Svclrc
Isvasyopanished Asyam
Front matter
No text on this page.
ईशावास्योपनिषदाष्यम्॥ जगद्विख्यातश्रीपरमहंसपरिव्राजAAKOPACK ॥ श्रीः ॥ श्रीकवितार्किकसिंह-सर्वतन्त्रस्वतन्त्र श्रीमन्निगमान्तमहादेशिकविरचितं तयाख्यानं (कोळियालम श्रीमद्रङ्गरामानुजमहादेशिकामाद्वन्दौरचरण- प्राप्तसकलेवेदान्त इस्पर्थेन तन्नादिनिष्मातेन ताणवेन' शिरामाणना- (उत्तमूर्) ति. वीरराघवाचार्येण विरचितम् आचार्यभाष्यतात्पर्य वा P श्रीतञ्जापुरसन्निकृष्टपश्चनदस्थे श्रीनिवासमुद्रणालये मुद्रितम् । मूल्यम्] 1933 [रू१-८-०
Printed at
THE SRINIVASA PRESS
Tiruvadi,
No text on this page.
No text on this page.
No text on this page.
No text on this page.
शोधनिका ॥ अस्य ग्रन्थस्य न केवलं मुद्रणभरम् , किं तु सुहृदि मयि सहज- सौहार्दमात्रेण शोधनिकाशोधनपरिष्करणभरमपि स्वयमूढ्वा सादरं साधु मुद्रितवतां वैदुष्यपक्षपातिनां विद्वद्वरिष्ठानामुद्यानपत्रिकासम्पादकानां प्रा- च्यविद्येश्वराणां मीमांसावानां श्रीमतां श्रीशैलतातयार्यशिरोम- णीनां सविध कृतज्ञतां सुबहु वहता मातृकाधेशमुखसमापतितामशुद्धिमपा- कर्तुमिदं शोधन प्रकाश्यते ॥ पुटः पंक्तिः ३ १ १ १८ १८ प्रगुणिते १८ ९ विशुद्ध १९ ५ सर्वावास्य/सर्व सामान्य १५ विश्वम्पदेन १७ विद्ययाऽमृत २० १० १७ परमसुहृदीति ११ १९ ये के चास्मात् २२ १२ २३ शक्यम् २३ २० २६ १५ मलीमसस्य २७ १६ तावत्सम्बन्ध १५ निर्वाहः २४ अनन्तरभागमति २९ २४ वविनियोजन २ अनुभवजननयो- ११ साधनमनर्थ [ग्य १६ यद्वा तेनति २ परोऽयं ४ बोधनायैवं निर्देश १२ परवशम् , अमु १५ थकले ण्यत्प १४ ४ २३ एवम्पदस्य १ एवम्पदतात्पर्य १२ (विधानं कर्मप- रित्यजेदित्यर्थः ९ पूर्वपक्षसूत्रम् ।
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
आचार्यभाष्यतात्पर्यसमेतम् । ऽन्यथात्वं गच्छत् भोग्यभोक्तरूपं वस्तुजातम् । अतदात्मक चिदपि नास्तीति द्रढयितुं यत्किञ्चेति विशेष्यते । 'इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः क्षेत्र क्षेत्रक्षमेव च ॥' इत्युपबृंहितम् । 'रूढिर्योगमपहरती'ति न्यायादीशोऽत्र रुद्रः स्यात् । सर्वा- पदाभावाच्च । मैवम् । कारणविषयाकाशप्राणादिशब्दवत् रूढे- इ बाधितत्वात् । ‘एको ह वै नारायण आसीन ब्रह्मा नेशानः, नपहतपाप्माऽहमाम नामानि मे घही'त्यादिभिरसर्वकारणत्वेन दिना परमपुरुषतरसारतन्त्र्यभ्रमो ग्राह्यः । इति न्यायादिति । योगा- नापिस्थितिर्हि यौगिकपदेऽवयवविभजनेन प्रत्यवयवशक्तिस्मरणेन भवति । T पाचक इत्यत्र ‘पाकं तु पचिरेवाह कतीरं प्रत्ययोऽप्यक' इत्येवम् । ज्यवीनार्कोपस्थितिस्तु अवयव विभागमन्तरेण समुदायश्रवणमात्रेण भवती- शीघ्रकार्यकरत्वात् रूढिोगमपहरति । अत एव 'रथकारोऽमीना- पीते'त्यत्र जातिविशेष एव रथकार इति रथकाराधिकरणे स्थितमिति । गोऽनेति । नायमीट्शब्दः, कित्वाशशब्दः । ईशावास्यमित्येकं पद- शेनाऽऽवास्यनिति तृतीयातत्पुरुषवृत्तमिति शङ्कितुराशयः । सर्वादीति । : सर्वस्य जगत इत्यादौ सर्वजगदाधुपपदसद्भावेन षष्ठ्यर्थस्य धात्वर्थ न एवान्वयस्य वक्तव्यतया रूढ्यथरुद्रविवक्षणासम्भवन रूढिपरित्याग विश्यकः । न तथेहे ति भावः । एकपदत्वमन्वारुदैव परिहरति मैव- ति । अन्वयासम्भवादेव हि सर्वाद्युपपदस्थले रूढिबाधः । सोऽत्रा- विशिष्ट इति भावः । ननु 'सर्वाणि ह वा इमानि मूतान्याकाशा- व समुपद्यन्ते' 'सर्वाणि ह वा इमानि भूतानि प्राणमेवामिसंविश- 'त्यादौ ह वा इति जगत्कारणस्य प्रसिद्धवन्निर्देशेनानुवादत्वावगमात् पु- वादभूते 'सदेव सोम्यैद'मित्यादौ तद्विलक्षणस्य जगत्कारणत्वं निर्णीतमिति दनुसारणाकाशादिशब्दस्यान्यथा नयनम् । न विहानुवादत्वगमकं कि-
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
आचायभाष्यतात्पर्यसमेतम् । १३ प्राप्तभोगाद्देशेन त्यागस्यैव विधेयत्वात् तेन सहेशावास्यत्वस्यापि विधाने वा- क्यभेदप्रसङ्गात् । अपि चेशावास्यत्वस्यदशब्दार्थविशेषणत्वात् तस्य च यत्किंच जगत्यां जगदिति वाक्यबलेनोद्देश्यत्वेनान्वयस्यव ज्ञातत्वात् तदुद्दे- शेन त्यागविशिष्टभोगविधानेऽपि नोद्देश्यविशेषणस्य वास्यत्वस्य विधिः सम्भ- वति । इदमर्थोद्देशेन वास्यत्वस्य विशिष्टभोगस्य च विघावभ्युपगत पुन- ग्रहोद्देशेनैकत्वसम्मायोर्विधान इव तदवस्थ एव वाक्यभेदः । अतो ब्रह्म- विद्योपक्रमे ईशावास्यत्वस्य विधेयत्वमावश्यकमिति भुञ्जीथा इत्यस्य नेदं कर्म भवितुमर्हति । किं चशावास्यत्वत्यागविशिष्टद्रव्यभोगविधानानन्तरमार्थिक- विधिनेशावास्यत्वविधानं तावत् त्यागस्येवाझतया न भवति । अरुणया गवा क्रीणातीत्यादावारुण्यादेरिव नीलादिव्यावर्तकतयेसरव्यावर्तकतयेशावा- स्यत्वस्याङ्गत्वासम्भवात् । तस्य स्वरूपतः सर्वदा सत्वाच्च नायोगव्यावृत्या- ऽपि विशेषणत्वम् । यत्किं च जगत्यां जगदिति वाक्येन मध्ये व्यवधाना- च पूर्वीपरांशयोर्वाक्यद्वयत्वमेव स्वरसप्रतीतिकम् । ऋलक्षणं च तेषा- मृग्यत्रार्थवशेन पादव्यवस्थेति नैमिनिसृत्रितं प्रत्येकपरिसमाप्तार्थकपाद- बद्धमन्त्रत्वरूपमिह स्वरसतः सम्भवन्न युक्तं हातुम् । तस्माद्वाक्यनयमि- स्येव समुचितम् । त्यक्तेनेत्यस्य गीतोक्तत्रिविधत्यागपरत्वकथनमप्ययुक्तम् । कर्मविष- यो हि स त्यागः । न चेह कर्मत्यज्यमानत्वेन कथ्यते । विविधपरिणामास्पद- स्य चेतनाचेतनात्मनो द्रव्यस्यैव यत्किच जगदित्युक्तयेन तस्यैव त्यागकथ- नात् । ननु स्वकीयेनात्मना स्वकीयैश्चोपकरणैस्स्वयमेवकर्माणिकारयतीत्यनु. संधानबलात्कर्मणीव तत्कर्तृतदुपकरणेष्वपि स त्यागोऽस्तीति गम्यते । एवञ्च कर्मणि त्यागकथने कम्दावपि यथा स उक्त एव भवन्ति तथा द्रव्यत्याग कथने कर्मत्यागोऽपि कथित एवेति । न । वैषम्यात् । कर्म हि प्रधानम्
No text on this page.
No text on this page.
१६ ईशावास्योपनिषद्भाष्यम् । पर्यवसानं चेत्थम् । वस्त्रं हि तिरोधापनीयमझं स्वयमावृत्यैव तिरोधापयति । एवं च तिरोधापकम्य वस्त्रस्याङ्गसम्बन्धावश्यम्भाववत् परब्रह्मयवनिकायमा- नमायामयप्रपञ्चस्य परब्रह्मसम्बन्धावश्यम्भावात् प्रपञ्चान्तर्गतसर्ववस्तुगतं तिरोधापकत्वं परस्य तावत् सम्बन्धमन्तरेणानुपपन्नमिति सिद्धयति जगतस्त. याप्यत्वमिति । अस्तु वा घारणमेव वसधात्वर्थः । अथापि प्रागुक्ता- नुपपत्तिपरिहाराय विलक्षणस्य वस्त्रधारणस्यैव तदर्थत्वमेष्टव्यम् । तथा च यथा वस्त्रं यथेष्टपरिवर्तनादिना कात्सर्येन धारकसम्बन्धमनुभूय घार्यभाव- मनुभवितुमलम् न तथा मूषणादिकमिति कालर्येन स्वसम्बन्धहिंघार- णस्यैव धात्वर्थता कथमपि कल्पनीयति ताशस्य वसधातोरिह प्रयोगेणे- हापि सर्वम्यापीशव्याप्यत्वतद्धार्यत्वयोरभिधानमेवाभिमतमिति निश्चीयते । तत्र धार्यत्वमीट्छब्दार्थनियन्तृत्वेन व्याप्यत्वेन चार्थसिद्धमिति गुरुभूतार्थ- विवक्षायामनौचित्यमाकलय्य व्याप्यत्वमेव पर्यवसायितमिति । एवं वास- यतेधीतोम्रहणेन यथा मृगमदवासितं वस्त्रमित्यादौ सर्वत्र मृगमदसम्बन्धप्र- त्ययः, तद्वदिहापीशावास्यमिति सर्वत्र नियन्तृसम्बन्धप्रत्यय इत्यपि कश्चि- त्रिर्वाहः । 'वासनाद्वासुदेवस्य वासितं ते जगत्त्रयम् । सर्वभूतानिवासोऽसि बासुदेव नमोऽस्तु ते ॥ इत्यत्र तथा दर्शनात् । यद्वा वसतिरेव धातुर्विवक्षितः । यधप्यकर्म- कत्वेन ण्यत्प्रत्ययो न सम्भवति । अत एवासम्भवमालोच्यैवाचार्यपादैर्म- गलश्लोके येनावास्य' मिति सकर्मकत्वसम्पादनायाऽऽडुपसृष्टमुक्तम् ; अथा- प्यन्यथैवैतदुपपत्तिरध्यवसातव्या । अत्राद्वैतिव्याख्याने कचन दृष्टं बाहु- लंकादधिकरणे ण्यत्प्रत्ययाश्रयण नातीवानौचित्यमावहति । आच्छादन!- थकवसधातुपरिग्रहे वा वासयतिपरिग्रहे वा वस्त्रधारणावरन्यत्र तत्प्रयोगा- भावेन नूनं लक्षणैव प्रकृते समाश्रयणीया । तत्र चोपक्रमस्थप्रकृत्यन्य.
No text on this page.
१८ ईशावास्योपनिषद्भाष्यम् । नया ण्यत्प्रत्ययान्तं वास्यपदमित्यपि रम्यम् । यत्पुनरुत्तरवाक्यार्थानुपकारक- त्वायाप्यार्थकत्वं न ग्राह्यमिति ; तत्प्रतिज्ञामात्रम् । पारतन्त्र्यमेव ह्युत्तर वाक्यार्थोपयोगि वक्तव्यमिष्टम् । तदीट्छब्देन नियन्तृत्वकथनादेव सिद्ध- म् । व्याघ्यमित्यात्मत्वोपयोगिव्याप्तिकथनेन शरीरात्मभावसूचनेन सार्वका- लिकं पारतन्त्र्यमपि सिद्धयति । भवदभिमतार्थवर्णन एव पुनर्वस्त्रादितु. त्यत्वप्रतीत्या नातीव तदेकपारतन्त्र्यग्रहः । अतो वस्त्राधपेक्षया देह स्या- त्मानं प्रत्यत्यन्तपारतन्त्र्यसत्त्वेनास्मदर्थ एवात्यन्तमुपकारकः । अत एवा. चार्यपादैः ‘एवं—पारतन्त्र्यबोधमुत्पाद्य- इत्युत्तरधिमवतारितम् । एवं चोपबृंहणविवक्षितार्थान्तरप्रदर्शनाय प्रकृतिप्रत्ययखारस्याविघातेन च णिजन्त- वसधातोः कर्मणि ण्यत्प्रत्ययाश्रयणेन वासनीयमिति भाषितद्वितीयार्थेऽप्यु. तरवाक्यार्थोपकारकत्वमक्षतम् । यद्येतस्यार्थस्यानुपकारकता तार्ह प्रकृत एव भवतैव श्रुतप्रकाशिकासूक्युद्धारेण तदर्धवर्णनावसेर णिजन्ताद्वसते- येत्प्रत्ययः कथङ्कार कथितः । नूनं समनन्तरस्वाभिप्रेतमाप खस्य दूषणा- भिनिवेशतिमिरेण तिरोहितमासीदित्यलम् । यत्पुनः स्वरूपत्यागस्यैव सम्मतत्वेनोपलक्षणतृतीया न घटत इति, तत्रोच्यते । अस्तु नाम तात्कालिकवैशिष्ट्यमेवोपलक्षितत्वमानुशासनिक- मिति । खरूपत्याग एवायं किंरूप इति विचारणीयम् । तेनेति तच्छ- ब्दस्तावत् पूर्वार्धप्रस्तुतं कृत्स्वं जगत्परामृशति । कृत्स्नस्य च स्वरूपतत्यागो न कस्यापि सुकरः । न खल्वाश्रमिणो मौञ्जयजिनगृहक्षेत्रदण्डकमण्डलु. करणकलेबरावशेषमपि त्यक्तुमलं भवन्ति । नो ख ब्रह्मविज्ञानारम्भ एव ते प्रकृतिमण्डलमतिक्रम्य परमपदं परिष्कुर्वन्ति । तथा सति मुचैव 'मा गृधः कस्यस्विद्धनम्' इत्यादय उपरितना उपदेशाः । अतो ब्रह्मविदुष- स्तदनुचितेषु" भोग्यभोगस्थानोपकरणेषु यद्यपि कतिपयेषु स्वरूपतस्त्यागः सम्भवी , अथाप्यशक्यत्यागेषु सर्वेषु विषयेऽनुचितफलेष्वनियोजनरूपत्या- .
आचार्यभाप्यतात्पर्यसमेतम् । गविषयेण स्वस्वामिभावसम्बन्धनैष उपलक्षितः । यत्पुनरस्वं भवति तेना- पि स्वरूपतोऽन्यरूपतो वा त्यक्तेन तदनुभवयोग्यप्रकृतिसम्बन्धवत्तारूपसम्ब- न्धेनोपलक्षित इति न प्रकृतिमण्डले परिभ्रमतो विदुषः प्राकृतप्रपञ्चोपल- क्षितत्वहानिः । ईशोपलक्षितत्वकथनस्य चाऽऽमोक्षमात्मनो भयहेतुसद्भाव- प्रदर्शनेन सदा जागरूकण भवितव्यमित्युपदेशे तात्पर्यम् । निपुणनिरूपणे तु त्यक्तेनेत्यने तात्यन्तिक यागविवक्ष गेऽपि न काऽपि हानिः । त्यक्ततदु- पलक्षितत्वं नाम तत्त्यागेोपलक्षितत्वरूपमेव । त्यागानन्तरं वस्तुवैशि- प्ट्याभावेऽपि त्यागवैशिष्ट्यनात्रेण तथा प्रयोग उपपद्यते । अत एव श्री- मति गीताभाष्ये नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन' इत्यत्र (३-१८)अ- कृतेनात्मदर्शनसाधनेन न कश्चिदनर्थ इति भाषितम् । नद्यकृतत्वादेवा- स्मानमलभमानमात्मदर्शनसाधनानर्थसाधनी भवितुमलम् । अतोऽकरणज- न्यत्वोमव कर्मणि क्तप्रत्ययाश्रयणेनाप्यध्यवसितमित्यभ्युपेत्यम् । अतस्तथा- गोपलक्षितत्वमेव त्यक्त तदुपलक्षितवम् । एवं 'घया हतेन पापेन जीवामि शरदश्शतमि त्यादयः तथा काव्यगताश्च बहुलं प्रयोगा द्रष्टव्याः । 'सविशेषणे हि विधिनिषेत्रौ सति विशेष्ये बाधे विशेषणमुपसंक्रामतः' इति न्यायाच्च विशिष्टोपलक्षितत्वं विशेषणोपलक्षितत्वे पर्यवस्यति । एवं तेनति करणे तृतीयैव । त्यागगतकरणत्वस्य त्यक्ते वस्तुनि पूर्ववत् सुव- चत्वात् । उपलक्षित इति भाषणं तु कादाचित्कं तद्वस्तुसम्बन्धमेव दर्शयति । न त्वित्थंभूतलक्षणतृतीयाभिप्रायकमपि । अतश्च स्वरूपत- स्त्यक्त य पश्चात् कः सम्बन्ध इति विचारो वृथैव | अथापि त्यागी- पलक्षितत्वमानस्य श्रुत्यनिमतत्वे 'तस्य त्यागेन भुन्न था' इत्येव खरस- निर्देशः स्यात् । अन्यया निर्देशात् पुनरभिप्रायान्तरं त्यक्तादार्थेन सह पुंसः कश्चित् सम्बन्धः सप्रयोजन इह वक्तव्य इत्येवंरूपमस्तीत्यालोच्य प्रासम्बन्धोऽपि कश्चिद्दर्शितः । खभूतस्य वस्तुनः खस्वामिभावः, अन्य.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
३० ईशावास्योपनिषद्भाप्यम् । कदाचित् तदयोगस्याप्यभिमतत्वेन तावच्छेदरूपनियमासम्भवात् । न हि विष्णुप्रजापत्यनावोमान्यतमदेवताक उपांशुयाजे कदाचिद्विष्णुदेवत्यत्वायो- गस्य सम्मतत्वे सत्येव विष्णुदेवत्य एवोपांशुयाज इति प्रयुज्यते । अत एवकारार्थो नियमस्तत्रानुपपन्न एव । अत एवैवकारस्तदा 'न तत्करणे किञ्चिद्बाधकमस्ति' इति बाधकाभावप्रदर्शनपरः । न च विद्वत्संन्यासिग- तस्याऽऽयुषोऽमिहोत्रादिकर्मकर्तृसम्बन्धित्यायोगवत्त्वेऽपि विदुषा गृहस्थेन तद- नुष्ठानस्यावश्यकतया त्दाय आयुषि नियमः शक्यापपादन इति शक्यम् । विकल्पासहत्वात् । किमत्र जिजीविषेदित्यत्र गृहस्थस्यैव कर्तृत्वन सम्बन्धः किं वा विद्वत्सामान्यस्य? नायः, तार्ह तेन कर्मणामवश्यानुष्ठेयत्वेन तं प्रति विधानस्यैव युक्तत्वेनानुमतेरसम्भवात् । कर्मविषये करणाकरणयोरुभयोर- भावऽनुमतिकार्यकामचारासिद्धिमाशंक्य गृहस्थेन करणादन्येनाकरणादुभय- सिद्धया सामान्यतो विद्वांसं प्रत्यनुमतिवचनस्य युक्तताया भवतैवोक्तत्वात् । नान्त्यः अगृहस्थस्यायुप्ययोगस्य सद्भावेन तद्व्यवच्छेदरूपनि यमस्य सामा- न्यतः पुरुषायुधे वक्तुमशक्यत्वात् । अतोऽनन्तरसूत्राभिमतानुमतिरूपार्थी- दर्थान्तरपरमवेदं सूत्रम् । एवं नियम परत्वसिद्धो कि पूर्वपक्षिमत इव वचनान्तरविहितकर्मवि. षयकनियममात्रपरत्वमुत नियमविशिष्टकविधिपरत्वमिति विमर्श सिद्धान्ते विद्यार्थतया कर्म विनियोजकवचनान्तराभावेनास्यैव मन्त्रस्य विशिष्टविधिपरत्व- मेष्टव्यम् । न च तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दाने- नत्युपनिपदन्तरवचनात् कर्मप्राप्तिरिति युक्तम् ; स एवं वर्तयन् यावदायुष- मिति वचनान्तरेण नियमस्यापि प्राप्तिसम्भवेन तत्रापि तात्पर्यायोगात् । प्रकृतोपनिषदगम्यत्वं पुनरुभयत्राविशिष्टम् । अतः सिद्धान्त विशिष्ट विधा- नमेव युक्तम् । कर्भमात्र विधानं वा । अहरहरभ्यासाधेयातिशयाया विद्याया रजस्तमेोनिवहणद्वारेणोपकारकाणां कर्मणां यावदायुषं प्रतिबन्धक- - आचायभाप्यतात्पर्यसमेतम् । ३१ सम्भावनयाऽनुष्ठानस्य स्वत एवं सिद्धेः । अविहितस्यापि न्यायसिद्धस्यैव नियमस्यैवकारार्थत्वमबाधितमित्याशयानरेव भाष्यकृद्धिः नियमस्वपक्ष उपपा- दित इति सुवचत्वात् । इदं सर्वमभिप्रेत्य कर्म विधानमिहाचार्यपादैरभाषि । न च सन्न्यासिन आयुषि कथममिहोत्रादिकमनियमसिद्धिरिति शक्यं कर्मपदेना- विशेषेण सन्न्यासिकर्मणोऽपि ग्रहणेन तन्नियमस्य तत्र सिद्धनिष्प्रत्यूहत्वात् । किश्च भवदभिमतानुमतिपरत्वं मन्त्रस्य न सम्भवति । सा हि का- मचाराभ्यनुज्ञा । सा चेहाविशेषात् गृहस्थय त्यादिसर्वाश्रमिणः प्रतोति वक्तव्यम् । न हि ब्रह्मचारिणं विद्वांसं पुरस्कृय त्वया गृहस्थीभूय कर्म वा क्रियतां सन्यासमवलम्ब्य न वा क्रियतामित्युपदेशायैवायं प्रवृत्त इत्य- त्र किंचित् प्रमाणमस्ति । न च भवतोऽपि तदिष्टम् । तथा च गृह- स्थस्य सन्यासिनश्चकैकस्य यावत् कामचारो न सिद्धयति तावन्न ताह- श्या अनुमतेरिह विवक्षा युक्ता । गृहस्थेनावश्यमनुष्ठयत्वात् सन्न्यासिना चाननुष्ठेयत्वान्नास्ति कस्यापि कामचारः । किं तु गृहस्थविषये विधायक- त्वमन्यविषये निषेधकत्वमिति वाक्यस्यैकस्य कृयद्वयमेवापतति । ननु यो गृहस्थो भूत्वा कर्माण्याचरितुं कामयते सेोत्रानुमन्यत इति चत् तर्हि न वानप्रस्थसन्न्यासिनोरिह ग्रहणमिति विद्वत्सामान्यविषयकत्वमिष्टं न सिद्धय- ति । न हि तयोर्गार्हस्थ्यं शक्यमेषितुम् । माकाममिति चेत् तार्ह तयोर्ब्रह्मचारिणश्च विद्याङ्गकर्मावश्यकत्वमनुक्त्वैव विद्यां चाविद्यां चेति तद्वि- षयेऽपि कर्मसमुच्चयवर्णनं कथं घटताम् । न च तत्रापि तदविवक्षा । गृहस्थं प्रत्येवेयमुपनिषदित्यत्र प्रमाणाभावात् । न च तत्रैव तक विधान- मिति युक्तम् । एकस्याविद्यापदस्य गृहस्थीयकर्मविषयेऽनुवादकत्वमन्य- दीयविषये च विधायकत्वामिति वैरूप्यप्रसङ्गात् , विद्यावविद्याया अपि प्राप्तत्वस्यैव युक्तत्वाच्च । उपनिषदन्तरेण तेषां प्राप्तं कर्म तत्र समुच्चीयत इति चेत् गृहस्थस्यापि न किं तदिति वृथैवायं मन्त्रः । अपि च यस्यानुमत्यर्थ-
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
३८ ईशावास्योपनिषद्भाप्यम् । तदा तद्विषयत्वे स्तुतय इति स्तुत्युक्तिरपि न घटते । न हि विद्यां प्रति कि- श्चिदङ्गवचनाद्विद्या स्तुता भवति । न च विधाङ्गकर्मणां लेपकत्वाभावस्य विद्यामाहात्म्यायत्तस्य कथनात् सा स्तुता भवतीति वाच्यम्, तस्य तदाय- तत्वाभावात् । यदि विद्यामाहात्म्यात्तेषामलेपकत्वम् तर्हि विदुषा फलाभिसन्धिपूर्वकं क्रियमाणानामप्यलेपकत्वप्रसङ्गः । तथा च वृष्ट्यन्ना- द्यर्थक्रोधमोऽपि वृथव स्यात् । अथ तल फलाभिसन्धेस्सद्भावेन लेपक- त्वमिति चेताह तत्त्यागादेवालेप इति त्याग एव स्तोतव्यो न विधा । युक्त- तरं चेदं भवतः प्रथममन्त्रस्य त्यागविशेषविधान एवं निर्भरमभिदधानस्य, यत् अनन्तरमन्त्रण प्रथममन्त्रविहितत्यागस्तवनम् । न पुनर्विद्यास्तवनम् । अस्तु तथैवेति चद्धाप्यन्याकोपः । यदि पुनः प्रथमस्य त्यागविधायित्वममं- स्वन्त भाष्यकृतः, तस्यैव स्तवनमभ्यधास्यन्त । अतो ज्ञायते प्र- थमस्यापि भवदभिहितोऽर्थो भाष्यकृदाशयविरुद्ध इति । न च यद्यपि त्यागमाहात्म्यायत्तमेघालेपकत्वं तथाऽपि सेनासम्पादितविजयस्य सार्वभौम इव त्यागरूपाङ्गगतमाहात्म्यस्याङ्गिनि विद्यायामारोपणमनुचितं न भवतीति वाच्यम् । तद्गतमेव माहात्म्यं पुरस्कृय तस्यास्स्तवनसम्भवेन कर्मानुवन्धित्या - गगतस्य महिम्नस्त्यागं तदझिकर्म च विहाय तदमिन्यारोपादिना स्तवनस्या- नुचितत्वात् । न च विदुषैव त्यागः क्रियत इति नियमोऽस्ति । विद्याधि- गमात् प्रागपि ज्ञानयोगकर्मयोगाद्यनुष्ठानावसरे प्रपत्त्यनुष्ठानात् प्राचीनेऽवी- चीने चावसरे सात्त्विकल्यागपुरस्सस्मेब कर्मणामनुष्ठानात् । अतो ना- स्मादलेपकत्वाद्विधास्तुतिर्भवति । किञ्च विद्याकानां कर्मणामलेपकत्वमेव न भवति । यदर्थ तेषामनुष्ठानं तस्य कार्यस्य विधानिष्पादनरूपस्य लेपा- वश्यम्भावात् । न चांग्युपकाररूपेणाङ्गफलेन लेपस्य ध्रौव्येऽपि अनिष्टख- र्गाद्यर्वाचीनफललेपाभावमात्रेण तदुक्तिरिति वाच्यम् । अस्या अपि वाचो- युक्तरर्थस्यानुक्तिसिद्धवेनायोगात ; अनुद्दिष्टफललेपाभावस्य न्यायसिद्धताया.
आचार्यभाप्यतात्पर्यसमेतम् । ३९ , प्रागुक्तत्वात् । न हि पश्वर्थों ज्योतिष्टोमः पुत्रफ पुरुष लिम्पति । अ- तो विदितार्थानुवादाय मन्त्रप्रवृत्तिरयुक्ता । वरच्चेदमपेक्ष्य पूर्वपक्षिसम्मत- स्यैव स्वीकरणम् । तेन हि न कर्भ लिप्यत इतीदं कतिपयकाम्यकर्मस- म्भावितहिंसादर्शनशक्षितपापप्रतिक्षेपार्थत्वेन योजितम् । तल च न हिं- स्यादिति निषेधस्य जागरूकत्वेन विना वचनमपापत्वावगतेरसम्भवेन 'न वा उ एतन्नियसे न रिष्यसि' इतिवदिहाप्युपनिषदि वचनप्रवृत्तिसम्भवात् । सिद्धान्तेऽपि तादृशविघाङ्गकर्मानुष्ठाने तादृशहिसावसरस्यानवगतत्वेन शङ्का- वर्णनसम्भवाच्च । विद्याप्रकरण काम्यकर्मग्रहणासम्भवाद्विघाङ्गग्रहणेऽपि पूर्वपक्ष इवार्थवर्णमस्य सुकरत्वाच्च पुमः पूर्वपक्षा मिस्स्तः , न तु ने कर्म लिप्यत इत्यस्य स्वमते स्वारस्यपर्यालोचनात् । अथ सांख्योक्तरीत्या हिं- सागर्भाणामशुद्धत्वसंभावमायामपि भाप्रदर्शितदिशा तत्रोत्सर्गापवादन्याय- सञ्चारणन पापलेपाभावप्रत्ययसम्भवादयमों न्यायसिद्धो न वक्तव्यः । किश्च कर्माणाति पदेन यावतां ग्रहण तावलु हिंसागर्भकतिपयमात्रग्रहणेना- लेपवचनमपि न खरसम् । अपि च नित्य-काम्य-विद्याङ्गनिखिलप्रयोग- साधारणीयमाशङ्का पूर्व कर्मविधानावसरे एव परिहर्तव्या , न पुर्विद्यायां विशिष्य विनियोजनावसरे । अतो मैतद्वरमिति चेत्-तर्खनयाऽपि प्रक्रि- यया विद्यानग्रहणं न सम्भवतीत्येव सिद्धयति । अतश्च कयाऽपि विध- या चिधास्तुत्यसम्भवादनुमत्युक्त्यसम्भवाच सूत्रस्य विधाङ्गग्रहणविरोंबित्वा- द्वाशब्दार्थावधारणस्थाम्यथा सिद्धत्वाच्च माविशेषादिति सूत्राभिमेतादन्य एक स्तुतय इति सूत्रनिगूढोऽर्थः । कः पुनरसावर्थ इति चेदुच्यते । कर्म हि त्रिविध विहितं प्रति- षिद्धमाबहिमप्रतिषिद्धं चेति । तत्र विहितं नित्यनैमित्तिककाम्यभेदेन त्रि- विधम् । विविधमपि प्रयोगभेदेन विवागमनङ्गं च । काम्य प्रतिषिद्ध छ किंचित् प्रयोगभेदेन बुद्धिपूर्वकमबुद्धिपूर्वकं च । तत्र नित्यनैमितिकयो- ईशावास्योपनिषद्भाप्यम् । विद्यानङ्गत्ववेषेण विदुषि न प्रसक्तिः । काम्यं तु फलमनभिसन्धाय वि- घोद्दशेनेव विद्यौपयिकदृष्ट्यन्नादिफलार्थतयाऽपि क्रियमागतयाऽङ्गभूतमि- वानङ्गभूतमपि सम्भवत्येव । एवं यादृच्छिकसुकृतमप्यवुद्धिपूर्वकम् ; तथा द्विविधं प्रतिषिद्धमपि । तत्र विद्याजभूतानां नित्यनैमितिककाम्यानां वि- घोपकाररूपफललपकत्वमवश्यम्भावि । तथा प्रतिषिद्धेऽपि बुद्धिपूर्वकस्य । तदधिगमाधिकरणे प्रामादिकमात्राश्लेषस्य भाषितत्वात् । विद्यानझं तु का- म्यं यद्यपि वृष्ट्यन्नादिसाधनीभूय लेपकं भवति, तथाऽपि न सर्वम् । कृते- प्वपि कतिपैयेरेव विद्यापक्षितसिद्धावन्येषामश्लेषस्य भाषितत्वात् । तथा च कुर्वन्नेवेत्यत्र यदि बुद्धिपूर्वककृतिरेव विवक्षिता तींशकाम्यमात्राग्रहणम् । यद्यबुद्धिपूर्विकाऽपि सुग्रहा तदा यादृच्छिकसुकृतानामनपेक्षितफलानां प्रा- मादिकानां च प्रतिषिद्धानां सह ग्रहणम् । एतज्जन्यफललेपाभावश्च मा- नान्तरासिद्धो वेदैकसमधिगम्यः, 'तस्यैवात्मा पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेने ति सरूपश्रुताविवेहाप्युच्यते । अयं च विद्यावलायत्त एव । न पुनः पूर्व इव परायत्तः । एषां च कर्मणां विधानासम्भवात्, यदि क्रियेत तावता न भेतव्यमित्यनुमतिरेवेति भवति स्तुत्यनुमत्युपपत्तिः , तुरीयपादखारस्यं च । इदमेव स्वारस्य मनसिकृत्य वाक्यशेष प्रदर्शयन्ति म भाष्यकृतः । अत एवास्मिन् सूत्र कर्मेति केवलमभाषिषत , न पुनर्वि- घाङ्गकर्मेति । अयमेवार्थः अर्थान्तरं च प्रकरणाविरुद्धमित्याचार्यपादैरभा- षि । प्रकरणाविरुद्धमित्यस्यायं भावः-पूर्वपक्ष्यर्थे प्रकरणविरोधोऽस्ति । अ- स्मिन्नर्थे तु पूर्वसूत्राभिमतार्थ इव नाम्ति प्रकरणविरोध इति । अथ वा विद्याङ्गकर्मग्रहणे प्रकरणविरोधः वाक्यशेषासामञ्जस्यात् । एवं यादृशं काम्य- कर्मकरणं पूर्वमेव सिद्धं तादृशमेव कुर्वन्नवेत्यनुवादरूपेण वाक्येन प्रतीयते इत्यप्यत्र द्योतितम् । अस्मिन्नर्थ चास्य मन्त्रस्यावतरणमित्थं भाव्यम् - ननु तेन त्यक्तेनति त्यागोक्तावपि तृतीययोपलक्षितत्वस्याप्ययुक्तत्वात् तेन च आचार्यभाप्यतात्पर्यसमेतम् । “बाशब्दोऽवधारणार्थः। ईशावास्यमिदंसमिति विद्याप्रकरणा- द्विद्यास्तुतये सर्वदा कर्मानुष्ठानानुमतिरियम् । विद्यामाहात्म्यात् सर्वदा कर्म कुर्वनपि न लिप्यते कर्मभिरिति विद्या स्तुता भवति । वाक्यशेषश्चैतदेव दर्शयति एवं त्वयि नान्यथेतोस्ति न कर्म लिप्यते नर"इति । त्वयि ब्रह्मविद्याधिकारिणि एवमेघानुष्ठेयार्थः, इतोन्य- था नास्तीति व्यतिरेकेणोक्तं दृढीकारार्थम् । ननु ब्रह्मविदोपि कर्मा- ब्रह्मविद्योपयोगिवंशेषु तत्तद्वस्तुविनियोजनस्यापि सिद्धनित्यनैमित्तिककाम्येषु यथासम्भवं विनियोजने क्रियमाणे, यदि, विघ्नभूयस्त्वम्रान्त्या प्रबन्धा बहूनि मगलानीव, प्रतिबन्धकभूमानं सम्भाव्य, अप्रयत्नभाविष्वपि वृष्ट्यन्नादिला- भेष्वनवबुद्धय चानन्तानि काम्यानि कुयाम, तथा 'यदेव विद्ययेति ही' त्युक्तरीत्या प्रतिबन्धकप्रवृत्त्या न तदात्य एव कृतानां फलान्यनुभूयरन् तदा 'नामुक्तं क्षीयते कर्मे' ति प्रमाणानुरोधेन फलानुभवस्यावश्यकतया न झटिति विद्याफलप्राप्तिस्स्यात् । तथा यदृच्छासुकृतानि स्वयमापतन्ति बध्नीयुः । एवं मागृधः कस्यास्विद्धनमिति निषिद्धवर्जनस्यावश्यकताविधानात् बुद्धिपूर्वकस्य कथञ्चित् परिहारेऽप्यबुद्धिपूर्वकस्यानन्तस्याऽऽपतितं स्यानुभवा- वश्यम्भाव इत्येवं बिभ्यतः प्रति विद्यामाहास्यमुपदिशत्ययं मन्त्रः । तानि क. मीणि नैव क्रियन्ते चेन्न किञ्चित् । यदि क्रियन्ते अथापि न भेतव्यम् । अनापि पक्षे एवकारस्यायोगव्यवच्छेदोऽर्थः । करणायोगव्यवच्छेदानुमतिः क्रियते । अनुमतिबलात् तुरीयपादबलाच्च बायकाभावज्ञानमिति न भव- दुक्तानुमतिपक्ष इवैवकारस्य तदर्थासम्भवः । अत एव सर्वदा कर्म कु- 'निति भाषितम् । यदि पुनरस्मिन्नपि विद्याङ्गकीण्यपि गृहीत्वा तेषु स्वर्गाधनिष्टलेपकत्वाभावः कथमपि विवक्षितुं शक्यस्तर्हि कामं गृह्यन्ताम् । पूर्वसूत्रे विधाङ्गकर्ममात्रग्रहणम् , इह पुनरन्येषां ग्रहणमावश्यकमित्यर्थभेद एवेत्यत्रैवास्माकं निर्भरः । कस्मादिममर्थमनुसृत्यापि मन्त्रमाचार्या न व्या- 6I - ४२ ईशावास्योपनिषद्भाष्यम् । नुष्ठानभावाद्वन्धस्स्यादित्यत्राह न कर्मलिप्यते नर इति । प्रस्तुते ब्रह्मविवि नरे "अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्" इति विनि. योगपृथक्त्वन्यायेन कर्म न स्वर्गादिफलहेतुर्भवति। विद्यानुपयुक्त. कास्यानां निषिद्धानां च विरक्तेन विवेकिना न बुद्धिपूर्वोपादान- चख्युरिति चेत् पूर्वार्थस्य पूर्वपक्षसत्रोक्तस्य सिद्धान्तेऽस्पष्टत्वेन वक्तव्यत्वात् द्वितीयरीत्या च भाष्यप्रदर्शनेनैव व्याख्याततया वृथा विस्तरवर्जनस्वाभा- व्यान पृथक्प्रायतिषत । अर्थद्वयशेषभूतेन विद्याऽनुपयुक्तत्याद्युत्तरभाष्येण विदुषो वास्तवस्थितिशोधनेन चार्थद्वये ग्राह्यपरिहार्यकर्म विवेचनाचार्थव- जनरीतिः स्फुटेति । अस्मिंश्चाथै न कर्म लिप्यते नर इत्यत्रैव मन्त्रतात्प- र्यात् तदर्थमेव मानान्तरसिद्धस्य कर्मणः पूर्वानानुमन्यमानत्वात् यत्र ता- त्पर्य तदृढीकारस्यैव युक्तत्वेनोत्तरार्धस्य पूर्वशेषत्वाभावात् 'नकर्म लिप्यते' इतीतोऽन्यथा नास्तीति श्रुतप्रकाशिकोक्ता योजना प्राधा । एवमेकान्वयस्य विवक्षितत्वादेव भाष्यवद्भिीक्यशेषश्चैतदेव दर्शयतीत्यनन्तरं कृत्स्नमुत्तरार्ध- मुपातम् न तु न कर्म लिप्यते नर इत्येतन्मात्रम् । अत इह वा- क्यशेषान्तर्भावस्यैवंपदे भाषितत्वादेव तस्य पूर्वाधीन्वयित्वं यत् भवदुक्तं तदप्ययुक्तम् । सर्वमिदमभिप्रेत्य पूर्ण भाष्यमिहाचार्यपादैरुद्धृतम् । कथं तार्ह प्रागसत्यक्षदूषणावसरे श्रुतप्रकाशिकायोजना नाङ्गीकृतति चेत् भव- दीयमन्त्रावतारिकादिपयालोचने पूर्वार्ध एव मन्त्रतात्पर्याभिमतेः स्पष्टत्वात् तस्मिन् पक्षे आचार्यकृतस्वरसयोजनैव ज्यायसीति न योजनान्तरमजीकृतम् । तस्मात् सर्वथा सुयोजेऽस्मिन् भाष्ये यथावस्थितसूत्रभाष्यार्थमनवबुद्धय दूष- णारोपणमत्यन्तमनुत्रितमित्यलमधिकेन । ननु सर्वविधर्मग्रहणमेव फस्मान्न भवतीत्यताह विद्यानुपयुकेति । न रमत इति नरशब्दार्थो विरक्तेनेत्युक्तः । रीङ्क्षय इति धातुपरिमहे क्षयस्य जीवगतस्य ज्ञानसोचरूपखभावविकारात्मकत्वसम्भवेन नर इति त- द्रहितवाचिना विवेकात्मकज्ञानविकासवत्त्वं सुवचमित्यभिप्रेत्य विवेकिनेत्यु- आचार्यभाष्यतात्पर्यसमेतम् । سد संभवः । संभावितानामपि केषांचित् 'नाविरतो दुश्चरितात्' इत्यादिबलात्स्वानुगुणा निष्कृतिस्स्यात् । तदधिगमाधिकरणे तु प्रा- मादिकानामेयाश्लेषः परविद्यावतामपि स्थापितः । ज्ञानाग्निदग्धाधि. कारो विधिनिषेधानधिकारीति पक्षस्तु न वेदवित्संमतः ॥२॥ असुर्या नाम ते लोका अन्धेन तमसा वृताः । तांस्ते प्रेत्याभिगच्छन्ति येकेचात्महनो जनाः ॥ ३ ॥ वक्ष्यमाणविद्यायां-शीघ्र प्रवृत्यर्थमुक्तप्रकारब्रह्मवेदनाविधुरतया वित्ते- षणायोगाच्चान्यथा भवद्भिानानुष्ठानैरात्मघातिनां निरयपातोऽव- श्यम्भावीत्याह असुर्या-जना इति । असुर्याः 'असुरस्य ख'मिति यत् । मासुरप्रकृतीनामनुभाव्या इत्यर्थः । नामेति प्रसिद्धौ । ते नर. कसंशिता भीषणतमा लोकाः सन्ति । पुनस्तान् विशिनष्टि अन्धेन । तम् । यद्यपि न विवेकिना क्रियेत , अथापि यदि कदाचित् क्रियेत तर्हि तदलेपस्य बोधनीयतया कर्मपदेन तद्रहणमावश्यकमित्यत्राह सम्भा- वितानामिति । तर्हि तदविगमाधिकरणविरोध इत्यत्राह तदिति । अ- न्यथा 'नाविरतो दुश्चरितात्' इत्यादिप्रमाणविरोध इति भावः । तथा च प्रथमव्याख्याने नियमेनानुष्ठेयानां विद्याङ्गकर्मणां ग्रहणम्. । द्वितीयव्याख्या- ने च विधोपयुक्तानां काम्यानां ग्रहणमित्युक्तं भवति । बुद्धिपूर्वपदेनाबु- द्धिपूर्वमहणमपि दर्शितम् । अद्वैतिमतमस्यति झानेति ॥२॥ ननु नित्यत्वादात्मनो हन्तिकर्मत्वासम्भवादात्मन इति कथम् ! तनाह आत्महन इति। असन्निति । ब्रह्म वेदेत्येतदसच्चेत् स आत्माऽसन्नेव भवतीति श्रुत्यर्थः । 'ब्रह्मज्ञानाज्ञानाभ्यामात्मनः सद्भावासद्भावौ दर्शयती' त्या- नंदमयाधिकरणभाष्यप्रामाण्यात्. । यद्यपि 'सद्भावासद्भावज्ञानाशकेति त- त्रैव भाषितत्वेन यथाश्रुतेऽप्यर्थे तात्पर्यमवसीयते; अथाप्यसच्छब्दस्य सद्भि- नरूपानीकारेण कोटिद्वयेनात्मविभागस्यैव युक्तत्वात् सत्तद्विरोघ्युदासीन- ?
ईशावास्योपनिषद्भाष्यम् । तमसा वृताः गाढेनान्धकारेण व्याप्ताः । तान् आलोकप्रसङ्गरहिता- न् । ते स्वात्मघातिनः । प्रेत्य तदातनदेहादुत्क्रम्य । अभिगच्छ- न्ति कात्स्न्येन निरन्तर प्राप्नुवन्ति । ये के च देवजातीया मनुष्य- जातीया वा तथा ब्राह्मणक्षत्रियादयोवा आत्महनः 'असन्नेव स भव- ति असब्रह्मेति घेद चेत्' इत्यानातामसत्कल्पता खात्मानं नयन्तः । देहपातमुखेन (यद्वा देहघातमुखेन ।) (देवघातमुखेन पा? ) पातक- वर्गापलक्षणमिदम् । अनार जनिमन्तः संसरन्त इत्यर्थः ॥ ३ ॥ रूपेण त्रेधा विभागविवक्षायामुदासीनानुक्त्या न्यूनताप्रसङ्गात् ब्रह्मसद्भावाज्ञा- निनामप्यात्मक्षमाभावेन संसारित्वावश्यम्भावात् उत्तरभाष्यस्य यथावतप्रती- तानुसारणाप्युपपत्तेश्च पूर्वभाष्यार्थमेवाऽऽद्रियन्ते । असभवेत्येवकारेण कृतां आत्मनि यथाश्रुतासत्त्वाभावेन ब्रझैव भवतीत्यादाविव तुल्यत्वविवक्षा दर्शय- ति असत्कल्पतामिति । स्वरूपविकाराभावेनासव्यपदेशायोगेऽपि स्वभाव- विकारमादाय तव्यपदेशो युज्यत इति न हन्तिप्रयोगायोग इति भावः । देहपातमुखेन पातकवर्गोपलक्षणमिदमिति पाठो दृश्यते । अस्यार्थ:- ननु मन्त्रद्वयेन ब्रह्मवेदनस्य निषिद्धवर्जनस्य कर्मानुष्ठानस्य च प्रापणादुपरि च तेषां समुच्चयस्याणि वर्णनादस्य मन्त्रस्य तत्सामान्याभावप्रयुक्तानर्थवर्णन- परत्व युक्तमित्याशयेन "अन्यथा भवद्भिजीनानुष्ठानै रित्यवतारितत्वात् आ- महन इति पदेन ब्रह्मज्ञानवैधुर्यमात्रोक्तौ न्यूनता प्रसज्यते, विहितवर्जन- निषिद्ध वनरूपविपरीतानुष्ठानस्यानुकत्वात्, तत्राह देहेति । यद्यप्यात्म- शब्दस्य चेतने निरूढत्वात् देहविशिष्टवाचिपदाप्रयोगेणात्मखरूपमात्रग्रहणे खारस्यदर्शनाच्च हनधातास्तदसत्त्वापादनरूपार्थस्यैव युक्तत्वात्तदपेक्षया बहि- रदेहवियोजनरूपार्थपरत्वं न वर्णितम् ; अथाप्यात्मशब्दस्य खवाचित्वानी- कारात्तेन च सममिव्याहृतजनशब्दोक्तदेहिग्रहणात् चेतनवाचित्वेऽध्यावश्यक- स्वपालोचनया वा देहवियोजनरूपार्थस्यापि ग्रहणसम्भवात् देहपातप्रयो- . आचार्यभाष्यतात्पर्यसमेतम् । ४५ अनेजदेकं मनसो जवीयो नैनदेवा आप्नुवन् पूर्वमर्षत् । तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥ , जकोहन्धनब्रह्महत्त्यादिपरत्वस्यापि निश्चयेन तन्मुखेन सुरापानादिपातकब- !ऽप्युपलक्षणीयः । एवञ्चानुष्ठानान्यथाभावस्याप्युक्तत्वात् न पूर्वीपर- सन्दर्भानौचित्यमिति । अथवा आत्महननं हि नाम यथावस्थितात्मस्वरू- पापरिज्ञानम् । देहेन्द्रियादिविलक्षणत्वेन परमात्मनियाम्यत्वेन च तदप- रिज्ञानम् । एवं परमात्मदेहत्वेनास्वतन्त्र जीवे खतन्त्रत्वभ्रमः प्रत्यगात्मदे- हादौ प्रत्यगात्मत्वभ्रमश्चोक्तौ भवतः । तथा च देहात्मभ्रमस्यापि शब्द- तो लामात्तस्यैव ब्रह्महत्त्यादिपातकमूलभूतत्वाच्च तेषां पातकानामप्यर्थत उक्ति- भवति । अतो देहात्मभ्रमोक्तिमुखेन पातकवर्गस्यापि ज्ञापितत्वान्न न्यूनते- ति । एवं सूक्त्यर्थवर्णने क्लेश परिशील्य पक्षान्तरपरत्वे स्वारस्यम् , देह- पातेत्यन स्वालित्यसम्भव हनधात्वर्थानुवादौचित्यं च विमृश्यास्मदाचार्याः 'यद्वा देहघातमुखेन पातकवर्गोपलक्षणमिद' मिति समीचीनं पाठं साधु सं- म्भावयन्ति । 'अनन्दा नाम ते लोका अन्धेन तमसा वृताः । तस्ति प्रेत्याभिगच्छन्ति अविद्वांसोऽबुधो जनाः' इति समानार्थकश्रुतिरपि पौनरु- क्त्यपरिहाराय अविद्वांस इति पदेन ब्रह्मवेदनाभावं अबुध इति विहितनि- षिद्धकरणाकरणौपयिकप्रकृतिविलक्षणात्मखरूपविवेकामावं च वक्तीति, आ- महन इत्यस्य सर्वोपलक्षणत्वं युज्यत एवेति ध्येयम् ॥ ३ ॥ इतःपञ्च मन्त्राः ईशावास्यमिति पदद्वयार्थविवरणपराः । तत्र प्रथमे- वैश्वर्य व्याप्तिश्च वर्ण्यते । तनैश्वर्यप्रतिपादन ऐदम्पर्यम् । द्वितीयेन वास्वमिति प्रकृत्यर्थो व्याप्तिस्सर्व विषयिणी । तृतीयेन तदुभयसिद्धः शरीरात्मभावः । चतुर्थेन तन्निबन्धनत्वं सामानाधिकरण्यस्य ज्ञाप्यते । पञ्चमेन प्रत्ययावग- ताहत्वसूचितमखिलहेयप्रत्यनीकत्वादिकमिति विवेकः ।
ईशावास्योपनिषद्भाष्यम् । सर्वावासत्वेन प्रस्तुतमीश्वरतत्त्वं विरुद्धचदमिलापव्यजितेन विचि. वशक्तियोगेन विशदयति अनेजदेक मनसो जवीय इति । अनेजत् अ- कम्पमानम् । एकं प्रधानभूतम् , स्वानधीनस्वसमानद्वितीयरहित वा । मनसो जकीय: वेमवत्तरमनसोऽप्यतिशयितजवम् । नन्वि- दं न जाघटीति निष्कम्पत्वं वेगवत्तरत्वं चेति ; मैवम्, तात्पर्यवृत्त्या सुघटितत्वात् । सर्वस्य खेन नित्यव्याप्तत्वादनेजत् सर्वदा मनसो गोचरदेशमतिक्रम्य वृत्तमनसो जवीय उपचर्यते । एवमुत्तरेष्वपि एकमित्यस्य मुख्यपरत्वामिप्रायेण प्रधानतममित्यर्थमुक्त्वा स्वसंजा- तीयद्वितीयरहितमित्यर्थमभिप्रेत्य परिष्करोति स्वानधीनखसमानद्वितीय- रहिवं वेति । वस्तुत्वेन सर्वस्य चेतनत्वेन. जीवसामान्यस्य, भोगसाम्येन मुक्तादेः, नित्यनिर्दोषगन्धत्वेन नित्यस्य च स्वसमानत्वात् समानद्वितीयराहि- त्यं न भवतीति स्वानधीनत्वमुक्तम् । स्वानधीनस्सन् यः स्वसमानस्ताह- शद्वितीयरहितमित्यर्थः । अनधीनत्वेन साजात्यं विवक्षितमिति भावः । खानधीनत्वसामानाधिकरण्यखप्रतियोगिकत्वोभयसम्बन्धावच्छिन्नभेदवृत्तित्वा- भाववदिति यावत् । ईश्वरगतभेदवृत्तित्वमुक्तसम्बन्धद्वयेन तस्मादन्यत्र सर्वत्र प्रसिद्धम् । खपदेन सर्वस्येश्वरव्यतिरिक्तस्य परिग्रहः । उपचर्यत. इति । यत्तु कचित्तिष्ठत एवाऽऽकारान्तरण ग्राइनस्तगजेन्द्ररक्षणादौ. मन- सोऽप्यतिशयितवेगेन विप्रकृष्टदेशसम्बन्धयोग्यत्वं जवीयस्त्वमिति ; तदुपे- क्ष्यम् । इह नपुंसकनिर्देशस्वारस्पनात्मतत्त्वस्यैव निरूप्यमाणतया तदीय- विप्रकृष्टदेशसम्बन्धस्य वेगसाध्यत्वाभावात् । विग्रहसम्बद्धस्यैव वेगसाध्यत्वात् 'अपाणिपादो नवनो गृहीता' इति वचनस्यान्ताम्यधिकरणभाष्यं पर- मात्मविषये तत्तदिन्द्रियसाध्यकार्यस्येन्द्रियनिरपेक्षमेव सिद्धेर्निरूपणावसरे उपात्तत्वेन विग्रहसाध्यसम्बन्धपरत्वाभावस्य भाष्याभिप्रेतत्वावगमेन व्यासाय: जवनः झटिति दूरस्थसम्बन्धक्षमः अतो विभुत्वाविरोधः' इत्युक्तत्वेन च आचार्यभाष्यतात्पर्यसमेतम् । ४७ पाक्येषु भाव्यम्। नैनहेवा आप्नुवन् पूर्वमर्षत् प्रागेव सर्वान् प्रा- प्नुवत् देवा हिरण्यगर्भादयो नाप्नुवन् एतावन्तं कालं न लेभिरे । विभुत्वेन नित्यव्याप्तमपि कर्मप्रतिवद्धशानाः क्षेतशा विद्याधिगमात् पूर्व स्वबुद्धया न प्राप्नुवन्तीति न विरोधः। यथोक्तं छान्दोग्ये 'तद्यथा हिरण्यनिधिमक्षेत्रशा उपयुपरि सञ्चरन्तो न विन्देयुः, एवमेवेमाः साः प्रजाः अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति ; अनृतेन हि प्रत्यूढाः' इति । तद्धावतोऽन्यानत्येति तिष्ठत् 'यः पृथिव्यां तिष्ठन्' 'य आत्मनि तिष्ठन्' इत्यादिक्रमेण तत्सर्वत्र तिष्ठदेव धावतो गरुडा- तत्तुल्यरूपस्यास्यापि वचनस्याचार्यपादभाषितार्थपरत्वस्यैव खीकार्यत्वात् । पूर्व निष्कम्पस्य पश्चाजवीयस्त्वाभ्युपगमेऽनेजत्त्वावस्थायामेव जवीयस्त्वस्य श्रुतौ शत्राऽवगतस्य बाघप्रसङ्गात् । तस्यामेवावस्थायामाकारान्तरेण तदुपपादने चैकमिति पदप्रयोगस्य व्यर्थतापत्तेः । एकपदं हि कथमपि व्यक्त्यनेकत्वकल्पनया विरोधपरिहारस्यानभिमतत्वमपि ज्ञापयति ईदृशजवीयस्त्वस्य नित्यमुक्तादिष्वपि वर्णयितुं शक्यत्वेन परमात्मनः सक- लेतरव्यावृत्तत्वालाभाच्च । अत एवंरूप उपचार आवश्यक एवेति । प्रागेवेति । परमात्मतत्त्वं प्रागेव देवानामति । ते तु तत्तदानीमपि नाप्नुवन्तीति वैचिनी । आप्नुवन्निति भूतकालस्य अर्षदिति वर्त- मानकालस्य च निर्देशात् परमात्मकर्तृकप्राप्तिः पश्चात्तनीति भ्रमव्युदा- साय पूर्वमिति । देवकर्तृकाप्राप्तिसमकालमेव परमात्मनः प्राप्तिलाभाया- र्षदिति शतुनिर्देशः । विरोधपरिहारे तु अर्षदिति वर्तमाननिर्देशान्नित्य- प्राप्तिलाभः । पूर्वमिति विद्याधिगमात् पूर्वमित्यर्थ इत्यपि योज्यम् । यत्तु अर्षदित्यस्य प्राप्नुवदित्यर्थ विहाय चरदित्यर्थ विवक्षित्वा देवा इत्य- स्य स्वयं धावन्त इति शेषपूरणेन व्याख्यानम् ; तत् शेषपूरणस्यायुक्तत्वात् पश्चागच्छता पूर्व गच्छतोऽप्राप्तेः सहजत्वेनातिशयव्यञ्जनायावश्यवक्तव्यस्य देवकर्तृकधावनस्य कथञ्चिद्गम्यमानत्वकल्पनानुपपत्तेः , उत्तरवाक्ये तिष्ठतो ईशावास्योपनिषद्भाष्यम् । दीनप्यत्यति यावद्यावद्धावन्ति जविनस्तापतः परस्तादपि वर्तत इ. त्यर्थः । यथोच्यते 'वर्षायुतशतेनापि पक्षिराडिव संपतन् । नैवा- न्तं कारणस्येयाद्यद्यपि स्यान्मनोजव:' इति । अन्येषां क्वचित्तिष्ठतां धावदतिक्रमणं नास्तीति वैचित्री । अन्यदपि किञ्चिदाश्चर्यमित्याह तस्मिन्नपो मातरिश्वा दधातीति । तस्मिन्नवस्थितः अप्प्रतिवन्धानुगु- णकाठिन्यादिरद्वितोऽपिवायुरपो बिभर्ति । सर्वाधारभूतेन सर्वेश्वरेण . ऽपि घावदतिक्रमवर्णनादेव गच्छतस्तदप्राप्तः कैमुत्यसिद्धत्वात् , नाप्नुवन्नि- त्युक्त्या तद्विरोध्याप्तरेव गत्यर्थकऋषिधातुवाच्यत्वस्य युक्तत्वात् , उपस्थि- तत्वेन देवानामेव वा , कर्मविशेषानिर्देशेनाविशेषात्सर्वस्य वा प्राप्तिकर्म त्व- सौलभ्याच नादर्तव्यम् । एवं तृतीयपादस्य देवकर्तृकधावनानन्तरं चिरं तिष्ठदपि प्रागेव धावतो देवानत्येतीत्यर्थवर्णनमपि चिरमित्यादि पदाध्याहार- प्रसङ्गात् तिष्ठत्वावस्थायामेव घावदतिक्रमस्य श्रुत्याऽवगम्यमानस्य बाधप्रस- ङ्गादिपूर्वोक्तदोषाच्चायुक्तमेव । अप्प्रतिबन्धेति । अपां प्रतिबन्धेत्यर्थः । इदं च काठिन्यादिराहित्यं मातरिश्वेति पदलब्धम् । मातरि निरालम्बे व्याम्नि श्वयति गच्छतीति तदर्थात् । न हि काठिन्यगौरवसद्भावे तत्र ग- मनमुपपद्यत इति । यत्त्विह अप इति ब्रह्माण्डाधार-तदावरण-कारणजल- ग्रहणम् ; तदपि न युज्यते । आवरणजलस्य तदावरणाग्न्यावरणेन वायुना प्रियमाणत्वे प्रमाणाभावात् । यथा हि जलजन्यत्वेऽपि पृथिव्याः न जले. नान्तः प्रविश्य धार्यमाणत्वम् , तथैव हि वायुना जलस्यापीति । न च वायुः समनन्तरावरणभूतः येनानन्तःप्रवेशेऽपि धारकत्वं स्यात् । अग्नि- रेव ह्यनन्तरः । साक्षाद्धारकांग्रहणेन परम्परया धारकस्य ग्रहणं चानुपप- नम् । एकतो ब्रह्माण्डप्रतिबद्धस्यान्यतोऽभिपरीतस्य चावरणजलस्य किम- . घारकान्तरापेक्षा । अथ कथमपि ब्रह्माण्डान्तर्गतस्य जलस्य वायुधार्य- त्वदर्शनेन युक्त्या कल्प्येत , तपेक्षित-सन्निहित-दृश्यमानबाष्पपयोधरादि- आचार्यभाष्यतात्पर्यसमेतम् ।। ४९ विधृतः स मातरिश्या तच्छक्क्यैव पाथ पयोधरनक्षत्रग्रहतारका- दिकं विमर्तीत्युक्तं भवति । स्मर्यते हि 'धौः सचन्द्रार्कनक्षत्रं खं दिशो भूर्महोदधिः । वासुदेवस्य वीर्येण विधृतानि महात्मनः।' इति ॥ ४ ॥ .. तदेजति तदु नैनति तद्रे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५ ॥ अनेजदेकं मनसो जवीय इत्युक्तमर्थमादरान्मुखान्तरेणानुशास्ति तदेजति तदु नैजतीति । तत् व्याप्तं तत्त्वं पूर्वोकप्रकारेण जवीय' स्त्वादिना एजति कम्पते कम्पत इवेत्यर्थः । तदु नैजति तदेव वस्तुवृत्त्या न कम्पते । तदूरे तद्वन्तिके तदूरेऽन्तिके च वर्तते। मूढप्रतिबुद्धपुरुषभेदापेक्षया विमोरेव दूरान्तिकवर्तित्वव्यपदेशः । यथाऽऽह शौनकः , 'पराङ्मुखानां गोविन्दे विषयासक्तचेतसाम् । तेषां तत्परमं ब्रह्म दूरा दूरतरे स्थितम् ॥ तन्मयत्वेन गोविन्दे ये नरा न्यस्तचेतसः । विषयत्यागिनस्तेषां विक्षेयं च तदन्तिके' इति । केचित् पदार्थाः कस्यचिदन्तर्भवन्ति, न बहिः । केचित् बहिर्भव- न्ति , नान्तः । तदुभयव्यावृत्तिमाह तदन्तरस्य सर्वस्य तदु सर्व- स्यास्य वाह्यत इति । तत् सर्वव्याप्तमुक्तं परं ब्रह्म अस्य विचित्रचि- पयोग्रहणमेव युक्तम् । अविशेषातु प्रामाणिकत्व तस्यापि ग्रहणं स्वय- मेव सिद्धयतीति । एवं सकलजलग्रहणे च वायुधार्यत्वाविशेषादन्योपलक्षणत्व- मपि युक्तमेवेत्याशयेनाह पाथम्पयोधर नक्षन्नेति ॥ ४ ॥ एजनं कम्पनम् । तच्च चलनं वाऽनेकदिगवच्छेदेन वस्तुन आ- वृत्तस्संयोगो वा । न च तत् सर्वत्रनित्यसंयुक्ते परमात्मनि संभवति, अत आह कम्पत इवेति । कम्पनस्थल इव संबन्धमात्रसद्भावेन तथा प्रयोग इति भावः । न च विग्रहविशिष्टवेषेण तदुपपत्तिरिति वाच्यम् । तथापि विग्रह एव तद्विश्रान्तरात्मस्वरूपे तदमावात् । केवलात्मस्वरूपस्यैव प्रतिपादन- प्रकरणात्, पूर्वमन्त्रोक्तदिशोपचारस्यैव युक्तत्वात् , तद्दरे तदन्तिक इत्यत्र HT . ईशावास्योपनिषद्भाष्यम् । दचिद्रूपेण प्रमाणसिद्धस्य सर्वस्य वस्तुनः । अन्तर्भवति अप्रतिधा- तादविभकदेशं धर्तत इत्यर्थः । तदेव सर्वस्यास्य बहिरपि भव. ति परिमितानां पदार्थानां भावदेश इवाभावदेशेऽपि वर्तत इति यावत् । तदेतद्यकमुक्तं तैत्तिरीये सर्वपरविद्योपास्यविशेषनिर्धार- णार्थे 'सहस्रशीर्ष' मित्यनुषाके, 'यञ्च किञ्चिजगत्यस्मिन् दृश्यते श्रूयतेऽपि वा। अन्तर्बहिश्च तत्सं व्याप्य नारायण स्थितः' इति ॥ दुर्घहत्वसुमहत्वरूपौपचारिकार्थस्य संप्रतिपन्नत्वेनाविशेषाच्च । अविभक्कदेश- मिति । तथा च वस्तु यदेशेस्ति तद्देशावच्छिन्नतत्संबन्धित्वमेव वस्त्वन्तर्वति त्वमित्यर्थः । अत्र यदाचार्यपादनिष्कृष्टमन्ताप्तिप्रकार बहिर्याप्तेः परि- मितद्रव्यमानविषयकत्वं च विषयीकृत्य विशेषतो दूषणं अन्यादृशार्थस्थापन च, तत्सर्व सत्तर्कप्रमाणसंप्रदायव्युत्पादनेन सम्यगत्र प्रतिक्षिपामः । यतावदादरै अन्तःपदस्थाणुद्रव्यविषयेऽविभक्तदेशकत्वरूपोर्थः अन्यत्र तु यथाश्रुत एवेत्यर्थद्वयपरत्वकल्पनं न संभवति । अत्र सर्वस्येत्येक- स्यैव पदस्याणुतदितरसर्वद्रव्योपस्थापकत्वात्तावदन्वय्येकरूपार्थस्यैव वक्तव्य - त्वादित्युक्तम् , नायमाचार्याणामुपालम्मः, तैरविमक्तदेशकत्वरूपैविधार्थ- स्यैव भाषितत्वात् । अन्यः पुनरर्थों यद्यपि न प्रकृतश्रुत्यर्थः अथापि सद्भाव- मात्रेण कचित्कचिदुच्यतेति किमत्र हीयत इति । एतेनाणुविषये विवक्षि- तस्यैवार्थस्य तदितरसाधारणत्वेन तेष्वर्थान्तरवर्णनमनावश्यकमित्यनन्तरोक्त- मप्यनवकाशम् । अर्थद्वयस्याभाषितत्वात् । यत्पुनरविभक्तदेशतया वर्तमानत्वमनवच्छिन्नवृत्तिमत्त्वपर्यवसन्नं तत्त- द्वस्तुसंबन्धिसर्वप्रदेशसम्बन्धित्वमेवेति तावतः तदन्तरस्य सर्वस्ये त्यनेनैवलामे 'तदु सर्वस्य बाबत' इति व्यर्थम् । वाक्यद्वयकार्यस्य सर्वप्रदेशसम्बन्धित्वा- वगमस्यैफेनैव सिद्धत्वादिति ; तन्न । स्फटिकान्त स्करस्य प्रभा प्रसरती- त्यादौ स्फटिकस्य यावद्देशसम्बन्धस्तावद्देशावच्छेदेन प्रभाप्रसर इत्यस्यानव- गम्यमानत्वात्, स्फटिकसम्बन्धिकिञ्चिद्देशावच्छेदेन प्रभासम्बन्धेऽपि तथा आचार्यभाष्यतात्पर्यसमेतम् । ५१ व्यवहारात् सर्वप्रदेशसम्बन्धित्वलामस्यान्तःपदमात्रेणासिद्धः । अथ भाव- देशे क्वचित्सम्बन्धेनाप्यन्तःपदोपपत्तावपि बहिःपदस्याभावदेशपरत्वेन भावदेशे सर्वत्रः तत्सत्तारूपाभीष्टार्थसिद्धयेऽन्तःपदस्य तावत्तात्पर्य कल्पनीयमिति सर्वप्रदेशसम्बन्धित्वलाभ इति चेत् तर्हि भावदेशातिरिक्तेऽभावदेशेऽपि सद्भा- वबोधकबाहःपदबलोदव, 'बाहिरपि विद्यमानस्य कथमन्तःसर्वत्राविद्यमान- त्व'मिति युक्त्या कथमपि सर्वप्रदेशसम्बन्धित्वं कल्पनीयमितीदृशार्थज्ञाप- कल्यादेव न तद्वाक्यवैयर्थ्यम् । वस्तुतो मावदेशे सर्वत्र वृत्तेरन्तःपदेन लामेष्यभावदेशस्तित्वस्यालाभात्तदर्थतेवः बाहःपदस्य स्वीकृताऽसाभिः । न तु तत्तत्पदार्थबहिरवयवपरतेति न वैयर्यप्रसङ्गः इति नूनं स्वपक्षवासनया परपक्षविस्मरणेन च संपतितमिदं दूषणम् । न च सर्वस्येति सर्वपदार्थप्र. हणात् सर्वपदार्थभावदेशवृत्तित्वस्यान्तःपदेनावगतावेकैकवस्तुभावदेशे तद- भावदेशे च वृत्तर्विदितत्वान्न तद्वाक्यमावश्यकमिति वाच्यम् ; भवन्मतेऽपि वैयर्थ्यध्रौव्यात् । 'अन्तरस्य सर्वस्ये त्यनेन हि सर्वपदार्थीयान्तरवयवसम्ब- न्धोऽवगतः । न हि घटस्यान्तर्विधमानः पदार्थ एकस्तदुपरिभागेन सम्ब- न्धमलब्ध्वैवान्येन कुड्यादिना सम्बन्धुमलम् । अत एकपदार्थान्तस्संबन्धि वस्तु तं परितः स्थितेषु पदार्थेष्वन्तःसम्बन्धलाभाय तस्य बाहरपि सर्वत्र संबन्ध लमत इति युक्त्यैव सिद्ध उत्तरवाक्यार्थ इति । न च जगत्सी- मान्तमागे विद्यमानस्यार्थस्यानन्तरं कस्यचिदभावेन तदीयसर्वबाहरवयवस- बन्धः कथं लभ्यतेति शक्यम् । प्रकृतेरघः परिच्छेदस्य नित्यविभूतरूवं- परिच्छेदस्य चानङ्गीकारेण सीमान्तमागस्यैवामावेन सर्वस्यापि प्राकृतस्या- प्राकृतस्य वा पदार्थस्य समनन्तरपदार्थान्तरवैशिष्ट्यनियमात् । अन्यथा तादृशपदार्थीयावयवस्य कस्यापि बाहिश्शब्दवाच्यत्वासंभवस्य • वक्ष्यमाण- त्वेन तथा सार्थक्यवर्णनासंभवाच्च । अथ युक्त्या सिद्धयतोऽपि स्पष्टप्रति- ५२ ईशावास्योपनिषद्भाष्यम् । . . पत्त्यर्थमुक्तियुज्यत इति चेत्तुल्यम् । अन्तःपदेन सर्वान्तरवयवग्रहणस्य वहिःपदं गमकमिति तत्सार्थक्यमिति चेत् तदपि तुल्यमेव । आचार्यपादा- भिमतयोजनास्वीकारे तु परमात्मापेक्षया सर्वस्य न्यूनपरिमाणकत्वमपि स्प- टीक्रियते, न भवन्मत इति विशेषः । अन्यच्च बहु वक्ष्यते । यदपि कतिपयद्रव्येष्वन्तप्तेः कतिपयद्रव्येषु बहिप्तेिश्चासमवं मत्वा तर्कबलेन खरसावगतसर्वव्यान्तर्बहियाप्तिपरित्यजनमयुक्तमेव । न हि वचनविरोधे न्यायःप्रभवतीति न्यायादिति । तदपि भवदभिमतान्ताप्तेरस्म- द्रोत्या क्वचिदसंभवेप्यस्मदभिमतायास्तस्यास्साधारण्येन तद्विषये संकोचा- भावात् , वचनयोविरोधे प्रबलवचनानुरोधेन दुर्बलवचनस्यान्यथैव नेयत्वस्यो- त्सर्गापवादादिस्थलेषु संप्रतिपन्नत्वेन वक्ष्यमाणतथाविधश्रत्याश्रितन्यायस्य प्रबलत्वाच्च पराहतम् । अत एव, अन्तर्बहिश्च तत्सर्वमिति वचनमपि न साधकम् । तदपि विवरिष्यते । यदपि य आत्मनि तिष्ठन्नात्मनान्तरो यमात्मा न वेद यस्यामा शरीर य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृत' इति श्रुतिरन्तप्तौ प्रमाणम्; आत्मनोन्तर इति विस्पष्टमुक्तत्वात् । आत्मनि तिष्ठन्नित्यनेनैव बाह- स्स्थितरुक्तत्वेन तदर्थत्वकल्पनाऽसंभवात् । शरीरशरीरिंभावस्योक्तत्वेनान्तः प्रवेशानङ्गीकारे तदसंभवप्रसङ्गात् । न हि राज्ञो राष्टं शरीरामति । तदपि न; अस्मदभिमतान्तवर्तित्वस्यैव सुवचत्वात् , शरीरात्मभावस्य पौन- रुक्त्यपरिहारस्य च तत एव सिद्धेः । यत्तु राज्ञो राष्टं शरीरं स्यादिति, तद्भवत्पक्ष एव । राष्ट्रान्तरेव राज्ञस्सद्भावात् । न खलु स राष्टादहिय किमप्यरण्यमन्यराज्यं वा प्रविष्टः । अस्माकं पुना राष्टस्य यावद्देशावच्छदेन सद्भावस्तावद्देशावच्छेदेन राज्ञसंबन्धाभावान्मृतद्रव्यत्वेनैकमदेशावच्छेदेनापि संबन्धायोगाच्च नैतदापादनमवसरं लभते आचार्यभाष्यतात्पर्यसमेतम् । यदपि व्यासायवचनद्वयमुपातम्- 'आत्मनि तिष्ठन्नित्युक्ते वेद्याम- मिस्तिष्ठति, तिले तैलं तिष्ठतीतिवद्वहिरबहिस्स्थितिसाधारण्यात् तद्वैशद्यार्थमाह आत्मनोऽन्तर इतीति, 'अन्तःप्रविष्टश्शास्तेत्येतत् सर्वात्मशब्दव्याल्यानरूप'- मिति च ; तदप्यसाधकम्, विपरीतसाधकं च । अस्मदिष्टार्थस्यैव तत्र वर्णि- तत्वात् । अर्थश्चैवम् --मूतले घटस्तिष्ठति, वेद्याममिः, वृक्षाग्रे श्येन इत्यादौ तत्तदधिकरणं यत्प्रदेशावच्छेदेनास्ति तद्देशावच्छेदेनासंबध्य तस्मात्परत एवं स्थितमाघेयमवगम्यते । तिले तैलं तिष्ठतीत्यत्र तु यद्देशावच्छेदेन तिलस्य सद्भावः, तद्देशावच्छेदेनैव सौक्ष्म्यविशेषेण तैलं तिलसम्बन्धमनुमवतीति, तिले बाह्याभ्यन्तरसर्वावयवावच्छेदेन तैलसद्भावात् । तत्रात्मनि परमात्म- संबन्धः किं आत्मनः परस्तादेव स्थितस्य केवलमात्मना संबन्धरूपः, उता- त्माऽणुरपि यद्देशावच्छेदेनास्ति तद्देशावच्छेदेनैवाप्रतिहन्यमानतया संबन्ध- रूप इति विचिकित्सा आत्मनि तिष्ठन्नित्यतावता न शाम्यति । अविशेषा- दुभयविघस्थित्यङ्गीकारसंभवेऽपि विशदमनवगम्यमानत्वात् । अत आत्म- नोऽन्तर इत्यनेन तद्वैशधं क्रियत इति । यदि पुनरात्मनामन्तरवयवसद्भाव व्यासायर्या अमंस्यन्त तर्हि बहिरबहिरित्यनुक्त्वाऽन्यथैवावर्णयिष्यन् । अत आत्मनि तिष्ठन्नात्मनोऽन्तर इति भावाभावदेशपरमित्येव प्रथमवचनतात्पर्यम् । एतेन द्वितीयमपि वचनं नियूंढम् । अत्र जनानामित्यनेन न तावत्केवल- देहग्रहणं संभवति, तस्य तत्राप्रसिद्धत्वात् । अतो देहभृतामेव ग्रहणम् । तत्र किमन्तःशब्देन तदीयदेहान्तरवयवभूतहृद्रूपदेशो गृह्यते किं वाऽs त्मनामेव कश्चिदन्तरवयवः । आधे, न काचिदस्माकं क्षतिः । अन्त्ये तु सूक्तिविरोधः । व्यासायैरेव हि 'अन्तःप्रविश्य नियाम्यत्वं हि शरीरत्वं, अन्तः- प्रवेशशास्तिभ्यां नृपगगनव्यावृत्ति' रित्युक्तम् । यदि पुनरन्तःप्रवेशं भव- दभिमतमभिसमधास्यन्त, न तर्हि नियाम्यत्वदलस्य गगनव्यावृत्त्यर्थता- ५४ ईशावास्योपनिषद्भाष्यम् । . मभ्यधास्यन्त ; गगने तादृशान्तःप्रवेशाभावनातिन्योप्तरेवाप्रसक्तेः । न हि प्रकृतितोऽपि सूक्ष्मस्यात्मनोन्तरवयवे प्रकृतित एव स्थूलस्य गगनस्य संब- न्यः शक्यवर्णनः । एवमन्तःप्रवेशेन नृपव्यावृतिकथनमपि भवदुक्तान्तः- प्रवेशस्य विवक्षितत्वे, न युज्यते । राज्ञो राष्ट्रान्तरेव विद्यमानत्वेन पुनरप्य- तिन्याप्तितादवस्थ्यात् । अस्माकं तु तदवच्छिादेशसंबन्धित्वस्यान्तःप्रवेश- पदार्थत्वान्न दोष इति । । यदपि यचकिश्चिदिति श्रुतिप्रतिपन्नान्तवहिप्प्त्युपपादनाय प्रवृ. तया' 'अणोरणीयान्महतो महीयानि तिः श्रुत्याऽणुष्वप्यन्ताप्तर्विभुष्वपि बहिर्व्याप्तेश्च प्रयोजकाकारकथनातदेष्टन्ममिति तदपि न ; अस्या:श्रतेर्यच्च- किश्चिदिति श्रुत्यर्थनिरूपणैदम्पर्यादर्शनात् । अणोरितिः श्रुतिर्हि तैत्तिरीये दशमेऽनुवाके कठोपनिषदि च भूयते । यच्चेति श्रुतिश्च तैत्तिरीय एका- देशेऽनुवाके । तत्कथं यञ्चति श्रुत्यर्थप्रतिपादनायास्याः प्रतृत्तिरिति । भव- द्वाक्यं हि खरसतो यच्चेति श्रुतिसमनन्तरश्रयमाणतामणरित्यस्या दर्शयति । नैवमस्तीत्युक्तम् । अथ व्याप्तिर्यच किञ्चेत्युच्यते,व्याप्तिप्रयोजक आकारश्चा- तोच्यत इत्येतावदेव विवक्षितमिति तत्रापि ब्रमः । अत्राणीयश्शब्दो नाणु- तस्परिमाणपरः, परस्य महत्त्वपरिमाणवत्ताया अणुत्वव्यपदेशस्यौपाधिकता- याश्च बहुमूत्रसिद्धत्वात् । अतस्सूक्ष्मतरपरः । अत एव ततसौक्ष्म्याति- शयावधिसमर्षकममोरित्यपि सूक्ष्मपरम् । सत्र च सौक्ष्म्यं यद्यन्तर्वतित्व- रूपम् , तर्धन्तरवयववत्तया मानान्तरसिद्धं जीवातिरिक्तमेव वस्त्वणुपदं ग्रहीष्यत्ति । वस्तुतस्तु नान्तवर्तित्वरूपं सूक्ष्मत्वम् ; तत्रैव तस्य रूढत्वे प्रमाणाभावात् , येनागीयश्शब्दस्याप्यतिशयितान्तवर्तित्वविशिष्टपरतयाऽणो- रस्त प्रदेशस्सिद्धयेत् । अन्यथापि सौम्यशब्दार्थवर्णनसंभवात् किश्चैव भव- न्मते पणालावधि वर्षस्य बातोऽपायस्त्वपसंगः, परमात्मनो जगदन्त- आचार्यभाष्यतात्पर्यसमेतम् । ५५ तित्वस्येव तस्यापि तदन्तर्वतित्वस्याभ्युपगतत्वात् । परमात्मान्तरन्येषां दायत्ततयैव स्थितिश्च श्रुत्यादिप्रमाणबलेनैव दुरसहवे' ति खल्वभिहि- म् । अतो दुर्घहत्वरूपं सौक्ष्म्यं विवक्षितम् । तञ्च तस्य तस्य परमात्म- कल्पायत्तम् । न तु स्थौल्याभावादि तत्र प्रयोजकम् । स्थूल- यापि भगवहिव्यविमहादेरग्रहणात् । सूक्ष्मस्यापि त्रसरेण्वादेग्रहणात् । सानुभविकं चदं, यत् बाह्यविषयप्रवणमिन्द्रियं नाचेतनं विहाय झटिति तिनं गोचस्यति, नतरां च तमतिक्रम्य तस्यापि नियन्तारं परं पुमांसमिति । त एवाचेतनचेतनपरमपुरुषोपासनेषु क्रमेण दौष्कर्ये तारतम्यमवगम्यते । तो दुर्ग्रहाद्दुर्घहतर इति तदर्थः । यद्वा सूक्ष्मत्वमप्रतिहन्यमानत्वम् । लिलादौ तरणिकिरणादेरप्रतिहन्यमानतया तस्य ततस्सूक्ष्मत्वम् । सलि- स्य किरणादौ प्रतिहन्यमानत्वाच्च स्थूलत्वम् । ननु मवन्मत-आ- नामन्तरवयवस्य कस्यचिदभावाज्जीवात्मनि परमात्मनः कास्न्येन संबन्ध- त्तस्य तथा सम्बन्धाईत्वमस्तीति कथं जोवात्स सूक्ष्मतर इति चेत् सत्यम् । ष तावदोषोऽन्तरवयवमङ्गोकुर्वतों निखिलस्य परमात्मान्तस्सद्भाव बदतो बतोऽपि समस्तीति प्रागेवोक्तम् । अत उभाभ्यामेच परिहारो वाच्यः । या नित्यानामीश्वरस्य चार्षिशिष्टेऽपि सार्वषादावमुपातिकत्वमानेणेश्वरीये श्चिदतिशयः, तत्सकल्पोपाधिकतया च निस्वगते तत्रः निकर्ष इष्यते, था च 'नान्योतीस्ति द्रष्टेति भनिष्ट सरे नित्यादौ विद्यमानेऽपि नियन्तृ- विशिष्टद्रष्टन्तराभावमात्रेण प्रवर्सत इत्यङ्गीक्रियते, तथैवाप्रति- म्यमानत्वस्याऽऽत्मपरमात्मसाधारण्येप्यमुपाधिकत्वरूपस्य नियन्तृत्वैशिष्टय- पम्य चातिशयस्य परमात्मसौक्ष्म्ये, परेच्छाक्तस्वरूपस्य नियाम्यतया नियन्तृत्ववैशिष्टयाभावरूपस्यःच निकर्षस्यान्यसौक्ष्म्ये च विद्यमानतयाऽ गरणीयानिति श्रुतिप्रवृत्तिरिति शक्यमेषितुमिति । अतोऽन्यथा सिद्धतया -- ईशावास्योपनिषद्भाष्यम् । नेदं न्यायसिद्धस्याप्यन्तरवयवराहित्यस्य बाधकम् , किमुत प्रमाणसिद्धस्य । एतेन महतो महीयानित्यपि नियूंढम् । अणोरणीयानित्यणुपरिमाणं माना- हीत्यनन्तरवचनप्रवृत्तिः, यतो महदस्य परिमाणमतो नाणुपरिमाणं ग्राह्य- मिति श्रुतिहृदयम् । अथवौपाधिकमणुपरिमाणमुपासनदशायामस्य अणी- यान्त्रीहेवी यवाद्वे'त्यादौ संप्रतिपन्नम् , तदाहाणोरणीयानिति । व्योम- वदेवाय व्यपदश्य इत्याह महतो महीयानिति । पदस्वारस्य पुनरल्पतर- परिमाणतामेव ग्राहयति । सा तु विरोधात् सर्वैरप्यनङ्गीकृती कथञ्चि- निर्वाहस्य कर्तव्यत्वे मानान्तराविरोधेन निर्वाह एवोचित इति नेयं श्रुतिर- न्यादृशीमन्ताप्ति साधयिष्यति । यघ्यणुषु कथमन्ताप्तिः,अन्तर्व्याप्तिप्रयोजकविवराभावादित्याशंक्य यथा दर्पणायःपिण्डादिष्वालोकानलप्रवेशप्रयोजकविवरसद्भावः प्रत्यक्षप्रतिप- तथा परमात्मप्रवेशस्य प्रमाणसिद्धतया तत्प्रवेशप्रयोजकविवरसद्भावोs प्यणुषु प्रतिपन्न एवेति समाधानम् , तन्न भवति , विवरखरूपस्य दुर्निरू- पत्वात् । न तावद्दर्पणादिष्विवाकाशात्मकमेव विवरं भवितुमर्हति, अचेत- नापेक्षया चेतनस्य सक्ष्मत्वेन तस्य तदन्तःप्रवेशासम्भवात् । न चाभाव एक विवरमिति युक्तम् अमावस्याधिकरणसापेक्षत्वस्य भावातिरिक्तामावामा- वेनाधिकरणादिरूपत्वस्य वा खीकार्यत्वेन तस्य तत्त्वायोगात् । न च पर- मात्मप्रदेश एव विवरम् , तत्प्रवेशप्रयोजकविवरस्यवेदानी चिन्त्यमानत्वात् । अता विवरासम्भवादपि नान्तर्व्याप्तिः । वस्तुतो विवरमन्तैरव वस्तुष्वप्र- तिहन्यमानतयैव व्याप्तिस्वीकारस्य सलिलादौ श्रुतप्रकाशिकायां प्रदर्शितत्वे-.. न वृथैवायं भवतो विवरविचार इत्यलमत्र । बाप्यन्ताप्त्यमावात्प्रत्यगात्मनां परमात्मव्याप्तिप्रतिघातकत्वखी- परमानि तिष्ठद्भिः सञ्चरद्भिश्च प्रत्यगात्मभिश्छिद्रकरणमावश्य- , .. कार आचार्यभाष्यतात्पर्यसमेतम् । ५७ कमिति परमात्मस्वरूपस्स छेदभेदादिप्रसङ्ग इत्यवधीयतामिति ; तत्रापि सु- क्ष्ममवधातव्यम् । तेन हि वस्तुना तत्र वस्तुनि छिद्रमाधातव्यम् । यस्मिन् वस्तुनि काठिन्यादिना कतिपयावयवावच्छेदेन यस्य वस्तुनस्सम्ब- न्धो न भवति । न च प्रत्यगात्मनः कश्चिदन्तरवयवं स्वीकृय प्रतिहन्य- मानतया तत्र व्याप्त्यभावं परमात्मनो व्रमः, येनैवमुपालभ्येमाह । याव- न्तः पुनरवयवाः स्वाभाविका औपाधिका वा प्रत्यगात्मनस्तावत्सु सार्वका- लिक परमात्मसम्बन्धं खीकुर्मः । अन्तरवयव एव न कश्चिदपीत्येवाड भिदध्मह इति । सुसुक्ष्मावधाने च भवन्मत एव व्याकृताव्याकृतवियदादेः प्रत्यगात्मभिः स्थितिसञ्चरणसमयेषु छिद्रकरणमापद्यते , आत्मीयान्तरवयवे ततोऽपि स्थूलस्य तस्य सम्बन्धासम्भवात् । अत एवमन्तरवयवाङ्गीकार- स बाधकमेव सांप्रतमापतितमिति । यदपि निरवयवत्वेन हेतुनाऽन्तःप्रवेशप्रतिघाताङ्गीकारे परमात्मनि कथमखिलस्यान्तरवस्थानसम्भव इति ; तदपि निरवयवत्वेन हेतुनाऽन्तरवय- वस्यैवानङ्गीकारेण प्रतिघातप्रसक्त्यभावात् वियदन्तश्चरति विहङ्गम इत्यादौ परमत इवौपाधिकान्तःप्रवेशाजीकारस्य निरवयवत्वविरुद्धत्वाभावात् तत्र स- म्बन्धस्यैवेष्टत्वेन प्रतिघाताभावात् 'निरवयवत्वहेतुना प्रत्यगात्मनां स्वान्तःप्रषे- शप्रतिघातकत्वे' इति लेखनस्य 'वन्ध्यात्वात् स्त्रियः स्वापत्यविवाहप्रतिरोधक- त्वमिति लेखनवदनन्वितार्थकत्वाचापास्तमेव । यदपि प्रत्यगात्मपरमात्म- नोः परस्परान्तःप्रवेशे मणिदीपादिप्रभाणां खानास्वाप्नपदार्थानां च परस्परा- न्तःप्रवेशस्य दृष्टान्तत्वकथनम् ; तदृष्टान्ते सावयवत्वेनौचित्यात् प्रमाणबला- च्च तथाङ्गीकारेऽपि दाष्टन्तिके वक्ष्यमाणरीत्या निरवयवत्वेनानौचित्यात् प्र- माणबलाभावाचौपेक्षणीयम् । यत्तु कालदिगात्मनां नैयायिकमते परस्प- राप्रतिघातेन सर्वत्र व्याप्तवदिहापीति ; तत्सत्यं तथैव । तन्मतवदेव निरव- 81 ५८ ईशावास्योपनिषद्भाप्यम् । यवत्वं स्वाभाविकावयवराहित्यरूपं स्वीक्रियते; सम्भावितोपाधिकाकारे सर्वत्र व्यापनशीलता चेत्यस्माकमेवायं दृष्टान्तः । यत्पुनरत्यल्पपरिमाणे वटपल्लवशायिनि भगवति निखिलजगदण्डम- ण्डलस्यान्तःस्थितिश्च प्रमाणसिद्धति दृष्टान्तान्तरवर्णनम् ; तत्रेदं विम्रष्टव्यम् । उदरस्य सावयवत्वेन निरवयवत्वान्तरवयवराहित्यादेरप्रसक्त्या न त- मंशमादायायं दृष्टान्तः । अतोऽल्पपरिमाणे उदरान्तराले महापरिमाणज- गस्थितिवन्निरवयवे प्रत्यगात्मनि परमात्मनोऽन्तःस्थितिरित्येव विवक्षितम् । तत्राल्पे महतः स्थितिरेव कथं निवीयत इति पृच्छयते । अघटितघटना- शक्त्यवति चेत् कस्तहि भवतो भावः ; किमल्पस्याप्युदरान्तरालस्य प्रमाणसि- द्धमहत्स्थितिवलेनाल्पत्त्रविरुद्धमपि महत्त्व स्वीकर्तव्यमिति, किं वा महदन्त रालस्यैव महदावारकत्वमिति व्याप्ति प्रकृते भक्त्वाऽल्लान्तरालस्यापि महदा- वारकत्वमूरीकर्तव्यमिति ? नाद्यः, अल्पत्वमहत्त्वयोः परस्पराभावरूपत्वाद्भा- वाभावयोरसामानाधिकरण्यरूपविरुद्धत्वस्य वक्ष्यमाणत्वादेकस्योदरान्तरालस्य युगपदल्पत्वमहत्त्वाङ्गीकारासम्भवात् । नान्त्यः , तथा सति प्रकृते दृष्टा- न्तघटनस्याशक्यत्वात् , उदरान्तरालस्य बल्पत्वविरुद्धं महत्त्वं न स्वीक्रियते । तदभावेऽपि तु महदाधारत्वगभ्युपगम्यते । प्रकृते पुनः प्रत्यगात्मन्यन्तः- स्थितिवचनेन निरवयवे तस्मिन्नन्तरवयववत्त्वमेव स्वीक्रियत इति भेदस्य जागरूकत्वात् । अत्र हि भावाभावयोः सावयवत्वनिरवयवत्वयोः सामा- नाधिकरण्यमेवापततीति । स्यादेतत् । वस्तुतत्त्वे विमृश्यमाने कथं पुनरल्पिष्ठ एव जठरे निखिलजगन्निक्षेप इति । नन्वयमेव व्याप्तिभङ्ग उपपादकः । यथा हि वस्तुषु परस्परप्रतिहन्यमानत्वे दृश्यमानेऽपि रूपरसादेस्तदभावः, द्रव्येप्वपि भूतान्तरेषु नभसः, स्पर्शवत्खपि सलिले पवनस्य, रूपवत्स्वपि तत्रैव तर- आचार्यभाष्यतात्पर्यसमेतम् । ५९ -- णिकिरणस्य ; यथा च द्रव्यत्वाविशेषेऽप्यमेरोष्ण्यं जले शैत्यमित्येवम् ; तथा वस्तुवैचित्र्येण मन्त्रतपोयोगमहिमसम्पादितेन खाभाविकेन वा दृढ- पिहितगृहमध्यत एव बहिर्महात्मनां निःसरणम् , अत्यल्पगवाक्षरन्ध्रादिष्वा- स्मनः स्थूलशरीरप्रवेशनम् भूमौ निमज्जनमुन्मज्जनम्, अप्राकृतस्य भगवतो मङ्गलविग्रहस्याल्मिष्ठ एवावकाशे निखिलजगन्निक्षेपः , द्राषिष्ठदामसन्ततय- न्त्रणेऽपि ध्यङ्गुलावशेषः कपटगोपालकटितटस्यान्यच्च सर्वमुपपद्यत इति । यद्वा यथा खलु किञ्चिद्विलक्षणदर्पणसनाथेन चक्षुषा वीक्ष्यमाणमल्पमपि वस्त्व- धिकपरिमाणमिव वीक्ष्यते तथैवान्तरुदरमतिसूक्ष्माकारमेव जगद्वर्तमानं तदात्क एव भगवत्सङ्कल्पादिसामग्रीसनाथेन चक्षुषा. लक्ष्यमाणं बहिर्लक्षितजगत्तु- ल्याकार लक्ष्यते । सा च सामग्री अप्राकृते भगवद्विग्रहे नान्याशपरि- माणप्रदर्शनाय प्रभवतीति युक्तमेवाल्ये महत्सत्ताग्रहणम् । अत एव 'घट- पत्रशायिविग्रहवघटितघटनाशक्त्या सूक्ष्मरूपेण वाऽल्पीयस्यपि सर्वान्त - वे' त्येवं श्रीतात्पर्यचन्द्रिकासूक्तिरिति । अथ स्रक्ष्यमाणस्य हरविरिञ्चमुखप्रपञ्चस्य सृष्टेः प्रागेवमुदरकुहरे नि- क्षेपसम्भवेऽपि, यत्रैष परमपुरुषः शेते, तस्यैकोदकस्य कालमहदहङ्कारादेश्व बहिष्ठानामन्तस्स्थितर्वर्णयितुमशक्यत्वात्कथमुपपत्तिः । न चात्रैषामन्तर्वतित्वे प्रमाणाभावात् स्रक्ष्यमाणजगन्माननिक्षेप एव स्वीक्रियते । तथा च तस्यैव स्रक्ष्यमाणस्य सङ्केचिशक्त्या, तत्सजातोयस्य वा सूक्ष्माकारस्य तत्र सद्भाव इत्युक्तैव गमनिका युक्तेति वाच्यम् । अथापि मृदं भक्षितवतो भत्सितस्य मायासुतस्य मुखं ज्याददतो मध्यकुक्षि निखिलमैक्षत नन्दमहिषीति क- थमुपपद्यतामिति । 'एतद्विचित्र सहजीवकालखभावकाशयलिङ्गभेदम् । सूनोस्तनौ वीक्ष्य विदारितास्ये व्रज सहात्मानमवाप शङ्काम् ॥'
६० ईशावास्योपनिषद्भाष्यम् । इति स्वनु श्रीभागवतवचन मिति । सत्यम्, यशोदाया अपि प्रत्यक्षबाधित बहिरवस्थितिमन्तरेण सर्वेषामन्तरेवावस्थानम् । नापि बहिष्ठजीवकालादि- व्यतिरिक्तं जीवकालादिकं कथमप्यङ्गीकृतमस्ति, यस्यान्तरवस्थानं शक्यवर्णन स्यात् । यद्यपि स्वप्ने जागरितावस्थानुभूतपदार्थव्यतिरिक्ता एव विलक्षणाः सृज्यमाना इष्यन्ते, तथाऽपि न मूलप्रकृत्यादिकमाप जागरितावस्थादन्यत्वेन शक्यं तत्र स्थापयितुं । नापि च तथैवावश्यं स्थापनीयम् । यदि क श्चित् स्वप्ने योगबलादन्यथा वा प्रकृत्यादिकमीक्षेत तर्हि स बहिष्ठमेव तदी- क्षत इत्युक्तावपि न क्षतिः । जागरितावस्थायां तु तादृशयोगप्रभावादिविरहा- देव न तदध्यक्षापत्तिः । प्रकृते पुनः प्रकृतिजीवकालाहिरपि श्यमान- स्थान्तरपि दर्शनमुपपादनीयं संवृत्तमिति । अत्रोच्यते-बहिश्यमानस्य निखिलस्य प्रपञ्चस्य प्रतिबिम्ब एव वा प्रतिमैव का कुक्षौ दृश्यते न वास्तवः प्रपञ्चः । दृष्टं चात्यल्पेऽप्या लेख्य लिखितानि चित्राणि वास्तवपदार्थप्रतिमाप्रमाणतयैव परिदृश्यन्त इति । अतो न परिमाणदर्शनानुपपत्तिः । न च नीरूपस्य प्रतिमाघनुपपत्तिः । दर्पणादिषु नीरूपाकाशादिप्रतिविम्बदर्शनवदुपपचेः । अथ तत्र दृश्यमानस्य व्यवहारस्य कथमुपपत्तिरिति चेत् न । हानोपादानसंचरणोदः सांप्रतिके यन्त्रविशेषे दृश्यमानत्वात् । शब्दव्यवहारो रसादिविज्ञानं च न तत्रेति चेन्न। एवंजातीयन सामग्रीवैचित्र्येण तस्याप्यत्राभ्युपगन्तुं युक्तत्वात् । यद्वा न भग- क्तः कुक्षौ तदा वस्तुतः प्रकृतिः कालो जीवोऽन्यद्वा किञ्चित्समास्ति । सर्व तु केवलं बहिरेव यथोपलम्भं खीक्रियते । कुक्षौ तदर्शनं तु, यथा श्रीभाष्यदर्शि- तदिशा द्विचन्द्रज्ञाने वस्तुतश्चन्द्रशून्यदेशस्य चन्द्रस्य च निरन्तरग्रहणेनाऽऽ धाराधेयभावकल्पनया देशान्तरे चन्द्रदर्शनम्, यथा च दर्पणान्तर्वतित्वेन गृहग- गनमहारहवलाइकादीनां दर्शनम्, तथा कुक्षिग्रहणकाल एव स्वगतपारमैश्वर्य- आचार्यभाष्यतात्पर्यसमेतम् । प्रदिदर्शयिषाप्रवृत्तभगवत्सङ्कल्पवशेन सप्रकृतिकालजीवस्य सकलप्रपञ्चस्य निरन्तरग्रहणेन कुक्षिप्रपञ्चयोराधाराधयभावकल्पनया भवति । द्विचन्द्रज्ञा- ने चक्षुस्सन्निकर्षविशेषवत् जगदर्शनकारणमेव दिव्यचक्षुरादिकं किञ्चिद्वैल- ण्यमापादितमिह सामग्रयनुप्रविष्टम् । अतो महामायिन। मायाकार्यमिद- मनाधारेऽप्याधारताग्रहणम् । यद्यपि सूक्ष्मस्यापि स्थूलाधारत्वं सम्भवति अथापि सूक्ष्मान्तरवस्थान स्थूलस्यैवमेवोपपादनीयम् । तस्मान्न यशोदाकृत- विश्वदर्शनमनुपपन्नम् । तथा चेदमुक्तं भवति । यत्र विषयविशेषे सक्को- चशक्त्या विकासशक्त्या सजातीयसूक्ष्माद्युत्पादनशक्त्या वा निर्वाहा न शक्य- स्तत्रैवेयं कल्पना । तावताऽपि न वस्तुमिथ्यात्वम् । वस्तुसत एव तु केवलमन्तर्वतित्वादिकमन्यथोपपाधत इति । सर्वमिदमेवम्भूतमभिप्रेत्य च सर्वार्थसिद्धौ सङ्कोचशक्तिर्विकासशक्तिस्तत्तदभिमानविषयसजातीयोत्पादन- शक्तिः सक्ष्मस्थूलावस्थाभेदः परिमितविग्रव्यङ्ग्यापरिमितस्वरूपलक्षणमि- त्यादिक यथाहमवधारणीय' मिति, 'यदल्पपरिमाणेन पृथूनां प्रसनं स्मृतम् । अचिन्त्यमिदमित्येके चिन्तनश्रमभीरवः ।। ' इति च । सर्वथा तावदन्तरुदरमशेषजगत्स्थितिदृष्टान्तेन निरवयवे प्रत्यगात्मन्यन्तस्थि- तिस्थापनमशक्यमिति सिद्धम् । यत्पुनरनन्तर मथैवमपी'त्यारभ्य दशभिर्वाक्यविमुतोऽपि विभुतरत्व- स्य परमात्मनि स्थापनम् ; तदणुविषयविचारं समाप्यावसरे विचारयिष्यते । यत्तदुपरि 'न हि खलु कस्मिंश्चिद्वस्तुनि बहिर्मात्रसम्बद्धं किञ्चिद्वस्तु तदन्तर्यामित्वेनानुन्मत्तः कश्चियपदिशे' दिति ; सोऽपि कश्चिदसह्योऽपचारो भवतः, यतो भगवन्तो भाष्यकृत एव तथा व्यपदिशन्ति । तथा हि जिज्ञासा- ऽधिकरणे परप्रदर्शितगीतावचनार्थवर्णनप्रकरणे "क्षेत्रज्ञं चापि मां विद्धी- ir ईशावास्योपनिषद्भाष्यम् । त्यादिनाऽन्तर्यामिरूपेण सर्वस्यात्म तयैक्याभिधान" मिति, "अन्तर्यामिरूपेण सर्वेषामात्मत्वं तत्रैव मगवताऽभिहितम् 'ईश्वरः सर्वभूतानां हृद्दशेऽर्जुन तिष्ठ- तीति सर्वस्य चाहं हृदि सन्निविष्टः' इति च । 'अइमात्मा गुडाकेश सर्व- भूताशयस्थित' इति च तदवोच्यत'" इति च भाषितम् । यदि पुनरात्मनो ऽन्तरवयव कञ्चिदङ्गोकृय तत्र परमात्मनः स्थित्यनभ्युपगमेऽन्तर्यामित्वमेव दुर्बचम्, तहि कथं तादृशार्थवर्णनपरे वचने प्रमाणीकरणीये केवलमात्मस- बन्धिहृदयसम्बन्धमात्रोफ्पादकं वचनजातमुदाहृत्यान्तर्यामित्वभाषणं युज्येत । न च भूतशब्दसर्वशब्दयो वपर्यन्तवाचित्वाज्जीवान्वय्यर्थकहृद्देशादिपदस्य तदीयान्तरवयंवपरत्वं वाच्यमितोष्टसिद्धिरिति मन्तव्यम् । अन्तथैव भूता- दिपदोत्तरषष्ठयुपपत्तौ शक्यार्थपरित्यागेन अन्यार्थकल्पनस्यायुक्तत्वात् । व्या- सायरन्यथा व्याख्यातत्वाच्च । अतस्तदन्तर्यामित्वोपपादनाय तत्सम्बन्धि. देशसम्बन्ध एवापेक्षितः । न तु तदन्तरवयवसम्बन्ध इत्येव भगवद्भाष्य- काराशयो विस्पष्टमवसीयते । अत्र गीताधभिहितं तत्सम्बन्धिदशसम्बन्धि- खं च , मूर्तद्वयसमावेशासम्भवप्रयुक्तं घटपटयोर्यादृशं भूतले गौणं स्वीक्रि- यमाणम् , न तादृशम् । अपि तु अप्रतिहन्यमानतया साक्षात्तत्सम्बन्धि- प्रदेशसम्बन्धित्वमेव । इदमेव दर्शयितुं 'हृद्देशेऽर्जुन तिष्ठती'ति देशपद- मधिकं गीतायाम् । तथा च सर्वभूतशब्दवाच्यजीवावच्छेदकहृदेशस्थित्यु- क्या तादृशहृत्प्रदेशावच्छेदेन स्थित्युक्त्या वा हृदेशावच्छिन्नजीवसम्बन्धित्व- सिद्धौ, यद्वस्तु यत्प्रदेशावच्छेदेनास्ति तत्प्रदेशावच्छेदेन तत्सम्बन्धित्वमेवा- न्तर्यामित्वप्रयोजकमित्युक्तं भवतीति भाष्यकृदाशयः । इममाशयमाविष्कर्तुमेव व्यासार्याः 'हृद्देशे-हृदेशस्थ आत्मनोत्यर्थः' इति व्याचख्युः । न पुनर्हदेश- पदस्य तादृशार्थलक्षकत्वे तेषां तात्पर्यम् । अयुक्तत्वात् । आत्मासम्ब- न्धिहृदयप्रदेशो- मा माहीति तात्पर्यवर्णनेन शक्यार्थग्रहणेनैव सर्वोपपत्तेः । , आचार्यभाष्यतात्पर्यसमेतम् । अस्तु वा स्पष्टप्रतिपत्तये लक्षणा । भवदभिमतविवक्षायां पुनरिमां गुर्वी लक्षणामुपेक्ष्य लध्वीमपेक्षितार्थप्रदर्शिनीमात्मान्तरवयवविषयिणीमेवाश्रितवन्तः स्युरिति । अतो भाष्यकृदाशयमाचार्यमुखादवगत्यान्तरवयवमनङ्गीकृत्य भवदभिमतबहिःसम्बन्धमात्रेणान्तर्यामिशब्दं व्यवहरमाणा एवानुन्मत्ताः, यथा भाष्यकृतो यथा च गीताचार्य इति कृतमधिकेन । यदप्युक्तं--कृत्स्नप्रसक्त्यधिकरणे 'कृत्स्नप्रसक्तिनिरवयवत्वशब्दकोपो वे'ति सुत्रेण 'ब्रह्मणो निरवयवत्व एकस्मिन्नव कार्ये कृत्स्नोपयोगप्रसङ्गन न बहुभवने कार्यानुपयुक्तांशस्थितिश्च स्यात् । सावयवत्वे च निरवय- वत्वशब्दकोप' इत्याशक्य श्रुतेस्तु शब्दमूलत्वात्' इत्यनेन शब्दैकसमधि- गम्यत्वाद्धर्मिग्राहकवलेन ब्रह्मणो निरवयवत्वेऽपि बहुभवनकार्यानुपयुक्तांश- स्थित्याद्यपपद्यत इति सिद्धान्तितम् । अतः परमात्मनोऽन्तरंशाङ्गीकारण तत्र सकलजगत्सद्भावः स्वीकर्तुमुचितः । ततश्चानयैव परमात्मन्युक्तया प्रक्रियया प्रत्यगात्मनोऽपि निरवयवस्यान्तरवयवे परमात्मस्थितिः शक्या स्वीकर्तुम् । अत्राप्यन्ताप्तेः श्रुतिभिः स्वयमेव जोघुष्यमाणत्वात् । अत्रेदमवधेयम्-अन्तश्शब्दो हि नानांशमध्यावकाशपरः । अतोऽन्तशब्द- बलेन सावयवत्वस्य स्वीकार्यतया निरवयवत्वव्यवहारो वस्तुस्वरूपारम्भकाने- कांशात्मकत्वाभावनिबन्धनः सांशत्वव्यवहारोऽनादिसिद्धानेकांशात्मकत्वनिव- न्धन-इति । तदप्यापातरमणीयम् । तथा हि--न तावन्निरवयवत्वं तथैवाभ्यु- पेत्य बहुभवनाद्यनुरोधेन श्रुतिबलात् सावयवत्रमरि स्वीकर्तव्यमिति सूत्रक- दाशयः शक्योन्नयनः , सावयवत्वनिरवयवत्वयोः परस्परविरोधात् । विरु- द्धयोराप समावेशे सम्मन्यमाने जितं जैनेनेति 'नकस्मिन्नसम्भवात्' इति सु- लाय दत्त एव जलावलिः । भाष्यकृत्प्रतिक्षिप्ता भेदाभेदवादिनोऽपि बा- ईशावास्योपनिषद्भाष्यम् । - दं प्रत्यवतिष्ठेरन् । एवं च सति नित्यत्वानित्यत्वजडत्वाजडत्वाणुत्वमहत्वा- घशेषविरुद्धधर्मसमावेशसम्भवेनानकान्यधिकरणान्यनर्थकानि स्युः । अणो- रणीयान्महतो महीयानिति श्रुतेश्चाणुतरपरिमाणकत्वमपि परस्य सुग्रहामिति न कुत्राचदर्थान्तराविरोधेन तात्पर्यान्तरवर्णने यतितव्यम् । अतो नान्तरव- यवं निरवयवस्थव स्वीकृत्य सावयवत्वनिरवयवत्वयोः समावेशः सुवचः । ननु तर्हि धर्भिग्राहकबलेन विरुद्धसमावेशोऽपि न दुष्यतीत्यर्थपर श्रुतेस्तु श- ब्दमूलत्वादिति सूत्रं न सङ्गच्छते । उच्यते । द्वेधा विरोधो भवति, तद- भावात्मकतया तदभावात्मकवस्तुव्याप्यतया च । तयत्र तद्वत्तया प्रमिते वस्तुनि तदभावात्मकधर्मवत्ताप्रत्यायकं किमपि मानं प्रसजति, तत्र तस्य मानस्यान्यथाकरणेन तादृशविरुद्धधर्मसम्बन्धो निराक्रियते । यत्र तु तद्वत्तया प्रमिते वस्तुनि तदभावात्मकधर्मव्याप्यतया साहचर्यादिवले- नाववृतधर्मवत्ताप्रत्यायकं किमपि मानम् , तत्र तस्य मानस्य बाघ- कान्तराभावे तद्वत्ताप्रमितिमात्रेण नान्यथाकरणम् । अपि तु प्रत्या- यितस्य धर्मस्य तदभावात्मकधर्मव्याप्यत्वावधारणस्यैव साहचर्यादिबलाय- तस्यायथार्थीकरणम् । चास्य धर्मस्य तदभावव्याप्यत्वाभावेन तेन सहाविरोध एवाङ्गीक्रियते । यथा पृथिवीत्वस्य जलवामाव- रूपतया जले पृथिवीत्वसम्बन्धी निराक्रियते । जलत्ववत्तया प्रमिते हिमकर- कादौ पृथिवीत्वव्याप्यत्वेनावधृतकाठिन्यप्रत्ययेन पृथिवीत्व आपाधमाने काठि- न्यस्य पृथिवीत्वव्याप्यत्वावधारणमन्यथयित्वा जलत्वकाठिन्ययोरविरोध एवा- ङ्गीक्रियते । एवमुदाहरणानि द्रष्टव्यानि । एवं च जैनों भावाभावयारेव समावेशोऽभिमतः स 'नैकस्मिन्नसम्भवादि' ति निराकृतः । अत्र तु कृ- त्यप्रसक्त्यधिकरणे लोके सावयवस्यैव मृत्पिण्डादेर्घटशरावादिबहुभावकत्व- दर्शनेन, यतो यतो बहुभवनं तत्र तत्र सावयवत्वमिति व्याप्ति स्वीकृत्य निर- तथा आचार्यभाष्यतात्सर्यसमेतम् । वयवस्य ब्रह्मणः कथं बहुभवनमिति शङ्कायां निरवयवत्वचहुभवानसोभामोः प्रमाणप्रतिपन्नत्वेन साक्यवत्वबहुभवनयोतिरेव तिरस्कार्येत्युच्यते । एव- मेव निमित्तत्वस्योपादानत्वामावव्याप्यता लोकतोऽवगत्य शङ्कमानाय प्रमाणा- बलानिमित्चत्वापादानत्वयोब्रक्षाणि समावेशाङ्गीकारेण सा व्याप्तिरेव व्युदस्यते । यदि प्रतीयमानार्थस्य स्वगृहीतव्याप्तिश्रद्धया न स्वीकारस्तार्ह द्रव्ये सर्वत्रौष्ण्य- विरुद्धधर्मसैवोपलम्भेन द्रव्यत्वेन हेतुनाऽमेहनौष्ण्यमेव स्वीकार्य स्यात् ।। एवं जलादावशैत्यादिकामिति । अतो न मिया विरुद्धयोभीवाभाक्या:समा- वेशतात्पर्यकमिदमधिकरणम् । अपि तु कस्यचिद्धर्मस साहचर्यादिमात्रेण किंचिद्धर्माभावव्याप्तिनिश्चयविधूननेन तयोर्धर्मयोस्समावशतात्पर्यकम् । मत .एव भाषितम्, 'न सामान्यतोदृष्टं साधनं दूषणं वाऽहति ब्रह्मेति । अतो निरवयवत्वं स्वीकृत्य नान्तरवयवत्वरूपं सावयवत्वं स्वीकतुं शक्यम् । नन्वेवमवयवस्वीकाराभावे कार्यकाल एव ब्रह्मणः कार्यानुपयुक्तांशोऽप्यस्ती- त्यशव्यवहारः कथं घटतामिति चेत् कथं तर्हि नैयायिकमते निरवयवे वियति 'अत्र प्रदेशे सुपर्णः पतति न तत्रे'ति प्रदेशव्यवहारः । औपा- धिकव्यवहारोऽसाविति चेत् इहापि कार्यात्मना परिणतप्रकृत्यवछिन्नस्य ब्रह्म- णः कार्योपयुक्तांशत्वव्यवहारः , महदादिपरिणामानवच्छिन्नप्रकृतिनित्यवि- मूत्यवच्छिन्नस्य ब्रह्मणः कार्यानुपयुक्तांशत्वव्यवहार इति तुल्यम् । अत एव यथाश्रुतनिरवयवत्वस्वीकारेणैवोपपत्तौ निरषयवत्वस्वी- कारो वस्तुस्वरूपारम्भकानेकांशात्मकत्वाभावनिबन्धन' इत्यपि निर- स्तम् । एतावन्मात्रेण चेन्निरवयवत्वन्यवहारम्तर्हि नित्यदिव्यमङ्गलविमहनगर- गोपुरमण्टपादिष्वपि तदापत्तिश्च । किञ्च यदि वस्तुखरूपारम्भकावयव- शून्यतामात्रेण गौण एव निरवयवत्वव्यवहारो ब्रमणि सूत्रकृभिमतः स्या- चाई निरवयवत्वशब्दकोपो वेति न पूर्वपक्षितं स्यात् । सिद्धान्ते यथा- 91 ईशावास्योपनिषद्भाष्यम् । यत्- मिरवयवस्य ब्रह्मणः कृत्वप्रसाक्ति निरवयवत्वानुपपत्ति चास्मान् प्रति सोल्यस्तार्किको वा यदि कथयेत् तर्हि वादिप्रतिवादिनोरुभयोरपि निरवय. वनेनं संप्रतिपन्न जीवात्मन्यध्यय दोष आपचते । तन्मते निरवयवस्याध्य- त्मनों विभुत्वेन सर्वमूर्तसयोग इषितः । न चाय सम्भवति, निरक्यवत्वे- नैकमूर्तसंयोग एवं कृत्स्नस्थापक्षीणतया मूर्तीन्तरसंयोगासम्भवात् । नहि घटसंयुक्तो भूतलप्रदेशः पटेनापि संयुज्यते । न च संयोगस्याव्याप्यवृत्ति- त्वान्नानुपपचिरिति वाच्यम् । तस्यैवेह दुर्वचत्वात् । सावयवे हि पदार्थ एकस्मिन्नवय- संयोगोऽवयवान्तरे चासंयोग इत्यवयवभेदप्रदर्शनेन व्याप्य- वृत्तित्वाभावः संयोगस्य सुपपादः । निरवयवे तु तदसम्भवाद्याप्यवृत्तित्व- मेक स्यात् । एवं तम्मते सौभरिप्रभृतीनामनेकदेहभाक्त्वमप्यङ्गीकृतं न सङ्गच्छते । एकेन देहेन कृलोऽध्यात्मा देहितामापन्न इति कथं तदैवा- न्केनापि देही भवितुमलम् । मत एकत्रैव कृत्सप्रसक्तिर्भवति । साक- यक्त्रे तु निरवयवत्वसिद्धान्तकोपः । एवमसन्मतं आत्मनोऽणुत्वेऽपि निरवयवतया दशदिक्सम्बन्धः, खीकृतो न शक्य उपपादयितुमिति । न चेशार्थवर्णने 'स्वपक्षदोषाचे' त्यनेन पौनरुक्त्यं मन्तव्यम् । तस्व सूत्रस्य पूर्वपक्षिमात्रसम्मतजगदुपादानभूतप्रकृतिपरमाणुविषयत्वात् । अस्य चो- भयसम्मतनिरक्यवसजगदुपादानत्वाश्रयजीवात्मविषयत्वात् । अत इद सूत्रं निरवयवत्वनिबन्धनदोषं पूर्वपक्षिशाकितमुभयमतेऽप्यन्यत्र प्रसज्यमानं प्रदर्थ भाववैचित्र्येणैव सम्प्रतिपत्तव्येन तत्परिहारवचनपरामिति खारस्याद- वसीयते । यद्वा श्रुतेस्तु शब्दमूलत्वादिति परमात्मन्यकृत्स्नप्रसक्तिनिरव- यक्वे उपपाथात्मन्याप श्रुत्येकसमधिगम्येऽस्मन्मत एवमेव सम्भावितानुपप- सिपीहार इति आत्मनि चैवमिति सूत्रखण्डेन दर्शयन् वपक्षदोषाचत्यनेन सांस्यताकिमते केवलतणानुमीयमानत्वात् तत्रैव जीवप्रधानपरमाणुविषये आचार्यभाष्यतात्पर्यसमेतम् । ९ लोकदृष्टप्रसङ्ग इति सर्वसाधारण्येन ब्रवीतीति । भाष्य च 'घटादौ दृष्टा धमा' इति बहुवचनान्तधर्मपदेन सावयवत्वादरपि ग्रह्णादयमर्थसिद्धयती- ति ध्येयम् । अतो यदधिकरणे सावयवत्वसाधकमुपात्तम् , तदधिकरण- सूलतद्भाष्यादिस्वारस्येनैव सिद्धं जीवात्मनोऽपि निरवयवत्वम् । किश्च सूत्रकारैः 'खशब्दोन्मानाभ्यां चेति सूत्रेण श्रुतावणुश- ब्दश्रवणाजीवस्याणुत्वमित्युक्तम् । अत्र च 'अणोरणीया' नित्यादौ पर- मात्मनीबाणुशब्दस्य न गौणत्वम् , मुख्यार्थत्यागायोगादित्याशयः स्फुटोऽव- गम्यते । अन्यथा विभोरपि जीवस्य सूक्ष्मतयैवाणुव्यवहारोपपत्तेः । एवं च यदि तस्य सावयत्रत्वम् , तर्हि तत्राणुशब्दो भाक्त एव भवति, बिल्वापे-.. क्षयाऽऽमलक इवाणुशब्दः । न च सर्वस्यापि पदार्थत्य सावयवताया, एवेष्टत्वेन जीवापेक्षयाऽल्पसंख्याकावयवशाल्यर्थान्तराभावेनानव मुख्यवृत्तोऽ णुशब्द इति वाच्यम् , प्रकृतिपरिणामभूतेषु तथाभूतेषु सावयवेषु वस्तुष्व- वयवविशरणाभावे प्रमाणाभावात् । तादृशवस्त्वन्तराभावेऽपि जीवस्यावय- व एकैकस्मिन्नेवाणुशब्दमुख्यवृत्तत्वोपपत्तौ जीवे कुल्ले तद्व्यवहारस्य भाक्तत्व- स्यैवौचित्याच्च । न खलु पूर्ण एव वस्तुनि मुख्यवृत्तत्वं संपादनीयम् , नत्वेकदेश इत्यत्र किञ्चित् प्रमाणमस्ति । अतः सूत्रकाराभिमतमुख्यवृत्त- त्वसंरक्षणाय निरवयवत्वमेव स्वीकार्यम् । अत एवोक्तं प्राणाणुत्वाधिक. रणे श्रुतप्रकाशिकायाम्-"अणुत्व नाम परिच्छिन्नत्वे सत्युपलब्ध्यर्हस्थूलता- राहित्यमत्र विवक्षितम् । न तु जीवात्मस्वरूपवदत्यन्ताल्पत्व"मिति, अन चात्यन्तपदेन जीवतोऽप्यणुरंशा न कश्चिदिति ज्ञायते । एवमुन्मा- नश्रुतिरपि न भवत्पक्षे स्वरसा । 'वालाग्रशतभागस्य शतधा कल्पित्तस्य च । भागो जीवः स विज्ञेयः' इति श्रुतेययमभिप्रायः स्वरसः ' 'यावन्तो भागा वालाग्रे कल्पयितुं शक्यास्तावत्सु कल्पितेषु तावदन्यतमस्य यत्परिमाणं त-: .
७० ईशावास्योपनिषद्भाष्यम् । ज्जीवस्येत्यत्यन्ताणुत्वमस्ये' ति । यत्पुनरवगतेऽपि निरवयवत्वेऽन्तःपदार्थसंरक्षणाय तस्यान्यथा नयन- मिति; तन्न । सावयवत्वमन्तरेणान्तःपदखारस्यसिद्धिरिति पक्षाङ्गीकारेड पि तत्परित्यागेन निरवयवत्वरक्षणस्यैवोचितत्वात् । अन्यथा 'स एकधा भवति त्रिधा भवति पञ्चधा सप्तधे'तिश्रुतिगतकधादिपदवारस्यरक्षणाय 'अ- च्छेद्योऽयमदायोऽय' मित्यवगताच्छेद्यत्वस्य त्यागप्रसङ्गात् । अतः स्वसक- ल्पाधीनभेदसद्भावेऽपि बाह्यवस्तुकारितभेदाभावात् नैनं छिन्दन्ति शस्त्राणी'- त्यच्छेद्यत्ववचनं नेतुं शक्यमिति मुक्तौ जीवस्य खच्छया स्वात्मविभजनमि- प्यताम् । उक्तं च श्रुतप्रकाशिकायां (4-4-5) द्विघाशब्दादीनां घर्मिभेद एव खारस्यम् । तदण्डमकरोत् द्विधेत्या' : दिप्रयोगात् । द्रव्यत्वपृथिवी- त्वादिजाति-संयोगादिगुण-परिस्पन्दरूपक्रियासहस्रान्वितेऽपि घटे 'द्विघा विधा साहसघाऽमूदिति प्रयोगामावाचे'ति । अस्त्वेवमिति चेत् तर्हि 'आत्मन ए. कस्याच्छेद्यस्यानेकधाभावासम्भवात् त्रिधामावादयः शरीरनिबन्धना इत्यव- गम्यत' इत्यभावाधिकरणभाष्यव्याकोपः । अतो यथा तत्राच्छेद्यत्वस्य य- थाश्रतस्य रक्षणाय विघामवनादिकं शरीरद्वारकमखरसमेवष्यते , तथा प्रकृ- तमन्तःपदमपि निरवयवत्वसंरक्षणाय जिज्ञासाधिकरणे क्षेत्रज्ञ चति गीतार्थ- वर्णनपरभाष्यदर्शितदिशाऽऽत्माधिकरणशरीरान्तःप्रदेशपरमङ्गीकार्यम् । किं. चानेनैव भाष्येण निरवयवत्वसंरक्षणार्थमपि विघाभावादिकमन्यथा नेयमि. त्यवगम्यते । अन कस्याच्छेद्यस्येति पदद्वयमपि हेतुगर्भविशेषणम् । एकस्येति च निरवयवस्येत्यर्थकम् , अन्यथा तत्पदवैयर्थ्यात् । मृत्पिण्ड. : वदेकत्वग्रहणे घटशरावादिवदनेकधाभावसम्भवात् छेदावियवराहित्यरूपैक- बभिक्षणे अच्छेद्यस्येति पौनरुक्त्यापत्तेश्च सर्वविधावयवराहित्यरूपमेकत्वमेव कृत्सप्रसनमाविकरण 'एकमेवाद्वितीय' मित्यत्राभिमतया दिशा विवक्षितमि- आचार्यभाष्यतात्पर्यसमेतम् । ७ त्यध्यवसीयते । एवञ्च निरवयवत्वादच्छेद्यत्वादेनकधाभावो न सम्भवती- त्युक्त्या श्रुत्यन्तरमन्यथा नीत्वा निरवयवत्वमेव संरक्षणीयमिति भाष्यतात्प- यनिश्चयादन्तःपदमाप तदर्थमेवान्यथा नेयम् । अपि च कतमा श्रुतिः प्रत्यगात्मनोऽन्तरवयवं साधयति ? किं 'अ न्तः प्रविष्टः शास्ता जनाना' मिति , किं वा 'तदन्तरस्य सर्वस्येति, आ- हो 'अन्तर्वहिश्च तत्सर्व व्याप्य नारायणःस्थित' इति, अथ वाऽनन्तरोऽ बाह्यः कृतः प्रज्ञानघन एवे'ति, यद्वा ‘य आत्मनि तिष्ठन्नात्मनोन्तर' इति, अन्या वा काचिदिति । न प्रथमा ; अन्तःप्रवेशशास्तिभ्यां नृपगगनन्यावृत्तिरित व्यासायॆरु- तत्वात् । अन्तरवयवाङ्गीकारे तत्राचेतनगगनप्रवेशासम्भवादेव गगने अ- तिच्याप्यभावेन तव्यावृत्तिप्रयोजनकथनस्यायुक्तत्वापत्तेः । जीवावच्छेदकहृ. दयप्रदेशग्रहणे चातिव्याप्तिप्रसक्त्या तस्यव युक्तत्वात् । जनानामिति पदस्य देहविशिष्टात्मवाचितया पण्डितस्यास्य बाल्यं न गतमित्यादौ बाल्यस्य श- रीरगतत्वावगमवदन्तःशब्दार्थस्य देहसम्बन्धित्वावगमसम्भवेनान्यथासिद्ध- त्वाच्च । अत्यन्तस्वारस्यरक्षणश्रद्धायां प्रविष्टपदस्वारस्यस्यापि रक्षणीयतया परमात्मनो विभोरपि कश्चित्कालं तदसम्बन्धस्यापि स्वीकर्तव्यत्वापाताच । न द्वितीया ; अन्तश्शब्दस्यान्तरवयवपरत्वे तदनुरोधेन सर्वशब्द- स्थाणुव्यतिरिक्तविषयत्वेन सोचस्यैव युक्तत्वात् । यथा 'न हिंस्यात् सर्वा भूतानी'त्यत्र सर्वपदस्य 'अग्नीषोमीयं पशुमालभेते त्याद्यवगतविहितहिंसाया निषेधायोग्यत्वेन निषेघान्वययोग्यविषयकतया सक्कोचः , यथा च 'ये वै के चास्माल्लोकात्प्रयान्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति श्रुतसर्वशब्दस्या- निष्टादिकारिणां तेनासौ लोको न सम्पूर्यत' इति धुलोकाप्राप्तिवचनादिष्टा- दिकारमात्रविषये संकोचस्तद्वत् । सर्वशब्दो हि सावकाशो न निरवयव- ७२ ईशावास्योपनिषद्भाष्यम् । तया निश्चितमपि ग्रहीतुं प्रमवति । न च तर्हि परमात्मव्याप्तिः प्रत्यगा- त्मनि न सिद्धयतीति शंक्यं, प्रमाणान्तरेण तत्सिद्धेः । अतो यथा 'सर्व- स्यापि मनोरथमीश्वरो जानाती'त्यत्र सर्वपदेन नाचतनग्रहणं तथैवेहापीति । अत एव न तृतीया । फिञ्चानान्तर्बहिश्चेत्यस्य केवलमनुवादरूप- त्वात् अनुवादस्य च सम्भावितावयवकपदार्थविषयतयाऽप्युपपत्त वान्तरव- यवसाधकत्वं न सम्भवति । अत्र हि व्याप्येति श्रूयते । व्याप्तिश्च कृत्स्न- सम्बन्धः । एकदेशमात्रसम्बन्धे तत्प्रयोगादर्शनात् । अतस्तेनैव कृत्वसम्ब- न्धावगमात् सावयवे निरवयवे सर्वत्र कृत्स्नसम्बन्धलाभेनानुवाद एवान्तबहिः- पदद्वयम् । न चान्तर्बहिरित्येव विवक्षितम्, व्याप्यत्येव त्वनुवाद इति वाच्यम् । अन्तहिरित्यस्य विवक्षितत्वे निरवयवपदार्थाग्रहणेन सर्वपदस- कोचस्य वा निरवयवस्यापि अहणे निरवयवशब्दार्थान्यथाकरणय वा प्रस- अन तादृशदोषामावायैव व्याप्येत्यस्य ग्रहीतुमुचितत्वात् । सर्वमिति द्वि- तोयान्वयाय व्याप्येत्यस्य विवक्षणीयत्वाच्च । स्थित इति प्रधानक्रियान्व- यिल्यप्पकृत्यर्थविवक्षयैव फलसिद्ध्या तद्विशेषणीभूतान्तबहिश्शब्दार्थविधान- स्यैव युक्तत्वाच्च । अन्तर्वाहिश्शब्दार्थविधानेऽपि गृहस्यान्तबहिश्चेदं दारू वर्तत इत्यादाविव कतिपयान्तरवयवकतिपयबाहिरवयवसम्बन्धेनापि वाक्यो- पपत्त्या कृलव्याप्तेरवश्यसिद्धयमावन व्याप्यशब्दार्थविधानस्यावश्यकत्वाच्च । अत एवान्तर्बहिश्शब्दमात्रेण व्याप्त्यलाभ मनसि कृत्वाऽऽचार्यपादैः तदे- तब्यक्तमुक्तं तैत्तिरीये' इत्यारभ्य व्याप्यपदघाटतमिदं वचनमुदाहृतम् । अतो वचनान्तरविहितस्य निरवयवत्वस्य नानुवादरूपान्यथाप्तिद्धान्तर्बहिःप- दबाध्यत्वप्रसक्तिः । यदि पुनस्तद्व्यापित्वं न तदीययावत्प्रदेशसम्बन्धित्व- रूपम् ; किं तु तत्समानाधिकरणाभावाप्रतियोगित्वरूपम्, यथा 'घूमं व्याप्य सिनो वहि रित्यत्र वढेधूमव्यापकत्वं धूमाधिकरणवृत्त्यभावाप्रतियोगित्वमेव । in आचार्यभाष्यतात्पर्यसमेतम् । ७३ तथा च व्याप्येत्यनेन तत्तद्वस्त्वधिकरणदेशवृत्तित्वावगमेऽपि तत्तद्वस्तु- सम्बन्धिसकलावयवसम्बन्धित्वं नावगम्यत इति तदर्थमन्तवहिःपदप्रयोग इत्युच्यते । तदाऽपि जगति सर्वस्यापि वस्तुनो यत्किञ्चित्पदार्थाधारत्वान- पायेन व्याप्येत्यनेनैव सर्वपदार्थसम्बन्धावगमात् तत्पदद्वयस्यानुवादरूपतैव । किञ्चतादृशव्यापकत्वविवक्षायां तत्र व्याप्यसमदेशवर्तित्वव्याप्याधिकदेशव- तित्वरूपभेदद्वयसद्भावेन तयोर्मध्ये व्याप्याधिकदेशवर्तित्वरूपव्यापकत्वमेव प्रकृते परमात्मनीति विस्पष्टयितुमेवान्तर्बहिःपदद्वयमिति वक्तुं शक्यतया तयोःपदयोमीवदेशाभावदेशरूपार्थपरत्वमेवाऽऽचार्यपादोक्त सिध्यतीति ना- न्तरवयवसाधकत्वसम्भवः । सर्वथाऽन्तबहिःपदयोरनुवादरूपत्वादनुवाद. स्य चैकदेशविषयकतयाऽप्युपपत्तः , व्याप्यपदेनैव कास्न्येन सम्बन्धलाभेऽ न्तर्बहिरवच्छेदेन व्याप्येत्यन्वयासम्भवेन , तथा सति व्याप्यपदस्य सम्ब- ध्येत्येतावन्मात्रार्थकत्वे लक्षणाप्रसझेन तावताऽपि सर्वप्रदेशसम्बन्धावगमन- यत्याभावस्योक्तत्वेन च सर्व व्याप्यान्तर्बहिश्च नारायणः स्थित इत्यन्वयस्यापि वक्तुं शक्यत्वात् तत्र तयोः पदयोः सम्भावितावयवकवस्तुगोचरतयैवोपप. त्तावुपातसर्ववस्तुसम्बन्ध्यवयवसाधकत्वासम्भवाच्च नाणुष्वन्तरवयवसिद्धिः । अपि च तत्सर्वमिति सर्वशब्देन रूपरसाद्यद्रव्यग्रहणमिष्यते न वा ? न चेत् , सर्वपदसङ्कोचप्रसङ्गः । इष्यते चेत् तेषु कथमन्तबहिरवयवस- मर्थनम् । कथं च तेषु व्याप्येत्युक्तसम्बन्धसम्पादनम् । अद्रव्येषु हि न साक्षात्परमात्मसम्बन्धोऽस्ति । न चाद्रव्यस्य दृश्यते श्रूयतेऽपि वेत्युक्तं दृश्यमानत्वं श्रयमाणत्वं वा नास्ति , येन सर्वपदासङ्कोचः स्यात् । अथ तेषां द्रव्यापृथक्सिद्धतया पृथक्प्रतिपत्त्यभावात् प्रधानभूततदाधारमात्रग्रह- णमित्युच्यते तार्ह धर्मभूतज्ञानस्यापृथक्सिद्धस्याग्रहणप्रसङ्गः । तथा च तत्र परमात्मव्याप्तिर्न सिध्येत् । अथ व्याप्येति पदस्खरसावगतसाक्षात्स- . 10 I ईशावास्योपनिषद्भाष्यम् । म्बन्धबाघात्तेषामग्रहणमिति मन्यते , तर्हि अन्तबहिरित्युक्तावयवशालित्वबा. धात्तेषामन्येषां च निरवयवद्रव्याणामग्रहणमिति किं नोच्येत । इयमेव हि तदन्तरस्येति प्रकृतश्रुतौ रसाधग्रहणे गतिः । अथ रूपरसादिग्रह- णेऽपि तत्र तदाघारद्रव्यगतावयवमन्तरादिपदेन गृहीत्वा कथमप्यर्थवर्णन- मिष्टम् , तर्हि तथैवाणुष्वपि जीवेषु तदाधारदेहाधवयवग्रहणेन तत्कर्तु शक्यमिति तुल्यामिति । नापि चतुर्थी; 'स यथा सैन्धवघनोनन्तरोऽबायः कृत्स्नो रसघन एव एवं वा अरेऽयमात्माऽनन्तरोऽवाझः कृत्स्नः प्रज्ञानघन एवे' त्येवंरूपाया अस्याः श्रुतेः श्रुतप्रकाशिकायां जिज्ञासाधिकरणेऽन्यथैव व्याख्यातत्वात् । इयमत्र सूक्तिः 'अनन्तरोऽन्तरङ्गव्यतिरिक्तः । अबाह्यो बहिरङ्गव्यतिरिक्तः । एवं व्यतिरेकनिर्देशेन निःशेषग्रहणं कृतम् । तदेवाह कृत्स्न इति । दा- ष्टान्तिकविषयोऽबाह्यशब्दो धर्मिपरः । अनन्तरशब्दो धर्मपरः । कृत्स्न- शब्दस्तयोरकदेशजडत्वव्युदासार्थः । अत्र सर्वत्रैकरूप्यमेव दृष्टान्तोपनी- व्यम् । न त्वन्यत् । दृष्टान्तदान्तिकविषयवाक्यद्वयेऽप्यनन्तरोऽबाह्य इति युक्त'मिति । अत्र यात्मनः सैन्धवस्येव सावयवत्वाभावेन कथमन्त- रङ्गबहिरङ्गवादसम्भव इति शङ्कायां दाटन्तिकस्य निरवयवत्वात् तत्र न तथाऽर्थः । अपि तु तस्य धर्मभूतज्ञानविशिष्टत्वात् तस्य च प्रसरणखा- भाव्येन बाह्यत्वात् तथा बहिः प्रसरणरहितस्य चात्मनोऽन्तरत्वसम्भवादबा- यानन्तरशब्दौ क्रमादात्मस्वरूपधर्मभूतज्ञानपरावित्युक्तम् । अथैवमपि कृ- नपदस्य सकलांशावच्छिन्नार्थकतयाऽवयवाभावे कथं तदुपपत्तिरिति शङ्का- यां धर्मभूतघर्मिभूतज्ञानद्वयस्यात्र विवक्षिततयैकैकस्यापि तदेकदेशत्वसम्भ- वात् तदुपपत्तिरित्युक्तम् । अथ वानन्तराषाह्यपदाभ्यां, धर्मधर्मिग्रहणे दृष्टान्त इव समस्तप्रदेशग्रहणे प्रमाणाभावादौपांधिकेऽपि -कचिद्देशे जड आचार्यभाष्यतात्पर्यसमेतम् । ७५ स्यादिति शङ्कायां कृत्नपदादेव तन्निवृत्तिरित्युक्तम् । अनन्तरं च, ननु यथा दृष्टान्त धर्मिमात्रग्रहणेन तस्य रसघनत्वमुक्तम् , तद्वद्दार्शन्तिकेऽपि घर्मिमाने प्रज्ञानघनत्वमेव वक्तव्यम् । तद्विहाय धर्मधर्म्युभयग्रहणे दृष्टान्तवै- पम्यम् । न हि तत्र धर्मधर्म्युभयस्य रसघनत्वमस्तीत्याशक्कापरिहाराय अ. त्रेत्यादि । अयमर्थः । यावानर्थो गृहीतस्तत्र सर्वत्रैकरूप्यमित्येतावत्यशे दृष्टान्तः । यथा तत्र कृत्स्नस्य रसघनत्वं तथाऽत्र कृत्स्नस्य प्रज्ञानघनत्व- मिति । न तु दृष्टान्तवदिहापि धर्मिमात्र एव प्रज्ञानघनत्वोक्तिरिति मन्त- व्यम् । कुत एवम्, तदाह दृष्टान्तेति वाक्येन । अयं भावः--यदि धार्मिमात्रग्रहणमिष्टं स्यात् तद्युभयत्राप्यनन्तराऽवाह्य इति न निर्दिशेत् । न हि घर्मिमात्रग्रहणेऽनन्तराबाह्यपदयोरर्थे वर्णयितुं शक्यते । तस्य नि- रवययत्वेन बाहिरवयवान्तरवयवरूपार्थग्रहणासम्भवात् । न च दृष्टान्तवाक्य- सारूप्यसम्पादनाय तत्पदद्वयं प्रयुक्तमिति वाच्यम् । अर्थस्यानन्वितत्वात्सा- रूप्यरक्षणार्थमनन्वितार्थव्यवहारस्यायोगात् । सारूप्यरक्षणाभिप्राये च दा- ष्टान्तिकानुसारेण दृष्टान्तेऽपि तत्पदद्वयं न प्रयोक्तव्यम् । केवलं 'कृत्स्नो रसघन एव -कृत्वः प्रज्ञानघन एवे' त्येतावदेव वक्तव्यम् । अतः,उभ- यत्र यतः पदद्वयमधिकमुक्तम् , अतस्तत्सार्थक्याय यथासम्भवं सैन्धवेऽवय- वानां दार्शन्तिके च धर्मधर्मिणोणमिति । ननु धर्मिमात्रमेव दान्तिकेऽपि ग्राह्यम् । प्रज्ञानघन इत्यस्य रसघन इत्येतत्समाननिर्देशत्वेन तत्र रसगुणकत्वस्येव ज्ञानगुणकत्वस्यैव ग्राह्य- तया ज्ञानस्वरूपत्वपरत्वासम्भवेन धर्मभूतज्ञानस्यापि ग्रहणे तत्र ज्ञानगुणकत्वस्य बाधात् । एवं चैकस्यैव धर्मिणोऽनन्तरोऽबाह्य इति निर्देशात् बाह्यावयवा- न्तरवयवसद्भावोऽपि श्रुतिबलात् स्वीक्रियतामिति चेत् -एतत्परिहारोऽप्यत्रै- व श्रुतप्रकाशिकाग्रन्थेऽभिसंहितः । अयंभावः-धर्मिमात्रग्रहणेऽपि सावयवत्वं ईशावास्योपनिषद्भाष्यम् न सेत्स्यति । अत्रोभयत्रानन्तरोऽबाह्य इति युक्तम् । न पुनरन्तरो बा- छ इति । यदि तावदन्तरत्वं वाह्यत्वं चोक्तं स्यात् तर्पवयवसद्भावः शंक्ये- तापि । अन्तरङ्गव्यतिरिक्तो बाहरङ्गव्यतिरिक्त इत्येवोकत्वेनावयवस्यात्मनो ऽन्तरङ्गबहिरङ्गाभावेन , एकस्य यस्यान्तरङ्गव्यतिरिक्तत्वम् तस्यैव बहिरङ्ग- व्यतिरिक्तत्वमपीति अन्तरवदन्तबहिरङ्गात्मकत्वमात्मनो नास्तीत्येव प्रतीय- ते । अत एव दृष्टान्तस्य सावयवत्वेऽपि दाष्टन्तिकसारूप्याय तत्राप्यन- न्तरोऽबाह्य इत्युक्तिः । अतो धर्मिमात्रग्रहणेऽपि सावयवत्वबाधस्यैव सि- द्धतया नेष्टसिद्धिरिति । यद्यप्यस्य व्यासार्यग्रन्थस्यैवमों मवेत् 'अत्र सर्व- त्र ज्ञानस्वरूपत्वमेव दृष्टान्तोपजीव्यम् । न त्वेवकारबलेन गुणान्तरनि- घेघोऽद्वैतिमतो ग्राह्यः । अनन्तरोऽबाह्य इत्युभयत्नोक्त्यैकदेशजडत्वशङ्का- व्युदासाथताया एवैवकारस्यावगमादिति । अथापि पूर्वोक्तार्थोऽपि सम्यक् सम्भवन्न परित्याज्य' इति । तथा चाय निष्कर्षः-आत्मनिरवयवत्वस्य प्र- माणान्तरसिद्धतया तस्यात्रावश्यवक्तव्यत्वाभावेनानन्तरोऽबाह्य इति पदव- येनाऽऽत्मनिर्देशस्यानतिप्रयोजनकतापत्त्या, बाह्यान्तरपदयोधर्मधर्मिज्ञानपरत्व- स्यासम्भावितत्वाभावेन , उभयोः स्वयंप्रकाशत्वस्यैकेनैव वाक्येन सिद्धया ऽर्थपौष्कल्यसद्भावेन च धर्मधर्म्युभयग्रहणेन ज्ञानस्वरूपत्वपरत्वं तेर्युक्तम् । दृष्टान्त इव धर्मिमानग्रहणाभावाद्रसघनपदस्येव प्रज्ञानघनपदस्य ज्ञानगुणक- वरूपमर्थमस्वीकृत्य सैन्धवधन इत्यत्रेव प्रज्ञानस्वरूपत्वमात्रकथनाच्च सम्भ- वद्वैषम्यं सह्यम् । यदि तु तादृशवैषम्याभावाय घर्मिणो ज्ञानगुणकत्व- मात्र अतितापयमिष्यते तयनन्तरोऽबाह्य इति पदद्वयेनात्मनिर्देशस्य सैन्ध- यदृष्टान्तादिबलायत्तात्मसावयवत्वभ्रमनिवर्तनमेव परम फलम् । प्रमाणा- न्तरप्रतिपन्नज्ञानस्वरूपत्वोक्तिवत् प्रमाणान्तरप्रतिपन्ननिरवयवत्वकथनपूर्वक ज्ञातृत्वोक्तिश्च नैव न सङ्गच्छत इति । , आचार्यभाष्यतात्पर्यसमेतम् । ७७ एवं च प्रदेशाभावादेव प्रादेशिकजडत्वशङ्का नकार्येति , ब्राह्माधिक- रणभाष्यरीत्याऽऽत्मज्ञानस्वरूपत्वपरत्वे वा, श्रीमधामुनाचार्यात्मसिद्धिग्रन्था- दिस्वारस्येन सार्वकालिकज्ञानगुणफत्वपरत्वे वा सर्वथाऽऽस्याःश्रतेरात्मगता- न्तरवयवबहिरवयवपरत्वाभावस्य श्रुतप्रकाशिकासिद्धत्वात् खारस्याच्च नेयं श्रुतिस्तत्र प्रमाण भवितुमर्हति । एवमत्र बाह्यान्तरपदव्याख्यानबला- दात्मविषयेऽन्तहिरिति श्रवणं यत्र, तत्र सर्वत्र धर्मधर्मिग्रहणेनापि कश्चिन्नि- हिश्श्रुतप्रकाशिकाऽभिमतो ज्ञायत इति न सावयवत्व किञ्चिदपि' प्रमा- 'णमित्याप बोद्धयम् । न च पञ्चमी ; तत्राप्यन्तरपदस्यात्मनिरवयवत्वपर्यालोचनयाऽन्या- थकताया व्यासायवर्णितायाः प्रागेव दर्शितत्वात् । विवरिष्यते च समन- न्तरमेव । अङ्गीकृत्य पुनरन्तरपदस्यान्तरवयवपरत्वे खारस्यमादौ किञ्चि- दुच्यते । यद्यत्र स्वारस्यादन्तरपदस्यान्तरवयवे तात्पर्यम् तार्ह 'स चान- न्त्याय कल्पते' इति मुक्त्यवस्थायां जीवस्यानन्त्यश्रवणात्पूर्वमणुपरिमाणतया निर्दिष्टस्य पश्चादुच्यमानमिदमानन्त्यं विभुत्वरूपमवेति कथं तद्विभुत्वं साक्षा- देव न खीक्रियते, केवलं धर्मभूतज्ञानद्वोरति कल्प्यते ? न चाणोविभुत्वं विरुद्धम् , कालभेदेनाविरोधात् । न चानादिभावस्याणुत्वस्य नाशायोगात् मुक्तावप्यणुत्वस्याङ्गोकर्तव्यतया विभुत्वाविवक्षा ; शब्दैकसमधिगम्य वस्तुनि युक्तरप्रसरात् । अन्यथा मुक्त्यवस्थायामेवोत्पद्यमानस्य धर्मभूतज्ञानविभु- त्वस्य नाशप्रसङ्गः , सादिभावस्य नाशावश्यम्भावात् । यदि पुनरन्यथाऽ प्यानन्त्योपपत्तौ न प्रागवगताणुत्वबाधन युक्तमित्युच्यते तर्हि तद्वदेवात्मनो धार्मिग्राहकमानेन युक्तिभिश्च निरवयवत्वस्य सिद्धतया तथाविध आत्मनि पर- मात्मनोऽन्तयामिताबोधकप्रकृतवाक्यगतस्यान्तरपदस्यान्यथाऽप्युपपत्तौ न नि- रवयवत्वबाधनं युक्तम् । अथ तत्र प्रत्यगात्मन्यानन्त्यवद्धावस्थायां देहरि- , ७८ ईशावास्योपनिषद्भाष्यम् । - माणत्वमप्यवगम्यते । तथाङ्गुष्ठमात्रत्वमपि । यथा........ 'एकां शाखा जीवा जहाति अथ सा शुष्यति' इति श्रुतौ जीवस्य सर्वशाखाव्याप्तिदर्शनेन देहपरिमाणत्वम् , 'प्राणाधिपः सञ्चरति खकर्मभिरङ्गुष्ठमात्रो रवितुल्यरूप' इति चाङ्गुष्ठमात्रत्वम् । न च तत्र मुख्यार्थखीकारः शक्यः, 'वालाग्र- भागो जीवस्स विज्ञेय' इति संसरणदशायां सर्वदाऽणुत्वस्यावगम्यमानत्वा- त् । अतस्तयोर्धर्मभूतज्ञानद्वारकत्वमङ्गुष्ठमात्रहृदयावच्छेदकृतत्वं चाभ्युपे- त्यम् । एवमणुत्वभिन्नपरिमाणस्य जीवविषयेऽन्यथानयनस्य दृष्टचात्तद्वदेवा ऽऽनन्त्यस्यापि नयनं युक्तमिति न साक्षाद्विभुत्वं खीक्रियत इति चेत्-तहीं हाप्यन्तर्यामिब्राह्मण 'या रूपे तिष्ठन्' 'यो रसे तिष्ठन्' 'यो वेदेषु तिष्ठन्' इत्यादिना रूपरसवेदादिष्वद्रव्येष्वपि परमात्मनोऽन्तरत्वस्योक्ततया तेषाम- द्रव्यत्वेन निरवयवतया तत्रान्यथानयनस्यैव कर्तव्यतया निरवयवेप्वन्यथान- यनमन्तरशब्दस्यति निश्चिन्वद्भिरिहापि निरवयव आत्मनि सान्तरवयवत्वं स्वीकर्तुं न शक्यम् । अपि च यत्रान्तर्बहिःपदयोः समभिव्याहृतपदार्थग- तावयवपरत्वं तत्र घटस्यान्तबहिश्वेत्येवं षष्ठीनिर्देश एव दृष्टः । स एव च युज्यते । यत्र तु गृहाहिरित्यादौ पञ्चमी तत्र न गृहगतावयवग्रह- णम् । अपि तु गृहाभावदेशग्रहणम् । अत्र चात्मनोऽन्तर इति पञ्च- मी न तु षष्ठी ; योऽप्सु तिष्ठन्नद्भयोऽन्तर इत्यादिषु पीयेषु सर्वत्र पञ्च- म्या एव दर्शनात् । अतः पञ्चम्युपस्थापितोऽवधिरूपो योऽर्थस्तदविरोधे- नैवान्तरशब्दार्थो वक्तव्यः । अत एव व्यासायः 'बहिरबाहस्थितिसाधार- ण्या' दित्युक्तम् । तथा चान्तरशब्दस्याबहिरित्यर्थः । तत्र बहिष्ट्वाशे चावधिरूपार्थान्वयः । तच्च बहिष्ट्वं गृहाहहिरित्यादाविवाभावदेशत्वरू- पसू । तदन्यत्वं चाबहिष्ट्वं भावदेशत्वम् । तथा चात्मन्यसम्भवद- न्योन्यसमावेशमिथःसंश्लेषमूर्तद्रव्यदारुद्वयस्येवाभावदेशावच्छेदेन अश्वेऽपि आचार्यभाष्यतात्पर्यसमेतम् । वस्तुन्याकाशस्येव भावदेशावच्छेदेन च परमात्मसम्बन्धोऽस्तीत्याचार्यपाद- सम्मतार्थ एवेदं श्रत्यनुगुणः । वस्तुतस्त्विह पञ्चमीबलादन्तरपदं बहियों- गार्थकम् । 'अन्तरं बहिर्योगोपसंन्यानयोः' इति हिं स्मृतिः । तथा चा- मनोऽन्तर इत्यस्यात्मनो बहिर्वर्तमान इत्येवार्थः । व्यासार्यसूक्तेश्यायमर्थः आत्मनि तिष्ठन्नित्यस्य बाहिरबाहिस्स्थितिसाधारण्यात् आत्मनोऽन्तर इति वा- क्यमात्मबहिस्स्थितिं वदन्नात्मनि तिष्ठन्नित्यस्यात्मसद्भावदेशस्थित्यर्थकत्वव्युत्पा- दनेन परमात्मनस्तत्तद्वस्तुभावाभावदेशस्थिति विशदयतीति । तस्मादेत- छुतिप्रदर्शनेन तत्र तत्र जीवात्मन्यन्तःप्रदेशसद्भावस्थापनमत्यन्तानुपपन्नम् । अत एव सूत्रभाष्यश्रुतप्रकाशिकादिविरुद्धत्वादुक्तश्रुत्यानुगुण्यभङ्गप्र- सङ्गाच्च नान्यस्यामप्येवञ्जातीयकायां श्रुतौ सावयवत्वतात्पर्य कल्पयितुं श- क्यमिति । अपि च यत्परतया श्रतोनामीदृशीनां प्रवृत्तिस्तस्यैवार्थस्य भङ्गो न युक्तः ; न तु यत्रांशे न तात्पर्य तस्यापि । न चेमा आत्मनोऽन्तरवयवयाहै- रवयवसद्भावं विधातुं प्रवृत्ताः । न हि 'यः पृथिव्यां तिष्ठन् पृथिव्या अ. न्तर' इत्यादेः पर्यायस्य प्रत्यक्षप्रमितपृथिव्यादिगतावयवविधायकत्वं दृष्टम् । मतो यावन्ति वस्तूनि प्रमाणसिद्धानि सावयवानि निरवयवानि वा तेषु स- वेषु कात्स्नघुन परमात्मसम्बन्धाऽस्ति । न कश्चित् प्रदेशोऽपि तादृशः, यः परमात्मसम्बन्धं नानुभवेदित्यत्रैव तात्पर्यम् । अन्यत्तु सर्वमनुवादरू- पम् । तस्माद्विवक्षितस्य शरीरशरीरिभावस्य कास्न्येन परमात्मसम्बन्धस्य वा निरवयवत्वसद्भावेऽपि सिद्धया न तत्परपुरोवादावगतनिरवयवत्वबाधनेना- तत्परानुवादगतसावयवत्वसमर्थनं युक्तम् । अतो यथा यस्य पर्णमयी जु- हूर्भवति न स पापं श्लोक शृणोतीत्यंत्र क्रत्वजजुइथत्वेनावगतानः पर्णता- या अपापश्लोकश्रवणार्थत्वे तात्पर्यासम्भवात् न स पापमित्यादेः प्राशस्त्य- ईशावास्योपनिषद्भाष्यम् । मात्रे तात्पर्येणार्थवादत्वम्, तथा प्रकृतेऽपि निरवयवत्वेनावगत आत्मन्यन्तर- चयतात्पर्यासम्भवात् परमात्मासम्बन्धिप्रदेशाभाव एव वचनस्य तात्पर्येण व्या- प्तिमात्रबोधकत्वमेव । एवं सर्वत्र पुरोवादानुरोधेनैवानुवादा नीयन्त । यथा-सर्वाणि हवां इमानि भूतान्याकाशादेव समुत्पद्यन्त इत्यत्राऽऽकाशशब्दः पुरोवादिसद्विधाकारणवाक्यावगतचेतनत्वाविरोधेन रूढिभनेन नीयते । निर- वयवत्वश्रुतिश्चात्र परमात्मव्यप्तिविधानायानूधमानस्यात्मनो ग्राहकप्रमाण- प्रविष्टा सती पुरोवाद एवेति न तदर्थत्यागी युक्तः । यदि तावदन्तः- पदप्रयोगमात्रेणान्तरवयवस्वीकार एवाऽऽग्रहः , तन्तिः प्रविष्टः शास्ता ज- नानामिति प्रवेशवर्णनात् , यः पृथिवीमन्तरे सञ्चरन् , यश्चक्षुषि यो द्रष्ट- व्ये य आदित्ये या नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृयाकाशे य एतस्मिन् सर्वस्मिन्नन्तर सञ्चरतीत्येवं सुबालोपनिषदि सञ्चारश्रवणाच तत्र तत्र प्रवेशसञ्चारयोरपि परमात्मनि महामीमांसकेन खीकर्तव्यं स्यात् । विभु- त्वविरोधोऽपि कथञ्चिन्मर्षणीयः स्यात् । प्रवेशसञ्चारोपपत्तये सर्वत्र जीवा- दावन्तःप्रदेशे सविग्रहपरमात्मस्थितिरप्यूरीकार्या स्यात् । ततस्तदनुगुण- मणुत्वमेवात्मनामेषितव्यं भविष्यति । अतस्तत्र तत्रैवात्रापि गतिः परिशी- लनीया । वस्तुतोऽन्तः पदं न नियमतोऽन्तरवयवार्थकमित्यपि वक्ष्यते । तथा अन्यत्रापि तिरोधानानुपपत्तिप्रकरणे श्रुतप्रकाशिकायाम् , 'न च स्वरूपस्फुरणं भ्रमविरोधि । किं तु नित्यत्वाणुत्वनिरवयवत्वादीन्येव भ्रमविरोधीनि । तान्यागमगम्यानी'ति । एवं 'ज्ञानं विशुद्ध विमलं विशोक- मशेषलोभादिनिरस्तसङ्गम् । एकं सदैक' मिति श्रीविष्णुपुराणवचनव्याख्या- नावसरे भाष्यम्, 'उपचयापचयानर्हतयैकं तत एव सदैकरूप'मिति । अत्र श्रुतप्रकाशिका च, ,एकमिति पदं व्याचष्ट उपचयति । उपचयापचयौ वृद्धिक्षयौ । तदहत्वं सावयवत्वम् । सावयत्वाभावादेवैकशब्दवाच्यत्वम् । 1 आचार्यभाष्यतात्पर्यसमेतम् । ८१. । निरवयवत्वमेकत्वमित्यर्थः । तत एव सदैकरूपमिति । निरवयवत्वात्सा- वयवत्वप्रयुक्तवृद्धिक्षयरोहतमित्यर्थ इति । अन्यञ्च । यदि तावदन्तःशब्दो नानां शंमध्यवचनः, तहि घंटाँदौ बहिरेव विद्यमानस्योर्वाधःपाचवियंवमध्यरूपस्याप्यवयवस्य तदर्थत्वापत्तिः इंष्टमेवेति चेत्, तर्हि निरवयवेपि प्रत्यगात्मनि बसेरणाविव दशदिक्सम्बन्धस्य प्रामाणिकतया प्रागवांमध्यात्मकायविदिंगवच्छिन्नप्रदेशोधिोदिगंवच्छि. नप्रदेशादिष्वापाधिकमागेषु कस्यचिदन्तःशब्दार्थत्वसभवान्न पदार्थान्तरा- सम्बद्धपरमात्ममानसम्बद्धकिश्चिदन्तरवैयवप्रसिद्धिः । अथ यदि बहिःप्रदें- शभिन्नप्रदेशवचनोऽन्तःशब्द इतीष्यते, तर्हि बहिष्टवमेवेदं 'किरूपमिति विवक्तव्यम् । खभिन्नपदार्थसम्बन्धिखप्रदेशी बहिःप्रदेश इंति चेत् - तन्न। घटाधन्तरवयवेप्याकाशदिस्सम्बध्यमानत्वेन तस्यापि बहिःप्रदेशत्वापत्तः । अथ स्वानधिकरणदेशावच्छिन्नपदार्थसंबन्धिखप्रदेशस्वबहिःप्रदेश इति चेत् तहि अन्तर्बहिःशब्दयाः कुत्र शक्तिरुक्ता भवति । चाहे शब्दस्य स्वान- धिकरणदेशावच्छिन्नपदार्थसम्बन्धिस्वप्रदेशे शक्तिः, अन्तःपदस्य तादृशस्व. प्रदेशभिन्नखप्रदेशे शक्तिरिति चेत् तन्न । ईशगुरुतरार्थगौचरशातिकल्पनाम- पेक्ष्य बहिःशब्दस्य स्वानधिकरणदेशे शक्तिः, अन्तःपदस्य तद्भिनदेश इति लध्वर्थशक्तिकल्पनसैव युक्तत्वात् । न च तावता व्यवहारानिर्वाहः ; सुख निरूढत्वात् । तथा हि- घटस्य बाहिरवयवे पिपीलिका संचरतीत्यत्र बहिः. शब्दार्थो घटानधिकरणदेशः । तस्यावयवपदार्थे संयुक्तत्वमवच्छिन्नवस्तु- संयोगाश्रयत्वं वा सम्बन्धः । घटस्यति षष्ठया बहिःशब्दार्थानंधिकरणेऽव- यने चान्वयः । तथा च घटानधिकरणदेशावच्छिन्नसंयोगशालिघटावयवे पिपीलिका संचरतीति विवक्षितार्थो लभ्यते । एवं घटान्तरवयवे चरती- त्यादौ घटानधिकरणदेशभिन्नदेशावच्छिन्नसंयोगशालिघटावयव चरतीत्यर्थ - 111 ८२ ईशावास्योपनिषद्भाष्यम् । लाभो बोध्यः । अत्र चानधिकरणदेशभिन्नदेश इति नान्तःशब्दार्थो गौर- वात् । अपित्वधिकरणदेश इत्येव । तथा च भावदेशोऽभावदेश इत्या- चार्यपादोक्तार्थयोरेवान्तर्बहिःशब्दशक्तिरिति क क्लेशनिर्वाहः । अवश्य च बहिःशब्दस्यानधिकरणदेशमानार्थकत्वमूरीकर्तव्यम्, न पुनरनधिकरण- देशावच्छिन्नसंयोगवत्स्वप्रदेशार्थकत्वमेव । गृहाहहिर्गतो गोपाल इत्यादौ नाहःशब्दस्य गृहीयप्रदेशपरत्वाभावात्, गृहानधिकरणविपिनादिदेशपरत्वात् । अतोऽवश्याकोकार्यलयर्थशक्त्यैव सर्वनिर्वाहे न गुर्वर्थवाचित्वकल्पन युक्तम् । एवं च यत्रानधिकरणदेशरूपबाहिःशब्दार्थस्य क्रियासवन्धविवक्षा, तत्र गृहादि- त्येवमवधिसमर्पकपंचमीप्रयोगः । यत्र तु तस्य बहिःशब्दार्थस्यावयवाद्यन्व- यविवक्षा तदर्थे च तद्वाचिशब्दप्रयोगः, तत्र तस्मिन्नवयवेऽवयविसम्बन्ध- लाभाय पंचमी विहाय षष्ठीप्रयोगः । यथा घटस्व बहिरवयवे पिपीलि- फेति । सा तु षष्ठी सर्वसंबन्धोपस्थापनक्षमतयाऽवयवशब्देनेव बहिःशब्दे- नाप्यन्वेति । अत एव षष्ठयाः सर्वत्र संभवादवयवान्वयाविवक्षया क्रिया- न्वयविवक्षया बहिःशब्दप्रयोगेऽपि अवधिवाचिनः प्रातिपदिकात् षष्ठ्यपि कचित् प्रयुज्यते । पंचमीप्रयोगे तु न बहिरवयवसंबन्धः कचिदपि लक्ष्यते । एवं च वहिःशब्दस्यानधिकरणदेशार्थकत्वात्तत्प्रतियोग्यर्थसमर्पकस्यान्तःशब्द- स्थाधिकरणदेशार्थकत्वमेव युक्तम् । एवं बहिःशब्दस्य स्वसमभिव्याहृतपदा- थीयप्रदेशशक्तत्वामावादेव 'बहिरन्तश्च भूतानामचरं चरमेव च' (14-15) इत्यत्र श्रीमति गीताभाष्ये 'पृथिव्यादीनि भूतानि परित्यज्याशरीरो बहि- तत' इत्यभाषि । तथाचाचार्यपादामिमतार्थ एव सिद्ध इति । यद्यपीदं विभाव्येत-अन्तःशब्दःसमभिव्याहृतपदार्थगतदशदिगव- च्छिन्नतत्वत्प्रदेशसंबन्ध्येकप्रदेशपरः । यथा शम्यन्तर्वहिरित्यादौ । बहि:- शब्दप नाशकप्रदेशानधिकरणदेशपरः । स च देशस्तत्पदार्थवाचावयव- आचार्यभाष्यतात्पर्यसमेतम् । ८३ रूपोपि भवति, पदार्थान्तरदेशरूपोपि । यत्न गृहाहहिरित्येवं पंचमीप्रयो- गः तत्र गृहस्य कृत्वस्यावधित्वेनान्वयात् गृहात्पदार्थान्तरदेश एव गृपते । यत्र तु षष्ठीप्रयोगस्तत्र यथासम्भवं पदार्थान्तरदेशो वा प्रकृतपदार्थबायप्रदेश एव वा सर्व एव वा गृह्यते । ततश्च तदन्तरस्य सर्वस्थत्यादावन्तःशब्द- स्य तत्तत्पदार्थायदशदिगवच्छिन्नप्रदेशमध्यप्रदेशपरत्वात् प्रत्यगात्मनोऽपि ताशप्रदेशस्वीकर्तव्य-- इति; अथापि प्रागुक्ताभिरुपपतिमिरन्तःशब्द- घटितवचनानामन्यथासिद्धत्वात्, 'यमन्तस्समुद्रे कवयो क्यन्ती'त्यत्रेशप्रदे- शार्थकत्वं विना परितस्थितप्रदेशमध्यप्रदेशमात्रेप्यन्तःशब्दप्रयोगदर्शनाद, पटे भूमावास्तृते पटभूतलयामध्ये च पिपीलिकाप्रवेशे पटान्तश्चरति पिपी- लिकेति प्रयोगोपलम्भात्, यवनिकया पिहितमङ्गणं प्रविष्टे च नटे 'नटो- यवनिकान्तःप्रविष्ट' इति प्रयोगात् तत्र तत्र ताशप्रदेशपरत्वासम्भवेन पटयवनिका घावृतदेशार्थकत्वस्वैवान्तःशब्द स्वीकर्तव्यत्वात् तादृशार्थस्वी- कारेणैवोपपत्तौ निरवयवत्वबाधायोगात्, 'य आत्मनि तिष्ठन्नात्मनोन्तर' इति श्रुतौ पंचमीप्रयोगेणात्मानधिकरणदेशतदिनदेशवृत्तित्वस्यैव विवक्षित- वेन तदनुसोरण सर्वत्र तथा विवक्षाप्रतीतेः, तथा, 'तस्मिन्यदन्तस्तदन्वे- ष्टव्य'मिति श्रुतौ निरवयवे परमात्मन्यपहतपाप्मत्वादिकल्याणगुणकथन- स्थलेऽन्तःशब्दस्य प्रयोगेण तत्र प्रागुक्तप्रदेशरूपार्थग्रहणासम्भवात् ग्रहणे परमात्मप्रदेशान्तरेष्वपहतपाप्मत्वाधभावप्रसाच्च कृस्लपरमात्मग्रहणस्यैवकर्त- व्यतया तद्वदेवेहापि कृस्वतत्तद्वस्तुग्रहणोपपत्तेः बहिःशब्दस्य च तदन- धिकरणदेशपरतया प्रयोगस्य संप्रतिपन्नतरत्वान्न कथमप्यात्मन्यन्तरवयव- स्वीकारसंभवः । अथैवमसंदिग्धार्थकतत्परपुरोवादनिरवयवत्वभतिबलेनान्यथासिद्धात- त्परानुवादमतान्तःशब्दधटितवचनानां वास्तवान्तरषयवसाधकत्वामावेऽप्यौ- ८४ ईशावास्योपनिषद्भाष्यम् ।। पाधिकतादृशप्रदेशपरत्वं कस्मान्न भवतीति चेत् उच्यते । काममस्तु, यदि संभवति । का नस्तन हानिरिति । निरूपणे चासम्भव एव निश्चीयते । जालकरन्ध्रनिविष्टरविकरनिकरकुहरनिरन्तरसश्चरणनिरंशरजःकणनिरीक्षितनये- तात्यन्ताणुष्वप्यात्मसु -- प्रमाणबलेन दशदिक्संबन्धस्तावदसकीण एवाङ्गीकत क्यले । न च निरवनवे :कथं प्रादेशिकस्सम्बन्ध इति शक्यम् । न्या- एमते निरवयव. एवाऽऽकाशे घटादिभिः प्रादेशिकसम्बन्धस्य खीकृतत्वात् । 1. च. तलापिः केनाप्यवच्छेदकान्तरेणाकाशोऽवच्छिद्यते । अथ तत्कल्पिते इ-प्रदशे घटस्सम्बनातीतिः शक्तिव्यम् । तेनैवावच्छेदकान्तरेण कथमाकाशः देशेऽवच्छिन्न इति प्रश्नस्य जागरूकत्वात् । अतो वरं यः पदार्थस्सम्बध्नाति, स्यैवावच्छेदकरवस्य प्रदेशकल्पकत्वस्य स्वीकरणम् । तस्मात् परित ऊर्ध्व- भव, स्थिवाभिर्विभिन्नाभिर्दिग्भिराल्माप्यवच्छिद्यत इति नूनं युक्तमिहापि देशकल्पनम् । यः पुनरन्यादृशोन्तरवयवः. कल्प्यते सः कस्य वस्तुनः म्बन्धबलेन कल्पनीय... इति विचार्यम् । न तावत्परमात्मालिरिक्तस्य ; दपेक्षयाऽऽत्मनस्सूक्ष्मवेन. तत्र तत्सम्बन्धायोगात्, नापि परमात्मनः ; सम्बन्धस्य करनेऽप्यत्मिाशे विद्यमानत्वेन निरवच्छिन्नसम्बन्धशालितया हशान्तरवयव प्रत्यवच्छेदकलासम्भवात् । न यात्मबाद्यावयवासम्बद्धं हिशान्तरचयवमानसंबद्धं किममि वस्तु वक्तुं शक्यम् । न च वस्त्वन्त- बच्छिन्नतया तत्प्रदेशवचचासंभवेऽपि दशदिगवच्छिन्नत्वाभाव एव ताह- मध्यप्रदेशावच्छेदक इति वाच्यम् । अस्यां दिश्ययं प्रदेश इतिवत् अमि- भावेऽयं प्रदेश इति व्यवहाराभावेनाभावस्थावच्छेदकत्वासंभवात् । अभा- स्यापि भावान्तरत्वावश्यम्भावेन तदभावेऽभावस्यैव दुर्वचत्वाच्च । तस्मा- नेपानिकान्तःप्रदेशस्य वक्तुमशक्यत्वादुन्नैव गमनिका ग्रासति । श्रीमनपराशरपावैश्व श्रीसहस्रनामभाष्ये 'सरेणुप्रमाणास्ते आचार्यभाष्यतात्पर्यसमेतम् । रश्मिकोटिविभूषिता' इति जीवात्मनां त्रसरेणुरूपत्वमभाषि । श्रीमद्यामुनमुः निभिश्च श्रीमदात्मसिद्धौ 'वातायनविवरदृश्यमाननिर्मागत्रसरेणुव्यतिरेकेण परमाणुखोकारे कारणाभावा'दिति बसरणोर्निरवयवत्वमेव न्यरूपि । श्रीमद्विलोकाचार्यैश्च तत्त्वत्रये निरवयवत्वमवयवसमुदायरूपत्वाभाव एवं चितः प्रावोचि । श्रीमन्तो रम्यजामातृमुनयश्च तयाख्याने ज्ञानकाकार- तयाऽवयवसंघातात्मकत्वाभावमवादिषुः । तदर्थश्च तर्कनिरूपणावसरे व्यक्तो- भविष्यति । एवं च सर्वथाऽवयवराहित्यमेवात संप्रतिपन्नम् । श्रीपाल- सरखतीभिश्च मुमुक्षुप्पडि व्याख्याने तात्पर्यदीपिकायां व्याप्यव्या- पकयोर्जीवपरयोरुभयोरेव तेजोद्रव्यवत्स्वच्छत्वेन परस्परप्रतिघातकत्वाभावा- समानदेशत्वोपपत्तेनियन्तृनियाम्यभावस्य विनिगमकत्वात् श्रुतिसिद्धाऽन्त- ाप्तिरुपपद्यत' इति दीपकृतः प्रमाणीकृत्य, जीवानामन्तःप्रदेशो नास्तीति अन्ताप्तिश्च तदधिकरणदेशावस्थानरूपति च यथाचार्यपादवर्णितं स्व- खपूर्वाहतः पक्षस्सुस्पष्टं दर्शितः । तदेवं सर्वसंप्रदायसदाचार्यसमाहत 'अप्रतिष्ठितकेवलकुतर्कमूलमेवेति निर्भय ब्रवीति भवान्, स्वयं चानधी- तप्रमाणामीमांसककल्पनीयं कमपि तर्क प्रतिष्ठितं प्रमाणानुप्राहकं चाभि- मन्यत इति, अहो ! अत्र भवतोऽभिनिवेशः । तीश्चात्मनामनवयवत्वप्रमाणमेवानुगृह्णान्ति । तथाहि--सावयवत्वं यदि स्यातार्ह घटादिवेदेषामनित्यत्वं प्रसज्यते । न च श्रुतिरपवादि- केति शक्यम् । सावयवत्वनिरवयवत्वयोयोरपि श्रुतिप्रतिपन्नत्वाविशेषे कत- रस्यादरो युक्त इति विचारे तर्कविरुद्धं परित्यज्य तदविरुद्धतदनुकूलार्थ- स्वीकारस्यैव कर्तव्यतेति। तस्यानुप्राहकत्वसंभवात् । अत्र 'एकं सदैक' मिति श्रीविष्णुपुराणवचनमपि पूर्व प्रादर्शि । वस्तुतश्श्रुत्योस्समवलत्वमेव नास्तीति च प्रामबोचाम । किश्चात्मनः प्रत्यक्त्वानुकूलत्वैकत्वविशिष्टतया .
८६ ईशावास्योपनिषद्भाष्यम् । सर्वदा भानमिति संप्रतिपन्नम् । तदेवैकत्वमहामिति भान एकवचनेन प्रदश्यते । यदि तावदनेकात्मकस्स्यादात्मा त[नेक इत्यपि भायात् । न हि कदा- प्यनेकत्वाभाने सर्वदेवाबाधेन भातस्यैकत्वस्यानादरो युक्तः । अत एव नास्य घटादावकत्वभानस्येव गौणैकत्वगोचरत्वकल्पनम्, प्रमाणाभावात् । न चावयवसमुदायजनितः कश्चिदक्यव्यात्मेति युक्तम् । तार्ह स्वरू- पेण जन्यत्वनाश्यत्वाविप्रसङ्गात् । अवयवातिरिक्तावयविस्वीकारस्यैव कुत्रा- प्यसम्भवाच्च। अपि चात्मनः प्रकाशकोऽयमहमिति प्रत्ययः किमवयवसंघातविषयकः उतैकैकावयववियः ! नाधः, एकैकस्याप्यवयवस्यावयवसंघातविषयकप्रत्य- याधारत्वे. तस्य प्रत्ययस्याहमित्याकारकत्वस्यैवासम्मवात् । योयहमिति धर्मी भासमानस्स प्रत्यगेव भवति, न पराक् । प्रत्यक्त्वं च स्वस्मै स्वयंप्रका- शमानत्वम् । आत्मान्तर्गताश्चावयवाः प्रत्येकं स्वमिवान्यानप्यात्मावयवा- न्यदि गृह्णन्ति तर्हि तेऽन्येऽवयवाः परस्म प्रकाशन्त इति एकमवयवं प्र- त्यन्ये परांच एवेति कथमहमिति प्रकाशमानत्वम् ? यद्येवं तेषां प्रकाश- मानत्वम्, तहमिति प्रतीत्या. प्रत्यक्त्वसमर्थन भाष्यादिषु क्रियमाणं न नाघटीति व्यभिचारादिति प्रत्यक्त्रं न सिद्ध्यत् । यद्येवं स्वं प्रत्यञ्चम- न्यांश्च पराचावयवानेकोवयवो गृह्णीयात्, तार्ह वयमनेक इति नूनं प्रती- यात् । तथा घटमहं जानामीत्याधनुभवेष्वायवभेदमिन्ना बढ्यो ज्ञानेच्छाव्य- क्तयो विषयतया स्वीकरणीयाः । न खल्ल घटादावुपलभ्यमानो रूपादिः प्रत्यवयवविश्रान्तिराहितः प्रत्यवयवविश्रान्तातिरिक्त एको वा भवति । न च यः केवलावयवमात्रेण नोत्पाधते, किं त्ववयवसंघातन, स सर्वत्रावयवेष्वेक एव- भवति, न प्रत्यवयवभिन्न इति वाच्यम्, अनुपलम्मात् । सुधापूगताम्बूल- आचार्यभाष्यतात्पर्यसमेतम् । ८७ चर्वणसम्पादितसंघातसम्भवस्य रागस्य प्रत्यवयवमेव दर्शनात् । सकलाव- यवगतस्य च तत्र रक्तरूपस्यैकत्वे ताम्बूलचर्वणसंपृक्तद्वितदन्तरागनाशे स- कलदन्तरागनाशापत्तिः । अनाशे तु पावितद्वितदन्तरागस्याप्युपलम्भाप- तिः । अतोऽवयवभेदेन गुणभेदस्यैवोपलम्मादिहापि तादृशप्रतीतिविषय- ज्ञानादेर्बहुत्वमेष्टव्यम् । न च यथा चर्वितताम्बूलगतरागोत्पादिका शक्ति- स्त्रिष्वपि पदार्थेष्वेकैव स्वीक्रियते, तथा प्रकृतेऽपि ज्ञानगुणकत्वामिति वाच्य- म् । तत्रापि शक्तिभेदस्यैव स्वीकारात् । न च तेषां त्रयाणामप्यकश- क्त्यवच्छिन्नत्वेन राम प्रति कारणत्वस्य वक्तव्यतया न शक्तिभेद इति वा- च्यम् । अचर्वणे शक्त्यभावेन पश्चादुत्पद्यमानांशं प्रति तेषां पृथकारणत्व- घदेव राग प्रत्यपि कारणत्वोपपत्तेः । न च शक्तिखीकारः किमर्थ इति वाच्यम् । शक्तिकल्पनात् पूर्वमेव त्रयाणां कारणत्वज्ञानावश्यम्भावन कारणता- वच्छेदकज्ञानस्यापि पूर्वमेवावश्यकतया शक्तः कारणतावच्छेदकत्वासम्भवा- त् । तत्वीकारस्तु प्रमाणबलायत्त इति । अस्तु वा सा सर्वपदार्थसाधारणी यथाकथञ्चित् । इदं तु ज्ञानं रूपादिवद्विशेषगुण इति विशेषगुणत्वेन हे- तुना बहुत्वं साध्यमानं न कथञ्चिद्वाध्येत । न च गुणस्य प्रत्यवयवभिन्नत्वे- ऽपि ज्ञानस्य द्रव्यत्वाभ्युपगमादवयवभेदेन भेदो न स्वीकार्य इति वाच्यम् । तथाऽपि तस्य प्रभास्थानीयत्वात् प्रभायाश्च दीपसम्बन्धितत्तदवयवभेदेन भेदत्यैव दृश्यमानतया सङ्घातवृत्त्येकप्रभाऽनङ्गीकारवदिहापि सीमावयवे- प्वेकज्ञानानङ्गोकारस्यैव युक्तचात् । न खल्वप्रमाकाणामवयवानां कश्चित् सङ्घातः सप्रभाक इति युक्तम् । अतो न प्रत्येकमवयवस्य ज्ञानराहित्यं यु- क्तं वक्तुम् । नान्त्यः । यद्येकक एवावयवोऽहं जानामीत्यादौ भासते , तर्हि तस्यै वायं देह इत्यन्येऽवयवाः किं करिष्यन्ति ! न च सर्वेषामवयवानामय देह ८८ ईशावास्योपनिषद्भाष्यम् । इति युक्तमभ्युपगन्तुम् । तथा सति हि कश्चिद्वष्टि कश्चित् द्वेष्टि, कश्चि. त् प्रवर्तयति कश्चिन्निवर्तयति, कश्चित् तिष्ठासति कश्चिदुपविवक्षतीति ब- हुनायकस्येव राज्यस्य भूयिष्ठः क्षोभः स्यात् । अथ पाण्डवाः पाञ्चाली- मिव केनापि समयेन प्रत्येकमवयवास्तनुमिमां भोक्ष्यन्त इंति ; यद्यवम् , यस्मिन्नवसरे येनावयवेन यत् कर्म कृतं पुण्यं पापं वा तस्य फलं तेनैवानु- भोक्तव्यमित्यन्येऽवयवा विषमविपच्यमाननिजकर्मवैचित्र्येण पृथक्फलं भोक्ष्य- न्त इति कश्चिदवयवः स्वर्गमारोहदन्यो नरकमियात् अपरश्च भुवं बम्भ्र- म्येतेति कदाचिदवयवविभागोऽपि प्रसज्यते । यथाऽर्जुनस्तीर्थयात्रायाम- न्यासु वराङ्गनासु व्यापृतस्तद्वत् । तथा चैकस्मिन्नवयवे योगबलेन मुच्यमा- नेऽन्यवयवा अननुष्ठितोपाया अपवर्गमलममानाः पृथक्मय संसरेयुः । जड- भरतस्य च महात्मनो मृगभावनापादितमृगमावस्यान्येऽवयवाः कान् देहा- नलकुर्वन्तीति विचार्य स्यात् । एवं पाण्यवच्छिन्नामावयवस्पृष्टं पादाव- च्छिन्नात्मावयवः स्पृशन् , यदहं पाणिना पूर्वमस्पाक्षम् , तदिदानी पादेन स्पृशामीति न प्रतिसन्दध्यात् । न च सर्वेषामवयवानां पृथग्भूतानि धर्ममूतज्ञानानि युगपदेव कृत्वं शरीरं व्याप्नुवन्ति युगपत् सर्वेषामेकरूमा- मेव प्रवृत्ति निवृत्तिमन्यद्वा जनयन्तीति सर्वमुपपद्यत इति वाच्यम् । तथा सति पार्थक्येनैव सर्वकार्यक्षमाणामेषामवयवानामीदृशः सङ्घात एव किमर्थ स्वीकार्य इति विचारणीयत्वात् । यद्येवं , अन्येऽपि जीवाः कदाचिदनेन जोवन संहता एकं देहं युगपदधितिष्ठेयुः । न च तेषामेषां च किश्चिद्वै- लक्षण्यमस्ति , येनैतावद्भिरेवावयवभूतैर्भवितव्यम् ; नान्यरित नियम्येत । न च केचित् संहतिस्वभावाः केचित् पृथक्भावस्खमावा इति खरं वक्तुं श- क्यम् । तथा सति विभुत्वेनात्मानमभ्युपगम्य स देहान्तरुपलभ्यस्वमावो बाहिरनुपलभ्यस्वभाव इति केषांचित् कल्पनस्यापि युक्तत्वप्रसङ्गात् । तथा , आचार्यभाष्यतात्पर्यसमेतम् । ८९ च गतम् 'नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथेति स- त्रेण । न चैषां प्रत्येक मेदवत् समुदायरूपेणाभेदोऽप्यस्ति तथावि- घामेदसद्भावाच्च कयमप्येकमेव ज्ञानेच्छादिकं स्वीक्रियते न पृथक्कार्यभाक्त्व- मिति मन्त्रयितव्यम् । भगवद्भाष्यकारैर्मेंदामेदवादस्यातिपापीयस्त्वेनाभि- हितस्यानुपपत्तिबहुलत्वेनावेक्षणासम्भवात् । अपि चैवमेते पृथक्पृथगह- मिति स्वयंप्रकाशर्मानाः प्रत्येकमेवाहमर्थतामात्मतामनुभवन्तीत्यापन्नम् । अस्तु तावदिति चेत्-तथा सत्येकैकस्यैवाहंशब्दात्मशब्दादिवाच्यत्वस्य सि- द्धतया 'ममान्तरात्मा तव च ये चान्ये दहिसंज्ञिताः' 'य आत्मनि तिष्ठ- न्नात्मनोऽन्तर' इत्यादौ सर्वत्र तत्तच्छब्दप्रतिपन्नेषु केवलमवयवेषु कथद्वार- मन्तवर्तित्वं परमात्मनः प्रतिपादयिष्यति भवान् ! तस्यापि किश्चिदन्तरवय- वाङ्गीकारादिति चेत् —ताह एतावदस्मदुक्तमेव भवता पुनः पुनः कर्णे कर्त- व्यम् । अनवयवेऽपि तत्रान्तर्वतित्वमन्यथोपपादयाम इति चेत् हन्तवमाचा. यंपादक्षुण्ण एव पथि सम्प्रति प्रविष्टो भवानिति कृतमात्मनोऽवयवमेदकल्प- नव्यसनेन । सर्वमिदमाभिसन्धाय 'अन्तवन्त इमे देहा' इति गीतार्थ भाष.. माणा भगवन्त एवाभाषिषत, 'न चानेकोपचयात्मक आत्मोपलभ्यते । स- चत्र देहे अहमिदं नानामीति देहादन्यस्य प्रमातृतयैकरूपेणोपलब्ध'रिति । तस्मात् प्रत्यक्षबाधितार्थप्रत्यायिकानां 'आदित्यो यूप' इत्यादीनां श्रुतीना- मिवान्तःपदघटितानां श्रुतीनामापातप्रतीतार्थग्रहणासम्भवात् अक्लेशेनैवान्य- थोपपन्नत्वाच्च प्रत्यगात्मनो विभुत्वे वा देहपरिमाणवे वाऽङ्गुष्ठमात्रत्वे वा यथा प्रमाणमणुत्वे वा न सर्वथा सावयवत्वसम्भावनाप्रसक्किरिति सुष्टु प्रतिष्ठित- मेषां निरवयवत्वमिति । यस्तु विभुद्रन्याणां कालादीनां देशपरिच्छेदरहितत्वेन कथं नवहि- व्याप्तिः परमात्मन इति प्रश्नः, नैष भवतः सुकरः । भवन्मते बाहःश- 121 ९० ईशावास्योपनिषद्भाष्यम् । ब्दस्य तत्तत्पदार्थीयबाह्यावयवपरतया विभुद्रव्येऽपि तथैव निर्वाहेण विभुद्र- व्यामधिकरणदेशापेक्षाया एवाभावात् । वस्तुतत्त्वकथनाय कयाऽपि विध- या प्रश्नः प्रवर्त्यत इति चेत् अस्तु तावत् । तदेव तत्त्वकथनं शोधयामः । यदादौ ‘महतो महीया' निति श्रुत्या सर्वीपेक्षया महत्तरत्वप्रतिपादनात् . तदनीकर्तव्यमिति , तन्न; अस्थाः श्रुतेः 'अणोरणीया'नित्यतत्प्रतिनिर्देशरू- पतया तदर्थस्य च दुग्रहादुर्घहतर इत्येवरूपस्य प्रागुक्ततयाऽत्रापि तदानुगु- ण्यसम्पादनेन 'तहरे तद्वन्तिके' इत्यत्रेव विषयासक्तचतसां दुर्ग्रहात् दु- घेहतरः न्यस्तचेतसां तु सुग्रहात् सुग्रहतर इति विशिष्टवाक्यार्थवर्णनसम्मवा- त् 1 वस्तुतस्तु यथा प्रत्यगात्मपरमात्मनोः सूक्ष्मत्वाविशेषेऽपि परमात्म- गतं सूक्ष्मत्वं नियन्तृत्वसंवलितं निरुपाधिकं चेत्यतिशयितम् । तथा का- लादिद्रव्याविशिष्टत्वेऽप्यस्य विभुत्वं तथैव तन्नियन्तृत्वसंवलितत्वान्निरु- पाधिकत्वाच्चातिशयितमिति तावतैव महीयानिति व्यपदेशोऽणीयानितिवत् निर्वाह्य इति प्रागेवोक्तम् । किं चायं महत इति सामान्यशब्दो न विशिष्य विभुत्वेन सिद्धकालादिग्रहणाभावे निरवकाश इति नेयं श्रुतिरपेक्षितसा- धनायालमिति । अत एव 'विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थिता जगदिति दशमाध्यायवचनोपन्यसनमप्युपेक्षणीयम् । किं च नेदमेकांशेनेति पदं भगवत्स्वरूपैकदेशं विग्रहैकदेश वा वक्ति । किं तु पूर्वश्लोके तत्तदेवाव- गच्छ त्वं मम तेजोशसम्भव' मित्यत्र तेजोंशसम्भवमिति पदेन नियमनश- क्त्येकदेशसम्भवमित्यर्थस्योक्तत्वात् तदैकार्थ्याय नियमनशक्त्यकदेशमेव व- क्ति । अत एव भगवता भाष्यकृता 'यथा मत्सङ्कल्पं नातिवर्तेत, तथा मम महिम्नोऽयुतायुतांशेन विष्टभ्याहमवस्थितः' इति भाषितम् । एवं 'मम तेजोंशसम्भान' मित्येतदभिन्नार्थकेन 'एकांशेन स्थितो जग' दित्यनेन समा- नार्थकाममिसन्याय 'यस्यायुतायुतांशांशे विश्वशक्तिरिय स्थिते ति विष्णुपु- आचार्यमाष्यतात्पर्यसमेतम् । ९१ : राणवचनस्य भाष्यकृद्भिरत्रैव गीताभाष्य उदाहृतत्वेन तत्रापि नियमनशक्त्ये- कदेशार्थकत्वस्य स्पष्टतयां न तस्यापि वाभिमतसाघकत्वसम्मवः । आप च वचनयोरनयोः स्वरूपैकदेशपरत्वेऽपि 'इहैकस्थं जगत् कृत्वं पश्याध सचराचर' मितिवदेवोपपत्तेन विशिष्य विभुत्वेन निर्धारितव्यक्त्यपे- क्षयाऽपि विभुतरत्वसाधकता । यत्तु तस्यापि वचनस्य प्रकृतार्थसाधक- त्वेनोपादानम् , , तदत्यन्तमयुक्तम् । तत्र किमेकस्थमिति पदस्यात्मखरू- पैकदेशपरत्वमभिसंहितम् , विग्रहैकदेशपरत्वं वा ? नायः, 'मम देहे गु- डाकेशे' ति विग्रहस्य निर्दिष्टत्वात् । अन्त्येऽपि किं जगत्कृत्ममिति प्रा- कृतप्रपञ्चमात्रग्रहणम् उत नित्यविभूतिलीलाविभूत्युभयस्य ? नान्त्यः, यस्य देहस्यैकदेशे नित्यविमूतिरास्ति स देहः किमप्राकृत उत प्राकृताप्राकृतविलक्ष- णः ! नान्त्यः अपसिद्धान्तात् । नायः, तस्यापि नित्यविमूत्यन्तर्गततया तस्य तदेकदेशवर्तित्वाभावे कथं कृत्स्नविभूतेस्तदेकदेशस्थत्वम् ? नित्यविभू- त्यन्तर्गतनित्यविग्रहपरिणामविशेषस्यैव चेदेकदेशावृत्तिता, कथं तर्हि नित्यवि. भूतिस्तत्र मास्यति । नच प्राकृतप्रपञ्चमात्रमिति तावता हि प्रकृत- चचनेन तदपेक्षया विभुत्वमेव सिद्धयेत् न तु सर्वापेक्षयेति । अवश्य चास्य वचनस्यैतावन्मात्रविषयत्वमेवाभ्युपेत्यम् । 'अमी हि त्वा सुरसङ्घा विशन्ति' 'रुद्रादित्या वसवो ये च साध्या' इत्येवं तदन्तर्गतमात्रस्य तत्र कीर्तनात् । अत एव 'तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधे'त्यत्र भा- ष्यम् 'अनेकधा प्रविभक्तं ब्रह्मादिविविधविचित्रदेवतिर्यङ्मनुष्यस्थावरादि- भोक्तृवर्गपृथिव्यन्तरिक्षवर्गपातालातलवितलादिभोगस्थानभोग्यभोगीपकरण- भेदभिन्न प्रकृतिपुरुषात्मकं कृत्वं जगत्' इति । न छत्र त्रिपाद्विभूति- विस्तारो व्युत्पादितः । द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेने त्यत्रापि 'धुशब्दः पृथिवोशब्दश्वोभावुपरितनानामघस्तनानां च लोकानां प्रदर्श- पक्षः ९२ ईशावास्योपनिषद्भाष्यम् । नार्थी' विति । 'नमस्स्पृशं दीप्तमनेकवर्ण' इत्यत्रापि नभश्शब्दः-प्र- कृत्यतीतपरमच्योमवाची । सविकारस्य प्रकृतितत्त्वस्य पुरुषस्य च सर्वाव- सस्य कृत्तस्याश्रयतया नभस्स्पृशमिति वचनादिति । यदि नित्यविभूति- मपि व्याप्य विग्रहोऽयमस्ति तार्ह स्पृशमिति तदेकप्रान्तमात्रसम्बन्धाभिधायि. पदमपि न सङ्गच्छते । किञ्चेह नित्यविभूतिग्रहणेऽपि कृत्स्नजगदाधारभू- तप्रकृतविग्रहापेक्षयाऽपि विभुत्वं परस्य कस्मात् प्रमाणादवगमिष्यते । वस्तु- तः पुनरिह प्राकृतप्रतश्चमात्रकथनान्न सीपेक्षया विभुत्वमनेन वचनेनावग- न्तुं शक्यामिति । किञ्च. यदि कालादिषु विभुत्वव्यवहारः कतिपयमहाद्रव्यापेक्षया नि- कृष्टपरिमाणराहित्यमात्रण न तु-परमात्मतुल्यपरिमाणतयेति, तर्हि 'प्रियशि- रस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेद' इति सूत्रं विरुद्धयते । ब्रह्मवरूपस्य शिरःपक्षपुच्छदिरूपन्नाशीकारे बाघकाभावात् । न च शिरआदिरूपत्वे शरीरस्येवानित्यत्वप्रसङ्गः, नित्यविग्रहादिक्षुपपत्तेः । न च सत्यं ज्ञानमनन्त- मिति श्रुतिविरोधः, देशकालापेक्षयाऽपि विभुत्वखीकारेण तदपरिच्छिन्नत्वा- व्याघातात् । ब्रह्म स्त्रमध्यकायात्मकमिजस्वरूपैकदेशेन देशकालादिकमखि- कमपि विभूतिवर्गमाक्रम्य ततो मा शिरःपक्षपुच्छात्मना समस्तीति स्वी-, कारे हि नानन्यचतिविरोधप्रसक्तिः । न च शिरःपक्षादोंके मिथःपरि- माणतारतम्बदचाइमण्यापि तथालेकदेशस्थौल्यान्यप्रदेशकार्यादिपसम्किीरति सूत्राभिमतो दोष इति वाच्यम् इष्टप्रसक्तः । अस्थूलत्वादिश्रुतिस्त्वश- रीरत्वादिश्रुतिवदेव निर्वाह्या । न च वन काश्य तत्र कचिद्वस्तुनि ब्रह्म- व्याप्त्यमावापतिरिति चोदनीयम् । सर्वस्मादपि वस्तुनो बहिरेव शिरःप- साधनोकारात तत्र वस्त्वन्तराभावन तत्राव्याघेरप्रसक्तः । ब्रह्मस्वरूपं तु पहिरेवं शिरःपक्षादिरूपं नित्यं चैव प्रसिद्धमिति न किञ्चिद्धीयत इति । .
आचार्यमाष्यतात्पर्यसमेतम् । ९३ अतः कालादिकतिपयव्यसमपरिमाणत्वस्यव ब्रह्मणि सत्त्वाब्रह्मवत्तेषामपि शिरःपक्षादिरूपत्वे प्रमाणाभावेन सर्वत्रैकरूपतया विभुत्वस्यैवाङ्गीकार्यतया ब्रह्मणि शिरःपक्षाधङ्गीकारे तदेकदेशे कायर्यादिना ब्रह्मव्याप्त्यसम्भवादान- न्त्यश्रुतिविरोध इति सूत्रतात्पर्यस्य वर्णनीयतया न ब्रह्मणो विभुतरत्वास- द्विरिति न कालादिविभुत्वबोधकप्रमाणेषु लक्ष्यार्थग्रहणं युक्तम् । यदपि ब्रह्मतुल्यविभुद्रव्यविवेचनमारम्योक्तम् 'नापि नित्यमुक्तध- मभूतज्ञानानि तथा, तेषां सङ्कोचविकासशीलतया कदाचित् सङ्कोच्याव- स्थापनस्यापि सम्भवन तहहिःप्रदेशस्यापि सूपपादत्वा' दिति ; तदप्ययुक्तं विकल्पासहत्वात् । किमत्र धर्मभूतज्ञानस्य सङ्कोचो वस्तुतः कदाचिद- स्त्येवेति कृत्वा बाहःप्रदेश उपपाधते, उत तस्य सङ्कोचयोग्यतामात्रमस्तीति ? नाद्यः, कदाचित् संकुचितत्वेऽप्यसकोचावस्थायां तदपेक्षया विभुतरत्वासिद्धेः। न च तद्गतविभुत्वस्य कादाचित्कत्वात् परमात्मविभुत्वे सर्विकालिकत्वरूपा- तिशयोऽस्तीति महतो महीयानित्युपपद्यत इति वाच्यम् तथा सत्यधि. कदेशवर्वित्वरूपबहिःप्रदेशवर्तित्वमादायातिशयोपपादनसंरम्भस्य त्यक्तत्वाप- तेः । नित्यगतधर्मभूतज्ञानस्य कदाचिदपि सोचामावेनेदृशस्यापि वक्तुंमशक्य- त्वाच्च । नान्त्यः, तथासति जीवगतस्य ज्ञानस्य सोचयोग्यत्वं, परमात्मीयस्य तु न तत् । परमात्मनो हि स्वामित्वात् सर्वशक्तित्त्वाच जीवज्ञानं वस्तुतो विभ्वपि सोचयितुमस्ति सामर्थ्यमित्येवोक्तं भवतीत्यस्मदुक्तसोपाधिकत्वनि- रुपाधिकत्वरूपवैषम्यमेव भग्यन्तरेणोपपाद्य महतो महीयानित्यस्य समर्थन क्रियत इति बहिःप्रदेशोपपादनस्य चिकीर्षितस्यासिद्धिप्रसनोत् । तथा चास्मन्मतानुसरणान्नान्यादृशविमुतरत्वसिद्धिरिति । यदपि कालस्य जगदन्तर्गतकार्योपयोगितया सिद्धस्, जगदधिक- देशवर्तित्वस्यानपेक्षितत्वाज्जगतश्च गीतादिप्रामाण्येन परमात्मैकदेशवर्तित्वेन ईशावास्योपनिषद्भाष्यम् । ५. तत्र परिच्छिन्नत्वान्न परमात्मतुल्यविभुत्वमिति । तदप्यनुपपन्नम् । गीताधुक्तस्य जगतो विभूत्येकदेशत्वस्य प्रागेव दर्शितत्वात्, विभूतिद्वयात्मनो जगतश्च परमात्मैकदेशवर्तित्वासम्भवस्य वक्ष्यमाणत्वात्तदुपयोगिनः कालस्य परमा- स्मलुल्यविभुत्वस्वीकारस्यावश्यकत्वात् । यदपि- कालो लीलाविभूता- चनित्यः, नित्यविभूतौ नित्य इति कालभेदकल्पनम्, तदपि तथा नित्य- त्वानित्यत्व विभाग एव प्रमाणाभावात्, ‘गौरनाधन्तवती सा जनित्री'त्याद्य- न्तरहितत्वेनावगतायास्स्वरूपोच्छेदरूपासाम्प्रदायिकध्वंसस्यासम्भवेन समविषमपरिणामौपयिकतया कालस्य नित्यत्वावश्म्भावात्, उभयत्र च विभू- तो क्षणरूपेण कालपरिणामस्य तुल्यत्वात्, वैलक्षण्यस्य वक्तव्यत्वेपि ब्रह्मणीव श्रुतिमूलकतया प्रदेशभेदकल्पनयैवोपपत्तः, 'अनादिर्भगवान्कालो नान्तो- ऽस्य द्विज विद्यते' 'रूपान्तरं तद्विज कालसंज्ञ'मित्यादिना कालनित्यत्वैक- त्वावगमेन तद्विरुद्धकल्पवस्यायुक्तत्वात्, नैकस्मिन्नीधकरणे व्यासाः अनेक- कालकल्पनमयुक्तमित्युक्तत्वात्, स्वाभीष्टब्रामविभुतरत्वसाधनमात्राय धर्मि- द्वयकल्पनस्यायुक्तत्वात्, एतत्कल्पनेऽपि धर्ममूतज्ञाने तादृशविभुतरत्वाति- व्यापनस्यानपायाच्चपिक्ष्यमेव । इदमत्र बोध्यम् -विभूत्यो परपरदेशव्यावृत्तत्वेऽपि लीलाविभूते- रघः परिच्छेदाभाक्स्व. नित्यविभूतरूज़पारच्छेदाभावस्य च प्रामाणिकत्वा- देतदन्यतरानाक्रान्तबमप्रदेशाजीकारासम्भवेन तयोरुभयोरपि विभूत्योः सर्व- त्र परमात्मसकल्पायत्तकार्यपयोमितया कालम स्वीकार्यतया न तस्य परमा- सापेक्षया न्यूनपरिमाणत्वं सुवचम् । एवं 'सर्व ह पश्यः पश्यति सर्व- माप्नोति सर्वशः' इति श्रुत्या मुक्तस्य नित्यस्य च सावश्यस्य सम्प्रतिष- विभूतेस्तव्याप्तकालपरमात्मनोश्च ग्रहणाय धर्ममूतज्ञानसंयोगस्य असल्वा दुरपनम् ।- आचार्यभाष्यतात्पर्यसमेतम् । ९५ न्यथा सत्यत्वज्ञानत्वानन्तत्वज्ञानशक्तिबलश्वर्याधनेकगुणविशिष्टपरिपूर्णब्रह्मा- नुभव एव जीवानां न स्यात् । किञ्चित्प्रदेशावच्छेदेन सत्यत्वादिषु धर्म- भूतज्ञानासम्बन्धस्यापि भवन्मते वकव्यत्वात् । एवं सत्यत्वादयोऽपि गुणाः परमात्मनि कृत्वव्याप्ति न लभेरन् । परमात्मतुल्यविभुत्वस्य कुत्राप्यन- जीकार्यत्वात् । न खलु महतो महीयानित्यत्र महत इत्यनेन द्रव्यस्यैव ग्रहणं न सत्यत्वादिरूपगुणस्येत्या प्रमाणमस्ति । न हि नैयायिकैमहत्त्वं परिमाणामति तच्च द्रव्यमात्रगतमिति च गदितमिति तथैव स्वोकर्तव्यमिति निर्बन्धो युक्तः । न हि विभुत्वं सर्वमूर्तद्रव्यसंयोगित्वमिति तदुक्तं यु- क्तम् , तन्मत एव जातरविभुत्वापत्तेः । सर्वत्र व्यापिनी गोत्वादिजाति- रेकैव । न तु गोव्यक्तिभेदेन भिन्नति तैरप्युक्तत्वात् । अतः सर्वप्रदे- शावच्छेदेन वस्तुसम्बन्धित्वमेव विमुतं । तच्च परमात्मगते सत्यत्वादा- वप्यक्षतमेवेति तस्यापि महदादिशब्दग्राह्यत्वं भवत्येव । न च क्वचित् प्र- देशे सत्यत्वनिर्दोषत्वादेरनङ्गोकारो युक्तः । तथा सति 'अनन्तरोऽबाह्यः कृत्सः प्रज्ञानघन एवे'त्युक्तरीतिपस्त्यिागेन जडत्क्सदोषत्वनिर्गुणत्वाद्यापत्तः । खरूपनिरूपकधर्माभावे स्वरूपस्यैवासम्भवप्रसाच्च । एवं परमात्मतगत- सत्यत्वादिप्रत्यक्षसिद्धये तदीयधर्ममूतज्ञानस्यापि विभुतरत्वं स्वीकार्यमिति महतो महीयानित्यस्य सोच आवश्यक एव । तथा परमात्मन इव श्रि- योऽपि विभुत्वस्य प्रमाणसम्प्रदायैरन्यत्राऽऽचार्यपादादिभिरकम्प्यं स्थापि- . तत्वेन तदर्थेऽपि श्रुतिसकोचोऽपरिहार्यः । तात्पर्यदीपिकायां च बहि- प्तिर्विभुव्यतिरिक्तापेक्षयति व्यक्तभेवोक्तमिति भवत्सम्प्रदायविरुद्धमेव भ- वद्वचनम् । तस्मात् तदु सर्वस्य बाह्यत इत्येवरूपाणि वचनानि श्रीकालध- मभूतज्ञानरूपविभुवस्तुन्यतिरिक्तविषयाण्येव । सर्वथा परमात्मसम्बन्धरहि- त एकः प्रदेशोऽपि नास्तीति बोधन एव तत्परास्ताश्श्रुतय इति न ताभिः प्रमा- ur ईशावास्योपनिषद्भाष्यम् । यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतयु चात्मानं न ततो विजुगुप्सते ॥ ६ ॥ एवं सर्वस्य ब्रह्मात्मकत्वमुक्तम् । अथ तद्विदः सांप्रतिकं प्रयो- जनमाह-यस्तु.... जुगुप्सत इति ।ब्रविन्माहात्म्ये विशेषधोतनाय तुशब्दः । सर्वाणि भूतानि ब्रह्मादिस्थावरान्तानि । अनात्मशब्दः सङ्कोचकाभावात् प्रकरणादर्थखभावाच सर्वान्तरात्मविषयः । पृथि- व्यादिभिर्धियमाणमीप तन्मुखेन परमात्मन्यवस्थितमित्येवकाराभि- प्रायः । अनुपश्यति अनुस्यूतं विशदं निध्यायति । सर्वभूतेषु चा- णान्तरसिद्धपदार्थान्तरगताणुतमत्वमहत्तमत्वपरित्यागप्रसक्तिरिति 'अन्तः प्रवि- टः शास्ता जनाना' मित्याधनुरोधेन 'तदन्तरस्य सर्वस्ये त्यस्यान्यादृशान्तरव- यवानगीकारेणैवाण्वादिसर्ववस्तुविषयकत्वमुपरितनस्य च विमुव्यतिरिक्तविष- यकत्वमित्याचार्यपादभाषितमव प्रमाणतर्कसर्वसत्सम्प्रदायसम्मतमिति कृतं बहुना ॥ ५॥ नन्वात्मशब्दो जीवात्मपरः स्यादित्यनाह अनेति । आत्मशब्दः खपर्यायो न भवति, अन्तः प्रविश्य नियन्तरि तस्य मुख्यत्वादिति । सङ्को- चकाभावादिति । आप्ल. व्याप्ताविति घातुनिष्पन्नो यात्मशब्दो विशेष- शब्दाश्रवणात्सर्वव्याप्तिमेव स्वरसतो वक्तीति भावः । न च जीवातिरि- तात्मनोऽप्रसिद्धतया न सर्वव्याप्तग्रहणसम्भव इति वाच्यम्, मायष्ठं झु- तिषु सर्वान्तरात्मनः कस्यचिदुपदेशेनेहापि प्रथममन्त्रेणोपदिष्टत्वेनाप्रसिद्धत्वा- मावात् । प्रकरणात ईप्रकरणात् । अर्थखभावाश्चेति । सर्वी- णि भूतानोति सर्वभूतनिर्देशाज्जीवस्य च सर्वभूतवर्तित्वासम्भवात्सर्वभूताधार- ताई एव ग्राह्य इति । न चैकस्यैवात्मनो जीवस्य ब्रह्मादिसर्वशरीरवृत्तित्वाङ्गा-- काग्रत्तदुपपचिरिति वाच्यम् ; भूतशब्दस्य 'न हिंस्यात् सर्वा भूतानी'त्या- धनुसारेणाचवनविशिष्टचेतनपरत्वेन जीवाधारस्यान्यस्यैव वक्तव्यत्वात् । न आचार्यभाष्यतात्पर्यसमेतम् । स्मानमिति व्याप्तिमात्परम् । तस्य तैर्धार्यत्वाभावात् । स इति प्रतिनिर्देशोऽध्याहार्यः । ततो न घिजुगुप्सते ब्रह्मात्मकत्वेनानुदृष्टेषु सर्वेषु खात्मविभूतिन्यायात् कुतश्चिदपि न विजुगुप्सते , कचिदपि निन्दा न करोतीत्यर्थः॥६॥ यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तन को मोहः कश्शोक एकत्वमनुपश्यतः ।।७।। पुनरपि सर्वस्य ब्रह्मात्मकत्वं सामानाधिकरण्येन द्रढयति । त- थानुवर्शनस्य सघाशोकनिवर्तकत्वमाह यास्मिन्-पश्यत इति । यसि- चात्मनीति सप्तम्यभेदार्थिका, अप्रसिद्धेः । एवं सर्वभूतात्मके तात जग- नाथे जगन्मये । परमात्मनि गोविन्दे मित्रामित्रकथा कुतः' इत्युक्तरीत्या ऽमित्रत्वादिप्रयुकमनोविकाररूपा हि निन्दा चेतनविषय एव सम्भवति । यधप्यचेतनस्याप्यनिष्टसाधनत्वमस्तीत्यनिष्टसाधनत्वज्ञानरूपा वा तदधीनमनो- निवृत्तिरूपा वा निन्दा तद्विषयेऽपि न न भवति । अथाप्यचेतनस्ल स्वात- व्येणानिष्टसाधनत्वाभावाचेतन एव सा विश्राम्यति । अत एव चेतनप- यन्तत्व एव स्वरसतो निन्दाप्रसक्तिमालोच्य वस्तुतः परमात्मात्मकमप्यचे- तनप्रपञ्चं विहाय चेतनग्रहणाय भूतानीत्याह । अतस्तत इति तच्छ- ब्दार्थको भूतशब्दश्चेतनपर्यन्तः । तस्मात् सर्वमूताघारतारूपार्थस्खमावा- दात्मशब्दः सन्तिरात्मविषय इति भावः । पश्यतीति दर्शनसमाना- कारज्ञानविवक्षेत्याशयेनाह विशद निध्यायतीति । स्वात्मविभूतिन्या- यादिति । यथा स्वभृत्यस्य खभृत्यान्तरण प्रहारे खन कार्यमाणे प्रहृतो भृ- स्यः प्रहर्तरि भृत्ये निन्दा न करोति तयापारस्य स्वाम्यायत्तत्वात् । तथा सर्वभूतन्यापारस्य परमात्मायचत्वावगमेन खयं तेष्वहितकारिष्वपि न निन्दा करोतीति भावः ॥ ६॥ 131 ९८ ईशावास्योपनिषद्भाष्यम् । न प्रणिधानसमये । विजानतः स्वतन्त्रपरतन्त्रवस्तुभेदं सम्यगु. पदिष्टेन मार्गेण शास्त्रेण विविच्य जानतः । आत्मैव सर्वाणि भूतान्य- भूत् परमात्मैव सर्वविशिष्टः प्रतीत इत्यर्थः । देवोऽहमित्यादिवत् लोकवेदमर्यादया शरीरात्मभावेन जगद्ब्रह्मसामानाधिकरण्ये सम्भ- पति बाघोपचारखरूपैक्यादिपक्षा बहिष्कार्याः । तत्र तदा को मोहः खतन्त्रात्मभ्रमादिलक्षणो मोहो न सम्भवतीत्यर्थः । कः शो- अदित्येकवचनानुसारेणात्मेत्यस्योद्देश्यवाचकत्वं युक्तमित्याशयेन विपरिवर्त्य पठति आत्मैव सर्वाणि भूतान्यभूदिति । सर्वविशिष्टभावस्य सा- र्वकालिकत्वादाह प्रतीत इति । खतन्त्रात्मभ्रमादिलक्षण इति । श्रा- दिना राजमृत्यन्यायेन पृथक्सिद्धत्वभ्रमो गृह्यते । यत्तु मोह आत्मान्तरेषु स्वा- तन्व्येण स्वखेदजनकत्वानुसन्धानमिति ; तन्न ; विपरीतज्ञानस्य मोहशब्दार्थ- त्वादिह शरीरात्मभावादिनिबन्धनकत्वविज्ञाननाश्यस्य विपरीतज्ञानस्य सर्वस्य मोहशब्दार्थत्वे सम्भवति खेदजनकत्वानुसन्धानमात्रस्य तत्त्ववर्णनायोगात् । 'अद्वेष्टा सर्वभूताना' मित्यत्र 'ईश्वरप्रेरितान्येतानि भूतानि द्विषन्त्य- पकुर्वन्ति चेति गीताभाष्योक्तरीत्या आत्मनां परमात्मपारतन्त्र्येणापि खेदज- नकत्वसद्भावेन खेदजनकत्वानुसन्धानांशे मोहत्वासम्भवेन स्वातन्त्र्यानुसन्धा- नांश्च एव तस्य वक्तव्यतया स्वतन्त्रात्मानुसन्धान मोह इत्येव वक्तुमुचितत्वे- न खेदजनकत्वमोदजनकत्वरूपविशेषविस्तरस्य व्यर्थत्वाच्च । यदपि शोक- श्व परैः स्वपरिमवे कृते परदुःखजननप्रवृत्तिहेतुदुःखविशेष इति । तदपि शोकस्य परदुःखजननप्रवृत्तिहेतुत्वनियमाभावात् । देववशा- ऽऽपतितपुत्रमरणादौ परदुःखप्रवृत्त्यनुपलम्भादसम्भवाच्च । अत इष्टवस्तु- विश्लेषजनितं दुःखमेव शोकः । न चेह सर्वभूतेषु परमात्मात्मकत्वानुस- धालनिवार्यत्वं देवायत्तपुत्रमरमादिजनितशोकस्य कथमिति शक्यम् । पर- कर्तृकाहिमवादिव्यापारे परमात्मायत्तत्वज्ञानस्य तदुःखजननप्रवृत्तिप्रतिबन्ध- न आचार्यभाष्यतात्पर्यसमेतम् । ९९ कः परविभूतिभूते सर्वसिनिर्ममत्वसिचया पुतमरणराज्यहरणादा: यपि न कश्चिच्छोकः स्यादित्यर्थः । यथाह- 'अनन्तं बत में वित्तं यस्य मे नास्ति किञ्चन । मिथिलायां प्रदीप्तायां न में किंचित् प्रद्यते ॥' इति । एकत्वमनुपश्यतः सर्वविशिष्टैक्यमनुपश्यतः । न अयमे कशब्द एकव्यतिरिक्ताभावपरः। 'ईशावास्यामिदं सर्व'मितीश्वरव्याप्त- त्वेन प्रक्रान्तस्य कस्यचित्केचिद्वाचायोगात् । सर्वभेदमिथ्यात्व- घेदनावेदनयोः कथंचिदपि तादशैफ्योपदेशादिप्रवृत्त्ययोगाश्च । न चासौ परस्परविरुद्धानां स्वरूपैक्यप्रतिपादकः, सर्वव्याघातोत्साद- ने स्वपरमतविवेकादिविप्लवप्रसङ्गात् । विशिष्टकत्वविवक्षा तु सर्वप्र- माणानुगुण्यात् भाव्यते । ततोऽपि वरमव प्रकृतसामानाधिकर. ण्यनिर्वाहानुगुणसम्बन्धविवक्षा । प्रयुज्यते हि सम्बन्धविशेषविष- 1. फत्वेऽपि शोकनिवर्तकत्वाभावात् तत्रापि शोकनिवृत्तिः सर्वभूतेषु परमात्म- शरीरत्वानुसन्धानप्रयुक्तपरमात्मीयत्वविज्ञानापादितया स्वामीष्टे स्वात्मनि पुत्रंमित्रकलत्रादौ च, अहं मे, पुत्रादयश्च मे इत्यवरूपस्वीयत्वबुद्धिनिवृत्त्यैव वाच्येति भवत्येव तादृशपुत्रमरणादिजनितोकस्यापि ग्रहणमिति । इदं सर्वमिह 'परविभूतिभूते सर्वसिन्निर्ममत्वसिद्धया पुत्रमरणराज्यहरणादावपि न कश्चिच्छोकः स्यादिति भाष्ये द्रष्टव्यम् । घेदनावेदनयोरिति सप्त- मी । वेदन उपदेशादिप्रवृत्त्ययोगः उपदेश्यपुरुषान्तराद्यभावात् । अवे- दने तदयोगश्च स्वयम झत्वात् । भेदे सत्यप्यभेदमाचक्षाणानां भास्करादी- नां पक्षमाशंक्य परिहरति न चेति । विशिष्टैकत्वविवक्षात्विति रूप- रसगन्धादिविशेषितेऽपि पुरोवर्तिनि पनस इदमेकमिति व्यवहारगोचरं यदे- कत्वं तदिव सर्वभूतविशिष्टपरमात्ममिगतं यदेकत्वं तद्विवक्षेत्यर्थः । सम्ब. विशेषेति । एकषिशिष्टान्तःपातित्वमेव विशेष्यविशेषणयोः परमात्म- नीवात्मनोः सम्बन्धविशेषः । अथ वा आत्मा भूतान्यभूदित्यत्र भूतानी- यद्य- १०० ईशावास्योपनिषद्भाष्यम् । क्षया रामसुप्रीवयोरैक्यमित्यादिवेकशब्दः । एतौ च श्लोको. या पि मुक्तविषयतया नेतुं शक्यौ , तथाऽपि पूर्वानुगुण्यान्मुमुनुप्र- शंसार्थत्वमुचितम् । सतश्च वैशद्यातिशयविषक्षया शास्त्रजन्यमानेन तन्मूलोपासनात्मकशानेन वा दर्शनवाचोयुक्तिः । समाधिविशेष. फलभूतस्त्वद्यतनसाक्षात्कार उपायत्वेनाभिहितत्वान्नात्र संशयनीयः मोक्षोपायोपदेशपरेषु सर्वेषु वाक्येषु दर्शनशब्द उपासनविषय इति शारीरकभाष्ये प्रत्यपादि ॥७॥ स पर्यगाच्छुक्रमकायमत्रणमनाविरं शुद्धमपापविद्धम् । कविर्मनीषी परिमूः स्वयम्भूर्याथातथ्यतोऽर्थान्न्यदघाच्छाश्वतीभ्यः समाभ्यः ।। पुनरप्येनमीशेशितव्यतत्त्ववेदिनं घेदितव्यविशेषबोधनेन च वि- शिनष्टि । स पर्यगात् समाभ्य इति । सः सर्वभूतान्तरात्मभूतब्रह्म- वी पर्यगात् प्राप्नुयात् इत्यर्थः, ब्रह्मविदाप्नोति परमिति न्यायात् । समाधिलब्धेनानुभवेन प्राप्तवानिति सिद्धानुवादो वा 'अत्न ब्रह्म स. मश्नुते' इतिवत् । शुक्रम् , अवदातं प्रकाशरूपम्। अकायम् स. ति विशेषणविभक्त्युपातामेद एकत्वम् । भूतशब्दश्च विशिष्टपरः । वि- शिष्टाभेदश्य विशिष्टत्वमेव । तञ्च शरीरशरीरिभाव एवेति स एवेहैकत्वं सम्ब- न्धविशेष इति । पश्यतीति शक्यार्थप्रत्यक्षग्रहणलोभप्रयुक्तां शक्कामनुवद- ति एतौ चेति । अोर्मिषट्के शोकमोहयोरेव वचनादशनायापिपासे ज- रामृत्यू च नैनं जहतीति प्रतीयमानतया योगिग्रहणमेव युक्तम् । तं हि ते न जहति । शोकमोहौ तु जहित इत्यर्थो यद्यपीत्यनेन व्यञ्जितः । पूर्वा- गुण्यादिति । 'न कर्म लिप्यते नर' इति मुमुझोरेव प्रशंसितत्वादिति भाषः । अद्यतनसाक्षात्कारः परज्ञानाधात्मकः ॥ ७॥ लकारार्थाविवक्षायां दृष्टान्तमाह ब्रह्मविदिति । तद्विवक्षया योगज- नितहिकानुसखाया योनयति समाधीति । शुक्रमित्यस्स निष्कलर-
आचार्यभाष्यतात्पर्यसमेतम् ।
१०१
शरीरकमपि कर्मशरीररहितम् । अत एव अत्रणमनाविरं च ।
शुद्धम् अनाघ्रातानानादिदोषं । अपापविद्धं अज्ञानादिकार्यकारण-
भूतपुण्यापुण्यरूपकर्मनालीढमित्यर्थः । 'न सुकृतं न दुष्कृत'मित्या-
रभ्य 'सर्वे पाप्मानोऽतो निवर्तन्ते' इति हि निगम्यते । एवमशेष.
हेयप्रस्यनीकः परमात्मा मुमुक्षोः प्राप्यः प्रापक उपास्यश्च स्यात् ।
स इत्युक्तं ब्रह्मविदं सर्वार्थदर्शित्वेन विशिष्टि कविः क्रान्तदर्शी ।
व्यासादिवत् परतत्त्वतरणयोधनानुगुणप्रबन्धनिर्मातेति वाऽर्थः ।
मनस ईशित्री बुद्धिर्मनीषा तद्वान् मनीषी, अभ्यासवैराग्याभ्यां
निगृहीतान्तःकरण इत्यर्थः । परितो भवतीति परिभूः विद्यान्तर-
षतः सर्वानतिक्रम्य वर्तते कामक्रोधलोभादीन दुर्जयानरातीनभि-
भवतीति वा । स्वयम्भूः अन्यनिरपेक्षसत्ताकः नित्यात्मस्वरूपदर्शी-
ति यावत् । याथातथ्यतोऽर्थान् व्यदधात् परमपुरुषार्थतदुपाय-
तद्विरोधिप्रभृतीन् सर्वान् पदार्थान् यथावद्विविच्य हृदयेन धृतवान् ।
शाश्वतीभ्यः समाभ्यः यायब्रह्मप्राप्ति सर्वप्रत्यूहशमनार्थमिति भावः ।
यद्वा प्रथमान्तं च द्वितीयान्तं च पदजातं क्रमात् पराधरात्मविषय.
तया व्याख्येयम् । तदा शुक्रमित्यादिकं सर्वोपाधिविनिर्मुक्तपरि-
शुद्धजीवपरम् । तमपि च सः परमात्मा पर्यगात् परितो व्याप्य स्थि.
तः । कविरित्यादिकं सुगमम् । याथातथ्यत इत्यादि । अर्थान्
कार्यपदार्थान् शाश्वतीभ्यः समाभ्यः यावधिलयमवस्थातुं याथा-
तथ्यतो व्यधात् न पुनरैन्द्रजालिफवत् केवलं प्रकाशितवान् ॥ ८॥
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते य उ विद्यायां रताः ॥ ९ ॥
एवं विचिनशक्तिपरमात्मविषयां कर्माणिकां विधामुपदिश्या-
नन्तरं केवलकर्मावलम्बिनः केवलावद्यावलाम्बनश्च निन्दन् वर्णा-
श्रमधर्मानुगृहीतया विधयैव निम्यसावाप्तिमाह अन्धं तमः प्रवि.
मित्यर्थवर्णनं तु शुद्धमित्यनेन पुनरुक्त्या त्याज्यम् ॥ ८ ॥
मन्त्रनयमवतारयति एवमिति ॥९॥
7 :१०२ ईशावास्योपनिषद्भाष्यम् । शन्ति येऽविधामुपासत इत्यादिना । ये मोगैश्वर्यप्रसका आधा कर्म शानविधुरकर्ममात्रम् । 'अविद्या कर्मचान्या तृतीया शक्तिरि- ष्यते' इति हि मर्यते । उपासते एकान्तमनसोऽनुतिष्ठन्तीत्यर्थः । अन्ध अतिगाढम् तमः अनानम् त्रिवर्गाभिषनानान्तरीयकं नरक तमो वा । केवलकर्मनिरताना दुःखानुवृत्तिमधीयते चाथर्वणिका 'प्लेषा होते अहढा यशरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्यो येऽभिनन्दन्ति मूढा जरामृत्यू ते पुनरेवापियन्ति ॥ 'ति । ततो भूय इव ते तमो य उ विद्यायां रताः । कर्ममात्रनिष्ठप्रा- प्यादन्धतमसादन्धं तमः स्वाधिकारोंचितकर्मपरित्यागेन विद्या माने रताः प्रविशन्ति । इवशब्दस्तमस इयत्ताया दुर्ग्रहत्वं द्योतय- ति । उकार उत्तरपदेनान्वेतव्यः विद्यायामेव रता इति ॥९॥ .-- अन्यदेवाहुविद्ययाऽन्यदाहुरविधया । इति शुश्रम धीराणां ये नस्तव्याचचक्षिरे ।। १० ।। कि तर्हि मोक्षसाधनमित्यलाह अन्यदेवाहुर्विद्ययाऽन्यदाहुर विद्ययेति । अत्र व्यत्ययानुशासनात्पञ्चम्यर्थे तृतीया, अन्यशदा, नन्वयात् । अन्यदेवाहुः सम्भवादिति वक्ष्यमाणसारूप्याष । केव पञ्चम्यर्थ इति । अन्यशब्दार्थकदेशमेदान्वययोग्ये प्रतियोगित्वरू- पे पञ्चथ इत्यर्थः । वक्ष्यमाणसारूप्याश्चेति । यत्त्वत्र सारूघ्यरक्ष- णाय न व्यत्ययानुशासनमाश्रयितव्यम् । हेतौ तृतीयापञ्चम्योरुभयोरनुशा- सितत्वेन हेत्वर्थग्रहणनैव सारूंप्यरक्षणसम्भवात् । मुमुक्षोश्च विद्या विद्ययोर- क्रांक्रिमावेनानुष्ठानस्यैव स्थापनीयतया तयोः पृथक्पृथगनुष्ठानेनौचित्यं पूर्व- मन्त्रेणैकप्रकारेण वर्णितम् । सम्प्रति तयोः फलभेदप्रदर्शनरूपप्रकारान्तरे- गापि तदनौचित्यसंनुवर्यते । तथा चायमर्थः विधया परविधया अविधा- अन्यफलादन्यदेव फलमाहुः । अविद्यया कर्मणा विधाजन्यफलावन्यदेवा- - 7 आचार्यभाष्यतात्पर्यसमेतम् । १०.३ लकर्मणः कर्मनिरपेक्षविद्यातश्चान्यन्मोक्षसाधनमित्युक्तं भवति । आहुः पूर्वावार्या इति शेषः। औचित्यादुपनिषद इति वा । पूर्वपूर्व हुः । धीराणामिति वचनमश्रौष्म । ये धाराः तत् तयोः फलभेदविषयं.. वचनमस्मभ्यं व्याचचक्षिर इति । तन्न । एवञ्जातीयस्यार्थस्य. शकरभाष्य एवोकत्वादनानुपपत्तिपरामर्शेनैवाचायपादैरस्यार्थस्योपेक्षितत्वात् । अनुपपन्नता चास्यैषम् -- यद्यपि हेतौ तृतीयापञ्चम्यौ स्तः । अथा- पि ससम्बन्धिकस्थल पक्षितसम्बन्धप्रत्यायकत्वमेव विभक्तेः स्वरसम् । न हि चैत्रस्य गुरुरित्यादौ चैत्रस्य कयाऽपि विघया गुरौ धर्मिण्यन्वयमङ्गोकृत्य चै- त्रातिरिक्तकिञ्चिन्निवापतगुरुत्वविवक्षाः क्रियते । नो खलु घटादन्य इत्यु- के सत्यां चान्यत्वप्रतियोग्याकांक्षायां प्रतियोगिसमर्पकत्वं विहाय जनकस- मर्पकत्वं घटादित्यस्य स्वीक्रियते । अन्यशब्दार्थोपस्थित्यनन्तरं तस्य किं जनकमित्यपेक्षामत्यन्तानियतामपेक्ष्यान्यशब्दार्थविशेषणतयोपस्थितस्यान्यत्वस्य प्रतियोगि किमित्यपेक्षाया एवं नियतशीघ्रभावित्वेन तच्छामकत्वस्यैव तत्पदे स्वीकर्तव्यत्वात् । अतोऽन्यदेवाहुः सम्भवादित्यत्रावधिपञ्चमोस्वी- कार एव स्वरसः । एवं प्रकृतमन्त्रऽपि माध्यन्दिनपाठे विद्याऽविद्यापदोत्तर पञ्चम्या एव श्रवणात् तत्रापि स्वरसोऽवधिरूपार्थो ग्राह्यः । अतः सम्भवा.. दिति काण्वमाध्यन्दिनपाठयोः प्रकृतमन्त्रे च माध्यन्दिनपाठे लिषु स्थलेप्वख- रसार्थकल्पनमपेक्ष्यैकत तृतीयाव्यत्ययानुशासनाङ्गीकार एव युक्तः । किञ्चास्य फलभेदप्रतिपादकत्वमयुक्तम् । केवलविद्यायाः केवलाइ: विद्यायाश्च फलभेदस्य तत्तदन्धतमसप्रवेशरूपस्य प्रागेवोक्तत्वात् । समुधि- त्यानुष्ठीयमानयोस्तयोस्तस्मिन् प्रयोगे यः फलभेदस्तत्प्रतिपादकोऽयमिति चेन्न। नैष्फल्यात् । समुचित्यानुष्ठानेऽवधारिते, समप्राधान्ये दर्शपूर्णमासाभ्यां यजेत स्वर्गकाम इत्यादिषु बहूनामपि समुच्चयदर्शनात्तथैव फलसाधनत्वमव- गमिष्यते । अझाङ्गिभावे च दुर्शे प्रयानादेरिव कर्मणोंऽग्युपकारात्मकं फलं .
१०४ ईशावास्योपनिषद्भाष्यम् । दर्शस्येव विधायाः प्रधानफलं च भोत्स्यत इति फैलक्ये फलमेदे वा सर्वथा समुच्चयस्यासम्भावितत्वाभावेन फलभेदकथनस्यानावश्यकत्वात् । उत्तरम- ने फलभेदस्य विशेषरूपेणैव कथ्यमानत्वेनेह सामान्यरूपेण तत्कथनस्यानपे- क्षितत्वात् । उत्तरमन्त्रो विद्याऽविद्यासमुच्चयविधानार्थः । फलमेदस्त्विहो- क्त एव विशेषरूपेणानूद्यत इति चेन्न । सामान्यरूपेणोक्तस्य विशेषरूपे- णानुवादासम्भवात् । समप्राधान्याझाङ्गिभावान्यतरनिष्कर्षीय फलविशेष- प्रतिपत्तये तत्र विधानस्यैव युक्तत्वात् । पूर्वार्धे यच्छब्दोपबन्धन निन्दा- बलाञ्च समुश्चयस्यानुद्यमानत्वावगमेन फलमेद स्यैव विधेयत्वाच्च । अतोऽस्य फलभेदपरत्वाभावात् मोक्षसाधनपरत्वमेव युक्तं खीकर्तुम् । एवं कर्ममात्रानुष्ठाने विद्यामानानुष्ठाने चानिष्टे कथिते किञ्चित्समु. श्चितस्य कर्मणः किञ्चित् समुचितायाश्च विद्याया अनुष्ठेयत्वावगतौ समुच्च- यापेक्षायामनुपस्थितपदार्थान्तरकल्पनामपेक्ष्य समभिव्याहारमहिना विधार्म- गोरेवोपस्थितयोः परस्परसमुच्चये प्रतीयमाने मवतीयमाशधा-काम्यानि हि कर्माणि त्रिवर्ग फलन्ति पुंसः संसृतौ प्रामयन्तीत्यन्धतमःप्रवेशकान्यु- च्यन्ते । तानि कथं विद्यया समुच्चित्यानुष्ठीयमानानि तथा न भविष्यन्ति । प्रत्युत विद्याविद्योभयसाध्यमुभयमपि तमः प्रविशेदनुष्ठाता । तथा विद्यया सह क्रम न शक्यमनुष्ठातुम् । विद्यां प्रति कर्म विरुद्धमिति के वर्ण- यन्ति । अतः समुच्चयेनापि नैनयोर्मोक्षसाधनत्वमिति किं तर्हि मोक्षसाघ- नमिति । अस्यामाशङ्कायामुच्यते-केवलाऽविधा यादृपा ततः, केवला च कर्मविरोधिनी तन्निरपेक्षा या विद्या ततश्चान्यदेव (फलाभिसन्धिरहितकर्म- परिकर्मित तदत्यन्तापेक्षं विद्यारूपम्) मोक्षसाधनमिति । अनन्तरे मुत्रे च कर्मणो मृत्युतरणरूपफलान्सरोपदेशेन त्रिवर्गानाधायित्वस्य विद्याप्रतिष- मकाननत्वकथनेन विद्याविरुद्धत्वाभावस्य प्रत्युत तदपेक्षितत्वलैव च - आचार्यभाष्यतात्पर्यसमेतम् । १०५ त्पादनात् फलाभिसन्धिरहितकर्मपरिकर्मिता तदत्यन्तापेक्षा विधैव मोक्षसाध- नमित्युक्तं भवति । तस्मादवश्यपरिहरणीथैवंविषशक्कापरिहारकत्वे सम्भ- वति नानपेक्षितान्यथासिद्धफलभेदप्रतिपादकत्वमस्य मन्त्रस्य युक्तम् । सर्वमिदमवहितमनसामिहोत्तरत्र च मन्त्र 'केवलकर्मणः कर्मनिरपेक्षविद्यातश्च' 'परस्परविरोधप्रसङ्गरहित' मित्यादिभाष्यस्थपदलभ्यं शक्यं ज्ञातुम् । अपि च न भवदभिमतार्थ मन्त्रेण प्रतिपादयितुं शक्यते । अ. न्यदेवाहुर्विश्यत्यत्राहुरित्युक्ते वचने किमन्यदित्यर्थोद्देशेन विधयेत्येतदर्थो वि- धीयते उत वैपरीत्यम् । नायः , अस्य मन्त्रस्य फलभेदज्ञापनपरत्वस्य भवदुक्तत्वनान्यत्वस्य विधेयतया तस्योद्देश्यत्वासम्भवात् । अत एव हि पाठक्रममुल्लंघ्योद्देश्यवचनं पूर्व विधेयस्य ततः परमिति न्यायमनुसृत्य विधये- ति पदं प्रथमतो भवता व्याख्यातम् , पश्चादन्यदिति । किञ्च विधयेत्यस्य विद्याजन्यत्वमित्यर्थः । तस्य न तावदन्यदित्यर्थेनान्वयः । तथा सत्युद्देश्य- भूतान्यशब्दार्थविशेषणत्वेन विधेयत्वासम्भवात् । उद्देश्यविधेययोः परस्परान्वयं विना प्रथमतः क्रियान्वयस्यावश्यकत्वात् । नायाहुरित्युक्तवचनेनान्वयः । वचनस्य विद्याजन्यत्वाश्रयत्वाभावात् । न च बोधानुकूलशब्दप्रयोगरूप- वचनैकदेशे बोधेऽन्यशब्दार्थस्य विशेष्यतयाऽन्वयाद्विद्याजन्यत्वस्य विद्य. येत्युक्तस्य तत्र प्रकारतयाऽन्वय इति वाच्यम् । हेतौ तृतीयाया हेतुम- द्वाचकपदेनैवान्वयस्य वक्तव्यत्वात् । यथा हि कारकाणां क्रियथैवान्वयः तथोपपदविभक्त्यर्थस्योपपदार्थ एव प्रतिसम्बन्धिन्यन्वयो दृष्टः । यथा हेतुत्व- स्य हेतुमति प्रतियोगित्वस्यानुयोगिनीत्येवम् । अन्यथा घटविशेष्यकदण्ड- जन्यत्वप्रकारकज्ञानविवक्षया घटो दण्डात् ज्ञायत इति प्रयोगस्य घटवृत्तिभे- दविशेष्यकपटप्रतियोगिकत्वप्रकारकज्ञानादिविवक्षया घटवृत्तिभेदः पटात ज्ञा- यत इत्यादेश्वापत्तः । अतो विद्यया सम्भवादित्याद्यर्थस्याहुरित्येतदर्थंकदेशे । 14 I १०६ ईशावास्योपनिषद्भाष्यम् । प्रकारतयाऽन्वयासम्भवादन्यशब्दार्थ एवान्वयो वक्तव्यः । स च न स- म्भवतीत्युक्तम् । यदि पुनरन्यत्फलं विद्ययेत्याहुरित्युच्येत तीतिशब्दाध्या- हारप्रसङ्गः । ननु भवन्मतेऽपि विद्ययाऽन्यदित्युभयोरपि विधेयसमर्पकत्वेन मोक्षसाधनं विद्यामिन्नमाहुरित्यर्थस्यैव वाच्यत्वन मोक्षसाधनपदाध्याहारोऽस्ती- ति चेत् भवन्मतेऽप्यन्यशब्दार्थस्य प्रतियोग्याकांक्षाशान्तये अविद्याजन्यफ- लादिति प्रतियोगिवाचकपदाध्याहारोऽपि कश्चिदस्त्येव । विद्याफलमन्यदाहुः अविद्याफलं चान्यदाहुरित्युक्ते समभिव्याहारमहिन्ना तादृशप्रतियोगिसि- द्विरित चेत् अस्माकमपि मोक्षसाधनं ये प्रोक्तवन्तस्तेभ्यो विद्यातोऽविद्यात- श्च पृथग्भूतमाहुरिति श्रुतमित्युक्ते समभिव्याहारमाहन्नैव मोक्षसाधनरूपो- द्देश्यसिद्धिः । इयांस्तु विशेषः । भवताऽन्यदिति पदस्य सममिव्याहारल- भ्यप्रतियोगिविशेषभिन्ने लक्षणा वीक्रियेत । अस्माभिरन्तिमपादस्थस्य तदित्यस्य प्रागप्यपकर्षः क्रियत इति । अत इतीत्यध्याहारः कश्चिदधिक एव । आख्यातं विना वाक्यसमाप्त्यभावात् अन्यद्विद्यया भवतीत्या- हुरिति भवत्यध्याहारोऽपि कश्चिद्भवति । नान्त्यः, विद्ययेत्यस्य विद्या- जन्यत्वमित्येतावन्मानयोधकत्वेन विधाजन्यफलामति धर्मिपर्यन्तार्थालामेन विद्याजन्यमविद्याजन्यभिन्नमिति विवक्षितार्थस्य दुर्वचत्वात् । उपपदविभ- क्त्यर्थस्योपपदार्थ एवान्वयस्य वक्तव्यत्वेन तद्भिन्नक्रियान्वयस्यासम्भवेन विद्य. येत्यस्योद्देश्यत्वासम्भवाच्च । यदि तु फलमित्यध्याहृत्य विद्यया फलमन्य- दाहुरित्यर्थ उच्यते तबध्याहार एव दोषः । अथ चेदित्थं मन्यते-तु- रीयपादगततच्छब्दार्थः फलम् विद्ययाऽन्यदित्यस्य विद्यासाध्यमिन्नामत्यर्थः एवं चाविद्याफलं विद्यासाध्यभिन्नमित्यर्थलाभ इति ; तदपि न युक्तम् । तदित्यस्याविद्याफलं विद्याफलमिति हि विशिष्यार्थद्वयपरत्वमाश्रयितव्यम् । विधयाऽन्यदित्यस्य विद्यासाध्यभिन्नमित्यर्थश्च न सम्भवति । अत एव 'त्रया- आचार्यभाष्यतात्पर्यसमेतम् । १०७ संप्रदायसिद्धोऽस्माकमर्थ इत्याह- इति शुश्रुम धीराणां ये नस्तया- वक्षिरे । ये पूर्वाचार्याः नः प्रणिपातादिभिः सम्यगुपसनानाम: स्माकम् । तत् मोक्षसाधनम् । व्याचचक्षिरे विविच्योपादिक्षन् । - - णामपि चैवमुपन्यासः प्रश्नश्चेति सुत्रश्रुतप्रकाशिकायां अन्यत्र धर्मादित्यु- ते धर्मसाध्यभिन्न इत्यर्थो न लभ्यत इत्युक्तम् । यदपि तच्छब्दस्य फलभेदविषयं वचनमित्यर्थवर्णनं तदप्ययुक्तम् । व्याचचक्षिर इत्युक्तवचनस्यार्थकर्मकत्वस्यैव मुख्यतया शब्दकर्मकक्कथनस्य हेयत्वात् । किं च ये फलभेदविषयं वचनमबोचन तेभ्यः फलं भिन्न अवन्तीति श्रुतमित्युक्तौ वारस्यमपि हीयते । तथा भवदभिमतासिद्धिश्च । अयं मन्त्रः फलभेदप्रतिपादनार्थ इति हि भवदभिमतम् । सम्यक् परामर्श च फलभेदवचनमुपदिष्टवद्भ्यः फलं भिन्नमाहुरिति श्रुतमित्यर्थवर्णने प्रमाणान्तरप्राप्तस्य फलभेदस्य सांप्रदायिकत्वमात्रतत्परतैवावगम्मत इति । अत एव तच्छब्दस्य फलभेदपरत्वमस्त्विति शाऽपि परास्ता । न च फल-. परत्वं तदश्शक्यम् । तथा सति विद्याऽविद्यासाध्ययोः फलयोर्द्वयोः कथः नाय ते इति द्विवचनस्यैवावश्यकत्वात् । अतो मुमुक्षुप्रकरणात् साधन- द्वयनिन्दायाः प्राक्कृतत्वाच मोक्षसाधनाजज्ञासायामेवैतन्मन्त्रावतारात् तदि- त्यस्य मोक्षसाधनपरत्वमेव युक्तम् । एवमवधिपञ्चमीस्वीकार एव श्रुतिस- माधिरापि न भज्यते । यथा-'अन्यदेव तद्विदितादथो अविदितादधि । इति शुश्रुम धीराणां ये नस्तव्याचचक्षिरे' इति । दृष्टश्च पञ्चम्यर्थे तृतीयानिर्दे- शः । यथाऽऽपस्तम्बपरिभाषासूत्रे 'अन्यत्राऽऽश्रुतप्रत्याश्रुतप्रवरसंवादसं- प्रैषैश्चे' ति । अत्रैतेभ्योऽन्यत्र उपांशुयजुर्वेदेनेत्युपांशुखरो विधीयते । एव- मन्यत्रापि भारतादौ बहुलं प्रयोगः । तस्माद्बहनुपपत्तिग्रस्तत्वेनास्यार्थस्या- समञ्जसत्वादाचार्यपादवर्णितार्थ एव सम्यगुपपन्नत्वाच्छ्रुत्यर्थ इति । ननु धीराणामि त्यस्य कुत्रान्वयः ? न तावदितीत्यनेन, इतिशब्दस्या- १०८ ईशावास्योपनिषद्भाष्यम् । तेषां धीराणां परमात्मध्यानपराणां वचनमित्यध्याहार्यम् । नट- स्य शृणोतीतिवद्वा कथंचित् पञ्चम्यर्थ षष्ठी । इति शुश्रुम एवं- प्रकारमश्रौष्म । ब्रह्मविद्याया दुरबगाहत्वेन निश्शेषग्रहणाशक्य - स्वाभिप्रायोऽत्र लिहुत्तमः॥ १० ॥ विद्यां चाविद्यां च यस्तद्वेदोमयं सह । अविद्यया मृत्यु ती; विद्ययाऽमृतमश्नुते ॥ ११ ॥ अन्यदिति संग्रहेणोक्तं विवृणोति 'विद्यां चाविद्यां च यस्तद्वेदोभयं सहेति । यः यथावस्थितोपदेशवान् । विद्यां परमात्मोपासनरूपां अविद्यां तदङ्गभूतकर्मात्मिकां च । एतदुभयं परस्परविरोधप्रसङ्गर- हितम् । सह वेद-अङ्गाङ्गिनोरनुष्ठेयत्वलाम्यादुभयं सह वेदेत्यविशे- षेण वेदनीयतोक्तिः । न पुनयोपादेययोः ज्ञातव्यत्वसाम्यात् । पूर्व- मविद्याया निन्दनात्तौचित्यमिति चेत् तर्हि विद्याया अपि निन्दि- ततया हेयव्यसमुच्चयोक्तिप्रसङ्गः । तथा सत्युत्तरवाक्यमपि विध- टते । अविद्यया मृत्यु ती विद्ययाऽमृतमश्नुत इति । अयमर्थः- विद्याङ्गतया चोदितकर्मणा मृत्यु शानसङ्कोचरूपमृत्युहेतुं प्राक्तनक- में तीा निरवशेषमुल्लंघय । विद्यया पूर्वोक्तपरमात्मानुदर्शनरूप- था । अमृतमश्नुते एतदमृतमभयमेतद्वा' इत्यादिषु सर्वदोषरहि- तत्वेन प्रतीतं परमात्मान प्राप्नोतीत्यर्थः । अत्रामृतशब्दस्य मोक्षप- - भेदार्थकत्वे प्रकारार्थकत्वे वा येनाभेदो यस्य प्रकारश्च विवक्षितः तस्यैव त. त्रान्वयस्य व्युत्पन्नत्वात् । नापि शुश्रुमेत्यनेन, अयोग्यत्वात् तत्राह- बचनमिन्यध्याहार्यमिति । शुश्रुमेत्यनेनाप्यन्वयं समर्थयते नटस्येति । दृष्टान्ते कर्मैव न श्रुतम् । तच्छ्वणे हि नटस्येति षठ्यास्तत्रैव खरसोऽ न्वया भविष्यति । अत्र तु सत्यपि कर्मपरेतिशब्दश्रवणे तथाऽन्वयः स्त्री- कर्तव्यः । अथ वेतीत्यस्यानेनप्रकारेणेत्यर्थविवक्षया, अनेन प्रकारण धी- रेभ्योऽश्रौष्मेत्यर्थो वर्णनीय इत्यभिप्रेत्य कथञ्चिदित्युक्तम् । ब्रह्मविद्याया इत्यादि । अत एव सम्भवन्त्यां गतौ व्यत्ययानुशासनमाश्रितमयुक्तमिति ध्येयम् ।। १० आचार्यभाप्यतात्पर्यसमेतम् । १०९ १ रत्वेऽपि न पुनरुक्तिः । मृत्यु तीवेत्यस्योपायविरोधितरणपरत्वा- स्, अमृतमश्नुत इति प्राप्तिविरोधिनिवृत्तिलाभोक्तेः । अत्र 'अवि- घया मृत्युं प्राप्य स्थित' इति व्याचक्षाणा निर्वाध पदवाक्यस्वारस्य। मुपबृहणं च प्रस्मृत्य स्वाविद्यया स्वयमेव मृत्यु प्राप्य स्थिताः । एत. दव वाक्यमनुसंहितं वैष्णवे पुराणे 'इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय तंतु मृत्युमविद्यया ॥ इति । इह त्वविद्याशब्दः प्रकरणादौचित्याच्च विद्याङ्गकर्मविषय इ- त्यभाषि भाष्यकारैः 'अनाविद्याशब्दाभिहितं वर्णाश्रमाविहितं कर्म' इति 'मृत्युतरणोपायतया प्रतीताऽविद्या विद्येतरद्विहितं कमैव' इति च । विद्यां पर्युदस्यनयमविद्याशब्दः क्षत्रियादिविषयाब्राह्मणशब्दा- दिवदासन्नतदनन्तरवृत्तिरन्तरङ्गकर्मविषय इति भावः । एवं 'तपो विद्या चे विप्रस्य निश्श्रेयसकरावुभौ । तपला कल्मषं हन्ति विद्ययाऽमृतमश्नुते ।। इत्याधुपबृंहणान्यपि सुसङ्गतानि भवेयुः । ये पुनरिह विद्याकर्मा- ख्यसाधनद्वयसमुच्चयं मृत्युतरणामृतत्वप्राप्तिरूपसाद्वित्वं च व. र्णयन्ति, तेषां कर्मज्ञानयोरङ्गाङ्गिभाव विद्ययैव मृत्युतरणं च व्यक्त प्रतिपादयद्भिः श्रुतिस्मृतिसूत्रगणैर्यथाभाष्यमुत्तरं देयम् । विषम- समुश्चयवादेऽपि यथाभागं सन्निपत्योपकारकत्वसम्मेवे गत्यन्तरग- मनिका नीतिविद्भिन सम्मन्यते ॥ ११ ॥ , सः केशिध्वजः । यादवप्रकाशमतमनुद्याह-ये पुनरिति । मा- स्करमतं दूषयति विषमेति । सन्निपत्योपकारकत्वेति । रजस्तमोनि- बर्हणेन शोधकतया ध्याननिष्पत्तिसाधनमनःसंस्कारकत्वेत्यर्थः । गत्यन्तरम् आरादुपकारकत्वम् । प्रयाजादीनां यागशरीरानिष्पादनमन्तरेण केवलं निष्पन्नयागे फलजननयोग्यताधायकत्वमिवोत्पन्नायां विधायां ब्रह्मप्राप्तिजनन- योग्यताघायकत्वम् । नीतिविद्भिरिति । सन्निपत्योपकारकत्वे सम्भव- त्यारादुपकारकत्वाश्रयणमयुक्तम् । अत एव स्थाणौ स्थाण्वाहुतिं जुहोतो- .
११० ईशावास्योपनिषद्भाप्यम् । अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते । ततो भूय इव ते तमो य उ सम्भूत्यां रताः ॥ १२ ॥ सदेवमुपास्यं परमात्मतत्त्वं साङ्गतदुपासनरूपं च परमाहितं परमपु. रुषार्थपर्यन्तमुपदिश्यानन्तरं लिभिः श्लोकैः प्रतिबन्धनिवृत्तिपरब्र- - त्यत्र यूपश्चनस्थाणुसंस्कारकत्वमेव स्थावाहुतेः स्वीकृतम्, न त्वारादुपकार- कत्वम् । सम्भवति दृष्टार्थत्वेऽदृष्टार्थत्वकल्पनं चायुक्तम् । अत एव खाध्यायाध्ययनस्यार्थज्ञानार्थत्वमक्षरग्रहणार्थत्वं वा स्वीक्रियते न खर्गार्थत्व- मिति भावः ॥ ११ ॥ प्रतिबन्धेत्यादि । यद्यपीह पूर्वोक्तविद्याफलमेव सम्भूत्यर्थी,अ- थापि नाविद्याफलस्य विद्याप्रतिबन्धकनिवृत्तः प्रागुक्ताया असम्भूतिपदेन ग्रहणम् । विद्यानुष्ठानकाले तादृशफलानुसन्धानकरणस्याप्रसक्तत्वात् । कर्मानुष्ठानकाले तस्य प्रसक्तत्वेऽपि न सस्यानुसन्धानस्याङ्गत्वमस्ति, अविहि- तत्वात् । विहितं ह्यङ्गं भवति । ब्रह्मप्राप्तिप्रतिबन्धकसुकृतदुष्कृतनिवृत्त्य- नुसन्धान तु 'अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि ॥ इत्युत्तमपुरुषबलात्कर्तव्यं प्रतीयते । अत एव हान्याधिकरणे सुकृतदुष्कृत- हानितदुपायनयोः सर्वत्र विद्यासु समुच्चित्यानुसन्धानमभिहितम् । न च क- मनिवृत्तरभावरूपाया ब्रह्मानुभवात्मकभावरूपतया भेदाभावेन कथमेकस्यैवा- र्थस्य पदद्वयेन वर्णनं भवतीति शक्यम्, वस्तुत एकत्वेऽपि मतान्तरेषु कर्म- निवृत्तिरूपमोक्षानीकारेऽपि ब्रह्मानुभवानङ्गीकारात् परिपूर्णब्रह्मानुभवरूपपर- ज्ञानादौ तदनुभवसत्वेऽपि कृत्स्नकर्मनिवृत्त्यभावात् त्रय्यन्ताभिमतयथावस्थित- मोक्षस्पष्टप्रतिपत्तये एकस्यैव फलस्य प्रतियोम्यान्वितवेषेण खरूपेण च पर्व- आचायभाष्यतात्पर्यसमेतम् । १११ सानुभवरूपयोः फलपर्वणोः समुश्चित्यानुसन्धान विद्याङ्गत्वेनोपा. देयमित्युच्यते । तत्र प्रथममेकैकमात्रानुसंधानं निन्दति अन्धंतमः- रता इति । एतमितः प्रेत्याभिसम्भविताऽस्मि धूत्वा शरीरम- कृतं कृतात्मा ब्रह्मलोकमभिसम्भवामीत्यादिषु ब्रह्मप्राप्तिरूपा सम्भूतिरुक्ता । तां पर्युदस्यन्नयमसम्भूतिशब्दः तदालनप्रतिबन्ध विनाशमभिधसे । 'सम्भूतिं च विनाशं च' इत्यपि घनन्तरमेवो. च्यते । न चात्रासम्भूतिशब्देन सम्भूतेरनुत्पत्तिविनाशो वा प्रति. पाद्यः, अमृतप्राप्तिहेतुतयोक्तायाः सम्भूतेः प्रागभावस्य प्रध्यसस्य चा मृत्युतरणहेतुत्वेन वक्तुमयुक्तत्वात् । अत्रापि तरतेः प्राप्तिव- चनत्वं पूर्ववत् प्रतिक्षेप्यम् ॥ १२ ॥ अन्यदेवाहुः सम्भवादन्यवाहुरसम्भवात् । इति शुश्रुम धीराणां ये नस्तन्याचचक्षिरा अन्यदेवेति । अनन्तच्छब्दः समुश्चित्यानुसन्धेयतया वक्ष्यमाणवि. तयं वक्ति॥१३॥ भेदकल्पनया ग्रहणसम्भवात् । वस्तुतोऽनुसन्धेयतया विहितायाः सुकृत- दुष्कृतहानर्देहवियागकालिकमात्रत्वे ब्रह्मानुभवस्याचिरादिगमनानन्तरभावित्वे- न तयोर्भेदोऽपि सुवचः । अतो विद्याफल एवं पूर्वापरभावित्वेन पर्वद्वया- मना स्थितयोरत्यन्तसन्निहितयोः अश्व इव रोमाणीत्येकवाक्योपात्तयोः पाप- विधूननब्रह्मसम्भूत्योरिह ग्रहणमित्याशयेनाह फलपर्वणोरिति । अयुक्तत्वा- दिति । इह हि सम्भूतिमृत्युतरणयोर्युगपत् स्थितिरङ्गीकर्तव्या । यदि सं- भूतिप्रागभावः सम्भूतिध्वसो वा मृत्युतरणहेतुः स्यात् सम्भूतिकाल मृत्युत- रणं न स्यादिति भावः ॥ १२ ॥ वक्ष्यमाणद्वितयमिति । विद्याफलमिति सामान्यरूपेण तच्छब्देन प्रायमिति भावः । इदमन मन्त्रतात्पर्यम् --केचनं नैयायिकादयो मुमु- क्षवः खात्मानमेवोपासीना ईश्वरमुपासीना अपि वा ब्रह्मानुभवं मुक्तिकालेऽ ११२ ईशावास्योपनिषद्भाष्यम् । सम्भूति च विनाशं च यस्तद्वेदोभयं सह । विनाशेन मृत्यु तोवी सम्भूयाऽमृतमश्नुते ॥ १४ ॥ अत्राप्यन्यदित्युक्तं विवृण्वन् विद्याङ्गमुभयानुसन्धानमा संभू- ति-लहेति । तस्यैव फलप्रदर्शनेनावश्यकर्तव्यतां स्थापयति वि. नाशेन-अश्नुत इति । अनुसन्धीयमानेन विनाशेन प्रतिबन्धमपो. श्य सम्भूत्याऽनुसन्धीयमानया ब्रह्म प्राप्नोति । सम्भूतिविनाशानु- सन्धानरूपेऽङ्गे स्तुत्यर्थ यथोचितमशिफलनिर्देशः । यद्वा विनाशेन मृत्युं तीवेति पूर्वोक्तसरूपशब्दे विरूपार्थपरिहाराय विनाशश- ब्देन . मानदम्भादीनां हिंसास्तेयादीनां बहिर्मुखन्द्रियवृत्तीनां च नङ्गोकृत्य केवलात्मस्थितिमेव सङ्गिरमाणाः केवलां, कर्मनिवृत्ति फलत्वेना- नुसन्दधते । अन्ये च रीहुमीमांसका निर्गुणं किमपि कल्पयन्तः कर्मोप- श्लिष्टवियाफलत्वेन संगुणब्रह्मानुभवं स्वीकुर्वाणा अपि तस्य भौमविलक्षणस्व- गायनुभववत् किमिमं केवलमभिप्रयन्तः परममुक्तिमन्यामातिष्ठमा- नाः 'जक्षत्कीडन् रममाणः इत्यादिदर्शनेनाशेषाविद्यकान्धनिवृत्तिमनभ्युपग- च्छन्तो यथावत् कर्मनिवृत्त्यनुसन्धान न कुर्वते । तदुभयलक्षण्यनाशेषावि- धकनिवृत्त्यनुसन्धान ब्रह्मानुभवरूपमोक्षानुसन्धानं च कर्तव्यम् । अब्रह्मानु- भवरूपतयाऽशेषाविधकानिवृत्तिरूपतया च तत्तदङ्गीकृतात्फलादन्यदेवाविद्या- सहकृतविद्याफलम् । एवं च विषयवैलक्षण्यात् तत्तत्पृथगनुसन्धानापेक्षये- शविद्याफलानुसन्धानमन्यदेवेति ॥ १३ ॥ विनाशादेस्तत्तत्साध्यामिन्नत्वेन साधनत्यासम्भवात्तदुपपत्तये असम्भू- तिमुपासते इत्यांद्यवगतानुसन्धानविषयत्वाकारेण साधनत्वं समर्थयितुं विशि- नष्टि अनुसन्धीयमानेनेति अनुसन्धीयमानयेति च । यत्विहोक्तं संभूत्यसम्भूतिशब्दयोविग्रहपरिग्रहतन्निवृत्तिरूपार्थखारसिकयोर्ब्रमप्राप्त्याद्यर्थ- परताकल्पनमनावश्यकम् । अभिसम्भविताऽस्मीत्यादौ सकर्मकत्वौचित्याया- भ्युपसर्गबलात्प्रातिरूपार्थवीकोरऽपोहोपसर्गाभावान्न तदर्थवर्णनं शक्यम् ।
आचार्यभाष्यतात्पर्यसमेतम् । ११३ विनाशो विवक्षित: । अतो विरुद्ध निवृत्तिरूपाङ्गसेवनेन समाधिवि. रोधिपापमपाकृत्य समाधिनिष्पत्तिरूपब्रह्मसम्भूत्या तदेवाश्नुते । अ. प्र सम्भूतिविनाशशब्दाभ्यां सृष्टिप्रलयादिविवक्षया मृत्युतरणामृत- प्राप्तिरूपफलविभागवचनस्यौचित्यलवोऽपि नोपलभ्यते ॥ १४ ॥ असम्भूतिशब्दस्य सम्भूतिनिवृत्तिपरत्वे स्वरससिद्ध सम्भूतिप्रतिबन्धकविना- शपरता सुतरामेव दुर्वचेति । तत्सर्वमक्षरध्यधिकरणश्रुतप्रकाशिकाग्रन्थाश्रवणविजृम्भितम् । तत्र हि स्वविवक्षितार्थस्य खारसिकत्वं विधान्तरवारस्यानुगुण्यं चाभिधायोक्तम् 'सम्भूतिशब्दः सम्भवत्यनेनेति सम्भूतिरिति व्युत्पत्त्या मार्गपरः । एत- मितः प्रेत्याभिसम्भविताऽस्मि, ब्रह्मलोकमभिसम्भवानॊति च प्रयोगात् । वि- नाशशब्दश्च सुकृतदुष्कृतविनाशविषयः । अतो मार्गस्य कमविनाशस्य च चिन्तनं विधाजत्वेन समुचित्य विधीयत' इति । किं च भवदुक्त एव मन्त्रत्रयार्थः किया र समञ्जस इति शोधनी. यम् । स खल्वेवम् । सम्भूतिः सम्भवो विप्रहपरिग्रहस्तनिवृत्तिरसम्मू- तिः । विग्रहपरिग्रहनिवृत्तिमात्रोद्देश्यकोपासननिष्ठाः कैवल्यमेव प्रविशन्ति । तत्र हि केवलात्मानुभवे न भवति शरीरपरिग्रहः । 'पुनः पुन: गोपकरण- शरीरंपरिग्रहोद्देश्यकोपासननिष्ठाश्चश्वर्यमेव लभन्ते । सम्भूतिसाध्यमैश्वर्य- लक्षणं फलमसम्मतिसाध्यात् 'कैवल्यादन्यत् । असम्भूतिसाध्यं विख्यं च सम्भूतिसाध्यादैश्वर्यादन्यत् । शरीरपरिग्रहं तन्निवृत्तिरूपं च विनाश- मसम्भूति यो वेद, स विनाशेन विग्रहपरिग्रहयोग्यतानिवृत्त्या "प्रकृतिसं- म्बन्धमतिलंघय सम्भूत्या विप्रहपरिग्रहयोयतासिद्धया परं ब्रह्माश्नुते । 'अ- शेषशेषकरतिरूपनित्यकैयप्राप्तिपर्यवसायिनमनुभवं लभत इति । तत्र सम्भूत्यसम्भूतिशब्दौ कि विग्रहपरिग्रहतन्निवृत्तिपरौ कि वा विग्रहपरिग्रहयोग्यतातन्निवृत्तिपरौ । नायः, तथा सति विग्रहपरिग्रहनिष- 15 I ११४ ईशावास्योपनिषद्भाष्यम् । तावपि प्रलयसमये प्रकृतिसम्बन्धसत्त्वेन तत्तरणासम्भवेन मृत्यु तोर्वेत्यस्य प्रकृतिसम्बन्धमतिलंध्येत्यर्थवर्णनासम्भवात् । दिव्यविग्रहपरिग्रहाभावेन ख- रूपमात्रेण स्थितावप्यभ्यासाधिकरणोक्तरीत्यैव सतोऽकर्माधीनस्य च ब्रह्मा- नुभवस्य विग्रहपरिग्रहसाध्यत्वाभावाच्च । न चाश्नुत इति परिचरतीत्यर्थ- कम् ; खाम्यभिमताचरणस्यैव परिचारूपतया विग्रहमन्तरेण परिपूर्णब्रह्मा- नुभवस्य क्रियमाणस्यापि परिचर्यात्वसम्भवेन तत्रापि तत्परिग्रहावश्यकत्वाभा- वाच्च । विग्रहसाध्यकैकर्यग्रहणे चाश्नुत इति पदस्य शक्यार्थत्यागः । स्वकृत- कैकर्यजन्यभोगभाक्त्वेन स्वकृततदनुभवजन्यभोगभाक्त्वेन च ब्रह्मानुभवतीति कृत्स्नार्थग्रहणे सम्भवति एकदेशग्रहणात्संकुचितार्थकत्वापत्तिश्च । नान्यः ; वि. गृहपरिगहयोग्यतानिवृत्त्युद्देश्यकोपासन कैवल्यप्राप्त्यसम्भवात् । कैवल्यस्यानि- त्यतया तत्प्राप्नुवतो विगृहपरिगृहयोग्यतानिवृतौ प्रमाणाभावात् । न च योग्य- तासत्त्वेऽपि सामग्यभावन कैवल्यकाले विगृहपरिगृहस्यानुपहितत्वात्कियन्तम- पि कालं सामगीविघटनमेव योग्यतानिवृत्तिरित्युच्यत इति वाच्यम् । तथा सति प्रलयकालेऽपि ताशयोग्यतानिवृत्तिसत्त्वेन प्रलयोत्पत्त्याप्युपासनचारितार्थेन कैवल्यसिद्ध्यवश्यम्भावस्य दुर्वचत्वात् । न चासम्भूत्युपासनं नाम विग्र- हपरिग्रहनिवृत्तिपूर्वककिञ्चिदनुभवरूपफलोद्देश्यकोपासनमिति न दोष इति वाच्यम् । असम्भूतिशब्दस्य तावदर्थस्वारसिकत्वाभावात् । तथा तृती- यमन्त्र विग्रह परिगृह योग्यतेत्यत्र योग्यतापदेन किं गुणाष्टकाविर्भावग्रहणम् , • उत विग्रहपरिगृहौपयिकसङ्कल्पविशेषगहणम् ? नाद्यः ; तस्य विग्रहसम्बन्ध- मात्रसाधनत्वाभावेन विग्रहपरिग्रहमोग्यतेति विशेषपदेन तदुक्तरयुक्तत्वात् । नान्त्यः ; पूर्ववदश्नुत इति पदस्य शक्यार्थत्यागसंकुचितार्थकत्वादिप्रसङ्गात् । एवं सम्भूतिशब्दस्य योग्यतापर्यन्तार्थवाचित्वाभावादपि न सम्भूत्यसम्भूतिश- ब्दयोरीहशार्थवर्णनं युज्यते । किं च शरीरपरिगहोद्देश्यकं तद्योग्यतोहे- ..
आचार्यभाष्यतात्पर्यसमेतम् । ११५ श्यकं वोपासनमेव न भवति । उपासनकालेऽपि तस्य तद्योग्यतायाश्च सत्त्वेन तदिच्छाया असम्भवात् । न खल्वशरीर एव कश्चिदुपास्ते । अनु- पासनेऽपि बद्धस्य किञ्चिदशरीरसम्भवनियमाच्चैतदुपासनं व्यर्थम् । न चेतः कल्याणतरविग्रहपरिग्रहोद्देशेनोपासनं सम्भवतीति वाच्यम् । तथा सति सम्भूतिशब्दस्य तादृशविग्रहपरिप्रहे लक्षणापत्तेः । असम्भूतिशब्देन ताह- शविग्रहनिवृत्त्युद्देश्यकोपासनस्यैव वक्तव्यतया प्रकृतोपासनावच्छेदकविग्रहस- हशतनिकृष्टान्यतरविग्रहापादनेनाप्युपासनाचारितार्थेन कैवल्यसिद्धरनाव- श्यकत्वाच्च । न च कल्याणतरेऽपि विरक्तस्य कथमीशविग्रहजिघृक्षति वाच्यम् । एतदिच्छाया अकिश्चित्करत्वात् । यदि तत्रेच्छाभावान्न तदुत्प- तिः तर्हि यः कैवल्यमप्यनिच्छन् विग्रहपरिग्रहयोग्यतानिवृत्त्युपासनं कुरुते तेन मोक्ष एव लब्धव्यः स्यात् । तथा च मोक्षार्थ विगहपरिगहोपासन- समुच्चयविधानं व्यर्थम् । अन्ततः सर्वविघविगहपरिगहयोग्यतानिवृत्तावा- सम्भूतिशब्दतात्पर्यवर्णने प्रकृतमन्त्रसम्भूतिशब्दार्थो यस्तन्निवृतिपरत्वखा- रस्यमसम्भूतिशब्दे प्रतीयमानं त्यक्तमेव भवति । एवं मुमुक्षुणा समुचित्य विगृहपरिगहतदभावोपासने क्रियमाणे न सामान्यतो विगृहपरिगृहाभावोपास- नं कर्तुं शक्यते , विग्रहपरिग्रहस्याप्युपास्यमानत्वेन विशेषादिति कर्माधान- विग्रहपरिग्रहाभाव एवोपास्यः । तत्र च योगिनामिव मुक्तानामपि सर्व- शक्तानां कर्माधीनपरकीयविगृहप्रवेशोऽपि खीकार्य इति न सामान्यतः कर्मा- धानविग्रहस्यापरिग्रहः शक्योपासन इति स्वकर्माधीनो यो विग्रहपरिग्रहस्त. निवृत्त्युपासनं कर्तव्यम् । सर्वमिदं भवद्न्थपरामर्शेनैव सुज्ञानम् । एव. श्वेशनिवृत्त्युपासनेनैवाकर्माधीनविग्रहपरिग्रहस्य स्वरूपेणावस्थानस्य चावस्था- द्वयस्य मुक्तिकालिकस्य लामे विग्रहपारग्रहोपासनं पृथक्क्रियमाणं व्यर्थम् । कर्माधीनविग्रहपरिग्रहनिवृत्तः स्वरूपेणावस्थाने पर्यवसानमिति पृथम्विग्रहपरि- ११६ ईशावास्योपनिषद्भाष्यम्। ग्रहोपासनमुपदिष्टमिति चेत् तस्या दिव्यविगहपरिगह एव पर्यवसानं विधाय खस्वरूपेणोपासनमेव कुतः पृथङ्नोपदिष्टमिति । यत्तु प्रथमतः परिमह- तन्निवृत्तिपरतामुभयोः पदयोरुक्त्वा तृतीयमन्त्रेऽर्थोचित्याय योग्यतातन्निवृत्ति- परत्वाश्रयणम् । तदेकविधार्थस्यैव सर्वत्र वक्तव्यत्वादयुक्तमेव । यापि द्वितीयमन्त्राथवर्णनवैवरी, साऽपि भवत्कृतपूर्वमन्त्रत्रयान्तःपा- त्यन्यदेवाहुविधयेत्यादिमन्त्राथैवर्णनवैखरीवैषम्यांदगाह्या । तन्न हि केबल- विद्याफलस्य केवलाविद्याफलस्य चान्धतमसंप्रवेशयोमियो भेदस्य प्रथमम- न्त्र एवं स्पष्टतया द्वितीयमन्त्र पुनस्तदुक्तरयुक्ततया समुच्चित्यानुष्ठीयमानयो- विद्याऽविद्ययोथै फले ब्रह्मप्राप्तिविद्योपकाररूपे तृतीयमन्त्रे वक्ष्यमाणे तद्त- 'मियोमैदपरत्वमेव द्वितीयमन्त्र भवदभिमत लक्ष्यते । एवं सति तामेव री- तिमवलम्ब्य प्रकृतमन्त्रत्रयेऽपि तृतीयमन्त्रे वक्ष्यमाणयोः प्रकृतिसम्बन्धहा- निब्रमप्राप्त्योर्मियोभदवर्णनपरत्वं द्वितीयमन्त्रस्य वक्तव्यं विहाय तत्तत्केव- लोपासनफलभूतकैवल्यैश्वर्यद्वयभेदपरत्ववर्णन कथं पुनरौचित्यमावहति । अथा- न प्रकृतिसम्बन्धहानरेवाभावरूपाया ब्रमप्राप्तिरूपमावरूपत्वावश्यकतया त- योर्मेदवर्णनासम्मवादेवं वर्णनमिति चेत् तर्हि पूर्वमन्त्रनयन्तिर्गतद्वितीयम- - वैतदानुगुण्यं सम्पांघताम् । अथ पुनरुक्तिभिया तत्परित्याग इति चैत् सैंपा पुनरुक्तिरेहापि तदवस्येवेति नैवं मन्त्रत्रयार्थो वर्णनीयः । ननु सम्भूतिशब्दः प्राप्त्यर्थको न भवति । शरीरपरिगहे तु स्वरस इति चेत् , तन्न , विहगपरिगेहऽपि तस्य शक्तत्वाभावात् । 'सम्भवाम्या- समायया' सम्भवामि युगे युग" इत्यादौ विग्रहपरिंगहे प्रसिद्ध इति चेत् घटः सम्भवति, पंटः सम्भवति, तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः इत्यादौ का वाती'; न हि तत्र कस्यचिदेहपरिग्रहः प्रतिपिपादयिषितः । अत उत्पचिरेव सम्मूतिः । सा च घटादौ मुख्या । तस्याश्चोत्पत्ती- आचार्यभाष्यतात्पर्यसमेतम् । १७ वात्मनि बाधितत्वाद्विग्रहसंयोगस्यैवोत्पत्तित्वाश्रयणमिति सम्भूतिशब्दस्योत्पत्ति- परत्वमेव मुख्यम् । देहसंयोगपरत्वं पुनरमुख्यम् । एवञ्चोत्पत्यर्थकस्य सम्मू- तिशब्दस्य देहप्राप्त्यर्थकत्ववत् ब्रह्मप्राप्यर्थकत्वमपि सम्भवति । यथाऽऽत्मनि देवो नातो मनुष्यो जात इत्यादिव्यवहारः, तथा मुक्तो जात इति व्यवहा- रोऽप्यस्त्येव । अवस्थाविशेषस्यैकोत्पत्तिशब्दार्थत्वात् खमावविकारमानो जीवस्य ज्ञानसङ्कोचविकासयोरेव ध्वंसजन्मरूपतया मुक्तिकालिकपरिपूर्णज्ञान- विकासस्य ब्रह्मानुभवात्मनो जन्मरूपत्वमत्यन्तमुचितमिति विग्रहपरिग्रहापेक्ष- याऽपि ब्रह्मप्राप्तः सम्भूतिशब्दार्थत्वं युज्यतेतराम् । अतो भवदीयेनैव पथा प्राप्त्यर्थत्वं सूपपादम् । यदप्यसम्भूतिशब्दस्य सम्भूतिप्रतिबन्धकविनाशपरता सुतरामेव दुर्वचेति तदपि वार्तम् । न खलु नञः प्रतिबन्धकविनाशवाचित्वमारोप्यासम्मूति- शब्देन सम्भूतिप्रतिबन्धकविनाशरूपमर्थ साधयामः येनैवमुच्यते । कि तु असम्भूतिशब्दः सम्भूत्यभावपरः ।. स. च, प्रतिबन्नकविनाश एवः पर्य- वस्यतीति ब्रमः । कथमिति: चेत्, उक्तं तावत् सम्भूतिशब्दस्य न विग्रह- परिग्रहे शक्तिरापि तुत्पत्ताविति । तथा चासम्भूतिरनुत्पत्तिः । अनुत्म- विशब्दश्चोसतिप्रागभावपरतयैव भूम्नाः प्रयुज्यते । अतः शरीरपरिग्रहरूपामु- ख्योत्पचिस्वीकारेऽपि तत्परिमप्रागभाव एव तदर्थः स्वरसः । न. तु-परि- ग्रहनिवृत्तिः । किं चात्मनो यानि शरीराण्येतावदुत्पन्चानि , न तदुतात्ति- निवनिमुद्दिश्य. किमप्युपासनमनुष्ठेयम्. । उत्पत्तराधक्षपाभावित्वेन द्वितीय- क्षणे खयमेव निवृत्तेः । एवं तत्परिप्रहनिवृत्तिरपिः नोपासनोद्देश्यभूता । तस्या अपि , 'जातस्य मरणं ध्रुव'मिति स्वयमेव.. जायमानत्वात् । अत इतः परं शरीरोत्पत्तिः परिग्रहो था.मा. भूदित्येत्रोद्देस इति . प्रागभावस्यैवोद्देश्य- त्वम् । न तु.ध्वंसुरूप निवृत्तेः । प्रागभावश्च भाविनो वस्तुनः पूर्व वर्त- . 15 I" ११८ ईशावास्योपनिषद्भाष्यम् । मानोऽभावः न च मुक्तिमान आत्मनः कर्माधीनविग्रहपरिग्रहस्य मुक्तिकाले जातु भावित्वं सुवचम् । येन तस्मिन्नुत्पत्तिप्रागभावो नाम कश्चित् प्रसिद्धः सूपपादः स्यात् । अत उत्पत्तिप्रागभावो नामोत्पत्तियो- ग्यतानिवृत्तिरिति वक्तव्यम् । एवं हि सति तृतीयमन्त्रे विग्रहपरिग्रहयो- ग्यतानिवृत्तिरसम्भूतिशब्दार्थ इति भवदुक्तेरपि समञ्जसो निर्वाहः सम्प्रति भवताऽपि प्राधः । सा च योग्यता विचार्यमाणा पुंसः कर्मसम्बन्ध एव । तथा च ब्रह्मप्रातिरूपसम्भूतिप्रतिबन्धकं यत् पुण्यपापरूपं कर्म तन्निवृत्ति- रेवासम्भूतिरिति भवद्रीत्यैव निराबा सुवचमिति निरीक्ष्यताम् । तस्मा- न्मुमुक्षारपेक्षिता ब्रह्मानुभवात्मकज्ञानविकासरूपोत्पत्तिः कर्माधीनोत्पत्तियोग्य- तारूपब्रह्मप्राप्तिप्रतिबन्धककर्मनिवृत्तिश्च सम्भूत्यसम्भूतिशब्दार्थाविति नात्र शाशंकुशकलस्याप्यवकाशं पश्यामः । वस्तुतस्तु ब्रह्मलोकमभिसम्भवानीत्यादौ सकर्मकत्वदर्शनात्सम्भूति- शब्द उत्पत्त्यर्थक इव प्राप्त्यर्थकोऽपि भवतीति ज्ञायते । न च समुपस- ष्टत्वे भवतेरुत्पतिरेवार्थ इति नियन्तुं शक्यम् । अर्थान्तरस्यापि दर्शनात् । यथा पूर्वपक्षे कस्मिन्नाप प्राप्त सिद्धान्तमारभमाणा वदामः नैतत्सम्भवतीति । यथा च नित्यत्वमात्मनः सम्भवतीति । एवं 'उत्पत्त्यसम्भवादिति सु- त्रादौ सर्वत्र द्रष्टव्यम् । इह हि सर्वत्र सम्भवतीत्यस्य भवितुमर्हतीत्यर्थः । तथा च सत्तायोग्यत्वं सम्भूतिः । तथा प्राप्तिरपि सम्भूप्तिर्भवितुमर्हति । अथ कथमभ्युपसर्गाभावे प्राप्तिवाचित्वमिति चेत् तत्किमभ्युपसर्गमात्रेण भव- तेः प्राप्त्यर्थकत्वमित्याशयः उताभिसमुभयोपसृष्टत्व एवेति । नाद्यः । अ- विभवतीयादावन्यस्यैवार्थस्य दर्शनात् । नान्त्यः; अभ्युपसर्गाभावेऽपि रतया प्रयोगदर्शनात् । यथा-उभौ 'सम्भूयाऽऽगता' वित्यादी मिलिया परस्परं प्राप्येत्यर्थे प्रयोगः । गच्छेतरिव संभवतेरपि जातु सक- आचार्यभाष्यतापर्यसमेतम् । .... मकत्वं जात्वर्मकत्वं च युज्यते । न च संभवतेरेव गच्छतिपर्यायत्वे अ- भाति प्रयोगासम्भवः, येनोभयोरुपसर्गयोरेव गमनतात्पर्यग्राहकत्वमेषितव्य स्यात् । अत एव वाय्याधिकरणे भाष्ये प्रकृतविषय एवाभिपूर्वस्य गच्छतेममा प्रयोग इति युक्तं समुपसंगमात्रस्य तात्पर्यग्राहकत्वम् । छान्दो- ग्ये च (५, १०) ते धूममभिसम्भवन्ति धूमाद्रातिं रात्रेरपरपक्ष. संवत्सरमभिप्राप्नुवन्तीति, अभिसम्भवन्तीत्यस्य स्थानेऽभिप्राप्नुवन्ती- ति श्रयमाणमभ्युपसर्ग विनैव प्राप्त्यर्थकत्वं दर्शयतीत्यलम् । यथा च-- बृहदारण्यके (३, ३) तां समभवत् ततो मनुष्या अजायन्तेत्येवं - बहुवारं प्रयोगः । तत्र हि मैथुन्येन प्राप्तवानिति तदर्थः । स्त्रीवाचिपदसममि- व्याहारादिषलान्मैथुन्येनेति विशेषो लभ्यते । सम्भवतिस्तु प्राप्तिमात्रवचनः; अन्यथा शक्यार्थगौरवापत्तेः । यथा चाचिरादिविषय एवानियमाधिकर- पश्रुतप्रकाशिकायां स्मृतिवचने- 'य एवमेनं जानन्ति ये चारण्यकमाश्रिताः । उपासते तपः सत्यं श्रद्धया परया युताः ॥ क्रमाते सम्भवन्त्यर्चिरहः शुक्ल तथोत्तरम् ।' इति विस्पष्टममिमन्तरेण प्राप्त्यर्थे प्रयोगः । अतो नूनं श्रुतप्रकाशिकाद्यपराम- शंदोषादापतितः सर्वोऽयं सरम्भः । स्यादेतत् । यदि सम्भूतिशब्द इह प्राप्तिवचनः, कथं त_सम्भूतिशब्दः प्रतिवन्धकविनाशपर इति । अत्रोत्तरमाचार्यपादैरेवाभाषि 'तां पर्युदस्यन्नय- -मसम्मूतिशब्दस्तदासन्नप्रतिबन्धकविनाशमभिधत्ते' इति । अयं भावः-पूर्वम- न्त्रत्रयानुरूप्य बावदस्मिन्नपि मन्त्रत्रये युक्तं स्वीकर्तुम् यावत् सम्भवति । तत्र भगवता भाष्यकृतैव ‘अविद्या विद्येतरद्विहितं कर्मैवेत्यविद्याशब्दो न विद्यानिवृत्तिपरः । अपि तु विधेतरपरः सन् नञः सजातीयप्रकृतेतराभि- १२० ईशावास्योपनिषद्भाष्यम् । घायकत्वस्वाभाव्याद्विधावददृष्टद्वारा साधनं विहितं काहे ति व्युदपादि । अतस्तदानुरूप्यायासम्भूतिशब्दोऽपि सम्मूतीतरपर एव सन् सम्भू- सिंवदेव "मुमुक्षुचिन्तनीयं तद्वदेव विधाङ्गचिन्तनविषयभूतं तयैव संह अश्व: 'इव सेमाणीत्येकवाक्योपातं सुकृतंदुष्कृतविनाश वक्तीत्यभ्युप- गन्तव्यमिति । अतः पूर्ववैरप्यप्रसङ्गेनापि नो निवृत्तिपरत्वं भवदु- तमयुक्तमेव । नन्वेवं पूर्वसारूप्यसंरक्षणावश्यकत्वे तत्र यथा मृत्युतरण- स्याविधाशब्दशक्यासांध्यत्वं अमृतत्वप्रप्तिश्च विद्याशब्दशक्यार्थसाध्यत्वं वॉर्मितम् । तथेहापि वक्तव्यम् । तच्च विनाशसम्भूतिशब्दशक्यार्थयोरेव -सांध्यभूतप्रतिबन्धविनाशब्रह्मानुभवरूपत्वाइष्करम् । अतोऽन्य एवाश्चि- सनीय 'इति चेत् - उच्यते । सुंघटमेव तावत् सम्भूतिशब्दस्य प्राप्त्यर्थक- वग्रहमनवेदमप्यमाकम्, यदि वक्तव्यं स्यात् । तथा हि विनाशः प्र- तिबन्धकसुकृतदुष्कृतनाशः । मृत्युतरणं तत्साध्यं प्रकृतिलच्चनम् । यो मृ- त्युमन्तरे सञ्चरन् यं मृत्युन वेदेति हि सुबालोपनिषदि प्रसिद्धं मृत्युशब्द- स्य प्रकृतिवाचित्वम् । सम्भूत्याऽमृतमश्नुतः इति क्रमेण 'परं. ज्योतिरुपस- म्पध खन रूपेणाभिनिष्पद्यते' इत्युक्तार्थद्वयपरम् । अथ वा सम्मतिर्न ब्रम- प्राप्तिः । अपि तु 'ब्रह्मलोकमभिसम्भवानी'त्युक्तब्रह्मलोकप्राप्तिः । अमृतम- श्नुत इति तत्साध्या ब्रह्मप्राप्तिरुच्यत इति । तार्ह कथमाचार्यपादै रित्थमर्थों न वर्णित इति चेदुच्यते । प्राचीनस्य मन्त्रत्रयस्य समुच्चित्य विद्याकर्मानुष्ठा- नप्रतिपादकत्ववदस्यापि समुचित्य किञ्चिव नुष्ठानप्रतिपादकत्वं युक्तम् । न तु मुक्तस्य कर्मनाशः सम्भूतिश्च भवत इति केवलकथामात्रत्वमिति मनसि- छत्य व्यासायैः 'मार्गस्य कर्मविनाशस्य च चिन्तनं विद्याङ्गत्वेन. समुचित्य विधीयत इति व्याहृतम् । अत एव किल. भवताऽप्युपासनविधानमिह व- र्णितम् । एवं च यत्किञ्चिदुपासनद्वयस्य समुचित्य विधौ स्वीकृते विधेययो- " आचार्यभाष्यतात्पर्यसमेतम् । १२१ ये फ़ले तत्सकीर्तनमेव पूर्ववधुतम् । अन्यथा परम्पराभाविफलकथनस्पे- ष्टत्वे कर्मनाशोपासनेन कर्मनाशलाभस्तन प्रकृतिसम्बन्धत्यागः तेन ब्रह्मलो- कप्राप्तिस्तया ब्रह्मप्राप्तिरिति कर्मनाशोपासनस्वापि ब्रह्मप्राप्तिः फलत्वेन वक्तुं युक्ता स्यात् । अतः सर्वस्यापि फलस्य विद्यासाध्यत्वेऽपि विदुषा कर्मनाशा- चिरादिगमनबमलोकादिप्राप्तिप्रभृतिसर्वचिन्तनस्य क्रियमाणत्वेन तत्क्रतु- न्यायेन तत्तदंशोपासनस्य तत्तदशोपयोगित्वौचित्याद्विनाशादिपदेन प्रकृतवि- धेयकर्मनाशाधुपासनविवक्षया कर्मनाशादेरेव तत्साध्यत्वं युक्तं वर्णयितुमिति, पूर्वस्मादस्मिन् मन्त्रनये कचित् कचित् पदार्थवैषम्येऽपि यत्र विषये तात्पर्य- मनुष्ठेयार्थद्वयसमुच्चयस्यावश्यकत्वे समुश्चितयोश्च पृथग्भूतापेक्षयाऽन्यत्वे तत्साध्यफलभेदे च, तदंशे वैषम्यं न स्वीकर्तुमुचितमिति च मनसिकृत्याचा- र्यपादैरन्यथैव वाक्यार्थोऽवर्णि । पदार्थवैषम्यं हि सम्भूत्यसम्भूतिपदयोर्विप्र- हपरिग्रहतनिवृत्तिपरत्वं प्रथमतोऽभिषायान्तिममन्त्र तद्योग्यतातन्निवृत्तिपर- तां अवतो भवतोऽप्यस्त्येव । प्रथमे मन्त्रनये उपासत इत्यस्यानुतिष्ठन्तीत्य- र्थः 1 इह तूपासनं कुर्वत इति । वेदेत्यस्य नानातीति उपास्त इति । एवं पदार्थवैषम्यमुभयैरपि खीकृतम् । अत्यन्तानुरूप्येणार्थवर्णनं चाचार्यपादा द्वितीययोजनया करिष्यन्तीति न किञ्चिदनुपपन्नम् । नन्वेवं व्यासाभिमत सम्भूलिशब्दस्वाचिरादिमार्गपरत्वमाचार्यपादैः कथभुपेक्षितमिति चेत् नात्यन्तमुपेक्षिवमेव । श्रीमति न्यायसिद्धाञ्जने तस्या- प्यर्थस्थाभिहितत्वात् । परं त्विह सम्भूतिशब्दस्य तिन्प्रत्ययान्तस्य प्राप्ति- साधनमार्गपरत्वापेक्षया प्राप्तिरूपभावार्थखारस्यात् अश्व इव रोमाणीत्यादौ प्राप्तरेवैकवाक्योपात्तत्वात् अचिंरादिमार्गस्यानुपात्तत्वात् अभिसम्भवानि, अ- भिसम्भविताऽस्मीत्युत्तमपुरुषबलेन प्राप्त्यनुसन्धानस्यापि स्पष्टत्वादुक्तरीत्या चिन्तनस्य विधेयतया तृतीयमन्त्रोत्तरार्धस्य चिन्तनरूपविधेयफलसहीर्तनपर- 16 I १२ ईशावास्योपनिषद्भाष्यम् । तया ब्रमप्राप्त्यनुसन्धान प्रति ब्रमप्राप्तः फलत्वोपपत्तेश्च प्राप्तिरूपयथाश्रु- तार्थ एवाऽऽदृतः । अतो भवदुक्तार्थस्यानुपपन्नत्वाद्यथाभाष्यमेव श्रुत्यर्थः । एवं व्यासायवर्णितमर्थमौचित्येन मात्रया परिष्कृत्योपवाथ पूर्व- मन्नत्रयानुरूप्यस्य कात्स्न्येन सम्पादनायैवञ्जातीययोजनाखनाश्वासात् यो- जनान्तरमाह यति । समाधिनिष्पत्तिरूपब्रह्मसम्भूत्येति निष्पत्तिशब्द- प्रयोगेण , ब्रह्मति कर्मनिर्देशेन च सम्भूतियब्दस्योत्पत्त्यर्थकत्वे वा प्राप्तयर्थ- कत्वे वोभयथाऽपि मुमुक्ष्वपेक्षितोपायविशेषपर्यवसानं सुगममिति सूचितम् । अथ स्यात्-अत्र दूषितव्याख्याने यच्च यावञ्चोक्तं तच्च तावच्च तथैव न ग्राह्यम् । प्रमेयमात्रग्रहणेन खबुद्धयेत्थं परिष्क्रियताम् । पर- विद्यायाः प्रागुक्ताया ऐश्वर्यकैवल्यापवर्गरूपपुरुषार्थनितयहेतुत्वात् विद्यामनु- तिष्ठनाप यद्यैश्वर्यकैवल्ययोरन्यतरदपेक्षते, न तावता परमपुरुषार्थलाभ इति तदुपेक्षापूर्वमपवर्गमपेक्षयतीदं मन्नत्रयम् । तत्र सम्भूतिशब्द उत्पत्ति- वचन एव सरीरपरिग्रहपूर्वमनुभवनीयैश्वर्यसिद्धिपरः । असम्भूतिशब्दः कैव- ल्यपरः । इमे फले उदिशतामन्घतमसप्रवेश एव । ननु सम्भृत्यसम्भू- त्युभयोद्देशे तदुभयप्राप्त्या भूयिष्ठमनिष्टमापद्यते । नैवम् । प्रत्येकमुदि- श्यमानसम्भूत्यसम्भूत्यपेक्षया समुच्चयेनोपास्यमानसम्भूत्यसम्मूतिपदार्थद्वयस्या- न्यत्वात् । य एवं समुच्चयेन गुणाष्टकाविर्भावरूपां सम्भूतिं निखिलकर्मवि- नाशरूपामसम्भूति चोपास्ते स तयोपास्यमानयाऽसम्भूत्यैश्वर्यकैवल्यात्मकं संसार प्रकृतिसम्बन्धमतिलवय सम्भूत्या ब्रह्म सर्वप्रकारेणानुभवतीति । एवं परिष्क्रियमाणेऽर्थे को दोष इति । सन्तु नामैवमन्यथा च परिष्कारस्य पन्थानः । तथाऽपि संपूर्वकस्य मूषातोरनात्मनेपदिनोऽपि प्राप्तयर्थकत्वस्म दर्शितत्वात् , विद्याप्रकरण उपा. सोपस्य सम्पूर्वकभूधात्वर्थस्य विद्यान्तरपकरण उपास्यत्वेन प्रसिद्धतदर्थ- माचार्यभाष्यतात्पर्यसमेतम् । १२३ रूपत्वौचित्यादिनोपपन्नतरस्यार्थीदेव कैवल्यैश्वर्यव्यावनिक्षमस्य साम्प्रदायिक- स्थास्यार्थस्य प्रहाणमयुक्तमितीत्थमेवाचार्यपादा व्याचकुरिति सुस्थमेतत् । अत्र शङ्करभाष्ये सम्भूतिशब्द उत्पत्तिवाचकः सम्प्रति तद्वति हि- रण्यगर्भे वर्तते । असम्भूतिशब्दस्तदन्यकारणभूताव्यक्तप्रधानपरः । विनाश- शब्दो लयशक्तस्तद्वत्कार्यब्रह्माहिरण्यगर्भपरः । तृतीयमन्त्रे सम्भूतिमित्य- त्राकारप्रश्लेषः । तीत्वसिम्भूत्येत्यत्रासम्भूत्येति पदच्छेदः । मृत्युतरणं हिर- ण्यगर्भोपासनेनाणिमाधैश्वर्यलाभादनैश्वर्यतरणम् । अमृतशब्दार्थः प्रकृत्यु- पासनजनितप्रकृतिलय इति व्याख्यातम् । अस्यातिवैयात्यमूलत्वादत्यन्त- मुदासितुमपारयन्नाह अनेति । सृष्टिप्रलयादोत्यादिपदात्तत्तदर्थपर्यवसान- भूतहिरण्यगर्भग्रहणम् । विवक्षयेत्यादि । विवक्षापूर्वकवचनस्येत्यर्थः तथा च विवक्षायां वचने चौचित्यलवोऽपि नास्तीत्यर्थः । विभागशब्देन. हिरण्यगर्भोपासनजनिताणिमाद्यैश्चर्यमेव विधयाऽमृतमश्नुत इति पूर्वत्रेव क- स्मादमृतप्राप्तिरूपं न भवति । सांसारिकदुःखहान्या प्रकृतिलयस्यैव कथं न मृत्युतरणरूपत्वम् । उभयस्योभयशब्दार्थत्व एकतरशब्दप्रयोग एव कस्मान्न कृतः । उपासकद्वयस्य चेदिदं फलद्वयम्, एकस्य पुंस इत्थमेकदाऽवान्तर- फलविभागवचनं कथं घटतामित्येवमर्थः स्फुटितः ॥ १४ ॥ अत्र यदुक्तं सत्यशब्दस्य जीवापेक्षया परब्रमणि मुख्यत्वात् तद्वा- चित्वमेव स्वीकर्तव्यम् । अर्थश्चवम् – हिरण्मयेन पात्रेण चिदचिपमोग्यव- र्गेण सत्यस्य ब्रह्मणो मुखं प्राप्तिद्वारं प्राप्तिहेतुभूतज्ञानमार्गरूपं सद्दर्शनमपि- हितम् । सत्यधर्माय दृष्टये समीचीनपूर्वोक्तदर्शनाय सत्यशब्दवाच्य- परब्रमप्राप्तिसाधनधर्ममूताय वा दर्शनाय तदर्शनमपावृण्विति तदप्याचा- यंपादभाषितपरित्यागेनाभिनवार्थकल्पनाभिनिवेशविलसितमेव । आपहित- मित्यस्य ह्यदृश्यं कृतमिति वा निरुद्धवृत्तिकमिति वाऽर्थः । यथा चन्द्रमा १२४ ईशावास्योपनिषद्भाष्यम् । हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत् त्वं पूषन्नपावृणु सत्यधर्मीय दृष्टये ॥ १५ ॥ अथैव फलपर्यम्तसाङ्गब्रह्मविद्यानिष्ठस्यानुसन्धेया मन्त्रा उपदिश्यन्ते। तेषु च पूषादिशब्दाः सर्ववाच्यं परमात्मानमनुसन्दधतां तत्तद्देवता- प्रणाड्या साक्षाद्वा तत्पर्यन्ताः । अत्र हि यमसूर्यादिशब्दानामेक- विषयत्वं खरसावगत तथा. सत्येवोपपद्यते । तत्र प्रथमेन मन्त्रण पूषशदधिक्षितं भगवन्तं प्रतिं प्रस्तुता समाधिप्रतिबन्धनिवृति प्रार्थयते हिरण्मयेन-दृष्टय इति । सत्यशब्दोऽत्र जीवपरः। 'स. सं चानृतं. च सत्यमभवत्' 'अथं नामधेयं सत्यस्य सत्यं प्राणा वै स- सं.तेषामेष सत्यम्' इत्यादिषु जीवेऽपि तत्प्रयोगात् । तस्य मुख अनेकेन्द्रियावष्टंम्भतया मुखवदवस्थितं मनः हिरण्मयेन पानेणा- पिहितम् रागात्मकतयां हिरण्मयसदृशेन रजोमयेन पावेण परमा- संविषषवृत्तिप्रतिरोधकेन छाषितम् । हदि निहिते परमात्मविषये निरुसक्रमित्यर्थः । रजाकथन तमसोऽप्युपलक्षणम् । हिरण्म- यशब्देन कर्माधीनभोग्यवर्गप्रवर्शनम् । तत् जीवस्य मुखस्थानीय मनः । पूषन् आश्रितपोषणखभाष अपावृणु निरस्तपिधान कुरु । कस्य खेतो? सत्यधर्माय दृष्ये सस्यस्य जीवस्य धर्मभूताय पूर्वो. कब्रह्मानुभप्रदर्शनायेत्यर्थः...१५ .... अप्रेण पिहितः, चक्षुः पिहितमित्यादि । इदं चारश्यीकरणं निरुद्धवृ- त्तिकत्वं वा विद्यमानस्यैव वस्तुनो, नांविधमानस्य । यदि मुखशब्दस्य ब्रमद- र्शनं ब्रमसाक्षात्कारोऽर्थः, तार्ह स हिरण्मयपात्ररूपप्रतिबन्धकक्शादनुत्पन्न इत्येव वक्तव्यमित्यपिहितशब्दोऽस्वरसः । यद्येवमर्थविवक्षा तर्हि सत्यमपि- हितमित्येतावदेवालमित्यन्यधर्थ च । तथा द्वितीयसत्यशब्दस्य समीची- पार्थकत्वे सम्भवदैकार्थत्यागो दोषः । यदि ब्रमप्राप्तिहेतुदर्शनपरं सत्यधर्माय दृष्टय इति पदद्वयम् , तदा तस्यार्थस्य सत्यस्स मुखामिति पदद्वयेन प्रागुक्त- मा बस्मा इत्येवालम् । अथ वा तुरीयः पाद एव व्यर्थः । तदपावृण्वि- त्वलेला पर्यावत्यात् । दर्शनाय दर्शनमपगततिरोधानं कुर्विति प्रयोगश्च न आचार्यभाष्यतात्पर्यसमेतम् । १२५ पूषन्नकर्षे यमं सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः । यत्ते रूपं कल्याणतम तत् पश्यामि योऽसावसौ पुरुषस्सोऽहमासि ॥१६ पुनरपि तया दृष्टया द्रष्टव्य विशिषन् दृष्ट्या गुणमभ्यर्थयते पूषने- कर्षे पश्यामीति । एकर्षे अद्वितीयातीन्द्रियद्रष्टः । यम सर्वान्तयाँ- मिन् । सूर्य स्वभक्कबुद्धीनां सुष्टु प्रेरक । प्राजापत्य प्रजापतिप्रसूतस्य सर्वस्यान्तर्यामिन् । अविवक्षितप्रत्ययार्थों वा प्राजापत्यशब्दः । प्र- जानां पत इत्यर्थः । व्यूह रश्मीन् समूह तेजः स्वखरूपप्रकाशनोपर्यि- कान् खोग्ररश्मीन् व्यपोष्ट प्रभात्मकं च तेजः समूहीकुरु । यत् समञ्जसः । दृष्टय इत्यस्य दर्शनप्रवृत्तिसिद्धय इत्यर्थवर्णनमपि क्लिष्टम् । अस्माकं तु मनसो विद्यमानत्वात् तवृत्तिनिरोधस्यैव कृतत्वात्तस्यापिहितत्वे. मुपपन्नम् । निरम्तपिधानेन मनसा सम्पाधस्याभिधानाय च तुरीयपाद आवश्यकः । सत्यधर्मायेति च कर्माधीनविकारविरहितस्य जीवस्य यद्रमद. शन तस्य स्वाभाविकत्वं स्वरूपानुरूपधर्मत्वं च दर्शयति । किञ्च मन्त्र- सिन्नप्रकृतोऽपि कश्चिदर्थः स्वरसतः प्रतीयते । यथा कश्चिदत्यर्थग्रहण- लोलुपश्चक्षुषाऽपेक्षितवस्तुदर्शनस्य विलोपमपि सोवा हिरण्मयेन पात्रेण स्वमुखापधानमप्यादावनुमन्यते । पश्चादन्धवद्भावेनात्यन्तं खिन्नः प्रार्थय- ते पात्रमिदमपनीयतां अस्तु मे सहजं दर्शन'. मिति । एवं दृष्टान्तभावेन निविष्टस्यार्थस्य वर्णनाय सत्यस्य मुखमिति कस्यचित्पुंसो मुखं ग्राह्यमिति त- द्वद्दाष्टान्तिकऽपि कस्यचिज्जीवस्य मनो ग्रहीतुं युक्तम् । तदैकार्थाय द्वितीय- सत्यपदमपि जीवपरमेव । तस्मादिहाप्याचार्यपादभाष्यमेव ज्याय इति ॥१५ दृष्ट्या द्रष्टव्यमिति । पूर्वश्लोकोत्ता दृष्टिदर्शनसमानाकारध्यानरूपा। तत्साध्यो यो वास्तवस्साक्षात्कारस्तद्विषय इहोच्यते । अर्थाच्च ध्यानविषयोऽ पि स इति सिद्धयति । यदि साऽपि दृष्टिः साक्षात्काररूपैव, तहि द्रष्टव्य- मित्यस्य विषयीकर्तव्यमित्यर्थः । हष्ट्या गुणमिति । दृष्टरुपयुक्तमित्यर्थः ।
१२३ ईशावास्योपनिषद्धाप्यम् । आदित्यवर्णामत्यादिप्रसिद्धम् सर्वेभ्यः कल्याणेभ्योऽतिशयितकल्या. णं शुभाश्रयभूतं ते दिव्यं रूपं तत् पश्यामि । अत्र वर्तमानव्य. पदेशे उत्तरवाक्यवत् तात्कालिकानुसन्धानानुवादः । प्रार्थनाप्र. करणानुरोधे तु व्यत्ययेन पश्येयमिति लिजर्थो ग्राह्यः । ते इत्यस्य पुनरुक्तिस्तदसाधारण्यज्ञापनार्थम् । त्वदर्थ सदा पश्यामीति वा नि. रुपाधिकशेषत्वानुगुणोक्तिः। अथान्तरात्मनोऽहंग्रहेणानुसन्धानमाह योसावसौ पुरुषः सोऽहमस्मि इति । वीप्साऽत्यादरव्यञ्जनार्था । वहा 'योसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तस्सनातनः । सर्वभूतमयो अत्र 'लिङ्र्यो प्रायः इत्येतदनन्तरं 'इत्यपुनरुक्तिः तदसाधारण्यज्ञापनार्थ सदा पश्यामीति वा निरुपाधिकशेषत्वानुगुणोक्ति' रिति पाठो दृश्यते । स च न शुद्धः । अतो मूले ते इति पदद्वयश्रवणात् पुनरुक्तिरित्याशक्य दि- व्यमालविग्रहस्य तस्य भगवदसाधारण्यज्ञापनार्थमित्थम् । अथ वा त्वद्रूपं त्वदर्थ सदा पश्यामि । एतद्दर्शनजन्यं प्रधान फलं तवैवेति शेषत्वानुगुणो. क्तिरितितात्पर्यफः पाठो युक्त इति निवेशितः । अहग्रहणैकबुद्धिशब्दाभ्यां स्वात्मापृथक्सिद्धतयैव सर्वदा वामनुसन्दधानस्य मेऽत्यन्तपारताच्यं सुनि- रूढम् । यत एवं त्वदर्शनमपि त्वदर्थमित्यध्यवस्यामीति सूचनाय प्रवृत्तम- न्तिमं पादमवतारयति अथेति । यद्यप्यस्य वाक्यत्रयात्मत्वाङ्गीकारेणासावा- दित्यमण्डलान्तर्वर्ती योऽस्ति, असौ पुरुषः पुरुषसुक्तादिप्रसिद्धः सर्वत्र पुरि शयानः सर्वान्तयामी भवति सोऽहमस्मीत्यर्थवर्णनेन द्वितीयवाक्योक्तार्थस्यैव विशेष उपसंहारस्तृतोयवाक्येन तत्त्वमसीत्यनेनेव क्रियत इति वक्तुं शक्यम् । अथापि सम्भवति वाक्यद्वयरूपत्वे वाक्यत्रयरूपत्वस्वीकारस्यायुक्तत्वात् मा- ध्यन्दिनपाठे वाक्यद्वयस्यैव दर्शनाच्चान्यथैवाह वीप्सेति । माध्यन्दिनपाठे योसावादित्ये पुरुषः सोसावह' मिति यच्छब्देन तच्छब्देन च प्रत्येकमद- ईशब्ददर्शनात् तदनुरोधेनादश्शब्दद्वयान्वयं समर्थयते यवेति । माध्यन्दि- नपाठे तथाऽशोकारेपीह यच्छब्दघटितवाक्यप्रविष्टस्यादश्शब्दस्य तच्छन्द- घटितवाक्ये समाकर्षणमखरसमिति कृत्वाऽर्थभेदमाह सर्वेति । क्रमेणादश्श- आचार्यभाष्यतात्पर्यसमेतम् ।। १२७ - ब्दद्वयनातीन्द्रियत्वप्रमाणसिद्धत्वयोरुक्तिः । पूर्णत्वं 'तेनेदं पूर्ण पुरुषेण सर्वम्' इत्यत्र दर्शितम् । पूर्वसत्त्वं पूर्वमेवाहमिहासमिति तत्पुरुषस्य पुरु- षत्व'मित्यत्र । आदिना-- 'पूरसंज्ञ तु पुरे तस्मिन् शयनात् पुरुषो हरिः । शकारस्य षकारोऽयं व्यत्ययेन प्रयुज्यते ।।' इति स्मृतं पुरिशयत्वं ग्राह्यम् । यत्त्विह स इत्यस्य ब्रह्मात्मक इत्यर्थ एव स्वीकार्यः । भगवद्रूपदर्श- नस्य प्राक्प्रार्थिततयाऽत्र स्वस्य तच्छरीरत्वरूपतन्नियाम्यत्वप्रदर्शनेन तद्प- दर्शनाधिकारस्यैव ज्ञापनीयत्वादिति ; तन्न ; तच्छरीरत्वमात्रस्य तद्रूपदर्श- नाधिकारत्वासम्भवात् । सर्वेषां स्थावरतिर्यगादीनामपि तच्छरीरत्वस्य वस्तु- तो विद्यमानत्वात् । अथ तन्नियाम्यत्वानुगुणवर्तन सेोऽस्मीति पदद्वयन बोध्यत इति चेत् तदपि न । तन्नियाम्यतया भवनमेव हि तत्पदद्वयार्थः स्यात् । न तु तदनुगुणवर्तनमिति । अतो लक्षणयैव तादृशार्थो प्रायः तावताऽपि परविद्याधनुष्ठानमेव तदनुगुणवर्तनं भविष्यति । तदपेक्षया सीत्युत्तमपुरुषबलावगतमहंशब्दार्थे स इति पदार्थाभेदानुसन्धान गृहीत्वा अहं ब्रह्मेत्यनुसन्धानस्य मया क्रियमाणतयाऽहं यत्ते रूपं कल्याणतमं तत्ते पश्यामीति भाववर्णन वरम् । न चाहमित्यस्य मदन्तर्यामीत्यर्थमुक्त्वा तस्या- द्देश्यसमर्पकत्वं न सुवचं तथा पूर्वमनवगतत्वादिति वाच्यम् । अनुसन्धा- नस्येवेदानी क्रियमाणत्वन ततः प्रागेव शास्त्रार्थश्रवणावश्यकतया तथा ज्ञा- तत्वोपपत्तेः । पुरुष इति पदेन सर्वान्तयामित्वस ज्ञातत्वाच्च । 'यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानत' इति प्रागुक्तत्वाच्च । अतस्तत्त्वमसीतिवदुपसंहार- रूपेऽस्मिन् वाक्येऽहंशब्दस्यैव त्वंशब्दस्येव विशिष्टपरत्वं युक्तम् । अन्यथा हि अहं ब्रह्मशरीरभूत इत्युक्तौ परविद्यावत्त्वप्रदर्शनं न स्यात् । यस्मिन् सर्वा- १२८ ईशावास्योपनिषद्भाष्यम् । णि भूतान्यात्मैवाभूदिति ब्रह्मविशेष्यकपरविद्याया एवेह प्रागुक्तत्वात् । पञ्चामिविधाया इव जीवविशेष्यकविद्यारूपत्वे प्रमाणाभावात् । तद्य इत्थं विदुर्ये चमेऽरण्ये श्रद्धा तप इत्युपासत इति वाक्ये पृथनिर्देशबलेन पञ्चा- मिविधातिरिक्तविद्यासामान्यस्य ब्रह्मविशेष्यकत्वावधारणेनान तबाघ प्रमाणा- भावात् । न च नात परविद्यावत्वं प्रदश्यते अपि तु परविद्यागमूतखा. त्मानुसन्धानमेवेति वाच्यम् । तथा सति खात्मानमनुसहितवानस्मि । अत- स्त्वद्रूपं मे प्रदर्शनीयमिति प्रार्थनस्याघटमानत्वात् । कथश्चिद्धटनेऽपि त- दपेक्षया मच्छरीरिणं त्वामनुसन्दघानोऽस्मि त्वद्रूपं दर्शयेत्यस्यैव सुलमत्वात् । अत एव योसावसौ पुरुषः जीवो यादृयूपः सोऽहमस्मि तादृपोऽहमस्मि ता इग्रूपता विद्वानस्मीति व्याख्यानसपि नादृतम् । सर्वमिन्द्रं 'परविधागाभ- तखात्मानुसन्धानपरत्वेऽपि' इति माष्येण ध्वनितम् । अतो ब्रह्मशरीरत्वं स्व- स्मिन्निह न विधेयम् । अपि तु पूर्वावगतखशरीरिब्रह्मानुसन्धानमेवेह ज्ञाप्य- मिति महंशब्द एव विशिष्टपरः । अन्यथा लक्षणाप्रसङ्गाच । यत्तु स इति भगवद्वाचिनस्तदात्मकपरत्वे लक्षणा नास्तीति, तदध विचारयामः । यद्यप्यद्वतिनां इत्थमपि किश्चिदुचितं मुखापिधानामिति नामा- भिरयं पक्षो बहिष्करणीयः ; अथापि परदूषणप्रसक्तिकुण्ठनाय तत्त्वस्थिति- योधनाय च विचारे व्याप्रियते । यदिह शरीरवाचिनां शब्दानां शरीरिबोधकत्वमिव शरीरिवाचिनां शरीरवोधकत्वमस्तीत्यभिधानम् , तत्कि सम्प्रदायप्रामाण्यादाहो साधकयुक्ति- पुरस्कारादिति चिन्तनीयम् । नाघः । तत्र किं 'ज्ञान विशुद्धं विमलं विशोकमशेषलोभादिनिरस्तसङ्गम् । एक सदैकं परमः परेशः स वासुदेवो न यतोऽन्यदस्ति ।।
आचार्यभाष्यतात्पर्यसमेतम् । १२९ एकः समस्त्रं यदिहास्ति किञ्चित्वदच्युतो नास्ति परं ततोऽन्यत् । सोऽहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् ॥ ज्योतींषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्विदिशो दिशश्च । नद्यः समुद्राश्च स एव सर्व यदस्ति यन्नास्ति च विप्रवर्य ॥ इति विष्णुपुराणवचनार्थवर्णनपर 'तच्च वासुदेवशरीरामति तदात्मकम् ; ब- गदन्तर्गतं वस्तु विष्णोः कायतया विष्ण्वात्मक'मित्येवरूपं भाष्य प्रमाणम् । किं वा सर्वत्रप्रसिद्धयधिकरणभाष्यम् , यद्वा क्षेत्रज्ञं चापि मां विद्धी'ति गीताभाष्यम् , अन्यद्वा किञ्चित् । सर्वमपि प्रायः फलितार्थकथनरूपं न तत्र प्रमाणं भवितुमर्हति । विशिष्य चोच्यते । न तावदन प्रथमः ; सामानाधिकरण्यस्य शरीरात्मभावनिबन्धनत्व पराशराभिसंहितं भाषित्वा तत्रत्य तानि सर्वाणि तद्वपुरित्यादिशरीरात्मभावबो- धकं वचनमुदाहृत्य किं भगवद्वाचिशब्दस्य तच्छरीरपर्यन्तबोधकत्वात् सामा- नाधिकरण्यमुपपद्यते, किं वा जगद्वाचिशब्दस्य शरीरिपर्यन्तबोधकत्वादिति शङ्कायां स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः' इति वचनमुदाहृत्य विश्वशरीरकत्वाद्विश्वतादात्म्यामिति विश्ववाचिशब्दस्यैव विश्वशरीरिपरत्वमि- त्यर्थ प्रदर्य तदिदमुक्तवचनोपपादितं तादात्म्यं ज्योतींषि विष्णुरित्यादिनो- च्यत इति भाषितत्वाच्छरीरवाचिनामेवेहागि शरीरिपरत्वं सम्मतं निश्चीयत इति । ज्योतींषि विष्णुः–'यदस्ति यन्नास्ति च विप्रवर्य'ति श्लोकेऽस्त्या- स्मकनास्त्यात्मकचिदचिदशेषविशिष्टतादात्म्यस्य विष्णावुक्तत्वात्स वासुदेव इत्यत्रापि तच्छब्द एव जीवविशिष्टपरः । न च ज्योतिरादिपदानां पूर्व विशिष्टपरत्वं नावगन्तुं शक्यमिति वाच्यम् । यदम्बु वैष्णवः कायस्ततो विश्वसुन्धरेत विष्णुशरीरभूताम्बुजन्यत्वेन कृत्वस्य ब्रह्माण्डस्य विष्णुशरीर- त्वावसायात् शरीरवाचिनां शरीरिपर्यन्तगामित्वस्य लोकसिद्धत्वात् पूर्वावग- 17 I १३० १ ईशावास्योपनिषद्भाष्यम् । तस्यैवार्थस्य समानाधिकरणनिर्देशरूपेण भणयन्तरेणोपबृहणरूपेऽत्रानुद्यमा- नत्वस्य भाष्यकृत्सम्मतत्वात् । ज्ञानस्वरूपो भगवान् यतोऽसावशेषमूर्तिन तु वस्तुभूत इति वाक्येनाशेषक्षेत्रज्ञशरीरकत्वस्य भगवति ज्ञातत्वेन प्राग्वदनु- वादरूपत्वस्य स वासुदेव इत्यत्राव्याहतत्वाच्च । किं बहुना-जगत्परमात्मनोः शरीरात्मभावे प्रागप्रतिपन्न एव यद्वाक्यं प्रथममुपदिश्यमानम् , तत्रापि सदेव सोम्येदमग्र आसीदित्यादौ इदं शब्दः कार्यावस्थब्रह्मपर इति पद- द्वयस्य समानाधिकरणस्थले ब्रह्मपर्यन्तत्वमेव भाष्यादिषु सुस्पष्टमुक्तमिति, का कथा यत्र मानान्तरप्रतिपन्नमनूयते । न चैकविज्ञानेन सर्वविज्ञानप्रतिज्ञा- यास्तत्र कृताया उपपत्तिर्जगद्वाचिपदस्य ब्रह्मपर्यन्तत्वाभाव एकवस्तुप्रतिपाद- नाभावान्न भवतीति तथा भाष्यादावुक्तमिति वाच्यम् । प्रतिज्ञोपपत्तये या स्यात् , अन्यथा सामानाधिकरण्यनिर्वाहासम्भवाद्वा ; सर्वथेदमादिपदानां वि- शिष्टब्रह्मपरत्वमुद्देश्यसमपकत्वं चष्टमिति स न्यायः सर्वत्र भविष्यति । अ- न्यथा हि को भवानिति प्रभप्रतिवचनरूपे अहमेकः प्रथममासं वामि भ- विष्यामि चेति रुद्रकर्तृकोपदेशे का गतिः ? तत्र शहामिति पदं जीववाच्य- पि ब्रह्मपर्यन्तमेव खीकर्तव्यम् । न चेदं प्रतिपाद्यानां प्रागेव ज्ञातमिति कथमुपदेशो घटताम् ? प्रतिपाद्यानां तद्ज्ञानाभावेऽपि प्रतिपादयितुीतत्वेन सर्वस्य पदस्य ब्रह्मपर्यन्तत्वशिक्षणाय तथा गूढोपदेशे कृते कथमिदमिति बु- भुत्सवः प्रतिपाद्याः पश्चाद्विवरणेन वा वाक्यान्तरबलेन वा भोत्स्यन्त इति नानुपपन्नमिति चेत् तर्हि स एव प्रकारः सर्वत्र सुवच इति वृथैव शरीरि- वाचिनां शरीरपर्यन्तत्वकल्पनमिति । यह 'सोहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम्' इत्युदाहृत्य चेतनाचतनवाचिशब्दानां परमात्मवाचिशब्दैश्च' इति बहुबच. ननिर्देशेन स इति पदानामच्युतार्थकत्वाध्यवसानम्, तत् ‘सोऽहं स च त्वमिति आचार्यभाष्यतात्पर्यसमेतम् । १३१ सर्वात्मनां पूर्वोक्तं ज्ञानाकारं तच्छब्देन परामृश्य तत्सामानाधिकरण्येनाहं स्वमित्यादीनां ज्ञानमेवाकार इत्युपसंहरन् देवाद्याकारभेदेनात्मसु भेदमोह परित्यजेत्याह' इति माष्यविरुद्धमित्यवधेयम् । न द्वितीयः ; तत्रापि सर्वं खल्विदं ब्रह्मेत्यत्र ब्रह्मशब्दस्य ब्रह्मात्मक- रूपार्थेकान्तता नैव लक्ष्यते । प्रत्युत सर्वशब्दस्य ब्रह्मपर्यन्तत्वाभिसन्धिरेव माष्यकृतां वकिर्तव्यो भवति । तथा हि-यदि सर्वशब्दस्य चिदचिन्मा- त्रपरतया ब्रह्मशब्दस्य ब्रह्मात्मकपरत्वं स्यात्, तज्जलानिति तच्छब्दोऽपि ब्रह्मा- स्मकमेव ब्रयादित्यनन्वितार्थता । किं च तजलानिति हेतुनिर्देशन हि सर्वब्रह्मपदार्थयोरक्यं कार्यकारणभावनिबन्धनं शरीरात्मभावनिबन्धनं चेत्यवग- म्यते । कार्यत्वं कारणत्वं च विशिष्टस्य ब्रह्मण एवेति सुनिरूढम् । अ- तस्तन्निबम्वनैक्यवर्णनाय सर्वपदं विशिष्टपरं स्वीकर्तव्यमिति शरीरात्मभाव- निबन्धनमैक्यमपि तथैवोपपादनीयमिति कथमनान्यथावर्णनसम्भवः । अपि च सर्वं खल्विदं ब्रह्म तज्जलानितीत्यस्यानुवादरूपत्वात् पुरोवादभूते सदेव सो- म्येदमित्यादौ यथा सामानाधिकरण्यं निरवाह्यत, तथैव निर्वाह्यमिति न ब्रह्म शब्दो ब्रह्मात्मकपरः । भाष्ये च 'अत्रैवोपासनं विधीयते, सर्वात्मकं ब्रह्म शान्तः सन्नुपासीते'ति, 'अतः सर्वप्रकारं सर्वशरीरं ब्रह्म शान्तो भूत्वापा- सीते'ति, परं ब्रह्म हि कारणावस्थं कायर्यावस्थं सूक्ष्मस्थूलचिदचिद्वस्तुशरी- रतया सर्वदा सर्वात्मभूत मिति च सर्वपदस्यैव विशिष्टपरत्वमवसीयते । श्र- तप्रकाशिकायाश्च 'आकृत्यधिकरणन्यायेन प्रकारिपर्यन्ताभिधानसिद्धयर्थमाह सर्वप्रकारमितीत्यवतारितम् । वृत्तिकृतश्च सर्वं खल्विति सर्वात्मा ब्रह्मेश- इति व्याचक्षाणाः सर्वशब्दं विशिष्टपरं दर्शयन्ति । जिज्ञासाधिकरणे च तत्वमासि विचारघट्टे श्रुतप्रकाशिकायां 'अतः सर्वशब्दः कार्यावस्थचिद- चिच्छरीरकपरमात्मपरः-ब्रह्मशब्दः कारणावस्थाचिदचिद्विशिष्टपरः । एवमुभ- ईशावास्योपनिषद्भाष्यम् । यावस्थचिदचित्पकारिणो ब्रह्मण एकत्वं सामानाधिकरण्यप्रतिपाद्यमिति कार्य- कारणावस्थप्रकार्येकत्वमस्य वाक्यस्यार्थ' इति विस्पष्टमुक्तम् । न च तृतीयः । तत्र मां विद्धि मदात्मकं विद्धीति भाष्यस्य फलि. तकथनरूपत्वात् । अन्यथा 'यथा क्षेत्र क्षेत्रज्ञविशेषणतकस्वभावतया तद- पृथक्सिद्धस्त सामानाधिकरण्यनैव निर्देश्यम् । तथा क्षेत्र क्षेत्रज्ञं च मद्विशे. पणतकस्वभावतया मदपृथक्सिद्धमत्सामानाधिकरण्येनैव निर्देश्ये विद्धीति भवदुपातोपरितनभाष्यमेव न सङ्गच्छते । अत्र हि विशेषणतापदनिर्देशब- लात् विशेष्यत्वाभावः स्पष्टः । एवं दृष्टान्ततयोक्तं क्षेत्रस्य क्षेत्रज्ञसामानाघि- करण्यं हि देवोऽहं मनुष्योऽहमित्यादिरूपम् । तत्र च नाहंपदस्य जीवश- रीरपरत्वं युक्तम् । देवादिशब्दानां पिण्डविशिष्टात्मपर्यन्तताया एव बहुशो भाषितत्वात् । देहात्मकविवेकशालिनां देवादिपदादेव विशिष्टप्रतीतिस- म्भवात् । अहंशब्दस्यान्यस्य वा कस्यचिदात्मवाचिशब्दस्य शरीरपयन्ततया फुत्रापि प्रयोगादर्शनात् । अस्य भाष्यस्य पूर्वश्लोकभाष्यभाषितार्थदृष्टान्त- दर्शनपरतया पूर्व श्लोकभाष्ये 'सामानाचिकरण्येन प्रतीतिस्तु वस्तुनः शरीर- गोत्यादिवदात्मविशेषणतकस्वभावतया तद पृथक्सिद्धरुपपन्नेति भाषितत्वात क्षेत्रवाचिन एव विशिष्टपरताया अवगम्यमानत्वात् । अन्यथा गोशुक्लादि- शब्दाना गोस्वशौक्ल्यादिप्रकारमुखेन प्रकारिपर्यन्ततावत् क्षेत्रशब्दस्यापि प्रकारिपर्यन्ततेति व्युत्पादनार्थप्रवृत्तगोत्वादिवदितिदृष्टान्तवचनासाङ्गत्यप्र- सात् । अहंशब्दस्यात्मशरीरपर्यन्तार्थ स्वीकृत्य देवादिशब्दस्य शरीरमात्र- वाचित्ववर्णनाभिनिवेशे देवोऽहं मनुष्योहं घटादिकं जानामी'ति तत्रत्यभा- पार्शितज्ञानाधाराहमर्थबोधकवचनार्थवर्णनासम्भवाच्च । अतो दृष्टान्ते प्रकारिपर्यन्तगमनमेवेष्टमिति दाष्टन्तिकेऽपि तथैवेति क्षेत्रज्ञ उपरि चान रोके परमतं निराकृत्य 'सर्वे वाचकाः " आचार्यभाष्यतात्पर्यसमेतम् । १३३ शब्दा अचिज्जीवविशिष्टपरमात्मन एव वाचकाः' इत्येव भाषितमिति नेदं शरीरिवाचिनः शरीरपर्यन्तत्वे प्रमाणमिति । एवमन्यत्रापि भाव्यम् । साध- कप्रमाणाभावश्च भवदुक्तकृत्स्नपरिशोधनेनैव दर्शितो भवति । वक्ष्यते च । यदपि चिदचिद्वाचिशब्दानामपृथक्सिद्धिसम्बन्धेन चिदचिद्विशिष्टप-. रमात्मपरत्वमिव परमात्मवाचिनामपि तेनैव सम्बन्धेन तद्विशिष्टचिदचिद्वाचि- त्वं नामरूपव्याकरणश्रुतिलभ्यमिति ; तदप्ययुक्तम् । अपृथक्सिद्धिसम्बन्ध- स्य परमात्मनिरूपिताघेयतायाश्चिदचितोः प्रामाणिकतया चितमचितं च प्रति वृत्तिनियामकसम्बन्धरूपत्वेऽपि परमात्मनश्चिदचिन्निरूपिताघयताया अ- प्रामाणिकतया तं प्रति वृत्त्यनियामकत्वात् वृत्त्यनियामकसम्बन्धेन वैशिष्ट्य- स्य च स्वारसिकानुभवविरुद्धत्वात् परमात्मवाचिनां तद्विशिष्टजगत्परत्वकथ- नस्य सहृदयैः स्वीकर्तुमशक्यत्वात् । यदपि 'इत्थं च नद्यः समुद्रान्तःप्रविष्टाः समुद्र एव भवन्ति । प- ल्लवपुष्पफलशाखादिकं सर्व वृक्ष एवेत्यादयः स्वारसिकनिर्देशा अपि मुख्य- तयैव निरूढा भवन्तीति । तत्र कः पुनरित्थं चेति शब्दार्थः ? किं शरी- रिवाचिनोऽपि शरीरपर्यन्तत्वसिद्धाविति, किं वा तद्वाचिशब्दस्य तदपृथक्स्थि- तवाचित्वसिद्धाविति ; न द्वयमपि युक्तम् ; नदीजले समुद्रशरीरत्वस्य समु- द्रापृथक्स्थितत्वस्य चाभावात् । समुद्रस्याचेतनत्वात् । नदोजलस्य पूर्व पृ. थस्थितत्वात् , पश्चादपि पवनवेगपरिक्षिप्यमाणतया ग्रीष्मातपशोष्यमाण- तया च पृथकस्थितत्वात् । मुख्यतया निर्वाहस्तु अस्मत्पक्ष एव स्थलविशे- पपरिच्छिन्नजलवाचित्वात् समुद्रपदस्य, तत्त्वस्य च नदीजलेऽपि सम्प्रत्य- नपायादुपपन्नः । मास्तु वा मुख्यतया निर्वाहः ; यदि समुद्रपदं विल- क्षणजलसमुदायवचनं स्यात् । ननु समुद्रपदस्य समुदायवचनत्वान्नदी- जलस्य च तत्र घटकत्वात् घटकघटितयोरपि सामानाधिकरण्याङ्गीकारान्मु.
१३४ ईशावास्योपनिषद्भाष्यम् । ख्यतयैव निर्वाह इति चत् तावतेत्थं चेति शब्दस्य कस्तावदर्थ इष्टो भवति ? समुदायवचनस्य घटकवाचित्वसिद्धाविति चेन्नायमर्थः प्रकृतः । प्राक् सम- नन्तरं वास्यानुपपादितत्वात् । ईशनिर्वाहस्य मुख्यत्वासम्भवश्च वक्ष्यते । अनेन वृक्षोदाहरणमपि व्युदस्तम् । अतो वाक्यमिदमिह न सम्बद्धार्थक- मिति । . यत्तु अहं स पुरुषास्मीत्यत्र पुरुषपदस्य पुरुषात्मकपरत्वे स इति पदार्थस्य पुरुषपदार्थकदशे पुरुष कथमन्वयः ? पदार्थः पदार्थनान्वति न तु तदेकदेशेनेत्याशंक्य शब्दान्तरप्रयोज्यप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति शब्दान्तरप्रयोज्यप्रकारताभिन्न विशेष्यतासम्ब- न्धेनोपस्थितिः कारणमित्यत्र प्रकारतायामपृथक्सिद्धिसम्बन्धानवच्छिन्नत्वं निवेशनीयम् । अन्यथा गौरश्चैत्रो जानातीत्यादौ चैत्रादिपदार्थकदेशे शरीरे गौराथन्वयानापत्तेः । प्रकृते च पुरुषपदस्यापृथक्सिद्धिसम्बन्धन पुरुषवि- शिष्ट इत्यर्थकतया तत्सम्बन्धानवच्छिन्नप्रकारताभिन्नापुरुषनिष्ठविशेष्यतेति न दोष इत्युक्तम् ; तत्रेदं वक्तव्यम् । यद्येवमपृथसिद्धिसम्बन्धानवच्छिन्नत्वं निवेश्यते , तर्हि नित्या गौरित्यादौ गोत्वे नित्यत्वान्वयापत्तिः । गौरत्वं रू- पवान् जानातीत्यादौ रूपेऽभेदेन गौरत्वान्वयप्रसङ्गः । अतोऽपृथसिद्धि- सम्बन्धानवच्छिन्नत्वमनिवेश्य गौरश्चत्रो जानातीत्यादौ गौरी जानातीत्यत्रेव गौरपदस्य रूपविशिष्टपिण्डविशिष्टात्मपर्यन्तत्वमेव स्वीकृत्य गौरपदार्थस्य वि- शिष्टस्य चैत्रपदार्थेन विशिष्टनाभेदमेवोक्त्वा विशिष्टयोरभेदस्थलऽसति बाधके विशेषणमोरप्यमेदान्वयव्युत्पत्तिमङ्गीकृत्य चैत्रशरीरस्य गौरत्व निर्वाह्यामिति । अत एव 'अयमात्मा ब्रह्म'त्यत्रायंशब्दस्यापि विशिष्टपरत्वं 'प्रकाशादिवत् तु नैवं परः' इत्यत्र भाषितम् । यत्राप्य विशिष्टवेषेण परमात्मपर्यन्तता विशेषणवाचिनः शन्द्रस्य न सम्भवति, तत्रापि तस्य विशेषणस्य प्रकारमा- आचार्यभाष्यतात्पर्यसमेतम् । १३५ त्रगतत्वे प्रामाणिकेऽपि यथावत् प्रथमतः समभिव्याहृतपदोपात्त प्रकारवि. शिष्ट एघान्वयः । पश्चात् तु सविशेषणे हीति न्यायेन विवेचनेन प्रकारे पर्यवसानसम्पादनमिति नानुपपत्तिरिति । यश्च शरीरवाचिनां शरीरविषयकवृत्तिज्ञानपूर्वकमेव शरीर्युपस्थापकत्व- मिति , पूर्व जायमाने वृत्तिज्ञाने शरीरस्य शरीरिणश्च यथाक्रमं विशेष्यत्वात् तस्य पदार्थत्वानपायात् गौरश्चैत्रो जानाति, अहं स पुरुषोऽस्मीत्यत्र च न 'पदार्थः पदार्थेनान्वेती'ति नियमभङ्ग इति वास्तविकः पक्षः ; सोऽप्ययुक्तः । एकसामग्रीवेद्येषु वस्तुषु प्रथमतः प्रकारोपस्थापनं पश्चात् प्रकारिण इति निबन्धस्य निर्निबन्धनत्वात् । अत एव भाष्यकृद्भिः नैयायिकमतनिर्विकल्पक- निरासे चक्षुरादिसामग्रया युगपदेव जात्यादिविशिष्टव्यक्तिप्रत्यक्षमुपापादि । अतः प्रत्यक्ष इव शब्देऽपि युगपदेव विशिष्टापस्थितिरिति न विशेषणोपस्थितेः प्राग्भावित्वमस्माकमिष्टम् । नागृहीतविशेषणाबुद्धिर्विशिष्टे प्रवर्तत इति वि- शेषणबुद्धेः प्राग्भावितां जात्या व्यक्त्याक्षेपवादिन एव अवते । वयं तु वि. शिष्टबुद्धिर्विशेषणविषयिण्येव भवतीत्येव अवन्तो विशिष्टे शक्तिमेव स्वीकृत्या- क्षेपपक्षमाक्षिपामः । शरीरवाचिनः शब्दाः शरीरिपर्यन्तवाचिन इति वाक्य- स्य च ये परबुद्ध्या शरीरवचनास्तेऽस्मबुद्धया विशिष्टवचना इत्येवार्थः तथा च जिज्ञासाधिकरणभाष्यम्, 'आत्मप्रकारतया प्रतिपादनसमर्थस्तु शब्दः सहैव प्रकारतया प्रतिपादयतीति । बदप्यत एवं गभीरायां नद्यां घोष इत्यादौ पश्चाल्लक्षणया तोरोप.. स्थितावपि पूर्वोपस्थितनद्यां गभीरपदार्थान्वयः •सङ्गच्छत इति । तदपि न युक्तम् । युगपत् वृत्तिद्वयविरोधात् प्राथमिकशक्यार्थोपस्थितेलक्षणाकल्पनोप- क्षीणत्वेन शाब्दबोधप्रयोजकत्वायोगात् । अन्यथा गभीरायां नदीवर्तिघोषः ऋद्धस्य राजमातङ्ग इत्यादिप्रयोगप्रसङ्गाच्च । तत्रापि प्रथातो मुख्यविशे- १३६ ईशावास्योपनिषद्भाष्यम् । प्यतयोपस्थितनदीराजादौ गभीरऋद्धादेरभेदेनान्वयस्य सुवचत्वात् । अतो गभीरायामित्यस्य तात्पर्य ग्राहकत्वं वा बोध्यसम्बन्धरूपलक्षणा वा समाश्रयणी- यमित्यन्यदेतत् । यदप्यहं स पुरुषोऽस्मीत्यत्रैकदेशान्वयदोषपरिहाराय पुरुषपदार्थस्य भगवतोऽहंशब्दार्थे जीवे तदन्तर्यामित्वलक्षणतादात्म्येनान्वयवर्णनम् ; 'सर्वत्र च सर्व खल्विंद ब्रह्म,' 'क्षेत्रज्ञं चापि मां विद्धि, विश्वमेवेदं पुरुषः' इत्यादा- वीदृशतादात्म्येनान्वय एव भाष्यकृदभिप्रेत इत्यभिधानं च, तदत्यन्तमन्दम् । कृद्भिः स्वरूपैक्यलक्षणतादात्म्यस्यैव सामानाधिकरण्यानिबन्धनता. याः सनिर्भरं साधितत्वेन स्वाभिप्रायस्य तेष्वारोपणस्यात्यन्तमयुक्तत्वात् । अन्यथा तत्त्वमसीत्यादावत्यन्तभिन्नयोर्जीवपरमात्मनोः कथं समानाधिकरण- पदनिर्देश्यत्वमित्याशंक्योद्देश्योपादेयभावासम्भवशङ्कापादकमन्यादृशसमाधान न परिगृह्णीयुः । प्रतर्दनविद्यायां च 'मामेवायुरमृतमित्युपास्खे' त्यत्र मा- मित्यस्येन्द्रमानपरत्वाङ्गीकारेण परब्रह्मणस्तदन्तर्यामिकत्वलक्षणतादात्म्येना- न्वयमेवाभिदध्युः । प्रतर्दनेन पूर्वमिन्द्रान्तर्यामित्वस्य ब्रह्मण्यनवगततया तथैवोद्देश्योपादेयभावौचित्यात् लाघवाच्च । न च तथा भाष्यकृद्भिरभिहित- म् । 'शास्त्रदृष्ट्या तूपदेशो वामदेववत्' इति सूने जीवात्मवाचिनामहत्व- मादिशब्दानामपि परमात्मन्येव पर्यवसान ज्ञात्वा स्वात्मशरीरकं परमात्मा- नमेवोपास्यत्वेनोपदिशेति शरीरवाचिनः शरीरिपर्यन्तत्वाङ्गोकारेण सामाना- धिकरण्यनिर्वाहस्यैव विहितत्वात् । सुत्रकृतश्च वामदेववदिति दृष्टान्तय- न्तः यथा 'अहं मनुरभवमित्यादावहमादिशब्दानां विशिष्टवाचित्वं तथा प्र- तर्दनविद्यादिष्वपीति सर्वत्र विशिष्टवचनतामेव विस्पष्टयन्ति । अहं मनुर- भवमित्यादौ विशिष्टवचनव शरणामति भवतैवोक्तम् । अत एवात्रैव भाष्ये-- 'सर्वगत्वादनन्तस्य स एवाहमवस्थितः । मत्तः सर्वमहं सर्व मयि सर्व सनातने ॥'
आचार्यभाष्यतात्पर्यसमेतम् । चिन्त्यस्ल एष स्वयमुद्वभौ' इत्यादिवाक्यच्छायया यत्तच्छब्दाभ्याम दःशब्दौ विभज्यान्वेतव्यो, सर्वातीन्द्रियप्रमाणसिद्धत्वद्योतनार्थों वा । पुरुषः पूर्णत्वपूर्वसत्त्वादिगुणक आदित्यवर्णविग्रहविशिष्टस्सर्ववेदप- ठितानन्यपरपुरुषसूक्तादिप्रसिद्धो महापुरुषः । सोऽहमस्मि अहंशब्दो ऽत्र जीवद्वारा तदन्तरात्मपर्यन्तः । अत एवास्मीत्यपि प्रत्यग्रपत्र- विशिष्टे परमात्मनि विश्राम्यति । 'अस्मद्युत्तम' इत्येतावदेव धनुशि- ष्टम् । न पुनरमच्छन्दस्य प्रत्यगात्मद्वारा परमात्मपर्यन्ततायामुत्त- मानवृत्तिः। एवं तत्त्वमसीत्यादिष्वसिशब्दो निर्वाह्यः। तत्रापि 'युष्म- उपपदे समानाधिकरणे स्थानिन्यपि मध्यमः' इत्येतावदेव हि मर्य. ते । न तु युष्मच्छब्दस्य स्वाभिमुखचेतनद्वारा तदन्तर्यामिपर्यन्त- त्वे मध्यमनिवृत्तिः । लोके तु अहं त्वमस्मि, त्वमहमसीत्याद्यपचारे. द्देश्यानुसारेण मध्यमोत्तमयोर्व्यवस्था । तवदनापि व्यवस्थोपप- घते ; उद्देश्यविषययोरेवान युष्मदस्मच्छब्दयोरुपपदत्वेन सूत्रपदा- भिप्रेतत्वात् । भाष्य तु तत्त्वमसिनिरूपणावसरे 'नात किंचिदुहि- श्य किमपि विधीयत' इत्युक्तिरप्राप्तांशनिषेधाभिप्राया व्यक्ता , उप- संहारत्वोपपादनात् । इति प्रहादवचनमुदाहरन्तो भाष्यकृतः तत्रापि वचने विशिष्टपरतामेवाऽऽक- लयन्तीति तद्विरुद्धमेव भवतः स एवाहमित्यत्र स इति पदार्थस्य विलक्षण- तादात्म्येनान्वयवर्णनम् । 'मत्तः सर्वमहं सर्व'मित्युत्तरार्धेऽमच्छब्दस्य वि- शिष्टपरत्वावश्यकत्वेन पूर्वार्धेऽन्यथाकरणस्यायुक्तत्वाच्च । भवदुपात्तासु भाष्य- सुक्तिषु न काऽप्यभिमतं साधयति । कुत्रापि तादृशतादात्म्यस्य सम्बन्ध- रूपताया अनुक्तत्वात् । अहिकुण्डलाधिकरणभाष्ये च विशिष्टवस्त्वेकदे- शत्वेनेति पदेन पदस्य विशिष्टवाचित्वं घोतितमेव । अपि चास्य भाष्यस्यां- शाधिकरणमाष्यसंग्रहरूपत्वात् तत्र च 'प्रकाशादिवत्तु नैवं परः' इति सूत्रे “अमेदनिर्देशास्तु पृथक्सिद्धयनह विशेषणानां विशेष्यपर्यन्तत्वमाश्रित्य मुख्य- वेनोपपद्यन्ते । 'तत्त्वमसि' 'अयमात्मा ब्रह्मे'त्यादिषु तच्छव्इब्रह्मशब्दवत् खमयमात्मति शब्दानामपि जीवशरीरकब्रह्मवाचकत्वनैकार्थाभिधायकत्वा- 18 I 1 L ११३८ ईशावास्योपनिषद्भाष्यम् । ये पुनस्तत्त्वमासि, सोऽहमस्मीत्यादिषु कार्यकारणोपाध्याकार- विधूननेन निर्विशेषखरूपैक्यं चाफ्यवेद्यमाष्टुः, तेषामसिवदस्मिरपि खण्डकः । श्रोतर्यनुसन्धातरि च युष्मदस्मदी हि परित्यक्के । न हसिना कश्चित्प्रतिबोधनीयः, न च कश्चिदस्मिना विशिष्यानुसन्धे. यः । क्धूिननीयोपाधिविषयव्युत्पत्तिमच्छब्दसग्निधिमानोपजीवनेन क्वचिन्मध्यमोत्तमसम्पत्तिरिति चेत् ततो वरमपरित्यक्तप्रवृत्तिनि- मिसमस्माकं निर्षहणमनुसर्तुम् । सन्मावस्यांशिनोंऽशद्वर्यावशिष्टता- प्रतिपादनं वदतामपि , सन्मानविवक्षायामत्र वाक्ये त्वमहम्भावा- योगात् , त्वंताऽहन्ताविशिष्टं सदिति विशिष्टविवक्षायामपि प्रथम- पुरुषोपनिपातप्रसङ्गात् , दृश्ययोश्च युष्मदस्मदर्थयोर्मुत्पिण्डांशे म- णिक इव घटशरावाकारयोः सदशभूतश्वसकारेऽपि समन्वयायो- गात् , त्वमहमर्थयोः सत्ताधाकारस्य नित्यप्रतिपन्नतया विशेषतोऽ निर्देश्यत्वादननुसन्धेयत्वाच न कथंचिदपि तत्त्वमसि सोहऽमस्सी- त्यादेर्निवाहः शक्यः । दृष्टिविधिस्तु मोक्षार्थविद्यासु वेदान्तवेदिना नाङ्गीक्रियते । यद्यप्यत्र "त्वं राजाऽसि, अहं राजाऽस्मी' त्यादिवत् तादधीन्याधुपचारविवक्षया मध्यमोत्तमयोः सामञ्जस्यम् ; तथाऽपि लोकवेदयोः चेतनपर्यन्तदेवमनुष्यादिव्यवहारन्यायेन जातिगुणशब्द- गतिलाभात्तदुपेक्षा । नन्वेवं पुरुषाख्यस्खेतरात्मसामानाधिकरण्य- क्लेशं परित्यज्य 'योसावसौ पुरुषः सोऽहमस्मी' ति परिशुद्धख- रूपमालानुसन्धानपरमिदं वाक्यमस्तु ; मैवम् , तत्त्वमसि, त्वं वा अहमस्मि इत्यादिषु तदनुपपत्चरत्नापि तत्समानन्यायतया तथैवाऽ नुसन्धानस्यौचित्यात् । ब्रह्मात्मकोऽहमस्मि इति परविद्याङ्गभूत- खात्मानुसन्धानपरत्वेऽपि तच्छब्देन तादधीन्यादिकं लक्षणीय स्यात् ॥ १६.॥ दि"ति विस्पष्टं विशिष्टवचनत्वस्य भाषितत्वात् खरूपैक्यलक्षणं तादात्म्यमेव सामानाधिकरण्ये निबन्धनामति दर्शितत्वाद्भवदभिमतबाधकत्वमेव । कृत्लस्य जगतो ब्रह्मकार्यतया तदन्तर्यामिकतया च तदात्मकत्वेन- क्यादिति जिज्ञासाधिकरणभाष्येऽपि. ब्रह्मकार्यतया प्रयोज्यस्यैक्यस्य खरूपै- क्यरूपत्वात्तदन्तर्यामिकत्वनिबन्धनमैक्यमपि समानाधिकरणपदद्वयस्य विशि- आचार्यभाष्यतात्पर्यसमेतम् । १३९ ष्टपरतया खरूपैक्यरूपमेवोचितम् । अस्य भाष्यस्य श्रुतप्रकाशिकायामप्र- थाक्सद्धत्वरूपैक्यपरतया योजनान्तरस्य कृतत्वेऽपि न समानाधिकरणवाक्येषु तादृशतादात्म्यस्य सम्बन्धतागमकत्वम् । समानाधिकरणस्थले विशिष्टपर- खव्युत्पादकभाष्यविरोधात् । 'तदिदं शरीरात्मभावायत्तं तादात्म्यं सामानाधिकरण्येन व्यपदिश्य- त' इति पुराणघट्टभाष्येऽपि शरीरात्मभावरूपमित्यमाक्त्विा आयत्तमिति भाषणात्तदतिरिक्त शरीरात्मभावप्रयुक्तविशिष्टवाचित्वनिबन्धनं खरूपैक्यलक्ष- णतादात्म्यमेव विवक्षितमक्गम्यते । अंशाधिकरणे च जीवस्य ब्रह्मांशत्व ऐक्यनिर्देशस्य हेतुत्वाभिधानं का ऐक्यनिर्देशस्य तत्त्वमसीत्यादिरूपत्वाभिधानं वा जीवोयं ब्रह्मणोंश इत्युक्तिर्वा कथं तादृशतादात्म्यं संबन्ध बोधयतीति न विद्मः । तदधिकरणभाष्य एव विशिष्टवचनत्वकण्ठोक्तेः प्राग्दर्शितत्वात् । 'तमः परे देव एकीभवतो'ति श्रुत्या पृथसिद्धयनहसंबन्धविशेष- स्यैकत्वरूपत्वकथनमपि न युज्यते । भवदमिमतस्यापृथक्सिद्धत्वरूपैकत्वस्य तमसि तत्कार्यप्रपञ्चे च परं देवं प्रति सर्वदैव वक्तव्यत्वेन प्रलयदशावर्णित- स्यैकीभावस्य भवदभिमतस्य चैकरूपत्वाभावात् । तत्र श्रुत एकीभावस्तु अयःपिण्डसंपृक्तजलस्येव पूर्ववत्स्पष्टोपलम्भावस्थाप्रहाणेनात्यन्तसूक्ष्मावस्था- न्तरापत्त्या देवे संबध्यमानत्वरूप इत्यन्यत्र द्रष्टव्यम् । अविभागेन दृष्टत्वाधिकरणभाष्येऽपि खयमेव विशिष्टपरतया स्थापि- तानां तत्त्वमसीत्यादीनामुपादानाद्विशिष्टवाचित्वस्थापकस्य 'अवस्थितरिति काशकृत्वः' इति सुत्रस्य धरणात् तत्प्रकारभूतमिति जीवस्य प्रकारताया ब्रह्मणः प्रकारितायाश्च कथनेन विशिष्टवाचित्वबोधनाचाहं ब्रह्मास्मीत्यहंश- ब्दस्य विशिष्टपरत्वमेवाभिमतं लक्ष्यत इति न किञ्चिदनुकूलम् ।
१४० ईशावास्योपनिषद्भाष्यम् । , यत्तु भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधि- करण्यमित्यत्रैकशब्दार्थ एकत्वमपृथक्सिद्धत्वरूपमपीति; तन्न; स्वरूपक्यलक्ष- गैकत्वस्यैव भाष्यादिषु प्रपञ्चितत्वात् । भिन्नप्रवृत्तिनिमित्तानामित्यत्र भिन्न- पदस्यान्योन्यामावरूपमेदवदर्थकत्वेनैकशब्दस्य तादृशमेदराहित्यरूपखरूपै- क्यवदर्थकत्वस्यैव वक्तव्यत्वात् । पृथक्सिद्धत्वरूपभेदस्य चालाविवक्षितत्वात् । ज्ञानी खयंप्रकाशः घटवद्व्यमित्यादौ ज्ञानस्वयंप्रकाशत्वघदव्यत्वादिरूप- प्रवृत्तिनिमित्तपृथसिद्धयभावेन सामानाधिकरण्याभावप्रसङ्गेन तस्य विवक्षितु- मशक्यत्वाच्च । तेन शब्देन तस्य शब्दस्य सामानाधिकरण्यं नाम तच्छब्द- प्रयोज्यविषयतानिरूपितामेदनिष्ठसंसर्गतानिरूपितविषयताप्रयोजकत्वमेव । अत्र चाभेदः स्वरूपैक्यमेव । अपृथक्सिद्धत्वस्याप्यभेदपदार्थत्वे आत्मवि ज्ञा- नं परमात्मनि जगत , जगात परमात्मेत्यादावपृथक्सिद्धत्वस्यैव सप्तम्यर्थत्वेन सामानाधिकरण्यव्यवहारप्रसङ्गात् । शंख पोतं जानातीत्यादिनिर्वाहाय च न वरूपैक्यातिरिक्तमेकत्वं ग्राह्यम् । तत्र शंखविशेष्यकपीतप्रकारकज्ञाना- प्रय इति बोधे सत्यपि अहं स पुरुषोऽस्मीत्यादावस्मीत्यनेनान्वितपुरुषपदा- र्थस्याहमित्यनेनाप्यन्वयस्य भवदिष्टतया तयैव रीत्या शंखपीतपदयोमिथोऽ- न्वयमप्यङ्गीकृत्य शंखपीतपदयोरभेदसम्बन्धावगाहिबोघस्याप्यङ्गोकारात् । न चैवमपीते शंखे पोतबोधजननाद्वाक्याप्रामाण्यप्रसङ्गः । परकीयभ्रम- ज्ञानबुबोघीयषापूर्व प्रयुक्तत्वेन तद्बोधनेन च प्रामाण्यस्यानिवार्यत्वात् । अपोते पीतज्ञानं तु शब्दातिरिक्तप्रमाणादिव शब्दादपि प्रान्तस्य भ्रमरूप- मसान्तस्य चाहार्यरूपमिष्यते । न चाहार्यः शाब्दबोधो नास्तीति शं- क्यम् , वैयाकरणादिभिस्तदभ्युपगमात् । मास्तु वा तत्र सामानाधिक रम्यम् । विशेषणविशेष्ययोः परस्परान्वयस्थल एव तदनीकारात् । समान- विमतिकवादिकं पुनर्भ्रान्तकर्तृके शंख: पीत इति व्यवहार इवेष्यते । तद्धि- आचार्यभाष्यतात्पर्यसमेतम् । १४१ शेष्यकत्वविशिष्टज्ञानविशेष्यकाभेदसम्बन्धावच्छिन्नतन्निष्ठप्रकारताकत्वप्रकार कबोघे तद्वाचिपदसमानविभक्तिकत्वादिविशिष्टतद्वाचिपदसमभिव्याहारज्ञानस्यै- व कारणत्वमनुभवालात्वाकर्तव्यमिति । अथ वा यत्र शंख शुक्लं जाना- ति शंखं पीतं जानातीत्यादौ विशेषणविशेष्ययोः पृथक्पृथक्जानात्यर्थज्ञाना- दावन्वयः प्रतीयते तत्र विशेष्यविशेषणनिष्ठविशेष्यत्वप्रकारत्वयोनिरूप्यनिरू- पकमावोडपि स्वीक्रियत इति न कश्चिद्दोषः । अतः स्वरूपैक्यलक्षणमेकत्वमेव सामानाधिकरण्ये निवन्धनम् । अन्यथाऽपृथक्सिद्धत्वादरपि सामानाधिकरण्यप्रयोजकैकत्वपदार्थत्वाश्रयणे अ- मिर्माणवक इत्यादावपि अभयादिपदे गौण्यादि न स्वीकर्तव्यं स्यात् । सा- दृश्यादिसम्बन्धेनामयादेर्माणवकादावन्वयसम्भवात् । एवं रोजैव पुरोहितः राम एव सुग्रीव इत्यादावपि भाव्यम् । न च सादृश्यस्य भेदगर्भत्वात्सादृश्यज्ञाने भेदज्ञानस्य नियतत्वेन न समानविभक्तिगम्याभेदज्ञान सम्भवतीति वाच्यम् अपृथक्सिद्धत्वज्ञानेऽपि भेदज्ञानस्य नियतत्वात् अभिन्नत्वे सत्यपृथक्सिद्धिसम्ब- न्धेनान्वयासम्भवात् । अन्यथा घटापृथक्सिद्धो घटः घटी घट इत्यादौ तथा बोधप्रसङ्गात् । अत एव 'भेदव्यपदेशाच्चे' त्यत्र 'य आदित्ये तिष्ठन्नादि- दित्यादन्तर' इति शरीरशरीरिमावबोधक वाक्यमुदाहृतं भाष्ये । योऽसौ सोऽहमित्यहमर्थापृथक्सिद्धतयाऽऽत्मत्वेनोपासनेऽपि 'पृथगात्मानं प्ररितारं च मत्वति' श्रुतपृथक्त्वानुसन्धान रक्षितं भवतीत्यप्यात्मत्वोपासनाधिकरणे भा. षितम् । किं च तादात्म्यं हि तदन्तयामिकत्वम् । तच्च शरीरात्मनो- भैदैज्ञानमन्तरेण कथमिव सम्भवति । अथान्योन्याभावरूपभेदज्ञाने. सत्य- प्यन्यादृशाभेदज्ञानं न न सम्भवतीत्युच्यते तीमिर्माणवक इत्यादौ सादृश्य- बलादन्योन्याभावज्ञानेऽपि वन सम्भवतोऽन्यादृशाभेदस्य ज्ञान किं न सम्भ- वेतः । एवं च यावन्तः सामानाधिकरण्यव्यवहारास्तावतामाप मुख्यत्वस- १४२ ईशावास्योपनिषद्भाष्यम् । म्भवात् चोरः स्थाणुरित्यादौ आरोप्यत्वमपि तादात्म्यं स्यात् । सेयं दीप- ज्वालेत्यपि मुख्यप्रयोग एवेति सोऽयं घट इत्यादिकमपि तथैवेति क्षणभङ्ग- वादिनो बौद्धस्य न प्रत्यभिज्ञया भङ्गः स्यात् । अतोऽन्योन्यामावरूप- भेदाभाच एकत्वमेव सामानाधिकरण्यनिबन्धनम् । न पुनर्भिदिर् विदारण इति मेदः पृथस्थितिरभेदोऽपृथस्थितिस्तदेवैकत्वमित्याधुच्यमानमेकत्वमपि । यदि पुनरेको घट इत्यादावपृथक्स्थितत्वमेकत्वं प्रतीयत इति पुष्पितो वृक्ष इत्यादौ तादृशमपृथस्थितत्वमेव सम्बन्धः, तर्हि शरीरावयवानां वृक्षावयवानां च मिथः पृथक्स्थितत्वाभावेन उदरं वक्षः, वक्षःकण्ठः, कण्ठशिरः, मूलं स्क न्यः, स्कन्धः शाखा, शाखा पर्णमित्यादिसमानाधिकरणव्यवहारप्रसङ्गः । अथ समुदायनिष्ठमपृथक्सिद्धिसम्बन्धेन स्वघटितत्वमेवैकत्वम् । पुष्पितो वृक्ष इत्यादौ पुप्पितावयवघटितसमुदायो वृक्ष इति बोध इति चेत् तार्ह अहं स पुरुषोऽस्मीत्यत्र प्रकृते पुरुषरूपावयवघटितसमुदायत्वस्याहमर्थे जीवे बाधान सामानाधिकरण्यं स्यात् । अथ तदनुरोधात् केवलापृथक्सिद्धत्वमपि सम्बन्धः, तयुदरं वक्ष इत्याधापत्तितादवस्थयम् । किं चैवं शिरःशरीरं, शिरः पाण्यादिसमुदायः, शाखा वृक्षः, शाखा मूलस्कन्धशाखादिसमुदायः, वन्तुः पटः, सास्ता गौरित्यादिन्यवहारप्रसङ्गः । सम्बद्धावयवसङ्घासवृत्तिसमुदाय- त्वमेकत्वमित्यप्ययुक्तम् । एको घटः एकः पटः एकः सङ्घातः अयमेक: समुदाय इत्यादौ समुदायत्वस्यैव तत्तत्पदप्रवृत्तिनिमिततया एकपदस्यापि तदर्थकत्वे घटो घट इतिवच्छाब्दबोधानापत्तेः । अतः पुष्पितो वृक्ष इत्या- दौ पुष्पितप्रातिपदिकं पुष्पवदवयवघटितपरमेव । मषीलाञ्छितः पट इत्य- न तु लाञ्छन नामैकदेशे विलक्षणवस्तुसम्बन्ध इति लाल्छितशब्दः संयुक्त- फदेशवदर्थक एवेति न कथमपि तदुदाहतुं शक्यम् । समुदायघटकैकदेशे तादृशषिक्षेषणसद्भावमात्रेण तादृशळ्यवहारो न सम्भवतीत्यपि न । पटैक- आचार्यभाष्यतात्पर्यसमेतम् । देशे दग्धेऽपि पटो दग्ध इति व्यवहारसद्भावम्य भाषितत्वात् । अत एक- देशवृत्तिविशेषणाश्रयत्वमपि समुदायस्य प्रतीतिबलसिद्धम् । न चैवं पृथि: चीजलद्वयं गन्धवदिति व्यवहार आपादनीयः ; भवन्मतेऽपि गन्धवद्धटितस- मुदायवृत्तिसमुदायत्वरूपैकत्वस्य तंत्राच्याहतत्वेन तदापत्तिसम्भवात् । अपृ- अक्सिद्धिसम्बन्धेन सम्बद्धावयवसङ्घातत्वमेवैकत्वमिति चेत् । तहि तथाविध- सङ्घातैकदेशे विशेषणसद्भावमात्रेण तादृशव्यवहार एवास्माभिस्स्वीक्रियत इति न किञ्चित् । किञ्च यद्यपृथक्सिद्धत्वमेकशब्दमुख्यार्थः , तद्यपृथकसिद्ध- प्ववयवेषु इम एक इति व्यवहारस्स्यात् इमेऽपृथक्सिद्धा इति व्यवहारवत् । नन्वत किमेकशब्द एकवचनान्त उत बहुवचनान्त इति चत् किं तावता यधेकशब्देनैकवचनान्तेनैव भाव्यम् , तार्ह तथैवास्तु । यद्यपृथक्सिद्ध. वाचित्वेन संख्यावाचित्वामावाद्बहुत्वं युक्तम् , तर्हि तथैवेति । यद्यपृथ- क्सिद्धावयवघटितसमुदायत्वमेकशब्दार्थः , तार्ह सर्व स्खल्विदं ब्रह्मत्यादि- व्यवहारोऽनुपपन्नः । किं चैको घट इत्यादावुच्यमानमपृथक्सिद्धत्वं कस्य केनेति वक्तव्यम् । न तावद्यथा परमात्मा चिदचियां चिच्च देहेन या- वदाधेयसत्तमपृथक्सिद्धः , तथा घटः केनचिदपृथक्सिद्धोऽस्ति । घटपटन- घवयवास्तु कदाचित् पृथगपि स्थातुमलमिति न तेषामपृथक्सिद्धत्वम् । अ- तो धारणाकर्षणयोग्याविलक्षणसंयोगविशेष एव तत्रावयवानाम् , न पुनर्नी- वेश्वरयोरिव तादृशमपृथक्सिद्धत्वम् । यत्तु एवं तादात्म्यसम्बन्धेनैव सर्वत्र बोधसम्भवेऽपि परमात्मवाचि- शब्दाप्रयोगेण 'अहं मनुरमबम् , तं पृथिव्यब्रवी' दित्यादिचिदचिद्वाचिमात्र- प्रयोगनिहायैव शरीरवाचिनां शरीरिपर्यन्तत्वं भाषितमिति, तत्रोच्यते । परमात्मवाचिशब्दसद्भावस्थलेऽपि भाष्यकृद्भिः सर्वत्र विशिष्टवाचित्वस्य भा- पितत्वेनेदृशवाक्यमात्रे सङ्कोचकल्पनस्य तद्विरुद्धत्वात् । 'प्रहादश्वास्मि दै- १४४ ईशावास्योपनिषद्भाष्यम् । त्यानाम् , रसोऽहमप्सु'इत्यादिषु भवदुक्ततदन्तयामिकत्वरूपतादात्म्यस्याभा- वेन प्रह्लादरसादः परमात्मनि तथाऽन्वयासम्भवेन तत्रापि विशिष्टवाचित्व- स्यावश्यकतयेदृशस्थलमानपरत्वोक्त्यसम्भवात् । न च प्रहलादादिः परमात्मनोऽ न्तर्यामी । न चैकत्वमपृथक्सिद्धत्वरूपमस्त्येवेति वाच्यम् ; अभेदतादाम्यैक- स्वशब्दानां सर्वेषां यदर्थवाचित्वं तस्यैव सामानाधिकरण्यप्रयोजकत्वात् अन्य- था तादृशस्थले तादात्म्यं नास्तीति वक्तव्यत्वापातात् । एवमहं स पुरुषोऽ स्मीत्यादौ भवदुक्ततादात्म्याभावादपि सर्वत्र विशिष्टवाचित्वमेव स्वीकर्तव्यम् । न चाहमर्थे पुरुषान्तर्यामिकत्वरूपं पुरुषतादात्म्यमस्तीति वाच्यम् । तथाऽपि पुरुषेऽहमर्थतादात्म्याभावात् । समानाधिकरणवाक्ये हि नीलमुत्पलमित्यादाव- र्थयोमिथस्तादात्म्यं मिथ एकत्वं मिथश्चाभेदः प्रतीयते । अतो यत्रकत्वाभेद- तादात्म्यानि मियो भवन्ति तत्रैव सामानाधिकरण्यम् । तच्च स्वरूपैक्य- लक्षणैकत्वाश्रयण एव भवति । अथोच्येत--तादात्म्यं नाम न केवलं तद- न्तयामिकत्वम् , तच्छरीरकत्वमपि । अतो जीवब्रह्मणार्मिथ एकरूपता- दात्म्याभावेऽपि ब्रह्मणि जीवशरीरकत्वरूपतादात्म्यं . जीवे ब्रह्मान्तर्यामिकत्व- रूपतादात्म्यमिति प्रयोगानुसारेण सर्वविधतादात्म्यग्रहणं कर्तव्यम् । एवं च प्रह्लादश्चास्मीत्यादौ तच्छरीरकत्वरूपतादात्म्येनान्वयः । रसोऽहमपिव- त्यादौ तदाश्रयापृथक्सिद्धत्वरूपतादात्म्येनेति तत्र विशिष्टवाचित्वं नापक्षित- मिति ; तर्हि प्रयोगानुरोधादहं मनुरभवमित्यादौ यथायथं स्वाश्रयपरमात्मा- घृथक्सिद्धत्वादिसम्बन्धस्यैव सुवूचत्वेन कुत्रापि विशिष्टवाचित्वं नापेक्षितमि- ति भाष्यस्य दत्त एव जलाञ्जलिः । अतो यथाकथश्चित्तादात्म्यकल्पनं परित्यज्य स्वरूपैक्यमेव भाष्यकृत्सम्मतं युक्तिसह स्वीकर्तव्यमिति । यत्पुनरहं स पुरुष इत्यत्र पुरुषशब्दस्य तदात्मकपरत्वे वा तदर्थस्य तदाबानमन्वये स सत्येव. कल्याणतमरूपदर्शनाधिकारज्ञापनं कृतं भक ..
आचार्यभाष्यतात्पर्यसमेतम् । १४५. । तीति ; तत्र तद्ज्ञापनाऽसम्भवः, अहंशब्दस्य विशिष्टपरत्वे वाक्यसङ्गतिश्च प्रागेव वर्णितौ। किञ्च पुरुष इत्यस्य पुरुषात्मकः पुरुषशरीरभूत इति विव- क्षितार्थो न वाच्यार्थी भवति । नामरूपव्याकरणश्रत्याद्यवगतनियमस्य तद्वाचिशब्दानां तच्छरीरवाचित्वमित्येवंरूपत्वाभावात् । तथा सति चिद- चिद्वाचिशब्दानां ब्रह्मपर्यन्तत्वासिद्धेः । शरीरशरीरभावस्य परं भाननियमे जातिगुणवाचिनां विशिष्टवचनत्वं न क्रोडीकृतं भवति । तस्मात्तद्वाचिशब्द- स्य तदपृथक्सिद्धवाचित्वमित्येष नियम इति पुरुषशब्दः पुरुषापृथक्सिद्ध- परः । तावता तन्नियाम्यत्वादिकं न कण्ठोक्तम् ; नियाम्यस्येव नियन्तु- रप्यपृथक्सिद्धत्वात् , नियन्तृनियाम्यभावाभावेऽपि जातिगुणतदाधाराणां सु- खदुःखादिगुणतदाधारात्मनां चापृथक्सिद्धिसत्त्वाच्च । तस्मात् प्रमाणान्त- रालोचनया वा लक्षणयैव वा तादृशोऽर्थ इह ज्ञातव्यः स्यादिति निष्प्रयोज- नमेतत् । अस्माकं पुनरहंशब्दमेव विशिष्टपरमाचक्षाणानां विशिष्टे ब्रह्मणि प्रकारविधयाऽहमर्थभाने तत्प्रकारकखभावता तत्परतन्त्रता स्पष्टमनुसं- हिता भवतोति युक्ततरमेतत् । अतो भवदुक्तरीत्या ब्रह्मादिशब्दानां ब्रह्मा- . पृथक्सिद्धमानार्थकत्वात् तदन्तर्यामिकत्वरूपतदात्मकत्ववाचित्वाभावात् क्षेत्रज्ञ चापि मां विद्धी'त्यादौ मदात्मकमित्यादिभाष्यं भवद्भिराप फलितकथनरूप- मेष्टव्यम् , लक्षणयैव वा निर्वामिति न तादृशभाष्यस्य तादृशार्थशक्तत्वग- मकत्वम् । अत एव च 'ब्रमात्मकोऽहमस्मीति-तादधीन्यादिकं लक्षणीय स्या'दित्याचार्यपादभाषितमिह सुतरां साधु लक्ष्यते । अपृथक्सिद्धवाचित्व- पक्षेऽपि पुरुषापृथक्सिद्ध इत्येतावत एव लाभात् परमपुरुषपरतन्त्रत्वतन्निया- म्यत्वादिभवदपेक्षितार्थस्य लक्षणयैव लभ्यत्वात् । यञ्च तत्त्वमसीत्यादाविमं निर्वाहमुपेक्ष्य महता प्रबन्धेन भाष्यकृद्धिस्त्वं- शब्दस्य विशिष्टपरत्वाश्रयणमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्ये, कार्यकार- 19 I १४६ ईशावास्योपनिषद्भाष्यम् । णयोः खरूपैक्यस्य तत्प्रकरणे प्रक्रान्तस्योपसंहारः कर्तव्य इत्याशयनेति क- ल्पनम् , तदप्यनादरणीयम् । तत्त्वमसीत्यस्य ऐतदात्म्यमिदं सर्वमिति कांक्यप्राप्तार्थानुवादरूपत्वस्य विशेष उपसंहारात्मकत्वस्य भाष्यकृद्राषि- तत्वेन ऐतदात्म्यमिदं सर्वमित्यत्रेव वं तदात्मक इति प्राप्तरीत्यैवानुवादस्य युक्ततरत्वात् । ऐतदात्म्यमिति वैयधिकरण्यनिर्देशेऽपि सर्वस्मिञ्जगति पर- मात्मक्यमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तिश्च यथा भवतस्तथा त्वमर्थे त- दात्मकत्वान्वयेऽपि शरीरात्मभावावगमे सति लोकतो नामरूपव्याकरणश्रुत्या च विशिष्टवाचित्वज्ञानात्त्वमर्थगतपरमात्मस्वरूपैक्यप्रतिज्ञोपपत्त्योः सम्मवादु. द्देश्योपादेयमावासम्भवशावकाशप्रदविशिष्टवाचित्वपक्षस्याखीकर्तव्यत्वात् । लाघवेन सादाम्यसम्बन्धेनान्वयस्याभ्युपगन्तव्यत्वाञ्च । अतोऽन्यथोपपादने मुस्त्वं सामानाधिकरण्यं न. निर्वहति, परमत इव लक्षणैवापद्यतेत्येव विशिष्ट- वाचित्वं तत्र खीकर्तव्यामति भाष्यकृतामाशय इति न कुत्रापि बिशिष्टवा- चितामनसोकृत्यान्यथा निर्वाहो युक्तः । उपनिषद्भाष्यकृतां कचित् कचि- दपृथक्सिद्धयोः सामानाधिकरण्यसम्भवकथनमाप लक्षणया निबाहेऽपि श्रु- त्यन्तराधबाधेन परमतात लस्य ज्यायस्त्वन तावलैव परमुखापिधानं भवतीत्य- भिप्रायेण ; न पुनर्भाष्यविरुद्धस्य स्वरूपैक्यातिरिक्तस्यापि सामानाधिकरण्य- निवाहपक्षस्य सम्मत्यति ध्येयम् । इदमत्रावधेयम् -तत्तदर्थवाचिशब्दानामपृथक्सिद्धिसम्बन्धेन तत्त- दर्थाश्रयवाचित्ववत् तेन सम्बन्धेन तत्तदर्थविशिष्टतत्तदायवाचित्वमपि यदि स्वीक्रियते तर्हि घटपटादिशब्दानां व्यक्तिमन्तरेणाकृतिमात्रस्य विशेष्य- तयोपस्थापनमपि शक्त्यैव स्यात् । तथा च घटवत् द्रव्यमित्यादावपि घटत्व- वंत द्रव्यमित्येवं बोधापत्तिः । एवं घटो जातिरिति व्यवहारः स्यात् घटा- दिपदाना तत्तदपृथक्सिद्धार्थकत्वात् । कम्बुप्रीवादिमत्त्वं घटः , सामालि- आचार्यभाष्यतात्पर्यसमेतम् । १४७ मत्त्वं गौः, बाल्य डित्थः, यौवनं उपित्थ इत्यादि च व्यवहर्तव्यं प्रसजति । एवमात्मादिशब्दानामाप तत्तदपृथक्सिद्धार्थकत्वात् देह आत्मा देहो जीव इत्यादि च स्यात् । शरीरवाचिशब्दानां शरीरिपर्यन्तत्वे शरीरमात्मेति प्र- योगापत्तिरित्याशंक्य शरीरादिशब्दानां निष्कर्षकशब्दत्वात् निष्कर्षकशब्दा- नां च विशिष्टवाचित्वानभ्युपगमान्न दोष इति भाष्यकृतां परिहारोऽकिच्चि. कर एव स्यात् । तेषां विशिष्टवाचित्वाभावेऽपि आत्मादिशब्दानामपृथ- क्सिद्धवचनत्वेन तादृशप्रयोगप्रसङ्गतादवस्थ्यात् । न चात्मादिशब्दानाम- पृथक्सिद्धवोचित्वाभावः सुवचः । अयमात्मा ब्रह्मत्यादौ दर्शनात् । न च तेषां शब्दानासाश्रयवाचिसामानाधिकरण्येऽपृथक्सिद्धवाचिता, धर्मवाचिसा- मानाधिकरण्ये तु न सेति स्वीक्रियत इति शंक्यम् ; अहं स पुरुष इत्यादी पुरुषपदस्स आत्मैवेदं सर्वमित्यत्नात्मशब्दस्यान्यस्य चैवमादेराश्रयवाचिसामा- नाधिकरण्याभावेनापृथक्सिद्धवाचित्वासम्भवप्रसन्नात् । तथा च विवक्षिता- सिद्धिः । न च खस्विदम्परत्वाभिसन्धिपूर्वकमन्वययोग्यपदसममिन्याहारण प्रयुज्यमानोऽपि यश्शब्दो यस्यार्थस्य कदाचिदनुपस्थापकः, तस्य शब्द स्य तस्मिन्नर्थे शक्किरिति विपश्चिता वक्तुं शक्यम् । ननु यथा केषांचन शब्दानां शरीरमाकृतिः गुणो रूपमित्यादीनां नियतनिष्कर्षकत्वेऽन्येषां च गौर्मनुष्यो देवो यज्ञदत्त इत्यादीनां पिण्डविशि- ष्टजीववाचितया नियतानिष्कर्षकत्वे च सत्यप्यनियतनिष्कर्षका अपि शब्दा अङ्गीक्रियन्त । अत एव कचिनिष्कर्षेण, 'यः पृथिव्यां तिष्ठन्', 'योऽप्सु तिष्ठन्' 'यस्तेजास तिष्ठन्' इत्यादिनिर्देशः, अनिष्कर्षेण च.परमात्मपर्यन्तत- या, 'तत्तेज ऐक्षत ता आप ऐक्षन्त, तं पृथिव्यब्रवी'दित्यादिश्च सङ्गच्छेते तथाऽऽत्मादिशब्दा अपि क्वचिदपृथक्सिद्धपर्यन्तवचनाः कचिच्च निष्कर्षका एवेति स्वीकर्तव्यमिति.चेन्न । वैषम्यात् । अनियतनिष्कर्षकता हि शब्दाना १४८ ईशावास्योपनिषद्भाष्यम् । शुक्लः पटः पटस्य शुक्ल इत्येवमादिप्रयोगद्वैविध्येन परिगृह्यते तत्र च नाना- र्थकहर्यादिशब्देष्विव क्वचित् किश्चिदविवक्षया प्रयोग उपपद्यते । न पुन- विवक्षायां विद्यमानायामपि विवक्षितार्थावाचित्वं तत्र खीकुर्मः । इह पुन- रपृथक्सिद्धपर्यन्तार्थविवक्षायामपि बाल्य देवदत्तः जातिर्घटः शरीरमात्मेत्या- दि न शक्यते प्रयोक्तुमिति कथं तत्र तस्य शक्तिः ? येऽपि रसगन्धादिश- ब्दाः स्वाश्रयद्रव्यपर्यन्ततारहिता निष्कर्षकाम्नेऽपि परमात्मवाचिपदसामाना- धिकरण्येन 'रसोऽहमप्सु कौन्तय, पुण्यो गन्धः पृथिव्यां चे'त्येवं प्रयुज्यमानाः परमात्मपर्यन्तत्वे विशिष्टवचना एव स्वीक्रियन्ते । तथा च सर्वेषामपि श- ब्दानामपृथक्सिद्धधर्मवाचिनामाकृत्यधिकरणन्यायसिद्धस्य धर्मिपर्यन्तवाचित्व- स्य रसादिशब्देष्वपवादः क्रियमाणो न सर्वधर्मिविषयः क्रियते, किंतु पर- मात्मव्यतिरिक्तद्रव्यविषय एव । एवं च घटपटादिशब्दास्साक्षात्परम्परासा- घारण्येन स्वनिरूपितापृथक्सिद्धसम्बन्धन घटत्वपटत्वाधाश्रयवचनाः । देव. मनुष्यादिशब्दा आप 'पुमान्न देवो न नरो न पशुर्न च पादपः । शरीराव- विभेदास्तु भूपते कर्मयोनयः' इति वचनबलेन यदि पिण्डमात्रवचना अपि भवन्ति तर्हि साक्षात्परम्परया वा स्वनिरूपिततत्सम्बन्धेन देवत्वमनुष्यत्वादि- विशिष्टवाचिनः । यदि पिण्डलाक्षणिकास्ताह तेन सम्बन्धेन विलक्षणपिण्ड- वाचिनः । एवं जीवादिशब्दा आपि तथैव जीवत्वविशिष्टाभिधायिनः । रसग- न्धादिशब्दास्तु परमकाष्ठापन्नपरम्परया साक्षाच स्वनिरूपितापृथसिद्धिस- म्बन्धेन रसत्वगन्धत्वाद्याश्रयवाचका इति यथायथं सर्वप्रयोगसामरस्यम् । भवतश्च किमात्मशब्द आत्ममात्रवाची, किं वा तत्तदपृथक्सिद्ध- धर्म्युभयमात्रवाची, आहो तत्तदपृथक्सिद्धसर्ववाची ? नाद्यः, अयमात्मा प्रोत्यादौ विशिष्टब्रह्मपर्यन्तत्वस्यांशाधिकरणे भाषितत्वेन तद्विरोधात् । न द्वि- तीयः, यन्त्र गौर देहं निर्दिश्य तस्य किश्चिज्जीवापृथक्सिद्धत्वविधानार्थमुच्यते आचार्यभाष्यतात्पर्यसमेतम् । १.४९ गौरोऽयमात्मति तत्र आत्मवेदं सर्वमित्यत्र चापृथक्सिद्धधर्मवचनत्वस्य भव- दभिमतत्वात् । न तृतीयः, देह आत्मेति प्रयोगापत्तेः । अतो नापृथक्सि- द्धधमपर्यन्तता शब्दानाम् । यदा तु 'चराचरव्यपाश्रयस्तु स्यात्तद्यपदेशो भाक्तस्तद्भावमांवित्वा'- दिति सूत्रं सर्वशब्दानां परमात्मन्येव मुख्यवृत्तिसगावस्यान्यन भाक्तत्वस्य चं स्थापकं योज्यते तदा विशिष्टब्रह्मपर्यन्तत्वस्य सर्वत्र तुल्यतया पृथिव्यादिश- ब्दानामेवाचेतनद्रव्यादौ भाक्तः प्रयोगः, न तु रसादिशब्दानामिति कथं नि- यम इति चेदुच्यते । न खल्वेकः शब्दो लक्षणयकत्र प्रयुज्यत इति शब्दा- न्तरस्यापि लक्षणया प्रयोग आपादयितुं युक्तः । आप चोच्यते, शब्दा आकृतिप्रवृत्तिनिमित्तका विशिष्टब्रह्मपर्यन्तार्थाभिधायिनो येषु येष्वर्थेषु भक्त्वा प्रयुज्यमाना दृश्यन्ते तेषां तेषामर्थानां प्रकारविधयोपस्थापकाः, येषु च न प्रयुज्यन्ते तेषां सम्बन्धविधयैव । यथा गोशब्दोऽपृथक्सिद्धिसम्बन्धेन गोत्व- विशिष्टपिण्डविशिष्टजीवविशिष्टवाची, रसशब्दस्तेन सम्बन्धेन रसत्वविशिष्टं यत् तदाश्रयापृथक्सिद्धिसम्बन्धेन तद्विशिष्टपरमात्मवाचीति । अतो ये प्रका- रविघया भासमानास्तेष्वेव भक्त्वा प्रयोगो नान्यनेति नियम उपपद्यते । अ- तः प्रकारविधया भासमानेष्वेव भक्त्वा प्रयोगस्य निरूढत्वान्न रसः पृथिवी- ति निरूढलक्षणया प्रयोगः । भवतस्तु सर्वशब्दानामपृथक्सिद्धवाचित्वेन पृथिव्यपृथक्सिद्धवाचित्वं पृथिवीपदे विवक्षित्वा स प्रयोग आपद्यते । किं च चराचरव्यपाश्रय इत्यनेन सर्वेषां ब्रह्मणि मुख्यवृत्तत्वमन्यत्र भाक्तत्वं चाभिहि- तं मवत्पक्षे न घटते । तथा हि-ब्रह्मभगवदादिशब्दा हि अपृथक्सिद्धपर्य- न्तवाचिनो ब्रह्मणि भाक्ता एव भवताऽभ्युपेक्तव्याः । तथा च 'ब्रह्मशब्द- स्तत्रैव मुख्यवृत्तस्तस्मादन्यत्र तद्गुणलेशयोगादौपचारिक' इति भाष्यविरोधोऽ पि सोढन्यः । एवमेव चराचस्वाचिनोऽप्यपृथसिद्धिसम्बन्धेन ब्रह्मपर्यन्तं १५० ईशावास्योपनिषद्भाष्यम् । गच्छन्तः पुमरप्यपृथक्सिविसम्बन्धेनैव ब्रह्मतश्चराचरेषु प्रतिनिवर्तमानास्तेष्वे- व मुख्यवृत्ताः स्युः ब्रह्मणि च भाक्ताः । अहं मनुरभवमित्यादावहं मन्वपृ. अक्सिद्धनमापृथक्सिद्ध इति खरसार्थवर्णनायेहशार्थवचनत्वमपि भवता स्वीक- तव्यमेव । अन्यथा आत्मैवेदं सर्वमित्यादावपि सर्वशब्दस्य विशिष्टवाचित्व- प्रसमावर्षनरतीयकल्सनाया अयुक्तस्वात् । एवञ्च वचसा वाच्यमुत्तम मिति सर्ववचसा प्रतिष्ठा पत्र शाश्वती' तिच चेतनाचेतना एव स्तोतन्याः, रूप- रसादयो वा, रूपत्वरसत्वादयो वा ये केचन धर्मकाष्ठायामवतिष्ठमानाः । ब्रह्म- भगवदादिशब्दानामपृथक्सिद्धवाचितया तत्रैव विश्रान्तेः । रूपरसादिश- ब्दानामपि सर्वेषां ब्रमपर्यन्तं गत्वाऽपि पुनस्तत्रैव प्रतिनिवर्तनाच । वस्तु. तो वाच्यार्थविश्रान्तिरेव न भवति; ब्रह्मादिशब्दानामघोधः समागत्योर्ध्वमू- यमुस्क्रमणस्स, अन्येषां चोर्ध्व ब्रह्मपर्यन्तं गत्वा पुनरवतरणस्य च शक्यतया यथायथमपृथक्सिद्धिसम्बन्धेन सर्वदेवोर्ध्वगमनाघोगमनप्रवृत्ताः सर्वे शब्दाः कुत्र विश्राम्येयुरिति । अतो घटशब्दो ब्रह्मपर्यन्तं गच्छति पुनरागच्छती- त्येवमनवस्था ; एवं ब्रह्मशब्दादयोऽपीति चक्रवद्रमणमेवेति । एवं घटादि- शब्दानां पटादयोऽपि वाच्याः स्युः । घटशब्दस्य - घटापृथक्सिद्धब्रह्माप- अक्सिद्धवाचित्वात् पटस्य च तत्त्वादिति सर्वे सर्वस्व वाचका इति स्यात् । तसावनुपपतिशतजसरितमत्यन्तदुःस्थमिदमपृथाक्सिद्धसामान्यवाचित्वम् । आप चात्मैवेदं सर्वम् । सर्व खल्विदं ब्रोत्यादिसामानाधिकरण्यद. र्शनमात्रेणापृथक्सिद्धवाचित्वं पदानां वक्तुमयुक्तम् ; चोरस्स्थाणुरित्यादिबा- धार्थसामानाधिकरण्यदर्शनमात्रेण न चोर इत्यर्थस्यापि वाच्यार्थत्वापत्तः । ववश्चाद्धतिमनैव सुनिर्वहं सर्वमपि समानाधिकरणवाक्यमिति तस्यापि त- पषमत्ववर्णनमशक्यं स्यात् । प्रमाणं तु शब्दरूपमपृथक्सिद्धसामा- पिक नोपकम्यते । यथा हि तन्नामरूपाभ्यां व्याक्रियतेलि --- आचार्यभाष्यतात्पर्यसमेतम् । १५१ ब्रह्मणो बहुप्रपञ्चरूपत्वं तत्तन्नामवाच्यत्वं च शब्देन समयेते, न तथा ब्रह्म- भगवदादिशब्दानां प्रपञ्चपरत्वं क्वचिदनुशिष्टमस्ति । युक्तिवाकृत्यधिकरण- गता लौफिकी जातिगुणादिनयेन धर्मवाचिनां धर्मिपर्यन्वत्वमेवावगमयति ।न खल्वपृथक्सिद्धाधारवाचिन आधेयपर्यन्तता कुत्रापि लोके लक्ष्यते । आधेय- वंचनानामाधारपर्यन्तता पुनः, गामानय शुक्लः पट इत्यादौ सर्वत्र दृष्टा । आधेयपर्यन्तत्वे बाधकं चाधस्तादभ्यधाम । अत एव भगवता भाष्यकृता जिज्ञासाधिकरणादौ प्रकारवाचिनां शब्दानां प्रकारिपर्यन्तत्वं जातिगुणयोरिव द्रव्यस्य शरीरभूतस्य प्रकारकखभावत्वं च प्रपश्चितम् । धर्मिवाचिनां घ- मपर्यन्तत्वं तु कुत्रापि नोक्तम् । लोके चाधेयस्य प्रकारतयाऽऽवारस प्र- कारितया चानुभव एव खारसिकः । अयं घटोऽयं पट इति घटत्वपटत्वा- देः प्रकारतयैव प्रायो भानात् । अत एव जातिगुणादीनामेव प्रकारक- खमावत्वममापि । न पुनर्जातिगुणादि प्रति घर्मिणः प्रकारतकस्वभावत्वम् । नात्यादेः प्रकारतया व्यक्त्यादेः प्रकारितया च भाननियमादेवेमं विशेषण- विशेष्यभावमादाय जात्यादेर्व्यक्त्यादिपारत-व्यव्यपदेशः व्यक्त्यादेोत्यादि प्रति स्वातन्त्र्यव्यपदेशश्च लोके भवतः । तस्माजातिगुणशरीरभूतप्रकार- वाचिनां व्यक्तिगुण्यात्मभूतप्रकारिवाचित्वस्यैव भाष्यकृद्धि हुशः कण्ठरवेणो- कत्वाद्वैपरीत्यसम्भवस्य कुत्रासि मात्रयाऽप्यदर्शितत्वात् न्यायस्यापि तव प्रसरादन्यथा बहुबाधकप्रसाचापृथक्सिद्धाधारवाचिनामावयपर्यन्तत्वं-नैव सम्भवति । एवं तावद्भवदभिमतांशो दूषितः । अथ स्यात्-तदधीनसत्ताकल वस्तुनस्तद्वाचिशब्देन व्यपदेशो युक्तः । यदाहुः 'यदधीना यस्य सत्ता तत्त- दित्येव भण्यत' इति । अत एव प्राणशब्देनेन्द्रियाणामपि व्यपदेशो दृश्यते । श्रुतिरपि त एतस्यैव सर्वे रूपममवन् तस्मादेत एतेनाल्यायन्त' इति ।
१५२ ईशावास्योपनिषद्भाष्यम् । वायुरनिलममृतमथेदं भस्मान्तं शरीरम् । ओं क्रतो स्मर कृतं स्मर क्रतो मर कृतं स्मर ।। १७ ॥ अनन्तरं तु परिशुद्धात्मखरूपमुच्यते वायुरानिलममृतमिति । विद्याकर्मानुसारेण तत्र तत्र गन्तृत्वाद्वायुः । निलयनरहितत्वात् क्वचिदपि व्यवस्थितत्वाभावाचानिलम् । अमृतं म्रियमाणेऽपि देव- .. अतः क्षेत्रज्ञं चापि मां विद्धीत्यादौ मदधीनसत्ताकमित्यर्थो युक्त इत्यभिप्रत्यैव भाष्यकृद्भिर्मदात्मकमित्येवं विवृतम् । अतोऽपृथक्सिद्धसामान्यवाचित्वनि- वन्धस्य पदेष्वनभ्युपगमेऽपि निर्वाहोऽयं नातीवानुपपन्न इति ; उच्यते- यद्यपि लक्षणया निर्वाहे न काऽपि प्रमेयहानिः । अथापि प्रकारवाचिनां प्रकारिवाचित्वस्वाभाव्यन लक्षणां विनैव निर्वाहे लाक्षणिको निर्वाहो न यु- तः । इन्द्रियाधिकरणमाष्ये च 'प्राणाधीनधारणत्वात्त्विन्द्रियेषु प्राणशब्द- व्यपदेश' इति सुक्त्या प्राणशब्दस्य मुख्यप्राणशक्तत्वं तादृशशक्यार्थावीन- धारणत्वेनेन्द्रियेषु लाक्षणिकत्वं चानेकशक्तिकल्पनागौरवादिकमभिप्रेत्याविष्क- तमेव । श्रुतप्रकाशिकायां च 'चक्षुरादीनां प्राणशब्दबोध्यत्वं लाक्षणिकम् । मुख्यप्राणस्य तु मुख्य' मित्युक्तम् । अतो मामित्यल मदात्मकमित्येवं भाष्यं फलितकथनरूपमेव युक्तम् । सर्वथा, अहं स पुरुषोऽस्मीत्यत्र लाक्षणिक- निर्वाहस्थानावश्यकत्वादहंशब्दस्य विशिष्टपरत्वेन मुख्यो निर्वाह एव प्रायः । सर्वमिदमभिप्रेत्यैव ब्रह्मात्मकोऽहमस्मीत्यादि भाषितमाचार्यपादैरिति सर्व. निरवद्यम् ॥ १६॥ प्रथमपादमवतारयति अनन्तरं त्विति । आपातप्रतीतार्थव्यव- च्छेदार्थस्तुशब्दः । यत्र निलीयते स्थिर स्थीयते तन्निलं तद्रहितमनिलम् । अथ वा निलीयते एकत्र निवसतीति निलं तद्भिन्नमनिलभिति व्युत्पत्तिद्व- याभिप्रायेणाह निलयनेति । नन्वनिलशब्दस्य नपुंसकतया - रूढ्यभोवऽपि आचार्यभाष्यतात्पयेसमतम् । ११ सन्ताने खयममृतम् । इदं विरजत्वादीनामुपलक्षणम् । परिशुद्ध- जीवविषये प्रजापतिवाक्ये 'विजरी विमृत्युर्विशोक' इति पाठात् अन वायुथान्तरिक्ष चैतदमृतमित्यादिपरामर्शाद्वाय्वादिशब्दानां भूद्वितीयविषयत्वं न शङ्कनीयम् । पूर्वापराम्यामसङ्गतेः । यद्य- प्यमीषां परमात्मविषयत्वं विशिष्टवृत्त्या योगतो वा युज्यते, तथाऽपि वरामिह नश्वरस्य देहस्यानन्तरं वचनासध्यावृत्तप्रत्यगात्मपरत्वम् । प्राणविषयत्वेऽप्यन मन्दं प्रयोजनम् । श्वेताश्वतरीयाश्च भोक्त- भोग्यनियन्तॄणां विवेचने भोक्तशब्दविवक्षितप्रत्यगात्मानममृतशब्दे- वायुशब्दरून्यपरित्यागाय वायुर्भूतद्वितीयं सदागतित्वात् क्वचिदप्यनवस्थित- ममृतं च भवतीत्यर्थः किं न स्यादित्यत्राह अत्रेति । असतेरिति । न हि पूर्व परत्र वा वायुर्भूतान्तरं वा प्रस्तूयत इति । ननु प्रत्यगात्मनीव परमात्मनि निर्वाहसम्भवात्परमात्मप्रकरणभङ्गो न कार्य इत्याशंक्याह यद्यपी- ति । प्राणविषयत्वेऽपीति । अयं भावः वायुशब्दो वायुविशेष- परः । अनिलमिति द्वितीयान्तम् । तथा च प्राणः अमृतं समीरं प्रति- पद्यतामित्यर्थस्तावन्न सम्भवति । तमुकामन्तं प्राणोऽनूक्रामतीति जीवो- क्रमणकाले इन्द्रियवत् प्राणस्याप्युत्क्रमणस्य सहगमनस्य च श्रवणेन वायौ लयासम्भवात् । न चान्येषां प्राणस्य लयाभावेऽपि अर्चिरादिमार्गेण गच्छतो यः प्राणस्तस्य लयोऽस्त्विति वाच्यम् । तदीयस्याप्याविरजाप्राप्ति लयप्रस- क्त्यभावात् । न च तदनन्तरमेव कदाचिद्भवन् लय इह विवक्षित इति वाच्यम्, अभ भस्मान्तं शरीरामिति प्राणलयानन्तरमेव भस्मान्तत्वप्रतिपा- दनस्यासङ्गतत्वात् । खयमेव प्राणस्य वायौ लयसम्भवेन प्रार्थनीयत्वामा- वाच्च । ननु प्राणो वायुविशेषो न द्रव्यान्तरमिति तत्त्वकथनपरमस्त्विति चन्न प्रकृतसङ्गत्यभावात् । वायुविशेषत्वसिद्धौ प्राणे आत्मत्वममो नास्ती- ति सिद्धयतीति चेन्न, इन्द्रियेषु ज्ञानमात्रे च तद्धान्त्यभावस्य तर्हि कथनीय- त्वात् । इदमेव सर्वोपलक्षणमिति चेत् अथेदं भस्मान्त शरीरमित्येतदेवास्य 20 I १५४ ईशावास्योपनिषद्भाष्यम् । नामनन्ति 'क्षरं प्रधानममृताक्षरं हरः क्षरात्मानाविशते देव एकः' इति 'क्षर त्वविधा यमृतं तु विद्याविद्याऽविद्ये ईशते यस्तु सोन्यः' इति च । एवं प्रत्यगात्मस्वरूपस्य 'न जायते म्रियते वा विपश्चित्' इत्या- दिप्रसिद्धममृतत्वमभिधाय क्षेत्रज्ञशरीरस्य मृतत्वमवश्यम्भावीस्याह अर्थदं भस्मान्तं शरीमिति । प्रकृतादर्थादर्थान्तरविवक्षयाऽथश- ब्दः । आत्मोत्क्रमणानन्तर्यार्थो वा । कर्मवश्यकात्य॑षरो वा। तथा च स्मर्यते 'गङ्गायां सिकता धारा यथा वर्षति पासवे । शम्या गणयितुं लोके न व्यतीताः पितामहाः' इति ; 'ब्रह्मादिषु प्रलीनेषु'--. इत्यादि च । इदमिति विशेषणमीश्वरशरीरत्वेन नित्यत्वेन च प्रमाण- सिद्धानां व्यवच्छेदार्थम् । भस्मान्तामति संस्कारमात्रव्यलकम् । तस्य च सर्वस्योपलक्षणमस्त्विति व्यर्थमेतत् । अत आत्मस्वरूपकथन- परत्वे साक्षात् सम्भवति तेनैव च सकलनमाभावज्ञापने सिद्धयति नैतदुपप- नम् । प्राणग्राहिणा वायुपदेनैव वायुविशेषत्वसिद्धौ अनिलममृतमित्यन- योर्वैयर्थ्य च । अतो वायुशब्दरूढ्यथग्रहणे प्राणरूपविशेषे सोचस्य कर्त- व्यत्वात् अनिलमित्यस्य प्रथमान्तत्वे नपुंसकानुपपत्ते रूढ्यर्थग्रहणासम्भवात् द्वितीयान्तत्वे प्रतिपद्यतामिति वा प्रतिपद्यत इति वाऽध्याहारावश्यम्भावात् अमृतमिति पदान्वयस्य च क्लिष्टत्वात् वाय्वादिपदं रूढिप्रहाणेन योगेनात्म- स्वरूपकथनपरम् अमृताक्षरं हर इतिवत् । तत्र वायुरित्यनेन गन्तृत्व- वाचिनाऽणुत्वसिद्धया परमात्मवलक्षण्यं, अनिलमिति पदेन पितृपथघटीय- न्वाराहावरोहपरिम्रमो निरयपदवीयातायातक्रम इत्यादि, अमृतमिति स्वरू- पविकारराहित्यवाचिना देहन्द्रियमनःप्राणधीवैलवण्यं च सम्यग्दर्शितं भवती- ति। कर्मवश्यकात्य॑पर इति । इदंशब्दार्थे कर्मवश्ये कायमथशब्दे- नोच्यत इति भावः। संस्कारमाश्रव्यजकमिति । दाहखननादि तत्तत्संस्काः रककर्मीयत्तातिशयरूपः संस्कारो भस्मत्वाद्यवस्थाविशेषः तत्सामान्यज्ञापकम् । तथा चावस्थान्तरमापद्यमानमित्यर्थो भस्मान्तशब्दस्पेति भावः। 'कृमि विड्भ- आचार्यभाष्यतात्पर्यसमेतम् । १५५ कीटान्तत्वादेरन्यत्र प्रसिद्धस्योपलक्षणं वा । शरीरशब्दे व्युत्पत्तिनि- मित्तानुसारे विशरणखभावत्वं गम्यते । एवं भोक्ता मोग्यं प्रेरितार च मत्वेति क्रमेण चिवचिद्विवेकमुक्त्वा प्रेरितारं प्रकृतं महापुरुष प्रणवेनोपादत्ते ओमिति । यथामनान्त्याधर्वणाः 'यः पुनरेतं त्रिमात्रेण ओमित्यनेनैवाक्षरेण परमपुरुषमभिध्यायीत' इति । उक्तं च यो. गानुशासने 'क्लेशकर्मविपाकाशयरपरामृष्टः पुरुषविशेष ईश्वरः, पूर्वेषामपि गुरुः कालेनानवच्छेदात्, तस्य वाचकः प्रणव' इति । आह च सर्वशः 'ओमित्येवं सदा विप्राः पठध्वं ध्यात केशवम्' इति । स्वयं- चागायत् । 'ओमित्येकाक्षरं ब्रह्य व्याहरन् मामनुस्मरन्' इति । एवं सर्वन द्रष्टव्यम् । अथ ऋतुरूपिणं भगवन्तं शानयक्षगोचरमभि- मुखीकुर्वस्तदनुग्रहं याचते तो स्मर कृतं स्मरेति। तो क्रत्वा- स - स्मसंज्ञित'मिति श्रीभागवतप्रसिद्धयनुरोधेनावस्थाविशेषविस्पष्टबोधनमभिप्रेत्याह कीटेति । क्लेशकर्मविपाकाशयैरिति। अविद्याऽस्मितारागाभिनिवेशाः क्लेशाः। अस्मिता अहङ्कारः । कर्म पुण्यापुण्यरूपम् । विपाकस्तत्फलम् । आशयः वासना संस्कारः । अभिमुखीकुर्वनिति । 'ज्ञामयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वन पृथक्त्वेन बहुधा विश्वतोमुखम्' इति समष्टिव्यष्टि- रूपेण विश्वप्रकारस्य परमपुरुषस्वैकत्वेनोपासनरूपमाराधनं ज्ञानयज्ञमुक्त्वा अहं ऋतुरयं यज्ञ' इत्यारभ्य सदसच्चाहमर्जुन' इति श्लोकचतुष्कण वि- श्वशरीरत्वमेव विवृतं गीतासु । तादृशविश्वशररिकपरमात्मोपासननिष्ठत्वात्प्र- कृताधिकारिणः क्रतो इति सम्बुद्धया तमभिमुखीकरोतीति भावः । यथाक्र- तुः यत्प्रकारकोपासननिष्ठः । सम्बुद्धयुपपत्त्यर्थमाह तदिति । यद्यपि ज्योतिष्टोमादित्वात्मकत्ववत् उपासनात्मकत्वमाप परमात्मनोऽस्तीति ऋतु- शब्दस्यापर्यवसानवृत्त्या परमात्मपरत्वं सुवचम्; अथाप्यन्यविषयकोपासनस्य ऋतुशब्देन ग्रहणेऽपि तदात्मकत्वस्य भगवत्यनपायात्तावता परमात्मोपास- नस्यालाभात विशिष्य क्रतुशब्दप्रयोगस्य तस्य प्रसिद्धयागपरत्वत्यागेनोपा- सनपरत्वग्रहणस्य चोपासनेन भगवत आराधितत्वज्ञापनार्थत्वात् भगवद्विष- ईशावास्योपनिषद्भाव्यम् । त्मक । यथाऽह महं ऋतुरहं यश इति । 'यथाक्रतुरस्मिन् लो. के पुरुषो भवति तथेतप्रेत्य भवति' 'स क्रतुं कुर्वीत' 'एवं ऋतुर्ह' इत्यादिग्विवानापि प्रकरणादेव क्रतुशब्द उपासनपरो वा । तद्गोचरे तु भगवति तच्छब्द उपचारात् । सर-सानुग्रहया बुद्धया विषयी- कुरु । 'संहपूर्णेन मनसा यन स्मरसि केशवे' तिवत् । उक्तं च भग- पता स्थिते मनसीत्यारभ्य, 'ततस्तं म्रियमाणं तु काष्ठपाषाणस- निमम् । अहं स्मरामि म नयामि परमां गतिम्' इति । सर्वदा सर्व साक्षात्कुर्वतः सर्तृत्ववचनमिह पूर्वकृतप्रत्यवेक्षणाभिप्रायम् । यकोपासनग्रहणे तद्विषयत्वं झटिति परमात्मन उपस्थितमिति च ऋतुशब्द- स्योपासनविषयभूतेत्यर्थ उक्तः । अत्र स्थित मनसी' ति स्वयं रहस्यशि- खामणौ शरणागतिविषयतया योजितमगवद्वचनोपादानमहिम्नाऽम्यापि मन्त्रस्य तद्विषयत्वमप्याचार्यपादाभिमतं लक्ष्यते । यद्यप्यन्यार्थमुपादानम् । अथा- प्यन्यार्थेनैवैतत्सूचनमपि सम्भवन्नोपेक्षामर्हति । तदा चेत्थमर्थः । चिद- चिदीश्वरतत्त्वनयविवेक ओमित्यन्तेन कृतः । क्रतुशब्द उपासनपरो वेति सूक्त्या भरभूतभक्तिरूपोपायान्तरवाचित्वं क्रतुशब्दस्योक्तम् । सम्बुद्धि- बलाच्च हे भक्ते ! भक्तिरूपोपायान्तरस्थानापन्नत्यर्थः सिद्धयति । न हि त- स्थानापन्नत्वरूपौपचारिकार्थविवक्षां विना भक्ते इति सम्बुद्धिर्घटते । मगवतो भक्तिविषयत्वेन भक्तित्वाभावात् विषयविषयिणोर्मेदात् । तदेवाह तद्गो- चरे तु भगवति तच्छब्द उपचारादिति । भगवतस्तवोचरतया तद्रूप- त्वासम्भवात् तत्स्थानापन्नत्वरूपौपचारिकार्थो प्राय इति तदर्थः । एव- मुपायान्तरकार्यकारित्वरूपोपायान्तरस्थानापत्तिकथनेन भरन्यास उक्तप्राय इति । संस्कारजन्यज्ञानरूपस्मृतेरीश्वरे बापात् अभिप्रायान्तरं वर्णयिष्यन् खलद्वये ईदृशप्रयोग प्रदर्शयति स्नेहेत्यादिना। स्थिते मनसीति .....सुस्व- से भीरे सति यो नरः । घातुसाम्ये स्थित मर्ता विश्वरूपं च मामजमि- आचार्यमाध्यतात्पर्यसमेतम् । कृतं स्मरेत्यत्रापि तथैव विवक्षा । मत्कृतं यत्किञ्चिदनुकूलमनुस- न्धाय कृतस्त्वं मां रक्षेति भावः । एतावदन्तं त्वत्कृतमानुकूल्यं प्रतिसन्धाय त्वमेव शेषपूरणं कुर्विति वा । स्मरन्ति हि 'जायमानं हि पुरुषम्' इत्यादि । स्वयमप्याह तेषां सततयुक्तानां' इत्यादि । क्रतों स्मर कृतं स्मर इत्यावृत्तिरुक्तार्थे त्वरातिशयात् ॥ १७ ॥ त्यवशिष्टांशः । अनुकूलमिति अनुसन्धायेत्यस्य कर्म ; अथवा अनुकू- लत्वेनानुसन्यायेत्यर्थः । कृतश इति । 'कथञ्चिदुपकारेण कृतेनैकेन तुष्यति । न स्मरत्यपकाराणां शतमप्यात्मवत्तया' इति वचनमभिप्रेतम् । यत्तु परमपुरुषप्रार्थनापरेऽस्मिन् मन्त्रद्वये कैवल्यपरिहारपरमाद्यम् ऐश्वर्य माभूदित्येतत्परं चान्त्यमिति विभजनम् । तत्र न किञ्चित् प्रमाण- म् । अस्मिन् मन्त्रे प्रकृतिवियुक्तजीवखरूपं संशोध्य खेन जप्यमानं प्रणव स्मरेत्युत्तरार्धे कथनात् 'ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन्नि' ति गीतायां कैवल्यप्राप्तयर्थ प्रणवव्याहरणस्योक्तत्वाच्च कैवल्यप्रार्थनैव किमत्र न कृता स्यात् । यदि मुमुक्षुप्रकरणात्तदप्रार्थनाया अवगमस्तहि तेनैव प्रकर- णबलेनैश्वर्याप्रार्थनाया अप्यवगम इति कथमयं विभागः ? कृतं स्मरे त्यस्य : मया कृतं प्रणवजपं स्मर, मया यमर्थमभिसन्याय प्रयुज्यते तं स्मेरति व्या- ख्यानेनोपासकस्य कैवल्यानभिसन्धिश्चदाविष्क्रियते तर्हि तेनैव व्याख्यानेन- श्वर्यानभिसन्धिरपि कथं नाविष्क्रियते । उत्तरमन्त्रस्यैश्वर्यपरिहारकत्वमपि न भवति । राय इत्युक्त्यैश्वर्यापेक्षाया एव सुवचत्वात् । सुपथेति चैश्वर्यसाध- नमार्गेष्वेव सन्मार्गपरं किं न स्यात् ? प्रकरणबलात्तन्निरासे च कैवल्यनिरा- सोऽपि सम्भवति । किञ्च सुपथेत्यचिरादिमार्गकथनादैश्वर्यव्यावृत्तिः राय इति भोग्यस्यैश्वर्यस्य कथनातु कैवल्यव्यावृत्तिरिति भवतैवोक्तत्वादुत्तरमन्त्रस्यो- भयपरिहारकत्वमेव सिद्धयतीति विभागवर्णनमयुक्तमेव । यश्च ऐश्वर्यपरिहारात् पूर्व कैवल्यपरिहारस्य कथनादैश्वर्यप्राप्तावपि ?
१५८ ईशावास्योपनिषद्भाष्यम् । तस्यानित्यत्वादनन्तरं परमपदप्राप्तिभवति । कैवल्यप्राप्तौ तु तस्य नित्यत्वान्न तल्लभ्यत इत्याशयः सुच्यत इति वर्णनम् , तदयुक्तम् , मानान्तरविरु- द्धार्थसुचकत्वस्यासम्भवात् । 'सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु मोक्षभाक्' इत्यादिना कैवल्यस्याप्यनित्यत्वं सिद्धमिति तन्नित्यत्वकल्पनमसांप्रदायिकम- युक्तिसहमप्रामाणिकं चेत्यलं बहुना । यदपि कैवल्य भेजुषां परमपदालामरूपेशदुर्गत्यनुसन्धानेनैव श्री- मट्टनाथदिव्यसूरिणा स्वप्रबन्धप्रथमश्रीसूक्तचतुर्थगाथायामैश्वर्यार्थिभ्यः पूर्व कै- वल्यार्थिनामाहानं कृतमिति तदप्यसत् । कुत इति चेत्, अन पृच्छ्चत, तत्र गाथायां प्रथमे पादे 'शरीरस्य स्वकारणे विलयविधानतः प्रागायत्यास्म- परिषदं प्रविश्य' इत्येतावत एवार्थस्यावगम्यमानतया कैवल्यार्थिनामेव ग्रहण- मित्यत्र किं गमकम् ? न चोत्तरगाथाया ऐश्वर्यार्थिविषयकतया पारिशेष्याम- ति वाच्यम् , तत्रापि प्रमाणविरहात् । प्रथमतस्तृतीयगाथायां भगवत्कै- पर्यनिष्ठानामाहानम् , अत्र चतुर्थगाथायामैश्वर्यादिकमनुभूयाननुभूय वा तत्र दोषपरामर्शनास्मिन्नेव जन्मान परमैकान्सिगोष्ठी प्रविश्य स्थातुमनसा- मेतावदलब्धकैकर्यभोगानामाह्वानम् , अथ पञ्चम्यां , ये भगवद्भक्ता एव सन्तः प्रयोजनान्तरपराः 'आतो जिज्ञासुरर्थार्थी' त्युक्तविधास्तेषामल्पास्थिर- पुरुषार्थबुद्धिप्रहाणेन पारमकान्त्यप्राप्त्यर्थमाहानमिति विभागस्यैव शब्दतो लामात् । सर्वत्र निःश्रेयसकैवल्यैश्वार्थिविधाग्रहणेनैव विभागो वक्तव्य इति निर्बम्धायोगादिति । अस्तु नाम कैवल्यार्थ्याहानमत्र, उत्तरत्र चैश्वार्थि- मात्रस्येति । तथाऽपि तदाह्वानप्राथम्ये पश्चात्सर्वदा परमात्मालामरूपतदी- यदुर्गत्यनुसन्धानं मूलमिति निर्मूलम् । एवमाशयवर्णने कैवल्यैश्वैर्यार्थिभ्यः पूर्व कृते भगवदकपराणामाहानेपीतोऽप्यधिकदुर्गत्यनुसन्धानं मूलं वक्तव्यम् । तत्र चेत्तेषामितोऽतिशयितप्रभावभावत्वमानेणाऽऽदावाहानम् , तार्ह कैवल्या- , , आचार्यभाष्यतात्पर्यसमेतम् । १५९ - र्थिनामैश्वर्यार्थ्यपेक्षया सूक्ष्म-प्रकृतिविलक्षण-परब्रममञ्जूषायमाण-ज्ञानानन्द- रूपखरूपदर्शननिबन्धनातिशयशालितया ततः प्रागाहानमित्येव पूर्वानुगुण्या- द्युक्तम् । तथा च प्रथमतः प्रथमगोष्ठ्यहीन् परमैकान्तिन एव स्थिताना- इय तावता परिषदपूर्तिमालोक्य तत्सन्निकृष्टान् कैवल्यार्थिनोऽनन्तरस्थाना- हतया प्रबोधनसौलभ्याच्चाहूय तावताऽप्यपर्याप्तिमवेक्ष्य प्राकृतप्रवणानपि परिष्कृत्य स्वीचिकीर्षतीति यथावदवगम्यते । किं चैश्वर्य प्राप्तवतां देवभूयं गतानां 'तदुपर्यपि बादरायणः सम्भवादिति सूत्रोक्तनयेनार्थित्वसामर्थ्ययो- रक्षततया तदनुभवकाल एवोपासनानुभवप्रसक्तिरास्ति । कैवल्यमानां पुन- स्तदात्वे परमात्मोपासनानुभवप्रसक्त्यमावोऽधिककालानुभाव्यतया महान्विल- म्बश्चेत्याशय एवाहानप्राथम्ये प्रयोजक इति सर्वथाऽन्यथासिद्धतया नामा- माणिकार्थसूचनकल्पनप्रसक्तिरिति । अनेदमवधेयम्-अत्र गाथायां 'सुक्ष्मशरीरस्य प्रकृतौ विलयात् पूर्वमस्मद्गोष्ठी प्रवेष्टुमभिप्रयन्तः' इति वि- शेषणदानं यादृशाधिकारिग्रहणे सफलं भवति तादृशग्रहणमेव युक्तम् । भग- वकैकयनिष्ठानामिदानीमेवैतद्वेष्ठिीप्रवेशोऽस्तीति ते न प्रायाः । आतीर्था- थिभेदभिन्नानाभैश्वर्यार्थिनां तु गीतायामपुनरावृत्त्यादेरनुक्तत्वात् सूक्ष्मशरीर- स्य प्रकृतिविलयात् पश्चादप्येतद्गोष्ठीप्रवेशनियमो नास्ति । तेषां प्रलये शरीरं विनैव स्थितः । अतो जिज्ञासुनधिकृत्येय गाथा । तथा च जिज्ञासुनां भ- चतां विरजानधतिक्रमणेन सूक्ष्मशरारविलयात्पश्चादस्मादृशगोष्ठीप्रवेशोऽस्त्येव । ततः प्रागेव प्रवेशाभिप्राये कैवल्यमनपेक्ष्य प्रविशतेति गाथार्थः । अनेन च 'सूक्ष्मशरीरेण सह स्थानविशेषेऽनुभाव्यं कैवल्यम् । तदस्थिरम् । तदन- न्तर नियतमचिरादिगतौ शेषांशातिलङ्घनन सूक्ष्मशरीरत्यागः परमपदलाभ- श्व'त्यर्थसूचनेन कैवल्यनित्यत्वमनयाऽपि गाथया बाध्यत एवेति । अनन्तरं च यत् श्रीमत्पराङ्कुशदिव्यसारणा सपनन्धप्रथमकाण्डद्वि- १६० ईशावास्योपनिषद्भाष्यम् । , तीयश्रीमुखसुक्तपञ्चमगाथायां 'कैवल्यप्रसङ्गं निध्य परमपुरुषार्थप्रेप्सायां प्रथ- ममेव भगवन्तं प्रपद्येते' त्युक्तमिति । ततोऽपि कैवल्यनित्यत्वमवगम्यत इति ; तदतिस्थवीयः, बाधकत्वेन स्पष्टस्यैव साधकत्वेनोपन्यासात् । तस्या हि गाथायाः 'अपेतो बाह्यसङ्गश्चेदाप्तं कैवल्यमात्मना । त्यक्त्वा तस्थिर- लिप्सायां विश्वस्ये(निश्चित्ये)श्वरमाश्रये' त्येव यथावत् प्रतिपदानुपूर्वीति तव परमपुरुषार्थे स्थिरपदप्रयोगेण कैवल्यस्यास्थिरत्वं स्पष्टमेव दर्शितम् । अत्र स्थिरलिप्सायामित्यस्य स्थाने याद स्थिरीभवितुमिच्छायां स्थैर्यलिप्साया- मिति वक्तव्यमित्यालोच्यते, तथाऽपि पुरुषार्थ स्थैर्यलिप्सेत्यस्य स्थिरपुरुषा- थलिप्सायामेव पर्यवसानात् सिद्धमेत स्थिरत्वेन कैवल्यस्यास्थिरत्वम् । न च स्थिरीभवितुमिच्छायामित्यस्येतोऽपि कश्चिदतिशयितः पुरुषार्थोऽस्तीति पुरुषार्थान्तरापेक्षाविरहरूपबुद्धिस्थैर्यकरपुरुषार्थलिप्सायामिति तात्पर्यमिति वाच्यम् ; क्लिष्टत्वात् , तथा सति कैवल्य मावृत्त्यसम्भवाच्च । कैवल्यका- मोऽपि हि तन पुरुषार्थे बुद्धिस्थैर्येणैव साधनमनुतिष्ठति । पश्चात् केवली- भूतश्च नित्यत्वेन भवदभिमते तस्मिन्नेव पुमर्थे ममस्तदेकतृप्तो न परमात्म- प्राप्तिमपेक्षितुमलम् । यत्तु तत्र केवल स्यापि भगवच्छेषजनभव्यकृत्यश्रव- मादपेक्षा भवतीति ; तदयुक्तम् । केवलो हि नाम प्राप्तकैवल्यः; सच निर्देह इति स्वीकृतम् । एवं सति तस्य कथं नाम श्रवणमपेक्षा च ! अन्यथा स तदानी सर्वज्ञोऽपि स्यादिति मुक्ताविशेषः प्रसज्यते । किंचैवं केवलस्य पुरु- पार्थान्तरापेक्षावर्णने कैवल्यस्यानित्यत्वमप्युक्तप्रायमेव । किं च कैवल्यत्यागेन स्थिरबुद्धिमत्त्वलिप्सायामिति तात्पर्यवर्णनेऽपि, कैवल्यस्यानित्यतया तत्र बुद्धिस्थैर्य न सिद्धयति। नित्यस्यापेक्षायां तु तल्लामे न तदुपर्थपेक्षाप्रसक्तिरित कैवल्यानित्यत्वमप्यवसीयेतैव । अत एव * पदावशषेव्याख्याकारणात मडैयवलन्दानरुम्पदविशेरम् । , आचायभाष्यतात्पर्यसमेतम् । १६१ भगवत्प्राप्तिरूपमोक्षमात्रनित्यत्वं स्पष्टमवोचि । 'प्रथमतो विषयसअत्या- गसमय एवं भगवन्तं प्रपद्य त्यागः कार्य' इति सूक्तिश्च न पश्चात् भगवत्प्राप्तियोग्यताविलयाभिप्राया, किं तु दीर्घकालभगवत्प्राप्तिविरोधितया विलम्बाधिक्याभिप्राया । तथा च विषयसङ्गभने केवलखरूपानुभवः ख- तः प्राप्नोति । तमुपेक्ष्य यदि स्थिरं लिप्स्यते तार्ह प्रथममात्मावलोकन- साधनविषयत्यागोपायानुष्ठानकाल एव भगवत्प्राप्तिरेव भववित्यध्यवसाय भ- गवन्तं प्रपद्य तत्साधनाङ्गत्वबुद्धया कार्यकरणेन सङ्गत्यागः सम्पादनीयः । अन्यथा पुनरुपायसम्पादित आत्मानुभवः सुखरूपो बुद्धिमाकर्षन् बहुप्रत्यूही- भविष्यतीति भावः । अत एवाचार्यपादैः श्रीतात्पर्यरत्नावल्यां च्यवन- वदितरप्राप्यवैषम्यवत्त्वा' दिति प्रकृतगाथार्थः संगृहीतः । श्रीसारसारे च प्रथमेऽधिकारे मोक्ष प्राप्तुरपि प्राप्यत्वमभिधाय तावता मोक्षकालिकात्मप्रा- सौ केवलात्मप्राप्तायुक्तं च्यवनधर्मत्वं न सम्भवतीत्युक्त्वा तच्चयवनधर्मत्वमे- तन्नित्यत्वं च साधयितुमियं गाथोपात्तेति सूक्त्यर्थः सम्यगवगम्यतामिति । पदप्योमित्यस्य प्रणवस्वरूपपरत्वमुक्त्वा ओकारं स्मर प्रणवप्रतिपन्नं त्वदनन्याहशेषत्वलक्षणं स्वरूपनिरूपकधर्म सम्यगनुसन्धत्स्वेति यावदिति वचनम् । तदपि न पेशलम् । इतिकारनिर्देशाभावस्थले ओमित्यस्य शब्दपरत्वे प्रमाणाभावात्, निरर्थकत्वाभावनार्थपरत्वस्यैव युक्तत्वात् ; भवदुक्कफलि- तार्थकथनस्यापि भगवदनन्याहशेषभूतजीवमित्यर्थवर्णनेनैव सुकरत्वात् ; पूर्व घिदचिद्विवेचनादीश्वरविवेचनस्यापि कर्तव्यतया ओमित्यस्य वाक्यात पार्थ- क्यविधानस्यैव युक्तत्वात् ; स्मरेत्येतत्प्रत्योमित्यस्य कर्मत्वे तदेकवाक्यत्वे वा सति चतुर्थपादेऽपि पदान्तराणामिव प्रणवस्यापि पठनीयतया तदभावस्यैव पृथग्भावज्ञापकत्वाच्च । अत एवास्य क्रतो इतिवत् सम्बुद्धिपरत्वमपि नेष्ट- माचार्यपादानाम् ॥ १७॥ 211 १६२ ईशावास्योपनिषद्भाष्यम् । अमे नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ १८ ॥ पुनरप्याग्निशब्दयाच्यं भगवन्तं खापेक्षितं प्रापयेत्याह अग्ने नय- विधमेति । अग्ने-अग्निशरीरक । यस्याग्निः शरीरमित्यन्तर्यामिबा. मणम् । 'साक्षादप्यविरोध जैमिनि' रिति न्यायादग्रनयनादिगुण- युक्तति वा । नय- प्रवर्तयेत्यर्थः । सुपथा-शोभनेन मार्गेण । प्रति. षेधस्पर्शरहितेनोपायेनेति यावत् । राये विद्यार्थशरीरसंरक्षणत्वद्- चनाधनुगुणाय धनाय । यद्वाऽर्थप्रकरणानुगुण्यात्, 'अतस्करकरग्रा. यमराजकवशंवदम् । अदायादविभागाई धनमार्जय सुस्थिरम् ।' सुपथेति । अत्रार्चिरादिमार्गपरत्वमप्याचार्यपादाभिमतमेवति श्रीकूरनारा- यणखामिभिरेवोक्तम् । अणुः पन्था इत्यपि श्रुत्यन्तरम् । धूमादिमार्ग- व्यावृत्तये शोभनत्वोक्तिः । उपरि उपायेनेति भाषण तु राय इत्यस्य लौकि- कधनपरतया व्याख्यानस्य समनन्तरं क्रियमाणतया तदौचित्याय । अनन्त- धनग्रहणपक्षे चार्चिररादिरभिमत एवेति । तदा च नयेत्यस्य प्रापयेत्यर्थः । वैकुण्ठमिति अर्थसिद्धम् । प्रतिषेधेति । 'परिवित्तिः परिवेत्ता यया च परिविद्यते । सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः । 'न शदाय मतिं दद्यात्' 'कुलटा षण्डपतितवैरिभ्यः काकिणीमपि । उद्यतामपि गृही- यान्नापद्यपि कदाचने' ति याजनाध्यापनप्रतिग्रहेषु प्रतिषिद्धमार्गो मा भूदि- ति भावः । द्वितीयपक्षे प्रतिषेधस्पर्शरहितेनेति पदं श्रुतिस्मृत्यापातप्रती- तो ज्ञानातिरिक्तोपायो 'नान्यः पन्या' इति निषिद्ध इति स मा मूदित्यव- परम् । यद्वाऽर्थप्रकरणानुगुण्यादिति । विद्यार्थप्रकरणानुगुण्यादिति पाठो न पेशलः । श्रीकूरनारायणभाष्य इव विद्याप्रकरणानुगुण्यादीत पाठश्चेत् एतत्पूर्व यवति वा अलौकिकं वेत्युपरि वाफारो वा निवेश्यः ।
आचार्यभाष्यतात्पर्यसमेतम् ।
'बत मे वित्त' मित्यादिषूक्तमलौकिकं घनमिह विवक्षितम् । एक
एव मन्त्राप्रकरणादिभिर्विशेषितस्तत्तदनुगुणमर्थ विवक्षतीति सम्य-
न्यायविदः । अस्मान् त्वदनन्यभावान् अनन्यगतींश्च । विश्वानि
देव वयुनानि विद्वान्-देव- अस्मदपेक्षितप्रदानानुरूपविचित्रक्रीडायु-
क । माया वयुनं शानमिति नैघण्टुकाः । अतो ज्ञानमुखेनोपाय-
विशेषा इह वयुनशब्देन विवक्षिताः । सस्तित्तदधिकारानुगुणां-
श्चतुर्विधपुरुषार्थोपायान्यथाद्विद्वांस्त्वमीवदुषोऽस्मान् नेतुमर्हसीति
भावः । युयोध्यस्मज्जुष्टुराणम्-बन्धनात्मकतया अचिन्त्यप्रकारको
टिल्यवत्तया वा बाधमानमित्यर्थः एन:-अकृत्य करणकृत्याकरणादि-
रूपं त्वदनुभवादिप्रतिबन्धकम् , अस्मत्तो युयोधि पृथक्कुरु, विना-
शयेत्यर्थः। भूयिष्ठां ते नम उक्ति विधेम 'अनन्यगति रित्यान्दिगुण-
रावृत्तितश्च भूयसीं 'नमउक्ति' विदध्महे । व्यत्ययो हि बहुलमनुशि-
टः । नमउक्तेरनुवृत्तिं वा नाथं प्रति नाथते । 'नम इत्येव वादिन'
इति हि मुक्तलक्षणा अपि पुरुषा मोक्षधर्भ प्रतिपादिता । मानस-
कायिकोर्नमसोरभावेऽपि नमश्शब्दमात्रेण प्रसलुमहतीस्युक्ति-
शब्दाभिप्रायः । एवं परतत्त्वतद्विभूतियोगतदुपासनतद्विशेषान् सं.
गृह्य संहितेयं समपर्यंत ॥ १८ ॥
बत मे वित्तमिति । 'अनन्तं बत मे वित्तं भाव्यं मे नास्ति किंचन ।
मिथिलायां प्रदीप्तायां न मे किंचन दह्यते' (मोक्षपो २२३) इति पूर्णः
श्लोकः । अत्र मन्त्रे 'त्वदनन्यभावानन्यगतीति अविदुषोऽस्मा.
न्' इति च भाषितत्वात् पूर्वमन्त्रस्येव प्रपत्तिपरत्वमपोष्टं प्रतोयते । तदाऽ
सानिति बहुवचनं प्रपत्तृपुरुषाश्रितानामपि क्रोडीकारार्थम् । पूर्वमन्त्रे
स्मरेत्यनेन स्मरामीत्यस्य प्रत्यभिज्ञानम् । अत्र च नयेत्यनेन नयामीत्य-
स्य । जुहुराणमिति । 'हुछी कौटिल्य' इति धात्वर्थः कौटिल्यं
वञ्चकत्वमिति मतेनाह बन्धनात्मकतयेति । कौटिल्यमपसरणमिति मतेन.
द्वितीयार्थः । अथ वा 'हृ प्रसह्यहरण' इति धात्वभिप्रायेण प्रथमोऽर्थः ।
बाधमानमिति सर्वथा पर्यवसितार्थः ॥ १८ ॥
१६४ ईशावास्योपनिषद्भाष्यम् । विद्वच्छानप्रीतय इति । विदुषां छात्राणां च प्रीतय इत्यर्थः । अथ वा विदुषां सतां छात्राणां प्रीतय इति । छात्राणामपि शास्त्रपरिश्रमविधु- राणामिदमर्थावगाहासम्भवाद्विद्वदिति । विदुषामप्यौपनिषदार्थविज्ञानस्य कृते कुत्रापि यथावच्छात्रभावमनधिगतवतामस्मदमिहितार्थधारण- निपुणप्राशमणिपरम्परामुखेनास्मदाशयमनवबुद्धवसां चात्यन्तगभी- राऽऽस्माकमाष्यभावार्थो न सम्यक् प्रकाशेतेत्युपदिशति छानति । अल्पिष्ठस्याप्यनुवाकस्याखिलपरमतपरिमर्दकत्वातिशयं प्रथयति अभे- दमिति । अभेदं भोक्तां जीवानां परस्परैक्यम् । भविनामेव परतां जीवब्रीक्यम् । भेदाभेदं जिनसुगतनीतिं च जगति चेतनाचेतनात्मकप्र- पञ्चे ब्रह्मप्रतियोगिक भेदाभेदं भास्करयादवमतम् , जिनादिवनिरीश्वरत्वं कर्ममात्राधीनोत्पत्तिकत्वं च; तथाऽऽत्मनः स्वरूपविकारभाक्त्वं विज्ञानमात्रा- स्मत्वं च; आत्मनो जन्यत्वादयादवमते दृष्टेः, जैनैरपि सङ्कोचविकासवर्ण- नात, शक्करमतेऽपि बौद्धवद्विज्ञानमात्रात्मवचनात् । असम्पाद्यां मुक्ति कण्ठस्थितकनकनयेन नित्यप्राप्तत्वम् । भवभयमलीकं मिथ्याभूतम् । 'य उ विद्यायां रताः, रायेऽस्मान्, भूयिष्ठान्ते नमउक्ति विधेम, तस्मिन्नपः, ईशा- वास्यम् , याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः, वायुरनिल- ममृतम् , कविर्मनीषी परिभूः खयम्भूः, विधयाऽमृतमश्नुत इत्यादौ स्वार- स्यपालोचनया यथासम्भवमीहशार्थप्रतिभटत्वं प्रतिमन्त्रं परिशीलनीयमिति । तदेवमखिलमहीमण्डलमण्डनायित-प्रबलजपतपःप्रभृति बहुविधप्रभा- बभावितप्रचण्डपाण्डित्यप्रतिभापरिकर्मितानल्यकल्पनाशिल्पसामर्थसाम्राज्यधु- स्न्धरसकलकविकथककुलकलितबहुलकोलाहलक्षपणनिपुणनिजविजयघोषणा- जङ्घालघणघणविद्रावितविशिष्टदिशानिद्रस्य, निखिलतन्त्रनिष्णातनिश्शेषज- नैनपुणनियन्त्रणनियन्त्रणनिष्कम्पनिखातनिजविजयस्तम्भविभाजितविविधषि - आचार्यभाष्यतात्पर्यसमेतम् । १६५ व्यक्ताव्यक्त वाजिनां संहितान्ते व्याख्यामित्थं वाजिवक्त्रप्रसादात् । वैश्वामित्रो विश्वामित्रं व्यतानीद् विदच्छानप्रीतये वेङ्कटेशः ॥ अभेदं भोक्तृणामथ च भविनामेव परतां तथा भेदाभेद जिनसुगतनीतिं च जगति । असम्पाद्यां मुक्तिं भवभयंमलीकं च पठता- मसावीशेत्यादिर्न कथमनुवाकः प्रतिभटः ॥ हरिः ओम् । इति कविताकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वङ्केटनाथस्य वेदान्ताचार्यस्य कृतिषु ईशावास्योपनिषद्भाष्यम् । कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः॥ रुदहारमध्यमणिवरायमाणश्रीरङ्गनायिकासबहुमानविश्राणितसर्वतन्त्रस्वतन्त्र - ताविरुदस्य, वृत्तवर्तमानवर्तिष्यमाणसमस्तकुमतिमतसमूलोन्मूलनसाधिष्ठत्र- य्यन्ततत्त्वहितपुमर्थसम्प्रदायस्थापन, सकलसदाचार्यगुणगरिममुख, निखिल- रत्नरत्नाकरतानिरीक्षणसन्तुष्टस्वाभाविकावश्यूश्रीरङ्गनावितीर्णवेदान्ताचार्य- कस्याशेषजगद्गुरोरस्मन्नुरोरस्य भगवतः सूक्तिषु सर्वार्थसिद्धितात्पर्थचन्द्रिकादिषु परिचयश्रद्धावैधुर्यपरिकाल्पतो मिथ्यादूषणकल्पनाकोलाहलः सर्वोऽप्यसमञ्जसः केवलमनीपादक इत्यवधार्य तर्कप्रमाणसम्प्रदायसम्मतमस्यैव महात्मनो भाग्यमात्ममकामरशेषैः परिग्राह्यमिति कृतं विस्तरेण ।
RAFIED 1985 १६६ ईशावास्योपनिषद्भाष्यम् । 20127:25. N33 प्रतितन्त्राविरोधेन भिन्नभिन्नार्थवर्णनम् । समस्तेष्वपि वाक्येषु सम्भवन्नैव दुष्यति ॥ १ ॥ तस्मादुपनिषद्भाष्यकृतां मन्त्रचतुष्टये । बृहदारण्यकोपान्त्ये सधमन्यार्थवर्णनम् ।। २ ॥ अतश्चाचार्यपादोक्तेष्वर्थेष्वाग्रहयालभिः । वृथा दूषणवैयग्री गृहीता नैव शस्यते ॥ ३ ॥ न हि सम्भवतः सर्वान् वक्तुमर्थानिमेऽप्यलस् । विस्तृणीते न सर्वज्ञोऽप्यर्थदिङ्मात्रदर्शकः ॥ ४ ॥ अभियुक्ताग्रगण्यानामाचार्याणां हि सूक्तिषु । अवधाय परामृश्य भावं बुद्धयेत बुद्धिमान् ॥ ५॥ विरुद्धभाषणं व्यर्थ विस्तरः पिष्टपेषणम् । ईदृशानि बहिष्कृत्य प्रबन्धा तु प्रशस्यते ॥ ६ ॥ क भाष्यमेतद्गहनं गुरोनः क नाम मे बुद्धिरियं लघिष्ठा । तदस्ति यत्सन्मतमत्र तस्मिन् तस्यैव दासः करतूलिकाऽहम् ॥ ७ ॥ व्याख्यानमुद्रितसपुस्तकहस्तपञ सत्त्वप्रवर्तकमपार कृपाम्बुराशिम् । विद्यामयं विहतहेयमुपैमि साक्षाद् वत्र हयं विहितदेशिकभूमिकं च ।। ८ ॥ भृशलब्धतन्त्रतर्कप्रसातिना परिचितान्यशास्त्रेण । भक्रियत वीरराघवसुधियेत्याचार्यभाष्यतात्पर्यम् ॥ ९ ॥ - VESTIDOS VERIFIEDS 301