Canegie Mellon Univeristy

Achyutaraya Bhyudayam Vol.1

Raajanaatha · 2006/01/22

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

Sei Vani
Vilas
Sanskrit Series.
No. o.
Achyutaraya
Abhyudayam
SRIRANGU
SRI VANI VILAS PRFSS,
1907.
Copyright Registered
All raglits Diesei red

No text on this page.

Sri Vani Vilas Sanskrit Series
No. 6.
Achyutarayabhyudayam
OF
Sri Rajanatha
with a commentary
BY
Pandit R. V. KRISHNAMACHARIAR,
(1 blunarit Bhatta Bara )
PARTI
Cantos 1-6.
Srirangam:
SRI VINI VILI PRESS
1907.
Copyright Registered ;
All izghts Reserved

No text on this page.

॥ श्रीः॥ ॥ अच्युतरायाभ्युदयम् ॥ श्रीराजनाथमहाकविकृतम् । अभिनवभट्टबाण शब्दतर्कालङ्कारविद्याभूषण" बिरुद- भाजा वात्स्यचक्रवर्तिना श्रीकृष्णमूरिणा विरचितया लघुपञ्चिकया समेतम् । श्रीरङ्गनगरे श्रीवाणीविलास मुद्रायन्त्रालये ममुद्रितम् । १९०७.

No text on this page.

PREFACE
This is a rare historical Kavra not published hitherto
It consists of twelve cantos and is composed by the poet
Sri Rajanatha, the son of Arunagicinatba, who lived in
the 16th century The work treats of the exploits of
Achyuta Raya, one of the emperors of the “Never to be
forgotten" empire of Vijayanagar. Achyuta Raya was
the son of Narasimha and succeeded to the throne, his
brother Krishna Raya, in the year 1529~-30 More
than one Epigraphical record contains the following
geneology,
Timma
(M. Devaki)
Iswara
(11 Bukkamma)
Narasa or Narasınba
(Three wives)
(Usurped the throne about A.D. 1498)
(By Tippamba)
Vira Nrisimharaya
(By Nagamba)
Krishna Raya
(By Obamamba)
Achyuta Raya
(M Varadamba)
King A,D, 1530-42.
Chinna Venkata.
There was
once a king named Timma among the
Tuluva Dynasty of kings in Vijayanagar. His wife was

រ Deraki. Their son was Iswara whose wife was Bukkamma. They had two issues Narasimha and Timman. The former became the Emperor and captured the fort of Manavaduga and on the Nizam of that place craving his pardon, he gave back the fort to the Nizam, and then subdued Seringapatam He then overcame the Marawas and took hold of Madura and vanquished Konetiraja Fmally be made Vijavanagai his capital He had thiee queens each of whom gave birth to a son These three sons became kings one after another and the last was Achyuta Raya whose queen was Varadambal Achyuta Raya was crowned as king with his son Chinna Venkatadri as Yuvaraja. After he ascended the throne, the Prime Minister one day reported to hin, that the Chola king had decamped from his kingdom and sought lefuge of the king of Chera who had deprived the Pandyan king of his legitimate dominions The Emperor got enraged on hearing this and immediately ordered his forces On an auspicious day he started towards the South and 1 eached Chandragiri. Thence he went to Tirupati where he stayed for some time. From there he went to Kalahasti and Vishnukanchi. Tiruvannamalai was next reached and finally Srirangam. Here he halted and sent his brother-in-law to punish the Chera king. Accordingly his brother-in-law, the son of Salagaraja went through Madura to the shores of the Tambraparni. From there he sent his commander-in-chief against the Chera king Meanwhile the King of Travancore who was lii known by the title of "Tiruvadi," hearing of the expedition of the emperor of Vijayanagar, collected bis forces and took his stand on the shores of the Tambraparni. A regular battle ensued between the two opposing forces with the result that the Vijayanagai al my was victorious Immediately, the Chera king handed over the Chola king to Prince Salagaraja and took refuge under him. Prince Salagaraja recognised the Chera king and gare back to the Pandyan Chief the dominions that were once bis. Then desiring to worship God Anantapadınanabha on his retuin wav, he reached the Malaya Mountain and the seal Such is the history narrated in the first Six cantos We have several accounts of the reign of Krishna Raya when the Empire of Vijayanagar was at its zenith, but of Achyuta Rara the existing records are very few. Hence this Vahakavya is very valuable as a contribution to History When the other six cantos also are published Professor M Rangechariar JA has kindly undertaken to write a critical introduction to the whole work Meanwhile we commend this Part to the critical study of all Sanskrit Scholars. We take this opportunity to thank Pandit T. S. Kuppuswamy Sastriar who first suggested to us the publication of this work In the preparation of this edition we had the help of six manuscripts, four from Tanjore, one from Adyar and another from the Government Oriental Mss. library. Being the fist edition the commentator ex-

ir
perienced some difficulty in choosing the best readings
from the different manuscripts and it is quite probable
that with all his care some mistakes might still have
crept in. These, we hope to rectify, in the second
edition
Srirangam,
J. K. Balasubrahmanyam.
15th March 1907

॥ श्रीः॥
श्रीराजनाथकविविरचितं
॥अच्युतरायाभ्युदयम् ॥
प्रथमः सर्गः।
नालीकाक्षमलीकाक्षं नागेशयमगेशयम् ।
विपुंगवध्वजं धाम पुंगवध्वजमाश्रये ॥
श्रीनिवासमनुस्मृत्य श्रीकृष्णो नव्यमार्गणः ।
बालावबोधनकृते कुरुते लघुपञ्चिकाम् ।।
नालीकेति। नालीके कमले इव अक्षिणी यस्य तत् तथोक्तम् ।
अलीकाक्षभिन्नं च। अलीके ललाटे अक्षि यस्य तत् तादृशम् । नागे
आदिशेषे शेते इति तत् तादृशम् । अगेशयभिन्न च। अगे पर्वते शेत इति
तादृशम् । वीनां पक्षिणां पुगवः श्रेष्ठः गरुडः स ध्वजे यस्य तत् तथोकम् ।
पुगवध्वजभिन्न च । पुंगवः पुमान् गौः वृपभः ध्वजे यस्य तत् तादृशम् ।
धाम तेजः विष्णु शिव चत्यर्थः । आश्रये भजे। विरोधाभासः॥

२ अच्युतरायाभ्युदये अव्यादपूर्वो निधिरागमाना- माद्यो वृषाद्रेः पतिरच्युतेन्द्रम् । निरीक्षितुं निःस्पृहकाक्षितं यं निरचना एवं जनाः क्षमन्ते ॥ १ ॥ अव्यादिति । अपूर्वः निध्यन्तरविलक्षणः । आगमानां शास्त्राणां वेदानां वा, धनागमनानां च । निधिः शेवधिः। आद्यः सर्वजगतामादि- मः । आद्य इति निधिविशेषण वा । वृषाद्रः पतिः वृषशैलेश्वरः श्रीनिवासः । अच्युतेन्द्र एतत्काव्यनायक अच्युतरायम् । अव्यात् रक्षतु । निःस्पृहै: अलिप्सुभिः, वीतरागैश्च काङ्कितं अभिलषितम् । य वृषाद्रिपतिनिधिम् । निरीक्षितु द्रष्टुम् । निरजनाः निध्यजनमितिप्रसिद्धाञ्जनशून्याः, विषयलेप- रहिताश्च । जना एव । क्षमन्ते शक्नुवन्ति । अन्ये निधयः सस्पृहैरेव काक्ष्यन्ते, दृश्यन्ते च साजनैरेवेत्यतोऽस्य निधेर्विलक्षणत्वमिति भावः ॥ रूपकं व्यतिरकश्च ॥ धम्मिल्लशैवालधरा विराज- दपाङ्गमीनाधरविद्रुमाप्ता । धन्या पितृच्छायतयाब्धिकन्या तन्यादवन्यां श्रियमच्युतेन्दोः ॥ २ ॥ धम्मिल्लेति । धम्मिल्लः चिकुर एव शैवाल शैवल: तस्य धरा धारयित्री। विराजन् शोभमानः अपाङ्गः नेत्रान्त एव मीनः यस्याः “सा तादृशी। अधरः ओष्ठ एव विद्रुमः प्रवालः तं आप्ता प्राप्ता । अत एव, पितृच्छायतया पितुः छायेव छाया यस्याः तस्या भावेन पितृतुल्यतये- त्यर्थः । धन्या कृतार्था, धनवती च । अब्धिकन्या लक्ष्मीः । अवन्यां प्रथमः सर्गः । ३ भूमौ । अच्युतेन्दोः अच्युतरायस्य, विष्णोश्च । श्रियं सपद, शोभां च । नन्यात् करोतु । पितृच्छाया कन्या भाग्यवतीति पत्युरैश्वर्यपोषिणी चेति सामुद्रिकाः । रूपकं काव्यलिङ्गं च ॥ सुवर्णरूपैः शुभनायकाङ्के रौज्ज्वल्यवद्भिर्ध्वनिमश्नुवानैः । परिष्कृतादिक्षितिपान्प्रबन्धैः प्राचेतसादीन्प्रणुमः कवीन्द्रान् ॥ ३ ॥ सुवर्णेति । सुवर्णरूपैः शोभनवर्णान्मकैः, कनकमयैश्च । शुभः नायक. नेता मध्यमणिश्च अङ्कः चिहं येषां तैः तथोक्तः । औज्ज्वल्यवद्भिः कान्त्याख्यगुणविशिष्टै, प्रकाशमानश्च । ध्वनि ध्वन्याख्योत्तमकाव्यतां व्यङ्ग्यमर्यादां वा, शब्द च । अश्नुवानः प्राप्तः । प्रवन्धैः स्वस्वप्रबन्धेरेव भूषणैः । परिष्कृताः अलकृताः आदिक्षितिपाः रामाद्याः नृपतयः यस्तान् तादृशान् । प्राचेतसादीन् वाल्मीकिप्रमुखान् । कवीन्द्रान् कविश्रेष्टान् । प्रणुमः स्तुमः । णु स्तुती अदादिः । समासोक्तिः ।। कथं नु वा भुवि कालिदास- मयूरमलादिमहाकवीन्द्राः । पुरातनी पूरुषभूमिकां य- द्वेषेण धृत्वा विननत वाणी ॥ ४ ॥ कथमिति । कालिदासमयूरमङ्खादिमहाकवीन्द्राः। भुवि । कथनु केन प्रकारेण । वर्ष्याः वर्णयितु शक्याः । वाणी सरस्वती । यद्वेषण येषां कालिदासादीनां रूपेण । पुरातनी प्राचीनां यशसा चिरावस्थायिनी वा । पूरुषभूमिकां पुरुषवेप पुस्त्वमित्यर्थः । धृत्वा । विननर्त नृत्यति स्म ।।

OC अच्युतरायाभ्युदये अस्ति स्मरप्राभृतमक्षि शौरे- रदक्षिणं शेखरपुष्पमैशम् । अपां निधेरद्भुतनाट्यविद्या- गुरुश्चकोरीकुलबन्धुरिन्दुः ॥ ५ ॥ अस्तीति । स्मरस्य मन्मथस्य प्राभृत उपायनम् । शौरेः विष्णो: अदक्षिण अक्षि वाम चक्षुः । ऐशं शिवसबन्धि । शेखरपुष्प अवतस- कुसुम शिवेन शिरसि धार्यमाण इत्यर्थः । अपां निधेः समुद्रस्य । अद्भु- तकरी या नाट्यविद्या कल्लोलोल्ललनमित्यर्थः तस्याः गुरुः । चकोरीणा कुलस्य समूहस्य बन्धुः चकोरीणां कुलबन्धुरिति वा । इन्दुः चन्द्र । अस्ति । रूपकम् ॥ प्रायेण यः क्षोणिभृदुत्तमाओं पादार्पणं सत्पथसेवनं च । करोत्यरिश्रोणिकदर्थनं च कुर्वन्तु सर्वे कुलजा ममेति ॥ ६ ॥ प्रायेणेति । यः चन्द्रः । सर्वे । मम । कुलजाः वंशजाताः । कुर्वन्तु मया क्रियमाण स्वयमपि आचरन्तु । इति मत्वेव । क्षोणिभृतां पर्वतानां राज्ञा च उत्तमाझे शिखरे शिरमि च । पादानां किरणानां पादयो. चरणयोश्च अर्पण न्यासम् । सत्पथस्य आकाशस्य सन्मार्गस्य च सेवन आश्रयण च । अरिश्रेण्याः चक्रवाकसमूहस्य शत्रुगणस्य च कदर्थन उपद्रवं च । प्रायेण भूना करोति । अरिशब्दस्य चक्रवाचितया चक्रपर्या- याणां च चक्रवाकबोधकत्वेन प्रकृते चक्रवाकपरत्वम् । श्लेष उप्रेक्षाच ॥

प्रथमः सर्गः। सरोजभद्रासनसौमनस्या- त्सुधाप्रदानात्सुमनोजनानाम् । सदापि नाकाश्रयसौहृदाद्यः पुष्णाति चर्या पुरुषत्रयीयाम् ॥ ७ ॥ सरोजेति । यः । सरोजानां पद्मानां भद्रस्य विकासरूपस्य मङ्गलस्य असने निरसने सौमनस्यात् प्रीत्या । पक्ष सरोजमेव भद्रासन मिहासन तत्र सौमनस्यात् प्रियत्वात् । सुमनोजनानां देवानाम् । सुधाप्रदानात् अमृतप्रदानात् । उभयत्र तुल्यम् । सदा सर्वदापि । नाकस्य आकाशस्य आश्रये आश्रयणे सौहृदात् स्नेहात् । पक्ष सदा सर्वदा । पिनाकस्य तदा- ख्यस्य शिवधनुषः आश्रये सौहृदात् । पुरुषत्रीयां ब्रह्मविष्णुरुद्ररूपमूर्ति त्रयसबन्धिनीम् । चर्या क्रियाम् । पुष्णाति करोति । श्लेषनिदर्शने ॥ वियुक्तवर्गे विहितप्रतापः संयुक्तलोके सरसप्रभावः । उदश्चितो राजपदानुकूलं यो मण्डलं धारयतेऽनुरक्तम् ॥ ८॥ वियुक्तेति। यः । वियुक्तवर्गे विरहिसमूहे, पक्षे अयुक्तकारिणां शत्रू- णां वा गणे । विहितः कृतः प्रतापः प्रकृष्टः तापः, कोशदण्ड तेजश्च येन स तथोक्तः । संयुक्तलोके परस्परसंमिलितमिथुनजने, पक्षे युक्तकारिणि जने मित्रजने वा। सरसः आद्रः प्रभावः महिमा, प्रकृष्टो भावः आश- यश्च यस्य स तादृशः । उदञ्चितः उदयमापन्नः, पूजितश्च सन् । राज- पदस्य रञ्जयतीति व्युत्पत्त्या नृपतिवाचकस्य राजेति शब्दस्य राज- १ ६ अच्युतरायाभ्युदये स्थानस्य वा अनुकूलं अनुगुणं यथा तथा । राजेति पदं चन्द्रनृपत्युभय- वाचकम्। मण्डलं स्वबिम्ब, राष्ट्र च । अनुरक्त रक्तवर्ण, अनुराग- विशिष्टं च । धारयते "धारयते नु रक्तम्” इति पाठान्तरम् ॥ आशाभिपूर्तेरनुरूपमेव वर्षन्प्रकर्षाद्वसुमण्डलानि । औदार्यभाजामवनीरुहाणां व्यनक्ति यः सोदरताविलासम् ॥ ९ ॥ आशेति । यः । आशानां दिशां, मनोरथानां च अभिपूर्तेः पूरणस्य। अनुरूपं अनुगुणमेव । वसुमण्डलानि केरणसमूहान् , धनराशीश्च। प्रकर्षात् आधिक्येन । वर्षन् सन् । औदार्य दातृत्वं भजन्तीति तेषाम् । अवारु- हाणां वृक्षाणां कल्पतरूणामित्यर्थः । सोदरतायाः सहोदरत्वस्य विलास शोभाम् । कल्पकतरूणां चन्द्रस्य च समुद्रादुत्पनत्वादिति भावः। व्यन- क्ति प्रकाशयति ॥ क्षेमंकरः कैरवसंसदा यो वाम हरस्येक्षणमेव नैकम् । उदीयतेऽध्वन्यजनैद्वितीयं संचिन्त्यते चक्रकुलैस्तृतीयम् ॥ १० ॥ क्षेमंकर इति। कैरवसंसदां कुमुदखण्डानाम् । क्षेमकरः । यः । हंरस्य । एक वामं ईक्षणं एव न । कि तु, अध्वन्याः पथिकाः ये जनाः तैः । हरस्य, द्वितीयं ईक्षणं सूर्यरूपं चक्षुः । उदीयते । चक्रकुलैः चक्रवाक प्रथमः सर्गः। समूहैः । तृतीय अग्निरूप ईक्षण नेत्रम् । सचिन्त्यते विचार्यते । पथिक घु चक्रवाकेषु च विषये चन्द्रस्य तापकरत्वादिति भावः । उल्लेखः॥ कथं ब्रुवे यस्य कलानुषक्ता आलोकमात्रादपि चञ्चरीकाः । व्याकुर्वते कैरवपीठिकासु विद्याविशेषान्विषमायुधीयान् ॥ ११ ॥ कथमिति । कथ केन प्रकारेण । ब्रुवे वर्णयामि । चञ्चरीकाः भृङ्गाः। यस्य चन्द्रस्य । आलोकः प्रकाशः, दर्शन च । आलोक एव आलोकमात्र तस्मादपि । कलानुषक्ताः कलासु विद्यासु अनुषक्ताः सबद्धाः। कलाभिः विद्याभिः अनुषक्ताः युक्ता वा। पक्षे कले अव्यक्तमधुरध्वनौ अनुषकाः सन्तः । कैरवाण्यव पीठिकाः विद्यापीठानि तासु। स्थिताः सन्त.। विषमा- युधीयान् मन्मथसबन्धिनः। विद्याविशेषान् विद्याभेदान् । व्याकुर्वते विवृण्वन्ति । “यस्य कलानिधित्वम्" इति पाठान्तरम् । रूपकम् ॥ विमोहिनी यो विधुरेत्य मूर्ति सुधां ददानः सुमनोजनाय । अस्वप्नवृत्त्याश्रयतोऽवतार आलक्ष्यते यस्तमसो निहन्ता ॥ १२ ॥ विमोहिनीमिति । यः विधुः चन्द्रः, विष्णुश्च । सुमनोजनाय देवेभ्यः । सुधां अमृतम् । ददानः प्रदिशन् , सुधाप्रादानायेत्यर्थः । विमोहिनी विशेषेण मोहयति द्रष्टुन् आश्चर्यपरवशान् करोतीति तां, मोहिनीसंज्ञकस्त्रीरूपां च । मूर्ति स्वरूपम् । एत्य प्राप्य । अस्वप्नवृत्तेः ८ अच्युतरायाभ्युदये . प्रकाशदशायाः आश्रयतः आश्रयणात् , पक्षे अस्वप्नवृत्तीनां देवानां आ. श्रयतः आश्रयणात् तद्रक्षणार्थमित्यर्थः । अवतारः अपगतनक्षत्रः विरल- नक्षत्र इति यावत् , सुप्रसिद्धः अवतारश्च । आलक्ष्यते दृश्यते, अवतारत्वेन ज्ञायत इत्यर्थः । चन्द्र प्रकाशमाने नक्षत्राणि नातीव सन्तीति स्थितिः । तथा च मुरारिः । 'भूयस्तराणि यदुडूनि तमस्विनीषु ज्योत्स्नीषु च प्रविरलानि ततः प्रतीमः ।' इति । यत् यस्मात्कारणात् । तमसः अन्धकारस्य, राहोश्च । निहन्ता नाशकः । 'अवतारमालक्ष्यते यस्तमसो नियन्ता ।' इति पाठान्तरम् । श्लेषः, उत्प्रेक्षा रूपकं वा ॥ आचारतो धर्म इवावदाता- दबाधितो हर्ष इवात्मबोधात् । ततो बुधाख्यस्तनयस्ततोऽभू- च्छमः श्रुतानामिव संप्रदायात् ॥ १३ ॥ आचारत इति । ततः अनन्तरम् । अवदातात् परिशुद्धात् । आचारतः आचारात् । धर्म इव । आत्मबोधात् आत्मज्ञानात् । अबाधितः श्रेष्ठः । हर्षः आनन्द इव । श्रुतानां शास्त्राणां श्रवणानां वा । सप्रदायात् । शमः शान्तिरिव । ततः तस्माच्चन्द्रात् । वुधाख्यः बुधनामा। तनयः पुत्रः। अभूत् उत्पन्नः । मालोपमा ॥ पुरूरवाः पुण्यफलादतोऽभू- दभूतपूर्वाभ्युदयस्य यस्य । प्रशस्तिमुद्रालिखनाद्विशालं प्रत्यर्थिवक्षः फलकं किलासीत् ॥ १४ ॥ पुरुरवा इति । अतः अस्मात् बुधात् । पुण्यफलात् पुण्यफलेन ।

प्रथमः सर्गः । इदं अत इत्यस्य विशेषण वा । पुरूरवाः तन्नामा राजा । अभूत् । अभूतपूर्वः पूर्व कस्याप्यजातः अभ्युदयो यस्य तस्य तादृशस्य । यस्य पुरूरवसः । प्रशस्तिमुद्रायाः प्रशस्तिचिह्नस्य लिखनात् । विशालम् । प्रत्यर्थिनां शत्रूणां वक्षः उरः। फलकम् । आसीत् किल । तदेव हि फलक, यत्र लिख्यत इति भावः । अनेन शत्रूणां वक्षांसि वाणैः कीलितानीति परमार्थः । प्रशस्तिमुद्रालिखनात् , फलकं फलकत्वेन सभाव्य- मानम् । प्रत्यार्थिवक्षः । विशालं वीनां पक्षिणां शाला। विभाषा सेनासुरेति नपुसकत्वमित्यन्ये । लिखनमित्यत्र गुणाभावश्चिन्त्यः । लिखतेरकुटादि- त्वात् । उत्प्रेक्षा॥ आयुस्ततोऽभूदधिभूरवन्याः प्रभिद्य शक्तया परभूभृतं यः । हेतुर्यशोहंसविजृम्भणाना- मेति प्रथां स्कन्द इवेन्दुमौलेः ॥ १५ ॥ आयुरिति। अवन्याः भूमेः । अधिभूः नायकः । आयुः तन्नामा राजा । इन्दुमौले: परमेश्वरात् । स्कन्दः सुब्रह्मण्य इव । ततः पुरूरवसः । अभूत् । यः । शक्त्या बलेन, तदाख्यायुधेन च । परभूभृत शत्रुनृपति, उत्कृष्ट क्रौञ्चपर्वतं च । प्रभिद्य भित्त्वा । यशांसि हसा इव यशांस्येव हसा वा यशोहंसाः, पक्षे यशांसीव हंसाः, तेषां विजृम्भणानां विलासा- नाम् । हेतुः सन् । प्रथां विख्यातिम् । (स्कन्द इव) एति प्राप्नोति ॥ नाथः पृथिव्या नहुषाभिधोऽस्मा- जज्ञे यदाज्ञाजनितावतंसाः ।

१० अच्युतरायाभ्युदये बृन्दारका नो बहुमन्वते स्म मन्दारमालां मधुपात्तगन्धाम् ॥ १६ ॥ नाथ इति। अस्मात् आयुषः । नहुषाभिधः नहुषनामा । पृथिव्याः नाथः राजा । जज्ञे जातः । बृन्दारकाः देवाः । यस्य नहुषस्य आज्ञया जनितः संपादितः अवतंसः शेखरः येषां ते तादृशाः सन्तः । मधुपैः भृङ्गैः, मद्यपायिभिश्च आत्तगन्धां गृहीतसौरभ्यां, अभिभूतां च । मन्दार- मालाम् । न बहुमन्वते न गणयन्ति । नहुष इन्द्रपदं प्रापेति पुराणम् ।। अस्मादभूद्विस्मयभूर्ययाति- भयातिरेकस्तिमिताभियातिः । कुलाधिनाथस्य कला इवान्या विधोळधाद्यो विशदैर्यशोभिः ॥ १७ ॥ अस्मादिति । अस्मात् नहुषात् । विस्मयभूः आश्चर्यभूमिः । भया. तिरेकेण भयाधिक्येन स्तिमिताः स्तब्धीकृताः अभियातयः शत्रवः यस्य स तथोक्तः । ययातिः तन्नामा नृपतिः । अभूत् । यः ययातिः । विशदैः धवलेः । यशोभिः कीर्तिभिः । कुलाधिनाथस्य कूटस्थस्य । विधोः चन्द्रस्य । अन्याः । कलाः भागान् । व्यधात् उत्पादयामासेव ॥ अजायताव्याजसुहृत्प्रजानां स धूर्वहस्तुर्वसुरुर्वरायाः । अस्य प्रतापांशुमता विचित्र- ममित्रकान्ता ज्वलिता यदन्तः ॥ १८ ॥ अजायतेति । जनानाम् । अव्याजसुहृत् अकृत्रिमं मित्रम् । उर्व-

प्रथमः सर्गः ।
११
रायाः सर्वसस्यान्यायाः भूमेः । धूर्वहः धुरन्धरः। सः प्रसिद्धः । तुर्वसुः ।
अजायत । अस्य तुर्वमोः। प्रताप: तेज एव अशुमान् सूर्यः तेन ।
अमित्राणां शत्रूणां कान्ताः स्त्रियः । पक्षे मित्रस्य सूर्यस्य कान्ताः उपलाः
मित्रकान्ताः तद्भिन्नाः अमित्रकान्ताः चन्द्रकान्ता इत्यर्थः । अन्तः हृदये ।
ज्वलिताः उत्तप्ताः, प्रदीप्ताश्च । आसन्निति यत् तत् , चित्र आश्चर्य-
भूतम् । सूर्य प्रकाशमाने सूर्यकान्ता एव ज्वलन्तीति स्थितिः ।
अमित्रकान्तोज्ज्वल्य तु विस्मयकरमिति भावः । विभावना ॥
.
संचारिणः शौर्यरसा इवाये
नेवाध्वनीना इव नीतिसाराः ।
सजीवबन्धा इव सद्गुणौघाः
सौजन्यमुद्रा इव सप्रतीकाः ॥ १९ ॥
नाभागवीप्सा नहुषानुवादा
निमेर्विभाषा नृगमूर्तिभेदाः ।
द्विरुक्तयो दाशरथेर्दिलीप-
स्यावृत्तयो धर्मभुवो विकल्पाः ॥ २० ॥
मदावला मांसलदानकेल्यां
महीभृतां पक्षहृतौ महेन्द्राः ।
ससत्त्वतायां सरितामधीशाः
षडाननाः किं च सशक्तितायाम् ॥ २१ ॥

१२ अच्युतरायाभ्युदये अपत्रपामहतिवैभवेन सुरदुमाणामपि सूचयन्तः । तदन्वये पुण्यफलादवन्यां धन्या बभूवुर्धरणीभुजोऽन्ये ॥ २२ ॥ कलापकेन वर्णयति - सञ्चारिण इत्यादिना । अग्रे पुरस्तात् । सञ्चारिणः सञ्चरणशीलाः । शौर्यरसा इव । नेत्रयोः चक्षुषोः अध्वनीनाः पथिकाः नेत्रगोचरा इत्यर्थः दृश्यमाना इति यावत् । नीतिसारा इव । मजीवबन्धाः सप्राणाः । मद्गुणानां ओघाः समूहा इव । सप्रतीकाः शरीरिणः । सौजन्यस्य सुजनतायाः मुद्राः स्वरूपाणीव (स्थिताः) नाभागस्य तदाख्यस्य नृपतेः वीप्साः । नहुषस्य अनुवादाः । निमेः विभाषाः । नृगस्य मूर्तिभेदाः स्वरूपभेदाः । दाशरथेः रामस्य । द्विरुक्तयः । दिलीपस्य आवृत्तयः । धर्मभुवः धर्मपुत्रस्य । विकल्पाः । अत्र वीसा. दिशब्दाः पर्यवसानगत्या सादृश्यगमकाः। तथा च प्रयुज्यते । 'द्विर्भावः पुष्पकेतोर्विबुधक्टिपिनां पौनरुक्त्य विकल्पश्चिन्तारत्नस्य वीप्सा तपन- तनुभुवो वासवस्य द्विरुक्तिः । द्वैत देवस्य दैत्याधिपमथनकलाके- लिकारस्य कुर्वन्नानन्दं कोविदानां जगति विजयते श्रीनृसिहक्षितीन्द्रः ॥' इति ॥ मांसलं अधिक यत् दानं वितरणमेव दान मदजलं तस्य केल्यां लीलायाम् । मांसलदानकेलिरेव मांसलदानकलिरिति विशिष्ट रूपकं वा। मदावलाः गजाः। महीभृतां राज्ञामेव पर्वतानाम् । पक्षाः सहाया एव पक्षाः गरुतः तेषां हृतौ नाशने छेदे इत्यर्थः । महेन्द्राः। सत्वं सत्वगुणः सत्वानि व्यवसाया वा तान्येव सत्वानि जन्तूनि तैः सह वर्तन्त इति ससत्वाः तेषां भावः ससत्वता तस्याम् । यद्वा ससत्वता गाम्भीर्यम् । सरितां अधीशाः समुद्राः । कि च । शक्तिः बलमेव शक्तिः आयुधविशेषः प्रथमः सर्गः । १३ तत्सहितता सशक्तिता तस्याम् । षडाननाः सुब्रह्मण्याः । अहतेः दानस्य वैभवन महिन्ना । सुरद्रुमाणां कल्पवृक्षाणामपि । अपत्रपां लज्जाम् । सूचयन्तः उत्पादयन्तः । धन्याः सुकृतिनः । अन्ये । धरणीभुजः राजानः । अवन्याम् । पुण्यफलात् । तस्य तुर्वसोः अन्वये वशे। बभूवु जाताः । क्रमेण उत्प्रेक्षा, उपमा, रूपकं. अतिशयोक्तिश्च ॥ नालीकिनीनायकवद्हेषु नाहारभूमीधरवन्नगेषु । वलासुहृद्वारणवद्गजेषु तेषु प्रतीतोऽजनि तिम्मभूपः ॥ २३ ॥ नालीकिनीति । ग्रहेषु चन्द्रादिषु । नालीकिन्याः पद्मिन्याः नायकः सूर्यः स इव । नगेषु पर्वतेषु । नहिारभूमीधरवत् हिमवत्पर्वत इव । गजेषु । वलस्य तदाख्यदानवस्य असुहृत् शत्रुः इन्द्रः तस्य वारण. गजः ऐरावत इत्यर्थः, स इव । तेषु तुर्वसुकुलोत्पन्नेषु राजसु । तिम्मभूपः तिम्माख्यो राजा । प्रतीतः विख्यातः । अजनि बभूव ॥ निजेन दोष्णा निखिलां धरित्री- मस्मिन्वहत्यङ्गदनिर्विशेषम् । तद्युक्तमीशेन तदोरगाणां कुलोद्वहः कुण्डलितो यदासीन ॥ २४ ॥ निजेनेति । अस्मिन् तिम्मभूपे । निजेन । दोष्णा भुजेन । निखिलां समस्ताम् । धरित्री भूमिम् । अङ्गदनिर्विशेप अगदतुल्य यथा तथा । वहति सति । ईशेन परमेश्वरेण । उरगाणां सपीणाम् । कुलोद्वहः कुलश्रेष्ठ , अच्युतरायाभ्युदये शेप इत्यर्थः । कुण्डलित. कुण्डलनाख्यचिह्नविशेष प्रापितः, पक्षे मण्डलीकृतः कर्णवेष्टनं कृतो वा । आतीदिति यत् । तत् । युक्तम् । यत्र लिखितस्य ग्रन्थस्य वैय्यर्थ्य तत्र कुण्डलना क्रियते इति सप्रदायः । 'तदोजसस्त- यशसः स्थिताविमौ वृथति चित्ते कुरुते यदा यदा । तनोति भानोः परि- वेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ॥' इति नैषधे। उत्प्रेक्षा ॥ प्रतिक्षमापावलि पर्यटन्त्या वीरश्रियो विश्रमहेतुबाहुः । श्रीतिम्मभूपाजिनभूस्ततोऽभू- घशोधनादीश्वरभूमिपालः ॥ २५ ॥ प्रतिक्षमापेति। प्रतिक्षमापावलि प्रतिराजसमूहम् । पर्यटन्त्या. भ्रमन्त्याः । वीरश्रियः वीरलक्ष्म्याः । विश्रमस्य विश्रान्तेः हेतुभूतौ बाहू यस्य स तथोक्तः । जिता भूः येन स तादृशः । ईश्वरभूमिपाल: ईश्वर- नामा राजा । यशोधनात् । ततः तस्मात् तिम्मभूपात् । अभूत् ॥ वृषाङ्कयोरीश्वरयोविभूति- मुपेयुषोरेष परं विशेषः । राजोत्तमाङ्गे रचिता िरेक- स्तत्पादधन्यस्वशिरा यदन्यः ॥ २६ ।। वृषेति । वृषः धर्मः वृषभश्च अङ्कः भूषण चिह्न च ययोस्तयोः तथो- क्तयोः। विभूति ऐश्वर्य भस्म च । उपेयुषोः प्राप्तयोः । ईश्वरयोः ईश्वर- राजस्य शिवस्य च । एष पर एष एव । विशेषः भेदः । एकः ईश्वरनृपतिः। राज्ञा उत्तमाञ शिरसि । रचिताघ्रिः न्यस्तपादः। अन्यः ईश्वरः शिवस्तु ।

प्रथमः सर्गः। १५ तेषां राज्ञां, पक्षे तस्य रानः चन्द्रम्येत्यर्थः पादेन चरणेन रश्मिना व धन्य कृतार्थ स्वशिरः यस्य स तथोक्तः । इति यत् एष परं विशेष इत्यन्वयः॥ क्रमादभूतामथ बुकमायां नृसिंहतिम्मक्षितिपालसिंहौ । प्रतीकवन्ताविव दोःप्रताप- यशोगुणावीश्वरभूवलारेः ॥ २७ ॥ क्रमादिति । अथ । प्रतीकवन्ती शगरिणौ । ईश्वरभूवलारेः ईश्वर- राजस्य । दोःप्रताप. भुजपराक्रमः स च यशोगुणश्चेलेताविव स्थिता । नृसिहतिम्माविति क्षितिपालमिही राजश्रेष्टौ । वुकमायां बुकमादेव्याम । कमात् । अभूतां उत्पन्नौ ॥ आरभ्य वाल्यादजनि प्रजाना- मानन्दहेतुर्नरसावनीन्द्रः। प्रौढोऽर्भको वा पतिरुत्पलिन्याः प्रमोदनत्वे परिहीयते किम् ।। २८ ॥ आरभ्येति । नरसावनीन्द्रः नृसिहराजः । बाल्यात् आरभ्य । प्रजा- नां आनन्दहेतुः अजनि । प्रौढः सम्पूर्णः । अर्भकः वालो वा । उत्पलिन्याः पतिः चन्द्रः । प्रमोदनत्वे सन्तोषकारित्वे । परिहीयते हानो भवति किम् ॥ महीपतिर्मानवनाम दुर्ग शकाधिनाथेन समं गृहीत्वा ।

अच्युतरायाभ्युदये स्फुटीचकारास्य पुनर्वितीर्य शौर्य तथौदार्यमवार्यचर्यम् ।। २९ ।। महीति । महीपतिः नृसिहनृपतिः। मानवनाम दुर्गम् । शकाधि- नाथेन सम तुरुष्कराजेन सह । गृहीत्वा। अस्य सम्बन्धसामान्ये षष्ट। अस्मै इत्यर्थः । अस्येत्यस्य स्फुटींचकारेत्यत्रान्वयो वा । पुनः । वितीर्य दत्त्वा । अवार्यचर्य अनिवारितप्रक्रमम् । शौर्यम् । तथा। औदार्य दातृत्व च । स्फुटीचकार प्रकाशयामास ॥ प्रायोऽर्णवे सेतुकृतोऽवतारः प्राग्जन्मसंस्कारवशादिवैषः । सेतुं विधायाम्भसि सह्यजायाः श्रीरङ्गपूर्वी नगरी जहार ॥ ३० ॥ प्राय इति । प्रायः प्रायेण । । अर्णवे समुद्रे । सेतुकृतः सेतु- निर्मातुः श्रीरामभद्रस्येत्यर्थः । अवतारः । एष. नरसिंहराजः । प्राग्जन्म- संस्कारः पूर्वजन्मवासना तद्वशादिव । सह्यजायाः कावेर्याः । अम्भसि जले । सेतुम् । विधाय । श्रीरङ्गपूर्वी नगरी श्रीरङ्गपट्टणम् । जहार वशी- चकार । उत्प्रेक्षा॥ कंसं यथा कैटभजिद्वलेन समन्वितः सैनिकमलहन्ता । मद्प्रवृत्तं मरवं मथित्वा महीमहेन्द्रो मधुरामहार्षीत् ॥ ३१ ॥ कंसमिति । महीमहेन्द्रः नृसिहभूपतिः। बलेन सैन्येन पक्षे बलरा- ।

प्रथमः सर्गः। १७ मेण च । समन्वितः । सैनिकमलानां सैन्येषु बलवतां हन्ता व्यापादकः, पक्षे सैनिकमलस्य चाणूराख्यस्य मल्लख हन्ता सन् । मदेन दर्पण प्रवृत्तं युद्धाय प्रवृत्त अपथासक्त वा। मरव मरवजातीय तदानन नृपतिम् । कैटभजित् कृष्णः । कंस यथा कसमिव । मथित्वा हत्वा । मधुरां पाण्ज्य. राजधानी दक्षिणदेशस्थां मधुरापुरीम, पक्षे सुप्रसिद्धां मधुगनगरीम् । अहार्षीत् हृतवान् । उपमा । महेन्द्रलोकं मरवाय दत्त्वा मध्येसमीकं मधुरां स जह्ने । महीयसामेष महीपतीनां नयो विपक्षष्वपि नान्यथा स्यान् ॥ ३२ ॥ महेन्द्रेति ॥ सः नृसिहभूपतिः। मध्येसमीकं युद्धमध्ये । मरवाय । महेन्द्रलोक स्वर्गम् । दत्वा । मधुगं मधुरानगरम् । जड़े हृतवान् । मही- यसां श्रेष्ठानां । महीपतीनां राज्ञाम् । एष नयः खल्पस्वीकारपूर्वकमधिक- प्रदानरूपा रीतिः । विपक्षेषु शत्रुष्वपि । अन्यथा । न स्यात् । युद्धे मृतानां वीराणां खर्गों भवतीत्यागमः । 'कावेरीमाशु बवा बहुलजल- रयां तां विलवयैव शत्रु जीवग्राहं गृहीत्वा समिति भुजवलात्तच्च राज्यं तदीयम् । कृत्वा श्रीरङ्गपूर्व तदपि निजवशे पट्टणं यो बभासे कीर्तिस्तम्भ निखाय त्रिभुवनभवनस्तूयमानापदानः ॥ चेर चोल च पाण्ड्यं तमपि च मधुरावल्लभ मानभूषं वीर्योदन तुरुष्कं गजपतिनृपतिं चापि जित्वा तदन्यान् । आगङ्गातीरलङ्काप्रथमचरमभूभृत्तटान्त नितान्तं ख्यातः क्षोणी- पतीनां स्रजमिव शिरसां शासनं यो व्यतानीत् ॥' इति श्रीकृष्णरायता- म्रशासने नृसिहराजवर्णनम् ॥ अर्थान्तरन्यासः॥ 2 १८ अच्युतरायाभ्युदये क्रुधापतन्तं सह कुञ्जरौघैः कोनेटिराजं क्षुभितान्यसैन्यः । जग्राह पाणौ जगदेकवीरो जयाब्धिकन्यामपि जन्यभूमौ ।। ३३ ।। क्रुधेति ॥ जगदेकवीरः लोकैकशूगे नृसिहराज. । बाहुलकात् 'एक- वीर" इति साधुः । यद्वा एकेषु मुख्येषु वीरयते पराक्रमते इति व्युत्पत्तिः कार्या । क्षुभितानि क्षोभ प्राप्तानि अन्यसैन्यानि शत्रुसेनाः येन तथोक्तः सन् । कुञ्जरोधैः गजसमूहैः सह । क्रुधा कोपेन । आपतन्तं योद्धमाग- च्छन्तम् । कोनेटि(रि) राजं कोनेटिनामक नृपम् । जयाब्धिकन्यां जयलक्ष्मीमपि। जन्यभूमौ युद्धभूमौ पितृगृहे च । पाणौ जग्राह करे गृहीत- वान् , युद्धे भयेन पलायमानस्य कोनेटिराजस्य हस्तमगृह्णात् ; अन्यत्र जयलक्ष्म्याः पाणिग्रहणमकादित्यर्थः । 'जन्य हट्टे परीवादे सग्रामे च नपुसकम् । जन्या मातृवयस्थायां जन्यः स्याज्जनके पुमान् । निषूत्पाद्य- जनित्रीश्च नवोढाज्ञातिभृत्ययोः । वरस्निग्धेऽपि' इति विश्वः । तुल्य- योगिता॥ प्रयाणमाशाविजयाय तस्य प्रायो गृहप्राङ्गणभूविहारः । दानान्यहो षोडश विश्रुतानि जातानि दैनंदिनमेव कृत्यम् ॥ ३४ ॥ प्रयाणमिति ॥ तस्य नृसिहराजस्य । आशानां दिशां विजयाय । प्रयाणम् । प्रायः । गृहस्य प्राङ्गणभुवि चत्वरप्रदेशे विहारः लीला, लीला- प्रथमः सर्गः । १९ मञ्चरणमदृशमित्यर्थः । विश्रुतानि प्रसिद्धानि । पोडश । दानानि । दैन- दिन दिने दिने भवं, प्रतिदिवसमनुष्ठीयमानमित्यर्थः । कृत्यं कर्म । जातानि । अहो इत्याश्चर्य । पोडश दानानि च भूम्यामनं जल वस्त्र प्रदीपोऽन्न ततः परम् । ताम्बूलच्छवगन्धाश्च मान्य फलमतः परम । शय्या च पादुका गावः काञ्चन रजतं तथा ।' इन्युक्तानि ॥ तत्म्वातिवर्षेण तथा बुधानां पूर्णासु जाताः करशुक्तिकासु । मुक्ता यशोमूर्तिजुपो विभूषाः कण्ठेष्वभूवन्ककुबङ्गनानाम ॥ ३५ ।। तत्स्वेति ॥ तस्य म्वानां धनानां अतिवर्षः अनिशयितं दानमेव स्वातिवर्षः स्वातीनक्षत्रयुक्तकालोत्पन्ना वृष्टिः तेन । वुधानां विदुषाम् । कगः हस्ता एव शुक्तिकाः मुक्तास्फोटाः तासु । तथा । पूर्णासु मापु । जाता । यशोमूर्तिजुषः कीर्तिरूपधारिण्यः। मुक्ताः मुक्ताफलानि, तत्कीर्नय एव मुक्ताफलानीति भावः। ककुभः दिश एव अगनाः स्त्रियः तासाम् । कण्टंषु । विभूषाः आभरणानि । अभवन् । स्वातीवर्षे शुक्तिकासु पतिता अम्बुधाराः मुक्ताफलानि भवन्तीति प्रसिद्धिः । 'खात्यां सागरशुक्तिमध्यपतितं तन्मौ- क्तिकं जायते ।" इति भर्तृहरिमुभाषितम् । “स्वाती सपत्नी किल तार- काणां मुक्ताफलानां जननीति रोषात् । सा रोहिणी नीलममूत रत्न कृता- स्पदं गोपवधूकुचेषु ॥' इति श्रीकृष्णकर्णामृतम् । रूपकं उत्प्रेक्षा च ॥ गौरित्यटव्यां गवयं प्रकाश्य पयःप्रदोहं प्रति वाध्यमानाः ।

२० अच्युतरायाभ्युदये कूलंकषक्षुत्तरलैः कुमारै- बीडामवापुर्विमतास्तदीयाः ॥ ३६ ।। गौरिति ॥ तदीयाः नृसिहराजसंबन्धिन । विमताः शत्रवः । कूल- कषया समधिकया क्षुधा बुभुक्षया तरलैः चञ्चलैः दुरवस्थैरित्यर्थः । कुमारैः बालकैः । अटव्यां वने । गवयं गोसदृशं मृगविशेषम् । गौः इति इयं धेनुरिति । प्रकाश्य गवयमानीय प्रकटय्य तं दर्शयित्वेत्यर्थः । पयःप्रदोह प्रति क्षीरदोहनमुद्दिश्य । बाध्यमानाः मुहुर्मुहुर्निबन्धेन क्लेश्य- मानाः सन्तः। ब्रीडां लज्जाम् । अवापुः प्राप्तवन्तः। भ्रान्तिमदलङ्कारः। प्रयातुमेतत्प्रतिभूपतीनां प्राणानिलो नाक्षमताहवेपु । व्यलम्बतैषां वदनेषु तृण्यां विलोक्य किं वाहमृगोऽदसीयः ।। ३७ ।। प्रयातुमिति ॥ आहवेषु युद्धेषु । एतस्य नरसिहराजस्य ये प्रतिभू- पतयः शत्रुराजाः तेषाम् । प्राणानिल: प्राणवायुः । प्रयातुं निर्गन्तुम् । न अक्षमत न शक्तोऽभवत् । तत्र हेतुमुत्प्रेक्षते ---व्यलम्बतेति । अदसीयः अमुष्य वायोः सबन्धी । वाहमृग: वाहनभूतो हरिणः । एषां शत्रुनृपाणाम् । वदनेषु मुखेषु । तृण्यां तृणसमूहम् । विलोक्य । (तल्लोभेन) व्यलम्बत विलम्बमकरोत्किम् । वायोर्वाहनं मृग हात पुराणेषु । अत एव पृषदश्व इति तस्य नाम । तृणदर्शनेन तद्भक्षणाय प्रवृत्तस्य स्ववाहनस्य हरि- णस्य विलम्बात् न शत्रुनृपतीनां वदनात्प्राणानिलः प्रचचालेति विशिष्टो- त्प्रेक्षा । युद्धेषु तृणमुखानभयार्थियो नृपतीनय ररक्षेति तात्पर्यम् । अश- तानां मुखेन तृणवहनं शरणागतिचिह्नमिति युद्धसंप्रदायः॥

प्रथमः सर्गः । . प्रकाशमानादिशि तत्प्रतापा- प्रायेण लब्ध्वा परिभूतितापम् । पतिस्त्विषां पङ्कजकोरकेपु कालं नयत्येष करं निधाय ॥ ३८ ॥ प्रकाशमानादिति ॥ एषः । त्विषां पतिः मूर्यः । दिशि । प्रका शमानात् दीप्यमानात् । तस्य प्रतापात् कोशदण्डजतेजमः । परिभूत्या पराजयेन जातः यः नापः तम् । लब्ध्वा । (शैत्योपचाराय) पङ्कजको- रकेषु पद्ममुकुलेषु । कर हस्त किरण च । निधाय निक्षिप्य । कालम् । त्रायेण । नयति गमयति। उत्प्रेक्षा। तद्व्यजकं प्रायेणेति पदम् । गवमन्यत्रापि ॥ वस्वोकसारेव विभोर्वसूनां वलाभियातेरमरावतीव । विद्यापुरी विस्मयभूरमुष्य विशिष्य राज्ञोऽजनि राजधानी ॥ ३९ ॥ वस्वोकसारेति ॥ अमुष्य । राज्ञः। विशिष्य विशेषनः । विस्म- यभूः आश्चर्यस्थानम । विद्यापुरी । वसूनां धनानाम् । विभोः प्रभोः कुवे- रस्येत्यर्थः । वस्वोकसारा अलकापुरीव । वलाभियातेः इन्द्रस्य । अमरा- वर्ताव । राजधानी । अजनि जाता । जनी प्रादुर्भाव इत्यस्मात्कतरि लुडि "दीपजन--" इति चिण् । बिलेशयेशं बिसमित्यवेत्य गृह्णन्ति यत्खयकृतावगाहाः ।

२२ अच्युतरायाभ्युदये आलोक्य तन्मौलिमणीनलात- मोहेन मुञ्चन्ति पुनर्मदेभाः ॥ ४० ॥ बिलेशयेति ॥ यस्याः विद्यापुर्याः खेयेषु परिखासु कृतः अवगाहः प्रवेशः यैस्ते तथोक्ताः । मदेभाः मत्तगजाः। बिले शेरत इति बिलेशयाः सीः तेषा ईशं श्रेष्ठम् । बिस मृणालम् । इति अवेत्य मत्वा । गृह्णन्ति । पुन; पश्चात् । तस्य बिलेशयेशस्य मौलिमणीन् फणारत्नानि । आलोक्य । अलातमोहेन अङ्गारखण्डभ्रमेण । मुञ्चन्ति विसृजन्ति । भ्रान्तिमान् उदात्तं च ॥ सुधाभुजो यत्सदनध्वजेपु स्वैरं नभोलङ्घनजाचिकेषु । न जानते नन्दनवल्लरीणा- मुपनविन्यासभुवः प्रयासान ॥ ४१ ।। सुधेति ॥ यस्या सदन बजेषु गृहकेतुदण्डेषु । खैर स्वच्छया निष्प्रतिबन्धमित्यर्थः । नभसः आकाशस्य लड्चने तरणे जाचिकेषु जवालेषु आकाशतरणपर्याप्तेष्वित्यर्थः, आकाशादुपर्यपि सुदूरं गच्छत्स्विति यावत् । सुधाभुजः देवा. । नन्दवल्लरीणां नन्दनोद्यानलतानाम् । उपनानां आ- श्रयभूतवृक्षाणां विन्यासभुवः स्थापनेन जायमानान् । प्रयासान्। न जानते न विदन्ति । अतिशयोक्तिः ॥ कपोलकाषात्करिणो वलारेः श्लथासु यत्सौधमणिच्छटासु ।

प्रथमः सर्गः। २३ मदाम्बुरेखाजुषि तत्प्रदेशे मना द्विरेफा मणयो भवन्ति ॥ ४२ ॥ कपोलेति ॥ यस्याः सौधानां प्रासादानां मणिच्छटासु रत्नपङ्क्तिषु । वलारेः करिणः ऐरावतस्य । कपोलकाषान् गण्डस्थलघर्षणात्। श्लथासु गलि- तासु सतीषु । मदाम्बुरेखाजुषि मदजलरेखायुते । तत्प्रदेशे तस्मिन् स्थले। मन्नाः गन्धलोभेन निलीनाः । द्विरेफाः भ्रमराः । मणयः रत्नानि । भवन्ति ।। सयत्ननिर्यनगतिर्गवाक्ष- मार्गे यदुच्चैर्मणिहर्म्यरुद्धः । प्रायेण पक्षद्वितये प्रवृद्धि- परिक्षयौ निन्दति नन्दतीन्दुः ।। ४३ ।। सयत्नेति ॥ इन्दुः चन्द्रः । यस्या. उच्चमणिहम्यै. उन्नत रत्नमय- धीननां वासगृहैः रुद्धः गमन प्रतिबद्धः । गवाक्षमार्गे वातायनपथे । सयत्ना शुक्लपक्षे वृद्धः सप्रयासा नियत्ना कृष्णपक्षे ह्रासात् निष्प्रयासा च गतिः गमन यस्य स तथोक्तः सन् । पक्षद्वितये शुक्लकृष्णपक्षयोः । (क्रमेण) प्रवृद्धिपरिक्षयो पुष्टिहासौ । प्रायण निन्दति । नन्दति च । अत्र सम्भावनामात्रमिति नोत्प्रेक्षा ॥ सौधाग्रकेल्यां यदणूदरीषु शाखार्पितप्रस्मृतभूषणासु। ऐश्वर्यवन्तस्तरवः सुराणा- मौदार्यमुद्रां ध्रुवमाश्रयन्ते ॥ ४४ ॥ सौधेति ॥ यस्यां विद्यमानाः अणूदर्य. कृशोदर्यः स्त्रियः तासु ।

अच्युतरायाभ्युदये सौधाप्रकेल्यां प्रासादाप्रविहारकाले । शाखासु अर्पितानि लम्बितानि प्रस्मृतानि विस्मृतानि भूषणानि याभिस्तासु तथोक्तासु सतीषु । (तैर्भूषणैः) ऐश्वर्यवन्तः समृद्धिमन्तः । सुराणां तरवः कल्पवृक्षाः । औदार्यमुद्रां दातृत्व- प्रसिद्धिम् । आश्रयन्ते भजन्ति । ध्रुवम् । उत्प्रेक्षातिशयोक्ती ॥ मदावलानां कटमध्यवान्तै- मैदैर्नदीमातृकतां प्रयाता । यन्नेतुरुकिमितुर्यशोभि- रशोभि भूराश्रितसस्यलाया ॥ ४५ ॥ मदावलेति ॥ मदावलानां गजानाम् । कटमभ्यवान्तैः गण्डस्थल- मध्यगलितैः । मदैः मदजलैः । नदी माता पोषिका यस्याः सा नदीमा- तृका तस्या भावः नदीमातृकता तां जलसमृद्धिमित्यर्थः । प्रयाता । भूः भूमिः । आश्रितं सस्यानां लास्य नर्तनं अभिवृद्धिः यां सा तथोक्ता सती। यनेतुः यस्याः नायकस्य । उर्वीकमितुः राज्ञः । यशोभिः कीर्तिभिः । अशोभि शोभिता ॥ मखावतीर्णेषु महीसुराणां मरुत्सु शून्या नगरी मघोनः । प्रजासमाजैः परिणाहिलक्ष्म्याः प्रयाति यस्या न समानकक्ष्याम् ॥ ४६॥ मखेति । मरुत्सु देवेषु । महीसुराणां ब्राह्मणानाम् । मखावतीर्णेषु यागं प्रत्यागतेषु सत्सु। शून्या जनशून्या। मघोनः पुरी इन्द्रनगरी अमरा- वती। प्रजासमाजैः प्रजासमूहैः । परिणाहिनी विस्तारवती लक्ष्मीः श्रीः प्रथमः सर्गः । २५ यस्याः तथोक्तायाः । यस्याः । समानकक्ष्यां मदृशस्थिति मादृश्यमित्यर्थः । न प्रयाति । काव्यलिङ्गमतिशयोक्तिश्च ॥ उपर्यधः पुष्पफलैरुदन- मुद्यानमामोद्य दिवं भुवं च । आवालवारिण्यनुबिम्बदम्भा- दसातलं रचयतीव यस्याम् ॥ ४७ ।। उपरीति । यस्याम् । उद्यान आरामः । उपरि उपरिभागे । अधः अधोभागे च । (क्रमेण) पुष्पाणि फलानि च तैः। उदग्र श्लाघ्यं सत् । दिव वर्गम्। भुव भूमि च । आमोद्य वासयित्वा संतोष्य च । आवालवारिणि आलवालजले। अनुबिम्बदम्भात् प्रतिबिम्बव्याजात् । रसातलं पातालम् । रञ्जयति रक्त करोति मनोषयतीव । पुष्पफलममृद्धिमन्नोऽन्युन्नताश्च तस्यां पुरि वृक्षा इति भावः । अपहृतिः उत्प्रेक्षा उदात्तं च ॥ वियत्तरूणां व्यतिघट्टितासु शाखाञ्चलैः सौधपताकिकासु । साधर्म्यभाजा शतमन्युपुर्या- सदण्डलास्येव समीक्ष्यते या ॥ ४८ ॥ वियदिति। या नगरी। सोधपताकिकासु प्रासादध्वजदण्डेषु । वियत्त- रूणां कल्पवृक्षाणाम् । शाखाञ्चले: शाखाप्रैः । व्यतिघहितामु सघर्षे प्राप्तासु सतीषु । साधर्म्यभाजा सादृश्यं प्राप्तया । शतमन्युपुर्या इन्द्रनगर्या सह । सदण्डलास्या दण्डलीलामहितेव दण्डादण्डि कुर्वाणेवेत्यर्थः । समीक्ष्यते दृश्यते । उत्प्रेक्षा॥

२६ अच्युतरायाभ्युदये पूषोत्पलेशावपि पुष्पवन्ता- वितीव यत्रोपवनी कृता । प्रवद्धर्थ चैतद्रिपुमन्तरन्धं पादार्पणं न क्षमते तदीयम् ॥ ४९ ॥ पूषेति ॥ यत्र नगर्याम् । उपवनी उद्यानम् । पूषा सूर्यः उत्पलेशः चन्द्रः तावुभावपि । पुष्पवन्तौ पुष्पसहितो, पुष्पवच्छव्दवाच्यौ । इति । कृतेा ईघ्यायुतेव । अन्तः स्वान्तःप्रदेशे । एतयोः सूर्याचन्द्रमसोः रिपुं शत्रुम् । अन्धं तमः । प्रव_ प्रकर्षेण पोषयित्वा । तदीय सूर्याचन्द्रम- स्संबन्धि । पादार्पणं चरणविन्यासं किरणप्रवेशं च । न क्षमते न सहते। 'एकयोक्त्या पुष्पवन्तो दिवाकरनिशाकरौ ।' 'अन्धं तमस्यपि।' इत्यमरः ।। स्पृशत्युदस्तेन विधावुदग्रं पादेन यत्सौधपितामहाण्डम् । समन्ततः कन्दलतीन्दुकान्त- निष्यन्दसन्दोहनिभाद्दयुसिन्धुः ॥ ५० ॥ स्पृशतीति ॥ विधौ चन्द्र एव विष्णौ । उदस्तन प्रसारितेन ऊध्वों- क्षिप्तेन च। पादेन किरणेनैव चरणन। उदग्रं उन्नतम् । यस्याः सौध एव पिता- महाण्डं बृह्माण्ड तत् । स्पृशति सति । समन्ततः समन्तात् । इन्दुकान्तनि ष्यन्दनिभात् चन्द्रकान्तनिष्यन्दव्याजेन । द्युसिन्धुः गङ्गा । कन्दलति प्रस्रवति। रूपकं अपहृतिश्च ॥ आचैरपि क्षोणिपतिप्रकाण्डै- राकाङ्कणीयस्वयशोऽवतारः ।

प्रथमः सर्गः। वसन्स तम्यां वसुधापतीनां कन्यामणीः काश्चनपर्यणैषीत् ।। ५१ ॥ आचैरिति ॥ आद्यैः क्षाणिपतिप्रकाण्डैः पुरातनैनलनहुपरामादिभि- नृपतिश्रेष्टरपि । आकाक्षणीयः स्पृहणीयः स्वयशोऽवतारः निजकीर्तिप्र- सरो यस्य स तथोक्तः । सः नृसिहराजः । तस्यां विद्यापुर्याम् । बसन मन् । वसुधापतीनां राज्ञाम । काश्चन । कन्यामणीः प्रशस्ताः कन्यका पर्यणपत् परिणातवान् । तिम्रो नृपस्येत्यभवन्नभीष्टा- स्तिप्पाम्बिका तासु च नागमाम्बा । पट्टाभिषिक्ता पतिदेवताना- मुत्तंसभूषामणिरोबमाम्बा ।। ५२ ।। तिन इति ॥ तासु परिणीतासु राजकन्यकासु । तिप्पाम्बिका नाग- माम्बा । पट्टाभिपिक्का माहषी । पतिरेव देवता यामां तामां पतिदेवतानां पतिव्रतानाम् । उत्तमभूषामणिः चूडामणिभूता। ओबमाम्बा च । इति तिन. । नृपस्य नरसिंहराजस्य । अभीष्टाः प्रियाः । अभवन् । तिप्पाम्बिकायां द्विजसंपदेऽभू- द्विख्यातिमान्वीरनृसिंहरायः । नागाम्बिकायां नरसावनीन्दोः कांकरोऽजायत कृष्णरायः ॥ ५३ ॥ तिप्पाम्बिकायामिति ॥ नरसावनीन्दोः नरसिंहराजस्य । द्विजाना ब्राह्मणानां मंपदे संपदर्थम् । तिप्पाम्बिकायाम् । विख्यातिमान् प्रसिद्धः ।

अच्युतरायाभ्युदये वीरनृसिहरायः । नागाम्बिकायाम् । कीाकरः यशानिधिः । कृष्णरायश्च । अजायत जातः॥ अनन्यसामान्यतया धरायां दानेन तौ ख्याततरावभूताम । आद्यस्तयोर्दैन्यमुषा द्विजाना- मन्योऽपि वैगुण्यपुषा परेषाम् ॥ ५४ ॥ अनन्येति ॥ तयोः वीरनृसिहरायकृष्णराययोः । आद्यः वीरनृसिह- रायः । अन्यः कृष्णरायोऽपि । तौ । (क्रमेण) द्विजानाम् । दैन्यं कार्पण्य मुष्णाति अपनयतीति तेन । दानेन । परेषां शत्रूणाम् । वैगुण्यं विगुणत्व वैकल्यमित्यर्थः, तत् पुष्णातीति तेन दु.खजनकेनेति यावत् । दानेन छेदनेन । ददातेद्यतेश्च ल्युटि दानशब्दो निष्पन्नः । अनन्यसामान्यतया असाधारण्येन । धरायां भूमौ । ख्याततरौ अत्यन्तं प्रसिद्धौ। अभूताम् । एतावत्पर्यन्त प्रायेणोपजातिः । क्वचिदिन्द्रवज्रोपेन्द्रवज्रे अपि ॥ मणिमिव खनिभूमहीसुराशी- रभिमतमर्थमिवाम्बुराशिवेला । उडुरमणमिवेयमोबमाम्बा भुवनहिताय बभार गर्भभारम् ॥ ५५ ॥ मणिमिति ॥ खनिभूः आकरभूमिः । मणि रत्नमिव । महीसुराशीः ब्राह्मणाशीर्वादः । अभिमतं इष्टम् । अर्थ इव । अम्बुराशेः समुद्रस्य वेला अम्बुविकृतिः । उडुरमणं चन्द्रमिव । इय ओबमाम्बा । भुवनस्य लोकस्य हिताय । गर्भभारम् । बभार धृतवती। मालोपमा। पुष्पिताना वृत्तम ॥ इति प्रथमः सर्गः ॥

द्वितीयः सर्गः। Sum.x. शरकाण्डविपाण्डुना मुखन स्तनयोरप्युपजातमेचकिम्ना । परिणेतृमुदा समं तदासी- प्रकटं दौहदलक्ष्म पक्ष्मलाक्ष्याः ॥ १॥ अथ गर्भचिह्नानि वर्णयनि- शरेत्यादिना। नदा । पश्मले अ- क्षिी यस्यास्तस्याः पक्ष्मलाक्ष्याः ओबमाम्बायाः । दोहृदलक्ष्म गर्भ- चिह्नम् । शरकाण्डवत् काशगुच्छवन् विपाण्डुना गौरेण । मुखेन वदनन । उपजातः मेचकिमा नैल्य यस्य तेन तथोक्तेन । स्तनयोः कुचयोः । मुखेन अग्रभागेणापि । परिणेतुः नायकस्य । मुदा सन्तोषेण । सम साकम् । प्रकटं व्यक्तम् । आसीत् । अनुमानम् ।। तनयानुपलम्भसंभवो यो नृपतेरैक्ष्यत नीलिमा मुखेन्दौ । कुचयोः स युगेन कोमलाङ्ग्या मुषितश्चूचुकनीलिमापदेशात् ॥ २ ॥ तनयेति ॥ तनयख पुत्रस्य अनुपलम्भेन अनुत्पत्या सम्भवः यस्य तथाक्तः । यः। नीलिमा श्यामत्व वैवर्ण्यमिति यावत् । नृपतेः । मुखेन्दी मुखचन्द्रे । ऐक्ष्यत दृष्टः । सः नीलिमा । कोमलाझ्याः सुकुमारगाव्याः ओबमाम्बायाः । कुचयोः स्तनयोः । युगेन युग्मेन। चूचुकयोः स्तना- ३० अच्युतरायाभ्युदये प्रयोः नीलिम्नः नल्यस्य अपदेशात् व्याजात् । मुषितः चोरितः । कैतवापह्नुतिः उदरस्थितमुत्पलेक्षणायाः कुलदीपं कुमुदिन्यधीश्वरेण । अभिरक्षितुमर्भकं विसृष्टा रजनीवाजनि रोमराजिरयाः ॥ ३ ॥ उदरोति॥ उत्पलेक्षणायाः इन्दीवराक्ष्याः । अस्याः राज्याः । रोमराजि: रोमावलिः । उदरस्थित कुक्षिस्थम् । कुलदीप बंशप्रदीपकम् । अर्भक शिशुम । अभिरक्षितुम् । कुमुदिन्याः अधीश्वरेण चन्द्रेण । विमृष्टा प्रेषिता। रजनी रात्रिरिव । अजनि जाता। उत्प्रेक्षा॥ अवतार इति स्वयं मुरारे- रुदरस्थः शिशुरुत्पलेक्षणायाः । वलिवैभववञ्चनानुकूलं वपुषा वृद्धिजुषा विभाव्यते स्म ॥ ४ ॥ अवतार इति ॥ उत्पलेक्षणायाः । उदरस्थः । शिशुः। वीनां त्रिवल्याः वैभवस्य गुरुत्वस्य प्रकटदर्शनस्यति यावत् , वञ्चनायाः प्रतार- णायाः तदपनयनस्येत्यर्थः; अनुकूल अनुगुण यथा तथा । पक्ष वबयो- रभेदात् बलेः विरोचनसुतस्य दानवस्य यत् वैभवं महिमा तस्य वञ्चना- याः प्रतारणायाः तदपनोदनस्येत्यर्थः, अनुकूलं यथा तथा। बृद्धिं जुषते भजते इति तेन । वपुषा शरीरेण । स्वयं आत्मना । मुरारेः विष्णोः । अवतारः त्रिविक्रमावतारः । इति । विभाव्यते स्म अमन्यत । काव्य- लिङ्गम् ॥

द्वितीयः सर्गः। ३१ १ कुचकोकमुखे विधाय कार्य सुदृश: श्वेतिमकौमुदीं तथाङ्गे । नियतं कुलनेतुरन्वकार्पा- जठरस्थो जगदीशसूनुरिन्दोः ॥ ५ ॥ कुचेति ॥ जठरस्थः उदरस्थितः । जगदीशसूनुः गजकुमारः । कुची स्तनावेव काका चक्रवाको नयोः मुख अग्रभाग एव वदन तस्मिन । कायं नैल्यमेव दु.खजनित वैवर्ण्यम् । विधाय कृत्वा । तथा । मुदृशः ओबमाम्बाया. । अङ्गे । श्वेतिमा धावल्यमेव कौमुदी चन्द्रिका ताम् । विधाय । कुलनेनुः वशनायकस्य कुलकूटस्थस्येत्यर्थः। इन्दोः। नियत ध्रुवम् । अन्वकापीन् अनुकरोति स्म । अनुकरोतेः प्रयोगे कर्मणि पष्ठी- करणं महाकविशैली। यथा 'अनुकरोति भगवतो नागयगस्य' इति कादम्बरी । उपमा ॥ प्रसमीक्ष्य पयोधरं मृगाक्ष्या मुखतः श्यामलिमानमश्नुवानम् । अपि गर्भघनोदये व्यलासी- दजहत्प्रीतिरहो स राजहंसः ॥ ६ ॥ प्रसमीक्ष्येति ॥ सः । राजहमः राजश्रेष्ठो नरसिंहभूपतिरव हस- विशेषः । गर्भस्य घनः मान्द्रः यः उदयः अभिवृद्धिः स एव घनोदयः मेघाविर्भावसमयः वर्षाकाल इति यावत् , तस्मिन्नपि । मुखतः अग्र- भागे । श्यामलिमान नेल्यम् । अश्नुवानं आप्नुवन्तम् । पयोधर कुच- मेव मेघम् । प्रसमीक्ष्य विलोक्य । अजह ती अत्यजन्ती प्रीतिः यं म ३२ ३ अच्युतरायाभ्युदये तथोक्तः सन्। व्यलासीत् विलसति स्म । अहो इत्याश्चर्ये । हंसस्य घनोदये प्रीत्याविर्भावो विस्मयस्थानमिति भावः । रूपकं विरोधाभासश्च ॥ मुहुरुच्छ्रसितं मुखेन तन्व्या नयनाभ्यां सह नर्तितप्रसादम् । अवलग्नमिवान्तरङ्गमासी- दवनीपालशिखामणेरशून्यम् ॥ ७ ॥ मुहुरिति ॥ अवनीपालशिखामणेः राजचूडामणेर्नरसिहराजस्य । अन्तरङ्ग मनः । तन्न्याः ओबमाम्बायाः । मुखेन (सह) उच्छसित उच्छाससहितम् । आसीत् । मुखस्य उच्छासः निश्वासः । हृदयस्य तु उच्छासः समाश्वासः संतोष इति यावत् । नयनाभ्यां तस्याः नेत्राभ्यां सह । नर्तितः अभिवृद्धः प्रसादः प्रसन्नता दुःखकालुष्याभावः अन्यत्र धावल्यं यस्य तत्तथोक्तम् । आसीत् । (तथा) अवलग्नं तस्याः मध्यामिव । अशून्य वैकल्यरहित तत्तत्कार्यविचारचतुर पक्षे पुष्टं च । आसीत् । सहोक्तिः उपमा च । उदभूज्जगदद्भुतोदयाना- मुचितो गर्भमुपेयुषोऽर्भकस्य । महितो भुजधामविभ्रमाणां महिलारत्नमनोरथप्रचारः ॥ ८ ॥ उदभूदिति ॥ जगति लोके अद्भुतानां आश्चर्याणां उदयाः उत्पत्तयः तेषाम् । उचितः अनुगुणः । गर्भम् । उपेयुषः प्राप्तवतः । अर्भकस्य शिशोः । भुजयोः यत् धाम तेजः तस्य विभ्रमाणां विलासानाम् । महितः द्वितीयः सर्गः। ३३ पूजितः तैः पूजितः तदनुरूप इति यावत् । यद्वा जगदद्भुनोदयानां भुजधा- मविभ्रमाणां उचितः । महित. श्रेष्ठः । महिलारत्नस्य स्त्रीरत्नस्य ओब- माम्बायाः मनोरथस्य दोहदस्य प्रचार प्रसार । उदभून् उत्पन्न । सुदती महतीपु सिन्धुमुक्ता- स्वनवाप्यादरमाहवाजिरषु । कमितुः करवालखण्डितानां करिणां कुम्भमणीगणानकाङ्क्षीत् ॥ ९ ॥ सुदतीति ॥ शोभनाः दन्ताः यस्याः सा सुदती राज्ञी । महनीपु श्रेष्ठासु । मिन्धोः समुद्रात् आनीताः याः मुक्ताः मुक्ताफलानि नासु । आदर प्रीतिम् । अनवाप्य अलब्ध्वा । आहवाजिरेपु युद्धाङ्गणेषु । कमितुः भर्तुः । करवालेन खड्ङ्गेन खण्डितानां मस्तकस्थले दारितानाम् । करिणां गजानाम् । कुम्भेषु शिरःमु विद्यमानाः याः मण्यः मौक्तिकानि तेषां गणान् समूहान् । अकाङ्क्षीत् अभिललाष ॥ ललनाव्यजनानिलैन किञ्चि- चकमे सौधगता श्रमं विनेतुम् । अलमैहत कन्धराधिरूढा श्रवणोपान्तसमीरणैः करेणोः ॥ १० ॥ ललनेति ॥ (सा) सौधगता प्रासादमारूढा सती । श्रमं तदारोह- णजन्य परिश्रमं तदुद्भूतं स्वेदसलिलमिति यावत् । ललनाभिः परिचारिकाभिः स्त्रीभिः वीज्यमानानां व्यजनानां तालवृन्तानां अनिलैः वातेः । विनेतुं अपनोदयितुम् । किचित् ईषदपि । न चकमे न 3 ४ अच्युतरायाभ्युदये इच्छति स्म । (कितु) कन्धरां करेणोग्रीवां तत्पृष्टमित्यर्थ , अधिरूढा अधि- ष्ठिता सती। करेणो गजवध्वाः । श्रवणोपान्ताभ्यां काञ्चलाया जाय- मानैः समीरणे वायुभिः । श्रम अपनेतुम् । अल अत्यर्थम् । ऐहत अभ्य- लष्यत् ॥ पदमर्पयितुं नच प्रसून- प्रकरेष्वीषदपि प्रगल्भमाना । महिपी भृशकर्कशेपु चूडा- मणिपु द्वेपिमृगीदृशामियेप ॥ ११ ॥ पदमिति ॥ प्रसूनप्रकरघु कुसुमोच्चयेषु (अपि) पद चरणम् । अर्पयितु विन्यमितुम् । ईपदपि विचिदपि। न च प्रगत्भमाना न शक्नुवती । महिपी पट्टाभिषिक्ता ओवमाम्बा । भृशकर्कगेपु नितान्तकाटिने । पिमृगीदृशां शत्रुस्त्रीणाम। चूडामणिषु शिगेलेपु । पद अर्पयितुम् । इयेप वाञ्छति स्म ।। मुकुरेऽभिमुखीकृते सखीभि- मुखमालोकि न मुद्रितेन्दुगर्वम् । विमतैणहशां विनीतवाचां विपुलाक्ष्या विमले कपोल एव ॥ १२ ॥ मुकुर इति ॥ विपुलाक्ष्या विशालनयनया राज्या। मुद्रितः निय- मित निरस्त इत्यर्थः, तादृशः इन्दुगर्वः चन्द्रमद. येन तादृशम् । मुखम्। सखीभिः । अभिमुखीकृते पुरतो धृते । मुकुरे दर्पणे । न आलोकि न दृष्टम् । (कितु) विनीता विनयसम्पन्ना वाक् यासां तासां तथोक्तानाम् । विमतैणदृशां रिपुत्राणाम् । विमले निर्मले । कपोले गण्डस्थल एव । आलोकि वीक्षित वीक्षितुमभिलषितमिति वा ॥

द्वितीयः सर्गः ।
३५
अवधार्य नदीरतिवमन्ना
हरिणाच्या सहुगललोकिपामीन ।
परिपन्थ्यवलाश्रुवाहिनीयु
प्रथमाला बनोगपङ्किलानु ।। १३ ।।
अवधीयति ।। अनितम. अन्यन्तम्वच्छा । नी। अवधाय
तिरस्कृत्य बिहावेत्यर्थ । प्रथमानेन वर्द्धमानेन समधिकन अजनयोगेन
कन्जलमपण पहिला कलमामु परि पन्धिना शणा अबलाना वीणा
अश्रुवाहिनीपु नयन जलनदाय विषये । ग्णिाभ्याः राजनहिया. : मुहुः ।
आलुलोकिपा आलोकिनुमिच्छा । आर्मत् ॥
कदली ललिनोलकाण्डमाम्ये
जनयामान न जातु सौमनस्यम् ।
अदसीयविखण्डनैकशौण्डा
करिशुण्डैव नृसिंहकम्बुकण्ठ्याः ॥ १४ ।।
कदलीति ॥ कम्बु. गाव इव कण्ठः यस्याः मा कम्बुकी नृमिहत्व
झम्बुकण्ठी स्त्री तस्या । ऊरुकाण्डसाम्ये ऊरुदण्डमादृदयविपये। ललिता
मनोहरा । कदली रम्भा । सौमनस्य प्रीनिम् । जातु कदाचिदपि । न
जनयामास न उत्पादितवती । । पर तु) अदमीयविखण्डनकशोण्डा कद.
लीसबन्धि ( कदलीकर्मक ) भन्ननविपये मत्ता तादृशभजनेन विख्याता
वा । करिशुण्डा गजहम्न एव । सौमनस्य जनयामास ॥
अपहाय सुमानि हासपात्रा-
ण्यपि पादाञ्चलताडनास्पदानि ।

३६ अच्युतरायाभ्युदये प्रमदं परमाणुमध्यमायाः सुदतीगीतिसुधोचितानि तेनुः ॥ १५ ॥ अपहायेति ॥ परमाणुवत् अतिसूक्ष्म मध्यम मध्य यस्यास्तथा- क्तायाः राज्याः । हासस्य स्मितस्य पात्राणि गोचरभूतानि स्मितेन विका- स्यमानानीत्यर्थः, परिहासपात्राणि च । सुमानि चम्पककुसुमानि । (तथा) पादाञ्चलेन पादाग्रेण यत् ताडन तस्य आस्पदानि विषयान् स्त्रीणां पादाघातेन पुष्प्यन्तीत्यर्थः, तिरस्कार्याणीति च। सुमानि अशोकपुष्पा- ण्यपि । अपहाय परित्यज्य । सुदतीनां स्त्रीणां गीतिसुधया गानामृतेन उचितानि परिचितानि गीतिसुधायाः उचितानि अनुगुणानीति वा, गानेन विकसन्तीत्यर्थः ; उपचारार्हाणि चेति गम्यते । सुमानि नमेरुकु- सुमान्येव । प्रमद संतोषम् । तेनु चक्रुः । अपहाय विद्यमानानीति योज- नया ल्यबुपपत्तिः । महाकविप्रयोगाणामेव वहुश उपलम्भात् समानक- र्तृकत्वं प्रायिकमिति बहवः । 'स्त्रीणां स्पर्शात्प्रियमुर्विकसति वकुल: शीथुगण्डूषसेकात्पादाघातादशोकस्तिलककुरवको वीक्षणालिङ्गानाभ्याम् । मन्दारो नर्मवाक्यात्पटुमृदुहसनाच्चम्पको वक्त्रवाताच्चूतो गीतानमेरु- विकसति च पुरो नर्तनात्कर्णिकारः ॥' अथ पुंसवनादिकं यथाव- द्विहितं कर्म विशामधीश्वरेण । तनयस्य तदीयगर्भभाजो विभवस्येव नयो विवृद्धयेऽभूत् ।। १६ ।। अथेति ॥ अथ अनन्तरम् । विशां अधीश्वरेण जनाधिपेन नृसिंह- राजेन । यथावत् यथाशास्त्रम् । अर्थेि वतिः । विहितं अनुष्ठितम् ।

द्वितीयः सर्गः । ३७ । पुसवनादिकं पुमान् सूयतेऽननेनि पुंसवन नाम कश्चन संस्कारः, तत्प्र. मृति । कर्म । तीयगर्भभाजः ओवमाम्बागर्भजुषः । तनयस्य मूनोः । नयः नीतिः। विभवम्य ऐश्वर्यस्येव । विवृद्धये अभ्युदयाय । अभूत् । उपमा ॥ अथ वैजनन दिने शुभंयौ हरिणाक्षी नृपतेरसूत सूनुम् । वसुधातिभरापनोदहेतुं वसुदेवप्रमदेव वासुदेवम् ॥ १७ ॥ अथेति ॥ अथ पश्चात् । वैजनने सूतिमासे । शुभ अस्यास्ताति शुभंयु तस्मिन् । दिने । नृपतेः हरिणाक्षी राज्ञी। वसुधायाः भूमेः यः अतिभरः अधिको भारः तख अपनोदस्य अपनयनस्य हेतुं कारण- भूतम् । सूनु पुत्रम् । वसुदेवप्रमदा देवकी । (तादृश) वासुदेवं कृष्णमिव । असून प्रसूतवती । उपमा ।। सुदृशामजनिष्ट सूतिगेहे सुतजन्मोत्सवसूचनो निनादः । उदयत्युडुवान्धवे किमब्धे- धृतमौखर्यविपर्यया लहर्यः ॥ १८ ॥ सुदृशामिति । सूतिगेहे प्रसवगृहे । सुदृशां स्त्रीणाम् । सुतजन्मो- त्सवसूचनः पुत्रोत्पत्तिमङ्गलसूचकः। निनादः कलकलः । अजनिष्ट जातः । उडुवान्धवे चन्द्रे । उदयति उदयमाने सति । अधेः समुद्रस्य । लहयः वीचयः । धृतः मौखर्यस्य मुखरतायाः कोलाहलस्येत्यर्थः विपर्ययः अभावः ३८ ३ अच्युतरायाभ्युदये याभिस्तास्तथोक्ताः । ( भवन्ति ) किम् । न भवन्त्येवेत्यर्थ. । दृष्टान्ता- लङ्कारः॥ अवनीरमणैर्वितीर्णमाद्यै- रगमत्प्राक्तनतां यशोदुकूलम् । तदिदं नवमेष दाखतीति प्रमदेनेव दिशो दश प्रसेदुः ॥ १९ ॥ अवनीति ॥ आद्यैः अवनीरमणैः प्राक्तनै राजभिः । वितीर्ण दत्तम् । यशः कीर्तिरेव दुकूलं क्षौमम् । प्राक्तनतां जीर्णताम् । अगमत् गतम् । एषः उत्पन्नः कुमारः। नव नूतनम् । तदिदं यशोदुकूलम् । दास्यति । इति । प्रमदेन संतोषेणेव । दश दिशः। प्रसेदुः प्रसन्ना बभूवुः । उत्प्रेक्षा ॥ अपनीतरजःकणानुषङ्गाः परितोषाश्रुभरैरिव प्रजानाम् । मरुतो व्यवलन्त मन्दमन्दं नवगन्धोदयनर्तितद्विरेफाः ॥ २० ।। अपनीतेति ॥ मरुतः वाताः । प्रजानाम् । परितोषाश्रुभरैः आन- न्दबाष्पप्रवाहैरिव । अपनीतः निरस्तः रज.कणानुषड्गः धूलीकणसवन्धः येषां ते तथोक्ताः । नवः नूतनः अनाघ्रात इत्यर्थः, तादृशः यः गन्धः परिमल: तस्य उदयेन प्रसारणेन नर्तिताः मादिताः तोषिता वा द्विरेफा. भ्रमराः यैस्ते तथोक्ताश्च सन्तः । मन्दमन्दम् । व्यवलन्त वान्ति स्म । उत्प्रेक्षा॥ नरपालकनन्दनो रिपूणां नगरीरेष गरीयसीर्वितीर्य ।

द्वितीयः सर्गः ।
३९
।
परितोपयिता ममेति नूनं
प्रननत ज्वलनः प्रदक्षिणाचिः ॥ २१ ॥
नरेति ॥ एपः नरपालकनन्दनः गजकुमार : । गरीयाः वृहत्तराः ।
रिपूणां शतॄणाम । नगर्ग: पुराणि । वितीय प्रदाय । मम । परिपोपयिता
परिपोषकः । (भविष्यति) इति । ज्वलनः अग्निः । प्रदक्षिणाः अर्चिपः
शिखाः यस्य स तथोक्तः मन् । प्रननत जजृम्भे । नूनं ध्रुवम् ॥
अचिरेण दिशाममुष्य जेतुः
कमलां कल्पितविभ्रमां कटाक्षे ।
अपि कल्पतरं करेऽक्षिलक्ष्य
करवाणीति किमम्बुधिर्जजृम्भे ॥ २२ ॥
अचिरेणेति ॥ अचिरेण अविलम्बम । दिशां विजेतु: दिग्विजयं
कुर्वाणस्य । अमुष्य गजकुमारस्य । कटाक्षे नेत्रान्ते । कमलां लक्ष्मीम् ।
कल्पितः कृतः विभ्रमः विलासः यया तां तथोक्ताम् । करे हस्ते । कल्प-
तरुं कल्पवृक्षमपि । अक्षिलक्ष्य दृश्यम् । करवाणि कुर्याम्। इति । अम्बुधिः
समुद्रः । जजृम्भे जृम्भते स्म किम् । एतावना कल्पवृक्षः केवलं श्रुतः,
दानशौण्डस्य तदीयहस्तस्य दर्शन तु माक्षात्कल्पतरुविलोकनमेवेति भावः।
तथाचोच्यते त्वां पश्यता मया लब्ध कल्पवृक्षनिरीक्षणम् ।' इति ।।
निखिलोऽपि परिक्रियाकलापो
जगृहेऽन्तःपुरचारिणा जनेन ।
तनयोदयशंसिना तदानीं
पुलकाः पुस्फुरुरस्य भूषणानि ॥ २३ ॥

अच्युतरायाभ्युदये निखिल इति ॥ तदानीम् । तनयोदयशसिना पुत्रोत्पत्तिनिवेदकेन । अन्तःपुरे चरितुं शीलमस्येति तेन जनेन । निखिल: समस्तः । परिष्क्रिया- कलापः आभरणसमूहः । जगृहे गृहीतः। भूषणानि । अस्य परिग्रहीतु- र्जनस्य । पुलकाः रोमाञ्चाः (इव) पुस्फुरुः स्फुरन्ति स्म । उत्प्रेक्षा ॥ अधिगम्य गिरामतीतमूल्यां श्रुतिभूषां सुतजन्मसूचकस्य । प्रवितीर्णपरिष्क्रियाविशेषो- ऽप्ययमात्मानममन्यताधमर्णम् ॥ २४ ॥ अधिगम्येति ॥ अय राजा । सुतजन्मसूचकस्य तनयोत्पत्तिनिवेद- कस्य जनस्य । गिरां वाचमेव । वाचादिशब्दवत् टाबन्तो गिराशब्दः । 'गर्भिणितिर्गिरा।' इति त्रिकाण्डशेषः । 'तां गिरां करुणां श्रुत्वा' इति प्रयोगश्च । अतीतमूल्यां मूल्यातीतां अमूल्यामित्यर्थः । श्रुतिभूषां कर्णा- भरणम् । अधिगम्य लब्ध्वा। प्रवितीर्णः दत्त. परिष्क्रियाविशेषः आभर- णातिशयो येन स तथोक्तः सन्नपि । आत्मानम् । अधमं ऋणं यस्य सः अधमर्णः ऋणधारी तम् । अमन्यत मेने । सर्वाभरणदानमपि पुत्रोत्पत्ति- सूचनाया अपर्याप्तमेवायममनुतेति भावः ॥ विहितस्नपनो विशामधीशो वसने हंसविचित्रिते वसानः । अवलोकितुमर्भकं प्रमोदा- दवकृष्टः प्रययावरिष्टगेहम् ॥ २५ ॥ विहितेति ॥ विशां अधीशः राजा। विहितं कृतं स्नपनं स्नानं येन द्वितीयः सर्गः। ४१ स तथोक्तः । णिजर्थोऽनाविवक्षितः। यद्वा विहितं नपन यस्मै मः। हमन हसाकारेण चिहेन विचित्रिते विचित्रे। वमन वस्त्रे । वसानः धारयन् । अर्भक शिशुम् । अवलोकितु वीक्षितुम् । प्रमोदान् संतोषेण । अवकृष्टः आकृष्टः सन् । अरिष्टगेहं सूतिकागृहम् । प्रययौ यातः ॥ अमुमर्भकमङ्कसीम्नि धात्र्याः शयितं सातिशयश्रियं स पश्यन् । विभवेन विडोजसोऽनुकुर्व- न्नपि नेत्रैरनुकर्तुमाहतोऽभूत् ॥ २६ ।। अमुमिति ॥ विभवन ऐश्वर्येण । विडोजसः इन्द्रस्य इन्द्रमित्यर्थः । अनुकुर्वन् अनुसरन् तत्सदृश इत्यर्थः । सः नृसिहराजः । धात्र्याः उपमातुः। अङ्कसीनि उत्सङ्गप्रदेशे। शयितं शयानम् । सातिशया सविशेषा श्रीः शोभा यस्य त तथोक्तम् । अमुम । अर्भकम् । पश्यन् विलोकयन् । नेत्रः नयनैरपि । (विडोजसः', अनुकर्तुम् । आदृतः आदरवान् । अभूत् । निर्निमेषमभकमपश्यदित्यर्थः ॥ परिवयं स जातकर्मणा तं परिणेता धरणे: प्रमोदमानः । वसुधाविबुधान्वसुप्रक- बहुधानन्दधुरन्धरानतानीन् ॥ २७ ॥ परिवयेति ॥ धरणेः भूमेः । परिणेता नायकः राजा । प्रमोदमानः संतुष्यन् । तं अर्भकम् । जातकर्मणा जातकर्माख्येन संस्कारेण । परिवर्थ्य परिपोष्य, जातकर्मसंस्कारः शिशोरायुष्कर इति भावः। वसुधाविबुधान् ४२ अच्युतरायाभ्युदये ब्राह्मणान् । वसुप्रकषैः धनसमृद्धिभि.। आनन्दधुरधरान् आनन्दभार- वाहिनः । अतानीत् अकरोत् ॥ २७ ॥ चरणेन समेत्य शङ्खपद्मौ मकराङ्केन मनीषिणां निधाने । उदिते तनये तदा पितॄणा- मृणमुर्वीरमणस्य रीणमासीत् ।। २८ ।। चरणेनेति ॥ शङ्खपद्मौ शङ्खपद्माकारौ रेखाविशेषौ, निधिविशेषौ च। समेत्य प्राप्य ( स्थितेन) मकरः मीनविशेषः तदाकारा रेखा कश्चन निधिश्च अङ्कः चिह्न यस्य तेन तथोक्तेन । चरणेन । (उपलक्षिते) मनी- षिणां विदुषाम् । निधाने निधी निधिसदृश इत्यर्थः । तनये पुत्रे । उदिते उत्पन्ने सति । तदा । उर्वीरमणस्य राज्ञ । पितृणां ऋण पितृ- विषयक ऋणम् । रीण शून्यम् । आसीत् । पुत्रजननेन पितृऋणान्मु- तोऽभूदित्यर्थः । 'ऋण देवस्य यागेन ऋषीणां दानकर्मणा। सन्तत्या पितृलोकानां शोधयित्वा परिव्रजेत्।' श्लेषः परिकरः काव्यलिङ्गं च॥ कमलाकरपीडनक्षमेऽस्मि- नुदिते राजशिशौ मुदे जगत्याः । शिथिलाजनि सागसां नृपाणां चिरकारासदनान्धकारपीडा ॥ २९ ॥ कमलेति ॥ कमलायाः लक्ष्म्याः करपीडन विवाहः स्वीकरणमिति यावत् तस्य क्षमे योग्ये, कमलाकरस्य पद्मसरसः पीडनं उपद्रवः तत्र क्षमे शक्ते च । अस्मिन् । राजशिशौ राजकुमारे, बालचन्द्रे च । 'राजा द्वितीयः सर्गः । ४३ स्यान्नृपनी चन्द्रे' इति नभम । जगत्या लोकस्य । मुंद मन्नोपाय । उदिते उदयमापन्ने मति । मागसां अपगधिनाम । नृपाणा राज्ञाम । चिरं बहाः कालान् या कारामदन कागगृह अन्धकारण नममा जाता पीडा उपद्रवः सा। शिथिला गलिता । अनि जाता । गज्ञामभ्युदय- काले बन्धनस्था मुच्यन्त इति समुदाचार. ॥ न परं प्रभया नरेन्द्रमूनो- रभिभूताचिररिष्टदीपिकासीन । परिपन्थिवसुन्धरापतीनां हरिदन्तेष्वपि च प्रतापदीपः ॥ ३० ॥ नेति ॥ नरेन्द्रसूनोः राजकुमारस्य । प्रभया कान्त्या । अरिष्टे मूनि- कागृहे विद्यमाना दीपिका दीप केवलम् । अभिभूताः निरस्कृताः अर्चिषः यस्याः सा तथोक्ता । नार्मात् । (पर तु) हरिदन्तेषु दिगन्तेषु । परिपन्थि- वसुन्धरापतीनां शत्रुनृपतीनाम् । प्रतापदीपः प्रतापात्मको दीपोऽपि । अभिभूतार्चि आसीत् ॥ मणिमञ्चसमञ्चितोऽथ धाच्या मधुरालोलिकयाजनिष्ट हृष्टः । निनदैरिव निम्नगालाः कलहंसः कमलान्तरालशायी ॥ ३१ ॥ मणीति ॥ मणिमञ्चे रत्नपर्यङ्के समञ्चितः शोभितः तत्र शयान इत्यर्थः । सः राजकुमारः । धात्र्याः उपमातुः । मधुरया मनोहरया आलोलिकया बालस्वापनोपयोगिीतिकया। मधुरालापिकयेति पाठे तु ४४ अच्युतरायाभ्युदये । तद्विशेषणम् । निम्नगालहाः नदीतरङ्गस्य । निनदैः शब्दैः कमलान्तराल- शायी पद्ममध्ये शयानः । कलहंस इव । हृष्टः सन्तुष्टः । अजनिष्ट । जातः॥ नयतो न कदाचन च्युतः स्या- दवतीर्णः स्वयमच्युतोऽयमुाम् । इति शोभनलक्षणैः स जान- नकरोदात्मजमच्युताभिधानम् ॥ ३२ ॥ नयत इति ॥ अय कुमारः । नयतः नीतितः। कदाचन कदापि । च्युतः भ्रष्टः । न स्यात् । अयम् । उया भूमौ । स्वयम् । अवतीर्णः । अच्युतः विष्णुरेव । इति । शोभनलक्षणैः शुभनिमित्तैः । जानन् विदन् । मः नरसिहराजः । आत्मजं पुत्रम् । अच्युताभिधानं अच्युतनामानम् । अकरोत् ॥ अधिमञ्चमनुक्षणं जिघृक्षुः कुरुविन्दस्तबकं कुतूहलेन । समनह्यदयं यथोदयाद्रे- स्तटशायी तपनं मृगेन्द्रशाबः ॥ ३३ ॥ अधीति ॥ अयं अर्भकः । अधिमञ्च मञ्चे । कुतूहलेन अभिलाष- चापलेन । कुरुविन्दत्तबकं माणिक्यगुच्छम् । उदयाद्रेः उदयपर्वतस्य । तटशायी कटके शयानः । मृगेन्द्रशाबः सिहशिशुः । तपनं यथा सूर्यमिव । अनुक्षणं क्षणे क्षणे । जिघृक्षुः ग्रहीतुमिच्छुः । समनह्यत् उत्साहवानभूत् । उदयारुणमूर्तिरोषधीशो नियतं वंशभुवो नृसिंहसूनोः ।

द्वितीयः सर्गः ।
.
व्यरुचद्वथपदिश्य रत्नगुच्छं
शयनस्योपरि सन्नतावनाय ॥ ३४ ॥
उदयेति ॥ उदये अरुणा रक्ता मूर्ति. यस्य म तादृशः। औषधीश.
चन्द्रः । वशभुवः स्ववशजातस्य । नृसिहसूनाः नरसिहपुत्रस्य । मन्तता
वनाय सततरक्षणाय । शयनस्य उपरि मञ्चोपरिभागे। रन्नगुच्छ रन-
स्तबकम् । व्यपदिश्य व्याजीकृत्य तद्याजेनेत्यर्थः । व्यरुचत् अशोभत ।
नियत निश्चितम् । रोचते द्युतादित्वात् शुन्यो लुडि' इति परस्मैपदे
'पुपादि-' इति सूत्रेण अड ।।
वलमानललन्तिकाविभूपा-
वहमानधुतिवर्धिताभिरूप्यम् ।
अवलीढसुधांशुलीलमासी-
दनिदानस्मितमाननं तदीयम ॥ ३५ ॥
वलमानेति ॥ वलमाना चलन्ती या ललन्तिकाविभूपा किचिल्ल-
म्वमानं कण्ठाभरण तस्याः वहमानया प्रसरत्या गुन्या कान्या वर्धितं
आभिरूप्य रम्यत्व यस्य तत् तथोक्तम् । अनिदानं अनिमित्तं स्मित
यस्य तत् । तीयं पुत्रसम्बन्धि । आनन मुखम् । अवलोढा प्राप्ता
सुधांशुलीला इन्दुविलासः येन तत् तादृशम्। चन्द्रसदृशमित्यर्थः। आसीत् ।
अवलम्बतया स्थितोऽपि धात्र्याः
करमालम्ब्य स कानिचित्पदानि ।
मणिनूपुरशिजितेन किञ्चि-
स्कृतसंख्यानि किलाङ्कणे व्यतानीत् ॥ ३६ ॥

४६ अच्युतरायाभ्युदये अवलस्वतयेति ॥ स. राजकुमारः । धात्र्याः भूमेः । अवलम्बतया आधारतया । स्थितः सन्नपि । धान्याः उपमातुः । कर हस्तम् । अवलम्ब्य अक्टभ्य । मणिनूपुरीशजितेन रत्नमयगादाङ्गदशब्देन । कृता गणिता सख्या येषां तानि, नूपुरध्वनिसख्यया पादावन्याससख्या अनु- मीयत इति भावः । कानिचित् । पदानि चरणविन्यासान्। अङ्कणे अजिरे । किचित् शनैः शनैः । व्यतानीन् अकरोत् किल । स्वभावोक्तिः ॥ किमपि क्षितिपात्मजे विवक्षौ विमतानां विरराम वीरवादः । सदनाङ्कणसीन्नि संचरिष्णौ चलितुं दिक्षु यश: शशाक नैषाम् ॥ ३७ ॥ किमपीति ॥ क्षितिपात्मजे गजकुमारे। किमपि अविस्पष्टवर्णम- |च्चारित च किंचित् । विवक्षा वक्तुमिच्छति सति । विमतानां शत्रू- णाम् । वीरवादः वय वीरा इत्येवमहकारकोलाहल: । विरराम शान्तः । (क्षितिपात्मजे) सदनाङ्कणसीम्नि गृहचत्वरप्रदेशे । सञ्चरिष्णौ सञ्चरणशीले । एषां विमतानाम् । यश । दिक्षु । चलितु गन्तुम् । न शशाक शक्त नाभूत् ॥ अजनिष्ट यदाधिवेश्म लोल्या- न्मणिदीपग्रहणं महीशसूनोः । परिशीलनमेव पर्यणंसी- त्तदहो वैरिमहोहठाक्रियायाः ॥ ३८ ॥ अजनिष्टेति ॥ आधिवेश्म गृहे । महीशसूनोः राजकुमारस्य । लौल्यात् बालचापलात् । मणिदीपस्य ग्रहणम् । अजनिष्ट जातम् । (इति) यदा इति यत् । अव्ययानामनेकार्थत्वादत्रैवमर्थः । यद्वा द्वितीयः सर्गः । ४७ यदा यस्मिन्काले इति व्याख्याय उत्तरवाक्ये तदा इत्यध्याहारण व्याख्येयम् । तत् मणिदीपग्रहणमेव । वैरिणां शत्रूणां महसः तेजसः हठात्क्रियायाः वलादपहरणम्य । परिशीलन अभ्यासः । पर्यणसीत् परिणमति स्म । अवलम्ब्य शनैः सचमोऽभू- दवरोधप्रमदाङ्गुलीदलानि । पवमानशिशुः प्रतानिनीनां परिगृहन्निव बालपल्लवानि ॥ ३९ ॥ अवलम्ब्यति ॥ सः । अवरोधप्रमदानां अन्त पुरस्त्रीणां अङ्गुली- दलानि पत्रतुल्याः करशाखाः । अवलम्ब्य । प्रतानिनीनां लतानाम् । वालपल्लवानि नवकिसलयानि । परिगृह्णन् अवलम्बमानः। पवमानशिशुः वातपोत इव । शनै मन्दमन्दम् । चंक्रमेण गमनेन सहितः सचक्रमः । अभूत् ॥ वहुशो यदशोभि रत्नभित्तौ नृपडिम्भप्रतिबिम्बसंप्रदायः । परितो विमतान्भविष्यदात्म- स्फुरणानां निरणायि पूर्वरङ्गः ॥ ४० ।। बहुश इति ॥ रत्नभित्तौ मणिकुज्ये । नृपडिम्भस्य राजकुमारस्य प्रतिबिम्बानां संप्रदाय ः परम्परा । गुरुशिष्यपरपरावतीणसदुपदेशवाची सप्रदायशब्दः प्रकृते परंपरालाक्षणिकः । बहुश: समधिकम् । अशोभि अशोभ्यत । इति यत् । अशोभीति शोभयतेः कर्मणि लुडि रूपम् । न तु शुद्धाच्छोभतेः कर्तरि । चिणो दुर्लभत्वात् । राजकुमारश्चात्र कर्ता ।

४८ अच्युतरायाभ्युदये (तत्) विमतान् परितः शत्रूणां समन्तात् । भविष्यतां भाविनां आत्म- स्फुरणानां राजकुमारविलसनानाम् । पूर्वरङ्गः प्राथमिकव्यापारः । निर- णायि निश्चितम् । जनैरिति शेषः । रूपकेषु प्रथमकर्तव्यकृत्यवाची पूर्वरङ्ग- शब्दः प्रकृते एवंपरः ॥ सुदृशामभजत्सुतोऽङ्कमङ्का- कलिताह्वानगिरां करं प्रसार्य । वलदम्बुरुहां यथा मरालो नलिनीनामलिनीविराविणीनाम् ।। ४१ ॥ सुदृशामिति ॥ सुतः राजकुमारः । करं हस्तम् । प्रसार्य तदभि- मुख नीत्वा । कलिता कृता आह्वानगीः आगच्छ आगच्छेति वाक् याभि- स्तासाम् । सुदृशां स्त्रीणाम् । अङ्कात् उत्सङ्गात् । अङ्कं उत्सङ्गम्।मरालः हसः। अलिनीविराविणीनां भ्रमरीझंकारवतीनाम् । वलदम्बुरुहां चलत्पमानाम् । नलिनीनां पद्मिनीनाम् । अङ्कात् । अङ्क यथा मध्यमिव । अभजत् प्राप्तः॥ मुखरीकृतमुग्धकिङ्किणीकं मुहुरङ्कुरितकेलिरङ्कणेषु । तनुलग्नरजोभरस्तदानी- मवनीधारणसाधनामतानीत् ॥ ४२ ॥ मुखरीकृतेति ॥ अङ्कणेषु । मुखरीकृताः शब्दाय्यमानाः मुग्धाः मनोहराः किङ्किण्यः क्षुद्रघण्टिकाः यस्मिन् कर्मणि तद्यथा भवति तथा। मुहुः पुनः पुनः । अकारता उन्मिषिता केलिः लीला यस्य सः। (सः) तदानी लीलाकाले । तनौ शरीरे लग्नः सम्बद्धः रजोभरः धूलिभारः द्वितीयः सर्गः । ४९ यस्य स तथोक्तः सन् । अवनीधारणसाधनां भूधरणाभ्यासम् । अता- नीत् तनोति स्मेव । गम्योत्प्रेक्षा ॥ अवनीवलहन्तुरङ्कमध्ये विहरन्व्यञ्जितचापलो व्यलासीत् । अधिसानु यथानुकूलकेलिः कनकक्षोणिभृतः करीन्द्रशाबः ॥ ४३ ॥ अवनीति ॥ अवनीवलहन्तुः भूमीन्द्रस्य नृसिहराजस्य । अङ्कस्य उत्सङ्गस्य मध्ये । विहरन् कोडन् । व्यजितं प्रकटित चापलं बाललौल्य येन तथोक्तः । (सः) कनकक्षोणिभृतः मेरुपर्वतस्य । अधिसानु सानुनि । अनुकूला स्वैर क्रियमाणा केलि. क्रीडा येन सः । करीन्द्रशाबः करिक- लभ इव । व्यलासीत् विललास ॥ अपमार्ण्य दुरक्षराण्यवन्या रजसो विस्तृतिलक्ष्यतः कुमारः । बलदङ्गुलिनीतवर्णरेखो व्यलिखत्किं स्वकलत्रमावरेखाम् ।। ४४ ।। अपेति ॥ कुमारः । रजसः धूल्याः । विस्तृतिलक्ष्यतः प्रक्षेपप्रसारणा. दिव्याजेन । अवन्याः भूमेः । दुरक्षराणि ब्रह्मगा लिखितानि क्लेशनिवे. दकानि दुपाक्षराणि । अपमाळ परामर्थ्य अपनीय । वलन्तीभिः प्रचल. न्तीभिः अङ्गुलीभिः नीता कृता वर्णरेखा यहच्छया वर्णखरूपसूचक- रेखाविशेषो येन तथोक्तः सन् । स्वकलत्रभावरेखां स्वपरिग्रहत्वसू- चिकां रेखाम् । व्यलिखत् लिलेख किमित्युत्प्रेक्षा ॥

५० अच्युतरायाभ्युदये अथ कैश्चिदहोभिरेव विद्या- गुरुरध्यापयति स्म तं कुमारम् । मधुरुन्मिषितालिमञ्जुघोषः परपुष्टं किल पञ्चमप्रपञ्चान् ॥ ४५ ॥ अथेति ॥ अथ । तं कुमारम् । गुरुः आचार्यः । कैश्चित् अहोभिः कतिपयैर्दिवसैरेव । विद्याः । उन्मिषितः उज्जृम्भितः अलीनां भ्रमराणां मञ्जुघोषः मनोहरध्वनिः यस्मिन् तादृशः । मधुः वसन्तः । परपुष्ट को- किलम् । पञ्चमप्राचान् किल पञ्चमस्वर्गभेदानिव । अध्यापयति स्म अध्यापयामास । किलशब्द इवार्थक । तथा च यादवाभ्युदये 'निखि- लचेतन...' इति पद्यव्याख्याने 'आपगाः किल सरित इव' इति दीक्षिताः ॥ नृपवर्यशिशोनिसर्गजानां निखिलानामपि देशिकः कलानाम् । परमुल्लसनाय पर्यणंसी- त्सवितेवाम्बुजकोशसौरभाणाम् ॥ ४६ ॥ नृपेति ॥ देशिकः गुरुः । नृपवयंशिशोः राजपुत्रस्य । निसर्गजानां खाभाविकीनां जन्मान्तरवासनावशादनुवर्तमानानाम् । निखिलानां सम- स्तानामपि । कलानां विद्यानाम् । सविता सूर्यः । अम्वुजकोशसौरभाणां कमलमुकुलगन्धानामिव । उल्लमनाय परं केवलमुल्लासाय उद्बोधमात्रा- येत्यर्थः । पर्यणसीत् पर्यणमत् उपयुक्तोऽभूदित्यर्थः । 'स्थिरोपदेशा- मुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः । इति कुमारसम्भवः ॥

द्वितीयः सर्गः। तरलीकृतखड्गवल्लरीक: खुरलीसीम्नि सखेटकः कुमारः। समशोभत संचलत्तरङ्गो जनितावर्त इवाकरो जलानाम् ॥ ४७ ॥ तरलीकृतेति ॥ खुरलीसीम्नि शस्त्रविद्याभ्यासभूभागे । तरलीकृता चञ्चलीकृता सर्वतः स्फोरितेत्यर्थः खड्गवल्लरी कृपाणलता येन सः । खेटेन प्रतिभटखड्गपातनिवारणार्थ धृतेन चक्राकारेण चर्मणा सहितः सखेटकः । कुमारः । सवलन्तः तरङ्गाः ऊर्मयः यस्य सः । जनितः उत्पादितः आवर्तः अम्भोभ्रमः येन सः तादृशः । जलानां आकरः समुद्र इव । समशोभत शुशुभे ॥ अधिरोपयतीन्दुवंशरत्ने सचमत्कारतया शरासने ज्याम् । अतिचित्रममित्रपार्थिवाना- मवरूढाजनि सेयमंसकूटान् ॥ ४८ ॥ अधीति ॥ इन्दुवशः चन्द्रकुलमेव वशः वेणुः तस्य रत्ने मुक्तामणौ राजकुमारे । शरासने धनुषि । ज्यां मौर्वीम् । सचमत्कारतया सविशे- षतया। अधिरोपयति आरोपयति सति । अमित्रपार्थिवानां शत्रुराजा- नाम् । सा इयं ज्या भूमिः मौर्वी च । अंसकूटात् अंसशिखरात् । अव- रूढा अवतीर्णा । अजनि जाता। इद अतिचित्र अन्याश्चर्यम् । अस्य शत्रवो विहाय राज्यं पलायामासुरिति भावः ॥ परिरक्षणतो वरं हि शिक्षा प्रकृतानेन विखण्डितः पटिम्ना ।

५२ अच्युतरायाभ्युदये मणिचामरहेममानितो य- द्भियते वन्दिजनेन लोहदण्डः ।। ४९ ॥ परीति ॥ परिरक्षणतः रक्षणादपि । प्रकृता प्रक्रान्ता । शिक्षा हि दण्डनैव । वर मनाक् प्रियम् । यत् यतः । अनेन राजकुमारेण । पटि- म्ना पटुभावेन बलेनेत्यर्थः । विखण्डितः भअितः । लोहदण्डः अयो- दण्डः । मणिभिः रत्नैः चामरेण हेम्ना खर्गेन च मानितः पूजित तयुक्तः सन्नित्यर्थः । वन्दिजनेन स्तुतिपाठकैः । ध्रियते । तस्य सामर्थ्य - प्रकटनाय तेन खण्डित लोहदण्ड रत्नादिभिबहुमान्य यतो वन्दिनो धारयन्ति, ततो वरं शिक्षा रक्षणादिति भावः ।। मरुतं सुहृदं मदीयधाम- ज्वलनस्य ज्वलतः पुरीष्वरीणाम् । निरुणद्धितरां निजान्तरित्या- हितरोषोऽभिनदेष चर्मभस्त्रम् ॥ ५० ॥ मरुतमिति ॥ अरीणां शत्रूणाम् । पुरीषु नगरेषु । ज्वलतः ज्वलि ष्यतः । वर्तमानसामीप्ये शता। मदीयधाम मदीय तेज एव ज्वलनः अग्निः तस्य । सुहृदं सहायभूतम् । मरुतं वायुम् । निजान्तः खस्य अन्तः- प्रदेशे। निरुणद्धितरां सम्यक् प्रतिबध्नाति । इति । आहितः उत्पन्नः रोषः कोपो यस्य स तथोक्तः (इव) एषः राजकुमारः। चर्मभत्रं अजिनभस्त्रि- काम् । अभिनत् भिनत्ति स्म । चर्मभस्त्रभेदनं महाबलसाध्यम् । तच्चाप्यय कृतवान् । तत्र हेतुरुत्प्रेक्षितः ॥ अधिगत्य गतित्वरां हयाना- मधिबाह्याल्यमुना प्रचालितानाम् ।

द्वितीयः सर्गः। ५३ परिपालयतीव भक्तिमुद्रां पवमानः पदरेणुधारणेन ॥ ५१ ॥ अधीति ॥ अधिबाह्यालि बाह्यानि पुरादहिर्विद्यमाना विहारप्र- देशाः तेषां आलिः पङ्क्तिः तस्याम् । अमुना राजकुमारेण । प्रचालि- तानां धावितानाम् । हयानां अश्वानाम् । गतित्वरां गमनवेगम् । आधि- गत्य अधीत्य । अधिकृत्येति पाठेऽपि स एवार्थः । पवमानः वायुः । पदरेणोः पादपरागस्य धारणेन । भक्तिमुद्रां भक्तिचिह्न गाढां भक्ति वा । परिपालयति रक्षतीव ।। अधिरोपयति स्म हस्तिकण्ठे जनतां तोषमिषेण जातमात्रः । अधुना पटुतामनेकपेन्द्र व्यवृणोदित्यपि किंनु विस्मयाय ॥ ५२ ।। अधिरोपयतीति ॥ सः । जातमात्रः जात एव । जनतां जन- समूहम् । तोषमिषेण सतोपव्याजेन । हस्तिकण्ठे गजोपरि। आरोपयति स्म आरोपयामास । अधुना सांप्रतम् । अनेकपानां गजानां इन्द्रे श्रेष्ठे, गजराजविषय इत्यर्थः । पटुतां तदारोहणसामर्थ्यम् । व्यवृणोत् स्फुटी- चकार । इत्येतदपि । विस्मयाय आश्चर्याय कि नु। जातमात्रस्थान्यान्गज- स्कन्धमारोपयतः सांप्रतं स्वय गजाधिरोहण न विस्मयकरमिति भावः । संतोषस्य परा काष्ठा लोके गजस्कन्धाधिरोहणमिति व्यवह्रियते । तथा च 'एष नामानुगृहीतः । यः शूलादवतार्य हस्तिस्कन्धे प्रतिष्ठापितः।' इति शाकुन्तलम् । एतावता वसन्तमालिका वृत्तम् ॥

अच्युतरायाभ्युदये विद्याः समेत्य विविधा नृपतेस्तदासी- दानन्दहेतुरतिवाहितशैशवोऽयम् । यातः क्रमाद्विलसितानि यथा कलानां पाथोनिधेः किमपि पार्वणशर्वरीशः ॥ ५३ ॥ विद्या इति ॥ तदा । विविधाः समस्ताः। विद्याः । समेत्य प्राप्य अधीयेत्यर्थः । अतिवाहितं यापितं शैशवं येन सः । अयं राजकुमारः । क्रमात् । कलानाम् । विलसितानि विलासान् समस्ताः कला इत्यर्थः । यातः प्राप्तः। पर्वणि भवः पार्वणः संपूर्ण इत्यर्थः, तादृशः शर्वरीशः चन्द्रः । पाथोनिधेः यथा समुद्रस्येव । नृपतेः नरसिहराजस्य । किमपि वक्तु मशक्यतया । आनन्दहेतुः सतोषकारणम् । आसीत् । वसन्त- तिलकं वृत्तम् ॥ इति द्वितीयः सर्गः ॥

तृतीयः सर्गः। Metoxeo- अथावनीवासवसूनुरभ्यगा- दनङ्गराद्धान्तमलकियां तनोः । वधूजनस्वान्तवशक्रियौषधं वयो नवं शैशववासनासहम् ॥ १ ॥ अथेति ॥ अथ । अवनीवासवसूनुः पृथिवीन्द्रपुत्रः। अनगराद्धान्त कामसिद्धान्तम् । तनाः शरीरस्य । अलक्रियां अलंकारम् । वधूजनानां स्त्रीणां खान्तस्य मनसः वशक्रियौषधं वशीकरणभेषजम् । शैशववासना शैशवगन्धः शैशवसंस्कारो वा शैशववार्तापत्यर्थः, न सहत इत्यसहं शैश- ववासनाया असहं शैशववासनासह अतीतशैशवमित्यर्थः । नवं नूतनम् । वयः तारुण्यम् । अभ्यगात् उपययौ। शैशववासनां सहत इति तादृशम् । नवं वयः बाल्यतारुण्ययोः सन्धिमिति वा । रूपकम् ॥ चमत्कृतं यौवनशिल्पिना तदा समञ्चितभ्रूलतया सतोरणम् । अभूत्प्रवेशार्हमनङ्गभूपते- रदःपुरं कान्त्यमृतात्तसेचनम् ॥ २ ॥ चमत्कृतमिति ॥ तदा । समञ्चिता सविलासा या भ्रूलता तया । सतोरणं वन्दनमालिकासहितं बहिरसहित वा । कान्त्यमृतेन कान्ति- ५६ अच्युतरायाभ्युदये अलेन कान्तिसुधया वा आत्तं कृतं सेचनं यस्य तत् । यौवनं तारुण्य- मेव शिल्पी कारुः तेन । चमत्कृत सविशेषरमणीयीकृतम् । अदःपुरं अमुष्य पुरं शरीरमेव नगरम् । 'पुर नगरदेहयोः' इति विश्वः । अनङ्गभूपतेः मन्मथराजस्य । प्रवेशार्ह प्रवेशयोग्यम् । अभूत् । परिणामः॥ वचोऽधिदेव्या वदनाञ्चितस्थिते- वतंसकर्णोत्पलवर्णधोरणी । व्यराजतामुष्य कपोलमण्डले विकस्वरश्मश्रुमिषेण बिम्बिता ॥ ३ ॥ वच इति ॥ वदने मुखे अञ्चिता पूजिता स्थितिः यस्यास्तस्याः । वचोधिदेव्याः सरस्वत्याः । वतंसः अलंकारभूतं यत् कर्णोत्पल तस्य वर्णधोरणी कृष्णवर्णरेखा । विकस्वरस्य विलसतः श्मश्रुणः मिषेण व्या- जेन । अमुष्य राजकुमारस्य । कपोलमण्डले गण्डमण्डले । बिम्बिता प्रतिफलिता सती । व्यराजत विरेजे । सापह्नवोत्प्रेक्षा ॥ वहत्यविच्छिन्नतयैव कर्णिका- मणिप्रभास्रोतसि मांसलोदये । सशैवलाकरचमत्क्रियेव त- कपोलभूः श्मश्रुकरम्बिताभवत् ॥ ४ ॥ वहतीति ॥ मांसलः सान्द्रः उदयः अभिवृद्धिः यस्य तस्मिन् । कर्णिकयोः कर्णालंकारयोः मणीनां रत्नानां प्रभास्रोतसि कान्तिप्रवाहे । अविच्छिन्नतया अविच्छिदेनैव । वहति प्रवहति सति । श्मश्रुकरम्बिता श्मश्रुव्याप्ता । तत्कपोलभूः तस्य कपोलप्रदेशः। सशैवलाकूरचमक्रिया ।

तृतीयः सर्गः। ५७ शैवाललेशेन जायमाना या चमक्रिया शोभा तत्सहितेव । अभवत् । रूपकं उत्प्रेक्षा च ॥ विधिः सरोजं व्यधित स्वमन्दिरं तुषारपातोऽपि न तेन सह्यते । इतीव सानन्दममुष्य बन्धुरं भुजान्तरं मन्दिरमिन्दिरातनोत् ॥ ५ ॥ विधिरिति ॥ विधिः ब्रह्मा । सरोज पद्मम् । स्वस्य आत्मनः मन्दिर गृहम् । व्यधित कृतवान् । तेन सरोजेन । तुषारपातः हिमप- तनमपि, अल्पाभिघातोऽपीति च । न सह्यते । इतीव इति मत्वेव । इन्दिरा लक्ष्मी । सानन्दं आनन्दसहितं यथा तथा। बन्धुरं मनोहरं सर्व- सहमिति यावत् । अस्य । भुजान्तरं वक्षः । मन्दिर गृहम् । अतनोत् अकुरुत । उत्प्रेक्षा॥ फणाधरेन्द्र परिहृत्य भीषणं दृढादरामंसतटाधिरोहणे । ग्रहीतुमस्य प्रसृताविव क्षमा व्यराजतां जानुविलम्बिनौ भुजौ ॥ ६ ॥ फणेति ॥ अस्य । जानुविलम्बिनौ आजानुदीर्यो । भुजौ । भीषणं भयकरम् । फणाधरेन्द्र आदिशेषम् । परिहृत्य विहाय । अंसतटे भुज- शिखरप्रदेशे अधिरोहणे । दृढः निश्चल: आदरः प्रीतिः यस्यास्ताम् । क्षिति भूमिम् । ग्रहीतुं उपर्यारोपणाय हस्तावलम्बनं कर्तुम् । प्रसृतौ प्रवृत्ताविव । व्यराजतां अशोभेताम् । परिकरः उत्प्रेक्षा च ॥

५८ अच्युतरायाभ्युदये क्रमात्समाक्रम्य शिशुत्वसंश्रितां तदङ्गसीमानमिदं नवं वयः । किमस्य भूयः क्रशितात्मनोऽतनो- त्कृपावशान्मध्यमदेशमाश्रयम् ॥ ७ ॥ क्रमादिति ॥ इदं नवं वयः यौवनम् । क्रमात् । शिशुत्वेन शैशवेन सश्रितां आश्रिताम् । तदनसीमान तस्यावयवप्रदेशं तन्मर्यादां च । समाक्रम्य बलादधिष्ठाय । भूयः पुनरपि । कृपावशात् । क्रशितः कृशी- कृतः आत्मा स्वरूप यस्य तस्य । कृशतात्मन इति पाठे कृशतास्वरूप- स्येत्यर्थः । अस्य शैशवस्य । मध्यमदेश अवलग्नं मध्यमजनपदं च । आश्रयम् । अतनोत्किम् । समासोक्तिः उत्प्रेक्षा च ॥ समञ्चितं शोणिमसंपदाञ्चले व्यशोभतामुष्य विलोचनद्वयम् । अपाङ्गलीलास्वरविन्दमन्दिरा- पदाम्बुजालक्तकपङ्किलं किल ॥ ८ ॥ समश्चितमिति ॥ अञ्चले प्रान्ते । शोणिमसंपदा रक्तिमश्रिया। समञ्चितं युतम् । अमुष्य । विलोचनद्वयं नेत्रयुगम् । अपाङ्गलीलासु कटाक्ष- विलासेषु । अरविन्दमन्दिरायाः लक्ष्म्याः पदाम्बुजयोः पादपद्मयोः अलक्तकेन यावकेन पङ्किलं किल संजातपङ्कमिव रजितमिवेति यावत् । व्यशोभत शुशुभे । उत्प्रेक्षा ॥ करारविन्दे कठिने न मानसं ध्रुवौ च कौटिल्यभुवौ न वाङ्मयम् ।

तृतीयः सर्गः । ५९ विमुक्तमर्यादतया विजृम्भितं नवाभिरूप्यं न कदापि वर्तनम् ॥९॥ करेति ॥ करारविन्दे हस्तपञ एव । कठिने अनवरतव्यायामवशात् कर्कशे । मानसं मनस्तु । न कठिनम् । ध्रुवौ च । च एवार्थः । कौटिल्य- भुवौ भुमताभूमी । वाङ्मयं वाक् तु । कौटिल्यभूः कौटिल्यस्य अनार्जवस्य भूः स्थानम् । न । नव नूतनं आभिरूप्यं रामणीयकम् । विमुक्तमयी- दतया त्यक्तावधिकतया अतिशयेनेत्यर्थ । विजृम्भित उल्लसितम् । वर्तन आचारस्तु । कदापि । विमुक्तमर्यादतया त्यक्तस्थितिकतया । न विजृम्भि- तम् । परिसंख्या॥ निरर्गलायामनिरोधवर्त्मना विना निदानं श्रवणे विरोधिनी । इतीव रोषातिशयस्पृशोईशो- रशोभि कोणेन विशोणिमाणिमा ॥ १० ॥ निरर्गलेति ॥ निदानं विना निष्कारणम् । निरर्गल: निष्प्रतिबन्ध समधिकः यः आयामः देये तस्य निरोधः प्रतिवन्ध तस्य वर्त्मना मार्गेण स एव वर्त्म तेनेति वा तनिरोधद्वारेत्यर्थः । श्रवणे कौँ । विरो- धिनी शत्रुभूते । इति । रोषातिशयस्पृशोः कोपाधिक्यभाजोरिव । दृशोः नयनयोः । विशोणिम्नः आरुण्यस्य अणिमा लेशः । कोणेन प्रान्तेन । अशोभि अशोभ्यत । शोभयतेः कर्मणि लुङ् । 'कोगेऽस्य' इति पाठा- न्तरम् ॥ प्रमृष्टकन्दर्पमदस्य दर्पणः प्रकाश्य तस्य प्रतिविम्वसम्पदम् । ।

६० अच्युतरायाभ्युदये समानतादुर्विधतां जहार य- द्विभूतिमान्यस्य विजृम्भणं हि तत् ।। ११ ॥ प्रमृष्टेति ॥ दर्पणः मुकुरः । प्रमृष्टः निरस्तः कन्दर्पमदः मन्मथस्य गर्वः येन तस्य । तस्य अच्युतराजस्य । प्रतिबिम्बानां प्रतिच्छायानां सदृशानां च सम्पदं समृद्धिम् । प्रकाश्य प्रदर्य । समानतायां सादृश्य- विषये दुर्विधतां दारिद्यम् । जहार अपनीतवान् । इति यत् । तत् । विभूत्या ऐश्वर्येण मृजाभस्मना च मान्यस्य माननीयस्य मृजासस्कारेण वैमल्यं प्रापणीयस्य च । विजृम्भणं विलासः । तदेव हि विभूतेः फलं यद्दारिद्यहरणमिति भावः । प्रतीपं श्लेषः अर्थान्तरन्यासश्च ॥ अतत्समानब्जभवः स्मरादिमा- न्व्यधत्त रूपव्ययलोभवानिव । तदेकरूपव्ययदुर्विधः स किं तनोति तन्न्यूनतनुश्रियोऽपरान् ।। १२ ॥ अतदिति ॥ (यः) अब्जभवः ब्रह्मा । रूपव्यये लोभवान् लुब्ध इव रूपव्ययभीरुरिवेत्यर्थः । स्मरादिमान् मन्मथप्रभृतीन् । अतत्समान् । अच्युतराजस्य विसदृशानेव । व्यधत्त निर्मितवान् । सः तादृशो ब्रह्मा । तदेकरूपव्ययदुर्विधः तस्याच्युतराजस्यैकस्यैव निर्माणे समुपयुक्तेन रूपव्ययेन दरिद्रः सन् । अपरान् अन्यान् । तन्न्यूनतनुश्रियः अच्युत- राजापेक्षया न्यूनशरीरलक्ष्मीकान् । तनोति सृजति किम् । रूपेणैतत्स- दृशः कोऽपि न भूतो न भवति चेति भावः ।। करम्बितं यौवनकान्तिसंपदा कुमारमालोक्य कुतूहलान्नृपः ।

तृतीयः सर्गः ।
६१
अथानियायास्य विवाहकर्मणे
महीभुजां मन्त्रिमुखेन कन्यकाः ॥ १३ ॥
करम्बितमिति ॥अथ । नृप. नृसिहराज.। यौवनकान्तिसम्पदा तारु-
ण्यजनितशोभातिशयेन । करम्बित पूर्णम् । कुमार पुत्रम् । कुतूहलात्
अभिलाषेण । आलोक्य । अस्य अच्युतराजकुमारस्य । विवाहकर्मणे परि-
णयविधये । मन्त्रिमुखेन मन्त्रिद्वारा । महीभुजां राज्ञाम् । कन्यकाः
पुत्रीः । आनिनाय आनीतवान् ॥
करेण सूनोः क्षितिपालकन्यका-
करानयं ग्राहयति स्म भूपतिः ।
प्रकाशितारुण्यरुचेः पयोजिनी-
प्रसूनपालीर्दिवसो यथा रवेः ॥ १४ ॥
करणेति ॥ अय भूपतिः नृसिहराजः। प्रकाशिनी प्रकाशवती ता-
रुण्यरुचिः यौवनकान्तिः यस्य तस्य । सूनोः पुत्रस्य । करेण हस्तेन ।
क्षितिपालकन्यकाकरान् राजकुमारीहस्तान् । दिवसः अहः । प्रकाशित
आरुण्यं रक्तिमा यया सा प्रकाशितारुण्या, तादृशी रुचिः प्रभा यस्य
तस्य । रवेः सूर्यस्य । करेण किरणेन। पोजिनीप्रसूनपालीः यथा पद्मिनी-
पद्मदलानीव । ग्राहयति स्म ग्राहयामास ॥
कुलोद्वहास्वर्ककुमुदतीशयो-
वधूषु देवी वरदाम्बिकाभिधा ।
अमुष्य संतोषमपुष्यदान्तरं
विशिष्य तारास्विव रोहिणी विधोः ॥ १५ ॥

६२ अच्युतरायाभ्युदये कुलेति ॥ अर्ककुमुद्रतीशयोः सूर्याचन्द्रमसोः। कुलोद्वहासु कुलोत्ता- रिकासु सूर्यचन्द्रवंशजातास्वित्यर्थः । वधूपु पनीषु । वरदाम्बिकाभिधा वरदाम्बिकानाम्नी। देवी। अमुष्य अच्युतराजकुमारस्य । विधोः चन्द्रस्य । तारासु नक्षत्रेषु । रोहिणी इव । विशिष्य विशेषतः। आन्तरं मानसि- कम् । संतोषम् । अपुष्यत् पुपोष ॥ तनूभुवस्त्रीनपि ताहशश्रियः समीक्ष्य साम्राज्यपदाहलक्षणान् । अमन्यतैवान्तरुदन्वदम्बरां परम्पराभोज्यतया पतिः क्षितेः ॥ १६ ॥ तनूभुव इति ॥ क्षितेः पतिः नृसिहराजः। तादृशी श्रीः येषां तान् । साम्राज्यपदस्य चक्रवर्तित्वस्थानस्य अाणि उचितानि लक्षणानि येषां तान्। त्रीन् अपि । तनूभुवः पुत्रान् । समीक्ष्य विलोक्य । अन्तः मनसि । उदन्वान् समुद्रः अम्बरं वस्त्रं यस्यास्तां समुद्रपर्यन्तां भूमिम् । परम्परा- भोज्यतया स्वपुत्रपौत्रपरंपरया खकुलोपभोगार्हनया। अमन्यत मेने एव। यद्वा भोज्यता रक्षणीयता। अखण्डापि भूमिः स्ववश्यष्वेवायतिष्यत इत्यमनुतेति तात्पर्यम् ॥ समेत्य साम्राज्यरमां मनोरमां विनीतिमान्वीरनृसिंहभूपतिः । बहिर्व्यधाद्वन्धनमन्दिरादरी- न्धरासुरान्कि च दरिद्रताभिधात् ॥ १७ ॥ समेत्येति ॥ विनीतिमान् विनयसंपन्नः । वीरनृसिंहभूपतिः । मनो- तृतीयः सर्गः । ६३ रमां श्लाघ्याम् । साम्राज्यरमा साम्राज्यलक्ष्मीम् । समेत्य प्राप्य । अरीन् शत्रून् । बन्धनमन्दिरात् कारागृहात् । बहिः व्यधात् चकार मुमोचेत्यर्थः । कि च । धरासुरान् ब्राह्मणान् । दरिद्रताभिधात् दारिद्रयनाम्नः । बन्धनम- न्दिरात् । बहिः व्यधात् । अनन्तरं कीर्तिधुरंधरोऽदधा- त्स कृष्णरायः सकलां वसुन्धरां । अमुष्य शीर्णैरभिषेकवारिभिः शशाम विद्वेषणशौर्यपावकः ॥ १९ ॥ अनन्तरमिति ॥ अनन्तरम् । कीर्तिधुरंधरः यशस्वी। सः प्रसिद्धः । कृष्णरायः । सकलां वसुन्धरां समस्तां भुवम् । अदधात् अधारयत् शीणैः परितः कीर्णैः । अमुष्य कृष्णरायस्य । अभिषेकवारिभिः अभिषे- कजलैः । विद्वेषणानां शत्रूणां शौर्यपावकः शौर्याग्निः । शशाम शान्तः ॥ स कोण्डवीटिप्रमुखानि संगरे महान्ति दुर्गाणि मतंगजेशितुः । पुरा गृहीत्वा पुटुपेट्टनूपुरे न्यधादथ स्तम्भमसौ महावलः ।। ८१ ॥ स इति ॥ महत् बलं सैन्य शक्तिर्वा यस्य सः । सः असौ कृष्णरायः । संगरे युद्धे । मतं गजेशितुः गजपतिराजस्य । कोण्डवीटिप्रमुखानि । महान्ति । दुर्गाणि । पुरा प्रथमतः । गृहीत्वा । अथ पश्चात् । पुटुपट्टनू पुरे तन्नाम्नि नगरे । स्तम्भं जयस्तम्भम् । न्यधात् निचखान ॥

अच्युतरायाभ्युदये पयोधिकाञ्चीपरिणेतृतास्पदे पदेऽभिषेक्तुं तमथाच्युतप्रभुम् । कुलाद्रिकूर्मोरंगकुञ्जराग्रणी- श्रमापहृत्यै समनाहि मान्त्रिभिः ॥ २० ॥ पयोधीति ॥ अथ । पयोधिः समुद्रः काञ्ची मेखला यस्यास्तस्याः पयोधिकाञ्च्या भूमेः परिणेतृतास्पदे नायकतागोचरे । पदे स्थाने भूप- तित्वस्थान इत्यर्थः । अच्युतप्रभु अच्युतरायम् । अभिषेक्तुम् । कुलाद्रीणां भूभार वहतां कुलपर्वतानां कूर्मस्य आदिकूर्मस्य उरगस्य शेषस्य कुञ्ज- रागण्यां गजश्रेष्ठानां दिग्गजानां च यः भूभारवहनेन जातः श्रमः तस्य अपहृत्यै अपनोदनाय । मन्त्रिभिः सचिवैः । समनाहि समुयुयुजे ॥ प्रचोदितास्तैः परिचारकास्तत- स्तपात्ययेन स्तनयित्नवो यथा । अशेषतीर्थार्णववाहिनीजला- न्यनैपुराज्ञासमकालमग्रतः ॥ २१ ॥ प्रचोदिता इति ॥ ततः अनन्तरम् । तैः मन्त्रिभिः । प्रचोदिताः प्रेरिताः। परिचारकाः भृत्याः। तपात्ययेन वर्षाकालेन । प्रचोदिताः। स्तन- यित्नवो यथा मेघा इव । अशेषाणां समस्तानां तीर्थानां प्रभासादितीर्थानां अर्णवानां समुद्राणां वाहिनीनां कावेर्यादिनदीनां जलानि । आज्ञासमकालं आज्ञाक्षण एव । अग्रतः पुरस्तात् । अनैषुः नीतवन्तः ॥ युवानमाजानुभुजायतिं ततो निशाम्य सःनिरचायि मन्त्रिभिः ।

तृतीयः सर्गः। ६५ - भुजङ्गराजन्यधृतां भुवं कृती भुजाङ्गदीकर्तुमसौ भवेदिति ॥ २२ ॥ युवानमिति ॥ ततः । आजानु जानुपर्यन्त विद्यमाना भुजयोः आ. यतिः दैर्ध्य यस्य त तथोक्तम् । युवान तरुणं अच्युतराजम् । निशाम्य विलोक्य । कृती धन्य. । असौ अच्युतराजः । भुजङ्गराजन्यधृता सर्प- राजेन भृताम् । भुवम् । भुजाङ्गदीकर्तु हस्तयो. केयूगकर्तुम् । भवेत् प्रभ- वेत् शक्नुयात् । इति । सचिवैः मन्त्रिभिः । निरचायि निश्चितम् ।। प्रणामशील: फणिशैलशासितुः कदाचिदने करशङ्खवारिणा । पयोधिकाञ्चीपरिणेतृतास्पदे पदेऽभिषिक्तः स परंपरागते ॥ २३ ॥ प्रणामेति ॥ प्रणामशीलः प्रणमनपरः। सः अच्युतराजः । कदा- चित् । फणिशैलशासितुः भगवतः शेषाचलनायकस्य । अग्रे पुरतः । करे विद्यमानात् शङ्खानिःसारितेन वारिणा जलेन । परम्परागते कुलक्रमागते। पयोधिकाञ्चीपरिणेतृतास्पदे पदे भूपतित्वस्थाने । अभिषिक्तः ॥ प्रणीय विद्यानगरी पतिं क्षिते- रहीन्द्रशैलाधिभुवास्य कल्पिताम् । उदारवृत्तेरुदयुजतोत्सवं विधित्सवस्ते सचिवा विशेषतः ॥ २४ ॥ प्रणीयेति ॥ अहीन्द्रशैलाधिभुवा शेषाद्रिनायकेन । कल्पितां निर्मापिताम् । विद्यानगरीम् । क्षितेः पर्ति अच्युतराजम् । प्रणीय 5 अच्युतरायाभ्युदये नीत्वा। ते। सचिवाः मन्त्रिणः । उदारवृत्तेः गम्भीरस्य । अस्य । उत्सवम् । विशेषतः विशेषेण । विधित्सवः विधातुमिच्छवः सन्तः। उद- युञ्जत उद्युक्ता अभूवन् । निशान्तसंदानितवैजयन्तिका- निरन्तरच्छायनिराकृतातपम् । परिष्कृतानेकविधप्रतोलिक पुरं विभोरैक्ष्यत पुडितोत्सवम् ॥ २५ ।। निशान्तेति ॥ विभोः पुरं विद्यानगरी । निशान्तेषु गृहेषु संदानि- तानां बद्धानां वैजयन्तिकानां ध्वजानां निरन्तरया निबिडया छायया निराकृतः निरस्तः आतपः यस्मिस्तत् तथोक्तम् । निरन्तरा छाया यस्मिस्तत् अत एव निराकृतातपमिति वा । परिष्कृताः अलंकृताः अने- कविधाः प्रतोलिकाः रथ्याः यस्य तत् । पुङ्कितः वर्द्धितः उत्सवः यस्मि- स्तत् तादृशम् । ऐक्ष्यत अदृश्यत ॥ विचित्रकौशेयवितानमण्डली- विलम्बिमुक्तामणिदामचामरम् | परस्परप्रस्तुततर्कशिल्पवि- प्रवर्तितात्यद्भुतचित्रपुत्रिकम् ।। २६ ॥ विचित्रेति ॥ इतः परं सप्तश्लोकी एकान्वया । एतादृशं महीपतेः मन्दिरं अलक्षीति सम्बन्धः । विचित्राणां आश्चर्यकराणां नानावर्णानां वा कौशेयवितानानां दुकूलोल्लोचानां मण्डल्यां विलम्बीनि लम्बमानानि मुक्तामणिदामानि मौक्तिकमालाः चामराणि च यस्मिंस्तत् । परस्परेण तृतीयः सर्गः । ६७ अन्योन्येन प्रस्तुतः प्रकान्तः तर्कः शिल्पकौशलविषये विवादः स्पर्धा वा यैस्ते तादृशैः शिल्पविद्भिः शिल्पिभिः प्रवर्तिताः निर्मिताः चित्राः विचित्राः पुत्रिकाः प्रतिमाः चित्रे आलेख्ये पुत्रिका वा यस्मिस्तत् तथोक्तम् ॥ विशुद्धमुक्ताफलधूलिपालिका- तरङ्गितप्राङ्कणरङ्गवल्लिकम् ।। इतस्तत: क्लप्तहिमाम्बुसेचन- प्रशान्तबाह्याङ्कणचन्द्रधूलिकम् ॥ २७ ॥ विशुद्धति ॥ विशुद्धाः विशदाः याः मुक्ताफलधूलिपालिकाः मौक्तिकचूर्णपङ्क्तयः ताभिः तरङ्गिताः सर्वतः प्रवर्तिताः प्राङ्कणेषु आज- रेषु रङ्गवल्ल्यः भक्तिरचनाः यस्मिस्तत् । इतः ततः सर्वतः । क्लुप्तेन आचरितेन हिमाम्बुसेचनेन प्रशान्ताः अनुत्पतन्त्यः बाह्याङ्कणेषु बहिश्चत्व- रेषु विकीर्णाः चन्द्रधूलयः कर्पूरपरागाः यस्मिस्तत् ॥ समञ्चितारवधूनखाञ्चल- प्रपञ्चितारावविपश्चिकाञ्चितम् । सकङ्कणप्रेलणकोङ्कणाङ्गना- मृदङ्गसंताङनभङ्गिसंगतम् ॥ २८ ॥ समञ्चितेति ॥ समञ्चितानां श्रेष्ठानां आरवधूनां आरदेशस्त्रीणां नखाञ्चलैः नखाप्रैः प्रपञ्चितारावाः विस्तारितध्वनयः याः विपञ्चिकाः बीणाः ताभिः अश्चितं मनोहरम् । सकङ्कणप्रेक्षणानां कटककम्पनविशेषस- हितानां कोणाशनानां कोङ्कणस्त्रीणां मृदङ्गसंताडनस्य मृदङ्गवादनस्य भगया शोभया संगतं सहितम् ॥

६८ अच्युतरायाभ्युदये कलिङ्गसारङ्गगालिघूर्णितो- त्तरङ्गसौरभ्यकुरङ्गनाभिकम् । पटीरकर्पूरविमेलनार्भटी- निरूढलाटीकरहाटकोत्कटम् ॥ २९ ॥ कलिङ्गेति ॥ कलिङ्गसारङ्गदृशां कलिङ्गदेशमृगाक्षीणा आलिभिः समूहः पूर्णिताः मर्दिताः उत्तरङ्गसौरभ्याः अतिमुगन्धयः कुरङ्गनाभयः कस्तूरिकाः यस्मिस्तत् । पटीरकर्पूरविमेलनाभट्यां चन्दनकर्पूरसंयोजनरीत्या निरूढानां कुशलानां लाटीनां लाटदेशस्त्रीणा करहाटकैः पद्मकन्दैः (इद सुगन्धिकन्दानामुपलक्षणम् ) उत्कटं अधिक व्याप्तमित्यर्थः ॥ विराटसौराष्ट्रवधूटिकालिका- सटावचूडीकृतचारुवीटिकम् । त्रिगर्तपाठीनविवर्तलोचना- प्रवर्तितारात्रिकपात्रवर्तिकम् ॥ ३० ॥ विराटेति ॥ विराटसौराष्ट्रवधूटिभिः विराटदेशोत्पन्नाभिः सौराष्ट्र- देशोत्पन्नाभिश्च स्त्रीभिः कालिकानां जटामांसीनां सटाभिः जटाभिः कूर्चि- काभिः अवचूडीकृताः अलंकृताः ताभिर्बद्धा इत्यर्थः चारवः वीटिकाः सज्जोपकरणकानि ताम्बूलानि यस्मिस्तत् तथोक्तम् । पाठीनविवर्तवत् मी- नोद्वर्तनवत् तरलानि लोचनानि नयनानि यासां ताः पाठीनविवर्तलोचना: स्त्रियः यद्वा पाठीनविवाः मत्स्यपरिणामाः मीनसदृशानीत्यर्थः तादृशानि लोचनानि यासामिति विग्रहः, त्रिगर्तपाठीनविवर्तलोचनाभिः त्रिगर्तदेश- स्त्रीभिः प्रवर्तिताः कृताः संस्कृता वा आरात्रिकपात्रवर्तिकाः नीराजनार्थाः पात्रे निक्षिप्ताः वर्तयः यस्मिस्तत् ॥

तृतीयः सर्गः । ६९ अवन्तिकुन्त्यान्ध्रपुरान्ध्रिकाकरा- नुबन्धिसौगन्धिकदामदन्तुरम् । विदर्भसुभ्रूकरशिल्पवैदुषी- विकल्पजल्पाकसिताभ्रगर्भकम् ॥ ३१ ॥ अवन्तीति ॥ अवन्तिकुन्त्यान्ध्रपुरन्धिकाणां अवन्त्यादिदेशयुवतीनां करानुबन्धिभिः हस्तसम्बन्धवद्भिः ताभिः वहस्तेन ग्रथ्यमानैरित्यर्थः, सौगन्धिकदामभिः कहारमालाभिः दन्तुरं व्याप्तम् । 'पुरन्ध्रिकाकलानु- गन्धि' इति पाठान्तरम् । विदर्भमुभ्रवां विदर्भदेशस्त्रीणां करशिल्पवैदुष्याः माल्यादिग्रथनविषये हस्तकौशलस्य विकल्पानां भेदानां जल्पाकाः निवेद- यितारः सिताभ्रगर्भकाः धवलेन अभ्रकाख्येन लोहविशेषेण क्रियमाणानि 'ताण्डा' इति द्रामिडभाषया व्यवह्रियमाणानि शिरोमाल्यानि यस्मिस्तत् । जल्पाकमदभ्रगर्भकम्' इति पाठान्तरम् । तदा जल्पाकमित्येतदपि मही- पतिमन्दिरस्य विशेषणम् । अदभ्राः अधिकाः गर्भकाः शिरोमाल्यानि यस्मिन्निति व्याख्येयम् । 'केशमध्ये तु गर्भकः ।' इति अमरः ॥ अपारनेपालनृपालबालिका- कलापसम्पादितधूपनैपुणम् । अलक्षि माङ्गल्यमयं किलाखिलं महीपतेर्मन्दिरमिन्दिरास्पदम् ॥ ३२ ॥ अपारेति ॥ अपारेण अधिकेन नेपालनृपालबालिकाकलापेन नेपा- लराजकुमारीसमूहेन सपादित निवर्तित धूपनैपुणं अगुरुधूपाद्युत्पादनसा- मर्थ्य यस्मिस्तत् । अपारेति सम्पादनक्रियाविशेषणं वा । माङ्गल्यमय अच्युतरायाभ्युदये मङ्गलप्रचुरम् । अखिल निःशेषम् । महीपतेः मन्दिर राजसदनम् । इन्दि- रायाः लक्ष्म्याः आस्पदं निवासः । अलक्षि दृष्टम् । किलेति प्रसिद्धौ ॥ पराकृतैरम्मदपाटवानक- प्रणादपारीणदरीप्रतिश्रुता । हरिष्यति क्ष्माभरमेष इत्यमी कुलाचलाः श्वेलनमाचरन्निव ॥ ३३ ॥ पराकृतेति ॥ इरमदस्य मेघज्योतिषः वज्राग्नेः इद ऐरम्मद यत् पाटव शब्दविषये सामर्थ्य निर्घोष इति यावत् तत् पराकृत निरस्त यस्तेषां आनकानां पटहानां यः प्रणादः निस्वनः तस्य पारीणाः पारं- गताः तत्परिपूर्णा इत्यर्थः याः दयः गुहाः तासां प्रतिश्रुता प्रतिध्वनिना । कुलाचलाः महेन्द्रमलयादयः । एषः अच्युतराजः । क्षमाभर भूभारम् । हरिष्यति अपनेष्यति । इति । श्वेलन सन्तोषेण सिहनादम् । आचरन् अकुर्वन्निव । उत्प्रेक्षा॥ समञ्चितं कञ्चुकिनां जयारवैः सहाप्तराजन्यजनेन केनचित् । अलंकृतं साङ्ग इवाङ्गजः शनै- रसावयासीदभिषेकमण्टपम् ।। ३४ ॥ समश्चितमिति ॥ असौ अच्युतरायः। केचित् केनापि । आप्तः इष्टः यः राजन्यजनः सत्कुलजातक्षत्रियलोकः तेन सह । साङ्गः मूर्तिमान् । अङ्गजः मन्मथ इव । कञ्चुकिनां सोविदल्लाना। जयारवैः जयघोषैः । समञ्चितं शोभितम् । अलंकृत परिष्कृतम् । अभिषेकमण्टपम् । शनैः मन्दमन्दम् । अयासीत् ययौ । 'समञ्चितः' इत्यपि पाठः ॥

तृतीयः सर्गः । ७१ अनादि नान्दीभिरनर्दि मद्दलै- रराणि वीणाभिरभाणि वेणुभिः । अरेभि भेरीभिरगर्जि जर्झरै- रगारि शृङ्गैः समकालि काहलैः ॥ ३५ ॥ अनादीति ॥ (तदा) नान्दीभिः वाद्यविशेषैः । अनादि शब्दितम् । अत्र सर्वत्र भावे लुङ् । मद्दलैः । अनर्दि । नर्द शब्दे । वीणाभिः । अ. राणि। वेणुभिः वंगैः। अभाणि भणितं शब्दितमित्यर्थः । रणभणौ शब्दार्थौ । भेरीभिः दुन्दुभिभिः । अरेभि अशब्दि । रेभृ शब्दे । जर्झरैः तन्नामकैर्वाद्यविशेषैः । अगर्जि गर्जितम् । गर्ज शब्दे । शृङ्गैःवाद्यविशेषैः । अगारिशब्दितम् । गृ शब्दे । काहलैः । समकालि शब्दितम् । कल शब्द- संख्यानयोः॥ कृताभिषेकः कृपया पुरा हरेः स एष साम्राज्यपदेऽभ्यषिच्यत । श्लथाम्बुलेशव्यपदेशतो मही तदाजनि स्विन्नतनुस्तदादरात् ॥ ३६ ॥ कृतेति ॥ हरेः विष्णोः। कृपया अनुग्रहेण । पुरा प्रथमतः। कृताभि- षेकः अभिषिक्तः। सः एषः अच्युतरायः । साम्राज्यपदे चक्रवर्तित्वस्थाने। अभ्यषिच्यत अभिषिक्तः । तदा पट्टाभिषेककाले । मही भूभिः । तस्मिन् अच्युतराये आदरात् प्रीतेः । श्लथाः विकीर्णाः ये अम्बुलेशाः जलकणाः तेषां व्यपदेशतः व्याजेन । स्विन्ना सात्विकभावस्वेदवती तनुः मूर्तिः यस्यास्तथोक्ता । अजनि जाता । सापह्नवोत्प्रेक्षा ॥

७२ अच्युतरायाभ्युदये अपाङ्गितप्रेङ्खदभीशुवीचिका- कृतावलम्बैरिव गन्धवारिभिः । कराजसौवर्णघटापवर्जितै- स्तमभ्यषिञ्चत्तरलेक्षणाजनः ॥ ३७ ॥ अपाङ्गितेति ॥ तरलेक्षणाजनः स्त्रीजनः । अपाङ्गितैः नेत्रान्तवलनैः प्रेक्षतां प्रसरतां अभीशूनां कान्तीनामेव रज्जूनां वीचिकाभिः तरङ्गैः परम्पराभिरित्यर्थः कृतः अवलम्बः धारण येषां तादृशैरिव स्थितैः । कराब्जेषु हस्तारविन्देषु विद्यमानाः ये सौवर्णघटाः कनककलशाः तैः अपवर्जितैः विसृष्टैः । गन्धवारिभिः सपरिमलैः जलैः । तं अच्युतरायम् । अभ्यषिञ्चत् अभिषिषेच ॥ कृताभिषेकस्तुलुवक्षितिक्षितां कुलाग्रणीः कुङ्कुमवारिधारया । करीव सिक्तो गिरिधातुनिझरैः शशीव सायन्तनसन्ध्ययारुचत् ॥ ३८ ॥ कृतेति ॥ तुलुवनितिक्षितां तुलुवमहीपतीनाम् । कुलाग्रणीः कुल- श्रेष्ठः अच्युतरायः। कुङ्कुमवारिधारया कुङ्कुमसहितसलिलधारया । कृता- भिषेकः अभिषिक्तः सन् । गिरिधातुनिझरैः गैरिकधातुविमित्रैः प्रस्रवण- जलैः । सिक्तः। करीगज इव । सायतनसन्ध्यया सायंकालिकसंन्ध्यारागेण । सिक्तः रूषितः । शशी चन्द्र इव च। अरुचत् अशोभत । रुच दीप्तौ। 'युद्भयो लुङि' इति पाक्षिके परस्मैपदे 'पुषादिद्युतादि-' इति अड् ॥

तृतीयः सर्गः । ७३ अलोकि लोकैहरिचन्दनोदकं विजृम्भितं मण्टपवेदिकाङ्कणे । निरीक्ष्य कान्तं नृपमाशयादमा- न्भुवोऽनुरागो बहिरुद्यतो यथा ॥ ३९ ॥ अलोकीति ॥ लोकैः जनैः । मण्टपवेदिकाङ्कणे अभिषकमण्टपे विद्यमानायाः वितर्दिकायाः प्रदेशे । विजृम्भित समुल्लसितम् । हरिचन्द- नोदक रक्तचन्दनजलम् । कान्त रमणीय भर्तारम् । नृपं अच्युतराजम् । निरीक्ष्य विलोक्य । (स्थितायाः) भुवः भूमेः नायिकायाः । अमान् अनन्तर्भवन् अमित इत्यर्थः । ( अत एव) आशयात् हृदयात् । बहिः । उद्यतः निर्गतः । अनुरागः यथा अनुराग इव । अलोकि दृष्टम् । अनु- रागो रक्तवर्ण इति सप्रदायः ॥ अधारयत्पाण्डरमम्बरं क्षिते- रधीश्वरः स्नानविधेरनन्तरम् । समाप्तवर्षस्नपनो यथा गिरिः शरन्मुखे छन्ननितम्बमम्बुदम् ॥ ४० ॥ अधारयदिति ॥ क्षितेः अधीश्वरः अच्युतराजः । स्नानविधेः अन- न्तरम् । पाण्डरं धवलम् । अम्बरं वस्त्रम् । शरन्मुखे शरदारम्भे । समाप्त अवसितं वर्षस्नपन वर्षाकालिकवृष्टिसेचनं यस्य स तादृशः । गिरिः पर्वतः । छन्ननितम्बं आच्छादितकटकप्रदेशम् । अम्बरेऽपि विशेषणमिदं सुयोजम् । अम्बुदं यथा मेघमिव । अधारयत् धृतवान् ।

७४ अच्युतरायाभ्युदये समाप्य सर्वी समनन्तरक्रियां नृपासनस्थो नृपतिनिरैक्ष्यत । सुमेरुसङ्गीव सुरेन्द्रपादपः श्रियः सखेव श्रितभानुमण्डलः ॥ ४१ ॥ समाप्येति ॥ सर्वां समनन्तरक्रियां समस्तमपि अनन्तरकरणीयम् । समाप्य निवर्त्य । नृपासनस्थः सिंहासने स्थितः । नृपतिः अच्युतराजः । सुमेरुसङ्गी मेरुपर्वते विद्यमान: । सुरेन्द्रपादपः कल्पवृक्ष इव । श्रित अधिष्ठितं भानुमण्डलं सूर्यबिम्ब येन स तादृशः। श्रियः सखा लक्ष्मीपतिः नारायण इव । निरक्ष्यत दृष्टः॥ प्रचालितोऽग्रे परिचारिकाजनै- नृपस्य नीराजनदीपिकोत्करः । दिगन्तरभ्रान्तिमिषान्नटिष्यतो दधौ प्रतापस्य स पूर्वरङ्गतां ॥ ४२ ।। प्रचालित इति ॥ (य ) नीराजनदीपिकानां आरात्रिकदीपिकानां उत्करः समूहः । नृपस्य । अग्रे पुरस्तात् । परिचारिकाजनैः। प्रचालितः भ्रमितः । सः नीराजनदीपिकोत्करः। दिगन्तरभ्रान्तिमिषात् दिगन्तरेषु भ्रमणव्याजेन । नटिष्यतः नर्तिध्यतः । प्रतापस्य । पूर्वरङ्गतां प्राथमिकता आरम्भकृत्यतामित्यर्थः । दधौ दधार । 'दिगन्तरे भ्रान्तिमिषात्' इति पाठे तु भ्रान्तिमिषात् दिगन्तरे नटिष्यत इत्यपि व्याख्यातुं शक्यम् ॥ अरालकेशीभिरनाटि मेदिनी- स्वयंवरप्रेयसि शोभिते श्रिया ।

तृतीयः सर्गः । ७५ वलाहके दर्शितवार्षिकोदये न किं शिखिन्यो नटनं विवृण्वते ॥ ४३ ॥ अरालेति ॥ मेदिन्याः भूमेः स्वयंवरप्रेयसि स्वयंवृतपतौ अच्युत- राये। श्रिया राजलक्ष्म्या । शोभिते सति । अरालः कुटिलः भङ्गिमा- नित्यर्थः केशः यासां ताभिः स्त्रीभिः । अनाटि नटितम् । भावे लुड्। वलाहके मेघे। दर्शितः बार्षिकोदयः वर्षाकालिकसत्तिः येन तस्मिन् तथोक्ते सति । शिखिन्यः मयूर्यः । नटन नर्तनम् । न विवृण्वते कि न कुर्वन्ति किम् । दृष्टान्तालङ्कारः॥ विनीतसामन्तविधूतचामर- द्वयान्वितोऽलक्ष्यत धूर्वहः क्षितेः । तुषारशैलो दृषदाहतिद्विधा- पनीपतन्नाकधुनीपया इव ॥ ४४ ॥ विनीतेति ॥ विनीतैः विनयसपनैः सामन्तैः विधूत वाजित यत् चामरद्वय तेन अन्वितः युतः उभयतश्चामराभ्यां वाज्यमान इत्यर्थः । क्षितेः भूमेः । धूर्वहः भारोद्वहः अच्युतरायः । दृषत्सु शिलासु आहत्या संघटनेन द्विधापनीपतत् द्विधा विभज्य प्रवहत् नाकधुनीपयः गङ्गाजल यस्य स तथोक्तः । तुषारशैल हिमवत्पर्वत इव । अलक्ष्यत दृष्टः । पनी- पतदिति पततेर्यलुगन्ताच्छता ॥ मनुक्रमो रक्षति तत्कुलक्षमा- पतीनितीवानुजिघृक्षया गतौ ।

७६
अच्युतरायाभ्युदये
तमीशसूर्याविव धारिते किम-
प्यराजतामातपवारणे विभोः ॥ ४५ ॥
मन्विति ॥ विभोः प्रभोः अच्युतरायस्य । धारिते धृते। आतपवारणे
छत्र। मनुना व्यवस्थापितः क्रमः राज्यपरिपालनरीतिः । तत्कुलक्षमाप-
तीन् तद्वंशराजान् । रक्षति । तद्वशराजाः मनुक्रमेण परिपालयन्तीत्यर्थः ।
इताव । अत्रेवकारो वाक्यालङ्कारे । अनुजिवृक्षया अनुग्रहीतुमिच्छया ।
आगतौ। तमीशसूर्यौ चन्द्रसूर्याविव । किमपि अनिर्वचनीयतया। अराजतां
शोभितवन्तौ । 'मत्कुलक्षमापतीनतीव' इति पाठान्तरम् ॥
कलिङ्गभूमेः कमिता कलाचिकां
मणीनिवद्धां मगधोऽस्य पादुकाम् ।
शकाधिपश्चामरमञ्जरीमधा-
स्वयं कृपाणीमपि सिंहलेश्वरः ॥ ४६ ॥
कलिङ्गेति ॥ कलिगभूमेः कमिता कलिङ्गाधिपः । अस्य अच्युत-
रायस्य । कलाचिका पतगृह भृङ्गारम् । मगधः । मणीनिबद्धां रत्नख-
चिताम् । पादुकां उपानहम् । शकाधिपः । चामरमजरी स्तबकसदृशं
वालव्यजनम् । सिंहलेश्वरः मिहलाधिपोऽपि । स्वयम् । कृपाणी खड्गम् ।
अधात् उवाह ॥
क्षमाभुजः काञ्चनपुष्पमग्रतः
प्रकीर्य भक्त्या प्रतिपादितोपदाः ।
व्यनंसिषुवंशमणिं विधोस्त्वरा-
विघट्टितान्योन्यकिरीटकोटयः ॥ ४७ ॥

तृतीयः सर्गः । ७७ क्षमेति ॥ क्षमाभुजः राजानः । भक्त्या। काञ्चनपुष्प हिरण्मयानि कुसुमानि । अग्रतः अग्रे। प्रकीर्य अवकीर्य । प्रतिपादिताः उपदाः उपायनानि यैस्तथोक्ताः । त्वरया संभ्रमेण विघट्टिता घर्षिता अन्योन्य- किरीटकोटि: परस्परमकुटाग्रभाग. येषा ते तथोक्ताश्च सन्तः । विधाः चन्द्रस्य । वशमणि शरत्न तत्कुलश्रेष्ठ अच्युतरायमित्यर्थः । व्यनसिषु. नमन्ति स्म । महत्तरे मानवलोकशासितु- मनोऽनुकूला महिषीपदे तदा । कृताभिषेका सलगक्षितीशितु- र्वरात्मजासीद्वरदाम्बिकावधूः ॥ ४८ ॥ महत्तर इति । तदा तस्मिन् समये । सलगक्षितीशितुः सल- गराजस्य । वरात्मजा श्रेष्ठपुत्री वरलब्धा पुत्री वा । मानवलोकशासितुः अच्युतराजस्य। मनसः हृदयस्य अनुकूला रुचिता। वरदाम्बिकावधूः वरदाम्बिकानाम्नी राज्ञी । महत्तरे प्रशस्ततरे । महिषीपदे देवीत्वस्थाने । कृताभिषेका अभिषिक्ता । आसीत् ॥ प्रसूनसौभाग्यपुषा यशोमिषा- प्रजानुरागप्रकटीक्रियाहया। स एष साम्राज्यपदश्रियारुच- द्वसन्तलक्ष्म्येव वदान्यपादपः ॥ ४९ ॥ प्रसूनेति ॥ स एषः अच्युतराजः । यशामिषात् कीतिव्याजेन।प्रसू- नानां कुसुमानां सौभाग्यं शोभां पुष्णाति इति तया। प्रजानां यः अनुरागः ७८ अच्युतरायाभ्युदये - प्रीतिः तस्य प्रकटीक्रियाया प्रकाशनस्य अहया समुचितया। एतद्विशेषणद्व- यमुपमानेऽपि योज्यम् । साम्राज्यपदत्रिया चक्रवर्तित्वस्थानलक्ष्म्या । व- दान्यः दाता यः पादपः वृक्षः कल्पवृक्ष इत्यर्थः । वसन्तलक्ष्म्या वसन्त- श्रियेव । अरुचत् शोभितवान् । चकार यन्मेरुमनादिमः पुमान् सुवर्णरूपं सुरसंसदां वशे । सुवर्णमेलं स्वयमस्य सेवको महीसुरेभ्योऽदित मानवेश्वरः ॥ ५० ॥ अकारयदिति ॥ यत् यस्मात् । न विद्यते आदिमः यस्मात्सः अनादिमः सर्वादिभूत इत्यर्थः, तादृशः पुमान् परमपुरुषः श्रीमन्नारायणः । सुवर्णरूपं स्वर्णमयम् । मेरुं महामेरुपर्वतम् । सुरसंसदा देवबृन्दानाम् । वशे अधीनतायाम् । चकार अकरोत् । (तत्) अस्य आदिपुरुषस्य नाराय- णस्य । सेवकः भक्तः । मानवेश्वरः अच्युतनृपतिः । स्वय आत्मना। महीसु- रेभ्यः ब्राह्मणेभ्यः । सुवर्णमेरु मेरुपर्वताकारं सुवर्णम् । अदित दत्तवान् । फलं यदस्या: पतिसेवया प्रभोः फणीशपर्यङ्कपदार्चया च यत् । चिरात्तदासीच्चिनवेङ्कटादिरि- त्यभिख्ययाक्ष्णोरपि दीर्घमायुषि ।। ५१ ॥ फलमिति ॥ अस्याः वरदाम्बिकायाः । पतिसेवया भर्तृशुश्रूषया । यत् फलम् । प्रभोः अच्युतराजस्य । फणीशः आदिशेषः पर्यकः खट्वा यस्य तस्य फणीशपर्यस्य भगवतो नारायणस्य पदार्चया चरणार-

तृतीयः सर्गः ।
विन्दार्चनेन । यच्च फलम् । तत् फलम् । चिरात् चिरकालानन्तरम् ,
चिरात् चिरकालपर्यन्तमिति पूर्ववाक्यान्वयि वा । अक्ष्णो: नयनयोः ।
आयुष्यपि । दीर्घ सन् । 'चिनवेड्कटाद्रिः' इति अभिख्यया नाम्ना । आसीत्
अभूत् । भगवत्कृपया दीर्घायुर्दीर्घाक्षश्च चिनवेड्टाद्रिनामा तनयः समुत्पन्न
इति भावः ॥
अनेन राज्ञा चिनवेङ्कटादिर-
प्ययोजि लक्ष्मी युवराजपूर्विकाम् ।
क्षमापतौ राज्यरमा सयौवन-
क्रमा च कौमारमसावसूचयत् ।। ५२ ।।
अनेनेति ॥ अनेन राज्ञा अच्युतराजेन । चिनवेङ्कटादिरपि । युव-
राजपूर्विकां युवराजशब्दपूर्विकाम् । लक्ष्मी यौवराज्यलक्ष्मीम् । अयोजि
योजितः । असौ इयम् । राज्यरमा राज्यलक्ष्मीः । क्षमापतौ राज्ञि
अच्युतराये । यौवनक्रमण यौवनाभिवृद्धया सहिता सयौवनक्रमा परि-
पूर्णेत्यर्थः तादृशी च सती । कौमारं कुमारीभावं युवराजसंबन्धं च ।
असूचयत् न्यवेदयत् प्राप्तवतीति यावत् । यद्वा सयौवनक्रमा युवराज-
संबन्धन यौवनोदयसहिता सती । क्षमापतौ चिनवेङ्कटाद्रौ कौमारं
कुमारीभावं कुमारशब्दवाच्यताम् । असूचयत् अकरोत् । युवराजः
कुमार इति व्यपदिश्यते ॥
यथा जयन्तेन पुरन्दरो यथा
नरोपवायो नलकूबरेण च ।
अराजदव्याजसुहृत्सतां तथा
चिरायुषा श्रीचिनवेङ्कटाद्रिणा ॥ ५३ ॥

अच्युतरायाभ्युदये यथेति ॥ सतां साधूनाम् । अव्याजसुहृत् निर्व्याजबन्धु अच्युत- राय । जयन्तेन तन्नाम्ना सुतेन । पुरन्दरः इन्द्र. । यथा (विराजते) नरः औपवाह्यः वाहनं यस्य म. नरवाहन. कुबेरश्च । नलकूबरेण तन्नाम्ना पुत्रेण । यथा (विराजत) तथा । चिरायुषा दीर्घायुषा । श्रीचिनवेङ्कटा- द्रिणा खसुतेन । अराजत् अशोभत । एतावत्पर्यन्तं वंशस्थं प्रायण वृत्तम् । क्वचित्वचित् इन्द्रवंशापि ॥ अभिमतपिकवाणीपञ्चमैरञ्चितश्री- रपिच वरदमाम्बावीरुदालम्बभूतः । पतिररुचदवन्याः प्राप्तसाम्राज्यलक्ष्म्या शतमखपुरशाखी चैत्रलक्ष्म्या यथैव ॥ ५४ ॥ अभिमतेति ॥ अभिमता. इष्टाः याः पिकवाण्यः स्त्रियः तासां पञ्चमैः मधुरैः स्वरैः । अत्र पञ्चमशब्दो मधुरस्वरपरः । अन्यत्र अभिमतानां पिकानां कोकिलानां वाणीपञ्चमैः पञ्चमस्वरैः। 'अभिमतसुतवाणीपञ्चमैः' इति पाठान्तरम् । अञ्चिता शोभिता श्रीः समृद्धिः यस्य स तथोक्तः । अपि च किच। वरदमाम्बा वरदाम्बानाम्नी देवी सैव वीरुत् लता तस्याः आलम्बभूतः । अवन्याः पतिः अच्युतरायः । प्राप्ता अधिगता या साम्रा- ज्यलक्ष्मीः चक्रवर्तित्वश्रीः तया । शतमखपुरशाखी इन्द्रनगरवृक्षः कल्पवृक्ष इत्यर्थः ।चैत्रलक्ष्म्या यथा चैत्रकालिकश्रियेव वसन्तलक्ष्म्येवेत्यर्थः। अरुचत् विललासैव । 'प्राप्तसाम्राज्यलक्ष्मीः' इति पाठान्तरम्। मालिनी वृत्तम् ॥ इति तृतीयः सर्गः॥ . gle चतुर्थः सर्गः। वासरोऽथ वसुधावलद्विषो वल्लभेति महिषीपदे महीम् । आदरात्किमभिषेक्तुमाहर- नम्बुवाहमणिकुम्भमाययौ ॥ १ ॥ वासर इति ॥ अथ । वासरः दिवसः । वसुधावद्विषः भूमीन्द्रस्य अच्युतरायस्य । वल्लभा प्रेयसी । इति हेतोः। मही भूमिम् । महिष|पदे देवीस्थाने । आदरात् प्रीत्या । अभिषेक्तुम् । अम्बुवाहः जलधर एव मणिकुम्भः रत्नखचितघटः तम् । आहरन् आनयन् सन् । आययो आगतः किम् । उत्प्रेक्षा रूपकं च ॥ शौर्यमारुतसखस्य संनिधौ कल्पितानघकरग्रहे नृपे। मेदिनी पुलकजालमेदुरा नीपकुमलनिभादभासत ॥ २ ॥ शौर्येति ॥ नृपे अच्युतराये। शौर्यमेव मारुतसखः अग्निः तस्य संनिधौ। कल्पितः कृतः अनघः मनोहरः निष्पापश्च करग्रहः विवाहः राजदेयद्रव्यखीकारश्च येन तथाभूते सति । मेदिनी भूमिः । नीपकुड्मल- निभात् नीपमुकुलव्याजेन । पुलकजालेन रोमाञ्चसमूहेन मेदुरा व्याप्ता सती । अभासत शुशुभे । सापह्नवोत्प्रेक्षा समासोक्तिश्च ॥ 6

८२
अच्युतरायाभ्युदये
अस्य कर्तुमभिषेकमङ्गला-
रात्रिकश्रियमिवावनीभुजः ।
प्रावृषाप्यजनि मेघभाजन-
प्रस्तुताचिररुचिप्रदीपया || ३ ॥
अस्येति ॥ प्रावृषा वर्षाकालेनापि । स्त्रीलिङ्गात् काचित्स्त्रीत्यपि
गम्यते । अस्य अवनीभुजः राज्ञः । अभिषेकमङ्गले क्रियमाणस्य आरात्रि-
कस्य नीराजनायाः श्रिय लक्ष्मीम् । कर्तुं आचरितुमिव । मेघ एव भाजनं
दीपपात्रं तत्र प्रस्तुनः प्रक्रान्तः उद्दीपित इति यावत् अचिररुचिः विद्यु-
देव प्रदीपः यया तया तथोक्तया। अजनि जातम् । भावे लुङ्॥
पालिता प्रतिनवेन भूभुजा
वारिराशिरशना वसुन्धरा ।
केतकीकुसुमपांसुकैतवा-
प्राक्तनान्परिजहास पार्थिवान् ॥ ४ ॥
पालितेति ॥ प्रतिनवेन नूतनेन । भूभुजा राज्ञा । पालिता रक्षिता
सती । वारिराशिरशना समुद्रमेखला। वसुधरा भूमिः। केतकीकुसुम-
पांसुकैतवात् कैतकधूलिव्याजेन। प्राक्तनान् प्राचीनान् । पार्थिवान् राज्ञः ।
परिजहास परिहसति स्म ॥
वर्षकं समवलोक्य वारिदं
चातकद्विजकुलस्य हृष्यतः ।
बाष्पवर्षकृतसेचना नवा-
द्वर्षतोऽजनि पुरा वसुन्धरा ॥ ५ ॥

चतुर्थः सर्गः । ८३ , वर्षकमिति ॥ वसुन्धरा भूमिः । नवात् नूतनात् । वर्षतः वृष्टेः । पुरा प्रागेव । वर्षकं वर्षिष्यन्तम् । वारिदं मेघम् । विलोक्य । हृष्यतः सतुध्यतः । चातकद्विजकुलस्य चातकपक्षिसमूहस्य । बाष्पवर्षेण आनन्द- बाष्पवृष्टया कृत सेचन सेकः यस्यास्तथोक्ता। अजनि जाता । अत्र वारिद- द्विजादिपदैः मेघसदृशाच्युतरायब्राह्मणादिप्रतीतेः समासोक्तिः अति- शयोक्तिश्च॥ अभ्रपङ्किरकिरत्पयःकणा- निर्भरोष्मणि निदाघतः क्षितौ । गर्भिताशनितया तदुद्भवं घातुमादरवतीव सौरभम् ॥ ६ ॥ अभ्रेति ॥ अभ्रपङ्क्तिः मेघावलिः, स्त्रीलिङ्गान् काचित्स्त्रीति च । गर्भितः अन्तःस्थितः अशनिः वज्रं यस्यास्तस्या भावेन, गर्भिणीत्वेन चेति गम्यते । तदुद्भवं भूम्युद्भवम् । सौरभं सुगन्धम् । धातु अनुभवितुम् । आदरवती साभिलाषेव । निदाघतः ग्रीष्मेण । निर्भरोमणि अधिकोष्ण्या- याम् । क्षितौ भूमौ । पयःकणान् जलशीकरान् । अकिस्त् विकिरति स्म । गर्भिण्याः मृद्भक्षणमृत्तिकागन्धाघ्राणादिकं प्रसिद्धमिति तथोत्प्रेक्षा । अम्बु पीतमवपत्य दुस्तरा- दम्बरादतितरामपां निधौ । प्रावृषा पवनचक्रयोजिता वारिदा ववमुरश्चितभ्रमाः ।। ७ ॥ अम्ब्विति ॥ दुस्तरात् तरितुमशक्यात् दुरारोहात् अत्युन्नतादिति यावत् । अम्बरात आकाशात् । अवपत्य पतित्वा अवरुह्य च । अपां निधौ अच्युतरायाभ्युदये समुद्र । अतितरां अत्यन्तम् । पतिम् । अम्बु जलम् । (कर्म) वारिदा. मेघाः। प्रावृषा वर्षाकालेन । पवनचक्रेण मण्डलवायुना योजिताः मलिताः, पवनचक्र सवात चक्राकारयन्त्रे योजिताः स्थापिताश्च । अञ्चित कृतः भ्रमः भ्रमणं इतस्ततः सचारश्च येषां तथोक्ताः सन्तः । ववमुः उदिन्ति स्म । लोकेऽपि कूपादो पतितः पीतजलः पुरुषः कुलालचक्रयन्त्रमारोग्य परिचमणेन पीतं जलमुगायत इति स्थितिः । समासोक्तिः॥ अम्भसार्द्रितमवादयन्नभा- स्तापयन्हुतवहे तटिन्मये । मद्दलं मद्जुषां शिखण्डिनां ताण्डवानुगुणमभ्रमण्डलम् ॥ ८ ॥ अम्भसेति ॥ नभाः वर्षाकाल: । 'नभा घ्राणे विसतन्तो पतद्रहे। प्रावृषि श्रावणे' इति हैमः । अम्भसा जलेन । आर्द्रित आर्दीकृतम् । अत्रमण्डलं मेघसमूहमेव । मद्दलम् । तटिन्मये विद्युद्रूपे । हुतवहे अग्नौ । तापयन् विशोष्य तप्त कुर्वन् सन् । मदजुषां मत्तानाम् । शिखण्डिनां मयूराणाम् । ताण्डवस्य नटनस्य अनुगुणं अनुकूल यथा तथा। अवाद- यत् वादितवान् । रूपकम् ॥ चातकाः सततधारमक्षमाः पातुमम्बु परिपीडिता मुखे। प्राक्समीरशिथिलैः पयःकणैः कुर्वते स्म निजकुक्षिपूरणम् ॥ ९ ॥ चातका इति ॥ चातकाः चातकपक्षिणः । मुखे। परिपीडिताः चतुर्थः सर्गः । ८५ धारापातेन आहताः । सततधार अविच्छिन्नपातम् । अम्बु जलम् । पातुम् । अक्षमाः अशक्ताः सन्तः । प्राक प्रथमतः । समीरेण वायुना शिथिलैः : लघुकृत्य विशीर्णैः । पयःकणे: जलबिन्दुभिः । निजकुक्षिपूरण स्वोदरपूर्तिम् । कुर्वते स्म अकुर्वत ॥ वारिदे शरमुचि प्रधाविनी वाहिनी निविशते स्म वारिधौ। राजहंससदसापि दुद्रुवे लक्ष्यमस्ति किमु जीवनत्यजाम् ॥ १० ॥ वारिद इति ॥ वारिदे मेघे । कस्मिश्चन धानुष्क इत्यपि गम्यते । शर जल बाणं च मुञ्चतीति तस्मिन् शरमुचि सति । 'शरस्तु तेजने बाणे दध्यग्रे ना शरं जले।' इति विश्वः । वाहिनी नदी सेना च । प्रधाविनी वेगवती पलायमाना च सती। वारिधी समुद्रे । निविशते स्म प्रविष्टा निलीना च । राजहसानां हसविशेषाणां राजश्रेष्ठानां च सदसा सघेनापि । दुद्रुवे पलायितम् । जीवन जलं त्यजन्ति विसृजन्तीति जीव- नत्यजः तेषां जीवनत्यजा जलवर्षिणाम् , जीवन प्राणान् त्यजन्ति मति समये उपेक्षन्ते इति जीवनत्यजः वीराः तेषां च । किमु । लक्ष्य व्याजः, शरव्यं च । अस्ति । नास्त्येवेत्यर्थः । श्लेषसंकीणोऽर्थान्तरन्यासः॥ अग्रतः कृतशिखण्डिताण्डवो भीष्ममेष शुचिमुज्झितैः शरैः । वञ्चयन्वलितजिष्णुकार्मुको वासरोऽर्जुनविकासमासदत् ॥ ११ ॥ अग्रत इति ॥ एष वासरः वर्षादिवसः । वलितं वक्रितं प्राप्तं ८६ अच्युतरायाभ्युदये जिष्णाः इन्द्रस्य कार्मुक धनुः यस्मिन् स तथोक्तः । पक्ष वलित जिष्णु जयशीलं च कार्मुकं येन सः । अग्रतः प्रथमतः । कृतं शिखण्डिनां मयू- राणां ताण्डवं नटनं येन यस्मिन्वा सः। पक्षे अग्रतःकृतः पुरस्तादवस्था- पितः यः शिखण्डी तन्नामा द्रुपदपुत्रः तस्य ताण्डवं उत्साहः युद्धाभि- नयो वा यस्य स तथोक्तः । उज्झितैः विसृष्टैः । शरैः जलैः, बाणैश्च । भीष्मं भयंकरं अत्युग्रमित्यर्थः । शुचि ग्रीष्मम् । पक्षे, शुचि परिशुद्धम् । भीष्म भीष्माचार्य शन्तनुपुत्रं पितामहम् । वञ्चयन् शमयन् पक्षे प्रता- रयन् सन् । अर्जुनानां ककुभाख्यवृक्षाणां विकासं पत्रफलादिसमृद्धिम् । पक्षे, अर्जुनस्य मध्यमपाण्डवस्य विकासं शोभां तत्साम्यमिति यावत् । आसदत् प्राप्तवान् । आसीदते ड् ॥ आन्ध्यमन्तरभितापकन्दली- मश्रु निश्वसितमप्ययोगिनाम् । आरचय्य विववार वारिदो धूमपावकजलानिलात्मताम् ॥ १२ ॥ आन्ध्यमिति ॥ वारिदः मेघः । अयोगिनां विरहिणाम् । आन्ध्य अन्धत्वं कर्तव्यमूढतां च । अन्तः मनसि । अभितापस्य संतापस्य कन्दली नवाङ्कुरं समूहं वा । अश्रु बाष्पम् । निश्वसित निश्वासमपि । आरचय्य उत्पाद्य । धूमपावकजलानिलात्मतां धूमाग्निजलवायुरूपत्वम् । विववार विवृतवान् । 'धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः' इति मेघसंदेशे ॥ क्रीडया दिवि तटित्कृपाणिका- वल्लिषु व्यतिहतासु वारिदैः ।

चतुर्थः सर्गः । विश्लथा इव विभावसोः कणाः शक्रगोपनिकराश्चकाशिरे ॥ १३ ॥ क्रीडयेति ॥ वारिदैः । दिवि आकाशे। क्रीडया लीलया। तटितः विद्युत एव कृपाणिकावल्लयः लतासदृशाः खगाः तासु। व्यतिहतासु परस्परं सघट्टितासु । मेघेषु विद्युद्भिः शस्त्राशस्त्रि कुर्वाणेष्वित्यर्थः। विश्लथाः विकीर्णाः । विभावसोः कणाः अग्निकणाः स्फुलिङ्गाः इव । शक्रगोपानां तन्नाम्ना प्रसिद्धानां कीटविशेषाणां निकराः समूहाः। चकाशिरे भान्ति स्म ॥ केचनानिलवशात्करोपला द्योतलात्तरलिता दिशां मुखे । नासिकाभरणमौक्तिकश्रियो नाटिकां क्षणमिवाललम्बिरे ॥ १४ ॥ केचनेति ॥ अनिलवशात् वायुवेगवशात् । द्योतलात् आकाशप्रदे- शात् । तरलिताः चञ्चलिता: विकीर्णा इत्यर्थः। केचन । करोपलाः वर्षांपलाः करकाः । दिशां ककुभां कासाञ्चन स्त्रीणां च । मुखे अग्रभागे वदने च । नासिकाभरणमौक्तिकानां नासाभूषणमुक्ताफलानां श्रियः लक्ष्म्याः । नाटिकां नटन तादृशमुक्तासादृश्यमित्यर्थः । क्षणमिव क्षण- कालम् । आललम्बिरे आश्रयन्ति स्म । 'मौक्तिकस्रजः इति पाठान्तरम्। निदर्शना उत्प्रेक्षा च ॥ विष्वगम्बुदविधुन्तुदो रुषा चर्वति स्म रविशर्वरीविटी ।

अच्युतरायाभ्युदये
शक्रगोपकरकोपलच्छला-
त्सृक्कणा स विचकार तत्कणान् ॥ १५ ॥
विष्वगिति ॥ विष्वङ् सर्वतोव्यापी अम्बुदः मेघ एव विधुतुदःराहुः।
रुषा कोपेन । रविः सूर्यः शर्वरीविटः निशानायकश्चन्द्रः एतौ । चर्वति
स्म चर्वितवान् । सः अम्बुदविधुन्तुदः । शक्रगोपकरकोपलच्छलात् शक्र-
गोपानां वर्षोपलानां च व्याजेन । तत्कणान् क्रमेण सूर्यचन्द्रलवान् ।
सक्वणा ओष्ठप्रान्तेन । विचकार विकिरति स्म । विश्वगिति क्रियाविशेषणं
वा । सापह्नवोत्प्रेक्षा॥
अम्बरान्निपतितैः करोपलै-
राहतिव्यतिकरस्पृशोऽवनेः ।
शक्रगोपवपुषा समन्ततो
विश्लथः क्षतजविग्रुषां चयः ॥ १६ ॥
अम्बरादिति ॥ अम्बरात् आकाशात् । निपतितैः । करोपलैः ।
करकाभिः । आहतेः प्रहारस्य व्यतिकर संबन्धं स्पृशति भजतीति तस्याः ।
अवनेः भूमेः । क्षतजविग्रुषां रक्तबिन्दूनाम् । चयः समूहः । शक्रगोप-
वपुषा शक्रगोपशरीरेण तद्व्याजेनेत्यर्थः । विश्लथः विकीर्णः प्रसृत
इत्यर्थः ॥
अब्जिनीप्रणयिना हिमाते-
रन्वकारि न परं निरूष्मता।
अल्पदृश्यवपुषा पयोमुचा-
मावलीष्वपि च तत्कलात्मता ॥ १७ ॥

चतुर्थः सर्गः । अब्जिनीति ॥ अब्जिनीप्रणयिना सूर्येण । हिमद्युतेः चन्द्रस्य । नेरूष्मता परं औष्ण्याभावमात्रम् । न अन्वकारि न अनुसृतम् । कितु पयोमुचां मेघानाम् । आवलीषु पक्तिषु । अल्पदृश्यं किचिदृश्य वपुः स्वरूपं येन तेन तथोक्तेन । अब्जिनीप्रणयिना । तत्कलात्मता चन्द्रकला- रूपतापि च । अन्वकारि अनुकृता । फेनकञ्चुकजुषो विषोत्किरः प्रस्तुतोर्मिपवमानफूत्क्रियाः । आपगा: फणधरा इवाध्वगा- न्कुर्वते स्म पथि कुण्ठितक्रमान् ॥ १८ ॥ फेनेति ॥ फेनाः डिण्डीराः कञ्चुका निर्मोका इव फेनकञ्चुकाः तान् जुषन्ते प्राप्नुवन्तीति तादृशाः। पक्षे फेनानिव कञ्चुकान् जुषन्त इति तथा। विषं जल उत्किरान्ति प्रवाहयन्तीति तथा । पक्षे विषं गरल उत्किरन्ति वमन्तीति तथा । ऊर्मिपवमानाः तरङ्गवाताः फूक्रियाः फूत्कारा इव ऊर्मिपवमानफूत्क्रियाःप्रस्तुता प्रक्रान्ताः ऊर्मिपवमानफूत्क्रि- याः याभिस्तास्तथोक्ताः । पक्षे प्रस्तुताः ऊर्मिपवमानवत् फूत्क्रियाः यैस्ते। आपगाः नद्यः । फणधराः सर्पा इव । अध्वगान् पान्थान् । कुण्ठितः विनितः क्रमः गमनं गमनक्रमो वा येपां तादृशान् । कुर्वते स्म अकुर्वत। मध्येपथं नदीनां प्रवहनात्तदुल्लङ्घनासमर्थाः पथिका आसन्निति भावः । प्रयाणकाले मध्येमार्ग सर्पदर्शनं दुनिमित्तमिति तदा प्रस्थानं न क्रियत इति लोकाचारः ॥ शश्वदार्द्रितविशोषिताम्बरो वर्षतोऽपि मरुतोऽध्वगव्रजः ।

९० अच्युतरायाभ्युदये पङ्किले किल सशृङ्खलोऽभव- प्राप्नराज्य इव मारवे पथि ॥ १९ ॥ शश्वदिति ॥ पङ्किले पङ्कभूयिष्ठे । मारवे मरुप्रदेशसम्बन्धिनि । पथि मार्गे । सशृङ्खलः शृङ्खलासहित इव स्थितः शृङ्खलाबद्ध इव पकात् पादावुद्धृत्य चलितुमशक्त इत्यर्थः । अध्वगव्रजः पथिकसमूहः। वर्षतः वृष्टेः । मरुतः वायुना च । (क्रमेण) शश्वत् मुहुर्मुहुः आर्द्रितं आर्दीकृत विशोषित च अम्बर वस्त्रं यस्य स तादृशः सन् । प्राप्त राज्यं यं स तादृश इव । अभवत् । निर्जलप्रदेशमार्गे पक्षमस्य जलस्य दर्शनं राज्यप्राप्तिरिव पन्थानां सुखाकरमभूदिति भावः ॥ तिर्यगानतगलं विषाणयो- र्दीर्णवृष्टि धृतरोमविक्रियम् । पार्श्वदेशपरिलीनतर्णक गोकुलं निखिलमैक्ष्यताकुलम् ॥ २० ॥ तिर्यगिति ॥ निखिल गोकुल समस्तोऽपि गवां समूहः । तिर्यक तिरानं यथा तथा आनतः वक्रितः गलः कण्ठप्रदेशः यस्य तत् । विषा- णयोः शृङ्गयोः । दीर्णा तत्र पतनेन विशकलिता वृष्टिः धारावर्षः येन तत् । धृता रोमविक्रिया रोमविकारः येन तत् । पार्श्वदेशे पार्श्वभागे परि- लीनाः संलग्नाः तर्णकाः वत्साः यस्य तत् तादृश च सत् । आकुलं विह्वलं सोपद्रवमित्यर्थः । ऐक्ष्यत दृष्टम् । स्वभावोक्तिः ॥ क्लेदसिक्तमिव वर्षसेचना- त्किंच कोमलखुरं गवां कुलम् ।

चतुर्थः सर्गः । संकुचत्तनु समग्रकम्पनं तर्णकानधिवनं तदन्वगात् ॥ २१ ॥ क्लेदेति ॥ वर्षसेचनात् वृष्टिसेकात् , इदं सर्वत्र हेतुः । क्लेदेन धनूनां वात्सल्यपूर्वकजिह्वालेहनजनिताईतया लालाजलेन वा सिक्तं आदितमिव । किं च । कोमलाः मृदवः खुराः शफानि यस्य तत् । संकुचन्ती अल्पी- भवन्ती तनुः शरीरं यस्य तत् । समग्रं अधिकं कम्पनं वेपथुः यस्य तत् तादृशम् । तत् । गवां कुलं गोसमूहः । अधिवनं वने । तर्ण- कान् वत्सान् । अन्वगात् अनुचकार । तर्णकधर्माणां क्लेदसिक्तत्वादी- नामत्रापि विद्यमानत्वाद्गोकुल तर्णकसदृशमभूदिति भावः ॥ भानुमम्बुधरबन्धनालये तापिनं विरचयंस्तपात्ययः । अस्य भूरिवसुभागसौ पुरे- त्यब्जिनी ध्रुवममजयज्जले ॥ २२ ॥ भानुमिति ॥ तपात्ययः वर्षाकालः । तापयतीति तापी त तापिन सन्तापकरम् । भानु सूर्यम् । अम्बुधरः मेघ एव बन्धनालयः कारागृह तस्मिन् । विरचयन् कुर्वन् सन् । असौ अब्जिनी । पुरा पूर्वम् । अस्य सूर्यस्य । वसून किरणान् वसूनि धनानि च भजतीति वसुभाक् । इति एवं मत्वेव । अब्जिनी पद्मिनीम् । जले । अमजयत् मजयामास ॥ अम्बुदा न परमञ्चितारवा- तद्भवानि तटिनीजलान्यपि । ।

अच्युतरायाभ्युदये सेहिरे न तरणेविजृम्भणं कार्यकारणभिदा कथं भवेत् ॥ २३ ॥ अम्बुदा इति ॥ आश्चितः कृतः आरवः गर्जित यैस्ते तादृशाः । अम्बु- दाः परं मेघाः केवलम् । तरणः सूर्यस्य । विजृम्भणं प्रकाशम् । न सेहिरे न सोडवन्तः । इति न । कि तु, अञ्चितारवाणि । तद्भवानि मेघभवानि । तटिनीजलानि नदीजलान्यपि । तरणेः नौकायाः । विज़म्भणं गमना- गमनरूपम् । न सेहिरे, जलवेगातिशयेन नदीषु नौकानां प्रचारो दुष्करः संवृत्त इत्यर्थः । तदेव समर्थयते-कार्येति । कार्यकारणयो. भिदा भेदः। कथ भवेत् न भवेदेवेत्यर्थः । तुल्ययोगिता श्लेषः अर्थान्तरन्या. सश्च॥ विद्युतामिव विजृम्भणासहः शाङ्गिणोऽपि शयनीयपन्नगः । आतनोदधिपयोधि गाहनं पामरेषु फणभुत्सु का कथा ॥ २४ ॥ विद्युतामिति ॥ शाह्मिणः विष्णोः । शयनीयपन्नगः तल्पभूतः सर्पः आदिशेषोऽपीत्यर्थः । विद्युतां तटिताम् । विजृम्भणासहः विलसन सोढुम- समर्थ इव । अधिपयोधि समुंद्र । गाहन मज्जनम् । आतनोत् चकार । पामरेषु प्राकृतेषु । फणभृत्सु सर्पेषु विषये । का कथा जलावगाहनविषये कि पुनर्वक्तव्यमित्यर्थः । उत्प्रेक्षा काव्यार्थापत्तिश्च ॥ कामिनीनिवहमानविग्रहः कालमान्त्रिकपलायितो ग्रहः ।

चतुर्थः सर्गः । ९३ प्राद्रवत्प्रकटमम्बुभृद्धटं किं विभिद्य भुवि कीर्णशम्बरम् ॥ २५ ॥ कामिनीति ॥ कामिनीनिवहस्य युवतीसमूहस्य यः मान ईर्ष्याकृतः कोपः तस्य स एव वा विग्रहः यस्य स तथोक्तः युवतीनां प्रणयकोप- स्वरूप इत्यर्थः । ग्रहः पिशाच । काल: वर्षाकाल एव मान्त्रिक तन पलायितः प्रद्रावितः सन् । अम्वुभृद्धट मेघमेव जलपूर्ण घटम् । भुवि भूमौ । कीर्ण प्रसृत शम्बर जल यास्मिन् कर्मणि तद्यथा तथा । विभिद्य विपाट्य । प्रकट सुव्यक्तम् । प्राद्रवत् पलायामास किम् । मात्रिकेण पलाय्यमानाः पिशाचाः सत्यापनाय अम्वुघट पाटयन्तीति स्थितिः । यद्वा तादृशाः पिशाचाः दुश्चेष्टया मन्त्रपूत जलघट पाटयन्तीति स्थितिः । सर्वथा वर्षाकाले मेघेषु वर्षत्सु मानिनीनां मानः स्वयमेव गलित इति तात्पर्यम् । रूपकं उत्प्रेक्षा च ॥ पङ्किला न पदवी परं नृणां द्योसदामपि बभूव दुर्दिने । अन्तरा जलकणैरणूपमै- राड़िते रजसि नीपनिःसृते ॥ २६ ॥ पङ्किलेति ॥दुर्दिने मेघच्छन्ने दिने वर्षाकाल इत्यर्थः । नृणां मनु- ध्याणाम् । पदवी पर मार्गः केवलम् । पङ्किला पकवती । न बभूव ना- सीत् । किंतु, द्योसदां देवानामपि । पदवी मार्गः आकाशपथ इत्यर्थः नीपेभ्यः कदम्बवृक्षेभ्यः निःसृते निर्गत्य ऊर्ध्व गते । रजसि परागे । अणूपमैः परमाणुतुल्यैः । जलकणैः जलबिन्दुभिः । अन्तरा मध्ये । आ- दिते आकृते कर्दमित इत्यर्थः । पकिला । बभूव । अतिशयोक्तिः ॥

अच्युतरायाभ्युदये
शाम्यदुच्छ्रितपयोधरश्रिया
संकुचत्कुटजदन्तसंपदा ।
प्रावृषा गलितभूरिवर्षया
प्रत्यपद्यत घनस्वरात्ययः ॥ २७ ॥
शाम्यदिति ॥ शाम्यन्ती शमं प्राप्ता उच्छ्रितानां उर्वस्थितानां
'पयोधराणां मेघानां श्रीः संपत्तिः यस्यास्तया तादृश्या । तथा शाम्यन्ती
उच्छ्रितयोः उत्तुङ्गयोः पयोधरयोः स्तनयोः श्रीः शोभा यस्यास्तया च ।
सङ्कुचन्ती विरलीभवन्ती कुटजदन्तानां गिरिमल्लिकानिकुञ्जानां सपत्
समृद्धिः यस्यां तया । तथा सकुचती विरला विगलितेति यावत्
कुटजदन्तानां कुटजकुसुमसदृशानां दशनानां संपत् यस्यास्तया। यद्वा
सकुचन्ती कुटजानि गिरिमल्लिकाकुसुमान्येव दन्ताः तेषां सपत् अस्यां
तयेति व्याख्येयम् । ‘दन्तोऽद्रिकटके कुजे दशने' इति मेदिनी । गलितः
गतः भूरिः अधिकः वर्षः वृष्टिः यस्यास्तया । तथा गलितः भूरिवर्षः
वर्णवर्षः यस्याः सा तथोक्ता तया । 'भूरि स्वर्णे प्रचुरे च' इति हैमः ।
प्रावृषा वर्षाकालेन, सुसंपन्नपूर्वया रूपवत्या सांप्रतं निस्वया वृद्धया कया
चन स्त्रियेत्यति गम्यते । घनानां मेघानां स्वरस्य गर्जितस्य अत्ययः
अभावः । धनः धनरूपाद्यभिमानेन गम्भीरः साहंकार इत्यर्थः तादृशः
य. स्वरः तस्य अत्ययः अभावश्च । प्रत्यपद्यत प्रतिपत्रः समासोक्तिः॥
श्वेतमानतटिदालि संकुच-
च्छातमन्यवशरासवासनम् ।
निम्नभूमिषु निलीननिर्झरं
निर्मरन्दरसनीपकोरकम् ॥ २८ ॥

चतुर्थः सर्गः ।
श्वेतमानेति ॥ इतः पर पद्यत्रयमेकान्वयम् । एतादृश दिन ऐक्षी-
त्यन्वयः । श्वेतमाना धवलीभवन्ती तटिदालि: विद्युत्पुन: यस्मिस्तत् ।
संकुचन्ती विरलीभवन्ती शातमन्यवस्य शतमन्युसंबन्धिनः ऐन्द्रस्य
शरासस्य कामुकस्य वामना सस्कारः ज्ञान वा यस्मिस्तत् । निम्नभूमिषु
नीचप्रदेशेषु । निलीनाः प्रवहन्तः निझराः गिरिनद्यः प्रवाहा इति यावत्
यस्मिस्तत् । निर्मरन्दरसाः मकरन्दशून्याः नापकोरका कदम्बमुकुलाः
यस्मिंस्तत् तथोक्तम् ॥
विप्रकर्षघनसंक्रमं सरि-
व्यज्यमानसिकताविजृम्भणम् ।
निस्वताश्रयनिषदरोच्चयं
नृत्तकेलिविरमच्छिखावलम् ।। ५९ ॥
विप्रकर्षेति ॥ विप्रकर्षः विरल: घनानां मेघानां सक्रमः संबन्धः
यस्मिस्तत् । सरिद्भिः नदीभिः व्यज्यमानं प्रकाश्यमानं सिकतानां वालु-
कानां विजृम्भणं विलासः यस्मिंस्तत् । यद्वा सरित्सु व्यज्यमानं स्वय-
मेवाभिव्यक्तीभवत् सिकताविजृम्भणं यस्मिन् तत् । निखताश्रयः दारि-
द्याश्रयः प्रक्षीण इति यावत् तादृशः निषद्वरस्य पङ्कस्य उच्चयः स्तोमः
यस्मिस्तत् । नृत्तकेले: नर्तनलीलायाः विरमन्तः शिखावलाः मयूराः
यस्मिंस्तत् ॥
वारिराशिशयनादुदाञ्चितुं
व्याचताङ्गवलनेन्दिरासखम् ।
ऐक्षि तद्दिनममुक्तसंशयं
हंसपालिभिरपाङ्गिताम्बरम् ॥ ३० ॥

अच्युतरायाभ्युदये वारीति ॥ वारिरशौ समुद्रे शयनात् । उदञ्चितु उत्थातुम् । व्यजितं कृत अगवलनं अङ्गपरिवर्तन येन सः व्यञ्जिताझवलनः, तादृशः इन्दिरासखः नारायणः यस्मिस्तत् । वर्षावसानानन्तरं शरदि शाङ्गपाणि- रुदधिशयनादुत्तिष्ठतीत्यागमः हंसपालिभिः हसपङ्क्तिभिः । अपाङ्गित कटाक्षित अम्बरं आकाशं यस्मिस्तत् । अमुक्तः अगतः संशयः वर्षाकालस- देहः यस्य तत् , वर्षाकालचिह्नानां तदापि किञ्चिदनुवर्तनादिति भावः । तत् । दिनम् । ऐक्षि दृष्टम् ॥ षट्पदाः पदसमर्पणासहे प्राक्तने दलचये परिश्लथे । कम्पवत्तनु कदम्बसन्ततः कर्णिकोपरि कथंचिदासत ॥ ३१ ॥ षट्पदा इति ॥ षट्पदाः भृङ्गाः । पदसमर्पणासहे चरणनिक्षेप सोढुमक्षमे । कदम्बसंततेः नीपकुसुमसमूहस्य । प्राक्तने प्राचीने । दल- चये पत्रसमूहे। परिश्लथे च्युत सति। कर्णिकोपरि बीजकोश्या उपरिभागे। कम्पवती वेपमाना तनुः शरीरं यस्मिन्कर्मणि तद्यथा तथा । कचित् प्रयासेन । आसत अतिष्ठन् । प्राक्तनेऽपि कुटजे पयोरुहा- मङ्कुरेऽप्यनुपलब्धशीधवः । मारदैवतमुदे मधुव्रता निश्चयान्निरशनव्रतं दधुः ॥ ३२ ॥ प्राक्तन इति ॥ मधुव्रताः भृङ्गाः । प्राक्तने पुरातने जीर्ण इत्यर्थः । कुटजे कुटजकुसुमेऽपि । पयोरुहां पद्मानाम् । अङ्कुरेऽपि, सद्यः समुत्प- चतुर्थः सर्गः । नेषु बालेषु पद्मवित्यर्थः । अनुपलब्धः अप्राप्तः शीधुः पुष्पासवः यैस्ते तथोक्ताः सन्तः । मारदैवतमुदे मन्मथदेवतासंतोषाय । निश्चयात् दायैन । निरशनव्रत निराहारनियमम् । दधुः धारयन्ति स्म आच- रन्ति स्मेवेत्यर्थः। पालिताखिलभुवाम्बुवर्षतः प्रावृषाजनि शनैः प्रशान्तया । पाण्डराम्बुदपरम्परानिभा- द्भासते स्म दिवि तद्यशोभरः ॥ ३३ ॥ पालितेति ॥ अम्बुवर्षतः जलवृष्टेः । पालिता पोषिता अखिला समस्ता भूः भूमिः यया तया। प्रावृषा वर्षाकालेन। शनैः मन्दम् । प्रशान्तया शम गतया। अजनि जातम् । तस्याः प्रावृषः यशोभरः कीर्तिभारः । पाण्डराणां धवलानां अम्वुदानां मेघानां परम्परानिभात् पङ्क्तिव्याजेन । दिवि आकाशे वर्गे च । भासते स्म शुशुभे । समा- सोक्तिः सापह्नवोत्प्रेक्षा च ॥ आस्तिकस्तदनु हल्लकश्रियां नास्तिकः कुटजनीपसम्पदाम् । प्रादुरास विधुभानुमत्त्विषां प्रत्यवायविगमो घनात्ययः ॥ ३४ ॥ आस्तिक इति ॥ तदनु वर्षाकालानन्तरम् । हल्लकश्रियां रक्तकलार- लक्ष्मीणाम् । आस्तिकः अनुकूलः । कुटजानां नीपानां च संपदां समृद्धी- नाम् । नास्तिकः अननुकूलः । विधोः चन्द्रस्य भानुमतः सूर्यस्य च त्विषां -1 ९८ अच्युतरायाभ्युदये भासाम् । प्रत्यवायस्य निष्प्रकाशत्वरूपस्य पापस्य विगमः अभावः निव- तक इति यावत् । धनात्ययः शरत्कालः । प्रादुरास आविर्भूतः । अस्ति परलोक इति, नास्ति परलोक इति मतिरस्येति विग्रहे क्रमेण निष्पन्नौ आ- स्तिकनास्तिकशब्दौ प्रकृते सगुणत्वनिर्गुणत्वद्वारा अनुकूलाननुकूलपरौ ॥ पाथसः समुदयन्प्रशुष्यतः पद्मगर्भपरिलीनषट्पदः । दृष्टगाध इव दर्शयन् शये कर्दम कमलिनीगणो बभौ ।। ३५ ।। पाथस इति ॥ प्रशुष्यतः क्षीणतां गच्छतः । पाथसः जलात् । समुदयन् समुद्गच्छन् । पद्मगर्भे पङ्कजमध्ये परिलीनाः निलीनाः षट्पदाः भ्रमराः यस्य स तादृशः । कमलिनीगण: पद्मिनीसमूहः । गाधः निम्नता सः दृष्टः येन स तथोक्त इव । शये स्वशय्यास्थानभूते सलिलाशये हस्ते च । कर्दम पङ्कम् । दर्शयन् सन् । बभौ भाति स्म । लोके हि नद्यादिषु मजन् पुरुषः अधस्तलदर्शनप्रत्यायनाय करे कर्दममादाय उदका- दुन्मजतीति तथात्रोत्प्रक्षितम् ॥ कुण्ठितेषु कुटजादिषु स्मरः कोरकेष्वयुतभेदनादिव । आददे पुनरदोव्यथाकृते हल्लकाम्बुजमुखाञ्छिलीमुखान् ॥ ३६ ।। कुण्ठितेष्विति ॥ स्मरः मन्मथः । कुटजादिषु कुटजकोरकप्रभृतिषु । कोरकेषु कुमलेषु । अयुतानां विरहिणां दशसहस्राणां च भेदनात् चतुर्थः सर्गः । ९९ पाटनादिव । कुण्ठितेषु निर्वीर्येषु सत्सु । पुनः। अदोव्यथाकृते अमीषां अयुताना दुःखनिमित्तम् । हलकं रक्तकहार अम्बुजं पद्मं मुखं प्रधान- भूतं येपा तान् तथोक्तान् । शिलामुखान् बाणान् । आददे स्वीकृतवान् ॥ विद्युतामिव वियोगविक्लबाः क्वापि मौनभरिताः क्रमात्कृशाः । पारणेऽपि पयसः पराङ्मुखाः पाण्डिमानमवहन्पयोमुचः ॥ ३७ ।। विद्यतामिति ॥ पयोमुचः मेघाः । विद्युतां तटिता नायिकानाम् । वियोगेन विरहेण विक्लबाः विह्वलाः इव । कापि कुत्रचित् । (स्थिताः) मौनेन तूष्णीभावेन भरिताः पूर्णाः मौनावलम्बिन इत्यर्थः । क्रमात् । कृशाः कार्यमापन्नाः । पयसः जलस्य । पारणे पानेऽपि । पराङ्मुखाः विमुखाः सन्तः । पाण्डिमान धावल्यम् । अवहन् अधारयन् । समासोक्तिः उत्प्रेक्षा च ॥ पन्नगेन्द्रशयनान्तरे परः पूरुषः समजनिष्ट बोधवान् । इत्यसंशयमपां निधिं हिया नाश्रयन्नवनवा नदीप्रियाः ॥ ३८ ॥ पन्नगेति ॥ पन्नगेन्द्रशयनान्तरे आदिशेषरूपशय्यामध्ये । परः पूरुषः परमपुरुषो नारायणः । बोधवान् प्रबुद्धः। समजनिष्ट सजातः । इति । ह्रिया लज्जया। नवनवाः नूतनाः । नद्य एव प्रियाः प्रेयस्यः । अपा निधि भर्तार समुद्रम् । न आश्रयन् न आश्रयन्ति स्म । असंशयं ध्रुवम् ॥

१०० अच्युतरायाभ्युदये शान्तिमेयुषि पुरःसमीरणे कर्दमेऽपि करकोपलैः सह । शारदागमसमञ्चितः कुतोऽ- प्यस्खलद्गतिरभूद्रथो विधेः ॥ ३९ ॥ शान्तिमिति ॥ पुरःसमीरणे पौरस्त्यवाते प्रतिकूलवाते च । कर्दमे पढेऽपि । करकोपलै: करकाभिः सह । शान्ति शमम् । एयुषि प्राप्तवाते सति । विधेः ब्रह्मण. । रथः स्यन्दनभूतः हंसः हसा इत्यर्थः, रथः अवयवश्च मुखमित्यर्थः । 'रथः पुमानवयवे स्यन्दने' इति मेदिनी । शारदः शरत्सबन्धी यः आगमः आगमन तेन समञ्चितः शोभितः, शारदायाः सरखत्याः आगमेन समञ्चितश्च । कुतोऽपि कस्मादपि कुत्रा- पीति वा । अस्खलन्ती अप्रतिहता गतिः गमन यस्य स तथोक्तः । अभूत् । कर्दमाद्यभावे हि रथस्य गतिर्निरङ्कुशेति तथा वर्णितम् । शरदा- रम्भात् हंसा मानसाद्विनिर्गता इति तात्पर्यम् ।। पालनाय परिबद्धकङ्कणे- ध्वम्वुदेषु कृशतामपोहितुम् । अक्षमा इव भृशं नमन्मुखाः शालयः कणिशसंभृता बभुः ॥ ४० ॥ पालनायेति ॥ कणिशैः सस्यमञ्जरीभिः सभृताः पूर्णाः । शालयः कलमाः । पालनाय स्वपोषणाय । परिबद्धं निबद्ध कङ्कणं प्रतिसरः जल- बिन्दुश्च यैस्तेषु । कमिति मान्तमव्ययं जलार्थकम् । अम्बुदेषु मेघेषु । कृशता कार्यम् । अपोहितुं अपनेतुम् । अक्षमाः अशक्ता इव । भृशं चतुर्थः सर्गः । १०१ अत्यन्तम् । नमत् लज्जानतं मुख वदन अग्रभागश्च येषां ते तथोक्ताः । बभुः भान्ति स्म । उत्प्रेक्षा । संचलच्छफरलोचनाः स्खल- बङ्कमा नववधूजना इव । अम्बुधिं पतिमशिश्रियच्छनै- रापगा: शभितनीपदीपिकाः ॥ ११ ॥ संचलदिति ॥ सचलन्तः तरलाः शफराः मीनाः लोचनानीव यासा तास्तथोक्ताः । अन्यत्र सचलन्ति शफरवत्स्थितानि लोचनानि यासां ताः। स्खलन् चक्रमः गमनं यासां तास्तथोक्ताः । आपगाः नद्यः। नववधूजनाः मुग्धा इव । शमितानि निर्वापितानि नीपानि कदम्ब- कुमुमानि दीपिका इत्र याभिस्ताः । पक्षे शमिताः नीपानीव दीपिकाः याभिस्ताः। पति भर्तारम् । अम्बुधि समुद्रम् । शनैः मन्दमन्दम् । अशि- श्रियन् आश्रयन्ति स्म । ऐक्षवैर्मणिभिरन्तिकच्युतैः पाशयन्त्रपरिघूर्णितोज्झितैः । पत्रिणः कलमतः पलायय- न्सस्तकेशतति शालिगोपिकाः ॥ ४२ ॥ ऐक्षवैरिति ॥ शालिगोपिकाः कलमरक्षणपराः स्त्रियः । अन्तिके समीपे च्युतैः विकीर्णैः । पाशयन्त्रपरिघूर्णितोज्झितैः पाशयन्त्रमारोप्य त्रमितैरनन्तर विक्षिप्तैश्च । ऐक्षवैः इक्षुसंभवैः । मणिभिः रत्नैः मौक्तिकै- रित्यर्थः । पत्रिणः पक्षिणः । (कर्म) कलमतः कलमेभ्यः । खस्ता धावन- १०२ अच्युतरायाभ्युदये सम्भ्रमण विर्गालतबन्धा केशततिः केशसमूहः यस्मिन्कर्मणि तद्यथा तथा । पलाययन् धावयामासुः । उदात्तम् ।। कुण्ठितोर्मिभरशृङ्गमापगाः कूलदेशदलनाद्वयरंसिषुः । उन्मदान्युरुगभीरनिस्वनं तत्पुनर्वृषकुलानि तेनिरे ॥ ४३ ॥ कुण्ठितेति ॥ आपगाः नद्यः । कुण्ठितानि भग्नानि ऊर्मिभराः तर- गपक्तिय एव शृङ्गाणि विषाणानि यस्मिन्कर्मणि तद्यथा तथा । कूल- देशदलनात् तीरप्रदेशपातनात् । व्यरसिपुः विरताः। विपूर्वाद्रमतेलुंड । तत् पुनः कूलदेशदलनं तु। उन्मदानि मत्तानि । वृषकुलानि वृषभगणाः । उरुः समधिक: गभीरः गम्भीरश्च निस्वनः शब्द यस्मिन् कर्मणि तद्यथा तथा । तेनिरे अकुर्वन् ॥ आत्तहर्षमनुधावितं गवां मण्डलेन शनकैर्महोधसा । तूर्णमुन्नमितकर्णवालकं तर्णका ववलिरे तदग्रतः ।। ४४ ॥ आत्तेति ॥ महत् पीन ऊधः आपीन यस्य तेन । गवां धनूनाम् । मण्डलेन समूहेन । शनकैः ऊधोभारान्मन्दमन्दम् । आत्तः स्वीकृत. हर्ष यस्मिन्कर्मणि तत् सहर्षमित्यर्थः । अनुधावित पश्चाद्गतम् । तर्णका. वत्सास्तु । तदप्रतः तासां धेनूनां पुरोभागे । उन्नमिताः उत्क्षिप्ता. कर्णाः श्रौत्राणि वालाः पुच्छानि च यस्मिन्कमणि तथा । तूर्णं सवेगम् । वव- लिरे वल्गन्ति स्म । स्वभावोक्तिः ॥

चतुर्थः सर्गः । १०३ ३ हंसलोकमवकल्प्य दिक्तटे- ध्वात्तचक्रमणमम्बुदात्ययः । विश्वदिग्जयविनिर्गमे व्यधा- द्राजहंसमपि रज्यदाशयम् ॥ ४५ ॥ हंसेति ॥ अम्बुदात्ययः शरत्कालः । दिक्तटेषु दिगन्तेषु । हसलोक हसपङ्क्तिम् । आत्तं कृत चंक्रमणं गमनं येन तं तादृशम् । अवकल्प्य कृत्वा । राजहंस राजश्रेष्ठ अच्युतरायमपि, हसविशेप च । विश्वदिग्जय- विनिर्गमे समस्तदिग्विजयार्थ प्रस्थाने । रज्यन् साभिलाषः आशयः मनः यस्य त तादृशम् । व्यधात् अकरोत् । एकदा तु सचिवो यथाक्रम प्रेषितप्रणतराजराजिकम् । प्राप्य वेङ्कटविलासमण्टपे प्रश्रयेण निजगाद पार्थिवम् ॥ ४६ ।। एकदेति ॥ एकदा कदाचित्तु । सचिवः मन्त्री । यथाक्रम क्रमम- नतिक्रम्य । प्रेषिता प्रहिता प्रणता विनता राजराजिः नृपतिपड्क्तिः येन तम् । पार्थिव अच्युतरायम् । वेङ्कटविलासमण्टपे वेङ्कटविलासनाम्नि आस्थानमण्टपे । प्रश्रयेण विनयेन । निजगाद उवाच ॥ वेत्सि कार्यमखिलं विशेषतो वेदनीयमिह ते न विद्यते । श्रोतुमर्हसि यदुच्यते मया मत्रिधर्म इति मानवेश्वर ॥ ४७ ।।

१०४ अच्युतरायाभ्युदये वेत्सीति ॥ हे मानवेश्वर भी राजन् । अखिलं कार्य समस्तमपि कर्तव्यजातम् । वेत्सि जानासि । इह अस्मिन्कर्तव्यजाते विषये । ते तुभ्यम् । विशेषतः विशिष्य । वेदनीयं बोधनीयम् । न विद्यते नास्ति । विशेषतो वेत्सीत्यन्वयो वा । तथापि, मया । मन्त्रिधर्मः सचिवकृत्यम् । इति । यत् । उच्यते । (तत्) श्रोतु अर्हसि । मन्त्रिधर्म इति बुद्ध्या श्रोतुमर्हसीति वा ॥ स्वल्पमप्यरिकुलं सुमेधसा न प्रमाद्यमिति नाथ बुध्यसे । हाससाध्यपुरसाधने किय- त्सङ्गरोपकरणो न शंकरः ॥ ४८ ॥ स्वल्पमिति ॥ हे नाथ । सुमेधसा सुबुद्धिना राज्ञा । स्वल्पं अल्पं निःसारं वापि । अरिकुलं शत्रुममूहः । न प्रमाद्यं न उपेक्षणीयम् । इति । (त्वमेव) बुध्यसे जानासि । शंकरः परमेश्वरः। हाससाध्यानां अन्ततो हासेनैव साधितानां दग्धानामित्यर्थः पुराणां पुरत्रयस्य साधने निर्वहणे विषये दाह इत्यर्थः । कियन्ति संगरोपकरणानि युद्धसामग्यः यस्य स तथोक्तः, न ॥ क्वापि साम भुजंधाम कुत्रचि- कल्पते क्षितिप कार्यसम्पदे । कोऽपि पुष्प्यति गिरैव सुभ्रुवां पादपश्चरणताडनात्परः ॥ ४९ ॥ कापीति ॥ हे क्षितिप राजन् । कार्यसंपदे कार्यसंपत्तये । क्वापि क्वचित् । साम सान्त्वनं प्रथमोपायः । कल्पते प्रभवति उपयुक्तं भवती- चतुर्थः सर्गः । १०५ त्यर्थः । कुत्रचित् क्वचित् । भुजधाम बाहुपराक्रमः । कार्यसपदे कल्पते । कोऽपि पादपः कश्चिद्वृक्षः मन्दारवृक्ष इत्यर्थः । सुचवां स्त्रीणाम् । गिरा नर्मवाक्येनैव । पुष्प्यति विकसति । परः अन्यः । पादपः वृक्षः अशो- कस्तु । चरणताडनात् पादाघातात् । पुष्प्यति । दृष्टान्तः॥ चारलोकविदितारिवर्तनः शत्रुसाधनकृती स जायते । दण्डतोऽवगतगाधनिर्णयः पाथसोऽवतरणे पटुर्यथा ॥ ५० ॥ चरेति ॥ दण्डतः करस्थितया यष्टया । अवगतः उपलब्धः गावस्य निम्नतायाः निर्णयः निश्चयो येन तथोक्तः पुरुषः। पाथसः जलस्य । अवतरणे नद्यादितरणाय तत्र अवतरणे तल्लङ्घने वा । यथा पटुः । (भवति) तथा, (यः) चारलोकेन प्रणिधिजनेन विदितं ज्ञात अरिव- ननं शत्रुस्थितिः येन स तथोक्तः । सः । शत्रुसाधने शत्रुविजये कृती समर्थः । जायते भवति । उपमा । आकलय्य कलहं मिथो रुषा प्रापयेत्पटुररीन्पराभवम् । व्यञ्जयन्व्यतिहतीरदोभुवा वह्निनेव पवनो वनद्रुमान् ॥ ५१ ॥ आकलय्येति ॥ पटुः बुद्धिमान् । मिथो रुषा परस्परकोपेन । कलह भेदम् । आकलय्य उत्पाद्य । रुषा मिथः रहसि कलह आकलय्येति वा। अरीन् शत्रून् । पवनः वायुः । व्यतिहतीः परस्परसघट्टनानि ।

१०६ अच्युतरायाभ्युदये व्यजयन् उत्पादयन् सन् । अदोभुवा तादृशवृक्षात्पनेन। वह्निना अग्निना। वनदुमान् काननतरूनिव । पराभव अवमानं नाशमित्यर्थः । प्राप- येत् नयेत् ॥ साम नैव गणयेज्जडाशयः साध्यते कृतधिया स दण्डतः । राघवानुनयरोषगोचरो नीरधिर्भवति तन्निदर्शनम् ॥ ५२ ।। सामेति ॥ जडाशयः मूढमनाः, डलयोरभेदात् जलाशयः जलनि. धिश्च । साम सान्त्वनम् । नैव गणयेत् न बहुमन्येत । सः तादृशः जडाशयः । कृतधिया बुद्धिमता । दण्डतः शिक्षणादेव । साध्यते निय- म्यते। राघवस्य रामस्य अनुनयरोपयो. सान्त्वनकोपयोः गोचरः विषयः। नीरधिः समुद्रः । तस्य पूर्वोक्तस्य विषयस्य निदर्शन दृष्टान्तः । भवति । अर्थान्तरन्यासः॥ आनतस्य नृपतेर्गरीयसी क्ष्मां प्रदक्षिणयतः पुरीमिव । दिक्षु दिक्षु पुरतो भवेद्यशो- लाजवर्षलटहा जयन्दिरा ।। ५३ ।। आनतस्येति ॥ आनतस्य स्वय विनीतस्य । उत्तमस्यति पाठान्त- रम् । गरीयसी सुविस्तृताम् । क्ष्मां भूमिम् । पुरी निजनगरमिव । प्रद- क्षिणयतः प्रदक्षिणीकुर्वतः, दिग्विजयाय निखिलामपि भुव निजनगर- मिव निष्प्रयासं परिभ्रमत इत्यर्थ. । नृपतेः राज्ञः । दिक्षु दिक्षु सर्वासु दिक्षु । पुरतः पुरस्तात् । जयन्दिरा जयलक्ष्मीः । यशांसि कीर्तय एव चतुर्थः सर्गः । लाजाः तासां वर्षे विकिरणे लटहा मनोना तत्र साभिलाषेति यावत् । भवेत् ॥ प्रत्यनीकिबलिसाधनेन यः प्रीणयेद्यदि पिशाचमण्डलम् । आश्रयेत्स परमाहवाङ्कणे निर्भरं निधिमिवामलं यशः ॥ ५४ ॥ प्रत्यनीकिबलमिति ॥ यः यःकश्चित् । प्रत्यनीकिनः शत्रव एव बलि: उपहारः तस्य साधनेन निर्वर्तनेन । पिशाचमण्डल पिशाचसमूहम् । प्रीणयेत् तर्पयेत् यदि । सः पर स एव । आहवाकणे युद्धभूमौ । निर्मल विमलम् । यशः कीर्तिम् । निधि निधानमिव । निर्भर निष्प्रयासं यथा तथा । निर्भरमिति निधिविशेषणं वा । आश्रयेत् प्राप्नुयात् । निधिभूतस्य बलिं दत्त्वा निधि उद्धरन्तीति लोकस्थितिः ॥ त्वय्युपेतकमलोदयेऽप्यहो तोयदा इव शरदिनागमे । एष्यदाशुविलया यथापुरं नार्पयन्ति कतिचिन्नृपाः करम् ॥ ५५ ।। त्वयीति ॥ त्वयि । उपेतः प्राप्तः कमलाया. लक्ष्म्याः उदय. संपत्तिः येन तस्मिन् तादृशे सत्यपि । कतिचित् नृपाः। उपेतः कमलाना पद्मानां उदयः येन तस्मिन् तादृशे। शरद्दिनागमे शरत्कालारम्भे । तोयदाः मेघा इव । एध्यन् प्राप्स्यन् आशु सत्वरं विलयः नाशः यास्त तथोक्ताः सन्तः । यथापुर पूर्ववत् । करं राजदेयं बलिम् , करकां च । न अर्पयन्ति न ददति । अहो इत्याश्चर्ये खेदे वा ॥

१०८ अच्युतरायाभ्युदये छन्नविग्रहतया पलायित- श्चेल्लपो वसति चेरसीमनि । तच्छरण्यधरणीभुजा समं शिष्य एव स चिरायुषा त्वया ॥ ५६ ॥ छन्नेति ॥ छन्नः निह्णतः विग्रहः शरीरं स्वरूपमित्यर्थः युद्धं च येन नस्य भावेन छन्नविग्रहतया । पलायितः प्रद्रुतः। चेल्लप: चेल्लपराजः । चेरसीमनि चेरराज्यभूभागे । वसति । तत् तस्मात् । सः। चिरायुषा दीर्घायुषा । त्वया । शरण्यः तस्य रक्षकभूतः यः धरणीभुक् राजा चेर- नृपतिरित्यर्थः तेन समं सह । शिष्य एव शिक्षणीय एव, उभावपि दण्डनीयाबित्यर्थः । तच्छरण्येत्येकं पदं वा। तस्य शरण्य इति तदा अर्थः ॥ प्राक्तनान्निजपदात्परिच्युतः पालनीय इह पाण्ड्यभूपति । शिक्षणं मदवतां पुनः सतां रक्षणं च ननु राजलक्षणम् ॥ ५७ ॥ प्राक्तनादिति ॥ अस्मात्पद्यात्पूर्व एकस्मिन्नादर्शपुस्तके 'आश्रय- नियतमप्रकाशतां दीपवदिवसनेत्रसंनिधौ।' इति एकमर्दू परमुपलभ्यते। प्राक्तनात् कुलक्रमागतात् । निजपदात् स्वस्थानात् । परिच्युतः प्रभ्रष्टः । पाण्ड्यभूपतिः । इह । पालनीयः रक्षणीयः। मदवतां मत्तानां दुर्जनाना- मित्यर्थः । शिक्षण दण्डना । सतां पुनः सज्जनाना तु । रक्षणं पालनं च । राजलक्षण ननु राजचिह्न किल राजधर्मः खल्वित्यर्थः । काव्यलिङ्गम् । एतदन्तं रथोद्धता वृत्तम् ॥

चतुर्थः सर्गः । १०९ इत्युक्तः सचिवेन रागकणिकामीषदृशोरञ्चले बिभ्राणो दलदम्बुजोदरदरप्राप्तातपश्रीमुषम् । संरम्भेण चमूविनिर्गमकृते संदिश्य सेनापति प्रस्थातुं कृतनिश्चयः समजनि प्राग्रेसरो भूभुजाम् ॥ ५८ ॥ इतीति ॥ इति एवम् । सचिवेन मन्त्रिणा । उक्तः । भूभुजां राज्ञाम् । प्राग्रेसरः अग्रगामी श्रेष्ठः अच्युतराय इत्यर्थः । दृशोः नेत्रयोः। अञ्चले प्रान्ते । दलतः विकसतः अम्बुजस्य पद्मस्य उदरेण मध्यभागेन दरं किचित् प्राप्तः अधिगतः यः आतप. बालातप इत्यर्थः तस्य श्रिय शोभां मुष्णाति चारयतीति तां तथोक्तां तादृशशोभासदृशीमित्यर्थः । रागकणिका आरुण्यलेशम् । बिभ्राणः धारयन् सन् । सरम्भेण कोपेन त्वरया वा । चमूविनिर्गमकृते सैन्यप्रस्थापननिमित्तम् । कृते इति निमित्तार्थकमव्ययम्। सेनापतिम् । सदिश्य आजाप्य । प्रस्थातु स्वयमपि विजययात्रां कर्तुम् । कृतनिश्चयः दृढाध्यवसाय । समजनि अभूत् । शार्दूलविक्रीडितम् ॥ इति चतुर्थः सर्गः ॥

पञ्चमः सर्गः। स समाप्य काल्यनियमं सकलं जगदण्डलविजयशङ्खरवः । अधिरुह्य वाहनमहन्युचिते नृपकुञ्जरोऽपि निरगानगरात् ॥ १ ॥ स इति ॥ सः । नृपकुञ्जरः राजश्रेष्ठः अच्युतरायोऽपि । सकल समस्तम् । काल्यः कल्ये प्रातःकाले भवः प्राप्तकालो वा यः नियमः तम् । समाग्य निर्वर्त्य । उचिते योग्ये शुभ इत्यर्थः। अहनि दिवसे । वाहनं तुरगम् । अधिरुह्य आरुह्य। जगदण्डलवी ब्रह्माण्डातिलड्नी जय- शङ्खरवः विजयशङ्खध्वनिः यस्य स तथोक्तः सन् । नगरात् पुरात् । निर- गान् निर्गतः ॥ प्रतिमण्टपं प्रतिरवच्छलतो गृहदेवतापि च किमन्वकरोत् । अथ वेत्रिभिर्निगदितान्पुरतो जननायकस्य जयजीवरवान् ॥ २ ॥ प्रतिमण्टपमिति ॥ अथ अनन्तरम् । वेत्रिभिः वेत्रधारिभिः कञ्चु- किभिः । जननायकस्य अच्युतराजस्य अच्युतराजमुद्दिश्येत्यर्थः । पुरतः प्रथमतः । निगदितान् उक्तान् । जयजीवरवान् ‘जय जय चिर जीव' पञ्चमः सर्गः । १११ । इत्यादिकान् शब्दान् । प्रतिरवच्छलतः प्रतिध्वनिव्याजेन । प्रतिमण्टप समस्तेष्वपि मण्टपेषु । गृहदेवता अपि च । अन्वकरोत् अनुचकार किम् ॥ परुषं व्यराणि पटहेन तथा श्लथमूर्तयः शिखरिणो निखिलाः । निजपक्षमात्रपरिभावि यथा कथयन्ति वनमपि कारुणिकम् ॥ ३ ॥ परुषमिति ॥ पटहेन भेर्या । परुष उग्र अत्युच्चैरित्यर्थः । तथा । व्यराणि रणितम् । यथा। निखिलाः समस्ताः । शिखरिणः पर्वताः । श्लथा पटहवनासहनेन विशीर्णा मूर्तिः स्वरूप येषां ते तथोक्ताः सन्तः । निजपक्षमात्रपरिभावि स्वकीयगरुतामेव तिरस्कारक तन्मात्रच्छेदकमि- त्यर्थः । वज्रं अशनिमपि । कारुणिकं कृपालुम् । कथयन्ति वदन्ति ॥ पटहस्वनेन पटुना ककुभः स्फुटदद्रिवेणुविगलन्मणयः । प्रथनश्रिया परिणयोऽस्य भवे- दिति लाजमर्जनमिवारचयन् ॥ ४ ॥ पटहेति ॥ पटुना निष्ठुरेण । 'पटुस्तीक्ष्णे स्फुटे दक्ष निष्ठुरे नि- दयेऽपि च' इति रुद्रः । पटहस्वनेन आनकशब्देन । स्फुटन्तः विभि- द्यमानाः ये अद्रिवेणवः पर्वते विद्यमाना वंशाः तेभ्यः विगलन्तः विशीर्य- माणाः मणयः मौक्तिकानि यासु ताः तादृश्यः । ककुभः दिशः, स्त्रीलिङ्गा- स्त्रियश्च । अस्य अच्युतगयस्य । प्रथनश्रिया रणलक्ष्म्या सह । परिणयः विवाहः । भवेत् भविष्यति । इति एवं मत्वा । (तदर्थम् ) लाजानां भर्जन शरावप्रक्षेपेण तापनम् । आरचयन् अकुर्वनिव। उत्प्रेक्षा ॥

११२ अच्युतरायाभ्युदये . निजसंगमान्निखिलशैलदरी- फलितोदये प्रतिरवात्मभवे । जलधीन्विगाह्य जयतूर्यरवो जगदण्डदानमतनु व्यतनोत् ॥ ५ ॥ निजेति ॥ जयतूर्यरवः विजयतूर्यध्वनिः, कश्चित्पुमांश्च । निजसङ्गमात् स्वसबन्धेन । प्रतिरवः प्रतिध्वनिरेव आत्मभवः सुतः तस्मिन् । निखिला- नां समस्तानां शैलानां पर्वतानां दयाँ गुहायां स्त्रीलिङ्गात्कस्यांचिन्नायिकायां चेति गम्यते फलितः निष्पन्नः उदयः आविर्भावः यस्य तस्मिन् तादृशे सति। जलधीन समुद्रान्। विगाह्य प्रविश्य तत्र निमज्ज्येत्यर्थः । जगदण्डाय ब्रह्माण्डाय जगति स्थितेभ्यः सर्वेभ्योऽपीत्यर्थः दानं अभिमतवस्तुवि- तरणम् , जगदण्डस्य ब्रह्माण्डस्य दानं शब्दासहनतया विभेद च । अतनु अधिकं यथा तथा । व्यतनोत् करोति स्म । पुत्रोत्पत्तौ पित्रा सद्यः नात्वा दानमाचर्यत इत्याचारः: । समासोक्तिः ॥ महिपानवेक्षितनिजागमना- न्मकुटाञ्चलस्तबकिताञ्जलिकान् । विभुरन्वकम्पत विलोकनतः कमलोत्करानिव करैः सविता ॥ ६ ॥ महिपानिति । विभुः प्रभुः अच्युतरायः। अवेक्षित प्रतीक्षितं नि- जागमनं स्वस्य निर्गमः यैस्तान् तादृशान् । मकुटाञ्चले किरीटकोटी स्तबकितः स्तबकवदाचरितः तत्र न्यस्त इत्यर्थः अञ्जलिः सयुतौ करो येषां तान् । महिपान् राज्ञः । विलोकनतः दृष्टया। सविता सूर्यः । करैः पञ्चमः सर्गः। किरणैः। कमलोत्करान् पद्मगणानिव । अन्वकम्पत दयते स्म अनुगृहीतवा- नित्यर्थः ॥ अभिशङ्कय पङ्कजममुष्य मुखं गरुतो वितत्य गगने वलतः । विजहास हंसमिथुनस्य विभां विशदातपत्रयुगली नृपतेः ॥ ७ ॥ अभिशङ्कयेति ॥ विभाः प्रभोरच्युतराजस्य । विशदा धवला । आतपत्रयुगली छत्रयुग्मम् । विशदातपत्रेत्येकं पदं वा । अमुष्य अस्या- च्युतराजस्य । मुखं वदनम् । पङ्कज पद्मम् । अभिशय भ्रान्त्वा । गरुतः पक्षान् । वितत्य विस्तार्य । गगने आकाशे। वलतः भ्रमतः । हसमिथुनस्य हंसद्वन्द्वस्य । विभां शोभाम् । विजहास परिहसितवती । भ्रान्तिमान् उत्प्रेक्षा च ॥ कशया प्रचोदयितुमप्रभवः प्रभवः स्वपाणिपरिताडनतः । तुरगान्प्रचाल्य तुमुलेऽपि मिथ- स्तुहिनांशुवंशमणिमन्वगमन् ॥ ८ ॥ कशयेति ॥ प्रभवः अच्युतरायसुहृदः महत्तराः । कशया अश्वता- डन्या। प्रचोदयितुं वेगेन गमयितुम् । अप्रभवः अशक्ताः सन्तः । स्वेषां पाणिभिः पादमूलैः परिताडनतः प्रहारेण । तुरगान् अश्वान् । प्रचाल्य धावयित्वा। मिथः परस्परम् । तुमुले निबिडे संघऽपि । तुहिनांशुवंशः चन्द्रान्वय एव वंशः वेणुः तस्य मणि मौक्तिकं चन्द्रवंशश्रेष्ठं अच्युतरायम् । अन्वगमन् अनुसृतवन्तः ॥ ४ ११४ अच्युतरायाभ्युदये विजयोद्यतं विभुमवेक्ष्य भटा व्यसरन्ससिंहरवसंहतयः । उदितं विधुं निकृतये तमसा- मुदधेरिवोमिनिकरा मुखराः ।। ९ ।। विजयति ॥ विजयाय दिग्जयाय उद्यत उद्युक्तम् । विभु प्रभु अच्युतरायम् । अवेक्ष्य विलोक्य । भटाः योधाः । सिंहरवसहत्या सिंह- नादसंतत्या सह वर्तन्त इति ससिहरवसहतयः तादृशाः सन्तः । तमसां अन्धकाराणाम् । निकृतये परिभवाय तन्नाशायेत्यर्थः । उदितं उद्गतम् । विधु चन्द्रम् । अवेक्ष्य । मुखराः शब्दायमानाः । उदधे. समुद्रस्य। ऊर्मि- निकराः तरङ्गपरम्परा इव । व्यसरन् परितः प्रसृतवन्तः ॥ अखिलैबलैरनुगतं विशिखा- मवगाहमानमवनीरमणम् । हरिणीहशोऽप्यनुययुहृदयै- रवलोकनैरपि च हर्म्यजुषः ॥ १० ॥ अखिलैरिति ॥ अखिलै. बलैः रथगजतुरगपदातिरूपैः समस्तैरपि सैन्यैः । अनुगतं अनुसृतम् । विशिखां प्रतोलीम् । अवगाहमानं प्रवि- शन्त तत्रागतमित्यर्थः। अवनीरमण भूपतिं अच्युतरायम् । हर्म्यजुषः प्रासादे स्थिताः । हरिणीदृशः युवतयोऽपि । हृदयैः मनोभिः । अवलोकनैः दृष्टिभिरपि च । अनुययुः अन्वगच्छन् । विपणौ बलेन निबिडं वलता वितति चतुष्पथपथे भजता ।

पञ्चमः सर्गः ।
११५
स्तिमितेन तोरणमुखे महता
म विलङ्घते स्म शनकैर्नगरीम् ॥ ११ ॥
विपणाविति ॥ विपणौ पण्यवीथिकायाम् । निबिडं निरवकाश
यथा तथा । वलता मचरता। चतुष्पथपथे शृङ्गाटकमार्गे । वितति
विस्तारम् । भजता प्राप्नुवता । तोरणस्य बहिवारस्य मुखे अग्रभागे।
स्तिमितेन निश्चलेन । महता । बलेन सैन्येन सह । मः अच्युनरायः
नगरी विद्यापुरीम् । शनकैः । विलङ्घते स्म विलचितवान ।।
कचन प्रचण्डकरिषण्डमयं
कचिदप्यभङ्गुरतुरङ्गमयम ।
कचनोद्भटायुधभटौघमयं
बलमैक्षि दिक्षु बहुधा विततम् ।। १२ ।।
वचनेति ॥ वचन कुत्रचित्स्थले । प्रचण्डाः तीव्राः ये करिण: गजाः
तेषां षण्डमय समूहात्मा तत्समूहप्रचुर वा । एवमेवोत्तरत्रापि विकारे
प्राचुयें वा मयट् । क्वचिदपि । अभङ्गुराः शक्तिमन्तः ये तुरङ्गाः अश्वाः
तन्मयम् । क्वचन कुत्रचित्प्रदेशे । उद्भटायुधानां तीव्रशस्त्राणां भटानां
योधानां यः ओघः समूहः तन्मयम् । (एवम ) बल मैन्यम् । दिक्षु ।
बहुधा । वितत विस्तृतम् । ऐक्षि दृष्टम् ॥
परिकीर्णपुष्करपयःकणिका-
प्रसरावसिक्तनिजपार्श्वयुगाः ।
करिणो ययुः कदलिकामरुता
विनिवारितश्रमवियत्पथिकाः ॥ १३ ॥

अच्युतरायाभ्युदये परिकोणेति ॥ करिणः गजा. । परिकीर्णानां विक्षिप्ताना पुष्करप- यसः शुण्डाग्रस्थितजलस्य कणिकानां बिन्दूनां प्रसरेण व्याप्त्या अवसिक्तं आर्द्राकृतं निजपार्श्वयुगल स्वपार्श्वद्वयं येषां ते तथोक्ताः । कदलिकामरुता ध्वजवातेन । विनिवारितश्रमाः अपनीतलमाः वियत्पथिकाः आकाशचा- रिणः येषां ते तथोक्ताश्च सन्तः । ययुः अगच्छन् । भरिता रजोभिरुपरि प्रसृतैः करिणस्तृणीकृतघनापघनाः । हरिदन्तगन्धकरिणां सरणी- रभजन्त भूभरणतन्त्रवताम् ॥ १४ ॥ भरिता इति ॥ तृणीकृतः तिरस्कृतः धनस्य मेघस्य अपधन: अङ्ग यस्ते तथोक्ताः । करिणः गजाः । उपरि स्वोपरिभागे। प्रसृतैः व्याप्तः । रजोभिः धूलिभिः । भरिताः पूर्णाः सन्तः । भूभरणतन्त्रवतां भूभारोद्व- हनैककर्मणां भूभारोहनसिद्धान्तिनां वा । हरिदन्तगन्धकरिणां दिगन्तेषु विद्यमानानां मत्तगजानाम् । सरणी: मार्गान् । अभजन्त आश्रितवन्तः। सृणिकोणतः शिरसि हस्तिपकः प्रहरन्पुरश्चटुलतोत्रिकुलम् । अपथं निनाय समदं द्विरदं परुषोदितेन परिधाव्य जनान् ॥ १५ ॥ सृणीति ॥ हस्तिपकः आधोरणः । समदं मत्तम् । द्विरदं गजम् । शिरसि मस्तके। सृणिकोणतः अङ्कुशाग्रेण । प्रहरन् ताडयन् सन् । जनान् । परुषेण निष्ठुरेण उदितेन वचसा । परिधाव्य प्रद्राव्य । पुर.

पञ्चमः सर्गः । ११७ अग्रतः। तोत्र गजतोदनदण्डः एषामस्तीति तोत्रिणः चटुल चञ्चल धावदित्यर्थः तोत्रिणां कुलं यस्मिस्तत् तादृशम् । अपथ अपन्थान मार्ग एव यो न भवति त प्रदेशमित्यर्थः। निनाय गमितवान् । चटुलतो- त्रिकुलमिति क्रियाविशेषण द्विरदविशेषणं वा ॥ अवटेऽवतारितभरौघ इव द्रुतमुन्नते द्विगुणभार इव । शकटं समे पथि चकर्ष धृता- धृतभूरिभार इव भद्रगणः ॥ १६ ॥ अवट इति ॥ भद्रगणः वृषभसमूहः। अवटे निम्ने । पथि मार्ग । द्रुतं शीघ्रम् । अवतारितः अवरोपितः भरौघः यस्य स तथोक्त इव । भटौघ इति पाठान्तरम् । उन्नते उच्छ्रिते। पथि । द्विगुणः द्विरुक्तः भारः यस्य स तादृश इव । समे निम्नोन्नततारहिते। पथि । धृताधृतः तथा भासमानः भूरिः अधिकः भारः यस्य स इव । शकट अनांसि । चकर्ष कर्षति स्म ॥ वहमानवाहलहरीनिवहे वसुधा निमज्ज्य बलवारिनिधौ । निजगाद निर्भरपरागभुजो- नमनेन गाधमदसीयमिव ॥ १७ ॥ वहमानेति ॥ वसुधा भूमिः । वहमानः प्रवहन वाहानां अश्वानामेव लहरीणां कल्लोलानां निवह समूहः यस्य तस्मिन् । बलं सैन्यमेव वारि- निधिः समुद्रः तस्मिन् । निमज्ज्य मक्का । निर्भरः निबिडः यः पराग:

११८ अच्युतरायाभ्युदये । रजः स एव भुजः तस्य उनमनेन उत्क्षेपणेन । अदसीयं बलवारिनिधि- संबन्धि । गाधं निम्नताम् । निजगाद उवाचेव ।। अभिपाति हस्तयुगलेन रजो निखिलासु दृष्टिषु निवारयितुम् । अपटुः शचीपतिरदूयत य- फलिता किमस्य परदारगतिः ॥ १८ ॥ अभीति ॥ शचीपतिः इन्द्रः । हस्तयुगलेन भुजद्वयेन । निखिलासु सर्वासु । दृष्टिषु लोचनेषु । अभिपाति अभिपतनशीलम् । रजः धूलिम् । निवारयितु निवर्तयितुम् । अपटुः अशक्तः सन् , हस्तद्वयस्यैव सद्भावेन सकललोचनाच्छादनासंभवात् देवत्वेन निमीलनासंभवाच्चेति भावः। यत् यस्मात् । अदूयत विषण्णोऽभवत् । (तत्) अस्य इन्द्रस्य । परदार- गतिः परदारगमन अहल्याव्यतिकर इत्यर्थः । फलिता दुःखोत्पादनेन फलवती किम् । परदाररतिरिति पाठान्तरम् ॥ निबिडं पतत्सु रजसां निवहे- ध्वधिनन्दनोपवनमभ्रधुनौ । अभिधानमर्थवदोजनुषो- रजनिष्ट भूमिरुहपङ्कजयोः ॥ १९ ॥ निबिडमिति ॥ अधिनन्दनोपवनं नन्दनारामे। अभ्रधुनी गङ्गाया च । रजसां परागाणाम् । निवहेषु समूहेषु । निबिडं निरन्तरं यथा तथा। पतत्सु सत्सु । अदोजनुषोः । नन्दनगङ्गासमुत्पन्नयोः । भूमिरुहपङ्कजयोः वृक्षपद्मयोः । अभिधानं नाम । अर्थवत् भूमौ रोहतीति पक्काज्जायत इति च व्युत्पत्तेरनुगमात्सार्थकम् । अजनिष्ट बभूव ॥

पञ्चमः सर्गः। फणिनायक: फणनिमग्नमणी- पटलो बले परिचले प्रबले । असकृच्छिरोविनिमयादवनी वहति स्म वामनसिरालगलः ॥ २० ॥ फणीति ॥ प्रबले बलीयसि । बले सैन्ये । परिचले गच्छति सति । फणिनायकः सर्पराजः । फणेषु स्फटासु निममानि उपरिभारविमर्दन अन्तःप्रविष्टानि मणीपटलानि रत्नगणाः यस्य स तादृशः । वामन. सकु. चितः सिराल: सिराविष्टः प्रव्यक्तनाडिक इत्यर्थः गलः कण्ठः यस्य स तथोक्तः सन् । अवनी भूमिम् । असकृत् पुन. पुन. । शिरसां मस्तकानां विनिमयात् परिवर्तनात् परिवर्तनं कृत्वेत्यर्थः । वहति स्म उवाह ॥ विभुनामुना विलसता परितः सकलं प्रकाश्य चतुरङ्गबलम् । स्फुटविश्वरूपमहिमातिशयः पुरुषोऽजनिष्ट पुनरुक्त इव ॥ २१ ॥ विभुनेति ॥ परितः समन्तात् । सकलम् । चतुरङ्गबलं चतुरङ्गसै- न्यम् । प्रकाश्य प्रकटीकृत्य । विलसता विराजता, वो पक्षिणि गरुडे लसता च । अमुना । विभुना प्रभुणा अच्युतरायेन, सर्वव्यापिना च । स्फुटः व्यक्तः सर्वांत इत्यर्थः विश्वरूपमहिमातिशयः विश्वरूपदर्श- नेन माहात्म्याधिक्य यस्य स तादृश. । पुरुषः परमपुरुषो नारायणः । पुनरुक्तः द्विः कथित इव अनुकृत इवेत्यर्थः । अजनिष्ट जातः, विश्वरू- पधारिणं नारायणं समस्तलोकप्रकाशनेनानुचकारेत्यर्थः ॥ .

१२० अच्युतरायाभ्युदये अथ वेदिकाममरमौलिमणे- रवधूतमन्दरमहेन्द्रगिरिम् । शनकैरगाहत स चन्द्रगिरिं नगरीं श्रिया हसितनाकपुरीम् ॥ २२ ।। अथेति ॥ अथ । सः अच्युतरायः। अमरमौलिमणे: भगवतो देवदेवस्य । वेदिकां वितर्दिकां स्थानभूतामित्यर्थः । अवधूतौ औनत्या- दिना निराकृतौ मन्दरमहेन्द्रपर्वतौ यया ताम् । श्रिया संपदा । हसिता परिहसिता नाकपुरी अमरावती यया तां तथोक्ताम् । चन्द्रगिरि तन्ना- श्रीम् । नगरी पुरीम् । शनकैः मन्दम् । अगाहत प्रविवेश ।। अखिलानि तत्र विनिवेश्य बला- न्यविलम्बितं समवरुह्य हयात् । हरिपादभक्तिमवलम्ब्य नृणा- मधिपोऽध्यरुक्षदहिराजगिरिम् ॥ २३ ॥ अखिलानीति ॥ नृणां अधिपः अच्युतरायः । तत्र चन्द्रगिरिन- गरे । अखिलानि समस्तानि । बलानि सैन्यानि । विनिवेश्य स्थापयित्वा । हयात् 'अश्वात् । समवरुह्य अवतीर्य । हरिपादभक्ति नारायणस्य चरणा- रविन्दयोः भक्तिम् । अवलम्ब्य आश्रित्य । अहिराजगिरिं शेषाद्रिम् । अध्यरुक्षत् आरुरोह॥ ज्वलितैर्दिवार्कमणिभिर्निशि यः स्फुटमोषधीभिरधिशृङ्गतटम् ।

पञ्चमः सर्गः । १२१ । । सफणामणीगण इवार्थवती- मभिधामहीन्द्रगिरिरित्ययते ॥ २४ ॥ ज्वलितैरिति ॥ यः शेषाद्रिः । अधिशृङ्गतट शिखरप्रदेशे । दिवा अहनि । ज्वलितैः दीप्रैः । अर्कमणिभिः सूर्यकान्तैः । निशि रात्रौ । (ज्वलिताभिः) ओषधीभिः ज्योतिर्लताभिः । सफणामणीगणः स्फटारत्न- सहित इव । अहीन्द्रगिरिः शेषाद्रिः । इति । अभिधां नामधेयम् । अर्थ- वती सार्थिकाम् । स्फुट व्यक्तं यथा तथा । अयते प्राप्नोति बहतीत्यर्थः । स्फुटमिति ज्वलितैरित्यत्रान्वेति वा ॥ क्षितिपालमण्डलकिरीटमणी- परिशीलनादिव पदद्वितयम् । अयमक्षमिष्ट वृषभाद्रिशिला- स्वतिकर्कशासु निजमर्पयितुम् ॥ २५ ॥ क्षितीति ॥ अयम् । क्षितिपालमण्डलम्य नृपतिसमूहस्य किरीटम- णीषु मकुटर नेषु परिशीलनात् परिचयादिव । अतिकर्कशासु अतिक- ठिनासु । वृषभाद्रिशिलासु वृषभशैलपाषाणेषु । निजं खकीयम् । पद- द्वितय चरणयुगम् । अर्षयितुं निधातुम् । अक्षमिष्ट शक्तोऽभूत् ॥ परिणीः क्षितेरथ कृतस्नपनः परिधाय धौतसिचयद्वितयम् । अवगाहते स्म मणिधाम हरे- रदसीयचित्तमपि भक्तहितः ॥ २६॥ परिणीरिति ॥ अथ । क्षितेः भूमेः । परिणीः नायकः अच्युतरायः।

१२२ अच्युतरायाभ्युदये कृत स्नपनं येन स तथोक्तः सन् । धौतं निर्मल क्षालितमित्यर्थः सिच- यद्वितय वस्त्रयुग्मम् । परिधाय वसित्वा । हरेः विष्णोः । मणिधाम रत्न- खचितम् आलयम् । अवगाहते स्म प्रविवेश । भक्तहितः भक्तानुकूलो हरिरपि । अदसीयं अच्युतरायसम्बन्धि चित्तं मनः । अवगाहते स्म ।। वपुषा वलाहकवलारिशला- वहमानरोचिरवमानपुषा । अवतारयन्तमहिमांशुसुता- मपरां पदादमरसिन्धुमिव || २७ ।। वपुषेति ॥ इत आरभ्य चतुःश्लोकी एकान्वया। वलाहकः मेघः बलारिशिला इन्द्रनीलरत्नं एतयोः वहमानानां प्रसरतां रोचिषां कान्तानां अवमानं तिरस्कारं पुष्णाति करोतीति तेन । वपुषा शरीरेण । पदात् चरणात् । अमरसिन्धु गङ्गामिव । अपरां अन्याम् । अहिमांशुसुतां सूर्य- पुत्री यमुनाम् । अवतारयन्त प्रवर्तयन्तमिव स्थितम् ।। नमतामिवान्ध्यहरणाय नृणां नवरोचिषाबनविशेषपुषम् । जगतीमिवार्पयितुमादधतं जठरेषु वन्ध्यसुदृशां क्रमशः ।। २८ ।। नमतामिति ॥ नवरोचिषा नूतनकान्तिविशेषेण । नमतां प्रणमतां भक्तानामित्यर्थः । नृणां मनुष्याणाम् । आन्ध्यस्य अन्धत्वस्य हरणाय नाशनाय । अजनविशेषं विशिष्ट कज्जल पुष्णाति सचिनोतीति तम् । क्रमशः क्रमेण । (नमन्तीनाम् ) वन्ध्यसुदृशां अनपत्यानां स्त्रीणाम् ।

पञ्चमः सर्गः । १२३ जठरेषु' उदरेषु । अपयितु निधातुम् । जगती भुवनम् । आद्धतं धार- यन्तमिव कुर्वाणमिव वा स्थितम् । शेषाद्रिनाथो हि भक्तानन्धाननन्धान् वन्ध्याश्च पुत्रवतीरनुगृह्णातीति सुप्रसिद्धम् ।। प्रथमानचित्फलगुरुं द्युतरं मुनिमानसाम्बरचरं मुदिरम् । भवताराणिं प्रणमतां तराणं श्रुतिशाखिकाग्रसुखिनं शिखिनम् ॥ २९ ॥ प्रथमानेति ।। प्रथमाना वर्द्धमाना प्रसिद्ध्यन्ती वा या चित् ज्ञान तदेव फल तेन गुरुं अधिक तत्परिपूर्णमित्यर्थः । द्युतरु कल्पवृक्षम् । मुनीनां मानस मन एव अम्बर आकाशः तत्र चरीति तादृशम् । मुदिरं मेघम् । प्रणमता भक्तानाम्। भवतारणि ससारसमुद्रोत्तारिकाम् । तारणिशब्दोऽप्यस्तीति कल्पद्रुमे द्रष्टव्यम् । तरणि नावम् । श्रुतिशाखि- काग्रसुखिनं वेदशाखाग्रे सुखेनासीनम् । शिखिन मयूरम् , उपनिषत्प्रा- तिपाद्यमित्यर्थः ॥ अजमव्यपायमजरं जगता- मवनैकतानमनिदानदयम् । अभिवन्द्य कामफलदं धरणे- रधिभूः समारभत वर्णयितुम् ॥ ३० ॥ अजमिति ॥ अजं अजन्मानम् । अव्यपाय अनिधनम् । अजर जरारहितम् । जगतां लोकानाम् । अवने रक्षणविषये एकतान अनन्य- वृत्तिकम् । अनिदाना निरुपाधिका दया कृपा यस्य तं तादृशम् ।

१२४ अच्युतरायाभ्युदये कामफलद यथाभिलषितसमस्तवस्तुप्रदं भगवन्त हरिम् । अभिवन्ध नमस्कृत्य। धरणेः भूमेः । अधिभूः नेता अच्युतरायः । वर्णयितुं स्तोतुम्। आरभत उपचक्रमे ॥ जनिसंहृतिस्थितिकृते जगतां श्रममेक एव न भजामि पुरा । इति किं त्रिधैव स भवानभव- द्विधिरित्युमेश इति विष्णुरिति ॥ ३१ ॥ जनीति ॥ जगतां भुवनानाम् । जनि: उत्पत्तिः संहृतिः संहारः स्थितिः रक्षण एतनिमित्तम् । कृते इत्येकारान्तमव्ययं निमित्तार्थकम् । श्रमं प्रयासम् । एक एव असहायः सन्नेव । न पुरा भजामि न भक्ष्यामि न आश्रयिष्याभि । इति इति मत्वा । स भवान् पूज्यः त्वम् । विधिः ब्रह्मा, इति । उमेशः शिवः, इति । विष्णुः, इति । त्रिधा एव अभवत् किम् ॥ अनिलोऽनल: सलिलमिन्दुरिनः ककुभो नभो वसुमतीत्यखिलम् । फणभृत्फणाग्रनटनस्य विभो भवतो विभाति बहुरूपमिदम् ।। ३२ ।। अनिल इति ॥ विभो हे प्रभो । अनिलः वायुः । अनल: अग्निः । सलिल जलम् । इन्दुः चन्द्रः । इनः सूर्यः । ककुभः दिशः । नभः आका- शम् । वसुमती भूमिः। इति । इद अखिलं एतत्समस्तम् । फणभृतः कालियमर्पस्य फणाग्रे नटनं नर्तनं यस्य तस्य कालियमर्दनं कृतवत पञ्चमः सर्गः ।। १२५ इत्यर्थः । यद्वा अहीन्द्रगिरिशिखरमधिवसत इत्यर्थः । भवतः तव । बहु- रूपं नानाविधं स्वरूपम् । विभाति । बहुरूपमिद भवतो विभातीति वा ॥ अनुपाधिकोक्तिरधिदैववती जगती स्थितिप्रलयसर्गवती । अपवर्गवैभववती विलस- त्यपि मण्डली शमवतां भवता ।। ३३ ।। अनुपाधिकेति ॥ अनुपाधिकोक्तिः निरुपाधिक वचः वेदा इत्यर्थः । भवता त्वया। आधिदैववती साधिष्ठातृका सनाथेत्यर्थः । विलसति। भवता। जगती भुवनम् । स्थितिः, प्रलयः नाश . सर्गः सृष्टिः, अस्या अस्ताति स्थितिप्रलयसगवती । विलसति । शमवतां शमिनां योगिनाम् । मण्डली गणोऽपि । भवता। अपवर्गस्य मोक्षस्य वैभवं महिमा अस्या अस्तीति तादृशी । विलसति ॥ परितोषणं यदिह भक्तनिधे भवतस्तदन्यमरुतां च भवेत् । दृढमूलसेकविधिरेव तरो- विटपौघसेचनविधिर्न कथम् ॥ ३४ ॥ परितोषणमिति ॥ हे भकनिधे भक्तानां निक्षेपवन्मनोरथपूरक । इह अस्मिन्लोके । भवतः तव । यत् परितोषणं संतोषजनको व्यापारः । तत् । अन्यमरुतां च देवतान्तराणामपि । परितोषणम् । भवेत् । तरोः वृक्षस्य । दृढ यत् मूल तस्य सेकविधिः सेचनकमैव । विटपौघस्य शाखा- समूहस्य सेचनविधिः सेकक्रिया । कथं कुतः । न । दृष्टान्तः॥

१२६ अच्युतरायाभ्युदये दयिने मुनीन्द्रहृदयोदयिने हरये सुराहिततमोहरये । दरिणे पयोधितनयादरिणे भवते नमो निगमलोभवते ॥ ३५ ॥ दयिने इति ॥ दायने दयालव । मुनीन्द्रहृदयं उदयिन उदयवते । सुराहिताः सुरशत्रवः असुरा एव तमांसि अन्धकाराणि तेषां हरये सूर्याय तन्नाशकायेत्यर्थः । दर शङ्खः अस्यास्तीति तस्मै दरिणे । पयो- धितनयायां समुद्रकन्यायां लक्ष्म्या आदरिणे आदरवते । निगमलोभवते वेदलुब्धाय श्रुतिप्रियायेत्यर्थः । भवते तुभ्यम् । नमः । अस्त्विति शेषः ॥ सनकादियोगिशरणाय नमो जगतीनिवासजठराय नमः । निगमागमान्तनिलयाय नमो नलिनोत्पलेशनयनाय नमः ॥ ३६ ॥ सनकादीति ॥ मनकादीनां मनकप्रमुखानां योगिनां शरणाय शरण्यभूताय । नमः । जगतीनिवासः लोकनिवासभूतः जठरः उदर यस्य तस्मै । नमः। निगमाः वेदाः आगमाः शास्त्राणि तेषां अन्ते निलयः वासस्थानं यस्य तस्मै । नमः । नलिनोत्पलेशनयनाय सूर्यचन्द्रनयनाय । नमः॥ मुचुकुन्दमोक्षद मुकुन्द जग- त्रयमूलकन्द मुनिबृन्दनिधे ।

पञ्चमः सर्गः । १२७ इति तं सुपर्णरथमेष भवा- र्णवकर्णधारमभिवर्णितवान ॥ ३७ ॥ मुचुकुन्देति ॥ मुचुकुन्दस्य तन्नाम्नी राज्ञः मोक्षद मोक्षदायिन् । मुकुन्द मोक्षप्रद । जगत्रयस्य त्रयाणा लोकानां मूलकन्द मूलभूतकन्द- वत्कारणभूत । मुनिवृन्दस्य मुनिसमूहस्य निधे । इति । सुपर्णरथं गरुड- वाहनम् । भवार्णवम्य मसारसमुद्रस्य कर्णधार नाविकम् । त भगवन्त श्रीनिवासम् । एषः अच्युतगयः । अभिवर्णितवान् स्तुतवान् । माहिमस्तवाभिनवमाल्यभृतो मधुसूदनख मकुटाद्गलिताम् । स्रजमग्रहीत्सविनयं नृपतिः समरश्रियो वरणदामसखीम् ॥ ३८ ॥ महिमेति ॥ नृपतिः अच्युतरायः । महिमस्तवः वैभवस्तुतिरेव अभिनवमाल्यं अम्लानमाला तत् बिभर्ति धारयतीति तस्य । मधुसूदनस्य भगवतो विष्णोः । मकुटात् किरीटात् । गलितां च्युताम् । समरश्रियः रणलक्ष्म्याः । वरणदाम्नः वरणमाल्यस्य सखी वयस्यां तत्तुल्यामित्यर्थः । स्रजं मालाम् । सविनय विनयेन सह । अग्रहीत् गृहीतवान् । असहायमौक्तिकमहाभरणे विभुनार्पिते क विनुमो यदिमे । अनघे श्रुतिद्वयमभूषयतां श्रुतिभूषणस्य च सुपर्वमणेः ।। ३९ ॥

१२८ अच्युतरायाभ्युदये असहायेति ॥ विभुना प्रभुणा अच्युतरायेन । अर्पिते उपहारी- कृते । असहायमौक्तिकमहाभरणे एकमुक्तात्मके श्रेष्ठ भूषणे ( कर्मणी) (वयम्) व विनुमः कथं स्तुमिः । यत् यस्मात् । अनघे निर्दोषे। इमे अस- हायमौक्तिकमहाभरणे । (कर्तृणी ) श्रुतिभूषणस्य वेदाभरणस्य कर्णाल- कारस्य च । सुपर्वणां देवानां मणे रत्नस्य देवश्रेष्ठस्य, सुपर्वणः शोभ- नपर्ववतः वेणोः उत्पन्नः मणि रत्नं मौक्तिकमित्यर्थः तस्य च, भगवतः श्रीनिवासस्येत्यर्थः । श्रुतिद्वयं श्रोत्रयुगम् । अभूषयतां अलकृतवन्तौ ।। उदिताजमुल्लसितचक्रमसा- वुदरस्थसर्वभुवनाभ्युदयम् । गुहतीर्थमत्र कुरुते स्म गिरौ नरकापहं नलिननाभमिव ॥ ४० ॥ उदितेति ॥ उदितानि उत्पन्नानि अब्जानि यस्मिस्तत् तथोक्तम् , पक्षे उदित अब्ज शङ्खः यस्य तम् । उल्लसितानि सविलासानि चक्राणि चक्रवाकाः यस्मिस्तत् तादृशम् , पक्षे उल्लसितं विलसितं चक्र चक्रायुध यस्य तम् । उदरस्थानां मध्यस्थितानां सर्वेषां सकलानां भुवनानां जलानां अभ्युदयः अभिवृद्धिः यस्य तत् , पक्षे उदरस्थानां कुक्षि- स्थानां सर्वेषां भुवनानां जगतां अभ्युदयः यस्य तम् । नरकं अपहन्ति अपनयतीति तत् , पक्षे नरकं नरकासुर अपहन्तीति तम् । नलिन- नाभं पद्मनाभ नारायणमिव स्थितम् । गुहतीर्थम् । अत्र अस्मिन् शेषाद्रौ। कुरुते स्म अकुरुत ॥ महता प्रभालिवलयेन मही- पतिनार्पितेन फणिशैलपतिः ।

पञ्चमः सर्गः । १२९ उपरिश्रितेन्द्रधनुरुल्लसितं हरितं व्यडम्बयदिवाम्बुमुचम् ।। ४१ ॥ महतेति ॥ फणिशैलपतिः शेषाद्रिनाथः । महीपनिना अच्युतराजेन । अर्पितेन दत्तेन । महता गुरुणा । प्रभालिवल येन कान्तिपुञ्जसहितेन कट- केन । उपरिश्रितेन स्वापरिस्थितेन इन्द्रधनुषा उल्लसित शोभितम् । हरित नीलम् । अम्बुमुचं मेघम् । व्यडम्बयत् अनुचकार । इवो वाक्यालङ्कारे ॥ श्रवणे कथास्य मननं च मन- श्चरणे शिरः स्वयमलंकुरुतः । इति कुण्डलं पदकमेष हरेः किमिहार्पयन्मणिकिरीटमपि ॥ ४२ ॥ श्रवणे इति ॥ अस्य हरेः । कथा पुण्यचरित तच्छ्रवणमित्यर्थः । श्रवणे कर्णौ । अलंकरोति भूषयति । मनन यान च । मनः हृदयं वक्ष इत्यर्थः । अलंकरोति । चरणे हरिपादौ । स्वय आत्मना । शिरः । अलकुरुतः । इति इति मत्वा । एष. अच्युतरायः। हरेः विष्णवे । सबन्धसा- मान्यविवक्षया षष्ठी । कुण्डल कीभरणम् । पदकं कण्ठभूषणम् । मणि- किरीट रत्नखचितं मकुटमपि । इह । आर्पयत् दत्तवान् किम् ॥ अनुलेपमाल्यवसनाभरणै- हरिमन्तरन्धतमसेभहरिम् । न्यवसद्गिरौ परिचरन्नियमा- कति चिद्दिनानि कमिता धरणेः ॥ ४३ ॥ अनुलेपति ॥ धरणेः कमिता पृथ्वीपतिः । अन्तः हृदये विद्यमान 9 १३० अच्युतरायाभ्युदय यत् अन्धतमस गाढान्धकार अज्ञानमित्यर्थः तदेव इभः गजः तस्य हरि- सिहं तन्नाशकमित्यर्थः । हरि श्रीनिवासम् । अनुलेपमाल्यवसनाभरणैः चन्दनमालावत्रभूषणै. । नियमात् नियतं यथा तथा। परिचरन् शुश्रू- षमाण. सन् । कतिचित् दिनानि कतिपयदिवसपर्यन्तम् । न्यवसत् वसति स्म ॥ अवरुह्य वेङ्कटगिरेः शिखरा- दधिरुह्य वाहमतिगन्धवहम् । स गरीयसीं सकलमुक्तिकरी- मपि कालहस्तिनगरीमगमत् ।। ४४ ॥ अवरुह्यति ॥ सः अच्युतरायः । वेङ्कटगिरेः । शिखरात् शृङ्गान् । अवरुह्य अवार्य । अतिगन्धवह वायुमतिक्रान्तम् । वाह अश्वम् । अधि- रुह्य । गरीयसी अतिश्रेष्ठाम् । सकलमुक्तिकरी सर्वेषामपि मोक्षप्रदाम् । कालहस्तिनगरी कालहस्त्याख्य पट्टणमपि । अगमत् प्राप ॥ निकषा सुवर्णमुखरी लहरी- मुखरीभवद्वितततीरदरीम् । कृतधाम धाम निजनामपदा- ङ्कनमसीमभूम नमति स्म नृपः ॥ ४५ ॥ निकषेति ॥ लहरीभिः वीचिभिः प्रवाहैर्वा मुखरीभवन्ती शब्दाय- माना वितता विस्तृता तीरदरी कूलगुहा कूलोपान्तस्थनिकुन्ज इत्यर्थः यस्यास्तां तथोक्ताम् । सुवर्णमुखरी निकषा सुवर्णमुखर्याख्याया नद्याः समीपे । कृतं धाम स्थानं येन तत् । धाम तेज: उमारमणमित्यर्थः ।

पञ्चमः सर्गः। नृपः अच्युतरायः । निजनामपद अच्युतेति शब्दः अङ्कन चिह्न यस्य मः तथोक्तः, तादृशः सीनः अवधिभूतप्रदेशस्य भूमा बाहुल्य विस्तारः यस्मिन्कर्मणि तद्यथा तथा । समासान्तविधेनित्यत्वन्न टच् । नमति म्म ननाम, निजनामाङ्कनपूर्वक पूर्वाधिकं भूभागमुपहारीकृत्य प्रणतवानिनि भावः । " निजनामपदाङ्कनमामसीम” इति पाठान्तरम् । तदा तेजमो विशेषण तत् ॥ द्रविणाधिपेन दृढसख्यवता न च भिक्षुताम्य समतक्ष्यत या । अपवारितेयमुपहारितया नरसात्मजेन नवसीमभुवा ॥ ४६॥ द्रविणेति ॥ अस्य परमशिवस्य । या भिक्षुता यत् भिक्षाकत्व । दृढ- सख्यवता अत्यन्तसुहृदा । द्रविणाधिपेन कुवेरेण । न च समतक्ष्यत न निवर्तिता । इय सेय भिक्षुता। नरसात्मजेन अच्युतरायेण । उपहारितया उपौकितया । नवमीमभुवा नूतनावधिकेन भूभागेन । अपवारिता निव- र्तिता। 'सख्यवता न च भिक्षुतास्य ममशिक्ष्यत या' इति पाठान्तरम् ।। स विनम्य चन्द्रशकलाभरणं शिवमञ्जनेभगिरिसंचरणम् । अभिवाञ्छितामपि विरिञ्चिमुखै- हरिकाश्चिनामनगरीमगमत् ॥ ४७ ॥ स इति । सः अच्युतरायः । अञ्जनेभगिरिसंचरण कालहस्ति- गिरिवास्तव्यम् । चन्द्रशकलाभरण इन्दुकलावतसम् । शिव पार्वतीपतिम् , - - १३२ अच्युतरायाभ्युदये विनम्य नमस्कृत्य । विरिञ्चिमुखैः ब्रह्मादिभिर्देवैरपि । अभिवाञ्छितां अभिलषिताम्। हरिकाञ्चिनामनगरी विष्णुकाञ्चीपत्तनम् । अगमत् जगाम ।। अभिजातवैधहयमेधमखा- न्तरजातमाधिहरमानमताम् । कुमुदारविन्दकुलबन्धुदृशं समुदायमम्बुधिसुताक्षिमुदाम ॥ ४८ ॥ अभिजातेति ॥ इदमनन्तरपद्य चैकान्वयम् । अभिजातः रम्य. यथाविधि निवृत्त इत्यर्थः यः वैधः ब्रह्मणा कृतः हयमेधमख. अश्वमेध- यागः तस्य अन्तरे मध्ये जातं उत्पन्न अग्निमध्याद्वषां मुखेनादाय समु- त्थितमित्यर्थः । आनमतां प्रणमता भक्तानाम् । आधिहर मनोव्यथानि- वर्तकम् । कुमुदारविन्दकुलवन्धुदृश चन्द्रसूर्यलोचनं । अम्बुधिसुताया लक्ष्म्याः अक्षिमुदां नेत्रसतोषाणाम् । समुदाय समुच्चयम् ॥ परिचर्यया प्रणवशीर्षमणिं परितोष्य शाङ्गिणममुष्य पुरः । अधिरूढमौक्तिकतुलापुरुषोऽ- प्यतुलोऽजनिष्ट सदभीष्टकरः ॥ ४९ ॥ परिचर्ययेति ॥ प्रणवस्य शीर्षमणि चूडामणिम् । शाणि वरदरा- जम् । परिचर्यया शुश्रूषया। परितोष्य तोषयित्वा । अमुष्य वरदराजस्य । पुरः अग्रभागे । अधिरूढः आरूढः मौक्तिकतुलापुरुषः मुक्तामयः घटाया- मारोपितः पुरुषः पुरुषप्रमाणानि मौक्तिकानोत्यर्थः सदृशपुरुषश्च यस्य स तादृशोऽपि । सदभीष्टकरः सज्जनानां मनोरथपूरकः अयमच्युतरायः। अतुल. तुलारहितः घटाशून्यः, निःसमश्च । अजनिष्ट जातः । विरोधाभासः ॥

पञ्चमः सर्गः । पटहोमभांकरणमन्त्रवशा- दलितस्वगर्वगरलोष्मभराः । निभृताः किरातनिकरा नृपते- निहितोपदाश्चरणयोर्त्यपतन ॥ ५० ॥ पटहेति । किरातनिकरा: व्याधसमूहा एव पन्नगगणा इत्येकदेशविव- तिरूपक्रम । पटहानां भेरीणां भांकरणं भांकारशब्द एव मन्त्रः गरुडमन्त्रः तस्य वशः आयत्तता तम्मात् । गलितः प्रच्युतः निवृत्त इत्यर्थः स्वगर्वः स्वदर्प एव गरलं विषं तस्य ऊष्मभरः औष्ण्याधिक्यं येषां ते तथोक्ताः । निभृता: विनीता: । निहितोपदाः समर्पितोपाठौकनाश्च सन्तः । चरणयोः । न्यपतन निपतितवन्तः प्रणेमुरित्यर्थः ॥ शिखिपिञ्छलाञ्छितशिखण्डभरैः श्रितधन्वभिः सितवराटगुणैः । विशति स्म तैरनुगतो विनया- दधिपो नृणामरुणशैलपुरीम ॥ ५१ ॥ शिखीति ॥ शिखिपिञ्छैः मयूरबहै: लाञ्छितः चिह्नितः तयुक्त इत्यर्थः शिखण्डभरः चूडाभारः येषां तैः । श्रितं गृहीतं धनुः चापः यैस्तैः । सितः बद्धः वराटगुणः कपर्दकसूत्रं यस्तैस्तथोक्तः । तैः किरातैः । विनयात् प्रश्रयेण । अनुगतः अनुमृतः सन् । नृणां अधिपः नराधिपोऽच्युतरायः । अरुणशैलपुरी अरुणाचलनगरम् । विति स्म प्रविवेश ॥ भसितानुलेपभजनेन जटा- पटलार्चिषां च परिशीलनया ।

१३४ अच्युतरायाभ्युदये अविकुण्ठकण्ठरुचिधूमतया- प्यनलात्मतामभिनयन्तमिव ॥ ५२ ॥ भसितेति ॥ इत. पद्यत्रयमेकान्वयम् । भसितानुलेपस्य भस्मोद्धूलन- स्यैव भस्मसंसर्गस्य भजनेन आश्रयणेन । जटापटलानां जटाजूटानामेव अर्चिषां शिखानाम् , जटाजूटस्य पीतत्वाद्वह्निशिखासादृश्यमिति बो- ध्यम् । परिशीलनया परिचयेन तत्ससर्गेण चत्यर्थः । अविकुण्ठः निरर्गल: कण्ठरुचिः गलशोभैव धूमः यस्य तस्य भावेनापि । अनलात्मता अग्निस्वरूपताम् । अभिनयन्त सूचयन्तमिव स्थितम् । अमणाचले अग्निमय शिवलिङ्गमिति प्रसिद्धम् ॥ वरपाशबन्धनवशाद्वशिना- मवलम्बमानमधिहृत्सुषिरम् । अभिवेष्टितं गलमहोजतुना- प्यभिमुद्रितं तममृषोक्तिनिधिम् ।। ५३ ।। वरेति ॥ वरः श्रेष्ठः यः पाशः करस्थिता रज्जुः तस्य यत् बन्धन करण स्वीकरणम् , तेन वन्धनं नहनं च तस्य वशात् आयत्तत्वात् । वशिनां जितेन्द्रियाणाम् । अधिहृत्सुषिर हृदयकुहरे । अवलम्बमानं तिष्ठन्त अवस्रसमानं च । अवलम्ब्यमानमिति पाठान्तरम् । गलमहोजतुना क- ण्ठकान्तिलाक्षया । अभिवेष्टितं मण्डलाकारेण व्याप्तम् । अत एव, अभि- मुद्रित अपि अभितः चिह्नितं च । अभिवेष्टितमिति मुद्रणक्रियाविशेषण वा । अमृषोक्तीनां सत्यवाचां वेदानामित्यर्थः निधि निधानम् । निधेः पाशबन्धभूरन्ध्रनिक्षेपजतुमुद्रादिकं सुप्रसिद्धसित तथैव वर्णितम् ॥

पञ्चमः सर्गः। १३५ अरुणाचलेशमभिवन्द्य किम- प्यवधार्य कार्यमथ हस्तगतम् । तिरयन्नगाद्विजयतूर्यरवैः कलशीभवाधिकरणं ककुभम् ॥ ५४ ॥ अरुणेति ॥ एतादृशम् , अरुणाचलेशं अरुणगिरिनायक परमेश्वरम् । अभिवन्द्य नमस्कृत्य । अथ । कार्य स्वोद्देश्यकार्यम् । हस्तगत करस्थम् । किमपि वहुभिः प्रकारैः । अवधार्य निश्चित्य । कलशीभवाधिकरण अग- स्त्यावासभूताम् । ककुभ दिश दक्षिणां दिशमित्यर्थः । विजयतूर्यरवैः जयभरीध्वनिभिः। तिरयन् आच्छादयन् परिपूरयन्नित्यर्थः। अगात् प्रतस्थ ॥ कदलेक्षुकेरकलमैः स्वदृशो- जनितोपदान् जनपदाभ्युदयान् । अवलोकयन्नतिशयादवनेः कमिता समाश्नुत कवेरसुताम् ॥ ५५ ।। कदलेति ॥अवनेः कमिता अच्युतरायः। कदलैः रम्भावृक्षः, इक्षुभिः, केरैः नालिकेरैः, कलमैः शालिभिश्च । 'कदलश्च कदल्यसौ' इति व्याडिः । खडशोः निजनत्रयोः । जनिता सपादिता उपदा उपायनं यैस्तान् तथा- कान् । जनपदाभ्युदयान् देशसंपा. । अतिशयात् विशेषेण । अवलो- कयन् पश्यन् सन् । कवेरसुता कावरीम् । समाश्नुत प्राप्तवान् । घननालिकेरकदलीवकुल- क्रमुकाटवीजुषि तदीयतटे ।

१३६ अच्युतरायाभ्युदये , पृतनां मुकुन्दनमनाभिमना निखिला न्यवेशयदयं नृपतिः ॥ ५६ ।। घनेति ॥ अयं नृपतिः अच्युतरायः । मुकुन्दनमनाभिमना: श्रीर- गनाथमभिवन्दितुमुत्कण्ठितः सन् । निखिलां पृतनां समस्तमपि सैन्यम् । घना निबिडा या नालिकराणाम् , कदलीनाम् , वकुलानां केसराणाम् , क्रमुकाणां पूगानां च अटवी वन तां जुषते प्राप्नोतीति तस्मिन् । तदी- यतटे कावेरीकूले । न्यवेशयत् स्थापितवान् । पृथुनीतिमार्गपथिकः पृतना- पदवीश्रमापहृति तत्पयासि । कृतमज्जनादिनियमः क्षितिपैः सह कैश्चिदाश्नुत स रङ्गगृहम् ॥ ५७ ।। पृथ्विति ॥ पृथुनीतिमार्गपथिकः महानीतिमार्गगामी । सः अच्युत- रायः । पृतनायाः सेनायाः यः पदवीश्रमःमार्गखेदः तं अपहरति निव- तयतीति तस्मिन् । तत्पयसि कावेरीसलिले । कृतः रचितः मज्जनादि- नियमः स्नानादिकृत्यं येन तथोक्तः सन् । कैश्चित् कतिपयैः । क्षितिपैः राजभिः मह । रङ्गगृहं श्रीरङ्गनाथालयम् । आश्नुत प्राप्तः ।। अपि जागरूकमवने जगता- मधिभोगिभोगमजहत्स्वपनम् । सहजप्रसादमुखचन्द्रतया प्रथयन्तमन्तरिव भक्तमुदम् ॥ ५८ ।। अपीति ॥ पद्यत्रयमेकान्वयम् । जगताम् । अवने पालने । जाग- पञ्चमः सर्गः । रूकं अनिद्राणमपि । अधिभोगिभोगं शेषशरीरे । अजहत् अविमुञ्चत् स्वपनं निद्रा यं तं तथोक्तम् । सहजप्रसाद: नैसर्गिकप्रसन्नतावान् मुख- चन्द्रः वक्वेन्दुः यस्य तस्य भावेन । अन्तः हृदये ( स्थिताम् ) भक्तमुदं भक्तविषयक सन्तोषम् । प्रथयन्तं प्रकटयन्तमिव स्थितम् ॥ स्वपनानुभूतिसुखमीलितयो- रपि चक्षुषोरविरतोल्लासितौ । स्पुटयन्तमिन्दुपुटकिन्यधिपौ करसङ्गवदररथाङ्गमिषात् ॥ ५९ ।। स्वपनेति ॥ चक्षुषोः नेत्रयो । स्वपनानुभूतिसुखेन निद्रानुभवान- न्देन मीलितयोः मपुटिनयोः मतोरपि । करसङ्गवती हस्तस्थिते ये दररथाङ्गे शङ्खचक्रे तन्मिषात् तद्याजेन । इन्दुः चन्द्रः, पुटकिन्यधिपः कमलिनीपतिः सूर्यः एतौ । अविरतोल्लसितौ नित्योदयौ सदा प्रकाशमा- नाविन्यर्थः । स्फुटयन्त सम्यक् प्रदर्शयन्तम् ॥ कलशाम्बुराशिदुहितुः करयो- निजपादपल्लवयुगान्निहितान् । अजहद्विलासकमलां कमला- मिव कल्पयन्तमनमत्स हरिम् ॥ ६०॥ कलशेति ॥ कलशाम्बुराशिदुहितुः क्षीरसागरपुत्र्याः लक्ष्म्याः । करयोः हस्तयोः । निहितात् निक्षिप्तात् । निजपादपल्लवयुगात् स्वकीय- चरणकिसलययुगलात् । कमलां लक्ष्मीम् । अजहन् अमुञ्चत् विलासकमलं लीलारविन्द यां तां तथोक्तामिव । कल्पयन्तं कुर्वाणम् । हरि रङ्गनाथम् । मः अच्युतरायः । अनमत प्रणतवान् ।

१३८ अच्युतरायाभ्युदये मुकुलीकृतेन मुहुरुल्ललना- कलकङ्कणारवकलापवता । शयपद्मकोरकयुगेन शनै- रचितोरुपीडनविधि रमया ॥ ६१ ॥ मुकुलीकृतेनेति ॥ पद्यद्वयमेकान्वयम्। रमया लक्ष्म्या। मुकुलीकृतेन कोशीकृतेन प्रत्येकमूलभागे अधोभागे च निक्षिप्तेनेत्यर्थः।मुहुः अभीक्ष्णम् । उल्ललनया चलनेन कल: मधुरः यः कङ्कणारवः वलयध्वनिः तस्य कलापः सततिः स एव कलापः भूषणं वा अस्यास्तीति तेन । 'कङ्कणारवकलां वहता' इति पाठान्तरम् । शयपद्मकोरकयुगेन हस्तपद्ममुकुलद्वयेन । शनैः मन्द- मन्दम् । रचितः कृतः ऊरुपीडनविधिः ऊरुसंवाहन यस्य तं तादृशम् ॥ अजमव्यपायमजरं जगता- मवनैकतानमनिदानदयम् । अभिवन्द्य कामफलदं धरणे- रधिभूः समारभत गन्तुमितः ॥ ६२ ।। अजमिति ॥ अजम्। अव्यपायम् । अजरम् । जगताम् । अवनैक- तानम् । अनिदानदयम् । कामफलदं हरिम् । अभिवन्ध । धरणे: अधिभूः अच्युतरायः । इतः श्रीरङ्गनगरीतः । गन्तुम् । आरभत । नलिनक्षणांश नरपालमणे क्षितिमण्डले तव किमस्ति समः । अभिगम्य एष हि मयैव विभो रणकर्म राजति न चासमयोः ।। ६३ ।।

पञ्चमः सर्गः। नलिनेति ॥ इद पद्य सलकनृपोक्ति । हे नलिनेक्षणांश विष्णोरंशभूत । 'नाविष्णुः पृथिवीपतिः' इति स्मरणादिति भावः । नरपालमणे राजरत्न । क्षितिमण्डले भूवलये । तव । समः तुल्यः । अस्ति कि नास्त्येवेत्यर्थः । हे विभो हे प्रभो । एषः चेरराजः । मयैव हि मयैव खलु, न तु भवतेत्यर्थः । अभिगम्यः अभियातव्यः । असमयोः अतुल्ययोः भवतः चरराजस्य च द्वयोर्युवयोरित्यर्थः । रणकर्म युद्धक्रिया । न च राजति न शोभते। न कि समयोः' इति पाठान्तरे तु समयोः मम चेरस्य चेति व्याख्ययम् ॥ प्रेम्णः पात्रीकुरुष्व प्रियरमण भुवः प्रेषणादेष दोभ्या नेष्ये प्रेष्यं हि गर्वग्रहिलमिह जवाञ्चेल्लपं चरसीम्नः। प्रस्थाप्येत्युक्तवन्तं सलगनृपसुतं पद्मनाभान्तरङ्गे रङ्गे भक्त्युत्तरङ्गः कति चन दिवसान्स्थातुमैच्छन्महेच्छः ॥ प्रेम्णेति ॥ भुवः प्रियरमण हे भूपते । ( माम् । प्रेषणात प्रस्थापनेन प्रेम्णः भवत्स्नेहस्य । पात्रीकुरुष्व विषयीकुरु । एषः अयमहम् । गर्वग्र. हिलं मदकलुषम् । प्रेष्य भृत्यभूतम् । चेल्लपम् । चरमीनः चेरभूभागात् । जवात् वेगेन । इह भवन्निकटे । दोा भुजाभ्यां भुजबलेनेत्यर्थः । नेष्ये आनेष्यामि । इति एव प्रकारेण । उक्तवन्त कथितवन्तम् । सलगनृपसुत सलगराजपुत्र खस्य स्यालम् । प्रस्थाप्य सप्रेष्य । महेच्छः महाशयः अच्यु- तरायः । भक्त्या उत्तरङ्गः अधिकः परिपूर्णभक्तिरूपनित्यर्थः । पद्मनाभस्य श्रीरङ्गनाथस्य भगवतः पद्मासहायस्य अन्तरङ्गे अन्तरङ्गस्थाने अत्यन्तमभीष्ट इत्यर्थः। रङ्गे श्रीरङ्गनानि दिव्यदेशे । कतिचन दिवसान् कियन्ति चिद्दिनानि कियच्चिरमित्यर्थः । स्थातु वस्तुम् । ऐच्छत् अभिललाष । स्त्रग्धरा वृत्तम् ॥ इति पञ्चमः सर्गः॥ -Kions.

षष्टः सर्गः । प्रहितः पयोधिरशनापतिना सलगेन्द्रसिन्धुरमणेन्दुरयम् । अगमद्विलक्ष्य मधुरां महती- मथ ताम्रपर्ण्यभिहितां सरितम् ॥ १ ॥ प्रहित इति ॥ पयोधिरशनापतिना समुद्रमेखलाया भुवः पत्या अच्यु- तरायेण । प्रहितः प्रेषित । अयम् । सलगेन्द्रः सलगराज एव सिन्धुर- मणः नदीशः समुद्रः तस्य इन्दुः चन्द्र सलगनृपपुत्र इत्यर्थः । महती गुर्वीम् । मधुरां मधुगपुरीम् । विलङ्घय अतिक्रम्य । अथ । ताम्रपर्ण्य- भिहितां 'ताम्रपर्णी' इत्यभिधानवतीम् । सरित नदीम् । अगमत् प्राप्तवान् । पृथुमौक्तिकोपलचयैर्लहरी- भरपाशयन्त्ररभसोच्चलितैः अभितो मृगीशुककुलाक्रमणा- दभिपालितान्तिकमहीकलमाम ॥ २ ॥ पृथ्विति ॥ इदमनन्तरपद्य व पूर्वश्लोकस्थसरितो विशेषणपरम् । अभितः समन्तात् । लहरीभराः ऊर्गातिशया एव पाशयन्त्राणि शिलादि- प्रेरणाय रज्जुनिर्मितानि यन्त्राणि तैः रभसेन वेगेन उच्चलितः विक्षिप्तः । पृथुमौक्तिकोपलचयैः महतां मुक्ताफलानामेव शिलानां समूहैः । मृगीशुक- षष्ठः सर्गः । १४१ कुलाक्रमणात् मीणा शुकानां च समूहस्य आक्रान्तेः। अभिपालिता. राक्षिताः अन्तिकमहीकलमाः संनिकृष्टकेदारशालय: यया ताम । ताम्र- पर्यो मुक्ताफलोदय इति प्रसिद्धम् ॥ समासोक्ति रूपकं च ॥ निबिडोमिकापवनशोधनया नियतं पयःपृषतसेचनतः । शुचिमौक्तिकौघकुसुमप्रकरैः स्वसमागमार्हमुपचारकरीम् ॥ ३ ॥ निबिडेति ॥ निविडानां निरन्तराणा ऊर्मिकापवनानां तरङ्गवाताना शोधनया मार्जनेन, तरङ्गवातकर्तृकावकराद्यपनयननेत्यर्थः । निबिडाना ऊ- र्मिकाणा पवनैः करणः शोधनयेति वा । नियतं निश्चित सम्यगित्यर्थः । पय - पृषतेः : जलबिन्दुभिः सेकतः सेचनात् । शुचीनि निर्मलानि यानि मौक्ति- कानि मुक्ताः तान्येव कुसुमप्रकराः पुष्पविसराः तैश्च । स्वसमागमाई स्वागमनस्यानुगुण यथा तथा । उपचारकरी सत्कारं कुर्वाणाम् । एतादृशी सरितमगमदिति सम्बन्धः ।। अभिशक्य हास्तिककराञ्चलतो निजभञ्जनं निकटभूमिरुहः । प्रतिबिम्बसंपदवलम्बनतः प्रविशन्ति यत्र भयवन्त इव ।। ४ ।। अभिशङ्कयेति ॥ निकटभूमिरुहः आसन्ना वृक्षाः । हास्तिकस्य गज- समूहस्य कराञ्चलतः शुण्डाग्रेण । निजभञ्जन स्वेषां भङ्गम् । आभिशय सशय्य । भयवन्तः भीता इव । प्रतिबिम्बसपदवलम्बनतः प्रतिच्छाया- १४२ अच्युतरायाभ्युदये .. संपत्त्याश्रयणेन प्रतिविम्बव्याजनेति भावः । यत्र यस्यां ताम्रपण्याम । प्रविशन्ति ॥ नभस: प्रसादमवलुण्टयितुं लघु चालिताल्लहरिभोगिमुखान् । अवपातितैः किमभितो वरणै- रनुबिम्बनैः स्फुरति याम्बुमुचाम् ॥ ५ ॥ नभस इति ॥ या ताम्रपर्णी । नभसः आकाशस्य । प्रसादं नै- मल्यम् । अवलुण्टयितु चोरयितुम्। लघु द्रुतम् । चालितात् उपयुक्तात् । लहरिः वीचिरेव भोगिमुख उरगास्यं नाम किचिच्चौर्यसाधनमायुध तस्मात् , तस्य प्रयोगणेत्यर्थः । अभितः समन्तात् । अवपातितः विशकालि- तत्वात्पातितैः। वरणैः कि प्राकाराः किमेने इत्युत्प्रेक्ष्यमाणैः, तद्वत्स्थितैरि- त्यर्थः । अम्बुमुचां मेघानाम् । अनुबिम्बनै प्रतिबिम्बैः । स्फुरति शोभते ॥ सलिलभ्रमाविरतजृम्भिकया तटमृत्तिकाहरणदोहलतः । अपि फेनखण्डसितगण्डतया विवृणोति सत्त्वमिव या विधृतम् ॥ ६ ॥ सलिलेति ॥ सलिलभ्रमः जलावर्त एव अविरता सततप्रवृत्ता जृम्भिका मुखव्यादानं तया । तटमृत्तिकायाः तीरमृदः हरणं कर्षणमेव मृत्तिकायाः आहरण आहारः तत्र दोहलतः अभिलाषेण । फेनखण्डासत- गण्डतया फेनखण्डः डिण्डीरपिण्ड एव सितः शुभ्रः गण्डः कपोलः यस्या- स्तस्या भावेनापि । या ताम्रपर्णी । विधृतं भृतम् । सत्त्वं जन्तुं गर्भमि- षष्ठः सर्गः । १४३ त्यर्थः । विवृणोति प्रकाशयतीव । सत्त्व विधृतमिव विवृणोतीत्यन्वयो वा। गर्भिणीचिह्नानां जृम्भादीनां विद्यमानत्वादियमपि गर्भिणीव भातीति भावः ॥ : अवलोक्य यत्पयसि वारिमुचा- मनुबिम्बमाकलितपङ्कधियः । अवगाहनाय पदमर्पयितुं चकिता भवन्ति मदपेचकिनः ॥ ७ ॥ अवलोक्येति ॥ मदपचकिनः मत्तगजाः। यस्याः ताम्रपाः पयसि जले । वारिमुचां मेघानाम् । अनुबिम्ब प्रतिविम्बम् । अवलोक्य दृष्ट्वा । आकलिता जनिता पतधीः कर्दमवुद्धिः पङ्कभ्रम इत्यर्थः येषां ते तादृशाः सन्तः। अवगाहनाय अवतरणाय मज्जनाय । पद चरणम् । अर्पयितुं निधातुम् । चकिताः भीताः । भवन्ति । भ्रान्तिमान् । अलिनां निशम्य कलगानसुधा- मरविन्दसन्ततिषु कन्दलिताम । प्रमदेन या विवृणुते पुलका- प्रथमानशैवलपलाशमिषात् ॥ ८ ॥ अलिनामिति ॥ या ताम्रपर्णी। अरविन्दसन्ततिषु पद्मखण्डषु । कन्दलितां विवृद्धाम् । अलिनां भृङ्गाणाम् । कलगानसुधां मधुरगानामृतम् । निशम्य श्रुत्वा । प्रथमानशैवलपलाशमिषात् बहिः प्रकटीभवन्तीनां दला- काराणां जलनीलीनां व्याजेन । प्रमदेन सन्तोषेण । पुलकान् रोमाञ्चान् । विवृणुते प्रकाशयति । सापह्नवोत्प्रेक्षा ।।

१४४ अच्युतरायाभ्युदये अधिवारिजातमुखमर्पयितुं मधुपैणनाभितिलकं महितम् । प्रतिबिम्बितधुमणिबिम्बमिषा- द्वहतीव या मुकुरमूर्मिकरे ॥ ९ ॥ अधिवारीति॥या। अधिवारिजातमुख पद्म एव मुख । महित श्रेष्ठम् । मधुपः भ्रमर एव एणनाभितिलकः कस्तूरीविशेषक तम् । अर्पयितु न्य- सितुम् । प्रतिबिम्बितामणिबिम्बार्मिषात् प्रतिफलितसूर्यमण्डलव्याजेन । ऊर्मिकरे तरङ्ग एव हस्ते । मुकुरं दर्पणम् । वहति धारयतीव । रूपकं उत्प्रेक्षा समासोक्तिश्च ॥ पतदुत्पतज्जलपतछुटिका- विहृतिव्यपाहृतनिमेषतया । अभिवृद्धमश्रु किल या भजते मकरन्दबिन्दुमरविन्ददृशि ॥ १० ॥ पतदिति ॥ या। पतन्तः अवतरन्तः उत्पतन्त. उड्डयमानाश्च ये जल पतन्तः जलपक्षिण. त एव गुटिकाः गोलिकाः ताभिः या विहतिः विहार तया व्यपाहृत. निरासितः निमेषः नेत्रस्पन्दः यस्यास्तस्या भावेन । अर- विन्दट्टाश पद्मरूपे नयने । अभिवृद्ध प्रवृद्धम् । अश्रु किल नेत्रजलमिव । मकरन्दबिन्दु मधुकणम् । भजते प्राप्नोति । मकरन्दबिन्दुमेव अश्रु भजते किलेति वा ॥ रूपकं उत्प्रेक्षा च ॥ शरधारयैव बकचामरव- कुटिलोमिचापकुहरोद्गतया ।

षष्ठः सर्गः। १४५ प्रतिकूलभेदनकरी प्रथते स्फुटवाहिनीविलसिता भुवि या ॥ ११ ॥ शरेति ॥ बकः बलाकैव चामरं अस्यास्तीति बकचामरवान् कुटिल: चक्रीकृतश्च यः ऊर्मिचापः तरङ्ग एव धनुः तस्य कुहरात् रन्ध्रात् मध्या- दिति यावत् उद्गतया निर्गतया । शरधारया जलप्रवाहेणैव बाणवणेव, बाणानेणेति वा। प्रतिकूल सर्वस्यापि कूलस्य भेदनकरी भदिका, प्रति- कूलानां शत्रूणां भेदनकरी भेत्री । या ताम्रपर्णी । स्फुट व्यक्त वाहिनी. विलसित नदीविलासः सेनाविलासश्च यस्याः सा तथोक्ता सती । भुवि भूलोके । प्रथते प्रसिद्धा भवति ।। कुटिलभ्रमालिलगुडभ्रमणा- च्छफरीकृपाणशतचालनतः । अवगर्जनान्नरपतेः सुभटा- ननुयाति पत्रिभरणादपि या ॥ १२ ॥ कुटिलेति ॥ या । कुटिलानां वक्राणा मण्डलाकाराणामित्यर्थः भ्रमाणां आवर्तानां आलि. पक्तिरेव लगुडभ्रमणं यष्टिभ्रमण तस्मात् । शर्यः मत्स्यविशेषा एव कृपाणाः खड्डाः तेषां शतस्य चालनतःभ्रमणात्। अवगर्जनात् सलिलध्वनेः सिहनादाच्च । पत्रिणां पक्षिणां बाणानां च भरणात् पोषणात् धारणादपि । नरपतेः राज्ञः । सुभटान् समीचीनान् योधान् । अनुयाति अनुकरोति । उपमा॥ अदसीयरोधसि निवेशमसा- ववकल्प्य दर्पभरितस्य रिपोः । 10 अच्युतरायाभ्युदये व्यसृजद्विमाथकरणाभिमना: पृतनापतिं स पुरतो नृपतिः ॥ १३ ।। अदसीयेति ॥ सः असौ नृपतिः सलगराजकुमारः। अदसीयरोधसि ताम्रपर्णीकूले । निवेशं सेनाधिवेशनम् । अवकल्प्य कृत्वा । दर्पभरितस्य गर्वपूर्णस्य । रिपाः शत्रोः। विमाथकरणे नाशने अभिमनाः उत्कण्ठितः सन् । पुरतः पुरस्तात् । पृतनापति सेनापतिम् । व्यसृजत् प्रेषयामास ॥ अथ निर्ययौ मतिविपर्ययतो गिरिदर्यमेयजयसूर्यरवः । स च सङ्गराय चतुरङ्गबलै- स्तिरयन्दिशस्तिरुवटिक्षितिपः ॥ १४ ॥ अथेति । अथ अनन्तरम् । सः तिरुवटिक्षितिपः तिरुवटिराजश्च । अनन्तशयननृपतीनां 'तिरुवटि' इति बिरुदनाम। गिरिदरीषु पर्वतगुहासु अमेयः मातुमशक्यः जयतूर्यरवः जयभरीध्वनिः यस्य तथोक्तः । चतुरङ्ग- बलैः : रथगजतुरगपदातिरूपैः चतुर्विधैः सैन्यैः । दिशः काष्टाः । तिरयन् आवृण्वानः सन् । सङ्गराय युद्धाय । मतिविपर्ययतः बुद्धिव्यत्यासात् । निर्ययौ निर्गतवान् ॥ उभयो~राजदुरुसैनिकयोः क्षणमन्तरालवसुधा वितता । विहितोऽवकाश इव वीररमा- विबुधीस्वयंवरविहारकृते ॥ १५ ॥ उभयोरिति ॥ उभयोः द्वयोः। उरुसैनिकयोः महतोः सैन्ययोः ।

षष्ठः सर्गः । १४७ . वितता विस्तीर्णा । अन्तरालवसुधा मध्यभूभागः। वीररमा वीरलक्ष्मीः विबुध्यः देवस्त्रियः वरणार्थमागता अप्सरस इत्यर्थः तासां स्वयंवरविहा- रकृते स्वयवरलीलानिमित्तम् । 'स्वयंवरविवाहकृते' इति पाठान्तरम् । विहितः कल्पितः । अवकाश. प्रदेश इव । क्षणम् । व्यराजत् शुशुभे ॥ पृथगासिका पृतनयोः श्रितयो- रवकाशभूरजनि या महती। युतयोमिथो युगपदाक्रमितुं चकितेव सा चरमभागमगात् ॥ १६ ॥ पृथगिति ॥ पृतनयोः उभयोरपि सेनयो । पृथगासिकां पार्थक्ये- नावस्थितिम् । श्रितयोः प्राप्तयोः स्वस्वभागावस्थितयोः सत्योरित्यर्थः । महती विशाला । या । अवकाशभूः मध्यभूमिः। अजनि जाता। सा भूमिः । पृतनयोः । युगपत् एककाले । मिथः परस्परम् । आक्रमितुं प्रधर्षितुम् । युतयोः सगतयोः मत्योः । चकिता भीतेव । चरमभागं पश्चाद्भागम् । अगात् गता। उत्प्रेक्षा॥ अविकुण्ठवेगहयमण्डलिका- खुरषण्डताण्डवितमुण्डशतम् । भुजदण्डकुण्डलितचण्डधनु- इच्युतकाण्डहिण्डितविशुण्डगजम् ॥ १७ ॥ अविकुण्ठेति ॥ इत' पद्यचतुष्टयमेकान्वयम् । एतादृश जन्य अजनिष्टेत्युत्तरेणान्वयः । अविकुण्ठवेगानां अप्रतिबद्धरयाणां हयानां अश्वानां मण्डलिकायां चक्रभ्रमणे खुरषण्डेन शफसमूहेन ताण्डवितानि नर्तितानि दूरतः क्षिप्तानीत्यर्थः मुण्डशतानि मस्तकशतानि यस्मिंस्तत् ।

१४८ अच्युतरायाभ्युदये भुजदण्डै: बाहुदण्डैः कुण्डलितेभ्यः चक्रितेभ्यः आरोपितमौवीं केभ्य इत्यर्थः चण्डेभ्यः क्रूरेभ्यश्च धनुर्यः चापेभ्यः च्युतैः निर्गतैः काण्डः बाणः हि- ण्डिता: दूरतो निरस्ताः विशुण्डाः छिन्नकराः गजाः यस्मिस्तत् तथोक्तम् ॥ मदधन्यसामभवसैन्यकरो- परिनुन्नदन्तविधृतान्यभटम् । शरपातवीतगुणयोधधनु- स्त्वरिताधिरोपितसिराततिकम् ।। १८ ॥ मदेति ॥ मदधन्याः मत्ताः ये सामभवाः गजा. तेषां सैन्येन सेनया तत्समूहनेत्यर्थः करैः शुण्डाभिः उपरिनुनाः ऊर्ध्व क्षिप्ताः दन्तविधृताः दन्तस्यूताश्च अन्यभटाः शत्रुयोधाः यस्मिंस्तत् तादृशम् । शरपातेन बाणपतनेन वीतगुणानि विगतमौर्वाकाणि यानि योधधनूषि भटचापाः तेषु वरित सवेग यथा तथा आधिरोपिता मौर्वीत्वेन उपयोजिता सिरा- तति. नाडीसंततिः यस्मिस्तत् तथोक्तम् ॥ पिशितस्पृहोत्तरलगृध्रगरु- त्पवनप्रबुद्धशरमुग्धभटम् । इतरेतरासिहतवीरकृत- धुचरीकरग्रहपुनःकलहम् ॥ १९ ॥ पिशितेति ॥ पिशितस्पृहया मांसलोभेन उत्तरलानां ऊध्र्व वलतां गृध्राणां पक्षिविशेषाणां गरुत्पवनेन पक्षवातेन प्रबुद्धाः चेतिताः शरमुग्धा पूर्व शरपतनेन मूमिधिगताः भटाः यस्मिंस्तत् तादृशम् । इतरेतरं परस्पर इतरेतरस्य परस्परस्य वा असिना खड्गेन हताः ये वीराः तैः कृतः आरब्धः युचरीकरग्रहे एकस्याः अप्सरसो विवाहविषये पुनः कलहः यस्मिंस्तत् ॥

षष्ठः सर्गः ।
१४९
अविचारितस्वपरयोधमना-
हतजीवमस्थिरजयापजयम् ।
अजनिष्ट जन्यमनयोर्बलयो-
रपि नारदेन यददृष्टचरम् ॥ २० ॥
अविचारितेति ॥ अविचारितस्वपरयोध अनालोचितस्वपक्षपर-
पक्षभटम् । अनादृतजीवं अगणितप्राणम् । अस्थिरौ जयापजयो यस्मि-
स्तत् । जन्यं युद्धम् । अनयोः । बलयोः सैन्ययोः । अजनिष्ट जातम् ।
यत् युद्धम् । नारदेनापि । अदृष्टचरं पूर्व न दृष्टम् ॥
अपरः सरोषमहितेन हतः
पतितोऽपि कुम्भफलकात्करिणः ।
अविलम्बमम्बरचराम्बुजह-
क्कुचकुम्भिकुम्भमवलम्बितवान् ॥ २१ ॥
अपर इति । सरोष कोपेन सह । अहितेन शत्रुणा । हतः। अपरः
शत्रुपक्ष्यः कश्चित् भटः । करिणः गजस्य । कुम्भफलकात् फलकसदृशात्
मस्तकात् । पतितः सन्नपि । अविलम्ब सत्वरम् । अम्बरचराम्बुजदृशः
देवस्त्रियः कुचः स्तन एव कुम्भिकुम्भः गजमस्तकः तम् । अवलम्बित-
वान आश्रितवान् ॥
रिपुणा निकृत्तभुज एव परो
न्यपतत्स्वपातितपराक्रमतः ।
अजहद्धनुः क्षणमधो भ्रमणैः
स भुजो ररक्ष युधि तं शयितम् ॥ २२ ॥

१५० अच्युतरायाभ्युदये रिपुणेति । परः अन्यः कश्चित् । रिपुणा शत्रणा । निकृत्तभुजः छिन्नबाहुः सन्नेव । न्यपतत् पतितवान् । सः भुजः खण्डितो बाहुः । धनुः चापम् । अजहत् अमुञ्चन् सन् । अधः भूमौ । भ्रमणैः वलनैः । युधि युद्धे रणभूमावित्यर्थः । शयित पतितम् । त भटम् । स्वपातितः स्वे- न खण्डितः यः परः शत्रुः तस्य आक्रमतः आक्रमणात् । क्षणम् । ररक्ष पालितवान् । 'स्वपातिपतदाक्रमतः' इति पाठ तु स्वपातिनां पति- तोपरि अवतरता पततां पक्षिणां आक्रमत इति व्याख्येयम् ॥ महतो मदेभशिरसो दलिता- न्मणिभिश्च्युतैः सिकतिले फलके । परदारणात्प्रहरणं ममृणं समराय कोऽपि समशातयत ।। २३ ।। महत इति । कोऽपि वीरः । दलितात् विदारितात् । महतः बृहतः । मदेभशिरसः मत्तगजकुम्भात् । च्युतैः गलितैः। मणिभिः मौक्तिकैः । सिकतिले वालुकावति । फलके चर्मणि । परदारणात् शत्रुखण्डनात् । मसूण कुण्ठितधारम् । प्रहरण आयुधम् । समराय युद्धाय । समशातयत सम्यगुत्तेजितवान् ॥ करकुन्तकोटिदलितात्करिण: क्षतजेन कुम्भफलकारक्षरता । अपरो व्यराजदभितः स्तपितो विहिताभिषेक इव वीरपदे ।। २४ ।। करेति ॥ अपरः अन्यः कश्चित् । करकुन्तकोटिदलितात् हस्तस्थि- तस्य प्रासस्य अग्रेण विदारितात् । करिणः गजस्य । कुम्भफलकात् फलकस- षष्ठः सर्गः । १५१ दृशात् मस्तकात् । कुम्भयुगलादिति पाठान्तरम् । क्षरता प्रवहता। क्षतजेन रक्केन । अभितः समन्तात् सर्वावयवावच्छेदेनेत्यर्थः । स्नपितः मज्जितः सन् । वीरपदे वीरस्थाने । विहितः कृतः अभिषेकः पट्टाभिषेकः यस्य स तथोक्त इव । व्यराजत् राजति स्म ॥ समतासहं शशिकुलेशवलं युधि केरलस्य युगपत्पृतनाम् । ग्रसितुं समैहत मदग्रहिलां प्रलयाम्बुराशिपरिभाविरवम् ॥ २५ ॥ समतेति ॥ समतासह सादृश्यमसहमानं अनुपममित्यर्थः । प्रलया- म्बुराशिपरिभाविरव प्रलयकालसमुद्रतिरस्कारिगर्जित च । शशिकुलेशबल चन्द्रवशाधीशस्याच्युतरायस्य सैन्यम् । युधि युद्धे । मदग्रहिलां दर्पकलु- पाम् । केरलस्य चेरराजस्य । पृतनां सैन्यम् । युगपत् एकदैव । ग्रसितु भक्षयितुं नाशयितुमित्यर्थः । ऐहत चेष्टते स्म इयेष वा ॥ कति चित्करालकरवालिकया कतिचिच्च कुन्तलतया शितया । विशिखैः परे शितमुखैरभव- विभुसेनया विदलिता विमताः ॥ २६ ॥ कतीति ॥ विभुसेनया अच्युतगयसैन्येन । कतिचित् कतिपये । वि- मताः शत्रवः । करालया भयकरया। करवालिकया खड्गेन । विदलिता. खण्डिताः । अभवन् । कति चिच्च । शितया तीक्ष्णया। कुन्तलतया प्रा- सवलया। विदलिताः अभवन् । परे अन्ये केचन । शितमुखैः तीक्ष्णधारैः । विशिखैः बाणैः । विदलिताः अभवन् ।

१५२ अच्युतरायाभ्युदये अवकीर्णकर्णकनकाभरणा हननाजहत्किणगणांसतटाः । करतो विनिर्गलितखड्गधनु:- परिघादिमप्रहरणप्रकराः ॥ २७ ॥ अवकीर्णेति ॥ पद्यद्वयमेकान्वयम् । अवकीर्णानि परितः क्षिप्तानि कर्णकनकाभरणानि कनकमयानि कर्णभूषणानि येषां ते तथोक्ताः । हन- नेन प्रहारेण अजहत्किणगणानि अविगतवणजचिह्नसमूहानि अंसतटानि भुजशिखरप्रदेशाः येषां तथोक्ताः । करतः हस्तेभ्यः । विनिर्गलितानि च्युतानि खड्गः धनुः परिघः लोहबद्धो लगुडभेदः एतदादिमानि प्रहरणानि आयुधानि येषां ते तथोक्ताः । श्लथमौलिवेष्टनदुकूलशिखा- स्तरणे रणे कुणपमुक्छरणे । विपुलांसकूटविगलद्वलया- श्चिरमस्वपन्सपदि चेरभटाः ॥ २८ ॥ श्लथेति ॥ विपुलात् विशालात् अंसकूटात् असशिखरात् विगलत् च्यवमानं वलयं अगदं येषां ते तथोक्ताश्च सन्तः । 'विलसदलयाः' इति पाठान्तरम् । चेरभटाः चेरराजयोधाः । श्लथानां शिथिलबन्धनानां च्यव- मानानां मौलिवेष्टनदुकूलानां उष्णीषभूतक्षौमाणां शिखाः अञ्चलान्येव आस्तरणानि चित्रकम्बलानि यस्मिस्तस्मिन् तथोक्ते । शिखाभिः आस्त- रणं आच्छादन यस्येति वा । कुणपभुजां शवभोजिनां गृध्रगोमायुप्रभृतीनां पिशाचादीनां वा शरणे रक्षितरि गृहे वा । रणे युद्ध । चिरं दीर्घकालम् । अखपन् सुप्तवन्तः मृता इत्यर्थः ॥

षष्ठः सर्गः । १५३ निहतावशिष्टसुभटानुगतो विजयिष्णुसैन्यमधिजन्यममुम् । अभिगम्य चोलपतिनानतवा- नपरावतारममरेन्द्रतरोः ॥ २९ ॥ निहतेति ॥ (चेरराजः) । निहतावशिष्टेः हतशेषैः सुभटेः अनुगतः अनुयातः सन् । अधिजन्यं युद्धे । विजयाणुसैन्य जयशील- सैन्यम् । अमरेन्द्रतरोः कल्पकवृक्षस्य । अपरावतार मूर्त्यन्तरमिव स्थित महावदान्यमित्यर्थः । अमु सलगनृपतिम् । चोलपतिना चोलराजेन सह । अभिगम्य प्राप्य । आनतवान् प्रणतवान् । अयमर्पितस्तव पदाम्बुजयो- रधमः स तिर्वटिरधर्मपरः । इति तं निगद्य समदान्द्विरदा- नुपदीचकार रयगांस्तुरगान् ॥ ३० ॥ अयमिति। अधर्मपर. अधर्मासक्तः। अधमः नीचः । अय सः तिर्वटिः तिरुवटिराजः । तव । पदाम्बुजयोः पादपद्मयोः । आर्पितः त्वां शरण गत इत्यर्थः । इति । त सलगनृपतिसुतम् । निगद्य उक्त्वा । समदान् मत्तान्। द्विरदान् गजान् । रयगान् वेगेन गच्छतः। तुरगान् अश्वांश्च । उपदी- चकार उपायनीकृतवान् । अनुगृह्य नम्रमसुरक्षणतः स्थितिमान्नये तिरुवटिक्षितिपम् ।

अच्युतरायाभ्युदये अपि पाण्ड्यभूपमदसीयपदा- भ्यधिकप्रतिष्ठमतनिष्ट नृपः ॥ ३१ ।। अनुगृह्येति ॥ नये नीतिमार्गे । स्थितिमान् निष्ठावान् । नृपः सलगराजकुमारः। नम्र विनतम्। तिरुवटिक्षितिप तिरुवटिराजम् । असुर- क्षणत प्राणरक्षया । अनुगृह्य । पाण्ड्यभूपं पाण्ड्यराजमपि। अदसीयपदात् तिरुवटिनृपसंबन्धिनः स्थानात् अभ्यधिका प्रतिष्ठा स्थितिः यस्य तम् । अतनिष्ट अकुरुत ॥ शयने शयानमुदधिं समया पदसौरभोर्मिपरिणाहवति । अथ नन्तुमच्युतमगादवने- रधिभूरनन्तशयनाभिमुखम् ॥ ३२ ॥ शयनेति ॥ अथ । अवनेः अधिभूः पृीपतिः। उदधिं समया समुद्रसमीपे । पदानां शब्दानां यत् सौरभ परिमल: सौशब्द्यमिति यावत् तस्य ऊर्मीणां वीचीनां संपत्तीनामित्यर्थ. परिणाहः आभोगः अस्यास्तीति तस्मिन् । शयने आदिशेषे, आदिशेषस्य पतञ्जलिरूपेण शब्दसाधुत्वनि- णायकत्वादिति भावः । शयानम् । अच्युतं पद्मनाभम् । नन्तुं वन्दितुम् । अनन्तशयनाभिमुखं अनन्तशयननामकनगरं अभिमुखीकृत्य तदुद्दिश्ये- त्यर्थः । अगात् गतः । एतावत्पर्यन्त प्रमिताक्षरा वृत्तम् ॥ आवासभूश्चुलकदन्नमहाम्बुराशे- रन्तर्मुखस्य हयरत्नखनिः सुमेषोः ।

षष्ठः सर्गः । १५५ साम्राज्यभूरगरुचन्दनवाटिकाया मार्गेऽजनिष्ट मलयाद्रिरमुष्य दृष्टयोः ॥ ३३ ॥ आवासभूरिति ॥ चुलकदन्नः चुलकप्रमाणकः महाम्बुराशिः महास- मुद्रः यस्य तस्य । 'चुलकितोदमहाम्बुराशेः' इति पाठान्तरम् । अयमेव च पाठः साधीयान् , द्वयसज्दन्नचोरूर्वमान एव विधानात् । चुलकितोदः चुलकीकृतजल: महाम्बुराशिः यस्येति तदा व्याख्येयम् । अन्तर्मुखस्य योगिन. अगस्त्यमहर्षेरित्यर्थ. । आवासभू निवासस्थानम् । सुमेषोः मन्मथ- स्य । हयरत्न अश्वश्रेष्ठः दक्षिणवात स एव रत्न तस्य खनिः आकर दक्षिणा- निलजन्मभूमिरित्यर्थः । अगरूणां कालागरूणां चन्दनानां पटीराणां च वाटिकायाः पङ्क्तेः । साम्राज्यभूः चक्रवर्तित्वस्थानं तदुत्पत्तिसंपत्तिभूमि- रित्यर्थः । मलयादिः मलयपर्वतः। अमुष्य अस्य राजः । दृष्टयोः नयनयोः । मार्गे पथि । अजनिष्ट जातः दृष्ट इत्यर्थः । वसन्ततिलकम् ॥ वीथीष्वम्बुरुहां विहारनिरता विक्षिप्य धूलीभरं ताम्रायां तरलोमिकाविरचितप्रेडोलिकाकेलिकाः । लक्ष्यालक्ष्यरदाः पयःकणमिषाल्लम्बालकाः षट्पदैः सेनाश्रान्तिमपाहरन्ति शिशवः श्रीखण्डशैलानिलाः॥३४॥ वीथीष्विति ॥ शिशवः अर्भकाः । श्रीखण्डशैलानिलाः चन्दनाद्रिस. मीरा: मलयवातपोता इत्यर्थः । 'श्रीगन्धशैल' इति पाठान्तरम् । अ- म्बुरुहां पद्मानाम्। वीीषु पङ्क्तिषु वर्त्मसु च । विहारनिरताः क्रीडासक्ताः सन्तः । धूलीभरं रजःपुजम् । विक्षिप्य विकीर्य । ताम्रायां ताम्रप. ाम् । तरलाभिः चञ्चलाभिः ऊर्मिकाभिः वीचिभिः विरचिता कृता प्रेढोलिकाकोल: डोलाविहारः येषां ते तथोक्ताः । ताम्रायां धूलीभरं .

१५६ अच्युतरायाभ्युदये विक्षिप्येति वा । पय.कणमिषात् जलबिन्दुव्याजेन । लक्ष्यालक्ष्यरदाः दृश्यादृश्यदन्ताः । षट्पदैः भ्रमरैः । लम्बालका: लम्बमानचूर्णकुन्तलाश्च सन्तः । सेनाश्रान्ति सैन्यानां श्रमम् । अपाहरन्ति अपनयन्ति । रूपक परिकरश्च । शार्दूलविक्रीडितं वृत्तम् ॥ मैनाकप्रमुखैमहीधरकुलैमर्माहेन्द्रभीत्याकुलै- मत्वा शोषमपामपाङ्गितचमूराजीरजोमण्डलैः । अभ्युत्थानमिवाचरन्तमसकृत्प्रेङ्घत्तरङ्गच्छला- दद्राक्षीन्निधिमम्भसां स नयनायाम मिमानं किल ॥३५॥ मैनाकेति ॥ सः नृपतिः । अपाङ्गितं दृष्टं चमूराजीरजोमण्डल सैन्य- समूहोत्थापितधूलीपटल येस्तैस्तथोक्तैः । अपा जलानाम् । शोषम् । मत्वा विचार्य । माहेन्द्रभीत्याकुलै: इन्द्रागतेन भयेन व्याकुलैः । मैनाक- प्रमुखैः मैनाकप्रभृतिभिः । महीधरकुलैः पर्वतसमूहैः सह । महीधरकुलै: अपा शोषं मत्वेति वा । असकृत् मुहुर्मुहुः । प्रेडत्तरगच्छलात् चलता तरङ्गाणां व्याजन । अभ्युत्थानं अन्यत्र गमनाय उत्प्लवनम् । आचरन्तं कुर्वाणमिव स्थितम् । नयनायाम दर्शनशक्तिदेय स्वनेत्रवैपुल्यं वा । मिमान किल परिमान्तमिव च स्थितम् । अम्भसां निधि समुद्रम् । अद्राक्षीत् अपश्यत् । “नयनायाम मिमानः किल" इति पाठान्तरम् । उत्प्रेक्षा । शार्दूलविक्रीडितं वृत्तम् ।। इति षष्ठः सर्गः ॥ R ។ ७ " " १० १ १०७ २ १७ ९ ६ परिष्कृतिनिवेदनम् । महाशयानां नैतदाश्चर्यम् , यदमुद्रितस्य ग्रन्थस्य प्रत्यादर्शलखं प्रवर्ध- नादशुद्धीनां तदशुद्धिपरिहारपूर्वक समीचीन पाठमुन्नयतां तदकायत्त- मानसानां व्याख्यातॄणां भूयसा संभवन्ति तत्र तत्राक्षरतः पदतो योजना- तोऽर्थतो भावतो पाठोद्धरणतश्च प्रमादा इति तादृशेऽस्मिन्नच्युतराया- भ्युदयेऽपि तत्र तत्र पतितानि स्खलितानीति । परं तु पुनः परिशील- नायां यानि नाम सांप्रतमस्फुरन् , तानीदानी परिहियन्ते । पुटः. पङ्क्तिः. परिष्कृतम्. पुटः. पड्क्तिः. परिष्कृतम् यत्तमसो १२८ रायण भयार्थिनो अलकृतवता क्रीडा यस्य १३ सिताःसविलासाः प्रत्याकिबलीति चकाः श्चोलपो १३० ङ्कनसीम चौलपःचोलराजः। १३९ चोलपं १३ भूपतिः। १४ चोलपम् । संबन्धिनम् । गाधं १४१ ११ बिन्दुभिः सेचनतः १४४ पतद्दु प्रथमसर्गे, १२ पद्य, यो विधुः विमोहिनी मूर्तिमेत्य सुमनोजनाये- येवमन्वयो वा। द्वितीयसर्गे, १५ पद्ये, व्याख्याने चरित्यनन्तर अप- हायत्यारभ्य बहव इत्यन्तं प्रमादपतितं ततोऽपनेयम् । २६ पद्ये व्याख्याने अनुकर्तुम् । आइतः साभिलाषः । अभूत् । पुत्रदर्शनाय निनिमेषाणि नेत्रसहस्राण्यभिललाषेत्यर्थः” इति व्याख्येयम् । ४० पद्ये “प्रतिबिम्ब- सपदासौ” इति पाठ इदानीमुपलब्धः। “संपदा अशोभि इति यत् । असौ” इति व्याख्येयम् । अशोभीति भावे लुङ् । चतुर्थसर्गे, ३० पद्ये अमुक्तसंशयम्” इति ईक्षतिक्रियाविशेषणं वा। पञ्चमसर्गे, ४१ पये प्रभालिवलयेन 'तिरुवाशि' इति द्रमिडभाषया व्यवह्रियमाणेन प्रभा- वलिमण्डलेन।" इति व्याख्येयम् । षष्ठसर्गे, १५ पये, “ उरुसैनिकयोः महासैन्ययोः । उभयोः तयोर्द्वयोः” इति व्याख्येयम् । " तलस्पर्श १०

No text on this page.

No text on this page.

Achyutaraya Bhyudayam Vol.1

Author
Raajanaatha
Title
Acchchutaraayaa Bhuyadaya Vol.1
File name
Achyutaraya Bhyudayam Vol.1
Text
OCR done
Citation
1907
Published
2006/01/22
Publisher
Vani Vilasa Press,srirangam
Language
Sanskrit
Pages
172
Library
Canegie Mellon Univeristy
Classification
Poetry. Poems. Verse
Keywords
Poetry on on the Achyutaraya one of the Emperor of Never forgetten empire of Viajayanagar Son of Narasimha
DLI number
496594
Barcode
1990020084620.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
n4LQJE8h1Zs
Download PDF

Achyutaraya Bhyudayam Vol.1