Bharti Bhawan Library Allahabad

Bodhsarah No 90

Narhari

PDF Proofread

Front matter

BENARES SANSKRIT SERIES: A COLLECTION OF SANSKRIT WORKS EDITED BY THE PANDITS OF THE BENARES SANSKRIT COLLEGE, Registered under Act XX UNDER THE SUPERINTENDENCE OF R. T. H. GRIFFITH, M. A.,C. I. E. AND G. THIBAUT, Pa. D. No. 90. बोधसारः। श्रीविहर्यनरहरिविरचितः । तच्छिष्यश्रीदिवाकरकृतयाऽर्थदीप्त्या सहितः । श्रीमदुदासीनवर्यखामिगोविन्दानन्दशिष्येण दयानन्दवामिना परिशोधितः । BODHSÂR, A TRÊATISE ON VEDANTA, BY SRI NARHARI, With a commentary by the author's pupil PANDIT DIVÁKAR. EDITED BY SWÂMÎ DAYANAND, Fasciculus II. BENARES isted by the Proprietors Messrs. Braj B. Das & Co., AND SOLD BY H. D. GUPTA, Secretary, Chowkhamba Sanskrit Book Depot, takis RESERVED. Printed at the Vidya vilas Press, BENARES. 1904 so

No text on this page.

28290 967 ५ समन्वयसरखती। सर्वेषां तत्र तन्त्राणामुपयोगो यथायथम् । वदामि तत्समासेन सर्वमेव यथातथम् ॥ ३ ॥ सर्वेषामिति । तत्र तेषु साधनेषु सर्वेषां समस्तानां त- न्त्राणां शास्त्राणां यथायथं येन येनोपयोगेनोपयोगः प्रयो- जनमस्ति तत्सर्वमेव तत्समस्तमपि यथार्थ समासेन संक्षेपेण वदामि कथयामि त्वं शृण्वित्यर्थः ॥ ३॥ तत्र तावद्ध्याकरणोपयोगमाहार्धेन । जायते शब्दशास्त्रेण पदव्युत्पत्तिरुत्तमा । व्युत्पत्तिश्च पदार्थानां न्यायवैशेषिकोक्तिभिः ॥४॥ जायत इति । शब्दशास्त्रेण व्याकरणेनोत्तमा यथार्थी पदव्युत्पत्तिः पदानां सुप्तिङन्तानां व्युत्पत्तिानं जायते भ- वति, न्यायादीनामुपयोगमाह न्यायवैशिषिकोक्तिभिः, न्यायस्य वैशेषिकस्योक्तिभिर्वाक्यैः पदार्थानां पदानां लक्ष्या वाच्या वार्थास्तात्पर्याणि तेषां व्युत्पत्तिश्च ज्ञानमपि भवति ॥ ४ ॥ मीमांसोपयोगमाहार्धेन । मीमांसया च वाक्यार्थव्युत्पत्तिः परिनिष्ठिता। व्यक्तिः सांख्येन तत्त्वानां योगेन मनसो यमः।।५॥ मीमांसयेति । मीमांसया मीमांसाशास्त्रेण वाक्यार्थव्यु- त्पत्ति क्यानां पदसमूहानामर्थस्तात्पर्त्य तस्य व्युत्पत्तिश्च ज्ञानं परिनिष्ठिता स्थिरा भवतिः सांख्योपयोगमाह पादेन व्य- क्तिरिति, सांख्येन सम्यगसांकर्येण ख्यायन्ते तत्वानि प्र- कृतिपुरुषादीनि अनेनेति सांख्यं तेन तत्त्वानां प्रकृत्यादीनां व्यक्तिरसाकर्येण प्रतीतिर्जायते, योगोपयोगमाह पादेन १३ A

९८
बघिसारे ।
योगेनेति, योगेन चतुर्विधेन शैवेन पातञ्जलेनैकविधेन च मन-
सोन्तःकरणस्य यमोवरोधो निरोधाख्यसमाधिरूपो जायते ॥५॥
वेदान्तोपयोगमाह ।
महावाक्यार्थविज्ञानं वेदान्तैर्ब्रह्मनिष्ठया ।
इत्येवं सर्वतन्त्राणां ब्रह्मण्येव समन्वयः ॥ ६ ॥
इति श्रीबोधसारे समन्वय सरस्वती ॥१॥
महावाक्येति । वेदान्तैरुपनिषद्वाक्यैर्महावाक्यार्थविज्ञानं
महावाक्यानि तत्त्वमस्यादीनि तेषामर्थस्तात्पर्य जीवब्रह्मणोरे-
क्रत्वं तस्य विज्ञानं बोधो जायते परन्तु ब्रह्मनिष्ठया ब्रह्मणि
निष्ठा सहजं प्रेम तया स्यान्न तु केवलेन वेदान्तार्थविचारे-
णेति भावः ॥६॥
চুৰি খালবিহিন্ধিনিৰিয়া জাখৰাধীদ্বী
समन्वयसरखत्यार्थप्रकाशो नवमः ॥९॥
अथाविरोधबोधः।
एवं सर्वशास्त्राणां वेदान्तार्थे जीवब्रह्मैक्ये समन्वयेनानुकूल्यं
प्रदश्यतत्प्रसङ्गेनैव वेदान्तवाक्यजन्ये बोधे जातेपि तस्मिन्द्वैता-
दीनां भिन्नार्थलेन विरोधित्वप्रतीतिर्बाधिका स्यादिति हेतोस्त-
निरासायाविरोधबोधाख्यं सप्तश्लोकं प्रकरणमारभते, तत्र ताव-
समन्वयनिरूपणप्रसङ्गेनैव तदनन्तरमविरोधबोधनिरूपणं प्र-
तिजानीतेऽर्धन ।
प्रसङ्गादविरोधस्य बोधोप्यत्र निरूप्यते ।
व्यवहारे द्वैतसत्वं द्वैताद्वैतमते समम् ॥ १ ॥

अविरोधबोधः । २४ प्रसङ्गादिति । प्रसङ्गात्सर्वशास्त्रनिरूपणप्रसङ्गेनैवावि- रोधस्य द्वैताद्वैतादिसर्वमतानामानुकूल्यस्य बोधो विज्ञानमपि अत्रास्मिन्ग्रन्थे प्रकरणेनेत्यर्थः, निरूप्यते कथ्यते प्रतिपाद्यत इत्यर्थः, त्वं शृण्विति शेषः, तत्र तावद्वैताद्वैतविवादं परिहर्तु दै- ताद्वैताविरोधमाहार्धेन व्यवहारे इति, व्यवहारे व्यवह्रियते व्या- प्रियतेनेनेति व्यवहारो व्यापारस्तस्मिन्द्वैतसत्त्वं दैतस्य सत्त्वं सत्यत्वं द्वैताद्वैतमते दैतमतेऽद्वैतमते च समं तुल्यमस्ति वे- दान्तिभिरपि व्यवहारे द्वैतस्याङ्गीकृतत्वाद्वैतवादिभिरपि प्रती- तिविषयत्वेनैव द्वैतसत्त्वस्याङ्गीकृतत्वावयोर्मतयोर्न विरोध इति भावः ॥१॥ ननु द्वैताद्वैतवादेऽद्वैतकाल्पिताकल्पितत्वरूपविरोधस्य स- त्त्वात्कथमविरोध इत्याशक्य वेदान्तिभिः प्रातीतिकद्वैतापवादा- र्थकत्वेनाद्वैतेपि तथात्वस्याङ्गीकृतत्वान्न सिद्धान्ते विरोध- स्तेनेत्याह । अद्वैतकल्पितत्वं चाविरोधोतो मतहये । विवदन्ति मुहुर्वादरसैस्तद्विवदन्तु ते ॥ २ ॥ अद्वैतकल्पितत्त्वमिति । अद्वैतकल्पितत्त्वं चाद्वैतस्य क- ल्पितत्वमारोपितत्वमपि द्वैताद्वैतमत उभयत्रापि सममिति पूर्वेणै- वान्वयः, वेदान्तिनोपि सिद्धान्तेऽद्वैतस्य कल्पितत्वं मन्यन्ते त- देव द्वैतवादिनोप्यद्वैतकल्पितत्वं प्रतिपादयन्तीत्याशयः, अतः कारणान्मतद्वये मतयोद्वैताद्वैतयोये युग्मेऽविरोधो विरोधो नास्तीत्यर्थः, ननु तर्हि द्वेताद्वैतिनोर्विषयेऽविरोधे कथंविवादः प्रवर्तत इत्याशङ्ख्याह विवदन्तीति, ये वादरसिकाः केवलं वा- दरसैर्वादेषु ये रसाः प्रातीतिकाः स्वस्मादन्यपराभवस्त्राधिक्या- Shiksha Paintain बोधसारे। दिजन्याः सुखविशेषास्तनिमित्तभूतैर्मुहुः पुनः पुनर्विवदन्ति परस्परं विरुद्धं वदन्ति तत्तस्माते मूर्खा विवदन्तु विरुद्धं व- दन्तु विवेकिभिर्जिज्ञासुभिश्चा विरोधं ज्ञात्वा विवादस्त्याज्य इति भावः ॥२॥ एवं द्वैताद्वैतविरोधं परिहत्य विशिष्टाद्वैताद्वैतयोर्विरोधः प- रिहर्तव्यः । तत्र तावद्विशिष्टाद्वैतिनो हि अद्वैतब्रह्मपरिणामो जीवो जगच मन्यन्ते, अद्वैतवादिनस्तु जीवो ब्रह्मैव जगच्चाद्वैत- ब्रह्मविव” इति मन्यन्त इति यद्यपि विरोधः प्रतीयते, तथापि जीवोपार्जगतश्च मायापरिणामत्वेन वेदान्तिभिरप्यङ्गीकृतत्वात्, किञ्च साधनसम्पत्तेर्वेदान्तिनामपीष्टत्वाच विशिष्टाद्वैतिभिरपि साधनादराय ब्रह्मपरिणामत्वं जीवस्य स्थापयित्वा तन्निरासाय साधनसम्पत्या जीवत्वनाशेनाद्वैतेश्वरत्वप्राप्तिः प्रतिपाद्यतेऽत- स्तदविरोधं ज्ञापयितुं यमादिसर्वसाधनानां सर्वसंमतत्वमाह द्वाभ्याम्। यमास्त्वहिंसासत्याद्या नियमाः शुचितादयः । सुखासने च संस्थानं प्रत्याहारस्तु सर्वतः ॥३॥ यमास्त्विति । यमाः पञ्चाहिंसासत्याद्या अहिंसा च हिंसात्याग आवश्यकं विना स च ज्ञेयः, सत्यं सत्यवचनं स- त्यप्रतिज्ञत्वादिराद्यः प्रथमं येषामस्तेयब्रह्मचर्यापरिग्रहाणां ते यमा ज्ञेयाः, तथा शुचितादयः शुचिता निर्मलत्वमादिः प्र- थम येषां सन्तोषखाध्यायतपईश्वरमणिधानानां ते शुचितादयो नियमा ज्ञेयाः । संस्थानं च सम्यक्स्थी- यतेनेनेति संस्थानं शरीरस्य स्थैर्यसम्पादनं, सुखासन इति निमित्ते सप्तमी चर्मणि द्वीपिनं हन्तीतिवत्, सुखासननि- मित्तजं शरीरे स्थैर्य सम्पाद्यमिति भावः, यद्वा सुखेन यदा- अविरोधबोधः। । सन स्थितिरेतादृश्येव शरीरस्थिरता सैवासनं मुख्यमित्यर्थः, यद्वा सुखे सुखरूपे ब्रह्मणि आस्यते स्थीयतेनेनेति सुखासनं वृत्तेब्रह्मणि स्थैर्यमेवात्र शरीरस्थैर्यकारणबाच्छरीरस्थिरता 'नान्या बद्धपद्मासनादिरूपा शरीरस्थिरता मतेत्यर्थः, तथा स- वतः सर्वेभ्यो विषयेभ्य इन्द्रियाणामिति शेषः, स तु प्रत्या- हारो ज्ञेयः ॥ ३॥ धारणा च तथा ध्यानं समाधानं च चेतसः । योगाङ्गसप्तकं त्वेतत्सर्वेषामपि संमतम् ॥ ४ ॥ धारणेति । धारणा च कस्मिंश्चिद्विषये चित्तस्थैर्यास्थैर्ये ज्ञातुं तस्यैव स्थापनं धारणाशब्देनोच्यत इत्यर्थः, तथा ध्यानं वृत्तीनामिष्टैकवस्तुविषयकप्रवाहोन्यविषयवृत्तिभिरनन्तरितस्त- यानमित्युच्यते चेतसत्रिपुटीरूपस्य चित्तस्य समाधान ध्येयमात्रावस्थानं समाधियः, एतत्तु इदमपि योगाङ्गसप्तकं योगस्य निर्वीजसमाध्याख्यस्य निरोधापरपर्यायस्याङ्गानां सा- धनानां सप्तकं सप्तानां समूहः समूहे कन्प्राणायामस्य तु सर्वै- रेवाङ्गीकृतत्वात् विना सप्तैवात्रोक्तानीति ज्ञेयं, सर्वेषामपि दै- ताद्वैतवाद्यादीनामपि संमतमिष्टमतस्तदर्थवतो विशिष्टाद्वैतस्य न केनापि विरोध इति भावः ॥४॥ इदानीं लयादीनामपि सर्वेषां विरोध परिहरति । लये मन्त्रे हठे राज्ञि भक्तौ सांख्ये हरेर्मते । मतैक्यमस्ति सर्वेषां ये बुधा मोक्षमार्गगाः ॥ ५ ॥ लय इति । लये लययोगे 'निद्रादौ जागरस्यान्ते निद्रान्ते जागरोदये। लयो भवति चित्तस्य कार्य तत्रात्मचिन्तनमि'त्या- । KHEROINETRITTENETIREME Asaraited बोधसारे। दिषु लयप्रतिपादकेषु लय आत्मचिन्तनायोक्तस्तस्मिन्नपि न वेदान्तिभिः सह विरोध इत्यर्थः, आत्मचिन्तनोपयोगित्वादिति भावः । मन्त्र मन्त्रयोगे शैववैष्णवादिमन्त्राणामपि देवताप्रसाद- हेतुवात्तस्य च ज्ञानप्राप्तिहेतुत्वात्तस्याश्च मुक्तिहेतुत्वान्न वि- रोधो वेदान्तिनां मन्त्रयोगिनां चेति भावः । तथा हठे हठयोगे हठस्यापि शिवशक्तिसमायोगफलत्वात्तस्य च साम्यरूपत्वा- तस्य चान्ताकरणशुद्धिद्वारा ज्ञानहेतुत्वान्न विरोधो हठवेदा- न्तयोरिति भावः, राजि राजयोगे राजयोगस्य च स्वरूपस्थि- तिरूपत्वान्न कोपि विरोध इति भावः, भक्तौ भक्तियोगे भक्ति- योगस्याप्यन्तःकरणशुद्धिद्वारा ज्ञानप्राप्त्या मुक्तिहेतुत्वान्न वि- रोधो वेदान्तेन सहेति भावः, सांख्ये सांख्यमते सांख्यस्यापि तत्त्वविवेचनद्वारा पुरुषासङ्गत्वज्ञानेन त्वंपदार्थशोधन उपयो- गित्वावेदान्तिभिः सह सांख्यानां न विरोधः, हरेमते श्रीकृ- ष्णस्य 'यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तप- स्यसि कौन्तेय तत्कुरुष्व मदर्पणमित्यायुक्तलक्षणे भागवतधर्म इत्यर्थः, एतस्मिन्नपि कर्तृत्त्वबाधेन 'नान्योतोस्ति द्रष्टे'त्यादिश्रु- त्यर्थानुकूल्येनाविरोधो वेदान्तेन सहेति भावः, एवं सर्वेषां स- वंशास्त्राणां मतैक्यं मतस्येष्टार्थस्यैक्यमविरोधोऽस्ति विद्यते य एवं विदुरिति शेषः, ते बुधा ज्ञानिनस्ते मोक्षमार्गगा मो- क्षस्य मार्गो जीवब्रह्मैक्यज्ञानं तेन गच्छन्ति प्रवर्तन्त इति तथो- क्तास्ते ज्ञेयाः, यदि मतेषु तात्पर्यभेदं पश्यन्ति तर्हि तेऽज्ञा- निन इति भावः ॥ ५॥ ननु हठयोगे प्राणायामादिना क्लेशबाहुल्यमित्याशमा प्रा- णायामेन मनःस्थैर्यलक्षणप्रयोजनसद्भावात तस्यापि सर्वसंम- तत्वमित्याह । । " साडन्याजनशलाका। १०३ हठिनामधिकस्त्वेकः प्राणायामपरिश्रमः । प्राणायामे मनःस्थैर्य स तु कस्य न संमतः॥६॥ इठिनामिति । हठिनां हठयोगिनामेको मुख्यः प्राणाया- मपरिश्रमस्तु प्राणानामायामो नियमनन्तु अन्येभ्यो विलक्षणो धिको विशेषोस्ति तस्मिश्च प्राणायामे सिद्धे सति मनःस्थैर्य मनसश्चित्तस्य स्थैर्य स्थिरत्वं जायत इति शेषः, अतः स तु प्रा- शायामश्च कस्य साधकस्य न संमतो नेष्टः सर्वस्यापीष्ट इत्यर्थः ॥६॥ तस्मात्सर्वमतानां मुक्तिफलत्वं सिद्धमित्याह । विमुक्तिर्वादिनां तस्मान्मतभेदो न कश्चन । कश्चित्कश्चिन्मते भेदस्त्वस्ति वेदान्तिनामपि ॥७॥ इति श्रीनरहरिकृती बोधसारे विरोधबोधः ॥ ७॥ विमुक्तिरिति । तस्मात्फलेऽविरोधाद्वाादिनां सर्वेषां स्वस्वमतवादशीलानां विमुक्तिर्मोक्षः स्यादतः फलैकत्वा- कश्चन कोपि मतभेदो मतेषु भेदो भिन्नत्वं न नास्ति, ननु तैः स्वस्वप्रक्रियासु अन्यथान्यथा प्रतिपाद्यतेऽतः कुतो न भेदस्ते- वित्याशङ्ख्याह कश्चिदिति, वेदान्तिनामपि अद्वैतवादिनामा मते सिद्धान्ते कश्चित्कश्चित्कोपि कोपि भेदो भिन्नत्वमेकजी- वत्वानेकजीवत्वादिरूपोऽस्ति वर्तते प्रक्रियाभेदेन विषयभेदे वेदान्तेपि विषयभेदः स्यादिति भावः ॥ ७॥ इतिश्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थादीता. वविरोधबोधार्थप्रकाशो दशमः ॥१०॥ Siasationार

बोधसारे।
अथ सांख्याअनशलाका।
एवं सर्वमतानामविरोध प्रदर्थेदानी सांख्यस्यापि असङ्ग-
पुरुषज्ञानसाधनत्वात्तस्य च त्वंपदार्थशोधनेन त्वंपदलक्ष्ये
कूटस्थ उपयोगात्तदर्थज्ञानाय सांख्यं निरूपयितुं सांख्यान-
नशलाकाख्यमेकविंशतिश्लोकं प्रकरणमारभते, तत्रादौ सांख्या-
अनशलाकेतिप्रकरणनामार्थ सम्भावयितुं तदर्थनिरूपणाय च
रूपकमाह।
नेत्रयोरञ्जनं कार्य सांख्यांजनशलाकया।
ततस्तिमिरनाशेन सूक्ष्मवस्तु विलोक्यते ॥ १ ॥
नेत्रयोरिति । हे शिष्य त्वया सांख्याञ्जनशलाकया स-
म्यग्निःसन्देह यथा तथा ख्यायन्ते कथ्यन्ते तत्त्वानि प्रकृति-
पुरुषादीनि अनेनेति सांख्यं शास्त्रं तदेवाअनशलाका तया ने-
त्रयोः प्रकृतिपुरुषज्ञानरूपयोनीयते प्राप्यतेऽसङ्गं तत्त्वं याभ्या-
मिति नेत्रे तयोर्नेत्रसदृशयोः प्रकृतिपुरुषविषयकज्ञानयोरित्यर्थः,
अञ्जनमज्यते व्यज्यते स्वरूपमनेनेति अञ्जनमसङ्गत्वज्ञानं शा-
खजन्यं तत्कार्य कर्तव्यं, किं फलं तस्येत्यपेक्षायां फलं दर्श-
यति तत इति, ततः कृतनेत्राञ्जनात्तिमिरनाशेन नेत्रस्थिताज्ञा-
ननाशेन सूक्ष्मवस्तु अदृश्यत्वात्सूक्ष्मं वस्तु यथार्थभूतं स्वरूपं
विलोक्यते प्रत्यक्षमनुभूयते, इदमेव फलं ज्ञेयम् ॥ १ ॥
एवं फलप्रदर्शनेन मुमुक्षूणां सांख्यश्रवणे रुचिमुत्पाद्ये-
दानीं तेषां तत्र विश्वासं जनयितुं सांख्यसंप्रदायत्रैष्ठ्याय त-
संप्रदायमाह ।
कपिलेन मुकुन्देन देवहूती प्रबोधिता ।
सर्वतत्त्वविवेकेन तत्सांख्यमभिधीयते ॥ २ ॥

ত্রিবাঙ্কা। कपिलेनेति । मुकुन्देन मुक्तिदेन परमेश्वरेणैव कपिलेन क- पिलनामकेनाचार्येण सर्वतत्त्वविवेकेन सर्वाणि तत्त्वानि स- मतानि प्रकृतिपुरुषादीनि तत्त्वानि विविच्यन्ते पृथग्लक्षणैर- सङ्कीर्य ज्ञाप्यन्तेस्मिन्निति सर्वतत्त्वविवेकं सांख्यशास्त्रं तेन कृत्वा येनेत्यध्याहार्य, देवहूतीनाम्नी स्वमाता प्रबोधितोप- दिष्टा तच्छास्त्र सांख्यं सांख्यनामकमभिधीयते कथ्यतेऽतो- त्र विश्वास कार्य इति भावः ॥२॥ एवमत्र विश्वासजनयिखेदानी सांख्यप्रतिपायेषु तत्वेषु मध्ये मूलकारणभूतां प्रकृति प्रधानापरपर्यायां लक्षयति । सर्वा विकृतयो यस्याः स्थूलसूक्ष्माश्चराचराः । अस्ति काचिदनिर्देश्या प्रकृतिस्त्रिगुणात्मिका॥३॥ सर्वा इति । यस्याः कारणभूतायाः स्थूलसूक्ष्माः स्थूला पश्चीकृतभूतभौतिकरूपाः सूक्ष्मा अपञ्चीकृतभूतभौतिकरूपाश्च चराचराः पञ्चीकृतभौतिकेष्वपि चरा जङ्गमा अचराश्च स्था- बराः सर्वाः समस्ता अपि विकृतयः विकाराः कार्याणीत्यर्थः, भवन्ति एतादृशी त्रिगुणात्मिका त्रयाणां गुणानां सत्त्वरज- स्तमोभिधानानां साम्यावस्थारूपाऽनिर्देश्या सवेनासत्त्वेन वा केनापि रूपेण निर्देशानहींऽत एवं काचिदनिर्वचनीया प्र. कृतिः सर्वजगत्कारणरूपत्वात्प्रकृतिनाम्न्यस्ति विद्यते तद- सत्वे जगत्सत्त्वप्रतीत्यनुपप तेरिति भावः, तथा चात्र सांख्यानां कारिका 'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । घोडशकस्तु विकारो न प्रकृतिन विकृतिः पुरुष' इति ॥ ३ ॥ एवं मूलप्रकृतिलक्षणं निरूप्येदानीं सप्त प्रकृतिविकृतीराह । १४ CHHANESC riya बोधसारे। महतत्त्वमहङ्कारः पञ्च तन्मात्रकाणि च । प्रकृतिविकृतिश्चेति सप्तैतानि भवन्ति हि ॥४॥ महत्तत्त्वमिति । महत्तत्वमेकमहङ्कारो द्वितीयः पञ्च प- श्वसंख्यानि तन्मात्रकाणि च शब्दस्पर्शरूपरसगन्धाख्यानि अपि एतानि हि प्रसिद्धानि उक्तानि सप्त सप्तसंख्याकानि प्र- कृतिः कारणरूपाणि विकृतिश्च कार्यरूपाण्यपि भवन्ति जा- यन्ते ॥४॥ नन्वतेषां कारणत्वं कार्यत्वं चैकैकस्य परस्पर विरुद्धं कथं सम्भाव्यमित्याशङ्ख्याह । स्वकारणानां विकृतिः प्रकृतिः स्वोद्भवस्य यत् । एवमष्टौ प्रकृतयस्ततो विकृतयो भवन् ॥ ५ ॥ खेति । यद्यस्मात्कारणान्महदादीनि प्रत्येकं स्वका- रणानां स्वस्य स्वस्य च यानि यानि कारणानि प्रकृत- यस्तेषां विकृतिः स्वयं विकारः कार्यमित्यर्थः, तथा स्वोद्भवस्य स्वस्मात्स्वस्मात्कारणरूपादुद्भव उत्पत्तिर्यस्य यस्य कार्यरूपस्य तस्य तस्य स्वयं प्रकृतिः प्रक्रियते कार्यमनया सा प्रकृतिः का- रणं भवतीति शेषः, सर्वप्रकृतिसंख्यामाह एवमिति, एवमुक्तरी- त्या प्रकृतयः प्रकृतिशब्दवाच्यानि कारणानि अष्टावष्टसंख्या मूलप्रकृत्या सहेति ज्ञेयाः, ताभ्य एव विकृतिसम्भवमाह तत इति, ततस्ताभ्योष्टप्रकृतिभ्यो विकृतयो विकाराः षोडशसंख्याका धक्ष्यमाणा अभवञ्जाताः ॥ ५ ॥ तानेव विकारान्संख्यया सह निरूपयति । व्योमादिपञ्चभतानि पञ्च ज्ञानेन्द्रियाणि च ।

सांख्याञ्जनशलाका ।
कर्मेन्द्रियाणि पश्चैव मनसा सह षोडश ॥ ६ ॥
व्योमादीति । व्योमादिपञ्चभूतानि व्योमाकाशमादिर्येषां
वाय्वादीनां चतुर्णा तानि व्योमादीनि तानि पञ्चसंख्यानि
भूतानि च तथा तानि, तथा ज्ञानेन्द्रियाणि च शब्दादिज्ञानसा-
धनान्यपि करणानि पञ्च पञ्चसंख्यानि पूर्वपञ्चकेन सह दश
भवन्ति, तथा कर्मेन्द्रियाणि क्रियाजनकानि करणानि पञ्चैव
पञ्चसंख्याकान्येव, एवं पूर्वदशकेन सह पञ्चदश भवन्ति, तानि
सर्वाणि मनसाऽन्तःकरणेन सह साकं षोडशसंख्याका एते
विकारा ज्ञेयाः॥६॥
तानेव विकारान्स्पष्टं नामतो निर्दिशति सपादद्वाभ्याम् ।
खं वायुरग्निस्तोयं भभूतपञ्चकमुच्यते ।
शब्दस्पशौं रूपरसौ गन्धस्तेषां गुणाः क्रमात्॥७॥
खमिति । खमाकाशं वायुरनिलोऽग्निस्तेजस्तोयं जलं
भूः पृथ्व्येतद्भूतपञ्चकं भूतानामाकाशादीनां पञ्चकं पञ्चसमूहः
समूहे कन्, उच्यते कथ्यते मुनिभिरिति शेषः, प्रसङ्गात्तेषां गु-
णानप्याह शब्देति, शब्दस्पर्शी शब्दश्व प्रतिध्वनिरूपः स्पर्शश्चा-
नुष्णाशीतरूपस्तौ द्वौ रूपरसौ रूपं च प्रभारूपं रसश्च माधुर्य-
रूपस्तौ द्रावेवं पूर्वाभ्यां सह चत्वारः, गन्धः सामान्यगन्धः
पञ्चमः, एते पञ्च तेषां गुणा वियदादीनां गुणा धर्माः क्रमा-
क्रमेण ज्ञेयाः ॥७॥
इन्द्रियाणां दशकमाह ।
श्रोत्रं त्वचक्षु रसनं घ्राणं ज्ञानेन्द्रियाणि च ।
वाक्याणिपादपायवादि पञ्च कर्मेन्द्रियाणि च ॥८॥

बोधसारे। श्रोत्रमिति । श्रोत्रं श्रुति: शब्दज्ञानकरणमित्यर्थः, स्वक्स्प- शजानकरणमित्यर्थः, चक्षुर्नेत्रगोलकस्थं रूपज्ञानकरणं, रसन रस्यतेनेनेति रसनं रसज्ञानकरणं जिह्वागोलकस्थं, घ्राणं नासिका गोलकस्थं गन्धज्ञानसाधनमेतानि पञ्च ज्ञानेन्द्रियाणि ज्ञान- करणानि ज्ञेयानि, कर्मजनकानीन्द्रियाण्याह वागिति, वाग्व- चनजनकं जिह्वास्थं करणं, पाणिग्रहणत्यागजनक हस्तस्थं करणं, पादो गतिक्रियाजनकमंत्रिस्थं करणं, पायुर्गदस्थं मलो- सर्गक्रियाजनकमिन्द्रियमादिपदेनोपस्थं शिश्नस्थं रतिसुखज- नक- करणमेतानि कर्मेन्द्रियाणि च क्रियाजनकानीन्द्रियाणि अपि पञ्च ज्ञेयानि ॥८॥ मनसः स्वरूपमाह । उभयारमा मनस्तेन चतुर्विशतिरीरिता । तत्त्वानां तद्विकारस्तु सर्व चैव जगत्त्रयम् ॥ ९॥ उभयात्मेति । मनः संकल्पविकल्परूपं संशयात्मिकान्त:- करणवृत्तिरुभयात्मोभयेषां ज्ञानकर्मेन्द्रियाणामात्मा कारण- मुभयेन्द्रियसाधनभूतमित्यर्थः, सर्वतत्त्वानां संख्यामाह तेनेति, तेन कारणेन तत्वानां पुरुषवर्जितानां चतुर्विंशतिश्चतुर्विंशतिपरि- मिता संख्येरिता कथिता, एवं सर्वतत्त्वसंख्यामुक्केदानी- मेतत्सर्वतत्त्वकार्यत्वं जगतो दर्शयति तदिति, सर्व समस्त ज- गत्रयं चैव भुवनत्रयमापि तद्विकारस्तेषां तत्त्वानां विकारः कार्य अस्ति तु ॥ ९ ॥ इदानी जगतः प्रकृतिकार्यत्वं दर्शयितुं प्रकृतेबैगुण्यनि- रूपणपूर्वकं सर्वजगतस्विगुणकार्यत्वेन गुणमात्रत्वं दर्शयति । प्रकृतेस्त्रिगुणात्मत्वात्सर्वं हि त्रिगुणात्मकम् ।

নাঘালাজ।
रक्तश्वेतश्यामरूपा रजःसत्त्वतमोगुणाः ॥१०॥
प्रकृतेरिति । प्रकृतेः सर्वजगत्कारणभूतायाः प्रधानापरप-
यात्रिगुणात्मत्वाहगलयसाम्यरूपत्वात्सर्वं तत्कार्यभूत ज-
गद्धि प्रसिद्धं चेदं त्रिगुणात्मकं सत्त्वरजस्तमोमात्रमस्ति जगतो
गुणमात्रत्वमेव ज्ञापयितुं गुणानां वर्णतो रूपमाहार्दैन रक्तेति, रजः
सत्त्वतमोगुणा रजश्व सत्त्वं च तमश्चैतन्नामकास्त्रयो रक्तो लो-
हितः श्वेतः शुक्ल: श्यामः कृष्ण एतानि रूपाणि येषां तथाविधाः,
एतेनैव जगतोपि रक्तश्वेतश्यामरूपत्वेन गुणमात्रत्वं निश्चय-
मिति भावः ॥१०॥
इदानीं जगतो गुणकार्यवं गुणस्वभावकथनेन सूचयत्यर्थेन ।
रजश्वलं तमः स्तब्धं प्रकाशस्सात्विको मतः ।
तमोधमं रजो मध्यं सत्त्वमुत्तममेव हि ॥ ११ ॥
रज इति । रजो रजोगुणश्चलं चञ्चलस्वभावमस्ति तक
मस्तमोगुणः स्तब्धं स्तब्धखभावं स्थिरमित्यर्थः, अस्ति प्रकाशो
ज्ञानं सालिकः सत्त्वधर्मो मतो निश्चितो मुनिभिरिति शेषः,
पुनरपि जगतो गुणकार्यत्वं ज्ञापयितुं नीचत्वादीन्धर्मान्गुणा-
नामाह तम इति, तमस्तमोगुणोऽधर्म नीचस्वभावं रजो
रजोगुणो मध्यं मध्यस्वभावं सत्वं सत्त्वगुण उत्तममेवांच-
स्वभावमेवास्ति हि प्रसिद्धमेतद्विदुषामिति भावः ॥ ११ ॥
इदानी गुणकार्यतोपि जगतो गुणमात्रत्वं दर्शयितुं गु-
णानां कार्याण्याह ।
लोभादयो रजोभावास्तमसो जडतादयः ।
सुखप्रसादबोधाद्या भावाः सत्त्वस्य कीर्तिताः॥१२॥

११० बोधसारे। लोगादय इति । लोभादयो लोभः प्राप्तेपि वस्तुनि स्पृ- हारूपान्तःकरणवृत्तिरादिर्येषामक्ष चाञ्चल्यादीनां ते रजो- भावा रजोगुणकार्याणि ज्ञेयानि, जडतादयो जडता मोह आ- दिर्येषां क्रोधादीनां ते तमसत्तमोगुणस्य भावाः कार्याणि वि- धन्ते, सुखप्रसादबोधाद्याः सुखानि प्रियमोदप्रमोदाख्याः सु- खविशेषाः प्रसादोन्तःकरण मल्यं बोधो ज्ञानं चाद्याः प्र- मुखा येषां शमादीनां ते भावाः कार्याणि सत्वस्य सत्त्वगुणस्य कीर्तिताः कथिता मुनिभिरिति शेषः, एवं प्रकारेण विचारे कृते जगतः प्रकृतिगुणकार्यत्वं सिद्धमेवेति ज्ञेयमिति भावः ॥ १२ ॥ इदानी स्पष्टमेव जगतो गुणकार्यत्वं दर्शयति । देवादयः सात्त्विकाः स्युनराद्या राजसाः स्मृताः । तामसाः पशुभूताद्या एवं सर्व विविच्यताम्॥१३॥ देवादय इति । देवादयो देवा इन्द्रादय आदयो येषां विद्याधरकिंनरगन्धर्वादीनां ते तारतम्येन सात्त्विकाः सत्त्वगु- णोद्भवाः स्युर्भवेयुः, तथा तद्वन्नराद्या नरो मनुष्य आयो येषां मुनिऋष्यादीनां ते राजसा रजोगुणोद्भवाः स्मृताः प्रोक्ताः पुराणेतिहासादावित्यर्थः, पशुभूताद्याः पशवो गोश्वादयश्च भू- ताश्च प्रेतादय आद्या मुख्या येषु पतङ्गकीटवृक्षादिषु ते ता- मसास्तमोगुणोद्भूताः, यद्यपि 'भूतोमी देवयोनय' इत्यमरसिंहेन देवयोनित्वमुक्तं तथापि तदन्तर्धानादिशक्तिमत्त्वेनेति ज्ञेयं, ता- मसत्वं क्रौर्याचतिशयवत्त्वादिति भावः, उक्तमन्यत्राप्यतिदि- शति एवमिति, एवमुक्तप्रकारेण सर्व वस्तुजातं विविच्यतां सात्त्विकादिभेदेन पृथक्पृथग्ज्ञायतामित्यर्थः ॥ १३ ॥ एवं जगतो गुणकार्यत्वं प्रदर्येदानीं सांख्यस्य वेदान्ता- सान्चाजनशलाका। नुकूल्याय तत्कारणभूतप्रकृतेर्मायात्वं ज्ञापयितुं गुणानामघ- टितघटनाकारित्वं दर्शयति । विरोधिनस्सहायाश्च मिथः कार्य च कारणम् । मिलित्वा कार्यकर्त्तारो गुणा विषमचेष्टिताः॥१४॥ विरोधिन इति । गुणाः प्रकृतिलक्षका धर्मा रजःसत्त्वत- मोरूपा मिथोऽन्योन्यं विरोधिनो विरोधो विद्यते येषां ते तथोक्ताः परस्परनाशकस्वभावा इत्यर्थः, सहायाश्च मिथो ऽन्योन्यमनुकूलास्तत्तत्कार्यजननेऽन्योन्यमनुकूला इत्यर्थः, स- न्तीति शेषः, अन्योन्य कार्य कारणं च परस्परं कार्यकारणरूपा अपि भवन्ति, किञ्च गुणाः सत्त्वरजस्तमोभिधा विषमचेष्टिता विषममन्योन्यनाशकं चेष्टितं चेष्टा येषां ते प्रकाशकं सत्त्वं चा- चल्यादिमद्रजो लयरूपं तमः, एवं वैषम्याद्गुणानां परस्परं प्रा- तिकूल्यमिति भावः, गुणाः मिलित्वैकीभूय कार्यकार: कार्यस्य जगतो जननस्थितिनाशरूपस्य कर्तारः कारका भ- वन्ति, एतेन गुणानामघटितघटनारूपत्वेन तत्कार्यस्य जग- तोपि तथात्वादुभयत्र मायालक्षणसिद्धर्मायात्वं सिद्धं तेन च तत्कारणभूतप्रकृतावपि तत्सिद्धमेवेत्यूद्यमिति भावः ॥ १४ ॥ एवं प्रकृतेर्मायात्वं प्रदर्येदानी पुरुषस्यासङ्गत्वं दर्शयितुं विश्वस्यात्मनश्च वैलक्षण्यं दर्शयति । विश्वं गुणात्मकं सर्वमात्मा निर्गुण एव हि । प्रकाशकतया तत्र प्रविष्ट इव भासते ॥ १५ ॥ विश्वमिति । सर्व समस्तं विश्वं जगद्गुणात्मकं गुणा ए- वात्मा स्वरूपं यस्य तद्गुणरूपमित्यर्थः, आत्मा पुरुषो हि वि- ते

बोधसारे।
लक्षणत्वेन प्रसिद्धो विदुषां निर्गुण एव गुणरहित एवातस्तन
जगति गुणकार्ये प्रकाशकतया गुणानां जगतश्च प्रकाशकलक्ष-
णाभासरूपसम्बन्धाभासेन प्रविष्ट इव प्रविष्टसदृशो भासते म-
तीयते वस्तुतस्तु न प्रविष्ट इत्यर्थः, अत एव न केन चित्स-
म्बन्ध आत्मनः सम्भवति तेन चासङ्गत्वं सर्वदैवात्मनः सि-
मिति भावः ।। १५ ॥
इदानीं सर्वतत्त्वेभ्यो वैलक्षण्यं पुरुषस्य सदृष्टान्तमाह ।
यथा द्वात्रिंशद्दन्तस्था रसज्ञा रसवेदिनी।
चतुर्विंशतितत्वान्तः स्वात्मज्ञस्तत्त्ववित्तथा ॥१६॥
यथेति । यथा यद्वात्रिंशदन्तस्था द्वात्रिंशत्संख्यदन्त-
समूहस्था रसज्ञा रसान्मधुरादीजानातीति रसज्ञा जिह्वा स-
वरसानुभवित्रीत्यर्थः, रसवेदिनी रसवेदनशीला रसज्ञानरूप-
क्रियाकरणरूपेत्यर्थः, न तु दन्ता रसवेदनशीलाः, तथा तद्रच्चतु-
विंशतितत्त्वान्तश्चतुर्विंशतिसंख्यप्रकृत्यादितत्त्वानि अन्तयाति ना-
शयति स्वसत्ताकर्षणेन स तथा स्वात्मज्ञ: स्वात्मानं जाना-
तीति तथा स्वप्रकाश इत्यर्थः, तत्त्व वित्तत्त्वानि चतुर्विंशतिसं-
ख्यानि वेत्तीति तथा स पुरुषो ज्ञेयः, स्वतः सत्तास्फूर्तिरहि-
ततत्त्वेभ्यः सदूपत्व स्वप्रकाशत्वसर्वप्रकाशकत्वेन सिद्धमात्मनो-
ऽसङ्गत्वमिति भावः ॥ १६ ॥
एवमात्मनोऽसङ्गत्वं स्वप्रकाशत्वं च प्रदर्य तस्य वास्तवै-
कत्वे बहुत्वस्य मायामात्रत्वं दर्शयति ।
एकमेव निजं नाथं माया विषयलम्पटा ।
बहुरूपधरं कृत्वा
वेश्येव
खलु
।
खेलति ॥१७॥

सांख्याअनशलाका । एकमिति । विषयलम्पटा विषयेषु भोग्येषु लम्पटा लो- लुपा मायैव प्रकृतिरेव केवलमेकं तत्त्वतो भेदरहितं निजं स्व- कल्पितं स्वीयं निर्माय स्वरूप एकत्वानेकत्वयोरभावादित्यर्थः, नाथमीश्वरं बहुरूपधरं कृत्वाऽनेकरूपजननशक्तिमन्तं कृत्वा विधाय तेन सहैव वस्तुतः शुद्धात्मनस्तत्सम्बन्धानुपपत्तेर्वे- श्येव यथा वेश्या जारैः सह क्रीडति तथेयं खेलति क्रीडति खलु निश्चयेऽत्रार्थे सन्देहो न न कार्य इत्यर्थः, पुरुषनिष्ठमने- कत्वं यत्पतीयते तन्मायिकमेव न पारमार्थिकमिति भावः ॥१७॥ ननु मायाया अत्यन्तपृथक्त्वे तत्कृतानेकत्वस्य प्रतीति- रात्मनि कथं स्वादित्याशङ्मा मायातकार्ययोरात्मनश्च सत्तै- कलान्मायानिष्ठानेकलस्यात्मनि भ्रान्त्या प्रतीतिर्जायत इ- त्याशयेनाह। अपृथग्भावरूपेण मिलित्वा पुरुषेण हि । विचित्राकाररूपैस्तं सन्नर्तयति नर्तकी ॥ १८ अपृथगिति । नर्तकी नर्तनकी स्वयं मायाऽपृथग्भा- वरूपेण न विद्यते पृथग्भिन्नो भावः सत्ता यस्य तत्तच्च त- दूपं च खरूपं यस्य स तथोक्तो मायापुरुषयोरेकसत्ताकत्व- मिति भावः, तेनारोपितेन पुरुषेण साधिष्ठानबुद्धिस्थचिदाभा- सेन सह मिलिखैकीभूय विचित्राकाररूपैः स्वीयानि यानि विचित्राकाराणि विलक्षणाकृतीनि रूपाणि तैः कुला तं स्व- कृतमेव पुरुषं न तु शुद्धं सन्नर्तयति खनृत्यं तस्मिन्नारोप्य त- दभिन्नं दर्शयतीत्यर्थः, हि प्रसिद्धं चैतद्विवेकिनों माया स्वका- यमनेकत्वं मायिक पुरुष समारोप्य तच्च तं च पारमार्थिक ऽसङ्गे चिदात्मनि समारोप्यात्मनोनेकत्वं प्रत्याययति सा प्रतीतिन पार- ।

बघिसारे। मार्थिकी भ्रान्तिरेव सेति भावः ॥ १८ ॥ ननु मायिकपुरुषशुद्धपुरुषयोः पारमार्थिकैकत्वज्ञान कथ स्यादित्याशा मायाया मायाकार्यभूतपुरुषस्य च भिन्नस्वा- भाव्यान्मायिकपुरुषस्य दुःखपतीतिर्मायायां यदा स्याचदा के- राग्योत्पत्या स्वस्योपाधेश्च विविक्तत्वज्ञानेन स्वस्य निर्माया- त्मनश्चैकत्वज्ञानं स्यादित्याशयेनाह । निर्दोषो निश्वलो नाथः सदोषा चञ्चला वधूः दम्पत्योरनयोनूनं रसभङ्गो भविष्यति ॥ १९ ॥ निर्दोष इति । नाथो मायाकल्पितो मायानियन्ता जीवो व- स्तुतो निर्दोष उपाधिरहितः शुद्धात्मांशत्वादतो निश्चलश्चा- चल्यरहितः सदैकरूप इत्यर्थः, वधूः स्वधवन्धनकारणभूता माया प्रकृत्यपरपर्याया सदोषा सोपाधिकाऽत एव चञ्चलाऽस्थिराऽ- नेकरूपेत्यर्थः, अस्तीति शेषः, अनयोरुक्तयोरेव भिन्नल- क्षणयोरेवेत्यर्थः, दंपत्योः प्रकृतिपुरुषयोर्जगत्मजाजननाय- जायापतिभावेन वर्तमानयोभिन्नस्वाभाच्यादेव नूनं निश्चयेन रसभङ्गो रसः सुखं तस्य भङ्गो नाशो दुःखं भविष्यति उत्प- तस्यति ततश्च वैराग्येण स्वस्य प्रकृतेश्च भिन्नत्वज्ञानं भविष्य- तीति भावः ॥ १९ ॥ ततश्च प्रकृतिनाशः स्यादित्याशयेनाह । पृथक्त्वेन परिज्ञाता दुष्टरूपतया पि च । न मुखं दर्शयत्येषा सलज्जा म्रियतेपि च ॥ २० ॥ पृथक्वेनेति । एषा प्रकृतिरूपा वधूः पृथक्वेन स्वविलक्ष- णस्वाभाव्येन च पुनर्दुष्टरूपतयापि सर्वदोषकारणवत्त्वेन च

सांख्याञ्जनशलाका ।
परिज्ञाता सर्वदाऽनुभूता सती स्वस्याग्रे मुखमास्यं न द-
र्शयति प्रतीतिविषयं न करोति अपि च किन्तु सलज्जा त्रपा-
भरासहा च सती म्रियते विनश्यति ॥ २० ॥
ततश्च प्रकृतिविकृत्योः पृथक्सत्त्वाभावे प्रकृतेरपि पुरुषा-
त्पृथगसत्त्वे च सिद्धे पुरूषस्य शुद्धबुद्धस्वरूपत्वेन नित्यासङ्गत्वं
सिद्धमित्याह ।
प्रकृतिर्विकृति पि पुरुषो निश्चलात्मकः ।
शुद्धबुद्धस्वरूपोसाविति सांख्यविनिर्णयः ॥ २१ ॥
इति श्रीनरहरिकृती बोधसारे सांख्याअनशलाका ॥ ११ ॥
प्रकृतिरिति । विकृतिमहत्तत्त्वादिब्रह्माण्डपर्यन्ता कार्य-
रूपा न नास्ति प्रकृतेः पृथगसत्वात्तथा प्रकृतिरपि महदादि-
कारणभूता न. नास्ति तस्या अपि पुरुषात्पृथगसत्त्वादित्यर्थः,
अतोऽसावुक्तलक्षणः पुरुष आत्मा निश्चलात्मक एकत्वाने-
कत्वादिरूपचाञ्चल्यहीनोऽत एवं शुद्धबुद्धस्वरूपः शुद्धं मा-
यातत्कार्यास्पृष्टमसम्बद्धमित्यर्थः, बुद्धं स्वयंप्रकाशरूपं च रूप
स्वरूपं यस्य स एतादृशोऽस्ति, उक्तमुपसंहरतीतीति, सां-
ख्यविनिर्णयः सांख्यस्य प्रकृत्यादितत्त्वविवेचकशास्त्रस्य वि-
निर्णयो विशेषनिर्णय इति सम्पूर्णः सम्यख्यायते तत्वम-
नेनेति साङ्ख्यनामनिरुक्तरेतदन्यथार्थमतिपादकस्य कस्य चि-
च्छास्त्रस्य सांख्याभासत्वेन तस्य प्रामाण्यं नाभ्युपेयमिति
भावः ॥ २१ ॥
इति श्रीनरहरिशिध्यदिवाकरविरचितायां बोधसारार्थदीप्तो
सांख्याजनशलाकार्थप्रकाश एकादशः ॥ ११ ॥

बोधसारे। अथ योगदीक्षाचिन्तामणौ पातञ्जलयोगः । एवं सांख्यं वेदान्तानुकूलतया प्रतिषाघेदानी मलिनान्त:- करणानां जिज्ञासूनां सांख्योक्ते जीवात्मैक्यासंगलक्षणपुरुषे चित्तस्थितिर्न स्यादिति तदन्तःकरणमलनिरासकनिरोधाख्ययो- गेन चित्तशुद्धौ विवेकाविर्भावेन तत्रैव चित्तस्थैर्य स्यादिति त- दर्थ योगं निरूपयितुं योगदीक्षाचिन्तामण्याख्यमेकोत्तरशत- श्लोकं प्रकरणमारभते, तत्र चावांतरप्रकरणे द्वे पातञ्जलाख्यं शै- वाख्यं चेति तत्रापि पातअलस्यैकविध्यादाद्यमेव षड्विंशतिश्लोकं भवति, इतरस्य च चातुर्विध्यात्तत्र चत्वारि प्रकरणानि मन्त्रयोग हठयोग शिवशक्तिपराक्रम लययोगाख्यानि क्रमेण चतुःश्लोकै कोनविंशतिश्लोक षोडशश्लोक षट्त्रिंशच्छोकानि सन्ति, तान्यनुक्रमतो व्याख्यास्यामः । तत्रादौ पातालं योगं निरूप- यति, तत्र तावद्योगप्रतिपादकस्यास्य प्रकरणस्य योगदीक्षाचि- तामणिनानोर्थ तत्र प्रवृत्ति जनयितुं सफलं दर्शयति । अथातो योगदीक्षायाचिन्तामणिरुदीर्यते । तत्प्राप्त्याऽबोधदारियं सर्वमेव विनश्यति ॥१॥ अथेति । अथ सांख्यप्रतिपादनानन्तरं सांख्योक्ते तत्त्वे मलिनान्तःकरणानां मुमुक्षूणां केन चित्पतिवि- न्धेन चित्तस्थैर्य न भवति यतोऽत इति हेतो- रित्यर्थः, योगदीक्षाया योगस्य निरोधाख्यस्य दीक्षा सं- स्कारस्तस्याश्चिन्तामणिः कल्पितफलप्रदत्वाञ्चिन्तामणिरिव कल्पितधारणाजन्यफलप्रदत्वाचिन्तामणिरिति नाम प्रकरणस्य स उदीयते निरूप्यते तत्वं शृणु, ननु चिन्तामाणिप्राप्त्या दा- रियं नश्यत्यनेन किं स्यादित्यत आह तदिति, तत्माप्त्या तस्य योगदीक्षाचिन्तामणिः । योगीक्षाचिन्तामणेः माप्त्या लाभेनाऽबोधदारियमबोधो- ऽज्ञानं तदेव सर्वदारित्र्यमूलत्वादारियं दरिद्रत्वं तत्सर्वमेव स- मस्तमपि विनश्यति निवर्ततेऽतोऽस्य योगदीक्षाचिन्तामणि- रिति नामेति भावः ॥१॥ अस्य च संप्रदायतः प्रामाण्यं वक्तुं योगप्रवर्तकान्द्राभ्यामाह । महायोगेश्वरः शम्भुः महायोगेश्वरो हरिः । महायोगेश्वरो ब्रह्मा भवानी सिद्धयोगिनी ॥२॥ महायोगेश्वर इति । शम्भुः शं सुखं भवत्यस्माल्लोकाना- मिति स शम्भुः शङ्कर इत्यर्थः, महायोगेश्वरो महाञ्छ्रेष्टो यो- गानां मन्त्रादियोगानामीश्वरः प्रवर्तक आचार्य इत्यर्थः, तथा हरिहरति सर्व दुःखं भक्तानां स हरिविष्णुर्महायोगेश्वरो महान्सर्वमान्यो योगेश्वरो योगप्रवर्तकोऽस्ति तथा परमेष्ठी महायोगेश्वरो महाञ्जगत्पूज्यो योगेश्वरो योगप्रव- तकोऽस्ति तथा भवानी सर्वजगज्जीवयित्री चिच्छक्तिः सि- योगिनी स्वतःसिद्धयोगवत्यस्ति, एतेषां सर्वजगच्छ्रेष्ठत्वं योगफलमेव योगानां प्रतिरापि तेभ्य एवेति भावः ॥२॥ तदितरेषामपि योगेन सिद्धिप्राप्तिमपि तदितरेषां तत्र रुचिं जनयितुं प्रदर्शयति । सनकाद्याः वसिष्ठाद्याः कचदत्तशुकादयः । अरुन्धतीप्रभृतयो योगासिद्धिमुपागताः ॥ ३ ॥ सनकेति । सनकाद्याः सनक आधो मुख्यो येषु ते नै- ष्टिका, वसिष्ठाया वसिष्ठ आयो मुख्यो येषां पुलस्त्यादीनां ते सर्वे गृहिणः, तथा कचदत्तशुकादयः कचो बृहस्पतेः पुत्रो बोधसारे। " । दत्तो ह्यत्रेः पुत्रः शुको व्यासपुत्र एत आदयो मुख्या येषामा- प्रभादीनां ते सर्वेपि परमहंसाः, तथाऽरुन्धतीमभृतयोऽरुन्धती वसिष्ठपत्नी प्रभृतिरादिर्यासां देवहूत्यादीनां ताः स्त्रियः, एते सर्वे योगाञ्चित्तवृत्तिनिरोधलक्षणयोगासिद्धिमणिमादिरूपां मु- क्तिमपि उपागता प्राप्ता अतो मुमुक्षुभिर्योगः साध्य ए- वेति भावः ॥३॥ ननु योगशब्दवाच्यार्थानां मतभेदेन बहुत्वपतीतर्राख्यो योगशब्दार्थः को विवक्षित इत्याशङ्कायामाह । आत्मज्ञानेन यो योगो जीवात्मपरात्मनोः । स.योगस्तस्य हेतत्वाद्योगा बहुविधा मताः ॥४॥ आत्मज्ञानेनेति । यो वेदान्तेषु प्रसिद्ध आत्मज्ञानेन आ- स्मस्वरूपयथार्थज्ञानेन तत्त्वमसीत्यादिवाक्यजन्याहंब्रह्मेत्याका- रेण जीवात्मपरमात्मनोर्जीवस्य प्राणोपाधिकस्य साधिष्ठानबु- द्भिस्थचिदाभासस्यात्मा शोधितस्त्वंपदार्थः कूटस्थः, परमश्चा- सावात्मा च परमात्मा शोधितस्तत्पदार्थो जगदारोपाधिष्ठान ब्रह्मेत्यर्थः, तयोरुभयोयोग एकत्वं यत्पारमार्थिक स एवेत्यर्थः, योगो योगशब्दवाच्यो मुख्यो भवति, तत्र तर्हि कुतो बहुत्वं दृश्यते तत्र तत्र शास्त्रेषु तत्राह तस्य, योगस्य हेतुत्वात्साधनवानेपि योगा योगशब्दवाच्यार्था भवन्ति, अतस्ते बहुविधा अनेकप्रकारा मता मुनिभिस्तत्तच्छास्त्रेषु निर्णीताः, याथार्थ्यात्मज्ञानस्यैव योगशब्दमुख्याधत्त्वमितरेषा तु तत्साधनभूतत्वागौणं योगशब्दार्थत्वमिति भावः ॥ ४ ॥ एवं मुख्यं योगशब्दार्थ प्रतिपायेदानी भगवत्प्रतिपादित योगशब्दार्थ दर्शयति ।

योगदीक्षाचिन्तामणिः। विरोधिलक्षणान्यायादभद्रा भद्रिका यथा । सर्वदुःखवियोगस्तु योग इत्याह केशवः ॥ ५ ॥ विरोधीति । केशवः सर्वान्तर्यामी श्रीकृष्णः सर्वदुःख- वियोगस्तु सर्वेषामाध्यात्मिकादीनां दुःखानां वियोगो विश्लेषः स्वस्मिन्दुःखासत्त्वमतीतिः स एव योगो योगशब्दवाच्योर्थोऽ- स्तीति एवं प्राहोक्तवान् 'तं विद्याहुःखसंयोगवियोगं यो- गसंज्ञितमि'त्यादिष्विति ज्ञेयं, ननु आत्मनस्तत्त्वतो योगवियोग- योरसम्भवात्तस्मिन्योगशब्दवाच्यार्थो माऽस्तु दुःखवियोगे तु तदभाववति कथं योगत्वमुच्यत इत्याशय योगत्वं तत्र सम्भा- वयितुं न्यायमाह विरोधीति, विरोधिलक्षणान्यायाधत्र यद्विरो- धोस्ति तत्र तद्वाचकशब्दप्रयोगो विरोधिलक्षणान्यायो तदभा- ववति तद्भाववचन इत्युक्तलक्षण इत्यर्थः, तत्रोदाहरणमभद्रेति, यथा यदभद्रा स्वरूपतोऽकल्याणरूपापि भद्रिका भद्रिकेति कल्याणवाचकशब्देनोच्यते लोके तथा वियोगोपि योगशब्दे- नोक्त इति भावः ॥५॥ ननूक्तलक्षणस्य योगस्य किं फलं तत्सदृष्टान्तमाह । अत्यन्तचपलस्यापि मनसो योगशक्तितः । निश्चलत्वं प्रजायेत विन्ध्यस्येव महागिरेः ॥ ६॥ अत्यन्तेति । अत्यन्तचपलस्यापि निरन्तरचञ्चलस्वभाव- स्यापि मनसश्चित्तस्य योगशक्तितो योगाभ्यासजन्यसामर्थेन निश्चलत्वं स्थिरत्वं प्रजायेत स्यात्तत्र दृष्टान्तो महागिरेरती- वद्धस्य विन्ध्यस्येव विन्ध्यनान्नः पर्वतस्येव यथा विन्ध्यप- बोधसारे। वतस्याचलत्वं त्यक्त्वा वृद्धिरूपं चाञ्चल्यं वृद्धं तदगस्त्यमुनि- कृतयोगेन चाञ्चल्यं परित्याज्य स्थावरत्वं स्थापितं स्वकृत- योगेन वागस्त्याज्ञानुल्लङ्घनाय स्थिरत्वं सम्पादितं तद्वद्योगेन योगी स्वत आत्मरूपत्वादचञ्चलस्यापि मनसोऽचाश्चल्यं त्यक्त्वा चञ्चलत्वं गृहीतं तत्परित्याज्य स्थिरत्वमात्मस्वरूपभूतं सम्पा- दयतीत्याशयः ॥६॥ योगस्य मनश्चाश्चल्यनिवर्तकत्वे भुशुण्डसम्मतिरस्तीत्याह । तथा च भुशुण्डः। तथेति । भुशुण्डश्च भुशुण्डोपीत्यर्थः, तथाच तमेवार्थमाह । केन वाक्येनेत्याशङ्म तद्वाक्यं पठति । नाभसी धारणां बद्धा तिष्ठामि विगतज्वरः । यावत्पुनः कमलजः सृष्टिकर्मणि तिष्ठति ॥ ७ ॥ नाभसीमिति । अहं भुशुण्डनामा काको वायोरपि लय आसन्ने नाभसीं सर्ववाय्वादिभूतभौतिकरहितं नभ एवाहमि- त्येवं नभसम्बन्धिनी धारणां भावनां बद्धा सन्धार्य तया च विगतज्वरो वायवादिनान स्वनाशभीतिरहितः सन्नाका- शमात्ररूपस्तिष्ठामि स्थिरो भवामि, कियत्पर्यन्तमित्यत आह यावदिति, कमलजो ब्रह्मा कमलेन सह सम्भूय वर्तमानो या- वद्यावता कालेन पुनर्भूयः सृष्टिकर्मणि सृज्यतेनया सा मु- ष्टिस्तद्रूपे कर्मणि क्रियायां तिष्ठति संस्थितो भवति तावत्का- लपर्यन्तमित्यर्थः ॥ ७॥ एवं योगफलं प्रदर्येदानीं पातञ्जलं योगं वक्तुं मुख्य पातञ्जलयोगलक्षणमाह । चित्तवृत्तिनिरोधस्तु मुख्यः पातञ्जलो मतः ।

योगदीक्षाचिन्तामणी पातञ्जलयोगः । बा- प्राणवृत्तिनिरोधस्तु गौणस्तत्साधनत्वतः ॥ ८॥ चित्तेति । पातालः पतञ्जलिना मोक्तः पातञ्जल: 'तेन भोक्तमिति तद्धितोऽण,मुख्यः प्रधानो योगस्तु हठादिभ्यो वि- लक्षणश्चित्तवृत्तिनिरोधश्चित्तस्यान्तःकरणस्य वृत्तीनां ह्यादिविषयाकाराणां निरोधोऽवरोध एव मत इष्टः, तत्र भग- वतः पतञ्जलेः सूत्रं 'योगश्चित्तवृत्तिनिरोध' इति, माणवृत्तिनिरो- धस्तु प्राणस्य शरीरावच्छिन्नस्य वायोत्तयः प्राणापानादय- स्तासां निरोधोऽवरोधः प्राणायामादिना स्थैर्यसम्पादनं ह- ठिनां प्रधानभूतोपि पातअजलानां तत्साधनखतस्तस्य चित्त- तिनिरोधनान्नोः योगस्य साधनरूपत्वागौणो न प्रधानसेन संमत इत्यर्थः ॥ ८॥ एवं पातञ्जलयोगस्वरूप प्रदर्यदानी तत्साधनानि दर्श- यितुं तत्मतिपादकं सूत्रं प्रमाणयति । तत्र सूत्रं यमनियमासनप्राणायाम- प्रत्याहारधारणाध्यानसमाधयोष्टावङ्गानि ॥१॥ तत्रेति । तत्र योगाङ्गेषु सूत्रं पतञ्जले सूत्रमस्तीत्यर्थः, तदे- चोदाहरति यमेति, यमाः पञ्च, नियमाः पञ्च, आसनानि मुखा- सनप्रभृतीनि, प्राणायाम आभ्यन्तरवाह भेदेन द्विविधोपि, प्रत्या- हार इन्द्रियाणां स्वस्वविषयेभ्यो व्यावृत्तिरूपो, धारणा देश- विशेषसम्बन्धश्चित्तस्य, ध्यानं विजातीयप्रत्ययानन्तरितध्येय- सजातीयप्रत्ययत्तिप्रवाहः, समाधिः सविकल्पकापरपर्याय: संप्रज्ञातः एतान्यष्टौ योगस्याङ्गानि सन्ति ॥ १॥ एवं योगाष्टाङ्गप्रतिपादकं पातञ्जलसूत्रमुपन्यस्येदानीं य- मादीन्यङ्गानि दर्शयितुमुपक्रमते चतुर्भिः ।

बोधसारे। यमोस्तेयऋताहिंसाब्रह्मचर्यापरिग्रहाः । नियमः शौचसन्तोषतपःपाठेश्वरार्पणम् ॥ ९ ॥ यम इति । अस्तेयं चौर्याभाव ऋतं सत्यवक्तृत्वादि अ- हिंसा हिंसातः सदा निवृत्तिब्रह्मचर्यमष्टाङ्गमैथुननित्युपल- क्षितं नैष्टिकादि । 'स्मरणं कीर्तनं केलिंः प्रेक्षणं गुह्यभाषणम् । एकान्तवासो रमणं स्पर्शोष्टविधमैथुनमिति । एतनिवृत्तिब्रह्मचर्य, अपरिग्रहो योगाननुकूलविषयासं- प्रहः, एते पञ्च यमो जातित्वादेकवचनं यमा ज्ञेया, यमयन्ति निवर्तयन्ति हिंसादिभ्यः पुरुषविशेषं ते यमा इत्यर्थः, तत्र पतञ्जले सूत्रम्, 'अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमा' इति । यमानुक्त्वा नियमानाह नियम इति, शौचसन्तोषौ शौचं बाह्य स्नानादि आन्तरं रागत्यागादीत्येवं द्विविध, सन्तोषो यथालब्धे विषयेऽलंबुद्धिस्तपः स्वस्ववर्णाश्र- मधर्मनिष्ठापूर्वकक्लेशसहिष्णुत्वं, पाठेश्वरार्पणं पाठश्च स्वाध्याय ईश्वरार्पणं च यद्यत्क्रियते स्वयं तत्तदीश्वरेणैव कृतमिति नि- श्वय, एते पञ्च नियमाः; अत्रापि जातित्वादेकवचनं, जन्मप्रदक- 'मभ्यो व्यावर्त्य मोक्षकारणे निष्कामकर्मणि नियमयन्तीति नियमनानोक्ता ज्ञातव्याः, अत्रापि पातञ्जलं सूत्रं 'शौचसन्तो- षतपास्वाध्यायेश्वरप्रणिधानानि नियमा' इति । यमनियमफ- लान्यपि कानि चित्सूत्रितानि तान्यपि प्रदर्शयामः, यमेषु तावद- हिंसाफलप्रतिपादकं सूत्रम्, 'अहिंसामतिष्ठयां तत्सन्नि- धौ वैरत्यागः' । सत्यफले सूत्रं, 'सत्यप्रतिष्ठायां क्रियाफलाश्रय- त्वं । अस्तेयफले सूत्रं, 'अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थान ब्रह्म- यफले सूत्रं, ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः,। अपरिग्रहफले सूत्र योगदीक्षाचिन्तामणी पातञ्जलयोगः । 'अपरिग्रहस्थैर्ये जन्मकथन्तासंबोध' इति क्रमेणज्ञेयानि । नियमफ- लान्यपि सूतैर्दर्शितानि, तत्र शौचफलप्रतिपादके सूत्रे 'शौचात्स्वा- अजुगुप्सा परैरसंसङ्गः, सत्वशुद्धिसौमनस्यैकाग्ग्रेन्द्रियजयात्मर्दश- नयोग्यत्वानि च ।सन्तोषफलमाह 'सन्तोषादनुत्तममुखलाभ' इति । तपः फलमाह 'कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपस' इति । स्वाध्या- यफलमाह 'स्वाध्यायादिष्टदेवतासंप्रयोग' इति । ईश्वरमणिधान- फलमाह 'समाधिसिद्धिरीश्वरप्रणिधानादिति ॥ ९॥ आसनप्राणायामावाह। आसनं सुखरूपेण शरीरस्थिरता मता । प्राणायामः प्राणदण्डः कुम्भपूरकरेचकैः ॥ १० ॥ आसनमिति । सुखरूपेण पाकस्वस्तिकादीनि आसनानि प्रोक्तानि, तत्र यादृशेन. देहस्थापनरूपेणासनेन यस्य पुरु- पस्यावयवेषु व्यथानुत्पत्तिस्तदेव सुखरूपमासनं तेन शरीर- स्थिरता देहेऽचाञ्चल्यं स्यादित्यध्याहार्य, तदेवासनमास्य- तेस्मिन्नित्यासनं मतमिष्टं ज्ञेयम् अत्रापि पतञ्जले सूत्रं 'स्थिरसु- खमासनमिति । अस्योपायप्रतिपादकं पतञ्जले सूत्रमपि प्रयत्र- शैथिल्यानन्तसमापत्तिभ्यामिति । अस्यार्थः, प्रयत्नशैथिल्यं प्रय- लौकिकवैदिकस्य गमागममैथुनगृहकृत्यव्यापारादि- रूपस्य तीर्थयात्रास्त्रानयागहोमादिरूपस्यच मानसोत्साहरूपस्य शैथिल्यं कर्तव्यं तेन, तदभावे च मानस उत्साहो बलादेहमुत्था- प्यान्यत्र चालयेदेवेत्यर्थः; अनन्तसमापत्तिश्च फणासहस्रेण पृ- थिवीं धृता स्थिरः स्थितोनन्त, एवाहमस्मीति दृढधारणाऽ- नन्तसमापत्तिः स्वस्मिन्ननन्तवापादनं स्थिरवहेतुस्तेन चोपाये- नासनसिद्धिर्जायत इत्यर्थः । आसनसिद्धिफलमपि सूत्रांनाइ भगवान्पतञ्जलिः, 'ततो द्वन्द्वानभिघात' इति । अध्यार्थ आसने अस्य बोधसारे। - सिद्धे ततोऽनन्तरं द्वन्द्वैः सुखदुःखादिलक्षणैरनभिघातो न पराभवो जायते योगिन इत्यर्थः । प्राणायाममाह प्राणायाम इति, कुम्भपूरकरेचकैः कुम्भकेन द्विविधनान्तरेण बाह्येन चेति, कुम्भकस्य द्वैविध्यं वसिष्ठ आह । 'अपानेस्तङ्गते प्राणो यावन्नाभ्युदितो हृदि । सावत्सा कुम्भकावस्था योगिभिर्याऽनुभूयते ॥ बहिरस्तं गते प्राणे यावन्नापान उद्गतः । तावत्पूर्णा समावस्था बहिष्ठं कुम्भकं विदुरिति । तेनोक्तलक्षणेन कुम्भकेन, पूरकेण= 'वक्रेणोत्पलनालेन तोयमाकर्षयेन्नरः । एवं वायुहीतव्यः पूरकस्येति लक्षणम् ॥ इत्युक्तलक्षणेन पूरकेण, रेचकेन च3 'उत्क्षिप्य वायुमाकाशं शून्यं कृत्वा निरात्मकम् । शून्यभावेन युञ्जीत रेचकस्येति लक्षणम् ॥ इत्युक्तलक्षणेन रेचकेन यः प्राणदण्डः प्राणस्य श- रीरावच्छिन्नवायोर्दण्डो नियमनं स प्राणायामः प्राणाया- मनानोक्तो मुनिभिरिति शेषः । आसनानन्तरमेव प्राणा- यामप्रतिपादकं पतञ्जलेः सूत्रं, 'तस्मिन्सति श्वासप्रश्वासयो- गतिविच्छेदः प्राणायाम' इति । तस्यैतस्याभ्यासप्रतिपादकमपि पतञ्जले सूत्रं, 'बाह्याभ्यन्तरस्तम्भत्तिर्देशकालसङ्ख्याभिः परि- दृष्टो दीर्घसूक्ष्म इति। अस्यार्थः, बाह्यवृत्ती रेचक, आभ्यन्तरवृत्तिः पूरकः, स्तम्भवृत्तिः कुम्भकः, तत्रैकैको देशकालसङ्ख्याभिः प- रीक्ष्यः । तथाहि, स्वाभाविकरेचके हृदयदेशानिर्गतस्य वायोः नासाग्रसमदेशावहिादशाङ्गुलपर्यन्तं श्वासस्य समाप्तिर्भवति अभ्यासे च तस्य क्रमेण नाभेर्वा मूलाधाराद्वायुनिर्गमे च-

योगदीक्षाचिन्तामणी पातञ्जलयोगः ।
तुर्विंशत्यगुलिपर्यन्ते समाप्तिर्भवति अस्मिश्च प्रयत्नाधिक्ये जाते
नाभेवळ मूलाधारस्य क्षोभेणान्तनिश्चयो भवति, बहिरपि सूक्ष्म
सूत्रादि धृत्वा तच्चाञ्चल्येन परीक्ष्यो भवति, इयमेव देशपरीक्षा।
कालतोपि परीक्षा यथा, रेचककाले प्रणवस्यावृत्तयो दश वा
विंशतिर्वा त्रिंशद्वेत्येवं कालतः परीक्षा । अस्मिन्मासे दश नि-
त्यमग्रिममासे विंशतिविंशतिः, तदुत्तरे मासे च त्रिंशत्त्रिं शादि-
त्येवं सङ्ख्या परीक्षा । एवं त्रिविधपरीक्षा पूरकेपि ज्ञेया। कुम्भ-
के तु कालसङ्ख्याभ्यां द्विविधा परीक्षा स्पष्टा, परन्तु यथा तू-
लपिण्डः प्रसार्यमाणो विरलः सूक्ष्मश्च भवति तद्वत्प्राणो देश-
कालसङ्ग्याधिक्येनाभ्यस्यमानो, दीपों दुर्लक्ष्यत्वात्सूक्ष्मश्च भ-
वति । एवं पूर्वोक्तरेचककुम्भकपूरकेभ्योन्य प्राणायाममपि पत-
ञ्जलिः सूत्रयामास 'बाह्याभ्यन्तरपूर्वत्रयापेक्षोपि चतुर्थ' इति ।
अस्यार्थः, यथाशक्ति सर्व विरिच्य ततः कृतः कुम्भको बाह्यः,
तथान्तर्वायुमापूर्य ततः कृतः कुम्भकः आन्तरः, एवं च रेचकपू.
रकापेक्षया कुम्भकस्तृतीयः, एतत्त्वयापेक्षया रेचकपूरको त्य-
त्वा केवलकुम्भकश्चतुर्थो भवति । निद्रालस्यादिबलबद्दोषवतां पू-
र्वत्रिक निर्दोषाणां चतुर्थ इति ज्ञेयम् । प्राणायामफलमप्याह पत-
जलिः सूत्राभ्यां 'ततः क्षीयते प्रकाशावरणमिति । 'धारणासु च
योग्यता मनस' इति च । अनयोरर्थः, प्रकाशस्य सत्त्वस्यावरण
तमो निद्रालस्यादिकारणं तस्य नाशो भवति, प्राणायामान्म-
नसस्तमोनाशे धारणासु योग्यताधिकारित्वं जायत इत्यर्थः।।१०॥
प्रत्याहारधारणे पाह।
प्रत्याहारस्त्विन्द्रियाणां चलानां प्रतिरोधनम् ।
कचित्प्रदेशे चित्तस्य स्थापनं धारणा मता ॥११॥

बोधसारे। प्रत्याहार इति । चलानां चञ्चलानामिन्द्रियाणां श्रोत्रादीनां प्रतिरोधनं स्वस्व विषयाच्छन्दादेनिवर्त्तनं प्रत्याहारस्तु स प्र- त्याहारोपि ज्ञेयः, अत्रापि पतञ्जले सूत्रं 'स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहार' इति । अस्यार्थः, शब्दस्पर्शादिविषयेभ्यो निवर्तिताः श्रोत्रादयश्चित्तस्वरूप पमनुकु- बन्तीवावतिष्ठन्ते स प्रत्याहार इत्यर्थः, । श्रुतिश्च 'शब्दादिविषयान्पश्च मनश्चैवातिचञ्चलम् । चिन्तयेदात्मनो रश्मीन्प्रत्याहारः स उच्यते' इति ।। प्रत्याहारफलमप्याह पतञ्जलिः 'ततः परमावश्यतेन्द्रि- याणामिति । धारणामाह कचिदिति, चित्कुत्रचित्पदेशे आधारस्वाधिष्ठानादिचक्रे कचिद्वाह्ये प्रतिमादौ सौन्दर्यवत्स्त्रीपुरुष- यो चित्तस्य मनसः स्थापनं स्थैर्यसंपादनं धारणा धारणापदवा- च्या मतेष्टत्वेन गृहीता योगिभिरिति शेषः, तथा चात्र प. सञ्जले सूत्रं 'देशबन्धश्चित्तस्य धारणेति ॥ ११ ॥ ध्यानसमाधी आह। निरन्तरश्चित्प्रवाहो ध्येयस्य ध्यानमीरितम् । समाधिरष्टमो ज्ञेयस्तदात्मकतया स्थितिः ॥ १२॥ निरन्तर इति । ध्येयस्य ध्यानगोचरस्य ध्येयस्य विषयत्वात्त- सम्बन्धवानित्यर्थः, निरन्तरो ध्येयविजातीयविषयप्रत्ययैरनन्त- रितश्चित्प्रवाहश्चितां वृत्तीनां प्रवाहो जलप्रवाह इच सातत्यं तड्यानं ध्याननान्नेरितमुक्तम्, अत्र च पतञ्जलेः सूत्रं 'तत्र प्रत्ययकतानता ध्यानमिति । समाधिमाह समाधिरिति, चित्त- स्येत्यपकर्षः पूर्वश्लोकात्, चित्तस्य मनसस्तदात्मकतया तद्धये यमेवात्मा स्वरूपं यस्य तस्य भावस्तत्ता तया ध्येयाकार प- -- योगदीक्षाचिन्तामणी पातञ्जलयोगः । रिणामेनेत्यर्थः, स्थितिः स्थानं समाधिः समाधिनामको ज्ञेयः, स चोक्तेषु योगाङ्गेषु अष्टमः, अयं च सविकल्पक एव सम्प्रज्ञाता- परपर्यायो ज्ञेयः । अत्रैव पतञ्जले: सूत्रं तदेवार्थमात्रनिर्भासं स्व- रूपशून्यमिव समाधिरिति, अयं च ध्यानपरिणामरूपत्वाध्या- नभेद एव ॥ १२ ॥ इदानी योगाङ्गभूतं योगाख्यं च समाधि विवेक्तुं समा- धिभेदमाह। संप्रज्ञातस्तदन्यश्च समाधिर्हि विधो हि सः । यमादिपञ्चबहिरङ्गमन्तरङ्गमथापरम् ॥१३॥ संप्रज्ञात इति । स उक्तलक्षणः समाधिध्येयाकारपरि- णामरूपो द्विविधो द्वे विधे प्रकारौ यस्य स तथोक्तः। हि तो द्वौ प्रकारौ प्रसिद्धौ पातञ्जल इत्यर्थः । तावेव प्रकारौ दर्शयति संप्रज्ञात इति, संप्रज्ञातः संप्रज्ञातनामैकः, तदन्यश्च तस्मा- संप्रज्ञातादन्य इतरश्चासंभज्ञात इत्यर्थः । एतत्समाधि- द्वयप्रतिपादके पतञ्जलेः सूत्रे, 'शान्तोदितौ तुल्यप्रत्ययो चि- तस्यैकाग्रतापरिणाम' इति 'सर्वार्थतैकाग्रतयोः क्षयोदयौ चि- सत्य समाधिपरिणामः' इति च । एतयोरर्थः, शान्तो ह्यतीत उदित उत्पन्नो वर्तमान इत्यर्थः, प्रत्ययः प्रतीतिरनुभव इत्य- थः, तावुभौ तुल्यप्रत्ययावेकविषयौ प्रत्ययौ चित्तस्य म- नसो यदि स्तस्तदैकाग्रता परिणाम एकाग्रतयैकविषयतया- परिणाम: समाधिः संप्रज्ञातनामा जायत इत्यर्थः । सर्वार्थतै- काग्रतयोः क्षयोदयौ स्वाभावकी या रजोगुणेन जायमाना चि- तस्य सर्वार्थता तस्या रजोगुणरोधकप्रयत्नेन योगिकृतेन क्षयो भवति, ततश्च चित्तस्यैकाग्रताया ऐकाग्यलक्षणस्य स्थैर्यस्यो- अनुस्यूतः समाधिस्तु संप्रज्ञातश्चतुर्विधः॥१४॥ बोधसारे। दयो भवति, तदा चित्तैकाग्यस्य परिणामोऽतिस्थैर्य समाधि- रित्यभिधीयते, सोऽसंप्रज्ञात इत्यर्थः । अस्य समार्यमादीनि प- व बहिरङ्गसाधनानि पराप्यन्तरङ्गानि ज्ञेयानि ॥ १३ ॥ एवं द्विविधं समाधि प्रतिपायेदोनी तयोरावस्य सहेतुका- न्भेदानाह । वितर्केण विचारेणानन्देनास्मितया तथा ! । वितर्केणेति । संप्रज्ञातस्तु संप्रज्ञातनामा समाधिरपि ध्येया- कारपरिणामरूपो वितर्केण परोक्षतया विशिष्टतर्केण ध्येयं गोच- रीकृत्य तदाकारपरिणाम एकः, विचारेण विवेकेन ध्येयं गो- चरीकृत्य तदाकारपरिणामः समाधिद्धितीयः, आनन्देन स्वा- नन्दप्रतीत्याविर्भावे तदाकारपरिणामस्तृतीयः, अस्मितयाss- त्मसत्वप्रतीत्या तदाकारपरीणामरूपः समाधिश्चतुर्थः । तदेव रूप. ष्टमाह अनुस्यूत इति । एतैश्चतुभिरनुस्यूतोऽन्वित इति हेतु- गर्भ विशेषणमत एव स समाधिश्चतुर्विधश्चतुःप्रकारोऽस्ती- ति शेषः ॥ १४॥ इदानीमसंप्रज्ञातभेदं वक्तुमसंप्रज्ञातलक्षणमाह । यत्र न ज्ञायते किञ्चित्सोऽसंप्रज्ञात उच्यते । द्विधा भवप्रत्ययवानुपायप्रत्ययश्च सः ॥ १५ ॥ योति । यत्र समाधौ किञ्चिद्ध्यात ध्यानं वा ध्येयं या किमपीत्यर्थः, न ज्ञायते न प्रतीयते सोऽसंमज्ञातोऽसंप्रज्ञात- नामा समाधिरुच्यते कथ्यत इत्यर्थः, तस्यापि भेदमाह द्वि- धेति, सोऽसंप्रज्ञातनामा समाधिर्भवप्रत्ययवान्भवत्यस्मादिति भवः प्रकृतिर्वा महत्तत्वं वा तस्य प्रत्ययोनुभवः स प्रत्ययो वि- योगदीक्षाचिन्तामणौ पातञ्जलयोगः । । द्यते यत्र सूक्ष्मरूपेण स तथोक्त एका, उपायमत्ययस्तूपैति अनेनेत्युपायः स्वपापकः स च प्रत्ययोऽनुभवो यत्र स तथोक्त आत्मस्वरूपमापकानुभववानित्यर्थः, सोपि एवं द्विधा द्विमकारो ज्ञेय इति शेषः ॥१५॥ वयोराधमुदाहृत्य स्पष्टं दर्शयति । मूढानामपि जायेत तपोदाान्मनोलयः । प्रकृतौ वा महत्तत्वे भवप्रत्यय एव सः ॥१६॥ मूढानामिति । मूढानामपि अज्ञानिनामपि तपोदाात्त- पसो दाय निरन्तराचरणेन दृढता ततः प्रकृतौ गुणसाम्याव- स्थारूपायां महत्तत्वे वा सलगुणवति प्रकृतिविकारे वा मनो- लयो मनसोन्तःकरणस्य लयो नाशो जायेतोत्पद्येत स भव- प्रत्यय एव भवप्रत्यनामा समाधिरसम्प्रज्ञात एव ज्ञेयः ॥१६॥ नन्वयं समाधिः कस्य जात इत्याशयात्रोदाहरणं दर्शयति। बैलोक्यराज्यकामस्य हिरण्यकशिपोर्यथा । शरीरं क्रिमिभिर्भुक्तं वल्मीकेनापि संवृतम् ॥१७॥ त्रैलोक्येति । त्रैलोक्यराज्यकामस्य त्रैलोक्यस्य यदाज्यं त- स्मिन्काम इच्छा यस्य तस्य हिरण्यकशिपोर्दैत्यस्य यथा येन समाधिप्रकारेण शरीरं देहः क्रिमिभिः कीटकैः भुक्तं भक्षित व. ल्मीकेन संहतमपि अवरुद्धं च तत्तेन न ज्ञातं स तस्य समा- धिर्भवप्रत्ययनामाऽसंप्राज्ञात इति भावः ॥ १७ ॥ एवं भवमत्यय नामानमसंमज्ञातसमाधि प्रदयेदानीमुपायम- त्ययमसंप्रज्ञातं दर्शयति । श्रद्धावीर्यस्मृतिप्रज्ञाकामवर्जनपूर्वकम् ।

बोधलारे। . मनोलयो मुनीन्द्राणामुपायप्रत्ययस्तु सः ॥१८॥ श्रदेति । श्रद्धावीर्यस्मृतिप्रज्ञाकामवर्जनपूर्वकं श्रद्धा च गुरुवेदान्तवाक्येषु विश्वासः, वीर्यमिन्द्रियदमन उत्साहः प्रापश्चि- कसुखप्रतीतावपि अनुद्वेगश्च शीतादि सहिष्णुत्वमपि, स्मृति- गुरुमुखाच्छुतस्य श्रुतिस्मृत्युदितार्थस्याविस्मरणं, प्रज्ञा वैराग्यादि संस्कारपूर्विका शुद्धा महावाक्यार्थनिष्ठा बुद्धिः, कामवर्जन चात्मज्ञानं वा समाधाने कामनापूर्वकमितरकामनिवृत्तिरि- त्यादि पूर्व साधनभूतं यस्य स मनोलयो मुनीन्द्राणां श्रेष्ठमु- नीनां मनसोन्तःकरणस्य लयो नाशो यो भवति स तूपाय- प्रत्यय उपायमत्ययनामा समाधियः॥ १८ ॥ एवं षट्विधं समाधि प्रदर्थेदानी समाध्युत्थितानां पुनः समाधि प्रविविक्षता तत्सिद्ध्यर्थमुपायमाह । उक्तं व्युत्थितचित्तानां समाधानमभीप्सताम् । तपश्व वेदपाठश्व सर्वकर्मार्पणं हरौ ॥ १९ ॥ उक्तमिति । व्युत्थितचित्तानां वासनोद्बोधेन समाधितो व्युत्थितमागतं संसारे चित्तं मनो येषां तेषां समाधानं नि- रोधापरपर्यायमसंप्रज्ञातसमाधिमीप्सतामिच्छितवतां तपश्च वि- चारोपि एकः 'तप आलोचन' इत्यनुशासनादुपायोस्तीति भावः, तथा वेदपाठश्चोपनिषदादीनामर्थविचारपूर्वकं पठन- मपि द्वितीय उपायः, तथा हरौ सर्वद्वैतहरणस्वभावे ब्रह्मणि स- वकर्मार्पणं सर्वेषां समर्पणसहितानां समर्पणं 'नान्योतोस्ति द्रष्टा नान्योतोस्ति श्रोते त्यादिश्रुतिदर्शितहशा कर्तृवादित्रिपुटीवाय- रूपं तृतीय उपायः, एतैरुपायैः पुनश्चित्तस्थैर्य स्यादिति भावः।।१९।।

Punar योगदीक्षाचिन्तामणी पातञ्जलयोगः । १ । एवं पुनः समाधिप्रवेशोपायं प्रदश्येदानीं पुरुषस्य ध्येयं द- शयितुं पुरुषादी धरे बैलक्षण्यमाह सपादेन । क्लेशकर्मविपाकैश्च चित्ररूपैस्तदाशयैः । अपरामृष्ट एवैकः कश्चित्पुरुष ईश्वरः ॥ २० ॥ क्लेशेति । क्लेशकर्मविपाकैः क्लेशाः पञ्चाविद्यास्मितारागद्वे- पाभिनिवेशाः । कर्माणि सञ्चितमारब्धक्रियमाणाख्यानि अशुक्ल- कृष्णानि योगिनामितरेषां शुक्लकृष्णलोहितानि वा; अस्मिन्नर्थे- पताले मूत्रं, 'कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषा मिति विपाका आयुर्जातिभोगाख्याः कर्मफलरूपास्तैः सर्वैः। चित्ररूपै. स्तदाशयैर्विषयवैचित्र्येण चित्राणि परस्परं विलक्षणानि रू- पाणि येषां तैस्तदाशयस्तेषां क्लेशकर्मविपाकानामाशया वासनास्तैरपि अपरामृष्टोऽस्पृष्टः कश्चित्कोपि वस्तुतःपुरुषा- द्भिन्नवेनाभिन्नखेन वा भिन्नाभिन्नत्वेन वा वैलक्षण्याभावाभि- देशानहः पुरुष एक विशेषः पुरुष एवेत्यर्थः । ननु पुरुषत्वावै- शिष्ट्ये कुतो विशेषत्वं तदभावे च कुतो ध्येयत्वं सामान्यपु- रुषे च ध्यातत्वं चेत्याशङ्ग्य तमेव विशेष दर्शयति. एक इत्या- दिविशेषणैः, एकः पुरुषस्तु व्यवहारेऽनेकोऽयं ध्येयो विशिष्ट- पुरुषो एक भेदरहितः । ननु ध्यातरूपः पुरुषस्तखतो भिन्न ए- वेत्याशङ्याह स ईश्वरो नियन्ता सर्वेषां पुरुषाणामीशनादिश- क्तिमानित्यर्थः, अयं पुरुषस्तस्य नियम्य इति भावः ॥ २० ॥ नन्वेतस्यापि नियम्यत्वं न वास्तवमित्याशा विशेषान्तरमाह । स सर्वज्ञः स्वभावेन प्रणवस्तस्य वाचकः । तदयं भावनापूर्व तज्जपो मोक्षसाधनम् ॥ २१ ॥ स इति । स विशिष्टः पुरुषः स्वभावेन स्वत एव सर्वज्ञः बोघसारे सर्व सामान्यतो विशेषतश्च जानातीति सर्वज्ञः, तस्य स्वतः स- वैज्ञत्वमेतस्य तु साधनसाध्यमित्ययं भेदोस्तीति स एवात्र यो- गेषु ध्येयो विषय इति भावः, एवं ध्येयस्वरूपं निर्णीय तदर्थ- प्रतिपादकं मन्त्रं जपायाह । प्रणव इति, तस्य ध्येयतया विशिष्टपुरुषस्येश्वरस्य वा- चको नाम प्रणव ओङ्कारस्तदयं प्रणवो मन्त्रो ज्ञेयः, तज्जप- स्तस्य प्रणवस्य जप उपांश्वात्तिरूपो भावनापूर्व तदर्थविचा- रपूर्व प्रेम्णा यथा तथा कार्य इति शेषः, स च मोक्षसाधनं मो- क्षस्य प्रपञ्चनिवृत्तिरूपाया मुक्तेः साधनमुपायोस्ति, ततो मोक्ष: स्यादिति भावः ॥२१॥ इदानीं योगोपदेशाकशास्त्रस्य चातुर्विध्यं दर्शयितुं दृष्टा- न्तमाह। यथा रोगस्तन्निदानं भेषजं चाप्यरोगता। विवेचनीयभेदेन चिकित्सास्ति चतुर्विधा ॥२२॥ यथोति । यथा यायोगो रोगस्वरूपनिर्णायकप्रकरण- विभागः, तन्निदानं तस्य रोगस्य निदानं मूलकारणं तत्प्रतिपा- दको ग्रन्थविभागो, भेषजं च तनिवर्तकमौषधं तत्प्रतिपादक- मपि, अरोगता फलं तत्प्रतिपादकं प्रकरणम् । एवं विवेचनीयभेदेन विवेक्तुं पृथक्कृत्य दर्शयितुं योग्यस्य विषयस्य भेदेन भिन्नत्वेन चिकित्सा चिकित्साशास्त्रं चतुर्विधा चतुःप्रकाराऽस्ति वर्त्तते॥२२॥ दार्शन्तिकमाह । जन्मदुःखं तथा मोहो विज्ञानं च विमुक्तता । विवेचनीयभेदेन योगशास्त्रं चतुर्विधम् ॥२॥ जन्मेति । तथा तद्वज्जन्मदुःखं जन्मनो दुःखरूपत्वप्रतिपादक योगदीक्षाचिन्तामणी पातञ्जलयोगः । योगप्रकरणं, मोहो मूलाज्ञानं तत्स्वरूपप्रतिपादकं प्रकरणं च, विज्ञानं च विज्ञानप्रतिपादकं तत्साधनप्रतिपादकं च प्रकरणजातं, विमुक्तिता विमुक्तिः स्वस्वरूपेणावस्थानं तस्य प्रतिपादकं शा. स्त्रम्, एवं विवेचनीयभेदेन चतुर्विधत्वेन योगशास्त्रं चतुर्विध योगप्रतिपादकं शास्त्रं चतुःप्रकारं ज्ञेयमिति शेषः ॥ २३ ॥ इदानीं मोहस्वरूपं तस्य दुःखफलत्वं च तनिवर्तकज्ञान स्वरूपं तत्फलभूतां दुःखनितिं च क्रमेण दर्शयति । अविवेकः पुंप्रकृत्योः स मोहो दुःखकारणम् । समत्वपुरुषान्यत्वख्यातिबोधेन नश्यति ॥ २४ ॥ अविवेक इति । यः पुंप्रकृत्योः पुरुषम्य प्रकृतेश्वाविवेकः पृथगज्ञानं स स एव मोहयति स्वाधीनं पुरुषमिति मोहोऽज्ञानं स एव दुःखकारणं जन्ममरणस्वरूपभूतस्य दुःखस्य कारणं हे तुरस्ति, स च मोहः समत्वपुरुषान्यत्वख्यातिबोधेन समत्वं गुणसाम्यरूपत्वं प्रकृतेस्तस्य, पुरुषोऽसङ्गायनित्यानन्दस्वरूप- स्तस्य चान्यत्वं वैलक्षण्येन पृथकं तस्य ख्यातिः ख्यायते प्र- कथ्यते ऽनया सा ख्यातिरुभयोभिन्नत्वप्रतिपादिका सांख्य- योगस्मृतिवाग्वेदान्ताविरोधिनी तस्या बोधेन ज्ञानेन नश्यति नष्टा भवति, ततो दुःखमपि नश्यति च्छत्रापाये च्छायापायन्याये- नेति भावः ॥ २४ ॥ एवं ससाधनं योग सफलं प्रतिपाद्येदानीं तदभ्यासिना विघ्नरूपासु सिद्धिषु नादरः कार्य इत्याह । योगाभ्यासप्रसक्तस्य सिद्धयो भोगदायिकाः ! आयान्ति नादरः कार्यो ह्यन्तराया मता यतः॥२५॥ १ तन्निवर्तकविज्ञानप्रतिपादकं तत्साधन प्रतिपादकञ्च ।

নাই। योगेति । योगाभ्यासप्रसक्तस्य मुक्तीच्छयोक्तलक्षणस्य यो- गस्याभ्यासः पुनः पुनरागृत्तिस्तस्मिन्प्रसक्तः सस्नेहस्तस्य पु- रुषस्य भोगदायिका भोगं दत्वा तल्लोभेन योगभ्रंशहेतुभूताः सिद्धयः दूरश्रवणदूरदर्शनाकाशगमनादय आयान्ति प्राप्नु- वन्ति, तासु योगिनाऽऽदरः प्रीतिर्न कार्यो न कर्त्तव्यः, कुत इत्यत आह हीति, यतो हेतोरन्तराया योगस्य विनरूपा मता ज्ञाता योगिभिरिति शेषः । अत्र पतञ्जले सूत्र 'ते समा- धावुपसर्गा व्युत्थाने सिद्धय' इति ॥ २५ ॥ ननु ताः सिद्धयो लक्षणतः कारणतः कार्यतश्च निरूपि- तव्या इत्याशङ्यानुपयोगाक निरूपणं तासामत्र क्रियत इत्याह । धारणाध्यानवैचित्र्यात्सिद्धिभेदो य ईरितः । अत्यन्तानुपयोगित्वात्स तु नात्र निरूपितः ॥२६॥ इतिपातञ्जलो योगः । इति श्रीनरहरिकृतौ बोधसारे योगदीक्षाचिन्तामणौ पातञ्जलयोगः । धारणेति। यः पातअले धारणाध्यानवैचित्र्याद्धारणानां ध्या- नानां च यद्वैचित्र्यं वैलक्षण्यं तस्मात्सिद्धिभेदः सिद्धीनामा- काशगमनादीनां भेदः पार्थक्यमीरित उक्तः, स तु स चात्य- न्तानुपयोगित्वादत्यन्तं निरन्तरमनुपयोगित्वादुपयोगाभाव- वत्वेनात्रास्मिन्ग्रन्थे न निरूपितो न प्रोक्तः ॥२६॥ इतीति पातालः पतञ्जलिना प्रोक्तो योग इति संपूर्ण इत्यर्थः । इति श्रीनरहरिशिष्यदिवाकरविरचितायां वोघसारार्थदीप्ती योगदीक्षाचिन्तामण्यर्थप्रकाशे पातञ्जलयोगार्थप्रका- शः प्रथमः ॥१॥ saawpwaonmainameajmansituation या " योगदीक्षाचिन्तामणौ शैवो मन्त्रयोगः । एवं पातञ्जलं योगं निरूप्येदानी शैवयोगनिरूपणं प्र- ति जानीते। अथ शैवयोगः। योगः शैवो निरूप्यते मन्त्रो लयो हठो राजयोगो योगश्चतुर्विधः ॥ १॥ अथ मन्त्रयोगः। योग इति । हे शिष्य शैवः शिवेन प्रोक्तः तेन प्रोक्तमिति तद्धितोऽण् , योगो योगसाधनप्रतिपादकं शास्त्रं निरूप्यते कथ्यते त्वं शृणु, एतस्य भेदानाह मन्त्रो मन्त्रयोगः, लयो लययोगः, हठो हठयोगः, राजयोगः । एवं योगो योगसाधनं चतुर्विधश्चतुःप्रका- रमित्यर्थः ॥१॥ एवं शैवयोगानामभेदेन चतुरः प्रदर्य तत्र तावत्प्रथम प्रधानमन्त्रोदाहरणेन दर्शयति त्रिभिः । नारायणाष्टाक्षरवासुदेवद्वादशाक्षरौ । नृसिंहरामगोपालमन्त्रास्ते तापिनीस्तुताः ॥ २ ॥ नारायणेति । नारायणाष्टाक्षरवासुदेवद्वादशाक्षरौ नारा- यणस्य जलशायिनो जीवान्तर्यामिणो वा सर्वजगत्साक्षिणो वाऽष्टाक्षरोऽष्टावक्षराणि वर्णा यस्मिन्स नारायणाष्टाक्षर ॐनमो नारायणायेत्येवं रूप एको मन्त्रः, तथा वासुदेवस्य वसु. देवपुत्रस्य सर्वभूतनिवासस्य यद्वा वा विकल्पेनामून्प्राणाधु- पाधीन्दीव्यति प्रकाशयतीति वासुदेवो जगतोऽसत्वादप्रका- शकस्तत्सत्वेन प्रकाशकश्चेत्यर्थः, तस्य जगत्प्रकाशकत्वाप्रकाश- कत्वाभ्यां लक्षितस्य परमात्मनो वा द्वादशाक्षरो द्वादशाऽक्ष- बोधसारे। राणि वर्णा यत्रेति स तथोक्त ॐनमो भगवते वासुदेवायेति मन्त्रो द्वितीयः, तथा नृसिंहरामगोपालमन्त्रा नृसिंहस्य रामस्य गोपालस्य च मन्त्रा ये सन्ति ते तापिनीस्तुतास्तापिनीषु स्तु- ताः प्रोक्तास्तापनीयोपनिषत्सु प्रतिपादिता इत्यर्थः ॥२॥ शैवानपि प्रधानान्मन्त्रानाह । शिवपञ्चाक्षरी श्रेष्ठा दक्षिणामूर्तिरुत्तमा । यतीनां तु महावाक्यं केवलः प्रणवस्तथा ॥ ३ ॥ शिवेति । शिवस्य परमानन्दरूपस्य पञ्चाक्षरी पञ्चानामक्ष- राणां वर्णानां समाहारः पञ्चाक्षरी नमः शिवायेति विद्या म- न्त्ररूपा श्रेष्ठोत्तमा शैवमन्त्रेष्वित्यर्थः, तथा तेष्वेव दक्षिणामूर्ति- दक्षिणामृरुपासना मन्त्रावृत्तिरूपोचमा श्रेष्ठेत्यर्थः, उक्तेषु मन्त्रेषु सर्वाधिकारः, नियमितानाह यतीनां तु संन्यासिनामेव केवलं महावाक्यं तत्वमसीत्यादिरूपं मन्त्रः, तथा केवल एकः प्रणव ॐकार एव मन्त्रः ॥ ३ ॥ एवं मन्त्रान्मदर्येदानीं तदुपसंहारपूर्वकं तत्फलं चाह । इत्यादयो महामन्त्राः पुरश्चर्यादिभिः कमैः । सिद्धा देवप्रसादेन सद्यो मुक्तिप्रदा मताः ॥ ४ ॥ इति श्रीनरहरिविरचिते बोधसारे योगदीक्षाचिन्तामणौ मन्त्रयोगः। इत्यादय इति । इत्यादय इति एवं निरूपिता मन्त्रा आदयः प्रमुखा येषां ते सर्वे सात्विका अतो महामन्त्राः श्रेष्ठा- मन्त्रास्ते पुरश्चर्यादिभिः क्रमैः पुरश्चर्याः पुरश्चरणानि आदीनि येषां ध्यानादीनां तैश्च क्रमैरनुष्ठानैः सिद्धाः स्वाधीनीभूताः सन्तः देवप्रसादेन देवस्याराध्यस्य कृपया सद्यस्तक्षणं मुक्ति- योगदीक्षाचिन्तामणी शैवो हठयोगः । प्रदा मोक्षदा भवन्तीति मता अङ्गीकृता मुनिभिरिति शेषः॥४॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्ती योगदीक्षाचिन्तामण्यर्थप्रका मन्त्रयोगार्थप्रकाशो द्वितीयः ॥२॥ Japan ॥ अथ हठयोगः। एवं मन्त्रयोग प्रतिपायेदानी हठयोगाख्यमेकोनविंशति- श्लोकं प्रकरणमारभते, तत्र तावद्धठयोगमुख्यक्रिया तत्फलं चाह । गङ्गायमुनयोर्मध्ये बालरण्डां तपस्विनीम् । बलात्कारेण गृह्णीयात्तद्विष्णोः परमं पदम् ॥ १॥ गङ्गेति । गङ्गायमुनयोगङ्गात्रेडानानी नाडी वामनासा- पुटवर्तिनी वायुसञ्चरणाय सूक्ष्मा धमनीव स्थिता, यमुना च पिङ्गलानाम्नी नाडी दक्षिणनासापुटवर्तिनी वायुप्रचाराय सूक्ष्मा धमनीव स्थिता, तयोर्मध्ये मध्यदेशवर्तिनी तपस्विनी- प्रकाशबहुला बालरण्डां बालः केशः स इव सूक्ष्मां रण्डां वा- युसञ्चारवती सुषुम्णां नाडीमित्यर्थः, बलात्कारेण प्राणाया- माघभ्यासेन गृह्णीयावशीकुर्यात्तत्तर त्तस्या वशीकरणमेव वि- ष्णोापनलक्षणस्य परमात्मनः परमं केवलं मायातकार्याभ्या- मस्पृष्टं पदं स्वरूपं ज्ञेयं, सुषुम्णावशीकार एव फलं हठयोग- स्येति भावः ॥ १॥ तदेतस्मिन्योगे गोरक्षसंमतिमाह । तत्रगोरक्षः। तत्रेति । तत्रोक्ते हठयोगे गोरक्षो गोरसोप्याहेत्यर्थः, त- लोकं पठति ।

बोधसारे। in एतद्विमुक्तिसोपानमेतत्कालस्य वञ्चनम् । ययावृत्तं मनो भोगादासक्तं परमात्मनि ॥ २ ॥ एतदिति । यन्मनोन्तःकरणं भोगाद्विषयजन्यमुखाया- वृत्तं निहतं सत्परमात्मनि कार्यकारणाभ्यामतीत आत्मनि- आसक्तं स्थिरं जातं तदित्यध्याहार्य, तदेतदिदं, विमुक्तिसोपानं विमुक्तेर्मोक्षस्य सोपानमारोहणमार्गः, तथैतदिदं कालस्य मृत्योर्वश्चनं जयसाधनमेतेनोपायेन मृत्युरपि निवृत्तः स्या- दिति भावः ॥२॥ इदानीं साधनान्याह। परमं यदि वैराग्यमाहारस्तु यथोदितः । नित्यमेकान्तवासश्चेद्धटयोगो न दुर्लभः ॥ ३ ॥ परममिति । परमं ब्रह्मपदान्ते वैषयिकसुखे काकविष्ठा- यामिव वैतृष्ण्यं वैराग्यमरुचिर्यदि स्यात्तर्हि, किश्चाहारश्च यथोदित आहारो भोजनमपि यथोदितो यादृगुक्तः शास्त्रेष्विति शेषः, तच्चोक्तं दो भागौ पूरयेदर्जलेनैकं प्रपूरयेत् । शेष वायो। प्रचारार्थ भागं शिष्येत वै बुध' इति, तथा नित्यं निरन्तरमे- कान्तवासो जनसम्बाधरहितस्थाने वासः स्थितियदि स्या- तर्हि हठयोगो दुर्लभो लब्धुमशक्यो न न भवति ॥ ३ ॥ मुख्यं साधनमाह । परन्तु गुरुदीक्षाभिर्लभ्यते नान्यथा त्वयम् । व्यतिक्रमे महान्दोषः क्रमलाभे महान्गुणः ॥४॥ परं त्विति । परन्तु वैराग्यादिसाधनेषु सत्स्वपि अयं १४.

योगदीक्षाचिन्तामणी शैयो हठयोगः । योगो गुरुदीक्षाभिर्गुरुभिः कृता दत्ता दीक्षा गुरुदीक्षा म- ध्यमपदलोपी समासः, ताभिः कृता लभ्यते. प्राप्यतेऽन्यथा तु गुरुदीक्षां विना न न प्राप्यते इत्यर्थः, व्यतिक्रम उक्ताहारा- दिवपरीत्ये सति महान्दोषो मरणान्तोनर्थः स्यात्,क्रमलाभ उक्तसाधनक्रमेण लाभे हठस्य प्राप्तौ सत्यामित्यर्थः, महान्गुणः सर्वदुःखनिवृत्तिरूपः श्रेष्ठो गुणः स्यात् ॥ ४॥ अस्य प्रामाण्यसिद्धये. संप्रदायज्ञानाय चाचार्यमाह । अनन्तविस्तारमयो हठः प्रोक्तः पुरारिणा । सारं तु बन्धत्रितयं तावता सिद्धिराप्यते ॥ ५ ॥ अनन्तेति । पुरारिणा त्रिपुरशत्रुणा त्रिपुटींलक्षणत्रिपुर- नाशकेन. वा स्थूलसूक्ष्मकारणाख्यत्रिपुरसंहो वोक्तलक्ष- णत्रिपुरनाशायैवानन्तविस्तारमयो न विद्यतेन्तः पारो यस्य स विस्तारस्तेन प्रचुरो हठो हठयोगः प्रोक्तो वर्णितः, तत्र तु, सारं मुख्यं. बन्धत्रितयं बध्यन्ते रोध्यन्ते प्राणा एभिस्ते ब- न्धास्तेषां त्रितयं त्रयं प्रोक्तं तावता तु तावन्मात्रेणैव सिद्धि- मुक्तिरथवा यस्य येप्सिताऽऽकाशगमनादिका सापि आ- प्यते. प्राप्ता भवति ॥५॥ तदेव वन्धत्रितयं स्थानतो नामतश्च दर्शयति । मूले तु मूलबन्धः स्यान्मध्ये स्यादुडियानकः । कण्ठे जालन्धरस्तेन सिद्धो भवति मारुतः ॥६॥ मूलेत्विति । मूलबन्धस्तु मूलं मूलाधार बध्यते. रोध्यते- नेनेति मूलबन्धः स च मूले मूलाधारे स्याद्भवेद्, उडियानक एतनामको बन्धो मध्ये स्वाधिष्ठानादौ स्याद्भवेत, कण्ठे वि. ।

waya बोधसारै। शुद्धिचक्रादिस्थाने जालन्धरो जालं मुखनासानेत्रकर्णच्छिद्राणां जालमिव प्राणवायोः सञ्चारद्वारं धरति अवरोधयतीति जा. लन्धर एतन्नामा वन्धः स्याद्भवेद्, एतेषां फलमाह तेन बन्ध. अयेण मारुतो वायुः सिद्धः स्वाधीनो भवति जायते ॥६॥ इदानीं स्वाधीनीभूतवायोर्ब्रह्मरन्ध्र नीतस्य फलंदर्शयति । कुण्डलिन्याः सुषुम्णायां प्रविष्टो ब्रह्मरन्ध्रतः । मूलस्थाने स्थिता शक्तिब्रह्मस्थाने सदाशिवः ॥७॥ कुण्डलिन्या इति । स एव मारुतो कुण्डलिन्याः कुडलिनी प्रविश्यानन्तरं सुषुम्णायां सुषुम्णाख्यनाड्यां प्रविष्टः प्रवेश कृला ब्रह्मरन्ध्रतः ब्रह्मरन्ध्राख्ये सप्तमे चक्रे प्रविष्टो भवतिः तमिश्च तत्र स्थिरे सति किं फलं तत्राह मूलति, शक्तिः कु- ण्डलिनी मूलस्थाने मूलाधारे स्थिता तिष्ठति, ब्रह्मस्थाने ब्र- मरन्ध्रस्थाने सदाशिवः सर्वदा सुखरूपः कूटस्थः परमात्मा- ऽस्ति, तयोः समायोगो वायोः स्थैर्यफलमिति भावः ॥ ७ ॥ शिवशक्तिसमायोगहेतुलेनाजपाजपं विधत्ते । अजपा नाम गायत्री योगिनां मोक्षदायिनी। तस्याः सङ्कल्पमात्रेण सर्वपापैः प्रमुच्यते ॥ ८ ॥ अजपेति । अजपा नाम स्वयमेवोच्छवासनिश्वासरूपेण प्रयत्नं विना प्रवर्त्तमानखादजपेति प्रसिद्धा गायत्री हंसः सो- हमित्येवं सकारेण शक्तिवाचकेन हकारेण शिववाचकेन चो- भयोः सामानाधिकरण्येन शिवशत्यैक्यमनुसन्धाय गायन्तमु- चरन्तं त्रायते रक्षतीत्यतो गायत्री, यद्वा गायत्री प्रकृतित्वादपि गायत्रीव जपार्हा सा जप्ता चेद्योगिनां योगाभ्यासवतां योग- सिद्धि दत्वा मोक्षदायिनी संसारान्मुक्तिदायिनी मुक्तिदात्री योगदीक्षाचिन्तामणी शैवो हठयोगः । १४१ स्यादतस्तस्या अजपाया सङ्कल्पमात्रेण केवलं सङ्कल्पेनैव सर्वपापैः समस्तपातकै रागद्वेषादिरूपैः कर्तृभिः सङ्कल्पकता मुच्यतेऽत्यन्तं त्यज्यते किं पुनस्तस्या अनुसन्धानपूर्वकजपेन मुच्यत इति वक्तव्यमिति भावः॥८॥ इदानीं प्राणस्थैर्यार्थ द्वारभूतानि चक्राण्याह द्वाभ्याम् । आधारं प्रथमं चक्रं स्वाधिष्ठानं तथैव च । मणिपूरं तृतीयं स्याच्चतुर्थकमनाहतम् ॥ ९ ॥ आधारमिति । आधारमेतनामकं चक्रं स्थान प्रथममाचं भवति, स्वाधिष्ठाननामकं स्थानं च तथैव द्वितीयमित्यर्थः, तथा मणिपूरमेतन्नामकं स्थानं तृतीयं स्याद्भवेद्, अनाहतमनाहतसंङ्गं चक्रं चतुर्थकं तुरीयं भवति ॥९॥ विशुद्धिः पञ्चमं चक्रमाज्ञाचक्रं तु षष्ठकम् । सप्तमं ब्रह्मरन्ध्र स्याद्भमरस्य गुहा हि सा ॥३०॥ विशुद्धिरिति । विशुद्धिनामकं चक्रं स्थानं पञ्चमं भवति, आज्ञाचक्रं तु आज्ञाचक्रनामकं स्थानं च षष्ठकं षष्ठं भवति, ब्र- मरन्धं ब्रह्मरन्ध्रनामकं स्थानं सप्तमं स्याद्भवेत, तस्यैव ग्रन्थभेदे नामान्तरमाह भ्रमरस्येति, सा हि भ्रमरस्य सैव भ्रमं राति मोहमादत्ते जीवभावेनेति भ्रमरः परमात्मा तस्य गुहा गुहत आवृणुते परमात्मा शुद्धजीवस्त्वंपदलक्ष्यो यस्यां सा गुहा स्थानं तदित्यर्थः ॥ १० ॥ इदानीं सत्स्वन्येष्वासनेषु मुख्यत्वेन सिद्धासनं लक्षयति । योनिस्थानकमज्रिमूलघटितं कृत्वा दृढं विन्यसे- न्मेढ़े पादमथैकमेव नियतं कृत्वा समं विग्रहम् ।

MARAwai स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन्ध्रुवोरन्तरं ह्येतन्मोक्षकपाटभेदनकर सिद्धासनं प्रोच्यते॥११॥ योनीति । अङ्खिमूलघटित पादमूलेनामर्दितं योनिस्था- नकं शिश्नस्थानं कृत्वाऽऽवद्ध्य, अथानन्तरं मेरे वृषणमूल एक द्वितीयं पादं चरणं नियतमेव नित्यमेव दृढं गाढं यथा भवति तथा विन्यसेत्संस्थापयेत्, ततश्च विग्रहं शरीरं सम समानग्री- वाद्यवयवं कृत्वा संयमितेन्द्रियो नियमितबाह्येन्द्रियः स्थाणुः स्थाणुश्छिन्नक्षमूलं तद्वत्स्थिरश्च भूत्वा, अचलदृशा स्थिरतारया दृष्ट्या भ्रुवोभृकुट्योरन्तरं मध्यं पश्यन्सन, एतदित्यादिल- क्षणैर्लक्षितं हि प्रसिद्धमेतद्धठयोग इत्यर्थः, मोक्षकपाटभेदनकर मोक्षस्य मुक्तेः कपाटमिवावरकमज्ञानं यद्वा मोक्षस्य शिवशक्ति- समायोगाख्यस्य साम्यस्थितिरूपस्य च कपाटानि मूलाधा- रादि ब्रह्मरन्ध्रान्तानि चक्राणि तेषां पूर्वोक्तकपाटसहि- तानां भेदनं भेद उद्घाटनं तस्य करं कर्व सिद्धासनं सिद्धास- ननामकं प्रोच्यते कथ्यते योगिभिरिति शेषः ॥११॥ एवमासनं प्रदश्येदानीं शक्तिप्रबोधनप्रकारं निरूपयति द्वाभ्यां । कृत्वा सम्पुटितौ करौ दृढतरं बध्वा तु सिद्धासनं गाढं वक्षसि सन्निधाय चुबुकं ध्यानं ततश्वेतसि । वारं वारमपानमूर्ध्वमनिलं प्रोत्सार्य सन्धारय- न्प्राणं मुञ्चति बोधयंश्च शनकैः शक्तिप्रबोधो भवेत्॥१२॥ कृत्वेति । पूर्वमुक्तलक्षणमेव सिद्धासनं दृढतरमतिगाद बध्वा प्रसाध्य करौ हस्तौ ततोनन्तरं सम्पुटितौ सम्पुटाकारौ कृत्वा चुबुकं तु मुखाधोगलादूर्ध्वमवयवश्चुबुकस्तमपि वक्षसि योगदीक्षाचिन्तामणी शैवो हठयोगः । कण्ठादधोभागे वक्षोमध्ये गाढं दृढं सन्निधाय संस्थाप्य ततस्त- दनन्तरं चेतसि चित्ते ध्यानं ध्येयानुसन्धानं सन्निधाय कृत्वा- ऽपानमनिलधोवर्तिनमपाननामानं वायुममुपरितने देशे वारं वारं पुनः पुनः प्रोत्सार्य प्रचार्य प्राणं प्राणवायुं सन्धारयन्न- वरुन्धन्सञ्छनकैश्चिरेण शक्तिं कुण्डलिनी प्रबोधयन्व्युत्थाप- यन्सन, एवं शक्तिप्रबोधः शक्तेः कुण्डलिन्याः प्रवोधो व्युत्थानं भवेत्स्याव, एवं कृते सा मुञ्चति स्थानं मूलाधारमित्यर्थः ॥१२॥ पुच्छे प्रगृह्य भुजगी सुप्तां प्रबोधयेत्सुधीः । निद्रां विहाय सा शक्तिरूवमुत्तिष्ठते बलात्॥१३॥ पुच्छ इति । सुधीगुरुशिक्षया स्वतश्च कुशलमतिः सुप्तां निद्रितां संसारस्वमवतीमविद्यानिद्रावती वा पुच्छे मूलाधार- स्थितपुच्छे प्रगृह्य सन्धार्य प्रबोधयेत्संसारविमुखवं सम्पाद्य शिवसंमुखत्वं सम्पादयेत्, ततः सा शक्तिः कुण्डलिनी निद्रा प्रपञ्चसंमुखता स्वरूपाज्ञानतां वा विहाय त्यक्त्वा बलागेनो- ब्रह्मरन्ध्रप्रदेशमुत्तिष्ठत अर्ध्वमुखी भूत्वा चलति ॥ १३ ॥ ननु वायुलयस्य किंफलं तत्राह । ऊर्ध्व निलीनप्राणस्य त्यक्तनिःशेषकर्मणः । योगेन सहजावस्था स्वयमेव प्रजायते ॥ १४ ॥ ऊर्वमितिं । ऊर्ध्वं ब्रह्मरन्ध्रे निलीनमाणस्य निःशेष लीनो नष्टः प्राणो यस्य तस्याऽत एव त्यक्तनि शेषकर्मणस्त्यक्तानि निःशेषाणि समस्तानि कर्माणि येन स तथोक्तस्तस्य योगेन शिवशक्तिसमायोगेन सहजावस्था सहजास्थितिर्जीवन्मुक्ति- रित्यर्थः, स्वयमेव स्वत एवेत्यर्थः, प्रजायत उत्पद्यते प्राप्ता भ- वेदित्यर्थः ॥ १४ ॥ ।

CHAIN बोधसारे। ननु 'ज्ञानादेव तु कैवल्यं प्राप्यते येन मुच्यते' इत्यादिश्रु- त्या मोक्षस्य ज्ञानसाध्यत्वमुक्तं किं शिवशाक्तिसमायोगेन तत्सा- धनभूतहठयोगेन वेत्याशा मनोनाशस्य हठयोगजत्वाचेन विना तन्नाशाभावे ज्ञानाभावान्मोक्षो न स्यादित्याशयेन शिव- पार्वतीसम्वादश्लोकमुदाहरति । ज्ञानं कुतो मनसि जीवति देवि याव- त्प्राणो न नश्यति मनो म्रियते न तावत् । प्राणो मनो द्वयमिदं प्रलयं प्रयाति मोक्षं स गच्छति नरो न कदाचिदन्यः ॥ १५॥ ज्ञानमिति । हे देवि हे पार्वति मनसि अन्तःकरणे जीवति विद्यमाने सति ज्ञानं जीवब्रह्मैक्यज्ञानं कुतो न कुतोपि स्यादि- त्यर्थः, तर्हि मनो नाशः कदा स्यात्तत्राह प्राण इति, यावत्माणो जीवोपाधिभूतो मनसश्चाश्चल्यहेतुवायुर्न नश्यति नष्टो न भ- वति तावत्तावत्कालं मनोन्तःकरणं न म्रियते नैव नश्यतीत्यर्थः, अतः प्राणो मनश्वाञ्चल्यहेतुः पवन मनश्च प्राणजीवनहेतुभूत- मधिष्ठानसहितमन्तःकरणप्रतिविम्बितं चैतन्यं सङ्कल्पधर्मीदं द्वयमेतद्युग्मं यस्य योगाभ्यासवतो हठेन प्रलयं प्रयाति नाशं पामोति स नरः स पुरुषो मोक्षं मुक्तिसाधनभूतं ज्ञानं गच्छति प्रामोति अन्य उभयलयरहितः पुरुषः कदाचित्कस्मिन्नपि काले न ज्ञानं न प्रामोतीत्यर्थः ॥ १५ ॥ समस्तमुद्रासु शाम्भव्याः श्रेष्ट्यात्तामेव सलक्षणामाह । अन्तर्लक्ष्यविलीनचित्तपवनो योगी यदा वर्त्तते दृष्ट्यानिश्चलतारया बहिरिदं पश्यन्नपश्यन्नपि ।

योगदीक्षाचिन्तामणी शैवो हठयोगः । १४५ मुद्रेयं किल शाम्भवी भगवती या स्यात्प्रसादाहः शून्याशून्यविलक्षणं मृगयते तत्त्वं पदं शांभवम्१६॥ अन्तरिति । योगी योगाभ्यासी यदा यस्मिन्लेऽन्त- लक्ष्यविलीनचित्तपवनोन्तरभ्यन्तरे यल्लक्ष्यं शिवशनिमायो- गरूपं जीवब्रह्मैक्यं च तस्मिल्लीनौ चित्तपवनौ चित्तं नः प- चनः प्राणश्च यस्य तथोक्तः स सान्निश्चलतारया परकनी- निकया दृष्ट्या दृशा बहिर्वाध्यमिदं दृश्यं जगत्पन्नालोक- यन्नपि स न पश्यन्नालोकयन्सन्वर्तते वर्तमानोति, सेयं प्रत्यक्षा भगवती भगमणिमाद्यैश्वर्यमस्यामस्तीति भाती शां. भवी शम्भुना पार्वत्यै प्रोक्ता तस्येदमित्याणि च शम्मम्बन्धिनी वा साधकानां शम्भवत्यस्याः सा शाम्भवी वा साधकानां मुखदात्रीत्यर्थः, मुद्राऽवस्थारूपा या गुरोर्देशिकर प्रसादाह- रुकृपातः स्याद्भवेत्, किं फलं तस्या इत्यत आहशून्येति, य- येत्यध्याहार्य, यया मुद्रया शून्याशून्यविलक्षणं जगोऽसत्वं शून्य तत्सत्त्वंचाशून्यं ताभ्यामसतः सत्तामदत्वाच्छ्न्यागतोऽशून्यरू- पादपि विलक्षणमुभयलक्षणहीनं शाम्भवं शम्भुःविस्तत्सम्बन्धि तत्स्वरूपभूतमित्यर्थः, भेदव्यपदेशस्तुराहोः शिरत् , तत्त्वमना- रोपितं पदं स्वरूपं मृगयते शोध्यत इदमे फलमेतस्या इत्यर्थः ॥ १६ ॥ उक्तं सफलं हठमुपसंहरति । प्राणवृत्तौ विलीनायां मनोवृत्तिविलायते । शिवशक्तिसमायोगो हठयोगेन जायते ॥ १७ ॥ प्राणवृत्ताविति । हठयोगेन हठाख्ययुक्त्या प्राणवृत्तौ मा- बोधसारे। णाखायोतिः श्वासोच्छ्वासरूपा तस्यां विलीनायां लय प्राप्ता सत्यां मनोवृत्तिर्मनसोन्तःकरणस्य वृत्तिः संकल्पवि- कल्पा विलीयते नष्टा भवति, ततश्च शिवशक्तिसमायोगो ब्र- मरन्थतस्य शिवस्य मूलाधारस्थितायाः शक्तेश्च समायोगः संयोगक्यमित्यर्थः, जायते भवति ॥ १७ ॥ क्तहठपरोचनायावान्तरफलप्रदर्शनपूर्विकामाचार्यपरि- पाटीमा। रक्षचटिप्राया हठयोगप्रसादतः । अयित्वा कालदण्डं ब्रह्माण्डं विचरन्ति हि॥१८॥ गोरति । गोरक्षचर्पटिप्रायाः प्रायःशब्दोत्र प्रभृतिवा- चको गक्षश्च चर्पटी चैतौ द्वौ प्रायावादी येषां ते तथो- तास्ते हागप्रसादत उक्तहठयोगस्य हठाख्ययुक्तेः प्रसादत- स्तत्साधनेन सार्वविभक्तिकस्तसिरत्र, कालदण्डं कालस्य जग- कलयितुरीररूपस्य दण्डो मृत्युरूपस्तं वञ्चयित्वाऽनादृत्य ब- माण्ड मृत्युव्रडास्थानं ब्रह्माण्ड इत्यर्थः, विचरन्ति प्रारब्धभो- गान्भुञ्जते गरन्ति च हि प्रसिद्धमेतदित्यर्थः ॥ १८ ॥ एवं सफा हठक्रियां निरूप्य तस्याः वेदान्तानुकूल्याय मनसो गुणसाये गुणसाम्यस्य च स्फुरणविषयत्वसम्पादने च तयोर्लयलक्षा शिवशक्तिसमायोगं कुर्यादित्याशयेनाह । शक्तिमये मनः कृत्वा शक्तिं मानसमध्यगाम् । शिवाकसमायोगं कुर्वन्ति हठयोगिनः ॥ १९॥ इति श्रीनरहरिविचिते बोधसारे योगदीक्षाचिन्तामणी हठयोगः॥३॥ शक्तीति। मनः साम्यस्फुरणरूपं तत्संकल्पविकल्परूपावृत्तिः ।

योगदीक्षाचिन्तामणी शैवः शिवशक्तिपराक्रमः । शक्तिमध्ये साम्यकारणभूतायां चिंच्छक्तौ कृत्वा शत्यभिन्नम- नुभूय शक्तिं साम्यस्फूर्तिकारणरूपां चिच्छक्तिं मानसमध्यगां साम्यसंकल्पविकल्परूपमनःकल्पितत्त्वात्तन्मध्ये विद्यमानांत- दभिन्नामित्यर्थः, कृत्वाऽनुभूय हठयोगिनो हठाख्यक्रियाभ्या- सिन एवं शिवशक्तिसमायोग शिवस्यात्मनः शगुणसाम्य- रूपप्रकृतेश्च समायोगमैक्यानुभवरूपं कुर्वन्ति विदधर्तत्यर्थः ॥१९॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधगरार्थदीप्त योगदीक्षाचिन्तामण्यर्थप्रकाशे हठयोगार्थकाश- स्तृतीयः॥३॥ Saadamasummen अथ शिवशक्तिपराक्रमः । एवं सफलं हठं प्रतिपाद्यानन्तरं लये मानुरोधेन नि- रूपितव्ये तं त्यक्त्वा व्युत्क्रमेण शैवमतं रायोगं निरूपयितुं शिवशक्तिसमायोगमसङ्गेन शिवशक्तिपराक्रख्यं चतुर्दशश्लोक प्रकरणमारभते, तत्र तावच्छिवशक्तिपराक्रमारूपणं प्रतिजानीते। अथ वक्ष्ये स्तुतिव्याजाच्छिवश्क्तेपराक्रमम् । शोधिते सूक्ष्मया दृष्ट्या यस्मिविस्मयो भवेत्॥१॥ अथेति । अथ हठयोगनिरूपणानरं तत्पसङ्गेनैव स्तु- तिव्याजास्तवनमिषेणैव शिवशक्तिपरामं शिवस्य परमान- न्दरूपस्य परमात्मनो या शक्तिर्जगज्जासामर्थ्य तस्याः परा- क्रमं प्रतापं चरित्रमित्यर्थः, वक्ष्ये वयिष्यामि त्वं श्रुण्विति शेषः, नन्वेतच्छ्वणस्य किंफलं तत्राह शोधित इति, सूक्ष्म- या विचारसंस्कारेण सूक्ष्मीभूतया ट्या बुद्ध्या यस्मिञ्छि- वशक्तिपराक्रमे शोधिते विचारिते से विचारको निर्विस्मयः शक्तेरघटितघटनापटीयस्त्वज्ञानादाभूतबुद्धिरहितो गर्वर- बोधसारे। Home हितश्च भवेत्स्यात् ॥ १॥ तामेव शक्ति विशेषणैर्विशिष्टां स्मरति । तां दैतरूपिणीमेव द्वैताद्वैतस्वरूपिणीम् । अद्वैतरूपिणीं शक्तिं स्मरामि परमात्मनः ॥ २ तामिति। द्वैतरूपिणी दैतमनेकविध कार्य जगद्रूपं तदेव रूपं स्वरूपं ययाः सा तथोक्ता तां कार्यरूपामित्यर्थः, तथा द्वैताद्वैतस्वरूपिणं साधनकाले च द्वैतं वाक्यार्थज्ञानसाधनजातं गुरुशिष्यशास्त्रश्राणमननादिकं वाक्यतो लक्षितं चाद्वैतमपि रूपं स्वरूपं यस्ता कार्यफलोभयरूपामित्यर्थः, मुक्तिदशायां चाद्वैतरूपिणीमद्वैतक्यमेव रूपं स्वरूपं यस्याः सा तथा भूता तां परमात्मन कार्यकारणातीतस्यात्मनः शक्तिं जगज- ननसामर्थ्यरूपां स्मामि चिन्तयामि लौकिकव्यवहारे सत्य- रूपेण प्रतीयमानां देके तु तस्मिन्साध्यसाधनोमयरूपां समा- ध्यादौ मोक्षावस्था चाखण्डैक्यरूपां च क्रमेण परमार्थत- श्चात्मनोऽभिन्नां च न्तियामीति भावः ॥२॥ इदानी निश्चयाप्रियतया तामेव स्मरन्प्रणमति । केयं कस्य कु: केन कस्मै कं प्रति कुत्र वा कथं कदेत्यनिता तां वन्दे शक्तिमद्भुताम् ॥ ३ ॥ केयमिति । इयं दृमाना शक्तिरूपा माया का कारणरूपा कार्यरूपा च द्विविधापि किं सति उतासती वा सदसती वा, न तावत्सत्या बाधितत्तत्सत्यत्वे बाधानुपपत्तेः श्रुतिश्च बाधितत्वेस्ति 'अथात आगो नेति नेति, नेह नानास्ति किं- च ने तिप्रभृतिका तस्मानया, नाप्यसत्या सर्वजगत्कार्यजन- योगदीक्षाचिन्तामणौ यो हठयोगः । कत्वाच्छतेरसत्वे च तदनुपपत्तिः, न हत्यन्तासतः शशशृ- ङ्गादेः कार्यजनकत्वं दृष्टं जगत्तु तत्कार्य दृश्यतेऽतो नाससा, ना- प्युभयरूपापि सत्यासत्ययोविरुद्धस्वाभाव्येनैककाल एक- वस्तुनिष्ठत्वानुपपत्तेः, नहि तमःमकाशौ सूर्ये वान्यत्र वैककाले प्रतीयमानौ कचिदृष्टावन्योन्यं व्याहत्तौ च सर्वानुभूतावतो नोभयरूपत्वम्, एवं चिच्छक्तिः किश्चिद्रूपा वाऽचिद्रूपोत चिद- चिद्रूपा, नायः शक्तश्चित्वे शक्तिशक्तिमतोरवैलक्षण्येन श- क्तिशक्तिमत्त्वासिद्धेः, नापि द्वितीयः शक्तः पृथगसत्वेन त- निष्ठायाचित्त्वस्यासिद्धेः, तसिद्धावपि चितोऽसङ्गत्वेन प्रकाश- कत्वानुपपत्या शाक्तिभानासम्भवात्तदभाने च तत्कार्यजगद- भानेन जगदाध्यप्रसङ्गाच, नासङ्गेऽद्वैते भास्यं किञ्चिदस्ति येन भासकत्वरूपो विकारः स्थात्, नापि जडः स्वयं घटादिपदार्थो भासमानो दृश्यते, नापि च जडे कारणे मृदादौ तत्कार्यघटा- दिप्रकाशकत्वं च दृष्टमतो नाचिद्रूपेण निश्चयविषया, नापि तृतीयश्चिदचिद्रूपत्वस्य विरूद्धत्वेनापास्तत्वात । एवं किं शक्तिः स्थूलोताऽस्थूलोत स्थूलास्थूलेत्यादिभिर्विशेषणैनितुं न श- क्येति भावः । एवं स्वरूपेण निर्णयाविषयत्वं प्रदर्येदानी संब- न्धतोपि तदाह कस्येति, इयं शक्तिः कस्य सम्बन्धिनीयनिर्णीता निर्णयाविषया, तथाहि सच्छक्तिः किं सत्सम्बन्धिनि उता- सत्संबन्धिनी, नाद्यः सदसतोः सम्बन्धायोगान हि श- शशृङ्गादिकं शशादिसम्बन्धि दृष्टम् । ननु शत्तेः कार्य- जननक्षमखानासखमिति चेन्न कार्यस्यापि तथालाद सतो रज्जुसादेस्तादृशभयकम्पादिजनकत्वस्य दृश्यमानत्वाच्च, ननु अत्यन्तासतस्तु शशशृङ्गादेन कार्यजननक्षमत्वमिति चेन्न 'मृगतृष्णाम्भसि स्त्रातः शमशृङ्गधनुर्धरः ।

बोधसारे। १५० एप बन्ध्यामुतो याति खपुष्पकृतशेखरः ॥ इत्यादिवाक्यात्पदार्थज्ञानशून्येषु बालादिषु तत्तदर्थ- प्रतीतिरूपकार्यस्य दृश्यमानत्वात्, तस्मान्न सत्सम्बन्धिनी । नापि द्वितीयोऽसतः शशशृङ्गादेस्तत्कल्पितस्य च शक्तिशक्ति- मत्त्वसम्बन्धवत्त्वानुपपत्तेः, नहि धनुःशक्तिः शशशृङ्गसम्वन्धिनी कापि दृष्टा श्रुता वा नाप्युपपन्ना तदाश्रयस्य सम्बन्धस्य दु. निरूपत्वाच, किञ्च सम्बन्धोपि दुर्निरूप एव, तथाहि सम्बन्धः किं सम्बन्धिभ्यां भिन्नोऽभिन्नो बा, नाधः सम्बन्धिभिन्नस्य तस्य निराश्रयत्वेनासिद्धेस्तद्भिन्नस्य च तस्य तत्त्वानुपपत्तेश्च, नापि- द्वितीयः सम्बन्ध्यभिन्नत्वे सम्बन्धस्यैवासत्वेन सम्बन्धस्वरूपा- सिद्धेस्तदसिद्धौ च सम्बन्धिनोरप्यसिद्धेश्चेत्यादयो दोषाः स्वाराज्यसिद्ध्यादौ द्रष्टव्याः, अत्र तु विस्तरभयान प्रदर्श्यन्ते तत्प्रदर्शने प्रवृत्तौ तु रसहानिः स्यादस्य ग्रन्थस्य च रसेप्सूनां रसानुभूत्यर्थं प्रवृत्तेात्र ते प्रदर्श्यन्ते । एवं सम्बन्धतो विषयानहत्वं प्रतिपाद्य कार्यका- रणतोपि विषयानहतां शक्तेः स्मरन्प्रणमति इति, इयं शक्तिः कुतः कारणादास्त इत्यनिर्णीता, तथाहि इयं सत्कारणोताऽसत्कारणा, शक्त सत्कार्यत्वे सन्निन्नत्वेन तत्कार्यत्वानुपपचेरभिन्नत्वेपि कार्य- कारणत्वाभावात्सत्कार्यत्वाभावाच्च, ननु सतो भिन्नं सद्विलक्षणं शक्तेः कारणमस्तु इति चेन्न शक्तेरपि सद्विलक्षणत्वेनाभेदा- कार्यकारणासम्भवेऽसत्कार्यत्वस्य तुल्यत्वात्, ननु कार्यसापे- क्षस्य कारणस्य कार्यकारणताकत्वमस्त्रिति चेन्न शक्तेः कार्या- पृथग्भावेन तत्कारणभूतशक्तरसत्कारणकतावत्त्वस्यैव सुस्थित- त्वादन्योन्याश्रयादिदोषमसक्तेश्च, न द्वितीयोऽसतः ख- नाद्यः योगदीक्षाचिन्तामणी शेवः शिवशक्तिपराक्रमः। पुष्पादेः सुगन्धकारणत्वस्य क्वाप्यदृष्टत्वान्न हि शशशृङ्गादिक धनुरादेः कारणं कापि दृष्टं, एवं कारणतो निर्णयानहतां प्रति- पाद्य निमित्ततोपि निराकर्तुं प्राह केनेति, केन निमित्तेनेत्यनि- जीता, तथाहि शक्तेनिमित्तं किं सदुतासद्, न तावत्सदसद्रू- पशक्तेः सन्निमित्तत्वायोगाद् न हि स्वामघटस्य जानत्कुलाल- निमित्तकत्वं दृष्टं श्रुतं वेत्यादि द्रष्टव्यमाकरग्रन्थेषु, अत्र तु वि- स्तरभयात्तदूषणजातं न प्रतिपाद्यते । एवं निमित्ततोपि निर्ण- याविषयत्वं प्रदय प्रयोजनतोपि तदाह कस्मा इति, कस्मै प्रयो- जनायेत्यनिर्णीता, तथाहि शक्तिपत्तिमयोजनं किं सन्निष्ठम्- तासन्निष्ठभुत शक्तिनिष्ठं किमुत कार्यनिष्ठं नाघ, आनन्दधन- त्वेन प्रयोजनापेक्षासिद्धेः, न द्वितीयोऽसतो बन्ध्यापुत्रादे प्रयोजनापेक्षायोगासिद्धेः, न शक्तिनिष्ठत्वपक्षोपि तस्या अपि- जाड्यासत्वाभ्यां प्रयोजनापेक्षाभाववत्त्वात् , नापि कार्यनिष्टं का- यपि जाड्येन प्रयोजनवत्त्वायोगाद्, ननु मास्तु प्रयोजन को दोष इति चेन्न प्रयोजनाभावे च प्रयसिद्धेः प्रवृत्तिस्तु शक्तईश्यते- इतः प्रयोजनतोपि निर्णयानहत्वं शक्तोरिति भावः । एवमेव क- मतोपि निर्णयाविषयत्वं शक्तेराह कम्प्रतीति, कमर्थ प्राप्तुं क्रियया शक्तेः वृत्तिरित्येवमपि निर्णयाविषयाऽर्थस्य क्रिया- याश्च सन्भिष्टत्वेनासनिष्ठत्वेन च निर्णयासम्भवादिति भावः, त- धैवाधाराधेयत्वतोपि शक्तेः स्वरूपनिर्णयाभावमाह कुत्र वेति, क- स्मिन्नाधारे शक्तिराधेयेत्यनिर्णीता, सतो वाऽसतश्चाधाराधेय. स्वासिद्धः शक्तेः कार्यस्य चासत्वादेवाधेयत्वासिद्धेश्च नहि खशक्षस्य खस्य चाधाराधेयत्वं युक्तिसहं दृष्ट, प्रकारतोपि निर्णयाविषयत्वमाह कथमिति, कथं शक्तिः किं प्रकारेत्यनिर्णी- ता शक्तिमकारस्यापि तदसत्वेन भासमानत्वेन निर्णयाविषय- बोधसारे। त्वमिति भात्रः, कालतोपि निर्णयाविषयत्वमाह कदेति, कदा कस्मिन्काले सा शक्तिरस्तीसनिर्णीता कार्यमिथ्यात्वेन शर्मि- थ्यात्वे च तदपक्षितकालस्यापि तथात्वात्तत्परिच्छेद्यत्वासम्भवः शक्ती, तथापि तत्कार्ये कालपरिच्छेद्यत्वसम्भवेन शक्तावपि त- परिच्छेद्यत्वसम्भवत्य भासमानत्वान्न कालतोपि निर्णय- विषयत्वमिति भावः, अत एवाद्भुतामाश्चर्यरूपां तामुक्तरूपां शक्तिं शिवस्य शक्तिं वन्दे प्रणमामि ॥३॥ परमशिवेऽसङ्गत्वेन कर्तृत्वासम्भवेपि वस्मिन्कर्तृत्वमारोप्य निमित्तमात्रतां शक्तलक्षीकृत्य तां प्रणमति । शिवः कर्ता शिवो भोक्ता शिवो वेत्ता शिवः प्रभु। उपसर्जनमानं या तां वन्दे शक्तिमद्भुताम् ॥ ४ ॥ शिव इति । शिवः सदानन्दरूपः परमात्मा कर्त्ता जगदु- त्पचिस्थितिलयादिसर्वक्रियासु स्वतन्त्रत्वेन कर्तृत्वाच्छक्तोंड- त्वेन कर्तृत्वासम्भवः शिवे तु चिद्रूपत्वाचसम्भव इति भावः, एवं शिवो नित्यानन्दरूपः परमात्मा भोक्ता भोगकर्ता चैतन्यरूपत्वादात्मनि भोक्तृत्वं जडत्वाच्च शक्तौ तदभावः, एवं शिव आत्मा वेत्ता ज्ञाता चेतनरूप- त्वादात्मनि वेत्तृत्वं शक्तौ तु जाज्येन तदभावः, तथैव शिव आत्मा प्रभुनियन्ता चेतने नियन्तृत्वमचेतने तु तदसम्भव इति भावः, तत्रासङ्गे कर्तृत्वादिधर्मोत्पत्तौ या शक्तिरुपसर्जन- मात्रमुपसृज्यत उत्पाद्यते शिवे कर्तृत्वादिकमनेनीत उपसर्जन निमित्तं तदेव तन्मात्रं भवति तामियादि पूर्ववत् ॥ ४ ॥ इदानीं निर्विकारे शिवे चिन्मात्ररूपेपि कर्तृत्वादिकमसम्भा- व्यमिति बोधेनात्मनि शिवे साक्षिमात्रत्वं प्रदर्य स्वस्यामेव क- योगदीक्षाचिन्तामणी शेवः शिवशक्तिपराक्रमः। र्तृत्वादिकपदर्शनरूपां तां लक्ष्यीकृस प्रणमति । स्वयं की स्वयं भोक्री स्वयं वेत्री स्वयं प्रभुः। साक्षिमात्रं शिवो यस्यास्तां वन्दे शक्तिमद्भुताम् ॥५॥ स्वयमिति । स्वयमधिष्ठानाश्रया शक्तिरेवाधारसचित्त्वेन सचिद्रूपेव सती की कर्तृत्वधर्मवती तथा स्वयं शक्तिरेव भो- क्री भोक्तृत्वधर्मवति अद्वितीयासङ्गकूटस्थात्मनि कर्तृत्वभो- क्तृत्वयोरयोगाच्छक्तिकार्यमेव तदिति भावः, किञ्च स्वयं शक्ति- रेव केवलं वेत्त्री ज्ञात्री भवतीति सर्वत्र योज्यम्, अद्वितीयासङ्गे त्रिपुट्यभावाज्ज्ञातृत्वं शक्तावेवेति भावः, तथा स्वयं शक्तिरेव प्रभुनियन्त्री भवति असङ्गे नियन्तृत्वायोगाच्छक्तावेव निय- तृत्वमिति भावः, किञ्च यस्याः शक्तः साक्षिमात्रमव्यवधानेन प्रकाशक: साक्षीत्युच्यते स एव साक्षिमात्रं शिवोऽसङ्गकू- टस्थ आत्मा भवति तामित्यादि पूर्ववत् ॥ ५ ॥ इदानीं स्वरूपलक्षणैरेव तां लक्ष्यीकृत्य प्रणमति । स्वलक्षणे महादेवे स्वलक्षणतया स्थिताम् । वित्तां स्वलक्षणैरेव तां वन्दे शक्ति० ॥ ६ ॥ स्वलक्षण इति । स्वलक्षणे स्वरूपभूतानि लक्षणानि लक्ष- कानि चिन्हानि यस्य स तथाभूतः परमात्मा तस्मिन्महा- देवेऽपरिच्छिन्नचैतन्ये खलक्षणतया खानि स्वरूपभूतानि लक्षणानि चिन्हानि यस्याः सा तथाभूता तस्या भावस्तत्ता तया तद्रूपेणेत्यर्थः, स्थितां विद्यमानामत एव मुमुक्षुभिः स्व- लक्षणैरेव स्वानि स्वरूपभूतानि च तानि लक्षणानि च तथा तेरैव कृत्वा वित्तां ज्ञातां तामित्यादि पूर्ववत् ॥ ६॥ सलक्षणे परमात्मनि तां सक्षणतया लक्ष्यीकृत्य प्रणमति । २० बोधसारे। सलक्षणे महादेवे सलक्षणतया स्थिताम् । वित्त सलक्षणैरेव तां वन्दे शक्ति० ॥ ७ ॥ सलक्षण इति । सलक्षणे लक्षणैः सहिते साकार इत्यर्थः, महादेवे वास्तवपरिच्छेदशून्ये चैतन्ये सलक्षणतया लक्षणैः स- हिता सा तथोक्ता तस्या भावस्तत्ता तया साकाररूपतयेत्यर्थः, स्थितां विद्यमानामत एव मुमुक्षुत्वेनोपासकैः सलक्षणैरेव लक्षणैः सहितानि यानि साकाररूपाणि तैरेव कृत्वा पित्ता ज्ञातां तामित्यादि पूर्ववत् ॥ ७ ॥ इदानीं निर्गुणरूपेणापि तां लक्ष्यीकृस प्रणमति । विलक्षणे महादेवे विलक्षणतया स्थिताम् । वित्तां विलक्षणैरेव तां वन्दे शक्ति० ॥ ८ ॥ विलक्षण इति । विलक्षणे विगतानि लक्षणानि चिन्हानि यस्मात्तस्मिन्निर्गुण इत्यर्थः, महादेवेऽपरिच्छिन्नचैतन्ये वि- लक्षणतया विगतानि लक्षणानि यस्याः सा तथोक्ता तस्या भावस्तत्ता तया निर्गुणत्वेनेत्यर्थः, स्थितां विद्यमानामत एव मुमुक्षुभिलक्षणात्या विलक्षणैरेव विगतानि यानि लक्ष- णानि चिन्हानि तैरेव केवलं वित्तां ज्ञातां तामित्यादि पूर्ववत् ॥८॥ इदानी चैतन्ये चेतनाहेतुत्वेन तां लक्ष्यीकृस प्रणमति अचेत्यचित्स्वरूपत्वादचेतन इव स्थिते । चैतन्ये चेतनाहेतुस्तां वन्दे शक्तिमद्भुताम् ॥ ९॥ । । अचेत्येति । चैतन्ये चिन्मात्रस्वरूप आत्मनि अचेत्यचि- स्वरूपत्वान्न विद्यते चेत्यं चेतनाविषयो यस्यां साऽचेत्य- योगदीक्षाचिन्तामणौ शैवः शिवशक्तिपराक्रमः। चित्सैव स्वरूपमात्मा यस्याः सा तथोक्ता तस्या भावस्तत्वं तस्माद्धेतोरचेतन इव जडवस्थिते विद्यमाने चैतन्ये व्य- वहारेऽचेतनत्वेन प्रतीयमान आत्मनि चेतनाहेतुश्चेतनाया विषयप्रकाशनरूपाया हेतुः कारणं भवति, चेयं विना चेतन- त्वाप्रतीतेः शक्तेश्चेतनाहेतुत्वमिति भावः, तामित्यादि पूर्ववत् ॥९॥ शक्तेश्चेतनाहेतुत्वमेव विशदयति । चेतिता चेतनेनेति सविकल्पस्वरूपतः । चैतन्ये चेतनाहेतुस्ताम् ॥ १० ॥ चेतितेति । सविकल्पस्वरूपतो विकल्पैर्विविधकल्पनाभिः सह वर्तमानं यत्स्वरूपं तदस्यास्तीति सविकल्पस्वरूपं ततस्तेन सार्वविभक्तिकस्तसिः, चेतनेन चिन्मात्रस्वरूपेणात्मना चेतिता प्रकाशिता शक्तिरिति हेतोश्चैतन्ये चेत्यरहिते चिन्मात्रे चे- तनाहेतुश्चेतनाया व्यावहारिकविषयप्रकाशनस्य हेतुः कारणं भवति तामित्यादि पूर्ववत् ॥ १० ॥ इदानीं शिवे सर्वकर्तृत्वहेतुत्वेन तां लक्ष्यीकृत्य प्रणमति । शक्तिरेव न यस्यास्ति सोऽशक्तः किं करिष्यति । शक्त्या यया शिवः शक्तस्तां वन्दे शक्तिमद्भुताम्॥११॥ शक्तिरिति । यस्य शिवस्य शक्तिरेव सामर्थ्यमेव नास्ति न विद्यते सोऽशक्तः सामर्थ्यहीनः किं कार्य करिष्यति कु- यान्न किमपि कर्तुं शक्त इत्यर्थः, अतो यया शक्त्या येन ज- गज्जननसामर्थ्येन शिवोऽसङ्गसुखचित्स्वरूप आत्मा शक्ता स- मर्थः कार्य कर्तुं भवति अर्शआधच एतद् श्रीमदाचार्यैरपि सौ- न्दर्यलहामुक्तं 'शिवः शक्त्या युक्तो यदि भवति शक्तः मभ- बोधसारे! । वितुमित्यादिना तामित्यादि पूर्ववत् ॥ ११ ॥ इदानीं शिवाश्रयणेनैव शक्तिमज्जगद्गतपदार्थेषु स्थित्वा शक्तः सर्वकार्यक्षमत्वं लक्ष्यीकृत्य तां प्रणमति । शक्ता नूनं हि कार्येषु शक्तिः शक्तिमति स्थिता। शिवाश्रयाहतेऽशक्ता तां वन्दे ॥ १२ ॥ शक्तेति । शक्तिमति शक्तिमत्पदार्थे तद्वति पुरुषे वा स्थिता विद्यमाना कार्येषु तत्तत्कृयेषु नूनं निश्चयेन शक्ता स- मर्था हि प्रसिद्धा शिवाश्रयाहते शिवाश्रयं विनाऽशक्ता न स- मर्था भवति सदधिष्ठानं विनाऽसतः कार्यक्षमत्वायोगादिति भावः, तामित्यादि पूर्ववत् ॥ १२ ॥ इदानी शक्तस्तद्वतोप्यसत्वस्मृतिपूर्वकं निर्विकल्पे सामर- स्येन तां लक्ष्यीकृत्य प्रणमाति । शक्तिशक्तिमतोर्यस्मानिर्विकल्ये न वस्तुता सामरस्यं शिवे याता ताम् ॥ १३ ॥ शक्तिशक्तिमतोरिति । यस्मात्कारणानिर्विकल्पे निर्गता विपरीता विविधा विलक्षणा वा विशिष्टा वा कल्पना नाम- जासादयो भावना यस्मात्तनिर्विकल्पमात्मस्वरूपं तस्मिञ्छ. क्तिशक्तिमतोः शाक्तिश्व जगज्जननसामर्थ्य परमात्मनिष्ट शक्ति- मांश्च शवल आत्माऽव्याकृतापरपर्यायस्तयोर्वस्तुता सत्यवं न नास्ति तदा शिवे भूमानन्दरूपे परमात्मनि सामरस्यमैक्यं याता प्राप्ता तामित्यादि पूर्ववत् ॥ १३ ॥ इदानीं शिवशक्तिपराक्रमविचारफलमाह । भाविते भावुकैरेवं शिवशक्तिपराक्रमे ।

PETHIS Saeindimamaithun স্বাগীশ্বদ্বিামী হীন: হিন্যহাকিম:। स्वयमुल्लसति स्वान्ते सामरस्यरसार्णवः ॥१४॥ भावित इति । भावुकैविशिष्टभावनाचतुरैरात्मप्रेमिभि- रित्यर्थः, शिवशक्तिपराक्रमे शिवस्यात्मनो या शक्तिर्जग- जननसामर्थ्य तस्याः पराक्रमे प्रतापनिरूपणे प्रकरणे तत्प- तिपाद्यर्थे चोक्तप्रकारेण भाविते विचारिते ध्याते च सति सा- मरस्यरसार्णवः समरसस्याखण्डैकसुखरूपस्य भावः सत्ता सा- मरस्यं तच्चासौ रसश्चानन्दस्तस्य जलस्थानीयस्यार्णवः समुद्र इव वर्तमानः स स्वान्ते हृदि स्वयं स्वत एवायत्नेनैवोल्लसति आविर्भवति ॥ १४ ॥ इदानीं सर्वव्यापित्वस्मरणपूर्वकं परमपदे परमानन्दरूप- त्वेन तामेव स्मरन्प्रणमति । भक्ते भक्तिमयीं पशौ पशुमयीं विद्वत्सु विद्यामयीं सृष्टौ ब्रह्ममयीं स्थितौ हरिमयीं कल्पात्पुरश्चिन्मयीम् । जीवे वृत्तिमयीं जडे जडमयी शक्ति शिवस्याद्भुतां तांध्यायामि पदे परात्परतरे स्वानन्दलीलामयीम्॥१५॥ भक्त इति । भक्ते भजतीति भक्तस्तस्मिन्कतरिक्तः, भ- जनक्रियाप्रवर्तकमजनविषयस्नेहवतीत्यर्थः, भक्तिमयी भज्यते सेव्यत आत्मा विषयो वाऽनया सा भक्तिर्भजनक्रियावति भजनविषयस्नेहरूपान्तःकरणवृत्तिस्तन्मयीं तत्मचुरां तद्रूपामि- त्यर्थः, पशौ मूढे पशुमयीमज्ञानरूपां विद्वत्सु ज्ञानिषु जीव- ब्रह्मैक्यप्रतीतिमत्स्वित्यर्थः, विद्यामयी देहेऽहंमतीतिवत्स्वात्मा- हंप्रतीत्या तदितरानात्म्यनिश्चयरूपान्तःकरणदृत्तिविद्या त- प्रचुरां सृष्टौ जगत्सर्जनरूपक्रियायां ब्रह्ममयीं ब्रह्मा विरञ्च- HIR १५८ बोधसारे। Post स्तद्रूपां स्थितौ स्थीयतेऽनया सा स्थितिर्जगत्पालनेच्छा तया च तद्वति अन्तःकरणसमष्टौ हरिमयीं हरति तत्तत्सुखप्रदानेन दुःख सर्वस्येति हरिस्तद्रूपां तथा कल्पात्पुरः कल्प्यते शक्तिः कार्य चानेनेति कल्पः 'सोकामयते'ति श्रुत्युक्तः संकल्पस्तस्मात्पुरः पूर्व चिन्मयीं स्वयम्प्रकाशचिन्मात्रप्रधानां, तथा जीवे साधि- छानबुद्धिस्थचिदाभासे प्राणोपाधिके चैतन्ये वृत्तिमयीं वृत्तय- स्तनद्विपयविषयकवासनास्तन्मयीं तत्प्रचुरां तथा जडे काष्ठलो- ष्टादौ जडमयीं जाड्यप्रचुरो शिवस्य चित्सुखरूपस्यात्मनोऽ द्रुतामाश्चर्यरूपां शक्तिं सर्वकार्यनिर्वाहकसामर्थ्यरूपां ध्यात्वे- त्यध्याहार्य, चिन्तयित्वाऽहं तां शक्तिं परात्कारणादव्याकृता- ख्यात्परतरे परमधिष्ठानचैतन्यं ततोपि पर आये यस्य मिथ्या- त्वेनाधारस्यापि तथात्वात्तद्रहिते शुद्ध पदे स्वाभिन्ने ब्रह्मणि स्वानन्दलीलामयीं स्वात्मभूतो य आनन्दः सुखं सैव लीला- ऽनायासचेष्टा तन्मयीं तत्प्रधानां ध्यायामि चिन्तयामि अहं ब्रह्मास्मीति लक्षितलक्ष्यरूपां चिन्तयामीयाशयः ॥ १५ ॥ इदानीं त्याज्यसर्व विषयजन्यानन्दरूपयाक्तिस्मरणपूर्वक परमानन्दरूपवेन तां स्मरति । आनन्दानपि संविहाय विषयानन्दानमन्दादरा- दादानार्थिभिरर्थितानपि जडैरानन्दलेशानमून् । आनन्दोपनिषत्प्रमाणपठितामानन्दसीमाशिखा- मानन्दामृतवाहिनीं भगवतीमानन्दरूपां भजे॥१६॥ इति श्रीनरहरिवि० बोध० योगदीक्षाचिन्ताम शैवः शिवश- क्तिपराक्रमः॥४॥ आनन्दानपीति । अहंशक्तेस्ताविकरूपचिन्तकः सा- योगदीक्षाचिन्तामणी शोषः शिवशक्तिपराक्रमः । धिष्ठानोऽन्तःकरणसत्त्वत्तिस्थश्चिदाभालो विषयानन्दान्विषय- भोगजन्यमुखानि अमन्दादरादतीवादरेणादानार्थिभिग- दानं विषयभोगजन्यसुखानुभवस्तमर्थितुं याचितुं शीलं येषां ते तथोक्तास्तैर्जडै डैरज्ञैरित्यर्थः, अर्थितानीप्सितानपि आ- नन्दाविषयजन्यमुखलवान् यद्यपि ते मूर्खानुभवेनानन्दा प्रतीयन्ते तथापि ते नानन्दा इत्यर्थः, कुत इत्यत आहान- न्दलेशानिति, आनन्दलेशानानन्दस्य ते लेशा अंशाः प्र- तिबिम्बानीत्यर्थः, तानमन्मसिद्धानपि संविहाय त्यक्त्वा- ऽऽनन्दोपनिषत्ममाणपठितामानन्दस्य प्रतिपादिकोपनिषदान- न्दोपनिषत् 'सैषानन्दस्य मीमांसा भवति, युवा स्यात्साधु- युवाध्यायका, आशिष्टो दृष्टिो बलिष्टः, तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा ख्यादित्यादिना मानुषानन्दज्ञानाय मानुषान- न्दलक्षणानि प्रतिपाद्य स एको मानुष आनन्द' इति मानुपा- नन्दं लक्षयित्वा 'ते ये शतं मानुषा आनन्दाः स एको मनुष्य- गन्धर्वाणामानन्द' इत्यादिका ‘स यश्चायं पुरुचे यश्वासावादित्ये स एकः' इत्यन्ता सैव प्रमाणं तस्मिन्पठितां मानुषानन्दादुत्त- रोत्तरं शतशतगुणत्वेन प्रतिपादितामानन्दसीमाशिखामान- न्दानां मानुषानन्दादिब्रह्मानन्दान्तानां सीमाऽवधिब्रह्मानन्द- स्तस्य शिखावदूधै 'स यश्चायं पुरुषे यश्चासावादित्ये स एक इति श्रुत्योपास्यादित्यतदुपासकपुरुषस्थितानन्दैकत्वेन प्रति- पादित आनन्दः स्थितस्तद्रूषामानन्दमात्रोपलक्षितामित्यर्थः, आनन्दामृतवाहिनीमानन्दो निरतिशयमुखं स एवामृतं जग- जीवकत्वादमृतमिव जलमित्यर्थः, तस्य वाहिनी प्रवहनशीला तां यथा नदी निरन्तरं जलप्रवाहेनोपलक्षिता तथाखण्डानन्द- विषयकत्तिप्रवाहेनोपलक्षिनेत्यानन्दामृतवाहिनीपदेन सूचित

बोघसारे।
ज्ञेयं, वस्तुतस्तु परमानन्दाभिन्नत्वादानन्दरूपामानन्द एच रूपं
यस्यास्तां भगवती षद्गैश्वर्यसंपन्नां शक्तिं भजे चिन्तयामि ॥१६॥
इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्तौ
योगदीक्षाचिन्तामण्यर्थप्रकाशे शिवशक्तिपराक्रमा-
र्थप्रकाशश्चतुर्थः ॥ ४॥
अथ लययोगः।
एवं शिवशक्तिपराक्रमं निरूप्येदानी लगभेदप्रकारनिरू-
पणाय लययोगाख्यं षट्त्रिंशच्छोकं प्रकरणमारभते, तत्रादौ ल.
ययोजनमाह।
चञ्चलं हि न जानाति मनो निश्चलतासुखम् ।
तहिचिन्तयितुं तस्मै मुनिभिर्दर्शितो लयः ॥ १॥
चञ्चलमिति । हि प्रसिद्धं गीतादौ तथाच गीता 'चञ्चलं
हि मनः कृष्ण प्रमाथि बलवढे । तस्याहं निग्रहं मन्ये वायोरिव
सुदुष्करमिति चञ्चलमस्थिरं मनोन्तःकरणं कर्तृ निश्चलतासुखं
निश्चलतया स्थैर्येण यत्सुखं जायते यत्तन्न जानाति न वेत्ति
अतो मुनिभिर्विवेकिभिस्तत्सुखं विचिन्तयितुमनुभवितुं तस्मै
मनास्थैर्याय लयो लीयते मनोनेनेति लयो मनश्वाञ्चल्यनि-
वर्तको योगभेदो दर्शितः प्रतिपादित इत्यर्थः ॥ १॥
इदानीमेतत्संप्रदायज्ञापनपूर्वकमेतस्यानन्ततया संक्षेपनि-
रूपणं प्रतिजानीते।
आख्याताः शम्भुना
गौर्यै ह्यसंख्याता लयक्रमाः ।
केन ज्ञेयाः केन वर्ष्याः किञ्चित्तु कथयाम्यहम् ॥२॥

योगदीक्षाचिन्तामणी शैवो लययोगः । ते आख्याता इति । शम्भुना शिवेनासङ्ख्याता न स- याता न गणिता इत्यर्थः, लयक्रमा लयस्य लययोगस्य क्रमा भेदा गौय पार्वत्या आख्याता उपदिष्टाः सन्तीति शेष:, केनेदानीन्तनेन पुरुषेण स्वल्पायुर्बुद्धिबलवीर्यवता ज्ञेया ज्ञातुं शक्या न केनापीत्यर्थः, किश्च केन पुरुषेण वा वर्णितुं शक्या न केनापीत्यर्थः, ननु तर्हि तज्ज्ञानं कथं स्यात्तत्राह किञ्चिदिति, अहं तु अहमपि किञ्चित्स्वल्पं यथा तथा कथ- यामि वर्णयामि ॥२॥ एवं लयनिरूपणं प्रतिज्ञायदानी लयस्थाननिदर्शनपूर्वक लयानन्तरं कार्यमुपदिशति । निद्रादौ जागरस्यान्ते निद्रान्ते जागरोदये। लयो भवति चित्तस्य कार्य तत्रात्मचिन्तनम्॥३॥ निद्रादाविति । निद्रायाः पूर्वक्षणे जागरस्यान्ते जाग्रतो- ऽन्तक्षणे तथा निद्रान्ते निद्रायाः सुषुप्तेरंतक्षणे जागरोदये जाग- रो जागृतिस्तस्योदय उदयोपलक्षितकाले निद्राजागरयोरुभय- सधावित्यर्थः, चित्तस्यान्तःकरणस्य लयो नाशो भवति जायत एतत्सर्वानुभवसिद्धं, तत्र तस्मिन्काल आत्मचिन्तनं निर्मन- स्कस्थित्युपलक्षितस्यात्मनश्चिन्तनं ध्यानं तत्प्रत्ययात्तिरूपं का- र्य कुर्यादित्यर्थः ॥३॥ अन्यदपि लयस्थानं दर्शयति यदेति। यदा शिथिलतां याति भारं त्यक्त्वेव भारिकः । आत्मादरेण कर्त्तव्यं तदैव शिवपूजनम् ॥ ४ ॥ यदेति । आत्मान्तःकरणोपाधिको जीवो भार सत्तेव Kariya १६२ बोधसारे। काष्ठादिभारं त्यक्त्वा विसृज्य शिरस्तो दूरीकृत्येत्यर्थः, भारिक इव भारवाहीव व्यवहाररूपं भारं त्यक्त्वा यदा यस्मिन्काले शिथिलतां मनसि व्यवहारविषयकशैथिल्यमौदासीन्यमित्यर्थः, याति प्रामोति तदैव तस्मिन्नेव काल आदरेण प्रेम्णा शिवपू- जनं शिवस्य प्रत्यगानन्दरूपस्यात्मनः पूजनं ध्यानं कर्त्तव्यं कार्यम् ॥ ४॥ उक्तलयस्थानाभ्यामन्येष्वपि लयस्थानेषु आत्मध्यानादरो विधेय इत्याह। यदा यदा शिथिलतां याति चित्तं तदा तदा । चिन्तनीयो महेशानस्तदेव शिवपूजनम् ॥ ५॥ यदा यदेति । चित्तमन्तःकरणं यदा यदा यस्मिन्यस्मि- काले शिथिलतामुदासीनवत्तां याति पामोति तदा तदा त- स्मिंस्तस्मिन्काले महेशानः परमेश्वरश्चिन्तनीयो ध्येयस्तदेव ध्यानमेव शिवपूजनं शिवस्यात्मनः पूजनं ध्यानरूपा पूजा भवतीति शेषः ॥५॥ इदानीं सर्वेष्वपि कालेषु लयोपायकथनपूर्वकं ध्यानं विधत्ते । सर्वेष्टानिष्टभावानामिष्टत्वेनैवभावनात् । नीरागद्वेषता चित्ते या सैव शिवपूजनम् ॥ ६ ॥ सर्वेति । सर्वेष्टानिष्टभावानां सर्वे च त इष्टाश्वानिष्टाश्च ये भावाः पदार्थास्तेषामिष्टत्वेनैव प्रीतिविषयत्वेनापि भावना- चिन्तनाञ्चित्ते मनसि नीरागद्वेषता रागद्वेषरहितत्वं योदेति सैव शिवपूजनं शिवस्य सुखरूपस्यात्मनः पूजनं पूजा ज्ञेया ॥ ६ ॥ तामेव भावनामुदाहृत्य दर्शयति पीडैवेत्यादिभिः ।

योगदीक्षाचिन्तामणौ शैयो लययोगः । पीडैव परमा पूजा यथा चरणपीडनम् । दुःखमेव परा पूजा रूक्षमुद्वर्त्तनं यथा ॥ ७ ॥ पीडेति । पीडैव दुःखमेवैवोप्यर्थः, हि प्रसिद्ध सर्वज- नेषु परमा श्रेष्ठा पूजा पूजनं भवति, ननु दुःखस्य परमप्रसाद- कारणपूजात्वं कथमित्याशङ्म दृष्टान्तेन तत्तत्र सम्भावयति यथेति, यथा यद्वच्चरणपीडनं चरणयोरङ्गयो पीडनं मर्दनं तदुःखरूपमपि सुखहेतुखाद्यथा सुखं भवति तथा दुःखमपि स्वनाशेन सुखपर्यवसायित्वात्पुण्यवासनाजनकत्वाच पुण्य- क्रियया च मुखफलत्वेन सुखरूपत्वाच्च पूजैवेति भावः, एवं सु- खकारणतो दुःखस्य सुखरूपत्वं प्रदर्य स्वरूपतोपि तदाह दुःखमेवेति, दुःखमेव स्वतो दुःख पीडापि परा श्रेष्ठा पूजा पू- जनमात्मनो भवति, ननु दुःखस्य चित्तमालिन्यकारणत्वप्रसिद्धः कथं चित्तप्रसादहेतुपूजात्वं तत्राह रूक्षमिति, यथा यक्ष शुष्कमामलकचणकादिचूर्णादिना कृतमुद्वर्तनं मलनिवर्तकं शरी- राभ्यञ्जन तद्यथा दुःखरूपमपि मलापकर्षणेन शरीरका- न्त्यभिव्यञ्जकत्वात्सुखं भवति तथा दुःखमपि स्वभोगेन पापरूप- मलनिवर्तकत्वादन्तःकरणप्रसादहेतुत्वेन पूजैव सेति भावः ॥७॥ ननु दुःखाविर्भावे खेदो जायते मनसीबाशयाह । खेद एव परा पूजा खेदे चिति मनोलयः । भयं हि परमा पूजा 'भीषाऽस्मादिति च श्रुतेः॥८॥ खेद इति । खेदश्चित्तवैक्लव्यं स एव सोपीत्यर्थः, परा श्रेष्ठा पूजार्चा जायते, ननु खेदस्य कथं पूजात्वं तत्राह खेद इति, खेदे वैक्लव्ये सति चिति चैतन्ये मनोलयो मनसोन्तःकरणस्य लयो नाशो भवति चितः सर्वाधिष्ठानत्वेन खेदे च मनोलय-

ariya SHA
१६४
बोधसारे।
स्याधिष्ठानमात्रपरिशेषात्पूजात्वमिति भावः, ननु खेदाद्भयं भ-
वतीत्याशङ्ख्याह भयमिति, हि प्रसिद्धं चैतद्विद्वत्सु भयं भीतिः
पुण्यकर्मणि प्रवर्तकत्वाद्भयहेतुत्वेन प्रसिद्धात्मानुसन्धायकत्वाच्च
परमा पूजा श्रेष्ठा पूजा भवति, ननु भयस्य पुण्यकर्मणि प्रव-
तकत्वमात्मानुसन्धायकत्वं च कुतो ज्ञातं तत्राह भीषेति, हि
उपनिषत्सु प्रसिद्धाया भीषास्मादिति च 'भीषास्मादित्यादि-
कायाः श्रुतेर्वेदवाक्यतो ज्ञातमित्यर्थः ॥ ८॥
दानस्यापि पूजात्वमाह।
दानं तु परमा पूजा दीयते परमात्मने ।
अदानं परमा पूजा यदि चित्तं प्रसीदति ॥ ९ ॥
दानमिति । दानं तु स्वस्वीयत्वनिवृत्तिपूर्वक पदार्थे पर-
स्वीयत्वप्रतिपादनमित्युक्तलक्षणं दानमपि अन्तःकरणशोधक-
त्वात्प्रसादहेतुत्वाच्च परमा पूजा भवति, ननु दानस्य कथं पू-
जात्वं तत्राह दीयत इति, यहीयते दानं क्रियते तत्परमात्मने
कार्यकारणातीतायात्मने 'नान्योतोस्ति द्रष्टे'त्यादिश्रुतेः स्वस्मिन्-
कर्तृत्वनिषेधेन प्रसादहेतुत्वात्सतिग्रहीतुरपि पृथगसत्वेन दा-
नस्यं परमात्मार्थत्वाच दानस्य पूजात्वं सिद्धमेवेति भावः, ननु
तर्हि अदानं निषिद्धं स्यात्तत्र मे मनसः स्वाभाविकी प्रवृत्तिस्तत्र
किं कर्त्तव्यमित्याशक्याहादानमिति, अदानं दानविरोधि-
प्रतिग्रहः करग्रहो वा लोभेन दानाभावो वा परमा पूजा भ-
वति, ननु अदानस्य कथं पूजात्वं तत्राह यदीति, चित्तमन्तःक-
रणमदाने यदि यहि प्रसीदति प्रसन्नं भवति तर्हि पूजा स्या-
दित्यर्थः, पूजादिसर्वकर्मणश्चित्तप्रसादार्थत्वादतोऽदानं चित्तप्र-
सादे सति पूजैवेति भावः ॥ ९ ॥

योगदीक्षाचिन्तामणी शैवो लययोगः । इदानीं रोगेष्वपि पूजात्वं सम्भावयति । रोगा एव परा पूजा रोगैः पापक्षयो यतः । आरोग्यं परमा पूजा नैरोग्यं मुक्तिसाधनम् ॥१०॥ रोगा इति । रोगा एव व्याधयोपि परा पूजा भवति, ननु रोगेषु कुतः पूजात्वं तबाह रोगैरिति, यतो यस्मात्कारणा- द्रोगाधिभिः पापक्षयः पापानां किल्विषाणां क्षयो नाशो भवति पूजायाः पापक्षयकारकत्वप्रसिद्ध रोगाणामापे तथा- स्वात्पूजात्वं सम्भाव्यमिति भावः, आरोग्ये तु प्रसिद्धं पूजात्वं दर्शयति आरोग्यांमति, निर्गता रोगा यस्मात्स नीरोगस्तस्य भावो नैरोग्यं रोगराहित्यं मुक्तिसाधनं मुक्तमोक्षस्य साधनं स- र्वसाधनेषु श्रवणमननादिषूपयोगित्वेनोपचारात्साधनमित्यर्थः, अतः पूजायाः मुक्तिफलत्वादारोग्यं रोगराहित्यं परमा पूजा भवति ॥१०॥ कर्मण्यपि तदर्शयति । क्रिया तु परमा पूजा शिवार्थ क्रियते ऽखिलम् । अक्रियैव परा पूजा निश्चला ध्यानरूपिणी ॥११॥ क्रियेति । क्रिया तु क्रियते सा क्रियापि परमा पूजा भवति कुत इत्यत आहाखिलं सर्व यत्क्रियते तच्छिवार्थ शिव आत्मा तदर्थमेव, अत्र वृहदारण्यकीयाश्रुतिरपि 'आत्मनस्तु कामाय सर्व प्रियं भवतीत्यादिः, वृद्धा अप्याहुः, आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः । सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनमिति ॥

बोधसारे।
-
अतः सर्व क्रियाया आत्मार्थत्वात्पूजात्वमिति भावः, ननु
क्रियायाः पूजात्वमस्तु मम तु सा नैव रोचते तत्राहाक्रियेति,
अक्रियैव क्रियात्यागोपि परा पूजा भवति, ननु अक्रियायां प्र-
त्यवायसत्त्वात्कथं पूजात्वं सम्भाव्यं तत्राह निश्चलेति, निश्चला
चाञ्चल्यहीना हेतुगर्भ विशेषणं निश्चलत्वादेव ध्यानरूपिणी ध्यानं
चिन्तनमेव रूपं यस्याः सा तथोक्ता त्रिपुटीराहित्यमेवात्मनो-
ध्यानमित्यक्रियायाः ध्यानत्वमिति भावः ॥ ११ ॥
सत्सङ्गेपि तदर्शयति ।
सत्सङ्गः परमा पूजा सत्सङ्गो मोक्षसाधनम् ।
असत्सङ्गः परा पूजा यत्र मोहः परीक्ष्यते ॥१२॥
सत्सङ्ग इति । सत्सङ्गः सतां जीवन्मुक्तानां सङ्गः परमा
पूजा भवति सत्सङ्गस्य कथं पूजात्वं तत्राह सत्सङ्ग इति, सत्सङ्गः
सतां ज्ञानिनां सङ्गः सत्सङ्गो मुक्तिसाधनं मुक्तेर्मोक्षस्य साधन
कारणं भवति मोक्षकारणत्वेन सत्सङ्गस्य विधीयमानत्वाच्छा-
स्त्रेषु मोक्षकारणत्वं सत्सङ्गस्य प्रसिद्धमेवेति भावः, ननु सत्स-
ङ्गस्य मुक्तिसाधनत्वादस्तु तदसत्सङ्गे तु तदभावात्तदभावो
मम तु तत्रैव रुचिर्भवति किं कर्त्तव्यमित्याशङ्याहासत्सङ्ग
इति, असत्सङ्गोऽसतां विषयिणां दुष्टानां च सङ्गः संयोगः
सोपि परा पूजा भवति असत्सङ्गस्य कथं पूजात्वं तत्राह यत्रेति,
यत्रासत्सङ्गे मोहोऽज्ञान परीक्ष्यते ज्ञायते दुःसङ्गनिकषं विना
मोहहेन्नः शेषपरीक्षा न स्यादिति भावः ॥ १२ ॥
इदानीं धैर्येपि तत्सम्भावयति ।
धैर्य तु परमा पूजा
धीरो ह्यमृतश्नुते।
अधैर्य परमा पूजा शीघ्रं कार्यविमोक्षतः ॥ १३ ॥

योगदीक्षाचिन्तामणी शैवो लययोगः। धैर्य विति । धैर्य तु धीरत्वमपि परमा पूजा भवति कुत इत्यत आह हि, यस्मात्कारणद्धीरः प्राप्तेष्वपि सुखदुःखेषु क्षो- महीनः पुरुषोऽमृतं मोक्षमश्नुते मामोति, ननु तर्हि अधै- यस्य मुक्तिहेतुत्वाभावान पूजात्वमित्याशङ्ग्य तत्रापि तत्सम्भा- वयति अधैर्यमिति, अधैर्य कस्मिंश्चिदपि कार्ये सत्वरं प्रवृत्ति- स्तदपि परमा पूजा भवति कुत इत्यत आह शीघ्रमिति, शीघ्र सखरं यथा स्यात्तथा कार्यविमोक्षतः कार्यात्कर्तव्याद्विमोक्षो नि- वृत्तिस्तस्मात्कार्यमकृत्वा हृदि रुद्धचित्तेन मलिनेन्तःकरणे श्रवणादि सम्यक् न स्यादिसधैर्येण कृते तस्मिंस्तावन्मात्रमलनि- वृतेरधैर्येपि पूजात्वमिति भावः ॥ १३ ॥ स्तुतौ प्रसिद्धं तदर्शयति । स्तुतिरेव परा पूजा स्तुतौ देवः प्रसीदति । निन्दैव परमा पूजा सुहृदां गालयो यथा ॥ १४ ॥ स्तुतिरिति । स्तुतिरेव स्तुतिः स्तवनमपि परा पूजा भवति कुतस्तदाह स्तुताविति, स्तुतौ कृतायां सयां देव आत्मा प्र- सीदति प्रसन्नो भवतीति मसिद्धमाबालगोपमिति भावः, ननु तर्हि सा निदायां न स्यादित्याशयाह निन्देति, निन्दैव गोपि परमा पूजा भवति, ननु निन्दाया असन्तोषकारणत्वं स्पष्टमतः कथं सन्तोषकारणभूतपूजात्वं तस्यामित्याशा दृष्टान्तेन त- तस्यां सम्भावयति सुहृदामिति, यथा यद्वत्सुहृदां सम्बन्धिनां श्यालादीनां गालयो निन्दारूपा आपि सन्तोषकारणानि भव- न्तीत्यर्थः, तद्वन्निन्दापि भावनया मुखहेतुरपि भवती- ति भावः ॥ १४॥ इदानीं तृष्णायामपि पूजात्वं सम्भावयति ।

१६८ बोधसारे। वहु काश्ते। तृष्णैव परमा पूजा देवार्थ सन्तोषः परमा पूजा देवः सन्तोषलक्षणः ॥ १५॥ तृष्णैवेति । तृष्णैव तृष्णापि परमा पूजा भवति कुत इ- त्यत आह देवार्थमिति, यदित्यध्याहार्य, यद्बहु अधिकं द्रव्यादि काङ्क्षत इच्छति तद्देवार्थ देव आत्मा तदर्थ तत्प्रयोजनायेसर्थः, 'नान्योतोस्तो'त्यादिश्रुत्यात्मनो व्यतिरिक्तभोक्तृत्वस्य प्रतिषेध- नात्तदर्थविषयतृष्णाया अपि पूजात्वमिति भावः, सन्तोषे तु त- मसिद्धमेवेसाह सन्तोष इति, सन्तोषो निरिच्छत्वं वैतृष्ण्यमि- त्यर्थः, .परमा पूजा भवति कुत इत्यत आह देव इति, देव- श्चैतन्यस्वरूपः आत्मा सन्तोषलक्षणः सन्तोषो वैतृष्ण्यमेव लक्षणं चिदं यस्य स तथाभूतोऽतः सन्तोषस्यापि पूजात्व. मिति भावः ॥ १५ ॥ गमनेपि तदर्शयति। यात्रा हि परमा पूजा देवस्यैतत्प्रदक्षिणम् । आसनं परमा पूजा स्वासनं योग उत्तमः ॥१६॥ यात्रेति । यात्रा हि गमनमपि परमा पूजा भवति केन रूपे. गोत्यत आह देवस्येति, एतद्गमनं देवस्यात्मनः प्रदक्षिणं प्रदक्षि- णारूपं भवति, ननु यस्य गमनेप्यरुचिस्तस्य तदभावात्सा न स्थादित्याशक्य तत्रापि तत्सम्भावयति आसनमिति, आसन- मास्यते स्थीयतेऽस्मिन्नित्यासनं स्थिरत्वं तदापि परमा पूजा भत्रति कुत इत्यत आह स्वासमिति, स्वासनं मुष्ठ आसनं स्थैर्यमुत्तमः श्रेष्ठो योगो धारणाविशेष एव ज्ञेयः, अतः पूजैव तदिति भावः ॥ १६ ॥ भोजनेपि तत्सम्भावयति ।

योगदीक्षाचिन्तामणी शेयो लययोगः । भोजनं परमा पूजा देवनैवेद्यरूपतः । अभोजनं परा पूजा छुपवासप्रियो हरिः ।। १७ ॥ भोजनमिति । भोजनं भुज्यते तद्भोजनमाहारस्तदपि परमा पूजा भवति, कुतो भोजनस्य पूजात्वं तत्राह देवेति, देवनैवेद्य- रूपतो देवश्विदात्मनोऽभिन्नो भोक्ता तस्य नैवेद्यो निवेदनं स- मर्पणमित्यर्थः, स एव रूपं यस्य तस्माद्, इदानीमभोजनपि तत्सम्भावयति अभोजनमिति, अभोजनमनाहारः परा पूजा भवति, अभोजने कुतः पूजात्वं तत्राह हीति, हि यस्मात का- रणाद्धरिः सर्वदुःखहरणशीलः प्रत्यगभिन्नः परमात्मोपवास- प्रिय उपवास एव तस्य पूजेति भावः ॥ १७ ॥ स्थितावपि पूजात्वं सम्भावयति । स्थितत्त्वं परमा पूजा तदुपस्थानमात्मनः । पतनं परमा पूजा नमस्कारस्वरूपिणी ॥ १८ स्थितत्त्वमिति । स्थितत्वं स्थितं स्थानं तस्य भावस्तत्वं तदेव परमा पूजा भवति, ननु स्थितौ कथं पूजात्वं तत्राह त- दिति, तत्स्थानमात्मनः प्रत्यगात्मनः प्रकाश्यरूपेण समीप- त्वादुपस्थानरूपं भवति, इदानीं पतनेपि तत्सम्भावयति प- तनमिति, पतन भूमौ स्वस्य निपातः परमा पूजा भवति, पतने कथं पूजात्वं तत्राह नमस्कारेति, नमस्कारस्वरूपिणी नमस्कारो नमनक्रियैव स्वरूपं यस्याः सा तथोक्ता पूजायां भूमौ निपात एव नमस्कार इति सार्वजनीनप्रसिद्धिरिति भावः ॥ १८ ॥ भाषणेपि तत्सम्भावयति । भाषणं परमा पूजा सर्व स्तुतिमयं हरेः । ૨૨ बोधसारे। मौनं तु परमा पूजा मौनं व्याख्यानमस्य तत् ॥१९॥ भाषणमिति । भाषाणं लौकिकं वैदिकं च सर्ववचनमपि परमा पूजा भवति, ननु भाषणे स्तुतिनिन्दयोः सत्वात्सर्वभा- षणे कथं पूनावं तत्राह सर्वमिति, हरेः सर्वद्वैतहरणशीलस्य त- स्मिन्सर्वस्य समत्वात्सर्व भाषणं स्तुतिमयं स्तुतिप्रधानं भ- वति, यद्वा तस्यैवेश्वरवादीश्वरे च धर्माधर्मज्ञानाज्ञानवैराग्यावै- राग्यश्वर्यानश्वर्याख्याष्टशक्तिसत्वात्सर्वशब्दरीश्वरत्ववर्णनलक्षणं स्तोत्रमेव सर्वभाषणमित्यर्थः, यद्वा साकारे विष्णौ सर्व- कार्यनिर्वाहात्सर्वकार्यनिर्वाहत्तस्य सर्वशब्दमतिपाद्यत्वात्सर्व- भाषणस्य स्तुतित्वमित्यर्थः, यहाऽहमावच्छिन्ने चिदात्मनि सर्वभाषणस्य स्लेष्टसंपादकत्वेन स्तुतिमयचमियर्थः, मौनेपि त- सम्भावयति मौनमिति, मौनं तु मौनं लोकप्रसिद्ध वाग्रोधन- रूपमपि पूजा भवति, मौने कथं पूजात्वं तत्राह मोनमिति, य- न्मौनमसम्भाषणं तदात्मदेवस्यास्य ब्याख्यानं प्रतिपादनं भ- वति यतो वाचो निवर्तन्ते अप्राप्य मनसा सह, यद्वाचानभ्यु- दितम्, अथात आदेशो नेति नेती'त्यादिश्रुतिभ्यो वाग्विषय- त्वनिषेधात् 'त्रैगुण्यविषया वेदा' इति गीतायामपि वेदानां त्रि- गुणविषयत्वप्रतिपादनाच मौनस्यात्मशिवरूपप्रतिपादनेन स्तु- तिरूपत्वात्पूजात्वं सम्भाव्यमिति भावः ॥ १९ ॥ इदानीं मनोबुद्धीन्द्रियचेष्टामु तदर्शयति चेष्टैव परमा पूजा चेष्टते तत्प्रकाशतः । अचेष्टा हि परा पूजा जोषमास्वेति वेदवाक् ॥२०॥ चेष्टैवेति। चेष्टैच मनोबुद्धीन्द्रियाणां व्यापारोपि परमा पूजा भवांत हि यस्याकारणात्तत्प्रकाशतस्तस्य शिवस्य प्रकाशतः योगदीक्षाचिन्तामणौ शैचो लययोगः । । प्रकाशाच्चेष्टते व्यापृणोति सर्वचेष्टाप्रकाशनलक्षणेन लक्षणेन- लक्षकत्वाचेष्टायामपि पूनात्वं सम्भाव्यमिति भावः, चेष्टा- ऽभावेपि तत्सम्भावयति अचेष्टेति, अचेष्टा तूष्णी स्थितिः सापि परमा पूजा भवति, नन्वचेष्टायां कथं पूजात्वं सम्भाव्यं तत्राह जो- पमिति, जोषं तूष्णीं यथा तथाऽऽस्व भवेति एवं वेदवाग्वेदवच- नमस्ति देवस्याज्ञारूपत्वादिस्येति तदाज्ञाङ्गीकारवत्वादेवाचेष्टायां पूजात्वमिति भावः ॥ २० ॥ जन्मैव परमा पजा सोवतारों हरेःसतः जीवनं परमा पूजा जीवनकार्याणि साधयेत् ॥२१॥ जन्मैवोति । जन्मैव जननमपि परमा पूजा भवति, जन्मनः कथं पूजात्वं तत्राह स इति, सतः सद्रूपस्य हरेः सर्वद्वैतहरणशी- लस्यावतारो विभूतिर्जेयो जन्माभावे निराकारस्य पूजा न सम्भवति अतः पूजायामुपयोगाज्जन्मनः पूजास्वामिति भावः, जीवनेपि तदर्शयति जीवनमिति, जीवनमायुः परमा पूजा भवति, कथमित्यत आह जीवन्निति, जीवन्सन्पुरुषः कार्याणि कर्तव्यानि श्रवणकीर्तनादीनि साधयेत्सम्पादयेत्सर्वकार्यसा- धनोपयोगित्वाज्जीवनस्यापि पूजात्वमिति, भावः ॥२१॥ दीर्घायुष्यपि तदर्शयति । दीर्घायुः परमा पूजा योगिनो दीर्घजीविनः । स्वल्पायुः परमा पूजा सद्यो ह्यस्माद्विमुच्यते॥२२॥ दीर्घायुरिति । दीर्घ चिरकालं वर्तमानमायुरायुष्यं प- रमा पूजा भवति, ननु दीर्घायुषि कथं पूजास्वं तत्राह योगिन इति, योगिनो योगाभ्यासिनो दीर्घजीविनश्चिरजीवनवन्तो १७२ बोधसारे । भवन्ति योगदाळसाधनोपयोगाद्योगिनस्तद्योगेन साधयन्ति तत्स्वतः सिद्धं दीर्घायुः परमा पूजैव श्रवणाधुपयोगेनेति भावः, तर्हि स्वल्पायुषि तदसम्भवोस्त्विति तत्राह स्वल्पायुरिति, स्वल्पायुः स्वल्पं चाचिरमायुश्च जीवनं तत्परमा पूजा भवति हि यस्मात्कारणादस्मात्संसारदुःखात्सद्यः शीघ्रं विमुच्यते मुक्तो भवति शीघ्र संसारदुःखमोचकत्वात्स्वल्पायुषि पूजा- त्वमिति भावः ॥ २२॥ मरणेपि तत्संभावयति। मरणं परमा पूजा निर्माल्यत्यागरूपिणी । शोको हि परमा पूजा शोको वैराग्यसाधनम्॥२३॥ मरणमिति । मरणं देहत्यागस्तदपि परमा पूजा भवति, ननु मरणे कथं पूजात्वं सम्भाव्यं तत्राह निर्माल्येति, निर्मा- ल्यत्यागरूपिणी निर्माल्यस्यानद्यतनपूजाद्रव्यवनिर्माल्यरूपो देहस्तस्य त्यागो विसर्जनं तदेव रूपं यस्याः पूजायाः सा त- थोक्ता पूजायां निर्माल्यत्यागस्यावश्यकत्वादेहत्यागस्यापि त- थात्वात्पूजात्वमिति भावः, ननु मरणेपि शोको जायत इत्या- शङ्ख्याह शोक इति, शोको वैराग्यसाधनं वैराग्यस्य विषय- वैतृष्ण्यस्य साधनं कारणं भवति अतः शोकस्तु शोकोपि प- रमा पूजाभवति वैराग्ये कारणत्वाच्छोकस्य पूजात्वं सम्भा- व्यमिति भावः ॥ २३॥ हर्षेपि तत्सम्भावयति। हर्ष एव परा पूजा हृष्टरूपः सदा हरिः । पुष्टिस्तु परमा पूजा स्वस्थचित्तोहि पुष्टिमान्॥२४॥ हर्ष इति । हर्ष आनन्दोपि परमा पूजा भवति, कुत इत्यत योगदीक्षाचिन्तामणी शैवो लययोगः । १७३ हृष्टरूप इति, हि यस्मात्कारणाद्धरिः सर्वदुःखसंहारको देवो हृष्टरूपो हृष्टं सुखमेव रूपं यस्य स तथोक्तः सदा नित्यमस्ति देव- स्वरूपलादेव हर्षस्य पूजात्वमिखाशयः, पुष्टावपि तत्सम्भावयति पुष्टिस्त्विति, पुष्टिस्तु पुष्टिरपि परमा पूजा भवति हि यस्मात्का- रणात्पुष्टिमान्पुष्टः पुरुषः स्वस्थचित्तः स्वस्थं स्थिरं चित्तं चेतो यस्य स तथाभूतो भवति ॥ २४ ॥ इदानीं कृशत्वेपि पूजात्वं सम्भावयति । कृशत्वं परमा पूजा कृशगात्रा हि योगिनः । लाभ एव परा पूजा लाभः सन्तोषकारणम्॥२५॥ कृशत्वमिति । कृशत्वं क्षीणत्वं परमा पूजा भवति हि यस्मात्कारणाद्योगिनो योगाभ्यासवन्तः कृशगात्राः कृशं क्षीणं गात्रमङ्गं येषां ते तथोक्ता भवन्ति गात्रकार्यस्य यो- गसाधनत्वात्पूजात्वमिति भावः, लाभेपि तत्सम्भावयांत लाभ एवेति, लाभ एवादायोपि परा पूजा भवति, कुतो लाभे पूजात्वं तत्राह लाभ इति, लाभो द्रव्यादेः प्राप्तिः सन्तोषकारणं सन्तोषस्य तृप्तः कारणं हेतुर्भवति ॥ २५ ॥ हानावपि पूजात्वं दर्शयति । हानिरेव परा पूजा तस्मादेव विमुच्यते । गुण एव परा पूजा साधूनां संमतो गुणी ॥२६॥ हानिरेवेति । हानिरेव द्रव्यादे शोपि परा पूजा भवति, ननु हानौ कुतः पूजालं तत्राह तस्मादिति, तस्मादेव यस्य यस्य धनादे शो जायते तस्मात्तस्मादित्यर्थः, तत्तद्रक्षणादिचिन्तात इत्याशयः, विमुच्यते मुक्तो भवति द्रव्यादिरक्षणादिचिन्तायाः पुरुषस्य विमोचकत्वाद्धानेरपि पूजात्वमिति भावः, गुणेष्वपि SINE १७४ बोधसारे। तत्सम्भावयति गुणा एवति, गुणा एव विद्यादिगुणा अपि परा पूजा भवति, गुणेषु कुतः पूजात्वं तत्राह साधूनामिति, गुणी गुणवान्साधूनां सज्जनानां सम्मतो मान्यो भवति स- ज्जनकृतसन्मानविषयत्वाद्गुणेषु पूजात्वमिति भावः ॥२६॥ इदानी दोषेपि तत्सम्भावयति । दोषा एव परा पूजा निरहङ्कारता यतः । मान एव परा पूजा मान्यते परमेश्वरः॥ २७ ॥ दोषा एवेति । दोषा एव लाञ्छनान्यपि परा पूजा भ- वति, ननु दोषे कथं पूजात्वं तत्राह निरहङ्कारतेति, यतो येभ्यो दोषेभ्यो निरहङ्कारता निर्गतो निवृत्तोऽहङ्कारो यस्य तस्य भाव- स्तत्ता सा भवति अहङ्कारानुदयकारणत्वेन दोषेष्वपि पूजात्व- संभव इति भावः, इदानीं मानेपि तदर्शयति मानएवेति, मान एव मान आदरोपि परा पूजा भवति, ननु माने कथं पूजारू- पत्वं संभाव्यं तत्राह मान्यत इति, परमेश्वरः परमः कार्यका- रणातीत आत्मा स एवेश्वर नियन्ता सर्वत्र नियन्तृत्वेन स्थित आत्मा शिव एव मानाहत्वान्मान्यत आद्रियतेऽतः पूजात्वं मा- नेपि संभवतीति भावः ॥२७ ननु तर्हापमाने तनस्यादित्याशङ्म तत्रापि तत्संभावयति । अपमानः परा पर पूजा योगी सिद्धेदमानतः । धनं हि परमा पूजा धनं धर्मस्य साधनम् ॥२८॥ अपमान इति । अपमानोऽनादरः परा पूजा भवति, कुत इत्यत आह योगीति, योगी योगाभ्यास्यमानतोऽनाद- रात्सिद्ध्येद्योगसिद्धि प्राप्नुयादतोनादरेपि योगस्य स.

योगदीक्षाचिन्तामणी शैवो लययोगः । कर्मणो वा फलसाधकतया पूजात्वं संभाव्यमिति भावः, वृद्धा अप्याहुः। 'मानितः पूजितो योगी दुग्धा गौरिव गच्छतीति अपमान पुरस्कारेणार्थसिद्धौ नीतिवाक्यम् ॥ 'अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः । स्वकार्य साधयेद्धीमान्कार्यभ्रंशो हि मूर्खते'ति ॥ इदानीं धनिवेपि तत्संभावयति सधनत्वमिति, सधनत्वं धनं द्रव्यं तेन सहितः सधनस्तस्य भावस्तत्त्वं तदपि परा पूजा भवति, कुत इत्यत आह धनमिति, धनं द्रव्यं धर्मस्यान्तःकर- णशृद्धिकारणभूतस्य दानादेः साधनं साधकं भवति अतः स- धनत्वे पूजात्वं संभाव्यमिति भावः ॥ २८ ॥ इदानीं निर्धनत्वेपि तदर्शयति । निर्धनत्वं परा पूजा ब्रह्म प्राप्तमकिञ्चनैः । अप्रमादः परा पजा ह्यप्रमत्तो हि सिध्यति ॥२९॥ निर्धनत्वमिति । निर्धनत्वं निर्धनो धनहीनस्तस्य भाव- स्तत्त्वमपि परा पूजा भवति, कुत इत्यत आह ब्रह्मेति, अकि- ञ्चनैनिधनैनिष्किञ्चनैरित्यर्थः, ब्रह्म देशकालवस्तुकृतपरिच्छे- दशून्यं भूमानन्दरूपं प्राप्तमनुभूतम्, अकिञ्चनत्वस्य भूमानन्द- प्रापकत्वात्पूजात्वमनुमन्धेयमिति भावः, दक्षतायामपि तत्संभा- वयति अप्रमाद इति, अप्रमादोऽविस्मरणं परा पूजा भवति हि यस्मात्कारणादप्रमत्तः सावधानः सिद्ध्यति कार्यफल- भागी भवति अत एवाप्रमादपि कार्यसाधकत्वात्पूजात्वं सम्मा- व्यमिति भावः ॥ २९ ॥ प्रमादपि तदर्शयति।

MIN बोधसारे। प्रमादः परमा पूजा कर्त्तव्यं विस्मरेद्यतः। सुषुप्तिः परमा पूजा समाधियोगिनां हि सः ॥३०॥ प्रमाद इति । प्रमादः कर्त्तव्यविस्मृतिः परमा पूजा भवति, कुत इत्यत आह कर्त्तव्यमिति, यतः प्रमादात्कर्तव्यं कार्य वि- स्मरेत्रानुसन्दध्यात्कार्यविस्मरणस्य समाधीप्सूनामिष्टत्वा- तत्साधनत्वेन प्रमादोपि पूजैवेति भावः, इदानीं सुषुप्तावपि पूजात्वं सम्भावयति स्तुषुप्तिरिति, सुषुप्तिर्निद्रा परमा पूजा भवति, ननु निरर्थिकायां सुषुप्तौ कुतः पूजात्वं तत्राह समाधिरिति; हि यस्मात्कारणात्स सुप्तिरूपो योगिनां ज्ञानिनां समाधिः समं ब्रह्माधीयतेऽनुभूयतेस्मिन्निति समाधिनिर्विकल्पसमाधिरित्यर्थः, ज्ञानिदृष्ट्या निद्रासमाध्योरैक्यात्सुप्तेरपि समाधित्वात्पूजात्व- मिति भावः ॥३०॥ कर्मयोगेपि तत्साधयति । कर्मयोगः परा पूजा कर्म ब्रह्मार्पणं हरौ भक्तियोगः परा पूजा यो मद्भक्तः स मे प्रियः॥३१॥ कर्मयोग इति । कर्मयोगः कर्माचरणं परा पूजा भवति, कर्मयोगे कुतः पूजात्वं तबाह कर्मेति, हरौ सर्वद्वैतहरणशीलेऽख- ण्डरसात्मक आत्मनि वास्तवकर्माभावाद् 'नान्योतोस्ति श्रोते- त्यादिश्रुतेः कर्तुः पृथगसत्वादपि सर्व कर्म ब्रह्मार्पणं ब्रह्मणि अर्पणं ब्रह्मार्पणं ब्रह्मरूपेणैव दृश्यं भवतीत्यर्थः, भक्तौ तत्सम्भा- वयति भक्तियोग इति, भक्तियोगो भजनं भक्तिस्तस्या योग- संयोगस्तदङ्गीकरणमियर्थः, परा पूजा भवति, कुत इत्यत आइ य इति, यः पुरुषो मद्भक्तो मम भक्तः सेवको भवति स पुरुषो मे मम प्रिय इष्टो भर्वतीति भगवदुक्तत्वादित्यर्थः, भगव- HAMARTHATALE योगदीक्षाचिन्तामणी शैवो लययोगः। प्रीतिसाधनत्वाद्भक्तियोगस्य पूजात्वमिति भावः ॥ ३१॥ ज्ञानयोगेपि पूजात्वं सम्भावयति । ज्ञानयोगः परा पूजा ज्ञानात्कैवल्यमश्नुते । तुरीयं परमा पूजा साक्षात्कारस्वरूपिणी ॥ ३२ ॥ ज्ञानयोग इति । ज्ञानयोगो युज्यतेनेनेति योगो जीवब्रह्मैक्यं ज्ञानमेव योगो ज्ञानयोगः परा पूजा भवति, कुत इसत आह ज्ञा- नादिति, ज्ञानात्तत्त्वमसीत्यादिवाक्यजन्यादहं ब्रह्मास्मीति साक्षात्काररूपाज्ज्ञानात्कैवल्यमाखण्डैकरस्यमश्नुते मामोति 'ज्ञानादेव तु कैवल्यं प्राप्यते येन मुच्यते' इति श्रुतेः, ज्ञाला देवं सर्वपाशापहानिः क्षीणैः क्लेशजन्ममृत्युपहाणिरिति च श्रुतेः, 'तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनायेति च श्रुतेरपि ज्ञानस्यैव साक्षान्मुक्तिसाधनखात्पूजात्वं प्रसिद्धमेवेति भावः, तुरीयेपि तत्सम्भावयति तुरीयमिति, तुरीयं तुर्यावस्था- रूपं साक्षिचैतन्यं परमा पूजा भवति, कुत इत्यत आह सा- क्षादिति, साक्षात्कारस्वरूपिणी साक्षात्कारः प्रत्यक्षानुभवः स एव स्वरूपमसाधारणं रूपं यस्यास्तुर्यावस्थारूपपूजायाः सा तथोक्ता स्वरूपत्वादेव तुर्यस्य पूजात्वमिति भावः ॥ ३२॥ श्रवणे तत्सम्भावयति । श्रवणं परमा पूजा श्रूयते परमेश्वरः मननं परमा पूजा मननं ध्यानसाधनम् ॥ ३३ ॥ श्रवणमिति । श्रवणं तु श्रवणमपि परा पूजा भवति, कुतः श्रवणे पूजात्वमित्यत आह श्रूयते इति, परमेश्वरः कार्यकार- णातीत ईश्वर ईशनादिशक्तिमानात्मा श्रूयते श्रवणविषयी- क्रियतेऽतः श्रवणस्य पूज्यात्मविषयतया पूजात्वमिति भावः, ૨૨ १७८ बोधसारे। । मननेपि तां सम्भावयति मननमिति, मननं श्रुतस्यार्थस्य युक्त्या सम्भावनं तत्परमा पूजा भवति, मनने कथं पूजानुस- न्धेया तत्राह मननमिति, मननं श्रुतार्थसम्भावनरूपं ध्यान साधनं ध्यानस्य विजातीयप्रत्ययानन्तरिततत्सजातीयप्रत्यय- प्रवाहरूपस्य साधनं साध्यतेनेनेति साधनं कारणमतो मनन- मपि पूजैवेति भावः ॥ ३३॥ ननु सर्वेष्विष्टानिष्टपदार्थेषु इष्टबुद्धिरेव विधेयेत्युक्तं तत्तु- दुर्घटमित्याशय मद्गुरुसदृशगुरुलाभे सुलभमेवेत्याह । मद्गुरोः सदृशः कश्चिद्गुरुः कर्णे लगेद्यदि सवमेव तदा पूजा देवस्य लयरूपिणी ॥ ३४ ॥ मगुरोरिति । मद्गुरोर्मम मद्गुरोर्मम गुरोर्दैशिकस्य सदृश- स्तुल्यः कश्चित्कोपि गुरुदैशिकः कर्णे कर्णमूले लगेदुपदिशे- यदि यहि तर्हि सर्वमेव समस्तमपि लयरूपिणी साम्येन लयो नाश एव रूपं यस्याः सा तथोक्ताऽत एव देवस्य चैतन्य शिवस्य पूजार्चा भवेत्स्यात् ॥ ३४ ॥ इदानीमुक्तसर्वलयेभ्यो नादानुसन्धानस्य श्रेष्ठयमाह। लयानामपि सर्वेषां विश्वविस्मृतिहेतुतः । श्रेष्ठं नादानुसन्धानं नादो हि परमो लयः ॥३५॥ लयानामिति । सर्वेषामपि समस्तानामप्युक्तलक्षणानां ल- यानां लयोपायानां मध्ये निर्धारणे षष्ठी यतश्च निर्धारणमिति सूत्राद्, विश्वविस्मृतिहेतुतो विश्वस्य समस्तबाह्यपदार्थजातस्य विस्मृतिरननुसन्धानं तस्य हेतुतः कारणत्वान्नादानुसन्धान दक्षिणकर्णस्थितानाहतस्य नादस्यानुसन्धानं श्रवणं श्रेष्ट- भक्तिरसायनम्। मुत्तमं हि यस्मात्कारणानादो नादानुसन्धान परमः श्रेष्ठो लयो लयोपायोऽस्ति, लोकोपि गायनवाद्यादिनादलुब्धस्य सर्वकार्यविस्मृतिश्यत इति भावः ॥ ३५ ॥ उक्तमेव नादानुसन्धानश्रेष्ठ्यं सदृष्टान्तं सहेतुकं चाह । मकरन्दम्पिबन्भृङ्गो यथा गन्धं न काङ्गति नादासक्तं तथा चित्तं विषयान्नाभिकासति ॥३६॥ इति श्रीनरहरिविरचिते बोधसारे योगदिक्षाचिन्तामणी लययोगः॥६॥ मकरन्दमिति । भृङ्गो भ्रमरो मकरन्दं पुष्परसं 'मकरन्द: पुष्परस' इसमरसिंहः, पिबन्पानं कुर्वन्सन्गन्धं तद्वहिर्वतिनं केसरस्थं परिमलं न काति नेच्छति यथा यद्वत्तथा तद्वन्नादा- सक्तमनाहतनादे बाह्ये वासक्तं रक्तं चित्तमन्तःकरणं विष- यानादातिरिक्तविषयान्नाभिकाङ्कति नेच्छति अतो नादा- नुसन्धानस्य श्रेष्ठ्यमिति भावः, राजयोगपक्षे तु आकाशगुणत्वेन शब्दस्य नाममात्रत्वानुसन्धानेन तद्वाच्यजगतोपि मिथ्यात्वेन च स्वरूपमात्रशेपलक्षणमेन नादानुसन्धानं लयोपायमङ्गीकु- र्यादिति भावः ॥ ३६॥ इति श्रीनरहरिशिष्यदिवाकरविरचिताय बोधसारार्थदीप्ती योगदीक्षाचिन्तामण्यर्थप्रकाशे लययोगार्थप्रकाशः पञ्चमः॥५॥ इति श्रीयोगदीक्षाचिन्तामण्यर्थप्रकाशो द्वादशः ॥ १२ ॥ अथ भक्तिरसायनम् एवं सर्वसाधनानि प्रतिपायेदानीं सर्वसाधनशिरोभूतं सर्वसाधनमुख्यसाधनं स्वतोन्यसाधननिरपेक्ष भत्स्याख्यसाधनं बोधसारे। प्रतिपादयितुं भक्तिरसायनाख्यं सार्यद्विपञ्चाशच्छोकं प्रकरण- मारभते, तत्र तावदेतत्प्रकरणश्रवणे शिष्यं प्रेरयति । अथ सिद्धान्तसर्वस्वं शृणु भक्तिरसायनम् जन्ममृत्युजराव्याधिभेषजं तद्रसायनम् ॥ १ ॥ अथेति । अथ योगश्रवणानन्तरं हे शिष्य सिद्धान्त- सर्वस्वं सिद्धान्तस्य सर्वशास्त्रतात्पर्यस्य सर्वस्वं मुख्यतात्पर्यभूतं भक्तिरसायनं भक्तिर्भजनं स एव रसः सुखं तस्यायनं मार्ग- भूतं प्रापकमित्यर्थः, एतन्नामकं प्रकरणं शृणु अवधारय, ननु भक्तिमतिपादकस्य प्रकरणस्य कुतोरसायनशब्दयोगस्तत्राह जन्मेति, तद्भक्तिरूपं साधनं जन्ममृत्युजराव्याधिभेषजं जन्म देहाहम्भावरूपो मृत्युरत्यन्तदेहविस्मृतिरूपो जरा वृद्धत्त्वरूपो देहविकारविशेषस्तेन चान्येपि विकारा ग्राह्याः, व्याधयश्च त- न्मूलज्वरादयस्तेषां भेषजमौषधं तनिवर्तकमित्यर्थः, अतो रसा- यनं रसायननाम्नाभिहितमित्यर्थः ॥१॥ उक्तमेव सर्वसाधनश्रैष्ठ्यं भक्तविशदयति । धर्मार्थकाममोक्षाणां ज्ञानवैराग्ययोरपि अन्तःकरणशुद्धेश्व भक्तिः परमसाधनन् ॥ २ ॥ धर्मति । धर्मार्थकाममोक्षाणां धर्मश्च स्वस्ववर्णाश्रमोचित- कर्माचरणरूपोऽर्थश्च द्रव्याद्यर्थमुद्योगप्रतिपादकं शास्त्रं तत्प्र- तिपाच उपायश्च, कामश्चेन्द्रियविषयसंयोगसुखच्छारूपस्तया च- तल्लाभस्तत्प्रतिपादकशास्त्रोक्तसाधनानि च ग्राह्याणि, मोक्षश्च मोक्षप्रधानार्थशास्त्रं च तत्प्रतिपादितानि तत्साधनानि च ग्रा- ह्याणि, तेषां ज्ञानवैराग्ययोरपि ज्ञानस्य जीवात्मैक्यविषयस्य twiL भक्तिरसायनम् । वैराग्यस्यापि अन्तःकरणशुद्धेश्चान्तःकरणं चित्तं तस्य शुद्धी रागादिमलविसर्गस्तस्या अपि भक्तिः स्नेहरूपात्तिः परमसा- धनं श्रेष्ठं साधनं मुख्यकारणमित्यर्थः ॥२॥ भक्तिलक्षणमाह। ययात्र रत्त्या जीवोयं दधाति ब्रह्मरूपताम् । साधिता सनकायैः सा भक्तिरित्यभिधीयते ॥३॥ ययेति । अयं जीवः प्रत्यक्षः प्राणाद्युपाधिमानधिष्ठानस- हितो बुद्धिस्थश्चिदाभासोऽत्र प्रसपरोक्षादिरहिते चिदात्मनि यया रत्त्या रागरूपया वृत्या प्रेमापरपर्यायया ब्रह्मरूपतां ब्रह्मणो देशकालवस्तुपरिच्छेदशून्यस्य रूपं सच्चिदानन्दैकरस्यं तस्या भावस्तत्ता तां दधाति धारयति या च सनकाद्यैः सनक आद्यो येपो सनन्दनादीनां ते तथोक्तास्तैः साधिता कृता, आदिप- देन नारदादीनामपि ग्रहणं, सोक्तलक्षणा भक्तिरित्यभिधीयते भक्तिरित्येवं नाना प्रतिपाद्यते शास्त्रेष्वित्यर्थः ॥३॥ एवं भक्तेर्लक्षणं प्रतिपाद्येदानी भक्तिहीनानां सर्वसाध- नानां वैय्यर्थ्यमाह । सर्वा साधनसंपतिरस्ति भक्तिस्तु नास्ति चेत् । तर्हि साधनसंपातस्तुषकण्डणवथा ॥ ४ ॥ सर्वेति । सर्वा नित्यानित्यवस्तुविवेकादिका साधनस- म्पत्तिः साधनानां मोक्षकारणभूतानां सम्पत्तिः सम्पादनमस्ति विद्यते भक्तिस्तु प्रेमलक्षणा वृत्तिस्तु तुशब्दोत्र भक्तेः सर्वसां- धनसापेक्षत्वेन स्वतोन्यनिरपेक्षत्वेन च वैलक्षण्यं दर्शयति नास्ति चेत्तन्न विद्यते चेयदि तर्हि तदा साधनसम्पत्तिः साधनानां १ सर्वसाधनानि सापेक्षाणि यत्र तस्या भावस्तत्वं तेन ।

Lin-rior बोधसारे । सर्वसाधनानां सम्पत्तिः सम्पादनं वृथा व्यर्थी तत्र दृष्टान्तस्तुष- कण्डनवत्तुषस्य धान्योपरितनधान्यहीनत्वचः कण्डनं झुस- लादिना कुट्टनं तद्यथा निष्फलं श्रममात्रं तद्वद्भक्तिहीनानि सर्वसाधनानि श्रममात्राणीत्यर्थः॥४॥ एवं भक्तरन्यसाधनसापेक्षतां प्रतिपाधेदानीं तस्या अन्य- साधननिरपेक्षत्वं प्रतिपादयति । यद्यन्यत्साधनं नास्ति भक्तिरास्ति महेश्वरे । तदा क्रमेण सिद्ध्यन्ति विरक्तिज्ञानमुक्तयः ॥५॥ यदीति । अन्यत्साधनं नित्यानित्यवस्तुविवेकादिकं सा- धनं नास्ति न विद्यते यदि यहीश्वर ईशनादिशक्तिमति यात्म- तत्वे वा भक्तिरुक्तलक्षणा प्रेमवृत्तिरस्ति विद्यते तदा तर्हि क्रमेणानुक्रमतो विरक्तिज्ञानमुक्तयो विरक्तिर्वैराग्यं ज्ञानं जीवब्रह्मैक्यविषयं महावाक्यजन्यं मुक्तिर्मोक्ष एते सिद्ध्यन्ति सिद्धाः भवन्तीत्यर्थः ॥५॥ ननु 'ज्ञानादेव तु कैवल्यं प्राप्यते येन मुच्यते' इत्यादिश्रुते- ज्ञानस्यैव मोक्षहेतुत्वप्रतिपदिनास्किं भत्त्येत्याशङ्ख्य भत्त्यवे- श्वरप्रसादे ज्ञानं जायते ततो मोक्ष इति ज्ञानद्वारैव भक्तमुक्तिहे- तुत्वमित्याशयेनाह। न हि कश्विद्भवेन्मुक्त ईश्वरानुग्रहं विना । ईश्वरानुग्रहादेव मुक्तिरित्येष निश्चयः ॥ ६ ॥ नहीति । कश्चित्कोपीश्वरानुग्रहं विनेशनादिशक्तिम- तोन्तर्यामिणोऽनुग्रहो दया तामृते मुक्तो मोक्ष प्राप्तः संसारा- दुतीर्ण इत्यर्थः, न न भवेद्धि प्रसिद्धमित्यर्थः, व्यतिरेकम- १ अन्यसाधनानि सापेक्षाणि यत्र तस्या भावस्तत्ता ताम् ।

भक्तिरसायनम्।
खेन दर्शितमर्थमन्वयमुखेन दर्शयतीश्वरेति, ईश्वरानुग्र-
हादेवेश्वरस्यान्तर्यामिणोनुग्रहः कृपा तत एव केवलं मुक्ति-
मोझे भवतीति शेषः, एषोऽयं निश्चयो निश्चीयतेऽनेनेति नि-
श्चयो निर्णयोऽस्ति मुक्तेः प्रधानसाधनभूतज्ञानस्य गुर्वधीन-
त्वाद्गुरोश्चेश्वरानुग्रहमाप्यत्वादीश्वरानुग्रह एव दैशिकमापण-
द्वारा मुक्तिहेतुरिति भावः ॥ ६॥
ननु तहीश्वरप्रसादस्य मुक्तिहेतुत्वे किं भत्त्येत्याशय
भक्तिं विना तद्दौलभ्यादित्याह ।
ईश्वरः परिपूर्णत्वान्न तु किञ्चिदपेक्षते ।
प्रीत्यैवाशु प्रसन्नः सन्परं कुर्यादनुग्रहम् ॥ ७ ॥
ईश्वर इति । ईश्वर ईशनादिशक्तिमान्सर्वनियन्ता परिपूर्ण-
त्वात्सच्चिदानन्दघनतयाऽऽसकामत्वात्किं चिद्यज्ञदानादिकं स्व-
भोगोपयोगि द्रव्यादिकमपि न तु नैवापेक्षत इच्छति अतः
प्रीत्यैव केवलं प्रेम्णैवाशु शीघ्रम, अनेन यज्ञदानस्वधर्मानुष्ठा-
नजपादिनेश्वरः प्रसीदति तथापि बहुकालेन तत्रापि भक्तिसा-
पेक्षितेन भत्त्या त्वन्यनिरपेक्षितयैवेश्वरशीघ्रप्रसादोपलब्धिरिति
भावः, मसन्नः प्रीतः सन्परं ज्ञानप्रदगुरुपापकमनुग्रहं प्रसाद
कुर्याद्, अन्यसाधनैर्भक्तिसापेक्षितैः सांसारिकफलकारणमीश्व-
रानुग्रहो जायते केवलभक्त्या तु केवलेश्वरानुग्रहेण गुरुमाप्त्या
ज्ञानप्राप्तिद्वारा मोक्षप्राप्तिरिति भावः ॥७॥
एवं प्रेमलक्षणवृत्तेरेव केवलमीश्वरप्रसादहेतुत्वं प्रतिपाद्य-
दानी प्रेमलक्षणवृत्तेरेवेश्वरे स्थैर्य प्रार्थयति ।
या प्रीतिरविवेकानां विषयेष्वनपायिनी।
त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥ ८ ॥

बोधसारे। येति । अविवेकानां विकेकहीनानां विषयेषु वनितास्त्र- कचन्दनादिषु अनपायिनि अन्यभिचारिणि अनेकविधदुर्ल- यविघ्नान्यविगणय्य तत्रैव प्रवर्त्तमानेत्यर्थः, या प्रीतिय- इत्स्नेहरूपा वृत्तिरस्ति विद्यते सा सेव तादृशीत्यर्थः, त्वा- मीशनादिशक्तिमन्तं त्वामनुस्मरतस्तया वृत्त्या सदा चिन्तयतो मे मम हृदयादन्तःकरणान्मापसर्पतु मा गच्छतु त्वद्विषया सा सदैव तिष्ठत्वित्यर्थः, यद्वा सा त्वद्विषया प्रीतिहृदयाद्धे माप लक्ष्मीपते सर्पतु निवृत्ता भवतु इति प्रार्थना ॥ ८॥ पूर्वप्रीतिलक्षणे सूत्रमपि प्रमाणयति । तथा च शाण्डिल्यं सूत्रं 'सापरानुक्तिरीश्वर' इति । तथाचेति । तथा च तस्मिन्नुक्ते भक्तिलक्षणे शाण्डिल्यस्य मुनेः सूत्रमस्ति तदाह सेति, येत्यध्याहार्यम्; ईश्वर ईशनादिश- क्तिमत्यन्तर्यामिणि परे ब्रह्मणि वा परा निरतिशयाऽनुरक्तिः स्मेहः सा भक्तिरित्यर्थः ॥१॥ एवं भक्तिलक्षणप्रतिपादकं सूत्रमुपन्यस्येदानी भक्ति- सिद्धौ सर्वसाधनसिद्धिः स्यादित्याह । परमात्मनि विश्वेशे भक्तिश्चेत्प्रेमलक्षणा । सर्वमेव तदा सिद्ध कर्तव्यं नावशिष्यते ॥ ९॥ परमात्मनीति । विश्वेशे विश्वस्य जगत ईशे नियन्तरि परमात्मनि वस्तुतः कार्यकारणहीने ब्रह्मणि व्यावहारिकदृष्ट्या स्वीश्वर इत्यर्थः, प्रेमलक्षणा प्रेम स्नेह एव लक्षणं यस्याः सा तथाभूता भक्तिश्चिन्त्याकारा वृत्तिश्चेद्यदि सिद्धा भवति तदा १ त्वत्तोऽन्यविषया।

wasna
भक्तिरसायनम् ।
तहि सर्वमेव समस्तमपि साधनजातं सिद्धं भवति तदा कर्तव्यं
कार्य नावशिष्यते नैव शिष्टं विद्यते, भक्तिसिद्धौ तु सर्वमेव सिद्धं
भवतीति भावः ॥९॥
वेदान्तप्रतिपादिताया अपरोक्षानुभूतेरपि भक्तिफलत्वमाह ।
अपरोक्षानुभूतिर्या वेदान्तेषु निरूपिता ।
प्रेमलक्षणभक्तेस्तु परिणामः स एव हि ॥ १० ॥
अपरोक्षानुभूतिरिति । या विद्वदनुभवसिद्धा वेदान्तेषु
चेदान्तशास्त्रेषु प्रतिपादिता निरूपिताऽपरोक्षानुभूतिरपरोक्षा
प्रत्यक्षाऽनुभूतिरनुभवः सा प्रेमलक्षणभक्तेस्तु प्रेमा निरतिश-
यस्नेहः स लक्षणं यस्या भक्तेः सा तथोक्ता तस्या एव परि-
णामः फलमेव निश्चयेन ज्ञेयं हि विद्वत्सु प्रसिद्धमेतदित्यर्थः ॥१०॥
ननु ज्ञानहेतुकत्वं कृतकृत्यत्वफलाया अपरोक्षानुभूते।-
दान्तेषु प्रसिद्धं दृश्यते तत्कथं विरुद्धं भक्तिफलत्वं तस्या
उच्यत इत्याशय प्रेमलक्षणवृत्तेतविस्मारकत्वेन ज्ञान-
स्याप्यद्वैतरूपत्वेन च ज्ञानभक्त्यो_लक्षण्याभावाचयोरैक्यं द-
शयति द्वाभ्याम् ।
शास्त्रार्थः संपरिज्ञातो जातं प्रेम महेश्वरे।
प्रेमानन्दप्रकारेण द्वैतं विस्मरणं गतम् ॥११॥
शास्त्रार्थ इति । शास्त्रार्थः शास्त्राणां व्याकरणादिवेदान्ता-
न्तानामर्थस्तात्पर्य संपरिज्ञातः सम्यग्ज्ञातो निश्चितश्चानन्तरं म-
हेश्वरे वेदान्तप्रतिपादित ईश्वरत्वारोपाधिष्ठानभूते तत्त्वे प्रेम
स्नेहो जातमुत्पन्नं यदेयध्याहार्यं यदा यस्मिन्समये तदा तस्मि-
न्समये प्रेमानन्दप्रकारेण प्रेम्णा स्नेहेन य आनन्दः सुखं तस्य
प्रकार उल्लासस्तेन द्वैतं जगद्विस्मरणमभानं गतं प्राप्तं भवति ॥१॥

बोधसारे। वासुदेवमयं सर्व वासुदेवात्मकं गजत् । इत्थं द्वैतरसाढ्यस्य ज्ञानं किमवशिष्यते ॥ १२॥ तदा तस्य भक्तस्य सर्व समस्तं वासुदेवमयं वा वि- कल्पेनामूनां प्राणायुपाधीनां देवः प्रकाशक: प्रकाश्य- मिथ्यात्वेनाप्रकाशको व्यवहारावस्थायां प्रकाश विना प्रकाश्यानिर्वाहाच प्रकाशकश्चेति विकल्पेन प्रकाशकत्वं वासुदेवशब्दार्थस्तन्मयं तत्प्रधानं प्रतीयत इत्यर्थः, अतो जग- विवं वासुदेवात्मकं वासुदेवो जगदारोपाधिष्ठानं जगतो वि- कल्पेन प्रकाशकं चैतन्यमात्मा यस्य तत्तथा वासुदेवान्यन्न प्र- तीयत इत्यर्थः, इत्थमेवं प्रकारेण द्वैतरसाव्यस्य द्वैते जगति यो रस आनन्दस्तेनाढ्यस्य संपन्नस्य पुरुषस्य ज्ञानमद्वैतात्मस्वरूप- मवशिष्यतेऽवशिष्टं भवेत्किन्नैवेत्यर्थः, तस्यैवाद्वैतलक्षणज्ञानव- स्वान भक्ति ज्ञानयोर्मेद सिद्धिरिति भावः ॥ १२ ॥ इदानी ज्ञानमत्स्योरुक्ताभेददााय विष्णुशिवभक्तयो- भेजनप्रकारं चतुर्भिः श्लोकैराह । वासुदेवः परं ब्रह्म परमात्मा परात्परः । अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः॥१३॥ वासुदेव इति । वासुदेवो 'वासनाद्वासुदेवस्य वासितं भुवनत्रयम् । सर्वभूतनिवासोसि वासुदेव नमोस्तुते । इति वचनाद्वासुदेवसत्तया सर्वसत्तानिर्वाहलक्षणेन सर्वमूत- निवासत्वात्सर्वव्यापित्वलक्षणेन च लक्षितं वासुदेवं स्मरन्वासुदेव इति नामोच्चरति, परं ब्रह्म परं जगत्कारणं ब्रह्म बृहद्देशकालवस्तु- परिच्छेदशून्यं ब्रह्मवाब्दार्थ विचिन्त्य परं ब्रह्मेति नामोच्चरति, तथा भक्तिरसायन । १८७ PateRNORauta परमात्मा कार्यकारणत्वहीनः परमः परमश्चासावात्मा चेति स तथोक्त इयर्थानुसन्धानपूर्वकं परमात्मेति नामोच्चरति कार्यकारण- हीनमात्मानमनुस्मृत्यैतन्नामोचारं करोतीति भावः, तथा परा- स्परः पराजगदारोपाधिष्ठानत्वेन कारणादारोप्यमिथ्यात्वेन परस्तदतीत इत्येवमर्थमनुसन्धाय परात्परमित्येवं नामोचरती त्यर्थः, तथा तत्सर्वं तत्सर्वमिति पदद्वयेन समस्तः कार्यकारणा- स्मका प्रपञ्च उच्यतेऽन्तर्बहिश्वाऽऽन्तरं देश बाह्य देशमपि व्याप्यं व्याप्नुवन्सन् स्थितो वर्ततेऽतो नाराषणो नृणां जी- वानां समूहो नारं तदेवायनं स्थान प्रापकत्वान्मार्गभूतं वा यस्य स तथोक्तः, यद्वा- 'आपो नारा इति मोक्ता आपो वैनरखूनवः । अयनं तस्य ता: मोक्तास्तेन नारायणः परः ॥ इति स्मृतेः, नरात्पुरुषाज्जावा नारा जलानि ता अयनं य- स्ये सर्थः, अत्रापि 'अम्भो मरीचीमरमाप' इति श्रुतेर्जलप्रधा- नकारणके कार्यरूपे जगति व्यापकत्वमेव नारायणशब्दार्थ एवमुभयपक्षेपि व्यापकत्वमव्यभिचरितमित्यादिनारायणपदा- र्थानुसन्धानेन नारायण इति नामोच्चरतीत्यर्थः ॥ १३ ॥ अणुवृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् । इत्यादिवचनैर्भक्तो वैष्णवः स्तौति केशवम् ॥१४॥ अणुरिति । अणुर्बुद्ध्यादीनामव्यक्तत्वात्सूक्ष्म इत्यणु- शब्दार्थ लक्ष्यीकृत्याणुरिति नामोच्चरति, तथा बृहद्देशाद्यपरि- च्छिन्नत्वात्महानित्यानुसन्धानपूर्वकं बृहदिति नामावृत्ति क- रोतीत्यर्थः, कृशः कृशत्वस्यापि तव्यतिरेणासि घंटाभिने घटे घटत्वमिवेश्वराभिन्ने कृश ईश्वरत्वात्तन्नाम्न्यापि नामा- भेदोपचारादीश्वरनामैव कृश इति ज्ञात्वा कृश इत्येवं नामोच्च-

बांधसारे।
रतीत्यर्थः, एवं स्थूल इति च नामोच्चरति, तथा गुणभृगु-
गानामाश्रय इत्यर्थानुसन्धानपूर्वकमेतन्नामोच्चरतीत्यर्थः, तथा
निर्गुणो गुणानां मिथ्यात्वात्सदैव गुणरहित इत्येवमनुसन्धाय
निर्गुण इति नाम जपतीत्यर्थः, तथा महाञ्च्छ्रेष्ठो सर्वजगत्पूज्य
इत्यर्थः, इत्यादिवचनैरेवमादिभिर्वाचकैः शब्दैष्णवो वि-
ष्णुसम्बन्धी विष्णुदेवताको वोक्त उपासकः केशवं केऽन्त:-
करणे शेते स्वपिति अन्तःकरणमननुसन्धाय स्वरूपमनुसन्दधा-
तीत्यर्थः, तमन्तर्यामिण स्तौति वर्णयति ॥ १४ ॥
एवं विष्णुभक्त भजनप्रकारं प्रदर्य शिवभक्तस्यापि तं दर्शयति ।
शिवः कर्ता शिवो भोक्ता शिवः सर्वेश्वरेश्वरः।
शिव अत्मा शिवो जीवः शिवादन्यन्न विद्यते॥१५॥
शिव इति । शिवः प्रत्यगात्मा कूटस्थः कर्ता कर्मेन्द्रिय-
व्यापारवान्बुद्धिस्थश्चिदाभासोऽस्ति तथा शिवो भोक्ता शिव
एव मुखदुःखादिसाक्षात्कारवानानन्दमयोपाधिको बुद्धिस्थो
'नान्योतोस्ति द्रष्टे'त्यादिश्रुतेः, 'क्षेत्रज्ञं चापि मां विद्धी'त्यादिस्मृ-
तेश्च कर्तुर्भोक्तुश्च प्रत्यगात्मनोऽपृथक्त्वप्रतिपादनादिति भावः,
तथा शिव आत्मा सर्वेश्वरेश्वरो सर्वस्य जगतो य ईश्वरा ब-
ह्मविष्णुरुद्राख्यास्तेपामपश्विरो नियन्ता तथा शिवो जगत्सुख-
कारणं परमात्मा घटाकाशमहाकाशयोरिव प्रत्यगात्मशिवयोर-
भेद इत्यर्थः, तथा शिवो जीवः शिवः समष्टयुपाध्यावृतं चैतन्य
तत्पदवाच्यार्थ एव जीवो देहत्रयसहितः साधिष्ठानश्चिदाभासोऽ
स्ति उपाध्यैक्यादुपहितयोरप्यैक्यमिति भावः, अतशिवात्प-
रमात्मनोऽन्यद्भिन्नं किमपि न विद्यते नास्तीत्यर्थः, आत्मनो
व्यतिरिक्तस्यासत्त्वादिति भावः ॥ १५॥

भक्तिरसायनम् । १८९ खंवायुतेजोजलभूक्षेत्रज्ञार्केदुमूर्तिभिः । अष्टाभिरष्टमूर्ति च शांभवः स्तौति शङ्करम् ॥१६॥ किश्च स्खभिति । खवायुतेजोजलभूक्षेत्रज्ञार्केन्दुमूर्तिभिः खमाकाशं वायुः पवनस्तेजोऽग्निर्जलं सलिलं भूः पृथ्वीः क्षे- त्रज्ञो जीवोऽर्कः सूर्य इन्दुश्चन्द्र इत्येवमभिधाभिमूर्तिभिर- शाभिरष्टसङ्ख्याभिः शाम्भवः शिवभक्तोऽष्टमूर्तिमष्टौ मूर्तयो रूपाणि यस्य तं सर्वरूपमियर्थः, शङ्करं सकलजगदानन्दकर- मात्मानं स्तौति प्रशंसति ॥१६॥ एवं विष्णुशिवभक्तयोर्भजनप्रकारं निरूप्येदानी पूर्वोक्त- मेव ज्ञानभक्त्योरैक्यं सिद्धान्तयति । इदं यदा परिणतं प्रेम तज्ज्ञानमेव हि इदमिति । इदमुक्तलक्षणमेतादृशं भजनमेव यदा यस्मि- काले परिणतं परिणाम प्राप्तं निरतिशयमुखरूपेण पर्यवसि- तमित्यर्थः, तत्प्रेम स्नेहो भवति तदेव ज्ञानं ज्ञानशब्देनोच्यते ही- ति विदुषामेतत्प्रसिद्धमित्यर्थः । उक्तभक्तिज्ञानक्ये युक्तिरप्यस्तीत्याह । अथ युक्त्यन्तरम् । अथेति । अथात्रेत्यर्थः, युक्त्यन्तरमन्या युक्तिरप्यस्ती- त्यर्थः, तामेवाह त्रिभिः श्लोकैः बालक इत्यादिना । बालकस्तात तातेति जनकं प्रति भाषते । न पुनस्तातशब्दार्थ स तु जानाति किञ्चन ॥१७॥ बालको कस्तात तातेति हे तात हे तात एवं प्रकारेण जनकं पितरं प्रति उदिश्येत्यर्थः, भापते ब्रूत एव केवलं पु- बोधसारे। नरन्यत्स तु बालकस्तातशब्दार्थ पितृवाचको यस्तातशब्दस्त- स्यार्थ पितृरूपं किञ्चन किमपि न जानाति वेत्ति नैवेत्यर्थः॥१७॥ यदा तातपदार्थस्य व्युत्पतिं यात्यसौ क्रमात् । तदा तु सत्यमेवायं तात इत्येति निश्चयम् ॥१८॥ यदेति । असौ स बालो यदा यस्मिन्काले क्रमाक्रमेण तातपदार्थस्य तातेति यत्पित्वाचकं पदं नाम तस्यार्थः पि- तरूपस्तस्य व्युत्पत्ति ज्ञानं याति प्राप्नोति तदा तु तस्मिन्काले चायमेष बालस्तात एव पितैव सत्यं तथ्यमित्येवं निश्चयं निर्णयमेति प्राप्नोति यथा ॥ १८ ॥ तथा भक्तो भजन्देवं वेदशास्त्रोदितैः क्रमैः व्युत्पतिं परमां प्राप्य मुक्तो भवति हि क्रमात्॥१९॥ तथेति । तथा तद्वद्भक्तोऽव्युत्पन्नो भजनक्रियावान्वे- दशास्त्रोदितैवैदाश्च ऋगादयः शास्त्राणि वेदान्तानुकूलानि मीमांसासाङ्ख्यपातञ्जलशैवतन्त्रनारदपञ्चरात्रादीनि तेषूदिता उक्तास्तैः क्रमैः प्रक्रियाभिर्देवमीश्वरं भजन्सेवमानः सन्न- न्तःकरणशुध्या परमां यथार्थी व्युत्पत्तिं वाच्यलक्ष्यभेदेन श- ब्दार्थज्ञान प्राप्य लब्ध्वा क्रमाज्ज्ञानस्थैर्यक्रमेण मुक्तो मोद प्राप्तो भवति जायते हिं एतत्सर्वत्र प्रसिद्धमित्यर्थः ॥ १९ ॥ अन्यदपि ज्ञानभत्त्योरभेदे कारणं दर्शयति । किं च लक्षणभेदो हि वस्तुभेदस्य कारणम् । न भक्तज्ञानिनोदृष्टा शास्त्रे लक्षणभिन्नता ॥ २० ॥ किश्चेति । किश्चान्यदपि भृण्वित्यर्थः, हि यस्मात्कारणा- द्वस्तुनः पदार्थस्य भेदोन्यखं तस्य कारणं हेतुलक्षणभेदो ल. ।

भक्तिरसायनम् । क्ष्यते भेदो याभ्यां ते लक्षणे तयोर्मेदो भिन्नलं भवति जायते तत्र तदभावं दर्शयति नेति, भक्कज्ञानिनोरुपासकबुद्धयोर्ज्ञानी- त्वत्र यथार्थस्वरूपवेत्ता लक्षणभिन्नता लक्षणयोश्चितयोभिन्नता पार्थक्यं चिह्नभेद इत्यर्थः, शास्त्रे वेदान्त उपासनाप्रतिपादके च शास्त्रे न दृष्टा नैव दृष्टाऽतो ज्ञानभत्त्योर्लक्षणैक्यादैक्यमेव सिद्धमिति भावः ॥ २० ॥ तान्येव ज्ञानभत्त्योर्लक्षणानि स्फुटं दर्शयति । विरागश्च विचारच शौचमिन्द्रियनिग्रहः । वेदे च परमा प्रीतिस्तदेकं लक्षणं द्वयोः ॥२१॥ विराग इति । विरागश्च विरागो विषयवैतृष्ण्यमेकं लक्षणं, विचारश्च विचारो विवेकोपि द्वितीय, शौचमान्तरं रागादि- मलराहित्यं बाह्य स्नानादिशौचं शुद्धिहेतुः क्रिया तृतीयम् ,इन्द्रि- यनिग्रह इन्द्रियाणां श्रोत्रादीनां निग्रहः स्वस्वविषयेभ्यो ज्ञा- नभक्तिसाधनव्यतिरिक्तभ्यो व्यात्तिश्चतुर्थ, वेदे च श्रुता- वपि परमाऽव्यभिचारिणी प्रीतिः प्रेमा पञ्चममित्यादीन्य- न्यान्यपि ज्ञेयानि तत्तस्मात्कारणाद् द्वयोभक्तिज्ञानयोर्लक्षणं लक्षक चिन्हमेकमभिन्नमतो ज्ञानभत्त्योन भेद' इत्यर्थः ॥२१॥ ननु ज्ञानभक्त्योर्लक्षणैक्यं क दृष्टं तबाह । अध्याये भक्तियोगाख्ये गीतायां भक्तिलक्षणम् । यदुक्तमष्टभिः श्लोकदृष्टं ज्ञानिषु तन्मया ॥ २२ ॥ अध्याये इति । गीतायां श्रीमद्भगवद्गीतायां भक्तियो- गाख्ये भक्तियोग इत्येवमाख्या यस्य तस्मिन्नध्याये द्वाद- शाध्यायेऽष्टमिः श्लोकः 'अद्वेष्टा सर्वभूतानामि त्मादिभिः, 'भ- १९२ बोधसारे। कास्ते तीच मे प्रिया' इत्यन्तैरष्टसङ्ख्याकैः श्लोकर्यद्यादृशं भक्तिलक्षणं भक्तजनस्य लक्षणं चिह्न जातित्वादेकवचनमुक्तं कथितमस्ति तत्तदेव लक्षणं ज्ञानिषु ज्ञानवत्सु मयोभयल- क्षणपरीक्षकेण तत्रैव त्रयोदशाध्याये 'अमानित्वमदम्मित्वामि'- त्यादिभिः 'एतज्ज्ञानमिति प्रोक्ताम'त्यन्तैः पादोन पञ्चभिः श्लोकै प्रतिपादितं दृष्टमवलोकितं तस्मादपि ज्ञानभत्त्योरैक्यमेव सि- मिति भावः ॥ २२ ॥ तवास्मीति भजत्येकस्त्वमेवास्मीति चापरः । इति किञ्चिद्विशेषेपि परिणामः समो द्वयोः ॥२३॥ ननु ज्ञानिभक्तयोः सोहंभावदासोहंभावरूपभजनाभ्यां वै- लक्षण्यमस्तु तेन च भेदोपि स्यादित्याशङ्ख्याह तवेति, योििनभक्तयोर्मध्य एको भक्तस्तव तेऽहं त्वदंशत्वात्से- वक एवास्मि भवामीत्येवं भजति सेवते, अपरोऽन्यो ज्ञानी त्वमेव 'निष्कलं निष्क्रिय शान्तमिति श्रुतौ निरंशत्वप्र- तिपादनानापि त्वदशोहं किन्तु त्वमेव त्वदभिन्न एवाहमस्मि भवामीसेवं प्रकारेण, यद्वा त्वं सर्वजगत्कारणं सर्वाधिष्ठानं स- ज्ञ ईशनशक्तिमान्त्वमेवाहं समष्टिव्यष्टउपाध्योरैक्यायावहारि- कभेदेपि न परिमार्थिकभेदकल्पनायुक्तेति भावः, भजति सेवते इति किञ्चिद्विशेषेपि एवं प्रकारेण स्वल्पे भेदे सत्यपि तयोः प. रिणामः परिपाकः सम एकरूपोऽतोपि ज्ञानिभक्तयोरैक्यमेव सिद्धमिति भावः ॥ २३ ॥ ननु भक्तज्ञानिनोर्भजनैक्यलक्षणः परिणामः क दृष्ट इ- साशङ्याह सार्धेन। अन्तर्बहियदा देवं देवभक्तः प्रपश्यति ।

O १ १ ६ १ २ सूचौपचम् । गणपाठः गोलप्रकाशः गंगालहरी गुरसारणी जातकतत्त्वम् तत्त्वदीप तर्कसंग्रहः दत्तकमीमांसा धर्मशास्त्रसंग्रहः धातुपाठः ( शिला) धातुरूपावली नैषध चरित नारायणी टीका टाइप परिभाषापाठः पाणिनीयशिक्षा भाष्यसहिता प्रथम परीक्षा प्रथमपुस्तक हिन्दी प्रश्नभूषणम् (प्रश्न विचार का बहुत उत्तम प्रन्य) बीजगणितम् (म० म०पं० सुधाकरकृतटिप्पणीसहित) १ भट्टीकाव्य ५ सर्ग मनोरमा शब्दरत्नसहिता (टाइप) लघुकौमुदी टिप्पणीसहिता लक्षणावली लीलावती ( म०म०पं० सुधाकरकृतटिप्पणीसहित) १ वसिष्ठसिद्धान्तः वार्तिकपाठः विष्णुसहस्त्रनाम शब्दरूपावली भृङ्गार सप्तशती समासचक्रम् समासचन्द्रिका सरखतीकण्ठाभरणम् साङ्ख्यचन्द्रिका टिप्पणीसहिता साङ्खयतत्त्वकौमुदी सिद्धान्तकौमुदी सिद्धान्तमुक्तावली दिनकरीटिप्पणीसहिता उपसर्गवृत्ति ४ ६ ९ २ • १ १

Bodhsarah No 90

Author
Narhari
Title
Bodhsarah No 90
File name
Bodhsarah No 90
Text
OCR done
Citation
1904
Publisher
Vidya Vikas Press Benares
Language
Sanskrit
Pages
99
Library
Bharti Bhawan Library Allahabad
DLI number
273008
Barcode
5990010894127.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
mlXYrVhDqPv
Download PDF

Bodhsarah No 90