Svi-ksri-chennai
Gadyachintaamand-i
Front matter
No text on this page.
No text on this page.
No text on this page.
20536
barasvativilasa Series No. 1.
TEE KUPPSW'Y ASTRI
REST
84. RI!
3.4
THE
ADYACHINTAMANI
OF
VADĪBHASIMHA
BY
T. S. KUPPUSWAMI SASTRI,
1.xsistant, Gorernment Upper Secondary Training School, Tanjore
AND
S. SUBRAHMANYA SASTRI,
Sanskrit Pandit, K. H. Schwnl, Tanjore.
Badras :
PRINTED BY G A. NATESAN & Co, ESPLANADE ROW
1902.
Kights Hercreed ]
[ Copyright Registered
No text on this page.
Dcdicated
with kind përmission
10
EUGEN HULTZSCH Esquire, Ph. D.,
Government Ergraphist ; L'ellow of the Unwersity of Malras ;
Corr. Vember of the Batavui Society of Arts and Sciences ;
and of the Royal Society of Sciences at Gotringen.
as a token of high regard and esteem for his
Indefatigable researches in the field of
Sanskrit literature.
BY THE EDITORS.
No text on this page.
॥ श्रीः ॥ ॥ गद्यचिन्तामणिः श्रीवादीभसिंहश्च ॥ अयं वादीभसिंहः कविर्दिगम्बरजैनो यतिः पुष्पसेनमुनेरन्तेवासी च । क्षत्रचूडामणिर्गद्यचिन्तामणिश्चेति द्वावेव ग्रन्थावेतत्कृतावुपलभ्यते । अस्यानितरसाधारणी नैपुणीं पश्यन्तः पण्डिताः 'वादीभसिंहः' इति नाम चक्रुरिति प्रतीयते । सांस्कारिकं तु नाम 'ओडयदेवः' इत्यवगम्यते । अत्र प्रमाणवचनानि ग्रन्थादावन्ते च दृश्यन्ते- 'श्रीपुष्पसेनमुनिनाथ इति प्रतीतो दिव्यो मनुहृदि सदा मम संनिदध्यात् । यच्छक्तितः प्रकृतिमूढमतिर्जनोऽपि वादीभसिंहमुनिपुङ्गवतामुपैति' ॥ ६ ॥ 'श्रीमद्वादीभसिहेन गद्यचिन्तामणिः कृतः । स्थेयादोडयदेवेन चिरायास्थानभूषणः ॥ स्थेयादोडयदेवेन वादीभहरिणा कृतः । गद्यचिन्तामणिलॊके चिन्तामणिरिवापरः ॥ अत्र प्रथमोदाहृतश्लोक आत्मनो गुरुचरणध्यानमेवाज्ञानभञ्जकः सुज्ञानजनकः परमो मन्त्रजप इति स्वाशयमाविष्करोति कविः । 'ओड- यदेवः' इत्यदसीयनामश्रवणाद्दाक्षिणात्योऽयं कविरित्यवगम्यते । यतः 'उडयदेवः' 'ओडयदेवः' 'ओडयात्तेवः' 'ओडयाल्वार' इत्येवं नामकरणं दाक्षिणात्येष्वेव कतिपयजातीयेषु दृष्टचरं प्रसिद्धं च । अद्यापि विद्यन्त एव शालिवाटीप्रमुखेषु प्रदेशेषु (Tinnevelly and other Districts) 'उडयदेवः' इति नामवन्तोऽवरवर्णजाः पुरुषाः ।
२
वादीभसिंहः ।
कविरयं कदा बभूवेति न निश्चयः । किंतु वचनसंदर्भरीतिमनु-
मृत्यैव यत्किंचिदिवास्य कालं निर्णेतुं प्रयत्यते । वादीभसिंहसूरिकृतक्ष.
त्रचूडामणिगद्यचिन्तामण्योर्हरिचन्द्रकविरचितस्य जीवंधरचम्पूकाव्यस्य च
वचनरचनायामाशयाविष्करणे च तत्रतत्र स्थलेषु सुतरां समुल्लसति
साधर्म्यम् । तच्चाधस्तात्किंचित्प्रदर्यते-
१. 'यश्च समुपस्थितायां विपदि विषादस्य परिग्रहः सोऽयं
चण्डातपचकितस्य दाबहुतभुजि पातः' । पृ० १९. गद्यचिन्तामणिः.
'किं कल्पते कुरङ्गाक्षि शोचनं दुःखशान्तये ।
आतपक्लेशनाशाय पावकस्य प्रवेशवत् ॥' जीवंधरचम्पू:.
२. 'सुमित्राद्यास्तयोः पुत्रास्तेष्वप्यन्यतमोऽस्म्यहम् ।
वयसैव वयं पक्का विश्वेऽपि न तु विद्यया॥ क्षत्रचूडामणिः.
'तयोः पुत्राः सुमित्राद्यास्तेष्वप्यन्यतमोऽस्म्यहम् ।
विद्याहीना वयं सर्वे नद्या हीना इवाद्रयः ॥' जीवंधरचम्पू:.
३. 'तपांसि तप्यमानस्य तस्य चासीदहो
भस्मकाख्यो महारोगो भुक्तं यो भस्मयेत्क्षणात् ॥
न हि वारयितुं शक्यं दुष्कर्माल्पतपस्यया ।
विस्फुलिङ्गेन किं शक्यं दग्धुमाईमपीन्धनम् ॥
अशक्त्यैव तपः सोऽयं राजा राज्यमिवात्यजत् ।
श्रेयांसि बहुविघ्नानास्येतन्नह्यधुनाभवत् ।।
तपसाच्छादितस्तिष्ठन्स्वैराचारी हि पातकी ।
गुल्मेनान्तर्हितो गृह्णन्विष्किरानिव नाफलः ॥
अवर्तिष्ट यथेष्टं स पाषण्डितपसा पुनः ।
चित्रं जैनी तपस्या हि स्वैराचारविरोधिनी॥' क्षत्रचूडामणिः.
'तदनु दिनेदिने प्रवर्धमानं भस्मकरोगमल्पेन तपसा विस्फुलिङ्गनेवा-
पुनः ।
वादीभसिंहः । ३ न्धनं खद्योतेनेव संतमसं नखरञ्जकयेव महारण्यं शमयितुमशक्नुवानः पूर्व राज्यमिव तपःसाम्राज्यमपि परित्यजन्पाषण्डितपसा समाच्छादितः स्वैरा- हारानाफल इव गुल्मान्तर्हितो विष्किरान्समाददानो यथेष्टमवर्तिष्ट । जीवधरचम्पू:. सत्यप्येवं साम्ये कतरोवानयोः पूर्वतर: कविरिति न वक्तुं सुक- रम् । यतोऽस्य हरिचन्द्रकवेरपि समयः सुतरां न ज्ञायते । हरिचन्द्रत्रयं तावत्प्रसिद्धम् । बाणभट्टवर्णितो भट्टारहरिचन्द्रः प्रथमः । विश्वप्रकाश- कोशकर्तुर्महेश्वरस्य पूर्वपूरुषश्चरकसंहिताटीकाकारः साहसाङ्कनृपतेः प्रधा- नवैद्यो द्वितीयः । धर्मशर्माभ्युदयकाव्यकृदादेवसूनुर्हरिचन्द्रमहाकवि- स्तृतीयः । एषामयमप्येकतमोऽन्योवेति संदेहः । किंतु हरिचन्द्रो वादी- भसिंहश्चेत्युभावपि स्वस्वकवित्वप्रौढ्या प्राचीनकविकक्षामारोहत इतिमा. त्रमद्य वक्तुं प्रभवति रसना । अनेन परिचितभूयिष्ठाः कालिदासबाणभट्टादीनां कृतय इति तेभ्योऽस्यानन्तरकालिकत्वमूह्यते- १. 'सेकान्ते मुनिकन्याभिः कारुण्योज्झितवृक्षकम् । विश्वासाय विहङ्गानामालवालाम्बुपायिनाम् ॥११॥ आतपात्ययसंक्षिप्तनीवारासु निषादिभिः । मृगैर्वतितरोमन्थमुटजाङ्गणभूमिषु ॥ ५२ ॥ स. १. रघुवंशः. 'वासरावसानसंक्षिप्तनीवाराङ्गणनिषादिमृगगणनिवर्तितरोमन्थम् , आल- वालाम्भःपानलम्पटविहगपेटकविश्वासकृते सेकान्तविसृष्टवृक्षमूलमुनिक- न्यकाविवृतकारुण्यम् , दण्डकारण्याश्रममधिवसन्तीम् ।' पृ० १२०. गद्यचिन्तामणिः. २. 'लात चन्द्रापीड, विदितवेदितव्यस्याधीतसर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति । केवलं च निसर्गत एवाभानुभेद्यमतिगहनं तमो - - पादीभसिंहः । यौवनप्रभवम् । दारुणो लक्ष्मीमदोऽत्यन्ततीव्रो दर्पदाहज्वरोष्मा । अम- त्रगम्यो विषमो विषयविषास्वादमोह इत्यतो विस्तरेणाभिधीयसे ।' का- दम्बरी. 'वत्स, बलनिषूदनपुरोधसमपि स्वभावतीक्ष्णया धिषणया धि- क्कुर्वति सर्वपथीनपाण्डित्ये भवति पश्यामि नावकाशमुपदेशानाम् । तदपि कलशभवसहस्रेणापि कबलयितुमशक्यः प्रलयतरणिपरिषदाप्यशोष्यो यौवनजन्मा मोहमहोदधिः। अशेषभेषजप्रयोगवैफल्यनिष्पादनदक्षो लक्ष्मी- कटाक्षविक्षेपविसी दर्पज्वरः । मन्दीकृतमणिमन्त्रौषधिप्रभावः प्रभावनाट- कनटनसूत्रधारः स्मयापस्मारः इति किंचिदिह शिक्ष्यसे।' पृ०४१-४२। गद्यचिन्तामणिः. ३. गर्भेश्वरत्वमभिनवयौवनत्वमप्रतिमरूपत्वममानुषशक्तित्व चेति महतीयमनर्थपरम्परा । सर्वाविनयानामेकैकमप्येषामायतनम् । किमुत स- मवायः ।' कादम्बरी. अविनयविहंगलीलावनं यौवनम् , अनङ्गभुजङ्गनिवासरसातलं सौ- न्दर्यम् , स्वैरविहारशैलूषनृत्तास्थानमैश्वर्यम् , पूज्यपूजाविलङ्घनलघिमज- ननी महासत्त्वता च प्रत्येकमपि भवति जनानामनाय । चतुर्दा पन- रेतेषामेकत्र संनिपातः सद्म सर्वानर्थानामित्यर्थेऽस्मिन्का संशीतिः।' पृ०४२॥ गद्यचिन्तामणिः. बाणभट्टः स्वकीयहर्षचरितस्य प्रारम्भे केषांचित्प्रख्यातनाम्नां र्वेषां कवीनां नामग्रहणं करोति । तत्र गद्यबन्धस्य निबन्धारौ द्वावेव सु- बन्धुहरिचन्द्रनामानौ कवी स्मरति न पुनरन्यं तस्य कृतिं वा । कालि- दासकवेः कालः (६३४) चतुस्त्रिंशदधिकषट्छततमाख्रिस्ताब्दात्प्रा- गिति सर्वजनसंमतम् । बाणभट्टः कविः स्थानेश्वराधीशस्य हर्षवर्धनमहा- राजस्य सदसि लब्धप्रतिष्ठ आसीत् । स च राजा हर्षवर्धनः (६१०- . पू.
वादीभसिंहः। ६५०) दशाधिकषट्छततमाख्रिस्ताब्दादारभ्य पञ्चाशदुत्तरषट्छततमा- ब्दावधि पालयामास पृथिवीमिति निर्विवादम् । अतो वादीभसिंहसूरिः (६५०) पञ्चाशदुत्तरषट्छततमान्दात्परमेवासीदिति निश्चेतुं पार्यते । परं च, अस्ति भोजचरित्रस्यावसाने भोजराजः कालधर्म गत इति कुतोऽपि मृषोद्यामाकर्ण्य ताम्यता कालिदासेनोक्त इति प्रथां गतः प्रायः संस्कृतभाषाविदां सर्वेषामपि मुखस्थश्चायमधस्तनः श्लोकः- 'अद्य धारा निराधारा निरालम्बा सरस्वती। पण्डिताः खण्डिताः सर्वे भोजराजे दिवं गते ॥' इति । वादीभसिंहश्च गद्यचिन्तामणौ राजद्रुहः काष्ठाङ्गारस्य दुर्नयेन दुर्मना- यमानानामुपरतं सत्यंधरमहाराजमनुशोचतां जनानां प्रलापव्याजेन स्वमन:- संदानितानि तदात्वनिष्पन्नानि तान्येव पद्यस्थानि पदानि प्रस्तुतानु- गुणं किंचिद्विपरिणमय्य 'अद्य निराधारा धरा, निरालम्बा सरस्वती' इत्येवं पठितवानिति संभाव्यते । यद्येवं तर्हि धाराधीशस्य भोजराजस्या- र्वाचीन एवायं कविरिति परिणमति बाढम् । विद्वत्प्रियः श्रीभोजराजश्व (९९७-१०५३) सप्तनवत्युत्तरनवशततमाख्रिस्ताब्दादारभ्य त्रिपञ्चाश- दुत्तरसहस्रतमाब्दावधि राज्यमकरोदिति सुज्ञातम्। सर्वथोपरितनः श्लोको भोजराजस्य समय एवोदपादीति निर्विकल्पमवसीयते । परं तु कथमस्थ भोजराजस्य समकालः कालिदास इति शङ्का समुत्पद्यते । अयं च भो- जप्रबन्धनिर्दिष्टः कालिदासः रघुवंशादिकृत्कालिदास इत्यतिमात्रमसंग- तम् । किं तु तत्समाननाम्ना तत्समानप्रभावेन वा तदन्येन भवितव्यम् । आसीद्भोजराजस्य पितृव्यो मुञ्जो नाम नरपतिः । यस्यैवामोघवर्ष इति वल्लभनरेन्द्र इति वाक्पतिदेवराज इति च प्रथन्ते नाभान्तराणि । तस्य भ्राता भोजराजस्य जनको विक्रमार्कापरनामा सिन्धुराजः । यमेवाहुन- वसाहसाङ्क इत्येके कुमारनारायण इत्यन्ये । आसीदाभ्यामुभाभ्यामपि वादीभसिंहः संमानितोऽनयोरुभयोरपि प्रेमपात्रं सदस्यः परिमलापरनामा कालिदासः । येनास्ति विरचितं नवसाहसाङ्कचरितं नाम सिन्धुराजचरितप्रख्यापकं महाकाव्यम् । यत्र सर्वमिदं प्रथमैकादशयोः सर्गयोनिरूपितं च भवति । तेनैव परिमलापरनाम्नामुना कालिदासेन भोजसदस्येन भवितव्यमित्यूह्यते अयं वादीभसिंहः कविर्बाणभट्टस्यैव सरणिमान्तमनुसरति । अस्य काव्यपथे पदानां लालित्यं श्राव्यः शब्दसंनिवेश: निरर्गला वाग्वैखरी सुगमः कथासारावगमश्चित्तविस्मापकाः कल्पनाश्चेतःप्रसादजनको धर्मोप- देशो धर्माविरुद्धा नीतयो दुष्कर्मणो विषमफलावाप्तिरिति विलसन्ति विशिष्टगुणाः । किं च समासभूयस्त्वं समपदास्तनां च निरवधिक- दैर्ध्य तादृशविशेषणानां बाहुल्यं ततः कर्तृपदानां क्रियापदानां च व्यव- हितत्वमतोऽर्थबोधस्यायाससाध्यत्वं चेति गद्यप्रबन्धकृतामसाधारणाः केचन दोषा अपि क्वचित्कचिद्विशेषतः प्रारम्भ एव दर्शनपथमवतरन्ति । यथा नाटकपद्यबन्धचम्पूप्रबन्धानां निर्माणे बद्धादराः पूर्वे कवयो न तथा त एव केवलगद्यबन्धनिर्माणे । अतो गद्यबन्धानां निबन्धारः सप्ताष्टा एव कवयो नामतः श्रूयन्ते । श्रवणगोचरीभूतास्तेषां च तावन्त एव गद्यप्रबन्धा नामतोऽद्य परिज्ञायन्ते । तेषां चात्र निर्दिश्यन्ते नामानि सुखावगमाय सर्वेषामपि जनानाम्- (१) सुबन्धुकविकृता वासवदत्ता (२, ३) बाणभट्टप्रणीते कादम्बरीहर्षचरित (४) आचार्यदण्डिविनिर्मितं दशकु- मारचरितम (५) श्रीवादीभसिंहसूरिविरचितो गद्यचिन्तामणिः (६) धन- पालकविकृता तिलकमञ्जरी (७) अगस्त्यकविकृतं कृष्णचरितम् (८)वा- मनभट्टबाणविरचितं वीरनारायणचरितम् (९) अविज्ञातकर्तृका शुक- सप्ततिश्चेति । अत्र निर्दिष्टेष्वपि कतिचिदेव प्रबन्धा अद्यावधि प्राकाश्यं नीताः । न पुनः सर्वेऽपि। अतोऽद्य गद्यचिन्तामणिरयं न केनापीतः पूर्व प्रकाशित इत्यस्य प्रकाशने समजायत साभिलाषं हृदयम् । अत्र परोप- वादीभसिंहः। टिप्योत्कीर्ण रपराणां पण्डितवराणां साहाय्येन समासादितं पुस्तकषट्रं सम्यक्परि- प यथामत्यविकलमकारि शोधनम् । येषामाश्रयेणैतन्मुद्रणमकारि वेद्यैकपक्षपातिनां तदीयानामपि पुस्तकानां नामरूपाणि व्यावर्ण्यन्ते । त्रैकं पुस्तकं मैसूरुनगरस्थराजकीयपुस्तकालयाधिकारिभिः बि. ए. धारिभिरन्तर्वाणिवरेण्यैः श्रीमहादेवशास्त्रिभिः प्रहितमान्ध्रलिप्या तं नातिप्राचीनं नातिविशुद्धं च (२) द्वितीयं तालपत्रपुस्तकं ' नगरवाहितमठाचार्यैः श्रीलक्ष्मीसेनभट्टारकभट्टाचार्यैः प्रेषितं कर्णन प्रायः शुद्धम् (३) तृतीयं तालपत्रलिखितं पुस्तक- मस्मत्सुद्दजियरावनयिनारद्वारी मैसूरराज्यान्तर्वर्तिश्रवणवेलगुलग्रामस्थितसं- स्कृतपाठशालाध्यापेकवर्यश्रीब्रह्मसूरिशास्त्रिणां सकाशात्समासादितं स्थल- विशेषेषु सटिप्पणीकं ग्रन्थलिपिसमुल्लुसितम् (४-५) क्वचित्कचित्संदि ग्धस्थलेषु पाठभेदपरिज्ञानाय कृतोपयोगमत्रत्यपुस्तकालयस्थं प्रन्थाक्षर- लिखित तालपत्रपुस्तकद्वयम् (६) अपरंतु षष्ठं ग्रन्थाक्षरलिखितं ताल- पत्रपुस्तकमस्मन्मित्रजयरावनयिनाराणां साहाय्येन वन्दिवाशिवेङ्गुणग्राम- वास्तव्यशेल्वरशुशास्त्रिणां सकाशादधिगतं नातिप्राचीनम् । षट्स्वपि पुस्तकेषु य उत्तमः पाठः प्रत्यभात्स एव गृहीतः । पुस्तकेष्वविद्यमानः स्वबुद्ध्या न कल्पितः पाठभेदः । तथापि गच्छतः स्खलनमिति न्यायेन चेत्कचिदपि स्खलनं तत्क्षन्तव्यमारित्यभ्यर्थ्यते । यतः, 'सर्वः सर्वे न जानाति सर्वज्ञो नास्ति कश्चन । नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे कचित् ॥ इति भगवान्व्यासः .
No text on this page.
|| श्रीः ॥ गद्यचिन्तामणिः। प्रथमो लम्बः । श्रियः पतिः पुष्यतु वः समीहितं त्रिलोकरक्षानिरतो जिनेश्वरः । यदीयपादाम्बुजभक्तिशीकरः सुरासुराधीशपदाय जायते ॥ १ ॥ प्रणम्रगीर्वाणकिरीटभानुभिः प्रफुल्लपादाम्बुरुहान्गणेश्वरान् । प्रणौमि येषां स्तुतिरेव भारती कवित्वशक्तयै भुवि कल्पते नृणाम् ॥२॥ आतिस्थिरं स्वस्य पदं मनोगृहे स धर्मचिन्तामणिरातनोतु मे । यदाश्रिताः शाश्वतसंपदं बुधाः श्रयन्ति भव्या गतसंसृतिश्रमाः ॥३॥ अशेषभाषामयदेहधारिणी जिनस्य वाम्बुरुहाद्विनिर्गता । सरस्वती मे कुरुतादनश्वरी जिनश्रियं स्यात्पदलाञ्छनाञ्चिता ॥ ४ ॥ सरस्वतीस्वैरविहारभूमयः समन्तभद्रप्रमुखा मुनीश्वराः । जयन्तु वाग्वज्रनिपातपाटितप्रतीपराद्धान्तमहीधकोटयः ॥ ५ ॥ श्रीपुष्पसेनमुनिनाथ इति प्रतीतो दिव्यो मनुर्मम सदा हृदि संनिध्यात् । यच्छक्तितः प्रकृतिमूढमतिर्जनोऽपि वादीभसिंहमुनिपुंगवतामुपैति ॥६॥ Tread on a स्नेहप्रयोगमनपेक्ष्य दशा च पानं धुन्वंस्तमांसि सुजनापररत्नदीपः मार्गप्रकाशनकृते यदि नाभविष्य- सन्मार्गगामिजनता खलु नाभविष्यत् ॥ ७॥ aur २ गद्यचिन्तामणी Have to - त्यक्तानुवर्तनतिरस्करणौ प्रजानां श्रेयः परं च कुरुतोऽमृतकालकूटौ । तद्वत्सदन्यमनुजावपि हि प्रकृत्या . तस्मादपेक्ष्य किमुपेक्ष्य किमन्यमेति ॥ ८॥ निःसारभूतमपि बन्धनतन्तुजातं मूर्धा जनो वहति हि प्रसवानुषङ्गात् । जीवधरप्रभवपुण्यपुराणयोगा द्वाक्यं ममाप्युभयलोकहितप्रदायि ॥ ९॥ गीर्वाणाधिपचोदितेन धनदेनास्थायिकामादरा- सृष्टां द्वादशयोजनायततलां नानामणिद्योतिताम् । अध्यास्त त्रिदशेन्द्रमस्तकमिलत्पादारविन्दद्वयः प्राग्देवो विपुलाचलस्य शिखरे श्रीवर्धमानो जिनः । तत्तासीनममुं त्रिलोकजनतासंसारजीर्णाटवी-...- दावं दुर्मतघर्मतापहरसद्धर्मामृतस्राविणम् । राजा श्रेणिक इत्यशेषभुवनप्रख्यातनामा नम- न्दूरानम्रकिरीटताडिततलस्तुष्टाव हृष्टाशयः ॥११॥ तत्रस्थं चतुराश्रमस्थपुरुषानुष्ठयधर्मस्थिति- व्याख्याव्याप्रतिदृश्यमानदर्शनालाकं गणाधीश्वरम् वन्दित्वा मकुटावतंसकुसुमामोदेन लिम्पन्मही- मप्राक्षीकिमपि क्षमापतिरथ स्पष्टीभवत्कौतुकः ॥ १२ नानाभोगपयोधिमग्नमतयो वैराग्यदूरोज्झिता देवा न प्रभवन्ति दुःसहतमां वोढुं मुनीनां धुरम् इत्याहुः परमागमस्य परमां काष्ठामधिष्ठास्नव- स्तद्देवो मुनिवेषमेष कलयन्दृश्येत कस्मादिति ॥
प्रथमो लम्बः। इत्थं पृच्छति पार्थिवे गणधरस्तद्वृत्तमाख्यातवा- নাল सुरः पुरा नरपतिर्विश्वंभराविश्रुतः । वैराग्येण तृणाय राज्यमतुलं मत्वा विमुच्याशु त प्राविक्षत्पदवीं तपोधनगतां गीर्वाणतुल्याकृतिः ॥१४॥ - इत्येवं गणनायकेन कथितं पुण्यास्रवं शृण्वतां तज्जीवंधरवृत्तमत्र जगति प्रख्यापितं सारभिः विद्यास्फार्तविधायि धर्मजननीवाणीगुणाभ्यर्थिनां वक्ष्ये गद्यमयेन वाङ्मयसुधावर्षेण वाक्सिद्धये ॥ १५ ॥ m.tu.nte MENU अस्ति खलु निखिलजलधिपरिक्षेपविलसदनेकद्वीपकमलकाणे- कारूपस्य जम्बूद्वीपस्य दक्षिणभागभाजि भारते खण्डे पुण्डरीकासनायाः क्रीडागृहमिव लक्ष्यमाणः , प्रक्षीणमोहजनितजिनचरणपक्षपातैरा - णमतिमन्दरमथितविद्यासागरसमासादिततत्त्वांवबोधसुधारसैरहरहरुपचित- सुकृतमुकुलितपरलोकभयैरभ्यागतसंविभक्तविभवविजृम्भमाणवितरणगुण- गरिमनिमीलदमरमहीरुहमाहात्म्यैर्ममतामर्थेष्वनाकलयद्भिरात्मचरितापहसि- तकलिविलसितैरावसद्भिः सद्भिरारोपितगरिमा , दिशिदिशि दृश्यमा- नकनकमयविमानतिलकितवियन्मयैर्ध्यानपरयमधनाध्युषित वेदिकोपशो - भिताशोकपादपच्छायालङ्घनचकितभव्यलोकवक्रित्प्रदक्षिणभ्रमणैः पर- हितनिरतमुनिवरपरिषदभिहितधर्मानुकथनकर्मठशुककुलवाचालोद्यानशा. खिशाखापरिष्कृतपरिसरैरुपसरत्संसृतेरुपरतिमुपजनयद्भिर्जिनालयरुपशेभि- H; सततविनिहितसलिलसेकजनितशैल्यविनिर्गतपुलकतुलितमुकुल. वहदनिलकम्पितैविटएबाहुभिरतिदुर्धर फलभरं दातुमा- प्रेस्यप्रकन्दलीदलनदुर्ललितकोकिलकलालापच्छलेन मनसि- पढ़ता सहकारतरुषण्डेन, कृतमण्डनैर्मधुकरनि- solebustan गद्यचिन्तामणौ करकजलाकलङ्किताः कामविजयनीराजनदीपिका इव कुसुममञ्जरी: पि- अरितदशदिशो दर्शयता चम्पकचक्रेण चारुतामुद्वहद्भिः प्रसवोत्कण्ठ- मानकामिनीगण्ड्षमधुधारासेकनिष्पन्नपुष्पारिञ्छौलधिवलितवपुषा हसतेव युवतिजनलालनविधुरानितरधरणीरुहान्वकुलतरुवाटेन वर्धितशोभैस्त - रुणीचरणप्रहारानन्तरमन्तःप्ररूढकोपकृपीटयोनिमिव 'कृकवाकुचूडापा- टलं पल्लवापीडमुद्गिरता प्रत्यङ्ग कङ्केलिजालेन जातनयनातिथ्यैरन्यलता- श्लेषावकाशहरणाभिनिवेशादिव गाढाश्लिष्टनिःशेषकुरवकतरुभिर्माधवीभि- राधीयमानमदनबलैरुन्मीलितकुसुमावचयकौतुकमिलितमहिलानिर्विशेषल- ताभिरामरामैर्विनोदितलोकलोचनः, प्रतिफलिततटरुहतरुनिवहनिभेन जलनिधिजिगीषया स्वयमपि कल्पतरूनिव कतिचन जठरे धारयद्भि- रुदण्डकमलविष्टंरोपविष्टकादम्बकदम्बकैरुत्फुल्लकल्हारनिःस्यन्दिमकरन्दमे- दुरितपाथोभिः पवनोद्धृतकल्लोलपटलकवलितवियदवकाशैः पाथोराशि- परिबुभूषया सागरमहिषी मन्दाकिनी बन्दीकर्तुमन्तरिक्षमुत्पतद्भिरिव प्रेक्ष्य- माणैः समन्तादुन्मिषदुत्पलजाल जटिलैर्जनपदलक्ष्मीदिदृक्षया सहस्राक्षता मिव बिभ्रद्भिः शुभ्रसलिलभारतजठरर्जलाशयैर्शितानेकसागरमहिमा, क चित्पाककपिशकणिशभरविनमितशिरोभिरात्मरोहावकाशदायिनी मेदिनी मभिवादयमानैरिव शालिस्तम्बैः शुम्भितशालयेन क्वचिद्विहरमाणकमलाच रणतुलाकोटिक्कणितैरिव स्थलकमलकाननकेलीकलितदोहलीनां कलहंसी नामारसितैरापाद्यमानश्रवणपारणेन "क्वचिदनवरतविधीयमानशुश्रूषाहृष्य दु:सर्वाङ्गनिर्गच्छदतुच्छरोमाञ्चसहचरितरुचिभिः कतिपयदिवसारूढे रू ढहरितिमकबलितहरिदन्तरालप्रशस्यैः सस्यकन्दलैः कण्ठकथितकेदार सारंगुणेन कचिन्निकटरूढपुण्ड्रेक्षुदण्डविघटितपर्वपुटनिपतितमुक्ताफलप टलशर्करिलसारणीतीरसंचारखेदितकृषीवलचरणतलेन कचिदतिगम्भी रक्षेत्ररभसनिपतदभ्यर्णसारणीसालिल समुड्डीनशफाजिघृक्षाजनितपरस्परक , inteys. प्रथमो लम्बः । ७ M । लहविधूतबकोटपक्षपुटदर्शितस्थलपुण्डरीकविभ्रमेण कचिदिवाप्यन्धका- रितपरिसराभिर्मरकतपरिघपरिभावुकरम्भापरिरम्भरमणीयाभिः प्रोडञ्चि- क्रोडविघटितकोहलपतितकेसरसंकटाभिः पूगवाटिकाभिः प्रकटीक्रिय- माणाकाण्डप्रावृडारम्भेण सर्वकालमर्वराप्रायतया प्रथमानबहुविधसस्यसा- रेण प्राभोपशल्येन निःशल्यकुटुम्बिवर्गः, . सलिलदेवतानाभिमण्डलस- नाभिसंनिवेशैः स्फटिकविशदसलिलपूरितोदरैर्घनघटितसुधालेपधवल- भित्तिपरिवेष्टितमुखतया हसद्भिरिव निरुपयोगसलिलभरभारतमपानि- धिमम्भ कुम्भोक्षेपपतितपयोविन्दुरूढशाढलतृणश्यामलितानूपैः कूपै- रुपेतपर्यन्ताभिरनतितुङ्गमञ्चिकाप्रतिष्ठितसलिलघटपरिपाटीविलोकनमषि-- तपथिकजनपरिश्रमाभिर्जलाधिवासघृष्यमाणपाटलीशर्करापरिमलबहालिम- विद्रावितनिदाधवैभवाभिरप्रविष्टतरणिकिरणशिशिरलरीपरिसरनिद्राणा - ध्वन्यादन्यादैन्यशमनचतुरप्रभावाभिः प्रपाभिः प्रतिहतधर्मविजृम्भि- तः, प्रत्यारोहासिततृणकरीरकबलनमुदितैरवनितलविलुठितवालपल्ट वैरप्रचलितबलवदुक्षदर्शनभयधावदध्वगैर्गतिरंभसरणितमणिकिङ्किणीरव- मुखरितभुवनविवरैः स्मरणपथविहरमाणतर्णकवमितदुग्धधाराधौतधरात लैः कठिनखुरपुटखननसमुत्पतदविरलपरागपटलच्छलेन गोशब्दसाम्य समाविभूतस्नेहतया भूतधात्र्येव दीयमानानुयात्रैः स्वभावकुण्डलितशिख- रभीषणविषाणव्याजेन दुष्टसत्त्वसमुत्सारणाय कार्मुकमिव कलयद्भिः प्र. शस्तकर्मसाधनैर्गोधनैः पवित्रीकृतसीमा, हेमाङ्गदनामा जनपदः । यश्च दौर्गत्यनिवासपरिजिहीर्षयेव निरवकाशयत्यात्मानमभिते घटितैर्धान्यकूटैः । यं च दिशिदिशि दृश्यमानजिनालयलाञ्छनप. ज्वाननविलोकनचकूिता इव नोपसर्पन्त्युपद्रवकरिणः । येन च विप्रकीर्ण विविधमणिगणमरीचिमालिना जलनिधिविरहविषादः परिहियते जालायाः । यस्मै च स्पृहयन्ति निःस्पृहा अपि निर्वाणसुधानिःस्य- - ३ गचिन्तामणौ , . दचन्द्रमसो मुनयः । यस्माच्च सततजाज्वल्यमानजिनपूजाचरुपचनपाव- कादुपजातभीतिरिव दूरं पलायत कलिः । यत्र च संकल्पसमयाव- जैतैर्दानजलप्रवाहैः प्रक्षालित इव प्रलयं प्राप किल्विषपङ्क: Mir तत्र चास्ति समस्तभुवनविख्यातसंपदाभोगा, भोगवतीव भु- जङ्गचरितोद्वेगेन भित्त्वा भुवमुत्थिता, नमुचिमथननगरीव निरालम्बनतया नभःस्थलान्निपतिता, माधुर्यकुलभूमिः फलमञ्जरीव भारतवर्षभूरुहस्य, भुवनवलभीमण्डनमुक्तासरमरीचिनिचयकवचिता कर्णचामरिकेव हेमा- गदमतङ्गजस्य, मरकतमणिकुट्टिममयूखपत्रला पद्मसरसीव कमलाकलहंसी- विहारस्य, पातालवासिभिरप्यनालोकितमूलेन गगनचरैरप्यलक्षितशि- खरेण पराजितपरनरपतिकरदीकृतकनकोपलपटलघटितेन विघटितकु- लगिरितटाभिदिगन्तदन्तावलदशनकुलिशकोटिभिरष्यभेद्यसंस्थानेन स्त- म्भितजगदुपरमसमयसमीरसंरम्भेण त्रिभुवनलक्ष्मीकनकपादकटकका- न्तितस्करेण प्राकारण परिवृता, कलशभवकबलितजलनिधिजनितानु- शयेन कुशेशयभुवा सावधानमनवधि सलिलमापादितेनेव फणभृदावास- विश्रान्तगाम्भीर्येण स्नानावतरदवनीपतिमदवारणकपोलतलविगलितदा- नजलवेणिकाव्याजेन जलनिधिसमुत्कण्ठया यमुनयेव विगाह्यमानेन नि- जाभोगविस्मयनिपतितैरुपरिचरयुवतिनयनैरिव नीलकुवलयापीडैरकाण्डे- ऽपि निशां दर्शयता प्रतिफलितभवननिवहभरितजठरतया कुपितसुरप- तिकरकल्पितकुलिशपतनभयमग्नमहामहीधरमुदधिमवधीरयता परिखाच- क्रेण परिष्कृता, विकसदभिनवसुमनःपरागविसंरधूसरितवासरालोकैः पतितपचेलिमफलरसीपीन्टलतलस्खलितपुष्पलावीजनैरनिभृतपरभृतकू जितमुखरितसहकारैः प्रसवपरिमलतरलमधुकरनिकरान्धकारितैः पा- कसुरभितपनसफलहेलाच्छोटनकुपितमर्कटीकोपशमनचतुरशाखामृगली - लाजनितकुतूहलैः पारावतपरस्परसंपरायपतितपुष्पस्तबकतारक्रिततरु .
प्रथमो लम्बः । - मूलरुद्वेलवहमानमकरन्दकूलंकषकुल्यालोकनमुदितसेककान्तिकैलावण्य- तरङ्गितदिगङ्गनामुखैः शिलीमुखपदभग्नवृन्तलम्बमानचम्पकपाटल'नागके- सरप्रसवैः कंदर्पकनकातपत्रकमनीयकर्णिकारहारिभिर्वनदेवताधरबन्धु- बन्धुजीवबन्धुरैः कुरवकपादपपरिष्वङ्गसफलमाधवीलतायौवनैरुपवनरुद्भा- समाना, मरकतदृषदुपरचिततटाभिः पद्मरागशिलाघटितोपानपति- भिर्जलदेवताकुचकलशकौशलमलिम्जुंचकमलमुकुलाभिरुन्मिषदसितोत्प लवनान्धकारेण दिवसेऽपि रजनीविभ्रमविघटितरथाङ्गमिथुनाभिरभिषेक- दोहलावतरदबलाचरणनूपुररणितश्रवणोद्गीवकलहंसाभिरुड्डीयमानजलचर- विहगविधूतपक्षपुटपतितपयःकणकोरकिततटतरुशिखराभिर्पणालसंदोह - संदेहिकादम्बखण्ड्यमानफेनकीलकादन्तुरतरङ्गाभिः प्रतिफलननिभेन गग- नतलपरिभ्रमणरभसजनितपिपासाशमनकौतुककृतावतरणेनेव तरणिना रमणीयतां बिभ्राणाभिर्विभ्रमदीर्घिकाभिर्कीकृतसौभाग्या, क्वचित्पुरोनि- हितविष्टरपुञ्जितं स्फुरितकरनखमयूखसंपर्कपुनरुदीरितं निजवदनजनि- ततुहिनकरशङ्कासमुपनततारकानिकरमिव दृश्यमानं प्रसूनराशिमारणित- मणिपारिहार्यवाचालबाहुलतिकाविभ्रमाभिराममाबध्नतीभिर्व्याजीकृत्य पु- पक्रयं वक्रोक्तिमभिदधता धूर्तलोकेन विस्मृतहस्ताङ्गुलिन्यस्तसुमनोबन्ध- नाभिरपि कुसुमसौरभादधिकपरिमलैरात्मनिःश्वासैराकुलीक्रियमाणमधुक- रमालाभिर्मालाकारपुरधीभिनीरन्ध्रितेन कृचिद्विशङ्कटपेटकप्रसारितैः प्र- सरदविरलसौरभसंपादितघ्राणपारणैर्युगपदुपलक्ष्यमाणैर्निखिल फलैः फ- लितलोकलोचननिर्माणेन क्वचित्सौरभलुब्धभुजंगसंगृह्यमाणैर्मलयजैविड- म्बितमलयगिरिपरिसरारण्येन कृचित्प्रसार्यमाणस्फारकर्पूरपरागपाण्डरतया लहरीपवनसमुक्षिप्तशुक्तिपुटमुक्तमुक्ताफलपुलकितामुदधिवेलां विहसता क- चिवदान्यजनताजटिला नगरीयमिति वितरणकलापरिचयाय धरणीतल- मवतीर्णैः कालमेधैरिव कृष्णकम्बलैस्तिमिरितेन कुचित्क्रेतृहृदयरुचिवर्ध- गद्यचिन्तामणी , नाय प्रसार्यमाणैः शारदपयोधरावधीरणधुरीणैः पराजितपारिजातदुकूलै- रनुकूलस्पर्शसुखसंपादनक्षमैः क्षौमैरुन्मिषक्षीरोदशङ्केन कृचित्पुनर्मथनच- कितजलधिटौकितैरिव गाढोद्गच्छदतुच्छमहःस्तबकितैः कौस्तुभप्रतिमल्लै- रनुपलक्षितवासकलङ्कादिदोषैरहिमकरकुटुम्बडिम्भैरिव क्षितितलचङ्क- मणकुतूहलादम्बरतः कृतावतारैर्माणिक्यैर्मध्यंदिनेऽप्यनुज्झितदिवसमुख - लावण्येन कृचित्प्रतिफलिततरणिकिरणधवलमरीचिनिर्गमप्रतिहतजनन- यनपरिस्पन्दैः परस्परसंघट्टजनितक्रेताराराववाचालैः कांस्यमण्डलैः स- मसमयसमुदितानेकदिनकरकरनिकरविराजितस्य प्रलयसमयस्यानुकुर्वता विपणिपथेन कुट्ललितकुबेरनगग्गौग्वा, सान्द्रीकृतवर्णसुधाच्छु णधवलि- ततोरणवितर्दिकैरनुद्वारदेशनिहितकदलीपूगकथितमहोत्सवप्रबन्धैरुत्तप्तहा- टकघटितकवाटयुगलभूषितोषिदङ्गलावण्यचन्द्रिकाचर्वणवितृष्णचकोरा- वहेलितचन्द्रमरीचिसमुद्गमैः संगीतशालाप्रहतमृदङ्गमन्द्रघोषजनितज. लधरनिनदशङ्काताण्डवितकेलिशिखावलैवलदनलकीलसंदेहिलीलाकुरङ्ग- शाबकपरिहियमाणरत्नकुट्टिममहःपल्लवैः पवनचलितशिखरकेतुपटताडित- तपनरथकूबरैरुपरितलखचितवलभिदुपलनीलिमशैवलितसुरसरिदम्बुपूर्नि- प॑हनिहितानेकरत्नभुवा मयूखकन्दलेन महेन्द्रशरासनशोभामम्भोदसमयम न्तरेणापि पयोधरेभ्यः प्रतिपादयद्भिर्मणिमयभित्तितया प्रसरद्भिरुभयत किरणलतावितानैर्विबुधगजमन्दिरविजिगीपया विहायसमुत्पतितुमाबद्धप क्षैरिव लक्ष्यमाणैः शृङ्गीनखातकेतुदण्डच्छलेन पुरयुवतिवदनसौकुमार्य चोरं चन्द्रमसं प्रहीतुमुत्तम्भितबाहुस्तम्भैरिव शुम्भद्भिरधरणीधारण- खेदितमीदनीपतिबाहुमाराधयितुमागतैः कुलगिरिभिरिव गुरुभिः प्रसादै प्रसाधिता, आकर्णकुण्डलितकुसुमशरकोदण्डनिपतितविशिखभिन्न दयगलितरुधिरपटलपाटलकुङ्कुमपङ्किलपयोधरभराभिः कान्तिसलिलशी करपरिपाटीमनोहरं हारमद्वहन्तीभिर्विलासहसितविसर्पिणा दशनकिरणवि प्रथमा लम्बः। ९ का , सरेण त्र्यम्बकललाटाम्बकनिर्यदनलदग्धं रतिपतिममृतेनेव सिञ्चतीभिर्ग- रुत्मदुपलताटङ्कतरलराश्मिपलाशपेशलमुखकमलाभिरयुग्मशरसमरनासीर - भटान्विवेकजलधिमथनमन्दरान्मन्थरमधुरपारस्पन्दानिन्दविरकालिकानुका- रिणः कटाक्षान्विक्षिपन्तीभिर्मदनमहाराजधवलातपत्रबन्धुचन्दनातिलक भासमानभालरेखाभिराननविनिहितनवनलिनसंदेहनिपतदलिकुलनीलकु- न्तलाभिरनादरनहनशिथिलकबरीभरनिरवकाशेितपश्चाद्भागाभिरिवामन- यनाभिर्विराजिता, राजपुरी नाम राजधानी । यस्यां च परितोभासमानभगवदर्हदालयलङ्घनभयादपहाय वि- हायसागतिमधःसंचरमाण इव भवनमणिकुट्टिमेषु प्रतिमानिभेन विभा- व्यते भानुमाली । यस्यां च नीरन्ध्रकालागुरुधूपतिमिरितायां वासरे- ऽप्यभिसारमनोरथाः फलन्ति पक्ष्मलदृशाम् । यत्र च नितम्बिनीव - दनचन्द्रमण्डलेषु न निवसति कदाचिदभ्यर्णकर्णपाशजनितनहनशङ्क इत्र कलङ्करूपः कुरङ्गः । यस्याश्च सालः परिखासलिलसिक्तमूलतया कुसु. Story मितमिव वहति मिलदुडुनिकरमनोहरं शिखरम् । यस्याश्च प्रतापवि- नतपरनरपतिकरदीकृतकरिकरटनिर्यदाविरलमदजलजम्बालिताः प्रविश- दनेकराजन्यजनितमिथःसंघट्टविघटितहारनिपतितमुक्ताफलशकलवालुका- पूरैराश्यानतामनीयन्तादृष्टशिखरगोपुरद्वारभुवः । या, च शिखरकलि . तमुक्ताफलमरीचिवीचिच्छलादपहसतीव धर्मधनजननिवासजनितगर्वदु- विनीतदशवदनचरितकलङ्काम् लङ्काम् । यस्यां च भक्तिपरवशभव्य. जनवदनविगलंदविरलस्तवनकलकलमांसलैः प्रतिक्षणप्रहतपटहपटुरव परिरम्भमेदुरैः पूर्यमाणासंख्यातशङ्खघोषपरिष्वङ्गकरालारालकाहलकलर- सितमांसलीभवदारम्भैजॅम्भमाणजनकोलाहलपल्लवितैरुलुसद्वीणावेणुरणि - तरमणीयेरारटितढक्काझल्लरीझंकारकृताहंकारैरभङ्गुरकरणबन्धबन्धुरलास्य गसिनीमणिभूषणशिञ्जितमञ्जलैः किसलयितभरतमार्गमनोहारिसं. more :
१० गद्यचिन्तामणौ । करतलक- गीतसंगतैः संभृतमहोदधिमथनघोषमत्सर्जिनमहोत्सवतुमुलरवैः परिभूत इव नावकर्ण्यते कदापि कल्याणेतरपिशुनशब्दः । यत्र च स्त्रीणामधर- पल्लवेष्वधरता कुचतटेषु कठिनता कुन्तलेषु कुटिलता मध्येषु दरिद्रता कटाक्षेषु कातरता रतेषु विनयातिक्रमो मानग्रहेषु निग्रहः प्रणयकलहेषु प्रार्थनाप्रणामः पञ्चबाणलीलासु वञ्चनावतारः परमभूत् । । तस्यां चैवंविधायां विधेयीकृतप्रकृतिः , प्रतापविनमदवनीपति- मकुटभणिवलभीविटङ्कसंचारितचरणनखकान्तिचन्द्रातपः लितकरालकरवालमयूखतिमिराभिसरदाहवविजयलक्ष्मीलक्षितसौभाग्यः समरसागरमथनसभृतेन सुधारसेनेव प्रतापदहनदन्दह्यमानप्रतिभटविपि- नजनितभसितराशिनेव निजभुजविटपिविनिर्गतकुसुमस्तबकेनैव परिप- न्थिपार्थिवपङ्कजकिरसंकोचकौतुकसंचितेन चन्द्रमरीचिनिचयेनेव खड्ग- कालिन्दीसजातेन फेनपटलेनेव पाण्डुरेण यशसा प्रकाशितदिगन्तः, म- न्दीकृतमन्दरमहीभृति निजांसपीठे बहुनरपतिबाहुशिखरसमारोहणावरोहण- “परिखेदिनी मेदिनी चिराय विश्रामयन् , अश्रान्तपरिचीयमानेन वनीप- कचातकपरिषद्विषादविघटनघनारम्भेण कर्णकीर्तिकैरविणीनिमीलनबाला- तपेन कविकुलकलहंसकलस्वनश्रवणशरदवतारेण वितरणगुणेन मन्द यन्मन्दारगरिमाणम् , रणजलधितरणपोतपात्रेण कृपाणविषवरविहारच न्दनविटपिबनेन क्षत्रधर्मदिनकृदुदयपर्वतेन पराक्रमेण क्रीतार्णवाम्बरः प्रयाणसमयचलदलचुचम्भारविनमितेन गहीनिवेशेन फणांचक्रं फणाम तां चक्रवर्तिनो जर्जरयन्दिशिदिशि निहितजयस्तम्भः , कुमार इव शु. क्तिकलितभूमृद्विग्रहः, शतमख इव सुमनसामेकान्तसेव्यः, सुमेरुरिध राजहंसलालितपादः, दुर्योधन इव कर्णानुकूलचारतः, चन्द्र इवः कुष लयानन्दिकरप्रचार: . चण्डदीधितिरिव कमलाकरसखायमानपाद raman- Naili प्रथमो लम्बः । ११ lupost रिजात इव परिपूर्णार्थिजनमनोरथः , राजा राज्याश्रमगुरुः कुरुकुलधुरंध- रः सत्यंधरो नामाभूत्. यस्य प्रसरदविरलकीर्तिचन्द्रातपशीतलामंसवलभीमधिशयाना मे- दिनी शेषफणाविष्टरनिवासानुबन्धिनी विषोष्मवेदनामत्यजत् । यस्मिन्प- रिपालयति पयोधिरशनावच्छेदिनी मेदिनी कुसुमपरिमलचौर्येण चाकि- त्यमुद्वहन्त इव मातरिश्वानो न कापि लभन्ते स्थितिम् । यस्य च निहि- तहारोपधातमधरितकनकगिरिशिलातलविशालं वक्षःस्थलमधिशयाना स्व- भावसंकटकमलकोटरकुटीरदुरासिकादुःखमत्याक्षीलक्ष्मीः । यस्य च प्रल- यसमयविलसदनेकदिनकरकिरणदुःसह प्रसपति प्रतापानले जलनिधिज- लमध्यघटितां प्राक्तनी स्थिति बह्वमन्यत मधुसूदनः । यस्य च दुःसह- प्रतापेऽपि सुखोपसेव्यता सौकुमार्येऽप्यार्यवृत्तिरतिसाहसेऽप्यखिलजन- विश्वास्यता विश्वंभरावहनेऽप्यखिन्नता सततवितरणेऽप्यक्षीणकोशता पर परिभवाभिलाषेऽपि परमकारुणिकता पञ्चशरपारतन्त्र्येऽपि पाकशालिता परमदृश्यत यस्य चारम्भमभिमतावाप्तिः प्रज्ञां विद्याधिगमः पराक्रम प. रिपन्थिपरिक्षयः परहितनिरात जनानुरागः प्रतापं दुराक्रमता T गावली काव्यरसाभिज्ञतां कविसंग्रहः कल्यसधतां कल्याणसंपत्तिा- यनेतृतां निजकृत्यानुलङ्घिलोकता तत्त्वज्ञानितां धर्मशास्त्रशुश्रूषा दुरभि- मानहीनतां मुनिजनपदप्रहृता माननीयतां दानजलाकृतकरः परमधा, 'da yola मकतां परमेश्वरसपया नीतिनिपुणतां निष्कण्टकता निरक्षरं निरन्तरं त्यागं भा. निवेदयति। तस्य चाभवदद्भुताचाररूपा रूपसंपदिव विग्रहिणी गृहिणी- मिस्थितिरिव साक्षाक्रियमाणा, समरविजयलक्ष्मीरिव पुष्पधनुषः, चितसपननारीवदनकमला कौमुदीव विधुतुदकेबलनभयादपहाय रज- नीफारमवनिमवतीर्णा , रामणीयकचन्द्रोदयपिशुनेन संध्यारागेणेव मनसि- गद्यचिन्तामणौ १२ क्र . जमदकरिकुम्भमण्डनसंभृतेन गैरिकपङ्काङ्गरागेणेव नवनलिननिपतितेन तरुणतरणिकिरणकलापेनेव स्वभावपाटलेन प्रभापटलेन विनाप्यलक्तक- रसानुलेपनमुपपादिततलाकल्पशोभमनवरतविनमदवनीपतियोषिदलकापी- डनिपतितैः सुमनोभिरिव मनोहराङ्गुलिपर्यायशुक्तिपुटवमितेर्मुक्ताफलै- रिव प्रकृतिचतुरचङमकलाशिक्षणकुतूहलनिषेत्रमाणैः कलहंसशाबकैरि- व सततमुद्गच्छता स्तनमण्डलेन मा पीडय वदनतुहिनमहसमिति कृतप्र- णामैस्तारकागणैरिव तारुण्योष्मकठिनीभवत्कान्तिसलिलबिन्दुसंदोहसंदे- हदायिभिनखमणिभिरवतंसितमनुपजातपङ्कपरिचयमज्ञातमधुपपरिषदुपस- पणमालिन्यमहर्निशविभागविधुरविकासमननुभूतपूर्वमम्भोरुहयमलमिव च रणयुगलं दधाना, मदनतूणीवैगुण्यजल्पाकेन कान्तिजलधिजलवेणि कानुकारिणा जङ्घाद्वयेन प्रतिपादिताधोमुखकमलनालशोभा, सुनासी- रदन्तावलशुण्डागरिमलुण्टाकेन कुसुमशरनिवासनितम्बप्रासादमण्डनम- णितोरणरामणीयकधुरीणेन मदनमातङ्गनहनालानस्तम्भसविभ्रमेण स्व- भावपीवरेणोरुकाण्डद्वयेन कामपि कमनीयतां कथयन्ती, कंदर्पसाम्रा- ज्यसिंहासनेन कठिनविशालेन प्रतिक्षणमुच्छृसता श्रोणिमण्डलेन शि- थिलीकृतनीवीनहनाभ्यासखेदितकरा, मणिकिङ्किणीरणितच्छलेन भङ्ग भयान्नितम्बविष्टरमिवाभिष्टुवता चिरपरिचयपल्लवितप्रेमतया पतनशीलस्य मध्यस्य मन्देतरमरीचिवीचिसमुद्गमब्याजेन हस्तदानमिव प्रयच्छता प्रत- प्तकाञ्चनकल्पितेन काञ्चीवलयेन परिवेष्टितनितम्बचन्द्रबिम्बा, विडम्बि- तरशेनालंकारमरकतमणिमयूखलेखया त्रिभुवनविजयसनादनङ्गसुभटक रकलितकृपाणलतालावण्यापहासिन्या रोमराजिकया विराजन्ती, रामणी यकसरिदावर्तमण्डलेन मदनमतङ्जनिगलकटकेन कान्तनयनशेफरविहर णतडागेन सौन्दर्यमहानिधिगर्तसनाभिना नाभिचक्रेण चरितार्थीकुताली कलोचना, नितान्तपावरनितम्बनिष्पादनजनितपरिखेदपरिणततन्द्रा प्रथमो लम्बः । , वेन कमलसद्मना कृशतरमुपपादितेनेव दुर्वहपयोधरयुगलवहनकातरतया नाभिह्रदनिमग्नेनेवानुपलक्षितरूपेणातितनीयस्तया घटितपटबन्धेनेव त्रि- वलीव्याजेन मध्यदेशेन दर्शितसौभाग्या, सौकमार्यसरश्चक्रवाकमिथुनेन मीनकेतनकरिकुम्भसहचरण शृङ्गारनटरङ्गपीठेन विलाससरसीसमुत्पन्नस- रसिजमुकुलकोमलेन कुचद्वयेन किचिदवनतपूर्वकाया , कदर्थितकमल- मृणालसौकुमार्येण माणिक्यपारिहार्यमरीचिपटलकवचितेन स्तबरकनिचु- लितकुसुमशरविलासोपधानसौभाग्येन प्रवालकोमलाङ्गुलिना सुरभिशरीर- पर्यायपटीरविटपिसङ्गिभुजगेन भुजद्वयेन भूषिता, दुषितकम्बुसैपदाडम्बरे- ण वदननलिननालकाण्डेन कण्ठेन खण्डिततरुणोपुगकधराहंकारा , प्र- तिभटतुहिनकिरणविजयकौतुकेन कार्मुकमिव भूलतानिभेन बिभ्रता स- हजशशधरशङ्कागतं कौस्तुभमिव स्निग्धपाटलमनोहरमधरं दधता सुधा- करकलत्रमिति कौमुदीमिव बन्दीकृत्य मन्दहसितन्छलेन दर्शयता युव- तिवदनसाम्राज्यचिह्नमिव धवलातपत्रमलकलतानिपतितमिव कुसुममाभि- रूप्यदर्शनदोहलधृतमित्र दर्पणं चन्दनतिलकमुद्रहता ललाटार्धचन्द्रबि- म्बविगलदमृतधारासंदेहदायिन्या नासिकया सीमन्तितेन सुरासुरपरिषद- पहृतसारः समुद्गतकालकूटगरलदूषितः क्षीरजलनिधिरिति जलजसमना सादरमुपपादितमनपहार्य कटाक्षशृङ्गाररत्नरमणीयमाभिरूप्यलक्ष्मीजन्मम- हितमसितभूलतातमालवनलेखापरिष्कृतपक्ष्मवेल विलोचनमयं दुग्धसा- गरयुगलमुपदर्शयता मुखेन मदनमपि मदयन्ती, मन्मथविलासदोलाय- मानेनु, प्रकृतितरलनयनहारणनहनपाशसवर्णेन कर्णपाशेन बद्धशोभा . निशामुखेन कुसुमतारकास्फुरणानामभिनवजलधरेण विलासविद्युदुन्भेषा- णामन्मिषदन्धकारमेचकरुचा मुखशशिसंभोगकौतुकसंनिहितशर्वरीशङ्का- केशहस्तेनापहसितबर्हिबर्हाडम्बरा , प्रतिनिधिरिव लक्ष्म्याः , प्र- सौभाग्यस्य , समाप्तिभूमिरिव सौन्दर्यपरमाणूनाम् , मनो- , गद्यचिन्तामणौ - रथसिद्धिरिव पातिव्रत्यस्य , प्रकर्षरेखेव स्त्रीत्वस्य , मूर्तिरिव दाक्षिण्यस्य, कीतिरिव चारित्रस्य , विजयपताकेव पञ्चशरस्य , विजया नाम महिषी । तस्यां सौन्दर्यपुनरुक्ताभरणानामबलानां वर्गे सत्यपि निसर्गत एव नरपतेररमतान्तःकरणम् । अथ स राजा रजनीकराकरणकन्द- लविपक्षैः क्षीरजलधिजठरलुठितफेनपटलविशदैर्यशःपलवैरापादितदि- शाविलासिनीकर्णपूरः पूरितमनीषिजनमनोरथः प्रतिबलजलधिमथनम- न्दरेण वसुंधरामयूरीनिवासविटपेन वीरलक्ष्मीकरेणुकालानेन भुजस्तम्भ- दम्भोलिना खण्डितभूभृन्मण्डलः कर्तव्यमपरमपश्यन्नवश्येन्द्रियः कुसुम- चापचापलानि सफलयितुं सर्वाकाराभिरामया रामया सहाभिलषन्स्व- भावनिशितधिषणावधीरितपुरुहूतपुरोधसि यथावदवगतराजनीतिवर्मनि फलितचतुरुपायविजृम्भितयशसि पराक्रममृगपतिनिवासजङ्गमजगतीभृति गभीरिमगुणगर्हितोदन्वति' स्थैर्यपरिहसितकुलशिखरिणि कुलिशकठि- नमनसि सकटेऽप्यखेदिनि निखिलारिचक्राक्रमणनिष्ठे काष्ठाङ्गारनामनि निरस्ततन्द्रे मन्त्रिणि निवेशयितुं राज्यभारमारभत । तथा प्रारभमाणे च राजनि राजनीतिकुशलाः कुटिलेतरबुद्धयः कु- लक्रमागतिभाजः कुत्सितकर्मपराचीनचेतोवृत्तयः शमिनि वयसि वर्तमा- नाः कतिचन सचिवाः समेत्य कृतप्रणामाः सप्रणय व्यजिज्ञपन्- " देव , देवेनाविदितं किचिदस्तीति न प्रस्तुमहे कथयितुम् । तदपि देवपादयोरनितरसाधारणी भक्तिरस्मान्मुखरयति । तदुचितमनुचितं वा प्रणयपरवशैरस्माभिरभिधीयमानमाकर्णयितुमर्हति स्वामी । देव , स्वहृद- यमपि राज्ञा न विस्रम्भणीयम् । किमुतापरे । इयं हि स्वभावसरलनि- जहृदयजनिता सर्वविश्वासिता विश्वानर्थकन्दः । क्षमापतयः शैलषा इव मन्त्रिषु नाटयन्ति विनम्भं न तु बध्नन्ति मनसा । यतश्चिरपरिचय पचितेन विस्रम्भेण मन्त्रिषु निवेशितराज्यभारा राजानस्तैरेव व्यापार . C प्रथमो लम्बः । १५ win इति लोकप्रवादा मुखरयन्ति नः श्रोत्रपथम् । अपि च सर्वथायमनर्था- नुबन्धी परिहृतनिखिलेतरव्यापारः पश्मललोचनायामत्यासङ्गः । यतः सुरासुरसमरकण्डूलदोर्दण्डमण्डली हेलोलासितकैलासकण्ठोक्तपराक्रमः प्रतापभयविनमदनेकविद्याधरमकुटमणिपादपीठविलुठितचरणोऽपि रावणः प्रणयभरेण जनकदुहितरि जनितपारवश्यः समरशिरसि दशरथतनयनि- धनाय निजकरविमुक्तेन रणलक्ष्मीमुखकमलविकासदिवसकरसहचरेण चक्रेण यशःशेषतामनीयत । अपि च तपश्चरन्नतिदुश्चरमरविन्दसद्मा शङ्कितबलमथनप्रेषितवरयोषिद्विरचितविलासविलोकनविगलितधृतिरनुभ- वन्नात्मभुवश्चापलमभजदपहास्यताम् । तथा तथागतोऽपि कदाचित्का- शिरपतनपरवशकरभपरिषदहमहमिकया परिग्रहपर्याकुलां कामपि बाले- यीमालोकयन्करुणारसतरलितमतिराविर्भवदनेकशतभगशबलितकरभीवे - षः क्षणमस्थादिति नास्तिकचूडामणेर्महीयान्ननु कलङ्कस्तस्य । तदित्थम- यशःपङ्कपयोधरागमे धर्मकमलाकरनिमीलननिशामुखे द्वितीयपुरुषार्थपरु- पराजयक्ष्मणि जडजनजनितसंबाधे विवेकिलोकनिन्दिते कंदर्पवर्त्मनि न निर्भरं निदधति कृतधियः पदम् । तदविरोधेन धर्मार्थयोरनुभवन्कामसु- खमजहदवनीपतिधर्म पन्नगपरिबृढपरिभावुकेन बोहुना पालय पयोनिधि- रशनालंकारिणी धरणीम् ” इति प्रणयस्वरूपसाक्षात्करणमणिदर्पणा- भानि बहुविधनिदर्शनसंवाहितार्थानि प्रेक्षावदेकान्तहृद्यानि तदात्वक- टुकान्यप्युदर्कमधुराणि मन्त्रिवचनानि वनितोपभोगकुतूहलजालजटिलिते जननाथचेतसि निरवकाशतयेव न पदमलभन्त । अर्थ भाविपरिभवृचकितस्वान्तेषु सामन्तेषु कर्तव्याभावेन मूकी- भवत्सु , शोककृत नुपरामर्शमर्मरितमनसि सीदति चिरंतने राजपरिजने, पर्यश्रुनयनेषु प्रवृत्तवनगमनश्रद्धेषु पौरवृद्धेषु , पार्थिवस्तावन्मात्रतया ध- स्त्रिीराज्योपभोगादृष्टानां तथाभावितया तस्य वस्तुनो दर्निवारतया मकर- MANP गद्यचिन्तामणौ ध्वजस्य दुरतिक्रमतया च नियतेनिरन्तरनिपतदनङ्गशरशकलीकरणभया- दिव पलायितविवेकः प्रकृतिनिष्ठुरे काष्ठाङ्गारे निजभुजादवतार्य राज्यभारं राजीवदशा मह रन्तुमारभत । कदाचित्प्रहतमृदुमृदङ्गं हुमधिवसन्विलासिनीनामतिचतुरकरण- बन्धबन्धुरमनङ्गत-त्रशिक्षाविचक्षणविटविदूषकपरिषदुपास्यं लास्यमवालो- किष्ट । कदाचिदनुगतवीणावेणुरणितरमणीयं रमणीनां गीतमाकर्णयन्क- पारणामकार्षीत् । कदाचिद्विकचकुसुमपरिमलतरलमधुकरकलरवमुख- रिते लतामण्डपे विरचितनवकिसलयशयने कृशोदरीमरीरमत् । कदाचि- दूनकरीव करिणीसखः सह दीर्घदृशा विहरन्विहारदीर्घिकां बलवदास्फा- लनभयादिव समुत्तरत्तरङ्गलचितमणिसोपानपथां परस्परलीलाप्रहारदोह- लावचितनलिनशयनसमुड्डीनकलहंसधवलपक्षपटलमुहूर्तघटितवियद्विता - नामतानीत् । कदाचिच्चन्द्रशालातलप्रसारितशयनमध्यं तनुमध्यया स- हाधिवसन्वसन्तयामिनीषु निरन्तरमाविर्भवद्भिरमृतकरकिरणकन्दलैः कं- दर्पदन्तावलकर्णतालावचूलचामरैर्नयनचकोरयोरातिथेयीमनल्पामकल्पिष्ट। तदेवं मनोरथपथातिवर्तिष्वमर्त्यलोकसुलभेषु विषमे विलाससा- फल्यसंपादितविषयसुखेषु निमज्जति निकामविजृम्भितरजसि राजनि , कदाचित्कस्यांचन निशीथिन्यामनेन सह सौधशिखरभाजि पर्यले पञ्चश- रकेलीपरिचयपौनःपुन्यजन्मना परिश्रमेण परवशा ततश्चटुलचकोरचञ्चपुटकबलनादिव विरलमहसि चन्द्रमसि नि- खिलनिशा जागरणजातया सुत्रुप्सयेव प्रविशति चरमगिरिगुहागह्वरमवत- रदनूरुसारथिसपर्यापर्याकुलेन सप्तर्षिलोकेन विकचकुसुमकुतूहलादवचि त ईव विचेयतामुपेयुषि ज्योतिषां गणे गतप्राये रजन्यास्तुर्यप्रहरे स्वप्नत्रयमद्राक्षीत् । अत्याक्षांच्च तत्क्षण एवं सा संजातशोकप्रस वितां निद्राम् । अश्रौषीच प्रबुध्यमानभवनकलहंसरवमांसलं वचो मा -- प्रथमो लम्बः । . लपाठकानाम् । समुदस्थाच्च सत्वरसमुपसृतयामिकयुवतिजनप्रसारित- हस्तावलम्बना प्रलम्बमानकेशहस्तविन्यस्तवामहस्ता शनैःशनैः शयन- तलात् । 'उदमीमिलच्च विकचोत्पलविभ्रममुषी चक्षुषी सकलदोषपरि- हारिणि भगवदर्हत्परमेश्वरस्य श्रीमुखाम्भोजे । प्राणंसीच्च प्रचुरभक्तया बद्धाञ्जलिः प्रशिथिलितकबरीचुम्बितमहीतला निखिलभवक्लेशहरं भगव- न्तम् । 'व्यचीचरच्च विगलितनिद्राकृतालस्या किमस्य फलं स्वप्नस्यति। व्यधाच्च मनो भर्तुर्मुखादस्य फलश्रुतौ । अथ रजनीविरहजनितमसहमान इव परितापम्परजलनिधिजल- मवगाहमाने यामिनीप्रणयिनि, तरणिरथतुरगखरखुरपुटपरिपतनभयेन क्का- पि गत इवानुपलक्ष्यमाणे तारागणे , गगनपयोनिधिजठररूढविद्रुमलता- वितानविडम्बिनि प्रथमगिरिपरिसरवनदावविभ्रममुषि प्रत्यग्रजनितप्रत्यूष- गर्भरुधिरपटलपाटलिमद्रुहि पल्लवयति बलमथनदिशामुखमरुणकिरणकला- पे तपनदर्शनासादिव विकसिततामरसदृशि विकचितदलनिचयकवचित- ककुभि कमलाकरे , प्रबुध्यमानपङ्कजिनीनिःश्वाससब्रह्मचारिणि प्रसृ- मरतुहिनसीललकणनिकरपरिचयसमुपचितजडिमनि घटमानरथाङ्गमिथु- नविहिताशिपि विरहिनयनजलवर्षिणि विसमरकुसुमपरिमलवासितहार- ति वातुमारब्धवति मरुति वैभातिके , निजसुहृदभिभात्रुकदिनकृदुदयद- शनपरिजिहीर्षयेत्र घटितदलकवाटमुद्रे निद्रामभिलषुति कैरवाकरे, वारा- करचिरनिवासजनितजडिमविघट्नविधृतारुणकम्बल इव विभाव्यमाने दि- सभुजंगफणारत्ने गगनमुरभिदाभरणकोस्तुभे गभस्तिमालिनि महःस्तोमैः स्तबकयति पूर्वमचलम् , अनुष्ठितदिवसमुखविधेया विजया विहितवैभा- तिककृत्यं कृतजिनचरणसपर्यं पर्यङ्किकानिषण्णं सविनयमभ्येत्य राजान- मर्धासनमध्यासिष्ट । पुनरभाषिष्ट च मुखाकृतिसूचिताकृता जिज्ञासाप- खशपार्थिवकृतानुयोगा पङ्कजाक्षी- " आर्यपुत्र , स्वप्ने विकसितकु- , गद्यचिन्तामण T सुमसौरभसंभ्रमदलिकुलमुखरितहरिदवकाशमहिमकररथमागलङ्घनजङ्घाल- विटपनिबिडितवियदाभोगमभिनवधनपरिषदभिभावुकपलाशपटलकवाचि तवपुपमरुणकिरणशोणकिसलयप्रसूनदर्शिताकालसंध्य कमप्यशोकशा - खिनमवालोकिषि । स च क्षणेन क्षाणारुहः कुलधरणीधर इव कु- लिशपतनेन शतधा शकलीकृततनुरपतदवनीपृष्ठे । समुदतिष्ठञ्च तस्य तरोमलादकठोरदलपुटलुठितेन लोहितिम्ना लिम्पॅलोचनपथमधरित दिवस- करबिम्बेन जावूनदघटितेन किरीटेन शोभितशिखरभागस्तुङ्गविशालविट- पकबलितवियदन्तरालः कोऽपि कङ्केलि । तत्र च प्रालग्विष्ट प्रथमान- परिमलतरलमधुकरमाल मालाष्टकम् । तथाविधं तमनुभूय स्वप्नवृत्ता- न्तं प्रवृत्तहर्पविषादा च तत्क्षण एव निद्राममुञ्चम् । आचश्त्र फलम- मुष्य" इति । तदनु नरपतिरवनीरुहपतनदर्शनादकुशलमात्मनि शङ्कमानोऽ- पि चामीकरकिरीटनिरीक्षणनिवेदितेन तनयलाभेन मुदमुद्रुहन्नधिकविक- सितवदनतामरससरसारुहासनविलासिनीचरणनखमणिचन्द्रिकामिव द- शनकिरणकन्दली दर्शयन्स चतुरमवोचत्-"देवि , पक्कमद्य नश्चिरवि- रचितेन जिनपादपङ्केरुहसपर्याप्रबन्धेन । फलन्ति च सकलभुवनमहन, यतपसामवितथवचसामत्रभवतामृर्षाणामाशिषः । तथाहि-कथयति क- नकमकुट; कल्याणि, कल्याणि , ते तनयम् । तस्योदयमावेदयति पतितपादपमू- लरूढः कठोरेतरः स कङ्केलि: । अमुष्य च वधूः सूचयन्ति ताः पु. इति । दयितवचनामृतपरितोषितस्वान्ता सीमन्तिनी 'म- हीरुहपातः किमभिवत्ते' इति महीक्षितमप्राक्षीत् । तदपि किमपि मे निवेदयत्यमङ्गलमवनिरुहपतनम्' इति कथयति जगतीपतावपतदनिल. Sponmuvi रयहता वनलतेव महीतले महिषी । ततः क्षितितलविलठितवपुषं चि गलदविरलबाष्पजलपूरतरत्तरलतारकदृशं शिथिलितनहुनविसृमरकेशम -- ष्पस्त्रजः प्रथमो लम्बः । प सृणितभुवमविरतनिःश्वसितमरुदूष्मम्मरितदशनच्छदकिसलयं विधुतुद- कबलितमिव तुहिनकिरणबिम्बमन्तर्गतविषादविपवेगश्याममाननमुद्वहन्ती दवदहनशिखापरामर्शपरिम्लानामिव वनलतां वनकरिसमुत्पाटितां दिन- करमरीचिपरिचयपचेलिमामिव मृणालिनी मानिनीं मन्यभरपरवशः पृ. थ्वीपतिरवतीर्य पर्यङ्कादधारितभुजङ्गपतिभोगसौभाग्येन भुजद्वयेन समु- त्क्षिप्य स्वाङ्कमारोपयन्नतित्वरितपरिजनोपनीतैर्मलयजमृणालघनसारतुषार- प्रमुखैः शिशिरोपचारपरिकरप्रकरैः प्रत्युत्पन्नसंज्ञामकार्षीयाहार्षीच्च- भीरु, केयमाकस्मिककातरता तरलयति भवतीम् । केन जगति स्वप्नानामवितथफलतान्वभावि । भावि वा वस्तु कथमस्तु प्रतिबद्धम् । पुराकृतसुकृतेतरकर्मपरिपाकपराधीनायां विपदि विपादस्य कोऽवसरः । विषादः कि नु विपदमपनुदति । प्रत्युत विपदामेव भवेभवे प्रबन्धमनु- बनाते । तदवमुभयलाकविरोधी विषादः काम त्याद्रेयत । यश्च समु- पस्थितायां विपदि विषादस्य परिग्रहः सोऽयं चण्डीतपचकितस्य दावहु- तभुजि पातः । ततो हि कृतधियस्तत्त्वचिन्तया विपदामेव विपदं वित- न्वन्ति । किचावयोरनन्ताः खल्वतीता भवाः । न तेषु संगतिस्तथैव भाविन्यपि भवप्रबन्धे । ततस्तदन्तरालगतकतिपयदिवसपर्यवसायिनि संगमेऽस्मिन्कस्तवायमांग्रहः । संसृतौ हि वियोगः संयोगिनां नियोगेन भविता । त्वमपि किमतन्न जानासि । किमवगाहितजिनशासनः कृती जनो विपदि संपदि वा बाह्य इव मोमुह्यते । कः स्यादेवंकृत कृतिना- मविशेषज्ञाद्विशेषः । कितु विशेषतस्वमशेपदोषहरं भगवन्तमतः परमा- राधयेः । कुर्वीथाश्च पात्रदानादिना पवित्रमात्मानम् । किमन्यदात्मनामस्ति शरणम् । अस्ति चेदायुपः शेपः शेषेत्र जिनपादाम्भोजलब्धा भवाब्धौ भन्यानामुपप्लवमुपशमयेत् । तस्माद्विवेकविधुरजनविषयाद्विषादान्निवर्तयितु- मात्मानमर्हसि " इति । ततः प्रियतमवदनतुहिनकिरणमण्डलविनिर्यद- ।
२० गदाचिन्तामणो मलवचनामृतनिर्वापितविषादविषानला विलासिनी शरदि सरसीव शनै:- शनैः प्रसादं प्रत्यपद्यत । प्रावर्तत च यथापुरमवनिपुरंदरमनुवर्तितुम् । अथ कतिपयदिवसापगमे पारणतशरकाण्डपाण्डुना कपोलयोः कान्तिमण्डलेन तुहिनमहसमिव वासवी दिशा शंसति स्म गर्भे गर्भरूपस्य परिणामं हरिणाक्षी । काष्टाङ्गारकाननदिधक्षया ज्वलिष्यतः सुतप्रतापा- नलस्य धूमकन्दल इय कालिमा कुचचूचुकथोरदृश्यत । तनयमनसः प्र- साद इव बहिः प्रसृतश्चक्षुपोरलक्ष्यत धवलिमा । निखिलजनदोर्गत्यदुःखद्रु- हि. गतवति गर्भमर्भके बिभ्रतीत्र भीतिमुदरादतिदूर दरिद्रता प्राद्रवत् । बुदेव भाविन स्नुषाभावमभवदवनौ पदन्यासपराङ्मुखी । गरिम्णा गर्भे स- मुपेयुषि दुर्धरतां क्लेशिताधरपल्लवाश्चामरपवना इव दौहृदश्रियः प्रतिक्षण निःश्वासाः प्रासरन् । निखिलभुवनवास्तव्यानां वस्तूनां भोक्तारमात्मज- मावेदयन्तीव विविधरसास्वादलालसा समजनि राज्ञी । परिजनवनिताक- रपल्लवात्पादयुगलमाकृष्य पार्थिवमकुटमणिशिलाशयनेषु शाययितुमचक- मत कमलाक्षी । अपि भूषणानामुद्बहने क्लाम्यदङ्गयष्टिस्त्रयाणामपि विष्ट- पानां भारमंसशिखरे निवेशयितुमुदण्ठत कम्बुकण्ठी । तदेवमुपचितदाहुंदलक्षणामेणाक्षीमालोक्य कदाचिदतनुत नरप- तिरन्तश्चिन्ताम् – 'आपन्नसत्त्वेयमावेदयति फलमभ्युदयशंसिनः स्वप्नस्य । किमेवमपरोऽप्यशिवशंसी फलिष्यति । केन वा विनिश्चेतुं पार्यते १ भवि- तव्यता फलतु वा कामम् । का तत्र प्रतिक्रिया । न हि पुराकृतानि पुरुषैः पौरुषेण शक्यन्ते निवारयितुम् ।, किंतु दुष्कृतपरिपाकभाविना दुर्निवारण दुःखेन यद्यपि वयमभिभूयेमहि तदपि कुरुकुलनिरन्वयविना- शपरिहाराय परिरक्षणीया प्रयत्नेन पत्नीयमन्तवत्नी' इति । ततश्च वि- श्रुतविश्वशिल्पकौशलं विश्वकर्माणमित्र प्रत्यक्षं तक्षकमाहूय गर्भदोहल- जनितकेलीवनविहरणमनोरथां मनोरमां विनोदयितुमभिमतदेशगमनको- ।
प्रथमो लम्बः । २१ aire- शलशालिनं कमपि यन्त्रकलापिनं कल्पयेति महीक्षिदादिक्षत् । अद्रा- झीच सत्वरशिल्पिकल्पितमकल्पितनिर्विशेषमशेपजननयनहर्षदायिनं शि- खिनम् । अदाच तस्मै विस्मयमानमना मानवेश्वरो मनोरथपथातिवर्ति कार्तस्वरादिकम् । व्यहरच्च मनोहरेपु विहारोपवनेषु वनितामारोप्य म- यूरयन्त्रे नरेन्द्रः । इत्थं गमयति कालं कामसुखसेवारसेन राजनि राजीवदृशश्च क्र- मादभिवृद्धे गर्भ निर्भरराज्योपभोगनिष्ठः काष्टाङ्गारोऽप्याकृतिमिव कृत- घ्नतायाः साक्षात्कारयन्न यशःशरीरमिवाकल्पमवस्थापयन्सज्जनसरणिमिव खिलीकुर्वन्सर्वजननिग्राह्यतामिव प्रतिगृह्णन्प्रकृतिमिव तच्छतायाः प्रदर्श- यन्पृथिवीपतावुचितेतरमुपरचयितुमुपास्त प्राक्रस्त च प्रतिदिनमेवं चि- न्तयितुम् विहरदश्वीयखुरपुटविघटितवरणीतलोस्थितधारालरजःपट- लघटितरिपुमण्डलोत्पातपांसुवर्पण समरहर्षलमदवदिभकपोलतटविगलित- मदजलदर्शितापरकालिन्दीप्रवाहेण विलसदसिमरीचिजालमेचकितदशदि- शामुखेन युद्धोन्मुखसुभटभुजदण्डकुण्डलितकोदण्डविडम्बितपितृपति- ऋकुहरेण भुवनविवरव्यापिना बलेन शशरिरे शत्रवः । आ महेन्द्रम- दावलकलभकर्णतालपवनविधुतपादपकुसुमधूलीधूसरितपरिसरवनादुदय - गिरे। खेलद्वरुणरमणीचरणन्यासमिलदविरलषावकपल्लवितप्रस्तरादस्त - गिरेरा शैलराजदुहितृकरनखटूनपल्लवभरकृतावनीरुहशिखरोल्लासात्क- लासादा निशिचरकुलप्रलयधूमकेतोः सेतोरवनतमकुटमणितटलुठितै- माणिक्यमहःपल्लवैरर्चयन्ति नश्चरणौ धरणीभुजः । एव फलितसक- लमनोरथस्य सर्वोर्वीपालमौलिविनिवेशितचरणस्य शौर्यशालिनो मादृशस्य परनिदेशकरणमयशःकारणम् । न हि चेतयमाना मानिनः पर- शासनं शिरसा धारयन्तो वहन्ति जीवितम् । सकलभुवनाधिपत्योपभोग- सुखितमपि दुःखयति हि पारतंत्र्यम् । तत्केनापि व्याजेन व्यापाद्य २२ गद्यचिन्तामणौ . - राजानं व्यपगतपारतन्त्र्यशोकशङ्कनिःशङ्क एव महीं मदेकशासनां वि- धास्यामि " इति । इत्थमनुवर्तमानमनोरथम् , , कदाचित्कनकगिरिशिलातलविशा- utilation Sta लस्य विमलद्कूलवितानविराजिनः प्रलम्बमानकलिकाकलापस्य काश्चन- शिलास्तम्भशुम्भतो महतो मण्डपस्य मध्यभागनिवेशिनि निष्टप्ताष्टापदनि- भिंतवपुषि विचित्रास्तरणशोभिनि सिंहामने समासीनम,पृष्ठतः स्थापितेन रा- जलक्ष्मीनिवासपुग्डरीक पाण्डरेण धवलातपत्रेग तिलकितमूर्धानम् ,उभयतः स्थिताभिरनुक्षगरणितमणिपारिहार्य बरबाहुलतिकाभिर्वारवामनयनाभि : सविलासविध्यमानविमलचामरमरुदान्दोलितकुसुमदामसुरभितवक्षःस्थल - म् , मूर्तिमन्तभित्र शौर्यगुणम् , विग्रहवन्तमिवावलेपम्', आत्मदेहप्रभा- कवचितकाष्ठं काष्ठाङ्गार परिवार्य प्रकटितप्रश्रयाः समन्तादासिषत सामन्ताः । अथ तानालोक्य कपटकर्मपटिष्ठः काष्ठाङ्गारः स्वहृदयविपरिवर्त- मानार्थसमर्थनचतुरं किमपि वचनमचीकथत् " किमपि विवक्षतामेव नः क्षीणतामयासिपुरनेके दिवसाः । अद्यापि लज्जमानमिव मानसमन्तरा. कर्षति रसनाम् । परिवादपविपतनभीतेव गलकुहरान्न निःसरति सरस्वती। पातकपङ्कपतनातङ्कादिव' कम्पते कायः । किमेतत्स्वन्तं दुरन्तं वेति स्वा- न्तं न मुञ्चति चिन्ता । तदपि देवादेशलङ्घनभयोत्खातशङ्काशङ्कुनिर- कुशेन मनसा समावेद्यते । स्वप्ने केनापि पार्थिवपरिपन्थिना दैवतेन 'निहत्य राजानमात्मानं रक्ष' इति निरनुक्रोशेन समावेद्यते । कात्र प्रति- क्रिया । किं वात्र प्रयुज्यते । यदिहास्माभिविधीयेत तदभिधीयताम्" इति पापिष्ठेन काष्टाङ्गारवचनेन कुपितकण्ठीरवकण्ठनिःसृतेन स्वनेन वनकरि- ण इव कादिशीका निष्कृपनिषादनिर्दयाकृष्टिनिष्टयतेन चौपटङ्कारेण र- "ङ्कर इव धृतातङ्काः प्रमादप्रकृतेन प्राणिवधेन तपोधना इव सद्यःसं जात- T Lw के. TA प्रथमा लम्बः । भयाः सर्वकषशोकपावकपच्यमानतनवः संतापकृशानुधूममिव श्यामलि- मानमाननेन दर्शयन्तः पातालतलप्रवेशाय दातुमवकाशमर्चयन्त इव वि- कचकमलदलनिचयन मेदिनीमवनमितदृशः प्रसृमरनिःश्वासनिर्भरोष्ण- मर्मरिताधराः करनखरशिखरविलिखितास्थानभूमयः स्वान्तचिन्त्यमान- नरपतिदुश्वारितद्यमाना दुःखभरभज्यमानमनोवृत्तयः कर्तव्यमपरमपश्य- न्तः पश्यन्तश्च परस्परमुखानि मूकीभावेन दर्शितदुरवस्थमवास्थिषत म- त्रिणः । ! mp. ततस्तूष्णींभावविवृतविसवादेषु स्वेदसलिलनिवेदितवेदनानुबन्धेषु चित्रगतेष्विव निष्कम्पनिखिलाङ्गेषु मन्त्रप्रभावनिरुद्धवीर्येष्विव विषधरेषु विगतप्रतीकारतया हत्कुर्वाणेषु सचिवेषु धर्मदत्तो नाम धर्मंकतानबुद्धि- रमात्यमुख्यः प्रज्ञाप्रदीपदृष्टकाष्टाङ्गारहृदयगतार्थोऽपि पार्थिवपक्षपातादन- पेक्षितप्राणः सुधीरमभाणी --- आयुष्मन् , नेकदोषतिमिरविहरणरज- नीमुखं राजद्रोहं दौरात्म्यादुपदिशति दैवतेऽस्मिन्नाकस्मिकः कोऽयमादरः। पश्य विश्वंभरापतयो ह्यतिशयितविश्वदेवताशक्तयः । तथाहि-यस्त्वप: करोति देवताभ्यः स पुनः परत्र विपद्येत वा न वा । मनसापि वैपरी- त्य राजनि चिकीर्षतां चिन्तासमसमयभाविनी विपदिति नैतदाश्चर्यम् । यदेकपद एव सह सकलसंपदा संपनीपद्यते प्रलयः स्वकुलस्यापि । पर- त्रापि पापीयसस्तस्याधोगतिरपि भवितेति शंसन्ति शास्त्राणि । तद्विवे- कविधुरजनगतागतक्षुण्णमयशःपङ्कपटलपिच्छिलमभितःप्रसरदपायकण्टक- कोटिसंकटमशेषजनविद्वेषविषधरविहारभीषणमपर्यवसायिपारवादपर्यायदा- वपावकपरीत पार्थिवविरुद्धमध्वानं सुधियः के नाम वगाहन्ते । प्रकृति- । मूढमतयः प्रेक्षाविहीना हि मुञ्चन्तः सौजन्यं संचिन्वन्तः सर्वदोषानुत्सा- रयन्तः कीर्तिमुररीकुर्वाणा अवर्णवादं. विनाशयन्तः कृतं व्याक्रोशयन्तः कृत- घ्नतां परिहृत्य प्रभुतामनुप्रविश्य बालिश्यमनारोप्य गरिमाणमारोप्य लघिमान- 12) AY :
गद्यचिन्तामणौ । मनर्थमप्यभ्युदयममङ्गलमपि कल्याणमकृत्यमपि कृत्यमाकलयन्ति । भवाह- शां पुनरीदृशेषु विषयेषु कः प्रसङ्गः" इति । पृथिवीपतिसङ्गपिशुनं धर्मदत्तव- चनं काष्ठाङ्गारस्य मदपरिणतवारणस्येव निवारणार्थं निष्ठुरनिशितसृणिप- तनं परवादिवर्गस्येव निसर्गनिर्दोषानेकान्तसमर्थनं प्रकृष्टकुल जातस्येव प्रमादसंभवदनिवार्यात्मस्खलितमरुन्तुदमभूत् । Power . तद्वचनमधिक्षिप्य क्षेपीयः क्षितितलादुत्तिष्ठन्काष्ठाङ्गारस्य स्यालः सालप्नांशुकायः कन्द इव हेयतायाः काष्ठेव काठिन्यस्य कासितकाश्य- पीपतिनिधनो मथनः “ कथयन्तु कामं काका इव वराकाः । न कदाचि- दपि देवेन देवतादेशलचिना भवितव्यम् । भवितव्यताबलं तु पश्चात्प- श्येम । किच किकराः खलु नरा देवतानाम् । यदीह देवताः परिभूय- न्ते नरापचारचाकित्येन सोऽय पाशदर्शनभयपलायितस्य फणिनि पद- न्यासः करिकलभभीतस्य कण्ठीरवकण्ठारोहः” इति रोषपुरुषमभाषिष्ट । तद्वचन तु तस्य हृदयं तस्करस्येव कर्णीसुतमतप्रदर्शनं सौगतस्येव शू- न्यवादस्थापन परिणेतकरिण इवाधोरणानुगुण्यमतितरां प्रीणयामास । तत: समीहितसाधनाय काष्ठाङ्गारः सचिवेषु प्रतीपगामिषु कति- चिदवधीदपधीः । कतिचन कालायसनिगलचुम्बितचरणांश्चकार चोरव- कारागृहे । जगृहे च राजगृहमपि तत्क्षण एव क्षोणी क्षोभयता बले- न प्रबलेन । अनन्तरमष्टापदनिर्मिते महति पर्यङ्के पाकशासनमिव सुमेरुशि- रसि निषण्णम्, अपरवियदाशङ्काकृतावताराभिस्तारकापतिभिरिव व्या- कोशकुसुमनिचयविरचिताभिः प्रालम्बमालिकाभिः सुरभितवक्षःस्थलम् , "अधरितशारदपयोधरकुलेन दुकूलन मन्दरमिव मथनसमयमिलितेन फेन- पटलेन पाण्डुरितनितम्बम् , परिचुम्बितदशदिशावकाशेन पमिनीसहच- रमरीचिवीचिपरिभावुकेन सहजेन तेजःप्रसरेण प्रततचामीकरपारकल्पि- hił um LAnand โชนา mwwere an- प्रथमो लम्बः २६ , ३ तेन प्राकारणव परिवृतम् , शेखरकुसुमपरिमलतरलमधुकरकलापपुनरु- दीरितकुन्तलकालिमकवचितमूर्धानम् , उभयसविधगतवारयुवतिकरत- लविधुतधवलचमरवालपवननर्तितचेलाञ्चलम् , अन्तिकमणिदर्पणप्रति- बिम्बनिभेनानङ्गसुखानुभवाय नालमेकेनेति देहान्तरमिव धारयन्तम् , अनवरतताम्बूलसेवाद्विगुणितेन स्फुटितबन्धुजीवलोहितिमसुच्छायेन दश- नच्छदालीकेन प्रभूततया मनस्यमान्त रागसंभारमिव बहिरुद्वमन्तम् , निजमुखलक्ष्मीदिदृक्षोपनतेन क्षीरजलराशिनेव स्निग्धधवलगम्भारेण क- टाक्षेण विकसितपुण्डरीकदलनिवहधवलितमिव तं प्रदेश दर्शयन्तम् , नृत्तरङ्गमिव शृङ्गारनटस्य निवासप्रासादमिव विलासस्य साम्राज्यमिव सौ- भाग्यस्य संकल्पसिद्रिक्षेत्रमिव कंदर्पस्य सारमिव ससारस्य दृश्यमानं मा- नवेश्वरं विश्वंभरातलविनमितमौलिरभिप्रणम्य प्रतीहारः सप्रश्रयमब्रवीत्- 'देव कुरुकुलकमलमार्तण्ड महीपालबलपयोधिमथनमन्दरायमाणदोर्दण्ड दुःसहशौर्यबाधितपरचक्र विक्रमाक्रान्तसकलदिगन्त, समन्तादागतेन सरभसचलिततुरगखरखुराशिखरदारितधापरागपांसुलनभोमण्डलेन मण्ड- लाग्रमरीचितिमिरितहरिदन्तरालेन सिन्धरवरकरटवहदविरलमदजलजम्बा. लितजगतीतलेन गगननीलोत्पलविपिनविडम्बिकुन्तदन्तुरेण वीरलक्ष्मीभ्रू- विरचितभृकुटिकुटिलकार्मुकतरङ्गितेन प्रलयवेलाविशृङ्खलजलधिजलपूरभ यंकरेण निखिलजगदाक्रमणचतुरण चतुरङ्गबलेन सत्यवतिघने कामाला रः' इति । अथ तेनाश्रुतपूर्वेण वचनेन । कथं कथं कथय कथय ' इति पृच्छन्प्रतीहारं झटिति घटितकोपप्रन्धिरन्धीभवन् , पर्यकपरिसरनिहि तमहितकुलप्रलयधूमकेतुकरालं करवालं करे कुर्वन् , अखवगर्वसमुत्क्षिप्त क्षिणचरणाधिष्ठितवामोरुकाण्डः चण्डरोषाट्टहासविसरदमलदशनकिरण ललितवदनशशिमण्डलः, स्फुटितगुजाफलपुञ्जपिअरेण क्रोधरागरूषितेन AAT daw Lu Tatar ज hindertrain -- १ २६ गद्यचिन्तामणौ - . चक्षुषः प्रभापटलेन परितः प्रसर्पता प्रतिभटपलायनमनोरथरोधिनमन- लाकारमिव प्रवर्तयन् , प्रस्विन्नदेहप्रतिबिम्बिताभिर्भवनभित्तिचित्रयुव- तिभिः ‘अतिसाहसं मा कृथाः' इति गृहदेवताभिरिव प्रणयपर्याकुला- भिः परिरभ्यमाणः, क्षुद्रनरेन्द्राक्रमणकोपवर्मितविष इव विषधरस्तत्क्षण- मन्यादृश इवादृश्यत काश्यपीपतिः । आदिशञ्च प्रतीहारम् ‘आनय त्व- रितमहितचमूसमूहनिवारणान्चारणानप्रतिहतजवविराजिनो वाजिनोऽस- मसमरसाहसलम्पटान्भटाभग्नरिपुनृपतिमनोरथान्रथानपि' इति । अथ निजभुजदम्भोलिविस्रम्भादनपेक्षितसहायः सरभसमुत्तिष्ठन्नर्धासनभ्र ष्टामुत्कम्पमानकायां समुच्छिन्नमुलामुर्वीतलपतितामिव लतामुत्क्रान्त - जीवितामिव निःस्पन्दकरणमामां धरणीतलशायिनी शातोदरीमालो- क्य बहुविधनिदर्शनसहितवस्तुस्वभावापन्यासप्रयासैग्प्यनासादितस्त्रा - स्थ्याम् 'अस्थाने केय कातरता । क्षत्रिये, मद्विरहकातरापि कुरुकुल- मूलकन्दगर्भरक्षणाय क्षणादितो गन्तुमर्हसि । शपामि जिनपादपङ्के- रुहस्पर्शेन' इत्यभिदधान एव विधाय तां मयुरयन्त्रे नरेन्द्रः स्वयमेव तद्भमयांचकार । चकारेक्षणामादाय क्षणेन गगनमुड्डीने यन्त्रशिखण्डि- नि खण्डयितुं प्रतिभटान्करकलितकरवाल: काश्यपीपतिः कण्टी इव गिरिकन्दरान्मन्दिरान्निरगात् । निर्गते च तस्मिन्विस्मयनीयविक्रम विर्णितकृपाणविराजिनि राजनि मृगराजदर्शन इव करिकलभयूथम- न्धकारमिव च दिनकृदुये तद्नीकमनेकसंख्यमतिदुरं . पलायत । प- लायमानं बलं बलात्प्रतिनिवर्त्य स्वयमेव : प्रार्थयमाने पार्थिवं कार्त- ध्न्यकाष्ठां गते काष्ठाङ्गारे राजा तु दारितमत्तकारकुम्भकूटः, पाटितरथ- कड्यः , खण्डितसुभटभुजदण्डसंहतिः, संहृततरगचमूसमूहः, ससंभ्रम समरशिरसि विहरन् , विविधकरिरथतुरगखण्डनरभसकुण्ठितमण्डलाम: किमनेन कृपाविकलजनसमुचितेन सकलप्राणिमारणविहरणरमेनी saging Tur .
प्रथमो लम्बः । . . " . जनितवैराग्यभरः विषयासङ्गदोषोऽयं त्वयैव विषयाकृतः । सांप्रतं वा विषप्रख्ये मुञ्चात्मन्विषये स्पृहाम् ' ॥ इति भावयन् , परित्यक्तसकलपरिग्रहः, स्वहृदयमणिपीठप्रतिष्ठा- पितजिनचरणसरोजः, काष्टाङ्गाराय काश्यपीमतिसृज्य त्रिदशसौख्यमनु- भवितुममरलोकमारुरोह । आरूढवति भूभृति भुवनमनिमिषाणामुन्मिपद्विषादविषविधुराणां पौराणां पङ्किलयति बाष्पजलप्रवाहे महीम् , मुखरयति दश दिशां मु- वानि निर्दयोरःस्थलताडनजन्मनि रवे निवधिकवेपथुनां पुरवधूनाम् , अवधूतकलत्रपुत्राद्यनुवर्तनेषु निवृत्तिसुखरमाविष्टेषु विशिष्टेषु, काष्ठाङ्गार- त्य काठिन्यं कथयति मिथः सुजने जने, निरूपयति दुरन्ततां कन्दर्प- पारत-व्यस्य पदार्थपारमार्थ्यपरिज्ञानशालिनि विवेकिवर्गे, व्यग्रगतिर्गगन- यथेन गतः स कृत्रिमशिखण्डी निजनगरोपेकण्ठभाजि परेतवासे पार्थिव- प्रेयसीमपातयत् । अत्रान्तरे वृत्तान्तमिममतिदारुणमुम्बरमणिरनुसंधातुमक्षममाण इव मज्ज मध्येसागरम् । साक्षात्कृतनरपतिमरणाया वरुणदिशः शोकानल १ जज्वाल, संध्यारागः । न लोकयतु लोकः प्रेयसीं पृथिवीपतेरितीव ल: काण्डपटिकामिव घटयति स्म दिङ्मुखेषु निरन्तरमन्धकारम् । अथ नरपतिसमरधरणीसमुद्गतपरागपटलपरिष्वङ्गपांसुलमङ्गमिव लयितुमपरसागरसलिलमवतीर्णे किरणमालिनि, महीपत्यनुमरणमण्डन- भृतरक्तचन्दनाङ्गराग इव वसुंधरायाः क्षरितजननयनाश्रुनिझरक्षाल- दिव क्षयमुपेयुषि ज्योतिषि सांध्ये, सार्वभौमविरहविषादवेगविधूयमान- शावधूकेशकलाप इव मेचके कवचयति भुवनमभिनवे तमसि , नरे- नाशशोकादिव संचरत्सायंतनसमीरनिभेन निःश्वसत्यां निशायाम् , - गद्यचिन्तामणो " तनुतरबिसलताभगिनी संसारभङ्गामुपहसताव विकसात विकचदलानच- यधवलितदशदिशि कुमुदाकरे, कुमारोदयसमयसमन्मेषिहर्षपरवशसुरसं- तानित संतानकुसुमप्रकर इव तारकानिकरे निरन्तरयत्यम्बरम् , आवि- भवदवनिपतनयातपत्र इव पाकशासनदिशि दृश्यमाने यामिनीप्रणयिनि, प्राप्तवैजननमासा महिषी सा प्राणनाथविरहदुःखभारान्तरितप्रसववेदना तस्मिन्नेव पितृनिवासे बालचन्द्रमसमिव पश्चिमाशा विपश्चिल्लोकनयनहा- रिणं हरिताश्वमिव पूर्वकाष्ठा काष्ठाङ्गारंपर्यायतिमिरध्वंसिनं सून सूत । सुतमुधासूतिदर्शनसमासादितजीवितवहनवात्सल्या तज्जन्ममहो- त्सवसंभ्रमाभावपुनरुक्तविषादा पुत्रमङ्के निधाय प्रलपितुमारभत—'यस्य जन्मवार्तानिवेदनमुखरा हरिष्यन्ति पूर्णपात्रं धात्रीजना जननाथेभ्यः, यस्मिंश्च कृतावतारे काराध्यक्षकरोटितशृङ्खला विशृङ्खलगतयश्चिरकालक- तधरणीशयनमलिनितवपुषो बन्दीपुरुषाः पलायमाना इव कलिसैन्याः स- मन्ततो धावेयुः, यस्मिंश्च जातवति जातपिष्टातकमुष्टिवर्षपिञ्जरितहरिन्मु- खमुन्मुखकुब्जवामनहठाकृष्यमाणनरेन्द्राभरणं प्रणयभरप्रवृत्तवारयुवतिव- गवल्गनरणितमणिभूषणनिनदरितहरिदवेकाशं निर्मर्यादमदपरवशपण्य- योषिदाश्लेषलज्जमानराजवल्लभं वर्धमानमानसपरितोषपरस्परपरिरब्धपा र्थिवभुजान्तरसंघट्टविघटितहारपतितमौक्तिकस्थपुटितास्थानमणिकुट्टिमतटं कुललितसौविदल्लनिरोधसंलापनिरङ्कुशप्रविष्टाशेषजानपदजनितसंबाधं सा- दरदीयमानकनकमणिमौक्तिकोत्पीडमुद्धाद्रितकवाटरत्नकोशप्रविशदचकि- तलोकलुप्यमानवस्तुमार्थमार्थगणगवेषणादेशनिर्गतानेकशतप्रतीहारानीत- वनीपकलोकमुलोकहर्षविहितमहार्हजिनमहामहमहमहमिकाप्रविष्टविशिष्ट . जनप्रस्तूयमानस्त्रस्तिवादं सौवस्तिकविधीयमानमङ्गलाचारमाचारचतुरपु- राणपुरंध्रीपरिषदभ्यर्च्यमानगृहदैवतं दैवज्ञगणगृह्यमाणलग्मगुणविशेषमझे षजनहर्षतुमुलरवसंकुलं राजकुलमवलोक्येत, स त्वमारसदाशिवशिवाय. .
प्रथमो लम्बः । २९ ऋकुहरविस्फुरदनलकणर्जरिततमसि समीरपूरितविवरवाचाटनुकरोटि- कर्परकलिलभुवि डामरडाकिनीगणसंपातचीकतपुरुषपरिहतपरिसरे प- च्यमानशवपिशितविस्रगन्धकटुके कल्याणेतरचिताभस्मसंकटे प्रेतवा- टे जात, कथमपि जातः कथमनुपलक्षितरक्षाप्रकारे प्रणयिजनशून्ये प्रतिभटनगरपरिसरपरेतवासे वसन्वर्धिष्यसे वा । इत्थमपगतकरुणमति- दारुणमाकस्मिकमप्रतिक्रियमननुभूतपूर्वमतिदुःसहं विधिविलसितं विलो- कयन्त्या न मे प्राणाः प्रयान्ति । किमिह करोमि । किं वा व्याहरामि । 'यदि त्यजामि जीवितं जीवितेश्वरवचनलङ्घनजन्मा महान्दोषः' इत्येवं चान्यथा विलपन्ती विगतपरिकरां परितापविह्वलामबलाम् 'अलमल- मतिप्रलापेन' इति कथयन्ती कापि देवता सुतसुकृतपरिपाकरिता प- रिचारिकायाश्चम्पकमालाया वेषमास्थाय संन्यधात् ।। तिरोऽधाच्च तदर्श- नेन जाताश्वासायास्तस्याः पुनस्तन्मुखाकर्णितभर्तृवियोगविनिश्चयेन चै- तन्यम् । देवताशक्तिस्तु प्राणप्रयाणं न्यरौत्सीत् । अरोदीच्चातिदुःसहं ल- ब्धचेतना । प्रालापीच्च बहुप्रकारम् । एवमवचनगोचरमापदमनुभवन्ती- मात्मजपरिरक्षणपराङ्मुखीमात्मत्यागाभिमुखां च तामालोक्य चम्पकमा- ला 'किमेवं देवि, खिद्यसे । पश्य तव तनयस्य तरुणतामरससोदरयोश्च- रणगोररुणरेखारूपाणि रथकलशपताकादीनि साम्राज्यचिह्नानि । इयं च बिभ्रती स्पष्टतरतामष्टमीचन्द्रसौन्दर्यहासिनि ललाटपट्टे मुक्तकण्ठमूर्णा व- र्णयत्यर्णवाम्बराधिपत्यम् । अयमभिनवजलधरनिनदगम्भीररुदितध्वनि स्वराज्यस्वीकारमङ्गलशङ्खघोषश्रियमभिव्यनक्ति । तद्भविष्यति भगीरथादी नपि महारथानधरयन्धरायाः पतिरयम् । परित्यज्यतां च परित्राणदिना चिन्तामणिकल्पः कोऽपि वणिजामधिपतिरधुनवागत्य तव तनयं हीष्य वर्धयिष्यति च महाराजसुतोऽयमिति' इति चतुरतरवचोभिश्चिरपरि जनितविश्वासां महिषीमाश्वासयामास । तत्क्षण एव क्षणदान्धकारम 12 गद्यचिन्तामणी । भिनवधीतधाराधारालकिरणेन कृपाणेन दारयन्दारकमादाय मृत सूनृत- वचसां मुनिवराणां वचसि विश्वासादेकाकी समागच्छन्नतुच्छतेजाः प्रत्यदृश्य- त कोऽपि वैश्यः । पश्यन्ती च तं चम्पकमाला ‘पश्य देवि, मदुक्तोऽयमा- गतः । विश्वस्यतामेवमन्यदपि मद्वचनम् । यावदयमेनमादाय कुमारमपस- रति तावदन्तरितया त्वया स्थातव्यम्' इत्यभ्यधात् । तदुक्तमुत्तमाङ्गना सा- पि विश्वसन्ती निःश्वसन्ती च विषादेन विगतरक्षणाभ्युपायतया तथाभावि- तया च तस्य वस्तुनः प्रस्तुतस्तनी स्तन्यं पाययित्वा शाययित्वा च भू- तले भूपलाञ्छनमहितं महार्हमङ्गुलीयकमस्य करे न्यस्य सप्रणामम् 'र६. न्तु जिनशासनदेवताः' इत्याचक्षाणा क्षोणीपतिपत्नी परिचारिकाप्रयत्नेन तनयपरिसरादपसरन्ती समीपतरवर्तिनः कस्यचन तरोर्मूले तिरोधाय त- स्थौ । तावता समुपेत्य स वणिक्पतिरपगतासुमात्मसुतं प्रेतावासे परित्य- ज्य पार्थिवतनयमन्वेषमाणः क्षोणीतलशायिनम् , नैशन्धिकारपटलभेदि- ना देहप्रभाप्रतानेन प्रदर्शयन्तमात्मानम् , राहुग्रहणभयेन धरण्यामुद्यन्त- मिव मार्तण्डम् , मन्द्रतारेण रुदितरवेण मुखरयन्तमाशामुखम् , सहजप्र- तापविस्फुलिङ्गशङ्काकरेण रत्नाङ्गुलीयकमरीचिजालेन किसलयितकरम् , अविरलगर्भरागपाटलवपुषमङ्गारकमिव भूगर्भान्निर्गतम् , दुर्गत इव दुर्ल भं धनं धरापतितनयमालोक्य हर्षकण्टकिताभ्यां कराभ्यामत्यादरमादत्त । आदीयमान एव स कुमारः झुतमकरोत् । अश्रावि च तत्क्षणमन्तरिक्ष 'जीव' इति जातजीवितदैर्घ्यशंसी शब्दः । तेन च दिव्यवचनेन नितरां प्रीतः स वैश्यः काश्यपीपतितनयस्य तदेव नाम संकल्पयन्न- नल्पविभवमात्मभवनमासाद्य कथमनुपरतं सुतमुपरत इति कथितवती' इति कृतकरोषेण पत्नीं भर्त्सयमानो वत्समस्याः करे समार्पिपत् सा च गन्धोत्कटभार्या सुनन्दा चन्द्रमसमिव हृदयानन्दनमान बाष्पवारिमुचा चक्षुषा क्षालयन्तीव क्षितितलमिलितधूलीधूसरं प्रथमो लम्बः । ३१ JAMAY ङ्गमिव रतिरचितचिरसमाराधनांदेतपुरमथनपुनःप्रतिपादितशरीर कुमा- रमादरादाददे । सा च धात्रीवेषधारिणी देवता दयितमरणेन तनयवि- योगेन च विजृम्भमाणदारुणशोकदहनदह्यमानहृदयामनभिमतजीवितां विजयां निजानुभावादाश्वास्य तामनभिनन्दितसनाभिगृहगमनामविदित- कर्तव्यां विश्वसत्त्ववित्रम्भवितरणशौण्डदण्डकारण्यान्तःपातिनं पत्रलपार- सरपादपनिर्वासितपथिकपरिश्रमं तापसाश्रममनैषीत् । सा च तत्र सता- पकृशानुकृशतरा कृशोदरी करेणुरिव कलभेन धेनुरिव दुम्येन श्रद्धेव धर्मेण श्रीरिव प्रश्रयेण प्रज्ञेव विवेकेन तनुजेन विप्रयुक्ता विगतशोभा स- ती विमुक्तभूषणा तापसवेषधारिणी करुणाभिरिव मूर्तिमतीभिर्मुनि- पत्नीभिरुपलाल्यमाना मनसि जिनचरणसरोजमात्मवृद्धि च ध्यायन्ती स- मुचितव्रतशीलपरित्राणपरायणा पाणितलविलूनाभिर्मरकतहरिताभिर्वा- मुष्टिभिर्मोदयन्ती नन्दनाभिवर्धनमनोरथविनोदनाय मुनिहोमधेनुवत्सान- वात्सीत् । सा च साधितसमीहिता देवता तत्रैव तपोवने तामवस्थाप्य सुतावस्थामवगम्यागमिष्यामि' इत्यभिधाय तिरोऽधात् । गन्धोत्कटश्च हर्षोत्कृटेन मनसा समसमयप्रहतभेरीमृदङ्गमर्दलकाह- लकांस्यतालशङ्खघोषणमुषितेतरशब्दसमुन्मेषम् , तोपपरवशवंश्यजनज- न्यमानसमर्दविकीर्यमाणपिष्टातकपांसुधूसरीभवदहस्करालोकम् , उलोक- वितीर्यमाणवित्तमुदितार्थिवर्गविधीयमानाशीर्वादम् , वचनावचनविवेकविधु- रपरिजनप्रवय॑मानलीलालापकलकलसंकुलम् , समन्तादावय॑मानतैल- धारापिच्छिलधरातलस्खलितलोकम् , प्रमोदमयमिव प्रदानमयमिव प्रसून- मयमिव सत्कारमयमिव संगीतमयमिव संमर्दमयमिव लास्यमयमिव लाव- ण्यमयमिव लक्ष्मीमयमित्र लक्ष्यमाणमात्मजजन्ममहोत्सवमन्वभूत् । अज्ञः स तु काष्ठाङ्गारः स्वराज्यलाभजन्मना हर्षेण विहितोऽयमुत्सव इति म- न्वानस्तस्मै सगौरवं कुरुकुलमहीपालपरम्परापरिपालितमखिलमपि राज- , ३२ गद्यचिन्तामणी .hshl. । ܨ ، कोशमदिशत् । आदिशच्च तदपेक्षया तत्क्षणे तन्नगरजांश्च जातान्गन्धो- त्कटगृह एव तत्सुतेन सह संवर्धयितुम् । तदेवं स्वापतेयेनैव स्वकीयेन सहितस्याह्नि सप्तमे सप्तसप्तिसमतेजसस्तनयस्य जीवंधर इति प्रथमसंक- ल्पितं नाम चकार चक्रवर्ती वणिजाम् । ततश्च क्रमेण तैश्च समानव- योभिर्वयस्थैरनुजेन सुनन्दानन्दनन नन्दाढयेन समाढ्यपरिबृढस्य ग- न्धोत्कटस्य सद्मनि वर्त्मनि दिविषदामोषधीनाथ इव नक्षत्रैः, पाकशास- नवेश्मनि पारिजात इव कल्पद्रुमैः , उदन्वति कौस्तुभ इव मणिाभरनुवा- सरं वर्धमानलावण्यः पुण्येन प्रजानामवर्धत जीवंधरः । तेन च प्रतिदि- वसमुदयमासादयता जलनिधिरिव चन्द्रेण कमलाकर इव दिवसकरेण नितरामैधिष्ट गन्धोत्कटः। ४.प्रमदोत्कटे गच्छति काले कलहंसपोत इव कमलात्कमलं दर्प- णमिव करात्करं धात्रीणामुपसर्पन , प्रसर्पता निर्हेतुकहसितचन्द्रालोकेन बन्धुजनहृदयकुमुदाकरमुल्लासयन् , उन्मीलितनिखिलभुवनव्यापिनि नि- जतेजसि किमनेनेति गृहप्रदीपानिर्वापयितुमिव स्प्रष्टुमिच्छन् , अतुच्छ रत्नशिलाघटितभवनभित्तिसंनिवेशदृश्यमानमात्मप्रतिबिम्बमद्वितीयताभिनि- वेशेन नाशयितुमिव परिमृशन् , भाविभर्तृभावावबोधिन्या मेदिन्येव विहा- रधुलीव्याजेनालिङ्गितशरीरः, समीरतरलिताप्रैरलिकतटविलुलितैरलिनिच- यमेचकैः कैंचपल्लवैोलभाव एव वल्लभत्वमभिलषन्त्याः श्रियः क्रीडा- भिसरणमनोरथपूरणाय निशामिव दिवसेऽपि निष्पादयन् , कलमधुरग- म्भीरेण कर्णामृतवर्षिणा स्वरेण सरस्वतीप्रवेशमङ्गलशङ्खध्वनिमिव सूत्रय- न् , लोकनेत्रचकोरपीयमानलावण्यामृतनि स्यन्दश्चन्द्र इव दिनेदिने द- शितरूपातिशयः, शनैःशनैः शैशवभत्यक्रमीत् । आक्रर्माच्च पञ्चमं वयः । ततः पुण्येऽहनि महनीयमुहूर्ते राजपुरीमध्यमध्यासितस्य निष्टप्ताष्टापदघ टितेष्टकानिर्मितमूलभित्तेः , उत्तमप्रमाणोज्ज्वलस्य , निखिलावयवशिखर A .
प्रथमा लम्बः । ३ निहितमणिमौक्तिकनिकरण तारागणेनेव सततसंचारजातश्रमच्छेदाय य- थेष्टं निवसता दिवापि दर्शितरजनीशङ्कस्य , पाटितजलधरकोडाग्रविन्य- स्तचूडामणिमयस्तंपिकाखमणिना शङ्कितसदातनमध्यंदिनस्य , मरकतम- णमयाजिरपृष्ठप्रसारितैौक्तिकवालुकाजालैः प्रतिफलितमिव सतारं ता- रापथं दर्शयतः, स्फाटिकशिलाघटितबलिपीठोपकण्ठप्रतिष्टितमहार्हमणि- मयमानस्तम्भस्य , संस्तवव्याजेन शब्दमयमित्र सर्वजगत्कुर्वता मस्तक- न्यस्तहस्ताञ्जलिनिवहनिभेन भगवन्तमर्चयितुमाकाशेऽपि कमलवनमापा- दयतेव भव्यलोकेन भासितोद्देशस्य , हाटकघटितसालपक्षपुशे वीक्षि- तुमन्तरिक्षपर्यवसानमुड्डयनमिव कर्तुमुद्यतेन रजतघटितकवाटैपुटविनि- गच्छन्त्या निसर्गशुचिशुक्लध्यानदेश्यया रश्मिनिकरवेत्रलतया ध्यानप- रयमधनसविधविनिर्गच्छदेनोनिकरमिवान्धकारमतिदूरमुत्सारयता शिखर खचितपद्मरागप्रभया प्रसर्पन्त्या बहिर्गच्छदतुच्छभव्यभक्तिरागमिव प्रदर्श यता सततसंभवदहमहमिकाप्रवेशनिबिडधरणिपमकुटकोटिकर्षणमसृणित मणिभित्त्युदरभासुरेण गोपुरचतुष्टयेनाधिष्ठितस्य , कोमलप्रवालदण्डान प्रथितानामविरतयथार्हसपर्याप्रमोदसततसंनिहितसर्वदेवतानिःश्वासनिभेन मातरिश्वना सलीलं कम्पितानां पताकानां किंचित्कुञ्चितैरग्रहस्तैरास्ति कलोकमिव समर्पयितुं धर्मामृतमाह्वयतः, प्रतिप्रदेशव्यवस्थापितसमस्त- देवताप्रतिमाप्रकरण प्रचुरभक्तिचोदितशतमखमुखाखिलमखभुगागमनमि- वादर्शयतः , प्रकृतिशान्तैर्मन्त्रमर्याभूतवाङ्मयसर्वस्वैः संसारकान्तारदावद मज्ञानध्यानपरैः परहितनिरतस्वान्तरेकान्तमताभिषङ्गभुजङ्गदंशनिरंशक्षी १२ पाजगदनेकान्तसंजीवनसमर्पणपरं परमागममुपदिशद्भिर्मुनिवरैरलंकृतमु. निनिकायविराजितस्य, राजपुरीपर्यायपारिजातभूरुहप्ररोहबीजभूतस्य कुरुकुलक्षत्रियपुत्रार्हाध्ययनाभिषेकाद्यारम्भभूमेर्महतः श्रीजिनालयस्य हार ताश्वोदयहरिद्भाजि भासुरमणिमौक्तिकमालाञ्चिते काञ्चनसजलकलशभृङ्गार , गद्यचिन्तामणौ प्रमुखबहलपरिच्छदलाञ्छितवेदिकोपशोभिनि प्रलम्बमाननानाविधप्रसून- दामसुरभितककुभि दामशङ्काश्रितस्फाटिकस्तम्भादुत्पतदलिकुलझंकारसू- चितमङ्गलपाठकवचसि भित्तिलिखितचित्रदर्शितसुकृतेतरपरिपाकफलभ- वप्रबन्धप्रचुरभक्तिप्रेरितभव्यसार्थप्रस्तूयमानसंस्तवकलकलमुखारतवियति प्रान्तप्रलम्बमानवन्दनादामनि प्रत्यग्रगोमयोपलेपहरितभुवि विप्रकीर्णमङ्ग- ललाजकुसुमहसितहरिति हरहसितधवलवितानवाससि वसुधासुरप्रवर्तित- पुण्याहकर्मणि कालागुरुधूपधूमपटलनिमीलितातपसंपदि सक्रियमाणसक- लमनीषिति प्रहतपटहपटुरवभरितदशदिशि संख्यातीतशङ्खकाहलतालो- तालरवबधिरितश्रवसि संगीतारम्भपुनरुक्तस्फुरितसौन्दर्ययुवतिलोकोद्योति- नि महति विद्यामण्डपे महेन्द्रमकुटपादपीठलुठितचरणसरोरुहस्य स्याद्वा- दामृतवर्षिदिव्यागमपयोदनिर्वापितसंसारदावानलस्य भगवतो जिनेश्वरस्य यथाविधि विधीयमाने महार्हे महामहे स्वतःप्रकाशितनिरतिशयसारस्वतेन निखिलशास्त्रशाणोपलकपणनिशितशेमुषीमुपितपुरुहृतपुरोहितगर्वेण दुर्वा- स्वादिपरिषदवलेपपर्वतपाटनपाटवप्रकटितस्याद्वादवघेणार्यनन्द्याचार्येण ग- लिततुषखण्डेष्वखण्डेषु तण्डुलेषु पत्रेषु च भर्मनिर्मितेष्ववतार्य सप्रणयं प्रतिपादितां सिद्धपरमेश्वरदिव्यसंनिधौ ‘सिद्धं नमः' इति पूर्वपदप्रशस्तां सिद्धमातृकारूपिणी वाणी जीवंधरः सप्रणामं प्रत्यग्रहीत् ।' इति श्रीमद्वादीसिहसूरिविरचिते गचिन्तामणी सरस्वतीलम्भो नाम प्रथमो लम्बः ।
द्वितीयो लम्बः । अथ महार्हे रत्नशिलाघटिततले स्फटिकदृपदुपरचितभित्तिभासुरे वासरालेकपरिभाविमहेन्द्रनीलनिर्मितागणभुवि दुग्धजलधिफेनधवलविता- नविभ्राजिनि विराजमानसरस्वतीप्रतिमाञ्चितचित्रपटे संचितसकलग्रन्थ- कोशे कोशनिहितनैकशतनिस्त्रिशनिरन्तरे स्तबरकनिचोलचुम्बितचारु- चापदण्डे कुण्डलितशिखरमनोहरचण्डष्ट्रिनि निष्टप्तहाटकघटितदण्डका- न्तकुन्ते प्रान्तपुञ्जितनिशतशरप्रकरे प्रासतोमरभिण्डिपालप्रमुखनिखिला- युधनिरवकाशितखलरिकोद्देशे कुशेशयासनकुटुम्बिनीकोशगृह इव दृश्य- माने महति विद्यामण्डपे पाण्डित्यपयोधिपारदृश्वना विश्रुतप्रभावेण विश्व- व्यवहारशिक्षाविचक्षणेन प्रत्यक्षिताचार्यरूपेणार्यनन्द्याचार्येण समस्तम- पि विद्यास्थलं सानुजमित्राय तस्मै सस्नेहमुपादेशि । ततः सप्रश्रयशुश्रू- षाग्रहृष्टमनसः प्रकृतिशीतलशीलादाचार्यात्प्रचुरप्रतापोष्मले तस्मिंश्चन्द्रमुस इव चण्डतेजसि कलाकलापः क्रमेण समक्रमीत् । अत्युल्बणजराजर्जरि- तमनवरतजनितकम्पमम्बुजासनमुखचतुष्टयमाविष्टेव पतनभिया विहाय भारती तरुणतामरससोदरं तदाननमास्पदीचकार । तथाहि-अपरिमि- तार्थोपलब्धिमूलभूतपदरत्नराशिरोहणं व्याकरणम् , दुर्गमदुर्मतमहाकर्द- मशोषणप्रवणार्के तर्कशास्त्रम् , याथात्म्याञ्चितप्रपञ्चपञ्चास्तिकायवस्तुवा- स्तवावबोधसिङ्ग्यपायमपि सिद्धान्तं यथावदध्यैष्ट । अधिष्ठाय पृष्ठपीठमति- कठोरकुम्भतटनिवेशितनिशिताङ्कुशनखरः कुर्वन्नुर्वीधरमिव जङ्गम मात- अमपगतमदचापलमात्मवशगामिनमनन्यसुलभपराक्रमपरिशङ्किता प्रकटी- चकार राजसिंहतां राजकुमारः । अतिरंभसचटुलखुरपुटविदलितधरणी- . 17 lefther Air ३६ गद्यचिन्तामणी -- रङ्गेण तुरङ्गेण युगपदाक्रमन्दिशां चक्रमक्रमेण निखिलनिजराज्यहरणद- क्षमात्मानमनक्षरमभाषिष्ट । अनवरतयोग्यापरेण कुमारेणारूढः प्रतिभट- मनोरथानपि धरामिव दारयिष्याम्यचिरादिति कथयन्निव स्थश्चक्रचीत्का- रव्याजेन व्यराजिष्ट । आकर्णाकृष्टः कर्णे सपुपदिशन्निव मौ:स्वनेन स- मरविजयकलामविरलशरासारवर्षी राजसूनोरलक्ष्यत लक्ष्यभेदचतुरस्य चा- पदण्डः । आरम्भसमय एव गुणनिकायाः केशानप्यतिसूक्ष्मान्पाटयितुं पटुः पाथिर्वसुतेन पाणौ कृतः कृपाणः कृशेतरनखमरीचिसंपर्कादासन्न- विनिपातपरिज्ञानविधुरमहसदिव काष्टाङ्गारम् । एवं क्रमादभ्यस्तसाहित्यं साधितशब्दशासनं समालााकतवाक्य- विस्तरं विजृम्भितप्रमाणनैपुणं निर्णीतनीतिशास्त्रहृदयं शिक्षितलक्ष्यभेद विधेयीकृतविविधायुधव्यापारं पारदृश्वानमश्वारोहणविद्याया विश्रुतवारणारो- हणवैयात्यं वीणावेणुप्रमुखवादनप्रथमोपाध्याय विदितभक्तमार्ग नैसर्गिक- 'नित्यविज्ञानवैशारद्यविस्मापितशैलूपलोकमुल्लोकनिखिलनिजचरित्रविराज - मानं राजकुमारं कुसुममिव गन्धः क्रीडावनमिव वसन्तश्चन्द्रमसमित्र श- रदागमः कुमुदाकरमिव कौमुदीप्रवेशः करिकलभमिव मदोद्गमो यौवना- वतारः परं दर्शनीयतामनैषीत् । तथाहि -प्रविविक्षन्त्याः प्रतिभटराज- लक्ष्म्याः सुखासिकादानमिव विधातुं वितस्तार वक्षःस्थलम् । दिशिदिशि चलितस्निग्धधवलदीर्घवपुषः कटाक्षाः कान्तिलक्ष्मीजन्मदुग्धजलधिविभ्रम बिभ्रति स्म । अंसवलभीसमर्पणाय धरणीमादातुमिव जानुलम्बिनौ बभू- वतुर्भुजी । स्पर्धयेत्र परस्परं वर्धमानाभ्यां प्रतापकान्तिभ्यामशिशिरशिशि- रकिरणयोरद्वैतमिव राजसूनुरदीदृशत् + एकदा तु तमेकान्ते प्रान्ते निवसन्तमन्तेवासिनमालोक्याचार्यः प्रज्ञाप्रश्रयबलेन हेलया संजातां विद्यापरिणतिं विमृशन्करतलसंस्पर्शेन सादरं संभाव्य निरवसानव्यसनप्रसूनदायिसंसृतिलताच्छेदकुठारं निरति- द्वितीयो लम्बः । ३७ - --- शयपरमानन्दपदप्राप्तिसाधनं सम्यक्त्वधन समपायेतुमस्मै कालाऽयमित्या- कलय्य गुरुशुद्धिप्रदर्शनेन सविस्रम्भमस्य मनः कर्तुं स्ववृत्तान्तमन्यकथा- व्यावर्णनव्याजेन व्याजहार- "वत्स, वन्दमानविद्याधरमकुटताडितपाद- पीठकण्ठोक्तमहिमा महीपतिरभूदभूतपूर्वः सर्वविद्यासाम्राज्यसंपदुन्मेषवि- भ्राजिनि विद्याधरलोके लोकपालो नाम । स तु कदाचिदागमे पयोमुचा- मम्बरोभोगमलिम्लुचं महेन्द्रनीलमणिवातायनतिलकितं सौधवलभीम- ध्यं सुमध्याभिः सहाधिवसन्धनसमयलक्ष्मीकुन्तलविभ्रमं किमपि नवा- भ्रमपश्यत् । पश्यत्येव तस्मिन्विस्मयस्तिमितचक्षुषि तत्क्षण एव ननाश नैशान्धकारसोदरः स पयोधरः । तदवलोकनजनितनिर्वेदः सर्वथा सलिलबुद्धदसहचरा न सन्ति चिरावस्थायिनः संसारविभ्रमाः । तरुतल- पुञ्जिताः पर्णराशय इव प्रबलपवनपरिस्पन्देन सुकृतपरिक्षयेण त- क्षण एव नश्यन्ति संगताः संपदः । पाकशासनशरासनमिव विश- रारु नानारागपल्लवोल्लासविलासोपवनं यौवनम् । जीवितं तु किमिदानी- मुद्भाविन्यपि समये स्थायीति जगति न केनापि निश्चेतुं पार्यते । कथ- मपि कालं कंचिदवस्थितिभाजोऽप्यायुषः क्षय एव नियतः । तदेतत्सर्वे स्वयमेव यास्यति । वयमेव निरस्यामः' इति विचार्य विनश्वरश्रीविलास- पराङ्मुखः परनिरपेक्षं निरवधिकमनुपाधिकं च सुखमनुभवितुमिच्छ- पुत्रशिरसि निवेश्य राज्यभारं भवसवरपरिहरणविचक्षणां जिनदीक्षां प्राविक्षत् । प्राप्तजिनदीक्षः प्रणष्टतमांसि तपांसि चरन्प्राग्जन्मार्जितदुर्ज- रपापपरिपाकपरिणतेन भक्षितमखिलं तत्क्षण एव भस्मसात्कुर्वता च भ- स्मकेन पर्यभूयत । परिभूतश्च तेनाविच्छिन्नचरितोऽप्यशक्यतया दुर्गत इव दुर्लभं धनं परमं तपः प्रर्यत्यजत् । अवर्तिष्ट च यथेष्टं स्वैरविहर- णावकाशप्रदानपण्डितेन पाषण्डिवषेण । स पुनरङ्गार इव भस्मना भस्मकमहारोगेण तिरोहितदीप्तिः सम्यक्त्वपूतमतिस्तत इतो विहरन्ननव- M -- ३८ गद्यचिन्तामणौ रतजृम्भमाणदारुणबुभुक्षाक्षोभितमतिः कदाचिदधरितकुबेरवैभवस्य ग- न्धोत्कटस्य सततविघटितकवाटपुटमुत्तम्भितमणिस्तम्भशुभिताभ्यन्तर निरन्तरविप्रकीर्णमणिगणशरिलभूतलमगस्त्यकबलितजलपूरमिव रत्ना- करमाखण्डलकुलिशपुनःपतनभयपरिवृत्तवेषमिव रोहणशिखरिणमभिन- वशष्पशङ्कातरलितगृहहरिणपोतलिह्यमानगरुत्मदुपलघटिततलमयूखपटल- मतिचटुलपरिचारकचरणपुटरटितरत्नसोपानमवलम्बितमुक्तादामपुलकित- वलभीनिवेशमितस्ततोदृश्यमानचामीकरपर्यङ्कपरिहसितमेरुशिलातलमाभि - नवसुधालेपधवलितोपरिभागरम्यं हर्म्यमविशत्। तत्र च प्रसार्यमाणसौव- मत्रविडम्बितमित्रमण्डले त्वरमाणपरिजनवनिताकरप्रमृज्यमानमणिचष- कशुक्तिसंचये समूछेदतुच्छपाटलपरिमलसुरभिपानीयभारततपनीयभृङ्गा- रके लिख्यमानमङ्गलचूर्ण रेखानिवेद्यमानभोजनभुवि समुद्घाटितपञ्जरकवा- टविनिर्गतक्रीडाशुकशारिकाहूयमानपौरोगवे प्रवेश्यमानबुभुक्षितजने प्र- दीयमानपङिभोजनांमत्रकदलीपत्रे प्रत्यप्रपाकजनितसौरभ्यलुभ्यद्रीण स- मन्ततश्चलिततालवृन्तग्राहिणीचरणनूपुररणितभरितदिशि भोजनस्थानम- ण्डपे जैनजनसर्वस्वतया निःशङ्कं प्रविशन्नातिदूरनिविष्टैनिबिडभूषणम- णिप्रभातरङ्गिततनुभिरतनुकायकान्तिभिरात्मनः प्रतिबिम्बैरिव समानवयो- रूपलावण्यैर्वयस्यैरुपास्यमानमुडुगणपरिवृतमिव बालचन्द्रमसमायुष्मन्तम- पश्यत् । भवानपि बाल्येऽप्याकृतिज्ञतया प्रकृतिसुलभकृपाप्रेरितहृदयतया च तस्य तादृशी बुभुक्षामालक्ष्य 'भोज्यतामयमभिमतै ज्यैः' इति पुरः स्थितं पौरोगवाध्यक्षमादिक्षत्। भिक्षुरपि कटाक्षपातक्षणसंनिहितसलिल- कन्तिककरावर्जितकनकभृङ्गारगर्भगलितधारालसलिलक्षालितचरणः प्र- सारितवेत्रासने मणिकुट्टिमे समुपविश्य पुरोनिहितपृथुतरामत्रपातितममल- दुग्धजलधिफेनपटलधवलं संपन्नमन्नराशिमविरलघृतसितासंपातद्विगुणित- माधुर्येण मौद्गकद्रवेण कबलीकृत्य मधुररसभरितोदरेण विडम्बितकनक- द्वितीयो लम्बः ३९ पालिकेन पचेलिमेन पनसफलेन पाकपाटलितत्वचा मोचाफलेन शात- कुम्भकुम्भसुदृशाकारेण सहकारफलेन च प्राज्याज्यप्रचुरमरीचानुगुणल- वणमधुरनालिकेरपयःपल्लवितरसेन बृहद्हतीप्रमुखेनाञ्जनशिखरिदेशीयेन व्यञ्जनजातेनाप्यभिव्यञ्जितरसं निमेषमात्रेण निरवशेषमभ्यवाहृत। पु- नरप्यहृष्टमनसे प्रचुरमन्नमहाय भोक्तुमभिलषते तस्मै विस्मयस्तिमितम- नसा त्वया समादिष्टाः पौरोगवा: पूर्वनिष्पन्नं तद्भवनवासिनिखिलजन-. भोक्तव्यं विविधमन्धःसंभारं समर्पयामासुः । स भिक्षुरक्षीणबुभुक्षुस्तद- शेषमशनमम्भोधिपयःसंभारामिव कल्पान्तकालानल; कबलयन्न कदाचि- दतार्सीत् । एवं पूर्वनिष्पन्नैस्तदात्वसंपादितैरपारमितेश्च पायसदाधिकसा- र्पिष्काघमृतपिण्डैरपूरैरप्यपूर्णजठरमाशार्णवमिव वर्णिनमालोक्य चित्रीया- विष्टस्त्वमनासादिताहारो निवसन्भिक्षााधेः परिक्षयकालतया वा कुमा- रकारुण्यवैभवेन वा तथाभवितव्यतया वा तस्य वस्तुनः स्वहस्तावलाम्ब- तं कलमकबलमत्यादराददिथाः । तदास्वादनमात्रेण तृष्णापयोधिरिव भ- गवत्या परमनिवृत्त्या क्षण एव तस्मिन्पूर्णं वर्णिनो जठरमभूत् । आसी- चास्य सौहित्यम् । अत्रपञ्चायमतितराम् । नितरां व्यस्मेष्ट प्रकृष्टतपसां सुलभेन भवन्माहात्म्येन । निरणैषीच भवल्लक्षणेन भवन्तमन्यादृशम् । अतर्कयच्च पुनरमान्तं स्वान्तसंकटकुटीरे बहिरपि विहारयन्नित्र रोमाञ्च - निभेन हर्षभरम् -'आसीदयमपहसितमारः कुमारो मारकोऽस्मद्भस्मक- व्याधेः । कात्र कर्तव्या प्रत्युपकृतिः । नहि प्रतिकृतिसव्यपेक्षाः प्रेक्षाव- तामुपकृतयः । तथापि किमप्युपकृत्य प्रतिकृतिमता मया भवितव्यम् ' इति सुचिरं विचिन्त्याप्यन्यां प्रतिकृतिमनालोकयन्नुभयलोकहितहेतुभूत- मभूतपूर्वमहिमानमनवद्याभिर्विद्याभिरेवमलमकुरुत भवन्तम् ” इति । एवं विदितगुरुवृत्तान्ततया मुदितमानसं प्रलयाभिमुखीभवदेनसं चरमदेहधारिणं कुमारं सूरिः' श्रीरत्नत्रयविशुद्धिसंपादनाय तत्त्वमबुधत् ।
गद्यचिन्तामणौ . वन्स, तवाधिगतगृहमेधिधर्मयाथात्म्यप्रतिपादनप्रकारविलसदुपास. काध्ययनपरमागमस्य नोपदेष्टव्यमस्ति । तथाप्युपदेशमूलाया एव सक लकर्मप्रवृत्तेः सफलत्वात्संगृह्य किंचिदुपदिश्यते । श्रवणग्रहणधारणानुस्म- रणप्रमुखविविधप्रयाससाध्यस्य शास्त्रावगमस्य प्रयोजनं पुंसां हेयोपादेय परिज्ञानस्वरूपपुरुषार्थसिद्धिस्तन्मूलत्वादपवर्गप्राप्तेः । सा चेन्न स्यादीहि- खण्डनायास इव तण्डुलत्यागिनः , कूपखननप्रयास इव नीरनिरपेक्षिणः कणादोक्तिरिव शास्त्रशुश्रूषापराङ्मुखस्य , द्रविणार्जनक्लेश इव वितरणगु. णानभिज्ञस्य , तपस्याश्रम इव नैरात्म्मवादेनः , शिरोभारधारणश्रान्तिरिव जिनेश्वरचरणप्रणामबहुमतिबहिष्कृतस्य , प्रव्रज्याप्रारम्भ इवेन्द्रियदासस्य विफल: सकलोऽप्ययं प्रयासः स्यात् । इह केचन कोमलप्रज्ञाः प्राज्ञज- नगर्हित क्षयैकशरणशरीरजीविकामात्रमास्थानवशीकरणचतुरचतुर्विधपा. ण्डित्यलाभं च शास्त्रावगतेः प्रयोजनमाकलयन्तः केवलं विक्रीणानाः प्र कृष्टमूल्यानि मुष्टयन्धसे मुक्ताफलानि नांफला इव विफल प्रयासाः प्रेक्षा वदुपेक्ष्यतां कक्षीकुर्वन्ति । दुर्लभाः खलु हेयोपादेयपरिज्ञानफलाः शा. स्त्रावगतीनिश्चिन्वाना विपश्चितः । ततः प्रत्यासन्नभव्यो भवान्भवान्धका रविहरणरजनीमुखं रागद्वेषादिरूपं हेयं विलयविरहितनिरवधिकानन्दमूल कन्दं श्रीरत्नत्रयाभिधानं धनमुपादेयं च यथावदेवगम्य गार्हस्थ्यधर्माहेमनुः ष्ठेयमनुष्ठातुमर्हति" इति । एवं गुरूपदेशपरिगृहीतसमुचितसम्यग्दर्शनानचारित्रस्य सक लरहस्योपदेशनिक्षेपक्षेत्रस्य तस्य गजकुमारतामावेद्य राज्ञां चरितमभिधि सन्नादितः प्रभृति कार्येन तदुदन्तमिदन्तया सस्नेहमुपहरे सूरिरुपन्या स्थत् । उदस्थाच्च महीपृष्ठाद्गुरुमुखावगतनिजचरितप्रपश्चः , पञ्चाननपोत इव मदवदरण्यदन्तावलदर्पपरिभूतः , प्रभूतकोपपावककपिलकपोलमण्ड लव्याजेन प्रत्यर्थिविनाशसूचिनमुत्पाततरणिबिम्बमिव दर्शयन् , प्रतिभ.
द्वितीयो लम्बः । ४१ कुमारः, ततो , वत्सरमा- टविपिनदिधक्षया रोषरूषितस्य चक्षुषः प्रभाजालेन प्रतिदिशं प्रसर्पता प्रेषयन्निवाशुशुक्षणिम् । अविरलधर्मोदबिन्दुपुलकिते क्रोधलक्ष्मीकटाक्षकु- टिलभृकुटिभीषणे भालपट्टे प्रथीयसि प्रतिबिम्बितमाचार्यमाहवविजयाय मूर्धनि कुर्वन् , समरदेवताराधनाय कुसुमनिचयमिव कोपाट्टहासमरीचि- चन्द्रिकाच्छलेन संचिन्वन् , दशनच्छदेन मुहुर्महुः स्फुरता वैरि- यशःक्षीरपानकौतुकमिव प्रकटयन् , प्रकटितात्मवैभवः निकटवर्तिनं कोदण्डदण्डमकाण्डकोपघटितकृतान्तभ्रूभङ्गविडम्बिनमवि- लम्बेन गृह्णन्गृहीतकतिपयकाण्डः काष्ठाङ्गारवधे विधाय संरम्भं स- संभ्रममुदतिष्ठत । तथोत्तिष्ठमानं च तमुत्पाततपनमिव दुःसहतेज- समुल्बणविषमिव भुजङ्गराजमशेषभुवनभयंकरं राजकुमारम् ' अलम- लमकाण्डसंरम्भेण' इति निवारयन्नाचार्यः, प्रज्वलत्प्रकोपदहनजनि- तदाहभय इव शिष्यहृदयमनुपसर्पति निजवचसि , ' वत्स , त्रं क्षमस्व । गुरुदक्षिणेयम् ' इति सप्रणयमयाचिष्ट । स च को- पाविष्टमतिरपि गुरुणा गुरुप्रणयेन तादृशमाचार्यवचनमतिलवयितुमक्षमः प्रतिषिद्धप्रसरेण रोषहुतभुजा भुजङ्गम इव नरेन्द्रप्रभावप्रतिबद्धपराक्रमः प्रकाममदह्यत । अथ शिक्षावचनतीक्ष्णाङ्कुशनिपातनिवृत्तसंरम्भमेनं समदमिव मातङ्गं प्रियवचनेन प्रकृतिमानीय विनयविरोधियौवनवित्तमत्तजनानर्थप्रदर्शनपटी- यसीं वाचमाचार्यः स चतुरमभिधातुमारेभे- "वत्स, बलनिषूदनपुरोधस- मपि स्वभावतीक्ष्णया धिषणया धिक्कुर्वति सर्वपथीनपाण्डिये भवति प- श्यामि नावकाशमुपदेशानाम् । तदपि कलशभवसहस्रेणापि कबलयितु- मशक्यः प्रलयतरणिपरिषदाप्यशोष्यो यौवनजन्मा मोहमहोदधिः । अशे- षभेषजप्रयोगवैफल्यनिष्पादनदक्षो लक्ष्मीकटाक्षविक्षेपविसी दर्पज्वरः । पु- रोवर्त्यपि वस्तु न विलोकयितुं प्रभवतः प्रभतेश्वर्यमदकाचकञ्चकितरोचि- ४२ गद्यचिन्तामणा षी चक्षुपी । मन्दीकृतमणिमन्त्रौपधिप्रभावः प्रभावनाटकनटनसूत्रधारः स्मयापस्मारः । पातालविवरपतितविश्वभरासमुद्भरणधीरो मुरारिरपि वराह- रूपी नालमुद्धर्तुमुदुर्कविषमविषयाभिलापबहल जम्बालजालमग्नं मनः । स- कलसागरसलिलपूरेणापि न पार्यते क्षालयितुमत्तालरागपरागपटलपरिष्व- ङ्गसङ्गि मालिन्यम् । अवस्थाविषमविषमोक्षभीपणा राजलक्ष्मीभुजङ्गी । इति किचिदिह शिक्ष्यसे । अविनयविहगलीलावन यौवनमनङ्गभुजगनिवासरसा- तलं सौन्दर्य स्वैरविहार लूपनृत्तास्थानमैश्वर्य पूज्यपूजाविलङ्घनलविमज- ननी महासत्त्वता च प्रत्येकमपि प्रभवति जनानामनाय । चतुर्णा पुन- रेतेषामेकत्र संनिपातः सम सर्वानानामित्यर्थेऽस्मिन्कः संशयः । स्फ- टकोपलविमलमपि मनो मानवानां यौवनलक्ष्मीपादपल्लवन्यासेनेव समु- द्वहति रागम् । शास्त्रशाणोपलकषणमुषितमासृण्यापि मतिरवतरदभिन- वयौवनवनिताचरणसमुत्थापितेनेव रजसा धूसरीभवति । हितमहितं च नावगच्छत्यतुच्छधियामपि यौवने निर्व्याजमंदमधुपानमत्तेव चित्तवृत्तिः । कतिचिदेव कथमपि कर्णधारीकृत्य विवेकमुपभोगरणरणिकातरङ्गमनङ्गा- वर्तदुस्तरं तरन्ति तारुण्यजलनिधिम् । यौवनशरदागममत्तानां विघटित- विवेकनिगलानां विषयवनविहारिणामिन्द्रियकरिणामङ्कुशीभवन्ति गुरूप- देशाः । भवद्विधा एव भव्यास्तादृशगुरूपदेशबीजप्ररोहभूमयः । नवसुधा- लेपधवलिमभासि सौधतले किरणकन्दला इव चन्द्रमसः स्वभावसुलभ- विवेकविद्राविततमसि मनसि विलसन्ति गुरूणां गिरः । प्रबलतमतमः- कालायसकङ्कटिनि जडधियां हृदि प्रवेश्यमानाः शकलीभवन्ति हितानु- शासनवचनपर्यायाः पत्रिणः । उपदेशवचनं नाम मांनाममन्दरमथन- परिश्रमसाध्यममृतपानम् , हृदयहागर्भनिर्भरमूर्च्छदनच्छतमश्छंटांविघट- नचण्डमचण्डभानवीयमंशुजालम् , अविवेकविपिनभस्मीकरणपाण्डित्य- पात्रमचित्रभानवीयं चेष्टितम् , परिपाकपयोधिविजम्भणैककारणमशिशि- Deus द्वितीयो लम्बः । ४ रकिरणीयमभीशुजातम् , अरत्नशिलाभरणभारधारणायासमाकल्पान्तरम् । विश्वभराभर्तृणां तु विशेषत इदं दुरासदम् । तेषां हिताहितमुपदिशन्तः सन्तो हि सुदुर्लभाः । खलजनकण्टकखिलीकृताः खलु महीभृतामास्था- नमण्डपोद्देशाः । सुजनास्तत्र कथमत्रस्ताः पदं निधातुं पारयन्ति । पार- यन्तोऽपि स्वकार्यपारवश्यनश्यद्विवेकाः काश्यपीभुजां पार्श्वे कथमप्याश्र- यितुमाश्रयाशातिशायिशक्तिप्रज्वलदस्थानरोषभीषणां तेषा वाचं वाचस्प- तिदेश्या अपि शुका इव स्वयमनुवदन्ति । वदन्ति चेदपि तेजस्विनः प- रितः परहितपरतया विरसीकृत्य निरसनैकतानं वचनं वचनीयधुराधरण- क्षमाः क्षमापतयः क्षितितलप्राप्तिक्षणसमारोपितप्रतापज्वररयबधिरितकर्णा इव तन्नावकर्णयन्ति । कथंचिदाकर्णयन्तोऽपि मधुमदमत्तमत्तकाशिनीव- दनशीधुसंपर्कशिथिलितचित्तवृत्तय इव नूनमदत्तावधानाः खेदयन्तः स्वहितोपदेशकारिणः सूरीस्तदुक्तं नानुतिष्ठन्ति । अनुतिष्ठन्तोऽपि न फलपर्यन्तं कुर्वन्ति कार्यम् । किमन्यदुदीर्यते स्वाभाविकाहंकारस्फार- श्वयथुजातवेपथुविह्वला हि महीभृतां प्रकृतिः । प्रकृत्या तथाभूतानियं दुराचारप्रिया हरिप्रिया तु सुतरां खलयति । इयं हि पारिजातेन सह जातापि लोभिनां धौरेयी , शिशिरकरसोदरापि परसंतापविधिपरा, कौ- स्तुभमणिसाधारणप्रभवापि पुरुषोत्तमद्वेषिणी , पापर्धिरियं पापों , वेश्येयं पारवश्यकृतौ , द्यूतानुसंधिरियमतिसंधाने, मृगतृष्णिकेयं तृष्णायाम् । तथा चेयं शर्वरीव तमोधिष्टिता परप्रकाशासहिष्णुस्वभावा च, कुलटेव प्राप्तप्रद्वेषिणी परान्वेषिणी च, जलबुद्धदाकृतिरिव जडप्रभावा क्षणमात्र- दर्शितोन्नतिश्च, किपाकमूर्तिरिव भोगकाङ्क्षाप्रवर्तनी कटुकपाका च । एवं परगतिविरोधिन्या फलदव्ययहि भूतया भूतचतुष्टयमयकायमात्रपुष्टिप- रया परायंचरित्रचर्वण्या चार्वाकमतसब्रह्मचारिण्या राज्यश्रिया परिगृ- हीताः क्षितिपतिसुताः क्षण एव तस्मिन्नैय्यायिकनिर्दिष्टनिर्वाणपदप्रति- -- ब ४४ गद्यचिन्तामणो . . , ष्ठिता इव प्राक्तनमपि गुणप्रतानं वितानीकृत्य जडात्मतामेवात्मसात्कुर्व- न्ति, कापिलकल्पितपुरुषा इव जूडबुद्धेरेवात्मानं घटयन्ति , सदाहंकार- संगतप्रकृतयः प्रकृतिविकारपरं वचनं प्रतिपादयन्ति च । स्वरूपव्याव- र्णने हर्णवनेमिस्वामिनाममरस्वामिनाप्यसंख्यवदनेन भवितव्यम् । ते हि सत्यपि राजभावे सद्भिन सेव्यन्ते,जीवस्यपि गोपतित्वे वृषशब्दं न शृण्व- न्ति, नादितेऽपि नरेन्द्रत्वे मन्त्रिकृत्यं न सहन्ते । तथा महाबलान्वेषिणोऽप्य- बलान्वेषिणः, प्रतापार्थिनोऽप्यसोढप्रतापिनः, सश्रुतयोऽप्यश्रुतयः, अगस्पृ- हा अप्यनङ्गस्पृहाः, अभिषिक्ता अप्यनाभावा जडसंसक्ता अप्यूष्मलस्व- भावाः , सुलोचना अप्यदरदर्शिनः , सुपादा अपि स्खलितगतयः, सु- गोत्रा अपि गोत्रोन्मूलिनः, सुदण्डा अपि कुटिलदण्डाः, सिहासनस्थिता अपि पतिताः, हिंसीप्रधानविधयोऽपि मीमांसाबहिष्कृताः, ऐश्वर्यतत्परा अपि न्यायपराङ्मुखाच जायन्ते । एवं क्षोदीयसः क्षुद्रतरनैकपुरुषपरिष- दुपभुक्तोच्छिष्टक्षितिलवल्लाभानुबन्धिपट्टबन्धान्धीकृतान्विषयान्धकारसंचारि- णः शरणशीलं शरीरं विनश्वरमैश्वर्यं दावगर्भारण्यामिव तारुण्यं विचार्य- माणे विशीर्यमाणं वीर्यमैन्द्रधनुरिव सौन्दर्य प्रख्यापिततृणाग्रबिन्दुसख्यं सौख्यं च व्यवस्थितमाकलयतस्तानाढ्यताजातमौढ्यादधः स्वयं पतत इव यष्टिभिर्घातयन्तो निकृष्टाः केचन सदस्याः स्वदास्यममीषां संपाद्य संपदाकर्षणलम्पटतया घटितकापटिकवृत्तयः सन्तः सन्त इव नटन्त- श्वरलक्ष्यभेददक्षतायै मृगयेति संकटपतितकार्यविचारपाटवाय द्यूतक्रीडे- ति प्रतीकस्थैर्याय पिशिताशनमिति मनःप्रसादाय मधुपानमिति रतिनै- 'पुण्याय पण्ययुवतिपरिष्वङ्ग इत्यभिनवरतिरसास्थानिरस्तये परस्त्रीपरिग्रह इति शौर्यस्फूर्तये चौर्यमिति केलिरसाय तरलवृत्तिरिति महासत्त्वतेति मा. ननीयावधोरणं महानुभावतेति वन्द्यानभिवन्दनं महातेजस्वितेति तेजस्वि- तिरस्करणमित्युपदिश्य स्ववश्यान्कल्पयन्ति । वित्तमदाचान्तविवेकः स ज.
द्वितीयो लम्बः । ४५ न्तुरपि तथोपदिशन्तमधिकपापिनमपथदर्शिनमपथ्यशसिनमकृत्यकारिणमु- क्तानुवादिनमुत्कोचोपजीविनं परपीडामुदितमानसं पराभ्युदयखिन्नहृदयं पै- शुन्यवात धूर्तधुराशिक्षणविचक्षणं विटलोकमेव विदग्धमतिस्निग्धं च वि- भाव्य स्वगात्रं स्वकलत्रं स्ववित्तं स्ववृत्तं च तदधीनं विदधाति पिदधाति च सुजनसमागमनद्वारम् । एवंविधदुःशिक्षाबलेन स्वचापलेन च राजसू- नवः प्रायेण प्रागेवाविनयं पश्चात्तारुण्यं पुरस्तादेव जाड्यं तदनन्तरमभि- षेकं पूर्वमेवाहंकारं तदनु सिंहासनाध्यासनं पुर एव कौटिल्यं ततः कि- रीटं च भजन्ते । भव्योत्तम, भवांस्तु तथा यततां यथा विबुधसेवाप्र- शस्तामस्तमितामनस्यामभिवर्धितसौमनस्यामप्रार्थितागतजागरामचलामतुला च वृत्तिमञ्जसा कल्पयितुं प्रगल्भेत , सौजन्यसागरप्रभवेण प्रत्युपकारनि- रपेक्षवृत्तिना मर्त्यमात्रसुदुर्लभेन पुरोपार्जितसुकृतफलेन सुजनवचनामृत- लाभेन सुचिरं तुष्टः पुष्टश्च भविता" इति । एवविधैर्गुरुवदनतुहिनसानुमत्संभूतैरम्बरसारदम्भ :संभारैरिव सा- रैरतिगम्भीरैरुदारैर्मधुरैर्विचित्रैरतिपवित्रैर्वचोभिः कुरुकुलकुशेशयाकरभा- नोः सूनोः स्वान्ते नितान्तनिपुणवणिक्प्रवेकविहितवेकटकर्मणा मणावि- निसर्गनिर्मले निर्मलतरीभवति ‘भवत्ययमस्माकं परगतिसाधनानुकूल: कालः' इति विचार्यायनन्द्याचार्यः स्वहृदयगतं हृदयविदां प्राग्रहराय जी- वकस्वामिने सानुनयं समभ्यधत्त । पुनरयमपुनरावृत्तिप्रयाणपिशुनवचन- पविपतनेन पन्नगपतेरिव विपन्नस्य जीवककुमारस्य निष्प्रतिक्रियतया बा- पायमाणवदनजुषः प्रेमान्धस्य गन्धोत्कटप्रमुखबन्धुसमाजस्य च सीदतः प्रव्रज्याप्रेरितमतिः प्रसभं व्रजन्पञ्चानन इव पञ्जरपरिभ्रष्टः प्रहृष्टमनास्त- पोवनमवगाह्यापोह्य बाह्येतरपरिग्रहान्स्वविग्रहेऽपि निरस्ताग्रहः समस्तदुरि- नध्वंसनदक्षां जिनदीक्षां भजन्भगवतः पश्चिमतीर्थनायकस्यापश्चिमसौख्य- पादनशीलं श्रीपादमूलं मूलबलीकृत्य मूलोत्तरभेदप्रभेदविशिष्टचारित्रभृ- ४ गद्यचिन्तामणौ तकबलपुष्टः कर्माष्टकरिपुराजसमष्टिं समूलकाषं कघन्कर्मारिनिर्मुलनप्रल- यविधानातिशयमिलितपर्जन्यप्रमुखनिर्जरपरिवत्परिकल्पितपरनिर्वृतिमहोत्स- वपुरःसरं सारगुणोत्कर्षपक्षपातिपरमशुक्लध्यानाभिधानध्यानोत्तमप्रदत्ता ल- युपराचीनपरमानन्दवितरणविदग्धामविदग्धमुक्तां मुक्तिश्रियं शिश्रिये । ततश्च तस्मिन्प्रसववेदनानभिज्ञमातरि निरर्थकाव्यक्तवचःश्रवण- चरितार्थश्रोत्रदूरोज्ज्ञितपितरि निमेपोन्मेषनिरपेक्षनेत्रे लोकद्वयहितोपदेशि- मित्रे बहिश्चरापरजीविते गुरौ तपस्योद्यते गते सति जातमपि शोकजात- वेदसं तत्त्वज्ञानजलैर्निर्वाप्य गुणगणगरीयसा कनीयसानन्योपास्यैर्वयस्यैश्च समं वसुंधरायां सौन्दर्यवीर्याभ्यां मार इव कुमार इव च जीवककुमारे वारयुवतीनां पौरवृद्धानां च हृदि स्वाङ्गारोहणोपलम्भसंभावनाहृष्टानां क- रिरथतुरगप्रष्ठानां पृष्ठेषु च सदा निवसति तदवसरे प्रस्तुतमुच्यते । अथ कदाचिदचलम्चरममारूढवात भानुमति विधाय विधेयम- हर्मुखसमुचितमहमहमिकापतदवनिपतिकिरीटरत्नकिरणनीराजितं राज- विजयवर्णनचतुरचारणमुखरितहरितमनिलचलितकलिकाकलापममलदु- कूलवितानविलसदुपरिभागमुद्गच्छदतुच्छमरीचिनिचयनिचुलितमणिस्तम्भ- मास्थानमण्डपमधिवसन्तं समीपगतवारवामलोचनाचालितचामरमरुदान्दो- । लितकुन्तलकलापमुलसदाभरणमणिमहःप्रसरकञ्चकितसकलकाष्ठं काष्ठा- गारं धरणीपतिमकुटतटप्रहारजर्जरितशिखरेण निजाधिकारलक्ष्मीलता- धिरोहणविटपेन वेत्रदण्डेन चण्डिमानमुद्रुहन्प्रदर्शितमुखविकारः प्रती- हारः प्रविश्य सप्रश्रयं प्रणम्येदं व्यजिज्ञपत् – “देव, देवभुजपरिघपरि- पालितपर्यन्तेषु कान्तारेषु तरुणतृणचरणरसाकुलं गोकुलमापत्य कुतोऽपि दिगन्तरालादविरलशरांसारशकलितगोवपुषः परुषवचसो नाफला बलादा- हृत्य गता इति प्रतीहारस्थाने स्थिताः, प्रोतोद्धृतोभयपाणितलप्रणयिपल्लव वशदण्डाः कुञ्चिताप्रचुरणस्पृष्टमहींपृष्ठा द्विगुणतरदीर्धीकरणतनुतरशरीराः द्वितीयो लम्बः । . , परनिवेदनभयचकितशबरैः शाखासु बद्धकराः प्रलम्बिता इवानुकम्प्यमानाः प्रम्लानवदनसूचितान्तःशोकप्रारभाराः , प्रजृम्भमाणोत्थितस्थूलसिराजा- लजटिलितवपुषः , प्रकामीववृतास्यक्षरल्लालाजलापदेशेन पीतमपि पयःपूर- ममन्दस्वान्तसंतापादुद्रुमन्त इव जुगुप्स्यमानाः केचन गोदुहः क्रोश- न्ति" इति । तथा शंसत्येव तस्मिन्नश्रुतपूर्वेण श्रवणकटुकतद्वचनेन धरणीपतिः फणिपतिरिव फणामण्डलप्रहारेण प्रज्वलितकोपाग्निः, सत्व- रोन्नमितपूर्वशरीरः, सुदूरोक्षिप्तवैकक्ष्यताडितोरःकवाटः, सोष्मस्थूलनि:- श्वासतरलितवक्षःस्थलः संधुक्षयन्निव हृदयगतरोषाशुशुक्षणिम् , अतिमात्र- गात्रभञ्जनत्रुटितोरःस्थलहारविनिर्गलदविरलमुक्ताफलप्रकरण प्रयच्छन्निव समरदेवतायै प्रसूनाअलिम , ललाटघटितभयावहभ्रुकुटिश्चापमिव स्वय समराय दधत् , तीक्ष्णनिपातेन निरीक्षणपुङ्खिना पुरोऽवस्थितपुलिन्दसंदेहा- दिव प्रहितेन वित्रस्तपरिजनेन परिहृतपुरोभागः, प्रसर्पतः परितः प्रचुररोष- लोहितलोचनरोचिषो मध्यमध्यासीनः क्षीबक्षीदियोचितनिजप्रतापक्षय- मक्षमः सोढुमग्नौ निमग्न इव लक्ष्यमाणः, श्रमजलबिन्दुदन्तुरशरीरयष्टि- रन्तस्तापशमनाय स्नातोत्थित इव भासमानः, क्षणादतिपरिचितैरपि पा- वचरैस्तदानीमन्य इवामन्यत । नातिचिराच नर्तिताधरपल्लवनिर्यातारुण- किरणव्याजेन प्रजानुरागमिव प्रदर्शयन् ‘प्रहीयतां तत्र दण्डः ' इति भा- विपरिभवपिशुनाशनिपतनसंदेहदायिना धीरतरेण स्वरेणादिश्य सौविदल्लं प्राहिणोत् । प्रतिलब्धप्राणेनेव भीतिकम्पितवपुषा प्रस्खलद्वचसा त्वरित- तरमुपसरता दौवारिकेण निवेदितकाष्ठागारनिदेशैश्चमूपतिभिश्चोदिता च- मूश्चटुलतरचरणन्यासभारेण निबिडोच्छ्रितनिशितकुन्ताग्रेण परितःप्रस- पदसिमुखेन च नमयन्ती भुवमुन्नमयन्ती दिवं विस्तारयन्ती च दिशं पतस्थे । प्रस्थाय च प्रसभं प्रयान्ती च वाहिनी गोधनावस्कन्दितस्करां. स्तिरोधायापसृत्य ग्रहीतुमिव खरतुरगखुरशिखरोत्थितपरागपटलपटेन, ४८ गद्यचिन्तामों कृतावगुण्ठनासीत् । निरयासीच्च पुरः पुलिन्देभ्यः प्रकटयितुमिवास्याः कापटिकवृत्ति निर्जितपर्जन्यर्जितगाम्भीर्यः कलकलध्वनिः । तदुपदे- शवशविदितवृत्तान्तस्य शबरसैन्यस्य संनाहः संभविष्यतीत्याशङ्कया शु- भेतरपिशुनशकुनसमुदीरितभाविपरिभवभीत्या च वरूथिनी रथकड्यावल- नवशजनितचीत्काररवेण करिकरटतटनियन्मदधारानपिहितस्थलिका प्र- तिकूलवातकम्पितध्वजभुजलताताडितकेतुयष्टिवक्षःस्थलप्रदेशा भृशमिवा- रोदीत् । ततः क्षणादेवाभ्येत्य काष्ठाङ्गारचमूः काकपतिः शृगालमित्र स्वीकृतामिषमपहृतगोधनं व्याधसाथै रुरोध । तदवलोकनजातक्रुधश्चमर- वालरोमरचितरज्जूदाथितकेशपाशाः केकिपिञ्छारचितमुण्डमाला व्याघ्र- चर्मनिर्मिता?रुका वाटिकाभरणभूषितवपुषः परिगृहीतपादुकाः समारो- पितकार्मुकाः पुरस्कृताभ्यर्थितचण्डिकाः कण्ठदनपीतमधुमदलालसाः शबरीजनप्रयुक्ताशिषः प्राप्तानुगुणनिमित्तप्रशंसिनः प्रकामव्यात्तास्यभीष- णभाषणस्वनस्त्यानडिण्डिमशृङ्गरवप्रकटितप्रस्थानाः काष्टाङ्गारबलमपरका- ष्ठागतदिनकरमिव तिमिरनिकराः प्रतिगृह्य शिततरभल्लैः फुल्लैरिव पुलि- न्दाः समरदेवतामाराधयितुमारेभिरे अथ सुभटनटनाटयितव्यरणनाट्यरङ्गपटहपटुतररटितसदृक्षपक्ष- द्वयतुमुलसमाहूतविलोकनकौतूहलिनि निर्दयाकृष्टिप्रभववेपथुसहनाक्षमध नुराक्रन्दितानुकारिभीषणज्याघोषणश्रवणमात्रत्रस्तमृगयूथसब्रह्मचारिंभटब्रु वमृग्यमाणप्रयाणाध्वनि ज्याकर्षणबलभावितश्रवणमूलाभ्यागमसंपादितसं- देशहरसंदेहहृदयभेदनचतुरशरनिवहविहितगमागमे मुषितजीवितसायक- गवेषणमनीषाच्छलानुप्तत्पदातिप्रचयप्रच्छादिताहवभुवि प्राक्तनहननसं- धाभिपतदुपरतकरधृतकरवालदारितप्रत्यर्थिनि परुषतररोषदष्टोष्ठप्रेतमुखरौ- क्ष्यवीक्षणभयापक्रामत्क्रव्यादिपर्यायप्रवृत्तोभयबलविजयघोषहर्षितप्रहर्तृके। करिघटापाटनस्फुटितमुक्ताफलतुलितास्तोकश्रमजलकलितहस्तवति भूरि- 1 द्वितीयो लम्बः । ४९ तेरीफलघृतयथावस्थितवाजिनि शिलीमुखविद्वमुखविनिर्यदविरलरुधिरधा- पुनरुक्तसिन्दुरितद्विरदवपुषि निहतनियन्तृकतुरगोपनीतरथहरणलोलुप- प्रतिबलकलकलरवमनोहारिणि काकपेयशोणितापगाप्रवाहप्रशमितरणर- जसि परिभवनिरसनपरसमरदैवताभिमुखप्रतिशयितदेशीयशरशयनशायि- योधके युद्धे केशाकेशितया प्रसजति तद्दशायाम् ‘स्वदेशगतः शशः कु- अरातिशायी ' इति किंवदन्ती यथार्थो कर्तुमिच्छया वा तुच्छेतरजीव- ककुमारपराक्रमविषयस्य भावितया वा नाफलबलनिष्टुरहुंकारभीत का- ष्ठाङ्गारवाहिनीनिवहस्तिमिरपरिभूतः पश्चिमदिगङ्गनासंगतपतङ्ग इव प्र- तापपराङ्मुखः प्रतिसंहृतकरव्यापृतिरपसर्तुमारभत । अथ गोधनेन समं यशोधनमपि व्याधेभ्यो विधाय निष्क्रय नि- जनारीनयनाभिरामं तिरीफलमूरीकृत्य प्रतिनिवृत्य यथेष्टं काष्टाङ्गारचमूर्ट- ढतरकरमुष्टिव्याजेन वनचरभीत्या प्रयाणाभिमुखान्प्राणानिव पाणौ कुर्व- ती प्रविधूतमानभरतया लब्धलङ्घनलाघवेव सत्वरं धावन्ती तपस्येव कु- पथगामिनी सामप्रयुक्तिरिख शठजनगोचरा परिश्रममात्रफला सती स्व- गृहानतिसंभृतमाससाद । प्रससार च राजपुर्या राजबलचापल्यविषयः संलापः । ततः ' शबरप्रार्थितं पार्थिवबलमाघ्रातव्याघ्रगन्धमिव गोकु- लममन्दावर्तमन्थेन दधीव मथ्यमानं शिथिलीबभूव ' इत्यभिषङ्गविधुरैरा- भीरैरुदीरितमाकर्ण्य घोषवर्तिनि च महाघोषपरिपूरितरिति वेपथुभ- रविह्वलकरतलताडितवक्षसि तारदारुणरोदनकर्शितानुधावत्तुकि वात्स- ल्याश्लिष्टवत्समुखाकृष्यमाणनिजकुचनिशामनपुनरुक्तशुच्यूधरयोत्सुकवत्स - गलविगलदर्धप्रस्तस्वनश्रवणासहिष्णुतापिहितश्रवसि विवेकविकलबालोप. लालनक्लेशताम्यददम्यदशाप्रेक्षणाक्षमताप्रच्छादितचक्षुषि मातृविरहविघू- र्णमानतर्णकप्रेमप्राग्भारप्रस्नवितनिभमथितदधिबिन्दुदन्तुरपयोधरे पारव- श्यविलोठितस्थालीमुखनिर्यदूधस्योदश्विदाज्यदधिपङ्किलस्थलपरिस्खलत्पदे गद्यचिन्तामण MARArum हृदयपरिस्फुरत्परितापविस्फर्जितप्रशमनाभिप्रायप्रयुक्तमुक्तासंदेहदायिबाष्प- बिन्दुसंदोहसंकलितवक्षसि शोकधूमध्वजधूमदेशीयशिथिलितोद्गतशिरोरु- हशिरसि धूलीधूसरितवाससि कारुण्यावहवचसि प्रार्थ्यमानगभस्तिमालिनि प्रणम्यमानगृहदैवते पृच्छयमानदैवज्ञजने गोधनाजीविनि गोकुलापायेन पर्याकुलीभवति गोपालयुवतिजने, घोषवृद्धेष्वपि कर्तव्यमुग्धेषु महारा- जसत्यंधरस्य स्मरसु — पुरा खलु पुरस्क्रिया)पायनपरिबर्हपुरःसरोपस्थि- तमुखप्रसादाथिपार्थिवमकुटचूडामणिमरीचिवारिधारोन्मार्जितचरणराजीवर- जसि राजनि राजति राजन्वती वसुधेयमकुतोभया वर्तेत । तस्मिन्नस्मा- कं गर्भभरवहनश्लेशानभिज्ञमातरि जन्महेतुतामात्ररहितपितरि प्रतिषिद्ध- सिद्धमातृकोपदेशक्लेशगुरौ लोकद्वयहितनिर्वर्तननियतबन्धौ विद्रावितनि- द्रोपद्रवनेत्रे शरीरान्तरसंचारिजीवित उदन्वदजातपारिजाते चिन्तान- पेक्षितचिन्तामणौ विदितास्मत्कुल क्रमागतौ भक्तावबोधिनि भृत्यजनप्रिये व्रजप्रजारक्षणदीक्षिते शिक्षाप्रयोजनदण्डविधौ दण्डितारातिमण्डले मण्ड- लेश्वरे विनश्वरविपयाभिलाषविषवेगाददीर्घदर्शिनि दीर्घनिद्रामुपेयुषि पु- नरप्यसुभिरवियुक्तैरस्माभिः किमेतावदनुभवनीयम् ' इत्याधिक्षीणेष्वाच- क्षाणेषु , शाकुनिके च प्रवयसि जने वदति ‘वायसोऽयं सुस्वरः शबरा- वस्कन्दितमधुनैवास्मदधीन भविता गोकुलमिति निराकुलमाचष्टे । मा भैष्ट यूयम् ' इति कष्टां दशामासेदुपः कारुणिकदुरुत्सहालापान्गोपाना- पदो गोपायिता गोपालग्रामणीनन्दगोपो नाम नन्दितकोविदः संताप- मयकायः कोऽयमिह गोधनात्यानयनकर्मण्युपायः । प्रायेण प्राणभृतां भा- गधेविधेये सत्यप्यशुभोदये सहायतां तत्र प्रतिपद्यत एव प्रयत्नोऽपि । तस्मिन्नपि दुष्कृतबलेन फलेन बहिष्कृते प्राप्तेऽनुद्वेग आत्मवताम् ' इत्य- मोघमतर्कयत् । अताडयच्च कटके - विजित्य विपिनचरान्गोधनमस्म- भ्यं प्रतिपादयितुं प्रभवते कृतैहस्ताय दीयेत मे कल्याणिनी कन्या क- द्वितीयो लम्बः । ५१ . ल्याणमयसप्तपुत्रिकाभिः साकम् ' इति गोसंख्यप्रकाण्डो डिण्डिमम् । ततस्तथाविधमेतमुदन्तमुपश्रुत्य 'शबरविजये कः शक्तः शस्त्रोपजीवि- पु । किमरित मस्तकमणि फणिपतेरपहर्तुं समर्थो जनः । को नाम पञ्चजनः पञ्चाननस्य वदनादामिषमाप्तुमभिलषति । अस्ति चेदमुष्मि- कर्मण्यलंकर्मीणः कामं लभेत कन्यामन्यच्च ' इत्यब्रुवन्भटब्रुवाः । ' हा कष्टम् । निकृष्टमिदं गार्हस्थ्यं कृत्यम् । तथाहि -दारियादपि धना- जने तस्मादपि तद्रक्षणे ततोऽपि तत्परिक्षये परिक्लेशः सहस्त्रगुणः प्राणिनाम् । ततो हि सुधियः ससारभुपेक्षन्ते ' इत्यनुप्रेक्षामातेनुरात्मवि- दः । पराजितराजन्यसैन्यं वन्यं जनमन्यः को भवेदभिभवितुम् । अ- भियुक्तो नास्तीति वा निर्णेनुं कथं पार्यते । विस्तीर्णेयमर्णवनेमिः । अ- स्तोकशक्तिरस्तु वा यः कश्चन हस्तवतःमग्रेसरः । पाटितानेकभटां करि- वटा हरिरेक एव किं न विघटयति ' इति विचारचतुरमाचचक्षिरे वि- चक्षणाः । जीवकस्वामी तु स्वामित्वेन वा भुवनस्य स्वभावत्वेन स्वकलत्र- मिवामित्राधीनं गोधनं मेने । वितेने च संगरम् ' न चेदहमशरणानां शरण्याऽस्मि स्वामिद्रोहियां धौरेयोऽस्मि' इति । आसीच्चास्य योगपद्येन श्रवासि तदुदन्तश्रुतिर्मनसि रोपाग्निर्वचसि डिण्डिमनिरोधो ललाटे टिश्चक्षुयोस्तानता वपुपि स्वेदबिन्दुः सारथौ कटाक्षपातश्चरणयोः प्रयाण- तूर्तिर्धनुषि निपङ्गेऽपि करयुगं चेति । प्रतस्थे च सात्यरिर्जात्यनुगुणगुणक- ण्ठोक्तराजकण्ठीरवभावः सदा संगतैरमंकटखेदिभिरवस्थावदिभिरनारोपि- तवैयात्यैराफलोदयकृत्यैरतिदूरप्रेक्षिभिरपयोपेक्षिभिरखिलगुणसनाथैरात्मीय- मनोरथैरित्र वयस्यैरमा रथमारुह्य पल्लिमभि प्रतिमलजिगीपया । ततश्च तस्मिन्पवनेनेव पवनसखे सखिजनबुन्देन भूभृन्नन्दने विपिनेचरविपिन- दिधक्षया तीक्ष्णतेजसि प्रस्थाय. तरसा प्रयाति, भाविविजयविवरणचतु- ६२ गद्यचिन्तामणी रेण सहचरेण समीरेण समर्पितरंहसीव रथे मनोरथादपि जविनि व्रजति, तथाविधरयधावन्स्यन्दनचक्रस्य वक्राभिघातेन भूभृतां चक्रे शक्रातिशा- यिशक्तिप्राग्भारकुमारनिरीक्षणभीत्येव प्रसभं प्रकम्पमाने , प्रह्वीभावविमु- खेषु शाखिषु शत्रुष्विव सद्यः समुद्भुतेषु, समुत्पाटितविटपिविलोकनभ- यचकितचेतसि चलितशिरसि प्रसूनापीडं सनीडभवदितरभूरुहनिकरे वितीर्य किसलयाञ्जलिबन्धेन प्रकाम प्रणमतीव प्रेक्ष्यमाणे, क्षीणप्राय- प्राणानां निषादानां विषादं वितन्वदशुभचिह्नमहाय मुहुर्मुहुराविरभूत् । प्रादुरभूच्च भूरितरवल्लीविताना पल्लीमभ्येय पल्लविततेजाः पर्याकुलितपा- कसत्त्वः सत्वरसारथिचोदितरथधुर्यतुरगप्रष्ठः काष्ठाङ्गारबलाविक्षेपक्षीबा- णां क्षेपीयः प्रतिसरतां वनौकसां पुरः खमणिरिव वीरचूडामणिः कुमारः । पुनरकरोच्च तेषामयमधिज्यधन्वा श्रवसि ज्याघोषमुरसि शरासारं मनस्या- वेगं चक्षुषि वेगविक्रमविजितालातचक्रेडयां रथकड्यां च । एवमस्मिन्वी- रदिनकरे व्यापारितकरे युगपदेव व्योमव्यापिभिर्वलक्षीकृतदिङ्मुखैः शिलीमुखैर्मयूखैरिव खण्डितैरन्धकारपिण्डैरिव गोधनलुण्टाकानां शिरोभि- रधोऽवतीर्णैरास्तीर्णायामरण्यभुवि , बालातपौष इव कूलंकपे प्रवहति शोणितसरित्प्रवाहे, तमःस्तोम इव निहतध्वस्तावशिष्टे पापिष्ठजने निजशौर्यधनेन गोधनमुत्सृज्य गिरिगह्वरमाश्रिते , विश्रुतवीरः कुमारोऽपि ' मारितैः किमतैर्मुधा कार्य सिद्धे सति । कामं यान्तु काका इत्र वराकाः' इति विचार्य निजशौर्यानुकूलं पलायमानविपिनेचरविशसना- द्विगतसंरम्भ आसीत् । पुनरशरणशरण्योऽयमरण्यान्याः प्रतिनिवृत्य प्रतिलब्धजीवितानां गोधनाजीविनामुच्चावचां प्रीतिवाचमुपशृण्वन् , वि- दारितद्विरदनखरायुधनखरादात्तैरवशिष्टासुप्रणयिशबरदत्र्मुक्ताप्रकरैरिव र- णलक्ष्मीसंभोगसंभवागन्दस्वेदबिन्दुभिरलंकृतवक्षःस्थलः, मरुदान्दोलितक- केलिकोमलप्रवालैर्विपिनदाहिविपिनेचरजीवितहरणतृप्तवनलक्ष्मीवितीर्णैः द्वितीयो लम्बः - . प्रकीर्णकैरिव वाज्यमानः, खरतररथतुरगखुरपुटखननसमुद्भवदविरलधव- लधूलीमण्डलेन चण्डांशोरंशुमभिभावुकेन भाविपतिवत्सलधात्रीसमर्पितध- बलातपत्रेणेव समेतः, प्रथमतरोदयसंरम्भसाफल्यपल्लवितरागैरनारतमज- हद्वृत्तिभिरंशैरिव मित्रैर्मित्र इवाशुभिर्भुषितदोषास्पदराजदीप्तिः, निष्प्रत्यू- हसमीहितसिद्धरध्वानमन्तरालबहुलं लङ्घयन्नप्यविदितपरिश्रमः , क्रमेण पराक्रमकराकृष्टयाभ्युद्गच्छतां पुरौकसामतुन्छरभसाङ्घिसंघट्टकैः काश्यपी- पृष्ठ काष्ठागारं च कम्पयन्कटकनिकटमाटीकते स्म । पुनः पराक्रमपुन- रुक्तप्रेक्षणीयं पुराभ्यन्तरमाश्रयन्तं वीरश्रियाभिनवपरमादरादालोकयितुमा- गतम् , आगमनपारवश्येन स्रस्तकेशहस्तविन्यस्तवामहस्तम् , हस्ताङ्गु- लिनखमयूखपुनरुदीरितचिकुरपल्लवापीडम् , शिथिलितनीवीप्रदेशनिहि- तापरपाणिपल्लवं पल्लवितरागादागतं कामिजनहृदयमिव करेण गृह्णत् , ईषदवगलितकुचांशुकं कुचकुम्भकुम्मिनो रतिरणसंरम्भाय विघटयदिव मुखपटम् , विद्रावितविद्रुमच्छविना दन्तच्छदरागेण हृदयान्तर्गतरागप्रा- ग्भारमिव प्रदर्शयत् , धवलितपुरोभागं सौभाग्यचन्द्रचन्द्रिकोदयमिव मन्दहसितममन्दादरादाचारलाजनिकरमिव विकिरत् , समारोपितचारुत- रभ्रूलताचापं लक्ष्यभेददक्षतीक्ष्णकटाक्षशरमोक्षचतुरमबलारूपमनङ्गबल- मसंख्यं प्रतिप्रदेशं प्रत्यदृश्यत । तदपि दर्शनप्रसादेन परितोषयन्नुल्लोक- हर्षलोकलोचनमनोभिरनुगम्यमानः परार्थ्यजन्मायं परिकल्पितानल्पमङ्गला- हपरिबर्हविराजितं निजभवनमासाद्य सद्यःसमुपसृतपद्ममुखप्रमुखदत्तपाणिः पाणौ कुर्वन्निव प्रभावश्रियं शिलोच्चयादिव केसरिकिशोरः स्यन्दनादवरु- रोह । प्रणनाम च सविनयं पितरं मातरं च प्रेमसंभारेण । संभावयामास संमुखमागतं गाढालिङ्गितेन प्रौढवचसा मुग्धहसितेन स्निग्धनिरीक्षणेन शिरःकम्पनेन करप्रसारेण च यथाप्रधानं प्रथमानहृदयबन्धं बन्धुवर्गम् । पुननिसर्गचतुरप्रणामाञ्जलिं पुरःपुञ्जितं नियुञ्जानः स्यन्दनयुग्यांश्च विश्र- .
गद्यचिन्तामणौ माय प्रश्रयशालि परिजनं विशन्वेइमोदरमादरकातर्यादुदश्रुमख्या प्रस्नवि- न्या जनन्या निर्तितनीराजनविधिरारुरोह हुन्छल्यविधानेन विद्विषां प्रे- मबन्धेन बन्धूनां लावण्यातिशयेन पण्यनारीणां गुणगरिम्णा गुणलुब्धा. नां हृदयं सविलासनिवासेनासनस्य मध्यं च । अथ प्रथितयशसा तेजसां निधिना पुत्रेण पवित्रतपसां योग्यादह कुतो भाग्यात्पुत्रवानस्मीति विस्मयस्नेहमुखरे पितार, वितर्कयति कथमदर्कः स्यान्निसर्गवीरकुमारवीर्यस्येति विचारनिष्ठे काष्ठाङ्गारे , प्रतिदिशं प्रतिदेशं प्रत्यगारं च कुरुकुलशिखामणेः कुवलयकुटीरसंकटनिवासनिबिडिताभो- गां भोगावलीमुपलालयति बाले जरति यूनि च जने , रामभद्रभिव भ्रात्रा प्रलयसमयभिव मित्रमण्डलेन महीध्रभिव वंशजातेन चन्द्रमसमिव सिद्भिः सकलगुणनिकरपरिपूरितैर्वयस्यैः परिवृतं कुमारमभिवन्द्य नन्दगोपः स्व- संतानस्य पुरातनतां राजकुलकुलमृत्यतां च पुरातनषण्मुखमुखविशिष्टा- नामविशिष्टजातिजाताङ्गनासंगमसंकथां च कथयन् ‘भवद्विहितनिर्हेतुकोप- कारस्य प्रत्युपकारमपश्यता मया दिश्यमानां परिणयतु मे कन्याम । न मन्येतान्यत्' इति सदैन्यमयाचत । स च कुरुवंशनभोंशुमाली नीचकु- लललनासंपर्कमविवेकिवर्गसुलभमाकलयन् — अलमत्यर्थमर्थितया । माम, यथाभिमतम् ' इति स्वमतानुरूपमुदीरयामास । स च तावता तुष्टो गो- पप्रष्टस्तद्वचनमाकर्ण्य सुखार्णवे निमजस्तष्ककुलचर्विताग्रदूर्वागुच्छशब- लितोपशल्यं निःशल्यः प्रविश्य गृहं गृहिण्या अप्यनया वार्तया प्रवर्त- यञ्श्रवणोत्सवं दुहितृकल्याणमहोत्सवे महान्तमकुरुत संरम्भम् । अथ प्रथमानवीर्यधनकुमारसंबन्धेन गोधनोपलम्भादपि शंभरसंभ्रमोसंख्यानां मुख्यस्य गुणैः प्रवृद्धे द्विगुणितीत्सुक्यजनविहितविवाहोत्सवकर्मणि प- ल्लवितरागवल्लवरामाकरपल्लवसंपर्कपुनरुक्तरागरक्तमृदुपलिप्तभित्तौ रम्भा- स्तम्भशुम्भितदार संमर्दविघटितघटघटाप्रबहदूधस्याज्यंदधिकीमतभुवि द्वितीयो लम्बः । ५५ हरितगोमयोपलिप्तस्थलनिष्पादितदम्यशष्पाङ्कुरतृपि कोलाहलक्षुभितवत्स- वात्सल्याकुलकुण्डोलीकुण्डलितविषाणकोटिविघटितजनविमर्दै गोसंख्यमु- ख्यावासे स्नातानुलिप्तामलंकृतविस्मितामालोक्य विस्मयस्मरमुखाभिर्बल्लवव- लभाभिः अस्या वल्लभ एनां केन सुकृतेन क्षीरमधुरामपनीतनवनीतमार्दवा- डम्बरां तदात्वद्रुतसर्पिःसंकाशकायकान्ति मुकुलितयूथिकामुकुलधर्वालम- सौकमार्यदन्तपति निर्वासितबायसकालिमकचपल्लवामुद्भिद्यमानवृपकक- दोपहासिकुचयुगलामनुभोक्तुं लब्धवान् ' इति व्यक्तमुपलाल्यमानां गोदा- वरीदुहितरं गोविन्दामानीय नन्दगोपः कुमारकरकमले वारि समावर्जयत् । कुमारोऽपि 'अमुं मामेव गात्रमात्रभिन्न मन्यस्व' इति बदन् 'पद्ममुखाय' इति पयोधारां पर्यग्रहीत् । पद्ममुखस्तदनु गोविन्दां प्रदक्षिणभ्रमणपिशुनि- तशुभोदौर्चिषः सप्तार्चिषः संनिधौ तदीयपाणिपल्लवस्पर्शपल्लवितरागस्तां पर्यणैषीत् ॥ इति श्रीमद्वादीभसिंहसरिविरचिते गर्याचन्तामणी गोविन्दालम्भो नाम द्वितीयो लम्बः ।
गद्यचिन्तामों तृ ती यो लम्बः । . अथ परिस्फुरत्पङ्केरुहभनिभासुरमुखे पद्ममुखे पवनसखसाक्षिक सानन्देन नन्दगोपेन दत्तामिन्दुमुखीं गोविन्दां परिणीय निजावर्जननैपु- णपरिहृतपङ्कजशशाङ्कपरस्परविरोधपुनरावृत्तिशङ्कयेव तया सह सदा सं- गते रममाणे गोविन्दारमणे, वीरश्रीजीवितेश्वरे जीवककुमारेऽप्यनुदिनम् 'अनु जीवककुमार वीर्यवन्तः शौर्यशालिनो मान्या वदान्याः प्राप्तरूपा अभिरूपाश्च' इति गुणलुब्धैरभिष्ट्रयमानगुणराशौ राजति , राजपुरीवा- स्तव्यः समस्तगुणशेवधिरनवधिकश्रीः श्रीदत्तो नाम वैश्योत्तमो वित्तोप- चये व्यासक्तमतिरेवं व्यचीचरत्- ' अस्मपितृपितामहादिभिरर्जितमस्तो. कमस्ति चेदपि वस्तु स्वहस्तार्जितमिवोन्नतचित्तस्य न चित्तप्रसादमावह- ति । आवहतु वा । कथं तदायरहितं धनमव्ययं स्यात् । शश्वदुपभोगे गिरिरपि नश्यतीति जनवादश्रुतेः । वीतवित्ततायाश्च किमपरमरुन्तुदम् । असुभृतां हि दारिद्र्यमसुभिर्युक्तं मरणमशस्त्रसंपाद्य हुच्छल्यमनात्मप्रशं- सनं हास्यतानिदानमनाचारपरिक्षय उपेक्षाहेतुरपित्तोद्रेकजमुन्मादान्ध्यम- क्षपास्फुरणममित्रतानिमित्तम् । किमपरमुदीर्यते । रिक्तस्य न वचो जीव- ति , नाभिजात्यं जागर्ति , न पौरुषं परिस्फुरति , न विद्या विद्योतते, न शीलमुन्मीलति , न शेमुषी समुन्मिषति , न धार्मिकता संभाव्यते, नाभिरूप्यं निरूप्यते , न प्रश्रयः प्रशस्यते , न कारुण्यं गण्यते , पाकः पलायते , विवेको विनश्यति, किमन्यन्न भ्रश्यति । धनोपचये तु लो- कद्वयोचितपुरुषार्थोऽप्यप्रार्थित एव स्वयमायाति । ततो यतितव्यं वित्ताय इति विचारानन्तरमखिलान्तरायध्वंसनकृते कृतजिनसपर्याविधिर्विहितवि- . . , - तृतीयो लम्बः । ५७ , विधपात्रदानो यानपात्रमारुह्य रत्नाकरमगाहिष्ट , न्यवर्तिष्ट च निखिलद्वी- पोपचितनि.सीमवसुराशिः , अशिश्रियच्च पारावारस्यावारपर्यन्तम् ।' अत्रान्तरे नितान्तजवनपवनपथप्रापितपयोधिपयःसंभारस्थलाव- शेषितरत्नाकररत्ननिकरैस्तारकितमिव तारापथमधः प्रकटयन्स्फाटिकदण्डा- कारनीरधारावलिधारासंपातः समाविरासीत् । पुनरुपर्युपरि प्रचुरतरीभ- वदासारेण स्फाररयेण समीरेण समुल्लासितसलिलनिधिकल्लोलकरास्फा- लनबलदलितदिन कृतीव तिमिरनिचये सूचीमुखनिर्भद्ये सति , मन्देतर- परिभ्रमणमन्दरमन्थमथनेनेव चूर्णमाने भृशमर्णवार्णसि , प्रपश्चतरीभव- प्रभञ्जनभञ्जनजनितजलनिधिकलोलनूतनशोणितकणपुञ्ज इत्र रन्जित- सनीडे पाटलविद्रुमलतापटले प्लवमाने , चटुलाचलपाटनपाटवस्फुटित- पयोधिस्फीतास्थिसंघ इवासंख्यशङ्खनिवहे प्रेक्षति , विशृङ्खलतोयाशयशो- कफूत्कार इव श्रूयमाणे भीकरलहरीप्रहाररवे , निघणसमीरणपीडितनी- रधिरोषकृपीटयोनाविव बाडवानले परिस्फुरति , स्फीतबलान्धगन्धवह- प्रतिग्रहणप्रवण इव जवनजलनिधिजलवेणीप्रयाणे प्रेक्ष्यमाणे , प्रतिस- रत्सलिलवेणीबलसमीपसंचारिण चामरवितान इव बहलधवलफेनजाले प्रचलति , तुच्छेतरपयोराश्यावर्तगर्ने पयोदबृन्द इव पयःपूर्णे घूर्णमाने यानपात्रे , कर्णधारवदनग्लानिकण्ठोक्तपोतविनाशविनिश्चयेन निश्चेतन- गात्रान्यानपात्रप्रध्वंसनात्प्रागेव प्राप्तशोकसागरान्नाविकानालोक्यायमांती जिनशासने स्वयमपगनाधिरपास्तसकलसङ्गश्च भवन्सांयात्रिकः श्रीदत्तो दत्तहस्तावलम्बनः ‘कि बत , बालिशा इव भवन्तः क्लिश्यन्ते । कि वा क्लिश्यमानान्न दैवतं क्लिश्नाति । न वा क्लिश्नातु तथाप्यापदागामिनीति मनसिकृत्य शोकवशीभवञ्जनः स्वयमेवात्मानमास्तां भवान्तरे तदात्व एव वेपदा घटयति । सर्वकषविषादादविषह्या विपदपरा का भवेत् । अतो । विपादः कार्यः । किंतु धैर्यमविलम्बितमवलम्ब्यताम् । धृतिमन्तो हि गद्यचिन्तामणो , निजोपान्तगतां पीडामेव पीडयन्तः परपीडामपि विभजेरन्' इति कारु- ण्यावर्जितमतिरभिदधे । तिरोदधे च तरणिः । संनिदधे च कोऽपि कूप- खण्डः । ततश्चायमतर्कितागतिं तमधिरुह्य कमपि कमनीयोद्देशं द्वीपम- विशत् । तत्र क्वचिदुपसागरं सिकतिले तले निषण्णः किंचिदिव विष- गणोऽयं पोतवणिग्वरः 'संसारासारभावोऽयमहो साक्षात्कृतोऽधुना । यस्मादन्यदुपक्रान्तमन्यदापतितं पुनः ॥' इति भावयन्पाकविघटितशुक्तिपुटमुक्तमुक्ताप्रकरं धारासंपातपतितक- रकनिकरमिव कलयंश्चलतरङ्गतरङ्गिणीपतितरङ्गपरम्पराविलुठदकठोरक- कंटकावलोकनसकौतुकं कादम्बकदम्बकमप्यालोकयन्काचन कालकलां गमयांबभूव । बभूव च तत्र परत्रेव गच्छन्नतुच्छतेजा मनुजः कोऽपि वणिजस्तस्य नयनगोचरः। तदवलोकनेन जातसंप्रीतिः प्रसभमनुधाव- न्नुदधिवृत्तान्तमस्मै सविस्मयमुवाच । स च प्रत्युवाचैनमेतदीयदीनतावी- क्षणप्रविजृम्भितकारुण्य इव 'वैश्यवरेण्यस्वमशरण्यः कथमरण्यानीमधि- वसेः । दिवसमात्रमस्मद्गृहे गृहाणासिकां न चेदसि पराङ्मुखः । परमतः पक्ष्यामः कार्यम् ' इति । अर्यश्रेष्ठोऽपि तथेति हृष्टस्तनिर्दिष्ट क्रमेलक- मधिरुह्य सहसा विहायसा ययौ । तावता च पुरः समीरणसंचार्यमाणगग- नधुनीफेनसंचयेनेव कञ्चकित विशदशारदवारिदन्यूहेनेव सनाहित नभ- वरतरुणीकुचाभोगच्युतक्षौमोत्तरीयनिचयेनेव निचुलितमाकालिकतुषार. वारिशीकरक्षोदवणेव वलक्षितमन्तरिक्षमलक्षयत् । तत्प्रेक्षणेन वैश्यप्रती- क्ष्योऽयं कौतुकाक्षिप्तचेता: 'न चाय क्षीरवारांनिविर्जललहरीशिखरवि हारिडिण्डीरपिण्डः । न हि तत्र नरैर्गन्तुं पार्यते । न चेदमुदयारम्भसंभ- वदुदंशोः शिशिरांशोरच्छांशुभिर्विच्छुरितहरिन्मुखम् । न ।हे कौबेरककुभि तृतीया लम्बः । कुमुदबन्धोरुदयानुबन्धः । न च विकचविचकिलफुलोल्लसद्वनवहरीप्रता- नसवितानं गगनम् । न हि तस्यैवमुच्चैस्तलोपलम्भः संभवति । किमि- दम् ' इति चिन्तया किचिदन्तरमतिक्रामन्पुण्डरीकषण्डमिव पुञ्जीभूतं शीतगभस्तिमालिगभस्तिप्रतानमिव स्त्यानमपास्तसमस्ततमःस्तोमं प्रशस्त- विविधविद्यापारगपरमपुरुषपरिपत्पक्षीकृतमक्षयानन्ददानदक्षमतिशुक्लशुक्ल - ध्यानमिव बहिः पिण्डीभूतं पाण्डुरितवनराजिं राजतगिरिमैक्षिष्ट, अभ्यम- नायिष्ट च परमश्रुतप्रतिपादितं यथाश्रुतं तमुत्पश्यन्वैश्यपतिः , अप्राक्षीच प्रीतिविस्फारितेक्षणः सहचर खचरम् ‘खेचरगोचरऽस्मिन्विजयाईगिरौ किमर्थमस्मदागमनम् ' इति । स किंचिदिव स्थित्वा प्रत्यवोचत्---" अयि भोः , श्रूयताम् । इह विश्रुतायां विद्याधरधरायां विविधवृत्तिदानदक्षदक्षिणश्रेण्या श्रेणीभूत- पुरग्रामकान्ते गान्धारविषये योषाजनभूषालोकतिरस्कृतदिनकृदुदयालोको नित्यालोक इत्याख्यया विख्यातः कोऽपि विराजते स्कन्धाबारः । तस्य प- तिर्गगनेचरकिरीटाधिरूढशासनो गरुडवेगो नाम । तस्य च महिषी स- कलगुणमनोहारिणी धारिणी नाम । तयोः सुता देहकान्तिव्यामोहित- 'चित्तभूचित्ता गन्धर्वदत्ता । तस्या जन्ममुहूर्त एव मौहतिकाः ‘कन्येय मे- दिन्यामनन्यसाधारणवीणावादननैपुण्यादेनामतिशयानस्य कस्यचित्कुमार- स्य राजपु- भार्या भविष्यति' इति व्याहा । अथ सा कल्याणी क- दाचन पञ्चकल्याणोपवासपारणादिवसे परिवारेण सार्धं विजयाभूभृतः किरीटायमानं सिद्रकूटजिनचैत्यसदनं संपर्याविधानपुरःसरमधिकभक्तिर- भिप्रणम्य समागत्य चतुर्गतिभ्रमणप्रशमनभेषजं जिनापिङ्केरुहस्पर्शनेन पावनं प्रसून सविनयं पित्रे समर्पयामास । राजापि सप्रश्रयं प्रतिगृह्य तां शेषामशेषदोषक्षयायेति शिरसा वहन्संप्राप्तयौवा साम्राज्यामिमां निर्वर्ण्य जानिर्वेदो निवर्तयश्चक्षुष्यमपि जनं महिष्या सममेकान्ते चिन्तयामास & गद्यचिन्तामणौ आसीदियं तरुणी तारुण्यानेडितलावण्या । भवन्ति चास्याः पश्यन्तः पयोधरोन्नतिं पार्थिवजाताश्चातका इव जातास्थाः । इदं हि संसारिणां सांसारिकप्रसूतिजातेष्वरुन्तुदं दुर्जातं यदात्मसंभवानामात्माभि- वर्धितानां च कन्यानामन्यन केनाप्यदृष्टपूर्वेण घटनं तस्मादप्यनुर-पवरा- न्वेषण ततोऽपि सुखासिकाचिन्तनम्' इति । चिन्तानन्तरममात्यान्तरं नाम्ना धरमाहूय माम् 'अस्माकमस्ति मित्रं धात्रीतलराजिनि राजपुर कोऽप्यूरव्यपतिः । एनमधुनैवानय' इत्यभ्यधत्त । अहमपि कार्यपारत- त्र्यादार्य प्रतायैवमानीतवानस्मि" इति । अथ यथावदवगतपोतोपद्रवविरहेण विश्रुतबान्धववियच्चराधीश- सकाशसंगमलाभेन च सांयात्रिकः समदपरवशो धरेण साकमुपसरन्दरादेव बधिरितश्रवसा तुमुलरवेण सरभसमागच्छेत्यात्मानमिवाह्वयन्तम् , समन्ता- दुद्गच्छदतुच्छरत्नांशुप्रांशुतरगोपुरपक्षोपलक्षितमन्तरिक्षावरााननिरीक्षणको तुकादुडुमितुमिवेन्छन्तम् , अलङ्घनीयसालशृङ्खलावलयेन विशृङ्खलगति- निरोधाय नेगलितायमानम् , सदातनसलिलभरभरितपरिखाचक्रालवा. लपयःपरिवर्धिताम्लतया स्वयमुत्पादितैरिव सकलर्तुकुसुमफलैः समृ- दम् , समृद्धिमयसमोधशिखरपिनद्धपताकाग्रपाणिपल्लवन शशाङ्कमपि क लङ्करहितं संपादयितुभव संमार्जन्तम् , क्वचिद्भिद्यमानपद्मरागमणिम हःस्तबकितवियदन्तरालैराधकालिकबालातपरेखामारचयन्तम् , क्वचित्को करणापीडगारुडरत्नराशिशङ्कितशर्वरीसमागम संरम्भम् , कचिज्जालकित लाभस्तिजालस्थगितदिङ्मण्डलैराखण्डलनीलो पलघटिततलैरकाण्डप्रसारित भोजनशालास्थलकदलीपलाशसंशीतिसंपादि नम् , विहरन्तीनां विद्युल्लतानामिव विद्याधरीणामल क्तकरसाञ्चितचरणन्यासे हैन रञ्जितं स्वयमपि रागातुरमिव निरूप्यमाणम् इन्दुभिरिव नन्दितोदय छोऽदधिभिरिवोत्तालसत्वैर्मन्त्रिभिरिव मन्त्रसिद्धैः प , , कमिथुनविरहवितरणनिपुणवि सर्वतश्च सविभ्रम तृतीयो लम्बः । ६१ रिजातैरिव परिपूर्णितार्थिजालैः सुव्यक्तमुक्ताफलैरिव वृत्तोज्ज्वलशरीरैः कोदण्डदण्डैरिव गुणावननै राजमरालैरिव सुगतिसुन्दरैर्मधुकरैरिव सुम- नोऽन्तरङ्गैर्वासरैरिवातमोऽभिभूतैर्जनैरलंकृतम् , आत्मदुरासदमालोक्य नि- त्यालोकं नितरां व्यस्मेष्ट, व्यतनिष्ट च 'विशिष्टसुकृतोदयादागताप्यापन्मम संपदे जाता' इति सानन्दश्चिन्ताम् । . तदनु प्रविशतां निष्पततां च निरवधिकतया तत्र तत्र स्थितैरिव सर्वद्वीपराष्ट्रभवैर्जनैः सृष्टिस्थानमिवाधिष्ठितमुपसृत्य राजद्वारं दौवारिकम- हत्तरेण धरबोधितेन विज्ञापिताहृतः सकौतुकं राजगृहमवगाहमानस्तत इतोऽप्यदृष्टपूर्वतया दृष्टिं व्यापारयन्नपरिमितानि व्यतीत्य कक्ष्यान्तराणि नातिदवीयसि प्रदेशे शातकुम्भस्तम्भशुम्मिनश्चन्द्रातपच्छेदच्छविचन्द्रोप- लचुम्बिताम्बरस्य निष्टप्ताष्टापदघटितकुट्टिमनिर्यत्तरुणतरतरणिकिरणायमा नमरीचिमञ्जरीपिञ्जरितहरितः खेचरेन्द्रानुचरणधिषणोपसरत्सूर्येन्दुसंदेह- मावहतो महतो मण्डपस्य मध्ये स्थितम् , अस्तोकस्नेह हभयाक्रान्तस्वान्तै- रुन्नयनपतिभिः पङ्किस्थितखचरेन्द्रैरअलिकंजमुकुलपुञ्जनेवाभ्यय॑मानम् , अष्टापदसुप्रतिष्ठकभृङ्गारकमुकरचमरजतालवृन्तबृन्दग्राहिणीभिर्विग्रहिणी - भिरिव तटिलताभिर्ललनाभिरभितोऽपि दिग्वधूभिरिव परिवृतम् , महति हरिविष्टरे समुपविष्टमपि विष्टरश्रवसश्चापकाण्डमकाण्डे दर्शयन्त्या मण्डनपु- नरुक्तया कायकान्त्या मण्डपसर्वस्वतेजसा दिगन्तेषु स्वान्तेन स्वदुहित- विवाहकर्मणि मन्दस्मितेन साधितसमीहितागतेषु सामन्तेषु कठाक्षपातेन प्रसादावर्जनदीनारसहस्रदानेषु श्रवणप्रदानेन नानाजनपदोपसर्पदपसर्प- वचःश्रवणेषु प्रतिबिम्बनिभेन खेचरेन्द्रबृन्दारककिरीटेषु नेत्रेण मित्रगात्रे निवसन्तं तं नभश्चराधिपमधिकभक्तिः समुद्वीक्ष्य संमदभरदुर्भरं वपुः स- मुद्वोढुमपारयन्निव धरायां पतन्सप्रश्रयं प्राणसीत् । खेचरेन्द्रोऽपि रुचिरां दशनज्योत्स्नां निःसरन्त्याः सरस्वत्याः पुरःसरदीपिकामिव दर्शयन्नधरित- , 6 १२ गद्यचिन्तामणौ , जलधररवगाम्भीर्येण कुशलपरिप्रश्नादिचतुरोपचारगर्भेण मधुरतरेण स्वरे- ण 'सांयात्रिकं संभाव्य समुचितकशिपुभिः समग्रमेनं संपाद्य पुनरानय इति धरमब्रवीत् । अथ धरस्य सद्मनि वर इवायमूरव्यचूडामणिरुपलाल्यमानः क्षपा- मपि तत्रैव क्षपयित्वा प्रभात एव प्रसरन्त्यां गन्धर्वदत्तायाः क्षितितलप्र- याणवार्तायाम् , तन्मुखकान्तिजिते कांदिशीक इव मन्दतेजसि गते च- न्द्रमसि, उडुगणेऽप्युडुपतिपराजयादिव तिरोदधति, पूर्वोदधिवेलां वि- कसितकमलमुखे चन्द्रमुखीमुखावलोकनरागादिव सरागे खौ समासीदति, सीदति दुहितृविरहकातर्येण धारिणीहृदये , हृदयज्ञे च राज्ञि 'राजीवलो- चने , सुलोचनानां जननस्थानमुत्सृज्य सरितामिवान्यत्र सरणं किमु सां- प्रतिकम् । अतो न सांप्रतमेवं तव वैक्लब्यम्' इत्युदीर्य हरति धारिणी- मनःखेदम् , खेचरेन्द्रान्तिकममन्दादरादुपसरन्नुत्तमाङ्गचुम्बिताम्बुराशिरश- नः सविनयं तस्थौ । तावता च जातास्थाः 'कन्यकायाः प्रस्थानलग्नः प्रत्यासन्नः' इति मुहुर्मुहुरूचुर्मीहूर्तिकाः । अथ सत्वरंपरिजनचरणसंघट्टनरणिते श्रवांसि बधिरयति, प्रति- दिशं समागच्छदतुच्छप्रयाणपरिच्छदे चढूंषि चरितार्थीकुर्वति , सर्वथाभ- वत्तरुणीविप्रयोगे विधुरयति प्रेमान्धबन्धुजनमनांसि, मांसलपटवासगन्धे घ्रा- णरन्ध्र नीरन्ध्रयति, समधिकधवलोष्णीषवारवाणधारिणा गृहीतकनककौक्षे- यकवेत्रयष्टिना निष्ठुरहुंकारभयपलायितसत्त्वसार्थविभक्तपुरोभागेन प्रवयसा प्रतीहारलोकेनाधिष्ठिताग्रस्कन्धस्य बन्धुरभूषणमणिमहःप्रचयविद्युदुद्द्योत.' द्योतितवियतः स्फुटितमन्दारदामकामुकमधुकरनिकुरुम्बविलुलितालकस्य परस्परपरिहासकथाप्रसङ्गस्फुरितहसितकुसुमिताधररुचकस्य महतः स्त्रैणस्या मध्ये महीभृदाज्ञया समायान्ती , परिचयातिप्रसङ्गसंक्रान्तैर्विजयार्धशिखार- धातुरेणुभिरिव रञ्जितमलतकरसतानं तनुतररेखामयशुभलाञ्छनाश्चितम- , - तृतीयो लम्बः । ६३ तिसुकुमारमुदरं दधद्भयां पादपल्लवाभ्यां पल्लवयन्ती भुवम् , विषमबाण- तूणीरनिर्माणमातृकानुकाराभ्यामुद्यन्नूपुरविमलमुक्ताफलकरैः स्निग्धबन्धुम- नोभिरिव गमनप्रतिबन्धाय गृह्यमाणाभ्यां क्रमवृत्तस्निग्धानतिप्रांशुभ्यां ज- वाभ्यां भासमाना , न्यकृतराजरम्भाकाण्डाभ्यामूरुस्तम्भाभ्यां घनजघ- ननगराभोगभारमुद्वहन्ती, विलसदमलफेनपटलवलक्षण महता क्षौमेण प्र- याणानुसरणकृते समागतराजतगिरिकिरणजातेनेव कृतपरिष्कारा , तारु- ज्यसिन्धुपुलिनयोर्जवनयोः सारसविरावाञ्चितां काञ्चीमुदञ्चता करेण तनु- तया पतनाभिमुखं मध्यमिव गृह्णतीं धारयन्ती, रोमावलीतमालवनराजी- संवर्धमानामृतसलिलकूपविभ्रमं नाभिमण्डलं बिभ्रती , कमनीयकायकल्प- वल्लरीस्थूलस्तबकसंपदौ शौक्तेयहारधरौ पयोधरौ दधती, विलाससमीरस- मुत्थापितलावण्यतरङ्गिणीतरङ्गरेखारमणीययोर्भुजलतयोविमलाङ्गुलीनखम - यूखमालां पितृपुरस्क्रियाहपुष्पाञ्जलिविधानायेव दधाना , कम्बुकान्तिक- ण्ठभूषणमाणिक्याखण्डालोकं बालातपमिव कुचचक्रवाकमिथुनाविश्लेषाय प्रकाशयन्ती, कालाजनपुञ्जनीलालकबन्धबन्धुरापरभागमपरान्तनिबिड- निविष्टतमःपटलमिवोडुपतिबिम्बं बिम्बारुणोष्टसंपुटशुक्तिगर्भनिर्भासुरद- शनमौक्तिकापीडं ललाटेन्दुनिर्यदमृतधारायमाणनासावंशं विमलांशुजाल-- लसितकपोलमण्डलमाणिक्यकुण्डलमण्डितश्रवणयुगलमलिचुम्बितविकच- कुवलयदीर्घलोचनं बिभ्रमलास्यलासिकाविलासभूलतमाननं बिभ्राणा ग- न्धर्वदत्ता सत्वरं सादरं च तन्मुखवलितमुखैः सभाजनैर्ददृशे । ततश्च तामुत्तमाङ्गस्पृष्टविसृष्टमहीपृष्ठां तिष्ठन्ती खेचरेन्द्रः सादरमाश्लिष्य 'पुत्रि, श्रीदत्तेनास्माकं कुलक्रमागता मैत्री । गात्रान्तरस्थं मामेव तावदमुं मन्ये- थाः । कन्ये , जनकस्तवायं जननी चास्य गृहिणी । गृहाणामुना प्रया- णे मतिम् । अलं कातर्येण । गगनेचराणां राजपुरी किं न भवनद्वारस: मा इति सानुनयं समभ्यधत्त । सापि 'यथाज्ञापयति' इति सबाप्पव- , ६४ गद्यचिन्तामणौ दना पितरौ बन्धुजनं च प्रणम्य परिष्वज्यापृच्छय तुच्छेतरशुकशारिका- चामरतालवृन्तकन्दुकाम्बरताम्बूलपरिवादिनीप्रमुखपरिबर्हपाणिभिस्तरुणी- भिर्बहिणीभिरिव पयोदपतिरभिसंवृता निभृतेतरगगनेचरपृतनाभिरक्षिता क्षणादन्तरिक्षण विमानमारुह्य धरदर्शितपोतदर्शनोत्तालहर्षचित्तेन श्री- दत्तेन समं गत्वा राजपुरी शिश्रिये । ततः श्रीदत्तोऽपि गन्धर्वदत्तायाः समागमननिमित्तावबोधेन दुर्ल- लितस्वान्तं विधाय बन्धुसमष्टिं काष्टाङ्गारमप्युपहारपुरःसरमनुज्ञापयन्ननुगु- णलग्ने प्रक्रम्य यथाक्रमं कर्तुं भर्मरत्नरजतजातनिर्माणं निन्दितनिलिम्प- ग्रामणीसभाशोभं भासुरानन्तरत्नस्तम्भजृम्भमाणप्रभाप्रतानवितानीकृतया- मिनीप्रसङ्गं प्रान्तलम्बितबहुगुणहरितकम्बलयवनिकावरणं भ्रमराचान्तो- द्वान्तमधुरसविसरवर्षिकुसुमदामोत्करमनोहरं रणितमणिकिङ्किणीमालिका- लिङ्गितविकटविद्रुमयष्टिप्रतिष्ठितपवनतरलधवलध्वजपटपङ्किपरिहसितसुर- सरित्तरङ्गजालं जालविवरविसर्पिमन्दसमीरसीमन्तायमानकालागुरुधूपपरिम- लाञ्चितवियदन्तरालमचिन्त्याभोगरूपसंस्थान नभस्तलमिव समस्तलोका- वगाहनावकाशदानदक्षम् , सागरमिव नैकरत्नसंपन्नम् , अनिमिषसदन- मिवानिमेषलोचनताविधानविदग्धम् , चन्द्रशेखरमिव शेखरीकृतशीतांशु- मण्डलम् , विष्णुमिव विष्णुपदव्यापिनम् , शतानन्दमित्र सदालोकसंपा- दिनम् , जिनेश्वरमिव जगत्त्रयश्लाघनीयम् , महनीयनिर्माणातिशयविशे- षविस्मापितनिर्मातृहृदयं , कमपि वीणावादनमण्डपं निर्मापयामास । तत- श्चायमाज्ञया राज्ञः समाहूय चण्डालम् 'चतुरुदधिमेखलायां मेदिन्यामन- न्यसाधारणेन वीणावादननैपुणेन पल्लवितपरिवादिनीपाण्डित्यगा गन्ध- र्वदत्तां मम दुहितरमधरयिष्यति यत्रैवर्णिकेषु तस्येयं दारा इति नगरे पटुतरं पटहमाताड्यताम्' इति तत्कर्मणि दक्षमादिक्षत् । अनन्तरमन्त्यजेन तदाज्ञावतंसितशिरसा तथैव ताडिते पटहे .
तृतीयो लम्बः । ६५ तत्क्षणेन क्षणदापगमविस्मरमिहिरमरीचिसहचरसहजतेजःपरिवृतहरितः समसमयचलदलघुबलभरविनमदवनिभरणखिन्नसंपन्नपन्नगपतिमौलयः स- मदमदावलकपोलतलगलदविरलमदजलजम्बालितभुवः प्रभूतजवभरदुर्नि- वारखानायुजवल्यनचटुलखुरशिखरसुदूरोत्थापितरेणुनिकरनिवारितवासरम- णिमरीचयः "काच मेचककरवालकरालमयूखपटलघटिताकालरजनीरीत- यः शतमखशातशतकोटिशकलनशङ्कापलायमानसानुमत्सब्रह्मचारिशता- ङ्गशतशारितवीथयः स्फीतपरिकर्मपरिवर्धितकान्तयः काशीपतिकाश्मीरक- र्णाटकालिङ्गकाम्भोजचोलकेरलमालवमगधपाण्ड्यपारसीकपुरोगाः पुरंदर- सदृशभूतयो भूभुजः समेत्य समन्तादासीननानाजनपदजनताजनितसंमद सर्वतोलम्बमानमुक्तासरसहस्रमण्डितं स्वयंवरमणिमण्डपिकामध्यमध्यरुक्षन्। तत्र च स्थानस्थाननिवेशितानि विडम्बितहाटकगिरिकटकानि निकटघटित- Meen नैकरत्नमरीचिजालपुनरभिहितोत्तरच्छदानि द्विगुणितस्तबरकोपधानाधिष्ठि- तपृष्ठभागानि निरतिशयवितरणकौशलशिक्षाकृते कृतमहीतलावतरणेनेव प- श्चादवस्थितेन पारिजातपादपेन पल्लक्निकान्तीनि दिगन्ततटप्रतिहतिपरि- क्षुभ्यदात्मीययशःक्षीरोदपूरोदरोत्पतितफेनपटलपाण्डरेण समुत्तम्भितमा- णिक्यमयदण्डधारितेन रोहणगिरिशिखरावतरदमृतकरमित्रेण धवलातपत्रे- ण तिलकितोपरिभागानि पराक्रमपराजयप्रणतैरिव पञ्चाननैरञ्चितपादानि सिंहासनान्यधिवसन्तः, समन्तादाधूयमानैरनिलचलदसितेतरकमलदलनि- चयसुच्छायैश्वामरकलापैः कवलितोज्झितहरिन्मुखाः , परस्परसंघटनजन्म- ना भूषणमणिशिञ्जितेन तदङ्गसङ्गकौतुकानुबन्धेन गन्धर्वदत्तामाह्वयद्भिरि- वावयवैराविष्कृतशोभाः , संभावनासमभ्यधिकैर्गीयमाननिजभुजक्जियभो- गावलीवाचालितवदनैर्वन्दिभिरभिनन्दितश्रियः , श्रीदत्ततनयागमनं प्रती- क्षमाणाः क्षोणीपतयः क्षणमासांचक्रिरे । तावता च तमःस्तोममेचककचभारखचितमणीवकनिचयनिर्भर- .
गद्यचिन्तामणौ . . परिमलनिपतितेन निखिलयुवतिसाम्राज्यचिह्नन नीलातपत्रेणेव षट्सदपटले- न परिवृताम्बरा , त्र्यम्बकनयनदहनदग्धमदनपुनर्जीवनदक्षान्कटाक्षानक्ष- यरागजलधिजठरपरिप्लवमानपार्थिवहृदयमत्स्यजिघृक्षया दिशिदिशि नीलकु- वलयदलदामनिर्मितां वागुरामिव प्रसारयन्ती , प्रियसखीसलापरवमयनिर्ग- ताभिरमलदशनकिरणकन्दाभिश्चन्द्रातपमिव दिवि विषमशरसाहायकाय संपादयन्ती , वदनकमलविकासभङ्गभयविदारितेन तरुणतरणिकिरणनि- करेणैव कुण्ठितकुसुम्भकुसुमसौकुमार्यस्य दशनच्छदमणेररुणेनांशुजालेन रागजलेनेव सिञ्चन्ती समन्तादासीनमवनिपाललोकम् , आगापियितहृदय- गृहप्रवेशमङ्गलविकीर्णसुमनःसौभाग्यहरेण हारेण पुलकितस्तनकलशयुग- ला,नवदलितकदलगर्भकोमलं वासो वसाना, वासुकिसमाविष्टमन्दरमथि- तमहोदधिसमुद्गतां संसक्तडिण्डीरपाण्डुरितनितम्बां निन्दन्ती श्रियम् , का- भिश्चन करकलितकनककालाञ्चीभिः काभिश्चन कमलनिलीनकलहंसपरि- भावुकपटपल्लवपरिष्कृतपाणिपुटाभिः काभिश्चन काञ्चनमयमपि पञ्जर का- चकल्पितमिव निजकान्तिकल्लोलैरापादयन्तमुद्वहन्तीभिः क्रीडाशुकं का- भिश्चन भर्तृदारिकावदनसौन्दर्यचौर्यागतं चन्द्रमसमिव स्फाटिकमणिदर्प- णं करेण गृह्णतीभिः काभिश्चन कलितवकुलदामपुलकितसंनिवेशाः 'सं- मुखसमीरस्पर्शमन्द्ररणिततन्त्रीवलया वसुधापालेषु वल्लभोऽस्याः कः स्या- दिति मिथो मन्त्रयन्तीरिव विविधा विपञ्चीरुदञ्चयन्तीभिः परिचारपुरंध्री- मिनीरन्ध्रितपरिसरं परितोलम्बमानमुक्तासरविभूषितं मुषितदिवसकरमरी- चिसमुद्गमैर्मणिगणालोकैराकुलितलोकलोचनमाकीर्णविविधपुष्पं पुष्पकवि- जयचतुरं चतुरन्तयानमधिरूढा , प्रौढमतिभिगूढानपि भावानाविष्कुर्वती- भिरन्तिकवर्तिनीमिरात्मनिर्विशेषाभिः प्रियवचनशतैः प्रसाद्यमाना , प्रत्य- दृश्यत गन्धर्वदत्ता । प्रादुरभूवंश्च तन्निरीक्षणेन महीक्षितां मन्मथमहिम- निवेदनचतुरा विकाराः । तथाहि-कश्चिन्नभश्चराधिपतनये, तव कुच- तृतीयो लम्बः । तटपरिणाहपर्याप्तं वा न वेति निरीक्ष्यतामिदमिति विवक्षुरिव वक्षःस्थला- दुपवीतमुपादाय सविलासमंसदेशे न्यवेशयत् । कश्चित्कमलकोमलेन करे- ण कनकधरणीधरकटकविशङ्कटवक्षःकवाटलम्बिनी विकचरक्तोत्पलदल- निचयविरचितां प्रालम्बमालां परामृशन्कुण्डलितकोदण्डेन कुसुमशरास- नेन मनसि निखातां विशिखमालामुन्मूलयन्निवामन्यत । कश्चित्प्रियसह- दभिहितनर्मभणितिसंभावनास्मितविनिर्गतैविमलदशनकिरणकन्दलारेन्दी- वरदृशस्तस्याः करपीडनकुतूहलाङ्कुरानिव हृदयालवालरूढान्निर्गमय्य द- र्शयन्निवादृश्यत । कश्चिदवनमय्य मणिमयकिरणमञ्जरीमालिन मौलिमा- लोकयन्नधरितगगनाभोगमात्मभुजान्तरं पूर्वप्रविष्टामिमा बिम्बोष्टीमनुभवि- तुं स्वयमप्यन्तः प्रविविक्षरिवालक्ष्यत । एवं विजृम्भमाणेषु विश्वंभरापतीनां पञ्चशरपराक्रमपयोधिविजृम्भ- णविवरणचतुरेपु विकारेषु सा च गरुडवेगसुता सुधाकरलोकप्रतिभट कु- सुमशरयशोराशिमिव राजमानं स्वयंवरपरिषदन्तरवस्थापितं स्फटिकगृहमा- विश्य दृश्यमाननिखिलावयवा निजसखीजननिवेद्यमाननिखिलपार्थिवसार्थ- स्वरूपा परिसरगतायाः परिचारिकायाः पाणिपल्लवादादाय वीणामुपवी- णयितुमुपाक्रस्त । 'विनमदमरश्रेणीमौलिस्फुरन्मणिमालिका- किरणलहरीपातस्त्यायन्नखद्युतिकन्दलम् । प्रणतदुरितध्वान्तध्वंसप्रभातदिवाकरो दिशतु भवतां श्रेयः शीघ्र जिनाङ्घिसरोरुहम् ।। इत्येवमभिव्यक्तसप्तस्वरमुन्मिषितामविशेषमुच्छ्रसितमूर्छनानुबन्धम- तिबन्धुरमाहितकर्णपारणमाकर्ण्य तस्यास्तदपत्रीणनमतिप्रहर्षेण परिषत्परि- सरतरवोऽपि कोरकव्याजेन रोमाञ्चमिवामुञ्चन् । तिर्यञ्चोऽपि तिरस्कृता- परव्यापृतयस्तदाकर्णनदत्तकर्णाः समुत्कीर्णा इव निःस्पन्दनिखिलावयवा- गद्यचिन्तामणी स्तत्क्षणमैक्षिषत । महीक्षितस्तु मृगेक्षणाया निःशेषजनकर्णवशीकरणका- मणमाकर्ण्य वल्लकीवादनं वामलोचनेयमनेन विजेतुमिह जगति न केना- पि शक्यत इति निश्चित्य निःश्वासैः सह पाणिपीडनाशां मुञ्चन्तः पञ्च- शरवञ्चिताः कंचित्कालमानतवदननिवेदितनिजहृदयगतविषादा जोषमा- सिषत । कतिचित्कन्दलितपरिवादिनीपाण्डित्यमात्मानं मन्यमानाः प्रार- भ्य वादयितुं परिवादिनीं परिवादमेव फलमलभन्त । एवमुपक्रमसमस- मय एव समासादितपराजयलज्जाकज्जलितहृदयेषु पार्थिवपृथ्वीसुरवैयेपु विश्रुतविश्वविद्यावैशारद्यविस्मापितजीवको जीवकस्वामी स्वयंवरकृते कृत- मण्डनः पितुरनुज्ञापुरःसरमनुसरद्भिरात्मनिर्विशेषैरशेषैः स्वमित्रमित्र इव मयूखैः शतमख इव मखाशनैः शातकुम्भगिरिरिव कुलगिरिभिरधरितवि- न्ध्यगिरिगरिमाणं गन्धकरिणमधिरुह्य धराधरशिखरनिषण्णं केसरिणमव- धीरयन्नधःकृतमदनरूपाभिमानग्रहो निजगृहान्निरगात् । अनन्तरं तदीय- लावण्यप्रस्रवणे प्रवहति प्रक्षालयितुमीक्षणयुगलमतिदोहलादहमहमिकया समधिरुह्य सौधमणिवलभीमनुगवाक्षमाहितवदनचन्द्रमसामिन्दीवरदृशाम् इन्दुशेखरेण पुरा पुरत्रयेन्धनसमिद्धहुतवहविरोचमाने विलोचने सरभसम- दाहि मन्मथ इति वितथमालपति लोकः । यदयमशेषयोषिदीक्षणचकोरपार- णपौर्णमासीचन्द्रकरायमाणकान्तिकन्दलः कामो निकाममानन्दयत्यस्मान् । किमकृत सा सुकृतं पुरा पुरंध्री यास्य प्रत्यग्रवटितघनतरघुसृणपङ्कपटल- पाटले वक्षःकवाटे निबिडगैरिकपङ्काङ्किते गिरितटे मयूरीव विहरिष्यति । आस्तामिदमस्तोकमस्य लावण्यम् । प्रावीण्यमपि वीणावादने निद्वितीयमे- तदीयम् । आभ्यामखिलभुवनाभिनन्दिताभ्यां विनिर्जिता विजयार्धपतेः सुता नियतमेनं वरिष्यति' इत्येतानि चान्यानि वचास्यवतंसयन्कर्णयो- स्तूर्णमुपासरत्परिसरं स्वयंवरसदसः । सदस्याश्च वयस्यैः सह संनिहित- मेनमपनीतनिमेषोन्मेषेण चक्षुषा निरीक्षमाणाः क्षणमेणाक्षीपाणिग्रहणम- तृतीयो लम्बः । २ होत्सवप्रीतिभाजनं जनोऽयमिति मेनिरे । बहुमेने च सा मानिनी म- दनमहनीयरूपमेनमालोकयन्ती । अचिन्तयच्च 'यद्यसौ लभ्यत पतिः प- राजय एव जयान्मे परं श्रेयः' इति श्रीदत्ततनया । अथ कुमारः समव- तीर्य मातङ्गादनङ्ग इव लब्धाङ्गः कुरङ्गलोचनायाः पुरस्तादवस्थापितमनु- रूपमासनमलंचकार । ततश्चकोरनेत्रायाः परिचारिकाभिः प्रदर्शिताः प्र- त्येकं शास्त्रनेत्रनिरीक्षणादोषानु दोषयन्घोपवतीरट्ययत् । अभाषत च परिचारिकाः ‘परिवादिनी काचन परिहृतनिखिलदोषा भूषयति भवदूं- शम् । आशु तामानयत' इति । तावता च तत्सदृशस्तद्विद्यायां न विद्यत इति जनितपरितोफ्या वीणावत्या वितीर्णी वीणामुपादाय वादायितमपच- क्रमे चक्रवर्ती कलानाम् 'जिनस्य लोकत्रयवन्दितस्य प्रक्षालयेत्पादसरोजयुग्मम् । नखप्रभादिव्यसरित्प्रवाहैः संसारपङ्क मयि गाढलग्नम् ॥' इति । तेन च श्रवणसुभगगीतिगर्भमुद्भूतरागमनुगतप्रामं वादयता वल्लकी विजिग्ये विद्याधरराजतनया । अनन्तरमाविर्भवदभङ्गुरामर्षतरङ्गतहृदयेषु विजृम्भमाणव्यलीक- कल्पितकालिमकर्दमितमुखेषु ललाटरङ्गतटविहरदसितभृकुटीनटेषु निबि- डनिर्गच्छदतुच्छवेगोष्मलदीर्घनिःश्वाससमीरमर्मरिताधरपल्लवेषु पश्यत्सु स्व- यंवरास्थानवास्तव्येषु वसुधापालेषु सा गरुडवेगनन्दना सानन्देन सखी- जनेन समुपनीता कुमारोपकण्ठं वर्धितोत्कण्ठा कण्ठे जीवककुमारस्य कु- सुमशरविकारकम्पमानेन प्रहर्षपुलकजर्जस्तित्वचा पाणिपल्लवेन बबन्ध बन्धरां स्वयंवरस्रजम् । अथ तामनवद्यतपोबलादावर्जितसुकृतानामन्तिकं श्रियमिव श्रय نو गद्यचिन्तामणी न्ती स्वयं जीवकस्वामिनः स्वामिद्रुहां ज्येष्ठः काष्ठाङ्गारः सामर्ष निर्वर्ण्य वरवर्णिनीम् 'नितरां निकृष्टः श्रेष्ठिसुतोऽयं पुरा तिरस्कृतास्मद्बलं नाफल- सैन्यमनन्यसहायो विजित्यास्माकममन्दं मन्दाक्षमाक्षिपत् । एवमत्युल्बणबल- स्यास्य बालस्य खेचरा अपि सहचरा यदि भवेयुभवेदेवास्मदीयराज्यम- प्येतदीयहस्तस्थम् । अतः पार्थिवसुतैः सार्धे स्पर्धा वर्धयित्वा वर्धयाम्यस्य दोर्बलदैम्' इति विचारमारचयत् । अतितरां च समधुक्षयन्महीक्षिदा- मजान्—'वैश्यसुतोऽयं पश्यतामेवंपराक्रमशालिनां परार्ध्यवस्तूपलम्भ- योग्यानामयोग्यः कथं भोग्यामिमां राज्यश्रियमिव समाश्रयेत् । समुत्सायें- नमूरव्यसूनुमूरीक्रियासुरिमां नारीम्' इति । ततश्चैवं कपधर्मपटिष्ठेन काष्टाङ्गारेण संधुक्षितानां गन्धर्वदत्ताभिनिवेशविशृङ्खलविजृम्भितमन्युपर- वशमनसां महीपतीनां स्वयंवरमालानिभादुपलब्धौभाग्यपताकेन कुमारे- ण सह निपात्यमाननिशितहेतिसंघट्टितोद्भटसुभटकवचविसर्पद्विस्फुलिङ्गस्- त्रिताग्नेयास्त्रप्रयोगचमत्कारम् , चण्डासिधाराखण्डितवेतण्डकुम्भकूटपतद- विरलमुक्ताफलपटललाजाञ्जलितर्पितसमरदैवतम् , साहसप्रतिष्टप्रतिभट- करकरवालखण्डितदेवीभवद्योधपरिष्वङ्गपर्युत्सुकहृदयपुञ्जीभवदमरपुरंध्रीनी- रन्ध्रिताम्बरम् , निकृत्तचारभटकण्ठकुहरप्रणालीनिःस्यन्दमानरुधिरासारक- दमितकाश्यपीतलम् , मज्जदङ्किसमुद्धरणायस्यदश्वीयम् , आकर्णकुण्डली- क्रियमाणसुभटकोदण्डटङ्कारसापरायलक्ष्मीपादतुलाकोटिक्कणितमुखरितह - रिदवकाशम् , आकाशकवलनसनह्यदविरलधरापरागधूसरदिवसकरकिर- णालोकम् , रत्पतदवपतदनेकशतशरपुञ्जपञ्जरितरोदोविवरम् , उद्रुरप- दातिरवस्मयमाणमथनसमयसमुत्तालजलधिकलोलकोलाहलम् , अनुवेल- निपतदतिपीवरकबन्धगुरूभवदुर्वीभारजरितकमठपरिबढपृष्ठाष्टीलम् ,अ- ष्टापदरथकोटीपातनिष्पिष्टदन्तावलदशनशिलास्तम्भम् , उत्तम्भितकुन्तय- ष्टिप्रोतविपक्षशिरःशीर्णकचसटाचामरमरुदपनीयमानवीरविक्रमपरिश्रमम् , तृतीयो लम्बः ७१ , डम्बरा, , . विश्वजगदातङ्कजनकम् , अतिमहद्युद्धमवर्तत । ततश्च तस्मिन्नाविष्कृता- लीढशोभिनि मण्डलीकृत्य कोदण्डमकाण्डघनाघन इव घनरवमौर्वानिनद- गम्भीरगर्जतर्जितप्रतिभटस्फुटकपिलकोपरागविद्युदुद्दयोतितवपुषि वर्षति पृषत्कधारां सत्यंधरतनूजन्मनि धरापतिधराधराणां प्रत्यग्रखण्डितेभ्यः क- ण्ठकुहरेभ्यो मुखरितनिखिलहरिदवकाशा, काशकुसुममञ्जरीचारुभिश्चाभरै- रारचितफेनपटलविभ्रमा, शरदभ्रकुलमित्रैरातपत्रैरासूत्रितपुण्डरकिषण्ड- विडम्बितशिखण्डिबहभरैः कचनिचयैः कल्पितशैवालविलासा, विलसदुडुनिकरनिर्मलमलिमैक्तिकप्रकरैः प्रकटितपुलिनशोभा, हरिदि- भकरदण्डानुकारिभि जैर्भुजंगमैरिव तरद्भिस्तरलीकृता, कृत्तपातितान्पा- दपानिव कबन्धानकर्षन्ती, दिगन्तकूलंकषा क्षतजवाहिनी प्रावर्तिष्ट । न्यवर्तिष्ट च भयाविष्टमनाः काष्टाङ्गारप्रमुखः प्रधनान्निधनकफलात्प्रत्य- र्थिपार्थिवलोकः। तदनु यथायथं गतेषु पलायमानबलेषु पराजयलज्जानिमीलितमुख- सच्छायेषु पार्थिवेषु परिहृतामरुन्मिपितगणानुरागैः पौरवृद्धैरभिनन्दितगु- णगणगरिमा जीवकस्वामी जीवितवलुभया जयलक्ष्म्येव मूर्तिमत्या श्रीद- त्ततनयया सह समसमयप्रहतमृदङ्गमद्दलपटहभेरीजन्मना नवजलधरध्वाना- वधीरणधौरयेण रखेण नगरिशिखण्डिमण्डलमकाण्डे ताण्डवयन्नात्ममुखकम- लविलोकनविनिर्गतयुवतिनयनकुवलयितगवाक्षेण नवसुधालेपधवलितव- लभीनिवेशेन स्पर्शनचलितशिखरपताकापटताडितपयोधरमण्डलेन विम- लसलिलधारासंदेहिमुग्धचातकचञ्चुचुम्ब्यमाननियूहनिहितमुक्तासरेण द्वा- रदेशनिवेशितपूर्णकुम्भेन समुत्तम्भितमणितोरणमरीचिसूत्रितेन्द्रचापचम- त्कारेण विप्रकीर्णविविधकुसुमपुलकितधरणीतलविराजिना राजमार्गेण कि- वेदन्तरमतिक्रम्य दिशिदिशि दृश्यमानतुङ्गशिखरसहस्रसंकोचितवियदा- भोगमहिमकररथमार्गनिरोधनोन्मुखं विन्ध्याचलमित्र विलोक्यमानं क्वचि- ७२ गद्यचिन्तामणौ दभ्रितमिव सिन्धुरैः क्वचित्तरङ्गितमिव तुरङ्गमैः क्वचित्पल्लवितमिव पद्मरा- गप्रभाप्रसरैः क्वचिच्छाद्वलितमिव महेन्द्रनीलमयूखलतावितानैः क्वचित्सि- कतिलमिव मुक्ताफलराशिभिरुरि शोभमानमधरितकुबेरभवनवैभवं ब- हुविधैश्वर्योत्कटं गन्धोत्कटसदनं समाससाद । अथ गणरात्रापगमे गणकगणगणिते गुणवति वधूमनोरथकल्प- शाखिनि वरहृदयानन्दपयोधिविजृम्भणचन्द्रोदये चारणचकोरजीवितवर्ध- नजीमूते कुसुमकेतुकलहंसकेलीकमलकानने कलगीतिकलकण्ठनिनदा- वतारवसन्ते संतोषसरसिजविकासदिवसारम्भे संनिहितवति परिणयनति, वसे प्रशस्ते च मुहूर्ते मौहूर्तिकानुमते जीवकस्वामी तदात्वपरिकल्पित प्रयतमहीसुरहूयमानहुतवहं संनिहितसमिदाज्यलाजं स्थानस्थानस्थितब- न्धुलोकमुल्लोकदीयमानताम्बूलकुसुमागरागमुद्भटताड्यमानमङ्गलपटहं वा- द्यमानवादित्रवलकीवल्गुरत्रवाचालितं पूर्यमाणासंख्यशङ्खवेणुशब्दायमान- दशदिशापरिसरं परिणयनमणिमण्डपमधिरुह्य पुरंदरदिशाभिमुखस्तिष्ठन्ना- तानुलिप्तः प्रत्यग्रविहिताभिषेकाम् , आपादमस्तकमारचितेन चन्द्रमरीचि- गौरेण चन्दनाङ्गरागेण निजदुहितृशङ्कया दुग्धजलधिनेव परिष्वक्ताम् , आभरणमणिमयूखमालाच्छलेन रमणपरिरम्भणाय न पर्याप्तं भुजद्वयमि- ति बहूनिव बाहूनारचयन्तीम् , अवतंसकुसुमपरिमलचपलैरतिमधुरं क णद्भिलिकुलैः ‘इह जगति जीवकाद्वरीयान्वरो न कश्चित्' इति कथ्य- मानामित्र कर्णजापैः, कंदर्पशरासनपतितां विशिखकुसुममालामिवैकाव ली स्तनकलशयोरन्तरे कलयन्तीम् , दुर्वहत्रपाभरेणेव किंचिदवनतमु- खीम् , रणता रत्ननूपुरयुगलेन 'निखिलयुवतिदुर्लभं वल्लभमियमिव स मासादयितुं चरत दुश्वरं तपः' इत्युपदिशतेवोपशोभिताम् , उपात्तमङ्ग लवेषाभिरुन्मिषितभूषणप्रभाकुलितलोकलोचनाभिरवनिमवतीर्णाभिरभङ्गु राभिरपराभिरिव विद्युद्भिविद्याधरवनिताभिरुपनीताम् , गृहीतार्यवेषेण श्री १
तृतीयो लम्बः ।
७१
दत्तेन प्रतिपादितां गन्धर्वदत्तां विधिवदुपायंस्त ।
इति श्रीमद्वादीभासिहसूरिविरचिते गद्यचिन्तामणौ
गन्धर्वदत्तालम्भो नाम तृतीयो लम्बः ।
गद्यचिन्तामणी चतुर्थो लम्बः । . अथ तामुपयम्य च विकचकुसुममञ्जरीजालचूडालस्य चनतरो रधश्छायायामालिखितेन रतिवलयपदचिह्नशोभिभुजशिखरनिवेशितकाच् केण करकलितकतिपयकाण्डेन कुसुमकोदण्डेनाधिष्ठितबहिरिम् , दह्य मानकालागुरुधूपपटलकर्बुरेण कलिन्ददुहितृपरिष्वङ्गमेचकितसुरसरित्प्रवा हसहोदरेण दुकूलवितानेन विलसितोपरिभागम् , अनङ्गयशोराशिसंनिका शेन कैलासगिरितटविशालेन विमलोत्तरच्छदपरिष्कृतेन पर्यङ्केण पाण्डु रिततलम् , अनुतलिममवस्थापितमणिपादुकायुगलम् , अन्तर्गतताम्बूल दलवीटिकाश्यामायमानचामीकरकरण्डम् , कर्पूररेणुपरिसंबन्धच्छुरणपरि- मलितदशैरनिशप्रज्वलितैरङ्गजप्रतापैरिव मूर्तिमद्भिर्मङ्गलप्रदीपैर्महितोपक ण्ठम् , हाटकप्तद्ब्रहसनाथशयनीयपार्श्वम् , प्रदृश्यमानविविधचित्रवितीर्ण नयनकौतुकम् , कौतुकागारं कमलदृशा सहागाहत । अथ कतिचिदहा. नि हरिणाक्षी वैलक्ष्याकृष्यमाणा रमणमनोरथान पूरयामास । ततश्च श नैःशनैः कुसुमचापचापलसंधुक्षणविचक्षणोऽयमाक्षिप्य तदीयममन्दं म- न्दाक्षमनया सममत्युल्बणरागान्धया गन्धर्वदत्तया क्रमादतिनिबिडपरिरम्भ- परिपीडितस्तनतटम् , आवेगचुम्बितविधुताधरपल्लवम् , आदरविधीयमा- नकेशप्रहम् , आग्रहपुनरभिहिताघ्राणजर्जरितकपोलाङ्गरागम् , अङ्गविवर्त- नविलुलितोत्तरच्छकथितकामशास्त्रानुष्ठानवेशद्यम् , अविरलधर्मबिन्दुजा- लकिततिलकम् , अपनपानिर्वापितनिकटदीप्रदीपम् , अतिरभसकचन- चतुर्थो लम्बः । ७५ - हविशीर्णमाल्यकुसुमपुलकितशयनम् , अतितारसीत्कारविडम्बितमदनमौ- रिसितम् , आकस्मिकप्रणयकलहविहितपादप्रहाररणितमणिनूपुरम् , अ- श्रान्तवर्धमानकुतूहलम् , अतिवेलं सुरतमन्वभवत् । इत्थमनुभवति संसारसौख्यसारान्सारङ्गदृशा तया सह तस्मिन्रति- विलासान्विषमशरस्य साचिव्यमिवारचयितुमाजगाम जगतीरुहशिखरशे- खरैः सतरकिसलयराशिभिरुपशोभितवनान्तो वसन्तः । प्रविशति भु- बनगृहमनङ्गनृपसामन्ते वसन्ते पुण्याहमिवोच्चारयांबभूवुरुद्भूतकलरवमुख- मण्ठाः कलकण्ठाः । क्रमेण च विकचकुसुमनिचयपरिमलितदशदि- श, मनोरथाधिकमकरन्दलाभमत्तमधुकरम शिञ्जितमुखरितवनभुवि, न- तसहकारकन्दलदलनकेलीदुर्ललितकलकोकिलगलगुहागर्भसंचितपञ्चम प्रपञ्चितपञ्चशरवेदनावेगविवशविरहिणि, विहरमाणदक्षिणसमीरणतरलि- ततरुणपल्लवचूडालचूतविटपिनि, फुटितपाटलीकुसुमपाटलिमपल्लविता- काण्डसंध्यासंपदि , समुन्मिषितकोरकपुलकितकुरवकमनोहारिणि, मन्म- थमहोत्सवसमारोपितमणिप्रदीपसहचरितचम्पकशाखिनि, चञ्चरीकचक्र- चरणाक्रमणपतदविरलसुमनोभरसमुन्नतवकुलतरुशिरसि, प्रभञ्जनप्रकम्पि- किरअशिखरविकीर्यमाणसुमनःसूचितकुसुमशरसहचरागमहर्षविहितवन- लक्ष्मीलाजवर्षे, प्रकृष्यमाणे मधुसमये, अभिनववनापगावगाहनकेलीदोहल- तरलितमनसः पौराः सह पुरंधीभिर्नीरन्ध्रितककुभस्तुङ्गान्मातङ्गान्मनोहारि- णी: करिणीः शातकुम्भाङ्गाञ्शताङ्गाशितखुरदारितमहीरङ्गास्तुरङ्गाश्चामी- करपत्रभङ्गचतुरोपान्तानि चतुरन्तयानानि च समधिरुह्य सादरं नगरान्निर- गमन् । तस्मिंश्च समये समस्तजननयनजीवातुर्जीवकस्वामी सह सुहृद्भिर्न- रजननवीननदीपूरविहारविलोकनाय विनिर्गत्य पुरोपकण्ठाक्रीडेषु क्रीडा- शानि पादपमूलरचितकिसलयशयनाभोगानि भोगभूतदम्पतीकल्पानि लेतकामदोहलानि युगलानि सलिलावगाहनसमुद्यताः कर्णशिखरसमा- १ . , ७१ गंधचिन्तामणौ रोपितकुन्तलपुनरभिहितावतंसकुवलया वकुलदामनियमितकेशपक्षास्तत्क्ष- णदृढघटितमेखलाबन्धबन्धुरनितम्बबिम्बाः सुदूरसमुत्सारितपारिहार्यरिक्त- मणिबन्धाः प्रेमान्धदयितभुजशिखरनिवेशितबाहुलता युवतीश्च सविलासं सहायान्संदर्शयन्दर्शनीयकायकान्तिश्चिरं विजहार । तथा विहरतस्तस्याग्रतः कचिदप्रजन्मनामतिमहान्कोलाहलः प्रा वर्तत । तदाकर्ण्य तदभ्यर्णमभिपतति समित्रे पवित्रचारित्रेऽस्मिन्क्वचिदा दरनिष्पादिताहाराघ्राणकुपितधरणीसुरकरतलकलितदण्डोपलघटनविघटि ततनुरतनुवेदनावेगोत्क्रामदसुराससार सारमेयः सरणिमक्ष्णोः । तन्निर क्षणक्षणोपजृम्भमाणकरुणः कारुणिकानामग्रेसरः कुमारः सारमेयोऽयमप गतासुप्रायतया प्रत्युज्जीवयितुमशक्य इति निर्णीय तत्कर्णमूले सादरं स त्वरं सानुक्रोशं च मूलमन्त्रमुपादिक्षत् । उपदिष्टं च दिष्टया तदवस्थो ऽपि तरलितवालधिरुत्कर्णः समाकर्णयन्नेव सारमेयः शरीरमत्याक्षीत् प्राविक्षच दैवीं तनुम् । ततो मुहूर्तमात्र एव पूर्णगात्रस्तत्रैव तथाविधदि- व्यतनुलाभमूलकारणकुमारावलोकनकुतूहलादागत्य तथा जपत एवास्य पुरस्तादस्थात् । अस्तोककायगभस्तिप्रसरैरालिम्पन्तमम्बकयुगमेनं दृष्ट्वा कुमारोऽयं विस्मयाविष्टः पृष्टवान्—'आचश्व भद्र, न चेदेष दोषः क- स्त्वं कुतस्त्यः कस्मादस्मत्समीपमागतोऽसि ' इति । स च प्रत्यभाषत भू- षणचर:-"कुमार, विद्धि माममुमेव सारमेयम् । सारगुणधाम्नस्तव म- हिम्ना नाम्ना सुदर्शन: सन्प्राविक्षं यक्षकुलाधिपत्यम् । भवत्पादसेवाकृते च कृतमिदमागमनम् । किमिह मया कर्तव्यं किं वा वक्तव्यम् । का वा भवदनुभावं कथयितुमलं भारती । तथाहि-निष्कारणमिदं मत्परित्राण- मिति सति कार्पण्यकारणे रिक्तं वचः । दृष्टो मन्त्रस्य महिमेति जिनशा- सनलघूकरणम् ! ईदृशसामर्थ्यशालिता नाश्रावि क्वचिदित्यपि न वार्तम् । प्रतिनियतसामर्थ्या हि पदार्थाः । अचरमोऽयमुपकार इति भवदवधान- चतुर्थो लम्बः । .७७ परिच्छेदः । कृतार्थीकृतस्त्वयाहमिति त्रिभुवनकार्यविधायिनस्ते विशे- षसमर्थनम् । साक्षादसि प्रत्यक्षसर्वज्ञ इति चरमदेहधारिणस्ते सिद्धानुवा- दः । समाश्रितकल्पद्रुमोऽसीति निशितप्रज्ञावधृतपात्रप्रकर्षस्य ते निकर्षः। भवति पर्यवस्यति परोपक्रियेति स्वभावव्यावर्णनम् । साक्षादकारि का- रुण्यस्वरूपमिति कार्यपुनरुक्तम् । उदात्तशैलीयमिति ज्ञातज्ञापनश्रमः । तथापि हि किमप्यावेद्यते । आगतवति कृच्छ्रे कचिदनुस्मर्तव्योऽयं जनः" इत्यभिधाय कृतप्रणामः सप्रणयं परिष्वज्य परोक्षतामभाक्षीत् । अथान्तरितवति तस्मिन्नुपान्तवर्तिनः कस्यचिदुद्यानतरोरधस्ताद- लस्थाय कुमारः प्रस्तुतदेववृत्तान्तममन्दादरादनुजवयस्यैः सममावर्तयन्मुहूर्त- मत्यवाहयत् । अत्रान्तरे राजपुरवासिवैश्यपतिसुतयोः सुरमञ्जरीगुणमाल- योः परस्परं स्पर्धा भृशमवर्धिष्ट । अतानिष्टां च ते संविदं विदांवरमुखा- दाकर्णिते चूर्णे पराजयः स्यादावयोर्यस्यास्तया नादेयजलस्नातया न भ- वितव्यमिति । प्राहिणुतां च निजचूर्णोत्कर्षनिकर्षनिर्णयाय लब्धवर्णाना- मभ्यर्णमात्मपरिचारिके । ते च निखिलकर्मनिर्माणपटिष्ठे चेव्यौ दिशिदि- शि परिभ्रम्य परिसरं कुमारस्य सादरमुपासरतामभ्यधत्तां च दत्ताञ्जलि पाणितलप्रणयितपनीयकरण्डकगते स्नानीयचूर्णे प्रदर्य 'कथय मिथो वि. शेषमनयोः' इति । तद्वचनसमाकर्णनेन निर्वर्ण्य चूर्णे तूर्णमसौ गुणज्ञः 'सगुणमिदं गुणमालाचेटिकायाश्चूर्णम् ' इत्यवर्णयत् । श्रुत्वा तद्वचनं सुरमञ्जरीपरिचारिका परिकुपितहृदया सती 'भवदादिष्टमतिवैशिष्टयं वि- शेषदृष्टेः प्राकस्यचित्कथमवगन्तव्यम् । परोऽपि जनः पृष्ट एवमन्यथा व्याचष्टे स्म । किमध्यैष्ट भवानप्यमीभिरेवम् । ननु जीवक एव जीव- लोके विवादपदनिर्णायीत्याकर्ण्य खलु भवति तिष्ठावहे' इत्यभाषिष्ट । त्यधरिरपि 'सत्यापयामि तर्हि मदुक्तम्' इति तदुभयमुभयकरण गृ- 'गृहन्तु चञ्चरीकाचूर्णमञ्चितमञ्जसा' इत्युदीरयन्नुपरि चिक्षेप । क्षे- गद्यचिन्तामणी पीयः क्षितितलपतनमसहमानैरिव मधुलिहां बृन्दैरमन्दादराद्गुणलुब्धैरिव गुणाधिके गुणमालाचूर्णे तूर्णमङ्गीकृते भृशमङ्गनास्वासक्तजन इव क्षणा- दधस्तादपतदपरम् । अवर्णयच्चायमभियुक्तः 'चूर्णयुक्तायुक्ततरकालकर- णादासीदसुरभित्वं सुरमञ्जरीचूर्णस्य' इति । तदेतदुपलभ्य चेटीमुखात्स- रमञ्जरी, सुरतरुमञ्जरी सुरकुञ्जरभञ्जनादिव जातवैवर्ध्या विवादविरहित- साक्षिभिः साक्षान्निीतेऽपि निजचूर्णगुणक्षये 'गुणमालापक्षपातादुपेक्षि- ताहम् । अपेक्षा यदा जायेत मयि गन्धोत्कटनन्दनस्य तावदहं कटाक्षे- णापि नेक्षे पुरुषान् । वर्षशतं वा विधास्यामि तपस्यां तज्जनदास्यसंप दिनीम्' इति कृतसंगरा सङ्गगौरवात् 'वयस्ये, क्षमस्व दास्याः परिस्खा लनम् ' इति पादयोः प्रणमन्ती गुणमालामपि मालामिव मौलिच्युताम- नादृत्यास्नातैव निजसदनमासदत् । अचीकरच्च पितुराज्ञया पुरुषसंस्पर्शि- मरुतापि निजमन्दिरान्तिकमस्पृष्टम् । अथ तादृशं तस्याः सख्या वैमुख्यमुपलभ्य तन्निदानं चूर्णविगानमनुशोचन्ती यानमारुह्य नगरबाह्या- प्रतिनिवृत्य निकटगतचेटीजनचाटुमपि श्रवणकटुकं गणयन्ती गुणमा- ला शनैः स्कन्धावार प्रतिगन्तुमारब्धा । तावता समन्ततोधावन्मनुजाना- ममन्दार्तस्वरैमूर्छन् ‘गच्छ गच्छ, गजेन्द्रः' इति रुन्द्रस्वनः श्रोत्रेष्वतिमा- त्रमासीत् । आसीदति स्म च सीदतः स्त्रैणस्य तस्य समीपं संहृतसर्वलो- कः, काल इव कलितमूर्तिः, अधोमूर्धगशाबशतकलितगात्रतया स्वयमू- र्ध्वगैरव्यपत इव पादैः, उड्डीयमानविहङ्गसंगताङ्गतया मञ्जु जवजिघृक्षया पक्षीकृतपक्ष इव लक्ष्यमाणः, क्षितिधर इव लब्धाङ्गिः, अधःकृताधोरण- निवारणः कोऽपि मदवारणः । ततस्तत्संनिधिना निधिलाभेन नीचपरि- ज्ञान इव परिजने परिक्षीणे, सरभसमुत्सृज्य चतुरन्तयानं दिगन्तं वहत्स् वाहकेषु, सा दरिद्रमध्या दारिद्यादिव सहचरविगमादेकाकिनी तस्थौ । तथा तिष्ठन्तीमिमां दृष्ट्वा गुणमालां प्रियंवदेति तस्याः प्रियसखी 'प्राण , चतुर्थो लम्बः । समामिमां मत्प्राणत्राणाय विहाय कथमपत्रपा प्रयामि । प्रयान्तु ममासवः प्रागेतन्मृतिप्रेक्षणात्' इति पृष्ठीकृत्य तां बिम्बोष्टी बद्धाञ्जलिः कुञ्जरस्य पुरस्तादस्थात् । अवसरेऽस्मिन्नाकस्मिकागतिस्तत्रैव परत्रोपार्जितसुकृतवै- भवाद्विभव इव स धीरः कुमारः संन्यधात् । व्यधाच तद्दशानिशामनमा- त्रेण विजृम्भितक्षात्रधर्मः स्वमर्मस्पृगुपद्रवविद्रावणप्रवण इव प्रगुणं गुण- मालारक्षणाय तत्क्षणे प्रयासम् । पुनः प्रतिमल्लविलोकनादुलोकरोपोद्भुरस्य सिन्धुरस्य दान्तये दन्तयोर्मध्ये निजमणिकुण्डलशैलेन गण्डशैलेनेव प्रच- भण्डं प्राहार्षीत् । अनन्तरमन्तरिततजिघृक्षावेगो वेतण्डश्चण्डरोषप्रसारित. 'शुण्डः शूरप्रकाण्डस्य तस्याभिमुखमभ्यवर्तत, प्रावर्तत च प्रहर्तुम् । ता- दात्विकोपायप्रयोगचतुरः कुमारोऽप्यनेकपमनेकप्रकारमायास्य परिणमति तस्मिन्करिणि चरणमध्येन प्रविश्य पृष्ठतो निरगच्छदतुच्छधीः । सा चा मोचितापि कुमारेण मोचासमोरुमारमातङ्गकृतातङ्का समजनि । जनित- मदनवेदनाविवशाङ्गी तन्वङ्गी तत्क्षणसमानीतमनुयायिभिरधिरुह्य चतुरन्त- यानमन्तःप्रविष्टं कुमारमवलोकयितुमिवाधोमुखी, मुहर्मुहुरापतद्भिनि:- श्वासैरत्युष्णतया मर्मरिताधरपल्लवैराकुलितकुचोत्तरीया, निरुत्तरतया द- त्तनमगिरः प्रियसखीः खेदयन्ती विवेश विविधसंनिवेशकान्तं निशान्तम्। अथैनां तुहिनपरामर्शपरिम्लानपङ्कजिनीसच्छायां सत्वरमुपेत्य माता दुहितरं दुःखदीनाक्षरमप्राक्षीत्-" मातः, किमिति भवती कठो- रतरतरणिकिरणतापितमृणालिनीव ग्लानिमनुभवति । निवेदयन्ति च. नितान्ततीनिःश्वासमरुतः स्वान्तसंतापम् । करिकदर्थनादतो भवत्याः किमस्त्यन्योऽपि मन्युहेतुः” इति । एवमुक्तापि प्रतिवचसा नाश्वासयामा- स मातरं मदिराक्षी । अथाधिक्षीणायामभिषमादङ्गजायाः किमनङ्गाक्रम- गेन किंस्विवहाणां ग्रहणेनाहोस्विदपरेण केनापि वा विकारोऽयमाविरासी- दिति वितर्कविह्वलमनसि गतायां मातरि , सहपांसुक्रीडापरिचयपेशल' .
८० गद्यचिन्तामणौ प्रियसखीराप निद्रामिषेण विद्राव्य समुत्सारितसकलपरिवारा प्रविश्य श. यनगृहं शयनीयनिपतिताङ्गी निरङ्कुशनिपतदनङ्गशरनिषङ्गीभूता प्रभूत कुमारसीकुमार्यसंपदनुस्मरणासणिसंचरदन्तःकरणा तदुपलम्भोपायान्वेष णलम्पटमतिः क्रीडाशुकं शोकप्रहाणये पाणौ कुर्वती सर्वमस्मै समीहि तमावेद्य विद्यते किमत्रोपाय इति सप्रणयं सकृपणं सानुनयं सव्रीडं चा- न्वयुत । स च कीरः 'किमम्ब, कातर्येण । कार्यमिदमवनौ चेत्पार्यत एव मया साधयितुम्' इति सधीरं समभ्यधत्त । सा च मदनकृतोन्मा- दा प्रमदा प्रमाणस्य परां कोटि क्रीडाशुकवचसा सद्यः समासाद्य तमेर सात्यंधारिसकाशे ससंदेशं प्राहिणोत् । स च विहङ्गमो विहायसा से हसा पतन्परितः परिभ्रम्य परिश्रमच्छेदाय गन्धर्वदत्तागृहोद्यानगतस्य क- स्यचित्कबलिताकाशावकाशस्य शाखिनः शाखाग्रे सविषादं निषीदति स्म । स चापहसितमदहस्तिमदाडम्बरः कुमारः पुनर्मारकरनिपतदासा- 'रकुसुमपत्रिपतनपरवशगात्रः, कर्तव्यान्तरं विस्मृत्य विविधप्रयोगचतुरस- हचरचारुगीर्ध्वपि गजनिमीलनं कुर्वन् , गुरुतरगुणमालाभिलाषभारव- हनखिन्न इव स्विन्नवपुः, अत्युष्णमायतं च निःश्वस्य निजावसथमभ्ये- त्य निवारितनिखिलानुयायिवर्गः स्वौकसामपि दुरासदं निजसदनोद्यान- मासदत् । तत्र क्वचित्प्रच्छायशीतले महीतले निषण्णो विषण्णहृदयः स्वहृदयनिविष्टां तां बिम्बोष्ठी तत्कामिनीरूपमभिरूपोऽयमखिलकलासु कचिदतिविशङ्कटे पटे प्रकटिततदवस्थमालिखत् । अथ तामालेख्यगता- मन्यादृशाभिख्यामतिदीननयनामधिकपरिम्लानवदनामागलितवसनामत्यु - ल्बणव्यसनामव्याजकरुणावहां गुणमालामालोक्य कुरुवंशशिखामणिरहो महिमा मकरध्यजस्य साक्षादिव तां संनिहिताममन्यत । यतस्तां पञ्चशर- वञ्चितोऽयमवाञ्छदालिङ्गितुम् , आरभत तस्यै किमप्यावेदयितुम् : विषीदति स्म तस्यां जोषमवस्थितायाम् । . ।
चतुथो लम्बः । एवमवस्थान्तरं गच्छत्यतुच्छतदासङ्गात्सत्यंधराङ्गजे तुङ्गतरतरुशि- खरनिलीनः स केलीशुकः साकृतं ससंभ्रमं च संभ्रमन्तमेनं प्रसारित- शिराः सुचिरमुत्पश्यन् 'अयमेवास्माभिरन्विष्टो विशिष्टः । स्पष्टमयमप्या- विष्ट इव मदनग्रहेण । गुणमालया भणितमिदं चिह्नमप्यह्रायास्मिन्नविसं- वादमश्नुते । ततस्तमुपसमि' इत्यारचितविचारः कुमारनिकटमाटीकते स्म । कुमारोऽपि सविस्मयं साशकं च सपत्रमेनं पत्रिणमुवीक्ष्य 'न के- चलोऽयम् । न हि निराशङ्कं विहङ्गममात्रस्य त्रासानिवर्त्य मर्त्यसनीडगतिर्जा- पन्छीति । बाढमनेन च क्रीडाशुकेन भवितव्यम् । किंचायं शुकः किं- शुकातिशायिचञ्चपुटे धत्ते किमपि पत्रमपि । दिष्टया सापि किमस्मद्यते यास्मानित्थमुन्मत्तयति । अचिन्त्यानुभावं हि भवितव्यम् । पुष्पबाणोऽपि वा निष्फलप्रयासः किमस्मास्वेव सायकं संधत्ते । संगमयितुमावां समुत्सु- कस्य तस्य तस्यामपि विद्धायां हि मनीषितसिद्धिः' इतीत्थमन्यथाप्यम- न्यत । तथा मन्यमानं मारमहनीयं कुमारमादरादभिप्रणम्य सप्रश्रयं सम- र्पितसंदेशः समुत्क्षिप्य दक्षिणं पादं पद्यमिदं पपाठ क्रीडाशुक:- 'विषयेषु समस्तेषु कामं सफलयन्सदा । गुणमालां जगन्मान्यां जीवयञ्जीवताचिरम् ॥' तदुपश्रुत्य विश्रुतविश्ववैदुष्योऽयममुष्य पाण्डित्यमतिचतुरं संभाव्य स- संभ्रमं संदेशं वाचयामास । आसीच्चास्य तत्कन्यालिखितमनन्यजसंजा- तसंज्वरस्य संजीवनौषधम् । अबुध्यत चात्मानमवन्ध्यप्रयासं गन्धोत्कटसू. नुः । प्राणैषीच्च स मनीषी मनीपितार्थसमर्थनपरचतुरवचनगर्भप्रतिपत्र- लाभेन प्रगुणग्रहर्षे गुणमालासनीडे क्रीडाशुकम् । सा च तदागमनं प्रतीक्षमाणा प्रतिक्षणविजृम्भमाणोत्कण्ठा 'कि- शुकस्तं जनं पश्येत्समीहितमपि नाम साधयेत् । कदा वा समाग- इत्युत्पन्नमतिरुद्रीवा चातकीव जीमतागमनास्था गगनं समुद्वीक्ष्य ८२ गद्यचिन्तामणी मुहूर्तमुद्दामसंभ्रमा . सविषादं निषसाद । तथा निषीदन्ती निरन्तरनिपतदायल्लकमलबाहु- ल्यादकल्यामकल्याणाकृतिमादरादालोक्य शुकस्तां विच्छायां मानमवच्छे- तुमलं प्रगल्भस्तल्पशरणां गुणमालां समभ्यगमत् । तथा सा च तमन्त- रिक्ष एव वीक्षमाणा प्रसभं प्रतिगृह्य बाढं परिरभ्य हर्षाश्रुभिरध्वश्रममि- वापहर्तुमभिषिञ्चन्ती मुञ्चन्ती रोमाञ्च मुहुः शिरस्याघ्राय वामोरुर्वामाक्षिस्पन्देन परिचितनिमित्तलाभेन प्रागेव सूचितशुभागमा शु- कमुखप्रसादोक्तां पुनरुक्तां समीहितसंप्राप्तिं सात्यंधरिसंदेशतः संदेहविक- लमाकलयत् । ततस्ता मञ्जभाषिणी किंचिद्गलद्वैमनस्यां वयस्यामुखेन वसन्तब- न्धुविकारचिहेन जीवंधरगतास्थया समुपस्थिततदवस्थां समुपलभ्य पितरौ भृशं प्रीणन्तौ 'गुणमालैव सत्यमियं गुणमाला, यदियमपहस्तितास्थान- गतास्था सर्वथा योग्ये भाग्यादृते दुर्लभे वल्लभबुद्धिं बध्नाति' इति स्फा- रमुपलाल्य दुहितरं तत्कल्याणपरायणावभूताम् । प्राहिणुतां च गन्धोत्क- टसविधे विविधवैदुष्यावामुष्यायणौ वर्षीयांसौ पुरुषौ । तावपि सादरमरम- भ्येत्य तमिभ्यपतिमियत्तादूरमितरासंभवं तेन संभावितौ च 'तत्रभवतोः किमत्रागमने प्रयोजनम् । नियोजयतां समीहिते मां कर्मणि' इति सानु- नयमनुयुक्तौ च मुहुर्वक्तुमीप्सितमुपाकंसाताम्- त्रीतले 'तव पुत्राय नः पुत्री समर्पयाम' इति न प्रसर्पति व्यवहारः । तथापि भवतस्तनयस्य भुवनप्रतीक्ष्यत्वादपेक्ष्यतेऽस्माभिरयमर्थः । श्रुत्वेद- मत्रभवानत्र प्रमाणम्" । इति सकृपणं सप्रणयं च ताभ्यां प्रणीतं व- णिक्प्रवेकः प्रतीच्छन् 'अस्तु को दोषः' इत्यभ्युपागच्छत् । अथ गन्धोत्कटे तयोरत्युत्कटप्रार्थनया तमर्थमभ्युपगतवति , प्रा तिक्षणसमापतद्वान्धवशतसहस्रसमाकुले प्रणयिजनप्रेषितप्रभूतप्रामृतभरि- तखलूरीपरिसरे प्रकृष्टशिल्पिलोककल्प्यमानपरिकर्मविकल्पकमनीयनिवेशे "अयि महाभाग,धा- चतुर्थो लम्बः। नैकशतवितानोपधानपताकाद्युपयोगपाव्यमानपट्टांशुकपटले. पद्मरागमणि- तोरणोत्तम्भशुम्भितबहिरिवितर्दिके वित्तवितरणानन्दिवन्दिबृन्दारकबृन्द- पाठ्यमानप्रशस्तिकाव्यकलकलमुखरे मुहुर्मुहुराहूयमानपरिणयनोपकरणसं- निधापनकर्मकर्मान्तिके गृहचिन्तकचिन्त्यमानसदनप्रतिविधेये विधेयचा- मीकरकारविधीयमानमण्डनहाटकघट्टनटङ्कारवाचालिताभ्यणे निवर्त्यमान- मङ्गलवसनताम्बूलाङ्गरागे वधूवरभवने बभूवतुः । ततः समागतवति सकल- किमहिते विवाहदिवसे दीप्यमानशिखाजालजटिलितस्य शिखिनः पु- रावदाकल्पकालिप्तधनतरघनसारसुरभिपटीरपङ्कपरिमलितदेहाम्, हजजगज्जयाभिषेककलशकौशलमलिम्लुचकुचयुगलविलम्बमानहारतार - तुम् , तदात्वफुल्लुबन्धककान्तिबान्धवरक्तांशुकपाटलितनितम्बाम् , उद्यदम्बरमणिकिरणकलापलोहितसकाशाम् , पाकशासनदिशमिव इ- श्यमानाम्, दर्शनीयभूषणमयूखलताकुलितलोकदृशम् , तटितमिव चिरावस्थायिनीम् , अवस्थापितकुसुमदामसारेण रोहदुडुपटलजर्जरि- ततिमिरविराजिविभावरीविलासचोरेण चिकुरभारेण कामपि शोभा- माविर्भावयन्तीम् , कुबेरमित्रदत्तां विनयमालासुतां गुणमालां गुणवति हंगने लग्नकः सकलजन्तुजीवनस्य जीवंधरः सादरमुपयेमे । इति श्रीमद्वादीभसिंहसूरिविरचिते गद्यचिन्तामणी गुणमालालम्भो नाम चतुर्थो लम्बः । . . - गद्यचिन्तामणी पञ्चमो लम्बः । अथ परिणयनानन्तरमन्तरायरहितविजृम्भणेन विषमशरेण समा. रोपितो रागशिखरं शिखरदशनया तया समं संसारसहकारपचेलिमफला. यमानान्मन्दीकृतमहेन्द्रोपभोगमहिमाभोगान्भोगाननुभवितुमारभत कुमारः तथाहि-नवपल्लवदलनिचयनिर्मितशयनेषु परिमलतरलमधुकरपटलपटाव गुण्ठितपरिसरेषु गृहोद्यानलतागृहेषु लक्ष्यीभूतः कुसुमशरशराणां कमलढ शा तया सह सुचिरमरमत । वारणपतिरिव वनसरसि करिणीसखः कंदर्प विजयपताकया तया तन्नितम्बबिम्बाहतिजर्जरिततरङ्गमालासु तदात्वसंभ्र मदम्भःसंक्षोभितकमलसमुड्डानरोलम्बकदम्बकबलिताम्बराडम्बरासु क्रीडा वापीषु चिरं चिक्रीड । अध्यास्य तनुमध्यया सह समन्तादास्तीर्णतूलश यनान्भवनमणिवलभिनिवेशान्निशासु निशापतेर्निर्यदमृतनिःस्यन्दान्करक दलान्प्रतीच्छन्निच्छाधिकं विनोदयामास विलोचनचकोरमिथुनम् । इत्थं गमयति कालं कलानिधौ कामतन्त्रपरतन्त्रे जीवकस्वार्माि भामिनीसखे सखेदः स गुणमालोपद्रवकरः करी तत्कुण्डलाहतिजात लक्ष्यः प्रक्षीणतनुरतनुपरितापपरीतमना मनागपि मन्देतरयत्नेन यन सानुनयं साधिक्षेपमhमाणमतीव स्वादिष्टमपि नाददे कबलम् । निः सेदीर्घमुष्णं च पुष्करलिखितमहीतलः केवलं पाकलाशङ्किभिरङ्गीकर्ता विधभैषज्यभिषक्तमैस्तथा चिकित्स्यमानो न तादृशी दशां क्षणमप्यत्र क्षीत् ।
पञ्चमो लम्बः । . अथ कुण्ठीभूतसकलभैषज्यप्रयोगजनितलज्जेषु वैद्येषु , बहुदिव- सपरिहृतकबलग्रहक्षीणवपुषि विलचितनिजवचनविषण्णनिषादिनि नितरां सादिनि दन्तिनि , तस्य तथाविधविकारकारणमाधोरणा जीवककृतां कु- ण्डलाहतिमेव समाकलय्य पापिष्ठाय काष्टाङ्गाराय सावेगमावेदयामासुः । स च शबरचारभटशूरगृहीतगोधनपुनरानयनप्रकटितपराक्रमपाटवाहितेन निजवारवामलोचनावर्गान्तरङ्गीभवदनङ्गमालाङ्गीकरणप्ररूढेन गन्धर्वदत्ता- परिणयनसमयसंजातपरिभवपरिणतेन निजाधोरणनिवेदितवारणाहतिश्रव- मीरसंधुक्षितेन स्फुटितजपाकुसुमपाटलनयनप्रभापटलच्छलादतिप्रभू. या हृदयादपि बहिर्निगच्छता तुच्छेतरेण कोपहुतवहेन प्रलयसमयवि- सृमरप्रगुणकिरणकलापकबलितदिक्परिसरः पतिरिव तेजसामशेषजनन- यनदुनिरीक्षस्त्र्यक्ष इव त्रिभुवनपरिक्षयचिकीर्षुराविष्कृतभैरवाकृतिरमर्षल- क्ष्मीप्रवेशमङ्गलमणितोरणसविभ्रमभ्रुकुटिबन्धेनान्धकारितललाटफलकः प- रिसरवर्तिनः पुरुषानादिक्षत् 'आनीयतामनेन क्षणेन दुरात्मा जीवकः' इत्यारूढकोपकाष्ठः काष्ठाङ्गारः । तेऽपि तनया इव यमस्य , प्ररोहा इव साहसस्य, प्रकर्षा इव पराक्रमस्य , विग्रहा इव सामर्थ्यस्य , करकलि- करवालकरणतर्पणवासतोमरभिण्डिपालप्रभृतिविविधायुधा योधाः कुमा- रभवनमरुन्धन् । अथ निरुपमपराक्रमपाटवमदोत्कटो गन्धोत्कटतनयः स्वगृहानि- र्गत्य निरवधिकरोषप्रसरः केसरीव हरिणयूथं तरणिरिव तमःस्तोमं दाव- दहन इत्र वनतरुषण्डं प्रलयपवन इव पर्वतनिवहं करिकलभ इव कदली- काननं तत्क्षणेन क्षपयितुमात्मजिघृक्षागतमशेषं बलमारभत । आरम्भस- मसमयमागत्यास्य जनयिता ‘जात , नैवं कर्तव्यम् । स्थातव्यं हि निदे- देशाधिपतेः । तस्योपसरेम परिसरम् । प्रज्ञापरिबर्हविरहिता हि परा- न क्रमन्ते क्षेमाय । तदमीभिः सह गच्छेम राजभवनम् । अनुभ- 8 - ८६ गद्यचिन्तामणी सह वेम भाविनमर्थम्' इत्यभिदधान एव निवार्य तं यौवनिधनोद्यतमात्मजम त्मजन्मदिवसादारभ्यार्जितमशेषं वित्तमुपायनीकृत्य तेन सह नीतिवमैकर न्धुर्गन्धोत्कटः काष्ठाङ्गारस्यागारमयासीत् । प्रविश्य मणिमण्डपस्य मह महति विष्टरे समुपविष्टमेनं ज्वलन्तमिव कोपदहनेन दारुणकोपचयपल यितपरिजनमकाण्डविरचितनिद्राभङ्गविजृम्भितामर्षभीषणवपुषमिव केस णं भीतभीतः कथंकथमप्युपसृत्य तनयेन गन्धोत्कटस्तन्निकटे हात कराशिममरेशनिशितशतकोटिशकलितसुमेरुशिखरसहचरं संनिधाप्य र ह्यतामयमपराधः शिशोः । दीयन्ताममुष्य प्राणाः' इति प्रणयकृपणमा णीत् । काष्टाङ्गारस्तु कारुण्यास्पृष्टहृदयः ‘किमष्टापदेन' इति प्रत्यादि कुमारप्राणप्रणयनभणितिर्धरणीतलविनमितशिरसं कृपणवचनमुखरितवर नमतनुतरतनयस्नेहान्धं गन्धोत्कटम् ‘गम्यताम्' इति सावज्ञं विसृज्य र मक्षमवस्थितानारक्षकाध्यक्षान् ‘अस्य पराक्रममदक्षीबस्य क्षेपीयः क्षपर तासून्' इति सरोषमभाषत । तेऽपि तथेति तदाज्ञामञ्जलिबन्धेन प्रत च्छन्तः प्रगृह्य कुमारमतित्वरितपदप्रचारप्रचलितभुवः प्रस्थातुं वध्यस्था प्रति प्रारेभिरे। अथ प्रतिहतवचसि प्रभूतविषादविषमूर्छालमनसि विस्मृतक व्यवमनि सद्यः सद्म समासाद्य निजसुतविनिपातविजृम्भमाए । णशुचमविरलनिर्यदश्रुजलविलुलितदृशमश्रान्तविरचिताक्रन्दां सुनन्दा अलं संतापेन । संस्मर पुरा चर्यार्थमागतेन तपोधनेन सविस्तरमुदी। तां कुमाराभिवृद्धिशंसिनी कथाम् । अवितथवचसो हि मुनयः' इति स न्त्वयति समवगतसुत प्रबन्धे गन्धोत्कटे, कटकवासिनि जने जी तानुशयेन 'राजते राजता काष्ठाङ्गारस्य । कष्टमिदमकाण्डे विधिचण्ड लस्य विलसितम् । अद्य निराश्रया श्री:, निराधारा धरा, निराला सरस्वती, निफलं लोकलोचनविधानम् , निःसारः संसारः, नीरसा .
पञ्चमो लम्बः । सिकता, निरास्पदा वीरता' इति मिथः प्रवर्तयति प्रणयोद्गारिणीं वाणी- म् , सखेदायां च खेचरचक्रवर्तिदुहितरि दयितविमोक्षणाय क्षणादावि- भावयन्त्यामन्तिके स्वविद्यां विद्याधरकुलक्रमागताम् , क्रमशः स कुमारोऽपि मारयितुं पारयन्नप्यात्मपरिभवविधानलम्पटान्भटान् ‘किमभिनिष्फलं निह- तैः। नासीदति गुरुजनादिष्टः काष्ठाङ्गारवधसमयः' इति साहसाय संनह्य- मानमात्मानं निवार्य सुदर्शननाम्नो देवस्य सस्मार। स च कृतज्ञः कृतज्ञच- रो देवस्तदा ध्यानानन्तरमन्तरिक्षपथमभिनवतमालकाननकालिममलिम्लु- कालमेघनिचयैः कवचयन् , नभस्तलस्त्यानमेदिनीपरागपूरदूरान्तरि- दिवाकरण समुन्मूलितोत्क्षिप्तवृक्षषण्डसमीलिताकाशदिगवकाशेन चण्डा- भिवातपूर्णमानगिरिशिखरविशीर्णगण्डशैलेनेतस्ततस्तूललीलया नीतगृ- हपटलीपटलेनाभिपातताडनविह्वलिताबनीतलविलुठदखिलजीवधनेन झ- झासमी रेण समुत्सारितसकलारक्षकबल: , सहेलमादाय कुमारमन्तरिक्षे- ण क्षणादिव गत्वा गीर्वाणसदनसदृक्षमक्षयसुखसंगतं शृङ्गपरामृष्टचन्द्रं च- न्द्रोदयं नाम निजशैलमशिश्रियत् । अकार्षीच तत्र होत्फुल्लमुखः शत- मखसदनातिशायिसौधाभ्यन्तरस्थापितभद्रासनमध्यमध्यासीनस्य जीवक- मिनः स्वभर्तृमुखपरिज्ञातकुमारमहोपकारितात्यादरैर्दारैः सार्धं पयोवा- धिपयोभिरभिषेकम् । व्याहार्षीच्च-"कुमार, मां विश्वदूषणपात्रे भाष- णगात्रे स्थितमेवं पवित्रीकृतवतस्ते 'पवित्रकुमारः' इति भवितव्यं नाम्ना" इति । एवं कृतज्ञानां धुरि कृतज्ञदीक्षेण यक्षेण कृतां पुरस्क्रियामनुभूय भूयसीं भूयस्तेन सममेकासनमध्यास्याप्सरसामतिपेलवं नाट्यमालोकयति कुमारे कुमारमारणाय प्रेरितः स चौरिकाध्यक्षोऽपि प्रतारणदक्षतया 'क्ष- पितजीवं जीवककुमारमकार्षम् ' इति वचसा हर्पकाष्ठागतं काष्टाङ्गारं वि- धाय तदीयं प्रसादमनासादितपूर्व लेभे । ततः सुनन्दासुतोऽपि सुदर्शनयक्षावरोधजनेन वर इव परया " गद्यचिन्तामणौ . . मुदा संभाव्यमानः संपदं यक्षपते३जीमेव निर्व्याजं गणयन्नपि गणरात्रा- पगमे 'किमत्र मुधावस्थितिरास्थीयते । गुरूपदिष्टराज्यप्रवेशार्हवासरा- त्पूर्वमपूर्वचैत्यालयवन्दनेन कन्दलयामः सुकृतप्रबन्धम्' इति मनो बबन्ध । प्रियबन्धुरप्यस्य बन्धुरमभिसंधिं तदनुबन्धिफलोपनतेरनवधिगतामवधिच- क्षुषा वीक्षमाणः क्षोणीभ्रमणेन कुमारोपलभ्यस्य फलस्य भूयस्तया कथ. मप्यन्वमंस्त । अदाच्च तस्मै ‘मा स्म कुरुथाः कुरुकुलपते , तव प्रेष्यस्य प्रार्थनाकदर्थनेनावज्ञाम्' इति याआपूर्वकं सर्वविषापहरणे गानविद्यावैशा- रद्यकरणे कामरूपित्वकल्पनेऽप्यनल्पशक्तिकममन्दादरान्मन्त्रत्रयम् । १ भ्यधाच्च ‘कुमार कुरुकुलकुमुदेन्दो , कुमुदैश्वर्यासमसमरसाहसलम्पटसुनु, टभुजादण्डखण्डनप्रचण्डनिबिडघटितकोटीरकोटिविततियुतगणनविरहि - तनरपदृढचितसभायां स्वयंवरानन्तरं विवाहसमये मरणपरिणतिमेष्यन्ति यदरयोऽपि , तवोदयोऽपि समासीदति मासि द्वादशे , मदुक्तमिदं द्रक्ष्यसि पुनर्मोक्ष्यसि च' इति । एवममृतायमानममृताशिनो वचनमदसीयाप्सर- सां सरसानि वचांसि च श्रवणयोरवतंसीकुर्वति पर्वतादबरुह्य मह्यां ग- न्तुमारभमाणे कुमारे, सुदर्शनयक्षोऽप्यक्षमो भवन्विरहव्यथां सोढुं गाढं परिरभ्य पथान्तरोदन्तं चंदतया व्याहृत्य विसृज्य कुमारमादरकातर्यात्पु. नरप्यनुसृतकतिपयपदः प्रतिनिवृत्य प्रस्खलितपदः स्वपदाभिमुखस्तन्वन्प- देपदे पृष्ठावलोकनं साहाय्यमनुष्ठातुमनुचरमिव कुमारस्य कुवलयितकुव- लयं लोचनयुगलं प्रेरयन्प्रचुरानुशयः शनैःशनैर्निजशैलमशिश्रियत् । एवं चिरादधिरुह्यान्तरिक्षमन्तर्हिते यक्षेन्द्रे, मृगेन्द्र इव वीतभीतिः स्ववी- गुप्तः स कुरुकुलकुमुदेन्दुरप्यमन्दादरादरण्यशोभाप्रहितेक्षणो विहरन्वि- गतातपत्रमेनमातपात्रातुमिव निराकृतातपान्मार्गपादपानिरन्तरनिपतन्निर्झ- रनिभेन निःसहायकुमारनिरीक्षणदाक्षिण्यविगलदविरलाश्रुप्रवाहसंपतानि- , .
पञ्चमो लम्बः। (९ - व महीभृतश्च प्रेक्षमाणः प्रत्यक्षितयक्षोदितचिह्नमह्नाय महान्तं कान्तारप- थमलङ्घयत् । ततश्चाग्रतः कचिदुप्रतरोष्मदुष्प्रापे विस्फुलिङ्गायमानपांसूत्करे क- रिनिष्ठयूतकरशीकरावशिष्टपयासि निःशेषपर्णक्षयनिर्विशेषाशेषविटपिनि निवनिखिलढलनिर्मितमर्मरवभरितहरिति मरुत्सखसब्रह्मचारिमरुति करे- णुतापहरणकृते निजकायच्छायाप्रदायिदन्तिनि वारणशोणितपारणापरा- यणपिपासातुरकेसरिण्युदन्यादन्यप्रपञ्चवञ्चितहरिणगणलिह्यमानस्फटिकट - मरकतमयूखरेखापरहरिताकुरद्रुहि मृगतृष्णिकाविलोकनोन्मस्तकस- 'लिलतृषि गुल्मसंदेहसमापादन चतुरबर्हिबान्तः प्रविशदातपक्लान्तबालफ- णिनि भक्ष्यदुर्भिक्षतानुपलक्षितवनमहिषकुक्षिणि तापताम्यवर्वीकरभीक- रशूत्कारकांदिशीकश्वाविधि मृगगणनिमीसताकृतमृगयोपेक्षाबुभुक्षितवनौ- कसि वनदहनदह्यमानवशपरिपाटीपाटनप्रभवझटझटारवचकिताध्वगमन- सि दीनताशान्तवानरकुललीलाकर्मणि धर्मसमयारम्भसमधिकदुःसहोष्म- धर्माभिधानरसातलज्येष्ठे मरुपृष्ठे निश्चरर्दीचश्छटावलीढवेणुस्फोटस्फुटपुर:- पटहेन शुष्काण्यपि शिरांसि महीरुहां ज्वालाभिः किसलयितानि कुर्वाणेन , दन्दह्यमाननीडोड्डीननिरालम्बाम्बरभ्रमणखेदपतितपत्रिपत्रपालीचटचटायि- तरटितवाचाटेन विपिनसत्त्वसंतानविविधवसागन्धानुबन्धविगमायेव सपदि निर्दग्धस्निग्धकालागुरुतरुगहनैरात्मानं धूपयता , कुसुमचपकपुटेषु कृतम- धुरसास्वादनमदवशादिव प्रतिदिशं पतता, साटोपं कबलयता स्वाहित- वलाहकगृह्यतागर्हयेव बर्हिणव्यूहान् , वैरिवारिसंभवरुषेव शोषितसरसी- गर्भस्थितानि वारिजजालानि लेलिहता, गृहीतगरुडस्वभावेनेव निर्विश- 'माणदुर्वहभोगभीमभोगिना , निजजीवितापहारिजीमूतमूलच्छेदेच्छ- स्फुलिङ्गच्याजेन वियति समुद्गच्छता , दुष्कालेनेव तुच्छेतरधूमप्रच्छा- द्यावापृथिवीविभागेन , पात्रदानेनेव भूतिविधायिना , बौद्धेनेव लब्ध- . १ ९० गद्यचिन्तामणौ सर्वस्वभक्षिणा , तत्त्वज्ञानेनेव तमोपहेन , अतृप्तिमत्त्वादतिगृभुजनदेशीये- न, प्राप्तदूषणाद्वेश्याजनवेषान्तरेण, दुष्प्रवेशत्वादाट्यगृहातिशायिना , सुजनलोकनेव पांसुलस्थले स्पर्शरहितेन, गुणराशिनेव वंशोत्कर्षप्रकृ- ध्यमाणेन , तस्करेणेव रक्षाभूयिष्ठे निवृत्तसंरम्भेण दावपावकेन परितः प- तितया परितापपराधीनान्कृपाधीनमनाः स दीनोद्धरणोचितः कुमारः शतहदाशतवलयितानित्र बलाहकाननेकपानैक्षिष्ट । दृष्टमात्रेष्वेव तेषु स्वगात्रस्पृगुपद्रवादिव दूयमानः सुतरां सुदर्श- नसुहृदयं तदुपद्रवपरिहृतये हृदयनिहितजिनपतिपदपङ्केजः सुप्तमीनहद इव निभृतनिष्पन्दाक्षिपक्ष्मा क्षणमस्थात् । तावता वपुः परुषतरा- लोकनिमीलिताम्बकानामम्बरमालिम्पतामकालबालातपरुचां शम्पासहस्रा- णामजस्रोन्मेषणमण्डिताः शुण्डालौरसशुण्डादण्डाकाण्डतुल्यस्थौल्यनी- रधारानिरन्तरितान्तरिक्षाः प्रतिक्षणसुलभफणिपतिरणरणकवितरणचतुर- गम्भीरगर्जितजरितश्रवसः पर्जन्याः । तदनु च निजोदरनिलीनसानुम- ति सलिलाहरणविषणागतनीरदायमानद्विरदपरिषदि बाडवकृपीटयोनितु- लितबिलविवरपीयमानपयसि शौक्तिकनिकरानुकारिकरकोत्करहारिणि त्रि- डम्बितविद्रुमलतावितानद्रुमकिसलयोपशोभिनि सागरसब्रह्मचारिणि प्रव- हति पयःप्रवाहे दावचित्रभानोः परित्रातानालोक्य गजान्गजेन्द्रगामी ग- तानुशयः शनैरतिक्रम्य मरुभुवं गत्वा गव्यूतिमात्रं तत्रैव महावंशतया महासत्त्वतया महीभृत्तया महोन्नतितया चात्मानमनुकुर्वन्तं कमपि पर्वतं तदखर्वगर्वनिर्वासनाय निवेशयितुमिव निजावियुगमस्य शिरसि सिंहपोत इव शिलाविभङ्गेन साहंकारः समधिरुह्य महीभृतस्तस्य मणिमकुटायमानं जिनपतिसदनम् , पिपासातुर इव धाराबन्धमादरान्धः समासाद्य , सद्यः संपुलमल्लिकावकुलमालतीप्रमुखफुलगुच्छैः पूजार्हमहन्तमतिभक्तिरभिपू- ज्य , पुनरपि तरुणतरणिरिव गीर्वाणगिरि प्रकृष्टमनोरथः प्रदक्षिणं भ्रम- . , पञ्चमो लम्बः । ९१ . न् , तत्रत्यया जिनशासनरक्षियक्षिदेवतया सादरसंपादितकशिपुः , ततो विनिर्गस्य विश्वतः शश्वदुपपादिततरुणीचरणयावकरससंपर्करक्ततलतया स्वयमपि पल्लवितरागमिव पल्लवव्यपदेशं देशमशिश्रियत् । तदनु च त- न्मध्यनिवेशितं निर्दोषतया दोषाधिपतिरिति सदा सुवृत्ततया व्यवस्था- विकलवृत्त इति कलाक्षयरहिततया परिक्षीणकल इति च परिभवन्तं च- न्द्रम् , चन्द्राभं नाम कमपि स्कन्धावारम् , नैकवारसंभवदसंभविनिमि- त्तोपलम्भेन ससंभ्रम गाहते स्म । तस्मिन्नपि स्थानस्थानेषु वाचंयमाना- व वर्जितव्याहृतीनां साद्यस्कहविषामित्र बाष्पनिष्पादनव्यसनजुषां भूरि- 'फलभरितभूरुहामिव विनम्रशिरसां पुरौकसां नालनिष्कूषितनलिनानीव प्रम्लानवदनानि प्रेक्षमाणः प्रान्तवर्तिनं कमपि दान्तहृदयं पुरुषममृतव- र्षायमाणदशनकिरणैः सकरुणमिव सिञ्चन्वनकुञ्जरोत्पाटितविटपिपेटक- स्येव विश्वस्यापि जनस्य विच्छायतानिदानम् ‘किमवगच्छसि' इत्यपृच्छ- त् । स च कुमारमादरादभिपत्यैवमब्रवीत्-“भद्र , भद्रासिकार्थिपार्थि- वपरायकिरीटपादपीठप्रतिष्ठितपादपल्लवः पल्लवदेशापदेशकुबेरकोशगृह- पतिः पतितजनदुरालोको लोकपालो नाम राजा भवत्यस्या राजधान्याः । तस्य च सकलगुणगरीयसी कनीयसी प्रज्ञाशालिजनकलाभेन जडाशय- प्रभवेति पतिदेवताव्रतभाविबहुमानप्राप्त्या बहुपुरुषाभिलाषिणीति लोकपा- लसहजसंगमेन लोकविनाशकरगरलसोदरेति च गर्हमाणा पद्मां पद्मा नाम । कन्यामिमामिदानी कन्यागृहानिर्गत्य गृहोद्याने स्वकरावर्जितजलसेकेन सस्नेहमभिवर्धिता पुष्पवती जाता माधवीलतेति महोत्सवमारचयन्ती त- द्वदनगोचरशशाङ्कशङ्कयेव भुजङ्गमः कोऽप्यस्प्राक्षीत् । नरेन्द्राश्वासन्नरेन्द्रा इव प्रबलप्रार्थिनो व्यर्थप्रयासाः । तन्निमित्तोऽयं मर्त्यानां शोकः । शाकु- कश्चिन्निश्चेतनेयं यदि जातापि कन्यका तावदेनामनन्यसाधारण- नैपुणः कोऽपि प्राणैः समं सांप्रतमेव संगमयतीति संगिरते ।
९२ गद्यचिन्तामणी । - नरपतिरपि तद्वचनविश्वासाद्विश्वदिश्यपि शक्तिमदन्वेपणाय शुद्धान्तादप- रमन्तिकचर प्राहैषीदघोषयच्च ‘विषहरणसमर्थाय मम राज्याधैं वितरि- ध्यामि' इति । महाभाग, महीपतिना विषविद्याविदग्धान्वेपणाय प्रेषिते- ध्वहमप्यन्यतमः कश्चिदस्मि । कार्येऽस्मिन्कच्चिदार्य , भवतोऽप्यधिकारोऽ- स्ति" इति । तद्वचनानन्तरं जीवकस्वामी च 'जीवमात्रस्याप्युपद्रवो द्राव- यितव्यः। किमुत प्रबलोऽयमबलाजनस्य' इत्यन्तश्चिन्तयन् 'अयि भोः, तत्र यामो वयम् । अस्तु वा न वा प्रस्तुतकर्मणि प्रावीण्यम्' इति प्रणिगदन्नेव राजगृहमुपसृत्य प्रवर्तमानतुमुलनिवर्तितवर्षधरनिवारणयन्त्रणमनामन्त्रित एव प्रविश्य कन्यान्तःपुरं तत्र सर्वतोऽपि सर्वसहापृष्ठे वेष्टमानगात्रयाष्टं कष्टां दशामापनमाक्रन्दमयमिव शोकमयमिव विलापमयमिव व्यामोहमयमि- वाश्रुमयमिवामयमयमिव निरूप्यमाणं जनं तन्मध्यगतां धवलकोमलकदल्य- न्तर्दलसच्छायप्रच्छदाच्छादितशयनीयमधिशयानां मृणालिनीमिव च्छिन्नमू- लां विच्छायां कन्यकामपश्यत् । व्यचिन्तयच्च तदङ्गकान्तिकन्दलितकन्दर्पद- पः 'न चेयमप्सरसः, न हि तस्याश्चक्षुः पक्षीकृतपक्ष्मक्षोभम् । न वास तडिल्लुता, न हि तस्या अप्येवमतिपेलवाङ्गोपाङ्गसंगतिः । न वैवासे रतिः , न हि तस्यास्तनूजन्मना भुक्तोच्छिष्टाया एवमक्लिष्टाङ्गयष्टिता घट ते । नूनमियं भुजङ्गेनाप्यनङ्गाविष्टेन कि स्पृष्टा' इति । एवं चाभ्यथा चि न्तयन्तमन्तिकचरमुखादुपलब्धमहिम्नि महीपतावपि सपादपतनमवरजाक च्छ्रमुच्छेत्तुमुपच्छन्दयति तदिच्छां विनापि तत्कर्मणि कम्रोऽयमानम्रोद्धार कुमारस्तथेति तद्वक्रमालोक्य निमेषमात्रेण तां निर्विषीचकार । स्वीचका च पुनरेनां कन्दर्पसर्पः । वपुष्मान्मारो हि कुमारः । कथमेनं साक्षाद द्वीक्ष्य चक्षुष्मती कन्या न भवेदनन्यजाक्रान्ता । ततश्च सा सकृदवले कनकृतव्यसनभूयस्तया भूयः कुमारमपारयन्ती द्रष्टुं विषवेगमिषेण पश्च दपि निमेषणमेवात्मनः शरणममंस्त । अतर्कयच्च प्रथमतरमनुभूयमानरू पञ्चमी लम्बः । ९३ . रविकारा 'कथयन्ति निकामं कामो नाम कश्चिदस्तीति । किमयं सः' इति । तदवस्थालोकनेन लोकपालभूभुजि पुनरपि गरलसद्भावशङ्काभया- लिङ्गिते भृशमिङ्गितज्ञः कुमारोऽपि कामतन्द्रालुमन्त्रयन्निवानगातुरमात्मा- नमपि तदङ्गस्पर्शन चरितार्थीकुर्वन्समानयोगक्षेमतां लेभे । मुमुचे सा च मोचोरुस्तदीयचतुरकरतलस्पर्शनमनुमहिम्ना प्रद्युम्नगरलवेगात् । उदस्था- च तल्पादाकुलिताकल्पा । बुबुधे च सविधगतान्विविधौषधहस्तान्सम- स्तानपि पुरुषान् । तिरोदधे च तिर्यग्वलितमुखी पर्यङ्कादवरुह्य हीयन्त्र- पेनाकृष्टा संनिकृष्टचेटीपेटकस्य मध्ये । तावता तत्परित्राणविहस्तो जनः समस्तोऽप्युन्मस्तकहर्षमूर्तिः कर्तव्यान्धो गन्धर्वदत्तादयित दत्ताञ्जलिरभिप्र- णम्य 'प्रयाणाभिमुखान्प्राणान्प्रतिपादयन्प्राणनाथोऽप्ययम्वास्याः' इति स्वयमेवाचीकथत् । लोकपालोऽपि ‘लोकोत्तम , लोकोत्तरोऽयमुपकारः। किमिह तवाहं व्याहरामि । मम राज्यं मम भोज्यं मम गात्रं मम मित्रं मम प्राणा मम त्राणं च त्वदधीनं' इत्यभिदधानः , प्राप्तमनःप्रसादमेनं प्रासादे कचित्प्रचुरोपचारमवस्थापयन् , अपास्तसमस्तजनं मन्त्रागार मन्त्रि- भिरधिरुह्य मन्त्रयामास—'अयि मान्याः , कन्यायाः प्रकृतोऽयमुपद्रवः (सुकृतोदयादुपाशमत् । अतः परं परोऽयमपारो ह्यस्याः प्रशस्तवरान्वेष- गप्रभवः । ततः कथमनारोपितदोषं कथंकथमपि कमपि जामातरमुपल- भ्य तमपि दुस्तरं बाढं निस्तरामः । कुमारोऽयमनवद्याकृतिरविद्यमानप्र- त्युपकारमुपाकरोत् । अनुरूपश्च रूपयौवनसुगुणैः । किच, तां मजुभा- 'षिणी स्वहस्तेनाप्यस्पृशत् । या चास्माकमयमविदितगोत्रविशेषो वैदेशिक इति जाता संशीतिः सापि सांप्रतं निरस्ता , यतस्तदीयो वृत्तान्तस्तदनु- भावकण्ठोक्त्यायमवगतः । एवंगते सति यदत्र प्राप्तं प्राप्तरूपा निरूप- भवन्तः इति । तन्निशम्य नीतिविदः सचिवाश्च 'देव किमत्र वि- परिण । सर्वथा स एव योग्यः कुमारः' इत्युदरियामासुः ।
गद्यचिन्तामणौ . अथैवमात्माभिमतममात्यानुमतं च वधूवरसंगमं संपादयितुमुलो- कसंविधाविधायिनि पल्लवदेशभूभुजि, परश्वः खलु भविता पाणिपीडनमहो- त्सव इति जनवादे विजृम्भमाणे, विजृम्भितमन्मथव्यथः कुमारोऽप्येका- मपि त्रियामां सहस्रयामां सर्वथा निश्चिन्वन्पश्चिमे यामे यामिनीस्वामिन्य- पि स्वामिरहःसंभोगसमुद्रीक्षणत्रपयेव तिरोदधति , रतिव्यतिकरविशीर्ण- वधूवरचिकुरबिच्छुरितसुमनसीव विच्छायतामुपगच्छत्युडुनिकरे , निर्दय- विमर्दाश्यानमिथुनाङ्गसगतकुङ्कुमपङ्कपराग इत्र प्रसरति प्रसवरजसि , पु- पवतीः स्पृष्ट्वा लताः पुनः स्पर्शभीत्येव शनैश्चरति समवगाढसरसि रुति , सद्योविकचन्मणीचकनिचयमनोहारिणि महीरुहनिकरे निरन्तरनि- स्यन्दिमकरन्दधारां दम्पतिघटनार्थमम्बुधारामिवावर्जयति , स्फुटितकुसुम पण्डोद्भासिनि दीपमण्डितदीपदण्ड इव दृश्यमाने सनीडगतचम्पकविटपि- नि, अतिस्फारतया बहिःस्फुरज्जायापतिराग इवोन्मिपत्युषोरागे, भृङ्गावील- प्रकणिते मङ्गलपाठकवचसीव गृह्यमाणे, गृहोद्यानमण्डनमाधवीलताम- ण्डपे कुसुमकोदण्डेन प्रदत्तां तां मत्तकाशिनी गम्धर्वदत्तापतिर्गन्धर्ववि वाहप्रक्रमेण रागाग्निसाक्षिकं परिणीय पुनर्गुणवति लग्ने लोकपालेन वि- तीणी विधिवदपायच्छत । मा इति श्रीमद्वादीभसिहरिविरचिते गद्यचिन्तामणी पद्मालम्भो नाम पञ्चमो लम्बः ॥
षष्ठो लम्बः। ९५ षष्ठो लम्बः . अथ तां नववधूमवधूतत्रपां पवित्रकुमारः शनैःशनैः परिकल्पय- न्, 'पङ्कजल्वेन द्विजपतिद्वेषण मधुपसंपर्केण च निकृष्टं निर्दिष्टदोषरा- हित्यादवधीरयतः पद्म तव मुखपद्मस्य पद्मसदृशतां पद्मानने , कविवर्त्मनि स्थिताः कथं कथयन्ति' इति मिथः कथयन् , नट इवावस्थानुगुणवच- सि विट इत्र सभोगचातुर्ये वश्यमन्त्र इव वशीकरणविधौ शिष्य इवेच्छा- नुगुणवर्तने चक्रवाक इव विरहासहिष्णुत्वे भवन् , तत्तद्गुणेषु स्वयमपि तथा भवन्ती कामिनी कामतन्त्रज्ञो यथाकाममन्वभवत् । अनैषीच्च तस्मि- न्नेव राजसमन्यम्लानपाटलोत्पलदामपरिमलोद्गारिकबरीबन्धया विरचित- शिरीषकलिकावतंसया दिवसकरसंतापसंत्रासादतिशिशिरदेशनिवेशितनेव शशाङ्कातपेन घनसारसुरभिणा हिमजललुलितेनानतिविरलेन चन्दनविलेप- नेन पाण्डुरितशरीरया , सलिलस्यन्दिबिसलताहारव्यतिकरितमुक्तासरत- रङ्गितस्तनतटया परिहृतकुङ्कुममाणिक्यभूषणया त्रिगुणतिरस्करिणीस्थ- गितवातायनदूरान्तरितामणिकिरणदर्शनया पल्लवितसायंतनसलिलकेलि. कौतुकया निर्मोकपरिलघुपरिधानया धारागृहनिर्यद्वारिधारारवश्रवणनि- वृतया चन्दनशिशिरशिलापट्टसंविष्टया प्रालेयशीकरासारवाहिन्या यामि- न्येव हेमन्तस्य , मौक्तिकराजिततनुलतया वेण्येव ताम्रपाः, शीतल- चन्दनच्छायामृता मेखलयेव मलयशैलस्य , फेनपिण्डपाण्डुराम्बरया वी- च्येव पयःपयोधेः , पद्मया तया समं स्फुटितपाटलकुसुमापीडपटुपरिमल- गद्यत्तिन्तामणौ . विसरवासितरोदेविवराणि प्रसरदूष्मलतरणिकिरणपरामर्शमरितपक्ष्माणि पटुतरातपकृतकोटरपुटपाकमन्दप्राणविष्किराणि स्फीतफलस्तबकभूरिभा- रनम्रशाखाम्रवणानि चूडारत्नसंशयितवनवैश्वानरबिलेशयभुजङ्गानि पत्रला- नूपद्रुमषण्डपिण्डितरोमन्थमन्थरवदनगोधनानि दावदहनदाहविदाणसारङ्ग- सङ्घलखितमरुन्मार्गाणि पानीयशालापन्नपथिकजनवाञ्छ्यमानसायाहानि शुष्कसरसीविलोकननिराशशोकान्धसिन्धुरारब्धकरास्फोटानि रिक्तीकृतम- हामहीधरनिर्झरस्रोतःसिरासंतानानि संज्वलितपतङ्गप्रावपावकप्रभापटल- लीढजाङ्गलद्रुमाणि , घोरतपांसीव मुक्ताहारशरीराणि , राजहृदयानीव ते जोधिकद्वेषोत्पादीनि , अपत्यानीव सदाकाशितपयांसि , पतितकर्माणीव धस्तलावरोहणकारीणि, नाकस्त्रीमनांसीव मरुदौत्सुक्यविधायीनि , अति- रूक्षाणि ग्रैष्मकाणि कानिचिदहानि जीवंधरः । अथैवं मनोरथदुरासदं सततं तया सारङ्गदृशा समं शमनुभवन्नपि विषयेष्वसलतामात्मनो विवरीतुभिव विजयासूनुः, विषयान्तरमन्तर्हित. एव गन्तुमनाः समजनि । तावतास्य तिरोधाय जिगमिषोरनुकूलतां चि- कीर्षुरिवावसितदिवसव्यापारशेषः पूषा निकषास्तशैलमलम्बत । आपत- यालु निशानिशाचरीनिशातशूलशिखासमुत्खातं वासरस्य हृदयमिव स्थः पुटितप्रस्थप्रस्थानविह्वलवाहनिवहविहतस्यन् नवित्रस्तमस्तगिारंगैरिकपङ्क चयखचितं रथाङ्गमिव च पातङ्गमङ्गमदृश्यत । ततस्तेजोनिधिरपि विनि वारितदोषोऽपि वारुणीसङ्गात्किमपरं रविरधः पपात । पद्मिनीरजःस्पृष्टम म्बरमपहाय मजत्यब्जिनीभुजङ्गे जलधिजलवेलान्ते संततलाक्षिकयवनि कालक्ष्मी बभार संध्या। ततश्च सवेगपतङ्गपयोधिपातपाटितशुक्तिपुटमुक्तो त्थितमुक्तोत्करा इव निर्दयमधुकरमर्दननिपतदनल्पकल्पतरुकुसुमप्रकरा इं: च तारकाश्चकाशिरे । तदनु चागाधरसातलकासारगर्भपीतवासरतापस खसमुत्तरत्समर्वीतवाहनवाहवैरिकायकायॆकञ्चकितानीव, अहरवसानवि षष्ठो लम्बः। . . हारमण्डनप्रवृत्तवलरिपुपुरपुरंध्रीजातयातयामतावधूतावतंसनीलकुवलयप्र भानुविद्धानीव समददिक्करिकुलकर्णतालताडनानेडनभयचकितविद्राणष- ट्चरणचक्रचञ्चीचश्च मेचकितानीत्र सर्वतः शर्वरीकेशपाशदेशीयानि तमांसि मांसलिमानमभजन्त । क्रमेण चाभ्यागताभिमतरमणनीलकञ्चुकक- दाशाकदर्थिताभिरनुपदं प्रसारितपाणिभिरितस्ततो गृह्यमाणे स्वाभ्याशेषु स्वैरिणीभिः, अतिबहलपङ्कपटलशङ्किभिरावर्जितपा_रनिभृतं विलुठितु- मूरीक्रियमाणे विपिनकुहरेषु वराहनिवहैः, अकाण्डजलदमण्डलभ्रमसं- 'मसंभृतपुनःपलायनचिन्तैरुक्षेपचटुलपक्षसंपुटैः सभयमभिवीक्ष्यमाणे स- सु हंसैः, संरम्भसमुद्भूतसटाच्छटैरुत्पुच्छायमानैः कटोरकालायसपञ्ज- रधिया विघटयितुं व्यापारितनखकोटिभिः साटोपमुद्दिश्यमाने गिरितटीषु कण्ठीरवैः, तिमिरापोडे जरठतां प्रतिपन्ने, प्राप्ते च निशीथे , निर्दयसं- भोगव्यतिकरश्रमेण गाढाश्लिष्टनिद्रां तां बिम्बोष्ठीमतिसंधाय गन्धर्वदत्ता- पतिरन्तर्वशिकैरप्यविदित एवान्तःपुरात्पुराच्च निर्गत्य ययौ। अथ पद्मबन्धौ पद्मिनीमिव पद्मां परित्यज्य पद्मादयिते प्रयाते, प्रशिथिलितनितान्तस्त्रापा सा कान्ता कान्तकरपरिरम्भणसंभूष्णुशंभरा- तुपलम्भेन विजृम्भमाणवेपथुभरादरविवर्तितगात्रा निमीलितनेत्रैव प्रसा- रितपाणिः परितः पर्यके पतिं व्यचेष्ट । अदृष्ट्वा च तलिमसविधे धव- अवधूतावशिष्टनिद्रा द्रुतमुत्थाय शयनगृहमभितः प्रदीपाट्टेषु प्रलम्बमानम- कनकसुमनोदामनिकामस्थूलशातकुम्भस्तम्भच्छायास्वप्यतुच्छरणरणक- विह्वला प्रहृतरपूर्वगात्रा धात्रीतलचुम्बितलम्बमानशिथिलकेशकलापा क- लापिनीव नृत्तोद्यता , विद्युदिव मेघावलीवलयिता , वलयरवमुखरितकर- : पल्लवयन्तीव परामृशन्ती भुवं भूयः पर्यभ्रमत् । एवं नैकवारं । दरस्तम्भिताक्रन्दप्रसङ्गा स्वाङ्गच्छायामपि तदङ्गच्छायां भूत्वापि निशान्ते कान्तं यदा नैक्षिष्ट तदा ‘हा हतास्मि' ९८ गद्यचिन्तामणी इति परिदेवनमुखरितोपकण्ठा कलकण्ठी मुक्तकण्ठं रुरोद । तावता प्र- बुध्य दग्धहृदया निभृतेतरपदप्रसृतयो विसृमरकचभारतिमिरकवचित- वियतः 'किं किम्' इति यामिनीनिभा यामिकयुवतयः समायासिषुः । अद्राक्षुश्च तां भग्नोपन्नपादपां लतामिव पांसुलोद्गमपत्रभङ्गां धात्रीतलशा- यिनी शमयितुमिव शोकानलं नयनजलप्रवाहे प्लवमानामुद्दामदारिद्याद- प्युद्वेजनीयां वाच्यसंपर्कादपि शोच्यां निघृणत्वादपि निन्दनीयां परदा- रपरिग्रहादपि निग्राह्यां नास्तिक्यादप्यनास्थयामवस्थामारूढां पद्माम् । ततश्च तास्त्रपि तस्याः परिदेवननिदानं परिज्ञाय परित्रासपराधीना परिजनमुखादेतदुपश्रुत्योदश्रुमुखी समागत्य तज्जननी जनितोद्वेगा निजी- त्सङ्गे वत्सामारोप्य तदात्वोचितैः शीफरशिशिरोपचारप्रकाराहारैश्च वि- धाय लब्धसंज्ञां सात्यंधरिदयितां सदयमेवमन्वयुङ-'अयि पुत्रि, तेजा- मात्रा स्वयात्राभिव्यझि किंचित्पुरस्तादुपन्यस्तमस्ति वा न वा' इति । सा च मञ्जुभाषिणी किचिद्ध्यात्वा स्मृत्वा च तदुक्तमित्थं प्रत्यब्रवीत् "अम्ब , कदाचिदपहायाम्बरमम्बरमणावम्बुराशिगाहनलम्पटे सति , मवलोक्य जातमन्दहसित इव चकासति चन्द्रमसि , चन्द्रशालां मया साकमधिवसन्भर्तृप्रवासपीडितां सनीडगृहाक्रीडक्रीडागिरिनीडगता - कप्रियां प्रदर्शयन् ‘प्रिये , पश्य भर्तृवियोगेऽपि पुनस्तत्संयोगसंभूष्णुत, विरहसहिष्णुमिमाम्' इति साकृतं समभ्यधात्" इति। दुहितृवचःश्रवणान- न्तरं समुद्भवदुद्दामधृतिः पद्माजननी 'जहीहि वत्से, विचिकित्साम् । अनेन ह्यन्यापदेशेनोपादेशि त्वया विप्रयोगः पुनः संप्रयोगश्च ते प्राणना- थस्य' इति प्रणिगदन्ती सुतामाश्वासयामास । अथ पद्मावल्लभोऽपि पल्लवजनपदपतिचोदितजङ्घालजनवातेना- प्यविदित एव लङ्घयनलङ्घनीयमरण्याध्वानमभिवन्दिताखिलपुण्यजिनभवन- तया पावनतामुल्लाघतां च नीतः पल्लववर्षसीम्नि नाम्ना चित्रकूटं विचिः , षष्ठो लम्बः । प्रचारित्राश्रयं तापसाश्रममध्वश्रमपरिच्छेदाय शिश्रिये । अपश्यच्च ताप- सानामञ्चितवृत्तोऽयं पञ्चाग्निमध्यस्थानादितपःप्रपञ्चम् । अतर्कयच्चायं कृ- पालुः 'अहो देहिनां मोहनीयकर्मेदं दुर्मोचप्रसरं यद्वश्या अमी मुधा क्लिश्यन्ते' इति । व्याहरच्चायं परहितपरतन्त्रो मन्त्रायमाणं वचः “अयि तपोधनाः , 'न हिंस्यात्सर्वभूतानि' इति विश्रुतां श्रुतिं विद्वांसोऽपि किं हिंसानिदाने तपस्येकताना भवन्ति" इति । अदीदृशञ्च दुर्दशो जडाञ्जटाजालभ्रष्टजलावगाहनलग्नजलचरविसराणां विविधैधोविवरविस- सर्पादिजन्तूनामप्यमन्दविभावसौ दन्दह्यमानानां नयनवतामसह्यं व्यस- नम् । अबूबुधञ्च तत्त्वमयं लब्धवर्णो वर्णिनां मध्ये कतिचिदत्यासन्नभ- व्यान्दिव्यैः श्राव्यैहृद्यैरनवद्यानेकान्तोद्योतिभिर्वचोभिः । उदस्विदपवर्गश्रिय- स्तेऽपि श्रीजिनधर्ममगृह्णन् । अथ तावता सद्धर्माभिमुखतापसहृदयोद्वा- न्ततमसेव श्यामीभवति दिङ्मुखे, श्यामामुखविधेयकृत्यं मुनिजनैः सम- मनुष्ठाय काष्ठाङ्गाररिपुः क्षपामपि तत्रैव क्षपयामास । तदनु च सन्मार्ग- संदर्शनसावधानेन सवित्रा संगृहीतसम्यक्तबलबहिष्कृततापसमनस्तमो- गशिपुनःसंपर्कभीत्येव निःशेषतमःस्तोमेऽपि निरस्ते, परिसरतरुसुप्तोत्थिते मारसौखसुप्तिक इव सविरावे सति वयसि, रुरुगणेऽप्युटजाङ्गणभुवमुत्सृज्य तृणचर्वणचापल्यादाश्रमोपशल्यमाश्रयति , शुचीतरविभागोपेक्षिणि सुग- तमतावलम्बिनीवाम्बुजिनीरजःस्पर्शनलम्पटे वाति प्राभातिके मरुति, दि- नपतिमुखावलोकनोद्दामदिवसश्रीराग इव प्रसरति तरुणातपे, तापसदार- कसमितौ च समित्कुशपलाशहरणाय यथायथं विहरन्त्याम् , विहितप्रगेतन- विधिस्ततो विनिर्गत्य सात्यंधरिरन्धकारितपरिसराणि कणदलिकदम्बकब- 'तृतशिखरकुसुमतुङ्गतरुसहस्राणि विशृङ्खलखेलत्कुरङ्गखुरपुटमुद्रितसिक- लस्थलाभिरम्याणि स्वच्छसलिलसरःसमुद्भिन्नकुमुदकुवलयमनोज्ञानि वि- लवनापगापुलिनपुञ्जितकलहंसरसितरञ्जितश्रवणानि दृप्यच्छाकरशृङ्गको- .
गद्यचिन्तामणी टिविघटनविषमिततुङ्गकच्छानि विचित्रसुमनःपरिमलमांसलसमीरसंचारसु- रभीकृतानि कानिचित्काननानि नयनयोरुपायनीचकार । तानि च क्र- मादतिक्रम्य गच्छन्विक्रमशालिविविधपुरुषपरिषदः पारुष्यविरामाभिराम- रामालंकृतस्यायनोपनतरत्नरजतजातरूपजातजातसमृद्धडिण्डीरपिण्डपाण्डु- पुण्डरीकोद्भासिनः सलिलान्दोलितचारुचमरवालमरुतः परदुरासदसत्त्वा- धिकविविधभूभृदध्यासितसविधस्याजस्राभिवर्धितवाहिनीसहस्रसंपादितसं- पदः पयोधरभरमनोहरमहिषीमहितधाम्नः सदातनगोधनचकासिनः सक- लजन्तुसंरक्षणदक्षस्य विडम्बितक्षोणीपतेर्दक्षिणदेशस्य मणिमकुटायमानः विकटशिखरचुलुकिताम्बरं जाम्बूनदोपपादितस्थूलस्थूणसहस्रसंबाधमण्डि. तमण्डपमकाण्डभवदाखण्डलधनुःकाण्डशङ्कानिष्पादनशौण्डनैकपुष्पोपहा- रमहरहरभिवर्धमानसपर्यमविलयं कमपि श्रीजिनालयमद्राक्षीत् । तन्निरी- क्षणक्षण एव क्षीणनिःशेषश्रमः श्रावकश्रेष्ठोऽयं काष्ठागतप्रमोदः साधुधौ- तपादः पादपवल्लरीतल्लुजसंफुल्लुफुलोत्करमरविन्दसंदेहानुधावन्मधुकरण क- रेणापचित्यापचितिविधिज्ञोऽयं विहिताञ्जलिरधिकभक्तिभक्तिभरनिगलवि- गलित इव कथंचिद्गलाद्गलति सकलवाङ्मयातिनाभिगवतः संस्तं संस्तवनौत्सुक्याङ्कुरानुकारिरोमाञ्चं मुञ्चति शरीरे , शारदारविन्द इव मा रन्दबिन्दुभिरानन्दाश्रुजालैः प्लाविते लोचनयुगले , अचलितमूर्तिरतुलतूतिः कर्तव्यमपश्यन्नवश्येन्द्रियस्त्रिकरणशुद्धिस्त्रिः परीत्य क्षणमास्थितः श्रीपी- ठाग्रस्थितिरारचय्य कुसुमाञ्जलिमत्रजिनं जिनमस्तोकमस्तावीत्- 'तरन्ति संसारमहाम्बुराशिं यत्पादनावं प्रतिपद्य भव्याः । अखण्डमानन्दमखण्डितश्री: श्रीवर्धमानः कुरुताजिनो नः ॥ विवेकिनो यस्य पदं भजन्ते विमुच्य बाह्यान्विषयानसारान् । अवाप्तुमात्मीयगुणं गुणाधिर्जिनेश्वरो नः श्रियमातनोतु ॥ यदीयपादामृतसेवनेन हरन्ति संसारगरं मुनीन्द्राः ।
षष्ठो लम्बः । १०१ . . स एष संतोषतनुर्जिनो नः संसारतापं शकलीकरोतु ॥' इति । तावदवश्चितया तदीयभयभक्तिकुञ्चिकयैव श्रीकवाटे स्वयं झ- टिति विघटिते, तदवलोक्य निकटवर्ती मर्त्यः कश्चिदाहितात्याहितभरः प्रीतिविस्फारितनेत्रद्वयेन शतपत्राञ्जलिमिव पवित्रकुमारस्य पातयन्नस्य पा- दयोः पपात । तमवलोक्य लोकज्ञः कुमारोऽपि नात्यादरं दर्शितदशन- ज्योत्स्नया कृत्स्नमस्याङ्गमालिम्पन् 'कोऽसि । कुतस्त्यः । कस्मादस्मत्पद- योस्तव पतनम्' इत्यपृच्छत् । स च तद्वचोलाभेन लब्धमहाप्रसाद इव बद्धाअलिरित्थं निजगाद- "स्वामिन् , इतः क्रोशमात्रान्तरितप्रदेश- रनवेशितो वेशवाटिकेति विटैः , विद्यामठिकेति विद्यार्जनोत्सुकैः , विप- णिवीथीति वणिग्भिः , आतिथेयनिवास इत्यतिथिभिः , भोगभूरिति भो- गापेक्षिभिः , आस्थायिकेल्यास्तिकैः , गिरिदुर्ग इति क्षेमार्थिभिः सेव्यः क्षे. मपुरी नाम जननिवेशः । तत्र च प्रजापतिरधःपातिताखिलपृथिवीपतिः सुरपतिदेशीयो नरपतिदेवो नाम । तस्य च राजश्रेष्ठस्य श्रेष्ठिपदप्राप्तः स्पर्शनशीलत्वेऽप्यकल्पितप्रदायित्वेन कल्पशाखिनं प्रज्ञाशालित्वेऽपि क्षमा- स्पदत्वेन बृहस्पतिमाढ्यत्वेऽप्यनुत्तरकाष्ठाश्रितधनिकतया धनदमप्यधःकुर्व- न्सर्वग्णाभद्रः सुभद्रो नाम । तस्माच्च तेजोधाम्नश्चन्द्रादिव चन्द्रिका पद्माकरा- दिव पद्मिनी पयःपयोधेरिव पङ्कजासना काचिदङ्गजा समजनि। सा चेन्दु- मुखी बन्धुजनप्रमोदेनाभिवृद्धा सांप्रतं प्रावृडिवोद्भिन्नपयोधरा सरांसि पि- त्रोर्मनसी कलुषयत्याकर्षयति च युवशिखण्डिनः । दैवज्ञास्तु तजन्म- दिवस एव 'एतज्जिनभवनद्वाराररपुटस्य स्वयं विघटनं निकटगते यस्मि- आघटीति प्रकटितानुभावस्य तस्येयं पाणिगृहीती' इत्यभाणिषुः । अहमपि तस्य विश्रुतमहिम्नो वैश्यपतेश्चक्षुष्यः कोऽपि भुजिष्यः । ततः प्रभृति तन्नि- युक्तोऽत्र निवसन्नहं निर्वासितहृच्छल्यं प्रतीक्ष्य जगत्प्रतीक्ष्यं भवन्तं हृद- यप्रभवदानन्दप्राग्भारेण प्रणतवान्" इति प्रणिगदन्नेव वणिजां कर्ण- १०२ गद्यचिन्तामणौ धारस्य कर्णोत्सवमदःकथया कर्तुं ययौ । सुभद्रोऽपि भद्रतरनिमित्तोपलम्भं पौनःपुन्येनानुस्मृतकन्यावृत्ता- न्तः कचिदेकान्ते कान्तया समम् ‘कि करोति स किंकरेषु भद्रो यः कन्यावरपरीक्षणकृते सहस्रकूटजिनालये कृतक्षणोऽभूत् । वामेत- रभुजफुरणं विवृणोति शुभावाप्तिम् । अपि नाम कदाचिदवश्यं वरं पश्येत्' इति पारवश्यकर्कशं वितर्कयन्नतर्कितागतिना गुणभद्रेण प- वित्रकुमारस्य त्रिजगत्स्वामिजिनभवनाभ्यागमनमाकार्णव इवेन्दोर- मन्दसंभ्रमः श्रवणयोस्तद्वचःश्रवणं चरणयोः प्रयाणत्वरां नयनयोरा, नन्दाश्रुधारां च कुर्वाणः पाणिद्वयार्पितद्रविणराशिना गुणभद्रं दारिका वरवार्तया दारान्सस्नेहनिरीक्षणेन सनाभीश्च सभावयन्नहंपूर्विकासमेतामि- तेतरान्तिकचरः कुमारान्तिकमभ्यगमत् , अपश्यञ्च भक्तिपरतन्त्रं श्रीजि- नेन्द्रसपर्यापर्युत्सुकं विजयावत्सं जैनजनवत्सलः स धर्मवात्सल्यावर्जितप्री- तिर्वैश्यपतिः । अचिन्तयञ्चायम् ‘अतिप्रगल्भमधुरदृष्टिविक्षेपलीलादर्शि- ताकाण्डपुण्डरीकवनविकासविभ्रमं वैदग्ध्यलास्यविद्याललितभूलतं दन्त- कान्तिचन्द्रिकाच्छुरितविद्रुमपाटलरदनच्छदमुन्मृष्टचामीकरमुकुरतुलितक - पोलमृजुतुङ्गकोमलदीर्घनासिकं विगाढलक्ष्मीभुजलतावेष्टनमार्गानुकारिक- ण्ठरेखमंससक्तकर्णपाशं शौर्यशिबिरोत्तम्भितस्तम्भसब्रह्मचारिमनोहरांसबा- हुलतं कमलाकर्णावतंसकङ्केलिकिसलयसुकुमाररुचिरकरशाख व्यक्तश्रील- क्ष्मविकटवक्षःकवाटममृतसरिदावर्तसनाभिनाभिमण्डलं नखदिनमणिनिष्य- न्दिकिरणविकासिचरणतामरसद्वन्द्वं कन्दमिवानन्दस्य प्ररोहमिवोत्साहस्य प- लवमिवोल्लसमय कुसुममिव मङ्गलस्य फलमिव मनोरथस्य न्यञ्चत्काञ्चनन- गलोकमतिलोकं वपुरमुष्य तावदामुष्यायणत्वमेव न केवलं केवलार्कोद- यस्थानतामप्यनक्षरमाचष्टे' इति । ततश्च नातिचिराद्विरचितपरमेश्वरापचितिमवलोक्य तं कुमारम- षष्ठो लम्बः । १०३. चेतोपचारैराराध्य पुनराराद्वर्तिनः कस्यचिदकठोरकङ्केलितरोरतुच्छच्छा- गयां शौक्तिकजालवालुकमनोज्ञे हृदयज्ञान्तिकचरसत्वरसमीकृतस्थले कुमारमन्वासीनः कुबेरदेश्यो वैश्यपतिर्वात्सल्यौत्सुक्यकौशलशंसिकुशल- परिप्रश्नादिना मुदितहृदये विदितवृत्तान्ते च भवति विजयानन्दने नखपचपांसूत्करदुःसहाध्वन्याध्वश्रमाश्रितविश्वजनपदपथिकनिबिडितपाद - मूले कथितसलिलसरःपराचीनतृष्यत्पतत्रिणि मृगतृष्णिकाकुलितमृग- कुले ललाटंतपे भवत्यम्बरमणौ कुरुकुलशिखामणये गुरुतरनिजमुख- सादकण्ठोक्तां निजोत्कण्ठां पुनरुक्तामिव विवढे- “कुमार , मयि 'प्रेमकारणमपरमास्ताम् । आस्तिकचूडामणे , तावदनिषेध्यमेवेदं स्वयूथ्यत्वम् । अतस्त्वया मे प्रार्थनावैमुख्येन न सख्यं विहन्तव्यम् । अनुमन्तव्यमेवास्मदावसथे दिवसाचितविधि विधातुम्” इति । सोऽप्य- सुप्रणयिनामप्यथितामसमर्थो भवन्विहन्तुमत्याहितवृत्तः सात्यंधरिः 'अ- स्त्वेवम्' इत्यन्वमंस्त। ततश्च सर्वगुणभद्रः पवित्रकुमारोऽयं गुणभद्रप्रसा- रितं पाणिं पाणौ कुर्वन्सर्वसहायाः सहेलमुत्थाय कायरोचिःप्रतिहतसह- स्ररोचिः सहस्रकूटजिनालयं सहस्रशः परीत्य प्रणिपत्य च पुनरप्यतृप्त एव तन्निकटात्सुभद्रनिरोधाद्धटद्घाटककूटकोटिपिनद्धध्वजपटपाणिपल्लवेन क्षेमश्रीवल्लभमिवामन्त्रयमाणं सान्द्रचन्द्रातपातिशायिचन्द्रशालानिलृप्तनिर- तिशयरत्नविसरविसर्पिकिरणप्रकरेणेव प्रतिगृह्णन्तं प्रसभोपसर्पदतिघोरपौ- रुषपदप्रचुरस्तनितानुकारिणितश्रवणारब्धताण्डवगृहशिखण्डिबृन्देन स्व- यमप्यमन्दादरादानन्दनृत्तमिवारचयन्तमत्यादरधात्रीमुखाकर्णितसुभद्रसुता - भर्तृसांनिध्यानेडितहर्षक्रीडाकीरविरावमिषेणाशिषमिव प्रयुञ्जानम् , पुञ्ज- मिव संपदः, पूर्तिमिव शोभायाः, मूर्तिमिव कोलाहलस्य , अतिभद्रसु- भद्रसदनोद्देशं निरवकाशितजननिवेशं वेशपुरंध्रीनेत्रव्रजविरचितविविध- तोरणस्रजः समतीत्य समासदत् ।
१०४ गद्यचिन्तामणौ तत्र च सुभद्रसुतासौभाग्यगृहोत्तम्भितस्तम्भसदृशोरुस्तम्भशोभो- पलम्भलम्पटताप्राप्तैरिव रम्भास्तम्भनिकरैनीरन्ध्रिताः पुरंध्रीवातविधीयमा- नविविधालंकृतीरहंपूर्विकागच्छद्विश्रुतविश्ववैश्यदृश्यमानप्रवेशावसरा नैक- द्वारभुवः क्रान्त्वा, कुमारः कचिदन्तर्गृहं करगृहीतजाम्बूनदताम्बूल- करण्डादर्शकलापिकेलिकीरसारिकाप्रमुखाणाम् , संमुखागतं क्षेमश्रीवल्ल- भमत्यादरादन्योन्यमङ्गुलीनिर्देशेन दर्शयन्तीनां प्रियसखीनां मध्ये स्थितां क्षेमश्रियं श्रियमिव साक्षालक्षयन् , तदक्षिशरलक्षीकरणादक्षमया च तया सविभ्रमाकुञ्चितचारुभूलताचापनिर्गतेन हृदयभेदनपेशलशितेन नेत्रप; त्रिणा विद्धो भवन् , हृदयलग्नभल्लशल्य इवायल्लकभरास्पदीभूतः पदमा गन्तुमपारयन्नपारतद्वयथानिवृतये निवृतिपुत्रिकां तां धात्रीतलदुर्लभसंवि- धानविधात्रा सुभद्रेण भद्रतरलग्ने यथाविधि विश्राणितां पर्यणयत् । इति श्रीमद्वादीभसिंहसूरिविरचिते गद्यचिन्तामणौ क्षेमश्रीलम्भो नाम षष्ठो लम्बः ।
सप्तमो लम्बः । १०५ सप्तमो लम्बः । . . . अथ तां पृथुनितम्बामयं प्रथमविवाह इव प्रथमानप्रीतिः परिण- मपरिणमदनिवारणमदनमदवारणवर्धितधृतिरनवधृतरतिव्यतिकरविजृम्भि- तव्याक्षेपः क्षेमश्रीकान्तश्विरमेकान्ते कान्ततरकायकान्तिकान्दिशीककला- पराम् , रमणे चरणतले च रक्ताम् , प्रियसखीमण्डले जङ्घाकाण्डे च स्नग्धाम् , ऊरुस्तम्भे परिजने चानुकूलस्पर्शनाम् , सौभाग्ये श्रोणीबिम्बे च साभोगाम् , हृदयवृत्तौ रोमराजौ चात्यक्तकौटिल्याम् , मध्ये प्रणयक- लहकोपतनूनपादि च तनुतराम् , सनाभौ नाभिमण्डले च भग्नाम् , चित्ते कुचयुगलेऽप्युन्नताम् , मनसि बाहुलतायां च मृद्वीम् , वचसि ग्रीवायां च मिताम् , वक्त्रे हृदि च सुवृत्तोद्भासिनीम् , सपत्नीनिचये कचभारे च कालिममयी क्षमश्रियं पश्यन् , स्पृष्टदृष्टतदीयाखिलाङ्गतया हृष्टतमः ‘प्रिये, त्वामेवमनारतभोग्याममर्त्यभोग्याभिरप्सरोभिरुपमेयशोभा कथमुदीरयामि' इत्युपलालयन्नतिगृचरिवालंबुद्धिमनासेदिवानवर्तिष्ट । एव- मनिर्वृतिसुखया निर्वृतिसुतया सममतिमात्रनिर्वृतिमधिजग्मुषस्तस्य गन्धर्व- दत्तापतर्गत्वरतां ज्ञात्वा प्रियसखीव प्रतिषिद्धप्रयाणा प्रावृडाविरासीत् । तस्मिंश्वातिचकितकादम्बे कन्दलितकन्दले स्फुटितकुटजषण्डे ताण्डव- तरलशिखण्डिनि स्फुरदाखण्डलकोदण्डे खण्डितमहीपालदण्डयात्रे त्रासि. तवातकिनि तटिदालोकनचकितवनौकसि प्रस्थितमानसौकसि तिरस्कृतदि- नमणितेजसि स्फूर्जत्सर्जसौरभे भेकरटितवाचाले चलितबकपतिदन्तुरवि यति वृत्रहगोपचित्रितधरित्रीपृष्ठे निष्ठुरघननिनदविनिद्रकेसरिणि मदमन्थ- रसिन्धुरे नखम्पचनितम्बिनीस्तनमण्डले प्रोषितप्राणखण्डिनि तरुगह्वर- १०६ गद्यचिन्तामणी , . निभृतपरभृते विरतविभावरीरमणजागरणे कुट्मलिततारकावलोकनकौतु- के कूलंकषसलिलपूरसरिति धारान्धकारपूरितहरिति दुर्विभावदिवानिश- विभागे पुडितशरकुसुमशरे शीतालुगोधनत्राणायस्तगोमिनि निर्विशङ्कस- मालिङ्ग्यमानाङ्गारधानीतनूनपादि परिणमति पयोधरसमये, कुङ्कुमपङ्कप- किलपयोधरामन्तरमान्तं वमन्तीमिव रागम् , करालकालमेघकालिमकाला- गुरुधूपगर्भगर्भागारगर्भस्थिताम् , चिरप्रभामिवाचिरप्रभाम् , प्रसरन्मनो- हार्याहार्यनैकमणिमहःस्तबकामगस्त्यचुलुकितरत्नामिव रत्नाकरस्थलीम् करिणीमिव वारिसंपर्कचकिताम् , प्रजानाथचित्तवृत्तिमिव प्रतापार्थिनीम् । सुराङ्गनामिव महीरङ्गस्पर्शनपराचीनपदा क्षेमश्रियम् , क्षेमभूमिमिव पराक्रा- न्तमहीपतिः, कुसुमशरशराक्रान्तोऽयं कुमारः क्षणमपि नात्याक्षीत् । अथ कदाचित्कस्यांचन त्रियामायां तृतीयप्रहरे विरहव्यसनावत. मसविषयीभविष्यन्त्याः क्षेमश्रियः प्रपञ्चहृदयकुञ्ज पुञ्जीभावादिव विरल- भावमासेटुषि तमसि, सुभद्रस्य जामातृप्रयाणप्रबोधनायेव कूजन्सु कुक्कुटेषु, निकटगतां पत्नीमतिसंधाय गन्धर्वदत्तापतिर्भवभृतां प्रवृत्तळ- वस्थाविकलतां व्यवस्थापयन्निव तथाविधास्थास्पदमेकपद एव तां परित्यज्य प्रव्रज्यायै प्रकृष्टवैराग्यः पुरुष इव यथेष्टमियाय । तदनु सा च तनूदरी यातयामजातगाढस्वापा पुनः प्रबोधाभिमुखी तलिमतले तत इतोऽपि शनैः संचार्यमाणशरीरा विशीर्यमाणचिकुरभारविगलदविरलकुसुममाला सविला- सगात्रभञ्जना पञ्चशाखाङ्गुलीभिर्मर्दयन्ती मन्दमन्दं मन्थराक्षिपक्ष्मणी, पतिमुखनिरीक्षणतत्परा पतिदेवता सलीलमुत्थाय शय्यातलमधिवसन्येव संमुखागतयामिकत्रामलोचनामुखेऽपि मुखमनर्पयन्ती , प्रसर्पदङ्गुलीनखच- न्द्रचन्द्रिकया मुकुलयन्तीव नयननलिनयुगम् , किंचित्कुञ्चितपञ्चशाख- तलेन कञ्चकितवदना क्षणमीषदुन्मीलयन्ती पतिमन्वियेष । ततः सत्रासा तत्र दयितादर्शनादवशमुन्नयन्ती मुखमुदश्रुमुखीनां सखीनां हिमानीबिन्दुद- सप्तमों लम्बः । न्तुरितारविन्दसवर्णवैवानि वदनानि साकूतं सानुतापं सदैन्यं च न्यशा- मयत् । तन्निशामिताः सख्यश्च सख्यं गता इव तोयदैः पूर्वमुल्सद्दशन- किरणतटिल्लतां पश्चात्पतिप्रयाणवार्तापवि तदनु नयनजलधारामप्यपात- यन् । सा तु क्षेमश्रीः श्रवसि तद्वार्ती मनसि हृल्लेखं वपुषि प्रकम्पं च- झुषि बाष्पधारामात्मन्यविषह्यशुचं वदने वैवयं नासिकायां दीर्घश्वासमा- स्ये परिदेवनं च योगपद्येन भजन्ती तदशनिपतनादपासुरिव भूमौ पपात। तथाविधामनस्यामिमां वयस्येवाविदितकृच्छामातनोन्मूर्छा । एवमतिमोहविधुरां वरोपलम्भवरार्थितया निभृतेन्द्रियवृतिं पृथ्वी- शेयने प्रतिशयानामिव शयानां फणिनीमिव फणामणिना पद्मिनीमिव पद्म- बन्धुना रतिमिव त्र्यम्बकललाटाम्बकदहनदग्धमदनेन दयितेन विप्रयुक्ताम- तिदयावहां जीवंधरदयितां निशाम्य, निवृतिरधिकनिर्वेदा खेदप्राचुर्यादुद्धर- णविहस्तेन हस्तद्वयेनोक्षिप्याङ्गजामङ्कमारोप्य, तदङ्गमतिपांसुलं क्षालयन्तीव क्षरदश्रुजलैर्हिमजलकर्पूरपूरविलुलितमलयजस्थासकस्थगितस्फारहारशीफ- रशिशिरोपचारैनिवारितप्राणप्रयाणां विधाय, 'विधिविलसितमिदमतिनृशं- सम्। हंसगमनेयमेवमप्यस्मदीक्षणाभ्यामहो कथमीक्षिता' इत्याधिक्षीणा त- क्षणे पूर्वक्षणदायां स्वापावसाने स्वप्नमालोकितमनुस्मृत्य सविस्मयं साश्वास सानुनयं च समभ्यधात् —"पुत्रि , रात्रावतीतायां दयितां हंसीमपहाय राजहंसः कचिद्गत्वा संगतश्च पुनदृष्टः । ततः संगस्यसे त्वमपि जामात्रा। धात्रीतलदुर्लभस्तव वल्लभः सुते, स्वाभिप्रायं प्रायेण केनापि व्याजेन विवृण्वन्नेव प्रयास्यति । तवालस्यादिदमनवधृतम् । अथवा किमिदमाधु- निकमावश्यके कर्मणि सकलकर्मकर्मठानां पुरुषाणां क्वचिदटनं पुनर्घट- नं च" इति । एवमभिहितैरतिहितैर्मातृवचोभिः पिहितासुमोक्षाशा सा च पतिदेवता पतिपदं परमेश्वरश्रीपादारविन्दद्वन्द्वं च द्वन्द्वप्रशमनकृते हृदि निधाय निषसाद ।
१०८ गद्यचिन्तामणौ . . . अथ क्षेमश्रीवल्लभेऽपि क्षेपीयः क्षेमपुरीं चौरिकाध्यक्षकैरलक्षित एवातिक्रम्य कामपि कान्तां कान्तारभुवमासेदुषि , सागरसदनबाडबकृ- पीटयोनिशिखापटलालीढ इव पाटलवपुषि पद्मिनीसौखसुप्तिके पथिकज- ननेत्रे कोकमिथुनमित्रे मित्र सुदर्शनमित्राय दर्शयितुमिवाध्वानमुदधेरुन्म- जति , जलनिधिनिमग्नोन्मग्नस्य रवेश्विरनिरुद्धनिसृष्टोच्छ्वास इव निःसरति सुमनःसंसर्गसुरभौ गोसर्गमातरिश्वनि , दिनपतिसंभोगव्यतिकरविमर्दना- श्यानदिनश्रीकुचकुम्भकुङ्कुमाङ्गराग इव प्रतिदिशं प्रसर्पत्यरुणरोचिषि, विकचत्कुसुमकलिकाकलितशिखरशोभिन: शाखिनः सौखरात्रिक इन संश्रयति झंकारमुखरितककुभि षट्पदकदम्बके , कुमुदिनीषण्डे च प्रा- तिवेश्यस्थानस्पृशामम्भोजिनीनां बन्धोः प्रत्यूषाडम्बरममृष्यतीव घटितद- लपुटकवाटे बाढं स्वपिति , तत्रोपसरन्तं जरन्तं कमपि पामरं कुमारः सादरं निर्वर्ण्य परमनिर्वाणपदमुपसर्पतां प्रथमसोपानभूतं गृहमेधिनां ध- ममुपदिश्य प्रदिश्य चास्मै निजाहार्यमाहार्यपर्यायावरणविगमादव्याजरम- णीयस्ततोऽयमव्रजत् । ततश्च क्रमशः शशाङ्क इव सद्भिः संगच्छमानः कायैकधनतपो- धननिकायतया निवारितनिखिलश्वापदोपद्रवानदीन्सार्वकालिकजलप्रवा- हा वाहिनीः सर्वसौख्यास्पदानि जिनपदानि सर्वलोकप्रार्थ्यानि तीर्थानि च तत्तद्दर्शितातिशयानि पश्यन्पथश्रमपारवश्यप्रशमनाय कचिदटव्यां नि. जहृदय इव निर्मले स्फटिकतले निषीदन्यकृतनिखिलवनकुसुमसौरभेण नीरन्धितघ्राणरन्ध्रेण गन्धेनाकृष्टः किमिदमिति किंचिद्विवर्तितत्रिकः सवि- लासकरशाखावलम्बितसिताम्बरपल्लवां संफुल्लवनवल्लीतुल्यसौन्दर्यो चिरा- दिव विभाव्यमानां कामपि वृषस्यन्तीं युवती वृषस्कन्धोऽयमपश्यत् । अ- पृच्छच्चायमभिप्रायविदामप्रेसरः 'कासि वासु, कस्मादिहासि । कस्यासि परिग्रहः। परिज्ञाय परस्त्रीविमुखानामस्मत्प्रमुखाणां वशिनां मनःप्रवृत्तिं म- सप्तमो लम्बः । १०९ नीषितं तवाचक्ष्व' इति । सा च समीहितविरोधिविजयानन्दनवचसा विवर्धितमन्मथा तन्मनोभेदननिष्णातां दूतीमिव मितहसितद्विगुणितदश- नकिरणावलिं विनिःसारयन्ती विरचिताञ्जलिरेवमुपादत्त वक्तुम् - "अयि भद्र , विद्रावितविद्विषो विद्याधरराजस्य काचिदहं कन्या । गृहाद्विनिर्गत्य विजयायोगेरौ साधु सखीभिराक्रीडे क्रीडन्तीमालोक्य मम स्यालः कोऽपि बलादवलम्ब्य स्वविमानमारोप्य गच्छन्मध्येमार्ग निजसुमध्यारोषभीत: पा- तितवानत्र वने । पातकिनी चाहमिह पर्यटन्ती भवन्तमधुना दिष्ट्या मष्टवती । किमन्यत् । एवमतिकृपणाहं भवतश्चरणयोः शुश्रूषया चरिता- मात्मानं कर्तुमिच्छामि । बालानामबलानामशरणानां शरणागतानां च त्राणनं शौर्यशालिनां शैली चेच्चतुर्णामेतेषां समवायस्यास्य जनस्य संरक्ष- णं करणीयं न वेत्यत्र भवानेव प्रमाणम्" इति । प्रकृतिधीर: कुमारोऽप्यविकृतेन्द्रियस्तद्वचनानन्तरम् ‘अम्ब , किं बतैवमादावेवास्माभिरननुमतमर्थमत्यर्थमर्थयसे । किमेतं रसरुधिराद्यशुचि- वस्तुपर्याप्तमखिलाशुचिकुलसदनमविचारितरम्यमनुक्षणविशरारं शैरीरसंज्ञ मांसलं मांसपिण्डमालोक्यैवं मोमुह्यसे । पश्य पश्यतामेवास्माकं विनश्यतो- ऽस्य केवलमस्थिपजरस्य चर्मयन्त्रस्य सिरागहनस्य रुधिरहदस्य पिशित- राशेर्मेदःकुम्भस्य मलजम्बालपल्वलस्य रोगनीडस्य कलेबरस्य हेतुना के- नचिदन्तःस्वरूपं चेदासीद्वहिरास्तामेतदनुभवास्था । स्प्रष्टुमथवा द्रष्टुमथ- वैतत्काकेभ्यो रक्षितुं वा कः शक्नुयात् । अतस्तं मक्षिकापक्षाच्छमलाच्छा- दनचर्मच्छायाप्रतारिताविवेकिन्यजस्रं उसमानोद्वेलमलसहस्रसंगतसुषिरे संस्पर्शक्षणदूषितसमस्तप्रशस्तवस्तुनि जुगुप्सनीयपूतिगन्धिदुरासदाणुनि- र्माणे कर्मशिल्पिकल्पनाकौशलार्पितपेशलभ्रमे चर्मयन्त्रमित्रे गात्रेऽस्मिन्मा कार्षीरत्यादरम्' इति व्याहार्षीत् । तावता 'मातुलसुते, मामतुलव्यथापाथोनिधौ पातयन्ती क प्रया- 10 ११० गद्यचिन्तामणौ यमाधिक्षीणः कुमारम् - तासि । प्रयान्ति ममासवः' इति प्रलपतः कस्यचिदचलगहरप्रतिरवग- भीरस्वरः काननं व्यानशे । तमुपश्रुत्येयमश्वस्यन्ती युवतिरनाश्वासात्कुमारे सद्यः क्वाप्यन्तरधात् , आविरासीच्च स परुपप्रलापः पुरुषः । अप्राक्षीच्चा- "अयि महाभाग, भागधेयविधुरोऽहं विद्यानां पारदृश्वा कोऽपि विद्याधरः । सोऽहं मम मातुलस्याङ्गजामनङ्गतिलकां नाम कन्यकामुदन्योपद्रुतामिह द्रुममूले क्वचिदवस्थाप्य प्रस्थितः पुनरुपस्थित- श्वानीय पानीयं महनीयाकृति तां तत्र बिम्बोष्ठी न दृष्टवान् । कुमार, कुमारीयं मामिदानीमुपेक्ष्य कटाक्षेणापि नेक्षते । तथा स्निग्धामिमां ग्धामपश्यतो मम पारवश्यान्मांसदृष्टिरिव ज्ञानदृष्टिरपि नष्टेव प्रतिभाति किमत्र करोमि । तत्रभवतः सकाशं किमियमविशत्" इति । कुमारोऽ- प्यत्यारूढरागमूढस्य गगनचरस्य वचनमतिदीन निशम्य 'न शाम्यति हि कर्मोपशमादृते दुर्मोचोऽयं रागरोगः । ततः खलु रागपरवशो लोकः स्वकुलं स्वशीलं स्वविभवं स्ववैभवं स्वशौर्य स्ववीर्य स्वपौरुषं स्ववेदन- मप्येकपद एव व्युदस्य दास्यमप्यभ्युपगच्छति । रागान्धो ह्यखिलेन्द्रिये- णाप्यदर्शनादन्धादपि महानन्धः । केचिदेव हि वशिनः किमिदं किवि- षयं कीदृक्कियत्किफलमिति विचारचतुरकर्णधारा रागसागरं सदाजागरा- स्तरन्ति' इत्यन्तश्चिन्तयंश्चिन्तागौरवस्फुरितखेदं खेचरमुद्दिश्य 'भो नभो- ग, भोगलोलुपतया किमेवं विद्याशाली खिद्यसे । विकारहेतौ सति म- नश्चेद्विक्रियते विद्यास्फूर्तिः किमर्थिका । कचिदस्थानपातिनो जनस्य या- थात्म्यमवद्योतयितुं हि विद्याक्लेशः । दुराग्रहावकुण्ठितमतेस्त्वयं कण्ठशो- षणमात्रफल: स्यात् । ततस्त्वया विहन्यतामियं कन्यानुपलम्भविजृम्भिता वैपश्चित्यशालिना शालीनता । किं च किं न जानासि तरुणीनां प्रतारणं मनस्यन्यद्वचस्यन्यत्कर्मण्यन्यन्ननु तासाम् । ता: खल्वमान्तं स्वान्तादिवोदा- न्तं काठिन्यस्वभावं कौटिल्यसंभारं रागप्राग्भारं तमःसंदोहं च स्तनद्वये सप्तमो लम्बः । १११ नयनगमनवचनभ्रूलतास्वधरकरचरणेषु चिकुरभारे च वहन्त्यः कथं रागान्धजनादितरेभ्यो रोचन्ते । तस्मादशुचिमयीनामघमयीनामपवादमयी- नामनार्जवमयीनाममार्दवमयीनां मायामयीनां मात्सर्यमयीनां महामोहमयी- नां कामिनीनां कपटस्नेहे न विश्वासस्त्वया कार्यः' इत्युदीरयामास । ततश्चैवमत्यद्भुतं सात्यंधरिवचनं निशम्याप्यनुपशाम्यम्मन्युभरिते तत्कन्यान्वेषणप्रवणे गते तस्मिन्गगनेचरे, वनिताजनवञ्चनाप्रपञ्चमञ्जसा साक्षात्करणन मुहुर्मुहुः संचिन्तयन्नेव कुमारस्तस्मादियाय । तदनु च क- लिन्प्रत्यन्तवीक्ष्यमाणविषमविषाणभीपणवृषकुलवृषस्याकलहविजृम्भितनि - बोषपूरितघोषघोषेण क्वचित्प्रशस्तप्रदेशनिवेशितविशालशालोद्भवदतिप्रभू- ताध्ययनध्वनिना कचिद्विशङ्कटकठिनस्थलघटितेक्षुयन्त्रकुटीरकोटिनिबि- डकोलाहलेन क्वचित्पाककपिशकणिशशालिशालेयक्षितिसुलभशालिसस्य- लवनतुमुलेन सर्वतश्च संचरन्नितम्बिनीपदावलम्बनलम्पटताञ्चितम शि- जानमञ्जीररवेण च महितस्य मध्यदेशस्य मध्ये विनिवेशितां विशालजाल- रन्ध्रविनिर्यदगुरुधूमजालविलसदकालजलदागमामभ्रंकषहर्थनिर्वृहनिखा तनैकमणिमहःकल्पितशतमखचारुचापविभ्रमां विविधमहोत्सवताड्यमान- लटहपटहपदुतररटितपर्जन्यगर्जितां शम्पाविडम्बिबिम्बाधरानिकरालोक- प्रावृतां प्रावृडाभां हेमाभपुरी हेमकोशशङ्कया विशन्विवशपौररामानयनसु- मनोभिरविराममर्चितः कुमारः कमप्यनारतकुसुमाभिरामाराममगाहिष्ट, ऐ- क्षिष्ट च कचिदसकृत्प्रहितपृषत्कास्पृष्टमाक्रष्टुमाम्रफलमायस्यन्तमङ्गस्यन्दि- लावण्यवनं कमपि युवानम् । तदालोकनेन तदायासमपसारयितुमधिज्य- धन्वनस्तस्मादयं धन्वी धनुराकृष्य पुनराततज्यमेतदातन्वन्विकृष्य मात्रया पत्रिणं प्राहिणोत् । प्रत्यगृह्णाच्च तत्रैवावस्थाय नात्यादरव्यापारितवामेतर- पाणिना फलेन समं संमुखमागतं संदेशहरमिव चतुरं शरम् । पुनराली- दशोभिनस्तस्यालोक्य सात्यंधेरेरधरिताखिलचापधरं चापदण्डारोपणे त- ११२ गद्यचिन्तामणौ . दाकर्षणे शरमोक्षणे शरव्यलक्षणे च लाघवमलघु चित्रीयाविष्टः स युवा पवित्रकुमारमेनमत्यादरमयाचत- 'इतो मित्र , नैजन्यायचातुर्यावसीद- दमित्रो दृढमित्रो नामात्र क्षत्रचूडामणिः । तस्य महिषी सदा संफुल्लव- दननलिना नलिनीमतिशयाना नारी नलिनी नाम । तयोः पुत्राः सुमि- नधनमित्रादयः । तेष्ववेहि मामप्यन्यतमम् । तातपादोऽस्माकं पण्डिता- नत्र कोदण्डविद्यायां चिरस्य विचिनोति। तस्मात्तत्र भद्रेण यातव्यम्' इति । अथ तन्निरोधेन तथेति सुदर्शनमित्रः सुमित्रेण व्रजन्गन्धगजघ- टामदपरिमलमेदुरगन्धवहानि प्रणिहितमौहर्तिकावधारितनाडिकाच्छेदन ताडितपटहानि प्रबुद्धसायुधयोधबृन्दप्रारब्धसंग्रामसाहसकथान्यतिधक कञ्चुकोष्णीषधारिभिर्वारिदभयनिगूढस्थितैरिव हंसैगृहीतकौक्षेयकवेत्रदण्डै- दण्डनीतिलतासंश्रयद्रुमैरिव प्रतिहारमहत्तरैरधिष्ठितानि कानिचित्कक्षान्त- राण्यतिक्रम्य भासुरानन्तरत्नस्तम्भजृम्भमाणप्रभापूरतरङ्गितहरिति राजल- क्ष्मीनिःश्वासपरिमलेन कालागुरुधूपेन कबलितोदरे चलितवारविलासिनी- नूपुररशनावलयरववाचाले क्षीरोदपुलिनमण्डलाकारविपुलविशदशयनश- ताकीर्णे घनतरघुसृणघनसारमृगमदपटवासकुसुमसौरभमनोहारिणि महति मण्डपे पाण्डरमौक्तिकचन्द्रोपकाधोभागनिवेशितस्य प्रांशुपुरुषलङ्घनीयस्य समरोत्खातरिपुदन्तिदन्तारचितपादपीठस्य पट्टांशुकच्छेदच्छुरितोपधानस्या- च्छाच्छदुकूलप्रच्छदस्य निर्लुप्त+करत्नकिरणविसरपरीतपर्यन्तस्य पर्यङ्कस्य मध्ये स्थितं सानुमत्सानुनि सुखसंनिविष्टामिव नखरायुधं पार्श्वदृश्यमानेन पद्मरागमुकुरेण रविणेवोदयनियोगप्रार्थनागतेनोपास्यमानमन्तिकस्थितम- णिस्तम्भसंक्रान्तप्रतिबिम्बमिषादनिमेषैरिवावनितलास्पर्शिपदैरासेव्यमानम् , पराक्रमेणेवोत्पादितम् , साहसेनेव संनिवेशितम् , अवष्टम्भेनेवोत्पादितं, महासत्त्वतयेव निर्वर्तितं , दर्पमिव गृहीतदेहम् , उत्साहमिव राशीकृतं राजानमद्राक्षीत् ।
सप्तमो लम्बः । ११३ तदनु च दृढमित्रमहाराजोऽपि सुमित्रनिवेदितकुमारचापाचार्यक- श्रवणेन प्रगुणितसंभ्रमः साकूतमेनं समालोक्य 'केवलत्वेऽप्यकेवलपुरु- षतामस्य वपुरवण वर्णयति' इत्यन्तश्चिन्तयंस्तत्प्रकोष्ठप्रतिष्ठितज्याघातरे- खाद्वयसौष्ठवातिशयेन काष्ठागतशंभरश्चापभृतामयं भूभृदिति संभावयन् 'असंभविभवदागमनस्य फलमनुभवन्तु मम पुत्राः । सुमित्राद्यन्तेवासिभिः समं तद्गमयन्नहानि कानिचिदवन्ध्यामिमां तनोतु वसुंधरां भवान्' इति सात्यंधरिमतुच्छमुपच्छन्दयामास । अथैवमत्युल्बणधरणीपतिनिर्बन्धेन बन्धु- प्रियतया कृतावस्थितेर्गन्धर्वदत्तापतेः कतिषु च दिनेषु हेलया तत्र विलयं ग- 'तपु, सुमित्रादिराजपुत्रेष्वप्यस्त्रकोविदात्कुमारादविगतशस्त्रेतरसमस्तशास्त्रे षु जातेषु, कदाचन धात्रीपतिः पुत्राणां करिरथतुरगायुधविषयविविधपाटवे. ष्वप्रतिभटतां तत्तत्कर्मण्यलंकर्मीणैरत्यादृतामत्याहितस्तिमितचक्षुःप्रेक्ष्यमा- णः प्रीतिप्राग्भारपारंगतः 'कुमार, भवदनुग्रहादद्याहमस्मि पुत्रवान् । पुत्री नश्चापाचार्यस्य भार्येति नियमिता नैमित्तिकैर्गात्रबद्धन क्षात्रधर्मेणेव भव- ता पतिमती भूयात् ' इति भूयो भूयोऽपि प्रार्थयामास । पार्थिवकुमारोऽपि तदीयार्थितया तदर्थस्य तथाभवितव्यतया दिव्ये मुहूर्ते पूर्तिमदानन्दभृ- तमहीभृता स्वविभवस्य स्ववैभवस्य सुतानुरागस्याप्यनुगुणसंविधापुरःसरं विधिवदतिसृष्टां तदङ्गयष्टिसंस्पर्शनपुनरुक्तचकासदविरलकनकाभरणो- ज्ज्वलां कनकमालामनघगुणभूषणो द्विजहूयमानपवनसखसाक्षिकं परि- णिनाय । इति श्रीमद्वादीभसिंहसूरिविरचिते गद्यचिन्तामणौ कनकमालालम्भो नाम सप्तमो लम्बः ।
११४ गद्यचिन्तामणौ अष्टमो लम्बः । अथ तामव्याजरमणीयां गरुडवेगसुतारमणः पाणौकृत्य पाणि- गृहीती गृहीतातिमात्रव्रीडार्गलां निरर्गलमवगाहितुमप्रगल्भः स्वैरावगाहन- विधायिविविधोपक्रमविशृङ्खलीकृतमदनमदान्धगन्धसिन्धुरोटितत्रपापरि घामप्रतीपः समवगाह्य तस्याः प्रणयकलहे दास्येन प्रकृतिस्थितावुपास्य- भावेन च सुचिरमरीरमत् । एवमधिकाभिरामां रामामविरामं रमयतस्तस्य साहाय्यं संपादयि- तुमिव गाढायां शरदि, सात्यंधराविव सत्कविभिः सातिशयप्रकाशे सति चन्द्रमसि , संमार्जति दृढसम्यक्त्व इव जडसंपर्कसमागतसन्मार्गकलङ्क- पङ्क पतङ्गे, कवचहरदारक इव निरस्तनीरदावस्थे सति तारकावर्त्मनि, सुजनहृदय इव निर्मलीभवति हृदनिवहे , नवयौवनसव्रीडयोषिजघना- नीव पुलिनानि शनैःशनैः प्रदर्शयन्तीषु नदीषु, अराजवति राष्ट्र इव मधुपपेटकाक्रान्ते कुसुमितविटपिनि, गलितयोग्यकाले शैलूष इव नर्तनं त्यजति नर्तनप्रिये, मानिनीजनमञ्जुवाचमुपलब्धुं योग्यां कुर्वस्विव निकामं कूजत्सु कोकिलेषु, भास्वत्सूर्यकिरणगुरुपादभक्त्या भव्यमनसीव स्फारवि- कासिनि पद्मसरसि , शरदन्वितकुसुमशरे मरुदुपेतमरुत्सख इव दुरुत्सह- प्रतापिनि, नातिशीतलोष्णैः सुराजचेष्टितैरिवाभीष्टैः कशिपुभिर्निकाम कामदायिकामदेवसदातनसमाराधनलम्पटयोस्तयोर्दम्पत्योरनुक्षणं साभोग- तां भजति संभोगजाते, जातु स्वप्नावलोकितस्वामिवियोगशोकपावकार्चित टारूढगाढमूर्छाक्रान्तां कान्ताम् 'भीरु, किमस्थाने कातर्येण । को नाम कृशोदरि, त्वां प्रतार्य प्रयातुं प्रक्रमते । मुग्धे, किमेवं मां दग्धहृदयमनि- .
अष्टमो लम्बः । ११५ - दानमातनोषि । सुराङ्गनामपि सुरापेक्षिणी कुलीनोपेक्षिणी चेयमसतीति तवानवद्यकटाक्षविक्षेपपर्यायदुरुपलम्भसपत्संभारोपलम्भदुर्ललितमस्मन्मन: सुतरामवहेलयति । किमुतापरां तरुणीम् । ततः कथमन्यत्र गतस्य मे सप्रा- गता। प्राणसमे, प्राणैर्विवना को नाम जगति सजीवः स्यात्' इति समाश्वा- सयन्तं जीवककुमारं सादरमुपसृत्य रचितलीलाञ्जलिरुन्निद्रशतपत्रातिशा- येवक्ता काचन धात्री समासाद्य सात्याहितमेवं प्रवर्तयामास गिरम् - "अयि कुमार, गोसर्ग एवाहमायुधश्रमशालामभिपतन्ती तत्र स्वपन्त कमपि भवन्तमेव विभाव्य प्रणयकलहव्याजप्रसजदुद्दाममन्युभरपराचीनां नेर्तृदारिकामनाढत्य 'किमत्राशयिष्ट कुमारः' इत्यनुशयाविष्टा तत्क्षण एव तस्मात्प्रतिनिवृत्य वत्सामिमां भर्त्सयितुं सत्वरमुपसरामि । दृश्यते भवा- नत्र । सादृश्यभ्रमसंविधानचतुरः स कुमारः कः स्यात्" इति । कनकमालादयितोऽप्यनवसितवचस्येव तस्यामाविर्भवदनुजविषया- च्यानः 'को नाम सुकृतिसुलभसुकृतोदयं समयं विनिश्चिनोति । नभश्च- राधीशसुतोपदेशेन नन्दाड्यः किमागतः । सा हि नः समस्तमिममुदन्त हस्तामलकवत्स्वविद्यामुखेन जानीते' इत्येवं मनसा वितकै नूरुहं पद्भ्यां तत्र प्रयाणं च प्रत्यपद्यत । प्रत्यदृश्यत च तत्रैव शस्त्रगु- गनिकाशालायामहंपूर्विकोपचरदनुचरमुखावगतपूर्वजाभ्यागमतया गीर्वा- णतां प्राप्त इव हर्षाढ्यो नन्दाढ्यः । ततश्च हर्षप्रकर्षपरवशहषाक सत्वरकृताभ्युत्थानमानन्दाश्रुजलधारावर्जनपुरःसरं विकस्वरनेत्रशतपत्रविर- चिताभ्यर्चनमधिकभक्त्या पादयोः प्रणमन्तं प्रश्रयश्रेष्ठं निजकनिष्ठमखि- लगुणज्येष्ठोऽयं गन्धोत्कटसूनुरत्युत्कटानन्दभरदुर्वहतयेव प्रह्वतरपूर्वशरी- र: प्रेमचलितकरतलाभ्यामतिचपलमुत्थाप्य गाढाश्लेषेण विवेकमूढानाम- बुद्धिमातन्वननेकानेहसं हृदयनिक्षिप्तमक्षिभ्यां प्रत्यक्षयितुमिव प्रथक्कृतं यांसं सांससंसर्ग निसर्गनिर्मले महीतले निवेशयन्निष्कासिताखिलज. वपुषा हृषितत- ११६ गद्यचिन्तामणी . नस्तदागमनप्रकारमाकारपिशुनितान्तर्गताह्लादः शनैरनुयुयुजे। नन्दाढ्यो- ऽपि पूर्वजानुयोगसमुपगतपूर्वप्रकृताध्याननवीकृतमन्युभरः सदैन्यं साकूतं सादरं च वक्तुमुपाक्रमत----" पूज्यपाद , जगदुपप्लवकारिभवदुपप्लुतवा- वात्यया निकामस्फूर्तिमदविषह्याभिषङ्गोऽपि कोपकृपीटयोनिकृताङ्गारसं- काशदृशि विस्फुलिङ्गविस्फूर्जदसदृशपरुषवचसि रचिताोरुकपरिधानभी- करवपुषि रोषदष्टोष्ठदर्शनमात्रत्रासितहस्तवति हेलोदस्तहेतिनिवहप्रणयिपा- गौ रणाभिमुखीभवत्पद्ममुखप्रमुखवयस्यवर्गे , केनचिदतर्कितागतिना गगनं नीयमानं स्वामिनं निर्वर्ण्य पुनर्निर्त्य संयुगसंनाहमनिवर्तनीयविषादविषमा नीरधौ निमज्जति, जातु दुर्जयदुर्जातजातोऽहं किमिह देहभारं मुधा चिरमूढ़े मन्युमौढ्येन मुमूर्षुभवन्भाविभवदीयदिव्यमुखाम्भोजदर्शनशंभरतया संभू- तेन भूतभवद्भाविगोचरखेचराधिपसुताहृदयपरिज्ञानानन्तरमपहृतासुभवे- यमिति विचारेण प्रतिषिद्धः प्रजावतीसदनमतिद्रुतमदुद्रुवम् । अपश्यं च तां परिवादिनीसंक्रमितेन भगवदर्हत्परमेश्वराभिष्टवेन कष्टां दशामापन्नमा- त्मानमुल्लाघयन्तीमुल्लोकवियोगरोगात्तगन्धां गन्धर्वदत्ताम् । साप्याकूतज्ञा मामादरकातर्यादात्मत्यागरागिणमवगच्छन्ती 'किमेवं कृच्छ्रायसे । स खलु सकलजगलालनीयाकृतिः सुकृतिनां पूर्वस्तव पूर्वजः केनापि लब्ध? पूर्वोपकारेण यक्षचरेण यक्षेन्द्रेण स्वमन्दिरं नीतः । तदनु नूतनजामा- तृतां प्रतिजनपदं प्रतिपद्यमानः सुखेनावतिष्ठते । ततः किमेवं साहस- मनुतिष्ठसि । पापिष्ठेयं स्त्रीसृष्टिरिव त्वमपि किमपरत्र गन्तुं न पारयसि । यदि कौतुकाविष्टोऽसि तव ज्येष्ठपादस्य श्रीपादसंदर्शने शय्यतामिह श. य्यायाम्' इति मामामन्त्र्य मन्त्रनियन्त्रितं किमपि पावनं शयनमधिश- यानमेनं जनं तत्समय एव समीहितार्थगर्भपत्रेण सममत्र प्राहिणोत्" इति । तदनु च गगनेचरतनूजया प्रेषितं संदेशं हृषिततनूरुहकरपल्लः वेन सायल्लकमादाय गन्धर्वदत्तादयितः सदयं साकूतं सावधानं च वा अष्टमो लम्बः । ११७ चयन्नवचनविषयविरहविषादमूषिकाक्ष्वेडपीडितजीविताया जीवन्मरणप्र- कारविवरणनिपुणाकृतेर्गुणमालयाः कुशलेतरवृत्तिं तद्वयाजविवृतात्मीयवि- रहार्ति च तत्संदेशेन पुनरुक्तमवयंस्तत्समयस्फुरदमेयनिजशोकानलज्वाला- मध्यवरजमुखनिर्वर्णनेन तद्वचनसमाकर्णनेन च शमयंस्तूर्णप्रधावितप- रिजनदत्तपाणिरुत्थाय तदुद्देशादनुजेन समं निजगृहमभ्यवर्तत । अथ विदितजीवधरनन्दाढ्यसौभ्रात्रैदृढमित्रमहाराजप्रभृतिसंबन्धि- भिः सानुबन्धमभिनन्द्यमानेन कनीयसान्वितस्य कनकमालावरस्य वरा- जां गतेषु वहत्सु वासरेषु सर्वेष्वपि , कदाचित् 'उर्वीतलमतिचपलचर- जलाभिघातेन दलयन्तः सद्यःसमुत्खातहेतिजातधौतधारादर्शनमात्रत्रस्य- दाभीराः केचन वीराः कुतोऽपि समागत्य निहत्य च प्रतीपगामिनः क- तिचन गोमिनोऽपि गोधनमवस्कन्ध कापि गताः' इति गदापल्लवगुच्छ- प्रणयिपाणिपल्लवा वल्लवा भृशं धरावल्लभस्य द्वारि स्थिताश्चक्रुशुः । वी- र्यशालिनां विश्रुतः स राजेन्द्रोऽप्यश्रुतपूर्वमुपश्रुत्य गोदुहामतिभृशमाक्रोश- मनीदृशक्रोधाविष्टः 'तानेवमभिनिविष्टदर्पज्वरानसांप्रतकृतः सांप्रतमेव स- मानीयास्माकं पुरस्तादवस्थापयत । नो चेदपास्तासूनवश्यं वः पश्येत' इति दर्शिताञ्जलीन्सेनान्यो व्याजहे । ततश्च तथाविधराजाज्ञया समन्ता- दुपसरद्भिः सुरगजगवस्तम्भिभिः स्तम्बेरमैल्गुवल्गनपराजितकुरङ्गैस्तुरङ्ग- र्गमनरहस्तिरस्कृतमनोरथै रXबहुकृत्वः कृतवैरिविपत्तिभिः पत्तिभिश्च सौ- रभेयीसंघावस्कन्दितस्करान्हस्तग्राहं ग्रहीतुं वहत्सु वाहिनीपतिषु, एवंभू- तमेतदाकर्णयन्नेकधनुर्धरः सात्यंधरिररिपरिभवासहिष्णुतया स्वयमपि रथी निषङ्गी कवची धनुष्मांश्च भवन्नवरजसारथिचोदितशताङ्गः शतशः श्वशुरेण निवार्यमाणोऽपि मस गवां मोक्षणमकासीत् । तदनु च गमनवेगानुधाव- तिजवनपवनसनाथरथधुर्यखरखुरखातधरापरागपुरोगत्या पुरोवर्तिनं मि- सार्थे पार्थिवैरिव प्रतिगृह्णन्गृहीतगोधनानामायोधनेन निधनं कर्तुमति- ११८ गद्यचिन्तामणौ त्वरितमुपसृत्य परीत्य तस्थौ । तावता त्रिभुवनभयंकरेण चापटंकारेण जगदभयंकरस्यास्य कोदण्डकोविदस्य सांनिध्यमवबुध्य तस्य कोपादात्मानं गोपयितुकामास्ते गोकुलदस्यवो वयस्याः सरभसोत्खातनिजहृच्छल्यानीव स्वनामाङ्कितशल्यानि पुरस्कृतपुङ्खानि शिलीमुखजातानि कुमाराभिमुखं प्रायुक्षत । प्रणेमुश्च ते प्रसभमुपसृत्य स्वनामचिह्नितमुखाञ्शिलीमुखान्वि- लोक्य विचारस्य विस्मयस्य प्रमोदस्य कौतकस्य मोहस्य च योगपद्येन पात्रीभवतः पवित्रकुमारस्य पादयोः पद्ममुखप्रमुखाः सखायः । बभूव चायं बहुसहस्राक्षो बहुधा विभक्तमिवात्मानं मित्रलोकमवलोकयन्पविर कुमारः । सखायश्चासन्सौख्यातिशयेन तदभ्याशप्रवेशलब्धेन सनिमे अनिमेषाः । अथास्मिन्सौरभेयीगवेषिणि सुदर्शनसुहृदि, सुहृदामुपलम्भादेधा- न्वेषिणि मणिलाभादिव स्फीतमुदि, वनमतीय मित्रपेटकेन लालाटिकै- रण्यमा हेमाभपुरीमवगाह्य नागरिकनयनसुमनोजलीन्प्राहंग्राहं निजगृहमी- युषि 'मुषितोस्राश्चोरवदमी कारागृहे किं न निगलनीयाः' इति लालयन्ती- ममन्दप्रेमान्धां सगन्धां कनकमालामिव कनकमालामतिलोकबान्धवसंब- धिसमाजं च समालोक्य चरितार्थीभवति वयस्यसाथै, कदाचिदयं सु- दर्शनमित्रः 'स्वमित्राणामतिमात्रबहुमत्याः कोऽत्र हेतुः । अस्मदीयक्षत्रता किमवगता । किंस्विदन्यदमीषां बहुमतेरायथापुर्ये निदानम्' इति संश- यानस्तत्परीक्षणाय दत्तक्षणः क्वचिद्रहस्योद्देशे वयस्यान्पप्रच्छ 'यूयमिहाग- च्छन्तः केन पथा समायाताः । कानि वा वर्मनि कौतुकास्पदानि पदानि दृष्टानि' इति । तथा पृष्टानां वयस्यप्रष्ठोऽयं प्रदर्शितप्रश्रयोत्कर्षो व्याहार्षी- देवं हर्षोत्फुल्लमुखः पद्ममुखः- "देव , देवस्यान्वेषणाय वयमश्वीयपणायि नामवलम्ब्य धुरं राजपुर्या विनिर्गस्य त्रिचतुरवासरैः कुसुमामोदवासितहरि मण्डलं दण्डितकुसुमकोदण्डं दण्डकारण्यान्तर्गतं कमपि तापसाश्रममध्व अष्टमो लम्बः । ११९ श्रमादाश्रित्य तत्रत्यानशेषानपि विशेषान्पश्यन्तः क्वचिदपश्याम नश्य- भूषामपि भून्ना देहसौन्दर्यस्य दर्शितदेवमातृगौरवां कामपि जग- मातरम् । पुनरनया दयाजनन्या ‘मान्याः, यूयं वत्याः' इत्यत्या- दरमनुयुक्ता वयमत्र प्रत्युत्तरमुदीरयितुमुपक्रम्य ‘देवि, वयममी राज- पुरीवास्तव्यवैश्यपतिसूनोर्दीनजीवजीवातोर्जीवककुमारस्य सुहृदः किल । अस्मदुष्कृतबलेन कृतघ्नप्रष्ठः काष्ठाङ्गारो नाम राजापशदः कदाचिदमुष्य पराक्रमममृष्यन्केनापि दोपमिपेण कुमारमेनं मारयितुम् ---' इत्येतावदवो- महि । तावता तद्देव्याः संजातामापदमिरंमदाविद्धशयोरिवेत्थमितिवक्त- दानीमपि न जानीमहे । पुनरतिप्रलापतुमुलोपस्थितसत्रासतापसपत्नीप- रीतोपकण्ठमाक्रन्दविशीर्यमाणकण्ठमालोकनोत्कण्ठमानवटुपेटकमत्युत्कट कोलाहलपलायमानपर्णशालाङ्गणकुरङ्गगणमतिकरुणरोदननिदानप्रश्नैक तानमुनिबृन्दं च तदमन्दव्यसनमनुभवन्तीयमखिलजगदम्बिका तदानीम- म्बुमुचां पतिः स्तनितेन समममृतमिव परिदेवनेन सह देवस्य वृत्तान्तमपि यथावृत्तं जगदभिवृद्धये प्रकटयामास । वयं तु पुनरिदंतया विदितदेवो- दन्ताः कन्द'लतानन्दकन्दाः 'कथमन्यदुपक्रान्तमन्यदापतितम् । अहो धन्या वयमद्य संजाताः' इत्यन्योन्यस्य मुखमीक्षमाणाः क्षोणी चाभवदस्म- दधीना । कीनाशमपि काष्ठाङ्गार काष्ठमिवाशुशुक्षणिराशु भस्मसात्कार- ष्यामः' इति वदन्तः परस्परं तां धिकृतां धैर्येण , हुंकृतामहंकारेण , सितां भाग्येन , धर्षितां प्रहर्षेण, विस्मृतां स्मितेन , वञ्चितां विवेकेन , सजुगुप्सां स्त्रीजन्मनि , सापलापां पुण्येषु , सक्रोधां वेधसि , सलज्जां जी- वितव्ये, सत्रासां पुत्रलाभे, दर्शितदुरवस्थां देवीम् ‘देवि, मा भैषीरेवम् । न मारितः स कुमारः । कितु मारयितुमभीष्टोऽयं केनापि विशिष्टनास्म- ष्टया तत्क्षण एव संरक्षितः क्वापि क्षितौ सुखेनास्ते । तदर्शनास्थया स्थिता वयमप्युपस्थास्यामहे चाद्यश्वस्तमवश्यम् । देवि , त्वं च द्रागेव भ- , , १२० गद्यचिन्तामणो . , , द्रक्ष्यसि त्यक्ष्यसि च हृच्छल्यं यतो भोक्ष्यति भुवं पुत्रस्ते निजामित्रमपि हेलया हत्वा' इत्येवं चान्यथा च भृशमाश्वास्य तद्वयथां कथमपि लवयन्तः पुनरलघुस्नेहमापृच्छय ततो गच्छन्तः सौरभेयीहरणच्छलेन निजश्रीपाद- च्छायां श्रितवन्तः" इति । एवं व्याहरत्येव तस्मिन्विकस्वरमुखे पद्ममुखे, वीतमुखकान्तिर्वि- जयानन्दनोऽयं 'हन्त हन्त हतकस्यास्य जनस्य जननी किमिदानीं या- वज्जीवति । जीवतां जगति किं नाम न श्राव्यं श्रोतव्यम्' इति साकृतं सानुतापं सकौतुकं च वदन्कण्ठोक्तमातृदर्शनोत्कण्ठः कण्ठीरवकिशो इव सत्वरमुत्तिष्ठन्महीपृष्टादनुधावदवरजवयस्यैरमा सरभसमुपसृत्य संद न्धिगृहं कथंचिद्गृहीतश्वशुराद्यनुमतिरनुचरमुखविदिततदीयजिगमिषायाः प्रागेव जिगमिषुप्राणां प्रबलदावज्वलनज्वालालीढजरठेतरमाधीलतातु- लितां कनकमालाम् ‘भीलुके , मैवं भेतव्यम् । वासु , सहस्त्र मासमा- त्रम् । मात्रीयव्यसनशमनकृते गमनमिदम् । अन्यथा कथं क्षणकालमपि त्वद्विकलः कलयामि गमयितुम् । गन्तुकामोऽहमपि कान्ते , त्वां मम स्वान्ते निधाय ननु गन्तास्मि । तस्मात्तव भीरुके , विरहस्य कः प्रसङ्गः' इति प्रसङ्गोचितामिलप्रियसंभाषणपर्यायपीयूषवर्पण प्रशमितनितान्तती- वसंतापां तां संपाद्य पुनः संपदहमहार्हपरिबर्हेण सार्धमर्धपथाधिकयात्रेण दृढमित्रमहाराजेन सुमित्रादिना च दुःशकनिवारणतया सुदुःखमुज्झितः प्रसभं प्रधावन्प्रसरदग्निहोत्रधूमधूम्रफलभारनम्रनैकभूरुहं वासरावसानसं- क्षिप्तनीवाराङ्गणनिषादिमृगगणनिर्वतितरोमन्थमालवालाम्भःपानलम्पटवि - हगपेटकविश्वासविधानकृते सेकान्तविसृष्टवृक्षमूलमुनिकन्यकाविवृतकारु- ण्यं दण्डकारण्याश्रममधिवसन्तीम् , मुषितामिव मोहेन, क्रीतामिव क्रशिम्ना, वशीकृतामिव शुची, दुःखैरिवोत्खाताम्, व्यसनैरिवास्वादिताम् , तापै रिवापीडिताम् , चिन्तयेवाक्रान्ताम् , क्लेशैरिवावेशिताम् , अभाग्यै- " - भष्टमो लम्बः। १२१ प्रो- रिवसिंविभक्तां मातरमत्यादरमभ्येत्य प्रणनाम । सा च नन्दनमुखेन्दुसंदर्शनेन सलिलनिधिरिवोद्वेलसंभ्रमा, ढप्रेमान्धतया प्राप्तयौवनमप्यौरसमवरजं च सुचिरं परिरभ्य तत्परिरम्भ- णपर्यायपरमभेषजप्रयोगतस्तजननसमयत्यागेन तदभिवर्धनसौख्यवियोगेन तदीयहृदयरहितनिर्हेतुकदरहसितामेडितानन्दकरपांसुक्रीडानवलोकनेन च रूढमतिमात्रं पुत्रशोकहृच्छल्यं साकल्येन मुमोच । तदनु च निजसुत- निर्विशेषप्रतिपत्तिमुदितमित्रैः पुत्राभ्यां च केसरिणीव किशोरकैः परीता सा निषद्य सपरितोषममूनिरीक्ष्य ‘अङ्ग पुत्राः, चिरकाशितयुष्मदर्शन- सुखोपलम्भदुर्ललितहृदयवृत्तिः पचेलिमसुकृतबलेन हेलया मे निष्पन्ना । अपि नामैवं जीवन्त्यामेव मयि निष्प्रत्यूहं निष्पद्येत निजराज्यप्रवेशवार्त- यापि कदाचित्कोत्सवः । स खलु महोत्साहेन महापुण्येन महापरिकरे- ण च साध्यः कथं देशेन कोशेन मौलेन पृष्ठवलेन च वा विधुरैर्युष्मा- भिः सुकरः स्यात् । अस्ति चेत्सुकृतमस्तु कदाचिदियममित्रनिबर्हणपुरः- सरा पित्र्यपदावाप्तिः । तावदरातिप्रतारणप्रसजदात्मापायः सदाप्युपाय- प्रष्ठोद्यतैर्युष्माभिः परिहियताम् । परिपन्थिजनगृह्याः खलु निगृह्याः पु- रंध्रयः पुमांसश्च । केचिदशने शयने पाने वसने च व्यसनकर गरं मिश्रयित्वा व्यापादयितुं यतेरन्' इत्येवमत्यादरं व्याजहार । एवं निज- विजयशंसि विजयावचः श्रुत्वा विजयासूनुः ‘अम्ब, नार्थेऽस्मिन्नत्यर्थ व्यसनमनुभूयताम् । भूयांसस्तव पुत्राः प्रत्येकमप्यमी प्रभवन्ति हत्त्वा राजनमार स्वराज्यमन्यराज्यं च स्वसाकर्तुम् । अतः कर्तव्यमतः परं त्वया निराकुलमवस्थानम् । कृतं निराकृतानामस्माकं कृति भुक्तपूर्वया दुर्वहन्यथया' इत्येवं सगर्व सानुतापं च प्रत्युदीर्य विचार्य च रहः स्व- कार्यनिर्वहणप्रकारमवरजपप्रमुखप्रमुखपारिकरण समं मातरं मातुलस्य स- प्राजः सपनि प्रहित्य प्रसमं स्वयमपि राजपुरी प्रति प्रतस्थे । 11 १२२ गद्यचिन्तामणौ अथ मातृविलोकनस्फुरदुल्लोकहर्षः सन्सात्यंधरिः सरभसमपरौं पितरौ दिदृक्षुरुपसृत्य राजपुरी पुरोपकण्ठभाजि कचिदुद्गमोत्कण्ठमानकल- कण्ठीपादप्रहारकुसुमितस्त्रीप्रियपादपाभिरामे महत्यारामे परिकरमवस्थाप्य दिनप्रतिकूलतया कुलसदनमनुच्चलन्नुच्चलदुच्चैःपौरकलकलरवमांसलमहो- त्सववाद्यशब्दापदेशेन जननिवेशेन चिरविरहविजृम्भितदर्शनकौतुकादाहू- यमान इवेयिवानभितः पुरं विचचार । ततश्च तत्रत्यानत्यन्तस्फुरदत्या- हितः समाहितचित्तवृत्तिर्विलोचनविलोभनीयान्विलोकमानः कचिदभ्रंक- घरम्यहाग्रे सविभ्रमभ्रमणक्वणन्मणिभूषणरवविश्राणितलयाविसंवादिप दप्रचारम् , मुहुःस्रंसिचिकुरभारव्यापारितकरम् , अवस्रस्तप्रतिसमाहित कर्णपूरीकृतकर्णपूरपल्लवानिलशोषितकपोलपत्रभङ्गदूषिधर्मसलिलाङ्कुरम् दरगलितकुचतटांशुकनियमनप्रवणैकपाणिपल्लवम् , उल्लसदपदेशस्मित- चन्द्रिकाभिषिक्तबिम्बाधरम् , पृथुनितम्बबिम्बोत्पतदवपतदतिवलक्षक्षौमो- ज्ज्वलम्, सलीलकरव्यापारशैघ्रयानतिक्रमितप्रकृतकलीधवलदन्तपत्रप्रति- समाधिनम् , प्रतिसमयसुलभोत्थानावस्थाननिर्व्यवस्थमुक्ताहारमनोहरोरःस्थ- लम् , प्रसृताकुञ्चितवेल्लितबाहुलताभिहतिवशबाह्याभ्यन्तरभ्रान्तकन्दुक- निरन्तरोत्पतननिपतनदृष्टनष्टमध्ययाष्टिकं च, कदाचिद्गीतमार्गानुधावदुन्न- मनावनमनप्रकारेण कदाचिन्मण्डलभ्रमणेन कदाचिद्गोमूत्रिकाक्रमेण च निषण्णोत्थिताया निमीलितोन्मीलितायाः स्थितप्रस्थितायाः कस्याश्चिदार- ब्धकन्दुकक्रीडायाः कन्यकायाः पाणितलतः परिभ्रश्य पुरः पतन्तं क- मपि कन्दुकमैक्षिष्ट । पुनः किमिदमिति कौतुकाविष्टस्तत्क्षण एवोद्वीवः सव्यमंतगृहस्योपरितलमुत्पश्यन्नपश्यदात्मावलोकनावतीर्णतत्प्रथममदनवि- तीर्णविकारल्यापारितनयनेन्दीवररश्मिविसरव्याप्तराजमार्गों स्वौकसामपि दुरुपलम्मां तां कन्दुकस्वामिनी कन्यकाम् । आसींचायमप्यनन्यजाक्रा- न्तस्ततस्तदीयनयनवागुरान्तर्गत इव पदमपि गन्तुमप्रगल्भः स्वल्पेतररा- अष्टमो लम्बः । १२३ . गार्तिस्तद्गृहवितर्दिकामध्यास्य 'का स्यादियं कुमारी । कानि वा स्युरद- सीयान्यमृतक्षारीणि नामाक्षराणि । कतमः स्यादस्याः पिता । कथमेनां करेण स्पृशन्कमलयोनिः कामुको नासीत् । अपि नामेयमस्माभिः कदा- चिल्लभ्येत' इत्येवमितरथा च विरच्यमानविचारः कुमारः कुटमलितकुबेरै- श्वर्येण तद्गृहवैश्यवरेण " कुमार , अहमस्मि सागरदत्तो नाम । मम सागा- रधर्मपत्नी कमला । विमलेति विश्रुता तत्पुत्री । जातमात्रायां तस्यां संगि- रते स्म गणितज्ञगणः 'यस्मिन्महात्मनि निजसद्म समीयुषि क्षणादक्रय- संचितमणिविक्रयः स्यात्तस्येयं गृहिणी' इति । गृहागते भवति विक्री- भश्च वीतकेतृकतया पुरा पुञ्जितो मम रत्नराशिः । ततः सर्वथा योग्यां मम सुतां भाग्याधिक, भवान्परिणयतु परिणामान्तरमुज्झित्य" इत्युप- च्छन्दनपूर्वकमदृष्टपूर्वसंविधया विधिवद्विसृष्टाममलनैपथ्योज्ज्वलां विमला- भिधानां तां कन्यकां परिणिन्ये । इति श्रीमद्वादीभसिंहसूरिविरचिते गद्यचिन्तामणौ विमलालम्भो नामाष्टमो लम्बः ।
१२१ गद्यचिन्तामणो नवमो लम्बः। अथाभिनवपरिणयनपरिणतव्यलीकयवनिकान्तर्हितमनोभवरसा- नुभवकुतूहलया प्रियतमबलात्कारनीयमानपरिष्वङ्गपरिचुम्बनाभिमुख्यया प्रतिपादितरागहस्तपल्लवेन पञ्चशरेण शनैःशनैः सुरतसुखानुभवनसर- णिमवतार्यमाणया विलासकलहंसनिवासजङ्गमकमलिन्या कान्तिकिसल यितकायलतार्पितभुवननयननिर्माणफलया विमलया सह वर्धमानरोमाञ्च- मञ्जरीकल्प्यमानसुरतदेवताराधनसुमनोदामकानि मौग्ध्यविधीयमानलज्जा- परिह्रियमाणाङ्गतरङ्गितप्रियतमरागविलसितानि विच्छिन्नविशीर्णशेखरमाल्य- केसरपरागधूसरपर्यङ्काणि परस्परपरिरम्भचुम्बनपौनरुक्त्यनिरक्षरनिवेद्यमा- नोभयाभिलाषविशिष्टानि सुरतचेष्टितान्यनुभूय रतिपरिश्रमपारवश्येन श- यनतलप्रसारिताङ्गी विलुलितविरलविशेषकलेशपेशलललाटरेखाम्सकृदा- रचितभूषणारुणमन्थरपरिस्पन्दसुन्दरनयनेन्दीवरामनन्तरितताम्बूलरागारु- णिमवर्णितानवरतग्रहणदशनच्छदामतुच्छेन प्रणयेन निजगमनमसहमा- नाम् , 'अलमलमविस्रम्भेण रम्भोरु, पुनरनागमनविषयेण । अनुक्षणमागमि- ध्यामि' इत्याभाषमाण एव भवनान्निर्गत्यानुनगरमविरलवकुलकदम्बच- म्पकसहकारप्राये पुष्पोद्याने समासीनानामारभ्य शैशवादारचितपरिच- यापयातपरस्पररहस्यानां वयस्यानामाजगाम समीपम् । ततश्च तमासक्तवल्लभाचरणलाक्षारसलोहितालकपल्लवोपरिभाग- मुपभोगायासनिमग्नतारकदृशं गाढग्रहणलग्नदशनशिखरप्रणिहिताधरमणि- मतिसुरभिपरिमलाङ्गरागव्यतिकरविशेषकमनीयवपुषं विषमेषुराज्यधर्ममिव नबमो लम्बः। १२५ विधृतविग्रहं प्रेमविवशविस्मृतनिमेषनिश्चलपक्ष्मपुटाभ्यां स्फुटितकमलमु- कुलपेशलाभ्यां लोचनाभ्यामापादचूडमालोक्य 'अहो महाभाग्यस्य ते सौभाग्यं सर्वभुवनातिशायि , यदेवमनुपुरं पुरंध्रीभिः स्वयं त्रियसे । संप्रति समूढायाः प्रौढभाग्याया भजन्त्यभिख्यां कानि कान्यक्षराणि' इत्यक्षत- सौहदवानः पद्ममुखादयः पर्यपृच्छन् । सात्यंधरिरपि संजातसंतोषः किंचिदुन्मिषितहसितचन्द्रिकाच्छलेन सिञ्चन्निव स्नेहामृतम् ‘अधरितक- मला सा विमला नाम्ना' इति व्याहार्षीत् । हर्षविकसदास्यानां वयस्यानां गोष्ठीमधितिष्ठन्परिहासालापविदग्धबुद्धिर्बुद्धिषेणो नाम सुहृत् ‘अस्य कुतः सौभाग्यम् । दौर्भाग्यादपरैरनूढाः प्रौढवयसः काश्चिदनन्यगतयः कन्यका निकाममेनं कामयन्ताम् । यदि नामायमेकान्तपरिहृतपुरुषदर्शनां दर्श- नीयाङ्गयष्टिमधिवसन्तीं कन्यान्तःपुरमनङ्गमातङ्गनहनदक्षकटाक्षहीरञ्जीरां सुरमजरीमावर्जयेदअसा योग्यः सौभाग्यवतामुपरि गणयितुम् ' इति सो- प्रासं प्रावोचत । तद्वचनानन्तरं सात्यंधरिरपि समुद्भूतमन्दहास'साधु कथितं दास्याः पत्या वयस्येन । न चेदल्पीयसानेहसा समावर्जयेम तां वर्जिता एव वयमपि त्वमिव सौभाग्येन' इति ससंगरं व्याहरन्नेव पुन- रपि पुरमाशु प्राविशत् । अविशञ्चास्य हृदयं वितर्कः 'केनोपायेन तां तथा करिष्यामि यथा मनसि मन्मथशरपातेन पारवश्यमासादयन्ती समा- सादयेदस्मान्' इति । ततश्च विभाव्य क्षणादेवं यक्षोपदिष्टमनुमहिम्ना निजसौकुमार्य- निवार्यविकचकाशकुसुमस्तबकपरिभावुकेन पलितपाण्डरेण केशकलापेन पटेनेव सितेनावगुण्ठितोत्तमाङ्गम् , जराजलधितरङ्गानुकारिणीभिरायामि- नीभिर्वलीभिः स्थपुटितललाटफलकम् , अलिकतटस्फुरदलघुवलिभार- नुन्नाभ्यामिव नम्राभ्यां भूलताम्यां तिरोधीयमाननयनम् , उन्मिषितदूषि- काभ्यामुद्भूतनीलपीतपाटलसिराजालजटिलाभ्यामनुपलक्ष्यमाणपक्ष्मरोमरा- - १२६ गद्यचिन्तामणौ - जिभ्यां हिमानीहतपुण्डरीकविच्छायाभ्यामीक्षणाभ्यामुपलक्ष्यमाणम् , आ- नाभिलम्बितेन जरावलीफुल्लमञ्जरीनिभेन कूर्चकलापेन प्रच्छादितवक्ष- सम् , अक्षीणकासकाष्ठाकरेंजपेन घर्घराघोषेण मुखरितकण्ठमूलम् , अ- तिनम्रपूर्वकायकथ्यमानदौर्बल्यम् , उल्लसदविरलास्थिपटलस्थपुटितसंस्था- नम् , अस्थानपतनजनितजनहासविजृम्भणम् , एककरकलितकमण्डलुम् , इतरकरविधृतस्य वलक्षपटवेष्टितशिखरस्य शिखरनिहितहरितकुशापीडस्य वंशदण्डस्योपार निवेश्यमानशरीरयष्टिम् , स्पष्टदृष्टकीकसान्तरालनिर्गत- सिरासंतानसब्रह्मचारिणा ब्रह्मसूत्रेण सीमन्तितगात्रम् , अपगतमांसकृ शाङ्गुलीपरिच्यवमानपवित्रिकाप्रत्यवस्थापनव्याप्रियमाणपाणिम् , प्रयाणो- न्मुखप्राणमिव प्रेक्ष्यमाणम् , प्रेतनिर्विशेषवेषं दधौ । एवमात्मनोऽप्यत्या- हितमापादयितुं समर्थया वार्धकावस्थया वर्धितकुतूहलै लैर्विहस्यमानः पदे- पदे परिस्खलन्नवष्टभ्य मुष्टया वंशयष्टिमतिक्रम्य किंचिदन्तर वामकरगृ. हीतवेत्राभिरितरकरगृहीतखगलताभिरापादमुक्तधवलकञ्चुकाभिः प्रतीहा- रस्थाननियुक्ताभिर्युवतीभिः समन्ता तं प्रत्युत्तनैकमणिमहःस्तबकपिञ्जरित- गगनं सुरमञ्जरीभवन यदृच्छयेवोपसृत्यातुच्छरुषा दौवारिकयोषित्सार्थेन 'किमर्थमिहोपस्थितम् । अवस्थीयतामत्रैव विप्र, त्वया । नैवान्तः प्रवि- श्यताम्' इत्यादिश्यमानोऽपि कुमारः कुमारीतीर्थस्नानेन वार्धकमेतदपसार यितुमुपसरामि' इत्युदरियन्नवीर्य निवारणोपक्रममुपसर्तुमुपास्त तट्ट- हाभ्यन्तरम् । पुरंध्रयश्च प्रतीहारस्थानस्थितास्तदवस्थाविलोकनेन तद्वचनश्रवणेन च जातस्फीतहासानुकंपाः ‘किं पातकमस्माभिरनुष्ठातुमारभ्यते । बुभु क्षितोऽयं क्षितिसुरः स्वैरं किमप्याचष्टे । स्पृष्टोऽप्यस्माभिरयं नष्टासुर्भवेत् आस्तामयमत्रैव । प्रस्तुतमेतदुदन्तमिदंतया तस्यै भर्तृदारिकायै विज्ञाप याम' इति विरचितविचाराः सरभसमेव सुरमञ्जरीसकाशमविशन् । अ नवमो लम्बः । १२७ भ्यधुश्च ताः सुन्दर्यः सुरमञ्जरीमजलिबन्धकरणे कातर्यकण्ठोक्तभयाः ‘भर्तृ- दारिके , भर्तेव जरायाः कोऽपि वृब्राह्मणो ब्रह्महत्याभीत्यास्माभिरभर्सि- तः सुतरामुत्सुक इव भिक्षायां प्राविक्षदभ्यन्तरकक्ष्याम्' इति । सा च वरवर्णिनी तद्वचनाकर्णनेन तदवलोकनपूर्णमतिः पूर्णास्ते मनोरथाः प्रा- णनाथ, यतः प्रत्यासन्नः' इति क्वणितव्याजेन मणिनूपरेणेव प्रोच्यमा- ना पुरःसरमानिनीपरिषदभिधीयमानालोकशब्दा चरणाभ्यामेव जीवितै- कशरणमेनमेनोरहितं तपस्यासमाश्रितं श्रीरिव स्वयं शिश्रिये । पिप्रिये च । प्रवयसमालोक्य सा प्रमदा । निजगाद च निजपरिचारिकाः 'परि- नमस्तावदस्य परिहियताम् । आह्रियतामाहारादिकम् । कृतिनमेनं कृता- दराः कृतकशिपुं कारयध्वं यूयम्' इति । ताश्च तद्वचनं निशम्य निशा- न्ताभ्यन्तरे जीवंधरमानीय तपनीयगलन्तिकागलितपानीयकृतपादप्रक्षाल- नं प्रक्षरदाज्यं प्राज्यभोजनं भोजयितुमारेभिरे । कुमारोऽपि तां नखचन्द्रकिरणपरामर्शेऽपि विकसता चरणकम- लयुगलेनोपेताम् , कार्कश्यरहितकरिवरकराकारेण कथितैकान्तशीतल- कदलीस्तम्भेन भृशमूरुद्वयेनोपशोभिताम् , दानरेखयेव मदनगन्धद्विपस्य कृपाणधारयेव सौभाग्यवरस्य तनुतरमध्यलताविलीनमधुकरमालायमानया रोमराजिरेखया विराजमानाम् , चकासत्यपि मुखचन्द्रमण्डले संगताभ्या- मिव रथाङ्गनामभ्यां स्तनाभ्यामुद्भासमानाम् , पल्लविताभ्यामिवाङ्गुलीभिः कोरकिताभ्यामिवाङ्गदमौक्तिकैः कुसुमिताभ्यामिव करसंभवैर्बाहुलताभ्यां विराजमानाम् , मदनारोहलीलाडोलायमानया कर्णपाशश्रियालंकृताम् विकसिततिलकुसुमसमानया रूपसौन्दर्यसागरबुद्बुदायमानया नासया स- मेताम् , विकचविचकिलकुसुमावकीर्णकेशकलापाम् , तारकिताम्बरामित्र वेभावरीम् , कल्पलतामिव कामफलप्रदाम् , जानकीमिव रामोपशोभि- माम् , समुद्रवेलामिव विचित्ररत्नभूषिताम् , नारीजनतिलकभूतां कुमारी - . .
१२८ गद्यचिन्तामणी विलोक्य विस्मयस्मेरचक्षुः 'अहो मदनमहाराजविजयसाधनानां समवाय इव योषिदेषा लक्ष्यते । तथाहि तस्य धनुर्यष्टिरिव भूलते, मधुक- रमालामयी ज्येव नीलालकद्युतिः , अस्त्राणीवापाङ्गविक्षेपाः, वैजयन्तीदु- कूलमिव दशनमयूखजालकम् , प्रियसुहृदिव मलयानिलो निःश्वासमारुतः, परभृतबलमिवातिमञ्जुलमालपितम्' इत्याकलयन्नन्तःस्फुरदाह्लादः , परि- जनानीतं पवित्रमासनमध्यास्य कथमपि वार्धकेनेव कतिचन कबलानि शनैरशित्वा पुनरशनक्लेशमपनेतुमिव महनीयं किमपि शयनीयमारुरुक्षत्। अशयिष्ट च किल तत्रैव यथेष्टम् । कुमारी च सा कुतूहलप्रवर्तितैर्वात विनोदैमुहूर्तमात्रं तत्रैवातिवाह्य 'भृशमशनक्लेशितोऽयमग्रजन्मा स्यात् ।। प्रतरव्यसनवार्धिवर्धनेन्दुः खलु वार्धकं च । अतः स्वैरमनेन सुप्यताम् । न लुप्यतामस्य निद्रा' इति निगदन्ती 'निवारितपुरुषदर्शनयापि मया दृष्टोऽयं विशिष्टवृत्तः । कदाचिदेवमपि नाम तज्जनदर्शनमपि संभवेत् , यो नाम चूर्णपरीक्षायामुपैक्षिष्ट माम् ' इत्यनुशयाविष्टा सह सखीभिस्ततः प्रयान्ती प्रदेशान्तरं प्रापद्यत अथ कुमारः स्वैरगानावसरदानलम्पटतयेव लम्बमाने सौरबिम्बे सुरमञ्जरीकरपीडोत्सुकसौनन्देयरागप्राग्भार इव बहुलतया बहिर्गते स्फुरति संध्यारागे, गगनकेदारविकीर्यमाणतिमिरबीजनिकर इव नीडसनीडाभि मुखमुडायिनि काकपेटके प्रेक्ष्यमाणे, प्रासादवातायनविवरनिर्यदगुरुधूपो करेण तिमिरान्धकारेणेव नीरन्ध्रीभवति वियदन्तराले, वलमिनिविष्टवा रयुवतिधम्मिलमल्लिकास्रजा सृज्यमानायां प्रतिदेशं चन्द्रातपच्छेदशङ्का याम् , प्रज्वलदन्तर्गतप्रदीपसनाथेषु सायन्तननियमध्यानाग्निसंयुक्तसंयते ष्विव जातेषु सौधेषु, दुर्दशां स्वान्तेष्विव तमसाक्रान्तेषु दिगन्तेषु, न मेण च मदनमहाराजश्वेतातपत्रे रजनीरजतताटङ्के, स्फटिकोपलघटिर मदनशरमार्जनशिलाशकलकल्पे पुष्पबाणाभिषेकपूर्णकलशायमाने सर - नवमो लम्बः । १२९ . , जनानन्दकारिणि रागराजप्रियसुहृदि राजति रोहिणीरमणे, दुग्धोदधिशी- करैरिव, घनसारपरागैरिव मलयजरसविसरैरिव पीयूषफेनपिण्डैरिव पारद- रससरिद्भिरिव स्फटिकरेणुभिरिव मदनानलभस्मभिरिव रजनीकरकरनि- करैरापूरिते भुवनविवरे , विकचकैरवपरिमलमिलितालिकुलझंकारविरचि- तविरहिजनतापे मधुमदमत्तमत्तकाशिनीकेशकलापकुसुमामोदमोदितदश- दिशि समाध्मापितप्रद्युम्नपावके मन्दमन्दमावाति मातरिश्वनि , समन्ततः संचरति समारोपितकामुके हृदयभिदि कंदर्पे, संभोगलम्पटदम्पतिसमा- भवन्मणिभूषणरणितशब्दमात्रावशेषिते धात्रीतले , पवित्रकुमारः कु- लयैकमोहनं गानमतानीत् । गानविद्याविश्रुतस्य तामुपश्रुत्य गीतिम् 'किं नु किंनराः किमुत नराः किं स्विदमरा वा जगत्यनुपमेयं गायन्ति' इत्याहितात्याहितभरा परितः प्रहि- तनेत्रा तत्र सर्वत्राप्यपरमपश्यन्ती सेयं वैश्यपतिसुतावश्यं मन्त्रसिद्धमेनं वृ- द्धमेव विभाव्य गायकं सहयायिनीभिरमा तत्प्रान्तं प्राविक्षत् । अप्राक्षीच 'प्रक्षीणाङ्गस्य ते गीतिरियं प्रत्यक्षस्मरं स्मरयति जीवंधरम् । कस्मादियम- नवद्या गानविद्या विद्वन्नुपलब्धा, यच्छक्तितः शमिनि वयस्यपि सर्व- लोकश्राव्येयं दिव्यगीतिः । भवत्यपि नामान्यदप्यभीप्सितमुपलब्धमपा- योऽस्ति । न चेदिदं गोप्यमत्र प्राप्यमुत्तरम्' इति । तदनुयोगसंवर्धित- हर्षः स वर्षीयानपि वार्धकमुन्नाटयन्नुपधानात्कथंचित्किचिदुद्धृतोत्तमाङ्गः प्र- क्षीणपक्ष्मकमक्षियुगमप्यतिप्रयासादिवोन्मील्य कफावगुण्ठितकण्ठलाघव इव मुहुः खात्कृत्य घर्घरेण स्वरेण स्वमनीषितोत्पादनमौपयिकमुपचक्रमे वक्तु- म्-"बाले , हेलया गानमिदं साध्यम् । असाध्यमन्यदपि हस्तस्थं पश्य विश्वस्य मद्वचनमनुष्ठातुं यदि नाम पटिष्ठासि" इति । तद्वचनवञ्चितया पुरमञ्जर्याप्यञ्जलिबन्धेन 'बन्धुप्रिय, को नाम वराको जनः परहितपरैरा- याते वचसि वैमुख्यमुद्वहति' इति सदैन्यं सप्रश्रयं च प्रणीतः पुनरयं . .
गद्यचिन्तामणी प्राणिनाय 'श्रूयतां तर्हि । इहास्ति समस्तवरदानदक्षस्य साक्षात्कृताङ्गस्य किमप्यनङ्गस्यायतनम् । अद्य वा श्वो वा समुत्थाय तद्गोष्ठं यशुपतिष्ठेयास्त- मनन्यजं किमन्यदुदीर्यते कार्यत एव द्रक्ष्यसि । तत्क्षण एव कामितमखिलं स कामदेवः साधयेत्' इति । सा च स्त्रीजनसुलभचापल्याद्भवितव्यता- प्राबल्याञ्च तथा' इति प्रतिश्रुत्य प्रातरेव गन्तुमुदमनायत । अथ सुरमञ्जरीपरिरम्भणपर्युत्सुकतया परिगतान्ध्यस्य जीवंधरस्य तदैकस्यामपि त्रियामायां सहस्रयामता प्रतिपद्य कथमपि प्रयातायाम् , उदि- ते वृद्धेन समं सवितरि , पितरं मातरं बन्धुसमाजं च संवादयन्ती समारू ढशकटेन तेन कपटवृद्धेन समं समारुह्य चतुरन्तयानं सखीभिः साकं स कन्यका तदनन्यजावासमाससाद । तत्र च सादरविधीयमानसपर्याविधे- विषमेषोः संनिधौ सास्तिक्यमस्यामास्थितायामयमन्यवयस्कस्तामामन्त्र्य वासु , प्रसादितोऽयमुपासनाप्रपञ्चेन पञ्चशरः । त्वदभिवाञ्छितं वरमसहा- या स्वयमस्माद्वृणीष्व' इत्यब्रवीत् । सा च मुग्धा बद्धाञ्जलिर्बहुधा प्रणुत्य पुष्पबाण, ते बाणानेव न केवलं प्राणानपि मे प्रत्यर्पयि- ष्यामि यदि प्राणनाथतां प्रतिपद्येत जीवककुमारः' इति सादरं सप्रणामं च प्रार्थयामास । प्रादुरासीच्च प्रागेव पुष्पायुधसविधे स्थापितेन बुद्धिषेणेन 'लब्धवत्यसि वरम्' इत्युक्तं वचः । अदर्शयञ्च तावता कुमारोऽप्यवधी- रितमारं निजाकारम् । सा च तमवलोक्य सविस्मयस्नेहमन्दाक्षा मत्तेवो- न्मत्तेव भीतेव विषण्णेव मुदितेव परवशेवानुरक्तेव स्तम्भितेव समुत्की- ऎव विलिखितेव विद्रुतेव शून्येन्द्रियेव स्वेदजलप्लावितसर्वाङ्गयष्टिरतिनि- बिडपुलकनिचिता मदनशरपञ्जरमध्यवर्तिनी प्रान्तः प्रविशतः कुमारस्य पादन्यासादिव स्फुरदधरपल्लवा किंकर्तव्यतामूढासीत् । ततस्तावता तयोः संगमाहमङ्गलप्रदीप इव प्रज्वलति प्रत्यूषाडम्बरे , स्त्रीपुंससंयोगप्र- कारप्रकटनायेव घटमाने कोकमिथुने, हुतहुताशनकुण्डायमाने स्फुटित प्रद्युम्नम् 'अयि , नवमो लम्बः । १३१ सरोजषण्डमण्डिते सरसि मङ्गलवचनपठनाकुलेष्विव कूजत्सु कोकिलेषु , वंशस्वनानुकारिझंकारमनोहरभृङ्गबृन्दपदपातवृन्तच्युतप्रसवराजिमाचारला- जानिव विलासिनीषु विकिरन्तीपु लतासु, तन्मिथुनमिथःसंगमपिशुनेष्विव शकुनेषु सविरावेषु , स जीवकस्वामी तादृशी दशामनुभवन्तीमन्तर्धातुं क्षेपीयः क्षितितलादुत्क्षिप्तैकचरणामन्तःकरणेन स्थातुं प्रस्थातुं च प्रतीकेन प्रयतमानां तदाननाम्भोजमतिस्पष्टं द्रष्टुमभिवाञ्छदृष्टियुगं प्रकृष्टतरलजया बलादाकर्षन्तीमीषद्विवर्तितमुखीममर्त्यलोकाद्भुवमवलोकयितुमायातां सुरश्रि- मिव सुरमञ्जरीम् ' मञ्जुभाषिणि, मा कृथाः प्रयाणे मतिम् । प्रमादस्ख- लतमस्य क्षम्यतां भुजिष्यस्य' इत्याभाष्य गाढमाश्लिष्य रमयन्नमरदुरास- दसौख्यः पुनः प्रख्यातकुबेरसाम्येन कुबेरदत्तश्रेष्ठिना श्रेष्ठतमे लग्ने स्ववि- त्तस्य स्वचित्तोन्नतेः स्वनाम्नो वरमहिम्नश्चानुरूपमर्पितां पवनसखसाक्षिक . पर्यणैष्ट । इति श्रीमद्वादीभासिहसूरिविरचिते गद्यचिन्तामणी सुग्म अरीलम्भो नाम नवमो लम्बः ।
१३२ गद्यचिन्तामणी दशमो लम्बः। :*: अथायं सुमतिः सुमतिसुतायां सुरमञ्जो सुमनोमजो चञ्चरीक इव सक्तो भवन्नभिनवकरपीडनानेडितत्रपाभरदरमुकुलितमस्याः सुरत।- लालित्यं ललितवेष्टितैर्विमुकुलीकृत्य क्रमेण तरुणतामरसतर्जनकलाकुर ललोचनमुग्धमधुरसंचारसूचितपञ्चशरसमरसंरम्भया तया सह मनसिप महीरुहपचेलिमफलानि भवपयोधिमथनजनितसुधारसायमानानि सौभा- ग्यशशभूदाभिरूप्यशारददिनानि श्रवणचातकपारणपयोदजलधारायमा- णानि मणितमधुरपरभृतरसित सुरभिसमयसाम्राज्यानि सरभसकचग्रहव्य- तिकरविशेषितरतिविमर्दनानि निर्दयकृताधरग्रहजनितवेदनानि विधूतक- रकमलरणितकनकवलयवल्गुरवनिवेदितमदनमहिमव्याख्यानि सुरतसौ. ख्यान्यनुभ्य पुनः स्पृहणीयभूयम् ‘एवं प्राप्तामपि त्वां करणीयभूयस्तय विहाय विलासनि, त्वद्विरहविभावसुशिखाकलापकलनेन कष्टतमानि कतिचन दिनानि कर्तुमभिवाञ्छति जनोऽयम्' इत्याचष्ट । तदनु त तनूदरी विरहपिशुनवचनतनूनपादाश्लेषप्लुष्टाङ्गयष्टितया विसृष्टप्रायप्राण तत्प्रयाणं कार्यगरिम्णा च विहन्तुमनुमन्तुमप्यपारयन्तीमसकृदाश्वास कथंचिद्विसृज्य गतोऽयं विजयापुत्रः स्वमित्रैरतिमात्रं सौभाग्यशालितय लाध्यमानः स्वभवनमियाय । तत्र च चिरविरहितमालोक्यात्मजमभिन्नक्षणो द्रवदानन्दाभिषगसंभूततया समशीतोष्णेन बाष्पवर्षेण स्नपयाती सुनन्दा ममन्दमिवानन्दीभूतं गन्धोत्कटं च सकलजगद्वन्द्योऽयमभिवन्द्य सनाभिस माजमपि चतुराश्लेषेण मधुरनिरीक्षणेन शिरःकम्पेन गिरः प्रदानेन र दशमो लम्वः। १३३ स्मितेन करप्रचारेण च प्रीणयन् प्रियवल्लभामायलकायत्तां गन्धर्वदत्तां प्लानमालामिव गुणमालां च संलापसहस्रैरुलाघयन्स्वयमप्युल्लोकहर्षः पु. नरुद्धर्षमयेषु केपुचिद्वासरेषु निर्वासितेषु निजस्वान्तगतं गन्धोत्कटेन समं मन्त्रयित्वा मातुलस्य महाराजस्य विदेहाख्यया विख्यातं विषयं प्रति प्र- स्थाने मतिमकरोत् । अथ यात्राहपवित्रलग्ने पवित्रकुमारः पद्ममखप्रमुखैः प्रियसखैरनु- जेनाप्यनुप्लुतः प्रबलभटघटाटोपभायितप्रतिपक्षः प्रक्षरदास्रबिन्दुसेकेन दयन्तीमिव मार्गोष्णं सुनन्दा गन्धोत्कटबन्धुनिवहं च प्रयत्नतः प्रति- वर्त्य निरगात् । आपञ्च पुनरापदामापदमविरहितसंपदा संपादयन्तं कुक्कुटसंपात्यग्रामपुरभासिनम् , फलभारावनम्रतया समृद्धिमतामपि वि- नयावनम्रत्वमतीव शोभाकरमितीव दर्शयद्भिः शालिभिः शालीनम् , विजु- म्भमाणपूगकेसरामोदामोदितदशदिशाभोगम् , परिपाकपिशङ्गेझुकाण्डस्फु- टितविकीर्णमुक्तानिकरैस्तारकितमिव तारापथमधः संदर्शयन्तम्, प्रश- स्तमणिमयसमस्तप्रदेशतया सर्वतः समुत्थितेन निजतेजःप्रसरेण कबल- यन्तमिव त्रिलोकीम् , राज्यलक्ष्मीभिरिव डिण्डीरपिण्डपाण्डरपुण्डरीकम- ण्डिताभिः कृशोदरीभिरिव लोलकल्लोलवलिविलसदुदराभिः पञ्चमकाल- प्रपञ्चमिथ्यात्वपद्धतिभिरिवान्तर्धान्तबहुजलाभिर्बहुविदेहभूमिभिर्बहुवयःस- मेताभिः सिन्धुभिः संततसंभूष्णुसस्यसंपदम् , महाराजमिव महावाहिनी- संवर्धितैश्वर्यं परिहतपरपार्थिवतया ततोऽपि पराय॑म् , जिनदीक्षाविधि- मिवापेक्षिताखिलसौख्यसंपादनमनिर्वाणानन्दहेतुतया ततोऽप्यभिनन्दनी- यम् , पण्यरमणीलावण्यमिव सर्वजनसाधारणरमणीयभोगप्रदं जरोपरो- धविधुरतया ततोऽपि श्लाघनीयम् , पद्मालयापतिभिरप्यकृष्णैर्वृषचारिभि- यरुदैः कलाधरैरप्यकलङ्करधिकवीर्यैरपि स्ववशेन्द्रियैश्चरभदेहप्रायनिवा- जनराश्रिततया विदेहास्य इति विश्रुतं जनपदम् ।
गद्यचिन्तामणी . षु तदनु चायं महाभागो विदितभागिनेयागममुदितेन राज्ञा मुहुरा- ज्ञप्तै जर्जानपदैः पदेपदे स्वपदानुगुणं प्रमदभरेण प्रतिगृह्य प्रदर्शनानि मणिमौक्तिकमलयजप्रभृतीनि प्राभूतानि प्रेक्षमाणः प्रतिप्रसादवितरणनीणि- तलोकः पुनरुल्लोकलोककोलाहलमुखरितहरितं हरिताश्वरथनिरोधनकर्मक- मण्यहावलीमिरेणानिमेपबृन्दारकदारणकुशलकुलिशपतनाकुलगुलशि . लोच्चयैरभयस्थानतयेवाश्रिताम् , श्रियमिवाश्रितजनाभीष्टार्थपुष्टिकरीमब- हुवल्लभात्वेन ततोऽपि बहुमताम् , सागरवेलामिव सर्वरजसमृद्धां समु- त्सारितजालिकात्वेन तदतिशायिनीम् , कान्तारभुवमिव महासत्त्वसार न्तां निष्कण्टकात्वेन तां न्यक्कुर्वतीम् , सर्वलोकतिलकभूतां धरणीति लक इत्यन्वाभिधानां राजधानी भेजे । यत्र पुरुषाः परेषां पदाखलिते- वंशोत्थिता अप्यपर्वभड्रा अवष्टम्भयष्टयः , शोकज्वरजृम्भणारम्भेषु मधुरस्निग्धा अप्यजडात्मानोऽमृतपूराः, मोहमहार्णवमजनेषु पारप्रापणप्र- वीणा अप्यपेतपाशयन्त्रणा महाप्लवाः, मतिविभ्रमदिआहेष्वनेकप्रस्थान- विशङ्कटा अप्यकण्टका घण्टापथाः, परिधावनक्लेशेषु फलच्छायाभृतोऽप्य- कुजन्मानो विश्रमदुमाः, तथाभूतवादिनोऽपि प्रधानाः , श्रुत्यनुकूलचरित्र। मीमांसातन्त्राः, सुकृतेतरविवेककुशलाः समवर्तिनः, पवित्रपादसंपर्कास्तम- श्छिदः, गुणलवबनीयाः सुमनसः, बहुलोज्ज्वलास्तारकाः , तथा शिव भक्ता अपि जैनाः, समाश्रितश्रीरामा अपि बुधाश्रयिणः, क्षमाभृतोऽप्यक ठिनाः , दानोद्यता अप्यनिस्त्रिंशाः, भूनन्दना अप्यवक्रचराः सन्तः स तां लक्षणमक्षूणमात्मसात्कुर्वन्ति । तावता तन्निशामनदुर्ललितस्वान्ताः बन्धनादिव बन्धुतायाः श्मशानादिव सदनादाश्रयादिवोपदेशादभिचारादि व कुलाचारादपमृत्योरिव पत्युः प्रहरणादिव कालहरणादुद्दामादिव निजम्म नादुद्दाममुद्विजमानाः, कल्याणात्मना गुणिना सुवृत्तेन पलायनवेगात्पादय पतता 'परिपालनीया ननु निभृतगतिः' इति निवार्यमाणा इव मेखलाकलारे , . .
दशमो लम्बः । १३५ " न गुरुतरकुचकुम्भनितम्बभारेण निवारितत्वारतगमनमनोरथोन्मेपाः, भुज- लताविक्षेपवेगगलितानि विजृम्भितामर्षविषमेषुप्रेषितचक्रजालानीव व- लयानि पार्श्वयोरुभयोः पथि विधुन्वानाः , प्रधावनरभसोत्थितमुक्तासरा आकृष्यमाणा इव मनसाग्रगामिणा निबध्य कण्ठेषु मदनौवीगुणैर्दरविग- लदलकबन्धविस्रंसमानकुमुमापीडोत्सङ्गसंधिभिः कणद्धिर्मदनप्रहितैरादेश- दूतैरिव मधुकरैराकुलीक्रियमाणास्तरसोपसृत्य सर्वतः पुरो वीथिं पुरंध्रयः फुलभासिन्यो वलय इव वनस्थलीमलंचक्रुः । तासां च तन्निध्यानेन ध्यानप्रवेकेण तपोधनमनोवृत्तीनामिव नि- पूर्ततान्यव्यापृतीनां मदिरामाद्यत्स्वान्तानामिवाचान्तलजानां मजन्तीना- मिव रागसागरे मदिराक्षीणां कटाक्षशृङ्खलया शृङ्खलित इव मन्दीभूतग- तिर्गच्छन्महीपतिमन्दिरं जीवंधरः संभ्रममयं निरवर्तयत् । निदध्यौ च निखिलजनप्रेक्षणीयेषु कक्ष्यान्तरेषु क्रान्तेषु बाह्येष्ववरुह्य करिणः कल- धौतनिर्माणमण्डपमण्डनीभूतस्योर्ध्वहस्तपुरुषलङ्घनीयस्य रिपुनृपद्विरदरद- नरचितपादपीठस्य, भ्राजिष्णुरनकनककान्तिकल्माषवपुषः पीनत्रिपु- लतूलतल्पस्यानल्पशोभाजुष्टस्य हरिविष्टरस्य मध्यमलंकुर्वाणम् , बन्धुरा- धरबन्धूकया स्मेरमुखारविन्दभासिन्या मञ्जमञ्जीरशिञ्जितहंसस्वरानुबन्धया चलितचामरकलापपर्यायविमलनीरदया शरदेव वारयुवतिपरिषदा परिवेष्टि- अविरलताम्बूलपुनरुक्तर रक्ताधररागेण भागिनेयानुरागमिवान्तरमान्त- मुद्वमन्तम् , अमन्दादरवन्दिवृन्दस्य दिगन्तकृतप्रतिश्रुतिगीतेन श्रावयन्त- मिव निजशासनमाशाधिपान् , राजलक्ष्मीशिखण्डिताण्डवमृदङ्गवाद्येन रि- पुराजहंसनिर्वासनघनस्तनितेन धीरेण स्वरेण परिजनमात्मप्रतिग्रहणाय स्वरयन्तं गोविन्दमहाराजम् । स च समायान्तमालोक्य सात्यंधरिमात्यन्ति- कभागिनेयस्नेहेन तदतिमात्रानुभावेन च गात्रे स्वयमेवासनादुत्थिते प्रागेव मुगमनं पुनः प्रत्युत्थानच्छा पूर्वमेव पुलकोद्गममनन्तरमहर्षप्राग्भारं पुर- . तम्, १३६ गद्यचिन्तामणा स्तादेवानन्दाश्रुधारां तदनु तदङ्गसमालिङ्गनसंगतसौख्यभारं च भजन्, स्फारस्मेरमुखारविन्दो गोविन्दो महाराजस्तदीयचातुर्यसौकुमार्यवीर्यवैदुष्यवै- भववैशारद्याद्याननवद्यानालोक्य गुणान् स्वयमपि स्वयंवृतः सुचरितैः स्वीकृतः कृतकृत्यतया परिगृहीतो महत्त्वेन परिष्वक्तः पावनतया करे गृहीतः कीर्त्या कण्ठे स्पृष्टो गद्गदिकया बभूव । तदनु च सत्यंधरमहाराजमरणानुस्मरणेनाधरितवारीिधेमथनध्वा- नाक्रन्दनाक्रान्तं शुद्धांन्तमप्याचान्तव्यथं विहितवत्यां विजयामहादेव्याम् , दिव्योपधादर्शनोत्सुकदेशाधिपप्रतीक्ष्यावसरेषु वासरेषु केषुचिन्निर्वासिते. षु , अयं सर्वविजयी विजयानन्दनरिपुविजयाभ्युपायवितर्कणपरतन्त्रो त्रशालायां मन्त्रिभिः समं मन्त्रयामास । आचष्टे स्म च 'काष्ठाङ्गारेण प्रहितमिह संदेशं दर्शय' इति सातिशयविवेकं गणकप्रवेकम् । स च 'तथा' इति विहिताजलिवैदेहीसुताहितेन प्रहितं पत्रमुन्मुद्रं विधाय विधिवद्वाचयामास-" पत्रमिदं काष्ठाङ्गारस्य विलोकयेद्विदेहाधिपतिः । पतितं मूर्ध्नि मे पापेन केनापि शोच्याह किमपि वाच्यम् । न तत्तथेति याथात्म्यविदामप्रयायी भवानवैति चेदपि, चेतसि विद्यमानमिदमवद्यानुष- अभयादावेद्यते । केनाप्युन्मस्तकमदावलेपादपहस्तितहस्तिपकेन हस्तिना क्वचिदाक्रीडे क्रीडन्पीडां जगतः प्रवर्तयामास मर्येश्वरः । ततः परिणतक रिणा कृतमेव मयि परिणतं किंचिन्नाम । अकिंचनमेवं कब्जासनावल कल्पितवतः काश्यपीपतेरकारणकरणे कारणं किं नु स्यात् । को ना म पादपस्कन्धमध्यासीनः परशुना मूर्खस्तन्मूलमुन्मूलयेत् । को व तरिष्यन्वारिधिं वहित्रेण तत्रैव जाल्माश्छद्राणि जनयेत् । को वा पिपासु पानीयचषकं पापः पांसुपूरैः पूरयेत् । कश्चन धेनोरापीनभारेण क्षीरस्य न्क्षतं क्षुरेण पातकः संपादयेत् । गतानुगतिकः खलु लोकः । कस्तर नुसर्तुं समर्थो भवेत् । मान्यो भवानेतन्मनस्यकुर्वन्गुमिमामस्माकम ।
दशमो लम्बः। १३७ कस्मिकीमकीर्तिमधिकता समागत्य संमार्जयेत् । उपार्जितमपि दुष्कृतं सुकृतिसमागमो हि गमयेत् । किमन्यत् । आयुष्मतः किंकरं मां गण- येत्" इति कापटिकप्रष्ठेन काष्ठाकारेण प्रहितसंदेशार्थसमाकर्णनेन नि- गीततदतिसंधानसंधः स वसुंधरापतिः 'अहो सचिवाः, साचिव्यमस्मद- भीष्टार्थे दिष्टयानुतिष्ठति काष्ठाङ्गारः, यतः प्रागेव केनापि व्याजेन राज- धमेनं समूलघातं हन्तुमुन्मनायमानान्नः स्ववधाय कृत्योत्थापनमिव कुर्व- स्वयमेवाह्वयति । तस्मादस्मत्प्रतारणपराकूतेन तेनाहूता वयमकृतकाल- पाः क्षेपीयः प्रस्थाय प्रस्थापितास्महितृविवाहमिषाः समूलकाषं कषि- थामस्तं भुजिष्यम्' इति बभाषे । घोषयांचकार 'व्यापितकाष्ठाचक्र काष्ठा- कारेण सार्धं वर्धते धात्रीपतेमैत्री। गोत्रस्खलनेनाप्यस्य शात्रववार्ता निवर्तयः न्तु निजासुप्रणयिनः प्राणिनः' इति । निदध्यौ च निजध्यानानुपदं मद- लोलुपमधुपत्रातविहितनियतोपास्तिकैस्तिकैः स्थलजलसमानगमनजव- नतातुलितमातरिश्वभिरश्वीयैरसकृत्कृतापदानसंभवदस्तोकहस्तवदनुरूपय - शस्तातिभिः पदातिभिर्लचिताचलशृङ्गः शताङ्गैश्च बहुशतसहस्रैर्बहुमता- म्, अमितपताकिनीपतिभिरहंप्रथमिकया पृथगेव सभयं सदैन्यं सनामक- श्यनं साङ्गुलिनिर्देशं साञ्जलिबन्धं च जवजननचिह्नलक्ष्मीप्रतिपादनर्व- कं प्रदर्श्यमानाम् , अषणामक्षोहिणीम् । अथ प्रथितप्रयाणानुगुणे पुण्यतमे लग्ने निर्गत्य निर्विघ्नतायै वि. हितजिनपतिवरिवस्यः सवयस्यानुजेन सार्धमर्थिजनमनोरथानर्थविसरवि- तरणेन चरितार्थीकुर्वन्सर्वतः प्रसरन्या विसृमरविविधयौधायुधाभरणकिर- णोल्लसत्तटिलतासंचयकञ्चकितककुभा करटतटनिर्यदमितमदजलधाराप्ला- वितधरातलद्विरदनीरदनीरन्धितवियदन्तरालया स्थैर्यविजिताखण्डलधनु:- ण्डकोदण्डमण्डलया नाण्डवितशिखण्डिमण्डलमहाध्वानस्त्यानस्तनित- तुङ्गतुरङ्गखुरशिखरखननजनितघनतरपरागपटलपयःशी- १३८ गद्यचिन्तामणी करनिकरनिबिडितनिलिम्पवर्त्मना प्रावृषेव प्रेक्ष्यमाणया वाहिन्या वाहिनी. पतिरिव प्रलयकालोद्वेलः प्रच्छादितपृथ्वीतलः प्रत्यर्थिनिर्मूलनाय हेलया हेमाङ्गदविषयं प्रति ययौ । ततश्च वलक्षतरवारवाणोल्लसत्सौविदल्लबल्ल- भकरपल्लवकलितवित्रासकवेत्रलतात्वर्यमाणराजपरिबर्हधारिणि राजकीय- दवीयःप्रदेशप्रापणश्रवणक्षणसत्वरसंभाण्डयमानभाण्डागारिकपरिषदि प्र- श्रयप्रणतोस्थितगुणधनापृच्छ्यमानगुरुजनगौरवविहिताशिपि प्रतिनिवर्त- नप्रत्याशाविधुरभीरुचारभटनिर्दिश्यमाननिधिन्यासकोणक्षोणिनि विलम्बि- तलम्बोदरदासेरकसमाह्वानपीनःपुन्यखिन्नस्विन्नपुरोयायिनि विस्मृतविस्म यनीयाहार्याहरणधिषणाप्रेष्यमाणभुजिष्याभाष्यमाणव्यक्तेतरविसंवादवच सि प्रसभप्रयाणप्रवणतानुष्ठितपृष्ठावलोकनानुवर्त्यमानप्रतिनिव-मानस- नाभिसंसदि प्रगुणवलनभ्रष्टगोणीकदुष्टशाक्करदूरवित्रासितयात्रिकसंबाधे चण्डचण्डालपेटकनिबिडमुष्टिघटितकठोरकुठारपाटितविटपिविशङ्कटीकृत- संकटारण्यसरणिनि खननकरणनिपुणखानित्रकगणक्षणसंपादितोदम्भ:- कूपशुम्भितमरुभुवि तादात्विककृत्यदक्षतक्षकसार्थसामर्थ्यवैचित्र्यरचितव हित्रसुतरकाकपेयसरिति पुरःप्रसारितभूरिभीकरकलकलारवकांदिशीकके. सरिणि चरणक्षणोत्थितधरणीविसृमररेणुविसरमसृणितमयूखमालिनि वा रणपरिबृढोत्पाटितपार्श्वपादपपरियसप्रतिषाध्वनि कण्ठरज्जुकषणोन्मथितत्व- गालानवनस्पत्युद्वीक्षणवनचरानुमीयमानवारणवर्मणि प्रतिगजगन्धघ्राण- प्रतीपगामिकाननद्विपप्रतिग्रहकृताग्रहभटप्राग्रहरकोलाहलभरितहरिति द्वि रदतुरगखरकरभमहिषमेषशाकरशताङ्गशकटप्रमुखपृष्ठारोपिताभीष्टकशिपु समेतसकलहतिनि हेमाङ्गदविषयं विविशुषि सैन्ये, राजन्योऽप्युत्तरेण राजपुरीमुपकार्यो कल्पयेयुरिति शिल्पिसमाजाध्यक्षानादिक्षत् । प्राविक्षः तां क्षणकल्पिता स्वसंकल्पसिद्धिशङ्काप्रहृष्टेन काष्ठाङ्गारेण प्रसभं प्रत्युद्य तः पृथिवीपतिः ।
दशमो लम्बः । १३९ " . अनन्तरमापाटलपटकुटीघटनायासक्लान्तस्वान्तेषु गृहचिन्तकेषु , विलुठितोत्थितविधूतकायहयपीयमानतोयेषु तोयाशयेषु, बहुप्रयासप्रापिता- लानस्तम्भेषु मदस्तम्बेरमेषु, सद्यःपाकसंपादनोद्युक्तमानसेषु महानसमुप- स्थितेषु पुरस्तादेव पौरोगवेषु , सत्वरसंकल्पितमापणमासेदुषि प्रथमतरप- णायनत्वरणभाजि वणिजि, वामहस्तावलम्बितमस्तककुटोष्ठासु कूपसार- दन्वेषिणीषु कुट्टिनीषु , प्रसभं बहिः प्रधावत्येधानाहारके दासेरके , स्ना- तानुलिप्ताङ्गासु ध्रियमाणभूषासु वारयोषासु, व्यसनगौरवस्मारितपथक- पाकथनलम्पटे दंपतिनिवहे , अहंपूर्विकोपसरदनेकविधयोधास्कन्दनकृ- ताक्रोशे क्रोशशतान्तर्गतकुटुम्बिवर्गे, मार्गश्रमापनोदनमनीषानिहितद- यिताङ्कशिरसि यवीयसि , विशङ्कटपीठप्रसारितप्रसवजालहेलानहनमनो- हारिण्या मालिकयुवतिश्रेण्याम् , श्रेणीभूतपादाताधिष्ठितासु काष्ठासु , काष्ठाङ्गारेण सबहुमानमुपायनीकृतमनतिवयस्कममन्दबलमाश्वीयं हास्ति- कमप्यास्थानकृतावस्थितिरयमद्राक्षीत् , प्राहैषीच्चास्य प्रतिप्राभृतम् । अ- ताडयच डिण्डिमम् ‘अतिरुन्द्रचक्रयन्त्रनियन्त्रितं यो नाम युगपदेव पातयितुं शक्नोति शरेण शरव्यतां गतं वराहत्रयं वराहेऽस्मिन्नेव वरोऽ- यमस्मत्कुमार्याः स्यात्' इति । आयासिषुश्च चोलकेरलमालवमागधपा- ण्ड्यपारसीककलिङ्गकाश्मीरकाम्भोजप्रभृतिदेशाधिपा महीभृतः । पुनरव- सरेऽस्मिन्नविप्रकृष्टमृतेः काष्ठाङ्गारस्य नापरो रोदितीति स्वयं रुददिव म- न्यमानं दैन्यावहारसितमनिशमम्बरतले बम्भ्रमद्वायसमण्डलं खण्डितशि- रोभागं तदीयशीर्षच्छेद्यतानियतिसूचननिबन्धं कबन्धमनन्तरज्वलिष्यदद- सीयशोकधूमध्वजपुरोगमधूमेनेव दिग्धूमेन धूम्रोपान्तं दिगन्तं नितान्त- निखिंशफलमन्यादृशमपि मन्युभरापादनं महोत्पातं निशाम्य निकृष्टाचारे काष्ठाणारे किंचिन्यञ्चन्मनसि विषेण वा केनापि मिषेण वा वञ्चयितुं शाञ्छति गोविन्दराजम् , राजपुरीं निकषा निषेदुषां नरपतीनामुपकार्या- १४० गद्यचिन्तामणों सु च प्रतिप्रदेशं स्वदेशादेशान्तरं कन्याभिनिवेशेन विशतां विशांपती- नाम् “धनुर्धरतमः कतमस्तां लभेत । लब्धवति च चापविद्यालब्धव- गै कस्मिंश्चिदिमां कन्यकामन्ये कथमहीकाः स्वगृहं प्रविशेयुः । अपि च केचिदतः पूर्वमनुद्धृतशरासनाः संप्रत्युपासनामुपरचयन्ति । परे तु शर- गुणनिकां कर्तुं गुणवन्मुहूर्तं पृच्छन्ति मौहूर्तिकान् । इतरे तु 'वयमारचि- तसमस्तशस्त्रयोग्याः सर्वथा योग्याश्च भाग्याधिकाश्च' इति पण्डितंमन्याः कन्यकां हस्तस्थामाकलयन्ति । तावदतिशयितालातचक्रशैघ्रये यन्त्रचक्रे शक्रस्याप्यशक्यमारोहणम् , आस्तां विद्धिः" इति योद्धृषु कथपत्सु . साधीयसि लग्ने स्थापितं यन्त्रमामन्त्रितास्ते विश्वेऽपि विश्वंभरापतयः परि- वार्य पश्यन्तस्तदीयचक्रभ्रमणरयमासांचक्रिरे । तेषु केचिदुद्वीक्ष्य यन्त्रमुद्वे- गाधिष्ठिताश्चित्रीयाविष्टाश्च त्वष्ट्रातु निर्मीयतां निर्विचारम् । मनसाप्यतर्व्यः मेनं मूर्खेण केन दुर्वर्णेन कन्यकायाः शुल्कत्वेन कल्पितम् । आकल्पमेतदभे- द्यमेव लक्ष्यं द्रक्ष्यामः । तदपि सा च कुमारी स्वकुलगृह एव जरामियात् इति चिन्तयन्तस्तरुणीलाभबुद्धिं विद्धिं च जहुः। केचिदुद्धताः सलीलमुत्था- य भूतलादाततज्यमापाद्य कार्मुकं करपल्लवाकलितभल्लाः सोल्लासमारु यन्त्रचक्रमदसीयभ्रमणशैघ्यभ्रान्तस्वान्ताः स्वकान्तामवनिमन्याभिलाषवि. लोकनविहितेष्ा परिष्वङ्गेण प्रसादयितुमिव प्रसभं पृथ्वीतले निपेतुः कश्चिदभिसंधिपुरःसरमारूढचक्रः संधाय निःसारिताः शराः शरव्य तरसोपसृत्य लुब्धपार्थिवमिवार्थिनो निष्फला न्यवर्तिषत । कैश्चिदाकर्णा कृष्टचापयष्टिभिनिसृष्टाः खगाः खचरेभ्यः कथयितुमिव तदत्यद्भुतमतिक म्य लक्ष्यमन्तरिक्षमुत्पेतुः । एवमतिक्रान्तेष्वर्धसप्तमवासरेषु, क्रमादिष्वासविद्यालब्धवर्णेषु त्रैव र्णिकेष्वेपरेषु सर्वेष्वपराद्धपृषत्केषु, दिव्यशक्तिकः स जीवककुमारः स्मेरा क्षिविक्षेपः, सहस्राक्ष इव चक्षुर्द्वयोपेतः, षण्मुख इव दर्शितैकमुखः -- . - दशमो लम्बः । १४३ - चक्ररहित इव चक्रपाणिः, साङ्ग इवानङ्गः, स्वाङ्गविलोकनविभावनीय। भवप्रतापः प्रत्यूषाडम्बर इवोदयाचलप्रस्थगतः , समस्तबन्धुभिः सिन्दूर- बन्धुरसिन्धुरस्य कस्यचित्पृष्ठमधितिष्ठन्निमां गोष्ठीमुपातिष्ठत् । तदतिमात्रा- नुभावावलोकनमात्रेणैव धात्रीपतयः ‘पतिरयमेव लक्ष्मणायाः । लक्ष्यभे- ददक्षश्च जगत्ययमेव नियमेन' इति निरणैषुः । काष्ठाङ्गारस्तु कुजर इव पञ्चाननम् , प्रतिवादीव स्याद्वादिवावदूकम् , अधमर्ण इवोत्तमर्णम् , त- स्कर इवारक्षकम् , सहसा ससाध्वसमवलोकयन्नेनमतितरामभैषीत् । आर- ब्ध चायमचिरभाविनिरयनिरीक्षणोन्मुख इवाधोमुखः सुतरां हतचित्तश्चि- न्तयितुम् ‘मथनः कथमेनमपधीरवधीत् । साधु साधितं स्यात्स्यालाध- मेन बाढमेतत्। किमिति विश्वस्तो मयैवं विश्वासघाती । किमिति न मया वा पुरस्तादेव निरस्तासुः कृतः क्षात्रोचितचरित्रोऽयं वणिक्पुत्रः' इति । ताव- ता समुपेत्य चतुरपुरःसरसमुत्सारितसमालोकनलम्पटजनसंबाधः स्तम्बेर- मेन्द्रान्मृगेन्द्र इव सानुमतः सानोः सानुजः सानन्दमवप्लुत्य सलीलमा- रूढयन्त्रचक्रस्त्रिविक्रम इवाक्रमविहितज्यारोहणशरसंधानशरक्षेपः क्षोभ- यन्नरिहृदयमाशु केनचिदाशुगेन शरव्यं विव्याध । स च सायकप्रष्ठो निसृष्टार्थ इव साधितसमीहितः सहसा न्यवर्तिष्ट । ततः कृतपुडभेनं पुरु- षपुंगवं समीक्ष्य समीक्ष्यकारी स विदेहाधिपतिर्देहेन समं सिद्धक्षेत्रकृताध्यास इव प्रसीदन्प्रफुल्लुवदनाम्भोजः समालोक्य भूभुजां मुखानि मुखविकासवि- वृतान्तर्गततुष्टिप्रकर्षः काष्ठाङ्गारपर्यायानिर्वाणदींकरस्य शिरसि दम्भो- लिमिव पातयन्नतिगम्भीरया गिरा ‘जीवंधरोऽयं सत्यंधरसम्राजस्तनयः' इति तदुदन्तमिदंतया विवने । तदुपश्रुत्य श्रवणचुलुकपेयं पीयूषायमाणं वचनं सर्वेऽपि सर्वसहापतयः 'सर्वथा क्षात्रमेवेदमौचित्यम् । न परत्र पदं ल- भेत परस्य हि कृत्यमिदं प्रत्यालीढपाटवं प्रेक्षणसोक्षम्यं लक्ष्यभेदमात्र- पर्याप्तशररंहःसंपादनचातुर्य चेति प्रागेव निश्चितम्' इति निश्चलपक्ष्माण:
गद्यचिन्तामणौ १ सपक्षपातं कुमारमैक्षिषत । पातिततद्वचनाशनिज्वलनज्वालास्पृष्टः स काष्टाङ्गारोऽप्यङ्गारीभूतकाष्ठवन्निःमारतां गतः । कथमन्यत्प्रस्तुतमन्यदुप- स्थितं यदतिसंधित्सितो गोविन्दमहाराजः स्वयमस्मानतिसंधातुमवाप्ताभिसं- धिरामीत् । 'इदं हि जगति लाभमिच्छतो मूलन्छेदः प्रकृत्या स्वयमस्मा- कममित्रोऽयं वणिक्पुत्रो राजपुत्रत्वमप्येतेनारोपितः । पुनरेनं च प्राप्य प्र- तिष्कशङ्काकार्कश्यमपरं न. कि न कुर्यात् ' इति विमृशन्नेव विसृज्य तदा- स्थानमादृतप्रस्थानो भवन् 'अस्थाने पतितमिदं राज्यं त्यज्यतां त्वया नियो- ज्यखेटफेन' इति प्रकटाटोपपाटवैः पद्ममुखादिभिर्निर्भसितोऽयं कुत्सितवृ- त्तिः पुनर्युयुत्सुरासीत् । बभूवुश्च काष्ठाङ्गारतो निकृष्टा विशिष्टास्तु जीवं- धरराजतो राजानः । ततस्तपस्यामिव बलवदुपास्यां दुरन्ततया तु ततो नितान्तगर्ह- णीयाम् , मीमांसामिव परिहिंसाप्रवणभजनीयामीश्वरापेक्षतया तु ततो वि- लक्षणाम्, चार्वाकचर्याभिवानपेक्षितात्मनिर्वहणीयां गुरुद्वेषमूलतया तु ततोऽपि कुत्सनीयामाजिमारचयितुमतीव क्षोदिष्ठे काष्ठाङ्गारे प्रक्रममाणे, पराक्रमशालिषु पद्ममुखादिष्वपि युद्धाभिमुखेषु , पिनद्धा?रुके सशीर्षके च सति सादिनि निषादिनि च , समारोपितधनुषि धन्विनि, धनुर्धर- चक्रवर्तिना चक्रव्यूहपरेण च पद्मव्यूहे कृते, चक्रशोभिशताङ्गनक्रभृति तुरंगतरनिणि मातङ्गपोताङ्किते पादातपयसि परस्परस्पर्धेद्यतपारावारद्वय इव पक्षद्वये लक्ष्यमाणे , पटहध्वनेरपि ज्याघातरवे पांसुपटलादपि पत्रि- णि गभस्तिमालिगभस्तेरप्युदस्तास्त्ररश्मिनिकरे रणरागादपि रक्तौघे प्रति- समयं प्रकृष्यमाणे , धानुष्कैर्धानुष्का निषादिभिर्निषादिनः सादिभिः सा- दिनः स्यन्दनारोहै: स्यन्दनारोहा युयुधिरे । तावता धरणी धरणीपतिम- रणभीत्या रणनिवारणायेव रेणुपटलापदेशेन परस्परदर्शनं परिजहार । मिथोदर्शनापेक्षिणीवाक्षोहिणी तत्क्षण एव शिलीमुखमुखविघटितविशङ्क- , दशमो लम्बः । १४३ अ. वक्षःकवाटविगलदविरलरुधिरधारया धरातलोद्यत्परागपरम्परामाचचाम । ततः साक्षालक्ष्यमाणलक्ष्यतया निष्प्रतिघे सति बलौघे , पृषत्केषु केषु- चिदगाधयोधहृदयावबोधलम्पटतयेत्र प्रतिभटोरःस्थलं प्रविशत्सु , परेषु परप्राणमोषणोपजातभीतिभराक्रान्तेष्विवान्तर्धातुमवनीमवगाहमानेषु , परेषु स्वनायकनिकटाटनविघटनेच्छयेव पाटितप्रतीपगामिपत्रिषु , अन्येषु स्वयमपि जातमन्युभरेष्विवार्धपदविलुप्तपत्रभागेष्वपि परगात्रमधिविशत्सु , पुनरमित्रपर्यायनेत्रश्रवःस्फुरदहंकारहारिटंकारभीकरस्तनितसहितकरालका- मुककरम्बितजीवककुमारजीमूतनिष्ठ्यतसनिनदनीरन्ध्रशरनिकरनीरधारा भिहन्यमानसैन्यसानुमत्संभूता संस्थितधरणीपतिीकरीटकेयूरहारजालवालु- काषण्डा सदण्डसितातपत्रपुण्डरीका वेगविलोठितगजगण्डशैला प्लवमान- चामरविसरडिण्डीरा परेततुरगलहरीपरम्पराकुलकूलंकषा कर्षणरया कृष्टाव- शिष्टाक्षोहिणीका क्षतजधुनी क्षणादिव प्रावहत् । तदेवं मारितपादाते दारितहास्तिके नश्यदश्वीये विपरिवर्तितरथकड्ये सारथिरहितरथिनि र- थारोहक्षुण्णक्षत्तरि स्तम्बरममरणसविषादनिषादिनि हस्त्यारोहविरहित- हस्तिनि तुरङ्गमविगमसीदत्सादिनि अश्वारोहविवर्जिताश्वे च सति सैन्ये, त्रियामामिव दीर्घनिद्रोपद्रुतबहुलां तमोगुण प्रभवां च , बौद्धपद्धतिमिव पिशिताशिसेव्यां निरात्मकशरीरां च , गार्हस्थ्यप्रवृत्तिमिव मृतवारणविधुरां रक्तसुलभां च विलोक्य रणभुवम् ‘किमिति क्षोदीयांसो हिंस्यन्ते जन्तवः । स एव द्विषन्समूलकाषं कषणीयः' इति विषणया पर्याणाश्चितस्याञ्जनगि- रिनाम्नः कुञ्जरस्य स्कन्धं बन्धुरयञ्जीवबन्धुर्जीवंधरकुमारः सुरशत्रुसादनो- द्यतः शक्तिधर इव करकलितशक्तिः, त्रिपुरदहनाभिमुखस्त्रिपुरान्तक इव नेतान्तभीषणकोपाट्टहासः , दाशरथिरिव तपस्यानधिकारिणं शम्बुकं रा. ज्यानधिकारिणमेनमपि शीर्षच्छेद्यं परिच्छिद्यारातिमाह्वयते स्म । आह्वान- एव क्षीणतरादृष्टः स रुष्टः काष्ठाङ्गारः क्रोधवेगस्फुरदोष्ठपुटतया नि- .
१४४ गद्यचिन्तामणा . . कटवर्तिनो निजाह्वानकृते कृतागमान्कृतान्तदूतानिव स्वान्तसंतोषिभिः सान्त्वयन्वचाभिः नातिचिरभाविनरकावसथभवदवतमसप्रचयमिवात्मानं प्रतिग्रहीतुकाममागतं करालं कालमेघाभिधानं कारणमारुह्य रोषाशुशुक्ष- णिविजृम्भमाणशोणेक्षणतीक्ष्णाश्छिटाच्छन्नाङ्गतया सप्तार्चिषि निम ज्ज्य निजस्वामिद्रोहमा विभावयितुं सत्यापयन्निव सत्यंधरमहाराजतनया भिमुखसभीयाय । अवदञ्चायमकिंचित्करः किंचिन्यञ्चन्मनाः 'कुमार कुरु वंशशिखामणे, प्रणतराजचूडामणिकिरणशोणनखमणिचरणो रावणोऽपि रणे मरणमीयिवानायुर्विरामे रामेण । किंपुनरपरः । तदयं मया वध्यो वध्योऽ हमनेनेति बुद्धिमन्तो न विबुध्यन्ते । किमर्थ मामविवेकमधिकमधि क्षिपसि' इति प्रतारणपरमेतदणकनरेन्द्रस्याकर्ण्य कस्यचिद्भाषणं किमभैषी इति प्रत्यभाषत प्रतिभाप्रकाशिततन्मनीषितः स मनीषी । पुनरनैषीच्च ग त्यन्तरमत्यन्तरोषहुतवहावहवचःश्रवणेन ' किं वणिक्पुत्र , किं वाङ्कात्रे ण । विजयस्तु विधिवशतः । तव शक्तिसमागमे चक्षुषी चेन्मम त्रासजु षी स्यातां तदा परुषा स्यान्ममेयमाहोपुरुषिका । युक्तं च त्वयापि वक्तु मेवम्' इत्युक्ता सत्वरोपसर्पितकरिणः करिणमवप्लुत्योदस्तकौक्षेयकं क्षेपी यः स्वयं हन्तुमापतन्तं तमन्तराले नितान्तनिशितशक्तिशकलितशरीर यष्टिं काष्ठाङ्गारम् । उदस्तम्भयच्च संग्रामसंरम्भस्तम्भनं विजयानन्दन विजयशंसिनं विजयध्वजम् । अभ्यनन्दयच्च सानन्दमभ्येत्य सफललोच नत्वमात्म्यात्मजायां वीरपत्नीव्यपदेशं वीरसूव्यपदेशमप्यवरजायामाकल यन्तम् , चन्दनशिशिरेण हृदयनिर्वाणविवरणचतुरेण विमलस्थूलेन नि ष्पतता बाष्पपूरेणाभिषिञ्चन्तमिवालिङ्गन्तं गोविन्दराजम् , आजिदर्शित नैकापदानसंभवदानृण्यानवरजसमेतान्सखीन्सह प्रामृतेन प्रसभमाग प्रणमन्तमपि पृथ्वीपतिसमाजम् । ततश्च वैरिनिहननोपलब्धवैरशुद्धिमेनं विलोकयितुमरिशुद्धान्ता दशमो लम्बः । . शेषमापेतुषां भर्त्सनमपि कृत्स्नसंमानं ताडनमपि सनीडप्रवेशनं निवारणमपि दर्शनद्वारकरणं दूरीकरणमप्यूरीकरणं गणयतां गोगणावस्कन्दिविपिनेचर- विजयोपोद्धातमात्मापदानं शंसतां पुरौकसामुल्लोककोलाहलेन सकुतूहलम- नाः कनत्कलधौतमयकालाञ्चीमुकुरचामरभृङ्गारतालवृन्तप्रभृतिपरिबर्हनिर- न्तरितपर्यन्तः समन्तात्सेवमानसामन्तलोकसमभिधीयमानालोकशब्दः प्र- शस्ततमे मुहूर्ते निवर्तिततदुपकार्याप्रदेशः प्रतिप्रदेशनिविष्टनिष्टप्तहाट- कहटदष्टमङ्गलविराजितं राजपुर्याः सहजमिवालंकारमलंकृतमिव त्रिदिवं जगत्सार इति विश्रुतं श्रीजिनालयमभिषेकविधये विधानज्ञोऽयमास्ति- कचूडामणिरधिकास्थयोपतस्थौ । तत्र च सत्वरपरिजनसंनिधाप्यमानैः- कमणिमहः कबलितधवलातपत्रकिरीटहरिविष्टरैरष्टमङ्गलाद्यभिषेकोपकरणैश्च करम्बतहरिति , हूयमानदहनदक्षिणावर्ताचिश्छटादर्शनतृप्तपुरोधसि , वि- धीयमानविविधकार्यतात्पर्यसंचरमाणपञ्चजनपरस्परसंघटनप्रेङत्केयूरजनित- क्रेकारवाचालितककुभि , दीयमानदीनारादिवितृष्णदीनलोकपाणितला - न्तरपर्याप्तच्युतमाणिक्यमौक्तिकस्थपुटितमणिकुट्टिमे प्रसवपरिमलादपिभ्रम- रझंकारस्य , जनताया अपि प्रमदस्य, सुन्दरीजनादपि सौन्दर्यस्य , तव्यादपि तत्कन्तिकस्य , वनीपकवाञ्छातोऽपि देयकाञ्चनस्य , वादि- त्रकणितादपि नृत्यदङ्गनारशनारणितस्य, शास्त्रचोदितादपि सपर्याक्रम- स्य समधिकस्य समुद्भवे , भगवतः श्रीमन्दिरे सुरेन्द्र इव दूरादैरावणाद्वा- रणवरादवरुह्य वर्यया भक्त्या सपर्यानन्तरपर्याप्तसम्यक्तं बहिः प्रसारय- मिव वाणी गद्गदयन् पाणिं मुकुलयन् नेत्रयुगं स्रावयन् गात्रं पुलकय- न शिरः प्रहयन् मनः प्रसादयन् प्राज्येज्यापरिकरैः परिपूज्य भगवन्तं भक्तिजलप्रवाहेण प्रागेवाभिषेकात्प्रक्षालितबहलाघजम्बालोऽभूत् । तावदु- दञ्चञ्चन्द्रचन्द्रिकासंचयेनेव कञ्चकितम् , विहरमाणसौत्रामणवारणदेहप्र- माप्रतानेनेव सवितानम् , क्रीडाचटुलसुरधुनीमरालमण्डलपरिव वल- - क- .
१४६ गद्यचिन्तामणौ וווווווווו १ क्षितम् , आकालिकतुषारवारिशीकरविसरैरिव विच्छुरितम् , विसृमरपर्या- सधूपस्तूपधूमनिष्पन्नधूमयोनिपरस्परसंघट्टविघटितजठरान्तर्मुक्तमुक्ताफलका- न्तिवातेनेव वीधं वियद्विदधानः पारिषद्यचक्षुरालादभाभारेण परीतः स कृत- ज्ञप्राग्रहरः कृतज्ञचरः सुदर्शननामा देवः सादरमन्तरिक्षादवारुक्षत् । अभ्यषि- ज्वच्च तदभिषेकाधिकृतैरमा सपरितोषं निजपरिवारामरपरम्परानीतया परा- ाखिलतीर्थाम्बुपूरपूरितया परिसरप्रत्युप्तपद्मरागप्रभाजालजटिलकिसलया- पीडया महनीयरत्नमहौषधिबीजसमवापसमग्रमङ्गलशालिककट्या शातकु- म्भकुम्भपरिपाट्या भगवन्तमिव मन्दरगिरिमस्तकनिविष्टं विष्टरश्रवा हरि विष्टरविराजिनं जीवंधरमहाराजम् । अभिषेकसलिलौघे च संसिद्धिसिद्ध. नैर्मल्ये निर्मलप्तदशपर्शने पादरता प्रतिपय पापभूपापपासुला मपांसुलां कर्तुमिव काश्यपी व्यनुवाने, भृशमुन्मूलितरागाणामप्युत्कण्ठा- वहं गायत्किनरकण्ठीनां गणेन सुरकिंकरवाद्यमानैरमानुषातोद्यैरभिनवर- सानुबन्धमभिनन्दन्तीनामप्सरसां सार्थेन चिरममर्त्यलोकायमाने भुवने भु- वनैकशरण्यं लावण्यमूर्ति मूर्धाभिषिक्तमेनं स्वयमेव परा_रत्नाभरणैः स- परिष्करणं कृत्वा प्रकृतिसिद्धरामणीयकस्यास्य भूषणानां च भूष्यभूषण भावसाधारणतां समालोक्य सस्नेहविस्मयस्तिमितचक्षुषि चक्षुष्यमेनं पुनः पुनराश्लिष्य यक्षेन्द्रे स्वमन्दिरमीयुषि, राजेन्द्रोऽपि सदातननरेन्द्रसरम सोत्थानसंरम्भच्युतकर्णशिखरगतकर्णपूरोत्कलिकापुनरुक्तपुष्पोपहारमण्ड नादास्थानमण्डपादुत्थाय ततो निर्गत्य प्रसरत्यपि प्रणामलीलालालसान भूभुजामुन्मेषिणि चूडामणिमरीचिनिचयबालातपे ससंभ्रममावर्जितमकु टप्रच्युतापीडकुसुमडोलायमानमधुकरकुलान्धकारकुट्मलायमानकोमलाञ्ज लिकमलसहस्रकरम्बितमम्बरतलमालोकयन् 'जय जय' इति तारतर मुद्गायतो वन्दिबृन्दस्यामन्ददुन्दुभिगम्भीरनिर्घोषानुयातमायतशङ्खध्वानमि प्रहतमदलस्निग्धनिर्हादमांसलं कांस्यतालरवसंकुलमालोकशब्दमाकर्णय दशमो लम्बः । १४७ . आलोलकर्णपल्लवालम्बिवालचामरकलापामलकार्तस्वरकल्पितालंकारका न्तां चारुकोमलपुष्करकरां ससंभ्रममाधोरणसमुपनीतां साक्षान्मूर्तिमती- मिव जयलक्ष्मी जयलक्ष्मी नाम करेणुकामारुह्य हंसतूलमृदुचीनपट्टोपधाने परिस्तोमवति विचित्ररत्नचित्रपर्यन्ते सुविहितप्रस्तररमणीये महति कनक- पर्याणके सुखनिषण्णः पश्चिमासनगतेन हेमाङ्गदवलयरत्नदीधितिस्तबक- चित्रवारवाणेन कुलक्रमागतेन स्निग्धेन शीलवता शौचाचारयुक्तेन प्रथ- मानमित्रेणोद्यमानस्य मध्यार्पितमहामणिमयूखपटलपाटलितस्य बालातपर- शारदबलाहकानुकारिणश्चामीकरदण्डस्य प्रलम्बतरस्थूलमुक्ताकलापस्मे- रपर्यन्तस्य महाश्वेतातपत्रस्य निसर्गशिशिरच्छायया निवार्यमाणमार्तण्डक- रावलेपः पार्श्वकरेणुसंश्रिताभिरतिमनोहराकाराभिरिवनिताभिरतिमधुरंगा- यन्तीभिर्विनोद्यमानः सकुतूहलपौरसुन्दरीजालमार्गप्रसृतलोचनसहस्रसंछा- दितामुदञ्चदुत्पलप्रचयमेचकामिव भवनदीर्घिकां राजवीथीं जगाहे । तावता तदवलोकनकुतूहलोद्भवदुद्दामसंरम्भाश्चरणयोः प्रथमं परि- स्पन्दमानं चरणमन्यस्मान्मान्यतरं मन्यमानाः, अप्रभावि पूर्वाङ्गमनुलग्ना- दपराङ्गादधिकगौरवकलितमाकलयन्त्यः, करणेष्वपि पुरःप्रयाणनिपुणम- न्तःकरणमतिकृतार्थ वितर्कयन्त्यः, सरभसगमनविरोधिनः स्तनभारात्त- नुतरमनुकूलमवलग्नं श्रद्दधानाः , स्वाङ्गभ्रष्टान्यवशिष्टेभ्यो लाघवपोषीणि भूषणान्युपकारीणि गणयन्यः, समागत्य स्फुरदतिरागमनोहराधरपल्लवाः वलय इव कुसुमामोदमहिता माधवसंगमकृतासङ्गाः, चलदलीभङ्गतरङ्गमा- सुरा रसमय्यः सरित इव सरित्पतिम् , कण्टकनिकरदन्तुरितवपुषः सति- लका वनभुव इव महीधरम् , चारुचन्दनपत्रलताङ्किता मलयमेखला इव दक्षिणजगत्प्राणं वीरश्रीप्राणनाथं प्रमदाः समासदन् । तासां च सदा- वलोकनकौतुकविद्वेषे निमेषेऽपि वैरायमाणानाम् , असंजातसर्वाङ्गनेत्रं मनुष्यसग हदा गर्हमाणानाम् , तादृशभागधेयभाजनमात्मानमपि श्रद्दध- - .
१४८ गधचिन्तामणौ तीनाम् , तस्यैव वदने निलीनामिव केशहस्ते निबिडितामिव ललाटे कीर्णामिव कर्णद्वये कीलितामिव लोचनयोर्भ्रान्तमिव भ्रूयुगे लिखिता- मिव कपोलयोः सक्तामिव नासिकायां प्रतिष्ठितामिवोष्ठयोश्चुम्बितामिव चिबुके कन्दलितामिव गले मांसलामिवांसयोनिमृतामिव बाह्रोनिक्षिप्ता- मिव वक्षस्याश्रितामिव पार्श्वयोनिबद्धामिव मध्ये निमग्नामिव नाभौ घटि- तामिव कटितटे निवेशितामिवोरुदेशे लचितामिव जङ्घयोः संदानिता- मिव चरणयोनम्रामिव चित्तवृत्तिं वहन्तीनां वारस्त्रीणां मारकृतानि सा- कूतानि सविभ्रमाणि समाधुर्याणि समन्दस्मितानि सकलप्रलापानि सा- पाङ्गवीक्षितानि साङ्गुलिनिर्देशानि विलसितानि विलोकयन्विलोभनीयवि- श्वगुणभूमिः स्वामी स्वामिलाभदुर्ललितहृदयं प्रकृतिजनं प्रकृतिरञ्जनस- मर्थः पार्थिवकुञ्जरः कार्तस्वरकटककम्बलपरिधानादिस्पर्शनेन परितोषय- न् विशेषज्ञवीक्षणीयानि प्रेक्षमाणः कक्ष्यान्तराणि तत्र तत्रभवन्तमाले- ख्यशेषमालोक्य पितरं स्मारस्मारं दर्शदर्श धीरतया नातिविकृतहृदयवृ- त्तिरतिधृतमतिदक्षैः सपक्षपातैः सौधाधिकृतैः संशोधितसकलोपान्तं रा- जनिशान्ताभ्यन्तरं प्राविक्षत् । आरुक्षञ्चायं राजवीर्येण वीराणां सौन्दर्येण सुन्दरीणां प्राभवेण पृथ्वीशानां वदान्यतया वनीपकानां धर्मशीलनतया धार्मिकाणां वैदुष्येण विदुषां मन्त्रणनैपुणेन मन्त्रिणां च हृदयं भोगावली- प्रबन्धेन कवीनां प्रबन्धमिव दिगन्तं देहप्रभया सभां देहेन च सिंहास- नम् । आदिशच दिशिदिशि विसर्पिमिरान्दोलितचामरधवलिममूछितै- रुच्छ्रितधवलातपत्रराजिसब्रह्मचारिभिः सहर्षब्राह्मीहसितसंकाशैर्दशनेन्दु- चन्द्रिकासान्द्रकंदलैः काष्ठाङ्गारचरित्रानुधावनेन सत्रायितं धात्रीतलमिव पवित्रयन् सुत्रामत्रासावर्जिन्या पर्जन्यजिततर्जनपरया भारत्या परिसर- निविष्टान्काष्ठाङ्गारावरोधस्य कारागृहनिरुद्धानां च निरोधो निवारणीय इति काराधिकृतान् । अतनिष्ट च राजश्रेष्ठिपदे गन्धोत्कटं यौवराज्यपदे दशमो लम्बः। १४९ नन्दाढ्यं महामात्रादिपदे पद्ममुखादीन्दूिषडर्षपर्यवस्यदकरपदे च जानप- दान् । अतोषयच्च विषयान्तरेषु पुरा व्यूढानाहूतप्रविष्टानभिनिविष्टप्रेमा- भिभूततया पादयोः पततः परिस्फुरदमन्दानन्दप्राग्भारोद्वान्तनितान्तशि- शिराश्रुवर्षेणेव पांसुपरुषाधिंधावनसावधानान्तःकरणानन्तःस्फुरितविरह- शोककृशानुकृशीकृताङ्गतया कृशाङ्गीति नाम सार्थमिव समर्थयतः स्वसंगम- वासरकृताङ्गरागमाल्याद्यलंकृतान्पातिव्रत्यपताकाः पावनगुणोदारान्दारान् । अघोषयच्च धर्मचक्रभूषितललाटेन हर्षोद्धरेण वीध्रवसनाङ्गरागसुमनोम- ण्डितेन शुण्डालौरसारोपितडिण्डिमेन चण्डालाधिकृतेन कृतभगवन्नम- स्कारपूर्वकम् ‘संवर्धतां सद्धर्मः । सार्वभौमः क्षेमी क्षितिमण्डलमपाया- चिराय पायात् । अपेतसकलेतिरुपेतविश्वसस्या च भवतु विश्वमरा । भवन्तु भव्या दिव्यजिनागमश्रद्धालवः सविचाराः साचाराः सानुभावाः सविभवाः सदयाः सदानाः सगुरुभक्तयः सजिनभक्तयः सायुष्याः सवै दुष्याः सहर्षाश्च धर्मपत्न्यः सधर्मकृत्याः सपातिव्रत्याः सतनयाः सविनयाश्च भूयासुः । भूयः श्रूयतामेतत् । देवविधित्सितविवाहोत्सवव- राहीभूतसप्तवासरावधिकमधिकं नगरीयमलंक्रियताम् । आहार्यविशेषः सविशेषमङ्गेष्वामुच्यताम् । अतिबहलागुरुधूपैयूँमायमानं केशजालमम्ला- नमालाभिरशून्यमातन्यताम् । नखंपचपायसाशनमनिशमश्यताम् । अरु- च्यं तु भैषज्यमपि नोपभुज्यताम् । भज्यतां परमेश्वरस्य पादपद्मम् । इदानींतनाः सन्तु सनातनाः' इति । तदैवं घोषिते , केषुचिद्राजचरितोट्घोषणपरेषु पौरवृद्धेषु 'क पूज्यं राजपुत्रत्वं प्रेतावासे क वा जनिः । क वा राज्यपुनःप्राप्तिरहो कर्मविचित्रता ॥' इति ससंवेगं प्रतिद्वारमुदीरयत्सु , परेषु तु पौरेषु — सत्वरमलिन्दभू- लि, मलयजरसेनालिप्यताम् । मृगलोचने, मृगमदमाहर । प्रसाधिके, पुरुषाः। । - १५० गद्यचिन्तामणौ , साधु प्रसाधय । सज्जीभव बाले , ताम्बूलवीटीविधौ । कुरङ्गलोचने , स्ना- पयितुमङ्गज कुङ्कुमस्थासककुम्भानानय । चित्रकर, प्रातिवेश्मचित्रादति- विचित्रं चित्रय । कर्पूरिके, कर्पूरोपलजालानि शकलय । मन्दीभूतग- न्धपाटवामिदं पटवासं चूर्णाय भुजिष्ये, किं नु घृष्यते । मालिके , ल- ब्धपरभागं माला सृज्यताम् । रजक, राजाज्ञा खलु त्वयैवाज्ञायि; सद्यो वासांसि धवलीकुरु । कर्णाभरणानि तूर्णं विधेहि स्वर्णकार, किं नु कालं हरसि । मालाकार, प्रातरेवानय प्रसूनमभिनवम् ; सौगन्धिक - स्रगियमपेतगन्धा; बन्धुरसौरभामपरामर्पय।' इत्येवंप्रकारमलंकाराय त्वरमा- णेषु, राजकुले च कुलक्रमागतैः प्रागेवागमनं पश्चादाह्वानयन्त्रणां पूर्वमे- व सर्वसमीहितकृत्योद्योगं तदनु नियोगं पुरस्तादेव स्वहस्तव्यापारमनन्त- रमन्तःकरणवृत्तिं च भक्तिपरतन्त्रया भजद्भिस्तत्तत्कर्मान्तिकैः सुधासा- दिव सूत्रसादिव चित्रसादिव विचित्रपटसादिव पटवाससादिव कृते , कृ- तादराभिररुणसंग्राहिणीभिश्चूर्णसंयोजिनीभिः कुसुम्भरागकारिणीभिः कु- सुमग्रन्थिनीभिर्मण्डनविधायिनीभिः पिण्डालक्तकसंपादिनीभिस्ताम्बूलदा- यिनीभिर्जाम्बूनदमुकुरधारिणीभिरष्टमङ्गलसंस्कारिणीभिः पिष्टपञ्चाङ्गुलक - लितशिलादिकल्पिनीभिश्च साधुशीलाभिः समन्तादागतसामन्तसीमन्ति - नीभिनन्दिते, नरेन्द्रैश्च नाथमानैर्नरपतिकटाक्षस्य साकमुपधाभिरुपसर- द्भिश्चूताशोकपल्लवशुम्भितवेदीवितर्दिकास्तम्भोत्तम्भिभिश्च ससंभ्रम क- ल्प्यमानायां कल्याणार्हसंविधायाम् , विजयामहादेव्यां च भर्तरि स्म- रणेन कर्तव्ये चरणेन तनये स्नेहेन स्नुषायां हर्षेण बन्धुजने प्रियवचसा नियोज्ये नियोगेन च तदानीमेकस्यामपि नैकस्यामिव सत्यां सुतोद्वाहसु- खानभिज्ञमात्मानं सुखयन्त्याम् , तदीयकौतुकेनाहूत इव वररागरज्जुन- न्थिबन्धनाकृष्ट इव वधूसखीप्रपञ्चपञ्चशाखाङ्गुलीगणनाक्षीण इव स्वकुतू- हलेन स्वयमेव वा सरभसमायासीदुद्वाहवासरः ।
दशमो लम्बः । १५१ . अथ कल्पितकरग्रहणार्हपुरश्चरणकर्माणं कनकधरणीधरकटकप- रिभाविनि परिसरघटितविमलमुक्ताफलपटलपाण्डुरमहःप्रसरपुनरभिहितो- त्तरच्छदशोभिनि पराक्रमविद्याशिष्यैरिव पञ्चाननैः पादच्छलेन विधारिते निष्टप्ताष्टापदनिर्मिते महति सिंहासने समुपविष्टम् , पृष्ठभागोपस्थापिते क्षीरोदतरङ्गकोमलदूकुलनिचोलचारुणि चामीकरपत्रचित्रितस्तबरकदर्श- नीयपर्यन्ते द्विगुणनिवेशिते स्पर्शसुखप्रतिपादनपटीयसि हंसतूलोपधाने निधाय पश्चिमदेहमासीनम् , आसन्नस्थिताभिरनुवल्गनरणितमणिपारिहा- मुखरबाहुलताभिरनिलचलितकुवलयदलदामपेशलविलोचनविक्षेपाभिर्वि- भ्रमकृतनिभृतहसितनिर्यदमलदशनमरीचिकुसुमिताधरकिसलयाभिः कुसु- मशरकीर्तिपयोराशिवीचीविमलनीवीविनिहितैककरपल्लवाभिः परेण करप- ङ्कजेन कलहंसमिव परिमललोभपतितमुच्चालयन्तीभिश्चामरं वामनयनाभिः कल्पशाखिनमिव कनकलताभिः परिवृतम् , उत्तप्ततपनीयदण्डविधारि- तेन सुमेरुशिखरविलसदुडुपतिमण्डलविडम्बकेन विमलातपत्रेण तिलकि- तोपरिभागम् , अनुपरिपाटि स्थितैराहितकरकमलकलितकनककिरीटैरस- कृदभिधीयमानजयजीवशब्दैरसतटलुठितमणिकुण्डलमरीचिपर्याकुललोच- नैरभिनवगगनशङ्कासमुदिततारकानिकरानुकारिणा हारेण पुलकितपृथु- लवक्षःस्थलैरवनिपतिभिरारादासेव्यमानम् , आहितरत्नकेयूरकिरणपाटलि- तेनाध्यक्षीभवदभङ्गुरप्रतापेन भुजयुगलेन चमत्कुर्वाणम् , शारदजलधर- धवलाम्बरपरिवेषदर्शनीयं दुग्धजलधिजलपूरमधिशयानमिव शाङ्गिणम् , नभोङ्गणे तारागणैरिव तारापति धरापतिभिः संसदि विराजमानं राजा- नमुपसृत्य प्रश्रितः प्राञ्जलिः 'प्रत्यासन्नो मुहूर्तः' इति मौहूर्तिकाधिकृतः ससंभ्रममब्रवीत् । तद्वचनमुपश्रुत्य द्रुततरमुच्चलतामिलापतीनां रंहसा च- लितवक्षोगतवैकक्ष्यमालाभ्रान्तभृङ्गावलीझंकाररवे मङ्गलशङ्खध्वनाविवोच्च- तरसा त्रुव्यत्सूत्रहारमुक्तानिकरे रोहदतिस्फारकरपद्मरागकुट्टिमपातेन १५२ मद्यचिन्तामणों वधूवरविधेयहुतवहज्वालोचितलाजविसर्ग इव विभाव्यमाने , जनसमर्द- कृतयादृच्छिकमणिस्तम्भदक्षिणभ्रमणारम्भे दम्पतिविधास्यमानहुताशनप्रा- दक्षिण्यक्रियां पिशुनयति , हर्षविकीर्यमाणराजाभिमुखप्रसूनाञ्जलौ सा- नन्दगोविन्दमहाराजादिविधातव्यवधूवरचकासदाक्षितारोपणमनुकुर्वति परिष्करणमय इव परिबर्हमय इव नृत्तमय इव वादित्रमय इव महिषीमय इव महीपतिमय इवानन्दमय इवाशीमय इव विलसति विवाहमण्डपे, मण्डलाधी- श्वरदत्तहस्तः शिलोच्चयशिखरान्नखरायुध इव हरिविष्टरादवरुह्य विरचितपर- मेश्वरसपर्याञ्चितः स्वहस्तवितीर्णकाञ्चनः संचितसकलहोमद्रव्यसमिद्धपुरो भागेन पुरोधसा हूयमानसमित्कुशतिलबीजलाजजालचटचटायमानेन हुता- शनेनाहूत इवासाद्य वेदी मुदितपुरोहिताभिहितजयजीवेत्याशिषा समं जी- वंधरमहाराजः, स्वमातुलमहाराजन महनीयलग्ने ससंतोषं समर्पिताम् , आत्मीयकीर्तिमिवाकल्पभासुराम् , प्रबलतपस्यामिवाबलाप्रार्थनीयवेषाम् , वासरश्रियमिव दोषोपसंहारसुलभाम् , सुरसुन्दरीमिव साभरणजाताम् , मृगयामिव वराहवधसंपन्नाम् , मुनिजनमनोवृत्तिमिव चरणरक्ताम् , ब्रह्म- स्तम्भाकृतिमिव कृशतरविलग्नाम् , शरदमिव विमलाम्बरविराजिनीम् , अध्वरसंपदमिव सुदक्षिणाम् , सुराज्यश्रियमिव चारुवर्णसंस्थानाम् , वन- राजिमिव तिलकभूषितां बहुपत्रलतां च, नक्षत्रराजिमिव रुचिरहस्तामु- ज्ज्वलश्रवणमूलां च , हव्यवाहज्वालामिव काष्ठाङ्गारवर्धिनी भूतिभाविनी च, 'यदि कुन्तलानामीदृशी कान्तिरलमलं संतमसकान्तिचिन्तामणिभिः । ईदृशं चेदाननमस्य प्रतिरूपकमेव कुमुदिनीपतिः । यदि भुजयोरीदृशं संस्थानमनयोरनुकरोत्येव कल्पशाखिशाखा । यद्ययमाभोगः स्तनयोः पी- नयोः क्रीडागिरिरपरः कीदृशो भर्तुः' इति निभृतं वल्लभपरिचारिकाभि- स्नुरागिणीभिरभिष्ट्रयमानाम् , अमन्दमृगमदामप्यकिरातगीतिम् , अलको- दासिनीमपि नवुतिसंभवाम् , मधुपाश्लिष्टगात्रामपि पवित्राम् , अक्रमक्षी-
20536
दशमो लम्बः ।
१५३
णामिव कौमुदीम् , अभुजङ्गसङ्गमामिव चन्दनलताम् , अजडाकरप्रभवा-
मिव पद्मलक्ष्मी लक्ष्मणां पर्यणयत ।
इति श्रीमद्वादीभसिंहसूरिविरचिते गद्यचिन्तामणौ
लक्ष्मणालम्भी नाम दशमो लम्वः ।
१५४ गद्यचिन्तामणौ एकादशो लम्बः । अथ निष्कण्टकाधिराज्योऽयं राजा कुसुमशरशरकाण्डपतनेन करपीडाक्षण एव कण्टकितप्रकोष्ठः प्रकामस्विन्नाङ्गुलिमन्यूनभाग्यां भो- ग्यामिमां राज्यश्रियं च प्राप्य प्रकृत्यनुगुणेन चतुरवचसा मधुरनिरीक्ष- णेन मनोहरचष्टितेन यथेष्टभोगार्पणेन तयोः कंदर्प दर्प च प्रसर्पयन्नि। रर्गलोपभोगस्यार्गलास्तम्भमभिनवतासंभावुकमवशीभावमुभयोरप्युत्सारय - न्स्वैरममूभ्यां यथासौख्यं यथाभाग्यं यथायोग्यं कामसुखमन्वभवत् । एवं कान्तेः काyि कलानामेकायतनमाधिराज्यं माधुर्यस्य गुरुकुलं प्रस- न्नताया वैदग्ध्यं वदान्यताया अवसानमनुक्रोशस्य दिष्टिवृद्धिं प्रियवादि- ताया यौवनं बिभ्राणाम् , गाढरक्तां पाणिपादाधरे भर्तरि च, अधिक- वक्रां पक्ष्मवति कुन्तलकलापे पापसत्त्वे च, निकामतुङ्गां स्तनजघने मानसे च , अतिगम्भीरां नाभिमण्डले भाषिते च , विपुलां विलोचनयो- र्नाम्नि च, दीर्घा भुजलतयोः प्रणतरक्षणे च , सूक्ष्मां महिम्नि करच- रणरेखासु च, चारुवृत्तां जक्योश्चरित्रे च, अत्यन्तमृद्वी तनुलतायां गमने च, अतिदरिद्रां मध्ये नैर्गुण्ये च , आभिजात्येनाभिरूप्येण पा- वनकृत्येन पातिव्रत्येन च विशिष्टाम् , अष्टधा भिन्नामप्येकीभावं गतां देवीपरिषदं यथोचितं साकूतस्मितैरपाङ्गपातैः सनर्मसौख्यैर्विलासोक्तिवि- स्तरैः सविस्रम्भैरनुरागवर्णनैः सापदेशैरपसर्पणैः ससंभावनैर्माल्यविनि- मयैः सभृकुटीपुटैरलीककोपैः सप्रणामैः प्रकृतिप्रापणैः सापराधसंवरण रुपधावनैः सजीवितसंशयैः शपथसाहसैः सापलापैः स्थैर्यस्थापनैः सानु मोदः प्रतिवचोदानैः सावहित्थैः शुष्कनिर्बन्धैः साभिलाषैरनुनाथनैः स . .
एकादशो लम्बः । १५५ वञ्चनैः काञ्चीशैथिल्यैः सधाष्टरुपप्रलोभनैः सवैलक्ष्यैः प्रत्यवेक्षितैः स- प्रमादोपन्यासैः स्खलितानुज्ञापनैः सत्रासैर्गोत्रव्यत्ययैः सदास्योपगमैः सं- रम्भमार्जनैः समार्गनिरोधैः प्रतिनिवर्तनैः सकौतूहलैराश्चर्यविलोकनाक्षेपैः सगद्गदिकास्तम्भैमिथ्याकथितैः सलज्जाजाड्यैरधोमुखस्थितैः सानुशयैर- नुपदप्रस्थापनैः ससमाह्वानैः क्रीडनसंकल्पनैः ससद्भावाभिनयैः प्रतार- णप्रावीण्यैः सरहस्यसंज्ञैराशोत्पादनैः सरोमाञ्चैरवतंसकमलकेलिताडना- नुभावैश्च रमयन्यथाकामं कामसौख्यमसक्त एवान्वभवत् । तथाहि- सौ राजा वाह्यममित्रजातमध्रुवमतिविप्रकृष्टं चेयात्मनिष्ठमरिषड्वर्ग व्य- जेष्ट । असहाया नीतिः कातर्यावहा शौर्य च श्वापदचेष्टितमित्यभीष्ट- सिद्धिमन्विताभ्याममूभ्यामाकाङ्क्षीत् । सप्रणिधानं प्रहितप्रणिधिनेत्रः श- त्रुमित्रोदासीनानां मण्डलेषु तैरज्ञातमप्यज्ञासीत् । राज्ञां रात्रिंदिवविभागेषु यदनुष्ठेयमिदमित्थमनिर्बन्धमन्वतिष्ठत् । जातमपि सद्यः शमयितुं श- तोऽपि सदा प्रबुद्धतया प्रतीकारयोग्यं प्रकृतिवैराग्यं नाजीजनत् । किं बहुना । राजन्वतीमवनीमतानीत् । एवमनन्यसुलभानन्योन्याबाधितान्धर्मार्थकामान्संचिन्वति तस्मि - प्रजापतौ, प्रजाश्व तदधीनवृत्तयः सादरैः करप्रदानैः सानुशयैः प्रमा- दस्खलितैः समयैराज्ञानुष्ठानैः सविनयैर्गुरुजनानुवर्तनैः सनिर्बन्धैश्चारुवृत्तैः सविचारैः प्रारम्भैः सफलैरखिलवृत्तैः सपरप्रयोजनैः साधुचेष्टितैः सदा- नपूजैरुत्सवोपक्रमैः समेतास्तं राजानमनार्जनक्लेशमर्थजातमजन्मोपयुक्तं पि- तरमनिमेषोन्मेषं नेत्रमनभिवर्धनायासं सुतमाबद्धमूर्तिमिव विश्वासमवनी- तलसंचारमिव सुरतरुमात्मप्राणानामिव पुञ्जीभावममन्यन्त । तथा गात्र- बद्ध इव क्षात्रधर्मेऽस्मिन्धर्मोत्तरं धनोत्तरं सौख्योत्तरं च धरातलमवति सम्राजि, वत्ससाम्राज्यसमवलोकनसफलीकृतजीविता विविधविहितपूर्वो- पकारिसर्वजनतृप्तिः पुनरतृप्तिकारिग्यविचारितरम्ये किंपाकफलप्रख्ये कि- १५६ गद्यचिन्तामणौ - षयसौख्ये विरक्ता सती विजया महादेवी सस्नेहं सदयं साश्वासं सनि- बन्धं सवैराग्यं सावश्यकं च समादिश्य काश्यपीपतिनापि कथंचिदनुम- तैव सुनन्दया समं सुतयोः स्नुषाणां पुरौकसां च सीदतां प्राबाजीत् । प्रव्रज्यामनयोरुपश्रुत्य तदाश्रमस्थानं राज्याश्रमगुरुरपि गुरुतरविषादवि- हलमतिः सपदि समभ्येत्य समुद्वीक्ष्य दीक्षिते जनयित्र्यौ कर्तव्याभावा- दतिमात्रं विषीदन्मातृभ्यां विशिष्टं तत्संयम विश्राणितवत्या श्रमणीश्रे- ठया प्रपञ्चितैर्धर्मवचोभिः किंचिदिवाश्वास्यमानः पुनःपुनः प्रगृह्य पादं प्रसवित्र्योः ‘अत्र नगर्यामासिका कर्तव्या । न च स्मर्तव्यान्यत्र यात्रा इति ययाचे । ताभ्यां च तदीयप्रश्रयबलेन 'तथा' इति प्रतिश्रुते , वि श्रुतवीर्यः स विश्वंभरापतिरम्बावियोगादम्बकविहीन इव दीनवृत्तिः प्र- तिनिवर्त्य सप्रणाम निवृत्त्याश्रमान्निजावसथमशिश्रियत् । तदनु कालपाकेन स्वपाकेन शान्तस्वान्तरुजः कान्ताभिरमा निर्विशतत्रिदशाहसौख्यं त्रिंशत्संवत्सरसंमिते समये समतिक्रान्ते, क्र- मादात्मजेष्वप्यात्मनिर्विशेषेषु कलागुणैः कवचहरतां निविशमानेषु, क- दाचिन्नितान्तक्षीबवसन्तबन्धुर्वसन्तसमयावतारः समधुक्षयदस्य जलक्री- डोद्योगम् । अनन्तरमानायिभिः संशोधितां स्फटिकतुलितपयःपूरां स्फु- टितारविन्दबृन्दनिष्यन्दिमधुबिन्दुसंदोहचन्द्रकिताममलस्फटिकशिलाघटि- तसोपानां प्लवमानराजहंसफेनिलतरङ्गां कूजत्कारण्डवमिथुनाधिष्ठितकूल- केतकीकुसुमधूलीधूसरपुलिनामनिभृतमीनाहतोत्पलगर्भप्रतिबद्धषट्पदझं - कृतमुखरामुपरितटोद्यानवाटिकागूढां क्रीडासरसी समदशकुन्तकुलकू- जितैरिवाभिहितालोकशब्दः समवगाहमानमानिनीनिकरकरास्फालनरय - तीरगामिलहरीप्रवाहणेव प्रतिगृह्यमाणः समवगाह्य वनकरीव कारणीभिः करमोरुमिरुपलक्षितः क्षालिताङ्गरागसंपर्कसकुलमसलिलं साईदुकूलाले पस्पष्टदृश्योषिदवयवाकृष्यमाणात्मलोचनं सोचनालोचनकासारूप्य - एकादशो लम्बः । १५७ , - साक्षालक्षणसंभावनीयविकचमुकुलनलिनमलकाप्रविगलदम्बुबिन्दुसंदोह - संदेहकरहारमुक्तमुक्तानिकरं करविलुलितसलिलप्लवमानबिसवलयरचितच- न्द्रशकलशकं जडसंनिधिसंजातवाग्यतवृत्तिकताविभाव्यमानसुजनकृत्यर- शनाकलापं दृतिमुखसिच्यमानकुङ्कुमसंपर्कसंभाव्यमानसिन्दूरितकुम्भिकु- म्भसाम्यकुचकुम्भं च भृशमक्रीडत् । क्रीडावसाने च बलवदनिलचलकिसलयसमुल्लासिवेललताला - स्यलालितेऽभिनवपरागपटलस्विन्नपुंनागमञ्जुमञ्जरीजालजल्पाकमधुकरनि - करझंकारमुखरे गाङ्गजल इव पृथुलहरीसनाथे, पचेलिमकलमशालिक्षेत्र इव बहुलवनमाले , अङ्गनाङ्ग इव मृदुलपनसबहुमाने , सनीडवर्तिनि म- यंदुरासदसुमनोमनोहरानोकहानिबिडे क्वचिदाक्रीडे क्रीडाक्लमहरणाय वि- हरमाणः स धरित्रीपतिः कापि कोणे कौतुकविधायिकापेयविलोकनाय वि- लोचने व्यापारयामास । तत्र चातिसंधानकोविदः कोऽपि कपिरन्यस्त्री- संगमावलोकनेन मन्युग्रस्तां मर्कटीं ‘अवितर्कः कोनाम निसर्गसुन्दरीम- नादृत्य त्वामन्यां बहुमन्येत' इति प्रियवचःसहस्रैरपि प्रकृतिमानेतुमपा- रयन्पारवश्यनटनेन ‘पश्य मां प्रिये, परासुरहं भवामि' इति परिव- तितेक्षणः क्षणादेव क्षितौ क्षीणासुरिव पपात । वराकी तु सा वानरी वञ्चनाकृतं मरणमञ्जसेति स्त्रीत्वसुलभाचापल्याद्विश्वस्यभावेन दीर्घ नि:- श्वस्य 'हा नाथ, हतास्मि पापाहम्' इत्यालप्य सत्वरमेनं हरिं धरात- लादुत्क्षिप्य करतले गृहृती निगृह्णती चात्मानं 'कुट्टिन्या मया पतिद्रोहः कुतः कारणात्कृतः' इति पुनःपुनः कृतगाढपरिष्वङ्गा पाणितलविकीर्य- माणपयःशीकरशीफरेण शिशिरोपचारेण चिराय जीवितेश्वरं जीवया- मास । प्रियानपरिष्वङ्गेण प्रत्युजीवित इव प्रीणानः प्रतारणचतुरः स शाखामृगः शाखिशाखान्तरलम्बमानमम्बरल्यापि पाकसुलभसौरभरचि- तजिह्वाचापलं पनसफलमानीय मुद्गफलाकाराभिः कराङ्गलीभिर्दलयमा- १५८ गद्यचिन्तामणी त्मदयितायै तस्यै ददौ । तदवसरे तत्र नियुक्तो नातिबालः कोऽपि वनपालः पलाययन्मिथुनमिदं फलमेतदपजहार । तदेतदखिलमवलोक्य लोकोत्तरोन्नतचित्तः स जीवंधरमहाराजः सदयमना 'जीवानामुदय एव न केवलं जीवितमपि बलवदधीनन् । दीनवृत्तिके मृगद्वन्द्वे संभवदिदं द्वन्द्वजातं किमेत्रं संभाव्यते । भवेऽस्मिन्नेवास्माभिर्भवभृतां वृत्तेरवस्था- विकलता किमनालोकिता । आलोकिताप्येषा विभवदूषिकादूषितदृष्टीनां न खलु नः स्पष्टीभवति । कष्टमतः पूर्वमाचरितम् । सर्वथा काष्ठाङ्गारायते करशाखाभ्रटफलः शाखामृगः । अस्मद्यते नूनमाच्छोटिततत्फलः स व- नपालः । फलं तु नियमेन भोगायते । गच्छतु तुच्छफलकाझ्या क- च्छ्रायमाणेन मया गमितः कालः । सफलयेयमवशिष्टं वा विशिष्टतपसा । भोगेन हि भुज्यमानेन रज्यमानेनापि त्यज्यते जनः। तस्मादहमेव ता- वदैहिकभोगेषु मुह्यन्मनो जह्याम् । यावदमी माममीमांसया नूनमभिल- षन्तं हसन्त एव जिहासन्ति । नियोगतश्चेद्भोगानां वियोगः स्वयं त्या- गात्किमिति लोकोऽयं बिभेति । किं च ते भजन्तमात्मानं त्यजन्तः स्वातन्त्र्यात्स्वान्तमस्य सुतरां तुदन्ति । स्वयं त्यक्तास्तु तदानीं मनःप्र- सत्तये पुनर्मुक्तये च भोगा भवेयुः' । इति भूयो व्यरजत । तथा विहितविचाराभोग भोगाद्विरज्यन्तं योगे क्रममाणमेनं - मादतर्कितदक्षिणाक्षिस्पन्देन किमुदर्कोऽयमिति वितर्कविजृम्भितरणरण- कविषीददन्तःकरणास्तदन्तःपुरसुन्दर्यः पर्यवारयन् । वैभवमहो वैराग्यस्य यतो भोग्ये संनिहितेऽप्ययोग्य इवासीदस्पृहमस्य मनः । तत्त्वज्ञानविवे- कतो विमलीकृतहृदयाः कृतिनः खलु जगति दुष्करकर्मकारिणो भवन्ति, दमी मनस्विनो मनोरथेनाप्यभावित्वादभूतत्वादननुभूयमानत्वाच्च ञ्छामात्रपरिग्रहाण्येव वस्तूनि परित्यक्तुमप्यपारयति लोके, तान्युपभो- गभाज्येवाअसा मुञ्चन्ति । तथाहि-- तत्पूर्वक्षणे ताः सुन्दरीनिरन्तरं , एकादशो लम्बः । १९९ निशामयितुमन्तरायभूतमात्माक्षिपक्ष्मक्षोभमप्यक्षममाणोऽयं राजर्षिर्न मृ- ध्यति स्म तदात्वे संनिधिमपि तासाम् । पुनरासीच्च महीपतेर्महानुद्योगो योगीन्द्रमुखादुपश्रोतुं धर्मम् । आदिशच्च परिजनम् ‘जिनपूजां कल्प- यितुमनल्पमुपकरणमनवद्यमानीयताम्' इति । तावता संमुखागतैर्मुख- विकारविभाव्यमानविरक्तिपरिणामैः परिणतैर्मन्त्रिभिनियन्त्रणाशतेनाप्य - निवार्यमाणप्रयाणः प्रयाणदुन्दुभिमिषेणानिमेषाध्यक्षस्य यक्षस्याप्यात्मनि- र्वेदं निवेदयन्निव निर्विष्णहृदयेन किंकृतविषय आसीत् । 'क्रीडानन्तरं पीडेयं प्रवृत्ता। किंनिमित्तमेतद्विरक्तमस्य चित्तम् । किमस्मद्विषयमुता- न्यविषयं किंस्विदाकस्मिकम् । किमु स्वन्तं किमुत दुरन्तम् । दुरन्त- तामेव हि नः शुभेतराक्षिस्पन्दः कन्दलयति' इति चिन्ताक्रान्तेन शु- द्धान्तेन सममुद्यानान्निरयात् । अयाञ्च यातयातनैस्तपोधनैरभ्युषितं मु- षितभव्यलोकमोहव्यूहं मोघीकृतदिनमणिमयूर्मणिभिर्निर्मितं धर्मंककुलभ- वनं जिनभवनम् । अबुध्यत चात्मानमबद्धं कर्मभिः । अस्तावीच्चायम- तितोषादपदोषमात्मानं कर्तुं समर्थैः स्तवैः प्रवर्तितनैकप्रदक्षिणक्रियाप्र- गामपूर्वकपुष्पाञ्जलिः स्फारयन्परिणामशुद्धिं दूरयन्दुष्कर्म गात्रं रोमाञ्च- यन्नेत्रे स्रावयन्वाणी गद्गदयन्पाणी मुकुलयन्भगवन्तं परमेश्वरम्- 'यदविपद्मप्रणतौ प्रवीणा न कुर्वते जातु नतिं परेषु अपारभूमानमनन्यतुल्यं श्रीवर्धमानं शिरसा नमामि ॥ यदीयपादाम्बुरुहस्तवेन क्षणावधिं वा गमयन्ति कालम् । न ते परस्तोत्रपरा इति त्वां श्रीवर्धमानं स्तुतिभिर्भजामि ॥ आराधयन्ति क्षणमादरेण यदक्षिपङ्केरुहमात्तभावाः । पराङ्मुखास्ते परसत्क्रियायामित्यर्चनीयं जिनमर्चयामि ॥' इति । तावता तत्र तत्रभवन्तौ संनिहितौ हितकार्यकरणायेव कायभृतां कायबदौ शतमतपःशक्तिसिद्धां निजसिद्धान्तस्थितिमिव निर्मला नाति- १९० गधचिन्तामणी विशाला कामपि स्फटिकशिलां घटितविविधोद्गमस्य विबुधतरोरधस्ताद- धिवसन्तौ वारिदपथसंचारचतुरचरणारविन्दौ चारणपरमेष्ठिनौ राजायमै- क्षिष्ट । दृष्टमात्रयोरेव तयोरयं भ्रष्टकल्मष इव प्रीतिविस्फारितनेत्रः स्तो- त्रमुखरमुखः पवित्रकुसुमविसरविकिरणत्वराविह्वलकरयुगः प्रहृमणिमौलि: प्रदक्षिणं भ्रमन् 'मम भवभ्रमः शाम्यतात्' इति तपःकाम्यया तपो- धनयोः श्रीपादाम्भोरुहं शेखरीचकार । स्वीचकार च घटितकरपुटः स्फुटोच्चारितजयशब्दः 'तत्रभवतोः प्रसादतस्तथा' इत्यवितथवचनः मु- निवरमुखाम्भोजभवां 'भो महाराज, कच्चित्ते वार्तम्' इति मधुरवार्ताम् । प्रार्थयाञ्चक्रे च वीक्षितधेनुर्बुभुक्षितो वत्स इव मुनिवरवात्सल्येन वर्धि- तहर्षोऽयं राजर्षिः ‘महर्षी भगवन्तौ , भवन्मुखशतपत्रनिशामनमात्रेणैव जातसंसारप्रशमनोऽहमस्मीति प्रगणयामि । ततः पवित्रधर्मयानपात्रसम- पणेन भवाब्धी विस्तृते दुस्तरतया सदा सीदन्तं मां प्रसीदताम्' इति । प्रश्रयस्पृहणीयतदीयप्रार्थनावसाने च धर्मामृतवर्षेण कर्मपर्याय- माभ्यन्तरमस्य मलमशेषतः क्षालयिष्यन्पूर्वमपाकुर्वन्निव बाह्यमभ्यन्तररंद- नज्योत्स्नारूपामिरद्भिरभिषिञ्चन्नुप्रतपसोस्तयोरग्रणी तिव्यग्रं समग्रगुणसं- पन्ना रत्नदीपिकामिव प्रकटितपदार्थपारमार्थी तमोपहां चाकठिनप्रभाव- त्वादिमामप्यतिशयानाम् , सुधामिव वसुधातलदुर्लभां सुमनःसंभावनी- यां चाक्षयकलानिधिसंभवादतोऽपि संभावनीयाम् , संजीवनौषधिमिव स- कलजीवजीवातुभूतां चरणरुचिसंपादिनीं च पुनर्जननक्लेशहननादतोऽपि पुरस्क्रियाहा॑म् , हारयष्टिमिव सुवृत्तबन्धुरां गुणानुबन्धिनी चाजडाश्रय- त्वादतोऽप्यधिकमीडनीयां च भव्यलोकरञ्जनीयां दिव्यवाचं मुभोच- 'महाराज, श्रूयताम् । यतोऽभ्युदयनिश्रेयससिद्धिः स धर्मः । स च म्यग्दर्शनज्ञानचारित्रात्मकः । अधर्मस्तु तद्विपरीतः । आयुष्मन् अवग- च्छसि त्वमधीती श्रुते तुच्छेतरमशेषममीषां लक्षणम् । इत्थंभूतमात्मो- .
84. एकादशो लम्बः। १११ १ त्यानन्तसौख्यादिगुणनिर्माणं धर्म बलवन्मोहकर्मोदयेन यथावदवगन्तुम- शक्ता अधर्मे धर्मबुद्धिं धर्मे चाधर्मबुद्धि बधन्तस्तदुभयमप्यबुध्यमानाच प्राणिनः पृथिवीपते, निकामतीवनीचकर्मोदयानिरये तिरोभूततीव्रभाव- पापात्तिरश्चि, प्रवर्तितसुकृतेतरद्वयान्मर्ये, सुकृतमात्रेण सुरेषु च कृता- वतारास्तावद्भमन्ति यावन्निर्मूलितनिरवशेषकर्माणो भवेयुः । एवं निगदि- तायां नाकनरकनरतिरश्चां भेदेन चातुर्विघ्यं गतायां गतौ, हिंसानृत- स्तेयमैथुनमात्रपरा हिंस्रसत्त्वाईक्रूरपरिणामा अधर्माभिवर्धिनो धर्मद्रुहश्च धर्मादिनिरयं प्रयान्ति । एवंभूतपुरोपार्जितपुण्येतरबलेन बद्धनिरयायुषो निरयं प्रयातास्ते प्राणभृतः प्राण्यन्तरमारणप्रवीणप्राकृतपूतिगन्धोद्रेकादु- द्वेजनीयामुद्दामदावज्वालालीढतालतरुसमाकारां नालिकेरफलोदररज्जुघटि- तभाजनमिव स्थपुटितां यावदायुः केनाप्यविघटनीयां सपटलभेदसप्तपृ. थ्वीषु प्रथमनिरयादारभ्य क्रमादभिवृद्धेनापकर्षतः षडङ्गुलकलितत्रिहस्ता- धिकसप्तकेन प्रकर्षतश्च पञ्चशतेन धनुषां समुच्छ्रिता मूर्ति मुहूर्तमात्रे- णोर्ध्वगतिशीलावलम्बिनः पूर्णयन्तः शिततरनैकशस्त्राकीर्णतले पक्कता- लफलानीव स्वयमेव पतन्ति । पुनरुत्पतन्ति च पतनवेगेन बहुयोज- नानि । बहुधा विशीर्णमप्यर्ण इव तद्गात्रं क्षणमात्रेण घटतेतराम् । क्ष- णघटितप्रांशुप्रतीकान्प्रतीकारविरहादनारतमुत्पततः पततश्च नारकान्पा- तकाः परे पवनपथ एव मननक्षणनिष्पनैनिस्त्रिशैरंशतः कदलीदण्डा- निव खण्डयन्ति । तांश्च परे। परस्परं च । कथंचिदवनौ चेत्संचरेयुरमी संजातभीकरदंष्ट्राकरैर्विक्रियागतशरारुचक्ररूपैः परैश्चय॑न्ते । तचर्वण- भयेन पलायमानास्ते सर्वप्रदेशसुलभाभिरयःसूचिभिः प्रोताङ्ग्यः कुरका इव सकीलवागुरां गताः परिस्खलनेन पतित्वा तास्वेव दारुणं क्रोशन्ति । क्रोशरभसविवृतास्यानमूम्विवृततरास्यान्विधाय केचित् 'मूढ , त्वया पुरा मुदा खादितं मांसखण्डमेतत्' होते. तप्तताम्रपिण्डं बलेन खादयन्ति ।
गवचिन्तामणी परे तु परदारेष्वतिकम्रांस्ताम्रमयतप्तसालभञ्जिकाम् 'तव प्रियाङ्गनेयम्' इति हठादतिगाढमालिङ्गयन्ति । बेद्धमन्यवः केचिदन्ये पूर्वमन्यायादस्म- तो वित्तमत्तेन धनमपहृतम् । अधुना त्वयास्माभिरुपहृतमूरीक्रियताम्' इत्यनारीकृतमयःमिण्डममीषां करेष्वर्पयन्ति । अपरे तु 'निरपराधानां नः कारयामास कारागृहनिरोधं क्रूरयानया जिह्वया । जह्यतामधुना वा' इत्यसत्यवादिचराणां नारकाणां हठादेनामुत्पाटयन्ति । दुरापं मानुष्यं म- लीमसीकृतवतः सुरापानपरान्पापिनः पावककाथजलीकृतं लोहं पाययन्ति । भूतपूर्वभूतद्रुहः कांश्चिदूर्ध्वाधोमुखकण्टकशालिशाल्मलीद्रुममारोप्य हतप्रा- णिलोमगणनाप्रमाणमधोमुखमूर्ध्वमुखं च केचिदाकर्षयन्ति । एवमुरसि भुरिकानिखननम् , शिरसि दहनप्रज्वालनम् , अङ्गुलीषु सूच्यारोपणम् , अङ्गच्छेदनमग्निकुण्डपातनमस्त्रधारावस्थापनमन्यादृशमप्यतिनृशंसकर्मपाक- मेकादित्रयस्त्रिंशदुदधिप्रमितकालमसंख्यदुःखमनुभवताममीषामतिमात्रबुभु- क्षायां गन्धाघ्रायिजन्तुमरणादात्तगन्धगरलाहारः संपद्यते। पिपासायां प्रतिभा- समानमतिमनोहरसलिलं सरः पुनरुष्णरसायते । छायार्थितायां बहुलच्छ- दतया प्रतिभाताः पादपाः पावकमयपत्राणि तद्गात्रेषु पातयन्ति । किं बहुना । परस्परव्यसनकृतस्ते महादुष्कृततया निष्प्रतिक्रियतया कास्महे क सुप्यामहे क नु तिष्ठामः क याम इति स्फीतानुशयाः सर्वदेशे सर्व- काले च सर्वप्रकारां कारणां यावदायुरनुभवन्ति । वयमपि पुरा महाराज बहिष्कृतसन्मार्गा बहुकृत्वस्तत्र कृतावताराः किं नान्वभूम । तथा महा- मायाजुषां तपोधनद्विषां धनैकलोलुपानां जघनाजीविनां च जीवानां ज- ननस्थानतया निश्चिते तिरश्चि कर्मद्वयभाविनि मानवभवे च भयेन भा- रवहनेन ताडनसहनेनाभीष्टवियोगेनानिष्टसंयोगेन भक्ष्यान्वेषणेन रक्षका- भावेन वृषस्यया विषसंपर्केण परस्परस्पर्धया गर्धया गर्भव्यथया क्षुधा तृषा शुचा रुषा रुजा च महाभाग भवदिदं इन्द्रमिदंतया न पार्यते एकादशो लम्बः। १६३ . विवरितुम् । विशेषतश्च नराणां परिभवपराराधनवचनपारुष्यमननकार ध्यभुजिष्यभावादारियादिभिरुदेकितोऽयमुपद्रवप्रकारः प्रत्यक्षनरकायते। सुकृतोदयेन सुखायमानानां सुराणामपि परनिरपेक्षणभक्षणरक्षणाद्युपाये निरपायेन निसर्गतः सिद्धेऽपि कर्मबन्धतया दुष्परिहारपरिभवजननी प- राधीनवृत्तिमर्त्यप्रवृत्तेरप्यधिकतरमरुतुदा । प्रत्युत मरणभीत्या पूर्वममृता- हरणादिभिरनुभूतमखिलमपि सौख्यं क्षण एव नारकदुःखायते । ततः सर्वथाप्यसारे संसारे मन्देतरभाव एव द्वन्द्वस्य न खलु सर्वथाप्यभावः। तत्रा- वार्कितमरणमपगतशरणमशुचिसदनमनल्पव्यसनमनेकविधापायमपि मान- वकायमपवर्गोपायतया राजेन्द्र, मनोरथेनापि दुर्लभं तोयधिमध्यमग्नमणि- मिव लब्ध्वापि मोहविप्रलब्धाः केचन मुग्धा दग्धुकामा इव भस्मने मणिं काम कामसौख्यमात्रफलं कल्पयन्ति । पार्थिवेन्द्र , पदार्थयाथात्म्यदृशस्तु भवादृशः पुनरीदृशपारवश्यपराचीनाः परस्पराविरोधेन साधितत्रिवर्गाः स्वयमपवर्गमपि साधु साधयेयुरिति धर्मदेशनानन्तरं जन्मान्तरप्रबन्धमपि जननाथनिर्बन्धेन विनीतबन्धुर्विवत्रे । “भूभृतां पुरोग , पुरा खलु भवा- न्धातकीषण्डललामायमानभूमितिलकाधिपतेः पवनवेगनाम्नो धात्रीपतेर्य- शोधर इति पुत्रो भूत्वा कदाचन भूरिपरिकरेण नगरबहिरुद्याने सर. स्तीरे विहरमाणस्तत्र रमणीयमालोक्य जालपादशिशुं लीलार्थ वर्धयितु- मेनं परिजनमुखतः पाणौकृत्य निवर्तयामास । वृत्तान्तमेतमुपश्रुत्य श्रुत- शाली भवन्तमामन्त्र्य भवत्पिता ‘पातककृत्यमिदं चतुष्पदां पततां च स्वपदाद्वियोजनम् । यो जनस्तथा चेष्टते स कष्टायते । आत्मज धर्मो हि नामात्मनोऽन्यस्य च हिते प्रवृत्तिरहितनिवृत्तिश्च । तथा सति ज. न्तूनां छेदनरोधनताडनतापनादीनि पापनिमित्तानि त्वया परिहर्तव्यानि भवेयुः । एवमात्मप्रतिकूलानामन्यजनेऽप्यनाचरणं चरणं गणयित्वा का- रुणिकेन त्वया स्वहिंसने स्वाहितवचःकथने स्वद्रव्यापहरणे स्वस्त्रीग्रहणे १९४ गधचिन्तामणौ च स्वस्य यथा व्यथा तथा परहिंसादिषु परेषामप्येषा स्यादिति मनीषां प्रवर्त्य तन्निवृत्तिरपि कर्तव्या । अङ्ग, पुनरर्थेष्वतिमात्रलोलुपता लोकद्व- येऽप्यात्मनः कृत्सव्यसननिदानतया निराकरणीया । लौकिकैरपि सप्त- व्यसनानीति पापहेतुतया पापर्धिपरदारचौर्यसुराद्यूतपिशितगणिकास्तु ग- णिताः। किमुत जैनैः। तस्मादिह गृहमेधिनामस्माकं जैनमार्गे क्रमादपव- र्गसाधनतया कथितानि मधुमद्यमांसनिवृत्तिविशिष्टतयाष्टौ मूलगुणा इति प्रपञ्चितानि पञ्चाणुव्रतानि व्रतत्वेन परिगृह्यापोह्य चापरिगृह्यकानामपि भावयितुमक्षममक्षपक्षपातं पातकित्वसंपादिवेशाभिनिवेशं च वत्स , धर्मः वत्सलो भवन्भवपारावारपारप्रापणं परमेश्वरपदपङ्केरुहद्वन्द्वममन्दभक्तिर्भज त्वम्' इति भवते हितमुपादिक्षत् । क्षत्रियोत्तम, तातपादेन प्रणयेन प्रणीतं वचः प्रणामाञ्जलिचुम्बितोत्तमाङ्गो भवन्भवानुत्तमपुरुषतया वित्तोपलम्भी रिक्त इव प्रीयमाणः प्रतिगृह्णन्निगृहंश्वात्मानम् 'अनात्मज्ञेन मया कृतम- ज्ञानोचितम्' इत्यपचितिमप्यतिमहती भगवतः स्वदुश्चित्तप्रायश्चित्ततया विधिना विदधानस्तावत् 'अधुनास्माभिरनुभुज्यमानमपि भुक्तपूर्वमेव पूर्व- भवानामानन्त्यात् । अनन्तमपि पुद्गलाभोग भोगोपभोगत्वेन यदहम- भुसि । भोक्तुं भुक्तोज्झितमुच्छिष्टमिव विशिष्टेन केन विचीयताम्' इति विचारणप्रचीयमानवैराग्यः प्रव्रज्य तपोबलादबलाभिरमूभिः समममरसुख- मनुभूय भूयोऽपि भूमौ भूपतिरभूत् । राजकुञ्जर, पुरा राजहंसशिशोः पञ्जरबन्धेन बन्धुविरहविधिना च लोकबन्धोर्भवतोऽपि बन्धुवियोगेन सह बन्धः किलासीत्" इति । एवमकारणबन्धोश्चारणेन्द्रात्कोकनबन्धोः कोकनदराशिरिव लब्ध- प्रबोधः स लब्धवर्णाग्रणीर्धरणीपतिः, पीयूषे स्थिते विषमन इव विषीदन्, नियोज्य इव नीचैरुपचरन् वाचंयमबृन्दारकं सदारः सावरजः सवयस्यश्च सादरं सप्रणामं सविनयं सगुणस्तवं सया- . . साम्राज्यात्तपोराज्ये रज्यन्, एकादशो लम्बः। नं चापृच्छय राजपुरीमगच्छत् । तत्र चाहूतप्रविष्टान्पुरुहूतगुरुकृत्यानमा- न्पुिरौकसः पुरोधसं च पुरातननिजवंशजानामपि शमिनि वयसि यो- न तनुत्यजां प्राचुर्यं प्रदर्शयन्प्रकृतिस्थान्कृत्वा पुनः कर्तव्यं च तैर्म- पयित्वा नियन्त्रणापूर्वकं याचितेनापि नन्दाढ्येन विरक्तिदााद्विसृज्य- निं राज्यं कवचहराय वंश्यज्येष्ठाय श्रेष्ठगुणपात्राय पैतृकं नाम संदधते न्धर्वदत्तानन्दनाय दत्तवान् । उक्तवांश्चास्मै 'वत्स , सदा धर्मवत्सलेन प्र- आनुरागिणा प्रकृतिरञ्जिना स्थानप्रदायिना न्यायार्थगवेषिणा निरर्थकवि- हैषिणा स्मितपूर्वभाषिणा गुणवृद्धसेविना दुर्जनवर्जिना दूरभाविवित- *णा हिताहितजातविवेकिना विहितविधायिना शक्यारम्भिणा शक्य- कलकाङ्गिणा कृतप्रत्यवेक्षिणा कृतस्थापनव्यसनिना गतानुशयगुहा प्रमा- इकृतानुलोपिना सचिववचःप्रश्राविणा पराकृतवेदिना परीक्षितपरिणा- हिणा परिभवासहिष्णुना शिक्षासहेन देहरक्षावहेन देशरक्षाकृता युक्त- दण्डयोजिना रिपुमण्डलहृदयभिदा देशकालविदा लिङ्गावेद्यसंविदा यथा- र्थविदपसर्पण हृषीकपारवश्यमुषा गुरुभक्तिजुषा च त्वया भवितव्यम् ' इति । ततश्च तदिदमवबुध्य शुचा दग्धरज्जुसोदरीभूताः कृशोदरीराहूय 'प्रियाः , किमेवमभिभूयध्वे शालीनतया । जगति जातेष्वजातमृतयः के नाम । केवलं यावदायुरवस्थितास्तदनु संस्थिताश्च ननु सर्वेऽपि तनुभृतः । सर्वथा नश्वरशरीरेण यद्यनश्वरसुखं सिध्यदिदमेव ननु बुद्धिमाद्भरद्धा सा- ध्यम् । अहो मुग्धाः, पृथग्भावनिरसनाय बहुसिरापिनद्धकीकसे मार्दव- संपादनाय रुधिराकृते प्राचुर्यादन्तर्गतमलानामनन्तर्भावात्संततस्यन्दाय संकल्पितनवद्वारि मांसलालसवायसादिवयसामदर्शनाय पिशिताच्छादिच- मणि कर्मशिल्पिकौशलेन बहिरुज्ज्वलतरे शरीरे ऽस्मिन्किमु यूयं सस्पृहाः । तर्हि गर्हणीयमिदं न स्यादस्यान्तरस्वरूपे बहिर्गतेऽपि प्रार्थिता वा यूय- मेतत्प्रेक्षितुं यदि समर्थाः । ततः शरीरस्य विघटनात्प्रागेव घटध्वं यूय- , गद्यचिन्तामणी , मपि तपसे' इति ताः संबोध्य गत्यभावात्तास्वपि तपसे समुद्यतासु जा- तानन्देन नन्दाढ्येन समं रथकड्योह्यमानमह्यार्थ्यराशिरनयशेवधिमाप्तुम- टन्नश्रीक इव सभाजयन्भगवतः पारमैश्वर्यश्रिया वर्धमानस्य श्रीवर्धमानस्वा मिनः श्रीसभाभिमुखः प्रयातुं प्रचक्रमे । अथ जीवंधरमहाराजः श्रवणकटुना प्रयाणध्वनिना प्रयाणे वि- श्रुते, प्रसरदश्रुजलपूरेषु पौरेषु तं प्रणामंप्रणामं तदीयगुणं स्मारंस्मार तस्य यथोचितं वाचंवाचमनेकप्रयाणपथमनुप्रयाय तत्प्रयासतः प्रतिनि वृत्तेषु , सामात्यं सत्यंधरमहाराजमपि समुचितवार्तया निवर्त्य, निवृत्तिप, परःसहस्रतैरैनरैः संगतः, पर्यश्रुमुखैः पारिषद्यपार्थिवैर्विहिताञ्जलिभिरभिहि तालोकशब्दैरनुद्रुतो , द्रुतं विद्रावितविश्वलोकोपद्रवं भद्रपरिणामाञ्चितम व्यलोकसेव्यमव्याजरमणीयं सकलसाराथै तीर्थकरनामधेयमहाभागधेयफल विचित्रविविधगोपुरसालं शतमखशैलूषं सर्वसुलभपीयूषं रत्नरैरजतनिर्माण द्विषड्योजनप्रमाणं द्वादशगणवेष्टितं शुनासीरचोदितधनदप्रतिष्ठितं प्रेक्ष माणमानस्तम्भिमानस्तम्भमभ्यर्थितार्थदाननिपुणनिधिकुम्भं सर्वजनजङ्घाद नजलोपेतजलाशयं वनशोभाकृष्टदेवाशयं पापास्रवनिवारणं पुण्यैककार सर्वलोकशरणं समवसरणमासाद्य , मणिमयमिव महोमयमिवादित्यमयमि खेचरमयमिव भूचरमयमिव शर्ममयमिव धर्ममयमिव नृत्तमयमिव वाद मयमिव गेयमयमिव गण्यमानं स्थलसप्तकं यथोचितोपचारं कारंकारमुल्ले कतोषादालोकमालोकमतिक्रम्य , हृदयादपि प्रागेव कृतप्रयाणाभ्यां च णाभ्यामेव मन्देतरभक्तिर्गन्धकुटीबन्धुरं श्रीमन्दिरं मन्दरमिव सहस्ररोनि सहस्रशः परीयन् , वरिवस्यापर्यवसाने गणस्थानगतः स्थित्वा भगवतः श्री मुखपमाभिमुखं भक्तिमय इव जायमानः, परायत्तो भवन् , आत्तगन्धसौर न्धिकगन्धवहे गन्धकुटीमध्ये निर्गन्धताया उपदेष्टारमप्यष्टमहाप्रातिहारत कृतपरिसरमपाकृताखिलदोषतया व्यपेतविकृतवर्ष कृतकृयतया कुत्यन्तर .
एकादशो लम्बः । पक्षं प्रेक्षमाणदृशां प्रीतिकरमपि दिनकरव्यूहातिशायिदिव्यदेहकान्तिम- किनीप्रवाहं मन्दरस्योपरि मन्दरमिव मध्येसिंहासनं भासमानं भगवन्तं [सुरया गिरा गीर्वाणानामपि गीतिस्पृहां कुर्वन्मृष्टमसौ तुष्टाव- 'स्वहस्तरेखासदृशं जगन्ति विश्वानि विद्वानपि वीर्यपूर्तिः । अश्रान्तमूर्तिभंगवान्स वीरः पुष्णातु नः सर्वसमीहितानि ।। यदाननेन्दोर्विबुधैकसेव्या दिव्यागमव्याजसुधास्रवन्ती । भव्यप्रवेकान्सुखसात्करोति पायादसौ वीरजिनेश्वरो नः ॥ अभानुभेद्यं तिमिरं नराणां संसारसंज्ञं सहसा निगृह्णन् । अस्माकमाविष्कृतमुक्तिवा श्रीवर्धमानः शिवमातनोतु ॥' ति । व्यजिज्ञपञ्च विनयावनम्रमौलिः कुटमलितकरपुटः ‘कौरवः काश्य- गोत्रजो जीवको नाम जिननायक, प्रसीद प्रव्रजामि' इति । लेभे च हेतमेतत्', इति हितमितमधुरस्निग्धगम्भीरां दिव्यां गिरम् । एवं लब्धमहा- सादः प्रसभं प्रणम्य सविनयं तस्मान्निवृत्य निगलमोचनाय चलान्निग- लेतचरण इव हर्षलस्तपोधनपरिषदि तस्थिवान् । इह तत्त्वसर्वस्वं सर्वज्ञोप- मज्ञानां श्रोतृणां यथाश्रुतं विस्तरतो व्याकुर्वाणं साश्यसाम्राज्ययौवरा- पपदे तिष्ठन्तमिव गणनायकमुपतिष्ठमानः प्रकृष्टमनाः स्पष्टया वाचा यथेष्टं नुत्वा नत्वा श्रुत्ता च तत्त्वमनुजेन मनुजपतिभिश्च परैः सार्धे परा- र्यकेशाभरणवसनमाल्याङ्गरागादिकं रागद्वेषमोहादिकं च बाह्याभ्यन्तर- मपोह्य गन्धं निर्गन्धाणि महार्हफलमूल्यानि मूलोत्तरगुणरत्नानि बहुप्र- यनरक्षणीयान्यक्षूणमञ्चितमनोवाक्कायः पञ्चगुरुसाक्षिकं परिगृह्णानः परम- संयमं दधौ । संनिदधे च तदन्तरे सान्द्रचन्द्रिकासब्रह्मजारिचारुनिजश- रीरप्रभाविक्षेपेण वलक्षयन्नन्तरिक्षं तत्क्षणे यक्षेन्द्रः । विदधे च विविधां मनुतिम् । तिरोदधे च कृतज्ञप्राग्रहरः कृतज्ञचरः स सारमेयभवरचितम- पकारविवरणपरैः परःसहस्रगुणस्तवैः परावर्तमानोऽपि नावनावं नाम- गद्यचिन्तामणा . नामं च नूतनतपोधनम् । ततश्चायमाश्चर्यकरदुश्वरतपश्चरणचिताभिसहि जीवधरमहामुनिर्यमे नियमे स्वाध्याये ध्याने चावबद्धो यथाविधि यथाका यथादेशं यथायोग्यमप्रमत्तः प्रवर्तमानः, प्रमत्ततायां कदाचन मत्तेन्द्रियप रतन्त्र्येण परिशङ्कनीयायां परित्यजन्नाहारम् , अनशनेन शरीरावसादनान कूल्यमनुष्ठानस्याशने तु स्यादिन्द्रियदर्प इति यथा प्रसर्पति मतिस्तथाक शनं कल्पयन् , शयनासनस्थानेषु नियतस्थानेषु सत्सु तत्र सङ्गस्य प्रसं जन्तुसंदोहोपद्रवसंदेहे च भवन्ननियतदेशः, प्रायेण वृष्यमिति भाष्ट माणं भूयस्तथानुभूयमानमस्तोकरसं च वस्तु प्रस्तुतानुगुणं वर्जन् , निज. स्थाने कृते सत्यवस्थाने प्रकृतिस्थता स्यादिति विविच्य विविक्तशयनास विरचयन् , उदन्यादैन्यकृति नखंपचपांसुमति पथिकप्रयाणपरिपन्थिनि स्ि नखिन्नदेहिनि मृगतृष्णिकाकरणनिष्णाते निदाघे सत्यमोघमेघोपरोधशी शिलोच्चयमुच्चैर्मनाः समारोहन्ननातपत्रमातपयोगमातन्वानः , अपवरकर रणाश्रयिशरीरिणि दन्तवपुःकम्पकारिणि धारासंपातबधिरितश्रवसि प्रावृड रम्भे वीताम्बरोऽपि विगतहृदयश्रमस्तरुमूलमाश्रयन् , अकाण्डपलितशङ्काव हमूर्धजलीनहिमबिन्दुपिशुनितवार्धके वर्षायमाणहिमानीजनितशैत्योद्रेका वीभवदस्थिचर्मणि हेमन्तसमये निर्ममतामङ्गयष्टौ स्पष्टयन्निव केवलमाकार मेवावकाशीकर्वन् , एवं दुर्वहबाह्यतपोभिरपवाह्य स्वातन्त्र्यमिन्द्रियाणामात्र स्वातन्त्र्ये निष्पन्ने निष्प्रत्यूहमनन्तरमभ्यन्तरतपांसि तरसा कुर्वन् , चतुर्विध राधनपर्यायचतुरङ्गबलश्रेणीकः क्षपकश्रेणिमारुह्य प्रक्षेतुं कर्मरिपून्यथात्र प्रक्रममाणः, स्वयं पाणौ कृतेन यत्नकृतावधानत्सरुकेणैकापयातिशयध रेण वीर्यगुणप्रष्ठपृष्ठेन भावनापर्यायनिशानजनैशित्येन निर्मलज्ञाननिर्म णेन परमकारुण्यपयोगर्भेण बहलावरणनिचोलोत्खातेन मैत्रीस्नेहोपलि तेन रत्नत्रयातिशयरूपेण परमशुक्लध्यानकौक्षेयकेण क्रमेण धर्मवैरिणः र कर्मनिर्माणस्य दुर्मोचस्य मोहनीयकर्ममहाराजस्य मौलभूतत्वादजस्रर मं एकादशो लम्बः । - हायाः साहस्रीः सहसा नासीरतां प्राप्ताः सप्तप्रकृतीनिहत्य निरुपमनि- जात्मस्वभावविघातिनि घातिकर्मचतुष्टयेऽपि समूलघातं हते, निहतकर्म- वैरिणमेनं मुनिराजं पूजयितुं पुञ्जीभूतैरक्रमं शकचक्रधरधरणेन्द्रप्रमुख- सुरासुरनरखचरैः करपीडार्हमहार्हकल्याणविधौ विधीयमाने , ध्यानाग्नि- साक्षिकमात्मसामर्थ्यादात्मनैवात्मने वितीर्णा पूर्णनिखिलगुणां प्रगुणरमणी- यस्वभाववेषभूषां योषान्तरासंभवदनुभवपौनःपुन्येनाप्यखिन्नामन्योन्यमन्यू- नानतिरिक्तरतिशालीनतया समानभर्तृशीलामतीव केवलां कैवल्यवधू वि- धिवदुपयम्य सदाप्यनुपरतकाम्ययाप्यनघया तयैवाघातिचतुष्टयेऽपि घातिते प्रतिघरहितसुखहेतुसमृद्ध सिद्विगृहोदरमासाद्यानवद्यमात्मसंवेद्यमात्मसंभव- मात्मस्वभावमात्माह्लादनमनन्तमनन्तरायमनन्तकालस्थितिकमनन्तविज्ञान - वीर्यदृशात्मकमनन्तकर्मक्षयापेक्षमनन्तपूर्वजननानुपलब्धपूर्वं पुनरनुत्पाद्य- मनुपरममनुपममनुत्कर्षमनपकर्षमनुक्षणसुलभं सुखमनुबोभूयते । इति श्रीमद्वादीभसिंहसूरिविरचिते गद्यचिन्तामणौ मुक्तिश्रीलम्भो नामैकादशो लम्बः । श्रीमद्वादीभसिंहेन गद्यचिन्तामणिः कृतः । स्थेयादोडयदेवेन चिरादास्थानभूषणः ।। स्थेयादोडयदेवेन वादीभहरिणा कृतः । गद्यचिन्तामणिोंके चिन्तामणिरिवापरः ॥ समाप्तोऽयं प्रन्थः । 22
No text on this page.
शोधनपत्रम्। " ८ ष्ठम् । पङ्किः। शुद्धपाठः ३ रिञ्छोली १५ भरित ९ सुधाच्छुरण 19 १८ दानजलार्दीकृतकरता १८-१९ परमधार्मिकतां १५ ३ कण्डूलदोर्दण्डमण्डलो ४ वमितविष इव १० सरोजमात्मजवृद्धि ३ वासरालोक १३ क्षीवक्षोदीयोचित ७१ ३ कपोलकोपराग ९६ २४ समवर्तिवाहन ८ निभृतेन्द्रियवृत्ति पृष्ठम् । पतिः । शुद्धपाठः १२६ १४ समन्ताद्गुप्तं १२९ ५ कुसुमामोदामोदितदश- दिशि १६ मुपलब्धुमुपायोऽस्ति १३२ १८ स्नपयन्ती १४८ २ लोचनयोर्भ्रान्तामिव १५८ ४ बलवदधीनम् १६२ ४ मयःपिण्डममीषां १६४ २१ कोकनदबन्धोः १६५ १६ शालीनतया १६७ १६७ २१ सब्रह्मचारि १६८ १७ मेवावकाशीकुर्वन १७ श्रुत्वा
No text on this page.
No text on this page.
No text on this page.