Central Archaeological Library_asi_new Delhi

The Tantraloka Of Abhinava Gupta Vol.i

Mukund Ram Shastri

PDF Proofread

Front matter

ESEN EHL- OF THE DIRECTOR Kashmir Series of Texts and Studies. 27 No. XXVII THE TANTRĀLOKA OF ABHINAVA GUPTA Vol. With Commentary by RĀJĀNAKA JAYARATHA Edited with notes by MAHĀMAHOPADHYAYA PANDIT MUKUND RĀM SHASTRI, Officer-in-Charge, Research Department, JAMMU AND KASHMIR STATE, SRINAGAR. Published under the authority of the Government of His Highness Lieut.-General Maharaja SIR PRATĀP SINGH SAHIB BAHADUR, G.C.S.L., G.C.I.E., K.G.C.B.E., LL.D., Maharaja of Jammu and Kashmir State. VOLUME I JAMMU Allababad : PRINTER ME INDIAN PRESS. OFFICE Library zeg ve27 NDIA PORT

श्रीमच्छीकण्ठनाथप्रभृतिगुरुवरादिष्टसन्नीतिमार्गा
लब्ध्वा यत्रैव सम्यक्पटिमनि घटनामीश्वराद्वैतवादः।
कश्मीरेभ्यः प्रसृत्य प्रकटपरिमलो रञ्जयन्सर्वदेश्यान्
देशेऽप्यस्मिन्नदृष्टो घुसृणविसरवत्स्तान्मुदे सजनानाम् ॥१॥
तरत तरसा संसाराब्धिं विधत्त परे पदे
पदमविचलं नित्यालोकप्रमोदसुनिर्भरे।
विमृशत शिवादिष्टाद्वैतावबोधसुधारसं
प्रसभविलसत्सद्युक्तमान्तःसमुत्प्लवदायिनम् ॥२॥

SAVESIVEHINETRISA
काश्मीर-संस्कृतप्रन्थावलिः।
ग्रन्याङ्क: २३
श्रीतन्त्रालोकः।
श्रीमन्महामाहेश्वराचार्यवर्य-श्रीमदभिनवगुप्ताचार्यविरचितः।
श्रीमन्महामाहेश्वराचार्य-श्रीजयरथकृतविवेकाभिख्यटीकोपेतः
श्रीभारतधर्ममार्तण्ड-कश्मीरमहाराज-श्रीप्रतापसिंहवरप्रतिष्ठापिते
प्रतविद्याप्रकाश- (रिसर्च ) कार्यालये
तदध्यक्ष-महामहोपाध्याय-पण्डित-मुकुन्दराम-शास्त्रिणा
उद्दिष्टकार्यालयस्थेतरपण्डितसहायेन
संगृह्म, संशोधन-पर्यायाङ्कन-विवरणादिसंस्करणोत्तरं
पाश्चात्यविद्वत्परिषसमताधुनिकसुगमशुद्धरीत्युपन्यासादिसंस्कारैः परिष्कृत्य
श्रीमयागपत्तने
इंडियनप्रेस-नानि मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीतः।
(प्रथमो भागः)
JAMMO
६
DEPARTH
SE KASHMIA
संवत् १९७५
खैस्ताब्दः १६१८
काश्मीर-श्रीनगर।
(अस्य अन्धस्य सर्वे प्रकाशन-मुद्रापणाधिकाराः प्रोक्तमहाराजवर्यैः
स्वायत्तीकृताः सन्ति)

२ श्रीतन्त्रालोकः। देहे विमुक्त एवास्मि श्रीमत्कल्याणवारिधेः। यस्य कारुण्यविभिः सद्गुरुं तं हृदि श्रये ॥२॥ मूर्युत्तंस इव क्षमापैः सर्वैर्यस्यानुशासनम् । हृदये भवसंभारकर्कशेऽप्याशु शिश्रिये ॥३॥ न ग्रन्थकारपदमाप्तुमथास्म्यपूर्व वाक्कौशलं च न निदर्शयितुं प्रवृत्तः। किं खेतदर्थपरिशीलनतो विकल्प: संस्कारवांश्च समियादिति वाञ्छितं नः ॥४॥ पं० १ ग० पु० एवास्मि यत्प्रसत्तीक्षणेक्षणात् । श्रीमत्कल्याणराजानं वन्दे तं जनकं गुरुम् ॥ इति पाठः। पं० २ ख० पु० श्रिये इति पाठः । एतचश्लोकानन्तरं ग० पु० श्लोकद्वयमाधिक्येन दृश्यते यथा शिवशासनागमरहस्यकोविदै- गुरुभिर्गभीरहृदयैर्दयोदयैः। करुणारुणा विदधिरे दृशस्तथा मयि दीनबन्धुभिरमोधभाषितैः ॥ यथा रहस्यसर्वस्वं मानसे मे शिवोदितम् । भाववासनया स्थानं कर्कशेऽप्याशु शिश्रिये ॥ युग्मम् इति । पं० ३ ० पु० मूनि तंस इव, ख० पु० उत्तंसमिवेति नपुंसकनिर्दिष्टः पाठः । पं०५ ग० माप्तुमनाप्तपूर्वमिति पाठः । पं० ६ ग० पु० स्वं कौशलं प्रथयितुं विबुधाः प्रवृत्ता, इति पाठः । पं०८ग० पु० वाञ्छितं मे इति पाठः ।

लो०१] प्रथमाह्निकम् । ३ .. तायाताः स्थिताः केचिदज्ञा मत्सरिणः परे । दिग्धाः केपि किं ब्रूयांश्रोतारो यदनागताः ॥५॥ दिनाकर्ण्य गूढार्थ स्वादु स्वाशयकौशलम् । कूतमुक्तमन्यैर्यत्तेन दोलायते मनः ॥६॥ प्रत्र मद्वागशक्तापि यन्नियन्त्रणमुल्लसेत् । त्पारमेश्वरं श्रीमन्महानन्दविजृम्भितम् ॥७॥ इह खलु शास्त्रादावलौकिकाशीर्वादमुखेन वक्ष्य- माणषडर्धशास्त्रार्थगर्भीकारेण समुचितेष्टदेवतां शास्त्र- कारः परामृशति विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः। तदुभययामलस्फुरितभावविसर्गमयं हृदयमनुत्तरामृतकुलं मम संस्फुरतात् ॥१॥ i० २ ख० पु० बयादिति पाठः ।

श्रीतन्त्रालोकः। 'मम' पात्मनो 'हृदयं जगदानन्दादिशब्दवाच्यं तथ्यं वस्तु, सम्यक् देहप्राणादिप्रमातृतासंस्कारन्य- कारपुरःसरसमावेशदशोल्लासेन दिक्कालायक- लिततया 'स्फुरतात्' कालत्रयावच्छेदशून्यत्वेन विकसतात्-इत्यर्थः । तच्च कीदृकू?-इत्युक्तं तदुभय' इति । तत्' श्राद्यार्धव्याख्यास्यमानं च तत् 'उभयं' तस्य 'यामलं -- तयोर्यद्यामलं रूपं स संघट्ट इति स्मृतः।' इति वक्ष्यमाणनीत्या शक्तिशक्तिमत्सामरस्यात्मा संघहः, ततः 'स्फुरितभावः' परानपेक्षत्वेन स्वत एवोल्लसितसत्ताको योऽसौ 'अत एव विसर्गोऽयमव्यक्तह-कलात्मकः ।' १ षण्णामानन्दभूमीनां य एकोऽनुसंधाता उदयास्तमयविहीनोऽन्तर्विश्रान्तिपर- मार्थरूपो जगदानन्दः । वक्ष्यति च ग्रन्थकार एवं उत्तरत्र यत्र कोऽपि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरत् । यदनाहृतसंवित्तिपरमामृतबंहितम् ।। यत्रास्ति भावनादीनां न मुख्या कापि संगतिः । तदेतज्जगदानन्दमसभ्यं शंभुरूचिवान् ॥ इति । पं० १ ग० पु० सामरस्यरूपः इति पाठः ।

श्लो०१] प्रथमाह्निकम्। इत्युक्त्या कुलाकुलोभयच्छटात्मकहकारार्धाधरूपो 'विसर्गो बहिरुल्लिलसिषास्वभावः स प्रकृतिर्यस्य तत्; अत एवाह 'अनुत्तरामृतकुलम्' इति । 'अनुत्तरं कतिपयकालदायकार्यमृतान्तरवैलक्षण्यात् उत्कृष्टं च तत् । 'यत्रास्ति न भयं किंचिन जरा व्याधयोऽपि वा। न विघ्ना न च वै मृत्युन कालः कलयेञ्च तम् ।' इत्यकालकलितत्वात् अविद्यमानं मृतं यत्र तत् 'कुलं शरीरं यस्य तत् अमाख्यकलास्वरूपम्-इत्यर्थः । तदुक्तम् 'कला सप्तदशी यासावमृताकाररूपिणी ।' इति । किं च तदुभयम् ?-इत्याह 'जननी जनकश्च' इति। कीदृशी जननी ? 'विमलकलाश्रया' इति । विगता'मला' अवच्छेदका यस्यास्तादृशी या 'कला' परविमर्शकस्वभावकर्तृतालक्षणा, सा'पाश्रय' आल- म्बनं स्वरूपं यस्याः सा शुद्धस्वातन्त्र्यशक्ति- रूपा-इत्यर्थः। पं०१० पु. हकारार्धरूप इति पाठः । पं० २ क० पु० यत्र तत् इति पाठः।

६ श्रीतन्त्रालोकः। अत एव 'अभिनवायाम्' आद्यायां 'सृष्टौ' शुद्धा- ध्वमार्गे 'शुद्धऽध्वनि शिवः कर्ता, ....।' इति नीत्या शिवस्यैव तत्र साक्षात्कारित्वात् 'मह' पारिपूर्यलक्षणं तेजःस्फारो यस्याः सा-इत्युक्तम् । इहाद्वयनये हि भगवानेव स्वस्वातन्त्र्यमाहात्म्यात् आभासमात्रसारतया स्वाव्यतिरिक्तमपि व्यति- रिक्तत्वेनेवजगत् श्राभासयति, इत्यनन्यापेक्षिणः स्वातन्त्र्यस्यैव जगचित्र्यनिमित्तत्वमुक्तम्, अविद्या- वासनादीनां भेदाभेदविकल्पोपहतत्वात् जगद्वैचित्र्य- निमित्तत्वाभिधानानुपपत्तेः; अत एव भगवतश्चिदा- द्यनन्तशक्तिसंभवेऽपि तत्स्फुरणमात्रत्वात् तासां तस्या एव प्राधान्यात् इहाभिधानम् । यद्वक्ष्यति 'तेन स्वातन्त्र्यशक्तयैव युक्त इत्याञ्जसो विधिः।' इति । जनकश्च कीहक् ?-इत्युक्तं 'भरिततनुः' इति । 'भरिता' सर्वाकाङ्क्षासंक्षयात् पारिपूण्येन श्लो-१] प्रथमाह्निकम् । पूरिता 'तनुः' स्वभावो यस्य सः, अनन्योन्मुखतया स्वतन्त्रः-इति यावत् । अत एव 'पञ्चभिः चिदानन्दे- च्छाज्ञानक्रियात्मभिः 'मुखैः .शैवी मुखमिहोच्यते।' इत्युक्त्या शक्तिभिः 'गुप्ता' परिपूरिता प्रबन्धेना- नुवर्तमाना 'रुचिः' अभिलाषो विशेषानुपादानात् कृत्यपञ्चकविषयो यस्यासो,सदैव पञ्चविधकृत्यकारी- इत्यर्थः । तदुक्तम् 'सृष्टिसंहारकर्तारं विलयस्थितिकारकम् । अनुग्रहकरं देवं प्रणतातिविनाशनम् ॥' इति । तदेवम् अत्र विसर्गप्रसरस्वभावत्वेन जग- द्वैचित्र्यबीजभूतं शिवशक्तिसंघट्टात्मकपरात्रिकशब्द- वाच्यम् अनाख्यात्मकं विघ्नौघप्रध्वंसाय परामृष्टम् । तदुक्तम् 'तत्रापि शक्तना सहितः स्वात्ममय्या महेश्वरः। यदा संघट्टमासाद्य समापत्तिं परां वजेत् ॥ पं० ७ क० पु० पञ्चविशेष इति पाठः । पं० १५० पु० तत्रापि मर्त्यरहितः स्वात्मशक्तया महेश्वरः इति, ख० पु० तत्रापि शक्त्या रहितः इति मौलिकः पाठः प्रथमोपन्यस्त आसीत् इति संदृश्यते ।

श्रीतन्त्रालोकः। तदास्य परमं वक्त्रं विसर्गप्रसरास्पदम् । अनुत्तरविकासोधज्जगदानन्दसुन्दरम् ॥ भाविवक्त्राविभागेन बीजं सर्वस्य संस्थितम् । हृत्स्पन्दोद्यत्परालारनिर्नामोादि तन्मतम् ॥ एतत्परं त्रिकं सूक्ष्मं सर्वशक्तविभागवत् ।' इति। अथ च 'हृदयं 'हृदयं शक्तिसूत्रं तु .........।' इत्यायुक्त्या श्रीसृष्टिकाल्याद्यखिलशक्तिचक्रासूत्र- णेन प्रस्फुरद्रूपं श्रीकालसंकर्षणीधाम 'संस्फु- रतात् तादात्म्येनैकः स्याम्-इत्यर्थः। तच्च कीदृशम्?- इत्युक्तम् 'अनुत्तरामृतकुलम्' इति । सृष्ट्यादीनाम- त्रैव लयाद् अविद्यमानम् उत्तरम् अन्यत् यस्मात् श्रत एव 'अमृतं स्वात्मचमत्कारमात्रपरमार्थम् , अत एव च 'कुलं - ॥ पं० २ ख० पु० अनुत्तरविकासांशुजगदिति पाठः । पं० ३ ख० पु० वक्त्रादिभागेनेति पाठः । पं० ४ ख० पु० हृत्स्पन्दो दृक्परासारमूर्तिनि मतन्मयम्, इति पाठः । पं० ६ ख० पु० सृष्टिकालायखिलशक्तिचक्रासूत्रेणेति पाठः । पं० १९ख० पु० तदैकाम्येन एक इति पाठः ।

श्लो०१]
प्रथमाहिकम् ।
...।'
'कुलं पदमनामाख्यं.
इत्यनाख्यरूपम्-इत्यर्थः । अन्यच्च कीहक् ?-इत्या
ह 'तदुभय' इति। तच्च तत् व्याख्यास्यमानं सृष्टिसंहा-
रात्मकम् 'उभयं तस्य 'यामलं' लोलीभावः, ततः
'चक्रद्वयेऽन्तः कचति लोलीभूता परा स्थितिः।'
इति । तथा
'प्रभवाप्यययोरन्तर्लोलीभावात्क्रमोऽवताराख्यः।'
इत्यादिनीत्या स्फुरितसत्ताकः स्थित्यात्मा विविधः
सर्गस्तन्मयम् । परैव हि अनाख्या भगवती संवित्
स्वस्वातन्त्र्यात् स्वात्मनि सृष्ट्यादि अवभासयति
विलाययति च-इत्यभिप्रायः । यदुक्तम्
'यस्य नित्योदिता होकामासा कालक्षयंकरी।
राजते हृदयाम्भोजविकासिगगनोदरे॥
ष्टिस्थित्युपसंहाररूपा तद्भरणे रता।'
पं० १ ख० पु० कुलाकुलं पदमनामकमिति पाठः।
पं०२ क. पु० इत्यनामा ख्यरूपमिति पाठः ।
पं०१० ख० पु. विलापयतीति पाठः।
२

श्रीतन्त्रालोकः। इति । तच्छब्दपरामृष्टमुभयं व्याचष्टे 'जननी जनकश्च' इति । जनयति विश्वम्-इति 'जननी' परा पारमेश्वरी सृष्ट्यादिचक्राद्या, सा च शुद्धबोधमात्र- स्वभावत्वात् 'विमला' येयम् आदिभूता चान्द्रमसी 'कला' सा 'श्राश्रयः पालम्बनं गतिर्यस्याः सा, सक- लजगदाप्यायकारिपरामृतमयी-इत्यर्थः। तदुक्तम् 'ऊर्वे तु संस्थिता सृष्टिः परमानन्दरूपिणी । पीयूषवृष्टिं वर्षन्ती बैन्दवी परमा कला ॥' इति । तथा 'ऊर्वे स्थिता चन्द्रकला च शान्ता पूर्णामृतानन्दरसेन देवी।' इति । अत एव 'अभिनवायां' 'सदा सृष्टिविनोदाय............।' इत्यादिनीत्या सदा द्योतमानायां 'सृष्टौ बहीरूप- तायां स्वातन्ल्यलक्षणं 'मह तेजो यस्याः सा-इत्यु- क्तम्। जनयति भावसंहारम्-इति 'जनकः अभिरूपः पं० ३ ख० पु० पारमेश्वरी सृष्टिचक्रः सा चेति इयानेव पाठः । पं०१४ क. पु० सदा द्योतनायामिति, ख० ग० पु० सदातनायामिति पाठः।

श्लो०१] प्रथमाह्निकम् । ११ परःप्रमाता, सच 'पञ्चाना वामेश्यादिवाहशक्तीनां 'मुखैः' चक्षुरादीन्द्रियवृत्तिरूपैारैः 'येन येनाक्षमार्गेण यो योऽर्थः प्रतिभासते। स्वावष्टम्भबलाद्योगी तद्गतस्तन्मयो भवेत् ।। इत्यादिनीत्या तत्तद्विषयाहरणेन 'गुप्ता' स्वा- वष्टम्भबलेन परिरक्षिता रुचिः दीप्तिर्यस्यासौ, नि- खिलभावप्रसिष्णुतया समुद्दीपितपरप्रमातृभावः- इत्यर्थः । अत एव 'भरिततनुः तत्तद्भावसंचर्वणेन निराकाङ्क्षतोत्पादात् स्वात्ममात्रविश्रान्त्या पूर्णः- इत्यर्थः। तदेवम् अत्र ग्रन्थकृता सृष्ट्यादिक्रमत्रयरूप- तामवभासयन्त्यपि तदतिवर्तनेन परिस्फुरन्ती क्रमा- क्रमवपुः परैव अनाख्या पारमेश्वरी संवित् परा- मृष्टा, इत्युक्तं स्यात् । यदुक्तमस्मत्परमेष्ठिगुरुभिः 'क्रमत्रयसमाश्रयव्यतिकरण या संततं क्रमत्रितयलङ्घनं विदधती विभात्युश्चकैः । क्रमैकवपुरक्रमप्रकृतिरेव या द्योतते करोमि हदि तामहं भगवती परां संविदम् ॥' पं० १ ख. पु० वामेशादिवाहनशक्तीनामिति पाठः। पं० १३० पु. अस्मद्गुरुभिरिति पाठः ।

१२ श्रीतन्त्रालोकः। इति । अथ च 'हृदयं निजबलसमुद्भूतिलक्षणं तत्त्वं विशेषानुपादानात् सर्वस्य सम्यक् प्रख्योपाख्यारोहण 'स्फुरतात्' विकसतात्-इत्यर्थः । तच्च कीहक ? 'तदुभय' इति । तत् श्राद्यार्धव्याख्यास्यमानं माता- पितृलक्षणम् 'उभयं तस्य यत् 'यामलम्' आद्यया- गाधिरूढं मिथुनं, तस्य परस्परौन्मुख्येन चमत्कार- तारतम्ययोगात् 'स्फुरितः सोल्लासो योऽसौ भावः' आशयविशेषः, तेन यो विसर्गः क्षेपः कुण्डगोला- ख्यद्रव्यविशेषनिःष्यन्दः, स प्रकृतिर्यस्य तत् ; श्रत एव च 'अनुत्तरे' श्वेतारुणात्मदेवतामयताद्यनुसंधा- नेन पशुशुक्रशोणितवैलक्षण्यादुत्कृष्टे 'अमृते सारे कुलमुत्पत्तिगोचरः।' इत्युक्त्या 'कुलम्' आकारो यस्य तत् । किं तदुभयम् -इत्याह 'जननी जनकश्च इति। कीदृशी पं० २ ख० पु० लक्षणं सतत्वमिति पाठः । पं० ४ क० ख० पु० तञ्च तदाद्यार्धति कीहक-तदुभयेति' वाक्यद्वयहीनश्च पाठः । पं० ६ क० पु० आश्रयविशेषस्तेन विमलो यो विसर्ग इति, कुण्डगोलकाख्यो द्रव्येति चपाठः। पं० १२ क० पु० वैलक्षण्याद्युत्कृष्टे इति पाठः । पं० १३ ख० पु० कुल उत्पत्तिगोचरे इति पाठः ।

श्लो०१] प्रथमाह्निकम् । जननी? 'विमलकलाश्रया' इति । विमला' इति वर्णकला 'श्राश्रयः आलम्बनं यस्याः सा, विमल- कलाभिधाना-इत्यर्थः । तथा 'अभिनवसृष्टिमहा' इति । 'अभिनवस्य' श्रीमदभिनवगुप्तस्य 'सृष्टिः' जन्म सैव 'नन्दन्ति पितरस्तस्य नन्दन्ति च पितामहाः। अद्य माहेश्वरो जातः सोऽस्मान्संतारयिष्यति ॥' इत्याद्युक्तेः सत्पुत्रप्रसवेन कृतकृत्यतया चमत्का- रातिशयकारित्वेन 'महः उत्सवो यस्याःसा तथा। तथा जनकश्च कीदृशः ? 'पञ्चमुखगुप्तरुचिः' । 'पञ्च- मुखः सिंहः, सिंहगुप्तति संज्ञया 'रुचिः' दीप्तिः सर्वत्र प्रथा यस्यासौ 'तस्यात्मजश्चुखुलकेति जने प्रसिद्ध- श्चन्द्रावदातधिषणो नरसिंहगुप्तः ।' पं० २ क० पु० वर्णकलास्वरूप आश्रय इति पाठः । पं० ६ क० पु० चमत्कारत्वेनेति इयानेव पाठः ।

श्रीतन्त्रालोकः। इति वक्ष्यमाणदृशा नरसिंहगुप्तसंज्ञया ख्यातः- इत्यर्थः । अस्य हि ग्रन्थकृतः श्रीनरसिंहगुप्तविमला- ख्यौ पितरौ,-इति गुरवः। 'सन्ति [न्तो] हि पदेषु पदैकदेशान्प्रयुञ्जानाः।' इति नीत्या 'भीमो भीमसेनः' इतिवत् अत्रापि नर- सिंहगुप्तसिंहगुप्तपदयोः प्रयोगः । 'भरिततनुः' इति 'शिवशक्तात्मकं रूपं भावयेञ्च परस्परम् । न कुर्यान्मानवी बुद्धिं रागमोहादिसंयुताम् ।। शानभावनया सर्व कर्तव्यं साधकोत्तमः।' इत्यायुक्तनीत्या द्वयोरपि शिवशक्तिसमावेशमयत्वा- भिधानस्येष्टेः काकाक्षिन्यायेन योज्यम् । तदेवम् एवंविधसिद्धयोगिनीप्रायपितृमेलकसमुत्थतया 'ताङ्मेलककलिका- कलिततनुर्यो भवेद् गर्ने। उक्तः स योगिनीभूः स्वयमेव शानभाजनं भक्तः ॥'

श्लो०१] प्रथमाह्निकम्। इत्युक्तनीत्या स्वात्मान निरुत्तरपदाद्वयज्ञानपा- त्रतामभिदधता ग्रन्थकृता निखिलषडर्धशास्त्रसार- संग्रहभूतग्रन्थकरणेऽप्यधिकारः कटाक्षीकृतः । अत्र च संभवन्त्यपि व्याख्यान्तराणि न कृतानि, ग्रन्थ- गौरवभयात् प्रकृतानुपयोगाच्च । केषांचिदपि व्याख्या- न्तराणामासमञ्जस्यमतीव संभवदपि न प्रकाशितम् । एवं हि .तस्यै हेतुं न चाचरेत् । इति वक्ष्यमाणदृशा स्वात्मनि समयलोपावह महात्मनाम् महागुरूणां निन्दाबीजमासूत्रितम् ,- २ हेतुः आक्षेपः। ३ समयलोपावहम् अचारभ्रष्टतासंपादकम् । महागुरूणं निन्दा- बीजमिति, इत्थं हि केचिदत्र मन्दधियः समर्थयन्ते,-विमलकला विगताः सर्वकलङ्कमला यस्यां सा षोडशी कलात्मिका तिथिः, अर्था दमावास्याख्या, सैव अभिनवसृष्टिः पञ्चदशकलासृष्टिः, तत्र सोद्योगा तथा भरिततनुश्च । पञ्चमुखगुप्तरुचिरिति, दिनं पञ्चयामकं रात्रि- स्त्रियामा इत्याश्रित्य पञ्चमुखं दिनं तत्र गुप्तरुचिरीक्षिताभिलाषः अमावस्यादिनप्रारम्भ इत्यर्थः। निन्दाबीजमिति सविचिकित्लज्योतिष- शास्त्रहशा, न तु अनुत्तरदृशा, तत्र अमावस्यादिनप्रारम्भयोरवश्यं रक्ष- णीयत्वाद्वरमेवैतदिति सहृदया एवात्र प्रमाणम् ॥ पं० ख० पु० तस्यैव हेतुमिति एव पदाधिकः पाठः ।

१६ श्रीतन्त्रालोकः। इति भवेत् ; को नाम शान्तिकारभमाणो वेतालोत्थापनं कुर्यात् , इह चास्माभिस्तव्याख्यासा- रोच्चयनस्यैव प्रतिज्ञातत्वात् तदेव क्रियते,-इति तदि- तरत्स्वयमेवसर्वत्रासारतयाचिन्वन्तु सचेतसः,-इत्य. लमनेनापि वचनेन, प्रस्तुतमिहाभिदध्मः ॥ १ ॥ तदेवं परं त्रिकं परामृश्य परापरमपि पराम्रष्टु- मुपक्रममाणः प्रथमं तावत् परां देवीं परामृशति नौमि चित्प्रतिभां देवी परां भैरवयोगिनीम् । मातृमानप्रमेयांशशूलाम्बुजकृतास्पदाम् ॥२॥ 'परां पूर्णाम, अत एव भिन्नमपि जगत् स्वा- मनि अभेदरूपतया पालयन्तीम् अनन्योन्मुखतया च प्रकृष्टां 'या सा शक्तिजगद्धातुः कथिता समवायिनी।' इत्याद्युक्त्या भैरवयोगिनी नित्यमेव परप्रमा- त्रवियुक्तत्वात् तदात्मभूताम्, अत एव पं० ४ ख० पु० इत्यमलेनापीति पाठः। पं० ११ क० ख० पु० अभेदतयेति पाठः ।

श्लो०३] प्रथममाह्निकम् । १७ 'इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते।' इत्याद्युक्त्या चिद्रूपा चासो 'प्रतिभा' प्रज्ञा, ताम् श्राद्योच्छलत्तात्मकत्वेन बहिरुल्लिलसिषास्वभावाम, अत एव 'देवी' प्रमातुरपि विश्रान्तिधामत्वात् प्रमिति- रूपतया द्योतमानाम्,अत एव बहिरपि प्रमातृप्रमाण- प्रमेयाण्येव 'अंशा' अरारूपाभागा यस्य शूलस्य' तत्र यानि श्रौन्मनसानि अम्बुजानि, तत्र 'कृतास्पदां' तदुत्तीर्णतया भासमान नौमि' देहप्राणादिप्रमातृ- रूपन्यग्भावेन तत्स्वरूपमाविशामि-इत्यर्थः ॥२॥ एवमुक्तेऽपि परास्वरूपेऽपरास्वरूपमनभिधाय, तदुभयमयस्य परापरस्वरूपस्य वक्तुमशक्यत्वात् क्रमप्राप्तां परापरी देवीं परिहृत्य, प्रथमं तावदपरां देवीमभिमुखयति नौमि देवीं शरीरस्थां नृत्यतो भैरवाकृते । प्रारमेघघनव्योमविद्युल्लेखाविलासिनीम् ॥३॥ पं० २ ख. पु० प्रज्ञापदं नास्ति । पं० ६ क० पु. अणुरूपा भागा इति पाठः । पं० ख० पु. प्राणाभिमातृरूपेति पाठः । पं० ११ क० पु० परापरस्वरूपस्येति पाठः। पं० १२० पु० परापरदेवीमिति पाठः । ३ १८ श्रीतन्त्रालोकः। 'नृत्यतो' 'नर्तक आत्मा' (शि०३ उ०९सू०) इति शिवसूत्रदृष्ट्या निगूहितस्वस्वरूपावष्टम्भमूलं तत्तद्विश्ववैचिल्यभूमिकाप्रपञ्चं प्रकाशयतो 'भैरवा- कृतेः' पूर्णस्वरूपस्य परमात्मनः 'शरीरस्थाम' 'एवंभूतमिदं वस्तु भवत्विति यदा पुनः। जाता तदैव तद्वस्तु कुर्वत्यत्र क्रियोच्यते॥' इत्याधुच्या तत्तत्प्रमातृप्रमेयाद्यनन्ताभासवैचित्र्य- कारितया स्वरूपाविष्टाम्, अत एव 'देवी' जगदुल्ला- सनक्रीडाकारिणीम् अपरां भगवतीं 'नौमि' इति संबन्धः । अत एव बहिरपि विश्वात्मना द्योतमा- नत्वेऽपि 'भेदभावकमायीयतेजोंशासनाच्च तत् । सर्वसंहारकत्वेन कृष्णं तिमिररूपधृत् ॥' इत्यायुक्तस्वरूपे परप्रमातर्येव विश्रान्तत्वात् कृष्ण- पिङ्गलरूपाम् इत्युक्तं 'प्रावृण्मेघघनव्योमविद्युल्लेखा- विलासिनीम्' इति ॥ ३॥ पं०४ क० ख० पु० तत्तद्वैचिन्येति पाठः ।

१९ श्लो०४] प्रथममाह्निकम् । अथ परापरोभयस्वरूपमयीं परापरां देवीं परा- मृशति । दीप्तज्योतिश्कटाप्लुष्टभेदबन्धत्रयं स्फुरत् । स्ताज्ज्ञानशल्लं सत्पक्षविपक्षोत्कर्तनक्षमम् ॥४॥ 'ज्ञानं' 'एवमेतदिदं वस्तु नान्यथेति सुनिश्चितम् । ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिनिगद्यते ॥' इत्यायुक्तज्ञानशक्तिस्वभावमपि अन्तरासूत्रितेच्छा- क्रियात्मकम्, अत एव परापराशब्दव्यपदेश्यम्, श्रत एव तत् 'लोलीभूतमतः शक्तित्रितयं तत्रिशूलकम् ।' इति वक्ष्यमाणनीत्या 'त्रिशूलम्' अत एव 'दीप्ताभिः' अप्रतिहताभिः तत्तदिन्द्रियवृत्तिरूपाभिः 'ज्योति- श्छटाभिः 'यत्र यत्र मिलिता मरीचय- स्तत्र तत्र विभुरेव जम्भते।' इत्यादिनीत्या वक्ष्यमाणस्वरूपस्य भेदप्रधानस्य बन्धहेतुत्वात् बन्धरूपस्य प्राणवादिमलत्रयस्य प्लोष- पं०१० ख० पु० परापरादेवीमिति समस्तः पाठः ।

श्रीतन्त्रालोकः। २० (வு कम्, अत एव 'स्फुरत्' शुद्धबोधैकरूपतया स्फुरत्ता- सारम्, अत एव 'सन्' च असौ 'पक्षो' जगदानन्द- स्तस्य 'विपक्षाः तदप्रथारूपा निजानन्दाया श्रानन्दा अनानन्दाश्च तेषाम् 'उत्कर्तन' पूर्णप्रथात्मकत्वेन क्षपणं, तत्र 'क्षम समर्थ 'स्तात्' इति वाक्यार्थः। तदुक्तं "जयन्ति जगदानन्दविपक्षक्षपणक्षमाः। परमेशमुखोद्भूतज्ञानचन्द्रमरीचयः॥' इति ॥ ४॥ इदानीमपरमपि.त्रिकं पराम्रष्टुमाह स्वातन्त्र्यशक्तिः क्रमसंसिसृता क्रमात्मता चेति विभोर्विभूतिः । तदेव देवीत्रयमन्तरास्ता- मनुत्तरं मे प्रथयत्स्वरूपम् ॥५॥ 'स्वातन्त्र्यरूपा शक्तिः यस्यासौ अनन्तशक्ति- भगवान् शिवः, 'क्रमस्य' ४ शून्यप्रभृतिव्यानान्ता विश्रान्तिरूपनिजानन्द-निरानन्द-परानन्द-ब्रह्मानन्द- महानन्द-चिदानन्दरूपाः षडानन्दभूमय इति । पं० १४ ख० पु० प्रथयत्प्रकाशमिति पाठः ।

श्लो०५] प्रथममाह्निकम् । 'मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ। क्रियावैचित्र्यनिर्भासात् कालक्रममपीश्वरः ॥' (ई०२।११५) इत्याद्युक्तनीत्या देशकालात्मनो विश्ववैचित्र्यस्य सर्गस्य, सम्यग्भेदेन 'सिसृक्षा' जगत्सृष्टिनिमित्तं पार- मेश्वरी इच्छारूपा शक्तिः, 'क्रमात्मता' 'क्रमो भेदाश्रयो भेदोऽप्याभाससदसत्त्वतः। (ई०२।११४) इत्यादिनीत्या भेदप्रधानं तत्तदनन्ताभाससंभिन्नं संकुचितात्मरूपं नरत्वम्, इत्येवं येयं नर-शक्ति-शिवा- त्मिका 'विभोः भगवतः परस्यानुत्तरस्य प्रकाशस्य 'विभूतिः' तत्तत्स्फुरणात्मत्वेन ऐश्वर्य 'तदेव' क्रमेण तत्स्फारसारत्वात् समनन्तरोक्तस्वरूपं देवीत्रयं पर- प्रकाशात्मकत्वात् 'अनुत्तरं' 'स्वं सर्वकर्तृत्वादेरसा- धारणं 'रूपं 'प्रथयत्' तत्तद्भेददशोदयेऽप्यतिरोदधत मम आत्मनः 'अन्तरास्ताम् ' ऐकात्म्येन स्फुरतात्- इत्यर्थः॥५॥ एवं स्वदर्शनोचितदेवतापरामर्शानन्तरं तत्स्वरूपा- नुप्रवेशेनैव युगपद् गणेशवटुकावपि अभिमुखयति पं० १० ख० पु० तत्तत्स्फुटात्मत्वेनेति पाठः ।

श्रीतन्त्रालोकः। तदेवताविभवभाविमहामरीचि- चक्रेश्वरायितनिजस्थितिरेक एव । देवीसुतो गणपतिः स्फुरदिन्दुकान्तिः सम्यक्समुच्छलयतान्मम संविदब्धिम् ॥ 'एक एव' अनन्यापेक्षतया निःसहायो 'गणस्य' करणचक्रस्य 'दिनकरसममहदादिकगणपतितां वहति यो नमस्तस्मै ।' इत्यादिहशा 'पतिः' अहङ्काररूपः प्रभुः, अत एव 'तासां समनन्तरोक्तानां 'देवतानां विभवेन पर- प्रकाशात्मना स्फारेण 'यत्तत्र नहि विश्रान्तं तनभःकुसुमायते।' .. इति वक्ष्यमाणनीत्या भवनशीलाः तन्मयतया परिस्फुरन्त्यो या 'महामरीचयः' तत्तदिन्द्रियदेवताः तासां यत् 'चक्र' तत्रेश्वरवदाचरन् निजस्थितियों 'मम' श्रात्मनः 'संविद्' एव अनवगाह्यत्वात् 'अब्धिः' 'सम्यक् विषयकालुष्यविलायनेन समन्तात् सर्वत एव पं०१४ग पु० निजस्थितिमिति पाठः।

श्लो०६] प्रथममाह्निकम् । ma तत्तदिन्द्रियप्रसृतसंविद्द्वारेण 'उच्छलयतात्' विका- सयतात्, तदेकमयतामुत्पादयतात् इत्यर्थः। अब्धिस- मुच्छलनसमुचितत्वाच्च ‘स्फुरदिन्दुकान्तिः इत्युक्तम् । वस्तुतो हि अपानव्याप्तिरस्यास्ति इत्येवं-निर्देशः अथ च 'देवीसुतो' वटुकोऽप्येवंविधः,किंतु शरीरस्य धवलिम्ना 'स्फुरदिन्दुकान्तिः । अस्य हि प्राणव्या- तिरस्ति इत्येवं निर्दिशन्ति गुरवः । 'देवीसुत' इत्यु- भयोरपि कुलशास्त्रोचितोऽयं व्यपदेशः । तदुक्तम् 'देवीपुत्रोऽत्र वटुकः स्वशक्तिपरिवारितः।' इति । 'गणेशो विघ्नहर्तासौ देवीपुत्रः इति च ॥ ६॥ इह खलु शास्त्रादौ "स्रोतोभेदं संख्यानमेव च । प्रवर्तयेद् गुरुं स्वं च स्तेयी स्यात्तदकीर्तनात् ।।' ..... पं० २ ग० पु० उत्पादयतामिति पाठः । पं०५क० पु० अत एव देवीति पाठः । पं० ७ ख० पु० व्याप्तिरस्तीति गुरव इति 'एवं निर्दिशन्ति' इति वाक्यहीनः पाठः ।

२४ श्रीतन्त्रालोकः। इत्यायुक्तदृशा अवश्यमेव शास्त्रकारैः स्वगुर्वादेः कीर्तनं कार्यम्, अतश्च वक्ष्यमाणशास्त्रस्य कुलतन्त्र- प्रक्रियात्मकत्वेन द्वैविध्येऽपि , 'नमास्थिता यथा तारा न भ्राजन्ते रवौ स्थिते । एवं सिद्धान्ततन्त्राणि न विभान्ति कुलागमे ॥ तस्मात्कुलाहते नान्यत्संसारोद्धरणं प्रति।' इत्याद्युक्त्या कुलप्रक्रियायाः प्रक्रियान्तरेभ्यः प्राधा- न्यात् 'भैरव्या भैरवात्प्राप्तं योगं व्याप्य ततः प्रिये । तत्सकाशात्तु सिद्धेन मीनाख्येन वरानने ॥ कामरूपे महापीठे मच्छन्देन महात्मना।' इत्यादिनिरूपितस्थित्या तदवतारकं तुर्यनाथमेव तावत् प्रथमं कीर्तयति पं०२० ख० पु. वक्ष्यमाणस्य शास्त्रस्येति पाठः। पं० ७ क० पु० इत्याधुक्तः कुलप्रक्रियाया अधिकारः कुलप्रक्रियायास्तु प्रक्रियान्त- रेभ्य इति पाठः। पं० ख० पु० योगं व्यापि ततः इति पाठः। पं०११ क. पु. कामपीठे महापीठे इति पाठः ।

श्लो०७] प्रथममाह्निकम् । २५ रागारुणं ग्रन्थिबिलावकीर्ण यो जालमातानवितानवृत्ति । कलोम्भितं बाह्यपथे चकार स्तान्मे स मच्छन्दविभुः प्रसन्नः ॥ ७॥ 'स' सकलकुलशास्त्रावतारकतया प्रसिद्धः 'मच्छाः पाशाः समाख्याताश्चपलाश्चित्तवृत्तयः। छेदितास्तु यदा तेन मच्छन्दस्तेन कीर्तितः॥' इत्याद्युक्त्या पाशखण्डनस्वभावो मच्छन्द एव परमे- श्वरसमावेशशालित्वात् 'विभुः मम प्रसन्नः 'स्तात्' खात्मदर्शनसंविभागपात्रतामाविष्कुर्यात् इत्यर्थः । यो 'जालं' मत्स्यबन्धनम्, इन्द्रजालप्रायां च मायां 'बाहपथे चकार' 'अष्टौ सिद्धा महात्मानो जालपृष्ठाः सुतेजसः।' इत्याद्युक्त्या तुरीयतास्वरूपावहितत्वेन संकोचा- पहस्तनादनवधेयतां च निन्ये इत्यर्थः। तच्च रागेण' गैरिकादिद्रव्येण रागतत्त्वेन च 'अरुणं' लोहिती- पं० १९क० पु० इन्द्रियजालप्रायामिति पाठः । पं० १४ ख. पु० इत्याधुक्तोत्तरीयतेति पाठः । पं० १५ ख० पु० हस्तनादवधेयतामिति च पाठः । ४ श्रीतन्त्रालोकः। कृतम् इयति गच्छति इत्यर्थानुगमात् तत्तद्भेददशाप्र- सररूपं च, तथा ग्रन्थिभिः बन्धनैः 'बिलैः च सलि- लनिर्गमनस्थानः 'ग्रन्थौ मायाया द्वितीयस्मिन् भेदे 'बिलैः' बिलाकाराभिः भगसंज्ञाभिर्भोगभूमिभिश्च 'अवकीर्ण' व्याप्तम् , तथा 'आतानवितानवृत्ति' श्रा- यामपार्श्वमानयुक्तं विश्वाकारत्वात् सर्वतः प्रसरद्रूपं च, तथा 'कलया' विच्छित्तिविशेषेण कलातत्त्वेन चअर्थात्तितिपर्यन्तेन 'उम्भितम्' प्रारब्धम्। यदुक्तम् 'मायारूपं भवेजालं दारयेत्कुलचिन्तकः। विश्वाकारं महाजालं नाडीसूत्रनियोजितम् ।। भुवनाक्षसमोपेतं तत्त्वप्रन्थिदृढीकृतम् । कलारागयुतं चैव ॥' इत्यादि ॥ ७॥ 'श्रीमच्छीकण्ठनाथाज्ञावशासिद्धा अवातरन् । ज्यम्बकामर्दकाभिख्यश्रीनाथा अद्वये द्वये ॥ द्वयाद्वये च निपुणाः क्रमेण शिवशासने । आद्यस्य चान्वयो जज्ञे द्वितीयो दुहितुक्रमात् ॥ स चार्धच्यम्बकाभिख्यः सन्तानः सुप्रतिष्ठितः अतश्चार्धचतस्रोऽत्र मठिकाः सन्ततिक्रमात् ॥' .. - पं० १० पु० धारयेत्कुलेति पाठः ।

२७ श्लो०८] प्रथममाह्निकम् । इति वक्ष्यमाणस्थित्या श्रीसन्तत्यामर्दकत्रयम्बका- धत्रयम्बकाख्यासु सार्धासु तिसृषु मठिकासु मध्यात् वक्ष्यमाणतन्त्रप्रक्रियायाः त्रयम्बकमठिकाश्रयणेन श्रआयातिक्रमोऽस्ति इति सामान्येन तावत् गुरून- भिमुखयति त्रयम्बकाभिहितसन्ततिताम्रपर्णी- सन्मौक्तिकप्रकरकान्तिविशेषभाजः। पूर्वे जयन्ति गुरवो गुरुशास्त्रसिन्धु- कल्लोलकेलिकलनामलकर्णधाराः॥८॥ 'त्रयम्बक' इति 'अभिहिता' 'सन्ततिः' मठिका इत्यर्थः ॥८॥ एवं 'शैवादीनि रहस्यानि पूर्वमासन्महात्मनाम् । ऋषीणं वक्तकुहरे तेष्वेवानुग्रहक्रिया ॥ कली प्रवृत्ते यातेषु तेषु दुर्गमगोचरम् । कलापियामप्रमुखमुच्छिन्ने शिवशासने ॥ ०१० पु० इत्यादिवक्ष्यमाणेति पाठः । ०३ख. पु० मठिकाश्रयेणायातिक्रमोऽस्तीति पाठः ।

२८ श्रीतन्त्रालोकः। कैलासाद्रौ भ्रमन्देवो मूल् श्रीकण्ठरूपया । अनुग्रहायावतीर्णश्चोदयामास भूतले ॥ मुनि दुर्वाससं नाम भगवानूवरेतसम् । नोच्छिद्यते यथा शास्त्रं रहस्यं कुरु तादृशम् ।। ततः स भगवान्देवादादेशं प्राप्य यत्नतः। ससर्ज मानसं पुत्रं श्यम्बकादित्यनामकम् ।।' इत्याद्युक्त्या कलिकालुष्याद्विच्छिन्नस्य निखिल- शास्त्रोपनिषद्भूतस्य षडर्धक्रमविज्ञानस्य त्रयम्बक- सन्तानद्वारेण अवतारकत्वादाद्यं कैलासस्थं श्रीश्री- कण्ठनाथाख्यं गुरुं प्रसङ्गात् मठिकान्तरगुरूंश्चो- त्कर्षयति जयति गुरुरेक एव श्रीश्रीकण्ठो भुवि प्रथितः। तदपरमर्तिर्भगवान् महेश्वरो भूतिराजश्च ॥६॥ 'एक एव गुरुः इत्यनेन अस्य अवतारकत्वं सूचितम् । महेश्वर' इति यः श्रीसन्तत्यर्धत्रयम्बका- पं. ४ क. पु० नच्छिद्यते इति पाठः । पं०५ क० पु० प्राप्य तच्चतः इति पाठः ।

२९
२
श्लो०९]
प्रथममाह्निकम् ।
ख्यमठिकयोर्गुरुतया अनेन अन्यत्रोक्तः परमेश इति
ईश इति च । यदाह
'भट्टारिकादिभूत्यन्तः श्रीमान्सिद्धोदयक्रमः।
भट्टादिपरमेशान्तः श्रीसन्तानोदयक्रमः ।।
श्रीमान्भट्टादिरीशान्तः परमोऽथ गुरुक्रमः ।
त्रिकरूपस्त्रिकार्थे मे धियं वर्धयतांतराम् ॥'
इति । तदपरमूर्तिः' इत्यनयोर्भगवदावेशमयत्वं
दर्शितम् । यद्यपि
'यो यत्र शास्त्रेऽधिकृतः स तत्र गुरुः
इति वक्ष्यमाणनीत्या मठिकान्तरगुरूणां त्रिकार्थे
गुरुत्वाभावात् इह नमस्काराप्रस्ताव एव । तथापि
'तस्य मे सर्वशिष्यस्य नोपदेशदरिद्रता।'
इत्यादिदृशा सर्वत्रैव गुरूपदेशस्य भावात् आत्मनि
भूयोविद्यत्वं दर्शयता ग्रन्थकृता अस्य ग्रन्थस्यापि
निखिलशास्त्रान्तरसारसंग्रहाभिप्रायत्वं प्रकाशितम् ।
यद्वक्ष्यति
पं० ५ ख० पु० श्रीमद्भट्टादिरिति शोधितः पाठः ।
पं०६ क. पु० त्रिकाओं में इति पाठः ।
पं० १९ख० तथापि इति वाक्यं नास्ति ।

३० श्रीतन्त्रालोकः। 'अध्युष्टसन्ततिस्रोतःसारभूतरसाहृतिम् । विधाय तन्त्रालोकोऽयं स्यन्दते सकलानसान् ॥' इति ॥ ६ ॥ 'पूर्वे जयन्ति गुरवः' इति सामान्येन कृतेऽपि नमस्कारे योगाङ्गत्वेन समानेऽपि 'तर्को योगाङ्गमुत्तमम्।' इत्यायुक्त्या परमोपादेयस्वप्रकाशस्वात्मेश्वरप्रत्य- भिज्ञापनपरस्य तर्कस्य कर्तारो व्याख्यातारश्च परं नमस्कर्तव्याः इति विशेषप्रयोजकीकारेण गुरु-परम- गुरु-परमेष्ठिनः पुनरपि पराम्रष्टुमाह श्रीसोमानन्दबोधश्रीमदुत्पलविनिःसृताः। जयन्ति संविदामोदसन्दर्भा दिक्प्रसर्पिणः१०॥ तदास्वादभरावेशबंहिता मतिषट्पदाम् । गुरोर्लक्ष्मणगुप्तस्य नादसंमोहिनी नुमः॥११॥ पं० १ ० पु० रसान्वितम् इति, ख० पु० रसाहृतमिति पाठः । पं०७ क० पु० प्रत्यभिज्ञापरस्येति पाठः ।

श्लो० १३] प्रथममाह्निकम् । ३१ इदानीम् 'उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता।' इत्याद्युक्त्या तस्याचार्यादपि गौरवातिरेकस्मृते- निजमपि पितरमाशीर्वादमुखेन परामृशति यः पूर्णानन्दविश्रान्तसर्वशास्त्रार्थपारगः । स श्रीचुखुलको दिश्यादिष्टं मे गुरुरुत्तमः१२॥ 'चुखुलक' इति लोकप्रसिद्धमस्य नामान्तरम् । 'गुरुरुत्तम' इति उत्तमत्वस्य प्राचार्यगौरवातिरेक- स्मृतिरेव निमित्तम्, अत एव अन्यत्रापि 'गुरुभ्योऽपि गरीयांसं जनकं चुनुलाभिधम् ।' इत्याद्युक्तम् ॥ १२ ॥ एवं चतन्त्रप्रक्रियोपासन्नगुर्वभिमुखीकरणानन्तरं विश्रान्तिस्थानतया कुलप्रक्रियागुरुमपि उत्कर्षयति जयताज्जगदुद्धृतिक्षमोऽसौ भगवत्या सह शंभुनाथ एकः। यदुदीरितशासनांशुभिर्मे प्रकटोऽयं गहनोऽपि शास्त्रमार्गः ॥१३॥ पं० २ उपाध्यायादिति पद्यस्य 'सहस्र तु पितुर्माता गौरवेणातिरिच्यते । इति उत्तरार्ध ग० पु० अधिक वर्तते ।

३२ श्रीतन्त्रालोकः। भगवत्याख्या अस्य दूती, कुलप्रक्रियायां हि दूती- मन्तरेण क्वचिदपि कर्मणि नाधिकारः इत्यतस्त- सहभावोपनिबन्धः। 'योक्ता संवत्सरात्सिद्धिरिह पुंसां भयात्मनाम् । सा सिद्धिस्तत्त्वनिष्ठानां स्त्रीणां द्वादशभिर्दिनैः॥ अतः सुरूपां सुभगां सरूपां भाविताशयाम् । आदाय योषितं कुर्यादर्चनं यजन हुतम् ॥' इति । 'शास्त्रमार्गो विमलो जातः इत्यनेनास्य त्रिकाद्यागमव्याख्यातृत्वमपि प्रकाशितम् । यदुक्त- मनेनैव 'इत्यागमं सकलशास्त्रमहानिधाना- च्छीशंभुनाथवदनादधिगम्य सम्यक् । शास्त्रे रहस्यरससंततिसुन्दरेऽसिन् गम्भीरवाचि रचिता विवृतिर्मयेयम् ॥' इति ॥१३॥ इदानी स्वप्रवृत्तिप्रयोजनादि आचक्षाणो ग्रन्थ- कारो ग्रन्थकरणं प्रतिजानीते पं० ६ ख० पु० सुरूपां भाविताशयामिति पाठः श्लो०१६] प्रथमाह्निकम् । सन्ति पद्धतयश्चित्राः स्रोतोभेदेषु भूयसा । अनुत्तरषडर्धार्थक्रमे त्वेकापि नेक्ष्यते ॥१४॥ न चात्र अन्यथा संभाव्यम् - इत्यात्मन्याप्तत्वं प्रख्यापयन्ने प्रतिज्ञाकरणे सामर्थ्य दर्शयति इत्यहं बहुशः सद्भिः शिष्यसब्रह्मचारिभिः। अर्थितो रचये स्पष्टां पूर्णार्थी प्रक्रियामिमाम् १५ श्रीभट्ठनाथचरणाब्जयुगात्तथा श्री- भट्टारिकांघ्रियुगलाद्गुरुसन्ततिर्या बोधान्यपाशविषनुत्तदुपासनोत्थ- बोधोज्ज्वलोऽभिनवगुप्त इदं करोति ॥१६॥ तस्य गुरुपरम्परागतस्य ज्ञानस्य 'उपासनं पुनः पुनः चेतसि विनिवेशनं तत उत्थितो योऽसावुप- देष्टव्यविषयो 'बोधः साक्षात्कारस्तेन 'उज्ज्वलः' सम्यगवगतधर्मा सन् 'इदं गुरूपदेशात्संशयविपर्या- सादिरहितत्वेनाधिगतमनुत्तरत्रिकार्थप्रक्रियालक्षणं पं०३ क० ख० पु०न चान्यथेति पाठः । पं०५ क० पु० 'इत्यहं' इति पचं नास्त्येव । ख० पु० इत्यलं बहुश इति पाठः । पं० १९क० पु० त्रिकायें प्रक्रियाजक्षणलचितमिति पाठः ।

श्रीतन्त्रालोकः। परान्प्रति चिख्यापयिषया 'करोति' उपदिशति इत्यर्थः । 'अभिनवगुप्त' इति सकललोकप्रसिद्धना- मोदीरणेनापि प्राप्तत्वमेव उपोद्वलितम् । उक्तं हि 'साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा चाप्तः । इति । तच्छब्दपरामृष्टं व्याचष्टे 'या गुरुसन्ततिः' इति, 'गुरुसन्ततिः' गुरुपारम्पर्यमविच्छिन्नतया स्थितं तदुपदिष्टं ज्ञानमित्यर्थः, सा च कीदृक् ? इत्युक्तं- 'बोधान्यपाशविषनुत्' इति 'यत्किंचित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात् । पराच्छिवादुक्तरूपादन्यत्तत्पाश उच्यते ॥' इत्यादिवक्ष्यमाणनीत्या 'बोधात्' पराच्छिवाद्यद- ख्यात्यात्म भेदप्रथात्मकम् 'अन्यत् तदेव पाशः' स एव मोहकत्वात् 'विषं तत् नुदति या सा । तथा 'श्रीभट्टनाथ' इति श्रीशंभुनाथः। 'श्रीभट्टारिका' इति भगवत्याख्या अस्य दूती । यदुक्तमनेनैव 'महं भहारिकानाथं श्रीकण्ठं दृष्टभैरवम् । भूतिकलाश्रिया युक्तं नृसिंह वीरमुत्कटम् ॥ नानाभिधानमाद्यन्तं वन्दे शंभु महागुरुम् ।' पं० १२ ख० पु० यदनाख्यात्मभेदप्रथेति पाठः । पं० १९क० पु० कलाश्रया इति पाठः।

श्लो०१८] प्रथमाहिकम् । इति । 'स्त्रीमुखे निक्षिपेत्प्राशः स्त्रीमुखाग्राहयेत्पुनः। इत्यायुक्तः कुलप्रक्रियायां दूतीमुखेनैव शिष्यस्य ज्ञानप्रतिपादनाम्नायात् इह गुरुतदूत्योः समस्कन्ध- तया उपादानम् ॥ १६ ॥ ननु सामान्येन त्रिकदर्शनप्रकियाकरणं प्रतिज्ञाय, संभवत्यपि तदर्थाभिधायिनि शास्त्रजाते किमिति श्रीमालिनीविजयोत्तरमेवाधिकृत्य तन्निर्वाहयिष्यते इत्याशङ्क्याह न तदस्तीह यन्न श्री-मालिनीविजयोत्तरे देवदेवेन निर्दिष्टं स्वशब्देनाथ लिङ्गतः ॥१७॥ 'श्रीमालिनीविजयोत्तरे' इति नादि-फान्ताया मालिन्या 'विजयेन सर्वोत्कर्षेण उत्तरति सर्वस्रोतो- भ्यः प्लवते, सारभूतत्वात्सर्वशास्त्राणाम् ॥ १७॥ एतदेवाह दशाष्टादशवस्वष्टभिन्नं यच्छासनं विभोः । तत्सारंत्रिकशास्त्रहितत्सारं मालिनीमतम्॥१८॥ * पं०६० पु० सामाध्येनेति पाठः।

श्रीतन्त्रालोकः। इह खलु परपरामर्शसारबोधात्मिकायां परस्यां वाचि सर्वभावनिर्भरत्वात्सर्वं शास्त्रं परबोधात्मकत- यैव उज्जृम्भमाणं सत्, पश्यन्तीदशायांवाच्यवाचका- विभागस्वभावत्वेन असाधारणतया अहंप्रत्यवम- र्शात्मा अन्तरुदेति, अत एव हि तत्र प्रत्यवमर्शकेन प्रमात्रा परामृश्यमानो वाच्योऽर्थोऽहन्ताच्छादित एव स्फुरति, तदनु तदेव मध्यमाभूमिकायामन्त- रेख वेद्यवेदकप्रपञ्चोदयाद्भिन्नवाच्यवाचकस्वभावतया उल्लसति । तत्र हि परमेश्वर एवं चिदानन्देच्छाज्ञान- क्रियात्मकवक्रपञ्चकासूत्रणेन सदाशिवेश्वरदशाम- धिशयानस्तद्वक्रपञ्चकमेलनया पञ्चस्रोतोमयम् अभे- द-भेदाभेद-भेददशोहङ्कनेन तत्तद्भेदप्रभेदवैचित्र्यात्म निखिलं शास्त्रमवतारयति, यहहिर्वैखरीदशायां स्फुट- तामियात् । तथाहि - प्रथममीशानतत्पुरुषसद्यो- जातैरेकैकस्य उबुभूषुभिः सद्भिर्भेदत्रयमुल्लासितम् उद्भूतैश्च - इत्येकैकभेदाः षट्, त्रिभिरप्याभिः संभूय उल्लासित एको भेदः, ईश-तत्पुरुषौ ईश-सद्योजातो २ पं० ख० पु० परविबोधेति पाठः । पं० १७ क० पु० ईशानतत्पुरुषाविति पाठः।

श्लो०१८] प्रथमाह्निकम् । सद्योजात-तत्पुरुषौ इति ड्यात्मना संभूयापि एभिः त्रिभिर्भेदत्रयं समुल्लासितम् - इत्येते भेदप्रधाना दश शिवभेदाः । तदुक्तम् 'ईशतत्पुरुषाजातैरुद्भूतैरुबुभूषुभिः । एककैः षड्भिरेकेन त्रिकेण द्वात्मकैस्त्रिभिः॥ तदित्थं शिवभेदानां दशानामभवस्थितिः।' इति । एषामेव च वामदेवाघोरमेलनया अष्टादश रुद्रभेदा भवन्ति । तथा च तत्रैककेन वामदेवा- घोरात्मभेदेन भेदद्वयमेव, पञ्चविधत्वेऽपि ईशा- देर्वक्त्रत्रयस्य शिवभेदेषु उक्तत्वात् उक्तस्य च पुनर्व- चनानुपपत्तेः, तथा ड्यात्मकत्वेन भेदत्रयस्य, तेन पञ्चानां त्र्यात्मकत्वेन भेदत्रयस्य शिवभेदेषु उक्तत्वात् । तत्पुरुष- सद्योजातयोस्तु एवं स्वभावा- भावात्, ताभ्यां सह असङ्गते दचतुष्टयाभावादीश- पं० ६ क० पु० उभयस्थितिरिति पाठः । पं. क. पु० एकैकेनेति पाठः। पं० ११ क० पु० नुपपत्तेरित्यनन्तरं 'तथा द्वथात्मकत्वेन भेदत्रयस्य, इति वाक्यं नास्ति। पं० १३ क० पु. स्वभावभावादिति पाठः।

श्रीतन्त्रालोकः। वामौ, ईशाघोरौ, अघोर-वामौ - इति यात्मक भेदत्रयमेव अवशिष्यत - इति त्रयो द्विकभेदाः । तथा पञ्चानामपि ईश-तत्पुरुषाजातवामाघोराणां त्र्यात्मकत्वेन संमीलनायामीशानस्य क्रमेण इतर- वक्त्रसंभेदे षट्, तत्पुरुषस्य त्रयः, तथा सद्योजातस्य तदवशिष्टवक्त्रसंभेदेऽपि एक एव-इति दशविधत्वे- ऽपि ईश-तत्पुरुष-सद्योजातात्मनः प्रथमत्रिकस्य शिवभेदेषु उक्तत्वात् ईश-वामाघोरात्मनः शिष्टस्य त्रिकस्य व्यापारान्तरेण नियोक्ष्यमाणत्वाञ्चच्यात्मक- भेदाष्टकमेवावशिष्यते - इत्यष्टावेव त्रिकभेदाः । अत एव एकककथनं चिन्त्यमिति न वाच्यम्,- तत्पुरुषाजात-वामाघोराणां हि ड्यात्मकतया चतुरा- त्मकतया वा ज्ञानजनने संयोगनिषेधो विवक्षितः, त्र्यात्मकतायामपि तथाभावे हि बहूनां भेदानां निषेधः प्रसज्यते - इति भेदसप्तककथनमपि न्याय्य पं०१० पु. द्वयात्मकभेदत्रयमिति समस्तः पाठः । पं०७ ख० पु० जातात्मान इति पाठः। पं० ख० पु० घोरात्मान इति पाठः । पं० ११० पु० अत एव एकैककथनमिति पाठः।

श्लो० १८] प्रथमाहिकम् । न स्यात् - इत्यलं बहुना । तथा पञ्चानामप्येषां चतुरात्मकत्वेन संमीलनायां पञ्चविधत्वेऽपिनराजात- वामाघोराणामुक्तयुक्त्या संगत्यभावाच्चत्वारश्चतु- भैदाः, सर्वेषामप्येषां संमीलनायां पञ्चकभेद एक एव-इत्येवम् 'अष्टादश भेदाभेदप्रधाना रुद्रभेदाः। तदुक्तं 'यदा त्रयाणां वक्त्राणां वामदक्षिणसंगतिः । तदा सप्त द्विकभेदा अष्टौ चैव त्रिकात्मकाः॥ चतुष्काश्चापि चत्वारः पञ्चकस्त्वेकरूपकः। इति विंशतिमध्यात्तु नराजातावसंगतिम् ॥ वामाघारद्धये यातः स्वातन्त्र्यात्पूर्वपश्चिमी। शानं भजेते नैवेति भेदषोडशकं स्थितम् ॥ तत्रापि वामदेवीयमेकं तदुपरि स्थितम् । स्वरूपं भैरवीयं च तेनाष्टादशधा स्थितिः॥ रुद्रभेदस्य शास्त्रषु शिवेनैवं निरूपिता।' इति । एतच्च श्रीश्रीकण्ठ्यामभिधानपूर्वं विस्त- रत उक्तं, तद्यथा । पं०८ क. पु० सप्तद्विका भेदा इति पाठः । पं० १० ख० पु० विंशकमध्यान्तनर इति पाठः । पं०१७ क० पु० उक्तमित्यनन्तरं तद्यथा' इति वाक्यं नास्ति ।

४० श्रोतन्त्रालोकः। "न्तरं पुनः। 'स्रोतस्यूचे भवेज्ज्ञानं शिवरुद्राभिधं द्विधा । कामजं योगजं चिन्त्यं मौकुटं चांशुमत्पुनः॥ दीप्त शिवभेदाः समाख्याता रुद्रभेदांस्त्विमाञ्छृणु ॥ विजयं चैव निःश्वासं मद्गीतं पारमेश्वरम् । मुखबिम्बं च सिद्धं च सन्तानं नारसिंहकम् ॥ चन्द्रांशुं वीरभद्रं च आग्नेयं च स्वयम्भुवम् । विसरं रौरवाः पञ्च विमलं किरणं तथा ॥ ललितं सौरभेयं च तन्त्राण्याहुमहेश्वरि । अष्टाविंशतिरित्येवमूर्ध्वस्रोतोविनिर्गताः॥' अत्र चानेनैव 'शिवैरुतःशिवाभिधः। भेदो रुद्रेश्च रुद्राख्य इति भेदो निरूपितः॥' 'वसुभिः' अष्टभिर्गुणिता 'अष्टौ चतुःषष्टिभैरव- भेदाः । तथा च अद्वयस्वभावे स्वरूपे शिवशक्ति- तत्संघट्टाख्ययोगिनीवक्त्रात्मनि दक्षिणवक्त्रे प्रत्येक- मुहुभूषद्भूत-तिरोधित्सु-तिरोहितात्मकतया चतू- पं० ४ क० ख० पु० भेदान्छृणु प्रिये इत्येवंविधः पाठः । पं०५ख. पु० सदीतमिति पाठः। पं० ६ ख. पु० नारसिंहिकमिति पाठः। पं० १९ख० पु० स्वरूपशिवशक्तीति समस्तः पाठः श्लो०१८] प्रथमाह्निकम् । रूपत्वेन भेदषोडशात्मकमितरद्वनचतुष्टयं यदा युगपदन्तीनतामेति तदैषां परस्परमेलनया चतु:- षष्टिरद्वयप्रधाना भैरवभेदाः। तदुक्तं 'यच्चान्ते दक्षिणं हार्द लिङ्ग हृत्परमं मतम् । तदप्यन्त कृताशेषस्प[स]ष्टभावसुनिर्भरम् ॥ सर्वसंहारकत्वाच्च कृष्णं तिमिररूपधृत् । भेदभावकमायीयतेजोऽशासनात्मकम् ।। तत्रान्तर्लीनतां याति यावद्वक्त्रचतुष्टयम् । उद्धृभूषु तथोद्भूतं तिरोधित्सु तिरोहितम् ॥ इत्थं युगपदेवैतभेदषोडशकात्मकम् । दक्षे वैसर्गिके हार्दै स्वतन्त्रेऽथ शिवे विशत् ॥ अष्टाष्टकात्म तच्छास्त्रं युगपद्धैरवाभिधम् ।' इति । एतच्च श्रीश्रीकण्ठ्यामभिधानपूर्वं विस्त- रत उक्तम् । तद्यथा 'अन्यत्संक्षेपतो वक्ष्ये गीतं यत्परमेष्ठिना। तश्च भेदैः प्रवक्ष्यामि चतुःषष्टिं विभागशः॥ पं०३ ग० पु० उक्तंच इत्येवंविधः पाठः । पं० १२ग० पु. अष्टाष्टकात्मक शास्त्रमिति पाठः। पं० १४ ग० पु० तथाहीति पाठः । पं० १६ क. पु० चतुःषष्टिविभागश इति पाठः ।

श्रीतन्त्रालोकः।
भैरवं यामलं चैव मताख्यं मङ्गलं तथा ।
चक्राष्टकं शिखाष्टकं बहुरूपं च सप्तमम् ॥
वागीशं चाष्टमं प्रोक्तमित्यष्टौ वीरवन्दिते ।
एतत्लादाशिवं चक्रं कथयामि समासतः॥
स्वच्छन्दो भैरवश्चण्डः क्रोध उन्मत्तभैरवः ।
असिताङ्गो महोच्छुष्मः कपालीशस्तथैव च ॥
एते स्वच्छन्दरूपास्तु बहुरूपेण भाषिताः।
ब्रह्मयामळमित्युक्तं विष्णुयामलकं तथा ॥
स्वच्छन्दश्च रुरुश्चैव षष्ठं चाथर्वणं स्मृतम् ।
सप्तमं रुद्रमित्युक्तं वेतालं चाष्टमं स्मृतम् ॥
अतः परं महादेवि मतभेदाञ्छृणुष्व मे।
रक्ताख्यं लम्पटाख्यं च मतं लक्षम्यास्तथैव च ॥
पञ्चमं चालिका चैव पिङ्गलाद्यं च षष्ठकम् ।
उत्फुल्लकं मतं चान्यद्विश्वाद्यं चाष्टमं स्मृतम् ॥
चण्डभेदाः स्मृता ह्यते भैरवे वीरवन्दिते ।
भैरवी प्रथमा प्रोक्ता पिचुतन्त्रसमुद्भवा ॥
सा द्विधा भेदतः ख्याता तृतीया तत उच्यते।
ब्राह्मी कला चतुर्थी तु विजयाख्या च पञ्चमी॥
पं० १२ ख० पु० लम्पटाचं च इति पाठः ।
पं० १३ ख० पु० पञ्च पञ्चालिका इति पाठः ।
पं० १४ ख० पु० उल्फुल्लकमतमिति समस्तः पाठः ।
पं० १५ ख० पु० वीरवत्सले इति पाठः ।
Site

श्लो० १८]
प्रथमाह्निकम् ।
चन्द्राख्या चैव षष्टी तु मङ्गला सर्वमङ्गला ।
एष मङ्गलभेदोऽयं क्रोधेशेन तु भाषितः॥
प्रथम मन्त्रचक्रं तु वर्णचक्रं द्वितीयकम् ।
तृतीयं शक्तिचक्रं तु कलाचक्रं चतुर्थकम् ॥
पञ्चमं बिन्दुचक्रं तु षष्ठं वै नादसंज्ञकम् ।
सप्तमं गुह्यचक्रं च खचक्र चाष्टमं स्मृतम् ॥
एष वै चक्रभेदोऽयमसिताङ्गेन भाषितः ।
अन्धकं रुरुभेदं च अजाख्यं मूलसंज्ञकम् ॥
वर्णभण्ठं विडङ्गं च ज्वालिनं मातृरोदनम् ।
कीर्तिताः परमेशेन रुरुणा परमेश्वरि ।
भैरवी चित्रिका चैव हंसाख्या च कदम्बिका।
हल्लेखा चन्द्रलेखा च विद्युल्लेखा च विद्युमान् ॥
एते वागीशभेदास्तु कपालीशेन भाषिताः।
भैरवी तु शिखा प्रोक्ता वीणा चैव द्वितीयिका ॥
वीणामणिस्तृतीया तु संमोहं तु चतुर्थकम् ।
पञ्चमं डामरं नाम षष्ठं चैवाप्यथर्वकम् ॥
कबन्धं सप्तमं ख्यातं शिरश्छेदोऽष्टमः स्मृतः।
एते देवि शिखाभेदा उन्मत्तेन च भाषिताः॥
एतत्सादाशिवं चक्रमष्टाष्टकविभेदतः॥'
पं०८० पु०अजाद्यमिति पाठः।
पं० ख० पु० वर्णामठम् इति पाठः ।
पं०१६ क० पु० प्यवर्धकम् इति पाठः ।

श्रीतन्त्रालोकः। इति । तैर्भिन्नं भेदोपभेदवैचिल्यात्मना नानाप्रकार- मित्यर्थः । यत्तु श्रीश्रीकण्व्यां तत्पुरुषवक्तमुद्दिश्य 'अष्टाविंशतिभेदैस्तु गारुडं हृदयं पुरा।' इत्यादि । तथा 'पश्चिमे भूततन्त्राणि "। तथा 'दक्षिणे दक्षिणो मार्गश्चतुर्विंशतिभेदतः।' इत्यादि । तथा 'वामदेवातु यजातमन्यत्चत्साम[प]तं शृणु।' इत्यादि अन्यभेदोपभेदवैचित्यमुक्तं, तदेकैकस्य वक्तस्य पञ्चवक्तात्मकत्वात् एतद्भेदजातोपभेदा- त्मकमेव-इति तत एव संग्रहीतम् इति न पृथगिह श्रायस्तम् । तदुक्तं “एकैकं पञ्चवक्त्रं च वक्त्रं यस्मात्प्रगीयते । दशाष्टादशभेदस्य ततो भेदेष्वसंख्यता॥ पं० १ क० पु० भेदोपभेदनानावैचित्र्येत्यादिपाठः । पं० १०० पु० एकैकवक्तूस्येति समस्तः पाठः । पं० १२ क० पु० पृथगिह नायस्तमित्येवंविधः पाठः ।

श्लो०१८] प्रथमाह्निकम् । इति । अतश्च भेद-भेदाभेदाभेदप्रतिपादकं शिवरु- द्रभैरवाख्यं त्रिधैवेदं शास्त्रमुद्भूतम् इति सिद्धान्तः । तदुक्तं 'तन्त्रं जज्ञे रुद्रशिवभैरवाख्यमिदं त्रिधा। वस्तुतो हि त्रिधैवेयं ज्ञानसत्ता विजम्भते ॥ भेदेन भेदाभेदेन तथैवाभेदभागिना।' इति । एवं च भेदाद्यात्मकमपीदं शास्त्रं परमेश्वरेश- वामाघोरात्मकं षष्ठं त्रिकं परादिदेवीत्रयविश्रान्ति- धामतया क्रोडीकृत्य, 'पुष्पे गन्धस्तिले तैलं देहे जीवो जले रसः। यथा तथैव शास्त्राणां कुलमन्तःप्रतिष्ठितम् ॥' इत्यायुत्त्या परमाद्वयामृतपरिप्लावितं विदध्यात्, अन्यथा ह्यस्य परपदप्राप्तिनिमित्तत्वं न स्यात् । तदुक्तं पं०७ ख० पु० द्वयात्मकमप्येतदिति पाठः । पं० ख० पु० षष्ठत्रिकमिति समस्तः पाठः । पं० १० क० पु० जलेऽमृतम् इति, ख० पु० जले घृतमिति पाठः। पं० १२ क० पु० परिप्लुतमिति पाठः । अन्यथा हत्यतो न स्यादित्यन्तः वाक्यपाठः क० ग० पुस्तकयो स्ति। ।

श्रीतन्त्रालोकः।
'ततोऽ पि संहृताशेषभावोपाधिसुनिर्भरः ।
भैरवः परमार्थोद्यद्दवबृंहितशक्तिकः ॥
ईशान-वाम-दक्षासु तासु
शक्तित्रयं क्रमात् ।
अपरादिपराप्रान्तं क्रोडीकृत्य त्रिकं स्थितः॥
ऊलवामतदन्यानि तन्त्राणि च कुलानि च ।
तद्धाराप्रान्तरूढानि प्रापय्याभेदभूमिकाम् ॥'
इति। ननु एवंविधा श्रुतिर्न काचिदुपलभ्यत इति किं
प्रमाणम् । ननु अत्र उक्तमेवानेन गुरुपारम्पर्यलक्षणं
प्रमाणम् । यदाह
'इत्थं मध्ये विभिन्न तत्त्रिकमेव तथा तथा।
शास्त्रमस्मद्गुरुगृहे संप्रदायक्रमात्स्थितम् ॥'
इति । ननु यदेवात्र पुबुद्धिप्रभवत्वं चोयं तदेवो-
त्तरीकृतम्-इत्यपूर्वमिदं पाण्डित्यं, तेनागमः कश्चन
संवादनीयो येनैतत्समाहितं स्यात्, नैतत् अविगीतैव
हि प्रसिद्धिरागमः इत्युच्यते, यदुक्तं
पं० १ ख० पु० भावोपाधिषु निर्भर इति पाठः ।
पं० २ ख० पु० परमार्थोद्यधु वेति पाठः ।
पं०४ क० पु० पराक्रान्तमिति पाठः ।
पं० ६ क० पु० उद्धारप्रान्तेति, क. पु० भेदभूमिकाः इति च पाठः ।
पं०८ग० पु० न तूक्तमेवात्रानेनेति पाठः।
पं०१२क० पु० चोद्यं तत्कृतमितीति पाठः।
पं०१४ क० पु० सामाहित्यं स्यादिति पाठः।
,

श्लो० १८] प्रथमाह्निकम् । 'प्रसिद्धिरागमो लोके युक्तिमानथवेतरः। विद्यायामप्यविद्यायां प्रमाणमविगानतः॥ प्रसिद्धिरवगीता हि सत्या वागेश्वरी मता। तथा यत्र यथा सिद्धं तद्ग्राह्यमविशङ्कितैः॥' इति । सा चात्र विद्यत एवाविगानेन महा- त्मनां महागुरूणाम् इति किमत्र प्रमाणान्त- रान्वेषणेन । यदि चार्वाग्दृशां भवाशामेवंविधा श्रुतिः कर्णगोचरं न गता- तावतैव एतन्नोपपद्यते, इति न वक्तुं शक्यं, नहि प्रमाणाभावात्प्रमेयस्याप्य- भावः स्यात् । न चैते विप्रलम्भका येनैवमन्यथोप- दिशेयुः, एतदुपदेशमूलतयैव निखिलस्यशैवशास्त्राग- मार्थस्य प्रयोगदर्शनात् । तेन यथा मन्वादिस्मृतौ उत्सन्नशाखामूलत्वादष्टकादियागानां मूलभूताश्रुतिः कल्प्यते तथा इहापि ज्ञेयम् । नह्येवंविधां श्रुतिम- दृष्ट्वा साक्षात्कृतनिखिलशैवागमसतत्त्वास्त एवमु- पं० १ क० पु० अथ नेतर इति पाठः। पं०३ ग० पु० वागीश्वरी इति पाठः । पं० १२ ख० पु० प्रयोगप्रदर्शनादिति पाठः । पं० १३ क० पु० उत्पनशाखामूलेति च पाठः ।

श्रीतन्त्रालोकः। । पदिशेयुः इत्यलं महागुरूणामुपदेशपरीक्षणदुःशि- क्षया । ननु शास्त्राणां 'यतः शिवोद्भवाः सर्वे शिवधामफलप्रदाः।' इत्याद्युक्तेरेकत्वनियामककारणफलयोरैक्यमस्ति, इह किंनिबन्धनमेषामेवं नानात्वमुक्तः? सत्यं - किन्तु अनुग्राह्याशयभेदादेषां नानात्वं कल्पितम् । यदुक्तं 'सर्वमेतत्प्रवृत्त्यर्थं श्रोतृणां तु विभेदतः। अर्थभेदात्तु भेदोऽयमुपचारात्प्रकल्प्यते॥ फलभेदो न कल्प्योऽत्र कल्प्यश्चेदयथायथम् ।' इति । ननु यद्येवं तत् 'वेदादिभ्यः परं शैवं शैवाद्वामं च दक्षिणम् । दक्षिणाञ्च परं कौलं कौलात्परतरं नहि ॥' इत्यादिना उक्तमेषां यथायथमुत्कृष्टत्वं युक्तं न स्यात्, ? नैतत् - द्वारद्वारिभावेन एषामुपायोपेय- भावस्य उक्तत्वात्, तेन परमाद्वयोपदेशप्रतिपादक- पं० १ क० ख० पु० महागुरूपदेशेति पाठः । पं०४ ख० पु० एकत्वनियामकं कारणं फलयोरित्याधसमस्तवाक्यात्मा पाठः । पं० १२ क० पु. दक्षिणात्तत्परमिति पाठः । पं० १४ ख० पु० द्वारिद्वारमावेनेति, उपायोपायभावस्येति च पाठः ।

४९ श्लो०१८] प्रथमाह्निकम् । मेव शास्त्रं शिवसद्भावलाभैकफलम् - इत्यवसेयम् । तदेव परमपदप्राप्तौ साचादुपायभूतत्वादुत्कृष्टम् । एतच्चानेनैव श्रीमालिनीश्लोकवार्तिकादौ वितत्य उक्तं, तत्तत एव स्वयमवधार्यम्, ग्रन्थगौरवभयात्तु प्रतिपदं न संवादितम् । अत एवाह 'तत्सारं त्रिकशास्त्रम्' इति । तदुक्तं 'वेदाच्छैवं ततो वामं ततो दक्षं ततः कुलम् । ततो मतं ततश्चापि त्रिकं सर्वोत्तमं परम् ॥' इति । अनेनैवाशयेन च 'वाममार्गाभिषिक्तोऽपि दैशिकः परतत्त्ववित् । संस्कार्यो भैरवे सोऽपि कुले कौले त्रिकेऽपि सः॥' इत्यादि श्रीनिशाचारादावुक्तम् । तच्च सिद्धा-नामक- मालिन्याख्यखण्डत्रयात्मकत्वातिविधम् । तत्र क्रिया प्रधानं सिद्धातन्त्रं, ज्ञानप्रधानं नामकं तन्त्रं, तदुभयमयं मालिनीमतम् इति तदेव मुख्यम्, यदाह 'तत्सारं मालिनीमतम् ' इति । एवं च, 'न तदस्तीह यन्न ' इत्यादि युक्तमेवोक्तम् ॥१८॥ पं० ४ ख० पु० उक्तमित्यत एवेति पाठः । पं० १४ ख० पु० ज्ञानप्रधानमनामकम् इति पाठः ।

श्रीतन्त्रालोकः। अतश्च सर्वसहत्वात्तदधिकारेणैव च प्रतिज्ञाया अपि निर्वाहो युक्त इत्याह अतोऽत्रान्तर्गतं सर्व संप्रदायोज्झितैर्बुधैः । अदृष्ट प्रकटीकुर्मो गुरुनाथाज्ञया वयम् ॥१६॥ 'अत' इति उक्तयुक्त्यास्यैव शास्त्रस्य प्राधान्यात्। 'प्रकटीकुर्म' इति प्रक्रियाकरणेन । अतश्च 'प्रधाने हि कृतो यत्नः फलवान्भवति' इति भावः। 'गुरुनाथा- ज्ञया' इति-नहि तदाज्ञां विनात्र अधिकार एव भवे- दिति भावः ॥ १६ ॥ अन्यादृष्टप्रकटीकरणे च स्वात्मनि भगवत्प्रसाद एव निमित्तम् इति दर्शयितुमाह अभिनवगुप्तस्य कृतिः सेयं यस्योदिता गुरुभिराख्या। त्रिनयनचरणसरोरुह- चिन्तनलब्धप्रसिद्धिरिति ॥२०॥ पं० ६ ख० पु. प्रधानो हि यतः फलवानित्येवंविध एव पाठः । पं०८ ख० पु० नहि तदाज्ञायामत्राधिकार इति पाठः । पं० १० क. पु० प्रकटीकारे चेति, ख० अन्यादृष्टार्थप्रकटीत्यादि च पाठः । पं० १४ ख. पु० त्रिनयनचरणसदोदितचिन्तनेति पाठः ।

५१ श्लोक २१] प्रथमाह्निकम् । त्रिनयनप्रसादासादितप्रकृष्टसिद्धेः किं नामासा- ध्यम् इति भावः ॥ २०॥ एवं चेयं कृतिः सर्वेषामेव ग्राह्या भवेत, इति प्रतिपादयितुमाह श्रीशम्भुनाथभास्कर- चरणनिपातप्रभापगतसंकोचम् । अभिनवगुप्तहदम्बुज- मेतद्विचिनुत महेशपूजनहेतोः ॥२१॥ आदिवाक्यं हृदयं शास्त्रात्मसतत्त्वं, महेश्वरस्य पूजन 'पूजा नाम न पुष्पाद्यैर्या मतिः क्रियते दृढा । निर्विकल्पे महाव्योनि सा पूजा ह्यादरालयः॥' इत्यायुक्त्या तत्तद्वक्ष्यमाणज्ञप्तिक्रमेण स्वात्मतया प्रत्यभिज्ञानम् । अतश्च महावाक्यार्थेन एकमेवादि- पं० १ ० पु० श्रासादितस्याष्टसिद्धेरिति, ख० पु० प्रसादादासादितप्रकृष्टसिद्धे- रित्यभिप्राय इति पाठ पं०६ प्रादिवाक्यमिति पदं ख० पुस्तकात् प्रतितम् ।

५२ श्रीतन्त्रालोकः। वाक्यात्मकं वाक्यम् इति दर्शयितुमाह 'आदिवाक्य- म्' इति। इह यद्यपि परमेश्वरशक्तिपातमन्तरेण तच्छास्त्र- श्रवणादावन्यत् प्रवृत्तिनिमित्तं नाभ्युपेयते, तथापि शास्त्रकाराणामियं शैली - इत्यभिधेयप्रयोजनादि प्रतिपादयितुं प्रवृत्तिहेतुतया श्रयमादिवाक्योपनि- बन्धः। तत्र प्रथमश्लोकपञ्चकासूत्रितोऽनुत्तरषडर्धार्थ- क्रम इत्यनेन साक्षादभिहितश्च पर-परापरापरात्मता- दिना बहुप्रकारस्विकार्थस्तावदभिधेयः। तस्यैव च कर्तृप्रतिपादनकौशलेन मौलागमस्य च समस्त- शास्त्रप्राधान्याभिधानेन सातिशयत्वं प्रतिपादयितुं 'श्रीभट्टनाथ' इत्यादि श्लोकपञ्चकमुपात्तम् । स च गुरुपरम्परागतः 'तस्माद्गुरुकमायातं दिशन्नति परं शिवम् ।' इत्यायुक्तनीत्या निजप्रयोजनकारी भवति, इत्ये. तदङ्गतयैव पारम्पर्यसंदर्शनार्थं गुरुसंकीर्तनपरंश्लोक- पं०१४ क. पु० मृशन्नेति परमिति पाठः। पं० १५ निजेत्याधारभ्य संदर्शनार्थमित्यन्तः पाठः ख० पु. नास्ति ।

श्लोकः २१] प्रथमाह्निकम् । ५३ सप्तकमुद्दङ्कितम् । अतश्चास्यैव वक्ष्यमाणोपायक्रमेण स्वात्मतया प्रत्यभिज्ञानाजीवन्मुक्तिप्रदत्वं प्रयोजनं श्लोकान्तरासूत्रितमपि 'श्रीशम्भुनाथ' इत्यादि- श्लोकेन साक्षादुक्तम् । एतदुद्दिश्य च को नाम न सचेताः परमेश्वरशक्तिपातपवित्रितः प्रवर्तते इत्यस्य प्रवृत्तिनिमित्तत्वं, प्रवृत्तस्याप्येतदुपलब्धौ 'तमनित्येषु भोगेषु योजयन्ति विनायकाः।' इत्यायुक्तेर्विघ्नाः संभवन्ति इत्येतन्निरासाय गणे- शवटुकयोः स्तुतिः । 'अर्थितो रचये' इति प्रतिज्ञा- तायाः प्रक्रियायाश्च 'तन्मया तन्त्र्यते तन्त्रालोकनाम्न्यत्र शासने।' इत्यादिवक्ष्यमाणोपजीवनेन तन्त्रालोक इत्यभि- धानम् । एवमभिधानाभिधेययोरभिधेयप्रयोजन- योश्च वाच्यवाचकसाध्यसाधनभावलक्षणः संबन्ध- श्वार्थाक्षिप्तः इत्यनेकवाक्यसंमेलनात्मकमेकमेवादि- वाक्यं प्रवृत्तिहेतुतया उक्तम् इति पिण्डार्थः ॥२१॥ पं० १४ ख० पु० साधनभावाभावलक्षणेति पाठः। पं० १९ख० पु० संमेलनात्मकमेकमेवेदमादिवाक्यप्रवृत्तिहेतु इत्यादिरूपः पाठः।

श्रीतन्त्रालोकः।
इह यद्यपि सर्ववादिनां मोक्ष एव उपादेयः,
तत्प्रतिपक्षभूतः संसारश्च हेयः, तस्य च मिथ्याज्ञानं
निमित्तं, तत्प्रतिकूलं च तत्त्वज्ञानम्-इति तत्साक्षा-
कारेणैव अज्ञानापगमान्मोक्षावाप्तिः इत्यत्राविवादः,
तथापि तैस्तदेकनियतं ज्ञानाज्ञानयोः स्वरूपं न
ज्ञातम् इति
'भ्रमयत्येव तान्माया मोक्षे मोक्षलिप्सया ।'
इत्याद्युक्त्या तदभ्युपगतो मोक्षो मोक्ष एव न
भवति-इति दर्शयितुं शास्त्रान्तरवैलक्षण्येन तत्परी-
क्षणस्य वक्ष्यमाणत्वात्प्राधान्यमपि कटाक्षयितुमुप-
क्रम एव बन्धमोक्षपरीक्षामुट्टयति ग्रन्थकारः
इह तावत्समस्तेषु शास्त्रेषु परिगीयते ।
अज्ञानं संसृतेर्हेतुर्ज्ञानं मोक्षककारणम् ॥२२॥
न चैतदस्माभिः स्वोपज्ञमेवोक्तम्-इत्याह
मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् ।
इति प्रोक्तं तथाच श्रीमालिनीविजयोत्तरे ॥२३॥

। श्लोकः २३] प्रथमाह्निकम् । 'अज्ञानं तिमिरं पारमेश्वरवातन्त्र्यमात्रसमुल्ला- सितस्वरूपगोपनासतत्त्वमात्मानात्मनोरन्यथाभिमा- नस्वभावम् अपूर्ण ज्ञानं, तदेव चाणवं 'मलं', न तु नवमाह्निकादौ निषेत्स्यमानं द्रव्यरूपम् । उक्तं च 'स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता। द्विधाण मलमिदं स्वस्वरूपापहानितः॥' इति। तच्च कीहक ? इत्याह-संसार इति । 'संसारस्थ 'भिन्नवेधप्रथात्रैव मायाख्यम्' इत्यायुक्तस्वरूपस्य मायीयस्य मलस्य 'संसारकारणं कर्म संसाराङ्कुर उच्यते।' इति वक्ष्यमाणनीत्या 'अङ्कुरः' कारणं कार्ममलं तस्य 'कारणं । तदुक्तं 'मलं कर्मनिमित्तं तु नैमित्तिकमतः परम् ।' इति श्रीमालिनीविजयोत्तरे प्रोक्तम् इत्येतदधि- कारेणैवायं ग्रन्थः प्रवृत्त इत्युपोदलितम् ॥२३॥ अज्ञानस्य पौरुषबौद्धात्मकत्वेन द्वैविध्येऽपि इह पौरुषमेव विवक्षितं स्यान्नान्यत् इत्याह पं० १ ख० पु० अज्ञानतिमिरमिति समस्तः पाठः । क. पु० समुल्लासितं स्वरूपेति च व्यस्तः पाठः ।

श्रीतन्त्रालोकः। : विशेषणेन बुद्धिस्थे संसारोत्तरकालिके । संभावनां निरस्यैतदभावे मोक्षमब्रवीत् ॥२४॥ 'विशेषणेन' 'संसाराङ्कुरकारणम् इत्यनेन' नहि दुरध्यवसायरूपं बौद्धमज्ञानं कर्मणः कारणम् अपि तु तत्तस्य - इति कथमेतद्विशेषणं संगच्छतां, तद्धि सति कर्मकारणके शरीरे संभवति तस्य कार्य- करणात्मकत्वात्, बुद्धेश्च करणवर्गान्तःपातित्वात्, श्रत एवोक्तं 'संसारोत्तरकालिक' इति, 'शरीरभुवनाकारो मायीयः परिकीर्तितः।' इत्याद्युक्तः संसाराच्छरीरादनन्तरभाविनि इत्यर्थः । किं तत्संभावनानिरासेन इत्युक्तं-'एतदभावे मोक्ष- मब्रवीत्' इति । नहि बौद्धाज्ञानमात्रनिवृत्तौ मोक्षो भवेत् यत्तस्मिन्निवृत्ते बौद्धमेव ज्ञानमुदेति तस्य च शुद्धविकल्पात्मत्वेऽ पि 'सर्वो विकल्पः संसार इति नीत्या संसाराविर्भावकत्वमेव इति कथमे- तदभावेऽपि एवं स्यात् । यदभिप्रायादितो बारिपि ५ तदिति कर्म, तस्येति बौद्धाज्ञानस्येत्यर्थः, एतत्-बौद्धमज्ञानमित्यर्थः । पं०५ ख० पु० कथमस्यैतत् इति पाठः । ......

श्लोकः २४] प्रथमाह्निकम् । 'परमार्थविकल्पेऽ पिनावलीयेत पण्डितः। को हि भेदो विकल्पस्य शुभे वाऽप्यथ वाऽशुभे॥' इत्यायुक्तं, पौरुषे पुनरज्ञाने दीक्षादिना निवृत्ते सति यदि बौद्धं ज्ञानमुदियात् तदा तस्य वक्ष्यमाणनीत्या जीवन्मुक्तिं प्रत्यपि कारणत्वं भवेत् , केवलेन पुन- स्तेन न किंचित्सेत्स्यति इत्युक्तप्रायम् ।पौरुषं पुनर्ता- नमुदितं सत् अन्यनिरपेक्षमेव मोक्षकारणम् । यदुक्तं 'पाशाश्च पौरुषाः शोध्या दीक्षायां न तु धीगताः। तेन तस्यां दोषवत्यामपि दीक्षा न निष्फला ॥' इति । तच्च ज्ञानमात्रस्वभावम, अख्यात्यभाव एव हि पूर्णा ख्यातिः, सैव च प्रकाशानन्दघनस्यात्मनस्ता- त्त्विकं स्वरूपं, तत्प्रथनमेव मोक्षः इति युक्तमुक्तम्- 'एतदभावे मोक्षमब्रवीत्' इति ॥ २४ ॥ ननु अज्ञानशब्दस्य अपूर्ण ज्ञानमर्थः इत्यत्र किं निबन्धनं, ज्ञानाभावमात्रमेवास्तु इत्याशझ्याह पं० २ ख० पु० शुभे वाप्यशुभेऽ थ वा इति पाठः । पं०५ क० पु० केवलेन पुनर्न किंचिदिति पाठः । पं० १२ क. पु० युक्तमेतदभावे मोक्षमिति पाठः।

श्रीतन्त्रालोकः। अज्ञानमिति न ज्ञानाभावश्चातिप्रसङ्गन्तः । सहिलोष्टादिकेऽप्यस्ति न च तस्यास्ति संसृतिः ॥२५॥ कोऽसावतिप्रसङ्ग इत्याह-स हि' इत्यादि । तयुक्तमुक्तमज्ञानशब्दस्य अपूर्ण ज्ञानमर्थ इति ॥२५॥ तदाह अतो ज्ञेयस्य तत्त्वस्य सामस्त्येनाप्रथात्मकम् । ज्ञानमेव तदज्ञानं शिवसूत्रेषु भाषितम् ॥२६॥ 'अतो यथोक्ताद्धेतोः 'ज्ञेयस्य' नीलसुखादेः, 'शेयस्य च परंतत्त्वं यः प्रकाशात्मकः शिवः।' इत्यादिवक्ष्यमाणस्वरूपस्य 'तत्त्वस्य 'सामस्त्येन तस्य सर्वत्राविशेषात् तदेकघनाकारत्वेन 'अप्रथात्मक यत् इदं नीलम् इदं सुखम् इति द्वैतप्रथात्मकत्वाद- पूर्ण ज्ञानं तदेव 'अज्ञानं न पुनर्ज्ञानाभावमात्रम् इत्येतच्छिवसूत्रेषु 'भाषितम् उक्तमित्यर्थः ॥२६॥ तत्र चैतत्कुत्र दर्शितम् इत्याशङ्क्याह पं० ११ ख० पु. वक्ष्यमाणसतरवस्येति पाठः। पं०१५ क० पु० शिवसूत्रेषु दर्शितमित्यर्थ इति पाठः ।

श्लोकः ३०] प्रथमाह्निकम् । चैतन्यमात्मा ज्ञानं च बन्ध इत्यत्र सूत्रयोः । संश्लेषतरयोगाभ्यामयमर्थः प्रदर्शितः ॥२७॥ 'संश्लेषेतरयोगाभ्याम्' इति संहितया, अन्यथा चश्रकारप्रश्लेषविश्लेषाभ्यां, तेन 'ज्ञानं बन्धः, अज्ञानं बन्ध' इति चायमर्थः, इत्यज्ञानशब्दस्य श्रपूर्णज्ञाना- भिधानलक्षणः ॥२७॥ एतदेव व्याचष्टे चैतन्यमिति भावान्तःशब्दः स्वातन्त्र्यमात्रकम् । अनातिप्तविशेषं सदाह सूत्रे पुरातने ॥२८॥ द्वितीयेन तु सूत्रेण क्रियां वा करणं च वा । ब्रुवता तस्य चिन्मात्ररूपस्य द्वैतमुच्यते ॥२६॥ द्वैतप्रथा तदज्ञानं तुच्छत्वाद्बन्ध उच्यते । तत एव समुच्छेद्यमित्यावृत्त्या निरूपितम् ॥३०॥ इह न किञ्चिदप्यचेतितं भवति इति चितिक्रिया सर्वसामान्यरूपा इति । चेतयति इति चेतनः पूर्ण- ज्ञानक्रियावान्, तस्य भावः 'चैतन्य पूर्णज्ञानक्रिया- पं० १६ ख० पु० पूर्णज्ञानवान् इति पाठः ।

६०
श्रीतन्त्रालोकः।
वत्त्वं, तदेव च परमैश्वर्यस्वभावं स्वातन्त्र्यमुच्यते ।
तदाह 'स्वातन्त्र्यमात्रकम्' इति । स्वातन्त्र्यमेव के-
वलं स्वातन्त्यमात्रकम्, अत एवाह 'अनातिप्तवि-
शेषम्' इति, 'अनाक्षिताः स्वसहचारिणोऽपि
नित्यत्वव्यापकत्वादयो 'विशेषा' भेदा येन तत् ।
भावप्रत्ययान्तो हि शब्दः सहचारिधर्मान्तरनिवृत्ति-
मेव ब्रूते, अत एव द्रव्याभिधायिनः शब्दस्य विशेषः ।
यदाहुः
'धर्मान्तरप्रतिक्षेपाप्रतिक्षेपो तयायाः।
संकेतभेदस्य पदं ज्ञातृवाञ्छानुरोधतः॥
भेदोऽयमेव सर्वत्र द्रव्यभावाभिधायिनोः।'
इति । 'द्वितीयेन' इति अर्थाद् द्वितीयसूत्रवर्तिना
ज्ञानशब्देन, ज्ञप्तिः ज्ञानं, ज्ञायते येन इति ज्ञानं
च इति व्युत्पत्त्या 'क्रियां, करणं च प्राधान्येनाभि-
दधता 'तस्य-चैतन्यमात्मा-इत्युक्तस्वरूपस्य, अत
एव चेतयते इति 'चित्' चितिक्रियायां कर्ता, तन्मा-
त्रमेव केवलं 'रूपं यस्य तस्य 'द्वैतमुच्यते' कर्तृ-
।
पं०७ क० पु. अत एवेत्याभिधायिनः शब्दस्येति पाठः।
पं०१०क० पु० भेदस्य परमित्येवंविधः पाठः।

६१ श्लोकः ३०] प्रथमाह्निकम् । कर्मणोः कर्तृकर्मक्रियाणां च भिन्नानामवच्छेदका- नामागूरणाद् द्वैतप्रथासूत्रणं क्रियते, पूर्णमस्य रूपं नाख्याति इत्यर्थः। 'तत्' तस्मात्संविदद्वैतात्मनः पूर्णस्य रूपस्य अख्यानात् 'द्वैतप्रथा' एवं 'अज्ञानम्' अपूर्ण ज्ञानमपूर्णत्वाञ्च तदेव अपूर्ण मन्यता-शुभा- शुभवासना-शरीरभुवनाकारस्वभावविविधसंकुचित- ज्ञानरूपतया मलत्रयात्मा 'बन्ध' इति उच्यते, बन्धरूपत्वादेव च तदज्ञानं 'समुच्छेद्यम्' 'मलं कर्म च मायीयमाणवमखिलं च यत् । सर्व हेयमिति प्रोक्तं इत्युक्त्या हेयमित्यर्थः। नन्वत्र द्वैतप्रथात्मकत्वा- दपूर्ण ज्ञानमेव अज्ञानम् इत्येतत्कुतोऽवगतम् इत्याशक्योक्तम् 'इत्यावृत्त्या निरूपितम्' इति । 'श्रावृत्त्या' इति श्रज्ञानम् इति संहितापाततः पुनरा- वर्तनेन इत्यर्थः ॥ २८ ॥ २६ ॥ ३०॥ पं०६० पु. भुवनाकारविविधेति पाठः । पं० ७ ० पु० बन्ध इत्युच्यते इति पाठः । पं० १९ख० पु० इत्याधुक्त्या इति पाठः।

६२ श्रीतन्त्रालोकः। नन्वेवं मोक्षस्य लक्षणमभिधीयताम् इत्याशङ्- क्याह स्वतन्त्रात्मातिरिक्तस्तु तुच्छोऽ तुच्छोऽपि कश्चन । न मोक्षो नाम तन्नास्य पृथङ्नामापि गृह्यते ॥३१॥ न कश्चिदन्योऽस्ति इति वाक्यशेषः। यदि तुच्छ- स्तत्पूर्वोक्तनीत्या बन्ध एव स्यात्, अतुच्छश्चेत् पार- मार्थिकत्वान्नास्य स्वतन्त्रात्मातिरेकः । यद्वक्ष्यति 'मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः। स्वरूपं चात्मनः संवित् ॥' इत्यादि । किमुक्तं भवति,-इह तावदात्मज्ञानं मोक्ष इत्यविवादः, अतो यदेवात्मनो लक्षणं तदेव मोक्षस्य इति तन्नान्तरीयकत्वादेव अस्य लक्षणसिद्धेः पृथक्लक्षणं न कृतं, अत एव 'नामापि' इति अपि- शब्देन लक्षणादेः पुनः का वार्ता इत्यावेदितम् ॥३१॥ पं०७ख० पु० यतो यदि तुच्छ इति पाठः ।

६३ श्लोकः ३२] प्रथमाह्निकम् । एवमप्यस्य तद्वैलक्षण्यं कटाक्षीकर्तुं दर्शनान्तरो- क्तस्य मोक्षस्य स्वरूपमभिधातुमुपक्रमते यत्तु ज्ञेयसतत्त्वस्य पूर्णपूर्णप्रथात्मकम् । तदुत्तरोत्तरं ज्ञानं तत्तत्संसारशान्तिदम् ॥३२॥ 'यत्' पुनः 'ज्ञेयस्य' कला-तत्त्व-भुवनाद्यात्मनोऽध्वनः यत् 'सतत्त्वम्' ऊोर्ध्वमन्योन्यं च भेदेनावस्थानं, तस्य 'उत्तरोत्तरम्' उपर्युपरिभावेन तत्तद्भवनाद्युल्ल- ङ्घनक्रमेण तत्तदवच्छेदापगमात् यथायथमतिश- याद् द्वैतप्रथात्मकत्वात् संकुचितत्वेऽपि 'पूर्ण- पूर्णप्रथात्मकं ज्ञानम् [उदेति तदधरीकृततत्त्वजालो- लङ्घनात् चतुर्दशविधं यच्च प्रोक्तं संसारमण्डलम् ।' इत्याद्युक्तेः 'तस्य तस्य' चतुर्दशविधयोन्यात्मनः 'संसारस्य' 'शान्तिदं तत उन्मोचकमित्यर्थः । ६ चतुर्दशविधत्वं संसारस्योक्तं यथा- 'अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति । मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥' । इति ।

६४ श्रीतन्त्रालोकः। ज्ञानस्य हि मोचनमेव धर्मः, किंतु संकुचितस्यासं- कुचितत्वम् ॥ ३२ ॥ एतदेव दर्शयति रागायकलुषोऽस्म्यन्तः- शून्योऽहं कर्तृतोज्झितः। इत्थं समासम्पासाश्यां ज्ञानं मुञ्चति तावतः ॥ ३३॥ 'इत्थं प्रथमार्थनिरूपितस्वरूपं 'ज्ञान' 'तावतः' परिमिताद् बन्धात्, अर्थात् बौद्धादीन्मुञ्चति इति संबन्धः । तत्र 'रागाद्यकलुषोऽहं भवामि' इति ज्ञानं योगाचाराणाम् । यदाहुः 'रागादिकलुषं चित्तं संसारस्तद्विमुक्तता। संक्षेपात्कथितो मोक्षः प्रहीनावरणैर्जिनैः ।।' इति । तथा 'प्रभास्वरमिदं चित्तं प्रकृत्यागन्तवो मलाः । तेषामपाये सर्वार्थ तज्ज्योतिरविनश्वरम् ॥ पं० १ ० पु० किंतु पदं नास्ति, पं० १२ ख. पु० संसारस्तद्विविक्तता इति पाठः । पं० १५ ख० ग० पु० प्रकृया तनवो मला इति पाठः ।

Ma श्लोकः ३३] प्रथमाह्निकम् । इति । अयमत्रार्थः-प्रकृतिप्रभास्वरस्य चित्तस्य अनाद्यविद्यावशाद्रागादिभिरागन्तुकैर्मलैरावृतत्वेन संसाराविर्भावेपि भावनाद्यात्मकमार्गानुष्ठानबलात्त- त्तदागन्तुकमलप्रहाणेन आश्रयपरावृत्त्या अविनश्वर- ज्योतीरूपस्वरूपाभिव्यक्तिर्मोक्ष इति तदयुक्तं,-भा- वना ह्यत्र भवद्भिः कारणमिष्यते, सा क्षणक्षयिणां चित्तक्षणानां विशेषमाधातुं नोत्सहते, तस्याः स्थि- रैकाश्रयगतत्वेन विशेषाधानक्षमत्वात् । तथाहि- स्थायिनस्तिलादयो भावाः स्थायिभिरेव सुमनोभि- स्यिन्ते, तथेयमपि स्यात्, अतश्च प्रतिक्षणमपूर्वत्वेन उपजायमानस्य निरन्वयविनाशिलचनाभ्यासवत् अनासादितातिशयस्य चित्तक्षणस्य प्रभास्वरचित्त- क्षणोपजननाय भावना न प्रभवेत् इत्यनया कोऽर्थः। समलाश्च चित्तक्षणाः स्वारसिक्याः सदृशारम्भ- णशक्तः स्वसदृशानेव चित्तक्षणानुत्पादयितुं क्षमन्ते, न विसदृशान् प्रभास्वरान् । एवं च चित्तक्षण- भगुरत्वान्मलप्रहाणायैव भावना न प्रगल्भेत पं० ७ ख० पु. विशेषमभिधातुमिति पाठः । पं. १७ ख० पु० न भावना प्रगल्भते इति पाठः । १ श्रोतन्त्रालोकः। । इत्याश्रयपरावृत्तेः का वार्ता इति कृतं क्षणिकवा- दिनां मोक्षेण । बन्धमोक्षौ च स्थिरैकादिपक्षे युज्येते, बद्धो हि मोक्षाय प्रवर्तते, प्राप्य च निवृत्तो भवति इति, सन्तानश्चैको न विद्यते, तस्य भेदा- भेदविकल्पोपहतत्वात् । 'अन्तः' संविद्रूपतायामपि 'शून्योऽहं भवामि इति ज्ञानं माध्यमिकानाम् । ते खलु सर्वभावनःस्वाभाव्यवादिनःसंविदोऽपि नैःस्वा- भाव्यान्मिथ्यात्वमाभिदधतस्तच्छून्यतायामेव मोक्ष- माचक्षीरन् । यदाहुः 'चित्तमात्रमिदं विश्वमिति यादेशना मुनेः । तत्त्रासपरिहारार्थ बालानां सा न तत्त्वतः ।। सापि ध्वस्ता महाभागैश्चित्तमात्रव्यवस्थितिः ।' इति, तदप्ययुक्तं,-संविदो हि मिथ्यात्वेन स्वतन्त्र- रूपापाकरणेऽपि मिथ्यात्वे सत्तैव न भवेत्, तस्याः नीलादिवत् परतन्त्ररूपत्वाभावात्, नीलादीनां हि मिथ्यात्वेन स्वतन्त्ररूपापाकरणेऽपि संविदात्मत- पं० १ ग० पु० श्राशयपरावृत्तेरिति पाठः । पं० ४ ख० पु० संतानश्चैकेन विद्यते इति पाठः । पं० ७ ख० पु० स्वभाववादिन इति, नैःस्वभावादिति च पाठः श्लोकः ३३] प्रथमाह्निकम् । याऽस्त्यवस्थानं, संविदि तु स्फुरत्तामात्रसारायां मिथ्यात्वादसत्त्वमेव स्यात् इति न किंचित्स्फुरेत् इति मूबँव स्यात् इति। न च संविदः स्फुरत्तामात्र- साररूपाया अपह्नवःशक्यक्रियः इति यत्किचिदेतत्। श्रथ 'सर्वालम्बनधमैश्च सर्वसत्त्वैरशेषतः। सर्वक्लेशाशयैः शून्यं न शून्यं परमार्थतः ॥ इत्यायुक्तयुक्त्या ग्राह्यग्राहकभावादिना कल्पि- तेन रूपेण शून्यं, न तु संविदापि इति चेत्, एवं युच्यमाने विज्ञानवादे एवाभ्युपगमः स्यात् , सोऽपि हि कल्पितपरतन्त्रादिरूपशून्यत्वेन 'इत्यन्तःकरणस्यैव विचित्रात्मावभासिनः । अविभाविततत्त्वस्य विस्फूर्जितमिदं जगत् ।।' इत्यायुक्तोर्वज्ञप्तिमेव परमार्थसतीमभ्युपागमत् इति ०३ क. पु० सूत्कैव स्यादिति, ग० पु० स्फुरतासाररूपाया इति च पाठः । पं०८ क० पु० भावनादिना इति पाठः । पं०१३ क. पु० अवभासिततत्त्वस्येति पाठः। पं० १४ क० पु० परमार्थमभ्युपागमदिति पाठः । ग० पु० विज्ञप्तमेव परमार्थ- सत्यमभ्युपगतमिति पाठः।

६८ श्रीतन्त्रालोकः। न नवं किंचिदायुष्मतोत्प्रेक्षितम् । तत्र चोक्तो दोषः 'श्रकर्ताहं भवामि इति ज्ञानं सांख्यानाम् । तेहि निष्क्रियमेवात्मानमभ्युपागमन्, अन्यथा हि तस्य चैतन्यं न स्यात्-अचेतनानामेव क्षीरादीनां क्रिया- वत्त्वोपलब्धेः । अयुक्तं चैतत्,-अकर्तृत्वे हि पुरुषस्य अनिर्मोक्षः स्यात्, अकिंचित्करत्वे हि पुरुषस्योत्प- नेऽपि विवेकदर्शने स्वरूपेणावस्थानं न स्यात्, प्रवृत्तिस्वभावायाः प्रकृतेरौदासीन्यायोगात् , तं प्र- त्यपि पुनः संभावनायाः संभवात् । न च प्रकृतेः 'दृष्टाहमनेन' इति 'न पुनरेतदर्थमहं प्रवर्ते' इत्य- नुसन्धानमस्त्याचैतन्यादस्याः - प्रेक्षाकारित्वाभा- वात् । एवं चेयं कृतेऽपि शब्दाद्युपलम्भे यथा पुनस्तदर्थं प्रवर्तते, तथा कृतायामपि विवेकख्यातौ पुनरपि तदर्थं प्रवर्तिष्यते,-स्वभावस्यानपेतत्वात् । एवमपि कृतमकृतं न भवति - इति संकुचितमपि पं० १० पु० चोक्तदोष इति समस्तः पाठः। पं०६ क० पु० उत्पन्नेऽपि प्रकृतिपुरुषविवेकेति पाठः । पं० ११ क० पु० अकृतं भवति इति पाठः ।

श्लोकः ३३] प्रथमाह्निकम् । ज्ञानं बौद्धादीनां निजोचितामर्थक्रियां विदध्यात् । तथाहि बौद्धाः 'एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्त पश्यामः ॥ इत्यायुक्तयुक्त्या बुद्धिवृत्त्यात्मकं ज्ञानमेव तत्त्वं प्रति- पन्नाः इति बुद्धितत्त्वप्राप्तिरेवैषां मोक्षः। तदुक्तं 'ब्रह्मा तत्राधिपत्वेन बुद्धितत्त्वे व्यवस्थितः । सर्वज्ञं च तमेवाहुबौद्धानां परमं पदम् ॥' इति । अत एवैषां बुद्धितत्त्वाधोवर्तिनः संसारस्य शान्तिः । एवं च 'ज्ञानं मुञ्चति तावतः' इति युक्तमुक्तम् । सांख्याश्च सुखदुःखाद्यात्मकप्रकृतिपृथ- ग्भावेन पुंस एव स्वरूपेणावस्थानं तत्त्वं प्रतिपन्नाः इति पुंस्तत्त्वप्राप्तिरेवैषां मोक्षः। तदुक्तं 'पौरुषं चैव सांख्यानां सुखदुःखादिवर्जितम् ।' इति । नैरात्म्यदृष्टश्चात्मदृष्टिविशिष्यते, इति सां- ख्यानां बौद्धेभ्यः पूर्णप्रथात्मकं ज्ञानम् इत्येषां बुद्धि- तत्त्वोर्ध्ववर्तिपुंस्तत्त्वप्राप्तिः । एवं च पूर्णप्रथात्मकमु- । पं० ५ क० पु० प्राप्तिरेषां इति पाठः । पं०६ ख० पु० ब्रह्मैवात्राधिपत्येनेति पाठः ।

श्रीतन्त्रालोकः।
त्तरोत्तरं ज्ञानम् , इत्यादिः पूर्वसूत्रप्रतिज्ञातोऽर्थों
निर्वाहितः। एवं सांख्यपातञ्जलयोः प्रकृतिपृथग्भा-
वेन पुंज्ञानस्य साम्येऽपि सांख्यभ्यः पातञ्जलानामी-
श्वरप्रणिधानात् तद्विशिष्यते, इति तेषां पुंस्तत्त्वो-
प्रवर्तिनियतितत्त्वप्राप्तिरुक्ता।
'षडड्विंशकं तु देवेशि योगशास्त्रे परं पदम् ।'
इति । एवं च मौसुलपाशुपतादीनामपि यथायथं
ज्ञानातिशयादूवोर्ध्वतत्त्वावाप्तिः परं पदम् इति ।
तदुक्तं
'मौसुले कारुके चैव मायातत्त्वं प्रकीर्तितम् ।'
इति । तथा
'व्रते पाशुपते प्रोक्तमैश्वरं परमं पदम् ।'
इति । तत्रैवं बौद्धादीनां मायीयादेव मलादंशां-
शिकया, मौसुलानां कार्मादपि, पाशुपतानाम्
अनात्मनि श्रात्माभिमानात् आणवादपि मलान्मो-
चकं ज्ञानम् इत्युक्तं 'समासव्यासाभ्याम्' इति ३३॥
पं० ४ क० पु० प्रणिधानाद्विशिष्यते इति पाठः ।
पं० ६ क० पु० षड्विंशकं महादेवीति पाठः ।
पं० १९ख० पु० आत्मताभिमानादिति पाठः ।

श्लोकः ३४] प्रथमाह्निकम् । ननु स्वदर्शनौचित्येन एवं बन्धविगलनेऽपि किमिति नासौ मुक्तः इत्याशंक्याह तस्मान्मुक्तोऽप्यवच्छेदादवच्छेदान्तरस्थितः । अमुक्त एव मुक्तस्तु सर्वावच्छेदवर्जितः॥३४॥ ....... अध्वा बन्धस्य कारणम् ।' इत्युक्तेः श्रध्वा तावद्बन्धकः । तत्र बौद्धादयो बुद्धि- तत्त्वान्तवन्धविगलनात् तन्मुक्ता अपि तदूर्ध्ववर्त्य- ध्वान्तरावच्छेदस्थितेरमुक्ता एव, अत एवैषां पुनरपि सर्गारम्भे सृज्यमानत्वात् संसाराविर्भावो,- बन्धकारणस्य निःशेषेणाप्रक्षयात्। यद्वक्ष्यति 'सांख्यवेदादिसंसिद्धान् श्रीकण्ठस्तदहर्मुखे । सृजत्येव पुनस्तेन न सम्यङ्मुक्तिरीदृशी ॥' इति । श्रीस्वच्छन्दशास्त्रेऽपि पं० ६ ख० पु० इत्याद्युक्तेरिहाध्वा तावदिति पाठः । पं० ७ ख० पु० तत्वान्तर्बन्धविगलनात् इति पाठः । क० पु० विगलनान्मुक्का इति पाठः। पं० ख० पु० अवच्छेदावस्थितेरिति पाठः । पं० १० ख० पु० निःशेषेणाक्रमात् इति प्रथमपाठः संदृश्यते । पं० १२ क० पु० पुनस्तस्मादिति, ख० पु० न सहङमुक्तिरिति पाठः ।

७२ श्रीतन्त्रालोकः 'लौकिकानां पुनः सृष्टिः पुनः संहार एव च । संसारचक्रमारूढा भवन्ति घटयन्त्रवत् ।।' इत्यादि सामान्येनाभिधाय 'मुक्तं च प्रतिबन्धात्तं पुनर्बध्नाति चेश्वरः । बन्धः संसारतो भूयो यावद्देवं न विन्दति ॥' इति बौद्धाद्यवान्तरदर्शनमुक्तोपलक्षणपरतया विशे- षेणोक्तम् । यः पुननिःशेषप्रक्षीणसर्वाध्वबन्धः स एव साक्षान्मुक्तः इत्याह 'मुक्तस्तु सर्वावच्छेद- वर्जितः' इति । यदुक्तं 'सर्वाधवनो विनिष्क्रान्तं शैवानां तु परं पदम् ।' इति । तथा 'शैवः सिद्धो भाति मूतिरेषां मुक्तः सृष्टी पुनरभ्येति नाधः । इति ॥ ३४॥ अत्र चैव-विधमेव पूर्ण ज्ञानं निमित्तम् इत्याह यत्तु ज्ञेयसतत्त्वस्य ज्ञानं सर्वात्मनोज्झितम् । अवच्छेदैर्न तत्कुत्राप्यज्ञानं सत्यमुक्तिदम्॥३॥ पं० १ क. पु० पुनः संसार इति पाठः । पं० ५ ख० पु० यावहेहं न विन्दति इति पाठः । बक्षणतयति पं०६क० पु० पाठ श्लोकः ३८] प्रथमाह्निकम् । ७३ : 'अवच्छेदैः संकोचाधायिभिरिदन्तापरामर्शः 'सर्वा- मना' सर्वप्रकारं वासनामात्रेणापि यत् 'उज्झितं' पराहन्तापरामर्शसारमित्यर्थः । अत एव च पूर्ण- प्रथात्मकत्वात् 'न तत् कुत्राप्यज्ञानम् अतश्च 'सत्यां' मुक्त्याभासविलक्षणां 'मुक्ति' ददाति, अहंपरामर्श- सारप्रमात्रैकात्म्येन स्फुरति इत्यर्थः ॥ ३५ ॥ इदानीमुद्दिष्टयोआनाज्ञानयोरेव स्वरूपं विभजति ज्ञानाज्ञानस्वरूपं यदुक्तं प्रत्येकमप्यदः। द्विधा पौरुषबौदत्वभिदोक्तं शिवशासने ॥३६॥ 'शिवशासने' इति पञ्चस्रोतोरूपे पारमेश्वरदर्शने इत्यर्थः। एतद्धि सर्वत्रैवाविशेषेणोक्तम् ॥ ३६ ॥ तदेव लक्षयति तत्र पुंसो यदज्ञानं मलाख्यं तज्जमप्यय । स्वपूर्णचिकियारूपशिवतावरणात्मकम् ॥३७॥ संकोचिहक्क्रियारूपं तत्पशोरविकल्पितम् । पं०११ क. पु० सर्वत्राविशेषेणेति पाठः। पं०१४ क० पु० सुपूर्णेति पाठः । पं० १५ क० ख० पु० संकोचगिति पाठः । क. पु० पशोरविकल्पकमिति- १० श्रीतन्त्रालोकः। अथ-शब्द आनन्तर्ये, उद्देशानन्तरं हि लक्षणपरी- क्षयोरवसरः इत्याशयः। तत्र' द्विविधयोानाज्ञान- योर्मध्यात् ....... 'पुंसः प्रादुर्भवत्परम् । इत्यस्यात्मनोऽपि यत्समनन्तरोक्तस्वरूपं मला- ख्यमनन्यसाधारणानवच्छिन्नज्ञानक्रियायोगि पर- प्रमातृरूपाच्छिवादेव जातमुद्भूतमित्यर्थः। परमे- श्वर एव हि स्वस्वातन्त्र्यात्पूर्णज्ञत्वकर्तृत्वाद्यपह- स्तनेन अख्यात्यात्मकाणवमलाविर्भावेन स्वात्मान- मावृणुयात् । तदुक्तं 'परमं यत्स्वातन्त्र्यं दुर्घटसंपादनं महेशस्य। देवी मायाशक्तिः स्वात्मावरणं शिवस्यैतत् ।। (प० सा० १५ का०) मायापरिग्रहवशाद्- बोधो मलिनः पुमान्पशुर्भवति । (५० सा० १६ का०) इति । वक्ष्यति च ७ नाममात्रेण वस्तुसंकीर्तनमुद्देशः, सजातीयविजातीयासाधारणनिरूपकं कारणं लक्षणम्, युक्त्ययुक्तिविवेकः परीक्षा इति ।

श्लोकः ३८] प्रथमाह्निकम् । ७५ 'तेन स्वरूपस्वातन्त्र्यमानं मलविजम्भिवम् ।' इति। तदेव पशोराणवादिमलत्रययोगिनोऽपि तस्य मातुर्देशकालाधवच्छिन्नत्वानियतहविक्रयास्वाभासा- लोचनात्मकं ज्ञानम् । परमेश्वर एव हि सर्वज्ञताद्यप- हस्तनेन अणुतां प्रापितस्य स्वात्मनः पुनरपि कला- दियोगं कृतवान् , येनास्य नियतं ज्ञत्व-कर्तृत्वाद्य- भियुक्तं । तदुक्तं 'असूत सा कलातत्त्वं यद्योगादभवत्पुमान् । जातकर्तृत्वसामो विद्यारागा ततोऽसृजत् ।। विद्या विवेचयत्यस्य कर्म तत्कार्यकारणे। रागोऽपि रञ्जयत्येनं खभोगेष्वशुचिष्वपि ॥ नियतिर्योजयत्येनं स्वके कर्मणि पुद्गलम् । कालोऽपि कलयत्येनं तुट्यादिभिरवस्थितः ॥' इति। ज्ञानस्वरूपस्य प्रथममुद्देशेऽपि अवश्योच्छेद्यत्व- प्रतिपादनार्थमादावज्ञानस्वरूपं निरूपितम् ॥ ननु पुंसो बुद्धिवृत्त्यात्मकं ज्ञानं निर्विकल्पकम् पं०८ क० पु० अभवत्पुन इति पाठः । पं० १ ख. पु० ज्ञातकर्तृत्वेति पाठः । पं० १० ख० पु० विवेदयत्यस्येति पाठः। पं०१४ क. पु. अवच्छेद्यत्वेति पाठः ।

श्रीतन्त्रालोकः। इत्युच्यते, तत् कथमेतत् बुद्ध्यंशोपनिपाति न स्यात् इत्याशंक्याह तदज्ञानं न बुद्ध्यंशोऽध्यवसायायभावतः ३८॥ एवमपि हि बुद्धेः 'अध्यवसायो बुद्धिः' इत्याद्युक्तेरध्यवसाय एव मुख्यं रूपं, कथमस्य एतदभावे तद्धर्मत्वं स्यात् ॥ ३८ ॥ अत एवाह अहमित्थमिदं वेमीत्येवमध्यवसायिनी। षट्कञ्चुकाबिलाणूत्थप्रतिबिम्बनतो यदा ॥३६॥ धीर्जायते तदा तादृग्ज्ञानमज्ञानशब्दितम् बौद्धं तस्य च तत्पौंस्यं पोषणीयं च पोष्टच ४०॥ अस्याश्चैवमध्यवसाययोगित्वे हेतुः 'षटकञ्चुक' इति । षट्कञ्चुकैः 'कालकलानियतिबलाद्रागाविद्यावशेन संबद्धः । । पं० ३ ख० पु० बुद्ध्यंशो व्यवसायेति पाठः । पं० ११ ख० पु० धीर्जायतेति पाठः । पं० १५० पु० सम्बन्ध इति पाठः ।

श्लोकः४०] प्रथमाह्निकम् । अधुनैव किंचिदेवेदमेव सर्वात्मनैव जानामि । मायासहितं कञ्चुकषटकमणोरन्तरङ्गमिदमुक्तम् ॥ (प० सा० १६ उ०१७) इत्यादिना निरूपितस्वरूपैः 'आबिलः' प्रतिनियत- ज्ञत्वकर्तृत्वाद्युत्पत्त्या म्लानप्रायो योऽसौ 'अणुः परि- मितात्मा, ततो जातात् 'प्रतिबिम्बनात्' चिच्छायासं- क्रमणात् इत्यर्थः। एवं ह्यस्याः पुंबोधव्यक्तिभूमित्वा- देवस्वभावो भवेत् इति भावः । 'ताहक्' इति एव- मध्यवसायरूपम् । अनयोश्च परस्परं कार्यकारणभावं दर्शयितुमाह 'तस्य' इत्यादि, 'तस्य' इति बौद्धस्य, 'पौस्नं पुंसि भवं पौरुषम् इत्यर्थः । 'पोषणीयं' कार्यम् इत्यर्थः । कामशोकाद्यावेशभाजो हि तन्मय- तानुसंधानादिना तत्चदर्थसाक्षात्कारात्मकमविकल्प ज्ञानमुदियात् । यदाहुः 'कामशोकभयोन्मादचौरस्वप्नायुपप्लुताः । अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥' इति । 'पोष्ट' इति कारणम् । स्वप्नादावपि अनुभव ॥ पं० १६० पु० पुरतोऽवस्थितानि वेति पाठः ।

श्रीतन्त्रालोकः। एव हि प्राच्या निमित्तं, नहि नारिकेलद्वीपवासिनो वहिविकल्पादाविच्छापि भवेत् ॥ ३६॥४०॥ एवमज्ञानं निरूप्य, ज्ञानमपि द्विविधं निरूपयितु- माह क्षीणे तु पशुसंस्कारे पुंसः प्राप्तपरस्थितः । विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम् ॥४॥ विकस्वराविकल्पात्मज्ञानौचित्येन यावसा । तद्वौद्धं यस्य तत्पौंस्नं प्राग्वत्पोष्यं च पोष्ट च ॥४२॥ पशोराणवस्यापि वासनामात्रक्षयाभिधानात् 'नि- मित्ताभावे नैमित्तिकस्याप्यभावः' इति न्यायेन कार्म- मायीययोरपि प्रक्षयान्निवृत्तनिखिलबन्धस्य 'पुंसः' अत एव प्राप्तपरमचिदैकाल्यस्य 'विकस्वरं' पराहन्ता- विमर्शात्मकं निर्विकल्पक कृत्रिमाहंकारादिविकल्प- पं० ख० पु. प्राप्तपुरस्थितिरिति पाठः । पं०१० क. पु० पशोरावरणस्यापि इति पाठः । पं० १३ ख० पु. प्राप्तपरसंविदैकात्म्यस्य इति पाठः ।

श्लोकः ४३] प्रथमाह्निकम् । ७९ विलक्षणं ज्ञानं पौरुषं भवति इति वाक्यार्थः । 'श्रौचित्येन' इति तद्वत्पूर्णेनात्मना इत्यर्थः । अतश्च 'सर्वो ममायं विभवः' इत्येवंरूपत्वमस्याः। 'यस्य' इति बौद्धज्ञानस्य । 'प्राग्वत्' इति यथैवाज्ञानयोः परस्परं पोष्यपोषकभावस्तथैव इत्यर्थः। तथैव पूर्णा- पूर्णत्वेन पुनः विशेषो ग्राह्यः, अन्यथा हि ज्ञाना- ज्ञानयोः स्वरूपमेवाभिहितं न स्यात् ॥४१॥४२॥ नन्वेवंविधमज्ञानं तावदनायेवावस्थितम् इति नास्ति विवादः, एतदभावात्मकं ज्ञानं पुनः कदा समुदियात्, एतदभावे च किं निमित्तम् ? इत्याश- क्याह तत्र दीक्षादिना पौंस्नमज्ञानं ध्वंसि यद्यपि । तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम् ॥४३॥ यद्यप्युक्तस्वरूपं 'पोस्नमज्ञानं पं०३ क. पु० सर्वोऽयं मम विभव इत्येवंरूपः पाठः । पं०१३ क० पु० तथापि तु शरीरान्ते इति पाठः ।

८०
श्रीतन्त्रालोकः।
'दीयते ज्ञानसद्भावः क्षोयन्ते पशुवासनाः ।
दानक्षपणसंयुक्ता दीक्षा तेनेह कीर्तिता ।'
इत्यायुक्तस्वरूपया दीक्षया नश्यत्येव तथापि' 'तत्'
अज्ञानाभावमात्ररूपमात्मज्ञानं व्यक्त्युन्मुखमपि
"प्रारब्ध्रकं न शोधयेत् ।
इत्याद्युक्तेरिदंशरीरारम्भकस्य कार्ममलस्य सद्भावात्
'तस्य' वर्तमानशरीरस्य 'अन्ते स्फुटं व्यज्यते'
'देहपाते शिवं व्रजेत् ।'
इत्यायुक्त्या साक्षात्कारात्म स्फुरति इत्यर्थः ।
श्रादिशब्दाच्च शेषवृत्त्या ग्रहणं, न तु तीव्रतरशक्ति-
पातादेः, तद्धि दीक्षायां निमित्तम् इति तद्दचनेनै-
वास्य ग्रहः सिद्धः, न चास्मिन्दीक्षातोऽन्यत्किंचि-
न्मुक्तौ निमित्तम् । तदुक्तं
'तस्मात्प्रवितताबन्धात्परस्थानविरोधकात् ।
दीव मोचयत्यूचं शैवं धाम नयत्यपि ॥'
पं०१० पु० प्रारब्धं केन शोधयेदिति पाठः ।
पं० १० ख० पु० तीव्रतमशक्तिपातादेव इति पाठः ।
पं० ११ ख० ग० पु० तद्वदनेनैवास्य ग्रह इति, न चान्यस्मिन्दीक्षेति च पाठः।

श्लोक ४४] प्रथमाह्निकम् । इति । तीव्रतमशक्तिपातादौ पुनरनुपायादिक्रमेण दीक्षा भवेत्, येनास्य तत्कालमेवापवर्गः । तदुक्तं 'तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते।' इति दीक्षानिरपेक्षमेव पुनरेतत् मुक्ती निमित्तम् इति न संभाव्यम्, एवं श्रुतिविरोधः स्यात् । 'तस्य दोषां विनैवात्मसंस्कारपरिणामतः । सम्यग्ज्ञानं भवेत्सर्वशास्त्रेषु परिनिष्ठितम् ॥' इत्यादौ पुनर्बाह्यक्रियादीक्षाभिप्रायेण तनिषेधो विवक्षितः, अन्यथा झत्रात्मसंस्कारशब्दार्थ एव कथं संगच्छताम् इत्यलं बहुना ॥ ४३ ॥ ननु यद्येवं दीक्षया देहान्त एव मुक्तिर्भवेत, तत्कथं 'जीवन्नेव विमुक्तोऽसौ' इत्याद्युक्तम् इत्या- शङ्क्याह बौद्धज्ञानेन तु यदा बौद्धमज्ञानजृम्भितम् । विलीयते तदा जीवन- मुक्तिः करतले स्थिता ॥ ४४ ॥ पं०३० पु० तत्क्षणादपव्यज्यत इति पाठः । पं० ६ ख० पु० संस्कारपरिपाकत इति पाठः । पं० ८ ० पु. पुनर्वाक्यक्रियेति ख० पु० पुनर्वाक्ये क्रिया इत्यादिरूपः पाठः ।

श्रीतन्त्रालोकः। ८२ 'बौद्धज्ञानेन' इति परमेश्वराद्वयशास्त्रश्रवणायु- द्भूतेन । तदुक्तं 'गुरुणैव यदा काले संप्रदायो निरूपितः । वदाप्रभृति मुक्तोऽसौ यन्त्रं तिष्ठति केवलम् ॥' इति । एतच्च दीक्षिताधिकारेणैव ज्ञेयम्, नहि अकृतदीक्षस्य शास्त्रश्रवणेऽप्यधिकारः इति कुतस्त- दवबोधनिमित्तकोऽपि तज्ज्ञानाविर्भावः स्यात् । तदुक्तं 'अदीक्षितानां पुरतो नोचरेच्छिवपद्धतिम् ।' इति । न च अप्रध्वस्तपौरुषाज्ञानस्य अनेन किंचि- द्भवति इत्युक्तप्रायम्, अन्यथा हि प्रेक्षावतां दीक्षायां प्रवृत्तिरेव न स्यात्-साध्यस्यार्थस्य अत एव स्रष्टुरभावात्, अत एव दीक्षायां शिथिला- स्थत्वं न वाच्यं, तस्या एव मुक्तिं प्रति मूलकारण- त्वात् । एवं दीक्षादिना पौंस्नं ज्ञानमभिव्यक्त्युन्मु- खमपि न तदैव मुक्तिप्रदं-देहान्ते तदभिव्यक्तेरुक्त- त्वात् , इदं पुनस्तदैव इति ततोऽस्य प्राधान्यमपि कटाक्षितम् ॥४४॥ पं०१० पु० दीक्षाधिकारेयौवेति पाठः ।

श्लोक ४५] प्रथमाह्निकम् । न केवलमेतदेवास्य ततः प्राधान्यनिमित्तं याव- दन्यदपि इत्याह दीक्षापि बौद्धविज्ञान- पूर्वा सत्यं विमोचिका। तेन तत्रापि बौदस्य ज्ञानस्यास्ति प्रधानता ॥४५॥ ner ह 'सर्वलक्षणहीनोऽपि ज्ञानवान्गुरुरुत्तमः ।' इत्याद्युक्तेरधिगतशास्त्रार्थस्यैव हि गुरोर्दीक्षायाम् अधिकारः, अत एव तस्य 'शिवशास्त्रविधान ज्ञानज्ञेयविशारदम् ।' इति लक्षणं प्राधान्येनोक्तं, अन्यथा पुनः 'शास्त्रहीने न सिद्धिः स्याद्दीक्षायां वीरवन्दिते।' इत्याद्युक्त्या दीक्षा विमोचिकैव न स्यात्, तेन इति दीक्षायां बौद्धस्य ज्ञानस्य कारणत्वात्, नहि तेन विना तस्या निष्पत्तिरेव स्यात् ॥ ४५ ॥ न चैतदस्मदुपज्ञमेव इत्याह पं०३ ग० पु० दीक्षापि चात्र विज्ञानपूर्वा सद्योविमोचिकेति पाठः । पं० है क. पु. शास्त्रस्यैव गुरोरिति, दीक्षायामेवेति एव शब्दाधिकश्च पाठः ।

श्रीतन्त्रालोकः। ज्ञानाज्ञानगतं चैतद्- द्वित्वं स्वायम्भुवे रुरौ। मतङ्गादौ कृतं श्रीमत्- खेटपालादिदैशिकैः॥४६॥ तदुक्तं श्रीस्वायम्भुवे 'अथात्ममलमायाख्यकर्मबन्धविमुक्तये । व्यक्तये च शिवत्वस्य शिवज्ञानं प्रवर्तते।' इति । 'अथानादिर्मलः पुंसां पशुत्वं परिकीर्तितम् । तत्सद्भाववशोऽज्ञादिः पाशौघः पौरुषः स्मृतः ॥ तस्मात्तत्तत्त्वतो ज्ञेयं मोक्षमक्षयमिच्छता।' इति च । श्रीशरावपि 'यजन्ति विविधैर्यज्ञैर्मन्त्रतत्त्वविशारदाः । गुरुतन्त्राद्यनुज्ञातदीक्षासिच्छिन्नसंशयाः ॥' इति । 'न मीमांस्या विचार्या वा मन्त्राः स्वल्पधिया नरैः। प्रमाणमागमं कृत्वा श्रद्धातव्या विचक्षणैः॥ पं० १ क० पु० ज्ञानाज्ञानकृतमिति पाठः। पं०१३ ख० पु० जयन्तीति पूर्वतनः पाठश्च दृश्यते, क. पु० मन्त्रतन्त्र- विशारदा इति च पाठः। पं० १४ क० पु० दीक्षाविच्छिन्नसंशया इति पाठः। पं० १६ क० पु० न मीमांसा विचार्या वा मन्त्रस्वल्पधियेति पाठः।

श्लोक ४६] प्रथमाह्निकम् । सर्वे मन्त्रात्मका देवाः सर्वे मन्त्राः शिवात्मकाः । शिवात्मकमिदं ज्ञात्वा शिवमेवानुचिन्तयेत् ।।' इति च । श्रीमतङ्गेऽपि 'ततः स भगवानीशः स्फुरन्माणिक्यशेखरः । वाक्यानलसमुत्थेन ज्वालावीर्येण मन्त्रराट् ॥ प्रहदाह मुनेः सर्वमज्ञानं तृणराशिवत् ।' इति । 'शिववक्त्राम्बुजोद्भूतममलं सर्वतोमुखम् ॥ शिवत्वोन्मीलनं तथ्यं ज्ञानमज्ञाननाशनम् । अनेन सिद्धाः पश्यन्ति यत्तत्पदमनामयम् ।।' इति च । श्रादिशब्देन चिल्लाचक्रेश्वरीमतादेग्रह- णम् । तदुक्तं तत्र 'बौद्धं च पौरुषेयं च द्विविधं तन्मलं स्मृतम् । तत्र दीक्षादिना याति पौरुषेयं मलं क्षयम् ॥ बौद्धमक्षयमेवास्ते तावत्तावत्समुद्रितम् । यावन्न बौद्धमेवास्य सजातीयविलापकम् ॥ पं० १ ख० पु० सर्व वर्णात्मका मन्त्राः सर्वे वर्णाः शिवात्मका इति शोधितः पाठोऽस्ति । पं० २ क. पु. शिवात्मकमिदं कृत्वेति पाठः । पं० १९ख० पु. बौद्धमत्तमिति पाठः ।

श्रीतन्त्रालोकः। ज्ञानमभ्युदितं सम्यक्सारेतरविभागकृत् ।' इति । पौस्नज्ञानाभिव्यञ्जने दीक्षा तावन्न प्रभवेद्या- वदस्य बौद्धं ज्ञानं पूर्वभावि न स्यात्, येनास्य ततोऽपि प्राधान्यमुक्तम् ॥ ४६ ॥ एवं बौद्धमपि ज्ञानं पारमेश्वरं शास्त्रमन्तरेण कुतः समुदियात् इति तदेव मूलकारणत्वादिह प्रधानम् इत्याह तथाविधावसायात्म- बौद्धविज्ञानसम्पदे। शास्त्रमेव प्रधानं य- ज्ज्ञेयतत्त्वप्रदर्शकम् ॥४७॥ 'संपदे' इति तां जनयितुम् इत्यर्थः। यतो ज्ञेयस्य' नीलसुखादेः 'तत्त्वं प्रकाशमानत्वान्यथानुपपत्त्या प्रकाशात्मकशिवस्वभावत्वं, तस्य प्रदर्शकम् पराद्वयो- पदेशकारित्वात्तदभिधायकम् इत्यर्थः । अत एव चास्य तदप्रदर्शकतया शास्त्रान्तरेभ्यो वैलक्षण्यमाप कटाक्षितम् ॥ ४७॥ पं०३ ख० पु. बौद्धमपि ज्ञानमिति पाठः । पं० ११ ग० पु० प्रधानं यन्ज्ञेयतत्वप्रकाशकसिति पाठः ।

श्लोक ४९] प्रथमाह्निकम् । ननु भवत्वेवम् , अत्र पुनः किं निमित्तं यत्पोंस्ना- ज्ञाननिवृत्तौ देहान्ते मुक्तिः, बौद्धाज्ञाननिवृत्तौ तु तदैव इत्याशङ्क्याह दीक्षया गलितेऽप्यन्त- रज्ञाने पौरुषात्मनि । धीगतस्यानिवृत्तत्वा- द्विकल्पोऽपि हि संभवेत ॥४८॥ 'धीगतस्य' इति अज्ञानस्य । 'विकल्पो हि' भेद- प्रथात्मकः स चैव अख्यातिरूपत्वादज्ञानम् इति बहूक्तम् ॥४८॥ ननु धीगतमज्ञानं यदि न निवृत्तं तदात्मनः किमायातम् इत्याशङ्क्याह देहसद्भावपर्यन्त- मात्मभावो यतो धियि। देहान्तेऽपि न मोक्षः स्या- पौरुषाज्ञानहानितः ॥ ४६॥ पं० २ क० पु० देहान्ते निवृत्तिरिति पाठः । पं०६ क० पु० निवृत्तित्वादिति पाठः । पं० १ ० ख० पु० सा चैवेति पाठः । पं० १३ क० पु. देवसद्भावेति पाठः ।

श्रीतन्त्रालोकः। दीक्षितस्यापि हि नियतकालं बुद्धावात्मग्रहो भवेत् इति तयोरभेदाद् बौद्धमप्यज्ञानमात्मन्युपचितं संभवेत् इति भावः। अत एव देहान्ते बुद्धावात्मग्रह- व्युपरमात् पौरुषस्याज्ञानस्य दीक्षादिना पूर्वमेव प्रध्वस्तत्वान्मोक्षः इति युक्तमुक्तं तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम्' इति ॥ ४६ ॥ एवं विकल्पोऽत्र संभवन्मुक्तौ व्यवधायकः इति न तदैव मुक्तिः, तस्य पुनरसंभवे सत्यपि देहे मुक्तिः इत्याह बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनाम॒वम् । तदैव मोत इत्युक्तं धात्रा श्रीमन्निशाटने ॥५०॥ न चैतदप्रमाणकम् इत्याह इत्युक्तम्' इत्यादि॥५०॥ विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं ब्रजेत् । इतरस्तु तदैवेति शास्त्रस्यात्र प्रधानतः ॥५॥ पं०५ क. पु० ततः शरीरान्त इति पाठः ।

श्लोक ५२] प्रथमाह्निकम् । 'इतर' इति निर्विकल्पः । तदैव' इति देहसद्भावे इत्यर्थः । यदुक्तं तत्रैव 'विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं ब्रजेत् ।' विकल्पहीनचित्तस्तु ह्यात्मानं शिवमव्ययम् ॥ पश्यते भावशुद्धया यो जीवन्मुक्तो न संशयः ।' इति । इदानीं प्राक्प्रतिज्ञातं शास्त्रस्यैव प्राधान्यं निगमयति-इति इत्यादिना, 'इतिशब्दः काकाक्षि- न्यायेन योज्यः, तेन श्रीनिशाटनग्रन्थसमाप्तौ हेतौ च व्याख्येयः। स च 'ज्ञेयतत्त्वप्रदर्शकम्' इत्यादिना प्रागप्युक्तः॥ ५१॥ ननु किं नाम ज्ञेयस्य तत्त्वं यत्प्रदर्श्यमानं शास्त्र- प्राधान्यावगमकमपि स्यात् इत्याशङ्क्याह ज्ञेयस्य हि परं तत्त्वं यः प्रकाशात्मकः शिवः । नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा ॥५२॥ पं० १ ख० पु० देवसद्भावे इति पाठः । पं० ३ ख० पु० विकल्पक्षीणचित्तस्तु इति पाठः । पं०६ क. पु० ज्ञेयतत्वप्रकाशकमिति पाठः ।

१० श्रीतन्त्रालोकः। 'ज्ञेयस्य नीलादेनीलतैव प्रकाशमानता न ताव- दात्मभूता, तथात्वे हि सर्वदेव सर्वान्प्रति च स्यान्न तु कदाचित्कंचित्प्रति इति सर्वेऽपि सर्वज्ञाः स्युः। अतश्च अस्य प्रकाशते, ममप्रकाशते इति प्रकाशात्मप्रमातृसं- लग्नैव सा युज्यते इति नासौ स्वातन्त्र्येण पर्यवसि- तस्वरूपो नीलादिः, शिव एव प्रकाशात्मकः प्रमाता, तदतिरिक्तस्य अन्यस्य भेदाभेदविकल्पोपहतत्वात्, अतश्च नीलादेर्शेयस्य प्रकाशमानत्वात् स एव पर- मार्थः इत्युक्तं 'प्रकाशात्मकः शिवः परं तत्त्वम्' इति । नन्वसौ स्वयमतथारूपोऽपि प्रकाशसंबन्धात्तथा भविष्यति इत्याशक्याह 'नहि' इत्यादि । प्रकाश- संबन्धेनापि हि प्रकाशमानो नीलादिः स्वयं प्रकाश- रूप एव सन् प्रकाशते, नहि अप्रकाशरूपश्च प्रका- शते च इति स्यात्, नहि अश्वेतः प्रासादः श्वेतते, न चैवं वस्तुत्वमप्यस्य स्यात्, नहि प्रकाशरूपतामप- हाय अन्यद्वस्तु संभवेत् इति भावः ॥ ५२॥ पं० १० पु. नीलसुखादेरिति पाठः । पं० ५ क. पु० पर्यवस्थितरूपेति पाठः । पं० १२ क. पु० प्रकाशनरूपः प्रकाशते इति पाठः।

श्लोक ५३] प्रथमाह्निकम् । एवं च न केवलं नीलादेर्शेयस्य भावस्य प्रकाश- मानत्वात्प्रकाशात्मकः शिवस्तत्त्वं यावत्तदभावस्या- पि इत्याह अवस्तुतापि भावानां चमत्कारैकगोचरा। यत्कुड्यसदृशी नेयं धीरवस्त्वतदित्यपि ॥५३॥ यतो 'नास्त्यत्र घट' इत्येवंरूपापि बुद्धिर्बोधस्व- भावत्वात्कुड्यादिजडपदार्थविलक्षणाअत एव घटा- द्यभावोऽ पि बुद्ध्यमानत्वात्परमानन्दैकघनबोधा- त्मकशिवस्वभाव एव इत्यर्थः । तदाहुः 'अबोधोऽ पि बुद्ध्यमानो बोधात्मभूत ईश्वर एव ।' इति ॥ ५३॥ ननु सिद्धे प्रकाशे भावाभावरूपस्य ज्ञेयस्य तदे- कपरमार्थत्वं सिद्ध्येत्, स एव पुनः केन प्रमाणेन सिद्धः इत्याशङ्क्याह पं. ६ क० पु० घटाभावोपीति पाठः ।

श्रीतन्त्रालोकः। प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते । अनपढ़वनीयत्वात् किं तस्मिन्मानकल्पनैः ॥५४॥ अपूर्वार्थविषयं खलु प्रमाणं । यदाहुः 'अनधिगतविषय प्रमाणमज्ञातार्थप्रकाशो वा' इति । प्रकाशस्य अपूर्वत्वेन प्रकाशो नास्ति सर्वदेव तस्य प्रकाशमानत्वेन 'अनपह्नवनीयत्वात्' इति व्यर्थ तत्र प्रमाणपरिकल्पनम् । तथाहि तदा तस्य अपूर्वत्वेन प्रकाशः स्यात्, यद्यसौ पूर्वमनधिगतत्वेन अप्रकाश- मानः स्यात्, तथाभावश्च तद्रहितपूर्वकालस्मृतौ सत्यां भवेत्, स्मृतिरपि एवंरूपमनुभवं विना नोत्प- धते, अनुभूतविषयासंप्रमोषात्मकत्वात्तस्याः, न च प्रकाशरहितत्वेन पूर्वकालमनुभवोऽस्ति, तस्यैवानु- भवस्य प्रकाशात्मकत्वात्, स एव हि प्रकाशः इति पं०११ क. पु० तदभावश्चेति पाठः। पं० १२ क० पु. एवंरूपानुभवमिति समस्तः पाठः । पं० १५ ख० पु० य एव हि प्रकाश इति पाठः ।

श्लोक ५५] प्रथमाह्निकम् । ९३ कथं पूर्वमपि तदभावः, अतश्च सर्वदास्य अवभास- मानत्वेन आदिसिद्धत्वात् न प्रमाणसव्यपेक्षा सि- द्धिः। स एव च 'प्रकाश एव प्रकाशकः प्रमाता' इति नीत्या परप्रमातृरूपः परमेश्वरः शिवः इति युक्त- मुक्तम् ज्ञेयस्य च परं तत्त्वं यः प्रकाशात्मकः शिवः।' इति ॥ ५४॥ न केवलमेतत्सिद्धौ प्रमाणानामनुपयोगो यावत्प्र- त्युत एषां तदधीना सिद्धिः इत्याह प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते । तेषामपि परो जीवः स एव परमेश्वरः ॥५५॥ इह वस्तूनां नीलपीतादीनां प्रकाशनिरपेक्षण स्वस्वरूपेण तावत्स्वयमन्योन्यं वा न कश्चिद्विशेषः । नहि स्वात्मनि नीलं नीलं पीतं वा पीतम् । यदि- पं०१ख० पु. सर्वमस्यावभासेति पाठः। पं० १४ ख० पु. नास्ति कश्चिद्विशेष इति पाठः । पं० १५ क. पु. यदि हि स्वात्मनि पीतं स्यात्पीतं नीलं वा नीलं तत्किमिव विरुद्धमिति पाठः।

श्रीतन्त्रालोकः। नाम हि स्वात्मनि नीलं पीतं स्यात्पीतं वा नीलं, तत्किमिव न विरुद्धमापतेत् । अथ यथैव यत्प्रकाशते तथैव तत्स्वात्मनि परिनिष्ठितं स्यात् इति न नीलं पीतं, पीतं वा नीलम् , इति चेत्-एवं तर्येषां स्वात्म- नि विशेषो न कश्चिदुक्तः स्यात्, अपि तु प्रकाशते इति-इति प्रकाश एवैषां रूपं तत्तन्नियतस्वरूपप्र- तिष्ठानिबन्धनत्वात् जीवितं वितनुयात् येन नील- मिदं पीतमिदम् इति सिद्ध्येत् । स च नीलायुप- रागेण नियतरूपतामवलम्बमानः प्रमाणशब्दव्य- पदेश्यो भवेत् । न चास्य स्वात्मसिद्धिं प्रति अन्यद- पेक्षणीयं-प्रकाशरूपत्वात्, प्रकाशस्य च स्वपरप्रका- शकत्वात्, तथा-भूतोऽप्यसौ प्रकाशो विमर्शरूपतां विना नार्थस्य पात्मनो वा प्रकाशरूपतायां प्रति- ष्ठास्पदं स्यात्, नहि प्रकाशः इत्येवासौ स्वपरात्मनोः प्रतिष्ठापको भवेत, एवं हि नीलमपि न नीलम् इत्येव कृत्वा तथा स्यात् । तस्मात्स्वपरप्रकाशता- पं०४ क० पु० स्वात्मनि न कश्चिदर्थ इति पाठः । पं०५ख० पु० अपि तु प्रकाश इति पाठः। पं० १६ ख. पु० स्वप्रकाशात्मतासिद्धाविति पाठः ।

१५ श्लोक ५६] प्रथमाह्निकम् । सिद्धौ तस्यापि अहंपरामर्शात्मा जीवितभूतः प्रका- शोऽभ्युपगमनीयो-येन सर्व सिद्धयेत् । यदुक्तं 'प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः।' इति । स एव च परप्रकाशात्मा परमेश्वरः शिवः इत्युक्तं 'तेषामपि परो जीवः स एव परमेश्वरः' इति ॥५५॥ एवमादिसिद्धत्वादस्य न केवलं साधकं प्रमाणम- किंचित्करं, यावद्दाधकमपि इत्याह सर्वापह्नवहेवाक- धर्माप्येवं हि वर्तते। ज्ञानमात्मार्थमित्येत- नेति मां प्रति भासते ॥५६॥ 'सर्वेषां ज्ञातृज्ञानज्ञेयानाम् 'अपह्नवो' निराकरणं तत्र 'हेवाक' एव 'धर्मः स्वभावो यस्यासौ बौद्धः। तत्र त्रयाभाववादिनो माध्यमिकाः । ज्ञातृज्ञेयाभाव- वादिनो योगाचाराः। ज्ञात्रभाववादिनो वैभाषिकाः। सोऽपि 'ह्येवं ज्ञानमात्मार्थम्' इत्येतत् मां संवेदन- श्रीतन्त्रालोकः। स्वभावत्वाद् विचारयितारं प्रति नेति भासते-नास्ति इति प्रतीतिरूपो वर्तते अवतिष्ठते इत्यर्थः, तेन आत्मादेनिराकरणे साधने वापि अवश्यमेव साध- यिता पूर्वकोटावाक्षिप्तः सिद्धः। नहि साधयितार- मन्तरेण अर्थानां साध्यतैव स्यात्, स च स्वतः सिद्धः प्रकाशात्मा परमार्थरूपः परमेश्वरः शिव एव ॥५६॥ अतश्च तत्र व्यर्थमेव बौद्धस्यापि प्रमाणस्य परि- कल्पनम् इत्याह अपहृतौ साधने वा वस्तूनामाद्यमीदृशम् । यत्तत्र के प्रमाणाना- मुपपत्त्युपयोगिते ॥५॥ 'वस्तूनां ज्ञातृज्ञानज्ञेयात्मनाम् 'श्राद्यम्' श्राद्य- सिद्धत्वात् 'ईदृशं' परप्रमातृरूपं तत्र' इति आदि- सिद्धे प्रमातरि । प्रमेयं खलु प्रमिण्वत्प्रमाणमुच्यते, प्रमेयं च विभिन्नप्रकाशाधीनसिद्धिकमिदन्ताविमृश्यं पं० १ ख. पु. नास्तीति प्रत्येति रूपेति पाठः । पं० ६ क० पु० परमार्थरूप इति वाक्यं नास्ति । पं० ७ क० पु० व्यक्तमेवेति, प्रमाणस्यापरिकल्पनमिति च पाठः ।

९७ an श्लोकः ५८] प्रथमाह्निकम् । च भवति । न चैवंरूपत्वं प्रमातुर्येन प्रमाणपरिच्छेद्यः स्यात्, स हि अर्थपरिच्छेदादौ प्रवृत्तः स्वप्रकाश- रूपत्वान्न प्रकाशाद्भिन्नो, नापीदन्ताविमृश्यः- अहं- प्रत्यवमर्शमयत्वात् , स च यदि प्रमाणप्रमेयः स्यात् तत्रापि प्रमितिक्रियायांप्रमात्रा अपरेण भाव्यं, तत्रा- प्यन्येन इत्यनवस्थानं स्यात्, तस्मान्नात्र प्रमा- णस्य प्रवृत्तौ काचिदुपपत्तिः। यस्तु भावनोपदेशादी 'सकृद्विभातोऽयमात्मा प्रमाता' इत्यादिरिदन्तया व्यवहारः स न वास्तवः-तत्र तस्य साक्षादप्रतीतेः, अहन्ताव्यवधानेन हि तत्रासौ प्रतीयते इत्यास्ताम् , एतद्धि पदे पदे वितनिष्यते । प्रमाणानुपयोग- स्त्वादिसिद्धत्वात् समनन्तरमेव दर्शितः, इति न पुन- वितानितः ॥ ५८ ॥ न केवलमत्र युक्तिरेवास्ति यावदागमोऽपि इत्याह कामिके तत एवोक्तं हेतुवादविवर्जितम् । पं० ३ ख० पु० अहंविमर्शमयत्वादिति पाठः । पं० ख० पु० प्रमानन्तरेणेति पाठः। पं० ख० पु. प्रमेत्यादिरिति पाठः । १३ १८ श्रीतन्त्रालोकः। तस्य देवातिदेवस्य परापेक्षा न विद्यते ॥५॥ परस्य तदपक्षत्वा- स्वतन्त्रोऽयमतः स्थितः। ततः इति तत्र प्रमाणानामुपपत्त्युपयोगयोर- भावात्, हेतोः अनुमानस्य वादेन विवर्जितम् । अत एवाह -तस्य इत्यादि, परस्य प्रमाणादेः, अतः इति परानपेक्षत्वलक्षणाद्धेतोः ॥५६॥ एवमस्य परानपेक्षत्वाद्यथा न प्रमाणान्यवच्छे- दकानि, तथा प्रमेयाण्यपि इत्याह अनपेक्षस्य वशिनो देशकालाकृतिक्रमाः॥६॥ नियता नेति स विभु- नित्यो विश्वाकृतिः शिवः। वशिनः स्वतन्त्रस्य इति विशेषणद्वारेण हेतुः । पं० ८ क० पु० परानपेक्षणाद्धतोरिति पाठः । पं. १ क० पु० यथा प्रमाणाद्यवच्छेदेति पाठः ।

श्लोकः ६२] प्रथमाह्निकम् । अत्रापीति परानपेक्षस्य, प्रकाशात्मनः शिवस्य हि देशकालाकारै दाभेदविकल्पोपहतत्वादवच्छेदाधा- नमशक्यम् इत्युक्तं -नियता न इति । अत एव च स एवंविधः इत्याह-विभुनित्यो विश्वाकृतिः इति। विभुः इति देशावच्छेदशून्यत्वात् । नित्य इति अतीतादिकालावच्छेदविगलनात् । विश्वाकृतिः इति चिदचिदाद्याकारवैचित्र्योल्लासकत्वात् ॥६॥ एतदेव प्रपञ्चयति विभुत्वात्सर्वगो नित्य- भावादाद्यन्तवर्जितः॥६॥ विश्वाकृतित्वाच्चिदचि- त्तद्वैचित्र्यावभासकः॥ अत एवास्यागमेषु नानारूपत्वमुच्यते इत्याह ततोऽस्य बहुरूपत्व- मुक्तं दीक्षोत्तरादिके ॥६॥ तदेवाह पं०१ख० पु० पेक्ष्यस्येति प्रकाशेति पाठः । पं०५ क. पु. नित्य इति कलावच्छेदेति पाठः ।

१०० श्रीतन्त्रालोकः। भुवनं विग्रहो ज्योतिः खं शब्दो मन्त्र एव च । बिन्दुनादादिसंभिन्नः षड्विधः शिव उच्यते ॥६॥ भुवनं तत्तद्भुवनाधिष्ठेयं भोगाधाररूपम् । विग्रह- शब्देन उपचाराद्विग्रहिणो लक्ष्यन्ते । तेषां च रुद्र-क्षेत्रज्ञादिनानारूपत्वेऽपि तत्तत्सिद्धिदानसाम- र्थ्यादिह रुद्रादीनि कारणान्येव । ज्योतिः बिन्दुः 'कदम्बगोलकाकारः स्फुरत्तारकसन्निभः ।' इत्यादिनास्य ज्योतीरूपत्वेनाभिधानात् । खं शून्यं-शक्ति-व्यापिनी - समनालक्षणम् । शब्दो ना- दात्मा । मन्त्रः अकारोकार-मकारात्मा । अस्य विशेषणं-बिन्दुनादादिसभिन्नः इति । यदुक्तं 'बिन्दु दस्तथा व्योम मन्त्री भुवनविग्रहा। षडवस्त्वात्मा शिवो ध्येयः फलभेदेन साधकैः॥ इति । तथा पं० १ ख. पु० तारकसप्रभ इति पाठः। पं० १४ ख० पु. भुवनविग्रहे इति पाठः ।

श्लोकः ६४] प्रथमाह्निकम् । १०१ 'उन्मना तु परो भावः स्थूलस्तस्यापरो मतः । पुनः शून्यं च व्योमात्मा संस्पर्श च ततः परम् ॥ शब्दो ज्योतिस्तथा मन्त्राः कारणा भुवनानि च ।' इति । तथा 'व्योम-विग्रह बिन्द्वर्ण-भुवनावविभेदतः । लक्ष्यभेदः स्मृतः षोढा' ॥ इत्यादि ॥६३॥ अत्र च 'यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः । सिद्धिभाक ॥ इतिन्यायेन यस्य यत्र निष्ठा तस्य तत्प्राप्तिर्भ- वति इत्याह यो यदात्मकतानिष्ठ- स्तद्भाव स प्रपद्यते । व्योमादिशब्दविज्ञानात्- परो मोक्षो न संशयः ॥६॥ यः साधको, यस्य भुवनादेः, आत्मकतायां तद्रूपताया, निष्ठितः, स तद्भावं-तत्तद्भुवना- दिरूपत्वेन नियतां सिद्धिमेति इत्यर्थः । तदुक्तं पं० २ ख० पु० व्योमात्मा च पुनः शून्यं संस्पर्शमिति पाठः। पं० ५ ख० पु० भुवनेष्वनिभेदत इति पाठः ।

१०२ श्रीतन्त्रालोकः। । 'भुवनं चिन्तयेद्यस्तु वक्ष्यमाणैकरूपकम् । भुवनेशत्वमाप्नोति' ॥ इत्युपक्रम्य 'ब्रह्मादिकारणानां तु विग्रहं यः सदा स्मरेत् । पूर्वोक्तलक्षणं यच्च तन्मयत्वमवाप्नुयात् ।। मन्त्रैश्च मन्त्रसिद्धिस्तु जपहोमार्चनाद्भवेत् । पूर्वोक्तरूपकध्यानात्सिध्यत्यत्र न संशयः ।। ज्योतिर्ध्यानात्तु योगीन्द्रो योगसिद्धिमवाप्नुयात् । तन्मयत्वं तदाप्नोति योगिनामधिपो भवेत् ।। शून्यध्यानाच्च शून्यात्मा व्यापी सर्वगतिर्भवेत् । समनाध्यानयोगेन योगी सर्वज्ञतां ब्रजेत् ॥' इति । एषां च षण्णामपि शिवात्मकत्वात् 'शिवं ध्यात्वा तु तन्मयः।' इत्याद्युक्तेः शिवैकमयतयैकैकानुप्रवेशेऽपि शिवा- मकस्वस्वरूपलाभो भवेत् इत्याह व्योमादिशब्द- विज्ञानात् इत्यादि । व्योमादीनाम् एषां षण्णां शब्दानां शब्दनं शब्दः - परो विमर्शः, तदात्मकतया पं०८ क. पु० ज्योतियानाच्चेति पाठः । पं० १ क. पु० अधिको भवेदिति पाठः । पं. १० क० पु० सर्वगतो भवेदिति पाठः । पं० १४ क० पु. शिवैकानुप्रवेश इति इयानेव पाठः। पं०१७ क० पु० शब्दः परविमर्शति समस्तः पाठः ।

श्लोकः ६५] प्रथमाह्निकम्। , यत् विज्ञानम् - अनुभवः, तस्मात् परो-विमर्शक- सारशिवैकात्म्यापत्तिलक्षणो मोक्षो निःसंशयं भवेत् इति वाक्यार्थः । व्योमादिषट्क इति पाठे तु व्योमादेः षट्कस्य विशिष्टादनवच्छिन्नाज्ज्ञानात् इति व्याख्येयम् । न च अत्र भुवनादीनां क्रमो विवक्षितः इतीह व्योमादि इति प्रयुक्तम् ॥६॥ ननु यद्ययं विश्वाकृतिस्तत्कथमस्य षड़विधत्व- मेवोक्तम् इत्याशझ्याह विश्वाकृतित्वे देवस्य तदेतच्चोपलक्षणम् । अनवच्छिन्नतारूढा- ववच्छेदलयेऽस्य च ॥६५॥ उपलक्षणम् एव भवति, अनेनैव निखिल- विश्वसंग्रहसिद्धः । न केवलमेतद्विश्वाकारताया- मेवास्योपलक्षणं यावदन्यत्रापि इत्याह - अनवच्छि- पं०४ क. पु० अनवच्छिन्नादिति ज्ञानशब्दविहीनः पाठः । पं० १३ ख० पु० उपलक्षणमिव इति पाठः । पं० १५ क. पु. एकोपलक्षणं यावदनापीति पाठः।

१०४ श्रीतन्त्रालोकः। नतारूढौ इत्यादि । अवच्छेदलये इति अवच्छे- दानां संकोचाधायिनां भुवनादीनां लये विश्वो- त्तीर्णतायाम् इत्यर्थः । विश्वमयत्वेऽप्यस्य स्वस्व- रूपान्न प्रच्यावः इत्याशयः । नन्वेवमुभयथापि अस्य नियतात्मकत्वावगमादवच्छेद एवोक्तो भवेत् इत्याशक्योक्तम् अनवच्छिन्नतारूढाविति । अस्य हि विश्वमयत्वेऽपि विश्वोत्तीर्णत्वादनवच्छिन्नताया- मेव प्ररोहो भवेत् , एक एव हि स्वतन्त्रो बोध- स्तथा तथा प्रस्फुरत् इति ॥६५॥ ननु कथमेकदैव एकस्य विश्वमयत्वेऽपि विश्वो- त्तीर्णत्वं संगच्छते इत्याशङ्काशान्त्यर्थमागमं संवा- दयति उक्तं च कामिके देवः सर्वाकृतिनिराकृतिः। जलदर्पणवत्तेन सर्व व्याप्नं चराचरम् ॥६६॥ दर्पणाद्यन्तःप्रतिबिम्बितं घटादि यथा दर्पणा- पं० १७ क० पु. दर्पणान्तः इति श्रादिशब्दहीनः ख० पु. दर्पणतिरेकेणेति च पाठः।

श्लोकः ६६] प्रथमाह्निकम् । दिव्यतिरेकेण प्रकाशमानमपि दर्पणाद्यनतिरिक्त- मेव, अन्यथा दर्पणघटयोरन्योन्यं वैविक्त्येन भानं स्यात्, तथैव प्रकाशात्मना शिवेनापि स्थावरजङ्ग- मात्मकमिदं विश्वं स्वेच्छया स्वस्वरूपातिरिक्ताय- मानत्वेन अवभासितं सत्, व्याप्तं प्रकाशमानतान्य- थानुपपत्त्या स्वस्वरूपानतिरेकेणैव क्रोडीकृतम् , अत एवायं विश्वमयत्वेऽपि विश्वोत्तीर्णस्तदुत्तीर्णत्वेऽपि तन्मयः इत्युभयथापि न कश्चिद्दोषः । अत एवो- क्तं-सर्वाकृतिनिराकृतिरिति । सर्वाकृतिः विश्व- मयः, निराकृतिः विश्वोत्तीर्णः। श्रावृत्त्या तत्त्वे- ऽपि तदुत्तीर्णः- इति च । तदेवमयमेक एव प्रका- शात्मा परमेश्वरः सर्वतो जृम्भते इतीश्वराद्वयमेव परमार्थतः ॥६६॥ ननु भावानां तदपेक्षया पृथक्प्रकाशानुपपत्तेर्मा नाम तदतिरेकेण सत्ता भूत् इति भावापेक्षया पं० १ ख० पु० दर्पणानतिरिक्तमिति पाठः। पं० ३ क० पु० तथा प्रकाशात्मना इत्येव शब्दहीनः पाठः । पं०४ ग० पु० इदं जगत् स्वेच्छयेति पाठः। पं०५ क० पु० अवसितमिति पाठः । पं० ६ क० पु० स्वरूपानतिरिक्तत्वेनैवेति पाठः । पं० १३ क० पु० परमार्थ इति पाठः । ..

श्रीतन्त्रालोकः। ܀ प्रकाशात्मक एक एवेश्वरः इत्यास्तां तावदेतत् । यत्पुनर्विभुत्वादि धर्मजातं तस्योक्तं, तदपेक्षया धर्म- धर्मिणोर्धर्माणां च परस्परं भेदस्य अनपह्नव- नीयत्वाद् योऽयं भेद उल्लसितः स कथं वार्यते येन एक एवेश्वर : इत्यद्वयवादनिर्वाहः स्यात् इत्याशङ्क्याह न चास्य विमुताद्योऽयं धर्मोऽन्योन्यं विभिद्यते। न च विभुताद्योऽयं अस्य स्वरूपातिरिक्तस्तद- तिशायकः कश्चित् धर्मः अपि तु स्वरूपमेवैतत् । विभुत्वं हि व्यापकत्वमुच्यते, तच्च स्वव्यतिरिक्ते व्याप्ये सति स्यात्, न च परं प्रकाशमपेक्ष्य दिगादि किंचित्संभवेत् इति किं नाम व्याप्नुयात् । नित्य- त्वमपि नास्य धर्म:-तस्य कालत्रयानुगामिरूपत्वात्, अस्य चाकालकलितत्वात्। यदभिप्रायेणैव 'सकृद्वि- भातोऽयमात्मा' इत्यायुक्तम् । एवं विश्वाकृतित्व- पं०३ ख. पु० परस्परस्य भेदस्यति पाठः। पं०५० पु० निर्वाह इत्याशक्येति पाठः । पं० ६ ख० पु० अतिरिकाधिशायक इति पाठः । पं०१३ क० पु० नित्यत्वमस्य नापि धर्मः तत्र कालत्रयानुगामित्वादस्येति पाठः ।

श्लोकः ६७] प्रथमाह्निकम् । १०७ मपि । नहि एतदपेक्षया विश्वं नाम किंचिदस्ति, यदाकारत्वमप्यस्य स्यात् । एवं चैषां परप्रकाशा- पेक्षया कथंचिद्भेदायोगात्पारस्परिकोऽपिभेदो नास्ति इत्युक्तं-न चान्योन्यं विभिद्यते इति ॥ ननु यद्येवं तत्कथमस्य विभुर्नित्यो विश्वाकृतिः इत्यादिधर्मभेद उक्तः इत्याशङ्क्याह एक एवास्य धर्मोऽसौ सर्वाक्षेपेण वर्तते ॥६॥ तेन स्वातन्त्यशक्तयैव युक्त इत्याञ्जसो विधिः। अस्य खलु एक एवासौ अहंप्रत्यवमर्शाख्यो हि स्वभावभूतो धर्मोऽस्ति, यः सर्वं विभुत्वादि- धर्मजातमाक्षिपेत् । अत्रायमर्थः-श्रयं हि नाम प्रकाशस्य अहंप्रत्यवमर्श उच्यते यदयं स्वस्य परस्य वा प्रकाशने परं नापेक्षते इति । अत एवास्य १ ताचिक इत्यर्थः। पं० २ क० पु० कारत्वमस्य इति श्रपिशब्दहीनः पाठः । पं० १० क. पु० अञ्जसो विधिरिति पाठः । पं० १२ क० पु० सर्पविभुत्वादिधर्मेति पाठः । पं० १३ क. पु. अहं हि नाम प्रकाशस्य विमर्श इति पाठः। - श्रीतन्त्रालोकः। स्वातन्त्यरूपं तत्तदेशकालाद्यवभाससहस्रोल्लासनसा- मर्थ्य स्यात् , येनास्य स्वसमुल्लासितोऽपि संकुचितः प्रमातृवर्गः स्वापेक्षया व्यापकत्वनित्यत्वादि व्यव- हरेत्, वस्तुतः पुनरप्यहंप्रत्यवमाख्या स्वातन्त्र्यश- क्तिरेवास्यास्ति येन 'स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्य परमात्मनः।' (प्र०१ अ०५ आ०१३ श्लो०) इत्यायुक्तम् । अत एवाह तेन इत्यादि ॥६७॥ ननु सर्वत्रैवास्य इच्छाद्यनन्तशक्तियोगित्वमुक्त- मिति तत्कथमिहैकयैव स्वातन्त्र्याख्यया शक्त्या योग उच्यते ? इत्याशङ्क्याह बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता ॥६॥ स्वातन्त्र्यशक्तिरेव हि तत्तदेषणीयाद्युपाधिवशान्ना- नात्वेन व्यवह्रियते इति तच्छक्तियोगितैवास्या- नन्तशक्तित्वम् । यदुक्तम् । पं० ख० पु. कालाद्याभासेनेति पाठः। पं० १३ क० पु० तत्तदीषणाद्युपाधीति पाठः ।

श्लोकः ६९] प्रथमाह्निकम् । १०९ 'या सा शक्तिर्जगद्धातुः कथिता समवायिनी। इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते ॥ एकापि सत्यनेकत्वं यथा गच्छति तच्छृणु । इत्याद्युपक्रम्य 'एवमेषा द्विरूपापि पुनर्भेदैरनन्तताम् । अर्थोपाधिवशाद्याति चिन्तामणिरिवेश्वरी।' इति ॥६॥ ननु एवमपीश्वराद्वयवादो न नियूंढस्तदति- रिक्तायाः स्वातन्त्र्यशक्तेरप्यभिधानात् इत्याशं. क्याह शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम्। तेनाद्वयः स एवापि शक्तिमत्परिकल्पने ॥६॥ यतो भावस्य यस्य कस्यचन सतः पदार्थस्य स्वमेव रूपं फलभेदात् भेदारोपेण शक्तिः इति पं०३ क. पु० सैकापि सत्यनन्तत्वमिति पाठः। पं.क. पु. अनेकतामिति पाठः । पं० ६ क० पु० इवैश्वरी इति पाठः। पं० १५ क० पु. भावस्य कस्यचन इति यस्येति पदविहीनः पाठः ।

श्रीतन्त्रालोकः। प्रमातृभिः परिकल्प्यते, न त्वसौ वस्तुतः पदार्थान्तरं किंचित्, अतः शक्तिशक्तिमत्परिकल्पनेऽपि क्रिय- माणे, स एव अद्वयमयो विभुः-न काचिद- द्वयखण्डना इति यावत् । तदुक्तं 'फलभेदादारोपितभेदः पदार्थात्मा शक्तिः इति ॥६६॥ नन्वेवमस्तु, यन्न शक्तिशक्तिमतोमैंद इति, शक्ती- नां पुनः परस्परं भेद एव भवति इति पुनः स दोषस्तदवस्थ एव इत्याशङ्क्याह मातृक्लप्ते हि देवस्य तत्र तत्र वपुष्यलम्। को भेदो वस्तुतो वह्ने- दग्धृपक्तृत्वयोरिव ॥७॥ यथा वः दाह-पाकादिफलभेदाद् दाहिका पाचिका च शक्तिभैदेन कल्पितापि, वस्तुतः शक्ति- पं० १ ख. पु० परिकल्पते इति, क० पु० पदान्तरमिति च पाठः । पं०५क० पु० फलाभेदारोपितभेद इति पाठः। पं० ८ क. पु० एव भवति शक्तीनां पुनरिति पाठः । A श्लोकः ७१] प्रथमाह्निकम् । मदेकस्वभावत्वान्न परस्परस्य स्वरूपं भेत्तुमलम् । पृथक्सिद्धं हि वस्तु वस्त्वन्तरं भिनत्ति, नहि शक्तेः शक्तिमदतिरेकेण पृथक्सिद्धिरेवास्ति इति किं केन भेद्यं, वह्वेरेव हि दाहादिसमर्थं स्वरूपं तथा परिक- ल्पितम् । एवं परमेश्वरस्य परिकल्पितेऽपि शक्ती- नामानन्त्ये न कश्चिद्भेदः इति न कदाचिदीश्वरा- द्वयवादक्षतिः ॥७०॥ ननु एवं-परिकल्पितोऽपि शक्तीनां भेदो भासत एव इति कथं तदपह्नवः इत्याशंक्याह न चासौ परमार्थेन न किंचिद्भासनाहते। नास्ति किंचित्तच्छक्ति- तद्भेदोऽपि वास्तवः ॥७॥ भानमन्तरेण अन्यत्किंचिन्नास्ति इत्यसौ भेदो- ऽपि भासमानत्वाद्वस्तुतो न न किंचित्, अपि तु पं०२ ख. पु० भिनत्ति न शक्तिः शक्तिमदित्यादिः पाठः । पं० ६ क० पु० किंचिद्धेद इति पाठः । पं०८क० पु. भेद एव भासत इति पाठः । पं० ६ क० पु० कथमपलव इति तत्पदहीनः पाठः । पं०१४ क. पु. अन्तरेण यत्किंचित्रास्ति इति पाठः ।

श्रीतन्त्रालोकः। : परमार्थसन्नेव इति शक्तीनां तद्वतश्च भेदोऽपि पार- मार्थिक एव इति वाक्यार्थः। एवं भेदस्य भान- कस्वभावत्वान्न ततोऽतिरेकः इति नाइयवादक्षतिः, नापि शक्तीनां, तद्वतश्च भेदेन स्थितस्य व्यवहार- स्यापह्नवः इति सर्वं सुस्थम् ॥७१॥ ननु परमेश्वरस्य स्वातन्त्र्याख्या शक्तिरेकैवास्ति इत्युक्तम् , इच्छादयस्तु किं तद्विस्फूर्जितमात्रम् , उत स्वतन्त्राणि शक्तयन्तराणि ? इत्याशङ्क्याह स्वशक्त्युदेकजनकं तादात्म्यावस्तुनो हि यत् । शक्तिस्तदपि देव्येवं भान्त्यप्यन्यस्वरूपिणी ॥७२॥ यत् नाम हि अवान्तरशक्तिवैचित्र्यं वह्नयादेः वस्तुनः-स्वस्याः शक्तेः इति व्यपदेशप्रवृत्तिनि- मित्तभूताया निर्विशेषक्रियामात्रनिष्ठायाः सामर्थ्य- लक्षणायाः शक्तेः उद्रेको दाहपाकादिविशेषरूप- पं०४ ख. पु० व्यवहारस्यानपलव इति पाठः । पं० ११० पु. देवीयं भात्यपीति पाठः।

श्लोक ७३] प्रथमाह्निकम् । शक्त्यन्तरात्मतयोच्छलनं तस्य जनकम् अवभासकं, तदपि तादात्म्यात् एवं-विधस्वशक्त्येकरूपत्वाद्य- थोक्तरूपा स्वैव शक्तिः इति संवन्धः। समर्थो हि वह्निः सर्व दाहादिकार्यजातं कुर्यात् इत्यभिप्रायः। एवं परमेश्वरस्यापि इच्छाद्यवान्तरशक्तिरूपतयाव- भासमानापिशक्तिर्देवी तत्तद्भदोल्लासेऽपि परप्रकाशा- भिन्नस्वभावत्वात् द्योतमानावभासा स्वातन्त्र्याख्यैव इति युक्तमुक्तम्-'एक एवास्य धर्मोऽसौ सर्वाक्षेपेण वर्तते ।' इति । एवमेकैवास्य स्वातन्त्र्याख्या शक्ति- स्तथा तथा सृष्टेन भेदेन भायात् इति सिद्धम् ॥७२॥ न केवलं शक्तिरेवास्यैवंकल्पितेन भेदेनावभासते यावत्स्वयमपीत्याह शिवश्चालुप्तविभव- स्तथा सृष्टोऽवभासते। पं०५ क. पु० रूपतयावभासनापीति पाठः। पं. क. पु० शक्तिस्तथा सृष्टेनेति द्वितीयतथापदहीनः पाठः । पं० १० ग० पु० भेदेन मातीति इति पाठः। पं० ११ख. पु० न केवलमस्य शक्तिरेवंकल्पितेनेति पाठः।

श्रीतन्त्रालोकः। स्वसंविन्मातृमकुरे स्वातन्त्र्याद्भावनादिषु ॥७३॥ शिवश्च स्वा संकुचिता संवित् लक्षणं यस्या- सौ बुद्ध्यादौ गृहीतात्मग्रहः परिनिष्ठितः प्रमाता स एव स्वच्छत्वात्प्रतिबिम्बसहिष्णुत्वेन मकुरः तस्मिन् भावनोपदेशादौ स्वस्वातन्त्र्यात् तथा भाव्य- मानत्वादिना कल्पितेन भेदेन सृष्टः प्रमेयतामापा- दित इव अवभासते, न चैवमप्यसौ प्रमात्रेकरूप- स्वात् तथा भवति इत्युक्तम् - अलुप्तविभव इति, अपरिहतप्रमातृभावः इत्यर्थः । तदुक्तं 'स्वातन्त्र्यादद्वयात्मानं स्वातन्त्र्याद्भावनादिषु । प्रभुरीशादिसंकल्पनिर्माय व्यवहारयेत्॥ (ई० प्र० १-५-१६) इति ॥७३॥ एतदेवोपसंहरति तस्मायेन मुखेनैष भात्यनंशोऽपि तत्तथा। पं०४ क.ग. पु० परिनिष्ठितप्रभावः प्रमाता इति पाठः। पं० ६ ग० पु० अविलुप्तविभव इति अपरित्याजितप्रमातृभाव इति पाठः । पं० ११ 'स्वातन्त्र्यामुक्तमात्मानं स्वातन्त्र्यादद्वयात्मनः । इत्येवं विधः पाठो मूलप्रन्थेऽस्ति ।

श्लोक ७४] प्रथमाह्निकम् । शक्तिरित्येष वस्त्वेव शक्तितद्वत्कमः स्फुटः ॥७४॥ तस्मात् उभयोरपि शिवशक्त्योस्तथा सृष्टेन भेदेन अवभासनोपपत्तेहेतोरपि शिवः प्रकाशमात्रै- करूपत्वात् अनंशोऽपि येन भुवनाद्यन्यतमांश- लक्षणेन मुखेन भावनादौ भासते तत् मुखं 'शैवी मुखमिहोच्यते। इत्याद्युक्त्या तथा शिवप्राप्त्युपायतया शक्तिरेव, नहि एतदवगमादौ उपायान्तरमस्ति उपपद्यते वा । अतश्च शक्तिशक्तिमतोरुपायोपेयभावात्मा क्रमः सम्यगेव स्फुटः न कश्चिदत्र संशयः इत्यर्थः ॥७॥ अतश्च अनयोरसावुपायोपेयभावस्तत्र तत्र श्राग- मेषु उद्घोष्यते इत्याह पं० ४० पु. प्रकाशमात्ररूपत्वात् इति पाठः । पं० ख० पु० उपायान्तरमप्युपपद्यते इति पाठः । पं० १३ख० पु० अत एव चानयोरिति पाठः।

श्रीतन्त्रालोकः। श्रीमत्किरणशास्त्रे च तत्प्रश्नोत्तरपूर्वकम् । अनुभावो विकल्पोऽपि मानसो न मनः शिवे ॥७॥ अविज्ञाय शिवं दीक्षा कथमित्पत्र चोत्तरम् । तत् इति शिवागमे शक्तेरुपायत्वमुक्तम् इति वाक्यशषः । एतदेव च शब्दार्थरूपत्वेन शास्त्रस्य द्वैविध्येन प्रवृत्तेरर्थद्वारेण वर्शयति अनुभाव इत्या- दिना । तत्र गरुडेन 'शिवतत्त्वं कथं शून्यं तच्छून्यं नाक्षगोचरः । प्रत्यक्षं चाक्षविज्ञानं तदतीत न किंचन ।' इति प्रत्यक्षागोचरत्वाच्छिवतत्त्वं न किंचित् इति पृष्टे, भगवता 'माया हेया शिवो ग्राह्यो ग्राहकः पुरुषः स्मृतः । मायाधमः शिवः शून्यः ...॥ इत्यादिना 'अतीन्द्रियं च यद्वस्तु तत्राप्यनुभवो न किम् । अनुभावो मनोऽध्यक्षः प्रसिद्धः क्षुद्यथा च तूट । पं० १८ ख० पु० अनुभवेन किम् इत्येवंविधः पाठः ।

श्लोक ७५] प्रथमाह्निकम् । इत्यन्तेन शिवतत्त्वस्य बाह्येन्द्रियाप्रत्यक्षवेऽपि मानसप्रत्यक्षविषयत्वात् किंचित्त्वेन प्रतिसमाहितम् । एतच्च पुनरप्यागूर्य गरुडेन 'अनुभावो विकल्पोत्थो विकल्पो मानसः स च । समनस्कं च तज्ज्ञेयममनस्कमरूपकम् ।। अज्ञात्वा दैशिकस्तत्त्वं कथं दीक्षां करोत्यसौ। ज्ञेयः सर्वात्मनैवार्थः स ज्ञेयो नैव सर्वथा ॥ इत्यादिना पृष्टम् । एतत्प्रश्नार्थ एव ग्रन्थकृता संक्षेपचिकीर्षया स्ववचसोपनिबद्धः । अत्रायमर्थः- यन्नाम बुभुक्षादिन्यायेन शिवस्य मानसप्रत्यक्ष- विषयत्वमुक्तं तत्र मानसोऽनुभवः 'संकल्पकमत्र मनः * तदिति मानसविकल्पनं समनस्कं, शिवतत्वं पुनरमनस्कमरूपकं च, अर्थ इति दीतादिः प्रवर्तते इत्यर्थः । पं० १० बुभुक्षादि हि चक्षुरादिप्रत्यक्षागोचरमपि मनोगोचरतामेति तद्वदिहापि । पं०३ क० पु० पुनरागूयेति पाठः। पं०६ ग० पु० दैशिकस्तत्रेति पाठः ।

श्रीतन्त्रालोकः । इति नीत्या संकल्पात्मकत्वात् विकल्पः तस्य चार्थासंस्पर्शित्वं रूपम् इति मनः तावत् शिवे न प्रमाणं, यत्र च न प्रमाणं प्रवर्तते, तन्न ज्ञातं भवेत् इत्यज्ञाते शिवतत्त्वे कथं दीक्षा स्यात् , दैशिको हि परं तत्त्वं ज्ञात्वा तत्र दीक्षया दीक्ष्यं योजयेत् । अत एव 'गुरौ ज्ञानम्' इत्यायुक्तम् । इति शब्दः प्रश्न- समाप्तौ। अत्र इति गरुडोक्ते प्रश्ने । उत्तरम् इति भगवदुक्तं प्रतिसमाधानम् ॥ ७५ ॥ तदेवाह क्षुधाउनुभवो नैव विकल्पो नहि मानसः ॥७६॥ न-शब्दो भिन्नक्रमः, तेन प्रश्ननिषेधविषयत्वेन योज्यः, नायं प्रश्न इति । हि-शब्दो हेतौ यतो बुभुक्षादीनां विकल्पात्मक एव मानसोऽनुभवो न भवति इत्यर्थः। श्रासां हि प्रथममविकल्पकमानसप्र- पं० ४ क. पु. अज्ञापितेऽपि शिवतत्वे इति, ख० पु० अविज्ञाते इति पाठः।

११९
श्लोक ७६]
प्रथमालिकम्।
त्यक्षविषयत्वमप्यस्ति , अन्यथा तत्पृष्ठभाविनो
बुभुक्षेयम् इति विकल्पस्योदयो न स्यात् । सवि-
कल्पकमानसप्रत्यक्षविषयत्वेऽप्यासां न कश्चिद्दोषः
तस्य वस्त्वाश्रयत्वेन प्रमाणत्वाभ्युपगमात् । एवं
शिवोऽपि मानसप्रत्यक्षगोचरो भवत्येव, किंतु
शक्तिद्वारेण इति विशेषः । यदुक्तं तत्रैवोत्तरग्रन्थे
'क्षुधाद्यनुभवो यत्र विकल्पस्तत्र नो भवेत् ।
वस्त्वाश्रयो विकल्पोऽपि तद्वस्तु घटवन्न च ॥
विकल्पो मानसः सूक्ष्मः शून्यशक्तिलयं गतः ।
तद्गतस्त्वन्यविच्छिन्नस्तेनासौ चित्तवर्जितः ॥
ज्ञानं चात्मेन्द्रियाश्लेषात्कर्ता ह्यात्मा मनः क्रिया।
शिवः साध्योऽत्र मन्तव्यो विभुरप्येकधर्मतः ।।'
इति । यत्तु अस्य शून्यत्वमुक्तं तन्मायाक्षयोपचा-
रेण तद्धमैः परिणामित्वादिभिः शून्यत्वाच्छून्यम्
* यदुक्तं, तस्य चार्थासंस्पर्शित्वं रूपमिति तन्निर्दलयति, तत्र न्यायमाह वस्त्वा-
श्रयत्वेनेत्यादि । विकल्पस्तत्र नो भवेदिति वस्त्वाश्रय इति हेतुत्वेनोक्तः
यदि वस्त्वाश्रयत्वं तह
किं न प्रतिभासते, इत्यतो घटवन्न च इत्युक्तम्
तत्र हेतुः विकल्पो मानस इत्यादि ।
,
घटवत्
पं०३ ख० पु० मानसप्रत्यक्षगोचरत्वे इति पाठः ।
पं० ५ क० पु. मानसगोचरो भवेत् इति पाठः ।
पं० १३ क० ग० पु० यस्त्वस्येति, मायापेक्षोपचारेणेति च पाठान्तरमस्ति ।

श्रीतन्त्रालोकः। इत्युक्तम् । श्रन्यापेक्षया तु तदशून्यमेवेत्यर्थावाप्तम् । अतश्च शिवं शक्तिद्वारेण ज्ञात्वा दैशिकस्तत्र दीक्षया दीक्ष्यं योजयति इति न काचित्क्षतिः ॥७६॥ ननु सर्वात्मनार्थो ज्ञातो ज्ञातो भवति न तु अंशेन, विकल्पश्च सर्वात्मना अर्थं ज्ञातुं न शक्नोति- नियतांशाभिनिवेशित्वात् तस्य , अतः शिवस्तेन शक्तिद्वारेण विषयीकृतोऽपि सर्वात्मना तद्गोचरी- भावाभावान्न ज्ञातः इति प्रश्नशेषमाशङ्क्याह रसाधनध्यक्षत्वेऽपि रूपादेव यथा तरम्। विकल्पो वेत्ति तद्वत्तु नादबिन्द्वादिना शिवम् ॥७७॥ विकल्पः अत्र निर्विकल्पकपृष्ठभावी ग्राह्यः । तेन से तरं रूपरसाद्यात्मकमपि रूपाद्यात्मनैव गृह्णाति न रसाद्यात्मनापि नियतत्वात्तद्ग्रहणस्य, १स, विकल्पः। २ रसस्य हि जिह्वेन्द्रियास्वादेनैव ज्ञानं, रूपस्य तु चक्षुषैवेति ३ रसरूपादेरित्यर्थः । । पं० १ ख० पु. अन्यापेक्षया त्वतदिति अतश्चेतीयानेव पाठः । पं० ६ क० पु. नियताभिनिवेशित्वादिति पाठः ।

श्लोक ७७] प्रथमाह्निकम् । नहि सर्वात्मत्वेन अगृहीतत्वाद् अग्रहीत एवासौ इति वक्तुं युज्यते अनुभवविरोधात् । तद्वत् नादविन्द्वाद्यात्मकशक्तिद्वारेण शिवोऽपि ज्ञात एव भवति इति सिद्धान्तः । तदुक्तं तत्रैव 'प्रत्यक्षेण यथा वृक्षो रूपमात्राद्विगृह्यते । रसादयो गृहीता नो तथेशो ज्ञानशक्तितः ।। गृह्यते तत्त्वभावेन वस्तुभावविवर्जनात् ।' इति । तथा 'बिन्दुनादस्तथा शक्ति: शून्यत्वे परिकल्पिताः । चेतसः स्थितिहत्वर्थ पुनर्नित्यं स्थिरं भवेत् ।। अतीन्द्रियः सुसूक्ष्मत्वात्सूक्ष्मा शक्तिः स तद्गतः । ज्ञानशक्तिर्मता सापि तज्ज्ञानाज्ज्ञात एव सः ।।' इति । एवं शक्तिरेव परतत्त्वाधिगमे परमुपायः इति सिद्धम् । सा च भुवनादिरूपतया अनन्त- प्रकारा इत्युक्तप्रायम् ॥७७॥ एवं यत्किंचन जडाजडात्मकविश्ववैचित्र्यं, यच्च तद्विषयं सृष्ट्यादि जाग्रदाद्यवस्थादि वा तत्सर्व परमेश्वरस्य शक्तिस्फार एव इत्याह पं०१७क. पु० जाग्रदवस्थादि इति पाठः । १६ ૨૨ श्रीतन्त्रालोकः। बहुशक्तित्वमस्योक्तं शिवस्य यदतो महान् । कलातत्त्वपुराण्णु- पदादिर्भेदविस्तरः ॥७॥ सृष्टिस्थितितिरोधान- संहारानुग्रहादि च। तुर्यमित्यपि देवस्य बहुशक्तित्वजृम्भितम् ॥७॥ जाग्रत्स्वप्नसुषुप्तान्य- तदतीतानि यान्यपि। तान्यप्यमुष्य नाथस्य स्वातन्त्र्यलहरीभरः॥८॥ महामन्त्रेशमन्त्रंश- मन्त्राः शिवपुरोगमाः। अकलौ सकलश्चेति शिवस्यैव विभूतयः॥८॥ १ अर्णः वर्णावा, २ अणुः मन्त्राध्वा । पं० ७ ग० पु० उक्तमित्यपीति पाठः। पं० ६ ख० पु० सुषुप्तानि तदतीतानीति पाठः ।

श्लोक ८२] प्रथमाह्निकम् । पदादि इति आदिशब्देन भूतभावग्रहणम् । सृष्टिस्थिति इत्यनेन कृत्यभेद उक्तः। तुर्यमित्य- न्यच्छब्दवाच्यं सृष्ट्यादीनामन्तवर्ति पूर्ण रूपम् । अनेन चतुष्टयार्थस्यापि अासूत्रणं कृतं, तेन स्थिती संहारे तिरोधानानुग्रहयोरन्तर्भावः कार्यों येनैत- स्यात्, अन्यत्तुर्य, जाग्रत्स्वप्न इत्यनेन अवस्थाभेद उक्तः। श्रकलौ इति विज्ञानाकलप्रलयाकलौ । अनेन प्रमातृभेदः ॥७८॥७॥८॥१॥ तदेवं वैचित्र्यभाजः षट्त्रिंशत्तत्त्वात्मकस्य जगत- श्चिदानन्दैकघनः परमार्थः शिव एवानुप्राणकतया वर्तते इत्याह तत्त्वग्रामस्य सर्वस्य धर्मः स्यादनपायवान् । प्रात्मैव हि स्वभावात्मे- त्युक्तं श्रीत्रिशिरोमते ॥२॥ पं०२ क. पु० इत्यन्यशब्दवाच्यमिति पाठः । पं०४ क. पु० चतुष्टयस्याप्यासूत्रणमिति पाठः । पं० १० ख० पु० परमात्मा शिव इति पाठ। पं०१२ क. पु० तवग्रामस्य शावस्येति पाठः।

श्रीतन्त्रालोकः। । द्विविधोहि धर्मः पदार्थस्य-प्राणप्रदो विशेषाधान- हेतुश्च । श्राद्यो यथा सामान्यं, नहि गोत्वमन्तरेण गौः गौरव भवति। द्वितीयो यथा गुणः, शुक्ला- दिर्हि लब्धसत्ताकं वस्तु विशिनष्टि । एवमिह श्रात्मैव तत्त्वसमूहस्य प्राणप्रदत्वात् स्वभावभूतो धर्मः अत एव अनपायवान् नित्यावियुक्तः इत्युक्तम्। हि शब्दो हेतौ। नन्वत्र किं प्रमाणम् इत्याश- क्योक्तम् 'इत्युक्तं त्रिशिरोमत' इति ॥८२॥ तत्रत्यमेव ग्रन्थं शास्त्रस्य शब्दार्थरूपतया द्वैविध्येन प्रवृत्तेरुभयथाप्याह हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम् । सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम् ॥५३॥ समूह एव सामूद्यम् । ग्रामशब्दो हि समूहार्थ- वृत्तिः । 'कवलीकृतनिःशेषतत्त्वग्रामस्वरूपकम् ।' इत्यादिप्रयोगदर्शनात् । तच्च सर्वत्र बाह्ये देहे पं० १४ क० पु० ग्रामशब्दोऽपि इति पाठः ।

श्लोक ८४] प्रथमाह्निकम् । चान्तः साधारणासाधारणतया द्वैविध्येन वर्तमानम् इत्यर्थः । अत एव स्वभावे स्थावरजङ्गमाद्यात्मनि नियते रूपे स्थितम् । एवमपि हृदि बोधे स्थितं, तदैकाल्येन परिस्फुरत् इति यावत्, अत एव सुसूक्ष्मम् अपरिच्छेद्यम् ॥३॥ तत्त्वग्रामस्य चास्य न संकुचित श्रात्मा धर्मः, अपि तु परः इत्याह आत्मैव धर्म इत्युक्तः शिवामृतपरिप्लुतः। शिवामृतपरिप्लुतः इति परानन्दचमत्कारमयः इत्यर्थः। एवं स एव परमुपेयः इति तत्रैवावधातव्यम् इत्यपि सूचितम् । कश्च अत्र उपायो, येनैतत्साक्षात्कारो भवेत् इत्याह पं०४ ख० पु० ऐकात्म्येन स्फुरदिति पाठः। पं०१०ख० पु० शिवानन्दपरिप्लुतपरमानन्दचमत्कारमय इति पा ।

श्रीतन्त्रालोकः। प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः॥४॥ स्वस्थाने वर्तनं ज्ञेयं द्रष्ट्रत्वं विगताति। विविक्तवस्तुकथित- शुद्धविज्ञाननिर्मलः ॥८॥ ग्रामधर्मत्तिरक्त- स्तस्य सर्व प्रसिद्ध्यति । श्रादिशब्दाद्भावोऽपि, तेन भावाभावयोः भावयोर्वा यत् मध्यम् अन्तरालं तदवलम्ब्य प्रकाशे स्वात्मन्येव, न पुनर्भावाभावादिस्वरूपे अवस्थितं यत् ज्ञानं, तस्य स्वस्य आत्मनः स्थाने स्थितौ वर्तन ज्ञेयं-ग्रामधर्मविषये वृत्तिा- तव्या इत्यर्थः । इदमन तात्पर्यम् भावद्वयस्य भावाभावयोर्वा प्रतीतिकाले मध्यं तवयावच्छेदहेतुं शून्यमुपलभ्य तद्भावाभावादि युगपत्त्यक्त्वा तत्रैव पं० १० क० पु० तदवलब्धप्रकाशं स्वात्मन्येव न पुनर्भावस्वरूपे इति पाठः ।

श्लोक ८६]
प्रथमाह्निकम् ।
१२७
सावधानस्य परमोपेये शिवामृतपरिप्लुते परमा-
त्मनि वृत्तिर्जायते इति । तदुक्तं
'उभयो वयोर्ज्ञाने ज्ञात्वा मध्यं समाश्रयेत् ।
युगपच्च द्वयं त्यक्त्वा मध्ये तत्त्वं प्रकाशते ।।
भावे त्यक्त निरुद्धा चिन्नैव भावान्तरं व्रजेत् ।
तदा तन्मध्यभावेन विकसत्यति भावना ।।'
इति । ज्ञेयम् इति काकाक्षिन्यायेन योज्यम् ।
तेन वर्तनमपि परमार्थसाक्षात्काररूपं द्रष्टुत्वं
ज्ञेयम्, तच्च विगतावृति विगता निवृत्ता
भावाभावाद्यात्मकबाह्यरूपा श्रावृतिः यस्य तत्,
बाह्यदेशाद्यवच्छेदशून्यम् इति यावत् । अथ च
विगता परापरात्मना कालेन रहिता कलनात्मिका
श्रावृतिः यस्य तत्, अकालकलितम् इत्यर्थः ।
तदुक्तं
'अपरः षोडशो यावत्काल: सप्तदशः परः ।
परापरस्तु यः कालः स प्रियेऽष्टादशः प्रभुः ॥
प्राण एकं त्रिधा कालं कृत्वा चैव त्यजेत्पुनः ।'
पं. १ क. पु. भावेन्यके परमे शिवेति पाठः
पं० ५ ख० पु० भाबे न्यक्त निरुद्धा चेदिति पाठः ।

श्रीतन्त्रालोकः। इति । तथा विगता पदैकादशकात्मिका श्रावृतिः यस्य तत्, तत्प्रतिनियततत्तद्ब्रह्माद्याकारोज्झितम् इति यावत् । यदुक्तं 'पदैकादशिका सा च प्राणे चरति नित्यशः । अकारश्च उकारश्च मकारो बिन्दुरेव च ।। अर्धचन्द्रो निरोधी च नादो नादान्त एव च । शक्तिश्च व्यापिनी चैव समनैकादशी स्मृता ।।' इति । अत एव च उन्मनाभिन्नप्रमातृरूपं परमार्थ- साक्षात्कारलक्षणमेतद्भवति इति पिण्डार्थः । तदुक्तं "उन्मना तु ततोऽतीता तदतीतं निरामयम् ।' इति । अत एव तत्तद्देशकालाकारैः विविक्तम् अवच्छेदशून्यं यत् वस्तु महासत्तात्म परं तत्त्वं, तन कथितं सर्वागमेषु अविगानेन उक्तं यत् शुद्धं पराहंपरामर्शमयं विज्ञानं तेन निर्मलः तदैकात्म्या- खिलीकृतनिखिलबन्धो ग्रामधर्मवृत्तिः पत्त्या भैरवाट्टैरवीं प्राप्तः पं० १६ क० ख० पु० भैरवीप्राप्त इत्युक्तरिति पाठः ।

:
श्लोकः ८५]
प्रथमाह्निकम् ।
इत्याद्युक्तेरस्मद्गुरुभिरप्युक्त : इति श्रीकण्ठस्ये-
यमुक्तिः । तदुक्तं तत्र
'चतुर्थ संप्रवक्ष्यामि प्रामधर्मविभेदतः ।।
इत्याद्युपक्रम्य
'हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम् ।
सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम् ।।
आत्मा वै धर्म इत्युक्तो ग्रामधर्मः प्रकीर्तितः ।
प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः ।।
स्वस्थाने वर्तनं ज्ञेयं वर्तनं वृत्तिरुच्यते ।
वृत्तिस्तु स्वपदं ज्ञात्वा द्रष्टुत्वं परिपठ्यते ।
प्रबुद्धं तद्विजानीयाद्वाह्यावरणवर्जितम ।
परापरविनिर्मुक्तमेकादशपदोज्झितम् ।।
स्वात्मन्यात्मनि यज्ञानं शिवामृतपरिप्लुतम् ।
विविक्तवस्तुकथितशुद्धविज्ञाननिर्मलः ॥
प्रामधर्मवृत्तिरुक्तस्तन्त्रेऽस्मिन्सर्वथोदितः ।'
इति । एतदेव च
'अथ वा शिवमन्विच्छेत्साधकः परतत्ववित् ।
इत्यादि
'स्थितिः कार्या तु तत्त्वस्था मध्यशक्तिप्रभान्विता ।'
पं०६ ग. पु० सामूहां सर्वतत्वानामिति पाठः ।
पं०७ क० पु. प्रात्मैव धर्म इत्युको प्रामो धर्म इति पाठ।

१३० श्रीतन्त्रालोकः। इत्यन्ततत्रत्यग्रन्थार्थगर्भीकारेण ग्रन्थान्तरमुपक्षे- प्तुकामो ग्रन्थकारः स्वोक्त्या योजयति 'तस्य सर्व प्रसिद्धयति' इति तस्य ग्रामधर्मवृत्तेः प्राणापानग- तित्रोटनेन मध्यधामानुप्रवेशात् प्राप्तपरशक्तिसामर- स्यस्य सर्व बाह्यमाभ्यन्तरं च प्रकर्षेण शिवाभेदम- यत्वेन सिद्धयति प्रथते इत्यर्थः। तदुक्तं 'शिवभावनयौषध्या बद्धे मनसि संसृते । काष्ठकुड्यादिषु क्षिप्ते रसवच्छिवहेमता ।।' इति ॥८४॥८॥ अत शाह ऊर्ध्वं त्यक्त्वाधो विशेस रामस्थो मध्यदेशगः ॥८॥ ऊर्ध्वम् इति ऊर्ध्ववाहित्वात्प्राणम, अध इति अधोवाहित्वादपानं, त्यक्त्वा इति तद्गतिं त्रोट- यित्वा, स मामधर्मवृत्तिरर्थात् मध्यनाडी प्रविशेत् । सच कीदृशः मध्यदेशगः मध्यनाडिकाया अपि यत् मध्यं तत्रस्था या बिससूत्राकारा शक्तिः तस्या पं०६क. पु० प्रसिद्धयतीति पाठः।

:
श्लोकः ८६]
प्रथमाह्निकम् ।
देश : अन्तोमरूप एकदेशस्तं गच्छति जानाति
य : स:- तदेकतानतया तन्निष्ठ ः इीत यावत् ।
तदुक्तं
'मध्यनाडी मध्यसंस्थबिससूत्रामरूपया ।
ध्यातान्तोमया देव्या तया देवः प्रकाशते ।।'
इति । अत एवोक्तं रामस्थः इति
'एकाकी न रमाम्यहम् ।
इत्याद्युक्त्या रमते तत्तज्जडाजडात्मना विश्ववैचित्र्या-
मना क्रीडति इति रामः परमात्मा, तत्र तिष्ठति
तद्रूपतया परिस्फुरति इत्यर्थः । तदुक्तं त्रिशिरोभैरवे
'सेव्यमानमधोर्ध्व तु प्राणापानोत्थरूढधीः ।
ऊर्ध्व त्यक्त्वा तु प्रविशेद्रामस्थोऽत्रात एव च ।।'
तत्रैवागूरणेन भगवत्या
'रामः किमुच्यते देव योऽत्रस्थः स च कः प्रभो ।
तस्याभ्यासः कथं नाम ब्रूहि सर्व महेश्वर ।।
१ आगूरणमाक्षेपः
पं० ४ ख० पु० बिससूत्रामसूत्येति पाठः।
पं० १४ क. पु० यत्रस्थः सच क इति पाठः ।

१३२ श्रीतन्त्रालोकः। इति पृष्टे, भगवता 'रामस्थं परमेशानि योगं यत्कीर्तितं मया। कथयामि यथातथ्यमभ्यासस्तस्य योगतः ॥' इत्यन्तेन प्रतिज्ञाय, तत्समाधानं बहुना ग्रन्थेन कृतम् इह च तदेव ग्रन्थकारः शब्दार्थद्वारेण पठति गतिः स्थानं स्वप्नजाग्र- दुन्मेषणनिमेषणे। धावनं प्लवनं चैव प्रायासः शक्तिवदनम् ॥८७॥ बुद्धिभेदास्तथा भावाः संज्ञाः कर्माण्यनेकशः। एष रामो व्यापकोऽत्र शिवः परमकारणम् ॥८॥ स्वप्नः विकल्पः, जाग्रत् ज्ञानं, उन्मेषणम् ईश्वर- दशा, निमेषणं सदाशिवदशा, श्रायासः 'अय गतौ गत्यर्थों ज्ञानार्थः तेन श्रयः अयनं ज्ञानं तस्यासः क्षेपो निवृत्तिः- अज्ञानम् इत्यर्थः । धर्माद्या-अष्टौ , श्लोकः ८१] प्रथमाहिकम् । बुद्धिधर्माः,संज्ञाः-यादृच्छिका डित्थादयः,कर्माणि- व्यापाराः । अनेन च गत्यादिना चतुर्दशकेन सकल- विश्वस्वीकारः कृतः । यच्चैतद्गत्यादि एष राम :- सकलविश्वावभासनक्रीडापरः परमात्मा परमेश्वरः, अत एवोक्तं 'व्यापकोऽत्र शिवः परमकारणम्' इति, अत्र इति गत्याद्युपलक्षिते विश्वस्मिन् , शिवस्यैव हि अयमशेषविश्वात्मा स्फारः इति भावः । तदुक्तं 'विषयेषु च सर्वेषु इन्द्रियार्थेषु च स्थितः । यत्र यत्र निरूप्येत नाशिवं विद्यते कचित् ।।' इति ॥८७॥८॥ कथं चात्र तदैकात्म्यापत्तिलक्षणा स्थितिर्भवति इत्याह कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात् । ध्यायते परमं ध्येयं गमागमपदे स्थितम् ॥८॥ पं०६क० पु. शिवस्यैव हृदयमशेषेति पाठः । पं० १५० पु० ध्यायते सकलं ध्येयमिति पाठः ।

१३४ श्रीतन्त्रालोकः। परं शिवं तु व्रजति भैरवाख्यं जपादपि। येन क्षीणं कल्मषं तत्तद्भेदावभासकालुष्यं यस्य तादृशं मनो, मनुते इति मनो विमर्शात्मावबोधो यस्य तेन 'सर्वो विकल्पः स्मृतिः इति नीत्या स्मृतिरेव केवला स्मृतिमात्रं शरीर- मुखहस्ताद्यात्मकं विकल्पनं, तस्य निरोधनम्-आका- रागुल्लेखशून्यत्वेन प्रतिहननं, तदवलम्ब्य, तत्तन्नि- यताकारसंकोचाभावात् परमं ध्येयं शिवलक्षणं परम- कारणं ध्यायते स्वात्माभेदेन परामृश्यते । यदुक्तं 'ध्यानं या निश्चला बुद्धिनिराकारा निराश्रया। न तु ध्यानं शरीरस्य मुखहस्तादिकल्पना ।।' इति । एवंविधो ध्याता, गमो गमनं गतिः, अगमश्च अगतिः स्थानं, ताभ्यामुपलक्षिते पदे समनन्त- पं० क० पु० मनो मतिरिति विमर्शात्मेति पाठः । पं० १२ ख० ग० पु० निश्चला चिन्ता इति पाठः । पं० १३ क० पु० मुखचिन्तादिकल्पना इति पाठः ।

१३५ श्लोकः ९०] प्रथमाहिकम् । रोक्ते चतुर्दशविधे आश्रये स्थितम्, अत एव परं पूर्णम्, अत एव च भैरवाख्यं शिवं व्रजति-तत्समावे- शमाप्नोति इत्यर्थः । न केवलमयं ध्यानादेव शिवं ब्रजति यावजपादपि इत्युक्तं-जपादपि इति ॥८६ कोऽसौ जपो नाम इत्याशङ्कयाह तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः ॥6॥ तस्य शिवस्य, स्वरूपं परावाक्खभावम् आत्मरूपम् अर्थात् भूयो भूयः परामृश्यमानं जपः, अत एव भावाभावपदच्युतः-पूर्वोक्तनीत्या तन्मध्यस्फुरत्संवि- त्परामर्शमात्रसारः इत्यर्थः । तदुक्तं 'भूयो भूयः परे भावे भावना भाव्यते हि या। जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः ॥' पं० १ ग० परिपूर्णमिति पाठः पं०६ ख० पु० तत्स्वरूपो जपः प्रोक्त इति पाठः, पं०७ ख० पु. पदाच्युत इति, पदाच्युत इति पाठान्तरं चास्ति । पं०१९क० पु० परामर्शसार इति पाठः । पं० १२ ग० पु० परे तत्वे इति पाठः । क० पु० साध्यते हि या इति पाठः । पं० १४ क० पु० जप ईदृश इति पाठः ।

श्रीतन्त्रालोकः। इति। एवं ग्रामधर्मवृत्तिरेव रामस्थः इत्युक्तं स्यात् । तदुक्तं श्रीत्रिशिरोभैरवे 'गच्छंस्तिष्ठन्स्वपञ्जाग्रदुन्मिपन्निमिषस्तथा । धावनं प्लवनं चैव आयासः शक्तिवेदनम् ॥ बुद्धिभेदास्तथा भावाः संज्ञाः कर्माण्यनेकशः। एतच्चतुर्दशविघं रामं तु परिकीर्तितम् ॥ व्यापितं देवदेवेन शिवेन परमात्मना। सर्वभावान्तरस्थेन अनेकाकारलक्ष्मणा ॥ कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात् । ध्यायते परमं ध्येयं गमागमपदे स्थितम् ।। परं शिवं तु ब्रजति भैरवाख्यं जपादपि । तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः ॥' इति ॥६॥ ननु प्रायः सर्वत्रैव ध्यानस्य व्यतिरिक्तसाकार- ध्येयविषयत्वं, जपस्य विकल्पात्मकवाचकवाच्यज- प्यनिष्ठत्वं चोक्तम् , इह पुनः स्वात्माभेदेन परामर्श- मात्रमेवोभयो रूपम् इति किमेतद् इत्याशंक्याह पं० १० पु० रामस्येति इति पाठः । पं०१२ क. पु० तत्स्वरूपो जप इति पाठः। पं० १४ क० पु० व्यतिरिक्ताकारध्येयेति पाठः ।

श्लोकः ९२] प्रथमाह्निकम् । तदत्रापि तदीयेन स्वातन्त्र्येणोपकल्पितः। दूरासन्नादिको भेद- श्चित्स्वातन्त्र्यव्यपेक्षया ॥२॥ इह पराहंपरामर्शमात्रसारत्वात् स्वतन्त्रप्रका- शात्मा परमेश्वर एव परमार्थः इति तत्प्राप्तौ उप- देश्यभेदेन तदुपकल्पितमेव उपायानां नानात्वं, तेन चित्स्वातन्त्र्यप्रधानतया उल्लसित उपाय आसन्नः इत्युच्यते, अन्यथा तु इतरः इत्याह दूर इति । एव- मपि उपेयासन्नतया कस्यचिदेव उपायत्वम् इति नाशक्यम् - उपायोपेयभावस्य द्वारद्वारिभावेन वक्ष्यमाणत्वात् ॥११॥ एतदेवोपसंहरति एवं स्वातन्त्र्यपूर्णत्वा- दतिदुर्घटकार्ययम् । केन नाम न रूपेगा भासते परमेश्वरः ॥१२॥ पं०९क० पु. इह अहंपरामर्शमात्रसारत्वादिति पाठः ।

१३८ श्रीतन्त्रालोकः। रूपेण इति तत्तत्स्वशक्त्यात्मना इत्यर्थः ॥१२॥ अत एवाह निरावरणमाभाति भात्यातनिजात्मकः । श्रावृतानारतो भाति बहुधा भेदसंगमात् ॥३॥ इति शक्तित्रयं नाथे स्वातन्त्र्यापरनामकम् । इच्छादिभिरभिख्याभि- गुरुभिः प्रकटीकृतम् ॥४॥ निरावरणम् इति शुद्धप्रकाशमयत्वात् , आवृत इति भेदकालुष्योदयात् , आवृतानावृतः इति शुद्ध- ज्ञानमयत्वेऽपि भेदकालुष्यासूत्रणात् , अत एव परापरपरापरत्वं, बहुधा इति एषणीयादिनानात्वात् अनेकप्रकारम् इत्यर्थ: । निरावरणत्वेऽपि हि निषेध्यमानत्वाद् भेदस्य वासनामात्रेणावस्थानम् । , .. पं०६ क० ख० पु० भेदसंगम इति पाठः । पं०१४ क. पु० एषणीयत्वादिनानात्वादिति पाठः ।

श्लोकः ९५] प्रथमाह्निकम् । इति शब्दः स्वरूपपरामर्शकः, तेन एतदेव अव- भासमानं निरावरणत्वादि परादिरूपं शक्तित्रयं गुरुभिः एतच्छास्त्रावतारकैः इच्छादिसंज्ञाभिः परमे- श्वरविषयतया उन्मीलितमपि स्वातन्त्र्यशक्त्यभि- धानमेव इति 'बहुशक्तित्वमप्यस्य तच्छक्त्यैवावि- युक्तता' इति निर्वाहितम् ॥३३॥६॥ बहुशक्तित्वमेव च एतदभिधायकानां प्रवृत्ति- निमित्तम् इत्याह देवो ह्यन्वर्थशास्त्रोक्तः शब्दैः समुपदिश्यते। महाभैरवदेवोऽयं पतिर्यः परमः शिवः ॥१५॥ अन्वर्थैः व्युत्पन्नः निरुक्तैः, शास्त्रोक्तैः साम- यिकैः ॥६५॥ तदेवाह विश्वं बिभर्ति पूरणा- धारणायोगेन तेन च त्रियते । पं० १ ख. पु. एतदेवाभासमानमिति पाठ ।

१४० श्रीतन्त्रालोकः। सविमर्शतया व रूपतश्च संसारभीरुहितकृच्च ॥६॥ संसारभीतिजनिता- द्रवात्परामर्शतोऽपि हृदि जातः । प्रकटीभूतं भवभय- विमर्शनं शक्तिपाततो येन ॥७॥ नक्षत्रप्रेरककाल- तत्त्वसंशाषकारिणो ये च । कालग्राससमाधान- रसिकमनःसुतेषु च प्रकटः ॥८॥ संकोचिपशुजनभिये यासां रवणं स्वकरणदेवीनाम् । अन्तर्बहिश्चतुर्विध- खेचर्यादिकगणस्यापि ॥ तस्य स्वामी संसार- वृत्तिविघटनमहाभीमः। पं० १० पु० स्वविमर्शतयेति पाठः । पं० १४ ख. ग. पु० भूचर्यादिकगणस्यापीति पाठः ।

.. श्लोकः १००] प्रथमाहिकम् । विभर्ति-धारयति पोषयतिचस्वात्मभित्तिसंलग्न- वेन तदुल्लासनात् । तेन इति विश्वेन, भ्रियते इति धार्यते पोष्यते च -तस्य विश्वमयत्वेनैव सर्वत्र स्फुर- णात् । रवरूपतः इति शब्दनस्वाभाव्यात्, तेन भरणाद्रवणाच्च भैरवः इत्ययं निरुक्तः । भीरू- णाम् अयं हितकृत् इति भैरवः, भीरुत्वे च नि- मित्तं संसारः तेन संसारिणामभयप्रद : इत्यर्थः । भयं भीः संसारत्रास:, तया जनितो योऽसौ रवः भगवद्विषय आक्रन्दः परामर्शो वा ततो जातः इति भैरवः , तेनाक्रन्दवतां परामर्शवतां च हृदि परमार्थभूमौ स्फुरितः इति यावत् । भवाद्भयं भीस्तस्य रखो विवेचनं विमर्शनं तस्य शक्तिपात- मुखेन श्रयं कारणम् इति भैरवः, संसारवैमुख्ये- ऽपि अयमेव निमित्तम् इति भावः । भानि नक्ष- त्राणि ईरयति प्रेरयति इति भेरः कालः तस्य तत्त्वं क्षणाद्यात्मकं स्वरूपं, तस्य सम्यङ् निःशेषेण पं० २ क० ख० पु० तदुल्लासादिति पाठः । पं०५ख० पु० निरुक्तिरिति पाठः।

श्रीतन्त्रालोकः। , शोषम् अभिभवं कुर्वन्ति इति कालं वायन्ति इति भेरवा:-कालग्राससमाधिरूढावधाना यो- गिनः, तेषु अयं स्वामी तत्त्वेन प्रकटः स्फुरितः इति भैरवः । संकोचिनो भेदप्रथामयस्य पशुज- नस्य भिये नत्तत्सुखदुःखाद्युपजननत्रासाय रवणं शब्दराशिसमुत्थकादिकलाविमर्शमयोरवो यास ताः स्वकरणदेव्य इन्द्रियशक्तयः, तथा अन्तर्बहिः प्र- मातृप्रमेयाद्यात्मा चतुर्विधः चतुष्प्रकार ः खेचर्या- दिको गणः खेचरी-गोचरी-दिक्चरी-भूचर्यो भीरवा- स्तासामयं स्वामी भैरवः । महाभीम इति भी- षणः, तेनात्र भैरवशब्दः संकेतितः इति भावः ॥६६॥७॥१८॥६६॥ एतदेवोपसंहरति भैरव इति गुरुभिरिमै- रन्वर्थैः संस्तुतः शास्त्रे ॥१०॥ : : पं०१० पु. वाहयन्ति इति भैरवा इति पाठः । पं. २ क० समधिरूढावधाना इति, ख० पु० समारूढा, इति पाठान्तरोपेतश्च पाठः। पं०३ क० पु० अयं स्वरूपीति पाठः ।

श्लोकः१०१] प्रथमाहिकम् । गुरुभिः तत्तच्छास्त्रावतारकैः, इमैः एभिः सम- नन्तरोक्तः अन्वथै : अर्थानुगतैर्वाचकैः, संस्तुतः परिचितः शास्त्रे विशेषानुपादानात् सर्वत्रैव अर्था- दुक्तः। अथ च अन्वथैः सम्यक् सकलजगद्भरणादि- सामर्थ्यप्रतिपादनद्वारण स्तुत : इत्यर्थः, यदुक्तं 'नियात्सर्व वयति सर्वदो व्यापकोऽखिले। इति भैरवशब्दस्य सततोच्चारणाच्छिवः ॥' इति । तथा 'भरणाद्भरितस्थितिः। इति । इमैः इति चिन्त्यम् । गुरुगदितैरिति तु श्रेष्ठः पाठः ॥१०॥ हेयेत्यादिना देवशब्दस्य निर्वचनमाह हेयोपादेयकथा- विरहे स्वानन्दघनतयोच्छलनम् पं० ४ क. पु० असौ चान्वषैः सकलजगद्भरणादिति पाठः । पं०६ख. पु० रचयतीति पाठः। पं० ७ क. पु० समन्ततोचारणाच्छिव इति पाठः । पं० ११ ख० पु० स्पष्टः पाठः इति । पं० १४ ख० पु० स्वानन्दतयोच्छलनमिति प्रथमः पाठः ।

श्रीतन्त्रालोकः। । क्रीडा सर्वोत्कण- वर्तनेच्छा तथा स्वतन्त्रत्वम् ॥१०॥ व्यवहरणमाभन्नेऽपि स्वात्मनि भेदेन संजल्पः। निखिलावभासनाच द्योतनमस्य स्तुतिर्यतः सकलम् ॥१०२॥ तत्प्रवणमात्मलाभा- प्रभृति समस्तेऽपि कर्तव्ये बोधात्मकः समस्त- क्रियामयो दृस्क्रियागुणश्च गतिः ॥१०३॥ स्वस्वातन्व्यमाहात्म्यात् शिवादिक्षित्यन्ताशेषवि- श्वात्मनोल्लासनमेव अस्य क्रीडा सर्वोत्कर्षेण वर्तने- च्छा, तथा स्वतन्त्रत्वं व्यवहरणम् इति अभिन्नेऽपि स्वात्मनि भेदेन संजल्पः, क्रीडेति देव्यति क्रीडति इति देवः । न चात्र क्रीडातिरिक्तं निमित्तम् इत्याह हेय इत्यादिना । नहि किंचिदुपादातुं हातुं वा जग- पं०५० ख० अखिलेति पाठः । पं० १ ० पु० बोधात्मकसमस्तक्रियामये इति पाठः । पं० १० क० ख० पु० गुणमयश्च गतिरिति पाठः ।

श्लोक १०३] प्रथमाह्निकम् । त्सर्गादौ ईश्वरः प्रवर्तते, अत एव स्वानन्दघनत्व- मेवात्र हेतुरुपात्तः, अत एव चास्य स्वतन्त्रत्वमेव, सर्वोत्कर्षेण वर्तनेच्छा विजिगीषुता, विजिगीषोर्हि कथं नु नाम सर्वानेवाभिभूय अहं वर्ते इतीयमेव इच्छा भवति । तथा-शब्दः पूर्वापेक्षया समुच्चये तेन दीव्यति विजिगीषते इति देवः । देवशब्दस्य सर्वस्मात अभिन्नेऽपि स्वात्मनि भेदेन 'अहमिदं जा- नामि' इति योऽयमस्य संजल्पः तयवहरणम् अपा- रमार्थिकेन रूपेण स्फुरणम् इत्यर्थः, तेन दीव्यति व्यवहरति इति देवः । निखिलस्य प्रमातृप्रमेयात्मनो निखिले चास्य यत् अवभासनं तत् द्योतनं, तेन दीव्यति द्योतते द्योतयति इति वा देवः । यतः सकलमिदं जगत् स्वरूपलाभात्प्रभृति समस्तेति- कर्तव्यतायां तदायत्तप्रवृत्ति इत्यस्य स्तुतिः। सर्वे हि शिवमन्त्रमहेश्वरादयः तत्परतन्त्रवृत्तित्वादुन्मु- खतया प्रह्वा एव इति भावः । श्रस्य इति कर्मणि पं०६० पु० इति भाव इति पाठः । पं०८ख. पु. योऽस्येति पाठः। पं०१५ख० पु० शिवे मन्त्रमहेश्वरेति शोधितः पाठः। १९ श्रीतन्त्रालोकः। षष्ठी, तेन दीव्यते स्तूयते इति देवः । समस्ता पूर्णा विमर्शलक्षणा क्रिया प्रकृता यस्यासौ, दृकिये गुणः शक्तिर्यस्यासौ, यतोऽयमेवंविधः ततोऽस्य गतिः-विशेषानुपादानात् सर्वत्र ज्ञानं प्रसरणं च इति सर्वज्ञः सर्वव्यापकश्च इति सिद्धम्, तेन दीव्यति, जानाति, प्रसरति च इति वा देवः ॥१०१॥ १०२॥१०॥ एतदेवोपसंहरति इति निर्वचनैः शिवतनु- शास्त्रे गुरुभिः स्मृतो देवः । गुरुभिः इति बृहस्पतिपादैः स्मृत इति 'एवं वामो देवः स दीव्यति क्रीडति प्रभुर्यस्मात् ।' इत्यादिना 'अविस्तगतिः स यस्माद्देवस्तस्मात्सदाशिवो गीतः ।' इत्यन्तेन ग्रन्थेन व्यावर्णितः इत्यर्थः ॥ शासनेत्यादिना पतिशिवशब्दयोर्निर्वचनमाह पं० १२ क० ख० पु. क्रीडति प्रभुर्यः स्यादिति पाठः।

श्लोक १०४] प्रथमाह्निकम् । १४७ शासनरोधनपालन- पाचनयोगात्स सर्वमुपकुरुते । तेन पतिः श्रेयोमय एव शिवो नाशिवं किमपि तत्र ॥१०४॥ शासनं शास्त्रोपदेशादिना बोध्यानां बोधनं । रोधन संसारिणां विलयशक्त्या श्राघातत्वात् तत्रै- वावस्थापनं । पालनं यथास्थितस्य विश्ववैचित्र्यस्य नियतनियन्त्रणया तथैव स्थापनात्मकं संरक्षणं । पाचनं कर्मणां कर्मिणः प्रतिफलदानोन्मुख्यजननम्। उक्तं हि 'स्वापेप्यास्ते बोधयन्बोधयोग्यान् रोध्यात्रुन्धन्याचयन्कर्मिकर्म । मायाशक्तोर्व्यक्तियोग्याः प्रकुर्वन सर्वं पश्यन् यद्यथावस्तुजातम् ।। इति । तेन इति रक्षणार्थपर्यवसायिनोऽपि पतिशब्दस्य शासनादिकारकत्वेन हेतुना इत्यर्थः । अत एव पं० ख० पु० फलदानादौन्मुख्येति पाठः । पं० ११ ग० पु० पश्यन्सर्वं यद्यथेति पाठः। पं० १९ख० पु० पर्यवसायिनोपकारकत्वेन हेतुनेत्येवंविधः पाठः ।

१४८ श्रीतन्त्रालोकः। पाति रक्षति इति पतिः । श्रेयोमयः पराद्वयस्व- भावत्वात् । अशिवम् इति द्वैतम् ॥१०४॥ ननु एवमपि किं विशेषणयोगेन, इत्याशङ्क्याह ईयूपं कियदपि रुद्रोपेन्द्रादिषु स्फुरेयेन । तेनावच्छेदनुदे परममहत्पदविशेषणमुपात्तम् ॥१०॥ ईदृक् इति भैरवादिशब्देष्वन्वर्थगत्या दर्शितम् । कियत् इति किंचिदेव, न तु सर्वम्, एतत् हि अंशां- शिकयासर्वत्रैव संभवेत् इतिभावः । अत एव अन्य- व्यवच्छेदेन सर्वातिशयप्रतिपादनार्थं परममहत्पदल- क्षणं विशेषणमुक्तम् ॥१०५॥ ननु अज्ञानं संसृतौ निमित्तं, ज्ञानं च मोक्षे, स्वस्वरूपाख्यातिश्चाज्ञानं, तत्ख्यातिश्च ज्ञानं, स्वा- पं० १० पु० परमाद्वयेति पाठः । पं० ३ ख० पु० विशेषेण योगेनेति पाठः। पं० ७ ख० पु० महत्पदमुपात्तमिति पाठ पं० ११० पु० महत्पदविशेषयमिति लक्षणपदहीनः पाठः । पं० १४ क. पु० तथाझ्यातिश्चेति पाठः ।

श्लोक १.६] प्रथमाह्निकम् । १४९ त्मनश्च स्वरूपं परः प्रकाशः, स एव च स्वं रूपं स्वे- च्छया प्रच्छाद्य विश्वरूपतामवभासयेत् । एवमपि तदधिगमे तच्छक्तिरेवोपायो, येन स्वरूपख्यातिर्भ- वेत, इयदेव च ज्ञातव्यम् यत्सर्वेषामेव शास्त्राणां प्रतिपाद्यं तच्च इह उक्तप्रायम् इत्यत एव विर- न्तव्यम् इत्याशङक्याह इति यज्ञयसतत्त्वं दर्श्यते तच्छिवाज्ञया। मया स्वसंवित्सत्तर्क- पतिशास्त्रनिकक्रमात् ॥१०६॥ 'इत्युपोद्धातः' । इति-उक्तेन प्रकारेण यत् ज्ञेयस्य बन्धमोक्षादेः शास्त्रान्तरदृष्टत्वात् सतत्त्वं पारमार्थिक रूपम् अर्थादिह संक्षेपेण उदृङ्कितम्, तन्मया शिवाज्ञया स्वसंविदादि अवलम्ब्य च दर्श्यते- विस्तरेण उच्यते इत्यर्थः । शिवोऽत्र गुरुः । 'यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः । उभयोरन्तरं नास्ति गुरोरपि शिवस्य च ॥ । A पं०१४ ख० पु० अवलम्ब्य चर्यते इति पाठः ।

श्रीतन्त्रालोकः। इति, नहि अत्र तदादेशमन्तरेण अधिकार एव भवेत् हीत भावः । स्वसंवित् स्वानुभवः । सत्तों युक्तिः। पतिशास्त्रं भेदप्रधानं शैवम् । त्रिकं परादिशक्तित्रया- भिधायकं शास्त्रम् । क्रमः चतुष्टयार्थः । समाहारेऽयं- द्वन्द्वः । इह सर्वमेव स्वानुभवेन युक्त्या सामान्या- गमेन विशेषागमेन च सिद्धमुपदिश्यते इत्यागमः । उपोद्धात इति उप-श्राशु संक्षेपेण ऊर्ध्वमादौ हन्यते टंक्यते दीनार इव राजाभिधानं शास्त्रार्थो यस्मिन् स तथा ॥१०६ ॥ तदेवं प्रतिज्ञाय शास्त्रार्थगर्भीकारेण संप्रति श्रव- तारयितुमाह तस्य शक्तय एवैता- स्तिस्रो भान्ति परादिकाः । सृष्टौ स्थितौ लये तुर्ये तेनैता द्वादशोदिताः ॥ २०७॥ तस्य परमेश्वरस्य भैरवादिशब्दाभिधेयस्य, एताः पं०२० पु० स्वसंविदनुभव इति पाठः । पं० ०ख० पु० उपांशु संक्षेपेणोति पाठः।

श्लोकः १०८] प्रथमाह्निकम् । विखिलशक्त्यन्तरगर्भीकारेण प्रधानतया प्रतिपा- दिताः परादिकास्तिस्रः शक्तयः, सृष्टौ, स्थितौ, लये संहारे, तुर्ये,अनाख्येच भान्ति-सर्वसर्वात्मकेन रूपेण स्फुरन्ति इत्येकैकस्याः चातूरूप्येण श्रीसृष्टिकाल्या- द्यात्मकतया द्वादशधोदय इति वाक्यार्थः । तदुक्तं 'धाम्नां त्रयाणामप्येषां सृष्ट्यादिक्रमयोगतः । भवेच्चतुर्धावस्थानमेवं द्वादशधोदितः ।। स्वसंवित्परमादित्यः प्रकाशवपुरव्ययः। इति ॥ १०७॥ ननु एक एव परप्रकाशात्मको भैरवादिशब्द- व्यपदेश्यः परमेश्वरः समस्ति, तस्य चाभिन्ना एकैव स्वातन्त्र्याख्या शाक्तः इत्युपपादितं, तत्कथमस्य इह द्वादशधोदय इत्युक्तम् ?, इत्याशङ्क्याह तावान्पूर्णस्वभावोऽसौ परमः शिव उच्यते। तेनात्रोपासकाः साक्षा- त्तत्रैव परिनिष्ठिताः॥१०८॥ पं० ३ क० पु. भवन्ति सर्वसर्वात्मकत्वेन स्फुरन्तीति पाठः। पं० ११ ख० पु० तस्य चैके वामिना इति पाठः ।

श्रीतन्त्रालोकः। तावान् इति-द्वादश शक्तयः परिमाणमस्य, स तथा, अत एव पूर्णस्वभावः इत्युक्तं । पूणे सर्व- मस्ति, सर्वत्र पूर्णमस्ति, अन्यथास्य पूर्णव न स्यात् । अत एव अत्र द्वादशात्मके चक्रे ये उपास- काः ते तत्र परमशिवे एव परिनिष्ठिताः-तदैकात्म्य- भाजो भवन्ति इत्यर्थः । एतच्च बहुप्रघट्टकवक्त- व्यम्, इति शाक्तोपायाह्निक एव वितत्य विचार- यिष्यते, इति नेहायस्तम् ॥ १०८॥ ननु कथमेतद्युक्तं-यतोऽत्र संख्यायाः तत्र तत्र न्यूनत्वमाधिक्यं च संभवति?, इत्याशङ्क्याह तासामपि च भेदांश- न्यूनाधिक्यादियोजनम् । तत्स्वातन्त्र्यबलादेव शास्त्रेषु परिभाषितम् ॥१०६॥ तदेवाह एकवीरो यामलोऽथ त्रिशक्तिश्चतुरात्मकः। पं० १६ ख० पु० यामलोक्त इति, यामलोत्थ इति च पाठः ।

श्लोकः १११] प्रथमालिकम् । पञ्चमूर्तिः षडात्माय सप्तकोऽष्टकभूषितः ॥ ११० ॥ नवात्मा दशदिक्छक्ति- रेकादशकलात्मकः। द्वादशारमहाचक्र- नायको भैरवस्त्विति ॥१११॥ यथा एकवीरो मृत्युजिति प्रथमध्याने । यामलः तत्रैव । कुलप्रक्रियायां तिस्रः शक्तयः पराद्याः। चतुरात्मा जयादिभेदेन । पञ्चमूर्तिः सद्योजातादि- तया । तदुक्तं 'सिद्धान्ते पञ्चकं सारं चतुष्कं वामदक्षिणे। त्रिकं तु भैरवे तन्त्र इति । षडात्मा इति, यद्वक्ष्यति 'विश्वा तदीशिका रौद्री वीरका त्र्यम्बिका तथा। गुर्षीति षडरे देव्यः इति । सरकः इति, यदुक्तं । ..|| पं० ८० पु० तत्रैव प्रक्रियायामिति पाठः । पं० १९ख० पु० चतुर्य वामेति पाठः । २० श्रीतन्त्रालोकः । 'ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वाराही च तथेन्द्राणी चामुण्डा चेति मातरः॥' इति । अष्टकेन अघोरादिना । स एव एतदष्टकम- ध्यवर्ती नवात्मा । दशदिक्छक्तिः इति, यदुक्तं 'उमा दुर्गा भद्रकाली स्वस्ति स्वाहा शुभङ्करी । श्रीश्च गौरी लोकधात्री वागीशी दशमी स्मृता ॥ इति । एकादश इति खण्डचक्रोक्ता। इयदन्तं न्यूनसंख्यास्वीकारः भैरवः इति त्रयोदशः। अनेन अधिकसंख्यासूत्रणम् ॥११०॥१११॥ तच्च अधिकसंख्याकत्वं निरवधि, इत्याह एवं यावत्सहस्रारे निःसंख्यारेऽपि वा प्रभुः। विश्वचके महेशानो विश्वशक्तिर्विजृम्भते ॥११२॥ सहस्रारे इति त्रिशिरोभैरवप्रथमपटलोक्ते । ग्रन्थ- विस्तरभयात्तु न प्रातिपद्येन संवादितम् । निःसंख्यारे इति भुवनादीनामानन्त्यात् । एवमपि एतस्मान्न व्य- तिरिक्तम्, इत्याह विश्वशक्तिः इति । तदुक्तं पं०८ क० ग. पु० न्यूनस्वीकार इति, ख० पु. अनेन त्रयोदशकथनेन अधिकेति च पाठः।

श्लोकः ११३] प्रथमाह्निकम् । 'शक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते । शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः ।।' इति ॥११२॥ ननु विश्वेषामपि चक्राणां यदि प्रभुरेव परमार्थः तदेकेनैव कार्तार्थ्यात् प्रतिशास्त्रं बहूनि किमुक्तानि?, इत्याशङ्क्याह तेषामपि च चक्राणा स्ववर्गानुगमात्मना। ऐक्येन चक्रगो भेद- स्तत्र तत्र निरूपितः॥११३॥ ऐक्येन तत्तत्सृष्ट्याद्यात्मनियतकृत्यकारित्वादिना साजात्येन । तच्च नियतकृत्यकारित्वादेव अस्य स्ववर्गानुगमात्मकत्वमुक्तम् , अत एव चक्रगो भेद इति शास्त्रेषु चक्राणामानन्त्यम् ॥११३॥ तदेव दर्शयति चतुष्षद्विगिणना- योगात्त्रशिरसे मते। पं० १२० पु० भस्य स्वर्गानुगमेति पाठः ।

श्रीतन्त्रालोकः। षट्चक्रेश्वरता नाथ- स्योक्ता चित्रनिजाकृतः ॥११४॥ चतुर्णा द्विगणनायोगेन अष्टौ, पुनस्तथात्वेन षोड- श, षण्णां द्विगणनायोगेन द्वादश, पुनस्तथात्वेन चतुर्विशतिः इति षण्णां चक्राणामीश्वरता, तत्तत्स- मुल्लास्यचक्रायुपाधिवैचित्र्याच्चित्रा-नानाकारा, तद- तिरिक्तस्य अन्यस्य अनुपलम्भात् निजाकृतिः यस्य, अत एव नाथस्य स्वातन्त्र्यशालिनः तत्तचक्रा- धिष्ठातुः प्रभोः शिरसे मते त्रिशिरोभैरवे उक्ता अभिहिता इत्यर्थः । तदुक्तं तत्र 'चतुष्कं षटकोष्टकं द्वादशारं षोडशारकम् । चतुर्विशारकं देवि प्रविभक्त्या सुसंस्थितम् ।। इत्यादि ॥११॥ बहुप्रकारत्वं चक्राणां भेदनिमित्तमपि त्रिशिरो- भैरव एवोक्तम्, इत्याह पं०३० पु० तथात्वे षोडश इति पाठः । पं० ६ क. पु० समुल्लासस्य चक्रेति पाठः । पं० ११० पु० चतुष्कषटकोष्ठकति पाठः । पं. १३. पु० प्रविभक्त्या तथाष्टकमिति पाठः ।

श्लोक: १९६] प्रथमाहिकम् । नामानि चक्रदेवीनां तत्र कृत्यविभेदतः । सौम्यरौदाकृतिध्यान- योगीन्यन्वर्थकल्पनात् ॥११५॥ उक्ता इति पूर्वश्लोकाल्लिङ्गादिविपरिणामाद् यो- ज्यम् । एक एव हि परमेश्वरः तत्तत्साधककामा- नुसारं नियतां सौम्यरौद्रादिरूपाम् श्राकृतिमाभा- स्य तां तां सिद्धिं नियच्छेत् । तदुक्तं 'येन येन हिरूपेण साधकः संस्मरेत्सदा । तस्य तन्मयतां याति चिन्तामणिरिवेश्वरः ।।' इति । श्रीत्रिशिरोभैरवप्रथमपटलाच अयमर्थः स्वयमेवाधिगन्तव्यः । अस्माभिस्तु ग्रन्थविस्तारभ- यात् न प्रातिपद्येन संवादितम् ॥ ११५ ॥ तदेवाह एकस्य संविन्नाथस्य ह्यान्तरी प्रतिभा तनुः। पं० ६ ख० पु. साधकाशमानुसारमिति पाठः।

श्रीतन्त्रालोकः। सौम्यं वान्यन्मितं संवि- दुर्मिचक्रमुपास्यते ॥११६॥ श्रान्तरी प्रतिभा स्वातन्त्र्यशक्तिः । अन्यत् इति रौद्रम् । अत एव तत्तत्सौम्यरौद्रादिनियताका- रावच्छिन्नत्वात् मितम् ॥ ११६ ॥ एतदेव विभज्य दर्शयति अस्य स्यात्पुष्टिरित्येषा संविदेवी तथोदितात् । ध्यानात्संजल्पसंमिश्राद् व्यापाराच्चापि बाह्यतः॥११७॥ स्फुटीभूता सती भाति तस्य ताहक्फलप्रदा। पुष्टिः शुष्कस्य सरसी- भावो जलमतः सितम् ॥११८॥ अनुगम्य ततो ध्यान तत्प्रधानं प्रतन्यते। पं०२ख० पु० उपासते इति पाठः। पं०७ख० पु० अस्य स्यात्सृष्टिरिति प्रथमः पाठः । पं०१३ ख. पु० सरसीभावे इति पाठः ।

श्लोकः १२२] प्रथमाहिकम् । ये च स्वभावतो वर्णा रसनिःध्यन्दिनो यथा ॥११॥ दन्त्यौष्ठ्यदन्त्यप्रायास्ते कैश्चिद्वणः कृताः सह। तं बीजभावमागत्य संविदं स्फुटयन्ति ताम् ॥१२०॥ पुष्टिं कुरु रसेनैन- माप्यायय तरामिति। संजल्पोऽपि विकल्पात्मा किं तामेव न पूरयेत् ॥१२॥ अमृतेयमिदं क्षीर- मिदं सर्पिलावहम् । तेनास्य बीजं पुष्णीया- मित्येनां पूरयेत्कियाम् ॥१२२॥ ध्यानाद्येव क्रमेण निरूपयति-पुष्टिरित्यादिना । ततः इति समनन्तरोक्ताद्धेतोः। अतः इति पुष्टेः पं० ० ७ क. पु० पुष्टिं कुरु रसोऽनेन ध्याययन्तु ततस्तरामिति पाठः । पं. ६ ख. पु० संकल्पोऽपि इति पाठः । पं० १३ ख.पु. पुष्णीयादिति पाठः ।

श्रीतन्त्रालोकः। शुष्कस्य सरसीभावापादानलक्षणत्वात् । जलं हि आप्यायकं तत्प्रधानं पुष्टिप्रयोजकम् पूर्णमित्यादि- रूपम्। संप्रति संजल्पमपिलौकिकालौकिकभेदेन द्विधा व्याचष्टे-ये च इत्यादिना। ते इति दन्त्योष्ठ्यदन्त्य- प्राया वर्णाः । तां संविदं पुष्टिरूपां । बीजभावं मन्त्रभावम् । अत एवास्य संजल्पस्यालौकिकत्वम् । दन्त्योष्ठ्या वकारादयः । दन्त्या अमृतबीजादयः। कैश्चिद्वणैरिति अदन्त्योष्ट्यप्रायादिभिः । यदुक्तं 'वषडाप्यायने शस्तः इति । तथा 'पुष्टावाप्यायने वगै:: - इति । एवं मूर्धन्यादीनामपि ग्रहणम् । विकल्पात्मा इत्यनेन अस्य लौकिकत्वं दर्शितम् । तामिति पुष्टि- रूपां संविदम् । इदानीं बाह्यमपि होमादिरूपं व्या- पं० १ ख. पु० शुष्कसरसीति पाठः । पं० २० पु० पूर्णमितादीति पाठः। पं०८० पु० वर्णेरिति दन्त्योष्ठेयति पाठः । प० १९ख० वर्णरिति पाठः। पं०१३ ख० पु० अस्या लौकिकत्वं दर्शितं तामिति सृष्टिरूपामिति पाठः ।

+-- श्लोक १२३] प्रथमासिकम् । पारं विभजति अमृता इत्यादिना । क्षीरं दधि । तदुक्तं 'दधिहोमात्सरा पुष्टिः इति । बलावहशब्देन प्रत्येकं संबन्धः । तेन इति गडूच्यादिना द्रव्यजातेन । बीजम् इति शरीरका- रणभूतं शुक्रशोणितादि धातुबातम् । एनाम् इति पुष्टिरूपां क्रियाम् ॥११७॥११८॥११६॥१२०॥१२१ ॥१२२॥ एतदेव प्रमेयान्तरमुपक्षिपन् उपसंहरति तस्माद्विश्वेश्वरो बोध- भैरवः समुपास्यते। अवच्छेदानवच्छिदयां भोगमोक्षार्थिभिर्जनैः॥१२३॥ अवच्छेदानवच्छिद्भ्याम् इति, अवच्छेदः समन- पं०१० पु० विभजयतीति पाठः । पं०३० पु० दधिहोमात्मना पुष्टिरिति पाठः । पं० ४ ख. पु. प्रत्येकममिसंबन्ध इति, क० पु० तेनेति अमृतादिना द्रव्य- जातेऽर्षणबीजमिति पाठः । पं०१० क० पु० तस्माद्विकस्वो बोधेति पाठः । पं० १४ क० पु० अवच्छेदानवच्छियामिति वाक्यं नास्ति ।

श्रीतन्त्रालोकः। न्तरोक्तनीत्या ध्यानादिनियतविधिनियन्त्रितत्वं, तद- न्यथात्वमनवच्छेदः । यद्वक्ष्यति 'साधकानां बुभुक्षूणां विधिनियतियन्त्रितः। मुमुक्षूणां तत्त्वविहां स एव तु निरर्गलः ॥' इति । भगवतश्च एतत्सावच्छेदमपि रूपम् अनव- च्छिन्नपरस्वरूपानुप्राणितमेव, नहि तत्स्वरूपानुप्रवेशं बिना किंचिदपि सिद्ध्येत् ॥१२३॥ एतदेव शब्दार्थद्वारकं गीताग्रन्थेन संवादयति येऽप्यन्यदेवताभक्ता इत्यतो गुरुरादिशत् । इत्यतः - इत्येवमादिकात् वाक्यकदम्बकादित्य- र्थः। गुरुरिति तात्त्विकार्थोपदेष्टा भगवान्वासुदेवः । । तत्र हि 'विद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते। ते पुण्यमासाद्य सुरेन्द्रलोक- मश्नन्ति दिव्यान्दिवि देवभोगान् ।' * निरगलो नियतियन्त्रणारहित इत्यर्थः । पं०३ क. पु० नियतयन्त्रित इति पाठः ।

श्लोक १२४] प्रथमाह्निकम् । इत्यादिना। 'क्षीणे पुण्य मर्त्यलोकं विशन्ति ।। इत्यादिना च भोगार्थिनाम् , 'अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥' इत्यादिना च मोक्षार्थिनाम्, अवच्छेदानवच्छेदाभ्यां क्रमेण स्वरूपमभिधाय पुनः सावच्छेदेऽपि रूपेऽन- वच्छिन्नं रूपम् अस्त्येव इत्यभिधातुम् 'येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥' इत्यादिना तेनोपदिष्टम् ॥ एतदेव व्याचष्टे ये बोधाव्यतिरिक्तं हि किंचिद्याज्यतया विदुः॥१२४ ॥ इत्यादिना इति, वीणे पुण्ये इति च १-२ पंक्तिद्वयस्थपाठः ग० पु० न वर्तते तथात्वे ३ पंक्तिस्थः 'च' इति नास्ति अतः अनुमीयते पुस्तकान्तरेषु पश्चात्प्र- चिप्तोऽधिकचोक्तपाठोऽस्तीति । पं० १३ ख० पु० बोधाद्यतिरिक्तमिति प्रथमः, बोधादतिरिक्तमिति लक्ष्यमाण शोधनः पाठोऽप्यस्ति । पं०१४ क.ख. पु० किंचित्पूज्यतयेति पाठः।

१६४ श्रीतन्त्रालोकः। तेऽपि वेद्यं विविश्वाना बोधाभेदेन मन्वते । ये याजका बोधाद् वेदिकस्वभावात् स्वात्म- रूपाध्यतिरिक्तमन्यत् तत्तन्नियताकारमिन्द्रादिदैवतं याज्यतया विदुः जानीयुः, ते विच्छिन्ननियताकार- वत्त्वात् वेद्यमपि इन्द्रादिरूपं दैवतं श्रद्धातिशययो- गाद् गाढगाढं विमृशन्तः 'वेद्यो वेदकतामाप्तो वेदकः संविदात्मताम् । संवित्त्वदात्मा चेत्सत्यं तदिदं त्वन्मयं जगत् ॥ इत्यादिन्यायेन बोधाभेदेन-परप्रमात्रेकरूपस्वात्मम- यत्वेन अवबुध्यन्ते इत्यर्थः॥ ननु देवतोदेशेन द्रव्यत्यागो याग इत्युक्तेः द्रव्य- त्यागार्थमुद्दिष्टैव देवता भवति, न च बोधैकरूपस्य स्वात्मतत्त्वस्य तथात्वेन उद्देशोऽस्ति , कथमस्य याज्यत्वम् ? इत्याशङ्क्याह पं०१० ख. पु० तेऽपि बोधमिति पाठः। पं० ख०१ अन्यत्तत्र नियताकारमिति पाठः । पं० ७ ० पु० मृशन्तोऽपि ते च इति पाठः । संविच्चदात्म चेदिति पाठः । प्रमात्रेकस्वात्मेति पाठः। पं० ख० पं० १० क० पु० पु० श्लोक १२७] प्रथमाह्निकम् । तेनाविच्छिन्नतामर्श- रूपाहन्ताप्रथात्मनः॥१२५॥ स्वयं-प्रथस्य न विधिः सृष्टयात्मास्य च पूर्वगः। वेद्या हि देवतासृष्टिः शक्तेहेतोः समुत्थिता ॥१२६ ॥ अहंरूपा तु संवित्ति- नित्या स्वप्रथनात्मिका। तेन बोधात्मत्वेन हेतुना, अस्य-स्वात्मतत्त्वस्य, 'सकृद्विभातोऽयमात्मा इतिन्यायेन अनवच्छिन्नतया प्रवृत्ताविरतेन रूपेण पराहंप्रकाशपरामर्शमयस्य,अत एव स्वयंप्रथस्य-प्रमाणादिनरपेक्ष्येण स्वतः सिद्धस्य, विधिः-अप्रवृत्तप्रवर्तनात्मा,पूर्वभावी,तथा सृष्ट्यात्मा- तत्तत्सिाद्धसाधनस्वभावो न भवतीत्यथः । न खलु बोधस्वभावं स्वात्मतत्त्वं विधिविषयतामापद्यते-तस्य पं०५ 'वेद्या हि' इति संपूर्णपद्यं ग० पुस्तकात्पूरितमस्ति । पं०६ क० ख० पु० बोधात्महेतुनेति पाठः, क० ख० पु० स्वात्मतत्त्वस्य इति वाक्यं नास्ति। पं० १० क० ख० पु० अनवच्छिन्नतया अविरतेनेति पाठः ।

श्रोतन्त्रालोकः। , विधिप्राप्त्यभावात्, यावदप्राप्तं हि विधेविषयः, न च स्वात्मनः कदाचित् अप्राप्तिरस्ति-श्रादिसिद्धतया सर्वदेव स्फुरणात् । ननु विधेर्नियोगभावनाद्यात्मतया बहुविधत्वमुक्तम्, स्वात्मा पुनः कस्य विधेविषयतां न भजते ? इत्याशझ्याह विधिर्नियोगव्यंशाच भावना चोदनात्मिका ॥१२७॥ विधिः अप्रवृत्तप्रवर्तको, न पुनरज्ञातज्ञापकः। यदाहुः 'विधेर्लक्षणमेतावदप्रवृत्तप्रवर्तनम् । अतिप्रसङ्गदोषेण नाज्ञातज्ञापनं विधिः ॥' इति । स्वर्गयागयोश्च साध्यसाधनभावमवबो- धयतोऽस्यैव विधेः तावत्प्रवर्तकत्वं-यत् सप्रत्ययस्य पुंसः 'प्रवृत्तोऽहम्' इति ज्ञानजननम् । स च 'नियोग' पं०३ क० पु० सर्वस्फुरणादिति पाठः । पं० ४ ख० पु० कस्य तावद्विषयेत्येवंविधः पाठः । पं० ६ ख० पु० नियोगस्न्यंशश्चेति पाठः । पं० ११ ख० पु. न ज्ञातज्ञापनं विधिरिति पाठः। पं० १२ ख० पु० अवबोधयतोऽस्यैतावत्प्रवर्तकत्वमिति प्रथमः पाठः । पं०१३० पु० प्रवृत्तोहम् इत्यारभ्य प्रत्ययवाच्य इत्यन्तः पाठो ग० पुस्त- कात्पूरितोऽस्ति।

श्लोक १२७] प्रथमाह्निकम् । इति प्राभाकरैरुक्तः, भावना' इति भाट्टैः । तत्र तिङादिप्रत्ययवाच्यः 'प्रवर्तितोऽहम्' इति प्रेरणात्मक कार्यात्मा अनुष्ठेयो धर्मों नियोगः । स च 'दार्श-पौर्णमासाभ्यां यजेत स्वर्गकामः ।' इत्यादावनुबन्धद्वयावच्छिन्नः प्रतीयते । याज्या- दिना हि अस्य विषयानुबन्ध उच्यते । 'स्वर्गकामः' इत्यनेन च अधिकारानुबन्धः, अत एव च ड्यनुबन्ध- बान्धवो 'नियोगः' इत्युद्धोष्यते। कंचित् क्वचिनियुक्त इति नियोगस्वरूपम् इति । 'भावना' च भाव्यनिष्ठो भावकव्यापारः, भाव्यं स्वर्गादिफलं, तन्निष्ठस्त- दुत्पादकः पुरुषव्यापारो भावना । पुरुषो हि भवन्तं स्वर्गादिकमर्थं स्वव्यापारेण भावयति इति भावना इत्युच्यते । सा च द्विविधा-शब्दभावना अर्थभावना च इति । तस्याश्च किं, केन, कथं भावयेत् इति अंशत्रयापेक्षत्वात् त्र्यंशत्वम् । तदुक्तम् 'सा धातोः प्रत्ययाद्वापि भावनावगता सती। अपेक्षतेऽशत्रितयं किं केन कथमित्यदः।।' इति । त्र्यंशा इति, तत्रार्थभावनायां 'किम्' इत्य- पेक्षायां स्वर्गः, 'केन' इत्यपेक्षायां यागः, 'कथम्' इत्य- श्रीतन्त्रालोकः। ॥ पेक्षायां च ब्रीह्यादि संबन्धनीयम् । एवं शब्दभाव- नायामपि, 'किम्' इत्यपेक्षायां भाव्या पुरुषप्रवृत्तिः, 'केन' इत्यपेक्षायां शब्दः, 'कथम्' इत्यपेक्षायाम् अर्थ- वादवाक्यव्यापारः संबन्धनीयः। चोदना वैदिक विधायकं वाक्यम् । यदाहुः 'चोदनेति क्रियायाः प्रवर्तकं वचनम् ।' इति । एतच्चोभयत्रापि संबन्धनीयम् । तच्च प्रमाणा- न्तरप्रतिपन्नमेव अर्थमभिदधत् प्रमाणतां लभते, तं चार्थ साधयति । 'ऐन्द्राग्नमेकादशकपालं निर्वपेत् ।' इत्यादौ निर्वपणादिवदुद्दिष्टा इन्द्राद्या देवता अपि विधेयाः-द्रव्यदेवतासंबन्धस्यैव साक्षात्प्रतिपाद्यत्वात् ॥ १२४-१२५-१२६-१२७ ॥ तदेवाह तदेकसिद्धा इन्द्राद्या विधिपूर्वा हि देवताः। अहंबोधस्तु न तथा ते तु संवेद्यरूपताम् ॥१२८॥ पं० १८ क० पु० संवेधरूपिण इति ख० पु० रूपितामिति पाठः ।

RE श्लोक १२६] प्रथमाह्निकम् । उन्मग्नामेव पश्यन्त- स्तं विदन्तोऽपि नो विदुः । तदुक्तं न विदुमां तु तत्त्वेनातश्चलन्ति ते॥१२६॥ विधिपूर्वाः-विधिरेव पूर्व पूर्वभावि अनधिग- तार्थप्रकाशनात्मकं प्रमाणं यासां ताः तथोक्ताः, स्वात्मव्यतिरिक्ता हि देवताः वेद्यप्रायाः प्रमाणा- न्तराप्रतिपन्नाः शास्त्रेण साध्यन्ते इति युक्तः पक्षः। अहंबोधैकरूपः पुनः स्वात्मा पूर्वोक्तयुक्त्या सदैव प्रकाशमानत्वात् न स्वसिद्धौ प्रमाणं किंचिदपेक्षते इति युक्तमुक्तम् - अविधिपूर्वकमिति। तदेवाह अहं- बोधः इति । तथा इति विधिपूर्व इत्यर्थः । ननु यदि प्रमाणादिनरपेक्ष्येणैव स्वात्मा स्वयं प्रकाशते किमिति न सर्वदेव सर्वेषाम् ? इत्याशङ्क्याह-ते तु इत्यादि । त इति स्वात्मव्यतिरिक्तन्द्रादिदेवता- याजकाः, तं सर्वदेव प्रकाशमानं स्वात्मानं-वेद्यवेद- पं० २० पु० तं वदन्तोऽपीति पाठः। पं० ४ ख० पु० मूलगीतास्वपि च्यवन्ति ते इति पाठः । पं० ख० पु०स चैवेति पाठः। ०१३ क० पु. प्रमाणान्तरनरपेक्ष्येणैवेति पा ।

१७० श्रीतन्त्रालोकः। नान्यथानुपपत्त्या तदतिरिक्तस्य च अन्यस्य देवता- खानुपपत्तेः, वस्तुतो विदन्तोऽपि न विदुः-वेद्यताया एव प्राधान्येन दर्शनात् वेदित्रेकरूपतया न जानीयुः इत्यर्थः । अतश्च नियततत्तदेवतादिरूपग्रहणेन च्यवन्ते इत्यर्थः । तदुक्तं तत्र 'न तु मामभिजानन्ति तत्वेनातश्च्यवन्ति ते ।' इति ॥ १२८-१२६ ॥ तदेव व्याचष्टे चलनं तु व्यवच्छिन्न- रूपतापत्तिरेव या। एतदपि तत्रत्येन ग्रन्थेनैव संवादयति देवान्देवयजोयान्ती- त्यादि तेन न्यरूप्यत ॥१३०॥ तेन इति व्यवच्छिन्नरूपतापत्तिलक्षणेन हेतुना इत्यर्थः। यदुक्तं 'यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥' इति ॥ १३०॥ । पं०२० पु० वदन्तोऽपीति पाठः ।

श्लोक १३२] प्रथमाह्निकम् । ननु यद्येवं कथमन्यदेवताभक्ता अपि यजन्ति इत्युक्तम् ? इत्याशङ्क्याह निमज्ज्य वेद्यतां ये तु तत्र संविन्मयीं स्थितिम् । विदुस्ते ह्यनवच्छिन्नं तद्भक्ता अपि यान्ति माम् ॥१३॥ तत्र इति स्वात्मव्यतिरिक्तायां देवतायाम् । तद्भक्ताः स्वात्मव्यतिरिक्तदेवतायाजिन इत्यर्थः । माम् इति परबोधैकस्वभावम् आत्मानम् । अस्मिन् परमाद्वयमये संविन्मयतयावस्थानमेव यागः, तत्स- मापत्तिरेव च फलम् ॥१३१॥ ननु भगवद्वासुदेवेन उक्तस्य 'माम्' इति अस्म- च्छब्दस्य तदेकवाचकत्वात् कथं बोधमात्राभिधाय- कत्वमुच्यते ? इत्याशङ्क्याह सर्वत्रात्र ह्यहंशब्दो बोधमात्रैकवाचकः। पं० १६ क० पु० मात्रैकगोचर इति पाठः।

श्रोतन्त्रालोकः । । , स भोक्तृप्रभुशब्दाभ्यां याज्ययष्टतयोदितः ॥१३२॥ अत्र इति गीताग्रन्थे अनवच्छिन्नस्यैव बोध- मात्रस्य प्रतिपिपादयिषितत्वात्, अत एव केवल- स्यैव बोधस्य वाचकः पराम्रष्टा इत्युक्तम् । नाहि प्रकाशाद्वितीयस्य अपोह्यस्य प्रतियोगिनः संभवोs- प्यस्ति-तस्य प्रकाशमानत्वाप्रकाशमानत्वविकल्पो- पहतत्वात् । यस्तु शरीरादौ 'कृशोऽहम् ' इत्यादिः अहविमर्शः स विकल्प एव-शरीराद्यपेक्षया परस्य अपोह्यस्य प्रतियोगिनः संभवात् । ननु यदि बोध एव अप्रतिपक्ष एकोऽस्ति, तत्कथं 'मां यजन्ति' इत्यादौ याज्ययष्ट्टतया भेदः पारमार्थिकः स्यात् ? इत्याशङ्क्याह - स भोक्तृ इत्यादि । बोध एव उभयात्मना स्फुरितः इति भावः । तदुक्तं तत्र 'अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।' इति ॥१३१॥ ननु एकश्च उभयात्मा च इति कथं संगच्छताम् ? इत्याशझ्याह श्लोक १३३] प्रथमाहिकम् । याजमानी संविदेव याज्या नान्येति चोदितम् । न त्वाकृतिः कुतोऽप्यन्या देवता न हि सोचिता ॥१३३॥ संविदेव याज्या, इति उदितं-प्रतिज्ञातम् । न पुनः कुतोऽपि हेतोः अन्याकृतिः इन्द्रादिरूपा, सा च संवित्याजमान्येव, न पुनः अन्या-भिन्ना, याजमानी संविदद्वयमयी इत्यर्थः। सा हि एवंविधाकृतिः, श्राकृ- तिमती वा संविद्देवता नोचिता-संविदि भेदानुप- पत्तेः, संविदतिरिक्तस्य च जाड्यात् । न च जडस्य द्योतमानत्वायेकस्वभावं देवतात्वं युज्यते इति स्व- प्रकाशा संविदेव एका तत्तदात्मना स्फुरति इति युक्तमुक्तं स एव याज्ययष्ट्टतयोदितः' इति ॥१३३॥ अत एव च श्रादिसिद्धत्वात् संविदि न किंचि- द्विध्यादि सिद्धिनिमित्तमुक्तम् इत्याह पं०८क. पु० सा वेवं मित्राकृतिमती वा संविदिति पाठः । पं० ११० पु० द्योतमानत्वकस्वभावमिति पाठः । 1 १७४ श्रीतन्त्रालोकः । विधिश्च नोक्तः कोऽप्यत्र मन्त्रादि वृत्तिधाम वा। इह खलु वेदवाक्यानि मन्त्रब्राह्मणरूपत्वेन द्विधा । ब्राह्मणवाक्यान्यपि विध्यर्थवादनामधेयात्मकत्वेन त्रिधा । तत्र विधिवाक्यानां तावत् संविदि व्यापारो नास्ति इत्युक्तप्रायम् । एवं मन्त्रादेरपि तत्र नास्ति व्यापारः। यतो मन्त्रादिः वृत्तेः विधिव्यापारात्मनः क्रियाया धाम आश्रयः-तेन विना क्रियाया असंपत्तेः । न च संविदि वाच्यवाचकयाज्ययाजक- भावाद्यात्मकः कश्चिद्भेदः संभवति, एक एव आदि- सिद्धो बोधः इति सिद्धम् ॥ ननु यद्येवं तत्कथमयं जडाजडात्मा विश्वप्रसरः ? इत्याशङ्क्याह सोऽयमात्मानमात्य स्थितो जडपदं गतः॥१३४॥ अाहतानाढतात्मा तु देवादिस्थावरान्तगः। पं०२० पु. धाम या इति, ख० पु० मन्त्रादित्तिर्धाम वा इति पाठः । पं०३० पु० ब्राह्मणत्वेनेति पाठः।

श्लोक १३५] प्रथमाह्निकम् । जडाजडस्याप्येतस्य द्वैरुप्यस्यास्ति चित्रता ॥१३५॥ आवृत्य इति स्वस्वरूपगोपनात्मिकया मायाशक्त्या संकोचवत्तामाभास्य इत्यर्थः । जडपदम् इति परप्रकाश्यभावराशिस्वरूपताम् इत्यर्थः । विश्वनि- माणेच्छुहि परमेश्वरः प्रथमं स्वाव्यतिरिक्तमेव विश्वं प्रकाशयेत्, अयमेव च आदिसर्गः तत्र तत्रागमेषु उच्यते, अनन्तरं च यदास्य मायया सर्गचिकीर्षा भवति तदा स्वस्वातन्त्र्यात् स्वात्मदर्पणे अनन्त- ग्राह्यग्राहकद्वयाभाससन्ततीराभासयति, स्वाङ्गरूप- भावराशिमध्यादेव हि देहप्राणबुद्धिशून्यानि स्वग- ताहन्तात्मककर्तृतार्पणेन ग्राहकीभावयति, तदपरं शब्दादि च इदन्ताविषयतया चिद्रूपतातिक्रमणेन ग्राह्यतामापादयति, अत एव च देहादिः कर्तृतां ज्ञातृतां च स्वात्मनि धत्ते, तदितरच्च कार्यतां ज्ञेयतां च । अत एव चैषां जडाजडव्यपदेशः, तदाह 'श्रावृतानावृतात्मा' इति। एवमपि चास्य प्रकारवैचि- पं० १० क० ख० पु० संततीरुल्लासयतीति, ख० पु० स्वाभूतेति पाठः। पं० १६ ख० पु० जडाजडशब्दव्यपदेश इति पाठः ।

श्रीतन्त्रालोकः। त्र्येण आनन्त्यम् इत्याह 'जड' इत्यादि, चित्रता इति तत्र जडस्य तावच्छब्दादिभेदेन, तस्यापि तारम- न्द्रादिभेदेन बहुप्रकारत्वम् , अजडस्यापि सन्तान- भेदेन श्रानन्त्येऽपि बन्धत्रयस्य तारतम्यादिभेदेन नानात्वम् । संकुचिता प्रमातारो हि तत्तत्कर्माशया- नुसारेण परिभ्राम्यन्तः तत्तदवस्थासु एकमपि स्वात्मानं धर्माधर्मादिबुद्धिभावरहितत्वेन तत्तदि- च्छापरिष्कृतत्वेन च नानाकारतया वैचित्र्येण जानते, जडं च विषयं सुखदुःखादिकारितया नानात्वेन परिविन्दन्ति इति ॥ १३४-१३५ ॥ एवं वैचित्र्यस्य किं निमित्तम् इत्याशङ्क्याह तस्य स्वतन्त्रभावो हि किं किं यन्न विचिन्तयेत् । तदुक्तं त्रिशिरःशास्त्र संबुद्ध इति वेत्ति यः॥१३६॥ एतदेवार्थद्वारकं संवादयति-तदुक्तम् इत्यादिना। पं० ७ ख० पु० बुद्धिमावरससहितत्वेन तत्तदिच्छाबहिष्कृतत्वेनेति पाठः । पं० १९ख० पु० स बुद्ध इति पाठः ।

श्लोक १३६] प्रथमाह्निकम् । १७७ इति वैचित्र्यं यो वेत्ति स संबुद्धः-सम्यग्बुद्ध इत्य- र्थः। त्रिशिरःशास्त्रे इति श्रीत्रिशिरोभैरवे । तत्र हि 'अन्यथा खल्पबोधस्तु तन्तुभिः कीटवद्यथा । मलतन्तुसमारूढः क्रीडते देहपञ्जरे ॥ इत्युपक्रम्य 'सम्यग्बुद्धस्तु विज्ञेयः इत्यादिना च 'नानाकारैर्विभावैश्च भ्राम्यते नटवद्यथा । स्वबुद्धिभावरहितमिच्छाक्षेमबहिष्कृतम् ॥' इत्यन्तं बहूक्तम् ॥१३॥ ननु देहादिहकतया अभिमतोऽपि जाड्याज्ज्ञेय एव इति तस्य कथमेवंविधं ज्ञानम् ? इत्याशङ्क्याह ज्ञेयभावो हि चिधर्म- स्तच्छायाच्छादयन्न ताम् ॥१३६॥ ज्ञेयत्वं हि ज्ञानधर्मः, नहि अर्थ जानामि इत्य- र्थस्य कश्चिदतिशयः, अपि तु ज्ञानस्यैव तज्ज्ञान- रूपता । तदुक्तमत्रापि च पं० १ ख. पु० स बुद्ध इति पाठः । पं० ६ ख० पु० बुद्धः स विज्ञेय इति पाठः। पं० १० ख० पु० इच्छाशेयबहिष्कृतमिति, ग० पु० परिष्कृतमित्यपि पाठः ।

श्रीतन्त्रालोकः। । 'ज्ञेयस्य ज्ञेयता ज्ञानमेव । इति । अत एव च तेषां ज्ञेयानां सतां देहादीनां छाया स्वेनैव स्वस्य आवरकत्वायोगात् न चितमा- च्छादयेत् -श्रावृणुयात्, येनैवं-विधं ज्ञानं न स्यात्, तेन देहादावात्मग्रहऽपि आत्मनोन काचिच्चिद्रूपता- हानिः । तदुक्तं तव 'ज्ञेयस्वभावश्चिद्रूपस्तच्छाया नैव च्छाइयेत् ।' इति ॥१३६॥ श्रत एवाह तेनाजडस्य भागस्य पुद्गलाण्वादिसंज्ञिनः। अनावरणभागांशे वैचित्र्यं बहुधा स्थितम् ॥१३७॥ तेन इति चिदनाच्छादनेन हेतुना । अनावरण इति शुद्धसंविद्रूपे अात्मनि इत्यर्थः । देहादीनां हि संविद्रूपत्वेऽप्यामुखे ज्ञेयत्वेन अवभासादशुद्धत्वमपि संभवेत् ॥१३७॥ पं०१० ख० पु. संज्ञित इति पाठः ।

श्लोक १३६] प्रथमाह्निकम् । ननु संविदि भेदानुपपत्तेः कथं वैचित्र्यं संगच्छ- ताम् ? इत्याशक्याह संविदूपे न भेदोऽस्ति वास्तवो यद्यपि ध्रुवे। तथाप्यारतिनिर्हास- तारतम्यात्स लक्ष्यते ॥१३॥ श्रावृतेः-श्राणवस्य मलस्य, निर्वासः परिक्षय- स्तस्य तारतम्यं मृदुमध्याधिमात्रात्मा अतिशयः ततो लक्ष्यते, इति-न तु साक्षात् संभवति इत्यर्थः, अत एव पूर्वं 'वास्तवः' इति विशेषणमुपात्तम् ॥१३८॥ किं च तत्तारतम्यम् ? इत्याशङ्क्याह तद्विस्तरेण वक्ष्यामः शक्तिपातविनिर्णये। समाप्य परतां स्थौल्य- प्रसंगे चर्चयिष्यते ॥१३६॥ वक्ष्यामः इति । यद्वक्ष्यति पं० १४ क० पु० स चाप्यपरतामिति, ग० पु० समाप्य स्थिरतामिति पाठः । पं० १६ वक्ष्याम इति श्रारभ्य बहुप्रकारम् इत्यन्तः पाठो ग० पुस्तकात् पूरितोऽस्ति ।

१८० श्रीतन्त्रालोकः। 'तारतम्यप्रकाशो यस्तोबमध्यममन्दताः। ता एव शक्तिपातस्य प्रत्येकं त्रैधमास्थिताः॥' इत्यादि बहुप्रकारम् , चर्चयिष्यते इति-लक्ष्यते परीक्ष्यते च इत्यर्थः । इह हि सर्वस्यैव वक्ष्यमा- णस्य प्रमेयजातस्य उद्देश एव भवेत् इति भावः । यद्वक्ष्यति 'विज्ञानभित्प्रकरणे सर्वस्योद्देशनं क्रमात् ।' इति । तच्च अस्माभिर्ग्रन्थविस्तरभयात् प्रातिपद्येन न दर्शितम् इति स्वयमेव अवधार्यम् ॥ १३ ॥ एवं मलनिर्हासतारतम्यानुसारमेव श्रात्मनां भगवत्स्वरूपमपि प्रथते इत्याह अतः कंचित्प्रमातार प्रति प्रथयते विभुः। पूर्णमेव निजं रूपं कंचिदंशांशिकाक्रमात् ॥१४०॥ कंचित् इति-तीव्रनिहाँसतावृतितारतम्यम्, अंशां- पं०१४ क० पु. नित्यरूपमिति पाठः । पं० १६० क. पु० निहाँसिनेति पाठः।

श्लोक १४१] १८१ प्रथमाह्निकम् । शिकाक्रमात् इति-श्रावृतिनिसितारतम्यमन्दादि- प्रायत्वात् ॥१४॥ ननु किं नाम पारमेश्वरस्य रूपस्य पूर्णत्वमपूर्ण- त्वं च ? इत्याशक्याह विश्वभावैकभावात्म- स्वरूपप्रथनं हि यत् । अगानां तत्परं ज्ञानं तदन्यदपरं बहु ॥१४॥ विश्वेषां नीलसुखादीनां भावानां य एको भावः- प्रकाशमानत्वान्यथानुपपत्त्या परप्रकाशलक्षणा प्र- धाना सत्ता, तदात्म यत् स्वस्य श्रात्मनो रूपं तस्य यत्प्रथनम्-अविकल्पवृत्त्या साक्षात्करणं, तत् एव अणूनां परं पूर्ण पारमेश्वरं ज्ञानं, तत एवं-विधात् पूर्णात् ज्ञानात् अन्यत् विकल्पात्मकंशाक्तादि ज्ञानम्, अपरं-चित्स्वरूपप्रथाविरहादपूर्ण, बहु-वक्ष्यमाण- प्रकारेण अनेकप्रकारम् इत्यर्थः ॥१४१॥ तदेव बहुप्रकारत्वं दर्शयति तच्च साक्षादुपायेन तदुपायादिनापि च ।

१८२ श्रीतन्त्रालोकः। प्रथमानं विचित्राभि- भंगीभिरिह भिद्यते ॥२४॥ तत् इति परमपरं वा ज्ञानं । साक्षादुपायेन इति शाम्भवेन । तदेव हि अव्यवहितं परज्ञानावाप्तौ निमित्तं, स एव परां काष्ठां प्राप्तश्चानुपाय इत्यु- च्यते । अत एव अनुपायः इति नोपायनिषेधमात्रम् इति वक्ष्यते । तस्य शाम्भवस्य उपायः शाक्तः, आदिशब्दात् तस्यापि उपाय प्राणवः । भिद्यते इति औपचारिकं भेदमेति इत्यर्थः ॥ १४२ ॥ न केवलमेवं, यावदन्यदपि एतद्वैचित्र्ये निमित्त- मस्ति इत्याह तत्रापि स्वपरद्वार- द्वारित्वात्सर्वशोशशः। व्यवधानाव्यवधिना भूयान्भेदः प्रवर्तते ॥२४॥ स्वेन, यथा-शाम्भवेन शाम्भवम् , अत एव स्वपरलक्षणेन द्वारेण, द्वारि सोपायम्। सर्वशः इति- पं०६ क० पु० उपायविधिनिषेधमात्रेति पाठः । पं० पु० औपाधिकं भेदमिति पाठः ।

१८३ श्लोक १४४] प्रथमाह्निकम् । पूर्णात्मना । अंशश इति-अपूर्णेन।व्यवधान इति- साक्षादुपायत्वाभावात् । एवं प्रथमं तावदुपायस्त्रेधा- शाम्भवादिभेदात् , तेषां च द्वारद्वारिभावेन प्रत्येक द्वैधे षट्, तत्रापि प्रत्येकं पूर्णत्वापूर्णत्वेन द्वैधे द्वादश, तेषां च प्रत्येकं व्यवहिताव्यवहितत्वेन द्वैधे चतुर्वि- शतिः । व्यवधानं च बहुभिर्विजातीयैः, इति भेदानां भूयस्त्वम् ॥१४३॥ ननु ज्ञानं तावदुपेयतया प्रतिज्ञातम् इति, तत्र उपायेन केनचिद्भाव्यं, स च न ज्ञानमेव-उपेयत्वात्, नापि प्रज्ञानं-तदनौपयिकत्वात् तस्य, इति किं नाम उपायस्वरूपम् ? इत्याशङ्क्याह ज्ञानस्य चाफ्युपायो यो न तदज्ञानमुच्यते। ज्ञानमेव तु तत्सूक्ष्म परं त्विच्छात्मकं मतम् ॥१४४॥ किं तु तत्सूक्ष्म वैकल्पिकस्थूलशाक्तादिज्ञानवि- लक्षणं मतम् इति संबन्धः । अत एव परं-शाम्भ- पं० १०० पु० तावदनौपाधिकत्वादिति पाठः । पं० १२ क० पु० चाप्युपायो य इति, ख० पु० चाभ्युपेय इति पाठः ।

१८४ आतन्त्रालोकः। वम् इत्यर्थः । अत एव 'इच्छात्मकम्' इत्युक्तम् । शाक्ताणवयोर्हि ज्ञानक्रियात्मकत्वं भवेत् इति भावः ॥ १४४॥ ननु एवमपि कथमेकस्यैव उपायोपेयभावः संगच्छते? इत्याशङ्कयाह उपायोपेयभावस्तु ज्ञानस्य स्थौल्यविनमः। एषैव च क्रियाशक्ति- बन्धमोक्षककारणम् ॥१४५॥ स्थौल्यं-चिदानन्दैकघनपरसूक्ष्मस्वरूपनिमज्जना- दनन्तग्राह्यग्राहकात्मना भेदेन उल्लसनं, तत्कृतोऽयं भ्रमः-यत्'इदमुपयम्' अयमुपाय' इति । वस्तुतो हि परप्रकाशात्मा शिव एव उपेयः, स च सर्वत एवा- वभासते-तस्य क्वचिदपि अनपायात् । अत एव नात्र उपायानां किंचित्प्रयोजनम्-अज्ञातज्ञापकत्वात् तेषाम् । तदुक्तम् 'अपरोक्षे भवत्तत्त्वे सर्वतः प्रकटे स्थिते । यैरुपायाः प्रतन्यन्ते नूनं त्वां न विदन्ति ते ॥' पं०१७ क० पु० प्रकटस्थिते इति पाठः ।

श्लोक १४६] प्रथमाह्निकम् । इति। अनेनैव प्राशयेन चअनुपायनिरूपणं करिष्यते। ननु यद्येवं तत्कथमयं व्यवहारः प्ररोहमुपारोहते ? इत्याशङ्क्याह एषैव इत्यादि । क्रियाशक्तिः इति- तत्तद्भेदवैचिल्यावस्थितिकारित्वात् । तेन परमेश्वर- स्फार एवायम् इत्याशयः । अत एवायं तथात्वेन अज्ञातो बन्धकः, ज्ञातस्तु मोचकः, तदाह 'बन्धमो:- ककारणम्' इति । यदुक्तं 'सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी । बन्धयित्री स्वमार्गस्था ज्ञावा सियुपपादिका ।।' इति ॥ १४५ ॥ ननु एवमपि अत्र किं नाम उपायतया संमतम् ? इत्याशङ्क्याह तत्राये स्वपरामर्श निर्विकल्पैकधामनि। यत्स्फुरत्प्रकटं साक्षा- त्तदिच्छाख्यं प्रकीर्तितम् ॥ १४६॥ तत्र-एवं सति, आये-प्राथमिकालोचनज्ञानात्मनि, पं० १७० पु. प्राथमिककाले च ज्ञानात्मनीति पाठः ।

१८६ श्रीतन्त्रालोकः। अत एव निर्विकल्पोत्थे, अत एव भिन्नस्य परामृश्यस्य अनुल्लासात् स्वपरामर्श-स्फुरत्तामात्ररूपे यत् प्रकट स्फुरेत्, साक्षात्कारात्मतया यत् स्फुरणं तत् साक्षात् इच्छाख्यं प्रकीर्तितम् - उपायान्तरनिरपेक्षत्वात्, श्रव्यवधानेच्छाशक्तिस्फाररूपः शाम्भवाख्य उपाय उक्तः इत्यर्थः ॥ १४६ ॥ एतदेव दृष्टान्तोपदेशेन स्फुटीकर्तुमाह यथा विस्फुरितहशा- मनुसन्धि विनाप्यलम् । भाति भावः स्फुटस्तव केषामपि शिवात्मता ॥१४७॥ भूयो भूयो विकल्पांश- निश्चयक्रमचर्चनात् । यत्परामर्शमयति ज्ञानोपायं तु तद्विदुः ॥१४८॥ तथैव 'आत्मैवेदं सर्वम्' इत्येवमात्मनो विक- पं० १० पु० निर्विकल्पोत्ये इति, ग० पु० निर्विकल्पैकनामनि इति प्रथमः पाठ:। पं०३० पु० साक्षात्कारतयेति पाठः ।

श्लोक १४६] प्रथमाहिकम् । ल्पस्य आत्मानात्माख्यांशद्वयाक्षेपित्वेऽपि प्रतियोगि- निषेधपूर्वको योऽयं पौनःपुन्येन अंशरूपो निश्चयः तस्य यत् क्रमेण चर्चनं-यथायथं स्फुटताभाविवादिना संस्करणं, ततो यत् विकल्प्यमानमात्मस्वरूपपरा- मर्शम् 'इत्थमेव इदम्' इत्येवं प्रतीतिमभिन्नां- साक्षात्कारात्मतामभ्येति, तज्ज्ञानोपायं विदुः- ज्ञानशक्तिस्फारात्मकं शाक्तमुपायं जानीयुः इत्यर्थः। तु-शब्दः पूर्वस्माध्यतिरेचकः । इह हि विकल्प एव क्रमेण निर्विकल्पतामेति इत्युक्तम् । तत्र पुनर्निर्विकल्पतयैव साक्षात्करणं रूपम् , अत एव च अनयोारिद्वारभावः ॥१४७॥१४८॥ यत्तु तत्कल्पनाकृप्त- बहिर्भूतार्थसाधनम् । क्रियापायं तदानातं भेदो नात्रापवर्गगः ॥१४६॥ तथा तत् श्रात्मस्वरूपं क्रियोपायमाम्नातं-क्रिया- शक्तिस्फारात्मकाणवोपायसमधिगम्यं सर्वागमेषु पं० १०० पु. द्वयापेक्षितत्वेऽपीति पाठः । पं०३ क. पु० संस्फुरणमिति पाठः । पं० १०ख० पु० समाधिगम्यमिति पाठः ।

१८८ श्रीतन्त्रालोकः। ॥ उक्तम्। यतस्ताभिः-भेदप्रथामयीभिः कल्पनाभिः, कृप्तः- स्वशिल्पेन कल्पितः, बहिर्भूतोऽवच्छिन्नो योऽसौ उच्चारादिः अर्थः तत्साधनम् , तुशब्दो व्यति- रेके । शाक्ते हि विकल्प एव अर्थः, इह तु बाह्योऽपि इति, अत एव न तत्र उच्चारादिः । ननु उपाय- भेदादुपेयभेदोऽपि स्याद् ? इत्याशङ्क्योक्तं 'भेदो नात्रापवर्गगः' इति । स्वरूपप्रथनं हि अपवर्गः, तच्च सर्वैरेव हि द्वारद्वारभावेन भवति, इति भावः॥१४६॥ ननु ज्ञानमेव उपायः इति सामान्यन प्रतिज्ञातं, तत्कथमाणवे क्रियोपायत्वमुक्तम् ? इत्याशङ्क्याह यतो नान्या क्रिया नाम ज्ञानमेव हि तत्तथा। रूढेर्योगान्ततां प्राप्त- मिति श्रीगमशासने ॥१५०॥ श्रन्या इति अर्थाज्ज्ञानात् , यतः तज्ज्ञानमेव रूढेः प्ररोहात् योगस्यान्तः पराकाष्ठा, तत्त्वं प्राप्त सत् तथा 'क्रिया' इति सर्वत्र अभिधीयते इत्यर्थः । पं. ४ क.पु० विकल्प्य एवार्थ इति पाठः ।

१८६ श्लोक १५३] प्रथमाह्निकम् । ननु अत्र किं प्रमाणम् ? इत्याशङ्क्योक्तम् 'इति श्रीगमशासने' इति, अर्थादुक्तम् इति शेषः॥१५०॥ तत्रत्यमेव ग्रन्थं पठति योगो नान्यः क्रिया नान्या तत्त्वारूढा हि या मतिः। स्वचित्तवासनाशान्तौ सा क्रियेत्यभिधीयते ॥१५॥ इति ॥ १५१ ॥ एतच्च स्वयमेव व्याचष्टे स्वचित्ते वासनाः कर्म- मलमायाप्रसूतयः। तासां शान्तिनिमित्तं या मतिः संवित्स्वभाविका ॥१५२॥ सा देहारम्भिबाह्यस्थ- तत्त्ववाताधिशायिनी। पं० ६ क० ग० पु० वासनाशान्त्यै इति पाठः । पं०१० ख० पु. स्वाचित्ते वासनेति पाठ।

१४० श्रीतन्त्रालोकः । .... क्रिया सैव च योगः स्या- तत्त्वानां चिल्लयीकृतौ ॥१५३॥ निमित्तम् इत्यनेन सप्तमी व्याख्याता । संवि- स्वभाविका इत्यनेन मतेानार्थत्वमुक्तम् । सा मतिः 'प्रणवेन तु तत्सर्व शरीरोत्पत्तिकारणम् । न्यसेत्क्रमण देवेशि त्रिंशदेकं च संख्यया।' इत्यायुक्त्या शुद्धदेहारम्भीणि असाधारणानि, तथा बाह्यस्थानि 'हेयाध्वानमधः कुर्वत्रेचयेत्तं वरानने। यावत्सा समना शक्तिः इत्याद्युक्या तत्त्वदीक्षादिना साधारणानि तत्त्वानि अधिशयाना स्वचित्तवासनाशान्तिकारित्वात् क्रिया स्यात् । तथा सैव 'योगमेकत्वमिच्छन्ति वस्तुनोऽन्येन वस्तुना।' इत्याद्युक्त्या तत्त्वानां चिति योजनाद्योगः स्यात् इति नानयोर्ज्ञानातिरेकः इति युक्तमुक्तं 'योगो नान्यः क्रिया नान्या' इति ॥१५२॥१५३॥ पं० २० ख० पु० चिल्लयीकृता इति पाठः । पं. ६ क० पु० अधः कृत्येति पाठः । पं० १६० पु. योगो नान्यक्रियेति पाठः । ॥

१६१ श्लोक १५५]] प्रथमाविकम् । ननु कथं ज्ञानमेव क्रिया भवेत् ? इति दृष्टान्तोप- दर्शनेन उपपादयति लोकेऽपि किल गच्छामी- त्यवमन्तः स्फुरैव या। सा देहं देशमक्षांश्चा- प्याविशन्ती गतिक्रिया ॥१५॥ अन्तः श्रात्मनि 'गच्छामि' इति या स्फुरा- स्फुरणम् उद्यन्तृतात्मिका संवित् , सैव देहाया- विशन्ती वैवश्याविष्करणन स्वमयतामापादयन्ती गमनक्रियाभवति, इति युक्तमुक्तं 'ज्ञानमेव हि तत्तथा' इति।गन्तुर्हि 'गच्छामि' इति स्फुरणायां सत्यां कर्तृ- करणकर्मात्मकशरीरपादग्रामाद्यावेशेन गमनक्रिया- संपत्तिः स्यात् ॥१५४॥ तदेवोपसंहरति तस्मानियापि या नाम ज्ञानमेव हि सा ततः। ज्ञानमेव विमोक्षाय युक्तं चैतदुदाहृतम् ॥१५॥ पं० १६० पु० ज्ञानमेव हि मोवायेति पाठः।

श्रोतन्त्रालोकः । , ततः इति क्रियाया ज्ञानात्मकत्वात् । तेन 'दीव मोचयत्यूर्ध्व शैवं धाम नयत्यपि ।' इत्यादिना क्रियाया अपि अपवर्गनिमित्तत्वमुक्तम् । एवं च युक्तमुक्तं 'ज्ञानं मोक्षककारणम्' इति । तदाह ‘युक्तं चैतदुदाहृतम्' इति ॥१५॥ ननु 'स्वतन्त्रात्मातिरिक्तस्तु' इत्यादिना प्राक् आत्मज्ञानातिरिक्तो मोक्षो नाम न कश्चिदस्ति इत्युक्तम्, इति ज्ञानमेव विमोक्षाय इत्यनेन हेतुफल- भावोऽनयोरुच्यमानः कथं संगच्छते? इत्याशङ्क्याह मोतो हि नाम नैवान्यः स्वरूपप्रथनं हि सः। स्वरूपं चात्मनः संवि- नान्यत्तत्र तु याः पुनः ॥१५६॥ क्रियादिकाः शक्तयस्ताः संविद्रूपाधिका नहि। असंविद्रूपतायोगा- द्धर्मिणश्चानिरूपणात् ॥१५७ ॥ पं० १ क. पु० क्रियाया अपवर्गति अपि शब्दहीनः पाठः । पं० १४१० पु. क्रियाधिकाः शक्कय इति पाठः ।

? श्लोक १५७] प्रथमाहिकम् । १६३ ननु स्वरूपमेव नाम किं यस्यापि प्रथनं मोक्षः स्यात् ? इत्याह स्वरूपम् इति, तेन स्वस्य धात्मनो रूपं संविच्चैतन्यं, तस्य प्रथनं यथातत्त्वं ज्ञानं, स एव मोक्षः इति यथोक्तमेव युक्तं । यः पुनरयं हेतुफल- भाव उक्तःस काल्पनिक एव, न तात्त्विकः, यद्वक्ष्यति 'यतो ज्ञानेन मोक्षस्य या हेतुफलतोदिता । न सा मुख्या इति । अन्यत् इति संविदतिरिक्तम् इत्यर्थः । ननु आत्मनः संविदतिरिक्तं यदि रूपं नास्ति, तत्कथमस्य शक्त्यन्तरयोगित्वं स्यात् ? इत्याशङ्क्याह तत्र इत्यादि, तु-शब्दः चार्थे ॥ १५६ ॥ १५७ ॥ ननु 'पत्युर्धर्माः शक्तयः स्युः इत्यायुक्त्या साक्षात्पत्युर्धर्मितया शक्तीनां च धर्मतया निरूपणं कृतम् इति धर्मिणश्च अनिरूप- णात् इत्यसिद्धोऽयं हेतुः? इत्याशङ्क्याह पं०३ क० पु० तथातत्वमिति पाठः ।

१६४ श्रीतन्त्रालोकः। परमेश्वरशास्त्रे हि न च काणाददृष्टिवत् । शक्तीनां धर्मरूपाणा- माश्रयः कोऽपि कथ्यते ॥१५८॥ यथा खतु काणादाः 'प्रात्मत्वामिसंबन्धादात्मा । इत्यादिना धर्मिरूपमात्मानं निरूप्य, 'तस्य गुणा बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्म- संस्कारसंख्यापरिमाणपृथक्त्वसंयोगविभागाः ।' इत्यादिना तत्समवेतम् श्रागमापायि भिन्न धर्मजा. तम् अभ्युपागमन्, नैवमिह शक्तितहतोधर्मधर्मि- भावः कश्चिद् अभिधीयते । पर एव हि स्वतन्त्रो बोधस्तत्तदुपाधिवशात् तत्तच्छक्तिरूपतया व्यपदि- श्यते इति न वस्तुतः कश्चित् शक्तितद्वतोर्भेदः, यदुक्तं प्राक् पं० कपु० पारमेश्वरेति, पाठः। पं० २ ख० पु० काणादिष्टेति च पाठः । पं० १० क० पु. भागमापायभिन्नमित्येवं रूपः पाठः । पं०११क पु० मप्यत्युपागमन् इति, ख० पु० अप्युपागमन् इति पाठः ।

श्लोक १५६] प्रथमाद्विकम् । 'मातृक्लप्ते हि भावस्य तत्र तत्र वपुष्यलम् । को भेदो वस्तुतो वहेर्दग्धृपक्तृत्वयोरिव ।। इति ॥१५॥ ननु यदि काणादादिदर्शनवत् इहापि धर्मधर्मि- भावस्य निरूपणं क्रियते, तदा को दोषः स्यात् ? इत्याशङ्क्याह ततश्च दृक्कियच्छाद्या भिन्नाश्चेच्छक्तयस्तथा। एकः शिव इतीयं वा- ग्वस्तुशून्यव जायते ॥१५॥ यदि हि शक्तितद्वतोधर्मधर्मिभावन्यायेन वास्तव एव भेदः स्यात्, तदा 'इत्थं नानाविधैः रूपैः स्थावरैः जङ्गमैरपि । क्रीडया प्रसृतो नित्यमेक एव शिवः प्रभुः ॥' इत्यादौ 'एक एव शिव' इति इयमीश्वराद्वयप्रतिज्ञा- त्मिका वाक अनेकेषां शक्तितद्वदात्मनाम् अर्थानां पं०८ क. पु० मिन्नश्चेच्छक्तयस्ततः इति पाठः । पं० १२ ख० पु० स्यादित्याहेत्येवं पाठः । पं० १५ क पु० एक एव इतीयमिति ख० पु. इतीयमद्वयप्रतिज्ञास्मिकाने- केषामिति पाठः।

श्रीतन्त्रालोकः। संभवाद् वस्तुशून्या-अभिधेयरहिता स्यात्, अद्वय- वादखण्डना भवति इति यावत् ॥१५॥ ननु यदि वस्तुतः संवित्स्वभावः शिव एव एकोऽ स्ति, तत्कथमयं चिदादिनानाशक्त्यात्मा व्यवहा- रोऽन्यथा क्रियते ? इत्याशङ्काम् उपसंहारभङ्गया उपशमयितुमाह तस्मात्संवित्त्वमेवैत- स्वातन्त्र्यं यत्तदप्यलम् । विविच्यमानं बहीषु पर्यवस्यति शक्तिषु ॥१६०॥ एतच्च निर्णीतपूर्वम् इति पुनरिह नायस्तम् । यथोक्तं 'बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता ।' इति ॥१६॥ इह 'आत्मज्ञानमेव मोक्षः' इति ज्ञानमोक्षयोः कार्यकारणभाव एव वस्तुतो नास्ति-इति 'नावश्यं कारणानि कार्यवन्ति भवन्ति' इति न्यायेन ज्ञानिनां पं०१० पु० अद्यखण्डनेति पाठः ।

. श्लोक १६१] प्रथमाह्निकम् । सत्यपि ज्ञानाख्ये कारणे कार्यात्मा मोक्षो न स्यात्- इत्यानिष्टापादनात्मायं प्रसङ्गो नाशङ्कनीयः? इत्याह यतश्चात्मप्रथा मोक्ष- स्तन्नेहाशक्यमीदृशम् । नावश्यं कारणात्कार्य तज्ज्ञान्यपि न मुच्यते ॥१६॥ ज्ञानिनो हि अवश्यभाविनी मुक्तिः इति भावः । श्रत एव च 'तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते। प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥' इति । तथा 'ज्ञानी त्वात्मैव मे मतः । इत्यादि गीतम् ॥१६१॥ ननु 'ज्ञानमेव विमोचाय इत्यादिना ज्ञानमोक्षयोः कार्यकारणभाव उक्त एव, इति कथं नायं प्रसंगः ? इत्याह यतो ज्ञानेन मोक्षस्य या हेतुफलतोदिता।

श्रीतन्त्रालोकः। न सा मुख्या, ततो नायं प्रसंग इति निश्चितम् ॥१६२॥ एतच्च निर्णीतचरम् इति नेह पुनरायस्तम् ॥१६२॥ एतदुपसंहरन्नन्यदवतारयति एवं ज्ञानस्वभावैव क्रिया स्थूलत्वमात्मनि। यतो वहति तेनास्यां चित्रता दृश्यतां किल ॥१६३॥ ज्ञानस्वभावा इति क्रियाया ज्ञानाविनाभा- वित्वात् । यदुक्तं 'न ज्ञानरहिता क्रिया। इति । स्थूलत्वम् इति अन्तर्ग्राह्यग्राहकात्मना भेदेन उल्लासात् । तेन इति स्थूलतावहनेन हेतुना । चित्रता इति तत्तग्राह्यादिभेदवैचित्र्यात् ॥१६३॥ श्रत एवाह क्रियोपायेऽन्युपायानां ग्राह्यबाह्यविभेदिनाम् ।

श्लोक १६४] प्रथमाह्निकम् । भेदोपभेदवैविध्या- निःसंख्यत्वमवान्तरात् ॥१६॥ ग्राह्याः उच्चाराद्याः । बाह्याः कुण्डमण्डलादयः। उच्चारादयो हि ग्राह्यभूमिगताः बाह्यत्वेन अवसिता अपि चक्षुरादिबाह्येन्द्रियागोचरत्वात् प्रमात्रन्तरासा- धारणत्वाच्च न बाह्याः। कुण्डमण्डलादयः पुनर्बाह्ये- न्द्रियगोचरत्वात् साधारण्याच्च बाह्याः सन्तो ग्राह्याः इत्युक्तम् 'ग्राह्यबाह्यविभेदिनाम्' इति । एवं नियतभेदवत्त्वेऽपि एषामेव श्रवान्तरभेदात् भेदोपभे- दनानात्वात् निःसंख्यत्वं बहुप्रकारत्वम् इत्यर्थः । तथाहि-उच्चारस्य प्राणादिभेदात् प्रथमे पञ्च भेदाः, तत्रापि विन्दुनादादयो बहव उपभेदाः, एवमपि उच्चार्यमाणानां मन्त्राणामानन्त्यम् इत्यसंख्यमे दत्वम् ॥१६४॥ एवं च 'यतो नान्या क्रिया नाम' " पं०२ ख. पु० निःसंख्यात्वमिति पाठः। पं०५ क० पु० इन्द्रियगोचरादिति पाठः । पं० १ ख० पु० एषामेवान्तरभेदादिति पाठः । पं० ११ क० पु० प्रथम पञ्च भेदा इति पाठः ।

२०० श्रीतन्त्रालोकः । इत्यादिना उपक्रान्तं क्रियाया ज्ञानात्मकत्वं युक्त्या- गमाभ्यां निर्वाहितम् इत्येक एव ज्ञानात्मा मोक्षा- वाप्तावुपाय इति न उपायनानात्वम्, अत एव तत्फलभूते मोक्षेऽपि न कश्चिद्भेदः इत्याह अनेन चैतत्पध्वस्तं यत्केचन शशङ्किरे। उपायभेदान्मातेऽपि भेदः स्यादिति सूरयः ॥१६५॥ यत्केचन सूरय इति शशङ्किरे इति संबन्धः । केचन सूरय इति भेदवादिनः । तत्र हि हेतुफल- योर्वास्तव एव भेदः इति हेतुभेदात् फलभेदोऽपि स्यात् । इह पुनः 'प्रदेशो ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्प्यश्च । इत्यादिनीत्या 'संविदेव सर्वम्' इति को नाम हेतु- फलभेदः, काल्पनिकेऽपि हेतुफलयोर्भेदे ज्ञानात्मा एक एव उपायोऽभ्युपगतः इति उपायनानात्वस्यैव पं० १ ख. पु. कानात्मत्वमिति पाठः । प०१३ क० पु० प्रादेशोऽपीति, अविकल्पश्चेति च पाठः। पं०१५ क. पु. काल्पनिके हेत्वेति अपिशब्दहीनः पाठः ।

२०१ श्लोक १६६] प्रथमाह्निकम् । अभावात् को नाम फलभूतेऽपि मोक्षे भेदः स्यात् । ? ननु 'तच साक्षादुपायेन इत्यादिना साक्षात् उपायनानात्वमुक्तम् इति कथं न त दादुपेयेऽपि भेदः ? इत्याशङ्क्याह मलतच्छक्तिविध्वंस- तिराभूच्युतिमध्यतः। हेतुभेदेऽपि नो भिन्ना घटध्वंसादिवृत्तिवत् ॥१६६॥ यत्र वास्तव एव हेतुफलभावोऽस्ति तत्रापि हेतोः दीक्षादेः भेदेऽपि तत्फलभूतस्य मलतच्छ- क्योर्विध्वंसादेःन कश्चिद्भेदः-कलातत्त्वभुवनादिना भेदेऽपि दीक्षायाः तस्य अविशेषात् , तथा च घटस्य मुद्गरकरभित्तिघटायुपायभेदेऽपि अविशिष्ट एव ध्वंसतिरोभावादिः । अतश्च अवश्यमेव हेतुभे- दात् फलभेदः इति नायमेकान्तः । यत्र पुनः पं०५ ख० पु. साक्षादेवोपायनानास्वमिति पाठः । पं० १५० पु० अवशिष्ट एवेति पाठः। २६ श्रीतन्त्रालोकः। काल्पनिक एव उपायोपेयभावः, तत्र का नाम इयं वार्ता इति भावः । तदेवम् इच्छाज्ञानक्रियात्मक- वाद् उपायस्य त्रैविध्येऽपि तदुपेयभूतेऽपवर्गे न कश्चित् भेदः इति सिद्धम् ॥ १६६ ॥ न केवलं युक्तित एव एतत्सिद्धं यावदागमतोऽपि इत्याह तदेतत्रिविधत्वं हि शास्त्रे श्रीपूर्वनामनि । प्रादेशि परमेशित्रा समावेशविनिर्णये ॥ १६७॥ तत्रत्यमेव ग्रन्थं पठति अकिंचिच्चिन्तकस्पैव गुरुणा प्रतिबोधतः। उत्पद्यते य ावेशः शाम्भवोऽसावुदीरितः ॥१६८॥ उच्चाररहितं वस्तु चेतसैव विचिन्तयन् । पं० ६ क. पु० परमेशेनेति पाठः । पं० १२ ख० पु० चिन्तकस्येवेसि, प्रतिबोधित इति च पाठः । HAPA श्लोक १७१] प्रथमाह्निकम् । २०३ यं समावेशमाप्नोति शाक्तः सोऽत्राभिधीयते ॥ १६ ॥ उच्चारकरध्यान- वर्णस्थानप्रकल्पनैः। यो भवेत्स समावेशः सम्यगाणव उच्यते ॥१७॥ व्यत्यासपाठे च अयमाशयः- यद् उपायोपेया- दिना द्वारद्वारिंभावेन शाम्भवोपाये एव प्रधान्येन विश्रान्तिः इति ॥ १६८ ॥ १६६ ॥ १७०॥ तदेव क्रमेण व्याचष्टे अकिंचिच्चिन्तकस्यति विकल्पानुपयोगिता। तया च झटिति ज्ञेय- समापत्तिनिरूप्यते ॥ १७१॥ तया इति विकल्पानुपयोगितया। विकल्पोपयोगे हि तदैव 'यस्य ज्ञेयमयो भावः स्थिरः पूर्णः समन्ततः ।' पं. ४ क० पु० स्थान-विकल्पनैरिति पाठः ।

२०४ श्रीतन्त्रालोकः । , इत्यादिदृष्ट्या ज्ञेयस्य अवश्यज्ञातव्यस्य पारमार्थि- कस्य चिदात्मनो रूपस्य समापत्तिर्न स्यात् , विकल्पो हि अभ्यासबलात् स्वतुल्यविकल्पान्तराविर्भावकतया विगलदस्फुटत्वादिना यथायथं सातिशयविकल्पजन- नाक्रमेण अविकल्पात्मकसंवित्तादात्म्यम् अभ्योति । यद्वक्ष्यति 'प्रविविक्षुर्विकल्पस्य कुर्यात्संस्कारमजसा ।' इत्याग्रुपक्रम्य 'संविदभ्येति विमलामविकल्पस्वरूपताम् ।' इति । अत एव शाक्तोपायादस्य भेदः ॥ १७१ ॥ ननु कथं विकल्पानुपयोगितयैव एतत् स्यात् ? इत्याशङ्करं दर्शयितुमाह सा कथं भवतीत्याह गुरुणातिगरीयसा। ज्ञेयाभिमुखबोधेन द्राक्प्ररूढत्वशालिना॥१७२।। पं० १ ख० पु० ज्ञातव्या पारमार्थिकस्येति पाठः। पं. ४ क. पु० विकल्पजननाक्रमेणाविकल्पकात्मकेति पाठः । पं०१३ क. पु० स कथं भवतीति पाठः।

२०५ श्लोक १७३] प्रथमाह्निकम् । प्रतिः प्राभिमुख्ये, आभिमुख्यं च वस्त्वन्तरा- पेक्षं, तच्च अत्र औचित्यात् चिन्मात्रम् इत्युक्तं 'ज्ञेयाभिमुखेति' । अतिगरीयस्त्वमेव व्याख्यातुं द्राक्प्ररूढत्वेत्यायुक्तम् , द्राक् इत्यनेन यथोक्तवि- कल्पक्रमोपारोहाभावः सूचितः ॥ १७२ ॥ ननु कथमनयोभिन्नविभक्तिकयोः सामानाधिक- रण्यम् ? इत्याशझ्याह तृतीयार्थे तसि व्याख्या वा वैयधिकरण्यतः। तृतीयार्थे तसि, इति तसि इत्यनुबन्धलोपे प्रयोगः। तृतीयार्थे इति सर्वविभक्त्यन्तात् प्रातिपदिकात् तस्येष्टेः । वा शब्दः पक्षान्तरे । वैयधिकरण्यतः इति गुरुणा कृतो यः प्रतिबोधः ततः इत्यर्थः॥ अावेशश्चास्वतन्त्रस्य स्वतद्रूपनिमज्जनात् ॥ १७३॥ परतदूपता शम्भो- राद्याच्छत्यविभागिनः। पं०७ख० पु० इत्याह इति पाठः । पं० १० १० पु० तृतीयार्थे तस तसीति पाठः । पं० १३ क० ग० पु० यो बोध इति पाठः । पं० १६ ख० पु० तद्रूपमिति शोधितः पाठः ।

२०६ श्रीतन्त्रालोकः। अखतन्त्रस्य जडस्य बुद्धयादेर्मितस्य प्रमातुः, स्वम् असाधारणं, तत् संकुचितं यत् रूपं तस्य निमज्जनं- गुणीभावः, तदवलम्ब्य परेण स्वतन्त्रेण बोधेन या तद्रूपता-तादात्म्य, स आवेशः इति संबन्धः। यदुक्तं 'मुख्यत्वं कर्तृतायास्तु बोधस्य च चिदात्मनः । शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम् ॥' इति। कुतः पुनरयमानतः? इत्याह शम्भोः इति ।न पुनः शक्तरणोर्वा । आद्यात् इति-तत एव हि शक्तेरणोश्च प्रभवः इति भावः । अत एव शक्तिरत्र इच्छा, न तु ज्ञानं क्रिया वा-तयोः समावेशान्तर- गतत्वेन अभिधास्यमानत्वात् ॥१७३॥ इह पदार्थावगमपुरःसरीकारेण वाक्यार्थावगमः इति पदार्थयोजनानन्तरं वाक्यार्थमपि योजयितुमाह तेनायमत्र वाक्यार्थों विज्ञेयं प्रोन्मिषत्स्वयम् ॥१७॥ विनापि निश्चयेन द्राक् मातृदर्पणबिम्बितम् ॥ .. पं०६ क. पु० तदुणज्ञानमिति समस्तः पाठः । पं०११क० पु० गतत्वेन व्याख्यास्यमानत्वात् इति पाठः।

श्लोक १७५ २०७ - प्रथमाह्निकम् । मातारमधरीकुर्वत् स्वां विभूति प्रदर्शयत् ॥१७॥ आस्ते हृदयनैर्मल्या- तिशये तारतम्यतः॥ विज्ञेयं-चिन्मात्राख्यं पारमार्थिक रूपं, माता- सकलकरणग्रामप्रसवनिमित्तत्वाद् बुद्धिः, सैव चिच्छायासंक्रान्तिसहिष्णुत्वाद् दर्पणः, तत्र प्रति- बिम्बितं गृहीतात्मग्रहं परिमितं प्रमातारम् अधरी- कुर्वत्-बुद्ध्यादौ श्रात्माभिनिवेशनं गुणीभावमापा- दयत् । एवं तरतमभावेन अनन्यसाधारण विभूति बोधात्मताप्रधानतां रचयत्, समनन्तरोक्तयुक्त्या विकल्पोपारोहमन्तरेण अनन्यापेक्षित्वात् झटिति 'सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः ।' इत्याद्युक्तेः हृदयं-विमर्शः, तस्य नैर्मल्यम्-अन- न्योन्मुखत्वादपरिम्लानत्वं, तस्य अतिशयः-परा पं०५ ख० पु० चिन्मात्रात्म पारमार्थिकति पाठः । पं० ख० पु० आत्माभिनिवेशमिति पाठः । पं० १२ क० पु० नन्यापेक्षस्वादिति पाठः। पं० १४ क० ग० पु० हृदयं विसर्ग इति पाठः ।

२०८ श्रीतन्त्रालोकः । काष्ठा, तत्र स्वयं प्रोन्मिषदास्ते-स्वप्रकाशतया प्रकाशते इत्यर्थः ॥१७४॥१७॥ ननु ज्ञेयं तावत् जडाजडात्म द्विधा संभवति, तत्र संविदि जडेन नीलादिनापि आवेशोऽस्ति इति कथं 'बोधात्मैव समावेशः' इत्युक्तम् ? इत्याह ज्ञेयं द्विधा च चिन्मानं जडं चायं च कल्पितम् ॥१७६॥ इतरत्तु तथा सत्यं तद्विभागोऽयमीहशः॥ जडेन यः समावेशः सप्रतिच्छन्दकाकृतिः ॥१७७॥ चैतन्येन समावेश- स्तादात्म्यं नापरं किल ॥ ननु कथं स्वप्रकाशायाः चितोऽपरप्रकाश्यत्वं ज्ञेयत्वं नाम? इत्याशक्योक्तम् 'आद्यं च कल्पितम्' इति।चःशङ्कायोतकः, परमेश्वर एव हि स्वातन्त्र्याद् अपरिहतवेदकभावमपि स्वात्मानं भावनोपदेशादौ पं० ५ क० पु० बोधैकात्मेति पाठः।

श्लोक १७८] २०६ प्रथमाह्निकम् । शिव एव सर्वक्रियाणां कर्ता विज्ञेयः इत्यादि परामर्शः अहंप्रतीतिम् अन्तरीकृत्य वेद्यतया प्रतिपादयति । इदमेव हि परं स्वातन्त्र्यं-यत् स्वं स्वरूपं वेदकमेव सत् वेद्यत्वेन अवभासयति । अत एव कल्पितं वस्तुशून्यम् इत्युक्तम् । इतरत् इति जडं नीलादि । तथा इति ज्ञेयतया । तत्र नीलज्ञानम् इत्यादौ चितो नीलादिना दर्पणमुखन्यायेन प्रतिबिम्बन- मात्रमेव समावेशार्थो न तु तादात्म्यं, तथात्वे हि नीलादेानात्मीभूतत्वात् ज्ञानमेव अवशिष्यते इनि प्रतिच्छन्दव्यवस्थैव न स्यात् । संकुचितायाः चितः पुनरसंकुचितया चितैकात्म्यमेव तस्या एव वस्तुतो भावात्, तेन बोधैकात्म्यमेव समावेशार्थः इति युक्तमुक्तम् अस्वतन्त्रस्य परतद्रूपता नामावेशः इति ॥ १७६ ॥ १७७ ॥ तदेवोपसंहरति तेनाविकल्पा संवित्ति- र्भावनाद्यनपेक्षिणी ॥१७८॥ पं० २ क० पु० अधरीकृत्येति पाठः । पं० १० क० ख० पु० प्रतिकर्मव्यवस्थैवेति पाठः । पं० ११० पु० असंकुचितचिदैकात्म्यमेवेति पाठः । १७ श्रीतन्त्रालोकः । , शिवतादात्म्यमापन्ना समावेशोऽत्र शांभवः। संवित्तिः अर्थात् संकुचितरूपा ॥ १७८ ॥ ननु अत्र उत्पत्तौ विकल्पापेक्षित्वं मा भूत् तथात्वे हि शाक्तोपायादस्य भेदो न स्यात् , श्रौत्त- रकालिकाः पुनर्विकल्पाः किमत्र अपेक्ष्यन्ते न वा ? इत्याशझ्याह तत्प्रसादात्पुनः पश्चा- द्भाविनोऽत्र विनिश्चयाः ॥१७६ ॥ सन्तु तादात्म्यमापन्ना न तु तेषामुपायता। तच्छब्देन निर्विकल्पकपरामर्शः । अविकल्प- कयैव संवित्त्या शिवात्मताधिगमः कृतः इति कृतस्य करणायोगात् तत्पृष्ठभाविना विकल्पानां तत्र अकिंचित्करत्वम् इत्याह न तु तेषामुपायता' इति ॥ १७ ॥ पं०४ ख० पु० विकल्पापेक्षत्वमिति पाठः । पं०६० ख० पु० अपेक्षन्ते इति पाठः । पं०१३ क.पु. शिवात्मनाभिगम इति पाठः ।

श्लोक १८० प्रथमाह्निकम् । अत एव च अविकल्पस्य विकल्पापेक्षं प्रामाण्यं वदन्तो निरस्ताः इत्याह विकल्पापेक्षया मान- मविकल्पमिति ब्रुवन् ॥१८०॥ प्रत्युक्त एव सिद्ध हि विकल्पेनानुगम्यते। अनधिगतार्थविषयं खलु प्रमाणम् । यदाहुः 'अनधिगतविषयं प्रमाणम् अज्ञातार्थप्रकाशो वा।' इति । निर्विकल्पकगृहीतमेव वस्तु च तत्पृष्ठभावी विकल्पः परिच्छिनत्ति इति, तस्य गृहीतग्राहकत्वात् स्वात्मन्येव प्रामाण्यं नास्ति-इति कथमन्यस्यापि प्रामाण्ये निमित्ततां यायात् । अत अाह 'सिद्धं हि विकल्पेनानुगम्यते' इति । सिद्धम् इति अधिगतम् । अनुगम्यते इति श्रनु पश्चात् गम्यते अधिगम्यते इत्यर्थः ॥ १८०॥ ननु प्रवर्ततां नाम गृहीतेऽर्थे विकल्पः, तत्र पुनरध्यवसायात्मकत्वादस्य ग्राहकत्वं न युज्यते पं०८ कख० पु० अज्ञातार्थविषयो वा इति पाठः ।

२१२ m- श्रीतन्त्रालोकः। इति 'गृहीतं गृह्णामि' इति प्रतिपत्तिरस्य कथं स्यात् ? इत्याशङ्कयाह गृहीतमिति सुस्पष्टा निश्चयस्य यतः प्रथा ॥१८१॥ गृह्वामीत्यविकल्पैक्य- बलात्तु प्रतिपद्यते। गृहीतमिति प्रथा हि विकल्पस्य भावादोपपत्तिकी- गृहीत एवार्थे अस्य प्रवृत्तेः, यत्तु गृह्णामि इति प्रति- पद्यते तत् दृश्यविकल्प्याथैकीकारादिना निर्विकल्पक कात्म्यावलम्बनबलात् इति युक्तमुक्तं 'विकल्पेन गृहीतं गृह्यते' इति ॥ १८१॥ ननु ज्ञानं खलु ज्ञापकं न तु कारकम् इति, तेन वस्तुनो ज्ञप्तिः स्यात् न तु सिद्धिः इति कथमुक्तं 'सिद्धं विकल्पेनानुगम्यते' ? इत्याशङ्क्याह अविकल्पात्मसंवित्तौ या स्फुरत्तैव वस्तुनः॥१२॥ ? पं० ४ ग० पु० यथा प्रथेति पाठः । पं०७० पु० प्रथा हि विकल्पभावादौ प्रतिपत्तिगृहीत एवार्थ इति पाठः । पं० ८० पु० अस्याः प्रवृत्तेर्यत्तु गृह्णामीत्यविकल्पैकबलात्तं प्रतीति पाठः ।

२१३
श्लोक १८३]
प्रथमाह्निकम् ।
सा सिद्धिर्न विकल्पातु
वस्त्वपेक्षाविवर्जितात् ।
श्राभासवादे हि अाभासमानतब सिद्धिः इत्युक्तं
स्फुरत्तैव वस्तुनः सिद्धिः । ननु विकल्पानामपि
स्वात्मनि अविकल्पकत्वात् स्फुरद्रूपता अस्ति इति
किमिति न ततोऽपि वस्तुनः सिद्धिः स्यात् ? इत्या-
शङ्याह 'न विकल्पात्' इति, 'सवों विकल्पः स्मृतिः
इति नीत्या विकल्पानां तावत् स्मृतिरेव रूपं, सा च
असंनिहिते पूर्वानुभूत एव श्रर्थे प्रवर्तते इति विक-
ल्पानां वस्त्वनपेक्षित्वं, यद्यपि च स्वतन्त्रविकल्पादौ
क्षेत्रज्ञनिर्मितानां योजनास्ति तथपि पूर्वानुभवसं-
स्कारजा एव तेऽर्थाः इत्युक्तं 'वस्त्वपेक्षाविवर्जितात्'
इति । यस्य च यदपेक्षा नास्ति स कथं तत्सिद्धौ
निमित्ततां यायात् इति भावः ॥ १८२ ॥
यद्येवं निर्विकल्पकसिद्ध एव अर्थे विकल्पः प्रव-
तते न अधिकं किंचित्करोति तत्किमिति तेन स
क्वचिदपेक्ष्यते इत्याह
केवलं संविदः सोऽयं
नैर्मल्येतरवित्रमः ॥१८३॥

श्रीतन्त्रालोकः।
यद्विकल्पानपक्षत्व-
सापेक्षत्वे निजात्मनि ॥
एवं संविदः सर्ववादिसिद्धं व्यवहारादौ विकल्प-
सापेक्षत्वं परिहत्य विकल्पानपेक्षत्वमेव स्फुटीकर्तु-
मुदाहरति
निशीथेऽपि मणिज्ञानी
विद्युत्कालप्रदर्शितान् ॥१८॥
तांस्तान्विशेषांश्चिनुते
रत्नानां भूयसामपि॥
वैकटिको हि अचिरस्थायिनि परिमितेऽपि
श्रालोके भूयसामपि रत्नानाम् अतिसूक्ष्मान् परस्पर-
विशेषान् श्रवसायं विनापि अनुभवातिशयादेव
जानीते, येन 'इदमल्पम् , इदं महत्,' इदमितोऽपि
महद्रत्नम्' इत्यस्य विवेकः स्यात् ॥ १८४॥
किं चात्र अनुभवातिशये निमित्तं, येन विकल्प-
नैरपेक्ष्येणापि वस्तुनः सिद्धिः स्यात् ? इत्याह
नैर्मल्यं संविदश्चेदं
पूर्वाभ्यासवशादथो ॥१८॥

२१५ श्लोक १८६] प्रथमाह्निकम् । अनियन्त्रेश्वरेच्छात इत्येतच्चर्चयिष्यते। पूर्वाभ्यासो जन्मान्तरीयः इति, अत एव चर्चयि- प्यते त्रयोदशाह्निकादौ ॥ १८५ ॥ न केवलमस्य आवेशस्य त्रैविध्यमेव अस्ति, यावदवान्तरप्रकारत्वमपि इत्याह पञ्चाशद्विधता चास्य समावेशस्य वर्णिता ॥१८६॥ तत्त्वषट्त्रिंशकैतत्स्थ- स्फुटभेदाभिसन्धितः। वर्णिता इति श्रीपूर्वशास्त्रे । यदुक्तं तत्र 'रुद्रशक्तिसमावेशः पञ्चधा ननु चर्च्यते । भूततत्त्वात्ममन्त्रेशशक्तिभेदाद्वरानने ॥ पञ्चधा भूतसंज्ञोऽत्र त्रिंशद्धा तु तथापरः । प्रात्माख्यस्त्रिविधःप्रोक्तो दशधा मन्त्रसंज्ञकः॥ द्विविधः शक्तिसंज्ञोऽपि ज्ञातव्यः परमार्थतः । पञ्चाशद्भेदभिन्नोऽयं समावेशः प्रकीर्तितः ।। पं०५ ग० पु० अस्याविशेषस्य इति पाठान्तरं च । पं० ६ ख० पु० प्रकारत्वमेवाहेति पाठः।

श्रीतन्त्रालोकः । इति । अत्र च हेतुः-तत्त्व इति । तत्त्वत्रिंशकं च एतत्स्थानि तत्त्वषट्त्रिंशन्मध्यपतितानि पुमादीनि पृथग्व्याख्यास्यमानानि तत्त्वानि च, तेषां यो वक्ष्यमाणप्रकारः स्फुटो भेदः तस्य अनुसंधा- नम् ॥१८६॥ तमेव भेदं निरूपयति एतत्तत्त्वान्तरे यत्पु- विद्याशक्त्यात्मकं त्रयम् ॥१८॥ अम्भोधिकाष्ठाज्वलन- संख्यैर्भदैर्यतः क्रमात् । तद्भिन्नम् इत्यध्याहारः, अतस्तत्र पुमान् मात्मा चतुर्विधो ह्येषः ।। इत्याद्युक्त्या अम्भोधिभिः-सकलप्रलयाकल- विज्ञानाकलशुद्धलक्षणैः चतुर्भिः भेदैभिन्नः, तथा विद्या काष्ठाभिः-वर्णबिन्द्वर्धचन्द्रनिरोधिनीनादना- दान्तशक्तिव्यापिनीसमनोन्मनात्माभिर्दशभिः भेदै- भिन्ना, तथा शक्तिः ज्वलनैः-इच्छाज्ञानक्रिया- स्मभिः त्रिभिर्भेदैः ॥१८७॥ . : पं.ख.पु. अत्रैव हेतुरिति पाठ।

श्लोक १८६] प्रथमाह्निकम् ननु किमिति इदमेव तत्त्वत्रयं भेदेन निर्दिष्टम् ? इत्याशङ्क्याह पुविद्याशक्तिसंज्ञं य- तत्सर्वव्यापकं यतः ॥१८॥ अव्यापकेश्यस्तेनेद भेदेन गणितं किल । अव्यापकेभ्यः इति व्याप्येभ्यस्तत्त्वान्तरेभ्यः इत्यर्थः । मायान्तं हि आत्मतत्त्वस्य, सदाशिवान्तं विद्यातत्त्वस्य, शिवान्तं च शक्तितत्त्वस्य व्याप्तिः । यदुक्तं 'माया-सदाशिव शिवप्रान्तव्याप्त्री ननु क्रमात् । इति ॥१८॥ न केवलमेतत् तत्त्वान्तरेभ्यो भिद्यते, यावदन्यो- न्यमपि इत्याह अशुद्धिशुद्धयमानत्व- शुद्धितस्तु मिथोऽपि तत् ॥१८॥ पुमान् अशुद्धो-भेदमयत्वात् , विद्या शुद्ध्यमाना- पं०१०ख० पु. व्याप्तीन्यनुक्रमादिति पाठः। २८ २१८ श्रीतन्त्रालोकः। भेदाभेदमयत्वात्, . शुद्धा शक्तिः-अभेदमयत्वा त् ॥१८॥ ननु अस्तु एवं, भूतानां पुनः पृथक् निर्देशे किं- निमित्तम् ? इत्याशङ्क्याह भूतान्यध्यक्षसिद्धानि कार्यहेत्वनुमेयतः। तत्त्ववर्गात्टथग्भूत- समाख्यान्यत एव हि ॥१६॥ भूतानि तावत् प्रत्यक्षसिद्धानि इति, तदेव एषां तत्त्वान्तरेभ्यो भेदेन उपादाने निमित्तं, तानि हि नित्यानुमेयान्येव, तदाह 'कार्यहेत्वनुमेयतः तत्त्व- वर्गात्' इति । तथा चात्रं भूतानि कारणपूर्वकाणि आचैतन्ये सति अनेकसंख्यायोगित्वात् घटादिवत् इत्यनुमानम् । यच्चैषां कारणं तानि 'तन्मात्रेभ्यश्च भूतानि ...........।' इत्यायुक्तः तन्मात्राणि इति, स्वकार्येभ्यो भूतेभ्य एषाम् अनुमेयत्वम् । एवम् अनेनैव अनुमानेन मा- यान्तः सकलतत्त्ववर्गोऽनुमातव्यः। एतच्चतत्त्वाध्वनि श्लोक १६१] प्रथमाह्निकम् । भविष्यति इति नेहायस्तम् । अत एव इति प्रत्यक्ष- सिद्धत्वात् ॥१०॥ ननु भूतानां प्रत्यक्षसिद्धत्वम् अनुमेयात् तत्त्व- वर्गात् पृथक्त्वेऽस्तु निमित्तं, कथं पुनर्भूतत्वेऽपि तदेव ? इत्याशझ्याह सर्वप्रतीतिसद्भाव- गोचरं भूतमेव हि। विदुश्चतुष्टये चान सावकाशे तदास्थितिम् ॥१६॥ सर्वेषां विदुषामविदुषां वा प्रतीतौ सता पारमा- र्थिकेन सत्ताया गोचरमेव हि भूतम् उच्यते । भूतं हि सत्यं, तच्च सत्यं, यत्र न कदाचिदपि कस्यचि- दपि विप्रतिपत्तिः, अनुमेये पुनरविदुषां तावत् प्रती- तिर्नास्त्येव, विदुषां च प्रतीतावपि बहुप्रकारं परस्परं विप्रतिपत्तिः इति तत्र असत्यत्वसंभावनापि भवेत् इति भावः । चो हेतौ, अतश्च सर्व एवात्र अव- काशः तद्दातृत्वादाकाशः, तत्साहिते वाय्वन्ते चतुष्टये प०१७ ग० पु० तत्ताडक्वादाकाश इति पाठान्तरं च वर्तते ।

२२० श्रीतन्त्रालोकः। पृथिव्यादिभूतपञ्चके सर्वप्रतीतिसद्भावगोचरत्वात् तस्य भूतत्वस्य श्रास्थितिम् अवस्थानं विदुः इति युक्तमुक्तं भूतसमाख्यान्यत एव' इति । एवं भौत श्रावेशः पञ्चधा, अात्मावेशश्च त्रिधा । एकोऽपि पुंस्तत्त्वरूप आत्मभेदः तत्त्वमध्ये ऽवस्थाप्यः, श्र- न्यथा हि तात्त्व आवेशः त्रिंशद्धा न स्यात् । विद्या- याश्च समनन्तरोक्तेन सामान्यात्मना मान्त्रेण रूपेण दशधावेशः । विशिष्टेन तु मन्त्र-मन्त्रेश-मन्त्रमहे- शात्मना रूपेण अस्यास्तत्वमध्ये परिगणनम् । एवं शक्तेरपि एकं भेदं तत्त्वमध्ये व्यवस्थाप्य तदीय श्रा वेशो द्विधा । शिवस्तु समावेश्य एव इति न तत्रा- वेशोऽस्ति-तस्य परमादयस्वभावत्वात्, तदपेक्षया समावेश्यसमावेशकलक्षणभेदानुपपत्तेः तद्युक्तमुक्त- म् 'अस्य समावेशस्य पञ्चाशद्विधत्वम्' इति॥१६१॥ ननु श्रीपूर्वशास्त्रे रुद्रशक्तिसमावेशस्य पञ्चधात्व- चर्चनं प्रतिज्ञाय भूतादीनां स्वरूपनिरूपणं कृतम् ? इत्याह । . प०२ क० ख० पु. भूततत्वस्थितिमिति पाठः। ५० १० ग० पु० तत्त्वमध्ये अवस्थापि इति पाठ।

श्लोक १९३] प्रथमाह्निकम् । रुद्रशक्तिसमावेशः पञ्चधा ननु चर्च्यते। कोऽवकाशो भवेत्तत्र भौतावेशादिवर्णने ॥१६॥ प्रसंगादेतदितिचे- समाधिः संभवन्नयम् । नास्माकं मानसावर्जी लोको भिन्नरुचिर्यतः ॥१६॥ कोऽवकाश इति-भौतावेशादीनाम् अप्रस्तुतत्वात्, इदमेव हि तदप्रस्तुताभिधानं यदन्यदुपक्रम्य अन्य- दभिधीयते इत्यतश्चोदितं 'कोऽवकाशो भौतावेशा- दिवर्णने इति । अथ रुद्रशक्तिसमावेशवर्णने प्रति- ज्ञातेऽपि प्रसंगादेतदुक्तम्, इति पुनस्तदप्ययुक्तम् इत्याह 'प्रसंगादेतत्' इति । निर्णीतप्राये प्रक्रान्तेऽर्थे यत्किंचिदनुषक्तत्वेन अप्रकृतम् अभिधीयते तत्रायं समाधिः 'प्रसंगादेतदुक्तम्' इति । इह तु उद्दिष्टेऽपि प्रकृते लक्षणपरीक्षादि अनुक्त्वैव भूतावेशादीनाम् पं० ११ ख० ग० पु. भौताधावेशवर्णने इति पाठः । पं० १२ ग० पु० प्रस्तुतेऽपि प्रसङ्गादित्युक्तम् ।

२२१ श्रोतन्त्रालोकः। आकस्मिकमेव अभिधानं कृतम् इति को नामायं प्रसंगः। एवं हि अप्राकरणिकानां प्रमेयाणामान- न्त्यात् अनन्तान्तरङ्गप्रमेयप्रतिपादनप्रसंगः स्यात् ? इत्युक्तं 'नास्माकं मानसावर्जी' इति ॥१६२ ॥१६३॥ यद्येवं तर्हि किं प्रतिपत्तव्यम् ? इत्याह उच्यते द्वैतशास्त्रेषु परमेशाद्विभेदिता। भूतादीनां यथा सात्र न तथा द्वयवर्जिते ॥१४॥ अत्र इति श्रद्वयशास्त्रे श्रीश्रीपूर्वे । सा इति विभि- नता । तनिषेधे तु द्वयवर्जितत्वं हेतुः ॥१६॥ ततश्च किं स्यात् ? इत्याशङ्क्याह यावान्षत्रिंशकः सोऽय यदन्यदपि किंचन । एतावती महादेवी रुदशक्तिरनर्गला ॥१६॥ अन्यत् इति-तद्भेदा एव भुवनाद्याः । अनर्गला इति-व्यापकत्वादप्रतिहता इत्यर्थः । यदुक्तं श्लोक १९६] प्रथमाह्निकम् । २२३ 'त्वच्छक्तिचक्रात्मकमेव विश्व ग्राह्यग्रहीतग्रहणात्मनैतत् । अन्तादिमध्येषु सदा विभाति नात्यन्तभिन्नं भवतोऽस्ति किंचित् ॥' इति ॥१६॥ एतच्च तत्रत्येनैव अर्थेन संवादयति तत एव द्वितीयेऽस्मि- नधिकारे न्यरूप्यत। धरादेर्विश्वरूपत्वं पाञ्चदश्यादिभेदतः ॥१६॥ तत एव इति-रुद्रशक्तेरेव तावत्स्फाररूपत्वात् । अस्मिन् इति-श्रीपूर्वशास्त्रे । यदुक्तं तत्रैव 'शक्तिमच्छक्तिभेदेन धरातत्त्वं विभिद्यते । स्वरूपसहितं तच्च विज्ञेयं दशपञ्चधा॥' इत्यादि 'शिवः साक्षान्न भिद्यते।' इत्यन्तम् । एतच्च तत्त्वभेदने भविष्यति, इति ग्रन्थविस्तरभयात् नेह प्रायस्तम् ॥१६६॥ ननु यद्येवं तर्हि रुद्रशक्तावेवं-समावेशोऽभिधीयतां किं भूताद्यावेशेन इति स एव दोषः ? इत्याशङ्कां १२४ श्रीतन्त्रालोकः। गर्भीकृत्य, एतदेव उपसंहारभङ्गया दृष्टान्तं दर्शयन् उपपादयति तस्माद्यथा पुरस्थेऽर्थे गुणायंशांशिकामुखात् । निरंशभावसंबोध- स्तथैवात्रापि बुध्यताम् ॥१७॥ यथा संनिहिते घटादौ अर्थे लौहित्याचंशाभास- द्वारेण अनेकसामान्याभाससंमेलनात्मनो निरंशस्य अखण्डस्य अर्थस्य सम्यक् स्वालक्षण्येन बोधो भवेत् तथैव अत्रापि भूतायंशमुखेन निखिलरुद्रशक्त्य- वभासः इत्यधिगन्तव्यम् ॥१७॥ एवमपि किं स्यात् ? इत्याशङ्क्याह अत एवाविकल्पत्व- ध्रौव्यप्राभववैभवैः। अन्यैर्वा शक्तिरूपत्वा- हमैः स्वसमवायिभिः ॥१८॥ सर्वशोऽप्यथ वांशेन तं विभुं परमेश्वरम् । ? पं० १३ क. पु. अत एव विकल्पेति पाठः ।

श्लोक २००] २१५ प्रथमाह्निकम् । उपासते विकल्पौघ- संस्काराये श्रुतोत्थितात् ॥१६॥ ते तत्तत्स्वविकल्पान्तः- स्फुरत्तद्धर्मपाटवात् । धर्मिणं पूर्णधौघ- मभेदेनाधिशेरते ॥२००॥ श्रत एव इति-धर्ममात्रावगममुखेन धर्मिण्यव- गमात् । ध्रुवस्य भावो ध्रौव्यं-नित्यत्वम् । श्रन्यैः इति-पूर्णत्वादिभिः, स्वसमवायिभिः इति-शक्ति- रूपत्वादभिन्नैरित्यर्थः । ये केचन श्रुतचिन्तायुत्थि- ततत्तन्नियतधर्मविषयस्य विकल्पौघस्य संस्कारम् अवलम्व्य परमेश्वरं समनन्तरोद्दिष्टाभिः सर्वाभिरेव शक्तिभिः एकयेव वा शक्त्या समाविशन्ति, ते समाविष्टाः सन्तः, ते ते ये विकल्पाः तेषाम् अन्तः स्वाकारतया स्फुरन्तः, ते नियता अनियता वा धर्माः शक्तयः, तेषां पाटवं प्रबोधः, तदाश्रित्य पूर्णधर्मोघम् अनन्तशक्तिखचितत्वेन पूर्णस्वभाव पं०३ ख० पु० तेन तत्स्वविकल्पेति पाठः ।

श्रीतन्त्रालोकः । धर्मिणं शक्तिमन्तं परमेश्वरम् अभेदेन अधिशेरते- तद्रूपतया स्फुरन्ति इत्यर्थः ॥१९८॥१६॥२०॥ ननु एकस्यापि नानाविधधर्मयोगिनोऽर्थस्य श्रा- खण्ड्येनैव प्रतीतिगोचरीभावः संभवति न तु इतरथा इति किमेतदुक्तम् ? इत्याशङ्काशान्त्यर्थम् एतदेव संवादयति ऊचिवानत एव श्री- विद्याधिपतिरादरात् । तदेव पठति त्वत्स्वरूपमविकल्पमक्षजा कल्पने न विषयीकरोति चेत् । अन्तरुल्लिखितचित्रसंविदो नो भवेयुरनुभूतयः स्फुटाः ॥२०॥ यदि नाम ऐन्द्रियिकी निर्विकल्पप्रतीतिः अवि- कल्पम् - अविभागमपि त्वत्स्वरूपं, कल्पने नियत- पं० ३ क० पु० अखण्डेनैवेति पाठः । पं०१७क. पु. कल्पनमिति पाठः । पं० १३.क० पु० बभूवुरिति पाठः । पं० १९क० पु० स्वस्वरूपकल्पने इति समस्तः पाठः ।

, श्लोक २०२] प्रथमाह्निकम् । तत्तद्धर्मविषयत्वेन भेदनमवलम्ब्य न विषयीकुर्यात् तत् स्फुटा-नियतैकतरधर्मावभासमुखेन धर्मिस्वरू- पावभासमय्यः, अन्तः-अस्फुटाकारत्वेन, उल्लिखिताः चित्राः-अवान्तरनानाधर्मविषयाः संविदो यासां ताः, एवंविधाः अनुभूतयः-अनुभवा, नो भवेयुः न उत्पद्येरन् इत्यर्थः । यदि हि सर्वधर्माकान्त्या धर्मि- णि सर्वे अनुभवाः स्युः तत् परिवाडित्यादौ एकै- कस्यापि तिस्रः कल्पना भवेयुः, तेन स्वेच्छावशात्, अर्थित्वानुरोधाद्वा, नैपुण्याद्वा प्रतिप्रमातृनियत- धर्मावभासमुखेनैव धर्मिण्यवभासो भवेत् न तु इतरथा इति युक्तम्-एकतरशक्त्यवभासमुखेन अन- तशक्तावपि परमेश्वरेऽवभासः इति ॥२०१॥ एतच्च न केवलं युक्त्या सिद्धं यावदागमेनापि इत्याह तदुक्तं श्रीमतङ्गादौ स्वशक्तिकिरणात्मकम् । अथ पत्युरधिष्ठान- मित्यायुक्तं विशेषणैः ॥२०२॥ पं०११क० पु० शक्त्यवभासेनानन्तशक्ताविति पाठः।

श्रीतन्त्रालोकः । तस्यां दिवि सुदीप्तात्मा निष्कम्पोऽचलमूर्तिमान् । काष्ठा सैव परा सूक्ष्मा सर्वदिक्कामृतात्मिका ॥२०३॥ प्रध्वस्तावरणा शान्ता वस्तुमात्रातिलालसा। श्राद्यन्तोपरता साध्वी मूर्तित्वेनोपचर्यते ॥२०४॥ स्वशक्तिकिरणात्मकं यद्वस्तु तत् 'पत्युरधिष्ठानम्' इत्यादिभिः विशेषणैः अर्थात् विशिष्टमुक्तम् इति संबन्धः। अथ पत्युरधिष्ठानं स्वशक्तिकिरणात्मकम् ।' इत्येवं-पाठ ऐशः, ग्रन्थकृता पुनरेवं विध्यनुवादभाव- दर्शनार्थम् अन्यथा पाठः कृतः, तान्येव विशेषणानि दर्शयितुं 'तस्याम्' इत्यादि 'उपचर्यते' इत्यन्तमागमः पठितः, स्वा अनन्यसाधारणा याः शक्तयः ता एव अभिन्नत्वप्रकाशवानन्त्यादिना किरणा रश्मयः पं० १२ क० पु० मौलः, ग० पु. पाठान्तरात्मा पुनरेवंविधानुभवदर्शनार्थ- मिति पाठः।

२२६ श्लोक २०४] प्रथमाहिकम् तदात्मकं, पत्युः-शक्तिमतः, अधिष्ठानम् -अभिव्य- क्तिस्थानम् इत्यर्थः। शक्तिरेव तज्ज्ञप्तावुपायः, यदुक्तं 'यथालोकन दीपस्य किरणैर्भास्करस्य वा। ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवः प्रिये ॥ इति । अत एव तस्यां शक्तो, दिवि द्योतमानायां, सोऽपि सुष्टु दीप्तात्मा-महाप्रकाशवपुः, अत एव निष्कम्पः-स्वस्मिन्नेव रूपे अवस्थितः, तस्य हि प्र- काशात्मनः स्वरूपात्प्रच्यावे सर्वमिदम् अन्धं स्यात्, अत एव च अचलया-महाप्रकाशमय्या प्रशस्यया मूर्त्या युक्तः, यतश्च तस्यामेवं-विधायाम् अयमेवं- विधः, ततः सैव परा काष्ठा लोकोत्तरा विश्रान्तिभूः, अत एव सूक्ष्मा परिच्छेत्तुमशक्या-परप्रमात्रे- करूपत्वात् , अत एव वस्तुमात्रे पारमार्थिके रूपे अतिशयेन लालसा-तत्स्फुरत्तात्मिका इति यावत् । एवं च प्रकर्षण निःसंस्कारतया ध्वस्तानि बाह्यावरणानि यया सा प्रशान्तभेदा इत्यर्थः, अत एव शान्ता चिन्मात्ररूपा इत्यर्थः । एवमपि पं०९ख० ग० पु० शक्तौ विद्योतमानायामिति पाठः । पं० ख० पु० सर्वमिदमेतदिति पाठः। पं० १ ० पु. अत एवाचलतयेति पाठः।

NE श्रीतन्त्रालोकः सर्वदिनु भवा स्थावरजङ्गमात्मकजगद्रूपत्वात् चित्र- स्वभावा इति यावत् , तदपि अमृतात्मिका नित्या, अत एव श्राद्यन्तोपरता, अनित्ये हि श्राद्यन्तौ भवतः, अत एव साध्वी-अनित्यत्वादिदोषकालुष्य- रहिता इत्यर्थः, एवं-विधा च एषा शक्तिमतः परमे- श्वरस्य मूर्तित्वेन उपचर्यते-गौण्या वृत्त्या तद्रूपतया अभिधीयत इत्यर्थः ॥२०२॥२०३॥२०४॥ ननु उपचारे मुख्यार्थवाधादिना त्रितयेन अवश्य- भाव्यं, तच्चात्र किमस्ति न वा ? इत्याशङ्क्याह तथोपचारस्यात्रैत- निमित्तं सप्रयोजनम् । निमित्तम् इति कारणम्, तद्वशादेव हि उपचारो भवेत् इति भावः । तत्र शक्तेः शक्तिमद्रूपत्वाभिधाने बाधितस्तावत् मुख्योऽर्थः, संबन्धश्च तयोरुपायो- पेयभावः ॥ तदाह तन्मुखा स्फुटताधर्मि- ण्याशु तन्मयतास्थितिः॥१०॥ • ३० पु० शक्तिमद्रूपत्वाभिमाने इति, ख० पु० रूपत्वाभिमानेनेति पाठः ।

२३१ श्लोक २०७] प्रथमाह्निकम् । त एव धर्माः शक्त्याख्या- स्तैस्तैरुचितरूपकैः॥ आकारैः पर्युपास्यन्ते तन्मयीभावसिद्धये ॥२०६॥ सा शक्तिः मुखम् उपायो यस्याः, स्फुटता नाम किमुच्यते इत्युक्तम् 'आशु तन्मयतास्थितिः' इति, प्रासादितायां शक्तावासादित एव शिवः इत्याशयः। एतदेव च मुख्य प्रयोजनम् ॥२०६॥ श्रत एवाह तत्र काचित्पुनः शक्ति- रनन्ता वा मिताश्च वा। आक्षिपडवतासत्त्व- न्यायाद्दूरान्तिकत्वतः ॥२०७॥ अनन्ता मिताश्च इत्यर्थाच्छत्तीः । धवतासत्त्व- न्यायात् इति-धवता हि अधवव्यावृत्ताः स्वव्य- पं० ६ ख० पु० तद्युक्तमिति पाठः । पं० १२ ख० पु० आक्षिपेद्धृवतेति, अन्तिकात्तत इति च पाठः । ग० पु. प्रन्तिकारतत इति पाठः। पं० १४ ख० पु० ध्रुवतासत्वेति पाठः ।

२३२ श्रीतन्त्रालोकः। कीरेव पाक्षिपति इत्यस्याः परिमितवस्त्वाक्षेपि- त्वम्, सत्त्वं पुनर्धवाधवात्मनि सर्वत्रैव अस्ति इत्यस्यानन्तवस्त्वाक्षेपित्वम् अत एव च मितवस्त्वा- क्षेपिण्यो दूरा-श्रव्यापकत्वेन सर्वत्र असन्निहि- तत्वात् , अनन्तवस्त्वाक्षेपिण्यस्तु अासन्ना-व्यापक- त्वात् सर्वत्रैव संनिहितत्वात् ॥२०७॥ एतदेव प्रकृते योजयति तेन पूर्णस्वभावत्वं प्रकाशत्वं चिदात्मता। भैरवत्वं विश्वशक्ती- रातिपद्व्यापकत्वतः॥२०॥ सदाशिवादयस्तूर्ध्व- व्याप्त्यभावादधोजुषः । शक्तीः समाक्षिपेयुस्त- दुपासान्तिकदूरतः ॥२०॥ पं०३ क. पु० इत्यस्यानन्तरवस्त्विति पाठः । पं०४ ख० पु० ध्रुवा अव्यापकेति पाठः। पं० ५ क० पु० पिण्यस्त्वसत्वव्यापकेति, सवाव्यापकेति पाठः। पु० पिण्यस्तु २३३ श्लोक २१०] प्रथमाह्निकम् । अधोजुषः इति-ईश्वरादिकाः शक्तीः, तदिति पूर्णस्वभावत्वसदाशिवत्वादेःव्यापकत्वाव्यापकत्वस्व- भावत्वाद्धेतोः। पूर्णस्वभावे हि रूपे उपासन्नाः पूर्ण- मेव भुक्तिमुक्तिलक्षणं फलम् प्रासादयन्ति, अपूर्ण- स्वभावे पुनरपूर्णत्वमेव इत्युक्तम् ‘उपासान्तिकदूरत' इति । अत एव च दर्शनभेदः ॥२०८॥२०६॥ ननु विकल्प एव तत्कल्पनाबलान्नियतः सामा- न्यात्मा धर्मोऽवभासते इति तत्र तन्मुखेन धर्मणि अवभासो भवेत् इत्ययं क्रमः शाक्तोपाये स्यात् न तु अखण्डवस्त्ववभासात्मनि निर्विकल्पकस्वभावे शाम्भवे इति कथामिहैतदुक्तम् ? इत्याशङ्क्याह इत्थं-भावे च शाक्ताख्यो वैकल्पिकपथक्रमः। इह तूक्तो यतस्तस्मात् प्रतियोग्यविकल्पकम् ॥२१०॥ पं० २ क. पु० शिवत्वादेः व्यापकस्वभावत्वाद्धतोरिति पाठः । पं०१३ क. पु० शाकाख्ये इति पाठः । पं० १५० पु. योगाविकल्पनम् इति पाठः।

२३४ श्रीतन्त्रालोकः। इह इति शाम्भवावसरे, तस्मात् इति विकल्पात्, प्रतिपक्षे हि निरूपिते सुष्टु पक्षनिरूपणं कृतं स्यात् इति-नैतदप्रस्तुतं किंचिदभिहितमिति भावः । विकल्पे हि क्रमेण अखण्डवस्त्ववभासो भवति अविकल्पे पुनरक्रमेण इति-प्राप्ताविकल्पस्थितिर्यत्र कुत्रचिदवधत्ते तत्रास्य तदैव शिवतापत्तिः स्यात् ॥२१०॥ तदाह अविकल्पपथारूढो येन येन पथा विशेत् । धरासदाशिवान्तेन तेन तेन शिवीभवेत् ॥२१॥ एतदेव उदाहरति निर्मले हृदये प्राय्य- स्फुरद्भूम्यंशभासिनि । प्रकाशे तन्मुखेनैव संवित्परशिवात्मता ॥२१२॥ पं० ५ क० ग० पु प्राप्तविकल्पस्थितिरिति पाठः। पं० १० ग० पु० पथा बजेदिति पाठः । पं० ११० ख० पु० प्राप्रस्फुरदिति पाठः ।

२३५ श्लोक २१३] प्रथमाह्निकम् । इह खलु निर्मले हृदये पूर्णाहंविमर्शात्मनि, अत एव प्रायम् - पाखण्ड्येन प्रकृष्टं कृत्वा, स्फुरद्भूमि- लक्षणः तत्त्वान्तरापेक्षया अंशः-षट्त्रिंशो भागः, तदाभासात्मनि प्रकाशे तद्भूम्यंशात्मनैव उपायेन संवित्परशिवात्मता-तदावेशः स्यादित्यर्थः॥२१२॥ एतदेव उपसंहरात एवं परेच्छाशक्त्यंश- सदुपायमिमं विदुः। शाम्भवाख्यं समावेश सुमत्यन्तनिवासिनः ॥२१३॥ परा भट्टारिकारूपा च असौ इच्छाशक्तिः, तदा- त्मकश्च सौ अंशः पर विच्छात्मकं मतम् ।' इत्यायुक्तेः शाक्ताद्यपेक्षया साक्षादुपायत्वात् संश्चासौ उपायः तं, सुमत्यन्तेनिवासिनः इति-श्रीसोमदेवा- पं० २ क० ख० पु० प्राप्रमाखण्ड्येनेति पाठः। पं० ४ ० पु. प्रकाशेन भूम्यंशात्मनैवेति पाठः। पं०६० पु० तदेवोपपादयतीति पाठः।

२३६ श्रीवन्त्रालोकः । दयः । श्रीसुमतिनाथस्य श्रीसोमदेवः शिष्यः, तस्य श्रीशम्भुनाथः इति हि आयातिक्रमविदः । यद्व- क्ष्यति 'श्रीसोमतः सकलवित्किल शम्भुनाथः इति । यत्तुं 'कश्चिदक्षिणभूमिपीठवसतिः श्रीमान्विभुभैरवः पञ्चस्रोतसि सातिमार्गविभवे शास्त्रे विधाता च यः । लोकेऽभूत्सुमतिस्ततः समुदभूत्तस्यैव शिष्याग्रणीः श्रीमाञ्छम्भुरिति प्रसिद्धिमगमज्जालन्धरात्पीठतः॥' इत्यन्यत्रोक्तं, तत्परमगुर्वभिप्रायेणैव योज्यम् । यद्वा 'यावानस्य हि सन्तानस्तावानेको गुरुर्मतः ।' इत्यादिवक्ष्यमाणनीत्यवलम्बनेन एतद्व्याख्येयम्। एवं 'इति श्रीसुमतिप्रज्ञाचन्द्रिकापास्ततामसः । श्रीशम्भुनाथः सद्भाव जाग्रदादौ न्यरूपयत् ॥ इत्यादावपि ज्ञेयम् ॥२१३॥ इदानीं शाम्भवमुपायं प्रतिपाद्य, शाक्तमप्याह शाक्तोऽथ भण्यते चेतो- धी-मनोहंकृति स्फुटम् । पं० ११० पु० यावान्यस्येति पाठः । पं०१३ग० पु० चन्द्रिकाशान्ततामस इति पाठः ।

शक्षोक २१४] प्रथमाह्निकम् । सविकल्पतया माया- मयमिच्छादि वस्तुतः ॥२१४॥ एतच्चात्र न मनोमात्रम् इत्याह धीमनोऽहंकृति इति । अत एव स्फुटं-साक्षादभिव्यक्तस्वरूपम् इत्यर्थः । ततश्च 'सर्वो विकल्पः संसारः इत्यादिनीत्या भेदप्रथारूपम् इत्युक्तं-'सविकल्पतया मायामयम्' इति । एवमपि परमार्थतो यथायोगम एतदिच्छाज्ञानक्रियात्मकम् इत्युक्तम् 'इच्छादि- वस्तुतः' इति । यथा खलु पतिरिच्छाद्याभिः शक्ति- भिर्विश्व निर्मिमीते तथैव विकल्पाद्यपि बुद्ध्याद्य- न्तःकरणत्रयेण पशुरित्याशयः, विकल्पादौ हि प्रायः क्षेत्रज्ञस्यैव स्वातन्त्र्यम्, तन्निर्माणं च एतत्रया- धीनमेव इत्येवमुक्तम् ॥२१४॥ पं०३ ग० पु० एतच नान्न मनामात्रमिति पाठः। पं०५० ग० पु० तच्चेति पाठः । पं० ११० पु० निर्मोयते इति पाठः। पं०१३ख० पु० क्षेत्रज्ञस्य हीति पाठः ।

२३८ श्रीतन्त्रालोकः। , अत आह अभिमानेन संकल्पा- ध्यवसायक्रमेण यः। शाक्तः स मायोपायोऽपि तदन्ते निर्विकल्पकः॥२१॥ इह हि स्वात्मनि अहङ्कारग्रहेण कर्तृत्वमभि- मन्य बाह्यमेषणीयादि तदतद्रूपतया संकल्प्य तदेव च अन्यापोहेन निश्चित्य 'ब्रहमेव सर्वत्र स्थितः' 'सर्व वा मय्येव स्थितम् । इत्येवमात्मा यः शाक्तो वैकल्पिक प्रत्यय उदेति स यद्यपि विकल्पानां भेदनिष्ठत्वात् मायात्मक उपायः तथापि तेषां विकल्पानाम् अभ्यासबलेन यथायथं सातिशयवि- कल्पजननात् श्रन्ते स्फुटतमार्थसाक्षात्कारात्मा निर्विकल्पकः शाम्भवः समावेशः स्यात् इत्यर्थः । यद्वक्ष्यति 'अनन्तराहिकोक्तेऽस्मिन् स्वभावे पारमेश्वरे । प्रविविक्षुर्विकल्पस्य कुर्यात्संस्कारमन्जसा ।।' पं० ६० पु० अहङ्कारग्रहणकर्तृत्वेति पाठः । पं० ७ ख० पु० तदेवान्त्यापोहेति पाठः । पं०९क० पु० स्थितः एवं च मन्येवेति पाठः ।

श्लोक २१६] प्रथमासिकम् । २३६ इत्याद्युपक्रम्य 'ततः स्फुटतमोदारताद्रूप्यपरिहिता। संविदभ्यति विमलामविकल्पस्वरूपताम् ॥' इति । अत एव हि शाक्तोपायस्य उपायोपायत्व- मुक्तम् ॥२१५॥ ननु अस्मदादेः सर्वस्यैव श्रयत्नोपनतः स्वार- सिको निर्विकल्पकः प्रत्ययः स्थितः इति किंनाम तत्र शाम्भवावेशरूपत्वमुक्तं, यदपि उपेयतया उपदिश्यते? इत्याशङ्क्याह पशोर्वे याविकल्पा भू- र्दशा सा शाम्भवी परम् । अपूर्णा मातृदौरात्म्या- त्तदपाये विकस्वरा ॥२१६॥ सा इति अविकल्पा भूः। यदुक्तं 'तस्यां दशायामैश्वरो भावः पशोरपि।' इति । यद्येवं तर्हि अत्र किमुपदेशादियत्नेन ? इत्याह परमपूर्णा इति । संकुचितस्य हि मातुः पं० ४० पुशाक्तस्य उपायस्येति असमस्तः पाठः। ग० पु० शाकस्यो- पायोपायत्वमिति पं० १०० पु. पशोर्यवाविकल्पेति पाठः।

२४० श्रीतन्त्रालोकः। संकुचिते एव ज्ञानक्रिये भवतः, इति कथं तत्रास्य दुरात्मनः साक्षात् शाम्भवत्वं भवेत् इति भावः, अत एव तस्य मातृदौरात्म्यस्य अपाये पूर्णतोल्लासे सा शाम्भवी दशा विकस्वरा पूर्णज्ञत्वकर्तृत्वादिशा- लिनी भवेत् इत्यर्थः, तेन संकुचितज्ञत्वकर्तृत्वाद्यप- हस्तनपुरःसरं स्वात्मप्रत्यभिज्ञापनार्थम् अवश्यो- पादेयोऽयम् उपदेशादियत्नः इति सिद्धम् ॥२१६॥ तदेव प्रकृते योजयति एवं वैकल्पिकी भूमिः शाक्ते कर्तृत्ववेदने। यस्यां स्फुटे परं त्वस्यां संकोचः पूर्वनीतितः ॥२१॥ तथा संकोचसंभार- विलायनपरस्य तु। सा यथेष्टान्तराभास- कारिणी शक्तिरूज्ज्वला ॥२१८॥ पं० २ क० पु० साक्षाच्छम्भुत्वं भवेदिति भावः । पं०११ख. पु. यस्यां स्फुटमिति पाठः । पं०१४ ख. पु० विलापनपरस्येति पाठः।

२४१ श्लोक २१६] प्रथमाह्निकम् । इह सविकल्पज्ञानात्मनि शाक्तोपाये यद्यपि निर्विकल्पापेक्षया स्फुटे ज्ञानक्रिये, तथापि मातृदो- रात्म्यात् ते संकुचित एव, इति अत्रापि उपदे- शादियत्नेन अवश्यं भाव्यं, येन सर्वस्य तथा संकोचविलायनपरतया सा शाक्ती भूः उज्ज्वला विकस्वरा, यदियम् उपेयत्वेन अभीप्सितम् अन्तः प्रमात्रैकात्म्यस्वभावम् आभासं करोति-परप्रमात्रे- करूपतया स्फुरति इत्यर्थः ॥२१७॥२१८॥ ननु शाक्तस्य शाम्भवाद्विकल्पाविकल्परूपत्वेन सिद्धो भेदः, विकल्पैकरूपात् पुनराणवादस्य कथं भेदः स्यात् ? इत्याशङ्कां प्रदर्श्य, तयोरेव भेदमभिधत्ते । ननु वैकल्पिकी किं धी- रागावे नास्ति तत्र सा। अन्योपायात्र तूच्चार- रहितत्वं न्यरूपयत् ॥२१६॥ तत्र इत्यादिना समाधिः, अन्य इति उच्चारादयः। पं० ५ ख० पु० विलापनपरतयेति पाठः । पं० ७ ख० पु० परप्रमात्रैकात्म्यरूपेति पाठः । पं० १३ क. पु० यत्र सा इति पाठः । पं० १६ क. पु० अन्न इत्यादिनेति पाठः ।

२४१ श्रीतन्त्रालोकः। , आणवे हि उच्चारादि बाह्यमेव अवलम्ब्य वैकल्पि- की बुद्धिरस्ति, अत्र शाक्ते पुनस्तद्रहितत्वेन इति विशेषः, अत एव चेतसैव इति सावधारण चिन्तन- मात्रम् अत्रोक्तम् ॥२१॥ नन्वत्र किमुच्चारमात्रेणैव रहितत्वम् , उत करणा- दिभिरपि ? इत्याह उच्चारशब्देनात्रोक्ता बह्वन्तेन तदादयः। शक्त्युपाये न सन्त्येते भेदाभेदौ हि शक्तिता ॥२२०॥ बह्वन्तेन इति बहुवचनादाद्यों हि लभ्यते इति भावः, तेन उच्चारैः रहितम् इति विग्रहो दर्शयि- तव्यः। एते इति उच्चारकरणादयः। न सन्ति इति भेदेकनिष्ठत्वादेषाम् । अत्र हि बाह्योच्चारादिरहित- त्वात् अभेदस्य विकल्पात्मकत्वाच्च भेदस्यापि सं- भवः इत्युभयमयत्वम् , तदाह 'भेदाभेदौ हि शक्तिता' इति, श्राणवे पुनर्भेदस्यैव प्राधान्यम् ॥२२०॥ पं०५ क० पु० उच्चारणमात्रेणैवेति पाठः। पं०८ क० पु० बबन्तेनैतदादय इति पाठः । पं०१० क० पु० भेदाभेदौ चेति पाठः।

श्लोक २२२] प्रथमाहिकम् । २४३ तदाह अणुर्नाम स्फुटो भेद- स्तदुपाय इहाणवः। विकल्पनिश्चयात्मैव पर्यन्ते निर्विकल्पकः॥२२१॥ पर्यन्ते निर्विकल्पकः इत्यनेन अस्यापि शाम्भव एव विश्रान्तिरिति दर्शितम् ॥२२१॥ ननु 'सदाशिवादयस्तूर्ध्वव्याप्त्यभावादधो जुषः । शक्तीः समाक्षिपेयुः इत्यायुक्तयुक्त्या बुद्ध्यादीनां शिवे व्यापृतिरेव नास्ति इति कथमेषां तदवातावुपायत्वमपि उक्तम् ? इत्याह ननु धी-मानसाहंकृ- त्पुमांसो व्याप्नुयुः शिवम् । नाधोवर्तितया तेन कथितं कथमीदृशम् ॥२२२॥ एतदेव समाधत्ते पं० १५ ग० पु. व्याप्नुयुश्विरमिति पाठः । ..'२०६ श्रीतन्त्रालोकः। उच्यते वस्तुतोऽस्माकं शिव एव तथाविधः। स्वरूपगोपनं कृत्वा स्वप्रकाशः पुनस्तथा ॥२२३॥ वस्तुतो हि शिव एव अस्माकम् अद्वैतवादिनां मते 'शिव एव गृहीतपशुभावः ।' इत्यायुक्तयुक्त्या स्वस्वातन्ख्यमाहात्म्यादात्मानं प्र- च्छाद्य तथाविधो बुद्ध्यादिरूपः परिमितः प्रमाता स्यात् , स एव पुनः उद्वेष्टनयुक्त्या बुद्ध्या पाया- सादनक्रमेणैव तथा शिव एव स्वप्रकाशो भवति इति शिवेऽपि बुद्ध्यादयो व्याप्रियेरन् नो वा इति न कश्चिद्दोषः ॥२२३॥ न केवलमेतदद्वैतशास्त्रेषु उक्तं यावत् द्वैतशास्त्रेष्वपि इत्याह द्वैतशास्त्रे मतङ्गादौ चाप्यतत्सुनिरूपितम् । अधोव्याप्तुः शिवस्यैव स प्रकाशो व्यवस्थितः ॥२२४॥ पं० ६ ग० बुद्ध्याधुपायसाधनेति पाठः । पं०१७ क० पु. प्रमोर्व्याप्तुरिति पाठः ।

ર श्लोक २२६] प्रथमाहिकम् । येन बुद्धि-मनोभूमा- वपि भाति परं पदम् ॥२२५॥ यदुक्तं तत्र 'इत्थं गुणवतस्तस्मात्तत्वात्तत्त्वमनिन्दितम् । स्फुरद्रश्मिसहस्राढ्यमधस्ताद्व्यापकं महत् ।' इति । एतदेव निगमयति 'अधोव्याप्तुः' इत्या- दिना । स इति बुद्ध्यादिरूपः, येन इति बुद्ध्या- दीनां शिवप्रकाशैकरूपत्वेन हेतुना ॥२२४॥२२५॥ एवमेतत्प्रसंगादभिधाय प्रकृतमेवाह द्वावप्यतो समावेशी निर्विकल्पार्णवं प्रति। प्रयात एव तददि विना नैव हि किंचन ॥२२॥ प्रतिः प्राभिमुख्ये, तेन एतदुभयमपि परप्रका- शात्मनि शाम्भवावेशे एव विश्रान्तम् इत्यर्थः । यद्धि तत्र न विश्रान्तं तदप्रकाशमानत्वात् न किंचित् स्यात् इत्युक्तं तद्रूढिं विना नैव हि किंचन' पं०६ क० पु० प्रभोाप्तुरिति पाठः । पं० १९क० पु० विश्रान्तिरिति इति पाठः ।

२४६ श्रीतन्त्रालोकः। इति । एवं च निर्विकल्पात्मा परः प्रकाश एव सर्वेषामेषामुपायः इत्युक्तं स्यात् ॥२२६॥ न चैतदस्मदुपज्ञमेव इत्याह संवित्तिफलभिच्चात्र न प्रकल्प्येत्यतोऽब्रवीत् । कल्पनायाश्च मुख्यत्व- मत्रैव किल सूचितम् ॥२२७॥ अतः इति एकस्यामेव निर्विकल्पात्मिकायां संवि- तौ अनुप्रवेशात् । तदुक्तं 'संविचिफलभेदोऽत्र न प्रकल्प्यो मनीषिभिः । इति । अत्र च उपायानां नानात्वात् प्राप्तं तावत्फ- लभेदकल्पनम्, अन्यथा हि निषेधस्य प्राप्तिपूर्व- त्वात् स एवात्र न स्यात् इति 'न प्रकल्प्या' इत्युक्त्या एतदाक्षिप्तम् इत्याह -कल्पनाया इति । मुख्यत्वम् इति अभिधेयत्वं । सूचितम् इति-न तु साक्षाद- भिहितम् इति भावः ॥२२७॥ न केवलमिह निर्विकल्पके विश्रान्तिसतत्त्वं, याव- दितो बाद्यानां मतेऽपि इत्याह पं० १० ग. पु० संवित्तिः फलभेदेन न प्रकल्प्या मनीषिभिरिति पाठान्तरं च ।

२४७ श्लोक २२६] प्रथमाह्निकम् । विकल्पापेक्षया योऽपि प्रामाण्यं प्राह तन्मते। तद्विकल्पक्रमोपात्त- निर्विकल्पप्रमाणता ॥२२८॥ तस्य विकल्पापेक्षनिर्विकल्पप्रामाण्यवादिनोवैभा- षिकादेः मतेऽपि, ते च ते विकल्पाः, तेषां यः क्रमः- परम्परा, तया उपात्ता-जनिता, निर्विकल्पस्यैव प्रमाणता-विकल्पोपारोहण निर्विकल्प एव विश्रा- न्तिः इत्यर्थः ॥२२॥ एतदेव उदाहरति रत्नतत्त्वमविद्वान्प्रा. निश्चयोपायचर्चनात् । अनुपायाविकल्पाप्नो रत्नज्ञ इति भण्यते ॥२२॥ यः कश्चन वैकटिकादिः आदौ अविकल्पवृत्या रत्नस्वरूपमजानानोऽपि 'किमेवमस्य तत्त्वं न वा' इत्यादिकल्पनामुखेन विचारमवलम्ब्य, अनुपायस्य स्वारसिकस्य अविकल्पस्य उत्थाने रत्नज्ञः तद्विषय- पं० १९क० पु० रनज्ञस्तद्विषयमन्त्रनिर्वि कल्पज्ञानम् इति ख० पु० तद्विषयो मन्नति पाठ २४८ श्रीतन्त्रालोकः। तत्त्वं निर्विकल्पं जानानः इत्युच्यते इति वाक्या- र्थः । एवमाणवाद्यभिज्ञेऽपि वाच्यम् ॥२२६॥ इह खलु भेदभेदाभेदाभेदात्मना त्रिधा ज्ञानं, यदुक्तं 'वस्तुता हि त्रिधैवेयं ज्ञानसत्ता विजृम्भते । भेदेन भेदाभेदेन तथैवाभेदभागिना ॥' इति । तत्र प्राणवं भेदप्रधानमुक्तं, शाक्तं च भेदाभेदप्रधान, शाम्भवं पुनः किं प्रधानम् ? इत्या- शङ्क्याह अभेदोपायमत्रोक्तं शाम्भवं शाक्तमुच्यते। भेदाभेदात्मकोपायं भेदोपायं तदाणवम् ॥२३०॥ ननु 'मुक्तिश्च शिवदीक्षया । इत्याद्युक्तेः दीक्षादेः क्रियाया अपि मुक्त्युपायत्व- : पं०३० पु० खलु भेदाभेदौ तदात्मना त्रिधा इति पाठः । पं०६ क. पु० अभेदभागिनीति पाठ । पं०८० पु० किं प्रमाणमिति पाठः ।

२४६ श्लोक २३१] प्रथमाह्निकम् । मुक्तम् इति सा किमुपायान्तरमतिरिक्तम् , उत अत्रैव कुत्रचिदन्तर्भावमेति ? इत्याशङ्क्याह अन्ते ज्ञानेऽत्र सोपाये समस्तः कर्मविस्तरः। प्रस्फुटेनैव रूपेण भावी सोऽन्तर्भविष्यति ॥२३॥ सोपाये इति उच्चाराद्युपायसहभूते इत्यर्थः । अत एव तत्र 'सोपाये' इति प्रागुक्तम् । समस्तः कर्मविस्तरः इति-दीक्षादिविचित्रः क्रियाकलापः, भावी वक्ष्यमाणः । अन्तर्भविष्यति इत्यनेन-नैतद- तिरिक्तम् उपायान्तरमस्ति इत्यावेदितम् ॥२३१॥ ननु सजातीये सजातीयस्य अन्तर्भावो न्याय्यो न तु इतरथा, इति कथं दीक्षादेः क्रियाया प्राणव- ज्ञानान्तर्भावः स्यात् ? इत्याशङ्क्याह क्रिया हि नाम विज्ञाना- नान्यद्वस्तु क्रमात्मताम् । पं० १० पु. अतिरिक्तं वा स्यात् सात्रैव कुत्रचिदिति, ख. पु० सा तत्रै- वेति पाठः।

२५० श्रीतन्त्रालोकः। उपायवशतः प्राप्तं तक्रियति पुरोदितम् ॥२३२॥ तत् इति विज्ञानं, पुरा इति 'यतो नान्या क्रिया नाम' इत्यादौ ॥२३२॥ ननु 'ज्ञानं मोजैककारणम्' इत्यादिना 'ज्ञाना- न्मुक्तिः' इति तावत्प्रतिज्ञातं, तत्कि स्वाधिकरणं मोचकम् , उत पराधिकरणम्, स्वाधिकरणत्वे च तस्य किं दीक्षायां सत्यामसत्यां वा मोचकत्वम् , असत्यां चेत 'न चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे।' इत्याद्युक्त्या ज्ञानाधिगमे एव अधिकारो नास्ति इति किं कस्य मोचकं स्यात् , सत्यां चेत् परापेक्षा- मनैव स्वात्मान दीक्षाकरणानुपपत्तेः, पराधिकरणत्वे च कारणमन्यत्र कार्यं च अन्यत्र इति महान् दोषः? इत्याशङ्क्याह सम्यग्ज्ञानं च मुत्त्येक- कारणं स्वपरस्थितम् । यतो हि कल्पनामात्रं स्वपरादिविभूतयः ॥२३३॥ पं० १७ ग. घ. पु० स्वपरिस्थितिमिति पाठः।

श्लोक २३४] २५१ प्रथमाह्निकम् । कल्पनामात्रम् इति, वस्तुतो हि एकैव संवित् तत्त- स्वपराद्याभासतया प्रस्फुरति इत्यभिप्रायः॥२३३॥ श्रत एवाह तुल्ये काल्पनिकत्वे च यदैक्यस्फुरणात्मकः। गुरुः स तावदेकात्मा सिद्धो मुक्तश्च भण्यते ॥२३॥ गुर्वगुर्वाद्यपेक्षया स्वपरकल्पनायाः साम्येऽपि येन शिष्येण गुरुणा वा यदैक्यम् एकीकारः तेन स्फुरणं खपराद्याभासविभागाभावेन एकघनसंविद्रूपतया वि- मर्शनं तदात्मा यो गुरुः स तावान् ऐक्यस्फुरणा- वधिः एक आत्मा यस्य तथाभूतः सन् सिद्धो मुक्तश्च पारमैश्वर्यमात्रमुच्यते इत्यर्थः । इदमुक्तं भवति यावदस्य हि स्वसंविदेकात्मत्वेन परामर्शः तावदयम् एक एव प्राप्तपरप्रकाशैकात्म्यः परिस्फुरति इति । तदुक्तं पं० २० पु. स्वपराभासात्मतया प्रस्फुरतीति भावः इति पाठः । पं० १० क० पु. स्वपराद्यवभासेति पाठः । पं० १३ पारमैश्वर्यपात्रमिति पाठः संगतोऽनुमन्यते । पं० १४ क. पु० संविदात्मकत्वेनेति पाठः । - २५२ श्रोतन्त्रालोकः। 'एवं व्याप्तिं तु यो वेत्ति परापरविभागतः । स भवेन्मोचकः साक्षाच्छिवः परमकारणम् ॥' इति ॥२३॥ अत एवाह यावानस्य हि संतानो गुरुस्तावत्स कीर्तितः। सम्यग्ज्ञानमयश्चेति स्वात्मना मुच्यते ततः ॥२३॥ तत एव स्वसंतानं ज्ञानी तारयतीत्यदः। युक्त्यागमाभ्यां संसिद्ध तावानेको यतो मुनिः ॥२३६॥ संतानः शिष्यप्रशिष्यादिरूप इति, इति तावदा- स्मत्वेन एकस्यैवास्य स्फुरणात् । तत इति तावतः संतानात् । तावन्तं हि संतानमवलम्ब्य संविदैका- म्यात् एक एवायं गुरुः इति यत् संतानिनो मुच्यन्ते, तत् स एव स्वात्मना मुच्यते इति स्वपरविभागस्य काल्पनिकत्वात् न कश्चिदोषः। अत एवाह 'तत एव' इत्यादि, तारयति इति । तदुक्तं पं०६० पु० तावदेको गुरुमंत इति पाठान्तरं च ।

श्लोक २३८] २५३ प्रथमाह्निकम् । 'आचार्यः स्वजनानां च कुलकोटिसहस्रशः । ज्ञानज्ञेयपरिज्ञानात्सर्वान्संतारयिष्यति ॥' इति । अत्र हेतुः 'तावानेको यतो मुनिः' मुनिः इति गुरुः ॥२३५॥२३६॥ एवं च सति श्रयत्नेन परोक्तदूषणोद्धारः सिद्धः इत्याह तेनात्र ये चोदयन्ति ननु ज्ञानाद्विमुक्तता। दीक्षादिका क्रिया चेयं सा कथं मुक्तये भवेत् ॥२३७॥ ज्ञानात्मा सेति चेज्ज्ञानं यत्रस्थं तं विमोचयेत् । अन्यस्य मोचने वापि भवेत्किं नासमञ्जसम् । इति ते मूलतः क्षिप्ता यत्त्वत्रान्यैः समर्थितम् ॥२३८॥ पं० ११ क० पु० ज्ञानात्मा चेति चेज्ज्ञानमिति, ख० पु० ज्ञानात्सा चेदिति ज्ञानमिति पाठः। पं०१४ क० पु० नाम सान्जसम् इति पाठः ।

श्रीतन्त्रालोकः । ये इति भेदवादप्रकाराः, ते इति एवं चोद्यविधा- यिनः, क्षिप्ताः प्रतिक्षिताः। यन्मूलत एव ज्ञानक्रिय- योरैक्यमभ्युपगतं स्वपरविभागस्य च काल्पनिकत्वम् इति तदेव च अत्र प्रतिसमाधानं नान्यत् इत्याह 'यत्तु' इत्यादि । यदन्यै देश्वरवादिभिर्निरूपितं तत् पुरस्तात् निषेत्स्यामः इति संबन्धः ॥२३७॥२३८॥ ननु यदि भेदवायुक्तं मलस्य द्रव्यरूपत्वं नाभ्यु- पेयते, तत्तस्य किं रूपम् ? इत्याशङ्क्याह मलो नाम किल द्रव्य चतुःस्थपटलादिवत् । तद्विहन्त्री क्रिया दीक्षा त्वचनादिककर्मवत् ॥२३॥ तत्पुरस्तान्निषेत्स्यामो युक्त्यागमविगर्हितम् । मलमायाकर्मणां च दर्शयिष्यामहे स्थितिम् ॥२४॥ पं०३० पु० ऐक्यमुपगतमिति पाठः । पं०११क० पु० विहीति, ग० पु० त्वाञ्जनादीति च पाठः।

श्लोक २४१] प्रथमाह्निकम् । एतदेव अधिकावापेन उपसंहरति एवं शक्तित्रयोपायं यज्ज्ञानं तत्र पश्चिमम् । मूलं तदुत्तरं मध्य- मुत्तरोत्तरमादिमम् ॥२४॥ पश्चिममिति प्राणवम् , मूलमिति, तस्यैव शाक्त- क्रमेण शांभवे विश्रान्तिः तदाह तदुत्तरम् इति, तस्मा- दाणवात्, उत्तरं विश्रान्तिस्थानत्वादधिकं शाक्तम् उत्तरात् शाक्तादपि उत्तरं शांभवम् । यदुक्तं 'विभुशक्त्यणुसंबन्धात्समावेशस्त्रिधा मतः । इच्छा-ज्ञान-क्रियायोगादुत्तरोत्तरसंभृतः ॥ इति ॥२४१॥ न केवलमाणवादेः विश्रान्तिधामतया शांभवमेव ज्ञानमुत्कृष्टं, यावदस्मादनुपायाख्यम् अन्यत् इत्याह ततोऽपि परम ज्ञान- मुपायादिविवर्जितम् । पं० ४ ० पु० पूर्व यदुत्तरमिति पाठः । पं० ६ ग० पु. प्राणवमूलमिति, क. पु. श्राणवमलमिति तस्येति पाठः। पं०७ विश्रान्तिरित्यारभ्य उत्तरं विश्रान्तिस्थानेत्यन्तः पाठः ग० पुस्तकात् पूरितोऽस्ति ।

२५६ श्रीतन्त्रालोकः। , , नापि स्यात्, आनन्दशक्तिविश्रान्त- मनुत्तरमिहोच्यते ॥२४॥ परमम् इति उपेयैकरूपत्वात् , अत एवोक्तम् 'उपायादिविवर्जितम्' इति । अत एव च 'श्रानन्द- शक्तिविश्रान्तम्' इत्युक्तम् । इच्छादीनां हि एषणी- यादिविषयावच्छेदेन बाह्योन्मुखत्वात् भेदसंभाव- आनन्दशक्तिः :पुनः 'प्रानन्दो ब्रह्मणो रूपम् इत्याद्युक्त्या हि चितस्तत्स्वरूपमेव इति, नात्र उपायगन्धोऽस्ति इति तात्पर्यम् ॥२४२॥ एतच्च न स्वोपज्ञम् अपि तु सर्वत्रैव आगमेषु उक्तम् इत्याह तत्स्वप्रकाशं विज्ञान विद्याविद्येश्वरादिभिः। अपि दुर्लभसद्भावं श्रीसिद्धातन्त्र उच्यते ॥२४३॥ मालिन्यां सूचितं चैत- स्पटलेऽष्टादशे स्फुटम् ।

श्लोक २४४] २५७ प्रथमाह्निकम् । न चैतदप्रसन्नेन शंकरेणेति वाक्यतः॥२४४॥ इत्यनेनैव पाठेन मालिनीविजयोत्तरे। तत्र हि 'अनायासमनारम्भमनुपायं महाफलम् । श्रोतुमिच्छामि योगेश योग योगविदांवर ॥' इति देव्या पृष्टे 'शृणु देवि प्रवक्ष्यामि योगामृतमनुत्तमम् । यत्प्राप्य शिवतां मां लभन्त्यायासवर्जिताः ।। न चैतदप्रसन्नेन शंकरणोपदिश्यते । कथंचिदुपलब्धेऽपि वासना न प्रजायते ॥ इत्याद्युपक्रम्य 'तस्मात्तदभ्यसेन्नित्यमविरक्तेन चेतसा । स विसर्गो महादेवि यत्र विश्रान्तिमर्हति ॥ गुरुवक्त्रं तदेवोक्तं शक्तिचक्रं तदुच्यते । तदेव सर्वमन्त्राणामुत्पत्तिस्थानमुत्तमम् ॥' इत्याद्युक्तम् ॥२४३॥२४४॥ पं०१न चैतदप्रसन्नेन इति पद्यं ग० पुस्तकात् पूरितमस्ति । पं० ११ क० पु० उपलभ्यत इति पाठः । पं० १४ क० पु० अभ्यसन्नित्यं सुविरक्तेनेति पाठः ।

२५८ श्रीतन्त्रालोकः। श्रयमेव च शास्त्रार्थः इत्याह इति ज्ञानचतुष्कं य- सिद्धिमुक्तिमहोदयम् । तन्मया तव्यते तन्त्रा- लोकनाम्न्यत्र शासने ॥२४॥ इतीति तन्त्रालोके-तन्त्राणां पारमेश्वराणाम् श्रालोक इव श्रालोकः, तानि आलोकयति प्रकाश- यति इति वा । इति-उक्तस्वरूपं यत् ज्ञानचतुष्कं, किं भूतं ? सिद्धिमुक्त्योर्महान् उदयः अस्मिन् इति कृत्वा महोदयं, तत् अत्र तन्त्रालोके शासने तन्त्र्यते-विस्तरेण प्रकाश्यते इत्यर्थः ॥२४५॥ अथ 'तत्र नानुपलब्धेऽथै न निर्णीते प्रवर्तते । किं तु संशयिते न्यायस्तदङ्गं तेन संशयः ॥' इत्याद्युक्त्या प्रायः संशयिते एव अर्थे निर्णया- त्मनः शास्त्रस्य प्रणयनमुक्तम् इति संशयस्य तद- ङ्गत्वात् प्रथमं तत्स्वरूपमेव निरूपयितुम् उपक्रमते पं० १४ क. पु० न्यायो न्यायाङ्गं तेनेति पाठः ।

श्लोक २४७] प्रथमाह्निकम् । तत्रेह यद्यदन्तर्वा बहिर्वा परिमृश्यते। अनुद्घाटितरूपं त- त्पूर्वमेव प्रकाशते ॥२४६॥ अन्तः- मानसविज्ञानादौ, अनुद्घाटितरूप- मिति – अनुल्लिखितविशेष, सामान्यधर्मात्मकम् इत्यर्थः ॥२४६ ॥ अयमेव च प्रायः 'संशयः' इत्युच्यते इत्याह तथानुद्घाटिताकारा निर्वाच्येनात्मना प्रथा । संशयः कुत्रचिद्रूपे निश्चिते सति नान्यथा ॥२४७॥ तथा-प्राथमिकत्वेन अनुद्घाटितः करचरणादि- विशेषधर्मानवगमात् अनुन्मुद्रितो योऽसौ ऊर्ध्वता- दिः सामान्यधर्मा आकारः तेन अनिर्वाच्येन श्रन्य- तरधर्मिविशेषनिश्चयाभावात् उभयांशावलम्बित्वेन पं० १५ क० पु० अन्यतरधर्म विशेषेति पाठः ।

२६० श्रीवन्त्रालोकः। नियतरूपतया वक्तुमशक्येन आत्मना स्वरूपेण विशिष्टा या प्रथा-प्रतीतिः सा संशयः, स हि ऊर्ध्वतादेः सामान्यात्मनो धर्मस्य अधिगमे वक्र- कोटरत्वादीनां विशेषधर्माणां च अनधिगमे सति उदियात् । तदाह 'कुत्रचित् इत्यादि-कस्मिंश्चित् सामान्यधर्मावच्छेदिनि धर्मिणि इत्यर्थः । नान्यथा इति-सर्वात्मना निश्चिते धर्मिणि अनिश्चिते वा इति यावत् ॥२४७॥ एतदेव विभज्य दर्शयति एतत्किमिति मुख्येऽस्मि- न्नेतदंशः सुनिश्चितः। संशयोऽस्तित्वनास्त्यादि- धर्मानुद्घाटितात्मकः ॥२४८॥ एतकिमिति-परामर्शात्मा संशयः, 'स्थाणुर्वा पुरुषो वा' इत्यादिपरामर्शान्तरापेक्षया सर्वेषामेव विशेषधर्माणाम् अनुद्घाटितत्वात् मुख्यः, तत्र च किम् इत्यंशापेक्षया य एतदंशः स धर्मिमात्रग्रहणात् सुष्टु निश्चितः । ननु । पं०३० पु० धर्मव्याप्त्यधिरामे वकोटरवेति च पाठः ।

श्लोक २४.६] प्रथमाहिकम् । 'नियतोभयांशावलम्बी विमर्शः संशयः। इति संशयस्य लक्षणं, तत्र चेत् एकः कश्चिदंशो निश्चितः तत्कृतं तेन, इत्याह 'संशयः' इत्यादि । अ- स्तित्वं च नास्तित्वं च तत् अस्तित्वनास्तित्वमादियेषां विशेषधर्माणां तैः अनुद्घाटितः अनुन्मुद्रित श्रात्मा स्वरूपं यस्य स तथा, यत्र हि सत्त्वासत्त्वाख्ययोरपि धर्मयोरनिश्चितत्वात् उद्घाटनं न वृत्तं तत्र का वार्ता अन्येषां धर्माणाम् ? इति सर्वेषामेव धर्माणाम् अनुल्लिखिताकारत्वात् नियतधर्मानवलम्बनात् अयं मुख्यः संशयः, किमित्यंशो हि अनुल्लिखितार्थाकारा- भिधायक एव इति भावः ॥२४८॥ तदाह किमित्येतस्य शब्दस्य नाधिकोऽर्थः प्रकाशते। अधिकः इति एतच्छब्दार्थात् ॥ तर्हि किमर्थमुपाधीयते ? इत्याशङ्क्याह पं० २० पु० चेत् य एतदंश इति पाठः। पं० ४ क० पु० तदस्तित्वनास्त्यादि इति पाठः । पं० ७ ०० पु० निश्चितत्वाद् दुर्घटनं न वृत्तमिति पाठः । इति पाठः। पं० १० क० पु० निखिताकारत्वाभिधायके २६२ श्रीतन्त्रालोकः। किं त्वनुन्मुद्रिताकारं वस्त्वेवाभिदधात्ययम् ॥२४॥ अयम् इति किं-शब्दः ॥२४॥ संशयस्य च मुख्यत्वं क्वचिदमुख्यत्वे सात युज्यत इत्यस्यामुख्यत्वमपि दर्शयितुमाह स्थाणुर्वा पुरुषो वति न मुख्योऽस्त्येष संशयः। भूयःस्थधर्मजातेषु निश्चयोत्पाद एव हि ॥२५०॥ न मुख्यः इति-पूर्ववत् सर्वेषामेव धर्माणाम् अनुद्घाटितरूपत्वाभावात् , यतः स्थाणवादिनियत- परामर्शान्यथानुपपत्त्या भूयसामस्थाण्वादिवर्तिनां धर्माणाम् एष निश्चयात्मा प्रत्ययः ॥२५०॥ ननु यद्येवं तर्हि अत्र वा अर्थसंभेदसंभवात् नियतस्य च अनिश्चयात् उदितानुदितहोमन्यायेन विकल्प एव भवेत् ? इत्याशङ्क्याह पं०७० पु० मुख्यत्वेव संशय इति पाठः । पं०८ क० पु० भूयासुधर्मति पाठः । पं० १३ क० पु० धर्माणामेव निश्चयेति पाठः । , तदाह 'विकल्पस्त्वन्यथा श्लोक २५१] प्रथमाह्निकम् । अामर्शनीयद्वैरूप्या- नुद्घाटनवशात्पुनः। संशयः स किमित्यंश विकल्पस्त्वन्यथा स्फुटः ॥२५॥ अामर्शनीय स्थाणुपुरुषलक्षणं यत् द्वैरूप्यं, तस्य अनुद्घाटनं-वत्रकोटरत्वादि विशेषरूपतयानावि- करणं ततोऽयं प्रत्ययः किमित्यंशसंभेदात् संशय एव । 'स्थाणुर्वा पुरुषो वा' इत्यत्र हि किं स्थाणुः किं पुरुषः इत्येव तात्त्विकः संशयार्थः, यदि परमेतत् किमिति केवले किमंशे सर्वेषामेव विशेषधर्माणाम् अनुद्घाटितरूपत्वात् मुख्यत्वम् , अत्र च निय- तविशेषधर्मानवगमात् अमुख्यत्वम् -इति विशेषः । विकल्पे पुनाहियवयोरुभयोरपि निश्चितत्वे सति स्फुटः' इति । अन्यथा इति-आमर्शनीययोईयोरपि व्रीहियवयोर्विशेषधर्मात्मना निश्चयात्, एवं-विधश्चायं पं०३ क० पु० किमप्यंशे इति पाठः । पं० १३ ख० पु. उभयोरिन्दोरिति पाठः। पं०१४ क० पु० नाद्यतद्रूपत्वमिति पाठः ।

, श्रीतन्त्रालोकः। संशयः शास्त्रप्रवृत्तौ निमित्ततां भजते इत्युक्तप्रायम्। शास्त्रं हि निर्णयात्म, निर्णयश्च प्रायः संदिग्ध एवार्थे प्रवर्तते, नहि उपलब्ध एव संशयविषयता प्रतिपद्यते नानुपलब्धः, संशयस्य च प्रमातृधर्मत्वात् यद्यपि केनचित्संशयानेन संदिग्धोऽर्थः प्रतिपद्यते तदा तस्योपलम्भः स्यात्, तत्प्रतिपादनमेव च प्रश्नः इति सोऽपि स्वकारणवत् शास्त्रप्रवृत्तौ निमित्ततां यायात्, तन्निर्णयाय च प्रारभ्यमाणस्य शास्त्रस्य त्रिविधा प्रवृत्तिः-उद्देशो, लक्षणं, परीक्षा च इति, नामधेयेन पदार्थाभिधानमात्रं चोद्देशः, तस्य च प्रथममवश्यमुपादानं कार्यम् - अनुद्दिष्टस्य लक्षण- परीक्षानुपपत्तेः, अतश्च उद्देशं विना लक्षणपरीक्षात्म- शास्त्रस्य प्रणयनमेव न घटते-इत्यस्यापि तत्र श्राङ्गत्वम् ॥ २५१ ॥ ननु एकेनैव शास्त्रप्रणयनसिद्धेः किमर्थं त्रितयम् ? इति चेत्, न चैतत्- परस्परानुषक्ततयैव अत्र एषां पं० ४ क. पु० धर्मवाद्यपि इति पाठः । पं० ११० पु० अनुद्दिश्य लक्षणेति पाठः । प० १५ ख० पु० प्राणनायनासिद्धरिति पाठः । PORAN २६५ श्लोकः २५२] प्रथमाह्निकम् । निमित्तत्वाभिधानात्। संशयित एव हि अर्थः केन- चिदभिधीयमानः शास्त्रेण उद्देशादिद्वारेण निर्णीयते इति, अत एव च स्वरूपभेदेऽपि एवं शास्त्रप्रवृत्ती अनुद्घाटितात्मप्रथात्मकेन समानेन रूपेण कारण- त्वमस्ति इति प्रतिपादयितुमाह तेनानुद्घाटितात्मत्व- भावप्रथनमेव यत् प्रथमं स इहोद्देशः प्रश्नः संशय एव च ॥२५२॥ तेन-पूर्वोक्तेन न्यायेन अनुद्घाटितात्मत्वेन भा- वस्य वस्तुमात्रस्य प्रथमं यत्प्रथनं स एव इहोद्देशः- प्रश्नः संशयश्च इति, तत्र संशयस्य तावदेवंरूपत्वं समनन्तरमेव उक्तम् , उद्देशे च अनुद्घाटितत्वेनैव वस्तुनःप्रथनं रूपं-नामधेयमात्रेणैव पदार्थानामभि- धानात् । प्रश्नेऽपि एवं वाच्यम् , अन्यथा हि निर्णया- त्मत्वे प्रतिवचनादस्य विशेषो न स्यात् ॥२५२॥ पं० ७ ख० पु. भावाप्रथनमिति पाठः । पं०१९क० पु०प्रथम रूपमिति पाठः। पं० १९क० पु० प्रश्नस्यैवं वाच्यमिति पाठः ।

श्रीतन्त्रालोकः। , तत्र संशयितेऽर्थे प्रश्नः प्रवर्तते, इति तन्निर्णयान- न्तरं निर्णतव्यः प्रश्नः, इति प्राप्तावसरं तत्सतत्त्वमेव वक्तुमाह तथानुद्घाटिताकार- भावप्रसरवर्त्मना। प्रसरन्ती स्वसंवित्तिः प्रष्ट्री शिष्यात्मतां गता ॥२५३॥ इह श्रद्वयनये 'परमार्थसती संविदेव सर्वम् ' इति प्रष्ट्रप्रतिवक्तृरूपगुरुशिष्याद्यात्मनो भेदस्य तावदनु- पपत्तिः इति । तथा पूर्वोक्तेन प्रकारेण अनुद्घाटि- ताकारः-सर्वभावनिर्भरत्वात् संविदेकरूपो, योऽसौ भावः-पारमार्थिकं पूर्णस्वभावं वस्तु, तस्य यः प्रसरः-पश्यन्त्यादिदशाक्रमणेन अवरोहः, तदेव वर्त्म, तेन प्रसरन्ती-वैखर्यादिरूपतामासादयन्ती, स्वसंविदेव, संकुचिता, प्रमात्रात्मशिष्यभूमिकाम् अवभासयन्ती 'प्रष्ट्री' इत्युच्यते इत्यर्थः ॥२५३॥ कुत्र कथं चास्याः प्रष्टुत्वम् ? इत्याह पं० १३ क० पु० क्रमेण नावरोह इति पाठः।

श्लोकः २५५] प्रथमाह्निकम् । तथान्तरपरामर्श- निश्चयात्मतिरोहितेः। प्रसरानन्तरोद्भूत- संहारोदयभागपि ॥२५॥ यावत्येव भवेबाह्य- प्रसरे प्रस्फुटात्मनि । अनुन्मीलितरूपा सा प्रष्ट्री तावति भण्यते ॥२५॥ तथा-परमाद्वयमयत्वेन,पान्तर:-प्रमात्रैकात्म्य- रूपो, योऽसौ परामर्शः, तस्य निश्चयो- दाढ्य, तदात्मनस्तिरोहितेः - उत्तरोत्तरस्य रूपस्य पूर्वपूर्व- त्रानवस्थितेः, प्रसरात्-बाह्योन्मुख्यात्, अनन्तर- मुद्भूतौ यौ संहारश्च-पराद्यात्मनोरूपस्य स्वात्मन्येव विश्रान्तिः, उदयश्च – पश्यन्त्याद्यात्मना रूपेण बहिरुद्भवः तौ भजते, तद्रूपा हि सा संवित् यावति प्रस्फुटात्मनि - ग्राह्यग्राहकयुगलकाद्याभासखभावे पं०६ क. पु० अस्फुटात्मता इति पाठः । पं० १३ ख० पु० संहार उदयश्च पराद्यात्मना रूपेण बहिरुद्भवस्तावितीयान् पाठः।

श्रीतन्त्रालोकः। बाह्यप्रसरे, अनुन्मीलितरूपा-संविद्रूपत्वेन अनव- भासमाना भवेत्, तावत्येव अनुद्घाटितात्मत्वेन प्रथनात् 'प्रष्ट्री' इत्युच्यते इत्यर्थः ॥२५४॥२५५॥ न केवलं संविदः प्रष्टृत्वमेव अस्ति,यावत् प्रश्ना- दिरूपत्वमपि इत्याह स्वयमेवं विबोधश्च तथा प्रश्नोत्तरात्मकः। गुरुशिष्यपदेऽप्येष देहभेदो ह्यतात्त्विकः ॥२५६॥ तदुक्तं 'गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः । पूर्वोत्तरपदैर्वाक्यैस्तन्त्रं समवतारयत् ॥' इति । तथा 'प्रष्ट्री च प्रतिवक्त्री च स्वयं देवी व्यवस्थिता।' इति । ननु गुरुशिष्ययोः परस्परं भेदः साक्षा- दुपलभ्यते इति किं नाम अनयोर्बोधरूपत्वम् ? पं० १ ख० पु० रूपेणावभासमानेति पाठः । पं० १२ क० पु. वाक्यैस्तन्त्रमाधारभेदत इति पाठः। पं०१४ क. पु० द्वयं देवीति पाठः । पं०१६ क० पु. अनयोरभेदरूपत्वमिति पाठः ।

२६८ श्लोकः २५८] प्रथमाविकम् । इत्याह-एष इत्यादि । अतात्त्विकः इति अवास्तवः। बोध एव हि स्वस्वातन्त्र्यमाहात्म्यात् स्वात्मनि तत्तदेहादिभावम् आभासयति इति भावः ॥२५६॥ तदाह बोधो हि बोधरूपत्वा- दन्त नाकृतीः स्थिताः। बहिराभासयत्येव द्राक्सामान्यविशेषतः ॥२५॥ बोधात्मा परमेश्वरो हि बोधनक्रियाकर्तृत्वलक्ष- णात् बोधरूपत्वात् अन्तःस्थिता नानाकृतीः- तत्तद्भावजातं, द्राक्-अनन्यापेक्षितया निर्विलम्बन- मेव, सामान्यविशेषरूपत्वेन, बहिः-विच्छेदेन, अव- भासयत्येव इति वाक्यार्थः ॥२५७॥ तत्र सामान्यस्य किं नाम बहिरवभासनम् ? इत्याह स्रक्ष्यमाणविशेषांशा- कांक्षायोग्यस्य कस्यचित् । पं० ११० पु० निरवलम्बमेवेति पाठः । पं०१४ क. पु० बहिरवभानमिति पाठः।

२७० श्रीतन्त्रालोकः। धर्मस्य सृष्टिः सामान्य- सृष्टिः सा संशयात्मिका ॥२५॥ स्रक्ष्यमाणाः-स्वालक्षण्येन उल्लासयिष्यमाणा, ये विशेषांशाः, तत्र 'निर्विशेष हि सामान्यं भवेच्छशविषाणवत् ।' इत्यायुक्तयुक्त्या तदविनाभावित्वेन आकांक्षा- श्रोन्मुख्यं, तत्र योग्यस्य-तदौन्मुख्याभावेऽपि सर्व- गतत्वात् तत्स्वरूपानपायात् अनुगुणस्य, कस्यचित् नियतस्य गोत्वादेः धर्मस्य, बहिरवभासनात्मा सृष्टिः सामान्या सृष्टिः, सा एव च अनुद्घाटितात्म- प्रथारूपत्वात् 'संशयः' इति-विशेषाकांक्षानुगुण- सामान्यप्रतीतिरेव संशयप्रतीतिः इत्यर्थः ॥२५८॥ एवं विशेषसृष्टिरपि निश्चयप्रतीतिरूपा इत्याह स्रक्ष्यमाणो विशेषांशो यदा तूपरमेत्तदा। निर्णयो मातृरुचितो नान्यथा कल्पकोटिभिः ॥२५॥ पं० १६० पु० निर्णये मातृरुचिते इति पाठः ।

२७१ श्लोकः २६०] प्रथमाह्निकम् । यदा पुनर्निश्चयोपयोगिना सर्वविशेषाणां सृष्ट- त्वात् स्रक्ष्यमाणो विशेषांश उपरमेत्-विशेषविषया सृष्टिः समाप्येत, तदा स एव उद्घाटितात्मप्रथा- रूपत्वात् 'स्थाणुरेवायम् ' इति प्रत्ययात्मा निश्चयः स्यात् । एतदुत्पादे च प्रमातुरिच्छैव निबन्धनम् इत्युक्तं 'मातृरुचितः' इति । प्रमाता हि यावदेव 'ज्ञातं मया' इति परितुष्येत् , तावदेव निश्चितं भवति इति भावः, अन्यथा पुनः स कदाचिदपि न भवेत् -प्रमात्रिच्छायामेवाविश्रान्तेः । तदाह 'नान्यथा कल्पकोटिभिः इति ॥ २५६ ॥ न केवलमस्य निश्चयमात्ररूपत्वमेवास्ति, यावल्ल- क्षणादिरूपत्वमपि इत्याह तस्याथ वस्तुनः स्वात्म- वीर्याक्रमणपाटवात् । उन्मुद्रणं तयाकृत्या लक्षणोत्तरनिर्णयाः॥२६०॥ पं०५० पु० प्रमात्रिच्छयैव निबन्ध इति पाठः । पं० १ क० ग० पु० मानिच्छायामेव विश्रान्तेरिति पाठः । पं० १९ख० पु० निश्चयमानत्वमिति पाठः। पं०१६ क. पु० निर्णयमिति पाठः ।

Here श्रीतन्त्रालोकः । तस्य-विशेषात्मनो वस्तुनो, यत् स्वात्मनो वीर्य- तदितरपरावृत्तत्वं, तस्य आक्रमणं-स्वात्मना विष- यीकरणं, तत्र पाटवं-नैराकांक्ष्यातीवत्वं, ततो यत् तेनैव आकारण उन्मुद्रण-प्रतिनियतस्वस्वरूपावि- करणं, तत् उद्घाटितात्मप्रथामयत्वस्य अविशेषात 'लक्षणम्' इति उत्तरम्' इति निर्णय' इति चोच्यते । तत्र - असाधारणस्तत्त्वावबोधको धर्मो लक्षणं, तत्त्वावबोधोपकरणं दूषणोद्धरणमुत्तरं, तत्त्वावबोधो निर्णयः ॥२६॥ ननु तत्त्वावबोधसारत्वस्य अविशेषात् , परीक्षापि लक्षणेनैव निर्णयवत् कथं न संग्रहीता? इत्याशङ्कयाह निर्णीततावद्धांश- पृष्ठपातितया पुनः। भूयो भूयः समुद्देश- लक्षणात्मपरीक्षणम् ॥२६॥ पं० १ ० पु० स्वात्मवीर्यमिति समस्तपाठः । पं० ५ क० पु० तदुद्घाटितात्प्रथममयत्वेति पाठः । पं० ११ क. प. नियतवत्कथमिति पाठः । पं० १२ ख० पु० निर्णीतं तावदिति पाठः ।

7 ૨૭૨ श्लोक २६३] प्रथमाह्निकम् । निर्णीतो-निर्णयविषयीकृतः, तावान् -नियत- लक्षणलक्ष्यो, योऽसौ धर्माशः-तद्विषयतया पौन:- पुन्येन यः समुद्देशः, यच्च लक्षणं-साधारणासाधा- रणधर्मनिरूपणं, तदात्मकं, पुनः परितः-सर्वतो निःशेषप्रतिपक्षप्रतिक्षेपेण ईक्षणं-परीक्षा इति वाक्यार्थः ॥२६॥ एतच्च उद्देशादित्रयं सर्वत्रैवास्ति इत्याह दृष्टानुमानौपम्याप्त- वचनादिषु सर्वतः। उद्देशलक्षणावेक्षा- त्रितयं प्राणिनां स्फुरेत् ॥२६२॥ एतदेव क्रमेण दर्शयति निर्विकल्पितमुद्देशो विकल्पो लक्षणं पुनः। परीक्षणं तथाध्यक्ष विकल्पानां परम्परा ॥२६३॥ पं० २ ० पु० लक्षणलक्ष्यो योशो धर्मेति पाठ: । पं० ५ क. पु० प्रतिक्षेपेण लक्षणमिति पाठः । पं०६ क० सर्वश इति पाठः। पं० १४ क० पु० विकल्पे प्रीणितं स्फुरेदिति पाठः । ३५ २७४ श्रीतन्त्रालोकः। नगोऽयमिति चोदेशो धूमित्वादग्निमानिति। लक्ष्यं व्याप्त्यादिविज्ञान- जालं त्वत्र परीक्षणाम् ॥२६॥ उद्देशोऽयमिति प्राच्यो गोतुल्यो गवयाभिधः। इति वा लक्षणं शेषः परीक्षोपमितौ भवेत् ॥२६॥ स्वःकाम ईदृगुद्देशो यजेतेत्यस्य लक्षणम् । अग्निष्टोमादिनेत्येषा परीक्षा शेषवर्तिनी ॥२६॥ उद्देशः इति-आलोचनमात्रस्य अनुद्घाटितात्म- प्रथारूपत्वात् । लक्षणम् इति-नीलमिति विकल्पेन निर्विकल्पस्यैव उद्घाटितात्मप्रथारूपत्वात्। विकल्पा- नाम् इति-अर्थक्रियाज्ञानपूर्वापरभाविनाम्, तत एव पं० ६ क० पु० गोतुल्ये गवयाभिध इति पाठः । पं० १० ख० प० यजेतेस्य स्खलक्षणमिति पाठः ।

श्लोक १६६] प्रथमाह्निकम् । च अर्थतथात्वनिश्चयोत्पादः इत्येषां परीक्षात्वम् । उद्देशः इति-नगोऽयम् इति धर्मिमात्रस्यैव अनुद्घा- टितसाध्यधर्मात्मत्वेन प्रथनात् । लक्ष्यामिति-साध्य- धर्मविशिष्टतया उद्घाटितात्मप्रथारूपत्वात् । व्या- ति:-अन्वयव्यतिरेको, तद्वशादेव हिसाध्यसाधनयो- रविनाभावनिश्चयोत्पादः : इत्यस्याः परीक्षात्मत्वम् । श्रयमिति-पुरोवर्तिनः पिण्डमात्रस्य अनुद्घाटिता- त्मत्वेन प्रथनात् ।प्राच्यः इति-प्रथमोधर्मिविशेषान- वच्छिन्नः इति यावत् । गोतुल्योऽयम् इति-प्रमा- णदशायां, गवयशब्दवाच्योऽयम् इति-फलश्शायां च विशेषावच्छेदस्य भावित्वात् । वा-शब्दः समुच्चये, तेन प्रमाणदशायाः फलदशायाश्च उद्घाटितात्म- प्रथारूपत्वात् लक्षणत्वम् । शेषः इति-सास्नादिम- द्वाहदोहादिकारी इत्यादिः परामर्शः। ईदृक इति- स्वःकामः इत्येव । श्रस्य इति-स्वःकामस्य । लक्ष- । पं० १ ० पु० इत्येषा परीक्षोद्देश इति पाठः । पं०५० ख० साध्यवर्तिसाधनेति पाठः । पं०६ ख० पु० इत्यस्य परीक्षात्वमिति पाठः । पं०११० पु. विशेषावच्छेदभावित्वादिति पाठः । पं० १९ख० पु० सास्नादिमत्वमाह दोहाधिकारीति पाठः।

आतन्त्रालोकः। णम् इति-अधिकारानुबन्धस्य विषयानुबन्धमन्त- रेणानिर्णयात् । शेषवर्तिनी इति 'शेषः परमार्थत्वात् ।' इति वचनात् सा अर्थवादव्यापारात्मा इति कर्तव्य- ता इत्यर्थः। परीक्षात्वं चात्र-उद्दिष्टलक्षितस्वर्ग- कामाधिकारनिस्तुषीकरणत्वात् ॥ २६३॥ २६४ ॥ २६५ ॥ २६६ ॥ ननु स्रक्ष्यमाणविशेषाकांक्षानुगुणसामान्यसृष्टिः 'उद्देशः' इत्युक्तं, न च विशेषस्य आकांक्षणीयत्वमु- चितं-तदानीं तस्य भविष्यत्तया वार्तामात्रस्यापि अभावात् ? इत्याशङ्कां सोपस्कारप्रागुक्तलक्षणानु- वादपुरःसरं प्रतिक्षिपति। विकल्पस्स्रक्ष्यमाणान्य- रुचितांशसहिष्णुनः। वस्तुनो या तथात्वेन सृष्टिः सोद्देशसंज्ञिता ॥ २६७ ॥ पं०२० पु० शेषवर्तिनेति शेष इति पाठः । पं०६ क. पु० निस्तुषीकरणवदिति पाठः । पं०१.क. पु० तदानीन्तनस्येति पाठः । पं०१४० पु० सहिष्णव इति पाठः । HAR २७७ श्लोक २६८] प्रथमाह्निकम् । तदैव संविच्चिनुते यावतः स्रक्ष्यमाणाता। विकल्पेन-तत्प्रधानेन प्रमात्रा सामान्यस्य सृष्ट- त्वात्, तदपेक्षया स्त्रक्ष्यमाणाः-लक्षणात् उल्लास- यिष्यमाणा, अत एव अन्ये-ये सामान्यव्यतिरिक्ताः प्रमातुः संतोषादायकत्वाच्च, रुचिता-इष्टाः, ये अंशा-विशेषाः, तान्-अर्थात् व्याप्यत्वेन सहते तच्छीलं यत् तस्यैवंविधस्य सामान्यात्मनो वस्तुनः, तथात्वेन -सक्ष्यमाणत्वादिविशेषणविशिष्टविशेष- सहिष्णुत्वेन, या सृष्टिः, तस्या उद्देशः- अभिधानं, तत्र यावतः श्राकांक्षणीयस्य विशेषस्य स्रक्ष्यमाणता तावत्, तदैव-उद्देशावसरे, संविच्चिनुते-अनुसंधत्ते इत्यर्थः ॥२६७॥ तत्र हेतुः यतो ह्यकालकलिता संधत्ते सार्वकालिकम् ॥२६॥ हि-शब्दो वाक्यालङ्कारे ॥२६८॥ पं०३० पु० विकल्पे तत्प्रधानेति पाठः।

२७८ श्रीतन्त्रालोकः। ननु उद्घाटितात्मप्रथारूपत्वे सति लक्षणस्य सामान्यविशेषयोईयोरपि प्रथनात् किं लक्ष्यं ? किं वा लक्षणम् ? इत्यत्र विवेकाभावादनियमः स्यात् इत्याशंक्याह स्रक्ष्यमाणस्य या सृष्टिः प्राक्सृष्टांशस्य संहतिः। अनूद्यमाने धर्मे सा संविल्लक्षणमुच्यते ॥२६॥ इह विशेषसामान्यविषयसृष्टिसंहृतिमयी संवित् लक्षणं-व्यवहरणबीजमिति । तत्र सृज्यमानस्य विशेषांशस्य विधेयतया लक्षणत्वं वाच्यं, संहिय- माणस्य च सामान्यांशस्य अनूद्यमानतया लक्ष्य- त्वम् इत्यस्त्येव विवेकः ॥२६॥ ननु 'भूयो भूयः समुद्वेशलक्षणात्म परीक्षणम् ।' *यदि च पूर्वमनुल्लिखितविशेषा सामान्यस्थितिः पश्चाद्विशेषोदयः तदा सामान्य- विशेषयोवैविक्त्येन प्रथनालच्यलक्षणभावो व्यवस्थित एव, यदा तु पूर्वमपि सामा- न्यावस्थायां विशेषावस्थितिस्तदा परस्परमत्र नियमाभाव इति 'एकत्र द्वियोगः संकरा- ख्यदोषदूषितः संभवेदिति भावः।' पं० १०० ग० पु० लक्षणव्यवहरणबीजं सा इति पाठः ।

२७६ श्लोक २७१] प्रथमाह्निकम् । इत्युक्तं, तत्र च विरामनिमित्ताभावात् परीक्षाया अविश्रान्तिरेव स्यात् ? इत्याशङ्कामनुवादगी प्रतिक्षिपति तत्टष्ठपातिभूयोंश- सृष्टिसंहारवित्रमाः। परीक्षा कथ्यते मातृ- रुचिता कल्पितावधिः ॥२७०॥ ननु तत्र तत्र प्रत्यक्षादौ क्रमेण पश्यन्ती-मध्यमा- वैखरीरूपतया स्वात्मचमत्कारमयी विमर्शशक्तिरेव विजृम्भते इत्युक्तं, तत्कथमिह उद्देशाद्यात्मना स्वसिद्धान्ताप्रसिद्धं कमान्तरमासूत्रितम् ? इत्याशं- क्याह प्राक्पश्यन्त्यथ मध्यान्या वैखरी चेति ता इमाः। परा परापरा देवी चरमा त्वपरात्मिका ॥२७॥ पं० ७ क० पु० कल्पितो विधिरिति पाठः । पं. क. पु. चमत्कारमात्रविमर्शति पाठः। पं० १९क० पु० स्वपरा मता इति पाठः।

श्रीतन्त्रालोकः। ननु संख्यासाम्यमात्रादेव उद्देशादित्रयस्य पश्य- त्यादिरूपत्वम् , इति किमिदम् ? इत्याशंक्याह इच्छादि शक्तित्रितय- मिदमेव निगद्यते। पूर्वेण संबन्धः। एतत्प्राणित एवार्य व्यवहारः प्रतायते ॥२७२॥ सकलः खलु अयं शुद्धाशुद्धात्मा व्यवहारः सं- विद्भित्तावेव अवभासते इति भावः। तदुक्तं 'इत्थमत्यर्थभिन्नार्थावभासखचिते विभौ। समलो विमलो वापि व्यवहारोऽनुभूयते ॥ इति ॥२७२॥ न केवलमेषाम् एवं-रूपत्वं, यावत् 'परो महानन्तरालो दिव्यो मिश्रस्त्वदिव्यकः । संबन्धः षडविधस्तन्त्रे ॥' इत्यादिना उक्तस्य संबन्धस्यापि, इत्याह *तदियानन्त्रार्थः- य एव पशुप्रमातृभी रुद्रेशादित्रयरूपतया विकल्पत्वेन व्यवहारो निर्दिष्टः स एवात्र इच्छादिरूपतया विमल एवं उपादेयत्वेन कथितः । पं० १०० पु० इत्यमित्यर्थभिन्नेति, ख० पु० इत्यमत्यन्तभिन्नाति पाठः । पं० १४ क. पु० मिश्रस्त्वमिश्चक इति पाठः ।

श्लोक २७४] प्रथमाह्निकम् । २८१ एतत्प्रश्नोत्तरात्मत्वे पारमेश्वरशासने । परसंबन्धरूपत्व- मभिसंबन्धपञ्चके ॥२७३॥ एते समनन्तरोक्ततत्त्वे ये प्रश्नोत्तरे ते श्रात्मा स्वरूपं यस्य तस्य भावस्तत्त्वं, तस्मिन्सति इत्यर्थः। प्रष्ट्रतद्वक्तोरेव संबन्धो भवति इति भावः। संबन्ध- पञ्चके इति महदादिके । षष्ठो हि परः संबन्धः सर्वेषामेव एषाम् अनुप्राणकत्वेन अनुवर्तते, इति पृथगिह नोक्तः ॥ २७३ ॥ एतच्च स्वोपज्ञमस्माभिर्नोक्तम् , इत्याह यथोक्तं रत्नमालायां सर्वः परकलात्मकः। महानवान्तरो दिव्यो मिश्रोऽन्योऽन्यस्तु पञ्चमः ॥२७४॥ रत्नमालायाम इति-श्रीकुलरत्नमालायाम्, उक्तम् इति अर्थतो, न तु शब्दतः । तत्र पं० १५ क० पु० मिश्रोऽन्यार्थस्तु पञ्चमेति पाठः ।

२८२
श्रीतन्त्रालोकः।
'अदृष्टं निर्गुणं यच्च हेयोपादेयवर्जितम् ।
तत्तत्त्वं सर्वतत्त्वानां प्रधानं परिपठ्यते ॥
अदृष्टविग्रहश्चैव स शान्त इति गीयते ।
तस्येच्छा निर्गता शक्तिस्तद्धर्मगुणसंयुता ॥'
इत्यादिना पारमेश्वरी पराशक्तिरेव तत्तत्संबन्धात्मना
प्रसृता इति सर्वस्यैव महदादेः संबन्धस्य परकला-
त्मकत्वमुक्तम् । अत एव च एतदेव
'सृष्टिमार्गानुसारेण आयातश्चावनीतले ।
कथितो देवि षष्ठस्तु यथावेशस्वरूपतः ॥'
इत्यनेन उपसंहृतम्। मिश्रो-दिव्यादिव्यः। अन्यो-
ऽन्यः इति-दिव्यापेक्षया अन्यो मिश्रः, तस्मादन्यो-
ऽपि अदिव्यः इति। दिव्य-दिव्यादिव्य-अदिव्यात्मना
त्रिधैव हि संभवति विकल्पः । अत एवायमत्र इतरे-
तरशब्देन उक्तः । तदुक्तं
'महानवान्तरो दिव्यो दिव्यादिव्यश्चतुर्थकः ।
इतरेतरमार्गेण पञ्चधा भिन्नलक्षणः ॥'
इति । एतच्च संबन्धपञ्चकं शिवात् सदाशिवस्य,
पं०१ क० पु० श्रामृष्टमिति पाठः ।
पं०६ क० पु० महदाद्यैः संबन्धस्य इति, पराकलात्मकत्वमिति च पाठः ।
पं०१० क. पु० इत्यत्रोपसंहृतमिति पाठः ।

श्लोक २७४ ] प्रथमाह्निकम् । २८३ तस्मात् अनन्तनाथस्य, तस्मात् श्रीकण्ठनन्दिकुमा- रादीनां, तेभ्योऽपि सनत्कुमारादीनामृषीणां, तेभ्यो- ऽपि मनुष्यादीनां क्रमेण अवगन्तव्यम् । यदुक्तं तत्रैव 'शिवस्य परिपूर्णस्य परस्यामिततेजसः । तच्छक्तिश्चैव सादाख्या स्वेच्छाकर्तृत्वगोचरा ॥ सत्त्वं तेन च संप्राप्तं संबन्धं प्रथमं विदुः । अवान्तरश्च योगेन सादाख्यात्क्रमशः पुनः ।। प्राप्तोऽनन्तेशदेवेन द्वितीयस्तेन कीर्तितः । तृतीयस्तु पुनर्देवि श्रीकण्ठो नन्दिना सह ।। द्वाभ्यां देवात्तु मत्वैवं तेन दिव्यः प्रकीर्तितः। ऋषीणां च समासेन नन्दिना प्रतिपादितम् ।। चतुर्थस्तु भगवता दिव्यादिव्यः प्रकीर्तितः । व्याख्यानक्रमयोगेन विद्यापीठप्रपूजने ॥ शिष्याचार्यस्वरूपेण पञ्चमस्त्वितरेतरः । इति पञ्चप्रकारोऽयं संबन्धः परिकीर्तितः ॥' इति ॥२७४॥ परकलात्मत्वमेव व्याचष्टे भिन्नयोः प्रष्ट्रतद्वक्त्रो- श्चैकात्म्यं यत्स उच्यते। पं०६ क. पु० सतत्व तेनेति पाठः । पं० १० क० पु. देवात्तमप्येवमिति पाठः। पं० १२ क० पु० चतुर्थस्तद्धगवतेति पाठः ।

२८४ श्रीतन्त्रालोकः। प्रष्टा यथा सदाशिवो, वक्ता यथा शिवः, तच्छ- ब्देन प्रश्नक्रियापरामर्शः, तयोभिन्नत्वेऽपि तावत्यर्थे संविदाढ्यकात्म्यात् संबन्धः-तस्य भेदाभेदरूप- त्वात्, ऐकात्म्यभावे यदा भेदगन्धस्यापि विगल- नात् सर्वात्मतालक्षणा पूर्णता स्यात् तदा परः संबन्धः॥ तदाह संबन्धः परता चास्य पूर्णीकात्म्यप्रथामयी ॥२७॥ परता हि पूर्णांकात्म्यप्रथालक्षणा । पूर्णे हि सर्वमस्ति, सर्वत्र च पूर्णमस्ति इत्येतत् पञ्चस्वपि संबन्धेषु अस्ति इति युक्तमुक्तं सर्वः परकलात्मकः' इति । तदुक्तं 'संबन्धः परमेशानि सर्वः परकलामयः । महानवान्तरो दिव्यो मिश्रोऽदिव्यश्च तत्परः ।।' इति ॥२७॥ संबन्धान्तरेष्वपि एतदेवातिदिशति पं०४ क० पु. ऐकात्म्यं च यदेति पाठः । पं० १ ० पु० सर्वसर्वात्मतालक्षणा पूर्णापूर्णता स्यादिति पाठः ।

२८५ या श्लोकः २७८] प्रथमाहिकम् । अनेनैव नयेन स्या- संबन्धान्तरमप्यलम् । शास्त्रवाच्यं फलादीनां परिपूर्णत्वयोगतः ॥२७॥ एतदेव संकलयति इत्थं संविदियं देवी स्वभावादेव सर्वदा। उद्देशादित्रयप्राणा सर्वशास्त्रस्वरूपिणी ॥२७७॥ इत्थम्-उक्तेन प्रकारेण, सर्वदा संविदेव इयं भग- वती स्वस्वातन्त्र्यात् उद्देशादित्रयप्राणेन सर्वात्मना शास्त्रेण स्वरूपिणी-शास्त्रात्मना संविदेव अवभा- सते इत्यर्थः ॥२७७॥ तत्र उद्देशस्वरूपमेव तावदाह तत्रोच्यते पुरोदेशः पूर्वजानुजभेदवान् । पं० १ ० पु० अनेनैव त्रयेणेति पाठः । पं० ११५० पु० स्वातन्त्र्यात् आदेशादीति पाठः ।

श्रीतन्त्रालोकः। विज्ञानभिद्गतोपायः परोपायस्तृतीयकः ॥२७॥ शाक्तोपायो नरोपायः कालोपायोऽथ सप्तमः। चक्रोदयोऽथ देशाध्वा तत्त्वाध्वा तत्त्वभेदनम् ॥२७॥ कलायध्वाध्वोपयोगः शक्तिपाततिरोहिती। दीक्षोपक्रमणं दीक्षा सामयी पौत्रिके विधौ ॥२८॥ प्रमेयप्रक्रिया सूक्ष्मा दीक्षा सद्यःसमुत्क्रमः। तुलादीक्षाथ पारोक्षी लिङ्गोद्धारोऽभिषेचनम् ॥२८॥ अन्त्येष्टिः श्राडक्लप्तिश्च शेषवृत्तिनिरूपणम् । लिङ्गार्चा बहुभित्पर्व- पवित्रादि निमित्तजम् ॥२२॥ पं० ३ ० पु० शाक्तोपायोऽप्यपाय इति पाठः ।

२८७ " श्लोक २८४] प्रथमाह्निकम् । रहस्यचर्या मन्त्रौघो मण्डलं मुद्रिकाविधिः । एकीकारः स्वस्वरूपे प्रवेशः शास्त्रमेलनम् ॥२८॥ आयातिकथनं शास्त्रो- पादेयत्वनिरूपणम् । सामान्यसंज्ञया कीर्तनं पूर्वज उद्देशः, विशेषसं- ज्ञया कीर्तनम् अनुज उद्देशः, स एव च विभागः इत्यन्यत्र उक्तः। तत्र पूर्वजमुद्देशमाह-विज्ञानभित् इत्यादिना निरूपणम् इत्यन्तम् , विज्ञानानि शाम्भ- वादीनि भिद्यन्ते यत्र इति । गतोपायः इत्यनुपायः। पौत्रिके विधौ इति पौत्रिक विधिमाश्रित्य । दीक्षा इति पूर्वेण संबन्धः । प्रमेयप्रक्रिया इत्यर्थात् पौत्रिके विधौ इति योज्यम् । यदक्ष्यति 'तदाह्निकानुजोद्देशे कथितं पौत्रिके विधौ ।' इति ॥२७८-२८३॥ पं० १० पु० रहस्यशौचमन्त्रौध इति, ख० पु० रहस्यचर्चेति च पाठः । पं०३ क० पु. एकीकारः स्वरूपेण प्रबोधः शास्त्रोति पाठः । पं० ६ क० पु० पादेयत्वे न्यरूपयत् इति पाठः । पं०७० पु० श्रायतिकीर्तनमिति पाठः।

श्रीतन्त्रालोकः।
किमेवमियता ग्रन्थेन उपनिबद्धेन? इत्याशङ्क्याह
इति सप्ताधिकामना
त्रिंशतं यः सदा बुधः॥२८४॥
अाहिकानां समश्यस्येत्
स साक्षाद्धैरवो भवेत् ।
सप्तत्रिंशत्सु संपूर्ण-
बोधो यद्धैरवो भवेत् ॥२८॥
किं चित्रमणवोऽप्यस्य
हशा भैरवतामियुः।
इत्येष पूर्वजोद्देशः
कथ्यते त्वनुजोऽधुना ॥२८॥
विज्ञानभित्प्रकरणे
सर्वस्योद्देशनं क्रमात् ।
द्वितीयस्मिन्प्रकरणे
गतोपायत्वभेदिता ॥२८७॥
विश्वचित्प्रतिबिम्बत्वं
परामर्शोदयक्रमः।
मन्त्रायभिन्नरूपत्वं
परोपाये विविच्यते ॥२८॥

२८८ श्लोक २९२] प्रथमाह्निकम् । विकल्पसंस्क्रिया तर्क- तत्त्वं गुरुसतत्त्वकम् । योगाङ्गानुपयोगित्वं कल्पितार्चाद्यनादरः॥२८॥ संविच्चक्रोदयो मन्त्र- वीर्य जप्यादि वास्तवम् । निषेधविधितुल्यत्वं शाक्तोपायेऽत्र चर्च्यते ॥२६॥ बुद्धिध्यानं प्राणतत्त्व- समुच्चारश्चिदात्मता। उच्चारः परतत्त्वान्तः- प्रवेशपथलक्षणम् ॥२६॥ करणं वर्णतत्त्वं चे- त्याणवे तु निरूप्यते। चारमानमहोरात्र- संक्रान्त्यादिविकल्पनम् ॥२२॥ पं० १०० पु० समुञ्चारस्तदात्मना इति पाठः।

श्रीतन्त्रालोकः। संहारचित्रता वर्णो- दयः कालाध्वकल्पने। चक्रभिन्मन्त्रविद्याभि- देतच्चक्रोदये भवेत् ॥२६॥ परिमाणं पुराणां च संग्रहस्तत्त्वयोजनम् । एतद्देशाध्वनिर्देशे द्वयं तत्त्वाध्वनिर्णये ॥२६॥ कार्यकारणभावश्च तत्त्वक्रमनिरूपणम् । वस्तुधर्मस्तत्त्वविधि- र्जाग्रदादिनिरूपणम् ॥२६॥ प्रमातृभेद इत्येतत् तत्त्वभेदे विचार्यते। कलास्वरूपमेकत्रि- पञ्चायैस्तत्त्वकल्पनम् ॥२०६॥ वर्णभेदक्रमः सर्वा- धारशक्तिनिरूपणम् । पं० १८ क. पु० शक्किविकल्पनमिति पाठः ।

२९१ श्लोकः ३००] प्रथमाह्निकम् । कलाद्यध्वविचारान्त- रेतावत्प्रविविच्यते ॥२७॥ अभेदभावनाकम्प- हासौ त्वध्वोपयोजने। संख्याधिक्यं मलादीनां तत्त्वं शक्तिविचित्रता ॥२८॥ अनपेक्षित्वसिद्धिश्च तिरोभावविचित्रता। शक्तिपातपरीक्षाया- मतावान्वाच्यसंग्रहः ॥२६॥ तिरोभावव्यपगमो ज्ञानेन परिपूर्णता। उत्क्रान्त्यनुपयोगित्वं दीक्षोपक्रमण स्थितम् ॥३०॥ शिष्यौचित्यपरीक्षादौ स्थानभित्स्थानकल्पनम् । पं० ११ क० पु० तिरोभावाद्यपगमे इति पाठः ।

२६२ श्रीतन्त्रालोकः। सामान्यन्यासभेदोऽर्घ- पात्रं चैतत्प्रयोजनम् ॥३०॥ द्रव्ययोग्यत्वमर्चा च बहिारार्चनं क्रमात् । प्रवेशो दिक्स्वरूपं च देहप्राणादिशोधनम् ॥३०॥ विशेषन्यासचिःयं सविशेषार्घभाजनम् । देहपूजा प्राणबुद्धि- चित्स्वध्वन्यासपूजने ॥३०३॥ अन्यशास्त्रगणोत्कर्षः पूजा चक्रस्य सर्वतः। क्षेत्रग्रहः पञ्चगव्यं पूजनं भूगणेशयोः ॥३०॥ अस्त्रार्चा वहिकार्य चा- प्यधिवासनमनिगम् । पं०५० घ० पु० प्रवेशोऽध्यक्षरूपं चेति पाठः। पं० क. पु० बुद्धिचेष्टाध्वेति पाठः।

श्लोकः३०६]
प्रथमाह्निकम् ।
तर्पणं चरुसंसिद्धि-
दन्तकाष्ठान्तसंस्क्रिया ॥३०॥
शिवहस्तविधिश्चापि
शय्याक्लप्तिविचारणम् ।
स्वप्नस्य सामयं कर्म
समयाश्चेति संग्रहः॥३०॥
समयित्वविधावस्मि-
न्स्यात्पञ्चदश आहिके।
मण्डलात्मानुसन्धान
निवेद्यपशुविस्तरः ॥३०७॥
अग्नितृप्तिः स्वस्वभाव-
दीपनं शिष्यदेहगः।
अध्वन्यासविधिः शोध्य-
शोधकादिविचित्रता ॥३०॥
दीक्षाभेदः परो न्यासो
मन्त्रसत्ताप्रयोजनम्
भेदो योजनिकादश्च
षोडशे स्यादिहाहिके ॥३०॥

श्रीतन्त्रालोकः। सूत्रक्लप्तिस्तत्त्वशुद्धिः पाशदाहोऽथ योजनम् । अध्यभेदस्तथेत्येवं कथितं पौत्रिके विधौ ॥३१०॥ जननादिविहीनत्वं मन्त्रभेदोऽथ सुस्फुटः। इति संक्षिप्तदीक्षाख्ये स्यादष्टादश ग्राह्निके ॥३१॥ कलावेक्षा कृपाण्यादि- न्यासश्चारः शरीरगः। ब्रह्मविद्याविधिश्चैव- मुक्तं सद्यःसमुत्क्रमे ॥३१॥ अधिकारपरीक्षान्तः- संस्कारोऽथ तुलाविधिः। इत्येतद्वाच्यसर्वस्वं स्याविंशतितमाहिके ॥३१३॥ पं० १० पु. कालावेदेति पाठः। पं० १३० पु अधिकारिपरीक्षातः संस्कार इति पाठः ।

२६५ श्लोकः ३१७] प्रथमाह्निकम् । मृतजीवद्विधिर्जालो- पदेशः संस्क्रियागणः। बलाबलविचारश्चे- त्येकविंशाहिके विधिः ॥३१४॥ श्रवणं चाश्यनुज्ञानं शोधनं पातकच्युतिः। शङ्काच्छेद इति स्पष्टं वाच्यं लिङ्गोद्धतिक्रमे ॥३१॥ परीक्षाचार्यकरणं तद्वतं हरणं मतेः। तद्विभागः साधकत्व- मभिषेकविधौ त्वियत् ॥३१६।। अधिकार्यथ संस्कार- स्तत्प्रयोजनमित्यदः। चतुर्विशेऽन्त्ययागाख्ये वक्तव्यं परिचर्च्यते ॥३१७॥ पं०:५३० पु० चतुर्विंशतियागाख्ये इति पाठः ।

२९६ श्रीतन्त्रालोकः । प्रयोजनं भोगमोत्त- दानेनात्र विधिः स्फुटः। पञ्चविंशाह्निके श्राड- प्रकाशे वस्तुसंग्रहः ॥३१८॥ प्रयोजनं शेषत्ते- नित्यार्चा स्थण्डिले परा। लिङ्गस्वरूपं बहुधा चाक्षसूत्रनिरूपणम् ॥३१॥ पूजाभेद इति वाच्यं लिङ्गार्चासंप्रकाशने। नैमित्तिकविभागस्त- स्पयोजनविधिस्ततः॥३२०॥ पर्वभेदास्तद्विशेष- श्चक्रचर्चा तदर्चनम् । गुर्वाद्यन्तदिनाचर्चा- प्रयोजननिरूपणम् ॥३२॥ मान पं०१० पु० इयद्वाच्यमिति पाठः ।

२९७ श्लोकः ३२५ ] प्रथमाह्निकम् । मृतेः परीक्षा योगीशी- मेलकादिविधिस्तथा। व्याख्याविधिः श्रुतविधि- गुरुपूजाविधिस्त्वियत् ॥३२२॥ नैमित्तिकप्रकाशाख्ये ऽप्यष्टाविंशाह्निके स्थितम् । अधिकार्यात्मनो भेदः सिद्धपत्नीकुलक्रमः ॥३२३॥ अर्चाविधिौतविधी रहस्योपनिषत्क्रमः। दीक्षाभिषेकौ बोधश्चे- त्येकोनत्रिंश आह्निके ॥३२४॥ मन्त्रस्वरूपं तद्वीर्य- मिति त्रिंशे निरूपितम् । शूलाब्जभेदो व्योमेश- स्वस्तिकादिनिरूपणम् ॥३२५॥ पं० १ ग. पु० विधिौनिविधी रहस्येति पाठः।

श्रीतन्त्रालोकः । विस्तरेणाभिधातव्य- मित्येकत्रिंश आह्निके। गुणप्रधानताभेदाः स्वरूपं वीर्यचर्चनम् ॥३२६॥ कलाभेद इति प्रोक्तं मुद्राणां संप्रकाशने । इत्यादि न केवलमेवं, यावत् अन्यदपि अस्य माहात्म्यं स्यात् इत्याह 'इति सप्ताधिका, संप्रका- शने' इत्यन्तम् । इह ग्रन्थकृता तत्त्वतः समस्तव्य- स्तत्वेन सप्तत्रिंशदालिकानि उपनिबद्धानि इति । यथा पृथ्वीतत्त्वे भेदस्य प्राधान्यात् स्थूलेन रूपेण सर्वमस्ति, तथा इहापि वक्ष्यमाणम् इत्युक्तं 'सर्व- स्योद्देशनं क्रमात्' इति । परोपाये इति-शाम्भवोपाये, अस्य च अविकल्पकमेव रूपम् इत्युक्तप्रायं, तच्च भेदाभावे सति भवेत् , स च वाच्यवाचकात्मनो विश्वस्य संविदेकरूपत्वे सति स्यात् , तत्र वाच्यात्मनो विश्वस्य चित्प्रतिबिम्वत्वेन सामान्यविशेषात्मतया पं०१६ ख० पु० विश्वस्य विश्वचिदिति पाठः ।

। श्लोकः ३२६ ] प्रथमाह्निकम् । २६६ द्विविधस्य, वाचकात्मनो विश्वस्य च परामर्शोदय- क्रममन्त्रायभिन्नरूपत्वाभ्यां संविदनतिरेकात तदेक- रूपत्वमुच्यते इत्यत्र एतत्प्रमेयत्रयोपक्षेपः। शाक्तस्य च विकल्पकमेव रूपम् इति प्रथमं विकल्पस्यैव संस्कार उक्तः, स च हेयाद्यालोचनद्वारेण तर्केण अभिधीयते इति तदनन्तरं तत्तत्त्वम् । अन्यच्च शुद्धविद्यात्मनस्तर्कस्यैव विस्फूर्जितं यत् तद्वशादेव सद्गुरुप्राप्तिर्भवेत् इति तत्सतत्त्वमुक्तम् । तर्क एव च साक्षायोगस्याङ्गम् इति अन्येषां योगाङ्गानामनुप- योगित्वम् - तर्कस्य च शुद्धविद्यात्मतया भेदभावक- मायीयविकल्पप्रतिघातित्वात् कल्पितस्य अर्चादेर- नादरः तत एवाविकल्पसंस्कारस्य दाात् संवि- चक्रोदयः, तदुदय एव च मन्त्राणां परं वीर्य, तथामर्श एव च वास्तवंजप्यादि, अत एव च संविदि भेदाभावात् निषेधविधितुल्यत्वम् इत्येतन्नवसंख्याकं प्रमेयमुपक्षिप्तम् । एवमाणवादावपि बुद्धिध्यानादेः साक्षात्तदोपयिकत्वम् इत्येतदस्माभिः-स्पष्टत्वात् पं०५० पु० स चाहन्ताद्यालोचनद्वारेणेति, ख० पु० स चौपायाद्याला- चनेति पाठः।

श्रीतन्त्रालोकः।
ग्रन्थविस्तरभयात् अग्रे च निर्णेष्यमाणत्वात् न
प्रातिपद्येन व्याख्यातम् इति स्वयमेव अवधार्यम्
॥ २८४-३२६ ॥
ननु एकीकाराह्निकादौ किमिति न अनुजोद्देशः
कृतः? इत्याशक्याह
द्वात्रिंशतत्त्वादीशाख्या-
प्रभृति प्रस्फुटो यतः ॥३२७॥
न भेदोऽस्ति ततो नोक्त-
मुद्देशान्तरमत्र तत् ।
द्वात्रिंशं तत्त्वं स्वरूपं यस्य तन्मुद्राह्निकं, तस्मात्
द्वात्रिंशसंख्यादनन्तरं यत् ईशाख्यं त्रयस्त्रिंशमेकीका-
राह्निकं तत प्रारभ्य भेदस्य प्राधान्याभावात् अनुज
उद्देशो न कृतः इत्यर्थः ॥३२७॥
ननु यद्यतः प्रभृति भेदो नास्ति तत्किमिति
आह्निकान्तरपरिगणनमेव कृतम् इत्याशङ्क्याह
मुख्यत्वेन च वेद्यत्वा-
दधिकारान्तरक्रमः॥३२८॥

श्लोकः ३३०] प्रथमाह्निकम् । एतदुपसंहरन्नन्यदवतारयति इत्युद्देशविधिः प्रोक्तः सुखसंग्रहहेतवे। अथास्य लक्षणावते निरूप्येते यथाक्रमम् ॥३२६॥ अस्य इति-उदिष्टस्य प्रमेयजातस्य ॥३२६॥ इदानीमाह्निकार्थमेव संचिनोति प्रात्मा संवित्प्रकाशस्थितिरनवयवा संविदित्यात्तशक्ति- वातं तस्य स्वरूपं स च निज महस- श्छादनाद्वदरूपः। आत्मज्योतिःस्वभावप्रकटनविधिना तस्य मोक्षः स चायं चित्राकारस्य चित्रः प्रकटित इह य- संग्रहेणार्थ एषः ॥३३०॥ इह श्रात्मनस्तावत् धामत्रयीबाह्यप्रकाशविलक्षणः पं० ४ क० पु० लक्षणापेक्षया तत्र इति पाठः । पं० १० ग० पु० निजमहिमाच्छादनाद्द्वन्द्वरूपः इति पाठः । पं० १३ क. पु० स चास्य इति पाठः।

३०२ श्रीतन्त्रालोकः । संविद्रूप एव प्रकाशः स्वरूपं, संविञ्च निरवयवा इति एक एव अखण्डप्रकाशरूपः इति यावत् । अत एव च 'शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम् ।' इत्यायुक्तयुक्त्या तस्य श्रात्मनः क्रोडीकृतानन्त- शक्तिक स्वरूपम्, एवमद्वयात्मत्वेऽपि स एव अति- दुर्घटकारित्वलक्षणात् स्वस्वातन्त्र्यात्, निजस्य-अ- नन्यसाधारणस्य ज्ञत्वकर्तृत्वलक्षणस्य, महसो गोप- नात् ग्राह्यग्राहकात्मकं द्वन्द्वमाभासयन् 'शिव एव गृहीतपशुभावः। इत्याद्युक्तयुक्त्या 'बद्धः' इत्युच्यते, एवमपि तस्य श्रा- त्मनः प्रत्यावृत्त्या 'मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः। स्वरूपं चात्मनः संवित् इत्यायुक्तयुक्त्या ज्ञत्वकर्तृत्वलक्षणस्य स्वमहस एव प्रथनं मोक्षः, यदर्थमेव च तत्तदनन्तशास्त्रात्मक इ- यान् परिकरः । तदाह 'स चायम्' इत्यादि, स चायं मोक्षः-तत्तद्गृहीताधरदर्शनभूमिकस्य अस्य पं० ८ ० पु० महिनो गोपनादिति पाठः । ॥

३०३ श्लोकः ३३०] प्रथमाह्निकम् । 'रागाद्यकलुषोऽस्म्यन्तः शून्योऽहं कर्तृतोज्झितः ।' इत्यायुक्तयुक्त्या चित्रस्वभावस्य, यद्वा 'तेनाजडस्य भागस्य पुद्गलाण्वादिसंज्ञिनः । अनावरणभागांशे वैचित्र्यं बहुधा स्थितम् ॥ इत्यादिनीत्या चित्राकारस्य 'अतः कंचित्प्रमातारं प्रति प्रथयते प्रभुः । पूर्णमेव निजं रूपं कंचिदंशांशिकाक्रमात् ॥' इत्यायुक्त्या चित्रः शाम्भवाद्यावेशात्मा प्रकटितः, इह इति-अस्मिन्नाहिके।ययोर्बन्धमोक्षयोः संग्रहण संक्षेपेण एषोऽर्थःप्रकटितःइत्यनेनैव संबन्धः॥३३०॥ ननु श्रात्मनः स्वरूपप्रथनमेव 'मोक्षः' इत्युक्तम्, अात्मा चैक एव अखण्डः इति तत्प्रथात्मनो मोनस्यापि वैचित्र्यं कुतस्त्यम् ? इत्याशङ्क्याह मिथ्याज्ञानं तिमिरमसमान् दृष्टिदोषान्प्रसूते पं. ३ क० पु० तेनाजडविभागस्येति, संज्ञित इति च पाठः। पं०५.ख० पु० चित्रस्वभावस्य इति पाठः। पं०८ क. पु० इत्याधुक्तयुक्त्या इति पाठः ।

श्रीतन्त्रालोकः। तत्सद्भावाद्विमलमपि त- द्वाति मालिन्यधाम । यत्तु प्रेक्ष्यं दृशि परिगतं तैमिरी दोषमुद्रां दूरं रुन्छेत्प्रभवतु कथं तत्र मालिन्यशका ॥ ३३१ ॥ तिमिरम्-श्राणवमलमेव मिथ्याज्ञानं भेदप्रथात्म- कम् श्रपूर्ण वेदनं, दृष्टेः पूर्णायाः संवित्तेः, असमान्- अात्मनि अनात्माभिमानादिरूपान् दोषान् जनयति इति मिथ्याज्ञानसद्भावात् विमलं पूर्णमपि तत् ज्ञानं मालिन्यधाम भाति-स्वस्वातन्त्र्यादपूर्णेन श्रात्म- ना परिस्फुरति इत्येतावानर्थः इति व्यवह्रियते, यत् पुनरुपेयत्वेन प्रेक्षणीयम् - अवश्यज्ञातव्यं परप्रमात्रे- कात्म पूर्ण ज्ञानं 'नाहं प्राणो नैव शरीरं न मनोह नाहं बुद्धिर्नाहमहङ्कारधियौ च । योऽत्र ज्ञांशः सोऽस्म्यहमेव । पं०१३ क० पु० पुनरुपमेयत्वेनेति पाठः । Kas ३०५ श्लोक ३३१] प्रथमाह्निकम् । इत्यादिनीत्या उद्वेष्टनक्रमेण विमर्शपदवीमारूढं सत्, मिथ्याज्ञानसमुत्थाम् अनात्मनि आत्माभिमानरूपां दोषमुद्रां दूरं रुन्ध्येत् - श्रात्मन्येव आत्माभिमानेन तिरस्कुर्यात् , तत्र का नाम मालिन्यशङ्का तत्र सं- भावनापि न भवेत् इति वस्तुवृत्तेन बन्धो मोक्षो वापि न नाम कश्चिदस्ति इति का वा नाम तत्र वै- चित्र्यसंभावना स्यात् । अनेन चाभिप्रायेण 'संसारोऽस्ति न तत्त्वतस्तनुभृतां बन्धस्य वातैव का बन्धो यस्य न जातु तस्य वितथा मुक्तस्य मुक्तिक्रिया। मिथ्यामोहकृदेष रज्जुभुजगच्छायापिशाचभ्रमो मा किंचित्त्यज मा गृहाण विरम स्वस्थो यथावस्थितः ॥' इत्यादि अन्यत्र उक्तम् । अथ च तिमिरेण नेत्ररो- गविशेषेण दृष्टौ अन्यथाज्ञानात्मदोषजातमुत्पादित प्रेक्ष्येण अञ्जनादिस्थानीयेन रोध्यते इति तत्र मालिन्यशङ्कापि न भवति इति औपम्यं ध्वनि- तम् ॥३३१॥ इदानीमस्य शास्त्रस्य परं गाम्भीर्य मन्यमानो ग्रन्थकृत्, एतदर्थसतत्त्वमजानानैरपि अन्यैरन्यथा- पं०४ ख० पु० का नाम अग्रिमान संभावना न प्रभवेत् इति पाठः ।

श्रीतन्त्रालोकः। बोधेन यत्किचित् उत्तानमेव अन्यथा उच्यते, तान्प्रति अप्रस्तुतप्रशंसया उपहसितुमाह भावव्रात ? हठाजनस्य हृदया- न्याक्रम्य यन्नर्तयन् भङ्गीभिर्विविधाभिरामहृदयं प्रच्छाद्य संक्रीडसे। यस्त्वामाह जडं जडः सहृदयं- मन्यत्वदुःशिक्षितो मन्येऽमुष्य जडात्मता स्तुतिपदं त्वत्साम्यसंभावनात् ॥३३२॥ हे भावनात-नीलाद्यर्थ ? श्रात्मनो हृदयं तेन श्रात्मतथ्यं रूपं गोपयित्वा जनस्य सर्वस्यैव वादिनो हृदयानि आशयान् बलात्कारेण आक्रम्य 'प्रद्यास्मानसत: करिष्यति सतः किं नु द्विधा वाप्ययं किं स्थास्तूनुत नश्वरानुत मिथोभिन्नानभिन्नानुत । इत्थं सद्वदनावलोकनपरैर्भावैर्जगद्वर्तिभि- मन्ये मौननिरुद्धनमानहृदयैर्दुःखेन तैः स्थीयते ॥ पं० ७ ग० पु० सहृदयंमन्योऽत्र दुःशिक्षित इति पाठः । पं० १७ गं० पु. दुःखमतः स्थीयते इति पाठः।

श्लोक ३३२] प्रथमाह्निकम् । इत्यादिस्थित्या विविधाभिर्भङ्गीभिः नर्तयन् यत् संक्रीडसे-नटवत् अतात्त्विकेन रूपेण समुल्लससि, अतः स सर्वो वादी असहृदयमपि आत्मानं सहृदय- त्वेन मन्यमानोऽत एव दुःशिक्षितो मिथ्याभिमानात् अकिंचिज्ञः, त्वां भावनातं, जडम्-अचेतनम् अाह, श्रतोऽस्माभिरुत्प्रेक्ष्यते-यत् अमुष्य वादिनो वस्तुत- श्चैतन्यस्वभावेन भवता यत् साम्यं तस्य संभावनात् भाववत्त्वमेव जडात्मा इति यधुच्यतेसा अस्य निन्दा- स्थाने स्तुतिः।भावानां हि वस्तुतश्चैतन्यमेव रूपम् अचेत्यमानत्वे हि तेषां न किंचिद्रूपं स्यात्, अत- स्तदेव ये न जानते ते जडेभ्योऽपि जडाः इति कथं च तेषां चेतनात्मकैर्भावः निन्दापर्यवसायि साम्यं स्यात् इति भावः । एवं प्रकृतेऽपि अस्य ग्रन्थस्य यस्तत्त्वं न जानाति मा ज्ञासीत्, प्रत्युत अन्यथापि यत्किंचन वक्ति इत्यसावेव जडो, न पुनरस्य ग्रन्थस्य कश्चिद्दोषः इत्यर्थः ॥३३२॥ ननु यद्येवं तर्हि एतच्छास्त्राधिगमाय केषांचन पं०६ क० पु० भावानां हि भावना वस्तुत इति पाठः ।

३०८ श्रीतन्त्रालोकः। परेषां विदुषामभ्यर्थना क्रियता, यदत्र यथावस्त्वेव बुद्ध्वा द्वेषो मा कार्यः ? इत्याशङ्क्याह इह गलितमलाः परावरज्ञाः शिवसद्भावमया अधिक्रियन्ते । गुरवः प्रविचारणे यतस्तद्- विफला द्वेषकलंकहानियाज्ञा ॥३३३॥ इह द्वये पुरुषाःसन्ति-अनायातशक्तिपाता श्रा- यातशक्तिपाताच, तत्र पूर्वेषां शतशोऽभ्यर्थिता- नाम् एतदधिगमाय मनोऽपि न प्रसरति, इत्यत्र अवधातव्यम्, द्वेषो माकार्यः मर्थ्यम् । अपरे च अनभ्यर्थिता अपि स्वयमेव एत- दधिगमाय प्रवर्तन्ते इति तत्रापि एवमभ्यर्थनाया वैयर्थ्यम् । तदाह द्वेषकलङ्कहानियाच्या' इति। आया- तशक्तिपाताश्च कीदृशाः ? इत्याह गलितमलाः इति, गलितं मलम्-अज्ञानं येषां ते तथाविधाः, अत एव च परम् श्रादिमम् अनुत्तरम् श्रवरम् अन्त्यं विसर्ग च ये जानते ते पराहंपरामर्शात्मकमन्त्रवी- इत्यभ्यर्थनाया असा- पं०१० पु० प्रविचारणे धियस्तदिति च पाठः ।

३०६ श्लोक ३३३] प्रथमाहिकम् । यज्ञाः इत्यर्थः, अत एव शिवसद्भावमयाः-परप्रमात्रे- कात्मज्ञानशालिनः इति यावत्, अत एव च गुरवः- तात्त्विकार्थोपदेशिनः इति - एतदधिगमाय त एव परमधिकारिणः इत्युक्तं यतः प्रविचारणेऽधिक्रि- यन्ते इति, यद्वक्ष्यति 'गुरोर्लक्षणमेतावदादिमान्त्यं च वेदयेत् । पूज्यः सोऽहमिव ज्ञानी भैरवो देवतात्मकः ॥' इति ॥३३३॥ इह श्राह्निकादाह्निकान्तरस्य संचयन्यायेन पर- स्परमनुस्यूततां दर्शयितुम् एकेनैव श्लोकेन तत्पर्य- न्तप्रारम्भयोरुपसंहारोपक्रमौ करोति, इति श्रस्य ग्रन्थकारस्य शैली'-इति श्लोकस्य प्रथमार्धन आह्निकार्थमुपसंहरति तन्त्रालोकोऽभिनवरचिते- ऽमुत्र विज्ञानसत्ता- भेदोद्गारप्रकटनपटा- वाहिकेऽस्मिन्समाप्तिः। पं० ३ ० पु० अधिगमाय अत एव परमाधिकारिण इति पाठः । पं०६ ग. पु० श्राधमन्यं चेति पाठः।

३१० श्रीतन्त्रालोकः। पटौ इति पाक्षिकः पुंवद्भावः । इति शिवम् ॥ श्रीशृङ्गाररयादवाप्य कृतिना जन्मानवद्यक्रम श्रीमच्छङ्कधरात्परं परिचयं विद्यासु सर्वास्वपि। श्रीकल्याणतनोः शिवादधिगमं सर्वागमानामपि व्याख्यातं प्रथमाह्निकं जयरथेनावावधेयं बुधैः ॥ इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते तन्त्रालोके श्रीमद्राजानकजयरथकृतप्रकाशाभिख्यव्याख्योपेते विज्ञान- भेदप्रकाशनं नाम प्रथममाह्निकं समाप्तिमगमत् ॥ एतत्कश्मीरभूपालसंश्रितेन प्रकाशितम् । सता मुकुन्दरामेण सन्मुदे स्ताच्छिवेर्पितम् ॥ श्रीशिवार्पणमस्तु ।

श्रीतन्त्रालोकस्य श्रीमन्महामाहेश्वराचार्याभिनवगुप्तपादविरचितस्य श्रीमदाचार्यजयरथकृतप्रकाशाख्यव्याख्योपेतस्य द्वितीयमाह्निकम् जयतान्नतजनजयकृत्सजयो रुद्रो विनाभ्युपायं यः। पूरयति कं न कामं कामं कामेश्वरत्वेन ॥१॥ इदानीं 'यो हि यस्माद् गुणोत्कृष्टः स तस्मादूर्ध्व उच्यते।' इति-स्थित्या आणवादीनां यथायथमुत्कर्षादिह पूर्व- पूर्वमेवाभिधानमिष्यते इत्युपेयैकरूपत्वेन शांभवा- पं० २ ० ख० पु० कः पूरयति किं न कामं कामं वागीश्वरत्वेनेति पाठः । पं० ६ क० पु० अभिधानं करिष्यते इति इत्युपायैकेति च पाठः ।

प्रीतन्त्रालोकः। दप्यनुपायस्योत्कृष्टत्वम्, इति-प्रथमं तत्स्वरूपमे- वाभिधातुमाह्निकान्तरारम्भं द्वितीयार्धेन प्रतिजानीते यत्तत्रायं पदमविरतानुत्तरज्ञप्तिरूपं तन्निर्णेतुं प्रकरणमिदमारभेऽहं द्वितीयम्॥२॥ तन्निर्णयमेवाह अनुपायं हि यद्रूपं कोऽर्थों देशनयात्र वै। सकृत्स्याद्देशना पश्चा- दनुपायत्वमुच्यते ॥२॥ वै-शब्दोऽवधारणे, तेन नैव कश्चिदर्थः इत्यर्थः। अत्रैव समाधत्ते 'सकृत्स्यात्' इत्यादिना, देशना इत्युपलक्षणं-तेन सिद्धदर्शनायपि ग्राह्यं, यदुक्तम् 'सिद्धानां योगिनीनां च दर्शनं चरुभोजनम् । कथनं संक्रमः शास्त्रे साधनं गुरुसेवनम् ॥ इत्याद्यो निरुपायस्य संक्षेपोऽयं वरानने। इति । सकृदिति-न पुनरुपायानुभवः पौनःपुन्ये- नेत्यर्थः । अत एवाह पश्चादनुपायत्वमुच्यते' इति, : पं० ३ क. पु० यत्र त्वाद्यं परमशिवतानुत्तरेति, ख० पु० यवत्रायमिति पाठः । पं० ४ ० ख० पु० मिदं त्वारमेयं द्वितीयमिति पाठः ।

श्लोक ३] ३ द्वितीयमाह्निकम् । आणवादौ असकृद्भाव्यमानो हि देशनादि उपेय- प्राप्तिं विदधाति इति तत्र तथात्वमुक्तम्, इह तु न तथा इत्यनुपायत्वं, पर्युदासस्य 'अनुदरा कन्या' इति वदल्पार्थत्वेऽपि भावात् अल्पोपायत्वमित्यर्थः- प्राप्तव्ये हि प्राप्ते किं नाम निरर्थकैरायासकारि- भिर्भावनादिभिरिति भावः, यदुक्तम् 'उपायैर्न शिवो भाति भान्ति ते तत्प्रसादतः । स एवाहं स्वप्रकाशो भासे विश्वस्वरूपकः॥ इत्याकर्ण्य गुरोर्वाक्यं सकृत्केचन निश्चिताः। विना भूयोऽनुसंधानं भान्ति संविन्मयाः स्थिताः॥ इति ॥२॥ नन्वत्र प्रसज्यप्रतिषेधपक्षावलम्बनेनाविद्यमानो- पायत्वमेव, इति मुख्योऽर्थः कस्मान्न व्याख्यातः ? इत्याशंक्याह अनुपायमिदं तत्त्व- मित्युपायं विना कुतः। स्वयं तु तेषां तत्ताहक् किं ब्रूमः किल तान्प्रति ॥३॥ पं० १२ क० पु० नेन विद्यमानोपायमेवेति पाठः ।

श्रीतन्त्रालोकः । 'इदमनुपायं तत्त्वम्' इत्याद्युपदेशादिना केनचि- दुपायेनावश्यं भाव्यम्, अन्यथा लक्षणमुपायमन्तरेण कथं सिद्धयेत्, इत्युक्तम् 'इत्युपायं विना कुतः तेन सकृदुपदेशादिना केनचिदुपायेनावश्यं भाव्यम्, अन्यथा झनुपायपरतत्त्वज्ञप्तिरेव न स्यात् । ननु स्वविमर्शबलात्स्वयमेव प्राप्तप्राप्तव्या अपि केचिद दृश्यन्ते, इति-किं सकृदुपदेशाद्यात्मना स्वल्पे- नाव्युत्पन्नेन ? इत्याशंक्याह 'स्वयमित्यादिना' तदि- त्यनुपायं परप्रकाशात्मकं रूपं, किं ब्रूम इति-नहि तदधिकारेण शास्त्रस्यैव प्रवृत्तिर्भवेदिति भावः, तदुक्तम् 'तत्त्वज्ञस्य तृणं शास्त्रं.. इति । यदभिप्रायेणैव 'संसाराम्बुनिधिं यः स्यात्तितीर्घः कश्चिदुत्तमः' नात्यन्ततज्ज्ञो नो मूर्खः सोऽस्मिञ्छास्त्रेऽधिकारवान्। इत्यादावत्यन्ततज्ज्ञस्य शास्त्रे नाधिकार उक्तः, तेन वयमग्दिर्शिनोऽप्यदृष्टेऽर्थे शास्त्रैकदिव्यचक्षुष आर- - पं० २ ग. पु० उपायान्तरेण कथमिति पाठः । पं०८ ग० पु० अव्युत्पन्नत्वेन इति पाठः । पं०१४ संसारेति पदद्वयं ग० पुस्तकात्पूरितमस्ति ।

श्लोक ४] द्वितीयमाह्निकम् । रुनायातशक्तिपातान्प्रत्येव किंचन ब्रूमः-तेषां ह्येवमुपायमन्तरेण न कदाचिदप्युपेयप्राप्तिर्भवेत् इत्ये- वमुक्तम्, यद्वक्ष्यति 'नानिर्मलचितः पुंसोऽनुग्रहस्त्वनुपायकः ।' इति ॥३॥ ननु ययेवं तर्हि अल्प एव कश्चिदुपायांशः समुप- दिश्यतां येनोपदेश्यजनस्य सुखमेव उपयप्राप्तिः स्यात्, किं बह्वायासदायिभिरन्यैरुपायैः? इत्याशंक्याह यच्चतुर्कोदितं रूपं विज्ञानस्य विभोरसौ। स्वभाव एव मन्तव्यः स हि नित्योदितो विभुः ॥४॥ यच्चतुर्धा-अनुपायादिभेदेन विज्ञानस्य रूपमुक्तं तद्विभोः परमेश्वरस्यैव स्वातन्त्र्यं ज्ञेयम्, स एव हि स्वस्वातन्त्र्यादतिनिर्हासतारतम्यादियोगाद्विचित्रेणो- पदेश्यजनात्मना प्रस्फुरन् तदनुसारमेव तत्तदुपाय- पं० ६ क० ख० पु० समुद्दिश्यतामिति पाठः । पं० १२ ग७ पु० स हि सैविन्मयः प्रभुरिति पाठः । पं० १५ क० पु० स्वातन्त्र्यात्तारतम्येति पाठः ।

w , श्रीतन्त्रालोकः। वैचित्र्यमप्याभासयेत्। नन्वेक एव विचित्रेण रूपेण च स्फुरति, इति किमेतत् ? इत्याशंक्याह ‘स हीत्यादि' नित्योदित इति-अप्रच्युतप्राच्यस्वरूपः, अत एव 'विभुः व्यापकः- तत्तद्वैचित्र्यग्रहणकालेऽप्यनुगत एवेत्यर्थः ॥ ४॥ श्रत एवाह एतावद्भिरसंख्यातैः स्वभावैर्यत्प्रकाशते। केप्यंशांशिकया तेन विशन्त्यन्ये निरंशतः॥५॥ एतावद्भिरिति-चतुर्भिः, असंख्यातैरिति-तत्त- दवान्तरभेदात्, तेनेति- अनेकेन स्वभावेन प्रकाश- नात् ॥५॥ न केवलमत्रेयदेव वैचित्र्यं यावदन्यदप्यस्तीत्याह तत्रापि चाभ्युपायादि- सापेक्षान्यत्वयोगतः। उपायस्यापि नो वार्या तदन्यत्वाद्विचित्रता॥६॥ पं०१४ क० पु० सापेक्षत्वान्ययोगत इति पाठः ।

श्लोक] द्वितीयमाद्विकम् । उपायस्यापीति अपिशब्दो भिन्नक्रमः, तेननोवार्या तदन्यत्वादपि, इति व्याख्येयम्, एतच्च प्रथमाह्निक एव वितत्य निर्णीतम्, इति-नेह पुनरायस्तम् ॥६॥ एवमेतत् प्रसंगादभिधाय प्रकृतमेवाह तत्र ये निर्मलात्मानो भैरवीयां स्वसंविदम् । निरुपायामुपासीना- स्तद्विधिःप्रणिगद्यते ॥७॥ ये केचन तीव्रतीव्रशक्तिपातानुविद्धा विकल्पक- नकान्मुक्ताः, भैरवीयां पूर्णाम्, अत एवानुपायाम् - अनपेक्षाम्, आत्मसविदमाविष्टाः, तेषां विधिः- पूर्णसंविदावेशक्रमात्मा प्रकारः, प्रकर्षेण निगद्यते- युक्तियुक्तत्वेन भण्यते इत्यर्थः ॥ ७॥ तदेवाह तत्र तावक्रियायोगो नायुपायत्वमहति । पं० ३ क० पु० शक्तिपातविकल्पान्मुक्ता इति पाठः। पं० १२ क० पु. आवेशात्मप्रकार इति पाठः ।

श्रीतन्त्रालोकः। उपायः खलु करणे प्रसृते, अतश्च पूर्णेन भाव्य- मेव, इति सर्वेषामविवादः, न चात्रैवं-क्रियादयो हि संवेद्यमानत्वात्संविनिष्ठा एव, इति संविच्छक्तिं विना अप्रसिद्धत्वात् कथं तत्रोपायतामासादयेयुः, अतः प्रत्युत क्रियादीनां बहिराभासने संविदुपायः, इति युक्तम् ॥ अत एवाह स हि तस्मात्समुद्भूतः प्रत्युत प्रविभाव्यते ॥५॥ तस्मादित्यनुपायात्संवित्तत्त्वात् ॥८॥ अथ यद्यस्य क्रियादि न कारकम् अपि तु ज्ञापकम् इति उच्यते, तदपि न युज्यते, इत्याह । ज्ञप्तावुपाय एव स्या- दिति चेज्ज्ञप्तिरुच्यते। प्रकाशत्वं स्वप्रकाशे तच्च तत्रान्यतः कथम् ॥३॥ इह जडस्तावत् स्वयमप्रकाशात्मा स्वात्मनो न पं०३ क० पु० एवेति संविदा प्रसिद्धत्वात्कथमिति पाठ ।

श्लोक १०] ६ द्वितीयमाह्निकम् । प्रकाशते,अपितु परस्य, इति-पर एवास्य प्रकाशः, अजडस्तु स्वयं प्रकाशात्मा स्वात्मन एव प्रकाशते, न परस्य, इति-न परोऽस्य प्रकाशोऽपितु स्व एव अस्य प्रकाशः, तस्यापि परप्रकाशत्वे ह्यप्रकाशात्म- त्वात् जाड्यं स्यात्, अत एवाह 'स्वप्रकाशे तच्च तत्रान्यतः कथम्' इति प्रकाशत्वम् , एवं चान्योऽपि स्वप्रकाशो वा स्यात् अन्यथा वा, स्वप्रकाशत्वे प्रथमस्यैव तथाभाव उच्यताम् , अनेनापि कोऽर्थः, अन्यथात्वे तस्यापि जाड्यापत्तिः, इति प्रकाशत्वात्त- प्रकाशनाय प्रमात्रन्तरापेक्षायामनवस्थापत्तिः, इति सर्वेषामेव अप्रकाशात्मत्वान्न किंचिदपि प्रकाशेत, इति-सर्वमिदमन्धं स्यात् ॥६॥ तदाह संवित्तत्त्वं स्वप्रकाश- मित्यस्मिन्किं नु युक्तिभिः । पं० २ ख. पु० अजडस्तवयं प्रकाशेति पाठः। पं०७ क. पु० स्वप्रकाशकः स्यादिति पाठः। पं०८ क. पु० तथा उत्पद्यतामिति ख० पु. भाव उद्यतामिति पाठः ।

श्रीतन्त्रालोकः । तदभावे भवेद्विश्वं जडत्वादप्रकाशकम् ॥१०॥ किं नुयुक्तिभिरिति-बह्वीभियुक्तिभिर्न किंचित्प्र- योजनमित्याह, एकैव हि युक्तिरियं सर्वातिशायिनी- यत्संविदः स्वप्रकाशत्वं यदि न स्यात्, न किंचिदपि प्रकाशेत इति ॥१०॥ ननु यदि नाम अत्र न बाह्यः क्रियादिः प्रग- ल्भते तदा गुरुज्ञानादि उपायतां भजताम् ? इत्या- शंक्याह यावानुपायो बाह्यः स्या- दान्तरो वापि कश्चन । स सर्वस्तन्मुखप्रेक्षी तत्रोपायत्वभाकथम् ॥११॥ यावानिति-नानाशास्त्रोपदिष्टः, सर्व इति-बाह्य आन्तरो वा, तन्मुखप्रेक्षीति-संविदधीनसिद्धिरि- त्यर्थः, यदपेक्ष्य हि यस्य सिद्धिरेवं भवति स कथं तस्य उपायतां यायादिति भावः ॥११॥ पं०१६ क० घ० पु० यदपेक्षा हि यस्य सिद्धिरेव भवेल्स कथमिति पाठ।

श्लोक १३]] द्वितीयमाह्निकम् । अत एवाह त्यजावधानानि ननु क्व नाम धत्सेऽवधानं विचिनु स्वयं तत् । पूर्णेऽवधानं न हि नाम युक्तं नापूर्णमभ्येति च सत्यभावम् ॥१२॥ इह उपदिश्यमानेन स्वयमेव तावदवधातव्यम् इति परामर्शनीयम् , किं पूर्ण रूपे उतापूर्णे ? तत्र तावत्पूर्णे रूपेऽवधानं न युक्तम् , अवधानं खलु- प्रतिनियतावधेयविषयनिष्ठम् ऐकाय्यम्, अतश्च भेदप्रधान न किंचित्फलमादातुं समर्थम् ॥१२॥ तस्मादसामर्थ्यवैयथ्ोपहतत्वादवधानस्यापि यत्र नास्ति उपायभावस्तत्र का वार्ता तदनुप्राणि- तस्य भावनादेः ? इत्याह तेनावधानप्राणस्य भावनादेः परे पथि। भैरवीये कथंकारं भवेत्साक्षादुपायता ॥१३॥ पं० ३ ख. पु० धर्मेऽवधानमिति पाठः । पं.क. पु० अवधानं खलु अप्रतिनियतेति पाठः।

१२ भातन्त्रालोकः। भैरवीये इति-पूर्णे ॥१३॥ ये पुनरनेनापि उपायेनानुपायं परं तत्त्वमनुसरन्ति तान्प्रति किमुच्यते ? इत्याह येऽपि साक्षादुपायेन तद्रूपं प्रविविञ्चते। नूनं ते सूर्यसंवित्त्यै खद्योताधित्सवो जडाः ॥१४॥ तदुक्तम् 'अपरोक्षे भवत्तत्त्वे सर्वतः प्रकटे स्थिते । यैरुपायाः प्रतन्यन्ते नूनं त्वां न विदन्ति ते ॥ इति ॥ १४ ॥ अत्रैव निमित्तान्तरमप्याह किं च यावदिदं बाह्य- मान्तरोपायसंमतम् । तत्प्रकाशात्मतामात्र शिवस्यैव निजं वपुः ॥१५॥ पं० २० पु० तत्त्वमनुविशन्तीति पाठः । पं० ७ ० पु० खद्योतं लिप्सव इति पाठः । पं० १ ० पु० प्रकटोदिते इति पाठः । पं०१६ क० पु० परं वपुः इति पाठः ।

श्लोक १७] द्वितीयमाह्निकम् । इह खलु यत्किंचन उपायत्वेनाभीष्टं तदप्रकाश- मानं प्रकाशमानं वा ? अप्रकाशमानं चेत् तस्य न किंचिदपि रूपं स्यात्, इति किं नाम उपायतां भजतां, प्रकाशमानं चेत् प्रकाशात्मा शिव एवावस्थितः, नहि तदतिरिक्तमन्यत्किंचिदुपपद्यते, इति-कस्यो- पायभावः, उपायेन हि उपेयाव्यतिरिक्तेन भाव्यं, तच्चात्र न युक्तम्, इति को नाम उपायोपेय- भावार्थः ॥ १५॥ न केवलं भावनाद्येव उपायत्वेनाभीष्टमेवम् , यावदन्यदपीत्याह नीलं पीतं सुखमिति प्रकाशः केवलः शिवः। अमुष्मिन्परमाद्वैते प्रकाशात्मनि कोऽपरः ॥१६॥ उपायोपेयभावः स्या- प्रकाशः केवलं हि सः॥१७॥ भावनादेः सुप्रसिद्धेऽपि उपायत्वे निरस्ते अन्यस्य पं० १७ क० पु० उपायस्वेन निरस्ते अन्यत्र इति पाठः ।

श्रीतन्त्रालोकः। कस्यचित्संभावनामात्रमपि माभूत्, इत्येवमुक्तं 'कोड पर' इति, यत्र उपायत्वसंभावनापि स्यात् ॥१७॥ ननु यद्येवं तर्हि सर्वत्र प्रसिद्धोऽयं द्वैतव्य- वहारः कथमपहूयते ? इत्याशक्याह इदं द्वैतमऽयं भेद इदमद्वैतमित्यपि। प्रकाशवपुरेवायं भासते परमेश्वरः ॥१८॥ द्वैतव्यवहारोऽपि प्रकाशमानत्वात्प्रकाशात्मैवेत्य- भिप्रायः, एतच्च बहूनां वादिनां मतम्-इति द्योतयि- तुम् 'अयं भेद' इति पुनरुपादानम्, यथा चाद्वैतप्रति- भासे प्रकाशात्मा परमेश्वर एक एव प्रतिभासते तथा द्वैतप्रतिभासेऽपि, इत्यर्थमौपम्यं कटाक्षयितुम् इदम- द्वैतमित्यपि' इत्युपात्तम् ॥१८॥ ननु बाह्योऽर्थः प्रकाशमानत्वात्प्रकाशात्मैव इत्या- स्ताम्, अन्योन्यं पुनरस्य भेदे किमायातम्, इत्याप- तितमेव द्वैतम् ? इत्याशक्याह पं० १३ क. पु. इत्युक्तमौपम्यमिति पाठः । पं० १५० पु० किमिदमापतितमिति पाठः ।

१५ श्लोक १८] द्वितीयमाह्निकम् । अस्यां भूमौ सुखं दुःखं बन्धो मोक्षश्चितिर्जडः घटकुम्भवदेकार्थाः शब्दास्तेऽप्येकमेव च ॥१६॥ अस्यां भूमाविति-परमाद्वयदशायामित्यर्थः, 'एकार्था' इति-एकः प्रकाश एवार्थोऽभिधेयो येषां ते तथा, सुखदुःखादीनां हि प्रकाशातिरेकेण प्राति- स्विकं नियत किंचन रूपं यदि स्यात् तदेवं संभाव- नापि भवेदिति भावः, श्रत एव 'घटो मदात्मना वेत्ति वेम्यहं च घटात्मना।' इत्यादिरन्यैरुक्तम् । ननु यद्येवं तर्हि तदभिधाय- कत्वशब्दाभिप्रायेणापि द्वैतं स्यात् ? इत्याह 'शब्दा- स्तेऽप्येकमेव च हात, एकमिति-संवेद्यमानत्वात्सं- वेदनमेवेत्यर्थः ॥१६॥ ननु यदि नीलसुखादि प्रकाशमानत्वात्प्रकाश एव तर्हि तत्केन रूपेण प्रकाशते ? इत्याशंक्याह पं०६ क. पु. प्रकाशरूपोऽर्थोभिधेय इति पाठः । पं०७० पु. प्रकाशव्यतिरेकेणेति पाठः । पं० १५० पु० नीलप्रकाशादि इति पाठः ।

श्रोतन्त्रालोकः। प्रकाशे ह्यप्रकाशांशः कथं नाम प्रकाशताम् । प्रकाशमाने तस्मिन्वा तद्वैतास्तस्य लोपिताः ॥२०॥ अप्रकाशेऽथ तस्मिन्वा वस्तुता कथमुच्यते॥ न प्रकाशविशेषत्व- मत एवोपपद्यते ॥२॥ अप्रकाशांश इति-सुखादिजडोऽर्थः, कर्थनामेति- केन रूपेणेत्यर्थः, तत्र यदि प्रकाशात्मनैव प्रका- शते तत्तस्य नीलसुखादेः स्वभावस्य दोषः स्यात्- नियतेन नीलत्वादिना बाह्येन रूपेण न भायात्प्रकाश एव शिष्येत इति यावत् , अथ श्रप्रकाशात्मनानियते- नैव रूपेण प्रकाशते तत्तस्य सत्तानिश्चय एवन भवेत्, नहि प्रकाशमन्तरेण नीलादीनां कदाचिदपि स्वरूप दृष्टम् , 'अप्रकाशात्मना रूपेण प्रकाशते' इति वाचो- युक्तिश्च रिक्ता स्यात्, तदाह 'श्रप्रकाश' इत्यादि पं० ४ ख० पु० तत्र लेोपत इति पाठः । पं० १६ ग० पु० अप्रथात्मरूपेणोति पाठः ।

श्लोक २१] द्वितीयमासिकम् । प्रकाशः पुनर्नीलादिपरिहारेणानीलादावपि प्रकाशते, नीलादिर्हि उपाधिः, स च स्वस्वातन्त्र्यविजृम्भामा- त्ररूपत्वान्न वास्तवः,इत्यखण्ड एक एव प्रकाश उज्जृ. म्भते, यन्महिम्नव इदं तत्तन्नीलाद्याभासात्म विश्वं स्फुरेत्, अत एवाह 'नप्रकाशविशेषत्वमुपपद्यते' इति, अत इति-एकस्यैव श्रखण्डस्य प्रकाशस्य तत्तदा- भासात्मना स्फुरणात् । ननु 'नीलप्रकाशोऽन्यः, पीत- प्रकाशश्चान्य' इत्यादिरस्त्येव एषां भेदः, इति किमुक्तं 'न प्रकाशविशेषत्वमुपपद्यते' इति? नैतत्-औपाधिको ह्ययं भेदः, स च न वास्तवः-इत्युपपादितं बहुशः, नीलादयो हि प्रकाशत्वात्प्रकाशात्मका एव इति किं केन भेद्यम्, नहि स्वात्मनैव स्वात्मा भिद्यते इत्येत- दुक्तम् 'नच प्रकाशकरूपायां संविदि संविदन्तरमस्तिः एवं हि स्वरूपभेदकृते भेदव्यवहारे क्रियमाणे एकभेद- पं०४ क. पु० महिना तत्तन्नीलानीलाभास इति पाठः । पं० १० क. पु० स एव वास्तव इति पाठः । पं० १२ क० पु० भेद्यते इत्येतद्युक्तमिति पाठः । पं०१३० पु० अस्ति ते एवमिति पाठः । पं०१४ क. पु० भेदवते इति पाठः ।

१८ श्रीतन्त्रालोकः। प्रकाशरूपत्वमेवोक्तं भवेत् इति गजस्नानतुल्यत्वं स्यात्, ततश्च पुनरपि 'एकैवाखण्डवित्' इत्येव पर्यव- स्येत्, एवं च देशकालावपि प्रकाशदशामेवाधिशयानौ प्रकाश्यत्वात्प्रकाशैकात्म्यमेवावगाहमानौ कथंकारं प्रकाशस्य भेदाधायको स्याताम्, प्रकाशातिरेकाभ्यु- पगमे वा अनयोरत्र नित्यत्वव्यापकत्वाभ्या भेदाधाने- ऽसामर्थ्यम, इत्येक एवाखण्डःप्रकाशः, इति-मता- न्तरसिद्धिमभिवाञ्छन्तः परे पर निरस्ताः ॥२१॥ तदाह अत एकप्रकाशोऽय- मिति वादेऽत्र सुस्थिते। दूरादावारिताः सत्यं विभिन्नज्ञानवादिनः ॥२२॥ ननु यदि ज्ञानानि विभिन्नानि न संभवन्ति, तत् एकशब्दः किमपोहनायात्र प्रयुक्तः ? इत्याशंक्याह पं० ६ ० पु० नित्यव्यापकाभ्यां भेदादावसामर्थ्य मिति पाठः। पं० ७ ० पु० इति सत्यानन्तरसिद्धिमिच्छन्तः परमिति पाठः ।

१६ श्लोक २४] द्वितीयमाह्निकम् । प्रकाशमात्रमुदित- मप्रकाशनिषेधनात् । एकशब्दस्य न त्वर्थः संख्या चिद्व्यक्तिभेदभाक् ॥२३॥ अप्रकाश:-प्रकाश्यो नीलादिर्बाह्योऽर्थस्तावन्नि- षिद्धः, अतः 'प्रकाशः केवलोऽस्ति' इत्येकशब्दस्या- त्रासहायावृत्तिः, तदुक्तं 'एकशब्दस्यार्थः प्रकाशमा- त्रमुदितम्' इति, न पुनः प्रकाशभेदभाक् इत्येकहि- त्र्यादिलक्षणः संख्याओं, येन-मतान्तराण्यप्यपो- ह्यतया संभावनीयानि स्युः ॥२३॥ अत एवात्र भेदागूरक व्यवहारमात्रमपि न ज्ञायते, इत्याह नैष शक्तिर्महादेवी न परत्राश्रितो यतः। पं० ३ क. पु० नन्वर्थ इति पाठः । पं० ६ क. पु० एकशब्दस्यासहाया वृत्तिरिति पाठः । पं०७ ख० पु० शब्दस्यार्थः प्रकाशमानं तदितरदितरदिति न पुनरिति पाठः । पं० ८ ० पु० एकद्वित्वादिलक्षणसत्तानन्तराख्यान्यापोहतयेति पाठः ।

२० श्रीतन्त्रालोकः। न चैष शक्तिमान्देवो न कस्याप्याश्रयो यतः॥२४॥ नैष ध्येयो ध्यात्रभावा- न ध्याता ध्येयवर्जनात् । न पूज्यः पूजकाभावा- त्पूज्याभावान्न पूजकः ॥२५॥ न मन्त्रो न च मन्त्र्योऽसौ न च मन्त्रयिता प्रभुः। न दीक्षा दीक्षको वापि न दीक्षावान्महेश्वरः ॥२६॥ एष इति-व्याख्यातस्वरूपः परः प्रकाशः, शक्ति- शक्तिमदादयो हि शब्दाः संबन्धिशब्दत्वान्नित्यसा- पेक्षाः इत्यन्यागूरणमन्तरेण स्वार्थ एव विश्रान्ति लभन्ते, इति तैः क्रियमाणो व्यवहारो भेदनिष्ठ एव स्यात्, न चात्र परप्रमात्रेकात्मनि प्रकाशे भेदः कश्चिदस्ति, इत्येवं-व्यवहारमात्रतां कदाचिदपि स पं० ५ क० पु० न पूजा पूजकेति पाठः ।

२१ श्लोक २७] द्वितीयमाह्निकम् । न यायात्, अतश्च नायं शक्तिः, सा हि परं शक्तिम- न्तमाश्रित्यैव वर्तते इत्यनपेक्षत्वाद्भेदाविर्भावे प्रकाश एवैकः, इति प्रतिज्ञाया हानिः स्यात्, एवं शक्तिमच्छ- ब्दव्यवहारोऽपि नायं, सोऽपि हि परं शक्तिलक्षण- मर्थमुररीकृत्यैव वर्तते, इति भेद एवापतेत्, एवं ध्येयादावपि ज्ञेयं, मन्त्र इति मन्त्रस्य प्रणवादेर्वा- च्यः, मन्त्रयिता मन्त्राणां पाठकः, न दीक्षेति कर्त- कर्मापेक्षित्वात् , अत्र च माहेश्वर्ये प्रभुत्वं हेतुः ॥२४-२५-२६॥ अत एव यत्किंचन भेदाधायकं तदत्र नास्ति, इत्याह स्थानासननिरोधार्घ- संधानावाहनादिकम् । विसर्जनान्तं नास्त्यत्र कर्तृकर्मक्रियोज्झिते ॥२७॥ , पं० २ ग० पु० इत्यनाक्षेपादिति पाठः । पं० ४ क० ख० पु० सोऽपि स्वशक्तिलक्षणमुररीकृत्य इति पाठः । पं० ६ ख० पु० मन्न्य इति मन्त्रणस्येति पाठः ।

२२ श्रीतन्त्रालोकः। स्थान-स्थापनमुद्रया भगवतोऽवस्थानम्, श्रासनं- संनिधानमुद्रया पूजां प्रति औन्मुख्यं, निरोधः-तत्रै- वाविचलत्त्वेनावस्थानम् , अर्घोऽष्टाङ्गः, संधानं मन्त्रा- दिविषयम,आवाहनं-अनभिमुखस्याभिमुखीकरणं, विसर्जनम् - अभिमुखीभूतस्यानभिमुखीकरणम्, एषामावाहनादिविसर्जनान्तानामसत्त्वे हेतुगर्भ विशे- षणं-कर्तृ इत्यादि' कादीनां हि विकल्पैकपरमार्थ- त्वात्, प्रकाशस्य च परप्रमानेकात्मकत्वेनाविकल्प्य- त्वात् न केनचिदपि व्यपदेशेन व्यपदेष्टुं शक्यते, इति 'नैष शक्तिः' इत्याधुक्तम् ॥२७॥ न चैतद्युक्तिमात्रशरणम्, अपि त्वागमेनापि सिद्धम्, इति श्रीभगशिखां संवादयति । न सन्न चासत्सदस- न च तन्नोभयोज्झितम् । दुर्विज्ञेया हि सावस्था किमप्येतदनुत्तरम् ॥२८॥ पं० २ ख० पु० पूज्यं प्रति इति पाठः । पं०७ ख० पु. कादयो हि इति पाठा, तदनुसारेण शक्यन्ते इति च समु- चितः प्रतिमाति ।

२३ श्लोक ३०] द्वितीयमाह्निकम् । अयमित्यवभासो हि यो भावोऽवच्छिदात्मकः। स एव घटवल्लोके संस्तथा नैष भैरवः ॥२६॥ लोके हि सजातीयव्यावृत्तौ यः कश्चिदर्थः 'अयमिति पुरोवर्तित्वेनावभासते भावः, स एव 'सत्' इत्यभिधीयते, यथा-घट इति, समनन्तरव्या- ख्यातस्वरूपः प्रकाशः पुनरनन्तभावनिर्भरोन तथा- महासत्तात्मत्वेनानवच्छिन्नत्वात् नैवंरूपः- सच्छब्द- व्यवहार्यो न भवति, इति यावत् ॥२८-२६॥ एवं तीसच्छब्दव्यवहार्यो भवेत् ? इत्याशंक्याह असत्त्वं चाप्रकाशत्वं न कुत्राप्युपयोगिता। प्रकाश एव सर्वभावानां परा सत्ता इत्यसत्त्वं नामाप्रकाशत्वमकिंचिद्रूपत्वमुच्यते, यथा- शशवि- पं० २ क. पु० यो मावो वा चिदात्मक इति पाठः । पं०५ क. पु० व्यावृत्ततायाः कश्चनार्थ इति पाठः । पं०८ क० ख० पु. पुनरन्तर्भावेति पाठः । पं० १ ० पु० महासत्तात्मस्वान्नैवमिति पाठः। पं० १२ ग० पु. असत्यं चाप्रकाशस्येति पाठः ।

श्रीतन्त्रालोकः। षाणादेः, अत एव च तन्न कुत्रापि कस्यांचिदपि अर्थक्रियायामुपयुक्तम् - न कांचिदप्यर्थक्रियां करो- ति, इति यावत् ॥ प्रकाशः पुनर्न तथा इत्याह विश्वस्य जीवितं सत्यं प्रकाशैकात्मकश्च सः ॥३०॥ विश्वस्य-चेतनाचेतनात्मनः सर्वस्य, पारमार्थिक जीवितं- स्फुरत्तात्मकत्वेन अनुप्राणकं, नहि तेन विना किंचिदपीदं प्रकाशते, इत्युक्तम् 'प्रकाशैकात्म- कश्च' इति-एवमनेकरूपत्वादसच्छब्दव्यवहार्योऽपि, न भवेदिति भावः ॥३०॥ अत एव सदसदात्मापि न, इत्याह प्रापयामेव तु हेतुभ्यां न द्वयात्मा न द्वयोज्झितः। सर्वात्मना हि भात्यष केन रूपेण मन्त्र्यताम् ॥३१॥ श्राभ्यां-समनन्तरोक्ताभ्यामनवच्छिन्नत्वप्रका- श्लोक ३१] द्वितीयमाह्निकम् । शमानत्वलक्षणाभ्याम्, ननु यद्येवं तर्हि सदसदात्म- करूपद्वयोत्तीर्णः स्यात् ? इत्याशंक्याह 'न द्वयेत्यादि भावाभावावभासकालेऽपि स एव हि परमवभासते, इति कथं सदसद्भ्यामप्युज्झितः स्यात् ? अत श्राह 'सर्वात्मना हि भात्येष' इति,- एवमेतत्परप्रमात्रे- कात्म भवत्येव अन्यथा ह्यनवच्छिन्नरूपत्वात्कदाचि- दपि विकल्पतां न यायात् इति तात्पर्यार्थः, यदुक्तम् 'सतोऽवश्यं परमसत्सच्च तस्मात्परं विभो। त्वं चासतः सतश्चान्यस्तेनासि सदसन्मयः॥' इति । तथा 'न शान्तमुदितं वापि तव रूपं न मध्यमम् । रूपं रूपं तव हरे यन्न केनचिदुच्यते ॥' इति, श्रतश्च केन तावत्कल्पितेन रूपेण एत- दुच्यते इति न जानीमः, इयं हि दशा विकल्पोपहत- बुद्धीनां मायाप्रमातॄणां दुर्विज्ञेया-यथोक्तयुक्त्या ज्ञातुमशक्यैवेत्यर्थः, साक्षात्कृतपरमात्मतत्त्वानामवि- पं०५क० पु० परप्रमाणको भवतीति पाठः । पं०१४ क० पु० केन तावक्रियते केनेति पाठः ।

श्रीतन्त्रालोकः । कल्पवृत्तीनां पुनरेतत्स्वानुभूतिमात्ररूपपरानन्दच- मत्कारघनत्वेन सर्वातिशायि भासते एव, इत्युक्तं 'किमप्येतदनुत्तरम्' इति ॥३१॥ न केवलमेतदवोक्तं यावदन्यत्रापि, इत्याह श्रीमत्रिशिरसि प्रोक्तं परज्ञानस्वरूपकम् । शक्त्या गर्भान्तर्वर्तिन्या शक्तिगर्भ परं पदम् ॥३२॥ 'परं ज्ञानं कथं देव' इति देवीप्रश्ननिर्णयार्थ होत- दत्र परज्ञानरूपं भगवतोक्तमित्याशयः, तदेव पठति 'शत्त्या' इत्यादि, यदेतत्परं पदं तच्छक्तिगर्भ, शक्ति- रेख स्वातन्त्यविमर्शादिपदाभिधेया गर्भः सारं यस्य तत्, सा च न तदतिरेकिणी, इत्याह 'शक्त्या गर्भा- न्तर्वतिन्या' इति, यतस्तयैव स्वातन्ख्याख्यया शक्त्या गर्भोऽन्तरं प्रमात्रैकात्म्यं तस्यान्तः परा काष्ठा तेन वर्तते तच्छीला-तया स्वस्वभावरूपयोपलक्षित- मित्यर्थः, अन्यथा ह्यस्य परत्वमेव न स्यात्, यदुक्तम् पं० ७ ० पु. गर्भान्तवासिन्या इति पाठः ।

'तेन
श्लोक ३३]
द्वितीयमाह्निकम् ।
२७
'स्वभावमवभासस्य विमर्श विदुरन्यथा।
प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः॥
इति, अत एव शक्तौ स्वातन्ल्यात्मनि स्वभाव
एव तिष्ठति-सदैव ताद्रूप्येण वर्तत इत्यर्थः, अत
एव शक्तिगर्भ-स्वातन्त्र्यशक्तिमन्तरेण नास्यान्याः
शक्तयो विद्यन्ते इत्यर्थः, सैव हि तत्तदेषणीयाद्यर्थो-
पाधिवशान्नानात्वेन व्यवह्वियत इति भावः, यदुक्तम्
स्वातन्त्र्यशक्त्यैव
युक्त इत्याचसो विधिः।
बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता ॥
इति, तेन 'स्वतन्त्रो बोधः परमार्थः' इत्यायुक्तनी-
त्यानवच्छिन्नस्वरूपः स्वातन्त्र्यशाल्यविकल्पकः प्र-
काश एव परं तत्त्वम्, इति तात्पर्यम् ॥ ३२॥
अत एव च नियतव्यवच्छेदासहिष्णुत्वादेतद्विक-
ल्प्यतां नैति, इत्याह
न भावो नाप्यभावो न
द्वयं वाचामगोचरात् ।
अकथ्यपदवीरूढं
शक्तिस्थं शक्तिवर्जितम् ॥३३॥

२८ श्रीतन्त्रालोकः। अगोचरादिति भावप्रधानो निर्देशः, तेन वाचा- मगोचरत्वादकथ्यपदवीरूढमित्यर्थः। एतच्च सर्वमस- कृत्त्वेनैव व्याख्यातम्, इति न पुनरायस्तम् ॥३३॥ ये चातोऽवहितास्त एव परं कृतकृत्याः, इत्याह इति ये रूढसंवित्ति- परमार्थपवित्रिताः। अनुत्तरपथे रूढा- स्तेयुपायानियन्त्रिताः ॥३४॥ इति-उक्तेन गुरूपदेशादिना, रूढा-तदैकाम्य- लाभादापादितप्ररोहा, या संवित्तिः, तस्या यःपर- मार्थः-सर्वसर्वात्मत्वेन स्फुरणं,तेन पवित्रिताः-भेद- विकारकालुष्यापनयनेन परमाद्वयपात्रतामापादिताः, अत एव तेव्यतिरिक्तेन बाह्येनाभ्यन्तरेण वाभ्युपायेन अनियन्त्रिताः-तन्निरपेक्षाः सन्तः, अनुत्तरपथे- पूर्णानन्दचमत्कारधनतया सर्वातिशायिनि चिद्विका- an पं० १२० पु० विकारकारककालुष्यापनयेनेति पाठः । पं०१३० पु० तेनाव्यतिरिक्तनेति पाठः ।

श्लोक ३५] द्वितीयमाह्निकम् । २६ सात्मवृत्तिमार्गे विश्रान्ताः-स्वरसावस्थानेनैव लब्ध- तत्सामरस्या इत्यर्थः, तदुक्तम् , 'यथा स्थितस्तथैवास्स्व मा गा बाह्यमथान्तरम् । केवलं चिद्विकासेन विकारनिकराञ्जहि ॥ इति । तथा 'अानन्दशक्तिविश्रान्तो योगी समरसो भवेत् ।' इति । तथा 'उपायो नापरः कश्चित्स्वसत्तावगमादृते। तामेवानुसरन्योगी स्वस्थो यः स सुखी भवेत् ॥' इति ॥३४॥ ततश्च किम् ? इत्याह तेषामिदं समाभाति सर्वतो भावमण्डलम् । पुरःस्थमेव संवित्ति- भैरवाग्निविलापितम् ॥३५॥ तेषाम् -अनुपायसमावेशशालिनां, देहाद्यपेक्षया पुरोऽवभासमानमपि इदं सर्व भावमण्डलं 'मत्त एवोदितमिदं मय्येव प्रतिबिम्बितम् । मदभिन्नमिदं च पं० ४ ० पु. केनचिचिद्विकासेनेति पाठः। पं०६० पु० योगी स परम इति पाठः।

३० श्रीतन्त्रालोकः। इत्यादिनीत्या पूर्णसंविन्मयतयैवावभासते इत्यर्थः, यदुक्तम् 'यथा रुमायां पतिताः काष्ठपोपलादयः । लवणत्वाय कल्पन्ते तथा भावाश्चिदात्मनि ॥' इति ॥३५॥ अत एवाह एतेषां सुखदुःखांश- शंकातंकविकल्पनाः। निर्विकल्पपरावेश- मात्रशेषत्वमागताः ॥३६॥ एषांन मन्त्रो न ध्यानं न पूजा नापि कल्पना। न समय्यादिकाचार्य- पर्यन्तः कोऽपि विनमः ॥३७॥ न केवलमेषामविकल्पकावेशमयत्वापत्तेः लौकिक्य एव कल्पनाः न किंचित् , यावदलौकिक्योऽपि, इत्याह 'एषामित्यादि' कल्यना-स्थानादिका ॥३६-३७॥ पं० ० ० पु० सुखदुःखानां शङ्कति पाठः । पं० क. पु० परामर्शमात्रेति पाठः। पं० १३ ग० पु० चर्यापर्यन्त इति पाठान्तरं चास्ति ।

श्लोक ३८] द्वितीयमाह्निकम् । ३१ ननु यद्येवं तस्य शेषवृत्तिः कथं स्यात् ? इत्या- शंक्याह समस्तयन्त्रणातन्त्र- त्रोटनाटकधर्मिणः। नानुग्रहात्परं किंचि- च्छेषवृत्तौ प्रयोजनम् ॥३८॥ समस्ताः-निखिलाः शास्त्रोक्ता यन्त्रणा-'इदं कार्यम् इदं न इत्यादयो नियमाः, ता एव तन्यमान- त्वात्तन्त्रं-पटाद्यारम्भकं तन्तुजालं, तस्य त्रोटनायां विच्छेदे, टंकर्मिणः शस्त्रकल्पस्येत्यर्थः, यथा हिटंक- स्तन्त्रबिनत्ति, तथायमपि अनुपायसमाविष्टःशास्त्रीया यन्त्रणाः- नहि प्रारूढस्यास्य ततः कश्चित्संकोच इति भावः, शास्त्रं हि आरुरुजूनुपदेश्यान्प्रत्येव निया- मकम् , इति समनन्तरमेवोक्तम्, अत एव चास्य स्वात्मनि कृतकृत्यत्वात्परानुग्रहार्थमेव वर्तनम् इत्याह : पं० ख० पु० तन्यमानत्वात्तन्त्रं पटादि, तत्र त्रोटना अवच्छेदस्तदर्थ, टंकवद्वि- दारणधर्मिणः शस्त्रकल्पस्येत्येवंविधः पाठः ।

श्रीतन्त्रालोकः। 'नानुग्रहादितिः किंचिदिति- समयपरिपालनादि ॥३८॥ तदाह स्वं कर्तव्यं किमपि कलयंल्लोक एष प्रयत्ना- न्नो पारायं प्रति घटयते कांचन स्वप्रवृत्तिम् । यस्तु ध्वस्ताखिलभवमलो भैरवीभावपूर्णः कृत्यं तस्य स्फुटमिदमियल्लोककर्तव्यमात्रम्॥३६॥ एष लोकः संकुचितः प्रमातृवर्गः तावत् अभिलाषो मलोऽत्र तु। इत्यादिनीत्या लौकिकाणवमलयोगादात्मन्यपूर्ण- मन्यतया किमपि' इति सामान्येन निर्देशात्सर्वमा- त्मीयं कर्तव्यं, यत्नतः-श्राकांक्षणीयत्वेन, कलयन् 'तदसिद्धं यदसिद्धेन साध्यते।' इत्यादिनीत्या यस्य स्वार्थ एव न सिद्धः स कथं परार्थ प्रत्यपि कांचन स्वल्पामपि स्वप्रवृत्तिं घट- यते घटितापि वा तत्प्रवृत्तिन किंचित्कुर्यात् इति भावः, यः पुनरनुपायसमाविष्टत्वादेव खिलीकृत- पं०१० पु० पारक्यमिति पाठ ।

श्लोक ३६] द्वितीयमाह्निकम् । निखिलबन्धः,अत एव भैरवीभावेन भगवदद्वयज्ञाना- पत्त्या स्वात्मनि कृतकृत्यत्वेन -श्राकांक्षणीयस्यैवा- भावात् पूर्णः-अनन्योन्मुखतया स्वात्मन्येव विश्रा- न्तः, तस्येयता निखिलस्य लोकस्य ग्रन्थकर्तव्यमवश्यं कार्य स्वात्मप्रत्यभिज्ञापनं, तन्मात्रमेवेदं स्फुटम् - अपरिम्लानं कृत्यं -लोकानुग्रह एवास्य कर्तव्य इत्यर्थः, नहि अस्यात्मनि प्राप्तप्राप्तव्यत्वात्किंचित्कर- णीयमस्तीति भावः, यद्गीतं भगवता 'यस्त्वात्मरतिरेव स्यादात्मवृप्तश्च मानवः । आत्मन्येव च संतुष्टस्तस्य कार्य न विद्यते ॥' इति । 'न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥' इति च ॥३६॥ द्विविधाश्च परानुग्रहाः-निमलसंविदोऽनिर्मल- संविदश्च, तत्र निर्मलसंविदः प्रति तावन्निरुपकरण- मेवास्यानुग्रहकारित्वम् , इत्याह पं०१० पु० ज्ञेयज्ञानोपपच्या इति पाठः ।

श्रीतन्त्रालोकः ।
तं ये पश्यन्ति तादूप्य-
क्रमेणामलसंविदः ।
तेऽपि तद्रूपिणस्ताव-
त्येवास्यानुग्रहात्मता ॥४०॥
ये पूर्वाभ्यासादिना निर्मलसंविदः, तीव्रतीत्रश-
क्तिपातभाजोवा,तं-समनन्तरोक्तस्वरूपं, ताद्रूप्यक्र-
मेण पश्यन्ति 'निरुपायसमावेशभागयम्' इति ज्ञान-
पूर्व साक्षात्कुर्वन्ति, अतस्ते परदर्शनमात्रेणैव तत्सं-
वित्संक्रमात्
'दीपाद्दीपमिवोदितम् ।'
इति वक्ष्यमाणनीत्या निरुपायसमावेशभाक्क्वेन
तत्सहक्षा एव भवन्ति इति शेषः, एवंरूपं सिद्धादि-
दर्शनं च निरुपायसमावेशे निमित्तम्, इति प्रागेव
संवादितम्
'सिद्धानां योगिनीनां च दर्शनम्...........।'
इत्यादि, अत एव तावती दर्शनमात्ररूपैवास्य
अनुग्रहात्मता, न तु वक्ष्यमाणोपायादिसव्यपेक्षा,
इत्यर्थः ॥ ४०॥

३५ श्लोक ४१] द्वितीयमाहिकम् । ननु सर्वत्र दीक्षायाः •मुक्तिश्च शिवदीक्षया। इत्याद्युक्त्या मुक्तावुपायत्वमुक्तम्, इति कथमत्र दीक्षा विनापि दर्शनमात्रादेव तदवाप्तिरुक्ता? इत्याशंक्याह एतत्तत्त्वपरिज्ञानं मुख्यं यागादि कथ्यते । दीक्षान्तं विभुना श्रीम- सिद्धयोगीश्वरीमते ॥४॥ एतस्य समनन्तरोक्तस्य निरुपायात्मनस्तत्त्वस्य परिज्ञानमेव मुख्यया वृत्त्या 'यागहोमादि' श्रीसिद्ध- योगीश्वरीमतादौ-सर्वत्रैवागमे "विभुना' कथ्यते इति संबन्धः, अत एव च बाह्य यागादि गौणम् - इत्यर्थसिद्धम्, अन्यथा ह्यस्य मुख्यत्वमेव न स्यात्, यदभिप्रायेणैव चर्याक्रमेऽप्येतन्निषिद्धम्, यदुक्तम् 'नास्य मण्डलकुण्डादि किंचिदप्युपयुज्यते । न च न्यासादिकं पूर्व स्नानादि च यथेच्छया ॥' इति ॥४१॥ तदेव पठति पं०१४ क० पु० चर्यास्थण्डिलाद्यपि निषिद्धमिति पाठः ।

३६ श्रीतन्त्रालोकः। स्थण्डिलादुत्तरं तूरं तूरादुत्तरतः पटः। पटाड्यानं ततो ध्येयं ततः स्याहारणोत्तरा ॥४२॥ ततोऽपि योगजं रूपं ततोऽपि ज्ञानमुत्तरम् । ज्ञानेन हि महासिद्धो भवेद्योगीश्वरस्त्विति ॥४३॥ स्थण्डिलं -यागार्थं गृहीतो भूप्रदेशः, तर पात्रादावुत्कीर्ण आकारविशेषः। ज्ञानस्य सर्वोत्कृष्टत्वे हेतुमाह 'ज्ञानेन' इति, ज्ञानेन हि योगिनामधीश्वर! स्यादित्यर्थः, अत एव तदुपोद्वलनार्थं महच्छब्देश्वर- शब्दयोरपि प्रयोगः ॥४२-४३॥ श्रनिर्मलसंविदः प्रति पुनरस्य सोपकरणमेव अनुग्रहकारित्वम्, इत्याह सोऽपि स्वातन्त्र्यधाम्ना चे- दप्यनिर्मलसंविदाम् ।

श्लोक ४६] द्वितीयमाह्निकम् । अनुग्रहं चिकीर्षुस्त- द्भाविन विधिमाश्रयेत् ॥४४॥ स्वातन्त्र्यधाम्ना,न पुनःशास्त्रीययन्त्रणया-तत्त्रो- टनायाः समनन्तरमेवोक्तत्वात् ॥४४॥ भावी च विधिः कीदृक् ? इत्याह अनुग्राह्यानुसारेण विचित्रः स च कथ्यते। परापरायुपायौघ- संकीर्णत्वविभेदतः ॥४॥ 'परापर' इत्येकशेषः, तेन-परः शाम्भवः, अपरः प्राणवः, परापरः शाक्तः, संकीर्णत्वमुपायान्तर- साहित्यात् ॥४५॥ न केवलमस्य परानुग्रहार्थ भाविविध्याश्रयण- मुपयुका यावत्तदभिधायकं शास्त्राद्यपि, इत्याह तदर्थमेव चास्यापि एपमे चररूपिणः। कायापारी खेति पाठः।

३८ श्रीतन्त्रालोकः। तदायुपायशास्त्रादि- श्रवणाध्ययनादरः॥४६॥ न केवलमारुरुतूणामेव शास्त्रमुपादेयं यावदस्या- पि, इति अपिशब्दार्थः, यदुक्तम् 'शंकाशून्योऽपि तत्त्वज्ञो मुमुक्षुप्रक्रियां प्रति । न त्यजेच्छास्त्रमर्यादामित्याज्ञा पारमेश्वरी॥' इति ॥४६॥ नन्वेवमुपायमुखप्रेक्षित्वादस्य स्वातन्त्र्यहानिः स्यात् ? इत्याशंक्याह नहि तस्य स्वतन्त्रस्य कापि कुत्रापि खण्डना। नानिर्मलचितः पुंसो- ऽनुग्रहस्त्वनुपायकः॥४७॥ नहि अस्य प्रारुरुत्वदात्मन्युपायापेक्षा ये खात- व्यखण्डना स्यात्, किं तु स्वात्मनि कृतकृत्यत्वा- त्परार्थमस्य तत्स्वीकारः, यतः परेषामनिलचित्त्वा- दुपायमन्तरेण न अनुग्रहः सेत्स्यति, इति-भावि- विध्याश्रयणाद्यप्युक्तम् , यद्गीतं .

३६ श्लोक ४८] द्वितीयमाह्निकम् । 'सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुलोकसंग्रहम् ॥' इति ॥४७॥ न चैतत्स्वोपज्ञमेवास्माभिरुक्तम् , अपितु भगवता, पूर्वाचार्यैश्च सर्वत्रैवोक्तम्, इति-निखिलस्य आह्नि- कार्थस्याविगीततां दर्शयितुमाह श्रीमदूर्मिमहाशास्त्रे सिद्धसंतानरूपके। इदमुक्तं तथा श्रीम- सोमानन्दादिदैशिकः ॥४८॥ । ऊर्मिमहाशास्त्र इति-श्रीमदूर्मिकौलसिद्धसंता- नरूपके, इत्यनेन पादोवल्यां पारम्पर्येऽप्यम्लानत्वं दर्शितम्, तत्र हि 'शून्यं न कंचित्तच्छून्यं त्वशून्यं शून्यता नहि । यदकिंचित्कथं तद्धि न किंचिच्छेत्तुमर्हति ।' इति भगवत्या पृष्टो भगवान् 'आत्मा शून्य इह ज्ञेयः शिवधर्मैर्विनाकृतः । शिवः शून्योऽधिगन्तव्यो विमलो मूर्तविग्रहः ॥' इत्याद्युपक्रम्य ४० 'नास्त्यस्ति नास्ति नास्तीति कोटयो न स्पृशन्ति हि। वाचामगोचरं यस्मात्तत्तत्त्वमिह कथ्यते ॥ यदभावि न तद्भावि यद्भावि न तदन्यथा । एवं विचिन्त्य मतिमान्विकल्पं न समाश्रयेत् ॥ तच सर्वगतं सूक्ष्ममुपाधिपरिवर्जितम् ।' इत्यादिपर्यन्तं बहूक्तवान् । श्रीमत्सोमानन्दादिदैशि- कैः उक्तमिति -श्रीशिवदृष्टयादौ, यदुक्तं तत्र 'भावनाकरणाभ्यां किं शिवस्य सततोदितेः । इति । 'सकृज्ज्ञाते सुवर्णे किं भावना करणं ब्रजेत् । एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः ॥ ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना। करणेन नास्ति कृत्यं वापि भावनयापि वा ।' इति च ॥४८॥ तदेव सर्वत्रावधातव्यामित्याह गुरोर्वाक्यायुक्तिप्रचयरचनोन्मार्जनवशात् समाश्वासाच्छास्त्र प्रति समुदिताद्वापि कथितात् । विलीने शंकाने हृदयगगनोद्भासिमहसः प्रभोः सूर्यस्येवस्पृशत चरणान्ध्वान्तजयिनः॥४६॥ पं० १०० पु० कारणमिति पाठः । पं० १३ क० पु० करणे नास्ति कृत्यं चेति पाठः । पं० १५० पु० तदेवमनापीति पाठः ।

- श्लोक ४६] द्वितीयमाह्निकम् । गुरोरित्यादिवाक्यात्सकृदुपदेशाद्यात्मनः 'श्रात्मै- वेश्वरः सर्वज्ञः सर्वकर्ता च' इत्यादिकानां युक्तीनां प्रचयस्य या रचना-परपक्षबाधनस्वपक्षसाधनाधा- यिका शास्त्रपरिपाटी, तया उन्मार्जनं-बौद्धाज्ञानोत्पुं- सनं, तद्वशात् -बौद्धज्ञानोदयेन स्वपरामर्शदाढा- दित्यर्थः । शास्त्रं-प्रभुसंमितमद्वैतागमं प्रति समा- श्वासात्प्रत्ययादिति, व्यस्तात्-गुरुतःशास्त्रतः स्वतः तीव्रतीव्रशक्तिभाजां,यद्वा समुदितात्-समस्तात्कथि- तात् एतस्मात्रयादपि तीब्रमध्यादिशक्तिपातभाजां, शंकाविकल्प एवावारकत्वादभ्रं, तस्मिन्विलीने सति, हृदयं-विमर्श एव अनवच्छिन्नत्वाद्गगनं तत्रोच्चैर्भास- नशीलं-ज्ञत्वकर्तृत्वलक्षणं महः तेजो यस्य, अत एव ध्वान्तस्य स्वात्मप्रच्छादनेनोपाश्रितस्य द्वैतप्रथात्म- कस्य अज्ञानस्य,जयिनःप्रभोः-विश्वात्मकत्वेन प्रभव- नशीलस्य परमात्मनः, चरणान् -चरेर्गत्यर्थत्वादाण- वादीनि ज्ञानानि, यूयं-समनन्तरोद्दिष्टाः तीव्रतीवा- दिशक्तिपातभाजः, स्पृशत-यथोत्तरं स्वात्ममयतयैव पं०७ ख० पु. शास्त्रात् स्वस्माद्यदा तीव्र इति पाठः । ६ श्रीतन्त्रालोकः। भावयध्वमित्यर्थः, अत एव चास्य सूर्येणौपम्य- मुक्तं, तस्यापि हि अभ्रे गलिते गगनोद्भासित्वेन अन्धकारं निराकुर्वतः पादस्पर्शः उचितः ॥४६॥ इदानीमाह्निकार्थं श्लोकस्य प्रथमाधैनोपसंहरति इदमनुत्तरधामविवेचक विगलितौपयिकं कृतमाह्निकम् ॥५०॥ उपाय एवौपयिकमिति शिवम् ॥ तत्तद्ग्रन्थाधिगमो- पायशतान्वेषणप्रसक्तेन । अनुपायाह्निकमेतद्- व्याख्यातं जयरथेनाशु॥ इति श्रामदाचार्याभिनवगुप्तपादविरचिते, श्रीजयरथाचार्यकृतप्रका- शाख्यव्याख्योपेते श्रीतन्त्रालोके अनुपायप्रकाशनं नाम द्वितीयमाह्नि- कम् ॥२॥ एतत्काश्मीरभूपालसंश्रितेन प्रकाशितम् । सता मुकुन्दरामेण सन्मुदेऽस्तु शिवेऽर्पितम् ॥ पं०६क० पु० स्वात्मतयेति पाठः । पं०७० पु० जयरथेन चित्रम् इति, ग० पु० जयद्रथेन रचितमिदमिति पाठः।

The Tantraloka Of Abhinava Gupta Vol.i

Author
Mukund Ram Shastri
Title
The Tantraloka Of Abhinava Gupta Vol.i
File name
The Tantraloka Of Abhinava Gupta Vol.i
Text
OCR done
Citation
1918
Publisher
The Research Dept. Jammu & Kashmir State
Language
Sanskrit
Pages
354
Library
Central Archaeological Library_asi_new Delhi
Classification
Litrature
DLI number
284203
Barcode
5990010905185.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
muoROTjCyx7
Download PDF

The Tantraloka Of Abhinava Gupta Vol.i