Library

Yatra Prabandh-11111

Samarpung Dixit · 2006/06/21

PDF Proofread

Front matter

काव्यमाला ९०. समरपुंगवदीक्षितविरचितो यात्राप्रबन्धः। aukuNDARENES CHUDAI जयपुरमहाराजाश्रितेन महामहोपाध्यायपण्डितश्रीदुर्गाप्रसाद- तनयेन पण्डितकेदारनाथेन च संशोधितः । द्वितीयावृत्ति । सच मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः खीये निर्णयसागराख्यमुद्रणालये मुद्रयित्वा प्रकाशितः। शकान्दा. १८५८, सनाब्दा १९३६. मूल्यं १ रूप्यकः।- N... 300 Frairagrant Llerine PC, HALANDAN DainiatunmaAHARAMIN - Harmoniuminimummer andendan

(अस्य प्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते.
रेवाविकार ।)
परिग्रहण रा
प्रन्थालय, + उ त शि संस्थान
सारनाथ, कणसी

समरपुंगवदीक्षितः, तदीयो यात्राप्रबन्धश्च । " अतिरात्रयज्वा वाधूलकुलजलधिकौस्तुभः कनकाठपाठबिरुदाङ्कः श्रीसमरपुगवदीक्षितनामाय कविः षोडश्या ख्रिस्तशताब्द्या (१५७४ खिस्ताब्दात् परम् ) अन्ते दक्षिणदेशे बटवनाभिधाननाम्नि नगरे श्रीवेङ्कटेशादनन्तम्माया जन्म लेभे इति तदीये यात्राप्रबन्धे लिखितया ग्रन्थनायकजननकालिकया ग्रहस्थित्या, द्वितीयाश्वासे 'सौभागिनेयः स तदा शोभायै श्रुतिसपदाम् । असेवत शिवाकल्पकल्पमप्पय्यदीक्षि- तम् ॥' इत्यादिना कृतेन तदात्व एव वर्तमानस्य सुप्रसिद्धस्य विद्वद्वरे- ण्यस्य श्रीरङ्गराजाध्वरेस्तनूद्भवस्य चित्रमीमांसाधनेकनिबन्धरचयितुः श्रीमदप्पयदीक्षितस्य वर्णनेन च सुस्पष्टमभ्युपगम्यते । सा ग्रहस्थितियथा- 'अथाध्युषितकेसरिण्यहिमभासि मेषं गते कलावति तुलाधरोदयमुपेयुषि खामिनि । खतुङ्गजुषि वाक्पतौ मकरभाजि मित्रात्मजे शुभैकजनने दिने सुतमसूत शातोदरी ।। सिंहिकातनुभुवा सह योगः सांप्रत मृगपतेरजनीति । स्पर्धमान इव पुत्रमुदारं प्रत्यपद्यत स पूरुषसिहः ॥ इति । श्रीमदप्पयदीक्षितस्य समुद्भवसमयस्तु संस्कृतचन्द्रिकायाः षष्ठे खण्डे तदीयजीवनचरितोपन्यासेऽस्मत्प्रियसुहृत्प्रवरैः श्रीमद्भिविद्यावाचस्पतिभिः श्रीमदप्पाशास्त्रिभिर्बहुभिः प्रमाणैः श्रीमद्दीक्षितवशोद्भवैः श्रीवैद्यनाथशा- त्रिभिः प्रेषितैस्तत्स्थितिसूचक श्लोकैश्च १५५४ ख्रिस्ताब्दो निर्णीत एव । उपरितना ग्रहस्थितिरप्पयदीक्षितजन्मनो विंशतेर्वर्षेभ्यः परमासी- दिति नातिरोहितं ग्रहस्थितिविदाम् । एतावता पर्यवसितं यत्किल कवि- रय १५७४ खिस्ताब्दात्परं बभूवेति । कवेरस्य अनन्ताम्मा श्रीवेङ्कटेशश्च पितरौ । द्राविडजातीय एवाय भवेदिति तदीयबिरुदावल्या तन्नाम्ना चानुमीयते । ग्रन्थोऽयं समरपुगवदीक्षितेन वस्य ज्येष्ठनातुस्तीर्थयात्रामधिकृत्य विरचित इति दक्षिणेषु तीर्थयात्राप्रबन्धनाम्नाप्यस्य प्रसिद्धिः । ग्रन्थस्यास्य पुस्तकमेकमध्यर्धसप्तमाश्वासपर्यन्त वर्गवासिभिः श्री- काशीनाथपरबमहोदयैः प्रेषितम् । अध्यर्धस्वप्तमाश्वासात् समाप्तिपर्यन्त मद्रपुरस्थराजकीयपुस्तकालयात् श्रीमता रावबहादुरपदविभूषिताना श्रीरङ्गाचार्यमहोदयानामनुज्ञया श्रीवरदाचार्यमहोदयैः प्रेषितमिति तयोः कृतज्ञाः स्मः । शेमुषीदोषादक्षरयोजकदोषाद्वा यदत्र स्खलितं स्यात्त- रक्षाम्यं श्रीमद्भिरिति शम् । केदारनाथशर्मा काव्यमालासपादकः ।

यात्राप्रबन्धस्य विषयक्रमः। प्रथम आश्वासे (पृ.१-१९ पृ) मङ्गलाचरणादिकम् , वटवनाभिधानाया राजधान्या वर्णनम् , तत्रत्य धर्मशि- वयोगिन खस्रा सह प्रन्थकर्तृजनकस्य श्रीवेङ्कटेशस्य परिणय । तस्या पुत्रप्रा. त्यर्थं शिवाराधनम् , विमुक्तिकासारस्नानम् , सूर्यस्तुति , कात्यायनीदर्शनम् , कात्यायनीस्तुति , द्विपास्यदर्शनम् , द्विपास्यस्तुति , नन्दिकेश्वरस्तुति , शिव. स्तुति , गौरीस्तुतिश्च । तत्प्रसादात् गर्भधारणं चेत्येते विषया । द्वितीय आश्वासे (पृ. २०-३२ पृ.) पुत्रोत्पत्ति , पुत्रस्य विद्याभ्यासादिकम् , पाणिग्रहणम् , सोदर्याभ्यां समरपु. वगसूर्यनारायणाभ्या सह श्रीमदप्पयदीक्षितसविधे विद्याभ्यासश्चेत्येते विषया । तृतीय आश्वासे (पृ. ३२-५७ पृ.) वसन्तवर्णनम् , तीर्थयात्रार्थ प्रस्थानम् , प्रथम काञ्चोपुरीगमनम् , काञ्ची पु. रीवर्णनम् , एकानेश्वरवर्णनम् , एकानेश्वरस्तुति , कामाक्षीस्तुति , विष्णुदर्श. नम् , विष्णुस्तुतिश्चेत्येते विषया । चतुर्थ आश्वासे (पृ.५७-७६ पृ.) सूर्योदयवर्णनम् , उद्यानवर्णनम् , सूर्यास्तमनवर्णनम् , चन्द्रोदयवर्णनम् , प्रसङ्गवशाडूतीप्रेषणम् , सभोगवर्णनम् , चेत्येते विषया । पञ्चम आश्वासे (पृ.७६-९३ पृ.) कावेरीवर्णनम् , सेतुवर्णनम् , सेतुस्तुति , गन्धमादनपर्वतीयशिवस्तुति , पाण्ड्यदेशगमनम् , तत्र हालास्यपुरे मीनाक्षीस्तुति , शिवस्तुति., ग्रन्थनायकस्य द्वितीय उद्वाहश्चेत्येते विषया.।

षष्ठ आश्वासे (पृ. ९४-१२४ पृ.) ग्रीष्मवर्णनम्, गयातीर्थगमनोपक्रम', मध्येमार्ग खामिकार्तिकस्तुतिः, माकन पावलोकनम्, वेङ्कटेशदर्शनम्, कालहस्तिपतिशिवस्तुति अम्बिकास्तुति., श्रीपर्व- तगमनम्, अहोबलपतिदर्शनम्, पुनश्चण्डीस्तुतिश्चेत्येते विषया । सप्तम आश्वासे (पृ. १२४-१४४ पृ.) गोकर्णगमनम्, कतिपयनदीवर्णनम्, तदनुषक्तकतिपयपुर्यादिवर्णनम्, मधुरा- पुरीस्थमुकुन्दस्तुति , गङ्गास्तुतिश्चेत्येते विषया । अष्टम आश्वासे (पृ. १४४-१६३ पृ.) केदारेश्वरदर्शनम्, बदर्याश्रमविलोकनम्, कामरूपकामाक्षीस्तुति , कपिलाश्र- मदर्शनम्, नीलगिरिगमनम्, तत्र जगन्नाथस्तुति , ततो गयाक्षेत्रगमनम्, ततश्च विविधतीर्थावगाहनानन्तर विन्ध्येश्वरीस्तुति , प्रयागे स्रोतखिनीत्रिकसमागम- स्तुति , साकेतगमनम्, तत्र रामभद्रस्तुतिश्चयेते विषयाः । नवम आश्वासे (पृ. १६३-१७६ पृ.) वाराणसीगमनम्, वाराणसीस्तुतिः, विश्वेशस्तुतिः, ईश्वरीस्तुतिः, ग्रन्थसमाप्ति- श्वेत्येते विषया.।

काव्यमाला।
श्रीसमरपुंगवदीक्षितविरचितो
यात्राप्रबन्धः।
प्रथम आश्वास ।
श्रियं स पुष्णातु वृषध्वजो मे जिगीषतो यस्य पुरानुपूर्वीम् ।
चक्रीभवद्भूधरचापसगी बाणोऽपि चक्री भवति म जैत्रः ॥ १॥
पौलोम्यर्पितपादुका चरणयोः पाणिस्फुरत्रिया
भारत्या पुरतो निवारितजना पद्माकरालम्बिनी ।
प्रक्रान्तस्तुतिरदिराजतनया प्राचीनवाचा गणै-
रायान्ती पतिमन्दिरं निजगृहादन्तर्मम द्योतताम् ॥ २ ॥
वामस्तनवलदाननमन्यकुचादानतरलहस्ताग्रम् ।
आत्मजमवलोकयतोः शिवयोरेकः स्मिताङ्कुरो जयति ॥ ३ ॥
विरलीभवद्विलोकनतरलीकृतगोपभीरुचैतन्यम् ।
करलीलया मुखार्पितमुरलीवादनपरं महः सेवे ॥ ४ ॥
आनन्दायास्तु कालिन्दी पुरः स्तान्मे सरखती।
निडुता जहुतनया रंहसा राशिमंहसाम् ॥ ५ ॥
काञ्चीमुखानि परमावधिकाशिकानि
पुण्यस्थलानि कतिचित्क्षितिभूषणानि ।
चारूणि योजयितुमग्रजसत्कथायां
कुर्वे मति गुणतताविव मौक्तिकानि ॥६॥

२
काव्यमाला।
देशिकस्य कृपया हि देहिनामापतन्ति पुरुषार्थसंपदः ।
तत्कथारसनिमज्जन विना मत्कृतेरनघता कथ भवेत् ॥ ७ ॥
कल्याणनिधिमाचार्यकटाक्षं किमिति स्तुमः ।
ईश्वराणां प्रसादोऽपि यस्यावसरमीक्षते ॥ ८॥
कालिदासकविमुख्यभारतीपारणाकृतिन एव पण्डिताः ।
भाषिते मम भजेयुरादरं खादुसेविन इवाम्लवस्तुनि ॥ ९ ॥
फाणिताञ्चितपयःसहोदरे गद्यपद्यमयकाव्यगुम्फने ।
चापल किमपि मे रसज्ञया खानुरूपमनयानुभूयते ॥ १० ॥
पद्येषु बाहुल्यमिह प्रबन्धे मितानि गद्यानि तु तावतापि ।
अस्येव लक्ष्मानुगमो रसज्ञैर्विच्छित्तिभेदाः परमीक्षणीया. ॥ ११ ॥
महाकविसरस्वती मधुरकाव्यनिर्वर्तने
प्रसन्नपदलिप्सया परमुखानि नापेक्षते ।
अलंकृति विधौ मणेरधिगमाय कि गाहते
भुव त्रिदशधाम वा भुजगराजसीमन्तिनी ॥ १२ ॥
अस्ति समस्तविध्यण्डरञ्जनोच्चण्डताण्डवोदञ्चितचरणकंजनखमयूख-
शशाङ्कोदयसकोचितभद्रकालीमुखनालीकस्य भ्रमणाटोपपर्यस्तजटाजूट-
गभस्तिझाटघटनाग्रेडिततडि पुञ्जपिञ्जरिम्णो डामरडमरुडात्कारप्रतिरवपू-
रितामरालयस्य भ्रमरालकानुरागसृमरापाङ्गभृङ्गास्वादितवदनारविन्दसौन्द-
यमकरन्दस्य चिरंतननर्तकशिखामणेरानर्तकभूमिरभूमिरापदामनेकलो-
काशयविभक्तरागाभिनिवेशविलासिनीकुचपीठमर्दकपीठमर्दकविटविदू-
षकजनावटवनाभिधाना राजधानी ।
यस्या वचःखादिमभिक्षुरिक्षुर्यानप्रशंसाकृत एव हंसाः।
वन्दी मुखस्येन्दुरणूदरीणामिन्दीवरश्रीनयनांशुबन्दी ॥ १३ ॥

यात्राप्रबन्धः। तत्र जयति विचित्रतरचरित्रातिशयसपत्राकृतात्रिमुखतपोधनानुभा- वःस्वभावविमलमनीषादर्शदर्शनीयषड्दर्शनीरहस्यः प्रशस्यतरप्रादेशन- यशोदेशिकान्तेवसदरविन्देशसुतमन्दारजलदचिन्तामणिः शैवागमजैवा- तृकोदयशैवालिनीपतिनैष्ठिकाचारप्रतिष्ठापनगरिष्ठापदानो मन्मथविजय- कर्मण्यपर इव पिनाकी धर्मशिवयोगी । व्यत्यास व्याससूनोविनिमयममराचार्यवर्यस्य वीप्सा पाराशर्यस्य मैत्रावरुणिगुणनिका धर्मसूनोर्विभाषाम् । प्रत्यादेश दधीचेः सनकपरिणति नामभेद मृकण्डो- स्तण्डोः पर्यायमत्रेयमकमिह सुधीधुर्यमाहुर्यमार्याः ॥ १४ ॥ कलानिधेरस्य विधोरिव श्रीः कापि स्वसा काञ्चनपेशलाङ्गी। श्रीवेङ्कटेशव्यपदेशभाजो वरस्य जाया हृदयगमासीत् ॥ १५॥ अस्याः किल रमणीमणेरपरगृहिणीसमाजदुरवापा गुणकलापास्तरु- णिमारम्भ एव जजृम्भिरे । तस्याश्चमणे विलम्बनमभूत्तन्व्या न दीनावने तारल्य दृशि नेन्द्रियेषु तनुता मध्ये न नित्योत्सवे । वामत्व ध्रुवि न प्रियानुसरणव्यापारलीलाविधौ काठिन्यं च कुचे न चेतसि कचे नाभाषणे वक्रिमा ॥१६॥ एना भरद्वाजकुलैकभूषामनन्तमाख्यामधिगम्य योषाम् । वाधूलवशप्रभवोऽनुरूपां सुधीमणिः सोऽयमवाप शोभाम् ॥१७॥ निरतिशयानुकूल्यनिष्ठागरिष्ठयोररुन्धतीवसिष्ठयोरिव परस्परानुभूति- सुभगभावबन्धमेदुरमनुपलम्भसरणिगोचरविप्रलम्भरसोदयमलघुविसम्भ- भरनिवारितरहस्यार्थनिगृहनमनिवेदितोपपादितहिताहितविधिप्रतिकार- मखिलगृहमेधिपरिषदननुकरणीयसांगत्यमनयोरजायतानुकूलदांपत्यम् ।

४
काव्यमाला।
नारीललाग्नश्चरितैरुदारैर्दूरीकृतखर्गसुखाभिलाषः ।
प्रज्ञाधिभूरेष पिनाकपाणेराज्ञा धिया कर्म समाचचार ॥१८॥
एष पुनरशेषधर्माचरणकर्मणि साचिव्यमाचरन्त्या नितान्तमसितेक्ष-
णया प्रतिक्षणमापादितमनःसभाजनः सदनवर्तनमेव सकलपुरुषार्थमव-
धारयन्कदापि न वाराणसीप्रभृतिसेवासु भावमाबबन्ध ।
सेयमविमुक्तरूपा श्रीपर्वतनिर्विशेषवक्षोजा ।
पुष्करमुखी न कस्यै बभूव कान्तस्य कामनासिद्धयै ॥ १९ ॥
तस्य च सुमेघस. प्रबोधतरङ्गिणीपतिकुरङ्गलाञ्छने वाग्छितवरप्रदान-
सतानशाखिनि मन्दाकिनीतरङ्गमालतीदामशेखरे सागरमेखलाशताङ्ग-
संचारकारिणि वारिधरमेचकांशुवास्तव्यकन्धरे सिन्धुरधूर्वहाजिननियूं-
ढचेलकर्मणि सहधर्मिणीविवर्तभेदशरीराधमनोहरे वनेरुहभवादिशस्त-
चरितस्तोमशालिनि केलीविटावलेपनिर्वापणनिरीक्षणे सरीसृपाभरणधा-
रिणि वरीयसि महसि गरीयसी भक्तिरभूत् ।
वेधःशौरी मुकुटचरणौ वीक्षितुं यस्य नालं
प्राप्तो युद्धे यदुपकरणीभावमेष प्रपञ्चः ।
यस्मिन्विश्वाधिक इति पदं याति विश्रान्तिमुद्रा
कण्ठेकालः स खलु भुवने कस्य न स्यादुपास्यः ॥ २०॥
मानं यस्य निवेदिताक्षिकमलो माहानुभाव्ये पुमा-
न्दातृत्वे वपुरर्घलाभसुखिता दाक्षायणी साक्षिणी ।
त्रातो दण्डधरान्मृकण्डतनुभूर्द्रष्टा दयागौरवे
सेव्यश्चन्द्रशिखामणिः स हि कृतश्रेयोभिलाषैर्जनैः ॥२१॥
सप्रदायसुगम निगमानां तं प्रपद्य तरुणेन्दुकिरीटम् ।
देवतान्तरगिरापि दरिद्रां भावयन्स जगती प्रजहर्ष ॥ २२ ॥

यात्राप्रबन्धः। तस्य च सदनान्तरे हृदन्तरालविहरदीशानमुकुटभूषामणीकृतसोद- र्यप्रीतिपरवशेव सरसिजालया चिरमुवास । कुमारिकावलोकनकुतूहल- समागतः कलशतरङ्गिणीपतिरिव तदीयशृङ्गिणीनां परिणाहमेदुरेषु पर- मूधःप्रकरेषु विरेजे पयोतिरेकः । तस्य तपखिजनभागधेयस्य दयावि- धेयमतेरधिनिकेतनमत्यादरोपनीतमभिजातगुणकरम्बितव्यञ्जनपरम्परा- ञ्चितमतिबहुलहैयगवीनधारानुषड्गसुरभिलं करनखपचस्पर्शकमनीयभाव- संभृतममृतरसातिशायिमाधुरी विशेषसंपन्नमनैषमस्त्यशाल्यमवनीमख- भुजो बुभुजिरे। भूसुरेषु गृहे तस्य भुञ्जानेषु न केवलम् । असख्यानमभूत्तेषामवस्थानदिनेष्वपि ॥ २३ ॥ महीसुरातिथ्यमहोत्सवेषु समेधमाने श्रमगौरवेऽपि । प्रभातपद्मप्रतिम प्रियाया मुख स पश्यन्मुमुदे मनीषी ॥२४॥ ऋतुभिरिहान्नदानविभवैरपि कन्दलितै- रनुदिवसोऽवक्लप्तविबुधावलितृप्तिविधेः । न खलु निकाममस्य हुतशेषमभूदमृत विघसपदाभिधेयमपि भोजनशेषमहो ॥ २५ ॥ उपासनामुक्तिरकृत्रिमेव प्रसूय कांचित्प्रथमं कुमारीम् । पुत्रोदये प्रत्ययजन्मनीव कुटुम्बिनी तस्य विलम्बते स्म ॥२६॥ अथ कदाचिदपरिणतमणिसमूहामिव रोहणमहीधरतटीम् , अज- नितपटीरसालामिव मलयशैलमेखलाम् , अपरिफुल्लरुचिरपल्लवामिव सुरविपिनवल्लरीम् , अनङ्कुरितपतङ्गकिरणजालामिव प्रभातवेलाम् , अन- धिगतकनकारविन्दामिव मन्दाकिनीम् , अनासादितसुधांशुबिम्बामिव जम्मारिककुभम् , अनवलप्तभाव्यनिर्वर्तनामिव यजनभावनाम् , अकि- , ६ काव्यमाला। भातव्यङ्ग्यामिव काव्यभङ्गीम् , अघटितसुखप्रकाशामिव ब्रह्मविद्याम्, अनासादितसमीरसारथिमेव वितानवेदिम् , अनुपनततनयजननामसि- तनयनामवेक्ष्य हृदयसरणिधृतव्यथः परिणीरिदमभाणीत् । आह्लादावहमञ्जन नयनयोरङ्गे सुधालेपन धैर्य चेतसि खेदनामनि गदे तत्तादृश भेषजम् । क्रीडापोतमिह प्रसूतिजलधौ गेहे प्रकाशोदय पुण्यैरायतलोचने परिणतैः पुत्र लभन्ते जनाः ॥ २७ ॥ उरोरुहादुद्गमितैः पयोभिरापूर्य केल्या निजमास्यगर्भम् । फूत्कृत्य मातुर्वदने हसन्त तनूभवं पश्यति कोऽपि धन्य. ॥२८॥ सप्तद्वीपवसुधराधिपतिना सक्रन्दनेनाथवा पाथोजातभवेन कैटभजिता पश्यन्निटालेन वा। पुंसा केनचिदन्तरेण भुवने पुत्राभिधान धनं शक्या कि द्रविणान्तरैर्निरसितु सा सपदि न्यूनता ॥ २९ ॥ कि बहुना । वाधूलवाचयमशैलवर्यात्सभूय सतानलता प्रवृद्धा । नवाकुरोद्भेदविलम्बिनीयं न साप्रत मे हृदय धिनोति ॥ ३० ॥ श्रीसनाथमपि मे निकेतनं बालकेन रहितं न भासते। कंसशासनभुजान्तरं यथा कौस्तुभेन मणिना विनाकृतम् ॥३१॥ रङ्गवल्लिरचनादि भवत्या प्रस्तुत किमपि पाणितलेन । अन्यथा विरचयन्पृथुको मे हा कदा भवतु लोचनलेयः ॥ ३२ ॥ अथवा हरिणाक्षि चिन्तया कृतयैतर्हि कृत दुरन्तया । विभुरेव विधास्यति प्रियं मदिराक्षीमयवामविग्रहः ॥ ३३ ॥ अद्यप्रभृति समाराध्यतां कुमारावतरणाय वटवनीनिकेतनो भगवा- न्वृषभकेतनः।

यात्राप्रबन्धः।
मृकण्डुनाम्ने मुनिपुंगवाय दीर्घायुषं दत्तवतस्तनूजम् ।
सपर्यया यस्य रमाकुटुम्बी साम्बेन लेभे सह शम्बरारिम् ॥ ३४॥
इति प्रियतमादेशमिन्दीवरविलोचना।
निशम्य परिजग्राह नियमाचरणक्रियाम् ॥ ३५ ॥
तथा हि । अहरहरियमवगाहनाय निर्गत्य निवासभवनादवनीवि-
लासमुकुरशेमुषीगोचरमरविन्दकरनिष्यन्दमानमकरन्दसलिलदानमन्दी-
कृतभसलपान्थकुलपरिश्रान्तिगौरव सरसबिसभङ्गभोजनसभाजितविशद-
द्विजपरिषदनुवेलपरिशीलित तरलतरपवनकीर्णतामरसपरागपालिकाने-
डितमज्जनागतनागरमत्तकाशिनीकुचकलशकुङ्कुमाङ्गरागमम्भोजसौधबि-
म्बोकलालसकलशजलधिकन्यकाजघनमेखलाकलापकलकलानुसारिसार-
सनिनादमेदुरम् , अन्तरङ्गमिव तरङ्गिणीपतेः, प्राणसहायमिव मानसस्य,
सोदर्यमिव पृथूदकस्य, पृथक्करणभेदमिव पुष्करस्य, विलास विशेषमिव
प्रभासस्य, बिम्बान्तरमिव पम्पाया, सगन्धमिव स्यमन्तपञ्चकस्य, साम-
न्तमिव बिन्दुसरसः, दुरन्तदुरितधोरणीनिवारणनिपुणशीकरासारमास-
साद विमुक्तिकासारम् ।
व्यालेन्द्रनिर्धार्यगभीरभावो विभाव्यते यः परिणाहशाली ।
त्रासादगस्त्यप्रभवात्कुतोऽपि तरङ्गमालीव निलीनमूर्तिः ॥ ३६ ।।
पयोमृणालीप्रमुखेन वर्तन वितन्वती भूतिविलेपनिर्मला ।
अनेहसो यापनकर्म यत्र सा तनोति हंसावनिरात्मचिन्तया ॥३॥
अस्तातप क्षितिरुहैरधिगम्य तीरं
यस्याध्वनीनसुदृशो दिनयौवनेषु ।
कान्तोपनीतमधिपत्रपुट नलिन्या
कहारकैरवसुगन्धि पयः पिबन्ति ॥ ३८ ॥

काव्यमाला। अथ तथात्वभवैरघसहतिग्रहनिवारणयन्त्रगणैरिव । उपनतावृतिरूर्मिकदम्बकैरकृत तत्र निमज्जनमङ्गना ॥ ३९ ॥ कल्लोलगतिभिरुल्लोलमम्बुजनिकुरुम्बमपहाय समुच्चरन्ती षट्चरण. पतिरखिलजनपावनजलावगाहनसुकृतभयपलायमाना कुमारोदयविघात- दुरक्षरावलिरिव मृगेक्षणायास्तत्क्षणमलक्ष्यत । कृतेऽपि कैवल्यसरोवगाहे पश्चादभूहन्धविधिर्ममेति । पयःकणव्याजविमुक्तबाष्पा स्नातोत्थिता सा कबरी बभार ॥ ४०॥ अनन्तरं सा हरिचन्दनाद्यैरक समभ्यर्च्य तटे सरस्या. । धरातलस्थापितजानुहस्ता स्तुत्यानया स्यूतमुखी ववन्दे ।। ४१॥ त्रय्यात्मा त्रिगुणमर्यास्त्रमूर्तिरूप. सृष्टिस्थित्यवधिकरो जगत्रयस्य । कालेषु त्रिषु विधिकल्पितोपचारस्तापाना सृजतु शम रविस्त्रयाणाम् ॥ ४२ यत्सत्ताव्यपगमयोरिहाखिलार्थप्रत्यक्षीकृतिपटिमा पटुत्वलाभः । भक्या मत्परिकलितेयमस्तु तस्यै देवाय त्रिभुवनचक्षुषे नमस्या ॥४३॥ घसान्ते धनतिमिरोदयापदेशादाकाशे निपतति सत्यवाप्तमोहान् । काल्ये तत्करनिकरैरुदस्यलोकान्भावन्त भजत पुनः प्रबोधयन्तम् ॥ ४४ नैराश्यादसुषु निजप्रवासरूढादालेढुं कमलकरोदरार्पितानि । व्याधूय भ्रमरविषाणि यः कराग्रैः प्रत्यूषे रमयति पद्मिनीस्तमीडे ॥ ४५॥ भारत्या धृतिमुषि भासि केऽपि लीनाः श्रीनीविद्रुहि महसीतरे निममाः। सक्तोऽयं जन इह तेजसि त्रिवेदीसीमन्तारुणमणिमण्डनायमाने॥४६॥ आलीभिरवनीदेवकेलीसहचरी ततः । कालीनिकेतनं भक्तिव्यालीढहृदया ययौ ॥ ४७ ॥ तत्र च नृशंसतरकसहृदन्तरालसताडनपाटलीकृतपदारविन्दा मधु- कैटभतमिस्रहारिविधुपाटवविशेषदानविशदपक्षविभावरी सैरिभदानवा- यात्राप्रबन्धः । ९ बलेपसरसिजावसादतुषारधारां शुम्भनिशुम्भदनुजकुम्भिनीधरविभेदनद- म्भोलिकेलिका निरवधिभुजप्रतापदीपशलभीकृतरक्तबीजपुरोगमदैत्याव- लिमलोकतकात्यायनीम् । निद्रा हरेरमरशक्तिनिकायमूर्ति- रङ्गादगेन्द्रजनुष कृतसन्निधाना । दुर्गेति पद्मनिलयेति सरस्वतीति शब्दैरनन्यविषयैरनुभूयते या ॥ ४८ ॥ प्रणिपत्य भगवती परमाणुमध्यमेयमित्यवादीत् । 'अविमृश्यकारिणी हरिणीदृशां प्रकृतिः' इति निरपवाद एष निखिलजनवादः । विश्वत्रयाशयविमोहनताण्डवेन केलीसखेन कृतविग्रहया भवत्या । विघ्ने विभाविनि तदात्व विकारजन्ये प्रस्ताबि महो बत साहसेन ॥ ४९ ॥ महिषदनुजेन्द्रमस्तकनृत्तभवा देवि निपुणता कि ते । नटनायकेन साक नाट्यविधाने ततान वैयात्यम् ॥ ५० ॥ अनन्तरमियमहरन्तविहरमाणखण्डपरशुताण्डवावलोकनसमयसमञ्ज- सादरोद्धाटयोर्मुञ्चिकेशकार्कोटयोराविष्कृतनमस्कृतिरदसीयसप्रदायपर म्परान्तेवासिनमनघचरितानुबन्धभासिन धर्मशिवदेशिकाभिधानमखिल- निर्ममजनप्रधान प्राणसीत् । पन्नग इव भयम भक्तिं भगवानिवेश्वरः साक्षात् । स्त्रीणा पितेव विनयं दर्शनमात्रेण यः स्मरविजेता ॥५१॥ तदनु तदनुमदगजगतिरवनिसुरयुवतिरियमचलपतिदुहितृसखभव- नमुखसदनविहितरतिमवनतपरिषदभिलषितफलवितरणसुरविपिनतरुमु-

काव्यमाला ।
रुकरटतटगलितमदलहरिपरिमलमिलदलिनिकरमुखरमतिविमलवमथुस-
मुदयकपटनटदुडुपटलविहितगगनपथमिभवदनमभजत ।
क्रीडाविधौ यः कलधौतशैले रन्ध्राणि दन्ताहतिभिस्तनोति ।
पौरस्त्यविश्लेशितसधिबन्धदााय शनिव दातुकामः ॥ ५२ ॥
द्विस्त्रेधा वक्रमम्भोरुहपरिहसनारम्भलोल प्रवाल-
नीलानिर्माणलीलाचतुरमपि करास्त्रिश्चतुर्धा वहन्ती ।
उत्तुङ्गे पश्चिमाझे मरकतसुषमागर्हिणो बर्हिणस्य
क्रीडामाभ्रेडयन्ती ततिरिह महसा कापि भेजे कृशाझ्या ॥५३॥
तदनु सुतनुरिय परिजनकरापवर्जितभाजनसलिलकृतचरणनिर्णेजना
निटिललोचनभवनकक्ष्यान्तरमुपेत्य दाक्षायणी यवाधिरोहणविधिपूततर-
मतितुङ्गशृङ्गभासुरमपरमिव रजतभूधरं महोक्षाधिराजमद्राक्षीत् ।
यदीयनासाविवरोपरूढप्रौढानिलावर्तजुषो भजन्ते ।
वातूलवेगाकुलतूलरीति सेवागतब्रह्मविमानहसाः ॥ ५४ ॥
क्लप्तानतिर्गिरिशशाकरयोरथाग्रे
भक्त्या प्रदक्षिणपरिक्रमणानि सापि ।
सा तन्वती तनयसभवकारणानि
विद्योतते स सुकृतानि विचिन्वतीव ॥ ५५॥
अथाभिधानान्तरमन्तकारेरन्त पुरद्वारि कृताधिकारम् ।
नाथं गणानां सुयशा सनाथ ननाम सा नन्दिनमानताङ्गी ॥५६॥
अजोऽहमीशोऽहमह मुरारिविज्ञापनीयो विभवे त्वयेति ।
याच्यावचो यं प्रति देवतानामुदेति सेवार्थमुपागतानाम् ॥ ५७ ॥

यात्राप्रबन्धः। अथ तदानीम् उर्व्या न्यस्यापसव्य चरणसरसिज सव्यमुत्क्षिप्य कुर्व- पाणि तस्योपरिष्टात्परिकलिततिरोबाहुविक्षेपशालि । त्वङ्गद्गङ्गातरङ्ग तरलतरजटाजूटरिजन्मृगाकं भ्राम्यद्भूषाभुजग पयसिरुहशादर्शि नृत्यन्नटेग ॥ ५८॥ दृष्ट्वा च तमष्टमूर्तिमादराविष्टमतिरवनतशिर स्पृष्टभूतला हरिणशा- वदृष्टिरभितुष्टाव । पञ्चायुधालम्बनवामभागं पायादिदं वस्तु भवाभिधानम् । वस्त्रे यदीये बलशासनाद्या दिवौकसश्चित्रदशामयन्ते ।। ५९ ॥ सोऽय मदीयाशयरगमध्ये सायनटस्ताण्डवमातनोतु । पदारविन्दाभरणे यदीये दधाति नीलोपलता मुरारि. ॥ ६० ॥ शीकरकणैरा न चेजित्वर- स्फीतालीकदृगर्चिषा कथमसौ चान्द्री कला जीविता । तत्ताहक्षफणीन्द्रपक्षमलविषज्वालावलि वा भवा- न्सोढा कि शिव कालकूटकलनापाण्डित्यमालम्ब्यते॥६१ ॥ अस्याङ्गिरम्भोजममुष्य बन्धु समुद्यतं चण्डकरं च जित्वा । तन्नन्दनं दण्डधरं जघान व्यथावहो विक्रमिणा विरोधः ।। ६२॥ चेतः कदाचिदपि मुञ्च न मुञ्जकेश- कार्कोटकवतिमन.कमलोदयार्कम् । चञ्चन्नखांशुशशिमुद्रितभद्रकाली- वाम्बुजं वटवनेशितुरविपद्मम् ।। ६३ ।। अनन्तरमसौ निरन्तरपरिष्क्रियमाणपश्यदलीकवामपार्धा कलधौत-

काव्यमाला।
भूधरावलम्बिनीमिव कादम्बिनीमगराजनन्दनामभिवन्ध वसुंधरासुरचको-
रलोचना वाचमेवमवोचत ।
निखिलचराचरपटलीनिर्माणमहेन्द्रजालशीलस्य ।
चण्डि शशिखण्डमौलेर्भवती शिखिपिञ्छमालिकां मन्ये ॥६४॥
छायेव चण्डधाम्ना ज्योत्स्नाकलिकासुधाकरेणेव ।
मणिना प्रभेव मातीव्यसि मिलितादरेन्दुचूडेन ॥६५॥
तीव्रतप स्फारदिने गतया पार्श्वस्थिति गिरीशस्य ।
हरकोपातपपीडा चित्तभुवः कालिके त्वया जहे ॥६६॥
प्रेजदपाङ्गितबाणा वेल्लवल्लिकामुकोपेता।
सेनेव चित्तयोनेरहृत विभोरङ्गमम्बिके भवती ॥ ६७॥
शिखरितनये भवत्या स्वीकृतमविचार्य पशुपतेरर्धम् ।
शिरसि तदूढसपत्नीचरणाहतिरम्ब न खलु सहनीया ॥ ६८॥
दुरक्षराणि द्रुहिणार्पितानि संमार्जयन्तीव सरोरुहाक्षी ।
भूतिं तदा पूजकले कदत्ता हस्तेन फाले खयमाततान ॥ ६९॥
आबद्धखेलनमथो निगमाटवीषु
रूपश्रिया हिमरुचेरपि लोभनीयम् ।
रंहोनिवारितरतीशगजावलेप
सिहोदरी शिवमसेवत देवसिहम् ॥ ७० ॥
समाचरितनमस्या मनस्येवमकरोत्सा
गङ्गानीरतरङ्गहारिशिरसे गेहीकृतच्छन्दसे
सध्यानर्तनसाक्षिलेखसदसे सत्यां नटच्चेतसे ।
तत्तादृग्गरलान्धसे निटिलहग्दग्धाङ्गजातैघसे
सिद्धश्रेणिशिखाहताङ्घिरजसे सेयं नतिस्तेजसे ॥ ७१ ॥

यात्राप्रबन्धः।
अथ कमपि सा जटाल हीरच्छायालमिन्दुचूडालम् ।
श्रितवटमूलमविद्याजृम्भणमूर्छालभेषज भेजे ॥ ७२ ॥
नानाशाखाविवृतमहिमा नाटितश्रान्तहर्षों
मौनालम्बी प्रविततजटामण्डलोदारपार्श्वः ।
न्यग्रोधोऽयं विलसति वियन्निम्नगासङ्गिमूर्धा
प्रत्यासत्तेरिव पशुपतेः प्राप्य सारूप्यलक्ष्मीम् ।। ७३ ।।
विश्वोन्मेषप्रभृतिरचनां व्यापरीत धुरीणै-
राधैर्विद्यागुरुभिरभितो भूषितान्तेवसद्भिः ।
धन्यामाशामभिमुखतया तन्वती कुम्भयोने-
रीशस्याव्यादिह वटतले भद्रपीठासिका माम् ॥ ७४ ।।
अध्यासीना वटतरुतल हासदिग्धारुणोष्ठी
शार्दूलस्य त्वचमधिकटि श्लाघनीया वसाना ।
बढेणाङ्का शिरसि दधती पाणिना बोधमुद्रा
कण्ठे श्यामा जयति करुणा कापि पश्यन्निटाला ॥५॥
अङ्कस्थायाः किमपि वलता हैमवत्याः कुचाग्रे
व्याचक्षाणं मदननिगमान्वामहस्ताम्बुजेन ।
अन्येनार्थानकृतकगिरामञ्चता बोधमुद्रा-
मेक्षे साक्षादखिलजगतामीशमाद्य गुरूणाम् ॥ ७६ ॥
साक्षात्कृत्य श्रवणमननोपासनाभिर्भवन्तं
द्रक्ष्यन्त्यन्यत्किमिह यमिनस्तावकीनोपदेशः ।
चिन्तारूढां शिव तव चिदानन्दसत्तादिरूपा-
माकाशाख्यामखिलजननीमद्रिजामन्तरेण ॥ ७७ ॥

काव्यमाला।
मोहातीतस्त्वमिह भगवन्मूर्तिमास्थाय तां तां
वेलालचिव्यवहृतिरतो मूढवन्नानटीषि ।
आत्मत्राणं भवजलनिधेरात्मनैव प्रणेतु
वाटे मूले वससि यदिय भाति ते कापि लीला ॥ ७८॥
दूरीकर्तु प्रभवति तवोपासनैव प्रजाना-
मेनोराशीनिति पशुपते वक्ति वाणी पुराणी ।
ध्वस्ताहयुद्धहिण वदनम्त्व वटद्रोरधस्ता-
दात किवा सृजसि भगवन्नीदृशीमात्मचिन्ताम् ।। ७९ ॥
शान्तेरेक सदनममृतासारशीत प्रकृत्या
हन्तेदानी भवति भवतो रूपमालोकनीयम् ।
ब्रह्माण्डाना प्रसभकवलीकारकाले तु तस्मि-
न्द्रष्टु दृष्ट्या त्रिनयन भवानेव शक्तो भवन्तम् ।। ८० ॥
बिम्बोष्ठीनामिव बहुविधाकूतपारिप्लवाना-
मात्मायत्तीकरणधुटिकापड्लिमानायवाचाम् ।
पाणेरस्य प्रसव कलिकां पल्लवस्य स्मरारे
स्तौमि ज्योतीरसमणिकृता तावकीमक्षमालाम् ॥ ८१ ॥
पाणिच्छायाततिभिररुणा स्फाटिकीनाक्षमाला
बीजश्रेणी परिणतिमती दाडिमस्येयमास्ते ।
चिन्मुद्रैषा शिव तव समादाय तत्रैकमेक
हस्तोपान्तस्थितशुकमुखेष्वर्पयन्तीव भाति ॥ ८२ ॥
प्रज्ञावल्लीपरिणतिकृते भक्तिबीजव्रजानां
पुष्यन्तीव व्रतिजनमनोभूमिषु न्यासलीलाम् ।
अर्थान्दातुं समभिलषितानाददानेव मह्यं
भावत्कीय त्रिभुवनगुरो भासते बोधमुद्रा ॥ ८३ ॥

यात्राप्रबन्धः।
पाठीनाङ्कप्रमथन विधिप्रेष्ठ गीर्वाणमध्ये
सद्योजात सकलनिगमाः सगिरन्ते भवन्तम् ।
सत्यप्येव कथमिव पुनः साधवस्त्वामजातं
निश्चित्यैक निरवधिभवक्लेशभीत्या भजन्ते ॥ ८४ ॥
दारान्बन्धूनपि तनुभुवस्तावकीनैर्वचोभि.
सन्तस्त्यक्त्वा सकलमपरावृत्तयः कापि यान्ति ।
कृत्वा कण्ठे गरलमलघुव्याहृतोदारसूक्तै-
विन्दन्त्येते न खलु भवतो विप्रलम्भ पुरारे ॥ ८५ ॥
विश्वस्य वेषविवृताममिता विरक्ति
पार्श्व तपखिजनता भजते गुरोस्ते ।
त्वं दक्षिणाभिमुखतामुपदेशकाले
पुष्णासि चे पुररिपो किमिय विधत्ताम् ॥ ८६ ॥
विलसति वटाले व्यञ्जितज्ञानमुद्रा-
मतिशयरमणायामासिकामादधाना ।
अनिशमुपदिशन्ती योगिनामागमार्था-
न्दरहिमकरचूडा देवता सावतान्माम् ॥ ८७ ॥
ओमित्यक्षरलक्ष्यमैन्दवकलामाबिभ्रतं मौलिना
नद्या कल्पितशेखरं मरकतच्छाया दधानं गले ।
क्लींकारार्थविद शिलीमुखपदन्यस्तारविन्देक्षणं
वास स्थानकृताजिन यतिमनःसौधस्थमीशं भजे ॥ ८८ ॥
कमपि जटालंकरण मुक्तेर्वटमूलमणितटालंकरणम् ।
श्रयत महासमयानां जनकं निगमागमेतिहासमयानाम् ॥ ८९ ॥

काव्यमाला। नियतवचा रुद्राक्षस्रगलकरणो गुणास्तचारुद्राक्षः । आर्तसमाजपवटभागवतु गुरुय॑स्य हिमसमा जपवटभा ॥ ९० ॥ महती काचिन्मुद्रा करगतरुद्राक्षमालिकाचिन्मुद्रा । निगमादिव्याख्यानस्वातन्त्र्यवती पुनातु दिव्याख्या नः ॥ ९१ ।। पुररिपवे भसितेन स्फुरता लिप्ताय वासवेभसितेन । घटजन्माशास्याय क्रियता प्रणतिर्महत्तराशास्याय ॥ ९२ ।। शान्त्या परमो दान्तः स गुरुर्जगतां चकास्ति परमोदान्तः । शाम्यति तापः स्मारं सारं चरतां यमर्दितापस्मारम् ॥ ९३ ।। अञ्चितहासाननया रक्षन्त्या जातजनिजिहासाननया । अस्मि भृश पावन्या धन्या कृपया जटास्तशम्पावन्या ॥ ९४ ॥ पावनपादपरागः फलघटनधृताक्षकल्पपादपरागः । इह महसामतिरेकः क्रीडति हृतनम्रतापसामतिरेकः ॥ ९५ ॥ स्मरभेदि प्रकटाक्षत्रगुपेतकरः प्रसाददप्रकटाक्षः । जगदधिक पाति शयस्थायि सुधागुण्डिकोऽनुकम्पातिशयः ॥९६॥ जननरुजातापघनश्रेणिशरण्यः सुधाभिजातापनः । खदते मायातीतः शिव एव वरोरुचित्तमायातीतः ॥ ९७ ॥ एष महीयानवतात्रिपुरं जिग्ये यतो महीयानवता । यस्य च पञ्चाक्षरतस्तरति भयं विषयसप्रपञ्चाक्षरतः ॥ ९८ ॥ मिलदुमया देवतया जितमधिकसहक्कथालया देवतया । सृजति च सेवनमस्या द्युसदामखिलापि धृतरसेव नमस्या ॥९९॥ इति सभावयामास नुतिगुम्फामृतैरियम् । दक्षिणाभिमुखं दीनरक्षणे रसिकं महः ।। १०० ॥

यात्राप्रबन्धः। १७ चण्डेशमानस्य ततस्तदने चकार तन्वी करतालशब्दान् । विवासयन्तीव वृषाङ्कभक्तिशालिद्रुहो दुष्कृतपक्षिसङ्घान् ॥ १०१॥ सा मण्डपे शैलभुवो मुहूर्तमतिष्ठदीशानमनुस्मरन्ती । पुरारिससेवनपुण्यभारैरासादितैः स्पन्दितुमक्षमेव ॥ १०२ ॥ तदनु मदनाभियातिसदनादधिगम्य निजनिकेतनमनुमेयमध्यमा सकलभूतसमुदायामोदसमर्पणकोविदमतिमात्रविशदगोत्रैकमण्डनमकु- ण्ठतरवृषप्रचारमात्मनेतरमपरमिव ताराधिपशेखरमाराधयामास । इत्यादिनियमवातविध्याहितमहोत्सवा । दिनानि कतिचित्साध्वी निनाय निमिषं यथा ॥ १०३ ।। अथ कदाचिदखिलजनतापातिरेकसमापादनदुरितपरिणतेरिव परि- क्षीणतामुपेयुषि वासरायुषि, नवकुसुमसभृतकमलिनीपरिरम्भजन्मनो दु- प्कृतस्येव निष्कृति विधातुमाचरति चरमसिन्धुसलिलावगाहनमरविन्दि- नीपतौ, रविपतनवेगदूरापसृतनीरवाराकरोदरकुरुविन्दकिरणसदोह इव वरुणहरिदन्तरालमुपरुन्धति सध्यारागे, संध्यानलकीलचुम्बितव्योमाटवी- धूम इव धरणीमण्डलमवकुण्ठयति तिमिरषण्डभावितेजःप्ररोहपटल इव समुन्मीलति दीपिकाजाले, नटनकेलीविहितोद्यमरजनीनर्तकविमुक्तपु- ष्पाञ्जलिनिकर इव गगनमञ्चति तारकापुञ्जे, सकलदिक्चक्रवालसमाक्र- मशीलतमिस्रकोपादिव पाटलवपुषि विजृम्भमाणे विभावरीकुटुम्बिनीब- हुलान्धकारपरिपन्थिविजयवीततन्द्रस्य चन्द्रमसो यशवृन्द इव भुवनमा- नन्दयति मरीचिकन्दले, प्रयातैकयामायां त्रियामायामासादितनिद्रारसा- नुभूतौ परिणेतरि तदीयपदसदेश एव पतिदेवतेयमाशयनिवेशितप- श्यदलीकचरणा सुष्वाप । या० प्र०२

काव्यमाला।
द्विगुणीकृतदोलतोपधाना तरुणी स्थण्डिल एव सा शयाना ।
निजनेतरि निद्रयोपगूढे विदधानेव रुष तदा व्यलासीत् ।। १०४ ॥
ततस्त्रियामासमये तरुण्याः पुण्येन साकं परिपाकभाजि ।
अगेन्द्रकन्यापरिणीरमुष्याः खप्ने खयं लोचनगोचरोऽभूत् ॥ १०५॥
उच्चावचानां जगतामुपरि स्थितिमानपि ।
भद्रासनवरं किचिदध्यासीनः सहोमया ॥ १०६ ॥
मौलिमन्विच्छतो वक्रान्मरालस्य परिच्युतम् ।
मृणालवलय तत्र मृगाङ्कच्छद्मना वहन् ॥ १०७॥
संबिभ्रदलिके किचिच्चञ्चदग्निशिखाङ्कुरम् ।
वतंसेन्दुसुधालोभवलजिह्वमिवेक्षणम् ॥ १०८ ॥
कात्यायनीमुखाम्भोजनेत्रोत्पलविकासिकैः।
आलोकै. प्रकटीकुर्वन्नक्ष्णोरकेंन्दुरूपताम् ॥ १०९॥
सहजक्ष्वेलसौहार्दादधिगत्य गलान्तरम् ।
निःसरन्तीमिव सुधा दधानः स्मितचन्द्रिकाम् ॥ ११० ॥
केलीपरवशां मूर्ध्नि गङ्गामसहमानया।
कण्ठे गाढमिव श्लिष्ट. कलिन्दगिरिकन्यया ॥ १११ ॥
कस्तूरिकाभिरालिप्य कधरामितराङ्गके ।
परागैरिव कापूरैः परितृप्तानुलेपनः ॥ ११२ ॥
मनोवागपरिच्छेद्यमहिनि स्वस्य तादृशे ।
विश्वविस्रम्भणायेव तन्वन्परशुधारणम् ॥ ११३ ॥
द्वीपिचर्माम्बरालोकत्रासेन मुकुटीविधोः।
निष्क्रान्तमिव सारङ्गमुद्रीव धारयन्करे ॥ ११४ ॥
आगतं गिरिजोत्सङ्गादके कृत्वा षडाननम् ।
कराकृष्टजटाजूटखण्डेन्दुमुपलालयन् ॥ ११५ ॥

यात्राप्रबन्धः। १९ विततार विभूषणाहिमौलेर्मणिमादाय मृडस्तदा नतागौ । सुरनाथदिशे सुमेरुपादिहरारम्भ इवारविन्दबन्धुम् ॥ ११६ ।। तादात्विकीभिः प्रमदातिरेकतरङ्गिणीवीचिपरम्पराभिः। नीतेव कुत्रापि सुमध्यमाया निद्रा सहैव क्षपया व्यरंसीत् ॥ ११७ ॥ तथा हि । भूषामणि दत्तवतः पुरारेश्चूडामणौ स्वार्पणशङ्कयेव । शनैर्गलत्यम्बरतो जहास प्राचीदिशा पाण्डुरिमापदेशात् ।। ११८ ॥ घनकज्जलकर्दमापदेशान्मलिना मन्दिरदीपवर्तिरासीत् । प्रमथाधिपतिं विहाय देवं प्रतिभेव श्रितदेवतान्तराणाम् ॥ ११९ ॥ दिशि सांध्यरागमपदिश्य हरेः समये समेधयति वह्निशिखाम् । भयसवृता प्रतिदिशं सपदि व्यघटन्त सतमसगन्धगजाः ॥ १२० ॥ अभ्यस्य ताराकपटाक्षराणा पति विहायःफलकाधिरूढाम् । वर्णान्तरन्यासकृते ममार्ज कालाभिधानः किल कोऽपि बालः १२१॥ क्षणदाया प्रयातायामपि तस्या मृगीदृशः । सा दिनारम्भवेलैव क्षणदा समवर्तत ॥ १२२ ।। अनन्तरमरविन्दलोचना सरयमुत्थाय समाचरिततीर्थाभिषेचनविधि- रपर्णासखवितीर्णमणिसदृक्षतामिव परीक्षितु प्रभातसमयवणिजा विभा- वितमम्बरमणि प्रणिपत्य कृतकर्तव्यकलापा खापावसरविलोकितशोभ- नोदन्तभाषणैः प्राणबन्धुमानन्दयामास । प्रासादमासेदुषि नीलकन्धरे दुरन्तसतापभिदाधुरंधरे । दधार गर्ने तनयं घरेव सा करीरमत्युन्नतवंशवृद्धये ॥ १२३ ॥ इति श्रीसमरपुंगवस्य कृतौ यात्राप्रबन्धचम्पूकाव्ये प्रथम आश्वास ।

काव्यमाला। द्वितीय आश्वास । दिनेषु यातेषु ततोऽमितेषु पचेलिमे तादृशि भागधाये । वामालका व्यक्तमुवाह गर्भ निधानमम्भोनिधिमेखलेव ॥१॥ सा कृशाङ्गी शरीरेण शरकाण्डविपाण्डुना । अत्यशेत दिशं प्राचीमत्यासन्नविधूदयाम् ॥ २॥ आह्लादकारिण्यखिलप्रजाना जैवातृके जग्मुषि गर्भसीमाम् । प्रत्यग्रलोध्रप्रसवाभिराममवाप सा रूपमपश्चिमेव ॥ ३ ॥ उदरे किमप्यमृतमुत्पलेक्षणा तपसार्जित तनयनाम बिभ्रती । अतिसौहितीमधिगतेव भोजने बिभराबभूव विगतादरं मन. ॥ ४॥ धृत्वान्ववायाभरणा खगर्भे दधौ न सा प्रागिव मण्डनानि । आसक्तिरर्थेषु शरीरभाजा विशिष्टवस्त्वन्तरलम्भनान्ता ॥ ५॥ हन्त मध्यमपरिष्करणार्ह वंशरत्नवरभूषितमासीत् । इत्यसोढवदिवाजनि तस्याः श्यामिकाञ्चितमुख स्तनयुग्मम् ॥ ६॥ कुलाङ्कुरादर्शनखेदजन्मा वामभ्रुवो वक्रविवर्णभावः । गर्भोदयामोदभुवः प्रसादादीतो नु भेजे कुचभूधराग्रम् ॥ ७ ॥ साधयिन्खेदमिथ्यात्वमर्दयन्मध्यशून्यताम् । अभको गर्भगस्तस्या निर्ममे समदाद्वयम् ॥ ८ ॥ कार्य जहौ गर्भगते कुमारे वलनमस्या इति किं विचित्रम् । समृद्धिमाधातुमकिचनेषु संतानशाखीव स हि प्रवीणः॥ ९ ॥ अल्पानामपि च महत्त्वमाशु दातुं सर्वेषा प्रकटयितुं च सूक्ष्ममर्थम् । निष्णातं पृथुकमवोचदस्य योगाचन्मध्यो धृतमहिमप्रकाशभावः॥१०॥ १. 'माशा' इति पाठ

यात्राप्रबन्धः।
२१
वामध्रुवो मध्यवलित्रयाभ्या किं व्यत्ययेन खगुणौ दुधाते ।
आद्यं यदत्राजनि दर्शनीय परं तु वीक्षापदवीमहासीत् ॥ ११ ॥
विद्यानिधाने सविधं विभूषयति तादृशे ।
अतिहर्षादिव जहाँ नाभिरस्या गभीरताम् ॥ १२ ॥
भक्तिमात्मनि विधास्यतः शिशोः पालनाय परमभ्रगङ्गया ।
स्थापितेव यमुना तदन्तिके रोमराजिरकुचन्मृगीदृशः ॥ १३ ॥
विरलाभरण विपाण्डवक्र त्रिवलीभगदरिद्रमध्यभागम् ।
मलिनीकृतचूचुक मृगाक्ष्या वपुरासेचनक बभूव भर्तुः ॥ १४ ॥
जठरविहरमाणमाणवगुणानुसारिः परमाणुमध्यमाया बभूवुरध्य-
वसायाः।
व्याहतु मृदुलाक्षरामपि गिरं वैक्लव्यमुद्रावती
साटोप विवरीतुमैहत वधूः सर्वाणि शास्त्राण्यपि ।
रूढाशक्तिभरापि चत्वरगतिक्रीडासु वाराणसी-
पूर्वाणि स्पृहयाचकार चरितु पुण्यानि तीर्थान्यहो ॥ १५॥
पाणिर्बभार किमपि प्रसवापचाये
ग्लानि द्वितीयकुसुमग्रहणेऽपि यस्याः ।
सा बिल्वपत्रनिकरैः खकरोपनीतै-
रीशानपूजनमियेष मुहुर्विधातुम् ॥ १६ ॥
किमगरागेषु परिष्क्रियासु वा तवेष्टमालीति घवेन सा रहः ।
कृतानुयोगा निजगाद काटितौ विभूतिरुद्राक्षमणी विलासिनी॥१७॥
प्रियमभिलषितोपहारशीलं निजहृदये नितरामधत्त साध्वी ।
उदरविहरदर्भकोपलम्भव्यतिकरलोभवशादिव प्रविष्टम् ॥१८॥

२२
काव्यमाला।
अथाध्युषितकेसरिण्यहिमभासि मेष गते
कलावति तुलाधरोदयमुपेयुषि खामिनि ।
खतुङ्गजुषि वाक्पतौ मकरभाजि मित्रात्मजे
शुभैकजनने दिने सुतमसूत शातोदरी ॥ १९ ॥
सिंहिकातनुभुवा सह योगः सांप्रतं मृगपतेरजनीति ।
स्पर्धमान इव पुत्रमुदारं प्रत्यपद्यत स पूरुषसिंहः ॥ २० ॥
तस्योदये दातुरवाप लाभ बुधो न तत्पुष्यति विस्मय नः ।
खयं कुजन्मापि धनाधिनाथो भूत्वा स रामामधिगम्य रेमे ॥ २१॥
विशङ्कय पृथुकात्ततो निजनिकारमास्ता तदा
कविः स्वभवने हरि शरणमेतु तेजोनिधिः ।
अजाश्रयणतत्परो भवतु स द्विजाधीश्वरः
कुलीरसदनान्तरं कथमसौ जगाहे गुरुः ॥ २२ ॥
निजहृदयकण्टकायमानकुमतमण्डलीसमुद्धरणनिपुणविद्वदवतरणा-
मोदसमासादितप्रसादशालिनीनामाशाविलासिनीना मुखसरोजनिःसृतो
निश्वासविसर इव सहजतुषारसौरभासारतुन्दिलो मन्दमन्दमस्पन्दत
गन्धवाहः ।
अथारविन्दोपममायताक्ष सुतानन सुन्दरमीक्षमाणा ।
तपांसि सर्वाणि तदात्वहर्षे प्रसूरपर्याप्ततमानि मेने ॥ २३ ॥
क्षणमीक्षणमुद्रणा तदानीं न विमुञ्चन्नयमको व्यलासीत् ।
निजसूतिविलम्बखेदिताया वदनं मातुरवेक्षितुं विलक्षः ॥ २४ ॥
सुकुमारपाटलकरं निजोदरादुदित वितीर्णजनलोचनोत्सवम् ।
अरुणं तमङ्कभुवि पङ्कजेक्षणा दधती पुरंदरदिशेव सा बभौ ॥ २५ ॥

यात्राप्रबन्धः।
निहिताः पुरतो निविष्टदीपा शुभयष्टीरपदिश्य सूतिगेहे ।
अभजन्फणिनो नु रत्नचूडा हरभूषाहिमणेरमु विवर्तम् ॥ २६ ॥
अथ तदानीमङ्कुरित इव मङ्गलावेदनकुतूहलमन्थरेतरपुरंथ्रिकुलस-
जल्पितैः, पल्लवित इव नानाविधदानविस्तारै , कोरकित इव विविधरा-
जयोगविभाजकसैद्धान्तिकलोकसूक्तावलिभि , फलित इव द्विजाशीर्व•
चोभिर्विशेषैरशेषमपि बन्धुजनमानन्दमनयत तनयोत्सव ।
गुरुरादरादथ कुमारमैक्षत प्रमथाधिनाथमिव बालताजुषम् ।
रुरुटङ्कसवहनरूढवासनाकृतमुष्टिबन्धविलसत्कराम्बुजम् ।। २७ ।।
प्रागेव कण्ठनिनदैः श्रवणाभिरामै-
रावेदितामथ विलोचनलोभनीयैः ।
आमेडितामवयवैरथ भाग्यवत्ता
निर्धार्य तस्य जनको नितरां ननन्द ॥ २८॥
स क्षोणीविबुधो मन्त्र रक्षोनिरसनक्षमैः ।
पूतजन्मभृतस्तस्य जातकर्मविधि व्यधात् ॥ २९ ॥
असौ पुनरवनीसुरकुमारको मुहुः समाराधयिष्यति मामिति हृष्य-
न्मना इव
दमुना हविर्ग्रहणकर्मणि तत्क्षणं प्रदक्षिणावर्तशिखः
प्रणनत ।
तस्य वाधूलसंतानतप समुदयाकृतेः ।
धर्माभिधानकरणापितृभ्यां दर्शितौचिती ॥ ३०॥
नसनायुधनर्मगेहमेतत्परिपाल्य भवतीति शाङ्गिणेव ।
वहति स निवेदित स धीरो हृदि पञ्चायुधभीषण मनोज्ञम् ॥ ३१ ॥
अमृत नभःसरित एव सूनवे दिशति स सा धृतमुरोजकुम्भयोः ।
स विहाय वारि सकल कथं भवेत्परथा तदेकभजने कृतादरः ॥३२॥

काव्यमाला। साधुसंघटितमुष्टिबन्धनं प्रत्यहाञ्चितपयोव्रतक्रियम् । आत्मसूनुमसकृत्प्रसूर्मुदा पश्यति स्म शिशुभावदीक्षितम् ॥ ३३ ॥ कलिना मलिनीकृता पदाभ्यामवनी स्पष्टुमवेक्षितु च दृष्ट्या । घृणया मुहुरुद्यतातिरासीदपि चोत्तानशयः स पूतजन्मा ॥ ३४ ॥ कुत्रापि धामनि कुलार्दिसुतासनाथे दृष्टि मुहुस्तरलतारहितां निधातुम् । अभ्यस्यतेव पटुताममुना व्यलोकि निष्पन्दपक्ष्मनयनेन निशि प्रदीपः ॥ ३५॥ मातृवल्लिकुचमञ्जरीभृता माकरन्दलहरी धयधयम् । पाणिपङ्कजवनीषु योषिता खेलनं व्यधित बालषट्पदः ॥ ३६ ॥ जनकः कृतजानुयानकेलि तनय वीक्ष्य तमादरोत्तरङ्गः । चतुरश्चरणान्निधाय धाव्या विहरन्त वृषमेव मन्वते स्म ॥ ३७॥ जानुद्वयीचङ्कमणक्रमेषु रत्नस्थलीलक्षितमात्मबिम्बम् । हस्तेन सताडयति स सोऽयमात्मीयसाम्यासह एव बुद्ध्या ॥ ३८॥ पञ्चषाण्यथ पदानि निधातुं प्रस्खलच्चरणपल्लवमेषः । प्रार]भन्नपरमस्फुटनीयद्वर्णवल्गुतरमप्यभिधातुम् ॥ ३९ ॥ अजनि खुरलीकेलिस्तीथाभिधावनकर्मणि त्रिचतुरपदन्यासक्रीडैव तस्य गृहागणे । फणितिरभवन्नान्दी स्पष्टेतराक्षार]मञ्जुला विबुधहृदयग्राहिव्याहारनाटकनिर्मितौ ॥ १०॥ तन्वीपयोधरपयःकणिका निपत्य तस्याभिरूप्यजलधेर्मुखशुक्तिकायाम् ।

यात्राप्रबन्धः।
मुग्धद्विजावरततिव्यपदेशशालि-
मुक्तात्मना परिणति किल बिभ्रते स्म ॥ ४१ ॥
तस्यालकप्रकरकुण्डलपद्मराग-
मन्दस्मितद्युतिभिरुन्मिषिता त्रिवेणीम् ।
पित्रोरजस्रमविगाह्य मनोविषाद
तत्याज ससृतिपथभ्रमणोपजातम् ॥ ४२ ॥
अयं पुनरवनिनिलिम्पशावक शुभसमयनियूंढचूडामङ्गलो निरङ्कु-
शविहारकेलिनिर्माणतरलमानस
समानवयःसनाथमाणवमनःसभाजन
खेलनापहृतगृहोपकरणायासितवामालकाजन वचनसीम्नातिलचितकुतू-
हलं कौमारमभजत ।
सध्रीचीनकुमारकैरभिवृतश्छात्रायमाणैः स्वय
शास्त्रव्याकरणाभिनीतिमकरोदारोपिताचार्यकः ।
काशीति त्रिदशापगेति कलयन्विश्वेश इत्यप्यसौ
केल्यामाकलयति स्म पासुषु पुरी शैवालिनीदेवताम् ॥४३॥
क्रीडां विधाय पृथुकैर्गृहमापतन्तं
क्लान्तं क्षमातलरजोभरदूषिताङ्गम् ।
आरोप्य वक्षसि कुमारममुं करेण
खिन्न तदीयवदनं जननी ममार्ज ॥ ४४ ॥
हरस्तुतीनां गुरुकीर्तितानामनूक्तिभिः प्रीणितया जनन्या ।
प्रदिष्टमिष्ट लभते स बालः सहैव गण्डस्थलचुम्बनेन ॥ ४५ ॥
कुशाग्रबोधो गुरुणा ततः सकृत्प्रकाशिता वर्णपरम्परामसौ।
मनोऽप्यनाविष्कृतमस्य किचिन्महीसुराग्रेसरसूनुरग्रहीत् ॥ ४६ ॥
पुनःपुनर्भूमितले स बालो वर्णावली विन्यसन व्यतानीत् ।
विधाय शके बहुधा परीक्षा पञ्चाक्षरीसग्रहणं प्रणेतुम् ॥ ४७ ॥

काव्यमाला।
अन्वितानि शुभस्पर्शेरन्तरूष्माञ्चितान्यपि ।
व्यञ्जनानि बटोर्जिह्वा सखरं समसेवत ।। ४८ ॥
तदनु निटिलेक्षणाभिधामुपदेक्ष्यमाणमन्त्राधिदेवतामिव विभावयितुं
कुबेरदिशामासेदुषि वासराधिपतौ भूसुरापत्यमिदमध्यापयितुमिव कला-
कलापमहाय सगृह्णति द्विजाधिराजे निजापचितिमागामिनीमिव परिग्र-
हीतुमाविष्कृतप्रकाशातिरेकेषु कविगुरुपुरोगेषु समागते च शिवताति-
दिने जनक एष कृपानिधिरेनमुपानयत ।
स निर्मलात्मा गुरुणा समाहित त्रयीनिदानं तदवाप्य वाङ्मयम् ।
अशोभत खैरमभीशुमालिना शशीव सचारितमशुमण्डलम् ॥ ४९॥
स यज्ञसूत्रच्छलतस्त्रयीमधान्मुखस्फुरन्मानसमावृतक्षमाम् ।
पराभिचारप्रतिपादनाविला मृषेतरोक्तिं च मृगत्वचो मिषात् ॥ ५० ॥
तत्तादृशी गामिव तातदत्ता पातु नियन्तु च स बालवर्णी ।
पाणौ दधाति स्म पलाशदण्ड मौञ्जी कटीसीमनि मेखला च ॥५१॥
शशिपाण्डरेण समिदग्निभस्मना विहितास्त्रिपुण्ड्रविततीरयं प्रति ।
प्रथमागमे गिरिशभक्तिसंपदो रचिता इवाप(ह)रत रङ्गवल्लिकाः ॥५२॥
कल्लोलिताद्भजनकर्म विलम्बनेन
कोपादिव प्रकटगुम्फितशोणभावे ।
सप्रीणयन्निव मुहुश्चरणारविन्दे
पित्रोवन्दत कृती प्रवदन्निजाख्याम् ॥ ५३ ।।
उपसग्रहणच्छलादसौ युगलेनात्मकरारविन्दयो ।
खकृते बहुतीर्थचारिणी किमु पित्रोः समवाहयत्पदे ॥ ५४ ॥
द्राधिष्ठमायुस्तनये निधातु प्रकाममिच्छाभरितेन पित्रा ।
अस्य प्लुतालकृतिमौलि नाम प्रायुज्यत प्रत्यभिवादनेषु ॥ ५५ ॥

यात्राप्रबन्धः।
२७.
समाश्रितस्वाभिसरोजनावं कुमारमेन गुरुकर्णधारः ।
प्राचीनवाणीकुहनापयोधेः पारं मितैरेव दिनैरनैषीत् ॥ ५६ ॥
वाक्यैर्विवृण्वती भाव वल्गुखरपदक्रमैः ।
कण्ठमेतस्य सुदृढ कान्तेव श्रुतिरग्रहीत् ॥ ५७ ॥
अपि च अस्य निपुणदेशिकोपदेशसलिलविमलीकृतमतिरहिराजव-
चनकुटजाटवीनवजीमूतमालिकां साहित्यवाहिनीपतिशीतद्युति कौमा-
रिलवचोरसालकुसुमाकरश्रिय निगमान्तकुमुदिनीधवदिवसान्तसमयल.
क्ष्मीमक्षचरणपक्षराजीवतापनरोचिश्छटा प्रौढिमाढौकत ।
कविवाचस्पतिबुधा कलयापि न तत्समाः।
मूढता मुहुरेतेषामापतत्यनियन्त्रणा ॥ ५८ ॥
निःसीमपश्यन्निटिलानुभावप्रकाशन प्रत्युपकारयन्ती ।
खशीलिन. सततमस्य मोद वेदादिविद्याविततिय॑तानीत् ॥ ५९॥
अस्य पुनरभ्यस्यतः कला गुरुतर्कनिवासजनुषमुरुतरक्लेशमसहमान
इव शनैः शनैरपसरति शैशवे सकलकलाधिकारसहकारिबालतापनोद-
परिणतं क्रोधमपनेतुकाम इव कामरिपुचरणपरिचरणोपकरणाना करणा-
नामतिनिपुणिमानमुपपादयन्नवतरुणिमा वपुरसोढकुसुमायुधमसेवत ।
खभजनोचितवस्तुविवेचनं समभिलष्य किमस्य विलोचने ।
श्रवणयोरवकर्णितशास्त्रयोः सविधभूमिमभूषयतामुभे ॥ ६० ॥
कलितस्पृहमेव कालकण्ठस्थितिपर्याप्ततमावकाशभावे ।
अदसीयहृदन्तरालमासीत्परिणाहातिशयप्रणीतशोभम् ॥ ६१ ॥
बालोऽयमाजानुविलम्बिबाहुरालोकि लोकैरतिरूपशाली ।
आराधनैः प्रीणनमात्मशत्रोः कर्तु क्षितौ काम इवावतीर्णः ॥१२॥

काव्यमाला।
तदनु द्विजकन्याया धन्यायाः सदृशैर्गुणैः ।
सतानसपदे तेन पाणिमग्राहयत्पिता ।। ६३ ।।
पार्श्वभूषा भवानीव पद्मेव हृदयगमा ।
सरस्वतीव सा मुख्या भर्तुरासीत्पतिव्रता ॥ ६४ ॥
अजायत तयाक्रान्तममुष्य हृदयं तथा ।
यथान्तरं न विन्देरनीषदप्यन्ययोषितः ॥ ६५॥
शुभलक्षणशोभिन्या भावनापरिशुद्धया ।
पुरंध्या सोऽरुचद्वेदः पूर्वमीमासया यथा ॥ ६६ ॥
अहो महीसुरभुवो महाभागस्य भागधेयपरिपाकः, यदेष मदनगज.
राजमदभेषजे रजोभरविजृम्भमाणमातरिश्वनि विषयमृगतृष्णिकाजलवि.
भावनोष्णसमये तमोविकारसपादननिशावतारसपदि कुपथावगाहघटन-
हरिन्मोहगौरवे पटुतरविवेकिशाखिपाटनविधानहस्तिनि तत्तादृशि वयसि
वर्तमानोऽपि भगवति मृगाकशेखरे समनोनदीललामनि सुदतीमयार्ध-
विग्रहे महती भक्तिरजनि ।
चन्द्रमसि चन्दनतरौ सुदृगाश्लेषे सुधांशुभूषे च ।
स्निह्यति न कस्य चेतः कठोरसतापकन्दलीहरणे ॥ ६७ ॥
अनूढभसितो मन्त्रैरशीलितषडक्षरः ।
अपूजितपुरारातिरभुत न कदाप्यसौ ॥ ६८ ॥
आगामिनामङ्गजवैरिमेघे हृदम्बरालम्बिनि हर्षवृष्यै ।
पौषैकहेतुं पुलकाङ्कुराणामभूषयद्गात्रमसौ विभूत्या ॥ ६९ ।।
नदी महोक्षं शिशिराशुरेखां वाताशनेन्द्रं यजन च भूतैः ।
वाञ्छन्स पञ्चाक्षरमन्त्रलक्ष्यादाचष्ट तद्वाचि पदादिवर्णान् ॥ ७० ॥
शंभोरजस्रं जलगन्धपुष्पैराप्लावनालेपनमण्डनानि ।
आत्मीयतापत्रितयापनीतिं विधातुकामः स कथं व्यतानीत् ॥७१॥

यात्राप्रबन्धः। २९. अन्नमर्पितमगात्मजापतेरस्तुतं प्रतिनिलिम्पभोजनम् । अद्भुतं तदनिवेदित त्वभूदोदनोऽयममुनैव सेवित ॥ ७२ ।। सरिद्वतंसस्य जलाभिषेको बालेन्दुमौले. प्रसवोपहारः । स्थारिक मुदे तस्य कृते मयेति समादि(घि)दम्भादकरोत्स चिन्ताम् ७३ भक्तेषु प्रमथपतेः पदार्चनाया पर्याप्त बलिसुतमेष मन्यते स्म । पौलोमीपरिवृढमुत्सवावलोके व्यालेन्दु विविधगुणप्रशंसनेषु ॥ ७४ ।। चेतोनिविष्टस्य सिताशुमौले. परिच्युतं मौलिपदात्खगर्ने । प्रालेयधामानमदच्छ(श्छ)लेन प्रासूत धन्या भवन कु(क)लानाम् ॥७५॥ अनिशं गिरिशातिवादशील परमेष्ठी किममु प्रणेतुकामः । अपदिश्य घटीभवादिसर्गान्पठिमाभ्यासविधि परं वितेने ॥ ७६ ॥ किमेष नन्दी शिवधर्मवक्ता कि वा कुमारः श्रितनीलकण्ठः । आहो मुरारि कृतदृष्टिरीशे पार्थोऽथवा पाशुपताभिमानी ॥ ७७ ॥ एवमुत्प्रेक्ष्यत जनैरेधमानकुतूहलैः । बाल एवं परा कोटि शिवभक्तेः श्रयन्नयम् ॥ ७८ ॥ अपि सकलार्थविदोऽभूदर्थत्रयमेव चिन्तनीय मनसि । मोहोच्चाटनमूलिका तनुभृता मुक्त्यगना कारणा दूती भाग्यवतामधर्मकलमस्तोमावसादस्थली । लीलाताण्डवशालिका पशुपतेर्लक्ष्मीमणीपेटिका कस्मिञ्जन्मनि लोचनातिथिदशा गाहेत वाराणसी ॥ ७९ ॥ कैवल्यामृतकन्दली वसुमतीकान्ताप्रसूनस्रजं मौलिक्षौमपटी हरस्य हिमवन्मातङ्गशुण्डालताम् । खर्गारोहणमार्गमौक्तिकशिलासोपानपारम्परी भाग्यैरभ्यधिका जना भगवती पश्यन्ति भागीरथीम् ।। ८० ॥

काव्यमाला।
सुखनिधिमपहृत्य मायया स्वयमतिसनिहितोऽप्यलक्षित।
सुकृतिभिरधिकाशि गृह्यते श्रुतिकथितः स हि तस्कराग्रणीः ॥ ८१ ॥
अकथयच्च सच्छात्रान् ।
तीर्थावगाहस्थितिकल्पनायामर्चाविधौ वा यदि वोऽभिलाषः ।
नदीषु गङ्गी नगरीषु काशी देवेषु विश्वेश्वरमाश्रयध्वम् ।। ८२ ॥
जिज्ञासवे श्रुतिशिरोनिकरान्प्रवक्तु-
मादौ यदक्षरमुपादढते महान्तः ।
श्रोत्रे तदेव विनिवेद्य जनान्भवाब्धे-
रुत्तारयन्तमुपधावत विश्वबन्धुम् ॥ ८३ ॥
अधिकाशि देशिकानामवतसमणि तमेव सेवध्वम् ।
यो रहसि किचिदक्षरमुपदिश्य जनान्करोति सर्वज्ञान् ॥८४॥
अथ भक्तिवशादमुष्य काशी प्रति यातु स्पृहयालुचेतसोऽपि ।
अभवज्जनकाभिपद्मसेवानियमातिक्रमभीतिरन्तरायः ।। ८५ ।।
असौ पुनरात्मपितरावेव महीधरापत्यकुसुमास्त्रशासिनौ तदधिवास-
वसुमतीमेव सुरस्रवन्तीमनुचिन्तयन्यथोदितसमयविधेयनियतकार्यपरा-
यणमनाः सूर्यनारायणसमरपुगवाभिधानाभ्यामसमानविनयधुर्याभ्या सो-
दर्याभ्यामश्रान्तरचितचरणारविन्दपरिचरणो निरवधिस्नेहपरिवाही जन-
कविहिताभिलषितकर्मा सहधर्मिणीप्रणीतसमधिकानुरोधविधिरतिमहा-
न्तमन्वभूदानन्दम् ।
सौभागिनेयः स तदा शोभायै श्रुतिसपदाम् ।
असेवत शिवाकल्पकल्पमप्पय्यदीक्षितम् ॥ ८६ ॥
पुस्तककरा बुधावलिररुचव्याख्याकृतः पुरो यस्य ।
पटुवाड्मुखप्रवाहप्लवनावष्टब्धपोतफलकेव ॥ ८७ ॥

यात्राप्रबन्धः। ३१, निन्दति मकरन्दरसं न्यक्कुरुते शर्करां पयो जयति । मोचामदमाचामति वाचामधिपस्य वैखरी यस्य ॥ ८८ ॥ यन्मुखविगलद्वाड्मुखसुरपुरतटिनीजडीकृता विदुषाम् । फणितिर्दन्तपटाभ्यामजीघटगाढमात्मसवरणम् ॥ ८९ ॥ वादिमतपुण्ड्वाटीनिष्पीडननर्मयुक्तियन्त्रेण । भुवि यः सृजन्नजृम्भयदवदातं ख्यातिफाणितबातम् ।। ९० ॥ यस्य च मनीषिणामग्रगण्यस्य शिबिकाग्रसीमनि वैतालिकवदननिः- सृता सरखती शश्वदेवमश्रौषम् । दुरभ्यस्तविद्यालवेनापि केचिदुरन्तामहन्तामयन्तां कृत तैः । प्रशस्ते कवित्वे समस्तेऽपि शास्त्रे भवत्यप्पयज्वावतसात्कृती कः ॥२१॥ रे रे मुञ्चत धावनानि विमताः सेवध्वमधिद्वयी- मप्पय्याध्वरिणो घटेत भवतामेतत्प्रसादस्तदा। तुष्यन्त्यक्षिगतेष्वपि प्रपतनात्सन्त. समृद्धागस. काकस्यानतिकारिणो हि दयते कि नो रघूणां प्रभुः ।। ९२॥ यश्च सकलविपश्चिदावलिधुरंधरो वसुंधरोल्लङ्घनजड्वालशोभापिचण्डि- लैयशोमण्डलैरजगर्हदभिनवकेतकबहम्, अवनीवलयानन्दसदायकवि- लासकैर्गुणविलासैरजिहिपदम्भोजदुहृदम्, तिवेलकलितसपर्यापरिचर्या- भिप्रीणदगराजकन्यकाप्रणयिनम्, अचलगुहाविहरदिभरिपुगर्जितोर्जित- प्रणादैवोदविनोदैरततक्षदहितविबुधदाक्ष्यम्, अनवरतायातयाचकप्रियं- करणैर्वितरणैरचकम्पदशेषदातृयशःस्तम्भम्, अशिपथेरुहसेवाहेवाकम- ण्डलितान्पण्डितानललवदागमसागरसागरसघम्, अनवद्यविद्याविशेष- भूषणमञ्जूषया मनीषयाचचर्वदमरगुरुगर्वम्,

३२
काव्यमाला।
यस्याजस्रमुदित्वरेण हविषाक्रान्ते दिशामन्तरे
तस्तम्भे कुमुदस्मयेन चकृशे ताराधिपच्छायया ।
सस्रसे शरकाण्डपाण्डुरतया मम्ले मरालश्रिया
बभ्रशे बिसकान्तिभिर्विजगले डिण्डीरखण्डांशुभिः ॥ ९३ ।।
यत्कीर्तिप्रकरद्विपस्य विहृतिस्थान जगन्मण्डलं
घण्टे चण्डमयूखशीतकिरणावालानमद्रीश्वरः ।
कक्ष्या व्योमतरङ्गिणी वमथवस्तारागणाः सप्तधा
निर्मुक्ता मदवारिनिर्झरपरीवाहा पयोराशयः ॥ ९४ ॥
कर्णः श्रीचिन्नबोम्मक्षितिपतिरभितो लम्भयञ्शातकुम्भ-
स्तोमं हेमाभिषेकप्रणयनसमये यस्य मूर्ति प्रशस्याम् ।
रेजे श्रीरङ्गराजाध्वरिवरकलशाम्भोधिलब्धप्रसूते-
विद्याकल्पद्रुमस्य स्वयमिव कलयञ्जातरूपालवालम् ॥ ९५ ॥
नीलकण्ठमतनिर्वहणोत्कादुक्तिवृष्टिमुपलभ्य तदभ्रात् ।
ईशयोग्यमयमाशयभूमौ बोधशालिभरमेधयति स्म ॥ ९६ ॥
अहो विबुधवर्गाय सकलाः सकला अपि ।
दिशन्ननिशमेताभिर्द्विजाधिपतिरैधत ॥ ९७ ॥
इति श्रीसमरपुगवस्य कृतौ चम्पूकाव्ये द्वितीय आश्वास
तृतीय आश्वास ।
शक्तिमस्याभिरूपस्य सकलागमशोधने ।
पटीयसीमिवामृष्यन्प्रादुरास मधुस्तदा ॥ १ ॥
मध्येवनं भूरिदिनोपजातमौनव्रतानां कलकण्ठयूनाम् ।
समग्रवाग्वैभवसंप्रदायससिद्धिहेतुः समयो जम्भे ॥२॥

यात्राप्रबन्धः । दिनान्यभूवन्नवशीधुनापि विना जनानां मदसाधनानि । कदर्पबाहाविजयाङ्कगीतसदर्भनिष्णातशिलीमुखानि ॥ ३ ॥ मधौ मिलत्संपदि क्लृप्तभावा सीदद्वि ति शिशिरं धरित्री । शनैः शनैर्यद्विजही वधूनां साधारणीनां प्रकृतिः किलेदम् ॥ ४ ॥ वियन्महोदन्वति दक्षिणाशाव्यापारमाजस्तरणेनिवृत्तिम् । तदात्ववातानुगुणा ततान सायात्रिक कि समयाभिधान ॥ ५॥ शीना जडिम्न शिशिरेण दत्तामात्माकृते सकुचितामवस्थाम् । दिनानुपूर्वी त्यजति म जाते सुखैकहेतौ सुभगे वसन्ते ॥ ६ ॥ खीकर्तुमुवी शिशिरर्तुभूपे विजृम्भमाणे भृशविस्तृताभिः । गते तु तस्मिन्क्षणदाभिधाभिर्निमीलित नीलपटीकुटीभिः ॥ ७ ॥ प्रादुर्भवन्ती बहिरब्जिनीना सवर्तिकासहतिराबभासे । नीहारवर्षात्ययनिर्णयाय प्रसारिता पाणिपरम्परेव ।। ८ ॥ मनो वशीकुर्वति माधवेन व्यक्तीकृते कोकिलवशनादे । वल्ली मुधा बल्लवसुन्दरीणां पटैरिवाभ्रश्यत पाण्डुपएँ. ॥९॥ तपोनभस्वत्प्रभवेन क्लुप्ता त्रासेन नीहारसमावृति वा । वसन्तविश्लेषवलक्षपातां जहौ जरत्पत्रमिषेण वल्ली ॥ १० ॥ समं पुराणच्छदनैर्लतानामणूदरीणामतिधैर्यभारम् । वालानिले मुष्णति पल्लवेषु बभूव चित्तेषु च रागबन्धः ॥ ११ ॥ समीरण चापलक्लप्तपाण्डुपर्णाशुकाकर्षणपारवश्यम् । वल्ली वलत्पल्लवपाणिनेव निवारयन्ती नितरां चकाशे ॥ १२ ॥ आरामसीमामधिजग्मुषे नु दातुं वसन्ताय गणैस्तरूणाम् । प्रवालकौसुम्भपटोपहारसनाथशाखाप्रकरैर्बभूवे ॥ १३ ॥ या० प्र०३

काव्यमाला।
पर्यायतः पाटलमञ्जरीषु चरन्त्यलीनां पटली चकाशे ।
तत्तन्मधुखादिमतारतम्यविवेचनायै विहितोद्यमेव ॥ १४ ॥
अनङ्गबाणावलिरध्वनीनवान्तेषु शोकज्वलनाकुलेषु ।
निपातजात किल नीलिमान निलीनलोलम्बनिभाद्वभार ॥ १५ ॥
माकन्दवाटीषु मधुव्रतानां कुलं वितेने कलकूजितानि ।
पिकावलेरञ्चितपञ्चमायास्तानार्पणायेव धृताभिलाषम् ॥ १६ ॥
गलन्मरन्दप्रमदाश्रु गीतमाकर्णयन्कौकिलमाम्रशाखी ।
शाखाञ्चलेनानिलचञ्चलेन श्लाघाचलन्मौलिरिव व्यलासीत् ॥ १७ ॥
क्रोशन्तमिन्दिन्दिरघोषलक्ष्यात्पिकारवालोलितया प्रसाद्य ।
समीरपोतं सहकारवाटी धन्या मधुस्तन्यरसैरपुष्णात् ॥ १८ ॥
सकिङ्किणीकः कलचञ्चरीकैः प्रसूनधूलीपरिधूसराङ्गः ।
अङ्कानुपारुह्य दिगङ्गनानां बालानिलः साधु बबन्ध लीलाम् ॥ १९॥
वने वने वल्गुगिरां पिकाना कलखनाकर्णनकौतुकं वा ।
परागपालीषु परिभ्रमो वा मरुद्विहारेऽजनि मान्द्यहेतुः ॥ २० ॥
पिकद्विज च स्पृहणीयवाच मत्तद्विरेफ च मधुः पुपोष ।
सतो गुणानप्यसतोऽपि दोषाञ्जात्या विहीनो न विवेत्तुमीष्टे ॥ २१ ॥
वसन्तलक्ष्म्या वनकेलिभाजो लाक्षारसााः पदपतयो वा।
छिन्नस्य वा किंशुककैतवेन शीतस्य रेजुः सरसैकदेशाः॥ २२ ॥
पान्थप्रियालस्य भरैकहेतोरपि प्रियालस्य गुणानभिज्ञाः ।
उत्तानचित्ता भृशमुत्पलाक्ष्यो गानैर्विकासं घटयाबभूवुः ॥ २३ ॥
दृष्ट्या वधूनां तिलकद्रुमस्य खच्छन्दमासीत्सुमनोविलास ।
सचेतनानां किमु शम्बरारिशरावलीजर्जरिताशयानाम् ॥ २४ ॥

यात्राप्रबन्धः।
निश्वासवातेन नितम्बिनीनामुद्भावितोपस्कृति सिन्दुवारम् ।
अलचकार श्रवण यदासा कृतज्ञभावानुगुणः किलेदम् ॥ २५ ॥
सनर्महासाङ्कुरचन्द्रिकाणामणूदरीणामनुकुर्वतेव ।
नमेरुणाभूयत सस्मितेन जनस्य चित्तेन तु विस्मितेन ॥ २६ ॥
खस्मिन्वधूभिः सुदृढोपगूढे विटान्प्रहर्तु विहिताभ्यसूयान् ।
अस्त्रावनि नूनमनन्यजाय कदम्बक कौरवकं व्यतानीत् ॥ २७ ॥
कङ्केलिसालः कमलेक्षणानामवे. प्रणीताभिहतेर्निपीताः ।
वमन्प्रवालान्व्यपदिश्य लाक्षा स्पष्टं वितेने निजपादपत्वम् ॥ २८ ॥
तत्तादृश भाजनमङ्गनाना हस्ताम्बुजस्पर्शनगौरवस्य ।
तत्पादघातैकपदं प्रसूनस्तरुं जहासेव रसालसाल. ॥ २९ ॥
अलिद्विजैरादरणीयनादव्याजेन क्लुप्तस्मरवेदपाठैः ।
मन्ये न वन्या मदिरानुषड्गकलङ्किता गन्धफली सिषेवे ॥ ३० ॥
मधुश्रियः काञ्चनकर्णिकेव मनोभुवो हैममिवातपत्रम् ।
आलोकि लोकैरबलाजनोक्तिकार्यमितालकृति कर्णिकारम् ॥ ३१ ॥
नीलालकावनिपीतशेषहालारसापादितहासशाली ।
मदोदयभ्रान्तमधुव्रताक्षः शाखी जनस्याजनि कामपालः ॥ ३२ ॥
सेतु प्रति प्रतिष्ठासा शिष्टसूनोरथोदिता ।
काशीगतिकलाधीतैरादौ प्रणवतामधात् ॥ ३३ ॥
ग्रहैरशेषैः कलितानुकूल्ये लग्ने पितृभ्यां रचिताभ्यनुज्ञः ।
मान्यै कृतस्वस्त्ययनो मनीषी प्रातिष्ठत प्रेक्षितसन्निमित्तः॥ ३४ ॥
तमनु प्रस्थिता धन्या तादृशप्रेमशालिनी ।
व्यद्योतत मनोवृत्तिः पित्रोरिव सहायिता ॥ ३५ ॥

काव्यमाला।
कथाभिधानैः सुहृदामुदारैरसभृताध्वश्रमसपदेष ।
आवासमद्वैतरसालनेतुराकल्पमुळ पुरमभ्ययासीत् ॥ ३६ ॥
अथ तस्य नयनपथमासीदति शुनासीरवसतिरपि भूषितमहीतला,
समधिगतदक्षिणपथापि सर्वोत्तरस्वभावा, पावनतरानुभावापि पल्लवेषु कृ-
तस्थितिः, अयोध्यापि भोगवती, विशालापि मथुरा, महोदयापि द्वार-
वती, वाराणसीव वरणोपवेष्टिता, वखोकसारेव धनदोपशोभिनी, वार-
वधूटिकेव वशीकृतधूर्तावतसा, कसारिमूर्तिरिव कमलाकरोपगूढा, रू-
पकपरम्परेव रुचिरविधिविराजिता, सगीतविद्येव सारङ्गनाटिकावती,
पार्थसमृद्धिरिव पाञ्चालिकाञ्चिता काञ्चीपुरी ।
स्पर्धा विधाय प्रभुणा गिरीणा सवर्धमानो दिवि यत्र साल ।
विचिन्त्य विन्ध्याचलशासिशक्ति तिष्ठन्निवाभाति भियार्धमार्गे ॥३७॥
आनन्दामृतनिधिमर्धचन्द्रमुद्र भोगेन स्फुटमभिवेष्ट्य सालनाम्ना ।
पूर्वार्ध भुजगपतेरिव स्थितस्य प्रोत्तुङ्ग विलसति गोपुरं यदीयम् ३८
यद्गोपुरं निशि समुच्छ्रितशृङ्गसीम-
विश्रान्तशीतकिरणच्छुरितं दधाति ।
पद्मासनस्फटिकपात्रपतज्जलौघ-
सप्लाव्यमानकमलासचिवाशिलीलाम् ॥ ३९ ॥
महीयसा गोपुरमन्दरेण प्रमथ्य सिन्धुं परिखाभिधानम् ।
आसादितस्येव नवामृतस्य तृप्यन्ति यत्र स्थितिमादधानाः ॥ ४० ॥
प्रतप्तजाम्बूनदपेशलाभिः पराजिता याप्रमदातनूभिः ।
सौदामिनी साध्वसपारवश्यादश्रान्ततारल्यमहो जिहीते ॥ ११ ॥
कुचाञ्चले लोचनकोणभागे कचान्धकारेऽपि च कामिनीनाम् ।
जागर्ति यत्राहितसंनिधानापिनाकिनो भीतमना मनोभूः ॥ ४२ ॥

यात्राप्रवन्धः।
३७
शश्वत्प्रतोलीसरणीषु कामं परम्परा भ्राम्यति यत्र यूनाम् ।
शातोदरीलोकदरावलोकसमोहनास्वाहतिविहलेव ॥ ४३ ।।
प्रविश्यतां विपश्चितामपश्चिमोऽयमाश्चर्यवीतमतिरेतदवादीत्-
'अशेषजननयनयोग्यममुष्या. किमपि सौभाग्यम्, यदवलोकनलोलुपत-
या भृशमनेकपशैलराजशिखरमरविन्दलोचनोऽपि भगवान्प्रतिदिवसम-
धिवसति ।
वाणीसहचरस्यास्य वाजिमेघाध्वरक्षितौ ।
गोपुरावलिकूटेन भाति यूपपरम्परा ॥ ४४ ॥
अस्याः प्रभावेण जनस्य वाणी मन्दापि धाटीमधिगन्तुमीष्टे ।
विधेः प्रिधेयोदाहरण किलात्र सा मन्थरा वेगवती भवन्ती ॥ ४५ ॥
प्रसार्य नानाविधपण्यजात प्रातः क्षपायामुपसहरन्ति ।
इय पुरारेरनुयाति लीला प्रपञ्चसर्गप्रलयैकशीलाम् ॥ ४६॥
शरीरिणोऽस्या मणिसालगर्भप्रवेशनिष्क्रान्तिशतापदेशात् ।
विवोढुमह्नाय विमुक्तिकन्यामाकृष्य जन्मान्यनुभुञ्जते किम् ॥ ४७ ॥
कल्याणसतानतरुं कयापि श्लिष्ट जगन्मङ्गलकल्पवल्लया।
आसीनमस्या वरणालवाले फलार्थिनः केऽपि भजन्ति धन्या' ४८
तत्पूर्वतीर्थयानोऽपि तत्र भूसुरनन्दनः ।
समवर्तत नियूंढसर्वतीर्थावगाहनः ॥ १९ ॥
अथ वेदशिरोनिष्ठानपि तीर्थतटीजुषः ।
अनङ्गीकृतकन्दर्पानपि सत्याञ्चितेक्षणान् ॥ ५० ॥
अपि माधुकरी वृत्तिमञ्चतो भ्रमवर्जितान् ।
अपि निःसामकारुण्यानक्षनिग्रहनिर्दयान् ॥ ५१ ।।
शाम्यद्विषयसचारानपि प्रव्रजनाश्रयान् ।
राजहंससमारब्धसेवानप्यजडाशयान् ॥ ५२ ॥

काव्यमाला। रुषमहसि विद्यासु लोभमात्मनि रागिताम् । अज्ञत्वमन्यनिन्दासु यतोऽपि जितषड्रिपून् ॥ ५३ ॥ शर्वरीसमयारम्भानिव सभृततारकान् । भीमसेनभुजाटोपानिव दण्डितकीचकान् ॥ ५४ ॥ अनल्पभसितालेपविलसद्विग्रहाञ्छुचीन् । प्रावृप्रशमिताटाट्यान्वरहसधुरंधरान् ॥ ५५ ॥ असमुत्तम्भितप्राशूनधौतविमलात्मनः । अखातगम्भीरतरानहिमाक्रान्तशीतलान् ॥ ५६ ॥ कदम्बमुकुलाकारैः कण्टकैरुपशोभितान् । तेरिव ॥ ५७ ॥ तत्र कुत्रचन स्थास्तूनवनीपावनाकृतीन् । कर्मन्दिन प्रणम्यैष गाहते स्म महोन्नतिम् ॥ ५८ ॥ भृतकल्याणगुणानपि परकनकरुचित्यजोऽपि सर्वज्ञान् । अपिना भवानपि महोराशीन् ॥५९॥ शैवालापसमग्रान्भ्रमरहितान्प्रकृतिसमधुराजीवान् । विमलान्तरङ्गवार्तान्प्राप्तानिव पुण्यकासारान् ॥ ६० ॥ उन्मत्तपत्रपुष्पैरुत्पादितविभ्रमादनगरिपोः । आदातुमीहमानानावृतमानन्दमिव च सर्वखम् ॥ ६१ ॥ सकलागममधुदिवसाश्रीकण्ठासक्तकसवैरिभुजान् । नवभूतिश्रीदगृहान्पुरुषानभजत्परत्र सुधी ॥ ६२ ।। आर्यसेवी स निध्यातुमगादेकाम्रनायकम् । वर्धते सुकृतश्रद्धावार्धक वरिवस्यताम् ॥ ६३ ॥ ततः क्रमेण समतिक्रम्य कतिचिदेष कक्ष्यान्तराणि साक्षादकृत ।

यात्राप्रबन्धः। कृतकेतरादरः खयंवरवल्लभ इति श्रुतिपल्लवाधराभिः, अगदंकार इति भवरुजातङ्कवाहिभिः, आहितुण्डिक इति कालकुण्डलिना, वाडवशि- खीति वार ‘महार्णवेन, कूटपाकल इति कुसुमेषुदन्तिना, पुरंदरा- युधमिति जलधराचलेन, करुणापयोधिरिति शरणाभिलाषिभिः, एक- स्वभावमपि बहुधा विभावितम् , आत्मविवर्तजगदभ्यागारिकम् , अखि- लविध्यण्डमण्डलीखण्डनवैतण्डिकम् , अतिकरालकाकोलमुष्टिंधयबन्ध- कविलासिनीकपोलमकरिकाभरणपश्यतोहरम् , अहरवधिनटनविभ्रमा- लकर्मीणम् , अद्भुतगरिमकार्मणविविधकेलिनिर्माणम् , चलतनयानय- नपरमानन्दनाडिंधमरूपधेयम् , आपीडपदनिवेशितसगरकुलभागधेयम् , असहायरसालतरविहारिणम् , आरग्वधमालभारिण त्रिपुरवैरिणम् विध्यादिविहितान्वेष निध्याय महसां निधिम् । अद्रिकन्याकुचाभोगमुद्रित मोदते स सः ॥ ६४ ॥ अभिवन्ध तमखिलभुवनवन्दनीयचरणारविन्दमकृत्रिमवचःप्रशस्ता- पदानमस्तौषीत् । हन्त च्छन्दःपारिजाताग्रभाजो माघन्मायामाक्षिकोत्सारपूर्वम् । यस्यास्वाद कर्तुमार्या यतन्ते माध्वीक तद्भाति माकन्दमूले ॥ ६५ ॥ त्रसदद्रिसुतादृढोपगृहप्रमदाद्वैतपदाधिकारदात्रीम् । बलयाङ्क निधेहि मूर्ध्नि कम्पा धृतया कि फलमभ्रगङ्गया ते ॥ ६६ ॥ व्यर्थ. पिधातुमजिनादिविरागचिहैः स्त्रीवश्यता त्रिपुरशासन ते श्रमोऽयम् । गात्र तवैव कमनीयकुचाङ्कमस्या विख्यापने विजयडिण्डिमता दधाति ॥ ६७ ॥ सत्य जितोऽसि मदनेन यतः सकम्पं काञ्चीपदे कलयसि स्थितिमङ्गजारे ।

काव्यमाला।
साहाय्यनिर्वहणसस्पृहकामकोटिः
शक्तिः किलैकसहकारवतोऽभिषङ्गे ॥ ६८ ॥
सपत्त्यै समिदुच्चयस्य परशु भद्रं भरानीतये
पाकाय ज्वलन जलाय तटिनी पत्रोपक्लुप्त्यै वटम् ।
माकन्दं च फलाय मन्मथरिपो सगृह्णति त्वय्यभू-
कामाक्ष्या विकलेतरः परिकरो नित्यान्नविश्राणने ॥ ६९ ॥
भावना मे महादेव...
नौस्तम्भलना काकीव नान्यत्र लभते गतिम् ॥ ७० ॥
अपि च ।
भगवति शंभावनया शिवया सह शीलिते भृश भावनया ।
तदधिगमोदस्तस्य क्लेशात्पुंसो भवेत्प्रमोदस्तस्य ॥ ७१ ॥
देव्या पारेकम्प क्ष" या दयास्पदे व्यापारे ।
परिचितमधिकाञ्चितया पश्यदलीकं भजेयमधिकाञ्चि तया ॥७२॥
वरमेकरसालपतिः श्रुतिरमुमेव स्फुटाधिकरसा लपति ।
वपुरसमा तारमतेः खीकृत्यामुष्य विश्वमाता रमते ॥ ७३ ॥
सुरभिरमाकन्दस्य स्फूर्जति मूले निविश्य माकन्दस्य ।
प्रमथेशो भाति शये भृतमृगपरशुर्जिताजशोभातिशये ॥ ७४ ।।
नाथशरीरं भायान्नगभुवि मृदितं नटत्परीरम्भायाम् ।
भीत्या कम्पारयतः प्लावयितुं भुवनगोलकं पारयतः ॥ ७५ ॥
परिचितवेदान्तानां प्रणिहितमनसामुमाधवे दान्तानाम् ।
अलघुभवाटव्यसनं विरचयता केन्द्रवेशवाटव्यसनम् ॥ ७६ ।।
दक्षसभावस्कन्दे पटुरवतु शिवो निरूढभावः स्कन्दे ।
स्त्री कृतकरणीयस्य स्मृतिभवचेतोविशल्यकरणी यस्य ॥ ७७ ॥

यात्राप्रबन्धः।
४१
तमुपासे वासवतः परममरादपि च सारसे वासवतः ।
अस्त्रितसारसनाभिं कमपि करासक्तकृष्णसारसनाभिम् ॥ ७८ ॥
अतिरेकं दर्पस्य क्षपितवदक्ष्णा निजेन कन्दर्पस्य ।
प्रशमितसन्नमदेनः स्मरत ज्योति हुंदावसन्नमदेन ॥ ७९ ॥
पृथुकटकैलासस्य प्रसवसुगन्धैः पतिः स कैलासस्य ।
भाति भवानीकान्तस्त्रिपुरान्धकमुख्यदानवानीकान्तः ॥ ८० ॥
पटुरनुसायं नटने समता सिहस्य रंहसा यन्नटने ।
मा भजमान दयता पशुपतिरातङ्कभाजमानन्दयताम् ॥ ८१ ।।
सरसिजधामादिशते पदजुषि विद्या पृथग्विधामादिशते ।
विभवे विप्रसवाय प्रणतिरियं ध्वस्तविधिजविप्रसवाय ॥ ८२ ॥
अधिफणिहारमरालः पतिरवतु कृपासरोविहारमरालः ।
अघतटिनीरच्छा यं प्लवमेत्य तरन्ति गाङ्गनीरच्छायम् ॥ ८३ ॥
बलदहिदाम वसान त्वचमीडे देवदुहृदामवसानम् ।
जगदतिसधामाद्यन्नलिनशरप्लोषलालस धामाद्यम् ॥ ८४ ॥
पुरजेता मम नाथो रणदमितविपक्षराजमानसमुदयम् ।
.....
.
....
....
....
मतिभृङ्गि महेशाझिसारस दोहलालसे ।
आश्रयानन्दमाध्वीकसारसदोहलालसे ॥ ८६ ॥
शंभोरवतु मामेकसहकारतलासिका ।
ऋते गिरिभुवं तेन सह का रतलासिका ॥ ८७ ॥
सोऽव्याद्वहन्सुरोसमकरन्दरस पदे ।
दिशन्नरि ध्वजारूढमकरं दरसपदे ॥ ८८ ॥
वेदविदध्वान्तस्य व्यतिकरमबलादिसौहृदध्वान्तस्य ।
प्रमदाम्भोजहितेन प्रत्ययरविणाम्बिकाविभो जहि तेन ॥ ८९ ॥

४२ काव्यमाला। तं भजे बुभुजे येन तरसा गरलं धनम् । यत्परैः सुकरं भद्रेतरसागरलचनम् ॥ ९० ॥ राजतेजा गरादी नः सविता नयशोधनः । राजते जागरादीनः सवितानयशोधनः ॥ ९१ ॥ उषितः समया रसालसाल खमुपासीदति या रसालसालम् । गिरिजा मुहुराहिताकपालीप्रणयः स्तौति गिरा हिता कपाली ॥९२॥ अद्वितीयाम्रमूलासिकालालस नृत्तलीलारसोल्लासिकालालसम् । मामकी दुर्मनोभावनागाहतेः श्रीगिरीशं भिया भावना गाहते ॥१३॥ अमितविभव सर्वदैव तेषु त्रिजगति ते भव सर्वदैवतेषु । नतिरतिरसभावितायमानै स्फुटमिह धीरसमावितायमानैः ॥ ९४ ॥ फणाभृति तवेश दोर्णवपटीरसालासिका- रते नटति कम्पितार्णवपटी रसा लासिका। सती प्रणयसपदा समधिकामनङ्गाहते. स्मरान्तक तवान्तरं समधिकामन गाहते ॥ ९५ ॥ इह खलु तामरसाक्षीमयवामतनो त्वमानतामरसाक्षी । इयमनुकम्पालय ते नतिरीश नमस्यतोऽधिक पालयते ॥ ९६ ॥ गिरिश गभीरं हस्तस्फुरदायुधमत्र केऽपि भीरंहस्तः । सविधिकरोटीकं ते वपु. स्मरन्तो जगद्गुरो टीकन्ते ॥ ९७ ॥ लघु फलमाशासानश्चरतु जनो नेदमाप्तुमाशा सा नः । त्वयि शशिकोटीरमणे भक्ति याचेम कामकोटीरमणे ॥ ९८ ।। प्रतिदिवस सारस्य प्रकटितविपरीतस्थितेः ससारस्य(१) । इह सपदि व्याहार. शिव इति हरतेऽघमस्तदिव्याहारः ॥ ९९ ।। अमित रसारम्भणतः श्राव्य शिवनाम वेदसारं भणतः ।

यात्राप्रबन्धः।
४३
स्यान्मम कालापनयः स तु किल कल्याणसाधकालापनयः ॥१०॥
अविहितकृदकाण्डे दण्डितोऽभून्मनोभू-
रकरुणममुनेति स्पर्धमानेव गौरी ।
खकुचवलयमुद्राशालि गात्र पुरारे-
रकृत मदनजैत्रस्तम्भमेकाम्रमूले ॥ १०१ ॥
प्रणयकलहशान्त्यै पादमूले विनम्रा-
दभिचलति कपर्दादभ्रगङ्गातरङ्गे ।
पुनरुपगतकम्पापूरमोहेन देव्या
दृढतरमुपगूढ ध्यायतैकाम्रनाथम् ॥ १०२ ॥
कुवलयदामकोमलवधूमयवामतनौ
भवतु भवे भवे मम भवेऽतिभवेऽभिरतिः ।
न तु भवने धने परिजने मदनेभमद-
प्रदचरितासु तासु वनितासु सुतादिषु वा ॥ १०३ ॥
काञ्चीनगर्यामालोक्य कामकोटे किमुन्नतिम् ।
रुद्रकोटिमधिष्ठाय रोचते मदनान्तक ॥ १०४ ॥
इति स्तुवन्हिमकरमौलिसनिधेर्जगत्प्रसूचरणसमीपमभ्यगात् ।
अलियथा नवहरिचन्दनान्तिकादुदञ्चितध्वनिरुपकल्पवल्लिकाम् १०५
अपिचैकभागमधिजग्मुषी विभोरतितृष्णयेव परभागमाश्रिता ।
स्तनयोर्मनोजवसतामुपेयुषी परदेवता पथि सुधी शोरभूत् १०६
असौ पुनरसदृशप्रतिपत्तिमेदुरः प्रणिपत्य मातरमवाङ्मनसगोचरगु-
णामाचिकुरचरणारविन्दमनुसदधानो विसृमरानन्दवी चिरिदमवोचत ।
सर्वात्मना स्तवे तव जननि जगत्या न मादृशो निपुण. ।
निवहोऽपि नित्यवाचां भागत्यागेन भणति यद्रूपम् ॥ १०७ ॥

४४
काव्यमाला।
शम्बरवैरिकृपाणी शैलतनूजे तवासिता वेणी ।
उन्मदयौवनकुञ्जरशुण्डालतिका शुभाय मे भूयात् ॥ १०८ ॥
जननि तव मौलिचन्द्रो भिन्द्यान्मम बहलमान्तरं तिमिरम् ।
वेणीविधुतुदेन ग्रस्तमिवार्ध न दृश्यते यस्य ॥ १०९ ॥
कान्तिविशेषाधीति कलयितुमन्ते वसन्नपि शशाङ्कः ।
वहति न ते वदनरुचि भवति हि भाग्यानुसारिणी सिद्धिः ॥११०॥
वदनश्रियो विधात्रा विधृतस्य विधुच्छलातपत्रस्य ।
मृगमदतिलकमिषेण च्छायावलय चकास्ति तव फाले ॥ १११ ॥
उत्तेजितः किमुत्पलबाणो मदनेन भालशाणेऽस्मिन् ।
भाति यदिय भवानि त्वद्भूरूपेण तद्रजोरेखा ॥ ११२ ॥
अधिकमसितोपलादपि धरणीधरपुत्रि तावक नयनम् ।
कर्णाश्रयेण कान्तिमदाद्य यत्तदतिपीडनेन परम् ॥ ११३ ॥
विषयमरुमार्गसीमाविभ्रमसंजातसज्वरानमान् ।
अम्ब कृपारसपूरैरभिषिञ्चापाङ्गसारणीमुक्तैः ॥ ११४ ॥
निध्याय कि भवत्या नासाचाम्पेयमन्तरालगतम् ।
नयनमधुव्रतमिथुनं न कदापि मिथः समागमं भजते ॥ ११५ ॥
कान्तिसुधया करम्बितमाननचषक तवाधिवासयितुम् ।
नासामणिच्छलेन न्यस्त किमु मल्लिकामुकुलम् ॥ ११६ ॥
विरसा विद्रुमवल्ली तुल्या न भवेत्त्वदोष्ठबिम्बेन ।
यदमृतसेवनलोभादीशो धत्ते बहूनि वक्त्राणि ॥ ११७ ॥
अवतु तव स्मितकलिका शिखरिकुलाधीशकन्यके मातः ।
प्रणयकलहप्रसक्तिषु यदवधिरीशस्य भवति चाटूक्तिः ॥ ११८ ॥
सरघोपचितरसे वा सारे वा कालकूटसोदर्ये ।
मधुरिमधियं विमुञ्चति गिरिशः प्रस्तौषि यदि गिरमपणे ॥ ११९ ॥

यात्राप्रबन्धः । वितता भवत्कपोले विलसति ताटङ्कमौक्तिकच्छाया । अधिकतया श्रुतिगलिता हरचरितकथासुधारसझरीव ॥ १२० ॥ न नमय वदनसुधाकरममृत निपतिष्यतीति सव्याजम् । गिरिशेन केलिकलहे मुहुरुन्नमित नुमो भवचिबुकम् ।। १२१ ॥ त्वत्कण्ठदत्तभङ्गः शङ्खो भीत्या समेत्य हरिदीशम् । भजते ततोऽपि भङ्गान्वापि न शर्मास्ति कुटिलहृदयानाम् ।। १२२ ॥ कण्ठसमुदञ्चित तव कलरुतमपहृत्य सांप्रत गिरिजे । प्रकटयति जनसमक्ष प्रायो हस्ताग्रताडिता वीणा ॥ १२३ ॥ नखरसुमनोलसत्करकिसलयमम्ब तव भुजलतायुगलम् । आलिङ्गति सहकारं निटिलहगभिधानमिति किलोपयिकम् ॥ १२४ ॥ आर्तान्क्षुधा पदाम्बुजसक्तानस्मान्समीक्ष्य वात्सल्यात् । धृतया स्तन्यसमृद्ध्या भवति किमम्ब तव पीनता कुचयोः ॥ १२५ ।। मुखचन्द्रामृतलहरी मुक्तादामच्छलात्क्षरन्ती ते । कुचगिरिमृगमदकलिला नाभिसरो विशति रोमराजिमिषात् ।। १२६॥ ज्यारोपणाय मध्ये धनुषो निहितस्य मारवीरेण । अटनीनिपीडनोदितमवट त्वन्नाभिरिति वदन्ति जना ॥ १२७ ॥ उच्छ्रायशालिनोर्भरमुरसिजयोः सोढुमप्रवीणतया । ताम्यति तवावलग्नं सह्या न ह्यन्यसपदल्पानाम् ॥ १२८ ।। वसतो वृषाङ्कभीत्या भवदीयश्रोणिपर्वतनितम्बे । रशनामिषेण रक्षावरणो मदनस्य वर्तते मात ॥ १२९ ॥ मन्ये त्वदूरकाण्डौ मन्मथतारुण्यवारणेन्द्रकरौ । कथमिह घटतेऽपरचा कदलीस्तम्भाभिषगलम्पटता ॥ १३० ॥ समरव्यतिकरसमये पश्चाद्भवतो भृशं निषङ्गस्य ।

४६ काव्यमाला। दर्पहरणेन तावजवाकाण्डस्य जननि का श्लाघा ॥ १३१ ।। सपल्लवास्त्वदोः सक्ता वल्लीषु किसलयव्याजात् । यत्पल्लवा इतीदं नाम्नो नामैकदेशतो ग्रहणम् ॥ १३२ ॥ प्रकृतिकठोरपदावलिरेषा नुतिरेव मत्समारब्धा । भवति भवदघिपल्लवशोणिमहेतुरिति शोभते वादः ॥ १३३ ॥ जननि त्वदधिचामलीलालेशापहारसदेहात् । प्रायेण निगलबन्ध नरपतयः कारयन्ति नागानाम् ॥ १३४ ॥ श्रुतिशतशिरोविहारश्रमपरिखिन्नेव चरणरेणुस्ते । सुरवरशेखरसुमनोमकरन्दस्यन्दगाहन तनुते ॥ १३५ ॥ असितकचमायतेक्षणमुल्लसितस्मितमुदारकुचभारम् । घनजघनमरुणचरण कलये कामाक्षि तावक रूपम् ॥ १३६ ॥ सुधाभजनविधायिनोऽपि सपदि समुदेति सौहिती न पुनरम्बागुण- कदम्बामृतझरीनिषेवणधुरीणमानसस्य । पुनरपि भूसुरधुरंधरस्तदनुब- धिनीमेव भारतीमभिधातुमारभत । कस्मिन्मुहूर्ते करपल्लवेन तवाददे काञ्चनदर्विकेयम् । यस्य प्रसादादयमिन्दुमौलिरैश्वर्यमव्याहतमम्ब भुते ॥ १३७ ।। धामास्य कैलासगिरि करस्थो हेमाचलस्त्व दयितान्नपूर्णा धत्ते हरो भिक्षुकता तथापि लुब्धः समागच्छति केन तृप्तिम् १३८ गिरीशहेरम्बकुमारवाहग्रस्तावशिष्टैरचलेन्द्रकन्ये । धान्यैरपि प्रस्थमितैः कथं वा जगत्रयीपोषणमातनोषि ॥ १३९ ॥ कम्पामपास्य अथितोद्मानां चञ्चूपुटग्रस्तबिसाङ्कुराणाम् । उद्दीवमोघेन मरालिकानामाकर्ण्यमानाभरणखनानि ॥ १४० ॥ मृदुप्रकृत्योर्मणिनिर्मिताया पदाब्जयोरर्पितयोः पदव्याम् ।

यात्राप्रबन्धः।
20
तबिम्बदम्भाह्यमानधात्रीप्रारब्धपद्मास्तरणक्रियाणि ॥ १४१ ॥
कुचामृताखादकुतूहलेन हस्तावकृष्टाशुकपल्लवाभ्याम् ।
अभीष्टवस्त्वन्तरदानपूर्वमाख्यातसान्त्वानि कुमारकाभ्याम् ॥ १४२ ॥
अनुद्रवच्छेकमृगीनिवृत्त्यै वितन्वतो हुकृतिमाननेन्दोः ।
साचीकृतप्रेलितवेणिकास्तश्वासानिलाकृष्टमधुव्रतानि ॥ १४३ ॥
मध्याय मन्देतरकम्पशालिपयोधरद्वन्द्वभरार्दिताय ।
अनार्यशङ्काकुलितेन भर्ना प्रतिक्षण प्रार्थितमङ्गलानि ॥ १४४ ॥
अचिन्त्यमानस्फटिकाङ्गणोर्वीपुष्पोपहारस्खलनव्यथानि ।
वेगोपयातानुचरीप्रणीतवेणीगलन्माल्यनिबन्धनानि ॥ १४५ ॥
अभीक्ष्णमक्ष्णोः श्रवणारविन्दपरागपर्याकुलभावभाजोः ।
प्रसादनाय प्रणयोत्तरङ्ग पिनाकिना दत्तमुखानिलानि ॥ १४६ ॥
अद्वैतचूतप्रसवासवेषु पदे पदे प्रस्तुतमज्जनाभिः ।
कम्पातरङ्गानिलकन्दलीभिराचान्तधर्माम्बुकणावलीनि ॥ १४७ ॥
अजस्रमभ्यागतमण्डलाय प्रत्यग्रमन्न प्रतिपादयन्त्याः ।
आ मण्डपादा च महानसात्ते कामाक्षि नः पान्तु गतागतानि १४८
कि च।
मध्ये नीपवनस्य प्रचलद्गीर्वाणतरुवनीपवनस्य ।
शीलितमोहनगानां जननी भज भञ्जनाय मोहनगानाम् ॥ १४९ ।।
पुरहरगिरिजातरसा चेतसि येषा चकास्ति गिरिजा तरसा ।
अतिसरस पद्यं ते रचयन्ति यशासि तेषु सपद्यन्ते ॥ १५० ॥
इयमुपनीताम्रतरावभिके सक्ता जपावनी ताम्रतरा ।
मामिह पाकं पायान्नियतविधि तन्वती कृपा कम्पायाम् ॥ १५१ ॥

४८ काव्यमाला। बहुशो भाविता नासाशिखरन्यस्तलोचनैः । बहुशोभाविताना सा भवानी परिपातु नः ॥ १५२ ॥ घनसारसगन्धेन वदनेन स्मितेन च । घनसारसगन्धेन ललिता ललिता भजे ॥ १५३ ॥ अपत्यमगराजस्य भजमानसभाजनम् । चन्द्रशेखरचाटूनां भज मानस भाजनम् ॥ १५४ ।। कलत्रमैश दृग्भासा सन्नतामरस सदा । सेवे श्रित पदोपान्तसनतामरससदा ॥ १५५ ।। त्रातोऽस्मि देव्या बन्धूककलिकोपमदेहया । गङ्गाधरे कृतप्रेम कलिकोपमदेहया ॥ १५६ ॥ जनन्या गिरिशोगाढोत्कलिकालसमानया । वयं धन्या वतंसेन्दुकलिकालसमानया ॥ १५७ ॥ अम्बा तपोवनीभूतकम्पाकान्तारमालिका । सेव्या शिवस्मृतौ वीतकम्मा कान्ता रमालिका ॥ १५८ ।। शिवा स्पृहावती कम्पावाहिनीपवनालये । भासते सुमनोभारवाहिनीपवनालये ॥ १५९ ॥ काशते वलयाङ्कस्य कमनी यतमानसा । कान्तिसौभाग्यशीलैः कि कमनीयतमा न सा ॥ १६० ।। समरच्छिन्नदैतेयसारवद्विपदन्तया । देव्या जितं कृतोपास्तिसारवद्विपदन्तया ॥ १६१ ।। अत्र गौर्या सदारब्धयागवासरसार्थया । भूयते गीयते लोके या गवा सरसार्थया ॥ १६२ ॥ भजतः स्युरिमा विद्या काञ्चीदा मोदराशयः । साधु जानाति यान्मातः काञ्चीदामोदराशयः ॥ १६३ ।।

यात्राप्रबन्धः। ४९ धत्ते मुदा श्रियं गौरी तामसीमदमन्थरा । अस्याश्च प्रकृतिर्दूरे तामसी मदमन्थरा ॥ १६ ॥ कलयामीन्दुकल्या भूषितां तटभूषिताम् । कम्पाया. सोर्मि कम्पाया देवता शश्वदेव ताम् ॥ १६५ ।। कुन्दराजन्नवरदा वरदानविशारदा । गारदाविनुता पातु तापातुरमिम शिवा ॥ १६६ ॥ जननी जननीतीना गिरिजा गिरि जाग्रती। महता महताटोपं तनुता तनुता शुच ॥ १६७ ॥ रमणीयतमा शभुरमणीयमुपासिता । कम्पातीरं गता नाधेः क पातीरंमदाधिकात् ॥ १६८ ॥ धरा धरार्तिकृत्पयोधराधरास्तपल्लवा । परा परापनीतितत्परा पराकरोत्यघम् ॥ १६९ ॥ अमेयविभवे भवे सहृदया दयाधनमना मनाक्सभजने । जने धृतसुमा समाधिसुगमागमालिमहिता हितास्ति जननी ॥ १७० ॥ स्यशालिकुचा लिकुचापजये वचसैव सुधा वसुधाधरभू । कलसारसना रसना भुवि मे तनुता नटन नटनर्मसखी ॥ १७१ ॥ मुदितामुदितारुणबिम्बनिभामगजामगजानुविधेयगतिम् । अधिकाञ्चि वनाभवने भवने रतिभाजमिहाकलये कलये ॥ १७२ ॥ महितया हितया जगता त्रयीपथिकपालिकपालिजुषा मयि । करुणयारुणया क्रियतां नमत्सुरगवीक्षणवीक्षणनाटिका ॥ १७३ ॥ आतिभागशनदानवासनाशालिनी जनितदानवासना । तादृशी जयति तापसी मया सेविता कृतिरतापसीमया ॥ १७४ ।। या०प्र०४

काव्यमाला।
श्रये महस्तरुणिमसंपदा मनाङ्मदारुणं दृशि वशिनामदारुणम् ।
तनुप्रभाततिपरिभूतनिर्दलज्जपावनं विनतसमाजपावनम् ॥ १७५ ॥
शिवयागमेषु लसमानवार्तया निजशीलवागलसमानवार्तया ।
खगुणोदयत्सकलभावलीलया जगती कृतारिकलभावलीलया १७६
सेवन्ते नतिमिह हारमालिकायै शर्वस्य स्तनधृतहारमालिकायै ।
तारल्यप्रकटिततादृशान्तरङ्गा वागीशादिमवनिता दृशां तरङ्गाः १७७
हितोपसपन्नवनीपकानना वितापसपन्नवनीपकानना ।
श्रिता भवानी तरसा लसन्निधौ सदा भवानीतरसालसनिधौ १७८
अव्याजनिर्मलतरैर्नखरांशुपूरैः कम्पानदीप्रमदभिन्नगजेशयानाम् ।
कर्मीकरोति मनसा भवतीमिदं मे कं पानदीप्रमदभिन्नगजे शयानाम् १७९
सहेतिमस्तच्छविपल्लवेषु शयेषु लूनाच्छविपल्लवेषु ।
त्वामम्ब सिन्दूरविभासमानां ध्यायन्ति मध्येरवि भासमानाम् १८०
सति स्मरहरन्यस्तायतमानसभावने ।
पाहि मामजहत्सेवायतमानसभावने ॥ १८१ ॥
अम्ब यस्य भवल्लास्यकलनादरसभवः।
स वेद तव सगीतकलनादरस भवः॥ १८२ ॥
अधिमस्तकमेशेन सह सारसमध्यगाम् ।
अम्बिके भवतीं पश्यन्सहसा रसमध्यगाम् ॥ १८३ ।।
त्वत्कृपा भुवने पुंसां कामाक्षि करसाधिका ।
त्वां विनानन्दलहरी का माक्षिकरसाधिका ॥ १८४ ॥
करोषि देवि दानस्ते करवैभवनाटनम् ।
कदा ते किकरीभूय करवै भवनाटनम् ॥ १८५ ॥

यात्राप्रबन्धः।
५१
नाके वलन्ते नादान्तमनसः परमेश्वरि ।
ना केवलं ते नादान्तदीपिकायास्तु चिन्तक ॥ १८६ ।।
भगवति कामाक्षि पतिप्रणयिनि भजते श्रिय न कामाक्षिपति ।
तव हि कटाक्षतरङ्गः करुणोमिनटीविशङ्कटाक्षतरङ्गः ॥ १८७ ।।
स्थितिमधिकं पारम्ये कलयसि मातः स्थले च कम्पारम्ये
सिध्यति तव पदवीक्षणतः सिध्यति पुसामजादिपदवी क्षणतः १८८
जगदुदयस्थेमहतीः कर्तुं काञ्चीपुरालयस्थे महतीः ।
अतुल चारित्रेऽधा रूपं निगमान्तसौधचारि त्रेधा ॥ १८९ ।।
द्विषति पुरामारभसे रुषमधिमौलि धृतजलधिरामारभसे ।
त्वमिव परा का रमिता तस्य शिवे दक्षिणेतराकारमिता ॥ १९० ॥
इह पिबतः स्तन्यं ते कस्य न वाचः सुधाभृतस्तन्यन्ते ।
अम्ब तदाशु भवत्या प्रदीयतामस्य सर्वदा शुभवत्या ॥ १९१ ॥
शुभमनसा कमनेन घुपतिसुताया गुहेन साकमनेन ।
स्तनरसदायजुषो मे समयं गमय स्तुते सदा यजुषोमे ॥ १९२ ॥
कार्या देवि चिकित्सा कुक्षिरुजः का दयापदे विचिकित्सा ।
स्तन्यरसायनमस्ते तमसि प्रदिशाघिसारसाय नमस्ते ॥ १९३ ।।
चिदुदधिराकारजने त्रिभुवनमातः कृतस्मराकारजने ।
तव नुतिवाचा रचये प्रपदनमजहत्प्रियोत्सवाचारचये ॥ १९४ ॥
अञ्चितशंकरवाणि त्वत्पदसेवा दिवानिशं करवाणि ।
मम न गिराजनि योगं वद वचन ते वदन्ति राजनियोगम् १९५
श्रितपतिमानसदेशे शश्वत्काञ्चया भवद्विमानसदेशे ।
भवतु शिवा सानुमति स्निग्धे तव देवि मन्निवासानुमतिः ॥ १९६ ॥

५२ काव्यमाला। इति विनिहितबुद्धिरीश्वरायां भवनमिवाद्रिपतेरसावयासीत् । निजहृदयनिरूढकामकोटे रुचिततरा वरदोपकण्ठयात्रा ॥ १९७ ॥ पार्श्वयुग्मगता यस्य प्रसूते गोपुरद्वयी । अन्तरस्थितशैलेभबन्धनस्तम्भविभ्रमम् ॥ १९८ ॥ कथ मनोविस्मयकारि तद्भवेदनन्तरं तत्र यदग्रणी सताम् । समाहितानन्तसरोवगाहन. स पुण्यकोट्या लभते स्म सनिधिम् १९९ अथ सुमतिरयमधिरूढशिखरिकूटभागमवलोकयति स्म विस्मयवि. धायि विनयगौरवावर्जिताभिरापगावेगसङ्गिवेतसविडम्बिनीभिरुत्तमाङ्गप- रंपराभिरन्योन्यनमनकर्माणि निर्मिमाणैरापाण्डरोर्ध्वपुण्ड्रमरीचिनिबिडश- रीरतया श्वेतद्वीपविहरणोचित परिणतिविशेषमिव गाहमानैः सत्वसमृ- द्धिमन्तरमान्ती बहिरिव विभावयद्भिरतिवेलबोधजलधिपूरावगाहमिलित- मिव बहलफेनपटलमाबिभ्राणैरधिकण्ठमाशये च नलिनाक्षगुणमण्डितैः सारसविहंगमैरिव समाचर्यमाणलक्ष्मणाभिमतैः कमलाकरैरिव कमनीय- जलजचकाङ्गशालिभिरम्बरकुटुम्बिभिरिव प्रकटामृताभिलाषैरञ्जलिसनाथ- मौलिभिरस्तोकविसमरस्तवैः परमभागवतसूरिभिराबध्यमानसेवानुवृत्तिमु- भयपार्श्वस्थितपरिजनकरावलम्बितैरनवरतविज़म्भमाणपतनोत्पतनकर्मभि- रलघुनिर्मलाशुडामरैश्चामरे. स्वकरुणारससुधापयोधिवीचिनिचयैरिव समा- चरितविजनोपचारमनधिगतवेपथुभिरपनिमेषचापलमात्मीयरूपसपदमनु- भवद्भिरिव दीपिकाप्ररोहैरवभासितभूषणप्रपञ्च काञ्चीमध्यमण्डलमाखण्ड- लनीलमिव लक्ष्यमाणमेकेन पाणिना वारणविरोधियादोनिषूदनाय पत्या- हमविनियुक्तति कन्दलितादिव मन्दाक्षभरादधोमुखी कौमोदकीमवष्ट- भ्य तिष्ठन्तमिदमेव मदावलभयविदारणमित्यभयमुद्रानुबन्धिना करान्त- रेण सुदर्शनमिव प्रदर्शयन्त शुण्डालवरनिवेदित पुण्डरीकमुकुलमिव

यात्राप्रबन्धः।
समञ्चितं पाञ्चजन्यमापाटलाङ्गुलीदलशोभावगुण्ठितमचिरखण्डितग्राहरु-
धिराङ्गमिव रथाङ्गमपि हस्तारविन्दयुगलेन सदधानमध्युषितनिकषमध्या-
मपि कनकरेखामलकृतगगनागणामपि तरुणारुणकिरणधोरणीमम्बुदक-
तावलम्बामपि शम्पालतामधिक्षिपन्त्या वक्षोनिविष्टया लक्ष्म्या समाश्लि-
ष्टवपुषमभिनवबन्धूकरोचिषि दन्तवाससि चन्द्रिकाशकलपेशल स्वीकृ-
तवपैकदेशमिव हसितलेशमुद्वहन्त पुन्नागमपि भुवनमण्डलीतिलक पूत-
चारित्रमपि भुजगभोगभुज हरिमपि प्रथमानकरिहार्दगरिमाणमसमान-
महिमशेवधि निरवधिविभूतिमनिमेषपतिम् ।
अङ्गत्विषामञ्जनमेचकाना व्याजेन विस्तारयति स्फुट यः।
कठोरवक्षःस्थलकेलिभाजो लक्ष्म्या नवेन्दीवरपत्रशय्याम् ॥ २०० ॥
वेदाकरा नीलमणेस्त्रिलोकीविभूषणानामपि भूषणस्य ।
अलक्रिया यस्य किरीटमुख्यैरनुग्रहः केवलमेव तेषाम् ॥ २०१ ॥
आपादचूडाभरणेषु लक्ष्मीराभाति यस्य प्रतिबिम्बिताङ्गी ।
आक्रम्य हृन्मध्यमपूर्णकामा समश्नुवानेव तनु समस्ताम् ॥ २०२ ।।
यद्भषणेषु हरिनीलमलीमसेव
मुक्ताफलाम्भसि निमज्जति दृग्रमायाः।
शोणोपलातपमुपैति जडीकृतेव
तप्तेव याति हरिदश्मतमालवीथीम् ।। २०३ ॥
यत्कौस्तुभप्रतिभटोपलसंग्रहेच्छु-
रुद्धृत्य पूर्वजलधेर्मणिमम्बरस्य ।
नक्तंदिवस्फुरणहीनममु विचिन्त्य
वेधा निरस्यति मुहुश्चरमाम्बुराशौ ॥ २०४ ॥

काव्यमाला।
खबिम्बमन्तर्मणिराजमीक्ष्य जायान्तराशङ्किहृदः प्रियायाः ।
क्षण समुद्यत्किलिकिञ्चिताना यः पात्रतामेति दृगञ्चलानाम् ॥ २०५॥
उद्दामबाहुभरमुद्धृतकण्टकस्य
यस्योपधाय सुखसुप्तिजुषस्त्रिलोक्याः ।
क्षौमोत्तरीयमिव निःश्वसितप्रणुन्न-
मास्ते महश्चटुलमङ्गदमौक्तिकानाम् ।। २०६ ॥
यस्य वरदस्य हस्तो रहस्तो हृतपराग्रहस्तोमः ।
कटकं बिभर्ति मानोत्कटकञ्जमुखीविनोदसघटकम् ॥ २०७ ॥
शावककृष्टिपुरोगतिजगदभयत्यागदृष्टकौशलयोः ।
सव्यापसव्यकरयोर्घटते मणिकङ्कणार्पण यस्य ॥ २०८ ।।
अन्तर्बहिरपि शुचयः कटकजुषो यस्य वृत्तकमनीयाः ।
हृद्तपरखरूपा मुक्तामणयो विभान्ति मुनय इव ॥ २०९ ॥
कटककुरुविन्दकान्तिस्थगितान्मणिदाममण्डलाद्यस्य ।
करपल्लवः क्षणार्ध हारग्रहणाय हन्त सदिग्धे ॥ २१० ॥
सरसि विहृत्य वधूमि. सतरतो यस्य निर्जरेभस्य ।
कटकहरिन्मणिकान्तिः सृजति कराकृष्टकमलिनीशङ्काम् ॥ २११ ॥
मध्येरण कटकमौक्तिकधामगौरो
यन्नन्दकः परिपतन्नरिकन्धरासु ।
वैमानिकायतदृशा वरणागतानां
सूते वराप्तिसुरद्रुममाल्यशङ्काम् ॥ २१२ ॥
रणे बलाकृष्टसुरारिलक्ष्मीवेणीव सा दीव्यति यत्कृपाणी ।
तद्वान्तजातीकुसुमानुकारं तन्वन्ति यत्कङ्कणमौक्तिकानि ॥२१३॥

यात्राप्रबन्धः। यदिव्याभरणोच्चयस्य महिमश्लाघाविधाने तथा हर्षात्कम्पयते फणादशशतीमाशीविषग्रामणीः । पर्यस्येत यथा धृतश्चिरमदः प्रत्युप्तरत्नाकुर- प्रौढालोकनिरर्थकीकृतमणीवृन्दातिभारश्रमः ॥ २१४ ॥ तदनु दनुशासनाय विनयोपहृतमौल्यानतिरसौ कल्याणिनेयः कौतु- कविकसितेक्षणो नवनवाक्षराणि कतिचिदेवमस्राक्षीत् । काचिन्नीला भासा करुणा विकसद्रुमावनीलाभा सा । कृतरचनाम्नायततेः स्थितये लोकस्य वरदनाम्ना यतते ॥ २१५ ॥ स्फुरदपदानवलोऽपः सिन्धोरवगाह्य क्लुप्तदानवलोपः । नितरामायामी नः श्रियमनवद्यां तनोतु मायामीनः ।। २१६ ॥ अरिजलजगदाधारं दूरं वचसामशेषजगदाधारम् । खीकृतकच्छपदेह सेवेऽह (त) कृताब्धिकच्छपदेहम् ।। २१७ ॥ बाहुषु सुरसालाभः प्रलयजलान्तःप्रणीतसुरसालाभ. । किटिरुरुनासावश पूर्णो भावः परस्य नासावंशः ।। २१८ ।। अघमभितापं चास्यन्नमतां वक्रेण भाखता पञ्चास्यम् । सृजदरिवक्षो दमित भजत महस्तदसृगभिनवक्षोदमितम् ॥ २१९ ॥ निजपदराजीवेन न्यकृतदैतेयशेखराजीवेन । कलितमहामहिमानः कल्पयतां शर्म घनमहा महिमा नः ॥ २२० । विरचितपरशुभरणया त्रिसप्तवारावनीपरशुभरणया । सहृतकृतवीर्यजया श्रीपतिकलया भवाम कृतवीर्यजयाः ॥ २२१ ॥ पशुपतिचापलतायाः पाटयिता जयति पदमचापलतायाः । य. किल साकेतपतिः खयमटवीमाप पितरि साकेतपति ॥ २२२ ।।

काव्यमाला।
आहतहालाहलया हतमुष्टिकमुख्यदुष्टहालाहलया ।
श्रयत हरिज्यायस्या श्रेयःकलया सशस्तिरिज्या यस्याः ॥ २२३ ॥
धानो वशस्तस्य प्रकाशता बिभ्रदारव शस्तस्य ।
अतिसुकुमारमयन्त मधुमयता गोपसतितमा रमयन्तम् ॥ २२४ ॥
मुरली वादयमाना मोद पशुपालनोत्सवादयमाना ।
सदृशी तापिच्छेन स्फुरति कृपा शिरसि भूषिता पिञ्छेन ॥ २२५॥
हरिमभिजातोदन्त वन्दे कृतबाणबहुभुजातोद तम् ।
वक्षसि परमा यस्य क्रीडति लक्ष्मीरपोढपरमायस्य ॥ २२६ ॥
अधिगतकल्यन्तेषु म्लेच्छेषु सृजत्सु वृषमकल्य तेषु ।
नटितभुजातरवारि ज्योतिरुपासे भयोपजातरवारि ॥ २२७ ॥
सार्थयन्वरदाभिख्यां साधून्पुष्यत्यय वरैः ।
सत्यव्रताधिका
॥२२८॥
क्रन्दति करुणमिभेन्द्रे क वैनतेयः क वैनतेय इति ।
उक्त्या सह फणिशयनादुच्चलतस्ते स पातु सरम्भः ॥ २२९ ।।
श्रीचाटुवाणीश्रवणान्तरेऽपि गर्जेव भेजे करिणः श्रुति ते ।
आपन्नरक्षाध्वरदीक्षिताना पुसा न भोगाभिनिवेशयोग ॥ २३०॥
मधुपानुबन्धमनिश मदान्धता रसनाविपर्यसनमप्यचिन्तयन् ।
अतिभक्तिमेव करिणस्त्वमग्रहीर्गुण ता खलु गुणो महीयसाम् २३१
रमेश कारुण्यरसाम्बुराशेः समुजिहानो भवतः सवेगम् ।
चक्रारुणो नक्रतमिस्रहारी बभार पद्मिन्यनुकूलभावम् ॥ २३२ ॥
भवत्सायुज्यलाभेऽपि भवादतिशयान्तरम् ।
भजते स न वेतण्डो भवन्मुक्तैकसश्रयः ॥ २३३ ॥

यात्राप्रबन्धः।
यस्ते कटाक्षविधिरार्तिमिते गजेन्द्र
यश्चास्य पीडनविधायिनि शिशुमारे ।
तत्तादृशोर्वरदराज तयोरिदानी-
माद्य निधेहि मयि मद्बुजिने द्वितीयम् ॥ २३४ ॥
अजाश्वमेधाध्वरकल्पशाखिनः पचेलिम तत्फलमच्युताकृति ।
अहो बताभिष्टुवतोऽपि सौहिती मनीषिणां मौलिमणेरवर्धत ॥ २३५ ॥
इति समरपुगवस्य कृतौ चम्पूफाव्ये तृतीय आश्वास ।
न
चतुर्थ आश्वास ।
अन्तर्वाणिरसौ गेहमरुणस्तु नभोन्तरम् ।
तौ विष्णुपदससेवातत्परौ लब्धुमैच्छताम् ॥ १ ॥
तथा हि । तरलतत्कान्तिमपद्विडम्बितजाम्बूनदकुम्भमम्भोजसचिव-
बिम्बमम्बरसौधशिखरमालम्बत ।
मुक्तारुचो मूर्धनि हर्म्यकेतोरासक्तमम्भोरुहबन्धुबिम्बम् ।
तस्याः पुरोऽराजत दण्डशालि हिरण्मयच्छत्रमिवावभासे ॥२॥
प्रादुर्भूत प्राग्दिशा विप्रयोगादाबिभ्राणो हन्त सतापभारम् ।
काले तस्मिन्कामुकः पद्मिनीनामन्यैर्भेजे दुर्निरीक्ष्यामवस्थाम् ॥ ३ ॥
भूत्वा मृदुः पुरा पश्चात्तीव्रो गति दिनेश्वरः ।
प्रायो वसुसमृद्धाना प्रकृतिः किल भिद्यते ॥ ४ ॥
अपहत्य कुलान्यभीशुमाली जगदन्धकरणानि शार्वराणाम् ।
प्रकटीक्रियमाणभीमभाव प्रतिपेदे परदुःसहं प्रतापम् ॥ ५ ॥
विभज्य विश्वभरया नदीभिराशागणैरप्यनुभूयमानः ।
जज्ञे वियत्प्रान्तरयानजन्मा तापातिरेकस्तरणेरसह्यः ॥ ६॥

काव्यमाला। उपगच्छति येन साकमुच्चैरुदया(द्रौ) जगदुष्णधाग्नि तस्मिन् । अखिलात्मनि तापमश्नुवाने तदभूतप्तमिहास्ति कि विचित्रम् ॥ ७ ॥ अहह ततिरशेषदेहभाजामपि पुरत स्थितिमीक्षितु तदानीम् । अभजत भृशमक्षमामवस्थां त्रिभुवनचक्षुषि दर्शितप्रकोपे ॥ ८॥ निरतिशयतापनिर्वापणायेव कमलकुवलयकलारविपिनानि किमपि परिममर्श तरणिकरनिकरः। किमुत बहुदूरसरणिसचरणारचितसज्वरघनाः पञ्चजनाः। तत्क्षण च नगरमक्षान्तमिहिरसतापतया सेव्यमानकदलीगृहा- न्तरमभिनन्धमानशशिकान्तमणिवेदिकमधिरुह्यमाणसरसकुसुमास्तरणम- भ्यस्यमानकर्पूरालेपनमारभ्यमाणधारागृहासिकमासाद्यमानकासारखेलन- मुद्भाव्यमानगन्धोदकयन्त्रशीकरासारमुद्भूयमानलामज्जकव्यजनमुपयुज्य- माननवनालिकेरसलिलपरिचीयमानपाटीरपङ्कमेदुरवधूटीकुचाचलमजा- यत। कुचमण्डलमालिलिङ्ग कण्ठ जगृहे वक्रसरोरुहं चुचुम्बे । स्पृशति स्म नितम्बमारुरोह प्रमदानां जघनं श्रमाम्बुपूर ॥ ९॥ तालवृन्तपवनादभिकानामुत्तरीयमरुदजमुखीनाम् । प्रीतयेऽजनि ततोऽपि विसर्पन्वक्रसीमनि तदास्यसमीरः ॥ १० ॥ पयोधरोत्सारितकञ्चुकानां प्रासादवातायनसे विनीनाम् । स्त्रीणां जहार श्रममन्जगन्धी सशीकरो वेगवतीसमीरः ॥ ११ ॥ वीचीकणैः पौरविलासिनीना व्यत्यस्तवक्रश्रमवारिलेशः । खसौरभक्रीतशिरोजगन्धः क्षीरापगागन्धवहश्वचार ॥ १२ ॥ प्रतिसौधगवाक्षलक्षितप्रमदावत्रशता पुरी बभौ । मिहिरज्वरवारणोदयन्मृगलक्ष्मावलिभूषितेव सा ॥ १३ ॥ १ पीतच्छवितृणविशेष ।

यात्राप्रबन्धः। ५९ तदनु निर्गस्य सरोजनेत्रसदनादतनुशासनसमाराधनाय नवकुसुमनि- चयमवचिचीपुरयमवतरति स्म विविधतरुकोटरकोडपरिक्रीडमानचिकोडं पतनदलितनालिकेरफलपरिग्रहव्याशावकपरिषदाबध्यमाननियुद्धकोला- हलं विटपितलनिषण्णविटजनोत्सङ्गनिद्राणपुष्पलावीपरिष्कृत दिवसकर- भीतशीतलतानिरातङ्कवसति गजतुरङ्गसंदोहमन्दुरा चारुतरवीरुन्नटिनी- निवहनर्तनानर्तमही प्रमदोपगूढमिव मन्मथारूढहृदय बहिरिद्धकण्ठकं च विन्ध्यमिव नमेरुविरचितामोद व्याप्तनभस्थलं च पथिकशरीरमिव प्रियालोपहृतशोभं प्रत्यग्रलोध्रपाण्डरं च पतिंवरापरिगृहीतमिव भासुरम- धूकमालिकाभूषितं प्रथमानमगल च राशिमण्डलमिव मन्दारमण्डितपुष्प- वदलकृतं च स्वर्लोकराज्यमिव सहस्राक्षसमन्वित सभावितरम्भाविलास च पार्थिवसदनमिव पृथुलसालवलयित कोशपरिपूरित च दैत्यारिरूपमिव भद्रश्रियाञ्चित धात्रीनिषेवित च सज्जनशीलमिव समधिकद्विजपक्षपातमा- श्रितसतापहरं च वल्लकीवाद्यमिव रुचिरप्रवालशोभितमभिरूप्यककुभं च फणिराजशयनमिव कृष्णलाभासित सदाभोगसहित च गणिकासनाथ- मपि विमलखभावमविरतजपानुबन्धमपि बहुतरारिष्ट जातिविशिष्टमपि नकुलचरितान्वित सरलोदितच्छायमपि कुरबकसमग्रं सुकवीरशोभास्प- दमपि साध्वसदृगन्तर प्रकटितस्पर्शनमपि नवनीपकाभिराममुत्फुल्लचिरि- बिल्वमुल्लासहरितमल्लिकमुन्निद्रपुन्नागमुन्मुद्रणातिमुक्तमुद्भिन्नकर्णिकारमु- न्मेषशोभिकेसरमुज्जम्भमाणचम्पकमुद्विकासवासन्तिकमभिजातहसित केतकमारब्धविदल्नारग्वधमतितन्त्रमुचुकुन्दमावृन्तविकचमाकन्दमाक- लितजागराशोकमवबोधशालिनवमालिक निखिलजननयननिर्मागफलमु- न्मीलयता तारतम्यातिशयेन खाण्डवमपि निकर्षताण्डवस्य वृन्दावनमपि मन्दाक्षसपदो नन्दनमपि भूरिनिन्दनविधेरशोकवनिकामपि निराकरण-

६०
काव्यमाला।
कर्मणो मधुवनमपि पृथुघृणावतरणस्य चैत्ररथमपि महात्रासपरिणतेः
पात्रीकुर्वाणमलिपटलजेगीयमानसरसर्तुसाधिमास्पद परभृतकदम्बपापठ्य-
मानपञ्चशरबिरुदप्रपञ्च शुकशारिकानिकरजोधुष्यमाणपुराणपुरुषहृयाव-
दानमुद्यानम् ।
पिकनिनदमयी नयन्प्रियोक्ति प्रसवरसप्रमदाश्रुबिन्दुवर्षी ।
उपवनपवनस्तदाभिधावन्परिरभते स्म तमानत सगन्धः ॥ १४ ॥
तत्र पुनरत्रभवानशेषसुमनोविकासहेतुरसौ वसन्त इव समन्ततो
विटपिवाटीषु पर्यटन्भवितव्यशिवपदाम्बुजसपर्कबहुमानसमदादिव विस्म-
यमानमभिजातकुसुममाददानो जयविशिखसग्रहणशीलमकराङ्कविलास-
भूयिष्ठतनुरिदमाचष्ट ।
मधुव्रतक्षोदसह म्रदीय सदोपभोगेऽपि ससौरभीकम् ।
पुष्प प्रसूते भुवि कस्तरूणामग्रेसरं केसरमन्तरेण ॥ १५ ॥
संदृष्टा किमु कापि हानिरियता चाम्पेयलोलम्बयो
रस्राक्षीन्न परस्परं यदुभयोरम्भोजभू. सौहृदम् ।
मापालैरुपलाल्यते न शिरसा कि चाम्मकः कोरको
भृङ्गः कि कमलाकरेषु न मुहुः प्राप्नोति लीलासिकाम् ॥ १६ ॥
ललिता त्व लतावलीषु जाते सुकुमारः समयेषु माधवोऽपि ।
प्रणयद्यदि सगति भवत्या स भवेत्सर्वगुणाकरस्तदानीम् ॥ १७ ॥
हे कर्णिकार मुहुरीश्वरवल्लभत्व
सतप्तहेमसमता च तवेति हृद्यम् ।
आमोदभारमलिमानसलोभनीय-
माविष्करोषि न यदत्र परं व्यथा मे ॥१८॥

यात्राप्रबन्धः।
६१
भजतश्चपलोदये विकासं रजसा दूषयति खसेविनोऽपि ।
प्रमथेशपदार्चने निषेधो भवतः केतक युक्तमेव मन्ये ॥ १९ ॥
कर्पूरस्य पदे चिताग्निभसितं क्षौमस्य नागत्वच
प्रासादस्य परेतभूमिमुरग प्रत्यग्रमुक्तावलेः ।
दिव्याहारभरस्य किच गरलं देवेन सतन्वता
स्थाने काञ्चन पारिजातकुसुम स्थाने भवद्धारणम् ॥ २० ॥
प्रमथाधिपार्चनायै बिल्व भवत्पत्रभङ्गरचनैव ।
मूलमनघेन पुसा मुक्तिवधूपत्रभङ्गरचनायाम् ॥ २१ ॥
श्रीखण्डसालजगतीविदितानुभाव
तत्तादृशी सहनतां तव कि वदाम. ।
काम यत कठिनदारणदार्यमाण-
देहोऽपि गन्धनिवहेन जनान्धिनोषि ॥ २२ ॥
पौष्पैः कल्पयसे रसैर्मधुलिहा वृन्दस्य सतर्पण
छायासपदमातनोषि जनतासतापनिर्वापिकाम् ।
पुष्णासि खयमदुरै शुभगिरा पुस्कोकिलाना कुल
धान्यामत्र तवैव चूतविटपिन्धन्या महाभ्युन्नतिः ॥ २३ ॥
उद्यानादथ मज्जनाय सुमना मध्याह्नहृद्येतर-
च्छायानायकसज्वरप्रशमनोपायादुपायात्सरः ।
पाथोजावलिशीधुहृष्टमधुपत्रातप्रणादक्रिया-
सगीतोत्तरनृत्तकौशलमिल गृङ्गालि रगस्थलम् ॥ २४ ॥
अधिगत्य च कासारमयमित्यभाषत ।
नीरजानि जलनीलिकाभरैः साकमेव सततं बकैः सह ।
मण्डलीमपि च मानसौकसां पुष्यति स्फुटमसौ जलाशयः ॥ २५ ॥

६२
काव्यमाला।
---
ग्राहाजिनीकण्टकपङ्कराशीनन्तदुरन्तानपि सदधानः ।
बहिर्गतैरम्बुजराजहंसैर्बध्नाति विस्रम्भमयं तटाकः ॥ २६ ॥
हे पद्माकर मा विषीद जगतीचेतःप्रियभावुको
धत्ते यत्त्वयि चन्द्रमा विमुखतां तस्यैव तल्लाघवम् ।
सौहित्यप्रतिपादने तव पुनः शक्ताः परिष्कुर्वते
पृथ्वीमध्यममी पराकृततमोदर्पा रवे नवः ॥ २७ ॥
अनन्तरमसावनियन्त्रणस्नेहपरवशानुचरो निजकरविलुलितोदकमवगा-
ह्यकमलाकरमवचितसरोजपरिष्कृताग्रहस्तः समुत्तीर्य वारितो निषेवित-
दिवसबन्धुरयमवनिसुरधुरंधरो मन्दिराय मन्दमन्दमस्पन्दत ।
गत्वोपकार्यां कलितेशपूजः स भुक्तवान्भूसुरभुक्तशेषम् ।
ब्रह्मोद्यपाठ प्रतिपद्यते स सुचर्ययाः समय नयन्ते ॥ २८ ॥
तथा हि।
एष दुहृदनुरोधहेतुक भेदमात्मपतिना सम गतः ।
आपदामहह भाजनीभवन्पूरुषो भजति भूयसी व्यथाम् ॥ २९ ॥
ईशवासरमणेरदर्शनादेधमानधनमोहशार्वरः ।
सनिकृष्टमपि शश्वदात्मनो हर्षशेवधिमसौ न पश्यति ॥ ३० ॥
बोधचन्द्रमसि पूर्णविग्रहे मोहराहुमुषिताकृतौ सति ।
खानदानयजनादिकान्यसौ मोचनावधि मुदानुतिष्ठति ॥ ३१ ॥
आ रसातलतलादयं विधोरा च वासभवनाद्गतागतैः ।
खिद्यमानहृदयो गवेषते स्फारविश्रमसुखास्पदं पदम् ॥ ३२ ॥
आधिवीचिमदनादिसमृतिव्याधिभेषजविशेषवेदिनम् ।
शर्मदं शरणमेयुषामयं ब्रह्मनिष्ठभिषजं प्रपद्यते ॥ ३३ ॥

यात्राप्रबन्धः।
देशिकोक्तिदृढकुञ्चिकाकृते गाढविभ्रमकवाटपाटने ।
आगमान्तवसुमन्दिरान्तरादर्थमिष्टमनघोऽयमृच्छति ॥ ३४ ॥
पण्डितः पटुविचारशस्त्रिकाव्यस्तकोशमयवल्कसंहतेः ।
सारमाकलयते जगद्धनक्षमारुहाकिमपि नित्यनिर्मलम् ॥ ३५ ॥
मानतर्कमयवारिधारया क्षालितेषु गगनादिपांसुषु ।
अन्तरङ्गफलकान्तरे सुधीरीशताद्रविणमीक्षते निजम् ॥ ३६ ॥
पारदुर्विधसुखप्रकाशके तत्त्वबोधतनयोदये सति ।
अस्य कर्मकरणाधिकारिता नानटीति न कदाचिदप्यहो ।। ३७ ।।
विश्वकण्टकिफलं विशुद्धया वेदनच्छुरिकया विदारयन् ।
आन्तरं रसममुष्य निर्ममः सर्वथा निरुपम समश्नुते ॥ ३८ ॥
विप्रयोगसमये स्वमायया विक्रियाशतमुपैति पूरुषः ।
हन्त मुक्तिरमणीमवाप्य तामेष निर्विकृतिरेव तिष्ठति ॥ ३९ ॥
मुक्तिसगतिमहोत्सवो मुनेरीदृशोऽयमिति केन वर्ण्यते ।
चेतसा सह यतो निवर्तते श्रेणिरागमशिरोगिरामपि ।। ४० ।।
अपि च ।
चित्तेन वृत्त्या विषयेण सगान्मातृप्रमामेयदशा प्रपन्नः ।
आत्मैक एव प्रतिभासते चेदतः किमन्तर्मुखतास्ति भिन्ना ॥ ४१॥
निःसन्धिबन्धं निगमान्तवाचः परप्रतीचोरभिदा वदन्ति ।
सा च स्वरूपानतिरेकिणी चेदहप्रतीतेरपरो न योगः ॥ ४२ ।।
अजादिकीटान्तमनर्थजातमध्यस्तमेवात्मनि बोधरूपे ।
स एव चेदस्ति भवेन्निवृत्तिरतः परं कि पुनरस्ति साध्यम् ॥ ४३ ॥
इतीदृशीमागमदेशिकाभ्यामधीयमानामवबोधनावम् ।
द्रढीयसीमेत्य तपोभिरेकः पारं परं याति भवाम्बुराशेः ॥ ४४ ॥

६४ काव्यमाला। किं च। विना मृडप्रपतन विगमो न हि जन्मनाम् । भाखतो दर्शनमृते प्रशमस्तमसामिव ॥ ४५ ॥ आधिक्यमसाजगतोऽधिगन्तु विश्वाधिकोक्तर्विषयं प्रपद्ये । कालग्रहग्राहभयापनुत्त्यै कृतान्तशिक्षाकृतिनं प्रपद्ये ॥ ४६॥ शृङ्गारभूजृम्भणवारणाय प्रसूनकोदण्डरिपु प्रपद्ये । विनेतुमार्ति विषयाध्वजन्यां वद्रुमाधोवसति प्रपद्ये ॥ १७ ॥ मोहातिरेकस्मयमोषणाय पादार्दितापस्मरणं प्रपद्ये । कर्माटवीपाटनकौतुकेन पाणौ विराजत्परशु प्रपद्ये ॥ ४८ ॥ विशुद्धविज्ञान विकासहेतो. प्रबोधमुद्राभरित प्रपद्ये । तापत्रयाटोपसमापनाय प्रालेयधामाभरणं प्रपद्ये ॥ १९ ॥ वैमल्यसपादनवाञ्छयाह मन्दाकिनीमाल्यधरं प्रपद्ये । प्रसादलाभ परमीहमानो मुग्धस्मितोल्लासिमुख प्रपद्ये ॥ ५० ॥ व्यथामशेषा व्यपनेतुकामो नाम्ना मृडं नाथमहं प्रपद्ये । ॥ ५१॥ सर्वज्ञतासारभृत प्रपद्ये निःसीमसौहित्यनिधिं प्रपद्ये । अनादिबोधायतन प्रपद्ये स्वतन्त्रतायाः सदनं प्रपद्ये ॥ ५२ ॥ हरं प्रपद्येऽहमलप्तशक्तिममेयसामर्थ्य महं प्रपद्ये । शिव प्रपद्ये जनकं विधातुरीश हृषीकेशगुरुं प्रपद्ये ॥ ५३ ॥ इति प्रपत्तिमीशस्य तन्वते तत्त्वदर्शिनः । तत्क्रतुन्यायरसिकास्तत्तादृशफलाप्तये ॥ ५४ ॥ तदनु तदनुवर्णितशास्त्रसमाकर्णनादिव विरक्तभावमापाद्यमानः कमपि शमप्रकर्षमुपदर्शयन्नरुणसारथिरवततार चरमगिरिशिखरम् । ...... .... .

यात्राप्रबन्धः। अस्ताद्रिशृङ्गादतिमात्रतुङ्गादात्माधिनाथं पतयालुमब्धौ । द्रष्टुं नलिन्यो धृतभीतिमारा न्यमीलयन्नीरजलोचनानि ॥ ५५ ॥ नमस्तमालद्रुमपल्लवाभा नव्या बभौ सान्ध्यमयूखरेखा । अम्भोधिनिर्मजदभीशुमालिरथापकौसुम्भपताकिकेव ॥ ५६ ॥ दिवसकरविप्रयोगतनीयसीनामाशाविलासिनीनामसितजलदानुका- रिणी वेणिकाधोरणीव तमिस्रपङ्सिरदृश्यत । प्रतिवेश्म तमिस्रण बन्दीकृत्य नियन्त्रिताः । प्रभा इव पतंगस्य दीपरेखा दिदीपिरे ॥ ५७ ॥ सपदि गगनपथादपसरता वास(र)करेण सरभसानुसरणोद्भटतमःप्र- तिभटविलोपनाय विस्तारितानि परिष्करणमुक्ताफलानीव तारकापटला- नि ददृशिरे। तमिस्रकस्तूरिकयानुलिप्ता प्रदीपचाम्पेयकृतावतसा । वाटी हरिद्वासकसज्जकाना बबन्ध चन्द्रागमनप्रतीक्षाम् ।। ५८ ।। अत्रान्तरे सिन्धुरवापदेशादानन्दयन्सर्वदिगन्तराणि । ध्वान्ताभ्यमित्रीणतुषारतेजः प्रयाणभेरिध्वनिराविरासीत् ॥ ५९ ॥ आगत्य संकोचभृतः सरोजादिन्दीवरं यावदलिस्ततोऽपि । मौनस्पृशो यातुमियेष तावदिन्दुस्तदुबोधकरो जजृम्भे ॥ ६० ॥ विगतसकलाशाविकासकर्मणि परिहृतविषयानुभावे संमीलितसरो- जचक्षुषि तेजः किमपि दीपाकारमन्तरनुसदधाने कालकर्मन्दिनि पृथु. लतमःपटलभेदमुपपादयन्प्रबोध इव सुधाकरो भगवान्प्रादुरभूत् । द्यौरिन्दुनाधूतपुरस्तमिस्रा पश्चाच्च रिसत्तिमिरा बभासे । हृतोत्तरीया हृदयेश्वरेण तन्वी नितम्बस्तिमिताम्बरेव ।। ६१ ॥ संध्यारुणं प्रागथ सान्धकारं पश्चान्नभः प्लावितमिन्दुभासा । या०प्र०५ काव्यमाला। रेजे विराजत्क्रमजम्भमाणरजस्तम सत्त्वमिवान्तरङ्गम् ॥ ६२ ॥ प्रह्लादने महसि तत्र सतिप्ररूढे वाराकराम्बुलहरी ववृधे यथेष्टम् । चन्द्रोपलाः सरसतामधुरुत्पलानि चक्रुः स्मितं किमुत यानि सचेतनानि ॥ ६३ ।। न चेपुराणौ पुरुषौ नताङ्गीवशवदोरःस्थलवामभागौ । तादात्विकं तावपि न क्षमेतां कामोद्यमं का गणना परेषाम् ॥ ६४ ॥ काञ्चयां तदा कामकलाजनीति किमद्भुत तत्र कृतान्तशत्रोः । तथा स्मरन्दग्धवतोऽपि देहे सदृश्यते शैलसुतास्तनाङ्कः ॥ ६५ ॥ तथाहि । विलासिनी काचन विप्रयुक्ता सतापिताङ्गी नवचन्द्रिकाभिः । विगर्हणापूर्वमिदं विषण्णा जगाद चन्द्रसरगन्धवाहान् ॥ ६६ ॥ कोदण्डदण्डः कुरुनन्दनेन मुक्तो रुषा मूर्ध्नि शशाङ्कमौलेः । हिमथुते यत्त्वयि नापपात मद्दुष्कृतानां महिमा स एषः ॥ ६७ ॥ पान्थावलीभञ्जनसचितेन दोषेण दोषाकरता तवेन्दो । आलोकिते त्वय्यत एव चक्रैराशास्यते चण्डकरावलोकः ॥ ६८॥ क्षपाकरक्ष्वेल विभावये त्वा हालाहलादप्यतिमात्रघोरम् । स कण्ठ एव स्तिमितः स्मरारेरुपागमस्त्वं पुनरुत्तमाङ्गम् ॥ ६९ ॥ घिग्धिक्त्रिलोकीजनगर्हणीयां चारित्रमुद्रां तव शम्बरारे । भवन्तमेकं परिहृत्य के वा धनुर्भूतः स्त्रीषुपराक्रमन्ते ॥ ७० ॥ मुग्धासु चेतोभव मादृशीषु मुहुर्भवान्यत्प्रकटीकरोति । ऋद्धे पुरद्रोहिणि पौरुषं तत्क वा विनिद्रातुमगात्तदानीम् ॥ ७१ ॥ आखेटमध्वन्यवधूमृगेषु प्रपञ्चयन्पञ्चशरः किरातः । पिकालिगीतिप्रचुरो वसन्ते मही मरुद्वागुरया निरुन्धे ॥ ७२ ।।

यात्राप्रबन्धः।
७
संभ्राम्यदिन्दिन्दिरचक्रनेमिसीमन्तिताशेषदिगन्तसीमा ।
महीतलान्धकरणः परागैर्मश्नाति पान्थानतनोः शताङ्गः ।। ७३ ।।
तत्तादृशा दक्षिणतागुणेन विभावयन्विश्वसनीयभावम् ।
मरुन्नवोऽय बत मादृशीषु प्रभञ्जनत्व प्रकटीकरोति ॥ ७४ ॥
मध्येनितम्ब मलयाचलस्य स्पृष्टो नु दावाग्निशिखाकलापैः ।
विषोमिलव्यालमुखच्युतो वा मन्दानिलः सौति ममाङ्गतापम् ॥ ७५॥
उष्ण. खभावादनिलार्भकोऽयमुपाधितः शीतलता दधाति ।
आलिङ्गनादस्य कथ घटेत पत्रावशोष. परथा लतानाम् ॥ ७६ ॥
उष्णच्छिदामुष्णनिषेवणेन भिषग्जनाः प्राहुरिति प्रतीताः ।
कुम्भीनसा घोरविषोष्णशान्त्यै पिबन्ति बालानिलमुग्रवीर्यम् ॥ ७७ ॥
हराक्षिकीलाभिहता रतीशप्राणानिला एव परं धरायाम् ।
पटीरशैलानिलकैतवेन पान्थावलीप्लोषकृतो वलन्ते ॥ ७८ ॥
खय जगत्प्राणतया खधाम वियोगिनीविग्रहचक्रवालम् ।
नभखतो निर्दहतः कृशानुरवाप्तजन्माभवदाश्रयाश• ॥ ७९ ॥
शितो यतः शैत्यमतो बिभर्ति नवः समीरो न तु शीतभावात् ।
अस्यावलेहं सृजतामहीनां भिन्ना रसज्ञाः परमत्र मानम् ।। ८० ॥
पटीरशैलेन्द्रफणाधरेभ्यो जनावलीजीवितमोषविद्याम् ।
अभ्यस्यता चेदमुना गृहीता निद्रापि नैष प्रसरेद्विषादः ॥ ८१ ॥
अय भुजङ्गावलिपीतशेषः समीरपोतः स्वविकासहेतोः ।
वियोगिनीजीवितमारुतानामसशय संग्रहणं तनोति ॥ ८२ ॥
निरागसामध्वगसुन्दरीणामुद्वेगदानादुपजातरोषाः।
खच्छन्दमन्त. श्वसन निरुध्य मन्ये निगृह्णन्ति महानुभावाः ॥ ८३ ॥
जगत्रयोपद्रवशातनाय पीताम्बुराशिः प्रथमो मुनीनाम् ।
बालानिलाब्धि च पिबेदवेल न चेदयं नागविलीढशेषः ॥ ८४ ॥

६८ काव्यमाला। अगस्त्यदिङ्मारुतमापतन्त वृष्टेरवग्राहमुशन्ति वृद्धाः। अहो भवत्यस्य समागमेऽपि वियोगिनीलोचनवारिवृष्टिः ॥ ८५ ॥ और्व पयोधेरवलेपशान्त्यै समीरणस्यापि च सर्पजालम् । विधिर्विदध्यान्न यदीयमुर्वी कथं न जायेत कथावशेषा ।। ८६ ॥ श्रीरामविश्लेषविषण्णसीताप्राणप्रतिष्ठापनवीततन्द्रः । स्त्रीणामसुग्रासपटोः समीरादतो हनूमान्कथमाविरासीत् ॥ ८७ ।। विना जगत्प्राण भवन्तमेषा विश्वत्रयी न श्वसितुं क्षमेत । ईदृग्विधेऽपि त्वयि खेदहेतौ वियोगिनीभिर्वद कि विधेयम् ।। ८८॥ धर्मच्युतस्योचितमाशुगस्य तीक्ष्णाकृतेर्देहिवधैकरस्यम् । आवि.सुधर्माश्रयणस्य ते तु दाक्षिण्यधन्याशुग तद्विगेयम् ॥ ८९ ।। भवन्तमाहु प्रथमेशमूर्ति पदार्थशुद्धेः परम च हेतुम् । सदागतिं चात्र समीर किं ते युक्त वियुक्ता युवतीनिहन्तुम् ॥ ९० ॥ प्ररूढमन्तः पथिकाङ्गनानां वियोगशोकानलविस्फुलिङ्गम् । कि मञ्जरीगर्भरजःकरीषैः समीर संवर्धयतः फल ते ॥ ९१ ॥ घृणा न ते दक्षिणगन्धवाह तवावतारे तरवोऽपि धाच्याम् । वितन्वते व्यक्तशरीरकम्पाः प्रवालपाणिप्रविधूननानि ॥ ९२ ॥ त्वामश्नुतां वाचि तपोधनानामाशीविषाणामपि वक्रसीन्नि । विषाभिवृद्धिर्विदिता नभखन्नतो जगत्यामतिदारुणोऽसि ॥ ९३ ॥ सचे भृशं क्रोशति षट्पदानां कु(इ) रवाधायिषु कोकिलेषु । अपहुवानो धृतिमध्वगानां भवान्विविते पवमान बाल्यम् ॥ ९४ ॥ आः क्रूरकर्मासि फणाभृतोऽपि धरातलेऽस्मिन्स हि तीब्रर्दशैः । प्राणानिलानापिबति प्रजानां भवान्पुनःस्पर्शनलीलयैव ॥ ९५ ॥ अये समीरानिशमध्वनीनवधूवधैः पातकमर्जितं ते ।

यानाप्रबन्धः ।
६९
वल्लीप्रवालव्यपदेशतप्तभल्लाप्रपातैरपि कि प्रशाम्येत् ॥ ९६ ॥
भृगुप्रपातं बहुतीर्थसेवा दिने दिने दीप्तशिखिप्रवेशम् ।
करोषि मन्दानिल कामतस्त्वं कुर्वन्मुहुः पान्थकुटुम्बहिसाम् ॥ ९७ ॥
मान्द्रुकभूमे मलयाद्रिवात मासद्वयीमात्रमवस्थिति ते ।
अचिन्तयन्हन्त कथ तनोषि पदे पदे स्त्रीवधपातकानि ॥ ९८ ॥
प्राक्सेतुबन्धावसरे कपीन्द्ररुन्मूलितश्चेन्मलयः समूलम् ।
नृशंस मन्दानिल निर्दय त्वा पश्यन्ति कि पान्थविलासवत्यः॥९९॥
मन्दं समागत्य ममाशुकाग्रमालम्बसे स्वेदमपाकरोषि ।
अछौ पतस्याहितचापलस्त्व पराङ्गनास्पर्शभय न कि ते ॥ १०० ॥
मामञ्जनेति स्पृश मा समीर वियोगिनी व्यक्तमनञ्जनाहम् ।
कन्या नृपस्यान्यकरग्रहार्हाः स्पृष्ट्वा त्वया कि फलमाप्तमासीत् ॥ १०१॥
कृतावतारो हृदि गन्धवाह कन्दर्पनाराचगवाक्षिते मे ।
प्राणान्गृहाणाशु यतो भवेयमभीकविश्लेषकथानभिज्ञा ॥ १०२॥
मय्येव सनह्यसि मन्दवात कान्ते मदीये करुणां दधासि ।
मृद्गासि चेन्मामिव निर्दयं त स किं समायास्यति नान्तिक मे ॥ १०३॥
रणे शताङ्गस्य रयातिरेको जैत्रश्रियं चापभृतः प्रसूते ।
मन्दं रथ मधिरुह्य मारो मन्ये महेशेन पराजितोऽभूत् ॥ १०४ ॥
भवन्तमालम्ब्य रथीभवन्तं सखा रतेः शर्वजिगीषुरासीत् ।
प्राप्ते रणे त प्रतिपाद्य तस्मै चक्रे त्वया खाशुगतानुरूपम् ॥ १०५॥
यदा रतीशं भगवानजैषीत्तदाप्रभृत्येव समीर भीत्या ।
दिवानिशं भ्राम्यसि दिङ्मुखेषु तथापि ते शाम्यति नैष दर्पः ॥ १०६ ।।
आयासि शीघ्र हरिदन्तरेम्यः शनैस्तु चण्डांशुभुवो दिगन्तात् ।
कामारिभीतिः खलु तत्र हेतुः सा चेन्न हन्याज्जगतीमकाण्डे ॥१०७॥

काव्यमाला।
-
मा मा मरुन्माणव वल्गनानि प्रकाममन्दप्रकृते विधेहि ।
पदे पदे त्वन्मदभञ्जनाय जाग्रत्यमी जातरुषो भुजङ्गाः ॥ १०८ ॥
तदनु मदनपीडा सोढुमक्षमतया तया हरिणशावेक्षणया प्रियतमाय
सप्रेषिता सखी समेत्य तमित्यभाषत
सन्त्येव कान्तेषु समश्नुवाना रागातिरेक ललना जगत्याम् ।
नालोकितो न श्रुतिमागतो वा तस्या मृगाक्ष्यास्त्वयि भाववन्धः॥१०९॥
आखाद्य शश्वन्मधुनोऽपि हृद्या गुणावलि ते कुटिलायताक्षी ।
नितान्ततृप्ता नियतं सखीनामाहारवार्तामपि सा धुनीते ॥ ११० ॥
दूरीकृतस्त्वद्विरहार्तिभारादुदित्वरोरुश्वसितैरिवास्याः ।
इन्दीवराक्ष्या वदनारविन्दे सदृश्यते जातु न मन्दहासः ॥ १११॥
मनोभुवो धूममयैरिवास्त्रैरुत्पादितादूष्मलबाष्पपूरात् ।
भीतेव तस्या भृशमायताक्ष्या निद्रा दृशोर्नैव पद निधत्ते ॥ ११२ ॥
पराङ्मुखी चन्दनपङ्कलेपवीटीक्रियामाल्यविभूषणेषु ।
बाला विधत्ते भवदोष्ठबिम्बसुधारसाखादकृते तपस्याम् ॥ ११३ ॥
दूतिकावर्धितस्नेहदीपित मदनानलम् ।
कामी निर्वापयामास कान्ताश्लेषसुखामृतैः ॥ ११४ ॥
आलीहितोक्तिनिकरादनु दूतिकाना-
माभाषणादनु मनोभवशासनाच्च ।
अम्लानमानकलिकामपरो विलासी
सप्रीणयन्प्रियतमामिदमाबभाषे ।। ११५॥
पाठीनकेतुपरदेवतया त्वया कि-
माज्ञापिते कबरिकारचनादिकृत्ये ।
शंसामुना परिजनेन समुल्ललवे
पकेरुहाक्षि तव केन बभूव कोपः ॥ ११६ ॥

यात्राप्रबन्धः। यः शैशवात्प्रभृति पाणितले निवेश्य संवर्धितोऽजनि मया दयिते स कीरः । आख्याति वाक्यमहित त्वयि रोषवत्या- मित्यद्भुत न विरुणद्धि यदात्मजोऽपि ॥ ११७ ॥ बाले मया न गणिता भवदाहतेन ये मीनकेतनसमीरकिशोरमुख्याः। आसीत्ततोऽपि मम भीतिरहो भवत्या वैमुख्यभाजि विषमो विधिदुर्विपाकः ॥ ११८॥ मन्तुस्पृशो रचयितु मम शिक्षणानि खातव्यमस्ति तव जीवितनायिकायाः । कन्दर्पगन्धवहकैरविणीविटानां का वा कृशाङ्गि मम निग्रहणे प्रसक्तिः ॥ ११९ ॥ आगःसमीक्षणकृतस्तव चेदमनः शोणाधरे विरचय खयमेव शिक्षाम् । मां विप्रयोगिजनमारणवीततन्द्र- कन्दर्पपातकिकरे न समर्पयेथाः ॥ १२० ॥ पादारविन्दतलताडनबाहुयन्त्र- निक्षेपतुङ्गकुचदुर्गनिवेशितानाम् । काम त्वया कनकगारि समाहिताना- मह) भवामि मयि चेदपराधशङ्का ॥ १२१ ॥ प्रारभ्य पञ्चषदिनानि तव प्रसाद- मभ्यर्थयत्रतिपतेरधिदेवतायाः ।

७२
काव्यमाला।
ध्यानाशनवजनजागरणादि कुर्वे
प्रीतिर्न ते तदपि यत्स ममैव दोषः ॥ १२२ ।।
शातोदरि भ्रुकुटिजैत्रधनुर्लताया
भङ्गे कृतेऽपि सति कोपनया भवत्या ।
अश्रान्तमाशुगर्भरेण विचित्रकर्मा
मर्माणि हन्त मम कृन्तति पञ्चबाणः ॥ १२३ ।।
विश्वत्रयोदरभुवा विशिखव्रजानां
शश्वव्ययं रचयतो मयि शम्बरारेः ।
नाणीयसा भुजमदेन नताङ्गि शङ्के
वेणीलता विरहिता तव मालिकाभिः ॥ १२४ ॥
क्रीडाचकोरशिशवोऽपि कृशाङ्गि नून-
मेते परं वयमिव त्वयि सापराधाः ।
मन्दस्मितामृतमरीचिकरैरमीषां
तृप्तिं यदा रचयसे न तृषातुराणाम् ॥ १२५॥
तत्तादृशैः कुरबकीभवनं तपोभिः
प्राप्य न मेरुपदवीमपि दूरभूताम् ।
हित्वा चकोरनयने भवतीमिदानी-
मभ्यर्थये तिलकभावमशोकतां च ॥ १२६ ॥
प्राणेश्वरस्य पटुचाटुकृतः कुचाद्रि-
कस्तूरिकाभिरनुलिप्य भुजान्तरालम् ।
वेलातिलचनचणप्रणयाभिरामा
रामा ददौ रदपटीं मुखवीटिकां च ॥ १२७ ॥

यात्राप्रबन्धः । ७३ शक्रकोपशकलावलीसवीटिका तिम ला बभौ । चक्रतुः प्रकटरागमेदुरवस्वमानसनिवेशन मिथः ॥ १२८ ॥ पाणिना प्रसवसङ्गिनीमलिश्रेणिकामिव निगृह्य वेणिकाम् । सुभ्रुवो मुखसरोरुहासव सेवते स्म सृमरादरो विटः ॥ १२९ ।। पाटलोष्ठपरिचुम्बने दृढं मेलनामधिगता मिथस्तयोः । चारुताभरसमुद्कश्रिय व्यानशे वदनमण्डलद्वयी ॥ १३० ॥ आत्मनेतुरनुरागसपदः श्लाघन विदधतीव समदात् । गाढपीडितरदच्छदामुना कामिनी व्यधित मौलिधूननम् ॥ १३१ ॥ अन्वकारि पुलकैरणूदरीबाहुनद्धपरिणेतृसवृतैः । निर्भरस्तननिपीडनोद्गता शम्बरारिशरशल्यमण्डली ॥ १३२ ॥ मय्यमुष्य नितरां पचेलिमं मा स्म सौहृदमितश्चलत्विति । खस्तनाग्रमणिकीलयोयुग सा हृदि प्रियतमस्य सदधे ॥ १३३ ।। अस्पृशत्करयुगेन कामिनः पश्चिमानमुपगृहने वधूः । न्यस्तमस्य हृदि मत्कुचाञ्चल निसरे वमिहेति कि धिया ॥ १३४ ।। चित्तजार्चनचिरात्ययैनसो भञ्जनाय भृगुपातसाहसम् । कर्तुमेष किमु कामुको हठादध्यरुक्षदबलाकुचाचलम् ॥ १३५ ॥ या पुरा विरहिणी स्मराशुगैराप खेदमतिकोमलैरपि । सा बभूव वनितारतार्भटी()निर्दयप्रियविमर्दनक्षमा ॥ १३६ ॥ निर्विशङ्कनखसनिवेशनः पाणिरोधरहितोष्ठचुम्बनः । खस्तिकोज्झितकुचोपगृहनः स्वैरलब्धरशनावमर्शनः ॥ १३७ ॥ विप्रलम्भविहितानुतापयोः सप्रहृष्टमनसोः समागमात् । तत्क्षण तरुणयोस्तयोरभूल्लचिताशयपथो रतोत्सवः ॥ १३८ ॥ तदानीं च तरुणिममदानीतरभसमुत्प्लुत्य केलीतल्पतलादुद्वेलमेखला- डम्बरविभाव्यमानसंरम्भा निजनर्मसचिवस्य समरविशेषसंनाहमसहमा- काव्यमाला। नेव तमधो निपातयन्ती तव कितव दर्पातिरेकमुत्पाटयामीति तर्जय- न्तीव परिहृतार्जवगुणा भ्रूवल्लीमादधाना दशनदष्टाधरोष्ठपल्लवमाविष्क्रि- यमाणकण्ठग्रहणचण्डिमातिशया मानद, सपदि मारयामि भवन्तमिति सविकारमुदीरयन्ती श्रवणावतंसकुसुमपरिमलाकृष्टमधुकरकुलवाचाल- तया स्वबन्धुभिरिव दीयमानबन्धभेदोपदेशा साटोपविधीयमानचपेटा- भिगातमायतवितायमाननिःश्वासपवनपरिवीतमाहितनवपिष्टातपांसुमुष्टि- भिरपनीयमाननिरवधिस्वेदमतिनिशितनखरायुधवितीर्यमाणनानाविघ- मर्मवेदमाश्चर्यगरिमनिश्चलविलोकनोद्रीवपरिसरगतप्रदीपजातं किमपि विपरीतमदनरणरतिमुररीचकार शातोदरी । तस्मिन्विलासी तनुभूनियुद्धे पराजय प्राप्तमिवातिमात्रम् । हस्तारविन्देन नितम्बभारमास्फालयामास मृगेक्षणाया. ॥ १३९ ॥ संतुष्यता तादृशसाहसिक्यान्मीनध्वजेनेव कृता मृगाक्ष्याः । पर्यस्तधम्मिल्लपरिच्युतानां बभूव वृष्टिः प्रसवावलीनाम् ॥ १४ ॥ कुचौ कराभ्या कुलशैलतुझौ जग्राह कान्तो जलजेक्षणायाः । प्रतायमानादनयोः प्रकम्पान्मध्यव्यथा मा भवतादितीव ॥ १४१ ॥ सा मेखलामङ्गलवाद्यघोषैः कण्ठोदयकाकुनिनादगीतैः । वक्षोजनृत्तैरपि वारिजाक्षी चित्तेशयं दैवतमारराध ॥ १४२ ॥ अस्या भृश पौरुषमास्थिताया. प्रपेदिरे विक्लवता प्रतीकाः । भीरोरनीका वसे प्रकामं शैथिल्यमङ्गानि खलु श्रयन्ते ॥ १४३ ॥ श्रान्ता पुनः सामिनिमीलिताक्षी कान्ता पपातोरसि कामुकस्य । क्रीडासमाबद्धवियातभावव्रीडादिवामुष्य तनुं विशन्ती ॥ १४४ ॥ सभोगान्ते किमपि सुमनश्चापनाडिंधमेन प्रत्युप्तायाः प्रियतमहृदि स्त्रीमणेः स्थैर्यसिद्धयै ।

यात्राप्रबन्धः। गाढोत्पीडावलयितकुचोद्वान्तकाश्मीरलक्ष्या- त्प्रायो रेजे बलवदभितो घट्टिता हेमरेखा ॥ १४५ ॥ चुम्बनोद्गमितवीटिकापृषषितप्रियगुत्थिता वधूः । गात्रकामकरवालवल्लरीमाहवप्रकटितामथावृणोत् ॥ १४६ ॥ इति किल परमात्मन. सुखाब्धेविषयसमीरविसारितैस्तरङ्गैः । जगदिदमभिषिच्यमानमासीदमितभवज्वरवेदनानभिज्ञम् ॥ १४७ ।। वाधूलवशधूर्वहस्तु वावदूको निर्वर्तितसाध्यकृत्यसतानप्रस्तुतनियमा- दरप्रवाहनिर्मज्जदखिलविषयाभिलाषोऽपि मानसपथनीतमकरकेतुशा- सनः सुखमशेत । तदनु दिगङ्गनादृढसमालिङ्गनचन्द्रिकाङ्गरागः प्रकटक- लङ्ककैतवादतिचिरोपभोगपरिश्रान्तिगरिमविश्रान्ततनुलता हृदन्तरेण विभावरी दधानो दरनिमीलदानीलसरोजलोचनमारभ्यमाणनिद्रारसानु- भूतिरियमुत्पलिनीति तदुपगृहनविधायिनी करसहतिमात्मनः शनैरुपसं- हरन्प्रचुरविहारखेदपरिम्लानमूर्तिरपरादिनिकेतशयनमजिहीत तुहिन- दीधितिः। गगनमणिसौधशिखरादभिसरति दिश निशाकरे चरमाम् । प्राप कुलिशायुधाशा परिपाण्डुदशां वियोगविवशेव ॥ १४८ ॥ शीर्णपाण्डुरिमजीर्णपलाशा रूढसांध्यरुचिपल्लवपतिः । पूर्वदिग्बततिरम्बरलक्ष्मीभूषण तपनगुच्छमपुष्णात् ॥ १४९ ॥ आत्मनश्चिरमसनिधिहेतो!कृत किमपि वारिधिनेमेः । चिन्तयन्निव शनैरुपतस्थे लोकबन्धुरथ मध्यमलोकम् ॥ १५० ॥ नभोमणिप्राङ्गणनर्मभाजस्ताराभिधाः केचन राजदाराः । आलोकमार्गादरविन्दबन्धोरपासरन्नध्युषितोदयाद्रेः॥ १५१ ॥ दिशो दशानन्दयितु विधाय तिरस्कृति ध्वान्ततिरस्करिण्याः।

काव्यमाला।
महा त्मा महसां स राशिराकाशरङ्गस्थलमाससाद ॥ १५२ ॥
अर्कोदयात्प्रागधिगत्य बोध प्राज्ञस्तु स प्रातरुपास्य संध्याम् ।
पिनाकिसेवां प्रणयन्ननैषीनिशात्रयं निस्तुलसत्ववृत्तिः ॥ १५३ ।।
इति समरपुङ्गवस्य कृतौ चम्पूकाव्ये चतुर्थ आश्वास ।
पञ्चम आश्वास ।
निष्काञ्चिरैक्षिष्ट स निम्नगां ता पयखिनी पाण्डरफेनजालाम् ।
सुपर्वधेनोः सुतवत्सलायाः स्तनान्तरात्सद्य इव प्रवृत्ताम् ॥ १॥
शैवालपालिस्तटसीनि यस्या निलीयते वीचिनिरस्यमाना ।
क्लृप्तावगाहेन गणेन नृणा प्रक्षालिता पातकधोरणीव ॥ २ ॥
सविलासविवर्तनेषु शश्वद्विवृतावर्तगभीरनाभिगर्तम् ।
दधती चलमीनदृष्टि गात्र भजते रागवतीव या पयोधिम् ॥ ३ ॥
पार्श्वद्वयप्रभवसारणिकासहस्र-
निःसार्यमाणलहरीकतया नितान्तम् ।
आसादितापि कृशता विहधाति यस्याः
सस्यावलीकलनकीर्तिमुखेन शोभाम् ॥ ४ ॥
अघमर्षणमत्रसततेरयमावर्तनमाचरन्सुधी ।
अदसीयजलान्तरावसत्कलिभीत्येव कदर्थितश्विरम् ॥ ५॥
सलिलैरखिले तस्याः कलिते नित्यकर्मणि ।
आदिष्टतपनो भासा प्रातिष्ठत स धार्मिकः॥६॥
श्रीनन्दिशैलद्विपदानधारां हारावलीमर्णवमेखलायाः।
पुण्याम्बुपूरामथ भूसुरेन्द्रः पिनाकिनी प्रापदसौ प्रपन्नाम् ।। ७ ।।
उरुभिस्तटकेतकैरुदन्वन्महिषी दीव्यति या मनोज्ञसूनैः ।
कलधौतपिधानखङ्गहस्तैरभिगुप्तेव महाभटैरभीक्ष्णम् ॥ ८ ॥

यात्राप्रबन्धः। ७७ अतिसनिहितोच्छ्यावभङ्गे निपुणामाहितनीचतुङ्गभावाम् । अनुगच्छति या महीपतीनामनघां नीतिमदर्शितान्तरङ्गाम् ॥ ९॥ तत्र च पवित्रतरपाथसि प्रणीतमज्जन विधिरेष सज्जनशिरोमणिः स- रोगणविमुक्तसारणीपूरनिवर्त्यमानशालिनिचयसवर्धनक्रियं कुशसमिदा- हृतिकुतूहलवशादग्रहारशतविनिर्गतैरवनिनिलिम्पमाणवककदम्बकैः संभ्रमविडम्ब्यमानसप्लवनरंहसा शम्बरकुलेन मुहुरलक्रियमाणजाङ्गलमही- भागमागमजलधिपारगधीरजनमेधाभिभूतचण्डीशकुण्डलमतिलड्वय तु- ण्डीरमण्डलं पातालभुवनमिव फणिराजसमधिष्ठित विपिनान्तरालमिव व्याघ्रपदलाञ्छित कलशाब्धिहृदयमिव कैटभद्वेषिनिद्रागृहाञ्चितं विपुल- गिरिदुर्गमिव विमतभवभीतिसज्वरचण्डरीतिहरमहिण्डत पुण्डरीकपुरम् । प्राकारपद्मे परिखासरस्यामुन्मेषवत्युज्ज्वलशृङ्गपत्रे । यत्रामितानन्दमय महान्तः शिलीमुखाः सीधुरस पिबन्ति ॥ १० ॥ तत्र च धरणीसुराग्रणीरनर्गलश्रद्धासमाहिततीर्थावगाहन सकौतुकमा- क्रान्तचि(वि)त्सभान्तरो यवनिकापनयनक्षणलक्ष्यमाणतेजःपुञ्जसछादि- तदशदिशावकाशतया वारिदघटाविनिःसृतममृतकरसहस्रमपहसन्त नि- पुणतरविनिहितेक्षणनिरूप्यमाणनिखिलप्रतीकतया मणिभवनमध्यदेश- प्रविष्टमिव दृश्यमानमरुणसुतशिक्षणविधावपवृत्तदाक्षिण्यमपि दक्षिणं चरणमधो निधाय तिष्ठन्तमाटोपगरिष्ठविक्षेपभाविनी त्रिभुवनविपत्तिम- भिशङ्कय सरयमुपसर्पता सव्यकरपल्लवेन कलितविनिवारणमिव किचि- दाकुञ्चितमितरपदसरोजमुद्यम्य नृत्यन्तमेकहस्ततलविन्यस्तेन सरभस- परिभ्रान्तिसदीप्तहेतिनापवमानसचिवेना रि(नि)विष्टदेहतया विलस- दष्टापदसालवेष्टितं कैलासशैलमिव भासमानमियदेव नर्तनल्यानुगुण- मित्यन्यपाणिसतन्यमानमतिलटहडमरुडात्कारकन्दलं परिच्छेदयतेव परं परशयसरसिजेन विरचिताभीतिमुद्राभिनीतिमादिनटमद्राक्षीत् ।

काव्यमाला। अवस्थिते मय्यपि गर्भदासे भागीरथी किं भवतैव धार्या । जगत्पते स्थापय तामिहेति मन्ये स नम्रीकृतमौलिरासीत् ॥ ११ ॥ आकर्णनव्रजनतीर्थवरावगाह- निर्माल्यगन्धनिवहग्रहणावलोकैः । अन्येन्द्रियावलिमवेक्ष्य भृशं कृतार्था- मस्तौदमुष्य मृडमक्षमयेव जिह्वा ॥ १२ ।। संनिधौ मम समस्तदेहिना नृत्तमेव निखिलार्थसाधकम् । तत्कलैवमिति कि नु दर्शयन्पुण्डरीकपुरनाथ नृत्यसि ॥ १३ ॥ नालीकसभवमुखामरनायकानां सत्यादिलोकपतिभावसमृद्धिलाभम् । प्राञ्चस्त्वदेकपरतन्त्रमुदाहरन्ति तेषा पुन किमभिलष्य तनोषि नाट्यम् ॥ १४ ॥ अमितद्रुहिणाण्डलीनामधिनेतुः खगताणिमादिभूतेः । घटते खलु कामुकस्य गौर्यास्तव ससन्नटताण्डवानुबन्धः ।। १५ ।। साक्षिणोऽपि जगता तव शम्भो दर्शनाय विचरन्प्रतितीर्थम् । अङ्कगात्मजगवेषणशील हन्त लोकमनुयामि विमूढः ॥ १६ ॥ तावकीनपदतामरसार्चामावसानमसकृद्विदधानः । श्रीसदाशिव कदा नु मुदाहं वासरान्क्षणमिव व्यपनेष्ये ।। १७ ॥ असौ विद्यानिधेरस्य पार्श्वस्थितपतञ्जलेः । हिया किमियती कृत्वा स्तुति तूष्णीकतामियात् ॥ १८ ॥ अथ बुधपुङ्गवः सह्यगिरिशङ्कुसदानिता बन्धरशनामिव सिन्धुराज- पटमण्डपस्य विधिवनचरप्रसारिता व्यापादनवागुरामिव पातकभरश्वाप- दपरंपरायाः सैकतनितम्बसङ्गिनी मेखलामिव जगतीमृगीहशो निरति- यात्राप्रबन्धः। ७९ शयसलिलकेलिनिरङ्कुशचोलीविशङ्कटवक्षोजजघनविक्षोभजातवेदनामिव प्रतिमुहुरूमिपवनापदेशेन विनि श्वसन्ती बहुदूरगमनखेदालसामिव पदे पदे तरङ्गकरेण तटभूमिमवलम्बमाना कलिविजयकर्मविहितोद्यमस्य धर्मक्षमापतेः कटकसंनिवेशैरिव कलशाम्बुराशिकल्लोलपाण्डरैरमरनिके- तनप्रासादमण्डलैरविरहिततीरदेशा लासिकामिव रभसविभावितभ्रमीस- हस्रशालिनी नारायणीमिव नवकुवलयश्यामला कौमुदीमिव कुमुदवना- मोदनी वनमालिमूर्तिमिव वारिजसमञ्चितां पञ्चशरवैजयन्तीमिव पाठी- नपरिशोभिता विलासवतीमिव विधृतफेनधवलचारुचन्दनामगाहत क- वेरनन्दनाम् । स्पर्धावती बाढमिवाभ्रनद्या सहस्रधा चोलभुवि स्रवन्ती । समन्ततः सवसथानुपेत्य पुष्णाति पुत्रानिव या सवित्री ॥ १९ ॥ कदापि नैवात्र पद करोतु दुर्भिक्षतादोषकथापि चेति । प्रवाहवाहापरिवेष्टनेन बध्नाति चोलक्षितिपालन या ॥ २० ॥ रोधोवनी पिकरुतश्रवणैनिकाम सक्तेव या कचन सहृतलौल्यमास्ते । अन्यत्र तादृशविलम्बनजन्यमब्धे- राशङ्कय रोषमिव हन्त रयात्प्रयाति ॥ २१ ॥ स्वयमनुतटि यस्याः खादु सगृह्य तोय पृथुलफलघटीभिः प्राशवो नालिकेराः। गगनमरुपदव्या गच्छतो लेखपान्थां- श्वलदुरुदलहस्तैः सत्यमाकारयन्ति ॥ २२ ॥ अनन्तरमयमवनिवृन्दारकमणिः प्रचुरफणिवल्लरीवेलितक्रमुकवन- १ कावेरी नदीम् ।

काव्यमाला। जालेषु चोलेषु विश्रुतं मायाघनतमिस्रमार्तण्डलभुवनमपि च्छायावनं साधारण्यपदवीविदूरमपि श्वेतारण्यं नारीव्यापारकमनीयसौधमपि गौ- रीमायूरं मुक्त्यार्जनरसिकमोदैकहेतुमपि मध्यार्जुन जृम्भमाणहरिहराव- दानघोषमपि कुम्भघोणं सचरदनघशैवसंजवनमपि पञ्चनद स्त्रीलान्छि- तदराङ्गनटननृत्तरङ्गमपि श्रीवाञ्छं विमलाशयपुरुषपरिषदाशास्यमपि कमलालयमधिगत्य, परिशीलयन्कियन्तमपि पन्थानमतिलच्य, कतिप- यदिनैरमलफेनपटलभासुरामपां श्रियमिव सरखतो वेलाचलस्तम्भयुगला- वलम्बिन पाशमिव दाशरथिविख्यातिलासिकानाट्यस्य तिर्यगवष्टम्भय- ष्टिमिव तीव्रतरवातपरिभूतवार्धिमर्दनपटिमशालिनः कल्लोलकपटमल्लस्य वेत्रलतामिव जलधिवीचिनर्तकीनटनविद्योपदेशकारिणः समीरणदेशि- कस्य मध्यवंशमिव फणिराजमन्दिरसमावृतिकृतो नीरधिद्वन्द्वनीप(ध्र) द्वयस्य बन्धनदारुभेदमिव सलिलमयंशावकभृतो वीचिमर्मिडोलावि- शेषस्य विषमसमकरणविरचनाफलकमिव सगरकुलकीर्तिशालि पोषिणो वारिधिकेदारवसुमतीभागस्य सुवेलगिरिकीलसुदृढप्रसजितां दामनीमिव धरणीगवी कमठचरमाङ्गकलितविनिवेशना वैतानवेदिमिव राक्षसाधिपविजयदीक्षानुबन्धिनो रामचन्द्रस्य तूलिकामिव त्रैलोक्यधा- मनि रामचरित्रचित्रलेखनपटो. सरसिजासनशिल्पिसार्वभौमस्य विधुतु- दमिव दशकन्धरयशश्चन्द्रमसो युगंधरमिव पुरनिषूदनस्यन्दनस्य काल- दण्डमिव घनकलुषमण्डलीनां नालमिव पौलस्त्यनगरारविन्दस्य वादन- कोणमिव वाराशिदुन्दुमेः स्थूणाप्रकाण्डमिव खरखण्डनप्रथापटमण्ड- पस्य दारणक्रकचमिव सरिदधिपदारुणो गुरुतरनावद्रोणीमिव वाहिनी- शखुरलीविहारस्य गाधभावाधिगमकाण्डमिव दशवदनशौण्डीर्यतटिनी- विलासिनः शिक्षाकशामिव सिन्धुपतिभङ्गसैन्धवजातस्य नलसेतुमव- लोक्य कौतुकाक्रान्तमना वचनमिदमाचष्ट ।

यात्राप्रबन्धः। जनकतनयाधिनेतुर्जयहेतुर्यातुधानपतिजेतुः। सेतुस्त्रिभुवनकौतुकहेतुर्भवता तनोतु कल्याणम् ॥ २३ ॥ दशमुखरघुवरयशसी तुलयितुमरविन्दजन्मना कृतयोः । सिंहलजम्बूद्वीपच्छलधटयोर्यष्टिरवतु वः सेतुः ॥ २४ ॥ रघुवरकीर्तिनटीमणिरङ्गगृहे जयति दीप्यमानस्य । आधारयष्टिमेतत्प्रतापदीपस्य सेतुमालम्बे ॥ २५ ॥ मामवतु रामसेतुर्मध्ये वाराकरस्य यो भाति । भूपैः पुरा खनद्भिः कियतीव स्थापिता क्षितिर्मितये ॥ २६ ॥ चलकङ्कणैः पयोनिधिशयने वेलावधूमिहस्तैर्यः । आस्फालितोरुभागः खपितीव चकास्ति सेतुराजोऽयम् ॥ २७ ॥ सेतुर्जयति यदाक्रमसंभ्रमलोलाः समुद्रकल्लोलाः । विश्वत्रयी विलवनलाघवशिक्षारता इवाभान्ति ॥ २८॥ पुष्णातु सेतु प्रचुरा मुद वो महीसुवेलान्तरमानदण्डः । वृद्धस्य सिन्धोरतिवेपमानतरङ्गपाणेरवलम्बदण्डः ॥ २९ ॥ कृत्तांशुकां यद्धटनेन धात्री द्रष्टुं धृतापत्रप एव रामः । ततान तत्संवरणानुकूलं यशोदुकूलं प्रथते स सेतुः ॥ ३० ॥ सेतुः श्रियं पुष्यतु यद्धजेन सुवेलमालम्बत भूतधात्री । पौलस्त्यकीर्तिप्रकराम्बुराशौ विहृत्य वेलामिव यातुकामा ॥ ३१ ॥ यद्व्याजदण्डेन नरेन्द्रवर्यनिवेशितेनेव कृतान्निरोधात् । अपारयन्धावितुमब्धिभोगी विवेष्टते तं विनतोऽस्मि सेतुम् ॥ ३२॥ डिण्डीरनिर्मोकधरः स मुष्यादघानिलान्सेतुफणाधरो नः । निशाचराधीश्वरकीर्तिदुग्धं यः पायितोऽभूत्प्रभुणा रघूणाम् ॥ ३३ ॥ न केवल येन पुरा रघूणां नाथो ललचे लवणाम्बुराशिम् । सीतापहारोपचितापवादसिन्धुं च हन्यादृजिनं स सेतुः ॥ ३४ ॥ या०प्र०६ ८२ काव्यमाला। हिनस्तु सेतुर्दुरितानि यस्मिन्मनोज्ञफेनांशुकमण्डलानि । आस्फाल्य वेलादिशिलासु वीचिहस्तेन विस्तारयतीव वार्धिः ॥ ३५॥ भाखत्करानीतपयोदकुम्भसहस्रसंग्राह्यपयोभरस्य । उदन्वदन्धोरुपरिप्रदेशशिलामधीमो नलसेतुरेखाम् ॥ ३६ ॥ स्वपयन्पयसा यदम्बुराशिः परिलिम्पन्नवफेनचन्दनेन । मुहुरर्चयतीव रत्नसूनैस्तदुपासे हृदि रामसेतुलिङ्गम् ॥ ३७॥ मकरालयचेलमध्यभाजः परितो लक्षितफेनसक्तराशेः। क्षितिचक्रघरट्टकस्य यष्टिं कलये कल्मषपेषणाय सेतुम् ॥ ३८ ॥ विनिवेश्य यदर्गला पयोधौ नरकद्वारकवाटिकायमाने । क्षितिजापतिरीशलिङ्गमुद्रा विदधे शर्म ददातु वः स सेतुः ॥ ३९ ॥ रघुवीरपदावलीसम रचनायेव पयोधिना वितीर्णैः । स्खलदूरियोदितैः स्फुलिङ्गैरिव रत्नैर्विलसन्मुदेऽस्तु सेतुः ॥ ४० ॥ लघयत्वघराशिमेष सेतुः श्रयतां दीव्यति यः सुवेलमूले । दृढदण्ड इवार्पितः समूलं परमुन्मूलयितुं पुलस्त्यसूनोः ॥ ४१ ॥ नलसेतुमहं नतोऽस्मि सीतापतिकीर्तिप्रमदावलम्बनाहम् । वलदब्धिपटीवृतारदीव्यद्धरणीमण्डलतालवृन्तनालम् ॥ ४२ ॥ सुवेलशैलद्विरदेन माद्यता कृत. सलीलं क्षितिवाशितो(सिनो)परि । करोतु वः सेतुकरो भवार्णवप्ररोहदहोबिसिनीसमुद्धृतिम् ॥ ४३ ।। नमामि सेतु नटदुर्मिपाणिना तटे यदीये ततमौक्तिकावलिः । चकास्ति बन्धुः सरिता रघूहप्रशस्तिवर्णप्रकरानिवार्पयन् ॥ ४४ ॥ श्रयामि सेतुं चलदूमिकाञ्चलैर्विनिक्षिपन्यस्य तटे वराटिकाः । विराजते राक्षसराजविद्विषो गणं गुणानां गणयन्निवार्णवः ॥ ४५ ॥ परिचरितपुण्यपण्यावलीलाभविपणिसरणिं पुरुहूतपुरकवाटसमुद्घाट- यात्राप्रबन्धः । नकुञ्चिकां राघवयशःक्षीरसागरमहाझषमर्णवनेमिवरवर्णिनीवेणिकामति- तुङ्गपदलिप्सुतनुभृदधिरोहिणीं दुरितसिन्धुसतरणहेतुं सुकृततरणितोल- नारित्र लकेशबाहुतेजकडङ्गरीयदूरीकरणयष्टिका जलधियुगलसीमावि- भागभित्ति डिण्डीरवसनषण्डविन्यसनलिङ्गिनी प्रचेतोनिकेतनप्रासादमा- लिकां दुर्ललितयातुधानसमाजधूमकेतुरामसेतुम् । वारिधिः समरवंशजन्मना माभुजाममितकीर्तिशेवधि । यत्र दारुणि तिरश्चि लम्बते सपदे स नलसेतुरस्तु नः ॥ ४६॥ सेतुरेष परिपातु पातकव्यालसहति विहङ्गपुङ्गव । यस्य पार्श्वविततौ सरित्पती पुष्यतश्चटुलपक्षविभ्रमम् ॥ ४७ ॥ पच्यमानपयसि स्फुटमौर्वज्वालया सरिदधीशकटाहे । आसिकाविधिकृतोऽवनिदा नालमञ्चत दृशा नलसेतुम् ॥ १८ ॥ जलधिचक्रमिषाद्वलयीकृते धनुषि दैवरघूद्वहसहितः । रचयतादघराक्षसमण्डलीजयमसौ नलसेतुशिलीमुखः ॥ ४९ ॥ इष्ट सेतुः सौति यद्रामबाणच्छिन्नाकारे वाहिनीसनिवेशे। भ्राम्यद्वीचीबाहुबृन्दा कबन्धश्रेणी नृत्तं प्रोद्धत सविधत्ते ॥ ५० ॥ यातायातायामतुङ्गैस्तर श्यादृश्यो दृश्यता रामसेतुः । वाताधूत वाधिचेलं यदूरौ भूयो भूयः स्थापयन्तीव धात्री ॥ ५१ ॥ मृत्स्नाकूटं मेदिनीनामधेयं विन्यस्यान्तर्विश्वसृद्कुम्भकारः । प्रायश्चक्र प्रेङ्घयत्यब्धिरूपं यष्ट्या येन त्रायतामेष सेतुः ॥ ५२ ।। सेतु वन्दे सिन्धुराजस्य गावः काषं का ग्राष्णि यत्राङ्गकानि । चार चारं जन्तुदुष्कर्मतृण्यां दोहं दोह पुण्यदुग्धान्य(ट)न्ति ।। ५३ ॥ मध्येपाथोराशि पातालमूलादुन्मग्नस्य क्रीडयोर्वीमिषेण । भाति ग्रीवेवादिकूर्मस्य यो मां पापासक्तं पावयत्वेष सेतुः ।। ५४ ॥

काव्यमाला।
शीर्णाजकीकसभरं शिथिलप्रवाल-
वल्यान्त्रनालमवकीर्णवराटदन्तम् ।
भग्नोर्मिबाहु च पतद्भिरगैर्बभूव
यनिर्मिती जलधिवर्म स सेतुरव्यात् ॥ ५५ ॥
कुण्ठीकृताशरकुलाधिपगर्वराशिः
खण्डीकरोतु भवता कलुषाणि सेतुः ।
भारासहिष्णुरिव यस्य पयोधिरङ्गं
वीचीकरैर्विततशडनखैः क्षिणोति ॥ ५६ ॥
अहाय सेतुरशिवानि विहन्तु यत्र
सक्तेतरेतरतरङ्गमुखौ चकास्तः ।
वेलातिलवनविधापणबन्धनाय
श्लिष्यत्परस्परकराविव सिन्धुराजौ ॥ ५७ ॥
सेतुर्मुदे भवतु वो जलमम्बुराशे-
वीरेण यत्करणकौतुकिना विभेजे ।
सीतावियोगशिखिरावणबाहुधाम्नोः
कर्तु पृथक्प्रशमनाममिकासतेव ॥ ५८ ॥
विष जगद्गुरोरदादयं पुरेति रुष्टयोः
सुवेलगन्धमादनस्मराभियातिभृत्ययोः ।
निधाय मध्यसीमनि प्रमृद्गतोर्यदर्गलां
विरौति वाहिनीपतिः श्रियै स सेतुरस्तु नः ॥ ५९॥
उदञ्चद्धोषाभ्यामुदधिलहरीभ्यामुभयतः
कृतासङ्गः सेतुः कवलयतु पापानि भवताम् ।
भृतक्षोणीकन्यापतिविजयनिःसाणयुगली-
लसत्पाश्चद्वन्द्वावलितकरिराजन्यविहृतिः ॥ ६॥

यात्राप्रबन्धः।
दक्षाः संगतलोकपातकविधौ ताटस्थ्यभाजो नृणां
चेतोभीति विधायका मलिनता सबिभ्रतो भूयसीम् ।
तुङ्गाः पातकराशयस्तनुभृता भृ(भ)ङ्गा इवाम्भोनिधेः
सह्याद्यस्य विनिर्दलन्ति शतधा तस्मै नमः सेतवे ।। ६१ ॥
श्रीमद्दामयशोदुकूलकलनावेने नति मौलिना
कुर्मो गर्हितकर्मदग्धजनताजीवातवे सेतवे ।
शश्वद्यत्र विजृम्भतो रघुपतेः ख्यातिप्रतापाङ्कुरा-
व्यक्तान्मौक्तिकपद्मरागमिषतः सिञ्चन्निवाम्भोनिधिः ।। ६२ ॥
मध्येवारिधि काञ्चनाचलमिलन्मध्या मही दृश्यते
पुंसा नौरिव कापि पुण्यपटली वाणिज्यलाभार्थिनाम् ।
लङ्का तन्निकटस्थितेव तरणिर्लध्वी तयोरन्तरे
सेतुः पाश इव स्फुरन्वितरतु श्रेयांसि भूयासि वः ॥ ६३ ॥
वलमानवीचिकरलीलया मिथः
पृथुकम्बुकन्दुकमिह प्रहिण्वतोः ।
निहितेव यः स्फुरति यष्टिरन्तरे
सरिदीशयोः स नलसेतुरीक्ष्यताम् ॥ ६४ ॥
लङ्काभिव्याप्तिधाटीचटुलरघुवरोदामदोर्धाममार्ग-
स्त्रैलोक्यग्रासजाग्रद्दशवदनयशोरोघविष्कम्भकाण्डः ।
सेतुर्वः संतनोतु श्रियमुभयनदीबान्धवोपान्तलीला-
लोलकल्लोलमल्लद्विपयुगलसमीकार्भटीमध्यभित्तिः ॥ ६५॥
श्रीमत्कूर्मोरगेन्द्रक्षितिवलयमयैरादिमध्यान्तभागै-
राबद्धे मूर्तिमम्भोनिधिवसनसमावेष्टयमाना दधाने ।
पीठे यद्गोमुखाब्ये कनकधरणिभृल्लिङ्गमाभाति तुझं
पायादस्मानपायात्सुकृतनरपतेर्जेत्रकेतुः स सेतुः ॥ ६६ ॥

८६ काव्यमाला। गेहे। धर्मकोटेस्तदा तस्य धर्मकोटिमभीप्सतः । कथमात्माश्रयोऽप्यासीत्कार्ये न प्रतिबन्धकः ॥ ६७ ॥ अयं पुनरधिरूढगन्धमादन रतिबन्धुशासनमभिवन्ध नुतिबन्धमौख- रीमविन्दत । नलसेतुबन्धतटकेलिशालिने नतिरस्तु शैलतनयाविलासिने । सृजतीव यन्मकुटसिन्धुरब्धिना सहनर्मसलपनमूर्मिनिःखनैः ॥ ६८ ॥ यो वारिराशेरुदरात्तरङ्गमहोरगान्मौलिभृदोषधीशः । आकृष्य भूयस्त्यजतीव सोऽयमास्ता मनस्यादिविषापहारी ॥ ६९ ॥ यस्याट्टहासेन्दुरुचा पयोब्धिलीलां दधाने लवणाम्बुराशौ । निद्राणनारायणनर्म धत्ते सेतुः स मा पुगवकेतुरव्यात् ॥ ७० ॥ रमता हृदि रामनाथदेवो वितता वारि श्रियमञ्चति सेतुबन्धरेखा शयितोर्वीधरचापनिर्विशेषा ॥ ७१ ॥ चण्डैः प्रगृह्य चलवीचिकरैर्नराणां पापावलिं पृथुषु सेतुशिलातलेषु । यच्छासनेन परिपातयतीव सिन्धुः सोऽयं ममास्तु हृदि सोमकलावतंसः ॥ ७२ ॥ व्याकीर्णविद्रुमजटावलयं विमुक्त- फेनाट्टहासमवधूर्णितवीचिहस्तम् । सध्यासु यस्य नटनानुकृति समुद्रो निर्माति शर्म वितनोतु स नीलकण्ठः ॥ ७३ ।। आयात पातककृतो भवतामघानि संक्षालयानि सहसेति यदग्रभागे। अम्भोधिरात्मभवसेतुविलङ्घनेन सत्यापयन्निव चकास्ति मृडं तमीडे ॥ ७४ ।।

यात्राप्रबन्धः । रामेश्वरो विजयते ललर्मिहस्त- पर्यस्तशुक्तिपटलीकपटेन यस्मै । चूडामणीकृतसुधाशुकलान्तराणि विश्राणयन्निव विभाति तरङ्गमाली ॥ ७५ ॥ पादावनम्रजनपङ्कपरंपराणां सक्षालनामिव समुद्रजलैर्विधातुम् । श्रीरामसेतुतटसीमनि वासलीला- मानेडयन्घटयता मुदमद्रिधन्वा ॥ ७६ ॥ मुक्ताविद्रुमपद्मरागपटलीमुख्योपदामन्तिके त्यस्यन्नेत्य सृजन्निव प्रणयिनीनिर्मोचनाभ्यर्थनाम् । भूयो याति मुखे वहञ्जलनिधिर्भङ्गं किलापाकृतो येन प्रत्यहमेधते स भगवानेणाङ्कचूडामणिः ॥ ७७ ॥ जानकीकरसमूढवालुकामूर्तये मुषितराघवार्तये । रामनाथ इति नामशालिने शूलिने नटनशीलिने नमः ॥ ७८ ॥ तदनु पण्डिताखण्डलः पाण्ड्यधरणीमण्डनायमानमुरुतरश्रीलास्यमु- खरमुपगम्य हालास्यनगरमगणेयगुणविशेषामशेषभुवनमातरमपि सवि- त्रीकृतमलयध्वजधरित्रीशवल्लभामपरयुवतिदुर्लभाभिरङ्गजनृपालपुंगवश- क्तिभिरिव वक्षोजवृद्धिभिस्तिसृभिरुपशोभमानयौवनारम्भां विपुलसरम्भ- विहितनिखिलदिग्विजययात्रावसरनेत्रातिथीभवत्रिपुरविरोधिसनिधिति- रोहिततृतीयपयोधरभरां सपदि मीनाक्षीमध्यक्षयन्प्रणिपातपूर्वमयमभि- जातपथविहारिणी वाणीमभाणीत् । हरमिव समाख्यातु चित्ताय जाग्रतमग्रतो रचयति कुचे तार्तीयीके भुजान्तरमज्जनम् ।

काव्यमाला। सपदि विनतो लज्जासङ्गात्तदीयगवेषण- प्रवण इव नः पायान्मीनाक्षि ते मुखचन्द्रमाः॥ ७९ ॥ स्तनशिखरिणोः स्पर्धामुत्पाद्य तावकयोः पुरा कुलमहिधरो दृष्ट्वा तस्थौ तृतीयकुचात्मना । अधिगतवतोः पश्चादैक्यं तयोः सविधादसौ निजपरिभव प्रायो निर्धार्य देवि तिरोदधे ॥ ८०॥ तव गिरिसुते वक्षोजेषु त्रिषु स्मरशासिनो नयनसरसीजातीतेषु सत्सु भक्तताम् । दहनघटनत्रासाल्लिल्ये तृतीयपयोधरः समकुचददश्चिन्ता न्धादलीकविलोचनम् ॥ ८१ ॥ पुरहरकरामर्शत्रासेन भूधरनायक- स्तव कुचयुगोपान्ते प्राप्य स्तनान्तरभूमिकाम् । भगवति तिरोभूतः क्वापि प्रतिक्षणभाविनी- महह पुनराशङ्केशानस्य हस्तविमर्शनाम् ॥ ८२ ।। भवति विमुखे धैर्ये पाणौ विमुञ्चति कार्मुकं सुरभिलशरेऽप्याजौ स्वीकुर्वति प्रतिकूलताम् । परमवसरं लब्ध्वा पृथ्वीधरेन्द्रशरासनो जननि भवतीमाविर्लज्जा करे जगृहे हरः ॥ ८३ ॥ इति सुमतिरयमभिदधानो विगलितोपमानसंकथां रूपसंपदमखिल- जगदम्बिकाया विभावयन्पुनरिदमभाषत- अम्ब कदम्बवनान्तरमन्दिरसंजातकेलिसचारे । भूरि पुरवैरिलीलासाक्षिणि मीनाक्षि देहि वाग्देवीम् ॥ ८४ ।। आचिकुरचरणपल्लवमनवद्यानां शिवे तवाङ्गानाम् ।

यात्राप्रबन्धः ।
उपमां वदञ्जघन्यैरुपमानैः क इव नापराधी स्यात् ।। ८५ ॥
तदपि भवदीयचिन्तासुकृतानि लब्धुमिच्छन्त्या।
भक्त्या समाहितः परमयमारम्भः सवित्रि सहनीयः ॥ ८६ ॥
विक्षिप्तदक्षिणेतरकरपल्लवमन्यपाणिधृतकीरम् ।
किमपि करुणापयोधेरधिदैवतमाविरस्तु मम चित्ते ॥ ८७ ॥
कुलगिरिकुमारिके तव कुन्तलपरिमुषितसंपदो मेघाः ।
क्रन्दन्मि नूनमेते क्षितिभृत्पादेषु क्लुप्तनिष्यन्दाः ॥ ८८ ॥
जडमपि दोषाकरमपिसमधिककौटिल्यमपि सुधासूतिम् ।
शिरसा वहसि यदेषा जननि कलापक्षपातशैली ते ॥ ८९ ॥
आपाटलाधरच्छविबालारुणकिरणपरिचयात्कि वा ।
अनिशविकखरमास्ते पार्वति भवदीयवदनतामरसम् ॥ ९० ॥
कमलभवन्मुखभेदे कलयेदीशोऽपि देवि मीमांसाम् ।
एकत्र षट्पदावलिरितरत्र भ्रूलता न चेदृष्टा ॥ ९१ ।।
शशलक्ष्मणो विशिष्ट शफराक्षि मुख तवेति मे धिषणा ।
यदिह विशेषकमिन्दोरसुलभममितैस्तपोभिरप्यास्ते ॥ ९२ ॥
तव जननि लोचनद्वयमाभाति मदारुणीकृतोपान्तम् ।
निजगतिनिरोधकारिणि कर्णयुगे किचिदात्तरोषमिव ॥ ९३ ॥
शर्वाणि ते कटाक्षः शक्तिं जगृहे नु कालकूटस्य ।
गलकलितोऽपि स विकृति न दिशति नाथं यदेष मोहयति ॥ ९४ ।।
श्यामापि विमलशीलां सततलोलापि सभृतस्थैर्याम् ।
गौरि कुटिलापि ऋज्वी तनुते श्रियमानतेषु तव दृष्टिः ॥ ९५ ॥
तावकहसितविडम्बनसंभृतगाढागसां विधो साम् ।
सभाव्यते चकोरीचञ्चूसंदंशकोटिभिश्छेदम् ॥ ९६ ॥

काव्यमाला। .. ..... दशनकिरणप्ररोहैस्तन्त्रीममृतैरिवाभिषिञ्चन्ती । श्लाघाचलितशिरस्कं गायति शश्वद्यशासि कामारेः ॥ ९७ ॥ भवदीयकण्ठनालीपरिवादिन्यामलीकहक्कान्ते । तत्रीगु "दधत माङ्गल्यहेमसूत्राणि ॥ ९८॥ हालाहलानलाकुलहरगलसंतापकन्दलीहरणात् । ब्रूमो भुजद्वयी तव तनुरुचियमुनातरगयुगलीति ॥ ९९ ।। कलयामि.... 'ननि श्यामो यदशुसदोहः । मूर्च्छति कपोलमूले मङ्गलदूर्वावतसमतिदायी ॥ १०० ॥ परिणतदाडिमबीजभ्रमचुम्बितपद्मरागमणिमुद्रम् । विभ्रमशुकमालोक्य स्मेरमुखी त्वा भजामि मीनाक्षि ॥ १०१॥ आनन्दपारवश्यादपि विस्मृतमन्तरान्तरा गेयम् । हैमवति यद्विरा पुनरनुसंधत्से स मां शुकः पायात् ॥ १०२ ॥ अङ्गुलिभिरम्ब तन्त्रीताडनसमये तव स्फुरन्तीभिः । सगीतविभवसंभृतपल्लवनिवहेव भासते वीणा ॥ १०३ ॥ माभूदयं विलीनो गीतिरसेनेति कि नु मीनाक्षि । कुचगिरिमलाबुरुद्ध कुरुषे वीणाविनोदवेलायाम् ॥ १०४ ॥ मध्येगानसुधाम्बुधिमजनमभिशङ्कय कि नु वा धन्ये । वीणावादनकेलिषु कलयसि कुचयोरलाबुविन्यासम् ॥ १०५ ॥ स्व वल्लकी च देवि द्वे सख्यौ कृतपरस्पराश्लेषे । चारुखने भवत्यौ सृजत इवान्योन्यकेलिसलापम् ॥ १०६ ।। स्फीते सहःप्रवाहे मज्जनलीलाकृतः सरेभस्य । उत्पतिताविव कुम्भावुरसिजभारौ तवावभासेते ॥ १०७ ॥ तव तरुणि मानमायी कोऽपि न रोमालिरस्य मणियष्टिः।

यात्राप्रबन्धः। ९१ न कुचौ करण्डयुग्मं मौक्तिकमाला न कन्दुकश्रेणिः ॥ १०८ ॥ शिशुतां विजित्य मध्यमसीनि निखातो नवेन तरुणिन्ना । रोमलतिकात्मना तव राजति जम्भारिमणिजयस्तम्भः ॥ १०९ ॥ कुचगिरिचरद्भवाशयकरिपातनजातकौतुको मदनः । तावकगभीरनाभीदम्भादम्ब ध्रुव चकार बिलम् ॥ ११० ॥ कुचयुगलभारपीडा कुरुते तनुता तवावलग्नस्य । अविवेकिनः समुन्नतिरन्तिकभाजां विषादनायैव ॥ १११ ॥ त्रिवलीमयेन यौवनदीकरवेष्टनेन किमपणे । भवदीयतनुपटीरव्रततीमध्यो विगाहते तनुताम् ।। ११२ ॥ कथमतितरां कठोरैः करहिशिर.कदलिकाण्डतूणीरैः । जननि जघनोरुजङ्ख तुलयन्ति धुतोपमानसङ्घ ते ॥ ११३ ॥ भवमहिषि तव पदाभ्यामिदमधरीकृतमिति ध्रुवं वेधाः । कलयति कमलमधस्तात्सर्वे कुर्वन्ति सत्समाचरितम् ॥ ११४ ॥ नखरनिकरच्छलोदितनूपुरहीरोपलप्रतिच्छाया । अङ्गुलिदलापदेशाद्भान्ति भवच्चरणकिरणनिष्यन्दा. ॥ ११५ ॥ कमलकलहोद्यमो वा हिमगिरिहेलाविधानवाञ्छा वा । यमिहृदयवारिजस्थितिकलना वा तव पदं करोत्यरुणम् ॥ ११६ ॥ हसास्त्वया मदालसविभ्रमगत्या विभीषितवान्ताः। मातः पयोदमालां प्रेक्ष्य भवच्छङ्कया पलायन्ते ॥ ११७ ॥ निर्माय निर्मले तव केवलशृङ्गारकन्दलैरङ्गम् । उडुराजखण्डमौलेरुपदीकुरुते स्म कि मनोजन्मा ॥ ११८ ।। श्रुतिश्रमविनोदिभिः शुकरवैरभिव्यक्तया पुरारिगुणसंपदा पुलकितैकगण्डस्थलम् ।

९२ काव्यमाला। कदम्ब विपिनान्तरे कलितसनिधानं चिरा- न्महः किमपि दृश्यते मरकतोपल्श्यामलम् ॥ ११९ ॥ अनन्तरमुपसृत्य सुन्दरेशमारचितसंनतिरिदममन्यत्- अभीष्टसिद्धयै हरिणाङ्कशेखरं विनौमि हालास्यपुरीविहारिणम् । विभोश्चतुःषष्टिविलासकारिणः कियन्मदीयावनकेलिकौशलम् ॥१२०॥ जरद्वारोहणशीलिना त्वया कदर्थ्यते हन्त नरे(गे)न्द्रकन्यका । हयावलीविक्रयिणस्तवेश किं तुरङ्गमः कोऽपि बभूव दुर्लभः ॥१२॥ गिरिश पाणिषु माधुरयोषितां वलयभूषणमर्पयता त्वया । शफरदृक्करपल्लवसपदा कथय तेषु कलापि किमीक्षिता ॥ १२२ ॥ उस्कूलसिन्धूदकरोधहेतुमृत्क्षेपकर्मावसरे विनम्रात् । स्रसेत गङ्गा यदि मस्तकात्ते का वा दशा स्यान्मधुरानगर्याः ॥ १२३ ॥ उरसिरुहत्रयरूपामुपहृत्य तव त्रिवर्गसपत्तिम् । अजनि शफरेक्षणा स्वयमानन्दघनापवर्गसंसिद्धिः ॥ १२४ ॥ अथ निर्गत्य मधुरापुरादधिगत्य च कवेरजां समरमृगयादलितदनु- जसारङ्गयूथमपि श्रीरङ्गनाथ परिकल्पितपूजापुण्यततिमपि गजारण्यपति चिरमुपास्य निःसृतः सहचरलोकमवलोक्य वाक्यमिदमाख्यातवानवनी- सुरशाकरः। कलशार्णवान्तरङ्गं कावेरीसनि मन्महे रङ्गम् । यदिह घनपीनतुङ्गे पुरुषो निद्राति भोगिपर्य३ ॥ १२५ ॥ चारुकवेरजाझरसमीरणपारणया पोषघने शयान भुजगेशमहाशयने । श्रीमहिलामनोज जलदामलधामनिधे त्वं गुरु मङ्गलं मम तरङ्गय रङ्गपते ॥ १२६ ।।

यात्राप्रबन्धः। ३ हृद्यमरुद्धाहृदयवर्तनसक्तमते प्रौढगजाटवीनटनपाटवरूढरुचे । सभृतसंपदा विहितकम्बुविडम्बनया साधय बोधय माशु मम चेतसि भूतपते ॥ १२७ ।। अज्ञातापचयक्रमं द्विजवरैराखाद्यमाने रसे- ऽप्यर्ध वारिदनीलमर्धमुदयन्मार्तण्डबिम्बारुणम् । मूले सह्यकुमारिकातटपरिष्कारस्य जम्बूतरो- रद्राक्षं फलमेकमीक्षणकृतामश्रान्ततृप्त्यावहम् ॥ १२८ ॥ ससारी स्यन्दनी वा जलधिरशनया लोचनी शेखरी वा नेत्रा नीलोत्पलानामुदधिपरिवृढेनालयी तूणवान्वा । पर्यङ्की कङ्कणी वा फणिधरपतिना सह्यभूभृत्कुमारी- मध्यालकारलीलावसतिरवतु मां देवतासार्वभौमः ॥ १२९॥ वृद्धाचलाधिपमुपास्य ततो विपश्चि- दाराध्य शोणगिरिसङ्गिनमङ्गजारिम् । नत्वा विरिञ्चिपुरनायकमप्ययासी- न्यग्रोधकाननपुरी निजवासभूमिम् ॥ १३० ॥ अनेकतीर्थाटनवैभवेन समापतन्ती सशरीरबन्धाम् । कांचित्तपःसिद्धिमिवैष कन्यामन्या महीयानथ पर्यणैषीत् ॥१३१॥ अनवगुणकलापैरन्यनारीदुरापै- रनुसृतनिजचित्तं हैमवत्योरिवेशः। द्वयमिदमनुरुन्धन्दक्षिणः सारसाक्ष्यो- रधित मुहुरमान्तीमन्तरानन्दवृद्धिम् ॥ १३२ ॥ इति समरपुगवगकृतौ यात्राप्रबन्धचम्पूकाव्ये पञ्चम आश्वास ॥

९४ काव्यमाला। षष्ठ आश्वास । ताभ्यामसौ धर्ममणूदरीभ्यां समाचरन्सशयगोचरेषु । निर्धारणाय श्रुतिनिर्विशेष प्रमाणमासीत्परमङ्गभाजाम् ॥ १॥ तस्य तीर्थभजनोचितयात्रामादिशन्निव सुदीधितिकस्य । स्मेरपाटलपरीमलवीचीमोदितालिमुखरः समयोऽभूत् ॥ २ ॥ मल्लिकाकुसुममण्डलगौरो मारबाहुमदमान्धविधायी । दीप्तचण्डकरदीधितिरागात्कालकाल इव कश्चिदनेहाः ॥ ३ ॥ ग्रीष्मसंज्वरकृतामतिपीडामब्जिनीपतिरिवासहमानः । मेदुरामविरतं मिहिकाभिर्विश्रवःसुतदिश विजगाहे ॥ ४ ॥ उरिक्षपद्भिरटवीतरुकाण्डानुद्भटैरपरदिक्पवमानः । भमरंहसि पतङ्गशताङ्गे द्राधिमानमलभन्त दिनानि ॥ ५ ॥ मेदुरे करसहस्रनिपीतैर्मेदिनीतलजलैरहिमांशौ । भारकुण्ठितजवै रथवाहैः प्रादुरास गरिमा दिवसानाम् ॥ ६॥ व्योम्नि दावशिखिधूमवितानैर्मासले खरमरीचिहयानाम् । मार्गमार्गणकृतातिविलम्बादीर्घतां समजय (गम)न्दिवसानि ॥ ७ ॥ अस्फुरच्छिखरिगह्वरगर्भव्यापिहेतिरटवीहुतवाहः । उद्गतैरिव विशन्निजधूमैरुद्भव जलमुचामभिशय ॥ ८॥ भाविवैद्युतलतापरिणत्यै बीजसततिरिब प्रविकीर्णा । व्योमसीन्नि विपिनज्वलनाना विस्फुलिङ्गपटली विजजृम्भे ॥ ९ ॥ शोषितेष्विह जलेषु नितान्त शेषलोकसलिलान्यपि पातुम् । दारुणैर्वसुमती करजालैर्दारितेव तपनेन पफाल ॥ १० ॥ प्रस्थितेन मधुमासनृपेण प्रापिता वनमहीशिबिराणि । पावकावलिरिव प्रचकाशे पाटलीकुसुमकोरकपतिः ॥ ११ ॥ अंशुमालिकपिशाम्बरमध्ये व्यक्तिभाजि मधुवैरिणि काले ।

यात्राप्रबन्धः।
९५
अद्भुताय किमिद यदमुष्मिन्नर्जुनस्य मुहुरास विकासः ॥ १२ ॥
माधवेन विहितोपचयानां मार्दव किसलयप्रकराणाम् ।
आजहार शुचिराशु निधातु कि शिरीषकुसुमस्तबकेषु ॥ १३ ॥
दारुणातपभिया स्तनसीमामाश्रित शिशिरमम्बुरुहाक्ष्यः ।
सान्द्रचन्दनरसैः किमरक्षशस्यते हि शरणागतरक्षा ॥ १४ ॥
तालवृन्तमभितो हिमधारास्यन्दनिर्भरसिताभ्रवलक्षम् ।
नृत्यति स्म निकटे युवतीनामास्यदास्यकृदिवैन्दवबिम्बम् ॥ १५ ॥
अम्बुजव्यजनमब्जमुखीनामाश्रयन्नपि मुहुर्मरुदासाम् ।
धर्मवारिकणजालममुष्णात्का व्यवस्थितिकथा चपलेषु ॥ १६॥
पर्ययेण कृतपातमधोऽधो वापिकाजठरवारि विरेजे।
चण्डभानुकरसंज्वरभीत्या गन्तुकाममिव गर्भमवन्याः ॥ १७ ॥
उन्नदनमरमुच्छ्रितपमं भासते स्म पटल नलिनीनाम् ।
साध्वसाकरमुदस्य सवित्रे शंसदात्मसरसामिव शोषम् ॥ १८ ॥
क्रीडितुं सरसि तीरगतानां वक्रराजिररुचद्वनितानाम् ।
सादरैव जलजेषु विधातु सर्वसन्नहनसाहसकेलिम् ॥ १९ ॥
अम्बुगाहनकृतामबलानामङ्क्षिपतिरपनूपुरनादा।
लक्ष्यते स्म सरसीरुहलक्ष्मीमोषणाय भृतमूकदशेव ॥ २० ॥
प्रक्रमे सलिलकेलिकलाया नाभिदनमपि सारसमम्भः ।
श्रोणिभिः पुनरुरोरुहदन सुभ्रुवामजनि संभ्रमहेतुः ॥ २१ ॥
प्रापिते सरसि पद्ममुखीनां क्षोभमूरुकुचकुम्भनितम्बैः ।
अब्जसततिरधोमुखवीक्षा लजितेव लहरीषु मम(ज)ज्जे ॥ २२॥
वीचिलोलमपहाय सरोजं वक्रसीमनि पतन्नपि वध्वाः ।
षट्पदस्तदुपगृहनहृष्यचेतसा सहचरेण शशसे ॥ २३ ॥

काव्यमाला। अङ्गनाः कलिलमम्बु सरस्याः कुर्वते म कुचकुङ्कुमपकैः । रञ्जयन्ति विदुषामिव भावैराशयं किमु जलस्य मृगाक्ष्यः ।। २४ ।। पादयावकमुरोजपटीरं चक्षुरञ्जनमपि क्षपयन्तम् । वीक्ष्य रोषविवशा इव हस्तैस्ताडयन्ति वनिताः स्म तटाकम् ॥ २५ ॥ कान्तयन्त्रकरवारिभरेण प्लाविते सति पयोधरकुम्मे । हृदतो मृगहशां मदनेभः खेदमातपकृतं विससर्ज ॥ २६ ॥ अक्षमा अपि विहर्तुमगाधे कामिनां करगृहीतवलमाः । बालिकाः प्रसृतपाणिपदाब्ज पाथसि प्लवननर्म वितेनुः ॥ २७ ॥ कैशिके सलिलसगिनि तासां कान्तचित्तमजनिष्ट रसाम् । शुष्यति प्रचितशोषणमस्त्रैराङ्गजैनियमिते च निबद्धम् ॥ २८ ॥ नीलकुन्तलनियन्त्रितमल्लीसूनकन्दुकभरा सुहगाली । वारिदोदरवलद्विधुबिम्बामावलिं क्षणरुचामनुचके ॥ २९ ॥ अथैष पित्रोरमितैस्तपोभरैरुपेयुषोः स्वर्गमुपार्जितैः स्वयम् । गयाशिर सीमनि कृत्यमास्तिकः स्वधर्म इत्याचरितु समैहत ॥ ३० ॥ धुसिन्धुकाशीतदघीश्वरेषु प्रारभ्य या बाल्यममुष्य भक्तिः। करावलम्बप्रतिपादन सा गयाप्रयाणाभिरतेरतानीत् ।। ३१ ॥ लमे शुभे स निरगादचितः सुरेन्द्र- संतर्पणः सहजनिर्मलशीलशाली। दुष्कर्मवर्मितजनागमदूषितानि तीर्थानि पावयितुकाम इवाखिलानि ॥ ३२ ॥ बलिभोजिबकोटयोर्जवात्प्रतिपन्नाटनयोः प्रतिक्षणम् । किरणच्छलतोऽसितार्जुने किमभातां पुरतोऽस्य निम्नगे ॥ ३३ ॥ अनुपदमपश्यदयमपसव्यपार्श्वतः सहसा विनिःसृतं धरणीतलादुपरि यात्राप्रबन्धः। बाहुमध्यमादनतितुङ्गे नभसि विहितचङ्गमतया संनिकृष्टोदयामिष्ट- """मनक्षरमाचक्षाणमदक्षिणभागविटपिशाखाशिखरविरचितोपवेश- तया भजनीयदेशभाविनीमञ्चितामुन्नतिमभिव्यञ्जयन्तं कमपि खञ्जरी- टकखगम् । अम्बरे मण्डलभ्रान्तिमपदिश्य गरुत्मतः । तमागतवतस्त्रातु हरेश्चक्रमदृश्यत ॥ ३४ ॥ उल्लीढमाणिक्यमरी चिकोर्मिहल्लीसशीलच्छवि हल्लकाद्रौ । वल्लीसख धाम वशीन्द्रलोकहल्लीनमेकं मतिमाननसीत् ॥ ३५॥ स्थितस्य मध्ये शिवयोविभाति वक्रावली यस्य समं तदास्यैः । बिम्बालिरिन्दोरिव भानुमालिस्पर्धाभृतद्वादशविग्रहस्य ॥ ३६ ॥ अभिवन्द्य च त भगवन्तमिद नवनमतानीत् । गन्धश्रेणीसान्द्रकारचूड मन्दस्मेरोदारवक्रारविन्दम् । अन्तर्वाणिध्येयमाम्नायगेय वन्दस्वैन वाणि वल्लीसहायम् ॥ ३७ ॥ दीनपालनमहाव्रतक्रतो दीक्षितेयमधिहल्लकाचलम् । वैनतेयतनयाधिरोहिणी वासना विहरते षडानना ॥ ३८॥ कालिकागिरिशयोगसाधितं गाढमग्निजठरे समाहितम् । गालितं पयसि सौरसैन्धवे काञ्चनीकृतशराटविं रुचा ॥ ३९ ॥ शीलितोपचयकृत्तिकापयःखीकृतिप्रकटितातिवैभवम् । व्यालिहामि मनसा भवामये मज्जता किमपि पारद रसम् ॥ ४०॥ इहेश्वरादेकमुखप्रवृत्तेरीषल्लभा रीरितार्थः। कलारशैलाधिपति कथं वा भजन्ति संदंशितबाहुमुख्यम् ॥ ४१॥ कनीनिकांशुग्रथिताक्षमाला षडाननी भाति षडाननस्य । अम्भोरुहश्रेणिरिवासिताजदलस्रजा गाढतरं निबद्धा ॥ ४२ ॥ या०प्र० ७

९८
काव्यमाला।
त्रिसध्यमाविष्कृतरक्तसध्यके धराधरेऽस्मिन्निदमन्यदद्भुतम् ।
यदेकनालोपरि शश्वदीक्ष्यते समग्रबोधाकलिता षडम्बुजी ॥ ४३ ॥
कलापिनीनां नटनान्तरेषु कपोल[डो दोलायितकुण्डलानि ।
नालीकसदोहनटन्मिलिन्दपालीकन ड्रपरिशोभितानि ॥ १४ ॥
कहारमाघ्रातुमिवेक्षणाभ्या गाढावलीढश्रवणान्तिकानि ।
नेत्रद्वयीसीमनिबद्धसेतुनर्मस्पृशा नासिकयोज्ज्वलानि ॥ ४५ ॥
न्यस्तस्य दृग्दोषनिवारणाय बिन्दोः सगन्धं तिलकं वहन्ति ।
प्रियाधरोष्ठामृतपारणायामुच्चैरहंपूर्विकया युतानि ॥ ४६ ॥
उपासकेभ्यो युगपत्प्रणीतषड्दर्शिनीव्याकृतिसभ्रमाणि ।
कहारसौरभ्यघने कपोले स्वैरं शिवाभ्यां कृतचुम्बनानि ॥ ४७ ॥
रसाभिलाषेण रह. प्रियाभ्यां पर्यायपीताधरपल्लवानि ।
धन्यो जनः पश्यति तारकारेर्मुखानि मुग्धस्मितकन्दलानि ॥ ४८ ॥
कुमारमीडे गुरुगर्वयोगादुपोढसरम्भमुपेत्य यस्य ।
विलासहासेन भवान्विचेष्टः शक्रो जयस्तम्भ इवावतस्थे ॥ ४९ ॥
अहरलङ्घयविधेयशतस्य वा निशि निषेविततल्पतलस्य वा।
उपनिषन्मुखवेद्यमुदेतु मे मनसि षण्मुखवारिरुह महः ॥ ५० ॥
नीलावनीभृन्निभसौरिधाटीलुलायकोलाहललुप्तधैर्ये ।
काले स्मरामः करुणाभिरामविलोकनं तारकवैरिण तम् ॥ ५१ ॥
वल्लीवक्रारविन्दे मदकलमधुपत्रातसंपातरीत्या
तुल्यानां जृम्भणानामहमहमिकया गुम्भने दुर्निवारैः ।
हृयामुद्भावयद्भिर्दिशि दिशि ...."पतिमिन्दीवराणा
कल्याणं वः कटाक्षः कलयतु करुणाशालिभिः कार्तिकेयः॥५२॥

यात्राप्रबन्धः। ९९ स्तनंधयोऽपि शर्वाण्या दैत्यं दारितवानसौ। खतो धारयतः शक्तिं कि वयो गण्यते बुधैः ॥ ५३ ।। सर्वागमोपदेष्टापि शबरीमयमग्रहीत् । अस्य मिल्लाग्रणीसूनोरथवा किमनौचिती ॥ ५४ ॥ श्रयत भवानीतनयं शतमखरिपुजैत्रवैभवानीतनयम् । निरवधि कारुण्येन व्याप्त हृदि वपुषि चाधिकारुण्येन ॥ ५५॥ सेनानीरजनि करश्रेणिपराभूतशोणनीरजनिकरः । परनलिनीरजनिकरः परमशिवानन्दवाष्पनीरजनिकरः ॥ ५६ ॥ प्रशस्तलीलाविभवोपनीतकुशस्थलीकूलझरीविशेषम् । कृपालतोपनमुपात्तवेधःकपालमाराधयदेष देवम् ॥ ५७ ॥ इम परीपाकमिहापराधादम्भोजयोनेरपि पश्यतेति । अदःकपालेन सुरालयेषु भिक्षामटन्य. प्रकटीचकार ॥ ५८ ॥ तदनु नि शङ्क भूधरोत्सङ्गसीम्नि शीलित मासादितरागसंप- दावेशतया शैलेशतनुभुवा सततमाकेशचरणमवलोकनीयरामणीयकं नागेशमभिवन्ध नरपालमन्दिरद्वारमासाद्य दूरादेव नृपसदसि मागधकु- लनिगद्यमानमभिजातपद्यजातमार्यमिश्रः सहर्षमश्रौषीत् । वर्धवामितसार सारसविधेयालोकलोकत्रयी- गेयप्रौढिविशेषशेषनिभवाडैपुण्यपुण्याकृते । सग्रामाङ्गणधीर धीरत सतां कोदण्डदण्डक्षत- प्रत्यर्थिस्सयसङ्गसंगतमहीरामाक माकप्रभो ॥ ५९॥ घनजयकृता दानेनानेकदिक्तटलवन- स्यदनिरतया कीर्त्या नीत्या निरस्तकलङ्कया। .

काव्यमाला। सरसकलया चात्रेः संतानरत्नचिरन्तना- ननघचरितानाजळेगीयसे क्षितिनायकान् ॥ ६० ॥ जनितनलिनीशङ्कावेशे हरिन्मणिकुट्टिमे शशधरकलामुद्यद्विम्बा निशासु समंततः । बिसधिषणया केलीहंसाः स्पृशन्ति मुखाञ्चलैः प्रतिबुधगृहं यत्तन्माकप्रभो तव वैभवम् ॥ ६१ ॥ श्रीमन्माकक्षितिधर भवत्कीर्तिशैल्पयोषा मेरुस्तम्भे भ्रमणनटनप्रक्रियां सविधत्ते । तस्यास्तादृग्विलसितजुषो रत्नताटङ्कभूषा- युग्मं तिग्मच्छविरिति शशीत्यम्बरे बम्भ्रमीति ॥ १२ ॥ चक्राणा विदधाति सोऽतिकदनं तेषां शरण्यस्त्वय राजा विष्णुपदाक्रम वितनुते सोऽय तु तस्यार्चकः । आस्ते सोऽहिभबैंकभाजनमय तस्यानभिज्ञस्त्विति त्यक्त्वा तं परिकर्ममौक्तिकमिषात्त्वामेव ताराः श्रिताः॥१३॥ तव माकविभो धराधिपैरवलेपादकृताभिवन्दनैः । इह दिव्यपि चानुभूयते बहुशस्त्रीपरिरम्भसंभ्रमः ॥ ६४ ॥ पार्श्ववर्तिजनताप्रतिबिम्बव्याजतो विमतराजसमाजम् । सारे कवलितं किल धत्ते साल्व माक तव पाणिकृपाणः ॥६५॥ वमथुनिकरेण वसुधां सिञ्चति माकनृप तव गजश्रेणी । आत्मपदाहतिलीलानिर्मितमूर्छानिवारणायैव ॥ ६६ ॥ श्रीमाकक्षितिपालशेखर भवद्वेतण्डकर्णानिलो नेष्यत्याशु कुतोऽपि तूलपटलीरीत्या हरिद्वारणान् ।

यात्राप्रबन्धः। आलोच्यैवमचञ्चलस्थितिकृते तेषां किमम्भोजभूः । क्षोणीमण्डलभारमेव सततं कुम्भस्थलीषु न्यधात् ॥ ६७॥ घाटीहेलासु घोटीसुरपुटदलितक्षुण्णरेणूपगूढै- र्दानैर्जम्बालितासु त्रिदशकरटिनां गण्डभित्तिस्थलीषु । लग्ना नीलारविन्दच्छदरुचिरलिनां धोरणी कज्जलेन । व्यालिप्ता जैत्रवर्णावलिरिव भवतो भासते माकभूप ॥ ६८॥ अध्यासीना समन्तारिक्षतिभरणकृतामावलिः सिन्धुराणा । वातैरश्रान्तलोलश्रवणपुटमहातालवृन्तोपजातैः । काष्ठानामन्तराले किमपि विसरतस्त्वत्प्रतापानलस्य प्रायः सधुक्षणानि प्रणयति नितरा माकराज क्षितीन्द्र ॥६९॥ विपक्षलक्ष्मीः क्रियते त्वया महीवराहवन्दी प्रमदासमञ्जसा । रिपु च माकेन्द्र करोषि किकरं वराहव दीप्रमदासमञ्जसा ॥७॥ प्रकल्पते त्वत्करवालयष्टी रविप्रभावारिजयापनाय । न हि प्रवर्तेत कदापि लोके रविप्रभा वारिजयापनाय ।। ७१ ॥ इह महिमा कनकपटः पटुघटित' ठा साल्वमाक नकपटः । विहरति मानवलोके विलसत्कारुण्यवीचिमानवलोके ॥ ७२ ।। पापनृकण्ठीरवतः प्रथितादुदितं दिशासु कण्ठीरवतः । एत्य धरा माकेशं हृष्यति हटकृष्टवैरिरामाकेशम् ॥ ७३ ।। वारिजनाभी राजति सोऽयं कृतस्तवारिजनाभी । जहिहि स्कन्धावारे वसति तरसा दिगन्तिक धावारे ॥ ७४ ॥ हेमाकल्प क्षमाकण्ठकहरपटिमा कल्यरामाकटाक्ष- स्तोमाकाषः सुमाकर्कशभणितिललामा कथं वर्ण्यतेऽसौ । १ परिग्रहण लं ..

१०२ काव्यमाला। क्ष्माकर्पूरभ्रमाकल्पनलटहयशःप्रौढिमा कर्मरूढ- स्थेमा कारुण्यसीमा कनदनघगुणो माकराजक्षितीन्द्रः ॥७५॥ अनन्तरमयमवनिभृदन्तिकादभिमुखमापतद्भिरागच्छत सरयमा- शिषो वदत भूपतेः श्रीमदवलोकनकुतूहली नृपतिरयमास्त इति निवे- दयद्भिरावसरिकपुरुषैरावेद्यमानसरणिरवगाह्य धरणीशमन्दिरमतिलवय कतिचिदपि कक्ष्या(क्षा)न्तराणि कविबुधबन्धुसचिवमित्रसामन्तमण्डली- शोभिनि काञ्चनास्थानमण्डपे मणिमयचतुस्तम्भमध्यमवितर्दिकायामति- मृदुलतूलमालिकामांसलममृतफेनपटलीविनिर्मलमादिपुरुषमिव शेषमास्त- रणविशेषमध्यासीनं वारविलासिनीकरकमलडो(दो)लायमानचामरद्वित- यभासुरपार्श्वभागतया कलशजलधियुगलीकल्लोलयुगला रुल्लसन्तमर- विन्दिनीबन्धुमपह(स)न्तं कौसुम्भपटखण्डपरिकलितमालतीप्रसवशा- लिना मौलिबन्धेन सध्यामयूखसवलिततारकमम्बरतलैकदेशं विडम्बय. न्तमस्तोककुङ्कुमस्थासकपिशङ्गमरीचितरङ्गिता मूर्तिमावृण्वता कण्ठाभर- णमुक्ताफलदीप्तिवृन्देन मन्दाकिनीपूरपतनगौरवपुषं सुमेरुमवधीरयन्तं पीतवसनपरिपीतकटिप्रदेशतया पुष्करजालसवृतनितम्बभूमिमुदयक्ष्मा- भृतमधिक्षिपन्तं कलकल्पशाखिनः किसलयान्तरालकन्दलितेन कुसुम- कोरकेणेव कुरुविन्दमध्यवर्तिना कुलिशोपलेन परिशोभमानमहं वीरक- कणं मणिबन्धसीमनि महनीयमुद्वहन्तं मकरध्वजमिव मार्गणोपदर्शित- सौमनस्यं पाकशासनमिव प्रतिरोधिबलविभेदनं पुरवैरिमित्रमिव समस्ता- भिलषितपूरणधुरीणसनिधानं द्वितीयहरमिवातृतीयलोचनमन्यमिव शत- मन्युमितरमिव वदान्यपादपमपरमिव कुसुमाकरमत्रिकुलपवित्रीकरणकु- शलचरित्रसपदं कोनाम्बागर्भकुञ्जगृहसचारकेलिपञ्चाननं पापजगतीपति- प्राचीनसुकृतपरिपाकं माकनरलोकनायकमवलोकयन्मनस्येवमकरोत् ।

यात्राप्रबन्धः । १०३ यो भोगिप्रवरोऽप्यजिह्मचरितः श्रीशोऽपि हृष्यदृषो भाखानप्यरिदुःसहः कुवलयाधीशोऽप्यदोषाकरः । सर्वज्ञोऽप्यनलीकदृष्टिरचलोऽप्यक्षीणपक्षावलिः सोऽयं माकनृपो विचित्रमहिमा स्वैरं विजेजीयते ॥ ७६ ॥ तदनु संमदादुत्थाय पार्थिववरिष्ठेन समुचितासन्नविष्टरे समुपवेशि- तोऽयमतिविचक्षणो दक्षिणमुद्यम्य हस्तं नृपकुलमणेरस्य नमदखिलसा- मन्तभूपतेराशिष प्रायुत। कल्याणाकर माकराज भवते कारुण्यसशीलना- द्रौद्ररेष जनार्दनो वितरतादालोकनैः सपदम् । पारावारसुतासनाथमभितो बाहान्तरान्तःपुरं दोष्णा यस्य चतुष्टयी चिरधृतैः पातीव दिव्यायुधैः ॥ ७७ ॥ लक्ष्मीनित्यविहारकैटभरिपो चक्रावलीरञ्जन- च्छायावल्लभ कीर्तिवृद्धिकलनाधाराधराभ्यागम । दोषापोषणपूर्णचन्द्र सुमनोविस्फूर्तिपुप्पाकर श्रीव(म)-साल्वकुमार माक भवतः श्रेयासि सप्रार्थये ॥७८॥ सकलभवद्गुणसङ्घश्लाघाचातुर्यविवृतिकलनायाम् । जगति फणिराज एकः शिष्यत इत्येव शेषतां धत्ते ॥ ७९ ॥ पारं भवद्गुणोघानां वाणी व्रजतु मे कथम् । अपर्याप्तस्थितिर्येषामपि ब्रह्माण्डमण्डलः ।। ८० ॥ तदपास्य भवद्गुणावलीस्तवधाटीरुचिमेतदद्य नः । पृथिवीश भृश निवेदने प्रकृतार्थस्य मनः प्रवर्तते ॥ ८१ ॥ स्थितिगुप्तिमलब्धसगतिं क्षितिपालाधिगमे फलं विदुः । मनुजेशधुरीण मादृशामुचित तेन तवोपसर्पणम् ॥ ८२ ।।

काव्यमाला।
भुवि ते तु बुधैरवस्थितैरनवाप्त न किमप्यवेक्षते ।
अपहाय पुरा कृताधिक सुकृत दुष्कृतशोधनक्षमम् ॥ ८३ ॥
तदिमां मनुजादिबन्धुतां तव पार्श्वे विनिवेश्य साप्रतम् ।
अविमुक्तमुपासितु व(रै)रविमुक्त वयमाद्रियामहे ॥ ८४ ॥
परिपाहि मदीयबान्धवान्विषये ते विहितस्थितीनिति ।
कथन खलु सिद्धसाधन क्षितिसत्राणकृतस्तवान्तिके ॥ ८५॥
इति तमभिलपन्त हृष्टचेता नरेन्द्रो
भृतमुदमुपचारैः प्राहिणोदत्युदारैः ।
पथि खलु विदधानो भावबन्धं विशुद्धे-
बलवदिह सपर्याभाजन कस्य न स्यात् ॥ ८६ ॥
अथ विनिर्गत्य नि शङ्कदुर्गभुवो निखिलदुर्गतजनवर्गतरोरनर्गल-
शौर्यविस्मारितभार्गवस्य भगतनूभवस्येव दुर्गाप्रसादलब्धविविधाभिल-
षितवर्गस्य भोगिवरनिराकृतिपटुविवेकशालिनो माकराजमहीपाकशास-
नस्य सुजनतातिरेकमनुचिन्त्य मुहुर्मुहुर्मुदमनुसदधानस्तदवलम्बिभिरेव
वचनगुम्भनरनुचरसमाजमपि सभाजयन्सरोजलोचन इव सहचरीद्वयेन
कियदूरमिव गत्वा स लब्धवर्णः सुवर्णमुखरी निर्वर्णयन्निदमवर्णयत ।
इयं खलु
हुंकृत्य भृङ्गनिनदैरुपगृह्य वीची-
हस्तैः शिशूनिव जनानदसीयपङ्कम् ।
प्रक्षाल्य हंसरसितैः परिसान्त्वयन्ती
मोदं प्रसूरिव मुहुर्मुहुरातनोति ॥ ८७ ॥
उत्तरेण सरिदुत्तमामिमां तुङ्गशृङ्गदलितद्युसिन्धुना ।
चक्षुषोरुपदया चिराय नो भूयते भुजगराजभूभृता ॥ ८८ ॥

यात्राप्रबन्धः ।
अत्र कुञ्जगृहासीनकेलिकाराङ्कलालिताः ।
विष्णोः कर्माणि गायन्ति विद्याधरमृगीदृशः ॥ ८९ ।।
अहो वृषधरमहीपतेरमुष्य महिमा ।
पङ्कपनीतैरिह सत्प्रसूनैः कुणिः स्रजो गुम्भनमातनोति ।
अम्भोजनाभस्य कथामवाचा प्रस्तूयमाना बधिरः शृणोति ॥९०॥
अथ तदानी
पद्मासमायमाने मणिमुरसि वहन्कौस्तुभं वास्तुभूमि-
र्भासामासारदानोन्मुखघनसुषमागर्वनिर्वापिकानाम् ।
स्तुत्य श्रुत्यावलीभिर्नियमधनजनखान्तकान्तारलीला-
कुम्भी कुम्भीनसादेरधितटममुनालोकि लोकैकनेता ॥ ९१ ॥
असौ पुनरुरसा विशङ्कटेन विधृतवनमालिक वेङ्कचे(टे)शमभिवन्द्य
निर्मलमनाः सपरितोषमिदमभाषत ।
साधूना हृदयान्तरालसरणौ पुष्णन्परिष्कारता
कुक्षेः सीमनि दर्शनीयविभवां कुर्वञ्जगन्मण्डलीम् ।
आख्यामञ्जनभूभृतो निजतनुच्छाया रं त्वर्थय-
कोऽप्यास्ते मणिरिन्दिराकुचतटीशाणोपलोत्तेजितः ॥ ९२ ॥
अब्जेन्दीवरयोरनगशरयोरुत्तेजिते यदृशौ
मञ्चो यस्य समस्तशब्दकुहनामाणिक्यशाणोपलः ।
यन्नाभीसरणिश्च सूक्तिजननीश्वश्रूपदस्थायिनी
पायान्मां हृदयंगमस्सरकलातत्व तदेतन्महः ॥ ९३ ॥
अञ्जनाचल... सर्वैरपि जनैरयम् ।
तटे गुहतटाकस्य मुकुन्दो मुहुरीक्ष्यते ॥ ९४ ॥

काव्यमाला। अवतसेन विदुषां प्रशशसे ततोऽमुना । खामिपुष्करिणीतीरभूमिभूषामणिः" ॥ ९५ ॥ अडिपभिन्नतटहाटकशैलशृङ्गरिवद्रजोनिचयकुकुमलितगात्रः । घोणाहताम्बुनिधिदुन्दुभिघोषहृष्टः पायान्महीपरिणयाभिमुखो(वराहः)। अम्भोनिधेरलघुनिश्वसिताभिषङ्गाद्विभ्राम्यतो भ्रमिविलोकनकैतवेन । पृथ्वीपुरःप्रणयिनोचितभूपरीक्षां कुर्वन्निवादिमकिटिः कुरुतां मुद नः॥ (व्या)धूतदेहरभसव्यपसार्यमाणा- माशासु वारिलहरीमपदिश्य सिन्धोः । जीयात्सृजन्निजसमागमभाविपृथ्वी- ब्रीडापनोदनतिरस्करिणी वराहः ।। ९८ ।। आद्य नमामि ... भजन्समुद्रो यद्रोमकोटिषु कुशाग्रहिमाम्बुरीतिम् । तत्कालसंगतधरापरिरम्भकर्म- घर्मोदबिन्दुविहृति घटयांबभूव ॥ ९९ ॥ चोरदैत्य- मुस्ताक्षतिप्रभवमोदपरंपराभिः । भूदारतां प्रकटयन्पुरुषः पुराण- स्तत्तादृशीमिह तरङ्गयतु श्रियं वः ॥१०॥ कोलस्तनोतु कुशलानि चिरंतनो मे येन क्षितौ प्रथममीषदुदञ्चितायाम् । अस्या विषादविगमाच्छसितैरिवाब्धे- रहाय बुडुदकदम्बकमाविरासीत् ।। १९१ ।। अम्भोधि कूल यात्राप्रबन्धः। आधारधुर्य जगदण्डकपालवन्ति पाथोमिषेण फणिमन्दिरमण्डपस्य । उर्वीशिलामुपरि निक्षिपता व्यतानि येनाम्बुमानमिव तेन वय सनाथाः ॥ १०२ ॥ प्रान्तक्षरज्जलधिवारिभरामुदस्य- घोणाञ्चलेन धरणी कुहनावराहः । तादृकृतिव्यतिकरश्रमवारणाय धारागृहान्तरमिवाधिगतः पुनातु ॥ १०३ ॥ मह्यं शुभानि विदधातु महावराहो दंष्ट्राहितेन विलसन्वलयेन धान्याः । संरक्षणादिव चराचरमण्डलीना- मासादितेन महतातपवारणेन ॥ १०४ ।। अङ्क महीवरतनोरधिरोपिताया व्यापारयन्निजशा वदनारविन्दे । आद्यः पुमानभयमुद्रिकयादसीय- मस्यन्हठोद्धरणभीतिमिवावतान्नः ॥ १०५ ॥ भवाब्धिरूरुद्वयसो जनानां पदाजमेतद्भजतां ममेति । वक्तीव यः सक्थिनिवेशितेन वरप्रदेनापि कराम्बुजेन ॥ १०६॥ तदनु शेषाचलभूषामणेररविन्दलोचनस्य चरणारविन्दपरिचरणपु- ण्यपरिणतेरिव नयनसरणिमवगाहमानमन्तिकनिष्यन्दमानसिन्धुपवन- कन्दलग्रासतुन्दिलशिथिलबन्धस्य फणिराजपरिकर्मणः प्रतिक्षणहढीकृती कृतदक्षिणं दक्षिणकैलासकटकतटसीमनि शिलावटमूलबद्धरतिं कालह- स्तिपतिमासेवमानो भूदेवानन्दनः सानन्दमिदमवादीत् ।

काव्यमाला। अग्रे लूताग्रथितपटलीकल्पितच्छायमास्ते सिक्त दन्तावलकरजलैरर्चित भोगिरत्नैः । भिल्लाधीशोपहृतपिशितामोदवक्त्रारविन्द भाग्यं पृथ्वीधरपतिसुता "योरादितत्वम् ॥ १०७ ॥ पायादपायरहितं परिणम्रमुक्ता- दायादकायमतिवेलदयाविधेयम् । दूरे चिरंतनगिरां दुरितापहारि पारेसुवर्ण कटं महो नः ॥ १०८॥ ब्रह्मादयोऽपि भवदाप्तिकृते यतन्ते यत्न विनापि ययुराटविकादयस्त्वाम् । आतः कृतान्तविजयिन्नतिचित्रशीलं त्वा मन्महे न सुलभं च न दुर्लभ च ॥१०९॥ प्रत्यग्रपुष्करपयःकलिताभिषेके नागे नटद्गुणततावपि लूतिकायाम् । प्रीतिस्तवास्तु भगवन्नभवत्कथ वा लुब्धद्विजिह्व विषयः प्रणयानुबन्धः ॥ ११० ॥ अन्योपचारविधिरस्तु महानणुर्वा भावकहर्षपदमान्तर एव भावः । गौरीश ते मणिगुणप्रतिपादनेन प्राप्तौ गति किल समां फणितन्तुवायौ ॥ १११ ॥ त्वद्भावतोऽपि तुहिनांशुकिशोरमौले धन्या भृश भवति तावकभक्ततैव ।

यात्राप्रबन्धः। १०९ . श्रीकालहस्तिपुरसीमनि यत्त्वयापि भक्ताग्रिमस्य जगृहे फणिनः खरूपम् ॥ ११२॥ निर्मोकपट्टसितमङ्गमसह्यवेगः क्ष्वेलानलो दुरवबोधतरं पद च । सर्वं यतः सममहेर्भवतश्च शूलि- नन्योन्यरूपपरिवृत्तिरतः किमासीत् ॥ ११३ ।। देव त्वया यदिह दक्षिणरौप्यशैले व्यालद्विपेन्द्रतनुरष्टविधा वितेने । तद्युक्तमेव कलये तव नीलकण्ठं पञ्चानन च यदुशन्ति भवन्तमाः ॥ ११४ ॥ घोरस्वभावजटिलः क वनेचरेन्द्रः शान्तोपसेव्यसरणी सुगमा क मुक्तिः । अन्योन्यमेलनविधावनयोः प्रवीणा तत्तादृशी जयति देव तवानुकम्पा ॥ ११५ ॥ प्रालेयभानुशकलादपि पादुकाया- माकाशसिन्धुसलिलादपि वक्रतोये । देवीमुखामृतरसादपि दष्टमांसे को वा गुणस्तव कुतूहलहेतुरासीत् ॥ ११६ ॥ हातुं पुलिन्दपतिरात्तकिरातभाव- मासीद्भवन्तमधिगम्य महाकिरातः। किं कालहस्तिनगरीश तदद्भुताय प्राग्वासना बलवती खलु देहभाजाम् ॥ ११७ ।।

११० काव्यमाला। अङ्गान्नरार्चन विधेरपि ते गरीयः पादारविन्दपरिपूजनमेव शम्भो । दत्वा मुखे दृशमगाद्विषमेक्षणत्वं भिल्ल पदे तु हरिराप्तसुदर्शनोऽभूत् ॥ ११८ ।। व्याधः समर्पयतु नाम विलीढशेष मांस विवेकविरहेण मनोभवारे । अङ्गीकृत कथमिदं भवताथवैत- सभाव्यते त्वयि वनेचरसार्वभौमे ॥ ११९ ।। पाणिग्रहव्यतिकरादुपरि प्रजाना- मुच्छिष्टसकरमुशन्ति जना जगत्याम् । प्रागेव मुक्तिपरिणीतिविधेरय वा- मासीस्किमेष शबरागमसंप्रदायः ॥ १२० ।। स्पृष्टं शिरः शबरपादुकयेति मन्ये तस्मिन्नमर्त्यतटिनी बिभृषे तथापि । दष्टामिषग्रहणदर्शितचापलस्य नेहास्ति कापि तव निष्कृतिरन्तकारे ॥ १२१ ।। गङ्गागाण्डिवचापयोर्मदभरक्षेपाय चूडापदे गण्डूषाम्बु च पादुका च शबरोत्तसस्य बभ्रे त्वया। 'पद्माक्षस्मयभञ्जनाय हगपि प्रत्याददे कस्य वा दर्पापाकृतये महेश जगृहे दष्टावशिष्टामिषम् ॥ १२२ ।। त्वन्मस्तकाहितपदन्यसनादिदोष- सशोधकव्रतकृते शबरो बभार ।

यात्राप्रबन्धः।
चर्माम्बरं कटितटे भसिताङ्गराग-
मङ्गे कपालमधिपाणि जटाश्च मौलौ ॥ १२३ ॥
सन्तु प्राणिवधैकतानमतयः शश्वन्मदान्धीकृता
जिह्मव्यापृतयोऽथवा जनिभृतः स्फारीभवद्भान्तयः ।
मुक्तिस्तान्वृणुते खयं यदि कृपा मुग्धेन्दुचूडाल ते
तत्र व्याधगजाहिकीटपतयो दृष्टान्तकाष्ठापराः ॥ १२४ ॥
यामि प्रीतिमहं परान्नभजनैरुच्छिष्टभोजी भवा-
न्मूहिं चरणौ स्पृशामि धनिना त्वं पादुकाशेखरः ।
सेवेह धनपापकर्दमनदी त्वं वक्रतोयाप्लुतो
युक्ता किनु मदीयदोषगणना श्रीकालहस्तीश ते ॥ १२५ ॥
सत्कर्माचरणात्मिका प्रथमत: सपाद्य नान्दी ततः
प्रादुर्भाव्य समस्तभक्तिगरिमप्रस्तावनाकौशलम् ।
द्रागुत्सार्य तम.पटीमथ वृते दीपेन विद्यात्मना
चित्ते मे नटन विधास्यसि कदा श्रीकालहस्तीश्वर ॥ १२६ ॥
गण्डूषाम्बुनिमज्जनाय यदभूद्गगावतसस्य ते
चूडालङ्कृतिकल्पनाय विधृतज्योत्स्नावतः पादुका ।
तृप्त्यै भक्षितशेषमामिषमपि त्रैलोक्यकुक्षिभरे-
विद्याधीश मुदे तवास्तु तदिय वाणी लघिष्ठापि मे ॥ १२७ ॥
भिल्लाग्रणीचरणपल्लवपादुकायै
सेयं क्रियासमभिहारवती नमस्या ।
वेधः करोटिविधुखण्डवियन्नदीनां
सेहे न या गिरिशशेखरताभिमानम् ॥ १२८ ॥

११२ काव्यमाला। अस्त्येव यद्यवतरेन्मम दृष्टिमार्गे नैवास्ति चेन्न तटिनीभरण घटेत । इत्थ विधेर्विमतिमीश किरीटलक्ष्म्या यस्याः स्मृतिहरति सावतु पादुका नः ।। १२९ ॥ त्रातं यया हरजटावनचारकेल्या वेधःशिर प्रतिहतेः शबराधिपद्मम् । सा पादुका घडरिवर्गविनिर्जयाय सनह्यता भवतु सप्रति नः शिरस्त्रम् ॥ १३०॥ अपि च- जगन्मण्डलीयं त्वयि खप्रकाशे नटन्ती रवेरंशुजाले नदीव । अविद्याविलासाकृतिविद्यया ते भव ..."भवत्यन्तकारे ॥१३१॥ मनोहारिशब्दादिभिर्व्यज्यमानानहं किंचिदालिह्य यस्यैव लेशान् । सुखत्वेन जानामि ससारपीडां तमानन्दवाराकरं त्वामुपासे ।। १३२ ॥ " 'कणस्फूर्तिहेतुः सुखादिप्रपञ्चोऽपि सर्वप्रियत्वेन भाति । परप्रेमभारास्पदत्वेन तादृक्प्रमोदाकृतिप्रत्यगर्थोऽसि शम्भो ॥ १३३ ॥ न कर्तास्मि नानाविधानां क्रियाणा प्रसक्तोऽपि नैतत्फलाखादनेषु । सदानन्दविज्ञानसान्द्रखभावो भवानेव सोऽह भवामि स्मरारे ॥१३४॥ यथा मातृवाक्येन राधेयभावं परित्यज्य कर्णः पृथासूनुरासीत् । तथा तत्त्वमस्यादिवाक्येन जैवं समुत्सृज्य रूपं त्वमेवाहमस्मि ॥१३५॥ भवन्तं वदन्त्येकमेवाद्वितीयं प्रणीतेतरालापसीमावचांसि । अतः साधयेदावयोर्भेदसत्तामयं कल्पितः कि नु संसारबन्धः॥१३६॥ यथा शुक्तिकादेरिदंतानुविद्धं समारोपितं वस्तु सर्वं चकास्ति । तवानगजेतस्तथा सत्तयेदं समालिङ्गितं दृश्यजातं विभाति ।। १३७ ।।

यात्राप्रबन्धः । गुणे कल्पिताया यथा कुण्डलिन्या जनत्रासकम्पादिसंपादकत्वम् । तथा ससृतेरीश नानाविधार्थक्रियासाधकत्वं त्वदारोपितायाः ॥१३८॥ त्रयीमौलिना देशिकस्यापि वाचा समावेदिता सगनिर्मुक्तता मे । न सा बाध्यते नाथ मिथ्याभिमत्या महारत्नदीपप्रभा वात्ययेव ॥१३९॥ असङ्गत्वधीरात्मनीय मदीया हृदाधत्त कादिभावप्रतीत्या । सुधाशूपले शुद्धतासविदस्मि जपोपाधिकारुण्यबुद्ध्यैव नैति ॥ १४० ॥ सदा शुद्धबुद्धो विमुक्तखरूपस्त्वमेतादृशोऽह च तांगमाभ्याम् । अभेदेऽपि सत्यावयोरन्तरात्मन्नहो मे सुखस्फूर्तिरल्पेयमास्ते ॥१४१॥ विरामेण सर्वेन्द्रियव्यावृ(पृ)तीना सुषुप्तावपि क्षीणशोकोदयायाम् । सहाविद्यया समदस्यानुभूतिः सकाकोलमाध्वीकसेवासमाना ॥१४२॥ विसर्पन्महामोहवेगान्धकारे निरस्येह निःसारससारकूपे । भृश क्लेशयित्वालमापन्नबन्यो शिव त्राहि मामीश कारुण्यसिन्धो॥१४३॥ दुरन्तव्यथाहेतुभूतस्य दुष्टव्रणस्येव शस्त्रेण वैद्यो दयालुः । हृदो दुःसह ग्रन्थिमीशान भिन्दन्प्रबोधेन मे देहि मोदातिरेकम्॥१४॥ वधूयुग्मवाताशनव्याघलूतानराधीशनत्कीरनागातिहारिन् । त्व(१)मानथैन जनिव्याधिपीडाविहस्तीकृत कालहस्तीश देव ॥ १४५॥ तुषारद्युते पवाद मया ते वितीर्णा कलामालिकेयम् ॥ १४६ ।। एकदापि रचितेक्षणापणौ तौ तदैव भवताभिरक्षितौ । पार्वतीश पदयोस्तवानिश दत्तदृष्टिमपि मामुपेक्षसे ॥ १४७ ।। इत्यादि कीर्तयन्नयमत्यादरादुपेत्य धीराग्रिमो माराभियातिशरीरार्ध- हारिणीमाराध्य मातरं शतपत्रमुकुलसच्छात्रताजुषौ मस्तकभुवि हस्तौ नि- धाय समस्तोपनिषदाँघसुरभिलाभि .. . श्रौषीत्। या०प्र०८ काव्यमाला। . . विष्वद्रीचि मरीचिमद्रुचिभरे वीचीव वारा त्रयी लोकाना यदवेदनादुदयते यद्वेदनान्मीलति । सत्यानन्दसुधासमुद्रलहरी सा काचिदेका सि त्वमेव परमा ज्ञानप्रसूनाम्बिके ॥ १४८ ॥ नित्यानित्यविवेचनादिमजुषो नित्यैर्वचोगुम्भनै- राप्तै. स्वस्य तवापि चैक्यमुभयोरापाततो जानतः । कल्याणे तव दृक्पथे निपततः कस्यापि पुण्यात्मनो जिज्ञासा त्वयि जायते भगवति ज्ञानप्रसूनाम्बिके ।। १४९ ।। विध्याद्यासु विधासु कापि भवतु श्रोतव्यवाक्ये विधा कर्मविचारक" घटनया प्रत्यग्विचारस्य च । लिङ्गैः षड्भिरुपक्रमप्रभृतिभिर्वेदान्ततात्पर्यधी- राक्षेत्रा त्वयि तद्विमर्शकलया ज्ञानप्रसूनाम्बिके ॥ १५० ॥ कार्योत्पत्त्यनुकूलवेदनतया का भवत्याः पुनः साक्षादेव निदानतां त्रिजगतीद्वारं तु मायापरम् । मृद्वत्तन्मसृणत्ववच्च कलशे सत्ताभृतस्ते तत- स्तस्या जाड्यजुषश्च सगतिरिह ज्ञानप्रसूनाम्बिके ॥ १५१ ॥ कुम्भीजन्मनि कुम्भकार इव भूभव भूमिस्थितौ हेतुः कि जगतोऽन्य एव जननस्थन्नोरुपादानतः । इत्थं भ्रान्तिमुदित्वरीं शमयितु लक्ष्माहुरेकं जग- जन्मादित्रयहेतुतां तव बुधा ज्ञानप्रसूनाम्बिके ॥ १५२ ॥ पीलूना व्यणुकादिकार्यनिवहप्रारम्भकत्वं यथा नानारूपजडात्मना परिणतिर्यद्वत्प्रधानस्य वा ।

यात्राप्रबन्धः।
तद्वन्नियनिर्विकार".. स्ते तव्यासभवा-
घ्यालस्य स्रगिवास्य कारणमसि ज्ञानप्रसूनाम्बिके ॥ १५३ ।।
देहान्तःकरणस्पृहासुखमुखे रज्जूरगाद्राधिम-
प्रत्येकाध्यसने च जीववपुषा पुष्णास्युपादानताम् ।
आकाशामिसमीरवारिधरणीमुख्ये तु साधारणे
रूपेणैव महेशितुस्त्रिजगती ज्ञानप्रसूनाम्बिके ॥ १५४ ॥
नित्यामस्तसमस्तभेदविसरा निःस्यन्दचित्कन्दली-
मानन्दैकरसामगम्यसरणीमाम्नायवाचामपि ।
मूर्ति जीवमहेश्वरौ विदधती मायावशेनात्मन-
स्तद्वद्वानुगता विशुद्धचिदसि ज्ञानप्रसूनाम्बिके ॥ १५५ ॥
निष्प्रत्यूहमिषत्स्वरूपधिषणाससिद्धसर्वज्ञता
सर्वोत्पादयितृत्वसर्वभुवनाधिष्ठातृताग्रेसरैः ।
कल्याणैरुपशोभिता गुणगणैः कैवल्यलक्ष्मीमयी
दिव्यामीशदशामवाप्य जयसि ज्ञानप्रसूनाम्बिके ॥ १५६ ॥
मायाराहुविलीढबोधशशिना चक्षुर्मुखाक्षोदयं
नानावृत्तिमुखावलोकनमिलत्किचिज्ज्ञताशालिना ।
उन्मीलबहुशोकवेगगरिमोद्विमेन जीवात्मना
बध्नासीव भवाब्धिमजनविधि ज्ञानप्रसूनाम्बिके ॥ १५७ ।।
छायावल्लभशीतभानुहुतभुड़क्षत्रतारादयो
भान्ती त्वामनुभान्ति केवलचिदालोकातिरेकीकृते ।
चेतोवृत्तिपदार्थभेदकभवन्मातृप्रमामेयता-
धुर्या भासयसि त्वमेव भुवनं ज्ञानप्रसूनाम्बिके ॥ १५८ ॥

११६ काव्यमाला। ऐक्ये व्यक्तिमुपागते सति बहिश्चञ्चद्गाभावथ प्रेडवृत्तिक्शेन साक्षिविषयावच्छिन्नचैतन्ययोः । प्रत्यग्बोधमयेन दीपमहसा सबन्धमाध्यासिक प्राप्तेन प्रकटीकरोषि विषयाज्ञानप्रसूनाम्बिके ।। १५९ ॥ सन्त्येवावरणादिशक्तिसहिता मूलप्रकृत्यशका मूलाज्ञानपदाभिषेकविधिना सभाविताः सूरिभि. । बाह्यवृत्तिभिरीक्षणादिकरणोद्भूताभिरेकैकश- स्तैरुद्यनिखिलव्यवस्थितिरसि ज्ञानप्रसूनाम्बिके ॥ १६० !! सामान्यग्रहणाचदंशविषयाविद्यानिवृत्तावपि सड्मुख्येतरभागसंवृतिविधाजाग्रत्तमोवस्थितेः । स्रग्वातधयशुक्तिरौप्यमरुभूरिजन्मरीचापगा- पूर्वाध्यासशतानि सकलयसि ज्ञानप्रसूनाम्बिके ।। १६१ ॥ अस्पृष्टैर्धमवञ्चनादिकलयावच्छेदनिन्दापरैः ससर्गाविषयप्रमैकजनकैश्छन्दोगिरा मौलिभिः । दुष्टा प्राथमिकी हगादिजनिता बुद्धि भिदागोचरा- मस्यद्भिर्घटते तदद्वयमिति ज्ञानप्रसूनाम्बिके ॥ १६२ ॥ तत्त्वावेदनतश्चिरंतनगिरा प्रच्याविताध्यक्षधी- रज्ञानव्यतिरिक्तदोषमहिमाजन्यं प्रपद्यास्पदम् नानाकार्यपरंपराखनुगतां सत्तां तवातन्वती व्यत्यस्तामिव बोभवीति सफला ज्ञानप्रसूनाम्बिके ॥ १६३ ॥ आदर्शाहतिसंनिवृत्तनयनव्यालिह्यमान यथा कण्ठस्थं मुखमेव न प्रतिमुख मिथ्या पदार्थान्तरम् ।

यात्राप्रबन्धः। चैतन्यप्रतिबिम्ब एव मुकुरे जीवोऽपि मायामये त्वद्रूपादतिरिच्यते न हि तथा ज्ञानप्रसूनाम्बिके ॥ १६४ ॥ प्रक्षीणादिकथा समस्तजनिमत्प्रत्यक्षताशालिनी विक्षेपप्रतिरूपशक्तियुगलीविख्यापितप्रक्रिया । मन्दीभूतनिरुत्तिमार्गगमना मायाभिधा किकरी कि ते दुर्घटमेव नो घटयति ज्ञानप्रसूनाम्बिके ॥ १६५ ॥ खच्छन्दारुणबन्धुजीवसुमनोगुच्छाङ्कपालीवशा- दच्छाया तु यथा सुधाकरमणावध्यस्यते शोणता। संसारप्रवणखभावभरिताहकारसान्निध्यतः शुद्धायामपि समृतिस्त्वयि तथा ज्ञानप्रसूनाम्बिके ॥ १६६ ॥ दृष्टि सृष्टिमुशन्ति केचिदपरे हुक्तुल्यकालां तु ता- मभ्रादिक्रमतस्त्वया प्रथमतः सृष्टस्य दृष्टिं परे । लोकाना मृगतृष्णिकाम्बुलहरीसाधारणं सर्वथा रूप बोधनिवर्त्यमेव भवति ज्ञानप्रसूनाम्बिके ॥ १६७ ॥ जन्म श्रोत्रियसततौ शुभतरे काले व्रतस्वीकृतिः साङ्गाम्नायसमागमो गुरुमुखादारग्रहः सत्कुलात् । निष्कामाचरणं च कर्मविततेर्निष्पद्यते कस्यचि- त्त्वज्ज्ञानादरहेतुशुद्धि(द्ध)विधये ज्ञानप्रसूनाम्बिके ॥ १६८ ॥ वर्णी स्नातककाननस्थितिजुषां धर्मैश्च कर्मन्दिनां सन्यासैरपि कर्मभिः समुचितैः पादोद्भवादेरपि । निष्पन्ना निखिलाप्यपूर्वपटली वेगाद्विलम्बादपि स्वद्विद्याजननोपयोगमयति ज्ञानप्रसूनाम्बिके ॥ १६९ ॥ १. निवृत्तीति भवेत् ११८ काव्यमाला। आधानाहितसंस्क्रियोज्वलतरे निष्पादिते पावके यागोऽपूर्वमिव त्वदेकविषयध्यानक्रियाशीलनात् । चितेनातिपचेलिमेन सहिता सा तत्त्वमस्यादिवा- क्त्वत्साक्षात्कृतिमादधाति विमलां ज्ञानप्रसूनाम्बिके ॥ १७ ॥ ग्रीवावस्थितमेव रत्नखचितं ग्रैवेयक विस्मृते- रन्विच्छ(ष्य)न्पुरुषो यथाप्तवचनादाप्वैव तन्मोदते । अज्ञानस्थगिता सतीमपि तथा त्वद्रूपतामात्मनः प्राप्यैवागमतः प्रहृष्यति सुधीर्ज्ञानप्रसूनाम्बिके ॥ १७१ ॥ त्रय्यन्तश्रवणे तदर्थमनने तद्भावनाया च स- न्संप्राप्तादपरोक्षसंविदुडुपात्ससारपारं गतः । यावे · श्वविमुक्ति खेलति भजन्बिम्बेशतां त्वन्मय- ब्रह्मानन्दरसानुभूतिललितां ज्ञानप्रसूनाम्बिके ॥ १७२ ॥ वस्तुन्याहितचित्तमोपनिषदे वैधेषु वा जाग्रतं नानाकर्मसु रक्षसीति यदयं नैसर्गिकस्ते गुणः । देहात्मभ्रमधूसरं जनमिम त्यक्तात्मनीनक्रिय यद्युत्तारयसे यशस्तव तदा ज्ञानप्रसूनाम्बिके ॥ १७३ ।। वृत्तान्तास्तसुध दयैकरससंवृत्तान्तरङ्गं त्रयी- सिद्धान्तं स्फुटमात्मसविदपृथक्सिद्धां तनूमाश्रितम् । अध्वान्तप्रणयानुबन्धिनि महत्यध्वान्तधाम्नि स्थितं शुद्धान्तःकरणाञ्चितं पशुपतेः शुद्धान्तमन्तर्भजे ॥ १७४ ।। १. यावद्विश्वेति भवेत् यात्राप्रबन्धः। ११९ .. अपि च । श्रीमन्त्रराजमणिपञ्जरकेलिशारि च्छन्दःशिखासदनमङ्गलदीपरेखे । नानागमोपवननाट्यकलामयूरि देवि त्रिलोकजननि त्रिपुरे नमस्ते ।। १७५॥ त्रयीपुरहरार्धभिदादिरूपे श्रीकामराजमनुशेखरवर्णभागैः । क्लृप्ताननस्तनजगत्प्रकृतिप्रतीके कल्याणि हैमवति कामकले नमस्ते ॥ १७६ ॥ आपाटलं कुटिलकुन्तलमायताक्षं शोणाधरच्छवि सुधाकरबिम्बवक्रम् । कुम्भस्तन सृणिगुणाशुगचापहस्तं रूप विधाय कृतलोकहिते नमस्ते ॥ १७७ ॥ मध्येपयोम्बुधि मरुद्रुमनीपधाम्नो रत्नान्तरीपतिलकस्य ललामभूतम् । क्लृप्त वदान्यमणिभिर्गृहसार्वभौम- मास्थाय शश्वदनुभूतरते नमस्ते ॥ १७८ ॥ दीप्ताणिमादितनुदि व्याप्तान्तरालमुवि विभ्रमशालिकायाम् । मञ्चाग्रणीभवदजादिसदाशिवान्त- पञ्चामरीधृतशिवाङ्कगते नमस्ते ॥ १७९ ॥ १ वेदत्रयीति प्रतिभाति.

काव्यमाला। ..... प्राचीनसक्तिरसदिग्दिवसाधिनाथ लोचनदलेषु सरोरुहेषु । तत्तत्फलाहिततरङ्गितमानसाभि- राराधिते मतिमदावलि भिनमस्ते ॥ १८० ॥ आनन्दबाष्पमकरन्दभृताक्षिपझै- रंशेषु रपुनर्भवाय । अन्तर्महाकमलकाननमम्ब धन्यैः सभाव्यमानचरणाम्बुरुहे नमस्ते ॥ १८१ ॥ निद्राविधौ निरवधिक्षुधया धरादि पर्वावलीविलसितामतिलवय पद्याम् । ली.... रभिषिक्तलोके शर्वाणि कुण्डलिनी चन्द्रकले नमस्ते ॥ १८२ ॥ गीर्देवताहरिवधूगिरिजादिशक्ति- साम्राज्यपीठनियतस्थितिजागरूके । शुद्धान्तसुन्दरि परस्य सुधांशुमौले ज्ञान जनयित्रि शिवे नमस्ते ॥ १८३ ॥ ततश्च विपश्चिदेष निर्गत्य दुर्गत्यरुणकरधोरणीसत्रासगरिमानुबन्धि- भिरन्तर्मुखजनैरनवरताक्रान्तगह्वरगृहान्तमहरवसान नटन्महानट- पादतलाभिघातपरिपीडितशरीरतया भूरितरगैरिकपुञ्जपिञ्जरीभवदमित- निर्झरीकैतवेन परितो दरीमुखशतैः क्षतजलहरीरिव समु...."न्त जलधरपरंपरापिहितशिखरनितम्बभागतया शाम्बरीसंच्छन्नमौलिचरणस्य पार्वतीपरिणेतुरनुकुर्वाणं निखिलससिद्धिनिर्वाहनैपुणी(ण्य)चर्वितसकल- कुलशैलगर्वततिमभजत श्रीपर्वतम् ।

यात्राप्रबन्धः।
सरिद्वराः सप्त विधाय मध्ये विभेदन यस्य विनिःसरन्त्यः ।
विपाटयामो वृजिनप्रपञ्चमेवं जनानामिति दर्शयन्ति ॥ १८४ ॥
पाटलाञ्चितपदं शरीरिणा घोरतापहरदानकोविदम् ।
मल्लिकार्जुनमसोढमन्मथं तत्र तं शुचिमसावसेवत ॥ १८५ ॥
यस्य सायमुरुनृत्तरंहसा पूर्णन गुरुतरं समेयुषाम् ।
वासना.. तिकरादहर्निश ज्योतिषा सुरपथे परिभ्रम. ॥ १८६ ।।
तदनु धरणीसुराधिपो भवनाशिनि तटप्रकटितरसन्निधान() निधान-
मिव निखिलनियोगिना व्यक्तिभिदालेशवञ्चितेऽपि वपुषि व्यञ्जित....
रुषमृगजातियुगसमवायमनपायशौर्यवडवानलहेतिशोषितदनुजाधिराजभु-
जमहोजलनिधिमलोकयदहोबलपतिम् ।
सर्वान्तर्यामिभावे मम निगमशिर संप्रदायैकलक्ष्ये
दृष्टान्तस्तम्भगर्भो न परमिदमपीत्येव सदर्शनाय ।
हृन्मध्य दानवेन्दोः सपदि विदलयन्पाणिजैः कूणिताप्रैः
प्रह्लादाह्लादकारी समहृत जगति स्फीतमत्याहित य ॥१८७ ।।
तदनु पाशायुधप्रसाधितमाशावकाशमवगाहमानः प्रकटितसेवमान-
जनदुरितभङ्गमुद्रामधिगम्य तुगभद्रा सुमतिरित्ययमवोचत ।
मातर्भवत्येव महावराहवक्रावतीर्णा न वसुंधरापि ।
त्वमेव कामं न हि तुगभद्रा कितु त्वया सापि कृतानुषगा ॥१८८॥
मह्या नितम्बमिव गौरवमाननीय-
सह्याचल समधिरुह्य सुधीरयासीत् ।
वेलागतं तदनु वीचिमतः प्रतीचो
लीलानिकेतमृषभध्वजवल्लभायाः ॥ १८९ ॥

१२२ काव्यमाला । लम्बालकान्तललितामलिके पटीर- जम्बालिकान्तधवलच्छविमगकेषु । बिम्बारुणामधरभासि विनम्य धीमा- नम्बामथैष वचनैरधिनोन्मनोज्ञैः ॥ १९० ॥ हस्तैश्चतुर्भिरभय वरमजचक्रे सबिभ्रती त्रिनयना नवचम्पकाङ्गी । पीताम्बराञ्चितकटी नवचन्द्रखण्डा काचित्सरोजनिलया करुणाविरास्ते ॥ १९१ ।। चण्डि प्रसाधयसि यत्प्रियवामभाग सौभाग्यचिह्नमिदमेव न कि भवत्याः । अध्यास्य कि मुहुरमुष्य किरीटसीमा सह्योऽथवा भवति नातिशयः सपत्याः॥ १९२ ॥ दिक्कूलचुम्बिनि दृढं विमलखभावे मातभवन्मणिकिरीटमरीचिपूरे । अर्धेन्दुनावमधिरुह्य मदीयभाव. खच्छन्दसंचरणकेलिविधि विधत्ताम् ॥ १९३ ॥ कल्याणि ते मुखविधुमितकौमुदी च नेत्रारविन्दकरुणामधुनिझरी च । वक्षोजकुम्भगलितामृतवाहिनी च तन्वन्तु नस्त्रिविधतापकलापशान्तिम् ।। १९४ ।। चक्र नितम्बफलकेन तवात्तगन्धं शङ्खच कण्ठविजित बिभृषे कराभ्याम् ।

यात्राप्रबन्धः । १२३ आर्या गुरोरिह लघोरथवा निकाम- मङ्गीकृतस्य परिपालनमाद्रियन्ते ॥ १९५ ।। प्राप्यं जनेन परमं वरमेतदेव पादाम्बुज परमितो न च किचनेति । व्याकुर्वतोस्तव वराभयमुद्रिकाभ्या सेय युगाय करयोः शिरसा नमस्या ॥ १९६ ॥ अस्तोपमर्दलवमादियुगावतारे धृत्वोदरस्य तव सूतवतस्त्रिलोकीम् । मातः कथ कथमिवेह महानुभावा. सद्भाव एव सतत प्रथयन्ति चिन्ताम् ॥ १९७ ॥ सन्मार्गरोधरसिके शमवत्प्रणीत- न्यकारभाजि नवमन्मथपत्रिभिन्ने । अक्षानुषगमलिने हृदि मामकीने शर्वाणि विन्ध्य इव ते चरणौ निधेहि ॥ १९८ ॥ मूकाम्बिके मुहुरपास्तजपस्य कामं रागस्पृशो रचितपल्लवसौहृदस्य । पदयुगस्य भवेत्तवैव श्लाघ्या गतिः सकलहसकुलैर्दुरापा ॥ १९९ ॥ साकारा सुखकन्दली पशुपतेरेका मनोहारिणी स्तोकालोकसुधाकृतस्मरवधूशोकाग्निनिर्वापणा । त्रैकाल्यप्रतिपत्तिदोहनविधौ या कामधेनुः सतां सा कारुण्यतरङ्गिणी मनसि मे मूकाम्बिका दृश्यते ॥ २० ॥ भक्तस्य मे १२४ काव्यमाला। इति सपदि हिमाचलेन्द्रकन्यां पशुपतिनेत्रचकोरपौर्णमासीम् । समजनि भजतोऽस्य साधुमौलेरकृतकभक्तिसुधाम्बुधेः समृद्धिः ॥२०१॥ इति समरपुगवस्य कृतौ चम्पूकाव्ये षष्ठ आश्वास । अथ सप्तम आश्वास । अथ मनीषिमणिरेष कुमुदिनीरमणकोरकापीडसेवादरादिव शैवलि- नीपतिना प्रतिमुहुरधिष्ठिताभ्यर्ण गोकर्णमधिगम्य मन्मथपरिपन्थिमन्त्रैक- साधकानघवैदिकजनानात्मीयनयनयोः पन्थानमुपनीय चिन्तामिमामता- नीत् । इह केचन शास्त्रवेदिनो भवदुःस्वप्मपरम्परादृशः। तदपायकृते जपक्रियामधिगोकर्णममी वितन्वते ॥१॥ पारेपारावारमाविर्भवन्तं देवं मारामित्रमाराध्य धीरः । सोऽयं भूयो भक्तिपीयूषवर्षादात्तोत्कर्षा भारतीमित्यवादीत् ॥ २ ॥ अनुतटमनिश महाबलो न यदि भवानिह नाथ तिष्ठति । जलधिरभिभवेदयं तदा जगदमिक्लप्तदिगन्तराक्रमः ॥ ३ ॥ अथवा लघुरेष सिन्धुरास्ता प्रतिविध्यण्डममी पितामहाद्या । स्थितिमादधते धृतप्रकम्प्रास्तनुभूशासन शासने त्वदीये ॥ ४ ॥ सृजसि स्मरजेतरासिकामिह गोकर्णमिते निकेतने । दिशसि श्रयता तु देहिना कथमाभोगकरम्बितं पदम् ॥ ५ ॥ अयं खलु तदनु संख्यावदग्रणीरतिलवय सह्यधरणीधरमतिस्निह्यद- नुचरघटासमावृतो विविधनीवृदावलिमवगाहमानः प्रबलवाहिनीकुलानि पावनस्थलानि च पदे पदे निशामयन्कुशाञ्चलपरिहसनमतिरतिमात्रपे- शलांसूक्तिमभिधातुमाद्रियत ।

यात्राप्रबन्धः।
१२५
वरदापदान्जमकरन्दकन्दली वरदापगामधिविगाह्य निर्मलाम् ।
अधुना निजामवयवार्थदुर्विधामभिधां समञ्चति मलपहारिणी ॥ ६ ॥
वीचीहस्ता विपुलपुलिनश्रोणिरिन्दीवराक्षी
फेनोदारस्मितविलसिता बन्धुरावर्तनाभिः ।
चक्रोरोजा सरसिजमुखी चारुहंसप्रचारा
पारावारप्रथमगृहिणी भासते कृष्णवेणी ॥ ७ ॥
महाबलेशमकुटीतटजाते तरङ्गिणि ।
सकृष्णापि त्वया शश्वदकृष्णा हन्त मेदिनी ॥ ८॥
दोलायित बालसमीरणेन वीचीदुकूलाशुकमुद्वहन्तीम् ।
पृथ्व्या वय भीमरथीभवन्त्या पताकिकां भीमरथीमुपासे ॥९॥
पुरुषत्रयमौलिभागभूषामणिनीराजितमजुपादपीठाम् ।
तुलजापुरवासिनी तुरीयामवलम्बे जगदम्बिकां भवानीम् ॥ १० ॥
कञ्जराजिगलितैरनारत पिञ्जराम्भसि नवीनकेसरैः ।
पञ्जरासरिति क्लुप्तगाहनः कि जरायुवसति प्रपद्यते ॥ ११ ॥
नीलग्रीवजटा."विगलितां निर्मात्यमालामिव
ब्रह्मक्षोणिभृदुत्तमाङ्गवितता पृथ्वीपरिष्कारिणीम् ।
आत्मीयैरधिवासित विदधतीमम्मोनिधान रसै-
स्तामद्याहमगण्यपुण्यसुलभा द्रक्ष्यामि गोदावरीम् ॥ १२ ।।
पात्रगा पटुधियामिव संपत्कान्तसिन्धुरमिता करिणीव ।
गौरिवाञ्चितपयोधरभारा गौतमी हरति लोचनजाड्यम् ॥ १३ ॥
तापसाघदलनाय निर्गता गौतमी हरति कल्मषं नृणाम् ।
चातकार्तिशमनोद्यता जलैरभ्रपङ्किरभिषिञ्चति क्षमाम् ॥ १४ ॥

१२६
काव्यमाला।
त्रिनयनजटाराजद्राजक्षमारुहकोरक-
व्यतिकरघनामोदा गोदावरीलहरीभराः।
पशुवधमहाकालीनाली ढगोतमपातक-
प्रशमकुशलारम्भाः संभावयन्ति वसुंधराम् ॥ १५ ॥
जगत्पतेरस्य जटाच्युतेति विधेहि गोदावरि मा विषादम् ।
सरोषगौरीचरणाहतीनामलम्भनादामुहि मोदमेव ॥ १६ ॥
खवेलान्तलीलासुभगतरवालानिलबल-
त्तरङ्गालीतुगातरलतरभृङ्गा तत इतः।
तटिन्यास्ते धन्या तरुणकमलिन्याकरतया
प्रणीता वैनीतावलिभिरभिवीता शतधृतेः ॥ १७ ॥
पवित्रामद्राक्षं बहलकमलामोदमधुरैः
समीरध्वन्यश्रममपनयन्ती नवनवैः ।
अतिप्रेम्णा भर्तुश्चरमजलधेरर्पितमुखी
पयोष्णीमुष्णीषप्रतिमलहरी विन्ध्यनृपतेः ॥ १८ ॥
कलितापीडा कमलैर्महिता पीयूषमधुरतापीना ।
जनतापीतजलेय मम ताप हरतु मलिनतापीडाम् ॥ १९ ॥
सुधाशुकन्या खदतां जनानां ताप च दूरे तनुतां पयोष्णी।
कथ त्वमप्यम्ब कठोरधाम्नस्तनूभवे तापि तथाविधासि ॥ २० ॥
अक्ष्णोर्वपत्यमृतलहरीमाश्रमैस्तापसानां
नित्योदञ्चन्निगमपठनैरुल्लसत्तीरभागा ।
अश्मवातैरचलधनुषो लिङ्गभूतरभूता
मज्जन्नानामनुजपटलीशर्मदा नर्मदा मे ॥ २१ ॥

यात्राप्रबन्धः।
१२७
पूजनीयविभवासु भूतले जाग्रतीषु शतशो नदीष्वपि ।
कि त्वयैव वितनोति केलिकामर्णवस्त्वमसि येन नर्मदा ॥ २२ ॥
कुचपरिणतिभाजः क्षोणिबिम्बाधराया
विगलितमिव यस्मादुत्तरासगचेलम् ।
नटयति मुदमम्मो नार्मद शृङ्गसीमा-
मधिवसति महादेरस्य माहिष्मतीयम् ॥ २३ ॥
पुरी जयत्यर्जुनभूपतेरिय वहन्निमा विन्ध्यवसुधराधरः ।
त्रिविष्टपालम्बतया धृतस्मयं नगाधिराज न तृणाय मन्यते ॥ २४ ॥
माहिष्मतीमण्डनमातिहारि जनस्य दोस्तम्भसहस्ररम्यम् ।
सप्तार्णवीमुद्रितराज्यलक्ष्मीविलासगेहं किमपि स्मरामि ॥२५॥
अवतारविशेषमजनाभेररुणोष्णीषमनल्पहेमभूषम् ।
कृतवीर्यतनूजवेषमीडे जगतीपालनकर्मनिनिमेषम् ॥ २६ ॥
यदीयभुजमण्डले धरणिरेत्य लीलारति
विशङ्कटतरे विसृजति स दौस्थ्यव्यथाम् ।
परीक्षणकषोपलः स दशकण्ठबाइष्मणा
जगन्महितशासनो जयति कार्तवीर्यार्जुनः ॥ २७ ॥
रेवा यस्य परं दुरासदभुजासेतौ न माति म सा
तेजोवार्धिरपि क्षपाचरपतेस्त्रैलोक्यकूलंकषः ।
सप्तद्वीपनिखातयूपपुलकच्छन्नावनीविग्रहः
सोऽय हैहयनायको विजयते शूरक्षितीशाग्रणीः ॥२८॥
काचिन्महाकालनिकेतनस्य पुरामरातेभुवि राजधानी ।
श्रिया विशालां जनतामवन्ती चकास्त्यसावुज्जयिनी पुरीणाम् ॥ २९॥

१२८
काव्यमाला।
भूतिं देहि ब्रूहि नामानि शभोराद्य विद्या लीलयेत्याचरन्ती ।
देव्या साक ध्यायत ध्यायतेति ध्यायन्त्यस्यां दैवत केऽपि धन्या ॥३०॥
अस्यां मरालीततिरद्रिकन्याकेलीगतिप्रार्थनसापराधा ।
निवारितान्तर्गमनेव नित्यसास्ते बहिः खेयरतिच्छलेन ॥ ३१ ॥
क्रीडाजुषामत्र कृशोदरीणामारज्यमाना घुसृणाङ्गरागैः ।
सृषा जगत्पातकसहतीनामुत्पातसन्ध्येव पुरः समिन्धे ॥ ३२ ॥
अस्यां निरस्ता दिवसान्तनृत्यत्पिनाकिपूजापटहप्रणादैः ।
निर्याति नृणामिव दुष्कृतालि. सौधेषु कालागरुधूमरेखा ॥ ३३ ॥
आरूढकर्मन्दिपथा इवास्यामाविर्भवज्झतितारनादाः ।
आरामवीथीप्वनुवल्लिगेहमटन्ति भृङ्गा मकरन्दभिक्षाम् ॥ ३४ ॥
वयं विशालाप्यवकाशहीना दुष्कर्मलेशस्य शरीरभाजाम् ।
उच्चैर्महाकालमुपाश्रितापि कदापि नैषाञ्चति काललक्ष्याम् ॥ ३५ ॥
स्थितं सनिधानेऽपि धीसूक्तिदूरं निराकारमप्यर्धनारीशरीरम् ।
अधिष्ठानमप्यस्य विश्वस्य शश्वन्महाकालवास्तव्यमव्यान्महो नः॥३६॥
अस्याः सिन्धोरूमिहस्तावलम्बादेनःसिन्धोरेत्य पारं भवामि ।
निर्विन्ध्याया निर्मलाम्भःप्रवाहे निर्मज्याहं निर्गतः क्लेशविन्ध्यात् ॥३७॥
चर्मण्वत्या साधु खण्डीकृताहोमर्मण्यस्या मज्जतां वारिपूरे ।
कुम्भीपाकाद्धोरपीडाविपाकारिक भीतिः स्यात्किचिदप्यगभाजाम् ॥३८॥
इदं तावदिह दृश्यते मन्दाकिनीविहितमहितसागत्यमलघुसलिलपू-
रसातत्यवितीर्णजलधिसौहित्यमशिशिरकरापत्यम् ।
क्षितिरोमलता कलिन्दभूभृत्करिकालायसशृङ्खला स्रवन्ती।
भवतापपरीतमानसानां नवतापिन्छवनीयमाविरास्ते ॥ ३९ ॥

यात्राप्रबन्धः। १२९ वृषमौक्तिकसंहतेर्विधात्रा वणिजा भूविपणौ विसारितायाः । परभागकरी पटीव नीला प्रतिभाति धुमणेरिय कुमारी ॥ ४० ॥ मिहिरांशुविलीनमेघमार्गद्रवनिष्यन्दततौ परं किलास्याम् । यमुनेति कलिन्दजेति सिन्धोरबलेति प्रथते नृणां विमोहः ॥ ४१ ॥ नतिरस्तु गभस्तिमालिसूनोर्नरकद्वारमहायसार्गलायै । जनसदतिनर्तकीमसारप्रतिसीराकृतये प्रकाममस्यै ॥ ४२ ॥ असितोत्पलमालिकामवन्या जनतापुण्यशिखावलाभ्रपतिम् । शिशिरामवगाह्य सिन्धुमेनां जनिताप विजहाति जीवलोकः ॥ ४३॥ अनुवारमवाप्तवारिकेलेरसिताया मुरशासनस्य मूर्तेः । अयमाविशदंशुमालिकन्यामभिरामः किमु नीलिमातिरेकः ॥ ४ ॥ अतिवेलरसोदयानुभावात्कलयन्ती निजकामुकाभिसारम् । असितावरणांशुकं किमेषा सहजश्यामलकच्छलेन धत्ते ॥ ४५ ॥ अभिषिञ्च कलिन्दकन्यके मामतिनीलच्छविनैव वारिणा ते । सहसा भवितास्मि तावताह शरदिन्दीवरबान्धवावदातः ॥ ४६॥ दिशि वासमवाप्य दक्षिणस्यां सहजन्मा तव शास्ति पापशीलान् । भवती तु परिष्कृतोत्तराशा कृपया कल्मषमेव देहभाजाम् ॥ ४७ ॥ जननि त्वदवेक्षणं जनाना निरयश्रेण्यनवेक्षणे निदानम् । भवदम्भसि मज्जनं तु भद्रे पुनरुन्मजनकारणं भवाब्धेः ॥ ४८॥ जननामयभेषजैः श्रुतीनां पटवासैस्तटरेणुभिर्भवत्याः । चरणाम्बुजवासितैर्मुरारेरनुलिप्तोऽपि भवामि नीरजस्कः ॥ ४९ ॥ रविनन्दिनि नीलरत्नयोस्ते तटसीमाजनुषोस्तयोः किलैकम् । अभवत्परिकर्म विन्ध्यभूमेरपरं गोपवधूपयोधराणाम् ॥ ५० ॥ या०प्र०९

१३०
काव्यमाला।
हसितौषधमोहिताशयानामनुतीरं तव बल्लवाङ्गनानाम् ।
बहुशो हरति स्म नीविबन्धानतिसंघापटुरादिमः स चोरः ॥ ५१ ॥
तटमम्ब तवैनदेव शाम निजवंशीविनदामृतैरसिञ्चत् ।
अत एव पुरीयमत्र भान्ती मधुरेति व्यपदिश्यते जगत्याम् ॥ ५२ ॥
महतीषु पुरीषु काममेषा मधुरेत्यत्र किमाविरास शाहीं ।
अवतारमहोत्सवेन शौरेरथ चेयं मधुरा किमासु जज्ञे ॥ ५३ ॥
जनिकापथचक्रमालसानामलघुश्रान्तिकलापमङ्गभाजाम् ।
अमृतार्पणलीलया हरन्ती नगरीयं मधुरा भवेन्न केषाम् ॥ ५४ ।।
धरणीतिलक तरी भवाब्धेः खनिरिन्द्रानुजगारुडोपलस्य ।
दिशति प्रमद दृशोरियं मे रजनीशान्वयराजराजधानी ।। ५५ ॥
यदुवशयशोनिदानभूमिः शिशुताविभ्रमसाक्षिणी मुरारेः ।
नवमुक्तिवधूविवक्षुलोकप्रतिबोधाङ्कुरपालिकेयमास्ते ॥ ५६ ॥
अवकर्णयितु यशो मुरारेरसकृत्पौरजनोपगीयमानम् ।
गलितावरणैरिय गवाक्षैः परिफुल्लश्रुतिसपुटेव भाति ।। ५७ ॥
यमुनालहरीसमीरधूतैरियमाभाति शतैस्तटाकिकानाम् ।
उपकण्ठमुपेयुषां जनानामघसंघातमिवापसारयन्ती ॥ ५८ ॥
निजभक्तिनिरूढमानसाना घनससारविषादखण्डनाय ।
अरविन्दविलोचनः किलास्यां परिजग्राह भवानुबन्धलीलाम् ।। ५९ ॥
चिरकालधृतं हृदा जगत्याः किमपि प्रौढविषादकारि शल्यम् ।
भगवानिह कंसनामधेयं बलसदंशिकया समुजहार ॥ ६० ॥
इह धन्यतमैरलोकि रेखासरसीजातरथाङ्गशडचिह्ना ।
अनुवीथि पदावली मुरारेरकुतोजन्मसरखतीविचेया ॥ ६१ ॥

यात्राप्रबन्धः।
१३१
मनुजो नहि मादृशो जगत्यामनुकम्पालवदुर्विधान्तरङ्गः ।
चिरशीलितमप्यधर्मजात बहिरुत्सृज्य पुरीमिमां विशामि ॥ १२ ॥
इत्यादिवचनरीतिमुखरिताननो हरितालनिभवसनभरितात्मकटितटं
हरिनीलमणिभङ्गसंकाशरोचिषमवनतपरिषदतिहर्षविरचनाय समुद्यन्त-
मिव कमपि तडित्वन्तमानकदुन्दुभरात्मजमभिवन्ध संक्रन्दनमुकुन्दशा-
तोदरीद्वन्द्वसवादरूपमरविन्दलोचनस्तुतिकलापमभिरूपशेखरोऽयमेवम-
करोत् ॥
विधाय केलिं वियदापगाया यान्त्योस्तटीमिन्द्रमुकुन्दपत्त्योः ।
पटीविपर्यासवशेन जज्ञे प्रगल्भवादप्रतिवादभङ्गी ।। ६३ ॥
पटे सुरेन्द्रप्रमदैकधायें कुतोऽन्यथा मुह्यसि गोपभीरो ।
तवैव मोहो दयित मुरारेरशेषवन्द्यादधिक वदन्त्याः ॥ ६४ ॥
मृगाक्षि शौरेमहिमातिरेकमाख्याति राज्यानधिकार एव ।
बलेस्त्रिलोकीमपहृत्य बाले गोत्रारये दत्तवतः क राज्यम् ॥ ६५ ॥
ज्यायोबलात्साधयतोऽनुजस्य कार्याणि मुग्धे वद कः प्रकर्षः ।
त्राणं गवां तन्वति मत्सहाये दृष्टं बलं दुर्ललिते मघोनः ॥ ६६ ।।
गोपालबाले कुलिशायुधेन कृपा व्यधायीति किमेष दोषः ।
ममानुकम्पा क नु मातृगर्भ दम्भोलिना दारयतो बलारेः ॥ ६७ ॥
दिवौकसां दानवजातिमात्रे स्पर्धा निसर्गप्रभवा हि सत्ये ।
पौलोमि तर्हि त्वयि पाकशासी वैरानुबन्धान्न कुतो विधत्ते ॥ ६८ ॥
नारीवधं नर्मसखस्तवैव शतक्रतुः सविदधीत कि वा ।
अकार्यमप्याचरणीयमेव वितन्वता विश्वकुटुम्बरक्षाम् ॥ ६९॥
खकुक्षिपूर्यं कृतचोरवृत्तेर्दूरे जगत्राणधुरंधरत्वम् ।
पुंसः खकीयोदरपोषणं च तस्य त्रिलोकीपरिपोषहेतुः ॥ ७० ॥

१३२ काव्यमाला। मांजनागर्भपुटीमितेऽस्मिन्करोषि मिथ्यागरिमाधिरोपम् । विश्वत्रयव्यापितनोरनेन का हानिरुन्मीलति कैटभारेः ॥ ७१ ॥ किं किं शुभे केशवशाम्बरीभिर्विमोहिता त्वं न समर्थयेथाः। भजन्तमुत्सृज्य जनं परेषु घाटी निबध्नाति तदीयमाया ॥ ७२ ।। आनन्दामृतसर्वखमाशास्यममरैरपि । आभीरपतिगेहान्तमभिव्यक्तमुपास्महे ॥ ७३ ॥ पयःपयोधौ बहुकाललीलया वितायमानादिव वासनाबलात् । हरिविहायानकदुन्दुभेहान्बजे सुधाढ्ये विहरन्स पातु नः ॥ ७४ ॥ जवोपरि न्यस्य कृते जवेन सक्षालने संविहितां जनन्या । प्रदक्षिणाम्भःपरिषेकरक्षामन्तहसन्वीक्ष्य हरिः पुनातु ॥ ७५ ॥ स्तनं जनन्या धयतेव समुख प्रसारितः पातु करो बलिद्विषः । निशाचरीमम्ब निरीक्ष्य मारितां प्रयाहि मा भीतिमितीव शंसितुम् ७६ वन्दे मुकुन्दं पदपल्लवाभ्यां वाचालमञ्जीरमनोहराभ्याम् । प्रहारलीला मनसि प्रणेतुमभ्यस्तडो(दो)लाफलकाभिघातम् ॥ ७७ ॥ जानुद्वयीचङ्गमणेषु धान्या पाणि निधायैकमुदस्तबाहुः । तमाहरिष्ये तरुमिन्द्रलोकादिहेति शंसन्निव शौरिरव्यात् ॥ ७८ ॥ अपि त्रिलोकीममिमीत यस्त्रिधा समाहितैरजिसरोजविक्रमैः । स माधवो नः परिपातु संचरन्करौ समालम्ब्य पितुर्ग्रहाङ्गणे ॥ ७९॥ अमेयमप्यकृतकभारतीशतैरगोचरं यमिवरचेतसामपि । गृहाङ्गणे किमपि यशोदया गुणैरुलूखले कलितमुपास्महे महः ।। ८०॥ आकुञ्य पादाम्बुजमेकमन्यदुत्क्षिप्य नृत्यन्तमुदप्रचूडम् । पाणिद्वयीपायसगव्यसारौ पश्यन्तमीडे पशुपालडिम्भम् ।। ८१ ॥

यात्राप्रबन्धः।
कराम्बुजस्तम्भितकिङ्किणीरवं पदे पदे कल्पितपार्श्ववीक्षणम् ।
शनैःशनैराकलिताविचङ्गमं विनौमि शौरेजगव्यमोषणम् ॥ ८२ ॥
विज्ञातुमामोदवशेन मोषं गव्यस्य गोपाङ्गनया कयापि ।
निजाननेन्दोनिकटोपनीतं जिघ्रन्मुकुन्दो वदन स जीयात् ॥ ८३ ॥
गृहे मदीये कियदद्य गव्यमहारि शसेति कयापि पृष्टे ।
पयोधरौ पाणियुगेन तस्याः स्पृष्ट्वेयदस्तीति भणन्विटोऽव्यात् ।। ८४ ॥
कलशीनिहितं पय. कथं वा परिपीतं भवतेति राधयोक्ते ।
अधरामृतपारणाममुष्या विदधानं विभुमेवमित्युपासे ॥ ८५ ॥
हैयङ्गवीनहरणाकुलघोषयोषि-
दाक्रोशनाटितरुषः पुरतो जनन्याः ।
व्यत्यस्तपाणिविधृतश्रवणानि चित्ते
नाथस्य केलिनमनोन्नमनानि भान्ति ॥ ८६ ॥
लताङ्गि मह्यं रचयाञ्जलिं पटीमहं दिशामीत्यवकर्ण्य भाषितम् ।
कृतेऽञ्जलावेककरेण राधया शिरो विधूवशिशुरस्तु संपदे ॥ ८७ ॥
रक्षाकरं मङ्गलमारचय्य सप्रेषितः सानुनयं जनन्या ।
कस्तूरिकाक्लुप्ततमालपत्रो नासाञ्चलेनापि मणिं दधानः ॥ ८८ ॥
काञ्चीगुणोदारकटिप्रदेशो मायूरबझैज्वलमौलिबन्धः ।
वहन्करे वेत्रविषाणवंशान्पाथेयशिक्याकलितांसभागः ॥ ८९ ॥
पवित्रयन्नभिपयोरुहाभ्यामाभीरपल्लीभवनाङ्गणानि ।
बहिर्नयन्पीतनिबद्धशावं कुलं गवां गोष्ठगृहान्तरेभ्यः ।। ९० ॥
भ्रूलीलया कांचिदपाङ्गितेन परां दरस्मेरमुखश्रियान्याम् ।
कर्तु रहः केलिकलां वनान्ते समाहृयन्घोषसरोरुहाक्षीम् ॥ ९१ ॥

काव्यमाला।
पित्रा कियङ्करमिवानुगम्य वात्सल्यनिघ्नेन विसृज्यमानः ।
वनाय शृझिण्यवनाय चायो विद्योततां चेतसि पूरुषो मे ॥ ९२॥
किरीटसदानितकेकिपिञ्छं वशीकृताभीरवधूप्रपञ्चम् ।
कदम्बगुच्छाहितकर्णपूरं कुर्वे हृदन्तः कुहनाकिशोरम् ॥ ९३ ॥
हेलावलद्धीवमितत्रिभङ्गीवक्राम्बुजव्यापृतवशनालम् ।
व्यत्यासविन्यस्तपदं पुरस्तादास्तामवस्थानमनङ्गशौरेः ॥ ९४ ॥
वंशीमुपासे वसुदेवसूनोरारज्यमानामधरांशुपूरैः ।
शृङ्गारगीतामृतसेचनेन रोहत्प्रवालामिव लोभनीयाम् ॥ ९५ ॥
वंशीसुधां वर्णय वाणि शौरेरावादितामर्कसुतामरालैः ।
गलन्मृणालीकवलच्छलेन तृप्तेस्तदुद्भारमिवादधानः ॥ ९६ ॥
आप्लावयेयुरपि नः श्रवसी कदाचि-
स्कंसाभियातिकलहंसवरामृतानि ।
प्रादुर्भवकिसलयच्छलतः प्रसार्य
जिह्वां महीरुहकुलैरपि सेवितानि ॥ ९७ ॥
अनुभवेयमहं किमु जातुचिन्मुरभिदो मुरलीनिनदामृतम् ।
किसलयाञ्जलिशालिमुखाञ्जलैः किमपि सेवितमन्यभृतैर्द्विजैः ॥ ९८॥
आपाटलान्यङ्गुलिपल्लवानि व्यापारयन्तं विवरेषु वेणोः।
नादामृतैनन्दगवीकुलानां मोदान्सृजन्तं कलये मुकुन्दम् ॥ ९९ ॥
खुराहतिक्षुण्णभुवा पशूनां परागजालैः परिधूसराङ्गे ।
मुह्यदिगन्ते मुरलीनिनादैः स्निह्यत्यनन्ते मम शेमुषीयम् ॥ १०० ।।
दृढानि गोपीधृतिबन्धनानि हठादपाकुर्वति हासलेशैः ।
अनीशे मे मतिरागमान्तवनीचरे वैणविकावतसे ॥ १०१॥

यात्राप्रबन्धः।
१३५
बिम्बाधरं बन्धुरमन्दहासं लम्बालकासङ्गिललाटदेशम् ।
विरामकालेऽपि न विस्मरामि मुखं रणद्वेणुसख मुरारेः ॥ १०२॥
हसितस्पृशि हारिकण्ठनाले परमानन्दसरःप्ररूढमूले ।
अधरच्छविकेसराभिरामे श्रुतिसौरभ्यनिधौ शुचा विरामे ॥ १०३ ।।
ब्रजयोषिदपाङ्गभङ्गवीते मकरन्दायितमञ्जुवेणुनादे।
परिलक्षितशृङ्गिणीपरागे रदमुक्तारमणीयगर्भभागे ॥ १०४ ॥
अमितप्रणयावगाहिनीभ्या रचिताघ्राणविघौ रमावनीभ्याम् ।
कुरु मानसराजहसलीलां कुहनागोपमुखाम्बुजे विशालाम् ॥ १०५ ॥
वनादिनान्ते व्रजमावजन्तमभङ्गशृङ्गारवपूरिताशम् ।
श्रवःकदम्बस्तबकेन साकं मनागिवाम्लानमुखारविन्दम् ॥ १०६ ॥
वराङ्गनादन्तपटप्रतीति सरोषराधासमुदीक्षितेन ।
बिम्बोष्ठमध्ये भृशपाटलिम्ना विन्यस्तवशीजनुषा विभान्तम् ॥ १०७ ॥
वृन्दावने प्रीणितया कयापि सभावितं सप्रणयावलोकैः ।
सकेतभूवञ्चितया तु गोप्या सताडितं दारुणदृष्टिपातैः ॥ १०८॥
भ्रूक्षेपमन्दस्मितदृक्तरङ्गैः पुष्णन्तमन्तः स्मरमानानाम् ।
आभीरवृद्धाननुकम्पयारालापभेदैरनुमोदयन्तम् ॥ १०९॥
नन्देन क्लृप्ताभिगमेन गाढमालिङ्गय दोभ्या॑मभिगम्यमानम् ।
आविःस्तनक्षीरमिलिन्दभाजा यशोदया सादरमीक्ष्यमाणम् ॥ ११० ॥
श्वोभाविगोसचरणप्रदेशान्सकेतयन्तं सवयोजनानाम् ।
अग्रेचलगोकुलमम्बुजाक्षमालम्बतां बालकमाशयो मे ॥ १११ ।।
गोवर्धनव्यञ्जितकौशलेन गोवर्धनच्छत्रमुदस्य दोष्णा ।
गोपायिताभीरकुलाय वर्षाद्गोपायितायास्तु स ते प्रणामः ॥ ११२ ॥

काव्यमाला।
ऋजूकुर्वन्नपि हरिस्त्रिवक्रामसृजन्पुनः ।
दृगन्तकचभारेषु त्रिषु वक्रा धिनोति नः ॥ ११३ ॥
भवभीतिपराकृतरुपायं शृणु चेतः श्रुतिमौलिसंप्रदायम् ।
परिशीलय भावनां मुरारेः कुरु दारादिकुतूहलानि दूरे ॥ ११४ ॥
प्रसूरियमसौ पिता मम सुतो नताङ्गीति कि
विमोहमरुगाहनव्यतिकरेण वा ताम्यसि ।
यदृद्ववधूटिकाजठरशुक्तिमुक्तामणौ
मनो भज विनोदनं मधुविदारके दारके ॥ ११५ ॥
अशौरिकुलपावनानकृतनन्दगोपालका-
नकालियविमर्दनानकरनीतगोवर्धनान् ।
अकंसमदभञ्जनानकलितावनीरञ्जना-
नबाणभुजदारकानलमुपास्य वृन्दारकान् ॥ ११६ ॥
अलूनवृषभासुरैरशिखिपिच्छकाभासुरै-
रगव्यरसलालसैरपटुरासलीलारसैः ।
अगोभरणदीक्षितैरकमलानुवादीक्षितै-
रभृङ्गसचिवालकैरलमशाम्बरीबालकैः ॥ ११७ ॥
कृष्णस्य वृन्दावनकन्दरान्तराभीरदाराभिरतेः कथाभिः ।
अल विमुक्त्यै कृतमर्चनायामायासभारैरमरान्तराणाम् ।। ११८ ॥
वनमालिवशीकृताशयानां पदविन्यासपवित्रितो वधूनाम् ।
यमुनातटरेणुरेव पुंसामलमंहो विनिहन्तुमङ्गसङ्गी ॥ ११९ ॥
परःसहस्राणि परस्य धाम्नः सन्त्येव रूपाणि जगद्विभूत्यै ।
मृग्यो मृषा गोपविलासवीर्यलावण्यसौरभ्यलवोऽपि तेषु ॥ १२० ॥

यात्राप्रबन्धः ।
पशुपैरपि बाह्यदृष्टिशीलैर्ददृशे दृश्यरथाङ्गङ्खशचिह्ना ।
अधिनन्दनिवासमागमान्तैरपि मृग्या पदपहिरन्जनाभः ॥ १२१॥
उरुभक्तिसुधारसोर्मिलानामपनेतुं जनिखेदमङ्गभाजाम् ।
स्वयमादृतसंभवानुबन्धे महनीये रमतां मनो मुकुन्दे ॥ १२२ ॥
किंच-वन्दे महः किंचन वशनालीशृङ्गाङ्कुशाजिह्मगचापहस्तम् ।
गुञ्जारुणं कापि ततोऽपि नीलं बर्दावलीबालमृगाङ्कचूडम् ॥ १२३ ।।
शृङ्गाटमध्ये कृतसंनिधाना मुखारविन्दे मुरली दधाना ।
ममास्तु चित्ते महनीयशीला विद्या मुरद्वेषिविचित्रलीला ॥ १२४ ॥
इदं मदंशद्वयमेवमेव कृतव्यतीहारमजायतेति ।
विभावयन्ती विनिमाय पादौ विद्या परा वेणुमती समिन्धे ॥१२५॥
कुहचिज्जयकुञ्जरप्रचारं परतो भावितराजहंसयानम् ।
कटिसीमनि वाससी वसानं कनकाद्भासिकुसुम्भरागशोणम् ॥ १२६ ॥
हृदि कौस्तुभमेकतो दधानं परतस्तुगपयोधरोपरुद्धम् ।
गिरिधारणकर्कशैकपाणिं कुसुमादप्यतिकोमलान्यहस्तम् ॥ १२७ ॥
हरिणाधिपकोकिलावलेपान्क्षपयन्तं निजकण्ठनादभङ्गया ।
क्वचिदुज्ज्वलकुण्डलाभिरामं पटुताटङ्कपरिष्कृतं कुतोऽपि ॥ १२८ ।।
विनतार्तिहरं विलोचनाभ्यां कमलेन्दीवरगर्वमोचनाभ्याम् ।
धृतचित्रकदृक्सरोरुहा(भ्यां) निटिले निर्जितबालचन्द्रभासि ॥ १२९ ॥
प्रियकस्तबकासितोत्पलाभ्यां प्रतिपन्नश्रवणावतंसकृत्यम् ।
शिरसा शिखिनः शिखण्डमालां शशिखण्डं च सहैव लालयन्तम् १३०
बलभिन्मणिबन्धजीवशोमं धृतपाशाङ्कुशपुष्पबाणचापम् ।
मुरलीवरमूर्च्छनासु शश्वन्महनीयासु निबद्धमौलिकम्पम् ॥ १३१ ॥

१३८
काव्यमाला।
गिरिशार्धगृहान्तरे विहारान्कलयन्तं नवकल्पशाखिमूले ।
परितः परिवारदेवतानां प्रकरेणाहितसेवनानुबन्धम् ॥ १३२ ।।
इतरेतरयोगमेयुषाभ्यामतिहृयन्मकरन्दशर्कराभ्याम् ।
कृतिनः खलु केऽपि भावयन्ते भवशान्त्यै परसविदोरभेदम् ॥ १३३ ॥
रुचिराद्भुतरूपसंविधानं परमानन्दसुधापयोनिधानम् ।
उषितं पथि योगिनां विधेये तदहं धाम विचिन्त्य तत्र लीये ॥१३४ ॥
पुण्यस्थानाग्रगण्यादथ यदुनगरादेष तस्मान्मनीषी
स्थाण्वीशाख्य धरण्यामभजत किमपि क्षेत्रमुच्चैः पवित्रम् ।
सद्यः ससिद्धिहेतुं समधिकतपसां पुष्करं दुष्कराणां
सोमावास प्रभासं सुगतियुवतिसंचारिका द्वारकां च ॥ १३५ ॥
अथ द्रुताभीष्टकरी शतद्रु पाशापहन्त्री भजतो विपाशाम् ।
धरावतीर्णा धरणीधरेन्द्रादिरावती चैष निषेवते स्म ॥ १३६ ॥
साभोगां चन्द्रभागा जगदखिलमिदं पावयन्ती च सिन्धु
सेवित्वाथो निवृत्तः परिचितधनदारामगन्धादिगन्तात् ।
प्रौढं जालन्ध्रपीठाभिधमनघपदन्यासधन्यं भवान्या
हृद्य प्रापद्यतासौ हिमवति किमपि स्थानमानन्दशाली ॥ १३७ ॥
असौ पुनरनेकतटिनीसरोवनीनगरप्रदेशेषु विरचितभ्रमणोऽपि पर-
मपावनपयःपूरनिष्यन्दिनी शृङ्गिणीमिव पुंगवकिशोरकस्त्रिदशतरङ्गिणी
निशामयन्किमपि चिन्तातिशयसंदानिताशयो व्याहर्तुमिति गिर
प्रावर्तत ।
इक्ष्वाकुसंतानयशःपताका मुक्तामणिं तां मुनिकण्ठशुक्तेः ।
दुर्वर्ण्यकक्ष्यामवनीवशायां निर्वर्णयिष्यामि कदा स्रवन्तीम् ॥ १३८॥

यात्राप्रबन्धः ।
विद्याम्बुजश्रेणिविभातवेलां मायातमश्चन्द्रमरीचिवीचीम् ।
मुक्तालतां मुक्तिविलासवत्या भागीरथी चेतसि भावयामि ॥ १३९ ।।
गङ्गामुपासे गगनापदेशकासारकेलीकलहंसपतिम् ।
खयंवरासक्तिसमेतमुक्तिवधूकराम्भोजमधूकमालाम् ॥ १४० ।।
किरीटिकोदण्डकृतप्रहारव्रणोल्बणीभाव विशङ्कयेव ।
यामोषधीशेन समं महेशो दधाति मौलो तटिनी नुमस्ताम् ॥ १४१॥
भागीरथी सावतु या गिरीशजटाटवीपर्यटनोपजातात् ।
आशाभ्रमान्मार्गमजानतीव भगीरथस्यन्दनमन्वयासीत् ॥ १४२ ॥
क्रीडापराधशमनाय नतस्य शभो-
चूडापदे विहरण समवेक्ष्य यस्याः ।
कोपातिरेकमयते कुलशैलकन्या
सा पावनी दिशतु समदमभ्रगङ्गा ॥ १४३ ॥
अम्बरगालितमासीद्ब्रह्माण्डघटे बलिद्विषा यस्मात् ।
तस्मादतीव पूतं जज्ञे किल सौरसैन्धवं सलिलम् ॥ १४४ ॥
धुसिन्धुरुा दुरितानि हन्तुमाढौकते वीवधगूढरूपा ।
प्रकाशसंचारविधौ भयेन कुतोऽपि धावेयुरितीव बुद्ध्या ॥ १४५ ॥
समुद्धृता वीवधसपुटीषु भागीरथी भाग्यवतां जनानाम् ।
आरोहणं मूर्धनि सविधातुं प्रायो विधत्ते पदमंसभागे ॥ १४६ ॥
गङ्गा निज वारि विगाहमानाशरीरिणः कालहरीकरोति ।
सुधांशुमौलेः स्वमदापहस्य गर्वापहाराय कृतोद्यमेव ॥ १४७ ।।
विष्टपत्रयतमःपरिपाटीखण्डनाय कलितावतरापि ।
अभ्रसिन्धुरखिलानपि लोकानन्धकारयति हन्त किमेतत् ॥ १४८ ॥

१४०
काव्यमाला।
निमज्ज्य गङ्गाम्भसि निःसरञ्जनः पयोदनीलप्रतिमागतं गलम् ।
विलोक्य जम्बालविलेपशङ्कया करोति भूयोऽपि च गाढमज्जनम् १४९
मातेति पूर्व महयन्विधत्ते सुरापगायां सुकृती विगाहम् ।
कान्तेति पश्चात्कलयन्नसौ तां कोटीरकोटौ कुरुते विचित्रम् ॥ १५०॥
मेराम्भोरुहशीधुसारलहरीनिष्यन्दमुष्टिंधयो
रोधोदेशविकासिकैतकरजोविस्तारकुक्षिभरिः ।
वीचीनर्तितराजहंसवनितासगीतसर्वकषो
मानां हरति श्रमं सुकृतिनां मन्दाकिनीमारुतः ॥ १५१ ।।
कदा तरङ्गे गगनापगाया निमज्य गाढ निवसामि तावत् ।
प्रविश्य यावत्प्रतिहृत्प्रतीकं समूलमुन्मूलयते स तापान् ॥ १५२ ।।
अयि नगराजनन्दिनि घनसुकृतसारकन्दलनिष्यन्दिनि परतत्त्ववि-
ज्ञानपाथोनिधानकौमुदि भगवति भागीरथि,
निम्नगासु न ते तुल्या नीचेषु न च मे समः।
मयि प्रपातनं मातर्विधातु किं विलम्बसे ॥ १५३ ।।
अनन्तरमन्तर्वाणिरयमतिदुरन्तभवखेदसंतानभीषितः पिपासित इव
पीयूषकन्दली परिशुण्यदमेयसस्यसमूह इव प्रत्यप्रवर्षधारा प्रतिभटानु-
द्रुत इव प्रबलत[मा]मित्रवाहिनी जिह्मगविषाभिभूत इव जीवातुमूलिकां
कल्लोलिनीरमणलहरीविषक्त इव कामपि महातरि तीव्रनदीपूरनीयमान
इव तीरभूमि धर्माभितप्त इव कर्पूररसनिझरी निर्धनलोक इव निक्षेपसं-
तति जगतीधराधीशशिखरान्तरादधिहरिद्वारमापतन्तीममृताशनसरितमु-
पलभ्य निर्भरानन्दसभ्रान्तमानसो मौनमहासीत् ।
पयः प्रकृतिशृङ्गिण्या ब्रह्माण्डोधसि संभृतम् ।
जगदर्भकजीवातु गङ्गेति परिगीयते ॥ १५४ ॥

यात्राप्रबन्धः। विध्यादेशकरी सेयं विविधप्रत्ययावहा । आगमैरञ्चिता भाति शब्दविद्येव जाह्नवी ॥ १५५ ॥ उद्दिधीर्षुः सगरजानसौ वर्गादवातरत् । गणयन्ति न हि क्लेश परार्थैकपरायणाः ॥ १५६ ॥ गिरिशस्य पुरा केशान्परिगृह्योर्मिपाणिना । पादावलम्बिनी पश्चादासीज्जाड्यादसौ नदी ॥ १५७ ॥ ईशमुक्ता गिरिदरीरियमाप पदे पदे। भगीरथस्य तन्वाना भावं भूयस्तपोविधौ ॥ १५८ ॥ परं नापूरि जाहव्या भगीरथमनोरथः। पारावारोऽपि निःसीमपरिणाहविभूषितः ॥ १५९ ॥ त्रिविक्रमपदोद्भूता त्रिलोकीमियमानशे । कारणस्यानुकुरुते कार्य हि गुणसपदा ॥ १६० ॥ अनन्तपथगाप्येषा हन्त त्रिपथगामिनी । भगवत्पादजातापि शुक्ला वर्णेन शोभते ॥ १६१ ॥ नदी नवसुधाधारा वसुधावासवत्यपि । प्रतिकूलप्रवृत्तेयमनुकूलापि देहिनाम् ॥ १६२ ॥ गङ्गोरगी गिरीशस्य जटाकन्दरनिःसृता । विषोदना वितनुते पापमण्डूकपारणाम् ॥ १६३ ॥ आस्ते किमावृता गाङ्गे दाहशक्तिरिहाम्भसि । निर्दह्यते यतो नृणामस्य सङ्गादघाटवी ॥ १६४ ॥ आपगाया जगत्यस्याः कोऽपि शीतलतागुणः । पातकानि प्रकम्पन्ते यस्या नामश्रवादपि ।। १६५॥

काव्यमाला। ननु त्रिपथगावारि समस्ताम्भोविलक्षणम् । सिक्तः कूलाङ्कुरो येन कल्पते मूलतृप्तये ॥ १६६ ॥ कोऽपि निर्जरवाहिन्या गुणासङ्गी शरोत्करः । चलञ्जवेन तनुते षडरिच्छेदन नृणाम् ॥ १६७ ॥ अनादिमलसंघातहरणैकपटीयसीम् । अभ्रगङ्गामपि नदीमन्यामपि गृणन्त्यहो ॥ १६८ ॥ विध्यण्डपुटनिष्पन्नो वियद्गङ्गामयो रसः । अजरामरणां सिद्धिमाधत्ते सेवितो नृणाम् ॥ १६९ ॥ शिरांसि भजतामाशु सिन्धुरेषाधिरोहति । विवरीतुं प्रवृत्तेव विश्वमूर्धन्यता निजाम् ॥ १७० ।। अस्यामिहावतीर्णायामाविरास्ते भवाद्भयम् । कालमन्मथयो. शश्वत्कदाचिन्न शरीरिणाम् ॥ १७१ ।। विमुक्तिविश्राणनधुर्यभावबोधाय बद्धा भुवनान्तराले । काशीपतेः क्षौमपताकिकेव लेखस्रवन्त्या लहरी समिन्धे ॥ १७२ ॥ इयं प्रसन्ना हृदये जले च तीरे प्रवाहेऽपि च दीपहंसा । अभीष्टदाने गमनेऽपि शश्वदपास्तमान्द्या तटिनी चकास्ति ।। १७३ ।। आपन्नसत्त्वेव वियन्नदीयमाविर्भवत्केतकबर्हशोभा । वीचीकरालम्बितपार्थभित्तिविजृम्भमाणश्वसनं प्रयाति ॥ १७४ ॥ कूलद्विजा कुन्दसगन्धमूर्तिः खादुस्तुषारा सुरभिः सरोजैः । इयं प्रसूतेः फलमिन्द्रियाणा मन्दाकिनी पुष्यति मामकानाम्॥१७५॥ तदनु भुवनोपतापदमनोपचितरंहसि सुमनोनदीजले कलितावगा- हनो बुधजनोत्तंसमणिरतिमनोहरं वचनोपहारमतनोत् ।

यात्राप्रबन्धः।
१४३
त्रिमार्गगे वाड्मनसातिदूरः स कोऽपि जागर्ति तव प्रकर्षः ।
यदन्यतीर्थातिशयप्रसङ्गे विश्राम्यति त्वय्युपमानभावः ॥ १७६ ॥
दानाय मुक्तेघृतकङ्कणाया मयि स्थितायामपि केऽपि माः ।
क्लिश्यन्ति चेतः श्रुतिचिन्तयेति क्लुप्ताट्टहासेव विपाण्डरासि ॥ १७७ ।।
ब्रह्माण्डरन्ध्रात्पतनं सुमेरौ नानानगेन्द्राभिहतीश्च गुर्वीः ।
अचिन्तयित्वा भुवमागतासि पातु सुतानम्ब भवाब्धिममान् ॥ १७८ ॥
हिमाचलं प्राप्य जटाकलापादीशस्य नेत्रानलतापितेव ।
प्रपद्यसे मजदनेकलोकभवाग्निकीलाकुलितेव सिन्धुम् ॥ १७९ ॥
अम्ब त्वया भेषजमत्यपूर्वमशिक्षि कस्मादिदमभ्रसिन्धो ।
भवज्वरं यद्विषमं प्रकृत्या शीताम्बुसेकेन नृणां क्षिणोषि ॥ १८० ।।
ब्रह्मन्हरे हर भवादवतेति देही
जल्पन्निमज्जति जले तव जलुकन्ये ।
निर्माहि पाहि निजहीति निदेशमेषां
तन्वन्नुदञ्चति क एष तवानुभावः ॥ १८१ ॥
गगनतटिनि तावकं गरिम्णा सलिलमशेषजलातिशायि मन्ये ।
न विसृजति निमज्जतां नराणामिदमधिरुह्य सकृद्यतः शिरासि ॥१८२।।
भरणे निजवह्मणोऽपि खिन्ना भवती जाह्रवि देहिनो भजन्ते ।
किमिद निदधाति मूर्ध्नि तेषामहहाशेषजगत्कुटुम्बभारम् ॥ १८३ ॥
त्रिदिवस्रवन्ति भवदम्बुमाधुरी सकलातिशायिविभवेति मन्महे ।
अवलिह्य जातुचिदिदं यतो जना विमुखीभवन्ति जननीकुचामृते १८४
अयि तावकं चरितमद्भुतोदय सुरभीकरोति सुरलोकनिम्नगे।
पदमुन्नतं भजनसङ्गिनो जनान्नयसे यतः खयमधोनिपातिनी ॥ १८५॥

काव्यमाला।
चेलं चर्म निकेतनं पितृवन पात्रं शिरो लेपनं
भस्मालंकृतिरस्थिजालमनुगा वेतालपारम्परी ।
भिक्षापर्यटनं च वर्तनमहो नृणां भवत्सेविनां
मात—हि कथं त्वदीयभजन कुर्वे सुपर्वापगे ॥ १८६ ॥
आकण्ठं सलिले निमज्य पुलिनाभोगोपधाने शिरः
कृत्वा शैलसुतापते सुररिपो गङ्गाधरेत्यालपन् ।
गृहकर्णपुटे शिवेन कृपया प्रव्याहृतं तारक
तीरे जाह्नवि तावके तनुपरित्यागं विधास्ये कदा ॥ १८७ ॥
त्वद्रोधोभुवि भूस्त्वदम्बुनि जल त्वत्फेनभासि प्रभा
त्वद्वीचीपवने मरुत्त्वदुदकावर्ताम्बरे चाम्बरम् ।
इत्थं देवि मदीयदेहजननी भूतावली लीयतां
त्वत्सबन्धिनि जळुनन्दिनि महत्येषा मम प्रार्थना ॥ १८८ ॥
इति स्तुत्वा नभःसिन्धुमेष धीमानमोदत ।
मनसा फलिताशेषमनोरथसमृद्धिना ॥ १८९ ॥
इति समरपुगवकृतौ यात्राप्रबन्धचम्पूकाव्ये सप्तम आश्वास ।
अष्टम आवास ।
पत्या प्रकाश्यमान क्षेत्राणामयमुपास्य केदारम् ।
सकलमहितं फलानि खकुलत्राणक्षमाणि लभते स ॥ १॥
उच्चैर्महागिरिविहारमुपेत्य धीमा-
नीहारसवृतिनिवृत्तिदिनावतारे ।
प्राहृष्यदादिपुरुषं बदरीवनान्तः
पश्यन्करोदरमिषदराविशेषम् ॥ २॥

यात्राप्रबन्धः। तदनु कारुण्यलवनवविकृतकामरूपां कामरूपान्तराहितकामपीठ- स्थिति कामपि परदेवतामाराध्य नरदेवदुर्नयनाटिकाविभावनपाटवानुव- तिभिरालापविस्तारैरस्तौषीत् । त्वद्भूलीलानुसारित्रिपुरहरणदृक्लिङ्कराधोक्षजाज्ञा- निर्वोढ ब्रह्मचिन्तासमुपनतजगद्धोरणीकोणभाजः। उर्व्याः क्वापि प्रदेशे कतिपयविषयाधीशतामेत्य मत्ता न त्वामञ्चन्ति भूपाः समयविषमतां कि ब्रवीम्यद्रिकन्ये ।। ३ ।। नत्वा पृच्छामि किचिद्भगवति भवती वाच्यमेतत्कुतश्चि- पुण्यात्पट्टाभिषेकव्यतिकरसमयप्राप्तिमात्रेण राज्ञाम् । सौजन्यं क प्रयायात्व मतिरुपरमेव व्रजेत्साधुवादः सौलभ्य कापसर्पत्व पुनरपसरेदातुरेष्वाभावः ॥ ४॥ भूजाने जय जीव कोऽत्र पुरतः शब्दायते वार्यता- मायुष्मन्नहमेव कोऽसि कथय त्वं वा त्वदीयाश्रितः । आस्ता तद्भवदीयनाम किमह डित्थस्तथा वा तदि- त्यभ्यस्तानपि खेदयन्ति गिरिजे भूपा भवद्वञ्चितान् ॥ ५॥ आयाहि प्रातरेहि हलमनवसरो याहि मे देहि सद्यः वर्णान्येतत्पिधेहि प्रतिभुवमथवा ब्रूहि नो चेदपेहि । इत्येवं द्रष्टुकामा नरपतिहतकानेतदासन्नभृत्यै- रायास्यन्ते नितान्त जननि तव पदद्रोहिणो देहभाजः ॥६॥ ह्यः शर्वर्या समज्याविघटनसमये हे बुधा युष्मदर्थ राज्ञेऽवोचाम किचिद्रहसि स च तदा प्रीतचेता इवास्त । इत्थं वागीशसार्थानयि जननि भवद्वञ्चितान्वञ्चयन्तो मन्दाः कुर्वन्ति केचिपितृपतिनगरीमार्गपाथेयबन्धम् ॥ ७ ॥ या०प्र०१०

काव्यमाला।
आकास्माकमभ्यागमनमवनिभृहित्रिकक्ष्यान्तराणि
प्रोल्लवयाभ्येत्य नीत्वा बहुमतिमतनोदर्धपीठीजुषां नः।
इत्थं मिथ्यावचोभिः पटव इव जना वञ्चयन्ति प्रपञ्चं
केचिजानन्ति नैते भवदुपजनितानम्बिके विप्रलम्भान् ॥ ८ ॥
अद्य प्रातः सभायामखिलनृपतिषु प्रेक्षमाणेषु पीठा-
दुत्थायास्सत्करामादवनिभृदुपदामग्रहीत्पाणिनेति ।
एताहक्त्वेन जात्वप्यवनिपतिम[विज्ञातवन्तोऽपि केचि-
द्राजाभिज्ञा इवाज्ञास्त्वयि सति विमुखेष्वैन्द्रजालं सृजन्ति ॥९॥
नीहाराहार्यकन्ये तव पदकमलध्यानमुद्राविधान-
रत्यर्थ वर्तयन्ते जनुषि सफलतां केऽपि धन्या धरण्याम् ।
अदाक्षीदीषदस्मान्नृपतिरधिगतप्रीतिरयेति सार्थ
मन्वाना जन्म यान्ति प्रतिमुहुरितरे निर्वृति दुर्विवेकाः॥१०॥
मातदैतेयवैरिप्रमुखसुरवरैः शश्वदध्यासितायां
भावत्कागारबाह्याङ्गणभुवि वसतिप्राप्त्युपायं विहाय ।
हा हा मोहाद्यतन्ते जगति तनुभृतो नैकनिष्ठ्यूतवीटी-
जम्बालैर्दूषितायां नरपतिभवनद्वारि कर्तुं विहारम् ॥ ११ ॥
धिक्कारः सौविदल्लैश्चिरविततबहिर्वेदिकावासकाश्य
याच्यादैन्यानुरोधः करितुरगकुलेष्वाकुला पर्यटाट्या ।
निर्हेतुर्दण्डपातो भृशसुलभरुषा मेदिनीनायकेने-
त्येवरूपेण मातः परिणमति नृणां त्वत्पदाब्जापराधः ॥ १२॥
त्वत्पादाम्भोजपूजाविरचनविमुखीभावदोषावतीर्ण-
क्षोणीभृत्सेवनानां पुरुषपरिषदामदिराजन्यकन्ये ।
नाहारो नैव निद्रा न सुखरसिकता नार्चना देवतानां
राजद्वारोपकण्ठेष्वपि तु तत इतः पर्यटाट्यैव कृत्यम् ॥ १३ ॥

यात्राप्रबन्धः। त्रैलोक्यश्लाघनीये धरणिधरकुलोत्सवशे प्रसूतिः शुद्धान्तैश्वर्यभाक्त्व त्रिभुवनभरणोल्लासिनश्चन्द्रमौलेः । लोकानां मातृता चेत्यखिलमपि शिवे हृद्यमेतद्भवत्या भूपद्वारासिकायै पुनरपि तु सतां सृष्टिरेकैव कष्टा ॥ १४ ॥ आवासं दुर्गुणानां कमपि नृहतकं भूपतित्वेन सृष्ट्वा तद्नेहद्वारि याच्यामहह रचयितुं यद्विनिर्मासि धीरान् । सोऽय सर्गस्वभावः किमु तव जननि ब्रूहि कि विभ्रमो वा नैपृण्य वा किमाहो किमुत दृढतरद्वेषिता वा बुधेषु ॥ १५ ॥ तस्याः को वा निषेधं सृजति गिलति चेदावृत्तिः सस्यजाल मर्यादालड्विनी चेन्जलनिधिलहरी को नु वा ता निरन्ध्यात् । किं च त्व शैलकन्ये कुटिलनृपगृहद्वारवेदीविहार- क्लेशोदन्यावदान्या भवसि यदि सतां कस्तव स्यान्नियन्ता ॥१६॥ भूभृत्सेवाविधानं बुधजनविततेः शास्त्रदृष्टे. पिधानं दुष्कृत्येषु प्रधान दुरितमिषविषोन्मेषपाथोनिधानम् । ब्राह्मण्यस्यावसानं प्रसरदपयशोवल्लयुपनप्रदान सत्यखापोपधानं सति किमु बहुना त्वय्युपेक्षानिदानम् ॥१७॥ भुक्ते प्राचीनवित्ते गरिमजुषि ऋणे भिक्षुताया धृतायां संमाने हीयमाने नृपसदसि बहिररोधेऽपि जाते। कोऽयं मायानुभावस्तव सति विलसत्यर्थलाभातिलोभा- द्धावं धाव बुधानां ततिरटति मुधा राजधान्यामधन्या ।। १८॥ विन्यस्ताञ्जलिना प्रणम्य शिरसा याचे दया चेद्बुधा- नास्थानीनरकान्तरे क्षितिभुजा कामाक्षि मा मा क्षिप । यद्यस्मिन्क्षिपसि व्यपेतकरुणालेशा तदा शालिका- द्वाराध्यासनदुर्दशां वितर नो गुर्वी दुरुर्वीपतेः ॥ १९ ।।

१४८ काव्यमाला। - नैतत्स्वर्गतिसाधन न च कुलाचार(रो) न चाज्ञा गुरो- राम्नायैर्विहित च कर्म यदिदं भूपाधमोपासनम् । प्राग्जन्मन्यचलात्मजे कृतभवत्पादापराधा वयं पात केवलमात्मनः स्वयमहो कर्तु प्रवर्तामहे ॥ २० ॥ मूर्ती पर्यटने कृतेऽपि करुणामुद्रा न चेतावकी न प्राप्येत नरैर्गुवाकफलमप्यन्तर्पणास्त्रादितम् । जानन्नप्यमुमर्थमर्थपटलीसपादनाकाङ्क्षया हा धिक्कष्टमनुद्रवामि धरणीपालाधमानम्बिके ॥ २१ ॥ त्वचिन्ता कलयामि चेत्तदधुना] प्रत्यूहजाग्रन्मन- क्षोभोत्पादनचञ्चुरीदरशिखिज्वाला समुज्जृम्भते । तच्छान्त्यै नृपतीन्भजामि यदि तध्यानात्त्वदीयस्मृति- नैवोदेति किमाचरामि कथय प्रालेयशैलात्मजे ॥ २२ ॥ प्राचीनक्षेत्रमात्रान्न लगति किल मे स्फारससारभारः कृत्वा भूभर्तृसेवां धरणिरभिनवोपार्जनीया मयेति । चिन्तासंदानितान्तःकरणसरणिभिर्घस्मरैरमदाद्यै- रन्वारब्धा भवत्यां पुरहरदयिते देवि साक्षादुपेक्षा ॥ २३ ॥ उत्थानं प्रातरुवीपरिवृढभवनद्वारदेशाभिधान निध्यानं भूमिबन्धोः पुनरुपगमनं वासशाला प्रतीति । एतैर्व्यापारजातैरचलपतिसुते नित्यमावर्त्यमानै- रशिद्वन्द्वं भवत्या मुहुरहह वय घस्मरा विस्मरामः ॥ २४ ॥ ग्रामं वा ग्रामटी वा मितभुवमथवा हाटकं वा पटं वा यः कोऽप्यस्माकमेतत्किमिह न वितरेदेकिका वा वराटीम् । इत्यम्ब त्वय्युपेक्षाविरचनदुरितप्राप्तदारिद्यमुद्रा- कातर्याः पर्यटाट्यां नगरभुवि वयं बह्वधर्माय कुर्मः ।। २५॥

यात्राप्रबन्धः। अन्तःशुद्धान्तमास्ते नृपतिरविरतं नैव निध्याति दैवा- निर्गच्छन्त कदाचित्तिरयति तरसा खेटकूटैर्भटौषः । वक्ता वा नास्मदर्थे खयमपि गमनं दुष्करं द्वार्यथापि त्वद्रोहादद्रिकन्ये वयमवनिपतिं द्रष्टुकामाश्चरामः ॥ २६ ॥ विद्यागोष्ठीषु राज्ञो नहि रुचिकणिकाप्यस्त्युदास्ते प्रधानो विद्वेष्टि खाधिकारक्षतिचकितमनाः सोऽप्यमेधाः पुरोधाः । अन्यस्त्वज्ञातविद्वज्जनसरणिरथाप्यम्ब ते शाम्बरीभिः पश्चात्सचोद्यमानाः सुधिय इति वय राजधान्या भ्रमामः ॥२७॥ संनह्यत्सौविदल्लाधमवदनसमालोकनाय प्रसर्प- धूलीषु द्वारवेदीशिखरसरणिषु प्रत्यहाध्यासनाय । याच्यावाणीनिबद्धक्रमरसरसनाधारणायापि चास्मा- निष्कारुण्य सृजन्त्यास्तव गिरितनये कि फल लब्धमासीत् २८ कर्णो मध्याह्नदीनः समयमनुसरत्यम्बुदः स्वर्गमात्रे सन्तानस्त्यागशाली वयमपि तु मुहुः सर्वतो दानशौण्डाः । इत्युर्वीपालगर्वप्रलपितगरलज्वालजालानि पातुं कर्णाभ्या कि नु सृष्टा वयमवनिधराधीशकन्ये भवत्या ॥२९॥ कुम्भीपाकादिनानाविधनिरयकुलेष्वातलं संनिमज्जा- व्यापारे नास्ति भारः सरसिरुहभुवो यावदायुर्विरामम् । क्ष्मापालद्वारि कितु क्षणमपि वसतिः शक्यते नैव कर्तु तस्मादस्मद्विपक्ष जनमपि न कदाप्यम्ब तस्या निधेहि ॥३०॥ आस्थानी गाहनीया नृपनिकटजुषो रञ्जनीया मनुष्या भूपालः सेवनीयः स च बहुलधनैरापनीयो मयेति ।

१५०
काव्यमाला।
चिन्तां संत्यज्य सोऽहं तव पदनलिनोपासनामात्रकृत्यः
प्रेसद्भावः कदा वा वद जननफलान्यम्ब सपादयिष्ये ॥३१॥
यास्यामो राजधानी कथमपि नृपतेरन्तिकं तत्र को वा
नेष्यत्यस्मानकस्मात्प्रचुरधनभरैः प्रीणनामन्तरेण ।
दृष्टे वा राज्ञि कृष्टां चिरवसतिमृते नाञ्जसा वाञ्छिताप्ति-
स्तस्मादक्लेशलभ्यां द्रुतफलजननीमद्रिजां न त्यजामः ॥ ३२॥
लक्ष्यीकुर्वे किमुर्वीसहचरहतकानम्बिके तावकाछौ
जापत्यश्रान्तमन्तःकरणभुवि ममाभीष्टविश्राणनाय ।
त्वद्धृत्यद्वा.स्थवीटीचिपिटकपटसवाहकक्रीतदासी-
दासेयप्रेष्यचेटीसुतजनसदृशाः कि नु ते राजकीटाः ॥ ३३ ॥
कामाक्षि त्वत्कटाक्षव्यतिकरकलिकामोदसाम्राज्यलक्ष्मी-
पर्याप्तस्वान्तवृत्ते हि मम गणनागोचरे ते नरेन्द्राः ।
सेवाहेवाकभाजां तव जननि जगत्यब्जभूर्वा हरिर्वा
व्यक्षो वा लक्ष्यकोटौ विलसितुमनल केऽपि मूढा नृकीटाः ३४
त्वयानकावधानप्रणयनसुलभानन्दलीढान्तरात्मा
नाह भूपानुपासे पुरहरसुतनो संपदे किंपचानान् ।
पुंसां चिन्तालताभिर्हदि तव चरणोपन्नतामद्रिकन्ये
नाबध्यन्ते कतीभाः कति कति तुरगा गेहबाह्याङ्गणेषु ॥३५॥
कुर्वन्तु खैरमुा कतिचन समयक्षेपण भूपगेह-
द्वारावस्थानधारापरिचयरचनोदीतरागा वराकाः ।
त्वद्धयानारम्भलब्धोदयनिरतिशयानन्दनिष्यन्दसिन्धो-
रन्तःखच्छन्दचारैर्जननि वयममी कालजालं नयामः ॥ ३६॥

यात्राप्रबन्धः।
निह्यद्भूपालदत्तद्विरदवरघटामांसलस्निग्धमुग्ध-
स्कन्धाभोगाधिरोहक्रमसृमरतमख्यातिसंप्राप्तितोऽपि ।
देवि त्वद्धृत्यशालारजकवशजुषामन्वये रासभाना-
मुद्भूयामेयभारोद्वहनमतितरा युक्तमित्येव मन्ये ॥ ३७॥
साकं भूनायकेन प्रचुरमणिभरोड्डामरं सामरस्या-
दध्यारुह्यासनार्ध युगपदभिमुखीभूय सलापतोऽपि ।
न्यञ्चद्गात्रं निषेधप्रसृतकरतलं निर्भरोत्कम्पमम्ब
त्वदेहद्वा स्थवेत्रप्रहरणसमयत्रासदैन्यं परं नः ॥ ३८ ॥
आन्दोली चतुरन्तयानतुरगश्वेतातपत्रद्विप-
प्रायां सपदमावहेति गिरिजे न त्वा कदाप्यर्थये ।
याचे केवलमेतदेव बहुधा त्वत्पादपङ्केरुह-
द्वन्द्वाराधनचातुरीगुणनिकासाम्राज्यसिहासनम् ॥ ३९ ॥
तदनु तुहिनजगतीधरादवतीर्य स पुनरार्यमिश्रो निजवचःसुतिधौ-
ततत्त्वावबोधकर्दमनिकरस्य सगरसुताहुतिहुताशनीकृतप्रबलरुषः कपिल-
मुनेराश्रमपदमुपाश्रयत ।
अभिषिच्य भसितराशीन्पुरहरनिर्माल्यसलिलपूरेण ।
निरवापयत्पितॄणां भगीरथो यत्र निरयबाधामिम् ॥ १० ॥
अहाय पत्युरनामपहाय सतामसूयितवतीव ।
श्लिष्यति सुरस्रवन्ती नर्मसखं यत्र नवनवोर्मिकरैः ॥ ४१ ॥
तत्र च जलधिमध्यक्षयन्निदमवादीत् ।
भागीरथीतिप्रथिताभिधाना काचित्कुमारीमुपनीय गौरीम् ।
अस्मै वरायातिसृजन्पितॄणां चक्रे मुदं चण्डकरान्वयेन्दुः ॥ ४२ ॥
अहस्करापत्यसरखतीभ्यामभ्यर्णमादाय विमुच्यमाना ।
अमुं नवोढेव""ख द्युसिन्धुराबद्धभङ्गा पतिमभ्युपैति ॥ १३ ॥

काव्यमाला। वारं वारं प्रौढवातानुषङ्गाद्वेगेनायं वेपते वीचिमाली । कुम्भीयोनेः कुक्षिवास्तव्यमग्निं ध्यायं ध्याय त्रासमृच्छन्निवोच्चैः॥१४॥ मन्थानशैलमथितोऽपि घटीभवेन ग्रस्तोऽपि दाशरथिना कृतबन्धनोऽपि । उद्दामवाडवहुताशनपीडितोऽपि गम्भीरता न हि कदाचिदयं जहाति ॥ १५ ॥ अथ नीलाद्रिमासाद्य कृती स कृतवन्दनः । अस्तौदित्य जगन्नाथमघनिर्माथकर्मणे ॥ ४६ ।। चरितं तव प्रथीयः शक्यं मितया न मे गिरा स्तोतुम् । नासामणिर्न भवितुमर्हति मानाधिक रत्नम् ॥ ४७ ॥ अतिलघुनापि च वचसा मधुमथन तव प्रणौमि महिमानम् । तुभ्य त्रिभुवनवपुषे तुल्यं कथमर्प्यते माल्यम् ॥ ४८ ॥ मम यन्मनुष्यजन्मनि भवत्सपर्यापराङ्मुखीभवनम् । स . नवनीतनिर्गमसमये मन्थानगुणभङ्गः ॥ ४९ ॥ अन्यार्थमपि भवन्तं परिचरता प्राप्यते गतिः पुंसा । आमोदमेणनाभेराजिघ्रति कि न पणितापि ॥ ५० ॥ भवतः प्रपद्यमानश्चरणौ पदवी समश्नुते परमाम् । को गन्धगजाधिरूढः क्षुद्र प्रतिपद्यते द्वारम् ॥ ५१ ॥ प्रकृतिजयिनस्त्वदनेः पातकराशिरपि किमु भवेल्लक्ष्यम् । अस्त्रमरविन्दयोनेश्वटकोपरि कि नु सधेयम् ॥ ५२ ।। ईषल्लभा मनीषिभिरीहितसंपत्प्रसादविषयैस्ते । हैयङ्गवीनसङ्ख ह्याधतो न खलु घृतचिन्ता ॥ ५३ ॥ १ 'हेयङ्गवीननिर्गमसमये' इत्युचितमिति प्रतिभाति.

यात्राप्रबन्धः। १५३ करुणागुणपरिणाहः कसारे तव निसर्गससिद्धः । आधीयते न केनचिदमृतरसौघस्य माधुर्यम् ॥ ५४ ॥ अनुपदमतिलड्वय जनपदशतानि विबुधारण्यः स पुण्यस्थलीषु शस्तं गयाक्षेत्रमयासीत् । दृश्यते तटिनी यस्मिन्नद्भुताकारशालिनी । अपि फल्गुः स्वय पुसामफल्गुफलदायिनी ॥ ५५ ॥ अधिमौलि गयामरद्विषो बिबुधैर्यत्र कृते पदार्पणे । भुवनत्रयमस्तके पुनः पितरो हन्त पद वितन्वते ॥ ५६ ॥ कटितटिघटिततटिन्निभांशुकं रमाधवं छविजितमारमाधवम् । जगत्रयी प्रणमति यत्र मौलिना गदाधरं किसलयभं गदाधरम् ॥ ५७ ॥ तत्र च विहितकर्तव्यकलापोऽयमभिरूपो विनिर्गत्य ततः समग्रगु- णसभृतेन कुटुम्बिनीयुगेन विविधतीर्थसमूहमवगाहमानो विमानितदि- विषदाहारसपद व्याहारमुदजृम्भयत । अहस्करेऽप्यलधुतमिस्रतस्करे कुमुद्वती समधिगता कुमुद्वतीम् । पवित्रितक्षितिरियमत्र चक्षुषी पुनः पुनारमयति मे पुन.पुना ॥ ५८ ॥ सध्याटवीचारविवृद्धमूर्तिः कुर्वन्मुहुः कूलविहङ्गलीलाम् । खैरं प्रणर्दन्निह शोणभद्रो गवामसौ गच्छति सनिवेशम् ॥ ५९ ॥ शर्वाणीचरणसरोजवान्तलाक्षाजम्बालभ्रमजनिहेतुधातुशाली । विन्ध्याद्रिर्वितरति मे नितम्बसीमाविस्तारस्थगितदिगन्तरः प्रहर्षम् ६० अध्यास्ते रुचिरममुष्य शृङ्गमेका सा काचित्रिभुवनसज्वरापहन्त्री । निर्व्याजप्रणिहितनीलकण्ठहर्षा वर्षन्ती कमपि रस बलाहकाली ।। ६१॥ कल्याली हृतमधुकैटभावलेपा लोकान्धकरणलुलायदर्पहन्त्री । चामुण्डा शकलितरक्तबीजदम्भा शुम्भन्नी जयति निशुम्भसूदनीयम् ६२ काव्यमाला। विश्वस्मादपि धरणीधरेन्द्रकन्ये विन्ध्योऽय निरवधिभागधेयशाली । आक्रान्ताखिलभुवनापि यस्य नाम्ना विख्याता परमसि विन्ध्यवासिनीति ॥ ६३ ॥ देवि त्वत्पदरुचिदर्शितातिरागा तुङ्गेषु द्रुमविटपेषु लम्बमानाः । शैलेऽस्मिन्सततमवाङ्मुखत्वभाजो दृश्यन्ते धृतनियमा इव प्रवालाः॥६॥ कुब्जत्वं दधदपि कुम्भयोनिभक्त्या विन्ध्याद्रिविबुधनिवासतोऽपि तुङ्गः। संचारं सदयगिरीशपाणिपद्मस्पृष्टाभ्यामिह वितनोषि यत्पदाभ्याम् ६५ मच्चित्ते...... महिषासुरोत्तमाङ्गे विन्ध्यादेरधिशिखरं च विश्वमातः। निःशङ्क निहितपदाब्जया भवत्या काठिन्य क्व नु वद काममन्वभावि ६६ वेलाया विषमकृतान्तवाहघण्टासरावश्रवणसमाहितव्यथायाम् । मञ्जीरक्वणितमनोहरं पुरस्तादास्ता नश्चरणसरोजमम्बिकायाः ॥ ६७ ॥ पारीन्द्राः परिभवमापिता निकामं मध्येन सरहरवल्लभे भवत्याः । तत्तादृक्तिमिरतरङ्गितासु मन्ये बध्नन्ती(न्ति)स्थितिमिहः ‘भ्यतो गुहासु ॥ ६८॥ उत्तुङ्गा बलवदुदारकान्तिभाजो वर्तन्ता शतमिह वारणेन्द्रकुम्भाः। सोढारस्तव कुचभारवत्किमेते पञ्चास्यप्रसभविमर्दसभ्रमाणाम् ॥ ६९॥ शर्वाणि स्तनभरसपदा परं ते विन्ध्याद्रिविगलिततुङ्गतावलेपः । व्रीले(डे) न क्षितिमभजविजस्तु भेजे प्रख्यातिं शिव शिव भाग्यरीतिरेषा सत्रातुं जनमिह सर्वहिसकेभ्यो वात्सल्याद्वहसि वरायुधानि हस्तैः । हन्तैतद्भगवति साहस यतोऽमी रज्यन्ते नवसुमनोजिघृक्षयापि ।। ७१।। चन्द्रस्ते वदनमिषेण शैलकन्ये विन्ध्याद्रौ वसति विधुतुदैकभीत्या ।

यात्राप्रबन्धः ।
१५५
पर्यन्तभ्रमणमिष(षा)त्तरक्षुवीक्षावित्रासव्यतिकरविद्रवत्कुरङ्गः ॥ ७२ ॥
त्वहिम्बाधरतुलना शिवे तदानी प्रादुष्यादिह सहकारपल्लवेषु ।
धात्रा चेन्मकरन्दसारधारानिष्यन्दः कुसुमवदेषु निर्मितः स्यात् ७३
खच्छन्दं विलसतु चन्द्रिकाङ्कुराणामुद्भेदः किमपि सुधारसोद्मश्च ।
वकेन्दौ तव वरवर्णिनि सरारेराश्चर्या न किमिह सूतिरम्बुजानाम् ७४
अस्याद्रेरनुवनमध्यमम्बुजातैर्वेतण्डव्रजकरदण्डपातभीतैः ।
सारङ्गैरपि चकितैर्वनेचरेभ्यः सर्वख निहितमिव खक त्वदक्ष्णोः ७५
कुल्लासु क्षितिरुहपुष्पमञ्जरीषु भ्राम्यन्ती ततिरिह भाति षट्पदानाम् ।
पृथ्वीभृत्प्रियतनये विलोकयन्त्याः कान्तारश्रियमिव ते कटाक्षमाला ७६
पाठीनध्वजपरिपन्थिकायमायाकैलासक्षितिधरकालमेघपते ।
मातस्ते हतजनिमार्गपर्यटाट्या निष्टप्ते मयि निपतत्वपाङ्गधारा ॥७७॥
त्वामभ्रच्छविमिह वीक्ष्य नीलकण्ठास्तुष्यन्तः सपदि वितन्वते कलापान्।
त्वत्केशद्युतिविसरापहारशङ्कां निर्माष्टु निपुणमिव प्रदर्शयन्तः ॥ ७८ ॥
उद्भिन्नस्मितलवमुल्लसत्कपोल लोलाक्षिध्रुवमतिलोभनीयनासम् ।
बिम्बोष्ठ भृतमणिकुण्डलाभिराम वक्र ते जननि वयं न विस्मरामः ७९
विनिर्गतानविहितपुण्यदुर्लभत्रिमार्गगासलिलविगाहनाय नः ।
पदे पदे बहलविपत्तिशङ्कया विषीदतः सुखयतु विन्ध्यवासिनी ८०
अपि च ।
रक्षति दुर्गा यन्तं विपदः खगुणान्कृपामृदुर्गायन्तम् ।
समहृत कासरदनुजं तमपि च या सुम्भमन्तिकासरदनुजम् ॥ ८१॥
देवी सा मे दुरित क्षपयतु कृपया हरिखसा मेदुरितम् ।
शक्तिषु परमा नन्द जनक किल या निनाय परमानन्दम् ॥ ८२ ।।
शुचमिह नोपलभन्ते वपुः स्मरन्तो वलार्दनोपलभ ते ।
स्थितमनिदानवलक्षे हर्यक्षे चण्डि लूनदानवलक्षे ॥ ८३ ॥

१५६
काव्यमाला।
अपि च ।
स्कन्धादवप्लुत्य हरेः सलीलमाक्रम्य पद्भ्यामवनीलुलायौ ।
संधित्सया चापगुणैर्निषझादुदर्चिष मार्गणमुत्क्षिपन्तीम् ॥ ८४ ॥
प्रहारकेलिस्पृहया रथाङ्गनेमिग्रहव्यग्रनिजाग्रहस्ताम् ।
तिर्यड्मुखी पाणिधृताञ्चलस्य कम्बोः समुद्घोषणकर्महेतोः ॥ ८५ ॥
उदस्तहस्तोपहितत्रिशूलनिर्भिद्यमानं निजपश्चिमाङ्गात् ।
निर्गच्छतो निर्जरशात्रवस्य चर्मासिपाणेः शिरसश्छिदायै ॥ ८६ ॥
आलम्ब्य केशानवधूय खेट पाणावधिक्षिप्तकृपाणवल्लीम् ।
दरोच्छ्रसन्मध्यमदृष्टिरिसदग्निस्फुलिङ्गावलिभीषणास्याम् ॥ ८७ ॥
विश्वत्रयापद्विनिवारणाय सनाहमेवं समरे दधानाम् ।
किरीटचन्द्राशुकृताभिषेकामम्बामहं भावनयावलम्बे ॥ ८८ ॥
तमसामर्दिनि विधृतमसाधिष तमसा जाह्नवीपूरं तमसा विगाहते ।
निर्जेतु दुरितावली सति कलौ निःसीमवीर्योदयां
देवो मेलयति स यत्र सुदृढं तिस्रो महावाहिनीः ।
श्रेयानेष निरीक्ष्यते स शिबिराभोगः प्रयागाभिधो
धीरा. खैरमिह प्रयान्ति पदवी देहत्यज शाश्वतीम् ॥ ८९ ॥
देहिनामिह तटस्थितिस्पृशा पुण्यमात्मजमिमाः पुनः पुनः ।
स्फारविस्मयकृते परस्परं सगताः प्रसुवते सरिद्वराः ॥ ९० ।।
अन्योन्यमायामिभिरूमिहस्तैरास्कन्दकर्मण्यनयोः सपत्योः ।
साक्ष्यं न साधीय इतीह सा कि सरस्वती सवृतमूर्तिरास्ते ॥ ९१ ॥
जाह्नवीरविसुतारजतायःशृङ्खलायुगलसहतमेनम् ।
क्रीडितु स हि विमुक्तियुवत्या केलिमञ्चमयमञ्चति लोकः ॥ ९२॥
यियासतामत्र निमज्ज्य नाकं हित्वा तनु मुक्तिमभीप्सतां च ।
वैवखतीविष्णुपदीमिषेण वेदोपदिष्टाध्वयुग चकास्ति ॥ ९३ ॥

यात्राप्रबन्धः। निर्वापितानामिह विष्णुपद्या नृवर्गकान्तारभवानलानाम् । विसृत्वरी धूमपरम्परेव विराजते चण्डमरीचिकन्या ॥ ९४ ॥ सहजमलिन विद्यावर्त्म खभावमलीमसा विधिपदविका चित्रः पन्था विमिश्रितयोस्तयोः । इति पृथगवस्थित्या समेलनेन च देहिना- मिह विवृणुतो नानामार्गान्युसिन्धुकलिन्दजे ॥ ९५ ॥ निर्माति धर्माशुसुताभुजङ्गया निर्मोकशङ्कामिह गाङ्गमम्भः । या वीक्ष्य लोकाः समवर्तिलोकयात्राकथामप्यवधीरयन्ति ॥९६ ॥ अनेकदेशोन्मिषदभ्रसिन्धुप्रवाहखण्डामिव भानुकन्याम् । पश्याम्यविद्यामिव तत्र तत्र प्रभिद्यमाना विषयप्रकाशैः ॥ ९७ ॥ उन्नेतुमुढेलभवाब्धिमग्नान्कृतोद्यमाभ्या कृपया शिवाभ्याम् । प्रसार्यमाणाविव बाहुकाण्डौ पश्यामि नद्योरनयोः प्रवाहो ॥ ९८ ॥ वेगाविद्धसरोजकुमलकुच विक्षिप्तवीचीभुज फुल्लेन्दीवरदृष्टि बुद्बुदनिभाविर्भूतरोमोगमम् । त्रुट्यत्फेनविपाण्डुकञ्चकमुभे दूरात्समभ्यागते गाढालिङ्गनमत्र हन्त तनुतो गङ्गाकलिन्दात्मजे ॥ ९९ ॥ क्वापि प्रस्तुतदोर्मुधे इव मिथो वीचीभरैराहतै- रेतैरात्तजयश्रियाविव कुतोऽप्यन्योन्यक्लृप्ताक्रमैः । विद्राणे इव साध्वसेन कुहचिद्व्यक्तापसारत्वरै- स्तन्वाते सरितौ विडम्बनमुमे तत्तादृशाना नृणाम् ।। १०० ॥ कालिन्दीसुरनिम्नगे विलसतः कालावदाते ययो- रंशूनामिव सतती तनुभृतामन्तस्तमित्रापहे । पुण्यैरद्य पुराकृतैर्वयममी तत्तादृशौ तावुभौ वेणीमाधवशूलटङ्कगिरिशौ वीक्षामहे चक्षुषा ॥ १०१ ।।

१५८
काव्यमाला।
वामे भागे वरतनुमयं शूलटङ्केशमीडे
संध्यानृत्तभ्रमणरचनासङ्गिनो यस्य कण्ठात् ।
स्रस्तां मुक्तास्रजमिव महाकृष्णसञ्चितार्धा-
मग्रे पश्याम्यमरतटिनीमर्ककन्योपगूढाम् ॥ १०२ ॥
भुवनत्रयपारवर्ति पुंसामधिगन्तु पदमाहितस्पृहाणाम् ।
अनुभूतचरादिविप्रयागादयनं नेह परं भुवि प्रयागात् ॥ १०३ ।।
इत्यालपन्नयमुत्तीर्य सुरधुनीमनीहशसपत्तिपेशलान्कोसलानवलोकय-
ननघगुणपरिभूतधनदपुरुहूतपुरमजिहीत साकेतम् ।
विमलां प्रकृति विवृण्वती सततं भावितसर्वमङ्गला ।
यदलंकरणाय कल्पते हिमवन्मानससंभवा नदी ॥ १०४ ॥
परिसरयूपकण्ठमलघूत्तरवेदितटी
परिसरयूपकण्ठपरिवद्धचषालशता ।
प्रदिशति यत्र कौतुकमशीतकराभिजन-
प्रभवजनाधिनाथहयमेधवितानमही ॥ १०५ ।।
तत्र स रामभद्रं प्रणिपत्य नुतिमित्यतानीत् ।
कल्पयत्यवनिकर्णजन्मनो वड्महि श्रवणहर्षवैभवम् ।
सभवे जनकमोदसंपदामात्मजोक्तिरयते निदानताम् ॥ १०६ ॥
सूनुनैव सुवच प्रचेतसो वस्तु वर्णयितुमाद्रियामहे ।
राघवैकसुगमे रणाङ्गणे व्यापृतं किल वलीमुखैरपि ॥ १०७ ॥
हन्त सत्यपि रघुबहे गिरा प्रस्तुवन्ति कवयः परानपि ।
यस्य वक्तमपदानमेव या प्रादुरास भुवि पद्यरूपिणी ॥ १०८॥
तद्विना दशरथावनीसुहृन्मानिनीजठरशुक्तिमौक्तिकम् ।
वावदूकजनवाङ्मुखस्य कि विद्यते भुवि विभूषणान्तरम् ॥१०९॥

यात्राप्रबन्धः।
१५९
संयमिप्रवरसाधितस्य कि पायसस्य परिपाकवैभवात् ।
माधुरीमधिगतो महीयसी राघवो रमयते ममाशयम् ॥ ११० ॥
दत्तया दिविकृतत्रिशकुना निर्ममो निखिलशस्त्रविद्यया ।
आधिशङ्कभरमापयन्द्विषामाशयेषु रघुनायकोऽवतात् ॥ १११ ॥
पादरेणुपरमाणुयोगतः सिद्ध्यता युवतिसृष्टिकर्मणा ।
साधयन्नपि मत मुनेः कथं जानकीपतिरतर्कमार्गगः ॥ ११२ ।।
कुर्वतो दृढगुणप्रकृष्टतामात्मनो दशरथाङ्गजन्मनः ।
गौरव न सहते स्म कार्मुकं कामशासनकरोपलालितम् ॥ ११३ ।।
धर्मनिर्मथनकर्मठं हठात्कल्पयन्नपि करातिपीडनम् ।
मेदिनीहृदयहारिभिर्गुणैर्मेदुरो जयति मैथिलीपतिः ॥ ११४ ।।
प्रक्रम रचयतः प्रनर्तितुं विक्रमस्य किल विघ्नशान्तये ।
ऐशचापतृणभङ्गमाचरन्नेष दाशरथिरेव सेव्यताम् ॥ ११५ ॥
दोःप्रतापशिखिनः समिन्धने दोहलीव निजबाहुलीलया ।
काकपक्षधर एव कार्मुकं पाटयन्पशुपतेः स वर्ण्यताम् ॥ ११६॥
आप भङ्गमवनीसुताभ्रवः पूर्वमेव पुरवैरिकार्मुकम् ।
अर्कवंशसुकृतैरयं पुनः कीर्तिमानवतु केलिमानुषः ॥ ११७ ॥
हन्तुमुद्यमवतो निशाचरानट्टहास इव रामतेजसः ।
पूरयन्दश दिशः पुनातु वो भैरवः शिवधनुर्भिदारवः ॥ ११८॥
मैथिलीहृदयमञ्चशायिनः सौखशायनिकशेखरः प्रभोः ।
पातु वो रघुवतंसदोलताभज्यमानभवचापनिखनः ॥ ११९ ॥
आत्मवैरिधनुरार्तिनानटद्वीरचोदितविदेहजार्पिताम् ।
हक्तरङ्गवरणोत्पलस्रजं धारयन्नवतु वो रघूद्वहः ॥ १२० ॥
जातरूपफलके शनैः शनैरङ्गसंगतिभियापसृत्वरीम् ।
मन्दमन्दमपदेशपूर्वकं मैथिलीमनुसरन्स पातु वः ॥ १२१ ॥

१६० काव्यमाला। वार्धिनेमिजनुषो वधूमणेराशये शयकुशेशयेऽपि च । कौतुकस्य कलयन्निबन्धन नन्दनो दशरथस्य पातु नः ॥ १२२ ॥ मैथिलीपरिणयोत्सवे मुखं मन्दहासमधुराधरं विभोः । धर्मवारिकणहृद्यमस्तु मे [मङ्गलाय] शुभिकाविभूषितम् ॥ १२३ ॥ आश्रमप्रसृमरे शनैर्जवादाहितापसरणे कथंचन । सगते सदसि मङ्गलाय मे जानकीरघुवतंसयोर्भुवौ ॥ १२४ ॥ मैथिलीमनुकुलावतसयोः पुष्णती पुलकजालमङ्गके । शोभनस्तुतिमया शुभाय मे कल्पतां सुदृगल्लुकाकपि (2)॥१२५॥ भाविनि त्रिदशवैरिभञ्जने साध्वि मे कुरु सहायतामिति । याचमान इव जानकीकरं पाणिना परिमृशन्मुदेऽस्तु सः॥१२६ ॥ चम्पवल्लिकरपीडने रुषः शान्तये किमुपलाधिरोहणे (१) । जानकीपदसरोजमामृशन्पाणिना रघुपतिः प्रसीदतात् ।। १२७ ।। हन्त दृश्यमपरं मदागमः शंसति ध्रुवमितीर्ण्ययेव सः। तत्प्रदर्शनविधौ धराभुवि मन्दवर्षवचनो धिनोतु माम् ॥ १२८ ।। मैथिलेन्द्रमहिलाभिरेकतः स्थापितौ सदृशतादिदृक्षया । • "माहितस्थितौ चिन्तयामि जगदादिदम्पती ॥ १२९ ॥ मैथिलीसहचरं मनः सखे सर्वदैव तदवेहि दैवतम् । घोरजन्मकुहनापयोनिधेस्तारकं तव तनुप्रतारकम् ॥ १३० ॥ सन्तनामह वीशसम्मतपरं (१) देवता विगणयामि नैव ताः। राममेकमभिरामवैभवाराममाशरविराममाश्रये ॥ १३१ ॥ तमालच्छायालः सततमनुकूलस्तनुभृतां वचः केलीशे " (१) विशगतमधूलीमधुरिमा । . .

यात्राप्रबन्धः। १६१ जगन्नेता सीतापतिरहितजेता गुणगणैः स नाथो हृत्साधो जनुषि रघुनाथो विजयताम् ॥ १३२ ॥ मणिगणपरिणद्धे मण्डले पुष्पकान्त:- सुरतरुतलभञ्जि स्वर्णपीठे निषण्णौ । विसरमुपहसन्तौ विद्युदम्भोदभासा मनसि मम रमेता मैथिलीरामचन्द्रौ ॥ १३३ ॥ सकृदेव शरीरिणः प्रपन्नान्भवदीयाः स्म इति प्रजल्पतोऽपि । परिपातुमभीतिलम्भनेन प्रतिपन्नव्रतमस्ति दैवतं नः ॥ १३४ ॥ अपि च । तमुपास्महे तपोधनमहिमार्जितपायसार्थपरिपाकम् । पतिरथपार्थिवेन्दोरन्तिमऋणभागमोचनं द्रविणम् ॥ १३५ ॥ भक्तिपरितोषिताशयक कालिके कलितोपदेशविभवेन (१)। त्रिजगदरिष्टविदारणदीक्षादृढबद्धर(ल)क्ष्यता यातम् ॥ १३६ ॥ सुस्तं तस्य सुकेतं प्रभदनतनुमेदिनीप्रतप्तस्य (१) । आशरकुलाशनोद्यमभाजः(ज) प्रा(बा)णाहुतीकृतसुबाहुम् ॥१३७॥ अपि भ[ग]वदधिरजसा सहितचिरलुप्तनियमिसंसारम् । परिणीतधरणितनय पशुपतिचापाधिरोपणपणेन ॥ १३८ ॥ दैत्यभिदो धनुषा सममात्तभृगुप्रवरशक्तिसर्वखम् । त्रातारं वसुधाया अन्ते सह सीतयाऽनुभूतसुखम् ॥ १३९ ।। जगति परिग्रहयोग्या न खलु श्वश्रूरिति प्रतीत्येव । धरणिमनपेक्ष्य साकं तत्सुतयाध्युषितचित्रकूटतटम् ॥ १४० ॥ १ भगवत खस्येति व्याख्येयम् २ नियमोऽस्यास्तीति नियमी मुनि अत्र गौतमस्तस्य ससारोऽहल्येति बोध्यम् ३ श्वश्रूः पृथिवी या०प्र० ११ काव्यमाला। खवशमुपेयुषि विभवे विमुखस्य भ्रातुरर्पितेन करे । चरणत्राणेन चिरं कारितवन्त क्षमापरित्राणम् ॥ १४१ ॥ आत्मीयादपि चास्त्रादतिरभसभृतो जवातिरेकेण । विसरितामिदैत्य()व्यञ्जितकरुण कृतागसि खगेऽपि ॥ १४२ ।। ना(सा)कमवगाहमानं जनकापत्येन दण्डकारण्यम् । चेतस्तपोधनानां शीतलमम्बश्च “ दायाः (१) ॥ १४३ ॥ सेतुमिवारिमिवाब्धे()श्छेदितवन्तं निशाचरीनासाम् । प्राग्(ह)तविराधपदविं चारितरक्षश्चतुर्दशसहस्रम् ॥ १४४ ॥ उन्मीलितखरदूषणमुर्ध्या रिपुयशस्तिरोधानाय । चिरकालविरहसीदन्मातृसदेशोपनीतमारीचम् ॥ १४५ ॥ सदयोदय सपक्षे पत्रिणि दशकण्ठयानपक्षेऽपि । हनुमन्मुखेन सहितसुग्रीव स्वप " भाजकबन्धे (१) ॥ १४६ ॥ सालान्सप्तमहीद्रा(ध्रा)न्फणिपतिभवने च पत्रिणैकेन । दारितवन्तं तरसा सयरविसम्भसम्पदं साकम् ॥ १४७ ।। विमतश्वापदमृगयाविधिशीलतया विधाय निजमूर्तिम् । दत्तहतिमर्मनन्दनदीपकमृगवञ्चितात्मने हरये(2) ॥ १४८ ॥ हरिणपदाना हरिणप्रतिपादिव दूरतः प्रयातायै । मणिमणि(गण)मुद्रां प्रेषितवन्त प्रेयसीमिव वयस्याम् ॥१४९॥ (1) प्रस्प(स)मरमहः पुरेहे(2)सुदृशश्चूडामणौ समीरभुवा । संप्रापितेऽपि सनिधिमाचितमोहान्धकारसंदोहम् ॥ १५० ॥ भुज(भव)जलधिकर्णधारं भजतादे(मे)नं कियान्भवाब्धिरिति । सरुषा विभीषणेन प्रतिपत्तिकृताधिपाथोधिम् ॥ १५१ ॥ १. विस्सापितादितेयमिति सभवति. २. सत्वरेति प्रतिभाति.

यात्राप्रबन्धः।
१६३
.
दयया हृदयमरातेरनुज राज्याभिषेकसलिलेन ।
प्लावितवन्तम(न्तं ह्य)धिकं प्लवगभटाना च हर्षबाष्पेण ॥ १५२ ।।
सेतुपथेन जितवति सुग्रीवभटे तट सुवेलस्य ।
अवधि जगति वृन्द तान् प्रापितवन्त प्रतापयशसी खे(४) ॥१५३ ।।
अखिलजगदन्तरङ्ग
आत्मन इवाश्रमस्थितमहिरवन्त धनुर्गुणस्यापि ॥ १५४ ॥ (१)
छादितसकलदिगन्तैः कपिभिः पुर एव कलितरोद(ध)स्य ।
निजतेजस इव तापान्निर्याताय द्विषे प्रपदिष्टवधम् ।। १५५ ॥(१)
हुतवहक (के)(नि)प(प्प)तितां
खकीयचारित्रशुद्धि(द्ध)विस्रता(म्भा)म् ।
अधिरोप्य पुष्पक पुनरायान्तं स न (सहैव) साकेतम् ॥ १५६ ॥
प्रकृतिविरचिताभिषेकपाथः प्रमुदित....
सकलभुवनमाद्य(१) शासनाङ्कामधिगतमखण्डिता समृद्धिम् ॥१५७॥
इति श्रीवाधूलकुलतिलकस्यातिरानयाजिन समरपुङ्गव-
दीक्षितस्य कृतौ यात्राप्रबन्धेऽष्टमाश्वास ।
.....
अथ नवमाश्वास ॥
.
........
.."निजभाववचः क्रियाभिः ।
संभिद्य यत्र सुमनः सरिता रमन्ते
सागे(के) [तके] च (१) सरयूरपि गोमती च ॥ १॥
नेदीयसीमतिचिराय निजैस्तपोभि-
वाराणसी प्रति ततो वल
क्षेत्सान्तराज्यततिरेकमिव सह(१)
खेन व्यदायि जगतीतलपर्यवाट्याः(८) ॥२॥

काव्यमाला। . . .. ........... प्रदक्षिणप्रक्रमजन्मनोाः क्लेशेन काशीमुपतिष्ठतीति । कृपावती प्रक्लममस्य गङ्गा वातेन वीचीजनुषा व्यनैषीत् ॥ ३ ॥ अनन्तरमवनीसुरधुरंधरेण गच्छता पथि खच्छन्दमानन्दनिजभरेण (१) ..."भ्यधायि । आः कथमग्रत एव हयखुरक्षुण्णमेदिनी- क्षोदमेदखिभावमासेदुषि समुदये दिशामनुकूलपवनदोलायिताञ्चलैः ......."शतशः शताङ्गपीता कावेरीव समावेद्यमानसरणिः परिषदियमालक्ष्यते । अद्य खलु माघचतुर्दशीवासरे वाराणसीनगरवास्तव्यस्य शर्वरीरमणचूडा- मणेः समाराधनाय भक्तिपरवतीयं प्रस्थितवती । अहो पुनरमुष्य वास- रविशेषस्य वैभवातिशयः। जनयति शिवरात्रिव्रतसकल्पो विश्वसृष्टिसंकल्पम् । जागरणं चार्याणां सकलजगद्धारभरणजागरणम् ॥ ४ ॥ आश्रितगिरिशपा_रपनीतनिमेषवर्तनायातैः । पदरि()समाक्रमचकितैश्चतुरैरतिवाटते शिवरात्रिः ॥ ५ ॥ अवाप्नुमिच्छा यदि वामहर्निशं प्रजाग्रतोः पङ्कजयो. सगन्धताम् । विधीयतामस्तनिमेषमुद्रणं दृशौ युवाभ्यां शिवरात्रिजागरः(रे) ॥ ६॥ अनिमेषता जनानामनिमेषत्वाय भवतु शिवरात्रौ । इह पुनरभक्तभावो हेतुः कथमीश भक्तभावस्य ॥ ७ ॥ शिवराज्युपविधेः शील यामि यतकृतीनाम् । शिवजगत्कदम्बककरोषि तृप्तये """नालम् ॥ ८॥(1) औषवस्त्यमविशातरात्रिः..... "हसा हसन् जनः । अत्र सिद्ध्यति यतोतिरामणौ कालकूटगरलेन हारिणा ॥ ९॥ (8) ये स्थाणुता गिरिशयोग्यदला(लो)पहारै- बिल्वद्रुमस्य शिवरात्रिदिने दिशन्ति । .

यात्राप्रबन्धः।
संसारिणामुदयते [ भविक हि तेषा-
मात्मीयकर्मफलमत्र न को नु भुङ्क्ते ॥ १० ॥
अहो मम पचेलिमानां प्राचीनतपसामनुभावो यदस्मिन्नहनि विस्स-
यातिरेकमुपहरिष्यति मदीय चक्षुषोरसदृशप्रभावसाधीयसी वाराणसी ।
अभ्यर्थ्य जम्भरिपुणापि वितीर्यमाणं
सर्गानिकाममपि गणाय मत्पतीक्ष्णान् ।
अस्मत्पितॄन्नियतमद्य निजाग्रहस्त
न्यस्तार्ण्यपात्रमुपयास्यति नाभिजन्मा ॥ ११ ॥ (१)
कथमिवैतस्य कथयामि महिमानमानन्दकाननस्य ।
कैलासशैलादपिकामशत्रोश्चेतोविनोदोपचयप्रदात्री।
काशी भवाशीविषवैनतेय(सत्) पाटिका पाटयते तमांसि ॥१२॥(1)
बिभर्ति चन्द्रः शशमित्यकीर्ति कुले निरूढामपनेतुकामः ।
वाराणसीजाङ्गलवर्मचारी प्रायेण चन्द्र बिभृते शशोऽपि ॥ १३ ॥
अधिकाशि तरक्षुरामिषस्पृहया संहरति "वलिमृगम् ।
अजिनग्रहणाय राहोर्हरिणश्चायममुं मृगादनम् (1) ।
काश्यामुमाकामुकराजधान्यामैश्वर्यलोभेन कृतासिकानाम् ।
कैश्चिदिनैरेव वयस्यकोटौ संख्येयतामेति घन शिवोऽपि ।। १४ ॥
अखण्डमैश्वर्यमपेक्षमाणाः कथं नु काशी पुरुषा भजन्ति ।
भवन्ति यस्या बहुसपदोऽपि भिक्षाकमध्ये प्रथमं गणेयाः ॥ १५ ॥
यातुं कुत्र सखे व्यवस्यसि(ति) महाम्या(भवाना)नन्दवन्यन्तरे
मा गाः केन ततो गतस्य न मया दृष्टं परावर्तनम् ।
कस्मात्तत्र समेयुषां वसुभृतां वर्ष्यादिपूर्वस्थिति
कोऽप्युत्सार्य बलात्प्रयच्छति निजं रूपं किराताग्रणीः ॥ १६ ॥

काव्यमाला। अविद्यायां द्वेषं चिरपरिचितायां घटयते निरुन्धे तत्सूनोरपि च मनसो लालनविधिम् । न कामक्रोधादीनपि तु सहते तस्य तनया- नहो पुसः काश्यामभिनवजनिः प्रेमगरिमा ॥ १७ ॥ अहो भाग्यं काशीवसतिरसिकानां तनुभृतां यतो भोगानेते चिरमिह समाखाद्य विविधान् । अलभ्यां ब्रह्मादेरपि समधिकानन्दभरितां भजन्ते देहान्ते परमशिवसायुज्यपदवीम् ॥ १८ ॥ पुरा भोगत्यागः श्रवणमथ वेदान्तवचसा- मथोबोधः पश्चादमृतमिति शैलीसुलभता । यदर्चामाहात्म्यात्सकृदुपगता निग्रहवता- मलं मुक्त्यै काशीपुरभुवि निवासः क्षणमपि ॥ १९ ॥ आहितनरकावज्ञान् विमुक्तरमाविलासपरितुष्टीन् । उच्चैः स्थापितगोत्रानुपास्यते(सहे) चेतसा महापुरुषान् ॥ २० ॥ वरणो(णों)ज्ज्वलम(प्र)सिद्धा करिमुखजलपाति(लि)ता पुरीं पुरुषाः । भैरवदुर्गाधिष्ठितमध्यामध्यासते खरक्षायै ॥ २१ ॥ वसतिरविहता परस्य पुंसो भवति तपोभरवैभवेन काश्याम् जगदवनपरायणस्य शभोः स्फुरति कृपालहरीव यत्र गङ्गा ।। २२ ॥ [वाराणसी ] वासविदामविघ्ना दिशन्तु देवा मम भैरवाद्याः। दिने दिने सादरमानतीनां शतं शतं प्राभृतयानि तेषाम् ॥ २३ ॥ निरुपप्लवनिर्मलखभावं परमानन्दघनं प्रबोधसान्द्रम् । गिरिजागिरिजापयोः खरूपं परिपश्यन्त्यधिकाशि भाग्यभाजः ॥२४॥ आरूढयार्करमपावन्नहनि)माश्लिष्टपार्श्वमुमया हरिणाङ्कचूडम् । भमार्धमूर्तिरुदके मणिकर्णिकायाः पुण्यैः कदा पुरत एव विलोकयिष्ये२५ यात्राप्रबन्धः। १६७ अस्तीति निर्धार्यमकृत्रिमोक्त्या निरञ्जनैरेव निरीक्षणीयम् । आश्चर्यमानन्दनिधि कदा वा द्रक्ष्यामि तीरे मणिकर्णिकायाः॥२६॥ भो भो मन्मथलोभमत्सरमदव्यामोहरोषाः सुखं युष्माभिः क्षपितानि भूरिदिवसान्यस्मासु क्लुप्तासिकैः । देशानद्य यथामनीषितमितो याता न जानीमहे यास्यामो भवतामगम्यविषयामेतर्हि वाराणसीम् ॥ २७ ॥ तद्नु धरित्रीसुधाशनपवित्रीक्रियमाणसमाश्रितजीववर्गमपवर्गफलप्र- दानकल्पलतोद्यानमविमुक्तमवलोकयन्नतिनाकसुखभरतरङ्गितो गिरं कृतनवीनमाध्वीकदूषणा साध्वीमिमामभाषत । वाराणसि त्रिपुरवैरिकरारविन्दा- देक त्वया विधिशिरो हृतमामनन्ति । आसेदुषे सविधमङ्गभृते कदा वा वेधःकरोटिवितता प्रवदानि मालाम् ॥ २८ ॥ (१) इदं खलु त्रैलोक्यमहनीयमभ्यर्णवितृणा(१)मधिकर्णपुटं वर्णयतः प्रणवमपर्णासहायस्य वक्तेन्दुविगलितैर्विद्यासुधार ......"विव विहि- उपरिपूरणं निर्वेल भवतापनिर्वापणक्षममालक्ष्यते परमपावनतीर्थसमुद- याग्रेसरं च कृतं सरः अतिकलिलनायिन्यामा नाकमा च रसातला- दिह भरपरीवाहैर्दैवादियं पुरतो मया । उरुविमलताहेतुः पाथ. प्रसन्नमुपेयुषी निखिलजगतीमान्या सवर्ण्यते मणिकर्णिका ॥ २९ ॥ (2) स्वयमासु सुदर्शन खनित्रं खननेऽस्यामुरशाखिलैव कर्ता()। अभिपूर्तिविधायितभ्रयाभस्त्रिदयं () तावदगोचरे नुतीनाम् ॥ ३०॥ ...

१६८ काव्यमाला। परस्य पुंसः प्रसृताधिराजादारान्मदीयं मुहुरापतन्ति । आश्लिष्यती मामवमूर्मिहस्तैः सर्वस्य रम्यः सहजः स योगः ॥३१॥ कैवल्यमानक्षमतैकराज्यवैराज्यमूलानवधार्य दोषान् । गङ्गानया क्लृप्तविभेदलेश मेधावती हेलनमादधाति ॥ ३२ ॥ नियतं बिभर्ति निटिलेक्षणायिता- मपसार्य मूर्तिमगजेव जाह्नवी । अत एव भागमदसीयमेकक मणिकर्णिका किमपि मण्डयत्यसौ ॥ ३३ ॥ कल्लोलमन्दपवनैर्गगनोपगीय- मासेवते जनमिमा(वा)ति(न्ति)मयाव(न)काले । भूरिश्रवापनयपूर्यममुष्य मूर्ध्नि निक्षिप्यमुद्यमवतीव निजाम्बुभारम् ॥ ३४ ॥ (2) उदयिता() किलेन्द्रियोपघाते विषमे जीवितविप्रयोगकाले । इह दैवतमेकमाविरास्ते जलदश्यामलकंधर(रो)जनानाम् ॥ ३५ ।। अत्रासूनिवजहाति सः शिव शिवेत्याकर्ण्य कण्ठध्वनौ देवीं भूषयितुं गृहीतमनघं धृत्वैव सारं करे । आदावप्यतिसंभ्रमेण भगवानर्धेन्दुचूडामणिः सादेय(व)विमुक्तिवामगलंकारं विधास्यन्निव ।। ३६ ।। ओंकारमन्त्र(त्र)विपरीतमुपैतु पाणि- मालम्ब्य शैलजनुषो मुहुरद्रिधन्वा । पाशावमोचनकरी परमोत्त(क्त)विद्या सैषी(षे)ति किं प्रकटनाय शरीरभाजाम् ॥ ३७ ॥(8) तीरेऽस्याः स्थिरशयनस्पृशां जनानां तत्तागू विषभजने ततो द्रुमाणाम् ।

यात्राप्रबन्धः।
१६९
आनन्दद्रविणभरापणो विबद्धः
पार्वत्याः पतिरधमणलोकशैलीम् ॥ ३८ ॥ (१)
श्रमातुराणां चिरकालबन्धादत्रामृताखादकृते पशूनाम् ।
तेषामधीशो दयमानचेता. पाशापनीत(ति) प्रसभं विधत्ते ॥ ३९ ॥
प्रेङ्घद्रथाभीशुभरापदेशादत्रोपदेशावसरे महेशः ।
कुतर्कघोषाविलमङ्गभाजा कर्णान्तरं लक्षयतीव तोयैः ॥ ४० ॥
त्रयीरहस्यं विचितं तपोधनैरनेकवर्णास्पदमेकमक्षरम् ।
शरीरिणामत्र शशाङ्कशेखरो व्यनक्त(क्ति)प(पु)र्यामपि वेद्यमप्युभे()४१
अस्तं कलानामिह षोडशानामादाय दोषाकरमण्डलस्य ।
सतारकस्फूर्तिरहो समग्रमस्यामृतं पुष्यति कालकालः ॥ ४२ ।।
जन्तुः शृणोतीह वृषाङ्कवादोकारमुत्तम्बितपश्चिमाम्भः ।
वामाकृते राशिवधूभवन्त्याः प्रकाशनेमि हृदि वाति लज्जाम् ()॥४३॥
भगवदरञ्जतोरन्तः अन्तः प्रणवाम्यतं (1)
खमुखशशिनः सारं शूली विसारयतीह सः ।
....
...
...
.....
....
लिह्यमानमिव स्थितम् ॥ ४४ ।।
विद्याविक्षतिसंभ्रमेण मुकुटाद्विश्वेश्वरोऽपि स्थिता-
मादत्ते मुहुरैन्दवीमिह कलामाधातुकामः पथि ।
कांचिन्मौक्तिककुञ्चिकामिव नवा सद्यः प्रसन्नेप्सित-
स्फीतामोदनिदानकोशभवन द्वारार्गलोद्घाटिकाम् ॥ ४५ ॥
चूडाशशिक्षुतविषक्तमुधैकलेश-
व्याजादिह प्रण[य]दानविधौ पिनाकी ।
मध्येललाटफलकं मनुजस्य दृष्टि
कर्तुं पुरा किमपि कल्पयतीव चिह्नम् ॥ ४६॥

काव्यमाला। इह पतिरखिलानामेकहस्तेऽवरुन्धन् समयसुरभिपाय(१)शङ्कया ब्रह्मरन्ध्रम् । परिकलयतु मत्तः पाणिनान्येन जन्तोः श्रवणमपि च गृह्णन्स्यन्दयत्युक्तिसारम् ॥ ४७ ॥ तारकार्धविवृत तनुभाजां कुर्वतः कुमुदिनीविटमौलेः । श्लाघते चतुरतामिव चञ्चन् दक्षिणेतरवपुःस्तनकुम्भः ॥ ४८ ॥ वपुरर्पयतीव विश्वभर्ने जनता जीवितमोचनच्छलेन । प्रणवाक्षर(वर्णना)पदेशादुररीकारमिवातनोति सोऽपि ॥ ४९॥ प्रणवमयमेव तिलक प्रियामुखे लिखति वासनातिशयात् । अनुसधातुमिवेशामनुनेष्यन्नहह करुणविवशतां नीतः ॥ ५० ॥ त्वरितमभितो धाव धावं कृपातिशयात्प्रभो- रतिसुकृतिना कर्णेष्वोंकारमत्र विवृण्वतः । अनभिबलपतः स जयतितरा शश्वन्निःश्रेयसार्पणविभ्रमः ॥ ५१ ॥ असौ पुनरत्र निर्वर्तितावगाहविधिरतिवादितार्धनिदाघसंज्वरो निर- अनहृदयसङ्घनिःशङ्कविहृतिमन्दिरं चिरंतनसुन्दरीसीमन्तसरणिमौक्तिकं समस्तजगन्नमस्क्रियासकेतशालिकान्तारमङ्गजानुरागसागरहरिणाङ्कपरि- णताननं घुमणिमरीचिकोच्चयदुर्जयतमोनिषूदनमनतिकषायचेतसामह- श्यगतिं पश्यतिम विश्वपतिम् । पुरत्रयी येन पुरा व्यधायि मन्दारमाला भवता रणेन । मन्दाकिनी यापि च मौलिभागे मन्दारमाला भवतारणेन ॥ ५२ ॥ निध्याय च निटिललोचनबद्धानतिरिदमवोचत । खर्धनी प्रकृतितो जलाकृतिः कालिकाश्रितकुटुम्बघातिका । धूर्जटे त्वमपि धूर्तशेखरो हा तथापि कथमाश्रयन्ति वः ॥ ५३ ॥ .....

यात्राप्रबन्धः।
१७१
विश्वेश्वरत्वं निखिलेश्वराणामाब्रह्मकीटं फलमेकरूपम् ।
सर्वेश्वरः प्राणिषु तुल्यवृत्तेः कथ नु सेवां तव कल्पयामः॥५४ ॥
लोके महान् लुब्ध इति प्रवादो मुदा न ते मुग्ध शशाङ्कमौले ।
यतः समीपे तव याचकानां प्राणप्रहाणावधिरिष्टलाभः ॥ ५५ ॥
कि तस्य ते वच्मि गिरीन्द्रकन्याकान्तस्य कर्णे जनुतोऽनुभावम् ।
यस्यैकदेशे निहितेऽपि या(मा भवन्ति दारप्रमुखे पराञ्चः ॥ ५६ ॥
मात्रिकेषु महितो भवान् यतो देहिनस्त्वदुपदेशवैभवात् ।
हालहालमपि पातुमीशते नेतुमा भ]रणतामहीनपि ॥ ५७ ॥
अन्या माध्यमपीतदेहपतनत्रास “ घापालिता
देहेष्वेकपरिक्षयेऽपि भवता त्राताऽस्मि देहाष्टकम् ।
त्रय्यन्ता इह सक्षिता दधत इत्यर्ध जगत्प्राणिना
व्यक्तं वक्तुमिव प्रकाशिततनुं काश्यां भवं तं नमः ॥ ५८ ॥
सान्द्रानन्दपयोधिवर्धकवि, ससारविन्ध्याटवी-
दावाग्निं सनकादितापसमनोधामप्रदीपाङ्कुरम् ।
वेदान्तोपवनान्तरालसततव्यापारकेलीशुकं
काशीकल्पलताफलं भज मनः कात्यायनीकामुकम् ॥ ५९॥
कान्तया सह शुभालकान्तया मूर्तयेव कृपयैकमूर्तये ।
सर्वदाय नतिरस्तु सर्वदा नाकिनेत्रमणये पिनाकिने ॥ ६० ॥
सेवित्वा चिरमचलात्मजासनाथं
विश्वेशं विसृमरसपदान्तरङ्गम् ।
धन्योऽयं तदनु शनैःशनैरयासी-
दावास त्रिभुवनमातुरन्नदाच्याः ॥ ६१ ॥
कृतावनतिरम्बायै सतामयतु(म)पश्चिमः ।
अपारकरुणामेनामुपातिष्ठत सूक्तिभिः ॥ ६२ ॥

१७२ काव्यमाला। इष्टातिथिं कृतकलामनसौरभेयी मृष्टान्नहारमृगनाभिमुखैरुदाराम् । सेवाकृतं मयि गृहं श्रियमावहन्ति सौवानना पशुपतेरिह सनिधत्ताम् ।। ६३ ॥ दर्वीशरावौ कृतककणाभ्यां सबिभ्रती पाणिसरोरुहाभ्याम् । पट्टांशुकं पाटलमुद्वहन्ती काचित्पुरस्तात् [करुणा] ममास्ताम् ॥ ६४ ॥ स्वमन्नपूर्णापि कृशासि मध्ये श्यामासि संफुल्लजपाभिरामा । छन्दोवनस्थाप्यवनप्रसक्ता वन्दारुमन्दारलताप्यपर्णा ॥ ६५ ॥ निरस्तवेलानियमं विमुक्तचिरन्तनागन्तुजनव्यवस्थम् । व्यसेपवेधः कृमिभेदचिन्त(१)मगात्मजे नौमि तवान्नदानम् ॥ ६६ ॥ अपोभिरष्टादशभेदशालिरसैरिह त्वामतिरञ्जयित्रीम् । न स्तोतुमीष्टे नलिनासहो(नो)ऽपि वाचं रसैर्वासयिता तदर्थैः ॥ ६७ ।। आर्ये मुहुः केवलमर्थमन्नैः पुष्णासि वाच न पुनः कदापि । भवत्खरूपप्रतिपादने किमतः प्रयातीयमशक्तिमत्ताम् ॥ ६८ ॥ प्राचीनवाचापि परं दुरापां त्वामीडितुं यत्त्वरते रसज्ञा । निदानमस्मिन्भवदीयदर्वीनिवेशदिव्यान्नरसाभिलाषः ॥ ६९ ।। न स्तौति क्लुप्तान्नमयादिपोषा.. सबिभ्रतः स्वीयशरीरमात्र जनस्य का वा जगति प्रशंसा ॥ ७० ॥ त्वामोषधिप्रस्थपतेस्तनूजा प्राचीनभिक्षाकपरिप्लवाक्षीम् । अकिचनाग्रेसरमध्यगेयां वयं कथं विश्वसिमोऽन्नदात्रीम् ॥ ७१ ॥ न विद्यते पाकसमुद्यमस्ते नैकत्र (वा) भोक्तृजना मिलन्ति । जगत्रयीतृप्तिकरं तथापि चित्रीयते देवि तवान्नदानम् ॥ ७२ ।। केलीकृते श्रीरिव सारस वा वाणीव पाणौ मणिवल्लकी वा । दधासि चेदम्ब विधूय दर्वी कथं त्रिलोकी कुशलं लभेत ॥ ७३ ।। .

यात्राप्रबन्धः। १७३ वैषम्यशाली वलते जनेषु पदाब्जयोः शारदयोः प्रसादः । हिताशनैरेधयितु त्रिलोकी दधे तु (2) जागर्तु तवाम्बिकायाः ॥ ७४॥ अवस्थिता भर्तुरमुक्तपार्श्वमार्तातिथीनामवन च भोज्यैः । भवानि कर्तुं यदतिप्रवीणा गुणः किलाय कुलपालिकानाम् ॥ ७५ ।। आर्तिस्पृशामम्ब सुखासु(नुभूते(ति)रापादि नानाखिलदेहभाजाम् । आहारदाने नियमस्तवायमर्थे परेषामनघाय तत्ते ॥ ७६ ॥ अशेषलोकावनमम्ब भोज्यैः कर्तव्यमित्येव करोषि बुद्ध्या । तामालिदो (१) दासजनाभिपोषमावश्यक प्राहुरधीश्वराणाम् ॥ ७७ ॥ खार्ध प्रियं सर्वमितीरयन्ती मृषेतरा वागपि सा मृषैव । आदिश्य किं पुष्यसि विश्वमन्ते खमम्ब सप्राप्तसमस्तकामा ॥ ७८ ॥ कार्या न कि कान्तपदाजसेवा नास्ति श्रमः कापि न किकरीति । अङ्गानि धन्ये स्मयमङ्गभाजा दर्वीमसत्यज्य धृता दधासि ।। ७९ ॥ त्वमेव दर्दिधतः क्षुधार्तान्पुष्णासि भूयस्यपि दासलोके । खपुत्ररक्षाविषये सवित्री परत्र न प्रत्ययमादधाति ।। ८० ॥ सतर्पयस्यम्ब सदान्नदानैरागन्तुलोकानपि पार(ल)यन्ती । आद्यस्य भिक्षोरनपायि नित्य जानानि धिनार्तिजनप्रयासान् (१) ।। ८१॥ भैक्ष्याय मातः प्रतिवीथि काश्यामितस्ततो यान्तमतिक्षुधा माम् । आहूय वत्सेत्यनुवेलमन्नैर्विधेहि सौहित्यविशेषभाजम् ॥ ८२ ॥ दा प्रपञ्चे तव रक्ष्यमाणे विहाय चिन्ता रमते वृषाङ्क । सधर्मिणी चेच्चरितानुरोधात्कुटुम्बिनः शर्म कुतस्ततोऽपि ॥ ८३ ॥ प्रपञ्चमन्नैः परिपोषयन्त्यामार्य भवत्याममृताशुमौलेः । भिक्षाटनं प्राभवजृम्भितेषु क्रीडाविभेदेषु गणेयमासीत् ॥ ८४ ॥ आतु(मात)र्भवप्रार्थनदैवमिन्दोरग्लान्तक्लुप्ताश्रयणस्य कार्यम् । क्षेप्तुं भिवोभिक्षुकृतां च मातः क्षमेतरा त्वं कथमन्नपूर्णा ।। ८५ ॥ ()

१७४
काव्यमाला।
..तौघे । (१)
अज्ञातमन्यैरमितान्नदानादैश्वर्यमैशं भवती न्यनः (व्यनक्ति)।
प्रकाशभाव प्रमदामुखेन प्रयाति गुप्तोऽसि(पि)भृशं किलार्थः ॥ ८६ ॥
आस्ता नि
श्मशानं वस्तां त्वचं वा विभु(वपु)रस्य भूतिम् ।
कथं विधत्तामखिल किलेद सत्यन्नपूर्णे तव सविधाने ॥ ८७ ॥
ईर्ष्या किमाशाय गिरं वितीर्य गणे सुराणा
दिवानिशं देवि सुधान्नवृष्ट्या धिनोषि यत्रीण्यपि विष्टपानि ॥ ८८ ॥
जगन्मुखारोपणकृत्कपाल पतिर्दधावित्ययशः प्रमाष्टुंम् ।
किमम्ब गृह्णासि करेण दर्वी प्रतिक्षण विश्वजनप्रतीक्ष्याम् ॥ ८९ ॥
त्रैलोक्यकुक्षिभरिणा हरेण ताभ्या च लम्बोदरषण्मुखाभ्याम् ।
अधिष्ठिते धाम्नि तवान्नभूमा जयत्ययं देवि जनार्तिहारी ॥ ९० ॥
तवास्पद दातुमरुद्गवीना()माक्रान्तमुद्यानममत्यसालैः ।
वेश्माभिचिन्तामणिभिः प्रणीत विश्राणनेनास्य किमम्ब भारः॥९१॥
सर्वातिथि(थी)स्त्वं खलु सर्वकालं निश्चिन्तमन्नानि दिशस्यपणे ।
न तत्र हेत्वन्तरमन्तरेण न्यग्रोधमालोग्रजप प्रियं ते ॥ ९२ ॥
मातर्विशालाक्षि महार्हचेलस्रगङ्गरागप्रभृतौ खभूतिम् ।
सदोपयुके यदि शैलधन्वा कथ तदा ते घटतेऽन्नदानम् ॥ ९३ ।।
त्रैलोक्यसतर्पणदानजन्मा दूरे गिरा त्वत्सुकृतातिरेकः ।
आस्ते कपर्दी यदनुग्रहेण वेधोमुखामर्त्य विरामसाक्षी ॥ ९४ ।।
स्रष्टुं प्रतिष्ठापयितु जगन्ति हतु तिरस्कर्तुमनुग्रहीतुम् ।
पितामहाद्याः प्रभवन्ति यत्ते सवित्रि दर्वी विभवः स एषः॥ ९५ ॥
समाप्य नाथे सवन द्वितीयमारब्धदीनागमनप्रतीक्षे ।
नवीनमन्नं नगजे भवत्या प्रदीयतां प्राघुणिकाय मह्यम् ॥ ९६ ॥
अपास्य पाण्मातुरमर्धपीतवक्षोजमम्यागतवत्सले त्वम् ।
आगत्य वेगादमृतौदनं मे पिनाकपाणिप्रमदे प्रदेहि ॥ ९७ ॥

यात्राप्रबन्धः।
१७५
आनर्घमाणीकृशरापमध्यादातेन (१) कार्तखरदर्विकायाम् ।
मैक्षेण दाक्षायणि पावनेन मनोरथ पूरय मामकीनम् ॥ ९८ ॥
संतन्वतेव खमणीकलम्पटे "धूपदेशात्कृशतानुयोगात् ।
हस्तेन कात्यायनि हन्त काम विश्राणय श्रान्तिविनोदनं मे ॥ ९९ ॥
हैयङ्गवीनस्नुतिशालिहस्तनखपच नव्यसितानमार्घम् ।
करस्फुरत्काञ्चनभाजनात्ते भवानि दिव्य दिश पायसान्नम् ॥ १०० ।।
दृशोऽनुकम्पारसदीर्धिकाया नीलारविन्दैरिव निर्जहानैः (१) ।
अपाङ्गपातैरनुगृह्य मातरामोदयान्नैरिममन्नपूर्णे ॥ १०१ ॥
श्रान्तः क्षुधा सायमहर्मुखे वात्यन्न दिश द्वारमुपैमि यावत् ।
शिञ्जानमञ्जीरपद समेत्य प्रयच्छ मे पार्वति तावदन्नम् ॥ १०२ ॥
आविष्कृतप्रार्थनमप्यकाले वीतक्षुधं मां गिरिजे विधेहि ।
प्रतीक्षते कि पृथुको जनन्याः स्तन्यामृतासारसमृद्धिवेलाम् ॥ १०३ ॥
अवश्यकर्तव्यतयानुवेलं महान्ति कर्माणि सदा दिशन्ति ।
पर्याप्तमम्ब प्रतिपादयान्न कर्तु न किंचित्क्षमते बुभुक्षुः ॥ १०४ ॥
नित्यान्नदे मे निजमूर्तिभारमचिन्तयित्वाशनमर्पयेथाः ।
आदाय दर्वी क्वचिदासिकायै जगजनन्याः समयः कुतस्ते ॥ १०५॥
दूरे क्षिपन्ती गुणदोषचिन्तामिष्टाशनैरेधय मामनव्यम् ।
निजे तनूजे किल निर्गुणेऽपि व्यनक्ति वात्सल्यभरं सवित्री ॥१०६ ।।
अन्नार्थिन मां यदि चे नोषि कृपापराची गणये किमन्यत् ।
॥ १०७ ॥
दर्वीपायसभाजने कलयता युग्मेन हस्ताजयो-
रप्रत्यूहविभावितत्रिजगतीभिक्षाकनेत्रोत्सवा ।
वाचालाभरणं महानसगृहादन्नोपहारेच्छया
निर्यान्ती परदेवता मम मुहुश्चिन्तापथ गाहताम् ॥ १०८॥

काव्यमाला। स्तन्याखादकृते निरुध्य पुरतः संतन्वते प्रार्थना सेनान्ये सति पूर्वकायमसकृत् स्थित्या दिशन्ती स्तनौ । अस्तखेदपयःकणा(णा)प्रणयिनो हस्तेन वक्रादुमा(मा) मृष्टान्नार्पणमर्थिनां विदधती(ती)मेधा महा(या)लम्ब(म्ब्योते॥१०९ मेरस्मेरमलीकचित्रकपरामर्शी श्रमाम्बोर्लव दिव्यास्ते व्यजनानिलाद्धरचलोत्तस दधाना मुखम् (१) । चेतो मे न जहातु सा भगवती कृत्वातिथेयी कृपा- माशी[राशि]परा गिरीशवसतिं प्रत्याव्रजन्ती जनैः ।। ११० ॥ दृढभक्तितरङ्गितक्रमामथ मश्यन्नधिकालि देवताः । अविगाढपरं मनोगिरामधितानन्दममन्दमास्तिकः ॥ १११ ॥ आर्यश्चक्रसरोवगाहनियमैरश्रान्तयात्राक्रमै- रस्माक द्विजनौहितीविरचनैरावश्यकैरवरैः । विद्याव्याकरणैश्च शिष्यसदसे विश्वेशमाराधयन् वाधूलान्वयमौलिरावसदसौ वाराणसीमृद्धिमान् ॥ ११२ ॥ प्रालेयाद्रिसुतासहायभजनप्रेमानुबन्धस्पृशे विद्याशीलविनीत पो विश्राणनासङ्गिने। स्त्रैणपराङ्मुखाय' करुणामूर्ति सबिभ्रते मूर्धा सनतिमग्रजाय महते मोदान्मुहुः कुर्महे ॥ ११३ ।। इति श्रीवाधूलकुलजलविकौस्तुभस्यातिरात्रयाजिन साहित्यगुरो कनकाठपाठबिरुदा- इस्य वेङ्कटेशसुमतिसहधर्मिणीमण्यनन्तम्मागर्भशुक्तिमुक्तामणे समर कृतौ चम्पूकाव्ये यात्राप्रबन्धे परिपूर्तिशोभितविलासो नाम नवम आश्वास ॥ बीतस्पृहाय विरजस्तमसे समस्तशास्त्र श्रुतिस्मृतिविदे समदर्शनाय । सिद्धाशिषे भगवदङ्गिसमस्तभक्तिसान्द्रप्रसन्नमनसे सदसे नमोऽस्तु ॥ समाप्तोऽयं ग्रन्थः। ' परिग्रहण सं०....... प्रन्थालय, के उ ति शि

Yatra Prabandh-11111

Author
Samarpung Dixit
Title
Yatra Prabandh-11111
File name
Yatra Prabandh-11111
Text
OCR done
Citation
1936
Published
2006/06/21
Publisher
Nirnay Sagar Press
Language
Sanskrit
Pages
182
Classification
Literature
DLI number
448306
Barcode
5990010124716.00
Scanning centre
IIIT, Allahabad
Rights
In Public Domain
VMLT id
mpJxt9aDflk
Download PDF

Yatra Prabandh-11111