Allahabad University
Kalviveka
Front matter
संक्रान्तिनिरूपणम् । ३८५ था। अन्य- “वर्तमाने तुलामेषे नाड्यस्तूभयतो दश" इति. चोभयत्रैव उभयपुण्य पृष्ठपुण्यत्वाभिधानात्। पाखंत उभयतः षोड़श नायः दश वा ता दिवासम्बन्धिन्च एव ग्राह्याः । थाईरात्रसंक्रमणे उभयतः षोड़शनाड़ीनां रात्रावेव समाप्तत्वात् कथं पूर्वदिने वा संक्रान्तिकालाभावे तन्निमित्तकर्माचरणम् । तेन संक्रान्तिपूर्वभूतदिनसम्बन्धिन्यः परभूताश्चेत्यस्यार्थो न च रात्रिकालव्यवाये तत्पूर्वपरभूतदिनसम्बन्धिन्यो न भवन्ति दिन- सम्बन्धिनाडिकाभिरव्यपेतत्वात् । अतएव वशिष्ठः। “अईराबादधस्तस्मिन् मध्याह्नस्योपरिक्रिया। जी संक्रमणे चोडमुदयात् प्रहरदयम् ॥" अईरात्रात् . पूर्वसंक्रमणेऽपरदिनसम्बन्धिषोडशनाड़ीनामपि पुण्यत्वप्रसती तत्रापवादार्थवचनम् । एवं पराईसंक्रमणे पूर्व- नाड़ीनां दिनसम्बन्धिनीनामपवादः । अर्द्धरात्रे इयोरपि नाप- वादः। यथारुचि क्रिया पूर्वत्र परत्र वा। न तूभयनिमित्तस्य सकत्त्वे नैमित्तिकस्यापि सक्तत्त्वात् ननु संक्रान्तेरव्यवहितावेव पूर्वापरकालौ दिवादिविशेषानपेक्षी कुतो न रोते। उच्यते । "रात्री संक्रमणे भानोडिंवा कुर्यात्तु तक्रियाम् । पूर्वस्मात् परतो वापि प्रत्यासत्तेस्तु तत्फलम् ॥” पनि दिवाकालस्य विहितत्वात् उभयतो दशषोड़शादि- विधानं दिनसम्बन्धिनि व्यवतिष्ठते । अईरात्रात्त पूर्वसंक्रमणस्य कालविवेक पूर्वस्मादनः प्रत्यासत्वात्परसंक्रमणस्य च परस्मादासन्नवत् पूर्वदिने परदिने व्यवस्थामात्रम् । यथा मध्याहस्योपरिक्रिया उदयाबहरहयमिति वचनदयम् । ननु रात्रावपि संक्रान्तिनिमित्तं स्नानमाह वैवस्वतः । "ग्रहणोहाहसंक्रान्तियाबार्तिप्रसवेषु च । सानं नैमित्तिकं ज्ञेयं रात्रावपि तदियते ॥" उच्यते, संक्रान्तिमानस्यावश्यकर्तव्यत्वात् देवादिना दिवा न कृतं राबावपि कार्यमिति तस्यार्थः । दिवा कुर्य्यात्तु तत्- क्रियां तथा मध्याह्नस्योपरि तरिक्रयेत्यादिविरोधात् । ननु मध्याङ्गस्योपरीति विरुद्धम् । तदाह गायः। "कालान्यूनेऽईरात्रे तु यदा संक्रमणम्भवेत् । तदहः पुण्खमिच्छन्ति गाय॑गालवगीतमाः । सम्पूर्णे चोभयं पुण्यमतिरेके पर दिनम् ॥" अनेन वत्नस्याङ्गः पुण्यत्वाभिधानात् नैतत्तदहरिति परदिन- निवृत्या पूर्वदिनस्य पुण्यतामात्रार्थमेतन तु कत्मपरमपि गौरवा- मध्याह्नस्योपरिक्रियाविधिविरोधाश्च विषुवायनाभि- प्रायञ्चेति वक्ष्यामः। ननु कथं मध्याहस्योपरिक्रिया। पत्तेः। * कलान्यूने इति स्मा दिबहुप्रामाणिकग्रन्थे पठितम् । + सम्पूर्णे चोभयं ज्ञेयमविरके परेऽहनि इति स्मादिसम्भवः पाठः ।
संक्रान्तिनिरूपणम् । तथाहि ज्योतिःशास्त्रम् । “पूर्वोत्तरगते भागे रात्री संक्रमणं भवेत् । पूर्वाह्ने पञ्च नाड्यस्तु पुण्याः प्रोक्ता मनीषिभिः । अपराह्ने तु पञ्चैव दैवे पित्य च कम्मणि ॥" रात्रः पूर्वभागगते वा सूर्ये संक्रमणं यदि स्यात् तदापरालस्य वा पञ्च नाद्यः पुण्या इत्याह । अतएव । स्यात् । “अनि संक्रमणे पुण्यमहः कृत्स्नं प्रकीर्तितम् । रात्री संक्रमणे भानोदिनाई सानदानयोः ॥" पत्रार्जशब्दो न समग्रविभागवचनस्तस्य नपुंसकत्वेनाई नपुंसक- मिति समासे पूर्वनिपातापत्तेः। अईराबवदईदिनमिति ततश्च पुंलिङ्गोऽयमईशब्द एकदेशवाची स चैकदेशः पञ्चनाध एव पूर्वोक्तवचनात् । अतएव लोकेऽप्यध्यष्टप्रहरीयाँ काचिकाचिच्च कोटिसंक्रान्तिरुच्यते। उच्यते पुण्यतमत्वार्थं तदिति गृह्यताम् । एतत्पूर्वभूताः परभूताश्चैताभ्यो न्यूनफलाः । तदर्थमेवाह । “या याः सन्निहिता नामस्तास्ताः पुण्यतमाः स्मृताः । रात्री संक्रमणे भानोविषुवत्ययने दिनम् ॥" न च पञ्चनाड़ीष्वपि प्रत्यासत्तिविशेषेण फलविशेष इति वाच्यम् । मध्याहस्योपरिकालस्य पञ्चनाड़ीनाञ्च पुण्यत्वपुण्यतमत्वविधि- मूलेनोपपत्तौ मूलान्तरकल्पनानुपपत्तेः। सर्वसंक्रान्तिष्वेव प्रत्यासबपञ्चनाड़ीनां पुण्यतमत्वं वेदितव्यम् । रात्रिग्रहणमात्री- ३८८ कालविवेक पलक्षणम् । तेन यत्र यावान् पूर्व: परो वा उभयविधौ वा तत्र प्रत्यासन्नपञ्चनाड़ीनां पुण्यतमत्वमित्यर्थः । यच्चाङ्गि संक्रमण पुण्यमहः कृत्स्न मिति तत्संक्रमणमात्रश्रुतिः। सर्वसंक्रान्तिष्वेव कृत्स्नमहः पुण्यम् । अहनि संक्रमणात्तु तहिशेषविहितं कालं विनापि तस्मिनहनि कम्मणा कतैनाकरणनिमित्त प्रत्यवायपरी- हारो भवति। दानादिकमिति यथोक्ताकालादल्यफलमिति तस्यार्थः। विषुवत्ययने दिनमिति च । विषुवायनयोस्तु रात्रा- वपि संक्रमण दिनमेव वत्सं पुण्यम् । अन्यथा विषुवायनपद- इयानर्थक्यापत्तेः। तदेवं त्रिविधः संक्रान्तिकालः पुण्यमहः । पुण्यतरविशेषः विहिता नायः पुण्यतमश्चेत् संक्रान्तिप्रत्यासन्नाः पञ्च नाड़िकाः। विषुवे विशेषमाह। "विप्रेभ्यः पादुके च्छत्रं पितृभ्यो विषुवे शुभान् । शक्तून् शर्करया मिश्रान्दद्यात्सजलगर्गरीः ॥ यो ददाति तु मेषादौ शक्तू नम्बुघटान्वितान् । पितॄनुद्दिश्य विप्रेभ्यः सवन्तरति दुष्कृतम् ॥" उपवासार्थं पुण्य तमत्वमाहापस्तम्बः । "अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः । अहोरात्रोषितः स्नातः सर्वपापैः प्रमुच्यते ॥" तथा समुच्चये। "उपोष्थैव तु संक्रान्त्यां सात्वा योऽचयते रविम् । प्रातः पञ्चोपचारेण स काम्यं फलमानुयात् ॥
संक्रान्तिनिरूपणम् । ३८८ अयने विषुवे चैव त्रिरात्रीपोषितो नरः । स्वात्वा यः पूजयेदक स काम्यफलमाप्नुयात् ॥” इदञ्च पुत्ववहिपर्युदासेन मन्तव्यम् । तथा स्मरन्ति। “संक्रान्त्यां रविवारण ग्रहण चन्द्रसूर्ययोः । पारणञ्चोपवासञ्च न कुर्यात्युत्तवान् यही ॥" अयनेन रहिणां पुत्त्वतां संक्रान्त्यादिषपवासस्य निषिद्धत्वात् । कस्योपवासस्येत्यपेक्षायां संक्रात्यादिभिः खनिमित्तस्यैव शीघ्र वृद्धौ विधानम् । निमित्तान्तरस्याश्रुतत्वात् वारेवपि चोपवास- विधिरस्ति स्मृतिसमुच्चये। "सप्त वारानुपोष्यैव सप्तधा सप्तजन्मसु । सर्वपापविनिर्मुक्त: सर्वसम्पदमाप्नुयात् ॥" एतन्यायमूलमेव वचनम् । "तनिमित्तोपवासस्य निषेधोऽयमुदाहृतः। नानुषङ्गकते दोषो। यतो नित्यमुपोषणम् ॥" विषुवाणाञ्च विष्णुपुराणे दर्शितम् । "विशाखानां यदा सूर्यश्वरत्वंशं ढतीयकम् । तदा चन्द्र विजानीयात्वत्तिकाशिरसि स्थितम् ॥ सप्त वारान् उपोष्यैव सप्तधा संयतेन्द्रियः । सप्तजन्मकृतं पापं तत्क्षणादव नश्यति ॥ प्रत्येवंरूपं वचनं स्मादिप्रामाणिकग्रन्थकारैः लिखितम् । नानुषङ्गकती ग्राच्य इति स्ना दिसम्मतः पाठः कालविवेके कृत्तिकानां यदा सूर्यः प्रथमांशन्तु गच्छति । विशाखायान्तदा सूर्यास्तृतीयांशे निशाकरः ॥ तदेव विषुवाख्योऽयं काल: पुण्यो विधीयते । कत्तिकाप्रथमे भागे यदा भावांस्तदा शशी ॥ विशाखायाश्चतुर्थेऽशे मुने तिष्ठत्यसंशयः । तदा हि विषुकाख्योऽयं कालः पुण्यतमः स्मृतः ।। तदा दानानि देयानि देवेभ्यः प्रयतैर्नृभिः । पितॄनुद्दिश्य देवेभ्यस्त्रत्रानन्तफलं स्मृतम् ॥” प्राह पराशरः। "मेषादौ च तुलादौ च विषुवन्तु विभाव्यते । दत्तदानस्तु विषुवे कृतकृत्योऽभिजायते ॥" अथ पद्मपुराणम् । "विशाखासु यदा भानुः कृत्तिकासु च चन्द्रमाः। स योगः पद्मको नाम पुष्करेष्वतिदुर्लभः ॥” विशाखातीयपादे कत्तिकायाश्चादिपाद इत्यर्थः । विष्णुपुराण- कवाक्यखात् । तथा ब्रह्माण्डपुराणम् । "मेषान्ते च तुलान्ते च यदा चरति भास्करः । विषुवन्तु तदा विद्यादेवमाहुः श्रुतर्षयः ॥" मेषान्ते सूर्ये यदि चन्द्रः तुलान्ते वा सूर्ये यदि चन्द्रो मेषान्ते स्थादित्यर्थः । अथ पुराणे ।
युगादिनिरूपणम् ।
३८१
"मसूरं निम्बपत्राभ्यां पिबेन्मेषगते रवौ।
न विषं क्रमते तस्य यावदव्दं न पूर्यते ॥"
तथा।
“ये पिचुमईदलाभ्यां मेषगसूर्ये मसूरमनन्ति ।
मसूरिकारक्षकसै दूरे तेभ्यो नमस्कुरुतः ॥
पिचुमर्दो निम्बः। एतच्च यदा मेषस्थे सूर्ये चन्द्रोऽपि मेषे भवति
तदा तत्करणीयम् । मेषस्थे रविचित्रा इत्यादिपाठः। संक्रा-
न्तिषु च बाई पिण्डमन्तरेणैव कार्यम् ।
सथा मस्यपुराणे ।
"अयनहितये श्राद्धं विषुवहितये तथा।
संक्रान्तिषु च कर्तव्यं पिण्ड निर्वापनाहते ॥"
अथ संक्रान्तिसंग्रहश्लोकौ ।
"विषुवायनयोः पूर्वा या सा षडशीतिरुच्यते शास्त्रे ।
परभूता पुनरनयोविष्णुपदी सूर्यसंक्रान्तिः ॥
कर्कटे संक्रमणं दक्षिणमयनं तथोत्तरं मकरे।
मेषतुलासंक्रमणं विषुवहितयं जगत्ख्यातम् ॥"
इति संक्रान्तिनिरूपणम् ।
अथ युगादिनिरूपणम् ।
तत्र भविथपुराणे।
"वैशाखशुक्लस्य तु या तृतीया
नवग्यसौ कार्तिकशुक्लपक्षे ।
३८२ कालविवेके नभस्यमासस्य तमिस्रपक्षे त्रयोदशी पञ्चदशी च माघे ॥ युगादयः स्मृता ह्येता दत्तस्याक्षयकारिकाः ।" तथा। "कतोपवासाः सलिलं ये युगादिदिनेषु च । दास्यन्त्यबादि सहितं तेषां लोका महोदयाः ॥ वैशाखशुक्लपक्षे तु तीयायान्तथैव च । गङ्गातोये नरः सात्वा मुच्यते सर्वकिल्विषैः ॥" तत्र कश्चिन्मन्यते । न तूत्कर्षों युगादिष्वित्युत्कर्षनिषेधात् सौर- एव मासि युगादयः। चान्द्रेषु विहितस्य तद्दधे कमान्तरस्येवास्या- प्युत्कर्षः स्यात्तदयुक्तम् । इतरमादयोत्कर्षविधिसम्भवान्न सौर- यरिग्रह प्रमाणमिदं भवितुमर्हति । अतएव प्रतिषेधबलेनैव चान्द्रेषु वैशाखादिषु युगादय इति मन्यते शङ्खधरः। तत्र हि विहितस्य चान्द्रबैधे पूर्वस्य मलिम्लुचवेन कमान्तरवत् युगादि- वपि उत्कर्षप्राप्तौ न तूत्कर्षो युगादिष्विति निषेधोपपत्तेः । सौरस्य तु हित्वाभावादप्रसक्तप्रतिषेधापत्तेः । तथा माघासिते पञ्चदशी कदाचिदिति सौरफाल्गुने चान्द्रमासस्यामावास्याया युगाद्याया वरुणनक्षत्रयोगेन पुण्यतमत्वाभिधानं चान्द्र एव मासि युगादि- रिति ज्ञापयति । तथा प्रौष्ठपद्यादूई कृष्ण त्रयोदशीति चान्द्र- भाद्रस्य कृष्णत्रयोदशी युगादिरित्याह। सा हि प्रायशः कन्यागत- एव भवति न चासौ सौरे भाद्रश्चान्द्रस्तु भवति तथा वैशाख- कार्तिकयोः शुक्लपक्ष माघभाद्रयोश्च कृष्णपक्षे युगादिरिति युगादिनिरूपणम् । ३८३ वचनमाह। तौ च पक्षौ चान्द्रस्यैव न सौरस्य । स एव काल- चन्द्रक्षयत्वात् पुण्यो युगादित्वात् पुण्यतरो वारुणनक्षत्रयोगाच पुण्यतमः। यच । “दशहराखनुत्कर्षश्चतुर्वपि युगादिषु । उपाकर्मणि चोत्सर्गे तत् कर्त्तव्यं वृषादितः ॥" इति तदनाकरमित्युक्तम् । तदप्ययुक्तम् । वैशाखादिपदानां सौरमात्रवचनत्वात्तथैव युगादीनां युक्तत्वात् । न चाभाकासित- पक्षेधित्यत्र गौणचान्द्रग्रहणे यथा कल्पनालाघवादिकारणं तथात्र किमप्यस्ति न च प्रतिषेधानुपपत्तिः । न युपाकम्मण उत्कर्षः सौर एव तस्य विधानात् । किन्तु हिखण्डतिथौ तस्योत्कर्षः पूर्बाहव्यापिनी तिथिगृह्यते दैवत्वादुपाकम्मणः । पूर्वाह्ने दैविकं कार्यमिति विधानात् बढचानां वाजसनेयिनाञ्चापराहविधाना- भावात् तथा युगादिषु नोकर्ष इत्यर्थः । किन्तु पिटकार्यप्रधान- बात् प्रथमोपनिपातितत्वात्तृतीयायाश्च द्वितीयायोगेन नवम्याश्चा- ष्टमीयोगेन मकरस्थामावास्यायाश्चतुर्दशीयोगेन पूज्यत्वात् युक्तो- ऽनुत्कर्षः त्रयोदश्याश्चतुर्दशोयोगेनैव पूज्यत्वेऽपि तदितराभिप्राये- णैवापि बहुवचनमुपपत्रमेव । यहा उत्कर्षः कालवडी स्यादि- त्यभिधाय न तूत्कर्षों युगादिष्वित्युत्कर्षपदस्य पुनः प्रयोगादयं मासान्तरसम्बन्धरूपोत्कर्षनिषेधः । सौर एव विहितत्वादित्यर्थः । - * उपाकर्ममहाषष्ठयोतदुक्तं षादित इति हेमाद्रौ पठितम् । 50 ३८४ कालविवेक उपाकर्मादिषु तु 'तिथिवद्यापेक्षोत्कर्षविधानमित्यविरोधः। अन्यथोकर्षपदस्य हिरच्चारणमनर्थकं स्यात् । न भवेत्तु युगा. दिष्विति ब्रूयात् । यत्तु माघासित इति प्रौष्ठपाई मिति हितयमुपन्यस्तम् तदतितुच्छं न ह्येतद्दचनद्दयं तयोर्युगादिता- माह किन्तु पुण्यतमतां सा चायुगादित्वेऽप्यविरुदैव । पूर्व दशहरास्वनुत्कर्ष इति वचनमनाकरमुक्तं तदप्यनुपयुक्तम् । वैशाखादिपदानां सौराभिधायकत्वेनास्यार्थस्य प्राप्तस्य व्याख्या निबध्यते नापि समूलतया वाचकत्वसम्भवात्। सौरेऽपि च मासे शुक्लकृष्णपक्षव्यपदेशो लोके करनसम्बन्धाभावेऽपि दृष्ट- एवेति न तस्यापि विरोधः। ये तु चान्द्रवाचिनो वैशाखादय इति मन्यन्ते तन्मते दशहरावचनस्यानाकरत्वेन शशितत्वात् न तूकर्षों युगादिचित्यत्र खयमेव चान्द्रे व्युत्पत्त्युपपादितत्वात् । वैशाखकार्तिकमाघपदानाञ्च चान्द्रवाचिता भूयसामनुरोधेन नभस्यपदस्यैवैकस्यान्यथावर्णनमुचितम् । न च सौर निरूढ़- लक्षणले मुख्य लाक्षणिकग्रहणसन्देहे नभस्यपदानुरोधन सौर- परिग्रह इति वाच्यम् । मध्यदेशादौ चान्द्रे मुख्य एव निरूढ़- तयास्य स्वयमभिधानात् अतो. मुख्यत्वनिरूढ़च देशभेदेन साधा- रखाचान्द्र एव युगादिषूताः । अतएव दीक्षितेनैव तदपरि- तोषेणैव तत्कर्तव्यं वृषादित इत्ययमेव पुरस्कृतः । शङ्काव्याकुलितः। तत्कर्तव्यं वृषादित इत्यस्य स्थाने माध्याञ्चैव विशेषतः इत्यपि केचित् पठन्ति । योग्लोकेन तूताम् । स चानाकर- युगादिनिरूपणम् । "प्रतिसंवत्सरबाई मासश्चान्द्रमसः स्मृतः । विवाहादौ स्मृतः सौरो यज्ञादौ सावनः स्मृतः ॥" तथा। "सौरो मासो विवाहादौ यज्ञादौ सावनो मतः । आब्दिके पिटकार्ये च मासश्चान्द्रमसः स्मृतः ॥" तदेवमादिवचनपरामर्शात् सौर एव मासि युगादौ युज्यत इत्यन्तं तदतीव हेतुशून्यं कथमेतत् परामर्शायुगादिषु सौरस्य युक्तत्व- हेतोरनभिधानात् । वचनहयेऽपि विवाहादिपदेनोपादानं युगादेरिति चेन्न विवाहसमानोपनयनचूड़ाकरणादिपरत्वादादि- शब्दस्य युगादिपरत्वे प्रमाणाभावात् । यच्चापरन्तेनैवोक्तम् । किञ्च। "माघे मासि रटन्यापः किञ्चिदम्युदिते रवाविति ।" तथा। "सूर्यग्रहणतुल्या हि शक्ला माघस्य सप्तमीति ।" “माघे मासि चतुर्थाच शिवमाराध्य चेति ।" माघे मासि सिताष्टम्यामित्यादिविहितमनुष्ठानं वषे चाक्षय- तृतीयाकर्म मिथुने दशहरानानं चान्द्रमाघादिषु निश्चीयमानं हास्यमावहन्तीत्यन्तम् । तत्तदभिधानमेव विहिषां हास्यमा- वहति हेतुशून्यहास्यमात्राभिधानात्। तस्मात् पूर्वोत एव हेतुः । अत्र श्लोकः। "वैशाखादिपदानां सिद्धे रविमासमात्रवचनले । विद्विषां कथमिह चान्द्रे गौणकलङ्काशितशङ्का ।"
कालविवेक यदा तु सौर वैशाखादी शुक्लटतीयादिहयम्भवति तदा "मासि संवत्सरे चैव तिथिवैधं यदा भवेत् । तत्रोत्तरोत्तमा ज्ञेया पूर्वा तु स्यान्मलिम्लुचा ॥" पूर्वतिधर्मलिम्बुचत्वज्ञापनात्तिथौ च मलिम्बुचरूपस्य साक्षादनुप- दर्शितत्वान्मलिम्बुचे मासि दर्शितं यद्रूपं प्रतिपदोक्ततरदैक- पित्रादिसकलकनिहत्वम् । “महितः पिटदेवाभ्यां सर्वकम्मसु तं त्यजेदिति” । अनेन ज्ञापित एवात्रापि मलिम्लुचपदार्थ इत्यवधार्यते । युगादिषु कर्त्तव्यस्थ मलिम्नुचे प्रतिप्रसवोऽस्ति । न च ननु । तथा "तिथिधं यदैकस्मिन् भवेन्मासि कथञ्चन । श्राद्धे पूर्बा तिथिर्जेया वृद्धवादी तूत्तरा स्मृतति ॥” वचनात् श्राइमनुज्ञातमेव नैतत् युगादौ सायात्त्यजेत् जुहुयात् व्रतं कुर्यात् सलक्ष्मीकं विशुमभ्यर्च येत् श्राद्धं कुर्यादिति । तथा नानदानादिकं सर्वं युगादौ चाक्षयं भवेदिति व्यासः । दत्तस्याक्षयकारिकाः। अनन्त पुण्यास्तिथयश्चतस्त्र इत्यादिनाना- कम्भविधानादेषाञ्च मलिम्बुचे निषेधात् । न च श्राद्धं पूर्व- तिथावेव परतिथौ च स्नानादिकं भविष्यतीति वाच्यं युगादे- रधिकसंख्यापत्त्या चतस्र इति बाधापत्तेः । किञ्च सति हि युगा- दिवे पूर्वत्र बाइक्रिया तस्य स्नानदानादिबहुतरकर्मानुरोधेन परतिथेरेव युगादिषु निर्णयात्तु निमित्तस्य श्रावस्यापि तत्रैव, प्रसक्तिनॊभयत्रेति । भूयसां स्यात्मधर्मत्वमिति न्यायात् किञ्च युगादिनिरूपणम् । “पानीयमप्यत्र तिलैर्विमिश्र- न्दद्यात् पिलभ्यः प्रयतो मनुष्यः । श्राद्धं कृतं तेन समासहस्रं रहस्यमेतत्पितरो वदन्ति ॥" इति तिलमिश्रपानीयदानेनापीत्य पिशब्देन श्रावस्यातीव बहु- फलत्वदर्शनात् काम्यस्य च मलिम्लुचे निषेधात् । कथं पूर्बतिथौ श्राद्धक्रियानानदानादिकं सर्वमित्यत्राप्यादिशब्देन श्रावस्याक्षय- फलखमुक्तम् । अतएवाश्विनऽधिमासपाते कन्यागतश्राइस्य "मासि कन्यागते भानुरसंक्रान्तो भवेट्यदि। दैवं पित्यन्तथा कम्म तुलाथे कतुरक्षयम् ॥” इत्युत्कर्षः। ततश्च यत्र काम्यनित्यस्थाननुष्ठानं मलिनुचे कथ- तत्र केवलकाम्यस्य काम्या इष्टीविवजयेदिति निषेधात्। एक- विधवादस्य मलिम्लुचे करणे पिटगर्हाभिधानं निर्विषयं स्यात् श्राद्धे पूर्वा तिथि येति वेकोद्दिष्टविषयम् । तदुक्तम् । “मल- मासेऽपि कर्तव्यं बाई यतिवसर मित्यादि मलमासप्रस्तावे दर्शितम् यत्नेन तूल्कर्षों युगादिष्विति वचनात् । योन्लौकी मन्यते प्रथमतिथिरव युगादिरिति तदयुक्तम् । अनुत्कर्षवचनस्या सौरे कर्त्तव्यतापरत्वेन पूर्व व्याख्यातत्वात्तथैव चोपपत्तेरेकत्वा- अलिम्बुचतिथेः सकलकनिहत्वप्रतिपादकबहुतरवचनादन्यथा- करणसामयाभावात् । ननु वैशाखादिवधिमासपाते युगादे- रनुल्कर्षान्मलिम्बुच एव परिग्रहः। सत्यं सौरमासविहितकथ तस्था मलिम्बुचत्वात्।
- - ३९८ कालविवेक तथाहि । "रविणा लवितो मासश्चान्द्रः ख्यातो मलिम्बुचः । तत्र यहिहितं कर्म उत्तरे मासि कारयेत् ॥” तत्रेत्यनेन चान्द्रे विहितस्य कम्मणश्चान्द्रबैधे कुत्र तरिक्रयेत्यपेक्षायां पूर्वस्य निर्णयोऽपरस्मिन् चान्द्रे व्यवस्थापितत्वात् । यच सौर- मासे विहितस्य विवाहादेस्तत्र निषेधस्तदपि सौर एव मासान्तरे सावकाशस्य मलिम्लुचहानेन विधानम्। युगादेस्तु प्रतिनिय- तैकसौर एव व्यवस्थितत्वात्तस्य च मलिस्नु चत्वाल्लोप एव वा मलिम्बुच एव वा क्रियेति सन्देहे अनुत्कर्षवचनं युगादिप्रतिप्रस- वार्थ प्रतिसंवत्सरं चतस्रो युगादय इत्यवगता चतुःसंख्या रक्षिता स्यात् । न चैवं तिथिईधे प्राथम्यात् मलिम्नुचतिथावेव कुतो वास्य क्रियेति वाच्यं सर्वकर्मानहवेन तस्याः प्रतिपादनात् युगादे- चोचरतिथावपि क्रियायां कम्मलोपसंख्याविरोधयोः परिहृतत्वात् कम्मानहत्ववचनस्य विनाकरणे नोपसंहारलोपात् । तस्मात् सुखरात्रेरिव मलिम्लुचेऽपि क्रियाद्वैध चोत्तरतिथ्यादरः। युगा- दिषु च श्राद्धं विहितं तत्रयोदशीतरतिथिषु युगादिषु पुचवता रहिणा कर्त्तव्यं कृष्ण त्रयोदश्यां तस्य निषेधात् । तथाच वृहस्पतिः । "कृष्णपक्षे त्रयोदश्यां यः श्राद्धं कुरुते नरः । पञ्चवं तस्य जानीयाज्येष्ठ पुत्रस्य निश्चितम् ॥" तथा स्मृतिसमुच्चये। "त्रयोदश्यान्तु वै श्राई न कुर्यात् पुत्रवान् रही।
युगादिनिरूपणम् । ३८८ नष्यते चोपवासश्च कश्चिदप्ययनहये ॥" ननु विहितप्रतिषिडत्वात् विकल्प: स्यात् नैतत् विकल्पभयादेव पर्युदासोऽयं पुत्रवत् यहिपर्युदासेन तदितरत्रयोदशीश्राद्धाधि- कारीति ज्ञापयति । ननु युगादौ श्राद्धं कुर्य्यादिति विधेरैक- वात्तत्र पुचवतो गहिण: पर्युदस्तत्वात् चतुर्वेव युगादिषु तस्य श्राद्धानधिकारः स्यात् । नैतत् स्मृतिकारस्यैतत् सन्तिाभि- धानम् । परमार्थतस्तु विधिरत्र भिद्यते। वैशाखशक्लहती- यायां श्राद्धं कुर्यात् नानदानादिकञ्च एवं भाद्रकृष्णत्रयोदश्या- दावपीति युगादित्वञ्च तद्दिधानानुवादस्तुत्यर्थः । ननु युगादित्वं ज्ञाप्यत इत्यतः श्रादादिविधिः सिद्धरूपयुगादित्वज्ञापनपरत्वा- नुपपत्तेः । न च ज्ञापनमपि सप्रयोजनं तस्याज्ञानऽपि ती. यादिषु तत्तत्कम्मविधानसम्भवात् । अतस्त्रयोदश्यां यो विधि- स्तत्र पुचवतो गृहिण: पर्युदासो नान्यत्रेति नास्ति वैरूप्यविधिः। एवञ्च यहिमृष्टं दीक्षितेन पर्युदासादिह पुत्रीतरः श्राद्धेऽधि- कारी प्रतीयते । तत्र यदि श्राइमात्रे पुचीतरस्याधिकारः तदा त्रयोदश्यामित्यनर्थकम् । तत्रैव कालविधिरिति चेत् न । मृताहादिकालविधिबाधप्रसुङ्गात् । त्रयोदशीपदं श्राद्धोप- लक्षणं वाच्यम् । तदा च स्वनिमित्तमेव यत् प्रौष्ठपद्या जई कृष्णत्रयोदश्यां विहितं तदेव लक्षयति न तु मृताहखनिमित्त- त्रयोदशोप्राप्तमिव युगादिवे याप्तं तदपि पुत्त्रवतो न सिध्यते । पुत्रिणा तत्कर्तव्यमेवेत्यन्तं तदपि निरस्तम्भवति । तस्यापि त्रयोदशीत्वेनैव व्यापितत्वात् युगादित्वमपि त्रयोदशीत्वादेव ।
४००
कालविवेक
मृताहत्वन्तु न त्रयोदशीत्वात्। सर्वतिथिष्वेव तदविशेषात् ।
युगादित्वस्यापि तिथ्यन्तरेऽविशेषादिति चेत् न अत्रापि
तत्तिथिरूपत्वस्य प्रयोजकत्वात् । अन्यथा तिथिचतुष्टयेतरेष्वपि
युगादिवप्रसङ्गात् । तस्मात् युगादित्रयोदशीश्राद्धे पुचीतरस्यै-
वाधिकार इति सिद्धम् । शुक्लयुगादिहये च पिण्डमन्तरेणैव
थाई कार्यम् ।
तथा मत्स्यपुराणम् ।
"वैशाखस्य तृतीयायां नवम्यां कार्तिकस्य च ।
श्राङ्गार्यञ्च शुक्लायां संक्रान्तिविधिना नरैः ॥"
संक्रान्तिविधिः पिण्डशून्य इत्युक्त संक्रान्तिविवेके ।
इति युगादिः ।
अथ दशहरा।
सत्र स्कन्दपुराणे।
"ज्येष्ठस्य शुक्लदशमी संवत्सरमुखी स्मृता ।
तस्यां स्नानं प्रकुर्वीत दानञ्चैव विशेषतः ॥
यां काञ्चित्सरितं प्राप्य दद्याद्दर्भतिलोदकम् ।
मुच्यते दशभिः पापैः स महापातकोपमैः ॥
दशमी ज्येष्ठ शुक्लस्य संवत्सरमुखी स्मृता
हरते दश पापानि तस्माद्दशहरा स्मृता ।"
प्रथ ब्रह्माण्डपुराणम् ।
दशहरा। "ज्येष्ठे मासि सिते परे दशमी हस्तसंयुता । हरते दश पापानि तस्माद्दशहरा स्मृता । तस्यां मान प्रकुर्बोत दानञ्चैव विशेषतः ।" अथ भविष्यपुराणम् । "ज्येष्ठशक्लदशम्याञ्च भवेद्भौमदिनं यदि । जेया हस्तक्षसंयुक्ता सर्वपापहरा तिथिः ॥" अथ विष्णुधर्मोत्तरे। "दशम्यां शुक्लपक्षे च ज्यैठे मासि कुजे दिने । अवतीर्णा यतो गङ्गा हस्तः च सरिहरा । हरत दश पापानि तस्माद्दशहरा स्मृता ॥" तथा। “दशजमकृतं पापं दश पापानि चैव हि । आवृणोत्यप्रयत्नेन तस्माद्दशहरा तिथिः ॥ गङ्गास्नानासिता ज्येष्ठे दशमी हस्तसंयुता। हरेई दश पापानि तस्माद्दशहरा स्मृता ॥ भत्र ज्येष्ठः सौर एव मासः तहाचकत्वात्, अतएवानुत्कर्षः । तन्मासीया दशमी केवलैव कृचिवचने क्वचित् हस्तक्षसंयुक्ता, कचित् हस्तक्षभौमवारयुता। तत्रोत्तरोत्तरं फलभूयस्त्वम्मन्त- व्यम् । केवला दशमी स्वल्पफला, हस्तक्षयुक्ता तदधिकफला, भौमवारहस्तयुक्ता महाफला । अथ दश पापानि। "परद्रव्येवभिध्यानं मनसाऽनिष्टचिन्तनम् । 51 कालविवेके वितथाभिनिवेशश्च त्रिविधं कन्म मानसम् ॥ पारुष्यमनृतञ्चैव पैशुन्यचापि सर्वशः । अनिबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥ अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोषसेवा च शारीरं त्रिविधं स्मृतम् ॥” अयमेव मनुवाक्यानां क्रमपाठश्च, अन्यत: पुनरागमनं हेयम्।। अतएव यानावल्क्येनामोषां फलविपाकेऽप्ययमेव श्लोकानां क्रमोऽर्थाद्दर्शितः । "परट्रव्याण्यभिध्यायन् तथानिष्टानि चिन्तयन् । वितथाभिनिवेशी च जायतेऽन्त्यासु योनिषु ॥ पुरुषोऽनृतवादी च पिशुन: पुरुषस्तथा । अनिबद्धप्रलापी च मृगपक्षिषु जायते ॥ अदत्तादाननिरतः परदारोपसेवकः । हिसकश्चाविधानेन स्थावरेषूपजायते ॥" यद्यपि शारीरलोके हिंसापरदारसेवयोर्व्यतिक्रमः छन्दोऽनुरोधन तथापि श्लोकानां क्रमं नियच्छत्येव । उत्पत्तिकमोऽप्यय- मेव हारीतेन दर्शितः। कृतः, यथा । ख-चिह्नितपुस्तके असम्बद्ध- असम्बन्धप्रलापश्च इति रघुनन्दनसम्मतः पाठः । प्रलापश्च इत्येव पाठः। + अयमेव मनुवाक्याना क्रमः । पुनरागमनं हेयम् इति ख-पुस्तके पाठान्तरम् । + अयं श्लोक: ख-पुस्त के नीपलभ्यते ।
सुखरात्रिः। "मनसा सङ्कल्पयति, वाचा वदति, कम्मणा करोतीति तस्मादमूल रन्यथा पठितमनादेयम् ।” इति दशहरा । अथ कोजागरनिरूपणम् । "आखिने पौर्णमास्याञ्च चरैज्जागरणनिशि । कौमुदी सा समाख्याता कार्या लोकविभूतये ॥ कौमुद्यां पूजयेलक्ष्मीमिन्द्रमैरावतस्थितम् । सुगन्विनिशि सद्देश: अक्षर्जागरणचरेत् ॥' पुराणस्य । दुर्गोत्सवस्य चान्द्राखिननियतत्वात् तदनन्तरित- पौर्णमास्याञ्चः कोजागरः सदाचारदर्शनादाखिनपदं लक्षणया सौर एव। आखिने प्रारब्धचान्द्रमासस्य पौर्णमास्यामित्यध्या- हत्यान्वयः कार्यः। अन्यथा अविगीतसदाचारविरोधात् । इति कोजागरपूर्णिमा। अथ सुखरात्रिः । पाहमाण्डव्यः । “अमावास्यान्तुलादित्ये लक्ष्मोनिद्रां विमुञ्चति । तस्मिन् शुक्ले सदा विष्णुस्तुलायामथ वृश्चिके ॥" तेन लक्ष्मीप्रबोधस्तुलागतामावास्यायामेव तस्मिन्निति च तदमा-
कालविवेके
वास्यानन्तरितशुक्लपक्ष एवं सदा देवोत्थानमिति प्रतिपादनात्
नस्य पक्षस्य देवोत्थानाव्यभिचारोऽवगम्यते अतएव स पक्षस्तुलायां
वा भवति वृश्चिक वेत्यत्रैव परमनियम इत्यत्राह तेनैतदनुरोधे-
नास्यैवानन्तरवचनं शुक्लपक्षे यदा भानुरिति वर्णनीयम् ।
देवोत्थानपक्षपूर्वभूतैवामावास्या नियमेन लक्ष्मीप्रबोधकाल:,
सैव च सुखरात्रिरित्युच्यते ।
अत्र विहित ज्योतिःशास्त्रे ।
"सुखरात्ररुषःकाले प्रदीपोज्ज्वलितालये ।
सुशुभैः कुसुमैर्गन्धैर्दधिगोरोचनाफलैः ।
बन्धुर्बन्धूनबन्धुंश्च वाचा कुशलयार्चयेत् ।
पूजयेच्च तथा लक्ष्मीमलक्ष्मी मलनाशनीम् ॥
वाचा कुशलया पूर्वैश्च [2] कुसुमादिभिरर्चयेदिति सम्बन्धः ।
अथ प्रतिपत्।
तदनन्तरितप्रतिपदि कर्तव्यमाह ज्योतिःशास्त्रे ।
"कार्तिक मासि शुल्लादौ तिथौ च कुसुमांशुकैः ।
पक्षार्चा पक्षरात्रिः सा कार्या लोकसुखावहा॥"
तथा भविष्यपुराण।
"मानं दानं शतगुणं कार्तिके या लिथिर्भवेत् ।
प्रतिपदाह्मणांश्चैव गुड़मित्रैः प्रदीपकः ।
वासोभिराहतैश्चैव स गच्छेब्रह्मणः पदम् ॥
माटहितीया। ४०५ पुष्पर्गन्धैर्नवैवस्त्रैराह्वानं पूजयेच्च यः । तस्यां प्रतिपदायाञ्च स गच्छेब्रह्मणः पदम् ॥" भविष्यवचने कार्तिकपदस्य सौरपरत्वे कृष्णशुक्लयोरन्यतरप्रतिप- हिशेषाग्रहणे प्राथम्यादिहतोरभावादनध्यवसायापत्तेः कार्तिक- पदं चान्द्रपरं, तुत्र शुक्लव प्रतिपत्प्रथमभाविनोति तदग्रहणम् । न च कार्तिक शुक्लपक्षादाविति वचनाविशेषावगतिरिति वाच्यं लोकसुखफलपक्षार्चाकम्माङ्गतया तहिधानात्, अत्र तु ब्राह्मणा- नामाह्वानञ्चाञ्चनस्य ब्रह्मण: पदगमनफलस्य विधानात् । कथं ततो निर्णयः कर्तुभेदाच । अथ भाटहितीया। प्रतिपदनन्तरितद्वितीयामाह व्यासः । "कार्तिक शुक्लपक्षस्य हितीयायां युधिष्ठिर। यमो यमुनया पूर्व भोजितः खरहे तदा ॥ अतो यमद्वितीया या ख्याता लोके युधिष्ठिर। अस्यां निजगहे पार्थ न भोक्तव्यमितो बुधैः । यत्वेन भगिनीहस्तागोताव्यं पुष्टिवईनम् । दानानि च प्रदेयानि भगिनीभ्यो विधानतः । वर्णालङ्कारवस्त्रादिपूजासत्कारभोजनैः । सर्वा भगिन्यः सम्पूज्या अभावे प्रतिपनकाः । सर्वदा भगिनीहस्तागोतव्यं पुष्टिवईनम् ।
कालविवेक
यशस्यं धन्यमायुष्थं धमकामार्थवईनम् ॥
यस्यान्तिथौ यमुनया यमराजदेवः
सम्भोजितो भगवतः स्वमृदा कृतेन ।
तस्यां स्वसाकरतलादिह* यो भुनक्ति
प्राप्नोति वित्तसुतसौख्यमनुत्तमं सः ॥
इति भाटहितीया।
"
“पुण्यं समयमनन्तं वक्तं चतुराननोऽपि न हि शक्तः ।
तहक्ष्ये सङ्घपादिकल्पविक्षोभणाय लोकानाम् ॥"
तत्र भविष्यपुराणे ।
"तिथीनां प्रसवा यस्माद्रह्मणा समुदाहृताः ।
प्रतिपादिता च पदे प्रतिपत्तेन चोचते ॥
तिस्रो ह्येताः पुरा प्रोतास्तिथयः कुरुनन्दन ।
कार्तिकेऽखयुजे मासे चैत्रे मासि च भारत ॥
महापुण्यतिथिरियं बलिराज्यप्रवर्तनी।
बानं दानं शतगुणं कार्तिके या तिथिर्भ
प्रतिपदाह्मणांश्चैव गुड़मित्रैः प्रदीपकैः ।
वासोभिश्चाहतैश्चार्चेत्स गच्छेब्रह्मणः पदम् ॥
॥
वसुः करतलादिहति ख-पुस्तके पाठः ।
+ वियोगाय इति ख-पुस्तके पाठः ।
+ प्रवरा इति ख-पुस्तक पाठः।
पुण्यतिथयः।
अग्निमिष्ट्वा च हुवा च प्रतिपद्य मितं वृतम् ।
हविषा सर्बधान्यानि प्राप्नुयादमितं धनम् ॥”
अथ लिङ्गपुराणम् ।
"वृश्चिके च द्वितीयायां शुक्लायां भाळपूजनम् ।
या न कुर्य्याविनश्यन्ति भ्रातरः सप्तजन्मगा: ॥
वृहस्पतौ द्वितीयायां शुल्लायां विधिपूजनम् ।
कत्वा नक्तं समशीयाल्लभते भूतिमोप्सिताम् ॥”
वृहस्पती तहार इत्यर्थः ।
अथ देवोपुराण ।
“उमां शिवं हुताशञ्च हितीयायाञ्च पूजयेत् ।
हविष्यमन्त्र नैवेद्यं देयं गन्धार्चनं तथा ॥"
पुलस्त्य उवाच ।
"अशून्यशयना नाम द्वितीया शृणु तां मम ।
यामुपोष्य न वैधव्यं स्त्री प्रयाति हिजोत्तम ॥
पत्नीविमुक्तश्च नरो न कदाचित्प्रजायते ।
शेते जगत्पतिः कृष्णः श्रिया साई सदा दिज ॥
अशून्य शयना नाम तदा ग्राह्या हि सा तिथिः ।
कष्णपक्षे हितीयायां श्रावण मुनिसत्तम ॥"
अनेन देवशयनानन्तरितैव सौरथावणस्य कृष्णदितीया ग्राह्या।
सा च मिथुनशयनानन्तरं वा कर्कटशयनानन्तरं वा नास्ति
-विशेषः।
४०८ कालविवेक 'अथ तृतीया। तत्र भविष्योत्तरे। "तथा सितवतीयायां नार्यः सौभाग्यगर्विताः । कुङ्कुमेन प्रयच्छन्ति लवणेन गुड़ेन च । न तत्र मन्त्री होमो वा एवमेव प्रदापयेत् ।” अथ भविष्थे । “या त्वेषा कुरुशार्दूल वैशाखे मासि वै तिथिः । हतीया साक्षया लोके गोणिरभिनन्दिता ॥ यत्किञ्चिद्दीयते दानं स्वल्पं वा यदि वा बहु । तत्सर्वमक्षयं स्याई तेनेयमक्षया स्मृता ॥ कलधौतं तथा चावं हतं वापि विशेषतः । अस्यान्दत्तन्वक्षयं स्यात्तेनेयमक्षया स्मृता ॥” आह विष्णुः। “वैशाखमासस्य तु ढतीयायामुपोषितोऽक्षतर्वासुदेव- मभ्यर्थ तानेव हुला दत्त्वा च सर्वपापेभ्यः पूतो भवति । यच्च तदहनि प्रयच्छति तदक्षय्यमवाप्नोति ।" उपोषितः पूर्वदिन इत्यर्थः । अथ यमः । "वैशाखसितपक्षस्य तृतीयायान्तथैव च । गगातोये नरः सात्वा मुच्यते सर्वकिल्विषैः ॥ योऽस्यान्ददाति करकान्वारिवीजसमन्वितान् ।
तृतीया।
स याति पुरुषो धीरो नाकान्वै हेतिमालिन:॥"
बीजमन्नम् ।
दिवस्पतिसङ्क्षहस्य ।
"वैशाखे मासि राजेन्द्र शुक्लपक्षे तु या तिथिः ।
टतीया रोहिणीयुक्ता अक्षया सा प्रकीर्तिता ॥
तस्यां यहीयते किञ्चित्तदक्षयमुदाहृतम् ।
विशेषतो हविष्यानं मोदकादिसमायुतम् ॥
तोयदानं विशेषेण प्रशंसन्ति मनीषिणः ।
दत्त्वा त्वबं सपानीयं ब्रह्मलोके महीयते ॥"
अथ विष्णुधर्मे ।
"भक्ष्यभोज्यसमायुतां वनों यः प्रयच्छति ।
तृतीयायान्तु वैशाखे ब्रह्मलोके महीयते ।
विशेषतः पौर्णमास्यां वैशाखे मासि भारतक।
पक्कानसहितान् दद्यादुदकुम्भान् विचक्षणः ॥
मोदकानुदकुम्भांश्च पक्कानसहितान् नरः ।
दत्त्वा च पौर्णमास्यान्तु ब्रह्मलोके महीयते ॥
धान्यमन्त्र तथा शाकं ये प्रयच्छन्ति मानवाः ।
ते प्रयान्ति महाबाहो मम लोकमसंशयम् ॥
श्रावणे सङ्गमाः पुण्याः कुरुक्षेत्रसमाः स्मृताः ।
हेममालिन इति स्मातभट्टाचार्यकृतपाठः।
+ विशेषतः ॥ पौर्णमास्यान्तु वैशाख मासि यत्नेन भारत इति ख-पुस्तके पाठः ।
* तथा पाकमिवि ख-पुस्तके पाठः ।
52
कालविवेक
विशेषोडुधसंयुमा हतीया या विशेषत:* ॥
बुधश्रवणसंयुक्ता हतीया यदि लभ्यते ।
अस्यां स्नानोपवासाद्यमिक्षयं परिकीर्तितम् ॥
माघे मासि तृतीयायां गुड़स्य लवणस्य च ।
दानं श्रेयस्करं
राजन्
स्त्रीणाञ्च
पुरुषस्यू च ॥
गुड़पूपाश्च दातव्या मासि भाद्रपदे तथा ।
हतीयायां पायसञ्च वामदेवस्य पीतये ॥
वारिदानं प्रशस्तं स्यामोदकानान्तथैव च ।
वैशाखे मासि राजेन्द्र टतीयायां गुड़स्य च ॥"
अथ देवीपुराण ।
"तीयायां यजद्देवौं शङ्करेण समन्विताम् ।
कुश्मागुरुकर्पूरमणिवस्त्रसमन्विताम् ।
सुगन्धिपुष्षधूपैश्च दमनेन सुमीलिताम्
चैत्रहतीया प्रक्रमात्।
अथ चतुर्थी।
"चतुर्थीभरणीयोगे शनैश्चरदिनं यदा ।
'तदा चाभ्यर्चा देवेश, मुच्यते सर्वकिखिषैः ॥"
* तृतीया यदि लभ्यते इति ख-पुस्तके पाठः ।
+ सानोपवासाभ्यामिति ख-पुस्तके पाठः ।
+ सदाभ्यञ्चय यम देवमिति क-पुस्तके पाठः ।
चतुर्थी।
अथ भविष्थे।
"शिवा शान्ता सुखा राजन् चतुर्थी त्रिविधा स्मृता ।
मासि भाद्रपदे शुक्ला शिवा लोकेषु पूजिता ॥
तस्यां सानं तथा दानमुफ्वासो जपस्तथा ।
भवेत्सहस्रगुणितं प्रसादाद्दन्तिनो नृप ।
यास्त्वस्यां कुरुशार्दूल पूजयन्ति सदा स्त्रियः ।
गुड़लवणपूपैश्च खचूं श्वशरमेव च ॥
ताः सर्वाः सुभगा: स्युर्वै विघ्नेशस्थानुमोदनात् ।
कन्य कास्तु विशेषण विधिनानेन पूजयेत् ॥
माघे मासि तथा शुल्ला या चतुर्थी महीपते ।
सा शान्ता शान्तिदा नित्यं कुर्याच्छान्तिं सदैक हि।
सानदानादिकं कम्म सर्बमस्यां कृतं विभो ।
भवेत्सहस्रगुणितं प्रसादाद्दन्तिनो नृप ॥
शत्वोपवासं यस्त्वस्यां पूजयेदिननायकम् ।
तस्यां होमादिक कम्म भवेत्साहस्त्रिकं नृप ॥
लवणञ्च गुडं शाकं गुड़पूपञ्च भारत ।
दत्त्वा शक्त्या तु विप्रेभ्यः फलं साहसिकं लभेत् ॥
विशेषतः स्त्रियो राजन् पूजयन्त्यो गुरु नृपः ।
.
* शिवा शाबा क्षमा राजन् इति ख-पुस्तके पाठः ।
+ विघ्ननाशकमिति क-पुस्तके पाठः ।
* लवणं गुरुं तथा शाकं गुड़प्पाच भारत इति क-पुस्तके पाठः ।
६ पूजयन् यो. गुरुं नृप इवि ख-पुस्तके पाठः ।
कालविवेक
गुडलवणवृतैर्वीर सुभगाः स्युः कुरूहह ॥
यदा शुक्लचतुर्यान्तु वारो भौमस्य वा भवेत् ।।
तदा सा सुखदा ज्ञेया सुखानामति कीर्तिता।
सानदानादिकं कर्म सर्वमक्षयमुच्यते ॥"
अथ देवीपुराणम् ।
"गणेशे कारयेत्पूजां लड्डुकादिविभावनात् ।
चतुर्थी विघ्ननाशाय सर्वकामप्रसिद्धये ॥"
चैत्र शुक्ल चतुर्थी दमनकैरिति बोदव्यं प्रकरणात् ।
"कृष्णपक्षे चतुर्थ्यान्तु सिंह चन्द्रस्य दर्शनम् ।
मिथ्याभिदूषणं कुर्यात् तस्मात्पश्येन तं तदा ।"
धवलेन लिखितम् ।
अथ भारते।
"अङ्गारकचतुर्थीन्तु कला शनां विधानतः ।
त्रिंशद्योजनविस्तार मण्डले रूपवान् भवेत् ॥”
अथ पञ्चमी।
पौराणिकाः पठन्ति ।
"माघे सितचतुर्थान्तु, वरमाराध्य च श्रियः ।
पञ्चम्यां कुन्दकुसुमैः पूजा काया समृडये ॥”
* मुखनामति कीर्तिता इति ख-पुस्तके पाठः।
+ माघस्य सितपञ्चम्यामिति ख-पुस्तके पाठः ।
पञ्चमी।
४१३
अथ भविष्यपुराण ।
“पञ्चमी दयिता राजन् नागानां नन्दिवहिनी ॥
पञ्चम्यां स्नपयन्तीह नागान् क्षीरण ये नराः।
तेषां कुले प्रयच्छन्ति अभयं प्राणरक्षणम् ॥
श्रावण मासि पञ्चम्यां शुक्लपक्षे नराधिप ।
हारस्योभयतो लेख्या गोमयेन विषोल्वणाः।
पूजयेहिधिवहीर दधिदूर्वाङ्गुरैः कुशैः ॥
गन्धपुष्पोपहारैश्च ब्राह्मणानाञ्च तर्पणैः ।
ये वस्यां पूजयन्तीह नागान् भक्तिपुरःसराः ।
न तेषां सर्पतो वीर भयं भवति कुत्रचित् ॥
तथा भाद्रपदे मासि पञ्चम्यां श्रद्धयान्वितः ।
समालिख्य नरो नागान् शलकष्णादिवर्णकः ।
पूजयेहन्धपुष्पैश्च सर्पिगुम्गुलुपायसैः ।
तस्य तुष्टिं प्रयान्त्याशु पनगास्तक्षकादयः ।
पञ्चम्यां किल नागानां भवतीहोत्सवो महान् ॥
वासुकिस्तक्षकश्चैव कालियो नागभद्रकः ।
ऐरावतो धृतराष्ट्रः कर्कोटकधनन्जयौ।
एते प्रयच्छत्यभयं प्राणिनां प्राणजीवनम् ।
* अयं पाठ: ख-पुस्तके नीपलभ्यते ।
+ अभयं प्राणदक्षिणमिति क-पुस्तके पाठः।
* कृष्णशकादिवर्णकैरिवि ख-पुस्तके पाठः ।
प्राणिना प्रापजीविनामिति ख-पुस्तके पाठः ।
कालविवेके
आसप्तमात्कुलात्तस्य न भयं सर्पतो भवेत् ।।
सुने जनाईने देव पञ्चम्यां भवनाङ्गने ।
पूजयेन्मनसां देवों मुहीविटपसंस्थिताम् ॥
पिचुमहस्य पत्राणि स्थापयेद्भवनोदरे ।
पूजयित्वा नरो देवौं न सर्पभयमाप्नुयात् ॥”
अथ षष्ठी।
"येयं भाद्रपदे मासि षष्ठी च भरतर्षभ ।
स्नानदानादिकं सर्वमस्यामक्षयमुच्यते ॥
षष्ठयां फलाशनो राजन्* विशेषात्कार्तिके नृप ।
शुल्लां कृष्णां मुनियतो ब्रह्मचारी जितेन्द्रियः ।
षष्ठयां फलाशनो यस्तु नताहारो भविष्यति ।
इह चामुत्र सोऽत्यर्थं लभते ख्यातिमद्भुताम् ।
राज्यच्युतो विशेषेण स्वराज्यं लभतेऽचिरात् ॥'
अथ लिङ्गपुराणम् ।
"वृश्चिके विजया नाम सप्तमी हादशी तथा ।
महाषष्ठी च सा ज्ञेया. यस्यां शेते हुताशनः ।
प्रत्यव्दमग्निपूजा च षष्ठयां कार्या ग्रहस्य च ।
यस्यां फलाशनी राजनिति क-पुस्तके पाठः ।
+ शुक्लाकणास नियतः इति ख-पुस्तके पाठः ।
* महाषष्ठौ च सा प्रीता तस्यां शेते हुताशनः इति ख-पुनके पाठः ।
सप्तमी। -४१५ दीप्ताग्निः स सुखी च स्यात्तस्मिन्त्रागामिवत्सरे ॥" पूर्वः पक्षो देवानामिति श्रुतेः शुलपरिग्रहः । कचित्तु विशेष- वचनावेऽपि कृष्णपक्षग्रहणम् । अथ सप्तमी। अथ भविष्ये । "शुक्ल पक्षस्य सप्तम्यां सूर्यवारो भवेद्यदि। सप्तमी विजया नाम तत्र दत्तं महाफलम् ॥ एषा धन्या पापहरा महापातकनाशिनी ॥ मानं दानं तथा होमः पिटदेवाभिपूजनम् । सवं विजयसप्तम्यां महापातकनाशनम् ॥" एतदन्तं साम्बपुराणेऽपि । पुनर्भविथे। “शुक्लपक्षस्य सप्तम्यां नक्षत्रं पञ्चतारकम् । यदा स्यात्तु तदा ज्ञेया जयानामेति सप्तमी ॥ तस्यां स्नानादिकं कम अवच्छतगुणं विभो ॥" पञ्चतारकं शतभिषा । "माघस्य शुक्लपक्षे तु सप्तमी या त्रिलोचन । जयन्ती नाम सा प्रोता पुण्या पापहरा शिवा ॥ * दृप्ताग्निः हप्ताग्रिति पाठवयं ख-पुस्तके दृश्यते । + प्रवेच्चतुर्गुणं विभी इति ख-पुस्तके पाठः ।
४१६
कालविवेक
मासि भाद्रपदे शुक्ल सप्तमी या गणाधिप ।
अपराजितेति विख्याता महापातकनाशिनी ॥
शुक्लपक्षे च सप्तम्यां यदा सक्रमते रविः ।
महाजया तदा स्थाई सप्तमी भास्करप्रिया ॥
नानं दानं तथा होमः पिटदेवाभिपूजनम् ।
सब कोटिगुणं पुण्यं भास्करस्य वचो यथा ॥
या तु मार्गशिर मासि शुक्लपक्षे तु सप्तमी ।
नन्दा सा कथिता वोर सर्वानन्दकरी तथा ॥
मानदानादिकं सर्वमस्यामक्षयमुच्यते ॥
शुक्लपक्षे तु सप्तम्यां नक्षत्रं सवितुर्भवेत् ।
यदा प्रथममेवेश तदा सा भद्रतां व्रजेत् ॥
सपनं तत्र देवेऽपि कृतेन कथितं बुधैः ॥
इत्येषा कथिता वीर भद्रानामेति सप्तमी।
यामुपोथ नरो भीम वर्गलोकमवाप्नुयात् ॥"
सवितुर्नक्षत्रं हस्तः। प्रथमं सप्तभ्युपक्रमइति योग्लोकेन व्याख्यात
दिनोपक्रम इति मम सम्मतं दिनोपक्रमस्यैव प्रशस्तत्वात्मा ।
a
शुक्लपचे च सप्तमी इति ख-पुक्षक पाठः ।
+ सर्वनन्दकरी शुभा इति ख-पुस्तके पाठः ।
* सूर्य तत्र च देवेशं तेन कथितं बुधैरिति ख-पुस्तके पाठ, स्वपधेदिति पदाध्या
हरिण सङ्गमनीयः ।
8 योग्धाकन इति ख-पुस्तके पाठः ।
म सक्षम्यां प्रशखत्वादिति का-पुस्तके पाठः।
सप्तमी।
तथा।
'शुक्लपक्षे तु सप्तम्यां यदक्षन्तु करं भवेत् ।
तदा सा स्वान्महापुण्या सप्तमी पापनाशनी ॥
तस्यां सम्पूज्य देवेशं चित्रभानु दिवाकरम् ।
सप्तजन्मकृतात्यापान्मुच्यते नात्र संशयः ॥
यश्चोपवासं कुरुते तस्यां नियतमानसः ।
सर्वपापविशुद्धात्मा सूर्यलोके महीयते ।
शुक्लपक्षस्य सप्तम्यामुपवासपरो नरः।
सर्वशक्लोपहारेण पूजयेद्यस्तु भास्करम् ॥
(जातीतगरकैश्चैव खेतोत्पलकदम्बकैः ।
शुक्लपक्षस्य सप्तम्यामुपवासपरी नरः ॥
सर्वरतोपहारेण पूजयेद्यस्तु भास्करम् ।
कणिकैः करवीरैश्च रक्तपुष्पैस्तु भारत ।
सर्वपापविनिर्मुक्त: सूर्यलोके महीयते ॥"
तथा साम्बपुराणम्।
“शुक्ला वा यदि वा कृष्णा षष्ठी वा सप्तमी च वा ।
रविवारण संयुक्ता तिथि: पुण्यतमा स्मृता ॥"
तथा मत्यपुराणम् ।
* विनिर्मुक्त इति ख-पुस्तके पाठः ।
+ अयमंशः ख-पुस्तके नोपलभ्यते ।
* भावतः इति ख-पुस्तके पाठः ।
६ यथा शाम्बपुराणे इति क-पुल के पाठः ।
53
४१८
कालविवेक
“यस्मान्मन्वन्तरस्यादौ रथानापुर्दिवाकराः ।
माघमासस्य सप्तम्यां तस्मात्सा रथसप्तमी ॥'
तथा भविथे।
"इत्येषा कथिता वीर रथाङ्गा सप्तमी परा।
महासप्तमीति ख्याता महापातकनाशनी ॥"*
तथा स्मृतिसमुच्चये।
"सूर्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी ।
अरुणोदयवेलायां तस्यां स्वानं महाफलम् ॥
व्यतीपाते वैधतौ च पक्षान्ते च दिनक्षये।
माघमासे तु सप्तम्यां दानं बहुफलं भवेत् ॥
माघे मासि सिते पक्षे सप्तमी कोटिभास्करा।
तस्यां स्नानादानाभ्यागमायुरारोग्यसम्पदः ॥"
विमृष्टेयं पूर्वम् ।
“षष्ठयामुपोष्य य: सम्यक्सप्तम्यामर्चयेद्रविम् ।
स द्रव्यभागुरुगुणः सम्प्राप्नोतीप्सितं फलम् ॥
*
तथा मत्स्य पुराणमित्यादिः महापातकनाशनीत्यन्त: पाठ: ख-पुस्तके बनेन क्रमेण
नोपलभ्यते । तत्र तु एवं क्रमो दृश्यते यथा-
अथ मक्यपुराणम्-"माघमासस्य सप्तम्या स्यात्तस्माद्रथसप्तमी।"
तथा भविष्ये-"इत्येषा कथिता वीर रथाङ्गा सप्तमी परा।
महासप्तमी विख्याता महापातकनाशिनी ॥"
+ कुत्स्विानार्घदानाभ्यामिति क-पुस्तके पाठः ।
+ विमृष्टयं पूर्वैरिति क-पुस्तके पाठः ।
सप्तमी। ४१८ षष्ठयां यो नियतो भूत्वा सप्तम्यां विधिवद्रविम् । सम्पूज्योपक्सेसोऽपि युयुक्षुश्चेप्सितं फलम् ॥ सप्तमी सूर्यवारेण अमा के सोमयोगतः । भूतजा भूमिजनैव बुधे भद्रा उपागता ॥ वृहस्पतिदिने पूर्णा शुक्रेणैकादशी युता । शनैश्चरदिने षष्ठी महापुण्यतमा इमाः ॥ एषु जागरणं कृत्वा महापूजां विशेषतः उद्धरेत्* सकलान् गोत्रान् नयते रविमन्दिरम् । आत्मपरिजनैः साई गच्छते सूर्यमन्दिरम् ॥” भूतजा चतुर्दशी। अथ पौराणिकाः पठन्ति । “अर्काशुचिगोमयं सुमरिचं तोयं फलञ्चाश्नुते मूलं नक्तमुपोषणञ्च विधिवत्कृत्वैकभक्तन्तथा । क्षीरं वायुशनं ताशनमिति प्रोक्तान्यमूनि क्रमात् कत्वा वत्सरसप्तमी दिनकृतः प्राप्नोत्यभीष्टं फलम् ॥" तथा। “गोधूममाषमधुमैथुनमद्यमांस- पाषाणपिष्टयवषष्टिककांस्यपात्रम् । उद्धरत्सकलान् पितृनिति ख-पुस्तके पाठः । + पकांग्रमिति ख-पुस्तके पाठः । * समरिचमिति ख-पुस्तके पाठः ।
४२.
कालविवेक
अभ्यञ्जनाचनतिलांश्च विवर्जयेद्यः
सोऽभीसितं लभति* सप्तम सप्तमीषु ॥"
दैवत्वाद्यवहारसिद्ध, व्रतदयमप्येतन्माघसप्तम्यामारभ्यते। इति
शिष्टाचारः।
अथाष्टमी।
रोहिण्यष्टमी पूर्वमुक्ता। अथान्या भविष्थें ।
"कन्यां गते सवितरि कृष्णपक्षेऽष्टमी च या।
सा तु पुण्या पापहरा शिवस्यानन्दवहिनी।
नानं दानं जपो होमः पिटदेवाभिपूजनम् ।
सर्व प्रीतिकरं स्थाई कृतं तस्यां त्रिलोचने ।
विशेषतः कृतं श्राई होमच्च विधिवन्मुने ॥"
प्राहशातातपः।
"मघासु पित्रेऽगि सुते च जाते
ग्रहोपरागेऽप्ययनहये च ।
नित्यञ्च शङ्ख च तथैव पझे
दत्तम्भवेविष्कसहस्रतुल्यम् ॥
लभते इति ख-पुस्तके पाठः।
+ देवत्वाचावासिङ्घमिति क-पुस्तके पाठः।
* माघसप्तम्यामारभ्य कार्यमिति ख-पुस्तके पाठः।
६ ऋणे दचाष्टमी च या प्रति ख-पुस्तके पाठः ।
अष्टमी।
४२१
शङ्ख प्राहुरमावास्यां क्षीणसोमा हिजोत्तमाः।
अष्टकास्तु भवेत्यनं तत्र दत्तमथाक्षयम् ॥"
पित्रामहः कन्यागतस्य कृष्ण त्रयोदशी।
"पौषे मासि यदा देवि शुक्लाष्टम्यां बुधो भवेत् ।
तदा तु सा महापुण्या महारुद्रेति कीर्तिता।
तस्यां सानं जपो होमस्तर्पणं विप्रभोजनम् ।
मनोतये कृतं देवि शतसाहसिकम्भवेत् ॥
तस्मात्तस्यां सदा देवि पूज्योऽहं विधिववरैः ।
गन्धपुष्पोपहारेण ब्राह्मणानाञ्च तर्पणैः ॥
पौषे मासि यदा देवि अष्टम्यां नगजे शुभम् ।
नक्षत्रं जायते पुण्यं यल्लोके रौद्रमुच्यते ॥
तदा तु सा महापुण्या जयन्ती अष्टमी स्मृता।
तस्यां स्नानं तथा दानं जपो होमश्च तर्पणम् ॥
सब कोटिगुणं देवि कृतं भवति कृत्वशः ।
एवं ममेष्टा तिथिरियं पौषमासेऽष्टमी शुभा।
यथेष्टा सप्तमी नित्यं माघेऽकस्य महात्मनः ॥"
नगजे गौरि । माघस्य सप्तमीसाहचर्याच्च शुक्लाष्टमी न च
तस्यां रौद्रस्य आर्द्रस्य योगः सम्भवतीति रौद्रपदेन पूर्वभाद्रपदो-
तस्याजैकपाददैवतत्वात् “वासवाजैकपादई" इत्यादिषु
कलनात् । न तु भयङ्करवायमस्य यमदेवताका भरणीति
च्यते।
* इत्यादिष्वपि दर्शनादिति ख-पुस्तके पाठः ।
.
२२
कालविवेक
योग्लोकव्याख्यानम् आदरणीयम् ।
रुद्रदैवतस्यैव सम्भवात्
कृष्णाष्टम्यान्तु नक्षत्रत्रयस्यैव असम्भवः ।
अथ पठन्ति ।
"शशिपुत्त्रसमायुक्ता शुक्लपक्षाष्टमो च या ।
तस्यां नियमकर्त्तारो न स्युः खण्डितसम्पदः ॥”
यदा पूर्णा सिताष्टमीति वा द्वितीयः पादः ।
तथापरं पठन्ति ।
“अष्टमी बुधवारेण पक्षयोरुभयोरपि ।
भविष्यति तदा तस्यां व्रतमेतत्करिष्यति ॥"
अथ लिङ्गपुराणम् ।
"अशोककलिकाश्चाष्टौ ये पिबन्ति पुनबसौ ।
चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः ॥”
तत्रैव पानमन्त्रः।
"त्वामशोक हराभीष्ट मधुमाससमुद्भव ।
पिबामि शोकसन्तप्तो मामशोकं सदा कुरु ॥"
पठन्ति ।
"पृथिव्यां यानि तीर्थानि,सरितः सागरास्तथा ।
सर्वे लौहित्यमायान्ति चैत्रे मासि सिताष्टमीम् ।
पुनबसौ वृष लग्ने चैत्रे मासि सिताष्टमीम् ।
लौहित्ये विधिवत्स्नात्वा वाजपेयफलं लभेत् ॥
* वाजपेयफलं भवेदिति क-पुस्तके पाठा.
अष्टमी। ४२३ चैत्राष्टम्यादिपूर्णिमाश्मशोकैर्मन्मथाञ्चनम् । तच्च कार्यमशोका) क्रिया वासन्तिकी हि सा - माघे मासि सिताष्टम्यां सलिलं भीमवणे । श्राद्धञ्चापि सदा कुद्दुस्ते स्युः सन्ततिभागिनः॥ शुक्लाष्टम्यान्तु माघस्य दद्याद्भीभाय यो जलम् । संवत्सरकृतं पापं तत्क्षणादेव मुञ्चति ॥ भीष्मः शान्तनवो वीरः सत्यवादी जितेन्द्रियः । आभिरभिरवाप्नोतु पुत्रपौत्रोचितां क्रियाम् ॥" प्रदानवाक्यम् । "वैयाघ्रपद्यगोत्राय साङ्घतिप्रवराय च । अपुत्त्राय ददाम्येतत्सलिलं भीमवण ॥" अन्ते स्वधेति कार्य पिटत्वाध्यारोपणकाय्यत्वात् । न च भीमस्य क्षत्रियत्वात्तदितरैर्ब्राह्मणादिभिस्तर्पणादि न कार्य-मुत्तमाधम- वर्णयोरधमोत्तमक्रियानिषेधादिति वाच्यं वसोरवतारवानीपस्य। अन्यथा दैवक्यां वसुदेवेनाब्राह्मणेन जातयोर्बलभद्रवासुदेवयो- दर्दाशरथर्वा रामस्य ब्राह्मणाद्यैः सर्वै रेव वर्णैरचनादिकं न स्यात् । (वाक्याच्चाविशेषेणैव श्रुतेः । तथा भवधनेन लिखितम् । पूर्णिम्यामिति ख-पुस्तके पाठः। + पस्मात् श्लोकात्प्राक-पुनर्वसौ बुधोपेता चैत्रे मासि सिताष्टमी । स्रोत:स विधिवत्सावा वाजपेयफलं लभेत् ॥ इति श्रीकान्तरमधिकमुपलभ्यते ख-पुस्तके ।
४२४
कालविवेक
"अष्टम्यान्तु सिते पक्ष भीमाय तु तिलोदकम् ।
अन्नञ्च विधिवद्युः सर्वे वर्णा विजातयः ॥")*
किञ्च भीमप्रभृतिवाद्धविधावादिमत्ता प्रसज्येत अनुवादमात्रन्तु
तत्।।
अथ नवमी।
-
तत्र वराहपुराणम् ।
"नवम्यान्तु सदा पूज्या गौरी देवी समाधिना ।
वरदा सर्बलोकस्य भविष्यति न संशयः ॥
नवम्यां यस्तु पिष्टाशी सम्भविष्यति मानवः ।
नारी वा तस्य सम्पत्तु भविष्यति न संशयः ॥
महानवम्यां प्रथमं कृतस्नानविधिर्नरः ।
रहीयात्परमञ्चैतद्यथाकामप्रदं व्रतम् ॥
आखिनस्य नवमी ग्राह्या ।
"टतोया,चैव वैशाखे नवम्याखयुजे तथा ।"
इति भविष्यपुराणवचनात् ।
अथ देवीपुराण ।
• (-) पनयी रेखयोरन्तःस्थ: पाठ. ख-पुस्तके नीपलभ्यते ।
+ अपवादमावन्तदिति ख-पुस्तके पाठः ।
* पिण्डाशी भविष्यति च मानव इति ख-पुस्तके पाठः ।
8 कृत्वा मानं विधानत इति ख-पुस्तके पाठः ।
एकादशी।
"नवम्यां पूजयेद्देवों महामहिषमहिनीम् ।
कुगुमागुरुकर्पूरैधू पानध्वजदर्पणैः ।
दमनैर्मरुपत्रैश्च विजयाख्यं पदं लभेत् ॥”
अथ वराहपुराणे।
"कार्तिकस्य तु मासस्य दशमी शुलपक्षिका ।
तस्यां नताशनी राजन् दिक्षु शुद्धं फलं लभेत् ॥
दशमी च तिथिस्तासामतीव दयिता भवेत् ।
तस्यां दध्यशनो यस्तु नताहारो भवेन्नरः ।
तस्य पापक्षयं तास्तु कुर्वन्त्यहरहनूप ॥"
अत्रापि कार्तिकी शुक्ला दशमी। “तासां” दिशामित्यर्थः ।
दशहरा तु पूर्वमुक्ता।
अथैकादशी।
अपरिचयाचनानां
परिचितवचनार्थबोधविरहेण ।
एकादश्यां विलुप्त
व्रतमिदमधुनीज्ज्वलं क्रियते ॥
तत्र विष्णुधर्मोत्तरे।
"ब्रह्महा स भवेत्स्तेनः सुरापो गुरुतल्पगः ।
विवेचयति यो मोहादेकादश्यौ सितासिते ॥
* सपणैरिति ख-पुस्तके पाठः ।
64
४२६ कालविवेक एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । एकादश्यां हि भुञ्जानो विष्णुलोकाञ्चुरतो भवेत् ।" तथा। “अतिक्रामति यो मोहादेकादश्यौ सितासिते । उपवासे स मूढ़ात्मा विष्णुलोकं न पश्यति ॥" भोजनदोषं दर्शयन्नुपवासं नियच्छति । न चायं निषेध इति- कर्तव्यताविधानात् । निषेधे च इतिकर्तव्यताभावात् व्रत- प्रयोगाच्च । तथा मत्यपुराणम् । "दशम्यां नियताहारो मांसमैथुनवर्जितः । एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ॥ एकादश्यां निराहारो यो भुङ्क्ते हादशोदिने । शुक्ल वा यदि वा कृष्णे तहतं वैष्णवं महत् । तदिदमेकादशीहितयव्रतं यतिवानप्रस्थयोः । तथा स्मृतिमीमांसायाम्। "एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । वनस्थयतिधर्मोऽयं शुक्लामेव सदा रही ॥" वनस्थयतिमात्रीपादानाहनस्थयतिप्रतियोगिकरहिमात्रीपादानात् आश्रममात्रे च वनस्थयतिहयसाहचर्याच्च रहिमात्रस्यैवोपा- न च मांसमैथुनवर्जनविधानात् पुत्वरहितहिविष- दानम् । एकादशीव्रतमित्येव ख-पुस्तके पाठः ।
एकादशी। यत्वमप्यस्य वाचम्। भार्यया सह वनं गतस्य ऋतौ मैथुन- सम्भवात्। तदाह मनः। "सन्त्यज्य ग्राम्यमाहारं सर्वञ्चैव परिच्छदम् । पुत्त्रेषु भायां निक्षिप्य वनं गच्छत्सहैव वा ॥" व्याकरोति विष्णुः। “यही बलिपलितदर्शने वनायो भवेत् । अपत्यदर्शने वा। पुत्वेषु भायां निक्षिप्य तया अनुगम्यमानो वा ।" न च वानप्रस्थभायाया ऋतुर्न सम्भवतीति वाच्यम् । “वनं पञ्चाशतो व्रजेत् ।” इति । "वरेकगुणां भार्थ्यांमुहहेत्रिगुणः पुमान् ।” इति वचनद्दयालोचनेन तत्सम्भवात् । अतएव पुराणेषु ऋषि- कुमाराः श्रूयन्ते । मांसभोजनमप्यस्ति । तदाह बौधायनः। “अथ वानप्रस्थ विध्यं पचमाना अपचमानाव।" इत्युपक्रम्य कियहरे । "खतोऽवसितमाममांसं व्याघ्रहकश्येनहतमित्येवमादिभि- रन्यैर्वा हत-मानीय अपयित्वा सायम्पातरग्निहोत्रकला यत्वतिथिक्रतिभ्यश्च दत्त्वा अथेतरच्छेषभक्षा" इत्यादि । 'मधुमांसवर्जनन्तु वनस्थानाममांसहत्तीनाम् । तस्मात्कथमेत- इलादपुत्रस्य ग्रहिणोऽप्युभयैकादश्युपवासवतम् । कृष्णकादश्यां
कालविवेक
च सहिमात्रस्य उपवासनिषेधः श्रूयते ।
तदाह वायुपुराण ।
“इन्दुक्षयेऽकसंक्रान्त्यामेकादश्यां सिततरे ।
उपवासं न कुर्चीत पुत्वबन्धुधनक्षयात् ॥"
अत्र पुत्त्रबन्धुधनक्षयरूपपुरुषदोषश्रुतेर्यावहिविषयत्वं न हि
बन्धुशून्यः कश्चिही भाटपिटव्यादिषु दायादेष्वपि शास्त्रे बन्धु-
पददर्शनात् ।
यथा।
“बन्धुनापहृतं द्रव्यं बलात्रैव प्रदापयेत् ।”
तथा।
“बन्धूनामविभक्तानां भागं नैव प्रवर्तयेत्।।"
तथा।
"बन्धुदत्तन्तु बन्धूनामभावे भर्तृगामि तत् ।”
लोके च तेष्वेव दर्शनात् । कैश्चित्तु सुतज्ञातिधनक्षयादिति
पठितम् । जीविथति विना धनेनेत्यनुपपत्तेः।
यच्च वचनम्।
"रविवारण संक्रान्त्यामकादश्यां सिततरै ।
पारणञ्चोपवासच न कुर्यात्युत्तवान् यही ॥"
तत्र पुचवतां वानप्रस्थादीनामनिषेधार्थ रहिवं तावविशेषणं
* भार्यावहिविषयत्वमिति ख-पुस्तके पाठः ।
+ भीगे नैव प्रवयेदिति ख-पुस्तके पाठः ।
* बहुष्वेव दर्शनादिति ख-पुस्तके पाठः ।
एकादशी। ४२८ बाच्यम्। तथाच "मृष्थामहे हविषा विशेषण"मिति न्यायात् हविरुभयत्ववत् न पुत्रवत्तापि विशेषणं वाक्यभेदापत्तेः। किञ्च नायं निषेधः दुःखहेतावुपवासे रागतः प्रहत्तेरभावात् । क्रोधा- दिना प्रसतो तविषेध एव स्यात् न तु “एकादश्यां न भुञ्जीत" इत्यस्यापि । अथ तस्यैव निषेधः पुचवतो गृहिण इति तन्त्र विहितप्रतिषित्वापत्तेः विधिवैरूप्याच्च । यतिवानप्रस्थयो- नित्यवदिधानात् पहिणो विकल्पेन । यथा “उपात्र वपन्ति" इति चातुर्मासीयपबचतुष्टये उत्तरवेदिविधिः “न वैश्वदेव उत्तर- वेदिमुपकिरन्ति न सुनासोये” इत्यनयाकल्पिकत्वापत्तेः शाक- मेधवरुणप्रघासयोश्च नित्यत्वापत्तेः । तस्मादधिकारिपर्युदासी- ऽयम् । तेनावश्याङ्गीकरणीय विशेषणेनैव तत्पर्युदस्तस्य उद्देश्य- स्थाधिकारिणी लब्धत्वान्न विशेषणान्तरं विवक्षितम् वाक्यभेदा- पत्तेः । तस्मादृहस्थेतरः पक्षयोरुभयोरुपवसेदिति तवचनस्यार्थः । “वनस्थयतिधर्मोऽय"मित्यनेनापि अन्वयमुखेन तदेवोक्तम् । पुत्र- वानिति श्रुतिश्च प्रायः प्राप्तानुवादिका । अतएव। “इन्दुक्षयेऽर्कसंक्रान्त्यामेकादश्यां सितेतरे । उपवासं न कुर्वीत यदीच्छेसन्ततिं ध्रुवाम् ॥” अत्र 'सन्ततिं यदीच्छेत्' इति सन्ततिरेव निरपेक्षेच्छाकम्मतया- * हिणाञ्च इति ख-पुस्तक पाठः । + हित्व विशेषणेनैव इति क-पुस्तके पाठः । 1 श्रुतेश्च प्रायः प्राधावनुवादिता इति ख-पुस्तके पाठः ।
कालविवेक - ऽवगम्यते । “ध्रुवां" चेत्यर्थात् सन्ततिसम्बन्धः क्रियान्वये सति सन्ततिकामोऽनुत्पबसन्ततिरेव उत्सर्गतः । तेन अनुत्पन्नसन्ततेरफि पर्युदासः। “वनस्थयतिधर्मोऽयम्" इत्याश्रमधर्मताकथनेन नित्यतां ज्ञापयति । "विष्णुलोकाचुतो भवेत् ।" इति श्रुते; “शुक्लामेव सदा रहो"। इति गृहस्थधन्मताम् । सदेत्यभिधानात् नित्यधर्मसाहचर्याच्च । तत्रैतदिचार्यम् । किं सदैवोपवासविधेः यदि वा सदा व्रतमात्र कुर्यात् तदा सदीपवासविधौ । "एकमतन नतेन तथैवायाचितेन च । उपवासेन भैक्षण नैवाहादशिको भवेत् ॥" इति निर्बिषयं स्यात् गृहिणोऽपि उपवासावरुद्धत्वात् । ग्रहिण: कृष्णपक्षे विधानमिदम् “उपवासेन" इत्यनुपपत्तेः । ततश्चैकभक्तादिना शुक्लायां सहादशिको भवेदिति विधिः । एकादशीव्रतेनैव सहादशीकत्वं तत्पूर्वकं हादश्यां भगवहासुदेव- पूजनविधानात् तदुक्तं पुराणे । "एकादश्यामुपवसेत्पक्षयोरुभयोरपि । हादश्यां योऽर्च येहिष्णुं स मुक्तिफलभाग्भवेत् ॥" अन्यथा एकादश्यामुपोषितस्य* हादश्यां नक्तोपवासादिक . पाश्रयधर्मवाभिधानेन इति क-पुस्तके पाठः । + शुद्धामेव इति क-पुस्तके पाठः।
एकादशी। ४३१ स्थात्। हादश्यामपि एकभक्तादिना “नैवाहादशिको भवेत्" इति विधानात् । अस्यैवोपवासस्य शुक्रवारादिश्वपि अनियमन प्रसक्तौ तत्पर्युदासेन तदितरव्यवस्थितिः । रविवारसंक्रमणादिदूषिते तु । “उपवासनिषेधे तु भक्ष्यं किञ्चिप्रकल्पयेत् । उपवासो न दुष्येत्तु उपवासफलं लभेत् ॥" तथा। "नक्तं हविष्थानमनोदनं वा फलं तिलाः क्षीरमथाम्बु चाज्यम् । यत्पञ्चगव्यं यदि वा च वायुः प्रशस्तमत्रोत्तरमुत्तरञ्च ॥” एतहायुपुरानोत वेदितव्यम् । अदुष्टे हि एकभक्ते नेत्यादि. वचनम् । किञ्च “शुक्लामेव सदा राही" इत्युपवासविधिः शुक्र- वारादिवर्जितायामकादश्यां सर्वत्र वा। यदि वजितायां तदा कृष्णायां नास्ति विधिरिति किमर्थं नताद्याचरणम् । विधित एव हि उपवासस्य प्राप्तस्य निषेधे नतादिविधानम् । अथ सर्वत्र तदाप्युपवासस्यैव विधानात् कथमेतक्रिया । धात् क्रिया तदा कृष्णायां विकल्पः अकृष्णायान्तु नित्यवदुप- वासविधिरिति वैरूग्यम् । अथ कृष्णायामन्यएव "नैवाहाद- शिको भवेत्” इति विधि: तन "उपवासेन भक्ष्येण" इत्यनुप- * “हादश्यामुपोषितस्य" दूत्यधिकः पाठः ख-पुस्तके दृश्यते । + दुष्टे हो कभतो त्यादिवध नमिति ख-पुल के पाठः ।
४३२ कालविवेक पत्तेः। उपवासानह एव काले तहिधेरापत्तेः तस्माददुष्ट एव काले “एकभक्तोन" इत्यादिना उपवासविधिः । गुरुणि कम्मणि फलभूयस्त्वम् । वारादिदूषितायान्तु उपवासनिषेधे उपवास- पर्युदासफलस्य निषेधसमानफलत्वात् निषेधार्थेन “नक्तं हवि- ष्यान"मितिविधानं तिलानोदनादिकं कृष्णायामेव अयाचितं भैक्ष्यं वा दुष्टायां कार्यमुपवासेन सह वैकल्पिकमिति यद्यपि पक्षः सम्भवति । तथापि “शुक्लामेव सदा रही” इत्यत्र वनस्थ- यतिधम्मतया उक्तस्य उपवासस्यैव समन्वयः प्रक्रान्तत्वात् । एक- भक्तादिविधाने च उपवासे फलान्तरकल्पना । नतादिविधा- नार्थञ्च फलान्तरकल्पना। तस्मात् “शुक्लामेव सदा गृही उप- वसेत्” इत्येको विधिः (शुक्लापदेनैव कृष्णाव्युदासेन तत्समानरूप- तया शास्त्रान्तरादवगतक विरविवाररविसंक्रमणादिकमपि पर्य- दस्त तेषु नतादिविधि:)* तेनोपवासेन नतादिना यही शुक्ल- कृष्णपक्षयोः व्रतं कुर्यात् नाहादशिको भवेदिति । एतदेवोत्तम् “एकभक्तन नवेन" इत्यनेन । “नैवाहादशिको भवेत्” इति नित्यतां दर्शयति। “उपवासफलं लभेत्” इति च नित्यकर्त्तव्य- समाप्तिं दर्शयति। नोपवासकरणदोषो भवतीत्यर्थः । तदाह सौरधर्मोत्तरे। “यथा शुक्ला तथा कृष्णा विशेषो नास्ति कश्चन । अभेदो दर्शितस्ते वै विशन्ति हरिमन्दिरम् ॥” * (-) अनयोः खलु रेखबीरन्तःस्थ: पाठी नोपलभ्यते ख-पुस्त के ।
कास्यकल्पा:। ४३३ यथैव गौरो वै विप्रः कष्णो वा वेदविविजः । सन्तारयति दातारं हादश्युभयतस्तथा ॥" तेन रहिणा कृष्णयक्ष-रविवार-शुक्रवारादिवर्जितायामकादश्या- मुपोषितव्यम् अन्यत्र नक्तादिकमिति नित्यवहिकल्पः । एकैकादशीसमाप्य उभयोरपि श्रुतेर्वा उभयसमाप्यो दर्शपूर्ण- मासवन तु यावज्जीव एव कल्पः । सच अथ कास्यकल्पाः । तत्र विष्णुः । "माघशुक्ल कादश्यामुपोष्य हादश्यां भगवन्तं वासुदेव- मभ्यर्थं पुष्पधूपानलेपन वेद्यैर्बहुभिब्राह्मणतर्पणैतमेतत् संवत्सरं कृत्वा सापत्यः पूतो भवति । यावज्जीवं कत्ला खेतहीपमाप्नोति । उभयपक्षहादशीमेवं संवत्सरेण स्वर्ग- लोकमवाप्नोति । यावज्जीवञ्च कृत्वा विष्णुलोकम् । एवमेव पञ्चदशीष्वपि । ब्रह्मभूतममावास्यां पौर्णमास्यान्तथैव च। योगिभूतं परिचरेत्केशवं महदाप्नुयात् ॥" वह्नितपणं तिलहोमादिना, ब्राह्मणतर्पणञ्च भोजनदक्षिणादिना। तदेते चत्वारः कल्याः पापक्षयकामस्य । संवत्सर शुक्लकादश्या- पन्यत्र तु नक्तादिनित्य कल्प. इति खु-मुस्त के पाठः । + एवं कल्प इति ख-पुस्तके पाठः ।
कालविवेक मुपवासव्रतं हादश्यन्तम् । शुक्लायमिव यावज्जीविकम् उप- वासव्रतं श्येतहीपप्राप्तिकामस्य । तथोभयपक्षोपवासव्रतं सांवत्- सरिक स्वर्गकामस्य । तदेव यावज्जीवं विष्णुलोकप्राप्तिकामस्य । कालाधिक्येन फलाधिक्यम् । तदेतेषु व्रतेषु रविवारादेरवश्य- भावात् तहजनेन प्रथममेव रहिणा सङ्कल्पः कार्य” इति योग्लोकवचनमनादेयं संवत्सरं यावज्जीवं वा उपवासस्यैव फलार्थ विहितत्वात् शुक्रवारादिवजने तावत्कालौनव्रतस्यासिडेः कथं तत्फलसिद्धिः। एवमित्यादिपदैरुपवासस्यैव परामर्शात् नित्य- स्याप्युभयैकादशीमात्रसमाप्यत्वाद्दर्शपूर्णमासवत् नास्ति याव- ज्जीवप्रयोगो यः सङ्कल्पनीयः। ननु तर्हि न भवत्वेततं रहिणां, रविवारादिषु रहिणां निषेधात् इति। नैतदपि, नायं निषेध इत्यसवदुक्तत्वात् किन्तूपवासविधिनैकवाक्यतया पर्वादासो निषेध- स च वारादिकालपर्युदासो वारादिवर्जिते काले कुर्यात् गृहिपादासो वा एहिव्यतिरिक्तः कुयादिति । नित्यैकादशीव्रते रविवारादिवजनन उपवासविधानस्य वर्णित- त्वात् रविवारादिषु च नतादिना तस्य कर्तव्यत्वात् । “उपवास- निषेधे तु भक्ष्यं किञ्चित्” इति, “नक्तं हविष्यान्नम्” इति च “एकभक्तेन नक्तेन” इत्यादिना च वहस्तितत्वात् । काम्ये पुन- रुपवासस्यैव विधानात् कथं वारादिपर्युदासः । न हास्ति सम्भवो वत्सरमुपवसेत् रविवारादिषु नोपवसेत् । किञ्च राहिणां फलः । यावज्जीवमिति क-पुस्तके पाठः । 4 कास्यकल्पाः । "४३५ वस्त दिनबजनेन । उपवासविधानं वानप्रस्थाश्चाबजनेनेति वैरूप्यम् । अतएव हिण: पर्युदास: गहिव्यतिरिक्तः कुया- दिति नित्ये कालपर्युदासार्थत्वात् काम्ये पर्युदासार्थवानुप- पत्तेः । एकत्वाचनस्य । स्यात् । अथ यहिपर्युदासार्थमेव वचनमस्तु यथा । "आदित्येऽहनि संक्रान्तौ ग्रहणे चन्द्र सूर्ययोः । उपवासो न कर्त्तव्यो ग्यहिणा पुत्रिणा तथा ॥" न हि तत्र रविवारपर्युदास: तेषु रविवारादिषु उपवसेदित्यनुप- पत्तेः किन्तु गृहोतरः कुर्यादिति। तबदनापीति। नैतत् उपवासविधौ तर्हि रविवाराटेरपर्युदासत्वात् तेषु नक्तादिविधिर्न तथाच "उपवासनिषेधे तु भक्ष्य"मिति नोपपद्येत । तथा अपराण्यपि वचनानि । "कृष्णपक्षऽथ संक्रान्त्यां ग्रहणे चापि पुत्रवान् । उपवासं न कुर्चीत स्मृतं तत्राप्यनोदनम् ॥ इन्दुचयेऽर्कसक्रान्त्यामकादश्यां सिततरे। पारणञ्चोपवासञ्च न कुर्यात् पुत्रवान् गृहौ ॥ (मधुमासे वर्ष चैव संक्रान्त्यां राहुसूतके । उपवासं न कुर्वीत यदीच्छेच्छ्रेय आत्मनः ॥ *वति ख-पुस्तके पाठः । + अस दिनबज्जनेन इत्यत्र पस्त शब्द न पर्युदतरूपोऽर्थः प्रतिपाद्यते इति प्रतिभाति । + हिपर्यु दासानुपपत्ते रिति ख-पुस्तके पाठः । । उपवास न कुवीस यदीच्छेत्सन्तति वामिति ख-पुल के पाठः ।
कालविवेक रविवारेसंक्रान्त्यामेकादश्यां सितेतरे। पारणञ्चोपवासच न कुर्य्यात् पुत्रवान् गृहो ।)* तत्रापि न ग्रहणादिनिषेधो हिपयुंदासार्थः। असितैका- दश्यादिषूत्तरकालपर्युदासार्थः कथं स्यात् । तथा। "वृद्धिं कृत्वा तु षण्मासान् नोपवासो विधीयते" इति पठन्ति । एतच्च प्रथमपरिणयनविषयमित्युक्तं निबन्धैः । प्रकृतमनुसरामः। तस्मादेकादश्युपवासव्रतं संवत्सरादिसाध्य शुक्रवारादिष्वपि रहिणा कार्यम् । यदपि वराहवचनम् । "एकादश्यां निराहारो यो भुङ्क्त हादशौदिने । कृष्णे वा यदि वा शक्ल तहतं वैष्णवं महत् ॥" महत्त्वमाह । "यदीच्छेोहिणुना वासं सुतसम्पदमात्मन: । एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ॥" ननु यदीच्छेदिति इच्छाकर्मतया विणुसहवासादितया प्रत्येक- मवगमात् एकैकस्यैव फलवत्त्वम् । तत्रोभयैकादशीव्रतं सकदा वत्सरं वा यावज्जीवं वा कृतं फलसाधनतया विधीयते । तत्र सक्नदार्षिकौ विष्णुविरोधात् न सम्भवत.। यावज्जीवप्रयोग- फलत्वेन विष्णुलोकप्राप्तेरुतत्वात् । सककरणादेव तसिद्धी * (-) अनयो रेखयोरन्तर्गतमधिक नोक इयं क-युस्तके नोपलभ्यते ।
काभ्यकल्पाः। यावज्जीवविधानानुपपत्तेः । (न च यावज्जीवप्रयोगसाध्यत्वं विष्णुना सहवासस्य सत्प्रयोगफलत्वञ्च पुत्वादेरिति सम्भवति न कुर्वीतेति सक्कदुचरितेन तुल्यरूपकम्म विधानानुपपत्ते:)* | अथ यावज्जीवप्रयोगोऽपि पारलौकिकपुत्वाद्यर्थिनां सम्भवत्येव । नैत- देवम् । यावज्जीवप्रयोगादेव परमपुरुषार्थस्य विष्णुसहवासस्य सिद्धौ न कश्चिदपि प्रेक्षावान् पारलौकिकपुत्वाद्यर्थों स्यात्, तदर्थं वा कम्म कुर्यात् । उच्यते,-अतएव तहि विष्णुविरोधात् न भुञ्जीतेत्यावृत्तं बोद्धव्यम् । मुनिना तु सक्कदुच्चारणं लाघवार्थं कतम्। तत्र पुत्वाद्यर्थिनः सकृविधानात् आवृत्तिकल्पना प्रमा- णाभावात् । विष्णुसहवासार्थिनस्तु यावज्जीवविधानमिति न विरोधः। तथा विष्णुधर्मोत्तरम् । "एकादश्यां यदा राम आदित्यस्य दिनं भवेत् । उपोष्या सा महापुण्या पुत्रपौत्रविवर्धिनी ॥" पुत्त्वपौत्रविवर्द्धनहेतुत्वाहिणैव तत्र कर्त्तव्यम् । अतो नानेन रविवारादिनिषेधस्यैकवाक्यता, नित्यव्रतविधिना एकवाक्यतया कालपर्युदासार्थत्वात् । एतदियेकवाक्यत्वे च यहिपयुंदासार्थ- खापत्तेः। * (-) अनयो रेखयोरन्तर्गतः पाठः ख-पुस्तके नोपलभ्यते । + । नैतदपौति ख-पुस्तके पाठः। * बाइब्यमिति क-पुस्तके पाठः ।
४३८ कालविवेक तथा भविष्ये। "एकादशी हादशी च तत्रोपोष्ण क्रतोः फलम् । अहोरात्रेण चैकेन ब्रह्महत्यां व्यपोहति ॥" अत्रापि न च वारादिपर्युदासः अवश्यानीकर्तव्यनित्य विधिना एकवाक्यतया निराकास्य नानाप्येकवाक्यता अस्यापि निरा- काइत्वात् सामान्य श्रुतिसङ्कोचापत्तेः । यच्च योग्लोकेन-“पुत्र- पौत्रविवर्द्धिनौ,” “सुतसम्पदमात्मन:” इत्यादिकमनुवादमा वर्णितम्, तदसङ्गतम्। अधिकारिविशेषणापेक्षयाऽर्थवादिक- फलखीकारस्य रात्रिसत्राधिकरणोतत्वात् । ब्रह्महत्याव्यपो- हनस्यापि-“ब्रह्महा द्वादशरात्रमुपवसेत्” इति हीनतमब्राह्मण- वधविषये रहःप्रायश्चित्ते सम्भवत्येव इति अमीमांसकवचनं हेयम् ।* ननु रविवारादिषु नित्यस्य नक्तादिना समाप्यत्वात् यावज्जीविककाम्योपवासव्रते कृते न प्रसङ्गानित्यसिद्धिरतो नित्यस्यातिक्रमः स्यात् इति, नैतत् । “नैवाहादशिको भवेत्” इति, अवतिना न भाव्यमिति तस्यार्थः । तच्च सम्पन्नम्। "उपवासनिषेधे तु” इति च उपवासाकरण नतादिकमुपवास- कार्ये विहितम्, तत्र चोपवासस्य निषिदस्य समाप्तत्वात् कुतो न नित्यसिद्धिः । यावज्जीवकाम्योपवासविधौ विधिविरोधादेव काम्बाकरण नित्यस्य कर्त्तव्यता नान्यदा । काम्यमेव विष्णु- * यथोक्त मेवानुसन्धेयम् इत्यधिक: पाठ: क-पुस्तके दृश्यते । + यावज्जीविकऽपि काम्योपवासे इति क-पुस्तके पाठः । + सम्पूर्ण मिति क-पुस्तके पाठः ।
काम्यकल्पाः । सायुज्य फलकम् (नित्यातिकमजनितपापक्षयं विना न सुफलप्रस- वाय प्रभवति)* अतस्तत्कुरुत इति न विरोधः । अथ यदा पूर्वदिने पूर्णापि परदिने निःसृता, द्वादशी तु न नि:सृता तदा पूर्वदिने सहिभिः काया यतिभिश्चोत्तरा। यदाह प्रचेताः । "एकादशी प्रवृद्धा चेच्छुक्त कृष्णे विशेषतः । तत्रोत्तरां यतिः कुर्यात् पूर्वामुपवसेट्टही ॥" विशेषत एकादशी विवृद्धा न हादशी, नापि दशमी इत्यर्थः । अविशषत इति पाठे नजः कल्पनानर्थक्यञ्च । यतिपदं ग्रहस्थे- तरपरम् । यदा हादश्यपि वईत तदा स एवाह । "पूर्णाप्ये कादशी त्या ज्या वईते हितयं यदि । हादश्यां पारणालामे पूर्णव परिरह्यते ॥" पारणालाभ इति पारणायोग्य हादण्यप्राप्तावित्यर्थः । वर्धते हितयमेकादशौहादश्यौ न तु दशम्येकादश्यौ । पूर्णापि त्याज्ये- त्यनुपपत्तेः। सधैरपि पूर्णैव । तथा ब्रह्मपुराणाम् । "एका लिप्तासमायुक्ता यदि वृद्धिपरा भवेत् । तथाप्येकादशी नाप्ति दशम्या वाप्यसङ्गता ॥” अस्यार्थः । एकादशौलिप्तामात्रसंयुक्ता द्वादशी परदिने पार- णोचिता बादशौ वृदिपरा वर्त्तते, तदा दशम्याऽसंयुक्ता पूर्णापी- (-) अनयी रेखयारन्तः क-पुस्तके "नित्यातिक मजनित पापक्षयविलक्षणसुफल- असवाय प्रभवति" इत्येवमेव पाठ; समुपलभ्यते ।
४४०
कालविवेक
त्यर्थः ।
सा नास्ति एकादशोकायं न कुरुते, किन्तु एकादशी-
लिप्तायुक्तीव हादशी उपोष्था इत्यर्थः । यत्र तु पूर्वदिने दशमी-
युक्त कादशी, परदिने च एकादशौहादशी, अपरदिने हादशौ न
वर्द्धते ।
तबाह ब्रह्माण्ड पुराणम् ।
"एकादशी हादशी च परतो हादशी न चेत् ।
तदा क्रतुशतं पुण्यं त्रयोदश्यान्तु पारणे ॥
कलाप्येकादशौ यत्र परतो हादशौ न चेत् ।
तत्र क्रतुशतं पुण्यं त्रयोदश्यान्तु पारणे ॥
एकादशीकलायुक्तामुपोष्य हादशौं नरः ।
त्रयोदश्यान्तु यो भुङ्क्त विष्णुसायुज्यमृच्छति ॥"
क्रतुशतपुण्यप्राप्तिश्च सर्वामिणां सम्भवति। पापक्षयार्थमपि
क्रतूनां विहितत्वात् । पारणायोग्यहादशीनिर्गमे तु त्रयोदश्यां
पारणे दोषमाह ।
ब्रह्माण्डपुराणम् ।
"एकादशीमपोथैव द्वादश्यां पारणं स्मृतम् ।
त्रयोदश्यां न तत्कुयाहादशहादशीक्षयात् ॥”
अथ स्कन्द पुराणम् ।
"उपोष्थैकादशौं यस्तु त्रयोदश्यान्तु पारणम् ।
करोति तस्य नश्यन्ति हादश्यो हादशैव तु ॥"
हादशौविनाशाभिधानेन द्वादशीव्रतमेवैतत् तदेकादश्युपोषणेन
इत्युक्तम् ।
अतएव एकादशी पितॄणान्तु हादशी चक्रपाणिन
दशमीयुक्तानां निषेधवचनानि ।
४४१
इति पञ्चरात्रवचनम् । हादशीनाशदोषश्रुतिश्च सर्वामिणां
सम्भवति, पापक्षयार्थमपि हादशीनां विष्णुना विहितानां सर्वै-
रेव चतानां नाशसम्भवात् ।
अथ दशमीयुक्तानां निषेधवचनानि ।
तत्र वराहपुराण ।
"दशम्यां नारभेनैव त्रयोदश्यां समापयेत् ।”
उदयोपक्रमकलायां धुपवासस्थारम्भः । उदयान्तरारम्भसमाप्तिः ।
तेनाद्यकलासम्बन्धेऽपि नोपवस्तव्यमिति अस्यार्थः ।
स्कन्दपुराणे ।
"दशम्यैकादशी विद्धा गान्धारी तामुपोषिता ।
तस्याः पुत्रशतं नष्टं तस्मात्ता परिवर्जयेत् ॥
मुहर्तेनापि संयुक्ता दशम्यैकादशी तु या।
तामुपोष्थ नरो मोहात्सुखे धमें विमुच्यते ॥"
कूर्मपुराण ।
दशग्येकादशी यत्र तत्र सनिहितो हरः ।
एकादशीवादशौ यत्र तत्र सन्निहितो हरिः ।
दशमोशेषसंयुक्तामुपोथैकादशौं किल ।
संवत्सरकताच्चैव सुखाइम्माच्च होयते ॥
दशमौयषसंयुक्ता गान्धारी तामुपोषिता ।
तस्याः पुत्रशतं नष्टं तस्मात्ता परिवर्जयेत् ॥
56
४४२
कालविवेक
शेषोऽन्तविनाड़िका।
-लिखन्ति ।
"दशम्यनुगता हन्ति हादशहादशीफलम् ।
धम्मापत्यधनायूंषि त्रयोदश्यान्तु पारणम् ॥”
तथा।
“कलयापि च संसृष्टां दशम्यैकादशौं त्यजेत् ।”
नारदपुराणस्य मार्कण्डेयविष्णुसंवाद ।
“यैः कता दशमौमिश्रा जड़वाक्याच्च मानवैः ।
ते गता निरये घोरे युगानेकोनसप्ततिम् ॥"
तथा वैश्यभिक्षुसंवादे।
"दशमौमिश्रिता वैश्य भवेदेकादशी तिथिः ।
आसुरी च भवेदेषा तिथिरेव न संशयः ॥
स्नानं दानं जपो होमः स्वाध्यायः पितर्पणम् ।
अस्यान्तिथावुपोषित्वा वृथा भवति तत्क्षणात् ॥
अपत्यनाशमाप्नोति महानरकदायिनी।
धनहानिर्भवेद्देश्य न कर्तव्या कथञ्चन ॥
या शुद्धा हादशी ग्राह्या त्रयोदश्यान्तु पारणम् ॥"
तथा मार्कण्डेयविष्णुसंवादे ।
"अरुणोदयवेलायां दशमी तिष्ठते यदि।
तथाप्येकादशौं हित्वा हादशौं समुपावसेत् ॥
रविचक्राईमात्रापि दशमी श्रूयते यदि ।
शुद्धापि द्वादशी ग्राह्या त्रयोदश्यान्तु पारणम् ॥
दशमीयुक्तानां निषेधवचनानि । ४४३ कलाङ्केनापि विद्धा या भवेदेकादशौ यदा । तदा धेकादशी त्यत्वा हादशौं समुपावसेत् ॥” तथा सौरधर्मोत्तरे। "एकादशीमुपवसेट् हादशीमथवापि तु । विमित्रां वापि कुर्चीत न दशम्या युतां क्वचित् ॥" अननोपवासस्य कालवयमुक्तम् । केवलैकादशी केवलैव हादशी विमिश्रा वा, अनयोरेवोपवास इत्यर्थः । तत्र यदि हादशी उदयकाले दशमीयुक्ताप्येकादशी गृह्यते तदा केवल हादश्युप- वासविधायकवचनं निर्विषयंपा स्यात् । भविष्यपुराणम् । “एकादशौं दशायुक्तां वर्द्धमानां विवर्जयेत् । पक्षहानौ स्थिते सोमे लङ्घयेद्दशमीयुताम् ॥ एकादशी दशायुक्ता परतोऽपि न वईते । यतिभिर्गहिभिश्चैव सैवोपास्या सदा तिथि:/॥" दशा दशमी। हादशीदिने एकादशीकलाईमात्रस्यापि अनि- नमे सति दशम्यापि विद्धा एकादशी उपोष्था इति प्रतीयते शास्त्रार्थः। स तु सौरधर्मोत्तरकूमपुराणादिविरुद्धः । rampus Arerpa समुपीषये दिति क-पुस्तके पाठः । + तथा धर्मोत्तर इति क-पुस्तके पाठः । + एकादशीसुपीयेत इति ख-पुस्तके पाठान्तरं, क-पुस्तके तु भयमेव पाठः । हादशीदिवसनिर्गमे उदयकाले प्रति क-पुस्तके पाठः । उपवासवचनं निर्विषयमिति ख-पुस्तक पाठः । ॥ तदा तिथिरिति ख-पुस्तके पाठः ।
४४४
कालविवेक
यदाह सौरधर्मोत्तरे।
"एकादशीमुपोष्थेत हादशीमथवा पुनः ।
विमिश्रा वापि कर्तव्या न दशम्या युता कचित् ॥"
कूर्मपुराण ।
“एकादशीमुपोथेत हादशीमथवापि च ।
विमिथां वापि कुर्वीत न दशम्या युतां कचित् ।।
कुयादलामे संयुक्तां नालामेऽपि प्रवेशिनीम् ।
उपोष्था द्वादशौ तत्र त्रयोदश्यान्तु पारणम् ॥
उदयाबाग्दशम्यास्तु शेषः संयोग उच्यते ।
उपरिष्टाप्रवेशस्तु तस्मात्संवर्जयेत्सदा ॥"
अस्यार्थः। हादश्यां कलाईमात्रैकादश्या अनिर्गमे यदि दशमी
नोदयं स्पृशति तदा सा संयुक्ता उच्यते । सैवोपोथा। अथोदयं
स्पृशति सा प्रवेशिनौपदवाया। न पुनरेकादश्यामलाभात्
प्रवेशिनौमुपवसेत्। तदिदमुक्तं "नालाभऽपि प्रवेशिनौ”मिति ।
एकादशीमुपवसेत् । हादशौं वा केवलाम् । विमिश्रामेकादशौं
हादशौञ्चेति पछत्रयम्*।
तथा सौरधर्मोत्तरे। सूत उवाच ।
“कौशस्तु भवेद्देधो योगो विप्रेन्द्र कीदृशः ।
योगवेधी समाचच ययोर्वेष्टमुपोषणम् ॥"
व्यास उवाच ।
. विमिश्रामिकादशीदादशीयुग्मपचे उदयलाभ इति ख-पुस्तके पाठः।
दशमीयुक्तानां निषेधवचनानि ।
४४५
“या तिथि: स्पृशते राजन् प्रातर्वावलोकिनी ।
स वैध इति विज्ञेयो योगः सूर्योदयौ मत:* ॥"
सूर्योदयात्राक् अन्योऽन्यमुखावलोकनरूपंग प्रातःकालं यदि
दशमी स्पृशति न तूदयं स वेध इति भाषितम् । यस्य पूर्ववचनेन
“शेषः संयोग” इत्युक्तम्, तदा “तूपरिष्टात् प्रवेशस्तु” इत्युक्तम् ।
योगसंयोगयोः परिभाषितत्वादेवास्य भेदात् परस्परविरोधी न
वाच्यः। तदयं सङ्घ पार्थः । सूर्योदयकाले दशमौस्पृष्टा एका-
दशी न कदाचिदप्युपोथा।
"दशम्यैकादशौं युक्तां प्रमादायद्युपोषयेत् ।
संवत्सरकतं पुण्यं तस्य नश्यति तत्क्षणात् ॥”
किन्वेकादशी निःसरतु न निःसरतु वा बादश्ये व उपोष्था । यदा
तु वक्त्रावलोकनकालमाचं दशमी स्मृशति नोदयं, परदिने च
एकादशौ न निःसरति, तदा एकादशौं वेधवतोमुपवसेत् ।
"दशमीयुक्ता" "दशम्या" इत्यादिकमपि अस्मिन्नेव विषये
बोधव्यम् ।
अतएव।
"कलाई नापि विडा स्याहाम्यैकादशी तु या ।
तदा छेकादशी मुक्का हादशौं समुपावसेत् ॥”
तथा वराहपुराणम् ।
"एकादशौ विलुप्ता चेत्यरतो हादशी स्थिता ।
* सूर्योदयं मत इति ख-पुस्तके पाठः ।
* भन्योऽन्यमुखावलोकन प्रातःकालमिति ख-पुस्तके पाठः ।
४४६ कालविवेक उपोष्था द्वादशी तत्र यदीच्छेत्परमं पदम् ।। हादश्यामुपवासन्तु ये वै कुर्वन्ति ते नराः । वत्स मामेव पश्यन्ति मम व्रतपरायणाः ॥" उदयकालस्य दशम्याक्रान्तलादुदययोगविलोपादेकादशी विलुप्ता उच्यते । परत्राप्युदयकाले हादशौ स्थिता नैकादशीत्यर्थः । तु दैवादकरणविषयं पूर्ववचने मुत्केति श्रुतेः । न तथा। "हादश्यामुपवासोऽत्र त्रयोदश्यान्तु पारणम् । निषिद्धमपि कर्तव्यमाञयं पारमेखरी ॥" एकादश्यामुपवासे त्रयोदश्यां पारणं निषिद्धमनुजान तथा। “यदाक्रान्ता दशम्या तु एकादश्यासमन्ततः । तदा ह्येकादशौं त्यक्ता हादशौं समुपावसेत् ॥" एकादशौसमन्वितो दिवसो यदा दशम्याक्रान्तः स्पृष्ट इत्यर्थः । तथा। “एकादशी यत्र लुप्ता परतो हादशी भवेत् । उपोष्था हादशौ तत्र यदीच्छेत्परमां गतिम् ॥" पूर्वदिने दशमी विद्या क्षीणा परत्र च लुप्ता नास्ति किन्तु हाद- श्येव परं तत्र उपोथा हादशौत्यर्थः । तत्रैवाह । * हादश्यामप्युपोषयेदिति क-पुस्तके पाठः ।
दशमीयुक्तानां निषेधवचनानि । ४४७ "त्रयोदश्यान्तु शुद्धायां पारणे पृथिवीफलम् । शतमभ्यधिकं वापि नरः प्राप्नोत्यसंशयम् । एकादशौ यदा न स्यादुपोष्था द्वादशी तदा ॥" यदा दिनहयेऽप्युदयकाले न स्यादेवेत्यर्थः । यत्तु भविष्यपुराणम् । "एकादशौं दशायुक्तां वर्द्धमाने विवर्जयेत् । पक्षहानौ स्थिते सोमे लयेद्दशमीयुताम् ॥ एकादशौ दशायुक्ता परतोऽपि न वर्द्धते । रहिभिर्यतिभिश्चैव सैवोपोष्था सदा तिथिः ॥" तदुदयात्राक् दशमीयोगविषयम् । असमाधेयकेवलहादश्युप- वासविरोधात् । यदा तु तिथित्रयं यथा सौरधर्मोत्तरे । "एकादशी हादशौ च तच्छेष च त्रयोदशी । निःस्पृशा सा तिथिः प्रोता सर्वपापहरा स्मृता उपवास: कतस्तत्र महापातकनाशनः ॥” तदेतहनस्थादीनाम् । हिणां निषिद्धत्वात् । तथाहि मत्स्यपुराणम् । "दिनक्षयेऽर्कसंक्रान्त्यां ग्रहणे चन्द्रसूर्ययोः । उपवासं न कुर्वीत पुत्रपौत्रसमन्वितः ॥" ।: HummaNamesnewmonimin 4 पृथु चेत् फलमिति क-पुस्तके पाठः । न खादेवेति असम्भवादिति ख-पुस्तके पाठः । +
४४८
कालविवेक
दिनक्षयलक्षणमाह कूम्मपुराणे ।
"हौ तिथ्यन्तावेकवार यस्मिन् स स्थाहिनक्षयः ।
स्नानं दानं जपो होमो नोयवासो यहाश्रमे ॥"
नक्तमाह भविष्ये।
"मुहर्त्तानं दिनं केचित्प्रवदन्ति मनीषिणः ।
नक्षत्रदर्शनानतमहं मन्ये गणाधिप ॥"
सौर मुहर्त्तानं दिनं नक्तमन्यत्र तु सर्वत्र नक्षत्रदर्शनम् ।
अथ स्कन्दपुराणम् ।
"दशम्येकादशीविद्या क्षयमेकादशी गता।
नक्तं तत्र प्रकुर्वीत नोपवासो विधीयते ॥"
विद्धेति उदयात्प्राग्वेधोऽभिमतः । उदयसम्बन्धे सति हादश्या-.
मुपवासविधानात् । “क्षयमेकादशी गते ति दशमौतः क्षयमेका-
दशौ गता। उदयात्पूर्व कालं वक्त्रावलोकनकालं न स्पृशति
अतएव क्षयं गता। उदयपूवावस्थानेऽपि हादश्यामुपवासविधा-
नात् ।
तथा ।
"एकादशी हादशौ च तच्छेषे च त्रयोदशी।
सानं दानं जपं होमं कृत्वा ब्राह्मणवाचनम् ॥
निर्वत्य हादशीकम्म ततो नतोन वर्त्तयेत् ।
दिनक्षये तु सम्प्राप्ते नोपोषनियमौ स्मृतौ ।
उपोष पुत्वनाशः स्यात्रियमे तु धनक्षयः ॥"
* ब्राह्मणतर्पणमिति ख-पुस्तके पाठः ।
दशमीयुक्तानां निषेधवचनानि ।
884
गृहीतं हादशीव्रतं न त्याज्यम् ।
तदाह वराहपुराणे ।
"हादश्यामुपवासन्तु ये वै कुर्वन्ति ते नराः ।
वम मामेव पश्यन्ति मम भक्तिपरायणाः ।
पूर्वसङ्कल्पितं यत्तु व्रतं सनियमव्रतैः ।
तत्कर्तव्यं नरैस्तबहानाध्ययनवजितम् ॥
बहुकालिकसङ्कल्पो गृहीतश्च पुरा यदि ।
(सूतके मृतके चैव व्रतं तन्नैव दुष्थति) ॥
सूतके मृतके चैव हर्षे वा समुपस्थिते ।
परचक्रागमे रोगे न त्याज्यं हादशीव्रतम् ॥
सूतके मृतक स्नात्वा प्रणम्य मनसा हरिम् ।
एकादश्यां न भुमीत व्रतमेवं न लुप्यते ॥
द्वादश्याञ्च तथा भुक्त्वा मृतकान्ते जनाईनम् ।
पूजयित्वा विधानेन भोजयेदृत्विजोत्तमान् ॥
पूर्वीत तु व्रते चौर्णे यथोलफलभाग्भवेत् ।
व्रतभङ्गान्महदुःखं प्राप्नोति नरकं तथा ॥
तस्मात्रमादे दुःखे वा सूतके मृतकेऽपि वा ।
स्नाला कायव्रतं कुर्याद्दानाचनविवजनम् ॥”
मानवा इति क-पुस्तके पाठः ।
+ (-) पनयी रेखयोरन्तःस्थः पाठः क-पुस्तके नीपलभ्यते ।
* धातु ते चौ इति ख-पुस्तके पाठः ।
कालविषेक उपवासाशतो पुनराह । असामर्थं शरीरस्य व्रते च समुपस्थिते । कारयेन्मपत्नी वा पुत्त्रं वा विनयान्वितम् ।। धर्मपत्नी धार्मिकों,* यस्यां निभृतन भोजनादिकं नाशयते । (विनयान्वितत्वमपि पुचस्यैतदर्थमेवोक्तम् । तथा। भाया भव्रतं कुर्याद्भायायास्तु पतिस्तथा । असामर्थे तयोस्ताभ्यां व्रतभङ्गो न जायते) एलच पौड़ायामपि फलेच्छायामवाप्ते वा फले काम्यमपि अवश्यं समापनीयम् । अवधिं यावविवर्तितव्यम् । “यथोक्ता- फलभाग्भवेत्" इति वचनात् । “यहीतञ्च पुरा यदि" इति श्रुतः । नित्यस्य अग्रहीतस्यापि कर्तव्यत्वात् “यदी"ति नोप- पद्यते । नित्येऽपि सूतकमृतकयोः प्रतिप्रसवः सम्भवत्येव अन्यथा- शुचेरनधिकारात् । अथ वराहपुराण । "एकादश्यान्तु नतोन नरः कुयायथाविधि । मार्गशीर्षशुक्लपक्षादारमाव्दं विचक्षणः ॥ तहतं धनदस्येदं कृत वित्तं प्रयच्छति । mp- * धार्मिकामिति क-पुस्तके पाठः । + नियमेन इति क-पुस्तके पाठः। + (-) अनयी रेखयोरन्तःस्थ. पाठः क-पुस्तके नीपलम्यते । 8 'पीतायामपौति ख पुस्तक पाठान्तरम्, ग्रहीतायामपीति क-पुस्तके पाठः।
इतिकर्तव्यता। ४५१ तस्य ब्रह्मा ददौ प्रीतस्तिथिमकादशौं प्रभुः ॥ तस्यामनग्निपक्काशी भवेत्सुनियतः शुचिः । तस्यासौ धनदो देवस्तुष्टो वित्तं प्रयच्छति ॥" एकमेवेदमव्दवतं नक्तमनग्निपक्काशनम् । सर्वत्रैव च नतमोजने । "हविष्यभोजनं स्नानं सत्यमाहारलाघवम् । अग्निकार्यमधःशय्यां नक्तभोजी षड़ाचरेत् ॥” इति भविष्योक्तं वैदितव्यम् । अथ इतिकर्तव्यता उच्यते। । तत्र स्मृतिसमुच्चये । "सायमाद्यन्तयोरलोः सायम्पातश्च मध्यमे । धर्मोपवासे कुर्वीत नैव भक्तचतुष्टयम् ।" दिनहयेऽपि सकद्भोजनपरम् । न तु सायम्प्रातस्त्वं विवक्षितम् । विवक्षायामुपवासदिनेऽपि विवक्षा स्यात् । तथा सति उभय- क्षणपरित्यागन भोजनेऽपि लोकसिद्धोपवासादन्य एव शास्त्र- परिभाषितः स्यात् । “नैव भक्तचतुष्टय"मिति निषेधे चातभक्तो- ऽवगते सायमादिविशेषणविवक्षायां वाक्यमेदापत्तेः । तथाऽपरम्। "कांस्यं मापं मसूरञ्च चणकं कोरदूषकम् । शाकं मधु. परान्नञ्च वर्जयेदुपवसन् स्त्रियः ॥”
अथ तदिवसीयं त्याज्यमुच्यते ।
"असत्यभाषणं द्यूतं दिवास्वप्नञ्च मैथुनम् ।
एकादश्यां न कुर्वीत उपवासपरो नरः॥
उपवासे तथा श्राद्धे न खादेहन्तधावनम् ।
दन्तानां काष्ठसंयोगो हन्ति सप्त कुलानि वै॥
स्त्रीणां सम्प्रेक्षणात् स्पर्शात्ताभिः सङ्कथनादपि ।
विपद्यते ब्रह्मचर्य न दारेष्वृतसङ्गमात् ॥”
“सम्प्रेक्षणं" सम्यक् प्रकर्षण ईक्षणम् अनुरागादित्यर्थः ।
"स्मरणं कीर्तितं केलि:* प्रेक्षणं गुह्यभाषणम् ।
सङ्कल्पोऽध्यवसायश्च कार्य निर्हतिरेव च ।
एतन्मैथुनमष्टाङ्ग प्रवदन्ति मनीषिणः ॥"
एतदन्यथाभूतं न ब्रह्मचर्यविरोधकम् ।
"असकज्जलपानाच्च ताम्बूलस्य च भक्षणात् ।
उपवासः प्रदुष्येत दिवास्वप्नाच्च मैथुनात् ॥”
तथा।
“पतितपापपाषण्डसम्भाषावधूततापसानृतस्तेयद्रोहादिक
वर्जयेत् ।”
"पाषण्ड"चाण्डालादिः। आदिपदं पापहेतुमात्रपरम् ।
कीर्तनश्चैव इति क-पुस्तके पाठः।
+ उपवास प्रमाश्येत इति क-पुस्तके पास
तदिवसीयं त्याज्यम् । अतएव। "उपाहत्तस्य पापेभ्यो यस्तु वासो गुणैः सह। उपवास: स विज्ञेयः सर्वभोगविवज्जितः ॥' "उपावृत्तः" निवृत्तः। “गुणा"श्च अष्टी आत्मनः । तथाह बुधः । "दया सर्वेषु भूतेषु शान्तिरनसूया शौचमनायासो मङ्गल- मकार्पण्यमस्मृहेति कुर्यात् ।” एवमेवाष्टो आत्मगुणा इत्युपक्रम्य गोतमः । तान् विविनक्ति वृहस्पतिः । "परे वा बन्धुवर्गे वा मित्र इष्टरि वा सदा । आत्मवर्तितव्यं हि दयैषा परिकीर्तिता । वाये चाध्यामिके चैव दुःखे चोत्पादिते तथा । न कुप्यति न वा हन्ति सा क्षमा परिकीर्तिता। न गुणान् गुपिनो हन्ति स्तौति मन्दगुणानपि । नान्यदोषेषु रमते सानसूया प्रकीर्तिता ॥ अभयपरिहारस्तु संसर्गश्चाप्यनिन्दितः । खधमें च व्यवस्थानं शौचमेतप्रकीर्तितम् ॥ शरीरं पौधते येन अशुभेनापि कर्मणा । अत्यन्तं तन्न कर्त्तव्यमनायासः स उच्यते ॥ प्रशस्ताचरणं नित्यमप्रशस्त विवजनम् । एतधि मङ्गलम्प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥ स्तीकादपि प्रदातव्यमदीनेनान्तरामना।
कालविवेक अहन्यहनि यत्किञ्चिदकार्पण्यं हि तत्स्मृतम् ॥ यथोत्पन्नेन सन्तोषः कर्तव्यो ह्यल्पवस्तुना । परस्यांचिन्तयित्वार्थ साऽस्पृहा परिकीर्तिता ॥" एतेऽष्टौ गुणाः। "पुष्यालङ्कारवस्त्राणि गन्धधूपानुलेपनम् । उपवासे च दुष्येत दन्तधावनमञ्जनम् ॥" चकाराबक्तादिष्वपि । "क्षमा सत्यं दया दानं शौचमिन्द्रियनिग्रहः। देवपूजाग्निहवनं सन्तोषोऽस्तेयमेव वा । सर्वव्रतेष्वयं धम्मः सामान्यो दशधा स्मृतः ॥” पौराणिकान्येतानि वचनानि । यत्तु भविष्यवचनं योग्लोकेन लिखितम् । "भक्ष्यं भोज्यं तथा लेझुमोदनन्तु प्रकीर्तितम् पेयञ्चानोदनं प्रोक्तं तस्मात्तत्परिवर्जयेत् ॥ पयः पोखा ततो गव्यं स्थातव्यं कुरुनन्दन । नान्नं भोज्यं भवेत्तस्मादनोदनमिति स्मृतिः ॥" तदनोदनासप्तमीव्रतस्य । तवचनं कथमत्र संबध्यतां प्रकरण- विरोधात्। किञ्चानेन गव्यपयःपानस्य अनोदनलेन व्याख्यात- खात् एकादश्यां चानोदनक्षीरपानयोर्भेदेनोत्तत्वात् नात्र एवं- विधमनोदनम् । किन्तु प्रोदनं भक्तं ततोऽन्यदनोदनमिति यथाप्रचारमेव उक्तम् । अतो योग्लोकमतं हेयम् । तथाऽपरं वराहपुराणे । 1
तद्विवसौयं त्याज्यम् ।
४५५
"एकादश्यां सिते पक्षे यदर्चन्तु पुनर्वसुः ।
नाना सा विजया ख्याता तिथीनामुत्तमा तिथिः ॥
यो ददाति तिलप्रस्थं त्रिकालं वत्सरं नरः ।
उपवासञ्च यस्तस्यां करोत्येतत्समं स्मृतम् ॥
तस्यां जगत्पतिर्देवः सर्वदेवेश्वरो हरिः ।
प्रत्यक्षतां प्रयात्याशु तदानन्तफल स्मृतम् ॥
एकादश्यां सिते पक्षे पुष्यचं यत्र सत्तम ।
तिथौ भवति सा प्रोता विष्णुना पापनाशनी ।
तस्यामाराध्य गोविन्दं जगतामौखरं परम् ।
सप्तजन्मक्तात्यापान्मुच्यते नात्र संशयः ॥
यञ्चोपवासं कुरुते तिथौ तस्यां हिजोत्तम ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥
दानं यहीयते किञ्चित्समुद्दिश्य जनाईनम् ।
होमो वा क्रियते तस्यामक्षयं कथितं फलम् ॥"
अथ विष्णुधर्मोत्तरे ।
"एकादश्यां सिवे पक्षे पुष्य यत्र सत्तम ।।
द्वादश्यां वा बदाशेषपापञ्जयकरं स्मृतम् ॥”
नगपति. कण इति ख-पुस्तके पाठः।
अथ सङ्कल्पः । तत्र* शान्ति पर्वणि । "महोत्वौदुम्बरं पात्रं वारिपूर्णमुदमुखः । उपवासन्तु गृह्नौयायदा सङ्कल्पयेडुधः ॥ देवतास्तस्य तुष्यन्ति कामिकन्तस्य सिध्यति । अन्यथा तु वृथा माः लिश्यन्ति स्वल्पबुद्धयः ॥" सङ्कल्पवाक्यं वाराहे। "एकादश्यां निराहारो भूला चैव परेऽहनि । भोक्ष्येऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत ॥" सङ्कल्पग्रहणञ्च प्रातरेव सर्वत्र विशेषवचनं विना। "प्रातः सङ्कल्पयेविहानुपवासवतादिकम् । अङ्गश्च पञ्चमोल भागः प्रातच घटिकात्रयम् ॥" नैमित्तिकै कभक्तनतादीनाम् उपवासकायें विधानात् सोम- धम्माणामिव फलचमसप्राप्तः अत्रापि मन्त्रस्य प्राप्तस्योहेन प्रयोग: कार्यः। अतएव एकभक्तादिपूर्वापरदिनयोरेकभक्ता- दिको धर्मः कार्यः । यहा हादशीव्रतं खल्वेतगुणवतो वासुदेव- स्थार्चनं होमो जप इत्यादि प्रधानं धम्मः। तच्च कतोपवासनतादेः कदाचिद्वर्तमानोपवासादिविधीयते। उपवासादिकन्तु संस्का- पत्र इति ख-पुस्तके पाठः । + अहः पञ्चतमी भाग इति क-पुस्तके पाठः। + नैमित्तिकै कभक्तादीनामिति ख-पुस्तके पाठः ।
सङ्कल्पः। रकं लिङ्गात् । अङ्गभूतोपवासप्रकाशको मन्त्रो नक्तादिपने निवर्तते । ब्रीहिमन्त्र इव यावके प्रयोग। अतोऽस्याप्रयोग एव। यच्च योग्लोकन लिखितम् । "एकभक्तेन यो मर्त्य उपवासव्रतञ्चरेत् । उपोष्य नक्तेन विभो चत्वारः फलसंयुताः ॥” इत्यादिषु उपवासपदप्रयोगो “मासम ग्निहोत्र जुहोती"तिवत् नाम्ना धम्मातिदेशात् प्राप्तस्य मन्त्रस्य अहेन प्रयोगः । सौर्य- चराविव “देवस्य त्वा" मन्त्रस्य इत्यन्तम् । तदसङ्गतम् । अङ्गा- रकचतुर्थीनक्त एकभक्त व्रतान्तरीयेऽपि व्रतान्तरीयोपवासनाम्ना यदि धम्मातिदेशस्तदा एकादशीनतादिवतस्य किमायातम् । व्रतानां भिन्नत्वात् अङ्गारकचतुर्थीव्रतादिष्वेवास्य प्रयोगः स्यात् । किञ्च तदापि फलतिलानोदनपवनपयःपञ्चगव्या हारादिषूप- वासपदस्य दर्शितत्वात् कथमस्य सर्वव्यापिता। किञ्च उप- वासपदस्थ नानातिथिविहितोपवाससाधारणत्वात् किनामीय- धमातिदेशकत्वम् । अथैकादशीव्रततया विशेषः। तदा तदेव चोदनालिङ्गमतिदेशकं नाम्नाऽसाधारणस्यैवातिदेशत्वात् । किञ्च उपवासपदस्य सर्वव्रतेष्वेव "उपावृत्तस्य पापेभ्यो वासो यस्तु गुणैः सह" अत्र च निरणयवपृष्टस्येति अधिकः पाठः ख-पुस्तके दृश्यते । फलाज लतिलानीदनयवपयःपञ्चगव्येति क-पुस्तके पाठः। + नानासाधारणस्यैवानिदेशत्वादिति ख-पुस्तके पाठः । 58 ४५८ कालविवेक इत्युक्तवचनेन यौगिकत्वस्य शास्त्रकारैरुतत्वात् । "यौगिकञ्च नाम नातिदेशक यत्रातिटेशं विनापि प्रवृत्तिनिमित्तं लभ्यते" इत्युक्तं सप्तमे प्रापणीयपदस्यानतिदेशकत्वं वदता। अतो हेय- मेव योग्लोकवचनम् । अथापरा एकादशी। सत्र ब्रह्माण्डपुराणम् । "पुनर्वसौ देवगुरौ निशाकरे निशेशवारे ऽमरपूज्यकेऽथवा । कुम्भे रवौ मध्यगते वृहस्पतौ एकादशी स्यात् खलु पापनाशिनी ॥ जप्यञ्च तप्यच्च तथा कृतं हुतंग यत्किञ्चिदस्यां किल धम्मसञ्चितम् । अनन्तपुण्यानि भवन्ति तस्य वै सूर्यग्रहाकाव्यधिकं फलन्तथा ॥ क्षारोदके चायवगाध यो नरः सम्पूज्य कृष्णं रजनौमुपोषितः । एतेन पापं दशजन्मभिः कृतं जहीत सा तस्य समग्रमाशु यत् ॥" विशेषवार इति क-पुस्तके पाठः । + लपी भूतञ्चेति क-पुस्तके पाठः। * जनोत मावस समयमा यदिति क-पुस्तकै पाठः ।
हादशी। अस्यार्थः। पुनर्वसौ यदा चन्द्रवहस्पती यदा वारी धनयोरन्ध- तरस्य भवेत् कुम्भे रविः स्यात् सौरस्तु फालानः । पुनबसी' कर्कट एव संस्थिते सौरे फाल्गुने वृहस्पती चन्द्रे च पुनर्वसौ नक्षत्रे कर्कटे च वृहस्पती शुक्ला चैकादशी पापनाशिनीत्युच्यते । दुर्विमर्षत्रिदोषेण ग्रस्तमेकादशीव्रतम् । मृतसञ्जीवनी विद्यामादाय परिरक्षितम् ॥ इत्येकादशौकल्पः समाप्तः । अथ हादशी। तत्र भविष्योत्तर। "मासि भाद्रपद शुक्ला हादशी श्रवणान्विता। महती हादशी ज्ञेया उपवासमहाफला ॥ सङ्गम्मे सरितां पुण्ये हादशौं तामुपोषितः । अचिरादेव चाप्नोति द्वादशहादशीफलम् ॥ बुधवारण संयुक्ता सेव द्वादशी भवेत् । अत्यन्तमहतो* तस्यां सब कृतमथाक्षयम् ॥ अर्चयित्वाऽच्युतं तस्यां लभेत्पुण्यं दशाब्दिकम् । फलं दत्तं हुतानाञ्च तस्यां लक्षगुणं भवेत् ॥* सैव चेदिति भाद्रपदीया शुक्ला । अत्यन्त महतौति ख-पुस्तके पाठः।
४६.
कालविवेके
1
तथा वृहविष्णुधर्मे।
"उपवासासमर्थानां शुक्लपचे हिजोत्तम ।
एका या बादशी पुण्या तां वदख ममानघ ।"
मार्कण्डेय उवाच ।
“या हि भाद्रपदे शल" इत्यादिकं “कतमथाक्षय"मित्यन्तं
पूर्वेण समानम् । अधिकन्तु-
"दादशी श्रवणोपता यदा भवति पार्थिव ।
सङ्गमे तु तदा स्वात्वा सन्धितिम्रान फलम् ॥
सोपवासः समाप्नोति नात्र कार्या विचारणा ।
वारिधानी ततो दत्त्वा वारिपूर्णां हिजाय च ॥
सानां वस्त्रयुतां राजञ्छतोपानहसंयुताम् ।
स्कन्दलोकमवाप्नोति कुलमुद्धरते वकम् ।
स्कन्दं समासाद्य चिरञ्च भोगान्
भुत्वा महेन्द्रोपमदेवतुल्यान् ।
मानुष्थमासाद्य भवेदरोगी
धनान्वितो धर्मपरो मनखी।"
"सन्धितिः” श्रीपर्वतसनिहिता पुण्या नदी भण्यते ।
सन्नतिनाननमिति क-पुस्तके पाठः, सन्नितिरिति च ख-पुस्तकै पाठान्तरम् ।
+ खगलोकमिति क-पुस्तके पाठः ।
#. कुलसुद्धरते सुखमिति क पुस्तके पाठः ।
६ खर्गमिति क-पुस्तके पाठः ।
द्वादशी।
अथ विष्णुधर्मे*।
“यदा तु शक्लहादश्यां नक्षत्रं श्रवणं भवेत् ।
तदा सा तु महापुण्या हादशी विजया स्मृता ॥
तस्यां स्नातः सर्वतीर्थे सातो भवति मानवः ।
सम्पूज्य वर्षपूजायाः सकलं फलमश्रुते ॥
एकजप्यात्महस्रस्य जप्तस्याप्नोति यत्फलम् ।
दानं सहस्रगुणितं तथा वै विप्रभोजनम् ।
होमस्तत्रोपवासश्च सहस्राख्यफलप्रदः ॥"
सहस्रसंख्यस्य यत्फलं तदेकसंख्येनैव भवति ।
तथा विष्णुरहस्य ।
'श्रवणेन समायुक्ता मासि भाद्रपदे सिता ।
द्वादशी सा महापुण्या नाम्ना तु विजया स्मृता ॥
तस्यां सातो विधानिन सर्वतीर्थफलं लभेत् ।
पर्चयित्वाऽच्युतं भक्त्या लभेत्युण्य दशाब्दिकम् ॥
ऋचो यजूंषि सामानि जप्यं वा वैष्णवं जपेत् ।
फल दत्तहुतानाच तस्यां लक्षगुणं भवेत् ॥
द्वादश्यामुपवासोऽत्र त्रयोदश्यान्तु पारणम् ।
निषिद्धमपि कर्तव्यमाञयं पारमखरी ॥
विजयां सुमहापुण्यां नियतः समुपावसन् ।
आदाय पुरुषान् सप्त विष्णुलोकं ब्रजेवरः ॥"
विष्णुधर्मोचरी इति क-पुस्तके पाठः।
+ नयभावैचावं चमेदिति ख-पुस्तके पाठः ।
कालविवेक
तत्र भगवद्वासुदेवार्चनं श्रवणयोगकाल एव कार्यम् । “यदा
हादशौ श्रवणायुता,” “यदा हादश्यां श्रवणा भवेत्” इत्यादि-
वचनैर्योगसमस्यैव पूजार्थं विधानात् । कथमेतदन्य काले कम्मा-
चरणम्।।
यत्तु स्मृतिसमुच्चयवचनम् ।
“हादशी श्रवणायुक्ता कृत्स्ना पुण्यतमा तिथिः ।
न तु सा तेन संयुक्ता तावत्येव प्रशस्यते ॥"
तेनापि यावती तावती तावत्प्रशस्तैव । न तु तावत्येव, किन्तु
उपवासार्थं कृत्स्यैव पूज्या । न पुनरईरानयोगेऽपि श्रवणायुक्ता-
काल एव स्नानादिकं रात्रियोगस्यासुरत्वादसति वचने ।
अथ मासान्तरेऽपि श्रावणशेषे आखिनादौ वा यदा श्रवणयुक्ता
हादशौ तदर्थमाह पुराण ।
"श्रवर्णन सिता यत्र लभ्यते हादशी क्वचित् ।
उपोथैकादशौं तत्र हादश्यामर्चयेहरिम् ॥"
तथा मत्स्यपुराणे।
“हादश्यां शुक्लपक्षे तु नक्षत्र श्रवणं यदि ।
उपोथैकादशौं तत्र हादृश्यामर्चयेद्धरिम् ॥”
नात्र "भाद्र” इति । यत्र कचिदिति भाद्रव्यतिरेकेणापौत्याह ।
तदाखिन एव सम्भवति श्रावणे वा नान्येषु । तथाविधायाञ्चैका.
दश्यामुपोष्य हादश्यामचनविधानम् । भाद्रपदे तु भवन्ती सैवो-
* योगसिद्धसैवेति ख-पुस्तके पाठः ।
+ कथमेतहान्य काल कर्माचरणमिति ख-पुसके पाठः ।
हादशी। - पोष्था । “तां विजयां समुपावसन्” इति “हादश्यामुपवासोऽत्र" इत्यादिवचनैः हादश्यामेव उपवासविधानात् । तस्मात् “मासा. तरीयहादशीश्रवणायोगे एकादश्यामुपोष्य हादश्यामचनादिक कार्यम् । भाद्रपदे तु हादश्यामेवोपवासोऽर्चनादिकञ्च। अतो यगृहीताऽरहीतैकादशीव्रतवैष्णवपुरुषभेदेन वर्णन” तदनादेयम्, काल्पनिकत्वादस्य । एकादश्यु पवासविधौ क्वचिदिति भाद्रानाद- रेण प्रात्यनभिधानात्, भविष्योत्तरवचनविरोधाच । "एकादशीमुपोष्यैव हादशीमप्युपोषयेत् । न चात्र व्रतलोपः स्यादुभयोर्देवता हरिः ॥" गृहीतैकादशीव्रतानाञ्चेवादश्यामेकादशीव्रतमविरुई* पूजाहोम- जपादिकमनुष्ठेयम् । तदा नास्ति दितीयोपवासप्रसक्तिः । भग्रहीतैकादशीव्रतस्यापि हादश्यामेव उपवासविधानात् तस्यापि नोपवासहयमतो निविषयमिदं वचनं स्यात् । अस्मन्मते तु भाद्रीयश्रवणहादशीपक्षे तस्यामेव उपवासविधौ ग्टहीतैकादशी- व्रतानां विष्णुधर्मोत्तरवचनेन । "पारणान्तं व्रतं ज्ञेयं व्रतान्ते विप्रभोजनम्।। असमाप्ते व्रते पूर्वे नैव कुर्य्यावतान्तरम् ॥” इति विरोधस्तं समाधातुमाह “उभयोर्देवता हरिः” इति । तस्माद्यथोक्तनैव व्यवस्था । अतएव विष्णुपुराण । 1 * एकादशीव्रतविरुद्धमिति क-पुस्तक पाठः ।।
कालविवेक “याः काश्चित्तिथयः प्रोक्ताः पुण्या नक्षत्रयोगतः । ताखेव तव्रतं कुर्य्याच्छ्रवणहादशौं विना ॥" मासान्तरीयश्रवणद्वादश्या मेकादश्यामेव उपोषणम् । भाद्रपदे तु तस्यामेव । तिथ्यन्तरे तु सर्वदा तद्दिन एवेति भेदः । अथ विष्णुशृङ्खलकम् । तत्र विष्णुधर्मोत्तरे। "एकादशौ हादशी च वैष्णव्यमिति तत्र चेत् । विष्णुशृङ्खलकं नाम विष्णुसायुज्यवद्भवेत् । तस्मिन्ब्रुपोष्य विधिवगच्छेच्छेतपुरं ध्रुवम् ॥” तथा विष्णुधर्मोत्तरामृते । "हादशी श्रवणायुक्ता स्मृशेदेकादशौं यदि । स एव वैष्णवो योगो विष्णुशृङ्खलसंजितः ॥ तस्मिन्नुपोथ विधिवन्नरः सौणकल्मषः । प्राप्नोत्यवृत्तमामृद्धि पुनरावृत्तिदुर्लभाम् ॥" तस्मिन्ब्रुपोष्य विष्णुमर्चयेत् इत्यर्थः। श्रवणबादश्यादिषु च उप- वासनिषेधो नास्ति रहिणाम् । "तबिमित्तोपवासस्य निषेधोऽयमुदाहृतः ।" इति वचनात् न्यायाहा उपवासो निषिध्यत इत्यपेक्षायां रवि- * श्रवणहादशौमिति ख-पुस्तके पाठः ।
हादशी।
वारादिना स्वनिमितकोपवासस्यैव* बुद्धौ सविधापितत्वात् ।
एकादश्यान्तु
"उपवासनिषेधे तु भक्ष्यं किञ्चित्प्रकल्पयेत्"
इति वचनात् तत्रापि निषेधः । श्रवण हादश्यादिषु तु नास्ति
तथा विधानमिति सव्वं सुस्थम् ।
यथोक्तं योग्लोकेन ।
"तिथिभान्ते च पारणमित्यविशेषाद्वादशौं विहायैव पारणं
कर्तव्यम्"
इति तदसङ्गतम् । रोहिण्यष्टम्यां तद्विधानात् ।
अत्र तु ।
"हादश्यामुपवासोऽत्र त्रयोदश्यान्तु पारणम्"
इति वचनादेव हादशीपरित्यागः । न तु “तिथिभान्ते च” इति
वचनात् नक्षत्रम्। तव त्याज्यमेव ।
इति श्रवण्हादशी।
पथ पुराणे।
"एकादश्यां द्वादश्यान्तु प्रतिपक्षन्तु यो नरः ।
दीपं ददाति कृष्णाय तस्यापि शृणु यत्फलम् ॥
सुवर्णमणिमुक्ताम्यं मनोज्ञमतिशोभनम् ।
रत्नमालाकुलं रम्यं विमानं सोऽधिगच्छति ॥
बादश्यां यस्तिलैरर्खेत्पद्मनाभं हि नित्यशः ।
विष्णुलोकमवाप्नोति पुमान् स्त्री वा न संशयः ॥
खनिमित्तकस्यैव इति ख-पुस्तके पाठः ।
59
कालविवेके
अञ्चयेत्युण्डरीकाक्षमेवं संवत्सरं नृप ।
जातिस्मरत्वमाप्नोति विन्द्याबहुसुवर्णकम् ॥"
तथाऽपरा लिङ्गपुराणे ।
"वृश्चिके विजया नाम हादशी सप्तमौ तथा ।
महाषष्ठी च सा ज्ञेया यस्यां शेते हुताशनः ॥
हादश्यां विजयाख्यायामाधाय विधिवन्नरः ।
कारयित्वा हर्रयज्ञमादद्याद्वादशीव्रतम् ॥”
“हादशीव्रत"मिति एकादश्युपवासपूर्व हादश्यामचनं भगवतो
वासुदेवस्य । तच्च सांवत्सरिक यावज्जीवं वा दृश्चिके मार्गशीर्षे
प्रारब्धव्यम् । अत्र शुक्लपक्षग्रहणं देवत्वात् ।
अथ विष्णुधर्मे ।
"माध्यान्तु समतीतायां श्रवणेन तु संयुता ।
द्वादशी या भवेत् कृष्णा प्रोक्ता सा तिलद्दादशौ ।
तिलोमस्तिलैः स्नानं नैवेद्यं तिलमोदकैः ।
दीपश्च तिलतैलेन तथा देयन्तिलोदकम् ।
तिलाश्च देया विप्रेभ्यस्तस्मिन्नहनि पार्थिव ॥
यथा तिथिर्वै अवर्णन युक्ता
माघस्य मासस्य मया तवोता
काया तथेयं नृपते प्रयत्नात्
योगे पवित्रे सरितोदयस्य ॥"
* विष्णुधर्मोत्तरी इति क-पुस्तके पाठः।
बादशी। तथा । "मूलगे शशधर माघे मासि प्रजापते । एकादश्यां कृष्णपक्षे सोपवासी जितेन्द्रियः ॥ हादश्यां षट्तिलाचारं कृत्वा पापात्प्रमुच्यते । तिलोहर्ती तिलस्रायौ तिलहोमी तिलोदकी। तिलदाता च भोत्ता च षट्तिलो पापनाशनी ॥ सकत्तु षट्तिलीं कृत्वा सर्वपापैः प्रमुच्यते । त्रिंशद्वर्षसहस्राणि खर्गलोके महीयते ॥" तथा । "चैत्रे मासि सिते परे हादश्यान्तु विशेषतः । विष्णुं विष्णुग्रहे दृष्ट्वा न भूयः पुरुषो भवेत् ॥” विष्णुग्रहं ताम्रलिप्तनगरम् । यहा “लौहदण्डे तथा विष्णु-" मित्यनेन यदुताम् । पथ ज्योतिःशास्त्रे । "पञ्चाननस्थौ गुरुभूमिपुत्वौ मेष रविः स्यादयदि शुक्लपक्षे । मासाभिधाना कुरभेण युक्ता तिथिळतीपात इतोह योगः ॥ तस्मिन् हि गोभूमिहिरण्यवस्त्र- दानेन सर्व परिहाय पापम् । सुरवमिन्द्रत्वमनामयत्वं माधिपत्यं लभते मनुष्यः ॥"
कालविवेक “पञ्चाननः” सिंहः, “मासाभिधाना" हादशी, “करभं" हस्ता- नक्षत्रम्। “यस्तिष्ठत्येकपादेन वायुभक्षी जितेन्द्रियः । वर्षाणामयुतं सप्त कुरुक्षेत्र यशस्विनि ॥ ज्यैष्ठे मासि सिते पक्षे हादश्यान्तु विशेषतः । पुरुषोत्तममासाद्य ततोऽधिकतरो भवेत् ॥" अथ कूर्मपुराणे । "कांस्यं मत्यं* सुरां क्षौद्रं लोभं वितथभाषणम् । व्यायामञ्च व्यवायञ्च दिवाखानमथाञ्चनम् । शिलापिष्टं मसूरञ्च हादशैतानि वैष्णवः । हादश्यां वर्जयन्नित्यं सर्वपापैः प्रमुच्यते ॥" अथ विष्णुः । "पौष्यामतीतायां कृष्णपक्षहादश्यां सोपवासः तिलैः नातः तिलोदकं दत्त्वा तिलैर्वासुदेवमभ्यर्च तानेव हुत्वा सर्व- पापेभ्यः पूतो. भवति ।” तथा। "फाल्गुनामलपक्षस्यक पुथा हादशी यदि । गोविन्दबादशौ नाम महापातकनाशनी ॥" मासमिति ख-पुस्तके पाठः । + फाल्गुनीमलमासस्येति क-पुस्तके पाठः।
अथ त्रयोदशी।
तत्र स्कन्दपुराण ।
"चैत्रशुक्लत्रयोदश्यां मदनं चन्दनात्मकम् ।
कला सम्पूज्य यत्नेन वीजयेाजनेन तु |
ततः सन्धुक्षितः कामः पुत्चपौलसमृद्धिदः ॥"
अथ देवीपुराणे ।
"कामदेवस्त्रयोदश्यां पूजनीयो यथाविधि ।
रतिप्रीतिसमायुक्तो यशोकमणिभूषितः ॥
कुम्भे वा सितवस्त्रे वा लेख्यः पत्रफलादिभिः ।
खण्डशर्करनैवेद्यः सौभाग्यमतुलं लभेत् ॥"
दमनकः पूजा प्रक्रमात् ।
अथ चतुर्दशी।
ईश्वर उवाच ।
"मधुमासे तु सम्प्राप्ते शुक्लपक्षे चतुर्दशी ।
प्रोता दमनभनौति सिद्धिदा तु महोत्सवा ॥
पूजयिष्यन्ति ये मस्तिदङ्गमूलपल्लवैः ।
ते यास्यन्ति परं स्थानं दमनस्य प्रभावतः ॥
* सौगन्धिकुसुमैः फलैः इति क-पुस्तके पाठः ।
+ भयं पाठः क-पुस्तके नीपलब्धः ।
४७.
कालविवेक
न पालयन्ति ये पर्व दामनं* मानवाधमाः ।
तेषां पुण्यफलं दत्तं मया ते चैत्रमासिकम् ॥"
मधुमासपदेन सौरपरिग्रहः ।
(चैत्रे सितचतुर्दश्यां भवेत्काममहोत्सवः ।
जुगुप्सितोक्तिभिस्तत्र गौतवाद्यादिभिर्नृणाम् ।
भगवास्तुष्यते कामः पुत्रपौचसमृद्धिदः ॥)
तथा।
"भाने सितचतुश्यामनन्तं पूजयेद्धरिम् ।
कला दर्भमयञ्चैव वारिधानौसमन्वितम् ।
पुष्पधूपादिभिर्देवमनन्तं काममाप्नुयात् ॥”
अथ पौराणिकाः पठन्ति ।
"वृश्चिके शुक्लपक्षे तु या पाषाणचतुर्दशी ।
तस्यामाराधयेहेवौं नक्तं पाषाणभक्षणैः ॥"
पाषाणाकारपिटरित्यर्थः ।
अथ देवीपुराणम् ।
"नवमी शक्लपक्षस्य कृष्णस्यैकादशी तथा ।
दुर्गव हि भवत्येषा पूर्मिमा च चतुर्दशी ॥"
- ये सबै दमनमिति क-पुस्तके पाठः ।
+ निर्विवादः सौरपरिग्रह इति ख-पुस्तके पाठः ।
+ (-) पनयो रेखयोरन्तर्गतः पाठः ख-पुसके नोपलब्धः।
६ पाषाणाकारपिष्टकमिति ख-पुस्तके पाठः ।
चतुर्दशी।
४७१
पुनर्न
अथ पौराणिकाः पठन्ति ।
"चैत्र कृष्णचतुईश्यामङ्गारकदिनं भवेत् ।
पिशाचवं स्थागङ्गायां स्नानभोजनात् ॥
चैत्र कृष्णचतुर्दश्यां यः सायाच्छिवसन्निधौ ।
गङ्गायाञ्चेहिशेषेण न स प्रेतोऽभिजायते ॥
"धवलितकलसन्यस्ता रक्तपताकान्विता नुहौ भवने ।
चैत्रासितभूतदिने पापरुज दूरतो धत्ते ॥"
"आषाढ़े मासि भूताहे शिवं सम्पूज्य मानवः ।
सर्वपापविनिर्मुक्त: शिवलोके महीयते ॥"
भूताहः कृष्णचतुर्दशौ।
"कार्तिके भौमवारण चित्रावष्णचतुर्दशी।
अस्यामाराधित: स्थाणुनयेच्छिवपुरं ध्रुवम् ॥”
"चित्राकृष्णचतुर्दश्यां तुलायां संस्थिते रवौ ।
नासौ प्रेतत्वमाप्नोति यस्य रुद्रालये स्थितिः ॥
कृष्णचित्रागता भूता असिता वा तु कार्तिके।
वसिष्ठ जाह्नवीनानात्मवं हरति दुष्कृतम् ॥”
पूर्वत्रापि सानादिति सम्बध्यते ।
“यां काञ्चित्मरितं प्राप्य कृष्णपक्षे चतुर्दशीम् ।
यमुनायां विशेषेण नियतस्तर्पयेत्पुमान् ॥
यमाय धम्मराजाय मृत्यवे चालकाय च ।
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥
सर्वनापीति क-पुस्तके पाठः ।
४७२
कालविवेक
दनोदराय* दराड़ाय प्रेताधिपतये नमः ।
पाशिने चित्रगुप्ताय रौद्रायौदुम्बराय च ॥
एकैकस्य तिलामिवान्दयात्रीस्त्रौञ्जलाञ्जलीन् ।
संवत्सरलतं पापं तत्क्षणादेव मुञ्चति ॥"
अथ देवीपुराण ॥
"तथा कष्णचतुर्दश्यां भौमाहे पिटतर्पणम् ।"
अव कत्वा संवत्सरलतं पापं नश्यति इत्यनुषज्यते । तच्च फलाति-
शयार्थम् । तहारं विनापि फलश्रुतेः ।
तथा विष्णुः ।
"सबी चतुर्दशौं सात्वा धर्मराज पूजयित्वा पापेभ्यः
पूतो भवति” इति।
“(कार्तिक कृष्णपक्षे तु चतुर्दश्यां दिनोदये ।
अवश्यमेव कर्तव्यं स्नानं नरकभौरुभिः ।
अपामार्गपल्लवांस्तु भ्रामयेच्छिरसोपरि ।
ततश्च तर्पणं कायं धर्मराजस्य नामभिः ॥"
यमाय इत्यादि प्रागुक्तः ।
"नरकाय प्रदातव्यो दीपः सम्पूज्य देवताः ।
ब्रह्मविष्णुशिवादीनामालयेषु विशेषत:) ॥"
दशीदनाय इति ख-पुस्तके पाठः।
+ धर्मराजानं पूजयित्वा इति ख-पुस्तके पाठः ।
+ (--) अनयोचियोरन्तर्गत: पाठः क-पुस्तके नीपलभ्यते ।
अथ तिथिविप्रतिपत्तिः । पथ तिथिकार्ये बहुधा विप्रतिपत्तिर्मनीषिणां यस्मात् । वृद्धिसमवच्छेदैः सम्प्रति तामिह निराकुम्मः ॥ प्रतिपदाद्यमावास्यान्तास्तिथयः स्नानदानव्रतादिकम्मसु तत्तद्- वचनविहिताः । तत्र सम्पूर्णायान्तिथौ निर्विरोधमनुष्ठानम् । हतिहासादिना तु दिनहयेऽपि लाभात्, सक्कञ्च तनिमित्तस्य कर्मणः कर्तव्यत्वात्, स्नानदानव्रतादिकं कुत्र क्रियतां, किमुदय- गामिन्याम् अस्तगामिन्यां वा । प्राथम्यादयत्र वा भूयसी तिथिः, लुप्यतां वा व्रतादिकम् । इत्यादिनानाविधसन्देहवच- नानि श्रूयन्ते । तथाहि देवलः । “यां तिथिं समनुप्राप्य उदयं याति भास्करः । सा तिथिः सकला जेया नानदानव्रतादिषु ॥ यां तिथिं समनुप्राप्य अस्तं याति हि भास्करः । सा तिथिः सकला ज्ञेया नानदानव्रतादिषु ॥" तथाच बौधायनः । "उदयन्नेव सविता यां तिथिं प्रतिपद्यते । सा तिथिः सकला ज्ञेया दानाध्ययनकम्मसु ॥" तत्र व्यवस्थामाहवृद्धमतुः । "ययास्तं सविता याति पितरस्तामुपासते । तिथिं तेभ्योऽपराहो हि स्वयं दत्तः स्वयम्भुवा ॥ 60 ४७४ कालविवेक दैवे कम्मणि सम्प्राप्ते यस्थामभ्युदितो रविः । सा तिथिः सकला जेया विपरीता तु पैटके ॥" "विपरीता" अस्तगामिनी। तेन उदयगामिनी दैवकर्मणि, अस्तगामिनी च पित्र। तथाच श्रुतिः । “पूर्वाह्वो वै देवानां मध्यन्दिनं मनुष्याणामपरातः पितृ- णाम् । तस्मादपराह्ने ददाती"ति । तथा। “वईमानस्य पक्षस्य उदया पूज्यते तिथिः । यदा पक्ष: क्षयं याति तदा स्यादापरालिको॥" बौधायनस्य । “वईमानस्य पक्षस्य उदया पूज्यते तिथिः । सा तिथिस्तदहोरात्र छेदे वस्तमयं प्रति ॥" "छेद." क्षयः । एतदपि देवपिटकार्यपरम् । प्रायेण तिथि- वृद्धिः शुक्लपक्षे, क्षयः कृष्णपक्ष एव भवति । तयोः पक्षयो- र्देवपिन कार्यसम्बन्धात् तत्परत्वमेव । दैवकार्य प्रति उदय- सम्बन्धिनौ, पित्रा च अस्तसम्बन्धिनी इति। देवस्य पूर्वाहे पित्यस्य चापराह्ने विधानात् । प्रायेण च उदयास्तसम्बन्धि- तिथिहये तयोः प्राप्तेरिदमुक्तम् । न तूदयास्तमयसम्बन्ध एव विवक्षितः, अष्टकल्पनापत्तेः । साकल्यन्तु सकला यथा ग्राह्या तथेयमसकलापौत्यर्थः । तिथ्यन्तरस्यापि तिथ्यन्तररूप- तया साकल्यवर्णने, उदयसम्बन्धिन्यामपि अपराङ्गस्य, अस्त- तिथिविप्रतिपत्तिः। ४७५ सम्बन्धियामपि पूर्वाह्नस्य तिथ्यन्तरप्राप्तस्यापि साकल्याभिधानेन तथैव प्राप्तत्वात् । तप्राप्त्यर्थमुदयसम्बन्धेनैव दैवेऽस्तसम्बन्धेन च पित्रो वेति वचनमदृष्टार्थ स्यात् । एकश्रुतिमूलत्वेनोपपत्ती न मूलान्तरकल्पना भवेत् । एवञ्च । 7 -- “शुक्लपक्षे तिथिह्या यस्यामभ्युदितो रविः । कृष्णपक्षे तु सा ज्ञेया यस्यामस्तमितो रविः ॥" इत्यस्मिन्नेवार्थे वर्णनीयम् । शुक्लपक्षपदञ्च दैवकार्यपरम् । कृष्ण- पक्षपदं पिटकार्थपरम् । तयोः कार्ययोरुभयपक्षे विधानतः सम्बन्धावगमात् । तथाच श्रुतिः । “पूर्वः पक्षो देवानाम्। अपरः पक्षः पितृणाम् ।” । तथा स्मृतिः । "उदगयने पुण्याहे पूर्वपक्षेषु दैवानि।” इति । पूर्वपक्षविवक्षायां श्रुत्यन्तरकल्पनापत्ते: लक्षणैव श्रेयसी । नन्वेव देवकार्यस्य सर्वत्र पूर्वाह्ने विधानात् पिटकायस्य च अपराह्न- नियमात् युग्मविधानं निर्विषयूमापद्येन । तथाच परिशिष्टम् । "युग्मानितभूतानि षण्मुन्योर्व मुरन्धयोः । रुद्रेण हादशीयुक्ता चतुर्दश्याथ पूर्णिमा । प्रतिपदाऽप्यमावास्या तिथ्योर्युग्मं महाफलम् । एतदव्य स्तं महाघोरं हन्ति पुण्यं पुराकतम् ॥"
४७६ कालविवेक द्वितीयाटतीये, चतुर्थीपञ्चम्यौ, षष्ठीसप्तम्यौ, अष्टमौनवम्यौ, एकादशौहादयौ, चतुर्दशीपौर्णमास्यौ, प्रतिपदमावास्ये, इति युग्मम् । तथा स्मृतिः । "एकादश्यष्टमी षष्ठी पौर्णमासौचतुर्दशी अमावास्या हितीया च उपोथास्ताः परान्विताः ॥" पौर्णमास्याः पूर्वभूता चतुर्दशी पौर्णमासोचतुर्दशी समस्तेनो- यते। पूर्वतिथिसम्बन्धेनोयते शुक्ला इत्यर्थः । मासौपदं प्रथमान्तं, प्रतिपदयुक्तायाः पौर्णमास्या निषेधात् । न तु पौण- यथा। “षष्ठेयकादश्यमावास्या पूर्वविद्धा तथाष्टमी । पूर्णिमा परविद्धा च नोपोष्यं तिथिपञ्चकम् ॥" सप्तमी परविद्येति केचित्यठन्ति । तथा “चतुई श्याथ पूर्णिम"ति अनन्तरदर्शितवचनबाधायथोक्तोऽर्थः । तथा युग्मवचनम् । “षष्ठाष्टम्यध्यमावास्या कृष्णपक्षे त्रयोदशी । एताः परयुताः पूज्याः पराः पूर्वयुतास्तथा ॥ अमावास्याष्टमी षष्ठी शुक्ला चैव चतुर्दशी। एता: परयुताः कार्याः पराः पूर्वेण संयुताः ॥" • परभूता इति क-पुस्तके पाठः । + पमन्तरवचनाचवि क-पुसकै पाठः। * यथोक एक वचनार्थः प्रतिक पुस्तक पाठः।
व्यस्तवचनानि ।
षष्ठी च अष्टमी च पक्षद्दयसम्बन्धिन्यौ विशेषानुपादानात्*। शुक्ला-
चतुर्दशी अमावास्या त्रयोदशी च कृष्णा एतास्तिथयः पराभिः
पौर्णमासीप्रतिपञ्चतुर्दशीभिः संयुक्ताः पूज्याः, कम्माङ्गमित्यर्थः ।
यया च परभूतया युता पूर्वा तिथिः पूज्या, तथैव पूर्वया युक्ता
परापि पूज्या।
"शेषाः पूर्वेण संयुता” इति केचित्पठन्ति,
तदापि पूर्वोक्तार्थः । परभूता एव शेषपदेन उपादेयाः पूर्वो-
तात् । परिशिष्टमात्रग्रहण शुलत्रयोदशी कृष्णप्रतिपद्दशमीना-
मपि पूर्वसंयोगात् पूज्यतापत्तेः । न चैतदिष्टं वृद्धिहासवचनस्य
'निर्विषयत्वापत्तेः ।
तथा शङ्करगीतायाम् ।
"एकादश्यष्टमी षष्ठी द्वितीया च चतुर्थिका।
चतुर्दश्यप्यमावास्या उपोष्थाः स्युः परान्विताः ॥"
एकादश्यादिचतुर्थीपर्यन्ताः पक्षद्दयस्य विशेषाभावात् । चतु-
ईशौ तु एक्ला, परवचने शुक्लत्युपादानात् ।
अथ व्यस्तवचनानि ।
तत्र स्कन्दपुराणम् ।
“षष्ठेरकादश्यमावास्या पूर्व विधा तथाष्टमी ।
सप्तमौ परविद्धा च नोपोष्यं तिथिपञ्चकम् ॥
• विशेषणानुपादानादिति ख-पुस्तके पाठः ।
+ सप्तमी नवमी इत्यधिकः पाठः ख-पुस्तके दृश्यते ।
* सत्यं शाख-पुस्तके नीपलभ्यते ।
६ भूतविना तथाष्टमी ति क-पुस्तके पाठः ।
४७८
कालविवेक
तथा ।
“नागविहा तु या षष्ठी सप्तम्या च तथाष्टमी।
दशम्यैकादशी विद्धा त्रयोदश्या चतुर्दशी ॥
भूतविद्वाऽप्यमावास्या न ग्राह्या मुनिपुङ्गवाः ।
उत्तरोत्तरविद्यास्ता: कर्तव्याः काठको श्रुतिः ॥"
परिशिष्टस्य "न ग्राह्या" इति दैवपित्यादिकार्यविषये । न तु
तिथिमात्रोद्देशन विहिततैलमांसादिनिषेधेऽपीति वक्ष्यामः ।
"नागविद्या तु या षष्ठी रुद्रविडो दिवाकरः ।
कामविद्धो भवेहिष्णुारपूज्यास्ते तु वासराः ॥"
जाबालिः ।
"नागविद्धा तु या षष्ठी भानुविद्धो महेश्वरः ।
चतुर्दशी कामविद्वास्तिस्रस्ता मलिनाः स्मृताः ॥”
शिवधम्मस्य नागः पञ्चमी, भूतः कृष्णचतुर्दशी, रुद्रः अष्टमी,
दिवाकरः सप्तमी, कामः त्रयोदशी, विष्णुः हादशी।
तथा।
"नागविदा च या षष्ठी शिवविद्धा च सप्तमी।
दशम्येकादशीविद्धा न तत्रीपवसेदुधः ॥"
शिवः अष्टमी। तत्राल्पवेधेनापि व्यस्ततामाह
स्मृतिसमुच्चये।
“घटिकाई विभागं वा चान्यो दूषयते तिथिम् ।
पञ्चगव्यघट पूर्ण सुराया विन्दुको यथा ॥"
* देवपियादिविषये प्रशिक-पुसके पाठः।
व्यस्तवचनानि । ४७८ वात् । तत्र “एतद्युग्मं महाफल"मिति स्तुतियुग्मविधानार्थम् “एतद- व्यस्तं महादोष"मिति निन्दापि विधेः स्तुत्यर्थमेव, एकवाक्य- यथा “न गिरा गिरा इति ब्रूया"दिति गिरापदनिन्दा "कत्लोहेय"मिति इरापदविधानार्था एकवाक्यत्वात् । तदस्य युग्मविधेः को विषयः ? अत्रीच्यते, युग्मस्य तावन्न विधिः, तस्यासम्भवादेव । न ह्ये कस्मिन् क्षण तिथिहयसमा- वेशः सम्भवी यो विधेयः । परस्परपरिहारेण तिथीनामवस्थितेः । नापि तिथिहयमन्यतरकार्यवेनावगते कम्मणि हयोर्विधाना- सम्भवात् । एकस्याप्राप्तत्वादन्यस्यापि चाप्राप्तत्वात् पदात्ति- वैरूप्यापत्तेः। अन्य कार्यतया चानूदिते तदवबोधादन्यविधे- रसम्भवात् । किञ्च उभयकार्ये उभयं नित्यवहा विधीयते, हि- खण्डतानिमित्तेन वा । न तावनित्यवत् सर्वदैव सप्तमौकार्यस्य षष्ठयां षष्ठोकार्यस्य सप्तम्यामापत्तेः उभयोरेवापि विधानमनर्थ के स्यात् । निमित्तेन चेत् तदा दिखण्डतिथौ सप्तमौकायं निय- मेन षष्ठीक्षण एवापोत। सप्तमोक्षणे तु कृतमपि अक्तकल्प भवेत् । राजन्यवैश्य कर्तव्यतानिमित्तेन विहिते फलचमसे, सोमेन क्रियमाण इव ज्योतिष्टोमः । ततः सप्तमीसम्बन्धः "प्रयत्नेन त्याज्य एव स्यात् । न च सतम्यामपि पुनर्विधानान बाध इति वाच्यम् । यतः षष्ठोसप्तमीरूपस्य कालहयस्य विधा- नात् प्रयोगाङ्गत्वाञ्च कालस्य कृत्स्नप्रयोग एव षष्ठीक्षणे सप्तमी- क्षणे वा स्यात् । विधैः स्तुत्या एकवाक्यत्वादिवि क-पस्त के पाठः । ramamrapaHam HONGarammameer Home ४८. कालविवेक उभयोस्तस्य निष्पत्तौ नैकत्रापि तो भवेत् । समुच्चितयवव्रीहिमयेनेव कतो यजिः ॥ युग्मतानिमित्तः सप्तमौकार्ये षष्ठीविधिर्भवन् नानदानादिष्वेव भवेत् । नाहोरात्रैकसाध्योपवासादौ तावत्कालव्याप्ततया तद- वयानहत्वात् । तेन वार्षिकोपवासादेः प्रविलोप एव स्यात् । सप्तम्यामपि तावकालव्यापित्वाभावात् । अतएव युग्मविधे- गुणफलाधिकार इत्यपि न सम्भवति। विखण्डतिथौ मूलाधि- कारस्य कालाभावेनाप्रवृत्तौ तदुपजीविनी गुणफलाधिकारस्या- प्रहत्तेः । कथञ्चिद्दा नानदानाधिकारस्य प्रवृत्तौ गुणफलाधि- कार सम्भवति अपि मूलाधिकारस्य व्यस्ततिथावप्यनुष्ठानं दुर्बार स्यात् । मूलाधिकार युग्मस्य गोदोहनस्येवानङ्गत्वात्। अथ दिखण्डता निमित्तेन पूर्वस्मिन्नेव कम्मणि सहितावस्थं तिथिइयं নৱ ভালভানাবিজান্তনৰনিছিন্ন নয় अकृतकल्प त्वापत्तेः । मिश्रितयोरव साधनत्वेन विधानात् । न च तत्तत्तिथिविहितस्य कमणः तिथियुग्मे उपसंहार इति वाचं पुण्यतिथानकरणप्रसोः । किञ्च उपवासव्रतादौ अस्तकाल- पर्यन्तव्यापिन्चामपि षष्ठयां षष्ठीसप्तम्योयुग्मस्या विशेषात् तथापि सप्तमौकार्यविधानं स्यात् । परदिनोदयास्तसम्बन्धियां न स्थात् रात्रौ व्यस्तत्वात् । न च दिवेति विशेषः श्रूयते । सत्यपि च श्रवण निमित्तविशेषणस्य वाक्यभेदभयेन हविरुभयत्ववत् विवक्षानहलात। न च सप्तम्यादिषु तत्तत्फलार्थं विहितमेव तिथियुग्मं महाफलाथै विधीयते, तिथ्योर्यग्मं महाफलमिति विधीयते ।
No text on this page.