Svi-vmpl-machilipatnam
Dhanan'jayavijayan'
Front matter
KAVYAMALA, 54.
THE
DHANANJAYAVIJAYA
KANCHANACHARYA,
EDITED BI
PANDIT SITADATT.I
Head Pandit and Superintendent, Sanskrit Department,
Oriental College, Lahore,
KISINÂTH PÂNDURANG PARAB.
PRINTED AND PUBLISHED
TUKÂRÂM JÁVAJÍ,
PROPRIETOR OF JAVATI DADÂli's "VIRTIYASIGAPrrss.
BOMBAY
1895
Prire ? Au (18
( Registereil according to act LIV of 1867) ( All ughts reserved by the publisher.)
काव्यमाला. ५४. श्रीकाञ्चनाचार्यविरचितो धनंजयविजयः। जयपुरमहागजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारक- केदारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, मुम्बापुरवासिपरबोपाह्वपाण्डुरङ्गात्मजकाशीनाथ- शर्मणा च संशोधितः। सच मुम्वय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा' प्राकाश्यं नीतः । १८९५ (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते- रेवाधिकारः।) मूल्यं ३ आणकाः
No text on this page.
काव्यमाला।
श्रीकाञ्चनाचार्यविरचिता
धनंजयविजयः।
हरेलीलावराहस्य दंष्ट्रादण्डः स पातु वः ।
हेमाद्रिकलशा यत्र धात्री छत्रश्रियं दधौ ॥ १ ॥
अपि च ।
तद्वः प्रमाष्टुं विपदः प्रणतातिहच्या
न्यस्तं पदं महिषमूर्धनि चण्डिकायाः।
वैरी यदीयनखरांशुपरीतशृङ्गः
शक्रायुधाङ्कितनवाम्बुधरप्रभोऽभूत् ॥२॥
अपि च ।
तद्वः सारस्वतं चक्षुः समुन्मीलतु सर्वदा ।
यत्र सिद्धाञ्जनायन्ते गुरुपादाब्जरेणवः ॥ ३ ॥
(नान्यन्ते)
सूत्रधारः-(समन्तादवलोक्य ।) अहो रमणीयता प्रभातस्य । तथा हि।
दाराणां मुरवैरिणो रतिपतेर्मातुस्त्रिलोकीजितः
स्फारत्पङ्कजकोटरोदरजुषो निद्राविरामे श्रियः ।
प्रत्युद्बुद्धमरालपक्षपटहध्वानप्रबन्धानुगं
भृङ्गी मङ्गलगाथिकेव सततं प्रोत्कूजति प्राङ्गणे |॥ ४ ॥
(पुनः परितोऽवलोक्य ।) अहो रमणीयः शरदारम्भः । यतः ।
सरो हरति मे चेतः प्रोन्मूर्च्छत्पद्मकुद्मलम् ॥ ५ ॥
२
काव्यमाला।
अपि च।
निष्कम्पा पृथिवी सशाद्वललता निर्दुर्दिनं चाम्बरं
सुव्यक्तामलतारकेन्दु सरितः काशप्रसूनाङ्किताः ।
तोयं वीतविषं सरांसि विकसत्पमानि शुभ्रा दिशो
द्रष्टुं संप्रति शारदीं श्रियमिमां मन्ये प्रबुद्धो हरिः ॥ ६ ॥
(नेपथ्याभिमुखमवलोक्य ।) क एष लिखितहस्तः समायाति ।
(ततः प्रविश्य पुरुषो लिखितमर्पयति ।)
सूत्रधारः-(विमृश्य वाचयति ।) 'अस्ति प्रशस्तिसहितः श्रीमाञ्जयदेवः।
अर्थप्रत्यर्थिलक्षेष्वप्यपराङ्मुखचेतसम् ।
यं पराङ्मुखतां निन्युः केवलं परयोषितः ॥ ७ ॥
यस्य चेतसि निर्व्याजं द्वयं तूलकणायते ।
क्रोधे विरोधिनां सैन्यं प्रसादे कनकोच्चयः ॥ ८ ॥
स च प्रसादेन रङ्गमण्डनं नाम नटं समादिशति-
इह शरदि विराजद्वारिजोत्तंसितायां
प्रथमविगतनिद्रः श्रीकराश्लिष्टवक्षाः ।
शिथिलयति मुरारिोगनिद्रानुरागं
तदयमखिललोकस्योत्सवः किं पुनर्नः ॥ ९ ॥
तदिदानी भवता वीरसाद्भुतं रूपकमभिनीय गदाधरप्रमुखासत्परिषदा-
नन्दनीया' इति । किं नाम तादृशं रूपकम् । (स्मृत्वा ।) आः, ज्ञातम् ।
कुलं कविमुनेरस्ति पुत्रान्यत्र सरस्वती ।
संशिक्षयति धात्रीव नितान्तं मधुरां गिरम् ॥ १० ॥
तत्राभवदुपाध्यायो नारायणसमाह्वयः ।
जितवादिसहस्रौघः प्राप वादीश्वराभिधाम् ॥ ११ ॥
अपि च ।
कृतसंन्यसनात्प्रयच्छतोऽप्यनयं भूतगणाय योगिनः
निजमण्डलभेदशतिनो भयमेकस्य रवेरभूद्यतः ॥ १२ ॥
धनंजयविजयः। तत्सूनुः काञ्चनो नाम समस्तगुणवल्लभः । गोष्ठीशालेव विद्यानां यस्य जिह्वा विराजते ॥ १३ ॥ तेन कृतो धनंजयविजयो नाम व्यायोगोऽभिनेतव्यः। (नेपथ्याभिमुखमवलोक्य ।) कः कोऽत्र भोः। (प्रविश्य ।) पारिपाश्चिक:-भाव, को णिओओ। (क) सूत्रधारः-आहूयतां धनंजयविजयाभिनयकुशलो नटवर्गः । पारिपाश्विकः-तह । (इत्युक्त्वा निष्क्रान्तः ।) (ख) सूत्रधारः-(प्राचीमवलोक्य स्थित्वा ।) चिरमज्ञातः समयवशात्कोऽपि तेजसो निचयः । प्रकटीभवति विवस्वानेष किरीटीव समयमुत्तीर्णः ॥ १४ ॥ (ततः प्रविशति विराटामात्येन सहार्जुनः।) अर्जुनः-(सोत्साहम् ।) अनुकूलं दैवं लक्ष्यते । यतः । या लतान्विष्यते सैव लग्ना संप्रति पादयोः । कुरुराजोऽभियातव्यः स्वयमेव समागतः ॥ १५ ॥ सूत्रधारः-(सहर्षमवलोक्य ।) अये, परिगृहीतार्जुनवेषः श्यामलकः प्रवृत्तः । तदहं पात्रान्तराणि प्रगुणयामि । (इति निष्क्रान्तः।) इति प्रस्तावना। नायकः-(सहर्षम् ।। गोरक्षणं सकलशात्रवमानभङ्ग- स्तोषो विराटनृपतेरुपकारिणश्च । पर्याप्तमेकमपि यत्समरोत्सवाय सर्व तथा मिलितमत्र ममैव भाग्यैः ॥ १६ ॥ (क) भाव, को नियोगः । (ख) तथा ।
काव्यमाला अपि च। सा मनोरथसंपत्तिः स एव हि महोत्सवः । निर्वापयन्ति यद्वैरं परिपन्थिषु मानिनः ॥ १७ ॥ अमात्यः-देव, नेयं सङ्ग्रामस्य भूमिः । निर्दधकालकेयस्य निवातकवचद्विषः । कौरवास्ते कियन्मात्रं रणाराधितशूलिनः ॥ १८ ॥ नायक:-साधु सुयोधन, साधु । यत्पूर्वजैरधिगतं भुजविक्रमेण तत्प्राप्य राज्यमखिलं कपटाक्षवृत्त्या । गाः साप्रतं हरसि मिल्ल इव त्वयाद्य सापत्रपः कुलगुरुर्विहितो विधुर्नः ॥ १९ ॥ अमात्यः-~-देव, सुयोधनचरित्रेण शशिनोऽवनतं शिरः । चरित्राणि तवैवाद्य कुर्वन्तु परमोन्नतम् ॥ २० ॥ नायकः-(विचिन्त्य ।) कथमयं नगरसमीपे क्षिप्तसमरोपकरणानयनाय प्रहितः प्रतिपन्नसारथ्यश्चिरयति कुमारः । (ततः प्रविशति विराटकुमार. ।) कुमारः-देव, अनुष्ठितस्तवादेशः । तदारोहत्वायुष्मान् । (नायकः कृतसंनाहो रथमारोहति ।) अमात्यः-(सविस्मय नायकमवलोक्य ।) विरचितसमरोचिताङ्गभूषः परिहितभूषितवेष एष भाति । जलधरनिकरोपरोधशून्यो रविरिव राजसुतः शरत्प्रचण्डः ॥ २९॥ (पुननिपुणमवलोक्य ।) हेषन्ते यज्जितजलधरध्वानमेते तुरङ्गा भूमि पार्यदपि च मुहुर्दक्षिणैरालिखन्ति । यानौत्सुक्यं यदपि चलेनाद्वालधेय॑ञ्जयन्ति त्वद्दोर्दण्डद्वितयवशगा तत्समग्रा जयश्रीः ॥ २२ ।।
धनंजयविजयः। नायकः--अमात्य, वयमिदानी गाः प्रत्यानेतुं प्रस्थिताः सः । त्वं गोहरणोद्विग्नं पौरजनं समाश्वासयू । अमात्यः-यदादिशति देवस्तथा करोमि । (इाते निष्क्रान्तः ।) नायक:-(कुमार प्रति ।) यावन्मा गमन्दूरे गावस्तावच्याश्वान् । (कुमारस्तथा करोति ।) नायकः-(रथवेग निरूप्य।) आलिङ्गन्तो वसुधां निजखुरदलितामिवानुनेतुममी । वदनविगतचरणा इव संलक्ष्यन्ते जवादश्वाः ॥ २३ ॥ अपि च । विच्छिन्ना रथचक्रपद्धतिरियं हेलालुतर्वाजिना- मायान्तीव जवेन संमुखममी मार्गस्थिताः शाखिनः । खेदं पादतलाहतेरिव पुरो गन्तुं गतो नेहते वाहानामनुकूलमारुतभरोद्भूतोऽपि धूलिव्रजः ॥ २४ ॥ (नेपथ्याभिमुखमवलोक्य ।) रे रे गोपालाः, अलं विषादेन । तथा हि । सिञ्चन्तः करुणारसेन हृदयं यावन्न वत्सा अमी मातुर्मार्गविलोकनव्यसनिनो मुञ्चन्ति हम्बारवान् । याचन्ते नहि यावदेव शिशवः पातुं पयो नोत्सुका- स्तावद्गाव इहेत्यवेत भवतां चेतोज्वरः शाम्यतु ॥ २५ ॥ (नेपथ्ये।) महाप्पसाओ । (क) कुमारः-आयुष्मन्, नूनमदूरे कुरुबलम् । यतः । वाजिब्राजखुराभिघातदलितक्षौणीरजोभिः पुरः सान्दैीर्णकपोतकण्ठरुचिभिव्योंमेदमास्तीर्यते। किं वाक्येन करीन्द्रगण्डविगलद्दानाम्बुधारागणा- भोगं संप्रथयन्त्यमी परिमलपोद्गारिमन्दानिलाः ॥ २६ ॥ (क) महाप्रसादः।
६
काव्यमाला
नायकः-सुव्यक्तं कुरुबलम् । तथा हि ।
व्याधूतचामरमुर्दस्तसितातपत्र
मुत्क्षिप्तकुन्तभयविद्रुतपत्रिचक्रम् ।
एतलं कुरुपतेर्भरपूर्यमाण-
शङ्खध्वनित्रसदरण्यमृगं पुरस्तात् ॥ २७ ॥
(बाहू प्रति सोत्साहम् ।)
कान्तारक्षितिषूपधानविषये यलिभिषूसरौ
पाञ्चालीपरिरम्भनिर्भररसास्वादेऽपि यद्वश्चितौ ।
यत्कान्ताजनयोग्यदन्तवलयैरावेष्टितौ निस्त्र
तद्बाहू स्मरतं चिराय पुरतस्तिष्ठन्त्यमी वैरिणः ॥ २८॥
(नेपथ्ये।)
धृतधनुरिव दर्पः साहसस्येव मूर्तिः
स पटुरिव रसोऽयं विग्रही वीरनामा ।
दधदिव जयलक्ष्मी संनिधौ चापवल्ली-
मगणितकुरुराजः कोऽयमेकोऽभ्युपैति ॥ २९ ॥
(उभौ शृणुतः ।)
कुमारः-आयुष्मन्, कस्येदमुदारं वचनम् ।
नायक:-असत्प्रथमगुरोः शारद्वतस्य ।
(पुनर्नेपथ्ये ।)
द्वन्द्वाहवाराधितशूलपाणिः स पाण्डवः खाण्डवतर्पिताग्निः ।
ज्याघातजातः किणसंनिवेशः करद्वये यस्य परस्य पुंसः ॥ ३०॥
अपि च ।
गलितनिखिलशस्त्रं बाहुमात्रावशेष
द्विगुणिततररागं यं निरीक्ष्य स्मरारिः।
विहितकपटरूपः साहसोकष्टचेता
नयनमभिललाटं दर्शयामास सद्यः ॥ ३१ ॥
धनंजयविजयः। ७ व्यक्त एवायमर्जुनः । तथा हि। हेलोल्लचितवारिधिर्जनकलाविश्लेषशुप्यन्मनः- कौशल्यासुतदैन्यपानसुपटुम्रस्ताशुमन्मण्डलः । निर्दग्धाखिलराक्षसेश्वरपुरः सौमित्रिसंजीवन- प्रोत्खातौषधिपर्वतोऽस्य मरुतः पुत्रो ध्वजे वर्तते ॥ ३२ ॥ (उभौ शृणुतः ।) पुत्रस्तथा शान्तनोः कुमार:-आयुष्मन्, कृतवीररसोद्रेकैवैदर्भागभितैः पदैः। त्वयि पुत्र इवात्यर्थ पक्षपातं व्यनक्ति कः ॥ ३३ ॥ नायका-कुमार, किमित्युच्यते पुत्र इवेति । ननु पुत्र एवाहमाचा. यस्य । (नेपथ्ये।) तूर्ण कर्ण धनुर्गृहाण समरे शारद्वतस्त्वग्रणी- र्भारद्वाज भृगूद्वहादधिगतान्यस्त्राणि संशिक्षय । द्रौणे नन्दय कौरवक्षितिपति संधत्ते समरोचितं पुररिपोः शिष्योऽयमास्तेऽग्रतः ॥ ३४ ॥ नायकः-(सानन्दम् ।) सोऽयं कुरुराजः सेनायां संनाहयति योधान् । कुमारः-देव, सारथिना परबलयोधाः स्वरूपतो वीर्यतश्च ज्ञातव्याः। नायकः-पश्यैनं भुजगध्वजावेदितकौटिल्यम् । यस्येन्दुवंशकलहप्रथमाङ्कुरस्य सौजन्यगन्धमपि यस्य न वेत्ति चेतः । आ जन्मनो विषजलाग्निमुखैरुपायै- रस्मन्निकारनिरतः कुरुराज एषः ।। ३५ ॥ कुमारः-कोऽयं ततो दक्षिणतः । नायक:-(साश्चर्यम् ।) रोषोत्कर्षकषायितोल्बणदृशोऽप्यने हिडिम्बद्विषः पाञ्चालीहृदयस्थलात्सरमसं लज्जादुकूलाञ्चलः । " ८ काव्यमाला। निर्मोकः फणिनस्तनोरिव बलाबेनावकृष्टः पुरा सोऽयं साहर्सिकाग्रणीस्तनुरष्टे दुःशासनस्तिष्ठति ॥ ३६ ॥ कुमारः-किमतः परं साहसम् । नायकः- इतः पश्य । (सप्रणामम् ।) प्रतिफलितरविप्रभावितानः स्फुरदुरुकाञ्चनवेदिसूचितेज्यः। दधदुपनिषदः श्रियं समग्रा प्रथितयशा गुरुरेष कौरवाणाम् ॥ ३७॥ कुमारः-महानुभावः खल्वेष लक्ष्यते । नायक:-इतः पश्य। योऽयं ललाटतटमण्डितचण्डचूडः संलक्ष्यते स्वयमिव त्रिपुरप्रमाथी । मूर्तोऽस्त्रवेद इव दुर्विषहः परेषां पुत्र गुरोः पुनरयं दयितः सखा मे ॥ ३८ ॥ कुमारः-पुनरावेदय । नायक:- येनोचैर्वजमिषतः कलश इवारोपितो धनुर्वेदः । कनककमण्डलुमण्डितरथवंशो भाति गुरुरेषः ॥ ३९ ॥ कुमार:-कोऽयं कुरुराजसंनिधौ समरार्थीव दृश्यते । नायक:-(सामर्षम् ।) मूलं सुयोधनकृताखिलदुर्नयानां यद्दोबलं भृगुकुलोद्वहगूढशिष्यः । सोऽयं प्रसन्नबलसूदनदत्तशक्तिः सूतात्मजो निजकुलानुचिताभिमानः ॥ ४० ॥ कुमार:-(सोपहासम् ।) नन्वेष घोषयात्राया विदितप्रभावः। क एष ध्वजः। नायक:-(सप्रणामन् ।) अन्याङ्गनापरिहृतिप्रणयग कीत्यें- वालिङ्गितो धवलया पलितच्छलेन ।
धनंजयविजयः। द्वन्द्वाहवप्रकटनिर्जितजामदग्न्यो देवव्रतः पृथुयशाः स पितामहो नः ॥ ४१ ॥ सूत, त्वरय त्वरय तुरगान् । (नेपथ्ये ।) वैमानिका इमे व्योम्नि समरालोकनोत्सुकाः । बाहुसारमिदानी त्वं प्रदर्शय धनंजय ॥ ४२ ॥ (ततः प्रविशति विद्याधरसहित इन्द्रः प्रतीहारी च ।) इन्द्रः-(साश्चर्यम् ।) वाक्कलहोऽपि सुगहनो बहुभिर्बलिनो विहीनसामथ्र्यैः । किमुतानेकैलिभिः क्रूरास्वनिपातदारुणः समरः ॥ ४३ ॥ (पुनः सविस्मयम् ।) एको रथी प्रतिरथास्तु निरस्तसख्याः कर्णादयः सुचिरराज्यमदेन दृप्ताः । वत्सस्तथाप्यहह निग्रहणं प्रविष्टः सत्त्वं हि नोजिततरं विमृशत्यपायम् ॥ ४४ ॥ कुमारः-(पुरोवलोक्य ।) देव, कुरुपतिरेवागच्छति । नायक:-पूर्णास्तहि मनोरथाः । (तत प्रविशति रथारूढो दुर्योधन ।) दुर्योधनः-(नायक विलोक्य सामर्षम् । वनवासपरिक्लेशाकि निर्विष्णोऽसि जीवने । यदभीरेक एव त्वमनेकैर्योदुमुद्यतः॥ ४५ ॥ नायक:-(सोपहासम् ।) एको निवातकवचान्सह कालकेयै- भस्सीचकार भगिनीमहरच शौरेः। एकेन खाण्डववनं जुहुवेऽनले च पार्थस्य नाभिनव एष गणेषु पन्थाः ॥ ४६ ॥ दुर्योधनः-अलमेतैरुपहासैः । उपस्थितो निकषोपलोपमः संग्रामः ।
काव्यमामा नायक:--(सहासम् ।) अपसर कुरुनाथ द्यूतमन्याहा त- दुपदनृपतिपुत्री यत्र दासीकृतासीत् । इह हि शरशलाकापातपूर्व सगर्व प्रतिनृपतिशराक्षैः क्षत्रियद्यूतकेलिः ॥ ४७ ॥ दुर्योधनः-(सामर्षम् ।) करिवदनवलयभूषितकरश्चिरत्यक्तकार्मुकाभ्यासः । नर्तनशालां प्रविश प्रवीरपुरुषोचितो हि सङ्ग्रामः ॥ ४८ ॥ कुमारः-(सोल्लुण्ठम् ।) आर्य, एनं चिरपरित्यक्तकार्मुकाभ्यास इत्यभि- धत्से तयुक्तम् । संक्रन्दनप्रहितखेचरवर्गबद्ध- युष्मत्कृपाकुलनिजाग्रजशासनेन । भीमानुजेन विहिता शरपञ्जरश्री- लोकिता हि भवता नृप विह्वलेन ॥ ४९ ॥ विद्याधरः-देव, प्रौढः खल्वेष वत्सः । इन्द्रः-राजपुत्रो ह्ययम् । दुर्योधनः-सूत, अलं विप्रजनोचितवाकलहेन । विषमेयं भूमिः । रथसंचारोचितां भुवमवतराम । सूतः-यदभिरुचितं कुरुपतये । (इति निष्क्रान्तौ।) विद्याधरः-(नायकरथं निर्दिश्य ।) देव, त्वन्नन्दनस्यन्दनवाजिराजिक्षुरक्षतक्षुण्णरजःपताकाः । विपक्षवक्षोऽरणिमन्थनोत्थप्रतापवढेरिव धूमलेखाः ॥ ६० इन्द्रः--भद्र, महाकविरसि । विद्याधरः-देव, निकटगते किरीटिनि प्रवृत्तः कोलाहलः कुरू- णाम् । तथा हि।
धनंजयविजयः । ११ हेषाघोहरीणा जितघननिनदैर्वृहितः कुञ्जराणां ज्याघातोत्थैनिनादैः पटुपटहरवैर्मदलोदामशब्दैः । प्राप्तैः कर्णोपकण्ठं मदगजनिवहस्कन्धघण्टाप्रणादैः "शृङ्गाराय त्वरन्ते त्रिदशमृगदृशो वीरवर्गानुरक्ताः ।। ५१ ।। प्रतीहारी–देव, ज कोलाहलमेत्तम् । जणं वि पउत्तम् । कुरुवलं पञ्चहिआतस्स तुह उत्तस्स अहिमुहं प्रचलिदम् । देव, पेक्ख । आकण्णाक- ट्टिअकठिणफग्गुणकोदण्डमुहणिस्सरन्तसरणिअरेहिं केवि खण्डिदगत्ताओ, केवि भग्गकोदण्डाओ, केवि पमुडिदसीसकाओ, केवि णिभिण्णणेत्ताओ, केवि भग्गभुजाओ, केवि विक्खदववखत्थलाओ कुरुबले भटा दीसन्ति । (क) इन्द्रः-(सहर्षम् ।) कृतहस्तः खल्वेष वत्सः । विद्याधरः-देव, पश्य पश्य । मुञ्चद्भिर्मदवारि वारणगणैर्मेघायितं कार्मुकै- रेतैः शक्रशरासनायितमधश्छत्रैः शिलीन्ध्रायितम् । खद्योतायितमस्त्रघट्टनसमुद्भूतस्फुलिङ्गैः स्फुर- नाराचैरशनायितं रणभुवा सैन्यैर्नभस्यायितम् ॥ ५२ ॥ अपि च। त्वत्पुत्रमुक्तविशिखैरशनिप्रकाशै- रामूललूननवकेतककान्तदन्ताः । त्रासावसन्नमद्धारकपोलभागाः संपादयन्ति करिणः करिणीभ्रमं नः ॥ १३ ॥ -- (क) देव, न कोलाहलमात्रम् । जन्यमपि प्रवृत्तम् । कुरुबलं प्रत्यभि- यातस्य तव पुत्रस्याभिमुखं प्रचलितम् । देव, प्रेक्षस्व । आकर्णाष्टकठि- नफाल्गुनकोदण्डमुखनिःसरच्छरनिकरैः केऽपि खण्डितगात्राः, केऽपि भ- ग्नकोदण्डाः, केऽपि प्रमोटितशीर्षकाः केऽपि निर्मिन्ननेत्राः, केऽपि भ- नभुजा, केऽपि विक्षतवक्षःस्थलाः कुरुबले भटा दृश्यन्ते ।
१२ काव्यमाला । इन्द्रः-(मतोषम् ।) हरान्तेवासिनरतस्य कालकेयान्तकस्य च । यदुनाथसनाथस्य का श्लाघा कौरवैजितैः ॥ १४ ॥ प्रतीहारी–पेक्खदु देवो। वार्णप्पलूणमअवारणगेरगेर- णाणासिराहिमुहदत्तगहीरतुण्डा । एसा पणच्चिदकराङ्गुलि कण्ठदिद्धं रत्तासअ पिबइ कावि पिसाअकण्णा ॥ ५५ ॥ (क) विद्याधरः-देव, पश्य । एते मत्तमतङ्गजाः प्रजविनः श्वासाकुलाधोरणाः स्फूर्जच्चन्द्रकिबहभारकलितोद्दण्डध्वजश्रेणयः । कुप्यत्त्वत्करवज्रपातचकितप्रभ्रान्तपृथ्वीधर- व्यूहभ्रान्तिमुदञ्चयन्ति नितरां त्वत्पुत्रविद्राविताः ॥ ५६ ॥ (इन्द्र. सहर्ष पश्यति ।) प्रतीहारी–देव, पेक्ख पेक्ख । णिरन्तरविक्खित्तबाणणिउरम्बपरि- क्खदगअणररुहिरपाणसंतप्पिदाओ साहुवादोत्तरं जादुहाणजोइणीओ अ. हिणन्दन्ति तुह उत्तस्स विअअम् । (ख) इन्द्रः-जय एव तर्हि । सत्याशिवस्ताः। विद्याधरः-(विभाव्य ।) देव, महाद्धं वर्तते । पश्य पश्य । (क) प्रेक्षता देवः। बाणप्रलूनमदवारणग्रन्थिप्रन्थि- नानाशिराभिमुखदत्तगभीरतुण्डा । एषा प्रणतितकराङ्गुलि कण्ठदिग्धं रक्तासवं पिबति कापि पिशाचकन्या ॥ (ख) देव, प्रेक्षस्व प्रेक्षस्व । निरन्तरविक्षिप्तबाणनिकुरम्बपरिक्षतगजन ररुधिरपानसतर्पिताः साधुवादोत्तर यातुधानयोगिन्योऽभिनन्दन्ति” तव पुत्रस्य विजयम् ।
धनंजयविजयः । १३ वपुषि भटकरोटिन्यस्तकीलालसिन्धु द्विरदकरमृणालैर्योगिनीभिर्निपीष । समरविजयिने यद्बाहुमुद्यम्य भूयः प्रकटितपरितोषं स्वस्तिवादोऽभितेने ॥ १७ ॥ अपि च । भुग्नभ्रूयुगलैः क्रुधा समधिकस्फारारुणाः क्षणा- त्स्वेदाम्भःपटलप्रमृष्टतिलकैर्दष्टाधरोष्ठैरपि । दृष्टश्मश्रुभिरुत्पतद्भिरभितः संकीर्णमालक्ष्यते त्वत्पुत्रास्त्रनिकृत्तवैरिसुभटश्रेणीशिरोभिर्वियत् ॥ १८ ॥ (पुनः सविस्मयमालोक्य ।) देव, पश्य । कोऽप्येष खण्डितशिरा विकसन्मुखश्रीः प्रारब्धताण्डवविधिः सुरकामिनीभिः । आलोक्यते निजकराभिनयानुरूप- व्यापारितेक्षणनिवेदितसत्त्वसारः॥ ५९॥ इन्द्रः-(सहर्षम् ।) कि कि पश्यामि । दोलायितं मनः । मायाविभिः कुरुबलैः सह युध्यमानं कुन्तीसुतं रणशिरस्यसहायवीरम् । तद्वैरिवीरवरणेषु तथात्र नूनं सापत्न्यसभ्रमकलिं सुरकामिनीनाम् ॥ ६ ॥ विद्याधरः-एवमेतत् । (अन्यतोऽवलोक्य ।) देव, पश्य पश्य । दूरात्रोत्सार्यमाणापरशरनिकरज्वालकीलाभिघात- प्रभ्रश्यद्वाजिवर्गभ्रमणनियमनव्याकुलबध्नसूतः । लेढि प्रौढो हुताशः कृतलयसमयाशङ्कमाकाशवीथि गङ्गासूनुप्रमुक्तप्रथितहुतवहास्त्रानुभावप्रसूतः ॥ ६१ ॥ प्रतीहारी-देव, अह्माणं वि णिअडवत्ती भआणओ एसो हुदा- सगो। (क) (क) देव, अस्माकमपि निकटवर्ती भयानक एष हुताशनः ।
१४ ४ काव्यमाला। विद्याधरः-भद्रे, मा भैषीः । कि नामेदं किरीटिनः । पश्य पश्य । नीलैः कालाञ्जननिभतमःस्तोमलिप्तान्तरिक्ष- विद्युद्दामद्युतिधवलिताशेषदिक्चक्रवालैः । धीरध्वानैः कलभकनिभैः स्थूलधाराः सृजद्भि- मधेनतिः प्रलयमनलो वारुणास्त्रप्रसूतैः ॥ ६२ ॥ इन्द्रः-महानुभावः खल्वेष वत्सः । प्रतीहारी-देव, संपदं राहासुदेण भुजङ्गमत्थं पउत्तम् । आलोल- जीहाजुअलकरालमुहणीसरन्तगरलधूमलेहाकरम्बिदफणारअणकिरणमाला- विडम्बिदसुरकोअण्डाओ विहलिदसअलपुहवीवलआओ पेक्खणमेत्तदग्धम- हामहीरुहाओ अपसरन्ति सप्पाओ। (क) विद्याधरः- दीर्धेः सज्जनसख्यवन्मुकुलितैश्चित्तैः खलानामिव व्यालैर्योगिजनैरिवाम्बरतलव्याप्तैलसत्वस्तिकैः । रत्नोद्भासिकरोज्ज्वलैर्नृपतिवत्स्वर्गस्थवद्धोगिभी राधेयास्त्रभुजङ्गमास्त्रजनितैदिक्चक्रमाक्रम्यते ॥ ६३ ॥ इन्द्रः-खाण्डवदाहे कृतवैराः किं दशन्ति सपाः । विद्याधरः-अलं विषादेन । अर्जुनेन प्रयुक्तं गारुडमस्त्रम् । पश्य पश्य । पादाघातनिपातमारुतभरात्प्रोत्क्षिप्तपृथ्वीधरा- श्वयूदष्टविशालभोगभुजगाः सूर्योपकण्ठस्पृशः । संतोषं जनयन्त्यमी कुलगुरोस्तीक्ष्णस्तथा सारथे- मन्ये वैरिनृपप्रमाथविकसद्विक्रान्तयः पक्षिणः ॥ ६४ ॥ (क) देव, साप्रत राधासुतेन भुजङ्गमास्त्रं प्रयुक्तम् । आलोलजिह्वायुगल- करालमुखनिःसरद्गरलधूमलेखाकरम्बितफणारत्नकिरणमालाविडम्बितसुरको- दण्डा विह्वलितसकलपृथिवीवलयाः प्रेक्षणमात्रदग्धमहामहीरुहा अपसरन्ति सर्पाः ।
धन्जयविजयः । (सहर्षम् ।) ततस्ततः । इन्द्र:- प्रतीहारी–एसो सपदं दुज्जोधणभच्छिद्रेण दोणेण मुत्तो वारणवाणो तुह उत्तस्स समुपचलिदो । (क) विद्याधरः-(सम्यगवलोक्य ।) प्रयुक्तं वैनायकमस्त्रम् । पश्य पश्य । सिन्दूरारुणमौलिभिः स्वदशनप्रोताम्बुदश्रेणिभि- लीलोदस्तकराग्रमारुतभरप्रोद्भूततारागणैः । पादाघातचलत्कुलक्षितिधरैः संकीर्णमालक्ष्यते हैरम्बास्त्रविनिःसृतैर्मदमुखैः स्तम्बेरमैरम्बरम् ॥ ६५ ॥ इन्द्र:-ततस्ततः। विद्याधरः-पार्थेन सिंहास्त्रं प्रयुक्तम् । पश्य पश्य । दंष्ट्राज्योतिःखचितगगनैः केसराटोपभीमै- रुलाफ़्लैः क्षितिधरगुहासंचरद्धीरनादैः । सिंहैरन्त खरशिखरात्खातकुम्भस्थलास- ग्धारास्वादव्यसनविवशैः क्वापि नीता गजेन्द्राः ॥ ६६ ॥ इन्द्रः-खल्पावशिष्टस्तहि जयः। विद्याधर:-देव, नैव । निरवशिष्टश्च । हत्वा शान्तनुनन्दनस्य तुरगान्सूतं कुरूणा गुरोः कर्णस्यापि रथं विदार्य कणशः कृत्वा विसंज्ञं कृपम् । छित्त्वा द्रोणसुतस्य कार्मुकलतां विद्राव्य चान्यद्बलं त्वत्पुत्रो भयविद्रवत्कुरुपतेः पन्थानमन्वेत्ययम् ॥ ६ ७ ॥ प्रतीहारी-अच्चाहिदं दुजोधणस्स । (ख) विद्याधरः—नैव । विमुखे निपतति शस्त्रं संक्रन्दननन्दनस्य न हि जातु । मणिमयमुकुटनिपातात्कोपाग्निस्तस्य कोपितः किचित् ॥ ६८ ॥ (क) एष साप्रतं दुयोधनभसितेन द्रोणेन मुक्तो वारणबाणस्तव पुत्रस्य समुपचलितः। (ख) असाहितं दुर्योधनस्य । .
काव्यमाल (नेपथ्ये ।) भो भो राधेयमित्र, राजात्मजापरिभवक्षुभितः प्रतिज्ञा- मार्यस्तवोरुदलने यदि नाकरिष्यत् । नूनं स्फुरन्मुकुटपाटनपाटवेन तीक्ष्णः शरस्तव शिरोऽप्यहरिष्यदेव ॥ ६९ ॥ प्रतीहारी–देव, सुदं तुह उत्तस्स वअणम् । (क) इन्द्र:-(सविस्मयम् ।) दैवानुकूल्ये कि नाम न शिवाय प्रकल्पते । क्रुद्धभीमप्रतिज्ञापि ररक्ष कुरुभूपतिम् ॥ ७० ॥ विद्याधरः-देव, दुर्योधनमुकुटपाटनक्षुभितैः कर्णपुरःसरैः कुरुभिः समन्ततो वेष्टितोऽर्जुनः । इन्द्रः-(साशङ्कम् ।) ततस्ततः। विद्याधरः-देव, त्वत्पुत्रेण प्रस्खापनास्त्रं प्रयुक्तम् । आमीलितेक्षणयुगं प्रथमं प्रसर्प- निश्वासवातभरपूरितकण्ठघोषम् । गण्डस्थलानिहितकार्मुककोटि सुप्तं संलक्ष्यते कुरुबलं मृतकल्पमेतत् ॥ ७१ ॥ इन्द्रः-आयोधनश्रान्तानामुचितमेतत् । ततस्ततः । विद्याधरः- एकं शान्तनवं हित्वा सर्वे विवसनाः कृताः । प्रमृज्य लोचने पश्चात्प्रबुद्धाश्च पलायिताः ॥ ७२ ॥ अपि च । निर्जित्य कौरवबलान्यथ बल्लवेभ्यो गास्ताः समर्प्य मुद्रितरभिनन्दितस्तैः। (क) देव, श्रुतं तव पुत्रस्य वचनम् ।
धनंजयविजयः। । प्रत्युद्गतः पुरजनैरथ धूलिजाल- व्यालोलसक्तनयनैरयमेति पार्थः ॥ ७३ ॥ इन्द्रः-(आलोक्य ।) यद्रष्टव्यं तदृष्टम् । (ततः प्रविशति रथारूढो नायकः सूतश्च।) नायक:-(सूतं विलोक्य ।) कुमार, न तथा मोदते चित्तं जित्वा कुरुपति रणे । यथाक्षतशरीरेण त्वया मत्स्येन्द्रनन्दन ॥ ७४ ॥ सूतः-त्वयि रक्षितरि किं दुर्लभम् । इन्द्रः-(सरभसम् ।) दृष्टद्रष्टव्योऽम्म्यहम् । (इति निष्क्रान्तः ।) नायकः-(सतोषम् ।) सूत, दुःशासनो यदकरोत्कुरुसंनिधान पञ्चालराजतनयां प्रसहन्विवस्त्राम् । तत्सांप्रतं प्रतिकृतं हरता मयात्र निद्राणकौरवबलस्य रणेऽशुकानि ॥ ७९ ॥ सूतः-सर्वमेतत्प्रतिकृतम् । तावञ्च । संग्राममरणं नाम क्षतदुःखं सुखोत्तरम् । आजन्म हृदये शल्यं मानभङ्गो हि मानिनाम् ॥ ७६ ॥ नायकः- (पुरोऽवलोक्य ।) अये सोपकरणानुज आर्य, आर्यश्च वि- राट इत एवागच्छति । (ततः प्रविशन्ति यथानिदिष्टा युधिष्ठिरभीमनकुलसहदेवाः सपरिवारो विराटन।) युधिष्ठिरः-मत्स्यराज, पश्य पश्य । स्थतुरगरजोभि●सरश्मश्रुजाल श्रमजलकणिकाभिर्भासुराभिः परीतम् । असमसमरकर्माक्लान्तमप्यत्र वक्र जयति विजयलक्ष्मीसङ्गसंपत्सुशोमम् ॥ ७७ !!
काव्यमाला।
विराट:-
शोभन्ते विद्यया विप्राः क्षत्रिया विजयश्रिया ।
श्रियोऽनुकूलंदानेन लज्जया कुलपालिकाः ॥ ७८ ॥
नायकः-(ससभ्रमम् ।) अये, कथमायः। (रथादवतीर्य यथोचितमभिवा.
दयते ।)
सर्वे-(अभिनन्दन्ति ।)
एकोऽहरद्रिपुपुराणि हरः खरादी-
नेकश्च दण्डकवने न्यवधीत्स रामः ।
एकोऽधुना कुरुबलानि भवानजैषी-
न्नाश्रावि नैक्षि च पुनः पुरुषश्चतुर्थः ॥ ७९ ॥
नायकः-स खलु युष्माकं प्रसादः ।
विराटः-(नेपथ्याभिमखमवलोक्य ।) राजपुत्र, पश्य पश्य ।
वत्सालोकप्रत्रुतापीनभाजः सिञ्चन्त्यः मां क्षीरधाराच्छलेन ।
चन्द्रालोकस्पर्धिनी धेनवस्ते कीर्ति मूर्ती नूनमेताः सृजन्ति ॥ ८० ॥
(अर्जुन सबोध्य)
मध्येसमं यो द्रुपदात्मजायाश्चकर्ष केशान्धृतराष्ट्रपुत्रः ।
निर्यात्यमेतन्मुकुटं निपात्य निर्यातितं तस्य सुयोधनस्य ॥ ८१ ॥
(तच्छ्रुत्वा ।)
भीमा-(सामर्षम् ।) भो भो राजन् , नैतत्प्रतिकृतं भवति । कितु ।
दुःशासनस्य गदया प्रविदार्य वक्षः
सद्यः कदुष्णरुधिराणि ततो निपीय ।
तच्छोणिताम्बुलुलितां सुनियम्य देव्या
वेणी तु तत्प्रतिकरिष्यति भीम एव ।। ८२॥
युधिष्ठिरः -वत्स, किमसाध्यं त्वया ।
लीलोन्मूलितकौवेरसौगधकृवनश्रियः।
लीलाहतहिडिम्बस्य विक्रमं ते रुणद्धि कः ॥ ८३ ॥
धनंजयविजयः। १९ भीमः-(श्रुत्वा सानुनयम् ।) शृणोत्वार्यः । न क्षमेऽहम् । युधिष्ठिरः-अतीतः कालः क्षमायाः, आसन्नश्च कालो विक्रमस्य । अलमनुनयेन । विराट:-(युधिष्ठिर प्रति ।) अज्ञानतो नियुक्तश्च यदयोग्येषु कर्मसु । क्षन्तव्यं तन्महाभाग नाज्ञातमपराध्यति ॥ ८४ नायक:-राजन्, उपकार एवायम् । नापकारः । यदि कर्मवयोग्येषु त्वमस्मान्न न्ययोक्ष्यथाः । अज्ञातवासं राजायं नाकरिष्यत्सहानुजैः ॥ ८५ ॥ विराट:-(नायकं प्रति ।) राजपुत्र, सख्यं साप्तपदीनं यत्सोढव्यः प्रणयो मम । अतस्त्वामर्थये किंचिदुत्तरा मे स्नुषास्तु ते ॥ ८६ ॥ नायकः-यद्रोचते भवते । खयमायान्ती गेहे लक्ष्मी को ना विमन्यते मूढः । दैवानुकूलता सा यदयाचितमाप्यतेऽभीष्टम् ॥ ८७ ॥ विराट:--किं ते भूयः प्रियमुपकरोमि । नायक:- निस्तीर्णोऽज्ञातवासो रणभुवि विजिता धार्तराष्ट्राः सकर्णाः स्त्रीरत्नं त्वत्तनूजा समजनि तनयस्याभिमन्योः कलत्रम् । गावः प्रत्याहृतास्ताः सुहृदपि परमस्त्वं च नः श्लाघनीय- स्तज्जाने नैव किंचित्सुचिरमवमृशन्यन्मया प्रार्थनीयम् ॥ ८८ ॥ वथापीदमस्तु । सौजन्यामृतसिन्धवः परहितप्रारम्यवीरव्रता वाचालाः परवर्णने निजगुणालापे च मौनव्रताः ।
२० काव्यमाला। आपत्स्वप्यविलुप्तधैर्यनिचयाः संपत्स्वनुत्सेकिनी मा भूवन्खलवक्रनिर्गतविषम्लानाननाः सज्जनाः ॥ ८९ ॥ अपि च। सारस्वतं स्फुरतु चेतसि सत्कवीनां चक्षुर्भवन्तु कृतिनो गतमत्सराश्च । भूपाश्च सन्तु कविसूक्तिषु सानुरागाः संत्यज्य मण्डलकविप्रणयानुरागम् ॥ ९० ॥ विराट:-तथास्तु । (इति निष्क्रान्ताः सर्वे ।) इति श्रीकाश्नाचार्यविरचितो धनजयविजयी नाम व्यायोगः समाप्त ।