'शीलतया' इति क-ख-पुस्तकयोः, 'शीतलया' इति च ग-पुस्तके पाठः, २.. 'गुहारिणि' इति क-ख-ग-पाठः. ३. 'रचिदाकृतिश्चिदाकृतिश्च मातः' इति क-ख-ग-पाठः.
६२ काव्यमाला। अधिकाञ्चि केलिलोलेरखिलागमयन्त्रतन्त्रमन्त्रमयैः । अतिशीतं मम हृदयं विषमशरद्रोहिजीवनोपायैः॥ ५१ ॥ नन्दति मम हृदि काचन मन्दिरयन्ती निरन्तरं काञ्चीम् । इन्दुरविमण्डलकुचा बिन्दुवियन्नादपरिणता तरुणी ।। ५२ ॥ शम्पालतासवर्ण संपादयितुं भवज्वरचिकित्साम् । लिम्पामि मनसि कंचन कम्पातटरोहि सिद्धभैषज्यम् ॥५३॥ अनुमितकुचकाठिन्यामधिवक्षःपीठमङ्गजन्मरिपोः । आनन्ददां भजे तामानङ्गब्रह्मतत्त्वबोधिसिराम् ॥ ५४ ॥ ऐक्षिषि पाशाङ्कुशधरहस्तान्तं विस्मयाहवृत्तान्तम् । अधिकाञ्चि निगमवाचां सिद्धान्तं शूलपाणिशुद्धान्तम् ॥ ५५ ॥ आहितविलासभङ्गीमाब्रह्मस्तम्बशिल्पकल्पनया । आश्रितकाञ्चीमतुलामाद्यां विस्फूर्तिमाद्रिये विद्याम् ॥ ५६ ॥ मूकोऽपि जटिलदुर्गतिशोकोऽपि स्मरति यः क्षणं भवतीम् । एको भवति स जन्तुलोकोत्तरकीर्तिरेव कामाक्षि ॥ ५७ ।। पञ्चदशवर्णरूपं कंचन काञ्चीविहारधौरेयम् । पञ्चशरीयं शंभोर्वञ्चनवैदग्ध्यमूलमवलम्बे ॥ ५८ ॥ परिणतवती चतुर्धा पदवीं सुधियां समेत्य सौषुम्णीम् । पञ्चाशदर्णकल्पितपदशिल्पां तां नमामि कामाक्षीम् ॥ ५९ ॥ ऑदिक्षन्मम गुरुराडादिक्षान्ताक्षरात्मिका विद्याम् । खादिष्ठचापदण्डां नेदिष्ठामेव कामपीठगताम् ॥ ६० ॥ तुष्यामि हर्षितस्सरशासनया काञ्चिपुरि कृतासनया । खासनया सकलजगद्भासनया कलितशम्बरासनया ॥ ६१ ॥ १. 'असमशर' इति क-ख-ग-पाठः. २. 'पञ्चाशद्वर्ण' इति क-ख-ग-पाठः. ३. आदिक्षत् उपदिष्टवान्. ४. इक्षुधनुर्धारिणीम्.
पञ्चशती। प्रेमवती कम्पायां स्थेमवती यतिमनःसु भूमवती । सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती ।। ६२ ।। कौतुकिना कम्पायां कौसुमचापेन कीलितेनान्तः । कुलदैवतेन महता ढुङमलमुद्रां धुनोतु नः प्रतिभा ॥ ६३ ॥ केनापि मिलितदेहा यूना स्वाहासहायतिलकेन । सहकारमूलदेशे संविद्रूपा कुटुम्बिनी रमते ॥ ६४ ॥ कुसुमशरगर्वसंपत्कोषगृहं भाति काश्चिमध्यगतम् । स्थापितमस्मिन्कथमपि गोपितमन्तर्मया मनोरत्नम् ।। ६५ ॥ दग्धषडध्वारण्यं दरदलितकुसुम्भसंभृतारुण्यम् । कलये नवतारुण्यं कम्पातटसीम्नि किमपि कारुण्यम् ॥ ६६ ॥ अधिकाञ्चि वर्धमानानतुलां करवाणि पारणामक्ष्णोः । आनन्दपाकभेदानरुणिमपरिणामगर्वपल्लवितान् ॥ ६७ ॥ बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् । एणधरकोणचूडं शोणिमपरिपाकभेदमाकलये ॥ ६८ ॥ किं वा फलति ममान्यैर्बिम्बाधरचुम्बिमन्दहासमुखी । संबाधकरी तमसामम्बा जागर्ति मनसि कामाक्षी ॥ ६९ ॥ मञ्चे सदाशिवमये परशिवमयललितपौष्पपर्यके । अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् ।। ७० ॥ लक्ष्योऽस्मि कामपीठीलासिकया घनकृपाम्बुराशिकया। श्रुतियुवतिकुन्तलीमणिमालिकया तुहिनशैलबालिकया ॥ ७१ ॥ लीये पुरहरजाये माये तव तरुणपल्लवच्छाये । चरणे चन्द्राभरणे काञ्चीशरणे नतार्तिसंहरणे ॥ ७२ ॥ १. स्थैर्यवती. २. ऐश्वर्यवती. ३. संकोचम्.
६४ काव्यमाला। मूर्तिमयि मुक्तिबीजे मूर्ध्नि स्तबकितचकोरसाम्राज्ये । मोदितकम्पाकूले मुहुर्मुहुर्मनसि मुमुदिषास्माकम् ॥ ७३ ॥ वेदमयीं नादमयीं बिन्दुमयीं परपदोद्यदिन्दुमयीम् । मन्त्रमयीं तन्त्रमयी प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ।। ७४ ॥ पुरमथनपुण्यकोटी पुञ्जितकविलोकसूक्तिरसधाटी । मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी॥ ७५ ॥ कुटिलं चटुलं पृथुलं मृदुलं कचनयनजघनचरणेषु । अवलोकितमवलम्बनमधिकम्पातटममेयमस्माभिः ॥ ७६ ॥ प्रत्यङ्मुख्या दृष्टया प्रसाददीपाङ्कुरेण कामाक्ष्याः । पश्यामि निस्तुलमहो पचेलिमं किमपि परशिवोल्लासम् ॥ ७७॥ विद्ये विधातृविषये कात्यायनि कालि कामकोटि कले। भारति भैरवि भद्रे शाकिनि शांभवि शिवे स्तुवे भवतीम् ॥ ७८ ।। मालिनि महेशचारिणि काञ्चीखेलिनि विपक्षकॉलिनि ते । शूलिनि विद्रुमशालिनि सुरजनपालिनि कृपालिनि नमोऽस्तु ॥७९॥ देशिक इति किं शङ्के तत्तादृक्तव नु तरुणिमोन्मेषः । कामाक्षि शूलपाणेः कामागमतन्त्रयज्ञदीक्षायाम् ॥ ८० ॥ वेतण्डकुम्भडम्बरवैतण्डिककुचभरातमध्याय । कुंकुमरुचे नमस्यां शंकरनयनामृताय रचयामः ॥ ८१ ॥ अधिकाञ्चितमणिकाञ्चनकाञ्चीमधिकाञ्चि कांचिदद्राक्षम् । अवनतजनानुकम्पामनुकम्पाकूलमस्मद्नुकूलाम् ॥ ८२ ॥ १. 'मुमुदुषा' इति क-ख-ग-पाठः, २. 'निस्तुललये' इति क-ख-ग-पाठः, ३. 'विपक्षहालिनि' इति क-ख-ग-पाठः, ४. 'इति नु किमेषः शङ्के' इति. घ-पाठः, ५. 'तत्रयन्त्र' इति घ-पाठः-६. 'कुङ्कुमरुचये' इति क-ख-ध-पाठः.
पञ्चशती। परिचितकम्पातीरं पर्वतराजन्यसुकृतसंनाहम् । परगुरुकृपया वीक्षे परमशिवोत्सङ्गमङ्गलाभरणम् ॥ ८३ ॥ दग्धमदनस्य शंभोः प्रथीयसी ब्रह्मचर्यवैदग्धीम् । तव देवि चतुरिमश्रीतरुणिमपाको न चक्षमे मातः ॥ ८४॥ मदजलतमालपत्रा वसनितपत्रा कराहतखनित्रा। विहरति पुलिन्दयोषा गुञ्जाभूषा फणीन्द्रकृतवेषा ॥ ८५ ॥ अङ्के शुकिनी गीते कौतुकिनी परिसरे च गायकिनी । जयसि सविधेऽम्ब भैरवमण्डलिनी श्रवसि शङ्खकुण्डलिनी ।। ८६ ॥ प्रणतजनतापवर्गा कृतरणसर्गा ससिंहसंसर्गा। कामाक्षि मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ॥ ८७ ॥ श्रवणचलद्वेतण्डा समरोद्दण्डा धुतासुरशिखण्डा । देवि कलितान्त्रखण्डा धृतनरमुण्डा त्वमेव चामुण्डा॥ ८८॥ उवींधरेन्द्रकन्ये दर्वीभरितेन भक्तपूरेण । गुर्वीमकिंचनाति खर्वीकुरुषे त्वमेव कामाक्षि ॥ ८९ ॥ ताडितरिपुपरिपीडनभयहरणनिपुणहलमुसला । क्रोडपतिमीषणमुखी क्रीडसि जगति त्वमेव कामाक्षि ॥९०॥ स्मरमथनवरणलोला मन्मथहेलाविलासमणिशाला। कनकरुचिचौर्यशीला त्वमम्ब बाला कराजधृतमाला ॥९१॥ विमलपटी कमलकुटी पुस्तकरुद्राक्षशस्तहस्तपुटी। कामाक्षि पक्ष्मलाक्षी कलितविपञ्ची विभासि वैरञ्ची ॥ ९२ ॥ १. भैरवि'इति क-ख-ग-पाठः, २. प्रपातजनताया मोक्षरूपा. ३. 'घृता' इति कःख-ग-पाठः... ४. सर्वेषु पुस्तकेष्वयमेव दुष्टः पाठोऽस्ति. ५. 'क्रम- लघुटी' इति घ-पाठः. ५ पंच० काव्यमाला। कुड्डमरुचिपिङ्गमसृक्पङ्किलमुण्डालिमण्डितं मातः । जयति तव रूपभेदं जपपटपुस्तकवराभयाजकरम् ॥ ९३ ॥ कनकमणिकलितभूषां कालायसकलहायमानकान्तिजालाम् । कामाक्षि शीलये त्वां कपालशूलाभिरामकरकमलाम् ॥ ९४ ॥ लोहितिमपुञ्जमध्ये मोहितभुवनं मुदा निरीक्षन्ते । वदनं तव कुचयुगलं काञ्चीसीमां च केऽपि कामाक्षि ॥ ९५ ॥ जैलपिद्विगुणितहुतवहदशदिनेशकलाश्विनेयदलैः । नलिनैर्महेशि गच्छसि सर्वोत्तमं त्वं करन्ध्रधृतनलिनम् ॥ ९६ ॥ सत्कृतदेशिकचरणा सबीजनिर्बीजयोगनिश्रेण्या । अपवर्गसौघवलभीमारोहन्त्यम्ब केऽपि तव कृपया ॥ ९७ ॥ अन्तरपि बहिरपि त्वं जन्तुततेरन्तकान्तकृदहंते । चिन्तितसंतानकला संततमपि संतनुष्व महिमानम् ॥ ९८ ॥ जय जय जगदम्ब शिवे जय जय कामाक्षि जयजयाद्रिसुते । जय जय महेशदयिते जय जय चिद्गगनकौमुदीधारे ॥ ९९ ॥ आर्याशतकं भक्त्या पठतामार्याकटाक्षेण । निःसरति वदनकमलाद्वाणी पीयूषधोरणी दिव्या ॥ १० ॥ इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यामार्याशतकं चतुर्थम् । स्तुतिशतकम् । पाण्डित्यं परमेश्वरि स्तुतिविधौ नैवाश्रयन्ते गिरा वैरश्चान्यपि गुम्फनानि विगलद्र्वाणि शर्वाणि ते। १. 'जपवट' इति घ-पाठः२. सर्वेषु पुस्तकेष्वयमेव छन्दोभङ्गयुक्तः पाठः, ३. 'कुञ्जमध्ये' इति ग-पाठः. ४. 'किमपि' इति क-ख-ग-पाठः. ५. इयमार्यापि च्छन्दोभङ्गदूषितैव. ६. 'सर्वोत्तरं' इति घ-पाठः. नवता' इति घ-पाठः. ८. इयमार्या घ-पुस्तके नास्ति. ८. संता- पञ्चशती। स्तोतुं त्वां परिफुल्लनीलनलिनश्यामाक्षि कामाक्षि मां वाचालीकुरुते तथापि नितरां त्वत्पादसेवादरः ॥१॥ तापिच्छस्तबकत्विषे तनुभृतां दारिद्यमुद्राद्विषे संसाराख्यतमोमुषे पुररिपोर्वामाङ्कसीमाजुषे । कम्पातीरमुपेयुषे कवयतां जिह्वाकुटी जग्मुषे विश्वत्राणमुषे नमोऽस्तु सततं तस्मै परज्योतिषे ॥२॥ ये संध्यारुणयन्ति शंकरजटाकान्तारचन्द्रार्भक सिन्दूरन्ति च ये पुरंदरवधूसीमन्तसीमान्तरे । पुण्यं ये परिपक्कयन्ति भजतां काञ्चीपुरे माममी पायासुः परमेश्वरप्रणयिनीपादोद्भवाः पांसवः ॥ ३॥ कामाडम्बरपूर्णया शशिरुचा कम्रसितानां त्विषा कामारेरनुरागसिन्धुमधिकं कल्लोलितं तन्वती। कामाक्षीति समस्तसज्जननुता कल्याणदात्री नृणां कारुण्याकुलमानसा भगवती कम्पातटे जृम्भते ॥४॥ कामाक्षीणपराक्रमप्रकटनं संभावयन्ती दृशा श्यामा क्षीरसहोदरमितरुचिप्रक्षालिताशान्तरा। वामाक्षीजनमौलिभूषणमणिर्वाचां परा देवता कामाक्षीति विभाति कापि करुणा कम्पातटिन्यास्तटे ॥५॥ श्यामा काचन चन्द्रिकात्र भुवने पुण्यात्मनामानने सीमाशून्यकवित्ववर्षजननी या कापि कादम्बिनी । मारारातिमनोविमोहनविधौ काचित्तमःकन्दली कामाक्ष्याः करुणाकटाक्षलहरी कामाय मे कल्पताम् ॥ ६ ॥ 'वसतां' इतिघ-पाठः. २. 'रुचा' इति क-ख-ग-पाठः, ३. 'तरुणी' इति क-ख-ग-पाठः, ६८ काव्यमाला। प्रौढध्वान्तकदम्बके कुमुदिनीपुण्याङ्कुरं दर्शय- ज्योत्स्नासंगमनेऽपि कोकमिथुनं मिश्रं समुद्भावयन् । कालिन्दीलहरीशां प्रकटयन्कनां नभस्यद्भुतां कश्चिन्नेत्रमहोत्सवो विजयते काञ्चीपुरे शूलिनः ॥ ७॥ तंत्राभूततमालनीलसुषमैस्तारुण्यलीलागृहै- स्तारानाथकिशोरलाञ्छितकचैस्ताम्रारविन्देक्षणैः मातः संश्रयतां मनो मनसिजप्रागल्भ्यनाधिमैः कम्पातीरचरैर्धनस्तनभरैः पुण्याङ्कुरैः शांकरैः ॥ ८॥ नित्यं निश्चलतामुपेत्य मरुतां रक्षाविधि पुष्णती तेजःसंचयपाटवेन किरणानुष्णधुतेर्मुष्णती । काञ्चीदेशगतापि दीप्तिजननी विश्वान्तरे जृम्भते काचिच्चित्रमिहे स्मृतापि मनसो निर्वापिका दीपिका ॥ ९॥ कान्तः केशरुचां चयभ्रमरितं मन्दसितैः पुष्पितं कान्त्या पल्लवितं पदाम्बुरुहयोनेत्रत्विषा पत्रितम् । कम्पातीरवनान्तरं विदधती कल्याणजन्मस्थली काञ्चीमध्यमहामणिविजयते काचित्कृपाकन्दली ॥ १० ॥ राकाचन्द्रसमानकान्तिवदना नाकाधिराजस्तुता मूकानामपि कुर्वती सुरधुनीनीकाशवाग्वैभवम् । श्रीकाञ्चीनगरीविहाररसिका शोकापहन्त्री सता- मेका पुण्यपरम्परा पशुपतेराकारिणी राजते ॥ ११ ॥ जाता शीतलशैलतः सुकृतिनां दृश्या परं देहिनां लोकानां क्षणमात्रसंस्मरणतः संतापविच्छेदिनी । १. पुस्तकचतुष्टयेऽप्यशुद्ध एवायं श्लोकः. २. 'अहो' इति घ-पाठः, पञ्चशती। आश्चर्य बहुखेलनं वितनुते नैश्चल्यमाबिभ्रती कम्पायास्तटसीन्नि कापि तटिनी कारुण्यपाथोमयी ॥ १२॥ ऐक्यं येन विरच्यते हरतनौ दम्भावभावके रेखा यत्कचसीम्नि शेखरदशां नैशाकरी गाहते। औन्नत्यं मुहुरेति येन स महान्मनासखः सानुमा- कम्पातीरविहारिणा सशरणास्तेनैव धाम्ना वयम् ॥ १३ ॥ अक्ष्णोश्च स्तनयोः श्रिया श्रवणयोर्बाह्वोश्च मूलं स्पृश- ब्रुसेन मुखेन च प्रतिदिनं द्रुह्यन्पयोजन्मने । माधुर्येण गिरां गतेन मृदुना हंसाङ्गनां रुपय- काञ्चीसीम्नि चकास्ति कोऽपि कवितासंतानबीजाङ्कुरः ॥१४॥ खण्डं चान्द्रमसं वतंसमनिशं काञ्चीपुरे खेलनं कालायश्छवितस्करी तनुरुचिं कर्णेजपे लोचने । तारुण्योष्मनखंपचस्तनभरं जङ्घास्पृशं कुन्तलं माग्यं देशिकसंचितं मम कदा संपादयेदम्बिके ॥ १५ ॥ तन्वानं जनकेलिसौधसरणिं नैसर्गिकीणां गिरां केदारं कविमल्लसूक्तिलहरीसस्यश्रियां शाश्वतम् । अंहोवञ्चनचुञ्च किंचन भजे काञ्चीपुरीमण्डनं पर्यायच्छवि पाकशासनमणेः पौष्पेषवं पौरुषम् ॥ १६ ॥ आलोके मुखपङ्कजे च दधती सौधाकरी चातुरी चूडालंक्रियमाणपङ्कजवनीवैरागमप्रक्रिया । मुग्धमेरमुखी घनस्तनतटी मूीलमध्याञ्चि वा काञ्चीसीमनि कामिनी विजयते काचिजगन्मोहिनी ॥१७॥ १. हिमालयः. २. 'मूलस्पृशो' इति सर्वपुस्तकपाठः, ३. खनतर्ट' इति क-ख-ग-पाठः, ४. इन्द्रनीलप्रभामिति भावः.
काव्यमाला। यस्मिन्नम्ब भवत्कटाक्षरजनी मन्देऽपि मन्दस्मित- ज्योत्स्नासंस्खपिता भवत्यभिमुखी तं प्रत्यहो देहिनम् । द्राक्षामाक्षिकमाधुरीमदभरब्रीडाकरी वैखरी कामाक्षि खयमातनोत्यभिसृतिं वामेक्षणेव क्षणात् ॥ १८॥ कालिन्दीजलकान्तयः मितरुचिखर्वाहिनीपाथसि प्रौढध्वान्तरुचः स्फुटाधरमहालौहित्यसंध्योदये । माणिक्योपलकुण्डलांशुशिखिनि व्यामिश्रधूमश्रियः कल्याणैकभुवः कटाक्षसुषमाः कामाक्षि राजन्ति ते ॥१९॥ कलकलरणत्काञ्ची काञ्चीविभूषणमालिका कचभरलसचन्द्रा चन्द्रावतंससधर्मिणी। कविकुलगिरः श्रावं श्रावं मिलत्पुलकाङ्कुरा विरचितशिरःकम्पा कम्पातटे परिशोभते ॥ २० ॥ सरसवचसां वीची नीचीभवन्मधुमाधुरी भरितभुवना कीर्तिमूर्तिमनोभवजित्वरी। जननि मनसो योग्यं भोग्यं नृणां तव जायते कथमिव विना काञ्चीभूषे कटाक्षतरङ्गितम् ॥ २१ ॥ प्रमरितसरित्पूरे नीलोत्पलप्रभया भया- नतजनतमःखण्डी तुण्डीरसीन्नि विजृम्भते । अचलतपसामेकः पाकः प्रसूनशरासन- प्रतिभटमनोहारी नारीकुलैकशिखामणिः ॥ २२ ॥ मधुरवचसो मन्दस्मेरा मतङ्गजगामिन- स्तरुणिमजुषस्तापिच्छामास्तमःपरिपन्थिनः । १. एवं' इति क-ख-ग-पाठः, २. 'देहिनाम्' इति क-ख-पाठः. ३. वाणी.
पञ्चशती। कुचभरनताः कुर्युभद्रं कुरङ्गविलोचनाः कलितकरुणाः काञ्चीभाजः कपालिमहोत्सवाः॥ २३॥ कमलसुषमाकक्षारोहे विचक्षणवीक्षणाः कुमुदसुकृतक्रीडाचूडालकुन्तलबन्धुराः। रुचिररुचिभिस्तापिच्छश्रीप्रपञ्चनचुच्चवः पुरविजयिनः कम्पातीरे स्फुरन्ति मनोरथाः ॥ २४ ॥ कलितरतयः काञ्चीलीलाविधौ कविमण्डली- वचनलहरीवासन्तीनां वसन्तविभूतयः । कुशलविधये भूयासुर्मे कुरङ्गविलोचनाः कुसुमविशिखारातरक्ष्णां कुतूहलविभ्रमाः ॥ २५॥ कवलिततमःखण्डास्तुण्डीरमण्डलमण्डनाः सरसिजवनीसंतानानामरंतुदशेखराः । नयनसरणेनेंदीयांसः कदा नु भवन्ति मे तरुणजलदश्यामाः शंभोस्तपःफलविभ्रमाः ॥ २६॥ अचरममिषु दीनं मीनध्वजस्य मुखश्रिया सरसिजभुवो यानं म्लानं गतेन च मञ्जुना । त्रिदेशसदसामन्नं खिन्नं गिरा च वितन्वती तिलकयति सा कम्पातीरं त्रिलोचनसुन्दरी ॥ २७ ॥ जननि भुवने चङ्गम्येऽहं कियन्तमनेहसं कुपुरुषकरभ्रष्टैर्दुष्टैर्धनैरुदरंभरिः। तरुणकरुणे तन्द्राशून्ये तरङ्गय लोचने नमति मयि ते किंचित्काञ्चीपुरीमणिदीपिके ॥ २८ ॥ १. मीनध्वजस्य प्रथमं बाणमरविन्दरूपं मुखश्रिया दीनं वितन्वतीयन्वयः.. २. हंसम्. ३. पीयूषम्.
છR काव्यमाला। मुनिजनमनःपेटीरत्नं स्फुरत्करुणानटी- विहरणकलागेहं काञ्चीपुरीमणिभूषणम् । जगति महतो मोहव्याधेर्नृणां परमौषधं पुरहरदृशां साफल्यं मे पुरः परिजृम्भताम् ॥ २९ ॥ मुनिजनमनोधाम्ने धाम्ने वचोमयजाह्नवी- हिमगिरितटपारभारायाक्षराय परात्मने । विहरणजुषे काञ्चीदेशे महेश्वरलोचन- त्रितयसरसक्रीडासौधाङ्गणाय नमोनमः ॥ ३० ॥ मरकतरुचां प्रत्यादेशं महेश्वरचक्षुषा- ममृतलहरीपूरं पारं भवाख्यपयोनिधेः । सुचरितफलं काञ्चीभाजो जनस्य पचेलिम हिमशिखरिणो वंशस्यैकं वतंसमुपास्महे ॥ ३१ ॥ प्रणमनदिनारम्भे कम्पानदीसखि तावके सरसकवितोन्मेषः पूषा सतां समुदञ्चितः । प्रतिभटमहाप्रौढप्रोद्यत्कवित्वकुमुदतीं नयति तरसा निद्रामुद्रां नगेश्वरकन्यके ॥ ३२ ॥ शमितजडिमारम्भा कम्पातटीनिकटेचरी निहतदुरितस्तोमा सोमार्षमुद्रितकुन्तला । फलितसुमनोवाञ्छा पाञ्चायुधी परदेवता सफलयतु मे नेत्रे गोत्रेश्वरप्रियनन्दिनी ॥ ३३ ॥ १. प्राग्भामाय' इति क-ख-ग-पाठः. २. 'अचिराय' इति घ-पाठः. ३. 'समुदश्चति' इति ख-ग-पाठः. ४. 'तन्द्रामुद्रां' इति घ-पाठः. ५. 'कु- न्तली' इति स्व-घ-पाठः, ६. हिमालयसुता.
पञ्चशती। मम तु धिषणा पीड्या जाड्यातिरेक कथं त्वया कुमुदसुषमामैत्रीपात्रीवतंसितकुन्तलाम् । जगति शमितस्तम्भां कम्पानदीनिलयामसौ श्रयति हि गलत्तन्द्रा चन्द्रावतंससधर्मिणी ॥ ३४ ॥ परिमलपरीपाकोद्रेकं पयोमुचि काञ्चने शिखरिणि पुनद्वैधीभावं शशिन्यरुणातपम् । अपि च जनयन्कम्बोर्लक्ष्मीमनम्बुनि कोऽप्यसौ कुसुमधनुषः काञ्चीदेशे चकास्ति पराक्रमः ॥ ३५ ॥ पुरदमयितुर्वामोत्सङ्गस्थलेन रसज्ञया सरसकवितामाजां काञ्चीपुरोदरसीमया । तटपरिसरैर्नीहाराद्रेर्वचोभिरकृत्रिमैः किमिव न तुलामस्सच्चेतो महेश्वरि गाहते ॥ ३६ ॥ नयनयुगलीमामाकीनां कदा नु फलेग्रहिं विदधति गतौ व्याकुर्वाणा गजेन्द्रचमलियाम् । मरकतरुचो देहे माहेश्वराः स्तननम्रिताः सुकृतविभवाः प्राञ्चः काञ्चीवतंसधुरंधराः ॥ ३७ ।। मनसिजयशःपारम्पर्य मरन्दझरीसुवां कविकुलगिरां कन्दं कम्पानदीतटमण्डनम् । मधुरललितं मत्कं चक्षुर्मनीषिमनोहरं पुरविजयिनः सर्वखं तत्पुरस्कुरुते कदा ॥ ३८ ॥ शिथिलिततमोलीलां नीलारविन्दविलोचनां दहनविलसत्काल श्रीकामकोटिमुपास्महे ।
७१ काव्यमाला। करधृतलसच्छूला कामारिचित्तमनोहरां मनसिजकृपालोला लोलालकामलिकेक्षणाम् ।। ३९ ॥ कलालीलाशाला कविकुलवचःकैरववनी- शरज्योत्स्नाधारा शशधरशिशुलाध्यमुकुटी । पुनीते नः कम्पापुलिनतटसौहार्दतरला कदा चक्षुर्मार्ग कनकगिरिधानुष्कमहिषी ॥ ४० ॥ नमः स्तान्नमेभ्यः स्तनगरिमगर्वेण गुरुणा दधानेभ्यश्चूडाभरणममृतस्यन्दशिशिरम् । सदा वास्तव्येभ्यः सविधभुवि कम्पाख्यसरितो यशोव्यापारेभ्यः सुकृतविभवेभ्यः पशुपतेः ।। ४१ ॥ असूयन्ती काचिन्मरकतरुचो नाकिमुकुटी- कदम्बं चुम्बन्ती चरणनखचन्द्रांशुपटलैः । तमोमुद्रां विद्रावयतु मम कञ्चीनिलयना हरोत्सङ्गश्रीमन्मणिगृहमहादीपकलिका ॥ ४२ ।। अनाद्यन्ता काचित्सुजननयनानन्दजननी निरुन्धाना कान्ति निजरुचिविलासर्जलमुचाम् । स्मरारेस्तारल्यं मनसि जनयन्ती स्वयमहो गलत्कम्पा शम्पा परिलसति कम्पापरिसरे।। ४३ ।। सुधाडिण्डीरश्रीः मितरुचिषु तुण्डीरविषयं पारिष्कुर्वाणासौ परिहसितनीलोत्पलरुचिः । स्तनाभ्यामानम्रा स्तबकयतु मे काङ्गिततरूं दृशामैशानीनां सुकृतफलपाण्डित्यगरिमा ।। ४४ ॥ १. 'कालारि' इति क-ख-ग-पाठः. २. कनकगिरिणा मेरुणा धानुष्को धनुष्मान् शिवः तस्य महिषी. ३. 'रतिपतेः' इति घ-पाठः, पञ्चशती। ७५ कृपाधाराद्रोणी कृपणधिषणानां प्रणमतां निहन्त्री संतापं निगममुकुटोत्तंसकलिका । परा काञ्चीलीलापरिचयवती पर्वतसुता गिरां नीवी देवी गिरिशपरतबा विजयते ॥ १५॥ कवित्वश्रीकन्दा सुकृतपरिपाटी हिमगिरे- विधात्री विश्वेषां विषमशरवीरध्वजपटी। सखी कम्पानद्याः पदहसितपाथोजयुगली पुराणी पायान्नः पुरमथनसाम्राज्यपदवी ॥ ४६॥ देरिद्राणा मध्ये दरदलिततापिच्छसुषमाः स्तनाभोगक्लान्तास्तरुणहरिणाङ्काङ्कितकचाः। हराधीना नानाविबुधमुकुटीचुम्बितपदाः कदा कम्पातीरे कथय विहरामो गिरिसुते ॥४७॥ वरीवर्तु स्थमा त्वयि मम गिरां देवि मनसो नरीनतु प्रौढा वदनकमले वाक्यलहरी । चरीचर्तु प्रज्ञाजननि जैडिमा नः पैरजने सरीसर्तु खैरं जननि मयि कामाक्षि करुणा ॥ १८॥ क्षणं ते कामाक्षि भ्रमरसुषमाशिक्षणगुरुः कटाक्षव्याक्षेपो मम भवतु मोक्षाय विपदाम् । नरीनतु खैरं वचनलहरी निर्जरपुरी- सरिद्वीचीनीचीकरणपटुरास्ये मम सदा ॥.४९ ॥ पुरस्तान्मे भूयः प्रशमनपरः स्तान्मम रुजां प्रचारस्ते कम्पातटविहृतिसंपादिनि दृशोः । १. मूलधनम्. २. क्षीणाः. ३. 'जडिमानं' इति क-ख-ग-पाठः. ४. शत्रुजने, ७६ काव्यमाला। इमां याच्यामूरीकुरु सपदि दूरीकुरु तमः- परीपाकं मत्कं सपदि बुधलोकं च नय माम् ॥ ५० ॥ उदञ्चन्ती काञ्चीनगरनिलये त्वत्करुणया समृद्धा वाग्धाटी परिह सितमाध्वी कवयताम् । उपादत्ते मारप्रतिभटजटाजूटमुकुटी- कुटीरोल्लासिन्याः शतमखतटिन्या जयपटीम् ॥ ५१ ॥ श्रियं विद्यां दद्याज्जननि नमतां कीर्तिममितां सुपुत्र प्रादत्ते तव जननि कामाक्षि करुणा । त्रिलोक्यामाधिक्यं त्रिपुरपरिपन्थिप्रणयिनि प्रणामस्त्वत्पादे शमितदुरिते किं न कुरुते ॥ ५२ ।। मनःस्तम्भं स्तम्भ गमयदुपकम्पं प्रणमतां सदा लोलं नीलं चिकुरजितरोलम्बनिकरम् । गिरां दूर सेरं धृतशशिकिशोरं पशुपते- ईशां भोग्यं योग्यं तुहिनगिरिभाग्यं विजयते ॥ ५३ ।। घनश्यामान्कामान्तकमहिषि कामाक्षि मधुरा- न्दृशां पातानेतानमृतजलशीताननुपमान् । भवोत्पाते भीते मयि वितर नाथे दृढभव- न्मनःशोके मूके हिमगिरिपताके करुणया ॥ ५४ ॥ नतानां मन्दानां भवनिगडबन्धाकुलधियां सदान्ध्यं रुन्धानामभिलषितसंतानलतिकाम् । चरन्ती कम्पायास्तटभुवि सवित्री त्रिजगतां सरामस्तां नित्यं सरमथनजीवातुकलिकाम् ।। ५५॥ १. 'भूकं' इति क-ख-ग-पाठः, २. 'महान्ध्यं' इति क-ख-ग-पाठः पञ्चशती। परा विद्या हृयाश्रितमदनविद्या मरकत- प्रभानीला लीलापरवशितशूलायुधमनाः । तमःपूरं दूरं चरणनतपौरंदरपुरी- मृगाक्षी कामाक्षी कमलतरलाक्षी नयतु मे ॥ ५६ ॥ अहंताख्या मत्कं कवलयति हा हन्त हरिणी हठात्संविद्रूपं हरमहिषि सस्याङ्कुरमसौ । कटाक्षव्याक्षेपप्रकटहरिपाषाणपटलै- रिमामुच्चैरुच्चाटय झटिति कामाक्षि कृपया ॥ ५७ ।। बुधे वा मूके वा तव पतति यस्मिन्क्षणमसौ कटाक्षः कामाक्षि प्रकटजडिमक्षोदेपटिमा । कथंकारं नामै करमुकुलचूडालमुकुटा नमोवाकं ब्रूयुर्नमुचिपरिपन्थिप्रभृतयः ॥ ५८ ॥ प्रतीची पश्यामः प्रकटरुचिनीवारकणिश- प्रभासध्रीचीनां प्रदलितषडाधारकमलाम् । चरन्ती सौषुम्णे पथि परपदेन्दुप्रविगल- सुधार्दी कामाक्षी परिणतपरज्योतिरुदयाम् ॥ ५९ ॥ जम्भारातिप्रभृतिमुकुटीः पादयोः पीठयन्ती गुम्फान्वाचां कविजनकृतान्खैरमारामयन्ती। शम्पालक्ष्मी मणिगणरुचापाटलैः प्रापयन्ती कम्पातीरे कविपरिषदां जृम्भते भाग्यसीमा ॥ ६०॥ चन्द्रापीडां चतुरवदनां चञ्चलापाङ्गलीला कुन्दस्मेरां कुचभरनतां कुन्तलोद्भूतभृङ्गाम् । १. कमलो हरिणविशेषः. २. 'क्षोम' इति क-ख-ग-पाठः. कथं न नमस्कुर्युः. ४. 'नीयारकमणि' इति घ-पाठः- ३. इन्द्राद्याः
७८
काव्यमाला।
मारारातेदनशिखिनं मांसलं दीपयन्ती
कामाक्षी तां कविकुलगिरां कल्पवल्लीमुपासे ॥ ६१॥
कालाम्भोदप्रकरसुषमा कान्तिभिस्तर्जयन्ती
कल्याणानामुदयसरणिः कल्पवल्ली कवीनाम् ।
कंदपारेः प्रियसहचरी कल्मषाणां निहन्त्री
काञ्चीदेशं तिलकयति सा कापि कारुण्यसीमा ॥ ६२ ॥
ऊरीकुर्वन्नुरसिजतटे चातुरीं भूधराणां
पाथोजानां नयनयुगले पारिपन्थ्यं वितन्वन् ।
कम्पातीरे विहरति रुचा मोघयन्मेघशैली
कोकद्वेषं शिरसि कलयन्कोऽपि विद्याविशेषः ॥ १३ ॥
काञ्चीलीलापरिचयवती कापि तापिच्छलक्ष्मी-
र्जाड्यारण्ये हुतवहशिखा जन्मभूमिः कृपायाः ।
माकन्दश्रीर्मधुरकविताचातुरीकोकिलानां
मागें भूयान्मम नयनयोर्मान्मथी कापि विद्या ॥ ६४ ॥
सेतुर्मातर्मरकतमयो भक्तिभाजां भवाब्धौ
लीलालोला कुवलयमयी मान्मथी वैजयन्ती ।
काश्चीभूषा पशुपतिदृशां कापि कालाञ्जनाली
मत्कं दुःखं शिथिलयतु ते मञ्जुलापाङ्गमाला ॥ ६५ ॥
व्यावृण्वानाः कुवलयदलप्रक्रियावरमुद्रां
व्याकुर्वाणा मनसिजमहाराजसाम्राज्यलक्ष्मीम् ।
काञ्चीलीलाविहृतिरसिके काङ्कितं नः क्रियासु-
बन्धच्छेदे तव नियमिनां बद्धदीक्षाः कटाक्षाः ॥ ६६ ॥
पञ्चशती। कालाम्भोदे शशिरुचि दलं कैतकं दर्शयन्ती मध्येसौदामनि मधुलिहां मालिकां राजयन्ती। हंसारावं विकचकमले मञ्जुमुल्लासयन्ती कम्पातीरे विलसति नवा कापि कारुण्यलक्ष्मीः ।। ६७ ॥ चित्रं चित्रं निजमृदुतया भर्सयन्पल्लवाली पुंसां कामान्भुवि च नियतं पूरयन्पुण्यभाजाम् । जातः शैलान्न तु जलनिधेः खैरसंचारशीली काञ्चीभूषा कलयतु शिवं कोऽपि चिन्तामणिम ॥ ६८॥ ताम्राम्भोज जलदनिकटे तत्र बन्धूकपुष्पं तस्मिन्मल्लीकुसुमसुषमां तत्र वीणानिनादम् । व्यावृण्वाना सुकृतलहरी कापि काञ्चीनगर्या- मैशानी सा कलयतितरामैन्द्रजालं विलासम् ॥ ६९॥ आहारांशं त्रिदशसदसामाश्रये चातकाना- माकाशोपर्यपि च कलयन्नालयं तुङ्गमेषाम् । कम्पातीरे विहरतितरां कामधेनुः कवीनां मन्दस्मेरो मदननिगमप्रक्रियासंप्रदायः ॥ ७० ॥ आर्द्राभूतैरविरलकृपैरातलीलाविलासै- रास्थापूर्णैरधिकचपलैरञ्चिताम्भोजशिल्पैः । कान्तैर्लक्ष्मीललितभवनैः कान्तिकैवल्यसारैः काश्मल्यं नः कवलयतु सा कामकोटी कटाक्षः ॥ ७१ ॥ १.चन्द्रकला. २. चातकानामाश्रये मेघे, अर्थात्केशपाशे. ३. आकाश- शब्देन मध्यभागो लक्ष्यते. तदुपरि एषां त्रिदशानां तुङ्गमालयं मेरुम्, अर्थात्स्त- नद्वन्द्वम् ८० काव्यमाला। आधुन्वन्त्यै तरलनयनैराङ्गजी वैजयन्ती- मानन्दिन्यै निजपदजुषामात्तकाञ्चीपुरायै । आस्माकीनं हृदयमखिलरागमानां प्रपञ्चै- राराध्यायै स्पृहयतितरामादिमायै जनन्यै ।। ७२ ।। दूरं वाचां त्रिदशसदसां दुःखसिन्धोस्तरित्रं मोहक्ष्वेडक्षितिरुहवने तीक्ष्णधारं कुठारम् । कम्पातीरे प्रणयिकविभिर्वर्णितोद्यच्चरित्रं शान्त्यै सेवे सकलविपदां शांकरं तत्कलत्रम् ॥ ७३ ।। खण्डीकृत्य प्रकृतिकुटिलं कल्मषं प्रातिभश्री- शुण्डीरत्वं निजपदजुषां शून्यतन्द्रं दिशन्ती। तुण्डीराख्ये महति विषये वर्णवृष्टिप्रदात्री चण्डीदेवी कलयति रतिं चन्द्रचूडालचूली ॥ ७४ ॥ येन ख्यातो भवति स गृही पूरुषो मेरुधन्वा यदृक्कोणे मदननिगमप्राभवं बोभवीति । यत्रीत्यैव त्रिजगदधिपो जृम्भते किंपचानः कम्पातीरे स जयति महान्कश्चिदोजोविशेषः ॥ ७५ ॥ धन्या धन्या गतिरिह गिरां देवि कामाक्षि कामं निन्यां भिन्द्यात्सपदि जडतां कल्मषादुन्मिषन्तीम् । साध्वी माध्वीरसमधुरताभञ्जनी मञ्जुरीति- र्वाणीवेणी झटिति वृणुतात्खधुनीस्पर्धिनी माम् ॥ ७६ ।। यस्या वाटी हृदयकमलं कौसुमी योगभाजां यस्याः पीठी सततशिशिरा शीकरैर्माकरन्दैः । १. शौण्डीर्यम्, शौर्यमिति यावत्. २. चन्द्रेण चूडाला सशेखरा चूली केश- पाशो यस्याः पञ्चशती। यस्याः पेटी श्रुतिपरिचलन्मौलिरत्नस्य काञ्ची सा मे सोमाभरणमहिषी साधयेत्कासितानि ।। ७७ ॥ एका माता सकलजगतामीयुषी ध्यानमुद्रा- मेकाम्राधीश्वरचरणयोरेकताना समिन्धे । ताटकोद्यन्मणिगणरुचाताम्रकर्णप्रदेशा तारुण्यश्रीस्तबकितरुचा तापसी कापि बाला ॥ ७८ ॥ दन्तादन्तिप्रकटनकरी दन्तिभिर्मन्दयान- मन्दाराणां मदपरिणति मश्नती मन्दहासैः । अङ्कराभ्यां मनसिजतरोरङ्कितोराः कुचाभ्या- मन्तःकाश्चि स्फुरति जगतामादिमा कापि माता ।। ७९ ॥ त्रियम्बककुटुम्बिनी त्रिपुरसुन्दरीमिन्दिरां पुलिन्दपतिसुन्दरीं त्रिपुरभैरवी भारतीम् । मतङ्गकुलनायिका महिषमर्दिनीं मातृकां भणन्ति विबुधोत्तमा विहृतिमेव कामाक्षि ते॥ ८॥ महामुनिमनोनटी महितरम्यकम्पातटी- कुटीरकविहारिणी कुटिलबोधसंहारिणी। सदा भवतु कामिनी सकलदेहिनां खामिनी कृपातिशयकिंकरी मम विभूतये शांकरी ॥ ८१ ॥ जैडाः प्रकृतिनिर्धना जनविलोचनारंतुदा नरा जननि वीक्षणं क्षणमवाप्य कामाक्षि ते। वचस्सु मधुमाधुरीं प्रकटयन्ति पौरंदरी- विभूतिषु विडम्बनां वपुषि भान्मथीं प्रक्रियाम् ॥ ८२ ॥ १. 'श्रुतिचरदुरोमौलि' इति क-ख-पाठः. २. 'मनसिजरिपोः' इति क-गा- घपाठः, ३. 'जनाः' इति घ-पाठः. ४. 'मन्मथप्रक्रियाम्' इति क-ख-पाठः, पंच०६ काव्यमाला। घनस्तनतटस्फुटस्फुरितकञ्चुली चञ्चली- कृतत्रिपुरशासना सुजनशीलितोपासना । दृशोः सरणिमश्नुते मम कदा नु काञ्चीपुरे परा परमयोगिनां मनसि चित्कला पुष्कला ॥ ८३ ।। कवीन्द्रहृदयेचरी परिगृहीतकाञ्चीपुरी निरूढकरुणाझरी निखिललोकरक्षाकरी । मनःपथदवीयसी मदनशासनप्रेयसी महागुणगरीयसी मम दृशोऽस्तु नेदीयसी !! ८४ ॥ धनेन न रमामहे खलजनान्न सेवामहे न चापलमयामहे भवभयान्न दूयामहे । स्थिरां तनुमहे तरां मनसि किं च काञ्चीरत- स्मरान्तककुटुम्बिनीचरणपल्लवोपासनाम् ॥ ८५ ॥ सुराः परिजना वपुर्मनसिजाय वैरायते त्रिविष्टपनितम्बिनीकुचतटी च केलीगिरिः । गिरः सुरभयो वयस्तरुणिमा दरिद्रस्य वा कटाक्षसरणौ क्षणं निपतितस्य कामाक्षि ते ॥८६॥ पवित्रय जगत्रयीविबुधबोधजीवातुभिः पुरत्रयविमर्दिनः पुलककञ्चलीदायिभिः । भवक्षयविचक्षणैर्व्यसनमोक्षणैर्वीक्षणै- निरक्षरशिरोमणिं करुणयैव कामाक्षि माम् ॥ ८७ ।। १. 'मर्दिने' इति क-ख-पाठः. २. 'निरीक्षणशिरोमणे' इति घ-पाठः.
पञ्चशती। । कदा कलितखेलनाः करुणयैव काञ्चीपुरे कलायमुकुलत्विषः शुभकदम्बपूर्वाकुराः । पयोधरभरालसाः कविजनेषु ते बन्धुराः पचेलिमकृपारसाः परिपतन्ति मार्गे दृशोः ॥ ८८ ॥ अशोध्यमचलोद्भवं हृदयनन्दनं देहिना- मनमधिकाञ्चि तत्किमपि रत्नमुद्दयोतते । अनेन समलंकृता जयति शंकराकस्थली कदास्य मम मानसं व्रजति पेटिकाविभ्रमम् ॥ ८९ ॥ परामृतझराप्लुता जगति नित्यमन्तश्चरी नृणामपि बहिश्चरी परमसंविदेकात्मिका । महद्भिरपरोक्षिता सततमेव काञ्चीपुरे ममान्वहमहंमतिर्मनसि भातु माहेश्वरी ॥ ९० ॥ स्वमेव सति चण्डिका त्वमिह देवि चामुण्डिका त्वमेव परमातृका त्वमपि योगिनीरूपिणी । स्वमेव किल शांभवी त्वमपि कामकोटी जया त्वमेव विजया त्वयि त्रिजगदम्ब किं ब्रूमहे ॥ ९१॥ परे जननि पार्वति प्रणतपालिनि प्रातिभ- प्रदात्रि परमेश्वरि त्रिजगदाश्रिते शाश्वति । त्रियम्बककुटुम्बिनि त्रिपदसङ्गिनि त्रीक्षणे त्रिशक्तिमयि वीक्षणं मयि निधेहि कामाक्षि ते ॥ ९२ ॥ मनोमधुकरोत्सवं विदधती मनीषाजुषां खयंप्रभववैखरीविपिनवेदिकालम्विनी । १. कलायो धान्यविशेषः. तत्पुष्पं नीलवर्णं भवति. 'कलापिमुकुटत्विषः शुभ- कदम्वपूर्णाङ्कराः' इति घ-पाठः. २. वेदारण्यविहारिणी.
Manew.ssigtianetaria ८१ काव्यमाला। अहो शिशिरिता कृपामधुरसेन कम्पातटे चराचरविधायिनी चरति कापि चिन्मजरी॥ ९३ ।। कलावति कलाभृतो मुकुटसीन्नि लीलावति स्पृहावति महेश्वरे भुवनमोहने भावति । प्रभावति रमे सदा महितरूपशोभावति त्वरावति परे सतां गुरुकृपाम्बुधारावति ॥ ९४ ॥ वयैव जगदम्बया भुवनमण्डली सूयते त्वयैव करुणाया तदपि रक्षणं नीयते । त्वयैव खरकोपया नयनपावके इयते त्वयैव किल नित्यया जगति संततं स्थीयते ।। ९५॥ चराचरजगन्मयीं सकलहृन्मयीं चिन्मयीं गुणत्रयमयीं जगत्रयमयीं त्रिधामामयीम् । परापरमयीं सदा दशदिशां निशाहर्मयीं परां सततसन्मयीं परमचिन्मयीं शीलये ॥ ९६ ।। जय जगदम्बिके हरकुटुम्बिनि नेत्ररुचा जितशरदम्बुजे घनविडम्बिनि केशरुचा। परमवलम्बनं कुरु सदा पैररूपधरे मम गतसंविदो जडिमडम्बरताण्डविनः ।। ९७ ॥ भुवनजननि. भूषाभूतचन्द्रे नमस्त कलुषशमनि कम्पातीरगेहे नमस्ते । निखिलनिगमवेद्ये नित्यरूपे नमस्ते परशिवमयि पाशच्छेदहस्ते नमस्ते ॥ ९८ ॥ १. 'करुणानिधे' इति ध-पाठः, २. सुररूम' इति घ-पाठः.
८५ चतुर्वर्गसंग्रहः । मनोविपिनधाविनं सततमेव काञ्चीपुरे विहाररसिका परा परमसंविदुर्वीरुहे । कटाक्षनिगडैईद हृदयदुष्टदन्तावलं चिरं नयतु मामकं त्रिपुरवैरिसीमन्तिनी ॥ ९९ ॥ कणकाञ्ची काञ्चीपुरमणिविपञ्चीलयझरी- शिरःकम्पा कम्पावसतिरनुकम्पाजलनिधिः । धनश्यामा श्यामा कठिनकुचसीमा मनसि मे मृगाक्षी कामाक्षी हरनटनसाक्षी विहरताम् ॥ १०॥ इमं परवरप्रदं प्रकृतिपेशलं पावनं परापरचिदाकृतिप्रकटनप्रदीपायितम् । स्तवं पठति नित्यदा मनसि भावयन्नम्बिक्रां जपेरलमलं मखैरधिकदेहसंशोषणः ॥ १०१॥ इति श्रीभूककविसार्वभौमकृतौ पञ्चशत्यां स्तुतिशतकम् । (समातेयं मूकप..शती।) महाकविश्रीक्षेमेन्द्रकृतः चतुर्वर्गसंग्रहः। प्रथमः परिच्छेदः। सत्यस्कन्धस्तरुणकरुणापूतपीयूषसिक्तः शान्तिच्छायः शुभमतिलतालंकृतः शीलमूलः । भूयात्सत्त्वप्रसवविलसत्पल्लवः पुण्यभाजां धर्मः प्रोद्यत्कुशलकुसुमः श्रीफलो मङ्गलाय ॥ १॥ १. अयमनिमश्च श्लोकः क-घ-पुस्तकयो स्ति.
८६ काव्यमाला। उपदेशाय शिष्याणां संतोषाय मनीषिणाम् । क्षेमेन्द्रेण निजश्लोकैः क्रियते वर्गसंग्रहः ॥ २ ॥ धर्मः शर्म परत्र चेह च नृणां धर्मोऽन्धकारे रविः सर्वापत्प्रशमक्षमः सुमनसां धर्माभिधानो निधिः । धर्मो बन्धुरबान्धवे पृथुपथे धर्मः सुहृन्निश्चलः संसारोरुमरुस्थले सुरतरु स्त्येव धर्मात्परः ॥ ३ ॥ कणे धर्मकथा मुखे परिचितं धर्माभिरामं वच- श्चित्ते धर्ममनोरथः प्रणयिनी सर्वत्र धर्मस्थितिः । काये धर्ममयी क्रिया परिकरः सोऽयं शुभप्राप्तये कल्पापायपदेऽप्युपप्लवलवैरस्पृष्टवेलाफलः ॥ ४ ॥ निन्धं जन्म प्रमोहस्थिरतरतमसां यन्मनुष्यत्वहीनं बुद्ध्या हीनो मनुष्यः शुभफलविकलस्तुल्यचेष्टः पशूनाम् । बुद्धिः पाण्डित्यहीना भ्रमति सदसतोस्तत्त्वचर्चाविचारे पाण्डित्यं धर्महीनं शुकसदृशगिरां निष्फलक्लेशमेव ॥ ५ ॥ पाण्डित्यं यन्मदान्धानां परोत्कर्षविनाशनम् । मात्सर्यपांसुपूरेण मातङ्गस्तानमेव तत् ॥ ६ ॥ तत्प्राज्ञत्वं हरति विमलं येन शीलं न काम- स्तद्धीरत्वं प्रशमवशतां यान्ति येनेन्द्रियाणि । तद्वैदग्ध्यं भुवनजयिनी वञ्च्यते येन माया तत्पाण्डित्यं भवपरिभवः शान्तिमायाति येन ॥ ७ ॥ अन्धः स एव श्रुतवर्जितो यः शठः स एवार्थिनिरर्थको यः । मृतः स एवास्ति यशो न यस्य धर्म न धीर्यस्य स एव शोच्यः ॥८॥ १. 'श्रुतिवर्जितः' इति पाठः.
चतुर्वर्गसंग्रहः । हितं न किंचिद्विहितं परस्य दत्तं न वित्तं न च सत्यमुक्तम् । यस्मिन्दिने निष्फलता प्रयातमायुः स कालः परिदेवनस्य ॥ ९॥ न दानतुल्यं धनमन्यदस्ति न सत्यतुल्यं व्रतमन्यदस्ति । न शीततुल्यं शुभमन्यदस्ति न क्षान्तितुल्यं हितमन्यदस्ति ॥१०॥ सत्यं वाचि दृशि प्रसादमयता सर्वाशयाश्वासिनी पाणौ दानविमुक्तिरात्मजननक्लेशान्तचिन्ता मतौ । संसक्ता हृदये दयैव दयिता काये परार्थोद्यमो यस्यैकः पुरुषः स जीवति भवे भ्राम्यन्त्यजीवाः परे ॥ ११ ॥ परप्राणत्राणप्रणिहितधियां धर्मजननी दयैवैका लोके सकलजनताजीवितसुधा । असामान्यं पुण्यं मुनिभिरुदितं ज्ञाननयन- रहिंसा संसारे स्वपरकुशललाध्यसरणिः ॥ १२ ॥ प्राणानां परिरक्षणाय सततं सर्वाः क्रियाः प्राणिनां प्राणेभ्योऽप्यधिकं समस्तजगतां नास्त्येव किंचित्प्रियम् । पुण्यं तस्य न शक्यते गणयितुं यः पूर्णकारुण्यवा- प्राणानामभयं ददाति सुकृती तेषामहिंसाव्रतः ॥ १३ ॥ स एव सत्त्वाभरणप्रभावभूर्भुवः प्रकामाभरणं नरोत्तमः । मुखाम्बुजे यस्य वसत्यनत्यया सदैव सत्याभरणा सरखती ॥ १४ ॥ क्लिन्नं कोषनिषण्णमर्थिविफलं शल्यायते यत्परं वित्तं क्लेशनिमित्तमेव मलिनं यातु स्वयं तत्क्षयम् । यत्कारुण्यपरोपकारविकलं भूभारभूतं वपुः वार्थासक्तमनर्थसार्थसदनं मा मास्तु तत्कस्यचित् ।। १५ ॥ १. 'दानविमुक्तता जनमनः-' इति पाठः, २. 'काले' इति पाठः.
काव्यमाला। वन्धः स पुंसां त्रिदशाभिवन्द्यः कारुण्यपुण्योपचयक्रियाभिः । संसारसारत्वमुपैति यस्य परोपकाराभरणं शरीरम् ॥ १६ ॥ परद्रविणनिःस्पृहः परकलत्रनिष्कौतुकः परप्रणयवत्सलः परनिकारबद्धक्षमः । परस्तुतिविशारदः परगुणापवादोज्झितः परार्तिहरणोद्यतो भवति भूरिपुण्यैर्नरः ॥ १७ ॥ पद्मानामिव सा सतां सगुणता या संश्रयाः श्रियः सा श्रीभद्रगजेन्द्रमूर्तिरिव या दानेन विभ्राजते । तदानं नवचन्द्रवद्यदनिशं मानेन संपूर्यते मानोऽसौ तृणवन्न यः परिचयम्लानः शनैः शुष्यति ॥१८॥ लक्ष्मीर्दानफला श्रुतं शमफलं पाणिः सुरा फल- श्चेष्टा धर्मफला परार्तिहरणक्रीड फलं जीवितम् । वाणी सत्यफला जगत्सुखफलस्फीता प्रभावोन्नति- भव्यानां भवशान्तिचिन्तनफला भूत्यै भवत्येव धीः ॥ १९ ॥ शीलं शीलयतां कुलं कलयतां सद्भावमभ्यस्यतां व्याजं वर्जयतां गुणं गणयतां धर्मे धिय बनताम् । शान्तिं चिन्तयतां तमः शमयतां तत्त्वश्रुतिं शृण्वतां संसारे न परोपकारसदृशं पश्यामि पुण्यं सताम् ॥ २०॥ तीर्थानि दीर्घाध्वपरिश्रमाणि बहुव्ययानि क्रतुडम्बराणि । तपांसि मुक्त्वा तनुशोषणानि हिंसाविरामे रमतां मतिर्वः ॥ २१ ॥ यज्वा विप्रः शुचिरनुचरः संयतात्मा तपस्वी मन्त्री विद्धानवनिवनिताभूषणं भूमिपालः । १. 'त्यः क्रियामिः' इति पाठः, चतुर्वर्गसंग्रहः । धर्मोद्याने सुकृतसलिलासारसंसिच्यमाने पूर्णः सोऽयं कृतयुगतरो विनो बीजवापः ॥ २२ ॥ दम्भेन शीलवतमस्पृह वं विरक्तता श्रोत्रियता मृदुत्वम् । एतानि मूलानि निगूढगूढकौटिल्यलीनानि कलिद्रुमस्य ॥ २३ ॥ यावन्ति दानानि वदन्ति सन्तस्तपांसि तीर्थानि च यानि सन्ति । तत्पुण्यमेकत्र विभाति सर्व महार्हमेकत्र च निःस्पृहत्वम् ॥ २४ ॥ सतामदैन्यं वदनस्य शोभा निर्लोभतान्तर्वचसामयाच्या । कायस्य सत्सेव्यमसेवकत्वं पाणेरनुत्तानतलत्वमेव ॥ २५ ॥ मान्यः कुलीनः कुलजात्कलावान्विद्वान्कलाज्ञाद्विदुषः सुशीलः । धनी सुशीलाद्धनिनोऽपि दाता दातुर्जिता कीर्तिरयाचकेन ॥२६॥ तप्तैस्तीत्वतैः किं विकसति करुणास्यन्दिनी यद्यहिंसा किं दूरैस्तीर्थसारैर्यदि शमविमलं मानसं सत्यपूतम् । यत्नादन्योपकारे प्रसरति यदि धीर्दानपुण्यैः किमन्यैः किं मोक्षोपाययोगैयदि शुचिमनसामच्युते भत्ति रस्ति ॥२७॥ इति धर्मप्रशंसा नाम प्रथमः परिच्छेदः । द्वितीयः परिच्छेदः। प्रधानधाम्नां निधये धनाय नमोऽस्तु तस्मै गुणिनोऽपि यत्नात् । यदाशया निर्गुण भूपतीनामग्रे गुणान्पण्यदशां नयन्ति ॥ १ ॥ दाना दिधर्मः क्रियते धनेन धनेन धन्या धनमाप्नुवन्ति । धनविना कामकथापि नास्ति त्रिवर्गमूलं धनमेव नान्यत् ॥ २॥ यत्क्लीबैर्भटकुकटोत्कटरणक्रीडा समादिश्यते यन्मूखैः सुखलीलया कविशुकालापश्चिरं चय॑ते ।
काव्यमाला। नीचैरुच्चतरश्च सेवकहयः खाम्येन यद्वाह्यते तद्वित्तस्य विलासनृत्तवसतेरुद्धृत्तवृत्तायितम् ॥ ३ ॥ पूजा धनेनैव न सत्कुलेन कीर्तिर्धनेनैव न विक्रमेण । रूपं धनेनैव न यौवनेन क्रिया धनेनैव न जीवितेन ॥ ४ ॥ वृद्धाः प्रसिद्धा विबुधा विदग्धाः शूराः श्रुतिज्ञाः कवयः कुलीनाः। विलोकयन्तः सधनस्य वत्रं जयेति जीवेति सदा वदन्ति ॥५॥ ऋद्धया युतं निश्चलपक्ष्मनेत्रं मौनान्वितं देवमिवाकुलीनम् । दीनः कुलीनः प्रणमत्कुलीनः कृताञ्जलिः स्तौति धनाभिकामः ॥६॥ तस्मादलब्धद्रविणस्य लाभे लब्धस्य रक्षानियमे यतेत । संरक्षमाणस्य सदा विवृद्धौ वृद्धस्य च स्थानविभागसर्गे॥७॥ (युग्मम् ) धर्माधानोऽशशिशुचियमः प्रेयसीमित्रबन्धु- स्थानोत्साहोपचयविजयप्राणविद्याकलाप्तौ । श्लाध्ये देहप्रशमसमये निर्विवादे विभागे वित्तत्यागे न भवति सतां ग्रन्थिबन्धानुबन्धः ॥ ८॥ गोष्ठी विटैश्चारणचक्रचर्या वेश्यारतिः साधुविशेषगन्धः । स्पर्धा सुवेषैर्निजवृत्तिलज्जा प्रधानमेतन्निधनं धनानाम् ॥ ९॥ जाया शीलविवर्जिता व्ययवती मायानिकायः सुहृ- दुष्पूरो गुरुरर्थभोगनिचयैर्वन्धुर्दरिद्रः शठः । दासश्चौर्यपरोऽसलश्च कुपदे पुत्रः खलैः पातितः सोऽयं क्लेशशताप्तसंचयनिधेः प्रत्यक्षलक्ष्यः क्षयः ॥१०॥ दाक्ष्यं वित्तस्य मूलं सुनयपरिचयः संपदुद्यानसेकः प्रागल्भ्यं रत्नवर्षि व्यसनवनसमुन्मूलनं संयतत्वम् ।
चतुर्वर्गसंग्रहः।
श्रीरक्षा मन्त्रगुप्तिर्विपदुपशमनं वर्जनं दुर्जनाना-
मालस्यं मानवानां धनवननलिनासह्यभारस्तुषारः ॥ ११ ॥
हिमासहत्वं रवितापभीतिः कथामतिर्मार्गजनप्रतीक्षा ।
लजाभिमानः क्षणसंमुखत्वं नक्षत्रचर्चा च धनस्य विनाः ॥१२॥
वेषः परिक्लेशविशेषचिन्ता परोपरोधः स्ववशावलेपः ।
नदीफलानामिव शीघ्रगानां हानिधनानां ग्रहणे विलम्बः ॥ १३ ॥
गुरुगणकैरदुधानां क्षयचतुरैश्चौरमूषकैर्वणिजाम् ।
कायस्थगायनगणैर्भूमिभुजां भुज्यते लक्ष्मीः ॥ १४ ॥
दारियेण कुलं मदेन कुशलं द्वेषेण विद्याफलं
शीलं दुर्जनसंगमेन मलिनाचारेण शुक्लं यशः ।
आलस्येन धनं प्रयाति निधनं लौल्येन मानोन्नति-
र्याच्दैन्यपरिग्रहेण च गुणग्रामः समग्रो नृणाम् ॥ १५ ॥
मौग्थ्यान्मृगार्थी रघुनन्दनोऽपि वाणः प्रमादाहलिराजवेन ।
नलः कुसङ्गेन ययातिजश्च क्लेशासहत्वाद्व्यसनान्यवापुः ॥ १६ ॥
मौग्ध्यं प्रमादोऽविश्वासः कुसङ्गः क्लेशभीरुता ।
पञ्च संकोचदा दोषाः पद्मिन्या इव संपदः ॥ १७ ॥
कुभूपकूपान्तरलम्बनाप्तवित्तानि रन्धैर्घटसंनिभानाम् ।
असंवृतैरिन्द्रियनामधेयैः पुंसां पयांसीव परिस्रवन्ति ॥ १८ ॥
सास्वादे नवसौरभ मधुलिहां पद्मोदरे बन्धनं
दीपे रूपरताः प्रयान्ति सततापातात्पतङ्गाः क्षयम् ।
गीतेनैव मृगाः पतन्ति करिणीस्पर्शन नीता गजा-
स्तस्मादिन्द्रियसक्तिरेव सहसा पुंसां विपद्दतिका ॥ १९ ॥
९२ काव्यमाला। कुलं कुवृत्त्या कलुषीकृतं तैः कृतो गुणौघस्तुणतुल्यमूल्यः । मानस्य मूले निहितः कुठारः प्राप्तं न वित्तं परिरक्षितं यैः ॥ २० ॥ जातः सत्कुलजः स नीचविनयी सेवावमानैरध- स्तस्योग्रं पतितः खमानयशसोद्रोहेण शापानलः । तेनावस्तिमता खहस्तनिहितं याच्याविषं भक्षितं वित्तं येन न रक्षितं रिपुमुखं तेन स्थितं वीक्षितुम् ॥ २१ ॥ धावन्सेवितुमेति साधुरधमं क्न्ध्यस्ततो यात्यसौ नीता मूल्यतुलां गुगाश्च गुणिभिः कश्चिन्न गृह्णाति तान् । याच्या मानमहाशनिर्धनकृता प्राप्तं न किंचित्तया किं किंवा न विधीयते धनधिया धन्यः स यस्यास्ति तत् ॥२२॥ विद्याकलापरिचयः क्षितिपालसेवा दिग्द्वीपमार्ग:गरिसंभ्रमणप्रयासः । युद्धक्रियाश्च भुवि भोजनलाभलोभा- त्तद्वित्तलभ्यमिति वित्तक्तां प्रवादः ॥ २३ ॥ तावद्धर्मकथा मनोभवरुचिर्मोक्षस्पृहा जायते यावत्तृप्तिसुखोदयेन न जनः क्षुत्क्षामकुक्षिः क्षणम् । प्राप्ते भोजनचिन्तनस्य समये वित्तं निमित्तं विना धर्मे कस्य धियः स्मरं स्मरति कः केनेक्ष्यते मोक्षभूः॥२४॥ अर्थाक्कष्टिं विधातुं कटुरटनपटुर्दाम्भिकः श्रीजडानां जानात्यन्यासहिष्णुर्वितथनिजगुणस्तोत्रपाठेष्वलज्जः । आर्यः कुर्यान्न सेवां कुलविनयगुणैस्तेन मूकोऽर्थनायां तीक्ष्णानां मार्गणानां भवति हि पुरतः क्षमापतेर्लक्षलाभः ॥२५॥ इत्यर्थप्रशंसा नाम द्वितीयः परिच्छेदः ।
चतुर्वर्गसंग्रहः । तृतीयः परिच्छेदः। ललितललनालीलोदञ्चद्विलोलविलोचनो- पलवनरुचां चञ्चन्तीनां चयरिव चर्चिता। सुरभिसुहृदः पक्षच्छायावृतेव च षट्पदैः कुसुमधनुषः श्यामा मूर्तिस्तनोतु सुखानि वः ॥ १॥ भ्रमद्भमरकेतकीविकसदेकपत्रप्रभाः सनीलमणिनायका इव विमुक्तमुक्कालताः । दृशः शशिकला इव प्रचितपक्ष्मलेशाङ्किता जयन्ति हरिणीदृशाममृतकालकूटच्छटाः ॥ २ ॥ ऋतुं धनानां फलमयमाहुः फलं ऋतूनामविवादि पुण्यम् । पुण्यस्य पूर्ण फलमिन्द्रलोको द्विरष्टवर्षाः स्त्रिय एव नाकः ॥ ३॥ एताः सन्ति वधूविलासकुटिला भ्रूकार्मुकश्रेणयः कर्णान्तायतपातिनश्च तरुणीनेत्रत्रिभागेषवः । निर्दग्धोऽन्धकवैरिणा नवमनःक्षोभाभियोगोद्भवा- त्संरम्भादविचार्य केवलमसौ मिथ्या तपखी स्मरः ॥ ४॥ लज्जावको मनसिजधनुर्भूविलासेन तन्व्या- श्चिन्तापाण्डुः स्पृशति कृशतां वक्रकान्त्या शशाङ्कः । यात्येवाधः प्रहसितरुचिर्दोलताभ्यां मृणाली क्लीबं धत्ते कुवलयकुलं कालिमानं कटाक्षः ॥ ५ ॥ अयोमयानां हृदयेषु तेषां कोऽप्यस्ति नूनं कुलिशोपदेशः । सोढानि यैः प्रौढविलासिनीनां कर्णान्तमुक्तानि विलोचनानि ॥६॥ कुवलयमयी लोलापाङ्गे तरङ्गमयी भ्रुवोः शशिशतमयी वक्रे गात्रे मृणाललतामयी ।
९४
काव्यमाला।
मलयजमयी स्पर्श तन्वी तुषारमयी मिते
दिशति विषमं स्मृत्या तापं किमनिमयीव सा ॥ ७ ॥
स्मरशरनिशिताक्ष्याः कम्पयन्ते न केषां
कुरव इव कटाक्षाः प्रौढशल्या मनांसि ।
भुवनजनजिगीषोत्साहयोगाय येषा-
मधिचपलतराणां निश्चला कर्णमैत्री ॥ ८ ॥
स्तनस्थली हारिणि सुन्दरीणां नितम्बबिम्बे रशनासनाथे ।
धत्ते विशेषाभरणाभिमानलीलानवोल्लेखलिपिप्रपञ्चम् ॥ ९ ॥
कान्ताया विलसद्विलासहसितखच्छांशवश्चामरं
संसक्तावभिषेकहेमकलशौ यचन्दनाङ्कौ स्तनौ ।
यत्कार्तखरकान्ति चारु जघनं सिंहासनं भूभुजां
साम्राज्यं तदिदं जयाजयमयः शेषस्तु चिन्तामयः॥१०॥
नासादितानि वनवासदृढव्रतेन
चित्राणि नेत्रचरितानि मृगैर्मुगाक्ष्याः ।
तत्कान्तिरुज्वलरुचिव्यसनादहो नु
हेम्ना हुताशपतनैरपि नैव लब्धा ॥ ११ ॥
अभिनवपयोधरोद्गतिविषमस्थितिहारहंसमुखपतिता।
शैवलवलीव चास्यास्त्रिककलिता भाति रोमलता ॥ १२ ॥
नेयं तरुण्यास्त्रिवली तरङ्गकुसङ्गिनी राजति रोमराजिः ।
सात्वा गतोऽस्यां स्मरकेलिवाप्यां कलङ्कलेखामपहाय चन्द्रः ॥१३॥
कर्णे कोकिलकामिनीकलरवः संतप्तसूचीचयः
फुल्लाशोकपलाशचम्पकवनाद्युद्दामदावानलः ।
तन्वङ्ग्या विरहे वसन्तसमयः कालः किमन्यन्नृणां
देहोच्चाटनमेव षट्पदघटाघ्राणातिथिर्मन्मथः ॥ १४ ॥
चतुर्वर्गसंग्रहः । ९५ आपाण्डुता मदनकीर्तिसखी मुखेन्दौ प्रौढिं बिभर्ति विरहे हरिणायताक्ष्याः । अच्छिन्नबाष्पविसरारुणनेत्रकोण- लीनप्रतापमिव मन्मथमुद्वहन्त्याः ॥ १५॥ वियोगे तन्वझ्या हृदयदमने दैन्यसदने घने भर्तृस्नेहान्मदनदहने धैर्यचलने । समासन्ने चिन्ताव्यसनशमने प्राणगमने तनुस्तापम्लाने वलति नलिनीपत्रशयने ॥ १६ ॥ दाक्षिण्यप्रणयेन पादपतिते कान्ते मया नेक्षिते प्राणानां ज्वलितः प्रवासपिशुनः शापानलः पश्यसि । एतैः संभ्रमकातरे किमधुना मिथ्यासमाश्वासनैः संतापाय सखि त्वयैव ननु मे मानोपदेशः कृतः ॥१७॥ समायाते पत्यौ बहुतरदिनप्राप्यपदवीं समुलझ्याविघ्नागमनचतुरं चारुनयना। स्वयं होंद्वाष्पा हरति तुरगस्यादरवती रजः स्कन्धालीन निजवसनकोणावहननैः ॥ १८॥ वासः कम्पविशृङ्खलं वितिलकं खेदोद्मादाननं संदष्टोऽधरपल्लवः कलयति श्वासोष्मणा म्लानताम् । १. 'आयाते दयिते मरुस्थलभुवामुद्रीक्ष्य दुर्लक्ष्यतां तन्वझ्या परितोषवाष्पत- रलामासज्य दृष्टिं मुखे। दत्त्वा पीलुशमीकरीरकवलं खेनाञ्चलेनादरादुन्मृष्टं कर- भस्य केसरसटाभारावलनं रजः ॥' इत्यद्भुतफुल्लकवेरयं श्लोकः सुभाषितावलि-सू- क्तिमुक्तावलि-शाधिरपद्धति-दशरूपावलोकादिषु प्रसिद्धः. 'समायाते' इत्यादिक्षे- मेन्द्र श्लोकस्त्वस्य च्छायारूप:.
काव्यमाला। दूति त्वद्वचने शठस्य कठिनस्याग्रे गते कुण्ठता मत्लेहाद्विहितस्त्वया कुपितया क्लेशप्रवेशः कियान् ॥१९॥ व्याप्ताखशोकज्वलनेन दिक्षु निरन्तरापातशिलीमुखासु । रुद्धासु जालैर्वनमञ्जरीणां नष्टा गतिः पान्थकुरङ्गकस्य ॥२०॥ विकसति सहकारे दुःसहे कर्णिकारे मधुकरपरिहारे सस्मिते सिन्धुवारे । अहह विरहभीत्या कामिनी कण्ठलमा त्यजति नववसन्ते हन्त कापालिकः कः ॥ २१ ॥ तन्वझ्या नवसंगमे व्यवसिते कान्ते बलान्मेखलां मोक्तुं श्वासविकासकम्पविकलाः कण्ठे लुठन्त्य सुधाम् । मीलत्पद्मनिपीडितालिरणिताः क्लीबा:(1) किरन्ति क्षणं धन्यानां नननेति निःसहतया हुंकारगर्भा गिरः ॥ २२ ॥ गाढालिङ्गननिश्चलाङ्गलतिका कान्तेन रुद्धा बला- दालम्ब्यालकवल्लरी विदधता वक्राम्बुजे चुम्बनम् । कम्प्रप्रस्फुरितारुणाधरदला बाला निमील्याक्षिणी मन्ये मानसजन्मजीवजननं जप्यं समभ्यस्यति ॥ २३ ॥ केनैते विशिखाः स्फुरच्छिखिशिखाशाखासखा मानिनी- मौनोन्माथपृथुप्रथा विरहिणीनिःश्वासपक्षानिलाः । सह्यन्ते रतिवल्लभस्य लटभानेत्रान्ततीक्ष्णानना- संदष्टाधरपल्लवागतरुणीसीत्कास्शूत्कारिणः ॥ २४ ॥ आयुर्दीर्घतरं तनोतु नयनद्वन्दं कुरङ्गीदृशां कीर्ति ते मितसंततिः स्तनतटश्रोणी विशालश्रियम् ।
चतुर्वर्गसंग्रहः । देवस्य त्रिजगज्जयाय पटहे दत्ते मृगाक्षीगुरो- रित्युत्साहसहे हिताय विहिता जाने जनन्याशिषः ॥ २५ ॥ इति कामप्रशंसा नाम तृतीयः परिच्छेदः । चतुर्थः परिच्छेदः। भोगाभोगविलोपकोपकलहैरस्तोकशोकाकुलं कामं काममकामधामसमयं योगं वियोगानुगम् । रोगोद्गारविकारपाकविषमं निर्मूल्य नेत्रव्यथाः सेकं मोक्षफलस्य संशयतरोरेकं विवेकं नुमः ॥ १ ॥ उद्याने मधुचन्द्रिका शशिमुखीगीतं सुहृत्सत्कथा कस्येदं न सुखाधिकं सुखसखी प्रीतिं परां वर्षति । किं त्वेतत्खलसङ्गसर्परसनामांतङ्गकर्णाञ्चल- प्रौढापाङ्गपतङ्गपक्षगणिकानागेन्द्रजालोपमम् ॥ २ ॥ बाल्यं दुःसहमोहसंहतिहतं रागोल्बणं यौवनं वृद्धत्वं सकलोपभोगकलनावैकल्यशल्याकुलम् । वैराग्येण विना विनष्टविमलालोकं सशोकं सदा संसारे सरतां पुनःपुनरहो यातं वृथा जीवितम् ॥ ३ ॥ दृष्टा बालकचेष्टा यौवनदर्पोऽथ वृद्धवैराग्यम् । सापि गता सोऽपि गतस्तदपि गतं खप्नमायेयम् ॥ ४ ॥ पुनःपुनर्जन्मसहस्रहेतुर्मलीमसः स्नेहसमोऽस्ति नान्यः । पुंसः प्रदीपस्य च यः करोति सेवोन्मुखत्वं गृहसंविभागे ॥५॥ आक्रान्तं पिशुनैर्नरेन्द्रभवनं विद्यागृहं मत्सरै- रायासविणं कुलं कुतनयैर्नानावियोगैः सुखम् । ७ पंच० ९८ काव्यमाला। साधुत्वं खलवञ्चनापरिभवैश्चिन्तासहर्मन- स्तन्नास्त्येव न यत्सरोषकलुषं निर्दोष एकः शमः ॥ ६॥ भोगे रोगभयं सुखे क्षयभयं वित्तऽग्निभूभृद्भयं दास्ये खामिभयं गुणे खलभयं वंशे कुयोषिद्भयम् । माने म्लानिभयं जये रिपुभयं काये कृतान्ताद्भयं सर्व नाम भवे भवेद्भयमहो वैराग्यमेवाभयम् ॥ ७ ॥ कृतं शमजलेन यैर्विरततीव्रतृष्णं मनः परं भवपराभवोद्धरणधीरधुन ते । भजन्ति जननीजनप्रसृतदुग्धधाराधन- स्तनप्रणयि तत्पुनर्दशनशून्यमास्यं नराः ॥ ८ ॥ उत्सृज्य संतोषसुखामृतानि प्रीत्यै पराराधनसाधनानि ।। अहो नु मानानि धनानि पुंसां धनानि निद्रासुखसाधनानि ॥९॥ विवेकवाधीने विजनगमने जन्मशमने विकारे संसारे व्यसनपरिहारेऽपि सुकरे । परं लज्जा साघोः प्रसवसमये शोणितमये पुनः पाणिं मूर्ध्नि क्षिपति यदि धात्रीति पतितः ॥१०॥ आयासप्रसवे विचारविरसे लज्जाजुगुप्सास्पदे रागान्धा विरमन्ति नैव कुपदे स्त्रीभोगनाम्नि च्युताः। चित्तं नास्ति सचेतसामपि निजाकर्षे विमर्षः क्षणं रत्यन्येषु पराङ्मुखत्वमनिशं प्राप्नोति नायं जनः ॥ ११ ॥ केशाकुले रक्तकषायपङ्ककपालभाजि प्रकटास्थिदन्ते । कायश्मशाने रमतेऽङ्गनानां कामाकुलः कामुककाकलोकः ॥१२॥ अहो तृष्णा वेश्या सकलजनतामोहनकरी विदग्धा मुग्धानां हरति विवशानां शमधनम् ।
चतुर्वर्गसंग्रहः । विपद्दीक्षादक्षासहतरलतारैः प्रणयिनी- कटाक्षैः कूटाक्षैः कपटकुटिलैः कामकितवः ॥ १३ ॥ बाल्यं कुलीरजननीजनकप्रमोहं तद्यौवनं कुलटभासुभगोपयोगम् । वृद्धत्वमप्युपचितं कुकलत्रपुत्रैः सत्यं न किंचिदिदमत्र खचित्रमित्रम् ॥ १४ ॥ न कस्य कुर्वन्ति शमोपदेशं खप्नोपमानि प्रियसंगतानि । जरानिपीतानि च यौवनानि कृतान्तदष्टानि च जीवितानि ॥ १५ ॥ चिन्त्यन्ते यदि नाम रामनहुषश्वेतादिराजर्षयः किं तैर्याति विशालकालकलनामीलत्कथाकौतुकैः । गण्यन्तां स्वदृशैव भूरिविभवा दृष्टाश्च नष्टाश्च ये तस्मात्सर्वमनित्यताकवलितं ज्ञात्वा शमः सर्यताम् ॥ १६ ॥ यदा लोला लक्ष्मीः क्षितिपतिरणारण्यहरिणी यदा खमोन्मेषा तनुघनतडिद्यौवनरुचिः। यदा कालः कामं जनजलजकिञ्जल्कमधुप- स्तदा संसारेऽस्मिन्नविबुधमनो नोपरमते ॥ १७ ॥ संतोषाम्भः पिबति निभृतखच्छमिच्छामयूरी भ्रान्त्वा चान्तःकरणहरिणो याति विश्रान्तिमन्तः । लीनश्चायं शमतरुजले शीतले तापतान्ति मीलत्कामस्त्यजति नियतं मत्तचित्तद्विपेन्द्रः ॥ १८ ॥ याते भोगे स्मरणपदवीं सक्तनानावियोगे शोकः स्तोकं स्पृशति न मनः सर्वथा निय॑थानाम् । १. 'दक्षैः समतरलहारैः' इति पाठः.
१०० काव्यमाला। काले काले किल कलयतामन्तवत्सर्वमन्तः प्रायः कायक्षयपरिचये निश्चये निर्भरं नः ॥ १९ ॥ यातु व्यक्तिं कुसुमसमयः संचयः सौरभाणां खे खेलन्तो मलयनिलयाः संततं वान्तु वाताः। कामः कामं क्षपयतु धृतिं पक्ष्मलाक्षीकटाक्षः शान्तिश्चित्ते स्थिरसुखसखी निर्विकारे ममास्तु ॥ २० ॥ जरानिगीणे सुभगाभिमाने म्लाने शनैर्भूतिलताप्रताने । धनावदाने शिथिलाभिमाने धृतिनिधाने प्रशमाभिधाने ॥ २१ ॥ रागेण साधं वयसि प्रयाते गतेषु भोगेषु सह स्पृहाभिः । देहे च मोहेन समं प्रलीने निरर्गलोऽसावपवर्गमार्गः ॥ २२ ॥ चित्तं वातविकासिपांसुसचिवं रूपं दिनान्तातपं भोगं दुर्गतगेहबन्धचपलं पुष्पस्मितं यौवनम् । खप्नं बन्धुसमागमं तनुमपि प्रस्थानपुण्यप्रपा नित्यं चिन्तयतां भवन्ति न सतां भूयो भवग्रन्थयः ॥ २३ ॥ अभिन्नार्थानर्थः सुहृदरिपरिच्छेदरहितः समावज्ञामानः सदृशसुखदुःखव्यतिकरः। न मौनी नामौनी वनजलसमानासनमना न दैन्यं नादैन्यं स्पृशति गुणनैर्गुण्यविरतः ॥ २४ ॥ सा दूरे हरिचन्दनस्य न परं हारेण किं हारिता नो कान्ताकुचमण्डलस्य सुलभा चन्द्रे दरिद्रे कुतः । गीते संगतिरेव नास्ति समता तस्यां न सिद्धामधो- नैराश्ये सहसैव चेतसि कृते या प्रीतिरुज्जृम्भते ॥ २५ ॥ १. 'संतताः' इति पाठः. २. 'वातविलासिपांसुसदृशं वित्तम्' इति पाठः, ३. 'गेहदीपचपलम्' इति पाठः.
अन्योक्तिशतकम् । ० लब्धावधिः सत्यसुखामृतस्य नवप्रमोदाद्भुतपूर्णकामः । भारावतारादिव निर्वृतोऽहं त्यागेन सर्वाग्रहसंग्रहाणाम् ॥ २६ ॥ घनार्जनविचिन्तनं हृदयरोपिताशावनं वृथा चरणशातनं खलकदर्यसंसेवनम् । सदा व्यसनशोचनं प्रियवियोगदीनाननं विहाय गृहमज्जनं व्रजति पुण्यवान्निर्जनम् ॥ २७ ॥ नास्ति खस्तिकरः परः परिभवो धर्मात्मनां प्राणिना- मापत्तापशमक्षमं धनसमं नान्यक्रियाजीवितम् । संसारे परमस्ति नोऽत्र सुखदं रम्यं न रामानना- सर्वक्लेशविनाशनिर्वृतिरसः को नाम मोक्षात्परः ॥ २८ ॥ चतुर्वगोपदेशेन क्षेमेन्द्रेण यदर्जितम् । पुण्यं तेनास्तु लोकोऽयं चतुर्वर्गस्य भाजनम् ॥ २९ ॥ इति मोक्षप्रशंसा नाम चतुर्थः परिच्छेदः । समाप्तोऽयं चतुर्वर्गसंग्रहः । भट्टवीरेश्वरकृतम् अन्योक्तिशतकम् । प्रोन्मीलल्लोलमौलिश्लथविकटजटाजालमालोक्य मुह्य- न्गङ्गासंपातजातभ्रमभरविवशो विक्षिपल्लोचनानि । आकर्षन्मौक्तिकाली गिरिवरदुहितुः कण्ठसीमात उच्चैः प्रातः श्रीहैमवत्या तद्नु विहसितो लज्जितः पातु शंभुः॥१॥ पत्रं मुग्धतरं फलं सुमधुरं सौरभ्यमभ्युन्नतं चञ्चत्काञ्चनजित्वरं पुनरहो त्वत्केसरं सुन्दरम् ।
१०२ काव्यमाला। लावण्यं पुनरुत्तमं किमपरं किं तु स्फुरत्कण्टक- व्यग्रं नालमिदं सरोरुह परं तेनातिदूयामहे ॥ २ ॥ यस्मिन्स्फीतमहो निपीतमधुना दिव्यं मधु खेच्छया : नीतान्येव दिनानि केलिभिरहो संयापिता शर्वरी। तस्मिशीतनिपातजातविकले मल्लीकुले किं वृथा हा हा हन्त कृशो मधुव्रत दृशोरेवंविधोऽनुग्रहः ॥ ३ ॥ सर्वाङ्ग वणितं मुहुविलुलितं सूचीदलैर्लोचनं धूलीभिः कलितो द्विरेफ भवता लब्धो रसः केतके । अद्यापि स्फुटमेव गुञ्जसि परं नो बुद्धयसे तत्कथं त्वां वच्मि प्रसभं ततो विलुठितो भूमौ परं ज्ञास्यसि ॥४॥ व्याघूर्णन्नवकुम्भिकुम्भयुगलं व्यालम्ध्य गुञ्जस्यलं दानादानधिया मदोन्मदतनुर्युक्तं किमेतद्वद । नो जानासि दुरन्तदन्तविदलत्योदण्डशुण्डाभर- व्याघातोत्पतदङ्गभङ्गविकलः प्रौढव्यथां भृङ्ग हे ॥ ५ ॥ पेयं पङ्कजकोरके मधु नवं नेयं दिनं निर्भरं केलीभिर्निभृतं सुखेन सहसा संयापनीया क्षपा। किं तु प्रेमपिनद्धमुग्धविदलत्सौरभ्यभव्योदयो नो हेयो नितरां मधुव्रत सुधासङ्गी लवङ्गीरसः ॥ ६॥ माध्वीकं परिपीय पङ्कजवने विभ्रष्टबुद्धिः परं वारंवारमहो विचाररहितो भूयश्चिरं गुञ्जसि । नो जानासि सुगन्धवन्धुरदलां लावण्यलीलाकुलां निम्धान्त करणां मधुव्रत मनाङ्मल्लीमतल्ली पुनः ॥ ७ ॥ प्रोदामातुलचण्डधामबहलज्वालाकलापांकुले शून्ये संप्रति निर्जले पुनरहो निर्वीरुदुर्वीतले ।
अन्योक्तिशतकम् । १०३ एतस्मिन्समुपागतो गजपति वेत्तदा निर्भर धाराभिर्धरणीतलं यदि मनाग्धाराधरः सिञ्चति ॥ ८ ॥ यावत्पङ्कजकोरकान्विकसयश्रीमानसौ भानुमा- नोदेति प्रसभं तमांसि विदलन्सानन्दमुच्चैस्तराम् । तावद्धोरधनान्धकारमिलितो झिल्लीरवाह्लादितो विद्युत्युञ्जविजृम्भितोऽम्बरतलं खद्योत विद्योतय ॥९॥ फुल्लत्कैरवकोषनिर्गतसुधासंसक्तभृङ्गाङ्गना- मञ्जुध्वानधुरीणशीतकिरणे जागति मुग्धाम्बरे । मन्येऽहं निबिडान्धकारपटलीसंलीनसाकृतेः खद्योतस्य हतप्रभस्य कियती शक्तिः समुन्मीलति ॥१०॥ खच्छन्दं नवमालिकासु विहर प्रेम्णारविन्दे पुनः कुन्दे चापि तथा द्विरेफ कुमुदेऽथानन्दमङ्गीकुरु । किं त्वेतस्य कदापि केतकतरोर्मा गाः समक्षं यतो धूलीभिर्वनकण्टकैश्च नितरां संवर्धितो वर्तते ॥ ११ ॥ नासौ पश्यति मालती नहि मनाक्प्रेमाणमालम्बते चञ्चच्चम्पककोरकेषु कुरुते मोदं न मल्लीकुले । स्मारं स्मारमुदारकेसरलतां नालोकते पद्मिनी क्षामः किं तु मधुव्रतोऽयमधुना गुञ्ज मुहुर्माम्यति ॥१२॥ नैवालोकि सरोजिनी नहि मनाग्गुञ्जारवैस्तोषिता जातिः किं च गलन्मरन्दमधुना नालिङ्गिता मालती। चित्रं किं तु मधुव्रतेन सहसा संपादिता सांप्रतं भिन्ना रीतिरियं लवङ्गमुकुलान्यालोक्य मन्यामहे ॥१३॥ कोपं मा कुरु कुन्दवल्लि सहसा मा दैन्यमङ्गीकुरु स्थाता कत्यपि वासराणि विदितानन्दो मिलिन्दस्त्वयि ।
१०४ काव्यमाला। किं वातः परमस्य पश्य विदलन्माध्वीसमृद्धिस्फुर- न्मन्दस्यन्दसुगन्धितुन्दिलदलां जाता लवङ्गीलता ॥१४॥ सत्यं भृङ्ग वदामि किं तत इतो गन्तुं विधत्से मनः केयं निर्भरदीनता क मधुरव्याहारतारध्वनिः । एक सेवय सौरभं परिमलप्रोद्भिन्नमन्दानिलं यस्मिन्मूलफलप्रसूननिकरे साधारणः सौरभः ॥ १५॥ लावण्यं वचनातिगं पुनरहो सौरभ्यमुच्चैस्तरां शैत्यं शीतलभानुविद्रवकरं किं वापरं पश्य रे। उन्मीलन्मकरन्दतुन्दिलदलं कस्मादकस्मादहो भ्रातर्मुञ्चसि चञ्चरीक चतुर त्वं चम्पकानां वनम् ॥१६॥ त्वं चेचम्पककोरके न कुरुषे प्रेमाणमेतावता का हानिर्नहि तस्य कृत्यमपि रे किंचित्पुनहींयते । तेनैवास्य तु वैभवं मधुप हे यद्भूषयन्ति स्फुटं केलीमन्दिरदेहलीपरिसरे कर्णेषु वामभ्रवः ॥ १७ ॥ स्यादुद्दण्डदुरूहचण्डकिरणज्वालावलीशोषकः पाटीरोऽयमुदारसुन्दरतनुः सौरभ्यभव्योदयः । किं कुर्मः कथमत्र हन्त भविता चित्रं गतिर्माहशा- मा मूलं यदसौ भुजंगनिचयैरावेष्टितो वर्तते ॥ १८ ॥ सौरभ्यं वचनातिगं किमपरं दाक्षिण्यमुच्चैस्तरां यद्यप्यस्ति नवीनशैत्यसुषमासंपत्तिरन्यादृशी । सर्व तत्सुखदं परं तु नितरामेतेन दूयामहे फूत्काराकुलभोगिभोगनिचयैः श्रीखण्ड यत्क्रीडसि ॥१९॥ एकस्मिन्मलयाचले निवसता क्रूराशयेनामुना भिल्लेन त्वमिहाहतो यदि न चेत्का हानिरेतावता। ra अन्योक्तिशतकम् । १०५ प्रातः श्रीहरिचन्दन प्रविदलत्सौरभ्यभव्योदयं ज्ञातुं ते कुशलीभवन्तु नितरां स्निग्धा विदग्धा जनाः॥२०॥ मा संतापमुरीकुरुष्व कठिनो लोकप्रकारोऽधुना मना हन्त रसज्ञता रसकलाप्यन्तं गता सांप्रतम् । मालाकारकुरङ्गलोलनयनां हित्वा नवीनां पुनः स्निग्धां मुग्धतरां लवङ्गलतिके कस्ते गुणान्वक्ष्यति ॥२१॥ शेफालीरुचिरप्रफुल्लकलिकामाध्वीं पिब त्वं मुदा वारंवारमुदारकुन्दविदलत्पीयूषमाखादय । सानन्दं विहरारविन्दविपिने किं तु प्रभूतोदयो भ्रातर्भङ्ग लवङ्गसङ्गजनितः स्नेहो न हेयोऽधुना ॥ २२ ॥ नो पत्राणि चलानि हन्त कुरुषे गुञ्जारवं नो मना- ग्वत्से नैव पुनः स्वयं चलसि रे किं तु स्फुटं सर्वतः । सानन्दं मकरन्दमेव निभृतं गृह्णासि यत्केवलं तत्किं कौशलमस्ति शंस भवतो ही किंचिदिन्दिन्दिर २३ हित्वा सौरभसारसुन्दरदलां माध्वीकमुग्धप्रभा मल्ली मालतिकां मदालसतया भ्रान्त्या मुहुः संभ्रमन् । गुञ्जन्गन्तुमुरीकरोषि मधुप त्वं पङ्कजानां वने नो जानासि विमुद्रिते कमलिनीबन्धौ पुनर्बन्धनम् ॥२४॥ मन्दं मन्दमहो मधुव्रतवचोविन्यासमञ्जुक्तिभिः सान्द्रानन्दमयं कथं कथमहो निद्रायितोऽभूत्करी । सोऽयं कर्णविकारकर्मकुशलैः कारण्डवानां रवै- रुन्निद्रः सहसा करैः कमलिनीमुन्मूलितुं वाञ्छति ॥२५॥ मुक्तानामसि नायकस्त्रिजगतामानन्दकन्दस्थली ज्योत्स्नानाथजनिर्जनैकशरणं मन्दाकिनीवल्लभः ।
काव्यमाला। किं वातः परमस्ति जीवननिधे जल्पन्ति लोका मुहुः क्षारं यत्तव जीवनं प्रतिदिनं तेनैव दूयामहे ॥ २६ ॥ सूते हन्त हलाहलं जलनिधिल्पन्ति ये मानवा- स्ते जल्पन्तु परं तु नैव कृतिनामेतेन कापि क्षतिः । सत्येवं गुणसंनिधौ क्वचिदहो तेनैव ते गौरवं यत्त्वां वन्यकुरङ्गसुन्दरदृशो जल्पन्ति रत्नाकरम् ॥ २७ ॥ स्फारोत्तुङ्गतरङ्गपीवरकरैराकृष्य रत्नोत्तम यत्त्वं जीवनमध्यतः क्षिपसि रे दूरे धरित्रीतले । युक्तं तज्जलनाथ नाथ कलय प्रोचैः प्रसादात्त्वया लब्ध हन्त जगत्रयेऽपि सकले रत्नाकरत्वं पदम् ॥ २८॥ उत्पत्तिर्जलधौ सुधासहचरी ज्योत्स्नाभिरामा तनुः स्थानं व्योम कुमुद्वतीपरिवृढश्चन्द्रेति नाम स्फुटम् । सर्व चारु तथापि हन्त कठिना यत्त्वां कलङ्काङ्कितं जल्पन्ति प्रतिवासरं सुरगणास्तेनातिदूयामहे ॥ २९ ॥ ज्योत्स्नाविभ्रमभारसाररुचिरे पद्मालयाबान्धवे लोकानां नयनोत्सवे दिविषदामानन्दकन्दालये। मुग्धा कोमलमुग्धवक्रकमलस्पर्धाकरे पझिनि त्वं चेच्छीतकरे न रज्यसि गुणश्लाघा तदस्तं गता॥३०॥ फुल्लत्कैरविणीपरागरुचिरा दिङ्मण्डली श्रूयते कोकानामपि मानसं कलुषितं किंचिद्विजानीमहे । मन्दं पश्चिमपर्वताञ्चलपुटे श्रीमान्गतो भानुमां- स्तत्सत्यं रजनीपतेः समुदयो जातः परं मन्महे ॥ ३१ ॥ शेते रङ्कुरयं सुखेन निभृतं पीयूषमश्नन्मुदा मत्वैवं सहसा चकोरशिशुना संसेवितं सादरम् ।
अन्योक्तिशतकम् । १०७ को जानातु कुमुदतीपतिरसौ पीत्वा भृशं वारुणीं हा हा हन्त धनान्धकारनिकरैरावेष्टितो वर्तते ॥ ३२ ॥ ज्योत्स्नाभिर्भुवनं तनोषि विमलं पीयूषगभैः करै- रामोदं कुमुदे दधासि बहुशः संजीवयस्यौषधीः । सर्व तत्सुखदं परं तु नितरामेतेन दूयामहे नीहारैः कवलीकरोषि लवलीवृन्दानि शीतयुते ॥ ३३ ।। सानन्दं घनगहराणि सहसा संगाहसे निर्भर भूयः सौरभजातमप्यनुदिनं गृह्णासि यत्तद्वरम् । किं तु श्रीयुतगन्धवाह भवतो नो युक्तमेतन्मना- ग्यत्त्वं तत्र करोषि नैव सदसद्वयक्तेर्विवेकक्रियाम् ॥ ३४॥ शुष्काः संप्रति निन्नगास्तत इतो नालोक्यते जीवनं भूयः कापि न वापिकापि नितरां जाताविलं पल्वलम् । ग्रीष्मोऽयं समुपागतोऽस्ति बहुशो वाचालतां मुञ्च रे मन्दं संचल भेकशाव समभूत्कालः करालो महान् ॥३५॥ एषा सीदति सुन्दराम्बुजवनी गुञ्जविरेफाङ्किता चञ्चत्केसरनिर्यदुग्रबहलव्यामोदमेदखिनी । स्फारोत्तुङ्गकरीन्द्रदुर्वहकरप्रौढाभिघातैः परं विध्वस्ता परितो विभाति पुरतो विभ्रष्टपत्राम्बरा ॥३६॥ प्रोन्मीलत्सुरनिम्नगापरिपतद्वीचीचयव्याहत- व्याधूतानिलसंचलज्जलमिलद्गात्रोऽप्यसौ षट्पदः । स्मृत्वा हन्त दुरन्तकेतकशिखासंपातसंपादित- प्रोत्तुङ्गाङ्गविकारभारमधुना नो रन्तुमुत्कण्ठते ॥ ३७॥ हन्तासीत्परितो नवीनजलदप्रोत्तुङ्गधाराजलैः पूर्णानेकसहस्रपङ्कजदलैः कीर्णा नदीयं पुरा ।
१०८ काव्यमाला। सेयं संप्रति चण्डभानुविलसच्चण्डातपप्रोच्छल- ज्वालाजालविलुप्तजीवनभरा हा हन्त संताम्यति ॥ ३८ ॥ नोच्चैल्प मनाग्यतस्व सहसा कुओ निलीय क्षणं गन्तुं कीर वदामि मास्तु मधुरव्याहारतारध्वनिः । काकोलादपि दारुणैरनुचितारम्भाग्रणीभिः परं रुद्धा संप्रति किं किरातनिकरैर्नालोक्यते मेदिनी ॥३९॥ प्रोद्यत्प्रौढमहीमहेन्द्रभवने प्रोतुङ्गसौधाङ्गणे गत्वा काक वराक किं कलयसे साम्यं मरालैः समम् । छिद्रान्वेषणभूरिकर्मकुशलाः किंचिल्लभन्ते खलाः सम्यक्पण्डितपुण्डरीकतुलनामारोप्य कण्ठे गुणम् ॥ ४०॥ लोके दृष्टमिदं मया बहुतरं हहो न सन्त्येव ते ये विन्दन्ति सखायमुत्तमगुणं मित्रैकचिते रतम् । शम्बूकैः कलयन्ति केलिकुतुकं वापीषु कारण्डवा नो वा मानसमुग्धपङ्कजदलं विस्मृत्य जिघ्रन्त्यपि ॥४१॥ क्षीराम्भोनिधिकन्यका मधुरिपोर्वक्षःस्थलस्थायिनी शीतांशोभगिनी जगत्रयजनिः किं चाधिका ते स्तुतिः। एकैकं वचनातिगं जलधिजे सर्व विजानीमहे चाञ्चल्यं यदि नाम चेन्नहि भवेदेकं कलङ्कास्पदम् ॥४२॥ दर्प मा वह बालवत्सनिकरानालोक्य पुच्छच्छटा- पातैरेव महोक्ष गर्जसि मुधा किं गर्जितेनामुना । तावत्संचर यावदाशु न मनागादाय सीरं हठा स्कर्षत्येष कृषीवलस्तत इतो भूयोऽपि भूमीतले ॥ ४३ ॥ त्वामालोक्य समागतः कथमसौ केलिक्रियाकोविदो हित्वा कत्यपि काननानि दिवसप्रान्ते द्विरेफो युवा ।
अन्योक्तिशतकम् । त्वं त्वेनं समुदीक्ष्य पत्रनिकरानाकुच्य यद्गोपनं वक्रस्याशु करोषि पद्मिनि न तद्युक्तं प्रतीमो वयम् ॥१४॥ दूरे तिष्ठति काननं नहि मनाङ्गीरं समालोक्यते क्रूरः संप्रति वालुकापरिकरश्वण्डांशुरत्युन्नतः । भूरेषा मरुरेव संप्रति कथं गन्तव्यमेकाकिना मन्दं यूथपतिर्मुहुर्मुहुरिति ध्यायन्धुनीते शिरः ॥ ४५ ॥ दिक्चक्रं करिशाव दावदहनैर्दग्धं पुरो दृश्यते छाया क्षीणतरा क्षमापि समभूदरे न नीरं कचित् । चित्रं चण्डचलत्प्रचण्डकिरणज्वालाकुलाङ्गो मुधा मध्याह्ने कथमेकदैव सहसा गन्तुं समुत्कण्ठसे ॥ ४६ ॥ शार्दूलाः प्रतिपेदिरे प्रथमतो गर्भान्तरं भूरुहां कुझं किं च समाश्रयन्ति हरिणा लीना वराहाः क्वचित् । उद्दण्डप्रकटप्रचण्डकिरणज्वालाकुले दिक्कुले हा हा हन्त करी करोति कतमां जीवातवे जीविकाम् ॥४७॥ उच्चैश्चण्डमरीचिमण्डलकरज्वालाकुला दिक्तटी -पश्चाद्वोरदवाग्निगर्वगरिमोदिक्ता धरित्री पुरः । कर्तव्यं कथमत्र हन्त करुणारङ्गी कुरङ्गीपति- मत्वैवं हरिणीविलोकनघनीभूतोऽभवत्कुण्ठितः ॥ ४८॥ कृत्वा पर्वतकंदरापरिसरे केलीभरं लीलया भुक्त्वा पङ्कजकोरकांश्च परितो भृङ्गः समावेष्टितः । यावद्याति करेणुकाकटतटीकण्डूयने केवलं तावत्तीव्रहरीन्द्रर्वहकरैः क्षुण्णोऽभवत्कुञ्जरः ॥ ४९ ॥ यः पूर्व नवदानदर्पिततनुर्दन्तेन दन्तावलां- चूर्णीकृत्य महाभिमानभरितो नो मन्यते कानपि ।
काव्यमाला। क्रीडन्नेव समागतो विधिहतो हा हन्त नीराशये पङ्के ममकलेवरः करिवरः सोऽयं शनैस्ताम्यति ॥ ५० ॥ अन्यं काननमाशु गच्छ तरसा वन्यं फलं भुक्ष्व रे धन्यं धाम विभाति ते नहि तथा पुण्यं जघन्यं कुरु । एतस्मिन्करिशाव मा ब्रज वने जल्पामि तथ्यं वचो जानास्येव करीन्द्रदर्पदलनो निद्राति पञ्चाननः ।। ५१ ॥ निद्रामुद्रितलोचनः प्रतिपदं छायातले भूरुहां प्रोद्दण्डद्विपगण्डभित्तिदलनप्रोद्रिक्तरक्तारुणः । सिंहीजानुनि दत्तमस्तकलसत्सर्वाङ्गकः केसरी निद्राति प्रतिवासरं सुखमिति ध्यायन्करी कम्पते ॥५२॥ शून्यं काननमा निरीक्ष्य तरसा चीत्कृत्य गाढं हठा- न्मातङ्गाधिप मानसे बत वृथा गर्वोद्गमं मा कृथाः । जानीमो वयमद्य कुञ्जरघटाविक्षोभकारी पुनः पारीन्द्रो न जगाम लोचनपथं तेनास्ति नो वै भयम् ॥५३॥ कामं कोपकषायिताक्षियुगलं कृत्वा करोत्फालनैः क्षुद्रान्वन्यमृगान्करीन्द्र सहसा विद्रावय त्वं मुदा । हेलाखण्डितकुम्भिकुम्भविगलद्रतारुणाङ्गे हरौ जाते लोचनगोचरे यदि भवान्स्थाता तदा मन्महे ॥५४॥ दैन्यं मा त्वमुरीकुरु प्रतिपदं प्रेक्ष्यातुरां पद्मिनी राकाशारदशीतरश्मिकिरणैराबद्धमुग्धाननाम् । किं तु त्वं भ्रमसि द्विरेफ विदलन्माध्वीकधाराधरे सानन्दं नवमल्लिवल्लिनिकरे गत्वाद्य तृप्तिं भज ॥ ५५ ॥ मन्दं पश्चिमशैलमौलिमुकुटालंकारभूतो रविः संध्याकबुरितं नमः कलुषिता ध्वान्तः परं दिक्तटी।
अन्योक्तिशतकम् । १११ एका पङ्कजिनी सुधाकरकरीता परं मुद्रिता तत्कि संप्रति चञ्चरीक चरसि व्यर्थः प्रयासोऽधुना ॥५६॥ भृङ्गाणां नवनीरजानि विदलत्सौरभ्यलोभ्यान्यलं मल्लीकेसरचम्पकानि नितरां तिष्ठन्ति पुष्पाकरे । एक कोकिलशावकस्य शरणं मुग्धप्रसूनाकर- प्रस्यन्दन्मकरन्दतुन्दिलदलो माकन्दभूमीरुहः ॥ ५७ ।। धैर्य वायस धार्यतां समुचितो नोद्वेगभारस्त्वयि प्राणान्मुञ्चसि किं वृथा पिकसुतैः पुत्रत्वमायाति रे । जानास्येव कलेः प्रपञ्चमखिलं किंचाधिकं वा परं हित्वा नीरनिधि लसन्ति निधयो वापीषु काचित्खपि ॥५८॥ शैत्यं शारदशीतरश्मिकिरणादप्युत्तमं तादृशं सौरभ्यं वचनातिगं जगति ते श्रीखण्ड सर्व वरम् । किं तु त्वां सहसा किरातगृहिणी दीप्ताग्निकुण्डे जवा- दुन्मूल्याशु करैः करोति तरसा शुष्कन्धनं लीलया॥५९॥ आस्ते नो सुषमा न चापि कुसुमामोदो हि नो वा मना- ____ क्चातुर्य मकरन्ददानविषये किं चातुरीयं पुनः । यत्त्वं चित्रगतं कुशेशयदलं पुष्णासि गुञ्जारवै- माहात्म्यं क इव ब्रवीमि तदहो हे चञ्चरीकाधुना ॥६०॥ क्षिप्तं मुञ्च कुरङ्ग काननमिदं रे ताण्डवं मा कृथाः किं ते वैभवविभ्रमेण तरसा गात्राणि संरक्षय । आस्तां कीर्तिभरः किरातविशिखैः क्षुण्णः क्षणानन्तरं क्षीणाङ्गः क्षितिमण्डलोपरि पुनों चेत्क्षयं यास्यसि ॥६१॥ त्वामाधाय निजोदरे कमलिनी चक्रे न माध्वीरसै- नित्यं कोमलकेसरैस्तव पुनः किं किं मनोवाञ्छितम् ।
काव्यमाला। त्वं त्वेतां कलकूजितैरपि मनाङ् नो भावयस्यातुरां तत्कि साहजिकं मधुव्रत मनाक्त्यक्तुं रसं वाञ्छसि ॥२॥ जाता नैव तृषा कृशा न समभूत्तापापकर्षक्रिया नो वा लोचनपङ्कजैरपि मनागालोकि किं चाधिकम् । क्षुभ्यद्वोरतरारवैः प्रतिदिशं झञ्झानिलै विता सेयं नीरदमण्डलीति कलयञ्चञ्चत्यलं चातकः ॥ ६३ ॥ दैन्यं मा त्वमुरीकुरु प्रतिपदं हित्वा मनाम्यूथिकां स्थेयं कत्यपि वासराणि कथमप्यालम्ब्य धैर्य हृदि । आयाते खलु माधवे प्रविदलत्सौरभ्यलोभास्पदे नूनं ते शरणं स एव भविता माकन्दभूमीरुहः ।। ६४॥ साफल्यं कलये चकोर भवतो धन्योऽसि मन्यामहे कां कीर्ति कथयामि ते त्रिभुवने जागर्ति ते संस्तवः । किं वा पुण्यमितस्तवास्ति विमलं पीयूषधाराभरं चन्द्रे पासि निरन्तरं कमलिनीदृग्गोचरेऽपि स्फुटम् ॥६५॥ अध्माताः प्रतिदिड्यखं सरमसं गर्जन्त्यमी वारिदाः प्रौढध्वानधुरंधराः प्रतिपदं चञ्चन्ति विद्युच्छटाः । भूयो मत्तमहामयूरनिकराः कूजन्ति केकारवै- स्तन्मन्ये समुपागतोऽस्ति सहसा वर्षायुतो वासरः॥६६॥ भूयो निर्भरसर्वगर्वगरिमा मुग्धाङ्गनानां मुदा चञ्चच्चम्पककोषचुम्बितमना वात्यद्य मन्दानिलः । नो युक्तं सहसान्यतः प्रचलितुं हे पान्थ चित्तव्यथां मा कार्षीः किमु पञ्चबाणनृपतौ जागर्ति चिन्ता तव ॥६॥ शैत्यं तापहरं तवास्ति न मुधा मन्ये सुधानायक प्रोदञ्च सुषमासमृद्धिरपि ते जागर्ति लोकत्रये ।
अन्योक्तिशतकम् । सर्व चारु मनाक्तथापि यदि चेत्प्राप्तोऽसि मुग्धाङ्गना- वक्रेन्दोस्तुलनां तदा क इव ते भाग्योदयं मन्महे ॥१८॥ आयाता रजनी भविष्यति महाविश्लेषदावानलो नोद्वेगः सहसा कृशाङ्गि मनसा कार्यों रथाङ्गाह्वयः । इत्थं बाष्पनिरुद्धगद्गदतया संभाष्य कोकी चिरं चिन्तापूर्णमना विनोदविमुखो हंहो विधिं निन्दति ॥६९॥ सौन्दर्य दलितं दवानलबलैर्मन्दं मरन्दोऽप्यसौ खच्छन्दं गत एव का पुनरहो पुष्पादिकानां कथा । शीर्णा पर्णपरम्परा विगलिता सेयं लता तत्कथं हंहो मन्द मिलिन्द कुन्दविपिनं नो हातुमाकाङ्क्षसे ॥७०॥ रम्यं काननमुन्नतास्तरुगणाः स्निग्धं पयः किं पुन- मुग्धान्येव फलानि हन्त परितः सम्यञ्चि पुष्पाण्यपि । सर्वं हन्त विहाय निर्गतवतो दन्तावलस्य स्फुर- चण्डांशुज्वलिते मरौ तदखिलध्यानैर्मनो मुह्यति ॥ ७१॥ यत्संसर्गवशादसाधुचरिता एते पुनः कोटिशो निम्बाशोककपित्थबिल्वबकुलाः सौगन्ध्यमापुः परम् । धन्यस्त्वं हरिचन्दन त्रिजगतां संतापशान्त्यै पुनः संसारे नियतं स कोऽपि सदृशो युष्मादृशां वर्तते ॥७२॥ सानन्दं सुरनिम्नगाप्रविलसत्कूलेऽनुकूले पुन- मन्दं मन्दमहो कलिन्दतनयातीरे विहारं कुरु । अस्मिन्किं तु मरालबाल सरसीकुञ्ज न याहि क्षणं यस्मादत्र पतत्रिपातरसिका भिल्लयः खनं कुर्वते ॥ ७३ ।। तृष्णाजर्जरिताकृतिः कवलितो धर्माशुधोरैः करै- दीर्घोदञ्चितचञ्चुरद्य कलयंस्त्वत्तः परं जीवनम् । ८पंच ११४ काव्यमाला। हंहो चातकशावकोऽयमधुना त्वां वीक्षते केवलं त्वं चेदम्बु ददासि नाम्बुद भवेदस्याश्रयः कस्तदा ॥७॥ आ प्रातर्घनतृष्णया कवलितं प्रोदण्डचण्डातपै- दग्धं जीवनहानितः कलुषितं चिन्ताभरैः कीलितम् । प्रस्निग्धामृतधारया प्रतिदिनं संप्लावयंश्चातकं त्वत्तः कोऽपि न वारिवाह भुवने जागर्ति जानीमहे ॥७५॥ चञ्जच्चातकचञ्चकोरकपुटी नो पूरयस्यन्वहं दिक्तापं नवनीरसीकरभरैनों वा मनाग्लुम्पसि । क्षेत्रं सिञ्चसि नैव किं च बहुशः कान्तारमालावय- न्यद् कुरुषे पयोद भवतस्तत्किं नयो दृश्यते ।। ७६ ।। चञ्चच्चण्डमरीचिमण्डलकरज्वालाकलापैरहो न स्याच्चातकपोतकः कवलितो यावत्ततो विह्वलः । भ्रातः श्रीयुत वारिवाह निभृतं जीयाश्चिरं निर्भर तावद्धीरतरं धरातलमिदं धाराभिरासिञ्चय ॥ ७७ ॥ नो गत्वा गगनाङ्गणेऽनुसरति प्रोच्चैनै जल्पत्यहो नो वा चण्डमरीचिमण्डलभिया संसेवते कानपि । चित्रं भूमिगतं तथापि निभृतं धाराजलैर्निर्मलैः सिञ्चत्येव चिरेण चातकशिशुं श्रीमानयं वारिदः ॥ ७८॥ तापं तूर्णमपाकरोषि नितरां पाटीरवाटी पुनः प्रेम्णा पल्लवयस्यलं वितनुषे मुक्ताफलं शुक्तिषु । धाराभिर्धरणिं धुनोषि परितो धाराधर त्वं यथा प्रांतश्चातकशावकं बत तथा संभावयाम्भोभरैः ॥ ७९ ॥ भूमेस्तापमपाकरोषि नितरां भूमीरुहो वर्धय- स्यानन्दं विदधासि किं च तनुषे सस्ये प्रशंस्यं मुदा ।
अन्योक्तिशतकम् । किं किं वारिद ते गुणोत्करमहं जल्पामि धन्योऽसि रे धाराभिश्चिरखिन्नचातकशिशुं यज्जीवयस्थातुरम् ॥ ८० ॥ मोदन्ते करिशावकास्तत इतः क्रीडन्ति कोलाः सुखं कृत्वाङ्के तनयं कुरङ्गगृहिणी रोमन्थमभ्यस्यति । हीनं तेन मृगाधिपेन सहसा मन्यामहे काननं द्वित्ररेव दिनैभविष्यति परं वन्याभिरन्यादृशम् ॥ ८१ ॥ तूर्णं यात मृगाः पलायत वृका यूयं पुनः सर्वथा कोलाः कापि निलीयत प्रसृमराः कोलाहलं मुञ्चत । दृप्यदानदुरूहदारुणदलद्दन्तावलग्रामणी- गर्वग्रामविदारणाकुलकरः सोऽयं पुरः केसरी ॥ ८२ ॥ प्रौढोत्क्षिप्तमहामहीध्रशिखरं कुत्रापि नीराशये दृष्ट्दैव प्रतिबिम्बितं सचकितं खाल्लुत्य गाढं हठात् । पातुं वाञ्छति नो जलं करिवरस्याशङ्कया किं त्वयं दर्पोद्धृतशिरा धुनोति नयने क्रोधोद्धरः केसरी ॥ ८३ ॥ सक्रोधं करिणां मदैरुपहितामालोक्य विश्वंभरां भूयः कोपकषायिताक्षियुगलं पद्भ्यां धरां दारयन् । बाहुभ्यां सहसा विकृष्य तिमिरं भूमौ मुहुः पातय- न्भ्रूयुग्मं प्रविधूनयन्विजयते कोऽप्येष कण्ठीरवः ।। ८४ ॥ यः सावेशमशेषवारणघटासंघट्टविद्रावणो मुक्ताजालमयानि हन्त नितरां चक्रे वनानि स्फुटम् । दृप्यदारुदुरूहपञ्जरगतो हा हा हतो वेधसा सोऽयं मानधनो धुनोति नयने क्रोधोद्धरः केसरी ॥८५॥ यस्य त्रासवशाद्वने करिवराः स्पन्दन्ति नो वामनाः कोलाः केऽपि न निःसरन्ति महिषा व्यग्राः पतन्ति क्षितौ ।
काव्यमाला। सोऽयं लोहदुरुहनव्यनिगडानद्धानियुग्मो मुहुः स्मारं स्मारमुदारवन्यचरितं कण्ठीरवस्ताम्यति ।। ८६ ॥ मन्दं मन्दमहो मरन्दनिचयः पेयोऽमुना सादरं नेयो रात्रिभरः परं तु सहसा गेयः स्तवो मान्मथः । इत्यालोच्य समागतं खलु मया सायं नवे कैरवे को जानाति निशापतिः पुनरसावस्ताचलं यास्यति ॥८७॥ त्वं चेद्गुञ्जसि निर्भर भ्रमर हे पीत्वापि कौन्दं मधु खच्छन्दं न विलोकयस्यपि मनागेनं किमेतावता। उन्मीलन्मकरन्दतुन्दिलदलत्पुष्पाकरावादनं माकन्दस्य परं स एव सुकृती जानाति किंचित्पिकः ॥८॥ आ बाल्यं भवता समीर कतिधा साधु मृणालीदलं भुक्तं केलिकथामृतैरपि तथा नीतं रहः सादरम् । चित्तान्दोलनलालनैर्मुगदृशां वक्षःस्थलास्फालनै- भूयः संप्रति मां विना तव मनो रन्तुं कथं मोदते ॥८९॥ गम्यन्तां दशदिक्तटीपरिसरे रे मत्तमातङ्गजा लीयन्तां गिरिकंदरासु तरसा हित्वाटवीं ते मृगाः। युष्मच्चीत्कृतिमीरुतारनिनदप्रध्वस्तनिद्राभर- व्याघूर्णन्नयनोऽयमेति सहसा क्रोधोद्धरः केसरी ॥९०॥ कृत्वा हन्त निरन्तरं कमलिनीकोषे सुधावैभवं हित्वा संप्रति तां हिमैरुपहितां धत्से क्वचिन्मानसम् । तत्किं त्वां कथयामि हे मधुकर ब्रीडाकरं भाषितं विग्धिक्प्रेम भवादृशां न करुणालेशोऽपि संदृश्यते॥९१॥ शेते हन्त मृगाङ्गना निजशिशुं कृत्वा निकुञ्जोदरे भूयः कुण्डलनां विधाय विवरे निद्राति साङ्गना ।
अन्योक्तिशतकम् । शीतार्ताः किल नैव पङ्कजदलं जिघ्रन्ति माध्वीलिहो दृष्ट्वा हन्त हिमागमं नहि मनाङ् नीडं त्यजन्ति द्विजाः ॥९२॥ सानन्दं मकरन्दतुन्दिलदलां मुग्धप्रभां पद्मिनी यावच्चुम्बति केसरारुणतनुर्मत्तद्विरेफो युवा । तावत्तीवकरीन्द्रदुर्वहकरव्याघातसंचूर्णितो हा हा हन्त मधुव्रतोऽयमधुना भूमौ पुनस्ताम्यति ।। ९३ ॥ चञ्चवा नव्यसमीरधीरसरसीतीरं विलोक्योत्सुको धीरे धीरमहो महोन्नतिपरस्तृष्णाकुशाकर्शितः । पातुं यावदहो करोति विमलं नीरं मरालः कृती मण्डूकध्वनिजर्जरीकृततनुस्तावच्छनैस्ताम्यति ॥ ९४ ॥ लोकेऽस्मिन्पिशुनाः कथंचिदपि वा नैवोपकारव्यथां विन्दन्ते सहसा परं तु सहसा जल्पन्ति दोषं स्फुटम् । शम्बूकैः कलयन्ति केलिकुतुकं वापीषु कारण्डवा नो वा मानसमुग्धपङ्कजदलं विस्मृत्य जिघ्रन्त्यपि ॥ ९५॥ आदौ पत्रविचित्रितः पुनरसौ मुग्धप्रसूनाङ्कितः पश्चास्निग्धफलोद्गमे घनरसैः सिक्तो मया सर्वतः । दानोन्मत्तदुरन्तवारणकटीसंघट्टनैः केवलं सोऽयं घूर्णित एव दैववशतो माकन्दभूमीरुहः ॥ ९६ ॥ चञ्चत्पत्रविचित्रितां मधुकरस्फूर्जत्फलालम्बिनीं मन्दं मुग्धमरन्दम पुलको कान्तिप्रभूतोदयाम् । प्रोन्मीलत्कुसुमां प्रकीर्णसुषमा हा हा चलत्कण्टका को हेतुः कलधौतकेतकलतां त्यक्तुं समुत्कण्ठसे ॥९७॥ भुक्त्वा मीनमहो नवीनमधुना पीतं जलं निर्मलं नीतः केलिभरेण वासरगणो किं तु त्वयाद्यांवधि ।
११८ काव्यमाला। गन्तव्यं खलु कुत्रचिट्टक वने चेचण्डचण्डातपै- स्तप्ते हन्त जलाशये पुनरहो दैन्यं मुहुर्धास्यसि ॥ ९८ ॥ अग्रे तिष्ठति दारुणाकृतिरसौ क्रोधोद्धतः केसरी पश्चादुद्भटदावदूषितधरासंक्रान्तचण्डानिलः । किं कुर्मः सहसा विहाय कलभानेतान्त्रजामः कथं हंहो कूणितलोचनेति करिणी चिन्ताकुला ताम्यति ॥९॥ आदावङ्कुरितं पुनः प्रतिपदं पत्रावृतं त्वां मुदा सौरभ्यस्फुरितप्रसूनकलितं दृष्ट्वाथ हृष्टोऽस्म्यहम् । किं ब्रूमः फलिते त्वयि द्रुततरं हा हन्त किम्पाक हे भूयो व्याकुलयन्ति कण्टकभराः सर्वत्र तत्किं ब्रुवे ॥१०॥ त्वत्तः श्रीरजनि स्फुटं समभवत्कल्पद्रुमः सादरं जातास्ते निधयः पुनः किमपरं जज्ञे सुघादीधितिः । किं ब्रूमस्तव वैभवं जलनिधे त्वामप्यहोऽहो वृथा यद्भूयस्तृषिता प्रयाति जनता तत्किं ब्रुवे त्वद्गुणान् १०१ मेकाः कूपजलं पिबन्तु नितरां वापीषु कारण्डवाः साकूतं सरसीषु हन्त नितरां तुङ्गाः कुरङ्गादयः । तृष्णाव्याकुलितस्य चातकशिशोः किं तेन यावद्धरां धन्यामिः परिपूरयन्ननुदिन नोदेति धाराधरः ॥ १०२ ॥ तावद्भीष्मगभीरतापनिवहाः संसारमुच्चैस्तरां यूयं तापयत प्रचण्डकिरणज्वालावलीपूरिताः । यावत्सौरमभव्यनव्यविदलन्मल्लीमतल्लीदल- प्रोन्मीलन्मकरन्दतुन्दिलमना नोदेति मन्दानिलः॥१०३॥ चन्द्रो हन्त कलङ्कशङ्किततनुः क्षारान्वितः सागरो हो कल्पतरुस्तरुः पुनरहो मेरुः स्वयं पर्वतः ।
नक्षत्रमाला। ११९ काम कामगवी पुनः पशुरहो किं वा बहु महे संसारे भवतस्तुलां कलयितुं को वा समर्थो भवेत् ॥१०॥ योऽभूदाविडचक्रवर्तिमुकुटालंकारभूतस्य रे मौद्गल्यस्य हरेः सुतः क्षितितले वीरेश्वरः सत्कविः । तस्य प्रोद्गतसूक्तिनिर्मलसुधाशुद्धान्तरस्य क्षणा- देषा निर्मितिरुत्तमा मतिमतां नित्यं मुदे जायताम् ॥१०५॥ इति श्रीवीरेश्वरभट्टनिर्मितमन्योक्तिशतकं समातम् । त्रिपाठिश्रीशिवरामप्रणीता नक्षत्रमाला। सटीका। राजनयसमानीतां मुनित्रयपरिष्कृताम् । जाह्नवीं शब्दविद्यां च चिन्तयामीष्टसिद्धये ।। चिन्नविधाताय कृतं मङ्गलं शिष्यशिक्षार्थं निबध्नाति- धरात्मजारम्यमुखारविन्दमरन्दरोलम्ब उदारकीर्तिः । शेषाख्यसंयोगविशेषशोभो देवो मुदे वोऽस्तु शिवः स रामः ॥ १ ॥ घरेति । धरस्य पर्वतस्यात्मजा तस्या रम्यमुखारविन्दस्य भरन्दों मकरन्द- स्तस्य रोलम्बो भ्रमरः । उदारकीर्तिः । शेषाख्यस्य संयोगेन विशेषशोभः । शेषस्य भूषणत्वादिति भावः । एतादृशो देवः शिवः स प्रसिद्धो रामो वो १. अयं शिवरामत्रिपाठी ख्रिस्तसंवत्सरीयाटादशशतकपूर्वार्धसमुत्पन्नान्नागे- शभट्टादप्यर्वाचीनः, यतोऽयमत्रैव टीकायां तत्कृतपरिभाषेन्दुशेखरस्मरणं करोति. एतत्कृतग्रन्थास्तु खयमेवानेनात्रैव टीकासमाप्तौ गणिताः सन्ति. तेष्वस्माभिः (१) कादम्बरीटीका, (२) दशकुमारचरितटीका, ( ३ ) नक्षत्रमाला सटीका, (४) रसरत्नहारः सटीकः, (५) वासवदत्ताटीका, एतद्रन्थपञ्चकमद्यावधि समुपलब्धमस्ति.. ।
क काव्यमाला। । । सौभ्रातृत्वात् । श्लेषालंकारः-'वाच्यभेदेन भिन्ना ययुगपद्भाषणस्पृशः । श्लेषोऽसौ' इति लक्षणात् । वृत्यनुप्रासः-'वर्णसाम्यमनुप्रासश्छेकवृत्तिगतो द्विधा । सोऽनेकस्य सकृत्पूर्व एकस्याप्यसकृत्परः ॥' इति लक्षणात् । यमका- लंकार:--'अर्थ सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः । यमकं पादतद्भाग- वृत्ति तद्यात्यनेकताम् ॥' इति लक्षणात् । संभोगशृङ्गार:--'अनुकूलौ निषे- वेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि स संभोगो मुदान्वितौ ॥' इति लक्षणात् । अनुकूलो नायक:-'अनुकूलस्त्वेकनायिकः' इति दशरूप- कात् । उपजातिवृत्तम्-'अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजात- यस्ताः' इति तल्लक्षणात् ॥ गोत्रस्खलनेन मानवतीं प्रत्याह- गोत्रस्खलने प्रान्ति मानिनि जानीहि केवलां मेऽत्र । व्याख्यानतो विशेषप्रतिपत्तिः पाणिनीय इव ॥ २ ॥ गोनेति । हे मानिनि, गोत्रस्खलने गोत्रं नाम तस्य स्खलने च्यवने में मम केवलां भ्रान्ति जानीहि । ननु गोत्रस्खलनं त्वदुक्तिः । मया भ्रान्त्या तमामग्रहणं कृतं न स्वहर्निशं तस्यामासक्तरित्यपि त्वदुक्तिरेव । तत्र व प्रामा. ण्यमुररीकर्तव्यम् । तत्राह-व्याख्यानतो विशिष्टादाख्यानाद्विशेषस्येष्टस्य प्रतिपत्तिर्बोधः । किमत्र मानं तत्रोपमारीत्याह-पाणिनीय इव । पाणिनीये तत्प्रोक्तशास्त्रे । एवं हि तत्रोक्तिः-लण्अइउण्सूत्रयोर्णकारस्यैवोपादानेन अण्इणग्रहणेषु संदेहः । तत्राह-व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहाद- लक्षणम्' । व्याख्यानाच्छिष्टकृताद्विशेषस्थान्यतरार्थस्य प्रतिपत्तिनिश्चयः । हि यतः संदेहाच्छास्त्रमननुष्ठापकं न । 'अणुदित्-' इत्यत्रैव परेण णकारेणाणप्र- स्याहारः । इण् तु सर्वत्र परेण । यदत्र परिभाषेन्दुशेखरे दूषणं तदस्मत्कृते विद्याविलासे द्रष्टव्यम् । अत्र श्लेषालंकारः-'श्लेषः स एकवाक्येऽस्मिन्यत्राने- कार्थता भवेत्' इति लक्षणात् । अत्र प्रमाणालंकारेषु शब्दप्रमाणालंकारः । श्रौती पूर्णोपमा-'साधर्म्यमुपमा भेदे पूर्णा लुप्ता च सानिमा । श्रौत्यार्थी च सचेद्वाक्ये समासे तद्धिते तथा ॥' इति लक्षणात् । काव्यादर्श तु दण्डिनेयं धर्मोपमेति व्यवहृता-'इति धर्मोपमा साक्षात्तुल्यधर्मनिदर्शनात्' इति ।
नक्षत्रमाला। १२१ । - - मानवत्यत्र नायिका । मानश्चात्रेाजन्य:-'पत्युरन्यप्रियासङ्गे दृष्टेऽथानुमिते श्रुते । ईर्ष्यामानो भवेत्स्त्रीणां तत्र त्वनुमितिस्विधा ॥' इति रसरबहारः । स च मध्यमः-'मानो लघुर्मध्यमश्च गुरुश्चेति त्रिधा भवेत् । अपरस्त्रीदर्शनोत्थो गोत्रस्खलनजस्तथा । अन्यस्त्रीसङ्गाजनितः क्रमेण त्रिविधो भवेत् ॥' इत्यपि तत्रैव । पथ्यार्या छन्दः-'त्रिवंशकेषु पादो दलयोराधेषु दृश्यते यस्याः । पथ्येति नाम तस्याः प्रकीर्तितं नागराजेन ॥' इति लक्षणात् ।। अन्यसंभोगदुःखितां प्रति संभुक्तसख्येवाह- नौष्ठव्रणान्मामपरामिव त्वमवेहि तामेव निजैकदासीम् । न चैकदेशे विकृतेरुपैति भिन्नत्वमज्ञे सखि कोऽपि लोके ॥३॥ नौष्ठेति । ओष्ठे व्रणोऽधरपानजस्तस्मान्मामपरां सपत्नीमिव मा अवेहि । अज्ञे सखि, एकदेशे विकृतेर्विकारान्न कोऽपि भिन्नत्वमुपैति प्राप्नोति । नहि छिन्नपुच्छे शुनि मार्जारव्यवहारो लोके । 'लोकन्यायसिद्धेयम्' इति व्याकर- णेऽप्युक्तम् । इयं ज्ञापकसिद्धापि । 'प्राग्दीव्यतोऽण्' इति सूत्रे भाष्ये दीव्य. तिशब्दैकदेशदीव्यच्छब्दानुकरणमिदमित्युक्त्वा किमर्थं विकृतनिर्देशः । एतदेव ज्ञापयत्याचार्यः-भवत्येषा परिभाषा-'एकदेशविकृतमनन्यवत्' इति । तेन निर्जरशब्दे जरसादेशः फलम् । अत्रत्यमपि दूषणं विद्याविलासे द्रष्टव्यम् ।का- ब्यलिङ्गमलंकारः-'समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम्' इति लक्षणात् ।। पूर्वमीामानेऽनुनीतां पुनः प्रणयमानिनी प्रत्याह- अनुनीता पुना रोषं भेजे तामाह मानिनीम् । एकस्यां लक्षणं व्यक्तौ सकृदेव प्रवर्तते ॥ ४ ॥ अनुनीतेति । या पूर्वमनुनीता पुना रोषं भेजे । अत्र 'रो रि' इति लोपे कृते 'ठूलोपे-' इति दीर्घः । तामाह नायकः एकस्यां व्यक्तौ एकं लक्षणं सकृदेव एकवारमेव प्रवर्तते । पुनः कोपो न योग्य इति भावः । प्रणयमा- निनीयम् । 'लक्ष्ये लक्षणं सकृदेव प्रवर्तते' । अन्न ज्ञापकं “समः सुटि' इति सूत्रम् । 'समो वा लोपमेके' इति भाष्येण लोपस्यापि रुपकरणस्थत्वान्मकार- लोपे एकसकारके पुनस्तत्र सकारद्वित्वे द्विसकारके पुनः सकारद्वित्वे त्रिसका- स्करूपसिद्धौ कि सूत्रेणेति तदेव ज्ञापकम् । फलं तु-सुध्युपास्य इत्यत्र धका काव्यमाला। । । । रद्वित्वे पुनर्धकारद्वित्वं न । युग्मविपुला च च्छन्दः-'यस्यां लः सप्तमो युग्मे सा युग्मविपुला' इति लक्षणात् ॥ सख्युपभोगेन साशङ्का नायिका गौणमुख्यन्यायं मनसि निधाय दासी घृष्टस्य सेवने योजयामासेति वर्णयति- मुख्य कार्यस्य विज्ञानादासी धृष्टस्य सेवने । नियोजयामास तयो रतिं ज्ञात्वा चुकोप सा ॥ ५ ॥ मुख्य इति । मुख्ये प्रधाने कार्यस्य विधेयस्य विज्ञानादासी धृष्टस्य प्रग- ल्भस्य सेवने नियोजयामास । सा तयो रतिं ज्ञात्वा चुकोप सरोषा बभूव । परकीयान्यसंभोगदुःखिता नायिका । नन्वेवमपि महद्भूतश्चन्द्रमा इत्यत्र 'आन्महतः' इत्यात्त्वापत्तिरत आह-गौणमुख्ययोर्मुख्य कार्यसंप्रत्ययः' । गुणादागतो गौणः । यथा गोशब्दस्य जाड्यादिगुणनिमित्तोऽर्थों बाहीकः । अप्रसिद्धश्च संज्ञादिरपि तद्गुणारोपादेव बुध्यते । मुखमिव प्रधानत्वान्मुख्यः प्रधान इत्यर्थः । गौणे ह्यर्थे शब्दः प्रयुज्यमानो मुख्यार्थारोपेण प्रवर्तते । एवं चाप्रसिद्धत्वं गौणलाक्षणिकत्वं चात्र गौणत्वम् । तेन प्रियन्त्रयाणामित्यादौ यादेशो भवत्येव । तत्र त्रिशब्दार्थस्येतरविशेषणत्वेऽप्युक्तरूपगौणत्वाभावात्। अन्ये तु 'परिवेविषीध्वामित्यत्र ढत्वव्यावृत्तये क्रियमाणात् 'इणः पीध्वं-: इत्यत्राङ्गग्रहणादर्थवत्परिभाषानित्या । तन्मूलकमिदम्' इत्याहुः ।। दासी नायिकायाः सान्त्वनं करोति- यदागमास्तद्गुणास्ते गृह्यन्ते तद्रहाद्धिते । अतस्त्वय्याबद्धभावो मामैक्षत स. सादरम् ॥ ६ ॥ यदागमा इति । यत्सकाशादागमो येषां ते यदागमाः, तस्य यत्सकाशा- दागमस्तद्गुणीभूता अङ्गभूतास्तद्रहात्ते गृह्यन्ते । अतस्त्वय्याबद्धभावः स नायको मां सादरमैक्षत । ननु प्रणिदापयतीत्यादौ दारूपस्य विधीयमाना घुसंज्ञा दापेन स्यांदत आह–'यदागमास्तद्गुणीभूतास्तद्रहणेन गृह्यन्ते'। यमुन द्दिश्यागमो विहितः स तद्गुणीभूतः शास्त्रेण तदवयवत्वेन बोधितोऽतस्तद्रहणेन तब्राहकेण तद्बोधकेन शब्देन गृह्यते। बोध्यत इत्यर्थः । तत्र तद्गुणीभूता इत्यंशो बीजकथनम्।लोकेऽपि देवदत्तस्याङ्गाधिक्ये तद्विशिष्टस्यैव देवदत्तग्रहणेन ग्रहणं नक्षत्रमाला। १२३ दृश्यते । यमुद्दिश्य विहित इत्युक्तेः । प्रनिदारयतीत्यादौ न दारित्यस्य धुत्वम् । आने मुग्विधानसामर्थ्यादेषालित्या । अन्यथा पचमान इत्यादावकारस्य मुक्य- नया परिभाषया विशिष्टस्य सवर्णदीचे तद्वैयर्थं स्पष्टमेव । तेन दिदीपे इत्यादौ यणादिकं न । जहारेत्यादौ 'आत औ णलः' इति न ॥ रतान्तं वर्णयति-मृष्टाधरेति युग्मेन । मृष्टाधरालक्तमनञ्जनाक्षं पत्रावलीशेषविशेषशोभम् । रतान्त आसेचनकं निपीय कान्ताननं कान्त उवाच कान्ताम् ॥ ७ ॥ कृतेऽङ्गकार्ये पुनरङ्गकार्य न जायते सुन्दरि दर्शनेऽपि । ततो वृथैषोऽस्ति परिश्रमस्ते प्रसाधनार्थ करभोपमोरु ॥ ८॥ (युग्मम् ) मृष्टेति । मृष्टोऽधरालक्तको यस्याः । अधरपानादित्यर्थः । अनञ्जने अक्षिणी यस्य ।चुम्बनात् । 'बहुव्रीही सक्थ्यक्ष्णोः स्वाङ्गात्षच्' इति षच् । विधेयत्वा- भावादविमृष्टविधेयांशदोषाभावः । पत्रावल्याः पनरचनायाः शेषेण विशेषतः शोभा यस्य । पत्ररचनाच्युतिस्तु विपरीतसुरते स्वेदोद्गमादित्यर्थः । आसेचन कम् । 'तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्' इत्यमरः । कान्ताननं निपीय सादरं दृष्ट्वा प्रसाधनोद्यतां नायिका प्रत्याह । करभोपमावूरू यस्यास्तत्संबोध- नम् । 'करस्य करभो बहिः' इत्यमरः । 'ऊरूत्तरपदादौपम्ये' इत्यूङ् तु न । उप- माशब्देन व्यवधानात् । एतेन 'धात्री कराभ्यां करभोपमोरुः' इति कालिदा- सप्रयोगोऽपि व्याख्यातः । सुन्दरि, अङ्गकार्य अङ्गानां कार्य प्रसाधने कृते पुन- रङ्गकार्य प्रसाधनं नास्ति । अङ्गस्य कार्य कृते पुनरङ्गस्य कार्य न भवति । यथात्रैव सुन्दरीत्यत्र संबुद्धौ ‘अम्बार्थनद्योहस्वः' इति हस्ते कृते 'हस्वस्य गुणः' इति गुणों न भवति । न चात्र लक्षणप्रतिपदोक्तपरिभाषया निर्वाहः । हे चित्रगोग्रमित्य- नेन विरोधापत्तेः । अन्न ते प्रसाधनार्थ परिश्रमो वृथैव । ननु रतान्ते प्रसा- धनवर्णनं न कविसंप्रदाय इति, तन्न । 'शान्ते मन्मथसंगरे रणकृतां सत्कार- मातन्वती वासोऽदाजघनस्य पीनकुचयोहारं श्रुतेः कुण्डलम् । बिम्बोष्टस्य च वीटिकां सुनयना पाण्यो रणत्कङ्कणे पश्चाल्लम्बिनि केशपाशनिचये युक्तो हि बन्धक्रमः ॥' इति दर्शनात् । यत्तु तत्त्वबोधिन्याम् 'हस्वविधानसामर्थ्याद्गुणो न प्रवर्तते अन्यथा 'अम्बार्थनद्योर्गुणः' इति ब्रूयात्', तन्न । सति गुणग्रहणे इक्परिभाषोपस्थितेः अम्बार्थे दोषः । अथाम्बार्थग्रहणसामर्थ्यात्तत्रानिक्यपि , । - - १२४ काव्यमाला। प्रवृत्तिरिति चेन्न । उभयत्र सामर्थ्यकल्पनापेक्षया अन्यार्थया परिभाषया निर्वाहस्य सुगमत्वात् । तत्रैवान्ये तु 'कृते हस्खे यदि गुण इष्टस्तर्हि अम्बार्थानां इस्वो नदीहस्वयोर्गुणः' इत्येव ब्रूयात् । तदपि न । 'जसि च' इति सूत्रे एक- देशानुवृत्तिकल्पनापत्तेः । अस्यां परिभाषायां ज्ञापकं 'ज्ञाजनोर्जा' इति जादे- शविधानम् , 'ज्यादादीयसः' इत्यत्राकारविधानं च । जकारादेशे कृते जाना- तीत्यत्र 'अतो दी? यजि' इति ज्यायान् इत्यादौ 'अकृत्सार्व-' इति दीर्घ इष्टसिद्धौ किं दीर्घविधानेन । 'तयोर्वावचि-' इति निर्देशादनित्यैषा परि- भाषा । समास आर्थी धर्मलुप्तोपमा । काव्यादर्श त्वियं वस्तूपमेति व्यव- हृता-'इति प्रतीयमानैकधर्मा वस्तूपमैव सा' इति लक्षणात् । क्रमेणाध- रचुम्बनाद्युत्कर्षदर्शनात्सारालंकारः-'उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते' इति तल्लक्षणात् ॥ कश्चन मानिनीदूतीं निराकरोति संनियोगशिष्टन्यायेन- निवृत्तिस्ते संनियोगशिष्टन्यायेन नो कुतः । द्वयोर्मानोदये दूत्यास्तदनित्यत्वमुत्तरम् ॥ ९ ॥ निवृत्तिरिति । 'संनियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः' इति संनियोगशिष्टन्यायः । तत्संनियोगेनागता त्वं तस्या निवृत्तौ त्वं कथं न निवर्तसे । द्वयोर्मानोदये दूत्याः तदनित्यत्वमुत्तरम् । ननु पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्र इत्यादौ 'द्विगोर्लुक्' इत्यणो लुकि 'लुक तद्धित-' इति स्त्री- प्रत्ययलुकि आनुकः श्रवणापत्तिरत आह-'संनियोगशिष्टानां सह वा प्रवृ- त्तिः सह वा निवृत्तिः । एवार्थों वाशब्दः । अत्र 'बिल्वकादिभ्यश्छस्य लुक' इति सूत्रस्थलग्रहणं ज्ञापकम् । तद्धि छमात्रस्य लुग्बोधनद्वारा कुकोऽनिवृत्ति- यथा स्यादित्यर्थम् । कृतकुगागमा नडाद्यन्तर्गणा बिल्वादय एव तत्र निर्दिष्टा बिल्वकादिशब्देन । समुच्चयार्थचशब्दयोगेन विधेययोरेककालिकत्वैकदेशत्व. नियमाय न्यायसिद्धापीयं णाविष्ठवत्-' इत्यनेन पुंवत्त्वविधानमेतदनित्यत्व- ज्ञापनार्थम् । अन्यथा एनीमाचष्टे एतयतीत्यादौ टिलोपेनैव डीनिवृत्तौ संनि- योगशिष्टपरिभाषया नस्यापि निवृत्तौ पुंवत्त्वस्थानावश्यकत्वात् । 'ज्ञापकसिद्धं न सर्वत्र' इति ज्ञापकसिद्धेयमनित्येति वा । अन्न परिभाषेन्दुशेखरे यहूषणं तद्विद्याविलासे स्फुटम् ॥ - नक्षत्रमाला। १२५ दूती नायकं भर्ल्सयन्त्याह कारोः शङ्खश्वेतकीर्तेयुत्पत्तिस्तव कुत्रचित् । अव्युत्पत्ती रसे तेऽस्ति ततोऽसि त्वमुणादिवत् ॥ १० ॥ कारोरिति । कारोः शिल्पिनः । 'कृवापा-' इत्युण् । शङ्खवत्कम्बुवच्छेता कीर्तिर्यस्य तादृशस्य । 'शमेः खः' अत्र सति व्युत्पत्तौ खस्येनादेशः स्यात् । इति हेतोरव्युत्पत्तिपक्षोऽपि । उणादयो व्युत्पन्नाः, अव्युत्पन्नाश्च कुत्रचित् शिल्पादिविषये । रसे ते अव्युत्पत्तिः । ततस्त्वमुणादिवदसि । अव्युत्पत्ती रस इत्यत्र 'रोरि' इति लोपे 'ठूलोपे-' इति दीर्घः । यथासंख्यालंकारः । 'यथा- संख्यं क्रमेणैव ऋमिकाणां समन्वये' इति तल्लक्षणात् । तद्धिते आर्थी लुप्तोपमा ।। निर्दिश्यमानस्यादेशाः संभवन्ति सुनो यतः । अतः प्रत्यादेशपात्रं रोषासैव न दूतिका ॥ ११ ॥ निर्दिश्यमानस्येति । हे सुनः सुनासिक, यतो निर्दिश्यमानस्यादेशाः संभ- वन्ति अतः प्रत्यादेशस्य निराकरणस्य । 'प्रत्यादेशो निराकृतिः' इत्यमरः । पात्रं सैव दूतिका । प्रकृते-सुन इत्यत्र 'पद्दन्-' इति सूत्रे निर्दिश्यमानस्य नासिकाशब्दस्य नसादेशः । न तु 'पदाङ्गाधिकारे-' इति प्राप्तः सुनासिकाश- ब्दस्य नसादेशः । यद्वा समासान्तविधेरनित्यत्वेन 'अन्नासिकायाः-' इत्य जभावेऽपि संनियोगशिष्टन्यायस्यानित्यत्वे प्रकृतसूत्रेण नसादेशः। नन्वेवमु- दस्थादित्यादौ 'उदः स्थास्तम्भोः-' इति पूर्वसवर्णापत्तिरत आह-निर्दि- श्यमानस्यादेशा भवन्ति' । 'षष्ठी स्थानेयोगा' इति सूत्रमावर्तते । तत्र द्वि- तीयस्यायमर्थः । षड्यन्तं निर्दिश्यमानमुच्चार्यमाणसजातीयमेव निर्दिश्यमाना- वयवरूपमेव वा स्थानेन स्थाननिरूपितसंबन्धेन युज्यते न प्रतीयमानमि- त्यर्थः । तेनेदं सिद्धम् । अत्रत्यं दूषणं विद्याविलासे द्रष्टव्यम् ॥ नायिकाया मानबीजमाह- आगमानित्यता शब्दे उणाद्यादौ मनोहरा । मनोहरा न ते यस्मात्तन्नित्यत्वमतोऽर्थये ॥ १२ ॥ आगमेति । उणाद्यादौ शब्दे आगमानां ङमुडादीनामनित्यता मनोहरा । ते आगमस्यागतस्यानित्यता न मनोहरा । अतस्तनित्यत्वमर्थये । यथा 'उणा- ।
। १२६ काव्यमाला। दयो बहुलम्' इत्यत्र ङमुडागमोऽनित्यत्वान्न नैवं तथा आगमो युक्तः । 'आग- मशास्त्रमनित्यम्' इति परिभाषाखण्डनोद्धारोऽपि विद्याविलासे द्रष्टव्यः ॥ वेश्यां वर्णयति- अर्थवद्रहणे यस्मान्नानर्थकपरिग्रहः । सुरूपधनिनोर्वेश्या गृह्णाति धनिनं ततः ॥ १३ ॥ अर्थवदिति । अर्थवतः सार्थस्य ग्रहणेऽनर्थकस्य व्यर्थस्य यतः परिग्रहो नास्ति ततो हेतोः सुरूपधनिनोर्मध्ये वेश्या धनिनो ग्रहणं करोति । अर्थवत्त्वा- दिति भावः । ननु प्रोढवानित्यत्र 'प्रादूहोढ-' इति वृद्धिः स्यादत आह-'अ- र्थवद्हणे नानर्थकस्य । विशिष्टरूपोपादाने उपस्थितार्थस्य विशेषणतयान्वय- संभवे त्यागे मानाभावोऽस्या मूलम् । 'त्रश्च-' इति सूत्रे राजेः पृथग्भ्राजि- ग्रहणमस्यां हि ज्ञापकम् ॥ काचन दूती नायकस्य समीपे गता, नायकस्य गोत्रस्खलनं जातम् , तद- नुकरणमागत्य नायिकायाः समीपे कृतममुं प्रसङ्गं वर्णयति- गोत्रस्खलनानुकृतौ दृष्टारुणचक्षुषा दूती । इत्याहाशयमस्या अनुकरणं प्रकृतिवद्भवति ॥ १४ ॥ गोत्रेति । दूत्यग्रे नायककृतस्य गोत्रस्खलनस्यानुकृतावनुकरणे अरुणे चक्षु- पी यस्यास्तया । कोपारुणचक्षुषेत्यर्थः । दूती दृष्टा । अस्या आशयमाह-अ- नुकरणं प्रकृतिवद्भवतीति । यथा नायकोपरि कोपस्तथा मय्यपि शास्त्रप्राप्तः । ननु 'क्षियः-' इत्यादौ इयङ् कथमत आह-'प्रकृतिवदनुकरणं भवति । क्षिय इति इयनिर्देशोऽस्या ज्ञापकः । तत्रैव प्रातिपदिकत्वनिबन्धनविभक्ति- करणादनित्या चेयम् । उपगीतिच्छन्दः ॥ नायको दूतीमुखाद्गोत्रस्खलनश्रवणेन मानिनी प्रत्याह- नास्ति तदन्तग्रहणं संज्ञाविधौ प्रत्ययग्रहणे हि । तस्माद्यथापराधं दण्ड्यो वध्यस्तु नैवाहम् ॥ १५ ॥ नास्तीति । संज्ञा नाम तद्विधौ प्रत्ययग्रहणे शपथग्रहणे तदन्तग्रहणं तस्या- पराधिनोऽन्तो नाशस्तस्य ग्रहणं नास्ति । हि यस्मात् । 'संज्ञा स्याञ्चेतना नाम हस्ताद्यैश्वार्थसूचना', 'प्रत्ययोऽधीनशपथज्ञानविश्वासवस्तुषु', 'अन्तो नाशो । - नक्षत्रमाला। १२७ । । द्वयोर्मृत्युः' इति त्रिप्वमरः । तस्मादपराधमनतिक्रम्य यथापराधमहं दण्ड्यः, वध्यस्तु नैव । 'अन्यथावादशपथाद्यपनेयस्तु मध्यमः' इति । 'मानो लघुर्म- ध्यमश्च गुरुश्चेति त्रिधा भवेत् । अपरस्त्रीदर्शनोत्थो गोत्रस्खलनजस्तथा । अपरस्त्रीसंगमोत्थः क्रमेण त्रिविधो भवेत् ॥' इति रसरत्रहारः । नन्वेवं 'तरप्तमपौ पः' इत्यादिना तरबन्तादेः संज्ञा स्यादत आह-'संज्ञाविधौ प्रत्य- यग्रहणे तदन्तग्रहणं नास्ति' । 'सुप्तिङन्तं' इत्यन्तग्रहणमस्या ज्ञापकम् । गीतिच्छन्दः॥ पुनस्तामाह- अनुदात्तेत्त्वप्रथितं युवति निबोधात्मनेपदमनित्यम् । उदयति सविता चन्द्रो न निर्गतं यौवनं हि तथा ॥ १६ ॥ अनुदात्तेदिति । हे युवति, अनुदात्ते मम हृदि ईत्वं लक्ष्मीत्वं यत्र ताह- शत्वाप्रथितं ख्यातमात्मने स्वस्मै पदं स्थानमनित्यं निबोध जानीहि । लक्ष्म्य- पेक्षेयं सुरूपेति पदप्राप्तिरनित्येत्यर्थः । हि यस्मानिर्गत: सविता चन्द्रचोदयति निर्गतं यौवनं तथा न । 'उदात्तो दातृमहतोः' इति विश्वप्रकाशः । 'अनुदात्ते- वलक्षणमात्मनेपदमनित्यम् । चक्षिको ङित्करणाज्ज्ञापकात्' । तेन प्रकृते उद- यतीत्यत्रात्मनेपदं न । अत्रत्यपरिभाषेन्दुशेखरदूषणोद्धारो विद्याविलासे स्फुटः। काव्यलिङ्गमलंकारः-'काव्यलिङ्गं हेतोर्वाक्यपदार्थता' इति तल्लक्षणात् । परिकरालंकारोऽपि-'अलंकारः परिकरः साभिप्राये विशेषणे' इति लक्ष- णात् । उपगीतिच्छन्दः ॥ सर्वद्वन्द्वैकवद्भावः पाणिनीये विकल्पितः । विहाय मामिति सखी काप्याह प्रेमगर्विता ॥ १७ ॥ सर्वेति । सर्वश्चासौ द्वन्द्वश्व । 'चार्थ द्वन्द्वः' इति विहितः समासः तस्यैक- वद्भावः पाणिनीये विकल्पितः । 'सर्वो द्वन्द्वो विभाषैकवद्भवति । द्वन्द्वसा- मान्येन स्वमिथुनप्राप्त परिहरति-मां विहाय । त्यक्त्वेत्यर्थः । 'स्त्रीपुंसोर्मि- थुनं द्वन्द्वम्' इत्यमरः । कापि प्रेमगर्विता सखी प्रत्याह । घटपटं घटपटौ इत्यादि सिद्धये आह–'सर्वो द्वन्द्वो विभाषैकवद्भवति', 'द्वन्द्वश्च प्राणि-' इत्यादि प्रकरणाविषयः सर्वो द्वन्द्व इत्यर्थः । 'चार्थे द्वन्द्वः' इति सूत्रेण समा- । ।
१२८ काव्यमाला। हारेतरेतरयोगयोरविशेषेण द्वन्द्वविधानान्यायसिद्धेयम् । परिसंख्यालंकारो- स्त्र-परिसंख्या निषिध्यैकमेकस्मिन्वस्तुयन्त्रणम्' इति तल्लक्षणात् ॥ तुल्ये वयसि रूपे च मयि मज्जति यन्मनः। पत्युस्तत्कारणं ब्रूहि सख्यूचे भेदका गुणाः ॥ १८ ॥ तुल्य इति । वयसि रूपे च तुल्ये सति मम सपल्याश्च । पत्युमनो यन्मयि निमज्जति तत्कारणं ब्रूहि इति नायिकाप्रश्नः । गुणा दाक्षिण्यादयः । भेदका व्यावर्तकाः । उत्कर्षजनका इत्यर्थः । इति सख्या उत्तरम् । हेत्वलंका- रोऽत्र-हेतोहेतुमता साधं वर्णनं हेतुरुच्यते' इति लक्षणात् ॥ प्रेमगर्विता मानभाजो दूषयति- कृतमपि कार्य केचिन्निवर्तयन्तीह शास्त्रवत्प्रेम । प्रायस्त एव पूज्या ये न प्रागेव कुर्वन्ति । १९ ।। कृतमिति । केचित्कृतमपि प्रेम कार्य शास्त्रवनिवर्तयन्ति । तेभ्यस्त एव पूज्या ये प्रागेव न कुर्वन्ति । 'अकृतव्यूहाः पाणिनीयाः' इति द्वयोर्मध्ये अकृ- तव्यूहा इति श्रेष्ठम्। 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्' इति न्यायात् ॥ दूत्युपभोगकामः कश्चन निवारयन्ती दूतीं प्रत्याह- स संनिपातलक्षणो विधिर्विधूपमानने । न मन्यतेऽधुना मया धुनोषि किं कराम्बुजम् ।। २० ॥ स इति । हे विधूपममाननं यस्याः, स संनिपातलक्षणो विधिरधुना मया न मन्यते । त्वं कराम्बुजं किं धुनोषि । तस्या अनित्यत्वात् । उपजीव्यविरो- घोऽस्या मूलम् । सा 'कष्टाय क्रमणे' इति निर्देशादनित्या । उपमालंकारः। प्र- माणिकावृत्तम् -'प्रमाणिका जरौ लगौ' इति लक्षणात् । क्वचिन्नगस्वरूपि- णीत्यस्याः संज्ञा॥ आकारयन्कामपि ना दृष्टः खप्रिययावदत् । यत्संज्ञापूर्वकविधेरनित्यत्वमवेहि तत् ॥ २१ ॥ आकारयन्निति । कोऽपि ना कामपि परस्त्रियं संज्ञया हस्तचेष्टया। 'संज्ञा स्थाचेतना नाम हस्ताद्यैश्वार्थसूचना' इत्यमरः । आकारयन्स्वप्रियया दृष्टः सन्नि- ।
नक्षत्रमाला। १२९ त्यवदत् । सत्संज्ञापूर्वकविधेरनित्यत्वं तदवेहि । 'ओर्गुणः' इत्यत्र 'ओरोत्' इति वक्तव्ये गुणोक्तिः संज्ञापूर्वकविधेरनित्यत्वं ज्ञापयति । तेन स्वायंभुव- मिति सिद्धम् ॥ स्थिरो न रागो दयिताजनस्य श्रुत्वेति वाचं दयितस्य नूनम् । पर्जन्यवल्लक्षणसंप्रवृत्त्या खस्यामपीमं गुरुदोषमूहे ॥ २२ ॥ स्थिरति । नायिकायाः सखी प्रत्युक्तिः । दयिताजनस्य रागः स्थिरो न इति दयितस्य प्रियस्य वाचं श्रुत्वा पर्जन्यवल्लक्षणसंप्रवृत्त्या स्वस्थामपीमं गुरु- दोषमूहे । लिट उत्तमपुरुषैकवचनम् । 'पर्जन्यो मेघशक्रयोः' इति लक्ष्मी- निवासः। लोकसिद्धेयं परिभाषा ॥ ननु तथा सति को दोष इति चेदाशयः सख्यास्तन्निराकरणायाह- पूर्व ह्यपवादोऽभिनिविशते पश्चाद्भवति किलोत्सर्गः । इति मत्वा मम चेतः खिन्ते नित्यं सखि क्षणशः ॥ २३ ।। पूर्वमिति । पूर्वमपवादोऽपवादशास्त्रमभिनिविशते । 'अभिनिविशश्च' इति कर्मसंज्ञा, 'नेविंशः' इत्यात्मनेपदम् । पश्चादुत्सर्गशास्त्रम् । पक्षेऽपवादो निन्दा । 'अवर्णाक्षेपनिर्वादपरीवादापवादवत्' इत्यमरः । उत्सर्गस्त्यागः । हे सखि, इति मत्वा मम चेतः क्षणशो नित्यं खिन्ते खिद्यते । ननु दधतीत्यादा- वन्तरङ्गत्वादन्तादेशेऽल्विधौ स्थानिवत्त्वाभावाददादेशो न स्यादिति तद्वैयर्थ्या- पत्तिरत आह–'पूर्व ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः।' लक्षणैकच- क्षुष्को हि अपवादविषयं पर्यालोच्य तद्विषयत्वान्निश्चये उत्सर्गेण तत्तल्लक्षणं संस्करोति । अन्यथा विकल्पापत्तिरित्यर्थः । अभिनिविशन्त इत्यस्य बुद्ध्या- रूढा भवन्तीत्यर्थः । 'अपवादो यदन्यत्र' इति न्यायस्य तु नात्र प्राप्तिः । अन्तादेशाप्राप्तिविषये चारितार्थ्याभावात् । आर्याच्छन्दः । सखी तां सान्त्वयति- गणकार्यमनित्यं स्यादिति किं न श्रुतं त्वया । अनार्जवमतश्चित्तादपाकुरु कृपां कुरु ॥ २४ ॥ गणेति । गणकार्य भ्वादिधातुगणकार्यमनित्यमिति त्वया न श्रुतम् । पक्षे ९ पंच० । । ..
१३० काव्यमाला। गणस्य समुदायस्य कार्यम् । अतश्चित्तादनार्जवं कौटिल्यमपाकुरु कृपां कुरु । तनादित्वादेव सिद्धे कृग्रहणं गणकार्यस्यानित्यत्वे लिङ्गस् । तेन 'न विश्व- सेदविश्वस्तम्' इत्यादि सिद्धम् ॥ वादाङ्गं बलीयः स्यादिति मत्वा विलासिनी। नोवाच वचनं किंचिदालिङ्गनमदान्मुदा ॥ २५ ॥ वाणेति । वार्णाद्वर्णमयात्संतोषापादनादाङ्गं बलवदिति मत्वा सा न किंचि- दुवाच । किं तु मुदा आलिङ्गनं अदात् । पक्षे-वार्णाद्वर्णसंबन्धिकार्यादाङ्ग- मङ्गाधिकारीयकार्य बलवत् । नन्वेवमियायेत्यादौ द्वित्वे कृतेऽन्तरङ्गत्वात्सवर्ण- दीर्घत्वे तदसिद्धिरत आह–'वार्णादाङ्गं बलीयो भवति । तेनान्तरङ्गमपि सवर्णदीर्घ वाधित्वा वृद्धिरिति तसिद्धिः। 'अभ्यासस्यासवर्णे' इतीयविधाय- कसूत्रस्थमसवर्णग्रहणमस्या ज्ञापकम् । तद्धीयतुरित्यादावियब्यावृत्त्यर्थम् ॥ यान्तं निशम्य कान्तं तद्गृहसविधेऽस्मि साशङ्का । एनां प्रतारयति सा ज्ञापकसिद्धं न सर्वत्र ॥ २६ ॥ यान्तमिति । तस्याः सपल्या गृहसविधे तत्समीपे । 'सदेशाभ्याशसवि- धसमर्यादसदेशवत्' इत्यमरः । साशङ्कासि । एनां प्रतारयति सा दूती- ज्ञापकसिद्धं सर्वत्र न भवति । स्पष्टमेव पठितव्येऽनुमानाद्वोधनमसार्व- त्रिकत्वार्थम् ॥ काचिन्नायिका सपन्यासक्तं पति ज्ञात्वा कांचित्कार्मणकारिणी प्रत्याह- योगविभागादृष्टा सिद्धिः खेष्टस्य पाणिनीयेऽपि । तस्मात्तयोस्तमाचर मत्सौख्यं तावतैवार्ये ॥ २७ ॥ योगेति । योगः सूत्रं तस्य विभागाद्विभजनात्स्वेष्टस्याभिप्रेतलक्ष्यस्य सिद्धिः पाणिनीयेऽपि दृष्टा । पक्षे योगः संगतिः। 'योगः संनहनोपायध्यानसंगति- युक्तिषु' इत्यमरः । तस्या विभागस्तस्माद्योगविभागादिष्टसिद्धेतोस्तयोः पति- सपन्योस्तं योगविभागमाचर । हे आर्ये हे पूज्ये, तावतैव मत्सौख्यम् । 'क्वचिद्योगविभागादिष्टसिद्धिः' । आर्याच्छन्दः ॥ वर्णाश्रये प्रत्ययलक्षणं न रागोदये बन्धनमस्य पुंसः । अभेदका अस्य गुणाः सुवाणि त्वया मया चापि किमत्र वाच्यम् २८ -
नक्षत्रमाला।
१३१
।
वर्णाश्रये इति । अस्य पुंसो वर्णाश्रये वर्णो गौरादिः स आश्रयो यस्य तादृशो
रागोदयो रागस्य प्रीवेरुदयस्तसिन्प्रत्ययलक्षणं शपथलक्षणम् । 'प्रत्ययोऽधी-
नशपथ-' इत्यमरः । बन्धनं न । हे सुवाणि, अस्य पंसो गुणा अभेदकाः,
न भेदकर्तारः । अत्रास्मिन्विषये त्वयापि किं वाच्यम् , मयापि किं वाच्यम् ।
गवे हितं गोहितमित्यादौ प्रत्ययलक्षणेनावादेशाद्यापत्तिरत आह-'वर्णा-
श्रये नास्ति प्रत्ययलक्षणम्' । वर्णप्राधान्यविषयमेतत् । तत्त्वं च 'प्रत्यय-
लोपे-' इति सूत्रे स्थानिवदित्यनुवृत्त्यैव सिद्धे प्रत्ययलक्षणग्रहणं प्रत्ययस्येतरा-
विशेषणत्वरूपं यत्र प्राधान्यं तत्रैव प्रवृत्त्यर्थमेतत्सिद्धम् । उपजातिवृत्तम् ॥
काचिद्रूती नायिकान्तराद्रुष्टं नायकं स्वनायिकासमीपे नेतुं वदति-
एकस्या आकृतेश्चरितः प्रयोगो न द्वितीयादेहि ।
तस्यां रोषसमाप्तिर्जातानुसर मत्सखीं धीर ॥ २९ ॥
एकस्या इति । एकस्या आकृतेश्वरितः कृतः प्रयोगो न द्वितीयस्याः ।
पक्षे–एकस्या गत्वाधुदाहरणव्यक्तेश्चरितः प्रयोगो द्वितीयादेर्न । अतस्तस्यां
रोषसमाप्तिर्जाता । हे धीर, त्वं मत्सखीमनुसर । ननु गोषु चाश्वेषु च स्वा-
भीत्यादिवगोष्वश्वानां च स्वामीत्यपि स्यात् । 'स्वामीश्वरा-' इति सूत्रेण षष्ठी-
सप्तम्योर्विधानादाह-'एकस्या आकृतेश्वरितः प्रयोगो द्वितीयस्यास्तृतीय-
स्याश्च न भविष्यति' । यनान्याकृतिकरणे भिन्नत्वसंभावना तद्विषयोऽयं
न्याय इत्यन्यत्र विस्तरः । आछिन्दः॥
द्विजराजो यथा भाति कण्ठे नक्षत्रमालया ।
द्विजराजस्तथा भातु कण्ठे नक्षत्रमालया ॥ ३० ॥
द्विजराज इति । द्विजराजश्चन्द्रः कण्ठे समीपे नक्षत्रमालया नक्षत्रपरम्प-
रया यथा भाति शोभते, तथा द्विजराजो द्विजश्रेष्टः पण्डितः कण्ठे नक्षत्र-
मालया नक्षत्रमालाख्येन ग्रन्थेन भातु । 'कण्ठो गले गलध्वाने समीपे च'
इति विश्वप्रकाशः ॥
त्रिलोकचन्द्रात्मजकृष्णरामसूनोः कृतिः श्रीशिवरामनाम्नः ।
नक्षत्रमालेयमनल्पशोभां तनोतु सूरेः प्रथितास्तु दिक्षु ॥ ३१ ॥
१३२
काव्यमाला।
।
त्रिलोकचन्द्रेति । त्रिलोकचन्द्रस्यात्मजः पुनः । 'आत्मजस्तनयः सूनुः'
इत्यमरः । यः कृष्णरामः कृष्णरामाभिधस्तस्य सूनोः श्रीशिवरामनाम्नः कृति-
रियं नक्षत्रमाला । 'सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः' इत्यमरः ।
सूरेः पण्डितस्य । 'धीमान्सूरिः कृती कृष्टिः' इत्यमरः । अनल्पशोभा तनोतु ।
दिक्षु प्रथिता प्रसिद्धा अस्तु ॥
परिश्रमो व्याकरणे काव्यादावपि यः कृतः।
दिगियं दर्शिता तस्य शिवरामेण सन्मुदे ॥
लक्ष्मीकीर्ती रसामध्ये शिवरामप्रसादतः ।
कुरुतां वसतिं शुक्रतुल्यभूपालपालिते ॥
ग्रन्थान्मया विरचितान्परिशीलयन्तु शीलान्विताः सुमनसो मनसो ते।
यद्वह्निशोधितमनल्परुचा समेतं जाम्बूनदं तदिह] मौल्यविशेषलभ्यम् ॥
काव्यानि पञ्च तनुतेऽपि च पञ्चसंख्याष्टीकास्तु सप्तदश चैक उणादिकोषः ।
भूपालभूषणमथो रसरलहारो विद्याविलास इनपूर्वशरत्फलाद्याः ॥
व्याख्या लक्ष्मीविलासाख्या लक्ष्मीप्रीत्यैव निर्मिता ।
यावनक्षत्रमालास्ति तावत्तिष्ठतु भूतले ॥
इति श्रीत्रिलोकचन्द्रात्मजकृष्णरामसूनुशिवरामत्रिपाठिकृता
लक्ष्मीविलासाख्यटीकासमेता नक्षत्रमाला समाप्ता।
श्रीनीलकण्ठदीक्षितविरचितं
कलिविडम्बनम् ।
न भेतव्यं न बोद्धव्यं न श्राव्यं वादिनो वचः ।
झटिति प्रतिवक्तव्यं सभासु विजिगीषुभिः ॥ १॥
असंभ्रमो विलज्जत्वमवज्ञा प्रतिवादिनि ।
हासो राज्ञः स्तवश्चेति पञ्चैते जयहेतवः ॥ २ ॥
कलिविडम्बनम् । १३३ उच्चैरुद्धोष्य जेतव्यं मध्यस्थश्चेदपण्डितः। पण्डितो यदि तत्रैव पक्षपातोऽधिरोप्यताम् ॥ ३॥ लाभो हेतुर्धनं साध्यं दृष्टान्तस्तु पुरोहितः । अत्मोत्कर्षों निगमनमनुमानेष्वयं विधिः ॥ ४ ॥ अलभ्यं लप्स्यमानेन तत्त्वं जिज्ञासुना चिरम् । जिगीषुणा हियं त्यक्त्वा कार्यः कोलाहलो महान् ॥ ५ ॥ पाठनैर्ग्रन्थनिर्माणैः प्रतिष्ठा तावदाप्यते । एवं च तथ्यव्युत्पत्तिरायुषोऽन्ते भवेन्न वा ॥ ६ ॥ स्तोतारः के भविष्यन्ति मूर्खस्य जगतीतले । न स्तौति चेत्स्वयं च खं कदा तस्यास्तु निर्वृतिः ॥ ७ ॥ वाच्यतां समयोऽतीतः स्पष्टमग्रे भविष्यति । इति पाठयतां ग्रन्थे काठिन्यं कुत्र वर्तते ॥ ८॥ अगतित्वमतिश्रद्धा ज्ञानाभासेन तृप्तता । त्रयः शिष्यगुणा ह्येते मूर्खाचार्यस्य भाग्यजाः ॥ ९ ॥ यदि न वापि विद्यायां सर्वथा क्रमते मतिः । मान्त्रिकास्तु भविष्यामो योगिनो यतयोऽपि वा ॥ १० ॥ अविलम्बे कृत्यसिद्धौ मात्रिकैराप्यते यशः । विलम्बे कर्मबाहुल्यं विख्याप्यावाप्यते धनम् ॥ ११ ॥ सुखं सुखिषु दुःखं च जीवनं दुःखशालिषु । अनुग्रहायते येषां ते धन्याः खलु मान्त्रिकाः ॥ १२ ॥ १. उद्धृष्य' इति पाठः. २. 'अभ्यास्यं लप्स्यमानेन' इति, 'अलभ्यं लज्ज- मानेन' इति च पाठः. ३. "एवं सतस्तु' इति पाठः. ४. 'वर्तताम्' इति ५. 'भाग्यतः' इति पाठः. ६. 'अविलम्बेन संसिद्धौ इति पाठः. ७. 'दुःखेऽपि' इति पाठः. पाठः.
काव्यमाला। यावदज्ञानतो मौनमाचारो वा विलक्षणः । तावन्माहात्म्यरूपेण पर्यवस्यति मात्रिके ॥ १३ ॥ चारान्विचार्य दैवज्ञैर्वक्तव्यं भूभुजां फलम् । ग्रहचारपरिज्ञानं तेषामावश्यकं यतः ॥ १४ ॥ पुत्र इत्येव पितरि कन्यकेत्येव मातरि । गर्भप्रश्नेषु कथयन्दैवज्ञो विजयी भवेत् ॥ १५ ॥ आयुःप्रश्ने दीर्घमायुर्वाच्यं मौर्तिकैर्जनैः । जीवन्तो बहु मन्यन्ते मृताः प्रक्ष्यन्ति कं पुनः ॥ १६ ॥ सर्व कोटिद्वयोपेतं सर्व कालद्वयावधि । सर्व व्यामिश्रमिव च वक्तव्यं दैवचिन्तकैः ॥ १७ ॥ निर्धनानां धनावाप्तिं धनिनामधिकं धनम् । ब्रुवाणाः सर्वथा ग्राह्या लोकैयौँतिषिका जनाः ॥ १८ ॥ शतस्य लाभे ताम्बूलं सहस्रस्य तु भोजनम् । दैवज्ञानामुपालम्भो नित्यः कार्यविपर्यये ॥ १९॥ अपि सागरपर्यन्ता विचेतव्यावसुंधरा । देशो परनिमात्रोऽपि नास्ति दैवज्ञवर्जितः ॥ २० ॥ वारान्केचिद्रहान्केचित्केचिदृक्षाणि जानते । त्रितयं ये विजानन्ति ते वाचस्पतयः स्वयम् ॥ २१ ॥ नैमित्तिकाः खप्नदृशो देवतोपासका इति । निसर्गशत्रवः सृष्टा दैवज्ञानाममी त्रयः ॥ २२ ॥ खस्थैरसाध्यरोगैश्च जन्तुभिर्नास्ति किंचन । कातरा दीर्घरोगाश्च भिषजां भाग्यहेतवः ॥ २३ ॥ १. 'भूभृता' इति पाठ.. २. 'सर्वदा' इति पाठः, ३. 'नित्यं' इति पाठः. ४. 'प्रादेशमात्रोऽपि' इति पाठः, कलिविडम्बनम् । १३५ नातिधैर्य प्रदातव्यं नातिभीतिश्च 'रोगिणे । नैश्चिन्त्यान्नादिमे दानं नैराश्यादेव नान्तिमे ॥ २४ ॥ भैषज्यं तु यथाकामं पथ्यं तु कठिनं वदेत् । आरोग्यं वैद्यमाहात्म्यादन्यथात्वमपथ्यतः ॥ २५ ॥ निदानं रोगनामानि सात्म्यासात्म्ये चिकित्सितम् । सर्वमप्युपदेक्ष्यन्ति रोगिणः सहने स्त्रियः ॥ २६ ॥ जृम्भमाणेषु रोगेषु म्रियमाणेषु जन्तुषु । रोगतत्त्वेषु शनकैयुत्पद्यन्ते चिकित्सकाः ॥ २७ ॥ प्रवर्तनार्थमारम्भे मध्ये त्वौषधहेतवे । बहुमानार्थमन्ते च जिहीर्षन्ति चिकित्सकाः ॥ २८ ॥ लिप्समानेषु वैद्येषु चिरादासाद्य रोगिणम् । दायादाः संप्ररोहन्ति दैवज्ञा मान्त्रिका अपि ॥ २९ ॥ रोगस्योपक्रमे सान्त्वं मध्ये किंचिद्धनव्ययः । शनैरनादरः शान्तौ स्नातो वैद्यं न पश्यति ॥ ३० ॥ दैवज्ञत्वं मान्त्रिकता भैषज्यं चाटुकौशलम् । एकैकमर्थलाभाय द्वित्रियोगस्तु दुर्लभः ॥ ३१ ॥ अनृतं चाटुवादश्च धनयोगो महानयम् । सत्यं वैदुष्यमित्येष योगो दारिद्र्यकारकः ॥ ३२ ॥ कातयं दुर्विनीतत्वं कार्पण्यमविवेकता। सर्व मार्जन्ति कवयः शालीनां मुष्टिकिंकराः ॥ ३३ ॥ १. 'रोगिणि' इति पाठः. २. 'भिषज्य तु' इति पाठः. ३. 'वनपथ्यतः' इति पाठः. ४ 'लुप्यमानेषु' इति पाठः, ५. 'शाकिनीमुष्टि-' इति पाठः, काव्यमाला। न कारणमपेक्षन्ते कवयः स्तोतुमुद्यताः । किंचिदस्तुवतां तेषां जिह्वा फुरफुरायते ॥ ३४ ॥ स्तुतं स्तुवन्ति कवयो न खतो गुणदर्शिनः । कीटः कश्चिदलिर्नाम कियती तत्र वर्णना ॥ ३५ ॥ एकैव कविता पुंसां ग्रामायाश्वाय हस्तिने । अन्ततोऽन्नाय वस्त्राय ताम्बूलाय च कल्पते ॥ ३६ ॥ शब्दाख्यमपरं ब्रह्म संदर्भेण परिष्कृतम् । विक्रीयते कतिपयैर्वृथान्यैर्विनियुज्यते ॥ ३७ ॥ वर्णयन्ति नराभासान्वाणी लब्ध्वापि ये जनाः। लब्ध्वापि कामधेनुं ते लाङ्गले विनियुञ्जते ॥ ३८ ॥ प्रशंसन्तो नराभासान्प्रलपन्तोऽन्यथान्यथा । कथं तरन्तु कवयः कामपारम्यवादिनः ॥ ३९॥ यत्संदर्भ यदुल्लेखे यद्वयङ्गये निभृतं मनः । समाधेरपि तज्ज्यायः शंकरो यदि वर्ण्यते ॥ ४० ॥ गृहिणी भगिनी तस्याः श्वशुरौ श्याल इत्यपि । प्राणिनां कलिना सृष्टाः पञ्च प्राणा इमेऽपरे ।। ४१ ॥ जामातरो भागिनेया मातुला दारबान्धवाः। अज्ञाता एव गृहिणां भक्षयन्त्याखुवगृहे ॥ १२ ॥ मातुलस्य बलं माता जामातुर्दुहिता बलम् । श्वशुरस्य बलं भार्या खयमेवातिथेबलम् ।। ४३ ॥ जामातुर्वक्रता तावद्यावच्छयालस्य बालता । प्रबुद्धमात्रे सारल्यं प्रबुद्धेऽस्मिन्पलायनम् ॥ १४ ॥ १. 'धुरुधुरायते' इति पाठः. २. 'प्रबुध्यमाने' इति पाठः.
कलिविडम्बनम् । • भार्या ज्येष्ठा शिशुः श्यालः श्वश्रूः स्वातन्त्र्यवर्तिनी । श्वशुरस्तु प्रवासी च जामातुर्भाग्यकारणम् ॥ ४५ ॥ भूषणैर्वसनैः पात्रैः पुत्राणामुपलालनैः । सकृदागत्य गच्छन्ती कन्या निर्माष्टिं मन्दिरम् ॥ ४६॥ गृहिणी खजनं वक्ति शुष्काहारं मिताशनम् । पतिपक्ष्यांस्तु बहाशान्क्षीरपांस्तस्करानपि ॥ ४७ ॥ भार्ये द्वे पुत्रशालिन्यौ भगिनी पतिवर्जिता । अश्रान्तकलहो नाम योगोऽयं गृहमेधिनाम् ।। १८ ॥ भार्ये द्वे बहवः पुत्रा दारिद्यं रोगसंभवः । जीर्णो च मातापितरावेकैकं नरकाधिकम् ॥ ४९ ॥ स्मृते सीदन्ति गात्राणि दृष्टे प्रज्ञा विनश्यति । अहो महदिदं भूतमुत्तमर्णाभिशब्दितम् ॥ ५० ॥ अन्तकोऽपि हि जन्तूनामन्तकालमपेक्षते । न कालनियमः कश्चिदुत्तमर्णस्य विद्यते ॥ ५१ ॥ न पश्यामो मुखे दंष्ट्रां न पाशं वा कराञ्चले । उत्तमर्णमवेक्ष्यैव तथाप्युद्विजते मनः ॥ ५२ ।। शत्रौ सान्त्वं प्रतीकारः सर्वरोगेषु भेषजम् । मृत्योर्मृत्युंजयध्यानं दारिद्रये तु न किंचन ॥ ५३ ॥ शक्तिं करोति संचारे शीतोष्णे मर्षयत्यपि । दीपयत्युदरे वह्नि दारिद्यं परमौषधम् ॥ ५४ ॥ गिरं स्खलन्तीं मीलन्तीं दृष्टिं पादौ विसंस्फुलौ । प्रोत्साहयति याच्ञायां राजाज्ञेव दरिद्रता ॥ ५५ ॥ १. 'प्रवासीति' इति पाठः. २. 'भाग्यधोरणी' इति पाठः.
१३८ काव्यमाला। जीर्यन्ति राजविद्वेषा जीर्यन्त्यविहितान्यपि । आकिंचन्यबलाढ्यानामन्ततोऽश्मापि जीर्यति ॥ ५६ ॥ नास्य चोरा न पिशुना न दायादा न पार्थिवाः । दैन्यं राज्यादपि ज्यायो यदि तत्त्वं प्रबुद्धयते ॥ ५७ ॥ प्रकाशयत्यहंकारं प्रवर्तयति तस्करान् । प्रोत्साहयति दायादांल्लक्ष्मीः किंचिदुपस्थिता ॥ ५८ ॥ विडम्बयन्ति ये नित्यं विदग्धान्धनिनो जनान् । त एव तु विडम्ब्यन्ते श्रिया किंचिदुपेक्षिताः ॥ ५९॥ प्रामाण्यबुद्धिः स्तोत्रेषु देवताबुद्धिरात्मनि । कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥ ६० ॥ शृण्वन्त एव पृच्छन्ति पश्यन्तोऽपि न जानते। विडम्बनानि धनिकाः स्तोत्राणीत्येव मन्वते ।। ६१ ॥ आवृत्य श्रीमदेनान्धानन्योन्यकृतसंविदः । खैरं हसन्ति पावस्था बालोन्मत्तपिशाचवत् ।। ६२ ।। स्तोतव्यैः स्तूयते नित्यं सेवनीयैश्च सेव्यते । न बिभेति न जिह्वेति तथापि धनिको जनः ॥ ६३ ।। क्षणमात्रं ग्रहावेशो याममात्रं सुरामदः । लक्ष्मीमदस्तु मूर्खाणामा देहमनुवर्तते ॥ ६४ ॥ श्रीर्मासमधमासं वा चेष्टित्वा विनिवर्तते । विकारस्तु तदारब्धो नित्यं लशुनगन्धवत् ॥ ६५ ॥ कण्ठे मदः कोद्रवजो हृदि ताम्बूलजो मदः । लक्ष्मीमदस्तु सर्वाङ्गे पुत्रदारमुखेष्वपि ॥ ६६ ॥ १. "विबुध्यते' इति पाठः, कलिविडम्बनम् । १३९ यत्रासीदस्ति वा लक्ष्मीस्तत्रोन्मादः प्रवर्तताम् । कुलेऽप्यवतरत्येष कुष्ठापस्मारवत्कथम् ॥ ६७ ॥ अध्यापयन्ति शास्त्राणि तृणीकुर्वन्ति पण्डितान् । विस्मारयन्ति जाति खां वराटाः पञ्चषाः करे ॥ ६८ ॥ बिभर्तु भृत्यान्धनिको दत्तां वा देयमर्थिषु । यावद्याचकसाधर्म्य तावल्लोको न मृष्यति ।। ६९॥ धनभारो हि लोकस्य पिशुनैरेव धार्यते । कथं ते तं लघुकतुं यतन्तेऽपरथा खतः ॥ ७० ॥ श्रमानुरूपं पिशुने किमुपक्रियते नृपैः । द्विगुणं त्रिगुणं चैवं कृतान्तो लालयिष्यति ॥ ७१ ॥ गोकर्णे भद्रकणे च जपो दुष्कर्मनाशनः । राजकर्णे जपः सद्यः सर्वकर्मविनाशनः ।। ७२ ॥ न स्वार्थ किंचिदिच्छन्ति न प्रेर्यन्ते च केनचित् । परार्थेषु प्रवर्तन्ते शठाः सन्तश्च तुल्यवत् ।। ७३ ॥ कालान्तरे ह्यनर्थाय गृध्रो गेहोपरि स्थितः । खलो गृहसमीपस्थः सद्योऽनर्थाय देहिनाम् ॥ ७४ ॥ शुष्कोपवासो धर्मेषु भैषज्येषु च लङ्घनम् । जपयज्ञश्च यज्ञेषु रोचते लोभशालिनाम् ।। ७५ ॥ किं वक्ष्यतीति धनिको यावदुद्विजते मनः । किं प्रक्ष्यतीति लुब्धोऽपि तावदुद्विजते ततः ॥ ७६ ।। सर्वमातिथ्यशास्त्रार्थ साक्षात्कुर्वन्ति लोभिनः। भिक्षाकवलमेकैकं ये हि पश्यन्ति मेरुवत् ॥ ७७ ॥ १. 'वापि' इति पाठः. २ 'धनिकात्' इति पाठः, काव्यमाला। धनपालः पिशाचो हि दत्ते खामिन्युपस्थिते । धनलुब्धः पिशाचस्तु न कस्मैचन दित्सति ॥ ७८ ॥ दातारोऽर्थिभिरर्थ्यन्ते दातृभिः पुनरर्थिनः । कर्तृकर्मव्यतीहारादहो निम्नोन्नतं कियत् ।। ७९ ।। खस्मिन्नसति नार्थस्य रक्षकः संभवेदिति निश्चित्यैव स्वयमपि भुते लुब्धः कथंचन ॥ ८० ॥ प्रेस्थास्यमानः प्रविशेत्प्रतिष्ठेत्तु दिने दिने । विचित्रानुल्लिखेद्विघ्नांस्तिष्ठासुरतिथिश्चिरम् ॥ ८१ ॥ प्रदीयते विदुष्येकं कवौ दश नटे शतम् । सहस्र दाम्भिके लोके श्रोत्रिये तु न किंचन ।। ८२ ।। घटकं सम्यगाराध्य वैराग्यं परमं वहेत् । यावदर्थाः प्रसिद्धयन्ति यावच्चापलमावृतम् ॥ ८३ ॥ एकतः सर्वशास्त्राणि तुलसीकाष्ठमेकतः । वक्तव्यं किंचिदित्युक्तं वस्तुतस्तुलसी वरा ॥ ८४ ॥ विस्मृतं वाहटेनेदं तुलस्याः पठता गुणान् । विश्वसंमोहिनी वित्तदायिनीति गुणद्वयम् ॥ ८५ ॥ कौपीनं भसितालेपो दर्भा रुद्राक्षमालिका । मौनमेकासनं चेति मूर्खसंजीवनानि षट् ॥ ८६ ॥ वासः पुण्येषु तीर्थेषु प्रसिद्धश्च भृतो गुरुः । अध्यापनावृत्तयश्च कीर्तनीया धनार्थिभिः ॥ ८७ ॥ मन्त्रभ्रंशे संप्रदायः प्रयोगश्युतसंस्कृतौ । देशधर्मस्त्वनाचारे पृच्छतां सिद्धमुत्तरम् ॥ ८८ ॥ १. 'उपागते' इति पाठः. २. 'प्रस्थाप्यमानः' इति पाठः, ३. वाहठो वाग्भटः अष्टाङ्गहृदयकर्ता.
कलिविडम्बनम् । १४१ यथा जानन्ति बहवो यथा वक्ष्यन्ति दातरि । तथा धर्म चरेत्सर्वं न वृथा धर्ममाचरेत् ॥ ८९ ।। सदा जपपटो हस्ते मध्ये मध्येऽक्षिमीलनम् । सर्वं ब्रह्मेति वादश्च सद्यः प्रत्ययहेतवः ॥ ९० ॥ आ मध्याह्न नदीवासः समाजे देवतार्चनम् । सततं शुचिवेषश्चेत्येतद्दम्भस्य जीवितम् ।। ९१ ।। तावद्दीघ नित्यकर्म यावत्स्यादृष्टमेलनम् । तावत्संक्षिप्यते सर्वं यावद्दृष्टा न विद्यते ॥ ९२ ॥ आनन्दबाप्परोमाञ्चौ यस्य खेच्छावशंवदौ । किं तस्य साधनैरन्यैः किंकराः सर्वपार्थिवाः ।। ९३ ॥ दण्ड्यमाना विकुर्वन्ति लाल्यमानास्ततस्तराम् । दुर्जनानामतो न्याय्यं दूरादेव विसर्जनम् ॥ ९४ ॥ अदानमीषदानं च किंचित्कोपाय दुर्धियाम् । संपूर्णदानं प्रकृतिविरामो वैरकारणम् ॥ ९५ ॥ ज्यायानसंस्तवो दुष्टैरीया॑य संस्तवः किले । अपत्यसंबन्धविधिस्त्वनायैव केवलम् ॥ ९६ ॥ ज्ञातेयं ज्ञानहीनत्वं पिशुनत्वं दरिद्रता । मिलन्ति यदि चत्वारि तद्दिशेऽपि नमो नमः ॥ ९७ ।। परच्छिद्रेषु हृदयं परवार्तासु च श्रवः । परमैमणि वाचं च खलानामसृजद्विधिः ॥ ९८ ॥ विषेण पुच्छलग्नेन वृश्चिकः प्राणिनामिव । कलिना दशमांशेन सर्वः कालोऽपि दारुणः ॥ ९९ ।। १. जपस्रग्घस्ते च' इति पाठः. २. पुनः' इति पाठः, ३. मर्मसु' इति पाठः- १४२ काव्यमाला। यत्र भार्यागिरो वेदा यत्र धर्मोऽर्थसाधनम् । यत्र खप्रतिभा मानं तस्मै श्रीकलये नमः ॥ १०० ॥ काममस्तु जगत्सर्वं कालस्यास्य वशंवदम् । कालकालप्रपन्नानां कालः किं नः करिष्यति ॥ १०१ ॥ कविना नीलकण्ठेन कलेरेतद्विडम्बनम् । रचितं विदुषां प्रीत्यै राजास्थानानुमोदनम् ॥ १०२ ॥ इति श्रीनीलकण्ठदीक्षितविरचितं कलिविडम्बनम् । श्रीसोमप्रभाचार्यविरचिता शृङ्गारवैराग्यतरङ्गिणी। सुखबोधिकया वृत्त्या समेता। श्रीपार्श्वनाथं प्रणिपत्य भक्त्या पुरि स्थितं श्रीफलवर्धिकायाम् । शृङ्गारवैराग्यतरङ्गिणी या व्याख्यानतो व्याक्रियते मया सा॥ श्रीसोमप्रभाचार्या वैराग्यवासनया शृङ्गारं दूषयन्तः शृङ्गारवैराग्यतरङ्गि- णीनामानं ग्रन्थं कर्तुकामाः स्त्रीरूपं निन्द्यमिति प्रतिपादयन्त ऊचुः- धर्मारामदवाग्निधूमलहरीलावण्यलीलाजुष- स्तन्वझ्या यमितान्विलोक्य तदहो वालान्किमुत्कण्ठसे । व्यालान्दर्शनतोऽपि मुक्तिनगरप्रस्थानविनक्षमा- न्मत्वा दूरममून्विमुञ्च कुशलं यद्यात्मनो वाञ्छसि ॥१॥ अहो इत्याश्चर्ये । तन्वङ्ग्याः । तनुः सूक्ष्ममङ्गं यस्याः सा तन्वङ्गी। तस्याः स्त्रिया यमितान्बद्धान्वालान्केशान्विलोक्य दृष्ट्वा किमुत्कण्ठसे किमुत्कण्ठां १. कालकालः शिवः, २. श्वेताम्बरजैनोऽयं सोमप्रभाचार्यः. नास्य देश- कालौ ज्ञायते. ३. 'विलोकितुमहो' इति मूलपुस्तकपाठः. ४. 'विमुक्तिनगर इति मूलपुस्तकपाठः, शृङ्गारवैराग्यतरङ्गिणी। - करोषि । कथंभूतान्वालान् । धर्मारामदवाग्निधूमलहरीलावण्यलीलाजुषः । धर्म एवारामो वनं तत्र यो दवाग्निर्दावानलस्तस्य या धूमलहरी धूमश्रेणितस्या यल्लावण्यं श्यामत्वं तस्य लीलां जुषन्ते सेवन्त इति लीलाजुषस्तान् । जुषी प्रीतिसेवनयोर्धातुः । दवाग्निधूमपसिसदृशानित्यर्थः । अथ वैराग्यरसेन शृङ्गारं दूषयति-रे मनुष्य, यदि त्वमात्मनः स्वस्य कुशलं कल्याणं वाञ्छसि तदा- मून्वालान्व्यालान्सन्मित्वा । कृष्णवर्णत्वाल्लम्बायमानत्वाच्च सर्पसादृश्य वालानां युक्तमेव । दूरं विमुञ्च । दूरतस्त्यजेत्यर्थः । सर्प दृष्ट्वा यथा दूरमेव पलायते तथा त्वमपि दूरं पलायस्वेत्यर्थः । किंभूतान्वालान् । दर्शनतोऽपि मुक्तिनगरप्रस्थानविघ्नक्षमान् । मुक्तिरेव नगरं तत्र यत्प्रस्थान गमनं तत्र -विनाय विघ्नं कर्तुं क्षमाः समर्थास्तान् । सर्पस्य दर्शनादेव गमने विघ्नस- मुत्पत्तिरिति शकुनशास्त्रे प्रसिद्धम् । तन्वङ्गया यमितान्वालान्व्यालाञ्जा- नीहि । तथाहि । श्लेषार्थोऽयम्-यकारं इताः प्राप्ताः संयुक्ता वा वाला व्याला भवन्तीति युक्तमेव वालानां व्यालत्वम् । इदं शार्दूलविक्रीडितं नाम च्छन्दः । इति प्रथमपद्यार्थसंकोचः ॥ ये केशा लसिताः सरोरुहदृशां चारित्रचन्द्रप्रभा- भ्रंशाम्भोदसहोदरास्तव सखे चेतश्चमत्कारिणः । केशान्मूर्तिमतोऽवगम्य नियतं दूरेण तानुत्सृजे- नों चेत्कष्टपरम्परापरिचितः शोच्यां दशामेष्यसि ॥२॥ हे सखे, सरोरुहदृशां सरोरुहाणि कमलानीव दृशो नेत्राणि यासां ताः सरोरुहशस्तासां स्त्रीणां ये लसिता देदीप्यमानाः केशास्तव चेतश्चमत्कारि- णश्चित्तप्रसत्तिकारिणः । वर्तन्त इति शेषः । किंभूताः केशाः । चारित्रचन्द्र- प्रभादंशाम्भोदसहोदराः । चारित्रमेव चन्द्रप्रभा ज्योत्स्ना तस्या भ्रंशे नाशने अम्भोदो मेघस्तस्य सहोदराः सदृक्षाः । केशानां श्यामत्वादम्भोदसदृशत्वम् । तान्केशान्मूर्तिमतश्चक्षुरिन्द्रियगम्यान्क्लेशान् । नियतं निश्चयेनावगम्य बुढा दूरेण दूरादेव त्वमुत्सृजेस्त्यजेः । नो चेदिति यदि न त्यजसि तदा त्वं शोच्यां शोचनीयां दशामवस्थामेष्यसि प्राप्स्यसि । किंभूतस्त्वम् । कष्टपरम्परापरि- । १. 'अवगत्य नियतं दूरे च' इति मूलपुस्तकपाठः.
१४४ काव्यमाला। । . चितः कष्टानां या परम्परा श्रेणिस्तया परिचितो युक्तः । स्त्रीणां केशान्केशा- ज्ञात्वा त्यजेत्यर्थः । केशाः क्लेशाः कथं स्युरिति प्रश्ने । लसिताः लेन लका- रेण सिता बद्धाः केशाः क्केशा भवन्तीत्यर्थः ॥ ये शुद्धबोधशशिखण्डनराहुचण्डा- श्चित्तं हरन्ति तव वक्रकचाः कृशाझ्याः । ते निश्चितं सुकृतमर्त्यविवेकदेह- निर्दारणे ननु नवक्रकचाः स्फुरन्ति ॥ ३ ॥ हे पुमन् , कृशाङ्गयाः कृशं सूक्ष्ममङ्गं यस्याः सा तस्या ये वक्रकचा वक्र- केशास्तव चित्तं हरन्ति । तव चेतसि चमत्कारमुत्पादयन्तीत्यर्थः । कथंभूता वक्रकचाः । शुद्धबोधशशिखण्डनराहुचण्डाः । शुद्धबोधो निर्मलज्ञानं स एव शशी तस्य खण्डनेऽर्थात्कवलने राहुरिव चण्डाः क्रूराः शुद्धबोधशशिखण्ड- नराहुचण्डाः । फलितार्थस्तु राहुर्यथा चन्द्र ग्रासीकरोति तथा एते वक्रकचा ज्ञाननाशका इत्यर्थः । ननु निश्चितं ते वक्रकचाः सुकृतमर्त्यविवेकदेहनिर्दारणे। सुकृतमेव मर्त्यस्तस्य यो विवेक एव देहस्तस्य निरिणे नवक्रकचाः । नवाश्च ते क्रकचाश्च नवक्रकचाः । नूतनकरपत्राणि । 'क्रकचं पुनपुंसकम् । करपत्रं च' इति नामकोषः । स्फुरन्ति स्फुरद्रुपा वर्तन्ते इत्यर्थः । अत्र ऋकचाः नवक्र- कचा इति भिन्नश्लेष एव चमत्कारः । वसन्ततिलकाछन्दः॥ अलंकृतं कुन्तलभारमस्या विलोक्य लोकः कुरुते प्रमोदम् । वैराग्यवीरच्छिदुरं दुरन्तममुं न किं पश्यसि कुन्तभारम् ॥ ४ ॥ अस्या नायिकायाः कुन्तलभारं बद्धकेशसमूहम् । 'कुन्तलाः संयता ये स्युः' इति कोषः । विलोक्य लोकः प्रमोदं हर्ष कुरुते । कथंभूतं कुन्तल- भारम् । अलंकृतं पुष्पादिना संस्कृतम् । अमुं कुन्तलभारं कुन्तभारम् । 'कुन्तः प्रासोऽथ मुद्गरः' इति नामकोषः । किं न पश्यसि । कथंभूतं कुन्त- भारम् । वैराग्यमेव वीरः सुभटस्तस्य छिदुरश्छेदनशीलस्तम् । पुनः कथंभूतं कुन्तभारम् । दुरन्तम् । दुष्टमन्तं प्रान्तं यस्य तम् । अन्ते तीक्ष्णत्वाद्दुःसह- मित्यर्थः। कुन्तलभारः कुन्तभारः कथं स्यात् । न विद्यते लः लकारो यस्य । । । ।
शृङ्गारवैराग्यतरङ्गिणी। १४५ । । सोऽलस्तं अलं कृतं विहितम् । लकाररहितः कुन्तलभारः कुन्तभारः स्यादे- वेत्यर्थः । उपेन्द्रवज्ञानाम च्छन्दः ॥ कस्तूरिकातिलकितं तुलिताष्टमीन्दु चित्ते विचिन्तयसि सौख्यनिमित्तमेकम् । वामझुवां यदलिकं तदहो अलीक- मित्याख्ययैव परया प्रवदन्ति रूपम् ॥ ५ ॥ वामध्रुवां स्त्रीणां यदलिकं ललाटमेकमद्वितीयं सौख्यनिमित्तं सुखकारणं चित्र विचिन्तयसि । कथंभूतमलिकम् । कस्तूरिकातिलकितम् । तिलकं जातं यस्य तत्तिलकितम् । कस्तूरिकया तिलकितम् । पुनः कथंभूतमलिकम् । तुलिताष्टमीन्दु । तुलितोऽष्टम्या इन्दुर्येन तत् । अष्टमीचन्द्रसदृशमित्यर्थः । अहो इत्याश्चर्ये । तदलिकं परया अन्यया आख्यया नान्ना अलीकमिति रूपं वदन्ति बुधाः । 'गोधिलेलाटालिके चालीकं श्रवणमस्त्रियाम्' इति नाम- कोषः । अलिकं अलीकमित्युभयं नाम ललाटस्य । अलीकं मृषावचः। अलिक अलीकं मिथ्या जानीहीत्यर्थः ॥ न बेरियं पङ्कजलोचनायाश्चकास्ति शृङ्गाररसैकपात्रम् । भूः किं त्वसौ साधुतरा प्रसूते निवन्धनं मोहविषद्रुमस्य ॥६॥ पङ्कजलोचनायाः कमलाक्ष्या इयं भ्रून चकास्ति न शोभते । कथंभूता भ्रूः । शृङ्गाररसैकपात्रं शृङ्गाररसस्य एकमद्वितीयं पात्रं स्थानम् । अजहल्लि- ङ्गत्वानपुंसकत्वम् । किं त्वसौ भ्रूः साधुतरा अतिशयेन साध्वी साधुतरा । तरतमेति पुंवद्भावः । श्रेष्ठतरा भूः भूमिः सा मोहविषद्रुमस्य मोह एव विष- द्रुमस्तस्य निबन्धनं आविर्भावं प्रसूते उत्पादयति । भ्रkः कथमिति प्रश्ने सा प्रसिद्धा भ्रूः । धुतरा । धुतो गतो रो रेफो यस्था ईदृशी भूर्भूर्भवतीत्यर्थः । इन्द्रवज्रानाम च्छन्दः ॥ नवकुवलयदामश्यामलान्दृष्टिपाता- कृतपरमदनाशान्विक्षिपत्यायताक्षी । १. "वदति खरूपम्' इति मूलपुस्तकपाठः, २. "निर्वन्धन' इति सूलपुस्तक- ३. 'मयि कुवलय' इति मूलपुस्तकपाठः. पाठः. १० पंच० काव्यमाला। । इति वहसि मुदं किं मोहराजप्रयुक्ता- प्रशमभटवधार्थं विध्यमून्दृष्टिपातान् ॥ ७ ॥ आयताक्षी । आयते विस्तीर्णे अक्षिणी यस्याः सा एवंविधा मामुद्दिश्य दृष्टिपातान्कटाक्षान्विक्षिपति प्रयुते । किंविशिष्टान्दृष्टिपातान् । नवकुवलयदा- मश्यामलान् । नवानि यानि कुवलयानि तेषां दाम माला. तद्वच्छयामला: कृष्णास्ताञ्झ्यामलान् । पुनः किंविशिष्टान्दृष्टिपातान् । कृतपरमदनाशान्कृतः परमदस्य नाशो यैस्तान् । इति मुदं हर्ष किं वहसि प्राप्नोषि । अमून्दृष्टिपा- तान्प्रशमभटवधार्थ प्रशमः शान्तिभावः स एव भटस्तस्य वधार्थम् । मोहरा- जप्रयुक्तान् । मोह एव राजा मोहराजः । 'राजाहःसखिभ्यष्टच्' समासान्तः । तेन प्रयुक्तान् ऋष्टिपातान् तरवारिपातान् । 'तरवारिरपि द्वौ च ऋष्टिरिष्टी अखण्डको' इति नामकोषः । विद्धि जानीहि । दृष्टिपातान् ऋष्टिपातान् जानीहि । तत्कथम् । कृतपरमदनाशान् । कृतः परमः सर्वात्मना दस्य दका- रस्य नाशो यत्र ते कृतपरमदनाशास्तान् । दृष्टिपातशब्दे दकारनाशे ऋष्टिपात इति स्यादेव । मालिनीनाम च्छन्दः ॥ तस्याः कोपपदं यदाननमहोरात्रं स्मरन्नात्मनः संतापं वितनोषि काननमहो ज्ञात्वा सखे तत्त्यजेः । एतस्मिन्वसता मनोभवमहासर्पण दष्टः पुमा- कार्याकार्यविवेकशून्यहृदयः कस्को न संजायते ॥ ८ ॥ हे सखे, तस्याः स्त्रिया यत् आननं मुखं अहोरात्रं सरन् स्मृतिविषयं कुर्वन् त्वं आत्मनः स्वस्य संतापं वितनोषि विस्तारयसि । कथंभूतं आननम् । कोपपदं कोपस्य पदं स्थानं तत् आननं अहो इति खेदे काननं वनं ज्ञात्वा त्वं त्यजेः । एतस्मिन्कानने वसता स्थितिं कुर्वता मनोभवमहासर्पण मनो- भवः कामः स एव महासर्पस्तेन पुमान् दष्टः सन् कस्कः । सर्वस्य द्वे' इति द्वित्वम् । कस्कादित्वात्सत्वम् । कार्याकार्यविवेकशून्यहृदयः । कार्य चाकार्य १. 'येनास्मिन्' इति मूलपुस्तकपाठः, २. 'कः कोऽत्र नो जायते' इति मूलपुस्तकपाठः. - शृङ्गारवैराग्यतरङ्गिणी। १४७ - .. च कार्याकार्ये तयोविवेकस्तेन शून्यं हृदयं यस्य स तथा न संजायते। सर्प- विषेण मूर्छितः पुमान् शून्यहृदयो भवति । अयं तु महासर्पण दष्टस्तस्य किं वाच्यम् । आननं काननं कथमिति प्रश्ने । आननं कोपपदं कः ककार उपपदं यस्य तदा काननं स्यादेवेत्यर्थः ।। साकारमालोक्य मुखं तरुण्याः किं मुग्धबुद्धे मुदमादधासि । इदं हि चित्तभ्रमनाटकस्य विचक्षणैरामुखमाचचक्षे ॥ ९॥ हे मुग्धबुद्धे, मुग्धा बुद्धिर्यस्य तत्संबोधनम् । तरुण्या मुखं आलोक्य कि मुदं हर्ष आदधासि धारयसि । कथंभूतं मुखम् । साकारम् । आकारेण सह वर्तमानं साकारम् । सुन्दरमित्यर्थः । हि निश्चितम् इदं मुखं विचक्षणैर्विद्वद्भिः चित्तभ्रमनाटकस्य चित्तभ्रम एव नाटकं तस्य आमुखमाघारम्भं आचचक्षे, इत्यत्र कर्मणि लिट् । मुखम् । आमुखं वित्थम्-साकारं आकारेण सह वर्त- मानं मुखं आमुखं स्यादित्यर्थः ॥ कामज्वरातुरमते तव सर्वदास्यं वामध्रुवां यदि कथंचिदवाप्तुमिच्छा । यत्नं विनाप्यखिलजन्मपरम्परासु तज्जातमेव भवतो ननु सर्वदास्यम् ॥ १० ॥ हे कामज्वरातुरमते । कामज्वरेण आतुरा मतिर्यस्य तत्संबोधनं हे काम- ज्वरातुरमते । सर्वदा सर्वस्मिन्काले यदि तव वामध्रुवां स्त्रीणां आस्यं मुखं कथंचित्केनापि प्रकारेण अवाप्तुं प्राप्तुमिच्छा वर्तते तदा ननु निश्चितं यत्रं विनापि अखिलजन्मपरम्परासु । जन्मनः परम्पराः श्रेणयः । अखिला या जन्यपरम्परास्तासु । 'भवतस्तव' सर्वदास्यम् । दासस्य भावो दास्यं सर्वेषां भृत्यत्वं जातमेव । स्त्रीमुखदत्तचित्तस्य तव सर्वजनानां दासत्वं जातमेव । 'अत्र पद्ये उभयत्र सर्वदास्यमिति पदस्य भिन्नार्थत्वमेव चित्रम् । वसन्तति- लका नाम च्छन्दः ॥ तस्याः साधुरदं विलोक्य वदनं यः संश्रयत्यञ्जसा मुक्त्वा मुक्तिपथं हहा प्रविशति भ्रान्त्या सदुर्ग वनम् । १. "विघ्नपरम्परासु' इति मूलपुस्तकपाठः.
काव्यमाला। तच्चात्यन्तमचारुबद्धवसतिर्येनात्र रागादिभि- चौरैर्धर्मधनापहारकरणात्कष्टं न किं प्राप्यते ॥ ११ ॥ यः पुमान् तस्याः स्त्रिया वदनं मुखं साधुरदं साधवः समीचीना रदा यस्मिन् तत् तथा विलोक्य अञ्जसा वेगेन संश्रयति आश्रयति स पुमान् हहा इति खेदे। मुक्तिपथं मुक्तिमार्ग मुक्त्वा भ्रान्त्या भ्रमेण दुर्ग दुःखेन गमनाह वनं प्रविशति । तद्वन अत्यन्तं अन्तमतिक्रान्तम् । अप्रमाणमित्यर्थः । कथं- भूतः सः। अचारुबद्धवसतिः । न चारुरचारुः बद्धा वसत्तिर्येन सः । येन वन प्रविशता पुरुषेण अन्न वने कष्टं किं न प्राप्यते । कस्मात् । रागादिभि- औरधर्मधनापहारकरणात् । धर्म एव धनं धर्मधनं तस्यापहारः हरणं तस्य करणं तस्मात् । चौरा हि धनमपहृत्य वनं प्रविशन्ति तदा कष्टं स्पष्टमेव । तत्र वदनं कथं वनमिति प्रश्ने । यः साधुः अदं न विद्यते दकारो यसिन् तत् अदम् । दकाररहितं वदनं वनं स्यादेव ॥ यियाससि भवोदधेर्यदि तटं तदेणीदृशा- महीनमधरं धरै परिहरेः परं दूरतः । इँहास्फलनतोऽन्यथा विशदवासनानौस्तव व्रजिष्यति विशीर्णतां न भविता ततो वाञ्छितम् ॥१२॥ हे पुमन् , यदि त्वं भवोदधेः संसारसमुद्रस्य तटं पारं यियाससि यातु- मिच्छसि । यातेः सन्नन्तान्मध्यमपुरुषैकवचनरूपम् । तदा एणीदृशां एणी हरिणी तस्या देश इव दृशो यासां तास्तासां अधरं धरं पर्वतं दूरतो दूरात्परं त्वं परिहरेः । किंभूतमधरम् । अहीनं परिपूर्ण अमृतादिना । अन्यथा यदि न परिहरसि तर्हि इह पर्वते आस्फलनतः संघटनात् तव विशदवासना निर्म- लवासना सैव नौः विशीर्णता भङ्गतां ब्रजिष्यति । ततस्त्वद्वान्छितं म भविता न भविष्यति । यथा समुद्रमध्ये पर्वतास्फलनानावि भन्नायां वान्छितं न भवेत्तथेत्यर्थः । अधरै परं कथमिति प्रश्ने उत्तरम् । अहीनं एन अकारेण हीनं १. 'यत्रात्यन्त' इति मूलपुस्तकपाठः. २. 'प्रापितः' इति मूलपुस्तकपाठः. ३. 'इह स्खलनतो' इति मूलपुस्तकमाठः. । - ।
शृङ्गारवैराग्यतरङ्गिणी। १४९ : । अधरं धरं स्यादेव । 'सानुमान्पर्वतो धरः' । 'धरः शैलस्तथोदयः' इति कोषः । पृथ्वीनाम च्छन्दः ॥ न भातीदं भ्रातः स्फुरदरुणरत्नौघकिरण- प्रतानं तन्वङ्ग्यास्तरलतरलं कुण्डलयुगम् । दमं दुग्धं पुंसामिह विरहसंयोगदशयो- चलच्छोकानङ्गज्वलनयुगिदं कुण्डयुगलम् ॥ १३ ॥ हे प्रातः, तन्वङ्गयाः कृशाझ्या इदं कुण्डलयुगं कुण्डलस्य कर्णाभरणस्य युग न भाति न शोभते । कथंभूतं कुण्डलयुगम् । स्फुरदरुणरलौघकिरणप्रतानं स्फुरन्तो देदीप्यमाना ये अरुणरत्नौघा रक्तरलसमूहास्तेषां ये किरणास्तेषां प्रतानं समूहो यस्मिंस्तत् । पुनः कथंभूतं कुण्डलयुगम् । तरलतरलम् । तरलाञ्चञ्चला- त्तरलं चञ्चलम् । चञ्चलतरमित्यर्थः । कथंभूतं कुण्डलयुगलम् । विरहसंयोगद- शयोः । स्त्रीपुंसयोः संयोगाभावाद्विरहोत्पत्तिः। विरहश्च संयोगश्च विरहसंयोगौ तयोर्दशे अवस्थे तयोः । शोकानङ्गज्वलनयुक् । शोकश्चानङ्गज्वलनश्च शोकानङ्ग- ज्वलनौ ताभ्यां युक् । विरहे शोकाविर्भावः, संयोगे कामाग्नेराविर्भाव इत्यर्थः । कुण्डलयुगलं किं कुर्वत् । इह संसारे पुंसां पुरुषाणां दममुपशमं दुग्धं पयः। ज्वलत्कुण्डलयुगं कुपडयुगलं कथं तन्नोच्यते । तरलतरलश्चञ्चलतरो लो लका- रो यस्मिन् । कुण्डशब्दाल्लकारे कुण्डलयुगस्य चञ्चलत्वात् युगशब्दात्परतः स्थिते सति कुण्डयुगलं स्यादित्यर्थः । शिखरिणीनाम च्छन्दः ॥ ताडकं सस्पृहं तस्याः पश्यन्मूढः परे भवे । नरो नरकपालेभ्यस्ताई कं न सहिष्यते ॥ १४ ॥ मूढो नरस्तस्याः स्त्रियाः सस्पृहं साभिलाषं यथा स्यात्तथा ताडकं कर्णभू- षणं पश्यन् परे भवे आगामिभवे नरकपाळेभ्यः नरकान् पालयन्ति ते नरक- पालास्तेभ्यः परमाधार्मिकेभ्यः कं ताडं ताडनं ताड़ आघातस्तं कं न सहिष्यते, अपि तु सर्व सहिष्यते । अनुष्टुप् च्छदः ॥ १. 'दग्धु' इति मूलपुस्तकपाठ एव समीचीनः, टीकाकारस्त्वशुद्धमेव व्या- ख्यातवान्. २, 'संभोग' इति मूलपुस्तकमा.. ३. 'युगदं' इति मूलघुस्तकपाट १५० काव्यमाला : सारं गलं यमरविन्दविलोचनाना- मालोक्य चेतसि मुदं कलयन्ति मूढाः । हा निश्चितं रचितमुक्तिपुरप्रवेश- व्यासेधमर्गलममुं न विचारयन्ति ॥ १५ ॥ मूढा मूर्खा नरा अरविन्दविलोचनानां कमलनयनानां स्त्रीणां यं सारं श्रेष्ठं गलं निगरणं विलोक्य । चेतसि मुदं हर्ष कलयन्ति प्रामुवन्ति । हा इति खेदे । निश्चितं नियमेन अमुं गलं अर्गलं न विचारयन्ति । कथंभूतं अर्गलम् । रचितमुक्तिपुरप्रवेशव्यासेधं रचितो विहितो मुक्तिनगरप्रवेशस्य व्यासेधो निषेधो येन स तं रचितमुक्तिपुरप्रवेशव्यासेधम् । गलं अर्गलं त्वित्थम् । सारं अरा अशब्देन सह वर्तते यः स सारस्तं सारम् । अरूसहितो गलः अर्गलः स्यादित्यर्थः ॥ अलं प्राप्य स्पर्श कुचकलशयोः पङ्कजदृशां परां प्रीति प्रातः कलयसि सुधामन इव किम् । अवस्कन्दं धर्मक्षितिपकटके दातुमनसा प्रयुक्तं जानीयाः कलुषवरटेन स्पशमिमम् ॥ १६ ॥ पङ्कजदृशां कमलनयनानां स्त्रीणां कुचकलशयोः स्तनयोः अलं अत्यर्थ स्पर्श प्राप्य हे भ्रातः, किं परामुत्कृष्टां प्रीति कलयसि प्राप्नोषि । क इव । सुधामन्न इव अमृते कृतमजन इव । इमं स्पर्श कलुषवरटेन कलुषं पापं तदेव वरटो भिल्लस्तेन प्रयुक्तं प्रेरितं स्पर्श हेरिकं त्वं जानीयाः । कथंभूतेन कलुषवरटेन । धर्मक्षितिपकटके धर्म एव क्षितिपो राजा तस्य कटके सैन्ये अवस्कन्दं प्रहरणं दातुमनसा । प्रहरणं कर्तुमनसेत्यर्थः । स्पर्श स्पर्श कथ- मिति । अलं रलयोश्चैकत्वस्मरणात् अरं नास्ति रो रेफो यत्र तं अरम् । रेफ- रहितस्पर्श स्पशं स्यादित्यर्थः ॥ । १. 'यदरविन्द' इति मूलपुस्तकपाठः, पाठः, ३. 'अरं' इति मूलपुस्तकपाठः, २. 'तनिश्चितं' इति मूलपुस्तक- ४. 'चरटेन' इति मूलपुस्तकपाठः, शृङ्गारवैराग्यतरङ्गिणी। १५१ 'पीनोन्नतं स्तनतट मृगलोचनाया आलोकसे नरहितं यदपूर्वमेतत् । मोहान्धकारनिकरक्षयकारणस्य विद्यास्तदस्ततटमेव विवेकभानोः ॥ १७ ॥ यत् मृगलोचनायाः हरिणाक्ष्याः स्त्रियाः एतत् स्तनतटं कुचद्वन्द्वं पीनोन्नतं पीनं च तदुन्नतं च पीनोन्नतम् , पुनः नरहितं नरेभ्यो हितम् , पुनः अपूर्वम्। प्रतिक्षणं चमत्कारहेतुत्वात् । त्वं आलोकसे पश्यसि, तत्स्तनतटं विवेकभानोः विवेकसूर्यस्य अस्ततटं त्वं विद्याः । अत्र ज्ञानसूर्योऽस्ततामेष्यतीत्यर्थः । कथंभू- तस्य विवेकभानोः । मोहान्धकारनिकरक्षयकारणस्य मोह एवान्धकारस्तस्य यो निकरः समूहस्तस्य क्षयकारणं तस्य मोहान्धकारनिकरक्षयकारणस्य । स्तनतट- मिति विशेषणद्वयेन अस्ततटं साधयति-नरहितं नेन नकारेण रहितम् , पुनः अपूर्व अ: अकारः पूर्वो यस्य तत् अपूर्व एतादृशं स्तनतटं अस्ततटं स्यादेवेत्यर्थः॥ कंदर्पद्विपकुम्भचारुणि कुचद्वन्द्वे मृगाक्ष्या मया न्यस्तो हस्त इति प्रमोदमदिरामाद्यन्मना मा स्म भूः । किं त्वा जन्म यदर्जितं बहुविधामभ्यस्य कष्टक्रियां हस्तोऽयं सुकृतस्य तस्य सहसादायीति संचिन्तयेः ॥ १८ ॥ मया मृगाक्ष्याः स्त्रियाः कुचद्वन्द्वे स्तनयुग्मे हस्तो न्यस्तः करः स्थापितः । कथंभूते कुचद्वन्द्वे । कंदर्पद्विपकुम्भचारुणि कंदर्प एव द्विपस्तस्य कुम्भो गण्ड- स्थलं तद्वच्चारु मनोज्ञं तस्मिन्कंदर्पद्विपकुम्भचारुणि । इति हेतोः प्रमोदमदि- १. 'पीनोन्नतं नरहितं यदपूर्वमेतदालोकसे स्तनतटं मृगलोचनायाः' इति मूल- पुस्तकपाठः. २. मूलपुस्तकेऽस्मात्पद्यादनन्तरं 'एतस्या युवतेः पयोधरयुगं व- ल्गन्महात्मन्निदं चक्रे योधयुगं विरश्चिरपरं विश्वापकारोद्यतः । कुर्वधर्मगुणेष्व- योगमनतिक्रामन्निजां स्तब्धतां यदूरादपि कल्पयत्युपशमप्राणापनोदं नृणाम् ॥" अयं श्लोकोऽधिकोऽस्ति. अत्र अपरमन्यत्पयोधरयुगम् , अन्यत्र पकार-रेफर- हितं पयोधरयुगं योधयुगं भवति. वर्मगुणेति धनुर्जीवावाणेषु योगं संवन्धं न करोतीत्यर्थः, १५२ काव्यमाला। रामाद्यन्मनाः प्रकृष्टो यो मोदः स एव मदिरा तया माद्यन्मनो यस्य स एता- दृशस्त्वं मा स्म भूः । 'माङि लुङ्' इति लुङ् । 'न माङ्योगे' इत्यडागमा- भावः । किं तु बहुविधां तपोनुष्ठानादिरूपां कष्टक्रियां कष्टसाध्या क्रिया कष्ट- क्रिया तां कष्टक्रियाम् अभ्यस्य अभ्यासं कृत्वा आजन्म यदर्जितं जन्मनो मर्यादीकृत्य यत्सुकृतमर्जितं तस्य सुकृतस्य त्वया अयं हस्तो अदायि दत्तः । यथा कस्य आजिगमिषोः हस्तप्रदानं संज्ञया निषेधयति तथा हस्तदानेन सु- कृतं निषिद्धं इति त्वं संचिन्तयेः विचारयरित्यर्थः । अत्र पद्ये हस्तो न्यस्तः सुकृतस्य हस्तोऽदायीति चित्रकृत् ॥ कण्ठोपकण्ठे लुलितं विभावयेर्भुजं युवत्या भुजगं गराजितम् । एतस्य संस्पर्शवशादपि क्षणादशेषचैतन्यमुपैति संक्षयम् ॥ १९ ॥ कण्ठोपकण्ठे कण्ठस्य गलस्य समीपे कण्ठोपकण्ठे लुलितं वलितं युव- त्याः स्त्रिया भुजं बाहुं भुजगं सर्प त्वं विभावयेर्जानीयाः । कथंभूतं भुज- गम् । गराजितं गरेण विषेण अजितो गराजितस्तम् । एतस्य भुजगस्य संस्प- विशात् स्पर्शमात्रेणापि अशेषं समस्तं चैतन्यं चेतनाया भावः क्षणात् संक्षयं नाशं उपैति प्राप्नोति । यथा भुजगस्पर्शाच्चैतन्यं याति तथा युक्त्या भुजस्पर्शादेव चैतन्यनाशः स्यादित्यर्थः । भुजं भुजगं कथं स्यादिति प्रश्ने भुजं गराजितं गेन गकारेण राजितं भुजं भुजगं स्यादित्यर्थः । इन्द्रवंशा नाम च्छन्दः ॥ कण्ठावसक्ते कुपिते नवाही वरं बहिःप्राणहरे प्रमोदः । विध्वस्तधर्मान्तरजीविते नुः स्त्रैणे न बाहौ विदुषां स युक्तः ॥२०॥ नुः पुरुषस्य नवाही नवश्वासावहिश्च नवाहिस्तस्मिन्नवीनस कण्ठावसक्ते कण्ठस्थापिते वरं श्रेष्ठम् । कथंभूते नवाहौ । कुपिते क्रुद्धे । पुनः कथंभूते नवाही । बहिःप्राणहरे । बहिःप्राणान्हरतीति बहिःप्राणहरस्तस्मिन्बाझप्राण- नाशके । स्त्रैणे स्त्रीणामयं स्वैणस्तस्मिन् । 'स्त्रीपुंसाभ्यां नमजो' इति नन्प्रत्यये आदिवृद्धौ णत्वे स्त्रैणशब्दसिद्धिः । बाहौ भुजे कण्ठावसक्ते सति यः प्रमोदो हर्षः स विदुषां पण्डितानां युक्तो न । कथंभूते बाहौ । विध्वस्तधर्मान्तरजी- । । १. 'तु' इति मूलपुस्तकपाठः.
शृङ्गारवैराग्यतरङ्गिणी । .. विते विध्वस्त नाशितं धर्म एव अन्तरजीवितं येन तस्मिन् । अन्तरमाणना- शक इत्यर्थः । अहिस्तु कण्ठावसक्तः सन् बहिःप्राणान्नाशयति, स्त्रीणां बाहुः कण्ठावसक्तः सन् अन्तरप्राणनाशं विधत्ते । अतः सादप्यधिकतरदुःखदं स्वीकृतालिङ्गनमित्यर्थः । अत्र नवाहावित्युभयत्र चित्रकृत् । वबयोरभेदस्तु आलंकारिकैरिष्ट एव ॥ कोऽयं विवेकस्तव यन्नतभ्रुवां दोषावगूढः प्रमदं विगाहसे । यतः स्मरातङ्कपरीतचेतसां किं सुन्दरासुन्दरयोविवेचनम् ॥ २१ ॥ हे साधो, अयं तव को विवेकः यत् नतध्रुवां नते नम्रीभूते ध्रुवौ यास- ता नतध्रुवस्तासां स्त्रीणां दोषा बाहुनावगूढ आलिङ्गितः सन् त्वं प्रमदं प्रकृां ष्टमदं विगाहसे प्राप्नोषीत्यर्थः । यतो यस्मात् सरातङ्कपरीतचेतसां स्मरः कामः स एव आतङ्को रोगस्तेन परीतं व्याप्तं चेतो येषां तेषां पुरुषाणां सुन्द- रासुन्दरयोः समीचीनासमीचीनयोः किं विवेचनम् । अपस्मारादिरोगग्रस्तानां शुभाशुभे विवेको न भवतीति युक्तमेव । पक्षे दोषैरवगूढो दोषावगूढः । विवेकदोषयुक्त इत्यर्थः ॥ हंहो विलोक्य परमङ्गदमङ्गनाना- मानन्दमुद्हसि किं मदनान्धबुद्धे । सत्यं विवेकनिधनैकनिमित्तमेते- न्मेधाविनो हि परमं गदमुद्गुणन्ति ॥ २२ ॥ हंहो इति संबोधने । हे मदनान्धबुद्धे, मदनेन कामेन अन्धीभूता बुद्धि- यस्य तस्य संबोधने । अङ्गनानां प्रधानमङ्गं यासां, तासामङ्गनानां परमुत्कृष्टं अङ्गदं केयूरं विलोक्य दृष्ट्वा आनन्दं किमुट्ठहसि प्राप्नोषि । मेधाविनः पण्डिता एतत् अङ्गदं परममुत्कृष्टं गदं रोगमुद्गणन्ति प्रजल्पन्ति तत्सत्यम् । कथंभूतं गदम् । विवेकनिधनैकनिमित्तं विवेको ज्ञानं तस्य निधनस्य नाशनस्य एकम- द्वितीयं निमित्तं कारणम् । गदो हि निधनैकहेतुर्भवत्येव । अत्र पद्ये उभयत्र परमङ्गदमिति पदं भिन्नार्थत्वाञ्चित्रकृत् ॥ .. । १. 'यद्वा' इति मूलपुस्तकपाठः. २. 'एन' इति मूलपुस्तकपाठः, । भूतस्य एनसः । सुकृतचमू सुकृतस्य शील १५४ काव्यमाला। अयं जनो वलयभरं विलोकते मृगीदृशामधिभुजवल्लि बालिशः । नै बुध्यते सुकृतच जिगीषतः समुद्यतं बलभरमेनमेनसः ॥२३॥ अयं प्रत्यक्षगतो बालिशो मूर्यो जनो मृगीदृशां स्त्रीणां वलयभरं वलयानां भरस्तं अधिभुजवल्लि भुजावेव वल्लिस्तस्यामिति अधिभुजवल्लि । विभक्त्य- थेऽव्ययीभावः । भुजलतायामित्यर्थः । विलोकते पश्यति । एनं वलयभरं एनसः पापस्य समुद्यतं सावधानीभूतं बलभरं सेनासमूहं न बुध्यते । कथं- मिच्छतः । कथं वलयभरं बलभरमिति तत्रोच्यते-कथंभूतं वलयभरम् । अयं न विद्यते यो यकारो यस्मिन् सः अयस्तमयम् । यकाररहितमित्यर्थः । रुचिरा नाम च्छन्दः ॥ ये दृक्पथे तव पतन्ति नितम्बिनीनां कान्ताः करा जडिमपल्लवनप्रवीणाः । नो वेत्सि तान्किमपवर्गपुरप्रयाण- प्रत्यूहकारणतया करकानवश्यम् ॥ २४ ॥ तव दृक्पथे दृष्टिमार्गे नितम्बिनीनां स्त्रीणां कान्ता मनोज्ञाः करा हस्ताः । नितम्बिनीनामिति संबन्धे बहुत्वात् करा इति बहुत्वम् । पतन्ति अवलोक- नतां गच्छन्ति । कथंभूताः कराः । जडिमपल्लवनप्रवीणाः जडिम्नो जडताया यत्पल्लवनं प्रकटीकरणं तत्र प्रवीणाश्चतुराः । तान् करान् अवश्यं निश्चयेन कर- कान् घनोपलान् किं नो वेत्सि न जानासि । कया।अपवर्गपुरप्रयाणप्रत्यूहकार- णतया अपवर्गो मोक्षः स एव पुरं नगरं तस्मिन् प्रयाणं गमनं तत्र यः प्रत्यूहो विघ्नस्तत्र यत्कारणं निदानं तस्य भावस्तत्ता तया अपवर्गपुरप्रयाणप्रत्यूहकार- णतया । गमनकाले करकवृष्टिः स्वेष्टसिद्धौ विघ्नकारणं प्रसिद्धमेव । उक्तं च वसन्तराजशाकुने–'क्षीणचन्द्रतिथि दुःसहानलं दूषितं धरणिकम्पनादिना । पूर्ववज्जलदसंकुलाम्बरं वर्जयेच्छकुनदर्शने दिनम्' इति । अकालवृष्टिर्गमने निषिद्धा । करकपतनं त्ववश्यं वयमेव । करान् करकान् कथमिति प्रश्नोत्त- .. - १. 'जिगीषतः सुकृतचमूं समुद्यतं न बुध्यते' इति मूलपुस्तकपाठः.
शृङ्गारवैराग्यतरङ्गिणी। १५५ । रम् । कथंभूताः कराः । कान्ताः ककारान्ता इत्यर्थः । तादृशाः कराः करका भवन्त्येवेत्यर्थः ॥ नीव्याप्तमस्या हरिणेक्षणाया यं वीक्ष्य हारं हृदि हर्षमेषि । विवेकपङ्केरुहकाननस्य तमेव नीहारमुदाहरन्ति ॥ २५ ॥ अस्या हरिणेक्षणाया हरिणस्य ईक्षणमिवेक्षणं यस्यास्तस्याः यं हारं वीक्ष्य त्वं हृदि हृदये हर्ष प्रमोदं एषि प्राप्नोषि । कथंभूतं हारम् । नीव्यातं नीवी वसनग्रन्थि आप्तं प्राप्तं नीव्याप्तम् । नीवीपर्यन्तं लम्बायमानमित्यर्थः । बुधाः तं हारमेव विवेकपङ्केरुहकाननस्य विवेक एव पङ्केरुहं कमलं तस्य काननं वर्न तस्य नीहारं हिमं उदाहरन्ति कथयन्ति । नीहारो यथा कमलकाननस्य दाहक- स्तथायं हारः । हृदि हारवर्णनं विवेकनाशकमित्यर्थः । हारं कथं नीहार- मिति प्रश्ने तत्रोच्यते-कथंभूतं हारम् । नीव्याप्तं नीशब्देन व्याप्तं नीव्यासं एतादृशं हारं नीहारं स्यात् ॥ विलोक्य किं सुन्दरमङ्गनोदरं करोषि मोहं मदनज्वरातुर । नो ईक्षसे दुर्गतिपातसंभवं भवान्तरे भाविनमङ्ग नो दरम् ॥२६॥ हे मदनज्वरातुर, मदनः कामः स एव ज्वरस्तेन आतुरस्तस्य संबोधनम् । सुन्दरं दर्शनार्ह अङ्गनोदरं अङ्गनाया उदरं विलोक्य त्वं किं मोहं करोषि । अङ्गेत्यामन्त्रणे । भवान्तरे आगामिभवे भाविनं भवनशीलं दरं भयं किं नो ईक्षसे न विचारयसि । कथंभूतं दरम् । दुर्गतिपातसंभवं दुर्गतिर्नरकादिस्तस्यां यः पातः पतनं तस्मिन् संभव उत्पत्तिर्यस्य तम् । अत्र पूर्व अङ्गनोदरमिति समस्तं पदम् । परत्र अङ्ग नो दरमिति पदविभागेनार्थव्युत्पादनं चित्रम् ॥ स्फूर्जन्मनोभवभुजंगमपाशनाभी नाभी कुरङ्गकदृशां इशि यस्य लग्ना। नाभीमयं जगदशेषमुदीक्षतेऽसौ यो यत्र रज्यति स तन्मयमेव पश्येत् ॥ २७ ॥ यस्य पुरुषस्य दृशि नेत्रे । कुरङ्गकदृशां मृगनेत्राणां स्त्रीणां नाभी शरीरा- १. किमीक्षसे दुर्गनिपात' इति मूलपुस्तकपाठः, २. 'स' इति मूलपुस्तकपाठः, ।
* काव्यमाला। - । । चयवविशेषः लग्ना। कथंभूता नाभी। स्फूर्जन्मनोभवभुजंगमपाशनाभी स्फू- जन् देदीप्यमानो यो मनोभवः कामः स एव भुजंगमः सर्पस्तस्य पाशार्थ नाभी । कामसर्पस्थानमित्यर्थः । असौ पुमानशेषं समस्तं जगत् नाभीमयं अभीमयं निर्भयं न ईक्षते। न निर्भयं जगदीक्षत इत्यर्थः। यः पुरुषो यत्र स्थाने रज्यति स पुमान् तन्मयं तद्रूपमेव पश्यति । नाभी दृशि लग्ना नाभीमयं जगत्पश्यतीति न चित्रम् । नाभीनाभीभयमिति चित्रकृत् ॥ जंडोपयुक्तं जघनं मृगाक्ष्याः समीक्ष्य किं तोषभरं तनोषि । अमुं विशुद्धाध्यवसायहंसप्रवासहेतुं घनमेव विद्याः ॥ २८ ॥ मृगाक्ष्याः स्त्रिया जघनं समीक्ष्य दृष्ट्वा किं तोषभरं हर्षभरं तनोषि विस्ता- रंयसि । कथंभूतं जघनम् । जडोपयुक्तं जडानां मूर्खाणां उपयुक्तं योग्यं अमुं जघनं धनं मेघमेव विद्या जानीयाः । कथंभूतं जघनम् । विशुद्धाध्यवसाय- हंसप्रवासहेतुम् । विशुद्धो निर्मलो यः अध्यवसायः चित्ताभिप्रायः स एव हंसः तस्य यः प्रवासः तस्य हेतुः कारणं तं विशुद्धाध्यवसायहंसप्रवासहे- तुम् । धनागमे हंसा मानसे गच्छन्तीति प्रसिद्धम् । जघनं घनं कथं तत्राह । जडोपयुक्तं डलयोश्चैकत्वस्मरणात् जलोपयुक्तम् । जस्य जकारस्य लोपो नाशस्तेन युक्तं जकारं विना जघनं धनं स्यात् ॥ नितम्बमुल्लासिततापनोदं दिदृक्षसे यत्कमलेक्षणानाम् । सर्वात्मनात्यन्तकटुं विदित्वा तं निम्बमेव त्यज दूरतोऽपि ॥ २९ ॥ कमलेक्षणानां कमलनयनानां यं नितम्बं पृष्ठभाग दिदृक्षसे द्रष्टुमिच्छसि । कथंभूतं नितम्बम् । उल्लासिततापनोदं उल्लासितस्तापस्य नोदः प्रेरणं येन स तम् । तं नितम्बं निम्बमेव रिष्टं विदित्वा दूरतोऽपि त्यज । कथंभूतं निम्बम् । सर्वात्मना पत्रफलपुष्पसमूहेन । अत्यन्तकटुं अतिकटुकम्। नितम्बं कथं निम्ब- मिति प्रश्ने । तत्रोच्यते-कथंभूतं निम्बम् । उल्लासिततापनोदम् उल्लासित- स्तस्य तकाराक्षरस्य अपनोदो नाशो यस्मिन् स तम् । तकारनाशे नितम्बो निम्बः स्यादेवेत्यर्थः ॥ २. 'संवीक्ष्य' इति मूलपुस्तकपाठः. १. 'जलोपयुक्त' इति मूलपुस्तकपाठः. ३. "किं कमले-' इति मूलपुस्तकपाठः, शृङ्गारवैराग्यतरङ्गिणी। १५७. । नूनं नूपुरमेतदायतदृशो रागादिविद्वेषिणां क्रीडाथै पुरमित्यवेत्य न दृशाप्यालोकनीयं क्वचित् । येनास्मिन्मुखमात्रचङ्गिमगुणैराकृष्य तैरुल्वणै- बैद्धस्य प्रसभं चिरादपि सखे मुक्तिर्भवित्री न ते ॥ ३० ॥ नूनं निश्चितं आयतदृशः आयते विस्तीर्णे दृशौ यस्यातस्या विशालनयनायाः एतपुरं चरणभूषणं रागादिविद्वेषिणां रागादिशत्रूणां क्रीडा) विनोदार्थ पुरं नगरमिति अवेत्य ज्ञात्वा त्वया क्वचित्कदापि दृशा नेत्रेण नालोकनीयं न द्रष्टव्यम् । शत्रुपुरं श्रेयोऽर्थिना पुरुषेण न विलोकनीयमित्यर्थः । हे सखे, येन नूपुरेण अस्मिन्पुरे तैः प्रसिद्धैः मुखमात्रचङ्गिमगुणैः मुखमात्रे ये चङ्गिमाः श्रेष्ठा गुणास्तैरुल्बणैरुदारैराकृष्य प्रसभं बलात्कारेण बद्धस्य ते तव चिरादपि चिरकालेनापि मुक्तिर्मोचनं न भवित्री । नूपुरं पुरं कथमिति प्रश्ने । तत्र कथं- भूतं नूपुरम् । नूनम् । नूशब्डेन अनं नूनं नूशब्दरहितं नूपुरं पुरं भवतीति ॥ या स्त्रीति नाम्ना बिभृते शमादौ शस्त्री प्रबुद्धैरवबुध्यतां सा । एनां पुरस्कृत्य जगत्यनङ्गभटो यतः पुण्यभटं भिनत्ति ॥ ३१ ॥ या स्त्रीति नाम्ना स्त्रीत्यभिधानेन बिभृते धारयति सा स्त्री प्रबुद्धेर्तोनिभिः शमादावुपशमादिकर्मणि शस्त्री अमुक्तायुधम् । अमुक्तं शस्त्रीप्रमुखमिति । 'क्षुरी शस्त्री कृपाणिका' इति नामकोषः । अवबुध्यता ज्ञायताम् । यतो य- स्मात् अनङ्गभटः कामसुभटः जगति संसारे एनां स्त्रीरूपां शस्त्री पुरस्कृत्य अग्रे कृत्वा पुण्यभट धर्मसुभटं भिनत्ति भेदनं करोति । सुभटेन प्रतिसुभटं शख्या भेदनं विधीयत एव । स्त्रीति शस्त्री कथं तत्रोच्यते । शमादौ या स्त्री शं सकारमादौ बिभृते तदा स्त्री शस्त्री स्यादेवेत्यर्थः ॥ येयं वधूरवसिता हृदये प्रमोद- संपादनव्यतिकरैकनिबन्धनं ते । सा दुर्गदुर्गतिपथेन जगन्निनीषो- धुरेव मन्मथरथस्य विभावनीया ॥ ३२॥ १. 'यैषा' इति मूलपुस्तकपाठः. २. 'हृदयप्रमोद' इति मूलपुस्तकपाठः, काव्यमाला । .. या इयं वधूः ते तव हृदये प्रमोदसंपादनव्यतिकरैकनिबन्धनम् । हृदये यः प्रमोदस्तस्य संपादनमुत्पादनं तस्य यो व्यतिकरः समूहः तस्य निबन्धन कारणं अवसिता प्राप्ता हृदयहर्षोत्पादनकारणं वधूरिति त्वया मन्यत इत्यर्थः । सा वधूः मन्मथरथस्य धूरेव युगमेव विभावनीया ज्ञातव्या । कथंभूतस्य मन्मथरथस्य । जगत्कर्मतापन्नं दुर्गदुर्गतिपथेन दुर्गतेनरकादिगतेः पन्थाः दुर्गतिपथः । 'ऋक्पूरब्धःपथामानक्षे' इति अप्रत्ययः । दुर्गो यो दुर्गतिपथ- स्तेन । निनीषोर्नेतुमिच्छोः दुर्गतिमार्गेण संसारे नेतुमिच्छतः कामरथस्य धूरस्ति न वधूरित्यर्थः । वधूः धूः कथं तत्रोच्यते-वेन वकारेण सिता बद्धा वसि- ता। न वसिता अवसिता वकाररहिता वधूधूरेव स्यादित्यर्थः ॥ प्रीतिं तन्वन्त्यनलसदृशो यास्तरुण्यस्तवैता देहद्युत्या कनकनिभया द्योतिताशा किवेकिन् । सत्यं तासामनलसदृशां संयमारामराज्यां मा भुः पार्थेऽप्यसि यदि शिवावाप्तये बद्धबुद्धिः ॥ ३३ ॥ हे विवेकिन् , या एतास्तरुण्यो नार्यः तव प्रीतिं हर्ष तन्वन्ति विस्तार- यन्ति । कथंभूतास्तरुण्यः । अनलसदृशः न अलसा अनलसाः आलस्यरहिता दृशो यासां ताः अनलसदृशः । उन्निद्रनेत्रा इत्यर्थः । पुनः किंविशिष्टास्त- रुण्यः । कनकनिभया स्वर्णतुल्यया देहद्युत्या शरीरकान्त्या द्योतिताः प्रका- शिताः आशा दिशो याभिस्ता घोतिताशाः । संयमारामराज्यां संयमश्चारित्रं स एव आरामस्तस्य राजी परम्परा तस्यां विषये तासां स्त्रीणां अनलसदृशां अग्नितुल्यानाम् । सत्यं स्त्रीसंपर्काचारित्रवनदाहो भवत्येवेत्यर्थः । यदि त्वं शि- वावाप्तये मोक्षप्रात्यै बद्धबुद्धिः बद्धा बुद्धिर्येन स तादृशोऽसि तदा तासां पार्श्वेऽपि समीपेऽपि मा भूः । अत्र पद्ये अनलसदृशत्वम् एकत्र वर्णत्वेन अप- रत्र दाहकशक्तित्वेनोपादानं चित्रकृत् ॥ क इह विषयभोगं पुण्यकर्मायशून्यं स्पृहयति विषभोगं भावयेस्तत्त्वतस्त्वम् । .. १. 'भावयंस्तत्त्वतस्तम्' इति मूलपुस्तकपाठः, शृङ्गारवैराग्यतरङ्गिणी । १५९ संरति न करणीयं मूच्छितो येन जन्तुः पतति कुगतिगर्ते नेक्षते मोक्षमार्गम् ॥ ३४ ॥ इहास्मिन् संसारे कः पुरुषो विषयभोगं पञ्चेन्द्रियसुखं स्पृहयति वाञ्छति । कथंभूतं विषयभोगम् । पुण्यकर्मायशून्यम् । पुण्यकर्मणः आयो लाभस्तेन शून्यम् । तत्त्वतस्त्वं विषभोगं भावयेः जानीहि । विषयभोगं विषभक्षण- तुल्यं जानीहीत्यर्थः । तदेव स्पष्टयति-येन विषयभोगेन मूच्छितो मोहं प्राप्तो जन्तुः प्राणी करणीयं करणाहं न सरति । पुनः मोक्षमार्ग न ईक्षते । कुगतिगर्ते पतति । विषभक्षणस्य स्मरणादिभ्रंशकत्वं प्रकटमेव । विषयभोगो विषभोगो भवतीत्यर्थः ।। सखे सुखं वैषयिकं यदेतदाभासते तन्नर कान्तमन्तः । सत्यं तदुत्सर्पदघप्रबन्धनिबन्धनत्वान्नरकान्तमेव ॥ ३५ ॥ हे सखे हे नर, एतत् वैषयिकं विषयेभ्यो भवं बैषयिकं सुखं ते तव अन्तः चेतसि कान्तं मनोज्ञं यत् आभासते तत्सत्यम् । मिथ्या नेत्यर्थः । उत्सर्पदधप्रबन्धनिबन्धनत्वात् । उत्सर्पन्प्रसर्पन् यः अघस्य पापस्य प्रबन्धः परम्परा तस्य निबन्धनं कारणं तस्य भावस्तत्वं तस्मात् । नरकान्तमेव नरक एव अन्तो यस्य तत् नरकान्तम् । नरकप्रापकमित्यर्थः । अत्र पद्ये पूर्वत्र नर कान्तमिति भिन्नं पदम्, परत्र नरकान्तमिति समस्तं पदमिति चित्रकृत् ।। स्मरक्रीडावाप्यां वदनकमले पक्ष्मलदृशां दृढासक्तिर्येषामघरमधुपानं विदधताम् । अदूरस्था बन्धव्यसनघटना क्लेशमहती विमुग्धानां तेषामिह मधुकराणामिव नृणाम् ॥ ३६ ।। सरक्रीडावाप्यां स्मरक्रीडाथ वापी तस्यां येषां मनुष्याणां पक्ष्मलदृशा स्त्रीणां वदनकमले वदनमेव कमलं तत्र दृढासक्तिः दृढा आसक्तिः तन्मयता १. 'स्मरति न करणीयं नेक्षते मोक्षमार्ग पतति कुगतिगर्ते मूर्च्छितो येन जन्तुः' इति मूलपुस्तकपाठः, २. 'यनर कान्तमेव' इति मूलपुस्तकपाठः, ३. मूलपुस्तके तृतीयतुरीयचरणयोर्व्यत्ययोऽस्ति.
काव्यमाला। वर्तते इति शेषः । किं कुर्वतां येषाम् । अधरमधुपानं विदधताम् । अधरमेव मधु पुष्परसः तस्य पानं तत् कुर्वताम् । तेषां नृणां इह वदनकमले मधुक- राणां भ्रमराणामिव बन्धव्यसनघटना बन्धेन बन्धनेन यद्वयसनं कष्टं तस्य घटना रचना अदूरस्था समीपवर्तिनी भवति । कथंभूतानां मधुकराणाम् । नृणां च विमुग्धानां मोहदशां प्राप्तानाम् । कथंभूता बन्धव्यसनघटना । क्लेशमहती क्लेशेन महती दुःसहा । यथा भ्रमराणां कमले मधुपानं कुर्वतां दृढासक्तिबन्धनकष्टदायिनी, तथा नृणां स्त्रीमुखकमले अधररसपानं कुर्वता वधबन्धनादि कष्टं भवतीत्यर्थः ॥ सखे संतोषाम्भः पिब चपलतामुत्सृज निजां शमारामे कामं विरचय रुचिं चित्तहरिण । हरन्त्येतास्तृष्णां न युवतिनितम्बस्थलभुवो विमुक्ता नीरागैर्विषमशरसंपातविषमाः ॥ ३७॥ हे सखे हे चित्तहरिण, चित्तमेव हरिणो मृगस्तस्य संबोधनम् । चित्तस्य चाचल्यान्मृगसादृश्यम् । त्वं संतोषाम्भः पिब संतोष एव अम्भो जलं त्वं पिब । निजां स्वकीयां चपलतां चापलमुत्सृज त्यज । काममत्यर्थ शमारामे शम एव आरामस्तस्मिन् उपशमवने रुचिं तुष्टिं विरचय कुरु।मृगस्य वनेऽधि- करुचित्वात् इष्टोपदेशः । एता युवतिनितम्बस्थलभुवः । युवतीनां नितम्बाः पृष्ठभागाः त एव स्थलभूमयः तव तृष्णां तृषं न हरन्ति न दूरीकुर्वन्ति । स्थलभुवं दृष्ट्वा तृष्णापहारो न भवतीत्यर्थः । कथंभूता युवतिनितम्बस्थल- भुवः । नीरागैर्विमुक्ताः । नीराणि च अगाश्च नीरागास्तैः जलवृक्षविमुक्ताः । जलेन वृक्षच्छायया च सृषाहानिर्भवति । पुनः कथंभूता युवतिनितम्बस्थल- भुवः । विषमसरसंपातविषमाः । विषमा असह्या ये शरसंपाता बाणपाता. स्तैर्चिषमा दुष्टाः । अस्यां भुवि व्याधादिभिर्बाणपातो विधीयते, तेन तव भरणं भविष्यति, न तु तृष्णाहानिरित्यर्थः । पक्षे कथंभूता युवतिनितम्बस्थलभुवः । नीरागैः रागरहितैर्विमुक्तास्त्यक्ताः । विषमशरः कामस्तस्य संपातेन विषमा अमनोज्ञाः । एतेन युवतिनितम्बवान्छो मा कुरु इति चित्तं प्रत्युपदेशः ॥ १. 'प्राणान्न' इति मूलपुस्तकपाठः, तृतीयचतुर्थचरणव्यत्ययश्च. 1 शृङ्गारवैराग्यतरङ्गिणी। १६१ चेतश्चापलमाकलय्य कुटिलाकारां कुरङ्गीदृशो दृष्ट्वा कुन्तलराजिमञ्जनघनश्यामां किमुत्ताम्यसि । धर्मध्यानमहानिधानमधुना खीकर्तुकामस्य मे' प्रत्यूहार्थमुपस्थितेयमुरगश्रेणीति संचिन्तयेः ॥ ३८ ॥ हे चेतः, त्वं कुरङ्गीदृशो मृगाक्ष्याः कुन्तलराजि शिरोरुहश्रेणिं दृष्ट्वा चाप- लमाकलय्य चाञ्चल्यं गृहीत्वा किमुत्ताम्यसि किं आकुलतां करोषि । कथं- भूतां कुन्तलराजिम् । कुटिलाकाराम् । कुटिलो वक्र आकारो यस्यास्ताम् । पुनः कथंभूतां कुन्तलराजिम् । अञ्जनघनश्यामाम् । अञ्जनं कज्जलं घनो मेघ- स्तद्वत् श्यामां कृष्णाम् । केशानां कृष्णत्वं यौवने तयुक्तां स्त्रियं दृष्ट्वा चित्त- चलनं न्याय्यम् । उक्तं च-'पुष्पं दृष्ट्वा फलं दृष्ट्वा दृष्ट्वा च नवयौवनाम् । द्रविणं पतितं दृष्ट्वा कस्य नो चलते मनः ॥' इति । मे मम प्रत्यूहाथ विघ्नार्थ अधुना इदानीं उपस्थिता प्राप्ता इयं उरगश्रेणी सर्पपरम्परा इति त्वं संचि- न्तयेः जानीयाः । कथंभूतस्य मे । धर्मध्यानमहानिधानं स्वीकर्तुकामस्य अङ्गी- कुर्वतः धर्मध्यानं धर्मचिन्तनं तदेव महानिधानम् । यत्किंचित्कार्यकरणोध- तस्य सर्पदर्शन निषिद्धम् । निधानस्वीकारे तु सर्पदर्शनमतीव नेष्टमित्यर्थः । कुन्तलस्य सोपमानत्वं कविसंमतमेव ॥ यातुं यद्यनुरुच्यते शिवपुरी रामानितम्बस्थली मुञ्चेर्दूरमिमामनङ्गकलभक्रीडाविहारोचिताम् । नो चेद्यौवनचण्डवातविततव्यामोहधूलीकण- क्लाम्यदृष्टिरदृष्टशाश्वतपथः प्रामोषि जन्माटवीम् ॥ ३९ ॥ हे पुमन् , यदि तुभ्यं शिवपुरी मुक्तिनगरी यातुं गन्तुं अनुरुच्यते तदा त्वं इमां रामानितम्बस्थली स्त्रीनितम्बभूमिं दूर दूरतो मुञ्चेः । कथंभूतां रामा- नितम्बस्थलीम् । अनङ्गकलभक्रीडाविहारोचिताम् । अनङ्गः कामः स एव कलभः गजशिशुः तस्य क्रीडाथ विहारो विहरणं तत्रोचितां योग्याम् । चे- । १. 'ते' इति मूलपुस्तकपाठः. २. 'अनुरज्यसे' इति मूलपुस्तकपाठः.३. हरि- णक्रीडा-' इति मूलपुस्तकपाठः. ४. 'प्राप्तासि' इति मूलपुस्तकपाठः. ११ पंच० १६२ काव्यमाला। दिमां दूरं न मुञ्चसि तदा किं भविष्यति तदाह-नो चेदिति । त्वं जन्मा- टवीं संसाराटवीं प्राप्नोषि । कथंभूतस्त्वम् । यौवनचण्डवातविततव्यामोह- धूलीकणक्लाम्यदृष्टिः । यौवनमेव चण्डवातस्तेन विततः विस्तारितः व्यामोहो वैचित्यं स एवं धूलीकणस्तेन क्लाम्यन्ती व्याकुला दृष्टिर्यस्य तथाविधः । अत एव अदृष्टशाश्वतपथः । न दृष्टः शाश्वतस्य शिवस्य पन्था मार्गो येन सः। रजःकणपतनं दृष्ट्वा मार्गावलोकनं न भवत्येवेत्यर्थः ॥ शमधनमपहर्तु कामचौरप्रचारं विरचयति निकामं कामिनीयामिनीयम् । सपदि विदधती या मोहनिद्रासमुद्रां जनयति जनमन्तःसर्वचैतन्यशून्यम् ॥ ४० ॥ इयं कामिनीरूपा यामिनी रात्रिः निकाममत्यन्तं कामचौरप्रचारं काम एव चौरस्तस्य प्रचार विहरणशीलत्वं विरचयति प्रकटीकुरुते । किं कर्तुम् । शमधनमपहर्तुं शम उपशम एव धनं तद्रहीतुम् । यामिन्यां धनाहरणार्थ चौरप्रचारो भवति। या यामिनी जनं मनुष्यं अन्तःसर्वचैतन्यशून्यम् । अन्तरिति अन्तःकरणे सर्व च तत् चैतन्यं च तेन शून्यं रहितं जनयति करोति । यामि- नी किं कुर्वती । सपदि तत्कालं मोहनिद्रासमुद्रां मोहो मूर्छा एव निद्रा तस्याः समुद्रां समृद्धिं विदधती ॥ मृगेक्षणा नूनमसावसीमा भीमाटवी बुद्धिमतामतीत्या । यद्वाहुवल्लीभिरनङ्गभिल्लो बवा नरांल्लम्भयते न मुक्तिम् ॥ ४१॥ नूनं निश्चितं असौ मृगस्य अक्षिणीवाक्षिणी यस्याः सा मृगेक्षणा स्त्री। भीमाटवी भयानकारण्यम् । वर्तते इति शेषः । कथंभूता भीमाटवी । अ- सीमा । न विद्यते सीमा मर्यादा यस्याः । पुनः कथंभूता । बुद्धिमतां विदुषां अतीत्यातिक्रमणीया यद्बाहुवल्लीभिः यस्या मृगेक्षणाया बाहू एव वह्यो लतास्ताभिः अनङ्ग एव भिल्लस्तस्करः नरान् मनुष्यान् बवा मुक्तिं न लम्भ- । २. 'अतीव' इति मूलपुस्तकपाठः. १. 'निद्राममुद्रां' इति मूलपुस्तकपाठः, ३. 'बद्धान्' इति मूलपुस्तकपाठः, शृङ्गारवैराग्यतरङ्गिणी। १६३ , । यते न कारयति । यथा अटव्यां तस्करः पथिकान् लताभिर्बद्धा सर्वस्वं गृ- ह्वाति, तथा मृगेक्षणापि कण्ठग्रहणं कृत्वा नरान्मुक्तिप्राप्तिं न कारयतीति भावाथः॥ इयं वारंवारं द्युतितुलितरोलम्बवलयं न क्त्रं भ्रूचक्र चलयति मृगाक्षी मम पुरः । कुंधीकारागारापसरणमतिं मां स्खलयितुं प्रपञ्चत्पञ्चेषोर्वहति निबिडं लोहनिगडम् ॥ ४२ ॥ इयं मृगाक्षी मृगलोचना स्त्री मम पुरः पुरस्तात् वक्रं भ्रूचक्र वारंवारं अनुचेलं न चलयति । कथंभूतं भ्रूचक्रम् । धुतितुलितरोलम्बवलयम् । धुत्या कान्त्या तुलितः समानीकृतो रोलम्बानां भ्रमराणां वलयो वृत्तता येन । किमे- तत्तदाह-मां स्खलयितुं गमनाभावं कर्तुं पञ्चेषोः पञ्च इषवो बाणा यस्य तादृशस्य कामस्य निबिडं दुःसहं लोह निगडं वहति धारयति । किंभूतं लोह- निगडम् । प्रपञ्चत् प्रपञ्चयुक्तम् । कथंभूतं माम् ।कुधीकारागारापसरणमतिम् । कुत्सिता धीः कुधीः सैव कारागारं बन्दिस्थानं तस्मादपसरणे दूरगमने मति- यस्य तम् । यथा चौरस्य लोहनिगडं क्षिप्त्वा कारागारे क्षिप्यते, तथा मामपि वशीकर्तुं भ्रूचकं कामस्य निगडं धत्ते इत्यर्थः ॥ यामोऽन्यत्र द्रुततरमितो मित्र यत्कण्ठपीठे नायं हारश्चकितहरिणीलोचनायाश्चकास्ति । नाभीरन्ध्रे विहितवसतिर्योऽस्ति कंदर्पसर्प- स्तन्मुक्तोऽयं स्फुरति रुचिरः किं तु निर्मोकपट्टः ।। ४३॥ हे मित्र, वयं इतोऽस्मात् । अन्यत्र द्रुततरं अतिशीघ्रं यामो गच्छामः चकितहरिणीलोचनायाः। चकिता हरिणी तस्या लोचने इव लोचने यस्या- स्तस्याः कण्ठपीठे यत् चकास्ति शोभते अयं हारो नास्ति किंतु यः कंदर्प- सर्पः कंदर्पः कामः स एव सर्पस्तन्मुक्तस्तेन सर्पण मुक्तस्तन्मुक्तः । अयं रुचिरो मनोज्ञः निर्मोकपट्टः कञ्जुकः स्फुरति चकास्ति । कथंभूतः कंदर्पसर्पः । नाभी- १. 'चलाक्षी' इति मूलपुस्तकपाठः. २. 'क्रुधा' इति मूलपुस्तकपाठः. ३. 'छ- लयितुं प्रपञ्चात्' इति मूलपुस्तकपाठः, ..
काव्यमाला। रन्ध्रे विहितवसतिः । नाभीरन्ध्रे नाभीकुहरे विहिता कृता वसतिर्वासो येन स नामीरन्ध्रे विहितवसतिः । अयमेवान्यन्त्र गमने हेतुः । सर्पकञ्च- कदर्शनमपि भयावहम् । नाभी सर्पबिलं हारं सर्पकचुकं तदुद्ध्या पलायन युक्तमेवेत्यर्थः ॥ यः कामकामलविलुप्तविवेकचक्षुः वर्गापवर्गपुरमार्गमवीक्षमाणः । ज्ञानाञ्जनं प्रति निरादरतामुपैति भ्रातः पतिष्यति स भीमभवान्धकूपे ॥ ४४ ॥ यः पुरुषः ज्ञानाञ्जनं ज्ञानमेवाञ्जनं प्रति निरादरतामुपैति निरादरं करोति । कथंभूतो यः। कामकामलविलुप्तविवेकचक्षुः । कामः स्मरः स एव कामलों नेत्ररोगस्तेन विलुप्तं विवेक एव चक्षुर्यस्य स कामकामलविलुप्तविवेकचक्षुः। अत एव स्वर्गापवर्गपुरमार्गमवीक्षमाणः । स्वर्गो देवलोकोऽपवर्गो मोक्षः, तावेव पुरे नगरे तयोर्मार्गस्तमवीक्षमाणः अदर्शकः एवंविधः स पुरुषः हे भ्रातः, भीमभवान्धकूपे । भीमो भयानकः भवः संसारः स एव अन्ध- कूपः तस्मिन् पतिष्यति । यः कामलारोगग्रस्तचक्षुरञ्जनं प्रत्यादरं न करोति सोऽन्धकूपे पतत्येवेति ॥ भवारण्यं मुक्त्वा यदि जिगमिषुर्मुक्तिनगरी तदानीं मा कार्षीविषयविषवृक्षेषु वसतिम् । यतश्छायाप्येषां प्रथयति महामोहमचिरा- दयं जन्तुर्यस्मात्पदमपि न गन्तुं प्रभवति ॥ ४५ ॥ भवारण्यं संसाराटवीं मुक्त्वा यदि मुक्तिनगरीं शिवपुरी जिग- मिषुः गन्तुमिच्छुरसि तदानीम् । विषयविषवृक्षेषु । विषया एव विषवृक्षास्तेषु वसतिं रतिं त्वं मा कार्षीः मा कुर्याः। यतो यस्मात् कारणात् एषां वृक्षाणां छायापि महामोहं अचिरात् शीघ्रं प्रथयति विस्तारयति । विषयविषवृक्षच्छा- यास्पशोऽपि वैचित्यकारको भवतीत्यर्थः । अतः कारणात् अयं जन्तुः प्राणी हे पुमन् , । १. 'अवेक्ष्यमाणः' इति मूलपुस्तकपाठः, शृङ्गारवैराग्यतरङ्गिणी। १६५ पदमपि पादमात्रमपि गन्तुं गमनाय न प्रभवति न समर्थो भवति । यथा- रण्यं मुक्त्वा नगरी गन्तुकामो नरो विषवृक्षाधो वसन् मत्तो भवति तदा पदमात्रमपि न गन्तुं शक्नोति । तद्वत् संसारं मुक्त्वा मुक्तिमभिलषता पुंसा विषयसेवायां मतिन कायेति तात्पर्यम् ॥ सोमप्रभा चार्यमभा च यन्न पुंसां तमःपङ्कमपाकरोति । तदप्यमुष्मिन्नुपदेशलेशे निशम्यमानेऽनिशमेति नाशम् ॥ ४६॥ सोमप्रभा चन्द्रकान्तिः च पुनः अर्यममा अर्यम्णः सूर्यस्य कान्तिः यत्पुंसां मनुष्याणां तमःपङ्कमज्ञानान्धकारसमूहं न अपाकरोति न दूरीकरोति तदपि अन्तर्गतान्धकारमपि अमुष्मिन्नुपदेशलेशेऽल्पोपदेशे निशम्यमाने श्रूयमाणे सति अनिशं निरन्तरं नाशमेति नाशं प्राप्नोति । चन्द्रसूर्यप्रभयाज्ञानान्धकारं दूरीकर्तुं न शक्यते । अनेनोपदेशेन अन्तर्गतान्धकारोऽपि दूरीकर्तुं शक्यत इति । अतोऽस्योत्कृष्टत्वम् । अत्र पद्ये ग्रन्थका सोमप्रभाचार्य इति स्वनाम गोपितं चातुर्येणेति बोध्यम् ॥ संवत्स(च्छ)रद्विपमुनीन्दु(१७८५)मितस्य मासे मार्गे त्रयोदशमिते दिवसे भृगौ च । स्वल्पा तरी विरचिता सुखबोधिकाख्या श्लेषौघदुस्तरतरङ्गिणिका सुशास्त्रे ॥ आगरानानि नगरे नन्दलालेन धीमता। दानविशालशिष्यानुरोधेन कृपया गुरोः ॥ (युग्मम्) सोमप्रभाचार्यकृति सुदुर्गमां विवृण्वता स्वल्पधिया मयात्र यत् । न्यूनाधिकोट्टङ्कनमल्पबुद्धितः कृतं विशोध्यं कृतिभिः कृपालुभिः ।। श्रीजिनभक्तिसूरीन्द्रे गच्छसाम्राज्यं बिभ्रति । अशेषमनुजवृन्दनतपादाम्बुजद्वये ॥ इति सुखबोधिकानाम्न्या वृत्त्या समेता श्रीशैतार्थवृत्तिकारश्री- सोमप्रभाचार्यविरचिता शृङ्गारवैराग्यतरङ्गिणी समाप्ता। २. 'शतार्थिसोमप्रभाचार्यकृता' इति १. 'समुपैति' इति मूलपुस्तकपाठः. मूलपुस्तकपाठः.
काव्यमाला। महाकविश्रीनारायणभट्टपादविरचितं कोटिविरहम् । भङ्गया निजाङ्गकानामगजमपि मानहीनमाकलयन् । संगीतकेतुनामा धीमानासीहिजोत्तमः श्रीमान् ॥ १ ॥ कलाभिरपि पूर्णात्मा कुमुदामोदमावहन् । सतां प्रीतिकरः सोऽयं द्विजेन्द्रः शुशुभेतराम् ॥ २ ॥ तस्मिन्नेव समये संकेतभूमिः सुकुमारतायाः संगीतसाहित्यसरोमैराली । शृङ्गारलक्ष्मीरिव संभृताङ्गी शृङ्गारलीलेति बभूव बाला ॥ ३॥ अधिककुतुकदात्री पश्यतां सा समेषा- ममृतकिरणलेखेवान्वहं वर्धमाना। अभजत वयसस्तामत्युदारामवस्था- मतुलितमपदानं तम्वतीमङ्गयोनेः॥ ४ ॥ यथा यथा वक्षसि पक्ष्मलाक्ष्याः कुचद्वयी वृद्धिमवाप तस्याः । तथा तथावर्धत कामुकानां विलोकने कापि कुतूहलश्रीः ॥ ५॥ आकर्णयन्तावनधान्गुणौघानानेड्यमानाननिशं जनौधैः । आकाङ्कितान्योन्यविलोकनौ तावास्ताममन्दप्रणयौ युवानौ ॥ ६॥ १ कवेर्देशकालौ काव्यमालाया एकविंशेऽङ्के 'स्वाहासुधाकर' प्रारम्भटिप्पणे द्रष्टव्यो. कोटिविरहाख्योऽयं ग्रन्थ उत्तरमलबार(केरल)देशान्तवर्ति कटथनद'- राजेन श्रीमदुदयवर्मणा केरलीयलिपितो देवनागराक्षरैर्विलिख्यास्मभ्यं प्रेषित इति महदुपकृतं भूमृता. २. केरलीयाः सदाशिवशास्त्रिणस्तु 'कोडिअविरहम्' इति ग्रन्थुनाम वदन्ति, कोडिअ'शब्दः केरलभाषायां नूतनवाचक इति तदर्थ च. ३. हंसी, ४. 'साखिलानां' इत्यपि पाठः,
कोटिविरहम् ।
१६७
हृदयगूढनिरूढमनोजयोरिति तयोर्वसतोः कुतुकार्द्रयोः ।
अभवदभ्युदयाय महो महाननतिदूरगते गिरिजालये ॥ ७॥
आकल्पजालसविशेषमनोहरश्रीः
साकं वयस्यनिवहैश्च समानवेषैः ।
सोऽयं विवेश गिरिजाभवनं विलासी
तामुत्सवश्रियमुदीक्षितुमुत्सुकात्मा ॥ ८॥
आकासितार्थजननीमभिवन्द्य गौरी-
मालोकयन्नभिनवानयममुनौ(मुत्सवौ)घान् ।
अन्यूनकौतुकभरैः सहितो वयस्यै-
रध्यारुरोह ललितामथ रनवेदीम् ॥ ९ ॥
आलीवृन्दैरधिकनिपुणैरात्मना निर्विशेषैः
केलीशीलैः सततवशगैरावृता च खकान्तः ।
नानाभूषामणिगणरुचा भासयन्ती दिगन्तं
सा च प्रागादुदितकुतुका द्रष्टुमेवोत्सवं तम् ॥१०॥
नत्वा देवीमभिमतफलप्राप्तिहेतुं भवानी
मुग्धाक्षी सा सह सहचरैः संचरन्ती सहेलम् ।
प्राप्ता दैवात्सपदि पुरतस्तस्य संगीतकेतो-
रत्रानन्दप्रसरमपरां(?) वेदिकामारुरोह ॥ ११ ॥
विलोकयन्ती तमतीव कान्तं विलोचनासेचनकं युवानम् ।
सा कोऽयमित्यन्तरुदीतचिन्ता बाला क्षणं व्याकुलतामवाप ॥ १२ ॥
स च तामवलोकयन्नुपेतामतिमात्रायतलोचनामदूरे ।
हृदि केयमिति प्ररूढचिन्तः क्षणमासीत्प्रतिपत्तिमूढचेताः ॥ १३ ॥
स इति सेति च तौ परिबोधितौ सवयसा शनकैः श्रवणान्तिके ।
अतनुतां परिरम्भणमञ्चलैनयनयोनवविभ्रमचञ्चलैः ॥ १४ ॥
१६८ काव्यमाला। उद्भिद्यमानपुलको निटिलप्ररोह- दाकम्रधर्मकणसुन्दरवक्रबिम्बौ धन्याविमौ विगलितान्यसखौ युवाना- वन्योन्यदर्शनमहोत्सवमन्वभूताम् ॥ १५ ॥ अत्यायतैर्गुणगणैर्निबिडं निबद्धा- वाकृष्यतामभिमुखौ तरसा विधाय । अव्याजविक्रमघनो विललास संध्ये(?) सव्यापसव्यमिषुभिर्विकिरन्मनोभूः ।। १६ ॥ तदनु कतिपयानां नाडिकानां विरामे विरतिमुपगतोऽभूदुत्सवश्चण्डिकायाः । विततकुतुकभाजोरेतबोनेंत्रकोण- व्यतिकररसजन्मा तूत्सवो न व्यरंसीत् ॥ १७ ॥ अपयत्सु जनेषु तावतृप्ताववरूढौ गमनाय वेदिकायाः। मृदुहाससुधानुलिप्तवक्रौ मितमापृच्छय यथागतं प्रयातौ ॥ १८ ॥ किमपि किमपि सख्याः श्रोत्रमूले वदन्ती वलितवदनमेनं वीक्षमाणा युवानम् । कपटकृतविलम्बा कामिनी सा कथंचि- निजनिलयमयासीन्निद्भुतानङ्गपीडा ॥ १९ ॥ सेयं सायं प्राप्य गेहं नताङ्गी भेजे तल्पं कल्पितं तत्सखीभिः । अत्यारूढां चित्तजन्मव्यथां तामध्वश्रान्तिव्याजतो गृहमाना ॥ २० ॥ पश्यन्ती तं हृदि सुकृतिनं निःश्वसन्ती सुदीर्घ नश्यद्धैर्या नयनकमलादश्रुधारां किरन्ती। विसस्ताङ्गी विदलितमनाः सायकैर्मीनकेतो- रखस्था. सा. समज़नि मनोमोहना मुग्धगात्री ॥ २१ ॥ ..
कोटिविरहम् । विदितविगतिमूलैः सा सखीनां निकायैः सततमथ वचोभिः सम्यगाश्वास्यमाना। कथमपि धृतशोका वासरान्वत्सराभा- परिचितधृति निन्ये पञ्चषानञ्चिताङ्गी ॥ २२ ॥ स्फुटमिव कथयन्तीमन्तरुज्जृम्भमाणां कुसुमविशिखपीडां मुग्धपातैः कटाक्षैः । स च मधुरमुखीं तां वीक्षमाणः प्रयान्ती युगपदभिहतोऽभूदायुधैरङ्गयोनेः ॥ २३ ॥ चतुरवचनभेदव्यञ्जितातीतवृत्तै- स्तदनु सह वयस्यैरेष मन्दं जगाम । गलदतिगुरुकैश्यं गन्धमातङ्गमन्दं गमनमनधगाव्याश्चिन्तयन्नन्धचेताः ॥ २४ ॥ गत्वा गेहं प्रियसहचरैः साकमारूढमूलं मारात मनसि सततं गूहमानोऽपि धीमान् । तामेवान्तस्तरलनयनां कल्पयन्नल्पधैर्य क्षामक्षामः समजनि दिनैः पञ्चपैरेष कामी ॥ २५॥ वक्रं तदुद्गतमनोहरमन्दहासं वक्षोरुहावपि च तो क्रमवर्धमानौ । विस्तारितं जघनमित्यनुवेलमस्य चित्तं क्रमेण तरुणीमयमेव जातम् ॥ २६ ॥ तस्मिन्ननुक्षणमिति प्रविजृम्भमाणे मारामये स तु कदाचिदुदारधामा । १. कामव्यथाम्.
काव्यमाला। व्याजेन केनचिदनन्यगतिः खगेहा- देकः प्रियामवलुलोकयिषुः प्रतस्थे ॥ २७ ॥ असे वहन्नधिककोमलमङ्गनानां चिल्लीविलासचतुरं मधुरं शेरासम् । अध्वानमन्तिकचरं कथयन्नवक्र साहाय्यमस्य विदधे सहकारबाणः ॥ २८ ॥ स्फुरद्रागोन्मेषे चरमगिरिसौधाग्रवलभी नभोमध्यादद्धा विशति नलिनीजीवितसमे। असावक्षीणश्रीरधिकलुलिताङ्गोऽपि शनकैः प्रपेदे प्रेयस्याः प्रकृतिरमणीयं निलयनम् ॥ २९ ॥ तदनु मुदितचेताः प्राप्य वापीमदूरे विमलसलिलपूरस्पर्शवीताध्वखेदः । अधिकसुभगपातैः सेवितो वातपोतैः सकुतुकमभिपेदे मन्दिरं सुन्दराङ्गयाः ॥ ३०॥ आवृण्वानामुरसिजभरोत्सेधमेकेन दोष्णा विन्यस्यन्तीं तदितरकरे वक्रमापाण्डुगण्डम् । अङ्के सख्या निहितचरणामध्वनि न्यस्तनेत्रा- मद्राक्षीत्तां मृदुनि तलिमे मुग्धगात्रीं शयानाम् ॥ ३१ ॥ तदनु मदनपीडां मानसे देहकान्त्या स्फुटमिव कलयन्तीं प्रेक्ष्य कान्तामदूरे । कुतुकभरमनोजातऋमिश्रीकृतात्मा द्रुतमभजत कामी वामनेत्रासकाशम् ॥ ३२ ॥ १. भ्रूभङ्गमनोहरम्. २. धनुः, ३. कामः. ४. मन्दवायुभिः. ५. तल्पे.
कोटिविरहम् । अभ्यर्थ्यमानमनिशं मनसा पुरस्ता- दभ्यागतं समवलोक्य युवानमेनम् । सा वागतोक्तिमकरोदमृतद्रवाई- मन्दारकान्तिलहरीसुहृदा स्मितेन ॥ ३३ ॥ ततः श्रान्ते कान्ते सविधभुवि सख्या चतुरया समानीतं नव्यं तृणकटमलंकुर्वति शनैः। न्यषीदत्सा चारान्मितमधुरवाणीविलसितै- हरन्ती तच्चेतो हरिणतरुणीमुग्धनयना ॥ ३४ ॥ लपन्तावन्योन्यं किमपि समुदाचारसरसं दिशन्तौ ताम्बूलं परिमिलितकर्पूरशकलम् । वदन्तावाकाङ्क्षामधिकचतुरैरक्षिवलनै- युवानौ तावास्तामुदयदधिकामोदसरसौ ॥ ३५ ॥ वाङ्मात्रेण प्रतिष्ठासुमप्रतिष्ठासुमात्मना । कामिनी कामुकं प्राह यामिनीकामुकानना ॥ ३६॥ यातप्रायमिदं दिनं कमलिनी दीनेयमालोक्यतां नीम्ध्रश्च पयोधरः स च शशी दूरेऽधुना वर्तते । विप्रागारमिदं तटाकसविधे स्वायत्तमेतच्च ते गेहं तत्क्षपय क्षपामिह महान्कार्यातिपातो न चेत् ॥३॥ अध्वा निर्मल एव नापि सहसा संवर्धते वा तमो विद्यन्ते च निकेतनानि सुहृदामृद्धानि मध्येपथम् । मुग्धापाङ्गि पयोधरः परमसौ संध्यागमे सांप्रतं प्रस्थानोद्यममुन्नमपरिगलद्धारो रुणद्धयेव मे ॥ ३८ ॥ १. आरात्समीपे सा च न्यषीदव. ३. स्वनो मेघश्य ४. परिगलतूहार; (पक्षे) परिगलत-धारः. २.चन्द्रानना.
१७२ काव्यमाला । वदतोरिति मुग्धहासमाध्वमिधुरं व्यञ्जितमञ्जुरागबन्धम् । अरुणं तरणेरवाप विम्बं वरुणाशातरुणीवतंसभावम् ॥ ३९ ॥ अथ स विहितसंध्यावन्दनाद्यः समीपे : कथितधरणिदेवस्यालये तन्नियोगात् । सकुतुकरुचि भुक्त्वा खादु संपन्नमन्नं त्वरितमुपजगाम प्रेयसीवासगेहम् ॥ ४०॥ स्नातानुलिप्ततनुरागमनं तदीयं सा च प्रगाढकुतुका परिपालयन्ती। मुग्धेक्षणा निजमसेवत वासगेहं मुद्रादरिद्रमदनधुति मुग्धगात्री ॥ ४१ ॥ उन्निद्रकान्तिलहरीमहनीयगात्री संनाहिनी सरसिजायुधसंप्रहारे । तां पश्यतः क्षितिसुरस्य समुज्जजृम्भे पूर्वाधिका मनसि कापि कुतूहलश्रीः ॥ ४२ ॥ तल्पोपान्ते तदनु च मिथः संनिविष्टौ दिशन्तौ कपूरैलामिलनसुभगां शुभ्रताम्बूलवीटीम् । सख्या साकं चतुरवचसा सूचितान्योन्यभावै- वकालापैः कमपि समयं यापयांचक्रतुस्तौ ॥ ४३ ।। पश्यन्ती पुनरनयोरिङ्गितभेदैरनङ्गपरिपीडाम् । नातिचिरादतिनिपुणा नाटितनिद्रागमा सखी निरगात् ॥४४॥ बहिः स्वल्पं तल्पं तदनु स तया दीपकरया समादिष्टं भेजे मदनपरिदूनेन वपुषा । १. सूर्यस्य. २. पश्चिमा दिक्. ३. मदनयुद्धे संनद्धाम्, --- कोटिविरहम् । १७३ हृदा तु प्रत्यग्रं प्रेसवशरकेलीगृहगतं तदीयप्रत्यन्तं परिहसितपर्वेन्दुसुषमम् ॥ ४५ ॥ तदनु शशिमुखी सा प्राप्य शय्यानिकेतं निजमभजत तल्पं निर्भरानङ्गपीडा। किमपि जनितकम्पैरङ्गकै गमाला- वचन(चरण)चलितमल्लीवल्लरीतुल्यकुल्यैः ॥ ४६॥ मनसा सदृशानुरागभाजौ मुहुरुद्युक्तपरस्पराभिसारौ । अवमानभयेन जातचिन्ताववलन्तौ वपुषा च तावभूताम् ॥ ४७ ॥ तल्पादनल्परसमुच्चलितोऽथ तत्त्वा- त्पुष्पायुधेन बलिना परिणुद्यमानः । सोऽयं विवेश शनकैः शंफरेक्षणायाः शय्यागृहं शमितकल्पमणिप्रदीपम् ॥ ४८॥ बद्धोद्यमा तदभिसारविधौ विसोढुं तत्तादृशं मदनतापमपारयन्ती। मुग्धा विहाय शयनं खयमुत्थिता च न्यस्तं च तेन विवरे कुचयोः कराजम् ॥ ४९॥ पुलकिततनुवल्ली सा ततः प्रीतिवेगा- न्मृदुलभुजलताभ्यां गाढमालिङ्गय कान्तम् । अधिककुतुकमारादानमांदसीयं वदनमधरविम्बं चुम्बति स्म प्रकामम् ॥ ५० ॥ अनुदिवसमयोगे चेतसा काशितं य- द्यदपि मदननाम्ना देशिकेनोपदिष्टम् । २. मीनलोचनायाः, ३, एतदीयम्. १.कामः. ४. गुरुणा.
काव्यमाला। स्फुरितमभवदन्तर्यत्तदात्वे च यूनोः सुरतमननुभूतं संबभूवाभिरामम् ॥ ५१ ॥ मिथुनमिदमुदारवेदलेशानुविद्धं पुलकि गलितधैर्य पुष्यदानन्दभारम् । दृढमभजत जाग्रत्स्वप्नयोर्मध्यसंस्थां मदनरससमुत्थामत्युदारामवस्थाम् ।। ५२ ॥ अथ सुरतविरामे विस्मृतान्योन्यभेदं कृतघनपरिरम्भं कोमलाभ्यां कराभ्याम् (भुजाभ्याम्)। मिलितवदनबिम्बं मिश्रितोरुप्रकाण्ड शयनमभजतां तौ श्रान्तिभाजौ युवानौ ॥ ५३ ॥ नाराचबाण(पात)परुषे चरणायुधानां नादे ततः सरति कर्णयुगान्तरालम् । गाढं कुचान्तरगतं परिरभ्य कान्तं वान्ताशुबिन्दु कमनी वचनं बभाषे ॥ ५४ ॥ आबाल्यादपि कान्त कर्णविवरं प्राप्तैस्त्वदीयैर्गुणै- रासक्तं त्वयि मानसं द्विगुणितं जातं त्वदालोकनात् । प्राप्तोऽस्यद्य पुनर्मदीयसुकृतस्तन्मामनन्याश्रयां त्यक्त्वाद्यैव न याहि पाहि मदनातङ्केन दूनामिमाम् ॥५५॥ तन्व्या तया निगदितं शृण्वन्कर्णामृतं वचः । प्रत्युवाच प्रसन्नात्मा स कामी वामलोचनाम् ॥ ५३ ॥ अभ्यर्थनीयमतिरागजुषा मया य. न्मुग्धे त्वयैव गदितं तदिदं तथापि । १. तस्मिन्काले.. २. नायिका.
कोटिविरहम् । एतावदद्य कथयामि शपे कुचाभ्या- माभ्याममुं जनमवैहि तवैव दासम् ॥ ५७ ॥ इति कृतसमयोऽसौ कल्यमुत्थाय गत्वा द्विजवरगृहमारादात्मगेहोपमानम् । विहितसकलकृत्यो मृष्टमाखाद्य चान्नं । सपदि मुदितचेताः प्राप कान्तानिकेतम् ।। ५८ ।। सा च खानाद्यखिलमविलम्बेन निर्वर्त्य कृत्यं पत्युः प्रत्यागमनपदवीदत्तनेत्रारविन्दा । भूयोभूयः किमपि रजनीवृत्तमेव स्मरन्ती पुष्पामोदात्पुलकिततनुः खैरमस्थादलिन्दे ॥ ५९ ॥ आयातेन समं प्रियेण सुमुखी सा प्राप्य वासालयं स्वच्छप्रच्छदभाजि केलितलिमे तन्वी शयाना सुखम् । अन्यूनप्रणयप्रवाहसुभगैराकासितैश्चेतसा तैस्तैर्नर्मभिरुन्मिषत्परिमलैरहाय निन्ये दिनम् ।। ६० ।। क्षणादस्तं याते दिनकृति शनैर्वाति पवने समादायामोदं दरदलितजातीसुमनसाम् । समारूढे चेन्दौ गगनममृतस्यन्दिकिरणे स्मरोन्मादावेगादधिकविवशौ तावभवताम् ॥ ६१ ॥ गतनिजपरभावं गाढगाढप्रहारं मणितभरितगेहं मञ्जभूषाविरावम् । सुरतमधिकमासीदुद्धतं चित्तरङ्गे सति मदनविलासे कामिनां का व्यवस्था ॥ ६२ ॥ समदिवसनिशीथं क्रीडतोरेवमेव क्षणवदविदितांशा वत्सराः केऽपि याताः ।
काव्यमाला। न च सुरतसुखे तौ वीततृष्णावभूतां न खलु विषयसङ्गः शीलनेनैति शान्तिम् ॥ ६३ ॥ इत्थं निवसतोः स्वैरं नित्यं प्रत्यग्रयोस्तयोः । कदाचित्स्वगृहं याता वयस्या कार्यगौरवात् ॥ ६४ ॥ शय्योत्थायमर्थकदा प्रियतमे याते प्रभातागमे निद्राशेषनिमीलिताक्षिकमला तन्वी शयाना क्षणम् । दुर्वारं खलु दैवदुर्विलसितं स्वप्नं स्वयं सा विलो- क्यान्यासङ्गिनमात्मवल्लभमतिक्रुद्धा विबुद्धाभवत् ॥ ६५ ॥ निद्राविरामसमयेऽपि रुषा स्फुरन्त्या मुद्रादरिद्रतरया परिवृत्तचेताः । खम्नानुभूतमपि वस्तु तदस्तधैर्या तन्वी चिराय परमार्थतयैव मेने ॥ ६६ ॥ सा भामिनी परुषरोषनिवीतचित्ता नैवोच्चचाल शयनादतिदूयमाना । क्षौमोपधानममलं नयनान्तवान्तै- रातन्वती मलिनमश्रुभिरञ्जनाक्तैः ॥ ६७ ॥ यथापुरमुपस्थितः स तु विलोकयन्प्रेयसी विकारमयथापुरं विधृतमानमासेदुषीम् । विषादभरविह्वलः किमिति चिन्तयन्नन्धधी- रुवाच कलितादरं सरसया गिरा सान्त्वयन् ॥ ६८ ॥ किमेतदयि वल्लभे कथय किं न जानासि मा- ममुं तव पदाश्रयं किमिति मानमालम्बसे । १. प्रत्यहं नूतनयोः.
कोटिविरहम् । १७७ अकारणसमुद्गमामपनयाशु दूरे रुषं विषादभरिताशये मयि विधेहि दासे दयाम् ।। ६९ ॥ गलितचिकुरवन्धं गण्डसंसक्तबाप्पं विचलधरबिम्बं विश्लथन्मुग्धगात्रम् । शयनमिदमकाण्डे व्यायतश्वासवातं चकितयति मदीयं चण्डि चेतः प्रकामम् ॥ ७० ॥ मुश्च मानमनिदानमिदानीमञ्चिताक्षि हृदि संचिनु मोदम् । सिच वाङ्मयसुधाभिरधीरं पञ्चसायकहतं जनमेनम् ॥ ७१ ॥ इति विविधतराभिः सान्त्व्यमानापि वाग्भिः प्रतिवचनमुदश्रुः सा यदा न न्यगादीत् । अधिकुचतटमस्याः कातराक्ष्यास्तदासौ सूदु निजकरपझं न्यस्तवानस्तधैर्यम् ।। ७२ ॥ कितव शठ किमेतन्मा स्पृशेत्यात्तभावा निजकुचयुगमध्यन्यस्तमुत्सार्य हस्तम् । तरुणमरुणिताभ्यामश्रुपूर्णान्तराभ्यां नयनसरसिजाभ्यां वीक्ष्य रूक्षं बभाषे ॥ ७३ ।। अपसर शठबुद्धे मामकीनानिकेता- दलमतिनयवाचां विस्तरैः कृत्रिमैस्ते । ऋजुमतिरहमेवं त्वय्युपारूढरागा ध्रुवमेवमतिपात्रं हन्त जाता जनानाम् ॥ ७४ ॥ तामेव नूतनां याहि किं मया यातयामया । सति सूने दरोत्फुल्ले कस्य वृन्तश्लथे स्पृहा ॥ ७५ ॥ १. निष्कारणम्. २. अवमानभाजनम्. ३. भुक्तप्रायया. ४. शिथिलबन्धने- म्लान इति यावत्. १२ पंच काव्यमाला का सा कामिनि कथ्यतां तव सदा या मानसे वर्तते । सा चेञ्चण्डि........त्वमेव समये यातं तदैतद्गते । अद्याप्येवमिदं शपे चरणयोदृष्टे विवादैरलं खमः किं न्वयमम्बुजाक्षि सकलं स्वप्मोपमं दृश्यते ॥ ७६ परिचयवशादस्या रागः श्लथः किमु सांप्रतं धृतरुचिरभूदन्यस्मिन्वा न वेद्मि नवे जने। किमु तमुपभोंगोद्रेकामे गतं किमु शून्यतां (2) न पुनरधुना मानस्थानं मनागपि लक्षये ॥ ७७ ॥ गतधृतिरिति तत्तत्तयकर्कशेन स्मरपरिभवशोकेनाकुलीभूतचेताः । क्षणमथ धृतमौनं यत्नसंस्तम्भितात्रं नतवदनमतिष्ठत्संनिधौ संनताझ्याः ॥ ७८॥ तथा विषीदन्तमनन्यसंश्रयं न किंचिदेषा निजगाद भामिनी । अतिप्रमाणारुणितेन केवलं दिधक्षतीवैक्षत चक्षुषा रुषा ॥ ७९ ॥ आरोपितागसमनागसि मयंकस्मा- न्मानोद्धरामनुनयोक्तिभिरप्यसाध्याम् । एनां त्यजाम्यहमिति क्षणजातबुद्धिः क्रुध्यन्नसौ कृतघनश्वसितं प्रतस्थे ॥ ८० ॥ अथ विलम्ब्य विलम्ब्य शनैः शनैः प्रियतमानुगति प्रतिपालयन् । नियतिमेव मुहुः परिगर्हयन्निजमवाप चिरेण निकेतनम् ॥ ८१ ॥ चिरादृष्टैरिष्टैर्विदितनिखिलात्मीयचरितै- वसन्गेहे साकं सुमधुरवचोमिः सहचरैः । १. निरपराधे मयि समारोपितापराधाम् .
कोटिविरहम् । । स्मरन्मानाक्रान्तां मनसि दयितामेव सतत कथाबन्धैस्तस्याः कथमपि स कालं क्षपितवान् ।। ८२ ।। निघूतधैर्यविभवे हृदि नित्यमित्थं निध्यायतः प्रियतमा प्रतिपन्नदैन्यम् । अल्पीयसैव समयेन समुज्जजृम्भे पुष्पायुधार्तिरतिमात्रमसह्यतापा ॥ ८३ ।। उरसि निहितं मुक्ताहारं क्षिपन्नहिशङ्कया मलयजरसं मन्वानोऽन्तर्महाविषसोदरम् । वपुषि सहसा जातवेदो हिमाम्बुनिषेचने । शिवशिव बभूवायं सायं क्रमात्सुहृदामसौ ॥ ८४ ॥ गमिष्याम्यवाहं गतदुरभिमानः परिसरं प्रियाया हीही मां पुनरपहसेयुर्ननु जनाः । कथं वा सोढव्यो मदनपरितापः स्थितमिदं न सा द्रष्टव्या मे स्फुरति हृदये सैव तरुणी॥ ८५ ॥ इति बहुविधविकल्पदोलाधिरूढे कान्ते सा तु- याते च कोपविवशे दयिते खगेहा- द्याते च चेतसि मनागनुतापलेशे । सा भामिनी तदनुनीतिधृताग्रहापि सौभाग्यलोभचकिता न चचाल तल्पात् ॥ ८६ ॥ उत्थाय सेयमुदितस्मृतिरुत्पलाक्षी तत्पादनल्पतरसाध्वसनुद्यमाना । मत्वा बहिस्तमनिरीक्ष्य युवानमारा- दुद्वेलशोकविवशीकृतमानसाभूत् ॥ ८७ ॥ १. अनुनीतिरनुनयः , १८० काव्यमाला। अपश्यन्ती कान्तं किमिदमिति चिन्तापरवशा विनिन्दन्ती दैवं मुहुरधिकदूनेन मनसा । क्षिपन्ती बाप्पाम्भःप्रसरकलुषे दिक्षु नयने क्षणं तस्थौ तन्वी कुचनिहितबाहासरसिजा ॥ ८८॥ स्थित्वा किंचन वञ्चितास्मि विधिनेत्युत्कम्पमानान्तरा पश्यन्ती व्रजतः पदानि कमितुस्तन्वी बहिः प्राङ्गणे। भूयः खीयमुपेत्य वासभवनं मानस्मरार्तित्रपा- शोकव्याकुलिता पपात शयने लूनेव मल्लीलता ॥ ८९ ॥ इतः प्राङियूढाः प्रणयपरिपाटीसुरभिला रहः क्रीडास्तास्ताः प्रियदयित विस्मृत्य हृदये। इदानी मामीषत्कलहकलुषीभूतहृदया- मनापृच्छयाकाण्डे यदसि चलितस्तत्किमुचितम् ॥९०॥ यन्निमित्तं परित्यक्ता पूर्व प्राणसमा मया । तन्निमित्तं परित्याज्याः प्राणाश्चाद्य न संशयः ॥ ९१॥ तत्तच्चिन्ताशबलहृदयां श्रान्तगात्रीं शयानां तन्वीमित्थं तपनकिरणालीढवल्लीसकुल्याम् । प्राप्ता दैवात्सपदि सविधं तत्सखी जातखेदा श्चोतन्माली (?) सरसवचना सान्त्वपूर्वं बभाषेः ॥ ९२ ।। प्रियसखि वदनं ते किं गलद्वाष्पमेत- द्वहति तुहिनसिक्तेनाम्बुजेनाद्य मैत्रीम् । अयि कथय निदानं संविभक्तं हि दुःखं ननु भवति जनानां सह्यपीडातिरेकम् ॥ ९३ ॥ १. करकमला. बाहाशब्दस्तु भुजावाचक एव प्रसिद्धः.
कोटिविरहम् । १८१ क ते यातः प्रेयान्प्रहसितहिमांशु कुमुदिनी गतच्छाया भूयस्तनुरनुकरोतीयमधुना । शुचा दीनो मौनं भजति च निकामं परिजनः किमेतन्नो जाने वद सखि वयस्यास्मि ननु ते ॥ ९४ ॥ इति पृष्टा तया तन्वी कृत्वा निःश्वसितं शनैः । आदितो दुरवस्थां तामातुरा संन्यवेदयत् ।। ९५ ॥ श्रुत्वा वृत्तमुवाच सा च युवयोरस्मिन्नवस्थान्तरे नागः किंचन विद्यते हतविधेरेतद्विलासान्तरम् । आयास्यत्यचिरात्तथापि दयितस्त्वत्संनिधिं खिन्नधीः सौभाग्यं तव तादृशं प्रणयिता तस्यापि तादृग्विधा ॥१६॥ विरहानलेन तव मानसं यथा प्रियमानसं च परितप्यते ध्रुवम् । युवयोः परस्परविमेलना ततः सुकरा भवेत्सुरभिबाणशिल्पिनः ॥९॥ सततमिति वचोभिः स्निग्धया केलिसख्या विदितहृदयपीडोदन्तया सान्त्व्यमाना । समधिकपरितापक्षीयमाणाङ्गवल्ली समयमनयदेषा संस्मरन्ती तमेव ॥९८॥ इत्थं दैवादधिगतवतोरप्रियं विप्रयोगं रोषप्रेमव्यतिकरजुषोः सीदतोर्जातखेदम् । यूनोरासीत्सपदि पुरतो वारिदानामनेहा मानव्याधिक्षपणनिपुणः कामिनीकामुकानाम् ॥ ९९ ।। चातकीमनसि मोदमावहन्केतकीकुसुमसौरमं वहन् । धूतनूतनधनः समाययौ चूतसायकसखा समीरणः ॥ १९० ॥ १. न अपराधः. २. मदनशिल्पिनः. ३. प्रावृट्समयः. ४. कामदेवसुहृतू, काव्यमाला। सह मदनधनानिःस्वनेनोज्जजृम्भे वियति विततिभाजामारवो नीरदानाम् । अपतदवनिपृष्ठे नूतना तोयधारा सह च विरहभाजां विश्लथैरश्रुपूरैः ॥ १०१ ॥ इत्थं प्रवृत्ते समये घनानामुद्वेलमुद्भलितसूनरेणुः । उच्छूनमानं मिथुनं तदुच्चैरुच्चाटयामास मनोजमन्त्री ॥ १०२ ॥ विरहमसहमानौ वीतनिःशेषमानौ तदनु रहसि दीनौ नुद्यमानौ स्मरेण । निबिडतमसि घोरे जृम्भमाणे निशीथे निजनिजनिलयातौ निःसृतौ निःसहायौ ॥ १०३ ॥ शृण्वन्तौ श्रुतिकटु निःखनं घनानां पन्थानं पदयुगलेन वीक्षमाणौ । कुर्वाणौ हृदि च मनोरथाननेकान्दुरिस्मरविवशौ विचेरतुस्तौ ॥१०॥ स्निग्धश्यामैस्तमालैरविरलदलसंघातनीरन्ध्रशाखै- राक्रान्ते भ्रान्तभृङ्गीकुलविततगरुन्मण्डलीमण्डितान्ते । स्फायदोरान्धकारस्थगितदिशि निशीथान्तरे तत्र कुत्रा- प्यारामे मारपीडाभरपरिललितैरङ्गकैः संगतौ तौ ॥ १०५॥ आबद्धमानौ निभृतं चरन्तावा कस्मि] कस्पर्शविकम्पिताङ्गौ । आवेदयामास परस्परं तावानन्दचन्द्रः स्वयमभ्युदञ्चन् ॥ १०६ ॥ आमनाङ्गममन्दरागमधुरं तावाश्लिषन्तावुभा- वसाम्भोविसरैरतीव शिशिरैरासिच्यमानाङ्गको । आमोदादगलगिरावभिनवीभूताविवात्युत्सुका- वानन्दामृतवारिधावकुरुतामव्याजमामज्जनम् ॥१०॥ इति महाकविश्रीनारायणभट्टपादविरचितं कोटिविरहम् ।
सहृदयलीला । श्रीराजानकरुय्यकप्रणीता सहृदयलीला। श्रीमतामुत्कर्षपरिज्ञानाद्वैदग्ध्येन सहृदयत्वान्नागरिकतासिद्धिः ॥ युवत्यादीनामुत्कर्षों देहे गुणालंकारजीवितपरिकरेभ्यः ॥ तत्र शोभा- विधायिनो धर्मा गुणाः॥ रूपं वर्णः प्रभा राग आभिजात्यं विलासिता । लावण्यं लक्षणं छाया सौभाग्यं चेत्यमी गुणाः॥ अवयवानां रेखास्पाष्टयं रूपम् ॥ गौरतादिधर्मविशेषो वर्णः ।। काचकाच्यरूपा रविक्कान्तिः प्रभा ॥ नैसर्गिकस्सेरत्वमुखप्रसादादिः सर्वेषामेव चक्षुर्वन्धको धमों रागः ॥ कुसुमधर्मा मार्दवादिालनादि- रूपः स्पर्शविशेषः पेशलताख्य आभिजात्यम् ॥ अङ्गोपाङ्गानां बौव- नोद्भेदी मन्मथवासनाप्रयुक्तः कटाक्षादिवद्विभ्रमाख्यश्चेष्टाविशेषो वि- १. उद्भटविवेकाख्यग्रन्थप्रणेतृराजानकतिलकसूनू रुचकापरनामा राजानक- रुय्यकः कश्मीरेषु ख्रिस्ताब्दीयद्वादशशतकपूर्वाध आसीत्. अयमेव मङ्खकविना श्रीकण्ठचरितस्यान्तिमे सर्गे खगुरुत्वेन वर्णितः, अद्यावधि ज्ञाता एतत्प्रणीता ग्रन्थास्त्वेते--(१) अलंकारसर्वस्वम् , (२) अलंकारानुसारिणीनाम्नी जह्वणकविप्र- णीतसोमपालविलासकाव्यस्य टीका, (३) काव्यप्रकाशसंकेतः, (४) श्रीकण्ठस्तवः, (५) सहृदयलीला, (६) साहित्यमीमांसा, (५) हर्षचरितवार्तिकम्, इति सप्त, एतेषु सहृदयलीलायाः पुस्तकद्वयं भाण्डारकरोपाहश्रीमद्रामकृष्णनामशालिभिः प- ण्डितधुरीणैः पुण्यपत्तनस्थराजकीयग्रन्थसंग्रहादस्मभ्यं प्रहितम्. तत्रैकं नागराक्षर- लिखितं पत्रत्रयात्मकं नातिशुद्धं नवीनं क-चिह्नितम्. अपरं शारदाक्षरलिखितमलं- कारशेखरेण सह संबद्धं प्रायः शुद्धं प्राचीनं पत्रत्रयात्मकं ख-चिह्नितम्. पुस्तक- द्वयमपि कश्मीरलिखितमस्ति. तदाधारेणैतन्मुद्रणमारभ्यते. पाठान्तराणि चात्र लेखककृतं प्रमादमपहायैव गृहीतानि सन्दीति ज्ञेयम्, २. 'देहगुणा- इति क-पाठः, ३. 'काचकच्य' इति ख-पाठः, ४. 'नैसर्गिकः' इति ख पाठः १८४ काव्यमाला। लासिता ॥ तरङ्गिद्रवखभावाप्यायिनेत्रपेयव्यापिस्निग्धमधुर इव पीति- मोत्कर्षैकसार इव पूर्णेन्दुवदाह्लादको धर्मः संस्थानमुग्धिमव्यङ्ग्यो लावण्यम् ॥ अङ्गोपाङ्गानामसाधारणशोभाप्राशस्त्यहेतुरौचित्यात्मा स्म- यी धर्मों लक्षणम् ॥ तस्य युक्तप्रमाणतादोषस्पर्श स्निग्धवक्रनियतलो- माङ्गसुश्लिष्टसंधानतानाहपरिणाहौचित्यचक्रपद्मादिलेखाङ्कनायोगेभ्यः प्र- सिद्धाङ्गपूर्णतादोषवैकल्यधर्मसौन्दर्यप्रंमाणौचित्यलोकाप्रसिद्धविशिष्टाङ्ग- योगाख्याः क्रमेण षड्वेदाः ॥ अग्राम्यतया वक्रिमत्वख्यापिनी ताम्बू- लपरिधाननृत्तभणितिगमनादिस्थानकेषु सूक्ष्मा भनिश्छाया ॥ स्फुर- लक्ष्म्युपभोगपरिमलादिगम्योऽन्तःसारो रञ्जकतया वशीकर्ता सहृदय- संवेद्यधर्मभेदश्च सौभाग्यम् ॥ तत्राद्ये सरमदपुलकादयो भेदाः । अन्त्ये तु मणितरूपपरिभोगाधरास्वादसौरभादिभिर्युगपदसवत्त्वात्प- ञ्चेन्द्रियसुखलाभः ॥ इति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायां गुणोल्लेखः प्रथमः। रत्नं हेमांशुके माल्यं मण्डनद्रव्ययोजने । प्रकीर्ण चेत्यलंकाराः सप्तैवैते मया मताः॥ तत्र वज्रमुक्तापद्मरागमरकतेन्द्रनीलवैदूर्यपुष्परागकर्केतनमुलक- १. 'प्रमाणौचित्याख्या लोकाप्रसिद्धा विशिष्टा-' इति क-पाठः. २.'छायाम- रलक्ष्मीः' इति क-पाठः. ३."उपभोगपरिगम्योऽन्तस्मारो रजक-' इति क-पाठः. ४. 'परिभोगधाराकुसुमसौरभादिभि-' इति क-पाठः. ५. 'पञ्चेन्द्रियी' इति ख-पाठः. ६. 'कर्केतक' इति ख-पुस्तके, 'कत्केतन' इति च क-पुस्तके पाठः. ७. 'पुलकः प्रस्तरभेदे' इति मेदिनी. रुधिराख्यो मणिमेदः. तल्लक्षणं गरुड- पुराणेऽष्टसप्ततिमितेऽध्याये द्रष्टव्यम्. भीष्ममपि रत्नमेदः. 'भीष्मरत्नम्, हिमा-- लयोत्तरदेशजातशुक्लवर्णप्रस्तरविशेषे' इति शब्दार्थचिन्तामणिः, 'वजेन्द्रनीलमर- सहृदयलीला। रुधिराक्षमीष्मस्फटिकवालरूपाणि त्रयोदश रत्नानि ॥ हेम नव- धा । जाम्बूनदशातकौम्भहाटकवैणवशृङ्गीशुक्तिजजातरूपरसविद्धाक- रोगतभेदात् ॥ चतुर्धा रत्नहेममयः । आवेध्यनिबन्धनीयप्रक्षेप्या- रोप्यभेदात् ॥ तत्र ताडीकुण्डलश्रवणवालिकादिरावेध्यः । अङ्गदश्रो- णीसूत्रमूर्धमणिशिखादृढिकादिर्निबन्धनीयः । ऊर्मिकाकटकमञ्जीरस- दृशः प्रक्षेप्यः । पालम्बमालिकाहारनक्षत्रमालाप्रभृतिरारोप्यः ॥ चतु- (शुकमयः । त्वक्फलक्रिमिरोमजत्वात्क्रमेण क्षौमकार्पासकौशेयराङ्क- वादिभेदात् ।। पुनस्त्रिधा । निबन्धनीयप्रक्षेप्यारोप्यवैचित्र्यात् ॥ तंत्र निबन्धनीयः शिरःशाटकजघनवसनादिः । प्रक्षेप्यः कञ्चलिकादिः । आरोप्य उत्तरीयपटादिः ॥ सर्वस्यास्यानेकविधत्वं वर्णविच्छित्तिना- नात्वात् ॥ ग्रथिताग्रथितवंशाविविधः सन्नष्टधा माल्यमयः ॥ वेष्टि- तविततसंघाँट्यग्रन्थिमदवलम्बमुक्तकमञ्जरीस्तबकलक्षणमाल्यभेदेन ॥ तत्रोद्वर्तितं वेष्टितम् । पार्श्वतो विस्तारितं विततम् । बहुभिः पुष्पैः समूहेन रचितं संघोट्यम् । अन्तरान्तरा विर्ष ग्रन्थिमत् । स्पष्टोम्भि- तमवलम्बम् । केवलं मुक्तकः । अनेकपुष्पमयी लता मञ्जरी । कुसु- कतकर्केतनपद्मरागरुधिराख्यः । वैदूर्यपुलकविषमकराजमणिस्फटिकशशिकान्ताः॥ इति रत्नगणनायां वराहमिहिरः (बृहत्संहिता ८०१४) 'विषमक' इत्यस्य स्थाने 'विमलक' इति पाठः क्वचिदृश्यते. 'भीष्मक' इति पाठोऽपि संभाव्यते. १. 'विद्रुमरूपाणि' इति क-पाठः. २.'शुक्तिजातरूप्य' इति क-पाठः. ३. 'मे देन' इति ख-पाठः, ४. 'ताडी' इंति क-पुस्तके नास्ति. ५. प्रलम्ब' इति ख-पाठः- ६. 'भेदः' इति क-पाठः. ७. 'रोप्यमेदात्' इति क-पाठः. ८.'तत्र' इति ख-पुस्तके नास्ति. ९.'वशात्पुनर्द्विविधः' इति क-पाठः. १०. 'संघात्य इति ख-पाठः. ११. 'तत्र' इति ख-पुस्तके नास्ति. १२. 'संघात्यम्' इति ख-पाठः- १३. 'ग्रन्थिमद्विषमम् इति क-पाठः, काव्यमाला। मगुलुच्छं स्तबकः ॥ तस्यावेध्यादयोऽपि चत्वारो भैदाः ॥ कस्तूरी- कुकुमचन्दनकर्पूरागुरुकुलकदन्तसमपटबाससहकारतैलताम्बूलालक्तका- जनगोरोचनादिनिर्वृत्तो मण्डनद्रव्यमयः ॥ भ्रूघटनालकरचनाधम्मिल्ल- बन्धादिर्योजनामयः ॥ द्विधा प्रकीर्णमयः ।। जन्यनिवेश्यभेदेन ॥ श्र- मजलमधुमदादिर्जन्यः ॥ दूर्वाशोकपल्लवयवाङ्कुररजतत्रपुशङ्खतालदलद- न्तपत्रिकामृणालवलयकरक्रीडनकादिनिवेश्यः ॥ एतत्समवायो वेषः ।। स च देशकालप्रकृत्यवस्थासात्म्येन । एतेषां विच्छित्त्या यथास्थान- निवेशनपरभागलाभाद्रामणीयकवृद्धिः ।। इति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायामलंकारोल्लेखो द्वितीयः । शोभाया अनुप्राणकं यौवनाख्यं जीवितम् ।। बाल्यानन्तरं गा- त्राणां वैपुल्यसौष्ठवविभक्तताविधायी स्फुटितदाडिमोपमः स्मरवसति- स्वस्थाभेदो यौवनम् ।। तस्य वयःसंघिरारम्भः ॥ मध्यं तु प्रौढि- कालः ॥ प्रथमे धम्मिल्लरचनालकभङ्गनीवीनहनदन्तपरिकर्मपरिष्क- रणदर्पणेक्षणपुष्पोच्चयमाल्योम्भनजलक्रीडाद्यूताश्लीलच्छेकभणित्यनिमि- त्तलज्जानुभावशृङ्गारशिक्षादय आवर्तमानाश्चेष्टाः ॥ अन्त्ये तु शृङ्गारा- नुभावतारतम्यं श्रेयः॥ इति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायां जीवितोल्लेखस्तृतीयः । १. 'कर्पूरागुरुपटवास' इति क-पाठः. २. 'वेशः' इति पुस्तकद्वयेऽपि ३. 'इति सहृदय-'. इति क-पाठः, 'सहृदय-' इति ख-पाठः, 'श्रीराजानक-' इत्यादि पुस्तकद्वयेऽपि नास्ति. ४. 'बाल्यान्तरं' इति ख-पाठः, ५. "विधायी सदस्फुटो. दाडिमोपमः' इति क-पाठः ६. 'अत्रापि पूोल्लेखसमाप्तिवदेव पुस्तकद्वये वर्तते.
सहृदयलीला। १८७ शोभाया आरादुपकारकत्वाव्यञ्जकः परिकरः ॥ तस्य चेतनाचे- तनयोः स्थाणुचलयोः प्रत्येकं श्लिष्टसंनिहितमात्ररूपत्वेनाष्टविधत्वम् ।। उत्सङ्गोपासीनकान्तहयपरिवारवातायनविताननौछत्रादीनि दर्शनानि ।। तानि द्विधा । व्यस्तसमस्तभेदात् । एवं शोभासमुत्पादकसमुद्दीपका- नुप्राणकव्यञ्जकाः क्रमाद्गुणालंकारजीवितपरिकराः ॥ एवं परस्परोप- कारकत्वादितरेतरानुग्राहकत्वं सिद्धम् ॥ इति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायां परिकरोल्लेखश्चतुर्थः । समाप्तेयं सहृदयलीला। १. 'मात्रत्वेन' इति क पाठः. २. 'सहृदयलीलायां' इत्येव ख-पाठः. ३. 'स-- माप्तेयं सहृदयचमत्कारिणी सहृदयलीला । कृतिः 'श्रीमद्विपश्चिद्वरराजानकतिल- कात्मजश्रीमदालंकारिकसमाजाग्रगण्यश्रीराजानकरुय्यकस्य राजानकरुचकापरना-- सोऽलंकारसर्वस्वकृतः' इति ख-पुस्तकेऽस्ति. क-पुस्तके तु 'सहृदयचमत्कारिणी इति विशेषणं नास्ति.