Canegie Mellon Univeristy

Smruti Saroddhara Vol.2

Tripaat'i,vishvambhara · 2006/02/22

PDF Proofread

Front matter

No text on this page.

'ctober 1906. TER CHOWKHAMBA SANSKRIT SERIES; A COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS. NO. 106. चक्रनारायणीयनिबन्धापरपयायः स्मृतिसारोद्धारः। मध्यपल्ली(मझौली)नरेशाभितविबबरविश्वम्भर- त्रिपाठिसङ्कलितः। तत्रत्यपाठालयाध्यापकोमा लमिश्रेण शोषितः । SMRITISARONDHÂRA, BY VISTAMBHARA TRIPATHI, EDITED BY PANDIT MANGANA MISRA, The Teacher of The Majhaoli School TASCICULUS II. PUBLISHED AND SOLD BY THE SECRETARY CHOWKHAMBÀ SANSKRIT BOOK-DEPOT: BENARES: AGENTS:-OTTO HARRASSOWITZ, LEIPZIG: PANDIT JYESHTHARAMA MUKUNDJI, BOMBAY. Printed by Hari Das Gupta, Proprietor, AT THE VIDYA-VILASA PRESS, BENARES. Price Rupee One. Registered According to Act XXV. of 1867.

श्रीः ॥ आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता। सुवर्णाङ्कितम याभशतपत्तपरिकता ॥१॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जलदर्शना। रसिकालिकुलं कुर्यादमन्दामोदमोहितम् ॥ २ ॥ Patantan चतुर्थ उद्धारः। च।सहस्रसंमितां देवीं जपेद्रा प्राणमयमात् । कुर्यात् द्वादशसङ्ख्या- का यथा शव्याहतान्नरः। कात्यायनः-उपवासे वशक्तानामशी- तेरूद्धजीविनाम् । एकभक्तादिकं कार्यमाह बौधायनो मुनिः को- मर्मे-एकभक्तेन नक्तेन तथैवायाचितेन च । उपवासेन दानेन न निदशिको भवेत् । वायवीये-अथवा विप्रमुख्येभ्यो दानं दद्यात्स्वशक्तितः । उपवासफलं तस्य समग्रं सम्भविष्यति । तत्र भोजनदोषोपि तत्क्षणादेव नश्यति । स्कान्दे 'असामर्थ्य शरीरस्य व्रते च समुपस्थिते। कारयेद्धर्मपत्री वा पुत्रं वा विनयान्वितम् । भ्रा- तरं भगिनीं शिष्यं ब्राह्मणं दक्षिणादिभिः । कात्यायन:-पित- मापतिभ्रातृगुवर्थे च विशेषतः । उपवासं प्रकुर्वाणः पुण्यं शतगु- णं लभेत् । तथा राजक्षत्रियार्थे चैकादश्यामुपोषितः। पुरोधाः क्षत्रि- णा सार्दै फलंपामोति निश्चितम् । क्षत्रिणा क्षत्रियेण । 'पितामहा. दीनुद्दिश्य एकादश्यामुपोषणे । कृतेतु तत्फलं विप्राः समग्रं समवा- नयुः । वाराहे-स्तकेतु नरः स्नात्वा प्रणम्य मनसा हरिम् । ए- कादश्यां न भुनीत व्रतमेवं न लुप्यते । तदङ्गपूजा मनसैव कार्ये- त्यर्थः । व्रतान्तरमाप पूर्वसङ्कल्पितमशौचे न साज्यम् 'पूर्वसङ्क- ल्पितं यत्तु व्रतं मुनियतव्रतैः । तत्कर्त्तव्यं नरैः शुद्धं दानार्चनविव- र्जितम्' । सूतकान्ते दक्षिणा देया। काम्ये तु विशेषः । काम्ये प्रतिनिधिर्नास्ति नित्ये नैमित्तिके च सः । काम्ये प्रतिक्रमादूर्द्ध के- चित्यतिकृति विदुरिति ॥ स्त्रीणां विशेषमाह कात्यायनः। 'भार्या भर्तृमतेनैव व्रतादीना- चरेत्' इति । मनुः 'नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम् । विष्णुः । पत्यौ जीवति या नारी उपवासत्रतं चरेत् । आयुः सा- हरते भ नरकं चैव गच्छति। मार्कण्डेये विशेषः-नारी या वन- नुज्ञाता भर्चा पित्रा सुतेन वा। निष्फलं तु भवेत्तस्या यत्करोति १०२ स्मृतिसारोद्धारे। एकादश्याम- व्रतादिकम् । स्त्रीणामुपवासे दन्तधावनमदुष्टम् । आह मनुः 'पुष्पा- लङ्कारवस्त्राणि गन्धधूपानुलेपनम् । उपवासे न दुष्यन्ति दन्तधा- वनमज्जनम्' । स्त्रीधर्मप्रकरणीयं वाक्यमिदम् । सरजस्का प- त्यादिनापि कारयेत् । 'भार्या पत्युतं कुर्याद्भार्यायाश्च पतिव्रतम् । असामर्थ्य परस्ताभ्यां व्रतभङ्गो न जायते । एकादश्यां न भुञ्जीत नारी दृष्टे रजस्यपि। अन्तरातु रजोयोगे पूजामन्येन कारयेदिति व- चनात् । अपरं विशेषमाह कात्यायनः 'उपवासो यदा नि म्याविशेषः त्या श्राद्धं नैमित्तिकं भवेत् । उपवासंतदा कुर्यादाघ्राय पि- तृसेवितम् । भविष्योत्तरे चतुर्विधमुपवासमाह ‘सताम्बूलम- ताम्बूलं सभोजनमभोजनम् । साहारश्च निराहारं चतुर्विधमुपोषणम् । अत्र सताम्बूलं सभोजनं साहारं चेति त्रयोभेदाः । चतुर्थस्त्वता- म्बूलादिपदैः सर्वत्रानुगतः केवलोपवासः। दशमीद्वादश्योस्ताम्बूल- मश्नाति यत्र स सताम्बूलः। यत्र दशमीद्वादश्योर्भोजनद्वयं कुरुते स सभोजनः । यत्रावश्यकश्राद्धं कृत्वा पितृशेषान्नमाघ्रायोपव- सतिस साहारः।चतुर्थस्ताम्बूलभोजनाहारहीनःसर्वसाधारणः त्रयो दश विशेषविषया अधिकारिविशेषविषयाश्च ज्ञातव्याः । एवमेव विश्वरूपनिबन्धेप्यष्टादशमभेदा दर्शिताः । इत्येकादशीसामान्य- निर्णयः॥ अथ विशेषाः ब्राह्मये-चैत्रमासस्य शुक्लायामेकादश्यां च वै- ष्णवैः । आन्दोलनीयो देवेशः सलक्ष्मीको महोत्सवैः। दमनेनार्च- यित्वा तु रात्री जागरणं चरेत् ॥ अथ ज्येष्ठ शुक्लैकादशी निर्जला नाम। पाने 'वृषस्थे मिथुनस्थे वाशुक्ला कादशी भवेत् । ज्येष्ठे मासि प्रयत्नेन सोपोष्या जलवर्जिता। स्नाने चाचमने चैव वयित्वोदकं बुधः । अप्रयत्नादवाप्नोति द्वादश- द्वादशीफलम् । अस्यामेव सशर्करजलकुम्भदानम् । तापत्रयनि- चतुर्थ उद्धारः। त्तिविष्णुसाले'क्यं च फलम् ॥ अथ शयनीकृत्यम् । विष्णुप्रतिमापूजनम् । रात्री जागरणम्, द्वादश्यां पूजनम्, त्रयोदश्यां नृत्यगीतादि । अस्यामपि चातुर्मास्य- व्रतसंकल्पः। सनत्कुमारः 'एकादश्यां तु गृह्णीयात्संक्रान्तौ कर्कट- स्य वा । आषाढ्यां वा नरोभत्त्या चातुर्मास्योदितं व्रतम् । वृद्धगा- र्यः 'न शैशवं न मौढ्यं च शुक्रगुर्वोर्न वा तिथेः। खण्डत्वं चिन्तये चातुर्मास्यव्रतविधौ नरः।शुक्रादिवाल्यास्तादिदोषो नास्तीत्यर्थः॥ अथ भाद्रसितैकादशी पार्श्वपरिवर्तिनी । भविष्योत्तरे 'प्राप्ते भाद्रपदे मासि एकादश्यां सितेऽहनि। कटदानम्भवेद्विष्णोर्महापूजा- प्रवर्तयेत् । कटदानं पार्श्वपरिवर्त्तनं । अस्यामेव श्रवणसंयुतायां वि- जयैकादशीव्रतम् । हेमप्रतिमादानादि । 'दशम्येकादशी यत्र सानो- पोष्या भवेत्तिथिः। श्रवणेन तु संयुक्ता सा शुभा सर्वकामदा। पार- णं तिथिवृद्धौ तु द्वादश्यामुडुसंक्षयात् । वृद्धौ कुर्यात्त्रयोदश्यां तत्र दोषो न विद्यते' । दशमीविद्धापि चैव श्रवणयुतैव कार्या । श्रवणा- न्ते पारणमित्यर्थः। अथाश्विनशुक्लैकादश्यां भविष्योत्तरोक्तं पुत्रप्राप्तित्रतम । उ- पवासो हरिपूजादिकम् ! आब्दिकं तमिदम् । वशिष्ठेन पुत्रा- र्थिना कृतम् ॥ अथ बोधिनी । ब्राह्मे 'कार्तिके मासि शुक्लायामेकादश्यां ज- नाईनम् । मुप्तम्प्रवोधयेद्रात्रौ श्रद्धाभक्तिसमन्वितः' । भविष्यो- त्तरे 'कार्तिक शुक्लपक्षे तु एकादश्यां कृतार्चनः । बोधिनीकृ- मन्त्रेणानेन राजेन्द्र देवमुत्थापयेत् द्विजः । मन्त्रश्च इदं विष्णुरितिवैदिकः । पौराणिकस्तु 'ब्रह्मेन्द्ररुद्रा- निकुबेरसूर्यासोमादिभिर्वन्दित वन्दनीय । बुद्ध्यस्व देवेश जग- निवास मन्त्रप्रभावेण मुखेन देव' ॥ 'इयं च द्वादशी देवबोधनार्थं त्यम् स्मृतिसारोद्वारे। विनिर्मिता । त्वयैव सर्वलोकानां हितार्थं शेषशायिना ॥ उत्तिष्ठो- तिष्ठ गोविन्द त्यज निद्रां जगत्पते । त्वयिसुते जगत्सुप्तमुत्थि- ते चोत्थितं जगत्' ॥ एवमुत्थाप्यानेन पुष्पाञ्जलिं दद्यात् । 'गता मेघा वियच्चैव निर्मलं निर्मला दिशः । शारदानि च पुष्पाणि गृहाण मम केशव' इति । समुत्थिते ततो विष्णौ क्रियाः सर्वाः प्रवर्त्तयेत् । महातूर्यरवै रात्रीभ्रामयेत्स्यन्दने स्थितम् । उत्थितन्देवदेवेशं नगरे पार्थिवः स्वयम् । रात्रौ प्रजागरं कुर्या- देकादश्यां मुरालये । नृत्यगीतैस्तथा वाद्यैर्ऋग्यजुःसाममङ्गलैः। वीणापणवसंधैश्च पुराणश्रवणेन च । वासुदेवकथाभिश्च स्तोत्रैर- न्यैश्च वैष्णवैः। पुष्पै पैश्च नैवेद्यैर्दीपवृक्षैः सुशोभनैः । होमैर्भक्ष्यै- रपूपैश्च फलैः शार्करपायसै हृद्याभ्यां श्वेतरक्ताभ्यां चन्दनाभ्यां च सर्वशः । कुंकुमालक्तकाभ्यां च रक्तमूत्रैः सकङ्कणैः । तस्यां राभ्यां व्यतीतायां पञ्चामृतादिना गोविन्दं संपूज्य संस्त्राप्य संभूष्य विविधनैवेद्यैः स्तोत्रगीतादिभिर्विसर्जयेत् । तथा-प्रभाते विमले स्नात्वा भोजयित्वा द्विजोत्तमान् । आचान्तेभ्यस्ततो दद्यात्स्यक्तं य- किञ्चिदेव हि । तदुक्तम् 'चातुर्मास्ये तु यत्त्यक्तं भक्ष्यभोज्यादिकं तथा । चतुरो वार्षिकान्मासान्नियमं यस्य यत्कृतम् । कथयित्वा द्विजेभ्यश्च दद्याद्भस्या सदक्षिणम् । दत्वा विसर्जयेद्विपाँस्ततो भुञ्जीत तत्वयमिति ॥ अथ मार्गशुक्लैकादशीषु द्वादशसु संक्षेपेण धरणी- व्रतान्युच्यन्ते । वाराहे-दुर्वासाः सत्यतपसमुवाच 'अथ मार्गशिरोमासि दशम्यांनियतात्मवान् । एव- मुच्चारयेद्वाचं तस्मिन् काले महामुने । एकादश्यां निराहारो भूत्वा तदपरेहनि' इत्याद्युक्तं मन्त्रम् । ततः प्रभाते विमले नदीं गत्वा समुद्रगाम् । इतरां वा तडागं वा गृहे वा नियतात्मवान् । स्नात्वा- धरणीव्रत- विधिः चतुर्थ उद्धारः। १०५ चावश्यकं कृत्वा पुनर्देवगृहं व्रजेत् । तत्राराध्य महायोगं देवं ना- रायणं हरिम् । केशवाय नमः पादौ कटिं दामोदराय च । उदरं च नृसिंहाय उरः श्रीवत्सधारिणे । कण्ठं कौस्तुभभूषाय वक्षः श्री- पतये तथा । त्रैलोक्यविजयायेति बाहू सर्वात्मने शिरः । रथाङ्गधा- रिणे चक्रं शंखिने चेतिवारिजम् । गम्भीरायेति च गदा सरोज शान्तमूर्तये । एवमभ्यर्च्य देवेशं देवं नारायणं विभुम् । पुन- स्तस्याग्रतः कुम्भाँश्चतुरः स्थापयेद्बुधः। जलपूर्णान्समाल्याँश्च सि- तचन्दनलेपनान् ।चूतपल्लवसुग्रीवान सितवस्त्रावगुण्ठितान् । छादि- ताँस्ताम्रपात्रैश्च तिलपूर्णैः सकाञ्चनैः । चत्वारस्ते समुद्रास्तु कल- शाः परिकीर्तिताः । तेपांमध्ये शुभं पीठं स्थापयेद्रस्त्रचचितम् । तस्मिन्सौवर्णरौप्यं वा तानं वा दारवन्तथा । अलाभे सर्वपात्रा- णां पालाशं पत्रमिष्यते । तोयपूर्ण च तत्कृत्वा तस्मिन्पात्रेत- तोन्यसेत् । सौवर्ण मत्स्यरूपेण कृत्वा देवं जनार्दनम् । तत्रानेक- विधैर्भक्ष्यैः फलैः पुष्पैश्च शोभितम् । गन्धधूपैश्च वस्त्रैश्च अर्चयित्वा यथाविधि । रसातलगता वेदा यथा देव त्वयोद्धृताः । मत्स्यरू- पेण तद्वन्मां भवादुद्धर केशव । एवमुच्चार्य तस्याये जागरं तत्र कारयेत् । यथावित्तानुसारेण प्रभाते विमले ततः। स्नात्वा देवं समभ्यर्च्य चतुरो दापयेद्घटान् । पूर्वं च वढचे दद्याच्छन्दोगे दक्षिणं तथा । यजुःशाखान्विते दद्यात्पश्चिमं चोत्तरं ततः । अथर्ववेदिने दद्यादेष एव विधिः स्मृतः । ऋग्वेदः प्रीयतां पूर्वे सामवेदस्तु दक्षिणे । यजुर्वेदः पश्चिमतो ह्यथर्वा चोत्तरेण तु । मत्स्यरूपं तु सौवर्णमाचार्याय निवेदयेत् । एवं दत्वा विधानेन द्वादश्यां विष्णुमच॑ च । विमाणां भोजनन्दद्याद्यथाशक्ति स- दक्षिणम् । भूरिणा परमान्नेन ततः पश्चात्स्वयं नरः । भुञ्जीत- सहितोविप्रैर्वाग्यतः संयतेन्द्रियः । अनेन विधिना यस्तु धरणी- १४ स्मृतिसारोद्धारे। व्रतकृन्नरः । तस्य पुण्यफलं चाग्ग्रं शृणु सत्यवतां वर । याद वकसहस्राणां सहस्राणि भवन्ति हि । आयुश्च ब्रह्मणस्तुल्यं भवेद्यदि महाव्रत । तदानीमस्य धर्मस्य फलं कथयितुं क्षमेत् । पुत्रकामो विशेषेण व्रतमेतत्समाचरेत् । य इदं श्रावयेत्या द्वा. दशीकृत्यमुत्तमम् । शृणोति वा स पापैस्तु सर्वैरेव प्रमुच्यते ॥ अत्र धरणीव्रते द्वादशीशब्दः सर्वत्रैकादशीपरः । एवं पौषा- दिशुक्लैकादशीषु कलशस्थापनपात्रादिविधिस्तुल्यः। क्रमेण कूर्म- वाराहनृसिंहवामनजामदग्न्यश्रीरामवासुदेवबुद्धकल्किपद्मनाभयोगे- सरप्रतिमाः सौवर्ण्यः पौषादिसितैकादशीष्वेकादशसु का- Oः । विधिर्मात्स्यवत् । सर्वत्र न्यासे विशेषः । कूर्माय पा- दौ, नारायणाय कटिं, संकर्षणाय उदरं, उरोभवाय कण्ठं, सुबाहवे भुजौ, विशालाय नम इति शिरः पूजयेत् । चक्रादिचतुष्कं स्वना- ममन्त्रेणेति । एवं माघसितैकादश्यां मत्स्यवत्सर्वं कृत्वा । वा- राहाय अगाधवीर्याय क्षेत्रज्ञाय विश्वरूपाय सर्वज्ञाय प्रजाप- तये प्रद्युम्नायेति नमोन्तैः सप्तभिर्मन्त्रैः पादकटिजठरवक्षःक- ण्ठशिरोवाहून्सप्ताङ्गानि सम्पूज्य, दिव्यास्त्राय नम इति सुदर्श- नम् । अमृतोद्भवाय नम इति शङ्ख, वराहस्य भगवतः पूजयेदि- ति । दानार्चनविधिः पूर्वोक्त एव । एवं फाल्गुनसितैकादश्यां मत्स्यवत् कलशस्थापनादि कृत्वा नृसिंहमतिमायाः पादोरुकटि- वक्षाकण्ठशिरसि क्रमेण नरसिंहगोविन्दविश्वभुगनिरुद्धशितिकण्ठ- पिङ्गकेशैश्चतुर्थ्यन्तैर्नमोन्तैश्च सम्पूजयेत् । ततः असुरध्वंसनाये ति चक्रम् । तोयात्मने नमः शङ्खम् पूजयेत् । भविष्यो- त्तरे । 'फाल्गुने मासि शुक्लायामेकादश्यां जनार्दनः । व- सत्यामलकीले लक्ष्म्या सह जगत्पतिः । तत्र सम्पूज्य देवेशं शल्या कुर्यात् प्रदक्षिणम् । उपोष्य विधिवत्कल्पं विष्णुलोके चतुर्थ उद्धारः। महीयते । एवं चैत्रसितैकादश्यां वामनपूजा । साविधिः पूर्व- वत् । विशेषस्तु वामनाविष्णुवासुदेवसङ्कर्षणविश्वहृव्योमविश्वजि- द्भिः डेन्तैनमोन्तैश्च सौवर्णवामनप्रतिमायाः पादकटिजठरवक्षःक- ण्ठशिरोबाहून्संपूज्य स्वनाम्ना शंङ्खचक्रे चाय॑ पूर्ववत्कृत्वा पात्रदा- नादि । एवं वैशाखसितैकादश्यां जामदग्न्यपूज्य । विशेषस्तु 'जा- मदग्न्यायोते पादौ उदरं सर्वधारिणे । मधुमूदनायेति कटिमूरू श्रीवत्सधारिणे । क्षरान्तकायेति भुजौ शितिकण्ठाय कूर्चकम् । शिरः सहस्रशीर्षाय शङ्खचक्रे स्वनामत' इति । ज्येष्ठसितैकादश्यां रामलक्ष्मणपूजा। पूर्ववत्सौवर्णौ रामलक्ष्मणौ।विशेषस्तु-रामाभिरा- माय त्रिविक्रमायधृतविश्वाय संवत्मराय संवर्तकाय सर्वास्त्रधारिणे एभिनमोन्तैः पादादिषडङ्गानि श्रीरामस्य सम्पूज्य स्वनाम्ना शङ्क, चक्रे चार्च्य पश्चात्सहस्रशिरसं नम इति शिरः पूजयेदिति । इति रामद्वादशी । एवमाषाढसितैकादश्यां वासुदेवपूजा । वासुदेवस- ङ्कर्षणप्रद्युम्नानिरुद्धभूपतिचक्रपाणिपुरुषैश्चतुर्थ्यन्तैर्नमोन्तैश्च क्रमे- ण पादादिशिरोन्तं सम्पूज्य स्वनाम्ना शङ्खचक्रे पूजयेदिति । एवं श्रावणसितैकादश्यां दामोदरपूजा । मन्त्रेषु विशेषः–'दामोदरा- येति पादौ हृषीकेशाय वै कटिं । सनातनाय जठरमुरः श्रीवत्सधा- रिणे। सुचक्रपाणये बाहू कण्ठश्च हरये तथा । मुञ्जकेशाय तु शि- रो भद्रायेति ललाटकम् । स्वनाम्ना शङ्खचक्के. तु पूजयेदिति । इति दामोदरद्वादशी। एवं भाद्रसितैकादश्यां कल्किपूजा। विशे- पः नमोस्तु कल्किने पादौ हृषीकेशाय वै कटिं । म्लेच्छपढ्सना- योरू जगन्मूः तथोदरम् । शितिकण्ठाय कण्ठन्तु खड्डपाणे तु.वै. भुजौ । चतुर्भुजायेति हस्तौ विश्वमूर्ते तथा शिरः' । अत्र सम्बो- धनान्तं चतुर्थ्यन्तमेव बोध्यम् । दानादिपूर्ववदिति । एषा क. ल्किद्वादशी । एवमाश्विनसितैकादश्यां पद्मनाभपूजा, विशेषमन्त्राः स्मृतिसारोद्धारे। 'पद्मनाभाय पादौ तु कटिं वै पनयोनये । उदरं सर्वदेवाय पु ष्कराक्षाय वै उरः । अव्ययाय तथा पाणिं प्राग्वच्चक्रादि पू- जयेत् । प्रभवाय नम इति शिरः पूजयेदिति । एवं कार्तिकसि- तैकादश्यां योगीश्वरपूजा । विशेषस्तु-नमः सहस्रशिरसे शिरः सम्पूजयेद्धरेः । पुरुषायेति च भुजौ कण्ठं वै विश्वरूपिणे । ज्ञाना- स्त्रायति चास्त्राणि श्रीवत्सायेति वै उरः । जगद्भासिष्णवे पूज्य- मुदरं दिव्यमूर्तये । कटिं सहस्रपादाय पादौ देवस्य पूजये- दिति । प्रातिलोम्येन संपूज्य पुनरानुलोम्येन पादादितः पूजयेत् । ततः । ॐनमो दामोदरायेति सर्वाङ्गं सम्पूज्य पात्रे कृत्वा पूर्व- वद्दद्यादिति । 'धरण्या चापि पाताले मग्नया तु कृतं पुरा । व्र- तमेतत्ततो नाम्ना धरणीव्रतमुच्यते । एकैका पाति चापत्सु रा- ज्यमेकैच यच्छति । किंपुनादशैतास्तु यत्नेनेदं न दुष्करम् ॥ अस्यामेवारभ्य विष्णुधर्मोक्तमखण्डद्वादशीव्रतम् । धरणीव- तवर्षसाध्यम् । उद्यापने गरुडलक्ष्मीनारायणप्रतिमापूजा । सप्त- जन्मखण्डव्रतपूर्णताफलम् । मार्गकृष्णैकादशीमारभ्य भविष्यो- त्तरोक्तं वैतरण्येकादशीव्रतम् । रात्रौ श्यामगोपूजा, अब्दान्ते उ- द्यापन, यमादर्शनं फलम्।माघसितैकादश्यां पायोक्तं भीष्मद्वादशी- व्रतम् । दशम्यां नियमः। एकादश्यां नद्यादिस्नानम् । मण्डपा- दिकरणम् । मण्डपान्तर्वेदिकोपरि सच्छिद्रालपूर्ण कलशं लम्ब- येत् । तस्य च धारां शिरसा धारयेत्सकलाम् । निशां हरेः पूजा, विष्णोरूपरि क्षीरधारापातनं, पञ्चकुण्डेषु होमः, रात्री जागरणं, प्रातः स्वर्णशृङ्यादिदानम् । अक्षारलवणभोजनं फलमाभिमतम् ॥ MNAHAN चतुर्थ उद्धारः। अथ द्वादशीनिर्णयः । सा च पक्षद्वयेप्येकादशीयुतैव ग्राह्या । युग्मवाक्यात् । द्वादशी च प्रकर्त्तव्या एकादश्या युता प्रभो । सदा कार्य्या तु विद्वद्भिर्विष्णुभक्तैश्च मानवैः' इति स्कान्दात् । उपवा- सेप्येकादशीयुतैव ग्राह्या । 'एकादशी तथा षष्ठी अमावास्या चतु- थिका । उपोष्याः पर संयुक्ताः पराः पूर्वेण संयुता' इति गार्यात् । कौम्र्मे-नागविद्धा तु या षष्ठी रुद्रविद्धो दिवाकरः । कामविद्धो भवेद्विष्णुर्न ग्राह्यास्ते तु वासरा' इति निषेधाच्चेति । द्वादश्याअष्टौ भेदाः। तदुक्तं दीपिकायाम् । ‘या स्याद्रुद्रजयान्विता हरितिथिर्ना- म्ना भवेत्रिस्पृशा, संपूर्णाधिकमस्ति पूर्वपरतश्चेत्पक्षवर्द्धिन्यपि । उ- न्मीलिन्यपि शुद्धविद्धभवयुक् भद्दा तु शुद्धाधिका, सा वजुल्यपि तिष्यविष्णुभपुनर्वस्वात्मभूभान्विता । द्वादश्येव भवेजया च विजया तद्वज्जयन्त्यंहसां घातिन्येवमभीष्टका उपवसेदष्टौ महाद्वादशी" । आत्मभूभं रोहिणी ॥ अथ द्वादशीव्रतानि । भाद्रसितद्वादश्यां विष्णुधर्मोत्तरोक्तं श्रवणद्वादशीव्रतम् । उपवासो विष्णुपूजा, दध्योदनसहितजलपूर्ण- घटदानम् । श्रवणद्वादशी बुधयोगेऽत्यन्तमहती । तस्मिन्नेव तथा स्नानं यत्रकचन सङ्गमे । सागरस्नानजं राम फलं प्रामोत्यसंशयम्' । श्रवणद्वादश्युपवासे द्वादशद्वादशी- फलं भविष्यपुराणोक्तम् । त्रयोदश्यां पारणम् । अथ श्रवणद्वादशीव्रतकालनिर्णयः । मात्स्ये । 'द्वादशी श्र- वणस्पृष्टा कृत्स्ना पुण्यतमा तिथि:' । स्वल्पश्रवणस्पृष्टा समस्ता पुण्या न तु तावत्येवेत्यर्थः । नारदीयेपि 'तिथिनक्षत्रयोर्योगो द्विकलोप्यष्टयामिक' इति । मात्स्ये-द्वादशी श्रवणः च स्पृशे- देकादशी यदि । स एव वैष्णवोयोगो विष्णुशृङ्खलसंज्ञकः । त- स्मिन्नुपोष्य विधिवनरः प्रक्षीणकल्मषः । मामोत्यनुत्तमां सिद्धि श्रवणद्वादशी-. निर्णयः ११० स्मृतिसारोद्धारे। पुनरावृत्तिदुर्लभाम् । अत्र श्रवणयुक्ता द्वादशी योकादश्यामेव भवति तदैकादश्युपवासेनैकेनैव व्रतद्वयं सम्पद्यत इत्यर्थः।पारणादिने यदि द्वादश्यां श्रवणर्मी वर्द्धते द्वादशी च शुद्धन्यूना भवति तदा तिथ्यन्तो नापेक्षितः । 'तिथिनक्षत्रसंयोगे उपवासो यदा भवेत् । तावदेव न भोक्तव्यं यावदेकस्य संक्षयः। विशेषेण महीपाल श्रवणं वर्द्धते यदि । तिथिक्षयेण भोक्तव्यं द्वादशीं नैव लङ्घयेत्' इतिवच- नात् । यदा एकादशी संपूर्णा द्वादशी च श्रवणयुक् । तदोपवा- सद्वयम् । नच 'असमाप्ते व्रते पूर्वे नैव कुर्याद्रतान्तरं' इति वचनादे- कादशीपारणमकृत्वा द्वादश्युपवासोऽनुचितः, उभयोरेकदैवत्वाद- दोषात् । तदुक्तम्-एकादशीमुपोष्यैवं द्वादी समुपोषयेत् । न चात्र विधिलोपः स्यादुभयोर्दैवतं हरिरिति । उपवासद्वयासमर्थन तु श्रवणद्वादश्यामेवोपवस्तव्यम् । तदुक्तम् । 'उपोष्य द्वादशी पुण्यां श्रवणःण संयुताम् । एकादश्युद्भवं पुण्यं नरः प्राप्नोत्यसंशयम् । एवमेकादशीभुक्त्या द्वादशीसमुपोषणात् । पूर्वोपवासजं पुण्यं सर्व प्राप्नोत्यसंशयम् । यदा तु द्वितीयदिने श्रवणं वर्द्धते तदा ऋक्षान्तो नापेक्ष्यते 'ऋक्षान्तेपारणं कुर्याद्विनाश्रवणरोहिणीमिति वचनात् । यदैकादश्यामेव श्रवणं तदैकादश्यामेव श्रवणद्वादशीव्रतम् । तदुक्तम्। 'याः काश्चित्तिथयः पुण्याः प्रोक्ता नक्षत्रयोगतः । तयैव तहतं कु- व्च्छ्वणद्वादशी विना'। श्रवणद्वादशीव्रतं तु श्रवणान्वितायामे- कादश्यामपि कर्त्तव्यम्, न तु द्वादश्यामेवेति नियम इत्यर्थः । भ- विष्योत्तरे । 'एकादशी यदा तु स्याच्छ्रवणेन समन्विता । विज- या नाम सा प्रोक्ता भक्तानां विजयप्रदा। इयान विशेषः । श्रव- णैकादश्यां वामनपूजा श्रवणद्वादश्यां जनार्दनपूजेति । मात्स्ये । ऋक्षान्ते पारणं कुर्य्याविना श्रवणरोहिणीम् । अत्र तु तिथिमा- बान्ते पारणमित्युक्तम् । तीर्थस्नानदानविप्रभोजनश्राद्धादिकमन- चतुर्थ उद्धारः। तफलं, जपः सहस्रगुण इति । अथास्यामेव मात्स्योक्तं शक्रध्वजो- स्थापनम् । शक्रोत्थापनं च विश्वावृक्षत्रययुतायामिति । कात्तिककृष्णद्वादशी वत्सद्वादशी। मध्यान्हे एकवर्णा सव- सागौः पूज्या पुष्पमालाचन्दनादिभिः द्विजोमातारुद्राणामिति मन्त्रेण । स्त्रीशूद्रास्तु क्षीरोदार्णवसम्भूते सुरासुरनमस्कृते । सर्वदे- वमये मातहाणायं नमोस्तुते । इति मन्त्रेण । ततो माषान्नवटका- दिकं गोग्रासं दद्यात् । तत आशी प्रार्थनं । प्रणम्य प्रदक्षिणी- कृत्य विसर्जयेत् । तदिने गोक्षीरघृतादिदानम् । नक्तं माषान्न- भक्षणम् । ब्रह्मचर्य भूशय्या । वत्सद्वाद्दश्यां वत्सपूजा प्रथमापि कार्या । ' वत्सपूजा वटश्चैव कर्त्तव्या प्रथमेहनि' इतिवचनात् ॥ अथ कार्तिकसितद्वादश्यां भविष्योत्तरोक्तं नीराजनद्वादशी- व्रतम् । सायं दीपिकाभिः श्रीकृष्णनीराजनं, ततोलक्ष्म्यादिदेवानां गवां तुरगगजादीनां नीराजनं । ततः कुलाङ्गना वेश्या वा सिंहा- सनस्थं नृपं नीराजयेत् । ततः सेनापत्त्यादिनीराजनम् । त्रि- वारमुपरि भ्रामणं नीराजनम् । इयं महाशान्तिः, फलमारोग्यदी- र्घायुष्वादि ॥ अथ माघसितद्वादश्यां ब्राह्मोक्तं तिलद्वादशीव्रतम् । उपोषणं तिलस्नानं तिलैर्हरिपूजां । तिलतैलदीपदानम् । तिलहोमस्तिल- भक्षणं चेति ॥ अथ त्रयोदशीनिर्णयः ॥ उपवासादौ शुक्लत्रयोदशी पूर्ववि- दैव ग्राह्या । 'त्रयोदशी प्रकर्त्तव्या द्वादश्या सहिता प्रभो। भूत- विद्धान कर्त्तव्येति ब्रह्मवैवर्तात् ॥ कृष्णत्रयोदशी परविद्धा ग्राह्या । 'षष्ट्यष्टमी अमावास्या कृष्णपक्षे त्रयोदशी । एताः पर- युताः कार्याः पराः पूर्वेण संयुता' इति वचनात् । पूर्ववाक्ये शुक्ल ११२ स्मृतिसारोद्धारे। पदाश्रवणेपि पारिशेष्याच्छुक्लपरत्वमिति संक्षेपः ॥ अथ त्रयोदशीविशेषाः। चैत्रसितत्रयोदश्यनङ्गत्रयोदशी सा च पूर्वैवोपोष्या । यदाह संवतः । 'कृष्णाष्टमी वृहत्तल्पा सावित्री वटपैत्रिकी, कामत्रयोदशी रम्भा उपोष्याः पूर्वसंयुता' इति । भविष्योत्तरे । अस्यां स्नात्वा त्रयोदश्यामकोकाख्यं नगं लि- खेत् । सीबहूजननीरात्तैरतिप्रीतिसमन्वितम् । कामदेवं व- सन्तं च वाजिवक्त्रं वृपध्वजम् । मध्यान्हे पूजयेद्भत्त्या भक्ष्यै- गन्धैःस्रगम्बरैः । मन्त्रेणानेन कौन्तेय नवनार्या समन्वितः । ॐनमोमाराय कामाय कामदेवस्य मूर्तये । ब्रह्मविष्णुशिवेन्द्राणां नमः क्षेमकराय च । ततस्तस्याग्रतोदेया मोदका घृतपाचिताः। नानामकारभक्ष्याश्च कामो मे प्रीयतामिति । स्वपति पूजयेन्नारी वस्त्रमाल्यानुलेपनैः । कामोयमिति सञ्चिन्त्य प्रहृष्टेनान्तरात्मना । रात्री जागरणं कुर्यात्सुखरात्रिर्यथा भवेत् । पूजयेद्विपदाम्पत्यं व- स्वालङ्कारचन्दनैः । एवं यः कुरुते पार्थ वर्षे वर्षे महोत्सवम् । व- सन्तसमये प्राप्त हृष्टपुष्टः सदा भवेत् । कौमें-मधुशुक्लत्रयोदश्यां मदनं चन्दनात्मकम् । कृत्वा संपूज्य यत्नेन वीजयेयजनेन च । ततः संभुक्षितः कामः पुत्रपौत्रसमृद्धिदः ॥ वैशाखसितत्रयोदश्यां विष्णुधर्मोत्तरोक्तं कामदेवव्रतम् । अब्दं प्रतित्रयोदशि कामपूजा । उपवासः। अन्ते वस्त्रादिदानम् । फलं सुखाद्याप्तिः॥ कार्तिकीयत्रयोदश्यां स्कान्दोक्तं यमदीपदानम् । 'कार्त्ति- कस्यासिते पक्षे त्रयोदश्यां निशामुखे । यमदीपं बहिर्दद्यादपमृत्यु- विनश्यति' । मन्त्रश्च-'मृत्युना पाशदण्डाभ्यां कालेन श्यामया सह । त्रयोदश्यां दीपदानात्सूर्यजः प्रीयतां मम ॥ इति । आग्रहायणे सितत्रयोदश्यामनङ्गत्रयोदशीव्रतम् भविष्यो- चतुर्थ उद्धारः। त्तरोक्तम् । शिवलिङ्गपूजा उपवासः । अब्दान्ते उद्यापनं, शि- वोमाप्रतिमादानम् । रूपलावण्याद्याप्तिः । पुरा दग्धेन कामेनेयं कृता । अस्यामेवारभ्य तदुक्तं यमादर्शनव्रतम् | पंचाष्टौ वा वि- पान भोजयेत् । ताम्रपात्रच्छवादिकं तेभ्यो दद्यात् । उपवासो न- तादि वा कार्यमब्दान्ते समाप्तिः। यमतत्किङ्करप्रीत्यर्थमिदम् । स्कान्दे । 'यदा त्रयोदशी शुक्ला मन्दवारेण संयुता। प्रारब्धव्यं व्रतं तत्र सन्तानफलसिद्धये । प्रदोषे शिवमभ्यर्च्य नक्तं भोक्ष्यामि श- ङ्कर' इति सङ्कल्प्य प्रदोषे शिवं पूजयेत् । अब्दान्ते समापनम् । 'मन्दवारयुता पुण्या शुक्लपक्षे त्रयोदशी । तस्यामुपोष्य विधिना सं- पूज्य गिरिजापति । ब्रह्महयादिभिः पापैर्मुक्तो भवति मानवः । पृथिव्यां यानि तीर्थानि सागरान्तानि यानि च । अण्डमाश्रित्य तिष्टन्ति प्रदोषे गोवृषस्य तु । स्पृष्ट्वा तु वृषणौ तस्य शृङ्गमध्यं वि- लोक्य च । युद्धं च ककुदश्चैव सर्वपापैः प्रमुच्यते । इदमपि शिवा- चर्चानन्तरम् । अथवा मन्दवारेण संयुक्तामेव त्रयोदशी चतुर्विश- तिं कुर्वीत सोऽभीष्टं फलमाप्नुयादिति । वृषाण्डस्पर्शादि शनियुत- त्रयोदश्यां प्रदोषे कार्यम् ॥ अथ चतुर्दशीनिर्णयः । तत्र शुक्ला चतुर्दश्युपवासादिषु पू. र्णिमायुता ग्राह्या । चतुर्दश्या च पूर्णिमेति युग्मवाक्यात् । वृ- हस्पतिः । 'एकादश्यष्टमी षष्ठी पौर्णमासी चतुर्दशी । अमावास्या तृतीया च उपोष्याः स्युः परान्विताः । तथा-शुक्लपक्षेष्टमी चैव शुक्लपक्षे चतुर्दशी । पूर्वविद्धा न कर्त्तव्या कर्त्तव्या परसं- युता' ॥ कृष्णा चतुर्दशी रुद्रोपवासादौ पूर्वविद्धा ग्राह्या । 'कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी । पूर्वविद्धा प्रकर्त्तव्या परविद्धा न कुत्रचित्' । तथा । 'पूर्वविद्वैव कर्त्तव्या १ स्मृतिसारोद्धारे। निर्णय शिवगात्र शिवरात्रि लेदिनम् । रुद्रव्रतेषु सर्वेषु कर्त्तव्या संमुखी- तिथिः" इतिवचनात् । यानितु । 'अष्टम्येकादशी षष्ठी कृष्णपक्षे चतुर्दशी । अमावास्या तृतीया च कर्त्तव्या परम- युना' इत्यादिवचनानि तानि रुद्रोपवासव्यतिरिक्तविषयाणि । शैव- वनेतु शुक्लचतुर्दश्यपि यदि पूर्वस्मिन्दिने आपराह्निकी तदा पूर्व- विदैव ग्राह्या । स्कान्दे 'चतुर्दशी तु कर्त्तव्या त्रयोदश्या युता वि- भो । मम भक्कैर्महाबाहो भवेद्या वापराह्निकी । दर्शविद्धा न कर्त्त- व्या राकाविद्धा कदाचन' इति वचनात् । वृद्धवसिष्ठः--'एकादश्य- ष्टमी पष्ठी पक्षद्वयचतुर्दशी । अमावास्या तृतीया च तदुपोष्या परा- विता' इति वचनं रुद्रोपवासान्योपवासविषयम्, अन्यथा 'कामवि- द्धोहरः पूज्य इति बहुवचनविरोधः स्यादिति । वस्तुतस्तु परवि- दोपवासवचनानि परविद्धैव या प्रदोषव्यापिनी चतुर्दशी तत्पराणि ग्राह्याणि । 'प्रदोषव्यापिनी ग्राह्या शिवरात्रिः शिवप्रियः ।। रात्रौ जागरणं यस्मात्तस्मात्तस्यामुपोपणम् । प्रदोषोऽत्र चतुर्घटकः । शिवरात्रिशब्दो विशेषः स्कान्दे । 'माघफाल्गुनयोर्मध्ये असिता या चतुर्दशी । शिवरात्रिस्नु सा ख्याता सर्वयज्ञोत्तमोत्तमा' । चतुर्दश्यां तु कृष्णायां फाल्गुने शिवपूजनम्' इति कृष्णादिमासाभिमायेण । अस्यामुपवासशिवपूजाजागरणाख्यानि त्रीण्यपि कर्माणि प्रधाना- नि। त्रयाणामपि पृथक् पृथक् श्रवणात् । नागरखण्डे । 'उपवास- प्रभावेण बलादपि च जागरात् । शिवरात्रौ तथा तस्य लिङ्गस्यापि प्रपूजनात् । अक्षयाल्लभते लोकान्शिवसायुज्यमेव च । तथा । 'मा- घकृष्णत्रयोदश्यां कर्त्तव्यं व्रतमुत्तममित्युपक्रम्य । 'उपोपितं व- रारोहे चतुर्दश्यां वरानने। जागरश्च प्रकर्त्तव्यो गीतवादित्रीनस्व- चः। कर्त्तव्या यामपूजा च स्नानं पञ्चामृतेन च । कश्चित्पुण्य- विशेषेण व्रतहीनोपि यः पुमान् । जागरं कुरुते तत्र स रुद्रसमतां चतुर्थ उद्धारः। ११५ बजेदित्यादीन्यनेकमात्रविधायकानीत्युच्यते । तान्युपलक्षणपरा- णीति । नतु तन्मात्रविधायकानि, पृथग्विधिकल्पनागौरवादिति । अथ प्रतापमार्तण्डादौ इयं च तिथिद्वैये पूर्वविदैव ग्राह्या । 'कृष्णा- टमी स्कन्दषष्ठी शिवरात्रिश्चतुर्दशी । एताः पूर्वयुताः कार्यास्ति- थ्यन्ते पारणं भवेत् । माघफाल्गुनयोर्मध्ये या स्याच्छिवचतुर्द- शी। अनङ्गेन समायुक्ता कर्तव्या सा सदा तिथिः ॥ तथा । 'ज- यन्ती शिवरात्रिश्च कार्ये भद्राजयान्विते । त्रयोदशी यदा देवि दिनभुक्तिप्रमाणतः । जागरे शिवरात्रिः स्यानिशि पूर्णा चतुर्दशी यदा तूत्तरदिने प्रदोषव्यापिनी न निशीथव्यापिनी, पूर्वदिनेतु नि- शीथव्यापिनी न प्रदोषव्यापिनी तदा पूर्वैव ग्राह्या । अर्द्धरात्रात्पु- रस्ताच जयायोगो यदा भवेत् । पूर्वविद्धैव कर्त्तव्या शिवरात्रिः शिवप्रियैः' इति वचनात् । तथा-अर्द्धरावे युता यत्र माघकृष्णच- तुर्दशी । शिवरात्रि तत्र मोऽश्वमेधफलं लभेत् । अर्द्धरात्राद्ध- श्चोर्द्व युक्ता यत्र चतुर्दशी । तत्तिथावेव कुर्वीत शिवरात्रिवनं व्रती । दिनद्वयेपि निशीथव्यापित्वे पूर्वा ग्राह्या, बढुवाक्यैर्जया- युक्ताया विधानात् । 'महतामपि पापानां दृष्टा वै निष्कृतिः परा। न दृष्टा कुर्वतां पुंसां कुहूयुक्तां चतुर्दशीमिति निषेधाच्च । यदा तु, प्रथमेह्नि निशीथादूर्द्ध चतुर्दशी महत्ता तदोत्तरैव ।। माघेऽसिते भूत- दिनं हि राजन्नुपैति योगं यदि पञ्चदश्या । जयाप्रयुक्तां न तु जातु कुर्याच्छिवस्य रात्रि प्रियकृच्छिवस्य' इति वचनस्य तत्परत्वात् । प्रतापन्द्रादिस्वरसोऽप्येवम् । केचित्तु-प्रदोषव्यापिनी ग्राह्येत्येतदेव. प्रधानीकृत्य शिवरात्रिः प्रदोषव्यापिनी ग्राह्ये साहुः ।। तन्न ॥ बहू- नामर्द्धरात्रवाक्यानां निरवकाशानामप्रामाण्यप्रसङ्गात् । यदा - योदशी दिनमात्रव्यापिनी तत्परतया प्रदोषवाक्यानामुदाहृतत्वा- दिति । एतेन शिवरात्रिधिा, शुदा विडा च । सूर्योदयात्सूर्यो- स्मृतिसारोद्धारे। दयपर्यन्ता शुद्धा सा त्वेकविधैव । विद्धा तु पड्विधा । पूर्वदिन एवं प्रदोषव्यापिनी प्रथमा । द्वितीयदिन एवं प्रदोषव्यापिनी द्वितीया। या प्रथमदिनेऽधिकप्रदोषव्यापिनी सा तृतीया । या च द्वितीयदिने- ऽधिकप्रदोषव्यापिनी सा चतुर्थी । या चोभयत्र संपूर्णप्रदोष- व्यापिनी सा पञ्चमी । या नोभयत्र प्रदोषव्यापिनी सा षष्टी । एवं षोढा शुद्धयासह सप्तधा शिवरात्रिः। तत्र शुद्धायामविवादः। विद्धातु प्रथमा द्वितीयाच प्रदोषगोपोष्या। 'प्रदोषव्यापिनी ग्राह्या शिव- रात्रिः शिवप्रियैरित्युक्तशिवपुराणवचनात् । एतद्विषयमेव वचन- म् । 'अनङ्गेन समायुक्ता कर्त्तव्या सा सदातिथि:' इति । अपर- च । 'त्रयोदश्यस्तगे सूर्ये चतसृष्वेव नाडिषु । कामविद्धे तत्र भूते शिवरात्रित्रतं चरेत्' । पूर्वविद्धा तु कर्त्तव्या शिवरात्रिर्वले- दिनमित्यपि । नच-भवेद्यत्र त्रयोदश्यां भूतव्याता महानिशा । शिवरात्रिव्रतं तत्र कुर्य्याज्जागरणं तथा' इत्यनेन विरोध इति वा- च्यम् । महानिशावेधो ग्राह्यः किमुत चतुर्नाडीवेध इति कैमुतिक- न्यायपरत्वात्तस्येति । ननु पूर्वदिनेधिकप्रदोषव्यापिनी तृतीया यदो परै वेष्यते । तदाग्रिमदिने दिवातिथ्यन्ताभावात्पारणा न स्यादिति चेन्न । तत्र रात्रौ पारणेनैव दोषभागिति । तथा 'यामत्रयोर्द्धगा- मिन्यां प्रातरेवहि पारणम्' । द्वितीयदिनेऽधिकप्रदोषव्यापिनी चतुर्थी परैवोपोष्या । अग्रेधिकप्रदोषञ्च या व्याप्नोति परैव सेतिव- चनात् । स्मृतिसंग्रहेपि । 'शिवः परोनिशादिश्चेन्नासावन्हिभुजिक्रि-. येति । उभयत्र प्रदोषव्यापिनी पञ्चमी परैवोपोष्या । एतद्विषयमेव वचनम् । माघासिते भूतदिनं हीत्यादि । तथा 'शिवरात्रिव्रते भूतं कामविलु विवजयदिति। पूर्वस्मिन्दिने चतुर्दश्याः सकलरात्रिव्या- पित्वेपि तत्र नोपवासः । दिवा तिथ्यन्ताभावात् । ननु 'सात्व- स्तमयपर्यन्तमितिन्यायोस्त्विति चेन्न । परदिनेपि प्रदोषव्यापित्वे- चतुर्थ उद्धारः। नोपवासयोग्यायां पारणानौचित्यादिति । नोभयत्र प्रदोषव्या- पिनी षष्ठी तु पूर्वैवोपोष्या । 'सूर्यास्ते नवनाडीषु भूतविद्धा त्रयोदशी। शिवरात्रिव्रतंतत्र कुर्याज्जागरणं तथा' इतिब्रह्मवैवर्तात् । तथा च । 'त्रयोदशी यदा देवि दिनभुक्तिप्रमाणतः' इत्यस्याय- मर्थः । यस्यां त्रयोदश्यामुषितायां दिवापारणयोग्यतिथ्यन्तो लभ्यते सैवोपोष्यति । एतद्विषयमेव वचनम् । 'कृष्णाष्टमी स्क- न्दषष्ठी शिवरात्रिश्चतुर्दशी । एताः पूर्वयुताः कार्यास्ति- थ्यन्ते पारणम्भवेत्' इति । अत्र दिवा तिथ्यन्तसम्भ- वे तिथ्यन्ते पारणं तदसम्भवे दिवापि कार्यमित्युक्तम् । एवं यान्यन्यान्यपि पूर्वविद्धावचनानि तानि परदिनेऽस्तमयोद्- प्रभाविचतुर्नाड्यव्याप्तिविषयाणि दिवापारणपर्याप्ततिथ्यन्तस- द्भावपराणि च । यानि तु परविद्धाबोधकानि तानि परदिने- स्तमयोर्द्धभाविचतुर्नाडीव्याप्तिपराणि । दिवातिथ्यन्ताभावविषया- णि वेदितव्यानीति महाराजाधिराजबाहुवाणवंशचूडामणिडिल्ली- श्वरश्रीसूर्यसेनमहीमहेन्द्रमतं प्राप्तं पूर्वलिखितम् । महाराजाधि- राजजगत्पति श्रीप्रतापरुद्रमतस्य सकलशिष्टाहतत्वादिति । अन- योर्मतयोविवेकः सुधीभिरेव कार्यः । इति विरम्यते ॥ अथ चतुर्दशीव्रतानि । देवीपुराणे । 'मधुमासे तु संप्राप्ते शु- क्लपक्षे चतुर्दशी । प्रोक्ता दमनपूजेति सिद्धिदा तु महोत्सवा । अ व शिवस्य मातॄणां च महापूजाश्वमेधशताधिकेति । अत्रलैङ्गे वि- शेषः । 'दमनस्य त्रयोदश्यां तालवृन्तानिलेन च । हंसयानसमा- रूढः काममन्त्रप्रवर्द्धितः । नारीभिर्विजितश्चैव त्रैलोक्योन्मादमा- चरेत् । तन्निर्वापणकामेन चतुर्दश्यां महामुने । ततोत्यर्थ मया प्रोक्ता नार्यश्चैव नरास्तथा । कुर्वन्ति कर्दमेनैव आत्मनस्त्वनुलेपनम् । निर्वापितानङ्गे पीडा भवत्वेव ममाज्ञया । एतदर्थं तदाकार्य क- स्मृतिसारोद्धारे। ईमेन च क्रीडनम् । प्रातः प्रहरमात्रं तु कर्त्तव्यं क्रीडनं नरैः प्रक्षाल्याङ्गं तत्र कृत्वा गन्धमाल्यानुलेपनम् । ततः शिवाग्रतों नृत्यंगीतवाद्यैस्सर्वसमृद्धिः फलम् । स्वयम्भुलिङ्गमेकं च दृष्ट्वा तस्मि- न दिने नरः। ज्ञानलब्ध्वा शिवः सम्यग्रवेदे च न संशयः । मा- स्ये । 'ज्येष्ठे पञ्चतपाः सायं हेमधेनुमदो दिवम् । यात्यष्टमी- चतुर्दश्यो रुद्रव्रतमिदं स्मृतम्' । दिवापञ्चाग्निव्रतीयं च यथा प्रा- थम्याच्छुक्लपक्षः ॥ श्रावणसितचतुर्दश्यां देवीपुराणोक्तं पवित्रारोपणव्रत- म् । त्रयोदश्यामधिवासनं .पवित्राणि रात्रौ जागरणम् । प्रा- तश्चतुर्दश्यां स्नानबलिदानहोमदक्षिणादि कुर्यात् । तस्मिन्दिने स्वर्गपरपरित्यागेन देवीपरैर्भाव्यम् । सर्वव्रतयज्ञदानादिजं फल- म् । इमौ च पवित्रारोपणदमनकमहोत्सवौ रात्रियोगिन्यां चतुई- श्यां काय्र्यो । यदाह बौधायनः । 'मधोः श्रावणमासस्य शुक्ला या च चतुर्दशी । सा रात्रिव्यापिनी ग्राह्या परा पूर्वाह्नव्यापिनी' । परा चैत्रश्रावणव्यतिरिक्तचतुर्दशी ॥ अथ भाद्रसितचर्तुद्दश्यामनन्तव्रतं भविष्यपुराणोक्तं सोद्यापन- म् । तत्र 'मध्याह्ने भोज्यवेलायां समुत्तीर्य सरित्तटे । चतुर्दश्याम- यन्तं भत्त्या देवं जनार्दनम् । उपगम्य शनैः शीला पप्रच्छ स्त्रीक- दम्बकम्' इतिलिङ्गान्मध्यान्हव्यापिनी ग्राह्या। माधवीयमूर्यसेनीय- कृतस्तु । इति मासमात्रसमेतत् मन्त्रं, न विधिलिङ्लोट्तव्यम- त्ययानामभावात् । अतो मध्यान्हे प्रारभ्यमनन्तव्रतमित्ययुक्तम् । एतस्य नक्तत्रततया प्रातरारभ्यत्वात् । 'प्रातरारभ्य मतिमान् कु- उन्नक्तत्रतादिकम् । नापराह्ने न मध्याह्ने पितृकालौ हि तो स्मृतौ' इति वचनात् । यत्तु-अनन्तव्रतस्यैकभक्तरूपत्वान्मध्याह्न- व्यापिन्यां कार्यम्, तत्तुच्छं। एकभक्तं कुर्यादिति विधेरदर्शनात् ।

चतुर्थ उद्धारः। ११९ किचानन्तपूजाङ्गत्वेन भोजनमत्र विहितं ततश्चानन्तपूजनस्यैव प्राधान्यं, तस्य च पूर्वाह्ने एव विधानमुचितम् । पूर्वाह्नो वै देवा- नामिति श्रुतेः । अतः स्वल्पायामप्युदयव्यापिन्यां चतुर्दश्यां पू- जादिकं कार्य्यम् । कण्वः-'उपवासवतादीनां घटिकैकापि या भवेत् । उदये सा तिथिईया विपरीता तु पैत्रिकी' इसायुक्तमेवाध- स्तात् । अतः पूर्णिमायुक्तायामुदयकालव्यापिन्यां द्विमुहर्ता- यामप्यस्यां पूजादि कार्यम् । 'द्वित्रिर्मुहूर्त्तमह्नो या सा तिथिर्हव्य- कव्ययोः' इत्युक्तरिति जल्पन्ति, तच्चिन्त्यम् । अर्थवादेन विध्युन्न- यनसम्भवात् । अन्यथा स्वतन्त्रार्थवादस्याप्रामाण्यमेव स्यात् । नच पूर्वाह्नपूजायां क्रियमाणायां मध्याह्नपर्यन्तं भूतमिसादि- रर्थः। कल्पनागौरवात् । यथाश्रुतपरित्यागे वीजाभावादिति । 'पू- जावतेषु सर्वेषु मध्याह्नव्यापिनी तिथिरिति माधवीयादिग्रंथोपक्रमे लिखनाचेति न काप्यनुपपत्तिरिति । शेषः कथायामनुसन्धेयः ॥ अथ कार्चिककृष्णचतुर्दशी प्रेतचतुर्दशी । तस्यामुषस्यभ्यङ्गं कृत्वा यमतर्पणादिकम् माषपत्रभोजनं शैवतापसपूजनं दीपदाना- दिकं च कुर्यात् । भविष्योत्तरे 'कार्तिके कृष्णपक्षे तु चतुर्दश्या- न्दिनोदये । अवश्यमेव कर्त्तव्यं स्नानं नरकभीरुभिः । तथा-पूर्व- विद्धचतुर्दश्यां कार्त्तिकस्य सितेतरे । पक्षे प्रत्यूषसमये स्नानं कुर्यात्प्रयत्नतः । ब्राह्मे-तैले लक्ष्मीर्जले गङ्गा दीपावल्याश्चतुई- शीम् । प्रातः स्नानं तु यः कुर्याद्यमलोकं न पश्यति । अपामा- समथो तुम्बी पुन्नाडमथ चापरम् । भ्रामयेत्स्नानमध्ये तु नरकस्य क्षयाय तु । पुन्नाडश्चक्रमर्दकः। 'अपामार्गस्य पत्राणि सकण्टकद- लानि च । सीतालोष्टसंयुतानि भ्रामयेन्मस्तकोपरि' । मन्त्रस्तु । 'सीतालोष्टसमायुक्त सकण्टकदलान्वित । हर पापमपामार्ग भ्रा- म्यमाणः पुनः पुनः' । यमस्य चतुर्दशनामभिस्तर्पणं तु सव्ये- स्मृतिसारोद्धारे। नापसव्येन वा कार्य्यम् । स्कान्दे । 'दक्षिणाभिमुखो भूत्वा तिलैः सव्यं समाहितः। देवतीर्थेन देवत्वात्तिलैः प्रेताधिपो यतः । तथा- 'यज्ञोपवीतिना कार्य प्राचीनावीतिनाथवा । देवत्वं च पितृत्त्वं च यमस्य स्याद्विरूपतेति॥'ततः प्रदोषसमये दीपान्दत्वा मनोरमान् । ब्रह्मविष्णुशिवादीनां मठेषु भवनेषु च ॥ प्राकारोधानवापीषु प्रतो- लीनिष्कुटेषु च ॥ मन्दरासु विविक्तासु हस्तिशालामु चैव हि । लैङ्गे-ततः प्रेतचतुर्दश्यां भोजयित्वा तपोधनान् । शैवान्विमास्त्व- थ परान् शिवलोके महीयते ॥ दानन्दत्वा तु तेभ्यश्च यमलोकं न पश्यति । माषपत्रस्य शाकेन भुक्त्वा तत्र दिने नरः ॥ प्रेत चतुई- शीकाले सर्वपापैः प्रमुच्यते । नक्तं शिवचतुर्दश्यां कु-च्छिवच- तुष्टयं । ततः क्रतुशतेनापि प्राप्यते पुण्यमीदृशम् ॥ कुमारीवटु- कान्पूज्य तथा शैवाँस्तपोधनान् । राजसूयफलन्तेन प्राप्यते नात्र संशयः ॥ इयं भौमयुक्ता चित्राख्या । पुष्करपुराणे 'कार्तिके भौ- मवारेण चित्रा कृष्णचतुर्दशी । तस्यां भूतं समभ्यर्च्य गच्छेच्छि- वपुरनर ॥ कार्तिके सितचतुर्दशी पाषाणचतुर्दशी । तदुक्तं देवीपुराणे । 'कार्तिक शुक्लपक्षे तु या पाषाणचतुर्दशी । तस्यामाराधयन् गौरी नक्तं पाषाणभाणम् । ऐश्वर्या सौख्यसौभाग्यरूपाणि प्राप्नुया- नरः ॥ अस्यामेव भविष्यपुराणोक्तं ब्रह्मकूर्चव्रतम् । 'कार्तिकस्या- सिते पक्षे चतुर्दश्यां नराधिकम् । सोपवासं पञ्चगव्यं पिवेदात्री- जितेन्द्रियः ॥ कपिलायास्तु गोमूत्रं कृष्णाया गोमयं तथा । श्वे- तधेनोस्तथाक्षीरं कपिलायास्तथा दधि ॥ गृहीत्वा कर्बुरायाश्च घृतमेकत्र धारयेत् । वेदोक्तमन्त्रै राजेन्द्र कुशोदकसमन्वितम् । ततः प्रभातसमये स्नात्वा सन्तर्प्य देवताः । ब्राह्मणं तर्पयित्वा तु भु- श्रीयाद्वाग्यतः शुचिः । ब्रह्मकूर्चव्रतं ह्येतत्सर्वपापप्रणाशनम् ॥

चतुर्थ उद्धारः। अथ मार्गसितचतुर्दश्यां मात्स्योक्तं शिवव्रतम् । उपवासः आब्दिक व्रतम् । स्वर्णवृषभदानमिति । ब्राह्मे-'माघशुक्लचतु- ईश्यां विष्णोदेहान्मरीचयः। निश्चेरुस्तिलकाकाराः शतशोऽथ स- हस्रशः । अनाभ्युदिते काले सत्सु तारांशुकेष्वपि । राजा च तत्र संपूज्यो यमः प्रलयभास्करः। सर्वाङ्गसन्धिसम्भूता नद्यो विष्णोश्च तत्र वै। अरुणोदयवेलायामारटन्तीह नित्यशः । नियुक्ता वि- ष्णुना सर्वाः कस्य पापं पुनीमहे । तत्रोपोष्य त्रयोदश्यां संप्राप्ते तु निशाक्षये । स्नात्वा पूज्यो जगद्भर्त्ता विरिञ्चिश्चन्द्रशेखरः। हरिः पू- ज्यश्च भगवान्घृताक्तैस्तिलतण्डुलैः ॥ नमःमणवसंयुक्तान्सतिलाँश्च जलाजलीन् । यमाय वितरेत्सप्त धर्मराजाय सप्त च । मृत्यवे स- सदेयाश्च तथा सप्तान्तकाय च ॥ वैवस्वताय सप्तैव सप्त कालाय चैव हि । सप्त देयाश्च विधिवत्सर्वप्राणहराय च । कृशरंभोजनीयाश्च ब्रा- ह्मणास्तदनन्तरम् ॥ श्राद्धं दत्वा पितृभ्यश्च विमुक्तः सर्वपातकैः। ततो विभज्य बन्धुभ्यः कृशरं भक्षयेत्स्वयम् । इत्यारटन्ती चतुर्दशी। अथ शिवरात्रिः । सा च निर्णीतैव यद्यपि तथापि कश्चि- द्विशेषः प्रदर्श्यते । 'माघकृष्णचतुर्दश्यां रविवारो यदा भवेत् । भौमो वापि भवेद्देवि तद्धि सर्वत्रतोत्तमम् । त्रयोदशी कलाप्येका मध्येचैव चतुर्दशी। अन्ते चैव सिनीवाली त्रिस्पृशां शिवमर्चयेत् ॥ स्कान्दे । 'उपोषणं चतुर्दश्यां चतुर्दश्यां च पारणम् । कृतैः मुक- तलक्षश्च लभ्यते वा न लभ्यते । ब्रह्मा स्वयं चतुर्वक्कैः पञ्चवक्कै- स्तथा ह्यहम् ॥ सिक्थे सिक्थे फलं तस्य वक्तुं शक्तोन पार्वति।ब- ह्माण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै । संस्थितानि भवन्तीह भूतायां पारणे कृते ॥ हेमाद्रिस्तु तिथ्यन्त एवार्द्धरापि पारणं का- यमित्याह ॥ इदं च व्रतं नित्यम् । स्कान्दे । 'वर्षे वर्षे महादेवि नरो नारी पतिव्रता । शिवरात्री महादेवं नित्यं भक्त्या प्रपूजयेत् । प- १२२ स्मृतिसारोद्धारे। रात्परतरं नास्ति शिवरात्रिव्रतात्परम् ॥ न पूजयति भत्त्येशं रुद्र त्रिभुवनेश्वरम् । जन्तुर्जन्मसहस्राणि संभ्रमेन्नात्र संशयः॥ अर्णवो यदि वा शुष्येत् क्षीयते हिमवानपि । मेरुमन्दरलङ्काश्च श्रीशैलो विष्य एव च । चलन्त्येते कदाचिदै निश्चलं हि शिवव्रतम् ॥ तथा । 'माघकृष्णचतुर्दश्यां यः शिवं शंसितव्रतः । मुमुक्षुः पूजयेन्नित्यं सलभेदीप्सितं फलम् । निश्चलं सदाकर्त्तव्यमपीत्यर्थः । काम्यम- पीदम् । 'शङ्करं पूजयित्वा तु यो जागर्ति चतुर्दशीम् । मातुः पयो- धररसं न पिवेत्स कदाचन ॥ मम भक्तस्तु यो देवि शिवरात्रिमु- पोषितः । गणत्वमक्षयं दिव्यनक्षयं शिवशासनम् । सर्वान्भुक्त्वा महाभोगांस्ततो मोलमवाप्नुयात्' इति फलश्रमणात् । किञ्च । 'शि- वरात्रित्रतं नाम सर्वपापप्रणाशनम् । आचाण्डालमनुष्याणां भु- क्तिमुक्तिप्रदायकम् । प्रतिमासं कृप्णचतुर्दश्यां विहितं शिवरात्रि- बतम् । तदुक्तम् । आदौ मार्गशिरोमासि दीपोत्सवदिनेऽपि वा । गृह्णीयान्माघमासादौ द्वादशैवमुपोषयेत् । द्वादशस्वपि मा- सेषु प्रकुर्यादिहजागरम् । हेमाद्रिस्तु प्रतिमासशिवरात्रिवतेषु व- हुरात्रियुक्ता ग्राह्या, समानरात्रियोगे पूर्वेत्युक्तत्वात् । तथा च संग्रहः । 'माघेतरा सितचतुर्दश्यास्तु रात्रिद्वयेप्यस्तित्वे बहुरात्रियु- शुभतरा साम्येतु पूर्वास्मृतेति ॥ अथ स्कान्दोक्तं शिवरात्रित्रतम् । 'अतस्तस्यां त्रयोदश्यां कृ- ष्णायामेकमुग्नरः । मन्त्रेणानेन गृह्णीयान्नियमं भक्तिमानिह । शिव- रात्रिव्रतं ह्येतत्करिष्येहं महाफलम् । निर्वित्रमस्तु मे चात्र त्वत्प्रसा- दाजगत्पते । रात्रि प्रपद्ये जननीमृग्भ्याञ्चैव समाहितः' । ऋग्वे- दे प्रसिद्धावेतौ मन्त्रौ । ततः प्रातन्नित्यं विधाय चतुर्थप्रहरे गा- यच्या कृष्णंतिलस्नानम् जलाशये गृहे वा । प्रदोषे शिवालयं ग- त्वा पूजामारभेत् । तत्र जपनम् । शिानामभिः पञ्चोपचार पूजा चतुर्थ उद्धारः। १२३ नृत्यगीतवादित्रादि । एवं द्वितीयादिप्रहरपूजाः कार्याः। एवं म- द्भक्तियुक्तस्तु जागरं कारयनिशि । सकलं फलमाप्नोति सत्यमे- तद्वरानने । उपःस्नानं जपोहोमो भोजयेच्छिववत्सलान् । श्वेता- न्कुम्भान्प्रदद्याच्च यथाशक्ति च दक्षिणाम् । प्रतिमासिकशिवरा- त्रिवते तु । 'एवं द्वादशवर्षाणि द्वादशैव तपोधनान् । वरयेदिति शेषः । स्थावरं जङ्गमं वा लिङ्गं मंपूज्य पञ्चामृतस्नपनम् । सहस्रक- लश स्नपनम् । लड्डुकशय्याधुपकल्पनम्। होमब्राह्मणभोजनदक्षि- णादानादि ॥ अथ पञ्चदशी निर्णेतव्या सा च द्विविधा शुक्ला कृष्णा च । शुक्ला पौर्णमासी कृष्णा त्वमावास्या । तत्र शुक्लपक्षपाथम्यात्प्रथ- मोपस्थिततया प्रथमं पौर्णमासी निर्णीयते । नच वाच्यं सकललो- कप्रसिद्धतया कृष्णपक्षस्य प्राथम्यमिति । सकलश्रुतिस्मृतिप्रसि- द्धतया शुक्लपक्षस्य प्राथम्यादिति।तथा चामरसिंहोपि पक्षो पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ' । इति । स्मृतिवचनानि बहूनि तत्मा- थम्यवोधकानीति ॥ अथ पूर्णिमांनिर्णयः।सा च सावित्रीब्रतातिरिक्तव्रतादिषु परा- न्वितैवोपोष्या। यदुक्तम् । 'एकादश्यष्टमी षष्ठी पौर्णमासी चतुर्दशी । अमावास्या तृतीया च ता उपोष्याः परान्विता । ब्रह्मवैवर्तके। 'भूतविद्धे न कर्चव्ये दर्शपूर्णे कदाचन । वर्जयित्वा मुनि- श्रेष्ठ सावित्रीव्रतमुत्तमम् । सावित्रीव्रतं च भाद्रपूर्णिमायां वक्ष्यते । एतेन सावित्रीव्रते पूर्णिमा पूर्वविद्धैव प्राद्येति गम्यते । युग्मवच- नमपि तत्परमेव । तदुक्तं ब्रह्मवैवर्ते । प्रतिपत्पञ्चमी भूतसावित्री वटपूर्णिमा । नवमी दशमी चैव नोपोष्याः परसंयुना। एतत्परमेव ब्राह्मवचनम् । 'षष्ट्येकादश्यमावास्या पूर्वविद्धा तथाष्टमी । पू- स्मृतिसारोद्धारे। र्णिमा परविद्धा च नोपोष्यं तिथिपञ्चकमिति ॥ अथ पूर्णिमाव्रतानि ॥ तत्र चैत्रपूर्णिमायामिन्द्रपूजा । यदाह देवीपुराणे चैत्रविधिप्रकरणे । 'पौर्णमास्यां तथा कुर्यात् सर्व- कामसमृद्धये । इन्द्राय सर्वसाध्याय कामिकं लभते फलम् । वि- ष्णुः । 'चैत्री चित्रायुता चेत्स्यात्तस्यां चित्रवस्त्रदानेन सौभा- ग्यमाप्नोति । ब्राह्मे । 'मन्दे वार्के गुरौ वारे पैत्र्येष्वेतेषु चैत्रि- की। तत्राश्वमेधिकं पुण्यं स्नानेन लभते नरः। दानमक्षय्यतां या- ति पित्तॄणां तर्पणं तथा' । लैङ्गे। 'चैत्रे मासि सिते पक्षे पञ्चदश्यां यथाविधि। दमनेनार्चयेद्देवानष्टमीभूतयोस्तथा । वायवीये । 'सव्वत्स- रकृतार्चाया साफल्यायाखिलान्सुरान् । दमनेनार्चयेचैत्र्यां विशे- षेण सदाशिवम् ॥ अथ वैशाखी । यमगाथासु । 'यस्तु कृष्णाजिनं दद्यात्सखु- रं शृङ्गसंयुतम् । तिलैः प्रच्छाद्य वासोभिः सर्ववस्त्रैरलंकृतम्। वैशा- ख्यां पौर्णमास्यां तु विशाखासु विशेषतः । ससमुद्रगुहा तेन स- शैलवनकानना । सप्तद्वीपान्विता दत्ता पृथिवी नात्र संशयः। वि- ष्णुः । 'कृष्णाजिनं तिलान् कृष्णान् हिरण्यं मधुसप्पिषी । ददाति यस्तु विप्राय सर्वन्तरति दुष्कृतम्' । आदित्यपुराणोक्तो वैशाखी- विधिः। तिलैः स्नानहोमौ । तिलमोदकादिदानम् । सतजन्माघ- क्षयः । भविष्योत्तरे। 'वैशाखी कार्तिकी माघी तिथयोऽतीव पूजि- ताः। स्नानदानविहीनास्ता न नेयाः पाण्डुनन्दन । कुम्भान् स्व- च्छजलैः पूर्णान्हिरण्यान्नसमन्वितान् । वैशाख्यां ब्राह्मणे दत्वा न- शोचति कृताकृतैः ॥ अथ ज्येष्ठी। आदित्यपुराणे । 'ज्येष्ठे मासि तिलान्दद्यात्पौ- र्णमास्यां विशेषतः । . अश्वमेधस्य यत्पुण्यं तत्माप्नोति न संश- यो । विष्णुः । 'ज्यैष्ठी ज्येष्ठायुता चेत्स्यात्तस्यां छत्रोपान- चतुर्थ उद्धारः। १२५ प्रदानेन नरो नराधिपत्यमाप्नोति ॥ अथाषाढी । आषाढप्रकरणे। 'चतुर्दश्यामुपोष्याथ पौर्णमास्यां यजेद्धरिम्' । विष्णुः । 'आषाढ्यामाषाढयुतायामनपानादिदाने- नाक्षयं फलमानोति ॥ अथ श्रावणी । ब्राह्मे । 'श्रावण्यां श्रवणे चैव पूर्व हयशिरा हरिः । जगाद वेदं सामाख्यं सर्वकिल्बिषनाशनम्' । सिन्धवित- स्तासङ्गमस्नानं, हरिपूजा, सामश्रवणं, जलक्रीडा।अथ श्रावण्यां भविष्योत्तरोक्तो रक्षाबन्धनविधिः । 'इन्द्राण्या इन्द्रस्य रक्षाबन्धः कृ- तः। तत्प्रभावादिन्द्रेण दानवाः सर्वेपि जिताः। 'संमाप्ते श्रावण- स्यान्ते पौर्णमास्यां दिनोदये । स्नानं कुर्वीत मतिमान् श्रुतिस्म- तिविधानतः । ततो देवान्पित्त॒श्चैव तर्पयेत्परमाम्भसा । उपाक- मादिकं प्रोक्तमृषीणां चैवतर्पणम् । शूद्राणां मन्त्ररहितं स्नानं दानं च शस्यते । ततोपराह्नसमये रक्षापोटलिकां शुभाम् । कारयेचाक्षतैस्तत्र सिद्धाहेमचर्चिताम् । विचित्रतन्तुग्रथितां स्था- पयेद्भाजनोपरि । कार्या गृहस्य रक्षा गोमयरचितैः सवृत्तकुण्डलि कैः । दुर्वावर्णकसहितैभित्तौ दुरितोपशमनाय । उपलिते गृहमध्ये दत्तचतुष्के न्यसेत्कुम्भान् । पीठान्तरे च निवसेद्राजामात्यैः समौ- हत्तैः । वेश्याजनेन सहितो मङ्गलसहितैः समुस्थितैश्चिन्हैः । र- क्षाबन्धः कार्य्यः प्रशान्तिदः सर्वविघ्नानाम् । तदनुपुरोधा नृ- पते रक्षावधीत मन्त्रेण। मन्त्रः। येन बद्धो बली राजा दानवेन्द्रोम- हाबलः । तेन त्वां प्रतिबध्नामि रक्षे माचल माचल। ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रश्चान्यैश्च मानवैः । कर्त्तव्यो रक्षिकाबन्धो द्वि- जान्सम्पूज्य भक्तितः । अनेन विधिना यस्तु रक्षिकाबन्धमाच- रेत् । स सर्वदोषरहितः सुखी सवत्सरं भवेत् । यः श्रावणे विमलमासि विधानविज्ञो रक्षाविधानमिदमाचरते मनुष्यः ।

स्मृतिसारोद्धारे। : आस्ते सुखेन परमेण स वर्षमेकं पुत्रप्रपौत्रसहितः ससु- हृजनः स्यात्' । अथ च रक्षाबन्धो भद्रायां निषिद्धः ॥ 'भद्रायां द्वे न कर्त्तव्ये श्रावणी फाल्गुनी तथा । श्रावणी नृपति हन्ति ग्रामन्दहति फाल्गुनी' इति वचनात् ॥ श्रावणी रक्षिकाबन्धरूपा क्रिया न तूपाकर्म । 'श्रावण्याम् श्रावणीकर्म यथाविधि स- माचरेत् । उपाकर्म तु कर्त्तव्यं कर्कटस्थे दिवाकरे'। इति निगमव- चनेनोपाकर्मणः पृथगुपादानात् ॥ अथोपाकर्मनिर्णयः । याज्ञवल्क्यः । 'अध्यायानामु- कर्म श्रावण्यां श्रवणेन वा । हस्तेनौषधिभावेन पञ्च- म्यां श्रावणस्य तु' । अध्यायानामिति शाखाभिप्रायेण बहुव- चनम् । गोभिलः 'पर्वण्यौदयिके कुर्युः श्रावण्यां तैत्तिरी- यका । तैत्तिरीयका इत्युपलक्षणं यजुर्वेदिन इत्यर्थः । वह- वृचाः श्रवणः तु हस्तः सामवेदिनः॥ गार्ग्यः॥ 'पर्वण्यौदयिके कुर्युः श्रावणे तैत्तिरीयकाः । वढचाः श्रवणीं तु ग्रहसंक्रान्तिव- जिते । औदयिके उदयकालव्यापिनि । तथा । 'श्रावण्यां प्रौष्ठ- पद्यां वा उपाकृत्य यथाविधि । पीतमासान्विनो(?) अर्द्धपञ्च- मान्मासान्साईचतुरोमासान् । अत्रैवं व्यवस्था । बढ्चैः श्रवणः, यजुर्वेदिभिः श्रावण्यां पूर्वाह्ने, छन्दोगैस्तु सिंहस्थर्के हस्तक्षेऽपराह्ने कर्त्तव्यमुपाकम्र्मेति । स्मृत्यन्तरे । 'उपाकर्म प्रकुर्वन्ति क्रमा- सामर्यजुर्विदः । ग्रहसंक्रान्त्ययुक्तेषु हस्तश्रवणपर्वसु । संक्रान्तौ ग्रहणे चैव सूतके मृतके तथा । गयास्तानं प्रकुर्वीत नारदस्य वचो यथा । अथ चेदोषसंयुक्त पर्वणि स्यादुपक्रिया । दुःखशो- कामयग्रस्ता राष्ट्रे तस्मिीन्द्रजातयः॥ स्मृतिमहार्णवे। 'संक्रान्तिर्ग्रहणं चापि पौर्णमास्यां यदा भवेत् । उपाकृतिस्तु पञ्चम्यां कार्या वा- जसनेयिभिः । तथा । 'यदि स्याच्छावणं पर्व ग्रहसंक्रान्तिदूषितं ।

चतुर्थ उद्धारः। १२७ स्यादुपाकरणं शुक्लपञ्चम्यां श्रावणस्य तु। वाजसनेयिभिरि- ति वचनात् तदन्ये यजुःशाखिनः प्रौष्ठपद्यामुपाकुर्युः । श्रावण्यां पौष्ठपद्यामिति वचनात् । अत्रायं पर्यवसितार्थः, यजुःशाखाध्या- यिनः श्रावण्यां उदयकालव्यापिन्यां साचे दुष्टा तदा प्रौष्ठपद्यां त्रीयोपधिप्रादुर्भावे सत्युपाकुर्युः। वचस्तु श्रावणमासस्य श्रवण- नक्षत्रे धनिष्ठायुक्ते । सामगाः श्रावणस्य हस्तयुतपञ्चम्यां चेति । ग्रहणादिदोपाभाव ओषधिप्रादुर्भावश्च सर्वेषां समान इति । पौर्ण- मास्यां तूदयकालव्यापिन्यां एवोपाकायं 'पर्वण्यौदयिके कुर्यु- ग्रहसंक्रान्तिजिते' इति गोभिलवचनात् । चतुर्दशीवेधनिषेध- माह कालिकापुराणे । 'चतुर्दश्यां समुत्पन्नावमुरौ मधुकैटभौ । वेदान स्वीकुतिः पद्मयोनेस्तौ जह्नतुः श्रुतीः । ततो भूतयुते त- स्मिन्नोपाकरणमिष्यते' । तेन श्रावणी दुर्गनवमीत्यादिना श्रावण्यां पूर्वविद्धाविधानमुपाकाङ्गभूताभ्युदयिकपरं श्रावण्यां विधीय- मानहिरण्यगर्भपवित्रारोपणपरं वा। व्यासः । 'श्रवणेन तु यत्कर्म उत्तराषाढसंयुतम् । संवत्सरकृतोऽध्यायस्तक्षणादेव नश्यति । ध- निष्ठासंयुतं कुर्याच्छ्रावणीकर्म यद्भवेत् । तत्कर्म सफलं वि- द्यादुपाकरणसंज्ञितम्' । वहट्टचगृह्यकारिका । 'अवृष्ट्यौषधयस्त- स्मिन्मासे तु न भवन्ति चेत् । तदा भाद्रपदे मासि श्रवणेन त- दिष्यते' । गोभिलः । प्रौष्ठपदी हस्तेनोपाकरणम् । प्रौष्ठपदर्दी प्राप्येत्यर्थः । बौधायनः । 'श्रावण्यां प्रौष्ठपद्यामाषाढ्यां वोपाकृत्य छन्दांम्यधीयीत' । पौष्ठपद्यामपि सदोषायामाषायां कुर्यादित्य- र्थः । कालवृद्धौ तूपाकर्मणोप्युत्कर्पः । तदाह कात्यायनः । 'उ- स्कर्षः कालवृद्धौ स्यादुपाकर्मादिकर्माणि । अभिपेकादिवृद्धीनान्न तूत्कर्षो युगादिषु।नच 'दसहरासुनोत्कर्षश्चतुर्वपि युगादिषु।उपा- कर्म महापप्ठ्योर्चेतदुक्तं वृपादित' इति ऋष्यशृङ्गवचनेन विरोध ૨૨૮ स्मृतिसारोद्धारे। इति वाच्यम् । तस्य छन्दोगपरत्वाच्छन्दोगानां वृद्धावपि सिंहार्क एवोपाकर्म। यदाह गार्ग्यः। 'सिंहे रवौ च पुष्येक्र्के पूर्वाह्ने ऽविवरे बहिः। छन्दोगा मिलिताः कुर्युरुत्सर्ग स्वस्वछन्दसाम् । शुक्लपक्षेतु इस्तेन उपाकापराह्निकम् ।अविवरे ग्रहादिदोषरहितोपूर्वाह्ने उत्स- र्जनम्, आपराह्निकमुपाकर्मेत्यन्वयः । ननु 'त्रयोदश्यादितो वयं दिनानां नवकं ध्रुवम् । मङ्गलेषु समस्तषु ग्रहणे शशिमूर्ययोः । तथा 'द्वादश्यादितृतीयान्तो वेध इन्दुग्रहे स्मृतः। एकादश्यादिकः सौर- श्चतुर्थ्यन्तः प्रकीर्तितः । खण्डग्रहे ततः प्रोक्तमुभयत्र दिनत्रयम्' । इत्यादि ग्रहवेधदोषे सति पर्वणि ग्रहणे सत्यपि चतुर्दश्यामपि श्र- वणः चोपाकर्म त्याज्यं स्यादिति चेन्नाउमाकर्मणि वेधदोषाभा- वात्। 'नित्ये नैमित्तिके जप्ये होमयज्ञक्रियासु च।उपाकर्मणिचोत्सर्गे ग्रहवेधो न विद्यत' इति वचनात् । विशेषमाह गार्ग्यः 'अर्द्धरात्रादध- स्ताच्च संक्रान्तिर्ग्रहणं तथा । उपाकर्म न कुर्वीत परतश्चेन्न दोष- माक्' ॥ तथा । यद्यर्द्धरात्रादक्तुि ग्रहःसंक्रम एव च । नोपाकर्म तदा कुर्याच्छ्रावण्यां श्रवणेपि तु । अथात्र कर्त्तव्यमुच्यते कार्णा- जिनिः । 'उपाकर्मणि चोत्सर्गे यथाकालं समेत्य च । ऋषीन्दर्भम- यान्कृत्वा पूजयेत्तप्पयेत्ततः । वृहत्प्रचेताः भवेदुपाकृतिः पौर्णमा- स्यां पूर्वाह्न एव तु । ब्राह्मणान्भोजयेत्तत्र पित्तॄनुद्दिश्य देवताः ॥ बौधायनः । 'गौतमादीनृषीन्सप्त कृत्वा दर्भमयान पुनः । पू- जयित्वा यथाशक्ति तर्पयेदृचमुद्धरेत्' । गौतमादीनिति स्वस्व- शाखोक्तपणामुपलक्षकम् । ऋचं वेदम् । भविष्योत्तरे । 'उपा- कर्मादि चेहोक्तमृषीणां चैव तर्पणम् । कुर्वीत ब्राह्मणः श्राद्धं वेदानुद्दिश्य शक्तितः' । औदयिकं पर्व षण्मुहूर्तपरिमितं ग्राह्यम् । निगमे । 'श्रावण्यां प्रौष्ठपद्यां वा प्रतिपत्षण्मुहूर्त्तकैः । विद्धास्या- च्छन्दसां तत्र कुर्य्यादुत्सर्जनं तथा' इति ॥

चतुर्थ उद्धारः। १२९ अथोत्सर्जनम् । याज्ञवल्क्यः । 'पौषमासस्य रोहिण्यामष्टका- यामथापि वा । जलान्ते छन्दसां कुर्यादुत्सर्ग विधिवदहिः । मनुः। 'पुष्ये तु छन्दसां कुर्याद्वहिरुत्सर्जनं द्विजः। माघशुक्लस्य वा प्राप्ते पूर्वाह्ने प्रथमेऽहनि' । माघशुक्लस्येति भाद्रपूर्णिमोपाकर्म- विषयम् । तदैव सार्द्धचतुर्मासत्वसंभवात् । हारीत:-'अर्द्धपञ्च- मान् मासानधीसोर्द्धमुत्सृजति पञ्चार्द्धषष्ठान्वेति । अत्रार्द्धषष्ठानिति आषाढीकृतोपाकर्मपरं । खादिरगृह्ये 'पुष्ये तूत्सर्जनं कुर्य्यादुपा- कर्मदिने ऽथवा । कात्यायनः । 'प्रसब्दं यदुपाकर्म सोत्सर्ग विधिवद्विजैः। क्रियते छन्दसां तेन पुनराप्यायनं भवेत् । अजा- तयामैश्छन्दोभिर्यत्कर्म क्रियते द्विजैः। क्रीडमानैरपि सदा तत्तेषां सिद्धिकारणम् इति । भाद्रपौर्णमास्यां सावित्रीव्रतं भविष्योत्तरे । 'त्रयोदश्यां भाद्रपदे दन्तधावनपूर्वकं । त्रिरात्रनियमं कुर्य्यादुपवासस्य भारत । अशक्ता तु त्रयोदश्यां नक्तं कुर्य्याजितेन्द्रिया । अयाचितं चतुर्दश्यामुपवासेन पूर्णिमाम्' इत्यादि। विधिस्तु वटसा- वित्र्यामपि वक्ष्यते । अत्रैव लोकपालानर्चयेत् । ब्राह्मे । 'पूर्वभाद्र- पदा योगे पौर्णमास्यां पितामह । शक्राग्नियमयात्वम्भो- लोकपालाई वायुवित्तेशशङ्करान् । लोकपालांस्तु रक्षार्थ त्रैलोक्यस्या- भिषेचयेत् । पृथिव्या धारणार्थाय तथानन्तं च भोगिनम् । तस्मात्तत्र लिखेत्पद्ममष्टपत्रं सकर्णिकम् । कर्णिकायां लिखेत्तत्र सानन्तं कमलोद्भवम् । प्राच्यादिषु च पत्रेषु वासवाद्यांश्च सा- युधान् । ततः क्रमेण तेनैव संस्थाप्य कलशान् शुभान् । पश्चात्सं- पूजनीयास्तु भत्त्या ब्रह्मादयः सुराः ॥ अथाश्विनपूर्णिमाकृत्यम् ॥ आश्वयुज्यां पौर्णमास्यांनिकुम्भो- वालुकार्णवात् । आयाति सेनया सार्द्ध कृत्वा युद्धं सुदारुणम् । १७ स्मृतिसारोद्धारे। विधि. तस्मात्तत्र नरैः मार्गः स्वगेहस्य समीपतः । शोधितव्यः प्रयत्नेन भूषितव्यश्च मण्डने । वेश्मानि भूषितव्यानि नानारङ्गैर्विशेषवत् । मुस्नातैरनुलिप्तैश्च नरैर्भाव्यं सवालकैः । दिवा तत्र न भोक्तव्यं मानुषैश्च विवकिभिः। स्त्रीद्धमूर्खबालैश्च भोक्तव्यं पूजितैः सुरैः। पूज्याश्च सफलैः पत्रैस्तत्र द्वारेऽर्द्धभित्तयः । गोमद्भिः सुरभिः पूज्या छागवद्भिर्खताशनः । उरभ्रवद्भिर्वरुणो गजवद्भिविनायकः । पूज्यः साश्चैश्च रेवन्तो यथाविभवविस्तरैः॥ ततः पूज्यो निकुम्भश्च समासै- स्तिलतण्डुलैः । सुगन्धिभिघृतोपेतैः कासराक्षैः मुधूपितैः । कास- राक्षो महिषाक्षगुग्गुलुः । 'ब्राह्मणान्मोजयित्वा तु भोक्तव्यं मांसव- र्जितम् । रुद्रगौरीस्कन्दनन्दीश्वरा अपि पूज्याः ॥ अम्यामेव को- जागरव्रतम् । स्कान्दे । 'पूर्णिमाश्वयुजे मासि कौमुदी प- कोजागरबत- रिकीर्तिता । तत्राराध्य महालक्ष्मीमिन्द्रश्चैरावतस्थितम् । उपवासं प्रकुर्वीत दीपान्दद्याच्च भक्तितः । रात्रौ जागरणं कुर्य्यान्नृयगीतपुरःसरम् । निशीथे वरदा लक्ष्मीः कोजागति भाषिणी । जगत्मभ्रमते तस्यां लोकचेष्टावलोकिनी। नालिकेरो- दकं पीत्वा अक्षक्रीडां समारभेत् । तस्मै वित्तं प्रयच्छामि को- जागर्ति महीतले । ततः प्रातरिन्द्रं संपूज्य पायसेन ब्राह्मणान्मो- जयेत् । ततः पारणं, स्वर्गाद्याप्तिः फलम् । निर्णयामृते तु कोजा- गरत्रने विशेषः । स्कान्दे नन्दिकेश्वर उवाच । 'स्वामिन्नहं परा- धीनः शम्भोः सेवापरायणः । नावकाशोस्ति मे कर्तुं व्रतानि नि- यमास्तथा । तन्ममव ममाचक्ष्व व्रतं व्रतविशारद । येनचीर्णेन भगवन्प्राप्यते सुमहत्फलम् ॥ स्कन्द उवाच । अस्ति कोजागरं नाम व्रतानां व्रतमुत्तमम् । यत्कृत्वा समवाप्नोति जन्तुर्लोकाननुत्त- मान् । नित्यमाश्वयुजे मासि पूर्णिमायां गणेश्नर । ऐरावतसमा- रूढः शक्रो लोकानुकम्पया ॥ परिभ्रमति लोकाँस्त्रीन्पश्य भक्तव- चतुर्थ उद्धारः। रप्रदः। को जागरविधानेन मामाराधयतीत्युत । तन्मे कोजागरनाम व्रतं लोकेषु विश्रुतम् ॥ विधानं तस्य वक्ष्यामि शृणुष्वेकाग्रमा- नसः । महालक्ष्मीपूजा, शक्रपूजा उपवासः । लक्षं तदर्द्धमयुतं स- हस्रं शतमेव वा, दीपान्पुरवीथीचैत्यदेवायतनारामगृहेषु दद्याद्- यथाविभवं घृतेन तिलतैलेन वा,प्रातः क्षीरघृतशर्करपायसैर्वासोभिर्द- क्षिणाभिश्च द्विजपूजा,स्वर्णदीपदानम्, ततः पारणम् । 'व्रतस्यास्य विधानेन कल्पान्वै दीपसंख्यया । अप्सरोभिः परिवृतः सूर्यलोके महीयते । इह चायुष्यमारोग्यं पुत्रपौत्रादिसंपदः । भ- वन्ति व्रत माहात्म्याल्कुलश्रेष्ट्यङ्गणेश्वरोत । विष्णुः । अस्यामेवा- श्वयुज्यां अश्विनीगतेन चन्द्रमसा घृतपूर्णभाजनं सुवर्णयुतं विप्राय दत्वा दीप्ताग्निर्भवति ॥ अथ कात्तिकी । ब्राह्मे । 'कार्तिक्यां पौर्णमास्यां तु पूज्यो दामोदरः सदा । ततश्चन्द्रोदये पूज्यास्तापस्यः कृत्तिकामु षट् ॥ कात्तिकेयस्तथा खड़ो वरुणश्च हुताशनः । धान्यैः सशूकैारोद्ध भूषितव्यं निशागमे । माल्यै—पैस्तथा गन्धैर्भक्ष्यैरुच्चावचैस्तथा । परमान्नैः फलैः शाकैर्वहिब्राह्मणतर्पणैः । एवं देवास्तु संपूज्या दी- पोदेयो गृहाबहिः। दीपोपान्ते तथा गर्भश्चतुरस्रो मनोहरः । प्र- क्षेप्तव्यं तत्र दुग्धं नमोस्तु हरये पठन् । ब्राह्मणायाथ योन्याय द- द्यात्तं क्षीरसागरम् । अस्यामेव काम्यवृषोत्सर्गः। भविष्योत्तरे। 'कार्तिक्यां तुवृषोत्सग्गर्गो विवाहः पुण्यलक्षणः।कार्यकु- वात्सर्ग रुकुलश्रेष्ठ हरेर्नीराजनं तथा । गजाश्वरथदानं च घृतधेन्वा- दयस्तथा । प्रदेयाः पुण्यकृद्भिश्च तास्ताः सङ्कल्प्य देवताः। मात्स्ये । 'कार्तिक्यांतुवृपोत्सर्ग कृत्वां नक्तं समाचरेत् । शैवं पद- मवामोति शिवव्रतमिदं स्मृतम् । अस्यामेव ब्राह्मे नीलवृषभदान- मुक्तम् । 'नीलं च वृषभं दद्याच्चतुर्वत्सतरीयुतं । मुवाससं ब्राह्म- १३२ स्मृतिसारोद्धारे। णाय महाकान्तारतारणम् । यावन्ति तस्य रोमाणि शरीरे सन्ति संख्यया । तावद्युगसहस्राणि खर्गे वसति तत्पदः । पूजयित्वा ततो विष्णुं रक्तमाल्यानुलेपनैः । भोक्तव्यं गोरसमायं स्वप्तव्यं स्थण्डिले ततः । भरण्यादिनक्षत्रत्रययोगान्महत्वमस्याः। ब्राह्मे। 'आग्नेयं तु यदा ऋशं कार्तिक्यां भवति कचित् । महती सा हि विज्ञेया स्नानदानेषु चोत्तमा । यदा याम्यं तु भवति ऋतं तस्या- न्तिथौ कचित् । तिथिः सापि महापुण्या मुनिभिः परिकीर्तिता। प्राजापत्यं यदा ऋतं तिथौ तस्यां नराधिप । सा महाकार्तिकी पुण्या देवानामपि दुर्लभा॥पाझे 'विशाखासु यदा भानुः कृत्तिकासु च चन्द्रमाः । स योगः पद्मको नाम पुष्करेष्वतिदुर्लभः । इयं म- न्वन्तरादिरपि । आषाढीकात्तिकीतद्वदितिवचनात् ।। अथैकादशीमारभ्य कार्तिकीपर्यन्तं भीष्मपञ्चकव्रतम् । भविष्योत्तरे । 'कार्तिक शुक्लपक्षस्य शृणु धर्म पुरातनम् । एकाद- श्यां समारभ्य विज्ञेयं भीष्मपञ्चकम् । देवीपुराणे । 'यदेतदचलं पुण्यं व्रतानां व्रतमुत्तमम् । कर्त्तव्यं कार्तिके मासि प्रयत्नाद्भी- मपञ्चकम् । भीष्मेणैतद्यतः प्राप्तं व्रतं पञ्चदिनात्मकम् । सका. शाद्वासुदेवस्य तेनोक्तं भीष्मपञ्चकम् । तत्रैकादश्यां स्नानादिक विधाय व्रतग्रहणं, हरिपूजा नानाविधोपचारैः । पञ्चदिनान्य- खण्डदीपदानम् । वासुदेवाष्टाक्षरजपः । तिलबीहियवहोमः । अ- यं च विधिः पञ्चस्खपि दिनेषु । विशेषस्तु । 'प्रथमेह्नि हरेः पादौ पूजयेत्कमलैर्नरः । द्वितीये बिल्वपत्रेण जानुदेशं समर्चयेत् । पूजयेच्च वृत्तीयेह्नि नाभि शृङ्गारकेण तु । वाणबिल्वजपाभिश्च तत स्कन्धौ समर्चयेत् । ततोऽनुपूजयेच्छीर्ष मालत्या चक्रपाणिनः । त्रिमाश्य गोमयं सम्यगेकादश्यामुपावसेत् । गोमूत्रं मन्त्रवभ्यो द्वादश्यां प्राशयेद्बती । क्षीरं चैव त्रयोदश्यां चतुर्दश्यां तथा द- चतुर्थ उद्धारः। १३३ धि । पञ्चमे दिवसे स्नात्वा विधिवत्पूज्य केशवम् । भोजयेद्राह्म- णान्भत्त्या ततो दद्याच दक्षिणाम् । स्वयं नक्तं समश्नीयात्पञ्च- गव्यपुरस्सरम् । यावज्जीवव्रतम् । हरिप्रतिमादानेन सर्वपापक्षयः ।। अथाग्रहायणी। तस्यां विविधोपचारैश्चन्द्रपूजा। तदुक्तं ब्राह्मे । आग्रहायणीमुपक्रम्य । 'गोभ्यश्च लवणन्दयं तस्मिनहनि सर्वदा । यस्मात्तु लवणं चन्द्राक्षशापाद्विनिःसृतम् । माता च दुहिता चैव सम्पूज्याश्च कुलाङ्गना। कान्तं रूपं भवेत्स्त्रीणां पूर्णेन्दोः पूज- नादितः । विष्णुः । 'मार्गशीर्षशुक्लपञ्चदश्यां ससुवर्णलवणदानमा ह रूपसौभाग्यलाभः फलम् ॥ अथपौषी । ब्रह्मपुराणे । 'इदं जगत्पुरा लक्ष्म्या त्यक्तमासी- ततो हरिः । पुरन्दरश्च सोमश्च तथा पुष्यवृहस्पती । पञ्चैतान संपूज्य होमं कुर्य्याद । ततः पुष्टिकरं हृद्यं भोक्तव्यं घृतपायसम् । पुष्ययोगे तु कर्त्तव्यं राज्ञा स्नानं विशेषतः ॥ अथ माघी । ब्राह्मे । 'माध्यां मघासु च तिलैः सन्तर्प्य पि- तृदेवताः । तिलपात्राणि देयानि तिलं सघृतमोदनम् । कार्पा सदानमत्रैव तत्रवास्नानं दानं वित्तानुसारतः । मोचकौ आ- चरणादाजानुपरिधानविशेषकौ । भविष्योत्तरे । 'पौर्णमास्यां तु माघे यः पूजयेद्विधिवच्छिवम् । सोऽश्वमेधमवाप्येह विष्णुलोके म- हीयते ॥ अथ फाल्गुनी । तस्यां होलिका निर्णीयते । सूर्यसेनीये। 'सायाह्ने होलिकां कुर्यात्पूर्वाह्ने क्रीडनं गवाम् । दीपं द- हालिकानिर्णय वात्सदोषे तु एष धर्मः सनातन श्रावणी दुर्गनवमी पू- विद्वैव ग्राह्येत्याधुक्तम् । भद्रायां वे न कर्त्तव्ये इत्यप्यु- क्तम्। किञ्च प्रतापरुद्रीये दुर्वासाः। 'निशामुखे तु पूज्यैषा होलिका सर्वतो बुधैः। न दिवा पूज्यते होली पूजिता दुःखमावहेद । भद्रायां स्मृतिसारोद्धारे। दीपिता होली राज्यभङ्गं करोति वै । नगरस्य च नैवेष्टा तस्मा- त्ता परिवर्जयेत्' । स्मृत्यन्तरे । 'दिनार्द्धात्परतोऽपि स्यात्फा- ल्गुनी पूर्णिमा यदि । रात्रौ भद्रावसाने तु होलिकां तत्र दीप- येत्' । भविष्योत्तरे विशेषः । 'सार्द्धयामवयं पूर्णा द्वितीयदिवसे यदि । प्रतिपद्रर्द्धमाना च तदा सा होलिकास्मृता' इति । यत्तु 'व- द्वौ वह्नि परित्यजेदिति, वह्नौ होलिकायां वह्नि प्रतिपदमित्यर्थ इति, तत्तु सायं पूर्णिमायाम् अभद्रायां सत्यां प्रतिपदि न का- र्यमेतत्परमन्यथा भविष्योत्तरवचनविरोधः स्यादिति ॥ अथात्र कर्त्तव्यमुच्यते । भविष्योत्तरे । युधिष्ठिरकृष्णयोः संवादे ढौण्ढोपाख्यानम् । रघु राजानं प्रति पौरवाक्यम् । 'अस्माकं तु पुरे कापि दुण्डानामेह राक्षसी । दिवारात्रौ समागत्य बाला- नू पीडयते बलात् । रक्षया दण्डकेनापि भेषजैर्वा नराधिप । म- त्रज्ञैः परमाचाय्र्यैः सा नियन्तुं न शक्यते।इति पौरवचः श्रुत्वा राज्ञा पृष्ठोऽथनारदः। उवाच नारदो हृष्टो देवेयं मालिनः सुता । अनयोग्रेण तपसाशम्भुराराधितःपुरा।प्रहृष्यतस्यै त्रैलोक्येप्यभयं दत्तवान हरः। एवमस्त्विति तामुक्त्वा पुनःप्रोवाच शूलभृत् । उन्मत्तेभ्यः शिशुभ्यश्च भयं ते सम्भविष्यति।तदिनमारभ्य सा सर्वोपद्रवं चकार तत्रोपायमाह नारदः । साम्प्रतं कथयिष्यामि येनोपायेन हन्यते । अद्य पञ्चद- शी शुक्ला फाल्गुनस्य नराधिप । शीतकाले विनिष्क्रान्ते प्रात- ग्रीष्मो भविष्यति । अभयप्रदानं लोकानां दीयतां पुरुषोत्तम । यथा निःशङ्किता लोका रमन्ति न हसन्ति च । दारुजानिच वा- ङ्गानि गृहीत्वा समरोत्सुकाः । योधा इव विनिर्यान्तु शिशवः संपहर्षिताः । शुष्कगोमयकाष्ठानां सञ्चयं तत्र कारयेत् । तत्रा- ग्नि विधिवद्धुत्वा रक्षोनः मन्त्रविस्तरैः । ततः किलकिलाशब्दै- स्तालशब्दैमनोहरैः । तमग्निं नि:परिक्रम्य गायन्तु च हसन्तु चतुर्थ उद्धारः । ३ च । जल्पन्तु स्वेच्छया लोका निःशङ्का यस्य यन्मतं । भग- लिङ्गाकितैः शब्दैः कीर्तयन्देशभाषया । विस्तारयश्च सततं सहस्रं नाम चैतयोः । तेन शब्देन सा पापा होमेन च निराकृता । अ- दृष्टघातैम्भिानां राक्षसी क्षयमेष्यति । अदृष्ट्वापि च दृष्ट्वेदं चरि- तं भण्डिमान्वितम् । भयेन तेन सा रण्डा लज्जिता प्रपलायते । भ- विष्यति न सन्देहो भस्मीभूताच पूतना । ततः प्रभृति लोके- स्मिन्होलिका ख्यातिमागता । सर्वदुष्टापहो होमः सर्वरोगोपशा- न्तिदः। क्रियतेहि द्विजैः पार्थ तेन सा होलिका स्मृता । सर्वसारा तिथिश्चेयं पौर्णमासी युधिष्ठिर । सारत्वात्फाल्गुनीत्येषा परमान- न्ददायिनी । अस्यां निशागमे पार्थ संरक्ष्याः शिशवो गृहे । गो- मयेनोपलिप्ते च सचतुष्कगृहाङ्गणे । आकारयेच्छिशुपायान् ख- डव्यग्रकरानरान् । ते काष्ठशब्दैः संस्पृश्य शब्दैः हास्यकरैः शिशू- न् । रक्षन्ति तेषां दात्तव्यं गुडं पकानमेव च । एवं ढुण्डति या तस्याः स दोषः प्रशमं व्रजेत् । बालानां रक्षणं कार्य भयात्तस्मिन्निशागमे। होलिकानन्तरं भूतिवन्दनादिकृत्त्यमपि त- प्रतिपदि प्राग्दर्शितमनुसन्धेयम् । फाल्गुनी मन्वादिरपि ॥ अथ महाचैत्रादिलक्षणमाह गार्ग्यः । 'माससंज्ञे यदा ऋ- क्षे चन्द्रः सम्पूर्णमण्डलः । गुरुणा याति संयोगं सा तिथिमहती स्मृता' । ज्येष्टीविशेषः ‘ऐन्द्रे गुरुश्शशी चैव प्राजापत्ये रविस्तथा। पूर्णिमा ज्येष्ठमासस्य महाज्येष्ठी प्रकीर्तिता। वृषे वा मिथुने भानौ जीवचन्द्रौ तथेन्द्रभे । पौर्णमामी गुरोर्वारे महाज्यष्ठी प्रकीर्ति- ता' । माध्यां विशेषः ‘मेषराशौ यदा सौरिः सिंहे चन्द्रवृहस्पती । भास्करः श्रवणः च महामाघी तु सा स्मृता' । आसां तीर्थवि- शेषे प्राशस्यमाह गार्यः । 'महामाघी प्रयागे तु फाल्गुनी नैमिषे १ तत्तन्माससंज्ञाकारकनक्षत्रे ।

स्मृतिसारोद्धारे। तथा । सालग्रामे महाचैत्री कृताः स्युः पुण्यहेतवः । गङ्गाद्वारे तु वैशाखी ज्यैष्ठी च पुरुषोत्तमे। आषाढी वै कनखले केदारेश्रावणी तथा। वदोँच पौष्ठपदी कुजादौ तु महाश्विनी। पुष्करे कार्तिकी कान्यकुब्जे मार्गशिरस्तथा । अयोध्यायां महापौषी कृता स्युस्ता महाफला:' । महाफला इति उक्ततीर्थे फलविशेषो भवति, नतु तीथान्तरे फलाभाव इति । तदाह गार्ग्यः । 'आसु चेत्क्रियते श्रा- डं यच्च दानं यथाविधि । उपवासादिकं यच्च तदनन्तफलं स्मृतम् ॥ अथामावास्यानिर्णयः। सा चोपवासादिषु प्रतिपद्युतैव ग्राह्या। 'प्रतिपद्यप्यमावास्येति युग्मवचनात् । 'अमावास्या तृतीयाच ताउ- पोष्याः परान्विता' । षष्ठ्यष्टमी अमावास्येत्यादि । निषेधश्च नि- गमे । 'भूतविद्धा घमावास्या निष्फलं स्यात्त्रयन्त्विदमिति । स्का- न्दपि । भूतविद्धा त्वमावास्या न ग्राह्या मुनिपुङ्गवैः । स्कान्दे 'भूतविद्धा सिनीवाली न तु तत्र व्रतं चरेत् । वर्जयित्वा मुसा- वित्रीव्रतन्तु शिखिवाहन' । सावित्रीव्रते तु पूर्वविद्धा ग्राह्येत्यर्थः । 'दर्शश्च पौर्णमासञ्च पितुः सावत्सरं दिनम् । पूर्वविद्धमकुर्वाणो नरकं प्रतिपद्यते' इसादीनि श्राद्धविषयाणि ॥ अथामावास्याव्रतानि ॥ तत्र ज्येष्ठामावास्यायां भ- विष्योत्तरोक्तं वटसावित्रीव्रतम्। शक्तौ त्रिरात्रोपवासः। अशक्तौ त्रयोदश्यां नक्तं चतुर्दश्यामयाचितममायामुपोष- णम्। ततः सवस्त्रवंशमयपात्रे सत्यवता सार्द्ध सावित्रीप्रतिमा सुव- दिघटितां स्थापयेत् । वटावलम्बिनंकाष्ठभारं कृत्वा निरूढसप्तधा- न्यहीरद्राकण्टसूत्रादिस्थापनम्, सावित्र्याख्यानश्रवणम् । रात्रौ जागरणम् । मातःप्रतिमादानं । मन्त्रश्च।'सावित्रीयं मया दत्ता स- वटसावित्री- प्रतविधिः चतुर्थ उद्धारः। त्सव हिरण्या महासती।ब्रह्मणःप्रीणनार्थाय ब्राह्मणः प्रतिगृह्यताम्' इति हविष्यानभोजनम् । 'व्रतेनानेन राजेन्द्र वैधव्यं नाप्नुयात्कचित् इति ॥ अथ कार्तिक्यमावास्या सुखरात्रिरुच्यते । ब्राह्मे । 'अमावा- स्यायां तु देवाः कार्तिके मासि केशवात् । अभयं प्राप्य सुप्तास्तु सुखं क्षीरोदसानुषु । लक्ष्मीदैत्यभयान्मुक्ता सुखं सुप्ताम्बुजोदरे। अतोर्थ विधिवत् कार्य्या मनुष्यैः सुखसुप्तिका । दिवा तत्र न भो- क्तव्यमृते बालातुराक्षमान् । प्रदोषसमये लक्ष्मी पूजयित्वा यथा- क्रमम् । दीपवृक्षास्तथा कार्या शक्त्या देवगृहेषु च । दीपमा- लापरिक्षिप्ते प्रदोषे तदनन्तरम् । ब्राह्मणान्मोजयित्वादौ विभोज्यच बुभुक्षितान् । अलङ्कतेन भोक्तव्यं नववस्त्रोपशोभिना। स्निग्धैः शूद्र- विदग्धैश्च बान्धवैनिभृतैः सहेति । अस्यामेव राजा कौमुदीमहोत्सवं कौमुदीमहो- कुर्यात् । तदुक्तं सूर्यसेनीये । 'ततोऽपराह्नसमये घोषयेन्न- गरे नृपः । अधराज्यं बलेल्र्लोको यथेष्टं चेष्टतामिति । अध राज्यं बलेरिति वामनो बलिं पाताले निःक्षिप्य चतुर्दशीसुखरा- त्रिप्रतिपदो वलये दत्तवानिति भविष्योत्तरोपाख्यानादुक्तम् । 'बू तपानरतोद्युक्तनरनारीमनोहरे । गीतवादित्रसंघुष्टे संप्रज्वलितदी- पके । दीपमालाकुले रम्ये विध्वस्तध्वान्तसञ्चये । प्रदोषे दोपर- हिते शस्ते दोषागमे शुभे । वेश्याविलासिनीसाई खस्तिमङ्गलका- रिणी । गृहाद्गृहं व्रजति च पादाभ्यङ्गपदायिनी । ततोर्द्धरात्रसमये स्वयं राजा पुरं व्रजेत् । अवलोकयितुं रम्यं पञ्चामेव शनैःश- नैः । एवं गते निशीथे तु जने निद्रार्धलोचने । तावन्नगरनारीभिः शूर्पडिण्डिमवादनैः । निष्काश्यते प्रहृष्टाभिरलक्ष्मीः स्वगृहाङ्ग- णात् । प्रभातसमये राज्ञा तोपणीयास्ततो जनाः । वृषभान्महि- पांश्चैव युध्यमानान्परैः सह । गजानश्वांश्च योघांश्च पदातीन स- मलङ्कतान् । मञ्चारूढस्ततो पश्येन्नटनर्तकचारणान्' इति । ततः स्मृतिसारोद्धारे। प्रातः प्रतिपदि गोवर्द्धनपूजाधूतादि प्रागुक्तमनुसन्धेयम् । कौमु. दीपदव्युत्पत्तिमाह भविष्योत्तरे । कौमुत्पीतिर्वलेय॑स्माक्रियते- ऽस्यां युधिष्ठिर । अतोर्थपृथिविः पार्थ तेनैषा कौमुदी स्मृता । एव- मेकमहोरात्रं वर्षे वर्ष विशांपते । दत्तं दानवराजस्य आदर्शमिव भू- तले।यःकरोति नृपो राज्ये तस्य व्याधिभयं कुतः। कुतईतिभयं तस्य नास्ति मृत्युकृतं भयम् । सुभिक्षं क्षेममारोग्यं सस्यसंपदउत्तमाः। नीरुजश्व जनाः सर्वे सर्वोपद्रववर्जिताः । कौमुदीकरणाद्राजन भवन्तीह महीतले । यो यादृशेन भावेन तिष्ठत्यस्यां युधिष्ठिर । ह पदैन्यादिरूपेण तस्य वर्ष तथैति तत् । तस्मात्यहृष्टैस्तुष्टैश्च कर्त्तव्या कौमुदी नरैः। वैष्णवी मानवी चेयं तिथिः पैत्री युधिष्ठिर' इति ॥ अथ कृष्णादिमासरीत्या माघामावास्यायामोदयवतम्। 'मा घामायां व्यतीपाते आदित्ये विष्णुदैवते । अझै- विवधा दयं तदित्याहुः सहस्राक्र्कग्रहैः समम् । एतद्रतेन कृ- तेन सप्तद्वीपसंयुतमहीदानफलम् । ब्रह्मविष्णुमहेशानां सौवर्णप्रतिमापूजा, ततो ऽलङ्कारादिभिराचार्यपूजा, होमः । स्व- शृङ्गीदानं । फलम् । 'तेन दत्तं हुतं जप्तं इष्टं यज्ञैः सह- स्रधा । कृतकृत्यो भवेन्मयों विधायाोदयव्रतम्' । महा- भारते तु । 'अमार्कपातश्रवणैर्युक्ता चेत्पौषमाघयोः। अर्होदयः स विज्ञेयः कोटिमूर्यग्रहैः समः । दिवैव योगः शस्तोयं नतु रात्रौ कदाचन' । स्कान्दे । 'अोदये तु संप्राप्ते सर्वं गङ्गासमं ज- लम् । शुद्धात्मानो द्विजाः सर्वे भवेयुर्ब्रह्मसन्निभाः। यत्किञ्चिद्दीय- ते दानं तदानं मेरुसन्निभम् । अत्रदानविशेषः 'चतुःषष्ट्या चत्वा- रिंशता पञ्चविंशत्या वा पलैस्ताम्रादिपात्रं निर्माय तत्र पायसं निधायाष्टदलकमलं लिखेत् । 'पद्मस्य कर्णिकायां तु कर्षमात्रं सु वर्णकम् । तदभावे तदर्दू वा तदर्ध वापि कारयेत् । कृत्वा तु चतुर्थ उद्धारः। तण्डुलैः शुदैः पद्ममष्टदलं शुभम् । अमत्रं स्थापयेत्तत्र ब्रह्मवि- ष्णुशिवात्मकम् । तेषां प्रीतिकरार्थाय श्वेतमाल्यैः सुशोभनम् । वस्त्रादिभिरलङ्कृत्य ब्राह्मणाय निवेदयेत्' । दानमन्त्रस्तु । 'सुवर्ण- पायसामत्रं यस्मादेतत्त्रयीमयम् । आपत्तेस्तारकं यस्मात्तगृहाण द्विजोत्तम । समुद्रमेखलां पृथ्वी सम्यग्दत्वा तु यत्फलम् । तत्फ- लं लभते मर्सः कृत्वा दानममत्रकम् । इत्योदयविधिः ॥ 'अमायां माघमासस्य पूजायित्वा पितामहम् । गायत्र्या माघामायाम- सहितन्देवं वेदवेदाङ्गपारगम् । नवनीतमयीं धेनुं फलै- नानाविधैर्युताम् । सहिरण्यां सवत्सां च ब्राह्म- णाय निवेदयेत्' । अक्षयफलाप्तिः । वैष्णवे । 'माघेऽसिते पञ्चदशी कदाचिदुपैति योगं यदि वारुणेन । ऋक्षेण काल: स परः पितॄणां नाल्पपुण्यैर्नृप लभ्यतेसौ' । वारुणेन शत- भिषया । 'तत्रैव चेद्भाद्रपदा तु पूर्वा काले तदा यत् क्रियते पि- तृभ्यः । श्राद्धं परितृप्तिमवाप्नुवन्ति युगान्सहस्रं पितरस्तु तेन । इयमेव धनिष्ठायुता वर्षायुतन्तृप्तिदा, तदुक्तम् महाभारते मा- घामावास्याप्रकरणे । 'काले धनिष्ठा यदि नाम तस्मिन्भवेच्च भूपाल तदा पितृभ्यः । दत्तं जलानं प्रददाति तृप्ति वर्षायुतं तत्कुलजै-. मनुष्यैः । सोमयुता या काचिदमा सूर्यग्रहसमा । तदुक्तं शो- न । 'अमावास्या तु सोमेन सप्तमी भानुना युता । चतुर्थी भूमिपु- त्रेण सोमपुत्रेण चाष्टमी । चतस्रस्तिथयो ऽप्येता मूर्यग्रहणस- निभाः । स्नानं दानं तथा श्राद्धं सर्व तत्राक्षयं भवेत्' । लैङ्गे फाल्गुनतिथिप्रकरणे । अमावास्यायां प्रपूज्या रुद्रोग्निाह्मणस्त- था। मांसोदनै पोलिकाभिश्चपूज्यात्मासवान्धवाः । गार्ग्यः । 'श्रवणाविधनिष्ठा नागदैवतमस्तकैः । अमा चेद्रविवारेण व्यती- पातः स उच्यते । नागदैवतमाश्लेषा, मस्तकं मृगशिरा । तथा ।

स्मृतिसारोद्धारे। - 'तत्र जप्तं हुतं दत्तं सर्वं कोटिगुणं भवेत्' । अथान्वाधानम् । 'आवर्तने यदा सन्धिः पर्वप्रतिपदोर्भ- वेत् । तदहर्याग इष्येत परतश्चेत्परेहनि । आवर्तनं मध्यन्दिन- म् । तथा 'पर्वप्रतिपदोः सन्धिरोगावर्तनाद्यदि । तस्मिन्नह- नि यष्टव्यं पूर्वेयुः स्यादुपक्रमः । लौगाक्षिः । 'पूर्वाह्ने वाथ म. ध्याह्ने यदि पर्व समाप्यते । उपोष्य तत्र पूर्वेद्युस्तदहांग इ- ष्यते । तथा । 'अपराह्नेऽथवा सायं यदि पर्व समाप्यते । उ- पोष्य तस्मिन्नहनि श्वोभूते याग इष्यते । गोभिलोपि । 'आवर्त्त- नात्परः सन्धिर्यदि तस्मिन्नुपक्रमः । परेद्युरिष्टिरित्येष पर्वद्वयवि- निर्णयः। पर्वद्वय इति वचनात्पूर्णिमामावास्ययोः साधारणोयं नि- र्णयः । विशेषस्तूच्यते । कात्यायनः । 'सन्धिश्चेत्सङ्गवादृर्द्धमा- गावर्त्तनाद्भवेत् । सा पौर्णमासी विज्ञेया सद्यस्कालविधौ ति- थिए । सन्धिः पूर्णिमापतिपदोः । नन्वेवं सति पूर्वेयुरन्वाधाय प- रेधुर्यष्टव्यमिति विधिविरोधः स्यादिति चेत्सत्यं, न विरोधः स- द्यस्कालविधेरदर्शनात् । यदाहापस्तम्बः । 'पौर्णमास्यां त्वन्वाधानं परिस्तरणोपवासः सद्योथवा सद्यस्कालायां सर्व क्रियत इति । ननु तथापि तस्मिन्नहनि यष्टव्यं पूर्वेयुः स्यादुपक्रम' इति गोभि- लविरोध इति चेन्न । सङ्गवात्पूर्वमपि सन्धेर्मध्यान्हार्वाचीनत्वेन त- द्विषयत्वाद्गोभिलवाक्यस्य । कात्यायनवचनस्य मध्यान्हार्वाचीनसङ्ग- वो भाविसन्धिविषयत्वादविरोधात् । गोभिलवचनं पर्वद्वयसाधा- रणम्, कात्यायनवचनं पूर्णिमामात्र विषयमित्यविरोधाचेति । अमायां तु विशेषमाह वृहच्छातातपः । 'द्वितीया त्रिमुहूर्त्ता चेत्प्र- तिपचापराह्निकी । अन्वाधानं चतुर्दश्यां परतः सोमदर्शनात् । चतुर्दश्यामन्वाधायामायां यागः कार्य इत्यर्थः । अथ यागकाल: । याज्ञवल्क्यः । 'पञ्चदश्याः परः पादः ए- चतुर्थ उद्धारः। क्षादेः प्रथमस्तु यः। कालः पार्वणयागस्य त्वन्यथातु न विद्यते । वृद्धशातातपः। 'पर्वणो यश्चतुर्थोऽशः आद्याः प्रतिपदस्त्रयः। याग- कालः स विज्ञेयः प्रातरुक्तो मनीषिभिरिति । विशेषमाह शातातपः । 'सन्धिर्यद्यपराह्ने स्याद्यागं प्रातः परेहनि । कुर्वाणः प्रतिपद्भागे चतुर्थेऽपि न दृष्यति' । यत्तु 'न यष्टव्यं चतुर्थेऽशे यागे प्रतिपदः कचित् । रक्षांसि तद्विलुपन्ति श्रुतिरेषा सनातनी । इदमायंशकाले सम्भवति आलस्यादिना तदतिक्रम्य चतुर्थेऽशे न यष्टव्यमि- त्येवं परमिति ॥ अथानध्यायतिथयः । याज्ञल्क्यः । 'पञ्चदश्यां चतुर्दश्यामष्ट- म्यां राहुस्तके । ऋतुसन्धिषु भुक्त्वाच श्राद्धिकं प्रतिगृह्य च' गौतमः ‘पक्षद्वयचतुर्दश्योरष्टमीद्वितये तथा । पक्षादावपि पक्षान्ते ब्रह्म नाधीयते द्विजैः । ब्रह्म वेदः। न च ब्रह्मेतिपदावेदानामे- वानध्यायो न विद्यान्तरस्येति वाच्यम् । 'चतुर्दश्यष्टमीपर्वप्रतिपद- जितेषु च। वेदाङ्गन्यायमीमांसाधर्मशास्त्राणि चाभ्यसेत्' इत्यपरा- क्र्के विशेषाभिधानादिति । यत्तु मनुः । 'वेदोपकरणे चैव स्वा- ध्याये चैव नैत्यके । नानुरोधोस्त्यनध्याये होममन्त्रेषु चैवहींति । तत्र वेदोपकरणे नैत्यके नानध्याय इत्यर्थोऽन्यथा विरोधः पूर्वो- तेनेति । 'अमायां च चतुर्दश्यां पौर्णमास्यष्टकासु च । अमावास्या गुरुं हन्ति शिष्यं हन्ति च पूर्णिमा । ब्रह्म हन्त्यष्टमी भूता तस्माता परिवर्जयेत्' । बौधायनः। 'महानिशा तु विज्ञेया मध्येमध्यमयामयोः। तत्र स्नानं न कुर्वीत स्वाध्यायं पितृतर्पणम् । वृद्धमनुः । 'त्रयो- दश्यां न सप्तम्यां चतुर्थ्यामर्द्धरात्रतः । अर्वाड्नाध्ययनं कुर्या- यदीच्छेत्तस्य धारणम् । अत्र विशेषमाह गार्ग्यः । 'रात्रौ या- मयादर्वाक् सप्तमी वा त्रयोदशी । प्रदोषः सतु विज्ञेयः सर्ववि- द्यासुगर्हितः । रात्रौ नवसु नाडीषु चतुर्थी यदि दृश्यते । प्रदोषः

ર
स्मृतिसारोद्धारे।
सतु विज्ञेयो वेदाध्यायविगर्हितः' । भीष्मः । 'चातुर्मास्यद्वितीयासु
मन्वादिषु युगादिषु । विषुवायनयोर्द्वन्द्वे शयनीबोधिनीद्वये । प-
क्षाधिकत्रयोदश्यां तस्या एवोत्तरा तिथिः । दर्शस्मृन्दिवैव स्या-
दनध्यायः श्रुतावपि । श्रुतिः श्रवणद्वादशी । चातुर्मास्यद्वितीया
गर्गणोक्ताः । 'शुचावूजे तपस्येच या द्वितीया विधुक्षये । चातु-
र्मास्यद्वितीयास्ताः प्रवदन्ति महर्षयः । पूर्व चोर्द्धमनध्यायमहः
संक्रमणे निशि । दिवापूर्वोत्तरं रात्राविति वेदविदोविदुः । याज्ञ-
वल्क्यः । 'त्र्यहं प्रेतेष्वनध्यायः शिविग्गुरुबन्धुषु । उपाकर्म-
णि चोत्सर्गे स्वशाखाश्रोत्रिये मृते । सन्ध्यागर्जितनिर्घातभूकम्पो-
ल्कानिपातने । समाप्य वेदं व्यनिशमारण्यकमधीत्य च' तथा 'प-
शुमण्डूकनकुलवाहिमार्जारमूषकैः । कृतेऽन्तरे त्वहोरात्रं शक्रपाते
तथोच्छ्रये । शक्रध्वजस्योद्वासनदिने उत्थापनदिने चेयर्थः। अनध्या-
याध्ययनदोषानाहस्मृतिचन्द्रिका । 'अनध्यायेष्वध्ययने प्रज्ञामायुः
प्रजां श्रियम् । ब्रह्मवीर्यश्रितं तेजो निकृन्तति यमः स्वयम् । स्मृ-
सर्थसारे विशेषः 'चतुर्दश्यष्टमीपर्वपतिपत्सु च सर्वदा । दुर्मेधा-
नामनध्यायस्वन्तरागमनेषु च । दुर्मेधानां विस्मृतिशीलानां । स्मृ-
तिचन्द्रिका । 'उदयेऽस्तमये चापि मुहूर्त्तद्वयगामि यत् । तदिनं
तदहोरात्रमनध्यायं विना विदुः । तथा । 'तावदेव त्वनध्यायो न
तन्मिश्रादिनान्तरे । उपवासवतादीनां तिथिमाहुस्तथैव च । मैथि-
लादिनिबन्धे विशेषः । 'प्रतिपल्लेशमात्रेण कलामात्रेण चाष्टमी।
दिनन्दूषयते सर्व मेघविन्दुरिवोदकम्' इति संक्षेपः ।
श्रीविश्वम्भरविहिते स्मृतिसारोद्धारसंज्ञके ग्रन्थे ।
सर्वतिथिनिर्णयाख्यो गत उद्धारस्तुरीयोऽयम् ॥४॥

पश्चम उद्धारः। १४३ ज्येष्ठाख्या- अथ मुक्तकव्रतानि । तिथिविशेषानियतत्वं मुक्तकत्त्वम् । आदिसपुराणोक्तं पुत्रोत्पत्तिव्रतम् । श्रवणे श्रवणे वर्ष यावत्स्ना- नम् । इदं च वसिष्ठपुत्रेण शक्तिना कृतम् ॥ अथ विष्णुधर्मोक्तं शत्रुनाशवतम् । 'कृतोपवासो याम्येषु कृ. त्तिकासु च सर्वदा । पूजयेद्वासुदेवं वै कुङ्कुमेन मुगन्धिना' इति ॥ अथ लिङ्गपुराणोक्तं ज्येष्ठापूजावतम् । अलक्ष्मीरातो जाता प- श्वाल्लक्ष्मी हरेः मिया।ज्येष्ठा तेन समाख्याता लक्ष्मीर्द्विज- सत्तम।तद्भर्त्ता दुःसहो नाम मुनिः सतु तयासह। सर्वत्र भ्रममा- णोऽपि स्वस्थलं नाध्यगच्छत' । तं मार्कण्डेयः माहस्म 'यत्र भार्या च भर्ता च परस्परविरोधिनौ । सभार्यस्त्वं गृहं तस्य विशेथा भयवर्जितः। वासुदेवे रतिनास्ति नास्ति यत्र सहोदरे। जपहोमादिकं नास्ति सभार्यस्त्वं समाविश। रात्रौ रात्रौ गृहे यस्मिन् कलहो वर्द्धते मिथः । अनया सार्द्धमनिशं विश त्वं भयवर्जितः । अगस्त्या- दियो वापि बन्धुजीवो गृहेषु वै । करवीरो विशेषेण नन्द्यावर्स मथापि वा । मल्लिका वा गृहे यस्य सभार्यस्त्वं समाविश । बालानां प्रेक्षमाणानां यत्र वृद्धा हि भुञ्जते । मिष्ठान्नं तत्र संहृष्टः सभार्य्यस्त्वं सदा विश । या नारी शौचविभ्रष्टा देहसंस्कारवर्जि- ता । सर्वभक्ष्यरता निसं तस्या स्थानं समाविश । पृष्ठतोमैथुनं येषां श्ववच्च खरवच्च वा । जले वा मैथुनं कुर्यात्सभार्यस्त्वं समा- विश । यः शृङ्गाद्यौषधैः क्षुद्रैः शेफमालिप्य गच्छति । भगद्रावं च कुरुते सभार्यस्त्वं समाविश । तस्मात्मदेयस्तस्यै च बलिनित्यं- नरेश्वरैः । विष्णुभक्तैर्न सन्देहः सर्वयत्नेन सर्वथा । अङ्गनाभिः सदा पूज्या बलिभिर्विविधैर्द्विजाः' । भविष्योत्तरे तु मृतवत्सा- दीनां विशेषेणैतव्रतमुक्तम् । मन्त्रश्च । 'शाािणैश्च खड्गैश्च आरनालादतर्पणैः । अन्यैरप्यायुधैर्युक्तां ज्येष्ठे त्वामर्चयाम्यहम् ॥

स्मृतिसारोछारे। - अथ सौरधर्मोक्तं मार्गशीर्षादिद्वादशमासिकमादित्यवतम् । कुष्ठादिनाशः पुत्रादिप्राप्तिश्च फलम् । आग्रहायणादिमासेषु द्वाद- शसु प्रतिमासरविवारेषु क्रमेण तुलस्यादिद्वादशवस्तुभिरुपवास- नियमः। तुलसीपत्रत्रय-घृतपलद्वय-तिलमुष्टित्रय-दधिपलत्रय-दु- ग्धगोमय-तोयाञ्जलित्रय-मरिचत्रय-शक्तुपलत्रय-गोमूत्र-सिता- दुग्धोदनैः खण्डनेति। रविपूजा प्रतिमासं रौप्यस्थोपरि मूर्यप्रतिमा स्थाप्य । अन्ते उद्यापनं, फलं चोक्तमेवेति ॥ अथ वराहपुराणोक्तं व्यतीपातव्रतम् । सोमसूर्ययोः क्रुद्ध- दृष्टिपातायतीपातः समभवत् । सोमसूर्यावूचतुः । 'कोपदृष्टया नौ विविधादतिपाताद्भवानभूत् । व्यतीपातस्ततो नाम्ना भवान्भु- वि भविष्यति ॥ स्नानदानजपहोममर्चनं यस्त्वदीयसमये समा- चरेत् । तस्य पुण्यमिह नौ प्रसादतोऽनन्तमस्तु तव चाप्यनुग्रहात् । तत्काले तव विदधाति पूजनम् यस्तस्येष्टं भवतु भवेः सुभद्र- रूपः । पुत्रायुर्द्धनसुखकीतिपुष्टिरूपारोग्याचं गुणिजनवल्लभेत सर्वम् । प्रतिमादिविशेषो निबन्धे । उपवासः । त्रयोदशमासिकं व्रतम् । उद्यापनं चतुर्दशे । एतदेव व्रतं नारदीयेप्युक्तम् । हर्यश्व- वराहयोः संवादः। 'शङ्खचक्रगदापाणिं पद्महस्तं हिरण्मयम् । व- स्वयुग्मेन संवेष्टय पूजयेद्गरुडवजम् । गोक्षीरेणैव सम्पूर्ण काममा- जनमुत्तमम् । स्थापयेदेवदेवेशं स्थानं तत्रैव कल्पयेत्' । हरिसा- लोक्यम् । अथ भविष्योत्तरोक्तं भद्राव्रतम् । 'सुता मार्तण्डदेवस्य छायायां जनिता पुरा । शनैश्चरस्य भागनी सोदातिभयङ्करी । सा जातमात्रा भुवनं ग्रस्तुं समुपचक्रमे । तादृशीं भद्रां दृश्या कस्मै देयेति चिन्तयद्रविः । यस्मै दित्सति तमेव भक्षयति । एवं तया जगद्भोक्तुमारब्धम् । ततो ब्रह्मा सूर्यायोपलम्भन्ददौ ।

पञ्चम उद्धारः। १४५ सूर्येण चासामर्थ्य दर्शिते ब्रह्मा । 'उवाच विष्टिमानाय्य शृणु भ- दे मयोदितम् । करणैः सह वर्तस्व वववालवकौलवैः । सप्तमेऽर्द्ध- दिने प्राप्ते यदभीष्टं कुरुष्व तत् । यात्राप्रवेशमाङ्गल्यकृषिवाणि- ज्यकारकान् । भक्षय स्वाभिमुखगानरान्मार्गप्रवर्तिनः । नोद्रे- जनीयो हि जनो भवत्त्या दिवसत्रयम् । भद्रास्तोत्रत्रतपूजादिन- कारोन्यत्रेति ॥ अथ ब्रह्माण्डपुराणोक्तमर्द्धश्रावणीव्रतम् । 'प्राप्ते तु श्रावणे मासि शुक्लपक्षे मनोहरे । संस्थाप्य पार्वतीन्देवीं पूजयेद्भक्तिभावतः । मासं यावनियमतः संस्मरन्पार्वती हृदि' । एकभक्तादिकं, स- कलव्रतपरिपूर्तिः फलम। अथ भविष्यपुराणोक्तो वृन्ताकत्यागविधिः । कृष्ण उवाच । वृन्ताकस्य विधि वक्ष्ये शृणु पार्थ समाहितः । संवत्सरं वा प- एमासान् त्रीवा मासान्नभक्षयेत् । अथ भरण्यां मघायां वा ए- करात्रोपवासं कृत्वा चतुर्दशयमानामावाहनं पूजां होमं च कृत्वा तिलाज्यस्ततः शक्तौ सत्यां स्वर्णन्ताकं कृष्णां गां तथा वृषभं च कुण्डलमंगुलीयक क्षत्रोपानहौ च विप्राय दद्यात् । विमा- भोजयित्वा आशियो वाचयेत् 'अनेन विधिना यस्तु हन्ताकं संप्रयच्छति । त्रीन्मासान्वाथ षण्मासान्वर्ष चैकं न भक्षयेत् । अथ- वैनं विधि कृता यावज्जीवन्त्यजेद्बुधः पौण्डरीकाश्वमेधयोः फलम् । अच्युतप्तालोक्यञ्च । अपरं च । 'सप्तकोटिसहस्राणि नाकपृष्ठे महीयते । सप्तजन्मान्तरं यावद्यमलोकं न पश्यति' इति ॥ अथ चैत्रादिमासवतानि । मात्स्ये । 'वयित्वा मधौ य- स्तु दधिक्षीरघृतैक्षवम् । दद्याद्वस्त्राणि सूक्ष्माणि पट्टवस्त्रयुतानि च । सम्पूज्य विप्रमिथुनं गौरी मे प्रीयतामिति । एतद्गौरीव्रतं नाम भानीलोकदायकम् । भविष्योत्तरे । 'चैत्रे त्रिरात्रं नक्ताशी स्मृतिसारोद्धारे। ना लात्वा ददाति यः । अजाः पञ्च पयस्विन्यो दरिद्राय कु- टुम्बिने । न जायते पुनरसौ जीवलोके कदाचन' इति । वामनपु- राणे 'चैत्रे मासि विचित्राणि शयनान्यासनानि च । विष्णोः पी. त्यर्थमेतानि देयानि ब्राह्मणेषु च ॥ अथ वैशाखः । महाभारते । 'निस्तरेदेकभक्तेन वैशाखं यो- जितेन्द्रियः । प्रातःस्नायी नरः स्त्री वा ज्ञातीनां श्रेष्ठतां व्रजेत् । वामनीये । 'गन्धमाल्यानि च तथा वैशाखे सुरभीणि च । देयानि द्विज मुख्येभ्यो मधुसूदनतुष्टये ॥ अथ ज्येष्ठः । भविष्योत्तरे । 'पिष्टकेन कजं कृत्वा ज्येष्ठे मासि च वैदिकम् । पुष्पैः सम्पूज्य गन्धाधैर्भाववस्त्रविभूषितैः । वर्षकोटिगुणं साग्रं सूर्यलोके महीयते' । कजो ब्राह्मणः । वाम- नीये । 'उदकुम्भाम्बु धेनुं च तालवृन्तं सचन्दनम् । त्रिविक्रमस्य प्रीत्यर्थं दातव्यं ज्येष्ठमासि च ॥ अथाषाढः। महाभारते । 'आषाढमेकमक्तेन नीत्वा मासमत- न्द्रितः । बहुधान्यो बहुधनो बहुपुत्रश्च जायते । वामनीये । 'उ- पानयुगलं छत्रं लवणामलकानि च । आषाढे वामनप्रीत्यै दात- व्यानि तु भक्तित:॥ अथ श्रावणः । महाभारते । 'श्रावणं नियतो मासमेक- भक्तेन यः क्षपेत् । यत्र तत्राभिषेकेण पूजयेज्ज्ञातिवर्द्धन' इति । वामनपुराणे । 'घृतं च क्षीरकुम्भाँश्च धृतधेनुं फलानि च । श्रा- वणे श्रीधरप्रीत्यै दातव्यानि विपश्चिता ॥ अथ भाद्रः। भारते । पौष्ठपद्यं च यो मासमेकाहारो भवेन्नरः। धनाढ्यः स्फीतमतुलमैश्वर्यं प्रतिपद्यते' । वामनपुराणे । 'मासि भाद्रपदे दद्यात्पायसं मधुसर्पिषी । हृषीकेशमीणनार्थं लवणं सगुडोदनम् ॥

पञ्चम उद्धारः। १४७ अथाश्विनः । यमः । 'घृतमाखयुजे मासि नित्यं दद्या- द्विजातये । प्रीणयित्वाश्विनौ देवौ रूपभागभिजायते । वामनीये । 'तिलास्तुरङ्गं वृषभं दधि ताम्रवशादिकम् । प्रीत्यर्थं पद्मनाभस्य दद्यादाश्वयुजे नर' । वशा धेनुः॥ अथ कात्तिकः । पाझे। 'कृत्स्नः संवत्सरः पुण्यस्तस्माद- र्षा सुपूजिता । वर्षायाः कार्तिकः पुण्यः कार्तिकाद्भीष्मपञ्च- कम् । एकतः पुष्करे वासः कुरुक्षेत्रे हिमाचले । एकतः कार्ति- के वत्स सर्वदा केशवप्रियः । कोटिकोटिसहस्राणि पापानि मुब- हून्यपि । निमिषान दीपस्य विलयं यान्ति कार्तिके' । नारदी- ये । 'कृळं वाप्यतिकृच्छ्रे वा प्राजापत्यमथापि च । सम्प्राप्ते कात्तिके मासि कुर्याच्छत्तयातिपुण्यवान्' । स्कान्दे । 'अवतन नयेद्यस्तु मासं दामोदरमियम् । तिर्यग्योनिमवाप्नोति सर्व- धर्मबहिष्कृतः । दुर्लभा मालतीपूजा दुर्लभा तुलसी मुने । दुर्लभं कार्तिके स्नानं दुर्लभं साधुसेवनम् । दुर्लभो द्वार- कावासो दुर्लभं कुष्णदर्शनम् । दुर्लभं गोमतीस्नानं दुर्लभ कार्तिके व्रतम् । भोजनं ब्रह्मपत्रेषु कथायाः श्रवणं हरेः । दर्शनं वैष्णवानां च महापातकनाशनम्' । ब्रह्मपत्रे पालासपत्रे । इदं वानप्रस्थादिपरम् । यदाह मिताक्षरा । 'पापालासपत्रेषु गृ- ही भुक्त्वैन्दवं चरेत् । वानप्रस्थो यतिश्चैव लभेच्चान्द्रायणं फल- मिति । कात्तिकेतरमासपर वेति । नारदीये । 'अभ्यङ्गेऽभ्यवहारे च तैलमूर्जे विवर्जयेत् । भविता नारकी विप्र तैलाभ्यङ्गी नरः किल'। तैलमत्र तिलप्रभवस्नेहः । 'तैलत्यागी तिलान्दद्याद्रोणमात्रान्स- काञ्चनान्' इति वचनात् । सर्वत्र निषेधान्वयी तिलप्रभवस्नहे एव व्याकरणेन तत्रैव शत्स्यवधारणादिति । पाने स्नान- मन्त्रोयथा 'कार्तिकेऽहं करिष्यामि प्रातः स्नानं जनार्दन । भी.

१४८ स्मृतिसारोद्धारे। त्यर्थं तव देवेश दामोदर मया सह' । मया लक्ष्म्या । इदं मन्त्र समुच्चार्य मौनी स्नायाबती नरः। व्रतिनः कार्तिके मासि स्नातस्य विधिवन्मम । गृहाणायं मया दत्तं दनुजेन्द्रनिषूद- न । नित्ये नैमित्तिक कृष्ण कार्तिके पापनाशने । गृहाणायं मया दत्तं राधया सहित प्रभो। न गृहे कार्तिकं कुर्याद्विशेषेण तु का- र्तिकीम् । तीर्थेतु कार्तिकं कुर्याद्विशेषेण तु भाविनि' । स्कान्दे । 'एकेन जातीपुष्पण कार्तिकेय महामते । तुलसीदलार्द्धभागेन कार्त्तिके मुक्तिमाप्नुयात् । जातीपुष्पसहस्रस्य यो मालां सं- प्रयच्छति । विष्णवे विधिवद्भस्या तस्य पुण्यफलं शृणु । कल्प- कोटिसहस्राणि कल्पकोटिशतानि च । वसेत्स भवने विष्णोविष्णु- तुल्यपराक्रमः । मालतीमालया विष्णुः पूजितो येन कात्तिके । पा- पाक्षरकृतां मालां शौरिस्तस्य प्रमार्जति । अर्चयित्वा हृषीकेशं कुसुमैः केतकोद्भवैः । पुण्यं तद्भवनं याति केशवस्य शिवं मनुः(?)। प्रयागो माघमासे तु पुष्करं कार्तिके तथा । नर्मदा माधवे मा- सि हन्यात्पापं त्रिजन्मजम् । कात्तिके नाञ्चितो यैस्तु कमलैः क- मलेक्षणः । जन्मकोटिषु विप्रेन्द्र न तेषां कमला गृहे । पझेनैकेन देवेशं योऽर्चयेत्कमलाप्रियम् । वर्षायुतसहस्राणां पापस्य कुरुते क्षयम् । अपराधसहस्राणि अपराधशतानि च । पझेनैकेन देवेशः क्षमते प्रणयार्चितः । पझैः पद्मालयाकान्तः पूजितः पद्महस्तधृक् । ददाति वैष्णवान्पुत्रान्भक्तिमयभिचारिणीम् । तुलसीदललक्षण योऽर्चयेद्वारकाप्रियम् । जन्मायुतशतोत्थस्य पापस्य कुरुते शमम् । स्नानमात्रेण वै गङ्गा दर्शनादेव नर्मदा । घ्राणेन तुलसीपत्रं पापं जन्मार्जितं हरेत् । गतो धात्रीधनच्छाये योर्चयेच्चक्रचिह्नितम् । पुष्पे पुष्पेश्वमेधस्य फलं पामोति मानवः । धात्रीच्छायां समध्यास्य कुर्य्यात्पिण्डं च योमुने । मुक्ति प्रयान्ति पित्तरः प्रसादान्माधवस्य पश्चम उद्धारः। तु । धात्रीफलं च तुलसी मृत्तिका द्वारकोद्भवा । सफलं जीवितं तस्य त्रितयं यस्य वेश्मनि । यावदिनानि वहते धात्रीमालां कलौ नरः । तावद्युगसहस्राणि वैकुण्ठे वसते सुखम् । सरोरुहाणि तु- लसी मालती मुनिपुष्पकम् । कात्तिके दयितान्याहुर्विष्णोर्दीपं च पञ्चमम् । इष्ट्वा क्रतुशतैः पुण्यं दत्वा रत्नान्यनेकशः । तत्पुण्यं तुलसीपत्रैः कार्तिके केशवार्चनात् । अगस्त्यकुसुमद्देवं योर्चयेद्ग- रुडध्वजम् । दर्शनात्तस्य देवर्षे नरकाग्निः प्रशाम्यति । न त- करोति विपर्षे तपसा तोषितो हरिः। यत् करोति हृषीकेशो मु- निपुष्पैरलङ्कृतः । विहाय सर्वपुष्पाणि मुनिपुष्पेण केशवम् । का- त्तिके भक्तितोऽभ्यर्च्य वाजिमेधफलं लभेत् । गवामयुतदानेन य- त्फलं प्राप्यते मुने । मुनिपुष्पेण चैकेन कार्तिके तत्फलं स्मृतम् । बिल्वपत्रेण ये कृष्णं कार्तिके कलिनाशनम् । पूजयन्ति महाभ- त्या मुक्तिस्तेषां मयोदिता । शृणु दीपस्य माहात्म्यं कार्तिके के- शवप्रियम् । दीपदानेन विप्रेन्द्र न पुनर्जायते भुवि। मा मूढ दानफलम् मथुरां गच्छ मा प्रयागं च मार्बुदम् ।दीपदानेन देवस्य सर्व फलमवाप्स्यसि।राजन् कृते तु यत्पुण्यं नर्मदायां शशिग्रहे। तत्फलं कोटिगुणितं दीपदानेन कात्तिके । घृतेन दीपको यस्य ति- लतैलेन वा पुनः । ज्वलते तुलसीमूले वाजिमेधेन तस्य किम् । तिलतैलं तिलस्नेहः । अथानन्वयः । 'जन्मप्रभृति यत्पुण्यं नरेणो- पाजितं च यत् । वृथा करोति तत्सर्वमकृत्वा तु प्रबोधिनीम् । शालग्रामशिलायान्तु नावाहनविसर्जने । यतस्ततः शिलाचक्रे नित्यं संनिहितो हरिः। शालग्रामशिला यत्र यत्र द्वारावतीशिला। उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः। शालग्रामशिलां यस्तु तुलस्या परिपूजयेत् । प्रत्यहं कार्तिके मासि विष्णुलोकं स गच्छ- ति । शालग्रामशिलापूजा गन्धपुष्पोदकादिकम् । विशेषात्कार्ति- कार्तिकेदीप- १५० स्मृतिसारोद्धारे। के मासि सर्वाघौघविघातकम् । शालग्रामशिलापूजा किं पुनश्च- क्रचिह्निता' इतिवचनाचक्राङ्किततत्पूजाफलाधिक्यम् । 'स्नानार्चन- क्रियाकाले घण्टानादं करोति यः । पुरतो वासुदेवस्य तस्य पुण्य- फलं शृणु । वर्षकोटिसहस्राणि वर्षकोटिशतानि च । वसने देव- लोकेषु अप्सरोगणसेवितः । प्रदक्षिणं यः कुरुते कार्तिके वि- ष्णुसअनि । पदे पदेऽश्वमेधस्य फलं मामोति मानव। अथ च- रणोदकादिमाहात्म्यम् । 'प्रपीतैमस्तके क्षिप्तः श्रीविष्णोश्चरणो- दकैः। निवेदितान्नैर्भुक्तैश्च कार्तिके मुक्तिमाप्नुयात्' । गौतमः । 'शालग्रामशिलातोयमपीत्वा यस्तु मस्तके । प्रक्षिप्तं तत्मकुरुते ब्र- महा स निगद्यते । विष्णुः 'कार्तिके मासि सकले सायङ्काले ति- लतैलेनाकाशदीपं दद्यात्' । पुष्करपुराणे । 'तुलायां तिलतैलेन सायंसन्ध्यासमागमे । आकाशदीपं यो दद्यान्मासमेकं हरिप्रियम् । महतीं श्रियमामोति रूपसौभाग्यसम्पदः । विष्णुः । 'कार्तिकं स- कलंमासं नित्यस्नायी जितेन्द्रियः। जपन्हविष्यभुक् शान्तः सर्वपापैः प्रमुच्यते । वामनपुराणे । 'रजतं कनकं दीपान्मणिमुक्ताफलादि- कम् । दामोदरस्य प्रीत्यर्थ प्रदद्यात्कार्तिके नरः॥ अथाग्रहणः । महाभारते । 'मार्गशीर्षन्तु यो मासमेकमुक्तेन सन्नयेत् । भोजयेद्राह्मणान्यतया मुच्यते व्याधिकिल्विषैः । कृ- षी भोगी बहुधनो बहुधान्यश्च जायते । वामनपुराणे । खरोष्ट्राश्वन- रा गावः शकटादिरजादिकम् । दातव्यं केशवप्रीत्यै मासि मा- गशिरे नरैः॥ अथ पौषः । महाभारते 'प्रासादनमरादीनि गृहप्रावरणानि च । नारायणस्य तुष्टयर्थं पौषे देयानि यत्नतः ॥ अथमाघः । विष्णुः । 'माघे मास्यग्नि प्रत्यहं तिलैर्तुत्वा- सघृतशर्करं ब्राह्मणान्भोजयित्वा दीप्ताग्निर्भवति' । भविष्योसरे ।

पश्चम उद्धारः। १५१ 'पौर्णमास्याममायर्या वा प्रारभ्य स्नानमाचरेत् । त्रिंशदिनानि पु- प्यानि मकरस्थे दिवाकरे । अप्राकृतशरीरस्तु यः कल्यं स्नानमा- चरेत् । पदे पदेश्वमेधस्य फलं पामोति मानव । वामनपुराणे । 'माघे मासि तिलाः शस्तास्तिलधेनुश्च दानतः। तूलेन्धनादयश्चान्ये माधवप्रीणनाय च । स्नानमन्त्रः 'मकरस्थे रवी माघे गोविन्दा- च्युत माधव । स्नानेनानेन मे देव यथोक्तफलदो भवेतिसङ्केपः ॥ अथ फाल्गुनः स्कान्दे । 'एकभक्तन्तु कुर्वाणः फाल्गुने मासि नित्यशः।स्त्रीषु सौभाग्यमामोति स्त्रियश्च परमप्रियाः।वामनपुरा- णे । 'फाल्गुने व्रीहयो गावो वस्त्रं कृष्णाजिनान्वितम् । गोविन्द- प्रीणनार्थाय दातव्यं पुरुषर्षभैः॥ अथागस्त्यायविधिः। मात्स्ये । 'प्रत्यूषसमये विद्वान्कुर्यात्त- स्योदये निशि । स्नानं शुक्लतिलैस्तद्वच्छुक्लमाल्याम्बरे गृही । स्थापयेदवणं कुम्भं माल्यवस्त्रविभूषितम् । पञ्चरत्नसमायुक्तं घृत- पात्रेण संयुतम् । नानाभक्ष्यफलैर्युक्तं ताम्रपात्रसमन्वितम् । अङ्गुष्ठमात्रं पुरुषं तथैव सौवर्णमत्यायतबाहुदण्डम् । चतुर्भु- जं कुम्भमुखे निधाय धान्यानि सप्तांकुरसंयुतानि । सकाशपु- ष्पाक्षतशुक्तियुक्तं मन्त्रेण दद्याट्विजपुङ्गवाय । उत्क्षिप्य लंबोदरदी- र्घबाहुमनन्यचेता यमदिङ्मुखस्थः । श्वेतां च दद्याद्यदि शक्ति- रस्ति रौप्यैः खैरहेममुखी सवत्साम् । धेनुं बहुक्षीरवतीं प्रणम्य मवस्त्रघण्टाभरणां द्विजाय । आ सप्तराजादुदयेऽर्यमस्य दातव्य- मेतत्सकलं नरेण । यावत्समाः सप्तदशाथवा स्युरथोर्ध्वमप्येव वद- न्ति केचित्' । मन्त्रश्च । 'काशपुष्पप्रतीकाश वह्निमारुतस- १ अगस्त्यः खनमाननि विप्रोऽयं विनिवेदयेत्' इति भविष्योक्ने ब्राह्मणस्य वैदिकमन्त्रेणेवा. ध्र्येऽधिकार । सचाय मन्त्र ऋग्वेदे द्वितीयाटफे चतुर्थाध्याये यथा-'अगस्त्य खनमान खनित्र मपत्य बलमिच्छमान् । उभी वर्णावषिरुन पुपोष सत्या देवेवाशिषो जगाम' ॥ इति ।

१५१ स्मृतिसारोद्धारे। म्भव । मित्रावरुणयोः पुत्र कुम्भयोने नमोस्तुते । विन्ध्यद्धिक्षय- कर मेघतोयविषापह । रत्नवल्लभ देवेश लङ्कावास नमोस्तु ते। वा- तापी भक्षितो येन समुद्रः शोषितः पुरा । लोपामुद्रापतिः श्रीमा- न्योऽसौ तस्मै नमोनमः। अनेन विधिना यस्त्वगस्त्यायं निवेदयेत् । इन्द्रलोकमवामोति रूपारोग्यसमन्वितः । सप्तैव लोकानामोति स- सार्घान्यः प्रयच्छति ॥ अथ चातुर्मास्यव्रतानि । भविष्योत्तरे । श्रीकृष्ण उवाच । चतुरो वार्षिकान्मासान्देवस्योत्थापनावधि । स्त्री वा नरोवा मद्भक्तो धर्मार्थ सुदृढव्रती ॥ गृह्णीयानियमान्नेतान्दन्तधावनपूर्वकम् । तेषां फलानि वक्ष्यामि तत्कर्तृणां पृथक्पृथक् ॥ मधुरगीभवेद्राजन्पुरुषोगुडवर्जनात् । तैलस्य वर्जनात्पार्थ सुन्दराङ्गः प्रजायते ॥ योगाभ्यासी भवेद्यस्तु स ब्रह्मपदमाप्नुयात् । कट्टम्लतिक्तमधुरक्षारकाषायजाबसान् ॥ यो वर्जयेत्स वैरूप्यं दौर्गत्यं नाप्नुयात्वचित् । फलत्यागेन मतिमान्बहुपुत्रश्च जायते ॥ शाकमात्राशनाद्भोगी त्वपक्कादोऽमलो भवेत् । दधिदुग्धादिनियमात्स्वर्गलोकं लभेन्नरः॥ भूमौ संस्तरशायी च विष्णोरनुचरो भवेत् । सदा मुनिः सदा योगी मधुमांसविवर्जनात् ॥ निराधिर् नीरुजो भोगी मुरामिषविवजनात् । एकान्तरोपवासेन ब्रह्मलोके महीयते ॥ धारणानखरोम्णान्तु गङ्गास्नानं दिने दिने । मौनव्रती भवेद्यस्तु तस्याज्ञास्खलिता भवेत् ॥

पश्चम उद्धारः।
भूमौ भुङ्क्ते सदा यस्तु स पृथिव्याः पतिर्भवेत् ।
नमो नारायणायेति जप्त्वानशनजं फलम् ॥
पादाभिवन्दनाद्विष्णोर्लभेगोदानजं फलम् ।
विष्णुपादाम्बुजस्पर्शात्कृतकृत्यो भवेन्नरः ।।
विष्णुदेवकुले कुर्य्यादुपलेपनमार्जने ।
कल्पस्थायी भवेद्राजन्स नरो नात्र संशयः ।।
प्रदक्षिणशतं यस्तु करोति स्तुतिपाठकः ।
हंसयुक्तविमानेन सच विष्णुपदं व्रजेत्
तीर्थाम्बुना हरेः स्नानान्निर्मलं देहमाप्नुयात् ।
पञ्चगव्याशनात्पार्थ चान्द्रायणफलं लभेत् ॥
नक्तभोजी समग्रन्तु तीर्थयात्राफलं लभेत् ।
अयाचितेन चामोति वापीकूपक्रियाफलम् ॥
षष्ठकालेऽन्नभोज्येन स्वर्गस्थायी नरो भरेत् ।
नित्यस्नायी नरो यस्तु नरकं न स पश्यति ॥
भोजनं वर्जयेद्यस्तु स स्नानं पौष्करं लभेत् ।
पर्णेषु योनरो भुङ्क्ते कुरुक्षेत्रफलं भवेत् ।।
शिलायां भोजनान्नित्यं प्रयागस्नानजं फलम् ।
यामद्वयं जलत्यागी न रोगैः परिभूयते
एवमादिव्रतैः पार्थ तुष्टिमायाति केशवः ।
मात्स्ये विशेषः ।
'आषाढादिचतुर्मासमभ्यङ्गं वर्जयेन्नरः।
भोजनोपस्करं दद्यात्स याति भवनं हरेः ।।
आषाढादिषु वै यस्तु वर्जयेन्नखकर्तनम् ।
वृन्ताकं च चतुर्मासं मधुसपिघंटान्वितम् ॥
२०

स्मृतिसारोद्धारे।
कार्तिक्या तत् पुनमं ब्राह्मणाय निवेदयेत् ।
स वैष्णवं पदं याति विष्णुव्रतमिदं स्मृतम् ॥
महाफलानि यस्त्यक्त्वा चतुर्मासं द्विजातये ।
हैमानि कार्त्तिके दद्याद् गोप्रदानसमं ततः ।
एतत्फलव्रतं नाम मूर्यलोकफलप्रदम् ।।
चातुर्मास्यव्रतं नित्यम् । यदाह महाभारते ।
वार्षिकांश्चतुरो मासान वाहयेत्केनचिन्नरः ।
व्रतेन नोचेदाप्नोति कल्मषं वत्सरोद्भवम् ॥
तथा । वार्षिकांश्चतुरो मासान्त्रतं किञ्चित्समाचरेत् ।
असम्भवे तुलार्के च कर्त्तव्यं तत्प्रयत्नतः ॥
एतद्वतोपक्रमे मन्त्रावाह सनत्कुमारः।
'इदं व्रतं मयादेव गृहीतं पुरतस्तव ।
निर्विघ्नं सिद्धिमायातु प्रसन्ने त्वाये केशव ॥
गृहीतेऽस्मिन्त्रने देव यद्यपूर्णे म्रियाम्यहम् ।
ततो भवतु संपूर्ण त्वत्प्रसादाजनाईन' ।।
महाभारते। चतुर्दा गृह्य वै चीणं चातुर्मास्यव्रतं नरः।
कार्तिक शुक्लपक्षे तु द्वादश्यां तत्समापयेत् ।।
चतुर्दा एकमादिप्रकारचतुष्टयेनेति ।
श्रीविश्वंभरविहिते स्मृतिसारोद्धारसंज्ञके ग्रन्थे ।
मुक्त कनियमविनिर्णयनामाभूत्पञ्चमोद्धारः॥ ५ ॥

षष्ठ उद्धारः। संक्रान्तिनि- णयः। अथ षष्ठे समुद्धारे मंक्रान्त्यादित्रयं मया । निर्णीयते सप्तमे तु श्राद्धं निर्णेष्यतेऽखिलम् ॥ संक्रान्त्यादित्रयम् संक्रान्तिर्मलमास उपरागश्चेति । तत्र संक्रान्ति ममूर्यस्य पूर्वराशिपरित्यागेन राश्यन्तरगम- नम् । सा च द्वादशमु मासेषु द्वादशविधा माघतोगण- येत् । अयनविषुवद्विष्णुपदीषडशीतयः। पुनरेवं श्रा- वणत इति । वृद्ध्वमिष्टः । 'अयने विषुवे द्वे च चतस्रः षड- शीतयः । चतस्रो विष्णुपद्यस्तु संक्रान्त्योद्वादश स्मृताः । मृगक- र्कटसंक्रान्ती द्वे उदद्गक्षिणायने । विषुवे द्वे तुलामेषौ गोलमध्ये ततोपरा । मृगो मकरः । गोलं चलनम् । अयनविषुवयोर्गोलम- ध्य इत्यर्थः । ज्योतिर्वसिष्ठः । 'वृषश्चिककुम्भेषु सिंहे चैव यदा- रविः । एतद्विष्णुपदं नाम विषुवादधिकं स्मृतम् । कन्यायां मि- थुने मीने धनुष्यपि रवेर्गतिः । षडशीतिमुखाः प्रोक्ता षडशीति- गुणाः फलैः' इति । पुलस्त्यः ॥ 'अयनद्वितये श्राद्धं विषुवद्वि- तये तथा । युगादिषु च कुर्वीत पिण्डनिर्वपणाहते ॥ अयने को- टिगुणितं लक्षं च विषुवे फलम् । षडशीत्यां सहस्रं तु फलं वि- ष्णुपदीषु च । शातातपः । 'मूर्यस्य संक्रमे पुण्ये न स्नायाद्यदि मानवः । सप्तजन्मनि रोगी स्याद्दुःखभागी च जायते ॥ संक्रा- न्त्यां यानि दत्तानि हव्यकव्यानि मानवैः । तानि तेभ्यो ददा- त्यर्कः सप्तजन्मसु निश्चितम् । स्मृत्यन्तरे विशेषः । 'मध्ये विपुवः ति दानं विष्णुपदे दक्षिणायने चादौ । षडशीतिमुखेऽतीते तथो- दगयने च भूरिफलम्। अथ संक्रान्तेः सूक्ष्मकालत्वात्कनिहतया पुण्यकालमा- ह वृद्धवसिष्ठः । 'संक्रान्तिसमयः सूक्ष्मः दुज्ञेयः पिशितेक्ष- णैः । तयोमाचाप्यधश्चोर्दू त्रिंशन्नाड्यः पवित्रकाः' । इंद स्मृतिसारोद्धारे। सामान्यं, विशेषमाह स एव 'अतीतानागते पुण्ये द्वे उदग्द- क्षिणायने । त्रिंशत्कर्कटके नाड्यो मकरे विंशतिः पराः। वर्तमाने तुलामेषे नाड्यस्तूभयतो दशेति । माधवीये चिन्तामणौ तु वि- शेषः । 'त्रिंशत्कर्कटके नाड्यो मकरे तु दशाधिकाः। षडशी- त्यां तु दशैवोत्तरा नाड्य इति लिखितम्, तत्तु । 'पुण्यायां विण्णु- पद्यां तु माक्पश्चादपि षोडश । षडशीत्यां व्यतीतायां षष्टिरु- तास्तु नाडिका' इति वसिष्ठवचनेन विरुध्यते इति चेन्न । चतसृ- णां षडशीतीनामेकैकस्याः पञ्चदश नाड्यः पुण्याः, एवं मिलि- त्वा षष्टिसंख्याका भवन्तीत्यभिप्रायात् । न च संक्रान्तिसामान्य- विषयत्वेनाधश्चोर्ध्वं त्रिंशन्नाड्यः पवित्रा इत्युक्तम्, वाक्यान्तरेषु तु दशषोडशादिनाडीनां पुण्यत्वमुक्तमिति विरोध इति वाच्यम् । त्रिंशन्नाडीनां पुण्यत्वं तदपेक्षया षोडशनाडीनां पुण्यतरत्वं तद- पेक्षया दशनाडीनां पुण्यतमत्वमिसभिसंधेरिति । यदाह वसिष्ठः । 'या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमा इति। वृद्धवसिष्ठोवि- शेषमाह 'अति संक्रमणे पुण्यमहः कृत्स्नं प्रकीर्तितम् । रात्री संक्रमणे पुण्यं दिनार्द्ध स्नानदानयोः । अर्द्धराबादधस्तस्मिन् म- ध्यान्हस्योपरिक्रिया। उदा संक्रमणे चोर्ध्वमुदयात्महरद्वयम् । य- दार्द्धरात्रै संक्रान्तिस्तदा दिनद्वयं पुण्यम् । यदाह वृद्धवसिष्ठः । 'संक्रमस्तु निशीथे स्यात्षड्यामाः पूर्वपश्चिमाः । संक्रान्तिकाले वि- ज्ञेयास्ततस्नानादिकं चरेत् ।ज्योतिर्वसिष्ठः। 'पूर्णे चैवार्द्धरात्रे तु य- दासंक्रमते रविः। तदा दिनद्वयं पुण्यं मुक्त्वा मकरकर्कटौ।मकरकर्कट- योस्तु विशेषमाह वृद्धगार्ग्यः। यद्यस्तमयवेलायांमकरंयाति भास्क- र प्रदोपे चार्द्धरात्रेच स्नानं दानं परेहनि । अर्द्धरात्रे तवा सं- क्रान्तौ दक्षिणायने । पूर्वमेव दिनं ग्राह्यं यावन्नोदयते रविः ।भ- विष्योत्तरे। 'मिथुनात्कर्कसंक्रान्तियदि स्यादंशुमालिनः । प्रभाते षष्ठ उद्धारः। वा निशीथे वा कुर्यादहनि पूर्वतः । कार्मुकं च परित्यज्य मृगं संक्रमते रविः । प्रदोषे वार्द्धरात्रे वा स्नानन्दानं परेहनि' । यत्तु । 'आदौ पुण्यं विजानीयाद्यद्यभिन्ना तिथिर्भवेत् । अर्द्धरात्रे व्यती- ते तु विज्ञेयमपरेहनि' । अस्यार्थः । यद्यर्द्धरात्रे तत्पूर्वदिनतिथ्या अभिन्ना तिथिर्भवति तदा पूर्वदिनं पुण्यं, भिन्नायां तिथावर्द्धरात्रे व्यतीते च परदिनं पुण्यमिति । देवीपुराणे। 'आसन्नसंक्रमे पुण्यं दिनार्द्ध स्नानदानयोरिति विशेषवचनम् । तन्मकरकर्कटव्यतिरि- क्तविषयं । हेमाद्रिस्तु वृद्धगाय॑भविष्योत्तरवचनान्यनाहस 'अ- र्द्धरात्रे कुलीरश्चेत्पुण्यं पूर्वमहर्भवेत् । यद्यर्द्धरावे मकरः परं पुण्यं प्रकीर्तितम्' इति स्वयं संजग्राह । अत्र 'रात्रौ स्नानं न कुर्वीत दान- चैव विशेषत' इति निषेधे प्रतिप्रसवमाह जाज्ञवल्क्यः । 'राहुदर्श- नसंक्रान्तिविवाहात्ययद्धिषु । स्नानदानादिकं कायं निशि काम्यत्रतेषु च। अथ संक्रान्तिप्रसङ्गानदीनां रजोदोष उच्यते । व्याघ्रपा- दः। 'सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः । तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगा। भविष्योत्तरे विशेषः। 'आदौ क- कटके देवि महानद्यो रजस्वलाः । त्रिदिनं च चतुर्थेति शुद्धाः स्युर्जाह्नवी यथा' । प्रतापरुद्रीये विशेषः । 'याः शोषमुपगच्छन्ति ग्रीष्मे कुसरितोभुवि । तासु प्रापि न स्नायादपूर्णे दशवासर' इ- ति । स्मृतिसंग्रहे । 'तपनस्य सुता गङ्गा गौतमी च सरस्वती । रजसा नाभिभूयन्ते वेणाच नदसंज्ञिताः। रजोदुष्टमप्यंबु गङ्गाज- १ महानद्यश्च ब्राह्मे-गोदावरी भीमरथी तुङ्गभद्रा च वेणिका तापी पयोष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिताः ॥ भागीरथी नर्मदा च यमुना च सरस्वती । विशोका च विहस्ता च विन्ध्यस्योत्तरसं- स्थिताः। द्वादशैतामहानद्यो देवर्षिक्षेत्रसम्भवाः ॥

स्मृतिसारोद्धारे। लसङ्गात्पावनं भवति । तदुक्तं मात्स्ये । 'पुण्यांभसा समायोगाद्- दुष्टमप्यम्बु पावनमिति । महाभारतेपि । 'अपवित्रमपि प्राप्य गङ्गां याति पवित्रताम्' इति सूर्यसेनीये । तन्न । 'तासु स्नानं न कुर्वीते- तिवचनान्नद्यधिकरणकस्नाननिषेधात् । रजोदुष्टा हि नद्यो नतू- द्धृतं तज्जलं वचनाभावादिति व्याघ्रपादः । 'अभावे कूपवापीना- मनपायिपयोभृताम् । रजोदुष्टे विपर्यासे ग्रामभोगी न बाध्यते । इति वचनं भोगः स्नानमेव निषिद्धम् प्रतिप्रमूयत इतिध्येयम् ॥ अथ मलमासनिर्णयः। मलमासश्चान्द्रः सितादिःसंक्रान्तिर- हितः संक्रान्तिद्वययुतश्चति । मलमासो द्विविधः, अधिमासः क्षय- मासश्च । संक्रान्तिरहितोधिमासः, संक्रान्तिद्वययुतः क्षयमासइति । तदुक्तं काठकगृह्ये । 'यस्मिन्मासे न संक्रान्तिः संक्रान्तिद्वयमेव वा । मलमासः स विज्ञेयोमासः स्यात्तु त्रयोदशः। यत्रामावास्याद्वयमध्ये न संक्रान्तिः संक्रान्तिद्वयं वा स मलमास इत्यर्थः । यदाहगार्यः । 'अमावास्याद्वयं यत्र रविसंक्रान्तिवर्जितं । मलमासः स विज्ञेयो- मासः श्राद्धाख्य उत्तरः । एकराशिगते सूर्ये यदा दर्शद्वयं भवेत् हव्यकव्यक्रियाहन्ता तदा ज्ञेयोधिमासकः' । नामव्यवस्थामाह व- सिष्ठः। 'मासे सवत्सरे चैव तिथिद्वैधं यदाभवेत् । तत्रोत्तरश्चोत्तमः स्यात्सूर्यस्य च मलिम्लुचः । अयमधिमाससंशोपि असंक्रान्तिमा- से वाद्यो मलिम्लुचः उत्तरः शुद्धः । द्विसंक्रान्तमासस्तु मल- मास एन नाधिमासः । तदाह सत्यः । 'राशिद्वयं यत्र मासे संक्र- मेत दिवाकरः । नाधिमासो भवेदेष मलमासस्तु केवलम् । द्विसं- क्रान्तमासः क्षयाख्योपि । ज्योतिः शास्त्रे । 'असंक्रान्तिमासोधिमा- सः स्फुटं स्याद्विसंक्रान्तिमासः क्षयाख्यः कदाचित् । क्षयः का. र्चिकादित्रये नान्यतः स्यात्तदा वर्षमध्येधिमासद्वयञ्च । एकत्र मा- षष्ठ उद्धारः। सद्वितयं यदि स्यादधिकं तत्र परोधिमासः। त्रयोदशं तु श्रुति- राह वेदे चतुर्दशः कापि न चास्ति दृष्टः । अयं च त्रयोदशो मा- सः त्रिंशमासादृ षट्त्रिंशमासात्पूर्वं भवतीति नियमः । ज्योतिः शास्त्रे 'त्रिंशत्पत्रिंशमासस्य ह्याभ्यन्तरयाईयोः । अधिमासोऽवक- ल्प्येत वादरायणकीर्तितः' । अनयोरेवासंक्रान्तस्य संसर्पकइति द्विसंक्रान्तस्याहपतिरिति च मंज्ञान्तरम् । तदुक्तम् । 'दर्शद्वयं यदै- कस्मिन्सौरे संसर्पकोभवेत् । अहपतिर्यदकस्मिंश्चान्द्रे द्वौ संक्रमौ तदा । संसर्पाहर्पतीचेति द्विविधावधिमासकौ । मासौ पूर्वापरौ दुष्टौ परपूर्वी शुभावहौ' इति । अत्रेदं बोध्यम् । स्फुटमानागत एवाधि- मासः, न तु मध्यममान एव, तस्य श्रौतस्मार्त्तव्यवहारानुपयोगात् । तदुक्तम् । 'इन्द्रामी यत्र हूतेये मासादिः सम्प्रकीर्तितः। अग्नीषोमो स्मृतौ मध्ये पर्याप्तौ पितृमोमको। तमतिक्रम्य तुर्यदा रविगच्छेत्क- दाचन । आद्योमलिम्लुचो ज्ञेयो द्वितीयः प्रकृतः स्मृत' इतिवचनाभ्यां शुक्ल प्रतिपदादिदर्शान्तो भवतीति । अस्य नियतं भवनकालमाह 'द्वात्रिंशाद्भग्गतेर्मासदिनैः पोडशभिस्तथा । चतुर्घटीयुतैर त्रपतत्ये- कोऽधिमासक' इति । अत्र वाक्ये दर्शान्तविवक्षाया कृष्णद्वितीयायां घटिकाचतुष्टयगतेधिमासोपक्रमः प्राप्तः। अतएवोक्तं 'असंक्रन्तिमा- सोधिमासः स्फुटं स्यादिति । स्फुटः स्फुटमानलब्धः। मध्यममाना गतस्यासंक्रान्तस्य ज्योतिश्शास्त्र एवोपयोगः । अयं चाधिमासो न मध्यममानागताधिमासवन्नियतः । व्यभिचारस्य स्फुटत्वादिति । उक्तं हि । 'पष्टया तु दिवसमासः कथितो वादरायणैः । पूर्वा- द्धन्तु परित्यज्य कर्त्तव्या उत्तरे क्रिया' इति । एवं द्वि- संक्रान्तमामोपि शुक्ल प्रतिपदादिः। यदा चायं भवति तदा वर्षम- ध्ये क्षयमासस्योभयत एकया मंक्रान्न्याऽमंक्रान्तमासदयं भवतीति । तदुक्तम् । तदा वर्षमध्येधिमामद्रयं चेति । वर्ष चात्र पूर्वासंक्रा- स्मृतिसारोद्धारे। न्तादिकं चान्द्रमासद्वादशभिर्भवति न चैत्रादिकम् । चैत्रादिषट्- के कदाचिदपि द्वितीयासंक्रान्त्यसम्भवात् । अयश्च मासद्वयात्मक- स्तदुक्तम् । 'दर्शान्तयोयोर्मध्येऽधिमासश्चैत्रसंज्ञकः। द्वे संक्रान्ती- क्षयः स्यात्स एकोपि यात्मको भवेत्' इति । अत्रोत्तर एवासंक्रान्तो मलिम्लुचम् । यदाह जाबालिः । 'एकस्मिन्नाप वर्षे च द्वौमासाव- धिमासकौ । पूर्वो मासः प्रशस्तः स्यादपरस्तु मलिम्लुच' । त- था। 'मासद्वयेऽब्दमध्ये वा संक्रान्तिन यदा भवेत् । प्रकृतस्तत्र पूर्व- स्स्यादधिमासस्तथोत्तर' इति। यदाश्विनादिषट्के एकोऽसंक्रान्तः। अपरस्तदुत्तरचैत्रादिषट्के तदा पूर्वोऽसंक्रान्तः शुद्धः। तदुक्तं ब्र ह्मसिद्धान्ते । 'चैत्रादर्वाङ्नाधिमासः परतस्त्वधिको भवेत् । दृष्ट्वाहि सर्वशास्त्रेषुतस्मिन्मूर्तिस्त्रयोदशी' इति । तस्मिन्नुत्तरश्चैत्रादिषट्के त्र- योदशी मूर्तिधिमासरूपा । चैत्रादागित्याश्विनपर्यन्तं वोध्य- म् । अत एवोक्तं 'घटकन्यागते मूर्ये वृश्चिके चापके तथा । मकरे वाथ कुम्भेच नाधिमासो विधीयते । मासः कन्यागते भानावसं- क्रान्तो भवेद्यदि । दैवं पित्र्यं तथा कर्म तुलास्थे कर्तुरक्षयम्' इति सङ्केपः ॥ अथाधिमासकार्याकार्यनिर्णयः । काठकपरिशिष्टे । 'म- ले ऽनन्यगति नियां कुर्यानैमित्तिकी क्रियां' । वृहस्पतिः। 'नि- त्यनैमित्तिके कुर्यात्प्रयतः सन्मलिम्लुचे । तीर्थश्राद्धं गजच्छायां प्रेतश्राद्धं तथैव च । यमः। 'गर्भे वार्द्धषिके भृत्ये श्राद्धकर्मणि मासिके । सपिण्डीकरणे नित्ये नाधिमासं विवर्जयेत् । तीर्थस्नानं जपो होमो यस्तु व्रीहियवादिभिः। जातकान्तकाणि नव- श्राद्धं तथैव च । मघात्रयोदशी श्राद्धं श्राद्धान्यपि च षोडश । १ नविद्यते अन्या आचरणरूपातू गतिर्यस्याःसा तथा ताम्, तथा च यस्या अन्यस्मिन् मासे करणेऽपि न सम्पूर्णतासिद्धिस्ताम् ॥

पष्ठ उद्धारः । १६१ चन्द्रसूर्यग्रहे स्नानश्राद्धदानजपादिकम् । कार्याणि मलमा- सेपि नित्यं नैमित्तिकं तथा' । अत्र तीर्थस्नानमपूर्वतीर्थस्नान- भिन्नम् । 'मलमासेप्यनादृत्ततीर्थयात्रां विवर्जयेत्' इति वचनात् । नैमिचिकं तु पूर्वत्र परत्र वा यदैव निमित्त सम्पद्यते तदैव कार्यम् । सदाह गभस्तिः 'जातकर्माणि यच्छ्राद्धं नवश्राद्धं तथैव च । ग्रहणे पुंसवादौ च तत्पूर्वत्र परत्र वा' । पूर्वत्र परत्र वा मासे, निमित्तवशा- दितिशेषः । मात्स्ये । 'चन्द्रसूर्यग्रहे चैव मरणे पुत्रजन्मनि । म- लमासेपि देयं स्याहत्तमक्षयकारकम् । मरीचिः । 'योगे चालभ्य- योगेपि सीमन्ते पुंसवे तथा । यदानादिकमुद्दिष्टं पूर्वत्रापि न दु- व्यति' । व्यासः । 'श्रौतस्मातक्रिया याश्च द्वादशे मासि कीर्तिताः । त्रयोदशे तु ताः सर्वाः राक्षस्यः परिकीर्तिता। एतत्काम्येष्टिविषयम् । यदुक्तं गृह्यपरिशिष्टे । 'अवषट्कारहो- माश्च पर्व चाग्रयणं तथा । मलमासेपि कर्त्तव्याः काम्या इष्टी- विवर्जयेत्' । अवषट्कारहोमा अग्निहोत्रोपाशतवैश्वदेवाद्याः। पर्व दर्शपौर्णमासेष्टिः पार्वस्थालीपाकश्च । आग्रयणं नवान्नेन क्रि- यमाणेष्टिः, सा चापदि पुरातनान्नाभावे । नवात्र भोजनार्थ क- नव्या नवनापदि । मात्स्ये । 'दर्श चाहरहः श्राद्धं दानश्च प्रतिवा- सरम् । गोभूतिलहिरण्यानां मासेपि स्यान्मलिम्लुचे । ऋष्य- शृङ्गः। 'सव्वत्सरातिरेकेण मासो यः स्यान्मलिम्लुचः। तस्मिस्त्र- योदशे श्राद्धं न कुर्यादिन्दुसङ्ख्ये' । अयं निषेधो दार्शिककाम्य- श्राद्धविषयः । यदाह जाबालिः । 'नित्यं नैमित्तिकं चैव श्राद्धं कुर्यान्मलिम्लुचे । तिथिनक्षत्रवारोक्तं काम्यं नैव कदाचन' । मलमासमृतानां तु मलमासे प्रसाब्दिके प्राप्ते मलमास एव मलमासमृताना शार्षिकम् कार्य न शुद्धे । तदाह भृगुः। 'मलमासमृतानान्तु यच्छाद्धं प्रति- १ अलभ्ययोगे|दयपद्भकादियोगे।

स्मृतिसारोद्धारे। वत्सरम् । मलमासे तु सत्कार्यं नान्येषान्तु कदाचन । तुशब्द एवार्थे । सत्यतपाः । 'वर्षे वर्षे तु यच्छाद्धं मृताहे तन्मलिम्लुचे । कुर्यात्तत्र प्रमीतानामन्येषामितरत्रतु' । वृद्धवसिष्ठः । श्राद्धीयाहनि सम्मा- से अधिमासोभवेद्यदि । मासद्रयेपि कुर्वीत श्राद्धमेवं न दुष्यति' । व्यासः । षष्टिभिर्दिवसैर्मासः कथितो वादरायणः । उत्तरे देवका- याणि पितृकार्याणि चोभयोः । इदं वचनद्वयं मासिकादिश्रा- द्धविषयं, तदुक्तं स्मृतिचन्द्रिकायाम् । 'योगादिकं मासिकं च श्रा- द्धं चापरपक्षिकम् । मन्वादिकं तैर्थिकं च कुर्यान्मासद्रयेपि वा। आपरपक्षिकमाश्विनापरपक्षीयीभन्नं सर्वमासकृष्णपक्षीयम् । 'द्धि- श्राद्धं तथा सोममग्न्याधेयं महालयम् । राजाभिषेकं काम्यञ्च न कुर्याद्भानुलाविते' इति । 'महालयाष्टकाश्राद्धोपाकाद्यपि क- र्म यत् । स्पष्टमासविशेषाख्याविहितंवर्जयेन्मले' इति च भृगुपरि- शिष्टवाक्याभ्यां महालयश्राद्धस्य मलमासे निषेधात् । वसिष्ठः। 'असंक्रान्तेपि कर्त्तव्यमाब्दिकं प्रथमन्द्विजैः । तथैव मासिकं श्राद्धं सपिण्डीकरणं तथा' । सपिण्डीकरणमब्दे पूर्णे यत्क्रियते तदत्र ग्राह्यम्। अथाधिमासे वाणि । परिशिष्टे । 'सोमयागादिकर्माणि नित्यान्यपि मलिम्लुचे । महालयाष्टकाश्राद्धोपाकाद्यपि क- र्म यत् । स्पष्टमासविशेषाख्याविहितं वर्जयेन्मले' । स्पष्टमासे- ति मासविशेषनाना यद्विहितं कर्म वैशाखे कार्यमित्यादिक मलिम्लुचे वर्जयेदित्यर्थः । मनुदृहस्पती । 'अग्नयाधानं प्रतिष्ठाश्च जपदानव्रतानि च । देवव्रतवृषोत्सर्गचूडाकरणमेखलाः । माङ्गल्य- मभिषेकञ्च मलमासे विवर्जयेत्' । वृषोत्सर्गः काम्य एवं नये- कादशे क्रियमाणः । तस्य नैमित्तिकत्वात् । 'बाले वा यदि वारद्धे शुक्रे वास्तङ्गते गुरौ । मलमास इवैतानि वर्जयेद्देवदर्शनम् । देव- षष्ठ उखार: 6. दर्शनमपूर्वं । तदाह गार्यः । 'अपूर्वदेवतां दृष्ट्वा शुचः स्युनष्ट- भार्गवे । मलमासेप्यनावृत्ततीर्थयात्रां विवर्जयेत्' । शातातपः । 'अस्तङ्गते गुरौ शुक्रे क्षीणे बाले मलिम्लुचे । व्रतारम्भापवर्गश्च न कुन्मिौजिवन्धनम् । गार्ग्यः । 'नवान्नप्राशनं चौलं विवाह मौञ्जिवन्धनम् । निष्क्रमं जातकम्माणि काम्यं वृषविसर्जनम् । अस्तङ्गते गुरौ शुक्रे वाले वृद्ध मलिम्लुचे । उद्यापनमुपारम्भं व्र- तानां नैव कारयेत्' । नामेतिखकाले चेदकृतं तन्न कार्यम् । 'ना- मकर्म च जातेष्टिं यथाकालं समाचरेत् । अतीपातेपि कुर्वीत प्र- शस्ते मासि पुण्यदम्' इति गार्यात् । अतीपाते मलमासादौ न पा- पदमित्यर्थः । वसिष्ठः। 'वापीकूपतडागादिप्रतिष्ठां यज्ञकर्म यत् । न कुर्यान्मलमासे ऽपि महादानवतानिच' इति । मरीचिः। 'गृहप्रवे- शगोदानस्थानाश्रममहोत्सवम् । न कुर्यान्मलमासेपि गुरुशुक्रे त- थास्तगे। मात्स्ये । 'आधानयज्ञकर्माणि प्रायश्चित्तव्रतानि च । नकुर्यान्मलमासेऽपि शुक्रगुर्वोरुपप्लवे' । स्मृतिसंग्रहे । 'आरम्भं दर्श पूर्ग ब्योराग्निहोत्रस्य चादिमम् । प्रतिष्ठारामकूपादि मलमासे विवर्जये त्।ज्योतिषे । उद्यानचूडाव्रतवन्धदीक्षाविवाहयात्रा च वधूप्रवेशः। तडागपत्रिदशप्रतिष्ठा वृहस्पती सिंहगते न कुर्यात्' । वायवीये। 'गयायां सर्वकालेषु पिण्डं दद्याद्रिचक्षणः । अधिमासे जन्मदिने अस्ते च गुरुशुक्रयो।न त्यक्तव्यं गयाश्राद्धं सिंहस्थेपि वृहस्पतौ'। नच प्राप्तगयस्यैव श्राद्धमनिषिद्धम्, यात्रैव तु निषिद्धतिवाच्यम् । 'अधिमासे च जन्मङ्के अस्नेच गुरुशुक्रयोः । तीर्थयात्रा न कर्त्तव्या मयागोदावरी विना' इतिवचने गयायात्राया निषेधादिति । अथ मलमासवतम् । प्रतापमार्चण्डे । अधिमासे तु सम्प्राप्ते द्वादशी वाथ पूर्णिमा । व्यतीपातदिने चापि किञ्चिदानं महाफलम् ॥

स्मृतिसारोद्धारे।
सर्वयज्ञेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
तत्फलं समवामोति विष्णुलोके महीयते ॥
तस्योक्तदिवसे दानं विष्णुप्रीत्यै विधीयते ।
आज्यपकं गुडैर्युक्तं त्रयस्त्रिंशदपूपकम् ॥
कांस्यपात्रे विनिःक्षिप्य शक्तितो दक्षिणान्वितम् ।
उपानच्छत्रसंयुक्तं विप्राय विनिवेदयेत् ॥
कलाकाष्ठादिरूपेण यो नित्यं वर्तते हरिः।
गृहाण विमरूपेण तस्मै कालात्मने नमः ॥
यस्य हस्ते गदाचक्रं गरुडो यस्य वाहनम् ।
शङ्खः करतले पद्म स मे विष्णुः प्रसीदतु ॥
अधिमासे तु सम्प्राप्ते वस्त्रादिकमनन्तकम् ।
दानं गृहाण सर्वात्मन्बतसम्पूर्तिसिद्धये ॥
साज्यञ्च गुडसंयुक्तं त्रयस्त्रिंशदपूपकम् ।
प्राणिनां प्रीणनार्थाय तस्मै कालात्मने नमः ।।
कुरुक्षेत्रमिदं क्षेत्रं साक्षाद्विष्णुरयं द्विजः।
समादत्तमिदं सर्वं गृहाण पुरुषोत्तम ॥
अधिमासे तु सम्प्राप्ते पात्रयुक्तं जनाईनम् ।
उद्दिश्यापूपदानेन स मे विष्णुः प्रसीदतु ॥
येनाक्रान्तास्त्रयो लोका दानवाश्च वशीकृताः ।
शरण्यः सर्वभूतानां स मे विष्णुः प्रसीदतु ॥
एतेमन्त्राः । इति पद्मपुराणीयं विधानम् ।
अथ ब्रह्माण्डपुराणीयं उमामहेश्वरयोः सव्वाँदे अप्सरसा
दुर्वाससा दत्तशापानां कथाप्रसङ्गेनैतद्रतकथनम् ॥
'मासेऽधिके सदा देवि स्थाणुः पूज्यः सुरासुरैः।
यैरचितं स्थिरं लिङ्गं चलं वा पृथुलोचने ॥

षष्ठ उद्धारः।
१६५
मलिम्लुचे मदीयं वा मासमेकं परानने ।
वसन्ति ते मम पुरे यावत्कल्पः समाप्यते ॥
अपूज्ये पूजयेद्देवं सर्वकामफलं लभेत् ।
अपूज्ये मलमासे । तत अप्सरसामुपाख्यानम् ॥
इष्टान् कामानवाप्नोति मासं सम्पूज्य शङ्करम् ।
मलिम्लुचे सदा देवि पुत्रपौत्रयुतो भवेत् ॥
लक्ष्मीवानायुरुत्तीर्णः शिवलोके महीयते ॥
अवैधव्यं लभेन्नारी गोसहस्रफलं लभेत् ।
नारी वा पुरुषो वापि कुमारी विधवाथवा ॥
यं यं कामयते कामं तं तं पूरयते नृणाम् ।
तत्र स्थाणुमूत्तौ शिवस्योमासहितस्य पूजा आवाहनाचुपचारैः॥
एकभक्तेन कर्त्तव्यं मासमेकं यतव्रतम् ।
त्रयस्त्रिंशत्प्रदातव्यं वैणवं मृण्मयं च यत् ॥
सोपस्करं फलयुतं नृणां सौभाग्यदं पदम् ।
समाप्ते तु व्रते पूर्णे जागरं पार्वतीपुरः॥
गीततूर्यनिनादैश्च क्षपयेच्छर्वरीमुखम् ।
उद्देष्टारं सपत्नीकं पूजयेद्यत्नतो गुरुम् ॥
प्रतिपच्छुक्लपक्षाच यावत्कृष्णचतुर्दशि ।
एकभक्तेन कर्त्तव्यं पश्चागतसमापनम् ॥
रुद्रयामलेपि । उमाशङ्करपूजनम् । दुर्वासा उवाच ।
श्रूयतां मलमासस्य विधानं कथयामि वः ॥
यस्य श्रषणमात्रेण मुच्यते पापकञ्चुकात् ।
मलमासमनुमाप्य शुक्लपक्षे तथापरे ।
तीर्थे वा यदि वा गेहे व्रतं कार्यं नरोत्तमैः॥
प्रतिपदिवसेऽष्टम्यां पञ्चम्यां वा प्रयत्नतः।

स्मृतिसारोद्धारे।
एकादश्यां च भूतायां चतुर्वर्गफलप्रदम् ।।
सन्ध्यायां नियमं कुर्यादन्तधावनपूर्वकम् ।
मातरुत्थाय मेधावी स्नात्वावश्यकमाचरेत् ॥
तदनुमतिमामेकां सुवर्णस्य शिवाकृतिम् ।
कारयेद्वित्तमानेन स्नापयेच यथाविधि ॥
पञ्चामृतस्ततो वस्त्रयुग्मेन परिवेष्टितम् ।
ताम्रपात्रोपरिन्यस्य स्थापयेत्कलशे सुधीः ॥
जलपूर्णे सरत्ने च पूगीफलसमन्विते ।
भूपिते पुष्पमालाभिः सप्तधान्योपरिस्थिते ।।
तत्र प्रतिष्टां कुर्वीत स्वस्तिवाचनपूर्वकम् ।
चन्दनेन सुगन्धेन पुष्पैः कालोद्भवैस्तथा ॥
धूपदीपैः सनैवेद्यैस्ताम्बूलैश्च फलैः शुभैः ।
अर्चयित्वार्पयेत्तत्र छत्रोपानत्कमण्डलुम् ॥
स्वस्थस्तदनु विमस्य सकाशाच्छृणुयात्कथां ।
अथाचार्य समभ्यर्च्य तस्मै देयं समर्पयेत् ॥
परिच्छदयुतं पश्चागोधूमानं सशकरम् ।
सघृतं भोजयेद्विप्रान् तेभ्यो दद्याच दक्षिणाम् ॥
गृहीत्वा ऽच्छिद्रवाक्यानि ततो भोजनमाचरेत् ।
अक्षारलवणं बालकुटुम्बपरिवेष्टितः ॥
एवं कुर्वन् व्रतं मर्यो मुच्यते पापसञ्चयात् ।
तस्मान्नरैः प्रयत्नेन कर्त्तव्यं पापभीरुभिः ॥
अब्दत्रयाजितं पुण्यमकृतं हन्ति नान्यथा ।
इति श्रीरुद्रयामलस्य मलमासनिर्णयः समाप्तः ।

षष्ठ उद्धार अयोपरागनिर्णयः । उपरागो नाम पर्चपतिपत्सन्धौ राहुणा सूर्याचन्द्रमसोसः । तदुक्तं वृद्धगार्येण । 'पूर्णिमाप्रतिपत्सन्धौ राहुः संपूर्णमण्डलं । ग्रसते चन्द्रमकं च दर्शप्रतिपदन्तरे' । ब्रह्म- सिद्धान्ते । 'यावत्कालः पर्वणोन्ते तावत्पतिपदादितः । रवीन्दु- ग्रहणेऽनेहाः स पुण्यो मिश्रणाद्भवेत् । महानदीषु वान्यासु स्नानं कुर्य्यायथाविधि' । अत्रपान्तिमाभागः स्पर्शकालः, प्र. प्रहणेस्नानविधिः तिपदादिमो भागो मोक्षकाला, एतावन्मिश्रितोऽनेहाः का- लोग्रहणे पुण्यतम इत्यर्थः। वसिष्ठः । इन्दोर्लक्षगुणं पुण्यं खेर्दशगुणं स्मृतम् । गङ्गातोयेतु संप्राप्ते इन्दोः कोटी रवेईशा गवां को टिसहस्त्रस्य सम्यग्दत्तस्य यत्फलम् । गङ्गास्नानं तत्फलं स्याद्राहुग्रस्ते निशाकरे । दिवाकरे पुनस्तद्रद्दशसंख्यमुदाहृतम्' । अत्र गङ्गाश- ब्देन वेणागोदावरीजाह्नव्यस्तिस्रोपि ग्राह्याः, तदाह ब्रह्मपु- राणे । 'तिस्रो नद्यो महापुण्या वेणा गोदा च जाह्नवी । गां हरी- सां(?) गता प्राप्ता गङ्गा इति च कीर्तिता' । गङ्गाद्यभावे 'वापीकू- पतडागेषु गिरिप्रस्रवणेषु च । नयां नदे देवखाते सरसीषूद्धृता- म्बुनि । उष्णोदकेन वा स्नायाद्रहणे चन्द्रमूर्ययो । अत्रोष्णो- दकस्तानमातुरविषयम् । तदाह व्याघ्रः। 'आदित्यकिरणैः पूतं पु- नः पूतं च वह्निना । अतो व्याध्यातुरः स्नायाद् ग्रहणे चन्द्रमूर्य- योः। राहुवै हस्तिरूपेण असते चन्द्रमूर्य्ययोः। राहुस्पर्शे ततः स्ना- वा दानादौ कल्पते नरः । चन्द्रमूर्यग्रहे स्नायात्सूतके मृतकेपि च। अस्नायी मृत्युमामोति स्नायी मृत्युं न विन्दति' । म- हाभारते । सर्वस्वेनापि कर्तव्यं श्राद्धं वै राहुदर्शने । अ- कुणिस्तु नास्तिक्यात्प गौरिव सीदति । व्यासः। 'आ- पद्यनग्नौ तीर्थे च ग्रहणे चन्द्रमूर्ययोः । आमश्राद्धं द्विजो- दद्याच्द्रो दद्यात्सदैव हि । तथा 'अन्नाभाचे द्विजाभावे प्रवासे पु- अहणेश्राद्ध- विधि ।

स्मृत्तिसारोद्धारे। घमन्मनि। हेमश्राद्धं गृहे शूद्र आम कुर्यात्सदैव हि । विष्णुः । 'सं- ध्याराग्योर्न कर्त्तव्यं श्राद्धं खलु विचक्षणैः । तयोरपि च कर्त्तव्यं यदि स्यादाहुदर्शनम् । भूमिर्गावः सुवर्णं च धान्यं वा यद्यदी- प्सितम् । तत्सर्व ग्रहणे देयमात्मनः श्रेय इच्छता' । बौधायनः । 'अश्रोत्रियः श्रोत्रियो वा अपात्रं पात्रमेव वा । सविद्यो वाप्यवि- धोवा ग्रहणे दानमर्हतिव्यासः। 'सर्व गङ्गासमं तोयं सर्वे व्यासस- मा द्विजाः । सर्वं भूमिसमं दानं ग्रहणे चन्द्रसूर्यायोः। अङ्गिराः। 'सर्वे वर्णाः सूतकेपि मृतके राहुदर्शने । स्नात्वा श्राद्धं प्रकुर्वी- रन्नानन्त्याय तदिष्यते । मूतके मृतके चैव न दोषो राहुदर्शने । ता- वदेव भवेच्छुद्धिर्यावन्मुक्तिर्न दृश्यते । व्याघ्रः । 'स्मार्चकर्मपरि त्यागो राहोरन्यत्र सूतके । श्रौतकर्मणि तत्कालस्नानाच्छुद्धिम- वाप्नुयात्' । व्यासः । 'त्रिदशाः स्पर्शसमये तृप्यन्ति पितरस्त- था। मनुष्या मध्यकाले तु मोक्षकाले तु राक्षसाः । अत एते त्र- यः कालाः श्रेष्ठमध्यकनिष्टकाः । तथा । 'ग्रस्यमाने भवेत्स्नानं अस्ते होमो विधीयते । मुच्यमाने भवेदानं मुक्ते स्नानं पुनर्भवेत्' । मार्कण्डेयः । 'चन्द्रे वा यदि वा सूर्ये दृष्टे राही महाग्रहे। अक्षयं कथितं पुण्यं तत्रा तु विशेषतः' । अत्र दृशिश्चाक्षुषज्ञानवचनो न ज्ञानसामान्यमभिधत्ते । तथा सति रात्रौ सूर्यग्रहे दिवा चन्द्रग्रहे च शास्त्रतोऽवगते स्नानादिकं प्रसज्येत । नचेष्टापत्तिः 'सूर्यग्रहो य. दा रात्रौ दिवा चन्द्रग्रहो भवेत् । तत्र स्नानं न कुर्वीत दद्यादानं नच कचित्' इतिषट्त्रिंशन्मतवचनात् । महाभारते । 'अर्वाग्या- मत्रयादिन्दोहणे भुक्तिमाचरेत् । तूर्ययामादधश्चैव रा- मनियम. हुग्रस्ते दिवाकरे' । वृद्धवसिष्ठः। 'सूर्यग्रहे तु नाश्नीयात्पूर्व यामचतुष्टयम् । चन्द्रग्रहे तु यामांस्त्रीन्बालवृद्धातुविना' । मात्स्येविशेषः। 'अपराह्ने न मध्याह्ने मध्याह्ने न तु सङ्गवे । भुञ्जीत प्रहणे भोज- षष्ठ उद्धारः । चेत् सङ्गवे स्यान्न पूर्व भुजिमाचरेत् ॥ अपराह्ने चेदुपरागः स्यान्न मध्याह्ने भुज्जीतेत्यादिरर्थः । इदं बालादिविषयम् । वसिष्ठः-'ग्रहणं तु भवेदिन्दोः प्रथमादधियामतः भुजीतावर्त्तनात्पूर्व पश्चिमे - थमादधः। प्रथमाद्रातिप्रथमयामात् । पश्चिमे रात्रिपश्चिमयामे । प्रथमात रात्रिप्रथमयामात् । मार्कण्डेयः । 'चन्द्रस्य यदि वा भा- नोर्यस्मिन्नहनि भार्गवम् । ग्रहणं तु भवेत्तस्मिस्तत्पूर्व भोजन नरः । नाचरेत्संग्रहं चैव तथैवास्तमुपागते । यावत्स्यानोदयस्त- स्य नाश्नीयात्तावदेव तु । मुक्तिं दृष्ट्वा तु भुञ्जीत स्नानं कृत्वा ततः परम्' । दृष्ट्वेति ज्ञानोपलक्षणम् । विष्णुधर्मोत्तरे । 'अहोरात्रं न भो- क्तव्यं चन्द्रमूर्यग्रहो यदा । मुक्तिं दृष्ट्वातु भोक्तव्यं स्नानं कृत्वा ततः परम् । इदमपि ग्रस्तास्तपरम् । वृद्धगौतमः । 'चन्द्रमूर्यग्रहे नाद्यात्तस्मिन्नहनि पूर्वतः । राहोविमुक्ति विज्ञाय स्नात्वा कुर्वीत भोजनम् । अत्र विज्ञायेति न दृष्ट्वा । तेन मेघाच्छादनेप्युदयं ज्ञात्वा भुञ्जीतेत्यर्थः । प्रतापमार्तण्डे । 'सूयेन्दुग्रहणं यावत्तावत्कुर्या- जपादिकम् । न स्वपेनच भुञ्जीत स्नात्वा भुञ्जीत मुक्तयोः । मु- क्तयोश्च कृतस्नानः पश्चाद्भुङ्ग्यात्स्ववेश्मान' । अनेन परान्नभोजन- निवृत्तिः । 'अस्तोदये विधोः पूर्वं नाह जनमाचरेत् । शाता- सपः । 'नाद्यात्सूर्यग्रहात् पूर्वमह्नि सायं शशिग्रहात् । प्रहकाले च नाश्नीयात् स्नात्वाश्नीयात्तु मुक्तयोः । मुक्ते शशिनि भुञ्जीत यदि न स्यान्महानिशा' । नारदः । 'संक्रान्त्यामुपवासं च कृष्णैकाद- शिवासरे। चन्द्रसूर्यग्रहे चैव न कुर्यात्पुत्रवान् गृही' । तथा । 'चन्द्रमूर्यग्रहे नाद्यादद्यात्स्नात्वा विमुक्तयोः । अमुक्तयोरस्तगयोः १ विशेपोनिगदे-निद्रायां जायते रोगो मूत्रे दारिद्यमाप्नुयात् । पुरीषे कृमियोनिः स्यान्मैथुने ग्रामशूकरः ॥ अभ्यङ्गे च भवेत्कुष्ठी भो- जनेस्यादधोगतिः । वश्चने च भवेत्सो वधे च नरकं व्रजेत् । इति । ૨૨ स्मृतिसारोद्धारे। स्नात्वा दृष्ट्वापरेऽहनि' । विष्णुः । 'चन्द्र सूर्योपरागेतु नाश्नीयाद्दे- विमुक्तयोः । अस्तञ्च गतयोर्भुज्यादृष्ट्वा स्नात्वापरेहनि' । यच्च । 'सायाहूने सङ्गवेनीयात्पराह्ने सङ्गवादधः । मध्याह्ने परतो ऽश्नी- यानोपवासो रविग्रहे। तथा 'मेघमालादिदोषेण यदि मुक्तिर्न दृश्य- ते। आकलय्य ततः कालं स्नात्वा भुञ्जीत वाग्यतः । अत्राकलन- ज्ञानमात्रं नतु चाक्षुषः संग्रहश्च । 'काले यावति शास्त्रतः सुविदि- तोहग्ज्ञानयोग्यापि वा, प्रोक्तः पुण्यकरो ग्रहोथ विफलोदेशान्त- रस्थः सचेत् । समर्थस्य ग्रहणभोजने प्रायश्चित्तमाह कात्यायनः। 'चन्द्रमूर्य- ग्रहे भुक्त्वा प्राजापत्येन शुध्यति । तस्मिन्नेव दिने भुक्त्वा त्रिरात्रे- णैव शुध्यति' । व्यासः। 'मूर्य्यवारे रविनासः सोमवारे विधोर्ग्रहः। चूडामणिरितिख्यातस्तत्रानन्तफलं भवेत् । वारेष्वन्येषु यत्पुण्यं ग्रहणे चन्द्रमूर्ययोः । तत्पुण्यं कोटिगुणितं ग्रहे चूडामणौ भवेत् । अहणे त्वेकरात्राद्युपवासः काम्यस्तदुक्तं गालवेन । 'एकरावमुपो- ध्यैव ग्रहणे चन्द्रमूर्ययोः। कञ्चुकादिव सर्प स्य निवृत्तिः पा- पकोशतः । त्रिरात्रं योापवशेद ग्रहणे चन्द्रमूर्ययोः । स्नात्वा दत्वा च विधिवन्योदते ब्रह्मणासह' इति । अथ यस्य जन्मराशौ जन्म: वोपरागस्तस्य विधिरुच्यते । ज्योतिषे । होरायां गृह्यते यस्य नक्षत्रे वा निशाकरः। प्राणसन्देहमानोति स वा मरणमृच्छति ॥ होरायां लग्नगे। मात्स्ये । यस्य राशिं समासाद्य भवेद्रहणसंभवः ॥ तस्य स्नानं प्रवक्ष्यामि मन्त्रौषधिसमन्वितम् । चन्द्रोपरागे संप्राप्ते कृत्वा ब्राह्मणभोजनम् ॥ संपूज्य चतुरो विमाञ् शुक्लमाल्यानुलेपनैः ।

पष्ठ उद्धारः।
१७१
पूर्वमेवोपरागस्य समानीयौषधादिकम् ॥
स्थापयेचतुरः कुंभानग्रतः सागरानिव ।
गजाश्वरथ्यावल्मीकसङ्गमहदगोकुलातु ॥
राजद्वारप्रदेशाच्च मृदमानीय निक्षिपेत् ।
पञ्चगव्यं पञ्चरत्नं पञ्चत्वक् पञ्चपल्लवम् ॥
रोचनं पद्मकं शॉ कुङ्कुमं रक्तचन्दनम् ।
शुक्तिस्फटिकतीर्थाम्बुसितसर्षपगुग्गुलून् ।
मधुकं देवदारुं च विष्णुकान्तां शतावरीम् ।
बलां च सहदेवीं च निशाद्वितयमेव च ॥
एतत्सर्वं विनिक्षिप्य कुंभेष्वावाहयेत्सुरान् ।
सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ।
आयान्तु यजमानस्य दुरितक्षयकारकाः ॥
योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः ।
सहस्रनयनस्तेऽसौ ग्रहपीडां व्यपोहतु ॥
मुखं यः सर्वदेवानां सप्ताचिरमितद्युतिः ।
चन्द्रोपरागसंभूताममिः पीडां व्यपोहतु ॥
यः कर्मसाक्षी लोकानां धम्मों महिषवाहनः ।
यमश्चन्द्रोपरागोत्थां ग्रहपीडां व्यपोहतु ।।
रक्षोगणाधिपः साक्षान्नीलाञ्जनसमप्रभः ।
खड्गहस्तोऽतिभीमश्च ग्रहपीडां व्यपोहतु ॥
नागपाशधरो देवः सदा मकरवाहनः ।
स जलाधिपतिश्चन्द्रग्रहपीडां व्यपोहतु ॥
योसाविन्दुधरोदेवः पीनाकी वृषवाहनः ।
चन्द्रोपरागपापानि स नाशयतु शङ्करः॥
त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ।
ब्रह्मविष्ण्वकरुद्राश्च दहन्तु मम पातकम् ॥
एवमावाहयेत्कुंभान्मन्त्रैरेतैश्च वारुणैः ।

१७२ स्मृतिसारोद्धारे । एतानेव तथा मन्त्रान्स्वर्णपट्टे विलेखयेत् ।। ताम्रपट्टेऽथवा लेख्यं नववस्त्रे तथैव च । मस्तके यजमानस्य निदध्युस्ते द्विजोत्तमाः ॥ कलशान्द्रव्यसंयुक्तानानारूपसमन्वितान् । गृहीत्वा स्नापयेदगूढं भद्रपीठोपरिस्थितम् ॥ पूर्वोक्तैरेव मन्त्रैश्च यजमानन्द्रिजोत्तमाः। अभिषेकं ततः कुर्युमन्त्रैर्वारुणसूक्तकैः । ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः । आचार्य वरयेत्पश्चात्स्वर्णपट्ट निवेदयेत् । आचार्य दक्षिणान्दद्याद्रगोदानं च स्वशक्तितः ॥ अतऊर्दू ब्रह्मपूजां तदर्धेन विशेषतः । पूजयेद्वस्त्रगोदानैब्राह्मणानाप शक्तितः॥ गन्धमाल्यधूपदीपैः पूजयेदिष्टदेवताम् । होमं चैव प्रकुर्वीत तिलाहृतिभिस्ततः॥ निवृत्ते ग्रहणे सर्व ब्राह्मणेभ्यो विशेषतः ॥ दानं च शक्तितो दद्याद्यदीच्छेदात्मनो हितम् । सूर्यग्रहे सूर्यनामयुक्तान्मन्त्रांश्च कीर्तयेत् ॥ अनेन विधिना यस्तु ग्रहणे स्नानमाचरेत् । न तस्य ग्रहणे दोषः कदाचिदपि जायते ॥ गूढमिति पदणदर्शनं यथा न भवति तथा छत्रादिना व्य- वधानं कुर्यादित्यर्थः । सूर्यसेनीये तु सकृद्रहणं दृष्ट्वा तथा स्थातव्यं यथा न पुनर्ग्रहणदर्शनं सम्भवतीत्यर्थ उक्तः। स च सति वचने रमणीय इति सङ्केपः॥ श्रीविश्वम्भरविहिते स्मृतिसारोद्धारसंज्ञके ग्रन्थे। षष्ठः संक्रान्त्यादि-त्रयनिर्णयनामकोडारः॥ ६॥ इति पूर्वाईम् ॥

अथोत्तरार्द्धम् । श्राद्धभेदाः अथ श्राद्धप्रकरणमाह । तत्र श्राद्धस्वरूपमाह मरीचिः। 'प्रेतं पितरमुद्दिश्य भोज्यं यत्तियमात्मनः। श्रद्धया दीयते किञ्चित्तच्छा- द्धं परिकीर्तितम् । तच्च द्विविधमेकोद्दिष्टं पार्वणञ्चेति।त- कोद्दिष्टस्वरूपमाह कण्वः । 'एकमुद्दिश्य यच्छ्राद्धमेको- द्दिष्टमुदीरितम् । पार्वणस्वरूपमाह स एव । 'त्रीण्युद्दिश्य तु यत्तद्धि पार्वणं मुनयो विदुः पार्वणमपि त्रिविधं नित्यनैमित्तिककाम्यभे- दात् । तत्र नित्यममावास्यादिश्राद्धम् । यदाह विष्णुः । 'अमावा- स्या तिस्रोष्टकास्तिस्रोन्वष्टकाः प्रौष्ठपदे. हेमन्तशिशिरयोरपरपक्षे- घु माघी प्रौष्ठपदी महालयत्रयोदशी ब्रीहियवपाको चेति । एतां- स्तु श्राद्धकालान्वै नित्यानाह प्रजापतिः। श्राद्धमेतेष्वकुर्वाणो- नरकं प्रतिपद्यते । व्याघ्रपादः। 'न निर्वपति यः श्राद्धं प्रमीत- पितृको द्विजः । इन्दुक्षये मासि मासि प्रायश्चित्तीयते हि स । त- था । 'अमावास्याव्यतीपातपौर्णमास्यष्टकामु च । द्विजः श्राद्धम- कुर्वाणः प्रायश्चित्तं किलाहति । एकोदिष्टं तु नित्यमेव, तदाह कात्यायनः । 'मृताहेऽहरहर्दशैं श्राद्धं यच्च महालये । तन्नित्यमुदी- रितं सद्भिनित्यवत्तद्विधानतः । नैमित्तिकमाह गालवः । 'प्रेतश्राद्धं सपिण्डान्तं संक्रान्तिग्रहणेषु च । सव्वत्सरोदकुम्भश्च वृद्धिश्राद्धं निमित्ततः । काम्यमाह स एव । 'तिथ्यादिषु च यच्छ्राद्धं मन्वा- दिषु युगादिषु । अलभ्येषु च योगेषु तत्काम्यं समुदाहृतम् । केचित्पञ्चविधं श्राद्धमाहुः केपि द्वादशविधम् । तत्र सर्वेषां भे- दानां त्रिष्वेवान्तर्भावान तानि अपश्चितानि ॥

१७४ स्मृतिसारोद्धारे। श्राद्धकाला अथ श्राद्धकालानाह याज्ञवल्क्यः । 'अमावास्याष्टका वृ- द्धिः कृष्णपक्षोऽयनद्वयम्। द्रव्यं ब्राह्मणसम्पत्तिर्वि- पुवत्सूर्यसंक्रमः । व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः । श्राद्धं प्रति रुचिश्चैव श्राद्धकालाः प्रकी- तिताः । अत्र मार्गादिपञ्चमासकृष्णाष्टम्योऽष्टकाः । तदुक्तं कालादर्शे । 'मार्गशीर्ष च पौषे च माघे पौष्ठे च फाल्गुने । कृष्ण- पक्षेषु पूर्बेधुरष्टकान्वष्टकापरा' । ननु तिस्रोष्टका इति विष्णु- सूत्रविरोध इति चेत्सत्यम् । विष्णुसूत्रं हि मार्गपौषयोहेमन्तत्वेन माधफाल्गुनयोः शिशिरत्वेनैकत्वात्संग्रहेणोक्तम् 'तिस्रोष्टका इ- ति । तेन हेमन्ताष्टका शिशिराष्टका भाद्राष्टका चेति संगृह्य ति- स्रोष्टकाः, त्रित्वसंख्याया अभिधाने किं कारणमिति चेत् । इदन्तु देवताविशेषे द्रव्यविशेषे च त्रित्वाभिधानमेवाष्टकायास्त्रित्वाभि- धाने कारणं, तदुक्तं वायुपुराणे । 'पित्र्यदानाय मूलं स्युरष्टकाम्- तिस्र एव च । कृष्णपक्षे वरिष्ठा हि पूर्वा चैन्द्रीति भाष्यते । प्रा- जापत्त्या द्वितीया हि तृतीया वैश्वदेवकी । आद्या पूपैः सदा कार्या मांसैरन्या भवेत्तथा । शाकैः कार्या तृतीया स्यादेष द्र- व्यगतो विधिः' । पूर्वा मार्गपौषयोरष्टमी । द्वितीया माधफा- ल्गुनयोः । तृतीयाभाद्रस्येत्यर्थः । आद्या हेमन्ताष्टमी, अन्या शि- शिराष्टमी । तृतीया वर्षाष्टमीति त्रित्वसंख्या नानुपपन्ना । आ- श्वलायनस्तु चतस्रोऽष्टका आह । हेमन्तशिशिरयोश्चतुर्णामपरप- क्षाणां अष्टमीष्वष्टका' इति । गजच्छाया तु । 'यदेन्दुः पितृदेवत्ये हंसे चैव करस्थिते । त्रयोदशी गजच्छाया श्राद्धे पुण्यैरवाप्यते ॥ अत्र प्रासङ्गिकाः श्राद्धप्रदेशा उच्यन्ते । विष्णुधर्मोत्त- रे। 'दक्षिणप्रवणे देशे तीर्थादौ वा गृहेपि वा । भूसंस्का- १ भूसंस्कारो याज्ञवल्क्येनोक्तः । भूशुद्धिर्मार्जनाहाहात् फाला- दोक्रमणात्तथा। सेकादुल्लेखनाल्लेपाद् गृहे मार्जनलेपनातू' इति । : আমা:

सप्तम उद्धारः। रादिसंयुक्ते श्राद्धं कुर्यात्प्रयत्नतः" । परकीयगृहनिषेधमाह य- मः । 'परकीयप्रदेशे तु पितॄणां निज़पेत्तु यः । तद्भूमिस्वामि- पितृभिः श्राद्धकर्म विहन्यते । परकीयप्रदेशाः परस्वीकृत]- हाः। तीर्थाद्यभावे गृहस्वामिपितृभ्योऽग्रभागं जीवते च गृहस्वा- मिने किञ्चिन्निष्क्रयरूपं दद्यात् । तदाह यमः । 'अग्रभागं तत. स्तेभ्यो दद्यान्मूल्यं च जीवताम् । तीर्थादिषु भूस्वामिदानाभा- वः । तदुक्तं पुराणसमुच्चये । 'अटवी पर्वताः पुण्या नदीतीराणि यानि च । सर्वाण्यस्वामिकान्याहुर्नहि तेषु परिग्रहः । तथा । वनानि गिरयो नद्यस्तीर्थान्यायतनानि च । देवखातं च गर्तश्च न स्वा- मी तेषु विद्यते' । क्षयाहे चान्द्रो मासो ग्राह्यः । 'आब्दिके पितृ- कार्ये च मासश्चान्द्रसमःस्मृत' इति वचनात् । यत्तु । 'यस्मिन् राशौ गते सूर्ये विपत्तिं याति मानवः । तद्राशावेव कर्त्तव्यं पितृ- कार्य मृतेहनीति, तदधिमासमृतविषयम् । 'अधिमासमृतानां तु सौरं मानं समाश्रयेत् । स एव दिवसस्तस्य श्राद्धपिण्डो- दकादिषु' इति वचनादिति ॥ अथ श्राद्धक नियमाः । मरीचिः। 'श्राद्धीयाहे दशम्यां च द्वादश्यां व्रतवासरे । एकादश्यां व्यतीपाते तैलं मांसं विव- जयेत् । गोभिलः । 'स्वः कर्त्तास्मीति निश्चित्य दाता विप्रान्नि- मन्त्रयेत् । निरामिषं सकृद्भोक्ता सर्वभुक्तजन गृहे । स्मृत्यर्थसा- रे । 'पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् । दानं प्रतिग्रहं होम श्राद्धकृत्त्वष्ट वर्जयेत् । दन्तधावनताम्बूले स्निग्धस्नानमभोज- नम् । रत्यौषधपरान्नं च श्राद्धकृत्मप्त वर्जयेत्' । अथ क्रमपरिमाप्तमेकोदिष्टन्निरूप्यते । तस्य मृताहकार्यत्वात्तत्स्व- रूपमाह सूर्यसेनीये। 'मासपक्षतिथिस्पृष्टे यस्मिन्यो म्रिय- तेऽहनि। प्रत्यब्दन्तु तथाभूतं मृताहं तस्य तं विदुः। क्षयाह- एकोदिष्टनिर्णय स्मृतिसारोद्धारे। तिथिरपराह्वव्यापिनी ग्राह्या, दिनद्वयेप्यपराह्नव्यापित्वेऽधिकापरा- हव्यापिनी ग्राह्या । उभयत्रापराव्यापित्वे तु पूर्वैव सायङ्काल- व्यापिनी ग्राह्या । अत्र वाक्यानि । 'अपराह्नः पितॄणां वै याप- राणानुयायिनी । सा ग्राह्या पितृकृत्येषु न पूर्वाह्नानुयायिनी' । मरीचिः। 'झपराह्नव्यापिनी स्यादाब्दिकस्य यदा तिथिः । महती तत्र तद्विद्धां प्रशंसन्ति महर्षयः । साम्येन व्याप्तौ खादिवाक्या- निर्णयः । नारदः । 'दर्श च पौर्णमासं च पितुः सांवत्सरं दिनम् । पूर्वविद्धमकुर्वाणो नरकं प्रतिपद्यते' । उभयत्रापरा- इस्पर्शाभावे नरकं ब्रजेत् । इदं द्वितीयदिनेऽपराह्नव्यापित्वे सति पूर्वदिने सायाने न कार्यमित्येवं परम् । व्यासः । 'अ- इनोस्तमयवेलायां कलामात्रापि या तिथिः । सैव प्रत्याब्दिके ग्राह्या नेतरा पुत्रहानिदा' । इदं कैमुतिकन्यायेन कलामात्रापि ग्राह्या किमुत त्रिमुहूर्त्तात्मकसायङ्कालव्यापिनीत्येवं परम् । सा- यं त्रिमुहूर्त्तव्यापित्वाभावे परैव कुतुपव्यापिनी ग्राह्या । तदाह गोभिलः । 'त्रिमुहूर्त्ता न चेद्राह्या परैव कुतुपे हि सा । ननु 'प्रा- रभ्य कुतुपे श्राद्धं कुर्यादारौहिणं बुध' इत्यसङ्गतं सायङ्काली- नतिथेाद्यत्वादिति चेत्सत्यम् । 'सा तिथिस्तदहो रावं यस्याम- स्तमियाद्रविः । यत्रास्तं सविता याति पितरस्तामुपासत' इत्या- दिवाक्यैरस्तगामितिथेः सम्पूर्णत्वविधानात्कुतुप एवारभ्य श्राद्धं कार्य्य मिति । तच्च क्षयाहश्राद्धं पित्रोरेकोद्दिष्टं पार्वणं वा यथादेशाचारं कुर्यात् । उभयविधायकवाक्यबलात् । वा- क्यानि च यथाह यमः। 'सपिण्डीकरणा दूर्द्ध प्रति संवत्सरं सुतैः । मातापित्रोः पृथक्कार्यमेकोद्दिष्टं मृतेऽहनि' ॥शातातपः-'सपिण्डीक- रणं कृत्वा कुर्यात्पार्वणवत्सदा । प्रतिसव्वत्सरं श्राद्धं छागले- १ रौहिणो नवमोमुहूर्तः।

सप्तम उद्धारः। योदितो विधिः । अत्र विज्ञानेश्वरस्वामिना ब्रीहियवद्विकल्प इत्युक्तम् । शङ्खः । 'अमावास्यां क्षयो यस्य प्रेतपक्षेऽथवा पुनः । पार्वणं तस्य कर्त्तव्यं नैकोद्दिष्टं कदाचन प्रचेताः 'दण्डग्रहणमात्रेण नैव प्रेतोभवेद्यतिः । अतः सुतेन कर्त्तव्य पार्वणं तस्य सर्वदा' । तथा 'साग्निकस्य मुतैः कार्य पार्वणं प्रतिवत्सरम् । निर- ग्निकसुतैः कार्यमेकोद्दिष्टं न पार्वणम्' ॥ तथा 'औरस: क्षेत्रजश्चैव कुर्यात् पार्वणमेवतु । प्रत्यब्दमितरे कुर्युरेको- द्दिष्टं सुता दश' इत्यादिवचनेषु सत्स्वापि मिताक्षराका- रेण ब्रीहियववद्विकल्पः कथ मुक्त इति न बुध्याम- हे, क्षयाहे पार्वणविधायकवचनानां साग्निकपरतया यति- परतया अमावास्याप्रेतपक्षान्यतरमृतपरतया वा संकोचयि- तुं शक्यत्वादित्यस्मादृक्षाणामुत्प्रेक्षा । शातातपः 'अनाद्य- गर्भज्येष्ठोऽपि भ्राता सद्भिनिगद्यते । कृते सपिण्डने तस्य नैव पार्वणमाचरेतू' । अनाधगर्भेत्यभिधानादाद्यगर्भज्येष्ठस्य भ्रातुः पितृवदेव पार्वणमेकोद्दिष्टं वा यथाखकुलाचारं कुर्य्या- दित्यवगम्यत इति निर्णयामृतकृतः । सुमन्तुः । 'यश्च मन्त्रपदा- ता स्याद्यश्च विद्यां पूयच्छति । गुरू तावपि कुर्वीत तयोर्नैव तु पार्वणम्' । वृद्धगार्ग्यः । ‘मातुः सहोदरो यश्च पितुः सहभवश्च यः । तयोश्चैव न कुर्वीत पार्वणं पिण्डनाइते । वृद्धवसिष्ठः। 'स- पिण्डीकरणादृर्द्ध यत्र यत्र पूदीयते । भ्रात्रे भगिन्यै पुत्राय खा- मिने मातुलाय च । मित्राय गुरवे श्राद्धमेकोद्दिष्टं न पार्वणम् । लौगाक्षिः । 'सर्वाभावे स्वयं पत्न्यः स्खभर्तृणाममन्त्रकम् । स- पिण्डीकरणं कुर्युस्ततः पार्वणमेव च । मुमन्तुः । 'यत्र पुत्रः स्थितः कर्त्ता न भवेद्धर्मकर्माणि । तत्र पन्यपि कुर्वीत सापिण्ड्यं पार्वणं तथा' । अपुत्राणां पत्नीव्यतिरिक्त कर्तरि एकोद्दिष्टमेव । २३ स्मृतिसारोद्धारे। विशेष 'अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्च ये । तेषां सपिण्ड- नामावादेकोदिष्टं न पार्वणम्' इति वचनात् । स्त्रीणां विशेषमाह जातूकर्म्यः । 'क्षयाहं वर्जयित्वैकं स्त्रीणां नास्ति पृथक्रिया । केचिदिच्छन्ति नारीणामन्यत्रापि महर्षय:' । अन्यत्र अन्वष्टका- दिषु । तदुक्तम् । 'अन्वष्टकान्तथा वृद्धि मातुः श्राद्धं मृतेऽहनि । एकोदिष्टं तथा त्यक्त्वा स्त्रीणां नान्यत्पृथग्भवेत्' इति । शातातपः। 'नान्दीमुखेन्वष्टकायां गयायां च मृतेहनि । पितामह्यादिभिः सार्द्ध मातुःश्राद्धं समाचरेत् । कार्णाजिनिः । 'अन्वष्टकायां - द्धौ च गयायां च मृतेहनि । मातुः श्राद्धं पृथक्कुर्यादन्यत्र प- तिना सह' । मातुरिति स्त्रीणामुपलक्षणम् । अन्वारोहणमृतायां विशे- अन्वारोहणे पमाह लौगाक्षिः। 'मृताहनि समासेन पिण्डनिर्वपणं पृथक् । नवश्राद्धं तु दम्पत्योरन्वारोहण एव तु । समासेन पिण्ड- निर्वपणं द्विपितृकश्राद्धवत् द्वयोरुद्देशेनैक एव पिण्डो देयः, नव- श्राद्धं तु पृथग्भवतीत्यर्थः, मृताहनीति विशेषोपादानात् तिथिभेदे तु पृथमेव श्राद्धं न समासेनेति गम्यते । किं च नवश्राद्धं पृथ- गिति परिसंख्यया नवश्राद्धस्यैव पृथग्विधानानवश्राद्धव्यति- रिक्तेषु षोडशश्राद्धादिषु सावत्सरिकवदेव समासेनैव वि- धानं बोध्यम्, सूर्यसेनीयादिस्वरखोप्येवम् । यत्तु वचनं 'एक- चित्यां समारूढौ दम्पती निधनं गतौ । पृथक् श्राद्धं तयोः कुर्य्या- दोदनं च पृथक् पृथक्' इति । तन्नवश्राद्धविषयम् । अत्रौदनग्रहणे- न नाश्राद्धस्य पकानकाय॑त्वमायाति । अङ्गिराः । 'नवश्रा- द्धेषु यच्छिष्टं गृहे पर्युषितं च यत् । दम्पत्योर्मुक्तशिष्टं च तन्न मुश्रीत कहिचित् । इदन्तुध्येयम् । एकस्मिन्नेव दिने पूर्वभागे भhमरणे परभागे पल्या अनुमरणोप समासेनैव पिण्डदानादि कार्यम् । भिन्नमरणरूपनिमित्तापेक्षया तिथ्येकत्वादिनिमि- सप्तम उद्धारः। निर्णय चानामेव न्याय्यत्वात् । लाघवात् भर्तुमरणदिनप्रभृत्त्येव दि- नगणनां कृत्वा तिलोदकपिण्डदानाशौचादि कर्त्तव्यम् । यत्यु- नर्भृगुवचनम् । 'या समारोहणं कुर्याद्भर्तृश्चित्यां पतिव्रता । तां मृताहनि सम्प्राप्ते पृथक् पिण्डे नियोजयेत् । प्रत्यब्दं तु नवश्राद्धं युगपन्न समापयेत्' इति । तदपि भर्तृमृताहतिथिव्यतिरिक्तायां तिथी चित्यारोहणविषयम् । संघातमृतानां विशेषमाह भृगुः । 'एककाले युगपन्मरणे गतामूनां बहूनामथवा द्वयोः। तन्त्रेण श्रपणं कुर्याच्छ्राद्धं विशेषः चैव पृथक् पृथक् । ऋष्यशृङ्गः । 'भवेद्यदि सपिण्डा- नां युगपन्मरणं तदा । सम्बन्धासत्तिमालोच्य तत्क्रमाच्छाद्धमा- चरेत् । तथा 'कृत्त्वा पूर्वमृतस्यादौ द्वितीयस्य ततः पुनः। तृती- यस्य ततः कुर्यात्सन्निपाते त्वयं क्रमः । पित्रोविशेपमाह काणा- जिनिः । पित्रोः श्राद्धे समं प्राप्ते नवे पर्युपितेऽपि वा। श्राद्धमम्पाते पितृपूर्व सुतः कुर्यादन्यवासति योगतः । ननु 'नकः श्राद्वयं कुर्यात्समानेहनि कुत्रचित्' इतिप्रचेतसा निषिद्धमिति चेन्न । देवताभेदे निमित्तभेदे चैकस्यानेकश्राद्धविधानात् । तदाह जावालिः । 'श्राद्धं कृत्वा तु तस्यैव पुनः श्राद्धं न तद्दिने । नैमि त्तिकं तु कर्त्तव्यं निमित्तानुक्रमोदयम् । श्राद्धं कृत्वा पुनः श्राद्धं न कुर्यादेकवासरे । यदि नैमित्तिकं न स्यादेकोदेशं भवेद्यदि' । कात्यायनः । 'टे बहूनि निमित्तानि जायेरनेकवासरे । नैमि- त्तिकानि कार्याणि निमित्तोत्पत्त्यनुक्रमात्' । कालादर्श तु वि- शेषः । नित्यदार्शिकयोश्चोदकुम्भमासिकयोराप । दार्शिकस्य यु- गादेश्च दार्शिकालभ्ययोगयोः । दार्शिकस्य च मन्वादेः संपाते श्रा- दकर्मणः । प्रसङ्गादितरस्यापि सिद्धेरुत्तरमाचरेत् । दर्शश्राद्धे- नैव नित्यश्राद्धसिद्धिरित्यादिरर्थः । नियतानियतनिमित्तकलेपि देवताभेदेन श्राद्धद्वयं कार्यम् । तदुक्तं कालादर्श एव । 'नि- स्मृतिसारोद्धारे। त्यस्य चोदकुम्भस्य नित्यमासिकयोरपि । दर्शस्य चोदकु- म्भस्य दर्शमासिकयोरपि । नित्यस्य चाब्दिकस्यापि दा. शिकाब्दिकयोरपि । युगाद्याब्दिकयोश्चापि मघाद्याब्दिकयोर- पि । प्रत्याब्दिकेषु चालभ्ययोगेषु विहितस्य च । सम्पाते देव- ताभेदाच्छ्राद्धयुग्मं समाचरेत् । अत्र नित्यदार्शिकयोः षड्देव- ताकत्वान्मासिकोदकुम्भयोरेकोद्दिष्टत्वाद्देवताभेदतया युगादिमन्वा- घलभ्ययोगनिमित्तश्राद्धानां षड्दैवतत्वादाब्दिकस्य विदैवतत्वा- हा देवताभेद इति । तथा । 'निमित्तानि यतश्चात्र पूर्वानुष्ठान- कारणम्' । अनियतनिमित्तं उदकुम्भमासिकाब्दिकादिकं प्रथम कार्यम् । नित्यदार्शिकादिनियतनिमित्तं पश्चादिति तात्पर्य्यम् । पार्वणैकोद्दिष्टयोरेकाहकार्यत्वे पार्वणं कृत्वैकोद्दिष्टं कुर्यात् । त- दाह जाबालिः । 'योकत्र भवेयातामेकोदिष्टं च पार्वणं-पार्वणं त्वभिनिवर्त्य एकोद्दिष्टं समाचरेत् श्राद्धविन्ने विशेषमाह मरीचिः। श्राद्धविध्ने 'श्राद्धविन्ने समुत्पन्नेप्यविज्ञाते मृताहनि । कुर्यादन्नेन कृ- निर्णयः ष्णायामेकादश्यां विधुक्षये' । आशौचरूपे श्राद्धविघ्ने विशेषमाह ऋष्यशृङ्गः। 'आब्दिके चैव संप्राप्ते आशौचं जायते य. दि । आशौचे तु व्यतिक्रान्ते तत्र श्राद्धं विधीयते । आशौचा- न्तदिनेपि करणासम्भत्रे त्वाह गोभिलः । 'देये प्रत्याब्दिकं श्राद्ध त्वन्तरा मृतस्तके । आशौचानन्तरं कुर्यात्तन्मासेन्दुक्षयेपि च । सूर्यसेनीये तु-अशौचान्तेपि क्षयाहतिथिसजातीयतिथावेव का- र्यम् । 'तदहश्चेत्प्रमुच्येत केनचित्स्तकादिना । सूतकानन्तरं कु- उत्पुनस्तदहरेवच' इति वचनादित्युक्तम् । अत्र सूतकपदं श्राद्ध- विघ्नोपलक्षणम् । यदिपुनः पत्न्येव की रजस्वला भवति तदा पञ्चमेऽहनि श्राद्धं कुर्यात् । तदाह गौतमः। 'अपुत्रा तु यदा भार्या संप्राप्ते भर्तृराब्दिके । रजस्वला भवेत्सातु कुर्यात्तत्पञ्चमेहनि'।

सप्तम उद्धारः। आमश्राद्ध- तथा । 'आब्दिके समनुप्राप्ते यस्य भार्या रजस्वला। पञ्चमेहनि त- च्छ्राद्धं न कुर्यात्तन्मृताहनि। आर्त्तवे देशकालानां विप्लवे निर्णयः समुपस्थिते।आमश्राद्धं द्विजैः कार्य शूद्रैः कार्यं सदैवहि' इति व्याघ्रपदवचनम् । 'आपधनग्नौ तीर्थे च प्रवासे पुत्रज- न्मान । आमश्राद्धं प्रकुर्वीत यस्यभार्या रजस्वला' इति च कात्या- यनवचनं पुत्रादिकर्तृकमृताहव्यतिरिक्तश्राद्धविपयम् । यदाह लौ- गाक्षिः। 'पुष्पवत्स्वपि दारेषु विदेशस्थोप्यनग्निकः। अन्नेनैवाब्दि कं कुर्याद्धेना वामेन न कचित्' । अन्नेन पक्केन । मरीचिः। 'अनग्निकः प्रवासी च यस्य भार्या रजस्वला । आमश्राद्धं कु- तिन तत्कुर्यान मृताहनि' । कार्णाजिनिः। 'आपन्नोऽप्याब्दिकं नैव कुर्यादामेन कुत्रचित् । अन्नेन तदमायान्तु कृष्णे वा हरिवास- रे। पूतापमार्तण्डे । विदेशगोवा विगताग्निको वा रजस्वलायामपि धर्मपत्न्याम् । श्राद्धं मृताहे विदधीत पाकैर्नामेन हेन्ना न च पञ्च- मेह्नि' । हेमाद्रिस्तु-अधिकारिभार्यान्तररहितेन धर्मपत्न्यां च रजस्वलायाम् पञ्चमेनि श्राद्धं कर्त्तव्यं न तु मृताहे । भार्यान्त- रयुक्तेन च मृताह एव कर्त्तव्यमितिविशेपमाहेति । सुमन्तुः । 'पा- काभावेऽधिकारः स्याद्विपादीनां नराधिप । आपत्तिषु महाबाहो विदेशगमनादिभिः । सर्वदैव तु शूद्राणामामश्राद्धं विदुर्बुधा' । पूचेताः । 'स्त्रीशूद्रः स्वपचश्चैव जातकर्माणि चाप्यथ । आमश्राद्धं सदा कुर्याद्विधिना पार्वणेन तु' । स्वयम्पचतीति स्वपचः अप- नीक इत्यर्थ इति रामकृष्णः। तथा । 'अपत्नीकः पूवासी च यस्य भार्या रजस्वला। आमश्राद्धन्द्रिजो दद्याच्छूद्रो दद्यात् सदैव हि' तथा। 'श्राद्धविघ्ने द्विजातीनामामश्राद्धं पूकीर्तितम् । अमावास्या- दिनियतं माससंवत्सराहते' । व्यासः । 'सिद्धान्ने तु विधिर्यः स्यादामश्राद्धेऽप्ययं विधिः । आवाहनादि सर्व स्यात्पिण्डदानं च ।

स्मृतिसारोद्धारे। भारत । यद्ददाति द्विजातिभ्यः शृतं चाप्यथ वाशृतम् । तेनानी करणं कुर्यात्पिण्डांस्तेनैव निर्वपेत् । आमश्राद्धे पक्कान्नस्थाने आ- मान्नमात्रं विशेषः । विधिः सर्वोपि स एवेत्यर्थः । षत्रिंशन्मते तु पिण्डदाने विशेषमाह । 'आमश्राद्धं यदा कुर्य्यात्पिण्डदानं कथं भ- वेत्' । उत्तरं 'गृहपाकात्समुद्धृत्य सक्तुभिः पायसेन तु' । व्या- सः । 'आमं ददद्धि कौन्तये दद्यादाम चतुर्गुणम्' । चतुर्गु- णत्वं पुरुषाहारापेक्षया । तथा । 'आमश्राद्धं तु पूर्वाह्ने सिद्धान्नेन तु मध्यतः । पार्वणं चापराह्ने तु वृद्धिश्राद्धन्तथाग्निकम्' । मध्यत इत्येकोदिष्टविषयम् । आग्निकम् अग्न्याधाननिमित्तम् । मध्य इति व्यवहितेनान्वयः । शूद्रकर्तृके विशेषमाह । 'मध्याह्वात्परतो यस्तु कुतपः समुदाहृतः । आममात्रेण तत्रैव पितॄणां दत्तमक्षयम्' । एतदामश्राद्धं शूद्रस्य नित्यं तस्य पकानेन ब्राह्मणभोजननिषेधात् । यदाह सुमन्तुः। 'न पकं भोजयेद्विप्रान्सच्छूद्रोपि कदाचन । भोजयन् प्रत्यवायी स्यान्नच तस्य फलं लभेत्' इसामश्राद्धनिर्णयः समासः ।। क्षयदिनाज्ञाने प्रकारमाह वृहस्पतिः। न ज्ञायेत मृताहश्चत्प्रोषिते सं- स्थिते सति । मासश्चेत्पतिविज्ञातस्तदर्श स्यात्तदाब्दिकम् । कदावार्षिकम् मरीचिः । 'श्राद्धविघ्ने समुत्पन्ने चाविज्ञाते मृतेहनि । एकादश्यां तु कर्त्तव्यं कृष्णपक्षे विशेषतः' । दिनज्ञाने मासाज्ञाने प्याह वृहस्पतिः । 'यदा मासो न विज्ञातो विज्ञातं दिनमेव तु । तदा चाषाढके मासि माघे वा तदिनं भवेत्' । माघाषाढयोरास- च्या कल्पनम् । उभयापरिज्ञाने स एव 'दिनमासावविज्ञातौ मरण- स्य यदा पुनः । प्रस्थानमासदिवसौ ग्राह्यौ पूर्वोक्तया दिशा' । पू- वोक्तयेति मरणमासाद्यज्ञानवकल्पनेत्यर्थः । यदा मरणप्रस्थान- दिनाज्ञान तथा मृतवार्त्ताश्रवणदिने तत्राप्यसम्भवे श्रवणमासा- मावास्यायां वा कुर्यात् । तदुक्तं प्रचेतसा । 'अपरिज्ञाने अमावा- क्षयाहाज्ञाने सप्तम उद्धारः। স্বাহী प्रकारः स्यायां श्रवणदिने चेति । मृताहे द्रव्याद्यभावेन श्राद्धाकरणे प्रकारो निर्णयामृते प्रोक्तः । 'पिण्डमात्रं प्रकर्त्तव्य- मभावे द्रव्यविप्रयोः । श्राद्धाहनि तु संप्राप्ते भवेन्नि- रशनोपि वा' । पात्राभावे तु विशेषः । 'पात्राभावे परं कृत्वा पितृयज्ञविधि नरः । निर्दिश्याप्यन्नमुद्धृत्त्य यत्र पात्रं ततोनयेत्' इति । पितृयज्ञविधि श्राद्धम् । अन्यच्च । 'सर्वाभावे क्षिपे- दग्नौ गवे दद्यात्तथाप्नु वा । नतु प्राप्तस्य लोपो ऽस्ति पैतृक- स्य विशेषतः । सर्वस्व द्रव्यपात्रादेरभावे । अतिदरिद्रस्य विशेष माह वृद्धवसिष्ठः । 'अग्निना वा दहेकक्षं श्राद्धकाले समागते । तस्मिन् वोपवसेदनि जपेद्रा श्राद्धसंहिताम् । कक्षं तृणसमूहम् । वैष्णवे । 'सर्वाभावे वनं गत्वा कक्षामूलप्रदर्शकः । सूर्यादिलो- कपालानामिदमुच्चैः पठिष्यति । नमेऽस्ति वित्तं न धनं न चा- न्यच्छ्राद्धोपयोगि स्वपितॄन्नतोस्मि । तृप्यन्तु भक्त्या पितरो मयैतौ भुजौ कृती वमनि मारुतस्य । इत्येतत्पितृभिर्गीतं भावाभावप्र- योजकम् । यः करोति कृतन्तेन श्राद्धं भवति पार्थिव' इति ॥ अथ पार्वणनिर्णयः । पार्वणं यद्यप्येकोद्दिष्टप्रकृतितया पूर्वमेव निर्णतुमुचितम् । तथापि लाघवेन पूर्वोद्दिष्टतयैकोद्दिष्टमेव प्रथमं निरणायि । तत्र प्रथम दर्शश्राद्धनिर्णयः । व्याघ्रपादः 'न निर्वपति यः श्राद्धं प्रमीतपितृको द्विजः । इन्दुक्षये मासि निर्णयः मासि प्रायश्चित्तीयते हि सः। अमावास्याव्यतीपातपौर्ण- मास्यष्टकासु च । द्विजः श्राद्धमकुर्वाणः प्रायश्चित्तं किलाहति । अमावास्या द्विविधा सिनीवाली कुहूश्चेति । तत्र भूतविद्धामावास्या चन्द्रदर्शनसम्भवात् सिनीवालीत्युच्यते । नष्टचन्द्रा कुहूः स्मृते- ति । इयं च सर्वाप्यपराह्नव्यापिनी ग्राह्या । 'पूर्वाह्नो वै देवानां मध्यन्दिनो मनुष्याणामपराह्नः पितॄणामिति श्रुतेः । स्मृतिर- दर्शश्राद्ध- स्मृतिसारोद्धारे। वै पि । 'पूर्वाह्ने वैदिकं कार्यमपराह्ने तु पैतृकम् । एकोद्दिष्टं तु मध्याह्ने प्रांतर्दृद्धिनिमित्तकम्' । हारीतः । 'अपराह्नः पितॄणां यापराबणानुयायिनी । सा ग्राह्या पितृकृत्येषु न पूर्वाणानुया- यिनी' । स्मृत्यन्तरे । 'द्विगुणाह्यात्मनश्छाया दर्शे स्यादापराङ्- णिकी । गजच्छाया हि सा प्रोक्ता पितॄणां तृप्तिकारिणी' । भार- द्वाजः । 'वनस्पतिगते सोमे याच्छाया पूर्वतो मुखी । गजच्छाया हि सा तत्र पितॄणां दत्तमक्षयम् । चन्द्रस्त्वमावास्यायाश्चतुर्थे भागे वनस्पतिगतो भवति । तथा च स्मृतिः। 'त्रिमुहूर्त वसेदक्के त्रिमुहूर्त जले वसेत् । त्रिमुहूर्त वसेद् गोपु त्रिमुहूर्त वनस्पताविति । का- जिनिः । 'भूतविद्धाममावास्यां मोहादज्ञानतोपि वा । श्राद्ध- कर्माणि ये कुर्युस्तेषामायुः प्रहीयते । इदं भूतविद्धायां श्राद्धनि- षेधकं वचनं प्रतिपद्विद्धाया अपराहणव्यापित्वे सति बोध्यं, तदभावे भूतविद्धाया विधानात् । तदाहजाबालिः । 'प्रतिपद्यप्यमावास्या नापराङ्गगता भवेत् । भूतविद्धैव सा ग्राह्या पित्र्ये कमीण सर्व- दा। तथा 'प्रतिपद्यप्यमावास्या पूर्वाहणव्यापिनी यदि । भूतवि- दैव सा ग्राह्या पितृकार्येषु सर्वदा' । पूर्वाहणव्यापिन्येव नाप- राहव्यापिनीत्यर्थः । उभयत्रापरालव्यापित्वाभावे च परैव कुत- पव्यापिनी ग्राह्या, तदुक्तं हारीतेन । 'भूतविद्धाप्यमावास्या प्रतिप- मिश्रितापि वा । पित्र्ये कर्मणि विद्वद्भिग्राह्या कुतपकालिकी' । अत्र कुतपशब्देन रौहिणविरश्चावपि गृह्यते । तदाहापस्तम्बः । 'कुतपाद्यान्मुहूर्तास्त्रीन्यदा चरति भास्करः । स कालः कुतप- स्तत्र पितॄणां दत्तमक्षयम् । अत्र कुतुपारब्धस्य श्राद्धस्य प्रतिप- द्भागे समाप्तौ न दोषः । यदाह जाबालिः 'पूर्वाह्ने चेदमावास्या १ अत्र प्रातश्शब्दः सार्द्धप्रहरपरः 'प्रहरोऽप्यर्द्धसंयुक्तः प्रात- रित्यभिधीयते' इति गार्योक्तः॥

सप्तम उदारः। नापराह्ने भवेद्यदि । प्रतिपद्यपि कर्त्तव्यं श्राद्धं श्राद्धविदो विदुः । गौतमः। 'प्रारभ्य कुतपेश्राद्धं कुर्यादारौहिणं बुधः । विधिज्ञो वि- धिमास्थाय रौहिणं न तु लङ्घयेत्' । हारीतः। 'कन्यामकरमीनेषु तु- लायां मिथुने तथा । भूतविदैव सर्वेषां पूज्या भवति यत्नतः । इदं व्रतविषयम् । तदाह जाबालिः । 'तुलायां मकरे मीने कन्यायां मिथुने तथा । भूतविद्धा व्रते ग्राह्या शेषेषु प्रतिपद्युता' । उभयत्रापराह्न- व्यापिन्यां तु तिथिक्षये साग्निभिः सिनीवाली ग्राह्या निरग्निभिः स्त्रीशूद्रैश्च कुहूरिति । 'अपराह्नद्रयव्यापी यदि दर्शस्तिथिक्षये । आ- हिताग्नेः सिनीवाली निरग्न्यादेः कुहूर्मता' । आपस्तम्बः । 'अ- मावास्यायां यदहश्चन्द्रमसं न पश्यति तदहः पिण्डपितृयज्ञं कुरुते' इति' । कात्यायनः । 'अमावास्यायामपराह्ने पिण्डपितृयज्ञश्चन्द्रा- दर्शन' इति । यदा पिण्डपितृयज्ञो दर्शश्राद्धं च कर्त्तव्यं स्यात्तदा- क्रमेण कुर्य्याद । यदाह मनुः । 'पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षये- ग्निमान् । पिण्डान्वाहार्यकश्राद्धं कुर्यान्मासानुमासिकम्' । पि- ण्डान्वाहार्यकं पार्वणश्राद्धं । पिण्डाः अनु ब्राह्मणभोजनान- न्तरम् आह्रीयन्तेस्मिन्निति व्युत्पत्तेः । आहिताग्निरदृष्टचन्द्राया- मपराह्नव्यापिन्यां पिण्डपितृयज्ञं कृत्वा पार्वणश्राद्धादिकं कुर्य्या- दिति समुदायार्थः । कार्णाजिनिः । 'सिनीवाली द्विजैह्या सा- ग्निकः पितृकर्मणि । स्त्रीभिः शूद्रैः कुहाह्या तथा चानग्निकै- द्विजैः । प्रचेताः । 'सिनीवाली कुहूश्चैव श्रुत्युक्ते पितृकर्माणि । स्यातान्न यदि मध्याह्ने श्राद्धमेवं कथं भवेत् । तिथिक्षये सिनीवाली तिथिवृद्धौ कुहूर्मता। साम्येऽपि च कुहूर्जेया वेदवेदान्तवेदिभिरि- ति । अत्र साग्नेः यत्सिनीवालीविधानं तदपराह्नव्यापित्वे सति ति- थिक्षयविषयम् । अपराह्नद्वयव्यापीत्युक्तवचनात् । इदमत्र तात्पर्य व्यवसितम् । यानि भूतविड्यनिषेधकानि वचनानि तानि भूतवि- ૨૪ १८८ स्मृतिसारोद्धारे। थैता न तथेतराः । दशम्यादाविति पञ्चम्याग्रुपलक्षणमिति प्रा. श्वः । तन्न । यावद्वचनं हि वाचनिकमिति न्यायेन प्राशस्त्यस्य दशम्यादिपञ्चतिथिष्वेव वाचनिकतयोपलक्षणत्वेन पञ्चम्यादि- तिथिष्वपि तस्य साधारण्यकल्पने मानाभाव इति वयमाकलया- मः । पक्षसङ्कल्पे चतुर्दश्यादि न वय॑म् । तदाह कार्णाजि- निः । 'नभस्यस्यासिते पक्षे श्राद्धं कुर्यादिने दिने। नैव नन्दादि- वज्यं स्यान्नैव वा चतुर्दशी' । अन्यथा 'प्रतिपत्मभृतिष्वेकां वर्जयित्वा चतुर्दशीमितिप्रत्येकं प्रतिपदादितिथीनां फलकथने चतुर्दशीवर्जनं याज्ञवल्कीयं पक्षश्राद्धे विरुध्येत । तस्मात्पक्षश्राद्ध प्रतिदिनं मया श्राद्धं विधेयमिति संकल्पे चतुर्दश्यपि न त्याज्यति निर्णीयते । अत एव कात्यायनोप्याह । 'ऊर्द्ध चतुर्थ्या यदहः संपद्यते । सप्तम्या ऊर्दू यदहः संपद्यते । अर्द्ध नवम्या यदहः संपद्यते ऋतेचतुर्दशीमिति । गार्ग्यः। नन्दायां भार्गवदिने महालयेव- त्रयोदश्यां त्रिजन्मसु । एषु श्राद्धं न कुर्वीत गृहीपुत्रधनक्षया त्'।इदं नन्दादिवर्जनमेकस्मिन्नेव दिने श्राद्धकरणे बोध्य- म्।कार्णाजिनिः।'ऋते नैमित्तिकं काम्यं श्राद्धं यस्तु मघोडुभिः । दद्यात्तज्ज्येष्ठपुत्रस्य नाशः स्यादिति निश्चयः । मघायां पिण्ड- दानेन ज्येष्ठपुत्रो विनश्यति' इतिपिण्डदानस्य श्राद्धपूर्वकत्वाच्छा- डनिषेध एव तात्पर्य्यमिति पाश्चः । अन्नोत्सर्गस्य श्राद्धत्वा- नित्यश्राद्धादिवदपिण्डकश्राद्धस्यापि सम्भवात्पिण्डमात्रस्यैव नि- षेधो वाचनिक इत्याचः । वृहदगार्ग्यः । 'प्राजापत्ये च पौष्णे च पित्र्यः भार्गवे तथा । यस्तु श्राद्धं प्रकुर्वीत तस्य पुत्रो विन- श्यति । प्राजापत्ये रोहिण्याम् । पौष्णे रेवत्याम् । पित्र्यः म. घायाम् । श्राद्धं पिण्डदानं, नक्षत्रपुरस्कारेण श्राद्धकरणं पुत्र- वतो निषिद्धमिति कश्चित् । 'भानौ भौमे त्रयोदश्यां नन्दासु च सप्तम उखारः । मघासु च । पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम् । एता- नि वर्जयित्वा तु शुभे कस्मिंश्चिदिने श्राद्धं कुर्यात् । तच्च श्राद्धं मातॄणां सह पृथग्वा कुर्यात् । तदुक्तमपराक्र्के। गयामहालयादौ तु पृथक्सह वा स्वभर्तृभिरितिसिद्धमिति । मातृश्राद्धं पृथक्शस्तं मातामहानां सपत्नीकमेवेति । स्मृत्यर्थसारे चतुर्विंशतिमते । 'केचिदिच्छन्ति नारीणां पृथक्श्राद्धं महर्षयः । आचार्य- गुरुशिष्येभ्यः सखिज्ञातिभ्य एव च । तत्पनीभ्यश्च सर्वा- भ्यस्तथैव च जलाअलीन् । पिण्डांस्तेभ्यः सदा दद्यात्क- न्याभाद्रपदे नरः । तीर्थेषु चैव सर्वेषु माघमासे मघासु च । एकस्मिन्ब्राह्मणे सर्वानाचार्यादीन्मपूजयेत् । दश द्वादश वा पिण्डान्दद्यादकरणं न तु । नैसगिको विधिय॒नः पक्षे वै प- चमे स्मृतः । तस्मिन्दत्तं हविर्भूनं पितॄणामक्षयं भवेत् । स्मृत्य थसारे । 'गुर्वाचार्यपितृव्यमातुलश्वशुरोपाध्यायभ्राखिस्त्रीपो- षकद्रव्यदतत्पुत्रशिष्यर्विजानां तत्स्त्रीणां च श्राद्धं कार्य, अ- पुत्राणां विशेषेण, तत्रैकः पाको वैश्वदेवं तन्त्रं पिण्डं वर्हिश्चैक मिति । एतेषामेकोद्दिष्टं सुमन्तुराह 'सपिण्डीकरणादृर्द्धं यत्र यत्र प्रदीयते । भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च । मिवाय गुरवे श्राद्धमेकोदिष्टं न पार्वणम्' । पुराणसमुच्चये । 'एकादश्यां प्रकुर्वीत एकोदिष्टानि सर्वशः। यस्याधिदेवता विष्णुः पितृवर्गस्य कृत्स्नशः । एतत्पक्षाष्टम्यप्यष्टकति मागुक्तं । पाम्ये सत्यवतीं प्रति पितॄणां वचनं 'मौष्ठपद्यष्टका भूयः पितृलोके भविष्यसि ।आयुरारो- ग्यदा नित्यं सर्वकामफलप्रदा'इति । अत्राष्टम्यां श्राद्धं गयाश्राद्धस- मम्।तदुक्तंब्रह्मपुराणे। आषाढ्याः पञ्चमे पक्षे गया माध्या- श्राद्धम् ष्टमीस्मृता । त्रयोदशी गजच्छाया गयातुल्या तु पैतृके। गजच्छायालक्षणं तु यमस्मृतौ । 'यदेन्दुः पितृदैवत्ये हंसश्चैव करे गजच्छाया- १९० स्मृतिसारोद्धारे। स्थितः। याम्या तिथिर्भवेत्सा हि गजच्छाया प्रकीर्तिता'। पितृदैव- त्यं मघा, हंसः सूर्यः करे हस्ते । याम्यतिथिस्त्रयोदशी। अ- ङ्गिराः । 'त्रयोदश्यां कृष्णपक्षे यः श्राद्धं कुरुते नरः । पञ्चत्वं तस्य जानीयाज्ज्येष्ठपुत्रस्य निश्चितम् । इदं वचनं त्रयोदश्यां मातामहवर्ग परित्यज्य पितृवर्गस्यैव श्राद्धं न कर्त्तव्यमित्येवं प- रम् । यदाह कार्णाजिनिः। 'श्राद्धं नैकस्य वर्गस्य त्रयोदश्यामु- पक्रमेत् । अतृप्तास्तत्र येऽस्य स्युः प्रजां हिंसन्ति तेऽग्रजाम् । प्रशं. सामाह यमः । 'पिता पितामहश्चैव तथैव प्रपितामहः । जातं पुत्रं प्रशंसन्ति पिप्पलं शकुना इव । मधुमासेन खड्गेन पयसा पायसेन वा । एष दास्यति नस्तृप्ति वर्षामु च मघासु च । अपि नः स कुले जायायो नो दद्यात्त्रयोदशीम् । पायसं मधुसपिभ्या वर्षासु च मघासु च' । अस्यां मघायां ज्येष्ठपुत्रवता पिण्डरहितं श्राद्धं कर्त्तव्यम् । तदुक्तं देवीपुराणे । 'तत्रापि महती पूजा कर्त्तव्या पितृदैवते । ऋक्षे पिण्डप्रदानं च ज्यष्टपुत्री विवर्जयेत्' । नागर- खण्डे । 'अधप्रभृति यः श्राद्धं त्रयोदश्यां करिष्यति । कन्या- संस्थे सहस्रांशौ तस्य स्याद्वंशसङ्ख्यः । इति शापेन देवानां नि. दग्धेयं महातिथिः । ततःप्रभृति नैतस्यां क्रियते श्राद्धमुत्तमम् । एतत्त्रयोदशीश्राडं वंशोच्छेदस्य कारणं' इत्यादीनि त्रयोदशी- श्राद्धनिषेधकानि वचनानि काम्यश्राद्धविषयाणि एकवर्गवि- पयाणि वा । नागरखण्डे । 'अतः श्राद्धं विना देयं तदिने मधुपा- यसम् । तस्याभावेपि दातव्यं क्षीरोदनमनुत्तमम् । तस्मिन्नहनि विप्रेभ्यः पितॄणां तुष्टये नृप । पुत्रवद्गृहस्थैस्त्रयोदशीश्राद्धं पू- वोक्तशापाशङ्कया नचेत्क्रियते । तदा पित्राथुद्देशेन ब्राह्मणा भो- जयितव्या इति तात्पर्य्यम् । कात्यायनोपि। 'त्रयोदश्यां युवानस्त- स्य नियन्ते' तस्य श्राद्धकर्तुः । अपरपक्षे त्रयोदशीयुगादिः ।

सप्तम उद्धारः। १९१ अतश्च युगादिनिमित्तमपि पिण्डरहितमेव कार्य । वस्तुतस्तु ना- गरखण्डे निषेधकवचनेषु श्राद्धपदं पिण्डदानपरमेवेति न काप्य- नुपपत्तिः। मत्स्यपुराणे । 'भरणी प्रेतपक्षे तु महती परिकीर्तिता। अस्यां श्राद्धं कृतं येन स गयाश्राद्धकृद्भवेत् ॥ अथ नवम्यामन्वष्टका तत्र नवदैवतं श्राद्धं कुर्यात् । तदुक्त- म् । 'अन्वष्टकासु नवभिः पिण्डैः श्राद्धं समाचरेत् । पित्रादिमा- तृमध्यं च तथा मातामहान्तकम् । अत्राप्यनेकमातृकत्वेपि पित- कश्राद्धवत्सकलमात्रायुद्देशेन मातृपिण्ड एक एव देयः न्यायस्य तुल्यत्वात् । ततः पितामहीप्रपितामहीपिण्डौ । मातॄणां प्रत्येक पिण्डदाने तु नवसंख्याधिकपिण्डवेनान्वष्टकाभङ्गप्रसङ्ग इति । हेमाद्रिस्तु-मातृयजनं त्वन्वष्टकास्वादित इत्युचे । तत्र वीजं न जानीमः । यतेरेकदाण्डिनस्त्रिदण्डिनो वा प्रेतपक्षद्वादश्यामेव पार्वणं कुर्वीत । यदुक्तं वायवीये 'सन्न्यासिनोप्याब्दिकादि पुत्रः कुर्या- यथाविधि । महालये तु यच्छाद्धं द्वादश्यां पार्वणेन तु'। महालये पुत्रेण पक्षादिश्राडाकरणे मरणतिथिसजातीयतिथौ श्राद्धं का- र्यम् । तदुक्तं नागरखण्डे 'आषाढ्याः पञ्चपे पक्षे कन्यासंस्थेदि- वाकरे। मृताहनि पितॄणां वै श्राद्धं दास्यति यो नरः । तस्य सव्वं- त्सर यावत्तृप्ताः स्युः पितरो ध्रुवम् । तत्पक्षचतुर्दश्यां शस्त्रहतस्यै- शमादिहतानां कोद्दिष्टं कार्यम् । 'समत्वमागतस्यापि पितुः शस्त्रहतस्य वै। श्राद्धम् एकोद्दिष्टं तु कर्त्तव्यं चतुर्दश्यां महालये । समत्वमागतस्य सपिण्डीकृतस्य । वै एव । तेन शस्त्रहतस्यैव चतुर्दश्यां नान्यस्ये त्यर्थ इति विज्ञानेश्वरस्वामिनः। पित्रादित्रिके शस्त्रहते पार्वणमा- ह पराशरः । 'चतुर्दश्यां तु यच्छाडं सपिण्डीकरणे कृते । एको- द्दिष्टविधानेन तत् कुर्य्याच्छवघातिनाम् । शस्त्रेण घातो येषां ते शस्त्रघातिनः । 'पित्रादयस्त्रयो यस्य शस्त्रैर्यातास्त्वनुक्रमात् । स भूते स्मृतिसारोद्धारे। पार्वणं कुर्यादाब्दिकानि पृथक् पृथक् । भूते चतुर्दश्यां । अ- व शस्त्रपदं विषश्वापदाग्रुपलक्षकम् । तदुक्तं ब्रह्माण्डपुराणे । 'माणनाशकशस्त्राग्निविषोद्धन्धनिनां तथा । चतुर्दश्यां तु कर्त्त- व्यं तृप्त्यर्थमिति निश्चयः' । मरीचिः। 'विषशस्त्रश्वापदाहितिर्य- ब्राह्मणघातिनां । चतुर्दश्यां क्रिया कार्या अन्येषां तु विगतर्हिता'। विषादिभिर्घातो येषां ते तथा तेषां । घातिनामिति हतानामित्य- थे छान्दसः प्रयोग इति केचित् । अत्र शस्त्रहतस्य चतुर्दश्या- मेव, चतुर्दश्यां शस्त्रहतस्यैवेत्युभयनियमः । वसन्ते ब्राह्मणोऽग्नी- नादधीतेतिवदितिकेचित् । तन्न । 'आहवेषु विपन्नानां जला- ग्निभृगुपातिनाम् । चतुर्दश्यां भवेत्पूजामावास्यां यान्ति कामिकी' इति देवीपुराणवचनविरोधादिति । अत्र हेमाद्रिसङ्ग्रहः । 'भूता- दिग्रहशस्त्रविप्रगरलाग्न्युद्धन्धतोयादिभिर्नष्टानां नखिदन्तिशृङ्गयन- शनाध्यारोहलोहोपलैः । विद्युद्दण्डनगाधिरोहणमुखैः पापोपघा- तैर्नृणां प्रेतानामजरावतां च रचयेच्छ्राद्धानि भूते ऽसिते । भाद्रे- प्यत्र विशेषतोऽथ न तदान्येषां पितृणामिह श्राद्धं स्यादिति । त- दा भाद्रासितचतुर्दश्यां शुक्लादिमासाभिप्रायेणेदम् । नागरख- ण्डे । 'अपमृत्युभवेद्येषां शस्त्रमृत्युरथापि वा । उपसर्गमृतानां च विषमृत्युमुपेयुषाम् । वनिना च प्रदग्धानां जलमृत्युमुपेयु- पाम् । सर्पव्याघ्रहतानां च मृतस्योद्वन्धनैरपि । श्राद्धं तेषां म- कर्त्तव्यं चतुर्दश्यां नराधिप । ये पुनर्वै जलाग्निप्रवेशभृगुपतना- दिमृतास्तेपां चतुर्दश्यां न कुर्यात् । यदाह शाकटायनः । 'जला- ग्निभ्यां विपन्नानां संन्यासे वा गृहे पथि । श्राद्धं कुर्वीत तेषां वै वर्जयित्वा चतुर्दशीम्' । जलाग्निग्रहणं विधिपरिगृहीतमरणे हे- तूपलक्षणम् । एवं च पतिमरणानन्तरशास्त्रविहिताग्निप्रवेशेन मृता- नां स्त्रीणामपि श्राद्धं चतुर्दश्यां न कर्त्तव्यं । तथा च दैत्यना- सप्तम उद्वारः। णकालः रायणीयोदाहृतश्राद्धकल्पे सूतवाक्यम् । 'माद्रयाः श्राद्धे समु- त्पन्ने कर्तृकामो युधिष्ठिरः । प्राकृष्णचतुर्दश्यां वारितोसौ द्विजोत्तमैः । अस्याः श्राद्धं न कर्त्तव्यं पत्या सह मृता यतः' । अत एव शस्त्रादिहतत्वमेव नियामकम् । नतु लिङ्गविशेषान्तर्भा- वोपीत्याहुः । दैत्यनारायणीये । 'दुश्चारिण्यश्च या नार्यः पुत्र- स्त्यक्तान्यतो मृताः। तासां श्राद्धं चतुर्दश्यां न तु याः पतिभिः स- ह'अस्मिन्पक्षे श्राद्धाकरणे आश्विनसितपञ्चम्यन्तामुति- दाहारण गा- थिषु कस्यां चित्तिथौ श्राद्धं कार्यम् । तदाह यमः। 'हंसे वर्षा- मु कन्यास्थे शाकेनापि गृहे वसन् । पञ्चम्योरन्तरे दद्यादुभ- योरपि पक्षयो' । ब्रह्मपुराणे। यावच्च कन्यातुलयोः क्रमादास्तदि- वाकरः। तावच्छ्राद्धस्य कालः स्याच्छून्यं प्रेतपुरन्तदा। तथा। 'क- न्यां गते सवितरि पितरो यान्ति वै सुतान् । शून्या प्रेतपुरी स- ; यावदृश्चिकसंक्रमः । संप्राप्ते कार्तिके यस्य निराशाः पितरो गताः । पुनः स्वभवनं यान्ति शापं दत्त्वा सुदारुणम्' । नागर- खण्डे । 'मासद्वयं प्रतीक्षन्ते गृहद्वारं समाश्रिताः। वायुभूताः पि- पासा ः क्षुतक्षामाः पितरो नृणाम् । यावत्कन्यागतः सूर्यः तु- लास्थश्च महीपते । अत्र कन्यास्थार्कः कालोऽतिप्रशस्तः। त- दुक्तं नागरखण्डे । 'प्रेतपक्षेप्यतिक्रान्ते यावत्कन्यां गतो रविः । तावच्छ्राद्धं प्रवाञ्छन्ति दत्तं वै पितरः सुतैः। सुमन्तुः । येयं दीपा- न्विता राजन् ख्याता पञ्चदशी भुवि । तस्यान्दद्यानचत्तं पितॄणान्तु महालये' ॥ प्रत्येकं प्रतिपदादितिथिषु श्राद्ध- विधाने फलमाह मनुः । 'कुर्वन्मतिपदि श्राद्धं मुरूपांल्लभते मुतान् । कन्यकां तु द्वितीयायां तृतीयायान्तु वेदिनः । पशून् क्षुद्रान् चतुर्थ्यान्तु पञ्चम्यां शोभनान् मुतान् । षष्ट्यां द्यूतं कृ- पिं चापि सप्तम्यां लभते नरः । अष्टम्यामपि वाणिज्यं लभते श्राद्धदः सदा । स्यानवम्यामेकरखुरं दशम्यां द्विखुरं बहु । ए- २५ स्मृतिसारोद्धारे। कादश्यां तथा रूप्यं ब्रह्मवर्चस्विनः सुतान् । द्वादश्यां जातरूपं च रजतं कुप्यमेव च । ज्ञातिश्रेष्ट्यं त्रयोदश्यां चतुर्दश्यामुरुप्र- जाम् । पीयन्ते पितरश्चास्य ये शस्त्रेण हता रणे । पक्षत्यादिवि- निर्दिष्टान् विपुलान्मनसः प्रियान् । श्राद्धदः पञ्चदश्यां तु स- न्किामान्समश्नुते । याज्ञवल्क्यः । 'कन्यां कन्यावेदिनश्च पशू- न्द्रव्यं सुतानपि । द्यूतं कृषि च वाणिज्यं द्विशफैकशफांस्त- था । ब्रह्मवर्चस्विनः पुत्रान्स्वर्णरूप्ये सकुष्यके । ज्ञातिश्रेष्ट्यं स- र्वकामानामोति श्राद्धदः सदा । प्रतिपत्तभृतिष्वेकां वर्जयित्वा चतुर्दशीम्' । कन्यावेदिनो जामातॄन् । कुप्यं हेमरूप्यभिन्नधातुम् ॥ अथ कृत्तिकादिऋक्षेषु क्रमात्फलान्याह याज्ञवल्क्यः। 'स्वर्ग ह्यपत्यं मोक्षं च शौर्य क्षेत्रं वलं तथा । पुत्रान् श्रैष्टथं च सौभाग्यं समृद्धि मुख्यतां श्रुतम् । प्रत्तचक्रतां चैव वाणि- ज्यप्रभृतीन्यपि । अरो गित्वं यशो वीतशोकतां परमां गतिम् । धनं वेदान् भिषक् सिद्धि कुप्यं गामप्यजाविकाम् । अश्वानायुश्च विधिवद्यो वा श्राद्धं प्रयच्छति । कृत्तिकादिभरण्यन्तं सकामा- नाप्नुयादिमान' । नक्षत्रफलानि विष्कम्भादियोगेषु क्रमात्स्युः। तदाह मरीचिः । 'कृत्तिकादिषु ऋक्षेषु श्राद्धं यत्फलमीरितम्।वि- कम्भादिषु योगेषु तदेव फलमश्नुते' । रव्यादिवारेषु क्रमात्फला- न्याह वृहस्पतिः । 'आरोग्यं चैव सौभाग्यं शत्रूणां च पराज- यं । सर्वान्कामान्धियां विद्यां धनमायुर्यथाक्रमम् । सूर्यादिवा- सरेष्वेतच्छ्राडकृल्लभते फलम् । ववादिकरणेष्वेतत्फलमाहुर्मनी- विणः । तत्र मन्वादियुगादिषु काम्यं संक्रान्तिषु नैमित्तिकं च पिण्डरहितमेव कार्यम् । तदाह पुलस्त्यः । 'अयनद्वितये श्राद्धं विषुवहितये तथा । युगादिषु च कुर्वीत पिण्डनिर्वपणात । कालादर्शे 'विषुवायनसंक्रान्तिमन्वादिषु युगादिपु । विहाय पिण्ड- निर्वापश्राद्धं सर्व समाचरेत् । इति महालयश्राद्धनिर्णयः समाप्तः॥

सप्तम उद्धारः । अथाभ्युदयिकम् । तच्च त्रिविधम् । विवाहादिनियतनिमि- वृद्धिश्राद्ध त्तकं पुत्रजन्माद्यनियतनिमित्तकम् अग्न्याधाननिमित्तकं निर्णयः चेति। तत्र विवाहादिनिमित्तं प्रातः कार्यम् । यदाह शाता- पः। प्रातद्धिनिमित्तकमिति । प्रातशशब्दोव सार्द्धयामपरः । तदाह गार्ग्यः । 'ललाटसंमिते भानौ प्रथमः प्रहरः स्मृतः । स एव सार्द्धसंयुक्तः प्रातरित्यभिधीयते' । अग्न्याधाननिमित्तं त्वप- राह्ने। तदाह गालवः। 'पार्वणं चापराह्ने तु वृद्धिश्राद्धं तथाग्निकम् । आग्निकमग्न्याधाननिमित्तम् वृद्धिश्राद्धमपराह्ने कुर्यादित्यर्थः। पुत्र- जन्मादिनिमित्तस्यानियतत्वात् तन्निमित्तं वृद्धिश्राद्धं तदनन्तरमेक कुर्यात् । एतच्च मातृपूर्व कुर्यात् । तदुक्तम् । 'मातृश्राद्धं तु पूर्व स्या- त्पितॄणां तदनन्तरम् । ततो मातामहानां स्यादेवं नान्दीमुखं भवेत् । नान्दीमुखमाभ्युदयिकम् । आभ्युदयिकनिमित्तान्याह कार्णाजि- निः। कन्यापुत्रविवाहेषु प्रवेशे नवसमनः । नामकर्मणि बालानां चूडाकर्मादिके तथा। सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने। नान्दी- मुखान्पितृगणान् पूजयेत्ययतो गृही। पुत्रादीत्यादिशब्दात्पौत्रादेः सङ्ग्रहः। गार्ग्यः। 'पुत्रोत्पत्तिप्रतिष्टामु तन्मौजीत्यागवन्धने । चूडायां च विवाहेषु वृद्धिश्राद्धं विधीयते । वृद्धगार्यः 'अग्न्याधानाभिषेका- दाविष्टापूर्ती स्त्रिया ऋतौ । वृद्धिश्राद्धं प्रकुर्वीत आश्रमग्रहणे त- था । ऋतावाद्ये । मात्स्ये । 'उत्सवानन्दसन्तानयज्ञोद्वाहादिमङ्गले । मातरः प्रथमं पूज्याः पितरस्तदनन्तरम् । ततो मातामहाः पूज्याः विश्वेदेवास्तथैव च । अत्र विशेषोगार्येणोक्तः । “मातृश्राद्धं तु पू- वैद्युः काहनि च पैतृकम् । मातामह्यं चोत्तरेयुद्धौ श्राद्धत्रयं भवेत् । अशक्तौ शातातपः । 'पृथग्दिने त्वशक्तश्चेदेकस्मिन्पू- वासरे। श्राद्धत्रय प्रकुर्वीत वैश्वदेवं तु तान्त्रिकम् । पूर्वाह्ने मातृकं श्राद्धम्पराह्ने पैत्रिकं तथा । ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम्। एकस्मिन्दिनेपि कालभेदेन कुर्यादित्यर्थः । दधिवदरा- स्मृतिसारोद्धारे। दिभिः पिण्डदानं कुलाचारमाप्तं चेत्कुर्यात् नचेन्न कुर्यात् । तदुक्तं भविष्योतरे । 'पिण्डनिर्वपणं कुर्यान वा कुर्य्यान्नराधिप । वृद्धि- श्राद्धे महाबाहो कुलधर्ममवेक्ष्य तु'। मनुः । 'अलाभे भिन्नकल्पानां नान्दीश्राद्धत्रयं बुधः । पूर्वेयुर्वै प्रकुर्वीत पूर्वाह्ने मातृपूर्वकम् । वैश्वदेवं च तान्त्रिकमितिशातातपवचनमप्यस्मिन्नेव पक्षे व्यवति- छते, कालभेदे तन्त्रासम्भवात् । आभ्युदायकमकृत्वा वैदिके क- मणि नाधिकारी भवति । तदुक्तं मात्स्ये । 'नानिष्वातु पितॄन् श्राद्ध कर्म वैदिकमाचरेत् । पारस्करः । 'निषेधकाले सोमे च सीमन्तोन्नयने तथा । ज्ञेयं पुंसवने श्राद्धं काङ्गं वृद्धिवत्कृतम् । सोमे अग्न्याधाने । वैदिककर्ममावे वृद्धिश्राद्धावृत्तावपवादमाह च्छन्दोगपरिशिष्टे कात्यायनः। 'असकृद्यानि कर्माणि क्रियन्ते क- र्मकारिभिः । प्रतिप्रयोग नेमास्युर्मातरः श्राद्धमेव च । येषु पुनः क्रियमाणेषु श्राद्धात्तिस्तानि परिगीतानि तेनैव । 'आधानहोमयो- श्चैव वैश्वदेवे तथैव च । बलिकर्मणि दर्शे च पौर्णमासे तथैव च । नवयज्ञे च यज्ञज्ञा वदंत्येवं महर्षयः । एकमेव भवेच्छाद्धमेतेषु न पृथक् पृथक्' । येषुप्रथमप्रयोगेपि न दृद्धिश्राद्धं तान्याह स एव । 'नाष्टकासु भवेच्छ्राद्धं न श्राद्धे श्राद्धमिष्यते । न सोष्यन्तीजात- कर्मप्रोषितागमकर्मसु । श्राद्धं वृद्धिश्राद्धं । प्रसववेदनावत्यां स्त्रियां प्रसवादर्वाग् यद्विहितं कर्म तत्सोष्यन्तीजातकम्र्मेतिप्रसिद्धम् । मोषितस्य स्वगृहागमने यद्विहितं कर्म तत्मोषितागमकर्म । जातकर्मणि दृद्धिश्राद्धनिषेधश्छन्दोगमात्रविषयः । पूर्वोदाहृत- वचनेषु जातकर्माणि वृद्धिश्राद्धविधानात् । कात्यायनः । 'गण- शः क्रियमाणेषु मातृभ्यः पूजनं सकृत् । सकृदेव भवेच्छाद्धमा- दौ न पृथगादिषु' । एकस्मिन्दिने चौलोपनयनविवाहादिषु क्रिय- माणेषु वृद्धिश्राद्धमेकं भवतीत्यर्थः । इति वृद्धिश्राद्धनिर्णयः । अथ जीवितश्राद्धम् । ब्रह्मपुराणे । देशे कालधनश्राद्धव्यव- सप्तम उचारः। सायसमुच्छ्रिते। जीविते सति जीवाय दद्याच्छाद्धं स्वयं नर' इति । अथ नैमित्तिकश्राद्धं प्रस्तूयते। तच्च नवश्राद्धं नाम सूत- नवश्राद्धम् के प्रथमतृतीयादिदिनेषु क्रियमाणं नवीनं श्राद्धम् । तदाहाङ्गिराः । 'प्रथमेहि तृतीयेति पञ्चमे सप्तमे तथा । नवमैकादशे वापि नवश्राद्धं प्रकीर्तितम् । वृद्धवसिष्ठः। 'सप्तमेति तृतीयेहि प्रथमे नवमे तथा । एकादशे पञ्चमे स्युर्नवश्राद्धानि षट् तथा' । पञ्चैव नवश्राद्धान्याह बौधायनः । 'मरणाद्विषमदिनेष्वेकैकं नवश्राद्धं कुर्य्यादानवमात्, यवनवमंविच्छिद्येतैकादशेतत्कुर्यादिति। विश्वखामिनस्तु-आश्वलायनानां पश्चापस्तम्बानां षडन्येषां विभा- तिव्यवस्थां कृतवन्तः। 'नवश्राद्धानिपञ्चाहुराश्वलायनशाखिनः। आपस्तम्बाः षडित्याहुर्विभाषा वितरेषुहि' इति नवश्राद्धम् ॥ अथ श्राद्धाधिकारिणः । शङ्ख: 'पितुः पुत्रेण कर्तव्याः श्राद्धाधिकारि- पिण्डदानोदकक्रियाः। पुत्राभावे तु पत्नी स्यात्तदभावे तु सोदरः । पुत्राश्च द्वादश याज्ञवल्क्येनोक्ताः-'औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः। क्षेत्रजः क्षेवजातस्तु सगोत्रणेत- रेण वा ।। गृहे प्रच्छन्न उत्पन्नोगूढजस्तु सुतः स्मृतः। कानीनः कन्य- काजातो मातामहसुतस्तुसः।अक्षतायां क्षतायां वा जातः पौनर्भवः स्मृतः दद्यान्माता पिता वायं स पुत्रो दत्तकोभवेत् । क्रीतश्च ताभ्यां- विक्रीतः कृत्रिमश्च स्वयं कृतः । दत्तात्मा तु स्वयन्दत्तो गर्भ विन: सहोढजः। उत्सृष्टो गृह्यते यस्तु सोऽपविद्धोभवेत्सुतः । पिण्डदों- शहरश्चैषां पूर्वाभावे परः परः । सजातीयेषु मया प्रोक्तस्तनयेषु यथाविधि' । अत्रायं क्रमः कालादर्श । मातापित्रारौर्द्धदेहि- कमौरसः पुत्रः कुर्यात् । तदभावे पौत्रः, तदभावे प्रपौत्रः, तद- भावे पुत्रिकापुत्रः। द्विविधोहि पुत्रिकापुत्रः। अभ्रातृकां प्रदास्या- मि तुभ्यं कन्यामलंकृताम् । अस्यां यो जायते पुत्रः स में पुत्रोभवेदिति' व्यवस्थयैकः । पुत्रिकैव च पुत्र इत्यपरः । तदभावे निर्णयः स्मृतिसारोद्धारे। " क्रीतस्तदभावे दत्तस्तदभावे ऽपविद्धस्तदभावे पत्री, पत्न्यभावे गूढ- जः, तदभावे कानीनस्तदभावे पौनर्भवः, तदभावे सहोढजः । 'पु वाभावेतु पत्री स्यात्तदभावे तु सोदर' इति शङ्खवचनं कानीनादिव्य तिरिक्तपुत्राभावविषयम्। कानीनादीनां चतुर्णा पत्न्यभावेऽधिका- रस्य स्मृतिसंग्रहोक्तत्वात् । 'कानीनगूढसहजपुनर्भूतनयाश्च ये। प- ल्यभावेऽधिकुर्युस्ते अप्यशस्ताः सुता हि ते । तदभावे दौहिवः। तदभावे सोदरः, तदभावे तत्सुतः । तदभावे त्वसोदरः । तदभावे तत्पुत्रः, तदभावे पिता, तदभावे माता, सदभावे स्नुषा, तदभावे भ- गिनी सोदरा । तदभावे तत्पुत्रस्तदभावे सपिण्डः, तदभावे सोद- कस्तदभावे मातुः सपिण्डः, तदभावे ऋत्विक् , तदभावे त्वाचार्यः उपनीय सांगवेदाध्यापयिता, तदभावे नृपतिः प्रेतजातीयेन पुरुषे- ण प्रेतद्रव्यं दत्वा कारयेत् । अत्र वाक्यानि । सुमन्तुः । 'मातुः पितुश्च कुर्वीत मृतयारौरसः सुतः । पैत्रिमेधिकसंस्कारं मन्त्रपू- कमाहतः । वैष्णवे। 'पुत्रः पौत्रः प्रपौत्रश्च पत्नी च भ्रातृसन्ततिः । सपिण्डसन्ततिर्वापि क्रिया नृप जायते । एषामभावे सर्वेषां स- मानोदकसन्ततिः । तथा । 'पुनः कुर्यात्पितुः श्राद्धं पत्नी च तदस- निधौ । ऋक्थहार्यथ दौहित्रस्ततो भ्राता च तत्सुतः । भ्रातुः सहोदरो भ्राता कुर्यादाहादि तत्सुतः । ततस्त्वसोदरो भ्राता त- दभावे तु तत्सुतः। भ्रातु_ता स्वयं चक्रे यस्य भार्या न विद्यते । तस्यभ्रातृसुतश्चक्रे यस्य नास्ति सहोदरः । तथा। 'उत्सन्नवान्धवं प्रेतं पिता भ्राता तथाग्रजः । जननी वापि संस्कुर्यान्महदेनोऽन्यथा भ- वेत् ।मातृपक्षस्य पिण्डेन सम्बद्धो योजलेन वा । कुलद्यपि चोत्सन्ने स्त्रीभिः कार्य्या क्रिया नृप । तथा 'पुनोभ्राता पिता वापि मातु- लो गुरुरेव च । एते पिण्डपदा ज्ञेयाः सगोत्राश्चैव बान्धवा। य- तु । 'नच माता नच पिता कुर्यात्पुत्रस्य पैतृकम् । नाग्रजश्च त- था भ्राता भ्रातॄणां च कनीयसाम्' इति, तत्पुत्रादिसत्वे बोध्यम् ।

सप्तम उद्धारः। बौधायनः । 'यदिस्नेहेन कुर्यातां सपिण्डीकरणं विना । गया- यान्तु विशेषेण ज्यायानपि समाचरेत्' । कुर्यातां पितराविति शेषः । कात्यायनः । 'अनुजा अग्रजा वापि भ्रातुः कुर्वन्तु सं- स्क्रियाम् । ततस्त्वसोदरास्तद्वत्क्रमेण तनयास्तयो' । स्मृतिसङ्ग्रहे । 'पत्नी भ्राता च तजश्च पिता माता स्नुपा तथा।भगिनी भागिनेयश्च सपिण्डः सोदकस्तथा । असन्निधाने पूर्वेषामुत्तरे पिण्डदाः स्मृ- ता। मार्केण्डेये । 'सख्युरुत्सन्नवन्धोश्च सखापि श्वशुरस्य च। जा- माता स्नेहतः कुर्यादखिलं पैत्रिमेधिकम् । सर्वाभावे तु नृपतिः कारयेत्तस्य ऋक्थतः । तज्जातीयैन्नरैः सम्यग्दाहाद्याः सकलाः क्रियाः। सर्वेषामेव वर्णानां वान्धवो नृपतिर्यतः' । स्कान्दे । 'स- र्वाभावे स्त्रियः कुर्युः स्वभर्तृणाममन्त्रकम् । अत्र स्त्रियः पत्नीव्यति- रिक्ताः। पत्नीतु धर्मविवाहोठैव नासुरादिविवाहोढा सा तु मुख्या- धिकारिणी अन्या स्त्रीमात्रमेव । तदाह शातातपः। 'धम्मॆविवारूढा या सापत्नी परिकीर्तिता। महाधिकारिणी ह्येषा यज्ञादौ धर्मकर्म- णि । क्रयक्रीता तु या नारी नासो पत्न्यभिधीयते । न सा दैवे न पित्र्ये स्यादासी तां मुनयो विदुः। गौतमः। 'पुत्राभावे सपिण्डाः मातृसपिण्डाः शिष्याश्च दद्युः, तदभावे ऋत्विगाचायौँ। वैष्णवे। 'पूर्वाः क्रिया मध्यमाश्च तथैवोत्तरसत्क्रिया । त्रिप्रकाराः क्रियाः तास्तासाम्भेदं शृणुप्व मे । अनान्दशानां मध्ये तु या दाहाद्याः क्रियास्मृताः। ताः पूर्वा मध्यमा मासिमास्येकोद्दिष्टसंज्ञिताः । प्रे- ते पितृत्वमापने सपिण्डीकरणादनु । क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते ता नृपोत्तराः । पितृमातृसपिण्डैस्तु समानसलिलैस्तथा। त- त्लङ्घातगतैर्वापि राज्ञा वा धनहारिणा । अथादयः क्रियाः का- -ः पुत्राधैरेव चोत्तराः । दौहित्रैर्वा नरश्रेष्ठ कार्यास्तत्तनयै- स्तथा । अत्र पितृमातृसपिण्डादयः पूर्वक्रियामेव कुर्युन्नॊत्तरामि- २०० स्मृतिसारोद्धारे। ति, मध्यमक्रियायामनियमश्च । तेषामुत्तरक्रियायान्तु पुत्राधा- भ्रातृसन्ततिपर्यन्तदौहित्रादयोपि नियता इति कल्पतरुकृतः । अ- पुत्रायाः सपत्नीपुत्रः पतिवौं देहिकं कुर्यात्तदाह मनुः । 'बह्वी- नामेकपत्नीनामेका चेत्पुत्रिणी भवेत् । सर्वास्तेनैव पुत्रेण माह पुत्र- वतीर्मनु । कात्यायनः। 'विदध्यादौरसः क्षेत्र्यो जनन्या और्द्धदे- हिकम्। तदभावे सपनीजक्षेत्रजाद्यास्तया वृता' । तयारता तेन प्रका- रेण । औरसः सर्वदैवेत्यर्थः। तेषामभावे तु पतिस्तदभावे सपिण्डकः। शंखः । 'भार्या पिण्डं पतिर्दद्याद्भर्तुर्भार्या तथैव च । श्वश्वा- देस्तु स्नुषा चैव तदभावे तु सोदर । सपत्नी वा कुर्यात् । त- दुक्तं स्मृत्यर्थसारे । 'पुत्राभावे मिथोदम्पती सपत्न्यश्चेति । अन्य- था पुत्राधीधकारिणि देशान्तरस्थिते सति मृतस्य दाहादिकर्म- णो लोप एव स्यात् । तथा च सति 'असगोत्र: सगोत्रो वा य- दि स्त्री यदि वा पुमान' इत्याउनुपपन्नं स्यात् । कात्यायनः । 'असंस्कृतेन पन्या च ह्यग्निदानं समन्त्रकम् । कर्त्तव्यामितरत्सर्वं का- रयेदन्यमेव हि ॥ पूर्वा मध्यमाश्च क्रियाः कृत्वोत्तरकामन्त्रकं कु- Oदित्यर्थः। अनुपेतोपि कुर्वीत मन्त्रवत्पैतृमेधिकम् । यद्यसौ कृत- चूडः स्याद्यदि स्याञ्च त्रिवत्सरः' । वर्षत्रयादक कृतचूडस्तदू- ईमकृतचूडोपि सर्वमौ देहिकं मन्त्रवत्कुर्यादित्यर्थः । व्याघ्रः 'कृत- चूडस्तु कुर्वीत उदकं पिण्डमेव च । वधाकारं प्रयुञ्जीत वेदोच्चार न कारयेत्' इति । तथा । 'कृतचूडोऽनुपेतस्तु पित्रोः श्राद्धं समाचरे- त् । उदाहरेत्स्वधाकारं नतु वेदाक्षराण्यसौ' । एतद्वचनद्वयं प्रथम- वर्षकृतचूडाविषयम् । तथा च मनुः। न ह्यस्मिन् युज्यते कर्म किंचि- दामौजिबन्धनात् । नाभिव्याहारयेद्ब्रह्म स्वधानिनयनाहते' । स्वधा- निनयनं श्राद्धम् । ऋष्यशृङ्गः। 'पुत्रेषु वर्तमानेषु नान्यं वै कारये- स्वधा । आनुकूल्यादपुत्रस्य श्राद्धं कुर्यात्सनाभिकः । वाक्प्रयोग- समर्थे पुत्रे बालकेपि नान्यस्याधिकार इत्यर्थः। इसधिकारिनिर्णयः॥

. " १ अस्यां चौखम्बा-संस्कृतग्रन्थमालायां प्रतिमासं पृष्ठशतकै सुन्दरै सीसकाक्षरैरुत्तमेषु पत्तेषु एकः स्तबको मुद्रयित्वा प्रकाश्यते । २ एकस्मिन् स्तबके एक एव अन्थो मुद्यते । ३ प्राचीना दुर्लभाश्चाऽमुद्रितामीमांसावदान्तादिदर्शन, व्याकरण धर्मशास्त्र, साहित्य, पुराणादिग्रन्था एवात्र सुपरिष्कृत्य मुद्यन्ते। ४ काशिकराजकीयप्रधानसंस्कृतपाठालयाऽध्यापकाः पण्डिता अन्येच शास्त्रदृष्टयो विद्वांसः एतत्परिशोधनादिकार्यकारिणी भवन्ति । ५ भारतवर्षीयै, ब्रह्मदेशीयैः, सिंहलद्वीपवासिभिश्च एतद्ग्राहक देयं वार्षिकमग्रिम मूल्यम् मुद्राः ७ आणकाः ८ ६ कालान्तरे प्रतिस्तबकं प्रापणव्ययः पृथग् नास्ति । ८ साम्प्रतं मुद्यमाणा ग्रन्थाः- मुद्रिताः स्तबकाः संस्काररत्नमाला । गोपीनाथभट्टकृता (सस्कारः) २ ) शब्दकौस्तुभः । भट्टोजिदीक्षितकृतः (व्याकरणम् ) १० । श्लोकवार्तिकम् । भट्टकुमारिलविरचितम् पार्थसारथिमिश्रकृत-न्यायरत्नाकराख्यया (मीमांसा) १० व्याख्यया सहितम् सम्पूर्णम् । (४) भाभ्यापवृहितं तत्त्वत्रयम् विशिष्टाद्वैतदर्शन प्रक रणम् श्रीमल्लोकाचाय्यप्रणीतम् ।श्रीनारायणती. (वेदान्तः)२ थे विरचित भादृभाषा प्रकाश सहितम् । स. (५) करणप्रकाशः। श्रीब्रह्मदेवविरचितः सम्पूर्णः (ज्योतिषः) १ (६) भादृचिन्तामणिः महामहोपाध्याय- ( मीमांसा) २ श्रीगागाभट्ट विरचितः । तर्कपादः। (७) न्यायरत्नमाला-श्रीपार्थसारथिमिश्र वि० स० (मीमांसा) २ (८) ब्रह्मसूत्र भाज्यम-वादरायण प्रणीत वेदान्त सूत्रस्य यतीन्द्र श्रीमद्विज्ञा- (वेदान्तः) ६ नभिक्षु कृत व्याख्यानम् । सम्पूर्णः । (e) स्याद्वादमञ्जरी-मल्लिषणनिर्मिता सम्र्पूणा । (जैनदर्शनम् )२ (१०)सिद्धित्रयम्-विशिष्टाद्वैत-ब्रह्मनिरूपण- परम्-श्रीभाष्यकृतां परमगुरुभिः श्री ६ ( वेदान्तः) १ यामुनमुनिभिर्विरचितम्। सम्पूर्णम् (११)न्यायमकरन्दः । श्रीमदानन्दबोधभट्टा- रकाचार्यसंगृहीतः आचार्यचित्सुखमु (वेदान्तः) ३ निविरचितव्याख्योपतः (१२) विभक्त्यर्थनिर्णयान्यायानुसारिप्रथमादि- सप्तविभक्तिविस्तृतविचाररूपः म. म. ( न्याय:) ५ श्रीगिरिधरोपाध्यायरचितः। सम्पूर्णः -A- (१३)विधिरसायनम् श्रीअप्पयदीक्षितकृतम् स. (मीमांसा) २ (१४) न्यायसुधा (तन्त्रवार्तिकटीका) भट्टसो- मेश्वरविरचिता। 1.} (मीमांसा ) १६ (१४) शिवस्तोत्रावली । उत्पलदेवविरचिता (वेदान्तः) श्रीक्षेमराजविरचितवृत्तिसमेता। (१६) मीमांसाबालप्रकाशः (जैमिनीयद्वादशा । ध्यायार्थसंग्रहः) श्रीभट्टनाराणात्मजभ (मीमांसा) दृशङ्करावरचितः। (१७) प्रकरणपश्चिका (प्रभाकरमतानुसारि मीमांसादर्शनम) महा महोपाध्यायश्रीशालिकनाथमिश्रविरचितम् । श्रीशङ्करभट्ट कृता मीमांसासारसंग्रहश्च । सम्पूर्णः (मीमांसा) (१८) अद्वैतसिद्धिसिद्धान्तसारः । पण्डितप्रवरश्रीसदानन्दव्यास प्रणीतस्तत्कृतव्याख्यासमलङकृतश्च । (वेदान्त) (१८) कात्यायनश्रौतसूत्रम् महामहोपाध्यायश्रीफर्का- चायावरचितभाष्यसहितम् । (२०) ब्रह्मसूत्रभाष्यम् श्रीभास्कराचार्यविरचितम् (वेदान्तः) (२१) श्रीहर्षप्रणीतम् खण्डनखण्डखाधम आनन्द पूर्ण- विरचितया खण्डनफक्तिकाविभजनाख्यया व्या-(वेदान्तः ख्यया (विद्यासागरी)ति प्रसिद्धया समेतम् । (२२) आख्यातचन्द्रिका श्रीभट्टमल्लविरचिता। (२३) श्रीलक्ष्मीसहस्रम्-बालबोधिनीव्याख्यया ऽवतरणिकया च सहितम् । (२४) ब्रह्मसूत्रवृतिः मरीचिका श्रीवजनाथभट्टकृता। (वेदान्त)२ (२५) झोडपत्रसंग्रहः अत्र श्रीकालीशङ्करसिद्धान्तवागीशविरचि. तानि अनुमानजागदीश्याः प्रत्यक्षानुमानगादाधर्याः प्रत्यक्षानु मानमाथुर्या व्युत्पत्तिवादस्य शक्तिवादस्य मुक्तिवादस्य शब्द क्तिप्रकाशिकायाः कुसुमाञ्जलेश्च क्रोडपत्राणि । (न्यायः) (२६) ब्रह्मसूत्रम,द्वैताद्वैतदर्शनमाश्रीसुन्दरभट्टरचितसिद्धान्तसेतुकार धटीकासहितश्रीदेवाचार्यप्रणीतसिद्धान्तजान्हव्याख्यव्याख्यायु (२७) षड्दर्शनसमुच्चयः। बौद्ध नैयायिक कापिल्य जैन वैशेषिक जैमिनीयदर्शन संक्षेपः । मणिभद्रकृतटीकया सहितः। हरि भद्रसूरिकृतः। (२८) शुद्धाद्वैतमार्तण्डः प्रकाशव्याख्यासहितः। प्रमेयरत्नावश्च । (२९) अनुमानचिन्तामणिव्याख्यायाः शिरोमणिकृतदीधित्या: जागदीशी टीका। (३०) वीरमित्रोदयः। महामहोपाध्यायश्रीमित्रभित्रविरचितः। (A) स्मृतिसालेद्धारः। विद्वद्धरविश्वभरत्रिपाठिसंकलितः। २ बनादिप्रेषनयानम् । हरिदासगुप्ता, बनारस सिटी }

No text on this page.

Smruti Saroddhara Vol.2

Author
Tripaat'i,vishvambhara
Other authors
Misra,mangal (ed.)
Title
Smrxti Saaroddhaara Vol.2
File name
Smruti Saroddhara Vol.2
Text
OCR done
Citation
1906
Published
2006/02/22
Publisher
Chowkambha Sanskrit Book Depot.banaras,vidya Vilasa Press,banares
Language
Sanskrit
Pages
104
Library
Canegie Mellon Univeristy
Classification
Ecclesiastical Law. Canon Law. Religious Law
Keywords
Hindu religious law
DLI number
496333
Barcode
1990020083236.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
mxu8LS6kWor
Download PDF

Smruti Saroddhara Vol.2