Canegie Mellon Univeristy
Chaturshastra Sara Sudhayam
Front matter
No text on this page.
STERSE
श्रीरस्तु ।
॥ श्रीहस्तिशेलशिखरोज्वलपारिजाताय नमः॥
श्रीमते हयग्रीवाय नमः।
श्रीमते रामानुजाय नमः।
श्रीमद्वरवरमुनये नमः ।
श्रीवादिभीकरमहागुरवे नमः ।
श्रीकाञ्चीप्रतिवादिभयङ्कर-अण्णङ्गराचार्यविरचितायां
चतुश्शास्त्रसारसुधायाम्
तर्कशास्त्रसर्वस्वं नाम
प्रथमा लहरी।
* मङ्गळाचरणम् ।
करिगिरिशिखरकुटुम्बी नरहरिशिरसि स्फुरन्महाकुम्भी ।
कमलाधररसचुम्बी कलयतु कुशलं सतां हृदालम्बी ॥
* आचार्यध्यानम् ।
यत्पादाम्बुजयुग्मरेणुपरमाण्वाराधनोत्कण्ठया
दासोप्येष पदार्थकोटिघटनासौभाग्यसीमामगात् ।
श्रीमद्वादिभयङ्करान्वयविधुः ख्यातो जगद्देशिका
सर्वज्ञोऽयमनन्तसू रिरनिशं जागर्नु चित्ते मम ॥
चतुश्शास्त्रसारसुधायाम् ग्रन्थावतरणिका । तर्कव्याकृतिपूर्वतन्त्रनिगमान्ताख्यानि शास्त्राणि या- न्यम्भोराशिवदुल्लसन्ति विदुषामानन्दसम्पत्तये । तेषां सारतमार्थरत्न निकरान् गीर्वाणवाणीविद- स्सर्वे खे हृदि धारयन्त्विति धिया ग्रन्थोयमारभ्यते । शास्त्रे न कापि किश्चित्त्वपि च परिचयं मन्दधीरेष दासो धत्ते यद्यप्यथापि त्रिभुवनतिलकैरमदाचार्यवर्यैः । प्रेमाद्रीपाङ्गवीक्षां प्रचुरकरुणया लम्भितस्सावलेपो निर्भीकस्साहसेऽस्मिन् विबुधजनपरीहासपात्रे प्रवृत्तः ॥ जगद्गुनन्तार्यचर्याट्रिपाद्वयीनित्यसेवासुधास्वादधन्यः । जनः कश्चिदण्णङ्गराचार्यनामाचतुश्शास्त्रसारामृतं निर्मिमीते ।। एकैकञ्चापि शास्त्रं दुरधिगमतमैरर्थवगैरनन्तै- रापूर्ण भाति यद्यप्यथ च मृदुधियां दुस्सहाऽतिश्रमाणाम् । तत्तत्सारांशमात्रग्रहणकुतुकिनां बालिशानां पटूनां ग्रन्थोऽयं साधु कुर्यादुपकृतिमतुलामित्युशन्त्यार्यवर्याः ॥ ® ग्रन्थोपक्रमः । रामकृष्णाभिधामाजोर्मित्रयोरुभयोमिथः। संबादरूपतस्तर्कशास्त्रसारः प्रकाश्यते ॥ तत्र रामस्तु जिज्ञासुः कृष्णो बोधयिता पटुः। एनयोर्भाषणव्याजाच्छास्त्रार्थो लघु बोध्यते ॥ रामः-सखे कृष्ण! चिरन्तनैर्महामुनिभिः परमकरुणया दर्श- नषट्क सङ्कलितमिति श्रुतं मया कदाचित् ; नामावलीं तस्य श्रोतु- मिच्छामि सम्प्रति त्वत्तः। प्रथितो हि भवान् विदितवेदितव्य इति ।
तर्कशास्त्रसर्वस्वम् । कृष्णः-सखे ! अल्पज्ञ एवाहम् ; तथापि वच्मि शृणु सांग्व्ययोगौ पूर्वोत्तरमीमांसे, न्यायवैशेषिके चेति सन्ति नाम दर्श- नानि षट् । रामः-तर्कशास्त्रमिति यदिदानी व्यवद्रियते, तदिदं दर्शन- पदकान्तर्गतं न भवति वा? कृष्णः-अन्तर्गतमेव । 'न्यायवैशेषिके' इत्युक्तं खलु मया; तत्र न्यायस्य प्रणेता तत्रभवान् गौतमो महर्षिः। भगवान् कणादस्तु वैशेषिकस्य प्रतिष्ठापकः। तयोस्सिद्धान्तानंशतः परिगृह्य अर्वाचीना विचक्षणमणयः कमपि नवीनं ग्रन्थसमुदायमारचया- मासुः। स एव समुदायस्साम्प्रतिकस्तर्कशास्त्रमिति व्यपदिश्यते । रामः-~-अर्वाचीतैः प्रणीता के के ग्रन्थाः ? कति च सन्ति ? कृष्णः-मणिदीधितिप्रभृतयो महाप्रोढग्रन्थाः कारिकावली प्रभृतयश्च प्रकरणग्रन्थाः काममुल्लसन्ति परस्सहस्रम् । रामः-तर्कशास्त्रमर्यादां संक्षेपेण जिज्ञासमानस्य मम तेषु ग्रन्थेषु प्रवेशस्सुललितो भवेद्वा ? कृष्णः-सखे त्वया तु किञ्चिदेवाधीता संस्कृतवाणी; ते खलु ग्रन्थाश्शास्त्रीयसङ्केतबहुला इति त्वादृशानां परिमितप्रज्ञानां न तेषु प्रवेशस्सुललितो भवितुमर्हतीति मे मतिः। रामः-भवांस्तर्कशास्त्रे निपुणतम इति बहवः कथयन्ति । बो- धनाशक्तिश्च भवतो विसयनीया प्रथते । ग्रन्थैर्न कश्चिदुपकारो मम भवितेति सत्यमेतत् । सुगमया सरण्या तर्कशास्त्रसारांशान्मयं प्रति- पादयितुं प्रभवति वा भवान् ? भनागिव दयस्व भोः ! कृष्णः --अस्तु । विजहीहि वृथा मम प्रशंसाम् । यथाशक्ति प्रतिपादयितुं बलवानेवास्ति ममोत्साहः । प्रतिपादयिष्ये । ?
3 चतुश्शास्त्रसारसुधायाम् रामः-एतत्तु मम प्रथमतो जिज्ञासितम् ; तर्कशास्त्रस्य कि- माम प्रयोजनमिति । प्रयोजनाकांक्षा हि सर्वत्र प्राथमिकी । कृष्णः-भारतीयान्यन्यान्यानि शास्त्राणीव तर्कशास्त्रमपि परमपुरुषार्थप्राप्तिमेव स्वप्रयोजनत्वेन प्रतिपादयतीति ममाध्यवसायः, तार्किकैस्तावन्मोक्षपदार्थस्सर्वविधदुःखध्वंसात्मको निरुच्यते । आ- त्मन इतरभिन्नत्वज्ञानेन जायते सर्वदुःखानामुद्ध्वंस इति ते मन्य- न्ते । तादृशमितरभेदज्ञानमितरवस्तूनां ज्ञानमपेक्षते-इति सकल- पदार्थज्ञानं मोक्षोपयोगि सम्पद्यते । अतस्सकलपदार्थानां लक्षणा- दिपुरस्कारेण ज्ञानमुत्पादयितुं तर्कशास्त्र प्रवर्तत इति विद्धि । रामः-किं सर्वाण्यपि पदार्थजातानि विभजनलक्षणादिपुर- स्कारेण तर्कग्रन्थेषु निरूपितानि?. कृष्णः-अथकिम् । सर्वाण्यापि पदार्थजातानि विभजनलक्षणा दिपुरस्कारेण तर्कग्रन्थेषु निरूपितानि सन्ति । तत्सिद्धान्तानामेव लघीयसोपायेनावबोधनं सम्प्रति मया चिकीर्षितं त्वत्प्रार्थनया। रामः--यदिदानीं भवद्भिपदिष्टं भविष्यति, तत्र किमधि- कारिनियतिरस्ति तथा ? यथा हि व्याकरणमीमांसादौ । कृष्णः-तार्किकास्तु पदार्थतत्त्वजिज्ञासून सर्वानपि जनान् शास्त्राध्ययनेऽधिकारित्वेन स्वयमभ्युपगच्छन्ति । नं तत्र वर्णाश्र- मादिसम्पदमपि योग्यतापादिनीमभिप्रयन्तीति किमपि तेषां कारु- णिकत्वमेतत् । अतो भाविन्यस्मिन्मदुपदेशेपि काममनुमन्यते जि- ज्ञासूनामखिलानामप्यनर्गलः श्रवणाधिकारः। रामः-महान् सन्तोषः। आरभ्यता मुपदेशः, अवहित आ- कर्णयामि भोः!.
तर्कशास्त्रसर्वस्वम् । कृष्णः-चराचरात्मकमिदमखिलं जगत् सप्तमिः पदार्थैस्सङ्क- लितमिति तर्कसिद्धान्तः। तेषु सप्तसु पदार्थेष्वनन्तर्भूतं न किमपि वस्तु लोके वर्तते । रामः-के नाम ते सप्त पदार्थाः ? कृष्णः-द्रव्यगुणकर्मसामान्यविशेषसमवायाभावसंज्ञकास्ते । एतेषु प्रथमे षट् भावपदार्थाः, चरमःपुनरभावपदार्थ इति सुवचम् । रामः-भावपदार्थापेक्षया अभावपदार्थस्य को विशेषः ? कृष्णः-भावपदार्थानां प्रायशोऽनन्यापेक्षा सत्ता विद्यते अभावस्तु सर्वदैव वस्त्वन्तरसापेक्षः। न ह्यभावइत्येव कश्चिदस्ती- त्यसाकमनुभवोस्ति । किन्तु, जलस्काभावः, प्रकाशस्याभाव इत्यादि रीत्या यस्यकस्यापि भाववस्तुनोऽभाव एवास्माकमनुभवगोचरो भ- वति । भावपदार्थेषु च प्राकृतजनानामनुभवाविषयाः शास्त्रवासना मात्रसंवेद्यास्सन्ति कतिपये पदार्थाः। येषु प्राथम्यमर्हति विशेष नामा पदार्थः । स हि नित्येषु द्रव्येषु वर्तत इति तार्किकाः प्रति- जानन्ति । द्रव्येषु तावत् पृथिवीजलादीनि, गुणेषु च रूपरसादीनि, कर्माणि सर्वाणि च पामराणामप्यनुभवविषयतामापबानीति सुबोधमेव तेषां स्वरूपम् । सामान्यं तु सदृशप्रतीति विषयेषु बहुषु वस्तुषु विद्यमानस्साधारणो धर्मः; यथा बहीषु गोव्य क्तिषु विद्यमानं ‘गोत्वं' सामान्यमिति व्यपदिश्यते । एवं द्रव्यत्वं गुणत्वं घटत्वं पटत्वमित्यादिकमपि सामान्यान्तर्भूतमेव । रामः -समवाय इति कश्चित्पदार्थ उक्तः खलु, तस्य स्वरूपं किमाम ? कृष्णः-यावत् स्वस्य विनाशः तावत्कालमेव द्रव्यादिव्य, क्ति कामप्याश्रित्य वर्तमानानां गुणकादीनां द्रव्यादिषु यस्सम्बन्धः चतुश्शानसारयुधायाम् स समवाय इति संशब्द्यते । यथा-रूपं यावदात्मविनाशं स्वोत्पत्त्य धिकरण मेद घटादिकमाश्रित्य वर्तते । न तु ततः काकादिरिव दे- शान्तरं गा शक्मोतीति तादृशां वस्तूनां सम्बन्धः समवाय इति सङ्कीर्त्यते । द्रव्येषु गुणकर्मणी समवायेन वर्तेते । एवं द्रव्यत्वगु- णत्वादिकं सामान्य द्रव्यगुणादिषु सर्वदैव वर्तत इति तयोरपि स- म्बन्धः समवायः ! तन्तुप्रभृतिष्ववयवेषु पटादीनामवयविनां सम्ब- न्धोपि समवाय एवेति समवायस्वरूपम् । रामः-उक्तान् सप्त पदार्थान् विना किमन्यः कोपि पदार्थों जगति नास्ति? कृष्णः- एवमेतैस्सप्तभिरेव पदार्थैः संघटितमिदं प्रपञ्चसर्व- स्वमाकलयन्ति तार्किकाः । एषाश्च पदार्थानामेकैकस्य लक्षणप्रद- र्शने तनिर्वचने च ते महान्तमातिष्ठन्ते प्रयाससन्दोहम् । रामः-लक्षणं नाम किम् ? कृष्णः-अत्रोत्तरमेवमाचक्षते नैयायिकाः दूषणत्रितय- रहितो धर्मो लक्षणम् ।” रामः-कानि नाम तानि दूषणानि त्रीणि ? कृष्णः-सन्ति लक्षणदूषणानि त्रीणि अतिव्याप्त्यव्याप्त्य- सम्भवसंज्ञकानि । तैरकलङ्कित एव धर्मो लक्षणं भवितुमर्हति । राम:-अतिव्याप्त्यादीनां त्रयाणामेषां स्वरूपं जिज्ञासे । कृष्णः-अलक्ष्ये लक्षणस्य दर्शने अतिव्याप्तिर्नाम दोषः। रामः-अलक्ष्यं नाम किम् ? कृष्णः–यस्य लक्षणं विवक्षितम् , तल्लक्ष्यम् । तद्भिन्नमल. क्ष्यम् । गोर्लक्षणे विवक्षिते गोर्लक्ष्यम्, तद्भिन्नमश्वमहिषादिक- मलक्ष्यमिति विद्धि। ma तर्कशास्त्रसर्वस्वम् । ? राम:-अतिव्याप्तिदोषस्य किमप्युदाहरणं प्रदर्शय । कृष्णः-गोः शृङ्गित्व लक्षणमित्युक्ते अनातिव्याप्तिस्सम्भ- वति । शृङ्गित्वं लक्ष्यभूतगोभिन्ने छागमहिषादावपि दृश्यत इति । रामः---लागूलवत्वं वानरस्य लक्षणमित्युक्तिस्थलेप्यति- व्याप्तिदोषो भवितुमर्हत्येव खलु ? कृष्ण-आम्; गृहीतोऽयं विषयो भवता । रामः-अथ अव्याप्ति लक्षय । कृष्णः-लक्ष्यघटकेषु केषुचित् लक्षणस्य सत्वं केषुचिदस. वं च भवतिचेत् अव्याप्तिलक्षणदोषः। यथा गोनीलरूपवचं लक्षण मुक्तश्चेत् तदव्याप्तिदुष्टं भवति । नीलरूपं हि नीलास्वेव गोव्य- क्तिषु विद्यते, न तु रक्तासु कपिलासु वेति कतिपयगोमात्रवृत्तितया नीलरूपमव्याप्तम् । रामः-अतिव्याप्त्यव्याप्त्योः स्वरूपं भवता प्रदर्शितम् ; ज्ञातश्च सम्यगेव मया। असम्भवस्य स्वरूपं त्वहमेव स्वबुद्धयाऽव- धार्य बच्मि, शृणु । कुत्रापि लक्ष्ये लक्षणस्याऽविद्यमानत्वमसम्भव इति मन्ये ; युज्यते वा? कृष्णः-आम् , तथैव । उदाहरणं प्रदर्शय तावत् । रामः-शफवत्त्वं मनुष्यस्य लक्षणम्, वहृश्शिशिरत्वमि- त्यादौ । कृष्ण:-बुद्धिमानसि, एतादृशदोषत्रयरहितस्तु धर्मो लक्षणं भवतीति निष्पन्नम् । तादृशं किमपि लक्षणं प्रदर्शयितुं प्रभवसि वा त्वम् ? रामः-न स्फुरति, प्रदर्शयतु भवानेव ।
८ चतुश्शास्त्रसारसुधायाम् कृष्णः-गोः सास्त्रावत्वं लक्षणम् । सास्वा नाम गले लम्ब- मानो मांसपिण्डविशेषः स गोष्वेव दृश्यते, नान्येषु जन्तुषु । अतो न तस्वातिव्याप्तिः। अस्ति च साना सर्वास्वपि च गोव्यक्ति- विति न वा तस्याऽव्याप्त्यसम्भवौ । एतादृश एव धर्मः स्थला- न्तरेष्वपि लक्षणतया व्यवढ़ियत इति संक्षेपः। रामः-सखे कृष्ण ! नैयायिकानां मते द्रव्याणि कियन्ति ? कानि च तानि? कृष्णः-द्रव्याणि तावन्नवधा विभज्यन्ते नैयायिकैः-पृ- थिवी जलं तेजः वायुः आकाशं कालः दिक् आत्मा मनश्च द्रव्याणि। "क्षित्वलेजोमरुद्वयोमकालदिग्देहिनो मनः। द्रव्याणि " इति कारिकां च विद्धि। रामः-प्रियवयस्य ! इमानि द्रव्याण्यधिकृत्य समासतो य- द्वक्तव्यं तद्भवतैव निगद्यताम् । विशिष्यविशिष्य प्रष्टुंमपि न श- क्नोमि खल्वहम् । कृष्णः-शृणुतावदवहितः । यद्यगन्धविशिष्टमुपलभ्यते त- त्सर्व पृथिवीति कथ्यते । अतो मनुष्यशरीरादीनामपि पृथिव्याम- न्तर्भावः । जलं प्रसिद्धमेव । उष्णस्पर्शवन्ति वह्विसूर्यप्रमुखानि ते- जांसि गण्यन्ते । शब्दस्याश्रयभूतमाकाशं नाम द्रव्यमिन्द्रियाऽगो- चरोप्यनुमानगम्यं किमप्यस्तीत्यामनन्ति नैयायिकाः। तदेवात्रा- काशमिति परिगणितम् । तच्च सर्वत्र च्याप्नोति । न तु पामरैर्व्यव हियमाणो नीलरूप इव चालक्ष्यमाणः कटाहाकृतिराकाशपदार्थ- श्शास्त्रकृतामाकाशव्यपदेशभाजनम् । 'अस्मिन् काले इदमुत्पद्यते' इति, 'अस्यां दिशि इदं वर्तते' इति च व्यवहारविषयभूते कालदि तर्कशास्त्रसर्वस्वम् । , मभिधाने वस्तुनी सर्वत्र विद्यते इति, व्यवहारात्तयोस्सिद्धिमभिप्र- यन्ति । अहमिति सर्वैरनुभूयमानो व्यवह्रियमाणश्च पदार्थ आत्मे-- त्युच्यते । स च ज्ञानादीनामधिकरणं भवति । रामः-सखे! मध्ये काचिदाशङ्का । ज्ञानादीनामित्यत्र आदिपदग्राह्याणि कानि? कृष्णः-आदिशब्देन सुखदुःखेच्छद्वेषधर्माधर्मसंस्काराउपादेयाः। रामः-साधु । उपरि निगद्यताम् । कृष्णः-आत्मनि च न सर्वदा ज्ञानादिकं जायते । न हि सुषुप्तिकाले कोपि किमपि जानाति । एवंविधस्य ज्ञानानुत्पादस्य कारण स्थलविशेष मनस्सानिध्यविरह एवेति वक्तव्यम् । अतो मनो नाम किमपि द्रव्यं युक्तिमिरेव स्थापयितुं शक्यम् । रामः-~-स्थलविशेष मनस्सानिध्यविरह इति यदभिहितमधुना, तन्मनागिव प्रपञ्चयतामिति प्रार्थये। कृष्णः-पुरीतनामकनाडीभिन्न प्रदेशे मनसा आत्मनस्संयोगो ज्ञानकारणम् । सुषुप्तिदशायां मनः पुरीतति प्रविशतीत्याहुः । रामः-श्रुतचरमिदं मयापि । उपरि वदं । कृष्णः - एषु च द्रव्येषु प्रथमानि पञ्च भूतपदेनाभिधीयन्ते । रामः-जानामि तावत् पञ्चभूतानीति प्रथमानं व्यवहारम् । मूर्तद्रव्याणीति व्यवहारः केषाम् ? कृष्णः-प्रथमे चत्वारो मनश्चेत्येतत्पञ्चकं मूर्तद्रव्यमिति व्य- वह्रियते । रामः-अन्ये आकाशकालदिगात्मानः कीदृशाः ? कृष्णः-ते तु विभवः । यस्सर्वत्र व्याप्यावतिष्ठते स विभुः।
चतुश्शास्त्रसारसुधायाम् रामः -द्रव्येषु कानि कानि नित्यानि ? कृष्णः-आकाशकालदिगात्ममनांसि पञ्चैतानि नित्यानीति नैयायिकानां सिद्धान्तः। नित्यत्वं नाम किम् ? जानासि वा ? रामः येषामुत्पत्तिर्विनाशश्च न विद्यते, ते नित्या उच्यन्त इति मन्यमानोस्मि । युक्तमेव खल्वेतत् । कृष्णः-आम् , तथैव । रामः-आकाशादिपञ्चकस्य नित्यत्वकथनेन पृथिव्यादिपञ्च कस्यानित्यत्वं कथितं भवति खलु । कृष्णः-पृथिव्यादिचतुष्टयस्योत्पत्तिविनाशावनुभवेनैव ग- भ्येते किल । तथापि पृथिव्यादीनामादिकारणभूताः परमाणवो नाम सूक्ष्मपदार्था उत्पत्तिविनाशरहिततया नित्या इति तार्किकैरभ्यु पगतम् । प्रलयसमयेपि परमाणूनां नास्ति विनाशः। परमाणूना- मनेकपा संयोगवशात् स्थूलानि पृथिव्यादीन्युत्पद्यन्ते । विनाशे च तानि परमाणु मर्यादीकृत्यैव विनश्यन्तीति संक्षेपः । रामः-द्रव्याणां पदार्थेषु प्राथम्यं कुतस्समजनि ? कृष्णः-गुणादीनामितरेषां षण्णामप्याश्रयभूतानि द्रव्याणि खलु । अतस्तेषां प्राथम्यं युक्तमेव ननु । रामः-युक्तमेतत् । गुणादीनां तु न सकलपदार्थान्तराश्रय त्वम् ; गुणे हि न द्रव्यं वर्तते, न वा गुणो नापि वा कर्म । एवं कर्मापि न द्रव्यगुणयोराधारतां भजति । द्रव्यं तु सर्वस्यान्यस्य पदार्थजातस्याऽऽधारभूतमिति सुतरामुपपद्यते तस्य प्राथम्यम् । कृष्णः-एवमेवाऽन्येषामपि भावपदार्थानां पूर्वपूर्व प्रधान- मिति वक्तुं शक्यते । गुणकर्मणोर्यद्यपि द्रव्याश्रितत्वस्थ सामान्या- श्रयत्वस्य चाऽविशिष्टता, तथापि संख्याकृतं बहुत्वमस्तीति गुणस्य तर्कशास्त्रसर्वस्वम् । ........ प्राथम्यं सूपपादम् । किश्च सर्वाणि कर्माणि कतिपयक्षणमात्रस्था- यीनि, गुणास्तु चिरकालस्थायिनः। कतिचन पुनः नित्याश्चेत्यपर- मिदं गुणप्राथम्ये कारणम् । सामान्यं सकलद्रव्येषु गुणकर्मणोश्च वर्तते ; विशेषस्तु कतिपयद्रव्यमात्रवृत्तिरिति सामान्यस्य प्राथम्यम्। द्रव्य गुणकर्मसामान्यविशेषाः पश्चापि सम्बन्धिशब्दभाजः। सम- वायस्तु तेषां केवलं सम्बन्धभूत इति तस्य चरमत्वं चेति विभावय । रामः-अथ गुणविषये वक्तव्यं वद सखे । कृष्णः-गुणास्तावद्रपादयश्चतुर्विंशतिरिति तार्किका मन्यन्ते। अथ गुणा रूपं रसो गन्धस्ततःपरम् । स्पर्शः संख्या प- रिमितिः पृथक्त्वं च ततः परम् । संयोगश्च विभागश्च परत्वं चाऽप रत्वकम् । बुद्धिस्सुखं दुःखमिच्छा द्वेषो यत्नो गुरुत्वकम् । द्रवत्वं स्नेहसंस्कारावदृष्टं शब्द एव च ॥" इति कारिकावली चिन्तय। ( अत्र, परिमितिः-परिमाणम् । अदृष्टम्-धर्माऽधौं । ) रामः-एतान् गुणानधिकृत्य पृथक्पृथग्वक्तव्यानंशानपि कृपया वक्तु भवान् । कृष्णः-- शृणु । यच्चक्षुषा गृह्यते, यच्च वर्णपदेन लोके व्य- वयिते, तत् शुक्लादिभेदमिचं रूपम् । रसो मधुरादिः । गन्धस्प- शौं प्रसिद्धावेव । संख्या एकत्वद्वित्वादिः । अणुत्वं महत्त्वमित्यादि परिमाणम् । अयमसात् पृथगिति व्यवहारनिमित्तं पृथक्त्वं नाम गुणमपि तार्किका ऊरीकुर्वन्ति । रामः-अयं व्यवहारो भेदरूपेणाऽन्योन्याभावेनैव किं न निर्वहेत् ? कृष्णः-निर्वहेदिति पक्षान्तरमप्यस्ति । रामः-कथय तावदुपरिष्टात् ।
१२ चतुश्शास्त्रसारसुधायाम् कृष्णः-संयोगविभागौ प्रसिद्धावेव । परत्वापरत्वे पुनः क्वचिदूरत्वसामीप्यरूपे भवतः। ( देशकृतपरत्वापरत्वे दूरत्वसा- मीप्यपर्यवसायिनी।) यथा- काञ्चीपुरापेक्षया पाण्ड्यमण्डलं के- रळेभ्योऽपरमिति व्यवहारे अपरत्वं सामीप्यरूपम् । पाण्ड्यमण्डला- पेक्षया काञ्चीपुरस्य परत्वं दृरत्वातिरेकलक्षणमेव । एवं कालकृत- परत्वापरत्वे ज्येष्ठत्वकनिष्ठत्वलक्षणे सम्पद्यते । बुद्धिप्रभृतयः प्रय- नान्ताः प्रसिद्धा एव । पतनहेतुर्गुरुत्वम् । स्रवणहेतुर्द्रवत्वम् । विशीर्णस्य वस्त्वन्तरस्य पिण्डीभावं जनयति यो गुणः, सः स्नेहश- ब्देनोच्यते । संस्कारो नाम अनुभवादुत्पद्यमानः कालान्तरे स्मर- णायोपकुर्वाणश्च गुणः । स चात्मनि वर्तते । इदानीं दृश्यमानं श्रू- यमाणं वा किञ्चन वस्तु कमपि संस्कारमात्मनि जनयति ; स का- लान्तरे तस्य स्मरणंप्रति सहकारी सम्पद्यते । अदृष्टमिति धर्माधर्म- योस्साधारणी संज्ञा। रामः-तयोः प्रत्यक्षाविषयत्वादन्वथैव सेयं संज्ञा । कृष्णः-आम् । धर्मस्यैव पुण्यमिति नामान्तरम् । अधर्म- स्य पापमिति च । तत्र धर्मः शास्त्रविहितकर्मानुष्ठानेन, गङ्गास्नाना- दिना जायते । अधर्मो निषिद्धकर्माचरणेन सुरापानादिना जायते । अथ, शब्दः प्रसिद्ध एव । रामः-एवमेष गुणानां स्वभावः संक्षेपत उक्तः प्रियवय- स्येन श्रीमता। सर्वे चैते द्रव्यमात्रवृत्तयो वा ? कृष्णः-आम् ; तथैव । गुणानां च द्रव्ये समवायसम्ब- न्धेन वर्तनमिति प्रस्तुतचरमेतत् । रामः-किमेते गुणास्सर्वे सर्वद्रव्यवृत्तयो भवन्ति ? १ तर्कशास्त्रसर्वस्वम् । - कृष्णः-शृणु, विविच्य वच्मि । संख्यापरिमाणपृथक्त्व- संयोगविभागास्सर्वद्रव्यवृत्तयः । परत्वापरत्वे मूर्तद्रव्येषु सकलेफु वर्तेते । न तु विभुद्रव्येषु । तेषां सकलदेशकालव्यापितया तत्र त- द्वयवहाराऽसम्भवात् । रूपं पृथिव्यादित्रयवृत्ति । सः पृथिवीजल- वृत्तिः। ( जलस्य मधुरो रस इति तार्किकाः ।) गन्धः पृथिव्या- मेव । स्पर्शः पृथिव्यादिषु चतुषु वर्तते । गुरुत्वं पृथिवीजलतेजस्सु तिष्ठति । सुवर्ण तेजस्यन्तर्भवतीति तार्किकास्सिद्धान्तयन्ति । तत्र च गुरुत्वमुपलक्ष्यते इति गुरुत्वस्य तेजोवृत्तिता। द्रवत्वं पृथिवीज- लवृत्ति । घृताद्यात्मके पार्थिववस्तुनि वह्निसंयोगादिना द्रवत्वोपल- ब्धेस्तत्रापि पृथिव्यां द्रवत्वं स्वीक्रियते । परंतु, तन्नैमित्तिकमिति व्यवहियते । जले वर्तमानं द्रवत्वं परं स्वभावसिद्धत्वात् सांसिद्धि- कमुच्यते । स्नेहो जलमात्रस्य गुणः । शब्द आकाशस्य । बुद्धया- दयः प्रयत्नान्तास्संस्कारश्चात्मवृत्तयः । रामः--गुणानां नित्यत्वानित्यत्वविवेचन विधेहि सखे ! कृष्णः-तत् उपरिष्टाद्विधास्यते । इदानी कर्मविषये बक्त- व्यं मन्ये। रामः-अस्तु तथैव । द्रव्यगुणविषये ज्ञातं ज्ञातव्यं यथो- चितम् । कर्मविषयिणी जिज्ञासा समुत्थापिता सुहृदा। चलना- त्मकस्सर्वोपि व्यापारस्तार्किकैः कर्मेति कथ्यत इति तावदवगतचरं मम । तस्यावान्तरभेदास्सन्ति किम् । कृष्णः-सन्त्येव तस्यावान्तरभेदा उत्क्षेपणावक्षेपणाकुश्वन- प्रसारणगमनानीति पञ्च । उत्क्षेपणं ततोऽवक्षेपणमाकुञ्चनं तथा। प्रसारणं च गमनं कर्माण्येतानि पञ्च च ॥" इति हि कारिका । रामः-एतेषां कर्मभेदानां कोऽर्थः ?
चतुशास्त्रसारसुधायाम् कृष्णः-उत्क्षेपणम्-ऊर्ध्व नयनम् । अवक्षेपणं तद्विपरी- तम् । अधोनयनमितियावत् । प्रसारणं वितननम् । आकुञ्चनं त- द्विरुद्ध कर्म । गमनं प्रसिद्धमेव । रामः -एतेभ्योऽन्यानि कर्माणि न सन्तीति किं सुवचम् ? भ्रमणस्पन्दनादीनि बहूनि कर्माणि सन्त्येव खलु । तत् कथं पञ्चेति नियम्यते? कृष्णः-सत्यमेतत् ; तथापि तानि सर्वाणि गमनशब्देन गृह्यन्त इति मुनिकृतस्य विभजनस्य कथश्चिदुपपत्तिः कल्पनीया । " भ्रमणं रेचनं स्पन्दनोलज्वलनमेव च । तिर्यग्गमनमप्यत्र गम- नादेव लभ्यते ॥” इति कारिका चात्राऽनुसन्धेया। रामः-सन्तोषः । अनयैव रीत्या किमित्युत्क्षेपणादीनामपि गमनेऽन्तर्भावो न क्रियते ? कृष्णा-एवं पर्यनुयोक्तुं न वयं प्रभविष्णवः । मुनीनां स्वतन्त्रेच्छतया नियोगपर्यनुयोगानहत्वादिति च विचक्षणा आ- चक्षते । रामः-अस्तु नाम नत् ; उपरि वक्तव्यं वदतु तत्रभवान् । कृष्णः-कर्मणोप्याधारो द्रव्यमेव । द्रव्ये कर्म समवायस- म्बन्धेन वर्तते । द्रव्येषु च मूर्तेष्वेव कर्माऽङ्गीक्रियते । न तु विभु- ध्वाकाशकालदिगात्मसु । रामः-कर्म क्रियेति पर्याय एव खलु । कृष्णः-अधकिम् । पर्याय एव । अत एव क्रियावत्वं मूर्त- द्रव्याणां लक्षणमिति च वदन्ति । रामः- कृतिशब्दोपि कर्मपर्याय एव खलु ।
तर्कशास्त्रसर्वस्वम् । १५ कृष्णः-न न । कृब्धातोर्निष्पभोपि कृतिशब्दो नैयायिकैः प्रयत्नसमानार्थकतया प्रयुज्यत इति न तस्य कर्मपर्यायता। रामः-क्रियैव संयोगविभागयोः कारणं भवतीति श्रुतं भया। तत्र किञ्चिद्विवियतां सुहृदा। कृष्णः-सत्यमेव तत् । न हि द्वयोरन्यतरवस्तुनि क्रियां विना तयोस्संयोगविभागौ जायते । क्वचित्तु मेषद्वयघट्टनादौ द्वयो- रपि क्रिया संयोगनिमित्तं भवति । आत्ममनस्संयोगं प्रति मनोव- तिनी क्रियैव कारणम् । विभुषु क्रियाऽनुत्पत्त्या न विभुद्वयस्य संयो- गयिभागावुत्पद्यते । सर्वापि क्रिया क्षणचतुष्टयमात्रमवतिष्ठते। क्रि- याणामुत्पत्तिविनाशशालित्वान्न तासां नित्यत्वमिति च तार्किक- सिद्धान्तः। रामः-प्रियवयस्य ! द्रव्यगुणकर्मविषयेष्ववगतमवगन्तव्य- मुचितम् । अथेदानी सामान्यमधिकृत्य जिज्ञासा प्रवर्तते मम । कृष्णः-समानावयवसंस्थानासु बहीषु व्यक्तिषु समानाकार प्रत्ययस्य कारणं यत् , तदेव सामान्यम् । —कचन समन्वयः क्रियतांतावत् । कृष्ण:--निखिलासु गोव्यक्तिषु गोत्वात्मकं सामान्य विद्यत इत्यत एव ' इयं गौः, इयं गौः' इति समानाकारः प्रत्ययो जा- यते । अतश्च-समानावयवसंस्थानासु बहीषु गोव्यक्तिषु ' इयं गौरियं गौ' रिति समानाकारप्रत्ययस्य कारणं गोत्वरूपा जाति- रिति सैव सामान्यम् । रामः-अनुगताकारः प्रत्यय एव सामान्यस्वीकारे प्रमाण भवतीति मया गृह्यत इदानीम् । अपीदं युज्यते ? .
१६ चतुश्शास्त्रसारसुधायाम् कृष्णः-युज्यत एव । अत एव खलु एकव्यक्तिमात्रवृत्ती- नामाकाशत्वादीनां न सामान्यमिति व्यपदेशो भवति । रामः- सामान्य जातिरिति पर्यायो वा ? कृष्णः-अथकिम् । रामः--तदिदं सामान्यं केषु केषु पदार्थेषु विद्यते ? कृष्णः- द्रव्यगुणकर्मसु त्रिषु समवायेन वर्तत इति ताकि- काणां सिद्धान्तः । द्रव्यत्वं गुणत्वं कर्मत्वमित्येतेषां जातित्वं नैया- यिकसम्मतमेव । एवं पृथिवीत्वं जलत्वं तेजस्त्वमित्यादीन्यपि जातयं एव। रामः-परा अपरा चेति जातिदे॒धा निगद्यत इति श्रुतं मया कदाचित् । तत्र किञ्चिद्विवरणं कांक्ष्यते । कृष्णः-जातिषु या यदपेक्षया न्यूनव्यक्तिवृत्तिः सा तदपे- क्षया अपरेत्युच्यते । या यदपेक्षया अधिकव्यक्तिवृत्तिः सा तदपे- क्षया परेति च प्रोच्यते । रामः--विषयोयं मम मनसि नैव लग्नः ; सुस्पष्टं प्रतिपादय । कृष्णः-अवधेहि सखे । द्रव्यत्वं पृथिवीत्वमिति जातिद्वयं मानसे कलय । अत्र परा जातिः का ? अपरा च का ? इत्याकां- क्षायाम् , द्रव्यत्वजातिः पृथिवीत्वापेक्षया परा ; सा हि पृथिवीत्वा- धिकरणे पृथिव्यां सर्वत्र विद्यते, तदनधिकरणे जलादौ च विद्यत इति तस्या अधिकव्यक्तिवृत्तिता । एवञ्च द्रव्यत्वजात्यपेक्षया पृथिवी त्वजातिरपरेति समायाति । तस्या न्यूनव्यक्तिवृत्तित्वात् । रामः-गुणत्वपृथिवीत्वयोर्मध्ये परा जातिः का? ब्रूहि ।
तर्कशास्त्र विस्वम् । १७ कृष्णः -ययोस्तु सामानाधिकरण्यमेव नास्ति न तयोः पर- स्पर परवापरन्यव्यवहारः । गुणत्वपृथिवीत्वयोः द्रव्यत्वरूपत्वयोर्वा मामानाधिकरण्यविरहान तत्र परत्वापरत्वविचारप्रसक्तिरपीत्यव- बुदयम्व। रामः-युक्तमेवैतत् । निपुणता प्रत्विक्ति भवान् । अस्तु । जातयस्मा नित्या वा ? उन अनित्या वा ? कृष्णः-जातयस्सर्वा अपि उत्पत्तिविनाशरहिततया नित्या इति गण्यन्ते। रामः-कथमेतत् ? व्यक्तीनां विनाशे सति तदृत्तिजात्यापि विनष्टयैव खलु भवितव्यम् । कृष्णः-नैवम् । व्यक्तीनां विनाशेपि जातिः अनष्टा सती कुत्रचिद्वर्तत एवेति विक्षावनीयम् । रामः-अत्र बद्धोऽयमजलिः । उपरिष्टाद्वद वक्तव्यम् । कृष्णः--द्रव्यादित्रितयवृत्तिः सत्ता नाम कापि जातिः सर्व जात्यपेक्षया परा विद्यत इति तार्किकाणामभ्युपगमः । सामान्य- विपये साम्प्रतमेतावतैवाऽलमवगतेन भवतः । रामः-सखे ! इतःपरं विशेषमधिकृत्य खलु वक्तव्यम् । कृष्णः-विशेष विषयीकृत्य यत् प्रस्तोतव्यं तदुपरिष्टा- त्प्रस्तोष्यते। रामः-तर्हि सम्प्रति समवायमधिकृत्य प्रस्तूयतांतावत् । कृष्णः-निशमय प्रियवयस्य ! । गुगादीनां द्रव्यादिपु क- श्चिदस्ति सम्बन्ध इति काममभ्युपगन्तव्यम् । न खलु सम्बन्धं विना वैशिष्ट्यप्रतीतिरुत्पधेत । अस्ति च द्रव्यादिपु गुणादिवैशि- १८ चतुश्शास्त्रसारसुधायाम् ष्ट्यप्रतीतिः। अतो गुणादीनां द्रव्यादिषु सम्बन्धः कश्चिदभ्युपग- न्तव्यः। स एव समवाय इत्युच्यते नैयायिकैः । रामः- सखे ! 'गुणादीनां द्रव्यादिषु' इति आदिशब्द- घटितव्यवहारं विहाय सुस्पष्टमभिधेहि । कृष्णः-तथैवाभिदध्याम् । गुणगुणिनोः, रियाक्रियावतोः, अवयवावयविनोः, जातिव्यक्तयोः, विशेषनित्यद्रव्ययोश्च सम्बन्धः समवाय इति तार्किकास्सिद्धान्तयन्तीति विद्धि । रामः-" घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः। तेषु जातेश्च सम्बन्धः समवायः प्रकीर्तितः ॥" इति कारिकायामयमों वर्तते वा? कृष्णः-वर्तत एव । घटादीनां कपालादौ-अवयवाव- यविनोः। द्रव्येषु गुणकर्मणोः-गुणगुणिनोः, क्रियाक्रियावतोः। तेषु-द्रव्यगुणकर्मसु । चशब्देन विशेषनित्यद्रव्ययोस्संग्रहः । " अयुतसिद्धौ" इति कमपि व्यपदेशं श्रुतचरं स्मरामि । तत्र किञ्चिदुच्यताम् । कृष्णः-प्रश्नव्याजेन समयेषु वक्तव्यं सुष्टु स्मारयसि मेधा- वी त्वम् । सन्तुष्यामि । शृणु । एतेषां मध्ये एकैकस्य द्वितयस्य 'अ- युतसिद्धौ' इति व्यपदेशो भवति । यथा-गुणगुणिनाक्युतसिद्धौ । क्रियाक्रियावन्तो च तथैव । रामः-अयुतसिद्धव्यपदेशनिमित्तं किम् ? कृष्णः-ययोरन्यतरवस्तु विनाशपर्यन्तमपराश्रितमेव वर्तते तावयुतसिद्धाविति व्यपदिश्यते । गुणो हि यावद्विनाशं द्रव्याश्रित एव वर्तते । अतो द्रव्यगुणावयुतसिद्धौ । क्रियापि यावद्विनाशं द्र- व्याश्रितैवाऽवतिष्ठत इति क्रियाक्रियावतोरयुतसिद्धत्वम् । पटादिक- तर्कशास्त्रसर्वस्वम् । १९ ? मवयवि तन्त्वाद्यात्मकमवयवमाश्रित्य यावद्विनाशं वर्तत इति तयो- रयुतसिद्धता । गोत्वादिरूपा जातयो गवाद्यात्मकव्यक्तयाश्रिता ए- वितिष्ठन्ते ; व्यक्तिश्च यावद्विनाशं जातिमती वर्तत इति जाति- व्यक्तयोरयुतसिद्धता । विशेषाख्यः पदार्थस्सर्वदैव नित्यद्रव्येषु व- तत इति विशेपनित्यद्रव्ययोरप्ययुतसिद्धभावः । रामः-समवायः किमेक एव ? उत बहुः ? रूपसमवायो गन्धसमवाय इति वहुधा खलु व्यपदिश्यते । कृष्णः-सत्यम् । एवं बहुधा व्यपदिश्यमानोपि वस्तुत एक एवेति न तस्य नानात्वमभ्युपगम्यते नैयायिकः। भेदव्यवहारस्तु घटाकाशमठाकाशादिव्यवहारबदुपाधिकृतत्वेन समर्थनीयः समवाय उत्पत्तिविनाशशून्यो नित्यपादार्थ इति च तार्किकसमयः । रामः-समवायविषये अलमेतावता प्रतिपादितेन सम्प्रति । अभावमधिकृत्य प्रोच्यताम् । कृष्णः-नेति प्रतीतिविषयः कश्चिदस्ति हि पदार्थः। स तावदभाव इति नाम्ना व्यपदिश्यते । रामः-अभावस्य वैविध्यं नास्ति वा कृष्णः-कुतो नास्ति । प्रागभावः प्रध्वंसाभावः अत्यन्ता- भावः अन्योन्याभाव इति स चतुर्धा विभज्यते । रामः-संसर्गाभाव इति कश्चिदभावः श्रूयते ; स भवता कुतो नोक्तः ? कृष्णः-(विहस्य) नायमतिरिक्तः कश्चिदभावः; आद्यानां त्रयाणामभावानां संसार्गाभाव इति साधारणी संज्ञा । तथा च कारिका -"प्रागभावस्तथा ध्वंसोप्यत्यन्ताभाव एव च । एवं त्रै- विध्यमापनस्संसर्गाभाव इष्यते ॥” इति । ?
चतुश्शास्त्रसारसुधायाम् ऽभाव: रामः-तथा वा अस्तु । एते चत्वारोऽभावा अर्थतो वि- ब्रियन्ताम् । कृष्णः-उत्पत्तिशालिनां वस्तूनामुत्पत्तेः पूर्व प्रतीयमानो- प्रागभाव इति अन्धर्थया संज्ञया व्यवहियते । एवं विना- शिनां पदार्थानां विनाशादनन्तरमनुभूयमानोऽभावः प्रध्वंसाभाव इत्यभिधीयते । सो नाश इति पर्यायावेतस्य । 'अत्रेदं नास्ती तिं प्रतीतिविषयोऽभावोऽत्यन्ताभावः। ‘गौरवो न, घटः पटो न' इत्यादिप्रतीतिविषयोऽभावोऽन्योन्याभावः। अस्यैव ' भेद इति संज्ञान्तरम् । रामः " अनादिस्सान्तः प्रागभावः सादिरनन्तः प्रध्वं- साभावः" इत्यादीनि कानिचन वाक्यानि बाल्ये चिन्तितानि स्म- रामि । तेषां सारार्थमभिधेहि । कृष्णः निशमय वच्मि । एषु चाभावेषु प्रागभावस्योत्प- त्तिर्नास्ति, विनाशो वर्तते । घटोत्पत्तिकाले घटनागभावो नश्यति किल। ध्वंसस्योत्पत्तिरस्ति, विनाशो नास्ति । न हि विनष्टं वस्तु पुनरुदेति, येन ध्वसोऽपि नाम नश्येदिति सम्भावना सम्भ- विनी । अत्यन्तान्योन्याभावौ तु उत्पत्तिविनाशरहितौ नित्याविति व्यवहियेते । अभावस्य तदाश्रयेण सह स्वरूपसम्बन्धाख्यस्सम्ब- न्धश्च स्वीकृतोस्तीति संक्षेपः । रामः-सखे ! द्रव्यादीन् पदार्थनिधिकृत्य यदवगन्तव्यं तत् प्रायेण मयाऽवगतमासीत्तत्रभवतः कृपया । इतःपरं यद्वक्तव्यं तदु- च्यताम् । कार्यकारणभावविषये जिज्ञासा वर्तते मम । तत्र किश्चि- दभिदधातु श्रीमान् ।
तर्कशास्त्रसर्वस्वम् । कृष्णः-कार्यस्य कारणस्य च यः परस्परं सम्बन्धः स एव कार्यकारणभाव इति व्यवहारेण विज्ञायते । स चायं तार्किकाणाम तिकर्कशस्य निष्कर्षस्य विषयो भवति । लोके हि यद्यजायते तत्सर्वं कार्यमित्युच्यते । कार्य जन्यमिति पर्यायावेतौ। घटादिकं स्थूल- पृथिव्यादिकं च वस्तुजातं कार्यमिति कथ्यते । यस्मात्कार्यमुत्प- द्यते तत् कारणम् । मृदादिकं घटादि प्रति कारणं भवति । कारण- पर्यायश्च हेतुशब्दः। रामः-निमित्तशब्दोपि तथैव खलु ? कृष्णः--न । निमित्तशब्दः कारणविशेषवाची, न तु कारण पर्याय इत्यग्रे व्यक्तीभविष्यति । रामः- अस्तु । कारणेपु कि सन्त्यवान्तरमेदाः । कृष्णः-विवृणोमि तावत् । यानि किल वस्तूनि सर्वमपि कार्यजातं प्रति कारणतां भजन्ति, तानि साधारणकारणानीति व्य- पदिश्यन्ते ईश्वरो हि सकलस्यापि जन्यप्रपञ्चस्य कारणं भवतीति तस्य साधारणकारणत्वमामनन्ति नैयायिकाः। एवं प्राणिनामदृष्ट-- मपि कार्यमा प्रति साधारणकारणमेव । रामः-असाधारणकारणस्वरूपं कीदृशम् ? कृष्णः--यत्पुनः कार्यविशेपमेव जनयितुमलम्भवति, तद- साधारणकारणमित्यभिधीयते । यथा घटं प्रति मृत्तिका ; पटं प्रति तन्तवश्वासाधारणकारणम् । एवं कारणानां साधारण्याऽसाधार- ण्यभेदः। रामः-करणमिति किमपि शुतचरं मया, तत् किं नाम ? कृष्णः-असाधारणकारणेषु च यानि यं कञ्चन व्यापारं पुर स्कृत्य कार्य जनयन्ति, तानि करमानीति कथ्यन्ते । दण्डोहि चक्रभ्र- चतुश्शास्त्रसारसुधायाम् " मणात्मकं व्यापार जनयन्नेव घटं प्रत्युपकरोति । अतो दण्डस्तं प्रति करणम् । भ्रमणं व तस्य व्यापारः। एवं तन्तवस्संयोगद्वारा पट- मुत्पादयन्तीति तेषां करणत्वं वक्तुं शक्यते । तन्तुसंयोगश्च व्या- पारः। तथाच कार्यप्रति अव्यवहितपूर्वक्षणवर्तितया यानि कारणानि भवन्ति, तेषां व्यापारान्तरासत्त्वात् करणत्वं न सम्भवति । यथा तन्तुसंयोगादीनाम् । न हि तन्तुसंयोगोत्पत्त्यनन्तरं मध्ये व्यापा- रान्तरं पटजनकमपेक्ष्यते । अतस्तस्य करणत्वमपि नास्त्येव । का- याव्यवहितपूर्वक्षणवर्ति कारणमेव करणमिति पक्षान्तरम् । तत्पक्षे तु तन्तुसंयोगस्यैव करणत्वम् । रामः-किमेतावानेव कारणानां विभागः ? कृष्णः-अथास्त्यपरोपि कारणानां विभागः, समवायिका- रणम् असमवायिकारणम् निमित्तकारणमिति । समवायिकारण- त्वं ज्ञेयमथाप्यसमवायिहेतुत्वम् । एवं न्यायनयज्ञैस्तृतीयमुक्तं नि- मित्तहेतुत्वम्” इति कारिका । रामः-विवरणमपि क्रियतां कृपया। कृष्णः -यत्र कार्यकारणयोस्सम्बन्धः समवायो भवति, तत्र कारणं समवायिकारणमिति निगद्यते। पटंप्रति तन्तवः समवायि- कारणं भवति । यतः अवयविभूतस्य पटस्य अवयवभूतानां तन्तूनाश्च सम्बन्धः समवाय एव । एवं घटंप्रति मृत्तिका । एवञ्च जन्यद्रव्यं सर्व प्रत्यपि तदवयवस्समवायिकारणमित्यायाति । रामः-अवयवापेक्षया अवयविनः पार्थक्यविरहात् कथमिदं सम्बन्धादिवर्णनमुपपद्यते । विभिन्नयोः खलु वस्तुनोस्सम्बन्धकी- तनं युज्येत ।
? तर्कशास्त्रसर्वस्वम् । २३ कृष्णः-सत्यम् । अवयवी अवयवादत्यन्तभिन्न इति नैयायि. कानां मतम् । अतस्तयोः पार्थक्यमङ्गीकृत्य सम्बन्धादिवर्णनं नानु पपन्नमिति विद्धि। रामः-तथा वा ? बद्धोयमञ्जलिः । उच्यतामुपरिष्टात् । कृष्णः-द्रव्येषु समुत्पद्यमानं गुणक्रियादिकंप्रति द्रव्याणि समवायिकारणं भवन्ति । यतस्तयोरपि समवाय एव सम्बन्धः । हरिद्रायां सुधायास्संयोगेन शोणरूपं सञ्जायते ; तद्रपं प्रति हरिद्रा समवायिकारणम् । आम्रफलादिद्रव्यं स्वस्मिन् जायमानं पतना- दिकंप्रति च समवायिकारणमिति क्रियायामुदाहरणम् । रामः-अनया च रीत्या द्रव्यगुणकर्मसु त्रिष्वपि द्रव्यमेव समवायिकारणमिति फलति हि। अतस्समवायिकारणत्वं द्रव्याणा- मसाधारणो धर्म इति द्रव्याणां लक्षणमिति सुवचं वा ? कृष्णः-सुष्ठु गृहीतं त्वया । सुवच भेव तथा। समवायि- कारणत्वं द्रव्यस्यैव सखे । रामः-इतःपरमसमवायिकारणमधिकृत्याभिधीयताम् । कृष्णः-जन्यद्रव्यंप्रति अवयवयोरवयवानां वा संयोगोऽसम वायिकारणम् । यथा घटंप्रति कपालद्वयस्य संयोगः, पटप्रति च तन्तूनां संयोगोऽसमवायिकारणम् । समवायसम्बन्धन कार्यं यत्र नि पद्यते, तत्र समवायेनैव कारणस्यापि वर्तने सति असमवायिकारणत्व व्यवहार इति सामान्यनियमः । पटस्तन्तुपु समवायेन सञ्जायते ; तन्तुयु तन्तुसंयोगोपि समवायेन वर्तते इति पूर्वोक्तोदाहरणे सामा न्यनियमस्य सङ्गतिः। रामः-एकस्मिन् द्रव्ये वर्तमानो गुणः क्रिया वा यदा त- स्मिन्नेव वस्तुनि गुणान्तरं क्रियान्तरं वा जनयति, तदा कारणी भूतयोर्गुणक्रिययोरसमवायिकारणत्वं सम्भवतीति सिद्धं भवतीतिमन्य।
चतुश्शास्त्रसारसुधायाम् कृष्णः-तथैव । गुणाद्गुणान्तरोत्पत्तिस्थल जानासि वा त्वम् ? रामः-आत्ममनस्संयोगादात्मनि ज्ञानोत्पतिर्भवति खलु । कृष्णः-गुणात् जियोत्पत्तेरुदाहरणं जानासि वा ? रामः-गुरुत्वाद्धेतोः फलादीनां पतनं भवतीति क्रियाया गु- णादुत्पत्तिमपि जाने । सर्वेष्वेषु दृष्टान्तेषु कारणभूतानां तत्तद्गुण- क्रियाणामसमवासिकारणत्वं च विज्ञातम् । कृष्णः-सखे ! प्रकारान्तरेणाप्यसमवायिकारणत्वं सम्भव- तीति जानीहि। रामः-तत् कथमिव ? कृष्णः-अवयवगतो हि गुणोऽवयविगतं गुणं जनयतीति नैयायिकानामभ्युपगमः । तन्तूनां शुक्लतायां पटस्यापि शुक्लिमा संदृश्यते । तादृशावयवगुणस्य यत्कारणत्वं तदसमवायिकारणत्व- मिति च व्यवहारः। तथाच द्रव्यंप्रति अवयवसंयोगः, द्रव्यवृत्ति- गुणकर्मणी प्रति तद्रव्यस्थगुणकर्मान्तरम् , अवयविगुणं प्रति अवय- वगुणश्च कारणं भवत्यसमवायिविधयेति संक्षेपः । रामः-यथा समवायिकारणत्वं द्रव्यस्यैवेत्युक्तम् , तथा असमवायिकारणत्वं गुणकर्मणोरेवेति नियमश्व मया गृहीतो भवति। कृष्णः-नियम एवायम् । “ गुणकर्ममात्रवृत्ति ज्ञेयमथाप्य- समवायिहेतुत्व" मिति हि कारिकापि । रामः-अपि ! किन्नाम निमित्तकारणम् ? कृष्णः-समवायिकारणादसमवायिकारणाचव्य तिरिक्तं का- रणं निमित्तकारणमिति व्यपदिश्यते । यथा कुलालो घटस्य, तन्तु- वायश्च पटस्य , एवमीश्वरः प्राणिनामदृष्टश्च कार्यसामान्य प्रति नि- मित्तकारणं सम्पद्यत इति स्वयमूथताम् ।
तकशास्त्र स्वम् । २५ रामः-निमित्तकारणलं तु प्रायस्सर्वेषामपि सम्भवती- त्युक्तं भवति भवता । किमेवमेव । कृष्णः-अथ किम् । रामः-एक वस्तु वस्त्वन्तरं प्रति कारणं भवतीति कथमव- गम्यते ? कथ्यतामनगमप्रकारः। कुष्णः-अन्नयन्यतिरेकसहचारदर्शनेन तदवगम्यत इति तार्किकाः कथयन्ति। रामः-अन्वयसहचारः कीदृशः? व्यतिरेकसहचारः कीदृशः। कृष्णः-तत्स तत्मत्वमन्वयसहचारः। यथा तन्तुतन्तु वायादिसामग्रीसचे पटसचम् । मृत्तिकाकुलालादिसामग्रीसच्चे घ- टसचम् । तदभावे तदभावो गतिरेकसहचारः। दृश्यते हि ता- दृशसामग्रीविरहे सति पटाद्यभावश्च । रामः- एवमन्वयव्यतिरेकसहचारशालित्वमेव कारणत्वमि- त्येतावन्मात्रमेव निरखा लक्षणं भवति का? कृष्णः-अन्वयेन व्यतिरेकेण च सहचारशालीनि कार्यात्प- त्तिस्थले नियमेन पूर्वकाले विद्यमानानि च यस्तूनि कारणनां भजन्न इति वक्तव्यम् । नियमेनेत्युक्तया कचित् कार्यनिती यादृच्छिक- तया सहकारितामापद्यमानानि वस्तूनि व्युदस्यो। रामः-किञ्चिदिधरणे को सत्येव विषयोयं मम मनसि लंग्नो भविष्यति । अलश्रुत एव खखहम् । कृष्णः-विवृनोमितावत् । कुचित् स्थलत्रिशेने मृदानयना झुपयोगितया घटंप्रति जनकतां भजन्मपि रासभो न घटकारणं भ- वति । रासमें विनापि मृदानयनसम्भवेन नियतपूर्ववर्नित्वायोगात् । रामः -पूर्वोक्तसाहचर्यसहितानां सर्वेषामपि वस्तूनां कारण- चतुश्शास्त्रसारसुधायाम् त्वाभ्युपगमे कृते, घटादिकार्योत्पत्तिस्थले गगनादिसद्भावस्य निय- तत्वेन तेषामपि कारणत्वमङ्गीकरणीयं भवेत् खलु । किमेवमङ्गी- करणीयमेव ? कृष्णः-पूर्वोक्तसाहचर्यसहितान्यपि कतिचिदुदासीनवस्तूनि कार्याधिकरणे कामं सत्ता लमेरमपरिहरणीयतया; तथापि न तेषां कारणत्वं व्यवहरन्ति प्रामाणिकाः । तादृशानां पदार्थानामन्यथा- सिद्धत्वव्यवहारशास्त्रे सिद्ध इति विद्धि । घटोत्पत्तिस्थले दण्डादि- कारणसत्त्वस्याऽवजनीयतया तेन कारणेन सह सन्ततमपि सञ्चरतां दण्डत्वदण्डरूपादीनां सत्यपि घटपूर्वभाविवनियमे घटकारणता नास्ति, अन्यथासिद्धत्वात् -- इति च प्रामाणिकानामभ्युपगमः । रामः-सखे ! कार्यकारणभावविषये कारणभेदविषये का- रणत्वनिर्णयविषये च एतावता बोधितेन पर्याप्तम् । इतःपरमन्य- सिन् विपये वक्तव्यमुच्यताम् । कृष्णः-सप्तानामपि पदार्थानां मध्ये बुद्धेः प्रपञ्चायैव मही- यान् यत्न आस्थितस्तार्किकवरेण्यैः । अतस्तत्र विषये गुणान्तरापेक्षया विशेषतो वक्तव्यं सुबहु विद्यते । रामः- तर्हि तत्र प्रवर्त्यतां प्रियसखेन जिहा । कृष्णः-ज्ञानंतावत् स्मृतिरनुभवश्चेति द्वेधा विभज्यते । स- कदवलोकितस्य अनुमितस्य श्रुतस्य वा यत् कालान्तरे जायमानं स्मरणं 'घटमहं स्मरामी' त्यादिप्रतीतिसिद्धम्, तदेव स्मृतिरित्यु- च्यते । स्मृतिभिन्नं ज्ञानमनुभवः । रामः-अनुभवात्मकस्य ज्ञानस्य प्रकारः किं नोपपादयितुं शक्यते प्रियवयस्येन?
तर्कशास्त्रसर्वस्वम् । कृष्णः कुतो न शक्यते, “घटमहं साक्षात्करोमि-वति मनुमिनोमि --स्वर्ग शृणोमी" त्यादिरूपो बहुप्रकारस्सम्भवत्य- नुभवः । रामः-अनुभवस्य प्रकारास्सन्तु नाम भूयांसः; तस्य कति सन्ति जातिभेदाः? कृष्णः-प्रत्यक्षम् अनुमितिः उपमितिः शाब्दबोध इति च- स्वारो जातिभेदा अनुभवस्य । तेषु च प्रत्यक्षस्य करणमिन्द्रियाणि । अनुमितेः करणं व्याप्तिज्ञानम् । उपमितेस्सादृश्यज्ञानम् । शान्द- बोधस्य शब्दज्ञानश्च । रामः-एतेषां स्वरूपमुदाहरणादिकं च शुश्रूषतेऽयं जनः । कृष्णः-श्रावयामि तावत् क्रमशः। प्रथमतः प्रत्यक्षमधि- कृत्य प्रोच्यते । चक्षुरादीनां षण्णामिन्द्रियाणां घटादीनामर्थानां च सम्बन्धेन जायमानं ज्ञानं प्रत्यक्षमित्यभिधीयते । रामः-चक्षुरादीनि पञ्च ज्ञानेन्द्रियाणीति मया विज्ञातमे- तावता कालेन । इदानीं तु ' षण्णामिन्द्रियाणा' मिति कथयता भवता पष्ठमिन्द्रियं किमभिप्रेतमिति जिज्ञासे । कृष्णः-" चक्षुः श्रोत्रं घ्राणजिहे त्वमनश्चेन्द्रियाणि षट् । ज्ञानोत्पत्तिनिमित्तत्वात् ज्ञानेन्द्रियपदास्पदम् ॥ ” इति कारिका विद्धि। रामः-ज्ञातार्थोऽसि । उच्यतामुपरिष्टात् । कृष्णः-तत्र चक्षुषा त्वचा च द्रव्याणां प्रत्यक्षमुपजायते । श्रोत्रं घ्राणं जिहा च न द्रव्यग्राहकाणि । तानि पुनः शब्दादीन् गुणान् तद्गतान् जातिविशेषांश्च गृह्णन्ति । येनेन्द्रियेण यद्गृह्यते तेनैवेन्द्रियेण तन्निष्ठा जातिस्तदभावश्च गृह्यत इति नियमः।
चतुश्शास्त्रसारसुषायाम् रामः-अनुभवसिद्धयायमर्थ इति मन्ये । न हि रूपग्राहका- चक्षुषोऽन्येन केनापीन्द्रियेण नीलवीतत्वादिजातिः नीलाद्यभावो वा ग्रहीतुं शक्यते । कृष्णः - एवमेतत् । तथा च तत्तदिन्द्रियप्रायगुणगना जा- तयः तत्तद्गुण भावश्च तदिन्द्रियमात्रेण गृह्यते इति शब्दाद्यभा- वोपि श्रोत्रादिमात्रगोचर इति फलितम् । अन्तःकरणापरपर्यायभृतं मनःपुनः आत्मानम त्मवृत्तीन प्रत्यक्षयोग्यान् सुखदुःखादींश्च गृ- अषणाति । आत्मप्रत्यझे असाधारणकारणमन्तःकरणम् । प्रत्यक्षसामान्ये इत्येव न, अपि तु ज्ञानसामान्ये साधारणं कारणं भवति । आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, ततः प्रत्यक्षमिति प्रत्यक्षजनन कमे तार्किकाणां प्रवादः । रांयुज्यते' इत्यस्य संयोगसम्बन्धावच्छिन्नवृत्तित्व मर्थो का? कृष्णः-न । सम्बध्यते इति केवलमर्थः । तेन यादृशविषये इन्द्रियस्थार्थन समवायस्सम्बन्धः तत्रापि न नियमभङ्गः । एष च क्रमो पायप्रत्यक्ष एव, अन्तरप्रत्यक्षे तु 'आत्मा मनसा संयुज्यते, ततः प्रत्यक्षम् ' इत्येवाक्ष्यते । रामः-प्रत्य संज्ञाने सहकारितयाऽवतिष्ठमान इन्द्रियस्याऽर्थन सह सम्बन्वः खलु। कृष्णः-आम् । स एष सनिकर्ष इति व्यदिश्यते । स.मः - स च कतिविधः ? कृष्णः - स तु पोडा विभज्यते नैयायिकः । संयोगः, संयुक्त सनवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, वि- अषगविशेष्यभावश्चेति पडन्द्रियार्थसनिकः प्रत्यझे सहकुर्वन्ति । - तर्कशास्त्रसर्वस्वम् रामः - कतमस्मिन् प्रत्य से कतमस्सनिकर्षस्सहकारी भवतीति जिज्ञासे । विविच्योच्यताम् । कृष्णः--तत्र द्रव्यप्रत्य से-घटादीनां बाह्यद्रव्याणामात्मन- वाभ्यन्तरद्रव्यस्य प्रत्य से संयोगस्सन्निकर्षः। इन्द्रियाणामपि द्र- व्यान्तर्गतत्वेन द्वयोव्ययोस्संयोगस्यैव सम्बन्धतासम्भवाता द्रव्यस- मवेतानां गुगक्रियाजातीनां प्रत्य से संयुक्तसमवायः। द्रव्यसमवेत- गुणादिषु समवायेन विद्यमानानां रूपत्वनीलत्वादिधर्माणां प्रत्यक्षे संयुक्तसमवेतसमवायः । श्रोत्रेण शब्दप्रत्यो परं समवायस्सभिकर्षः। श्रोत्रं नाम कर्णशकुलीदेशवर्ति आकाशमेव । आकाशस्य च श- ब्रेन समवायस्सम्बन्धो गुगगुणिभावात्प्राप्नोति । शब्दवृत्तिधर्माणा शब्दत्व कत्व खत्वादीनां प्रत्यक्षे च समवेतसमवायः । तदेवं चतुर्थ पञ्चासनिकर्षों शब्दतत्समवेतधर्मयोः प्रत्यक्षे केवलमुपाकुर्वाते । नपुनरन्यत्र कुत्रापि । अभावस्य प्रत्यक्षे तु विशेषणविशेष्यभावस्स- म्बन्धः । भूतले घटाभाव इति प्रत्यक्षे सति अभावस्य विशेष्यता, भूतलं घटाभाववदिति प्रत्यक्षे तस्य विशेषणताचेत्यबसेयम् । अत्रेमाः कारिकाः परिचिन्तय-" द्रव्यग्रहस्तु संयोगात् , संयुक्तसमवा- यतः। द्रव्येषु समवेतानाम् , तथा तत्तमवायतः । तत्रापि समवे तानाम् , शब्दस्य समवायाः। तवृत्तीनां समवेतसमवायेन तु ग्रहः। विशेषणतया तद्वदभावानां ग्रहो भवेत् ।। इति । रामः-सखे ! लौकिकप्रत्यक्षमलौकिकप्रत्यक्षं चेति मया द्विविधं श्रुतचरम् । तत्र किश्चिद्विवरणं कुरु । कृष्णः-इदानीमुपपादिता एते सनिकर्षा लौकिकसन्निकर्षा इत्युच्यन्ते । एतजन्यं प्रत्यक्षं लौकिक प्रत्यक्षमिति च प्रतिपाद्यते ।
३० चतुशास्त्रसारसुधायाम् अलौकिकप्रत्यक्षं तु किञ्चिद्गहनतरमिति नात्यन्तमुपयोगीति च कृत्वा सम्प्रति तत्रोदासे। रामः-अस्तु । प्रत्यक्षविषयक उपदेशः परिसमाप्तो वा ? कृष्णः-अलमेतावता कथितेनेति मन्ये । लौकिकप्रत्यक्ष- ज्ञाने चक्षुरादीनीन्द्रियाण्यसाधारणकारणानि। सन्निकर्षश्च तेषां व्यापारः। प्रत्यक्षज्ञानकारणभूतानीन्द्रियाणि च क्वचित् प्रत्यक्षा- ब्देन व्यवह्रियन्ते इति प्रत्यक्षविषयकोपदेशमुपसंहरामि । रामः-सखे ! कृष्ण ! इतःपरमनुमिति मधिकृत्य प्रो- च्यताम् । अत्रैव हि तार्किकाणामुत्साहः । कृष्णः-शृणु वच्मि । ज्ञातेन अज्ञातस्य वस्तुनो ज्ञानमनु- मितिः । यथा-पर्वते धूमं दृष्ट्वा तत्र वढेरपि सद्भावो निश्चीयते, साऽनुमितिः। रामः-स्तनितं निशम्य गृहान्तस्स्थितस्यापि गगने मेघप्रा- दुर्भावनिश्चयो जायते खलु ; साप्यनुमितिरेव वा ? कृष्णः-अथकिम् । रामः-अनुमितौ कस्य कस्य वस्तुनोऽस्त्यावश्यकता ? कृष्णः-सर्वास्वप्यनुमितिषु त्रीणि वस्तून्यवश्यमपेक्षितानि। पक्षः साध्यं हेतुरिति च तेषां नामानि । यस्मिन् वस्तुनि किश्चिद- स्तीत्यनुमीयते स पक्षः । पर्वते वह्निरनुमीयतेवेत् पर्वतः पक्ष इत्यु- च्यते । यत् अपूर्वतया ज्ञायतेऽनुमानेन, तत् साध्यम् । पर्वतो वह्नि मानित्यनुमितौ वह्निस्साध्यमित्युक्तं भवति । यस्य ज्ञानं साध्यानु- मितिं जनयति स हेतुः । धूमेन दृष्टेन वढेरनुमितौ धूमो हेतुरि- त्युक्तं भवति । हेतुसाध्ययोर्व्याप्तिज्ञानादनुमितिरुत्पद्यत इति तज्ज्ञा नमेवानुमितौ करणं भवति । तस्य चाऽनुमानमिति नामान्तरम् । ?
तर्कशास्त्रसर्वस्वम् । ३१ रामः-का नाम व्याप्तिः ? कृष्णः-उच्यते । हेतुसाध्ययोस्साहचर्यनियम एव व्याप्तिः। यत्रयत्र हेतुर्वर्तने तत्रतत्र साध्यं वर्तत इत्यन्वयसाहचर्यमन्वयव्या. तिरित्युच्यते । यत्र साध्यस्याभावः तत्र हेतोरप्यभाव इति व्यति- रेकव्यातिः। रामः एतादृशव्याप्तिद्वयं किं सर्वेष्वनुमितिस्थलेषु सङ्घटते ? कृष्णः-यदि वह्वेस्साध्यत्वं धूमस्य हेतुत्वं च भवति तीरशं व्याप्तिद्वयमपि धूमे संघटते । अस्ति हि ' यत्रयत्र धूमस्तत्रतत्राग्नि' रिति नियमः । तथैव वहयभावे धूमाभाव ' इति नियमश्च । साध्यव्याप्तिविशिष्टो हेतुः पक्ष वर्तत इति ज्ञानमनुमितेः पूर्वमपेक्ष्यते। अस्य च ज्ञानस्य परामर्श इति संज्ञा । तथा च अनुमितौ व्याप्ति- ज्ञानं कारणम् । परामर्शस्तद्वयापार इत्यायातम् । बहुशस्साहचर्य- दर्शनेन वह्निधूमयोाप्तिं गृहीतवान् पुमान् यदा पर्वते धूमं पश्यति, तदा व्याप्तिस्तस्य स्मृतिपथमारोहति । तदेव व्याप्सिस्सरणं 'वहि- व्याप्तिविशिष्टधूमवान् पर्वत' इति परामर्श पुरस्कृत्याऽनुमितिं जन- यतीति तस्यानुमितौ करणत्वं सम्पद्यते । रामः- एतच, 'व्यापारवदसाधारणकारणं करण मतमनुमृत्योच्यत इति मन्ये । येषां तु ' कार्याव्यवहितपूर्ववर्ति कारणं करण ' मित्यभ्युपगमः, तन्मते परामर्श एवानुमितौ करण- मिति वक्तुं शक्यते खलु ? कृष्ण:-आम् । शक्यत एव । राम:-अनुमितो योपिकोपि भेदो वर्तते न वा ? कृष्णः-अनुमितेस्तावत् फलप्रयुक्तो भेदो द्विधा भवति । साध्यनिश्चय एव ह्यनुमितेः फलम् । तचेत्फलं स्वयमेव व्याप्तिं गृही. ' मिति .
३२ चतुश्यास्त्रसारसुधायाम् स्वा हेतुदर्शनेन साध्यं निश्चिन्वानस पुंसस्सम्भवति, तर्हि तस्यानु मितिः स्वार्थानुमितिरित्युच्यते । यत्र तु स्वयं वह्निमनुमितवतः पर- बुबोधयिषया वाक्यप्रयोगेण परस्यानुमितिर्जायते, सा परार्थानुमितिः। रामः- तथाच स्वार्थ परार्थ चेत्यनुमानमपि द्विविधं सम्प. द्यत इत्युक्तं भाति । तत्र स्वार्थानुमितेरुत्पत्तिक्रमः प्रथमं प्रदर्शित एवाभूत्तत्रभवता । परार्थानुमितौ तु योऽपेक्ष्यते वाक्यप्रयोगः तस स्वरूपं निरूप्यतामित्यर्थये । कृष्णः-परार्थानुमितये प्रयुज्यमानस्य वाक्यसमूहस्य पञ्च सन्त्यायवाः । अनस्त पञ्चावयववाक्यमित्यभिधीयते । रामः-के ते पञ्च वयपाः ? कुष्णः-प्रतिज्ञा, हेतुः, उदाहरणम् , उपनयः, निगमनं चे- त्यापवाः पश्च। राम:-क्रमेण विवरण क्रियताम् । कृष्णः-पक्षस्साध्यवानिति वचनं प्रतिज्ञा। पर्वतो वह्निमा- निति वाक्यं प्रतिज्ञा भवति । साध्यसाधकस्य हेतोः प्रतिपादनं हेतुः । एतच्च प्रायेण पञ्चम्यन्तं भाति । धूमवचादिति वाक्यं हेतु भवति । ( तद्वत्वं च तदेवेति न्यायेन 'धूमात्' इतियावत् ।) रामः-मो काचिदियमाशङ्काऽङ्गुरति मम । धूमवत्त्वा- दिति वाक्य मिनि यदिदानी प्रियमित्रेण प्रयुक्तम्, तत् कथमुप पद्यते ? पदमानं खलु तत् । पदसमूह एव हि वाक्यम् । धूमवत्त्वा- दित्येकमात्रं पदं कथं वाक्यं भवेदिति । कृष्णः-साधु पृष्टम् । प्राव्यमेतत् । नैयायिकानां मते एकमपि सुबन्तं तिङन्तं वा वाक्यं भवति । वाक्यं पदसमूह इति न विरुद्धयते । तन्मते अर्थवोधनसमर्थ सर्वमपि पदं भवति । न तु “ तर्कशास्त्रसर्वस्वम् । . “ 'सुप्तिङन्तं पद' मिति तेषामभ्युपगमः। तथाच प्रकृतिः प्रत्य- यश्च पृथक्पदे स्यातामिति केवलसुबन्तस्यापि वाक्यत्वमव्याहत- मिति विद्धि । रामः-सन्तुष्यामि । उपरिष्टादभिधेहि । कृष्णः-हेतुसाध्ययोर्व्याप्तिप्रदर्शकं वाक्यमुदाहरणम् । “यो यो धूमवान् स वह्निमान् ; यथा महानस" इत्युदाहरणवाक्यम् । उदाहरणवाक्ये व्याप्तेदृष्टान्तोप्यन्तर्भवति । व्याप्तिविशिष्टहेतोः पक्ष- वृत्तित्वं बोधयद्वाक्यमुपनयः । तथा चायम्' इत्युपनयस्वरूपम् । तथा' इत्यस्य वह्निव्याप्यधूमवानित्यर्थकतया उपनयस्य ब्याप्ति- विशिष्टहेतुमत्पक्षबोधकता। हेतुसत्त्वात्साध्यविशिष्टः पक्ष इति प्रति पादयद्वाक्यं निगमनम् । तरसात्तथा " इति निगमनशरीरम् । वह्निव्याप्यधूमवत्त्वादयं वह्निमानिति तदर्थः । रामः-एतावता मया ज्ञातमनूद्यते -' पर्वतो वह्निमान् , धूमवत्त्वात् । योयो धूमवान् स वह्निमान् , यथा महानसः; तथा चाऽयम् , तस्मात्तथा ' इति समग्रस्य पश्चावयववाक्यस्य शरीरं स- म्पद्यत इति । कृष्णः-सम्यगेव गृहीतं सुहृदा । साधु । एतादृशवाक्य- प्रयोगजन्या चानुमितिः परार्थानुमितिरिति व्यवड़ियते । अनयैव रीत्या स्थलान्तरेष्वपि पश्चावयववाक्यं स्वयं रचनीयमिति दिक् । रामः-सखे ! किमस्ति कश्चन भेदो हेतूनाम् ? कृष्णः--हेतूनां तावद्व्याप्तिप्रयुक्तः प्रभेदस्त्रिविधो भवति । अन्वयव्यतिरेकी, केवलान्वयी, केवलव्यतिरेकी चेति त्रिविधा हेतवः। ।
चतुश्शास्त्रसारसुधायाम् धूमात्मको रामः - भवतैव सम्यग्विवरणं कर्तव्यम् । अन्यथा तु ने किमपि बुद्धिविषयो भवेत् । कृष्णः-विवृणोमि सखे ! । येषां हेतूनामन्वयव्याप्तिर्व्यति- रेकव्याप्तिश्च भवतः, ते अन्वयव्यतिरेकिणः, चह्नौ साध्ये हेतुरन्वयव्यतिरेकी भवति । रामः- यत्र धूमस्तत्राग्निः, यथा महानसे; यत्र वह्नये. भावस्तत्र धूमाभावो यथा महाहदे' इति द्विविधाया अपि व्याप्ते- स्तत्र सम्भवादेवमुक्तमिति ज्ञातं मया । उच्यतामुपरिष्टात् । कृष्णः-येषां हेतूनामन्वयव्याप्तिरस्ति, व्यतिरेकव्याप्तिः परं नास्ति, ते केवलान्वयिनः। यथा घटो वाच्यो ज्ञेयत्वादित्यत्र वाच्यत्वे साध्ये ज्ञेयत्वं केवलान्वयी हेतुः। रामः-तत्र हि ' यत्रयत्र ज्ञेयत्वं तत्रतत्र वाच्यत्वम् , यथा पटादौ' इत्यन्वयोदाहरणं सम्भवति । 'यत्र वाच्यत्वाभावः तत्र ज्ञेयत्वाभाव ' इति तु न सम्भवति । सर्वस्यापि वस्तुजातस्य वा- च्यत्वेन वाच्यत्वाभावस्य कुत्राप्यप्रसिद्धतया गगनकुसुमसोदरत्वात्। अतस्तत्र व्यतिरेकव्याप्तिर्नास्तीत्यवगतम् । उपरिष्टादुदीर्यताम् । कृष्णः-अत्रैव किञ्चिदवधेहि । वाच्यं ज्ञेयत्वादित्यत्र सा- ध्याभाव इव हेत्वभावोप्यप्रसिद्धः । परन्तु हेतोः केवलान्वयित्वं प्रति सर्वदा तन्नापेक्ष्यते । अतो घटो वाच्यो द्रव्यत्वादित्यादावपि साध्याभावाप्रसिद्धिमात्रेण हेतोः केवलान्वयित्वं सम्भवतीति विज्ञेयम् । रामः-अथ केवलव्यतिरेकिविषयः कथ्यताम् । कृष्णः येषां हेतूनां व्यतिरेकव्याप्तिरस्ति, अन्वयव्याप्तिस्तु नास्ति, ते केवलव्यरेकिणः । यथा-' पृथिवी जलादिसकलवस्तु- ३५ 'यस्मिन् तर्कशास्त्रसर्वस्वम् । भिन्ना, गन्धवत्त्वात् इत्यत्र गन्धवत्त्वं केवलव्यतिरेकि । रामः-" यत्र जलादिभेदाभावः तत्र गन्धाभावः, यथा जले' इति व्यतिरेकव्याप्तिस्तत्र सम्भवति । यत्र गन्धस्तत्र ज- लादिभेद' इति तु न संघटते । पृथिवीव्यतिरिक्तस्य कस्यचिद्गन्ध- वतो वस्तुनोऽसत्वात् दृष्टान्ताभावेन तादृशव्याप्तिग्रहासम्भवात् - इति गृहीतं मया । कृष्णः-अत्र चावधेहि । इदं पक्षव्यतिरिक्तस्यैव दृष्टान्त- त्वमित्यभिप्रायेण । यदि तु पक्षकदेशस्य घटादेदृष्टान्तत्वमनुमन्यते, तयंत्राप्यन्वयव्याप्तिस्सम्भवितुमर्हति खलु । अस्त्वेतत् । सखे ! पक्षसपक्षविपक्षानधिकृत्य सम्प्रति किमपि सारतमं वच्मि, निशमय। रामः-सखे ! प्रागेव प्रत्यपादि खलु भवता- वस्तुनि किश्चन वस्त्वन्तरमनुमीयते तत् पक्षसंज्ञ' मिति । कृष्णः-शृणु तावत् ; पक्षत्वं तावद्वहुधा निरुच्यते नैया- यिकैः। तत्र 'सन्दिग्धसाध्यवान् पक्ष' इत्येकं निर्वचनम् । पर्व- तादौ वह्नयनुमितेः पूर्व साध्यं सन्दिग्धमेवेति तस्य पक्षत्वोपपत्तिः। रामः - एतच्च पक्षत्वं क्वचिद्धटयितुं न शक्यत इति मन्ये । यत्र स्तनितेन मेघानुमितिर्भवति, तत्र साध्यसन्देहस्यवानुत्पत्तेः । कृष्णः-सत्यमेतत् । अत एव प्रकारान्तरेण पक्षत्वं निर्व- चनीयं भवति । 'सिद्धयभाववान् पक्ष' इति निर्वचनं स्वीक्रियते। यत्र साध्यनिश्चयो न जातः, स सिद्धयभाववानित्यनेन बोध्यते । तथाच स्तनितेन मेघानुमितिस्थलेपि अनुमितेः पूर्व सिद्धयभावस- चात् तत्रापि पक्षत्वं घटते । रामः-कचित्सत्यपि प्रकारान्तरेण साध्यनिश्चये पुनरपि स- त्यामनुमितीच्छायामनुमितिर्जायत इति तार्किकाणां प्रवाद इति श्रुत पूर्व मया; किमत्र तत्त्वम् - ३६ चतुश्शास्त्रसारसुधायाम् कृष्णः-सत्यमेतत् । * प्रत्यक्षपरिकलितमप्यर्थमनुमानेन बुभुत्सन्ते तर्करसिकाः" इति कस्यचित्तार्किकपरिबृढस्य सूक्तिमह- मपि सरामि । वहेर्दर्शनानन्तरमपि 'धूमेन वह्निमनुमिनुया ' मि. तीच्छा यदि जायते, तर्हि वह्नयनुमितिरुत्पद्यत इति सिद्धान्तः । अतः सिषाधयिषापि पक्षतां सम्पादयति । रामः- एवञ्च, यत्र सिषाधयिषासिद्ध्यभावयोरन्यतरद्वर्तते, सोयं पक्ष इति पर्यवसितं भवति खलु । कृष्णः-आम् । अनुमित्युद्देश्यत्वं पक्षत्वमित्यप्याचक्षते । 'पर्वतो वह्निमा' नित्यनुमितौ पर्वत उद्देश्यः; वहिर्विधेयः । तथाच पर्वतोद्देश्यकवाहिविधेयकानुमितिरिति तां ब्रुवन्ति । अस्तु। अथ सपक्षमधिकृत्य किञ्चिदभिधानि शृणु । यत्र साध्यं निश्चित स सपक्षः । यथा वह्नौ साध्ये महानसादिः । अन्वयव्याप्तौ सपक्षो दृष्टान्तभावं भजते । ' यत्र धूमस्तत्राग्निः, यथा महानसे' इति च तदमिलापेन स्पष्टमिदम् । रामः-यत्र साध्याभावो निर्णीतः स विपक्ष इति मन्ये । कृष्णः-तथैक; यथा वह्नौ साध्ये हृदादिः । रामः-सपक्षोऽन्वयव्याप्तौ दृष्टान्तभावं भजते यथा, तथा विपक्षो व्यतिरेकव्याप्तौ दृष्टान्तभावं भजत इति मन्ये । कृष्णः-तथैव । ' यत्र वह्निर्नास्ति, तत्र धूमोपि नास्ति यथा हृदे' इति व्यतिरेकव्याप्तेरभिलापः । रामः-किं सर्वेष्वप्यनुमानेषु पक्षसपक्षविपक्षास्सम्भवन्ति ? कृष्णः-न न । अन्वयव्यतिरेकिणि हेतौ पक्षस्सपक्षो वि- पक्ष इति त्रयोप्येते सम्भवन्ति । केवलान्वयिनि साध्याभावस्याप्र- सिद्धथा विपक्षी नास्ति, इतरौ स्तः । केवलव्यतिरेकिणि तु अनु- तर्कशास्त्रसर्वस्वम् । मितेः पूर्व साध्याप्रसिद्धया सपक्षो नास्ति, परौ स्त इति संक्षेपः । रामः-इतःपरं हेत्वाभासानधिकृत्य व्याहरतु तत्रभवान् । कृष्णः-व्याप्तिविशिष्टस्य हेतोः पक्षवृत्तित्वज्ञानादनुमितिरु- त्पद्यत इति प्रत्यपादि किल । वस्तुतो व्याप्तिपक्षवृत्तित्वाभ्यां रहि- तस्यापि हेतोस्तद्वत्ताभ्रमेण यद्यनुमितिर्जायते तर्हि सा न प्रमाण भ- वति । तथाविधानुमितिजनकश्च हेतुः हेत्वाभास इत्युच्यते । रामः-यतस्स आपातमात्रेण हेतुरिव भासते तत एव हे- त्वामास इति नामधेयमभूदिति मन्ये । कृष्णः-तथैव । एतादृशा हेतवः पञ्चधा विमक्ता नैया- यिकैः। अनेकान्तः, विरुद्धः, सत्प्रतिपक्षः, असिद्धः, बाधितः इति पञ्चविधा हेत्वाभासः। रामः-सव्यभिचार इति कश्चन हेत्वाभासो मया श्रुतचरः। स किं श्रीमता न प्रत्यपादि ? कृष्ण:-आदितः ' अनेकान्त ' इति मया प्रोक्तं खलु । - स्यैव सव्यभिचार इति नामान्तरम् । रामः-तथा वा ? प्रसीदतु भवान् । एषां लक्षणोदाहरणे श्रोतुमिच्छामि। कृष्णः-तत्र प्रथमस्यानेकान्तस्य हेतोः साधारणः, असा- धारणः, अनुपसंहारीति सन्ति त्रयोऽवान्तरभेदाः । राम:-तेषामपि विवरणं कामये। कृष्णः-साध्याभाववति वस्तुनि वर्तमानो हेतुस्साधारणो भवति । पर्वतो वह्निमान् ज्ञेयत्वादित्यादिकं तदुदाहरणम् । अत्र हेतुभूतं ज्ञेयत्वं वह्नयभाववति इदेपि वर्तत इति तस्य साधारणत्वम् । सर्वेषु सपक्षेष्वविद्यमानः पक्षमात्रवृत्तिर्हेतुरसाधारणः ; शब्दो नि- चतुश्शास्त्रसारसुधायाम् त्यश्शब्दत्वादिति तदुदाहरणम् । अत्र नित्यत्वं साध्यम् । तच गगनादौ निश्चितमिति गगनादयस्सपक्षाः । शब्दत्वात्मको हेतु- स्तेषु कुत्रापि न वर्तते । तस्य शब्दमात्रवृत्तित्वात् । अतस्तस्या साधारणत्वम् । रामः-तार्किकारशब्दस्याऽनित्यत्वं सिद्धान्तयन्ति; अत- स्तन्मते नित्यत्वसाधकहेतोर्दुष्टत्वमेवोपपादनीयम् । घटो नित्यो घटत्वादित्यादिकं तु निराक्षेपमुदाहरणं भवतीति मन्मतिः। कृष्णः-बुद्धिमानसि । युक्तमेवोक्तम् । रामः-सर्वेषु सपक्षेष्वविद्यमानः पक्षमात्रवृत्तिर्हेतुरसाधारण इति श्रीमता प्रतिपादितम् । वस्तुतः साध्यं यत्रास्ति तत्रावर्तमान- त्वमेवाऽसाधारणत्वमिति केचिदभिप्रयन्तीति शृणोमि । कृष्णः-सत्यमेतत् । केषाश्चिन्मते तथा भवति । तन्मते साध्यनिश्चयस्यानपेक्षणात् मूलोक्तमत इव असाधारणस्य कदाचिद्दो- पत्वं कदाचिददोषत्वं च न सम्भवति । तन्मते हि शब्दोऽनित्य- इशब्दत्वादिति सद्धतावपि पक्षे साध्यसंशये सति असाधारण्यं स्यात् । एतन्मते तन्नास्ति । रामः-अथ वित्रियतामनुपसंहारी । कृष्णः - यस्य हेतोरन्वयदृष्टान्तो व्यतिरेकदृष्टान्तश्च नास्ति, सोऽनुपसंहारी। यथा-सर्वमन्नित्यं प्रमेयत्वात् । अत्र सर्वस्यापि पक्षत्वात् व्याप्तिग्रहोपयोगी दृष्टान्तो न विद्यते । साधारणासाधा- रणानुपसंहारिषु त्रिष्वपि व्याप्तिज्ञानानुदयात् तद्विशिष्टहेतोः पक्षवृ- तित्वज्ञानमपि नोदेतीति अनुमितेरनुत्पत्तिर्वेदितव्या। रामः-अथ विरुद्धः कीदृशो नाम ?
तर्कशास्त्रसर्वस्वम् । ३९ यथा- कृष्णः-यत्र साध्यस्य व्याप्तिर्नास्तीत्येव न, प्रत्युत साध्या- भावस्य ब्याप्तिरस्ति च, स विरुद्धः। यथा-घटो नित्यः जन्य- त्वात् पटवत् । अत्र, यत्र जन्यत्वं तत्र नित्यत्वमिति न सम्भवती- त्येव न, प्रत्युत यत्र जन्यत्वंतत्र नित्यत्वाभाव इति व्याप्तिर्वर्तते च । रामः-एवञ्च, विरुद्धस्य साध्याभावग्राहकतया साक्षादेवा- नुमितिविरोधिता सुवचेति मन्ये । कृष्णः-तथैव कथयन्ति । अथ सत्प्रतिपक्षं निरूपयामि शुणु । यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः। -शब्दो नित्यः श्रावणत्वात् शब्दत्ववदित्युक्ते, शब्दोऽनित्यः जन्यत्वात् घटवदिति नित्यत्वाभावसाधकं हेत्वन्तरं जन्यत्वरूपं वर्तत इति प्रथमस्य हेतोस्सत्प्रतिपक्षता । अयमप्यनुमितिं साक्षादेव प्रतिबध्नाति । सन् प्रतिपक्षो यस्य' [स्वप्रतिभटहेत्वन्तरवान् ] इति व्युत्पत्त्या अन्वर्थ नाम मन्ये । प्रागुक्त विरुद्धापेक्षया अस्य भेदो दुरूह इति भाति । कृष्णः - कथं दुरूहः १ विरुद्ध साध्यसाधकत्वेनोपन्यस्तो हेतुरेव साध्याभावस्य साधकः । सत्प्रतिपक्षे तु हेत्वन्तरमिति भेद- स्सुगमो न किम् ? रामः-सत्यमेतत् । अवहितमिदानीम् । अथ निरूप्य- तामसिद्धः। कृष्णः-असिद्धस्त्रिधाः-आश्रयासिद्धः, स्वरूपासिद्धः, व्याप्यत्वासिद्धश्च । यस्य पक्ष एवाप्रसिद्धः, स आश्रयासिद्धः । ग- गनारविन्दं सुरभि-अरविन्दत्वादिति तदुदाहरणम् । अत्र गग- नारविन्दात्मक पक्ष एवाप्रसिद्धः । पक्षस्यैवाप्रसिद्धौ हेतोस्तवृत्ति- ४० चतुश्शास्त्रसारसुधायाम् त्वज्ञानं दुरापास्तमिति अमुष्य दुष्टत्वम् । रामः-अथ स्वरूपासिद्धिनिरूप्यताम् । कृष्णः-पक्षे हेतोरवर्तमानत्वं स्वरूपासिद्धिः। शब्दो गुण- चाक्षुषत्वादित्यत्र स्वरूपासिद्धिः । न हि शब्दश्चक्षुषा गृह्यते । अंतस्तस्य चाक्षुषत्वमेव नास्ति । अत्रापि हेतोः पक्षवृत्चित्वज्ञानं नोदेति । रामः-सखे ! अत्र किश्चिदनुयोक्तव्यं प्रतिभाति । न हि शब्दश्चक्षुषा गृह्यत इति कथमिदं सुवचम् ? आशीविषो हि चक्षुपैव खलु शब्दं गृहाति । चक्षुश्श्रवा इति हि नामापि तस्य । कृष्णः-बुद्धिमानसि । सर्पश्चक्षुश्श्रवा इत्यहमपि जाने। शब्दं चक्षुषैव गृह्णतोपि सर्पस्य शब्दग्रहणकाले परं चक्षुः श्रोत्रसंज्ञा भजत इति विद्धि । रूपग्रहणकाले तु चक्षुश्चक्षुरेव । शब्दग्रहणकाले तु श्रोत्रमेव तत् । रामः-अन्यत् किमप्युदाहरणमुक्तं चेत् का हानिः ? रूपं गुणः श्रावणत्वादित्यादिकमपि उदाहरणं भवितुमर्हति खलु । कृष्णः-सन्ति कामं परश्शतान्युदाहरणानि । उक्तोदाहरणे न कापि हानिरित्यवधेहि । रामः-व्याप्यत्वासिद्धो निरूप्यताम् । कृष्णः-व्यामेरभावो व्याप्यत्वाऽसिद्धिः। पर्वतो वह्निमान् नीलधूमादित्यादिकं तदुदाहरणम्। तत्र धूमे नीलत्वांशस्याऽनावश्य- कतया तद्रूपेण व्याप्यव्यापकभावो न स्वीकृतः। अत्रापि व्याप्ति- ज्ञानानुत्पत्त्या तद्विशिष्टहेतोः पक्षवृत्तित्वं न ग्रहीतुं शक्यम् । रामः-अथ बाधितो निरूप्यताम् ।
तर्कशास्त्रसर्वस्वम् । कृष्णः-यत्र पक्षे साध्याभावः प्रमाणान्तरेण निश्चेतुं श क्यते, स बाधितः। दो वह्निमान् धूमात् । वह्निश्शीतः द्रव्य- त्वात्-इत्यादिकं तदुदाहरणम् । इदे वसथभावः, वह्नौ शीतत्वा- भावश्च प्रत्यक्षेण ग्रहीतुं शक्यत इति तत्साधने बाधितत्वम् । अत्र च साध्याभावज्ञाने सति साध्यज्ञानानुदयात् साक्षादनुमितेः प्र- तिबन्धः । रामः-सखे ! एकस्मिन्नेव दुष्टोदाहरणे दोषान्तरमपि वर्तते यदि, तयोः पृथक्करणं व्यर्थमेव खलु । कृष्णः-किमाक्षिपति भवानिति स्पष्टं नावगम्यते । अभि- सन्धिमुद्घाटय । रामः-बाधितस्थले पक्षे हेतुरस्तिचेदनेकान्तः, नास्ति चेत् स्वरूपासिद्धः इति बाधितस्य पृथग्गणनं किमर्थमिति मम शङ्का। कृष्णः-अस्मिन् विषये मयैव किञ्चिदभिधित्सितमासीत् । अर्थात् त्वयैव प्रस्ताव उद्भावित इति सन्तुष्यामि । इदं पुनरिहावग- च्छ । एकत्र दुष्टोदाहरणे दोषान्तरमपि वर्तत इत्येतावता न तयोः पार्थक्यं विहन्यते । कचित्तेषामसङ्कीर्णस्योदाहरणस्य सम्भवश्वास्ति। साकर्यसम्भवेपि स्वरूपस्य भेदेन भेदाङ्गीकरणमावश्यकमेव भवति । रामः-असङ्घीणं बाधोदाहरणं सम्भवतिचेत् प्रदर्श्यताम् । अनायासत एव वीतशङ्को भवेयम् । कृष्णः- उत्पत्तिकाले घटो गन्धवान्-पृथिवीत्वात् ' इत्यत्र व्यभिचारस्वरूपासिद्धी न स्तः। बाधस्तु वर्तते । रामः-सत्यमेतत् । ' उत्पन्नं द्रव्यं क्षणमगुणं तिष्ठती' ति तार्किकाणां समय इति श्रुतंतावत् । .
चतुश्शास्त्रसारसुधाया कृष्ण:-कचित्पुनः पश्चाप्येते हेतुदोषास्सम्मिलन्ति । यथा वायुर्गन्धवान् स्नेहात्' इत्यत्र । स्नेहस्य गन्धाभाव- वति जले वर्तमानत्वाद्वयभिचारः। स्नेहस्य गन्धाभावसाधकत्वा- द्विरोधः । वायो गन्धाभावसाधकस्य वायुत्वादेर्हेत्वन्तरस्य सत्वात् सत्प्रतिपक्षता। वायौ स्नेहाभावादसिद्धिः। गन्धाभावाद्वाधश्च । एवमन्येषामपि पार्थक्यसायादिकं स्वयमालोच्य बोध्यमिति वि. स्तरभिया विरमामि। रामः ---सखे ! स्वल्पीयसी काचिदियमाशङ्का । स्नेहस्य गन्धाभाववति जले वर्तमानत्वाद्वयभिचारः' इत्युक्तं हि भवता । कथमिदमुपपद्यते ? जले गन्धोऽनुभूयत एव ननु । अभ्यषिञ्च- भरव्याघ्र प्रसन्जेन सुगन्धिना । सलिलेन " इति महर्षेरादिकवे- स्मुक्तिश्च सर्यते । एवं 'वायो गन्धाभावसाधकस्य सत्त्वात् सत्प्रतिपक्षता' इत्युक्तम् ; सुरभिर्वायु ' रित्यादिप्रयोगशतसत्त्वात् वायो गन्धानुभवाच्च नैतदपि युज्यते इति । कृष्णः-जलवाय्वोर्गन्धोपलब्धिः पृथिवीसम्पर्कात् ; न तु तयोस्स्वाभाविकगन्धवत्वादिति विद्धि । रामः-(विमृश्य ) उपपद्यते । एवमेतत् । कृष्णः- इतःपरमुपमितिं निरूपयामि, शृणु । प्रत्यक्षानु- मितिशाब्दबोधानामज्ञातवस्तुज्ञापकत्वं विद्यते । उपमितिस्तु न कि- चिदपूर्व वस्तु विषयीकरोति । किन्तु तस्याः पदशक्तिग्राहकत्वमे- वेति उपमितेरसाधारणं स्वरूपमेतत् । रामः-का नाम पदशक्तिः ? कृष्णः-अस्य पदस्य अयमर्थ इति सङ्केतः पदशक्तिः। सा च पदतदर्थयोस्सम्बन्धमात्रम् । व्याकरणवृद्धव्यवहारादयस्सन्ति, , तर्कशास्त्रसर्वस्वम् । 40 बहवश्शक्तिग्रहस्योपायाः। “ शक्तिग्रहं व्याकरणोपमानकोशाप्तवा- क्याद्वयवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सानिध्यतस्सिद्धप- दस्य वृद्धाः ॥” इति ह्यभ्यधायि । [ विवृतेः-व्याख्यानादि- त्यर्थः। सिद्धपदस्य-ज्ञातार्थकपदस्थेत्यर्थः । तेषु च शक्तिन- होपायेषु अन्यतममिदमुपमानं पृथक्प्रमाणतया परिगणितं नै- यायिकैः। रामः-वैशेषिकमते तु उपमानस्य शब्दस्य च पृथक्प्रमाणता नास्ति ; तयोरनुमानेन गतार्थत्वं ते वदन्ति । सांख्ययोगयोरपि नास्त्युपमानस्य पृथक्प्रमाणत्वमित्यवगतचरमेतन्मम। तदस्तु । उपमानं सादृश्यज्ञानमिति प्रागुक्तमास्ते । सम्प्रत्युपमित्युत्पत्तेः प. रिपाटी प्रदर्यताम् । कृष्णः-अस्ति गवयादिपदानां कश्चिदर्थ इति जानन् , इदन्तया तदजानानश्च अनीक्षितपूर्वगवयो ग्रामीणः पुरुषः कोपि आरण्यकस्य कस्यचिन्मुखात् ' गोसदृशो गवय ' इति वाक्यं निश- म्यावधारयति । ततो यदृच्छया कदाचित्काननं प्रविष्टस्तत्र गोस- दृशं जन्तुविशेषमालोकयति । तदानीमारण्यमुखादवधारितपूर्व वाक्यं मरनेतादृशावयवसंस्थानसहित एव जन्तुर्गवयपदवाच्य इति निश्चिनोति च। अयमेव निश्चय उपमितिरुच्यते । रामः-गोसदृशो गवय इति वाक्यमतिदेशवाक्यं वा ? कृष्णः-आम् । गोधर्मान् गवये अतिदिशति खलु तु- द्वाक्यम् । रामः--उपरिष्टादुच्यताम् । कृष्णः-उपमितिविषये विशेषतो नास्ति वक्तव्यम् । संग्र- हेणैवोपसंहरेयम् । अरण्यं गतस्य ग्रामीणस्य यत्सादृश्यदर्शनं तदुप ४४ चतुश्शास्त्रसारसुधायाम् मितौ करणम् । पूर्वावधृतवाक्यार्थस्य स्मरण व्यापारः । गवयो गव यपदवाच्य इति ज्ञानात्मिकोपमितिः फलम् । 'अयं गवयपदवा- च्य' इति तु नोपमितेः खरूपं भवितुमर्हति । तथा सति तस्य ग- वयान्तरे तदानीं शक्तिज्ञानानुद्यः प्रसज्येत । नचायमर्थोऽनुभवेन संवदतीति । रामः - उपमितिविषय उपसंहृत इव । इतःपरं शाब्दबोधम- धिकृत्य निगद्यताम् । कृष्णः-शब्दज्ञानं शाब्दबोधे करणम् । शक्तिलक्षणाभ्यां जायमाना पदार्थोपस्थितियापारः । परस्परान्वितविशिष्टवाक्यार्थ- बोधात्मकः शाब्दबोधः फलम् । पदज्ञानं तु करणं द्वारं तत्र प- दार्थधीः । शाब्दबोधः फलं तत्र शक्तिधीस्सहकारिणी ॥” इति कारिका। रामः-शक्तिर्नाम का? कृष्णः-अस्मात्पदादयमों बोद्धव्य इति सङ्केतश्शक्तिः । घटपदस्य कम्बुग्रीवादिमति व्यक्तिविशेषे शक्तिः । गोपदस्य सा- नालागूलादिमत्यां व्यक्त्याम् । रामः-शक्तिग्रहः कथं जायते ? कृष्णः-व्याकरणात् कोशात् वृद्धव्यवहारात् अन्यतच जा- यते शक्तिग्रहः । रामः-शक्तमिति शक्यमिति पदद्वयमस्ति खलु । कोऽर्थः ? कृष्णः-यत्पदं यमर्थ शक्त्या बोधयति, तत्तमिन् शक्तमि- त्युच्यते । सोऽर्थस्तस्य पदस्य शक्यः । रामः-लक्षणा नाम का?
तर्कशास्त्रसर्वस्वम् । कृष्णः-यत्र पुनर्वक्तृतात्पर्य मनुरुद्धथ शक्यार्थसम्बद्धः क- श्चिदन्योर्थः प्रतीयते, तत्र लक्षणा। तथा च शक्यसम्बन्धो लक्षणे- त्यायाति । यथा-'गङ्गयां घोष' इत्यादौ गङ्गापदस्य शवय- स्तत्प्रवाहः । वस्तुतस्तु तत्र न तात्पर्यम् । तत्सम्बन्धिनि गङ्गातीरे तात्पर्यम् । अतश्च गङ्गापदस्य गङ्गातीरे लक्षणा- इत्युच्यते । रामः-किमेतत् ? तरङ्गसम्मर्दप्रयुक्तघोषो गङ्गाप्रवाह एव खलु सम्भवितुमर्हति । शक्यार्थमुपेक्ष्य अन्यत्र धावनं व्यर्थ- मेव खलु। कृष्णः-हन्त भोः ! घोषो नाम शब्दकोलाहलविशेष इति त्वया गृहीतमिव । “ घोष अमीरपल्ली स्यात् " इत्यमरकोश सर तावत् । रामः-तथा वा ? प्रसीद नियमित्र लक्षणायाः किं बीज- मिति जिज्ञासे। कृष्णः-अन्वयानुपपत्तिर्लक्षणाबीजमिति वदन्ति । रामः - नैतदहं जाने सम्यगिव । वित्रियतां कृपया । कृष्णः-'गङ्गायां घोष' इत्यादावाभीरपल्लीरूपस्य घोष- पदार्थस्य गङ्गापदशक्ये प्रवाहे वृत्त्यसम्भवेन तत्रान्वयानुपपत्तिस- द्भावात् गङ्गापदस्य गङ्गातीरे लक्षणा कल्प्यते । एतादृशान्वयानु- पपत्तिरेव लक्षणाचीजमिति वदन्ति । रामः-अत्र मे काचन शङ्का जायते । 'यष्टीः प्रवेशय इत्यादौ दण्डवाचक्रयष्टिपदस्य दण्डधरे खलु लक्षणां कल्पयन्ति । अत्र अन्वयानुपपत्तिः कथं सुवचा ?। दण्डानां प्रवेशनकर्मत्वास- म्भवे सति हि अन्वयानुपपत्तिस्सुवचा स्यात् । दण्डानामपि प्रवे- शनकर्मत्वसम्भवेन तत्र दण्डधरे कल्प्यमानाया लक्षणाया अन्व- चतुश्शास्त्रसारसुधायाम् यानुपपत्तिरूपं बीजं न सम्भवितुमर्हति खलु इति । कृष्णः-विवेचनविचक्षणोसि भोः, सन्तुष्यामि । 'अन्वया- नुपपत्तिलक्षणावीजमिति वदन्ति ' इत्येव खलु मया प्रोक्तम् । भवदुद्घाटिता शङ्का युज्यत एव । कचिदेवान्वयानुपपत्तिर्लक्षणा- यीज भवितुमर्हति । सर्वत्रापि तात्पर्यानुपपत्तेरेव लक्षणाबीजत्वं यु- क्तरूपम् । रामः--युज्यत एतत् । तात्पर्यानुपपत्तिस्तु 'गङ्गायां घोष' इत्याद्यन्वयानुपपत्तिस्थलेपि जागर्तीति तस्यास्सार्वत्रिकत्वं सम्प्रति- पद्यत एव। कृष्णः-इदमवधेहि । तात्पर्य नाम वक्तु रिच्छा । तात्पर्य- ज्ञानं सर्वत्र शाब्दबोधे कारणम् । सैन्धवमानयेत्युक्ते भोजनप्रकरणे लवणस्य, यात्राप्रकरणे तुरगस्य च नियतो बोधस्तात्पर्यज्ञानमन्तरेण न निर्वहति । अतस्तादृशेषु बहुषु स्थलेष्वपेक्षितं तात्पर्यज्ञानं लाघ- वात् शाब्दबोधसामान्ये कारणमित्यभ्युपगमोपि न्याय्य एव । रामः- अथ व्यञ्जनामधिकृत्य न वक्तव्यं वा ? कृष्णः-व्यजना तु न शब्दव्यापारः । किंत्वनुमानेन लक्ष- णया च गतार्थेति तार्किकाणां मतम् । रामः-शाब्दबोधे सहकारितया कानिकान्यपेक्ष्यन्ते ? कृष्णः---आसत्तिः, योग्यता, आकाङ्क्षा, इत्येता अपि शाब्दबोधे सहकारितयाऽपेक्ष्यन्ते । रामः-आसत्तिनाम का ?। कृष्णः येषामर्थानामन्वयः-परस्परसम्बन्धः तात्पर्य विषयो भवति, तद्बोधकानां पदानामव्यवधानमेव आसत्तिरित्यभिधीयते। रामः--व्यवधानस्य का नाम प्रसक्तिः ?
तर्कशास्त्रसर्वस्वम् । ४७ - - , कृष्णः-शृणु तावत् । व्यवधानं नाम असाभिध्यम् । तच्च द्वधा सम्भवति । मध्ये पदान्तरप्रवेशात् , उच्चारणकालविलम्बाच्च । रामः-मध्ये पदान्तरप्रवेशादासत्तिभङ्गस्योदाहरणं प्रद- यताम् । कृष्णः-इदमपि मया प्रदर्शनीयं किम् ? ' गिरि(क्तमग्नि- मान् देवदत्तेन ' इत्यादिकं यथेच्छं सम्भवितुमर्हति । गिरिरग्नि- मान् , देवदत्तेन भुक्तम् इतितावद्वक्तुस्तात्पर्यम् । एवम्, प्रभाते गाम् ' इत्युक्त्वा मध्याह्ने 'आनय ' इत्युक्तेपि गवानयनविषयको बोधो न जायत इति कालविलम्बस्येदमुदाहरणम् । रामः-उच्चारणे विलस्बो व्यवधानं वा भवतु : पदार्थोप- स्थितावव्यवधान मेव शाब्दवोधायापेक्ष्यत इति कथनमुचितम् । कृष्णः-एवमप्याहुस्तार्किकाः। रामः-अथ योग्यता विवियताम् । कृष्णा-ययोरर्थयोस्सम्बन्धी विवक्ष्यते, तयोर्वस्तुतस्सम्ब- न्धसत्वं योग्यता। रामः-योग्यताया अभावे शाब्दबोधो नोत्पद्यते वा ? कृष्णः-नोत्पद्यत इत्येव तार्किका मन्यन्ते । यथा वह्निना सिञ्चतीत्यादौ । वह्निकरणकत्वं सेचने नास्तीति तत्र योग्यताया असत्त्वं विद्धि । तथा च मृगतृष्णाम्भसि सातः खपुष्पकृतशे- खरः । एष वन्ध्यासुतो याति शशशृङ्गधनुर्धरः ॥" इत्यादीनां तार्किकमते बोधकत्वमेव नास्ति । तदर्थानामप्रसिद्धतया तत्सम्ब- न्धस्य सुतरामभावात् । -" अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि" इति स्वीकुर्वन्तो योग्यतायाश्शाब्दबोधहेतुतां नाभिलषन्तीति द्योत- रामः ४८ चतुश्शास्त्रसारसुधाथाम् -- यितुमेव भवता ' तार्किकमते ' इति विशिष्य व्याड्रियत इति प्रति- पद्ये । अस्तु । अथ आकाङ्क्षा विव्रियताम् । कृष्णः-प्रकृतिप्रत्यययोस्समभिव्याहारविशेष एव आका- उक्षा । घटवृत्तिकर्मत्वमिति बोधं प्रति ‘घटम् , घटी, घटान् ' इत्यादीनामेव हेतुत्वम् । न तु विपरीततया ' अम् घट ' इत्यायु- चारणे तादृशो बोधस्समुदेति । एवं घटः कर्मत्वमिति पदाभ्यां घट- पदार्थकर्मत्वपदार्थयोरुपस्थितौ सत्यामपि पूर्वोक्तो बोधो न जायते। अतो घटवृत्ति कर्मत्वमिति बोधे घटपदाव्यवहितोत्तरद्वितीयाविभ- क्तिः कारणम् । एवं स्थलान्तरेष्वप्याकांक्षाया हेतुत्वं द्रष्टव्यम् । रामः-अथेदानीं तार्किकाणामभिमतां बोधरीतिमपि किञ्चि- द्विवृणोतु भवानित्यर्थये। कृष्णः-तथैव विवृणोमि । सति सम्भवे प्रथमान्तस्यैव शाब्दबोधे प्राधान्यमभ्युपगच्छन्ति तार्किकाः। न तु वैयाकरणा इव धात्वर्थस्य प्राधान्यम् । रामः-यत्र तु भावतिङन्तादिस्थले 'रामेण भूयते इत्यादौ प्रथमान्तं पदं नास्ति, तत्र किं कुर्वन्ति तार्किकाः ? कृष्णः-तत्रतावदगत्या धात्वर्थस्य प्राधान्यमङ्गीकृतं तैः। अत एव 'सति सम्भवे' इत्युक्तमादावेव मया । रामः-अस्तु । रामो गच्छतीति वाक्याद्यादृशो बोधस्ता. र्किकाणामभिमतः, सोयं वित्रियताम् । कृष्णः-शृणु सखे । गम्धातोरुत्तरदेशसंयोगानुकूलव्यापा रोऽर्थः। तिङः कर्तृत्वम् ; तच्च कृतिपर्यवसितम् अर्थः। व्यापा- रस्य जनकतासम्बन्धेन कृतावन्वयः। तिङो लट्त्वेन रूपेण वर्त- मानकालोप्यर्थः । स च कृतावाश्रयतयाऽन्वेति । तथाच उत्तरदेश- , ४१ तर्कशास्त्रसर्वस्वम् । संयोगानुकूलव्यापारजनक, वर्तमानकालवृत्ति, कृतिमान् रामः इति बोधः । व्यापारो देहचलनादिः, तज्जनिका कृतिरात्मवृत्तिः रामः-रथो गच्छतीत्यादिस्थलेषु न खलु कृतिस्सम्भवत्य- तने रथादौ । तत्र कथं बोधः ? कृष्णः सत्यम् । तत्र कृतेरसम्भवादाश्रयत्वे तिडो लक्षणां स्वीकुर्वन्ति । उत्तरदेशसंयोगानुकूलव्यापाराश्रयो रथ इत्येव भवति बोधः। रामः-रामः करोतीत्यादिस्थलेषु कृतेर्धातुनैवामिधानात् तत्रापि तिङः कृत्यर्थकत्वाभिधानं नोपपद्यते खलु । तर्हि तिङस्तत्र कोऽर्थः १ कृष्णः-आश्रयत्वमेव तिडो लक्ष्यार्थस्तत्र । कृत्याश्रयो राम इति शाब्दबोधः। रामः -रामो ग्रामं गच्छतीत्यादिषु सकर्मकस्थलेषुबोधरीति: कीदृशी? कृष्णः-तत्र ग्रामपदोत्तरद्वितीयाया वर्तित्वमर्थः । तस्य घात्वर्थसंयोगेऽन्वयः। तथा च, ग्रामवृत्तिसंयोगानुकूलव्यापारजन- कवर्तमानकालवृत्तिकृतिमान् राम इति बोधः। रामः-द्वितीयायाः कर्मत्वमर्थ इति श्रुतचरं मया। किम- न्यदुच्यते भवता? कृष्णः-द्वितीयाया यद्यपि कर्मत्वमर्थः । तथापि कर्मत्व- घटकानां पदार्थान्तराणामन्यतोलामावर्तित्वमेव फलितो द्वि- तीयार्थः।
बतुश्शास्त्रसारसुधायाम् रामः-रामेण गम्यते ग्राम इत्यत्र कथं बोधः ? कृष्णः --तत्र कृतिजन्यत्वं तृतीयार्थः। कर्मप्रत्ययसमभि- व्याहारे च धातुतो व्यापारजन्यं फलं प्रधानतया भासते। न तु फलानुकूलो व्यापारः। कर्मतिक आश्रयत्वमर्थः। तथा च राम- कृतिजन्यव्यापारजन्यसंयोगाश्रयो ग्राम इति बोधः । रामः-मध्ये कश्चन संशयो मम । गम्धातुरकर्मक इति धा- तुपाठादिषु पश्यामि । उपाध्यायाश्च तथैव शिक्षयन्ति । ग्रामं ग- च्छति राम इत्यादिप्रयोगपरामर्शे तु गमेस्सकर्मकताप्यस्तीत्यवग- म्यते । किमत्र तर्च इति । कृष्णः- इदमवधेहि । गम्धातोरुत्तरदेशसंयोगः, उत्तरदेश- संयोगानुकूलव्यापारश्चेत्युभयमर्थः। यत्र ह्यत्तरदेशसंयोगविवक्षा, तत्र सकर्मकता। यत्र चोत्तरदेशसंयोगानुकूलव्यापारमात्र विवक्षा, तत्र अकर्मकता । रामो ग्रामं जगामेति प्रयोगे उत्तरदेशसंयोगानुकू- लव्यापारमात्रविवक्षायां सत्या, अकर्मकत्वमेव ग्राह्यम् । ग्राममिति श्रूयमाणस्य कर्मपदस्य का गतिरिति चेत् , ग्राममुद्दिश्येत्येव त- त्रार्थः। तथा च कर्मत्वं गमने नान्वेति । रामो ग्रामं जगामेत्य- सिन्नेव प्रयोगे उत्तरदेशसंयोगरूपफलविवक्षा चेदस्ति, तदा ग्रामं प्रापदित्यादाविव सकर्मकता निराबाधा । अतश्च गमेरकर्मकत्वसक- र्मकत्वे वैवक्षिके भवतः। रामः-प्रसन्नोस्मि । उपरिष्टादुच्यतां वक्तव्यम् । कृष्णः-रामेण स्थीयत इत्यादौ धात्वर्थस्यैव प्राधान्येन भानाद्रामकृतिजन्यो गतिनिवृत्त्यनुकूलव्यापारोऽर्थः। रामः-रामो न गच्छतीत्यत्र कथम् ? , तर्कशास्त्र सर्वस्वम् । ५१ कृष्णः-तत्र नमोऽत्यन्ताभावोऽर्थः । तस्मिन् गमनानुकूल- कृतेः प्रतियोगितयाऽन्वयः। अभावस्याश्रयतासम्बन्धेन रामेऽन्व- यः। तथा च गमनजनककृत्यमाववान् राम इति बोधः । रामः-घटो न पट इत्यत्र तु ? कृष्णः-तत्र नमोऽन्योन्याभावोऽर्थः । तस्मिन् पटस्य प्रति- योगितयाऽन्वयः। अन्योन्याभावस्य घटे वृत्तितयाऽन्वयः। एवञ्च पटप्रतियोगिकान्योन्याभावाश्रयो घट इति भवति बोधः । रामः-बोधे नमर्थस्यैव प्राधान्यं न सम्भवति वा ? कृष्णः-सम्भवति कचित् । यथा भूतले न घट इत्यादौ । तत्र नजोऽत्यन्ताभावोऽर्थः । तस्मिन् प्रतियोगितया घटस्यान्वयः। भूतलपदोत्तरसप्तम्या वर्तित्वमर्थः । तथाच भूतलवृत्तिर्घटात्यन्ता- भाव इति नअर्थप्रधानो बोध इति विद्धि । सखे ! राम !, अथ प्रमाभ्रमसंशयानधिकृत्य तुभ्यं किश्चिदुपदेष्टुमिच्छामि । शृणु सा- वधानः। रामः--अवहितोमि । उपदिशतु महाभागः । कृष्णः-भूतलं घटवत्, पर्वतो वह्निमान् इत्यादिषु ज्ञानेषु त्रयोंशा अवश्यं विषयीभवन्ति । विशेष्यं विशेषणं तयोस्सम्बन्धश्च। भूतलं घटवदिति ज्ञाने भूतलं विशेष्यम् , घटो विशेषणम् । संयोगः सम्बन्धः। रामः-प्रकार इति विशेषणमिति च पर्यायो वा ? कृष्णः-आम् । विशेषणस्य प्रकार इति संज्ञान्तरमस्ति । तथाच भूतलं घटवदिति ज्ञानं भूतलविशेष्यकं घटप्रकारकं च भवति । रामः- अस्तु । उपरिष्टादभिधीयताम् ।
५२ चतुश्शास्त्रसारसुधायाम् दृष्ण:-येन सम्बन्धेन यद्वस्तु यस्मिन् विशेषणतया भा- सते, तेन सम्बन्धेन तद्वस्तु तत्र यदि वर्तते तर्हि तत् ज्ञानं प्रमा भवति । एवञ्च भूतले संयोगेन घटसद्धावदशायां भूतलं घटवदिति ज्ञानं प्रमा भवति । तदभावदशायां तज्ज्ञानं भ्रम इत्युच्यते । रामः-येन सम्बन्धेन यद्वस्तु यसिन् विशेषणतया भासते तेन सम्बन्धेन तद्वस्तु तत्र नास्तिचेत् तज्ज्ञानं भ्रम इति विव- क्षितं वा? कृष्णः- तथैव । शंखः पीत इति ज्ञानं भ्रमो भवति खलु । न हि शंखे प्रतीयमानं पीतरूपं तत्र वस्तुतो विद्यते । रामः-शुक्लरूपे शंखे पीतत्वबुद्धिः कथमिव जायते कृष्णः-पित्तादिदोषेण प्रत्यक्षं भ्रमरूपं भवति । हेत्वाभा- सेन जायमाना अनुमितिश्च भ्रमरूपा । शाब्दबोधःपुन राप्तवाक्या- जायमानः प्रमा भवति । अनाप्तवाक्यात्तु भ्रमः। वैदिकशब्दजातं. सर्वमेव प्रमां जनयति ; वेदस्य आप्तशिखामणिनेश्वरेण प्रोक्तत्वात्- इति तार्किकाणां मतम् । रामः-प्रमाभ्रमयोर्व्यपदेशान्तरमपि विद्यते वा ? कृष्णः--प्रमाया यथार्थज्ञानमिति, भ्रमस्याऽयथार्थज्ञानमिति च व्यपदेशान्तरं विद्यते । रामः-संशयमधिकृत्य व्याड्रियताम् । कृष्णः-एकस्मिन्नेव विशेष्ये यत्र भावाभावौ विशेषणतया भासेते तज्ज्ञानं संशय इति कथ्यते । भूतलं घटवद्वा नवा इति झानं संशयः। तत्र हि भूतले घटस्तदभावश्च विशेषणतया भासत इति । रामः-प्रियमहाभाग ! द्रव्याणां नित्यत्वानित्यत्वभेदः प्रा- तर्कशास्त्रसर्वस्वम् । ५३ मेव श्रीमता प्रत्यपादि। अवशिष्टोप्यवान्तरभेदः किश्चिदिदानी प्र- स्तूयताम् । कृष्णः-पृथिव्यादीनां चतुर्णा द्रव्याणां परमाणवो नित्या इति तत उत्पन्नानीतराणि सर्वाण्यपि द्रव्यजातान्यनित्यानीति च अत्यपादि किल । अनित्यस्य पृथिव्यादिचतुष्टयस्य शरीरमिन्द्रिय विषय इति त्रिविधो वर्तते भेदः। रामः-विवरणं प्रार्थये स्पष्टीभावाय । कृष्णा-असदादीनां शरीरं पृथिवीशरीरम् । नासाग्ने वर्त- मान गन्धज्ञाने सहकारि घ्राणं पार्थिवमिन्द्रियम् । अन्या सर्वापि पृथिवी जीवानां भोग्यभूता विषयश्च भवति । रामः-अस्माकं शरीरं पञ्चभिरपि भूतैर्जायते खलु । तर्हि पार्थिवमात्रं कथमभिधीयते ? कृष्णः-सत्यम् । पृथिव्यंशस्याधिकतया पार्थिवत्वव्यफ- देशः। एवं शरीरान्तराणामपि तत्तत्प्राचुर्यात्तत्तद्रूपता बोध्या। रामः-साधु । उपरिष्टादभिधीयताम् । कृष्णः-वरुणलोके विद्यमानानां देवविशेषाणां शरीरं जल- शरीरमिति वदन्ति । जिह्वाग्रे वर्तमानं रसग्रहणं जन्यच्च इन्द्रिय जलसम्वन्धीन्द्रियम् । इतरत्सर्व जलं विषयः। सूर्यलोके तैजसं श- रीरम् । रूपग्राहकं कनीनिकाग्रवर्ति नयनमिन्द्रियं तेजस्सम्बन्धि । अन्यत्तेजस्सर्व विषयः। पिशाचादीनां शरीरं वायवीयम्। स्पर्श अहणे कारणं सर्वशरीरव्यापिनी त्वक् । वायुसम्बन्धीन्द्रियम् । अ- त्यस्सर्वो वायुर्विषयः। शरीरान्तर्भागे तत्र तत्र व्याप्रियमाणानां वायूनामेव प्राणापानसंज्ञेति न तेषां पृथग्द्रव्यत्वमाशङ्कनीयम् । रामः-आकाशकालदिक्षु अवान्तरभेदः कथ्यताम् ।
५४ चतुश्शास्त्रसारसुधायाम् कृष्णः-आकाशकालदिशामेकत्वेन अवान्तरभेद एव नास्ति। रामः-वर्तमानकालादिव्यवहारः प्राचीप्रतीच्यादिव्यवहा- रश्च भवति खलु। कृष्ण:- भवत्येव । स च षटाकाशादिव्यवहारवदेव उपा- धिकृतत्वेन समर्थनीयः। रामः-युज्यते। आत्मानमधिकृत्य व्याहियताम् । कृष्णः-आत्मा द्विधा । जीवः परश्च । जीवः प्रतिशरीरं विभिन्नो भवतीति तस्याऽसंख्येयत्वमेव । परमात्मा तु सर्वज्ञस्स- र्वशक्त ईश्वराभिधान एक एव । मनश्च प्रतिशरीरं भिद्यत इति तस्याप्यसंख्यत्वम् । एकस्मिन् क्षणे बहूनां वस्तूनां ज्ञानं नोदेतीत्य- तो मनसोऽणुत्वं स्वीकुर्वन्ति । यदा मनो येनेन्द्रियेण सम्बध्यते तदा तेन केवलं ज्ञानं जन्यते नान्येनेति ज्ञानयोगपद्यस्याऽसम्भवः । रामः-शतावधानादिकरणे एकस्मिन् क्षणे सकलज्ञानमुत्प- द्यते खलु। कृष्णः-तत्रापि नैवैकस्मिन् क्षणे सकलज्ञानमुत्पद्यते । कि- न्तु झटितितमा ज्ञानोत्पत्या कालभेदस्यानुयलम्भमात्रमिति च स- माधानमुद्भाधयन्ति । रामः-परमाणुभ्यः पृथिव्यादीनां स्थूलवस्तूनां कथमु- त्पत्तिः? कृष्णः-प्राणिनामदृष्टवशेन भगवदिच्छया प्रेर्यमाणेषु पर- माणुषु क्रिया सञ्जायते । तदा परमाणुद्वयस्य संयोगे द्वयणुकमुत्प- द्यते । त्रयाणां दूयणुकानां सम्मेलनेन त्रयणुकमुत्पद्यते । एवं चतु- रणुयपञ्चाणुकादिक्रमेण स्थूला घटादयो निष्पद्यन्ते ।
तर्कशास्त्रसर्वस्वम् । रामः-एतेषु केषां केषां प्रत्यक्षविषयत्वम् ? केषां च न ? कृष्णः-परमाणुद्वर्थगुकं च न प्रत्यक्षयोग्यतां विन्देते । जयणुकं तु चक्षुषा ग्रहीतुं शक्येषु वस्तुषु तनिष्ठमिति च तार्किकाणां सिद्धान्तः। गवाक्षमार्गेण प्रविशति मार्तण्डमयूखे यत्सूक्ष्मतमं रेणु- शकलमुपलक्ष्यते तत् त्रययुकमिति संज्ञया व्यपदिश्यते । तच्च प- भिः परमाणुभिस्संघटितमिति तस्य षष्ठोंशः परमायरितिसमायाति। रामः-पूर्वमनुक्तान् अवश्यवक्तव्यांश्च गुणभेदानधिकृत्य वक्तव्यमित्यर्थये। कृष्णः-तथा हि शृणु तावत् । गुणेषु प्रथमं रूपं- शुक्लं नीलं पीतं रक्तं हरितं कपिशं चित्रमिति सप्तविधम् । पृथिव्यां सर्व रूपं वर्तते । जलतेजसोस्तु शुक्लमात्रम् । जले वर्तमानमभास्वरम् , तेजसि पुनर्भाखरं तदिति भेदः । रामः-भास्वर इत्युक्ते कोऽर्थः? कृष्णः-योऽन्यं प्रकाशयति, स भास्वरः । रामः-उपरिष्टादुच्यतां रसमधिकृत्य । कृष्णः-रसस्तु, मधुरः आम्लः लवणः कटुः कषायः तिक्त इति षोढा। पृथिव्यां सर्वोप्यस्ति रसः । जले तु मधुरो रस इति ता- र्किका वदन्ति । गन्धस्मुरभिरसुरभिश्चेति द्विधा । स च पृथिव्या- मेव वर्तते । रामः --पृथिव्यामेवेति सावधारणमभिदधता प्रियसुहृदा शङ्का काचिदुत्थाप्यते । सुगन्धि सलिलमिति प्रतीतिर्दुष्टा वा ? * अभ्यपिञ्चनरव्याघ्र-सलिलेन सुगन्धिना" इति वाल्मीकिZ- निवरोपि कथयति । सलिसस्यापि गन्धवत्त्वे शास्त्रतः प्रत्यक्षतश्च प्रतीयमाने पृथिव्यामेवेत्यवधारणं कथमुपपद्यत इति ।
चतुश्शास्त्रसारसुधायोमें कृष्णः-समाहितचरमेतत् । वस्त्वन्तरे गन्धप्रतीतिः पृथि- वीसंपर्कादेव जायत इति । रामः-युज्यते । अथ स्पर्शमधिकृत्योच्यताम् । कृष्णः-स्पर्शः-शीतः उष्णः अनुष्णाशीत इति त्रिधा । शी- तस्पर्शो जले । उष्णस्तेजसि । पृथिव्यां वायौ चानुष्णाशीतस्पर्शः। परिमाणं चतुर्विधम्-अणुत्वं महत्त्वम् इस्त्रत्वम् दीर्घत्वं चेति । इदं च सर्वेषु द्रव्येषु वर्तते । विभुषु विद्यमानस्य महत्त्वस्य परममहत्परिमाणमिति व्यपदेशश्च भवति । अथं प्रवृचिनिवृत्तिर्जीवनयोनिश्चेति यत्नस्त्रिविधो भवति । आद्यौ यथासंख्यं 'प्रवर्तते-निवर्तते ' इति प्रतीतिविषयौ । श्वा- सोच्छवासामुपयोगी परोक्षश्च जीवनयोनि म प्रयत्नः । संस्कारस्त्रिविधो भवति-वेगः स्थितस्थापक: भावना च । तत्र वेगः क्रियया जन्यते । स च मूर्तेषु सर्वेषु तिष्ठति । क्रियाशै- घयं प्रति स निमित्तं सम्पद्यते च । अन्यथाकृतस्य वृक्षशाखादे पूर्वावस्थासम्पादकः स्थितस्थापकः । स पृथिव्यामेव । अनुभवाज्जा यमानः स्मृति प्रत्युपयोगी च संस्कारो भावना। तस्याधिकरण मात्मैव। यज्जन्यं तदनित्यमिति सिद्धान्तात् गुणेषु यद्यज्जायमानं - श्यते तत्सर्वमनित्यम् । तथाच अवयवगुणादवयविनि जन्यमान- स्सर्वो गुणो नश्वरः । आश्रयस्य नाशाच गुणानां नाशो भवति । अतोऽनित्यद्रव्याश्रितानां सर्वेषामेवाश्रयनाशेनाऽनित्यत्वम् । रामः-पार्थिवपरमाणुगतानां रूपरसगन्धस्पर्शानां नित्यत्वं का अनित्यत्वं वा? कृष्णः--परमाणुषु पुनः पार्थिवेषु पाकेन रूपादिपरिवृत्तेः " इति। तर्कशास्त्रसर्वस्वम् । सीकारात् तद्गतानां रूपरसगन्धस्पर्शानामनित्यत्त्वमेव । जलतेजो. वायुपरमाणुवृत्तीनां तु रूपादीनां चतुर्णा नित्यत्वमेव । एवं तद्ग- तानां स्खेहद्रवत्वादीनामपि नित्यत्वम् । नित्यद्रव्येषु वर्तमाना एक- वसंख्या, परिमाणम् , पृथक्त्वमित्येतानि नित्यानि। परमात्म- वृत्तयो ज्ञावेच्छाइयो नित्याः । इतरे मुणा अनित्या इति नित्य- त्यानित्यत्वविवेकः । रामः-गुणेष्वेवं बिस्वत्वानित्यत्वभेदमन्तरेण किं नान्यः कोपि मेदो वर्तते ? कृष्णः--गुणेषु कतिपये विशेषगुणा इति कथ्यन्ते । यदाडु: रूपं गन्धो रसः स्पर्शः स्नेहस्सासिद्धिको द्रवः । बुद्धधादिभाव. नान्ताश्च शब्दो वैशेषिका गुणाः बुद्धयादिभावनान्ता" इत्येतद्विवियताम् । कुष्णः-बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारी इति यावत् । इतरे गुणास्सामान्यगुणा इति व्यवट्रियन्ते । तत्तद्र्ध्य- वृत्तीनां गुणानामियतया परिच्छेदकं प्राचां वचनं चेदमवधेहि- * वायोर्नवैकादश तेजसो गुणाः जलक्षितिप्राणभृतां चतुर्दश। दि- कालयोः पञ्च पडेन चाम्बरे महेश्वरेऽष्टौ मनसस्तथैव च ।। समः-सखे ! अहमतीव भाग्यशाली भवामि। भवानपि परमकारुणिकः । गहनतमान शास्त्रार्थान् अनायासेन बेदितुं मम भाग्यमभवत् । अकपटं बोधयितुं च भवतः करुणा समजनि । अ- तीव सन्तोषो मे भवति सम्प्रति । इतोऽपि यदस्ति वक्तव्यं तद्भवा- नेव कृपया प्रतिपादयतु। कृष्णः-सन्ति तार्किकैस्वीकृतेषु पदार्थेषु कतिपये लौकि- कानामगोचराः शास्त्रवासनया केवलं वेदनीयाश्च । घटस तडत्ति maduate चतुश्शासानसुधायाम ? रूपस्य च मित्रता, तयोः कमपि सम्बन्धं च न कोऽपि लौकिक: स्वयमनुभवेन जानाति । एवं सन्त्यन्येऽप्यंशाः साधारणानामनुम- बखाविषयाः। विशिष्य चायं विशेषपदार्थः शानभावनामात्रक- ल्पित इति विभावनीयम् । तमधिकृत्य किञ्चिद्धिवक्षितमस्ति मम । रामः---महाननुग्रहः । उच्यताम् । कृष्णः-घटादिद्रव्याणां परस्परं भेदो यद्यनुमित्स्यते, तदा तदवयव भेदेनैवानुमातुं शक्यते । एवं क्रमशस्सूक्ष्मद्रव्येष्ववतरणे 'एतत्त्रयणुकं तस्मात् अथणुकाद्भिाने , एतरायणकसमारब्ध- त्वात् । एतद्वयणुकं एनववगुकानि एतन्परमाणसमारब्ध- त्वात् ' इत्यन्तमनुमानपरम्परा प्रसनि । तर परनाणूनां भेदस्या- निश्चये एतत्परमः गुस्तम्परमाणुरिनि व्यवहारस्वानुदयेन कथं नाम रान्समारब्धत्वं हेतूकृत्य हृयणुकभेदस्याध्यताम् ? कथं च वा तदुपरितनानुमानानां प्रामाण्यं जायताम् ? अतः परमाशूनां भेदका कश्चन धर्म आवश्यकः । तस्यैव विशेष इति नाम कल्पितम् । रामः-म किमेक एव? उत भिन्नभिन्नः ? कृष्ण: -स च प्रत्येकं परमाणुषु भिन्नभिन्नः म्वीक्रियते। तस्य पुनरेतत्परमाणुवृत्तेतत्परमाणुवृतिन्वं भवति वा नवेति न श- ङ्कनीयम् । यतस्स स्वीक्रियमाणस्सन्नेव प्रत्येकवृत्तितया भिन्नभि- बतया च स्वीकृतः। रामः-विशेषोऽयं परमाणुध्देय केवलमस्ति किम् । कृष्ण:-अन्येष्वपि नित्यद्रव्येष्वात्ममनःप्रयतिधु वर्तते । नि- त्यद्रव्याणामसंख्येयतया विशेषाणामप्यसंख्येव वमिति च सिद्धान्त- सरणिविशेषमङ्गीकुर्वनाम् । विशेषाणां स्वत एवं यथा परस्परं भेद- स्वीक्रियते तथा नित्यद्रव्याणामेव भवन्विति विशेष गलहस्तयन्तो नवीनाश्शिष्येषु करुणामिवात्मनो युक्तिवश्यतामपि विशदयन्तीत्य- लमनया काकदन्तपरीक्षया।
। तर्कशास्त्रसर्वस्वम् । ५९ रामः-सखे । साधर्म्यमधिकृत्येदानीं श्रोतुमिच्छामि । दयख किञ्चित् । कृष्णः--वच्मि शृणु तावत् । अयमप्येक प्रकारः पदार्थ- व्युत्पादनस्य यत्तेपी साधर्म्यख कथनं गाम । बहुषु वैस्तुषु समान- तया विद्यमानम्नदिनाविधमानव धर्मः साधर्म्यमिति सङ्कीर्त्यते । रामः-उदाहाई प्रदर्शिताम् । कृष्ण -- पश्यतु भवान् द्रयाणा नद्यानां गुणवत्वं साधं-- म्यम् । गुणवत्वं नक्सु द्रव्येषु वर्तने । न चान्यस्मिन् वर्तत इति । एवं बहुषु स्थलेषु साधम्य दशयितुं शक्यते । रामः -- द्रव्यगुणकर्मणां त्रयाणां किं साधर्म्यम् ? कृष्णा-सत्तावलं तेषां साधयम् ; सना नाम काचन जांतिव्यादिषु त्रिषु वर्तत इति तार्किकैरङ्गीकृतत्वात् । रामः-सा किमस्सादृशानामनुभवविषयो न भवति ? कृष्णः-न भवन्येव । अस्ति ' 'सन्' इत्यादिप्रतीतेस्स- चारहितेष्वपि दर्शनेन सत्तायामनुभवाभावात् । रामः-गुणादीनां पण्णां कि साधर्म्यम् ? कृष्णः--गुणअन्यत्वं कियाशून्यत्वं च तेषां साधर्म्यम् । द्रव्याणां समवापिकार गन्न साधयम् ? रामः-पञ्चानां भूतानां किं साधर्म्यम् ? कृष्णः-सःचापे भूतपदवायेषु बहिरिन्द्रियेण गृह्यमाणः कश्चन विशेषगुणो वर्तत इति बहिरिन्द्रियग्रासनिशेषगुणवच्चं तेषां साधर्म्यम् । पृथिव्यां गन्धादेः, जले रतादेः, तेजस रूपादेः, पायौ स्पर्शस, गगने शब्दस्य च तत्तदहिरिन्द्रियगृह्यमाणस्य सत्वान् सा- धर्म्यमिदं सङ्गच्छते।
६० चतुश्शास्त्रसारसुधायाम तद्रव्याणां पञ्चाना क्रियावत्वम् , परत्वापरन्वे, वेगवस्त्र चेति साधर्याणि ! पृथिव्यादीनां चतुर्णा स्पर्शवत्वम् , त्रयाणां रू- पवत्त्वम् , पृथिर्व जलयाईयो रसवत्वञ्च समानो धर्मः। एवं वस्त्र- स्तराणामपि साधर्म्य स्वत एवोहतां भवता । रामः-वैधर्म्यमधिकृत्य किं न वक्तव्यम् ? कृष्णः-उत्तप्रायमेव तत् । यो धर्मो येषां समानो धर्म इ- खुक्तः स तदितरेप वैधय॑ च भवति । यदुक्तं यस्य साधयं वैयमितरस्य स्त्" इति कारिकां च विद्धि। तथा हि-गुण- वयं द्रव्याणां साधयेमित्युक्तम् । तदेव गुणादीनां वैधयं भ- वति । वैधयं नाम विरुद्धो धर्मः। अविद्यमान्छे धर्म इति यावत् । समानामपि पदार्थानां समानधर्मतया व्यवष्ट्रियमाणा ज्ञान विषय- स्वादयस्तु न कस्यापि वैधयं भवन्ति । तदितरस्य कस्यचिद- भावात् । रामः-सखे ! आवयोस्सम्भाषणमद्य विरमत्वेतावतेति म- न्ये । अथ. यदि केचन स्युरत्यावश्यका वेदितव्या विषयासर्कशाला- नुबन्धिनः, तान् सारग्राहं संगृहयोपदिश्य, उपसंहरतु तत्रभवान् । कृष्णः- सत्यं महान् कालो व्यतीतः। उपसंहरामि, शृणु तावदवहितः। धर्मस्य धर्मिणश्च पार्थक्येन मनस्वाकलनं तर्कशास्त्रस्य जीवितमर्वस्वमिति वक्तव्यं भवति । तयोः पार्थक्यमनबोधयितुं बहु- तरः प्रयासस्तार्किकैरास्थितश्चास्ति । अहनि तार्किकाणां निर्वचनानि पूर्वपक्षसिद्धान्तजालानि च धर्मधर्मिविवेकं विना काममशक्यावबो- धान्येव । अतत्त्र प्रत्येकमवधातव्यं जिज्ञासुविस्तर्कतचस्य। तार्किकाः किल लक्ष्ये लक्ष्यतां हेतौ हेतुतां साध्ये साध्यता च तत्तद्धमिव्यतिरिक्ता वदन्ति । यदा पृथिवी लक्ष्या भवति तदा तर्कशास्त्रसर्वस्वम् । पृथिव्यां लक्ष्यता नाम धर्मो विद्यते । धूमे हेतौ हेतुता नाम कथन धर्मोऽस्ति । एवं साध्ये वह्नो साध्यता नाम कश्चिदस्ति धर्मः। ए. तेषां च धर्माणां किञ्चिद्धर्मान्तरमवच्छेद्कमिति तेषां सङ्केतः । अवच्छेदको धर्मः प्रायेण अदच्छेद्यस्य नियामक इक मवति। अवच्छेदकधर्मो यत्र वर्तते तत्रैकावच्छेद्यस्यापि स्थितिस्तम्भवतीति तस्य नियामकत्वमथवा परिचायकन्वं वस्तुं शक्यते। गृथिव्यां वर्तमाना- या लक्ष्यताया अवच्छेदकं पृथिकीत्वम् । धमे विधमानाया हेतुताया धूमत्वमवच्छेदकम् । पृथिवीत्वेनावच्छिद्यमाना लक्ष्यता 'पृथिवीत्वा बच्छिन्ना इति कथ्यते । एवं धूमस्या हेतुता धूमस्वावच्छिन्ना। अवच्छेद्यापेक्षया न्यूनवृत्तित्त्वमधिकवृत्तित्वं वावच्छेदकध- स्सि नानुमन्यते । अतः पृथिवीवृत्तलक्ष्यताया न्यूनवृत्ति पटवं अधिकधि द्रव्यत्वं वा नावच्छेदकं भवति । एता- शावच्छेदकधर्माणां बहुधा निर्वचनोपयोगि वं च ति। तस्यैकमुदाहरणं प्रदश्यते । घामावा, घटत्वावच्छिन प्रतियोगिकाभावश्च मिन्नों भवतः। घटाभावो नाम घटप्रतियोगि- कोऽभावः । कसचन क्टस केवलं प्रतियोगिता तत्रापेक्ष्यते। घट- वापच्छिन्नप्रतियोगिकाभावे तु प्रतियोगिता सर्वघटवृत्तिर्भवति । अन्यथा घटत्वत्स तदवच्छेदकत्वमेव न निर्वहेत् । तथाच यस्य क- सापि घटस्थासत्वमात्रेत घटाभाववानिति व्यवहारो जायते । स- वस्याति घटस-घटसामान्यस्य अमच एव घटवावच्छिन्नप्रतियो- गिकाभावन्य व्यवहारः । 'घटो नास्ति' इति ज्ञाने चास्यैव वि- प्यत्वमिति न यत्किञ्चिद्धटाभाववति तादृशप्रतीतरुत्पत्तिः। एवं स्थ- लान्तरेषु खयमृद्यताम् ।
६२ चतुशास्त्र सारसुधाया हेतुवासाध्यताप्रतियोगिताकार्यताविषयताविशेष्यताप्रभृती- नां यथैव कश्चिद्धर्मोऽवच्छेदको भवति नया कश्चन सम्बन्धो- प्यवच्छेदकः परिगण्यते । संयोगसम्बन्धेन धूमस वलयनुमिती हेतुभावे सति हेतुता संयोगसम्बन्धावच्छिन्ना । एवं येन सम्बन्धन साध्यस्य पक्षवृत्तित्वमनुमीयते तदवच्छिन्ना साध्यता। संयोगेन घटो नास्तीति व्यवहारविषयसाभावस्य प्रतियोगिता संयोगसम्ब- न्धावच्छिमा। संम्बन्धस्याप्यवच्छेदकत्वस्वीकारेग 'संयोगेन घटो नास्ति' समवायेन घटो नास्ति' इति.प्रतीति वेषययोरभाषयोः पार्थक्यं निर्वहति ।। एवंविधेषु च हेतुतप्रभृतिषु धर्मषु यौ द्वः परस्परं सम्ध- न्धिनौ भवतः, तयोस्सम्बन्धस्य निरूप्यनिरूपकभाव इति संज्ञा कृता। कार्यता कारणता, आधारता आघयता, प्रतियोगिता अनुयोगिता, विशेष्यता विशेषणता-इत्यादिकम्यकस्य द्विकस्य मिथस्सम्बन्धी निरूप्यनिरूपकभाव इति निगद्यते । तथा च तन्तुनिष्ठकारणतायाः पदनिष्ठकार्यतायाश्च निरूप्यनिरूपकभावः सम्बन्धः । अतः तन्तुनि- कारणतानिरूपितकार्यतावान् पट इति शास्त्रे व्यवहारः। भूतले घटस्य विद्यमानतायां भूतलनिष्ठाधारतानिरूपिताधेयतावान् घटो भवति । घटस्थाभाव इति व्यवहारे घटनिष्ठप्रतियोगितानिरूपिता- नुयोगितावान् अमावो भवति । भूतलं घटवदितिज्ञाने भूतल वृत्ति- विशेष्यतानिरूपितविशेषणतावान् भवति घटः । एवं प्रातिलोम्येन 'पटनिष्ठकार्यतानिरूपितकारणतावान् तन्तुः' इत्यादिव्यवहारोऽपि सम्भवतीत्यवधेयम् । निरूप्यनिरूपकमावस्य वस्तुभेदकत्वमप्युदाहियते। शुक्ति- रजतयो: ' इमे शुक्तिरजते ' इति ज्ञानस्य, शुक्तिरनतयो ‘इमें तर्थशास्त्रसर्वस्वम् । रजतशुक्ती इति ज्ञानस्य च * परस्पर मेदः निरूप्यनिरूपकभाव- मेदादेवोपपादनीयः। प्रथमज्ञाने शुक्तित्ववत्रिष्ठविशेष्यतानिरूपि- तमुक्तित्वनिष्ठविशेषणता रजतत्ववत्रिष्ठविशेष्यतानिरूपितरजतत्वनि- ष्ठविशेषणता च स्तः । द्वितीयसिंस्तु शुक्तित्ववमिष्ठविशेष्यतानिरू- पिता विशेषणना न झुक्तित्वे, किन्तु रजतस्वे, रजतत्ववनिष्ठविशे- प्यतानिरूपिता विशेषणता च न रजतत्वे, किन्तु शक्तित्वे इति पू. वस्साझेदः । अन्यथा द्वयोरपि ज्ञानयोः शुक्तिरजते विशेष्ये, शुक्ति- स्वरजतत्वे च विशेषणे इति अभेद एवापद्येत । ययोर्वस्तुनोरेकस्मिन्नधिकरणे वर्तित्वं भवति ते समानाधिक- रणे इत्युच्यते । गन्धः पृथिवीत्वं च पृथिव्यां वर्तेते इति ते समाना- घिकरणे। ये वस्तुनी नैकसिनधिकरणे वर्तेते ते व्यधिकरणे । गन्धो जलत्वं च व्यधिकरणे। प्रतियोगी अभावश्च प्रायशो व्यधिकरणा- वेव भवतः। न हि पध्वति घटाभावो विद्यते । कचित्तु प्रतियोग्य भावौ समानाधिकरणौ सम्भवतः। एकसिनेव वृक्षे शाखायां क- पिसंयोगो मूले तदभावश्च विद्यते । एवं यस्य वस्तुनोभावेन सह सामानाधिकरण्यं भवति तद्वस्तु 'अव्याप्यवृचि' इति व्यपदि- श्यते । संयोगस्सर्वोऽप्यव्याप्यवृत्तिः। आत्मनि शीरान्तर्भागे ज्ञा- नमुत्पद्यते, न घटाद्यन्तर्भाग इति ज्ञानमच्याप्यवृत्ति। वृक्षे शाखायां कपिसंयोगो न मूले इत्यादिव्यवहारस्थले: शाखामुलयोः किमप्यव. * इमे शुक्तिरजते रजतशुक्ती इति च ज्ञान इदन्त्वावच्छिन्नविशेष्य- तानिरूपितशुति त्वरजतत्वप्रकारताविशिष्टम् । तत्र प्रथमज्ञाने बस्तुतःशुक्ति त्वविशेष्ये शुक्तित्वं रजतत्वविशेष्ये रजतत्वं चास्तिा द्वितीयस्मिन् तथा ना- स्तीति च द्योतयितुं शुक्तिरजतयो' रिवि सप्तम्यन्तस्य द्विःप्रयोगः । तु ज्ञाने सर्वोऽशोऽन्तर्भवति।
चतुश्शास्त्रसारसुधायाम् च्छेदकत्वं स्वीक्रियते । इदं चावच्छेदकत्वं सप्तम्यन्तबोध्य पूर्वोक्का- द्विलक्षणमेवः । सम्बन्धास्तावबुधा भवन्ति । संयोगः समवायः इत्यादिक. साक्षात्सम्बन्धे इत्युच्यते । संयुक्तसमयायः सामानाधिकरण्यमित्या. दिक परम्परासम्बन्ध इति कथ्यते । संयोगादीनां पदार्थाधिकरण- स्वातीतो कारणत्वमस्ति । संयोगेन घटसत्वे पटवद्धृतलमिति प्र- तीतिजननात् । एवमाषारत्वप्रतीतिहेक्वस्सम्बन्धा वृत्तिनियामका इत्युच्यन्ते । तदहेतवस्तु जन्यजनकभावाद यस्सम्बन्धा . ज्यनियामका भवन्ति । वृस्यनियामकस्य भावप्रतियोगितावच्छेदकत्वं नास्तीत्येके पदन्ति । उन्मते बनकतासम्बन्धावच्छिन्नघटाभावस्तन्तौ विद्यते इति व्यव. हारो न प्रामाणिकः । जनकतासम्बन्धावच्छिन्नघटाभावस्थाने घट- जनकस्वाभावमेव ते स्वीकुर्वन्ति । येन सम्बन्धन प्रतियोगी न कुत्रापि वर्तते तादृशसम्बन्धस्य प्रतियोगितावच्छेदकत्वे व्यधिकरणसम्बन्धावच्छिन्नाभाव इति व्यवहारः। संयोगेन गुणस्याभावः, समवायेन परमाणोरभावः त्यादिकं तदुदाहरणम् । न हि संयोगेन गुणः समवायेन परमाणु कुत्रविद्वर्तते । तथा च तादृशामावस्य सर्वत्र विद्यमानतया केवला- न्वयित्वं वदन्तीति संक्षेपः। ॥ अथैतदवधेहि ।। सार्किकाः पदार्थनिर्वचने लक्षणनिर्वचने च महत्पाटवं प्रद- शेयन्ति । तेषां निर्वचनस्य पद्धतिरपि किञ्चिदिह निबद्धयते । वस्तूनां विभजेनं नाम किमिति सर्वेषां यथाश्रुतग्राहिणामपि विदितमेव । द्रव्यगुणकर्मसामान्यविशेषसमवायाभावास्सप्त पदार्थाः, पृथिव्योजोवाय्वाकाशकालदिगात्ममनांसि नव द्रव्याणि इत्यादिकं तर्कशास्त्रसर्वस्वम् । विभजनमिति सर्वे जानन्ति । तथापि 'विभजनं' निर्दुष्ट वक्तुं के के अंशा अपेक्ष्यन्ते ? 'विभजनं ' नाम किम् ? इति नस्योत्तरं दातुं तार्किका एव शक्नुवन्ति । विभजनं नाम - सामान्यधर्मव्याप्य, परस्परासमानाधिकरण सर्वधर्मप्रकारकज्ञ नजनकशब्दप्रयोगः इति तेषां निर्वचनम् । सामा न्यधर्मापेक्षया न्यूनवृत्तयः, परस्परं व्यधिकरणाश्च यावन्तो विद्यन्ते धर्माः तावतां बोधाय प्रयुज्यमानं वाक्यमेव — विभजनं' भवति । पदार्थानां विभागे पदार्थत्वं सामान्यधर्मः, द्रव्यत्वगुणत्वादयस्त- द्वयाप्यधर्माः, ते च परस्परं भिन्नाधिकरणाः, सप्तैव च तादृशधर्मा विद्यन्त इति तावतां वोधकं वाक्यं विभजनं भवति । नाधिकं न वा न्यूनम् । द्रव्याणां विभागे द्रव्यत्वं सामान्यधर्मः, पृथिवीत्वा- दिका व्याप्यधर्माश्च भवन्ति । अथ लक्षणनिर्वचनम् ॥ गन्धवचं पृथिव्या लक्षणम् । तच समवायसम्बन्धेनेति वक्तव्यम् । अन्यथा कालस्य कालिकसम्बन्धेन सर्वाधारतया तत्रातिव्याप्तिस्स्यात् । समवायेन गन्धवत्त्वमपि क- चिन्न सङ्कटते ; उत्पत्तिद्वितीयक्षण एव यो घटो विनश्यति, तत्र गुणानुत्पत्त्या गन्धस्याभावात् । [उत्पन्नं द्रव्यं क्षणमगुणं तिष्ठतीलि हि तार्किकाः. ] अतः गन्धसमानाधिकणरजातिमत्त्वं पृथिव्या लक्ष- णमिति कल्प्यते । गन्धसमानाधिकरणा पृथिवीत्वजातिरुत्पन्नविन- टेऽपि वर्तत एव । एवमपि गन्धसमानाधिकरणां द्रव्यत्वजातिमा- दाय जले तिव्याप्तिः। अतो जातो द्रव्यत्वव्याप्यत्वं-द्रव्यत्वन्यूनवृत्तित्वं विशेषणं देयम् । न हि खस्य स्वापेक्षया न्यूनवृत्तित्वमिति स दोषः परिहृतः। तथा च गन्धसमानाधिकरणद्रव्यत्वव्याप्यजातिमचं पृथिव्या लक्षणं पर्यवस्यति ।
. तर्कशास्त्रसर्वस्वम् । व बहुमुखानि निर्वचनरत्नानि तार्किकग्रन्थखनिभ्यः स्वयं न्य गृह्यन्तामिति संसूचित्ता सरणिः । रामः-सखे ! तर्कशास्त्रे ज्ञातव्या विषया अनन्ता इव । तेषां सर्वेषामपि ग्रहणे धारणे च नास्ति मम पटुता । वेदान्तशास्त्र श्रमेणैव कालः क्षेप्तव्य इति संभृतोत्साहस्य मम महती तृप्तिरुदेत्ये तावद्भिरवगतैर्विषयैः । मया तत्रभवतो महान् परिश्रमस्समुत्पा- दित इति क्षन्तव्यमेतत् । सुचिरमहं तत्रभवति कृतज्ञो भूयासम् । कृपया स्वीक्रियतामयं मम साञ्जलिबन्धः प्रणामः॥ श्री रामकृष्णाभिधामाजोर्मित्रयोरुभयोमिथः । संवादरूपतस्तर्कशास्त्रसारः प्रकाशितः ॥ जगद्गुनन्तार्यवर्याधिपन- द्वयीनित्यसेवैकधन्यप्रणीते । चतुश्शास्त्रसारामृते तर्कसारा- ऽभिधानस्समाप्तोऽयमाद्यस्तरङ्गः ॥ अथ व्याकृतितन्त्रार्थसारसंग्रहरूपिणीम् । द्वितीयां लहरी बालबोधाय विलिखानि भोः॥ इति श्रीकाञ्ची प्रतिवादिभयङ्कराण्णगराचार्य विरचितायां चतुरशास्त्रसारसुधायाम् तर्कशास्त्रसर्वस्वं नाम प्रथमा लहरी समाप्ता॥ Sri Sudarsana Press. Conjeeveram.
No text on this page.