Bharatiya Vidya Bhavan Library, Mumbai
Shrimadravishenacharya Padamacharitam Pratham-khand
Front matter
२ रविणाचार्यने अपनी गुरुपरम्परा इस प्रकार दी है- आसीदिन्दगुरोर्दिवाकरयतिः शिष्योऽस्यचाईन्मुनिः तस्माल्लक्ष्मणसेनसन्मुनिरदः शिष्यो रविस्तस्मृतं ॥ ६९ ॥ अर्यात् इन्द्रगुरु-दिवाकरयति--अहन्मुनि-लक्ष्मणसेन और रविषेण । इन्होंने अपने किसी संघ या गणका उल्लेख नहीं किया है जिससे मालूम होता है कि उस समय तक दिगम्बर सम्प्रदायमें देव, नन्दि, सेन, सिंह संघोंकी उत्पत्ति नहीं हुई थी; कमसे कम ये भेद बहुत स्पष्ट नहीं हुए थे। शक संवत् ११५५ के लिखे हुए मंगराज कवि शिलालेख में इस बातका उल्लेख किया गया है कि भटाकलंकदेवके स्वर्गवासके बाद यह संघभेद हुआ।- तस्मिन्गते स्वर्गभुवं महर्षी दिवापति नर्तुमिवप्रका। तदन्ययोद्भूतमुनीश्वराणां बभूवुरित्थं भुवि संघभेदाः ॥ १९ ॥ आचार्य रविषेगका यद्यपि इस समय केवल यही अन्य उपलब्ध है; परन्तु ऐसा जान पड़ता है कि इसके सिवाय उनके और भी कुछ अन्य होगे जिनमें से घरोगपरितका उल्लेख हरिवंशपुराणके प्रारंभमें इस प्रकार किया गया है:-- परांगनेच सागैर्वरांगचरितार्थवार । कस्यनोत्पादयेदादमनुरागं स्वगोचरम् ॥ ३५ ॥ श्वेताम्बर सम्प्रदायके आचार्य उद्योतनसूरिने अपने 'कुवलयमाला' नामक प्राकृत प्रन्यमें भी जो शकसंवत् .. (वि० सं० ८३५) की रचना है रविषेणके पमचरित और वरांगचरितका उल्लेख किया है:- * यह विस्तृत शिलालेख जनसिद्धान्तभास्करके भक २-३ में प्रकाशित हुआ है।
३ जेहिं कए रमणिजे वरंग-पउमाणचरितवित्थारे । कहव ण सलाहणिजे ते कइणो जइय रविसेणो॥ अर्थात् जिसने रमणीय वरांगचरित और पद्मचरितका विस्तार किया उस कवि रविषेणकी कौन सराहणा नहीं करेगा ? अभी तक इनके वरांगचरितका किसी भी पुस्तकभंडारमें पता नहीं लगा है। पद्मपुराणका हिन्दी अनुवाद (वचनिका) अब तक चार पाँच वार छप चुका है; परन्तु मूल ग्रन्थ एक बार भी नहीं छपा है जिससे विद्वानोंको प्रमाणादि संग्रह करनेमें बहुत कष्ट होता है । यह देखकर हमने इसे ग्रन्थमालामें प्रकाशित कर के सबके लिए सुलभ कर देना उचित समझा। लगभग ५०० पृष्ठोंका यह प्रथम खण्ड प्रकाशित हो रहा है। शेष ग्रन्थ लगभग इतने ही बड़े दो खण्डोंमें समाप्त होगा। सम्पूर्ण ग्रन्थका मूल्य लगभग पाँच रुपया होगा। हमें आशा है कि जैनसाहित्यप्रेमी सज्जन इसके प्रचारमें हमारा हाथ अवश्य बँटावेंगे जिससे इसमें लगा हुआ रुपया शीघ्र उठ आवे और वह दूसरे ग्रन्थोंके उद्धारमें लगने लगे। यह बतलाने- की आवश्यकता नहीं कि इस कार्यमें लगभग पाँच हजार रुपया लग जावेगा और ग्रन्थमाला के फण्डमें जो रुपया है वह प्रायः सभी निःशेष हो जावेगा। प्रत्येक मन्दिरके भंडार में इसकी एक एक प्रति मँगा रखनी चाहिए। ग्रन्थ समाप्त हो जाने पर हमारा विचार है कि किसी विद्वानसे इसकी एक विस्तृत ऐतिहासिक भूमिका लिखवाई जाय। इसके लिए प्रयत्न किया जा रहा है। एक वर्ष भरके भीतर ग्रन्थके शेष दोनों खण्ड निकल जायँगे, ऐसी आशा की जाती है । १३-५-२८ नाथूराम प्रेमी।
पर्व-सूची। पृष्ट १ ... १० " :: ... ३० ५६ :: :: ... " " ... ०:५५ प्रथमं पर्व-सूत्रविधान द्वितीयं पर्व-श्रेणिकर्चिताभिधानं तृतीयं पर्व-विद्याधरलोकाभिधानं चतुर्थ पर्व-ऋषभमाहात्म्याभिधानं 'पञ्चमं पर्व-राक्षसवंशाभिधानं षष्ठं पर्व-वानरवंशाभिधानं सप्तमं पर्व-दशग्रीवाभिधानं अष्टम पर्व-दशग्रीवाभिधानं -नवमं पर्व-वालिनिर्वाणाभिधानं दशमं पर्व-दशग्रीवप्रस्थाने सहस्ररश्म्यनरण्यश्रामण्याभिधानं एकादशं पर्व-मरुत्तयज्ञध्वंसनपदानुगाभिधानं द्वादशं पर्व-इन्द्रपराभिधानं त्रयोदशं पर्व-इन्द्रनिर्वाणाभिधानं चतुर्दशं पर्व-अनन्तबलधर्माभिधानं पञ्चदशं पर्व-अजनासुन्दरीविवाहाभिधानं ... " " ... ९८ १४३ १७४ २१५ २३३ २४७ २७७ ३०६ ३१६ ३४५ ... ... ...
...
पृष्ट ३६३
...
...
१
४१४
"
...
"
४२५
पोर पद-पवन जनासमोगाभिधान
सप्तरी पर्व-हनुमरसंभवाभियान
असार पर्व-पवन जनासमागमाभिधानं
एकोनविंशतितम एवं-रावणसामाज्याभिधान
...
विशतितम पर्व-तीर्थकरादिभवानुकीर्तने
एकविंशतितम पर्व-मुव्रतवनयाहुकीर्तिमाहात्म्यवर्णन
द्वारिंशतितम पर्व-मुकोशलमाहारम्ययुक्तदशरथोपरयभियान
प्रयोविंशतितम पर्व-विभीषणम्पसनवर्णन
चतुर्विशतितम पर्व केकयावरप्रदान
पविशतितम पर्व-चतुभ्रांसमवाभिधान...
...
४६.
४८५
...
"
...
शाश्वष्ट
-
ॐ
श्रीपरमात्मने नमः।
श्रीमद्रविपेणाचार्यकृतं
पद्मपुराणम् ।
मंगलाचरणम् ।
सिद्धं संपूर्णभच्यार्थं सिद्धेः कारणमुत्तमं । प्रशस्तदर्शनज्ञानचारित्रप्रतिपादनं ॥१॥
प्रथम चावसर्पिण्यामृपभं जिनपुंगवं । योगिनं सर्वविद्यानां विधातारं स्वयंभुवं ॥३॥
अजितं विजिताशेषवाह्यशारीरशात्रवं । शंभवं शं भवत्यमादित्यभिख्यामुपागतं ॥४॥
प्रथम पर्व। " पद्मपुराणम् । अभिनंदिवनिम्शेषभुवनं चाभिनंदनं । सुमतिं सुमति नाथं मतांतरनिराशिनं ।।.५॥ उद्यदर्ककरालीढपद्माकरसमप्रभ । पद्मप्रभ सुपार्श्व च सुपार्श्व सर्ववेदिनं ॥६॥ शरत्सकलचंद्राभं परं चंद्रप्रभ प्रभुं । पुष्पदंतं च संफुल्लकुंदपुप्पप्रभद्विज ॥ ७ ॥ शीतलं शीतलध्यानदायिनं परमेष्ठिनं । श्रेयांसं भव्यसत्त्वानां श्रेयांसं धर्मदेशिनं ॥८॥ वासुपूज्यं सवामीशं वसुपूज्यं जितद्विपं । विमलं जन्ममूलानां मलानामतिदूरगं ॥ ९॥ अनंत दधतं ज्ञानमनंत कांतदर्शनं । धर्म धर्मधुवाधारं शांत शांतिजिनाहितं ॥१०॥ कुंथुप्रभृतिसत्चानां कुंथु हितनिरूपितं । अशेपक्लेशनिर्माक्षपूर्वसौख्यारणादरं ॥ ११ ॥ संसारस्य निहतारं मलु मलुि मलोज्झितं । नर्मि च प्रणताशेष सुरासुरगुरुं विभुं ॥ १२ ॥ अरिष्टनेभिमन्यूनारिष्टनेमि महाद्युतिं । पार्थ नागेद्रसंसक्तपरिपार्श्वे विशां पति ॥ १३ ॥ मुव्रतं सुत्रवानां च देशकं दोपदारिणं | यस्य तीर्थे समुत्पन्नं पदस्य चरितं शुभं ॥ १४ ॥ अन्यानपि महाभागान मुनीन् गणधरादिकान् । प्रणम्य मनसा वाचा कायेन च पुनः पुनः १५ पनस्य चरितं वक्ष्ये पदालिंगितवक्षसः । प्रफुल्लपप्रवक्त्रस्य गुरुपुण्यस्य धीमतः ॥ १६ ॥ अनंतगुणगेहस्य तस्योदारविचेष्टिनः । गदितुं चरितं शक्तः केपलं श्रुतकेवली ॥ १७ ॥ L
पद्मपुराणम्
३
प्रथमं पर्व।
मादृशोपि वदत्येव चरितं यस्य यत्पुमान् । तच्चरितं क्रमायातं परमं देशदेशनात् ॥ १८ ॥
मत्तवारणसंक्षुण्णे व्रजंति हरिणाः पथि । प्रविशंति भटा युद्धं महाभटपुरस्सराः ॥ १९ ॥
भास्वता भासितानर्थान् सुखेनालोकते जनः । सूचीमुखविनिभिन्नं माणिं विशति सूत्रकं ॥२०॥
बुधपंक्तिकमायातं चरितं रामगोचरं । भक्त्या प्रणोदिता बुद्धिः प्रष्टुं मम समुद्यता ॥ २१ ॥
विशिष्टचिंतयायातं यच्च श्रेयः क्षणान्महत् । तेनैव रक्षितायाता चारुतां मम भारती ॥ २२ ॥
व्यक्ताकारादिवर्णा वाग लंभिता या न सत्कथां । सा तस्य निष्फला जंतोः पापादानायं
केवलं२३.
वृद्धिं ब्रजति विज्ञानं यशश्चरति निर्मलं । प्रयाति दुरितं दूरं महापुरुषकीर्तनात् ॥ २४ ॥
अल्पकालमिदं जंतोः शरीरं रोगनिर्भरं । यशस्तु सत्कथाजन्म यावच्चंद्रार्कतारकं ॥ २५ ॥
तस्मात्सर्वप्रयत्नेन पुरुषेणात्मवेदिना । शरीरं स्थास्नु कर्तव्यं महापुरुषकीतनं ॥ २६ ॥
लोकद्वयफलं तेन लब्धं भवति जंतुना । यो विधत्ते कथां रम्यां सज्जनानंददायिनी ॥ २७ ॥
सत्कथाश्रवणौ यौ च श्रवणौ तौ मतौ मम । अन्यौ विदूषकश्चैव श्रवणाकारधारिणौ ॥२८॥
सचेष्टावर्णनावर्णा घूर्णते यत्र मूर्द्धनि । अयं मूर्द्धान्यमूर्द्धा तु नालिकेरकरंकवत् ।। २९ ।।
सत्कीर्तनसुधास्वादसक्तं च रसनं स्मृतं । अन्यच्च दुर्वचोधारं कृपाणदुहितुः फलं ॥ ३० ॥
ት --- प्रथमं पर्व । पद्मपुराणम् । श्रेष्ठावोष्ठी च वायेव यौ सुकीर्तनवर्तिनी 1 न शम्यूकास्य संभुक्तजलौकापृष्ठसनिमी ॥ ३१ ॥ दंतास्तएव ये शांतकथासंगमरांजिताः । शेषाः सश्लेष्मनिर्याणद्वारवंधाय केवलं ॥३२॥ मुखं श्रेयःपरिप्राप्तेर्मुखं मुख्यकथारतं । अन्यनु मलसंपूर्ण दंतकीटाकुलं विलं ॥ ३३ ॥ वदिता योऽध्या श्रोता श्रेयसां वचसां नरः । पुमान् स एव शेषस्तु शिल्पिकल्पितकायवत् ३४ गुणदोपसमाहारे गुणान् गृहति साधवः । क्षीरवारिसमाहारे इंसः क्षीरमिवाखिलं ॥ ३५ ॥ गुणदोपसमाहारे दोपान् गृहत्यसाधयः । मुक्ताफलानि सत्यज्य काका मांसमिय द्विपात् ॥३६॥ अदोपामपि दोपोक्तां पश्यंति रचनां खलाः । रविमूर्तिमियोलकास्तमालदलकालिकां ॥३७॥ सरोजलागमद्वारजालकानीय दुर्जनाः । धारयति सदा दोपान् गुणवंधनवर्जिताः ॥ ३८ ॥ स्वभावमिति संचिंत्य सज्जनस्येतरस्य च । प्रवर्तते कथावंधे स्वार्थमुद्दिश्य साधवः ॥ ३९ ।।.. सत्कधाश्रयणायच्च सुखं संपद्यते नृणां । कृतिनां स्वार्थ एवासी पुण्योपार्जनकारणे ॥ १० ॥ बर्द्धमानजिनेंद्रोक्तः सोयमों गणेश्वरं । इंद्रभूतिं परिप्राप्तः सुधर्म धारिणीभवं ॥४१॥ प्रभवं क्रमतः कीर्ति नतोनुत्तरवाग्मिनं । लिखितं तस्य संप्राप्य वेर्यनीयमुद्गतः ॥ ४२ ॥ स्थितिबंशसमुत्पत्तिः प्रस्थानं संयुगं ततः । लवणांकुशसंभूतिर्भवोक्तिः परिनिर्वृतिः ॥ ४३ ।। ।
प्रथमं पर्व।
पद्मपुराणम्।
भवांतरभवै रिप्रकारैश्चारुपर्वभिः । युक्ताःसप्त पुराणेस्मिन्नधिकारा इमे स्मृताः ॥ ४४ ॥
पद्मचेष्टितसंबंधकारणं तावदन च । त्रैशलादिगतं वक्ष्ये सूत्रं संक्षेपि तद्यथा ॥ ४५ ॥
वीरस्य समवस्थानं कुशाग्रगिरिमूर्द्धनि । श्रेणिकस्य परिप्रश्नमिंद्रभूतेमहात्मनः ॥ ४६ ॥
तत्र प्रश्ने युगेयत्नामुत्पत्ति कुलकारिणीं । भीतीश्च जगतो दुःखकारणाकस्मिकेक्षणात् ॥ ४७ ॥
ऋषभस्य समुत्पत्तिमाभिषेकं नगाधिपे । उपदेशं च विविधं लोकस्यात्तिविनाशनं ॥४८॥
श्रामण्यं केवलोत्पत्तिमैश्वर्यं विष्टपातिगं । सर्वामराधिपायानं निर्वाणसुखसंगमं ॥ ४९ ॥
प्रधनं बाहुवलिनो भरतेन समं महत् । समुद्भवं द्विजातीनां कुतीर्थिकगणस्य च ॥५०॥
इक्ष्वाकुप्रभृतीनां च वंशानां गुणकीर्तनं । विद्याधरसमुद्भूतिं विद्युद्दष्टूसमुद्भवं ॥५१॥
उपसर्ग जयंतस्य केवलज्ञानसंपदं । नागराजस्य संक्षोभं विद्याहरणसर्जने ॥ ५२ ॥
अजितस्यावतरणं पूर्णावुदसुतासुखं । विद्याधरकुमारस्य शरणं प्रतिसंश्रयं ॥ ५३ ॥
रक्षोनाथपरिप्राप्तिं रक्षोद्वीपसमाश्रयं । सगरस्य समुद्भूति दुःखदीक्षणनिवृति ॥ ५४ ॥
अतिक्रांत महारक्षों जन्मनः परिकीर्तनं । शाखामृगध्वजानां च प्रज्ञप्तिमतिविस्तरां ॥ ५५ ॥
तडित्केशस्य चरितमुदधेरमरस्य च । किष्किंधांध्र खगोत्पादं श्रीमालाखेचरागमं ॥ ५६ ॥
. प्रथम पर्व पद्मपुराणम् । वधाद्विजयसिंहस्य कोपं चाशनिवेगजं । अंध्रकांतमरिप्राप्ति पुरसुंदरवेशनं ।। ५७ ॥ किष्किंथपुरविन्यासं मधुपर्वतमूर्द्धनि । सुकेशनंदनादीनां लंकाप्राप्तिनिरूपणं ॥ ५८॥ निर्घातवधहेतुंच मालिनः संपदं परी । दक्षिणे विजया ख मागे च रथनूपुरे ॥ ५९ ॥ पुरे जननमिंद्रस्य सर्वविद्याभृतां विभोः । मालिनः पंचतावाप्ति जन्म वैश्रवणस्य च ॥ ६ ॥ पुष्पांतकसमावेशं तनयस्य सुमालिनः । कैफस्या सह संयोगं चारुस्वमावलोकनं ॥१॥ दद्याननस्य प्रजनं विद्यानां समुपासनं । अनावृतस्य संक्षोभमागमं च सुमालिनः ॥ ६२॥ मंदोदर्याः परिमाप्ति कन्यकानां निरीक्षणं ! चेष्टितर्भानुकर्णस्य कोपं वैश्रवणोद्भवम् ॥ ६३ ॥ यक्षराक्षससंग्रामं धनदस्य तपस्यनं । लंकागमं दशास्यस्य प्रश्नचैत्यावलोकने ।। ६४ ॥ श्रीमतो हरिपेणस्य माहात्म्यं पापनाशनं । त्रिजगद्भुषणाभिख्यं द्विरदेंद्रविलोकनं ॥ ६५ ॥ यमस्थानच्युतिं चार्करजः किष्किंधसंगम । चारणं कैकसेयाश्च खरालंकारसंश्रयं ।। ६६ ।। अनुराधामहादुःख चंद्रोदयवियोगतः । विराधितपुरभ्रशं सुग्रीवश्रीसमागम ॥ ६७ ॥ वाले प्रव्रजनं क्षोभमष्टापदमहीभृतः । मुग्रीवस मुताराया लामं साहसगामिनः ।। ६८॥ संतापं विजयाद्रिगमनं रावणस्य च । अनरण्यसहस्रांशुवैराग्यं यक्षनाशनं ।। ६९ ॥
प्रथम पर्व । पद्मपुराणम् । ७ मधुपूर्वभवाख्यानमुपरंभाभिभाषणं । विद्यालाभं महेंद्रस्य राज्यलक्ष्मीपरिक्षयं ॥ ७० ॥ दशास्यमेरुगमनं पुनश्च विनिवर्तनं । अनंतवीर्यकैवल्यं दशास्यनियमग्रहं ॥ ७१ ॥ हनूमतः समुत्पत्तिं कपिकेतोर्महात्मनः । अष्टापदे महेंद्रेण प्रह्लादस्याभिभाषणं ॥ ७२ ॥ वायोः कोपं प्रसादं च तज्जायाप्रजनोज्झने । दिगंवरेण कथनं हनूमत्पूर्वजन्मनः ॥ ७३ ॥ सूतिस्तनूरुहप्राप्ति प्रतिसूर्येण कारितं । भूताटवीं प्रविष्टस्य वायोरिभविलोकने ॥ ७४ ॥ विद्याधरसमायोगमंजनादर्शनोत्सवं । वायुपुत्रसहायत्वं दारुणं परमं रणं ॥ ७५ ॥ रावणस्य महाराज्यं जैनमुत्सेधमतरं । रामकेशवतच्छत्रुपखंडपरिवेष्टितं ॥ ७६ ॥ दशस्यदनसंभूतिं कैकय्या वरसंपदं । पमलक्ष्मणशत्रुघ्नभरतानां समुद्भवं ॥ ७७ ॥ सीतोत्पत्ति प्रभाचक्रदूतं तन्मातृशोचनं । नारदालिखितां सीतां दृष्ट्वा भ्रातुर्विमूढतां ।। ७८ ॥ स्वयंवराय वृत्तांतं चापरत्नस्य चोद्भवं । सर्वभूतशरण्यस्य दशस्यदनदीक्षणं ॥ ७९ ॥ भाचक्रान्यभवज्ञानं विदेहायाश्च दर्शनं । कैकय्या वरतो राज्यप्रापणं भरतस्य च ॥ ८॥ वैदेही पद्मसौमित्रिगमनं दक्षिणाशया । चेष्टितं वनकरणस्य लाभं कल्याणयोषितः ॥ ८१॥ रुद्रभूतिवशीकारं वालिखिल्यविमोचनं । निकारमरुणग्रामे रामपुर्याभिवेशनं ॥ ८२ ॥ .....
.
-
प्रथम पर्व ।
पद्मपुराणम्
संगम बनमालाया अतिवीर्यसमुन्नति । प्राप्तिं च जितपायाः कौलदेशविभूपणं ॥८३ ॥
चरितं कारणं राम चत्यानां वंशपर्व । जटायुनियमप्राप्ति पात्रदानफलोदयं ॥ ८४ ॥
महानागरथारोह शंककविनिपातनं । कैकसेग्याश्च वृत्तांत खरदूषणविग्रहं ॥ ८५॥
सीताहरणशोकं च शोक रामस्य दुद्धरं । विराधितसागमनं खरदूषणपंचतां ॥८६॥
विद्यानां रत्नजटिनः छेदं सुग्रीवसंगम | निधनं साहसगतेः सीतोदेवं विहायसा ॥८७ ॥
पानं विमीपणायानं विद्याप्ति हरिपदयोः । इंद्रजित्कुंभकर्णाब्दस्वरसन्नगपंधनं ।। ८८ ॥
सौमित्रिशक्तिनिर्मेदविशल्याशल्यताकृति । रावणस्य प्रवेशं च जिनशांतिगृह शुभं ॥ ८९ ॥
लंकामिभवनं पातिहार्य देवैः प्रकल्पितं । चक्रोत्पत्तिं च सौमित्रः कैकसेयस्य हिंसनं ।। ९०॥
विलापं तस्य नारीणां केवल्यागमनं ततः । दीक्षामिद्राजिदादीनां सीतया सह संगम ॥ ९१ ।।
नारदस्य च संपाप्तिमयोध्याया निवेशनं । पूर्वजन्मानुचरितं गजस्य भरतस्य च ॥ ९२ ।।
तत्प्रवृघ्या महाराज्यं सीरचक्रप्रहारिणः । लाभ मनोरमायाश्च लक्ष्म्यालिगितवक्षसः ॥ ९३ ॥
संयुगे मरणप्राप्तिं सुमाघोर्लवणस्य च । मथुरायां सदेशायामुपसविनाशनं ॥ ९४ ॥
सप्तर्पिसंश्रयात्सीतानिर्वासपरिदेवने । वनजंघपरित्राणं लवणांकुशसंभवं ॥ ९५ ॥
पद्मपुराणम् प्रथमं पर्व। अन्यराज्यपराभूतिः पित्रा सह महाहवं । सर्वभूपणकैवल्यसंप्राप्तावमरागमं ॥ ९६ ॥ प्रातिहार्य च वैदेह्या विभीषणभवांतरं । तपः कृतांतवक्त्रस्य परिक्षोभं स्वयंवरे ॥ ९७ ॥ श्रमणत्वं कुमाराणां प्रभामंडलदुर्मतिं । दीक्षां पवनपुत्रस्य नारायणपरासुतां ॥ ९८ ॥ रामात्मजतपःप्राप्तिं पद्मशोकं च दारुणं । पूर्वाप्तदेवजनिताद्धोधान्निग्रंथताश्रयं ॥ ९९ ॥ केवलज्ञानसंप्राप्ति निर्वाणपदसंगति । एतत्सर्वं समाधाय मनः श्रृणुत सज्जनाः ॥ १०० ॥ सिद्धास्पदपरिप्राप्तेः सोपानमभिसौख्यदं । पद्मादीन्मुनिसत्तमान् स्मृतिपथे तावन्नृणां कुर्वतां । दूरंभावभरानतेन मनसा मोक्षं परं विभ्रतां ॥ पापं याति भिदां सहस्रगणनैः खंडैश्चिरं संचितं । निःशेपं चरितं तु चंद्रधवलं किं श्रृण्वतामुच्यते १०१ एतद्यैः कृतमुत्तमं परिहृतं तैश्चेदमेनस्करं । कर्मात्यंतविवेकचित्तचतुराः संतः प्रशस्ता जनाः ॥ सेवध्वं चरितं पुराणपुरुपैरासेवितं सर्वतः । सन्मार्गप्रकटीकृते हि रविणा कथारुदृष्टिः स्खलेत् १०२ इत्याचे रविषेणाचार्यप्रोक्ते पद्मचरिते सूत्रविधानं नाम प्रथमं पर्व ।
। . ग द्वितीय पर्व। पद्मपुराणम् अथ द्वितीयं पर्व। अथ जंवूमति द्वीपे क्षेत्रे भरतनामनि । मगधामिख्ययाख्यातो विपयोस्ति समुज्वलः॥१॥. निवासः पूर्णपुण्यानां वासवावाससनिमः । व्यवहाररसंकीर्णैः कृतलोकव्यवस्थितिः ॥ २॥ क्षेत्राणि दधते यन्मिन्नुत्खातान्लांगलाननैः । स्थलाब्जमूलसंघातान्महीसारगुणानिव ॥३॥ क्षीरसेकादियोद्भूतैमैदानिलचलद्दलैः । पुद्रेक्षुवाटसंतानव्याप्तानंतरभूतलः ॥ ४ ॥ अपूर्वपर्यताकारविभक्तः सलधामभिः । सस्यकूटैः सुविन्यस्तैः सीमांता यस्य संकटाः ॥५॥ उद्घाटकघटीसिक्तर्यत्र जीरकजूटकैः । नितांवहरितैरुवी जटालेव विराजते ॥६॥ उर्वरायां वरीयोमिः यः शालेयैरलंकृतः । मुद्रकोशीपुटैर्यस्मिन्नुद्देशान्कपिलत्विषा ॥ ७॥ तापस्फुटितकोशीकराजमार्निरंतराः । उद्देशा यत्र किर्मारानिक्षेत्रियतृणोद्गमाः (१)॥८॥ अधिष्ठितेस्थलीपृष्टे श्रेष्टगोधूमधामभिः । प्रशस्वैरन्यशस्यैश्च युक्तप्रत्यूइवर्जितः ॥ ९ ॥ महामूहिपपृष्टस्थगायद्गोपालेपालितैः । कीटातिलंपटोग्रीववलाकानुगतवनिः॥१०॥ विवर्णसूत्रसंबंधघंटारटितहारिभिः । क्षद्भिरजरत्रासत्पीतक्षीरोद्वत्पयः ॥ ११ ॥ सुस्वादरससंपन्नेवाप्पच्छेधैरनंतरैः । तृणैस्तृप्ति परिप्राप्तगर्योधनैः सितकक्षपूः ॥ १२॥ . . +
द्वितीयं पर्व।
पद्मपुराणम् ।
सारीकृतसमुद्देशः कृष्णसारैर्विसारिभिः । सहस्रसंख्यैीर्वाणस्वामिनो लोचनैरिव ॥ १३ ॥
केतकीधूलिधवलाः यस्य देशाः समुन्नताः । गंगापुलिनसकाशो विभांति जिनसेविताः ॥ १४ ॥
शाककंदलवाटेन श्यामलश्रीधरः कचित् । वनपाल कृतास्वादैर्नालिकेरैर्विराजितः ॥ १५ ॥
कोटिभिः शुकचंचूनां तथा शाखामृगाननैः । संदिग्धकुसुमैयुक्तः पृथुभिः दाडिमीवनैः ॥१६॥
वत्सपालीकराघृष्टमातुलिंगीफलांभसा । लिप्ताः कुंकुमपुष्पाणां प्रकरैरुपशोभिताः ॥१७॥
फलस्वादपयःपानसुखसंसुप्तमार्गगाः । वनदेवीप्रपाकाराः द्राक्षाणां यत्र मंडपाः ।। १८ ॥
विलुप्यमानैः पथिकैः पिंडखर्जूरपादपैः । कपिभिश्च कृताचोटैर्मोचानां निचितः फलैः ॥१९॥
तुंगार्जुनवनाकीर्णतटदेशैर्महोदरैः । गोकुलाकलितादारस्वरवत्कूलधारिभिः ॥ २० ॥
विस्फुरच्छफरीनालैर्विकसल्लोचनैरिव । हसद्भिरिव शुक्लानां पंकजानां कदंवकैः ॥ २१ ॥
तुंगैस्तरंगसंघातैर्नर्तनप्रसृतैरिव । गायद्भिरिव संसक्तः हंसानां मधुरस्वनैः ॥२२॥ (त्रिभिविशेषक)
सामोदजनसंघातसमासितसरित्तटैः । सरोमिसारसाकीणैवनरंधेषु भूपितः ॥ २३ ॥
संक्रीडनैपुष्मद्भिराविकोष्टकताणकैः । कृतसंबाधसर्वाशा हितपालकपालकैः ॥ २४ ॥
दिवाकररथाश्वानां लोभनाथेमिवोचितैः । पृष्टैः कुंकुमपंकेन चलमोथपुटैमुखैः ॥ २५ ॥
पद्मपुराणम्। द्वितीयं पर्य। ..१२ उदरस्थकिशोराणां जवार्यय प्रमंजनं । स्वच्छंदमापिवंतीनां वडवानां गणैचितः ॥२६।। (युग्मम्) चरदिहमसंघातेनर्जनगुणैरिव । येणाकृष्टचेतोमिरत्यंतधवलः कचित् ।। २७ ॥ संगीतसनसंयुक्तर्मयूरस मिश्रितः । यस्मिन्पुरजनि?पर्मुखरं गगनं सदा ॥ २८ ॥":.' घरभिशाकरस्वेतवृत्तमुक्ताफलोपमैः । आनंददानेचतुरंगुणवद्भिः प्रसाधितः ॥ २९ ॥ तर्पिताध्वगसंपातः फलपरतरूपमः । महाफुटविभिनित्यं प्राप्तोमिगमनीयतां ॥ ३०॥ सारंगमृगसद्धमृगरोमभिरावृतः । हिमवत्पाददेशीयैः कृतस्थैर्यो महत्तरः ।। ३१ ॥ हताः कुदृष्टयो यस्मिन् जिनप्रवचनांजनः । पापकक्षं च निर्दग्धं महामुनितपोनिभिः ।। ३२ ॥ तत्रास्ति सर्वतः कांत नाना राजगृहं पुरं । कुसुमामोदसुभगं भुवनस्यैव यौवनं ।। ३३ ॥ महिषीणां सहस्रर्यकुंकुमांचितविग्रहः । धर्मातापुरनिर्मासं धत्ते मानसकर्षणं ।। ३४ ।। मरुदुदूतमरैर्यालव्यजनशोभितः । प्रांतैरमरराजस्य छायां यदवलंबते ।। ३५ ॥ संतापमपरैः प्राप्तः कृतंमीश्वरमार्गणः । मनुजयेत्तरोतीच त्रिपुरस्य जिगीपुतां ॥३६॥ सुधारससमासंगपांदुरागारपंक्तिभिः । टंककल्पितशीतांशुशिलाभिरिवकल्पितं ॥ ३७ ।। मदिरामत्त्वनिताभूपणस्वनसंभृतं । कुबेरनगरस्येव द्वितीय सन्निवेशनं ।। ३८ ॥ J " - - -1..
पद्मपुराणम् ।
द्वितीयं पर्व।
१३
तपोवनं मुनिश्रेष्ठेवेश्याभिः काममदिरं । लासकैर्नृत्तभवनं शत्रुभिर्यमपत्तनं ॥ ३९ ॥
शस्त्रिभिवीरनिलयोऽभिलाषमणिरर्थभिः । विद्यार्थिभिगुरोः सम बंदिभिधूर्तपत्तनं ॥ ४०॥
गंधर्वनगरं गीतशास्त्रकौशलकोविदैः । विज्ञानग्रहणोद्युक्तैर्मदिरं विश्वकर्मणः ॥ ४१.॥
साधूनां संगमः सद्भिभूमिलाभस्य वाणिजैः । पंजरं शरणप्राप्ते वज्रदारुविनिर्मितं ॥ ४२ ॥
वातिकैरसुरच्छिद्रं विदग्धैविटमंडली । परिणामो मनोज्ञस्य कर्मणो मार्गवर्तिभिः ॥ ४३ ॥
चारणैरुत्सवावासः कामुकैरप्सरः पुरं । सर्वलोकश्च विदितं यत्सदा सुखिभिर्जनैः॥४४॥
यत्र मातंगगामिन्यः शीलवत्यश्च योषितः । श्यामाश्च पद्मरागिण्यो गौर्यश्च विभवाश्रयाः॥४५॥
चंद्रकांतशरीराश्च शिरीषसुकुमारिकाः । भुजंगानामगम्याच कंचुकावृतविग्रहाः ॥ ४६॥
महालावण्ययुक्ताश्च मधुरालापतत्पराः । प्रसन्नोज्ज्वलवक्त्राश्च प्रमादरहितेहिताः॥४७॥
कलत्रस्य पृथोर्लक्ष्मी दधतेथचतुर्विधाः । मनोज्ञा नितरां मध्ये सुवृत्ताश्चायतिं गताः ॥ ४८ ॥
लोकांतपर्वताकारं यत्र प्राकारमंडलं । समुद्रोदरनिर्भासपरिखाकृतवेष्टनं ॥४९॥ .
आसीत्तत्र पुरे राजा श्रेणिको नाम विश्रुतः । देवेंद्र इव विश्राणः सर्ववर्णधरं धनुः ॥ ५० ॥
कल्याणप्रकृतित्वेन यश्च पर्वतराजवत् । समुद्र इव मर्यादालंघनत्रस्तचेतसा ॥५१॥
द्वितीय पर्व। । म पद्मपुराणम् । कलानां ग्रहणे चंद्रो लोककृत्या धरामयः । दिवाकरः प्रतापेन कुवरो धनसंपदा ॥ ५२ ।। शौर्यरक्षितलोकोपि तयानुगतमानसः । लक्ष्म्यापि कृतसंबंधो न गर्वग्रहतितः ॥,५३ ।। ... जितजयोपि नो शवव्यायामेषु पराङ्मुखः । विधुरेवप्यसंभ्रांतः प्रणतेष्वपि पूजकः ॥५४॥ रत्नभूतिरभूयस्य मलमुक्तेषु साधुपु । पृथियीभेदविज्ञानं पापाणशकलेगु तु ।।.५५ ।। क्रियासु दानयुक्तासु महासाधनदर्शनं । वृहत्कीटपरिवानं मदोत्कटगजेषु तु ॥ ५६ ।। सर्वस्याग्रेसरे प्रीतिर्यशस्यत्यतयुनता । जरतॄणसमावृद्धिीचिने तु विनश्चरे ।।.५७ ॥ प्रसाधनमतिः प्राप्तकरावासामु संततं । आत्मीयासु तु भार्यासु विवोधाश्चान्यपुत्रिका ॥ ५८ ॥ गुणावनमिते चापे प्रतिपत्तिसहायजा । न पिंडमात्रसंतुष्टे भृत्यवर्गेपचारिणि ।। ५९ ॥ वातोपि नाहररिंकचिद्यत्र रक्षति मेदिनीं । प्रावत। न हिंसायां क्रूरो पशुगणा अपि ॥ ६॥ वृपयातीनि नो यस्य चरितानि हरेरिख । नश्चर्यचेष्टितं दक्षवगितापि पिनाकियत् ।। ६१ ॥ गोवनाशकरी चेष्टा नामराधिपतेरिव । नातिदंडग्रहप्रीतिर्दक्षिणाशाविभोरिव ॥ ६२ ॥ वरुणस्येव न द्रव्यं निविंशग्राहरक्षितं । निःफला सन्निधिप्राप्ति!त्तराशापतेरिव ॥ ६३ ॥ बुद्धस्यैव न निर्मुक्तमर्थवादेन दर्शनं । न श्री बहुलदोपोपधातिनी शीतगोरिव ।। ६४ [... म
द्वितीयं पर्व।
पद्मपुराणम् ।
त्यागस्य नार्थिनो यस्य पर्याप्ति समुपागताः । प्रज्ञायाञ्च न शास्त्राणि कवित्वस्य न भारती ६५
साहसानि महिम्नो न नोत्साहस्य च चेष्टितं । दिगाननानि नो कीतिर्न संख्यागुणसंपदः ॥६६॥
चित्तानि नानुरागस्य जनस्याखिलभूतले । कला न कुशलत्वस्य न प्रतापस्य शात्रवः ॥ ६७ ॥
कथमस्मद्विधेस्तस्य शक्यते गदितुं गुणाः । यस्येंद्रसदसि ज्ञातं सम्यग्दर्शनमुत्तमं ॥ ६८ ॥
उद्धतेषु सता तेन वज्रदंडेन शत्रुषु । तपोधनसमृद्धेषु न मता चेतसायति ॥ ६९ ॥
रक्षिता वाहुदंडेन सकला तस्य मेदिनी । पुरस्य स्थितिमानं तु प्राकारपरिखादिकं ॥ ७० ॥
तत्पत्नी चेलनानामा शीलांबरविभूषणा । सम्यग्दर्शनसंशुद्धा श्रावकाचारवेदिनी ॥ ७१ ॥
एकदा तु. पुरस्यास्य समीपं जिनसत्तमः । श्रीमान्प्राप्तो महावीरः सुरासुरनतक्रमः ॥ ७२ ॥
मातुरप्युदरे यस्य दिक्कुमारी विशोधिते । ज्ञानत्रयसमेतस्य सुखमासीत्सुरेंद्रजं ॥ ७३ ॥
जन्मनोर्वाक्पुरस्ताच्च यस्य शक्रनिदेशतः । अशयत्पितुःसम धनदो रत्नवृष्टिभिः ॥ ७४ ॥
जननाभिषवे यस्य नगराजस्य मूर्द्धनि । चक्रे महोत्सवो देवैराखंडलसमन्वितैः ॥ ७५ ॥
पादांगुष्टेन यो मेरुमनायासेन कंपयत । लेभे नाम महावीर इति नाकालयाधिपात् ॥ ७६ ॥
अमृतेन निषिक्तेन यस्यांगुष्टेऽमरेशिना । वृत्तिरासीच्छरीरस्य बालस्यावालकर्मणः ॥ ७७ ॥
१६ ट - द्वितीय पर्व एमपुराण सुत्रामाप्रहितर्यस्य कतिः मुरकुमारकैः । कुमारचेष्टितचारुविनीतैरिव सेवितं ।। ७८ ॥ आनंदः परमा वृद्धि येन सार्थमुपागतः । पित्रोधुसमूहस्य त्रयस्य भुवनस्य च ॥ ७९ ॥ यत्र जाते पितुः सर्वे नृपाश्विरविरोधिनः । महाप्रभावसंपन्नाः जाताः प्रणतमस्तकाः ॥८॥ रवर्मनगजेंद्रश्च वायुवेगव पाजिभिः । प्राभृतद्रव्यसंयुक्तः क्रमेलककुलस्तथा ।। ८१॥ उदृष्टचामरच्छत्रयाइनादिपरिच्छदैः । कांवद्भिः प्रतिसामंतराजेंद्रालोकनोत्सव ॥ ८२ ॥ नानादेशतमायातमहचरगणस्तया । पितुर्यस्यानुभावेन नुक्षोभ भवनाजिरं ॥ ८३.॥ , अल्पकर्मकलंकवाग्रस्य भोगेपु हारिए । चित्तं न संगमायातः पयःस्विव सरोरुहं ।। ८४ ॥ विशुद्विलसिताकारं वात्वा यः सर्वसंपदं । प्रवत्राज स्वयंवुद्धः कृतलोकांतिकागमः ।। ८५.॥ सम्यग्दर्शनसंबोधनारित्रत्रितयं प्रभुः । यः समाराध्य चिच्छेद घातिकर्मचतुष्टयं ॥८६॥ संप्राप्य केवलनानं लोकालोकायलोककं । धर्मतीर्थ कृतं येन लोकार्थ कृतिना मता ।। ८७ ॥ अवामप्रापणीयस्य कृतनिष्टात्मकर्मणः । भास्करस्येव यस्याभूत्परकत्लाय चेष्टितं ।। ८८ ।। मलस्वेदविनिर्मुक्तं धीरसप्रभक्षोणितं । स्वाकारसंघसंघातं शयत्या युक्तमनंतया ।। ८९ ।। चारुलक्षणसंपूर्ण हितसंमवभापणं । अपमेयगुणाधार यो वभार परं वपुः ।। ९० ॥ ।
९ ३ ॥ द्वितीयं पर्व। पद्मपुराणम् । यसिन् विहरणप्राप्ते योजनानां शतद्वये । दुर्भिक्षपरपीडानामीतीनां च न संभवः ॥ ९१ ॥ विद्यानां यः समस्तानां परमेश्वरतां गतः । विशुद्धस्फटिकच्छायं छायामपनयद्वपुः ॥.९२ ॥ मैत्री समस्तविपया विहारानुगवायुना । विभूतिश्च प्रभोर्यस्य भुवनानंदकारणं ॥ ९४ ॥ सर्वर्तुफलपुष्पाणि धारयति महीरुहाः । यस्मिन्नासन्नमायाते धरणी दर्पणायते ॥ ९५ ॥ सुगंधिमरुतो यत्र योजनांतरभूतलं । कुर्वते पांसुपापाणकंदकादिभिरुत्थितं ।। ९६ ॥ विद्युन्माला कृताभिख्यैस्तदेवस्तनितामरैः । सुगंधिसलिलैः सिक्तं सोत्साहैर्यस्य सादरैः ॥१७॥ अप्रमेयमृदुत्वानि यस्य पद्मानि गच्छतः । धरण्यामुपजायते यस्य व्योमविहारिणः ॥ ९८ ॥ अत्यंतफलसंपत्तिनम्रशाल्यादिभूषिता । धरिणी जायते तस्मिन्समेते सस्यकारणं ॥ ९९ ॥ शरत्सरःसमाकारं जायते विमलं नभः । धूमकादिविनिर्मुक्ता दिशस्तु सुखदर्शना ॥ १०० स्फुरितारसहस्रेण प्रभामंडलचारुणा । यत्पुरो धर्मचक्रेण स्थीयते जिनभानुना ॥ १०१ ॥ अवस्थानं चकारासौ विपुले विपुलाहये । नानानिझरनिस्पंदमधुरारावहारिणि ॥ १०२ ॥ पुष्पोपशोभितोद्देशे लतालिंगितपादपे । अधित्यका सुविसन्धनिर्वैरव्यालसेविते ॥ १०३ ॥ ॥
द्वितीर्य पर्व। १८ पद्मपुराणम् । नमतीव सदा यातपूर्णिवादरपादपैः । हसतीच समुत्सर्पनिर्भरामलसीकरः ।। १०४ ।। कृजितः पक्षिसंघानां जल्पतीव मनोहरं । अमराणां निनादेन गायतीव मदश्रितां ॥ १०५॥ आलिंगतीय सर्वाशा समीरणमुगंधिना । नानाधातुप्रभाजालमंडिनोतुंगधंगके ॥ १०६ ॥ गुहामुखसुखासीनं दृष्ट्वाननमृगाधिप । पनपादपखंडाधःस्थितयूथपतिद्विपे ॥ १०७ ।। महिना सर्वमाकारासंच्छायेव व्यवस्थिते । पर्वतेप्टापदे रम्ये भगवानिय नाभिजः ॥१८॥ तत्रास्य जगती जावा योजनं परिमाणतः। नाना समवपूर्वण सरणेन प्रकीर्तिता ॥ १०९ ॥ सामनाभिमुखे तब जिने जितमवद्विपि । चुक्षोभ त्रिदर्शद्रस्य मृगेंद्ररूढमासनं ॥ ११ ॥ प्रमावाकस्य मे कंपं सिंहासनमिदं गतं । इत्यालोक्य विवृधोसी ज्ञानेनायधिना तत्तः ॥१११।। आज्ञापयदनुज्ञात्तक्षणायातं कृतांजलि ! सेनापति यथा देयाः क्रियतामितिवेदिन: ११ ११२ ॥ जिनेंद्रो भगवान् वीरः स्थितो विपुलभूधरे । तद्वंदनाय गुप्माभिः समेतैर्गम्यतामिति ॥ ११३ ।। ततः शारदजीमूतमहानिचयसन्निभं । जंबूनदवटाघातपिंगकोटिमहारदं ।। ११४ ।। सुवर्णकच्छया युक्तं कलाशमिव जंगमं । सरितारसजाजानां पिंजरांतं ततो यया ॥ ११५ ॥ मदांधमधुपश्रेणीश्रितगंडविराजितं । धूलीकदंपसंवादिसौरभ्यव्याप्तविएपं ।। ११६ ॥
द्वितीय पर्व । पद्मपुराणम् । कर्णतालसमासक्तसमीपालक्ष्यशंखकं । वमंतभिव पद्मानां वनान्यरुणतालुना ॥ ११७ ॥ दलंतमिव दर्पण श्वसंतमिव शौर्यतः । मदान्मूर्छामिवायांतं मुद्यतमिव यौवनात् ॥ ११८ ॥ स्निग्धं नखप्रदेशेषु परुपं रामगोचरे । सच्छिष्यं विनयावाप्तौ परमं गुरुमानने ॥ ११९ ॥ मृदुमूर्धानमत्यंतदृढं परिचयग्रहे । दीर्घमायुषि ह्रस्वत्वं दधंतं स्कंधबंधने ॥ १२० ॥ दरिद्रमुदरे नित्यं प्रवृत्तं दानवमनि । नारदं कलहपीतौ गरुडं नागशासने ॥ १२१॥ प्रदोपमिव राजंतं चारुनक्षत्रमालया । महाघंटाकृतारावं रक्तचामरमंडितं ॥ १२२ ॥ सिंदूरारुणितोत्तुंगकुंभकूटमनोहरं । पारावतं समासाद्य प्रावर्तत सुराधिपः ॥ १२३ ॥ प्राप्तश्च सहितो देवैरारूढनिजवाहनैः । जिनेंद्रदर्शनोत्साहफुल्लाननसरोरुहैः ॥ १२४ ॥ कमलायुधमुख्याश्च नभश्चरजनाधिपाः । संप्राप्ताः सहपत्नीका: नानालंकारधारिणः ॥ १२५ ॥ ततस्तुष्टाव देवेंद्रो वचसाश्चयेमीयुपा । गुणैरवितथैर्दिव्यैरत्यंतविमलैरिति ।। १२६ ॥ त्वया नाथ जगत्सुप्ते महामोहनिशागतं । ज्ञानभास्करविंबेन वोधितं पुरुतेजसा ॥ १२७ ॥ नमस्ते वीतरागाय सर्वज्ञाय महात्मने । यतोद्य दुर्गमं कूलं संसारोदन्वतः परं ॥ १२८ ॥ भवता सार्थवाहेन भव्यचेतनवाणिजाः । यास्यति वितनुस्थानं दोषचौरैरलंटिताः ॥ १२९ ।।
wu-
'1: द्वितीयं पर्व।
.
.
.
.
।
पद्मपुराणम् ।
२०
प्रवर्तितस्त्वया पंथा विमल: सिद्धगामिनां । कर्मजालंच निर्दग्धं ज्वलितध्यानवन्दिना ॥१३०॥
निर्वधूनामनाथानां दुःखामिपरिवर्तिनां । बंधुर्नाथश्व जगतां जातोसि परमोदयः ॥, १३१ ॥
कथं कुर्यास्तव स्तोत्रं यस्यांवपरिवर्जिताः, । उपमानेन निर्मुक्ता.गुणाः केवलिगोचराः ॥१३२॥
इति स्तुति प्रयुज्यासौ विधाय च नमस्कृति । मूर्द्धजानुकरांभोजमुकुलप्राप्तभूतलः ॥,१३३ ॥
विसयं प्राप्तवान् दृष्ट्वा स्थानं तज्जैनपुंगवं । इति यस्य समासेन कथ्यते रूपवर्णनं ॥ १३४ ॥
इंद्रस्य पुरुपरस्य प्राकारत्रितयं कृतं । नानावर्णमहारत्नसुवर्णमयमुत्तमं ॥ १३५ ॥
प्रधानाशामुखैस्तुंगर्महावापीसमन्वितैः । चतुर्भिर्गोपुरैर्युक्तं रत्नछायापटैर्वृतैः ।.१३६ ॥
आवृतं तेन तत्स्थानमष्टमंगलकान्वितं । वचसां गोचरातीतामदधकामपि श्रियं ॥ १३७ ।।
तत्र स्फटिकभियंगा विभागा द्वादशाभवन् । प्रादक्षप्यपथत्यक्तप्रदेशसमवास्थिताः ॥ १३८ ।
तस्थुरेकन निग्रंथा गणनाथैरधिष्ठिताः । अन्यत्रसेंद्रपत्नीकाः कल्पवासिसुरांगनाः ॥ १३९ ॥
अपरत्राधिकासंघो. गणपालीसमन्वितः । ज्योतिषां योपितोन्यत्र, वयंवार्याः परत्र च.॥,१४०॥
एकत्र भावनस्त्रीणामन्यत्र ज्योतिपां गणः । व्यंतराणां गणोन्यत्र गणोन्यत्र च भावनः॥१४१।।
कल्पवासिन एकस्मिन्नपरत्र च मानुपाः । वैरानुभवनिर्मुक्तास्तियचोन्यत्र सुस्थिताः ॥ १४२॥
द्वितीयं पर्व । २१ : पद्मपुराणम्। ततो. मगधराजापि निश्चक्राम महाबलः । संपतत्सुरसंघातजातविस्मयमानसः ॥ १४३ ॥ दूरादेव हि संत्यज्य वाहनादिपरिच्छदं । स्तुतिपूर्व जिनं नत्वा स्वदेशे समुपाविशत् ॥ १४४ ॥ अक्रूरो वारिपेणोथ कुमारोऽभयपूर्वकः । विजयवाह नामाच तथान्यनृपसूनवः ॥ १४५ ॥ स्तुतिं कृत्वा प्रणामं च मस्तकन्यस्तपाणयः । उपविष्टा यथादेशं दधाना विनयं परं ॥ १४६ ॥ वैडूर्यविटपस्याधो मृदुपल्लवशोमिनः । पुष्पस्तवकभाजालव्याप्ताशस्य विलासिनः ॥ १४७ ॥ कल्पपादपरम्यस्य जनशोकापहारिणः । हरिद्धनपलाशस्य नानारत्नगिरेरिव ॥ १४८ ॥ अशोकपादपस्याधो निविष्टः सिंहविष्टरे । नानारत्नसमुद्योतजनितेंद्रायुधोद्गमे ॥ १४९ ॥ दिव्यांशुकपरिच्छन्ने मृदुस्पर्शमनोहरे । अमरेंद्रशिरोरत्नप्रभोत्सर्पिविघातिनि ॥ १५ ॥ त्रिलोकेश्वरताचिन्हछत्रत्रितयराजिते । सुरपुष्पसमाकीर्णे भूमिमंडलवार्तनि ॥ १५१ ॥ यक्षराजकरासक्तंचलच्चामरचालणि । दुंदुभिध्वनितोद्भूतप्रशांतप्रतिशब्दके ॥ १५२ ॥ गतित्रयगतप्राणिभापारूपविवृतया । घनाघनघनध्वानधीरनिर्घोषया गिरा ॥ १५३ ॥ परिभूतरविद्योतप्रभामंडलमध्यगः । लोका येत्य बदद्धर्म पृष्टो गणभृता जिनः ॥ १५४ ॥ सत्तैका प्रथमं तत्त्वं जीवाजीवौ ततः परं । सिद्धाः संसारवंतश्च जीवाश्च द्विविधाः स्मृताः १५५ 4 - 4 पद्मपुराणम् । २३ द्वितीय पर्व । पाण्यापाक्यतया मापसस्यवत्मविभागतः । भव्यामध्यद्वयेनात्र जीवार्थः परिकीर्तितः ॥१५६|| धर्माधर्मादिभिर्मेदैवितीयो भिद्यते पुनः । सेत्स्यतो गदिवा भव्या अभव्यास्तु ततोन्यथा १५७ जिनदेशिततत्वानां श्रद्धाश्रद्धानमैतयोः । लक्षणं तत्प्रभेदाश्च पुनरेकेद्रियादयः ॥ १५८ ॥ गत्या कायैस्तथा योगै वेदै लेश्याकपायतः । शानदर्शनचारित्रैर्गुणश्रेण्यधिरोहणैः ॥ १५९ ॥ निसर्गशास्त्रसम्यक्त्वैर्नामादिन्यासभेदतः । सदाद्यष्टानुयोगैश्च भिद्यते चेतनः पुनः ॥१६०॥ तत्र संसारिजीवानां केवलं दुःखवेदिनां । सुखसंज्ञावमूढानां तत्रैव विषयोद्भवे ।। १६१ ॥ चक्षुपः पुटसंकोचो यावन्मात्रेण जन्यते । तावंतमपि नोकालं नारकाणां सुम्वासनं ॥ १६२ ॥ दमनस्ताडनैर्दोवाहादिमिरुपद्वैः । तिरश्वा सततं दुःखं तथा शीतातपादिभिः ॥ १६३ ॥ प्रियाणां विप्रयोगेन तथानिष्टसमागमात् । ईप्सितानामलाभाच दुःखं मानुपगोचरं ।। १६४ ॥ यथोत्कृष्टसुराणां च दृष्टा भोग महागुणं । च्यवनाच परं दुःखं देवानामुपजायते ।। १६५ ।। तत्र दुःखावनद्धेषु चतुर्गतिगतेविति । कर्मभूमि समासाद्य धर्मोपार्जनमुत्तमं ।। १६६ ॥ मनुष्यभावमासाद्य सुकृतं ये न कुर्वते । तेषां करतलमाप्तममृतं नाशमागतं ॥ १६७ ।। संसारंपर्यटन जंतुर्चहुयोनिसमाकुलं । मनुष्यभावमायाति चिरेणात्यंतदुःखतः ॥ १६८ ।।
द्वितीयं पर्व।
पद्मपुराणम्।
तत्र लब्धेषु पापेषु शवरादिषु जायते । आर्यदेशेपि संप्राप्ते दुःकुलेषूपजायते ॥ १६९ ॥
लब्धेपि सुकुले काणकुंठादितनुसंभवः । संपूर्णकायबंधेपि दुर्लभा हि निरोगता ॥ १७० ॥
एवं सर्वमपि प्राप्य प्रशस्तानां समागमं । दुर्लभो धर्मसंवेगो विषयास्वादलोभतः ॥ १७१ ॥
ततः केचिद्धृतिं कृत्वा जठरस्यापि पूरणं । कुर्वतेत्यंतदुःखेन दूरतो विभवोद्भवः ॥ १७२ ॥
रक्तकर्दमवीभत्सं शस्त्रसंपात भीषणं । केचिद्विशंति संग्रामं जिह्वाकामवशीकृताः ॥ १७३ ॥
अनंतजंतुसंबंधं कृत्वान्ये भूमिकपणं । कुटुंबभरणं क्लेशात्कुर्वति. नृपपीडिताः ॥ १७४ ॥
एवं यद्यत्प्रकुर्वति कर्मसौख्याभिलाषिणः । तत्र तत्र प्रपद्यते जंतवो दुःखमुन्नतं ॥ १७५ ॥
अवाप्यापि धनं क्लेशाचौराग्निजलराजतः । पालयन् परमं दुःखमवामोत्याकुलः सदा ॥१७६॥
संप्राप्तं रक्षितं द्रव्यं भुंजानस्यापि नो शमः । प्रतिवासरसं वृद्धगर्भाग्निपरिवर्तनात् ॥ १७७ ॥
प्रामोति धर्मसंवेगं कथंचित्पूर्वकर्मतः । संसारपदवीमेव नीयतेन्यैर्दुरात्मभिः ॥ १७८ ॥
अन्यैस्ते नाशिताः संतो नाशयंत्यपरान् जनान् । धर्मसामान्यशब्देन सेवमानाः परस्परं॥१७९॥
कथं चेतोविशुद्धिः स्यात्परिग्रहवतां सतां । चेतो विशुद्धिमूलाच तेषां धर्मे स्थितिः कुतः॥१८०॥
यावत्परिग्रहासक्तिस्तावत्प्राणिनिपीडनं । हिंसा च संसृतेर्मूलं दुःखं संसारसंज्ञकं ॥ १८१ ॥
'द्वितीय पर्व । २४ पद्मपुराणम्॥ परिग्रहपरिष्वंगाद्वेपो रागच जायते । रागद्वेषौ च संसारदुःखस्योत्पत्तिकारणं ॥ १८२ ॥ लब्ध्वापि दर्शनं सम्यक प्रशमाद्दर्शनाटतेः । चारितं न प्रपद्यते चारिनापरणाटताः ॥ १८३ ॥ चारिनमपि संप्राप्ताः कुतः परमं तपः । परीपहः पुनर्भंग नीयते दुरतिक्रमैः ॥ १८४ ।। अणुनतानि सर्वते केचिद्गमुपागताः । केचिद्दर्शनमात्रेण भवति परितोषिणः ॥ १८५॥ कीचड़भीरसंसारकूपहस्तापलंपनं । सम्यग्दर्शनमुत्सृज्य मिथ्यादृष्टिमुपासते ।। १८६ ।। मिथ्यादर्शनसंयुक्तास्ते पुनर्भपसंकटे । भ्राम्यंति सततं जीना दुःसाग्निपरिवर्तिनः ।। १८७ ।। फेचित्तु पुण्यकर्माणशारिनमविलंनितं । निर्वहंति महाशूरा यावत्प्राणविसर्जनं ॥ १८८ ॥ ते समाधि समासाद्य कृत्वा देहविसर्जनं । वासुदेवादितां यांति निदानकतदोपतः ॥ १८९ ।। पुनः परपीडायां रता निर्दयचेतसः । नरकेषु महादूरसं प्राप्नुवंति सुदुस्तरं ।। १९० ॥ केचित्तु मुवपः कृत्वा यांति गीर्वाणनाथा । अपरे बलदेवत्वमन्ये तूत्तरवासितां ॥ १९१ ॥ केचित्प्राप्य महामचा जिनकर्माणि पोडा । तीर्थक प्रपद्यते त्रैलोस्पक्षोभकारणं ।। १९२ ।। केचिनिरंतरायेण तियाराधने रताः । द्विवर्विमुच्यते कर्माप्टककलंकतः ।। १९३ ॥ संप्राप्ता परमं स्थानं मुक्तानामुपमोज्झितं । अनंत नि:प्रतिद्वंद्वं लभते मुसमुत्तमं ।। १९४ ॥ ते
द्वितीयं पर्व।
पद्मपुराणम्।
२५
ततस्ते निर्गत धर्म जिनवकारविंदतः। श्रुत्वा हर्षं परं जग्मुस्तिर्यक् त्रिदशमानवाः ॥ १९५ ॥
अणुव्रतानि संप्राप्ताः केचित्केचिनिरंबरं । तपश्चरितुमारब्धाः संसारोद्विनमानसाः ।। १९६ ॥
सम्यग्दर्शनमायाताः केचित्केचित्स्वशक्तितः । विरतिं जगृहुः पापसमुपार्जनकर्मतः ॥ १९७ ।।
श्रुत्वा धर्म जिनं स्तुत्वा प्रणम्य च यथाविधि । धर्मसुस्थितचित्तास्ते याताःस्थानं यथायथं १९८
श्रेणिकोपि महाराजो राजमानो नृपश्रिया । धर्मश्रवणहृष्टात्मा प्रविवेश निजं पुरं ॥ १९९ ॥
अथ तीर्थकरोदारतेजोमंडलदर्शनात् । विलक्ष इव तिग्मांशुरस्तमैच्छनिषेवितुं ॥ २०० ॥
अस्ताचलसमीपस्थसरोसहरुचामिव । मणीनां किरणैश्छन्नो जगामात्यंतशोणतां ॥ २०१॥
अमंदायंत किरणा नित्यमस्यानुयायिनः । कस्य वा तेजसो वृद्धिः स्वामिन्यापदमांगते ॥२०२॥
ततो विलोचनैः सात्रैरीक्षिताः कोकयोषितां । अदर्शनं ययौ मंदं कृपयेव विरोचनः ॥२०३।।
धर्मश्रवणतो मुक्तो यो रागः प्राणिनां गणैः । संध्याछलेन तेनैव ककुभां चक्रमाश्रितं ॥२०४॥
उपकारे प्रत्तोयमस्मान्स्वप्रार्थितः परं । इतीव चक्षुर्लोकस्य मित्रेणेव समं गतं ॥ २०५॥
बजतो दिननाथस्य रागं प्रलयगामिनं । संकुचंत्यरविंदानि कवलैरिवगृह्णते ॥ २०६ ॥
समीकृतततोत्तुंगं निरूपणविवर्जितं । ततः प्रकटतामारदुर्जनस्येव चेष्टितं ॥ २०७ ॥
द्वितीयं पर्व । २६ पद्मपुराणम् । विदघे सांध्यमुद्योतं सकलं वहलं तमः । पटलं धूमसंबंधि प्रशाम्यंतमिवानलं ।। २०८ ॥ चंपकः कारिकाकारप्रदीपप्रकरोगमत् । कंपितो मंदवातेन यामिनी कर्णपूरतां ॥ २०९ ॥ तृप्ता रसेनपमानां धूतपक्षा मृणानलकैः । कृत्वा कंड्यनं निद्रां राजहंसाः सिपेविरे ॥ २१॥ धम्मिल्लमल्लिकाबंधग्राही सायंतनो मरुत् । वातुं प्रववृते मंद निशा निवाससन्निभः ॥ २११ ॥ उचकेसरकोटीनां संकटेपु कदंरकैः । कुशेशयकुटीरेषु शिश्ये पट्पदसंहतिः ॥ २१२ ॥ नितांतविमलचके रम्यं तारागणैर्नमः । त्रैलोक्यं जिननाथस्य सुभाषितचयैरिव ॥ २१३ ॥ तमोथ विमलमिन्नं शशांककिरणांकुरैः । एकांतवादिनां वाक्यं नमैरिव जिनोदितैः ।। २१४ ।। उजगाम च शीतांशुलॊकनेत्राभिनंदितः । वपुर्विभ्रत्कृताकंपञ्चांतकोपादिवारुणं ।।.२१५ ॥ चंद्रालोके ततो लोककरग्राह्यत्वमागते । आरेमे तमसा खिन्नः क्षीरोदांक इवासितुं ॥ २१६ ॥ आमृष्टानि करैरिंदोर्वहंत्या मोदमुत्तमं । सहसातीय यातानि कुमुदानि विकासतां ।। २१७ ॥ इति स्पष्टे समुद्भूते प्रदोपे जनसौख्यदे । प्रवृत्चदंपतिप्रीतिमवृद्धमदनोत्सवे ।। २१८ ॥ तरंगभंगुराकारगंगापुलिनसनिभे । रत्नच्छायापरिष्वक्तनिःशेषभूवनोदरे ॥ २१९ ॥ गवाक्षमुखनिर्यातकुसुमोत्तमसौरमे । पार्थस्थवारवनिताकलगीतमनोरमे ।। २२० ।
२७
पद्मपुराणम् ।
द्वितीयं पर्व ।
ज्वलन्नातिसमीपस्थस्फटिकच्छन्नदीपके । अप्रमत्तशिरोरक्षिगणकाल्पतरक्षणे ॥ २२१ ॥
प्रसूनप्रकरावाप्तमंडनक्ष्मातलस्थिते । उपयातसुविन्यस्ततनुविस्तीर्णपट्टके ॥ २२२ ॥
विधाय भूभुजः कृत्यं कृतजैनेंद्रसंकथः । शयनीये सुखं शिश्ये कुशाग्रनगराधिपः॥ २२३ ।।
जिनेंद्रमेव चापश्यत्स्वप्नेपि च पुनः पुनः । पर्यपृच्छच्च संदेहं पपाठ च जिनोदितं ॥ २२४ ॥
ततो मदकले द्रनिद्रां विद्रावकारिणा । गेहकक्षातिगंभीरगुहागोचरगामिना ॥ २२५ ॥
महाजलदसंघातधीरघोपानुहारिणा | प्रभाततूर्यनादेन विवुद्धो मगधाधिपः ।। २२६ ॥
अचिंतयच्च वीरेण भाषितं धर्महेतुकं । चक्रवर्त्यादिवीराणां संभवं प्रणिधानतः ॥ २२७ ॥
अथास्य चरिते पद्मसंबधिनि गतं मनः । संबंध इव चेत्यासीद्रक्षस्सु प्लवगेषु च ॥ २२८ ॥
कथं जिनेंद्रधर्मेण जाता संतो नरोत्तमाः । महाकुलीना विद्वांसो विद्योद्योतितमानसाः ॥२२९॥
श्रूयते लौकिके ग्रंथे राक्षसा रावणादयः । वसाशोणितमांसादिपानभक्षणकारिणः ॥ २३० ॥
रावणस्य किल भ्राता कुंभकर्णो महाबलः । घोरनिद्रापरीतः षण्मासान् शेते निरंतरं ॥ २३१ ॥
मत्तैरपि गजैस्तस्य क्रियते मर्दनं यदि । तप्ततैलकटाहैश्च पूर्येते श्रवणौ यदि ॥ २३२ ॥
भेरीशंखनिनादेपि सुमहानपि जन्यते । तथापि किल नायाति कालेऽपूर्ण विबुद्धतां ॥ २३३ ॥
द्वितीय पर्व।
+-
.
--
पद्मपुराणम् !
::....:".'२. . . "....
क्षुतप्णाव्याकुलथासौ वियुद्धःसन्महोदरः । भक्षयत्यग्रतो दृष्ट्वा हस्त्यादीनपि दुर्द्धरः ॥ २३४ ॥
तियरिंभानुपर्देवं कृत्वा तृप्ति ततः पुनः । स्वपित्येव विमुक्तान्यनिःशेषपुरुपस्थितिः ॥२३५।।
अहो कुकपिभिमुखंपिंद्याधरकुमारकः । अभ्याख्यानमिदं नीतो दुःकृतग्रंथकच्छकैः ॥ २३६ ॥
एवंविधं किल ग्रंथ रामायणमुदाहृतं । शृण्वतां सकलं पापं क्षयमायाति तत्क्षणात् ।। २३७ ।।
तापच जनचिचस्य सोयमग्निसमागमः । सीतापनोदकामस्य तुपारानिलसंगमः ॥ २३८ ॥
हेपंगवीनकामस्य तदिदं जलमंथनं । सिकतापीडनं तैलमवाप्नुमभिवांछतः ।। २३९ ॥
महापुरुपचारित्रकूटदोपविभाविषु । पारधर्मशास्त्रेषु धर्मशाखमतिः कवा ॥ २४० ॥
अमराणां किलाधीशो रावणेन पराजितः । आकर्णाकृष्टनिमुक्तोमर्मविदारिभिः ॥ २४१ ॥
देवानामधिपः कामी पराकः कैप मानुषः । तस्य चिंतितमात्रेण यायायो भस्मराशितो ॥२४२॥
ऐरावतो गजो. यस्य यस्य वन, महायुधे ) समेरुवारिधि क्षोणी, योऽनायासात्समुंद्धरेत् ॥ २४३॥
सौर्य मानुपमात्रेण विद्याभाजाल्पशक्तिना । आनीयते कथं भंग प्रभुः स्वर्गनिवासिनां ॥२४॥
चंदीग्रहगृहीतोसौं प्रभुणा रक्षसां किल । लंकायां निवसन्काराग्रहे निगडसंयतः ।। २४५॥
मृगैः सिंहबधः सोऽयं शिलानां पेपणं तिलैः । वधो गंडूपदेनाहेगजेंद्रशासन शुना ॥ २४६ ॥
२५ पद्मपुराणम्। द्वितीयं पर्व। - व्रतप्राप्तने रामेण सौवर्णो रुरुराहतः । सुग्रीवस्याग्रजः स्वयर्थ जनकेन समस्तथा ॥ २४७ ॥ अश्रद्धेयमिदं सर्व वियुक्तमुपपत्तिभिः । भगवंतं गणाधीशं सोहं प्रष्टास्मि गौतमं ॥ २४८ ॥ एवं चिंतयतस्तस्य महाराजस्य धीमतः । वंदिभिस्तूर्यनादांते जयशब्दो महान् कृतः ॥२४९॥ कुलपुत्रेण चासन्नस्वामिना बोधमीयुपा । निसर्गणैव पठितः श्लोकोयं जठरायुषा ।। २५० ॥ पृष्टव्या गुरवो नित्यमर्थं ज्ञातमपि स्वयं । स तैनिश्चयमानीतो ददाति परमं सुखं. ॥ २५१ ॥ एतदानंदयंश्चारु निमित्तं मगधाधिपः । शयनीयात्समुत्तस्थौ स्वस्तीभिः कृतमंगलः ।। २५२ ।। अथकुसुमपटांतः सुप्तनिःक्रांतभंग । प्रहितमधुरनादाभ्यंतरस्यैकदेशात् ।। जडपवनविधूताकंपिता पांडुदीपात् । निरगमदवनीशः श्रीमतो वासगेहात् ॥ २५३ ॥ रदनशिखरदष्टस्पष्टविवोष्टपुष्ट । प्रतिहतजयनाद् श्रीसमानातीनां ।। करमुकलनिवद्धव्यक्तपद्माकराणां । श्रवणपथमनैपीचैप वारागनानां ।। २५४ ।। अतिशयशुभचिंतासंगनिष्कंपचेता । नरपतिरुपनीताशेषतत्कालभावः ।। धवलकमलभासो वासगेहादपेतो । रविरिवशरदभ्रो दारवृंदादभासीत् ॥ २५५ ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मचरिते श्रेणिकचिंताभिधानं नाम द्वितीयं पर्व ।
तृतीयं पर्व
पद्मपुराणम्।
३०
अथ तृतीयं पर्व।
आस्थानमंडपेऽथासौ कृताशेपतनुस्थितिः। सौलंकारसम्पन्नो निविष्टो भद्रविष्टरे ॥१॥
सामंतश्च प्रतीहारदत्तद्वाररुपागतः । केयूरकोटिमंघट्टपाटितप्रवरांशुकः ॥२॥
पतझमरमंगीतमौलिमालावतंसकैः । कटकांशुचयैश्छन्नकराग्रस्पष्टभूतलैः ॥३॥
ललनालंवतरलप्रभापटलसारितः । प्रणतः सद्गुणग्रामसमावर्जिनमानसः ॥ ४ ॥
ततस्तैरनुयातीसावारूदवरवाहनः । प्रष्ठाहितकुथाशोमां भद्रामारुह्य वासितां ॥५॥
गृहीतमंडलाग्रेण पद्धसायकवनुना । प्रकोप्टे दधता वामे कटकं हेमनिर्मिते ॥ ६॥
दूरमुडीयमानेन वायुमार्ग मुहुर्मुहुः । मृगाणामिय यूधेन नभस्वदनुगामिना ॥ ७ ॥
याहि याहि पुरोमार्गादर्पसर्प प्रज ब्रज | चल किं स्तंमितोसीति पादातेन कृतध्वनिः ॥ ८॥
निश्चक्राम पुरो राजा बंदिनः पठतोग्रतः । आकर्णयन्समाधानन्यस्तचित्तः सुभापितं ॥ ९॥
प्राप्तश्च नमी देशं यस्मिन्मुनिरावृतः । सर्वश्रुतजलस्नाननिर्मलीकृत चेतनः ॥१०॥
शुद्धध्यानशमाविष्टस्तत्वारुपानपरायणः । उपविष्टःगुणस्पर्शे लब्ध्युत्पत्र मसरके ॥११॥
पद्मपुराणम् ।
३१
तृतीयं पर्व।
कांत्या तारापतेस्तुल्यो दीप्त्या भास्करसन्निभः । अशोकपल्लवच्छायपाणिपादोंबुजेक्षणः ॥१२॥
प्रशांतेन शरीरेण भुवनं शमयन्निव । पतिर्गणस्य साधूनां गौतमाख्योवतिष्ठते ॥ १३ ॥
दूरादेवावतीर्णश्च करेणोश्चरणायनः । प्रमोदोत्फुल्लनयनो डुढौके विनयानतः॥ १४ ॥
ततस्तं त्रिपरीत्यासौ प्रणम्य च कृतांजलिः । दत्ताशीर्गणनाथेन धरायां समुपाविशत् ॥ १५ ॥
अथ दंतप्रभाजालधवलीकृतभूतलः । पर्यपृच्छदिदं राजा कुशलप्रश्नपूर्वकं ॥ १६ ॥
भगवन्पद्मचरितं श्रोतुमिच्छामि तत्त्वतः । उत्पादितान्यथैवास्मिन् प्रसिद्धिः कुमतानुगैः ॥१५॥
राक्षसोपि हि लंकेशो विद्यावान् मानवोपि वा । तिर्यग्भिः परिभूतोसौ कथं क्षुद्रकवानरैः।।१८॥
अतिचात्यंतदुर्गधं कथं मानुपविग्रहं । कथं वा रामदेवेन वालिश्छिद्रेण नाशितः ॥ १९ ॥
गत्वा वा देवनिलयं भक्त्वापवनमुत्तमं । चंदीग्रहं कथं नीतो रावणेनामराधिपः ॥ २० ॥
सर्वशास्त्रार्थकुशलो रोगवर्जितविग्रहः । शेते च स कथं मासान् पडेतस्य वरोनुजः ॥ २१ ॥
कथं चात्यंतगुरुभिः पर्वतैरलमुन्नतैः । सेतुः शाखामृगैर्वद्धो य सुरैरपि दुर्घटः ॥ २२ ॥
प्रसीद भगवन्नेतत्सर्वं कथयितुं मम । उत्तरय बहून् भव्यान् संशयोदारकर्दमात् ।। २३ ।।
एवमुक्तो गणेशस्य निर्गतैर्दशनांशुभिः । क्षालयन्निव निःशेपं कुसुमैर्मलिनं जगत् ॥ २४ ॥
वतीयं पर्व। ३२ पद्मपुराणम् । लताभानम यस्थानर्तयन्नुरगद्विपः । गंभीरांभोदनिर्घोष धीरयोदाहरगिरा ।। २५ ।। श्रृण्वायुप्मन्महीपाल ! देवानां प्रिययलतः । मम वाक्यं जिनेंद्रोक्तं तत्त्वशंशनतत्परं ॥ २६ ॥ रावणो राक्षसो नै नचापि मनुजाशनः । अलीकमेव तत्सर्व यद्वदति कुवादिनः ॥ २७ ॥ न विना पीठबंधन विधातुं सम शक्यते । कथा प्रस्तावहीनं च वचनं छिन्नमूलकं ॥ २८ ॥ यतः श्रृणु ततस्तानक्षेत्रकालोपवर्णनं । महतां पुरुषाणां च चरितं पापनाशनं ॥ २९ ॥ अनंतालोकन मसो मध्ये लोकस्त्रिधा स्थितः । तालोलूसलसंकाशो पलिभित्रिभिरावृतः ॥३०॥ तिर्यग्लोकस्य मध्येस्मिन्संख्यातिक्रममागः । वेष्टितो वलयाकार द्वीपैरभोधिभिस्तथा ॥३१॥ फुलालचक्रसंस्थानो जंबूद्वीपोयमुत्तमः । लवणांभोधिमध्यस्थः सर्वतो लक्षयोजनः ॥ ३२॥ तस्य मध्ये महामेरुर्मूले रजमयोऽक्षयः । ततो जावूनदमयो मणिरत्नमयस्ततः ।। ३३ ।। संध्यानुरक्तमेधौघसदृशोतुंगशृंगकः । वालाग्रमानपिवरास्पृष्टसौधर्मभूमिकः ॥३४॥। योजनानां सहस्राणि नतिर्नर चोदितः । सहस्रमवगाढश्च स्थितो यत्रमयः क्षितौ ॥ ३५ ॥ विपुलः शिसरे चै धरण्यां दश संगतं । राजते तिर्यगाकाशं मानदंड इवोच्छूितः ।। ३६ ॥ द्वौ च तत्र कुरू द्वीपे क्षेत्रः सप्तभिरन्विते । पर क्षेत्राणां विभक्तारो राजते कुलपर्वताः ।। ३७।।
तृतयि पर्व। पद्मपुराणम् द्वौ महापादपौ ज्ञेयौ विद्याधरपुरीशतं । अधिकं दशभिस्तत्र विजयाद्वैश्वनैकशः॥ ३८ ॥ त्रिशच्चतसृभिर्युक्ता राजधान्यः प्रकीर्तिताः । चतुर्दश महानद्यो जंबूवृक्षे जिनालयः ॥ ३९ ॥ पइभोगक्षितयः प्रोक्ता अष्टौ जिनगृहाणि च । अष्टषष्टिगुहामानं भवनानां च तत्स्मृतं ॥ ४० ।। सिंहासनानि चत्वारि त्रिंशच गदितानि तु | विजयार्द्धनगौ द्वौ च राजतौ परिकीर्तितौ ॥४१॥ वक्षारगिरियुक्तेषु समस्तेपु नगेषु च । भवनानि जिनेंद्राणां राजंते रत्नरश्मिभिः ॥ ४२ ॥ जंबूभरतसंज्ञायां क्षोण्यां दक्षिणयाशया । सुमहान् राक्षसो द्वीपो जिनर्विवसमन्वितः ॥ ४३ ॥ महाविदेहवर्षस्य जगत्यां पश्चिमाशया । विशाल किन्नरद्वीपो जिनबिंबोज्ज्वला शुभः ॥ ४४ ।। तथैरावतवर्षस्य क्षित्यामुत्तरया दिशा । गंधर्वो नामतो द्वीपः सचैत्यालयभूपितः ॥ ४५ ॥ मेरोः पूर्व विदेहस्य जगत्यां पूर्वयाशया । रराज धरणद्वीपो जिनायतनसंकुलः ॥ १६ ॥ भरतैरावतक्षेत्रे वृद्धिहानिसमन्विते । शेषास्तु भूमयः प्रोक्तास्तुल्यकालव्यवस्थिताः॥ ४७ ।। जंबूवृक्षस्य भवने सुरोऽनावृतशब्दितः । शतैः किल्विपिकाख्यानामास्ते बहुभिरावृतः ॥४८॥ अस्मिश्च भरतक्षेत्रं पुरोत्तरकुरूपमं । कल्पपादपसंकीर्ण सुखमायां विराजते ॥ ४९॥ तरुणादित्यसंकाशा गव्यूतित्रयमुच्छ्रिताः । सर्वलक्षणसंपूर्णाः प्रजा यत्र विरेजिरे ॥ ५० ॥ ३ तृतीयं पर्व। पद्मपुराणम्। युग्ममुत्पद्यते तंत्र पल्यानां त्रयमायुपा । प्रेमबंधनबद्धं च म्रियते युगलं समं ॥५१॥ कांचनेन चिता भूमीरत्नैव मणिभिस्तथा । कालानुभावतयित्रैः सर्वकामफलप्रदा ॥ ५२ ॥ चतुरंगुलमानैश्च चित्रगधेन चारुभिः । विमलातिमृदुस्पर्शस्तृणैश्छन्ना विराजते ॥५३ ।। सर्वर्तुफलपुष्पैश्च तरवो रेजुरुज्ज्वलाः । स्वतंत्राथ सुखेनास्थुः गोमहिप्याविकादयः ॥ ५४॥ कल्पवृक्षसमुत्पन्नं भक्षयंतो यथेप्सिनं । अन्नं सिंहादयः सौम्या हिंसां तत्र न चक्रिरे ॥ ५५ ॥ पद्मादिजलजच्छन्नाः सौवर्णमणिरोधसः । संपूर्णा रेजिरे वाप्यो मधुक्षीरघृतादिभिः ॥५६॥ गिरयोग्त्यंतमुत्तंगाः पंचवर्णसमुज्ज्वलाः । नानारत्नाकरच्छन्नाः सर्वप्राणिसुखावहाः ॥ ५७॥ नद्यो निजैतुका रम्याः क्षीरसर्पिमेधूदकाः । अत्यंतसुरसास्वादा रत्नोद्योतितरोधसः ॥१८॥ नातिचीतं नचात्युष्णं वीत्रमारुतवर्जितं । सर्वप्रतिमयमुक्तं नित्योद्भूतसमुत्सर्व ।। ५९ ।। ज्योतिक्रमप्रभाजालछिनेंदुरविमंडलं । सर्वेद्रियसुखास्वादप्रदकल्पमहातरुः ॥ ६॥ प्रासादास्तत्र वृक्षेषु विपुलोद्यानभूमयः । शयनासनमेवेव स्वादुपानाशनानि च ॥६१ ॥ वखानुलेपनादीनि तूर्यशब्दा मनोहराः । आमोदिनस्तथागन्धः सर्व चान्यत्तरूद्भवं ॥ ६२ ॥ दश भेदेषु वेष्वेवं कल्पवृक्षेषु चारुपु । रेमिरे तत्र युग्मानि सुरलोक इवानिशं ।। ६३ ॥
पद्मपुराणम्।
३५.
तृतीयं पर्व
एवं प्रोक्ते गणेशेन पुनः श्रेणिकभूपतिः । भोगभूमौ समुत्पत्तेः कारणं परिपृष्टवान् ॥ ६४ ॥
कथितं च गणेशेन तत्र ये प्रगुणा जनाः । साधुदानसमायुक्ता भवत्येते सुमानुपाः ॥६५॥
ये पुनः कुत्सिते दानं ददते भोगतृष्णया । तेपि हस्त्यादितां गत्वा भुंजंते दानजं फलं ॥६६॥
नितांतं मृदुनि क्षेत्रे दूरं कृष्टे हलाननैः । क्षिप्तं वीजं यथानंतगुणं शस्यं प्रयच्छति ॥ ६७ ॥
यथा चेक्षुपु निक्षिप्तं माधुर्य चारि गच्छति । पीतं च धेनुभिस्तोयं क्षीरत्वेन निवर्तते ॥ ६८ ॥
एवं साधौ तपोगारे व्रतालंकृतविग्रहे । सर्वग्रंथविनिर्मुक्त दत्तं दानं महाफलं ॥ ६९ ॥
खले गतं यथा क्षेत्रे वीजमल्पफलं भवेत् । निवेषु च तथा क्षिप्तं कटुत्वं वारि गच्छति ॥ ७० ॥
यथा च पन्नगैः पीतं क्षीरं संजायते विषं । कुपात्रेषु तथा दत्तं दानं कुफलदं भवेत् ॥ ७१॥
एवं दानस्य सदृशो धरेंद्र फलसंभवः । यद्यदा धीयते वस्तु दर्पणे तस्य दर्शनं ॥ ७२ ॥
यथा शुक्लं च कृष्णं च पक्षद्वयमनंतरं । उत्सर्पिण्यवसर्पिण्योरेवं क्रमसमुद्भवः ॥ ७३ ॥
अथ कालांतरोत्पत्या हानि यातेष्वनुक्रमात् । कल्पपादपखंडेषु श्रृणु कौलकरी स्थिति ॥ ७४ ॥
प्रतिश्रुतिरिति ज्ञेयः आधः कुलकरो महान् । श्रुत्वा तस्य वचः सर्वाः प्रजाः सौस्थित्यमागताः॥
जन्मत्रयमतीतं यो जानाति स्म निजं विभुः । शुभचेष्टासमुद्युक्तो व्यवस्थानां प्रदेशकः ॥ ७६ ॥
३६ तृतीयं पर्व। पद्मपुराणम् । 1 ततो वर्षसहसाणामतिकांतासु कोटिपु । यहीपु स मनुः प्राप्तो जन्म सन्मत्तिसंशितः ॥ ७७ ॥ ततः क्षेमंकरो जातः क्षेमभृत्तदनंतरं । अभूत्सीमंकरस्तस्मात्सीमध्च ततः परं ।। ७८ ।। चक्षुष्मानपरस्तस्मात्तं गत्वा समयाः प्रजाः । अपृच्छन्नाथ कावेतौ दृश्येते गगनार्णवे ॥ ७९ ॥ ततो जगाद चक्षुष्मान् विदेहे यन्तं जिनात् । युक्तो जन्मांतरस्कृत्या यथाकालपरिक्षये।। ८०॥ क्षीणेषु युतिवृक्षण समुद्भुतप्रभाविमौ । चंद्रातित्याविति ख्याती ज्योतिर्देवौ स्फुटौ स्थिती ८१ ज्योतिपो भावनाः कल्पाः व्यंतराश्च चतुर्विधाः । देवा भवंति योग्येन कर्मणा जंतवो भवे ॥८२) तत्रायं चंद्रमाः शीतस्तीवगुरेप भास्करः । एतौ कालस्वभावेन दृश्येते गगनामरी ।। ८३॥ भानावस्तंगवे तीने कांतिभवति शीतगोः । व्योन्नि नक्षत्रचक्रं च प्रकटत्वं प्रपद्यते ॥ ८४॥ स्वभावमिति कालस्य ज्ञात्वा त्यजत भीविती । इत्युक्तास्तं समाभ्यर्च्य प्रजा याता यथागत ८५ चक्षुष्मति ततोऽतीते यशस्वीति समुद्गतः । विजेयो विपुलस्तस्मादभिचंद्रः परस्ततः ॥ ८६ ।। चंद्रामः परतस्तस्मान्मरुदेवस्तदुत्तरः । ततः प्रसेनजिजाबो नाभिरत्यस्ततोऽभवत् ।। ८७॥ एते पितृसमा प्रोक्ताः प्रजाना कुलकारिणः शुभैः कर्मभिरुत्पन्नाः चतुर्दश समाधियः ।। ८८ ।। अथ कल्पद्रुमो नामेरस्य क्षेत्रस्य मध्यगः । स्थितः प्रासादरूपेण विभात्यत्यंतमुन्नतः ।। ८९ ॥
३
पद्मपुराणम् ।
३७
: : तृतीयं पर्व।
..
मुक्तादामचितो हेमरत्नकल्पितभित्तिकः । क्षितौ स एक एवासीद्वाप्युद्यानविभूषितः॥९॥
गृहीतहृदया तस्य बभूव वनितोत्तमा । प्रचलत्तारका भार्या रोहिणीव कलावतः ॥ ९१ ॥
गंगेव वाहिनीशस्य महाभूभृत्कुलोद्गता । हंसीव राजहंसस्य मानसानुगमक्षमा ॥ ९२ ॥
अरुन्धतीव नाथस्य नित्यं पार्थानुवर्तिनी । हंसीव गमने वाचि परपुष्टवधूसमा ॥९३ ॥
चक्राढेव पतिप्रीतावित्यादिसमुदाहृतं । यां प्रति प्रतिपद्येत सर्व हीनोपमानतां ॥ ९४ ॥
पूजिता सर्वलोकस्य मरुदेवीति विश्रुता । यथा त्रिलोकवंद्यस्य धर्मस्य श्रुतदेवता ॥ ९५ ॥
ऊष्माभावेन या चंद्रकलाभिरिव निर्मिता । दर्पणश्रीजिगीपेव प्रतिपाणिगृहीतिषु ॥ ९६ ॥
निर्मितात्मस्वरूपेव परचित्तप्रतीतिषु । सिद्धजीवस्वभावेव त्रिलोकव्यातकर्मणि ॥ ९७ ॥
पुण्यवृत्तितया जैन्या श्रुत्येव परिकल्पिता । अमृतात्मेव तृष्यत्सु भृत्येषु वसुवृष्टिवत् ॥ ९८ ॥
सखीषु निवृतेस्तुल्या विलासान्मदिरात्मिका । रूपस्य परमावस्था रतेरिव तनुस्थितिः ॥ ९९ ॥
मंडन मुंडमालाया यस्याश्चक्षुरभूद्वरं । असितोत्पलदामानि केवलं भारमात्रकं ॥ १००॥
अलकभ्रमरा एव भूषा भालांतयोः सदा । दलानि तु तमालस्य पुनरुक्तानि केवलं ॥ १०१॥
प्राणेशसंकथा एव सुभगं कर्णभूषणं । डंवरो रत्नकनककुंडलादिपरिग्रहः॥ १०२ ॥
. तृतीयं पर्व। पद्मपुराणम् । ३८ कपोलावेव सततं स्फुटालोकस्य कारणं । रत्नप्रभाप्रदीपास्तु विभवायैव केवलं ।। १०३ ॥ हासा एव च सद्धाः पटवासाः सितविपः । करपांशवः कांतिव्यायातायैच केवलं ।। १०४॥ वाण्येव मधुरा वीणा बाद्यश्रुतिकुतूहलं । कृतं तु परिवर्गेण तंत्रीनिकरताडनं ॥ १०५॥ कांतिरेवाघरोदभूता रागोंगस्य समुज्ज्वलः । निर्गुणः कौकुमः पंको लावण्यस्य कलंकनं ॥१०६॥ परिहासप्रहाराय भुजावेव सुकोमलौ । प्रयोजनमतीतानि मृणालशकलानि तु ॥-१०७॥ यौवनीप्मसमुद्भवा मंडनं स्वेतविदवः । कुचयो हारभारस्तु वृथैव परिकल्पितः ॥ १०८।। शिलातलविशाला च श्रोणी विस्मयकारणं । निर्मितेन विना जाता भवने मणिवेदिका ।।१०९।। भूपणं श्रमरा एव निलीनाः कमलाशया । पादयोरेंद्रनीले च नपुरे निःप्रयोजने ॥ ११० ॥ तस्या नाभिसमेताया भोगं कल्पतरूदय । भुंजाना या दुराख्यानं ग्रंथकोटिशतैरपि ।। १११ ॥ इंद्राज्ञापरितुष्टाभिर्दिक्कुमारीभिरादरात् । कस्मिंश्चित्समये प्राप्त परिचर्या प्रवर्तिता ॥ ११२ ।। नंदाज्ञापय जीवेति कृतशब्दाः ससंभ्रमं । प्रतीयुः शासनं तस्या लक्ष्मीश्रीधतिकीर्वयः ॥११॥ स्तुवंति काश्चितत्काले तां गुणैर्हृदयंगमः'। काश्चित्परमविज्ञाना उपगायति वीणया ॥ ११४ ॥ अत्यंतमद्भुतं काश्विद्गायति श्रवणामृतं । पादयोर्लोटनं काचित्कुर्वते मृदुपाणिकाः ।। ११५ ।। . ,
तृतीयं पर्व।
पद्मपुराणम्।
तांबूलदायिनी काचित्काचिदासनदायिनीं । मंडलाग्रकरा काचित्सततं पालनोद्यताः॥ ११६॥
काश्चिदभ्यंतरद्वारे बाह्यद्वारे तथापरा । गृहीतकुंतसौवर्णवेत्रदंडासिहेतयः ॥ ११७ ॥
चामरग्रहिणी काचित्काचिच्छत्रस्य धारिका । आनेत्री वाससां काचिद्भूषणानां ततः परा ११८
शयनीयविधौ काचित्सक्ता सन्मार्जने परा । पुष्पप्रकरणे काचित्काचिद्गंधानुलेपने ॥ ११९ ॥
पानाशनविधौ काचित्काचिदाहानकर्मणि । एवं कर्तव्यतां तस्याः सर्वाः कुवैति देवताः॥१२०॥
चिंताया अपि न क्लेशं प्रपेदे नृपवल्लभा । अन्यदा शयनीये स्वे सुप्ता सात्यंतकोमले ॥१२१।।
पट्टांशुकपरिच्छन्ने प्रांतयोः सोपधानके । तस्या मध्ये सुखं लब्धा स्वपुण्यपरिपाकतः ॥ १२२ ॥
गृहीतामलशस्त्राभिर्देवीभिः पर्युपासिता । अद्राक्षात्पोडश स्वप्नानिति श्रेयोविधायिनः ॥ १२३ ।।
वृषभं दुंदुभिस्कंधं दधतं ककुभं शुभं । नदंतं शरदंभोदसंघाताकारधारिणं ॥ १२४ ॥
करटच्युतदानांबुगंधं संबंधपट्पदं । वारणं चंद्रधवलं मंद्रगर्जितकारणं ।। १२५ ॥
शीतांशुकिरणस्वेतकेशरालीविराजितं । शशिरेखासदृग्दंष्ट्राद्वंद्वयुक्तं मृगाधिपं ।। १२६ ॥
सिच्यमानां श्रियं नागैः कुंभैः सौवर्णराजितैः । उत्फुल्लपुंडरीकस्य स्थितामुपरिनिश्चलां ॥१२७॥
पुन्नागमालतीकुंदचंपकादिप्रकल्पिते । नितांतं दामिनीदीर्घ सौरभाकृष्टषट्पदे ॥ १२८॥
तृतीयं पर्व। पद्मपुराणम् । . उदयाचलमूर्द्धस्थं प्रध्वस्ततिमिरोद्भवं । विश्रब्धदर्शनं मार्नु मुक्तं मेयाग्रुपद्रवैः ।। १२९ ।। पंधु कुमुदखंडानां मंडनं रात्रियोषितः । धवलीकृतसाशं किरणैस्तारकापतिं ॥ १३० ।। अन्योन्यप्रेमसंबंध प्रस्फुरद्विमले जले । विद्युइंडसमाकारं मीनयोर्युगलं शुभं ।। १३१ ॥ हारोपशोभितग्रीयं पुष्पमालापरिष्कृतं । मणिभिः कलशं पूर्ण पंचवर्णैः समुज्ज्वलं ॥ १३२ ॥ पदीवरसंच्छन्नं विमलांबुमहासरः । नानापक्षिगणाकीण चारुसोपानमंडितं ॥ १३३ ॥ चलन्मीनमहानजनितोत्तुंगवीचिकं । मेघपंक्तिसमासक्तं नभस्तुल्यं नदीपतिं ।। १३४ ॥ साटोपहरिभियुक्तं नानारत्नसमुज्ज्वलं । चामीकरमयं चारु विष्टरं दूरमुन्नतं ॥ १३५ ।। सुमेरुशिखाराकारं मुमान, रत्नराजितं । विमानं बुद्बुदादर्श चामरादिविभूषितं ॥ १३६ ॥ कल्पद्रुमगृहाकारं भावनं बहुभूमिकं । मुक्तादामकृतच्छायं रत्नांशुपटलावृतं ॥ १३७ ।। पंचवर्णमहारत्नराशिमत्यंतमुन्नतं । अन्योन्यकिरणोद्योतजनितेंद्रशरासनं ॥ १३८ ।। ज्वालाजटालमनलं धूमसंभववर्जितं । प्रदक्षिणकृतावर्तमनिधनसमुद्भवं ॥ १३९ ॥ अनंतरं च स्वमानां दर्शनाचारुदर्शना । सा प्रबोधं समायाता जयमंगलनिश्वनः ॥ १४० ।। त्वद्वपत्रकांतिसंभूतत्रपयेव निशाकरः । एप संप्रति संजातः छायया परिवर्जितः ॥ १४१ ॥ + तृतीयं पर्व । पद्मपुराणम् । ४१ अयं भाति सहस्रांशुरुदयाचलमस्तके । कलशो मंगलार्थ च सिंदूरेणैव गुंठितः ॥ १४२ ॥ संप्रति त्वत्सितेनैव तिमिरं यास्यति क्षयं । इतीव स्वस्य वैयर्थ्यात्प्रदीपाः पांडुतां गताः॥१४३॥ कुलमेतच्छकुंतानां कलकोलाहलाकुलं । मंगलं ते करोतीव निजनीडमुखस्थितं ॥ १४४ ॥ अमी प्रभातवातेन जडमंदेन संगताः । निद्राशेपादिवेदानी घूर्णते गृहपादपाः ॥ १४५ ॥ एपा त्वद्गृहवाप्यं ते भानुर्विषविलोकनात् । हृष्टायति जीवेशं चक्रवाकी कलस्वनैः॥ १४६ ॥ त्वद्गतिप्रेक्षणेनैते कृतोत्कंठा इवाधुना । कुर्वति कूजितं हंसा निद्रानिर्वासकारणं ॥ १४७ ॥ उल्लिख्यमानकंसोत्थनिःस्वनप्रतिमो महान् । अलं सारसचक्राणां झंकारोयं विराजितः।। १४८॥ निशांत इत्ययं स्पष्टो ज्योतिनिर्मलचेष्टितं । देवि मुंचाधुना निद्रामितिबंदिकृतस्तवा ॥ १४९ ।। अमुंचच्छयनीयं च समुद्भूततरंगकं । सुमनोभिः समाकीर्ण साभ्रतारानभासमं ॥ १५० ॥ वासंगेहाच निष्क्रांता प्रत्यात्मकृतकर्मिका । ययौ नाभिसमीपं सा दिनश्रीरिव भास्करं ॥१५१॥ भद्रासननिविष्टाय तस्मै खर्वासनस्थिता । कराभ्यां कुडूमलं कृत्वा क्रमात्स्वमान्यवेदयत्॥१५२॥ इति चिंताग्रमोदेन परायत्तीकृतः पतिः । जगाद त्वयि संभूतस्त्रैलोक्यस्य गुरुः शुभे ॥१५३॥ १ निष्क्रम्य इति क पुस्तके पाठः ।
: तृतीयं पर्व । पद्मपुराणम्। इत्युक्ता सा परं हपै अगाम कमलेक्षणा । मूर्तिरिंदोरिखोदारा दधती कांतिसंहतीः ॥ १५४ ॥ संमविप्यति पण्मासाजिने शक्राजयामुचत् । रत्नवृष्टिं धनाधीशो मासापंचदशादितः ॥१५॥ तस्मिन्गर्भस्थिते यस्माज्जाता वृष्टिहिरण्मयी । हिरण्यगर्भनाम्नासी स्तुतस्तस्मात्सुरेश्वरैः ॥१५६॥ शानजिनखिभिर्युक्तः कुक्षौ तस्याश्चचाल न । माभूत्संचलनादस्याः पीडेतिकतमानसः ॥१५॥ यथा दर्पणसंक्रांतछायामात्रेण पावकः । आधाता न विकारस्य तथा तस्या बभूव सः ॥१५८।। निश्चक्राम ततो गर्भाद पूणे काले जिनोत्तमः । मलस्पर्शविनिर्मुक्तः स्फटिकादिव समतः ॥१५९॥ तको महोत्सवश्वके नामिना सुतजन्मनि । समानंदिवनिःशेषजनो युक्तचा यथोक्तया ॥१६॥ त्रैलोक्यं क्षोभयायातमैं, कंपितमासनं । सुरासुराश्च संजाताः किं किमेतदितिस्त्रनाः ॥१६॥ अनाध्मातस्ततः शंखो दध्वान भवनश्रिवां । व्यंतराधिपतेर्गेहे रराट पटहः स्वयं ॥ १६२ ।। ज्योतिषां निलये जातमकस्मात्सिहहित । कल्पाधिपटहे सप्टं घटारलं रराण च ।। १६३ ।। एवंविधशुभोत्पातः ज्ञाततीर्थकरोद्भवः । प्रचलद्भिः किरीटैश्च प्रयुक्तावधयस्ततः ॥ १६४ ॥ प्रातिष्टव महोत्साहा इंद्रा नाभीयमालयं । वारणेद्रसमारूढाः कृतमंडनविग्रहाः ॥ १६५ ॥ तवः कंदर्पिणः केचित्सुरा नृत्वं प्रचक्रिरे । चक्रुरास्फोटनं केचिद्वलानं केचिदुनतं ॥ १६६ ।।
तृतीयं पर्व । पद्मपुराणम् । * - केचित्केसरिणो नादां मुमुचुप्तविष्टपान् ! विकुर्वति वहून् वेषान् केचित्केचिज्जगुर्वरां ॥१६॥ उत्पतद्भिः पतद्भिश्च ततो देवैरिदं जगत् । महारावसमापूर्ण स्थानभ्रंशमिवागतं ॥ १६८ ॥ ततः साकेतनगरं धनदेन विनिर्मितं । विजयार्द्धनगाकारप्राकारेण समावृतं ॥ १६९ ॥ पातालोदरगंभीरपरिखाकृतवेष्टनं । तुंगगोपुरकूटाग्रदूरनष्टांतरिक्षकं ।। १७० ॥ नानारत्नकरोद्योतपटप्रातसमकं । ईद्राक्षणेन संप्रापुर्महाभूतिसमन्विताः ॥ १७१ ।। पुरं प्रदक्षिणीकृत्य त्रिः शक्रः सहितोमरैः । प्रविष्टः प्रसवागारात्पौलोम्यानापयज्जिनं ॥१७२।। जिनमातुस्ततः कृत्वा मायावालं प्रणामिनी । बालमानीय शक्रस्य शची चक्रे करद्वये ॥१७३।। रूपं पश्यन् जिनस्यासौ सहस्रनयनोपि सन् । तृप्तिमिंद्रो न संप्राप त्रैलोक्यातिशयस्थित।।१७४॥ ततस्तमंकमारोप्य समारुह्य गजाधिपं । गृहीतचामरच्छनो भक्त्या परमया स्वयं ॥ १७५ ॥ अवाप मेरुशिखरं सर्देवैः समन्वितः । वैडूर्यादिमहारत्नमरीचिनिचयोज्ज्वलं ॥ १७६ ॥ पांडुकंबलसंज्ञायां शिलायां सिंहविष्टरे । ततो जिनः सुरेशेन स्थापितः पृष्टवर्तिना ॥ १७७॥ ततः समाहिता भेर्यः क्षुब्धसागरनिःस्वनाः । मृदंगशंखशब्दाच साट्टहासाः कृताः सुरैः॥१७८।। यक्षकिन्नरगंधर्वाः सह तुंबरनारदाः । विश्वावसुसमा युक्ताः कुर्वाणा मूर्छना वराः ॥ १७९ ॥ ..
. मृतीयं पर्व। + । ४ पराणा . - गागंति सह पत्नीभिः मनःप्रारं तदा । वीणावादनमारब्धा क लक्ष्मीय सादराः ||१८०॥ हाम्भावसमेताय नृत्यत्यप्मरसो यरं । अंगदारं यथा वस्तु कुर्वाणाः कवभूषणाः ॥ १८१ ॥ एवं तर महातार्य जनितऽमरमनमः । अभिषेकाय देवेंद्रो जग्राह कलगं शुमं ।। १८२.।। नना धीराणवायोमिः पूर्णः कुंभमहोदरी । चामीकरमगैः पनच्छन्नयः सपल्लवैः ॥१८३ अभिकि जिनेंद्रम्प नकार विदशाधिपः । कत्या क्रियसामर्यादात्मानं बहुविग्रहं ॥ १८४ ॥ यम थरणः सोमो वरुणोन्ये च नाकिनः । मेपवक्रादयः सर्व चतुर्भक्त्याभिपेचनं ।।.१८५ ।। हैद्राणीयमुसा देव्यः सद्धरनुलेपनः । चकुरुहर्ननं मक्त्या करः पल्लवकामलः ॥ १८६ ।। महीनमित्र तं नाथं कुम्भलधारिख । अभिपिच्च समारब्धाः कमस्य विभूषणं ॥ १८७ ।। गंद्रादित्यसमेतस्य कर्णयोः कुंडले कृते । तरक्षण मुरनाधन वनमूचीविभिनयोः ॥ १८८ ॥ पपरागमणिः शुद्धः चूडायां विनिवेशितः । जटालमिव संपन्नं शिरो यस्य मरीचिमि गा१८९।। अर्धचंद्राकृतियस्ता अंदनेन ललाटिका । बाहुमूले कृते जात्यहेमकयूरमंडिते ॥ १९०॥ नध्यस्थलमुक्तामिः कल्पितेन मयूसिना । हारेण भूषिवं वक्षः श्रीवत्सकृतभूपकं ।। १९१ ।। हरिन्मणिसरोजश्रीरत्नस्थूलमरीचिभिः। संजातपरसवेनैव प्रालंबेन विराजितः ।। १९२ ।।
४५
तृतीयं पर्व ।
पद्मपुराणम् ।
लक्षणाभरणश्रेणौ प्रकोप्टौ दधतुः श्रियं । मणिबंधनचारुभ्यां कटकाभ्यां सुसंहती ॥ १९३ ॥
पट्टांशुकोपरिन्यस्तकटिसूत्रेण राजितं । नितंवफलकं संध्यादाम्नेवावनिभृत्तटं ॥ १९४ ॥
सर्वांगुलीषु विन्यस्तं मुद्रिकाभूषणं वरं । नानारत्नपरिष्वक्तचामीकरविनिर्मितं ॥ १९५ ॥
भक्तया कृतमिदं देवैः सर्वमंडनयोजनं । त्रैलोक्यमंडनस्यास्य कुतोन्यन्मंडनं परं ॥ १९६ ।।
चंदनेन समालभ्य रोचनाः स्थासकाः कृताः । रेजुस्ते स्फटिकक्षोण्यां कनकांबूद्गमा इव ॥१९७।।
उत्तरीयं च विन्यस्तमंशुकं कृतपुष्पकं । अत्यंतनिर्मलं रेजे सतारमिव तन्नमः ॥ १९८ ॥
पारिजातकसंतानकुसुमैः परिकल्पितं । षट्पदालीपरिष्वक्तं पिनद्धं स्थूलशेखरं ॥ १९९ ॥
तिलकेन भुवोमध्यं सद्धेन विभूपितं । तिलकत्वं त्रिलोकस्य विभ्रतश्चारुचेष्टिनः ॥ २०० ॥
ततस्तं भूपितं संतं त्रिलोकस्य विभूषणं । तुष्टास्तुष्टुवुरित्थं ते देवाः शक्रपुरस्सराः॥२.१ ॥
नष्टधर्मे जगत्यस्मिन्नज्ञानतमसावृते । भ्राम्यतां भव्यसत्वानामुदितस्त्वं दिवाकरः ॥ २०२ ।।
किरणैर्जिनचंद्रस्य विमलैस्तव वाङ्मयैः । प्रबोधं यास्यतीदानी भव्यसत्त्वकुमुदती ।। २०३ ॥
भव्यानां तत्त्वदृष्टयर्थ केवलानलसंभवः । ज्वलितस्त्वं प्रदीपोसि स्वयमेव जगद्गृहे ॥ २०४ ।।
पापशत्रुनिघाताय जातस्त्वं सितसायकः । कर्ता भवाटवी दाहं त्वमेवध्यानवन्हिना ॥२०५॥
पतीय पर्व 1 पद्मपुराणम् दुष्टंद्रियमहानागदमनाय त्वमुद्गतः । वैनतेयो महावायुः संदेहधनसंपदा ॥ २०६ ।। धर्मावुविंदुसंप्राप्तिपिता भध्यचातकाः । उन्मुखास्त्वामुदीक्षते नाथामृतमहाधनं ।। २०७॥. नमस्ते त्रिजगद्गीतनितांतामलकीतये । नमस्तै गुणपुष्पाय तरवे कामदायिने ।। २०८ ॥ कर्मकाष्ठकुठाराय तीक्ष्णधाराय ते नमः । नमस्ते मोहतुंगाद्रिभंगवजात्मने सदा ॥ २०९॥ विध्यापकाय दुःखाग्नेर्नमस्ते सलिलात्मने । रजःसंगविहीनाय नमस्ते गगनात्मने ॥ २१०॥ इति स्तुत्या विधानेन प्रणम्य च पुनः पुनः ! तमारोप्य, गजं जग्मुरयोध्याभिमुखाः सुराः २११ मातुरकै ततोलेखः कृत्वा शच्या जिनार्भकं । विधाय परमानंदं स्वस्थानं ससुरोगमत् ॥२१२।। ततस्तमंचरैर्दिव्यैरलंकारैश्च भूषितं । लिप्तं च परमामोदघाणहार्यानुलेपनैः ॥ २१३ ॥ तुष्टाः संवीक्ष्य तनयमकस्थं जननी तदा । निजच्छायापरिष्यंगपिंजरीकवदिग्मुखं ।। २१४॥ आलिंगती मृदुस्पर्श कौतुकन्याप्तमानसा । दुराख्यानपरावस्थामवतीर्णा सुखार्णवं ॥ २१५ ।। अंकप्राप्तेन सा तेन रराज प्रमदोत्तमा । नवोदितेन पूर्वाशा विवेन सवितुर्यथा ।। २१६ ॥ नाभिश्च तत्सुतं दृष्ट्वा दिव्यालंकारधारिणं । त्रैलोक्यैः क्यैश्वर्यसंयुक्तं मैने स्वं परमद्युतिं ॥ २१७ ॥ सुतगात्रसमासंगसंजातसुखसंपदः । मीलिताक्षत्रिभागस्य मनोस्य द्रवां गतं ॥ २१८ ॥ + तृतीयं पर्व। ४७ पद्मपुराणम् । सुरेंद्रपूजया प्राप्तः प्रधानत्वं जिनो यतः । ततस्तमृषभाभिख्यां निन्यतुः पितरौ सुतं ॥२१९ ॥ तयोरन्योन्यसंबद्धं प्रेम यवृद्धिमागतं । तज्जातमधुना बाले पूर्ववच्च तयोरपि ॥ २२० ॥ करांगुष्टे ततो न्यस्तममृतं वज्रपाणिना । पिवन् क्रमेण संप्राप देहस्योपशयं जिनः ॥ २२१ ॥ ततः कुमारकैर्युक्तो वयस्यैरिंद्रनोदितेः । अनवद्यां चकारासौ क्रीडां पित्रोः सुखावहां ॥ २२२ ॥ आसनं शयनं यानं भोजनं वसनानि च । चारणादिकमन्यच सकलं तस्य शक्रजं ॥ २२३ ॥ कनीयसैव कालेन परां वृद्धिमवाप सः । मेरुभित्तिसमाकारं विभ्रद्वक्षः समुन्नतं ॥ २२४ ॥ आशास्तवेरमालानस्तंभसंस्थानतां गतौ । वाहू तस्य समस्तस्य जगतः कल्पपादपौ ॥ २२५ ॥ उरुदंडद्वयं दधे स्वकांतिकृतचर्चनं । त्रैलोक्यगृहधृत्यर्थं स्तंभद्वयसमुच्छ्रितं ॥ २२६ ।। द्वयं बभार तद्वक्त्रमन्योन्यस्य विरोधकं । कांत्या जितनिशानाथं दीप्त्या च जितभास्करं २२७ करौ तस्यारुणच्छायौ पल्लवादपि कौमलौ । धूलीकारे समस्तानां भूभृतामथ च क्षमौ ॥२२८॥ निविडाकेशसंघातः स्निधोत्यंतं बभूव च । नीलांजनशिलाकारो मूर्द्धि हेमगिरेरिव ॥ २२९ ॥ धर्मात्मनापि लोकस्य तेन सर्वस्य लोचने । उपमानमतीतेन हृते रूपेण शम्भुना ॥ २३० ॥ तसिन्काले प्रनष्टेषु कल्पवृक्षेष्वशेषतः । अकृष्टपच्यशस्येन मही सर्वां विराजते ॥ २३१ ।।
। - तृतीयं पर्व। - ४८ पद्मपुराणम् । वाणिज्यव्यवहारेण शिल्पैच रहिताः प्रजाः । अभावार्ममझायाः पाखंडश्च विवर्जिताः॥२३२॥ आमीदिक्षुरसस्तासामाहारः पडूसान्वितः । स्वयं छिन्नच्युतः कांतिवीर्यादिकरणक्षमः ॥२३३॥ सोपि कालानुभावन स्वयं गलति नो यदा । यंत्रनिप्पीडननश्च न लोकोनुपदेशतः ॥ २३४ ॥ पश्यंचोपि तदा सस्यं तत्संस्कारविधौ जडाः । क्षुधा संतापिताः सद्यः प्रजाः व्याकुलतां गताः।। ततः शरणमीयुस्ताः नाभिं संघातमागताः । उचुश्चेति वचः स्तुत्वा प्रणम्य च महातयः॥२३६॥ नाथ! याताः समस्तास्ते प्रक्षयं कल्पपादपाः क्षुधासंतापितानस्मास्त्रायस्व शरणागतान् २३७ भूमिजं फलसंपन्नं किमप्येतच दृश्यते । विधिमस्प न जानीमः संस्कारे भक्षणोचितं ।। २३८ ।। स्वच्छंदचारिणामेतदोकुलानां स्तनांतरात् । क्षरन् भक्ष्यमभक्ष्यं किं कथं चेति बद प्रभो ।।२३९।। व्याघसिंहादयः पूर्वं क्रीडास्वालिंगनोचिताः । अधुना प्रासयंत्येते. प्रजाः कलहतत्पराः।।२४०॥ मनोहराणि दिव्यानि स्थलानि जलजानि च । दृश्यते न तु जानीमः सुखमेभियेथा भवेत् २४१ अतः संस्करणोपायमेतेषां वद देव नः । यतः सुखेन जीवामस्त्वत्प्रसादेन रक्षिताः ॥ २४२ ॥ एवमुक्तः प्रजाभिः सन्नाभिः कारुण्यसंगतः । जगाद वचनं धीरो वृत्चेर्दर्शनकारणं ।। २४३ ।। उत्पत्तिसमये यस्य रलवृष्टिरभूचिरं । आगमश्च सुरेंद्राणां लोकक्षामनकारणं ।। २४४ ॥
तृतीयं पर्व । । पद्मपुराणम् । ४९ महातिशयसंपन्नं तमुपेत्य समं वयं । ऋपभं परिपृच्छामः कारणं जीवनप्रदं ॥ २४५ ॥ तस्य देवस्य लोकेस्मिन्सदृशो नास्ति मानवः । सर्वेषां तमसामंते तस्यात्मा संप्रतिष्ठितः॥२४६॥ इत्युक्तास्तेन साकं ते नाभेयस्यातिकं गताः । दृष्ट्वा च पितरं देवो विधि चक्रे यथोचितं ॥२४७॥ उपविष्टस्ततो नाभिनाभेयश्च यथासनं । अथैनं स्तोतुमारब्धाः प्रजाःप्रणतिपूर्वकं ।। २४८ ॥ लोकं सर्वमतिक्रम्य तेजसा ज्वलितं वपुः । सर्वलक्षणसंपूर्ण तवैतन्नाथ शोभते ॥ २४९ ॥. गुणैस्तव जगत्सर्वं व्याप्तमत्यंतनिर्मलैः । प्रल्हादकरणोयुक्तैः शशांककिरणरिव ।। २५० ॥ वयं. प्रभुं समायाता पितरं तत्र कार्यिणः । गुणान् ज्ञानसमुद्भूतान् स चैप तव भापते ॥२५१॥ सत्त्वं कोपि महासत्त्वो महात्मातिशयान्वितः । एवंविधोपि यं गत्वा निश्चयार्थ निपेवते ॥२५२।। स त्वमेवंविधो भूत्वा रक्ष नः क्षुत्पीडितान् । उपायस्योपदेशेन सिंहादिभयतस्तथा ॥ २५३ ॥ ततः कृपासमासक्तहृदयो नाभिनंदनः । शशास चरणप्राप्ता बद्धांजलिपुटाः प्रजाः ॥ २५४॥ शिल्पानां शतमुद्दिष्टं नगराणां च कल्पनं । ग्रामादिसन्निवेशाश्च तथा वेश्मादिकारणं ॥ २५५ ॥ क्षतित्राणे नियुक्ता ये तेन नाथेन मानवाः । क्षत्रिया इति ते लोके प्रसिद्धिं गुणतो गताः २५६ वाणिज्यकंपिगोरक्षाप्रभृतौ ये निवेशिताः । व्यापारे वैश्यशब्देन ते लोके परिकीर्तिताः ॥२५७॥ ४ - P तृतीयं पर्व। . . . 1 पद्मपुराणम् । . ये तु श्रुत्वा हृति प्राप्ता नीचकर्मविधायिनः । शगसंज्ञामवापुस्ते भेदैः प्रेष्यादिभिस्तथा ।।२५८॥ युगं तेन कृतं यस्मादित्यमेतत्सुखावह । तस्मात्कृतयुगं मोक्तं प्रजामिः प्राप्तसंमदं ।। २५९ ॥ नाभेयस्य सुनंदानंदाच वनिताद्वयं । भरतादय उत्पन्नास्तयोः पुत्रा महौजसः ॥ २६॥ शतेन तस्य पुत्राणां गुणसंबंधचारुणा । अभूदलंकृवा क्षोणी नित्यप्राप्तसमुत्सवा ।। २६१ ॥ तस्यानुपममैश्वर्यं भुजानस्य जगद्गुरोः । प्रयातः सुमहान् कालो नामेयस्यामितत्विपः ॥२६२।। अथ नीलांजनाख्यायां नृत्यंत्यां सुरयोपिति । इयं तस्य समुत्पन्ना चुद्धिवैराग्यकारणं ।।२६३।। अहो जना विडंब्यते परितोपणचेष्टितैः । उन्मत्तचरिताकारैः स्ववपुःखेदकारणैः ।। २६४ ॥ अत्र कश्चित्पराधीनो लोके भृत्यत्वमागतः । आशा ददाति कधिच तस्मै गर्वस्खलद्वचः।।२६५॥ एवं धिगस्तु संसारं यस्मिन्नुत्पाद्यते परैः । दुःखमेव सुखामिख्या नीतं संमूढमानसैः ।। २६६ ॥ वस्मादिदं परित्यज्य कृत्रिमं क्षयवत्सुखं । सिद्धसौख्यसमावाप्यै करोम्याशु विचेष्टितं, ॥२६॥ यावदेवं मनस्तस्य प्रवृत्तं शुभनितने । वावल्लोकांतिकैर्देवैरिदमागत्य भापितं ॥ २६८ ।। साधु नाथावबुद्धं ते त्रैलोक्ये हितकारणं । विच्छिन्नस्यं महाकालो मोक्षमार्गस्य वर्तते ॥२६९॥ एते विपरिवर्तते मवदुःखमहार्णवे । उपदेशस्य दातारमंतरेणासुधारिणः ।। २७० ॥ N पद्मपुराणम्। ५१ तृतीयं पर्व । व्रजंतु सांप्रतं. जीवा देशितेन यथा त्वया । युक्तमक्षयसौख्येन लोकाग्रेव स्थितं. पदं ॥ २७१ ॥ इति तस्य प्रबुद्धस्य स्वयमेव महात्मनः । सुरैरुदाहृता वाचः प्रयाताः पुनरुक्ततां ॥ २७२.॥ इति निष्क्रमणे तेन चिंतिते तदनंतरं । आगताः पूर्ववद्देवाः पुरंदरपुरस्सराः ॥ २७३ ॥ आगत्य च सुरैः सर्वैस्तुतः प्रणतिपूर्वकं । चिंतितं साधु नाथेति भाषितं च पुनः पुनः ॥२७४॥ ततो रत्नप्रभाजालजटिलीकृतदिग्मुखां । चंद्रांशुनिकराकारप्रचलच्चारुचामरां ॥ २७५ ॥ पूर्णचंद्रनिभादर्शकृतशोभा सुवुदां । अर्द्धचंद्रकसंयुक्तामंशुकध्वजभूपितां ।। २७६ ॥ दिव्यसृरिभः कृतामोदां मुक्ताहारविराजितां । सुदर्शनां विमानाभां किंकिणीभिःकृतस्वनां २७७ सुरनाथापितस्कंधां देवशिल्पिविनिर्मितां । आरुह्य शिविकां नाथो निर्जगाम निजालयात्।।२७८॥ ततः शब्देन तूर्याणां नृत्यतां च दिवौकसां । त्रिलोकविवरापूरश्चक्रे प्रतिनिनादिना ॥ २७९ ॥ ततोऽत्यंतमहाभूत्या भक्त्या देवैः समन्वितः । तिलकाह्वयमुद्यानं संग्राप जिनपुंगवः ॥ २८० ॥ प्रयाग इति देशोसौ प्रजाभ्योस्मिन् गतो यतः । प्रकृष्टो वा कृतस्त्यागः प्रयागस्तेन कीर्तितः॥ आपृच्छनं ततः कृत्वा पित्रोर्वधुजनस्य च । नमः सिद्धेभ्य इत्युक्त्वा श्रामण्यं प्रतिपद्यत॥२८२॥ कारैः समं त्यक्त्वा वसनानि महामुनिः । चकारासौ परित्यागं केशानां पंचमुष्टिभिः २८३ . तृतीयं पर्व। T पर - पद्मपुराणम् । ततो रवपटे केशान् प्रतिपद्य सुराधिपः । चिक्षेप मस्तके कृत्या क्षीरकूपारवारिणि ॥ २८४ ॥ महिमानं ततः कृत्या जिनदीक्षानिमित्तकं । यथा यातं सुरा जग्मुर्मनुष्याच विचेतसः।। २८५॥ सहस्राणि च चत्वारि नृपाणां स्वामिभक्तितः । तदाकूतमजानंति प्रतिपन्नानि नम्रतां ॥२८६ ॥ वतो वर्द्धिमात्रं स कायोत्सर्गेण निश्चलः । धराधरेंद्रवचस्थौ कृतद्रियसमस्थितिः ॥ २८७ ॥ धातोढ़ता जटास्तस्य रेजुराकुलमूर्तयः । धूमाल्य इव सद्ध्यानयनिशक्तस्प कर्मणः ॥ २८८ ॥ ततः पडपि नो यावन्मासा गच्छंति भूभृतो । भग्नस्तावदसी संघः परीपहमहाभटैः ॥ २८९ ।। केचिनिपतिता भूमौ दुःखानिलसमाहताः । केचित्सरसवीर्यत्वादुपविष्टा महीतले ।। २९० ॥ कायोत्सर्ग परित्यज्य गताः केचित्फलागनं । संतप्तमूर्तयः केचित्प्रविष्टाः शीतलं जलं ॥२९॥ केचिन्नागा इवोद्धता विविशुर्गिरिगहरं । परावृत्यमनाः केचित्प्रारब्धा जिनमीक्षितुं ॥ २९२ ।। मानी तत्र मरीचिस्तु दधत्कापायवाससी । परिवादशासनं चके वल्किभिः प्रत्यवस्थितः।।२९३॥ ततः फलादिकं तेषां नमरूपेण गृह्णतां । विचरुगंगने वाचो दर्शनानां सुधाभुजां ॥ २९४ ॥ अनेन ननरूपेण न वर्तत इदं नृपाः । समाचरितृमत्यर्थं दुःखहेतुरयं हि वः ॥ २९५ ॥ ततः परिदधुः केचित्पत्राण्यन्ये तु वल्कलं । चर्माणि केचिदन्ये तु चासः प्रथममुज्झितं ॥२९६।।
५३
तृतीयं पर्व।
पद्मपुराणम्।
लज्जिताः स्वेन रूपेण केचित्तु कुशचीवरं । प्राप्यामीभिस्ततस्तृप्ति फलैः शीतजलेन च ॥२९७॥
संभूय ते ततो भग्नाः दुर्दशाचारवर्तिनः । विश्रब्धाः कर्तुमारब्धा दूरं कृत्वा प्रधारणं ॥ २९८ ॥
तेषां केनचिदित्युक्तास्ततो भूपेन ते नृपाः । एतेन कथितं किंचित्कस्मैचिद्भवतामिति ।। २९९ ॥
नैतेन कथितं किंचिदस्मभ्यमिति ते ध्रुवं । ततोन्येनोदितं वाक्यमिति भोगाभिलाषिणः॥३०॥
उत्तिष्ठत निजान्देशान् व्रजामोत्र स्थितेन किं । प्राप्नुमः पुत्रदारादिवकालोकनजं सुखं ॥३०१॥
अपरेणेति तत्रोक्तं व्रजामो विह्वला वयं । नहि किंचिदकर्तव्यं विद्यतेस्माकमार्तितः ॥ ३०२ ॥
नाथेन तु विना यातानिरीक्ष्य भरतो रुपा | मारयिष्यति नोऽवश्यं देशान्वापहरिष्यति।।३०३॥
नाभेयो वा पुनर्यस्मिन्काले राज्यं प्रपत्स्यते । तदास्य दर्शयिष्यामो नित्रपाः कथमाननं ३०४
तस्मादत्रैव तिष्ठामो भक्षयंतः फलादिकं । सेवामस्यैव कुर्वाणा भ्राम्यंतः सुखमिच्छया ॥३०५॥
प्रतिमास्थस्य तस्याथ नमिश्च विनमिस्तथा । तस्थुतः पादयोनत्वा भोगयाचनतत्परौ ॥३०६॥
याच्यमानौ विदित्वा तावासनस्य प्रकंपनात् । आयातो धरणो नाम्ना नागराजस्त्वरान्वितः३०७
विकृत्य जिनरूपं स ताभ्यां विद्ये वरे ददौ । प्राप्य विद्ये वरे यातौ विजयार्द्धनगे क्षणात्॥३०८॥
योजनानि दशारुह्य तत्र विद्या मृदालयाः । नानादेशपुराकीर्णाः भोगैर्भोगक्षितैः समाः॥३०९॥
. . तृतीयं पर्व। ५४ पद्मपुराणम्। उपर्यय समारुह्य योजनानि पुनर्दश । गंधर्वकिन्नरादीनां नगराणि सहस्रशः ॥ ३१०॥ अतोपि समतिकम्य पंचयोजनमंतरं । अईद्भवनसंछन्नो भाति नंदीश्वराद्रिवत् ॥ ३११ ॥ गवनेष्वईतो तेषु स्वाध्यायगतचेतसः । मुनयधारणा नित्यं विटंति परमौजसः ।। ३१२ ॥ दक्षिणे विजयार्द्धस्य भागे पंचाशदाहिताः । रथनपुरसध्यानप्रभृतीनां पुरां ततः ॥ ३१३ ।। उत्तरेण तथा पहिर्नगराणां निवेशिता । आकाशवल्लमादीनि यानि नामानि विभ्रति ॥ ३१४ ॥ देशग्रामसमाकीर्ण मटंवाकारसंकुलं । सखेटकर्वटाटोपं तत्रैकैकं पुरोत्तमं ॥ ३१५ ॥ उदारगोपुरा हाल हेमप्राकारतोरणं । पाप्युद्यानसमाकोणे स्वर्गभोगोत्सवप्रदं ॥ ३१६ ॥ अटसर्वसस्याढ्यं सर्वपुष्पफलद्रुमं । सर्वोपधिसमाकीणे सर्वकामप्रसादनं ।। ३१७ ।।, मोगभूमिसमं शश्वद्राजते यत्र भूतलं । मधुक्षीरपृतादीनि बहते तत्र निर्झराः ।। ३१८ ॥ सरोसि पयुक्तानि हंसादिकलितानि च । मणिकांचनसोपानाः स्वच्छमिष्टमधूदकाः ॥३१९।। सरोरुहरजश्छन्ना विरेजुस्तत्र दीर्घिकाः । सवत्सकामधेनूनां संपूर्णेदुसमत्विषां ॥ ३२०॥ मुवर्णसुरश्रृंगाणां संघाः शालासु तत्र च । नेत्रानंदकरीणां च वसति यत्र धेनवः ॥ ३२१ ।। यासां वर्चर मूत्रं च सुगंधं तु सरुष्कवत् । कांतिवीर्यप्रदं तासां पयः केनोपमीयते ॥ ३२२ ॥ .
५५
पंञपुराणम्
तृतीयं पर्व ।
नीलनीरजवर्णानां तथा पद्मसमत्विषां । महिषीणां सपुत्राणां सर्वासामत्र पंक्तयः ॥ ३२३ ॥
धान्यानां पर्वताकाराः पल्यौघाः क्षयवर्जिताः । वाप्युद्यानपरिक्षिप्ताः प्रासादाश्च महाप्रभाः३२४
रेणुकंटकनिर्मुक्ताः रथ्यामार्गाः सुखावहाः । महातरुकृतच्छायाः प्रपाः सर्वरसान्विताः ॥३२५॥
मासांश्च चतुरस्तत्र श्रोत्रानंदकरध्वनिः । देशे काले च पर्जन्यः कुरतेऽमृतवर्षणं ॥ ३२६ ॥
हिमानिलविनिर्मुक्तो हेमंतः सुखभागिनां । यथेप्सितपरिप्राप्तवाससां साधु वर्तते ॥ ३२७ ॥
मृदुतापो निदाघेपि शंकावानिव भास्करः । नानारत्नः प्रभाक्रांतो बोधकः पद्मसंपदां ॥३२८॥
ऋतवोन्येपि चेतःस्थवस्तुसंप्रापणोचिताः । नीहारादिविनिर्मुक्ताः शोभते निर्मला दिशः॥३२९॥
न कश्चिदेकदेशोपि तस्मिन्नस्त्यसुखालयः । रमंतं सततं सर्वा भोगभूमिष्विव प्रजाः ॥ ३३० ॥
योषितः सुकुमारांगाः सर्वाभरणभूषिताः । इंगितज्ञानकुशलाः कीर्तिश्रीह्रीधृतिप्रभाः ।। ३३१॥
काचित्कमलगर्भाभा काचिदिदीवरप्रभा । काचिच्छिरीपसंकाशा काचिद्विद्युत्समद्युतिः॥ ३३२ ॥
नंदनस्येव वातेन निर्मितास्ताः सुगंधतः । वसंतादिव संभूताश्चारुपुष्पविभूषणात् ॥ ३३३ ।।
चंद्रकांतिविनिर्माणशरीरा इव चापराः । कुर्वति सततं रामा निजज्योत्स्ना सरस्तरं ॥ ३३४ ॥
त्रिवर्णनेत्रशोभिन्यो गत्या हंसवधूसमाः । पीनस्तन्यः कृशोदर्यः सुरस्त्रीसमविभ्रमाः॥३३५॥
1 '; चतुर्थः पर्व। . पद्मपुराणम् । . + . पुष्याणां पंचवर्णानां वृष्टीय प्रमथाधिपाः । अहोदानमहोदानमित्युक्त्वा चपुर्मुदा ॥ १८ ॥ अनिलौतिसुखस्पर्शो दिशः सुरभयन् वचौ । पूरयंती नभोभागं वसुधारा पपात च ।। १९ ।। संप्राप्तः सुरसन्मानं निजगद्विस्मयप्रदं । पूजितो भरतस्यापि श्रेयान् प्रीतिसमुत्कट, ।।२०।। अथ प्रवर्तनं कृत्वा पाणिपानवतस्य सः । शुभध्यानं समाविष्टो भूयोपि विजितेंद्रियः ॥ २१ ॥ ततस्तस्य सितध्यानाद्गते मोहे परिक्षयं । उत्पन्न केवलज्ञानं लोकालोकावलोकनं ॥ २२ ॥ तेनैव च समं जातं तेजसो मंडलं महत् । कालस्य चिकरनेदं राधिवासरसंभवं ।। २३ ।। । उद्देशे विपुलस्कंधो. रत्नपुष्पैरतंकतः अशोकपादपोभूच विकसद्रक्तपल्लवः ॥ २४.1. प्रकीर्णा सुमनोवृष्टिंरामोदाकृष्टपद्पदा । नभस्थैरमरनानारूपसंभवगामिनी ॥ २५ ॥ महादुंदुभयो नेदुः क्षुब्धसागरनिःस्वनाः । अदृष्टविग्रहदेवैराहताः करपल्लवैः ॥ २६ ॥ यक्षौ पमपलाशाक्षी सोलंकारभूपितौ । चालयांचक्रतुः स्वरं चामरे चंद्रहासिनी ।। २७ ॥ मेरुमस्तकसंकाशं मुकुटं भूमियोपितः । सिंहासनं समुत्पन्नं कराहतदिवाकरं ॥ २८॥ त्रिलोकविभुताचिन्हें मुक्ताजालकभूषितं । छत्रत्रयं समुद्भूतं तस्येव विमलं यशः ॥२९॥ सिंहासनस्थितस्यास्य सरणं समवान्वितं । प्राप्तस्य गदितुं शोभा केवली केवलं प्रभुः ॥ ३० ॥ . ॥ + ।
૨
चतुर्थ पर्व ।
पद्मपुराणम् ।
.
तंतस्तमवधिज्ञानादवगम्य सुराधिपाः । वंदितुं सपदि प्राप्ताः परिवारसमन्विताः ॥ ३१ ॥
ख्यातो वृषभसेनोस्य संजातो गणभृत्ततः । अन्ये च श्रमणा जाता महावैराग्ययोगिनः॥ ३२ ॥
यथास्थानं ततस्तेषु सरणे समवान्विते । यत्यादिपु निविष्टेषु गणेशेन प्रचोदितः ॥ ३३ ॥
छादयंती स्वनादेन देवदुंदुभिनिःस्वनां । जगाद भगवान् वाचं तत्त्वार्थपरिशंसिनी ॥ ३४ ॥
अस्मिस्त्रिभुवने कृत्स्ने जीवानां हितमिच्छतां । शरणं परमो धर्मस्तस्माच परमं सुखं ॥ ३५॥
सुखार्थ चेष्टितं सर्वं तच धर्मनिमित्तकं । एवं ज्ञात्वा जना यत्नात्कुरुवं धर्मसंग्रहं ॥ ३६ ॥
वृष्टिविना कुतो मेघैः क सस्य वीजवर्जितं । जीवानां च विना धर्मात्सुखमुत्पद्यते कुतः॥ ३७॥
गंतुकामो यथा पंगुर्मूको वक्तुं समुद्यतः । अंधो दर्शनकामश्च तथा धर्मादृते सुखं ॥ ३८॥
परमाणोः परं स्वल्पं न चान्यन्नमसो महत् । धर्मादन्यश्च लोकेस्मिन्सुहृन्नास्ति शरीरिणः।।३९॥
मनुष्यभोगः स्वर्गश्च सिद्धसौख्यं च धर्मतः । प्राप्यते यत्तदन्येन व्यापारेण कृतेन किं ॥४०॥
अहिंसा निर्मलं धर्म सेवंते ये विपश्चितः । तेषामेवोर्द्धगमनं यांति तिर्यगधोन्यथा ॥४१॥
यद्यप्यु तपःशक्त्या बजेयुः परलिंगिनः । तथापि किंकरा भूत्वा ते देवान्समुपासते ॥ ४२ ॥
देवदुर्गतिदुःखानि प्राप्य कर्मवशात्ततः । स्वर्गच्युताः पुनस्तिर्यग्योनिमायांति दुःखिनः ॥४॥
. चतुर्थ पर्व। -- . ६० , पद्मपुराणम् । सम्यग्दर्शनमपन्नाः स्वभ्यस्तजिनशासनाः । दिवं गत्ला च्युता बोधि प्राप्य यांति परं शिवं ४४ सागाराणां यतीनां च धर्मोमो द्विविधः स्मृतः। तृतीयं ये तु मन्यते दग्धास्ते मोहचन्हिना ४५ अणुव्रतानि पंच स्युः त्रिप्रकारं गुणवतं । शिक्षाप्रतानि चत्वारि धर्मोयं गृहसेविनां ॥ ४६ ॥ सारंभपरित्यागं कृत्वा दहेपि निःस्पृहाः । कोलंधर्मेण संयुक्ता गति ते यांति शोभवां ॥ १७॥ महात्रतानि पंच स्युस्तथा समितयो मताः । गुप्तयस्तिस उद्दिष्टा धर्मोयं व्योमवाससा ॥ ४८ ॥ धर्मेणानेन संयुक्ताः शुमध्यानपरायणाः । यांति नाकं च मोक्षं च हित्वा पूतिकलेवरं ।। ४९ ॥ येपि जातस्वरूपाणां परमब्रह्मचारिणां । स्तुति कुर्वति भावेन तेपि धर्ममवाप्नुयुः ॥५०॥ तेन धर्मग्रभावन कुगति न व्रति ते । लभते बोधिलामं च मुच्यते येन किल्विपाद ।। ५१ ॥ इत्यादि देवदेवेन भापितं धर्ममुत्तमं । श्रुत्वा देवमनुप्याश्च परमं मोदमागताः ।। ५२ ॥ केचित्सम्यग्मतिं भेजुर्गृहिधर्ममथापरे । अनगारव्रत केचित्स्वशक्तेरनुगामिनः ।। ५३ ।। ततः समुद्यताः गंतुं जिनं नत्वा सुरासुराः । स्तुत्वा च निजधामानि गता धर्मविभूषिताः।।५४॥ यं यं देश स सर्वज्ञः प्रयाति गतियोगतः । योजनानां शव तत्र जायते स्वर्गविभ्रमं ।। ५५ ॥ स भ्रमन् बहुदेशेषु भव्यराशीनुपागतान् । रनत्रितयदानेन संसारादुदतीतरन् ।। ५६ ।। :
चतुर्थं पर्व।
पद्मपुराणम्
६१
तस्यासीद्गणपालानामशीतिश्चतुरुत्तरा । सहस्राणि च तावंति साधूनां च तपोभृतां ।। ५७ ॥
अत्यंतशुद्धचित्तास्ते रविचंद्रसमप्रभाः । एभिः परिवृतः सर्वां जिनो विहरते महीं ॥ ५८ ।।
चक्रवर्तिश्रियं तावत्प्राप्तो भरतभूपतिः । यस्य क्षेत्रमिदं नाम्ना जगत्प्रकटतां गतं ॥ ५९॥
ऋपभस्य शतं पुत्रास्तेजस्कांतिसमन्विताः । भ्रमणव्रतमास्थाय संप्राप्ताः परमं पदं ॥ ६ ॥
तन्मध्ये भरतश्चक्री वभूव प्रथमो भुवि । विनीतानगरे रम्ये साधुलोकनिषेविते ॥ ६१ ॥
अक्षया निधयस्तस्य नवरत्नादिसंभृताः । आकराणां सहस्राणि नवतिर्नवसंयुताः ॥ ६२ ।।
त्रयं सुरभिकोटीनां हलकोटिस्तथोदिताः । चतुर्भिरधिकाशीतिर्लक्षाणां वरदंतिनां ॥ ६३ ॥
कोट्यश्चाप्टौदशोद्दिष्टा वाजिनां वातरंहसां । द्वात्रिंशच्च सहस्राणि पार्थिवानां महौजसः ॥ ६४ ॥
तावत्येव सहस्राणि देशानां पुरसंपदां । चतुर्दश च रत्नानि रक्षितानि सदा सुरैः ॥ ६५ ॥
पुरंध्रीणां सहस्राणि नवतिः पभिरन्विताः । ऐश्वर्यं तस्य निःशेपं गदितुं नैव. शक्यते ॥६६॥
पौतनाख्ये पुरे तस्य स्थितो बाहुवली नृपः । प्रतिकूलो महासत्त्वस्तुल्योत्पादकमानसः ॥६७॥
तस्य युद्धाय संप्राप्तो भरतश्चक्रगर्वितः । सैन्येन चतुरंगेण छादयन्धरणीतलं ॥ ६८ ॥
तयोर्गजघटाटोपसंघट्टरवसंकुलं । संजातं प्रथमं युद्धं बहुसत्त्वक्षयावहं ॥ ६९ ॥
.
1
पद्मपुराणम् ।
६२
चतुर्थ पर्व।
अयोषाच विहस्यैवं मरत पाहुविक्रमी । किं वराकेन लोकेन निहतेनामुनावयोः १.७०॥
यदि निःस्पंदया दृष्टया भवनाई पराजितः । ततो निर्जितएवास्मि दृष्टियुद्धे प्रवर्त्यतां ।। ७१ ।।
रष्टियुद्ध ततो भग्नस्तथा बादुरणादिपु । वधार्थ भरतो भ्रातुनकरत्नं विसृष्टवान् ।। ७२ ॥
नत्तस्यात्वशरीरत्वादक्षम विनिपातने । तस्यैव पुनराया ममीपं विफलक्रियं ॥७३॥
ततो भ्रात्रा समं वैरमवबुध्य महामनाः । संप्राप्तो भोगवैराग्यं परमं भुजविक्रमी ।। ७४ ॥
संत्यज्य सततो भोगान भूला निर्वखुभूपणः । वर्ष प्रतिमया तस्थौ मेरुवनिःप्रकंपकः ॥७५ ॥
वल्मीकविवरोधातैरन्युग्रेममहारगः । श्यामादीनां च वल्लीभिः वेष्टितः प्राप केवलं ॥७६ ॥
ततः भिवपदं प्रापदायुपः कर्मणः श्ये । प्रथमं मोवसर्पिण्यां मुक्तिमार्ग व्यशोधयत् ॥ ७७ ।।
भरतस्त्वकरोद्राज्यं फंटकैः परियर्जिते । पद्भिर्मागविभक्तायां सर्वस्यां भरतक्षितौ ।। ७८ ।।
विद्याधरपुराकारा ग्रामाः सर्वेसुखायहाः । देवलोकप्रकाराश्च पुरस्परमसंपदः ।। ७९ ।।
देवा इच जनास्ते पु रेजुः कृतयुगे सदा । मनोविषयसंप्राप्तपिचित्रांवरभूषणाः ॥८॥
देशा भोगभुवा तुल्या लोकपालोपमा नृपाः । अप्सरासरशी नार्यो मदनावासभूमयः ॥ ८ ॥
एवमेकातपत्रायां पृथिव्यां भरताधिपः । आखंडल इव स्वर्गे मुंक्त कर्मफलं शुमं ॥ ८२ ॥
चतुर्थं पर्व ।
पद्मपुराणम् ।
रक्षितं यस्य यक्षाणां सहस्रेण प्रयत्नतः । सर्वंद्रियसुखं रत्नं सुभद्राख्यं विराजते ।। ८३ ॥
पंचपुत्रशतान्यस्य यैरिदं भरताद्वयं । क्षेत्रं विभागतो भुक्तं पित्रा दत्तमकंटकं ॥ ८४ ॥
अथैवं कथितं तेन गौतमेन महात्मना । श्रेणिकः पुनरप्याह वाक्यमेतत्कुतूहली ॥ ८५ ॥
वर्णत्रयस्य भगवन्संभवो मे त्वयोदितः । उत्पत्तिं सूत्रकंठानां ज्ञातुमिच्छामि सांप्रतं ॥ ८६ ॥
प्राणिघातादिकं कृत्वा कर्म साधु जुगुप्सितं । परं वहत्यमी गर्व धर्मप्राप्तिनिमित्तकं ॥ ८७ ॥
तदेषां विपरीतानां उत्पत्तिं वक्तुमर्हसि । कथं चैषां गृहस्थानां भक्तो लोकः प्रवर्तते ॥ ८८ ॥
एवं प्रष्टो गणेशोसाविदं वचनमब्रवीत् । कृपांगनापरिष्वक्तहृदयोद्गतमत्सरः ॥ ८९॥
श्रेणिक श्रूयतामेषां यथा जातः समुद्भवः । विपरीतप्रवृत्तीनां मोहावष्टब्धचेतसां ॥९॥
साकेतनगरासन्ने प्रदेशे प्रथमो जिनः । आसांचक्रेऽन्यदा देवस्तिर्यग्मानववेष्टितः॥९१ ॥
ज्ञात्वा तं भरतस्तुष्टो ग्राहयित्वा सुसंस्कृतं । अन्नं जगाम यत्यर्थं बहुभेदप्रकल्पितं ॥.९२ ॥
प्रणम्य च जिनं भक्त्या समस्तांश्च दिगंवरान् । भ्रमौ करद्वयं कृत्वा वाणीमेतां प्रभाषत ॥१३॥
प्रसादं भगवंतो मे कर्तुमर्हथ याचिताः । प्रतीच्छत मया भिक्षां शोभनामुपपादितां ॥ ९४ ॥
इत्युक्ते भगवानाह भरतेयं न कल्पते । साधूनामीदृशी भिक्षा या तदुद्देशसंस्कृता ॥ ९५ ॥
चतुर्थ पर्व। पद्मपुराणम् । 1 -- एने हि तृप्णया मुक्ता निजितेंद्रियशत्रवः । विधायापि बहून्मासानुपवासं महागुणाः ॥ ९६ ॥ मिक्षां परगृहे लब्धां निर्दोपां मौनमास्थिताः । भुंजते प्राणधृत्यर्थ प्राणा धर्मस्य हेतवः ॥९७॥ धम चरति मोक्षार्थ यत्र पीडा न विद्यते । कथंचिदपि सच्चानां सर्वेपों सुखच्छितां ॥ ९८॥ श्रुत्वा तद्वचनं सम्राडचिंतयदिदं चिरं । अहो क्त महाकष्टं जैनेश्वरमिदं व्रतं ।। ९९ ।। तिष्ठंति मुनयो यत्र स्वस्मिन् देहेपि निःस्पृहाः । जातरूपधरा धीराः शांतप्रशममूर्तयः ॥१०॥ इदानी भोजयाम्येतान्सागारव्रतमाश्रितान् । लक्षण हेमसूत्रेण कृत्वतेनमहांधसा ॥ १.१॥ प्रकाममन्यदप्येभ्यो दानं यच्छामि भक्तितः । कनीयान्मुनिधर्मस्य धर्मोऽमीभिः समाश्रितः १०२ सम्यग्दृष्टिजन सर्व ततोसौ धरणीतले । न्यमंत्रयन्महावेगैः पुरुपैः स्वस्य सस्मतः ॥ १०३ ॥ महान्कलकलो जातः सर्वस्यामवनी ततः । भो भो नरा महादानं भरतः कर्तुमुद्यतः ।। १०४॥ उत्तिष्ठताशु गच्छामो वस्त्ररत्नादिकं धनं । आनयामो नरा ह्येते प्रेपितास्तेन सादराः॥१०५॥ उक्तमन्परिदं तत्र पूजयत्येप सम्मतान् । सम्यग्दृष्टिजनान् राजा गमनं तत्र नो वृथा ॥ १०६ ।। ततः सम्पग्यो याता हर्प परममागताः । समं पुत्रः कलरैश्च पुरुषा विनय स्थिताः ॥ १०७ ।। मिथ्यादृशोपि संप्राप्ता मायया वतृष्णया । भवनं राजराजस्य शक्रप्रासादसन्निभं ॥ १०८ ।।
६५
पद्मपुराणम् ।
चतुर्थ पर्व ।
अंगणोप्तयवत्रीहिमुद्गमापांकुरादिभिः । उच्चित्यलक्षणैः सर्वान्सम्यग्दर्शनसंस्कृतान् ॥ १०९॥
अलक्षयत्सरत्नेन सूत्रचिन्हेन चारुणा । चामीकरमयेनासौ प्रावेशयदथो गृहं ॥ ११० ॥
मिथ्यादृशोपि तृष्णा श्चितया व्याकुलीकृताः । जल्पंतो दीनवाक्यानि प्रविष्टाः दुःखसागरं १११
ततो यथेप्सितं दानं श्रावकेभ्यो ददौ नृपः । पूजितानां च चिंतेयं तेषां जाता दुरात्मनां ॥११२॥
वयं केपि महापूता जगते हितकारिणः । पूजिता यन्नरेंद्रेण श्रद्धयात्यंततुंगया ॥ ११३ ॥
ततस्ते तेन गर्वेण समस्ते धरणीतले । प्रवृत्ता याचितुं लोकं दृष्ट्वा द्रव्यसमन्वितं ॥ ११४ ॥
ततो मतिसमुद्रेण भरताय निवेदितं । यथायेति मया जैने वचनं सदसि श्रुतं ॥ ११५ ॥
वर्द्धमानजिनस्यांते भविष्यंति कलौ युगे । एते ये भवता सृष्टाः पाखंडिनो महोद्धताः ॥११६॥
प्राणिनो मारयिष्यति धर्मबुध्या विमोहिताः । महाकषायसंयुक्ताः सदा पापक्रियोद्यताः।।११७॥
कुग्रंथं वेदसंज्ञं च हिंसाभाषणतत्परं । वक्ष्यति कर्तृनिर्मुक्तं मोहयतोखिलाः प्रजाः ॥ ११८ ॥
महारंभेषु संसक्ताः प्रतिग्रहपरायणाः । करिष्यति सदा निंदां जिनभाषितशासने ॥ ११९ ॥
निर्ग्रथमग्रतो दृष्ट्वा क्रोधं यास्यंति पापिनः । उपद्रवाय लोकस्य विषवृक्षांकुरा इव ॥ १२० ॥
तच्छ्रुत्वा भरतः क्रुद्धः तान्सर्वान् हंतुमुद्यतः । त्रासितास्ते ततस्तेन नाभेयं शरणं गताः॥१२१॥
T पपुराणम् ! चतुर्थ पर्व यस्मान्मा हननं पुत्र कापीरिति निवारितः । अपमेण ततो याता 'माहना' इति ते श्रुति ॥१२२॥ रचितास्ते यतस्तेन जिनेन शरणागताः । त्रातारमिंद्रमित्युचस्ततस्तं विबुधा जगुः ॥ १२३ ॥ ये च ते प्रथम भना नृपा नाधानुगामिनः । व्रतांतरममी चक्रुः स्वबुद्धिपरिकल्पितं ॥ १२४ ॥ तेषां शिष्याः प्रशिप्याथ मोहयतः कुहेतुभिः । जगद्गर्वपरायचाः कुशास्त्राणि प्रचक्रिरे ।।१२५॥ भगुरंगोंगिरा यन्हिः कपिलोत्रिविंदस्तथा । अन्ये च यहयोऽज्ञानाजाता वल्कलतापसाः १२६ स्त्रियं दृष्ट्वा कुचिचास्त पुल्लिंगं प्राप्तपिक्रियं । पिदधुर्मोहसंछन्नाः कोपीनेन नराधमाः ।।१२७॥ सूत्रकंठाः पुरा नेन ये सृष्टावक्रयर्तिना । पीजवत्प्रसृतास्तत्र संवानेन महीतले ॥ १२८ ॥ प्रस्तावगतमेतत्ते कथितं द्विजकल्पनं । इदानी प्रावं वक्ष्ये राजन् शृणु समाहितः ॥ १२९ ।। अधासी लोकमुत्नार्य प्रभूतं भवमागरात् । कैलाशशिखरे प्राप नितिं नाभिनंदनः ॥ १३० ॥ ततो भरतराजोपि प्रवज्यां प्रविपन्नवान् । साम्राज्यं तृणवत्त्यक्त्या लोकविसयकारणं ॥ १३१॥ सित्यधिकारोयं ते, श्रेणिक गदितः समासतस्त्वेन ।यंशाधिकारमधुना पुरुपरवे विद्धि सादरं वच्मि ॥ इत्या रविपेणाचार्यप्रोक्त पद्मचरिते अपभमाहात्म्याभिधानं नाम धतुर्थ पर्व ।
पद्मपुराणम्।
६७
पंचमं पर्व।
अथ पंचमं पर्व ।
जगत्यस्मिन्महावंशाश्चत्वारः प्रथिता नृप । एषां रहस्यसंयुक्ताः प्रभेदा बहुधोदिताः ॥ १॥
इक्ष्वाकुः प्रथमस्तेपामुन्नतो लोकभूषणः | ऋपिवंशो द्वितीयस्तु शशांककरनिर्मलः ॥२॥
विद्याभृतां तृतीयस्तु वंशोत्यंतमनोहरः । हरिवंशो जगत्ख्यातश्चतुर्थः परिकीर्तितः ॥ ३॥
तस्यादित्ययशाः पुत्रो भरतस्योदपद्यत । ततः सितयशा जातो वलांकस्तस्य चाभवत् ॥ ४ ॥
जज्ञे च सुबलस्तस्मात्ततश्चापि महाबलः । तस्मादतिबलो जातस्ततश्चामृतशब्दितः ॥५॥
सुभद्रः सागरों भद्रो रवितेजास्तथा शशी । प्रभूततेजाः तेजस्वी तपनोथ प्रतापवान् ॥ ६ ॥
अतिवीर्यः सुवीर्यश्च तथोदितपराक्रमः । महेंद्रविक्रमः सूर्य इंद्रद्युम्नो महेंद्रजित् ।। ७ ॥
प्रभुर्विभुरविध्वंसो वीतभीषभध्वजः । गरुडाको मृगांकश्च तथान्ये पृथिवीभृतः ॥ ८॥
राज्यं सुतेषु निक्षिप्य संसाराणेवीरवः । शरीरेष्वपि निःसंगा निग्रंथव्रतमाश्रिताः ॥९॥
अयमादित्यवंशस्ते कथितः क्रमतो नृपः । उत्पत्तिः सोमवंशस्य सांप्रत परिकीर्यते ॥ १०॥
पभस्याभवत्पुत्रो नाम्ना बाहुबलीति यः । ततः सोमयशा नाम सौम्यःसूनुरजायत ॥ ११ ॥
ततो महाबलो जातस्ततोस्य सुबलोभवत् । स्मृतो भुजवली तस्मादेवमाद्या नृपाधिपाः ॥१२॥
पंचम पर्व। C ६८ पद्मपुराणम् । 11 शशिवंशसमुत्पन्नाः क्रमेण सितचेष्टिताः । श्रामण्यमनुभूयाशु संप्राप्ताः परमं पदं ॥ १३ ॥ : केचिनु तनुकर्माणो भुंजानास्तपसः फलं । स्वर्गे चकुरयखानमासन्नभवनिर्गमाः ॥ १४ ॥ एप ते सोमवंशोपि कथितः पृथिवीपने । वैद्याधरमतो बंशं कथयामि समासतः ।। १५ ।। नमेर्विद्याधरेंद्रस्य रत्नमाली सुतोभवत् । रत्नवजस्ततो जातस्ततो रत्नरथोमवत् ॥ १६ ॥ रत्नचित्रोभवत्तसाजातश्चंद्ररथस्ततः । जज्ञेऽतो वजसंघाख्यो वजमेनश्रुतिस्ततः ॥ १७॥ 'उद्भूतो वनदंष्ट्रोतस्ततो वज्रध्वजोभवत् । वनायुधश्च यज्ञश्च सुवज्रो वनभृत्तथा ॥ १८॥ बवामो वयाहुन बज्रांको वज्रसंज्ञकः । वज्ञास्यो वज्रपाणिश्व वज्रजातुश्च वज्रवान् ।। १९ ॥ विद्युन्मुखः सुवक्रय विद्युईष्ट्रव तत्सुतः । विद्युत्वान् विद्युदामश्च विद्युद्वेगोथ वैद्युतः ॥२०॥ इत्याद्या बहवः शूरा विद्याधरपुराधिपाः । गता दीपेण कालेन चेष्टितोचितमश्रिमं ॥ २१ ॥ सुतेपु प्रभुतां न्यस्य जिनदीक्षामुपाश्रिताः । हित्वा द्वेपं च रागं च केचिसिद्धिमुपागताः ॥२२॥ केचिद्विनाशमप्राप्ते समस्ते कर्मबंधने । संकल्पकतसान्निध्यं सुरभोगमभुंजत ॥ २३ ॥ केचित्तु कर्मपाशेन बद्धाः स्नेहगरीयसा । तत्रैव निधनं याता वागुरायां मृगा इव ॥ २४ ॥ अथ विद्युदंष्ट्रो नाना प्रभुः श्रेण्योयोरपि । विद्यावलसमुन्नदो बभूवोन्नतविक्रमः ॥ २५ ॥ .
पंचमं पर्व।
पद्मपुराणम् ।
on
अन्यदा स गतोऽपश्यद्विदेहं गगनस्थितः । निग्रंथं योगमारूढं शैलनिश्चलविग्रहं ॥ २६ ॥
स्थापितस्तेन नीत्वासौ नाना पंचगिरौ गिरौ । कुरुध्वं वधमस्येति विद्यावंतश्च चोदिताः ॥२७॥
तस्य लोष्टुभिरन्यैश्च हन्यमानस्य योगिनः । बभूव समचित्तस्य संक्लेशो न मनांगपि ॥ २८ ॥
ततोस्य सहमानस्य संजयंतस्य पुःस्सहं । उपसर्ग, समुत्पन्नं केवलं सर्वभासनं ॥ २९ ।।
धरणेन ततो विद्या हृता विद्युद्दढस्थिताः । ततोसौ हृतविद्यः सन् ययावुपशमं परं ॥ ३० ॥
ततोनया पुनर्लब्धा विद्यानेन व्यवस्थया । प्रणतेनांजलिं कृत्वा संजयंतस्य पादयोः ॥ ३१ ॥
तपः क्लेशेन भवतां विद्याः सेत्स्यति भूरिणा । सिद्धा अपि तथासत्यः छेदं यास्यति दुःकृतात् ।।
अर्हद्विवसनाथस्य चैतस्योपरि गच्छतां । साधूनां च प्रमादेपि विद्या नंक्ष्यंति वः क्षणात् ॥३३॥
धरणेन ततः पृष्टः संजयंतः कुतूहलात् । विद्युद्दढेन भगवन् कस्मादेवं विचेष्टितं ॥ ३४ ॥
उवाच भगवानेवं संसारोस्मिन् चतुर्गतौ । भ्राम्यन्नहं समुत्पन्नो ग्रामे शकटनामनि ॥३५॥
वणिग्धितकरो नाम्ना प्रियवादी दयान्वितः । स्वभावार्जवसंपन्नः साधुसेवापरायणः ॥ ३६॥
कालधर्म ततः कृत्वा राजा श्रीवर्धनाह्वयः । अभवत्कुमुदावत्या व्यवस्थापालनोद्यतः ॥ ३७॥
ग्रामे तत्रैव विप्रोभूत्स कृत्वा कुत्सितं तपः । कुदेवोत्र ततश्चुत्वा राज्ञः श्रीवर्द्धनस्य तु ॥ ३८ ॥
पंचम पर्व।
६०
पद्मपुराणमा
रख्यातो यन्हिशियो नाम्ना सत्यवादीति विश्रुतः । अभूत्पुरोहितो रौद्री गुप्ताकार्यकरो महान् ३९
पणिमियमदत्तस्य स च द्रव्यमपान्हुत । राजा द्यूतं ततः कृत्वा निर्जितः सोंगुलीयकं ।। ४०॥
वेनाभिवानदानेन दास्या गत्वा तदालय । उपनीतानि रत्नानि वाणिजे दुःखपतिने ॥४॥
तता गृहीतसर्वस्वः सलीकत्य द्विजाधमः । पुरो निर्वासितो दीनम्तपः परममाचरन् ॥ ४२ ॥
मृत्वा कल्पं स माहेंद्र प्राप्तस्तस्मात्परिच्युतः । रोचराणामधीशोयमभूद्विादृवध्वनिः ॥ ४३ ॥
श्रीवर्द्धनस्तपः कृत्वा मृत्वा कल्पमुपागतः । संजयंतश्रुतिर्जाता विदेहेहं ततश्च्युतः ॥ ४४ ॥
तेन दोपानुबंधेन दृष्ट्वा मां क्रोधमूर्छितः । उपसगै व्याधादेप कर्मणां वतां गतः ॥ ४५ ॥
योसा नियमदत्तोभूरस कृत्वा तपसोर्जनं । राजा नागकुमाराणां जातस्त्वं शुभमानसः ॥ ४६॥
अथ विद्युदृढस्याभून्नाम्ना दरथः सुतः । तत्र राज्यं स निक्षिप्य तपः कृत्वा गतो दिव।४७॥
अश्वधर्माभवत्तस्मादश्वायुरभवनतः । अश्वघजस्ततो जातस्ततो पमनमोभवत् ।। ४८ ॥
पममाली ततोभूतोऽभवत्परथस्ततः । सिंहयानो मृगद्वो मेघानः सिंहसप्रभुः ।। ४९ ।।
सिंहकेतुः शशांकास्पचंद्राइचंद्रशेखरः । इंद्रचंद्ररथामिख्यौ चक्रधर्मा तदायुधः ॥ ५० ॥
पक्रध्वजो मणिग्रीयो मण्यंको मणिमासुरः । मणिस्पंदनमण्यास्यौ बिंबोष्ठो तविताधरः॥५१॥
पंद्मपुराणम्। पंचम पर्व! ७१ रक्तोष्ठो हरिचंद्रश्च पूचंद्रः पूर्णचंद्रमाः । बालेंदुश्चंद्रमश्चूडो व्योमेंदुरुडुपातनः ।। ५२ ॥ एकचूडो द्विचूडश्च त्रिचूडश्च ततोभवत् । वज्रचूडस्ततस्तस्माद्रिचूडार्कचूडकौ ॥ ५३ ।। तस्माद्वन्हिजटीजातो बन्हितेजास्ततोभवत् । बहवश्चैवमन्येपि कालेन क्षयमागताः ॥५४॥ पालयित्वा श्रियं केचिन्न्यस्य पुत्रेपु तां पुनः । कृत्वा कर्मक्षयं याताः सिद्धैरध्यासितां महीं ५५ एवं वैद्याधरोयं ते राजन् वंशः प्रकीर्तितः । अवतारो द्वितीयस्य युगस्यातः प्रचक्ष्यते ॥५६॥ अम्य नाभेयचिन्हस्य युगस्य विनिवर्तते । हीनाः पुरातना भावाः प्रशस्ता अत्र भूतले ॥ ५७ ॥ शिथिलायितुमारब्धाः परलोकक्रियारतिः । कामार्थयोः समुत्पन्ना जनस्य परमा मतिः ॥५८ ॥ अथेक्ष्वाकुकुलोत्थेषु तेष्वतीतेपु राजसु । पुत्रश्रियं समुत्पन्नो धरणीधरनामतः ॥ ५९॥ अयोध्यानगरे श्रीमान् प्रख्यातत्रिदशंजयः । इंदुरेखा प्रिया तस्य जितशत्रुस्तयोः सुतः ।। ६०॥ पुरे पोदनसंज्ञेथ व्यानंदस्य महीपतेः । जातामभोजमालायां नामतो विजयां सुतां ॥६१ ॥ जितशबोः समायोज्य प्रव्रज्यस्त्रिदशंजयः । निर्वाणं च परिप्राप्तः कैलाशधरणीधरे ॥ ६२ ॥ अथाजितजिनो जातस्तयोः पूर्वविधानतः । अभिषेकादि देवेंद्रैः कृतं नाभेयवर्णितं ॥ ६३॥ १९॥ पित्रा जिताः सर्वे तज्जन्मनि यतो द्विषः । ततोसावजिताभिख्यां संप्राप्तो धरणीतले।।६४॥ ॥
.
.
+
पंचम पर्व।
पद्मपुराणम् ।
आसन्सुनयना देत्यादयस्यस्य योपितः । यासां शच्यपि रूपेण शक्ता नानुकृति प्रति ॥ ६५ ।।
अन्यदा रम्पमुद्यानं गतः शांतः पुरोजितः । पूर्वाह्ने फुल्लमैक्षिष्ट पंकजानां वनं महत् ।। ६६ ।।
तदेव संकुचद्वीक्ष्य भास्करस्त यियासति । अनित्यतां श्रियो मत्वा निर्वेदं परमंगतः ॥६७ ।।
ततः पितरमाच्छ्य मातरंसबांधवान् । नायःपूर्वविधानेन प्रवज्यां प्रतिपन्नवान् ॥ ६८ ॥
क्षत्रियाणां सहस्राणि दशानेन समं ततः । निष्क्रांतानि परित्यज्य राज्यबंधुपरिग्रहं ।। ६९ ।।
पाठोपवासयुक्ताय तस्मै नाथाय पारणं । ब्रह्मदत्तो ददौ भक्त्या साकेतनगरोद्भवः ॥ ७० ॥
चतुर्दशस्वीतेषु वर्षेप्यस्य ततोभवत् । केवलज्ञानमाईत्यं तथा विश्वस्य पूजितं ॥ ७१ ॥
ततधातिशयास्तस्य चतुस्त्रिंशत्समुत्थिताः । अष्टौ च प्रातिहार्याणि दृष्टव्यानीह पूर्ववत् ।।७२।।
नयतिस्तस्य संजाता गणेशाः पादसंश्रिताः । साधूनां चोदितं लक्ष दिवाकरसमविपां ॥ ७३ ॥
कनीयान् जिवशनोस्तु ख्यातो विजयसागरः । पत्नी सुमंगला तस्य तत्सुतः सगरोमवत् ॥७४॥
बभूवासौ शुभाकारो द्वितीयश्चक्रवर्तिनां । निधानैर्नवमिः ख्याति यो गतो वसुधातले ।। ७५।।
अस्मिन्यदंतरे वृत्तं श्रेणिकेंदं निशम्यतां । अस्तीह चक्रवालाख्यं पुरं दक्षिणगोचरं ।। ७६ ।।
तत्र पूर्णपनो नाम विभुमिविचारिणां । महाप्रभावसंपनो विद्यापलसमुन्नतः ॥ ७७ ॥
पंचमं पर्व।
पद्मपुराणम् ।
७३
विहाय तिलकेशं स ययाचे वरकन्यकां । नैमित्तकाज्ञया दत्ता सगराय तु तेन सा ॥ ७८ ॥
युद्धं सुलोचनस्योग्रं यावत्पूर्णघनस्य च । गृहीत्वा भगिनीं तावत्सहस्रनयनोगमत् ।। ७९ ॥
निपूध च सुनेत्रं स पुरं पूर्णघनोविशत् । अदृष्ट्वा च स तां कन्यां स्वपुरं पुनरागतः ॥ ८० ॥
ततः पितृवधात्क्रुद्धः सहस्रनयनो बलः । अरण्ये शरभाक्रांते स्थितः छिद्रेक्षणादृतः ॥ ८१ ॥
ततश्चक्रधरोऽश्वेन हृतस्तं देशमागतः । दिष्टया चोत्पलमत्यासौ दृष्ट्वा भ्रात्रे निवेदितः ॥ ८२ ॥
तुष्टेन तेन सा तस्मै दत्ता सगरचक्रिणे । चक्रिणाप्ययमानीतो विद्याधरमहीशतां ।। ८३ ॥
स्त्रीरत्नं तदसौ लब्ध्वा. परं तोषमुपागतः । पखंडाधिपतिः सर्वैः पार्थिवैः कृतशासनः॥ ८४ ॥
प्राप्तविद्या दैश्येन पुरं पौर्णधनं ततः । रुद्धं सहस्रनेत्रेण प्राकारेणेव सर्वतः ॥ ८५ ॥
ततो महति संग्रामे प्रवृत्ते जनसंक्षये । नीतः सहस्रनेत्रेण पूर्णमेघः परासुतां ॥ ८६ ।।
पुत्रः पूर्णघनस्याथ नाम्ना तोयदवाहनः । परैरुद्वासितश्चक्रवालाभ्राम्यनभोंगणे ॥ ८७ ॥
खेचरैर्बहुभिः क्रुद्धरुनुयातः सदुःखितः । अजितं शरणं यातस्त्रैलोक्यसुखकारणं ॥ ८८ ॥
ततो वज्रधेरणासौ पृष्टस्त्रासककारणं । अब्रवीत्सगरं प्राप्य मम बंधुः क्षयं कृतः॥८९॥
अस्मत्पित्रोरभूद्वैरं नैकजीवविनाशनं । तेनानुबंधदोषेण नितांतरचेतसा ॥ ९॥
--
पंचमं पर्व।
--
४
T
।
-
पद्मपुराणम् ।
T
सहसनयनेनाहं त्रासितः शत्रुणा भृशं । हंसैः समं समुत्पत्य प्रासादादागतो द्रुतं ॥ ९१ ॥
ततो जिनममीपे तं गृहीतुमसहनूपैः । निवेदिते सहसाक्षः संप्रतस्थे स्वयं रुपा ॥ ९२.॥
कोपरेस्ति मदुवीर्यो येनासौ परिरक्ष्यते । इति संचितयन् प्राप्तो जिनस्य धरणीमसौ ॥ ९३ ।।
प्रभामंडलमेवासी दृष्ट्वा दूरे जिनोद्भवम् । सधै गर्व परित्यज्य प्रणनामाजितं विभुं ॥ ९४ ॥
जिनपादसमीपे ती मुक्तयेरौ ततः स्थिती । तत्पित्रोवरितं पृष्टो गणिना च जिनाधिपः ॥१५॥
इदं प्रोवाच मगवान् जंयूद्वीपस्य भारते । पुरे सदत्तुसंबाके भावनो नाम वाणिजः ॥ ९६ ॥
आतकीत्यंगना तस्य हरिदासश्च तत्सुतः । चतुःकोटीश्वरो भूला यात्रोद्युक्तः स भावनः ॥१७॥
पुत्राय सकलं द्रव्यं न्यासत्वेन समर्पयन् । छूतादिवर्जनार्थे च शिक्षामस्मै ददौ परं.।।,९८ ॥
सहेतु सर्वदोषेभ्यः उपदिश्य निवर्तनं । पुत्राय यणिजो यातः पोतेन धनतृष्णया ।। ९९ ।।
उपचारेण वेश्याया मासया यूतमंडले । मुरायामभिमानेन चतुःकोव्यापि नाशिताः ॥ १० ॥
यदासौ निर्जितो छूते तदा राम्रो गृहं गतः । हरिदासो दुराचारो द्रविणार्थ सुरंगया ।।.१०१॥
आनीयासी ततो द्रव्यं क्रियाः सर्वाधिकार सः । मावनोन्यदा गेहमायातो नेक्षते सुतं ॥१०२।।
हरिदासः गतः क्वेति तेन पृष्टा कुटुंबिनी । साध्वोचदनया यातश्चौर्यार्थ च सुरंगया ॥१०॥
पंचम पर्व । पद्मपुराणम् । ७५ ततौसौ तस्य मरणं शकमानः सुरंगया । प्रस्थितश्चौर्यशांत्यर्थं गृहाभ्यंतरदत्तया ॥ १०४ ।। आगच्छता च पुत्रेण कोपि वैरी ममेत्यसौ । मंडलाग्रेण पापेन वराको विनिपातितः ॥ १०५॥ विज्ञातोसौ ततस्तेन नखस्मश्रुसटादिभिः । स्पृष्ट्वा मम पितेत्येप प्राप्तो दुःखं च दुस्सहं ॥१०६॥ जनकस्य ततो मृत्युं कृत्वा सोऽभयविद्रुतः । पर्यटन्दुःखतो देशान् यातः कालेन पंचतां॥१०७॥ कौलेयकौ श्रृगालौ च वृपदंशौ वृपौ तथा । नकुलौ महिषावेतौ जातौ च वृषभौ पुनः॥१०८॥ अन्योन्यस्य ततो घातं कृत्वा तौ भवसंकटे । विदेहे पुष्कलावत्यां मनुष्यत्वमुपागतौ ॥ १०९ ॥ उग्रं कृत्वा तपस्तस्मिन्नुत्तरानुत्तराद्वयौ । गत्वा सतारमायातौ जनकौ भवतोरिमौ ॥ ११०॥ योसौ भावननामासीजातोसौ पूर्णतोयदः । आसीत्तस्य तु यः पुत्रः संजातः स सुलोचनः १११ पित्रोरेवं परिज्ञाय भवदुःखविवर्तनं । भजतः शममुज्झित्वा चैरं संसारकारणं ॥ ११२ ॥ चक्रवर्ती ततोपृच्छदेतयोः पूर्वजन्मनि । वैरकारणमेवं च भाषितं धर्मचक्रिणा ।। ११३ ।। जंबूद्वीपस्य भरते पुरे पद्मकनामनि । शंखिकोरंभनामासीद्विषये प्रथितो धनी ॥ ११४ ॥ शश्यावलिसमाह्वानौ तस्य मैत्रीसमन्वितौ । शिष्यावत्यंतविख्यातौ धनवंतौ गुणोत्कटौ ॥११५॥ माभूदाभ्यां ममोद्वतः संहताभ्यामिति द्रुतं । तयो संभेदमकरोन्नयशास्त्रविचक्षणः ॥ ११६ ।।
पंचम पर्व। . , 11 L ४. . - . । पद्मपुराणम् । . 1 क सहस्रनयनेनाहं पासितः शत्रुणा भृशं । हंसः समं समुत्पत्य प्रासादादागतो द्रुतं ॥ ११ ॥ ततो जिनसमीपे तं गृहीतुमसहेर्नूपैः । निवेदिते सहस्राक्षः संप्रतस्थे स्वयं रुपा ।। ९२ ॥ . कोपरेस्ति मदुद्वीर्यो येनासौ परिरक्ष्यते । इति संचिंतयन् प्राप्तो जिनस्य धरणीमसौ ॥ ९३ ॥ प्रभामंडलमेवासी दृष्ट्वा दूरे जिनोद्भवम् । सर्वं गर्व परित्यज्य प्रणनामाजितं विभुं ॥ ९४ ॥ जिनपादसमीपे तो मुक्तरेरौ ततः स्थिती । तत्पित्रोचरितं पृष्टो गणिना च जिनाधिपः ॥१५॥ इदं प्रोवाच भगवान् जंबूद्वीपस्य भारते। पुरे सह संत्राके.मावनो नाम वाणिजः।। ९६॥ आनकीत्यंगना तस्य हरिदासश्च तत्सुतः । चतुःकोटीश्वरो भूत्वा यात्रोद्युक्तः स भावनः ॥१७॥ पुत्राय सकलं द्रव्यं न्यासत्वेन समर्पयन् । द्यूतादिवर्जनार्थं च शिक्षामस्मै ददौ परं ।। ९८॥ सहेतुसर्वदोपेभ्यः उपदिश्य निवर्तनं । पुत्राय वणिजो यातः पोतेन धनवष्णया ॥ ९९ ।। उपचारेण वैश्याया मासया डूंतमंडले । सुरायामाभिमानेन चतुःकोट्यापि नाशिताः ॥ १० ॥ यदासौ निर्जितो छूते तदा राज्ञो गृहं गतः । हरिदासो दुराचारो द्रविणार्थ सुरंगया ।। १०१॥ आनीयासौ ततो द्रव्यं क्रियाः सर्वाश्चकार सः। भावनोन्यदा गेहमायातो नेक्षते सुतं ॥१०२॥ हरिदासः गतः क्वेति तेन पृष्टा कुटुंबिनी । साध्वोचदनया यातश्वीयर्या च सुरंगया ।।१०।। T- ७५ पंचर्म पर्य। 2 पद्मपुराणम् । ततौसौ तस्य मरणं शंकमानः सुरंगया । प्रस्थितचौर्यशांत्यर्थं गृहाभ्यंतरदत्तया ॥ १०४॥ आगच्छता च पुत्रेण कोपि वैरी ममेत्यसौं । मंडलाग्रेण पापेन वराको विनिपातितः ॥ १०५॥ विज्ञातोसौ ततस्तेन नखस्मश्रुसटादिभिः । स्पृष्ट्वा मम पितेत्येप प्राप्तो दुःखं च दुस्सह ॥१०६।। जनकस्य ततो मृत्युं कृत्वा सोऽभयविद्रुतः । पर्यटन्दुःखतो देशान् यातः कालेन पंचतां॥१०७॥ कौलेयको श्रृगालौ च वृपदंशौ वृषौ तथा । नकुलौ महिपावेतौ जातौ च वृषभौ पुनः ॥१०॥ अन्योन्यस्य ततो घातं कृत्वा तौ भवसंकटे । विदेहे पुष्कलावत्यां मनुष्यत्वमुपागतौ ।। १०९॥ उग्रं कृत्वा तपस्तस्मिन्नुत्तरानुत्तराद्वयौ । गत्वा सतारमायातौ जनकौ भवतोरिमौ ॥ ११०॥ योसौ भावननामासीज्जातोसौ पूर्णतोयदः । आसीत्तस्य तु यः पुत्रः संजातः स सुलोचनः १११ पित्रोरेवं परिज्ञाय भवदुःखविधर्तनं । भजतः शममुज्झित्वा वैरं संसारकारणं ॥ ११२ ।। चक्रवर्ती ततोपृच्छदेतयोः पूर्वजन्मनि । वैरकारणमेवं च भापितं धर्मचक्रिणा ॥ ११३ ।। अंबूद्वीपस्य भरते पुरे पद्मकनामनि । शंखिकोरंभनामासीद्विपये प्रथितो धनी ॥ ११४ ॥ शंश्यावलिसमाह्वानौ तस्य मैत्रीसमन्वितौ । शिष्यावत्यंतविख्यातौ धनवंती गुणोत्कटौ ॥११५॥ माभूदाभ्यां ममोद्वतः संहताभ्यामिति द्रुतं । तयो संभेदमकरोन्नयशास्त्रविचक्षणः ॥ ११६ ।।
पंचमं पर्व।
1
1
पद्मपुराणम् ।
गोपालकेन सन्मध्य शशी मूल्यार्थमन्यदा । चिक्रीपुर्गा गृहं यावदायातो निजलीलया ॥११७।।
क्रीत्वा देवनियोगात्तामागच्छन्नावली पुरं । गच्छता शशिना क्रोधानिहतो म्लेच्छतामितः ११८
मृतः शशी बलीची जातो म्लेच्छेन तेन च । हत्वा वैरानुबंधेन भक्ष्यतामुपपादितः॥११९॥
तिर्यग्गरकपाथः मन्म्लेन्छो मूपकतां गतः। अभूच्छश्यपि मार्जारस्तेन हत्वा स भक्षितः॥१२०॥
पापकर्मनियोगेन प्राप्ती नरकभूमिपु । प्राप्यते सुमहदुःखं जंतुभिर्भवसागरे ॥ १२१ ॥
भूयः संसृत्य काश्यां तो दासौ जाती सहोदरी । दास्याः संभ्रमदेवस्य कूटकार्पटिकाहयौ १२२
जिनवेश्मनि तो तेन नियुक्ती प्रेत्यपुण्यतः । रूपानंदसुरूपश्च जातौ भूतगणाधिपी ॥ १२३ ॥
शशिपूर्वोरजोवाल्यां च्युत्वाभूत्कुलपुत्रकः । कुलंधरो परः पुप्पभूतिः पुत्रः पुरोधसः ॥ १२४ ॥
मित्री वो सैरिकास्यार्थ प्राप्तौ वैरं नतः स्थिता । पुष्यभूति ततो हंतुं प्रावर्तत कुलंधरः ।।१२५॥
क्षमूलस्थसाधोश्च धर्मश्रुत्वा प्रशांतवान् । राजा परीक्षितश्चाभूत्सामंतः पुण्ययोगतः ॥ १२६ ॥
पुष्पभूतिरिमं दृष्ट्वा धाद्विभवमागतं । जैनो भूत्वा मृतो जातस्तृतीये सुरविष्टपे ॥ १२७ ।।
कुलंधरोपि तत्रैव च्युती तो मंदरावरे । विदेहे धातकीखंडे जयावत्यामरिंजये ।। १२८ ॥
सहस्रशिरसो भृत्यौ क्रूरामरधनश्रुती । जानावत्यंतविक्रांतावतरंगी सुविश्रुतौ ॥ १२९ ॥
पंचमं पर्व ।
७७
पद्मपुराणम् ।
अन्यदैपः समं ताभ्यां बढुं प्रातिष्ठत द्विपं । प्रीतिमैक्षिष्ट सचानां जन्मनैव विरोधिनां ॥१३०॥
शमिनोमी कथं व्याला इति विस्मयमागतः । अविशत्स महारण्यमपश्यच्च महामुनि ॥ १३१॥
ततो राजा समं ताभ्यां तस्य केवलिनोंतिके । प्रत्रज्य निर्वृति प्रापच्छतारं तु गताविमौ।।१३२॥
अगिपूर्वस्ततश्च्युत्वा जातोयं मेघवाहनः । आवली तु सहस्राक्षो वैरं तेनानयोरिदं ॥ १३३ ।।
प्रीतिर्ममाधिका कस्मात्सहस्रनयने विभो । इति पृष्ठो जिनोवोचत्सगरेण ततः पुनः ॥ १३४ ॥
भिवादानेन साधूनां रंभोमरकुरंगतः । सौधर्मं च ततश्च्युत्वा जातचंद्रपुरे हरेः ॥ १३५ ।।
नरेंद्रस्य धरादेव्या दयितव्रतकीर्तनः । श्रामण्यानाकमारुह्य विदेहेत्ववरे च्युतः ॥ १३६ ॥
महाघोपेण चंद्रिण्यामुत्पन्नो रनसंचये । पयोवलो मुनीभूय प्राणतं कल्पमाश्रितः ॥ १३७ ॥
प्रच्युत्य भरते जातो नगरे पृथिवीपुरे । यशोधरनरेंद्रेण जयायां जयकीर्तनः ॥ १३८ ॥
प्रवज्य च पितुः पार्थ मृत्वा विजयमाश्रितः । च्युत्वा ततो भवान् जातः सगरश्वकलांच्छनः ॥
रंभस्य भवतो यस्मादावली दयितीभवत् । तत्पूर्वीय प्रियोद्यापि सहस्राक्षस्ततस्तव ॥ १४० ॥
अवगम्य जिनेंद्रास्यादात्मपित्रोर्मयांतरं । उत्पन्नो धर्मसंवेगस्तयोरत्यंतमुन्नतः ॥ १४१॥
महतो धर्मसंवेगाज्जानौ जातिस्मृतौ ततः। श्रद्धावंती समारब्धौ स्तोतुं तावजितं जिनं ॥१४२॥
पंचमः पर्य। ७८ पद्मपुराणम्। 1 - वालिशानामनाथानां सत्त्वानां कारणाद्विना । उपकारं करोपि त्वं आश्चर्य किमतः परं ॥१४३॥ उपमामुक्तरूपस्य वीर्यणाप्रमितस्य ते । निरीक्षणेन कस्तृप्तो विद्यतेस्मिन् जगत्त्रये ॥ १४४ ॥ लन्धार्थः कृतकृत्योपि सर्वेदी सुखात्मकः । अचिंत्यो ज्ञातविज्ञेयस्तथापि जगते हितः ॥१४५।। सारधर्मोपदेशाख्यं जीवानां त्वं जिनोत्तम । पततां भवपाताले हस्तालंयं प्रयच्छसि ॥ १४६ ॥ इति तो गद्गदालापौ वाष्पविप्लुतलोचनौ । परमं हर्पमायाती प्रणम्य विधिवस्थितौ ।। १४७ ।। शक्राद्या देववृषभाः सगराधा नृपाधिपाः । साधवः सिंहवीर्याचा ययुः परममद्भुतं ॥ १४८ ॥ सदस्यथ जिनेंद्रस्य रक्षसामधिपाविदं । ऊचतुर्वचनं भीमसुभीमाविति विश्रुती ॥१४९ ।। खेचरामक धन्योसि यस्त्वं शरणमागतः । सर्वज्ञमजिनं नाथं तुष्टावावामतस्तव ।। १५० ॥ श्रृशु संप्रति ते स्वास्थ्यं यथा भवति सर्वतः । तं प्रकारं प्रवक्ष्याव: पालनीयस्त्वमाययोः १५१ संत्यत्र लवणांभोधावत्याग्राहसंकटे । अत्यंतदुर्गमारम्या मही द्वीपा सहस्रशः ।। १५२ ।। कचित्काडंति गंधर्वाः किन्नराणां क्यचिदणाः । क्वचिच यक्षसंघातास्यचिरिकपुरुपामराः॥१५३॥ तत्रमध्येस्ति मद्वीपो रक्षसां क्रीडनः शुभः । योजनानां शतान्येषः सर्वतः सप्त कीर्तितः॥१५॥ तन्मध्ये मेरुवाति त्रिकूटाख्यो महागिरिः । अत्यंतदुःप्रवेशो यः शरणः सद्गुहागृहैः ॥१५५।
; पंचमं पर्व। पद्मपुराणम्। ८ शिखरं तस्य शैलेंद्रचूडाकारं मनोहरं । योजनानि नवोत्तुंगं पंचाशद्विपुलत्वतः ॥ १५६ ॥ नानारत्नप्रभाजालच्छन्नममहातटं । चित्रवल्लीपरिष्वक्तकल्पद्रुमसमाकुलं ॥ १५७ ॥. त्रिंशद्योजनमानाधः सर्वतस्तस्य राक्षसी । लंकेति नगरी भाति रत्नजावूनदालया ।। १५८॥ मनोहारिभिरुवानः सरोभिश्च सवारिजः । महद्भिश्चैत्यगेहैश्च सा महेंद्रपुरीसमा ।। २५९ ॥ गच्छतां दक्षिणाशायां मंडनत्वमुपागतां । समं वांधववर्गेण विद्याधर सुखी भव ॥ १६०॥ एवमुक्त्वा ददावस्मै हार राक्षसपुंगवः । देवताधिष्ठितं ज्योत्स्ना कुर्वाणं करकोटिभिः ॥ १६१ ॥ जन्मांतरसुतप्रीत्या भीमश्चैवं तमब्रवीत् । हारोयं तेत्यदेहस्य युगश्रेष्ठस्य चोदितः ।। १६२ ॥ धरण्यतर्गत चान्यद्दत्तं स्वाभाविकं पुरं । विस्तीर्णभरतार्दा मधः पड्योजनीगतं ॥ १६३॥ । दुःप्रवेशमरातीनां मनसापि महद्गृहं । अलंकारो दयाभिख्यं स्वर्गतुल्यमभिख्यया ॥ १६४ ॥ परचक्रसमाक्रांतः कदाचिचेद्भवेरसि । आश्रित्य तत्तदा तिष्ठेरहस्यं वंशसंततेः ॥ १६५ ।। इत्युक्तो राक्षसेशाभ्यां प्राप पूर्णघनात्मजः । प्रमोदं परमं देवं प्रणनाम च सोऽजितं ॥ १६६ ।। लब्ध्वा च राक्षसी विद्यां आरोप्सितगत्वरं । विमानं कामगं नाम प्रस्थितस्ता पुरीमसौ ॥१६७॥ वात्वा लब्धवरं चैतं रक्षोभ्यां सर्वबांधवाः । याता विकाशमभोजसंघा इव दिवानने ॥ १६८।।
- - . . . पंधर्म पर्व । पद्मपुराणम् । विमलामलकात्याचा विद्यामाजस्तमृद्धिभिः । सुप्रीता शीघमायाता नंदयतः सुभापितैः ॥१६९॥ वेष्टितोसी ततस्तुष्टः पार्श्वतः पृष्टतोग्रतः । कैश्चिद्विरदपृष्टस्थैः कैश्चित्तुरगयायिभिः ॥१७० ॥ जयशब्दकृतारावैः प्राप्तदुंदुभिनिःस्वनः । श्वेतच्छत्रकृतच्छायै जमालाविभूषितैः ॥ १७१ ॥ विद्याधराणां संघातः कृताशी मनक्रियाः । गच्छन्नमस्तले पश्यलवणार्णवमाकुलं ॥ १७२ ॥ आकाशमिय विस्तीर्ण पातालमिव निस्वलं । तमालवनसंकाशं ऊर्मिमालासमाकुलं ॥ १७३ ॥ अयं जलगतः शैलो ग्राहोयं प्रकटो महान् । चलितोयं महामीनः समीपैरिति भापितः ।।१७४॥ त्रिकूटशिखराधस्तान्महापाकारगोपुरं । संध्यामिव विलपंती छाययारुणया नभः ।। १७५ ।। कुंदशुभैः समुतुंगः वैजयंत्युपशोभितः । मंडितां चैत्यसंघातः सप्राकारैः सतोरणैः ॥ १७६ ॥ प्रविष्टो नगरी लंकां प्रविश्य च जिनालयं । वंदित्वा स्वोचितागारमध्युवास समंगलं ॥१७॥ इतरेपि यथासम निविष्टास्तस्य बांधवाः । रलशोभासमाकृष्टमनोनयनपंक्तयः ।। १७८ ॥ अथ किंनरगीताख्ये पुरे रतिमयूखतः । अनुमत्यां समुत्पन्नां सुप्रभानामकन्यको ॥ १७९ ॥ चक्षुमानप्तयोश्चौरी वसतिं पुष्पधन्वनः । कौमुदीं श्रीकृमुद्वत्या लावण्यजलदीपिका ॥ १८ ॥ संपदा परयोवाह भूषणानां विभूपणीं । हुपीकाणामशेषाणां प्रमोदस्य विधायिकां । विशेषकम् ।
पंचम पर्व । पद्मपुराणम् । ८१ . ततः खेचरलोकेन मस्तकोपात्तशासनः । पुरंदर इव स्वर्गे तत्रासाववसच्चिरं ।। १८२ ।। अथ तस्याभवत्पुत्रः पुत्रजन्माभिकांक्षिणः। महारक्ष इति ख्याति योगतः कौलदेवतीं ॥१८३।। वंदनायान्यदा यातोजितं तोयदवाहनः । वंदित्वा च निजस्थाने स्थितो विनयसन्नतः॥१८४॥ तावदन्यकथाच्छेदे प्रणम्य सगरोऽजितं । पृच्छतीदं शिरः कृत्वा पाणिपंकजदंतुरं ॥ १८५ ।। मगवन्नवसर्पिण्या भवद्विधजिनेश्वराः । स्वामिनो धर्मचक्रस्य भविष्यत्यपरे कति ॥ १८६ ॥ कति,वा समतिक्रांता जगत्रयसुखपदा । भवद्विधनरोत्पत्तिराश्चर्य भुवनत्रये,॥ १८७ ।। कति या रत्नचक्राका लक्ष्मीभाजः प्रकीर्तिताः । इलिनो वासुदेवाश्च कियंतस्तद्विपस्तथा ॥१८८॥ एवं पृष्टो जिनो वाक्यमुवाच सुरदुंदुभेः । तिरस्कुर्वन्महाधानं जनितश्रवणोत्सवं ।। १८९ ।। मापार्द्धमागधी तस्य मापमाणस्य नाधरौ । चकार स्पंदसंयुक्तावहो चित्रमिदं परं ।।. १९० ।। उत्सर्पिण्यवसर्पिण्योधर्मतीर्थप्रवर्तिनः । चतुर्विंशतिसंख्यानाः प्रत्येकं सगरोदिताः ।।.,१९१ ॥ मोहांधवांतसंछन्नं कृत्स्नमासीदिदं जगत् । धर्मसंचेतनामुक्तं निष्पाखंडमराजकं ॥ १९२ ।। यदा तदा समुत्पन्नो नाभेयो जिनपुंगवः । राजन् तेन कृतः पूर्वः कालः कृतयुगाभिध॥१९॥ कल्पिताश्च त्रयो वर्णाः क्रियामेदविधानतः । शस्यानां च समुत्पत्ति यते कल्पतोयतः॥१९॥ " ६ . पंचम पर्व . ८२. AI . . 13 पद्मपुराणम् । . सृष्टाः काले च तस्यैव माहनाः सूत्रधारिणः । सुतेन भरतारुपेन तस्य तत्समतेजसा ।। १९५ ।। आश्रमश्च समुत्पन्नाः सागारेतरभेदतः । विज्ञानानि कलाश्चैव नामेयेनैव देशिताः ॥ १९६ ।। दीक्षामास्थाय तेनैव जन्मदुःखानलाहताः । भव्याः कृतात्मकृत्येन नीताः सौख्यं शमायुना१९७ प्रैलोक्यमपि संभूय यस्यौपम्यादपेयुपा । गुणानामशकं गंतुमंतमात्मसमुद्यतेः ॥ १९८ ॥ अष्टापदनगारूढो या शरीरविसृष्टये । दृष्टः सुरासुरहेमकूटाकारः सविस्मयैः ॥ १९९ ॥ शरणं प्राप्य तं नाथं मुनयो भरतांदयः । महाव्रतधरा याताः पदं सिद्धः समाश्रिताः ॥२०॥ पुण्यं केचिदुपादाय स्वर्गसौख्यमुपागताः । सभावार्जवसंपन्नाः केचिन्मानुष्यकं परं ॥२०१॥ नितांतोज्ज्वलमप्यन्ये दास्तस्य नो मतं । कुदृष्टिरागसंयुक्ताः कौशिका इव भास्करं ॥२०२।। ते कुधर्म समास्थाय कुदेवत्वं प्रपद्य च । पुनस्तिर्यक्षु दुश्चेष्टा भ्रमति नरकेषु च ।। २०३ ।। अनेकेत्र ततोंतीते काले रत्नालयोपमें । नामेययुगविच्छेदे जाते नष्टसमुत्सवे ।। २०४ ।। अवतीर्य दियो मूभः कत कृतयुगं पुनः । उद्भुतोमि हिताधार्या जगतामजितो जिनः।।२०५।। आचाराणां विधातेन कुदृष्टीनां च संपदा । धर्म ग्लानिपरिप्राप्तमुच्छ्यंते जिनोचमाः ।। २०६ ।। ते तं प्राप्य पुनर्धर्म जीवा बांधवमुत्तमं । प्रपद्यते पुनर्मार्ग सिद्धस्थानाभिगामिनः ।। २०७ ॥
पंचमं पर्व। --- पद्मपुराणम् । + ततो मयि गते मोक्षमुत्पत्स्यते जिनाधिपाः । द्वाविंशति क्रमादन्ये त्रिलोकोद्योतकारिणः २०८ ते च मत्सदृशाः सर्वे कांतिवीर्यादिभूषिताः । त्रैलोक्यपूजनप्राप्तेर्ज्ञानदर्शनरूपतः ॥ २०९ ॥ चक्रांकितां श्रियं भुक्त्वा तेषां मध्ये त्रयो जिनाः । प्राप्स्यति ज्ञातसाम्राज्यमनंतसुखकारणं२१० तेषां नामानि सर्वेपां मंगलानि जगत्त्रये । महात्मनामहं वक्ष्ये मनःशुद्धिकराणि ते ॥ २११ ॥ ऋषभो तृपमः पुंसामतीतः प्रथमों जिनः । वर्तमानोजितश्चाहं परिशेषा सु भाविनः ॥ २१२ ॥ संभवः संभवो मुक्तः भव्यानंद्यभिनंदनः । सुमतिः पद्मतेजाव सुपार्श्वश्चंद्रसंनिभः ॥२१३ ॥ पुष्पदंतोप्टकौतः शीतलः शीलसागरः । श्रेयान् श्रेयान्सुचेष्टासु वासुपूज्योचिंतः सतां ॥२१४॥ विमलानंतधर्माश्च शांतिकुंवरकीर्तिताः । मल्लिसुव्रतनामानौ नमिनेमी च विद्युतौ ॥ २१५ ।। पार्थो वीरजिनेंद्रश्च जिनशैली धुरंधरः । देवाधिदेवता एते जीवस्त्रात्मव्यवस्थिताः ॥ २१६ ॥ जन्मावतारः सर्वेपां रत्नवृष्टयाभिनंदितः । मेरौ जन्माभिषेकश्च सुरैः क्षीरोदवारिणा ॥२१७ ॥ उपमानविनिमुक्तं तेजोरूपं सुखं बलं । सर्वे जन्मरिपोलोंके विचंसनविधायिनः ॥ २१८॥" अस्तं याते महावीरजिनतिग्मांशुमालिनि । लोके पाखंडखद्योतास्तेजः प्राप्स्यति भूरयः ॥२१९॥ चतुर्गतिकसंसारकूपे ते पतिताः स्वयं । पातयिष्यंति मोहांधानन्यानप्यसुधारिणः ॥ २२० ॥ .
. 1 पंचम पर्व। पंदापुराणम्। एकस्त्वत्सदृशोऽतीतचक्रचिन्हथियापतिः। भवानको महाचीयों जनियंति दशापरे ।। २२१ ॥ प्रथमो भरतीतीतस्सगरस्त्वं च वर्तते । चक्रलांच्छितभोगेशा भविष्यंति परे नृपाः ।। २२२ ॥ सनत्कुमारविख्यातिर्मघवा नामतो परः । शांतिकुंवरनामानः सुभूमघनिकीर्तितः ।। २२३ ॥ महापमः प्रसिद्धश्च हरिपेण धनिस्तथा । जयसेननृपश्चान्यो ब्रह्मदत्तो भविष्यति ॥ २२४ ।। वासुदेवा भविष्यति नव सार्दै प्रतीश्वरैः । बलदेवाथ तातो धर्मविन्यस्तचेतसः ॥ २२५ ॥ प्रोक्ता ऐतेवसर्पिण्यां जिनप्रभृतयस्तथा । तथैवोसपिकाले भरतरावताख्ययोः ।। २२६ ।। एवं कर्मवशं श्रुत्वा जीवानां मवसकटं । महापुरुषभूतिं च कालस्य च विवर्तनं ।। २२७ ॥ अष्टकर्मविमुक्तानां सुसं चोपमयोज्झितं । जीमूतवाहनश्चक्रे चेतसीदं विचक्षणः ॥ २२८ ।। कष्टं यैरव जीवोयं कर्मभिः परितप्यते । तान्येवोत्सहते कर्तुं मोहितः कर्ममायया ।। २२९ ॥ आपातमात्ररम्येषु विषवदुासदायिषु । विपयेपु रतिः का वा दुःसोत्पादनवृत्तिषु ॥ २३० ॥ कत्वापि हि चिरं संगं धने कांतासु बंधुषु । एकाफिनैव कर्तव्यं संसारे परिवर्तनं ॥ २३१ ॥ तावदेव जनः सर्वः प्रियत्नानुवर्तते । दानेन गृह्यते यावत्सारमेयशिशुर्यथा ॥ २३२ ॥ इयता चापि कालेन को गतः सह बंधुभिः । परलोक कलत्रैवों मुहृद्धिधिवेन वा ।। २३३ ॥
पचमं 'पर्व। ८५. पद्मपुराणम्। . नागभोगोपमा भोगा भीमा नरकपातिनः । तेषुः कुर्यात्नरः संग को, वा यः स्यात्सचेतनः २३४ अहो परमिदं चित्रं सद्भावेन पदाश्रितान् । लक्ष्मी प्रवारयत्येव दुष्टत्वं किमतः परंः ।। २३५ ॥ स्वमे समागमो यद्वत्तद्वद्वंधुसमागमः । इंद्रचापसमानं च क्षणमात्रं च तैः सुखं ।। २३६ ।। जलयुवकायः सारेण परिवर्जितः । विद्युल्लवाविलासेन सदृशं जीवितं चलं ।। २३७ ॥ तस्मात्सर्वमिदं हित्वा संसारावासकारणं । सहायं परिगृहामि धर्ममव्यभिचारिणं, ॥ २३८ ॥! महारक्षसि निक्षिप्य राज्यभारं ततः कृती । प्रावजत्सोजितस्यांते महावैराग्यकंकटः ॥ २३९ ॥ दशाधिकं शतं तेन सार्क खेचरभोगिनां । निर्वेदमाप्य निष्क्रांतं गेहचारकवासतः ।। २४० ॥ महारक्षः शशांकोपि विश्राणनकरोत्करैः । पूरयन्वांधवांमोधि रेजे लंकानोंगणे ॥ २४१ ।। प्राप्य स्वप्नेपि तस्याज्ञां महाविद्याधराधिपाः । संभ्रमावोधमायांति कृतमस्तकपाणयः ॥२४२॥ प्रथिता विमलामस्य जाता माणसमप्रिया । यस्यानुवर्तनं चक्रे छायैव सततानुगा ॥ २४३ ।। अमरोदधिभानुभ्य परां रक्षाश्रुतिं श्रिता । तस्य तस्यां समुत्पन्नाः पुत्रा सर्वार्थसम्मिताः ॥२४४॥ विचित्र कर्मसंपूर्णाः तुंगा विस्तारभाजिनः । प्रसिद्धास्तस्य ते पुत्रास्त्रयो लोका इवाभयन्।।२४५॥ प्रवृत्याजितनाथोपि भव्यानां मुक्तिगामिना । पंथान प्राप्य सम्मेदे निजां प्रकृतिमात्मनः २४६ पचम पव। पद्मपुराणम् । सगरस्य च पत्नीनां सहस्राणां पडुत्तराः । नवतिः शक्रपत्नीनाममान तुल्यतेजसां ॥ २४७ ॥ सुपुत्राणां च पुनाणां विभ्रतां शक्तिमुत्तमा । जाताः पष्टिसहस्राणां रत्नस्तंभसमन्विपां ॥२४८॥ ते कदाचिदथो याताः कैलाश वंदनार्थिनः । कपया पदन्यासर्वसुधा पर्वता इव ॥२४९॥ विधाय सिद्धगिनां वंदना प्रश्रयान्विताः। गिरेस्ते दंडरत्नेन परिक्षेपं प्रचक्रिरे ॥ २५० ॥ आरसातलमूलांतां दृष्ट्वा सातां वसुधरां । तेपामालोचनं चके नागेंद्रः क्रोधदीपितः ॥ २५१ ॥ कोधवन्हेस्ततस्तस्य ज्यालामिीढविग्रहाः । भस्मसाद्भावमापाताः सुतास्ते चकार्तिनः ॥२५२।। वेषां मध्ये न दग्धौ द्वौ कथमप्यनुरूपया । जीवितात्मकया शक्त्या विपतो जातया यथा।।२५३।। सागरीणामिमं मृत्युं दृष्ट्वा युगपदागतं । दु:खितौ सगरस्यांत याती भीमभगीरथौ ।। २५४ ।। अकस्मात्कधिनायं प्राणास्त्याक्षीत्क्षणादिति । पंडितैरिति संचित्य निषिद्धौ तौ निवेदन।।२५५|| ततः संभूय राजानो मंत्रिणश्च कुलागताः । नानाशास्त्रविबुद्धाय विनोदज्ञा मनीपिणः ।। २५६ ।। अपिभिन्नमुसच्छाया: पूर्ववेपसमन्विताः । विनयेन यथा पूर्व सगरं समुपागताः ॥ २५७ ॥ नमस्कृत्योपरिष्टस्तैर्यथास्थानं प्रचोदितां । संजया प्रत्याः कश्चिदिदं वचनमब्रवीत् ॥ २५८ ॥ राजन् सगर पश्य त्वं जगवीमामनित्यतां । संसारं प्रति यां दृष्ट्वा मानसं न प्रवर्तते ॥ २५९ ।।
पंचम पर्व। । . . . पद्मपुराणम् । ८७ राजासीद्भरतो नाम्ना त्वया समपराक्रमः । दासीव येन पखंडा कृता वश्या वसुंधरा ॥२६० ॥ तस्यादित्ययशाः पुत्रो बभूवोन्नतविक्रमः । प्रसिद्धो यस्य नाम्नायं वंशः संप्रति वर्तते ॥२६१॥ एवं तस्याप्यभूत्पुत्रस्तस्याप्यन्योपरस्ततः । गतास्ते चाधुना सर्वे दर्शनानामगोचरं ॥ २६२ ॥, आसतां तावदेते वा नाकलोकेश्वरा अपि । ज्वलिता विभवैर्याताः क्षणादुःखेन भस्मतां॥२६३॥ येपि तीर्थकरा नाम त्रैलोक्यस्याभिनंदकाः । शरीरं तेपि संत्यज्य गच्छंत्यायुःपरिक्षये ॥२६॥ महातरौ ययैकसिन्नुपित्वा रजनी पुनः । प्रभाते प्रतिपद्यते ककुभो दश पक्षिणः ॥ २६५ ।। एवं कुटुब एकस्मिन् संगमं प्राप्य जंतवः । पुनः स्वां स्वां प्रपद्यते गति कर्मवशानुगाः ।।२६६॥ कैश्चित्तश्चेष्टितं तेषां वपुश्चात्यंतशोभनं । विपयीकृतमक्षिभ्यामस्माकं तु कथागतं ।। २६७ ।। बलवद्भ्यो हि सर्वेभ्यो मृत्युरेव महाबलः । आनीता निधनं येन बलवंतो बलीयसा ॥ २६८ ॥ कथं स्फुटति नो वक्षः स्मृत्वा तेषां महात्मनां । विनाशं भरतादीनामहो चित्रमिदं परं ॥२६९।। फेनोमींद्रधनुःस्वप्मविद्युहुदसन्निभाः । संपदः प्रियसंपर्को विग्रहाश्च शरीरिणां ।। ,२७० ॥ नास्ति कश्चिन्नरो लोके यो बजेदुपमानतां । यथायममरस्तद्वद्वयं मृत्यूज्झिता इति ॥ २७१ ।। येपि शोपयितुं शक्ताः समुद्रं ग्राहसंकुलं । कुर्युर्या करयुग्मेन चूर्ण मेरुमहीधरं ॥ २७२ ॥ ..
. , पंचमं पर्व । पद्मपुराणम्। उद्धत धरणी शक्ताः ग्रसितुं चंद्रभास्करा । प्रविष्टास्तपि कालेन कृतांतवदनं नराः ॥ २७३ ।। मृत्योर्दुर्लपितस्यास्य त्रैलोक्ये वशतां गते । केवलं व्युच्छिताः सिद्धाः जिनधर्मसमुद्भवाः।।१७।। यथा ते वहयो याताः कालेन निधनं नृपाः । यास्यामो वयमप्येवं सामान्य जगतामिदं ।।२७५।। तत्र ग्रिलोकसामान्ये वस्तुन्यस्मिन् समागते । शोकं कुर्याद्वियुद्धात्मा को नरो भवकारणं २०६ कथायामिति जातायां वीक्ष्यापत्यद्वयं पुनः । मानसे चक्रवर्तीदं चकारेंगितकोविदः ॥ २७७ ॥ सर्वदा युगपत्सर्वे मां नर्मति स्म देहजाः । अथ द्वौ दीनवदनौ नूनं शेषा गताः क्षयं ॥ २७८॥ एते चान्यापदेशेन कथयंति समागताः । नृपाः कथयितुं साक्षादुदारं दुःखमक्षमाः ।। २७९ ॥ ततः शोकोरगेणासौ दष्टोपि न समत्यजत् । प्राणान् सभ्यपचोमंत्रः प्रतिपद्य प्रतिक्रियां ॥२८॥ कदलीगर्भनिःसारमवेत्य मवजं सुखं । भगीरथे श्रियं न्यस्य दीक्षां स समशिश्रियत् ॥ २८१ ॥ त्यजतोस्य धरित्रीय नगराकरपंडिता । मनस्युदात्तलीलस्य चरत्नृणसमाभवत् ।। २८२, ।। साई भीमरथेनासौ प्रतिपद्याजितं विभुं । केवलज्ञानमुत्पाद्य सिद्धानां पदमाश्रयत् ॥ २८३ ॥ तनयः सागरर्जन्होः कुर्वन् राज्यं भगीरथः । श्रुतसागरयोगीन्द्रं पृष्टयानेवमन्यदा ॥ २८४ ।। पितामहस्य मे नाथ तनया युगपत्कृतः । कर्मणो मरणं प्राप्ता मध्ये तेपामहं तु न ॥ २८५ ॥ H पंचमं पर्व . ८९ पद्मपुराणम् ।। . A अवोचद्गवान्संघो वंदनार्थ चतुर्विधः,। सम्मेदं प्रस्थितोवापदंतिकग्रामदर्शनं ।। २८६ ।। दृष्ट्वा तमंतिकग्रामो दुर्वचाः सकलोऽहसत् । कुंभकारस्तु तत्रैको निपिध्य कृतवान् स्तुति।।२८७॥ तद्ग्रामवासिनकेन कृते चौर्ये स भूभृतां । परिवेष्ट्याखिलो दग्धो ग्रामो भूर्यपराधकः ॥२८८॥ भस्मसाद्भावमापनो यस्मिन् ग्रामोरं वासरे । कुंभकारो गतः कापि मध्यचेता निमंत्रितः २८९ कुंभकारोभवन्मृत्वा वाणिजः सुमहाधनः । वराटकसमूहस्तु ग्रामः प्राप्तच तेन सः ॥ २९० ॥ कुंभकारोभवदाजा ग्रामोसौ मातृवाहकाः । हस्तिना चूर्णिवास्तस्य ते चिरं भवमभ्रमन् ॥२९१।। राजा च श्रमणो भूत्वा देवीभूय च्युतो भवान् । भगीरथः समुत्पन्नो ग्रामस्तु सगरांगजा।।२९२।। संघस्य निंदनं कृत्वा मृत्युमेति भवे भवे । तेनासौ युगपद्ग्रामो जातःस्तुत्या त्वमीदृशः॥२९॥ श्रुत्या पूर्वभवानेवमुपांतो भगीरथः । बभूव मुनिमुख्यश्च तपोयोग्यं पदं ययौ ॥ २९४ ॥ वृत्तांतागतमेतत्ते चरितं सगराश्रितं । कथितं प्रस्तुतं वक्ष्ये श्रृणु श्रेणिक सांप्रतं ॥ २९५ ॥ योऽसौ तत्र महारक्षो नाम विद्याधराधिपः । लंकायां कुरुते,राज्यं कंटकैः परिवर्जितं ॥ २९६ ॥ सोन्यदा कमलच्छन्नदीपिकाकृतमंडनं । नानारत्नप्रभोत्तुंगक्रीडापर्वतकारितं ॥ २९७ ॥ आमोदिकुसुमोद्भासितरुखंडविराजितं । कलकृजितविभ्रांतशकुंतगणसंकुलं ।। २९८ ।। --
4
पंचम पर्व।
पद्मपुराणम् ।।
#
रत्नभूमिपरिक्षिप्त विकाशिविविधद्युतिं । घनपल्लवसच्छायलतामंडपमंडितं ॥२९९ ॥
अगमत्यमदोधानमंतःपुरसमन्वितः । महत्या संपदा युक्तो विद्याबलसमुच्छ्यः ॥ ३००॥
तत्र क्रीडितुमारेभे वनिताभिरसौ समं । कुसुमैः ताड्यमानच ताडयंश्च यथोचितं ॥ ३०१ ।।
कांचित्पादप्रणामेन कुपितामीर्पया, स्त्रियं । सांत्वयनन्ययातेन सांत्वमानः सुलीलया ॥३०२॥
उरसा प्रेरयन् कांचित्रिकूटवटशोभिना । पीवरस्तनरम्येण प्रेर्यमाणस्तथान्यया ॥ ३०३ ॥
पश्यन्प्रच्छन्नगात्राणि क्रीडाव्याकुलयोषितां । रतिसागरमध्यस्थो नंदनेश्मरराजवत् ॥ ३० ॥
अथ पके त्रियामायाः परं संकोचमीयुपि । राजीवसंपुटे पश्यद्विरेफ स निपीडितं ॥ ३०५॥
दृष्ट्वा चास्य समुत्पन्ना चितेयं भवनाशिनी । कर्मणो मोहनीयस्य याते शिथिलतां गुणे, ॥३०६।।
मकरंदरसासको मूढस्तृप्तिमनागतः । मृति मधुकरः प्राप्तो धिगिच्छामंतवर्जितां ।। ३०७॥.
यथायमत्र संशक्तः प्राप्तो मृत्यु मधुरतः । प्राप्स्यामो वयमप्येवं शक्ताः स्त्रीमुखपंकजे ॥३०८॥
यदि तावदयं घस्तो प्राणेन रसनेन च । कैव वार्ता तदासासु पचेंद्रियवशात्मसु ।। ३०९ ।।
तिर्यजातिसमेतस्य युक्तं वास्येदमीहितुं । वयं तु ज्ञानसंपन्नाः संगमत्र कथं गताः ॥ ३१० ।।
मधुदग्धासिधाराया लेहने कीदृशं सुखं । रसनं प्रत्युतायाति शतधा यत्र खंडनं ॥ ३११ ॥
पंचम पर्व। . ९१. पत्रपुराणम्। विषयेषु नथा सांग्यं कीदृशं नाम जायते । यत्र प्रत्युत दुःखानां उपर्युपरिसंततिः ॥ ३१२ ॥ किंपाकफलतुल्येभ्यो विषयेभ्यः पराङ्मुखाः । ये नरास्तान्नमस्यामि कायेन वचसा धिया ३१३ हा कष्टं वंचितः पापो दीर्घकालमहं सलैः । विषयपिमासंगर्विपचन्मारणात्मकः ॥ ३१४ ॥ अथात्र समय प्रातस्तमुधानं महामुनिः । अर्थानुगतया युक्तः श्रुतसागरसंज्ञया ।। ३१५ ।। पूर्णः परमरूपेण ऐपयन् कांतितो विधुं । विरस्तुर्वन् रविं दीप्त्या जयं स्थैर्येण मंदरं ॥ ३१६ ॥ धर्मध्यानप्रशक्तात्मा रागद्वेषविवर्जितः । भग्नस्त्रिदंडसंपर्कः कपायाणां समे रतः ॥ ३१७ ।। पशीकर्ता हपीकाणां पटायप्राणिवत्सलः । भीतिभिः सप्तभिर्मुक्तो मदाष्टकविवर्जितः ॥ ३१८ ॥ साधादिव शरीरेण धर्मसंबंधमागताः । सहितो यतिसंघेन महता चारुचेष्टिना ॥ ३१९ ॥ स तत्र पिपुले शुद्धे भूतले जंतुषजिते । उपविष्टस्तनुच्छायास्थगिताशेषदिग्मुखः ॥ ३२० ॥ बासीनं विदित्वंनं मुग्वेभ्यो वनरक्षिणां । अभीयाय महारक्षो विभ्रदुत्कंठितं मनः ॥ ३२१॥ अथास्याप्तिप्रसन्नास्यकांतितोयेन पादयोः । कुर्वन् प्रक्षालनं राजा पपात शिवदायिनोः ॥३२२|| प्रणम्य गेपसंपं च पृष्ट्वा क्षेमं च धर्मगं । अवस्थाय क्षणं धर्म पर्यपृच्छत्सभक्तितः ॥ ३२३ ॥ अयोपशमचंद्रस्य चित्तस्थस्येव निर्मलः । दंतांशुपटलः कुर्वन् ज्योत्स्ना मुनिरभापत ।। ३२४ ॥
। 4 I . - - । पद्मपुराणम् । पंचम पर्व। अहिंसा नृप सद्भावो धर्मस्योक्तो जिनेश्वरैः । परिवारोस्तु शेपोस्य सत्यभाषादिरिष्यते ॥३२५॥ यां यां जीवाः प्रपद्यते गतिं कर्मानुभावतः । तत्र तत्र रतिं यांति जीवनं प्रतिमोहितः ॥३२६॥ त्रैलोक्यं परित्यज्य लाभ मरणभीरवः । इच्छंति जीवन जीवा नान्यदस्ति ततः प्रियं ॥३२७॥ किमत्र बहुनोक्तेन स्वसंवेद्यमिदं नतु । यथा स्वजीवितं कांत सर्वेषां प्राणिनां तथा ॥ ३२८॥ तस्मादेवंविधं मृदा जीवितं ये शरीरिणां । हरंति रौद्रकर्माणः पाप तैर्न च किं कृतं ॥ ३२९ ॥ जंतूनां जीवितं नीत्वा कर्मभारगुरूकृताः । पतंति नरके जीवा लोहपिंडचदंमसि ।। ३३० ।। मधु श्रवंति ये वाचा हृदये विपदारुणाः । वशे स्थिता हपीकाणां त्रिसंध्यादग्धमानसाः॥३३१॥ साघाचारविनिर्मुक्ता यथाकामविधायिनः । ते अमंति दुरात्मानस्तिर्थग्गर्भपरंपरां ।। ३३२ ॥ दुर्लभं सति जंतुत्वे मनुष्यत्वं शरीरिणां तस्मादपि सुरूपत्वं ततो धनसमृद्धता ॥ ३३३ ।। ततोप्यार्यत्वसंभूतिस्ततो विद्यासमागमः । ततोप्यर्थज्ञता तस्माद्दुर्लभो धर्मसंगमः ॥ ३३४ ॥ कृत्वा धर्म ततः केचित्सुखं प्राप्य सुरालये । देव्यादिपरिवारेण कृतं मानसगोचरं ॥ ३३५ ॥ च्युत्त्वा गर्भगृहे भूयोचिमूत्रकृतलेपने । चलत्कृभिकुलाकीर्णे दुर्गधेत्यंतदुस्सहे ।। ३३६ ।। चर्मजालकसंछन्नाः पित्तश्लेष्मादिमध्यगाः । जनन्याहारनिस्पंदं लिहंतो नाडिकाच्युतं ॥३३७॥ * पंचम , पर्व। -- 4 पद्मपुराणम् पिंडीकृतसमस्तांगा दुःखभारसमार्दिताः । उपित्वा निर्गता लब्ध्वा मनुष्यत्वमनिंदितं ॥३३८॥ जन्मनः प्रभृति क्रूरा नियमाचारवर्जिताः । सदृष्टिरहिताः पापा,विषयान्समुपासते ॥ ३३९ ॥, ये कामवशतां याताः सम्यक्त्वपरिवर्जिताः । प्राप्नुवंतो महादुःखं ते भ्रमंति. भवार्णवे ॥३४०॥ परपीडाकर यांक्यं वर्जनीयं प्रयत्नतः । हिंसायाः कारणं तद्धि सा च, संसारकारणः ॥ ३४१ ।।. तथास्तेयं स्त्रियाः संग महादविणवांच्छनं । सर्वमेतत्परित्याज्यं पीडाकरणवां गतं.॥ ३४२ ॥ श्रुत्वा धर्म समाविष्टो वैराग्य खेचराधिपः । पप्रच्छ प्रणतिं कृत्वा व्यतीतं भवमात्मनः॥३४३।। चतुर्ज्ञानोपगूढात्मा विनयेनोपसेदुपे । इति तस्मै समासेन जगाद श्रुतसागरः॥ ३४४ ॥ भरते पोदनस्थाने हितो नाम नरोभवत् । माधवीति च भार्यास्य प्रीत्याख्यस्त्वं तयोः सुतः३४५ अथ तत्रैव नगरे नृपोऽभूदुदयाचलात् । अहेच्छ्रियां समुत्पन्नो नाम्ना हेमरथो महान् ॥ ३४६ ॥ प्रासादे सोन्यदा जने श्रद्धया परयान्वितः । चकार महती पूजा लोकविस्मयकारिणीं ॥३४७॥ तस्मादुत्थितमाकये जयशब्दं जनैः कृतं । जयेत्यानंदपूर्णेन त्वयापि परिघोपितं ॥ ३४८.॥ अमाते च ततस्तस्मिन् गृहाभ्यंतरतो मुदा । शिखिनेव धनधानानतनं कृतमंगणे ।। ३४९ ।। तस्मादुपात्तकुशलो गतः कालेन पंचतां । अजायत. महान् यक्षो यक्षनेत्रसमुत्सवः ॥ ३५० ।।
पंचमं पर्व। . पद्मपुराणम्। अपरस्मिन् विदेहेथ पुरे कांचननामनि । साधूनां शत्रुभिः कर्तुमुपसर्गः प्रवर्तितः ॥ ३५१ ॥ निर्घाटय नान् त्वया शुन् मुनीनां धर्मसाधनं । शरीरं रक्षितं तस्मात्पुण्यराशिरुपार्जितः ३५२ विजयार्द्ध ततश्च्युत्वा तडिदंगदखेचरात् । श्रीप्रभायां समुद्भूत उदितो नाम विश्रुतः ।। ३५३ ।। चंदनाय समायातं नाम्ना चामविक्रमं । दृष्टवानसिविद्यशं निदानमकरोत्ततः ॥ ३५४.।।. ततो महत्वपस्तप्त्या कल्पमेशानमुत्थितः । एप प्रच्युत्य भूतोसि सांप्रतं घानवाहनिः ॥ ३५५ ।। भास्करस्यदनस्येव चक्रेण परिवर्तनं । कृतं त्वया तु संसारे स्त्रीजिह्वावशवर्तिना ।। ३५६ ।। यावंतः समविक्रांतास्तव देहा भयांतरे । पिंड्यंते यदि ते लोके संभवेयुन जातुचित् ।। ३५७ ।। कल्पानां कोटिमिस्तृप्ति मुरभोगेर्न योगतः । खेचराणां च भोगेन स्वेच्छाकल्पितवृत्तिना ३५८ अष्टभिदिवसः स त्वं कथं प्राप्त्यसि तयणं । स्वप्नजालोपमोंगरधुना भज्यतां शमः ॥३५९॥ ततस्तस्य विषादोऽभून्नायुःक्षयसमुत्थितः । किंतु संसारचक्रस्थजन्मांतरविवर्तनात् ।। ३६० ।। स्थापयित्वा ततो राज्ये तनयं देवरक्षस । युवराजप्रतिष्ठायां तथा भास्कररक्षसं ॥.३६१ ॥ त्यक्त्वा परिग्रह सर्व परमार्थपरायणः । स्तंभतुल्यो महारक्षलोभेनाभवदुज्झितः ॥ ३६२ ॥ पानाहारादिकं त्यक्त्वा सर्वे देहस्य पालनं । समः शत्रौ च मित्रे च मनः कृत्वा सुनिश्चल॥३६३|| ९५ ५ पद्मपुराणम् । पंचम पर्व। मौनव्रतं समास्थाय जिनप्रासादमध्यगः । कृत्वा सुमहती पूजामर्हतामभिपेकिणीं ।। ३६४ ।। अईत्पदपरिध्यानपवित्रीकृतचेतनः । कृत्वा समाधिना कालं स बभूव सुरोत्तमः ॥ ३६५ ।। अथ किंनरनादाख्ये पुरे श्रीधरनामतः । विद्याजातामरिंजायां देवरक्षः प्रपन्नवान् ॥ ३६६ ।। गंधर्वगीतनगरे सुरसन्निमनामतः । गांधारी गर्भसंभूतां गंधर्वो भानुरूढवान् ॥ ३६७ ॥ सुता दश समुत्पन्ना मनोज्ञा देवरक्षसः । देवांगनासुरूपाच पट्कन्या गुणभूपणाः ॥ ३६८ ।। तावंतएव चोत्पन्ना सुताःकन्याश्च तत्समाः । आदित्यरक्षसो राज्ञः कीर्तिव्याप्तदिगंतराः॥३६९।। स्वनामसहनामानि महांति नगराणि तैः । निवेशितानि रम्याणि श्रेणिकतानि जित्वरैः॥३७०॥ संध्याकारः सुवेलच मनोल्हादो मनोहरः । हंसद्वीपो हरिोधः समुद्रः कांचनस्तथा ॥ ३७१ ॥ अर्धस्वर्गादिशश्चापि निवेशा स्वर्गसन्निभाः । गीर्वाणरक्षसः पुत्रैर्महाबुद्धिपराक्रमैः ।। ३७२ ।। आवर्तविघटांभोदा उत्कटस्फुटदुर्ग्रहाः । तटतोयावलीरलद्वीपाथाभांति राक्षसैः ॥ ३७३ ।। नानारत्नकृतोद्योता हेमभित्तिप्रभा मुराः । राक्षसानां बभूवुस्ते निवासाः क्रीडनार्थिनां॥३७४॥ तत्रैव खेचररेभिर्वीपांतरसमाश्रितैः । सन्निवेशा महोत्साहनगराणां प्रकल्पिताः ॥ ३७५ ।। ततस्तौ पुत्रयोः राज्यं दत्वा दीक्षा समाश्रितो । महातपोधनौ भूत्वा पदं यातौ सनातन।।३७६।।
पंचम पर्व। - १६ एवं महनि मताने प्रवृत्ते घानवाहने । महापुरूपनिढराज्यप्रावाज्यवस्तुनि ॥ ३७७ ॥ राक्षमस्तनयो जाता मनोवेगांगधारिणः । राक्षसो नाम यस्यायं नाना बंशः प्रकीयते ॥ ३७८।। तस्यादित्यगतिर्यानो बृहत्कीर्तिश्र नंदनः । योषायां गुप्रभाख्यायां रविचंद्रसमप्रभी ।। ३७९ ।। पभी जी समासज्य राज्यस्पंदनजे भरे । अमणत्वं समाराध्य देवलोकं समाश्रितः ।। ३८० ॥ जाता सदनपमाख्या मार्यादित्यगतेबरा । वृहत्कीर्तस्तथापुप्पनरोति परिकीर्तिता ।। ३८१ ।। अथादित्यगतेः पुत्रो नाम्ना भीमप्रमोऽभवत् । सहस्रं यस्य पनीनामभूदेवांगनारुचा ॥ ३८२ ।। आसीदष्टोचरं वस्य पुत्राणां शतमूर्जितं । स्तमरिय निनं राज्यं धारित यः समंततः ॥ ३८३ ।। आत्मजाय ततो राज्यं वितीर्य ज्यायसे प्रभुः । भीमप्रभः प्रपत्रान प्राप्तच परमं पदं ।। १८४ ।। देवेन राक्षसेंद्रेण राक्षसीपमंडले । कृतानुकंपना ऊपुः मुखेनांवरगामिनः ॥ ३८५ ॥ रक्षति रक्षमा द्वीपं पुण्येन परिरक्षिताः । राधयानामतो दीपं प्रसिद्धिं तदुपागतं ॥ ३८६ ।। एप राक्षमवंशस्य संमवः परिकीर्तितः । वंगमधानपुरूपान्कीर्तियिष्याम्यतः परं ।। ३८७ ।। पुत्री भीमप्रमस्यायः पूजा) नाम विश्रुतः । प्रयवान श्रियं न्यस्य तनये जितमास्करे ।।३८८॥ सोपि संपरिकीाख्ये स्थापयित्वा श्रियं मुते । प्रायजत्सापि मुग्रीचे निधाय प्राप दीक्षणं ३८९ ए पंचम पर्व। पद्मपुराणम् । सुग्रीवोपि हरिग्रीवं सन्निवेश्य निजे पदे । उग्रं तपः समाराध्य बभूव सुरसत्तमः ॥ ३९० ॥ हरिग्रीवोपि निक्षिप्य श्रीग्रीवे राज्यसंपदं । गृहीतश्रमणाचारो वनांतरमशिश्रियत् ॥ ३९१ ।। आरोप्य सुमुखे राज्यं श्रीग्रीवो जनकाश्रितं । मार्गमाश्रितवान् वीरः सुव्यक्ते सुमुखस्तथा ३९२ सुव्यक्तोमृतवेगाख्ये न्यस्तवान् राक्षसीं श्रियं । स चापि भानुगत्याहे स च चिंतागतौ सुते ३९३ इंद्र इंद्रप्रभो मेघो मृगारिदमनः पविः । इंद्रजिद्भानुवर्मा च भानुर्मानुसमप्रमः ।। ३९४ ॥ सुरारित्रिनटो भीमो मोहनोद्वारको रविः । चकारो वज्रमध्यश्च प्रमोदः सिंहविक्रमः ॥ ३९५॥ चामुंडो मारणो भीष्मो द्विपवाहोरिमर्दनः । निर्वाणभक्तिरुयश्रीरहद्भक्तिरनुत्तरः ॥३९६॥ गतभूमोनिलथंडो लंकाशोको मयूरवान् । महावाहुर्मनोरम्यो भास्कराभो बृहद्गतिः ।। ३९७ ॥ बृहत्कांतोरिसंत्रासचंद्रावर्तो महारवः.। मेघध्यान ग्रहक्षोभ नक्षत्रदमनादयः ॥ ३९८ ॥ संख्यैवं कोटिशस्तेषां दृष्टव्यांवरचारिणां । मायावीर्यसमेताना विद्यावलमहारुचां ।। ३९९ ॥ विद्यानुयोगकुशलाः सर्वे श्रीशक्तवक्षसः । लंकायां स्वामिनः कांताः प्रायशः स्वर्गतश्च्युताः४०० स्वेषु पुत्रेषु निक्षिप्य लक्ष्मी वंशक्रमागतां । संविना राक्षसाधीशा महापात्राज्यमाश्रिताः॥४०१।। कोचत्कर्मावशेषेण त्रिलोकशिखरं गताः । दिवमीयुः परे केचित्पुण्यपाकानुभावतः ॥ ४०२।। ७ पंचम पर्व। T पद्मपुराणम् । : । . T एवं महति संताने प्रवृत्ते पानवाहने । महापुरुपनियूंढराज्यपाबाज्यवस्तुनि ॥ ३७७ ।। राक्षसस्तनयो जातो मनोवेगांगधारिणः । राक्षसो नाम यस्यायं नाम्ना वंशः प्रकीयते ॥३७८॥ तस्यादित्यगतिर्यातो बृहत्कीर्तिथ नंदनः । योपायां मुप्रभाख्यायां रविचंद्रसमप्रभो ॥ ३७९ ॥ वृपभी तो समासज्य राज्यस्पंदनजे भरे । श्रमणत्वं समाराध्य देवलोकं समाश्रितः ।। ३८० ॥ जाता सदनपद्माख्या भार्यादित्यगतेवरा । वृहत्कीर्तस्तथापुष्पनखेति परिकीर्तिता ।। ३८१.॥ अथादित्यगतेः पुत्रो नाम्ना-भीमप्रभोऽभवत् । सहस्रं यस्य पनीनामभूदेवांगनारुचा ।। ३८२ ॥ आसीदष्टोत्तरं तस्य पुत्राणां शतमूर्जितं । स्तमैरिव निजं राज्यं धारितं यः समंवतः ॥ ३८३ ।। आत्मजाय ततो राज्यं वितीर्य ज्यायसे प्रभुः । भीमप्रभः प्रपत्राज प्राप्तथ परमं पदं ।। ३८४ ।। देवेन राक्षसेंद्रेण राक्षसद्वीपमंडले । कृतानुकंपना ऊपुः सुखेनांवरगामिनः ।। ३८५.॥ रक्षति रक्षसा द्वीपं 'पुण्येन परिरक्षिताः । राक्षसानामतो द्वीप प्रसिद्धिं तदुपागतं ।। ३८६ ।। एष राक्षसवंशस्य संभवः परिकीर्तितः । वंशमधानपुरुषान्कोर्तियिष्याम्यतः परं ॥ ३८७ ॥ पुत्रो भीमप्रमस्यायः पूजा) नाम विश्रुतः । प्रवबाज श्रियं न्यस्य तनये जितमास्करे ॥३८॥ सोपि संपरिकीयाख्ये स्थापयित्वा श्रियं सुते । प्रायजसोपि सुग्रीचे निधाय प्राप दीक्षण ३८९ 1 . 1 ९७ . पद्मपुराणम् । पंचम पर्व। सुग्रीवोपि हरिग्रीवं सन्निवेश्य निजे पदे । उग्रं तपः समाराध्य बभूव सुरसत्तमः ॥ ३९० ॥ हरिग्रीवोपि निक्षिप्य श्रीग्रीवे राज्यसंपदं । गृहीतश्रमणाचारो वनांतरमशिश्रियत् ॥ ३९१ ॥ आरोप्य सुमुखे राज्यं श्रीग्रीवो जनकाश्रितं । मार्गमाश्रितवान् वीरः सुव्यक्ते सुमुखस्तथा ३९२ सुव्यक्तोमृतवेगाख्ये न्यस्तवान् राक्षसी श्रियं । स चापि भानुगत्याह्ने स च चिंतागतौ सुते ३९३ इंद्र इंद्रप्रभो मेघो मृगारिदमनः पविः । इंद्रजिनानुवर्मा च भानुर्भानुसमप्रभः ।। ३९४ ।। सुरारिस्त्रिजटो भीमो मोहनोद्वारको रविः । चकारो वज्रमध्यश्च प्रमोदः सिंहविक्रमः ॥३९५ ॥ चामुंडो मारणो भीप्मो द्विपवाहोरिमर्दनः । निर्वाणभक्तिरुयश्रीरहद्भक्तिरनुत्तरः ॥ ३९६ ॥ गतभूमोनिलवंडो लंकाशोको मयूरवान् । महावाहुर्मनोरम्यो भास्कराभो बृहद्गतिः ॥ ३९७ ।। बृहत्कांतोरिसंत्रासश्चंद्रावर्तो महारवः । मेघध्वान ग्रहक्षोभ नक्षत्रदमनादयः ॥ ३९८ ।। संख्यैवं कोटिशस्तेपां दृष्टव्यांबरचारिणां । मायावीर्यसमेतानां विद्यावलमहारुचां ॥३९९ ।। विद्यानुयोगकुशलाः सर्वे श्रीशक्तवक्षसः । लंकायां स्वामिनः कांताः प्रायशः स्वर्गतश्च्युताः४०० स्वेषु पुत्रेषु निक्षिप्य लक्ष्मी वंशक्रमागतां । संविना राक्षसाधीशा महापात्राज्यमाश्रिताः॥४०१|| कचित्कर्मावशेषेण त्रिलोकशिखरं गताः । दिवमीयुः परे केचित्पुण्यपाकानुभावतः ॥ ४०२।। ७ पर्य पर्व। । , पद्मपुराणम्। एवं तेष्वप्यतीतेषु घनप्रभसुतोमवत् । लंकायामधिपः कीर्तिधवलो नाम विश्रुतः ॥ ४०३ ॥ पद्मागर्ने समुद्भूतः खेचरैः कृतशासनः । संभुक्ते परमैश्वर्य सुनासीरो यथा दिवि ॥ ४०४ ॥ एवं भवांतरकृतेन तपोवलेन । संप्राप्नुवंति पुरुषा मनुजेपु भोगान् ।। देवेषु चोत्तमगुणागुणभूपितांगाः । निर्दग्धकर्मपटलाच भवंति सिद्धाः ॥ ४०५॥ •. दुष्कर्मशक्तमतयः परमां लभते । निंदां जना इहभवे मरणात्परं च ॥ दुःखानि यांति बहुधा पतिताः कुयोनौ । सात्वेति पापतमसो रविवां भजचं ।। ४०६॥ इत्या रविपेणाचार्यप्रोक्त पद्मचरिते राक्षसवंशाधिकारः पंचमं पर्व । अथ पष्ठं पर्व। बंगो रक्षोनभोमानां मया वे परिकीर्वितः । शृणु वानरकेतूनां संवानमधुना नृप ॥१॥ विजयाईगिरेभागे.दक्षिणे स्वर्गसनिमे । पूरं मेघपुरं नान्ना तुंगप्रसादशेमिनं ॥२॥ विद्याभृतां पतिस्तस्मिन्नतींद्रो नाम विश्रुतः । अतिक्रम्य च यः शक्रं स्थितो मोगादिसंपदा ॥३॥ श्रीमती नाम तस्यासीत्कांता श्रीसमविभ्रमा ! यस्याः सति मुखे पक्षो ज्योत्तयेव सदाभवत् । 4 क ९९ पष्ट पर्व। पद्मपुराणम्। - तयोः श्रीकंठनामाभूत्सुतः श्रुतिविशारदः । यस्य नाम्नि गते कर्ण हर्पमीयुर्विचक्षणाः ॥५॥ स्वसा तस्याभवच्चार्वी देवी नाम कनीयसी । वाणतां नयने यस्या गते कुसुमधन्विनः ॥६॥ अथ रत्नपुरं नाम पुरं तत्र मनोहरं । तत्र पुष्पोत्तरो नाम विद्याधारी महावलः ॥७॥ पद्माभासीत्सुता तस्य मनोल्हादनकारिणी । देवकन्येव सर्वेषां रूपलावण्यसंपदा ॥ ८॥ तस्य पद्मोत्तराभिख्यः सुतो येन विलोचने । विपयांतरसंबंधाज्जनानां विनिवर्तते ॥ ९ ॥ तस्मै पुष्पोत्तरः कन्यां पहुशस्तामयाचत । श्रीकंठेन न सा तस्मै दत्ता कर्मानुभावतः ॥ १० ॥ सा तेन कीर्तिशुभ्राय दत्ता बांधववाक्यतः । विवाहं च परेणास्याः विधिर्न निरवर्तयत् ॥११॥ न मेभिजनतो दोपो न मे दारिद्यसंभवः । न च पुत्रस्य वैरूप्यं न किंचिद्वैरकारणं ॥ १२ ॥ तथापि मम पुत्राय वितीर्णा तेन न स्वसा । इति पुष्पोत्तरो ध्यात्वा कोपावेशं परं गतः॥१३॥ चैत्यानां वृंदनां कर्तुं श्रीकंठः सुरपर्वतं । गतो यदा विमानेन वायुवेगेन चारुणा ॥ १४ ॥ तस्मानिवर्तमानोसौ चेतःश्रोत्रापहारिणं । भुंगाराणामिव झंकारमशृणोद्गीतनिःस्वनं ।। १५॥ रम्यग्रहणमिश्रेण तेन गीतस्वनेन सः । धृतो अजुगुणेनेव वध्वा निश्चलविग्रहः ॥१६॥ १ 'ग' पुस्तके नास्त्ययं श्लोकः ।
पष्ट पर्व।
१००
पद्मपुराणम् ।
आलोकनमयो चक्र ततोऽपश्यत्स कन्यका । गुरुणाधिष्ठितां कांता संगीतकगृहांगणे ॥ १७ ॥
तस्या रूपसमुद्रेऽसौ निमग्नं मानसं द्रुतं । न शशाक समुद्धर्जु धर्तु नांगानि च प्रभुः ॥१८॥
स्थितश्चैपोतिकव्योनि तया नीलोत्पलाभया । वध्येव पीवरस्कंधो दृष्टयाकृष्टो मनोमुपा ॥१९॥
ततो दर्शनमन्योन्यं तयोर्माधुर्यपेशल । चकार वरणं प्रेमबद्धभावस्य सूचनं ॥ २० ॥
ततस्तामिगिताभिज्ञो भुजपंजरमध्यगा । कृत्वा नमस्तले यातः स्पर्शमीलितलोचनः ॥ २१ ॥
परिवर्गस्ततस्तस्याः प्रलापमुखरीकृतः । पुप्पोत्तराय कन्यायाः श्रीकंठेन हतिं जगौ ॥ २२ ॥
सर्वोद्योगेन संनद्य ततः पुप्पोचरो रुपा । तस्यानुपदवीं यातो दंतदष्टरदच्छदः ।। २३.॥
तेनानुधावमानेन बजता सुनभस्तले । शशीव धनदेन श्रीकंठःशुशुभेऽधिकं ॥ २४ ॥
आयांतं पृष्टतो दृष्ट्वा याकंठस्तं महाबलं । त्वरित प्रस्थितो लंकां नीतिशास्त्रविशारदः ॥२५॥
तत्र स्वसुःपतिं गत्वा शरणं स समाश्रयत् । कालप्राप्तं नयं संतो युंजाना यांति तुंगतां ॥२६॥
सोदरो मम कांताया इति सस्नेहनिर्भरं । संभ्रमेण परिष्वज्य तं चकाराप्तपूजनं ॥२७॥
तयोः कुशलतांतप्रश्नो यावत्प्रवर्तते । तावरपुष्पोत्तरः प्राप्तो महापलसमन्वितः ।। २८ ॥
कीर्तिशुक्लस्ततोऽपश्यद्गगनं सर्वतधितं । विद्याधरसमूहेन प्रदीतपुरुतेजसा ॥ २९ ॥
: १०१
पद्मपुराणम्।
--
.
षष्ठं पर्व।
5520
असिकुंतादिभिः शस्तविकरालं महारवं । स्थानभ्रंशमिवागच्छदलं खेचरसंगमात् ॥ ३०॥
वाजिभिर्वायुरहोमिर्गजैश्च जलदोपमैः । विमानैश्च महामानैः सिंहैश्च प्रचलत्सटैः ॥ ३१ ॥
दृष्ट्वोत्तरां दिशं व्याप्तां विहस्य क्रोधमिश्रितं । सचिवानां समादेशं कीर्तिशुक्लो युधे ददौ ॥३२॥
अकार्येण ततः स्वेन श्रीकंठो यंत्रपानतः । कीर्तिशुभ्रमिदं वाक्यं जगाद त्वरयान्वितं ॥३३॥
एतं बंधुजनं रक्ष त्वं मदीयमिहाधुना । करोमि निर्जितं यावत् प्रतिपक्षं तवाश्रयात् ॥ ३४॥
एवमुक्तो जगादासौ वचनं नयसंगतं । तवायुक्तमिदं वक्तुं प्राप्य मां भीतिभेदनं ॥ ३५॥
यदि नामैप नो साम्ना शमं यास्यति दुर्जनः । ततः पश्य प्रविष्टायं मृत्योर्वकं मदीरितः।।३६॥
स्थापयित्वेति विश्रब्धं प्रियायाः सोदरं नृपः । उत्कृष्टवयसो धीरो दूतान् द्रुतमजीगमत् ॥३७॥
उपर्युपरि ते गत्वा क्रमेणेदं वभापिरे । पुष्पोत्तरं महाप्राज्ञा मधुरालापकोविदाः ।। ३८॥
पुष्पोत्तर वदत्येतद्भवंतं कीर्तिनिर्मलः । अस्मद्वदनविन्यस्तैः पदैरादरसंगतैः ।। ३९॥
महाकुलसमुत्पन्नो भवान् विमलचेष्टितः । सर्वस्मिन् जगति ख्यातिं गतः शास्त्रार्थकोविदः॥४०॥
आगता गोचरं का ते न मर्यादा महामते । कर्णजाहे निधीयेत यास्माभिरधुना तव ।। ४१ ॥
श्रीकंठोपि कुले जातः शशांककरनिर्मले । वित्तवान् विनयोपेतः कांतः सर्वकलान्वितः ॥४२॥
१०३, पाठ पर्व। पद्मपुराणम् । । वैरिणो बहवः संति विजयार्द्धगिरौ तव । अप्रमत्ततया कालं कियंतं गमियिष्यसि ॥५६॥ अतस्तिष्ठ त्वमत्रैव रम्ये रत्नालयांतरे । निजाभिरुचिते स्थाने स्वेच्छया कृतचेष्टितः ।। ५७॥ पर्याप्तोतिपरित्यक्तुं न च त्वां मम मानसं । मत्प्रीतिवागुरां छित्वा कथं वा त्वं गमिप्यसि।।५८॥ श्रीकंठमभिधायैवं सचिवं निजमब्रवीत् । पितामह क्रमायातमानंदाख्यं महामति ।। ५९॥ सारासारं त्वया दृष्टं मदीयानां चिरं पुरां'। उद्विश्यतामतः सारं श्रीकंठायात्र यत्पुरं ॥६० ।। इत्युक्तः सचिवः प्राह सितेन हृदयस्थितं । कूर्चेन स्वामिनं भक्त्या चामरेणेव वीजयन् ॥६॥ नरेंद्र तव नास्त्येव पुरं यन्न मनोहरं । तथापि स्वयमन्विष्य गृह्णातु रुचिदर्शनं ।। ६२ ॥ मध्येसागरमेतस्मिन् द्वीपाः संत्यतिभूरयः । कल्पद्रुमसमाकारैः पादपर्याप्तदिग्मुखाः ॥६३ ।। आचिंता विविधैरत्नस्तुंग_गा महौजसः । गिरयो येषु देवानां संति क्रीडनहेतवः ॥६४ ॥ भीमातिभीमदाक्षिण्याचे चान्यैरपि वः कुले । अनुज्ञाताः सुरैः सर्वैः पूर्वमित्येवमागमः ॥६५|| पुराणि तेपु रम्याणि संति कांचनसमभिः । संपूर्णानि महारत्नैः करदष्टदिवाकरैः ।। ६६ ।। संध्याकारो मनोल्हादः सुवेलः कांचनो हरिः । योधनो जलधिध्वानो हंसद्वीपो भरक्षमः ॥६॥ अर्द्धस्वर्गोत्कटावर्तो वैघटो रोधनो मलः । कांतः स्फुटत्तरोरत्नद्वीपस्तोयावलीसरः ॥ ६८॥ + पद्मपुराणम्। १०४ पछ पर्व । -- अलं धनो नमो भानुः क्षेममित्येवमादयः । आसर ये रमणोद्देशा देवानां निरुपद्रवाः ॥ ६९ ॥ त एवं सांप्रनं जाता भूरिपुण्यरुपार्जिताः । पुराणां सनिवेशा वो नानारत्नवसुंधराः ॥ ७० ॥ इतो रोत्तरे भागे समुद्रपरिवेष्टिते । शतत्रयमतिक्रम्य योजनानामलं पृथुः ॥ ७१ ॥ अस्ति शाखामृगद्वीपः प्रसिद्धो भुवनत्रये । यस्मिन्नवांतरद्वीपाः संति रम्याः सहस्रशा ।। ७२ ।। पुष्परागमणिमाभिः क्वचित्मज्वलतीच यः । सस्परिव क्वचिच्छन्नो हरिन्मणिमरीचिमिः।।७३॥ ईद्रनीलप्रमाजालस्तमसेय चितः क्वचित् । पयाकरश्रियं धत्ते पद्मरागचयः क्वचित् ।। ७४ ।। भ्रमता यत्र वातेन गगने गंधचारुणा । हृता जानति नो यस्मिन्पताम इति पक्षिणः ।। ७५॥ स्फटिकांतरविन्यस्तैः पमरागैः समत्विपः । ज्ञायते चलनाद्यत्र सरःसुकमलाकराः ॥ ७६ ॥ मत्तमघासवास्वादच्छकुंतैः कलनादिमिः । संभापत इति द्वीपान् यः समीपव्यवस्थितान् ॥७॥ यत्रौषधप्रमाजालस्तमो दूरं निराकृतं । चक्रे बहुलपक्षेपि समावेश न रात्रिषु ।। ७८ ॥ यत्र छत्रसमाकाराः फलपुष्पसमन्विताः ५ पादपा विपुलस्कंधाः कलस्वनशकंतयः ॥ ७९ ॥ सस्यैः स्वभावसंपन्न:र्यकांविवित्तारिमिः ! चलगिमंदवातेन मही यत्र सकुंचुका ॥८॥ विक-दीवरैर्यत्र षट्पदोषसमन्वितैः । नयनखि वीक्ष्यंते दीपिका भूविलासिभिः ॥१॥ -
पर्य पर्व।
पद्मपुराणम् ।
.१०५
T
पर्वनाकंपनाद्यस्मिन् सीत्कारश्रोत्रहारिभिः-। पुंदेक्षोर्विपुलैबाटः प्रदेशाः परनोज्झिताः ।। ८२ ।।
रत्नकांचनविस्तीर्णशिलासंघातशोभनः । मध्ये तस्य महानस्ति किष्कुर्नाम महीधरः ।। ८३ ॥
त्रिकूटेनेव तेनासौ श्रृंगवाहुभिरायतैः । आलिंगता दिशः कांता श्रियमारोपितः परां ॥ ८४ ॥
आनंदवचनादेवमानंदं परमं गतः । श्रीकंठः कीर्तिधवलं पाहैवमिति भारती ।। ८५ ।।
ततश्चैत्रस्य दिवसे प्रथमें मंगलाचिंते । ययौ सपरिवारीसी द्वीपं वानरलांछितं ।। ८६ ।।
पश्यन्नीलमणिच्छायं गतं नम इव क्षितिं । महाग्राहकृताकपं समुद्रं विस्मयाकुलः ॥ ८७॥
ततश्च तं वरद्वीपं प्राप्तस्वर्गमिवापरं । व्याहरतमिवात्युच्चैः स्वागतं निर्झरस्वनः ।। ८८ ॥
निझराणामतिस्थूलैः शीकरैयोमगामिभिः । हसंतमिव तोपेण श्रीकंठागमजन्मना ॥८९ ।।
विचित्रमणिसंभूतप्रभाजालेन चारुणा । इच्छिता इस संघातास्तोरणानां समुन्नताः ॥ ९ ॥
ततस्तमवतीर्णोसौ द्वीपमाश्चर्यसंकुलं । चिक्षिपन् दिक्षु सर्वासु दृष्टिं नीलोत्पलद्युति ।। ९१ ।।
खर्जूरामलकीनीपकपित्थागुरुचंदनैः । प्लक्षार्जुनकदंवाम्रप्रियालकदलीधवैः ॥ ९२ ।।
दाडिमीपूगर्ककोललवंगवकुलस्तथा । रम्यैरन्यैश्च विविधैः पादपैरुपशोभितं ॥ ९३ ॥
मणिवृक्षा इवोद्भिद्य क्षितिं ते तत्र निःसृताः । स्वस्मिन्निपतितां दृष्टिं नेतुमन्यत्र नो ददुः॥१४॥
पार्ट पर्य।
--
"
पद्मपुराणम् ।
अंगुणाः कांउदेशेषु विस्तीर्णाः स्कंधबंधने । उपरिच्छत्रसंकाशा घनपल्लवराशयः ॥ ९५॥
शाखामिः सुप्रकाशामिनताभिः कुसुमोत्करैः । फलैश्च सरसाः स्वादैः प्राप्ताः संतानमुत्तम।।९६॥
नात्यंतमुन्नति याता न च याता निखर्वतां । अनायासांगनाप्राप्यप्रमूनफलपल्लवाः ।।९७ ॥
स्तवकस्तनरम्याभिर्भूगनेत्राभिरादरात् । आलिंगिताः सुवल्लीभिश्वलपल्लवपाणिभिः ॥ १८॥
परस्परसमुल्लापं कुर्वाणा इव पक्षिणां । मनोहरेण नादेन गायंत इव पट्पदैः ॥ ९९ ॥
केचिच्छंखदलच्छायाः केचिद्धेमसमत्विपः । केचित्पंकजसंकाशाः केचिद्वैडूर्यसनिमा॥१०॥
एवं नानाविधास्तस्मिन् देशा विविधपादपैः । मंडिता यान्समालोक्य स्वर्गभूरपि नेक्ष्यते १०१
जीवं जीवकयुग्माना व्यक्तवाचा समं शुकैः । आलापः सारिकाभिश्च तस्मिन्नद्भुतकारणं ।।१०२||
ततो नानातरुच्छायामंडलस्थेपु हारिषु । रत्नकांचनदेहेषु पुप्पामोदानुलेपिषु ॥ १०३ ॥
शिलातलेपु विश्रब्धं निविष्टः सेनया समं । करणीयं च निःशेपं स चक्रे वपुषः सुखं ।। १०४॥
ततो नानाप्रसूनानो हंससारसनादिनां । विमलोदकपूर्णानां सरसा मीनकंपिनां ॥ १०५॥
किरतां पुष्पनिकरं तरूणां च महत्विषां । जयशब्दमियोद्दातं कुर्वतां पक्षिनिःस्वनैः ॥१०६॥
नानारत्नचितानां च भूभागानां सुशोभया । युक्तं भ्रमति सद्वीपमितभेतश्च तं सुखी ॥ १०७॥
पद्मपुराणम् । १०७ पष्ट पर्व । ततः स विहरेस्तस्मिम्बने नंदनसन्निभे । यथेच्छ क्रीडतो पश्यद्वानरान् बहुविभ्रमान् ॥ १०८॥ अचिंतयच दृष्टुता सृष्टेरतिविचित्रता । तिर्य-योनिगता ह्येते कथं मानुपसन्निभाः ॥, १०९॥ वदनं पाणिपादं च शेषांश्चावयवानमी । दधते मानुपाकारां चेष्टां तेषां च सन्निभां ॥,११० ॥ ततस्तमहती रतुं प्रीतिरस्य समुत्थिता । यथास्थिरोप्यसौ. राजा नितांतं प्रवणीकृतः ॥ १११ ॥ जगाद च समासन्नान्पुरुषान् वदनेक्षणः । एतानानयतक्षिप्रमितिविस्मितमानसः ॥ ११२ ।। इत्युक्तः शतशस्तस्य प्लवंगा गगनायनैः । उपनीताः प्रमोदेन, कृतकेलिकलस्वनाः ॥ ११३ ।। सुशीलस्तैरसौ साकं रतुं प्रववृते नृपः । नर्तयन् तालशब्देन वाहुभ्यां च परामृशन् ॥ ११४ ।। वीक्ष्यमाणः सितान् दंतान् दाडिमीपुप्पलोहिते । अवीटे मुखे तेपां भास्वत्कांचनतारके ११५ यूकापयननं पश्यन्विनयेन परस्परं । प्रेम्णा च कलहं रम्यं कृतरयोस्कारनिःस्वनं ॥ ११६ ॥ शालिशूकसमच्छायान् मृदिमातिशयान्वितान् । विधूतान् मृदुवातेन केशान् सीमंतभाजिनः११७ कर्णान् विपकासक्तश्रवणाकारधारिणः । नितांतकोमलश्लक्ष्णानचलद्वपुपां स्पृशन् ॥ १,१८ ॥ विलोमानि नयल्लोमान्युदरे मुष्टिमायिनि । उत्क्षिपंश्च भुवोपांग देशान् रेखावतस्तथा ॥ ११९ ॥ ततस्ते. तेन बहवः पुरुषाणां समर्पिताः । मृष्टाशनादिभिः कर्तुं पोषणं रतिहेतवः ।।१२०॥
। १९८ पर्प पर्व । पद्मपुराणम् ग्राहयित्वा च तान् किष्कुमारोहद्धवमानसः । ग्रावटैलताभिश्च निहरैस्तरुभिस्तथा ॥ १२१ ।। तत्रापश्यत्स विस्तीर्णा वैषम्यरहितां भुवं । गुप्ता प्रांते महामानः ग्रावभिः सोन्नतद्रुमैः ॥१२२॥ पुरं तत्र महेच्छेन ख्यातं किप्कुपुराख्यया । निवेशितमरानीनां मानसस्यापि दुर्गमं ।। १२३ ॥ प्रमाणं योजनान्यस्य चतुर्दश समततः । त्रिगुणं परिवेषेण लेशतत्राधिकं भवेत् ।।.१२४॥ संमुखद्वारविन्यासा मणिकांचनभित्तयः । प्रग्रीवकसमायुक्ता रत्नस्तंभसमुचिताः ॥ १२५॥ कपोलपाल्युपांतेषु महानीलविनिर्मिताः । रत्नमाभिनिरस्तस्य ध्वांतस्येवानुकंपिताः ॥ १२६ ॥ देहलीपिंडिकाभागं पद्मरागविनिर्मितं । तांबूलेनेवच्छायं धारयंत्यो रदच्छदं ॥१२७॥ द्वारोपरि समायुक्ता मुक्तादामांशुसंपदाः । हसत्य इव शेषाणां भवनानां मुरूपतः ।। १२८॥ शशांकसदृशाकारैर्मणिमिः शिखराहितैः । रजनीप्वपि कुर्वाणा संदेहं रजनीकरे ॥ १२९ ।। चंद्रकांतमणिच्छाया कल्पितोदारचंद्रिका । नानारत्नप्रभापंक्तिसंदिग्धोतुंगतोरणा ॥ १३०॥ मणिकुट्टिमविन्यस्तरत्नपद्मावलिक्रियाः । पंक्तयस्तत्र गेहाना खेचरैर्विनिवेशिताः ॥ १३॥ शुप्कसागरविस्तीर्णा मणिकांचनवालुकाः । राजमार्गाः कृतास्तस्मिन्कौटिल्यपरिवर्जिताः॥१३२।। प्राकारस्तत्र विन्यस्तो रत्नच्छायाकृतावृतिः । शिखरात्रैः श्रिया दर्यात् सौधर्ममिव ताइयन् १३३ . पष्ट पव १०९ पर्व। पंद्मपुराणम् । । गोपुराणि च तुंगानि न्यस्तान्यत्र मरीचिभिः । मणीनां यानि लक्ष्यंत स्थगितानीव सर्वदा१३४ पुरंदरपुराकारे पुरे तस्मिन् चिराय सः । पद्मया सहितो रेमे शच्येव विबुधाधिपः ॥१३५॥ भद्रशालवने याति तथा सौमनसे बने । नंदने वा न तान्यस्य द्रव्याण्यापुरापतां ॥ १३६ ।। कदाचिदथ तत्रासौ तिष्ठन् प्रासादमूर्द्धनि । व्रजत वंदनां भक्क्या द्वीपं नंदीश्वरश्रुति ॥ १३७॥ पाकशासनमैक्षिष्ट सत्रा देवैचतुर्विधैः । मुकुटानां प्रभाजालैः पिशंगितनभस्तलं ॥१३८॥ कुर्वत बधिर लोकं समस्तं तूर्यनिःस्वनः । हस्तिभिर्वाजिभिहंसपैरुष्ट्रवृकZगैः ॥१३९॥ अन्यैश्च विविधैर्यानैः परिवगैरधिष्ठितः । अन्वीयमानं दिव्येन गंधेन व्याप्तविष्टपं ॥ १४ ॥ ततस्तेन श्रुतं पूर्व मुनिभिः संकथागतं । स्मृतं नंदीश्वरद्वीपं वंदनं स्वर्गवासिनां ॥ १४१ ॥ स्मृत्वा च विवुधैः सार्द्धमकरोद्गमने मति । खेचरैश्च समं सर्वैः समारूढो मरुत्पथं ॥ १४२ ॥ स गच्छन्क्रौंचयुक्तेन विमानेन सहागनः । मानुपोचरशैलेन निवारितगतिः कृतः ॥ १३ ॥ अतिक्रांतांस्ततो: दृष्ट्वा मानुपोचरपर्वतं । गीर्वाणनिवहान् सर्वान्परमं शोकमागतः ॥ १४४ ॥ परिदेवमथो चक्रे भग्नोत्साहो गतद्युतिः । हा कष्टं क्षुद्रशक्तीनां मनुष्याणां धिगुन्नति ॥ १४५॥ नंदीश्वरें जिनेंद्राणां प्रतिमानां महत्विषां । अकृत्रिमाणां भावेन करिष्यामीति. दर्शनं ।। १४६।। .
3 पत्र। L पपुराणम्। १९८. ग्राहयित्वा च तान् किकुमारोहद्धतमानसः । ग्रावटै ताभिश्च निझरैस्तरुभिस्तथा ॥ १२१॥ तत्रापश्यरस विस्तीणां वैषम्यरहितां भुवं । गुमा प्रांते महामानः ग्रावभिः सोन्नतद्रुमैः ॥१२२।। पुरं तत्र महेच्छेन ख्यातं किष्कुपुराख्यया । निवेशितमरातीनां मानसस्यापि दुर्गमं ॥ १२३ ॥ प्रमाणं योजनान्यस्य चतुर्दश समंततः । त्रिगुणं परिवेपेण लेशतश्चाधिकं भवेत् ॥ १२४॥ संमुखद्वारविन्यासा मणिकांचनभित्तयः । प्रग्रीवकसमायुक्ता रत्नस्तंमसमुच्छिताः ॥ १२५ ॥ कपोलपाल्युपनिषु महानीलविनिर्मिताः । रत्नभाभिर्निरस्तस्य चांतस्येवानुकंपिताः ॥१२६ ॥ देहलीपिंडिकाभागं पद्मरागविनिर्मित । तांबूलेनेवच्छायं धारयंत्यो रदच्छदं ॥ १२७॥ द्वारोपरि समायुक्ता मुक्तादामांशुसंपदाः । हसंत्य इव शेषाणां भवनानां सुरूपतां ॥१२८॥ शशांकसदृशाकारैर्मणिभिः शिखराहितैः । रजनीप्वपि कुर्वाणा संदेहं रजनीकरे ॥ १२९॥ चंद्रकांतमणिच्छाया कल्पितोदारचंद्रिका । नानारत्नप्रभापंक्तिसंदिग्धोत्तुंगतोरणा ॥३०॥ मणिकुटिमविन्यस्तरत्नपमावलिक्रियाः । पंक्तयस्तत्र गेहानां खेचरैर्विनिवेशिताः ॥ १३१ ॥ शुष्कसागरविस्तीर्णा मणिकांचनवालुकाः । राजमार्गाः कृतास्तस्मिन्कौटिल्यपरियार्जिताः॥२३२।। प्राकारस्तत्र विन्यस्तो रत्नच्छायाकृतावृतिः । शिखराग्रैः श्रिया दर्पात् सौधर्ममिव ताडयन्१३३
न
-
पर्छ पर्व ।
पाएमणभ.
पूजां च विविधैः पुप्पधूपगंधैध हारिमिः । नमस्कारं च शिरसा धरासंसक्तमौलिना ॥ १७ ॥
ये कता मंदभाग्येन मया चारुमनोरथाः । कथं वे कर्मभिर्भग्ना अशुभैः पूर्वसंचितैः ॥ १४८ ।।
अपरा श्रुतमैवासीन्मया मानुपपर्वते । अतिक्रम्य न गच्छंति मानुपा इत्यनेकशः ॥ १४९ ।।
तथापि श्रद्धया तन्मे नितांतं वृद्धियुक्तया । विस्मृतं गंतुमुद्युक्तो यास्मिन् स्वल्पशक्तितः १५०
तस्मात्करोमि कर्माणि तानि यैरन्यजन्मनि । यातुं नंदीश्वरं द्वीपं गति न विहन्यते ।। १५१ ।।
इति निचित्य मनसा न्यस्य राज्यमा सुते । अभून्महामुनिर्धारस्त्यक्तसर्वपरिग्रहः ॥१५२ ।।
वनकंठस्ततः सार्द्धं चारुण्याश्रयमुनमा । मुक्या किकुपुरे रम्ये श्रुत्वोपाख्यानक पितुः ॥१५॥
ऐश्वर्य तनयं क्षिप्त्या प्राप देंगरी क्रियां । कीदृशं तदुपाख्यानमित्युक्तो गणभृजगौ ॥१५४॥
पणिजो भ्रातरापास्तां प्रीतेः स्त्रीभ्यां वियोजिती । कनीयान्दुर्विधो ज्येष्ठः स्वापतेयी गृहीतवाकू
श्रेष्ठिनः संगमादेप प्राप्तः श्रावकता पर । मृगयाजीविना भ्रात्रा परमं दुःखितोऽभवत् ॥१५६ ॥
अलीकस्वाहतस्वामिपुरुपस विसर्जनं । परीक्ष्य भ्रातरं प्रीतं ददावस्मै महद्धनं ।। १५७ ।।
दुष्टांततः खियं त्यक्त्या संगीर्यानुजयोधनं । प्रत्रज्यायामभूविंद्रः कनीयांस्तु शमी मृतः ॥ १५८ ॥
देवीभूयश्च्युतो जातः श्रीकंठस्तत्प्रबुद्धये । आत्मानं दर्शयनिंद्रः श्रीमानंदीश्वरं गतः ॥१५९॥
1 . पद्मपुराणम्। पष्ठ पर्व। सुरेंद्र चीक्ष्य पित्रा ते जातस्मरणमीयुषा । इदं कथितमस्माकमिति वृद्धास्तमूचिरे ॥ १६० ।। एतमाख्यानकं श्रुत्वा वज्रकंठोऽभवन्मुनिः । इंद्रायुधप्रभोप्येवं न्यस्य राज्यं शरीरजे ॥ १६१ ॥ तत इंद्रमतो जातो मेरुस्तस्माच मंदरः । समीरणगतिस्तस्मात्तस्मादपि रविप्रभः॥ १६२ ॥ ततोमरप्रभो जातखिकुटेंद्रसुतास्य च । परिणेतुं समानीता नाम्ना गुणवती शुभा ॥१६३ ।। अथासौ दर्पणच्छाये वेदीसंबंधिभूतले । मणिभिः कल्पितं चित्रं पश्यन्नाश्चर्यकारणं ॥ १६४ ।। भ्रमरालीपरिष्वक्तमरविंदं कचिद्धनं । ऐंद्रीवरं वनं चार्द्धपबेंदीवरकं तथा ॥ १६५ ॥ चंचूपाचमृणालानां हंसानां युगलानि च । क्रौचानां सारसानां च तथान्येषां पतत्रिणां ॥१६६॥ रत्नचूणैरतिश्लक्ष्णैः पंचवर्णसमन्वितैः । रचितान्खेचरस्त्रीभिः तत्रापश्यत्प्लवंगमान् ॥ १६७ ॥ . स तान् दृष्ट्वा परं तोपं जगामांवरगाधिपः । मनोज प्रायशो रूपं धीरस्यापि मनोहरं ॥१६८ ॥ अथ पाणिगृहीतास्य दृष्ट्वा तान् विकृताननान् । प्रत्यंगवेपथु प्राप्ता प्रचलत्सर्वभूषणा ।। १६९ ॥ निम्शेषदृश्यविभ्रांततारकाकुललोचना । दर्शयंतीच रोमांचप्रोद्गमाद्देहवद्भयं ॥ १७० ।।. स्वेदोदविंदुसंवद्धविसपेचिलकालिका । भीरुरप्यति सचेष्टा प्राविशद्वजपंजरं ॥ १७ ॥ दृष्ट्वा यान् मुदितः पूर्व तेभ्योऽकुप्यत्पुनर्वरः । कांताभिप्रायसामर्थ्यात्सुरूपमपि नेष्यते ॥१७२।। - .
पाप पर्य। पद्मपुराणम् । ततोऽसावनचीत्केन विवाई मम चित्रिताः । कपयो विविधाकारा अमी वित्रासकारिणः॥१७३॥ नूनं कश्रिन्ममास्तस्मिन् जनी मत्सरसंगतः। क्षिप्रमन्विप्वतामेप करोम्यस्य बधं स्वयं ॥१७॥ ततस्त कोपगंभीरगुहागहरवर्तिन । वयांगो महाप्राज्ञा मधुरं मंत्रिणोऽत्रुवन् ॥ १७५ ॥ तात नास्मिन् जनः कोपि विद्वेष्टा तय विद्यते । त्वयि वा यस्य विद्वपः कुतस्तस्यास्ति जीवितं ।। स त्वं भव प्रसन्नात्मा श्रूयतामत्र कारणं । विवाहमंगले न्यस्ता यतः प्लवगपंक्तयः॥१७७ ॥ अन्वये भवतामासीच्छीकंठो नाम विश्रुतः । येनेदं नाकसंकाशं मृष्ट किप्पुरोत्तमं ।। १७८ ॥ सकलस्यास्य देशस्य विविधाकारभाजिनः । अभवत्स नृपः स्रष्टा प्रपंचः कर्मणामिव ।। १७९ ।। यस्पाचापि वनांतेषु लतागृहसुखस्थिताः । गुणान् गायंति किन्वर्यः स्थानकं प्राप्य किन्नरात् १८० चंचलत्यसमुद्भुतमयशो येन शोधितं । स्थिरप्रकृतिना लक्ष्म्या वासयोपमशक्तिना ।। १८१ ॥ स एतान् प्रथम दृष्ट्वा वानरानन रूपिणः । मानुपाकारसंयुक्तान् जगाम किल विस्मयं ॥१८॥ रेमे च मुदितोमीभिः समं विविधचेष्टितैः । मृष्टाशनादिभिश्वामी नित्तानं सुस्थिताः कृताः १८३ ततः प्रभृति ये जाताः कुले तस्य महायुतेः । तस्य भक्त्या रति तेऽपि चक्रुरेभिर्नरोत्तमाः॥१८४|| युष्माकं पूर्वनर्यस्मादमी मंगलवस्तुषु । प्रकल्पिनाः ततस्तेपि मंगले सनिधापिता ॥ १८५ ॥..
पठ पर्व। . पद्मपुराणम् । मंगलं यस्य यत्पूर्व पुरुषः सेवितं कुले । प्रत्यवायेन संबंधो निराशे तस्य जायते ।। १८६ ।।. क्रियमाणं तु तद्भक्त्या करोति शुभसंपदं । तस्मादासेव्यतामेतद्भवतापि सुचेतसा ॥ १८७ ।।. इत्युक्ते मंत्रिभिः सांत्वन् प्रत्युवाचाऽमरप्रभः । त्यजन् क्षणेन कोपोत्थविकारं वदनार्पित।।१८८॥ मंगलं सेविता पूर्वैः यद्यस्माकममी ततः । किमित्यालिखिता भूमौ यस्यां पादादिसंगमः १८९ नमस्कृत्य वहाम्येतान् शिरसा गुरुगौरवात् । रत्नादिघटितान् कृत्या लक्षणान्मौलिकोटिपु१९० ध्वजेंपु गृहश्रृंगेषु तोरणानां च मूर्द्धसु । शिरस्सु चातपत्राणामेतानाशु प्रयच्छत ॥ १९१ ।। ततस्तैस्तत्प्रतिज्ञाय तथासर्वमनुष्ठितं । यथा दिगीक्ष्यते या या तत्र तत्र प्लवंगमाः ॥ १९२ ॥ अर्थतस्य समं देव्या भुंजानस्य परं सुखं । विजयाईजिगीपायामकरोन्मानसं पदं ।।.१९३ ।। . प्रतस्थे च ततो युक्तः सेनया चतुरंगया । क्रपिध्वजः कपिच्छत्वः कपिमौलिः कपिस्तुतः १९४ श्रेणिद्वयं विजित्यासौ रणे सत्त्वाविमर्दिनि । आस्थापयद्वशे राजा जग्राह न धनं तयोः ॥१९५|| अभिमानेन तुंगानां पुरुषाणामिदं व्रतं । नमयंत्येव यच्छत्रु द्रविणे विगताशया ॥ १९६ ॥ ततोसौ पुनरागच्छत्पुरं किप्कुप्रकीर्तितं । विजयाचप्रधानेन जनेनानुगतायनः ॥ १९७ ॥ आधिपत्यं समस्तानां प्राप्य विद्याभृतामसौ । निश्चला बुभुजे लक्ष्मी निगडरिव संयुतां ॥१९८।।
पाठ पर्व।
4
1
.
पद्मपुराणम्।
ततस्तस्य सुनो जातः कपिकेतुरभिख्यया । श्रीप्रभा कामिनी यस्य बभूव गुणधारिणी ॥१९९॥
ततो विक्रमसंपन्नं स तं वीक्ष्य शरीर । राज्यलक्ष्म्यां समायोज्य निरगाद् गृहबंधनात्॥२००||
दत्वा प्रतिवलाख्याय लक्ष्मी सोपि विनिर्ययो । मायशो विषवल्लीय दृष्ट्वा पूर्वपद्युतिः ॥२०१॥
पूर्वोपार्जितपुण्यानां पुरुषाणां प्रयत्नतः । संजातासु न लक्ष्मीपु भावः संजायते महान् ।।२०२॥
यथैव ताः समुत्पन्नास्तेषामल्पप्रयत्नतः । तथैव त्यजतामेप पीडा तासु न जायवे,॥.२०३ ॥,
तथा कथंचिदासाद्य संतो विपयजं सुखं । तेषु निर्वेदमागत्य यांच्छंति परमं पदं ॥ २० ॥
पत्नोपकरणः साध्यमात्मायत्तं निरंतरं । महदं तेन निर्मुक्तं सुखं तत्को न बाँच्छति ॥ २०५॥
सुतः प्रतिपलस्यापि गगनानंदसंजितः । तस्यापि खेचरानंदस्तस्यापि गिरिनंदनः ॥ २०६ ।।
एवं वानरकेतूनां वंशे संख्याविवर्जिताः । आत्मीयैः कर्मभिः प्राप्ताः स्वर्ग मोक्षं च मानवाः २०७
वंशानुसरणच्छायामात्रमेतत्प्रकीर्त्यते । नामान्येषां समस्तानां शक्तः कः परिकीर्तितुं ॥ २०८॥
लक्षणं यस्य यलोके स वेन. परिकीयते । सेवकः सेवया युक्तः कर्पकः कर्पणाचथा ।। २०९ ॥
धानुको धनुपो योगाद्वार्मिको धर्मसेवनात् । क्षत्रियः क्षततस्त्राणाद्ब्राह्मणो ब्रह्मचर्यतः ॥२१०॥
इक्ष्वाकवो यथा चैते नमेश्च विनमेस्तथा । कुले विद्याधरा जाता विद्याधरणयोगतः ॥ २१ ॥
पर्छ पर्व। पद्मपुराणम्। परित्यज्य नृपो राज्यं श्रमणो जायते महान् । तपसा प्राप्य संबंधं तपो हि श्रम उच्यते ॥२१२॥ अयं तु व्यक्त एवास्ति शब्दोन्यत्र प्रयोगवान् । यष्टिहस्तो यथा यष्टिः कुंतः कुंतकरस्तथा २१३ मंचस्थाः पुरुषा मंचा यथा च परिकीर्तिताः । साहचर्यादिभिर्धरेवमाद्या उदाहृताः ॥२१४ ॥ तथा वानरचिन्हेन छयादिविनिवेशिना । विद्याधरा गता ख्याति वानरा इवि विष्टपे ॥२१५॥ श्रेयमो देवदेवस्य वासुपूज्यस्य चांतरे । अमरप्रमसंज्ञेन कृतं वानरलक्षणं ॥ २१६ ॥ वलनात्सेवनाज्जाता शेषा अपि तथा क्रिया । परां हि कुरुते प्रीति पूर्वाचरितसेवनं ॥२१७॥ एवं संधेपतः प्रोक्तः कपिवंशसमुद्भवः । प्रवक्ष्यामि परां यातामिमां श्रेणिक तेऽधुना ॥ २१८ ॥ महोदधिरवो नाम खेचराणामभूत्पतिः । कुले वानरकेतूनां किप्कुनान्नि पुरोत्तमे ॥ २१९ ।। विद्युत्प्रकाशा नामास्य पत्नी स्त्रीगुणसंपदां । निधानमभवद्भावगृहीतपतिमानसा ॥ २२० ॥ रामाणामभिरामाणां शतशो योपरि स्थिता । सौभाग्येन तु रूपेण विज्ञानेन तु कर्मभिः ॥२२॥ पुत्राणां शतमेतस्य साष्टकं वीर्यशालिनां । येषु राज्यभरं न्यस्य स भोगान् बुभुजे सुखं ।।२२२॥ मुनिमुग्रतनाथस्य तीर्थे यः परिकीर्तितः । च्यापाररद्भुतर्नित्यमनुरंजितखेचरः॥ २२३ ।। लंकायां च तदा स्वामी रक्षोवंशे नभोविधुः । विद्युत्केश इति ख्यातो बभूव जनताप्रियः २२१ - 7 पद्मपुराणम् । ' “षष्ठ पर्व। गत्यागमनसंवृद्धमभूत्रेम परं तयोः । यतश्चित्तमभूदेकं पृथक्त्वं देहमात्रतः ॥ २२५॥ तडिकेशस्य विज्ञाय श्रामण्यमुधिस्वनः । श्रमणत्वं परिप्राप्तः परमार्थविशारदः ॥ २२६ ॥ तडित्केशः कुतो हेतोराश्रितो दुर्द्धराकृतिं । संपृष्टः श्रेणिकेनैवमुवाच गणनायकः ॥ २२७. ।। अन्यदाथ तडित्केशः प्रमदाख्यं मनोहरं । निष्क्रांतो रंतुमुद्यानं कृतक्रीडनकालयं ॥ २२८ ।। पदीवररम्येषु सरःसु स्वच्छवारिषु । उद्यचरंगभंगेषु द्रोणीसंचारचारुषु ॥ २२९ ।। दोलासु च महार्हासु रचितासनभूमिपु । तुंगपादपशक्तासु दूरसप्रवद्धिपु ।। २३०॥ ततः सोपानमार्गेपु रत्नरंजितसानुगु | दुमखंडपरीतेपु हेमपर्वतकेषु च ॥ २३१ ।। फलपुप्पमनोज्ञेषु चलत्पल्लवशालिपु । लतालिंगितदेहेषु महीरुहचयेषु च ॥ २३२ ।। मुनिक्षोभनसामर्थ्ययुक्तविभ्रमसंपदा । पुष्पादिपचयाशक्तपाणिपल्लवशोभिना ॥ २३३ ॥ नितंबवहनायासजावस्वेदांविषपां । कुचकंपोज्यलत्स्थूलमुक्ताहारपुरत्विषां ॥ २३४ ॥ निमज्जदुद्भवत्सूक्ष्मवलिमध्यविराजिनां । निश्वासाकृष्टमत्तालिवारणाकुलचेतसां ॥२३५ ।। सस्तांचरसमालविकराणां चलचक्षुषां । मध्यमास्थाय दाराणां स रेमे राक्षसाधिपः ॥ २३६ ।। अथ क्रीडनशताया देव्यास्तस्य पयोधरौ । श्रीचंद्राख्यं दधानायाः कपिना नखकोटिभिः२३७ . पर्य पर्व। . ११७ ": पद्मपुराणम्। विपाटितौ स्वभावेन विनयप्रच्युतात्मना । नितांतं विद्यमानेन रुपा विकृतचक्षुपा ॥ २३८ ॥ समाश्चास्य ततः कांतां प्रगलत्स्तनशोणितां । निहतो वाणमाकृष्टय तडित्केशेन वानरः ॥२३९॥ वेगेन स ततो गत्वा पतितस्तत्र भूतले । तिष्ठति मुनयो यत्र विहायस्तलचारिणः ॥ २४० ॥ ततस्तं वेपथुग्रस्तं स वाणं वीक्ष्य वानरं । मुनीनामनुकंपाभूत्संसारस्थितिवेदिनां ॥ २४१ ॥ तस्मै पंचनमस्कारः सर्वत्यागसमन्वितः । धर्मदानसमुटुक्तरुपदिष्टस्तपोधनैः ।। २४२ ।। ततः स विकृतां त्यक्त्वा तनुं वानरयोनिजां । महोदधिकुमारोभूत्क्षणेनोत्तमविग्रहः ॥ २४३ ॥ ततो यावदसौ हतुं खेचरोन्यान्समुद्यतः । कपीस्तावदयं प्राप्तः कृतस्वतनुपूजनः ॥ २४४ ॥ हन्यमानां नरैः कूरैदृष्ट्वा वानरसंहति । चक्रे क्रियसमाकपीनां महतीं चमू ।। २४५ ।। दंष्ट्रांकुरकरालस्तैर्वदनै विकारिभिः । सिंदूरसदृशच्छायैः कृतभीपणनिःस्वनैः ।। २४६ ॥ उत्क्षिप्य पर्वतान्केचित्केचिदुन्मूल्य पादपान् । आहत्य धरणी केचित्पाणिना स्फाल्य चापरे२४७ क्रोधसंभाररौद्रांगा दरोत्प्लवनकारिणः । वमणुर्वानराध्यक्षं खेचरं मिन्नचेतसं ॥ २४८ ॥ तिष्ठ तिष्ठ दुराचार मृत्योः संप्रति गोचरे । निहत्य वानरं पाप तवाद्य शरणं कुतः ॥ २४९ ॥. अभिधायेति तैः सर्व व्योम पर्वतपाणिभिः । व्याप्तं तथा यथास्मिश्च सूचीभेदोपि नेक्ष्यते२५० , . पार्टी पर्व। १९८ पद्मपुराणम् । ततो विस्मयमापनस्तडिकेशो व्यचिंतयत् । नेदं वलं प्लवंगाणां किमप्यन्यदिदं भवेत् ॥२५॥ ततो निरीहदेहोसौ माधुर्यामितया गिरा । वानरान्विनयेनेदमनवीनपपंडितः ।। २५२ ।। संतो वदत के यूयं महाभासुरविग्रहाः । न प्रकृत्या प्लवंगाणां शक्तिरेपा समीक्ष्यते ॥ २५३॥ ततस्तं विनयोपेतं दृष्ट्वा खेचरपुंगवं । महोदधिफुमारेण वाक्यमेतदुदाहृतं ।। २५४ ॥ तिर्यग्जातिस्वभावेन नितांतं चपलस्त्वया । अपराधः स्वजायायां हतो योसौ प्लवंगमः ॥२५५।। सोहं साधुप्रसादेन संग्राप्तो देवतामिमा । महाशक्तिसमायुक्तां यथेच्छावाप्तसंपदा ॥ २१६॥ विभूति मम पश्य त्वमिति चोच्या परां श्रियं । स तस्मै प्रकटीचक्रे महोदधिः सुरोचितां॥२५७॥ ततौसा वेपथु प्राप्तो भयात्सर्वशरीरंग । विदीर्णहृदयो दृष्टरोमाविभ्रांतलोचनः ॥२५८॥ महोदधिकुमारेण मार्भपीरिति चोदितः । जगाद गदगदं वाक्यं किं करोमीति दुःखितः।।२५९।। ततस्तेन सुरेणासौ गुर्वतिकमुपाहृतः । ताभ्यां प्रदक्षिणीकृत्य कृतं तस्यांविंदनं ॥ २६०।। वानरेण सवा प्राप्तं मया देवत्वमीदृशं-1 गुरुं भवंतमासाद्य वत्सलं सर्वदेहिनां ॥ २६१ ॥ देवेनेत्यभिधायासौ स्तुतो वाग्मिः पुनः पुनः । अचिंतश्च महामृग्भिः पादयोः प्रणतस्तथा २६२ तदाश्चर्य ततो दृष्ट्वा खेचरेण तपोधनः । संपृष्टः किं. करोमीति जगाद वचनं हितं ।। २६३ ।।. .
पद्मपुराणम् । + चतुर्ज्ञानोपगूढात्मा ममास्त्यत्र समीपगः । गुरुस्तस्यांतिकं याम एष धर्मः सनातनः ॥ २६४ ॥ आचार्ये ध्रियमाणे यस्तिष्ठत्यंतिकगोचरे । करोत्याचार्यकं मूढः शिष्यतां दूरमुत्सृजन् ।।२६५।। नासौ शिष्यो नचाचार्यो निर्धमः स कुमार्गगः । सर्वतो भ्रंशमायातः स्वाचारात्साघुनिंदितः ॥ इत्युक्ते विस्मयोपेतौ जातौ देवनभश्वरौ । चक्रतुश्चेतसीदं च परिवारसमन्वितौ ।। २६७ ॥ अहो परममाहात्म्यं तपसो भुवनातिगं । मुनरेवंविधस्यापि यदन्यो विद्यते गुरुः ॥२६८ ॥ ततस्तस्योपकंठे ते साधुनाधिष्ठिता ययुः । देवाश्च व्योमयानाश्च धर्मोत्कंठितचेतसः ॥२६९॥ गत्वा प्रदक्षिणीकृत्य प्रणम्यादरतो मुनि । नातिदूरे नचात्यंतसमीपे स्थितिमाश्रिताः ॥२७० ।। ततस्तां परमां मूर्ति तपोराशिसमुत्थया । प्रज्वलंती मुनेर्दीप्ता दृष्ट्वा देवनभश्वराः ॥२७१ ।। चिंता कामपि संप्राप्ता धर्माचारसमुद्भवां । प्रफुल्लनयनांभोजा महाविनयसंगताः ॥२७२ ।। ततो देवनभोयानावंजलिं न्यस्य. मस्तके । पप्रच्छतुमुनि धर्म फलं चास्य यथोचितं ।। २७३ ॥ ततो जंतुहितासंगनित्यप्रस्थितमानसः । संसारकारणासंगदूरीकृतसमीहितः ॥ २७४ ।। सजलांमोदगंभीरधीरया श्रमणो गिरा | जगाद परमं धर्म जगतोभ्युदयावहं ॥२७५ ।। तस्मिन् गति तद्देशे लतामंडपसंश्रिताः । ननृतुः शिखिसंघाता मेघनादविशंकिताः ॥ १७६ ।। - पष्ट पर्व। पद्मपुराणम्। समाधाय मनो धर्मः श्रूयतां सुरखेचरौ । यथा जिनैः समुद्दिष्टो अपनानंदकारिभिः ॥२७७॥ धर्मशब्दनमात्रेण बहवः पाणिनोधमाः । अधर्ममेव सेते विचारजडचेतसः ॥२७८ ॥ मार्गोयमिति यो गच्छेत् दिशमज्ञाय मोहवान् । द्राधीयसापि कालेन नेष्टं स्थानं स गच्छति ।। कथाकल्पितधर्माख्यमधर्म ममानसाः । प्राणिघातादिमिर्जात सेते विपयाश्रिताः ।। २८० ।। ते ते भावेन संसेव्य मिथ्यादर्शनदूषिताः । तिर्यग्नरकदुःसानां प्रपद्यते निधानतां ।। २८१॥ कुहेतुजालसंपूर्णग्रंथार्थर्गुरुदंडकैः । धर्मोपलिप्सया मृदास्ताडयंति नभस्तलं ॥ २८२ ।। यद्यपि स्यात्कचित्किंचिद्धर्म प्रति कुशासने । हिंसादिरहिताचारे शरीरश्रमदेशिने ॥२८३ ।। सम्यग्दर्शनहीनत्वान्मूलछिन्नं तथापि च । न ज्ञानं क्षुद्रचारित्रं तेषां भवति मुक्तये ॥ २८४ ॥ पार्थिवो लोष्टुलेशोपि वैडूर्यमपि पार्थि । न पार्थिवत्वसमान्यात्तयोस्तुल्यं गुणादिकं ।। २८५॥ लोटुलेशसमो धर्मो मिथ्याग्भिः प्रकीर्तितः । वैडूर्यसदृशो जैनो धर्मसंज्ञा तु सर्वगा ॥ २८६॥ धर्मस्य हि दया मूलं तस्या मूलमहिंसनं । परिग्रहावा पुंमां हिंसनं स तदोद्भवं ॥ २८७ ॥ तथा सत्यवचो धर्मस्तच्च यन्न पर सुखं । अदत्तादानमुक्तिश्च परनार्याश्च वर्जनं ॥ २८८ ॥ द्रविणाप्तिषु संतोपो हपीकाणां निवारणं । तनूकृतिः कपायाणां विनयो ज्ञानसेविनां ॥ २८९ ।।
.
पद्मपुराणम्।
१२१
पष्ट पर्व।
व्रतमेद्गृहम्थानां सम्यग्दर्शनचारिणां । आगाररहितानां तु शृणु धर्म यथाविधि ॥ २९॥
पंचोदारव्रतोतुंगमातंगस्कंधवर्तिनः । त्रिगुप्तदृढनीरंध्रकंकटच्छन्नविग्रहाः ॥ २९१ ।।.
पादातेन समायुक्ताः समित्या पंचभेदया । नानातपोमहीतीक्ष्णशस्त्रयुक्तमनस्कराः ॥२९२ ॥
घृतं कपायसामतैर्मोहवारणवर्तिनं । भवारातिं विनिमंति निरंवरमहानृपाः ।। २९३ ।।
सौरभपरित्यागे सम्यग्दर्शनसंगते । धर्मस्थितानगाराणामेप धर्मः समासतः ॥ २९४ ॥
त्रिलोकश्रीपरिप्राप्ते धर्मोयं हेतुतां गतः । एप एव परं प्रोक्तो मंगलं पुरुषोत्तमः ॥ २९५ ॥
अन्यः कस्तस्य कथ्येत धर्मस्य परमो गुणः । त्रिलोकशिखरं येन प्राप्यते सुमहामुखं ।। २९६॥
सागारेण जनः स्वर्गे भुंक्ते भोगान्महागुणान् । देवीनिवहमध्यस्थो मानसेन समाहृतान्।।२९७॥
निर्वाससां तु धर्मेण मोक्ष प्रामोति मानवः । अनौपम्यमनावाधं सुखं यत्रांतवजितं ॥ २९८ ॥
स्वर्गगास्तु पुनश्च्युत्वा प्राप्य दैगंबरी क्रियां । द्विवैः प्रपद्यते प्रकृष्टाः परमं पदं ॥ २९९॥
काकतालीययोगेन प्राप्ता अपि सुरालयं । कुयोनिपु पुनः.पापा भ्रमत्येव कुतीर्थिनः ॥३०० ॥
जैनमेवोत्तम वाक्यं जैनमेवोत्तमं तपः । जैन एवं परो धर्मो जैनमेव परं मतं ॥ ३०१॥
नगरं बजतः पुंसो वृक्षमूलादिसंगमः । नांतरीयकतामेति यथाखेदनिवारिणः ॥ ३०२ ॥
-
'च; पर्व।
-
T
.१२२
पद्मपुराणम्।
प्रस्थितस्य तथा मोक्ष जिनशासनवर्त्मना । देवविद्याधरादिश्रीरनुपंगेण जायते ।। ३०३ ।।
विवुधंद्रादिभोगाना हेतुत्वं यत्प्रपद्यते । जिनधर्मो न तचित्रं ते ह्यस्मात्सुकृतादपि ॥ ३०४॥
विपरीतं यदेवस्माहिश्रमणधर्मतः । चरितं तस्य संज्ञा न धर्म इति कीर्तितं ॥ ३०५ ॥
भ्रमंति येन तिर्यक्षु नानादुःखप्रदायिपु । वाहनात्ताडनाच्छेदावेदाच्छीतोष्णसंगमात् ॥ ३०६॥
नित्यांधकारयुक्तेषु नरकेषु च भूरिषु । तुषारपवनाघातकतर्कपेषु केचित् ॥ ३०७ ॥
स्फरन्स्फुलिंगरौद्राग्निज्वालालोढेषु केचित् । नानाकारमहाराधयंत्रव्याप्तेषु केचित् ।। ३०८ ॥
सिंहव्याघवृकश्यनगृधरुद्धेषु केपुचिन् । चक्रककचकुंतासिमोचिवृक्षेषु केचित् ।। ३०९॥
विलीनत्रिपुसीसादिपानदायिपु केचित् । तीक्ष्णतुंडस्फुरत्क्रूरमक्षिकादिपु केचित् ॥ ३१० ॥
कमिप्रकारसन्मिथ रक्तपंकेपु केपुचित् । परस्परसमुद्भूतबाधाहेतुपु केपुचित् ।। ३११॥
एवंविधेषु जीवानां सदा दुःखविधायिपु । दुःखे यनरकेषु स्यात्कः शक्तस्तत्प्रकीर्तितुं ।। ३१२ ॥
यतो यथा पुरा भ्रांती युवा दुःखासु योनिषु । तथा पर्यटनं भूयः प्राप्स्यतो धर्मवर्जिती॥३१॥
इत्युक्ताभ्यां परिपृष्टस्ताभ्यां श्रमणसत्तमः । कथं कुयोनिषु भ्रांतावावामिति मुने बद ।। ३१४ ।।
जन्मान्तरं ततोम्योचत्तयोः संयममंडनः । मनो निधीयतां वत्सावित्युक्त्वा मधुरं वचः ॥३१५॥
पष्ट पर्व ।
१२३
पद्मपुराणम् ।
.
पर्यटना युगामा संसारे दुःखदायिनि । परस्परस्य कुर्वाणी वधं मोहपरायणौ ॥ ३१६ ॥
मानुष्यमावमायावी कांचित्कर्मयोगतः । अयं हि दुर्लभो लोके धर्मोपादानकारणं ॥३१७॥
म्याधस्तयोरभूदेको चिपपे काशिनामनि । श्रावस्त्यामपरोमात्यपदे स्थैर्यमुपागतः ॥३१८॥
मुयशोदचनामागी प्रवग्यामायित: क्षिती । चचार तपसा युक्तो महतात्यंतरूपवान् ॥ ३१९ ॥
नतस्तं मुस्थितं देश काश्यां प्राणिविवर्जिते । पूजनार्थ समायाताः सम्यग्दृष्टिकुलांगनाः ॥३२०॥
नीभिस्तनः परीतं तं व्याघोस वीक्ष्य योगिनं । अत्यक्ष्णोद्वाम्भिरुग्राभिः शौः कुर्वन् विभीतिका
निर्लज्जो वरामुक्तोयं मानवर्जितविग्रहः । मृगयायां प्रवृत्तस्य जातो मेऽमंगलं महत् ।। ३२२ ॥
यदत्येवं ततो व्याधे धनुर्भाषणकारिणि । मुनेः कलुपता प्राप्त ध्यानं दुःखेन संभृतं ॥ ३२३ ॥
इनि वा चितपत्क्रोधान्मुष्टिपातेन पापिनं । कणश'चूर्णयाम्येनं व्याध रक्षवचोमुचं ॥३२४ ।।
ततः कापिष्टगमनं मुनिना यदुपार्जितं । तदस्य क्रोघसंभारात् क्षणादस्ममुपागनं ॥ ३२५ ॥
ततोमा कालधर्मेण युक्तो ज्योनिःसुरोऽभवत् । ततः प्रच्युत्य जातस्त्वं विद्युत्केशो नभयरः ३२६
पाधोपि सुचिरं भ्रांता भवद्रुममहायने । लंकायां प्रमदोद्याने शाखामृगगतिं गतः ।। ३२७॥
ततोसी निहतःस्पर्थ त्वया पाणेन चापलात् । प्राप्य पंचनमस्कारं जातोयं सागरामरः॥३२८॥
पर्छ पर्व। १२४. पद्मपुराणम् । एवं पात्रा पुनर मुंगनं देवरी । माभूदयोपि संमारे भवनोः परिहिंडनं ॥ ३२९ ।। यांच्छनं नरमात्रेण शक्यं यन प्रगमितुं । गिदानां तस्मुखं भद्रो भद्राचारपरायणा ॥ ३३० ॥ नमन प्रणतं देवरामंडलपुरस्मरः । भक्त्या परमया युक्ती मुनिसुव्रतमीश्वरं ।। ३३१॥ शरणं प्राण तं नाथं निष्ठिनात्मप्रतिक्रियं । परकत्यममुधुक्तं प्राप्स्यथः परमं सुखं ॥ ३३२ ॥ ननो मुनिमुखादित्यानिर्गतेन नोंशुना । परं प्रयोधमानीतम्तडित्केशः सरोजयत् ।। ३३३ ॥ गुकेशगजके पुत्रे संक्रनय्य निजं पदं । शिष्यनामगमवीरो मुनरंवरचारिणः ॥३३४॥ गभ्यग्दर्शनसंज्ञानमचारित्रवयं ततः । समाराध्य गतः कालं अभ्यामरमत्तमः ।। ३३५ ॥ तनः किफुपुरस्वामी महोदधिरयाभिधः । कांताभिः सहिनस्तिष्ठन् विद्युत्सदृशदीप्तिमिः ॥३३६।। चंद्रपादाश्रये रम्ये महाप्रासादमूर्द्धनि । चारु गोष्टीमुधास्वादं विंदन देवेंद्रवत्सुखं ।। ३३७॥ - वेगेन महतागल्य धवलांवरधारिणा । खेचरेणाग्रनो भूत्वा कृत्वा प्रणतिमादरात् ॥ ३३८॥ निवेदितस्तडिलेशः प्रत्रज्या कारणान्वितां । प्राप्य भोगेषु निदं दीक्षणे मतिमादधे ।। ३३९ ।। अनजामीति गानेन गदिततःपुरान्महान् । उदतिष्ठद्गृहतिषु विलापः प्रतिनादयान् ।। ३४०॥ ग्रीवंशादिसन्मिश्रमृदंगघनितोपमः । प्रविलापः सुनारीणां मुनेरप्यहरन्मनः ॥ ३४१ !!
. पद्मपुराणम्। - 1 १२६ पष्ट पर्व । ततस्ताघुद्यती कृत्यं भ्रातरौ भुवि चक्रतुः । अन्योन्याक्रांततेजस्को सूर्याचंद्रमसाविव ।। ३५५॥ अत्रांतरे नमोगानां पर्वते दक्षिणे स्थित्तौ । स्थन् पुरनामास्ति पुरं सुरपुराकृतिः ॥ ३५६ ॥ आसीनत्रोमयोः श्रेण्योः स्वामी भूरिपराक्रमः । दधावशनिवेगारुपां यः शत्रुत्रासकारिणीं ॥३५७॥ पुत्रो विजयसिंहश्चनाम्नादित्यपुरं परं । वांछन् रूपावलेपेन प्रयातीथ स्वयंवरं ॥ ३५८॥ विद्यामंदरसंज्ञस्य सुतामंवरचारिणः । वेगवत्यां समुत्पन्नां कांतिदिग्धनभस्तलां ।। ३५९ ।। अथासौ यौवनप्राप्तां वीक्ष्य पुत्री मनोहराम् । स्वजनानुमतोमोहात्स्वयंवरमरीरचत् ॥ ३६० ॥ अपरेपि खगाः सर्वे विमानमणिशालिभिः । पूरयंतो नमः शीघ्रं गताः भूपितविग्रहाः ॥ ३६१ ।। ततो मंचेषु रम्येषु रत्नस्तंभधृतात्ममु । तुंगासनसमुद्धेपु स्फुरन्मणिमरीचिपु ॥ ३६२ ।। मितेन परिवारेण युक्ता देहोपयोगिना । उपविष्टा यथास्थानं प्रधाना व्योमचारिणः ॥ ३६३ ॥ श्रीमालायां ततस्तेषां सर्वेषां व्योमचारिणां । मध्यस्थायां समं पेतुर्दृप्टेंदीवरपंक्तयः ।। ३६४ ।। अथ स्वयंवराशानां प्रवृत्ता व्योमचारिणां । मदनालिएचिचानां इति सुंदरविभ्रमा ॥३६५ ॥ निष्कंपमपि मूर्द्धस्थं मुकुटं कश्चिदुन्नतं । अकरोत्किल निष्कर्ष रत्नांशुच्छत्रपाणिना ॥ ३६६ ॥ कश्चित्कर्परमाधाय कटिपार्श्वे समुंभणः । चक्रे देहस्य वलनं स्फुटत्संधिकृतस्वनं ॥ ३६७ ॥ .
+ F षष्ठं पर्व । १२७ - पद्मपुराणम्। प्रदेशेपि स्थितां कश्चिदुज्ज्वलामसिपुत्रिकां । असारयत्कराग्रेण कटाक्षकृतवीक्षणां ॥३६८ ॥ पार्श्वगे पुरुषे कश्चिचलयत्येव चामरं । सलीलमंशुकांतेन चक्रे वीजनमानने ॥ ३६९ ॥ सव्येन वक्रमाच्छाद्य कश्चिदुत्तलपाणिना । संकोच्य दक्षिणं वाहुं व्याक्षिपदमुष्टिकं ।। ३७० ॥ पादासनस्थितं कश्चिदुद्यम्य चरणं शनैः । वामोरुफलके चक्रे दक्षिणं रतिदक्षिणः ॥ ३७१ ॥ पादांगुष्ठेन कश्चिच नेत्रांतेक्षितकन्यकः । कृत्वा पाणितले गंडं लिलेख चरणाशनं ।। ३७२ ॥ गाढमप्यपरो बद्धमुन्मुच्य कटिसूत्रकं । वबंध शनकैभ्यः शेपाभमणिचक्रकं ॥ ३७३ ॥ स्फुटदन्योन्यसंदष्टः प्रोत्तानविकगंगुलिः । वक्षः कश्चित्समुद्यम्य बाहुतोरणमूर्द्धयत् ॥ ३७४ ॥ पार्श्वस्थस्यापरो हस्तं सख्युरास्फाल्य सस्मितं । कथां चक्रे विना हेतोः कन्याक्षिप्तचलेक्षणः३७५ कृतचंदनचर्चेन्यः कुंकुमस्थासकाचिते । चक्षुर्वक्षसि चिक्षेप विशाले कृतहस्तके ॥ ३७६ ॥ कश्चित्कुंतलमालस्थां गृहीत्वा केशवल्लरीं । कुटिलामपि वामायां प्रदेशिन्यामयोजयत् ॥ ३७७ ॥ अधरं कश्चिदाकृष्य वामहस्तेन मंथरं । स्वच्छतांबूलसच्छायमैक्षिष्टभुवमुन्नयन् ।। ३७८ ॥ अपरो भ्रमयत्पन बद्धभ्रमरमंडलं । सव्येतरेण हस्तेन विसर्पन् कर्णिकारजः ॥ ३७९ ॥ वीणामिर्वेणुभिः शंखपृदंगैझेलरैस्तथा । जनितोथ महानादः काहलानकमंडकैः ।। ३८०॥
पई पर्व। .. ', १२८ पपराणम्। मंगलानि प्रयुक्तानि बंदिभिवृद्धवृंदकैः । महापुरुषचेष्टाभिनित्रद्वानि प्रमोदिभिः ॥ ३८१ ।। महानादस्य तस्यांते धात्री नाना मुमंगला । वामेतरकरोपात्तहेमवेत्रलता ततः ॥ ३८२ ।। जगाद वचनं कन्यां विनयादानताननां । प्राप्तकल्पलताकारां मणिहेमविभूषणः ॥ ३८३ ।। सख्यां सन्यस्तविस्रंसिमृदुपाणिसरोरुहा । ऊर्द्धस्थिता स्थितामूर्दै मकरध्वजयणिनीं ॥ ३८४ ॥ नभस्तिलकनाम्नाय नगरस्य पतिः सुते । उत्पन्नो विमलायां च चंद्रकुंडलभूपतेः ॥ ३८५ ॥ मार्तडकुंडलो नाम्ना मातंडविजयी रुचा । प्रकांडतां पर प्राप्तो मंडलायो गुणात्मकात् ॥३८६॥ गुणचिंताप्रवृत्तासु गोष्ठीप्वस्यादितो बुधाः । नाम गईति रोमांचकंटकव्याप्तविग्रहाः ॥ ३८७ ॥ साकमेतेन रंतुं चेदस्ति ते मनसः स्पृहा । वृणीष्यैनं ततो दृष्टसमस्तग्रंथगर्भकं ।। ३८८ ।। ततस्तं यौवनादीपत्प्रच्युतं खेचराधिपं । आननानतिमात्रेण प्रत्याख्यातवती भुमा ॥ ३८९ ॥ भूयोऽवदत्ततो धात्री तनये यच्छ लोचने । पुरुषाणामधीशस्मिन् कांतिदीप्तिविभूतिभिः ॥३९०॥. अयं रत्नपुराधीशो लक्ष्मीविद्यांगयोः सुतः । नाना विद्यासमुद्धातो बहुविद्याधराधिपः ॥३९१॥ अस्य नाम्नि गते कर्णजाई वीरप्रकीर्तने । शत्रवो गृह्णते वातधूताश्वस्थदलस्थितिं ।। ३९२.॥ अस्य वक्षसि विस्तीर्णे कृतहारोपधानके । कुनृपभ्रांतिभिः खिन्ना लक्ष्मी विश्रांतिमागता ३९१ पष्ट पर्व। पद्मपुराण में । १२९ . P - अस्यांके यदि ते प्रीतिः स्थातुमस्ति मनोहरे । गृहाणनं तडिन्माला युज्यतां मंदराद्रिणा ३९४ ततः प्रत्याचचक्षे तं चक्षुपैवर्जुदर्शनात् । वांछिते हि वरत्वेन दृष्टिचंचलतां ब्रजेत् ।। ३९५ ॥ ततोसौ तदभिप्रायवेदिनी तां सुमंगला । अपरं दर्शयन्ती न-रेशमिति चावदत् ।। ३९६ ।। वंजायुधस्य पुत्रोयं वज्रशीलांगसंभवः । वज्रपंजरनामानमधितिष्ठति पत्ननं ॥ ३९७ ॥ अस्य चाहुद्वये लक्ष्मीदिनेशकरभासुरे । चंचलापि स्वभावेन संयतेवावतिष्ठते ॥ ३९८ ।। सत्यमन्येपि विचंते नाममात्रेण खेचराः । तेषां खद्योततुल्यानामयं भास्करतां गतः ।। ३९९ ॥ मानेन तुंगतामस्य प्राप्तस्य शिरसः परां । संप्राप्तुं पुनरुत्कर्ष मुकुटं स्फुटरत्नकं ।। ४००॥ स्वरूपे प्रतिपद्यस्व पति विद्याभृतामिमं । विपयांश्चैत्समान् शच्या मोक्तुं धीस्तव विद्यते।।४०१॥ ततः खेचरभानुं तं दृष्ट्वा कन्या कुमुदती । संकोचं परमं याता धात्र्येति गदिवा पुनः।। ४०२ ॥ चित्रांवरस्य पुत्रोयं पद्मश्रीकुक्षिसंभवः । नित्यं चंद्रपुराधीशो नाना चंद्राननो नृपः ॥ ४०३ ।। पश्य वक्षोस्य विस्तीर्ण चारुचंदनचर्चितं । चंद्ररश्मिपरिष्वक्तं कैलाशतटसनिमं ॥४०४ ।। उच्छलत्करभारोस्य हारो वक्षसि राजते । उत्सर्पत्सीकरो दर कैलाश इव निझरः ॥ ४०५ ।। नामाक्षरकरैरस्य मनश्लिष्टमरेरपि । प्रयाति परमं ल्हादं दुःखतापविवर्जितं ॥ ४०६ ।।
ho
पाएं पर्व।
१३० .
पद्मपुराणम्।
याति चेदिह ते चेतः प्रसाद सौम्पदर्शने । रजनीव शशांकेन लभस्वेतेन संगम ॥४०७॥
ततस्तस्मिन्नपि प्रीति न मनोस्याः समागतं । कमलिन्या यथा चंद्रे नयनानंदकारिणि १४०८॥
पुनराह ततो धात्री कन्ये पश्य पुरंदरं । अवतीर्ण महीमेतं भवतीसंगलालसं ।। ४०९.॥
सुतोय मेहकांतस्य श्रीरंभागर्भसंभवः । स्वामी मंदरकुंजस्य पुरस्यांभोधरध्वनिः ॥ ४१०॥
शक्ता यस्य न संग्रामे दृष्टिं सम्मुखमागतां । प्रतिपत्तुं कुतो वाणान् शत्रयो भयदारिताः ४११
समावयामि देवानां नाधोप्यस्माद् बजेद्यं 1 अभनप्रसरो ह्यस्य प्रतापो भ्रमति क्षितिं ॥४१२॥
उन्नतं चरणेनास्य शिरस्ताडय सुखने । प्रस्तावे प्रेमयुक्तेपु कलहेषु नितंपिनि ।। ४१३ ।।
असावपि ततस्तस्या न लेभे मानसे पदं । चित्रा हि चेतसो वृत्तिः प्रजानां कर्महेतुका ॥४१४॥
अभापयदिमां पालां तनोन्य व्योमचारिणं । धात्री सदासरस्यब्ज हंसीमुत्कलिका यथा।।४१५।।
उवाच च सुते.पश्य नृपमेतं महावलं । मनोजवेन वेगिन्यां संभूतं वायुरहसं ॥ ४१६ ।।
नाका संज्ञकस्यायं पुरस्य परिरक्षिता । अतिक्रम्य स्थिता यस्य गणतां विमला गुणाः॥४१७॥
भ्रूसमुत्क्षेपमात्रेण सर्वं यः क्षितिमंडलं । भ्राम्यति स्वांगवेगोत्थयातपातितभूधरः ।। ४१८॥
विद्यावलेन यः कुर्याद् भूमि गगनमध्यगां । दर्शयेद्वा ग्रहान्सर्वान् धरणीतलचारिणः ॥ ४१९॥
षष्ठं पर्व। • १३१ पद्मपुराणम् । तुरीयं वा सूजेल्लोकं सूर्य वा चंद्रशीतलं । चूर्णयेद्वा धराधीशं स्थापयेद्वानिलं स्थिरं ॥ ४२० ॥ शोषयेद्वांभसां नाथं मूर्त कुर्वीत वा नभः । भापितेनोरुणा किंवा भवेद्यस्य यथेप्सितं ॥४२१॥ तत्रापि न मनस्तस्याश्चक्रे सानमयुक्तिकं.। वत्येपेति चानासीत्सर्वशास्त्रकतश्रमा ।। ४२२ ॥ अन्यानपि बहूनेवं धात्रीदर्शितसंपदः । विद्याबलसमायुक्तान्कन्या तत्याज खेचरान् ।। ४२३ ।। ततोसौ चंद्रलेखेव व्यतीयाय नभश्वरान् । पर्वता इव ते प्राप्ताः श्यामतां शोकवाहिनः ॥४२४॥ खेचराणां विलक्षाणां दृष्ट्वान्योन्यं गतत्विषां । प्रवेष्टुं धरणीमासीदभिप्रायखपावतः ।।.४२५ ॥ अपकर्ण्य ततो धात्री खेचरद्युतिवर्णिनीं । तस्याः पपात किष्कंधकुमारे दृष्टिरादरात् ॥ ४२६ ॥ ततो मालागुणः कंठे दृष्टिरेवास्य संगतः । अन्योन्यं च समालापः स्निग्धया रचितोनया।।४२७॥ ततो विजयसिंहस्य किष्कंधांधकयोर्गता | दृष्टिराहूय तावेवं विद्यावीर्येण गर्वितः ॥ ४२८ ।। विद्याधरसमाजोयं क भवंताविहागती । विरूपदर्शनी क्षुद्रो वानरौ विनयच्युतौ ॥ ४२९॥ नेह देशे वनं रम्यं फलैरस्ति कृतानतिः । नवा निझरधारिण्यः सुंदरा गिरिकंदराः ॥ ४३० ॥ वृंदानि वानरीणां वा कुर्वति कुविचेष्टितं । मांसलोहितवक्राणां प्रवृत्तानां यथेप्सितं ॥ ४३१ ॥ आहूताविह केनैतौ पशुकपिनिशाचरौ । दूताधमस्य तस्याद्य करोमि विनिपातनं ॥ ४३२ ॥ .
पप्प पर्व। " । . T 4. 1 पद्मपुराणम् । - निर्घाव्यतामिमावस्माद्देशाच्छाखामृगौ खलौ 1 वृधाविद्याधरीश्रद्धा दूर नयन चानयोः ॥४३३॥ रुष्टौ ततो वचोमिस्तौ परुपैनरध्वजौ । महांत क्षोभमायाती सिंहाविव गजान्प्रति ॥ ४३४॥ ततः स्वामिपरीयादमहावाताहता सती । गता क्षोभं चमूला रौद्रचेष्टाविधायिनी ॥ ४३५।। कश्चिदास्फालयद्वाममंसं दक्षिणपाणिना । वेगाघातसमुत्सर्पद्रक्तशीकरजालकं ॥ ४३६ ॥ कश्चिद् दृष्टिं विचिक्षेप क्षेपीयः क्षुन्धमानसः । कोपावेशारुणां भीमा प्रलयोक्कामिवारिपु।।४३७|| कश्चिद्दक्षिणहस्तेन वक्षः कंप्रेण कोपतः । अस्पृक्षत्सकलं क्रूरकर्म यांच्छन् महास्पदं ॥ ४३८॥ कर करेण कविच स्मितयुक्तमताडयत् । तथा यथा गतः पाथः श्रुतेः बधिरतां चिरं ॥ ४३९ ।। मूलजालढाबद्धमहापीठस्य शाखिनः । कश्चिदुन्मूलनं चके चलत्पल्लवधारिणः ॥ ४४० ।। मंचस्प स्तंभमादाय बमंजास परः, कपिः । क्षुद्र गैर्नमस्तस्य व्याप्तमंतरवर्जितः ॥४४१ ।। गात्रं वलितमेकेन स्फुटद् दृढवृणांकितं । शोणितोदारधाराभिरुत्पातघनसन्निभं ॥ ४४२॥. कताहासमन्येन हसितं विवृताननं । शन्दात्मिकमिवाशेष कुचेता भुवनांतरं ।। ४४३॥ धूतोन्येन जटाभारच्छन्नाशेषदिगाननः । छायया तस्य संजाता शर्वरीय तदा चिरं ।। ४४४॥ संकोचिते भुजे कश्चिद्वामे दक्षिणपाणिना । चकार ताडनं घोरं निर्घातापातमीपणं ॥ ४४५ ॥. - षष्ठं पर्व। "१३३ । पद्मपुराणमा . सहचं सांप्रतं वाचः परुषायाः फलं खलाः । दुःखगा इति तारेण ध्वनिना मुखराननाः।।४४६।। अपूर्वायाः पराभूते स्ततस्ते सहनाभ्रंशं । कपयोभिमूखीभूता हंतु खेचरवाहिन ।।.४४७ ।। गजा गजैस्ततः सार्धं रथारूढा रथस्थितैः । पदातयश्च पादातैः, चक्रुयुद्धं, सुदारुणं ॥४४८॥ सेनयोरुभयोजीतस्ततस्तत्र रणो महान् । दूरस्थितामरवाजनितोदारविस्मयः ।। ४४९ ॥ श्रुत्वा च तत्क्षण युद्ध सुकेशो राक्षसाधिपः । मनोरथ इवायातः किष्कंधांधकयोः सुहृत् ।।४५०॥ अकंपनसुताहेतोर्यथा युद्धमभूत्परं । तथेदमपि संवृत्तं बीजं युद्धस्य योपितः ॥ ४५१ ॥ यावच्च तुमुलं तेषां वर्तते खगरक्षसां । तावदादाय तां कन्या किष्किधः कृतितां गतः ॥४५२॥ आहूय चामियातस्य तावदंधकभूभृता । कृपाणेन शिरस्तुंगं जयसिंहस्य पातितं ॥,४५३ ॥. तेनैकेन विना सैन्यमितश्वेतश्च तद्गतं । आत्मनेव विना देहे हपीकाणां कुलं, बलं ॥ ४५४॥ ततः सुतवधं श्रुत्वा बजेणेव समाहतः । शोकेनाशनिवेगोभून्मुझैधतमसावृतः ॥ ४५ ॥ ततः स्वदारनेत्रांबुसिक्तवक्षःस्थलश्चिरात् । गतः प्रयोधमाकारं वभार क्रोधभीपण ॥ ४५६ ।। ततस्तस्य समाकारं परिवर्गोपि नेक्षितुं । शशाक प्रलयोत्पातभास्कराकारसन्निभं ॥४५७ ॥ सर्वविघाघरैः सार्धं ततोसौ शस्त्रभासुरैः । गत्वा किष्कुपुरस्याभूत्तुंगशाल इवांपरः ॥ ४५८ ॥ -- । . । पद्मपुराणम् । १३४ पाठ पर्व । विदित्वा नगर रुदं ततस्ता बानरध्वजौ । तडित्केशिसमायुक्तो निष्क्रांती रणलालसी ॥४५९।। गदाभिः शक्तिभिर्वाणः पाशैः प्राशेर्महासिभिः । ततो दानवसैन्यं तवस्तं वानरराक्षसैः ४६० दिशा यांधको यातःकिष्किंधो वा महाहये । मुकेशो वा तया जाता मागोश्चूर्णितखेचराः ॥ तत्रपुत्रवधक्रोधवन्हिज्वालाप्रदीपितः । अंधकाभिमुखो जातो वजवेगः कृतध्वनिः ॥४६२ ।। वालोयमंध्रकः पापोशनिवेगोयमुद्धतः । इति ज्ञात्वोत्थितो योढुं किष्किंधोशनिरंहसा ॥४६३॥ विद्युद्वाहननानासौ तत्सुतेन पुरस्कृतः । अभवच तयोर्युद्धं दारजातं पराभयं ।। ४६४ ।। यावत्र तत्तयोयुद्धं वर्ततेत्यंतभीपणं । निहतोशनिवेगेन तावदंधकवानरः ।। ४६५ ॥ ततोसा पतितो यालः क्षिती तेजोविवर्जितः । प्रत्यूपशशिनश्च्छायां प्रभार गतचेतनः ॥४६६ ॥ किष्किंधेनापि निक्षिप्ता विद्युद्वाहनवक्षसि । शिला स ताडितो मूछों प्राप्य बोधं पुनर्गतः ४६७ आदायतां शिला तेन ततो वक्षसि ताडितः । किष्किघोपि गतो मूछो घूर्णितेक्षणमानसः ४६८ लंकेंद्रेण ततो नीतः प्रेम संसक्तचेतसा । किकुं प्रमोदमुस्क्षिप्य चिरात्मामा चेतनां ॥ ४६९ ।। उन्मील्प स ततो नेत्रे यदा नापश्यदंध्रकं । तदापृच्छन्मम भ्राता वर्तते केति पार्श्वगान् ।।४७०|| ततः प्रलयवातेन क्षोभितस्यांबुधेः समं । शुभावांतःपुरानंदमंध्रकध्वंसहेतुकं ॥ ४७१ ॥ .
पाठ पर्व। पपुराणम् । ' : विप्रलापं ततश्चक्रे प्रतप्तः शोकवन्हिना | चिरं भ्रातगुणध्यानकृतदुःखोमिसंततिः ॥ ४७२॥ हा भ्रातर्मयि सत्येवं कथं प्राप्तासि पंचतां । दक्षिणः पतितो वाहुस्त्वयि मे पातमागते।।४७३।। दुरात्मना कथं तेन पापेन विनिपातितं । शस्त्रं वाले त्वयि रं धिक्तमन्यायवर्तिनं ॥ ४७४ ॥ अपश्यन्नाकुलोऽभूवं यो भवंतं निमेपतः । सोहं वद कथं प्राणान् धारयिष्यामि सांप्रतं ॥४७५॥ अथवा निर्मितं चेतो. वज्रेण मम दारुणं । यज्ज्ञात्वापि भवन्मृत्युं शरीरं न विमुंचति ॥ ४७६ ॥ बाल ते स्मितसंयुक्तं वीरगोष्ठीसमुद्भवं । स्मरन्स्फुटसमुल्लासं दुःखं प्रामोमि दुस्सहं ॥ ४७७॥ यद्यद्विचेष्टितं सार्द्ध क्रियमाणं त्वया. पुरा । प्रसेकममृतेनेव कृतवत्सर्वगात्रकं ।। ४७८ ॥ स्मर्यमाणं तदेवेदमधुना मरणं कथं । प्रयच्छति विपेणैव सेकं मर्मविदारणं ।। ४७९ ॥ ततोसौ विलपन् भूरि भ्रातृस्नेहातिविक्लवः । सुकेशादिमिरानीतः प्रबोधमिति भापणात् ४८० युक्तमतन्न धीराणां कर्तुं क्षुद्रविचेष्टितं । शोको हि पंडितैदृष्टः पिशाचो भिन्ननामकः ॥.४८१ ।। कर्मणां विनियोगेन वियोगः सह बंधुना । प्राप्ते तत्रापरं दुःखं शोको यच्छति संतवं ॥ ४८२॥ प्रेक्षापूर्वप्रवृत्तेन जंतुना सप्रयोजनः । व्यापारः सततं कृत्यः शोकश्चायमनर्थकः ॥ ४८३ ।। प्रत्यागमः कृते शोके प्रेतस्य यदि जायते । ततोन्यानपि संगृह्य विदधीत जनः शुचं ।। ४८४ ॥
H . .:..: पपर्य एमपुराणम् । शौकः प्रत्युत देहस्य गोपीकरणमुत्तमं । पापानामयमुद्रेकः महामोहप्रवेशनः ॥४८५॥ तदेवं वैरिणं शोकं परित्यज्य प्रसन्नधीः । कृत्ये कुरु मतिन्यासं नानुबंधं त्यजत्परिः॥४८६॥ मूढाः शोकमहापके मन्नाः शेषामपि क्रियां । नाशयति तदायत्तजीवितेवीक्षितो. जनैः ॥४८॥ बलीयान् वज्रवेगोयमस्मन्नाशस्य चिंतकः । प्रतिकर्तव्यमस्माभिश्चितनीयमिहाधुना.॥४८८ ।। बलीयसि रिपो गुप्ति प्राप्य कार्ल नयद् बुधः । तत्र तावदवाप्नोति.न विकारमरातिज(क) ४८९ प्राप्य तत्र स्थितः कालं कुतविद द्विगुणं रिपुं। साधयेनहि भूवीना एकस्मिन्सर्वदा रतिः।।४९०॥ अतः परंपरायातमस्माकं कुलगोचरं । अलंकारपुर नाम, स्थानं मे स्मृतिमागतं ।। ४९१ ।। फुलवृद्धास्तमस्मार्क शंसंत्यविदितं. परैः । पाप्य तत्स्वर्गलोकेपि न कुर्वीत. पदं मनः ॥ ४९२ ॥ तस्मादुत्तिष्ठ गच्छामस्तत्पुर, रिपुदुर्गर्म, । अनयों हि. महानेप यत्कालस्पातिपातनं ।। ४९३.।।' एमन्विष्य न(निः)ोको, यदा तीवो, नि(न)वर्तते । श्रीमालादर्शनादस्य नतोसौ विनिवर्तितः ।। ततस्ता, परिबर्गेण समस्तेन समन्वितौ । प्रस्थिती. दर्शनं, प्राप्ती विद्युद्वाहनविद्विषः ॥४९५ ॥ ततोसौ पृष्ठतो गंतुं प्रवृत्तो धावतोस्तयोः । भ्रातृघातन संक्रुद्धः शवनिर्मूलनोद्यतः ॥ ४९६ ।। भनाः किलानुसर्तव्याः शत्रयो नेति भाषितं । नीतिशाखशरीरङ्गः पुरुपैः शुद्धबुद्धिभिः ।।४९७|| पष्ट पर्व। 1 पद्मपुराणम् । निहतश्च तव माता येन पापेन वैरिणा । प्रापितोसौ महानिर्दा विशिखैरंधको मया.॥.४९८ ॥ तस्मात्पुत्र निवर्तस्त्र. नैतेस्माकं कृतागसः । अनुकंपा हि कर्तव्या. महता. दुःखिते जने, ॥४९९।। पृष्ठस्य दर्शन येन. कारितं. कातरात्मना । जीवन्मृतस्य तस्यान्यत्क्रियतां किं मनस्विना ।।५००॥ यावदेव सुर्त शास्ति वजर्वगो. वशंस्थितिं । अलंकारपुरी प्राप्तास्तावद्वानरराक्षसाः ।।,५०१ ॥ पातालावस्थिते तत्र रत्नालोकचिते पुरे । तस्थुः शोर्क प्रमोद, च बहतो भयवर्जिताः ॥५०२॥ अन्यदाशनिवेगोंथ दृष्ट्वा शरदि तोयदं । क्षगाद्विलयमायातं. विरक्तो राज्यसंपदि ।। ५०३ ।।. सुखं विषययोगेन विज्ञाय, क्षणभंगुर । मनुष्यजन्म चात्यंतदुर्लभं भवसंकटे ॥.५१४॥ सहस्रारं सुर्त राज्य स्थापयित्वा विधानतः । समं विद्युत्कुमारेण बभूव श्रमणो. महान ॥५०५।। शशासात्रतिर लंका निर्घातो नाम खेचरः । नियुक्तोशनिवेगेन महाविद्यापराक्रमः॥५.६ ।। एकदोत्याय, बलिवत्पातालनगरोदरात् ।. स. वनक्ष्माधरं पश्यन् शनैरवर्निमंडलं.॥ ५०७॥ विदित्वोपशमप्राप्तान, शत्रून् मयविवर्जितः । स.श्रीमालो. गतो मेरुं किकिधो. वंदितुं जिन, ५०८. प्रत्यागच्छस्ततोपश्यद्दक्षिणोंदन्वतस्तटें । अटवीं सुरकुर्वाभां पृथ्वीकर्णतटाभिधां ॥५०९ ॥ श्रीमालो. चाब्रवीदेवं वीणामिव सुखस्वरां । वक्षःस्थलस्थितां वामवाहुना कृतधारणां ॥५.१०।।.
षष्ठं पर्य। पद्मपुराणम्। देवि पश्याटवीं रम्यां कुसुमांचितपादपा । सीमंतिनीमिव स्वच्छमंदगत्यापगांभसा ।। ५११ ।। शरजलधराकारो राजतेयं महीधरः । मध्येस्याः शिखरैस्तुंगेधरणीमौलिसंज्ञितः ॥ ५१२ ॥ कुंदशुभ्रसमावर्तफेनमंडलमंडितः । निझरेईसतीवायमहासेन भासुरः ॥ ५१३ ॥ . . पुष्पांजलि प्रकीर्यायं तरुशाखाभिरादरात् । अभ्युत्थान करोनीव चलत्तरुवनेन नौ ॥ ५१४ ॥ पुष्पामादसमृद्धेन वायुना प्राणलेपिना । प्रत्युद्गतीं करोतीव नमनं च नमत्तरुः ॥ ५१५ ।। वध्वेव धृतवान् गाढं प्रजंतं मामयं गुणैः । अतिक्रम्य न शक्नोमि गंतुमेतुं महीधरं ।। ५१६ ।। आलयं कल्पयाम्यत्र भूचरैरतिदुर्गमं । प्रसादं मानसं गच्छत्सूचयंत्यत्र मे शुभं ॥ ५१७ ॥ 'अलंकारपुरावासे पातालोदरवर्तिने । खिन खिन मम स्वांत रतिमत्र प्रयास्यति ।। ५१८ ।। इत्युक्त्वानुमतालापः प्रियया विस्मयाकुलः । उत्सारयन् पनवातमवतीर्णो धराधरं ।। ५१९ ।। सर्वांधवयुक्तेन तेन स्वर्गसमं पुरं । क्षणानुगप्रमोदेन रचितं गिरिमूर्द्धनि ।। ५२० ॥ .. अभिधानं कृतं चास्य निजमेव यशस्विना । यतोद्यापि पृथिव्यां तरिककिधपुरमुच्यते ।।५२१।। पर्वतोपि स किष्किंधा प्रख्यातस्तस्य संगमात् । पूर्व तु मधुरित्यासीन्नाम तस्य जगद्गतं ॥५२२॥ सम्यग्दर्शनयुक्तोसी जिनपूजासमुद्यतः । भुंजानः परमान्भोगान्सुखेन न्यवसच्चिरं ॥ ५२३ ।।
पष्ठ पर्व
पद्मपुराणम् ।
-
तसाच संभवं प्राप श्रीमालायां सुतद्वयं । ज्येष्ठः सूर्यरजा नाम ख्यातोऽक्षरजास्तथा ।। ५२४ ॥
सुता च सूर्यकमला जाता कमलकोमला । यया विद्याधराः सर्वे शोभया विनवीकृताः॥५२५।।
अथ मेघपुरे राजा मेरुर्नाम नभश्वरः । मघोन्यां तेन संभूतो मृगारिदमनः सुतः ॥ ५२६ । ।
तेन पर्यटता दृष्टा किष्किंधतनयान्यदा । तस्यामुत्कंठितो लेभे न स नक्तं दिवा सुखं ॥५२७।।
अभ्यार्थिता सुहृद्भिः सा तदर्थ सादरैस्ततः । संप्रधार्य समं देव्या दत्ता किष्किंधभूभृता ॥५२८॥
निवृत्तं च विधानेन तयोविवाहमंगलं । किष्किंधनगरे रम्ये ध्वजादिकृतभूपणे ।। ५२९ ॥
प्रतिगच्छन् स तामूढा न्यवसत्कर्णपर्वते । कर्णकुंडलमेतेन नगरं तत्र निर्मितं ॥ ५३० ॥
अलंकारपुरेशस्य सुकेशस्याथ सूनवः । इंद्राण्याः जन्म संप्रापुः क्रमेण पुरुविक्रमाः ।। ५३१.॥
अमीपां प्रथमो माली सुमाली चेति मध्यगाः । कनीयान्माल्यवान् ख्यातो विज्ञानगुणभूपणः ॥
अहरन्मानसं पित्रोर्वधूनां द्विषतां तथा । तेषां क्रीडाकुमाराणां देवानामिव चाद्भुता ।। ५३३ ।।
सिद्धविद्यासमुद्भूतवीर्योवृतक्रियास्ततः । निवारिताः पितृभ्यां ते यत्नादिति पुनः पुनः।।५३४॥
रंतुं चेद्यात किष्किंध पुत्रा कौमारचापलात् । मात्रजिष्ट समीप त्वं जातुचिदक्षिणांबुधेः ॥५३५||
ततः प्रणम्य तौ पृष्टौ पितरौ तत्र कारणं । कुतूहलस्य वाहुल्याद्वीर्यशैशवसंभृतात् ॥ ५३६ ॥
पष्ठ पर्व। है . . पद्मपुराणम्। अनाख्येयमिदं वत्सा इति नौ विहितोत्तरौ । सुतरामनुबंधेन मुतैः पृष्टी सचाटुमिः १.५३७ ।। वतस्तेभ्यः मुकेशेन कथितं शृणुतात्मजाः । हेतुना विदितेनात्र यद्यवश्यं प्रयोजन ।।.५३८ ।। पुर्यामशनिवेगेन लंकायां स्थापितः पुरा । निर्यातो नामतः क्रूरः खेचरो बलवानलं ।। ५३९॥ फुलक्रमेण सास्माकमागता नगरी शुभा । रिपोस्तस्माद्भयाच्यक्त्वा निवांतमसुवरिप्रया ॥५४०॥ देशे देशे चरास्तेन नियुक्ताः पापकर्मणा । दत्तावधानाः सततमस्मच्छिद्रगपणे ॥५४१॥ पत्राणि च प्रयुक्तानि यानि कुर्वति मारणं । विदित्वा रमणाशक्तान्भवतो गगनांगणे ।।५४२॥ निमंति तानि रंधेषु कृत्वा रूपेण लोभनं । प्रमादाचरणानीवाशक्त तपसि योगिनं ।। ५४३ ।। एवं निगदितं श्रुत्वा पितृदुःखानुचिंतनात् । निःश्वस्य मालिना दीर्घ समुदभूताश्रुचक्षुपा ॥५४४॥ क्रोधसंपूर्णचित्तेन कृत्वा गर्वस्मितं चिरं । निरीक्ष्य पाहुयुगलं प्रगल्भमिति भापितं ।। ५४५ ॥ इयंत समयं वात कसानो न निवेदित । अहो स्नेहापदेशेन गुरुणा वंचिता क्यं ॥ ५४६ ॥ अविधाय नराःकार्य ये. गर्जेति निरर्थक । महांतं लाघवं लोके शक्तिमंतोपि यांति ते 11५४ी आस्तां ततः फले नैव शमतां तात यास्यसि । तन्मर्यादं कृतं चेदं मया चूडाविमोक्षण।।५४८॥ अथामंगलमीताभ्यां वाचा ते न निवारिताः । पितृभ्यां तनया यात स्निग्धदृष्टयानुषीक्षिताः ।।
पाठ पर्व। १४१ पद्मपुराणम् । - पातालादर्थ निर्गत्य यथा भवनवासिनः । जग्मुः प्रत्यरि सोत्साहा भ्रातरः शस्त्रभासुराः॥५५॥ तेषामनुपदं लग्ना ततो राक्षसवाहिनी । चलदायुधधारोमिमालाव्याप्यनभस्तले ।। ५५१ । निरीक्षिताः पितृभ्यां ते यावल्लोचनगोचरं । बजतः स्नेहसंपूर्णमानसाभ्यां समंगलें ॥ ५५२ ।। त्रिकूटशिखरेणासौ ततस्तैरुपलक्षिताः । दृष्टथैव प्रौढ्या ज्ञाता गृहीतेति पुरी बरा ॥ ५५३ ।। जद्भिरेव तैः केचिदैत्या मृत्युवशीकृताः । केचित्प्रणवतां नीताः केचित्स्थानानिमोचिताः ५५४ विशन्द्रिः सैन्यमागत्य प्रणवैः शत्रुगोचरैः । ते सामतैरलं जाता महातः पृथुकीतयः ॥ ५५५ ।। शत्रूणामागमं श्रुत्वा निर्घातो निर्ययौ ततः । युद्धशौंडश्चलच्छत्रछायाछन्नदिवाकरः ॥ ५५६ ॥ ततोमवन्महायुद्धं सेनयोः सत्वदारणं । वाजिभिवारणमत्तैर्विमानैः स्वंदनैस्तथा ॥ ५५७॥ महीमयमियोत्पन्नं गगनं दंतिनां कुलैः । तथा जलात्मकं जातं तेषां गंडच्युतांभसा'।। ५५८ ।। वातात्मकं च तत्कर्णतालसंजातवायुना । तेजोमयं तथान्योन्यशस्त्राघातोत्थवन्हिना ॥ ५५९॥ दीनैः किमपरैरत्र निहतैः क्षुद्रखेचरैः । कासौ कासो गतः पापो निर्यात इति चोदयन् ।।५६०॥ दृष्ट्वा माली सितैर्वाणैः कृत्वा स्पंदनवर्जितं । निर्घातमसिनिर्घाताचक्रे संप्राप्तपंचतां ।। ५६१ ।। नियतिं निहतं ज्ञात्वा दानवा भ्रष्टचेतसः । यथास्वं निलयं याता विजया नगाश्रितं ॥५६२।। ।
१४२ . पद्मपुराणम् । पष्ठ पर्व । केचित्कंठे समासाद्य कृपाणं कृपणोद्यताः । मालिनं त्वरया,याताः शरणं रणकावराः॥५६३॥ प्रविष्टास्ते ततो लंका भ्रातरो मंगलाचिंता । समागम च संप्राप्ताः पितृप्रभृतिबांधवैः ॥५६४ ॥ ततो हेमपुरेशस्य सुतां हेमचारिणः । भोगवत्यां समुत्पन्नां नाना चंद्रवती शुभां ।। ५६५ ।। उवाह विधिना माली मानसोत्सवकारिणीं । स्वभाव चपलस्वांतहपीकमृगवागुरां ॥ ५६६ ।। प्रीतिकूटपुरेशस्य प्रीतिका तस्य चात्मजा । प्रीतिमत्यंगजां लेभे सुमाली प्रीतिसंज्ञितां ॥५६७॥ कनकामपुरेशस्य कनकस्य सुतां तथा । उवाह कनकधीजां माल्यवान्कनकावली ।। ५६८॥ एतेषां प्रथमं जाया एता हृदयसंश्रयाः । अंगनानां सहस्रं तु प्रत्येकमधिकं स्मृतं ॥ ५६९ ॥ श्रेणीद्वयं ततस्तेषां पराक्रमवशीकृतं । शेपामिव यभाराज्ञा शिरसा रचितांजलि ।। ५७० ॥ दृढबद्धपदापत्यनियुक्तनिजसंपदी । जाती सुकेशकिम्किधी निर्गयौ तिचेतसौ ।। ५७१ ॥ भुत्वा भुक्या विपयजनितं सौख्यमेव महांतो । लब्ध्वा जनं भवशतमलधंसनं मुक्तिमार्ग ।। याताः प्रायः प्रियजनगुणस्नेहपाशादपेताः । सिद्धिस्थानं निरुपमसुर्ख राक्षसा यांनराश्च ॥५७२॥ कृत्वाप्येवं सुबहुदुरितं ध्यानयोगेन दग्ध्वा । सिद्धापासे विदधितपदं योगिनस्त्यक्तसंगाः ॥ एवं ज्ञात्वा सुचरितगुणं प्राणिनो यांत शांतं । मोहोच्छेदात्कृतजयरविः प्राप्नुत ज्ञानराज्यं ५७३ इत्या रविषणाचार्यप्रोक्त पद्मचरिते वानरवंशाभिधानं नाम पद पर्व । ग
सप्तमं पर्व।
१४३
पद्मपुराणम्।
J
,
।
-
अथ सप्तमं पर्व ।
अत्रांनरे पुरे राजा रथन पुरनामनि । सहश्रार इति ख्यातो बभूवात्यंतमुद्धतः॥१॥
तस्य भार्या बभूवेष्टा नाम्ना मानससुंदरी । सुंदरी मानसेनालं शरीरेण च सद्गुणा ॥ २ ॥
अतर्वत्नी सतीमेतामत्यंतकशविग्रहां । भर्तापृच्छत् श्लथाशेपभूपणां वीक्ष्य सादरं ॥ ३ ॥ :
विभ्रत्यंगानि ते कस्मानितांतं तनुतां प्रिये । किं तवाकांक्षितं राज्ये मम जायेत दुर्लभं ॥ ४ ॥
गत्वा प्रगल्भतां ब्रूहि तवाद्यैव समीहितं । संपादयामि निःशेपं देवि प्राणगरीयसि ॥ ५ ॥
कंतुं शक्तोस्मि ते कांते सुरस्त्रीकृतशासनां । शचीमपि कराग्राभ्यां पादसंवाहकारिणी ॥ ६ ॥
इत्युक्ता सा ततस्तेन वरारोहांकसंश्रिता | जगाद विनयादेवं वचनं लीलयान्वितं ॥७॥
यस्मादारभ्य मे गर्भ संभवं कोप्ययं गतः । ततः प्रभृति वाच्छामि भोक्तुमिंद्रस्य संपदं ॥८॥
इमे, मनोरथा नाथ परित्यज्य मया त्रपां । परायत्ततयात्यंतं भवतो विनिवेदिताः ॥९॥
इत्युक्ते कल्पिता भोगसंपत्तस्याः सुरेंद्रजा । विद्यावलसमृद्धेन सहस्रारेण तत्क्षणात् ॥ १० ॥
संपूर्णदोहदा जाता सा ततः पूर्णविग्रहा । धारयंती दुराख्यानां द्युतिं कांतिं च भामिनी ॥११॥
सतम पत्र
पर्व
r
.
-
+
-
ঘক্সগুগম
बजता रविणाप्यूद्धं खेदं जग्राह तेजसा । अभ्यपछिच सर्वासां दातुमाज्ञां दिशामपि ॥ १२ ॥
काले पूर्णे च सपूर्णलक्षणांगमगत सा | दारकं वाधवानंदसंपदुत्चमकारणं ।। १३ ।।... '
ततो महोत्सव चक्रे सहस्रारः प्रमोदवान् । शंखतूर्यनिनादेन बधरीकृतदिग्मुखं ॥ १४ ॥
सन पुररणत्कारचरणन्यासकुट्टनः । नृत्यंतीभिः पुरखीभिः कृतभूतलकंपनः।। १५ । " , ":
यथेच्छ द्रविणं दस विचारसरिवर्जितं । प्रचलोड़करैर्नृतं गजैरपि सहितं ॥ १६:1
उत्पाताः अधुगेहेषु संजाताः शोकसूचिनः । बंधुमेहेगु चोत्पन्नाः सूचिका भूरिसंपदः ॥१७॥
अभिलापो यतस्तस्मिन्मातुर्गर्भस्थितेऽभवत् । इंद्रभागे ततः पित्रा कृतं तस्येंद्रशन्दनं ॥ १८ ॥
बालक्रीडा बभूवास्य शक्क्या यूनोपि जित्वरी । मिदुरा रिपदोणां सत्त्वरी चारुकमणि ॥१९॥
क्रमात्स यौवनं प्राप्तस्तेजोनिर्जितमास्करं । कातिनिर्जितरात्रीशं स्थैर्यनिर्जितपर्वतं ॥ २० ॥
ग्रस्ता इव दिशस्तेन सुविस्तीर्णेन वक्षसा 1 दिनागकुंभतुंगांसस्यचीयोवृत्तवाहुना ॥ २१ ॥
उरुस्तमद्वयं तस्य सुवृत्रं गूढजानुकं । जगाम परमस्थैर्य वक्षोभवनधारणात् ।। २२ ।।
विजयार्द्धगिरौ तेन सर्वे विद्याधराधिपाः । ग्राहिता वैतसी वृत्ति महाविद्याबलर्द्धिना ।। २३ ॥
इंद्रमंदिरसंकाशं भवनं तस्य निर्मितं । चत्वारिंशत्सहाताभिः सहस्राणि च योपितां ॥ २४ ॥
सत्तम पर्व। १४५ . , . . - पद्मपुराणम् । . । F - " पदिशतिसहस्राणि ननृतुर्नाटकानि च । दंतिनां व्योममार्गाणां वाजिनां च निरंहसां ॥ २५ ॥ शशांकधवलस्तुंगो गगनांगणगोचरः । दुर्निवार्यो महावीर्यो दंष्ट्रांटकविराजितः ॥ २६ ॥ दंतिरांजो महावृत्तकरार्गलितदिग्मुखः । ऐरावताभिधानेन, गुणैश्च प्रथितो.भुवि ।। २७ ॥ शक्त्या परमया युक्तं लोकपालचतुष्टयं । शची च महिपी रम्या सुधर्माख्या तथा सभा .॥२८॥ वनं प्रहरणं त्रीणि सदांस्यप्सरसां गणाः । नाना हरिणकेशी च सेनायास्तस्य चाधिपः॥२९॥ अश्विनी यसपश्चाप्टी चतुर्भेदा दिवौकसः । नारदस्तुंवुरोविश्वावसुप्रभृतिगायकाः ॥ ३०॥ उर्वशी मेनका मंजु स्वल्पाद्यप्सरसो पराः । मंत्री बृहस्पतिः सर्वमेवं तस्य सुरेंद्रवत् ॥ ३१ ॥ ततोसौ नमिवज्जातः सर्वविद्याभृतां पतिः । ऐश्वर्य सुरनाथस्य विभ्राणः पुण्यसंभृतं ॥ ३२ ॥ अत्रांतरे महामानो माली लंकापुरीपतिः । पूर्वयैव धिया सर्वान् शास्ति खेचरपुंगवान् ॥ ३३ ॥ विजया नगस्थेषु समस्तेषु पुरेषु वा । लंकागतः करोत्यैश्यं स्वभावलगर्वितः ॥ ३४ ॥ वेश्या यानं विमानं वा कन्या वासांसि भूषणं । यद्यच्छ्रेणीद्वये सारं वस्तुचारैर्निवेद्यते ॥ ३५ ॥ तत्तत्सर्वं बलाद्वीरः क्षिप्रमानापयत्यसौ । पश्यन्नात्मानमेवैकं बलविद्याविभूतिमिः ॥३६ ।। इंद्राश्रयात्खगैराज्ञा भनां श्रुत्वास्य चान्यदा । प्रस्थितो भ्रातृकिष्किंधसुतैः सा महाबल: ३७ १०
1
, सप्तमं पर्व ।
पद्मपुराणम्।
.
विमानविविधच्छायः संध्यामधेरिवोन्नतैः । महाप्रासादसकारीः स्पंदनः कांचनाचितैः ॥ ३८ ॥
गर्यनाघनाकारः सप्तिभिश्चिचगामिभिः । शालभंगरेगोभिर्मुगराजैः क्रमेलकैः ।। ३९ ॥
चालेयर्महिपैईसकैरन्यैश्य वाहनः । खांगणं छादयन्सर्व महाभामुरविग्रहः ॥ ४०॥
अथ मालिनमित्यूचे सुमाली भ्रातृवत्सलः । प्रदेशत्रैव विष्ठामो भ्रातरध न गम्यते ॥ ४१ ।।
लंकां वा प्रतिगच्छामः शृणु कारणमत्र मे ! अनिमित्तानि दृश्यंते पुनः पुनरिहायने ।। ४२ ॥
एकं संकोच्य चरणमत्यंताकुलमानसः स्थितः शुप्कदुमस्याये धुन्चनपक्षान् पुनः पुनः ॥ ४३ ।।
शुष्ककाष्ठं दधचंच्या वीक्ष्यमाणो दिवाकरं । रसरमय धक्षिो निवारयति नो गतिं ॥ ४४ ॥
ज्वालारीद्रमुखी चेयं शिवा नो भुजदक्षिणे । पोर विरोति रोमाणि हृष्टया निदधती मुहा४५||
अयं पतंगविवे च परिवेपिणि दृश्यते । कबंधो भीषणो मुंचत्कीलाललवजालका ।। ४६ ।।
पोराः पतति निर्घाताः कपिताखिलपर्वताः । दृश्यते निवाः करना मुक्तकेश्यो नमस्तले।।४७।।
खरं खरः समुक्षिप्य मुखं मुखरपत्रभः । विति खनन्युरांग्रेण दक्षिणः कुरुते स्वरं ॥४८॥
प्रत्युवाच ततो माली मुमालिनमिति स्फुटं । कृत्वा स्मितं दृढं बाहू केशराभ्यां निपीडयन् ।।४९||
अभिप्रेत्य वधं शरोरारुह्य जयिनं द्विपं । प्रस्थितः पौरुष विभ्रत्कथं भूपो निवर्तते ॥.५०.॥
सप्तमं पर्व १४७ -- . पद्मपुराणम्।। दंष्ट्रयोः प्रेक्षणं कुर्वन्क्षरद्दानस्य दंतिनः । चक्षुवित्रासितारातिस्तर्यमाणः शितैः शरैः ॥५१॥ . दंतदष्टाघरो बद्धभृकुटी कुटिलाननः । विस्मितैरमरैदृष्टो भटः किं विनिवर्तते ॥ ५२ ॥ कंदरासु र मेरोनंदने चारुनंदिन । चैत्यालया जिनेंद्राणां कारिता.गगनस्पृशः ॥ ५३ ।। दत्तं किमिच्छकं दानं भुक्ता भोगा महागुणाः । यशोधवलिताशेपभुवनं समुपार्जितं ।। ५४ ॥ जन्मनेत्थं कृतार्थोस्मि यदि प्राणान्महाहवे । परित्यजामि कियता कृतमन्येन वस्तुना ॥ ५५ ॥ असौ पलायितो भीतो बराक इति भापितं । कथमाकर्णयेद्धीरो जनतायाः सुचेतसः ॥५६॥ इति समापमाणोसौ भ्रातरं भामुरांननः । विजयार्द्धस्य मूर्खानं क्षणादविदितं ययौ ।। ५७ ।। ततोपमानितं ययः शासनं खेचराधिपः । तत्पुराणि ससामते-सयामास दारुणैः ॥ ५८ ॥ उद्यानानां महाध्वंसो जनितः क्रोधिभिः खगैः । यथां कमलखंडानां मातंगैमदमथरैः ॥ ५९ ॥ ततः संवाध्यमाना सा प्रजा गंगनचारिणां जगाम शरणं त्रस्ता सहस्रारं संवेपथुः ॥ ६॥ पादयोश्च प्रणम्योचे वचो दीनमिदं भृशं । सुकेशस्य सुतैर्घस्ता समस्तां नाथे पालय ॥ ६१ ॥ सहस्रारस्ततोवोचत्खगा गच्छत मत्सुतं । विज्ञापयत युष्माकं सपरित्राणकारणं ॥ ६२ ॥ त्रिविष्टपं यया शको रक्षस्पूर्जितशासनः । एवं लोकमिमं पाति स सर्व वृत्तसूदनः ॥६३॥ ॥ -- . -- - सप्तमी पर्व . १४८ पद्मपुराणम् ।। T एवमुक्तास्ववो जन्मुरिंद्राभ्यास नमथराः । कृत्वांजलिं प्रणेमुथ, वृत्तांव च न्यवेदयन् ॥ ६४ ॥ इंद्रस्ततोवदत्लुद्धो दर्पस्मितसिताननः । पार्वे व्यवस्थिते वजे दत्त्वा लोहितलोचने.॥ ६५ ॥ यत्नेन महतान्विष्य इंतव्या लोककंटकाः । किं पुनः स्वयमायाताः समीप लोकपालिनः।१६६।। ततो मत्तद्विपालानस्तंभमंगस्य कारणं । रणसंत्राविधानार्थ विपमं तूर्यमाहतं ॥ ६७॥ सन्नाहमंडनोपेता निरीयुश्च नमश्वराः । हेतिहस्ताः परं हर्ष विभ्राणा रणसंभ्रम.॥ ६८ ॥ रथैरवैर्ग रुष्टैः सिंहैया कर्मगैः । हंसच्छांगपर्मेपैर्विमानैर्हणैः खरः ॥ ६९ ॥. लोकपालाश्च निर्जग्मुर्निजवर्गसमन्विताः । नानातिप्रभाश्लिष्टाभ्रूभंगविपमाननाः॥ ७० ॥ ऐरावतं समारुध कंकटच्छन्नविग्रहः । समुच्छ्रितसितच्छनोऽनिरविंद्रः समं सुरैः ।।७१ ।। युगांतधनभीमानां वता प्रववृते रणः । देवानां राक्षसानां च दुःप्रेक्ष्यः, क्रूरचेष्टितः ॥ ७२ ।। सप्तिना पात्यते वाजी रथेन धोद्यते रथः । मज्यते दंतिना दंती पादावं च पदातिभिः ॥७३॥ प्रासमुद्गरचक्रासिभुपंडीमुशलेपुभिः । गदा कनकपाशैश्च छद्रं कृत्सं नमस्तलं ।। ७१ ।। महोत्साहमथो सैन्य पुरस्सरणदक्षिणं । दक्षिणं चलितोद्योगं देवानां निवहः कवं ।। ७५ ॥ विद्युत्लान् चारुयानश्च चन्द्रो नित्यगतिस्तथा । चलद्योति प्रभाढयश्व रक्षसामक्षणोदलं ॥७६।। . 1 सप्तमं , पर्व। -- - १४९ - पद्मपुराणम्। अथर्कसूर्यरजसावुत्तुंगकपिकेतुको । सीदतो राक्षसान् वीक्ष्य दुर्द्धरौ योद्धुमुद्यतो ॥ ७७ ।। दर्शिताः पृष्ठमेताभ्यां सर्वे ते सुरपुंगवाः । क्षणादन्यत्र दृष्टाभ्यां ददभ्यां वैद्युतं जवं ।। ७८ ।। यातुधाना अपि प्राप्य बलं ताभ्यां समुद्यताः । योर्बु शस्त्रसमूहेन कुर्वाणा ध्यांतमंबरे ॥ ७१ ।। ध्वंसमानं ततः सैन्यं दैवं जातु कपिध्वजैः । दृष्ट्वा क्रुद्धः समुत्तस्थौ स्वयं योदु सुराधिपः॥८॥ कपियातुधनाप्तस्ततो. देवेंद्रभूधरः । शस्त्रवर्ष विमुंचंद्भिस्तारगर्जनकारिमिः ॥ ८१॥ , · ।' निजगाद ततः शक्रः पालयन् लोकपालिनः । सर्वतो विशिखमुक्तर्वभंज कपिराक्षसान् ।। ८२॥ अथ माली, समुत्तस्थौ सैन्यं दृष्ट्वा. समाकुलं । तेजसा क्रोधजावेन दीपयन् सकलं नमः ॥ ८३ ।। अभवच ततो युद्धं मालींद्रमतिदारुणं । विस्मयच्याप्तचित्ताभ्यां सेनाभ्यां कृतदर्शनं ॥,८४ ॥ मालिनो, भालदेशेऽथ स्वकनामांकित शरं । आकर्णाकृष्टनिमुक्तं निचखान सुराधिपः ॥ ८५॥ संस्तंभ्य वेदनां क्रोधान्मालिनाप्यमरोत्तमः । ललाटस्य तटे शक्त्या हतो वेगविमुक्तया ॥८६॥ रक्तारुणितदेहं च माली द्राक्तमुपागतः । क्रोधारुणः सहस्रांशुर्यथास्तधरणीधरं ॥ ८७॥ भानुर्विवसमानेन चक्रेणास्य ततः शिरः । आभिमुख्यमुपेतस्य लूनं पत्या दिवौकसां ॥ ८८ ॥ भ्रातरं निहतं दृष्ट्वा नितांतं दुःखितस्ततः । चितयित्वा महावीर्य चक्रिणां व्योमगामिनां॥८९॥ म
सप्तम पर्व।
पद्मपुराणम् ।
.
परिवारेण सर्वेण निजेन सहितः क्षणात् । रणात्पलायनं चक्रे सुमाली नयपेशलः ॥९॥
तद्वधार्थ गतं शक्रमनुमार्गेण गवरं । उवाच प्रणतः सोमः स्वामिभक्तिपरायणः ॥ ९१ ।।
विद्यमाने प्रभो भृत्ये माशे शत्रुमारणे । प्रयत्नं कुरुप कस्मात्सयं मे यच्छ शासतं ॥ ९२ ।।
एवमस्त्विति चोक्तसावनुमार्ग रिपोर्गतः । वाणपुंजे विमुंचच करोघमिव शत्रुगं ॥ ९३ ॥
ततस्तदाहतं सैन्यं निशिखः कपिरक्षमा 1 धाराहतं गवां यद्वत्कुलमाकुलतां गतं ।। ९४ ॥
पाप न क्षत्रमर्यादां त्वं जानासि मनागपि । जडार्गपरिक्षिप्त इत्युक्तः प्राप्तकारिणा ।। ९५ ॥
निमृत्य क्रोधदीप्तेन ततो माल्पवता शशी । गाढं स्तनांतरे मिनो भिंडिमालेन मूर्छितः ॥१६॥
अयं लावास्यते यावन्मू मीलितलोचनः । अंतर्धानं गतास्तावद्यातुधानप्लवंगमाः ॥ ९७ ॥
पुनर्जन्मेव ते प्राप्ता अलंकाराइयं पुरं । सिंहस्यैर विनिःकांता जठरादागता सुसं ॥ ९८ ॥
प्रतियुद्ध शशांकोपि दियो वीक्ष्य रिपूझिनाः । स्तूयमानो जयेनारेययौ मघवतोतिकं ॥१९॥
ध्वस्तशत्रुत्र सुदामा वंदिना निवहैः स्तुतः । अन्वितो लोकपालानां चक्रवालेन नोपिणा॥१०॥
ऐरावतं समारूढथामरानिलचीजितः । सितच्छाकृतच्छायो नृत्पत्सुरपुरस्सरः ।। १०१ ॥
रत्नांशुकध्वजन्यस्तशोभमुच्छ्रिततोरणं । आगुल्फपुप्पविशिखं सिक्तंकुंकुमवारिणा ॥ १०२ ॥
सप्तमं पर्व। पद्मपुराणम् । गवाक्षन्यस्तसन्नारीनयनालीनिरीक्षितः । युक्तः परमया भूत्या विवेश रथनूपुरं ॥ १०३ ॥ पित्रोध नियात्पादौ प्रणनाम कृतांजलिः । तौ च पस्पृशतुर्गात्रं कंपिना तस्य पाणिना १०४ शत्रूनेवं स निर्जित्य परमानंदमागतः । आस्वादयन्परं भोगं प्रजापालनतत्परः ॥१०५ ॥, सुतरां स ततो लोके प्रसिद्धिं शक्रतां गतः । प्राप्तः सर्गप्रसिद्धिं च विजयार्द्धश्च भूधरः ।।१०६॥ उत्पत्ति लोकपालानां तस्य वक्ष्यामि सांप्रतं । एकाग्रं मानसं कृत्वा श्रेणिकैपां निवुध्यतां १०७ स्वर्गलोकाच्च्युतो जातो मकरध्वजखेचरात् । संभूतो जठरे दित्या लोकपालोऽभवच्छशी १०८ कांतिमानेप शक्रेण द्योतिःसंगे पुरोत्तमे । पूर्वस्यां ककुमि न्यस्तो मुमुदे परमर्द्धिकः ॥ १०९ ।। जातो मेघरथामिख्यावरुणायां महाबलः । सेचरो वरुणो नाम संप्राप्तो लोकपालतां ॥ ११० ॥ पुरे मेघपुरे न्यस्तः पश्चिमायामसौ दिशि । पाशं प्रहरणं श्रुत्ला यस्य विभ्यति शत्रवः ॥१११॥ संभूतः कनकावल्यां किसूर्येण महात्मना । कुवेराख्यो नभोगामी निभूत्या परयान्वितः ॥११२॥ कांचनाख्ये पुरे चायमुदीच्यां दिशि योजितः । संप्राप परम भोग प्रख्यातो जगति श्रिया ११३ संभूतः श्रीप्रभागर्भ कालाग्निव्योम्निचारिणः । चंडकर्मा यमो नाम तेजस्सी परमोभवत् ॥११॥ दाक्षिणोदन्वतो द्वीपे किष्कुनाग्नि पुरोत्तमे । स्थापितोसी स्वपुण्यानां प्राप्नुवन्नूजितं फलं ११५ * सप्तमं पर्व। १५२, पद्मपुराणम्। - पुरस्य यस्य यन्नाम पृथिव्यां ख्यातिमागतं । तेनैव ख्यापिता नाना पारास्तत्र सुरेशिना ११६ असुराख्ये नभोगानां नगरे निवसंति ये । असुराख्या इमे जाताः सकले धरणीतले ।। ११७ ॥ यक्षगीवे पुरे यक्षाः किन्नराहे च किन्नराः । गंधर्वसंजया ख्याताः पुरे गंधर्वनामनि !! ११८ ॥ अश्विनी वसवो विश्वे वैश्वानरपुरस्सराः । कुर्वति त्रिदशक्रीडां विद्याबलसमन्विताः ।। ११९ ।। अवाप्य संभवं योनी प्राप्पश्रीविस्तरं भुवि । प्रणतो भूरिलोकेन मन्यते स्वं सुरेश्वरं ।। १२० ।। ईद्रः स्वर्गः सुराधान्ये समस्तास्तस्य विस्मृताः । संपद्भिरतिमेतस्य नित्योत्सवविधायिनः १२१ स्वमिंद्र पर्वतं स्वर्ग लोकपालान् खगेश्वरान् । निजांच सकलान्देवान्स मेने भूतिगर्वितः॥१२२॥ मचोस्ति ने महान्कचित्पुरुषो भुवनत्रये । अहमेवास्य विश्वस्य प्रणेता विदिवाखिलः ॥१२॥ विद्याभृचक्रवर्चित्वमिति प्राप्य स गर्वितः । फलमन्वभवत्पूर्वजन्मोपात्तमुकर्मणः ॥ १२४ ॥ भागेत्र यो यतिकातस्तं वृत्तांतमतः शृणु । धनदस्य समुत्पत्तिः श्रेणिक ज्ञायते यथा ॥१२५॥ व्योमचिंदुरिवि रुपातः पुरे कौतुकमंगले । मायानंदवती तस्यामुत्पन्नं दुहिताद्वयं ।। १२६ ।। कौशिकी ज्यायसी तत्र केकसी च कनीयसी । ज्येष्ठा विश्रवसे दत्ता पुरे यक्षविनिर्मिते ॥१२७॥ तस्यां वैश्रवणो जातः शुभलक्षणविग्रहः । शतपत्रेक्षणः श्रीमानंगनानयनोत्सवः ॥ १२८॥ 41 सप्तमं पर्व। १५३ पद्मपुराणम्। + " एवमुक्तः सचाहूय शक्रेण कृतपूजनः । ब्रज लंकापुरी शाधि प्रियस्त्वं मम खेचरान् ॥ १२९॥ चतुर्णा लोकपालानामय प्रभृतिपंचमः । लोकपालो भव त्वं मे मत्प्रसादान्महापलः ॥ १३०॥ यदाज्ञापयसीत्युक्त्वा कृत्वा चरणवंदनां । आपृच्छय पितरौ नवा निर्गतासौ सुमंगलं ॥१३॥ अध्यतिष्ठच्च मुदितो लंकां शंकाविवर्जितः । विद्याधरसमूहेन शिरसा धृतशासनः ।।१३२ ॥ प्रीतिमत्यां समुत्पन्नः सुमालितनयस्तु यः । नाना रत्नश्रवाः-शूरस्त्यागी भुवनवत्सलः ॥१३३॥ मित्रोपकरणं यस्य जीवितं तुंगचेतसः । भृत्यानामुपकाराय प्रभुत्वं भूरि तेजसः ॥ १३४॥ लब्धवर्णोपकाराय वैदग्ध्यं दग्धदुर्मतेः । बंधूनामुपकाराय लक्ष्म्याश्व परिपालनं ॥ १३५ ।। ईश्वरत्वं दरिद्राणामुपकारार्थसुन्नत । साधूनामुपकारार्थ सर्वस्वं सर्वपालिनः॥१३६ ॥ सुकृतस्मरणार्थ च मानसं मानशालिनः । धर्मोपकरणं चायुः वीर्योपकृतये वपुः ॥ १३७ ।।.. पितेव प्राणिवर्गस्य यो बभूवानुकंपकः । सुकाल इव चातीतः स्मयतेद्यापि जंतुमिः ॥ १३८॥ परस्त्रीमातृवद्यस्य शीलभूषणधारिणः । परद्रव्यं तृणवत्परश्च स्वशरीखत् ॥ १३९ ॥ गुणिनां गणनायां यः प्रथमं गणितो बुधैः । दोषिणां च समुल्लापे स स्मृतो नैव जंतुभिः १४० अन्यैरिव महाभूतैः शरीरं तस्य निर्मितं । अन्यथा सा कृतः शोभा बभूवास्य तथाविधा।।१४१॥ ॥ - . सप्तमं पर्व। .१५४ पद्मपुराणम् प्रसेकममृतेनैव चक्रे संभाषणेपु सः, महादानमिवोदात्तचरितो विततार च ॥ १४२२॥ धर्मार्थकामकार्याणां मध्ये तस्य महामतेः । धर्म एव महान्पत्नो जन्मांतरगतावभूत् ।। १४३ ।। यशो विभूपणं तस्य भूपणानो सुभूषणं । गुणाः की. समं तसिन्सकुटुंया इव स्थिता॥१४॥ स भूतिं परमां पांच्छन् क्रमानोत्रसमागतां । संत्याजितो निजं स्थानं पत्या स्वर्गनिवासिनां । परित्यज्य भयं धीरो विद्यां साधयितुं क्षमः । रौद्रं भूतपिशाचादिनादि पुष्पांतकं वनं ।।१४६॥ विद्याया विदितां पूर्वमथो तदामिनी सुतां । व्योमबिंदुर्ददायस्मै तपसे परिचारिकां ॥१४७|| तस्य सा- योगिनः पार्थे विनीता, समवस्थिता । कृतांजलिपुटादेशं वांछंती तन्मुखोद्गतं ।।१४८॥ ततः समाप्तनियमः कृतसिद्धनमस्कृतिः । एकाकिनी सुतां वालां दृष्ट्वा सरललोचना ॥ १४९ ॥ नीलोत्पलेक्षणां पद्मवक्रां कुंददलद्विजां । शिरीपमालिकाबाहुं पाटलादतवाससां ॥१५॥ बकुलामोदनिःश्वासां चम्पकत्विक्समत्विपं । कुमुमैरिव निःशेषां निर्मितां दधती तर्नु ।। १५१॥ मुक्तपद्यालयां पा रूपेणैव वशीकवां । परमोत्कंठयानीता पादविन्यस्तलोचना ॥.१५२ ॥ अपूर्वपुरुषालोकलज्जितानतविग्रहां । ससाध्वसविनिक्षिप्तनिःश्वासोत्कंपितस्तनीं ॥ १५३ ।। लावण्येन विलंपती पल्लवानंतिकीगतान् । निःश्वासाकष्टमत्तालिकुलव्याकुलिताननां ॥१५४ ॥ -
सप्तम पर्व
१५५
पद्मपुराणम् ।
सौकुमार्यादिवोदाराद्विभ्यतानतिनिर्भरं । यौवनेन कृताश्लेषां संभूतिं योषितः परां ।। १५५ ॥ -
गृहीत्वेवाखिलस्त्रैणं लावण्यं त्रिजगद्गतं । कर्मभिनिर्मितां कर्तुमद्भुतं सार्वलौकिकं ॥ १५६ ॥
शारीरेणैव संयुक्तां साक्षाद्विद्यामुपागतां । वशीकृतामुदारेण तपसा कांतिशालिनी ॥ १५७ ।।
पप्रच्छ प्रियया वाचा करुणावान् स्वभावतः । प्रमदासु विशेषेण कन्यकासु ततोधिकं ॥१५८||
कस्यासि दुहिता वाले किमर्थं त्वमिहावनौ । एकाकिनी मृगीवास्मिन्यूयाभ्रष्टावतिष्ठमे॥१५९।।
के वा भजति ते वर्णा नाम पुण्यमनोरथैः । पक्षपातो भात्येव योगिनामपि मजने ॥ १६० ॥
तस्मै साकथयद्वाचा गढ़दत्वमुपेतया । दधत्यात्यंतमाधुर्य चेतश्चोरणदक्षया ॥ १६१ ॥
उत्पन्ना नंदवत्यंगे व्योमर्विदोरहं सुता । कैकसीति भवत्सेवां कर्तु पित्रा निरूपिता ॥ १६२ ॥
तत्रैव समये तस्य सिद्धा विद्या महौजसः । मानसस्तंभनी नाम्ना क्षणदर्शितविग्रहा ॥,१६३ ॥
ततो विद्याप्रभावेण तस्मिन्नेर महावने । पुरं पुष्पांतकं नाम क्षणात्तेन निवेशितं ॥ १६४ ॥
कृत्वा पाणिगृहीतां च कैकसी विधिना ततः । रेमे तत्र पुरे प्राप्य मोगान्मानसकल्पिताच १६५
बभूव च तयोःप्रीतिजायापत्योरनुत्तरा । क्षणार्द्धमपि नो सेहे वियोग या सुचेतसोः ॥ १६६ ।।
मृतामिव स तां मेने लोचनागोचरस्थितां । निमेषादर्शनम्लानि बजती मृदुमानसां ॥ १६७ ॥
सतर्भ पर्व। १५६ पद्मपुराणम्। वचंद्रेषिणी तस्या तस्य नित्यं व्यवस्थिते.। सर्वेषां वा हृषीकाणां सा बभूवास्य बंधनं॥१६॥ अनन्यजैकरूपेण यौवनेन धनश्रिया । विद्यावलेन धर्मेण शक्तिरासीत्परं तयोः॥ १६९ ॥ ब्रजंती ब्रजयायुक्ते तिष्ठंती स्थितिमागते । छायेव साभवत्पत्यावनुवर्तनकारिणी ॥ १७० ॥. अथासौ विपुले कांते क्षीरापारपांडुरे । स्वद्वीपकृतालोके दुलपटकोमले ॥ १७१ ॥ यथेष्टदेहविन्यस्तनानावर्णोपधानके । निःश्वासामोदनिनिंद्रद्विरेफसमुपासते ।। १७२ ।।. परितः स्थितयामश्रीविनिद्रनयनेक्षिते । तत्र दंतविनिर्माणपट्टके शयनोत्तमे ।। १७३. ।। चिंतयंती गुणान्पत्युमनोधनकारिणः । वांच्छंती च मुतोत्पत्रिं सुखं निद्रामुपागता ।। १७४ ।। ईक्षांचके परान्वमान्महाविस्मयकारिणः । अव्यक्तचलनादायिसखीवीक्षितविग्रहा ॥ १७५ ।। वतः प्रभाततूर्येण शंखशब्दानुकारिणा | भागधानां च वाणीभिः सापि प्रबोधमागता ॥१७६|| कृतमंगलकार्यार्थ नेपथ्यं दधती शुभं । सखीभिरन्वितागच्छन्मनोज्ञा भतुरंतिकं ।। १७७ ॥ आसीना चांजलिं कृत्वा पत्युः पार्थे सुविभ्रमा । भद्रासनशुकच्छन्ने क्रमास्वमान्यवेदयत् १७८ अद्य रात्रौ मया यामे परमे नाथ चीक्षिताः । त्रयः स्वमाः श्रुतौ तेषां प्रसादं कर्तुमर्हसि॥१७९।। बृहदं गजेंद्राणां ध्वंसयन्परमौजसा । कुक्षिमास्येन मे सिंह प्रविष्दो नभसस्तलात् ।। १८० ॥ 7 । - 1 ܝܕ܀ पद्मपुराण । १५७ सप्तमं पर्य। विद्रावयन्मयूखैश्च ध्वांत गजकुलासितं । स्थितो विहायसो मध्यादक कमलबांधवः ॥ १८१ ।। कुर्वन्मनोहरा लीलां दूयन् तिमिरं करैः । अखंडमंडलो दृष्टः पुरः कुमुदनंदनः ।।.१८२॥ दृष्टमात्रेपु चैतेषु विस्मयाक्रांतमानसा । प्रभाततूर्यनादेन गतार्ह वीतनिद्रतां ॥ १८३ ॥ किमेतदिति नाथ त्वं ज्ञातुमर्हसि सांप्रतं । ज्ञातव्येषु हि नारीणां प्रमाणं. प्रियमानसं ॥१८॥ ततोष्टांगनिमित्तज्ञः कुशलो जिनशासने । रत्नश्रवाः प्रमोदेन स्वमार्थान् व्यवृणोत्क्रमात् १८५ उत्पत्स्यते प्रयः पुत्राः त्रिजगद्गतकीर्तयः । तब देवि महासत्त्वाः कुलवृद्धिविधायिनः ॥१८६॥ भवांतरनिवद्धेन सुकृतेनोत्तमक्रियाः । वल्लमत्वं प्रपत्स्यते सुरेष्वपि सुरः समाः ॥ १८७॥: , कांत्युत्सारिततारेशादीप्त्युत्सारितभास्कराः । गांभीर्यजिततोयेशा स्थैर्यात्सारितभूधराः॥१८८|| चारुकर्मफलं भुक्त्वा स्वर्गे शेषस्य कर्मणः । परिपाकमवाप्स्यति सुरैरप्यपराजिताः॥१८९॥ दानेन कामजलदाः चक्रवर्तिसमयः । वरसीमंतिनीचेतोलोचनालीमलिम्लुचाः ॥ १९० ।। श्रीवत्सलक्षणात्यंतराजितोत्तुंगवक्षसः । नाममात्रश्रुतिध्वस्तमहासाधनशत्रवः ॥ १९॥ भविता प्रथमस्तेषां नितांत जगते हितः । साहसैकरसासक्तः शत्रुपक्षपांकरः ॥ १९२ ।। संग्रामागमनात्तस्य भविष्यति समंततः । शरीरं निश्चितं चारोरुच्चरोमांचकंटकैः ॥ १९३।।
• सप्तमः पर्व। पद्मपुराणम् १५८.. * निधानं कर्मणामेप दारुणानां भविष्यति । वस्तुन्यूरीकृते तस्य न शक्रोपि निवर्तकः ।। १९४ ॥ कत्वा स्मितं ततो देवी परमप्रमदांचिता । भर्नुराननमालोक्य विनयादित्यभाषत ।। १९५॥ अर्हन्मतामृतास्वादसुचित्ताभ्यां कथं प्रमो । आवाभ्यां प्राप्यजन्मार्य क्रूरकर्मा भविष्यति १९६ आवयोर्ननु मज्जापि जिनवाक्येन भाविता । भवेदमृतवल्लीतो विषस्य प्रसवः कथं ।। १९७ ।। प्रत्युवाच च तामेवं प्रिये शृणु वरानने । कर्माणि कारणं तस्य न वयं कृत्यवस्तुनि ॥ १९८ ।। मूलं हि कारणं कर्म स्वरूपविनियोजने । निमित्तमात्रमेवास्य जगतः पितरी स्मृतौ ।। १९९॥ भविष्यतोनुजावस्य जिनमार्गविशारदौ । गुणग्रामसमाकीणी सुचेष्टौ शीलसागरौ ॥.२००॥ सुदृढ़ सुकृते लग्नौ भवस्खलनभीतितः । सत्यवाक्यरतौ सर्वसचकारुण्यकारिणौ ॥२०१॥ तयोरपि पुरोपाचं सौम्यकर्म मृदुस्वने । कारणं करुणोपेते यतो हेतुसम, फलं ।। २०२॥ एवमुक्त्या जिनद्राणां ताभ्यां पूजा प्रवर्तिता । मनसापि प्रतीवेन प्रयाताभ्यामहर्दिवं ।। २०३ ॥ ततो गर्भस्थिते सच्चे प्रथमे मातुरीहितं । बभूव करमत्यंत हठनिर्जितपीरुपं ॥ २४ ॥ अभ्यवांच्छत्पदं न्यास कर्तु मूर्द्धसु विद्विपा । रक्तकर्दमदिग्धेषु परिस्फुरणकारिषु ॥ २०५ ।।" आज्ञां दातृमभिप्रायः सुरराज्येप्पजायत । हुंकारमुखरं चास्यमंतरेणापि कारणं ॥ २०६॥ . - सप्तमं पर्व। १५९ -- पद्मपुराणम् निष्ठुरत्वं शरीरस्य निर्जितश्रमवत्तरा । कठोरा घर्घरा वाणी दृष्टिपाताः परिस्फुटाः ॥ २०७॥ दर्पणे विद्यमानेपि सायकेऽपश्यदाननं ।, कथमप्यानमन्मा गुरूणामपि वंदने ॥ २०८॥ प्रतिपक्षासनाकंपं कुर्वत्रथ.विनिर्गतः । संपूर्ण समये तस्याः कुक्षेः प्राणी सुदारुणः ।। २०९ ॥ प्रभया तस्य जातस्य दिवाकरदुरीक्षया । परिवर्गस्य नेत्रौधा, सघनस्थगिता इव ॥ २१॥ भूतैश्च ताडनाद्भुतो दुंदुभेरुद्धतो ध्वनिः । कंबंधैः शत्रुगेहेपु कृतमुत्पांतनर्तनं ॥ २११ ।। ततो जन्मोत्सवस्तस्य महान्पित्रा प्रवर्तितः । उन्मत्तिकेव यत्रासीत्प्रजा स्वेच्छाविधायिनी २१२ अथ मेरुगुहाकारे तस्मिन्सूतिगृहोदरे । शयने सस्मितस्तिष्ठन् रक्तपादतलश्चलः ॥ २१३ ॥ उत्तानः कंपयन् भूमि लीलया शयनांतिकां । सद्यः समुच्छितादित्यमंडलोपमदर्शनः ॥ २१४॥ दर्ग राक्षसनार्थेन मेघवाहनरूढये । पुरा नागसहस्रेण रक्षितं प्रस्फुरत्करं ॥ २१५ ।। पिनद्धं रक्षसां भीत्या न केनचिदिहांतरे । आदरेण विना हारं करेणाकर्पदर्भकः ॥ २१६ ॥ हारमुष्टिं ततो बालं दृष्ट्वा माता ससंभ्रमा । चकारांके महास्नेहारसमाजघौ च मूर्द्धनि ॥२१७॥ दृष्ट्वा पिता च तं वालं सहारं परमाद्भुतं । महानेप नरः कोपि भवितेति ब्यचिंतयत् ।। २१८ ॥ नागेंद्रकृतरक्षेण हारेण रमतेमुना । कोन्यथा यस्य नो शक्तिर्भविष्यति जनातिगा ॥२१९ ।। + , - सम पर्व । पद्मपुराणम् । • १६० चारणेन समादिष्टं साधुना पद्वचः पुरा । इदं तद्वितथं नैव जायते यतिभापित ।। २२० । दृष्ट्वाश्चर्य सहारोस्य जनन्या भीतिमुक्तया । पिनद्धो भापयन्नाशा दशजालेन रोचिपां ॥ २२१ ।। स्थूलस्वच्छपु रत्नेषु नवान्यानि मुखानि यत् । हारे दृष्टानि यातोसौ तद्दशाननसंत्रितां।।२२२॥ भानुकर्णस्ततो जातः कालेतीते कियत्यपि । यस्य मानुरिव न्यस्तः कर्णयोगेडशोभया ॥२२३॥ ततचंद्रनखा जावा. पूर्णचंद्रसमानना । उद्यदर्दशाकाभनखभासितदिग्मुखा ॥ २२४ ॥ ततो विभीपणो जातः कृतं येन विभीषणं । जातमात्रेण पापानां सौम्पाकारेण साधुना ॥२२५॥ देहवत्वं,जगामासौ साक्षाद्धर्म इवोत्तमः । अद्यापि गुणजा यस्य कीर्निर्जगति निर्मला ॥२२६॥ पालकीडापि भीमाभूदशग्रीवस्य भास्वतः । कनीयसोस्तु,सानंदं विदधे विद्विपामपि ।। २२७ ।। शुशुभे भ्रातृमध्ये सा कन्या सुंदरविग्रहा.। दिवसार्कशशांकानां मध्ये संध्येच सक्रिया ॥२२॥ मातुरके स्थितोथासौ धृतचूडः कुमारकः । दशाननो दशाशानां कुर्वन् ज्योत्स्नां द्विजत्विषा२२९ नभसा प्रस्थित कापि द्योतयंत दिशः विपा । युक्तं खेचरचक्रेण विभूतिवलशालिना ॥२३०॥ कक्षाविद्युत्कृतोद्योत मेदधाराविसर्जिभिः 1 वेष्टितं दंतिजीमूतैः कर्णशंखबलाइकैः ।। २३१ ॥ महता तूर्यनादेन श्रुतिवाधिर्यकारिणा । कुर्वाणं मुखरं चक्र दिशा सुरपराक्रमं ॥ २३२ ॥ .
.
सप्तमं पर्व।
पद्मपुराणमें!!
1
प्रसित्वेव विमुंचंत बलेन पुरतो नमः । धीरो वैश्रवणं वीक्ष्यांचक्रे दृष्टया प्रगल्भया ॥ २३३ ॥
महिमानं च दृष्ट्वास्य पप्रच्छेति स मातरं । निमश्चपलगाववं बालभावेन सस्मितः ॥ २३४.॥
अब कोयमितो याति मन्यमानो निजौजसा । जगत्तणमिवाशेष बलेन महतावृतः॥ २३ ॥
ततः, साकथयत्तस्य मातृस्वस्त्रीय. एष ते । सिद्धविद्यः श्रिया युक्तो.महत्या लोककीर्तितः॥२३६॥
शत्रूणां जनयन्कंप पर्यटत्येष विष्टपं । महाविभवसंपन्नो द्वितीय इव भास्करः ॥ २३७॥
भवत्कुलक्रमायातां तवोद्धास्य, पितामहं । अयं पाति पुरी लेकां दत्वामिद्रेण वैरिणा ॥२३८॥
मनोरथशतान्येप.जनकस्तव चिंतयन् । तदर्थ न.दिवा निद्रां नच नक्तमवाप्नुते ॥ २३९ ॥
अहमप्यनया पुत्र चिंतया शोपमागता । अवाप्तं मरणं पुंसां स्वस्थानभ्रंशतो वरं ॥२५० ।।..
पुत्र लक्ष्मी कदा.तु त्वं प्राप्स्यसि खकुलोचितां । विशल्यमिव यां दृष्ट्वा भविष्यत्यावयोमनः२४१
कदा नु भ्रातरावेतौ विभूत्या तव संगतौ । दृक्ष्यामि विहितच्छंदौ विष्टले चीतकंटके ।। २४२ ।।
मातुर्दीनवचः श्रुत्वा कृत्वा गर्वसितं ततः । विभीपणो बाणेदमुद्यत्क्रोधविपांकुरः ॥ २४ ॥
धनदों वाभवत्वेप देवो वा कोस्य वीक्षितः । प्रभावो येन मातस्त्वं करोपि परिदेवनं ॥२४॥
वीरप्रसविनी वीरा विज्ञातजनचेष्टिता । एवंविधा सती कस्माद्वदसि त्वं यथेवरा ॥ २४५ ॥
सप्तमं पर्व। पद्मपुराणम् । १६२ श्रीवत्समंडितोरस्को ध्यायिता ततविग्रह । अद्भुतैकरसासिक्तनित्यचेप्टो महाबलः ॥ २४६ ।। भसच्छन्नाग्निवद्भस्मीकर्तु शक्तोखिलं जगत् । न मनो गोचरं प्राप्तो दशग्रीवः किमंय ते ॥२४७|| गत्या जयेदयं चित्तमनादरसमुच्छया । तटानि गिरिराजस्य पाटयेच चपेटया ॥ २८ ॥ राजमार्गों प्रतापस्प स्तंभी भुवनवेश्मनः । अंकुरौ दर्पक्षस्य न ज्ञातावस्य ते भुजौ ॥ २४९ ॥ एवं कृतस्तवोऽथासौ भ्रात्रागुणकलाविदा । तेजो बहुतरं प्राप सर्पिपेर तनूनपात् ।। २५० ॥ जगाद चेति किं मातरात्मनोऽतिविकत्थया । वदामि शृणु यत्सत्यं वाक्यमेतदनुत्तरं ॥ २५१ ॥ गर्विता अपि विद्याभिः संभूय मम खेचराः । एकस्यापि न पर्याप्ता भुजस्य रणमूर्द्धनि ॥२५२।। कुलोचितं तथापीदं विद्याराधनसंज्ञकं । कर्मकर्तव्यमस्माभिस्तत्कुणैर्न लज्यते ।। २५३ ॥ कुर्वत्याराधनं यत्नात्साधवस्तपसो यथा । आराधनं तथा कृत्यं, विद्यायाः खगगोत्रजैः ॥२५॥ इत्युक्त्वा धारयन्मानमनुजाभ्यां समन्वितः । पितृभ्यां चुवितो मूर्द्धि कृतसिद्धनमस्कृतिः २५५ प्राप्तमंगलसंस्कारो निश्वयस्थिरमानसः । निर्गत्य मुदितोगहादुत्पपात नमस्तलं ।। २५६ ॥ क्षणात्प्राप्त प्रविष्टश्च भीम नाम महावनं । दंष्ट्राकरालवदनैः क्रूरसञ्चैर्विदारितं ॥२५७॥ सुप्ताजगरनिश्वासप्रैखितोदारपादपं । नृत्ययंतरसंघातपादक्षोमितभूतलं ।। २५८ ।।
पद्मपुराणम्। सप्तमं पर्व। । महागहरदेशस्य मूच्यभेद्यतमश्चयं । कालेनैव स्वयं मितं सन्निधानं सुभीषणं ॥ २५९ ॥ यस्योपरि न गच्छंति सुरावापि भयार्दिताः । यञ्च भीमतया प्राप प्रसिद्धिं भुवनत्रये ॥२६०॥ गिरयो दुर्गमा यत्र ध्यातव्याप्तगुहाननाः । साराथ तरवो लोकं ग्रसितुं प्रोद्यतां इव ॥ २६१ ।। अभिन्नचेतस्तत्र गृहीत्वा शममुत्तमं । दुराशारितात्मानो धवलांवरधारिणः ।। २६२ ।। पूर्णदुसौम्यबदनाः शिखामणिविराजिताः । तपश्चरितुमारब्धाखयोपि भ्रातरो महद् ।। २६३ ।। विद्याश्चाष्टाक्षरी नीता वश्यतां जपलक्षया । सर्वकामानदा नाम दिवसार्द्धन तैस्ततः ॥ २६४ ॥ अन्नं यथेप्सितं तेभ्यः सोपनिन्ये यतस्ततः । क्षुधाजनितमेतेषां संवभूव न पीडनं ।। २६५ ॥ वतो जपितुमारब्धाः सुचित्ता पोडशाक्षरं । मंत्रकोटिसहस्राणि यस्या वृत्तिर्दशोदिताः ॥२६६।। जंबूद्वीपपतिर्यक्षस्तमध स्त्रीभिराहतः । अनावृत इति ख्यातः प्राप्तः क्रीडितुमिच्छया ।। २६७ ।। अंगनानां ततस्तस्य क्रीडंतीनां सुविभ्रमं । ते तपोनिहितात्मानः स्थिता लोचनगोचरे ॥२६८॥ रूपेण तास्ततस्तेषां समाकृष्य कचेष्विव । देव्यः समीपमानीताः कौतुकाकुलचेतसः ॥ २६९ ॥ ऊचुस्तासामिदं काश्चित्कुंचितालकलासिना । चक्रेण सद्विरेफेण पयस्य श्रियमाश्रिताः ॥२७०॥ नितांत सुकुमारांगा विसर्पत्कांतितेजसः । तपश्चरत कि कार्यमपरित्यक्तवाससः ॥ २७१ ।।
सत्तम पर्व।
.
--
.
.
पद्मपुराणम् ।
मोगेरिना न गात्राणामीदृशी जायने रुचिः । ईन्देहवया नापि शक्यते परतो भयं ॥ २७२ ।।
जटामुकुटमारः क क चेदं प्रथमं चयः विरुद्धसंप्रयोगस्य स्रष्टारो यूपपुद्गताः ॥ २७३ ।।
पीतस्तनतटास्कालमुखमंगमनोचितौ । करी शिलादिमंगेन किमर्थ प्रापिती न्यया ॥ २७४ ॥
अहो हूस्वीयसी घुदियुष्माकं रूपशालिनां । भोगोचितस्य देहस्यं यत्कृतं दुःखयोजनं ॥२७॥
उत्तिष्ठत गृहं यामः किमयापि गतं बुधाः । सहास्माभिर्महाभोगान् प्राप्नुत प्रियदर्शनान २७६
तामिरित्युदितं तेपो न चके मानसे पदं । यथा सरोजिनीपत्रे पयसो बिंदुजालकं ।। २७७.॥
एवमूनुस्ततवान्याः सख्यः काष्ठमया इमे । निचलत्वं तयाहोगा सर्वेष्वंगेपु दृश्यते ॥ २७८ ।।
अभिधायेति संक्रुभ्य रभसादुपसत्य च । विशाले हृदये चारवर्तसेन ताडनं ॥ २७९ ।।
तथापि ते गताः क्षोम नवं,प्रवणचेतसः । यतः कापुरुषा एंव स्त्रलंति प्रस्तुताशयात् ॥२८०।।
देवी निवेदनादृष्ट्वा जंबूद्वीपेशिना ततः कृत्वा न स्मिवमित्युक्ताः प्राप्तविसयचेतसा ॥१८१॥
मो मो सुपुरुषाः कस्मात्तपश्वरत दुष्करं । पाराधपत का देवं कवरं वदनाचिराद ॥२८२ ।।
इत्युक्तास्ते यदा तस्थुः पुस्तकर्मगा इव । तदा कोपेन यक्षाणां पतिरेवममाषत ।। २८३ ।।
विस्मृत्य मामिम देवं कमन्यं ध्यातुमुद्यताः । अहो चपलताऽमीपो परमेयममेघसा ॥ २८४ ॥
: सप्तमं पर्व। . पद्मपुराणम् । है - . + उपद्रवार्थमेतेषां तत्क्षणं, च.प्रचंडवाक् । किंकराणामदादाज्ञामाज्ञादानप्रतीक्षिणां ॥.२८:५।। स्वभावेनैव ते कूरा प्राप्य त्वाज्ञां ताधिका । नानारूपधराश्चक्रुः पुरस्तेषामिति क्रियाः॥२८६॥ कश्चिदुप्लुत्य वेगेन गृहीत्वा पर्वतोन्नति । पुरः पपात निर्घातान् घातयन्निव सर्वतः ॥.२८७ ॥ सर्पण वेष्टनं. कश्चिचक्रे सर्वशरीरंग । भूत्वा च केशरी, कश्चिद्यांदायास्यं समागतः ॥ २८८ ॥ चरन्ये रख कर्णे,बधिरीकृतदिग्मुखं । देशहस्तिमरुद्दावसमुद्रत्वं. गतास्तथा ॥ २८९, ।।. एवंविधैरुपायैस्ते यदा जग्मुर्न विक्रियां.। ध्यानस्तमसमासक्तनिश्चलस्वांतधारणाः ॥२९॥ तदा. म्लेच्छरलं भीम चंडचंडालसंकुलं. । करालमायुधैरुर्विकृतं. तैस्तमोनिर्भ ॥ २९१॥ कृत्वा पुप्पतिक ध्वस्तं विजित्य च किलाहवे. । वध्वा रत्नश्रवास्तपां दर्शितों बांधवैः सम।।२९२।। अंतःपुरं च कुर्वाणं विप्रलापं मन िछदं,।.युष्मासु सत्सु पुत्रेषु, दुःखप्राप्तमिति ध्वनन् ॥ २९३ ।। पुत्रा: रक्षतः मा म्लेंच्छर्हन्यमानं महावने । तेषामिति. पुरः पित्रा प्रयुक्तो भूरिविप्लवः ।। २९४ ।। ताड्यमाना च चंडालैर्माता निगडसंयुता ।। कचाकृष्टा विमुंचती धाराः,नयनवारिणः ॥ २९५ ।। जगाद पश्यतावस्थामीदृशीं में सुता वनें । नीताह शवः पल्ली कथं युष्माकमग्रतः ॥ २९६ ॥ संभय मम सर्वेपि लन्धविद्यावलाः अपि । एकस्यापि न पर्याप्ता भुजस्य व्योमचारिणः।।२९७।।
.
१६६
पद्मपुराणम् ।
सप्तम पर्व।
इत्युक्त वितथं पूर्वमेकस्यापे यतोधुना । यूयं म्लेच्छस्य पर्याप्ता न त्रयोपि हतौजसः ।। २९८ ॥
दशग्रीव वृथा स्तोत्रमकरोत्ते विभीषणः । एकापि नास्ति ते ग्रीवा जननी यो न रक्षति।।२९९।।
कालेन पावता यातस्त्वं मे मानेन वर्जितः । निष्क्रांतो जठरादस्मादुच्चारस्तावता वरं ॥३०० ।।
भानुकर्णोप्ययं मुक्तः कर्णाभ्यां यो न मे स्वरं । आत शृणोति कुर्वत्या विगतक्रियविग्रहः ३०१
विभीषणोप्ययं व्यर्थ नाम धत्ते विमीपणः । शक्तो यो नैककस्यापि शवरस्य मृताकृतिः।।३०२॥
म्लेच्छैर्विधर्ममाणायो दयां कुरुत नो कथं । स्वसरि प्रेम हि प्रायः पितृभ्यां सोदरे परं॥३०३।।
विद्या हि साध्यते पुत्राः स्वजनानां समृद्धये । तेषां च पितरी श्रेष्ठी तथोचैपा व्यवस्थितिः३०४
भूक्षेपमात्रतोप्येने शवरा यांति भस्मता । भवतां दृग्विपल्यालचक्षुःपातादिव द्रुमाः ॥३०५॥
जठरेंण मया यूयं धारिताः सुखलिप्सया । पुत्रा हि गदिताः पित्रोःप्रारोहा इव धारकाः ३०६
यदेवमपि न ध्यानभंगस्तेपामजायत । तदेति तैः समारब्धं मायाकमोतिदारुणं ॥३०७ ॥
छिन्नं पित्रोः शिरस्तेषां पुरः सायकधारया । पुरो दशाननस्यापि मूर्दा भ्रात्रोनिपातितः।।३०८॥
तयोरपि पुरो मूर्दा दशग्रीवस्य पातितः । येन ती कोपतः प्राप्ताचीपद्ध्यानविकंपनं ॥ ३०९ ॥
दशग्रीवस्तु भावस्य दधानोत्यंतशुद्धता । महावीर्यो दधत्स्थैर्य मंदरस्य महारुचिः ॥३१॥
.
५
पद्मपुराणम् ।
सतम पर्व ।
अवभज्य हपीकाणां प्रसरं निजगोचरे । अचिरामाचलं चित्तं कृत्वा दासमिवाश्रयं ॥३११ ।।
कंटकेन कृतवाणः शवरेण समं ततः । ध्यानवक्तव्यताहीनो दध्यौ मंत्रं प्रयत्नतः ॥ ३१२ ॥
यदि नाम तथा ध्यानमाविशुच्छ्रमणोत्तमः । अष्टकर्मसमुच्छेदं ततः कुर्वीत.तत्क्षणात् ॥३१३ ।।
अत्रांतरे सदेहानां कृतांजलिपुटस्थितं । सहस्रं तस्य विद्यानामनेकं वशतामितं ।। ३१४ ॥
समाप्तिमेति नोयावत्संख्यामंत्रविवर्तने । तावदेवास्य तासिद्धा निश्चयाकि न लभ्यते ॥३१५।।
नियोपि पुरोपात्तालभ्यते कर्मणः सितात् । कर्माण्येव हि यच्छंति विघ्नं दुःखानुभाविनः ३१६
काले दानविधि पात्रे क्षेत्रे चायुःस्थितिक्षयं । सम्पग्योधिफलां विद्या नाभन्यो लन्धुमर्हति ३१७
कस्यचिद्दशभिर्वपर्विद्या मासेन कस्यचित् । क्षणेन कस्यचित्सिद्धिं यांति कर्मानुभावतः ।।३१८॥
धरण्यां स्वपितु त्यागं करोतु चिरमंधसः । मन्जत्वप्सु दिवानक्तं गिरेःपततु मस्तकात् ॥३१९॥
विधता पंचतायोग्यां कियां विग्रहशोपिणी । पुण्यैर्विरहितो जंतुस्तथापि न कृती भवेत्।।३२०||
अंगमा क्रियाः पुंसां सिद्धेः सुकृतकर्मणां । अकृतोत्तमकर्माणो यांति मृत्यु निरर्थकाः ॥३२॥
सर्वादरान्मनुष्येण तस्मादाचार्यसेवया । पुण्यमेव सदा कार्य सिद्धिः पुण्यविना कुतः ॥३२२॥
पश्य श्रेणिक पुण्यानां प्रभावं यद्दशाननः । असंपूर्णे गतः काले विद्यासिद्धिं महामनाः॥३२३॥
. .. पद्मपुराण । १६८ सप्तम पर्व। करिष्यामि बिंद्याना नामकीतेन । अर्थसामर्थ्यतो लब्धं भवावहितमानसः ॥ ३२४ ॥ नभाचारिणी, कामदामिनी, कायगामिनी। दुर्निधारा, जगत्कम्पा, प्रज्ञप्ति, आँनुमालिनी,३२५ अणिमा, लघिमा, क्षोभ्या, मनःस्तंभनकारिणी, | संवाहिनी, सुरध्वंसी, कौमारी, वर्घकारिणी ।। सुविधाना, तपोरूपा, दही, विपुलॊदरी । शुभप्रदा, रजोरूपा, दिनरात्रिविधायिनी ॥३२७॥ बचोदरी, समाक्रष्टिरदर्शन्यजरामरा । अनलस्तंभनी, तोयस्तंभनी, गिरिदारणी ॥ २८ ॥ अवलोकन्परिध्वंसी, पोरा, धीरा, भुगिनीं । वारुणी, भुवनावध्या, दारुणा, मदनाशिनी ३२९ भास्करी, भयर्सभूतिरेशानी, विजया, जया । बंधनी, मोचनी, चान्या वाराही, कुटिलाकर्तिः३३० चित्तौद्भवकरी, शांतिः, कौरी, वशकारिणी । योगेश्वरी, चलोत्सादी, चंडा, भीति, प्रवार्पिणी।। एवमाद्या. महाविद्या. पुरा सुकतकर्मणा । स्वल्पैरेव दिन प्राप दुशग्रीवः सुनिश्रयः ॥ ३३ ॥ सर्वाहा, रतिसंवृद्धिभिणी, व्योमगामिनी । निंद्राणी, चैति पर्चता भानुकर्ण समाश्रिताः ३३३ सिद्धार्था, शत्रुदमनी, निर्व्याघाता, खगाभिनीं । विद्या विभीषर्ण प्राप्ता चतस्रो दयिताइव ३३४ ईश्वरत्वं ततः प्राप्ता विद्यायां ते सुविधमाः । जन्मान्यदिवसं प्रापुर्महासमदकारणं ।। ३३५ ।। ततः पत्यापि यक्षाणां दृष्ट्वा वियाः समागताः । पूजितास्ते महाभूत्या दिव्यालंकारभूषिताः३३६ , 1 1 ना पद्मपुराणम् ।। १६५ . सप्तमं पर्व। स्वर्यप्रभमिति, ख्यातं नगरे च निवेशितं ! मेरुश्रृंगसमुच्छ्रायं समपंक्तिविराजित ।।३३७ ।। मुक्ताजालपरिक्षिप्तगवाामुन्नतैः । रत्नजावूनदस्तंभैरचितं चैत्यवेश्ममिः ॥ ३८॥ अन्योन्यकरसंधजनितेंद्रशासनः । रत्नैः कृतसमुद्योत नित्यविद्युत्समप्रभः ।। ३३९ ॥ भ्रातृभ्यां सहितस्तत्र प्रासाद, गगनस्पृधि । विद्यावलेन, संपन्नः सुखे तस्थौ दशाननः ॥ ३४० ॥ जंबूद्वीपपतिः प्राह तत. एवं दशाननं । विस्मितस्तव वीर्येण प्रसन्नोहं महामते ॥ ३४१ ।। चतु:समुद्रपर्यंत नांगत्यंतरसंकुले. तिष्ठत्वत्र यथाछंद जंबूद्वीपतले भवान् ॥ ३४२ ॥ द्वीपस्यास्य समस्तस्य वसिताहमकंटकः । यथोप्सितं, चरैस्तस्मिन्नुधरन् शत्रुसंहति ॥ ३४३ ॥ प्रसन्न मयि तें वत्स. स्मृतिमात्रपुरस्थिते । ईप्सितव्याहती शक्तो न शक्रोपि कुतोऽपरे ॥ ३४४ ॥ द्रापिष्ट जीव काल वं भ्रातृभ्यां सहितः सुखीं । वर्द्धतां भूतयो दिव्या बंधुसेच्या सदा तव ३४५ इत्याशीभिः समानय सत्याभिस्तान पुनः पुनः । जगाम स्वालयं यक्षः परिवारसमन्वितः ३४६ त रत्नश्रवणं श्रुत्वा विद्यालिंगितविग्रहं । सर्वतो रक्षसां संघाः प्राप्ताः कृतमहोत्सवाः ॥ ३४७ ॥ उन्नत ननृतुः केचित् चारास्फोटनं तथा । केचित्प्रमदसंपूर्णाः प्रेशशंसुश्च रावणं ॥३८॥ • कार्ति तिरस्कुर्वत् शत्रुपक्षभयंकरं । सुधयेव नमः कैश्विल्लिंपनिहसितं चिरं ॥ ३४९ ॥ 1 10 .
पद्मपुराणम् । १७० सप्तम पर्व। मुमाली माल्यवत्सूर्यरजाक्षरजास्तथा । आगता नितरां प्रीताः समारुह्योचमान स्थान।।३५०॥ अन्ये च स्वजनाः सर्वे विमानैर्वाजिभिर्गजैः । स्वदेशेभ्यो विनिष्क्रिाता वासेन परिवर्जिताः३५१ अथ रत्नश्रवाः पुत्रस्नेह संपूर्णमानसः । वैजयंतीभिराकाशं शुक्लीकुर्वनिरंतरं ॥ ३५२॥ विभूत्या परपा युक्तो वंदिदैरभिष्टुतः । संप्राप्तो रथमारूढो महाप्रसादसन्निभं ॥ ३५३ ॥ एकीभूय ब्रजंतोमी पंचसंगमपर्वते । दुःखेन रजनी निन्युररातिभययोगतः ॥३५४ ॥ नतो गुरून्प्रणामेन समाश्लेपणतः सखीन् । स्निग्धेन चक्षुपा भृत्यान् जगृहुः कैकसीसुताः ३५५ शरीरक्षेमपृच्छादिसिद्धिवृत्तांतसंकथा । न तेपामवगीतत्वं प्रामाख्या पुनः पुनः ।। ३५६ ।। ददृशुविस्मयापनाः स्वयंप्रभपुरोत्तमं देवलोकप्रतिच्छंदं यातुधानप्लवंगमाः ॥ ३५७ ॥ सवेपथुकरेणैपां गात्रमस्पृशतं चिरं । पितरौ सप्रणामानामानंदाचाकुलेक्षणौ || ३५८ ।। नभोमध्ये गते भानी तेषां स्नानविधिस्ततः । दिव्याभिः कर्तुमारन्धो वनिताभिर्महोत्सवः३५९ मुक्ताजालपरीतेषु स्नानपीटेषु ते स्थिताः । नानारत्नसमृद्धेषु जात्यायूनदात्मसु ॥ ३६० ॥ पाठपीठेषु चरणी निहिती पल्लवच्छवी । उदयाद्रिशिरोवर्तिदिवाकरसमाकृती ॥ ३६१ ।। ततो रत्नविनिर्माणः सौवर्णराजतात्मकैः । कुंभ: पल्लवसंछन्नवहारविराजितः ।। ३६२ ।।
पर्व।
सप्तम
१७२
पद्मपुराणम् ।
.
चंद्रादित्यप्रतिस्पर्दिछायावच्छादितात्माभिः । आमोदवासिताशेपदिक्चक्रजलपूरितैः॥३६३॥
एकानेकमुखेः प्रांतभ्रातभ्रमरमंडलैः । गद्भिर्जलपातेन गंभीरजलदैरिव ।। ३६४॥
गंधैरुद्वर्तनः कांतिविधानकुशलैस्तथा । अभिपेकः कृतस्तेपां तूर्यनादादिनंदितः ॥.३६५ ।।
अलंकृतस्ततो देहो दिव्यपत्रविभूषणैः । मंगलानि प्रयुक्तानि कुलनारीभिरादरात् ॥ ३६६ ।।
ततो देवकुमाराभैः स्वजनानंददायिभिः । गुरूणां विनयादेतैः कृतं चरणवंदनं ॥३६७ ॥
अत्याशिपस्ततो दृष्ट्वा तेषां विद्योत्थसंपदः । जीवतातिचिरं कालमिति तान् गुरवोऽधुवन् ३६८
सुमाली माल्यमान्सूर्यरजा रक्षरजास्तथा । रत्नश्रवाश्च तान्स्नेहादालिलिंग पुनः पुनः ॥३६९।।
समं बांधवलोकेन भृत्ववर्गेण चावृताः । चारभ्यवहारं ते स्वेच्छाकल्पितसंपदः ।। ३७० ॥
गुरुपु प्राप्तपूजेषु ततो वस्त्रादिदानतः । यथाहं भृत्यवर्गे च संप्राप्तप्रतिमानने ॥ ३७१ ।।
विश्रब्धा गुरवोपच्छंस्तान् प्रीतिविकचेक्षणाः । दिवसानियतो वत्साः सुखेन सुस्थिता इति ३७२
ततस्ते मस्तके कृत्वा करयुग्मं प्रणामिनः । ऊचुनेः कुशलं नित्यं प्रसादाद्भवतामिति ॥३७३ ।।
मालिनः संकथाप्राप्तं कथयन्मरणं ततः । सुमाली शोकभारेण सद्यो मूछो समागतः ॥ ३७४ ।।
रत्नश्रवसुतेनासौ ततः शीतलपाणिना । संस्पृश्य पुनरानीतो ज्येष्ठेन व्यक्तचेतना ॥ ३७५ ॥
सतम. पर्व। १७. . 4 पद्मपुराणम् । . 1 आनंदितश्च तद्वाक्यरूनितैर्हिमेशीतलैः । समस्तशत्रुसंघातपातीजांकुरोगमः ।।.३.७६ ।। पुंडरीकेक्षणं पश्यन्सुमाली तं ततोमर्क, शोक क्षणात्समुत्सृज्य पुनरानंदमांगतः।। ३७७॥ इति चोवाच.तं. हृद्यर्वचोभिर्वितथेतरैः । अहाँ वत्स,तपोदार सच तोपितदैवतं ।। ३७८ ।। अहो द्युतिरियं जित्या स्थिता तव दिवाकरं | अहो गांभीर्यमुत्सार्य:स्थितमतन्नदीपति ॥३७९।। अहो पराक्रमः कात्या सहितोयं जिनातिगः । अहो रक्षःकुलस्यासि.जातस्ततविशेषकः ॥३०॥ मंदरेण यथा जंबूद्वीपः कृतविभूषणः । नभस्तलं शशांकन यथा तिग्मकरेण च ।।.३८१॥ सुपुत्रेण तथा. रक्षःकुलमेतद्दशानन । त्वयालोकमहाश्चर्यकारिचेप्टेन, भूषितं ॥ ३८२ ॥ आसंस्तोयदवाहाद्या नरास्त्वत्कुलपूर्वजाः । भुक्त्या लंकापुरी कृत्वा सुकृतं, ये गता शिवं.॥३८३॥ अस्मव्यसनविच्छेदः पुष्यैर्जातोसि सांप्रत ।,वफ्रेणकेन ते तोपात्कथयामि फर्थ, कां ॥. ३८४ ॥ नभश्वरगणैरेभिः प्रत्याशा.जीवितं प्रति । मुक्ता, सती.पुनर्वदा, त्वय्युत्साईपरायणे ॥ ३८५।। कैलाशमन्यदायातरस्माभिवदितुं. जिन 1.प्रणम्यातिशयज्ञानः पृष्टः श्रमणसंत्तमः ॥ १८६.॥ भविता पुनरस्माकं कदा नाथ समाश्रयः । लंकायामिति सद्वाक्यमेवमाहानुकंपकः ।। ३८७ ॥ लप्स्यते भवतः पुत्राज्जन्म यः पुरुषोचमः । संभूतायां वियविंदोः स लंकायां प्रवेशका८दा!
सप्तम पवा १७३ पद्मपुराणम् । भरतस्य स खंडांस्त्रीन् भोक्ष्यते बलविक्रमः । सत्त्वप्रतापविनयश्रीकीर्तिरुचिसमाश्रयः ॥.१८९॥ गृहीतां रिपुणा लक्ष्मी मोचयिष्यत्यसावपि । नैतचित्रं यतस्तस्यां संप्राप्स्यति परा थिय।३९०॥ स स्वं महोत्सवो जातः कुलस्य शुभलक्षणः।। उपमानविमुक्तेन रूपेण हृतलोचनः ।। ३९१ ॥ इत्युक्तोसी जगादेवमस्त्विति प्रणताननः । शिरस्पंजलिमाधाय कृतसिद्धनमस्कृतिः ॥ ३९२॥ प्रभावात्तस्य पालस्य बंधुवर्गस्ततः सुखं । अध्युवास यथास्थानमरातिभयवर्जितः ॥ ३९ ॥ एवं पूर्वभवार्जितेन पुरुषा:-पुण्येन यांति श्रियं । कीर्तिच्छन्नादिगंतरालभुवनानास्मिन्वयः कारणं ॥ अमेः किन्न कणः करोति विपुलं भस क्षणात्काननीमत्तानां करिणां भिनत्ति निवहं सिहस्य वा नाक: बोधं घाशु कुमुद्वतीपु कुरुते शीतांशुरोचेलवः । संता प्रणुदन दिवाकरकरैरुत्पादितं प्राणिनां।। निद्रापितहेतुमिश्व समये जीमूतमालानिमं । चान्तं द्रमपाकरोति किरणरुयोतमात्रो रविः ३९५ इत्याचे रविषेणाचार्यप्रोफे पद्मचरिते दशमीवाभिधानं नाम सप्तम पर्व ।
अष्टमं पर्व । १७४ पद्मपुराणम् । . , अथाष्टमं पर्व । अघासीदक्षिणश्रेया भास्करप्रतिमो छुती । सुवीरोऽसुरसंगीतिपुरे मयखगेश्वरः ॥ १॥ '; दैत्यत्वेन प्रसिद्धस्य समस्ति तस्य भूतले । नाम्ना हेमवती भार्या योषिद्गुणसमन्विता ॥२॥ सुता मंदोदरी नाम सर्वावयंचमुंदरी । तन्दरी विशालाक्षी लावण्यजलवेणिका ।। ३॥ नवयौवनसंपूर्णा, दृष्ट्वा तामन्यदा पिता.। चिंताव्याकृलितः प्राह दयितामिति सादरं ॥ ४ ॥ आरूढा नवतारुण्यं वत्सा मंदोदरी प्रिये । गुणिते वै तदीया मे चिंता मानसमाश्रिता ॥ ५ ॥ कन्धानां यौवनारंभे संतापानिसमुद्भवे । इंघनत्वं प्रपद्यते पितरौ स्वजनैः समं ॥ ६ ॥ एवमथै ददत्यस्या जन्मनोनंतरं बुधाः । लोचनांजलिभिस्तोयं दुःखाकृलितचेतसः ॥७॥ अहो मिनचि मर्माणि वियोगो देहनिःसृतेः । अपत्यैर्जनितो नीतेरागत्यासंस्तुतैर्जनैः॥८॥ तब्रूहि तरुणी कस्मै ददाम्येता प्रिये वयं । गुणैः कुलेन कात्या च क एतस्याः समो भवेत्॥९॥ इत्युक्ता प्राह तं देवी कन्यानां देहपालने । जनन्य उपयुज्यंते पितरो दानकर्मणि ॥ १० ॥ यत्र ते रुचितं दानं मह्यं तत्रैव रोचते । भर्तृच्छंदानुवर्तिन्यो भवंति कुलवालिकाः ॥ ११ ॥ L
। अष्टमं पर्व।
पद्मपुराणम्।
इत्युक्तो मंत्रिभिः सार्ध चकारासौ प्रधारणं । केनचिन्मत्रिणा कश्चिदुद्दिष्टः खेचरस्ततः ॥१२॥
अन्येनेंद्रः समुद्दिष्टः सर्वविद्याधराधिपः । तस्माद्धि खेचराः सर्वे विभ्यति प्रतिकूलने ॥ १३ ॥
ततः स्वयं मयेनोक्तं युष्माकं वेमि नो मनः । मह्यं तु रुचितः ख्यातः सिद्धविद्यो दशाननः १४
भवितासौ महान् कोपि जगतोऽद्भुतकारणं । अन्यथा जायते सिद्धिविद्यानामाशु नाल्पके १५
ततोऽनुमेनिरे तस्य तद्वाक्यं प्रमदान्विताः । मारीचप्रमुखाः सर्वे मंत्रिणो मंत्रकोविदाः ॥१६॥
मंत्रिणो भ्रातरश्चास्य मारीचाद्या महायलाः । मारीचश्च ततश्चके मानसं त्वरयान्वितं ।। १७ ॥
ग्रहेष्वभिमुखस्थेषु सौम्येषु दिवसे शुभे । क्रूरग्रहेष्वपश्यत्सु लग्ने कुशलतावहे ॥ १८॥
कृत्यं कालातिपातेन नेति ज्ञात्वा ततो मयः । पुष्पांतकविमानेन प्रस्थितः कन्ययान्वितः ॥१९॥
ततो मंगलगीतेन प्रमदानां नमस्तलं । तूर्यनादस्य विच्छेदशब्दात्मकमिवाभवत् ।। २० ।।
पुष्पांतकाद्विनिष्क्रम्य भीमारण्ये स्थिता इति । युवभिः कथितं तस्य निवृत्त्य प्रथमा गतिः॥२१॥
तद्देशवेदिभिश्चारैः कथितं तद्वनं ततः । चलितोऽसावपश्यच मेघानामित्र संचर्य ।। २२ ॥
चारः कश्चिदुवाचेति पश्येदं देव सद्वनं । स्निग्धचांतचयाकारं निविडोत्तुंगपादपं ॥ २३ ॥
अद्रेचेलाहकाख्यस्य संध्यावर्तस्य चांतरं । मंदारुणमिवारण्यं सम्मेदाष्टापदागयोः ॥ २४ ॥
अष्ट पर्व पापुराणम्। । वनस्य पश्य मध्येऽस्य शंखशुभ्रमहागृहं । नगर शरदंभोदमहादसमद्युति ॥ २५ ॥ समीपे च पुरस्यास्य पश्य प्रासादपुननं । सौधर्ममिव यः स्पष्टुमीहते शृंगकोटिभिः ॥ २६ ॥ अवतीर्य नमीमागासमीपे तस्य वैश्मनः । सानीकिनी विशश्राम चकार च यथोचितं ।। २७ ॥ तूयोदि डंबरं त्यक्यादैत्यानामधिपस्ततः । आप्तैः कतिपयैर्युक्तो विनीताकत्लशोभितः ॥ २८॥ अभिमानोदयं मुक्त्या सकन्या प्राप्तविस्मयः । ते, प्रासादं समारुह्य प्रतीहारनिवेदितः ॥ २९ ॥ सप्तमं च तले प्राप्तः क्रमण निभृतक्रमः । वनदेवीमिवैशिष्ट मूर्तामुनमान्यकी ॥ ३०॥ अर्धेदुनखया तस्य कताभ्यागमसत्क्रिया । प्रपद्यांतपरिभंग कुलजातोपचारतः ।।३१।। ततः स चासनासीनः स्थिता कन्योचितासने | अच्छत्प्रश्रयादेवं तां मयो विनयान्विता॥३२॥ वत्से कासि कुतो वासि स्माद्वा कारणादिह । वससि प्रमयेऽरण्ये कस्य चेदं महागृहं ॥१२॥ एकाकिन्या कथं चास्मिन् धृतिरुत्पद्यते तव । वपुरुत्कृष्टमेतत्ते पीडानां नैव माजनं ।। ३४॥ एवं पृष्टी सती बाला स्त्रीणां स्वामाविकी. जपा | मंदै वनमृगी मुग्धा जगादेखि नतानना ॥३५॥ पष्ठमक्तेन संसाध्य चंद्रहासमिमं मम । शैलराजं गतो भ्राता वंदित्तुं जिनपुंगवान् ।। ३६ ।। दशवक्त्रेण तेनाई पालनार्थ निरूपिता । आर्य तिष्ठामि चेत्येस्मिन् चंद्रप्रभविराजिते ।।३७॥
- ' १७७ अष्टम पर्व। 1 1 पद्मपुराणम् । यदि च स्युभवन्तोऽपि दृष्टुमें, समागताः । क्षणमात्रं ततो त्रैव स्थानं कुर्वतु सज्जनाः ॥३८॥ यावदेवं समालापो वर्तते मधुरस्तयोः । तेजसा मंडलं ताबद्ददृशाते नमस्तले ॥ ३९ ॥ उक्तं च कन्यया नूनमागतोऽयं दशाननः । सहस्रकिरण कुर्वन् प्रभया विगतप्रभ ॥ ४० ॥ विद्युइंडेन संयुक्तं मेघानामिव तं चयं । अवलोक्य समासन्नमुत्तस्थौ. संभ्रमान्मयः ॥४१॥ कृत्वा यथोचिताचारमासनेषु पुनः स्थितः । मंडलाग्रप्रभाजालश्यामलीकृतविग्रहः ॥ १२ ॥ मारीचो वज्रमध्यथ वज्रनेत्रो नभस्तडित् । उग्रनको मरुद्वको मेघावी सारणः शुकः ॥ ४३ ॥ एवमाद्या गतास्तोष परं दृष्ट्वा दशाननं । इत्यूचुर्मगलं.वाक्यं दैत्यनाथस्य मंत्रिणः ॥ ४४.॥ अस्मभ्यं तब दैत्यस्प धिपणांतिगरीयसी । नराणामुत्तमो येन मनस्येप निवेशितः ॥ ४५ इति चाह दशग्रीवमहो ते रूपमुज्वलं । अहो प्रश्रयसंभारो वीयं, चातिशयान्वितं ॥४६॥ दक्षिणस्यामयं श्रेण्यामसुरप्रथिते पुरे । दैत्यानामधिपो नाना मयो भुवनविश्रुतः ॥ ४७ ॥ गुणैरेप समाकृष्टः कुमार तव, निर्मलः । आयातः कं न कुर्वति सजना दर्शनोत्सुकं ।। ४८ ॥ स्वागतादिकमित्याहे ततो रत्नश्रवस्सुतः । सतो हि कुलविद्येयं यन्मनोहरभाषणम् ॥ ४९ ॥ साधुना दैत्यनाथेन प्रेमदर्शनकारिणा । उचितेन नियोगेन जनोऽयमनुगृह्यतां ॥ ५० ॥ १२ अहम पर्व। . पद्मपुराणम्। इदं मयसुतः प्राह तात युक्तमिदं तव । प्रतिकूलसमाचारा न भयंत्येव साधयः ।। ५१ ॥ दृष्टोऽसो सचिवस्तस्य कौतुकाक्रांतमानसैः । कृतानंदच सद्वाक्यैः पुनरुक्तः समाकुलैः ।। ५२ ॥ ततो गर्भगृहं रम्यं प्रविष्टोम्यं स्वभावतः । चकार महती पूजां जिनेंद्राणां विशेषतः ॥ ५३॥ स्तपांच विविधानुक्त्या रोमहर्षणकारिणः । मस्तकेंजलिमास्थाय चूड़ामणिविभूपिते ॥ ५४ ।। स्पृशल्ललाटपट्टेन जानुम्यां च महीतलं । पावनौ स जिनेंद्राणां ननाम चरणी चिरं ॥ ५५ ॥ ततो गेहाग्जिनेंद्राणां निष्क्रांतः परमोदयः । सहिती दैत्यनाथेन निविष्टः सुखमासने ॥ ५६ ॥ विजयागिरिस्थानां पृच्छन् वार्ता सगामिना । चक्षुपो गोचरीभावं निन्ये मंदोदरीमसौ ॥५७॥ चारुलक्षणसंपूर्णा सौभाग्यमणिभूमिकां । तनुस्निग्धनखोनुगपृष्टपादसरोरुहां ॥५८॥ रंभास्तमसमानाभ्यां तूणाभ्यां पुष्पधन्वनः । लावण्यांभाप्रवाहाभ्यामुरुभ्यामविराजितां ।।५९।। पुक्तविस्तारमुर्तुग मन्मधास्थानमंडपं । नितंचं दधतीमग्रकुकुंदरमनोहरं ॥ ६ ॥ वनमध्यामधोवस्त्रां हैमकुभनिभस्तनीं । शिरीपसुमनोमालां मृदुबाहुलतायुगां.॥६१ ॥ कंबुरेखानवग्रीवां पूर्णचंद्रसमाननां । नेत्रकांतिनदीसेतुबंधसन्निमनासिकां ॥ ६२ ।। रक्तदंवच्छदच्छायारिताच्छकपोलकां । वीणाभ्रमरसोन्मादपरिपुष्टसमस्वनां ।। ६३ ।। 1 अष्टम पर्व। पद्मपुराणम् । १७९ . इंदीवरारविंदानां कुमुदानां च संहतीः । विमुंचतीमिवाशासु दृष्टया दूत्या मनोभुवः ।। ६४ ॥ अष्टमीशवरीनाथसमानालिकपट्टिकां । संगतश्रवणां स्निग्धनीलसूक्ष्मशिरोरुहां ॥ ६५ ।। शोभयाऽऽस्पांड्रिहस्तानां जंघानामिव पद्मिनीं । जयंती करिणी हंसी सिंहींच गतिविभ्रमः॥६६॥ विद्यालिंगनजामीp धारयन्ती दशानने । पद्मालयं परित्यज्य लक्ष्मीमिव समागतां ॥ ६७ ॥ अंगनाविपयां सृष्टिमसर्वामिव कर्मणा । आहत्य जगताशेपं लावण्यमिव निर्मितां ॥ ६८॥ दिवाकरकरस्पशेस्वभानुग्रहभीतितः । तारापतिं परित्यज्य क्षितिं कांतिमिवागतां ॥ ६९॥ सीमंतमणिभाजालरचितास्यावगुंठनां । हारेण वक्त्रलावण्यसेतुनेव विभूपितां ॥ ७० ॥ कर्णयोर्वालिकालोकाम् मुक्ताफलसमुत्थिताम् । सितस्य सिंदुवारस्य मंजरीमिव विभ्रतीं ॥७१॥ कंदर्पदर्पसंक्षोभं सहते जघनं न यत् । इतीव वेष्टितं कांच्या मणिचक्रककांतया ।। ७२ ।। मनोज्ञामपि तां दृष्ट्वा दुःखितोऽभूत्सचितया । नीयते विपयैः प्रायः सत्त्वतोऽपि वश्यतां॥७३॥ तस्यां माधुर्ययुक्तायां दृष्टिस्तस्य गता सती । अभवन्मधुमत्तेव प्रत्यानीतापि घूर्णिता ॥ ७४ ॥ अचिंतयत्तदा नाम स्यादियं वनितोत्तमा । दीः श्रीलक्ष्मीधृतिः कीर्तिः प्राप्तमूर्तिः सरस्वती ७५ किमूद्देयमुतान्दा माया वा केनचित्कृता । अहो सृष्टिरियं मूर्ध्नि स्थिता निखिलयोपितां ॥७६|| . ३ अष्टम पर्व। पद्मपुराणम् । सुरसुंदरतो जाता नाना पद्मवती शुभा.। सर्वश्रीयोपिति स्फीतनीलोत्पलदलेक्षणा ॥ १०३ ॥ कन्याऽशोकलता नाम बुधस्य दुहिता वरा । मनोवेगासमुत्पन्ना नवाऽशोकलतासमा ॥१०४॥ संध्यायां कनकाजाता नाना विद्युत्प्रभा परा । विद्युत प्रभया लज्जा या नयेचारुदर्शना १०५ महाकुलसमुद्भूता ज्येष्ठा तासामिमा श्रिया । विभूत्वा च त्रिलोकस्य मूर्ता सुंदरता इव ॥१६॥ आकल्पकं च संग्रामास्तं ययुस्ताः सहेतराः । सोत्तापत्रपा वावद्दुस्सहा स्मरवेदनाः ।। १०७ ।। गांधर्वविधिना सर्वा निराशंकेन तेन ताः। परिणीता शशांकन ताराणामिव संहतीः॥१०८।। दशग्रीवेण सार्ध ताः पुनः क्रीडां प्रचक्रिरे । अन्योऽन्याईयुतां प्राप्य प्रथमोपगमाकुलाः॥१०९॥ संप्रत्येव हि सा क्रीडा क्रियते तेन या समं । शशांकेन विमुक्तानां ताराणां काभिरूपता ११० ततः कंचुकिभिस्तासामाशु गत्वा निवेदितं । जनकेभ्य इदं वृत्तं रत्नश्रवससंभवं ॥ १११ ॥ ततस्तैः प्रहिताः क्रूराः पुरुषास्तद्विनाशने । संदष्टोष्ठपुटा बद्धभृकुटीकोटिसंकटाः ॥ ११२ ।। विविधानि विमुंचंतस्ते शस्त्राणि समं ततः । भ्रूक्षेपमात्रकेणव कैकसेयेन निर्जिताः ॥ ११३ ॥ भयवेपितसर्वांगा ततस्तेम्मरसुंदरं । व्यज्ञापयन् समागत्य शस्त्रनिर्मुक्तपाणयः॥ ११४ ॥ गृहाण जीवनं नाथ हर वा नः कुलांगनाः । छिंधि या चरणौ पाणी ग्रीवां वा न वयं क्षमाः ११५ २८३ पद्मपुराणम्। • 'अष्टम पर्व। . कन्यानिवहमध्यस्थः कोऽपि धीरो विराजते । सुरेंद्रसुंदरः कात्या समानो रजनीपतेः ॥११६॥ क्रुद्धस्य तस्य नो दृष्टिं देवाः शक्रपुरस्सराः । सहेरन् किमुत क्षुद्रा अस्मत्तुल्याः शरीरिणः॥११॥ रथनूपुरनाथेंद्रप्रभृत्युत्तममानवाः । वीक्षिता बद्दयोऽस्माभिरयं तु परमादृतः ॥ ११८ ।।. एवं श्रुत्वा महाक्रोघरक्तास्योऽमरसुंदरः । निरसन्नह्यसंयुक्तो युधेन कनकेन च ।। ११९ ।। अन्ये च बहवः शूराः पतयो व्योमगामिनां । निश्चक्रमुर्वियद्दीतं कुर्वाणाः शस्त्ररश्मिमिः ॥१२०॥ ततस्तानायतो दृष्ट्वा ता भयाकुलमानसाः । विद्याधरसुता ऊचुरिदं रत्नश्रवःसुतं ॥ १२१ ।। अस्मत्प्रयोजनानाथ ! प्राप्सोस्यत्यंतसंशयं । पुण्यहीना वयं कष्टं सर्वा अप्यपलक्षणाः ॥ १२२॥ उत्तिष्ठ शरणं गच्छ कं च नाथ प्रसीद नः । उत्पत्य गमनं क्षिप्रं रक्ष प्राणान् सुदुर्लमान।।१२३॥ अस्मिन्वा भवने जैने भूत्वा प्रच्छन्नविग्रहः । तिष्ठ यावदिमे क्रूरा नेक्षते भवतस्तनुं ॥ १२४ ॥ श्रुत्वा वाक्यमिदं दीनं दृष्ट्वा च निकटं बलं । सिते कुमुदवत्तेन नेत्रे पनि तते ॥ १२५ ॥ उवाच च न मां नूनं विच्छ यद्वदथेदशं । किमेभिः क्रियते काकैः संभूयापि गरुत्मतः॥१२६|| एकाकी पृथुकः सिंहः प्रस्फुराच्छितकेसरः । किंवा नानयते ध्वंस यूथं संमददंतिनां ॥ १२७ ॥ इदं ताः पुनरूचुस्तं यद्येवं नाथ मन्यसे । ततोऽस्माकं पितॄन् रक्ष भ्रातूंच स्वजनांस्तथा १२८
.
अष्टम पर्य।
।
1
।
-4
7
पद्मपुराणाम्।
.
एवमस्तु प्रिया गूयं मामैपीति स सांत्वनं । कुरुते यावदेवासा ताबद्धलमुपागत ॥ १२९ ॥
ततो विमानमारुह्य क्षणाद्विद्याविनिर्मितं । समारुह्य दशग्रीवो दंतदएरदच्छदंः ।। १३० ।।
त एवावयवास्तस्य प्राप्य युद्धमहोत्सर । दुःखेन मानमाकाशे प्राप्ता रोमांचकर्कशाः ॥ १३१ ।।
तस्योपरि ततो योधाश्विक्षिपुः शवसंहतीः । धारा इव पनस्थूलाः पर्वतस्य धनायनाः ||१३२॥
ततोऽसी शस्त्रसंघातं कामिचिद्विन्यवारयत् । कामिश्चिनु रिपुवातं शिलाभिर्भयमानयत् ॥१३३।।
परीकैनिहतैरेभिः सचरैः किं मसेत्यसौ । चितयित्वा प्रधानां स्त्री तां चक्रे नेत्रगोचरां ॥१३४॥
तामसेन ततोऽक्षण मोहयित्वा गतक्रियाः । नागपाशस्त्रयोऽप्येते वढा तासामुपाहताः ॥१३५]]
मोचितास्ते तनस्ताभिः पूजां च परिलंभिताः । शूरस्वजनसंग्राप्ते संमदं च समागताः ॥१३६॥
तवः पाणिग्रहश्चक्रे तस्य तासां.च तैः पुनः । दिवसानो त्रयं विद्याजनितश्च महोत्सवः ॥१३७॥
गताश्वानुमतास्तेन यथास्वं निलयानमी 1, मंदोदरीगुणाकृष्टः स च यातः स्वयंप्रमं ॥ १३८ ।।
ततस्तं परयां छुत्या युक्तं दृष्ट्वा सयोपितं । बांधवाः परमं हर्ष जग्मुर्विस्तारितेक्षणाः ।।१३९ ।।
दूरादेव च तं दृष्ट्वा मानुकर्णविभीपणौ । अमिगत्या विनिष्क्रांती सुहृदोऽन्ये च बांधवाः॥१४०॥
वेष्टिताच प्रविष्टास्ते स्वयंप्रभपुरोत्तमं । रेमे च स्वेच्छया तेघ प्राप्नुवन् सुखमुत्तमं ॥ १४१॥
अष्टम पर्व। १८५ पद्मपुराणम् । । अर्थ कुंभपुरे राजमहोदरसुतां वरां । सुरूपाक्षीसमुद्भूतां तडिन्मालाभिधानकां ॥ १४२ ॥ भास्करवणो लेमे सुप्रीतः स तया समं । चारुविभ्रमकारिण्या निमग्रो रतिसागरे ॥ १४३ ।। तत्र कुंभपुरे तस्य केनचित्कृतशब्दने । श्वसुरलेहतः कर्णी सततं पेततुर्यतः ।। १४४.॥ कुंभकर्ण इति ख्याति ततोऽसौ भुवने गतः । धर्मसक्तमतिर्वीरः कलागुणविशारदः ॥ १४५ ।। अथ स प्रखलः ख्यातिमन्यथा गमितो जनः । मांसामुग्जीवनत्वेन तथा पण्मासनिद्रया १४६ आहारोऽस्य शुचिः स्वादुर्यथाकामप्रकल्पितः । सुरभिषधुयुक्तस्य प्रथमं तर्पितातिथिः ॥१४७॥ संध्यासवेशनोत्थानमध्यकालप्रवर्तिनी । निद्रास्य शेषकालस्तु धर्मव्यासक्तचेतसः ।। १४८॥ परमार्थावबोधेन वियुक्ताः पापचेतसः । कल्पयंत्वन्यथाऽसाधून् धिक्तान् दुर्गतिगामिनः १४९ अथास्तिदक्षिणश्रेण्यां नाना ज्योति प्रमं पुरं । विशुद्धकमलस्तत्र राजा मयमहासुहुन् ॥१५॥ तस्य नंदनमालायामुत्पन्ना वरकन्यका । राजीवसरसीनाम्ना पति प्राप्ताविभीपणं ॥ १५१ ॥ कांतया कांतया साकं न स प्राप रति कृती । देववत्परमाकारः पाया पद्मयातया ॥ १५२ ॥ अथ मंदोदरी गर्भ कालयोगाददीधरत् । सद्यः कल्पितचित्तस्थदोहदाहारि विभ्रमा ॥ १५३ ॥ नीता च जनकागारं प्रसूता बालकंदलं । इंद्रजित्ख्यातिमायातो यः समस्तमहीतले ।। १५४ ।।
. अष्टम पर्व । पद्मपुराणमा मातामहगृहे वृद्धि माप्तव जननंदनः । सत्कुर्वत् निर्भरक्रीडां सिंहशाव इवोत्तमा ॥ १५५ ।। ततोऽसौ पुनरानीता सपुत्रा भर्तुरंतिकं । दत्तदुःखा पितुः स्वस्य पुत्रस्य च वियोगतः ।।१५६।। दशग्रीवोऽथ पुत्रास्यं दृष्ट्वा परममागतः । आनंदं पुत्रतो नान्यं प्रीतेरायतनं परं ॥ १५७ ॥ कालक्रमात्पुनर्गर्भ दधाना पितुरंतिक । नीता स्वयं प्रसूता च मघवाहनचालकं ।। १५८ ॥ मतुरंतिकमानीता पुनः सा भोगसागरे । पतिता स्वेच्छया तिष्ठन् गृहीता पतिमानसा ।।१५९॥ दारको स्वजनानंदं कुर्वाणौ चारुविभ्रमी । ती युवत्वं परिप्राप्ती महोक्षविपुलक्षणौ ॥ १६०॥ अथ चैश्रवणो यासां कुरुते स्वामित्तां पुरा । व्यध्वंसयदिमा गत्वा कुंभकर्णः सहस्रशः ।। १६१ ॥ तासु रत्नानि वस्त्राणि कन्यकाश्च मनोहरा । गणिकाथानयद्वीरः स्वयंप्रमपुरोनम.॥ १६२ ।। अथ चैश्रवणः क्रुद्धो ज्ञात्वा पृथुकचेष्टितं । सुमालिनोऽतिक दूतं प्रजिघायातिगर्वितः ॥ १६३ ।। प्रविवेश ततो दूतः प्रतिहारनिवेदितः । उपचारं च संप्राप्तः कृतकं लोकमार्गतः ॥ १६४ ।। उवाचेदं तथा दूतो वाक्यालंकारसंज्ञितः । समक्षं दशवक्त्रस्य सुमालिनमिति क्रमात् ।। १६५ ।। समस्तभुवनव्यापिकीर्तिविश्रमणथुतिः । चरतीदं महाराजो भरतं कुरु चेतसि ।। १६६ ।। पंडितोऽसि कुलीनोऽसि लोकज्ञोऽसि महानसि । अकार्यसंगभीतोऽसि देशकोऽसि मुवमसु १६७ अष्टम पर्व । + पद्मपुराणम् । १८७ - । एवंविधस्प ते युक्तं कुर्वतं शिशुचापलं । प्रमत्तचेतसं पौत्र निवारयितुमात्मनः ॥ १६८ ॥ तिरथा मानुपाणां च प्रायो भेदोऽयमेव हि । कृत्याकृत्यं न जानति यदेकेऽन्यतु तद्विदः॥१६९।। विस्मरंति च नो पूर्व वृत्तांतं दृढमानसाः । जातायामपि कस्यांचिद्भूतौ विद्युत्समद्युतौ ॥१७०।। शांतिालिबधेनैव शेपस्य स्यात्कुलस्य ते । कोहि स्वकुलनिर्मुलध्वंसहेतुक्रियां भजेत् ।। १७१ ॥ समुद्रवीचिसंसक्तशक्रस्य ध्वस्तविद्विपः । प्रतापो विस्मृतः किं ते यतोऽनुचितमीहते ॥१७२।। स त्वं क्रीडसि मंडूको दंष्ट्राकंटकसंकटे । वक्त्ररंध्रे भुजंगस्य विपाग्निकणमोचिनि ।। १७३ ।। नियंतुमय शक्रोपि नैतं तस्करदारकं । ततो ममायायैव करोम्यस्य नियंत्रणं ॥ १७४.॥ नैवं चेत्कुरुते पश्य ततश्चारकवेश्मनि । निगडेः संयुतं पौत्रं यात्यमानमनेकधा ।। १७५ ।। अलंकारोदयं त्यक्त्वा चिरंकालमवस्थितः । तदेवविवरं भूयः प्रवेष्टुमभिवांछसि ।। १७६ ॥ । कुपिते मयि शके वा न तेऽस्ति शरण भुवि । जलवुढुवद्वातादचिरादेव नश्यसि ॥ १७७ ॥ : ततः परुपवाग्यातवेगाहतमनोजलः । क्षोभं परममायातो दशाननमहार्णवः ॥ १७८ ।। प्रतीकग्राहवचास्य प्रस्फुरस्वेदमोचिनः । चक्षुपात्यंतरक्तेन दिग्धं सकलमम्बरं ॥ १७९ ॥ ततो वधिरयन्नाशाः स्वरेणांवरगामिना । करिणो निभेदीकुवेन् वभाण प्रतिनादिना ।। १८० ॥ +
+
अष्टम पर्व।
१८८
पद्मपुराणम् ।
कोऽसौ वैश्रवणो नाम को केंद्र: परिभाप्यते । अस्मद्गोत्रक्रमायाता नगरी येन गृह्यते ॥१८॥
सोयं श्येनायते काकः शृगालः करमायते । इंद्रायते स्वभृत्यानां निखपः पुरुषाधमः ॥१८॥
आः कुदूत पुरोऽस्माकं गदन परुपं वचः। निश्शंकस्य शिरस्तावत्पातयामि रुपे यलिं ॥१८३।।
इत्युक्त्या कोशतः खड्गमानकर्पत्कृतं वियत् । इंदीवरवनेनेव येन व्याप्तं महासरः ॥ १८४॥
कुर्वाण कणनं वाताद्रोपादिव सर्कपनं । नीतकालमिवासनं हिंसाया इब शावकं ॥ १८५ ।।
उद्रूर्ण थायमेतेन वेगादागत्य चांवरं । विभीषणेन संरुद्धः सांत्वितश्चेति सादरं ।। १८६॥
भृत्यस्यास्यापराधः कः क्लीवस्यापहतात्मनः । विक्रीतनिजदेहस्य शुकवानुभाषिणः ।।८७||
हृदयस्थेन नाथेन पिशाचनेव चोदिताः । दूता वाचि प्रवर्तते यत्र देहा इवावशाः ॥१८८ ॥
तत्प्रसीद दयामार्य कुरु प्राणिनि दुःखिते । अर्कोतिरुद्रवत्युलोके क्षुद्रयधे कृते ॥ १८९।।
शिरस्सु विद्विपामेव तब खड्गः पतिष्यति । नहि गइपदान हंतुं वैनतेयः प्रवर्तते ॥ १९० ।।
एवं कोपानलस्तस्य यावत्सद्वाक्यवारिणा।। शममानीयते तेन साधुना न्यायवादिना.॥ १९१ ॥
पादयोस्तावदाकृष्य दूतोऽन्यमुखलक्षितः । क्षिप्रं निष्कासितो गेहाद्धिग्मृत्यं दुःखनिर्मित।।१९२॥
गत्वा वैश्रवणायेयमवस्था तेन वेदिता । दशग्रीवाद्विनिष्कांता वाणी चात्यंतदुःकथा ॥१९३॥
अष्टम पर्व । १८९ पद्मपुराण तयेंधनविभूत्यास्य कोपरन्हिः समुत्थितः । अमात इव सोतेन भृत्यचेत सुवंठितः ॥ १९ ॥ अचीकरच संग्रामसंज्ञां परुपतूर्यतः । रणसज्जा यथा सद्यो मणिभद्रादयः कृताः ।। १९५ ॥ निरेद्वैश्रवणो योढुं यक्षयोधैस्ततो वृतः । विलसत्सायकंत्रासचक्राद्यायुधपाणिभिः ॥ १९६ ॥ स निरांजनक्षोणीधराकारैर्मतंगजैः । संध्यारागसमाविष्टमेघाकारैर्महारथैः ॥ १९७ ॥ प्रस्फुरचामरैरश्वैर्जयद्भिर्जवतोऽनिलं । सुरावाससमाकारैर्विमानैर मुन्नतैः ॥ १९८ ।। लंधिताच विमानेन स्पंदनेनोरुतेजसा । पादातेन च संघट्टमीयुपार्णवराविणा ॥ १९९ ॥ पूर्वमेव च निष्क्रांतो दशग्रीवो महाबलः । भानुकर्णादिभिः सार्धं स्थितो रणमहोत्सवः॥२०॥ गुंजाख्यस्य ततो मूर्ध्नि पर्वतस्य तयोरभूत् । संपातः सेनयोः शस्त्रसंपातोद्गतपावकः ॥२०१॥ कणनेन ततोऽसीनां सप्तीनां हेषितेन च । पदातीनां च नादेन गजानां गजितेन च ॥ २०२।। अन्योऽन्यसंगमोद्भूतरवशब्देन चारुणा । तूर्यस्वरेण चोग्रेण शीत्कारेण च पत्रिणां ॥ २०३ ॥ ध्वनिः कोऽपि विमिथोऽभूत् प्रतिनादेन बोधितः । व्याप्नुवन् रोदसीकुर्वन् भटानां मदमुत्तमं ।। कृतांतवदनाकारैश्वरैः स्फुरितधारकैः । खरेस्तद्रसनाकारैः रक्तसीकरवर्षिभिः ।। २०५ ॥ तद्रोमसन्निभैः कुंमैस्तत्तर्जन्योपमैः शरैः । परिषैस्तद्भुजाकारैस्तनुमुष्टिभिः मुद्गरैः ॥ २०६॥ .
5 अष्टम पर्व। । पद्मपुराणम्। - घभूव सुमहज्जन्यं कृतविक्रांतर्समदं । कातरोत्पादितत्रास शिरःक्रीतयशोधनं ॥ २०७ ।। ततो निजं बलं नीतं खेदं यक्षमटैश्विरान् । साधारयितुमारब्धो दशास्यो रणमस्तकं ॥ २०८॥ अभ्यायांतं च तं दृष्ट्वा सितातपत्रवारणं । कालमेघमिबोदुस्थरजनीकरमंडलं ॥ २०९ ॥ सचापं तमिवासक्तशचीपनिशरासनं । हेमकंटकसंवीतं विद्युतातमिवाचितं ॥ २१ ॥ किरीटं विभ्रतं नानारत्नसंगविराजितं । युक्तं तमिव बजेण छादयते नभस्त्विपा ।। २११ ।। विलक्षावामयन् यक्षा विपण्णाक्षाः क्षतीजसः । परांमुखक्रियायुक्ताः क्षणाक्षीणरणाशयाः २१२ त्रासाकुलितचित्तेषु ततो यक्षपदातिषु । आवर्वमिव यातेषु भ्रमत्सु सुमहारवं ॥ २११ ।। स्वसेनामुखतां जग्मुर्यक्षाणां यहबोधिपाः । पुनरेभिः कृतं सैन्यं रणस्याभिमुखं तथा ।। २१४ ॥ तव उच्छेत्तुमारब्धो यक्षनाथान् दशाननः । उत्पत्योत्पत्य गगने सिंहो मतगजानिव ॥२१५॥ प्रेरितः कोपवातेन दशाननतननपात् । शस्त्रज्वालाकुलः शत्रुसैन्यकक्षे व्यज॑भत ॥ २१६ ॥ न सोऽस्ति पुरुषो भूमौ रथे वाजिनि वारणे । विमाने वा न यच्छिद्रः कृवो दाशाननैः शरैः ततोमिमुखमायांतं दृष्ट्वा दशमुखं रणे । अमजद्धांधवस्नेहं पर वैश्रवणः क्षणात् ।। २१८॥ विपादमतुलं चागान्निदं च नृपश्रियः । यथा बाहुवली पूर्व शमकर्मणि संगते !! २१९!! + अष्टमं पर्व। १९१ . पद्मपुराणम्। विवेदेति च धिक्कष्टं संसारं दुःखभाजनं । चक्रवत्परिवर्तते प्राणिनो यत्र योनिपु ॥ २२० । पश्यैश्वर्यमद्देन किं वस्तु प्रस्तुतं मया । बंधुविधंसनं यत्र क्रियते गर्ववत्तया ॥ २२१ ।। उदानमिति चायोचद् भो भो शृणु दशानन । किमिदं क्रियते पापं क्षणिकश्रीप्रचोदितं ।।२२२॥ मातृश्वसुः सुतोऽहं ते सोदरप्रीतिसंगतः । ततो बंधुषु नो युक्तं व्यवहर्तुमसांप्रतं ॥ २२३ ॥ कत्वा प्राणीवघं जंतुर्मनोनविषयाश्या । प्रयाति नरकं भीमं सुमहादुःखसंकुलं ॥ २२४ ।। यथैकदिवसं राज्यं प्राप्त संवत्सरखधं । पामोति सदृशं तेन निश्चये विपयी सुखं ।। २२५ ॥ चक्षुःपक्ष्मपुटासंगक्षणिक ननु जीवितं । न वेत्सि किं यतः कर्म कुरुते भोगकारणं ॥ २२६ ।। ततो हसन्नुवाचेदं दशास्यः करुणोज्झितः । धर्मश्रवणकालोऽयं न वैश्रवण ! वर्तते ॥ २२७॥ मत्तस्तंबैरमारूढेमंडलायकरैनरैः । क्रियते मारणं शत्रोन्तु धर्मनिवेदनं ।। २२८ ॥ मार्गे तिष्ठ कृपाणस्य किं व्यर्थ बहुमापसे । कुरु वा प्रणिपातं ये तृतीयास्ति न ते गतिः ॥२२९॥ अथवा धनपालस्त्वं द्रविणं मम पालय । कुर्वाणो हि निजं कर्म पुरुषो नैव लज्जते ॥ २३०॥ तनो वैश्रवणो भूय उपाचेति दशाननं । नूनमायुस्तव स्वल्पं रं येनैतिभापसे ।। २३१ ॥ भूयोऽपि मानसं विभ्रचतो रोपणरूपितं । अस्ति चेत्तव सामर्थ्य जहीत्साह दशाननः ॥ २३२ ।।
. अष्टम पर्व । पदापुराणमा १२२ t जगाद स नतो ज्येष्टस्त्वं मां प्रथममाजहि । वीर्यमक्षतकायानां शूराणां नहि वर्धते ॥ २३३ ।। ऊर्च ततो दशास्यस्य धरान् वैश्रवणोऽमुचत् । केरानिवारनेमूर्ध्नि मध्याहे द्योतिषां पतिः २३४ निच्छेद, सायकान् तस्य ततो वाणर्दशाननः । मंडपं च धनं चक्रे क्षणमात्रादनाकुलः ॥२३५।। रंध वैश्रवणः प्राप्य शशांकापुणा ततः । दशास्यस्याच्छिनचापं चके चैत रथच्युतं ॥ २३६ ।। ततोऽन्य रथमारुहा वेगादभोदनिस्वनं । तथासत्वो दशग्रीवो डुढीके पुष्पकातिक ॥ २३७ ।। उल्काकारस्ततस्तेन वनदंर्धनेरितः । कणशः कवचं कीर्ण धनदस्य महारूपा॥ २३८ ॥ हृदये. शुक्लमालेऽयभिंडिमालेन वेगिना । जपान कैकसेयस्त तथा मूर्छामितो यतः ॥ २३९ ।। तनी जातो महादः सन्ये चैश्रवणाधिते । तोपाच रक्षसां सैन्ये जातः कलकलो महान्।।२४०॥ ततो मृत्यै समुदृल वीरशय्याप्रतिष्ठितः । क्षिप्रं यक्षपुर नीतो धनदो भृशदुःखितः ॥ २४१ ।। दशास्योऽपि जितं शटुं वाला निववृते रणात् । वीराणां शत्रुमंगेन कृतत्वं न धनादिना।।२४२।। अथ प्रतिक्रिया चक्रे धनदस्य चिकित्सकैः । प्राप्त पूर्ववदेहमिति चके.स, चेतसि ॥ २४३ ॥ बुमस्य मुक्तपुप्पस्य भग्नस्य वृषभस्य च । सरसश्चाप्यपद्मस्य वर्तेऽहं सदृशोऽधुना ॥ २४४ ।। मानमुद्रहतः घुमो जीवतः संमृता सुखं । तच्च मे सांप्रवं नास्ति तस्मान्मुक्त्यर्थमायते ॥ २४५ ।।
अपम पर्व।
• 1 · १९३
।
पद्मपुराणम्।
एतदर्थ न वांछंति संतो विपयज सुखं । यदेतदध्रुवं स्तोकं सांतराय सदुःखक ॥ २४६ ॥
नागः कस्यचिदप्यस्य कर्मणामिदमीहितं.। समस्त प्राणिजातस्य कृतानामन्यजन्मनि ॥ २४७॥
निमित्तमात्रताऽन्येपामसुखस्य सुखस्य वा । बुधास्तेभ्यो न कुप्यति संसारस्थितिवेदिनः॥२४८॥
कल्याणमित्रतां यातः कैकसीतनयो मम । गृहावासमहापाशायेनाहं मोचितोऽमतिः ।। २४९ ।।
बांधयोभानुकर्णोऽपि संवृत्तः सांप्रतं मम.। संग्रामकारणं, येन, कृतं परमसंविदे ॥ २५० ॥
इति संचिंत्य जग्राह दीक्षां दैगंबरीमसौ । आराध्य च तपः सम्यक् क्रमाद्धाम परं गतः ॥२५१॥
प्रक्षाल्य दशवक्त्रोऽपि पराभवमलं कुले । सुखासिकामगादुा बंधुभिः शेखरीकृतः ।। २५२ ॥
अथापवर्तितं तस्य मनोज्ञ धानदाधिपं । प्रत्युप्तरत्नशिखरं वातायनविलोचनं ॥ २५३ ॥
मुक्ताजालनमुक्तेन समूहेनामलत्विषा । समुत्सृजदिवाजस्रमथु स्वामिवियोगतः ।। २५४ ॥
पद्मरागविनिर्माणमादेशं दधच्छुचा । ताड़नादिव संप्राप्त हृदयं रक्ततां परं ॥ २५५ ॥
इंद्रनीलप्रभाजालकृतं प्रावरण कचित् । शोकादिव परिप्राप्त श्यामलत्वमुदारतः ॥२५६ ॥
चैत्यकाननवाखालीवाप्यंतर्भवनादिभिः । सहित नगराकारं नानाशस्त्रकृतक्षतं ।। २५७ ॥
भृत्यैरुपाहृतं तुंगं सुरप्रासादसन्निभं । विमानं पुष्पकं नाम विहायस्तलमंडनं ॥२५८ ॥
.
अष्टमं पर्व ।
"
पद्मपुराणम्।
अथासावन्यदापृच्छत् सुमालिनमुदद्भुतः । उच्चैगंगनमारुहो विनयानतविग्रहः ।। २७२ ॥
सरसीरहितेऽमुग्मिन् पूज्यपर्वतमूर्धनि । वनानि पश्य पद्माना जातान्येतन्महाद्भुतं ॥ २७३ ॥
तिष्ठति निश्चलाथामी कथमत्र महीतले । पतिता विविधच्छायाः सुमहांतः पयोमुचः ।। २७४ ॥
नमः सिद्धेभ्य इत्युक्त्या सुमाली तमथागदत् । नामुनि शतपत्राणि नचैते वत्स तोयदाः॥२७५।।
सितकेतुकतच्छायाः सहस्राकारतोरणाः । शृंगेषु पर्वतस्यामी विराजते जिनालयाः ॥ २७६ ।।
कारिता हरिपेणेन सज्जनेन महात्मना । एतान् वत्स नमस्य त्वं भव पूतमनाः क्षणात् ॥२७७॥
ततस्तत्रस्थ एवासौ नमस्कृत्य जिनालयान् । उवाच विस्मयापन्नो धनदस्य विमर्दकः ।।२७८॥
आसीरिक तस्य माहात्म्य हरिपेणस्य कथ्यतां । प्रतीक्ष्यतम येनासौ भवद्भिरिति कीर्तितः॥२७९॥
सुमाली न्यगदचैवं साधु पृष्टं दशानन । चरितं हरिपेणस्य श्रृणु पापविदारणं ॥ २८०॥
कांपिल्यनगरे राजा नाम्ना मृगपतिध्वजः । बभूव यशसा व्याप्तसमस्तभुवनो महान् ॥ २८१ ॥
महिपी तस्य वग्राहा प्रमदा गुणशालिनी । अभूत्सौभाग्यतः प्राप्ता पत्नी सा ललामतां ॥२८२॥
हरिपेणः समुत्पन्नस्स ताभ्यां परमोदयः । चतुःपष्ठिशुभैयुक्तो लक्षणः क्षतदुष्कृतः ।। २८३ ॥
वप्रया चान्यदा जने मते भ्रमायितुं रथं । अष्टान्हिकमहानंदे नगरे धर्मशीलया ॥ २८४ ॥
. 4 . 4 . 1 पद्मपुराणम् । अष्टम पर्व। महालक्ष्मीरिति ख्याता सौभाग्यमदविह्वला । अवृत्तमवदत्तस्याः सपत्नी दुर्विचेष्टिता ।। २८५ ।। पूर्व ब्रह्मरथो यातु मदीयः पुरवम॑नि । भ्रमिष्यति ततः पश्चाद्वप्रया कारितो रथः ॥ २८६ ॥ इति श्रुत्वा ततो वा कुलिशेनेव ताडिता । हृदये दुःखसंतप्ता प्रतिज्ञामकरोदिमा ॥ २८७ ॥ भ्रमिष्यति रथोऽयं मे प्रथम नगरे यदि । पूर्ववत्पुनराहारं करिष्येतोऽन्यथा तु न ।।२८८ ।।। इत्युक्त्वा च वयंधासौ प्रतिज्ञा लक्ष्मवेणिकां । व्यापाररहितावस्था शोकम्लानास्यपंकजा।।२८९॥ तत श्वासान्विमुचंतीमथुबिंदूननारतं । हारेपेणः समालोक्य जननीमित्यवोचत.॥ २९० ॥ .. मातः कस्मादिदं पूर्व स्वमेऽपि न निषेवितं । खया रोदनमारब्धममंगलमलं वद.।। २९१ ।। तयोक्तं स ततः श्रुत्या हेतुमेवं व्यचिंतयत् । किं करोमि गुरोः पीडा प्राप्तेयं कथमीरिता।।२९२।। पिताय जननी चैपा द्वावप्येती महागुरू । करोमि के प्रति द्वेपमहो मनोऽस्मि संकटे ॥ २९३ ।। असमर्थस्ततो दृष्टुं मातरं साथुलोचनां । निष्क्रम्य भवनाद्यातो वनं व्यालशमाकुलं ।। २९४ ॥ तत्र मूलफलादीनि भक्षयन्विजने वने | सरस्सु च पिपन्नभो बिजहार भयोज्झितः ॥ २९५ ।। रूपमेतस्य तं दृष्ट्वा पशवोऽपि सुनिर्दयाः । क्षणेनोपशम जग्मुभव्यः कस्य न सम्मतः ॥ २९६ ॥ तत्रापि स्मर्यमाणं तत्कृतं मात्रा प्ररोदनं । बवाधत्तं प्रलापक्ष कृतो गद्गदकंठया ॥२९७।।
अष्टम पर्व। +- . ! , २९७ . पद्मपुराणम् । -- - रम्येष्वपि प्रदेशेषु वने तत्रास्य नो धृतिः । बभूव कुर्वतो नित्यं भ्रमणं मृदुचेतसा ।। २९८ ॥ वनदेव इति भ्रांतिं कुर्वाणोऽसावनारतं । रिविस्तारिताक्षीभिZगीभिः कृतवीक्षणः ।। २९९ ।। स इयायांगिरःशिष्यशतमन्युवनाश्रमं । विरोधं दूरसुज्झित्वा वनप्राणिभिराश्रितं ॥ ३० ॥ चंपायामथ रुद्धायां कालकल्पाख्यभूभृता । रुद्रेण साधनं भूरि विभ्रता पुरुतेजसा ।। ३०१ ॥ यायत्तेन समं युद्धं चकार जनमेजयः । पूर्व रचितया तावत्सूदूरगसुरंगया ॥ ३०२ ॥ नाम्ना नागमती तस्या माता तनुजया समं । पूर्वमेव मता देशं शतमन्युयतिश्रितं ॥ ३०३.॥,. नागवत्याः सुता तस्मिन् दृष्ट्वा तं रूपशालिनं । मन्मथस्य शरैर्विद्धा तनुविक्लवताकरैः ॥३०४॥ ततस्तामन्यथाभूतां दृष्ट्वा नागवती जगौ । सुते ! भर विनीता त्वं स्मर वाक्यं महामुनेः।।३०५।। पूर्व हि मुनिना प्रोक्तं यथा त्वं चक्रवर्तिनः । भविता वनितारत्नमिति संज्ञानचक्षुपा ॥३०६॥ रक्तां च तस्य तां ज्ञात्वा भृशं भीतैरकीर्तितः । आश्रमाचापसमूहरिपेणो निराकृतः ॥ ३०७ ।। वतो दग्धोपमानेन कन्यामादाय चेतसा । वभ्राम सततं लिप्टो भ्रामयैव स विद्यया ॥ ३०८॥ नाशने शयनीयेन पुष्पपल्लवकल्पिते । फलानां भोजने नैव पाने वा सरसोऽभसः॥३०९॥ न ग्रामे नगरे नोपवने रम्पलताग्रहे । धृति लेभे समुत्कंठभराक्रांतः सशोकवान् ॥ ३१०।।
- + पद्मपुराणम्। अधर्म पर्व। दाराग्निसशास्तेन पद्मसंडा निरीक्षिताः । वज्रसूचीसमास्तस्य बभूवुचंद्ररश्मयः ॥ ३११ ।। विशालपुलिनायास्य स्वच्छतोयाः समुद्रगाः । मनो वहति चाप्य कन्याजघनसाम्यतः॥३१२।। मनोभ्स्य केतकीमूचीकुंनयष्टिरियमिनत् । चक्रपञ्च कदवाना पुप्प सुरभि चिच्छिदे ॥३१॥ कुटजानां विधूतानि कुसुमानि नमस्वता । मर्माणि चिच्छिदुस्तस्य मन्मथस्यैव सायकाः॥३१॥ यदि चाचितयल्लप्प्ये स्त्रीरत्नं यदि नाम तत् । ततः भोकमहं मातुरपनेष्याम्यसंशयं ।। ३१५ प्रातमेव ततो मन्ये पवित्वं भरतेऽखिले । आकतिर्नहि सा तस्याः स्तोकमोगविधायिनी॥३१६।। नदीलंघरण्येमु ग्रामेषु नगरेणु च । पर्वतेषु च चैत्यानि कारयिष्याम्यहं ततः ॥ ३१७ ॥ मातुः शोकेन संतप्तो मृतः स्यां यदि तामहं । न पश्येयं धृतो जीयो मम तत्संगमाशया ॥३१८॥ चिंतयनिति चान्यच बहुदाखितमानसः । विस्मृतो जननीशोकं स वश्राम गृही यथा ॥३१९॥ पर्यटन यहून् देशान् प्राप्तः सिंधुनदं पुरं । तदवस्योऽपि वीर्येण तेजसा चारुणान्वितः ॥३२०॥ बहिः क्रीडा विनिष्क्रांतास्तत्र तं वीक्ष्य योषितः । स्तमिना इन निश्चेष्टा स्पष्टाक्षाशतशोऽभवन् पुंडरीकेक्षणं मेरुकटकोदारवक्षसं । दिन्नतंगजकुंमांसमिभस्तंभसमोरुकं ।। ३२२ ।। उन्मत्तत्वमुपेतानामनन्यगतचेतसां । पश्यंतीनां न तं तृप्तिर्वभूव पुरयोषितां ।। ३२३ ।। 7 1
अप्रम पर्व ।
पद्मपुराणम्।
अथांजनगिरिच्छायः प्रगलदाननिर्भरः । आजगाम गजस्तासां स्त्रीणानभिमुखो बलात् ।।३२४॥
न शक्नोमि गजं धर्तु कुरुताशु पलायनं । यदि शक्नुवतो नार्य इत्यारोहेण चोदितं ।। ३२५ ॥
नरवृंदारकासक्तचेतनास्ता न तद्वचः । चक्रुः श्रवणयोर्नापि समर्थाः प्रपलायितुं ।। ३२६ ॥
मुहुः प्रचंडमारोहे ततो रटति चेतितं । वनिताभिर्बभूवुश्च भयव्याकुलचेतसः ॥ ३२७ ।।
ततस्ताः शरणं जग्मुस्तं नरं कृतकंपनाः । भयेनोपकृतं तासां तत्समागमचेतसां ।। ३२८ ।।
ततः स करुणायुक्तो हरिपेणो व्यचिंतयत् । संभ्रांतोत्तमरामांगसंगमात्पुलकांचितः ॥ ३२९ ॥
इतः सिंधुगंभीरोऽयमितः शालो गजोऽन्यतः । संकटे तु परिप्राप्ते करोमि प्राणिपालनं ॥३३०॥
वृपः खनति वल्मीकं श्रृंगाभ्यां नतु भूधरं । पुरुषः कदली छिते सायकेन शिलां तु न ॥३३१।।
मृदुं परामवत्येप लोकः प्रखलचेष्टितः । उद्वत्याप्यसुखं कर्तुं नाभिवांछति कर्कशे ॥ ३३२ ॥
क्लीवास्ते तापसा येन क्षमा तेषां मया कृता । सारंगसमवृत्तीनां निर्वासेन कृतागसा ॥३३॥
वसता गुरुगेहेपु क्षमात्यंतगरीयसी । कृता सा हि हितात्यंतं संजाता परमोदया ॥ ३३४ ॥
उक्तमेवं ततस्तेन तारनिष्ठुरया गिरा । भो भो हस्तिपकान्येन नय देशेन वारणं ॥ ३३५ ॥
ततो हस्तिपकेनोक्तमहो ते धृष्टता परा । यन्मनुष्यं गजं वेत्सि स्वं च वेत्सि मतंगजं ॥३३६॥
मम पर्व . २०० १ . पद्मपुराणम् । -- . नूनं मृत्युसमीपोऽसि यन्मदं यहसे गजे । गृहण या गृहीतोऽसि व्रजासादाशुगोचरात् ॥३३७॥ विहस्य स ततः कोपालीलया कृतनर्तनः । सांतयित्वांगनाः कृत्वा पृष्टतो गजमभ्यगात्।।३३८|| विद्युद्विलमितेनासा करुणेन ततो नमः । उत्पत्य दशने पादं कृत्वा रुक्षन्मतंगजं ॥ ३३९ ॥ ततः क्रीडितुमारेभे गजेन सह लीलया | दृष्टनष्टसमस्तेषु गात्रेयस्य पुनर्भुवि ॥ ३४०॥ पारपर्यतः श्रुत्वा कृत्वा कलकलं महत् । विनिष्क्रांत पुरं सर्व दृष्टुमेतन्महाद्भुतं ॥ ३४१ ।। वातायनगताशेक्षां चक्रिरे तं महांगनाः । चंकुमेनोरथान कन्यास्तत्समागमसंगतान् ॥ ३४२ ॥ आस्फालनमहाशब्दैर्मुहुर्गात्रविधुननैः । कृतोऽसौ निर्मदस्तेन क्षणमात्रेण कारंणः ॥ ३४३ ॥ हर्म्यपृष्ठगतो दृष्ट्वा तदाश्चर्य पुराधिपः । सिंधुनामाऽखिलं तस्मै प्रजिघाय परिच्छदं ।। ३४४ ।। तथा कुधाकृतच्छाये नानावर्णकमासुरे । आरूदः स गजे तसिन् विभूत्या परयान्वितः॥३४५।। मनांसि पोरनारीणांमुश्चिन्वन् रूपपाणिना । प्रविवेश पुरं स्वेदबिंदुमुक्ताफलान्वितः ॥३४६ ।। नराधिपस्य कन्यानां परिणीतं ततः शतं. तेन सर्वत्र चासक्ता हरिपेणमयी कथा ॥ ३४७॥ महातमपि संग्राप्त सन्मानं स नरेश्वरात् । स्त्रीरत्नेन विना मेने तां वर्षमिव शर्वरी ।। ३४८ ॥ अचिंतयच नूनं सा मया विरहिवाधुना । मृगीवाकुलता प्राप्ता परमां विपमे बने ॥ ३४९ ।। .
२०१" अष्टमं । पर्य। पद्मपुराणम्।। सकृदेषा कथंचिचेव त्रियामा क्षयमेष्यति । गमिष्यामि ततो वालामेतां द्रागनुचिंतनं ॥३५०॥ विचिंतयत्येवमेतस्मिन् शयनीयेतिशोभने । चिरेण निद्रया लब्धं पदमत्यंतकृच्छूतः ॥ ३५१ ॥ स्वमेऽपि च स तामेव ददाभोजलोचना । प्रायो हि मानसस्यास्य सेव गोचरतामगात् ॥३५२॥ अथ वेगवती नाम्ना कलागुणविशारदा । खेचराधिपकन्यायाः सखी तमहरत्क्षणात् ॥.३५३ ॥ ततो निद्राक्षये दृष्ट्वा ह्रियमाणं स्वमंबरे । पापे हरसि मां कस्मादितिव्याहृत्य कोपतः ॥३५४॥ दृष्टनिश्शेषताराक्षः संदप्टरदनच्छदः । मुष्टिं वबंध तो हंतुं वनमुद्गरसन्निमां ॥ ३५५.॥ :.: ततस्तं कुपितं दृष्ट्वा पुरुष चारुलक्षणं । विद्यावलसमृदापि शंकिता सेत्यभापत ॥ ३५६ ।। आरुदस्तस्शाखायो छिन्ने तस्था यथा नरः । मूलं तथा करोपि त्वं ममायुप्मन् विहंसनं ॥३५७॥ यदर्थ नीयते तात त्वं मया तद्तो भवान् । सत्यं ज्ञास्यसि नह्यस्य वपुपस्तवं दुःखिता ॥३५८!! अचिंतयच्च मदेयं वनिता चारुभापिणी । आकृतिः कथयत्यस्याः परपीडोनिवृत्ततां ॥ ३५९ ॥ यथेदं स्पंदते,चक्षुर्दक्षिणं मम सांप्रतं । तथा च कल्पयाम्येपा प्रियसंगमकारिणी ।। ३६० ॥ पुनश्चानेन सा पृष्टा भद्रे ! वेदंय कारणं । ललामसंकथासंगाद की तावत्प्रतपेय ।। ३६१ ॥ जगाद चेति राजास्ति पुरे सूर्योदये परे । नाम्ना शक्रधनुस्तस्य भायों धीरिति कीर्तिता।।३६२।। '.
॥ आटम पर्व। . २०२ पद्मपुराणम् । गुणरूपमदग्रस्ता जयचंद्रा तयोः सुता । पुरुपद्वेपिणी जाता पितृवाक्यापकर्पिणी ॥ ३६३ ।। यो यस्तस्पा मयाऽऽलिख्य पट्टके दर्शितः पुरा । सकले भरतक्षेत्रे नासौ तस्या रुचौ स्थितः३६४ ततो भवान् मया तस्या दर्शितः पट्टकस्थितः । गादाकल्पकशिल्पेन शल्यिता चेदमब्रवीत् ३६५ कामभोगापमानेन समं यदि न युज्यते । मृत्युं ततः प्रपत्स्येऽहं नत्वन्यमधमं नरं ॥३६६ ।। यदि तं नानयेच्छीघ्रं त्वन्मानसमलिम्लुचं । ज्वालाजटालमनलं प्रविशामि ततः सखि ॥३६७॥ प्रतिज्ञा च पुरस्तस्या मयेयं दुष्करा कृता । शोकमत्युत्कटं दृष्ट्वा तद्गुणाकृष्टचित्तया ॥ ३६८ ।। प्रतिज्ञायेति पुण्येन प्राप्तेति महता मपा । स्वत्प्रसादाकरिष्यामि प्रतिज्ञां फलसंगतां ॥३६९ ।। सूर्योदयपुरं चैपा प्रासा स च निवेदितः । आनीतः शक्रचापाय कन्याय च मनोहरः ।। ३७० ।। ततः पाणिग्रहश्यक्रे तयोर तरूपयोः । विस्मयापन्नचेतीभिः स्वजनैरभिनंदितः ॥ ३७१ ॥ संपादिवप्रतिज्ञा चे प्राप्ता वेगवतो परं । सन्मानं राजकन्याभ्यां प्रमदं च तथा यशः ॥ ३७२॥ त्यत्या नौ धरणीवासो गृहीतः पुरुषोऽनया । इति संचित्य कुपितौ तस्या मेथुनिकोचितौ॥३७३॥ अवांछता रणं कर्तुं महासाधनसंयुतौ । दूषितावपमानेन गंगाधरमहीधरौ ॥ ३७४ ॥ ततः शक्रपनुः साकं सुचापाख्येन सूनुना । हरिपेणं जगावं करुणासक्तचेतनः ।। ३७५ ।।
अष्टम पर्व । पद्मपुराणम् ।। २०३ -- - तिष्ठ त्वमिह जामातः सख्यं कर्तुं व्रजाम्यहं । स्वनिमित्तं रिपुक्रुद्धौ दुवृत्तौ दुःखचारणौ ॥३७६॥ सित्वा ततो जगादासौ परकार्येसु यो रतः । कार्ये तस्य कथं स्वामिन्नौदासीन्य भविष्यति३७७ कुरु पूज्यप्रसादं मे यच्छ युद्धाय शासनं । भृत्यं मत्सदृशं प्राप्य स्वयं किमिति युध्यसे ।।३७८॥ ततोऽमंगलभीतेन वांछताप्यनिवारितः । श्वसुरेण कृतासंगमश्वैः पवनगामिभिः ॥ ३७९ ॥ अखर्नानाविधैः पूर्ण सुरिसारथिनेतृकं । वेष्टितं योधचक्रेण हरिषेणो रथं ययौ ॥.३८० ॥ तस्य चानुपदं जग्मुरश्वैर्नागैच खेचराः । कृत्वा कलकलं तुंगं शत्रुमानसदुस्सहं ॥ ३८१ ॥ ततो महति संजाते संयुगे शूरधारिते । भग्नं शक्रधनुःसैन्यं दृष्टा चाप्रेय उत्थितः ॥ ३८२ ॥ ततो यया दिशा तस्य प्रावर्तत रथोत्तमः । तस्य नाश्वो न मातंगो न मनुष्यो रथो न च ॥३८३।। शरैस्तेन समं युक्तररातिबलमाहतं । जगाम काप्यनालोक्य पृष्ठ स्खलतिजूतिकं ॥ ३८४ ॥ पृथुवेपथवः केचिदिदमूचुर्भयार्दिताः । कृतं गंगाधरेणेदं भूधरेण च दुर्मतं ॥ ३८५ ॥ अयं कोऽपि रणे भाति सूर्यवत्पुरुषोत्तमः । करानिव शरान्मुंचन् सर्वाशासु समं बहुन् ॥३८६।। ध्वंस्यमानं ततः सैन्यं दृष्ट्वा तेन महात्मना । गतौ क्वापि भयग्रस्तौ गंगाधरमहीधरौं ॥३८७॥ ततो जातेपु रत्नेषु तत्क्षणं सुकृतोदयात् । दशमो हरिपेणोऽभूच्चक्रवर्ती महोदयः ॥ ३८८ ।।
-अष्टमं पर्य। २०४ पद्मपुराणम्। ។ तथापि परया युक्तवकलांछनया श्रिया । रहिवं मदनावल्याः स्वं स मेने तृणोपमं ।। ३८९ ॥ ततः गंवाहयन् ग्रामो वलं दादरायोजनं । स तापमवनोद्देश नमयन् सर्वविद्विपः ॥ ३९० ॥ ततः स तापमतिर्विज्ञाय फलपाणिमिः । दत्तार्पः पूजितो वाक्यैराशीर्दानपुरस्सरः ॥ ३९१ ।। शतमन्योश्च पुत्रेण जनमेजयरूदिना । नुष्टया नागवत्या च स कन्यास्मै समर्पिता ॥ ३९२ ॥ विधिना च ततो वृत्तं तयोर्ववाहमंगलं । प्राप्य चैतां पुनर्जन्म प्राप्त मेने नृपोत्तमः ॥ ३९३ ॥ ततः कोपिल्यमागत्य युक्तचक्रधरश्रिया । द्वात्रिंशता नरेंद्राणं सहस्राणां समन्वितः ।। ३९४ ॥ शिरमा मुकुटन्यस्तमणिप्रकरभासिना । ननाम चरणौ मातुर्विनीतो रचितांजलिः ॥ ३९५ ॥ ततस्तं तद्विधं दृष्ट्वा पुत्रं वा दशानन । संभूना न स्वगात्रेषु तोपाचव्याप्तलोचना ॥ ३९६ ।। ततो भ्रामयता तेन मूर्यवर्णान् महारथान् । कांपिल्यनगरे मातुः कृतं सफलमीप्सितं ॥ ३९७ ॥ श्रमणश्रावकाणां च जातः परमसंमदः । वयश्व परिप्राप्ता शासनं जिनदेशितं ॥ ३९८ ।। तेनामी कारिता भौति नानावर्णजिनालयाः । भूपर्यंतनदीसंगपुरग्रामादिपूनताः ।। ३९९ ॥ कृत्वा चिरमसौ राज्यं प्रयुज्य मुमहामनाः । तपः कृत्या परं प्राप्तत्रिलोकशिखरं विभुः॥४०॥ हरिपेणस्य चरितं श्रुत्वा विस्मयमागतः । कृत्या जिननमस्कारं दशास्यः प्रस्थितः पुनः॥४०११)
अष्टमं पर्व।
२०५
।
-
पद्मपुराणम् ।
,
अथ विज्ञाय जयिनं दशवक्त्रं दिवाकरः । नेत्रयोर्गोचरीभावं भयादिव समत्यजत् ॥ ४०२॥
संध्यारागेण चच्छन्नं समस्तं भुवनांतरं । संजातेनानुरागेण कैकसैयादिवोरुणा ॥४०३ ।।
ध्वस्तसंध्येन च व्याप्तं ध्वांतेन क्रमतो नमः । दशास्यस्येव कालेन कर्तुमेतेन सेवनं ॥ ४०४।।
सम्मेदभूधरस्यांते ततः संस्थलिभूभूतः । चकार शिविरं कक्षाववतीर्य नभस्तलात् ।। ४०५॥
धनौधादिय निर्याताः प्रावृपेण्यादथ घनिः । येन तत्सकलं सैन्यं कृतं साध्वसपूरितं ॥ ४०६ ।।
भंगमालानवृक्षाणां चक्रुस्तवेरमोत्तमाः । हेपितं सप्तयश्चोचैरुत्कर्णाः स्फुरत्वचः ॥ ४०७ ॥
किं किमेतदिति क्षिप्रं जगाद च दशाननः । अपराधमिषेणायं मतुं कोऽद्य समुद्यतः ॥ ४०८ ।।
नूनं वैश्रवणः प्राप्तः सोमो वा रिपुचोदितः । विश्रब्धं वा स्थितं मत्वा ममान्य शत्रुगोचरः ४०९
तदादिष्टः प्रहस्तोऽथ तं देशं समुपागतः । अपश्यत्पर्वताकारं लीलायुक्तमनेकपं.॥ ४१०॥
निवेदितं ततस्तेन दशास्याय सविसयं । महाराशिमिवांब्दानां देव ! पंश्य मतंगजं ॥ ४११.।।
ईक्षितः पूर्वमप्येप दंतिदारको मया । इंद्रेणाप्युज्झितो धर्तुमसमर्थेन वारणः ॥ ४१२ ॥ ।
मन्ये पुरंदरस्यापि दुग्रहोऽयं सुदुस्सहः । गजः किमुत तुंगोजाः शेषाणां प्राणधारिणां ॥४१३॥
ततः प्रहस्य विश्रब्धं जगाद धनदार्दनः । आत्मनो युज्यते कर्तुं न प्रहस्त! प्रशंसनं ॥ ४१४ ॥
अष्टम पर्व। + . पशपुराणम्। २०६ एतावत्तु अवीम्येवी भुजी केयरपीडिती । छिनमि न क्षणादेनं यदि गृहाम्यनेकपं ॥४१५॥ वतः कामगमारुह्य विमानं पुष्पकाभिधं । गत्वा पश्यति तं नागं सल्लक्षणसमन्वितं ॥ ४१६॥ स्निग्धंद्रनीलसंकाशं राजीवप्रभतालुकं । दीर्घवृत्ती सुधाफेनवलक्षौ विभ्रत रदौ ।। ४१७ ॥ हस्तानां सप्तकं तुंगं दशकं परिणाहतः । आयामतश्च नवकं मधुपिंगललोचनं ॥ ४१८॥ निममवंशममांगतुंगमायातवालधि । द्रापिष्टकरमत्यंतस्निग्धपिंगनखांकुरं ॥ ४१९ ।। वृत्तं पीनमहाकुंभ सुप्रतिष्ठांघ्रिमूर्जितं । अंतर्मधुरधीरोरुगर्जितं विनयस्थितं ॥ ४२० ।। गलद्डस्थलामोदसमाकृष्टालिवेणिकं । कुर्वतं दुंदुभिध्यानं कर्णवालांतताडनैः ।। ४२१ ॥ भनायकाशमाकाशं कुर्वाणमिव पार्थवां । लीलां विदधतं चित्तचक्षुधोरणकारिणी ॥ ४२२ ॥ दृष्ट्वा च तं परां प्रीति प्राप रत्नश्रवःसुतः । कृतार्थमिव चात्मानं मेने हृष्टतनूरुहः ॥ ४२३ ॥ ततो विमानमुज्झित्रा रद्धा परिकर दई । शंखं तस्य पुरो दध्मौ शब्दपूरिचविष्टपं ॥ ४२४ ॥ ततः शंखस्वनोदभूतचित्तक्षोभः स गर्जितः । करी दशमुखोद्देशं चलितो पलगर्वितः ।। ४२५ ।। वेगादभ्यायतस्यास्य पिंडीकृत्य सितांगुकं । उत्तरीयं च चिक्षेप क्षिनं विभ्रमदक्षिणः ॥ ४२६ ॥ देती जिप्रति तं यावत्तावदुत्पत्त्य गडयोः । अस्पृशयक्षमर्दस्तं ,गौषध्वनिचंडयोः ।। ४२७ ॥
पद्मपुराणम् । २०७ अहमं पर्व। करेण वेष्टितुं यावच्चक्रे वांछो मतंगजः । तायदंष्ट्रांतरेणासौ निस्स्तो लाघवान्वितः ॥ ४२८ ॥ अंगेषु च चतुर्वस्य स्पृशन् दंततले मुहुः । भ्रांतिविद्युच्चलचके प्रेखणं रदनाप्रयोः ॥ ४२९ ॥ अथास्य पृष्ठमारुह्य सपिलासं दशाननः । विनीतश्च स्थितो दंती सच्छिष्य इव तत्क्षणात्।।४३०॥ ततः सकुसुमा मुक्ताः साधुवादा मुहुः सुरैः । सशब्दा च महामोद प्राप्ता खेचरवाहिनी॥४॥ त्रिलोकमंडनाभिख्यां प्रापायं दशवक्त्रतः । त्रैलोक्यं मंडितं तेन यतो मेने स मोदवान् ॥४३२॥ महोत्सवः कृतस्तस्य लाभे परमदंतिनः । नृत्यद्भिः पर्वते रम्ये खेचरैः पुष्पसंकुले ॥ ४३३ ॥ तथैपां जाग्रतामेप मर्यादामात्रकारणं । कृतः प्रभाततूर्येण नादो गहरपेशलः ॥ ४३४ ॥ दिवसेन ततो विम्ब रवः कलशमंगलं । उपनीतं दशास्याय सेवाकौशलवदिना ॥ ४३५ ॥ ततः सुखासनासीने विहितस्वांगकर्मणि | स्थिते दशमुखे दंतिकथया खेचरावृते ॥ ४३६ ॥ सहसा वियता प्राप्तः पुरुषः पुरुवेपथुः । स्वेदविंदुसमाकीर्णः संभ्रांतः खेदमुद्वहन् ।।४३७॥ संप्रहारवणः साश्रुर्दर्शयजर्जरां तनुं । व्यज्ञापयञ्च कृच्छ्रेण ललाटे धारयन् करौ ॥४१८॥ दशमेहि दिनादस्माञ्चित्ते कृत्वा भवरलं । अलंकारपुरावासानिष्कम्योत्साहतोऽधिकात्।।४।९।। निजगोत्रक्रमायातं नगर किंकुसंज्ञकं । गृहीतुं भ्रातरौ यात्री सूर्यक्षेरजसावुभौ ।। ४४० ।।
+ H • .२०८ . - . [1 • अपम पर्व। पद्मपुराणम् महाभिमानर्मपत्री महावलसमन्विता । विश्रब्धी भवतो गर्यान्मन्यमानौ तृणं जगत् ।। ४४१ ।। एताभ्यां चोदितः क्षुब्धो नितांत विपुलो जनः । अवस्कंदन संपत्य प्रचक्रे किंकुलंटनं ॥४४२॥ कृतांतस्य तनो गोदुमुच्छूिता भटसत्तमाः । स्वमययत्पुरो दृष्टा हेविव्यापृतपाणयः ।। ४४३ ॥ नतस्तेषां महान् जातो मध्येगरि संयुगः । अन्योन्यशास्त्रसंपातकृतभूरिजनक्षयः ॥ ४४४ ॥ श्रुत्वा कलकलध्यान स्वयं योदुमयादरात् । यमः क्रोधेन निष्कांतः संक्षुब्धार्णवदारुणः॥४४५।। आयातमात्रणव तेन दुस्सहतेजसा । अस्मदीयं बलं मनं विविधायुधविक्षतं ॥ ४४६ ।। अथामो कथयन दूतो मूर्छामुपागतः । बीजितय पटांतेन प्रबोधं पुनरागतः ॥४४७॥ :: किमेतदिति पृष्टच हृदयस्थकरोऽवदद । जानामि देव तत्रैव वर्नेहमिति मूर्छितः ॥ ४४८ ॥ नतस्तत इति प्रोक्त ततो विस्मयवाहिना । रत्नश्रवःसुतेनासी विश्रम्य पुनरत्रवीत् ।। ४४९ ॥ ततो नाथ वलं दृष्ट्वा नितांतातरवाकुलं । निजमक्षरजा भग्नं वत्सलो योदुमुच्छ्रितः ॥ ४५० ।। चिरं च कृतसंग्रामो यमेनातिवलीयसा । चेतसा भेदमप्राप्तो गृहीतः शत्रुवंचितः ।। ४५१ ।। उचिती युध्यमानेऽस्मिन्नथ सूर्यरजा अपि । चिरं कतरणो गादग्रहारो मूर्छितो भृशं ॥ ४५२ ।। उद्यम्य क्षिप्रमात्मीयः सामतर्मेखलावनं । नीत्राश्वासनमानीतः शीतचंदनवारिणा ॥ ४५३ ।।।
२०९. पद्मपुराणम् । • अपमं पर्व। -- + यमेन स्वयमात्मानं सत्यमेवावगच्छता । कारितं यातनास्थानं वैतरण्यादिपूर्वकं ।। ४५४ ॥ ततो ये निर्जितास्तेन संयतींद्रेण वा जिताः । प्रेपिता दुःखमरणं प्राप्यते तत्र ते नराः ॥४५५॥ वृत्तांतं तमहं दृष्ट्वा कथमप्याकुलाकुलः । संभूतो दयितो. भृत्यः क्रमादृक्षरजःकुले ॥ ४५६ ॥ नान्ना शाखावलीपुत्रः सुश्रोणीरणदक्षयोः । कृत्वा पलायनं प्राप्तो भवतखातुरंतिकं ॥ ४५७ ॥ इति स्वपक्षदौस्थित्यमवगम्यं मयोदितं । देव प्रमाणमत्रार्थे. कृत्योऽहं त्वनिवेदनात् ॥ ४५८ ।। ' णभंग ततस्तस्य, कर्तुमादिश्य सादरे । उच्चचाल महाक्रोधः स्मितं कृत्वा दशाननः ॥ ४५९॥ जगाद चोधतान् क्लेशमहार्णवमुपागतान् । वैतरण्यादिनिक्षिप्तान् वारयाम्यसुधारिणः ॥४६॥ अग्रस्कंधेन चोदाराः प्रहस्तप्रमुखा नृपाः । प्रवृत्ताः शस्त्रतेजोभिः कुर्वाणा ज्वलितं नमः ॥४६१॥ विचित्रवाहनारूदाश्छत्र ध्वजसमाकुलाः । तूर्यनादसमुद्भूतमहोत्साहा, महौजसः ।। १६२ ।। तथा गगनयात्राणां क्षिति प्राप्ताः पुरांतिकां । शोभया गृहपंक्तीनां परमं विस्मयं गताः॥४६॥ दिशि किप्फुपुरस्याथ दक्षिणास्यां दशाननः । ददर्श नरकावासगाक्षिप्ता नृसंहतीः ॥ ४६४ ।। कृत्वा नरकपालानां ध्वंसनं दुःखसागरात् । उत्तारितास्ततः सर्वे बंधुनेवानां जनाः॥ ४६५ ॥ श्रुत्वा परवलं प्राप्त साटोपो नाम वीर्यवान् । निर्ययौ सर्वसैन्येन प्रक्षुब्ध इव सागरः॥ ४६६ ॥ १४
पद्मपुराणम्।
२१०
अष्टम पर्व।
द्विपैनिरिनिमीमैनिधारांधकारिभिः । तुरंगैश्च चलधारुचामरप्राप्तभूषणः ।। ४६७ ॥
स्थैरादित्यसंकाशैर्ध्वजपंक्तिविभूपिवैः । पिनद्धकवचैः शस्त्रभेटैवीरैरधिष्ठितः ।। ४६८ ।।
ततस्तं स्पंदनाख्दो हंसनैः सुभदं क्षणात् । मंग विभीषणो निन्ये वाणैरणविशारदः ॥ ४६९ ।।
यमस्य किंकरा दीना कुर्वाणा खमायतं । वाणैः समाहताथ, क्षिप्रं क्यापि पलायनं ।। ४७० ॥
मोचितान् नारकान श्रुत्वा साटोपं चावसादितं । यमो यम इव क्रूरो महाशवाटवीं गतः ४७१
रथोत्साहःसमारुह्य चाप कोपं च धारयन् । उच्छ्रितेन प्रतापेन ध्वजेन च महापलः॥ ४५२ ॥
आकुलासितसभिभुकुटीकुटिलालकः । चक्षुपात्यतरक्तेन दहन्निव जगद्वनं ॥,४७३ ।।
प्रतिविम्बैरियात्मीयः सामनैः कवयेष्टनः । योढुं वेगानिचक्राम छादयन् तेजसा नमः॥ ४७४।।
ततस्तं निर्गतं दृष्ट्वा विनिवार्यविभीषणं । दशाननो रणं कर्तुमुस्थितः कोपमुदहन् ।। ४७५ ।।
साटोपव्यसनेनातिदीपितोऽथ यमः सर्म । दशास्येन रणं कर्तुमारेभे भीपणाननः॥ ४७६ ॥
दृष्ट्वैवं तं ततो भीता जाता राक्षसवाहिनी । दशाननसमीपं सा डुढौके मंदचेष्टिता ।। ४७७ ॥
रथारूढस्ततस्तस्य दशास्योऽभिमुखं ययौ । विमुंपन् शरसंघातं मुंचतः शरसंहतीः ॥ ४७८ ॥
सतस्तयोः शरैश्छन्नं भीमनिश्चलकारिभिः । नभो घनरिवाशेष धनबद्धकदंरकैः ॥ ४७९॥
. P म २११. -- - अष्टमं पर्व । पद्मपुराणम् । कैकसीनंदनेनाथ शरेण कृतताडनः । भूमौ ग्रह इवापुण्यः पपात यमसारथिः ॥ ४८० ॥ ताडितस्तीक्ष्णवाणेन कृतांतोऽप्यरथीकृतः । उत्पपात रवेर्मार्गमंतर्हिततनुः क्षणात् ॥ ४८१ ॥ ततः सांतापुरः पुत्रसहितोऽमात्यसंयुतः। कंपमानतनुर्भात्या यातोऽसौ रथनपुरं ॥ ४८२ ॥ नमस्कृत्य च संभ्रांत, इदमेवमभापत । शृणु विज्ञापनं देव. कृतं मे यमलीलया.॥ ४८३ ॥ प्रसीद वज वा कोपं हर वा जीवनं विभो । कुरु वा वांछितं यत्ते यमता न करोम्यहं ॥४८४il युद्धे वैश्रवणो येन निर्जितः पुरुतेजसा । अहमप्यमुना नीतो.भंगं कृतरणश्विरं ॥ १८५ ॥ . सृष्टं वीरसेनेव वपुस्तस्य महात्मनः । दुरीक्षो व्योममध्यस्थसंवितेच निदाघजः ॥ ४८६ ॥ इति श्रुत्वा सुराधीशः संग्रामाय कृतोद्यतिः । निरुद्धो मंत्रिवर्गेण नययाथात्म्यवेदिना ॥४८७ ॥ जगाद च.स्मितं श्रुत्वा मातुलं क्व स यास्यति । भयं मुंच सुविश्रब्धो भवास्मिन्नासने सुखं ॥४८॥ जामातुरथ वाक्येन परित्यज्य रिपोर्भयं । पुरं सुरवरोद्गीतमध्युवास यमः सुखी ॥ ४८९ ॥ विधापतिकसन्मानं सुरेशोऽतःपुरं ययौं । कामभोगसमुद्रेऽसौ तत्र मन्नो महामदः ॥ ४९०॥ ।
-- २१२... " . . + पद्मपुराणम् ": " ....... : अgम पर्व । कृतोपलभ स्वप्नेऽपि ज्ञायते वस्तुलेशतः । निरन्वयं तु तस्येदं विस्मृतं पूर्वचोदितं.॥ ४९३. ।। प्राप्य वा सुरसंगीतपुरस्य पतितां यमः । विसस्मार परिप्राप्तां परिभूति दशाननात् ।। ४९४ ॥ मेने च मम सर्वश्रीदुहिता रूपशालिनी । सा च.गीर्वाणनाथस्य प्राणेभ्योऽपि गरीयसी ॥४९५॥ अत्यंतमंतरंगोयं संबंधो महता सह । अतो जन्म कृतार्थ मे प्राप्य शक्रप्रतीक्ष्यतां ॥ ४९६ ।। तवो महोदयोत्साहः श्रीमानुद्वासितांतकः । नगरं सूर्यरजसे ददौ किष्किघसंज्ञकं ॥ ४९७ ॥ तथाःरजसे कि कुपुरं परमसंपदं । प्राप्य गोत्रक्रमायाते नगरे वो सुखं स्थिती ॥ ४९८ ॥ ते शक्रनगरामिख्ये पुरे कांचनसमनि । उचितस्वामिसंयुक्ते, जग्मतुः परमां श्रियं ।। ४९९ ॥ सौमालिरपि विभ्राणः श्रियं कीर्ति च भूयसी । प्रत्यवस्थित सामतैः प्रणमद्भिः समुत्तमः॥५००॥ पूर्यमाणः सदासेव्यैर्विभवः प्रविवासरं । बंधः कुमुदखंडानां सितपक्षे कररिव ॥ ५०१ ।। रत्नदामाकुलं तुंगं शृंगपंक्तिपिराजितं । आरुह्य पुष्पकं चारुविमानं कामगत्वर..॥ ५०२॥ युक्तः परमधैर्येण प्राप्तपुण्यफलोदयः । त्रिकूटशिखरं भूत्या परया प्रस्थितः कृती ।। ५०३ ॥ ततो रक्षोगणास्तस्य प्रमोदं परमं श्रिताः चित्रालंकारसंपन्ना वरीयोवस्त्रधारिणः ॥ ५०४ ॥ जय नंद चिरं जीव वर्धस्वोदेहि संततं । इति मंगलवाक्यानि प्रयुंजाना महारवाः ।।५०५॥ J ' +
अष्टमं पर्व।
.
पद्मपुराणम् ।
११३१ .
+
सिंहशार्दूलमातंगवाजिइंसादि संथिताः । नानाविभ्रमसंयुक्ताः प्रमोदविकचेक्षणाः ।। ५०६ ॥
विभ्राणखिदशाकारं तेजोव्याप्तविहायसः । आलोकितसमस्ताशाः काननाद्रिसमुद्रगाः॥५०७॥
अदृष्टपारगंभीरं महाग्राहसमाकुलं । तमालवनसंकाशं गिरितुंगोर्मिसंहतिं ॥५०८ ॥
रसातलमिवानेकनागनायकभीपणं । नानारत्नकरवातरंजितोद्देशराजितं ॥ ५०९॥
पश्यंतो विस्मयापूर्णाः समुद्रं विविधाद्भुतं । अनुजग्मुरहो हीतिमुहुर्मुखरिताननाः ॥५१०॥
अथ भास्वन्महाशाला गंभीरपरिखावृतां । कुंदशुभैर्महानीलनीलैर्जालककुक्षिपु ॥ ५११ ॥
पद्मरागारुणैरुदैः क्वचित्पुप्पमणिप्रभैः । गरुत्ममणिसंकाशैरन्यत्र निचितां गृहैः ।। ५१२.॥
शोभमानां निसर्गेण पुनश्च कृतभूषणां । रक्षोनाथागमे भक्तैः पोरैरद्भुतसम्मदैः॥ ५१३ ॥
अत्यंतमधिकां कुर्वन् शोभा गिरिनिभैगजैः । महाप्रासादसंकाशैः स्यदनैःरत्नरंजितैः ॥५१४ ॥
अश्ववृंदैः क्षणद्धेमचककैश्चलचामरैः । विमानैः शिखरारूददुराकाशैर्बहुप्रभैः ॥ ५१५ ॥
छत्रैः शशांकसंकाशैर्घजैरुद्भूतकोटिमिः । बंदिवृंदारकायेण कृतमंगलनिस्वनः ॥ ५१६ ।।
वीणावेणुविमिश्रेण शंखनादानुगामिना । तूर्यनादेन निश्शेष दिङ्नभोविदितात्मना ।। ५१७ ॥
प्रविवेश निजामीशो लंका शंकाविवर्जितः । त्रिदशेश इवोदारो दशास्यः शासिता हित॥५१८॥
अधम पर्व पद्मपुराणम् २१४ ततो गोत्रक्रमायातनाथदर्शनलालसा | गृहीवार्य फलैः पुष्पैः पत्ररत्नैश्च कल्पितं ॥ ५१९ ॥ गृहीतभूषणात्यंतचारुवस्त्रादिसंपदः । नृत्यद्भिर्गणिकासंधैरन्विता नेत्रहारिभिः ॥ ५२०॥ सर्वे पोराः समागत्य प्रयुक्ताशीगिरो मुहुः.! आनः सनमस्कारा यथावृद्धपुरस्सराः ॥ ५२१ ।। विसर्जिताय ते तेन संप्राप्तप्रतिमानवाः । यथास्वं निलयं जग्मुस्तद्गुणोक्तिगताननाः ॥५२२॥ अथ सद्भयनं तस्य कौतुकल्यासबुद्धिभिः । नारीभिः कृतभूपाभिः पूरितं तद्दिदृक्षुभिः ॥५२३॥ गवाक्षाभिमुखाः काश्चित्वरा विश्रस्तवाससः । अन्योन्यवाधविच्छिन्नमुक्ताहारविभूपणाः॥५२॥ पीनस्तनकृतान्योन्यपीड़नाञ्चलकुंडलाः । रणत्करितुलाकोटिवाचालचरणद्वयाः॥५२५ ।। किं न पश्यसि हा माता पार्श्वतो भव दुर्भगे । देहि.मार्ग बजामुप्मादपि नारि न शोभसे ५२६ निगदंत्येवमादीनि विकचांदुरुहाननाः । मुक्त्वा व्यापारजातानि तमक्षत पुरांगनाः ।। ५२७ ।। पुरे चूडामणौ गेहे स्वस्मिन् सत्कृतभूपणे । सुखं सांतःपुरस्तस्थौ कृतांतस्य विमर्दकः ॥५२८॥ शेपाश्चापि यथास्थानं स्थिता विद्याधराधिपाः । प्राप्नुवंतो महानंदं सततं त्रिदशा इव ॥५२९॥ विविधरत्नसमागमसंपदः। प्रबलशत्रुसमूलपिमर्दन । सकलविष्टपगामि यशः सितं । भवति निर्मिवनिर्मलकर्मणा ॥ ५३० ।। .
पद्मपुराणम् ।
'; ' २१५
नवमं पर्व।
रिपब उग्रतरा विषयाहयाः । अपनयंति सुवस्तुनये स्मृति ॥
वहिरवस्थितशत्रुगणः पुनः । सततमानयते यततं नरं ॥ ५३१ ।।
इति विचिंत्य न युक्तमुपासितुं । विपयशत्रुगणं पुरुचेतसः॥
अवटमेति जनस्तमसा ततं । नतु रखेः किरणैरवमासितं ॥ ५३२ ।।
इत्या रविषेणाचार्यप्रोक्त पद्मचरिते दशग्रीवाभिधानं नामाष्टम पर्व ।
।
.
4
नवमं पर्व।
अथ सूर्यरजा पुत्रं वालिसंज्ञमजीजनत् । चंद्रमालिन्यभिख्यायां गुणसंपूर्णयोपिति ॥ १॥
परोपकारिणं नित्यं दयाशीलयुतं बुधं । दक्षं धीरं श्रिया युक्तं सम्यग्दृष्टिं महाबलं ॥२॥
कलाकलापसंयुक्तं शूरं ज्ञानसमन्वितं । राजनीतिविदं वीरं कृपार्दीकृतचेतसं ॥३॥
विद्यासमूहसंपन्नं कांतिमतं सुतेजसं । विरलस्तादृशो लोके पुरुषाणां च समुद्भवः ॥ ४ ॥
चंदनानामिवोदारः प्रभावः प्रथितात्मनां । समस्तजिनर्विवानां नमस्कारार्थमुद्यतः ॥५॥
नवमं पर्व ।
२१६०
पद्मपुराणम्
3
11
त्रिकालतीर्णसंदेहो भक्त्या युक्तोऽत्युदारया । चतुःसमुद्रपर्यंत जंबूद्वीपं क्षणेन यः
त्रिः परीत्य किष्किंधं नगरं पुनरागमत् ॥ ६ ॥
इक पराक्रमाधारः शत्रुपक्षस्य मर्दकः । पौरनेत्रकुमुद्वत्याः शशांकः शंकयोज्मितः ॥ ७॥
किष्किंधनगरे रम्ये चित्रप्रासादतोरणे । विद्वज्जनसमाकीर्णे द्विपवाजिवराकुले ॥८॥
नानासंव्यवहाराभिरापणालीमिराकुले । रेमे कल्पे यथैशाने रत्नमाला सुरोत्तमः ॥ ९॥
अनुक्रमाच तस्याभूत सुग्रीवामिख्ययानुजः । वीरो धीरो मनोज्ञेन युक्तो रूपेण सन्नयः॥१०॥
विज्ञेयौ वालिसुग्रीयो किकिकुलभूषणौ । नयोस्तु भूपणीभूता विनयप्रमुखा गुणाः ॥ ११ ॥
सुग्रीवानंतरा कन्या रूपेण प्रतिमा भुवि । श्रीप्रभेति समुद्भूता क्रमशः श्रीरिव स्वयं ।। १२॥
किप्कुप्रमोदनगरे हरिकांताख्ययोपिता । क्रमाद्रक्षरजाः पुत्रौ नलनीलावजीजनत् ॥ १३ ॥
वितीर्णस्वजनानंदी रिघुशंकावितारिणौ । उदाचगुणसंभारी भूतौ तौ किप्कुमंडनौ ॥ १४ ॥
याचनश्रियमालोक्य मुतस्य स्थितिपालिनी । विपमिश्रानसदृशान्विदित्वा विषयान् बुधः ||१५||
वितीर्य वालये राज्यं धर्मपालनकारणं । सुग्रीवाय च सच्चेष्टो युवराजपदं कृती ।। १६ ।।
अवगम्य परं स्वं च जनं साम्येन सज्जनः । चतुर्गति जगज्ज्ञात्वा महादुःखनिपीड़ित ॥१७॥
२१७ : 'नवमं पर्व। पद्मपुराणम् । . मुनेः पिहितमोहस्य शिष्यः सूर्यरजा अभूत् । यथोक्तचरणाधारः शरीरेऽपि गवस्पृहः ॥ १८ ॥ नभोवदमलस्वांतः संगमुक्तः समीरवत् । विजहार स निष्कोधो धरण्यां मुक्तिलालसः ॥ १९ ॥ अथ वालेधुंवा नाम्ना साध्वी पाणिगृहीत्यभूत् । अंगनानां शतस्याप प्राधान्यं या गुणोदयात् २० तया सह महेश्वयं सोऽन्वभूचारुविभ्रमः । श्रीवानरांकमुकुटः पूजिताज्ञः खगाधिपः ॥ २१ ॥ अत्रांतरे छलान्वेपी मेघनभशरीरजः । हर्तुमिच्छति तो कन्यां लंकेशस्य सहोदरां ॥ २२ ॥ यदैव तेन सा दृष्टा सर्वगात्रमनोहरा । तदानभृत्ययं देहमधत्तानंगपीड़ितं ॥ २३ ॥ आवल्या प्रवराज्जातां कन्यां नाना तनूदरीं । गतस्ते नयितुं यावद्यमस्य परिमर्दकः ॥ २४ ॥ ज्ञात्वाथ निप्रभिस्तावल्लंकां वीतदशाननां । सुखं चंद्रनखां जड़े विद्यामायाप्रवीणधीः ॥ २५ ॥ शूरौ किं कुरुतामत्र भानुकर्णविभीपणौ । यत्रारिश्छिद्रमासाद्य कन्यां हरति मायया ॥ २६ ॥ पृष्टतश्च गतं सैन्यं गच्छताभ्यां निवर्तितं । जीवनेप रणे शक्तो गृहीतुं नेति चेतसा ॥ २७ ॥ शुश्राव चागतो बातों तादृशीं कैकसीसुतः। जगाम च दुरीक्षवं कोपावेशात्सुमीपणात् ॥२८॥ तत आगमनोदभूत श्रमप्रस्वेदविदुषु । स्थितेप्वेव पुनर्गतुमुद्यतो मानचोदितः ॥ २९ ॥ सहायं खड़मेकं च जग्राहान्यपराङ्मुखः । अंतरंग स एवैकः संग्रामे वीर्यशालिनां ॥३०॥ .
नवमं पर्व। प म '२१८ पद्मपुराणम् । तावन्मंदोदरी बढ़ा करद्वयसरोरुहं । व्यज्ञापयदिति व्यक्तज्ञातलौकिकसंस्थितिः ॥ ३१॥ . कन्या नाम प्रभो ! देया परस्मायेव निययात् । उत्पचिरेव तासां हि तादृशी सार्वलौकिकी ३२ खेचराणां सहस्राणि संति तस्य चतुर्दश । ये वीर्यकतसन्नाहाः समरादनिवर्तिनः ।। ३३ ॥ बहून्यस्य सहस्राणि विद्यानां दर्पशालिनः । सिद्धानीति न किं लोकाद्भवता श्रवणे कृतं ॥३४॥ प्रवृत्ते दारुणे युद्धे भवतोः समशौर्ययोः । संदेह एव जायेत जयस्यान्यतरं प्रति ॥ ३५॥ कथंचिच हतेप्पस्मिन् कन्या हरणपिता । अन्यस्मै नैव विश्राण्या केवलं विधवा भवेत् ॥३६॥ किं च सूर्यरजोमुक्ते त्वत्पुरे प्रत्यवस्थित । अलंकारोदये नाम्ना चंद्रोदरनमश्वर ॥ ३७ ॥ निर्वास्यासो स्थितः साधं तव स्वस्त्रा महाबलः । उपकारित्वमेतस्मात्संप्राप्तः स्वजन: स ते ॥३८॥ ततो दशाननोऽवादीत् प्रिये ! युद्धाद्विभेमि न | स्थितस्त्वद्वचने किंतु शेपरेवास्मि कारणैः॥३९॥ अथ चंद्रोदरे कालं प्राप्ते कर्मनियोगतः । वनितास्यानुरोधाख्या वराकी शरणोभिता ।। ४०॥ इतश्चेवश्च विद्याया बलेनाथ विवर्जिता । अंतर्वन्नीवने भीमे विनाम हरिणी यथा ॥ ४१ ॥ असूत च सुतं कति मणिकांतमहीधरे । मृदुपल्लवपुष्पोपच्छन्ने समशिलावले ॥ ४२ ॥ ततोऽसौ क्रमतो घृद्धिं नीतो विपिनवासया । उद्विग्नचित्तया मात्रा तदाशास्थितजीवया॥४३॥ .
पद्मपुराण। २१९ नवमं पर्व। . अतोऽयं प्रतिपक्षण गर्भ एव विराधितः । ततो विराधिताभिख्यां प्रापितो भोगवर्जितः ॥४४॥ न तस्य गौरवं चके कश्चिदप्यवनौ नरः । प्रच्युतस्य निजस्थानात्केशस्येवोत्तमांगतः॥४५॥ प्रतिकर्तुमशक्तोसौं वरं चित्तेन धारयन् । आचारागतवृत्तिस्थो देशान् पोट वांक्षितान् ॥४६॥ रेमे वर्पधरापु काननेषु च चारुपु । तथाविशयदेशेषु गीर्वाणागमनेषु च ॥ ४७ ॥ ध्वजछत्रादिरम्येषु संकुलेषु गजादिभिः । वीराणां विभ्रमं पश्यन् संग्रामेषु समं सुरैः ॥४८॥ नगर्यामथ लंकायां सुरेशस्येव तिष्ठतः । परान् प्राप्नुवतो भोगान् दशवक्रस्य भास्वतः ॥४९॥ प्रतिकूलितवानाज्ञा वालिबलसमन्वितः । विद्याभिरद्धृतं कर्म कुर्वतीभिरुपासितः ॥५०॥ . .. दशास्येन ततो दुतः प्रेषितोऽस्मै महामतिः | जगाद वानराधीशं स्वामिनो मानमुहहन् ॥५१॥ अनन्यसदृशे क्षेत्रे भरतेऽस्मिन् प्रतापवान् । महावलो महातेजा श्रीमानयविशारदः ॥ ५२ ।। महासाधनसंपन्न उपदंडो महोदयः । आज्ञापयति देवस्त्वां शत्रुमर्दो दशाननः ।। ५३ ॥.. : यंमारातिं समुद्वास्य भवतोऽरजाः पिता । मया किष्किंधनाथत्वे स्थापितो वानरान्वये ॥५४॥ विस्मृत्य सुकृतं कृत्यं स त्वं जनयितुः परं । कुरुते प्रत्यवस्थानमिति साधीन युज्यते ॥ ५५ ॥ पितुस्ते सहशीं प्रीतिमधिकां वा करोम्यहं । अद्याप्येहि प्रणाम.मे कुरु स्थातुं यथा सुखं ।।५६।। --
.
--
३
। नवम पर्व।
२२०
.
14
पद्मपुराणम्
1
--
~-
T
स्वसारं च अपच्छेमा श्रीप्रभाख्या मया सह । संबंधं प्राप्य, ते सर्व भविष्यति सुखावहं ।।५७॥
इत्युक्ते विमुखं ज्ञात्वा वालिं प्रणमनं प्रति । आननस्य विकारेण दूतः पुनस्दाहरत् ।। ५८ ।।
किमत्र बहुनोक्तेन कुरु शाखामृगश्नुतौ । मदीयं निश्चितं वाक्यमल्पलक्ष्मीविडंबित ॥ ५९॥
कुरु सज्जौ करं दातुमादातुं वा युधं करौ । गृहाण चापरं शीघं ककुभां वा कदंवकं ॥६॥
शिरों नमय चापं. वा नयाज्ञां कर्णपूरतां । मौवी वा दुस्सहारावानात्मजीवितदायिनी ॥ ६१ ॥
मत्पादज रजो मूर्ध्नि शिरस्त्रमथवा कुरु । यटयांजलिमुद्ऋत्य करिणां वा महाचयं ॥ ६२ ॥
विमुंचे' धरित्री वा मजैकं चेत्रकुंतयोंः । पश्य मेंघिनखे वकमथवा खड्गदर्पणे ।। ६३ ।।
वतः.पहावाक्येन दूतस्योद्भुतमानसः । नाम्ना व्याघ्रविलंबीति वभाण भदसत्तमः ॥ ६४ ॥
समस्तधरणीच्यापिपराक्रमगुणोदयः । वालिदेवो न किं यातः कर्णजाहं कुरक्षसः ॥६५॥
यद्येवं मापसे व्यक्तं गृहीतो का ग्रहेण सः त्वं तु स्वस्थः किमित्येवं दूताधम विकत्यसे ॥६६॥
क्रोधमूर्छित इत्युक्त्या दुःप्रेक्षः स्पष्टवेपथुः । गृहाण सायकं रुद्धो बलिनेति च.चोदितः ॥६७॥
कि दूतन वराकेण हतेन प्रेपकारिणा । कुर्वत्येते हि नाथीयवचसः प्रतिशब्दकं ।। ६८ ॥
दशास्यस्यैव कर्तव्यं यदभिप्रायमाश्रितं । आयुनमियत्तस्य कुरुते यत्कुभापितं ॥ ६९ ॥
' (२२१ नवमं पर्व। पद्मपुराणम् । , । ततो भीती भृशं दूतो गत्वा वृत्तांतवेदनात् । दशास्यस्य परं क्रोधो चक्रे दुस्सहतेजसः ॥७०॥ सैन्यावृतश्च सन्ना प्रस्थितस्त्वरया पुरं । परमाणुभिरारब्धः सहि दर्पमयैरिव ॥ ७१ ।।. ततः परवलध्वानं श्रुत्वा व्योमपिधायिनं । निर्गतुं मानसं चक्के वालिः संग्रामदक्षिणः ॥७२ ॥ तावत्सागरवृद्धधादिमंत्रिभिनयशालिभिः । ज्वलत्क्रोधेन नीतोऽसाविति वागंबुभिः शमं ॥७३॥ अकारणेन देवालं विग्रहेण क्षमां कुरु । अनेके हि क्षयं याताः स्वच्छंदं संयुगप्रियाः ॥ ७४ ।।. अर्ककीर्तिभुजाधारा रक्षमाणाः सुरैरपि । अष्टचंद्राः क्षयं प्राप्ता मेघस्वरशरोत्करैः ।।.७५ ॥ बहुसैन्यं दुरालोकमसिरत्नगदाधरं । अतुला संशयतुलां ततो नारोदुमर्हसि ।। ७६. ।।. जगादेति ततो वालियुक्तं नात्मप्रशंसनं । तथापि परमार्थं वो मंत्रिणः कथयाम्यहं ।। ७७ ।। भूलतारक्षेपमात्रेण दशवक्त्रं ससैन्यकं । शक्तोऽस्मि कणशः कर्तुं वामपाणितलाहतं ॥.७८ ।।.. किं तर्हि दारुणं कृत्वा क्रोधाग्निं ज्वलितं मनः। कर्मणा येन लभ्यते भोगाः क्षणविनश्वराः॥७९॥ प्राप्य तान्कदलीस्तंभनिस्सारान्मोहवाहिताः । पतति नरके.जीवा महादुःखमहाकुले ॥ ८॥ हिंसित्वा जंतुसंघातं नितांतं प्रियजीवितं । दुःखं कृतसुखाभिख्यं प्राप्यते तेन को गुणः ॥८॥ अरघट्टघटीयंत्रसदृशाः प्राणधारिणः । शश्वद्भवमहाकूपे भ्रमंत्यत्यंतदुःखिताः ॥ ८२।।
नवम पर्व । . E .२२२. पद्मपुराणम्। -- - पादद्वयं जिनेंद्राणां भवनिर्गमकारणं । प्रणम्य कथमन्यस्य क्रियते प्रणतिर्मपा ।। ८३॥ प्रबुद्धेन सता चेयं कृता संस्था मया पुरा अन्यं न प्रणमामीति जिनपादाब्जयुग्मतः ॥ ८४ ॥ मगं करोमि नास्थाया न च प्राणिनिपातनं । गृहामि संगनिर्मुक्तां प्रव्रज्या मुक्तिदायिनी।।८५|| यो करौ वरनारीणां कृतौ स्तनतटोचितौ । भुजौ चालिंगिनौ चाररत्नकेयूरलक्षणी ॥ ८६ ।। अरातेयः प्रयुक्ते तो पुरुषोंजलिपंधने । ऐश्वर्य कीदृशं तस्य, जीवितं वा हवात्मनः ।। ८७ ॥ इत्युक्त्याहूय मुग्रीवमुवाच शृणु बालक । कुरु तस्य नमस्कार मा वा राज्यप्रतिष्ठितः ।। ८८ ।। म्बसारं यच्छ मा वास्मै न ममानेन कारणं । एपोऽस्मि निर्गतोऽद्यैव पथ्यं यचव तत्कुरु।।८९॥ इत्युच्या निगतो गेहादभूव च निरंवरः । पार्चे गगनचंद्रस्य गुरोर्गुणगरीयसः ॥ ९॥ परमार्थहितस्वांतः संप्राप्तपरमोदयः । एकभावरतो वीरः सम्यग्दर्शननिर्मलः ॥११॥ सम्यग्जानाभियुक्तात्मा सम्यक्चारित्रतत्परः । अनुप्रेक्षाभिरात्मानं भावयन्मोहवर्जितः॥ १२ ॥ सूक्ष्मासुमद्वियुक्तासु धर्मानुगुणभूमिः । मुनिभिर्विमलाचारः सेवितासु महात्मभिः ।। ९३ ॥ विहरन् सर्वजीवानां दयमानः पिता यथा । वाद्येन तपसांतस्थं वयन् सततं तपः॥ ९४ ॥ आवासतां महीनां परिप्राप्तः प्रशांतधीः । तपाश्रिया परिश्वक्तः परया कांतदर्शनः ।।९५ ।।
२२३
नयम पर्व।
पद्मपुराणम् ।
उच्चैरुच्चैर्गुणस्थानसोपानारोहणोद्यतः । मिन्नाध्यात्माखिलग्रंथग्रंथिग्रंथविवर्जितः ॥ ९६ ॥
श्रुतेन सकलं पश्यन् कृत्याकृत्यं महागुणः । महासंवरसंपन्नः शातयन्कर्मसंततिं ।। ९७ ॥
प्राणधारणमात्रार्थ मुंजानः सूत्रदेशितं । धर्मार्थं धारयन्प्राणान् धर्म मोक्षार्थमर्जयन् ॥ ९८॥
आनंदं भव्यलोकस्य कुर्वन्नुत्तमविक्रमः । चरितेनोपमानत्वं जगामासौ तपस्विनां ॥ ९९ ।।
दशग्रीवाय सुग्रीवो वितीर्य श्रीप्रभा सुखी । चकारानुमतस्तेन राज्यमागतमन्वयात् ॥ १०० ॥
विद्याधरकुमार्यो या द्यावाभूमौ मनोहरा । दशाननः समस्तास्ता परिणिन्ये परिक्रमात्॥१०॥
नित्यालोकेऽथ नगरे नित्यालोकस्य देहजां । श्रीदेवीलब्धजन्मानं नाना रंभावली सुतां॥१०२॥
उपयम्य पुरी यातो निजां परमसंमदः । नभसा मुकुटन्यस्तरत्नरश्मिविराजितां ॥ १०३ ॥
सहसा पुष्पकं स्तंभमारमानसचंचलं । मेरोरिव तटं प्राप्य सुमहद्वायुमंडलं ॥ १०४ ॥
तस्योच्छिन्नगतेः शब्दभने घंटादिजन्मनि । वैलक्ष्यादिव संजातं मौनं पिंडिततेजसः ॥ १०५॥
भनप्रवृत्तिमालोक्य विमान कैकसीसुतः । कः कोन भो इति क्षिप्रं वभाण कोषदीपितः।।१०६॥
मारीचस्तत आचक्षौ सर्ववृत्तांतकोविदः । शृणु देवैप कैलाशे स्थितः प्रतिमया मुनिः ॥१०७॥
आदित्याभिमुखस्तस्य करानात्मकरैः किरन् । समे शिलातले रत्नस्तंभाकारोवतिष्ठते ॥१०॥
। नवम पर्व। २२४ -- पद्मपुराणम् । कोऽप्ययं सुमहान्वीरः सुघोरं धारयस्तपः । मुक्तिमाकांक्षति क्षिप्रं वृनांतोऽयमतोऽभवत्।।१०९।। निर्नयाम्यतोदेशाद्विमानं निर्षिलवितं । मुनेरस्य प्रभावन यापनायाति संडशः ॥ ११ ॥ थुत्रा मारीचपचनमथ कैलाशभूधरं । ईक्षांचके यमघंसः सपराक्रमगर्वितः ॥ १११ ॥ नानाधातुसमाकीर्ण गर्युक्त सहस्रशः । सुवर्णघटनारम्यं पदपंक्तिभिराचितं ॥ ११२ ।। प्रत्यनुगतर्युक्तं विकारः पिलमंयुतं । स्वरैहुविधैः पूर्ण लब्धव्याकरणोपमं ॥ ११३ ।। तीक्ष्णः शिसरसंघातः संडयंतमिवाधरं । उच्छपच्छीफरैः स्पष्टं हसंतमिव निझरः ॥ ११४ ॥ मकरंदसुरामत्तमधुनतपरधिनं । छालापवितताकाशं नानानोकहसंकुलं ॥ ११५ ।। मर्तुजमनोहारिकुसुमादिभिराचितं । चरत्प्रमोदवत्सत्वसहस्रसदुपत्यकं ।। ११६ ॥ औषधनासदूरस्थच्यालजालसमाकुलं । मनोहरेण गंधेन दधतं यौवनं सदा ॥ ११७ ॥ गिलाविस्तीर्णहृदयं स्थूलवृक्षमहामुजं । गुहागंभीरवदनमपूर्यपुस्पाकृति ॥ ११८ ॥ परत्पयोधराकारतटसंघातसंकटं । धीरेणेर जगा झालयंतं करोत्करैः ।। ११९ ।। कचिद्विसन्धसमुप्तमृगाधिपदरीमुरां । काचिरमुप्तशयुश्वासपातापूर्णितपादपं ।। १२० ॥ क्वचित्परिसरत्क्रीडन् कुरंगककदंचक । क्वचिन्मत्तद्विपनातकलिताधित्यकावनं ।। १२१ ॥
नवम पर्व। २२५ + पद्मपुराणम् ।। क्वचित्पुलकिताकारं प्रसूनप्रकराचितं । क्वचिदृक्षसटाभाररुद्धतैषिणाकृतिः॥ १२२ ॥ क्वचित्पावनेनैव युक्तं शाखामृगाननैः । स्वचित्खङ्गिकृतस्पंदिसालादिसुरभीकृतं ॥ १२३ ।। क्वचिद्विद्युल्लताश्लिष्टसंभवध्वनिसंतति । क्वचिद्दिवाकराकारशिखरद्योर्तितांवरं ॥ १२४ ॥ पांडुकस्यैव कुर्वाणं विजिगीपा क्वचिद्वनैः ! सुरभिप्रसवोगविस्तीर्णधनपादपैः ॥ १२५ ।। अवतीर्णय तत्रांसावपश्यत्तं महामुनि । ध्यानाणेवसमाविष्ट, तेजसा बद्धमंडलं ॥ १२६ ॥ आशाकरिकराकारप्रलंबितभुजयं । पन्नगाभ्यामिवाश्लिष्टं महाचंदनपादपं,॥, १२७॥ आनापनशिलापीउमस्तकस्थं सुनिश्चलं । कुर्वाण प्राणिविषयं संशयं पाणधारिणं ॥ १२८ ।। ततो वालिरसावेप इति ज्ञात्वा दशाननः । अतीत संस्मरन् चैरं जज्बाल क्रोधवहिना ॥१२९।। बढ़ा च भृकुटी भीमा, दृष्टोष्ठः प्रखरस्वरः । वभाण. भासुराकारो मुनिमेव सुनिर्भयः ॥ १३०॥ अहो शोभनमारब्धं त्वया कर्तुमिदं तपः । यदद्याप्यभिमानेन विमानं स्तंभ्यते मम ॥ १३१ ॥ क्र.धर्मः का च संक्रोधो वृथा थाम्यसि दुर्मते । इच्छस्पेकत्वमाधातुममृतस्य विपस्य च ॥१३२॥ तस्मादपनयाम्येनं दमद्य तयोद्धतं । कलाशनगमुन्मूल्य क्षिपाम्यब्धी समं त्वया ।। १३३ ॥ ततोऽसौ सर्वविद्याभिषाताभिस्तत्क्षणाद्वृतः । विकृत्य मुमहद्रूपं सुरेंद्र इव भीषणं ॥ १३४ ।।
नवमं पर्व। पद्मपुराणम्। र महापायुवनेनाथ पति कृत्वा समततः प्रविष्टो धरणी मिचा पातालं पातकोद्यतः ॥१३५।। आरेमे च समुद्धां भुज रिपराक्रमः । क्रोधप्रचंडरक्ताक्षो ढुंकारमुखराननः ।। १३६ ॥ ततो विपकणक्षेपिलंबमानोरगाधरः । केसरिक्रमसंप्राप्तभ्रश्यन्मत्तमतंगजः ॥ १३७.॥ संभ्रतिनिचलोत्कर्णसारंगककदवकः । स्फुटिवोदेशनिप्पीतत्रुटिताखिलनिझरः ॥ १३८ ।। पर्यस्यदुद्धतारायमहानोकइसंहतिः । स्फुटीकृतशिलाजालसंधिसत्वैः सदुश्वरः ॥ १३९ ।। पतद्विकटपापाणरवापूरितविष्टपः । चलितवालयन्क्षोणी भृशं कैलाशपर्वतः ।। १४०॥ स्फुटितावनिपीतांबुः प्राप शोपं नदीपतिः । ऊहुः स्वच्छत्या भुक्त्वा विपरीतं समुद्रगाः १४१ वस्ता व्यलोकयन्नाशाः प्रमथाः पृथुविसया । किं किमेतदहो हाहाहूंहीतिप्रस्तस्वराः ॥१४२॥ जहरूप्सरसो भीता लताप्रवरमंडपात् । वयसां निवहाः प्राप्ताः कृतकोलाहला नभः ॥ १४३ ॥ पातालादुस्थितैः हासैरनंतरैः । दशवक्त्रैः समं दिग्भिः पुस्फोटे च नभस्तलं ॥ १४४ ॥ ततः संवर्तकामिख्यवायुनेवाकुलीकृते । भुवने भगवान्चालिवधिबातराक्षसः ।। १४५ ।। अप्राप्तः पीडनं स्वस्य धीरः कोपविवर्जितः । तथावस्थितसांगश्वेतसीदं न्यवेशयत् ॥ १४६ ।। कारितं भरतेनेदं जिनायतनइत्तमं । सर्वरत्नमयं तुंगं बहुरूपविराजितं ।। १४७ ॥
+ नवमं पर्व। २२७ पद्मपुराणम् । प्रत्यहं भक्तिसंयुक्तः कनपूजं मुरासुरैः । मा विनाशि चलत्यस्मिन्पर्वते भिन्नपर्वणि ॥ १४८ ॥ ध्यात्वेति चरणांगुष्ठपीडितं गिरिमस्तकं । चकार शोभनध्यानाददरीकृतचेतनः ॥ १४९.।। भनमालिशिरोगाइनिविष्टधरणीधरः । निमजद्भूतलन्यस्तजानुनि नजंघकः ॥ १५०।। मयः प्रगलिनस्वेदधाराधौतरसातलः । बभूव संकुचद्गात्रः कूर्माकारो दशाननः ॥ १५१ ।। स्वं च सर्वयलेन कृत्वा रावितयान जगत् । यतस्ततो गतः पश्चाद्रावणाख्यां समस्तगां ॥१५२।। श्रुत्वा ते दीनमारावं स्वामिनः पूर्वमश्रुतं । विद्याधरवधूलोको विललाप समाकुलः॥ १५३ ॥ मूढाः सनद्वमारग्धाः संभ्रांताः सचिवा वृथा । पुनः पुनःस्खलद्वाचो गृहीतगलदायुधाः॥१५४॥ मुनिवीर्यप्रभावेण सुदुंदुभयोऽनदन् । पपात सुमनोवृष्टिः खमाच्छाद्य सपदपदाः ॥ १५५ ।। नऋतुगंगने क्रीडाशीला देवकुमारकाः । गीतध्वनिः सुरस्त्रीणां वंशानुगतमुद्ययौ ॥ १५६ ॥ ततो मंदोदरी दीना ययाचेति मुनीश्वरं । प्रणम्य भभिक्षं में प्रयच्छाद्भुतविक्रम ।। १५७ ।। ततोऽनुकंपांगुष्ठं महामुनिरशश्लथन् । रावणोऽपि विमुच्याद्रिं क्लेशकांतारतो निरत् ।। १५८ ।। गत्या च प्रणतिं कृत्वा क्षमयित्वा पुनः पुनः । योगेशं स्तोतुमारब्धः परिज्ञाततपोबलः।।१५९।। करोमि न नमस्कृति । अन्यस्येति त्वयोक्तं यत्सामर्थ्यस्यास्य तत्फलं१६० जिनेंद्रचरणौ मुक्त्वा
पवा
-
पद्मपुराणम् ।
नवर्म
'अहो निश्रयसंपन्नं तपसस्ते महल। भगवन् ! येन शक्तोऽमि त्रैलोक्यं कर्तुमन्यथा ॥१६॥
इंद्राणामपि मामय॑मीदृशं नाथ नेक्ष्यते । यादृक् तपासमृद्धानां मुनीनामल्पयत्नजं ॥ १६२ ॥
अहो गुणा अहो रूपमहोकांतिरहो बलं । अहो दीतिरहो धैर्यमहो शीलमहो तपः ॥ १६३ ।।
त्रैलोक्यादथ निश्शेष यस्वाहत्य मनोहरं । कर्मभिः मुकताधारं शरीरं ता निर्मितं ॥ १६४ ॥
सामर्थेनामुना युक्तस्त्यक्तवानगि यरिक्षति । इदमत्यद्भुतं कर्म कृतं सुपुरुष त्वया ॥ १६५॥
एवंविधस्य ते कर्तुं यदसाधु मयेग्मितं । तदशक्तस्य संजातं पापबंधाय केवलं ॥ १६६ ।।
धिक शरीरमिदं चेतो बचश्च मम पापिनः । वृत्ताभिमुखं जातं यदमत्यामलं पुरा ।।,१६७ ।।
भराशा नृरत्नानां मद्विधानां च दुर्विशां । अंतरं विगतद्वेष । मेरुमर्पपयोरिव ।। १६८ ।।
मयं विपद्यमानाय दत्ताः प्राणास्त्वया मुने । अपकारिणि यस्येयं मतिस्तस्य किमुच्यतां ॥१६९।।
श्रृणोमि वेभि पश्यामि मंसार दुःसभावकं । पापस्तथापि निर्वेदं विषयेभ्यो न याम्यहं ॥१७०॥
पुण्यवंतो महामत्वा मुक्तिलक्ष्मीसमीपगाः। तारुण्ये विषयान् त्यक्त्वा स्थिता ये मुक्तिवर्मनि॥१७१
इति स्तुत्वा मुनि भूयः प्रणम्य त्रिःप्रदक्षिणं । नितांत स्वं च निंदित्वा शूत्कारमुखराननः १७२
उपकंठं मुनेश्वैत्यभवनं अपयान्वितः । विरक्तो विपयासंगे प्रविष्टः कैकसीसुतः ॥१७३ ॥
नवमं पर्व। पद्मपुराणम् । २२९ . -- 1 . -- '! | अनादरेण विक्षिप्य चंद्रहासमसिं भुवि । आवृतो निजनारीभिश्चक्रे जिनवरार्चनं ॥ १७४ ।। निष्कष्य च स्नसातंत्री भुजे वीणामवीवहत् । भक्तिनिर्भरभावश्च जगौ स्तुतिशतैर्जिनं ॥ १७५ ।। नमस्ते देवदेवाय लोकालोकावलोकिने । तेजसातीतलोकाय कृतार्थाय महात्मने ॥ १७६ ।। प्रिलोककृतपूजाय नष्टमोहमहारये । वाणीगोचरतामुक्तगुणसंघातधारिणे ।। १७७ ।। महैश्वर्यसमेताय विमुक्तपथदेशिने । सुखकाष्ठासमृद्धाय दूरीभूतकुवस्तवे ।। १७८ ॥ निश्रेयसस्य भूतानां हेतवेऽभ्युदयस्य च । महाकल्याणमूलाय वेधसे सर्वकर्मणां ॥ १७९ ॥ ध्याननिदग्धपापाय जन्मविध्वंसकारिणे । गुरवे गुरुमुक्ताय प्रणतायानतात्मने ।। १८० ॥ आयतपरिमुक्ताय संतताद्यतयोगिने | अज्ञातपरमार्थाय परमार्थावबोधिने ॥ १८१ ॥ सर्वशून्यप्रतिज्ञाय सर्वास्तिक्योपदेशिने । सर्वक्षणिकपक्षाय कृत्स्ननित्यत्वदेशिने ॥ १८२ ॥ पृथक्त्वैकत्ववादाय सर्वानेकांतदेशिने । जिनेश्वराय सर्वस्मै एकस्मै शिवदायिने ॥ १८३ ॥ मपभाय नमो नित्यमजिताय नमोनमः । संभवाय नमो सक्तमभिनंदनरूद्धये ॥ १८४ ॥ नमः सुमतये पद्मप्रभाय सततं नमः । सुपार्थाय नमः शश्वनमश्चंद्रसमत्विपे ।। १८५ ।। नमोस्तु पुष्पदंताय शीतलाय नमोनमः । श्रेयसे वासुपूज्याय नमो लब्धात्मतेजसे ॥ १८६ ॥ १ -
• • २३०
अपुराणम् ।
नवमं पर्य।
वेमलाय नमलेंधा नमोऽनंताय संततं । नमो धर्माय सौख्यानां नमो मूलाय शांतये ॥१८७||
नमः कुंथुजिनेंद्राय नमोऽरस्वामिने सदा । नमो मछिमहेशाय नमः सुव्रतदायिनें ॥ १८८ ।।
अन्येभ्यश्च भविष्यद्भयो भूतेभ्यश्च मुभावतः नमोऽस्तु जिननाथेभ्यः श्रवणेभ्यथ सर्वदा।।१८९।।
नमः सम्पत्ययुक्ताय ज्ञानायकांतनाशिने । दर्शनाय नमोऽजस्रं सिद्धेभ्योऽनारतं नमः ॥१९॥
पवित्राण्यक्षराण्येव कास्यामिनि गायति । चलितं नागराजस्य विष्टरं धरणथुतेः ।। १९१ ।।
नतोश्वधिकतालोकस्तोपविस्तरितेक्षणः । स्फुरत्फणामणिच्छायादूरध्वस्तनमश्चयः ।। १९२ ॥
स कलामलतारेशप्रसन्नमुखशोभितः । पातालादुद्ययौ क्षिप्रं नागराजः सुमानसः॥ १९३ ॥
विधाय च नमस्कार जिनेंद्राणां विधानतः । पूजां च ध्यानसंजानसमस्तद्रव्यसंपदं ॥ १९४॥
जगाद रावणं साधो ! साधु गीतमिदं त्वया । जिनेंद्रस्तुतिसंबद्धं रोमहर्पणकारणं ॥ १९५ ।।
पश्य नोपेण में जातं पुलक घनकर्कसं | पानालस्य यच्छाति नाद्यापि प्रतिपद्यते ॥ १९६ ॥
राक्षसेश्वर ! धन्योऽसि यस्तोपि जिनपुंगवान् । बलादाकृप्य भावेन त्वदीयेनाहमाहृतः।।१९७||
बरं वृणीष्य तुष्टोऽसि तव भक्त्या जिनान्प्रति । ददाम्यभीप्सितं वस्तु सद्यः कुनरदुर्लभं ॥१९८॥
ततः कैलाशकंपन प्रोक्तोऽसौ विदितो मम । धरणो नागराजस्त्वं पृष्टस्तावनिवेदय ॥ १९९ ॥
पद्मपुराणम्। २३१ नवम पर्व । ।' + जिनवंदनया तुल्यं किमन्यद्विद्यते शुभं । वस्तु यत्प्रार्थयिष्येऽहं भवंतं दातुमुद्यतं ॥ २० ॥ ततो निगदितं नागपतिना श्रृणु रावण ? । जिनेंद्रवंदनातुल्यं कल्याणं नैवं विद्यते ॥२०१ ।। ददाति परिनिर्वाणसुखं या समुपासिता । जिननत्या तया तुल्यं न भूतं न मविष्यति ॥२०२॥ ततो दशमुखेनोक्तं नास्ति चेजिनवंदनात् । अधिकं कित्वतः प्राप्त तस्मिन्याचे महामते ॥२०३।। उक्तं च नागपतिना सत्यमेतत्सुचेष्टितं । असाध्यं जिनभक्तर्यत्साधु तत्रैव विद्यते ॥ २०४ ॥ त्वादृशा मादृशा ये च वासवाद्यैश्च सन्निमाः । संपाते सुखाधारा, सर्वे ,ते जिनभक्तितः ॥२०५॥ आस्ता तावदिदं स्वल्प व्याघाति भवजं सुखं । मोक्षज लभ्यते भक्त्या जिनानामुत्तमं सुखं२०६ नितांतं यद्यपि त्यागी महाविनयसंगतः। वीर्यवानुत्तमैश्वर्यो भवान् गुणविभूषितः ॥ २०७। मदर्शनं तथाप्येतत्त्व माभूदनर्थकं । अमोघमिति याचेऽहं भवंतं ग्रहणं प्रति ।। २०८ ।। अमोपविजयानाम शक्तिं रूपविकारिणी । विद्या गृहाण लंकेश मावधीः प्रणयं मम ॥ २०९.।। एकया दशया कस्य कालो गच्छति सज्जनः । विपदोऽनंतरा संपत् संपदोऽनंतरा विपत् ॥२१०॥ अतो विपदि जातायामासन्नायां कुतोऽपि ते । कुर्वती परसंवाधं पालिकेयं भविष्यति ॥२११ ।। आसता मानुपास्तावद्विभ्यत्यस्याः सुरा अपि । वन्हिज्वालापरीतायाः शक्तेर्विपुलशक्तयः॥२१२॥ --- मयम पर्व। अशक्नुवंस्ततः कर्तुं प्रणयस्यास्य भाजनं । गृहीत्लायवं लेभे कच्छात्कैलासकंपनः ।। २१३ ॥ कृत्वांजलिं नमस्या च संभापितदशाननः । जगाम धरणास्थान निजं प्रकटसमदः ॥ २१४ ॥ माममा दशास्योऽपि स्थित्वा कैलाशमूर्धनि । प्रतिपत्य जिनं देशं प्रययावमिवांछितं ॥२१५॥ विज्ञाय मनमः क्षोभादात्मानं बद्धदुष्कृतं । प्रायश्चित्तं गुरोर्देशं गत्वा वालिरशिधियत् ।।२१६।। निर्गतस्त्रांतशल्यस्य बभूव मुखितः पुनः । वालिनियमनं कृत्वा यथा विष्णुमहामुनिः ॥२१७।। चारित्राङतितो धर्माद्नुषणतः सदा । समितिभ्यः पराभूतेः परीपहगणस्य च ।। २१८ ।। महासवरमासाद्य कर्मापूर्वमनिर्जयन् । नाशयंस्तपमा चात्तप्रातःकेवलसंगमं ॥ २१९ ॥ कर्माष्टकविनिर्मुको ययौ रैलोक्यमस्तकं । सुरां निरुपम यस्मिन्नवसानविवर्जितं ॥ २२० ॥ इंद्रियाणा जये शक्तो यस्तेनास्मि पराजितः । इति विज्ञाय लकेशः साधूनां प्रणतोऽभवत् २२१ सम्यग्दर्शनसपन्नो दृभक्तिजिनेश्वरे । अवतः परमैनॊगैरविष्ठत् स यथेप्सितं ।। २२२ ।। वालिचेष्टितमिद शृणोति यो ।, भारतत्परमतिः शुभा जनः ।। नेप याति परतः परामरं । प्राप्नुते च रविभासुरं पदं ।। २२३ ।। इत्या रविपेणाचार्यप्रोक्त पद्मचरिते वालिनिर्वाणाभिधान नाम नवम पर्व । +- . २३३.. - 1 - - . पद्मपुराणम्।। . 'दशमः पर्व। . . 23 , F प । - C , . - दशमं पर्व एवं तावदिदं पचे तब श्रेणिक ! वेदितं । अतःपरं प्रवक्ष्यामि शृणु ते परमीहितं ॥१॥ हुताशनशिखस्खासीत्सुता घोतिःपुरे.वरा । हीसंज्ञायां समुत्पन्ना योपिति स्वीगुणान्विता ॥२॥ सुतारति गता ख्याति शोभया, सकलावनौ । पद्मवासं परित्यज्य लक्ष्मीरिव समागता ॥ ३ ॥ चक्रांकतनयोऽपश्यत्पर्यटन् स्वेच्छयान्यदा । तां साहसगतिर्नाम्ना दुष्टानुमतिसंभवः॥ ४ ॥ ततोऽसौ कामशल्येन शल्यितोऽत्यंतदुःखितः । सुतारा मनसा नित्यपुवाहोन्मत्तविभ्रमः॥ ५ ॥ उपर्युपरि यातैश्च तास दूतैरयाचत । सुग्रीवोऽपि तथैवैता. याचतेस्म मनोहरां ॥ ६॥ द्वैधीभावमुपेतेन हुताशनशिखेन च । पृष्टो मुनिमहाज्ञानो निश्चयव्याकुलात्मना ॥ ७॥ युक्तं च मुनिचंद्रण-न साहसगतिश्चिरं । जीविप्यति चिरायुस्तु:सुग्रीवः परमोदयः॥८॥ चकांकपक्षसंप्रीत्या हुताशस्तु विनिश्चयः । दीपौ बृपी गजेंद्रौ च निमित्तमकरोद् दृढ़ः ।।९।। ततो मुनिगिरं ज्ञात्वा नियताममृतोपमा । सुग्रीवाय सुता दत्ता नीत्वा पित्रा समंगलं ॥ १० ॥ कृत्वा पाणिगृहीनां तां सुग्रीवः पुण्यसंचयः । इयाय कामविषयं सारवत्तं मुसंमदं ॥ ११ ।।
नवमं पर्व। २३२ पद्मपुराणम् अशक्नुवंस्ततः कर्तुं प्रणयस्यास्य भाजनं । गृहीतलाघवं लेभे कष्ट्रात्कैलासकंपनः ॥ २१३ ॥ कृत्वांजलिं नमस्यां च सभापितदशाननः । जगाम धरणास्थानं निजं प्रकटसमदः ॥ २१४ ॥ माममा दशास्योऽपि स्थित्या केलाशमूर्धनि । प्रतिपत्य जिनं देशं प्रययावभिवाछितं ॥२१५।। विज्ञाय मनमः क्षोभादात्मानं पद्धदुष्कृतं । प्रायश्चित्तं गुरोर्देशं गत्वा वालिरशिथियत् ।।२१६॥ निर्गतसातशल्यस्य भून सुसितः पुनः । वालिनियमनं कृत्वा यथा विष्णुमहामुनिः ॥२१७|| चारित्रादुप्तितो धर्मादनुप्रेषणतः सदा । समितिभ्यः पराभूतेः परीपहगणस्य च ॥ २१८ ।। महासघरमासाद्य फर्मापूर्वमनिर्जयन् । नाशयंस्तपमा चात्तपात केवलसंगम ॥ २१९ ॥ कर्माष्टकविनिर्मुक्तो ययौ त्रैलोक्यमस्तक । मुखं निरुपम यसिन्नवसानविवर्जितं ।। २२० ।। इंद्रियाणां जये शक्तो यस्तेनास्मि पराजितः । इति विज्ञाय लकेशः साधूनां प्रणतोऽभवत् २२१ सम्यग्दर्शनसपन्नो दृढभक्तिर्जिनेश्वरे । अतृप्तः परमेर्भोगेरतिष्ठत् स यथेप्सितं ।। २२२ ।। पालिचेष्टितमिद शृणोति यो । भावतत्परमतिः शुभो जनः ।। नेप याति परतः परामचं' । प्राप्नुते च रविभामुरं पदं ।। २२३ ।। इत्या रविषेणाचार्यप्रोक्त पद्मचरित वालिनिर्वाणाभिधान नाम नवम पर्व । . --
दशम पर्व।
पद्मपुराणम्॥
दशमं पर्व।
एवं तापदिदं परं तर ग्रेणिक । वेदितं । अतःपरं प्रवक्ष्यामि श्रृणु ते परमीहितं ॥१॥
हुताशनशिखस्खासीत्सुता घोतिःपुरे वरा । ट्रीसंज्ञायां समुत्पन्ना योपिति स्त्रीगुणान्विता ॥२॥
मुताति गता ख्याति शोभया सकलावनौ । पद्मासं परित्यज्या लक्ष्मीरिव समागता ॥ ३ ॥
चक्राफतनयोऽपश्यत्पर्यटन स्वेच्छयान्यदा । तां माहसगतिर्नाम्ना दुष्टानुमतिसंभवः ॥ ४ ॥
ततोऽमा कामशल्येन शल्यितोऽत्यतदुःखितः । सुतारा मनमा नित्यमुवाहोन्मत्तविभ्रमः ।।५।।
उपर्युपरि यातैश्च तास दूतरयाचत । सुग्रीनोऽपि तथैवैतां याचतेस्म मनोहरां ॥ ६ ॥
द्वैधीभारमुपेतन हुताशनशिसेनः च । पृष्टो मुनिर्महाज्ञानो निश्चयव्याकुलात्मना ॥ ७ ॥
युक्तं च मुनिचंद्रेण न साहसगतिश्चिरं । जीविष्यति चिरायुस्तु सुग्रीवः परमोदयः ॥८॥
चक्रांकपक्षसंप्रीत्या हुताशस्तु विनिश्चयः । दीपौ वृपौ गजेंद्रौ च निमित्तमकरोद् इदं ॥९॥
ततो सुनिगिरं ज्ञात्वा नियताममृतोपमा । सुग्रीवाय मुता दत्ता नीत्वा पित्रा समंगलं ॥ १० ॥
कृत्वा पाणिगृहीतां तां सुग्रीवः पुण्यसंचयः । इयाय कामविपयं सारवत्वं मुसंमदं ॥ ११ ॥
दशर्म पर्य।
.
२३४
पद्मपुराणम् ।
।
ततः क्रमात्तयोः पुत्रौ जातौ रूपमहोत्सवी । ज्यायानगोनुजस्तस्य प्रथितोऽगदसंज्ञया ॥ १२ ॥
अद्यापि नव निर्लज्जवक्रांकस्य शरीरजः । परित्यजति तत्रायां घिश्मनोभवदूपितां ।। १३ ।।
दध्यौ चेतसि कामानिदग्धो निस्सारमानसः। केनोपायेन तां कन्यां लप्स्य निर्वृतिदायिनी १४
कदा नु वदनं तस्या शोभाजितनिशाकरं । चुंविष्यामि स्फुरच्छोणच्छविछन्नरदच्छदं ॥ १५ ॥
क्रीडिप्यामि कदा साधं तया नंदनवक्षसि । कदा वाप्स्यामि तत्पीनस्तनस्पर्शसुखोत्सवम्।।१६।।
इत्यभिधावतस्तस्य तत्समागमकारणं । सस्मार शेमुसीविद्यामाकृतेः परिवर्तिनीं ॥ १७ ॥
हिमवंतं ततो गत्वा गुहामाश्रित्य दुर्गमां । आराधयितुमारेभे दुःखितं प्रियमित्रवत् ।। १८ ।।
अत्रांतरे विनिष्क्रांतो दिशो जेतुं दशाननः । बभ्राम धरणी पश्यन् गिरिकांतारभूपितां ॥ १९ ॥
जित्वा विद्याधराधीशान द्वीपांतरगतान्वशी । भूयोऽन्ययोजयत्स्वेषु राष्ट्रेषु पृथुशासनः ॥ २० ॥
वशीकृतेषु तस्यासीत् खगसिंहेषु मानसं । पुत्रेष्विय महेच्छा हि तुष्यंत्यानतिमात्रतः ॥ २१ ॥
रक्षसामन्वये योभूद्योवा शाखामृगान्वये । उद्दलः खेचराधीशः सर्वे तं वशमानयत् ।। २२ ।।
महासाधनयुक्तस्य बजतोस्य विहायसा । वेगमारुतमप्यन्ये खेचराः सोदुमक्षमाः ॥२३ ।।
संध्याकारा सुबेलाय हेमापूर्णा सुयोधनाः । सद्वीपाः परिहादा इत्याद्या जनताधिपाः ॥२४॥
- . - - पापुराणम् । २३५ दुशम पर्व। गृहीतग्राभृताः गत्वा नेमुस्तं मूर्धपाणयः । आश्वासिताः सुवाणीभिस्तथावसितसंपदः ॥ २५ ॥ श्रिता येऽपि सुदुर्गाणि स्थानान्यंवरगाधिपाः । नमितास्तेऽपि तत्पादौ शोभनैः पूर्वकर्मभिः ॥ बलानां हि समस्तानां वलं कर्मकृतं परं । तस्योदये स के जेतुं न समर्थो नरेश्वर ॥२७॥ अथेंद्रजितये गंतु प्रवृत्तेनामुना स्मृतः । स्वसात्यंतघनस्नेहात्पारंपर्याच तत्पतिः ॥ २८ ॥ प्रस्थितश्च स तं देशं श्रुतः स्वस्रा समुत्कया । प्राप्तः स्थितः समासन्ने देशे प्रीतिसमुत्कटः ॥२९॥ ततश्वरमयामादौ क्षपायाः शयितः सुखं । कैकसेय्या परप्रीत्या बोधितः खरदूषणः ॥३०॥ ततो निर्गत्य तेनासावलंकारोदयात्पुरात् । दशवक्त्रो महाभक्त्या पूजितः परमोत्सवैः ॥ ३१ ॥ रावणोऽपि स्वसुः प्रीत्या चक्रेऽस्य प्रतिपूजनं । प्रायो हि सोदरस्नेहात्परः स्नेहो न विद्यते ॥ चतुर्दशसहस्राणि कामरूपविकारिणां । दर्शितानि दशास्याय तेन व्योमविचारिणां ॥ ३३ ।। दूषणाख्यश्च सेनायाः पतिरात्मसम कृती । शूरो गुणसमाकृष्टसर्वसामंतमानसः ॥ ३४ ॥ एतैश्च प्रस्थितः साकं कृतसर्यास्त्रकौशलैः । आवृतो सुरसंघातैः पातालाचामरो यथा ।। ३५ ॥ हिंडवो हैहि डोडिवो विकटस्त्रिजटो हयः । माकोटखिजटष्टंकः किष्किंधाधिपतिस्तथा ।। ३६ ॥ १ उपचारैः परिप्राप्तो रत्नादिभिरादरात्, पागंतरमिदं ।
दशमं पर्व। २३६ - पद्मपुराणम् त्रिपुरा मलयो हेमपालकोलवसुंधराः । नानायानसमारूढा नानाशस्त्रविराजिताः ।। ३७ ।। एवमायः खगाधीशैरापुपूरे स निर्गतः । विद्युदिंद्रधनुर्युक्तर्घनौधैः श्रावणो यथा ॥ ३८ ॥ सहस्रमधिकं जातं विहायस्तलचारिणां । अक्षौहिणीप्रमाणानां कैलाशोल्लासकारिणां ॥ ३९ ॥ अमराणां सहस्रेण प्रत्येक कृतपालनैः । रत्नरनुगतो नानागुणसंघातधारिभिः ॥ ४० ॥ चंद्ररश्मिचयाकारैश्वानररूपवीजितः ! समुच्छ्रितशितच्छत्रचाररूपमहाभुजः ॥४१॥ पुप्पकाग्रे समारूढा मंदरस्थिरविद्युतिः । तिग्मांशुमालिनो मार्गश्छादयन् यानसंपदा ॥ ४२ ॥ इंद्रध्वंसनमाधाय मानसे पुरुविक्रमः । प्रयाणकैरभिप्रेतैः प्रयातिस्म दशाननः ॥ ४३ ॥ नानारत्नकृतच्छायं चामरोर्मिसमाकुलं । तदंडमानसंघातं यावर्तशताचितं ॥ ४ ॥ बाजिमातंगपादातग्रहसंघातभीपणं । उल्लसच्छखकल्लोलमकरोत्स खमर्णवं ॥ ४५ ॥ तुंगैर्हिणपिच्छीपशिरोभिर्भासुरैर्ध्वजैः । बनरिव चिव्याप्तं सुत्रामोपाय नमः ॥ ४६ ॥ नानारत्नकतोद्योतैस्तुंगभंगविराजितैः । संचरन्सुरलोकाचं विमाननियहैः कचित् ॥ ४७ ॥ पृथ्व्या किं मगधाधीश गिरात्र परिकीर्णया । मन्ये तत्सैन्यमालोक्य विभियुखिदशा अपि॥४८॥ इंद्रजिन्मेघवाहव कुंभकर्णो विभीषणः । खरदूषणनामा च निकुंभः कुंभसंज्ञकः ॥ १९ ॥ - . . . १ . + + + -- न . 1 ... । । 1 :. :: दशमं पर्व। २३७५ पंझपुराणम् । एते चान्ये च बहवः स्वजना रणकोविदाः । सिद्धविद्यामहाभासः शस्त्रशास्त्रकृतश्रमाः ॥५०॥ महासाधनसंपन्ना इपयंतः मुरश्रियः। अनुजग्मुरतिप्रीता रावणं पृथुकीर्तयः ॥.५१ ।।. ततो विध्यातिके तस्य जगामास्तं दिवाकरः । वैलक्ष्यादिव, निच्छायो जितो रावणतेजसा ।।२।। उत्तमांगेन विंध्यस्य तेन सन्यं निवेशित विद्यावलसमुद्भूतैर्नानाकृतसमाश्रयं ।। ५३ ॥ प्रदीप इवे चानीतः क्षपयों तस्य भीतया । करदूरीकृतध्वांतपटलो रोहिणीपतिः ॥ ५४॥ नारागंणाशिरःपुष्पा शशांकंवदना निशा । प्राप्ता वरांगनेवैतं विमलांवरधारिणी ॥ ५५ ॥ संकथाभिर्विचिंत्राभिर्व्यापारैश्च तथोचितैः । सुखेन रजनी नीता निद्रया च. नभश्वरैः ।।.५६ ततः प्रभाततूर्यण मंगलैश्च प्रबोधितः । चकार रावणः कर्म सकलं तनुगोचरं ।। ५७ ।। भ्रांत्वेवं भुवनं, सर्वमदृष्ट्वान्यं समाश्रयं । पुनः शरणमायांतो रावणं पद्मयांधवः ।। ५८ ॥ ततो नानाशकुंतोषैः कुर्वद्भिर्मधुरस्वरं । संभाषणमिवाभ्रष्टमर्यादां कुर्वतीमम ॥ ५९ ॥ ददर्श नर्मदा फेनपटलैः सस्मितामिव । शुद्धस्फटिकसकांशसलिलां द्विपभूषितां ।। ६० ।। तरंगभूविलासाढ्यामावत्तिमनाभिकां । विस्फुरच्छफरीनेत्रां पुलिंनोरुकलत्रिकां ॥ ६१ ।। नानापुष्पसमाकीणों विमलोदकवासस । वरांगनामिवालोक्य महाप्रीतिमुपागतः ॥ ६२ः।।
H . + शमं पर्व। २३८ पद्मपुराणम्। उग्रनक्रकुलाक्रांतां गंभीरां वेगिनीं क्वचित् । क्वचिच प्रस्थितां मंदै क्वचित्कुंडलगामिनीं॥३३॥ नानाचेष्टितसंपूर्णा कौतुकव्याप्तमानसः । अवतीर्णः स तां भीमा रमणीयां च सादरः ।। ६४ ।। माहिष्मतीपुरेशोऽध वलेन प्रथितो भुपि । सइस्ररश्मिरप्येतामवतीर्णोऽन्यया दिशा ।। ६५ ।। सहसरविमरखैप सत्यं परमसुंदरः । सहस्रं तस्य दाराणां यदत्यंतसुतेजसा ॥ ६६ ॥ जलयंत्राणि चित्राणि कृतानि वरशिल्पिमिः । समाश्रित्य स रेमेस्यामगुतानां विधायकः।।६७|| सागरस्यापि सरोदुमभः शक्तैनरर्वृतः । यंत्रसंवाहनाभिज्ञैः स्वेच्छयास्यां चचार सः ॥.६८ ॥ जले यंत्रप्रयोगेण क्षणेन विधृते सति । भ्रमंति पुलिने नार्यो नानाक्रीडनकोविदाः ॥ ६९.॥ कलत्रनिबिडाश्लिष्टमुमुक्ष्मविमलांशुकाः । बभूवुः सत्रपा दृष्ट्वा रमणेन परांगनाः ॥ ७० ॥ विगतालेखना काचित्कुचौ नखपदांकितौ । दर्शयंती चकारेयो प्रतिपक्षस्य कामिनी ।। ७१ ॥ काचिदृश्यसमस्तांगा परयोपित्त्रपावती । अमिप्रियं निचिक्षेप कराभ्यां जलमाकुला ।। ७२ ॥ प्रतिपक्षस्य दृष्ट्वान्या जपने करजक्षती: । लीलाकमलनालेन जघान अमदा प्रियं ॥ ७३ ॥ काचिस्कोपवती मौनं गृहीत्वा निश्चला स्थिता । पत्या पादप्रणामेन दयिता तोपमाहृता ॥७॥ यावत्प्रसादयत्येकां तावदेत्य परा रुपं । यथाकथंचिदानिन्ये तोपं सर्वाः पुनर्नृपः ।। ७५ ॥
दशमं पर्व 1 २३९ - पद्मपुराणम्। . दर्शनात्स्पर्शनात्कोपात् प्रसादाद्विविधोदितात् । प्रणामाद्वारिनिक्षेपादचतंसकताडनात् ॥७६ ॥ पंचनादंशुकाक्षेपान्मेखलांदामबंधनात् । पलायनान्महारावासंपर्कात्कुचकंपनात् ॥ ७७ ॥ हासापणनिक्षेपात्मेरणाद्भूविलासतः। अंतर्धानात्समुद्भतेरन्यसाच सुविभ्रमात् ॥ ७८ ॥ रेमे बहुरसं तस्यां स मनोहरदर्शनः । आवृतो वरनारीभिर्देवीभिरिव वासवः ॥ ७९ ॥ पतितान् सिकतापृष्ठे नालंकारान्पुनः स्त्रियः । आचकांक्षुर्महाचित्ता निर्माल्यस्रग्गुणानिव ॥८०॥ काचिचंदनलेपेन चकार धरलं जलं । अन्या कुंकुमपंकन द्रुतचामीकरप्रभ ।। ८१ ॥ धौततांबूलरागाणामधराणां सुयोपितां । चक्षुषां व्यंजनानां च लक्ष्मीरभवदुत्तमा ॥ ८२ ।। पुनश्च यंत्रनिर्मुक्तं वारिमध्ये यथेप्सितं । रेमे समं वरस्त्रीभिनेरेशस्तरुहेतुभिः ॥८३ ॥ कीडंतीमिर्जले स्त्रीभिभूपणानां बरो रवः । शकुंतेष्विव विन्यस्तः कूलकीलालचारिपु ।। ८४ ॥ रावणोऽपि सुखं स्नात्वा वसानो धीतवाससी । विधाय प्रयतो मूलं शुक्लकपटसंयुतं ॥ ८५॥ नियुक्तः सर्वदा पुंभिरुह्यमानां प्रयत्नतः । प्रतिमामर्हतोरत्नहेमनिर्मितविग्रहां ।। ८६ ॥ तरंगिणीजवे रम्ये पुलिने शुभ्रभासुरे । सिकतारचितोत्तुंगपीठबंधविराजिते ।। ८७ ॥ पैडूर्यदंडिकासक्तमुक्ताफलवितानके । सर्वोपकरणव्यग्रपरिवर्गसमावृते ॥ ८८ ॥ .
दशम पर्य। -- २४० पद्मपुराणम् । स्थापयित्वा घनामोदसमाकृष्टमधुनतः । धूपैरालेपनैः पुष्पमनाज्ञबहुभक्तिभिः ॥ ८९ ॥ विधाय महतीं पूजा मन्निपिष्टः पुरोवनौ । सगर्भवदनं चक्रे पूतःस्तुत्यक्षरश्चिरं ॥ ९ ॥ अकरसादथ पूरण हता पूजा समंततः । फेनगुयुदयुक्तेन कलुपेण तरस्थिना ॥ ९१ ।। ततो दशाननः क्षिप्रं गृहीला प्रतियातनां । कुद्रो जगाद फित्वेतदिति विज्ञायतामरं ॥ ९२ ।। ततोऽनुमृत्य वेगेन नरैः प्रतिनिवृत्त्य च । निवेदितमिदं नाथ कोप्ययं पुरुषो महान् ॥ ९३ ॥ मध्ये ललामनारीणां ललामपरमोदयः । दूरस्थेन नृलोकेन वेष्टितः सदधारिणा ॥ ९४ ॥ नानाकाराणि यत्राणि बृंहति सुबहूनि च । विद्यते तस नूनं तैः कृतमेतद्विचेष्टितं ॥ ९५॥ व्याम्थामानकं तस्य पुरुपा इति नो मतिः। अपष्टंभस्तु यस्तस्य स एवान्यस्य दुस्सहः।। ९६ ॥ यातया श्रूयते कोऽपि शक्तः स्वर्गे तथा गिरी। अयं तु वीक्षितोऽस्माभिः शुनामीरः समक्षतः९७ श्रुत्वा मंकुचितभ्रूश्व सं मुरजसंभव । वीणावंशादिभियुक्तं जयशब्दपिमिश्रितं ॥ ९८ ॥ गजवाजिनराणा च ध्वनिमाज्ञापयन्नृपान् । सरितं गृह्यतामेष दुरात्मेति दशाननः ॥ ९९ ।। दत्वा चाज्ञां पुनयके पूजां रोधमि सत्तमां । रत्नकांचननिर्माणैः पुष्पर्जिनवराकृतौ ॥१०० ॥ शेपामिव दशास्याज्ञां कृत्वा शिरसि संभ्रमात् । अभ्यमित्रं सुसनद्वाः प्रसवुव्योमगाधिपाः१०१
दशमं पर्व।
पद्मपुराणम्
। २४३
वत्स ! तावद्धनुर्वेदमधीष्य कुरु च श्रमं । ततो मया समं युद्धं करिष्यसि नयोज्झतः ।। १२८ ॥
ततः परुपवाक्येन प्राप्तः संरंभमुत्तमं । विभेद यक्षमर्दस्तं कुंतेनालिकपडके ॥ १२९ ।।
गलद्रुधिरधारोसौ घूर्णमाननिरीक्षणः । मोहं गत्वा समास्वस्थो यावद्गृण्हति सायकं ॥ १३० ॥
तावदुत्पत्य वेगेन तमष्टापदकंपनः । अनुज्झितमहो धैर्य जीवग्राहं गृहीतवान् ॥ १३१ ।।
नीतः स्वनिलयं यद्धा खगैदृष्टः सविस्मयैः । यदि नामोत्पतेत्सोपि केन गृह्यत जंतुना ॥१३२।।
सहस्ररश्मिवृत्तांतादिव नीतिमुपागतः । सहस्ररश्मिरैदस्त संध्याप्राकारवेष्टितः॥ १३३.॥
दशवक्त्रविमुक्तेन कोपेनेव च भूरिणा । तमसा पिहितो लोकः सदसत्समताकृता ॥, १३४ ।।
ततो रणादिव प्राप्तमत्यंतविमलं यशः । शशांक विमुद्योतं तमोहरणपंडितं ॥ १३५ ॥
व्रणभंगविधानेन भटानां वीर्यवर्णनेः । गवेपणैश्च भिन्नानां निद्रया चाक्षतात्मनां ॥ १३६ ॥
गता राक्षससन्यस्य रजनी सा यथायथं । विबुद्धश्च दशग्रीवः प्रभाताहततूर्यतः॥१३७ ॥
ततो वार्तामिव ज्ञातुं दशवक्त्रस्य भास्करः । विभ्राणं, परमं रागं कंपमानः समागतः ॥ १३८ ।।
शतवाहुरथ श्रुत्वा सुतं पदं निरंवरः । जंघाचारणलब्धीशो महाबाहुमहातपाः ॥ १३९ ॥
रजनीपतियत्कांतो दीप्तस्तिग्ममरीचिवत् । मेरुवत्स्थैर्यसंपन्नो धीरो रत्नालयो यथा ॥ १४० ॥
दशमं पर्व।
पद्मपुराणम् ।
२४४
कृतप्रत्यंगकर्माणं समामध्ये सुखस्थितं । प्रशांतमानसः पाप रावणं लोकवत्सलः ॥ १४१ ।।
दूरादेव ततो दृष्ट्वा मुनि कैलाशकंपनः । अभ्युतस्थौ प्रणामं च चके भूमिस्थमस्तकः ॥ १४२॥
परासनोपविष्टे च यती भूमायुपविशत् । करद्वयं समासाद्य विनयानतविग्रहः ॥ १४३ ।।
जगाद चेति भगवन् ! कृतकत्यस्य विद्यते । न तवागमने हेतुर्विहाय मम पावनं ॥ १४४ ॥
ततः प्रशंसनं कृत्वा कुलवीर्यविभूतिभिः । क्षरन्निवामृतं वाचा जगादेति दिगंबरः ॥ १४५ ॥
आयुष्मन्निदमस्त्येव शुभसंकल्पतस्तय | नांतरीयकमेतत्तु वदामि यदिदं शृणु ।। १४६ ॥
पराभिभवमात्रेण क्षत्रियाणां कृतार्थता । यतः सहस्रकिरणं ततो मुंच ममांगजं ॥ १४७ ।।
संप्रधार्य ततः सार्धमिंगितरेय मंत्रिभिः । उवाच कैकसीपुत्रः प्रणतो मुनिपुंगवं ॥ १४८॥
विज्ञापयामि नाथाहं प्रस्थितः खेचराधिपं । वशीकतुं श्रियामत्तं कृतास्मत्पूर्वजागसं ॥ १४९ ।।
तत्र जाते हि वायां रम्यायां जिनपूजनं । मया तटस्थचक्रेण कृतं विमलसकते ॥१५॥
महोपकरणवासी नीता पूजा सुरंदसा । सहसा पयसा यंत्ररचितेनास्य भोगिनः ॥ १५१ ।।
ततो मया जिनेंद्रा चंसोद्भूतमहारुपा । कृतं कर्मेदमर्थेन न विना द्वेष्मि मानवान् ॥ १५२ ॥
नचानेनोदितं मह्यं संप्राप्साय प्रमादिना । यथा ज्ञातं मया नेदं क्षम्यतामिति मानिना ॥१५३॥
दशमं पर्व।
पद्मपुराणम्।
२४५
7
+
भूचरान्मानुपाजेतुं यो न शक्तः स खेचरान् । कथं जेष्यामि विद्याभिः कृतनानाविचेष्टितान् ॥
वशीकरोम्यतस्तावधूचरान्मानशालिनः । ततो विद्याधराधीशं सोपानक्रमयोगतः ।। १५५ ।।
ततो वशीकृतस्यास्य मुक्तिया॑य्यैव किं पुनः । भवत्स्वाज्ञा प्रयच्छत्सु पुण्यवदृश्यमूर्तिपु॥१५६||
अथेंद्रजिदुवाचेदं साधु देवेन भाषितं । को वा नयविदं नार्थ मुक्त्वा जानाति भापितुं ॥१५७||
ततो दशमुखादिष्टो मारीचोऽधिकृत रेः । आनाययत्सहस्रांशु नग्नसायकपाणिभिः ॥ १५८ ॥
तातस्य चरणी नत्वा भूमौ चासावुपाविशत् । सम्मान्य च दशास्येन विरोपेणेति भापितः १५९
अद्यप्रभृति मे भ्राता तुरीयस्त्वं महाबलः । जेष्यामि भवता साकं कृताखंडलविभ्रम ॥ १६० ।।
स्वयंप्रभां च ते दास्ये मंदोदर्याः कनीयसीं । कृतं यद्भवता तच्च प्रमाणं मे वराकृते ॥ १६१॥
सहस्ररश्मिरूचे च धिङ् मे राज्यमशाश्वतं । आपातमात्ररम्याश्च विषयान् दुःखभूयसः ॥१६२।।
स्वर्ग धिग् [तियोगेन धिग्देहं दुःखभाजनं । धिङ् मां वंचितमत्यंतं चिरकालं कुकर्मभिः १६३
तत्करोमि पुनर्येन न पतामिभवार्णवे | गतिष्वत्यंतदुःखासु निर्विणः पर्यटन्नहं ॥ १६४ ।।
उवाचेति दशास्यश्च ननु प्रवयसां नृणां । प्रव्रज्यां शोभते भद्र! त्वं च प्रत्यग्रयौवनः ॥१६५।।
सहस्रांशुरुषाचेति नैव मृत्युर्विवेकवान् । शरद्घन इबाकस्माद्देहो नाशं प्रपद्यते ॥ १६६ ॥
देशम पर्व।
.
पद्मपुराणम् ।
यदि नाम भवेत्सारः कचिद्भोगेषु रावण । ततो नैवनमे त्यक्तास्तेस्युरुत्तमबुद्धिना ॥ १६७ ।।
इत्युक्त्या वनये न्यस्य राज्यं परमनिश्चयः । क्षमितो दशवक्त्रण प्राबजपितुरंतिके ॥ १६८ ११
तेन चामिहितः पूर्वमयोध्यायाः पतिः सुहृत् । अनरण्योऽनगारत्वं प्रपरस्येहं यदा तदा।।१६९।।
तुभ्यं वेदपितास्मीति तथायं तेन मापितः । ज्ञापनार्थमतोऽनेन तस्मै संप्रेपिता नराः ॥१७॥
ततोऽसौ कथिते धूभिः श्रुत्वा वाप्याकुलेक्षणः । विललाप चिरं स्मृत्वा गुणांस्तस्य महात्मनः ।
विपादे च गते मधिमित्युवाच महायुधः । बंधुस्तस्य समायातो रिपुपेण रावणः ॥ १७२ ।।
ऐश्वर्यपंजरांतस्थो विषयमाहितविरं । येनात्यंचानुकलेन नरपक्षी विमोचितः ॥ १७३ ।।
माहिष्मतीपतिर्धन्यः सांप्रतं यो भवार्णवं । तितीर्पति यमध्वंसपोधपोत समाश्रितः ।। १७४ ।।
कृतार्थः सांप्रत जातो यदंतेऽत्यंतदुःखदं । पापं राज्याख्यमुज्झित्वा व्रतं जैनेश्वरं श्रितः ।।१७५।।
अभिनंयेति संविनः क्षिप्त्वा लक्ष्मी शरीरजे. सुतेन ज्यायसा साकमनरण्योऽभवन्मुनिः॥१७६।।
येन केनचिदुदात्तकर्मणा. कारणेन रिपुणेतरेण वा !!
निर्मितेन समवाप्यते मतिः श्रेयसी न तु विकृष्टकर्मणा ।। १७७ ॥
या प्रयोजयति मानसं शुभे यस्य तस्य परमः स बांधवः ।।
. भोगवस्तुनि नु यस्य मानसं यः करोति परमारिरस्य सा॥ १७८ ॥
.
पद्मपुराणम्।
જાઉં
एकादश पर्व।
भावयन्निति सहस्रदीधिति योऽनरण्यनृपति शृणोति च ॥
संयतं श्रवणशीलसंपदा स वजत्यमलतां यथा रविः ॥ १७९॥
इत्याचे रविषेणाचार्यप्रोक्त पद्मचरिते दशग्रीवप्रस्थाने सहस्ररश्म्यनरण्यश्रामण्याभिधानं नाम दशर्म पर्व
.
एकादशं पर्व।
अथ कैलाशसंक्षोभो यान्यान्मानवतो नृपान् । भृणोति धरणीयातांतांस्तान्सर्वाननीनमत् ॥१॥
वशीकृतैश्च सन्मान प्रापितवेष्टितो नृपः । पश्यन् स्फीतपुरामुवी सूभूमश्चक्रवद्यथा ॥ २ ॥
नानादेशसमुत्पन्नै नाकारैनरैर्वृतः । नानाभूपाधरैर्नानाभापविविधवाहनैः ॥ ३ ॥
कारयन् शीर्णचैत्यानां संस्कारान् परमां तथा । पूजां देवाधिदेवानां जिनेंद्राणां सुभावितां ।।४।।
ध्वंसयन् जिनविद्वेपकारिणः खलमानवान् । दुर्विधान् करुणायुक्तो धनेन परिपूरयन् ॥५॥
सम्यग्दर्शनसंशुद्धावत्सलः पूजयजनान् । प्रणमन्-श्रमणान् भक्त्या रूपमात्रश्रितानपि ॥ ६॥
4 १ एकादश पर्व। . ૨૮. पद्मपुराणम्। १ उदीचिं प्रस्थितः काष्ठा प्रताप दुस्सह किरन् । यथोत्तरायणे भानुः पुण्यकर्मानुभावतः ॥ ७॥ वलयांश्च श्रुतस्तेन राजा राजपुराधिपः । अभिमानं परं विभ्रत्परप्रणतिवर्जितः ॥ ८॥ जन्मनः प्रभृतिदुश्वेता लौकिकोन्मार्गमोहितः । प्रविष्टः पाणिविध्वंसं यज्ञदीक्षाख्यपातकं ॥९॥ अथ यजध्वनि श्रुत्वा श्रेणिको गणपालिनं । इत्यपृच्छद्विभो ! तावदास्तां रावणकीर्तनं ॥१०॥ उत्पत्ति भगवन्नस्य यज्ञस्येच्छामि वेदितुं । प्रवृत्तो दारुणो यस्मिन् जना जंतुविनाशने ॥११॥ उवाच च गणाधीशः शृणु श्रेणिक ! शोभनं । भवता पृष्टमेतेन वहयो मोहिता जनाः ॥ १२ ॥ विनीतायां महानासीदिक्ष्वाकुकुलभूषणः । ययाति म राजास्य सुरकांतेति भामिनी ॥ १३ ॥ यमुर्नामाभवत्तस्य गुरोर्योग्यः सचार्पितः । नान्ना क्षीरकदवस्य यस्य स्वस्तिमती प्रिया ॥१४॥ अन्यदारण्यक शास्त्रं सर्वशास्त्रविशारदं । अध्यापयत्यसौ शिप्यान्नारदादीन्वनांतरे ॥ १५ ॥ अथ चारणसाधूनां प्रथितानां विहायसा । एकेन पविना प्रोक्तमेवं कारुण्यकीरणा ॥ १६ ॥ चतुर्णा प्राणिनामेपामेको नरकभागिति । श्रुत्वा क्षीरकदंवस्तद्वचो भीतोऽभवभृशं ॥ १७ ॥ ततोऽतेवामिनस्तेन प्रेषिताः स्वस्त्रमालयं । ययुस्तुष्टा यथा वत्सा मुक्ता दामकबंधनान् ॥१८॥ स्वस्तिमत्यथ पप्रच्छ पुत्रं पर्वतसंज्ञक । क तवासौ पिता पुत्र ! येनकाकी स्वमागतः ।। १९ ॥
. पद्मपुराणम्। १२४९ एकादशं पर्व। -- पश्चादेमीति तेनोक्तमिति तस्य जगाद सः। तदागमं च कांक्षत्यास्तस्या यातमहः क्षयं ॥२०॥ नायातः स दिनांतेऽपि यदा तिमिरगढरे । तदा शोकभराक्रांता पतितासी महीतले ॥ २१ ॥ चक्रवाकीव दुःखार्ता विलापं चाफरोदिति । हा हता मंदभाग्यास्मि प्राणानां स्वामिनोज्भिता॥ पापेन केनचिन्मृत्युं किमसी प्रापितो. भवेत् । किंवा देशांतरं यातः कांतः केनापि हेतुना ॥२३॥ सर्वशास्त्रार्थकुशलः किंवा वैराग्यमाश्रितः । सर्वसंगान्परित्यज्य प्रवज्यां समशिश्रयत् ।। २४ ॥ विलापमिति कुर्वत्यास्तस्यां सा रजनी गता । अन्वेष्ट पितरं चादावह्नः पर्वतको गतः ॥२५॥ दृष्ट्वा सरित्तटोद्याने दिनैः कैश्चिद्गुरुं मुनिं । गुरोः संघसमेतस्य समीपे विनयस्थितं ॥.२६ ।। आरादेव निवृत्याख्यन्मातरं च पिता मम । विप्रलब्धोम्भवन्नमः श्रमणैस्तत्परापणैः ॥ २७ ।। ततोनिश्चयविज्ञाततदसंगमदुःखिता । कराभ्यां भृशमानाना स्तनावरुरुदत्स्वनं ॥ २८ ।। नारदस्तमथ श्रुत्वा वृत्तातं धर्मवत्सलः । दृष्टुमागादुपाध्यायीं , क्षणं शोकसमाकुलः ॥ २९ ।। तं दृष्टा सुतरां चक्रे स्तनताइनरोदनं । निसर्गोयं यदाप्तस्य पुरः शोको विवर्धते ॥ ३० ॥ जगाद नारदो मातः! किं शोकं कुरुपे वृथा । कृते शोकेऽधुना, नाऽसावागच्छति विशुद्धधीः ॥ कर्मणानुगृहीतोसौ चारुणा चारुचेष्टितः जीवितं चंचलं ज्ञात्वा यस्तपः कर्तुमुवतः ।। ३२ ॥
'.: एकादशं पर्व। २५० पद्मपुराणम् । तनुतां योध्यमानायाः शोकस्तस्या गतः क्रमात् । द्विपतीव स्तुवाना च भर्तारं सा स्थिता गृहे ३३ एतस्मादेव, चोदंताद्ययातिस्तत्त्वकोविदः । राज्यभारं वसोन्यस्य बभूव श्रमणो महान् ॥ ३४ ॥ सुप्रतिष्ठोऽभवद्राजा पृथिव्यां प्रथितो वसुः । नमास्फटिकविस्तीर्णशिलास्थहरिविष्टरः ॥ ३५ ॥ समं, पर्वतकेनाथ नारदस्यान्यदाऽभवत् । कथेयं शास्रवत्वार्थनिरूपणपरायणा ॥ ३६ ।। जगाद नारदो दृद्भिः सर्वः सर्वदर्शिभिः । द्विविधो विहितो धर्मः सूक्ष्मो दारविशेषतः ॥३७॥ हिंसया अनृतात्स्तेया दारसंगात्परिग्रहात् । विरतत्रतमुद्दिष्टं भावनाभिः समन्वितं ॥ ३८ ॥ विरति सर्वतः कर्तु ये शक्तास्ते महावतं । सेवंतेऽणुव्रतं शेषा जंववो गृहमाश्रिताः ॥ ३९ ॥ संविभागो तिथीनां च तेपामुक्तो जिनाधिपः । यज्ञाख्यावस्थिवास्तस्मिन् मेदैः पात्रादिभिर्युतैः अजैर्यर्यष्टव्यमित्यस्य वाक्यस्यार्थों दयापरेः । अयं पुनिभिरारुपातो ग्रंपार्थ ग्रंधिमेदिभिः ॥४१॥ अजास्ते जायते येषां नांकुर सति कारणे । सस्यानां यजनं कार्यमेतरिति विनिश्चयः ॥ ४२ ।। अजा पशव उद्दिष्टा इति पर्वतकोऽवदत् । तेपामालंभनं कार्य सच यागो विधीयते ॥ ४३ ॥ नारदः कुपितोऽयोचत्ततः पर्वतकं खलं । मैवं चोचः पतस्येवं नरके घोरवेदने ॥ ४ ॥ प्रतिज्ञां चाकरोदेवमाक्योर्योवसीदति । वसु प्राधिकमासाद्य तस्य जिहा निकृत्यते ॥४५॥ HT
पद्मपुराणम् ।
३५१
एकादर्श पर्व।
अतिक्रांता वसुं दृष्टं वेलाद्य श्वो विनिश्चयः । मवितेत्यभिधायागात्पर्वतो मातुरंतिकं ॥ ४६ ।।
तस्यै चाकथयन्मूलं कलहस्यामिमानवान् । ततो जगाद सा पुत्र! त्वया निगदितं मृपा ॥४७॥
कुर्वतोऽनेकशी व्याख्या मया तव पितुः श्रुतं । अजाः किलाभिधीयते श्रीहयो ये प्ररोहकाः ४८
देशांतरं प्रयातेन मांसभक्षणकारिणा | मानाच वितथं प्रोक्तं तवेदं दुःखकारणं ।। ४९ ॥
रसनाच्छेदनं पुत्र नियतं ते भविष्यति । अपुण्या किं करिष्यामि पतिपुत्रविवर्जिता ॥ ५० ॥
सम्मार पुरा प्रोक्ता वसुना गुरुदक्षिणां । न्यायभूतां गता चाशु बसोरंतिकमाकुला ॥ ५१ ॥
उपाध्यायीति चोदारमादरं विदधे वसुः । प्रणम्य च सुखासीनां पप्रच्छ रचितांजलिः ॥५२॥
उपाध्यायीति यच्छाज्ञामायाता येन हेतुना । सर्व संपादयाम्याशु दुःखितेव च दृश्यते ॥ ५३॥
उवाच स्वस्तिमत्येवं नित्यं पुत्रास्मि दुःखिता । प्राणनाथपरित्यक्ता का वा स्त्री सुखमृच्छति ५४
संबंधो द्विविधो यौनः शास्त्रीपश्च तयोः परं । शास्त्रीयमेव मन्येहमयं मलविवर्जितः ॥ ५५ ॥
अतो नाथस्य मे शिष्यः पुत्र एव भवानपि । पश्यंतो भवतो लक्ष्मीं करोमिं धृतिमात्मन ॥५६॥
दक्षिणां च गृहीप्यामि पुरा प्रोक्तं चया सुत ! मया चोक्तं गृहीष्यामि कालेन्यऽस्मिन्निति स्मर ।।
सत्यं वदंति राजानः पृथिवीपालनोद्यताः । ऋपयस्नेहि भाष्यंते ये स्थिता जंतुपालने ॥ ५८ ॥
एकादशंपव। २५२ पद्मपुराणम्। सत्येव श्रावितः सत्वं मह्यं तां च्छ दक्षिणां । इत्युक्तश्वायदद्राजा विनयानतमस्तकः ॥.५९ ॥ अंब! ते वचनादध करोम्यथ जुगुप्सितं । यद यत्ते स्थितं चित्ते मा कृथा मतिमन्यथा ॥६॥ नमुदंतं ततोऽशेष निवेद्यास्मै जगाद सा । पुत्रस्यानृतमप्येतदनुमान्यं त्वया मम ।। ६१ ॥ जानतापि ततो राजा नीतेन स्थिरतां पुनः । मूढसत्यगृहीतेन प्रतिपन्नं तयोदितं ।। ६२ ॥ पुनरुक्तं प्रिय भरि भापित्याशीः पुरस्सरं । आनई निलयं तुष्टा भृशं स्वस्तिमती ततः ॥ ६३ ॥ अथान्यस्य दिनस्यादी गतौ नारदपर्वती । समीपं सितिपालस्य कुतूहलजनावृतौ ॥ ६४ ॥ चतुर्विधो जनपदो नानाप्रकृतयस्तथा । सामंता मंत्रिणवाशु विविशुर्जल्पमंडलं ॥ ६५ ॥ ततस्तयोः सतां मध्ये विवादः सुमहानभूत् । नीयोजा विवीजा ये पशवश्चेति वस्तुनि ॥६६॥ ततस्ताभ्यां वसुः पृष्टो यदुपाध्याय उक्तवान् । तत्वं वद महाराज ! सत्येन श्रावितो भवान् ६७ यदेतत्पर्वतेनोक्तं तदुपाध्याय उक्तवान् । इत्युक्ते स्फटिकं यातं वसोः क्षिप्रं महीतले ।। ६८ ॥ नानासीत्किल तल्लोकः स्फटिक गगने ततः । स्थितं सिंहासने तस्य विवेदेति ततोऽवदत् ॥६९।। वसो ! वितथसामोत्तव सिंहासनं गतं । भूमिमद्यापि ते युक्तं परमायनिवेदनं ॥ ७० ॥ वतो मोहमदाविष्ट स्तदैव पुनरभ्यधात् । प्रविष्टो धरणी सधः सिंहासनसमन्वितः ॥ ७१ ।।
ब एकादशं पर्व। २५४ . 1 1 . सौत्रामणिविधानेन सुरापानं न दुष्पति । अगम्यागमन कार्य यज्ञे गोसवनामनि ॥ ८५ ॥ मानमेधे वधो मातुः पितृमेधे वधः पितुः । अंतर्वेदि विधातव्यं दोपस्तत्र न विद्यते.॥८६॥ आशुशुक्षणिमादाय पृष्टेकूर्मस्य तर्पयेत् । हविष्यजुह्वकाख्याय स्वाहेत्युच्या प्रयत्नतः ॥ ८७ ॥ यदा न प्राप्नुयात्म तदा शुद्धद्विजन्मनः । खलतेः पिंगलाभस्य विक्लवस्य शुचौ जले ||८|| आस्यदन्नेवतीर्णस्य मस्तके कूर्मसनिमे । प्रज्वाल्य ज्वलनं दीप्तमाहुतिं निक्षिपेद्विजः ।। ८९॥ सर्व पुरुष एवेदं यद्भूतं यनविष्यति । ईशानो योमृतस्तस्य यदन्नेनातिरोहति ॥ ९ ॥ एवमेकत्र पुरुषे किं केनात्र विपाधते । कुरुतातो यथाभीष्टं यज्ञे प्राणिनिपातनं ॥ ९१ ॥ मांसस्य भक्षणं तेषां कर्तव्यं यज्ञकर्मणि । याजकेन पूतं हि देवोद्देशेन तत्कृतं ॥ १२ ॥ एवंप्रकारमसंवपापकर्म प्रदर्शयन् । प्राणिनः प्रवणांश्चके राक्षसो धरणीतले ।। ९३ ।। श्रदधानस्ततो भूत्वा जंतवः सुखवांछया । हिंसायज्ञस्थली भूमि दीक्षिताः प्रविशंति ये ।।९४ ॥ काष्ठभारं यथा सर्व प्राध्वंकृत्य स तान् इदं । भयोद्भूतमहाकंपान् चलत्तारकलोचनान् ॥९५।। पृष्टस्कंधशिरोजंघान् पादाग्रस्थान विधाय खं । उत्पपात पतद्रक्तधारानिकरदुःखितान् ॥ ९६ ।। ततस्ते विश्वरोदारं क्रोशतोऽभिदधुः स्वरं । किमर्थ देव रुष्टोऽसि येनास्मान् इंतुमुद्यतः ॥ ९७॥ + -- एकादशं पर्व। पद्मपुराणम् प्रसीद मुंच निर्दोपानस्मान्देव ! महावल । भवदाज्ञां वयं सर्वा कुर्मः प्रणतमूतयः ॥ १८ ॥ ततो यमाण वान् रक्षः यथैव पशवो हताः । भवद्भिरियति स्वर्ग तथा यूयं मया हताः ॥१९॥ इत्युक्त्या विजने कांश्चिद्द्वीपेऽन्यस्मिन्निरक्षिपेत् । महार्णवे परानन्यान् क्रूरपाणिगणांतरे॥१०॥ एकानास्फालयन क्षोणीधरमूर्तीि शिलावले । कुर्वन्बहुविधं शब्द वासांसि रजको यथा ॥१०१॥ दुःखेन मरणावस्था प्राप्तास्ते त्रस्तचेतसः । पितरी तनयान भ्रातॄन् स्मरतो मृत्युमीयति ॥१०२॥ तद्व्यापादितशेपा ये मूहाः कुग्रंथकंथया । रक्षसा दशितोऽहिंसायज्ञस्तवृद्धिमाहृतः॥ १०३ ॥ हिंसायज्ञमिमं घोरमाचरंति न ये जनाः । दुर्गतिं ते न गच्छंति महादुःखविधायिनीं ॥ १०४ ॥ उदाहतो मयापास्तहिंसायज्ञसमुद्भवः । श्रेणिकैनं पुराज्ञासीत् प्राज्ञो रत्नश्रवासुतःः॥ १०५ ॥ अथ राजपुरं प्राप्तो रावणः स्वर्गसन्निभं । पहिर्यस्य मरुत्ताख्यो यज्ञवाटे स्थितो नृपः ॥ १०६ ॥ हिंसाधर्मप्रवीणश्च संवर्तो नाम विश्रुतः । ऋत्विक तस्मै ददौ कृत्समुपदेशं यथाविधि ॥१०७।। सूत्रकंठा पृथिव्यां ये सर्वे तेत्र निमंत्रिताः । पुत्रदारादिभिः सार्धमागता लोकवाहिताः ॥१०८|| सा तैर्यज्ञमही सर्वा वेदमंगलनिस्वनैः लाभाकांक्षाप्रसन्नास्यै घृता क्षुभ्यत्सुभूरिभिः ॥ १०९ ॥ उपनीताथ तत्रैव पशवो दीनमानसाः । वराकाः शतशो बद्धाः श्वसत्कुक्षिष्टा भयात् ॥११०॥'
२५६ एकादशं पर्य। पद्मपुराणम् । नारदोस्थांतरे यस्मिन्निच्छया नभसा बजन् । अपश्यद्यानपृष्टस्थो जनं ते तत्र संगतं ॥१११॥ अचिंत्तयच्च दृष्ट्वं विस्मयाकुलमानसः । कुर्वन्विभ्रममंगस्य कुतूहलसमुद्भवं ।। ११२ ॥ एतत्सुनगरं कस्य कस्य चयमनीकिनी । इयं च सागराकारा प्रजाः कस्मादिह स्थिताः।।११३॥ नगराणि जनौपाश्र वरूथिन्यश्च भूरियः । मयेक्षांचक्रिरे जातु नेहम्दृष्टो जनोत्करः ।। ११४ ॥ कुतूहलादिति ध्यात्या वतीणोऽसौ विहायसः । कमैतदेव तस्यासीद्यत्कुतूहलदर्शनं ।। ११५ ॥ पप्रच्छ मागधेशोऽथ भगवन् ! कः स नारदः । उत्पत्तिर्वा कुतस्तस्य गुणा वा तस्य कीदृशाः ।। जगाद च गणाधीशः श्रेणिक ! ब्राह्मणोऽभवत् । नाम्ना ब्रह्मरुचिस्तस्य कूर्मी नाम कुटुंविनी ।। तापसेन सता तेन श्रितेन वनवासितां । एतस्यामाहितो गर्भः फलमूलादिवृत्तिना ॥ ११८॥ वीतसंगास्तमुद्देशमधाजग्मुर्महर्षयः । यांतो मार्गवशात्केऽपि संयमासक्तमानसाः ॥ ११९.।। विशश्रमुः क्षणं नस्मिनाश्रमे श्रमनोदिनि । अपश्यं दंपती तौच स्वाकारी कर्मगहितौ ॥१२०॥ आपाडुरशरीरां च दृष्ट्वा योपां पुथुस्तनीं । कृशां गर्भभरम्लानां श्वसंती पन्नगीमिव ॥ १२१ ।। संसारप्रकृतिज्ञानां श्रमणानां महात्मनां । कृपया संबभूवती धर्म पोधयितुं मतिः ॥ १२२ ॥ तेषां मध्ये ततो ज्येष्ठो जगादमधुरं यतिः । कटं पश्यत नय॑ते कर्मभिजेतवः कथं ।। १२३ ॥
12३३
एकादशं पर्व ।
1
है
पद्मपुराणाम् ।।
.२५७.
+
.
.
.
A
त्यक्त्वा धर्मपिया बंधून संसारोचरणाशया । स्वयं खलीकृतोऽरण्ये किमात्मा तापस त्वया१२४
भद्र ? प्रत्रजितो जातः कस्ते भेदो गृहस्थतः । चारित्रं प्रतियातस्य केवलं वेपमन्या ।।१२५।।
यथाहि छदितं नान्नं भुज्यते मानुपैः पुनः । तथा त्यक्तेषु कामेपु न कुर्वति मति युधाः ॥१२६॥
त्यक्त्वा लिंगी पुनः, पापो योपितं यो निषेवतें । सुभीमायामरण्यान्यां वृकतां सं समश्नुते १२७
सारंमस्थितः कुर्वन् न.ब्रह्ममदनिर्भरः । दीक्षितोऽस्मीति यो वेति स्वं नितांत स मोहवान्१२८
ईप्यामन्मथदग्धस्य दृष्टदृष्टेदुरात्मनः । आरंभे वर्तमानस्य प्रवज्या वद कीदृशी ? ॥ १२९ ।।
कुदृष्टया गर्वितो लिंगी विषयास्रवमानसः । ब्रुवनहं तपस्वीति मिथ्यावादी कथं व्रती ॥१३॥
सुखासनविहारः सन् सदा कशिपुसक्तधीः । सिद्धुमन्यो विमूढात्मा जनोयं स्वस्य पंचकः १३१
तथा प्रवाजितो भूत्वा यो यातींद्रियवश्यतां । निंदिनः स भवेल्लोके न च स्वार्थ समश्नुते॥१३४॥
ध्येयमेकाग्रचित्तेन सर्वग्रंथविवार्जेना । मुनिना ध्यायते तत्त्वं सारंभैर्न भवद्विधैः ॥ १३५ ।।।
प्राणिनो ग्रंथसंगेन रागद्वेपसमुद्भवः । रागात्संजायते कामो द्वेपाजंतुविनाशनं ॥ १३६ ॥
पकादशं पर्व। २५८ पद्मपुराणम्। ។ कामक्रोधाभिभूतस्य मोहेनाक्रम्य ते मनः । कृत्यकृत्येषु मूढस्य मतिर्नस्याद्विवेकिनी ॥१३७॥ यत्किंचित्कुर्वतस्तस्य कर्मोपार्जयतोऽशुभं । संसारसागरे घोरे भ्रमणं न निवर्तते ॥ १३८ । एतान्संसर्गजान् दोपान्विदित्वाशुविपश्चितः । वैराग्यमधिगच्छंति नियम्यात्मानमात्मना ॥१३९॥ एवं संबोधितो वाक्यैः परमार्योपदेशनैः । उपेतः श्रामणी दीक्षा मोहाब्रह्मरुचि युतः ।।१४०॥ निरपेक्षमनिः को महावैराग्यसम्पदः । चिजहार सुखं सार्घ गुरुणा गुरुवत्सलः ॥ १४१ ।। सापि शुद्धमति कूर्मी कर्मणः कृष्णत,युता । ज्ञात्वा रागवशं जंतोः संसारपरिवर्तनं ॥ १४२ ।। कुमार्गसंगमुत्सृज्य जिनमक्तिपरायणा । सिंहीच शोभतेरण्ये भा विरहिता सती ॥ १४३ ॥ मासे च दशमे धीरा प्रसूता दारकं शुमम् । अचिंतयच वीक्ष्यैनं ज्ञातकर्मविचेष्टिता ॥ १४४ ॥ संपर्कोयमनर्थोसौ कथितो यन्महर्षिभिः । तसान्मुक्त्वाधुना संग करोमि हितमात्मने ॥१४५।। अनेनापि भवेद्यास्मिन् यः कर्मपिधिरजितः । फलं तस्य शिशुभॊक्ता मनोज्ञमभवेतरं ॥ १४६ ।। अरण्यान्यां समुद्रे वा स्थितं वारातिपंजरे । स्वयंकतानि कर्माणि रक्षति न परो जनः ॥१४७॥ यः स्वयं प्राप्तकालः स्याज्जन्मन्यंकगतोऽपि सः । हिपते मृत्युना जीवः स्वकर्मवशतां गतः १४८ एवं विदिततत्वा सा बुद्धधातिनिरपेक्षया । बालक विपिने त्यक्त्वा तापसी वीतमत्सरा।।१४९।।
पद्मपुराणम्।
. २५९
एकादशं पर्व।
+
आनोलोकनगरे कात्यायोमिदुमालिनी । शरणं भूरिसंवेगा भूतार्या चारुचेष्टिता ॥ १५ ॥
सत्कर्मा बालकश्चासौ रोदनादिविवर्जितः । ब्रजद्भिर्नभसादृष्टः सुरै भकसंज्ञकैः ॥ १५१ ॥
गृहीत्वा च कृपायुक्तैरादरात्परिपालितः । अध्यापितश्च शास्त्राणि सरहस्याण्यशेषतः ॥ १५२ ।।
लेभे च लब्धवर्णः सन् विद्यामाकाशगामिनीं । यौवनं च परं माप्तः स्थिति चाणुव्रती बढा १५३
दृष्ट्वा च मातरं चिट्ठः प्रत्यभिज्ञानकारिणी । तत्प्रीत्योपेत्य निग्रंथं सम्यग्दर्शनतत्परः ॥ १५४ ॥
प्राप्य क्षुल्लकचारित्रं जटामुकुटमुद्वहन् । अवहारसमो जातो न गृहस्थो न संयतः ॥ १५५ ॥
या कादर्पकौत्कुच्यमौखर्यात्यंतवत्सलः | कलहप्रेक्षणाकांक्षी गीतचंचुः प्रभाववान् ॥ १५६ ॥
पूजितो राजलोकस्य परैख्याहतायतिः। चचार रोदसीं नित्यं कुतूहलगतेक्षणः ॥ १५७ ॥
देवैः संवर्धितत्वाच देवसन्निभविभ्रमः । देवर्षिः प्रथितः सोऽभूद्विद्याविद्योतिवाद्भुतः ॥ १५८ ।।
कथंचित्संचरंश्वासाविच्छया तां मखावनीं । समीपगगनोद्देशस्थितोऽपश्यज्जनाकुलां ॥ १५९ ॥
दृष्ट्वा च तान् पशून् वद्धान समाश्लिष्टोऽनुकंपया । अवतीर्णो मखक्षोणी जल्पाकपथपंडितः१६०
उवाचेति मरुतं च किं प्रारब्धमिदं नृप।। हिंसनं प्राणिवर्गस्य द्वार दुर्गतिगामिनां ॥ १६१ ॥
वाचासावयं वेत्ति सर्व शास्त्रार्थकोविदः । ऋत्विक मम यदेतेन कर्मणा प्राप्यते फलं ॥१६२॥
1 एकादर्श पर्व। २६. परगणम् । अग्जिीनं ननोवादीदही माणवक ? त्यया। किमिदं प्रस्तुतं दृष्टं समदुःखकारण ॥ १६३ ।। गंधता पितोचोनदहोत्यंतत्रिमृदना । यदत्यंतममंबद्ध भापसे हेतुर्जितं ।। १६४ ।। भरतो पो मनः कोऽपि गयो रागयर्जितः । परकत्वाएपपनिभ्यो नासायेवं यधेनरः ॥१६५।। अशुदः कषुभिः प्रोकं वननं स्यान्मलीमर्म । अनीशन नी कश्चिदुपपनेरभावतः ॥ १६६ ।। नमादकको वेदः प्रमाणं स्वादतींद्रियः । वर्णत्रयस्य यजे च कर्म तेन प्रकीर्तितं ॥ १६७ ॥ अपोग्गो धुणे धर्मो पागेन प्रकटीकनः । प्रयच्छति फलं स्वर्ग मनोनृविषयोस्थितं ।।१६८॥ अंतदिपशूनां च प्रत्यवायाय नो वधः । शामेण चोदिनो यमायया त्यागादिसवनं ॥१६९ ।। पशूनां न वितानार्थ कता गृष्टिः स्वयंभुवा । नस्मानदर्थमा को दोपो विनिपातन ।।१७०।। इत्युक्ते नारदोयोनदयाय निगिलं त्वया । मापिन शृणु दुर्यथभावनादूपितात्मना ।। १७१ ।। यदि पर्वप्रकारोऽपि सर्वनो नाति म विधा । शन्दार्थयुद्धिमदन स्वयाचा स्थानतो हताः।।१७२।। अथ गन्दा बुद्धिय विधनेर्थस्तु नेप्यते । नैवमेनत्रयं दृष्ट यस्मात्सर्वगवादिषु ॥ १७३ ॥ असत्यर्थ नितांतं न कुरुते का पद मनिः गन्दा वा म नयाभूतो बजेदीवाव्यतिक्रमं ।।१७।। बुद्धेः सर्वत्र इत्येष व्यवहारो गुणागतः । मुख्यापेयो यथा चैत्र मिहान्दप्रवर्तनं ॥ १७५ ।। L + एकादशं पर्व। -- । ':; २६९ पद्मपुराणम् । '' . . एतेन चानुमानेनं प्रतिज्ञेयं विरोधिनी । अभावव ममात्यंत प्रसिद्धि न क्वचिंगतः ॥ १७६ .!! सर्वज्ञः सर्वदृक् क्वासौ यस्यैष महिमा भुवि । दिव्यब्रह्मपुरे झेप व्योन्नात्मा सुप्रतिष्ठितः॥१७७॥ आगमेन तवानेन विरोधं याति संगरः । अनेकांते च साध्येऽर्थे भवेत्सिद्धप्रसाधकं ।। १७८ ।। वक्तृत्वं सर्वथा युक्तं न परं प्रति सिद्धयति । असिद्धं च भवेत्स्वस्य स्याद्वादेन समागतं ॥१७९॥ नासावभिमतोऽस्माकं वक्तृत्वाद्देवदत्तवत् । इत्यायपि भवेत्सिद्धं विरुद्ध साधनं यतः ॥१८॥ प्रजापत्यादिभिश्वायमुपदेशो न निश्चयः । तेऽप्येवमिति चैतेभ्यो दोपवानागमो भवेत्॥१८१।। एकं यो वेदते न स्याज्जातं सत्तात्मनाखिलं । अतः साध्यविहीऽनोयं दृष्टांतो गदितस्त्वया ।। अथ चैकांतयुक्तोक्ति दृष्टांतो नो यतस्ततः । साध्यसाधनवैकल्यमुदाहार्य संधर्मिणि ॥ १८३।। श्रुत्वा वस्तुन्यदृष्टे च प्रमाणं वेदमागतं । न समाश्रयणं युक्तं हेतोः सर्वज्ञदूपणे ॥ १८४ ॥ वक्तृत्वस्य विरोधो वा सर्वज्ञत्वेन कः समः । सति सर्वज्ञतायोगे वक्ताहि सुतरां भवेत् ॥१८५।। यो न वेत्ति स किं वक्ति वराको मतिदुर्विधः । व्यतिरेकाविनाभावो भावाच, स्यान्न साधनं ॥ स्वपक्षोयमविद्येयं तथा यागादिकं मलं । क्षीयतेऽल क्वचिद्धेतोधोतुहेममलं यथा ॥ १८७ ।। असदादिमते धर्मे आपेक्षितविपर्ययः । धर्मत्वादुत्पलद्रव्ये यथा नीलविशेषणं ॥ १८८ ॥ .
-- 1 - एकादशं पवे । २६२ पद्मपुराणम् । कप्रभावश्च वेदस्य युक्त्यभावान युज्यते । कर्तृमत्त्वे तु संसाध्ये दृश्यवद्धेतुसंभवः ॥ १८९ ॥ युक्तश्च कर्तृमान् वेदः पदवाक्यादिरूपनः । विधेयप्रतिपेधार्थ युक्तत्वान्मैत्रकाव्यवत् ॥ १९०॥. ब्रह्मप्रजापतिप्रायः पुरुरेभ्यश्च संभवः । श्रूयते वेदशास्त्रस्य नापनेतुं स शक्यते ॥ १९१ ॥ स्याचे मतिर्न कर्तारः प्रवक्तारः श्रुतेः स्मृताः । तथा नाम प्रवक्तारो रागद्वेपादिभिर्युताः॥१९२।। सुसर्वज्ञाश्च किं कुर्युरन्यथा ग्रंथदेशनं । अर्थस्य वान्यथाख्यानं प्रमाणं तन्मतं यतः ॥ १९३॥ चातुर्विध्यं च यज्जात्या तत्र युक्तमहेतुकं । ज्ञानं देहविशेषस्य न च श्लोकामिसंभवात् ।।१९४॥ दृश्यते जाविभेदस्तु यत्र तत्रास्य संभवः । मनुष्यहस्तिवालेयगोवाजिप्रभृतौ यथा ॥ १९५ ।। नच जात्यंतरस्थेन पुरुषेण स्त्रियां क्वचित् । क्रियते गर्भसंभूतिर्विप्रादीनां तु जायते ।। १९६ ॥ अश्वायां रासभेनास्ति संभवोऽस्येति चेन सः । नितांतमन्यजातिस्थशफादितनुसाम्यतः ॥१९७॥ यदि वा तद्वदेवस्यादद्वयोर्विसदृशः सुतः । नात्र दृष्टं तथा तम्माद्गुणैवर्णव्यवस्थितिः॥ १९८॥ मुखादिसंभववापि ब्रह्मणो योऽभिधीयते । निर्हेतुः स्वगेहेऽसौ शोभते भाष्यमाणकः ॥ १९९ ॥ पिशृंगादिकानां च मानवानां प्रकीयते । ब्राह्मण्यं गुणयोगेन न तु तयोनिसंभवात् ॥२००॥ वृहत्वाभगवान्नमा नाभेयस्तस्य ये जनाः । भक्ताः संतस्तु पश्यति ब्रामणास्ते प्रकीर्तिताः ।।
एकादर्शपर्व। पद्मपुराणम् । क्षत्रियास्तु क्षतत्राणाद्वैश्याः शिल्पप्रवेशनात् । श्रुतात्सदागमाद्यतु द्रुतास्ते शूद्रसंज्ञिताः॥२०२॥ न जातिगर्हिताकाचिद्गुणाः कल्याणकारणं । व्रतस्थमपि चांडालं तं देवाब्राह्मणं विदुः २०३ विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पंडिताः समदर्शिनः ॥२०४॥ चातुर्वर्ण्य यथान्यच्च चांडालादिविशेषणं । सर्वमाचारभेदेन प्रसिद्धिं भुवने गतं ।। २०५॥ अपूर्वाख्यश्च धर्मो न व्यज्यते यागकर्मणा । नित्यत्वाद्व्योमवद्व्यक्तेरनित्यो वा घटादिवत् २०६ फलं रूपपरिच्छेदः प्रदीपव्यक्यनंतरं । दृष्टं यथेह चापूर्वव्यक्तिकालं फलं भवेत् ।। २०७।। शास्त्रेण चोदितत्वाच वेदीमध्ये पशोर्वधः । प्रत्यवायाय नेत्येतदयुक्तं येन तच्छृणु ।। २०८ ॥ वेदागमस्य शास्त्रत्वमसिद्धं शास्त्रमुच्यते । तद्धियन्मादवच्छास्ति सर्वस्मै जगते हितं ।। २०९ ॥ प्रायश्चित्तं च निर्दोपे वक्तुं कर्मणि नोचितं । अत्र तूक्तं ततो दुष्टं तच्चेदमविधीयते ॥ २१ ॥ राजानं त्यसौ सोमं वीरं वा नाकवासिनां । सोमेन योयजेत्तस्य दक्षिणा द्वादशं शतं ॥२१॥ शोधयत्यत्र देवानां शतं वीरं प्रतर्पणं । प्राणानां दश कुर्वति यैकादशात्मनस्तु सा ।। २१२ ।। द्वादशी दक्षिणा या तु दक्षिणा सैव केवलं । इतरासां च दोषाणां व्यापारो विनिवर्तने ॥२१॥ तथा च यशुर्मायमकृतोरोदवाहना । पादाभ्यामेनसस्तस्माद्विश्वस्मान्मुंचतानलः ॥ २१४ ॥ .
1 + . + . १२६४ ।।" 71 एकादर्श पर्य। पद्मपुराणम् । एवमादि च बहेव गदितं दोपनोदनं । आगमेन ततोऽन्येन व्यभिचारोत्र विद्यते ॥ २१५ ॥ पशोर्मध्ये वो वैद्याः प्रत्यवायाय कल्प्यते । तस्य दुःसनिमित्तत्वाद्यथा व्याधकृतो वधः २१६ स्वयंभुवा च लोकस्य सर्गो नेयर्ति सत्यतां । विचार्यमाणमेतद्धि. पुराणतृणदुर्वलं ।। २१७ ।। कृतार्थो यद्यसौ मृष्टौ तस्यां किं स्यात्प्रयोजनं । क्रीडेति चेत्कृतार्थोऽसौ न भवत्यर्भको यथा ।। साक्षादेव रति कस्मान्न सृजेत्स विनेतरैः । सृजतो वास्य के भावा ब्रजेयुः करणादितां ॥२१९।। किंचोपकारिणः केचित् केचिद्वास्यापकारिणः । सुखिनः कुरुते कोश्चियेन कौश्चिच दुःखिनः॥ अथ नैव कृतार्थोसावे तहि स नेवरः । कर्मणा परतंत्रत्वाद्यथा कश्चिद्भवद्विधः ॥ २२१ ।।. सुवुद्धिनरयत्नोत्तसंस्थानाः कमलादयः । विशिष्टाकारयुक्तत्याद्रथवेश्मादयो यथा ॥ २२२ ॥ यद्धिपूर्वका एते भविष्यति स ईश्वरः । इत्येतच न सम्यक्त्वं बजत्येकांतवादिनः ।। २२३ ॥ सुबुद्धिनरयत्नोत्थाः सर्वथा न रथादयः । व्यवस्थित यतस्तत्र द्रव्यं चैवोपजन्यते ॥ २२४ ॥ क्लेशादियुक्तता चास्य व्यश्नुते तक्षकादिवत् । नामकर्म च मैव स्पादीश्वरो यस्त्वयेप्यते २२५ विशिष्टाकारसंबद्धमीश्वरस्य पुनर्वपुः । ईश्वरांतरयत्नोत्थमिप्यते नो न निश्चयः ।। २२६ ॥ अपरेश्वरयत्नोत्थमथैतदपि कल्प्यते । सत्येवमनवस्था स्यान्नच स्तस्याभिसर्जनं ॥ २२७ ॥ + एकादर्श पर्व। - प - पद्मपुराणम् । शरीरमथ नैवांस्य विद्यते नैप सर्जकः । अमूर्तत्वाद्यथाकाशं तक्षवद्वा सविग्रहः ॥ २२८ ।। यजनाथं च स्रष्टानां पशूनां वाहनादिकं । क्रियमाणं विरुद्धचेत तद्धि स्तेयं प्रकल्प्यते ॥२२९॥ अतः कर्मभिरेवेदं रागादिभिरुपार्जितैः । वैचित्र्यं व्यश्नुते विश्वमनादौ भवसागरे । २३० ।। कर्म किं पूर्वमाहोश्चिच्छीरमिति नेशः । युक्तः, प्रश्नो भवेन्नादौ बीजपादपयोर्यथा ॥२३१॥ अंतोऽपि तर्हि न स्याचेत्तन्न वीजविनाशतः । दृष्ट्वा हि. पादपोद्भतेरसंभूतिरिदं तथा.।।२३२॥ तस्माद्विष्टेन केनापि प्राणिना पापकर्मणा । कुग्रंथरचनां कृत्वा यज्ञकर्म प्रवर्तितं ॥ २३३ ॥ संप्राप्तोऽसि कुले जन्म बुद्धिमानसि मानवः । निवर्तस्व ततः पापादेतस्माद्व्याधकर्मणः २३४ यदि प्राणियधः स्वर्गसंप्राप्ती कारणं भवेत् । ततः शून्योभवेदेप लोकोऽल्परेव वासरः ॥ २३५ ।। प्राप्तेन चापि किं तेन च्युतिर्यस्मात्पुनर्भवेत् । दुःखेन च समासक्तं सुखं स्वल्पं च बाह्यजं .२३६ यदि प्राणिपधाद् ब्रह्मलोकं गच्छंति मानवाः । तस्यानुमतनात्कस्मात्पतितो नरके वसुः ॥२३७॥ उत्तिष्ठ भो वसो स्वर्ग बजेति कृतनिस्वनः । सूत्रकंठर्दुराचारैः स्वपराशुभकारिभिः ॥,२३८ ॥ स्वपक्षानुमतप्रीतैरुपम्याद्यापि यद्विजैः । आहुतिः क्षिप्यते वही नितांतं कुरमानसैः ।। २३९ ।। पिप्टेनापि पशुं कृत्वा निनंतो नरकं गताः । संकल्पादशुभाकैव कथेतरपशोर्वधेः ॥२४०।।।
एकादर्श पर्व। यज्ञकल्पनया नैव किंचिदस्ति प्रयोजनं । अथापि स्यात्तथाप्येवं न कर्तच्या बुधोत्तमः ।। २४१ ।। यजमानो भवेदात्मा शरीरस्तु वितर्दिकः । पुरोडाशस्तु संतोपः परित्यागस्तथा हविः ॥२४२।। पूर्धजा एव दर्माणि दक्षिणा प्रापिरक्षणं । प्राणायाः सितं ध्यान यस्य सिद्धपद फलं ॥२४॥ सत्यं यूपस्ततो वह्निर्मानसं चपलं पशुः । समिघश्च हृषीकाणि धर्मयज्ञोयमुच्यते ॥ २४४ ।। यझेन क्रियते नृभिचानामिति चेन्मतिः । तत्र तेषां यतोम्स्त्येव दिव्यमन्नं यधेक्षितं ।। २४५ ॥ स्पर्शतो रसतो रूपाद्धायेषां मनोहरं । अनमस्ति किमेनेन तेषां मांसादिवस्तुना ।। २४६ ॥ शुक्रशोणितसंभूतममेध्यकमिसंभवं । दुगंधदर्शनं मांस भक्षयति कथं सुराः ।। २४७ ।। प्रयोऽनयो वपुष्येव ज्ञानदर्शनजाठराः । दक्षिणाग्न्यादिविज्ञानं कार्य तेप्वेव मूरिमिः ॥ २४८ ॥ सुरा यदि तेनानी तृप्ति यांति बुभुक्षिताः । श्वेतोनाम ततो देवस्तृप्ति किमिति नागतः।।२४९॥ प्रलोकाकिलागल्य दुर्ग, योनिजं वपुः । चखाद धोक्षगोमायुसारमेयसमो भवेत् ॥ २५० ॥ लालाक्लिने मुखे क्षिप्तं कथं वानं द्विजातिभिः । विपूर्णकुशिसंप्राप्तं तर्पयेत्स्वर्गवासिनः।।२५१॥ एवं ततो गर्दतंतमनेकांतदिवाकरं । देवर्षि ते नसा दीप्तं शास्त्रार्धज्ञानजन्मना । २५२ ॥ ऋतिपराजयोद्भूतक्रोधसंभारकंपिताः । वेदार्थाभ्यसनात्यंतदयानिर्मुक्तमानसाः ।। २५३ ।।
पद्मपुराणम् । ૨૭ एकादर्श पर्व। आशीविपसमाशेषदृष्टतारकलोचनाः । आवृत्य सर्वतः क्षुब्धाः कृत्वा कलकलं महत् ।। २५४ ।। वध्वा परिकरं पापाः सूत्रकंठाः समुद्धताः । हस्तपादादिमिहंतुं वायसा इब कौशिकं ॥ २५५ ।। नारदोऽपि ततः कांश्चिन्मुष्टिमुद्गरताइनैः । पाणिनिर्घातपातैश्च कांश्चिदन्यान्यथागतान्।।२५६।। शस्त्रायमाणैनिश्शेपैर्गावरेव सुदुस्सहैः। द्विजान् जघान कुर्वाणो रेचकभ्रमणं यहून् ॥ २५७ ॥ अथ नन् स चिरात्खिन्नः कुरहुभिरावृतः । गृहीतः सर्वगात्रेषु भंजन्नाकुलतां परां ।। २५८ ॥ पक्षीव निबिडं बद्धः पाशकैरतिदुःखितः । वियदुत्पतनाशक्तः संप्राप्तः प्राणसंशयं ।। २५९ ॥ एतस्मिन्नंतरे दूतो दाशयकः समागतः । हन्यमानमिमं दृष्ट्वा प्रत्यभिज्ञाय नारदं ॥२६० ॥ निवृत्य त्वरयात्यंतमेवं रावणमब्रवीत् । यस्यांतिकं महाराज ! दूतोहं प्रेषितस्त्वया ।। २६१ ।। राज्ञः पश्यत एवास्य नारदो बहुभिद्विजैः । एकाकी हन्यते क्रूरैः शलभैरिव पन्नगः ॥ २६२ ॥ अशक्तस्तत्र राजानमहं दृष्ट्वा मयादितः । निवेदयितुमायातो वृत्तांतमिति दारुणं ॥ २६३ ।। तमुदंतं ततः श्रुत्वा रावणः कोपमागतः । वितानधरिणी गंतुं प्रवृत्तो जविवाहनः ॥ २६४ ।। समीररहसवास्य पुरःसंपस्थिता नराः । परिवारविनिर्मुक्तखडाः सूत्कारभासिनः ।। २६५ ।। निमेपेण मखक्षोणी प्राप्ता दर्शनमात्रतः । विमोचयन्दयायुक्तो नारदं शत्रुपंजरान् ॥ २६६ ।।
एकादश पर्व। २६८ पद्मपुराणम् । -- निस्शनरदैश्च रक्षिताः पशुसंहनीः । मोचितास्त सहुंकारं चक्षुनिक्षेपमात्रतः ।। २६७.॥ . मज्यमानस्ततो यूपस्ताब्यमा द्विजातिभिः । पशुभिर्मुच्यमानैश्च जातं सांराविणं महत् ।।२६८॥ अत्रमण्याना रावास्ताच्यते तावदेकशः । योपन्निपतिता भूमौ वित्रा निस्संदविग्रहाः ॥ २६९ ॥ भटश्व पर्यचोयंत यथा यो दुःखमप्रियं । सुखं च दयितं तद्वत्पशूनामपि दृश्यतां ॥ २७० ।। यथाहि जीवितं कांतं त्रैलोक्यस्यापि भावतः । भवतां सर्वजंतूनामियमेव व्यवस्थितिः ॥२७१।। भयतां ताड्यमानानां कष्टा तावदियं व्यथा । शस्त्रविंशस्यमानानां पशूनां तु किमुच्यत्ता॥२७२॥ दुष्कृतस्याधुना पापाः सहचं फलमागतं । येन नो पुनरप्येवं कुरुध्वं पुरुषाधमाः ॥ २७३ ॥ सुत्रामापि समं देवैर्यघायाति तथापि न । अस्मत्स्वामिनि वः कुद्धे जायते परिरक्षणः ।। २७४ ।। अश्वैर्मनंगनैस्तत्स्थैः रथस्यैर्गगनस्थितैः । भूमिस्थैः पुरुषरगहन्यते द्विजातयः ॥ २७५ ॥ अब्रह्मण्यमहो राजन् हा मावर्यज्ञपालये । जीवामि मुंच मां नैवं करिष्यामि पुनर्भटाः ॥२५६ ।। एवंविधमलं दीनं विलपंतो विचेष्टितं । गंहपदा इव प्राप्ता समताड्यंत ते भटः ॥ २७७ ॥ इन्यमानं ततो दृष्ट्वा सूत्रकंठकदवक । सहस्रकिरणग्राहमित्यवोचत नारदः ॥ २७८ ॥ कल्याणमस्तु ते राजन् येनाहं मोचितस्त्वया । हन्यमान इमैधैिः सूत्रकंठर्दुरात्मभिः ॥२७९|| - एकादशं.पर्व। . २६९ पद्मपुराणम् । + " +-+ . अवश्यमेवमेतन भवितव्यं यतस्ततः ! कुर्वतेपां दयां क्षुद्रा जीवंतु प्रियजीविताः ॥ २८० ॥ ज्ञानं किंन तथोत्पन्नाः कुपाखंडा यथा नृप । शृण्वस्यामवसर्पिण्या तुरीयसमयागमे ।। २८१ ।। ऋपभो नाम विख्यातो बभूव त्रिजगतोन्नतः । कृत्वा कृतयुगं येन कलानां कल्पितं शतं ।।२८२॥ जातमात्रश्च यो देवर्नीत्वा मंदिरमस्तकं । क्षीरोदवारिणा तुष्टैरभिपिक्तो महाद्युतिः ॥ २८३ ॥ प्रापभस्य विभोदिव्यं चरितं पापनोदनं । स्थितं लोकत्रयं व्याप्य पुराणां न श्रुतं त्वया ।।२८४॥ भी बभूव कौमारः स भुवो भूतवत्सलः । गुणांस्तस्य क्षमो वक्तुं न सुरेंद्रोऽपि विस्तरात्२८५ उद्वहंती स्तनी तुंगी विंध्यापालेय पततौ । आर्यदेशमुखींरम्यां नगरी यलयैर्युतां ॥ २८६ ।। अग्धिकांचीगुणां नीलसत्काननशिरोरुहाँ । नानारत्नकृतच्छायामत्यतप्रवणां सती ।। २८७ ।। यः परित्यज्यभूभार्या मुमुक्षुर्भवसंकटं । प्रतिपदे विशुद्धात्मा श्रामण्यं जगते हितं ।। २८८ ।। स्थितो वर्षसहस्रं च वनांगो स्थिरयोगभृत् । प्रलंबितमहाबाहुः प्राप्तभूमिजटांचयः ।। २८९ ।। स्वामिनश्वानुरागेण गृहीतोग्रपरीपहः । कच्छाद्यनेमतामुक्ता वल्कलादि समाश्रितं ॥ २९० ॥ अज्ञातपरमार्थस्तैः क्षुधादिपरिपीडितः । फलायाहारसंतुष्टैः प्रणीतास्तापसादयः ।। २९१॥ अपभस्य तु संजातं केवलं सर्वभासनं । महान्यग्रोधवृक्षस्य स्थितस्यासन्नगोचरे ।। २९२ ॥ , ।, - एकादशं पर्य। २७० पअपुराणम् । तन्यदेशे कृता देवस्तस्मिन्काले विभोर्यतः । पूजास्तेनैव मार्गेण लोकोऽद्यापि प्रवर्तते ॥२९३ ॥ प्रतिमात्र सुरैस्तस्य तस्मिन्देशे सुमानसः । स्थापिता रम्यचैत्येषु मनुजेश्च महोत्सवैः ॥ २९४ ॥ भरतेनास्य पुत्रण सृष्टा ये चक्रवर्तिना । पुरा मरीचिना ये च प्रमादस्मययोगतः ॥ २९५ ॥ विसर्पणमिमे सूत्रकंठास्तु भुवने गताः । प्राणिनां दुःखदा यद्वत्सलिले विषविंदवः ॥ २९६ ॥ उद्धृतकुहुकाचार्यहुडिभैः कुलिंगकैः । प्रचंडदंडरत्यंन तैरिदं मोहितं जगत् ॥ २९७ ।। जातं शश्वत्प्रवृत्नातिकूरकर्मतमश्विनं । प्रनष्टसुकतालोकं साधुसत्कारतत्परं ॥ २९८ ॥ एकविंशतिवारान्ये निधन प्रापिताः क्षितौ । सुभूमचक्रिणा प्राप्ता न नितांतममावतां ॥ २९९ ॥ ते कथं वद शाम्यते त्वया विना दशानन । उपशाम्यानया किंचिन्नत्यं प्राणिहिंसया॥३०॥ जिनरपि कृतं नैतत्सर्यजेनिःकुमार्गकं । जगत् किमुत शक्यते कर्तुमस्मद्विधैर्जनैः ॥ ३०१ ।। इति देवयतेः श्रत्वा फैकसीकुक्षिसंभवः । पुराणकथया प्रीतो नमश्चक्रे जिनाधिपं ।। ३०२ ।। संकथाभिश्व रम्याभिर्महापुरुषजन्मभिः । स्थितः क्षण विचित्राभिनारदेन समं सुखी ॥ ३०३ ॥ मरुतोऽयांजलिं बघा क्षितिसक्तशिरोरुहः । गणनाम यमोन्मादं नयविञ्चवमब्रवीत् ।। ३०४ ॥ भृत्योऽहं तव लंकेश ! मज नाथ ! प्रसन्नतां । अज्ञानेन हि जंतूनां भवत्येव दुरीहितं ॥३०५।।
एकादशं पर्व। पद्मपुराणम् । गृह्यतां कन्यका चेयं नाम्ना मे कनकप्रभा । वस्तूनां दर्शनीयानां भवानेव हि भाजनं ॥३०६॥ प्रणतेषु दयाशीलस्तां प्रतीयेप रावणः । उपयेमे च सात्यंतप्रवृत्तपरमोदयः ॥ ३०७ ॥ तत्सामंताश्च तुटेन मरुतेन यथोचितं । भटाश्च पूजिता कानवासोऽलंकरणादिभिः ।। ३०८ ॥ कनकप्रभया साधं रममाणस्य चाजनि । सुता संवत्सरस्यांते कृतचित्रेति नामतः ॥ ३०९ ॥ रूपेण हि कृतं चित्रं तया लोकस्य पश्यतः । मूर्तियुक्तेव सा शोमा चके चित्तस्य चोरणं ३१० जयार्जितसमुत्साहाः सूरास्तेजस्विचिग्रहाः । सामंता दशवक्त्रस्य रेमिरे धरणीतले ॥ ३११ ।। धत्ते यो नृपतिख्याति तान् दृष्ट्वा स बलीयसः । जगामात्यंतदीनत्वं स्वभोगभ्रंशकातरः ॥३१२॥ मध्यभागं समालोक्य वर्षस्यांवरगोचराः । कनकाद्रिनदीरम्यं विस्मयं प्रापुरुत्तमं ॥ ३१३ ॥ ऊचुः केचिद्वरं भद्रा अत्रैवावस्थिता वयं । नूनं स्वर्गोऽपि नैतस्माद्भजते रामणीयकं ।। ३१४ ॥ अन्येऽवदन्निमं देशं दृष्ट्वा लंकानियर्तने । कयदर्शनं शुद्धं कारण नो भविष्यति ॥ ३१९॥ एकेऽवोचन गृहे वासो न मनागपि शोभते । दृश्यतामस्य देशस्य पार्थिवं चित्तहारिणः ॥३१६॥ समुद्रविपुलं सैन्यं पश्यतात्र कथं स्थितं । मरुत्तमखमंगस्य यथान्योन्यं न दृश्यते ॥ ३१७ ॥ अहो धैर्यमहोदारं लोकस्य क्षणहारिणः । एतस्य खेचरांणां प्रशस्तोऽयं निरूप्यते ॥ ३१८ ।।
+ पाकदश पर्व। 4 २७२, । पद्मपुराणम् । । 2 १ क . 17 मरुत्तमविर्घमो यं यं देशमुपागतः । रम्यं तस्याकरोल्लोकः पंथानं तोरणादिभिः ॥ ३१९ ।। शशांकसौम्यवक्ताभित्रै सरसिजोपमे । विनतीभिः मुलावण्यपूर्णदेहाभिरादरात् ॥ ३२० ।। . महीगोचरनारीभिर्विद्याधरकुतूहलात् । वीक्ष्यमाणा ययुर्भूम्या खेचरास्तद्दिदृक्षया ।। ३२१ ।। नगरस्य समीपेन ग्रजंतं कैकसीसुतं । निधूनसायकश्याम पश्यविफलाधरं ।। ३२२ ॥ मुकुटन्यस्तमुक्तांशुसलिलक्षालितालिकं । इंद्रनीलप्रभोदारस्फुरत्कुंतलतारकं ।। ३२३ ॥ सहस्रपत्रनयनं शर्वरीनिलकाननं । सघचापानतम्धिनीलभूयुगराजितं ।। ३२४ ॥ कंयुग्रीयं हरिस्कंध पीनविस्तीर्णावक्षसं । दिग्नागनाशिकावाहुं वनवन्मध्यदुर्विधं ।। ३२५ ॥ नागाभोगसमाकारप्रसृतं ममजानुकं । सरोजचरणां न्याय्यप्रमाणस्थितविग्रहं ।। ३२६॥ श्रीवत्सप्रभृतिस्तुत्पद्वात्रिंशलक्षणांचितं । रत्नरश्मिज्वलन्मौलिं विचित्रमणिकुंडलं ॥ ३२७ ।। केयूरकरदीप्तांश हारराजितदक्षस । प्रत्यर्धचक्रभृद्भोग दृष्टुपुत्सुकमानसाः ॥ ३२८ ॥ आपूरयन् परित्यक्त समस्तप्रस्तुतक्रियाः । वातायनानि सद्धेपाः खियोऽन्योन्यविपीडिताः ॥३२९॥ निश्चिक्षिपुत्र पुष्पाणि समेधानि मधुवतैः । तुष्टाय विविधालापाश्चास्तदर्शनामिति ॥३३०॥ अयं स रावणो येन जितो मातृश्वसुः सुतः । यमश्व यश्च कैलाशं समुत्क्षेप्तुं समुद्यतः ॥ ३३१ ।। . 1 -
पंद्मपुराणम् ।
एकादशं पर्व।
२७३.
L
नीतः सहस्ररश्मिश्च राज्यभारविमुक्ततां । मरुतस्य च विध्वस्तो वितानः शौर्यशालिना ॥३३२॥
अहो समागमः साधुः कृतोयं कर्मभिश्चिरात् । रूपस्य केकसीसुनोर्गुणानां च जनोत्सवः ३३३
योपित्पुण्यवती सोयं धृतो गर्भे ययोत्तमः । पिताप्यसौ कृतार्थत्वं प्राप्तः कृत्वास्य संभव ३३४
श्लाघ्यः स बंधुलोकोऽपि यस्यायं प्रेमगोचरः । अनेनोपयता यास्तु तासां स्त्रीणां किमुच्यते ३३५
आलापमिति कुर्वन्त्यस्तावदैत्यंत ताः स्त्रियः । गोचरत्वमवापायं यावद्विततचक्षुषां ॥ ३३६ ॥
गते तस्मिन्मनचौरे चक्षुर्गोचरतात्ययं । मुहूर्तमभवन्नार्यः पुस्तकर्मगता इव ॥ ३३७ ॥
तेनोपहृतचित्तानां वांछंतीनां मनोगतं । कर्तुमन्यदभूत्कर्म कियताचिदनेहसा ॥ ३३८ ॥
बभूवेति दशग्रीवे देशे तत्संगमोज्झिते । नारीणां पुरुषाणां च त्यक्तान्याशेपसंकथा ।। ३३९ ॥
विपये नगरे ग्रामे घोपे वा ये प्रधानतां । भजते पुरुषस्ते तमुपायनभृतोऽगमन् ॥ ३४० ।।
गत्वा जनपदाश्चैवमुपनीय यथोचितं । रचितांजलयो नत्वा परितुष्टा व्यजिज्ञपन् ॥ ३४१ ॥
नंदनादिपु रम्याणि यानि द्रव्याणि पार्थिव । सुलभत्वं प्रपन्नानि तव तान्यपि चिंतनात् ३४२
महविभवपात्रस्य किमपूर्व भवेत्तव । उपनीय प्रमोदंते यत्कुतॊ द्रविणं वयं ॥ ३४३ ॥
तथापि शुन्यहस्तानामस्माकं तव दर्शनं । न युक्तमिति यत्किचिदुपादाय समागताः ॥३४॥
२७४ . - एकादशं पर्व। पापुराणम् । जिनेन्द्रः प्रापितः पूजाममरैः कनकांबुजैः । दुमपुप्पादिभिः किन्न पूज्यते स्मद्विधैर्जनः ।।३४५॥ नानाजनपदरेष सामतेश्च महर्दिभिः । पूजितः प्रतिसन्मानं नेपां चक्रे प्रियोदितैः ॥ ३४६ ।। परां प्रीतिमयापासी पश्यन् सम्यां वसुंधरा । कांतामिव निर्जा नानारत्नालंकारशालिनी।।३४७॥ संग देशेन पेनासौ ययौमार्गवशादिभुः । अष्टपच्यसस्पाढ्यं नत्रासीवसुधातलं ॥ ३५८ ।। प्रमोदं परमं विभ्रज्जनोस्य धरणातलं । अनुरागांमसा कीर्तिमभ्यसिंचत्सुनिर्मलं ।। ३४९ ।। कपीवलजनाचैवमूचुः पुण्यजुषो वयं । येन देशमिमं प्राप्तो देवो रत्नश्रयासुतः ।। ३५० ॥ अन्यदा कपिसक्तानां रूक्षांगानां कृवाससां । बहतांकास्पर्श पाणिपादं सवेदनं ।। ३५१ ॥ क्लेशात्कालो गतोऽस्माकं सुखस्वादविवर्जितः। प्रभावादस्यभव्यस्य सांप्रतं वयमीश्वराः ३५२ पुण्येनानुगृहीतास्ते देशाः संपत्समाश्रिताः । येषु कल्याणसंभारो विचरत्येप रावणः ॥ ३५३ ॥ कृत्यं किं बांधवये न समर्था दुःखनोदने । अयमेव महाबंधुः सर्वेषां प्राणिनामभूत् ॥ ३५४ ।। अनुराग गुणैरेयं स लोकस्य प्रवर्द्धयन् | चकार तस्य हेम निदापं च सुखप्रदं ।। ३५५ ॥ आसतां चेतनास्तावघेऽपि भाषा विचंतना । तेऽपि भीवा इवामुप्मावभूवुर्लोकसौख्यदा।।३५६।। तापञ्च बजतस्तस्य प्रादुरासीद्धनागमः । अभ्युत्थान दशास्यस्य कुम्भिव ससंभ्रमः ।। ३५७ ।।
२७५ एकादशं पर्व। पद्मपुराणम् । . . चलाकाविद्युदिंद्रास्वकृतभूपा घनाघनाः । महानीलगिरिच्छाया कुर्वतः पटुनिस्वनं ॥ ३५८ ।। हेमकक्षाभृतः कंयुध्धजभूपितविग्रहाः । प्रहता भांति शक्रेण रावणस्य गजा इव ॥ ३५९ ।। दिशोधकारिता-सर्वा जीमूतपटलैस्तथा । रात्रिंदिवस्य न ज्ञातो भेद एव यथा जनैः ॥३६० ।। अथवा युक्तमेवेदं कर्तु मलिनताभृतां । यत्प्रकाशतमोयुक्तान् कुर्वति भुवने समान् ॥ ३६१ ॥ भूमिजीमूतसंसक्ताः स्थूला विच्छेदवर्जिताः । नाज्ञायंत घनाधारा उत्पतंति पतंति नु ॥३६२।। मानसे मानसमारोमानिनीभिश्चिरं धृतः । पटुनोमेघरटितान् क्षणेन ध्वंसमागतः॥ ३६३ ॥ घनध्वनितवित्रस्ता मानिन्यो रमणं भृशं । आलिलिंगू रणत्कारिवलयाकुलवाहवः ॥ ३६४ ।। शीतला मृदयो धारा पथिकानां घनोज्झिता । द्रष्तृणां समतां जग्मुः कुर्वत्योमर्मदारणं ।। ३६५ ॥ मिन्नं धाराकदंबेन हृदयं दूरवर्तिनः । चक्रेणेव सुतीक्ष्णेन पथिकस्याकुलात्मनः ।। ३६६ ॥ नीतो बनेन पीनेन मूढतां पथिको यथा । पुस्तकर्मसमोजातो वराकः क्षणमात्रकं ॥ ३६७ ।। क्षीरोदपायिनो मेघा प्रविष्टा इवधेनुषु । अन्यथा क्षीरधारास्ताचक्षरुः सततं कथं ॥ ३६८ ॥ वर्षाणां समये तस्मिन्न बभूवुः कृपीवला ! समाकुलाः प्रभावेण रावणस्य महाधनाः ॥ ३६९ ॥ अन्नमेकस्य हेतोर्यत्कुटुंबिन्या प्रसाधितं । भुज्यमानं कुटुंबेन तन्निष्ठां समुपागमत् ॥ ३७० ।।
-- पद्मपुराणम् २७६ एकादशै पर्व। महोत्सवो दशग्रीयो बभूव प्राणधारिणां । पुण्यसंपूर्णदेहाना सौभाग्य केन कथ्यते ॥ ३७१ ॥ इंदीवरचयश्यामः स्त्रीणामौत्सुक्यमाहरत् । साक्षादिय बभूवासी वकालो महावनिः ॥३७२॥ गर्जितेन पयोदानां रावणस्येव शासनात् । घोपणेन कृता सर्वैः प्रणतिः पतिभिर्नृणां ॥ ३७३ ॥ कन्या दृष्टिहराः प्रापुर्दशवक्त्रं स्वयंवराः । भूगोचराः परित्यक्तगगना इव विद्युतः ॥ ३७४ ॥ रेमिरे तास्तमासाद्य महीधरणतत्परं । पयोधरभराक्रांताः सद्वर्षा इक भूभृतं ॥ ३७५ ॥ जिगीपोर्यक्षमर्दस्य दृष्टुव परमां छुति । भास्वान् पलायित्तः कापि पात्राससमाकुलः ॥३७६ ॥ दशाननस्य यद्वक्त्रं तदेव कुरुते क्रियां । मदीयामिति मत्वेव जगाम क्यापि चंद्रमाः ॥३७७।। दशवक्त्रस्य वक्त्रेण जितं ज्ञात्वा निजपति । भयेनेव समाकांतास्ताराः क्यापि पलायिताः ३७८ सुरक्तं पाणिचरणं कैकसेयस्य योपितां । विदित्वेव पायुक्ता तिरोभूदजसंहतिः ॥ ३७९ ॥ रसना विद्युता युक्ता रक्तांशुकसुरायुधाः । नार्यः पयोधराक्रांता तस्य वर्षाइयाभवन् ॥ ३८ ॥ आमोदं रावणो जज्ञे केतकीनां न योषिता । विश्वासमरुताकृष्ट गुंजद्मभरपंक्तिना ।। ३८१ ॥ भागीरथ्यास्तटमतितरां रम्यमासाद्य दूरं । प्रांतोद्भुतप्रचुरपिलसत्कांतिशिष्यं विशालं ॥ नानापुप्पप्रभवनिविडघाणसंरोधिगंधं । क्षोणीबंधुजेलदसमयं सर्वसौख्येन निन्ये ॥ ३८२ ।।
.
पद्मपुराणम् ।
হও
द्वादशं पर्व।
-
नाम श्रुत्वा प्रणमति जनः पुण्यभाजां नराणां । चारुस्त्रीणां निखिलविषयप्राप्यसंघा भवंति ॥
उत्पद्यते परमविभवा विस्मयानां निवासा । शैत्यं यात्रादविरपि ततः पुण्यवंधे यतध्वं ॥३८३॥
इत्या रविषेणाचार्यप्रोक्त पद्मचरिते मरुत्तयज्ञध्वंसनपदानुगाभिधानं नाम एकादर्श पर्व।
+
द्वादशं पर्व।
तत्राथ मंत्रिभिः सार्ध चक्रेऽसौ संप्रधारणं । कस्मै तु दीयतामेपा कन्येति रहसिस्थितः ॥१॥
इंद्रेण सह संग्रामे जीविते नास्ति निश्चयः । अतो वरं कृतं वालापाणिग्रहणमंगलं ॥२॥
तं च चिंतापरं ज्ञात्वा कन्यावरगवेषणे । हरिवाहनराजेन सूनुराहानितिकं ॥ ३ ॥
दृष्ट्वा तं सुंदराकारं प्रणतं तोपमागतः । दशाननः सुतां चास्मै दातुं चक्रे मनोरथं ।। ४ ।।
उचिते चासने तस्मिन्नासीने सचिवान्विते । अचिंतयद्दशग्रीवो नयशास्त्रविशारदः ॥५॥
मधुरानगरीनाथः सुगोत्रो हरिवाहनः । अस्मद्गुणगणे कीर्तिसततासक्तमानसः ॥ ६ ॥
अस्य च प्राणभूतोऽयं बंधूनां च मधुः सुतः । श्लाघ्यो विनयसंपन्नो योग्यः प्रीत्यनुवर्तते ॥७॥
'बादशै पर्व। 4 - । २७८ H पद्मपुर पद्मपुराणम्। ज्ञात्वा चेतीव वृत्तांतमय सुंदरविभ्रमः । प्रख्यातगुणसंघातः परिप्राप्तो मदंतिकं ॥८॥ ततो मधौरिदं ग्राह मंत्री देव तवाग्रतः । अस्य दुःखेन वयेते गुणाविक्रमशालिनः ॥९॥ तथापि भवतु ज्ञाता स्वामिनोस्य यथात्मना । इत्यावेदयितुं किंचित्क्रियते प्रक्रमो मया ॥१०॥ आमोदं परमं विभ्रत्सर्वलोकमनोहरः । मधुशब्दमयं धत्ते यथार्थ पृथिवीगतं ॥ ११ ॥ गुणा एतावतैयास्य गुणपर्याप्तवर्णना । असुरेन्द्रेण यद्दत्वं शूलरत्नं महागुणं ॥ १२ ॥ यत्प्रत्यरिवलं क्षिप्तममोघं भामुरं भृशं । द्विपत्सहस्रं नीत्वा तं कर प्रति निवर्तते ॥ १३ ॥ क्रिययव च देवोस्य गुणान् ज्ञास्यति चाचिरात् । वाचा हि प्रकटीकारस्तेषां हास्यस्य कारणं ॥ तदस्य युक्तये युद्धिं करोतु परमेश्वरः । सम्बंध भवतो लब्ध्या कृतार्थोऽयं भविष्यति ॥ १५॥ इत्युक्ते निश्चितो बुद्धचा जामातासी निरूपितः । समस्तं च यथायोग्यं कृतांतस्य प्रकल्पितं १६ चिंतितप्राप्तिनिशेषकारणश्च तयोरभूत् । विवाहविधिरत्यंतप्रीतलोकसमाकुलः ।। १७ ।। पुष्पलक्ष्मीमिय प्राप्य दुराख्यानां समागतः । आमोदं जगतो हृद्य मधुस्तां नेत्रहारिणीं ॥१८॥ इंद्रभूतिमिहादशे प्रत्युत्पन्नकुतूहल: । अप्रच्छन्मगधाधीशः कृत्वाभिनवमादरं ॥ १९ ॥ असुराणामधीशेन मधवे केन हेतुना । शूलरत्नं मुनिश्रेष्ठ दत्तं दुर्लभसंगमं ।। २० ।।
. द्वादशं पर्व। पद्मपुराणम्। 1 २७९ --- इत्युक्तः पुरुणा युक्तस्तेजसा धर्मवत्सलः । शूलरलस्य संप्राप्तेः कारणं गौतमोऽवदत् ।। २१ ॥ घातकी लक्ष्मणि द्वीपे क्षेत्रे चैरावतश्रुतौ । शतद्वारपुरेऽभूतां मित्रे सुप्रेमबंधने ।। २२॥ एकः सुमित्रनामासीदपरः प्रभवश्रुतिः । उपाध्यायकुले चैतौ जातावतिविचक्षणौ ॥ २३ ।। सुमित्रस्याभवद्राज्यं सर्वसामंतसेवितं । पुण्योपार्जितसत्कर्मप्रभावात्परमोदयं ॥ २४ ॥ दरिद्रकुलसंभूतः कर्मभिर्दुष्कुलैः पुरा । सुमित्रेण महास्नेहात्प्रभवोऽपि कृतः प्रभुः ।। २५ ॥ सुमित्रोऽथान्यदारण्ये हृतो दुष्टेन वाजिना । दृष्टो द्विरदर्दष्ट्रेण म्लेच्छेन स्वैरचारिणा ।। २६ ॥ आनीयासौ ततः पल्लिं संप्राप्य समयं दृढं । पत्या म्लेच्छविरूधिन्यास्तनयां परिणायितः॥२७|| तां च कन्यां समासाद्य साक्षादिव वनश्रियं । वनमालाश्रुति तत्र स्थितोऽसौमासमात्रकं ॥२८॥ अनुज्ञातस्तततस्तेन शतद्वारपुरोत्तमं । प्रस्थितः कांतया साकं वृतः शबरसेनया ॥ २९ ।। गवेपणे विनिष्क्रांतः प्रभवोथ तदैक्षत । कांतया सहितं मित्रं स्मरस्येव पताकया ।। ३० ॥ चक्रे च मित्रभार्यायां मानसं पापकर्मण । उदयानएनिश्शेपकृत्याकृत्यविचेतनः ॥ ३१ ॥ मनोभवोरैरुङ्गस्ताज्यमानः समंततः । अवाप न कचित्सौख्यं मनसा भृशमाकुलः ॥ ३२ ॥ ज्येष्ठो न्याधिसहस्राणां मदनो मतिसूदनः । येन संप्राप्यते दुःखं नरैरक्षतविग्रहैः ।। ३३ ॥ - ran २८० . 'पद्मपुराणम्। बादशं पर्व। प्रधानदिवसाधीशः सर्वेपो ज्योतिषां यथा । तथा समस्तरोगाणां मदनो मूर्धि वर्तते ॥ ३४ ॥ विचित्तोऽसि किमित्येवमित्युक्तः सुहृदा च सः । जगाद सुंदरी दृष्ट्वा विक्लयत्वस्य कारण।।३५॥ श्रुत्वा प्राणसमस्यास्य दुःखं स्वस्त्रीनिमित्तकं.। तामाशु प्राहिणोत्याज्ञः सुमित्रो मित्रवत्सलः३६ प्रेक्ष्य च प्रभवागारं गवाक्षे गूढविग्रहः । सतीमक्षत किंकर्यादियमस्येति तत्परः ॥ ३७॥ अचिंतयच यद्येषा भवेनास्यानुकूलिका । ततोनिग्रहमेतस्याः कर्तास्मि सुविनिश्चितं ॥ ३८ ॥ अर्थतस्याश्रवा भूत्वा काम संपादयिष्यति । ततो ग्रामसहस्रेण पूजयिष्यामि सुंदरी ।। ३९ ॥ समीपं प्रभवस्यापि वनमाला च सोत्सुका । प्रदोपसमये स्पृष्टे ताराप्रकरमंडिते ॥४०॥ आसीनों चासने रम्ये पुरोदोपविवर्जितः । तामपूच्छदहो भद्रे का त्वमित्युत्कटादरः ॥४१॥ ततीविवाहपर्यंतं तस्याः श्रुत्वा विचेष्टितं । प्रभवो निष्प्रभो जातो निर्वेदं च गतः परं ॥ ४२ ॥ अचिंतयञ्च हा कष्टं मया मित्रस्य कामिनी । किमपि प्रार्थिता कर्तुं घिमामुच्छिन्नचेतनं ॥४३॥ पापादस्मान्न मुच्येहमृते स्वस्य विपादनात् । किंवा कलंकयुक्तेन जीवितेन मयाधुंना ॥ ४४ ॥ इति संचिंत्य मूर्धानं स्वल्पं चकर्ष सः । कोशतः सायकं सांद्रच्छायादिग्धंदिगंतरं ॥ ४५ ॥ उपकंठं च कंठस्य यावदेनं चकार सः । निपत्य सहसा तावत्सृमित्रेण निरुध्यते ।। ४६ ।।
+ 1 द्वादशं पर्व । २८१ पद्मपुराणम् । जगाद च त्वरायुक्तं परिष्वज्य स तं सुहृत् । आत्मघातितया दोपः प्राज्ञः किं नाम बुध्यसे ४७ आमगर्भेषु दुःखानि प्राप्नुवंति चिरं जनाः । ये शरीरस्य कुर्वति स्वस्याविधिनिपातनं ॥४८॥ इत्युक्त्वा मुहृदः खई कराचस्य सुचेतसा । सात्वितश्च चिरं वाक्यमनोहरणकारिभिः ॥४९॥ ईशी च तयोः प्रीतिरन्योन्यगुणयोजिता । प्राप्स्यत्यंतमहो कष्टः संसारः सारवर्जितः ॥५०॥ पृथक पृथक प्रपद्यते मुखदुःखकरी गतिं । जीवाः स्वकर्मसंपन्नाः कोत्र कस्य सुहृज्जनः ॥५१॥ अन्यदाथ यियुद्धारमा श्रमणत्वं समाश्रितः । ईशानकल्प ईशत्वं मुमित्रः प्राप्तवान् सुखी ॥५२॥ ततध्युत्वेह संभूतो द्वीपे यूपदांतिके । हरियाइनराजस्य मथुरायां सुरः पुरि ॥ ५३ ॥ माधव्यास्तनयो नाना मधुः स मधुमोहितः । नभसो हरिवंशस्य यश्चंद्रत्वमुपागतः ।। ५४ ।। मिथ्यादृक्प्रभवो मृत्वा दुःखमासाद्य दुर्गती ! विश्वावसोरभूत्पुत्रो ज्योतिष्मत्यां शिखिश्रुतिः,५५ श्रवणत्वधरः कृत्वा तपः कष्टं निदानतः । दैत्यानामधिपो जातश्चमराख्योऽधमामरः ॥ ५६ ॥ तोषधिकतालोकः स्मृत्या पूर्वभवान् निजान् । गुणान् सुमित्रमित्रस्य चक्रे मनसि निर्मलान् ।। सुमित्रराजचरितं स्मर्यमाणं सुपेशलं । असुरेंद्रस्य हृदयं चकर्व करपत्रवत् ॥ ५८ ॥ दध्यौ चेति पुनर्भद्रः सुमित्रोऽसौ महागुणः । आसीन्मम महामित्रः सहायः सर्ववस्तुपु ॥५९।।
-- , . - है - - २८२ । . पद्मपुराणम् । ' द्वादशं पर्य। तेन सार्धं मया विद्या गृहीता गुरुवेश्मनि । दरिद्रकुलसंभूतस्तेनाहं स्वसमः कृतः ॥ ६ ॥ आत्मीया तेन मे पत्नी द्वेपवर्जितचेतसा । प्रेपिता पापचित्तस्य वितृष्णेन दयावता ।।.६१ ॥ ज्ञात्वा वयस्यपवीति परमुद्वेगमागतः । शिरः स्वमसिना छिंदस्तेनाहं परिरक्षितः ।। ६२ ।। अश्रद्दधजिनेंद्राणां शासनं पंचतां गतः । प्राप्तोऽस्मि दुर्गतौ दुःखं स्मरणेनापि दुस्सहं ॥६३॥ निंदनं साधुवर्गस्य सिद्धिमार्गानुवर्तिनः । यत्कृतं तस्य तत्प्राप्त फलं दुःखामु योनिषु.॥ ६४ ।। सचापि चरितं श्रुत्वा निर्मलं सुखमुनमं । ऐशाननिलये भुत्या च्युतोयं वर्तते,मधुः ॥ ६५ ।। उपकारसमाकृष्टस्ततोऽसौ भुवनानिजात् । निर्जगामक्षणोद्भुतपरप्रेमामानसः ॥ ६६ ॥ दृष्टादरेण कृत्वा च महरत्नादिपूजनं । शूलरत्नं ददावस्मै सहस्रांतिकसंज्ञितं ॥ ६॥ शूलरत्नं स तत्प्राप्य परां प्रीतिं गतः क्षिती । अस्त्रविद्याधिराजश्व सिंहवाहनजोऽभवत् ।। ६८ ॥ एतन्मधोरुपारव्यानमधीते यः शृणोति वा । दीप्तिमर्थ परं चायुः सोऽधिगच्छति.मानवः॥६९॥ सामंतानुगतोथासौ मरुत्तमखनाशकन् । प्रभाव प्रलयं लोके प्रवणीकृतविद्विपं ॥ ७० ॥ संवत्सरान् दशाष्टौ च विवरजनिताद्भूतं । भुवने जनितप्रेम्णि देवेंद्रखिदिवे यथा ।। ७१ ॥ मुंचनारासमुद्रस्य धरणी धरणीपतिः । चिरेण जिनचेत्याढयं प्रापाष्टापदभूधरं ।। ७२ ।। ។ .
पद्मपुराणमें । २८३ + द्वादशं पर्व । , + H प्रसन्नसलिला तत्र भाति मंदाकिनी भृशं । महिपी सिंधुनाथस्य कनकाजरजस्तथा ॥ ७३ ॥ सन्निवेश्य समीपेऽस्या वाहिनी परमाप तां । मनोज्ञं रमणं चके कैलाशस्य स कुक्षिपु ।। ७४ ।। नुनुदुः खेचराः खेदं भूचराश्च यथाक्रमं । मंदाकिन्याः सुखस्पर्शसलिले स्फटिकामले ।। ७५ ।। नमेरुपल्लवायास्तलोठनोपात्तपांशवः । नमिताः सप्तयः पीतपयसोविनयास्थिताः ॥ ७६ ॥ शीकरादितदेहत्वाद्ग्राहिताः सुधनं रजः । तदन्यस्तमहाभेदाम्लपिताः कुंजराश्चिरं ।। ७७.१६ स्मृत्वानु वालिवृत्तातं नमस्कृतजिनालयः । यमध्वंसः स्थितः कुर्वश्रेष्टां धर्मानुगामिनीं ॥ ७८.॥ अथ योसौ सुरेंद्रेण नियुक्तो नलकूबरः । लोकपालतयाख्यातः पुरे दुर्लध्यसंज्ञके ॥ ७९ ॥ उपशल्यं सविज्ञाय रावणं चरवर्गतः । जिगीपया समायातं सैन्यसागरवर्तिनं ।। ८० ॥ लेखारोपितवृत्तांत प्राहिणोदाशुगामिनं । खेचर सुरनाथाय त्रासाध्यासितमानसः ।। ८१ ।। मंदिरंपस्थितायास्मै वंदितुं जिनपुंगवान् । प्रणम्य लेखवाहेन लेखोऽवस्थापितः पुरः ।। ८२ ॥ वाचयित्वा च तं कृत्वा हृदयेथेमशेषतः । आज्ञापयत्सुराधीशो वास्त्विदं लेखदानतः ॥ ८३ ॥ यत्नात्तावदिहास्थ स्वममोघास्त्रस्य पालकः । जिनानां पांडुके कृत्वा वंदनां यावदेम्यहं ॥ ८४ ॥ इति संदिश्य गण सेनामगणयन् द्विपः । गतो सौ पांडुकोद्यानं वंदनासक्तमानसः ।। ८५ ॥
दादर्श पर्व। . पद्मपुराणम् । २८४ समस्ताप्तसमेनथ प्रयत्नानलस्बरः । पुरस्याचिंतयद्रक्षामितिकर्तव्यतत्परः ॥ ८६.॥ योजनानां शतं तुंगनाकारो विद्यया कृतः । वनशाल इतिख्यातः परिधिस्त्रिगुणान्वितः ॥८७|| रावणेन च विवाय नगरं शत्रुगोचरं । गृहीतं ग्रेपितो दंडः प्रहस्तो नाकिनीपतिः ॥ ८८ ॥ निवृत्य रावणायासावाख्यदेव न शक्यते । गृहीतुं तत्पुरं तुंगप्राकारकृतवेष्टनं ॥ ८९ ॥ पश्य दृश्यत एवायं दिक्षु सर्वासु दारुणः । शिखरी विवरी दंष्ट्राकरालास्यशयूपमः ॥ ९ ॥ दखमानीमयोदार कीचकानां धनं वनं । स्फुलिंगराशिदुष्प्रेक्ष्यज्वालाजालसमाकुलं ॥ ९१ ॥ दंप्याकरालवेवालरूपाण्यस्य नरान्यहून् । हरंत्युदारयंत्राणि योजनाभ्यंतरस्थितं ॥ ९२.।। तेपांवकाणि ये प्राप्ता यंत्राणां प्राणिनां गणाः तेषां जन्मांतरे भूयः शरीरेण समागमः ॥१३॥ इति विज्ञाय कर्तव्यस्त्वया कुशलसंगमः । उपायो विजिगिषुत्वं क्रियते दार्षदर्शिता ॥ ९४ ।। निस्सर्पणामरं तावदस्माद्देशाद्विराजते । संशयः परमोप्यत्र दृश्यते दुनिराकृतः ॥९५ ॥ .. तनः कैलाशकुक्षिस्था दशवक्त्रस्य मंत्रिणः । उपायं चिंतयांचछर्नयशास्त्रविशारदाः ॥ ९६ ॥ अथ रंभागुणाकारा नलकूबरकामिनी । उपरंभेति विख्याता शुधावांते दशाननं ॥ ९७॥ पूर्वमेव गुणैरक्ता तत्रोत्कंठापरामसी । जगाम रजनीनाथे यथा कुमुदसंहतिः ॥ ९८॥ . --
पद्मपुराणम्।
२८५
द्वादशं पर्व।
-
सखी विचित्रमालाख्यामेकांते चेत्यभापत । शृणु सुंदरि कास्त्यन्यसखी प्राणसमा मम ।।.९९ ॥
समानं ख्याति येनातः सखिशब्दः प्रवर्तते । अतो न मे मतेर्भेदं कर्तुमर्हसि शोभने ॥ १०॥
नियमात्कुरुपे यस्मादसे मत्कार्यसाधनं । ततो. ब्रवीमि सख्यो हि जीवितालंयनं परं ॥ १०१ ॥
एवमुक्ता जगदासौ किमेवं देवि भापसे । भृत्याहं विनियोक्तव्या त्वया वांछितकर्मणि ॥१२॥
न करोमि स्तुति स्वस्य साहि लोकेऽतिनिंदिताः । एतावन्नु वीम्येपा सिद्धिरेवास्मि रूपिणी ॥
बद विसन्धिका भूत्वा यत्ते मनसि वर्तते । मयि सत्यां वृथा खेदः स्वामिन्या धार्यते त्वया ॥
उपरंभा ततोवादीनिश्वस्याहितमंथरं । पद्माभे? चंद्रमाकांते करे न्यस्य कपोलकम् ।। १०५ ॥.
निष्फ्रांतस्तंभितान् वर्णान् प्रेरयंती पुनः पुनः । आरुढपतितं धाये कृच्छानिदधती मनः१०६
सखि बाल्यत आरभ्य रावणे मे मनोगतं । लोकायगामिनस्तस्य गुणाः कांता मया श्रुताः.१०७
अप्रगल्भतया प्राप्ता साहनप्रियसंगमं । वहामि परमं प्रीतेः पश्चात्तापमनारतं ॥ १०८ ॥
जानामि च तथा नैतत्प्रशस्यमिति रूपिणि । तथापि मरणं सोढुं नास्मि सक्ता सुभाषिते १०९
सोयमासन्नदेशस्थो वर्तते मे मनोहरः । कथंचिदमुना योग प्रसीद कुरु मे सखि ।। ११० ॥
एषा.नमामि ते पादावित्युक्ता तावदुद्यता 1 शिरो नमायितं तावत्सख्या तत्संभमादृतं ॥११॥
शादर्श पर्व
२८६
पद्मपुराणमा
पर स्वामिनि कामं ने माधयामि धणादिति । गदित्या निर्गता गेहादुनी ज्ञाताखिलास्थितिः।।
मामोजीमनगंकासमूहमासारगुंटिवा । समुत्पत्य क्षणात्याप वसति रक्षसां प्रभोः ॥ ११३ ॥
अंतःपुरं प्रविष्टा च प्रतीहार्या निवेदिता । कृत्वा प्रणतिमासीना दत्ते सपिनयासने ॥ ११४ ॥
ननो जगाद देवस्य भुवनं मलं गुणः । दोपसंगोज्झिताप्तं यत्तयुक्तं तवेशः ॥ ११५ ।।
उदारो विभयो यस्ते याचकांस्तर्पयन् भुपि । कारणेनामुना वेगि सर्वपा त्वां हि ते स्थितं ११६
आकारस्यास्य जानामि न ने प्रार्थनभंजनं । भूनिर्भवद्विधानां हि परोपकृतिकारणं ॥ ११७ ॥
म त्यमुत्सारिताशेपपरिवर्गो विमो क्षणं । अबधानस्य दानेन प्रसादं कर्तुमर्हसि ॥ ११८ ।।
तथा कृते नवः कर्णे दशवक्त्रस्य सा जगा । सफल पूर्ववृत्तांत सर्ववृत्तांतवेदिनी ॥ ११९ ।।
ततः पिधाय पाणिभ्या श्रवणौ पुरुषोत्तमः । धुन्चन् गिरविरं चक्षुः संकोचं परमानयत् ॥१२०॥
विचित्रवनिता छाचिंताखिनमतिः चणं । बभूव केसमीसुनुः सदाचारपरायणः ।। १२१ ।।
जगाद च स्मितं कृत्वा भद्रे चेतसि ते कथं । स्थितमीगिदं वस्तु पापसंगमकारणं ॥ १२२ ।।
ईदो याचिनेत्यंत दरिद्रः किं करोम्यहं । अभिमानं परित्यज्य तथेदमुदितं त्वया ॥ १२३ ।।
विधवा भर्तृसंयुक्ता प्रमदा कुलवालिका । वेश्या च रूपयुक्तापि परिहाया प्रयत्नतः ॥ १२४ ॥
२८७ पद्मपुराणम् । द्वादशं पर्व । विरोधवदिदं कर्म परत्रेह च जन्मनि । लोकद्वयपरिभ्रष्टः कीदृशो वद मानवः ॥ १२५ ॥ नरांतरमुखलेदपूर्णेन्यांगविमर्दिते । उच्छिष्टभोजने वक्तुं भद्रे यांछति को नरः ।। १२६ ॥ मिथो विभीपणायेदं प्रीत्यानेनाथ वेदितं । नयज्ञः स जगादैवं सततं मंत्रिगणाग्रणीः ।।१२७ ।। देव प्रक्रम एवायमीदृशो वर्तते यतः । अलीकमपि वक्तव्यं राज्ञा नयवता सदा ॥ १२८ ।। तुष्टाभ्युपगमात्किंचिदुपायं कथयिष्यति । उपरंमा परिप्राप्ती विश्रमं परमागता ॥ १२९ ।। ततस्तद्वचनात्तेन दूती छयानुगामिना । इत्यभाष्यत तन्नाम भद्रे यदुचितं त्वया ॥ १३० ।। वराकी मगतप्राणा वर्तते सा सुदुःखिता । रक्षणीया ममोदारा भवंति हि दयापराः ॥ १३१ ।। ततश्च नय तां गत्वा प्राणैर्यावन्न मुच्यते । प्राणिनां रक्षणे धर्मः श्रूयते प्रकटो भुवि ॥ १३२ ॥ इत्युक्ता परिसृष्टा सा गत्वा तामानयत्क्षणात् । आदरश्च महा तस्याःकृतो यमविमदिना ॥१३३॥ ततो मदनसंप्राप्तौ सा तेनैवमभाष्यत । दुर्लध्यनगरे देवि रंतुं मम परा स्पृहा ॥ १३४ ॥ अटव्यामिह किं सौख्यं किंवा मदनकारणं । तथा कुरु यथैतस्मिन् त्वया सह पुरे रमे ॥१३५॥ ततस्तत्तस्य कौटिल्यमविज्ञाय स्मरातुरा । स्त्रीणां स्वमावमुग्धत्वात्पुरस्यागमनाय सा ॥१३६॥ ददावाशालिका विद्यां प्राकारत्वेन कल्पितां । व्यंतरैः कृतरंक्षाणि नानाखाणि च सादरा १३७
पद्मपुराणमा
શિ૮૮
द्वादशं पर्व।
अपयातम शालोऽमी विद्यालाभादनंतरं । स्थितं प्रकृतिशालेन केवलेनावृतं पुरं ॥ १३८ ।
पभूर रारणः माकं सन्येन महतांतिकः । पुरस्य निंदनं श्रुत्वा शुधव नलकूबरः ।। १३९ ।।
तमदृष्ट्वा ततः शालं लोकपालो विपादयान् । गृहीतमेव नगर मेन यक्षविमदिना ॥ १४० ।।
तथापि पौरुपं विभ्रद् योर्बु समभरेण सः । निष्क्रांतोऽत्यंत विक्रांत सामनशतवेष्टितः ॥१४१॥
ततो महति संग्रामे प्रवृत्ते शखसंगले । अदृष्टपमिनीनायकिरणे करनिःस्वने ।। १४२ ।।
विभीषणेन बेगेन निपात्य नलकूबरः । गृहीतः कूवरं भक्त्या स्पंदनस्यांधिताडनात् ॥ १४३ ।।
सहस्रकिरणे कर्म दशवक्त्रेण यत्कृतं । विभीपणेन क्रुद्धेन तस्कृतं नलकूबरे ॥ १४४ ॥
देवासुरभयोत्पादे दक्षं चक्रं च रावणः । बिदशाधिपसंबंधि प्रापनान्ना सुदर्शनं ॥ १५५ ।।
उपरंभा दशास्येन रहीदमधोदिता । विद्यादानाद्गुरुत्वं मे वर्तते मवरांगने ।। १४६ ॥
जीवति प्राणनाथे ते न युक्तं कर्तुमीदशं । ममापि सुतरामेव न्यायमार्गोपदेशिनः ॥ १४७ ।।
समावास्य नतो नीतो भायां तां नलकबरः । शखदारितसन्नाहदिष्टविक्षतविग्रहः ।। १४८ ॥
अनेनैव समं भर्ना भुश्व मोगान् यथेप्सितान् । कामयस्तुनि कोभेदों मम चास्य च भोजने ॥
मलीमसा च मे कीर्तिः कर्मेदं कुर्वतो भवेत् । अपरोऽपि जनः कर्म कुर्वीनेदं मया कृतं ॥१५०॥
- 7 । पद्मपुराणम् ।। - २८९ द्वादशं पर्व। सुताकाशेध्वजस्यासि संभूता विमले कुले । संजाता मृदुकांतायां शीलं रक्षितुमर्हसि ॥ १५१ ।। उच्यमानेति सा तेनं नितांत पयान्विता । स्वभर्तरि समं चक्रे मानसं प्रतियोधिनी ॥१५२॥ व्यभिचारमविज्ञाय कांताया नलकूबरः । रेमे तया समं प्राप्तः सन्मानं दशवक्त्रतः ॥ १५३ः ।। रावणः संयुगे लब्ध्वा परध्वंसात्परं यशः । वर्धमानश्रिया प्राप विजयाागरेमहीं ।। १५४ ॥ अभ्पर्ण रावणं श्रुत्वा शक्रः प्रचलितं ततः । देवानास्थानसंप्राप्तान समस्तानिदमभ्यधात् १५५ विश्वाश्वप्रमुखा देवाः सनात किमासनं । विश्रब्धं कुरुतं प्राप्त प्रभुरेप स रक्षसां ॥ १५६ः ।। इत्युक्त्वा जनकद्देशं संप्रधारयितुं ययौ । उपविष्टो नमस्कृत्यं धरण्यां विनयान्वितः ॥ १५७।। उवाच च विधातव्यं किमसिन्नतरे मया । प्रचलोऽयमरिः प्राप्तः बहुशो विजिताहितः ॥१५८|| आत्मकार्यविरुद्धोय तयात्यंत मया कृतः । अनयः स्वल्पं एवासी प्रलयं यन्न: लंभितः॥१५९।। उत्तिष्ठतो मुखं भक्तुमधरेणापि शक्यते । कंटकस्यापि यत्नेन परिणाममुपेयुपः ॥५,१६० ।।। उत्पत्तापेव रोगस्यं क्रियते धंसनं सुखं । व्यापीत बद्धमूलः स्यादृध्वंस क्षत्रियोऽथवाः ॥१६१॥ अनेकशः कृतोद्योगस्तस्यास्मि विनिपातने । निवारितस्त्वया व्यर्थ येन क्षांतिमया कृता १६२ नयमार्ग प्रपन्नेन मयेदं तात भाष्यते । मर्यादेपेति-पृष्टोऽसि नत्वशक्तोऽस्मि तद्वधे ॥ १६३ ।।
द्वादशं पर्व। पद्मपुराणम्। स्मयरोपविमुक्तं तच्छुत्वा वाक्यं सुतेरितं । सहस्रारोऽगदत्पुत्र वरावानिति मास्मभूः ॥ १६४ ॥ वायद्विपृश्य कार्याणि प्रवर मंत्रिभिः सह । जायते विफलं कर्माप्रेक्षापूर्वकारिणां ।। १६५ ।। भवत्यर्थस्य संसिद्ध केवलं च न पौरुपं । ककस्य विना कृष्टया कासिद्धिर कर्मयोगिनः१६६ समानमीहमानानां पठतां च समादरं । अर्थभाजोमवंत्येके नापरे कर्मणां वशात् ।। १६७ ॥ एवं गपि संधानं रावणेन समं कुरु । तस्मिन् सति जगत्सर्व विधत्स्वादृतकंटकं ॥ १६८ ॥ रूपिणी च सुता तस्मै यच्छ रूपवती सुतां । एवं सति न दोपोऽस्ति तथावस्था च राज्यता ।। विविक्तधिपणेनासाविति पित्रा प्रयोधिकः । रोपराशिवशोदारशोणचक्षुः क्षणादभूत् ॥ १७० ॥ रोपवलनसंवापसंजावस्वेदसंततिः । चमाण भामुरः शुक्रः स्फोटयनिव सं गिरा || १७१ ।। पध्यस्य दीयते कन्येत्येतत्तात.क युज्यते । प्रकृष्टवयसां पुसां धीर्यात्येचाध्या क्षयं ५ १७२ ।। पद केनाथरस्तस्मादहं जनक वस्तुना 1 अत्यंतकावरं वाक्यं येनेदं भापितं त्वया ॥ १७३ ।। स्वरपि कृतस्पर्शः पादाति खिद्यते । यो मेरुः कथमन्यस्य तुंगः प्रणतिमाचरेत् ॥ १७४ ।। पौरुषेणाधिकस्तावदेतस्मानितरामहं । देवं तस्यानुकूलं ते कथं बुद्धावस्थितं ॥ १७५ ॥ विजिवा बहबोनेन विपक्षा इति चेन्मतिः । इतानेककुरंग किं शबरो हेति नो हरि ॥१७६ ।।
२९१ पद्मपुराणम्। द्वादशं पर्व । . संग्रामे शस्त्रसंपातजातज्वलनजालके । वरप्राणपरित्यागो नतुप्रतिनरानतिः ॥ १७७ ।। । सोयमिंद्रो दशास्यस्य राक्षसस्यानतिं गतः । इति लोके चहास्यत्वं न दृष्टं ते कथं मया १७८ नभश्वरत्वसामान्यं नच संधानकारणं । वनगोचरसामान्यं यथा सिंहशृगालयोः ॥ १७९ ॥ इति ब्रुवत एवास्य शब्दः पूरितविष्टपः । प्रविष्टः श्रोत्रयोः शत्रुबलजो वासरानने ॥ १८० ॥ ततोपकर्णामं कृत्वा पितुः सन्नाहमंडपं । गत्वा सन्नाहसंज्ञार्थ तूर्य तारमचीवदत् ॥ १८१ ॥ उपाहर गजं शीघ्रं सप्ति पर्याणय द्रुतं । मंडलाग्रमितो देहि पटु चाहर कंटकं ॥ १८२ ॥ धनुराहर धावस्व शिरखाणमितः कुरु । यच्छार्धवाहकां क्षिप्रं देहि सायकपुत्रिकां ॥ १८३ ॥ चेट यच्छ समायोगं सज्जमाशु रथं कुरु । एवमादि कृतारावं सुरलोकश्चलोऽभवत् ।। १८४ ॥ अथ क्षुब्धेषु वीरेषु रटत्सु पटहेषु च | तुंगरणत्सु शंखेषु सांद्रं गर्जत्सु दंतिपु ॥ १८५ ।। {चत्सु दीपहुंकार स्पष्टनेत्रेपु सप्तिपु । संक्रीडत्सु रथोंधेपु ज्याजाले पटु गुंजति ॥ १८६ ।। भटानामट्टहासेन जयशब्देन वादिनां । अभूत्तदा जगत्सर्व शब्देनेव विनिर्मितं ॥ १८७ ।। असिभिस्तोमरैः पाशैजै छत्रैः शरासनैः । ककुमछादिताः सर्वा प्रभावोपहृतो रवेः॥१८८।। निष्क्रांताच सुसंनद्धाः सुरा रभसरागिणः । गोपुरे कृतसंघट्टा घंटाभिर्वरदंतिनां ॥ १८९ ॥ T
पद्मपुराणम् ।
.
२९३
द्वादश पर्व।
स्पंदनं.परतो.देहि प्राप्ताय मत्तवारणः । आधोरणगनं देशादस्मात्सारय सत्वरं ।। १९० ॥
स्तमितोसीह किं सादिनयादुनमग्रतः । मुंच मुग्धे निवर्तस्तं कुरु मा मों समाकुलं ।। १९१ ।।
एवमादिसमालापाः मत्वरा मंदिरात्सुराः । निष्क्रांतां गर्भनियुक्तंसुतारभटगर्जिताः ॥.,१९२ ।।
आलीने च यथा जातप्रतिपक्षं चमूमुखे । विषमाहत तूर्येण परमुत्साहमाढते ॥ १९३ ॥ •
तता राक्षससंन्यस्यं मुखभंगः मुरैः कृतः । मुंबन्दिः शाखसंघातमतहितनभस्तलं ॥ १९ ॥
सेनामुखापसादेन कुपिता राक्षसास्ततः । अणूपुः पृतनॉवक्त्रं निजमूर्जितविक्रमाः ॥ १९५ ।।
वजयेगः प्रहस्तोध हस्तो मारीच उद्भवः । वववक्रः शुको घोर सारणो गंगनोज्यलः ॥१९६।।
महाजठरसंध्याभ्रकरप्रभृत्यस्तथा । सुसंघद्धा सुपानाच मुशीतांश्च पुरस्थिताः ॥ १९७ ॥
ततस्तरुत्थितः सन्यं सुराणां वर्णमाप्रतः। कृतं विहितपित्रस्तं शस्त्रसंघातशत्रुकं ॥ १९८ ॥
भज्यमानं ततः सैन्यवक्त्रं दृष्ट्वा महासुराः । उत्थिता योदुमत्युग्रकोपापूरितविग्रहाः.॥ १९९ ।।
मेघमाली नडिपिगो ज्वलिताक्षोरिसंज्वरः । पॉवकस्पंदनाद्याथ सुराः प्रकटतां ययुः ॥२०॥
उत्थाय राक्षसास्तस्ते मुंचद्भिः शस्त्रसंहति । अष्टब्धाः समुद्भूततीवकोपातिमासुरैः ॥ २०१॥
ततो भंग परिप्राप्ताश्चिरं कृतमहाहयाः । प्रत्येकं राक्षसा देवहुभिः कृतयेष्टनाः ॥ २०२२ ॥
- - - पद्मपुराणम्। L । R९३. .. .. .. ... ... द्वादशं पर्व । आवर्तषिव निक्षिप्ता राक्षसा वेगशालिपु वभ्रमुर्विगलच्छखशिथिलास्थितपाणायः ॥ २०३ ।। परावृत्ताथाप्यन्ये राक्षसा मानशालिनः । प्राणानभिमुखीभूता मुंचंति न तु सायकान् ||२०१॥ ततो वसादनाद्भगं दृष्ट्वा तद्रक्षसां वलं ! सूनुर्महेंद्रसेनस्य कृषिकेतोमहाबलः ।। २०५ ।। दक्षः प्रसन्नकी.ख्यां घायन्नर्थसंगतां । त्रासयन् द्विषतां सैन्यं जन्यस्य शिरसि स्थितं ॥२०६॥ रक्षता अलमात्मीयं तेन तत्रेदृशं बलं । शरैः पराङ्मुखं चक्रे निष्कामद्भिरनंतरं ॥ २०७॥ अतिमात्रं ततो भूरिविजयाधिनिवासितां । सैन्यं प्राप्तं महोत्साहे नानाशवसमुज्ज्वलं ॥ २०८ ॥ दृष्ट्वैव कपिलक्षम्यास्य घजे छत्रेण भीषणं । अवाप मानसे भेदं विजयार्धाद्रिजंबलं ॥ २०९॥ तनेन विशिखैः पत्रात्स्फुरत्तेजःशिखै क्षणाद् । भिन्नं कुतीर्थहृदयं यथा मन्मथविभ्रमः ॥२१०॥ ततोन्यदपि संप्राप्तं सैन्यं त्रिशगोचरं । कनकासिगदाशक्तिचापमुद्गरसंकुलं ॥ २११ ॥ ततोऽतराल एवातिवीरों माल्यवतः सुतः । श्रीमालीतिप्रतीतात्मा पुरोस्य समवस्थितः ॥२१२।। तेन ते क्षणमात्रेण सुराः सूर्यसमविपः । कनीता इति न ज्ञाता मुंचता शरसंहतीः ॥ २१३ ॥ दृष्टा तमभ्रमित्रीणभनिवार्यरयं ततः । क्षोभयंतं द्विपां सैन्यं महाग्राहामिवार्णवं ।। २१४ ।। मचद्विपेंद्रसंघघटितारातिमंडलं । करवालकरोदार भटमंडलमध्यगं ।। २१५ ॥
. परराणमा २९४ द्वादशे पर्व। अमी मन्थिना देवा नि पालगितुं बलं । महाकोधपरीतांगाः ममूवासितहेतपः॥ २१६ ।। सिसिकेगरिदंडोषकनक प्रवरादपः । छादयंतो नमो दरं प्रावृषेण्या इयांदाः ॥ २१७ ।। सश्रीयाय गुरेंद्रम्म मृगविहादयोऽधिकं । दीप्यमाना रणोद्भूनतेजसा मुमहाबलाः ॥ २१८ ॥ ततः श्रीमातिना ने शिरोभिः कमलरिख । मावलमही छन्ना चित्रचंद्रार्धसायकः ।। २१९ ।। अनितयनतः शक्रो यनने नरपुंगयाः । कुमाराः धयमानीताः सममेभिर्वरः मुरैः ।। २२० ।। तस्याम्प को रणे स्यातुं पुरोवाडीहवी का । राक्षमम्स महातेजो दुरीक्षस्याविवीर्यवान् ।।२२१॥ तस्मादस्य स्वयं गुदद्वाघमं करोम्पई । अपरानमरान्यावनय नैप पंचतां ।। २२२ ।। इति धात्वा ममामास्य बलं स वामकंपितं । यो, ममुद्यतो यापत्रिदशानामधीश्वरः ॥२२३।। निपत्य पादयोस्तावग्जनस्पृष्ट महीतलः । नमुवान महावीरो जयंत इति विश्रुतः ।। २२४ ॥ सत्येव मयि देवेंद्र करोषि यदि संयुगं । ततो भवत्कृतं जन्म त्वया मम निरर्थकं ॥ २२५ ।। बालकों के जनक्रीडां पुत्रप्रीत्या यदीथितः । त्वयाई फलमतस्य जनयामि उवायुना ॥२२६॥ मत्वं निराकुलो भूत्वा तिष्ठ ताव यर्थक्षितं । मदन धन निश्शेपानपं व्यापादयाम्यहं ॥२२७॥ नसेन प्राप्यते छदं वस्तु यत्स्वल्पयत्ततः । व्यापारः परमोस्तत्र ननु तात निरर्थकः ।। २२८ ॥
पद्मपुराणम् ।
द्वादश पर्व ।
૨૫
वारयित्त्वेत्यसौ तातं संयुगाय समुद्यतः । कोपावेशाच्छरीरेण असमान इबावरं ।। २३९ ।। .
प्रतिश्रीमालि चायासीदायासपरिवर्जितः । गुप्तः पवनवेगेन सैन्येनोज्वलहेतिना ।। २३० ॥
श्रीमाली चापि संप्राप्तं चिराद्योग्यं प्रतिद्विषं । दृष्ट्वा तुष्टो दधावास्य संमुखं सैन्यमध्यगः २३१
अमुंचतां ततः क्रुद्धौ शरासारं परस्परं । कुमारौ स तदाकृष्ट दृष्टकोदंडमंडलौ ॥ २३२ ॥
तयोः कुमारयोयुद्धं निश्चलं पृतनीद्वयं । ददर्श विस्मयप्राप्तमानसं रेखया स्थितं ।। २३३ ॥
कनकेन ततो मित्वाजयंतो विरथीकृतः । श्रीमालिना स्वसैन्यस्य कुर्वता शर्मदे परं ।। २३४ ॥
मूर्छया पतिते तस्मिन् स्ववर्गस्यापतन्मनः । मूछोयाच परित्यागादुत्थिते पुनरुत्थितं ॥ २३५ ।।
आहत्य भिडिमालेन जयंतेन ततः कृतः । श्रीमालिविस्थो रोपात्प्रहारेणातिवर्धितान् ॥२३६।।
वतः परवले तोपनिर्घोपोनिर्गतो महान् । निजे च यातुधानस्य समाकंदध्वनिर्वभौ ॥ २३७ ॥
गतमूर्छस्तु संयुद्धः श्रीमाली भृशभीषणः । किरन् प्रहरणनातं जयंताभिमुखो ययौ ॥ २३८ ॥
मुंचती हेतिजालं ती कुमारी रेजतुस्तरां । सिंहार्भकाविवोद्भूत दीप्तकेसरसंचयौ ॥ २३९ ॥
ततो माल्यवतः पुत्रः सुरराजस्य सूनुना । स्तनांतरे हतो गाढं गदया पतितो भुवि ॥ २४ ॥
वदनेन ततो रक्तं विमुंचन् धरणीं गतः । अस्तंगत इवाभाति कमलाकरबांधवः ॥ २४१ ॥
द्वारशं पर्व ।
२९६
-
पद्मपुराणम् ।
हनः श्रीमालिकः प्राप्य रथं वासरनंदनः । दध्मौ शंसं मुदा भीता राक्षसाथ विद्रुवुः ।।२५२।।
माल्यरत्तनयं दृष्ट्वा ततो निर्गतजीवितं । जयंतं च सुमन्नद्ध तोपमुक्तभटसनं ॥ २४३ ।।
आश्वामयनिज सन्यं पलायनपरायणं । इद्रजित्समुसीभूतो जयंतस्योत्कटो रुपा ॥ २४४ ॥
ततोऽभिभाने सक्त जनानां तं कलिं यथा । जयंतमिंद्रजिचके जर्जर वर्मवच्छरैः ।। २४५ ।।
दृष्ट्वा च छिनपर्माणं रुधिरारूणपिग्रह । जयतं शरसंघातैः प्राप्तं सलिलतुल्यतां ॥ २४६ ॥
अमरेंद्रः स्वयं योदुमुत्थित छादयन्नमः । नीरंध्रे वाहनैरुपैरायुधश्च चलत्करैः ॥ २४७ ॥
अवादीत्मारथिश्चै रावण सन्मतिथुतिः । अयं स देव संप्राप्तः सयं नाथो दिवौकसां ॥२४८॥
चक्रेण लोकपालानां परितः कृतपालनः । मनैरावतपृष्टस्थो मौलिरत्नप्रभावतः ॥ २४९ ॥
पाडुरेणोपरिस्थेन छोणावृतभास्करः । क्षुब्धेन सागरेणेव सन्येन कृतवेष्टनः ।। २५० ॥
महारलोयमेतस्य कुमारो नोचितो रणे । उद्यच्छस्वयम्प र जहि शोरहंयुतां ॥ २५१ ।।
ततोऽभिमुसमायातं दृष्ट्वासंडलगूजितं । संस्मृत्य मालिमरणं श्रीमालिपधदीपितः ।। २५२ ॥
दृष्ट्वा च शत्रुभिः पुनं वेष्टयमानं समंततः । दधाव रायणः क्रोधाद्रथेनानिलरंहसा ॥ २५३ ॥
भटानामभवद्युद्धमेतयोरोमहर्षणं । तुमुलं शस्त्रसंघातघनवातसमावृतं ॥ २५४ ॥
पद्मपुराणम्
२९७
द्वादशं पर्व।
--
ततः
शस्वकृत्वांते रक्तनीहारवर्तिनि । अज्ञायंत भटाः शरास्तारारावेण केवलं ॥ २५५ ।।
प्रेरिवाः स्वामिनो भक्या पूर्वमाखचोदिताः । प्रहारोत्थेन कोपेन भटा युयुधिरे भृशं ॥२५६!!
गदाभिः शक्तिभिः कुंतैर्मुशलैरसिभिः शरैः । परिषैः कनकैश्चकैः करवालिभिरंघिपैः ।। २५७ ।।
शूलैः पारी पंडीभिः कुठार्मुद्रैपनैः । ग्रावभिलागलैः कौणैः सायकवेणुभिः !! २५८ ।।
अन्यैश्च विविधैः शस्त्रैरन्योन्यच्छेदकारिभिः । करालमभवद्व्योम तदापातोत्थितानलं ॥२५९॥
पचिद्ग्रसदिति धानो भवत्यन्यत्र शूदिति । क्वचिद्रणरणारावः क्वचित्किणिकिणिस्वनः२६०
पत्रपायतेन्यत्र तथा दुमदमायते । छमाछमायतेऽन्यत्र तथा पटपटायते ।। २६१ ॥
छल छलायतेऽन्यत्र दद्दद्दायते तथा । तटत्तटायतेऽन्यत्र तथा चटचटायते ।। २६२ ।।
घग्घग्घग्घायतेऽन्यत्र रणं शस्त्रोसितैः स्वरः । शब्दात्मकमियोद्भूतं तदा त्वजिरमंडलं ॥२६३॥
हन्यते वाजिना बाजी वारणेन मतंगजः । तत्रस्थेन च तत्रस्थो रथेन धस्यते रथः ।। २६४ ।।
पदातिभिः समं युद्धं कर्तुं पादातमुद्यतं । यथा पुरोगतेकैकभटपाटनतत्परं ।। २६५ ॥
गजसूत्कृतनिस्सर्पच्छीकरांकारसंहतिः । शस्त्रपातसमुद्भूतधूमकेतुमशीशमत् ॥ २६६ ॥
प्रतिमा गुरखो दंता भ्रष्टा अपि गजाननात् । पतंतः कुर्वते भेदं भटपंक्तरधोमुखाः ॥ २६७॥
द्वादशं पर्व। + २९८ पद्मपुराणम् । ग्रहारं मुंच भो शूर माभूः पुरुष कातरः । प्रहारं भट सहासेः सहस्व मम सांप्रतं ॥ २६८ ॥ अयं मृतोऽसि मां प्राप्य गतिस्तव कुतोधुना । दुःशिक्षित न जानासि गृहीतुमपि सायकं २६९ रक्षात्मानं बजामुष्माद्रणकंडूर्मुघा तव । कंट्टरेव न मे भ्रष्टा क्षतं स्वल्पं त्वया कृतं ।। २७० ॥ सुधैव जीवनं भुक्तं पांडुकेन प्रभोस्त्वया । किं गर्जसि फले व्यक्तिर्भरतायाः करोम्यह ॥२७॥ किं कंपसे भव स्थैर्य गृहाण त्वरितं शरं । दृढमुष्टिं कुरुवंसं खगोयं तव यास्यति ।। २७२ ॥ एवमादि समालापाः परमोत्साइवर्तिनां । भटानामाहवे जाताः स्वामिनामग्रतो मुहुः ॥२७॥ अलसः कस्यचिद्वाहुराहतो गदया द्विपः । वभूव विशदोत्यंत क्षणनर्तनकारिणः ॥ २७४ ॥ प्रयच्छत्प्रतिपक्षस्य साधुकारं मुहुः शिरः । पपात कस्यचिद्वेगनिष्कामद्भरिशोणितं ॥ २७५ ॥ अभिद्यत शरैर्वक्षो भटानां नतु मानसं । शिरः पतात नो मानः कांतो मृत्युनं जीवितं ।।२७६।। कुर्वाणा यशसो रक्षा दक्षा वीरा महौजसः । भटाः संकटमायाता प्राणान् शस्त्रभृतोऽमुचन् ।।२७७॥ म्रियमाणो भटः कश्चिच्छत्रुमारणकांक्षया । पपात देहमाक्रम्य रिपोः कोपेन पूरितः ।। २७८ ।। च्युते शखांतराघाताच्छस्ने कश्चिद्भटोत्तमः । मुष्टिमुद्गरपातेन चक्रे शत्रु गतासुकं ॥ २७९ ॥ आलिंग्य मित्रवत्कश्चिदोभ्या गादं महाभटः । चकार विगलद्रक्तधारं शत्रु विजीवितं ।। २८० ॥
पद्मपुराणम् | २९९ द्वादश पवे कश्चिच्चकार पंधानमृर्जु निमन्भटावलि । समरे पुरुपरन्यैर्भयादकृतसंगमं ॥ २८१ ।। पतंतोऽपि न पृष्ठस्य दर्शनं भटसत्तमाः । वितेरुः प्रतिपक्षस्य गर्वोत्तानितवक्षसः ॥ २८२ ।। अश्वै रथैर्भटै गैः पतद्भिरतिरंहसा । अश्वा रथा मटा नागा न्यपात्यंत सहस्रशः ॥ २८३ ॥ रजोभिः शस्त्रनिक्षेपसमुद्भूतैः सशोणितैः । दानांभसा च संच्छन्नं शक्रचारभून्नमः ॥ २८४ ।। कश्चित्तरेण संरुह्य वामेनांत्राणि सद्भटः । तरसा खड्मुद्यस्य ययौ प्रत्यरिभीषणः ।। २८५ ॥ कश्चिनिजैः पुरीतद्भिद्धा परिकर दृढं । दष्टोऽष्ठोभिययौ शत्रु दृष्टाशेपकनीनिकाः ॥ २८६ ॥ कश्चित्कीलालमादाय निजं रोपपरायणः । कराभ्यां द्विपतो मूर्ध्नि चिक्षेप गलितायुधः ।।२८७|| गृहीत्वा कीकसं कश्चिनिजं छन्नमरातिना | डुढौके तं गलद्क्तधारांशुकविराजितः ॥ २८८ ॥ पाशेन कश्चिदानीय रिपुं युद्धसमुत्सुकः । मुमोच दूरनिमुक्तं रणसंभवसंभ्रमः ।। २८९ ।। कश्चिच्च्युतायुधं दृष्ट्वा प्रतिपक्षमनिच्छया । डुढौके शस्त्रमुज्झित्वा न्याय्यसंग्रामतत्परः ॥ २९० ॥ पिनाकाननलग्नेन रिपून् कश्चित्प्रतिद्विषा । जघान घनकीलालधारानिकरवर्पिणा ॥ २९१ ।। कश्चित्कवंधतां प्राप्तः शिरसा स्फुटरंहसा । मुंचंस्तं दिशि कीलाल प्रतिपक्षमताऽयत् ।। २९२ ।। कृतोऽपि कस्यचिन्मूर्द्धा गर्वनिर्झरचेतसः । दष्टदंतच्छदोपतढुंकारमुखरविरं ॥ २९३ ।।
1 द्वादशं पर्व। . ३०० पद्मपुराणम् । . - अन्येनाशीविषेणेव पततात्यंतभीपणा । दृष्टिरुल्कानिभाक्षेपि प्रतिपक्षस्य विग्रहे ।। २९४ ॥ अर्घकृत्तं शिरोऽन्येन धृत्वा वामेन पाणिना । पातितं प्रतिपक्षस्य शिरो विक्रमशालिना॥२९५।। कश्चिद्विक्षिष्य कोपेन शत्रमप्राप्तशत्रुकं । हतुं परिपतुल्येन बाहुनेव समुद्यतः ॥ २९६ ।। अराति मूर्छित कश्चिस्सिपेच स्वासजा भृशं । शीतीकृतेन वस्त्रांतवायुना संभ्रमान्वितः ॥२९७॥ विश्रांतं मूर्छया शूरैः शवघातैः मुखायितं । मरणेन कृतार्थत्वं मेने कोपेन कंपितः॥ २९८ ।। एवं महति संग्रामे प्रवृत्ते भीतिभीपणे । मदानामुत्तमानंदसंपादनपरायणे ।। २९९ ।। गजनासासमाकृष्टवीरकाल्पततत्करे । जवनाश्वखुराधातपतत्तत्कर्तनोद्यते ॥ ३०० ॥ सारथिोरणात्कृष्टरथांक्षितयाजिनि । जंघावष्टंमसंक्रांतक्षतकुंभमहागजे ।। ३०१,॥ परस्परजवाघातदलत्पादातविग्रहे । भटोत्तमकराकष्टपुच्छनिस्पंदवाजिनि ॥ ३०२ ॥ करापातदलत्कुंभिकुंभनिष्ठत्तमाक्तिक । पतन्मातगनिर्भनरथाहतपतटे ॥ ३०३ ॥ कीलालपटलच्छन्नगगनाशाकदंबके । गजकर्णसमुद्भुततीत्राकुलसमीरणे ॥ ३०४ ।। उवाच सारथिं वीरः सुमति केकसीसुतः । न किंचिदिवमन्वानो रणं रणकुतूहली ॥ ३०५ ।। तस्यैव शक्रसंज्ञस्य संमुखो बाह्यता रथः । असमानैः किमत्रान्यैः मामतेस्तस्यमारितैः ॥ ३०६॥ - 1 ३०. द्वादशं पये। 'पद्मपुराणम् तृणतुल्ये' नामीपु.मम शखं प्रवर्तते । मनश्च सुमहावीरग्रासग्रहणघसरं ।। ३०७ ॥ आंखडलत्वमस्यांद्या कृतं क्षुद्राभिमानतः। करोमि मृत्युना. दूर स्वविडंबनकारिणः ॥ ३०८ ।। अयं शको महानेते लोकपालाः प्रकल्पिताः । अन्ये च मानुपा देवा नाकश्च धरणीधरः ॥३०९॥ अहो लोकापहासंस्य मत्तस्य क्षुद्रया श्रिया । आत्मा विस्मृत एवास्स भुकुंशस्येव दुर्मतेः ॥३१०॥ शुक्रशोणितमांसास्थिमज्जादिघटिते चिरं । उपित्वा जठरेपापस्त्रिदर्शमन्यतां गतः ।। ११ ।। विद्यायलेन यत्किंचित्कुर्वाणोधैर्यदुर्विधः । एप.देवायते ध्वांक्षो वैनने यायते यथाः॥ ३१२ ॥ एवमुक्तेन शंक्रस्य बलं सम्मतिना रथः । प्रवेशितो महाशूरः सामंतः परिपालितः ।। ३१३ ॥ पश्यनिंद्रस्य सामतान् युद्धाशक्तपलायितान् । ऋजुना चक्षुपा राजा कीटकोपमचेष्टितान्-३१४ अंशयः शंतुभिधत कूलैः पूरो यथांभसः । चेतोवेगश्च सक्रोधो मिय्यादृष्टिवताश्रितः ।।३.१५।। दृष्ट्रातपत्रमेतस्य क्षीरोदावर्तपांडुरं । नष्टं सुरवलं क्यापि तमचोदयें यथा ।। ३१६ ।। इंद्रोऽपि गजमादः कैलाशगिरिसन्निभं । शरं समुद्धरस्तूणादभीयाय दशाननः ।। ३१७ ।।., . शरानाकर्णमाकृष्टान् चिक्षेप च यमद्विपि । महीधर इवाभादः स्थूलधारामहाचर्य ।। ३१८॥ दशवक्त्रोऽपि तां बाणैराच्छिदंतरवर्तिनः । ततस्तैर्गगनं चक्रे निखिलं मंडपाकृति ॥ ३१९ ।। .
. प्रादर्श पर्य। ३०२ पद्मपुराणम् । आच्छिद्युत शरा वाणैरभियंत च भूरिशः । भ्रांता इव वः पादाः क्वापि ना निरन्वयाः३२० अंतरेऽस्मिन्नवद्वारगतिनिस्सारगोचरं । ननर्त कलह क्षासंभूतपुरुसंमदः ॥ ३२१ ॥ असाध्यं प्रकृतास्त्राणां ततो ज्ञात्वा दशाननं । निक्षिप्तमखमानेयं नाथेन स्वर्गवासिनां ॥३२२॥ इंधनत्वं गतं तस्य खमेव विततात्मनः । धनुरादौ तु किं शक्यं वक्तुं पुद्गलवस्तुनि ॥ ३२३ ॥ कीचकानामिचोदारो दह्यमाने यने ध्वनिः । ज्यालावलीकरालस्य संपभूवाशुशुक्षणेः ॥ ३२४ ।। ततस्तेनाकुलं दृष्ट्वा स्वबलं कैकसीसुतः । चिक्षेप क्षेपनिर्मुक्तमखं वरुणलक्षिनं ।। ३२५ ।। तेन क्षणसमुद्भुत महाजीमूतराशिना । पर्वतस्थूलधारोघयर्षिणा रावशालिना ॥ ३२६ ।। रावणस्येव कोपेन विलीनेन विहायसा । क्षणात्तद्धमलक्ष्मांस विध्यापितमशेषतः ॥३२७ ।। सुरेंद्रेण ततोऽसर्जि तामसास्त्रं समंततः । तेनांधकारिता चक्रे ककुभां नभसा समं ।। ३२८ ॥ ततस्तेन दशास्यस्य विततं सकलं बलं । स्वदेहमपि नापश्यत्कुतः शत्रोरनीकिनी ॥ ३२९ ॥ ततो निजबलं मूढं दृष्ट्वा रजश्रवःसुतः । प्रभाखममुचत्कालवस्त्रयोजनकोविदः ।। ३३०॥ तेन तनिखिलं ध्वनि विध्वस्तं-क्षणमात्रतः । जिनशासनतचेन मतं मिथ्याशामिवः ।। ३३१ ॥ ततोयमविमर्दैन कोपानागारमुज्झितं । वितेने गगनं तेन भोगिनीरत्रभासुरैः ॥ ३३२ ।। 1
द्वादशं पर्व।
पद्मपुराणम्।
३०३
कामरूपभृतो वाणास्ते गत्वा वृत्रविद्विपः । चेष्टया रहितं चक्रुः शरीरं कृतवेष्टनाः ।। ३३३ ॥
महानीलनिभैरेनिर्वलयाकारधारिभिः । जगामाकुलता शक्रश्चलद्रसनभीपणैः ॥ ३३४ ।।
प्रययावस्वतंत्रत्वं कुलिशी व्यालचेष्टितः । वेष्टितः कर्मजालेन यथाजंतुर्भवोदधौ ॥ ३३५ ॥
गरूडावं ततो दध्यौ सुरेंद्रस्तदनंतरं । हेमपक्षप्रभाजालैः पिंगता गगनं गतं ।। ३३६ ।।
पक्षवातेन तस्याभूनितांतोदाररंहसा । दोलारूढमिवाशेष प्रेक्षणप्रवणं वलं ॥ ३३७ ।।
स्पृष्टा गरुडवातेन न ज्ञाता नागसायकाः । क्व गता इति विस्पष्टबंधस्थानोपलक्षिताः ॥३३८॥
गरुत्मता कृताश्लेपो बंधलक्षणवर्जितः । बभूव दारुणः शक्रो निदाघरविसन्निभः ॥ ३३९ ।।
विमुक्तं शक्रजालेन दृष्ट्वा शक्रं दशाननः । आरूढस्त्रिजगद्भूपं क्षरद्दानं जगद्विषं ॥ ३४० ॥
शक्रोप्यरावर्त रोपादस्यात्यासनमानयत् । ततो महदभूयुद्धं दतिनोः पुरदपेयोः ॥ ३४१ ।।
क्षरद्दानो स्फुरद्धेमकक्षविद्युद्गुणान्वितौ । दधतुस्तौ घनाकारं सांद्रगर्जितकारणौ ॥ ३४२ ।।
परस्पररदाघातनिर्घातैरिव दारुणैः । पतद्भिर्भुवनं कंपं प्रययौ शब्दपूरितं ॥ ३४३॥
पिंडयित्वा स्थवीयांसौ करौ चपलविग्रहौ । पुनः प्रसारयंतौ च ताडयंती महारयो । ३४४ ॥
दंतिनी दृष्टविस्पष्टतारकाक्रूरवीक्षणौ । चक्रतुः सुमहाद्धं स्तब्धकर्णी महावलौ ॥ ३४५ ॥
- वदिश पर्व। पद्मपुराणम् प्र - , तत उत्पत्य विन्यस्य पादमिंद्रेभमूर्धनि । नितांत लाघवोपेतपादनिधूतसारथिः ॥ ३४६ ।। पद्धांशुकेन देवेंद्रं मुहुराश्वासयविभुः । आरोपयद्यमध्वंसो निज वाहनमूर्जितः ।। ३४७ ।। राक्षसाधिपंपुत्रोऽपि गृहीत्वा वासवात्मजं । समर्प्य किंकराघस्य सुरसैन्यस्य संमुखं ॥ ३४८ ॥ धावमानो जयोद्भूतमहोत्साहपरं तपः । उक्तो द्विपंतपेनवं मरुत्तमखविद्विपा ।। ३४९ ॥ अलं वत्स प्रयत्नेन निवर्तस्य रणादरात् । शिरोगृहीतमतस्याः सेनाया गिरिवासिनी ॥ ३५० ।। गृहीनेऽस्मिने परिस्पंदमंत्र कः कुरुते परः । क्षुद्रा जीवंतु सामंता गच्छंतु स्थानमीप्सितं॥३५१॥ तंदुलेपु गृहीतेपु ननु शालिकलापतः । त्यागस्तुपपलालस्प क्रियते कारणाद्विना ।। ३५२ ।। इत्युक्तः समरोत्साहादिंद्रजिद्विनिवर्तनं । चके चक्रेण महता नृपाणी बद्धमंडलः ।। ३५३ ॥ नतः मुरवलं सर्व विशीर्ण क्षणमात्रतः । शारदानामिवांब्दानों वेदमय॑तमायतं ।। ३५४ ।। सैन्येन दशवक्त्रस्य यशब्दो महान्तः । पटुभिः पटलः शंखझझदिनां गणैः ।। ३५५ ।। शब्देन तेन विज्ञाय गृहीतममराधिपं । सन्य राक्षसनाधस्य बभूवाकुलितोशितं ।। ३५६ ।। ततः परमया युक्तो विभूत्या कैकसीसुतः । प्रतस्थे निवृतो लकी साधनाच्छादितांवरः॥३५७॥ आदित्यरथसंकाशरथर्वजविराजितैः । नानारत्नकरोतगुनासीरशरासनः ।। ३५८ ।।
द्वादशं पर्व। : ३०५ में । पद्मपुराणम् । तुरंगैश्चंचलचारुचामरालीविभूषितः । नृत्यद्भिरिव विस्रन्धकृतविभ्रमहारिभिः ॥ ३५९ ।। महनिनदसंघः प्रवृत्तमदनिझरैः । गद्भिर्मधुरं नागैः षट्पदालीनिषेवितैः ।। ३६० ॥ अनुयानसमारूढमहासाधनखेचरैः । उपकंठं क्षणात्याप लंकायां राक्षसाधिपः ।। ३६१ ॥ ततो दृष्ट्वा समासनं गृहीता; विनिर्ययुः । पुरस्य पालकाः पौरा बांधवाश्च समुत्सुकाः ॥३६२।। कृतपूजनस्ततः कैश्वित्केपांचित्कृतपूजनः । नम्यमानोपरैः कांश्चित्प्रणमन्मदवर्जितः ॥ ३६३ ॥ दृष्ट्या सन्मानयन् कांचित्निग्धया नतवत्सलः। स्मितेन कांश्चिद्वाचान्यान् परिज्ञातजनांतर:३६४ मनोहरां निसर्गेण विशेषणविभूषितां । समुच्छ्रितसमुनुंगरत्ननिर्मिततोरणां ।। ३६५ ।। मंदानिलविधूनांतबहुवर्णध्वजाकुलां । कुंकुमादिमनोज्ञांबुसिक्तनिश्शेषभूतलां ॥ ३६६ ।। सर्वकुसुमव्याप्तराजमार्गविराजितां । अनेकभक्तिभिः पंचवर्ण-चूर्णरलंकृतां ।।.३६७ ।। द्वारदेशसुविन्यस्तपूर्णकुंभां महाद्युतिं । सरसैः पल्लवेदमालां वस्त्रविभूपितां ।। ३६८ ।। वृतो विद्याधरैर्देवैर्यर्थेद्रोऽत्यंतभूरिभिः । सुखमासादयन् प्राज्य, पूर्वोपार्जितकर्मणा ॥ ३६९ ॥ आरूदः परमे कांते पुष्पके कामगामिनि । स्फुरन्मौलिमहारत्नकेयूरधरसद्भुजः ॥ ३७० ।। दधानो वक्षसा हारं प्रस्फुरद्विमलप्रभं । वसंत इव संजातकुसुमोघविराजितः ॥ ३७१॥ । २०
प्रयोदशं पर्व।
1
३०६
:
.
वितिहर्षपूर्णाभिर्षभिः कृतपीक्षणः । स्वयं मृदुसमुद्भूतचामराभिः ससंभ्रमं ।। ३७२ ॥
नानापादिवशब्देन जयशब्देन चारुणा । आनंदित सुवैश्वामित्यंतीगिः समन्वितः ॥ ३७३ ॥
प्रविष्टो मुदितो लंका समुद्भूतमहोत्सवां । भवनं च निजं बंधूभृत्यराभिनंदितः ॥ ३७४ ।।
सुसन्नद्धान् जित्वा तृणमिव समस्तानरिंगणान् । पुरोपात्तात्पुण्यात्समधिगतसुप्राज्यविमयो ।
क्षयं प्राप्त तस्मिन्विगतरुचिप्रभ्रष्टविभवो । बभूवासौं शक्रोधिगतिचपलं मानुपमुखं ।। ३७५ ॥
असी प्राप्तो वृद्धिं दशमुखखगः पूर्वचरिता च्छुभानियालं प्रबलमहितवातमखिलं ॥
इति ज्ञात्वा भव्या जगति निखिलं कर्मजनितं । विमुक्तान्यासंगा रविरुचिकर यात सुकृतं ३७६
इत्यर्थे रविपेणाचार्यप्रोक्त पद्मचरिते इंद्रपराभवाभिधानं नाम द्वादर्श पर्व ।
1
1
त्रयोदशं पर्व ।
ततः शक्रस्य सामंताः स्वामिदुःखसमाकुलाः । पुरस्कृतसहसारा प्राप्ता रावणमंदिरं ।।१।।
प्रविष्टाच प्रतीहारज्ञापिता विनयान्विताः। प्रणाम्प च स्थिता दत्तेप्वासनेषु यथोचितं ॥२॥
पद्मपुराणम्।
त्रयोदशं पर्व।
' ३०७
-
A
दृष्टोऽथ गौरवेणोचे सहस्रारो दशाननं । जितस्तातस्त्वया शको मुंचेदानी गिरा मम ॥३॥
वाहोः पुण्यस्य चोदात्तं सामर्थ्य दर्शितं त्वया । परगर्वावसादं हि समीहंते नराधिपाः ॥ ४ ॥
इत्युक्ते लोकपालानां वदनेभ्यः समुत्थितः । शब्दोयमेव विस्पष्टः प्रतिनिस्वनसन्निभः ।। ५ ।।
लोकपालानथोवाच विहस्योद्वासितांतकः । समयोऽस्ति विमुंचामि येन नाथं दिवौकसा ॥६॥
अयप्रभृति मे सर्वे यूयं कर्म यथोचित । संमार्जनादि सेवध्वं सर्वमंतहिःपुरः ॥७॥
पुरीयं सांप्रतं कृत्वा भवद्भिः प्रतिवासरं । परागाशुचिपापाणणकंटकवर्जिता ॥८॥
गृहीत्वा कुंभमिंद्रोऽपि वारिणामोदचारुणा । महीं सिंचतु कर्मेदमस्य लोके प्रकीर्त्यते ॥९॥
पंचवर्णैश्च कुवंतु पुष्पैगंधमनोहरैः । संभ्रांताः प्रकरं देव्यः सर्वालंकारभूषिताः ॥ १० ॥
समयेनामुना युक्ता यदि तिष्ठति सादराः । विमुंचामि ततः शक्रं कुतो निमुक्तिरन्यथा ॥ ११ ॥
इत्युक्त्वा वीक्षमाणोऽसी लोकपालांस्त्रपानतान् । जहास मुहुराप्तानां ताडयन्पाणिना, करं ॥१२॥
ततो विनयनम्रः सन् सहस्रारमवोचत । सभाहृदयहारिण्या क्षरनिवगिरामृतं ॥ १३ ॥
यथा तात प्रतीक्ष्यस्त्वं वासवस्य तथा मम । अधिकं वा ततः कुर्या कथमाज्ञामहं न ते ॥१४॥
गुरवः परमार्थेन यदि न स्युभवादृशाः । अधस्ततो धरित्रीयं ब्रजेन्मुक्ताधरैरिव ॥ १५ ॥
!' प्रयोदशं पर्व। im T ३०८ प पद्मपुराणम्।। पुण्यवानस्मि यत्पूज्यो ददाति मम शासनं । भवद्विधानियोगांना न पदं पुण्यवर्जितः ॥ १६ ॥ तदद्यारभ्य संचित्य मनोझ क्रियता तथा । यथा शक्रस्य, सौस्थित्यं जायते मम च प्रभो १७ अयं शक्रो, मम भ्राता तुरीयः सांगतं वली । एवं प्राप्य करिष्यामि पृथिवीं वीतकंटकां ॥१८॥ लोकपालास्तथैवास्य तव राज्यं यथा पुरा । ततोधिकं वा गृह्णातु विवेकेन, किमावयोः ॥१९॥ आज्ञा च मम शत्रै वा दातव्या भृत्यवस्तुनि । गुरुभिः सा हि शेपेय रक्षालं कारकारणं ॥२०॥ आस्यतामिहसछंदादधवा रथनूपुरे । यत्र बेच्छत का भूमि त्सयोरावयोर्नते ॥२१॥ इति प्रियवचोवारिसमाद्रीकृतमानसः । अवोचत सहस्रारस्तातोऽपि माधुरं वचः ॥ २२ ॥ नूनं भद्रसमुत्पत्तिः सज्जनानां भवादृशां । सममेव गुणैः सर्वलोकाल्हादनकारिभिः ॥ २३॥ आयुष्मन्त्रस्य शौर्यस्य पिनयोयं नवोत्तमः । अलंकारसमस्तेऽस्मिन्भुवने श्लाध्यतां गतः ॥२४॥ भवतो दर्शनेनेदं जन्म मे सार्यकं कृतं । पितरौ पुण्यवंती ती त्वया यौ कारणीकृतौ ॥ २५ ॥ क्षमावता समर्थेन कुंदनिर्मलकीर्तिना । दोषाणां संभवाशंका त्वया दूरमपाकता ॥ २६ ।। एवमेतद्यथा यक्षि सर्व संपाद्यते त्वयि । ककुप्करिकराकारी कुरुतः किंतु ते भुजी ।। २७ ।। किंतु मातेव नो शक्या त्यक्तुं जन्मवसुंधरा । साहि क्षणाद्वियोगेन कुरुते चित्तमाकुलं ।। २८ ।।
३०९
पद्मपुराणम् ।
त्रयोदशं पर्व।
.
-
अशक्ताः स्वभुवं त्यक्तुं तत्र नो मित्रयांधवाः । चातका इव सोत्कंठास्तिष्ठत्यध्वावलोकिनः २९
कुलक्रमसमायातां सेवमानो गुणालयः । लंका यासि परां प्रीतिं जन्मभूमिः, किमुच्यतां ॥३०॥
तस्मात्तामेव गच्छामो महाभागो भवावनिं । देवानांपिय निर्विघ्नं रक्षताद्भुवनं चिरं ॥ ३१ ॥
इत्युक्त्वानुगतो दूर कैलाशक्षोभकारिणा । सहस्रारो गतः सेंद्रो लोकपालैः समं गिरिं ॥ ३२ ।।
यथास्वं च स्थिताः सर्वे पूर्वपल्लोकपालिनः ! भंगादसारतां प्राप्ताश्वलयंत्रमया इव ॥ ३३ ॥
विजयार्धजलोकेन दृश्यमाना महाप्रपाः । नाज्ञासिपुः क गच्छाम इति भोगद्विपः सुराः ॥३४॥
इंद्रोऽपि न पुरे प्रीति लेभे नोद्यानभूमिपु । न दीर्घिकासु राजीवरजःपिंजरवारिषु ॥ ३५ ॥
न दृष्टिमपि कांतासु चक्रे प्रगुणवर्तिनीं । तनौ तु संकथा कैव पानिर्भरचेतसः ॥ ३६ ।।
अथाप्युद्विजमानस्य तस्य लोकोनुवर्तनं । चकारान्यकथासंगैः कुर्वन् भंगस्य विस्मृतिं ॥ ३७
अथैकस्तंभमूर्धस्थे स्वसमांतरवर्तिनि । गंधमादनशृंगाभे स्थितो जिनवरालये ॥ ३८ ॥
बुधैः परिवृतो दध्याविति शक्रो निरादरं । वदन्नंग गतच्छायं स्मरन् भंगमनारतं ।। ३९ ॥
धिग्विद्यागोचरैश्वर्य विलीनं यदिति क्षणात् । शारदानामिवान्दानां वृंदमत्यंतमुन्नतं ।। ४० ।।
तानि शस्त्राणि ते नागास्ते भटास्ते तुरंगमाः । सर्वं तृणसमं जातं मम पूर्व कृताद्भुतं ॥४१॥
- . ज - 1 पद्मपुराणम् । ३९० प्रयोदर्श पर्व। अथवा कर्मणामेतद्वैचित्र्यं कोन्यथा नरः । कतुं शक्नोति तेपों हि सर्वमन्यदलाधरं ॥ ४२ ॥ नूनं पुराकृतं कर्म भोगसंपादनक्षम । परिक्षयं मम प्राप्तं येनपा वर्तते दशा ।। ४३ ॥ परं समर एवास्मिन्मृतः स्याच्छत्रुसंकटे । नाकीर्तिर्यत्र जायेत सर्वविष्टपगामिनी ॥ ४४ ॥ चरणं शिरसि न्यस्य शत्रुणां येन जीवितं । शत्रुणानुमतां सोहं से लक्ष्मी कथं हरिः ॥ ४५ ॥ परित्यज्य सुखे तस्मादमिलापं भवेद्भुवि । निश्रेयसः पदप्राप्तिकारणानि भजाम्यहं ॥४६ ॥ रायणो मे महाबंधुरागतः शुघुवेपभृत् । येनासारसुखास्वादसतोऽस्मि परिबोधितः ॥ ४७ ॥ अत्रांतरे मुनिः प्राप्तो नाम्नानिर्वाणसंगमः । विहरन् कापि योग्यानि स्थानानि गुणवांससा ४८ सहसा बजतस्तस्य गतिस्तंभमुपागता । प्राणिधाय ततयारधोऽसौ चैत्यमैक्षत ।। ४९ ॥ प्रत्यक्षज्ञानसंपन्नस्तस्मिश्च जिनपुंगवं । वंदितु नभर्सः शीघ्रमवतीर्णो महायतिः ॥ ५० ॥ संतोपेण च शक्रेण कृताभ्युत्थानपूजनं । चक्रे जिननमस्कारं विधिना यतिसत्तमः ॥५१॥ आसीनस्य ततो जोपं वंदित्वा चरणी मुनेः । पुरा स्थित्वा हरिश्चक्रे चिरमात्मनिगहणं ॥५२॥ सर्वसंसारवृत्तांतवेदनात्यंतकोविदः । मुनिना परमैक्यैिः परिसांत्वनमाहृतः ॥ ५३॥ अपृच्छत्स भवं पूर्वमात्मनो मुनिपुंगवं । स चेत्यकथयत्तस्मै गुणग्रामविभूषितः ॥ ५४॥ -
'त्रयोदशं पर्व।
f
-
द्मपुराणम्।
चतुर्गतिगतानेकयोनिदुःखमहावने । भ्राम्यन्, शिखापदाभिख्ये नगरे मानुपीं गतिं ॥ ५५ ॥
प्राप्तो जीवं कुले जातो दरिद्रस्त्रैणसंगतः । कुलंकांतेति विभ्राणो नामार्थेन समागतं ॥ ५६ ॥
सा चिल्लाचिपिटाव्याधिशतसंकुलविग्रहा । कथंचित्कर्मसंयोगाल्लोकोच्छिप्टेन जीविता ।। ५७ ।।
दुश्वेला दुर्भगा रूक्षा स्फुटितांगा कुमूर्धजा | उत्त्रास्यमाना लेकेन लेभे सा शर्म न कचित् ५८
मुहूर्त परिवान्नं शरीरं च सुमानसा । जाता किंपुरुषस्य स्त्री क्षीरधारेति नामतः ॥ ५९ ॥
च्युता च रत्ननगरे धरणीगोमुखाख्ययोः । विभ्रत्सहस्रभागाख्यां तनयोभूत्कुटुंबिनोः ॥ ६ ॥
लब्ध्वा परमसम्यक्त्वमणुव्रतसमन्वितः । पंचतां प्राप्य शुक्राढे जातो विवुधसत्तमः ॥ ६१ ॥
च्युतो महाविदेहेऽथ नगरे रत्नसंचये । गुणवल्यां मणोर्जातोमात्यात्सामंतवर्द्धनः ।। ६२ ।।
निष्क्रांतो विभुना सार्ध महावतधरोऽभवत् । अतितीव्रतपा नित्यं तत्त्वार्थगतमानसः ॥ ६३ ।।
परीपहगणस्यालं पोढा निर्मलदर्शनः । कपायरहितः प्रेत्य परं वेयकं गतः ॥ ६४ ॥
अहमिंद्रपरं सौख्यं तत्र भुक्त्वा चिरं च्युतः । जातो हृदयसुंदर्या सहस्राराख्यखेचरात् ॥ ६५ ॥
पूर्वाभ्यासेन शक्रस्य सुखे संसक्तमानसः । इंद्रस्त्वं खेचराधीशो नगरे रथनूपुरे ॥ ६६ ।।
स त्वमिंद्र विषण्णः किं वृथैव परितप्यसे । विद्याधिको जितोस्मीति वहन्नात्मन्यनादरं ॥६७॥
प्रयोदशं पर्य। - ३१२ पद्मपुराणम् । नियुद्धिर्कोद्रयानुप्त्वा शालीन् प्रार्थससे वृथा । कर्मणामुचितं तेषां जायते प्राणिनां फलं ॥६८|| क्षीणं पुराकृतं कर्म तव भोगस्य साधनं । हेतुना न विना कार्य भवतीति किमद्भुतं ॥ ६९ ॥ निमित्तमात्रमेतस्मिन् रावणस्ते पराभवे । जन्मन्यत्रच यत्कर्म कृतं तेनैव लंभितं ॥ ७० ॥ किं न स्मरसि यत्पूर्व क्रीडता दुर्नयं कृतं । ऐश्वर्यजनितो भ्रष्टो मदस्ते स्मर सांप्रतं ॥ ७१॥ चिरवृत्ततया बुद्धी वृत्तांतस्ते त्वयाकृतः । नारोहति यतस्तस्माच्मृण्वकाग्रचेतसा ।। ७२ ॥ अरिंजयपुरे पहिवेगाख्या खेचरोऽभवत् । स्वयंवरार्थमहल्यां चक्रे वेगवतीसुतां ॥ ७३ ॥ तत्र विद्याधराः सर्वे यथाविभवशोभिताः । समागताः परित्यज्य श्रेण्यामत्यंतमुत्सुकाः ॥ ७४ । भवानपि गतस्तव युक्तः परमसंपदा । अन्यश्वानंदमालाख्यश्चंद्रावर्तपुराधिपः ।। ७५ ॥ संत्यज्य खेचरान् सर्वान् पूर्वकर्मानुभावतः । कन्ययानंदमालोऽसौ वृतः सर्वांगकांतया ।। ७६ ।। परिणीय स तां भोगान्याप चिंतितसंगता। यथामराधिपः स्वर्गे प्रतिवासरवर्द्धिनः ॥ ७७ ।। ततः प्रभृति कोपेन स्वमीया येन भूरिणाः । गृहीतो वैरितामस्य संप्राप्नोति गरीयसीं ॥ ७८ ॥ ततोऽस्य सहसा बुद्धिरियं जाता स्वकर्मतः । देहोयमधुयः किंचित्कृत्यमेतेन नो मम ॥ ७९ ॥ तप करोमि संसारदुःख येन विनश्यति । का वा भोगेषु प्रत्याशा विप्रलंभनकारिषु ।। ८० ॥
पद्मपुराणम्। ३१३. त्रयोदशं पर्व। 1- अवधार्येदमत्यंत विवुद्धेनांतरात्मना । त्यक्त्वा परिग्रहं सर्व चचार परमं तपः ॥ ८१ ॥ हंसावलीनदीतीरे स्थितः प्रतिमयान्यदा । स त्वया प्रत्यभिज्ञातों रथावर्तमहीधरे ॥८२ ।। दर्शनंधनसंवृद्धपूर्वकोपामिना ततः । त्वयासौ कुर्वतां नर्मगण हसितो मुहुः ।। ८३ ॥ अहल्यारमणः स त्वं कामभोगातिवत्सलः । अधुना किं स्थितोस्येवमितिभापणकारिणा ।।८।। चेष्टितों रज्जुभिः क्षोणीधरनिष्कंपविग्रहः । तार्थचिंतनासंगनितांतस्थिरमानसः ॥ ८५ ॥ दृष्ट्वाभिभूयमानं तं त्वयास्य निकटस्थितः । कल्याणसंज्ञको भ्राता साधुः क्रोधेन दुःखितः ८६ संहत्य प्रतिमायोगमृद्धिप्राप्तः स ते ददौ । शापमेवमलं दीर्घ निश्वस्योष्णं च दुःखितः ॥ ८७ ॥ अयं निरपराधःसंस्त्वया यन्मुनिपुंगवः । तिरस्कृतस्तदत्यंत तिरस्कारमवाप्स्यसि ।। ८८ ॥ निश्वासेनामितेनासीद्दग्धुमेव निरूपितः । सर्वश्रीसंतया किंतु शमितस्तव कांतया ॥ ८९ ॥ सम्पग्दृष्टिरलं सा हि साधुपूजनकारिणी । मुनयोऽपि वचस्त्वस्या कुर्वते साधुचेतसः ॥ ९ ॥ यदि नाम तया सांधव्या नासौ नीत: शमं भवेत् । ततस्तस्य स कोपाग्निः केन शक्येत वारितुं ।। लोकत्रयेऽपि तन्नास्ति तपसा यन्न सांध्यते । वलानां हि समस्तानां स्थितं मूर्मि तपोबल ॥१२॥ न सा निदशनाथस्य शक्तिः कांतिद्युतिधृतिः। तपोधनस्य या साधोयेथाभिमतकारिणः ॥९॥ -
'प्रयोदर्श पर्व।।
३१४
पद्मपुराणम्।
विधाय साधुलोकस्य तिरस्कारं जना महत् । दुःखमत्र प्रपद्यते तिर्यक्षु नरकेपु च ।। ९४ ॥
मनसापि हि साधूनां पराभूति करोति, यः। तस्य सा परमं दुःखं परत्रेह च यच्छति ॥ ९५ ॥
यस्त्याकोशाते निग्रंयं हंनि या क्रूरमानसः । तत्र किं शक्यते वक्तुं जैतो दुष्कतकर्मणि ॥९६॥
कायेन मनसा याचा यानि कर्माणि मानवाः । कुर्ववे तानि यच्छंति निकचानि फलं,ध्रु॥९७॥
कर्मणामिति विज्ञाय पुण्यापुण्यात्मिकां गति । दृढां कृत्वा मतिं धर्मे स्वमुत्तारय दुःखतः ॥९॥
इत्युक्त पूर्वजन्मानि स्मरन् विस्मयसंगतः । शक्रः प्रणम्य निग्रंथमिदमाह महादरः ॥ ९९ ॥
भगवस्त्वत्प्रसादेन लब्धा बोधिमनुत्तमा । सांप्रतं दुरित सबै मन्ये त्यक्तमिव क्षणात् ॥१००।
साधोःसंगमनाल्लोके न किंचिदुर्लमें मवेत् । बहु जन्मसु न प्राप्ता बौधिर्थेनाधिगम्यते ॥१०१॥
इत्युक्त्या बंदितस्तेन मुनियंतो यथेप्सितं । शक्रोऽपि परमं प्राप्तो निर्वेदं गृहवासतः ॥१०२॥
पुण्यकर्मोदयाज् सात्वा रावणं परमोदयं । स्तुत्वा च वीर्यदंष्ट्राय महाभूभृचटक्षितौ ॥ १०३ ॥
जलयुबुदनिस्सारामयबुध्य मनुष्यतां । कृत्या सुनिश्चलो धर्मे मतिं निदन् दुरीहितं ॥ १०४ ॥
नियमिंद्रः सुते न्यस्य महात्मा रचनपुरे । ससुनो लोकपालानां समूहेन समन्वितः ॥ १०५ ।।
दीर्था जैनेश्वरी प्राप सर्वकर्मविनाशिनी । विशुद्धमानसोत्यंतं त्यक्तसर्वपरिग्रहः ॥ १०६ ॥
पद्मपुराणम् । १५, त्रयोदर्श पर्व। .. ततस्तत्वादशेनापि भोगेनाप्युपलालितं । वपुस्तस्य तपोभारमुवाहेतरदुर्वहं ॥ १०७ ।। प्रायेण महतां शक्तिर्यादृशी रौद्रकर्मणि । कर्मण्येवं विशुद्धेऽपि परमा चोपजापते ॥ १०८ ॥ दीर्घकालं तपस्तप्त्वा विशुद्धध्यानसंगतः । कर्मणां प्रक्षयं कृत्वा निर्वाण वासवोऽगमत् ।।१०९॥ पश्यत चित्रमिदं पुरुषाणां चेष्टितमूर्जितवीर्यसमृद्ध । यचिरकालमुपार्जितभोगा यांति पुनः पदपुत्तमसौख्यं ॥ ११ ॥ स्तोकमपीह न चाद्भुतमस्ति न्यस्य समस्तपरिग्रहसंगं । यत्क्षणतो दुरितस्य विनाशं ध्यानवलाजनयंति वृहतः ॥ १११ ।। अर्जितमत्पुरुकालविधाना-दिधनराशिगुदारमशेपं । प्राप्य परं क्षणतो महिमानं किं न दहंत्यनलः क्षणमात्रः॥ ११२ ॥ इत्यवगम्य जनाः सुविशुद्धं यत्नपराः करणं वहतांतः । मृत्युदिनस्य न केचिदपेताः ज्ञानरवः कुरुत प्रतिपत्ति ।। ११३ ।। इत्या रविषेणाचार्यप्रोक्त पद्मचरिते इंद्रनिर्वाणाभिधानं नाम त्रयोदशं पर्व ।
चतुर्दश पर्व। पद्मपुराणम्। अथ चतुर्दशं पर्व। अथ नाकाभिधप्रख्यो भोगसमूढमानसः । यथाभिमननिर्वृत्तः परदुर्ललितक्रियः ॥ १॥ असी देवाधिपग्राडो यातो मंदिरमन्यदा । जिनेंद्रवंदनां कृत्वा प्रत्यागच्छनिजेच्छया ॥२॥ विभक्तपर्वतान्पश्यन् वास्यानां विविधाधिपान् । सरितवातिचाप्याः स्फटिकादपि निर्मला ३ आदित्यभवनाकारविमानस्य विभूषणः । संगतः परया लक्ष्म्या लंकासंगमनोत्सुकः ॥ ४ ॥ सहसा निनदं तुंगं शुश्राय परुपेतरं । पप्रच्छ च महाक्षुब्धो मारीचमतिसत्वरः ॥५॥ अयि मारीच मारीन कुतोयं निनदो महान् । एतान ककुभः कस्मान्महारजवलोहिताः ॥ ६ ॥ नतो जगाद मारीची देव ! देवागमो मुनेः । महाकल्याणसंग्राप्तावेष कस्यापि वर्तते ॥७॥ देवानामेप तुष्टानां नानासंपातकारिणां । आकुलो भुवनव्यापी प्रशस्तःश्रूयते ध्वनिः ॥८॥ एताश्च ककुभस्तेषां मुकुटादिमरीचिभिः । निचिता दधते भासं कौसुंभीमिव भास्वरा ॥९॥ सुवर्णपर्वतेऽमुस्मिन्नन्नयलसंज्ञया । कथितो मुनिरुत्पन्न नूनं तस्याय केवलं ॥१०॥ ततस्तद्वचनं श्रुत्वा सम्यग्दर्शनभावितः । परं पुरंदरग्राहः प्रमोद प्रतिपत्रवान् ॥ ११॥ • - चतुर्दशं पर्व। . ३९७ । पद्मपुराणम् । . अवतीर्णश्च साद्देशाद्विप्रकृष्टान्महाद्युतिः । द्वितीय इव देवेंद्रो वंदनाय महामुनेः ॥ १२ ॥ वंदित्वा तुष्टुवुः साधुमिंद्रप्राग्रहरास्ततः । आसीनाश्च यथास्थानं बद्धांजलिपुटाः सुराः ॥ १३ ॥ रावणोऽपि नमस्कृत्य स्तुत्वा चोदात्तभक्तितः । विद्याधरजनाकीर्णः स्थितः समुचितावनौ, १४ ततश्चतुर्विधर्देवस्तियग्भिमनुजैस्तथा । कृतशंसं मुनिश्रेष्ठः शिष्येणैवमपृच्छचत ॥१५॥ भगवान् ज्ञातुमिच्छति धर्माधर्मफलं जनाः । समस्ता मुक्तिहेतुं च तत्सर्व वक्तुमर्हथ ॥ १६ ॥ ततः सुनिपुणं शुद्धं विपुलार्थ मिताक्षरं । अप्रधृष्यं जगौ वाक्यं यतिः सर्वहितप्रियं ॥ १७ ॥ कर्मणाष्टप्रकारेण संततेन निरादिना । बद्धनांतहितात्मीयशक्तिोम्यति चेतनः ॥ १८ ॥ सुभूरिलक्षसंख्यासु योनिप्वनुभवत्सदा । वेदनीयं यथोपात्तं नानाकरणसंभवं ॥ १९ ॥ रक्तो द्विष्ठोऽथवा मूदो मंदमध्यविपाकतः । कुलालचक्रवत्माप्तचतुर्गतिविवर्तनः ॥ २० ॥ युध्यते स्वहितानासौ ज्ञानावरणकर्मणा । मनुष्यतामपि प्राप्तोऽत्यंतदुर्लभसंज्ञक ॥ २१ ॥ . रसस्पर्शपरिग्राहिहृषीकवशतां गतः । कृत्वातिनिंदितं कर्म पापभारगुरूकृतः ॥ २२ ॥ ... अनेकोपायसंभूतमहादुःखविधायिनि । पतंति नरके जीवा ग्रावाण इव वारिणि ॥ २३ ॥ मातरं पितरं भ्रातृन् सुतां पत्नी सुहृज्जनान् । धनादिचोदिताः केचिद्नंति निर्दयमानसाः ॥२४॥ + : - ट
प्रगणम्।
चतुर्द पर्व।
गर्भाधानमान् वृदास्तम्मान गोरितीनराः। गनि कचिन्महाकूरा मानमाः पक्षिणो मृगान् २५
स्थलबान जलनान् धर्मगतचिनान् कृचनमः । मृत्या पतनि ने सर्व नरके पुरुवेदने ॥ २६ ॥
मएपातनामी नाडाला यनदादिनः । हिंसापरायणाः पापा कैवीधमलुन्धकाः ॥ २७ ॥
विनयन्याहनाशकाः परस्वहरणोचनाः । पनि नरके घोरे प्राणिनः शरणोग्मिताः || २८ ।।
मेन गेन प्रकारेण कुर्वने माममवणं । नॅनर ने विधानेन भक्ष्यते नरके परः ।। २९ ॥
महापरिग्रहोपता: महारंभाप ये जनाः । प्रमंडाध्ययमायाम्ने वसंति नरके निरं ॥३०॥
मानो देशकाः पापा मिथ्यादर्शनमंगताः । रोदध्यानमृता जीवा गच्छंति नरकं धुवं ।। ३१ ॥
कुठाररमिभित्रकै करपत्रविदारिताः । अन्य विविधैः गस्तीक्ष्णय पक्षिमिः ॥ ३२ ॥
मिहन्यांप्रेः श्वभिः मः गरमीधिकवृकः । अन्य प्राणिभिभित्रः प्राप्यते दुःसमुत्तमं ॥३३॥
नितानं ये तु कुर्वनि मंगं मन्दादिवस्तुनि । मायिनस्ते प्रपद्यते निर्यक्त्वं प्राणधारिणः ॥३४ ॥
परस्सरसधास्तत्र शमेश विविधैः कृताः । प्रपयंते महादसे वाहा देहादिभिस्तथा ॥ ३५ ।।
मुसमैनेन जीवन स्थलमामि गिरी तरी | गहनेषु च देशेषु भ्राम्यता मवसंकटे ।। ३६ ।।
एकद्विविनतुःपंचहीककृतसंगतिः । अनादिनिधनो जंतुः सेवने मृत्युजन्मनी ॥ ३७॥
। + . २ चतुर्दशं पर्व । पद्मपुराणम्। तिलमात्रोऽपि देशोऽसौ नास्ति यत्र न जंतुना । प्राप्तं जन्म विनाशो वा संसारावर्तपातिना ३८ मादवेनान्विताः केचिदार्जवेन च जंतवः । स्वभावलब्धसंतोपाः प्रपद्यते मनुष्यतां ।। ३९ ॥ क्षणमात्रसुखस्यार्थे हित्वा पापं प्रकुर्वते । श्रेयः परमसौख्यस्य कारणं मोहसंगताः ॥ ४ ॥ आर्या म्लेच्छाच तत्रापि जायंते पूर्वकर्मतः । तथा केचिद्वनेनायाः केचिदत्यंतदुर्विधाः ॥ ११॥ मनोरथशतानन्ये कुर्वते कर्मवेष्टिताः । कालं नयंति कृच्छ्रेण प्राणिनः परवेश्मसु ॥ ४२ ॥ विरूपा धनिनः केचिनिर्धनाः रूपिणोऽपरे । केचिद्दीर्घायुपः केचिदत्यंतस्तोकजीविनः ।। ४३॥ इष्टा यथास्विनः कचित्केचिदत्यंतदुर्भगाः । केचिदाज्ञा प्रयच्छंति तामन्ये कुर्वते जनाः ॥४४॥ प्रविशंति रणं केचित्केचिद्गच्छंति वारिणि । यांति देशांतर केचित्केचित्कृष्यादि कुर्वते ॥ ४५ ॥ एवं तत्रापि वैचित्र्यं जायते सुखदुःखयोः । सर्वं तु दुःखमेवात्र सुखं तत्रापि कल्पितं ॥ ४६ ॥ सरागसंयमाः केचित्संयमासंयमास्तथा । अकामनिर्जरातश्च तपसश्च समोहतः ॥ ४७ ॥ देवत्वं च प्रपद्यते, चतुर्भेदसमन्वितं । केचिन्महर्द्धयोवापि केचिदल्पपरिच्छदाः ॥ ४८ ॥ स्थित्या युत्या प्रभावेण धिया सौख्येन लेश्यया । अभिमानेन मानेन ते पुनः कर्मसंग्रहं ॥४९॥ कृत्वा चतुर्गती नित्यं भवे भ्राम्यंति जंतवः । अरघघटीयंत्रसमानत्वमुपागताः ।।५०॥ .
चतुर्दशं पर्व। f . - पद्मपुराणम्। L - संकल्पादशुभादुःसं प्राप्नोति शुभतामुखं । कर्मणोष्टकारस्य जीवो मोक्षमुपक्षयात् ॥ ५१ ।। दानेनापि अपने जंतयो मोगभूमिपु | भोगान्पात्रविशेपेण चैश्वरूपमुपागतः ।। ५२ ॥ प्राणातिपातपिरतं परिग्रहविवर्जितं । उत्तमायक्षते पात्रं रागद्वेपोज्भितं जिना ॥ ५३॥ सम्यग्दर्शनसंशुद्धं तपसापि विवर्जित । पात्रं प्रशस्यते मिथ्यादृष्टेः कायस्य शोधनात् ॥ ५४॥ आपद्धः पाति यस्तस्मात्पात्रमित्यभिधीयते । सम्यग्दर्शनशक्या च त्रायते मुनयो जनान् ५५ दर्शनेन विमुद्धेन ज्ञानेन च पदन्वितं । चारित्रेण च तत्पात्रं परमं परिकीर्तितं ॥ ५६ ॥ मानापमानयोस्तुल्यस्तथा यः सुखदुःखयोः । तृणकांचनयोथैप साधुः पात्रं प्रशस्यते ॥५७॥ सर्वग्रंथविनिर्मुक्ता.महातपसि ये रताः । श्रमणास्ते परं पात्रं तत्वध्यानपरायणाः ।। ५८॥ , तेभ्यो भावेन यद्दत्तं शक्या पानानभेषजं । यथोपयोगमन्यच तद्यच्छति महाफलं ॥ ५९ ॥ क्षिसं, यथैव सत्क्षेत्रे पीजं तत्संपदं परां । प्रयच्छति तथा दत्तं सत्पात्रे, शुद्धचेतसा ।। ६० ॥ रागद्वेषादिभिर्युक्तं यनु पात्रं न तन्मतं । प्रयच्छति फलं दूर तत्र लाभविचिंतनं ।।.६१ ।। क्षिप्तं यदि रणे बीजं न किंचिदुपजायते । मिथ्यादर्शनसंयुक्तं पापं पात्रोद्यतं तथा ॥ ६२ ।। कृपादुदृतमेकस्मात्सलिलं प्रतिपद्यते । माधुर्यमिक्षुभिः पीतं निंबपीनं तु विक्ततां ।। ६३ ।।. ग चतुर्दशं पर्व । पद्मपुराणम् । ३२१ सरस्यां जलमेकस्यां गवात्तं पन्नगेन च । क्षीरभावमवाप्नोति विषतां च यथा तथा ॥ ६४ ॥ विन्यस्त भावतो दानं सम्पर्शनमाविते । मिथ्यादर्शनयुक्ते तु शुभाशुभफलं भवेत् ॥ ६५ ॥ दीनांधादिजनेभ्येस्तु करुणापरिचोदितं । दानमुक्तं फलं तस्माद्यद्यपि स्यान सत्तमं ॥ ६६ ॥ वदति लिगिनः सर्वे स्वानुकूलं प्रयत्नतः । धर्म स तु विशेषेण परीक्ष्यः शुभमानसैः ॥ ६७ द्रव्यं यदात्मतुल्येषु गृहस्थेषु विसृज्यते । कामक्रोधादियुक्तेषु तत्र का फलभोगिता ॥ ६८॥ अहो महानयं मोहः सर्वावस्थेषु यज्जनाः । स्वापतेयं विमुंचंति विप्रलब्धाः कुशासनैः ॥६९ ॥ धिगस्तु तान् खलानेष जनो यैर्विप्रतारितः । लोभात्कुग्रंथकंथाभिर्वराको नेयमानसः ॥ ७० ॥ मृष्टत्वाद्वलकारित्वान्मांस भक्ष्यमुदाहृतं । पापैर्दभप्रसिद्धचर्थ परिसंख्या च कीर्तिता ॥ ७१ ।। रास्ते दापयित्वा तद्भक्षयित्वा च लोभिनः । गच्छंति नरकं साधं दातृभिर्घोरवेदनं ॥ ७२ ।। जीवदानं तु यत्प्रोक्तं गवर्द्धदुरात्मभिः । ऋपिमन्यैस्तदत्यंत निंदितं तत्त्ववेदिभिः ।। ७३ ॥ तस्मिन् हि दीयमानस्य वहनांकनताइनैः। संपद्यते महादुःखं तेनान्येषां च भूयसां ।।७४ ॥ भूमिदानमपक्षिप्तं तद्गतं प्राणिपीडनात् । प्राणिघातनिमित्तेन पुण्यं पापाणतः पयः ॥ ७५ ॥ सर्वेषामभयं तस्माद्देयं प्राणभृतां सदा । ज्ञानभेपजमन्नं च वखादि च गतासुकं ।। ७६ ।। २१ .
पद्मपुराणम्। '३२३ । चतुर्दशं पर्व ।। - - तस्मादुद्दिश्य यहानं दीयते जिनपुंगवं । सर्वदोपविनिमुक्तं तद्ददाति फलं महत् ॥१०॥ पाणिज्यसदृशो तत्रान्वेष्याल्पभूरिता । बहुना हि पराभूतिः क्रियतेऽल्पस्य वस्तुनः ।। ९१ ।। यथा विपकणः प्राप्तः, सरसीं नैव दुष्यति । जिनधर्मोद्यतस्यैवं हिंसालेशो वृथोद्भवः ॥ ९२ ॥ प्रासादादि ततः कार्य जिनानां भक्तितत्परैः । माल्यधूमप्रदीपादि सर्व च कुशलैजनैः ॥ ९३ स्वर्गे मनुष्यलोके च भोगानत्यंतमुन्नतान् । जंतवः प्रतिपद्यते जिनानुद्दिश्य दानतः ।। ९४ ॥ तन्मार्गपस्थितानां च दत्तं दानं यथोचितं । करोति विपुलान् भोगान् गुणानामितिभाजनं ९५ यथाशक्ति ततो भक्त्या सम्यग्दृष्टिषु यच्छतः । दानं तदेकममास्ति शेष चौरविलंठितं ॥९६ ।। स्थितं ज्ञानस्य साम्राज्ये केवलं परिकीर्त्यते । निर्वाणं तस्य संप्राप्तायुपैति ध्यानयोगतः ॥१७॥ विमुक्ताशेपकर्माणः सर्ववाधाविवर्जिताः । अनंतसुखसंपन्ना आनंदज्ञानदर्शनाः ॥ ९८ ॥ अशरीराः स्वभावस्था लोकमूर्ध्नि प्रतिष्ठिवाः । प्रत्यापत्तिविनिर्मुक्ताः सिद्धा वक्तव्यवर्जिताः॥२९॥ गृद्धा पवनसंवृद्धदुःखपावकमध्यगाः । क्लिश्यते पापिनो नित्यं विना सुकृतवारिणा ।। १०० ॥ पापांधकारमध्यस्थाः कुदर्शनवशीकृताः । बोध केचित्प्रपद्यते धमोदित्यमरीचिभिः ॥ १०१ ।। अशुमाऽयोमयात्यंतधर्मपंजरमध्यगाः । आशापाशवशा जीवा मुच्यते धर्मबंधनाः ॥ १०२ ।।
पदारासमा .३२४ चतुर्वर्श पर्व। मिन्दी व्याकरणालीरुबिमारकदेशनः । धारणार्थो धृनो धर्मगन्दा वाचि परिस्थितः ॥१०॥ पतंन दुर्गनी यम्मारसम्यगारिनो भवेत् । प्राणिनं धारत्यस्माद्धर्म इत्यभिधीयते ॥ १०४ ॥ लभिर्धातुः स्मृतः प्रासी प्राप्तिः गंपर्क उच्यते । तस्य धर्मस्य यो लामो धर्मलाभः स उच्यते ।। जिनरनिहितं घर्भ कथयामि ममागतः । कांवितरफलभेदाय शृणुतकायमानसाः ॥ १०६ ।। हिमानोलीकनस्तेपान्मधुनाद्वगंगमात् । विरनिनमुद्दिष्टं विधेयं नस्य धारणं ॥ १०७।। ईयोवायरणादाननिपोरगर्गमापिका । ममितिः पालनं तस्याः कार्य यत्नेन साधुना ॥१०८|| वाइमन कायवृतीनाममायो नदिमायया । गुप्तिराचरणं तस्यां विधेयं परमादरात् ॥ १०९ ।। फोघी मानस्तथा माया लोमयति महाद्विषः । कायायायं लोकः संसार परिवर्तते ।।११०॥ समानी मृदुनः मंगानुत्वावृतियोगतः । विधेयो निग्रहम्नेषां मूत्रनिर्दिष्टकारिणा ।। १११॥ धर्मसंत्रमिदं सर्व प्रतादिपरिकीर्तितं । त्यागमोदितो धर्मो विशेषोऽस्य निवेदितः ॥ ११२।। रमनपर्शनपाणचक्षुम्योचामिधावतः । प्रमिदानींद्रियाण्येषां निर्जयो धर्म उच्यते ।। ११३ ॥ उपवासोवमोदय परिसंख्याननिता । रसानां च परित्यागो विविक्तं शयनासनं ।। ११४॥ कायरलेस इति प्रोक्तं वाह्य पोहा तपःस्थितं । तपसोऽभ्यंतरस्वतवृतिस्थानीयमिप्यते ॥११५।।
३२५ पद्मपुराणम्। चतुर्दर्श पर्व । प्रायश्चित्तं विनीतिश्च वैयावृत्यकृतिस्तथा । स्वाध्यायेन च संबंधो व्युत्सर्गोध्यानमुत्तमं ।।.११६।। एतदभ्यंतरे पोढा तपश्चरणमिप्यते । तपः समस्तमप्येतद्धर्म इत्यभिधीयते ॥ ११७ ॥ धर्मेणानेन कुर्वति भव्याः कर्मवियोजनं । कर्म चाद्भुतमत्यंतव्यवस्थापरिवर्तनं ॥ ११८ ॥ शक्नोति बाधितुं सर्वान् मानुपानमरांस्तथा । लोकाकाशं च संरो, वपुषा विक्रियात्मना ॥११९।। एकनासत्वमानेतुं त्रैलोक्यं च महाबलः । अष्टभेदमहैश्वर्य योगं चाप्नोतिदुर्लभं ।। १२० ॥ इंति तापं सहस्रांशोस्तुपारत्वमुहुप्रभोः । करोति पूरणं दृष्टया सर्वस्य जगतः क्षणात् ।। १२१ ॥ मस्मता नयते लोकमाशीविषवदीक्षणात् । कुरुते मंदरोत्क्षेपं विक्षेपणमुदन्वतां ॥ १२२ ।। ज्योतिषकं समुद्धर्तमिंद्ररुद्रादिसाध्वसं । रत्नकांचनवर्ष च ग्रावसंघातसर्जनं ॥ १२३ ॥ व्याधीनामतितीवाणां शमनं पादपांशुना । नृणामद्भुतहेतूनां विभवानां समुद्भय ॥१२४ ।। जीवः करोति धर्मेण तथान्यदपि दुष्करं । नैव किंचिदसाध्यत्वं धर्मस्य प्रतिपद्यते ॥ १२५ ।। धर्मेण मरणं प्राप्ता ज्योतिश्चक्रतिरस्कृति । कृत्वा कल्पान् प्रपद्यते सौधर्मादीन् गुणालयान १२६ सामानिकाः सुराः केचिद्भवंत्यन्ये सुराधिपाः । अहमिंद्रस्तथान्ये च कृत्वा धर्मस्य संग्रहं १२७ हेमस्फटिकवेडूयेस्तंभसंभारनिर्मितान् । तन्निचिभासुरान् तुंगान् प्रासादान्बहुभूमिकान् ॥१२८ ।।
N पद्मपुराणाम् । ए चतुर्दशं पर्व। ३२६ अंभाजदधिमध्यादिविचित्रमणिकुटिमान् ! मुक्ताकलापसंयुक्तान् वातायनाविराजितान् ॥१२९॥ रुरुमिश्वरैः सिंहगंजैरन्यैश्च चारुभिः । रूपैनिचितपार्थाभिर्वेदिकाभिरलंकतान् ॥ १३०॥ चंद्रशालादिभिर्युक्तान् घजामालाविभूषितान् । सोपासनमनोहारि शयनासनसंगतान् ॥१३१।। आनोधवरसंपूर्णानिच्छासंचारकारिणः । युक्तान् सरस्परिबर्गेण पुंडरीकादिलक्षितान् ॥१३२ ॥ विमानप्रभृतीन जीवा निलयान् धर्मकारिणाः । प्रपपद्यतर्कशीतांशुदीप्तिकात्यभिभाविनः॥१३॥ सुखनिद्राक्षये यद्वियुद्धं विमलेंद्रियं । अचिरोदिततिग्मांशुदीप्तं कात्या समं विधोः ॥ १३४ ॥ रनास्त्रेदरुनामुक्तं सामोदममलं मृदु । श्रिया परमया युक्तं चक्षुष्यमुपपादजें ॥ १३५ ॥ शरीरं लभ्यते धर्मात्माणिभिः सुरसमसु । अलंकाराश्च भाचक्रतिरोहितदिगंतरं ।। १३६॥ सरोरुहदलस्पर्शचरणाः कांतिवन्नखाः । तुलाकोटिकसंदष्टरक्तांशुकदशाननाः ॥,१३७ ।। रंभास्तंभसमस्पर्शजंघांतर्गतजानुकाः । कांचीगुणांचितोदारनितंबा द्विरदक्रमाः ॥ १३८ ॥ अनुदारवलीभंगतनुमध्यविराजिताः । नवोदितक्षपानाथप्रतिमस्तनमंडलाः ॥ १३९ ।। रत्नावलीप्रभाजालनिर्मुक्तपनचंद्रिकाः । मालतीमार्दवोपेततनुबाहुलताभृतः ॥ १४० ।। महामणिवाचालवलयाकुलपाणयः । अशोकपल्लवस्पर्शकरांगुलिगलप्रमाः ।। १४१ ॥ 7 .
चतुर्दशं पर्व । . पद्मपुराणम् । ३२७: कंयुकंठारदच्छायापिहितद्विजवाससः । लावण्यलिप्तसशकपोलामलदर्पणाः ।। १४२ ॥ लोचनांतघनच्छायाकृतकर्णावतंसकाः । मुक्तापरीतपमाभमणिसीमंतभूपणाः ॥ १४३ ।। भ्रमरासितसूक्ष्मातिमृदुकेशकलापिकाः । मृणालकोमलस्पर्शवपुपो मधुरस्वराः ।। १४४ ॥ अत्यंतमुपचारज्ञा नितांतसुभगक्रियाः । नंदनप्रभवामोदसमनिश्वाससौरभाः ॥ १४५ ॥ इंगितज्ञानकुशलाः पंचेंद्रियसुखावहाः । कामरूपधरा धर्मात्प्राप्यतेऽप्सरसो दिवि ।। १४६ ।। संकल्पमात्रसंभूतसर्वोपकरणं. पुरु । विपयोत्थं सुखं ताभिः प्राप्नुवंति समं सुराः ॥ १४७ ॥ सुखं यस्त्रिंदशावासे यच्च मानुपविष्टपे । फलं तद्गदितं सर्व धर्मस्य जिनपुंगवैः ॥ १४८ ॥ ऊर्धाधोमध्यलोकेपु यो नाममुखसंज्ञितः । भोक्तृणां जायते भावः स सर्वो धर्मसंभवः ॥१४९।। दाता भोक्ता स्थितेः कर्ता यो नः प्रतिवासरं । रक्ष्यते नृसहस्रौषैः सर्व तद्धर्मजं फलं ॥१५०।। यत्तत्सुरसहस्राणां हारिभूषणधारिणां । प्रभुत्वं कुरुते शक्रस्तत्फलं धर्मसंभवं ।। १५१ ॥ यन्मोहरिपुमुदाय रत्नत्रयसमन्विताः । सिद्धस्थानं प्रपद्यते शुद्धधर्मस्य तत्फलं ।। १५२ ।। अप्राप्य मानुषं जन्म सत्वधर्मो न लभ्यते । तसान्मनुष्यसंप्राप्तिः परमा सर्वजन्मसु ॥ १५३ ॥ राजा श्रेष्ठो मनुष्याणां मृगाणां केसरी यथा । पक्षिणां विनतापुत्रो भवानां मानुषो भवः ।।१५४|| ततोऽनंतवलोऽवोचद्विशेष सौकृतं शृणु । संसाराधेन मुच्यते प्राणिनो भव्यतामृतः ॥ १६३ ।। ३२८ 7 पद्मपुराणम्। । चतुर्दशै पर्व। सारखिभुवने धर्मः सर्वद्रियमुखमदः । क्रियते मानुपे देहे ततो मनुजता परा ॥ १५५ ॥ तुणानां शालयः श्रेष्ठाः पादपानां च चंदनाः । उपलानां च रत्नानि भवानां मानुपो भवः।।१५६।। उत्सर्पिणीसहस्राणि परिभ्रम्य कथंचन । लभ्यते वा नवा जन्म मनुष्याणां शरीरिणा ।। १५७॥ अवाप्य दुर्लभं तद्यः क्लेशनिर्मोक्षकारणं । जनो न कुरुते धर्म यात्यसौ दुर्गतीः पुनः ॥ १५८ ॥ * पतितं तन्मनुष्यत्वं पुनर्दुर्लभसंगम । समुद्रसलिले नष्टं यथा रत्नं महागुणं ॥ १५९ ॥ इहैव मानुपे लोके कृत्वा धर्म यथोचितं । स्वर्गादिषु प्रपद्यते सर्वप्राणभृतः फलं ॥ १६ ॥ सर्वज्ञोक्तमिदं श्रुत्वा भानुकर्णः ससंमदः । मत्या प्रणम्य पद्माक्षः पर्यपृच्छत्कृतांजलिः ॥१६१॥ भगवन्न ममाद्यापि जायते प्राप्ततृप्तिता । अतो विधानतो धर्म निवेदयितुमर्हसि ॥ १६२ ॥ द्विविधो गदितो धर्मो महत्वादाणवाच्था । आद्योऽगारविमुक्तानामन्यश्च भवतिनां ॥१६४ ।। विसृष्टसर्वसंगानां श्रमणानां महात्मनां । कीर्तयामि समाचारं दुरितक्षोदनक्षम ॥ १६५ ।। मते मुव्रतनाथस्य लीलानिखिलवेदिनः । मृत्युजन्मसमुद्भूतमहत्वाससमन्विताः ॥ १६६ ॥ एरंडसदृशं ज्ञात्वा मनुष्यत्वमसारकं । संक्षनरहिता धन्या श्रवणत्वमुपाश्रिताः ।। १६५ ।। 4 ३२९ चतुर्दशं पर्व । पद्मपुराणम् । +- रता महत्त्वयुक्तेषु पंचसंख्येपु साधवः । व्रतेप्याविग्रहत्यागात्तत्वावगमतत्पराः ॥ १६८ ॥ समितिष्वपि तत्संख्यासंगतासु सुचेतसः । अभियुक्ता महासत्त्वास्त्रिसंख्यासु च गुप्तिषु ॥१६९॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्य यथोदितं । येपामस्ति न तेषां स्यात्परिग्रहसमाश्रयः ।। १७० ।। देहेपि ये न कुर्वति निजे रागे मनीपिणः । कास्यात्परिग्रहस्तेपो यत्रास्तमितशायिनां ॥१७॥ अपि बालाग्रमात्रेण पापोपार्जनकारिणा | ग्रंथेन रहिता धीरा. मुनयः सिंहविक्रमाः ॥ १७२ ।। समस्तप्रतिबंधन समीरणवदुभिताः । खगानामपि संगः स्यान्नतु तेषां मनागपि ।। १७३ ।। • व्योमवन्मलसंबंधरहिताः, श्लाध्यचेष्टिताः । रजनीनाथवत्सौम्या दीप्ता दिवसनाथवत् ।। १७४ ।। निम्नगानाथगंभीरा धीरा भूधरनाथवत् । भीतकूर्मवदत्यंतगुप्तेंद्रियकदंबकाः ॥ १७५ ॥ क्षमया क्षमया तुल्याः कपायोद्रेकवर्जिताः । अशीत्या गुणलक्षाणां चतुःसहितयान्विताः १७६ अष्टदशजिनोद्दिष्टशीलसहस्र (?) चान्विता । अत्यंताढ्यास्तपोभूत्या सिद्धयाकांक्षणतत्पराः ।। जिनोदितार्थसंसक्ता विदितापरशासनाः । श्रुतसागरपारस्था मुनयो यमधारिणः ॥ १५८ ।। नियमानां विधातारा समुन्नद्धतयोज्झिताः । नानालब्धिकृतासंगा महामंगलमूर्तयः ।। १७९ ।। एवंगुणाः समस्तस्य जगतः कृतमंडनाः । श्रमणास्तनुकर्माणः प्रात्युत्तमदेवतां ॥ १८० ॥ . 4 चतुर्दशं पर्व। ' ३३० - पद्मपुराणम् । द्विवर्भवैश्व निश्शेपं कलुपं ध्यानवन्हिना । निर्दा प्रतिपयंते मुखं सिद्धसमाश्रितं ॥ १८१ ॥ स्नेहपंजररुदानां गृहाश्रमनिवासिनी । धर्मोपार्य प्रवक्ष्यामि भृणु द्वादशधा स्थितं ॥ १८२ ॥ व्रतान्यमूनि पंचपो शिखा चोक्ता चतुर्विधा । गुणास्त्रयो यथाशक्ति निर्यमास्तु सहस्रशः १८३ प्राणातिपाततः स्थूलाद्विरनिर्वितथा तथा । ग्रहणात्परवितस्य परदारसमागमात् ॥ १८४॥ अनंतायाश्व गायाः पंचसंख्यमिदं व्रतं । भावना चेयमेवेपां कथिता जिनपुंगवः ॥ १८५ ॥ इष्टो यथात्मनो देहः सर्वेषां प्राणिनां तथा । एवं ज्ञात्वा सदा कार्या, दया सर्वासुधारिणां १८६ एपैव हि पराकाष्ठा धर्मस्योक्ता जिनाधिपः । दयारहितचित्तानां धर्मः स्वल्पोऽपि नेष्यते १८७ वचनं परपीडायां हेतुत्वं यत्प्रपद्यते । अलीकमेव तत्प्रोक्तं सत्यमस्मद्विपर्यये ॥ १८८ ॥ वधादि कुरुते जन्मन्पस्मिस्तेयमनुष्ठितं । कर्तुः परत्र दुःखानि विविधानि कुयोनिपु ।। १८९ ।। तस्मात्तत्सर्वयनेन मतिमान् वर्जयेन्नरः । लोकयविरोधस्य निमित्तं क्रियते कथं ॥१९० ॥ परिवा भुजंगीव वनितान्यस्य दूरतः । सा हि लोभवेशा पापा पुरुषस्य विनाशिका ॥१९॥ यथा च जायते दुःखं रुदायामात्मयोपिति । नरांतरेण सर्वेषामियमेव व्यवस्थितिः ॥ १९२ ।। उदारम तिरस्कार प्राप्यतेऽत्रैव जन्मनि । तिर्यनरकयोर्दुःखं प्राप्यमेवातिदुस्सहं ॥ १९३ ।।
- चतुर्दश पर्व । ३३१. . पद्मपुराणम् । प्रमाणं कार्यमिच्छाया सा हि दद्यान्निरंकुशा । महदुःखमिहाख्येयौ भद्रकांचनसंज्ञको. ॥१९४॥ विक्रेता वदरादीनां भद्रो दीनारमात्रकं । द्रविणं प्रत्यजानीत दृष्ट्वातोवमनि च्युतं ।। १९५ ॥ प्रसेवकमितोऽगृह्णाद्दीनारं तु कुतूहली । तत्र कांचननामा तु सर्वमेव प्रसेवकं ॥ १९६ ॥ दीनारस्वामिना राज्ञा कांचनो वीक्ष्य नांशितः । स्वयमपितदीनारो भद्रस्तु.परिपूजितः॥१९७|| विगमोऽनर्थदंडेभ्यो दिग्विदिक्परिवर्जनं । भोगोपभोगसंख्यानं त्रयमेतद्गुणवतं ॥ १९८ ।। सामायिकं प्रपन्नेन प्रोपधानशनं तथा । सविभागोऽतिथीनांच संलेखश्चायुषः क्षये ॥ १९९ ।। • संकेतो न तिथौ यस्य कृतो यश्चापरिग्रहः । गृहमेति गुणैर्युक्ताः श्रमणः सोऽतिथिः स्मृतः २०० संविभागोऽस्य कर्तव्यो यथाविभवमादरात् । विधिना लोभयुक्तेन भिक्षोपकारणादिभिः २०१ मधुनो मद्यतो मांसाचूततो रात्रिभोजनान् । वेश्यासंगमनाचास्य विरतिनियमः स्मृतः ॥२०२॥ गृहधर्ममिमं कृत्वा समाधिप्राप्तपंचतः । प्रपद्यते सुदेवत्वं च्युत्या च.सुमनुष्यतां ॥ २०३ ॥ भवानामेवमष्टानामतः कृत्वानुवर्तनं । रत्नत्रयस्यं निग्रंथो भूत्वा सिद्धि समश्नुते ॥ २०४ ।। नरत्वं दुर्लभं प्राप्य यथोक्ताचरणक्षमः । श्रद्दधाति जिंनोक्तं यः सोप्यासन्नशिवालयः ।। २०५॥ सम्यग्दर्शनलाभेन केवलेनापि मानवः । सर्वलाभवरिष्ठेन दुर्गतिवासमुज्झति ॥ २०६ ॥ प ।
. पद्मपुराणम्। - ३३२. चतुर्दशं पर्व। कुरुते यो जिनेंद्राणां नमस्कार स्वभावतः । पुण्याधारः स पापस्य लवेनापि न युज्यते ॥२०७॥ यास्मरत्यपि मावेन जिनस्तिस्याशुभं क्षयं । सद्यः समस्तमायाति भवकोटिमिरर्जितं ।। २०८ ।। प्रशस्ताः सवतं तस्य गृहाः सर्वे शकुंचयः । त्रैलोक्यं साररत्नं यो दधाति हृदये जिनं ।। २०९ ।। अईते नम इत्येतत्प्रयुक्त यो वचो जनः । भावात्तस्याचिरात्कृत्स्नकर्ममुक्तिरसंशया ॥ २१० ।। जिनचंद्रकथारश्मिसंगमादेति फुल्लतां । सिद्धियोग्यासुमत्स्वांतः कुमुदं परमालयं ॥ २११ ॥ अर्हत्सिद्धमुनिभ्यो यो नमस्यां कुरुते जनः । स परीतभवो ज्ञेयः सुशासनजनप्रियः ॥ २१२ ॥ जिनविय जिनाकारं जिनपूजां जिनस्तुतिं । यः करोति जनस्तस्य न किंचिद् दुर्लभं भवेत् ॥२१३।। नरनाथः कुटुंबी वा धनाढ्यो दुर्विधोऽधवा । जनो धर्मेण यो युक्तः स पूज्यः सर्वविष्टपे ॥२१४॥ महाविनयसंपन्नाः कृत्याकृत्यविचक्षणाः । जना गृहाश्रमणानां प्रधाना धर्मसंगमात् ॥ १५ ॥ मधुमाससुरादीनामुपयोग न कुर्वते । ये जनास्ते गृहस्थानां ललामत्वे प्रतिष्ठिवाः ॥ २१६॥ शंकया कांक्षया मुक्ता तथा ये विचिकित्सया । सुदूरहित्मानः परदृष्टिप्रशंसया ॥ २१७ ॥ अन्यशासनसंवद्धसंस्तवेन विवर्जिताः । जंतवस्ते गृहस्थानां प्रधानपदमाश्रिताः ॥ २१८ ।। सुचारुवसनोऽत्यंतसुरभिः प्रियदर्शनः । शस्यमानः पुरस्त्रीभिर्याति यो वंदित जिनं ।। २१९॥'
३३३ चतुर्दशं पर्व । पद्मपुराणम् । ३ ईक्षमाणो महीं मुक्तविकारवारुभावनः । साधुकृत्यसमुद्युक्तः पुण्यं तस्यांतवर्जितं ॥ २२० ।। तृणोपमं परद्रव्यं पश्यंति स्वसमं परं । परयोपां समां मातुर्ये ते धन्यतमा जनाः ॥ २२१ ॥ प्रतिपद्य कदा दीक्षां विहरिष्यामि मेदिनीं । क्षपयित्वा कदा कर्म प्रपत्स्ये सिद्धसंश्रयं ॥२२२॥ एवं प्रतिदिनं यस्य ध्यानं विमलचेतसः । भीतानीव न कुर्वति तेन कर्माणि संगति ॥ २२३ ।। सप्ताष्टजन्मभिः केचित्सिद्धिं गच्छंति जंतवः । केचिदुग्रतपः कृत्वा द्वित्ररेख सुचेतसः ।। २२४ ॥ क्षिप्रं यांति महानंदं मध्यमा भव्यजंतवः । असमर्थास्तु विश्राम्य मार्गस्य यदि वेदकाः।।२२५॥ अहोऽपि योजनशतमविद्वान्वमयोजनः । भ्राम्यतीष्टमयामोति सपदं न चिरादपि ।। २२६ ।। तथोग्रमपि कुर्वाणास्तयो वितथदर्शनाः । प्रामुवंति पदं नैव जन्ममृत्युविवर्जितं ॥ २२७ ॥ मोहांधकारसंछन्ने कपायोरगसंकुले । ते भ्रमंति भवारण्ये नष्टमुक्तिपथा जनाः ॥२२८॥ न शीलं न च सम्यक्त्वं न त्यागः साधुगोचरः । यस्य तस्य भवांबोधितरणं जायते कथं २२९ विध्यस्य स्रोतसा नागा यत्रोद्यते नगोनताः । वराकाः शशकास्तत्र चिरं नीता विसंशयं ॥२३०॥ मृत्युजन्मजरावर्तभवस्रोतोविवर्तिनः । कुतीर्थ्या यत्र नीयते तद्भक्तेष्वत्र का कथा ।। २३१ ॥ यथा तरयितुं शक्ता न शिला सलिले शिलां । तथा परिग्रहासक्ता कुतीथ्यो। शरणागतान्२३२
चातुर्दश पर्व
.
प
.
पद्मपुराणम् ।
तपोनिर्दग्धपापा.ये लघवस्तवयेदिनः । त.एव तारणे शक्ता जनानामुपदेशतः ॥ २३३ ॥
संसारसागरे भीमे रत्नद्वीपोयमुत्तमः । यदेतन्मानुपं क्षेत्रं तद्धि दुःखेन लभ्यते ॥ २३४.॥
तसिनियमरत्नानि गृहीत-पानि धीमता । अवश्यं देहमुत्सृज्य कर्तव्यो मयसंक्रमः ॥ २३५ ।।
अतो. यथात्र सूत्रार्थ कथित्संचूर्णयेन्मणीन् । विषयार्थ, तथा धर्मरत्नानां चूर्णको जनः ॥ २३६ ॥
अनित्यत्वं शरीरादेरभाव शरणस्य च । अशुचित्वं, तथान्यत्वमात्मनो देहपंजरान् ॥ २३७ ॥
एकत्वमथ संसारो लोकस्य च विचित्रता,। आसवा संवरः पूर्वकर्मणां निर्जरा, तथा ॥ २३८ ।।
बोधिदुर्लभवाधर्मस्वाख्यातत्त्वं जिनेवरैः । द्वादशैवमनुप्रेक्षा कर्तव्या हृदये सदा ।। २३९ ।।
आत्मनः शक्तियोगेन धर्म,यो यादृशं भजेत् । स तस्य तादृशं मुंक्त फलं देवादिभूमिपु॥२४०॥
एवं यदन्नसा पृष्टो भानुकर्णेन केवली । सभेदं नियम नाथ ज्ञातुमिच्छामि सांप्रतं ॥, २४१ ।।
ततो जगाद भगवान् भानुकर्णावधारय । नियमश्च तपति द्वयमेतन्न भिद्यते ॥,२४२॥
तेन युक्तो जनः शज्या तपस्वीति निगद्यते । तत्र सर्वप्रयत्नेन मतिः कार्या सुमेधसा ॥२४३॥
स्वल्पं स्वल्पमपि प्राजैः कर्तव्यं सुकृतार्जनं । पतनिर्विदुमिर्जावा महानद्यः समुद्रगाः ॥२४४॥
अहो मुहूर्तमात्रं यः कुरुते भुक्तिवर्जनं । फलं तस्योपवासेन समं मासेन जायते ॥ २४५ ॥
चतुर्श पर्व। 1 - . ३३५ पद्मपुराणम्। । तत्र स्वर्गे सहस्राणि समानां दश कीर्तित । भुंगानस्य जनस्योर्ध्वमोग चित्तोपपादितं, ॥२४६।। श्रधानो मतं जैनं यः करोति पुरोदितं । पल्यैस्तस्योपमानीयकालः स्वर्गे महात्मनः ॥२४७॥ व्युत्वा तत्र मनुष्यत्वे लभते भोगमुत्तमं । यथोपवनया लब्धं तापसान्वयजात्या ॥ २४८ ॥ दु:खिन्युपवनाऽबंधुर्वेदरामुपजीविनी । आदरादीक्षिता राज्ञा मुहूर्ततसंभवात् ॥ २४९ ।। कुमारी व्रतकस्यांते परया द्रव्यसंपदा । योजिता सुतरां जाता धर्मसंविनमानसा ।। २५० ॥ जिनेंद्रवचनं यस्तु कुरुतेतरवर्जितं । अनंतरमसौ सौख्यं परलोके.गतोश्नुते ॥ २५१ ॥ मुहूर्तद्वितयं यस्तु न भुक्ते प्रतिवासरं । षष्ठोपवासिता तस्य जंतोर्मासेन जायते ॥ २५२ ।। मुहूर्तत्रिंशतं कृत्वा काले यावति तावति । आहारवर्जनं जंतुरुपवासफलं. भजेत् ।। २५३ ॥ मुहूर्वयोजन कार्यमेवमेवाष्टमादिषु । अधिकं तु फलं वाच्यं हेतुद्धयनुरूपतः ॥ २५४ ।। अवाप्यास्य फलं नाके नियमस्य शरीरिणः । मनुष्यतां समासाद्य जायतेऽद्भुतचेष्टिताः ॥२५५।। लावण्यपंकलिप्तानो हारिविभ्रमकारिणां । भवंति कुलदाराणां पतयो धर्मशेषतः ॥ २५६ ॥ खियोऽपि स्वर्गतश्युत्वा मनुष्यभवमागताः । महापुरुषसंसेव्या यांति लक्ष्मीसमानतां ॥ २५७ ॥ आदित्येऽस्तमनःप्राप्ते कुरुते योन्नवर्जनं । भवेदभ्युदयोस्यापि सम्यग्दृष्टेर्विशेषतः ।। २५८ ॥ .' +
चतुर्दशं पर्व।
,
.
1
पद्मपुराणम्।
अप्सरोमंडलांतस्थो विमाने रत्नमासुरे । बहुपल्योपमं कालं धर्मणानेन तिष्ठति ॥ २५९ ॥
मनुष्यत्वं समासाद्य दुर्लभं तत्परायणः । महेशानस्य कर्तव्यं जिनस्य समुपासनं ।। २६० ॥
यस्य कांचननिर्माणा योजनं जायते मही । आसने जायते देवतिग्मानुपसेविता ॥ २६१ ।।
प्राविहार्याणि यस्याष्टी चतुसिंगन्महाद्भुतं । सहस्रभास्कराकार रूपं लोचनसौख्यद ॥ २६२ ।।
भव्यः प्रणाममैतस्य यः करोति विचक्षणः । समुत्तरति कालेन स स्तोकेन भवार्णवं ।। २६३ ।।
उपायमेतमुज्झित्वा शांतिप्राप्तौ शरीरिणां । नान्यः कश्चिदुपायोस्ति तस्मात्सेव्यः स यत्नतः ।।
मार्गा गोदंडकाकाराः संत्यन्येऽपि सहस्रशः । कुतीर्थसंचिता येषु विमुांति प्रमादिनः ॥२६५।।
न सम्यकरुणा तेपु मधुमासादिसेवनात् । जने तु कणिकाप्यस्ति न दोपस्य प्ररूपणे ।। २६६ ॥
त्याज्यमेतत्परं लोके यत्प्रपीडव दिया क्षुधा । आत्मानं रजनीभुक्त्या गमयत्यर्जितं शुभं॥२६७॥
निशि भुक्तिरधर्मो यैर्धर्मत्वेन प्रकल्पितः । पापकर्मकठोराणां तेषां दुःखप्रबोधनं ॥ २६८ ॥
दर्शनागोचरीभूते सूर्य परमलालसः । भुंक्ते पापमना जंतुर्दुर्गतिं नावबुद्धयते ॥ २६९ ॥
मक्षिका कीटकेशादि भक्ष्यते पापजंतुना । तमः पटलसंछन्नचक्षुषा पापबुद्धिना ॥ २७० ।।
डाकिनीप्रेतभूतादिकुत्सितप्राणिभिः समं । भक्तं तेन मवेयेन क्रियते रात्रिभोजनं ॥ २७१ ॥
चतुर्दर्श पर्व । ३३७ - पंद्रपुराणम् । . । सारमेयाखुमार्जारप्रभृतिप्राणिभिः समं । मांसाहारैभवेद्भुक्तं तेन यो निशि वल्गते ॥ २७२ ॥ अथवा किं प्रपंचेन पुलाकेनेह भाव्यते । क्षपायामश्नता सर्व भवेदशुचिभक्षितं ।। २७३ ।। विरोचनेऽस्तसंसर्ग गते ये भुंजते जनाः । ते मानुषतया बद्धा पशवो गदिता बुधैः ॥ २७४ ॥ नक्तं दिवा च भुंजानो विमुखो जिनशासने । कथं सुखी परंत्र स्यानित्रतो नियमोज्झितः २७५ दयामुक्तो जिनेंद्राणां पापः कुत्सामुदाहरन् । अन्यदेहं गतो जंतुः पूतिगंधमुखो भवेत् ॥२७६॥ मांसं मयं निशामुक्ति स्तेयमन्यस्य योपितं । सेवते यो जनस्तेन भवे जन्मद्वयं हतं ॥ २७७ ।। हस्वायुर्वित्तमुक्तश्च व्याधिपीडितविग्रहः । परत्र सुखहीनः स्यान्नक्तं यः प्रत्यवश्यति ॥ २७८ ।। प्राप्तीति जन्ममृत्युं च दीर्घकालमनंतरं । पच्यते गर्भवासेपु दुखेन निशि भोजनात् ॥ २७९ ।। वराहवृकमार्जारहंसकाकादियोनिषु । जायते सुचिरं कालं रात्रिभोजी कुदर्शनः ।। २८० ॥ उत्सपिण्यवसर्पिण्योः सहस्राणि कुयोनिपु । आपनीपद्यते दुःखं कुधीर्यो निशि वल्भते ॥२८॥ अवाप्य यो गत जन नियमेष्ववतिष्ठते । अशेपकिल्विपं दग्ध्वा सुस्थानं सोधिगच्छति ॥२८२।। रत्नत्रितयसंपूर्णा अणुव्रतपरायणाः । तरणावुदिते भव्या भुंजते दोपवर्जितं ॥ २८३ ॥ अपापास्तेऽधिगच्छंति विमानेशाखिविष्टपे । परं भोग न ये रात्रौ भुंजते करुणापराः ।। २८४ ॥ . २२ चतुर्दशपर्व। 3 . द ३३८ : पद्मपुराणम्। ततश्युत्वा मनुष्यत्वं प्राप्य निंदाविवर्जितं । भुंजते चक्रपादिविभवोपहृतं सुखं ॥ २८५ ॥ सौधर्मादिपु कल्पेषु मानुपातीतकारणं । प्रामुवंत परं मागं सिद्धिं च शुभचेष्टिताः ॥ २८६ ।। नगद्धिवा महामात्या राजानः पीठमदिनः । समताः सर्वलोकस्य भवंति दिनमोजनात्।।२८७|| धनवंती गुणोदाराः सुरूपा दीर्घजीविताः । जिनचोधिसमायुक्ताः प्रधानपदसंस्थिताः ॥२८॥ अमरावेजसः संख्ये पुरादीनामधीश्वराः । विचित्रवाहनोपेताः सामंतकतपूजनाः॥२८९ ।। भवनेशाः सुरेशाथ चक्रांकविमयाश्रिताः । महालक्षणसंपन्ना मवंति दिनभोजनात् ।। २९० ॥ आदित्यवत्मभावंतचंद्रवत्सौम्पदर्शनाः । अनस्तमितभोगाल्यास्ते येऽनस्तमितोद्यताः ।।२९१ ।। अनाथा दुर्भगा मातृपितृभ्रातृवियर्जिताः । शोकदारिद्रयसंपूर्णाः खियः स्युनिशि भोजनात् २९२ रूक्षस्फुटितहस्तादिस्यांगाविपिटनासिकाः । वीभत्सदर्शनाः क्लिनचक्षुपो दुष्टलक्षणाः ॥२९३।। दुर्गधविग्रहा भग्नमुमहादशनच्छदाः । उल्वणश्रुतयः पिंगस्फुटिताप्रशिरोरुहाः ॥ २९४.॥ अलाबूवीजसंस्थानदशनाः शुक्लविग्रहाः । काणकुंठगतच्छाया विवों परुषत्वचः ।। २९५ ।। अनेकरोगमपूर्णमलिनाश्छिद्रवासंसः । कुत्सितारानजीविन्यः परकर्मसमाश्रिताः ॥ २९६ ॥ उत्कृतश्रवणं व्यग्रं धनबंधुविवर्जितं । प्राप्नुवंति पतिं नार्यो रात्रिभोजनतत्पराः ॥ २९७ ।।
पद्मपुराणम् । ३३९ चतुर्दशं पर्व। दुःखभारसमाक्रान्ता वालवैधव्यसंगताः । अंबुकाष्ठादिवाहिन्यो दुःपूरोदरतत्पराः ॥ २९८ ।। सर्वलोकपराभूता वाग्बासीनष्टचेतसः । अंकवणशताधारा भवंति निशि भोजनात् ॥ २९९ ॥ उपशांताशया यास्तु नार्यःशीलसमन्विताः । साधुवर्गहिता रात्रिभोजनाद्विरतात्मिका ॥३०॥ लभते ता यथाभीष्टं भोगं स्वर्गे समारताः । परिवारेण मूर्धस्थपाणिना शासनैपिणाः ॥३०१ ।। ततच्युताः स्फुरत्युच्चैः कुले विभवधारण । शुभलक्षणसंपूर्णा गुणैः सर्वैः समन्विताः ॥३०२।। कलाविशारदा नेत्रमानसस्नेहविग्रहाः । विमुचंत्योमृतं याचा ह्रादयंत्योऽखिलं जनं ॥ ३०३ ॥ भवंत्युत्कंठया युक्तास्तासु विद्याधराधिपाः । हरयो वलदेवांश्च तथा चक्रांकितथियः॥ ३०४ ॥ विद्युद्रक्तोत्पलच्छायाः स्फुरल्ललितकुंडलाः । नरेंद्रकृतसंबंधा भवंति दिनभोजनात् ॥ ३०५ ।। अन्नं यथेप्सितं तासां जायते भृत्यकल्पितं । निशासु या न कुर्वति भोजनं करुणापराः ॥३०६॥ श्रीकांतासुप्रभातुल्याः सुभद्रासदृशस्तथा । लक्ष्मीसमत्विपो योपा भवंति दिनभोजनात् ॥३०७॥ वसानरेण नार्या या नियमस्तेन चेतसा । वर्जनीया निशामुक्तिरनेकापायसंगता ॥ ३०८ ।। अत्यल्पेन प्रयासेन शर्मैवमुपलभ्यते । ततो भजत तं नित्यं स्वसुखं को न वांछति ॥ ३०९ ।। धर्मो मूलं सुखोत्पत्तरधर्मो दुःखकारणं । इति ज्ञात्वा भजेद्धर्ममधर्म च विवर्जयेत् ॥ ३१० ॥ - चतुर्दश पर्य। ३४० पद्मपुराणम् । आगोपालांगना लोके प्रसिद्धामैदमागतं । यथा धर्मेण शमति विपरीतेन दुःखिता ॥ ३११ ।। धर्मस्य पश्य माहात्म्यं येन नाकच्युता नराः । उत्पद्यते महामोगा मनुष्यत्त्वे मनोहराः।।३१२॥ जलस्थलसमुद्भूतरत्नानां ते समाश्रयाः । औदासीन्यमपि प्राप्ता भवंति सुखिनः सदा ॥३१३।। सुवर्णवखसस्यादिभांडागाराणि मानवैः । रक्ष्यते सततं तेषां विचित्रायुधपाणिभिः ॥ ३१४ ।। प्रभूतं गोमहिष्यादि वारणास्तुरगा रथा । भृत्या जनपदा ग्रामाः प्रासादा नगराणि च ॥३१५।। दासवर्गों विशाला श्रीविष्टर हरिभिधृतं । मानसस्पेंद्रियाणां च विषयाहरणक्षमाः ॥ ३१६ ॥ हंसीविभ्रमगामिन्यो घनलावण्यविग्रहाः । माधुर्ययुक्तनिस्वानाः पीनस्तन्यः सुलक्षणा ॥३१७॥ चक्षुषां वागुरातुल्यास्तरुण्यो हारचेष्टिता । नानालंकारधारिण्यो दास्यः पुण्यफलात्मिकाः ३१८ उपाय केचिदन्नात्वा धर्माख्यं सुखसंततेः । मूढा तस्य समारंभे न यततेऽसुधारिणः ॥३१९ ॥ पापकर्मवशात्मानः केचित्वापि मानवाः । शर्मोपायं न सेवंते धर्म दुष्कृततत्पराः ॥ ३२० ।। उपशांतिं गते केचित् सचेष्टारोधिकर्मणि । अभिगम्य गुरुं धर्म पृच्छत्युद्यतचेतसः ॥ ३२१ ॥ उपशांतेरधर्मस्य कर्मणस्तद्रोर्यचः । अर्थवज्जायते तेषु श्रेष्ठानुष्ठानकारिषु ॥ ३२२ ॥ इमं ये नियम पात्राः कुर्वते मुक्तदुष्कृताः । एके भवंति ते नाके द्वितीया वा महागुणाः॥३२३॥ - .
1 -- चतुर्दर्श पर्व। ३४१ पद्मपुराणम् ।। . . - समय येनगाराणां भुंजतेऽतीत्यभक्तितः । तेपो स्वर्गे सुखप्रेक्षामाकंक्षति सुराः सदा ॥३२४॥ इंद्रत्वं देवसंघानां ते प्रयाँति सुतेजसः । जनाः सामानिकत्वं वा संपादितयथेप्सिताः ॥३२॥ न्यग्रोधस्य यथा स्वल्पं बीजमुच्चैस्तरुर्भवेत् । तपोऽल्पमपि तद्वत्स्यान्महाभोगफलावह ॥ ३२६ ।। समः कुवेरकांतस्य नेत्रबंधनविग्रहः । धर्मशक्तमतिर्नित्यं जायते पूर्वधर्मतः ॥ ३२७ ।। मुनिवेलावतो दत्वा मुनर्भिक्षा समागतः । रत्नदृष्टिं सहस्राक्षः कुवेरदयितो भवेत् ॥ ३२८ ॥ महामंडलविख्यातो नामोदारपराक्रमः । धनेन महता युक्तो भृत्यमंडलमध्यगः॥ ३२९ ।। पौर्णमास्यां यथा चंद्रकांतिदर्शनविग्रहः । भुंजानः परमं भोगं सर्वशास्त्रार्थ कोविदः ॥ ३३० ॥ पूर्वधर्मानुभावेन परं निर्वेदमागतः । अभियाति महादीक्षां जिनेंद्रसुखनिर्गतां ॥ ३३१ ॥ अनगारमहर्षीणां वेलामर्चति ये जनाः । भोगोत्सवं प्रपद्यते परं ते हरिपेणवत् ॥ ३३२ ।। मुनिवेलाप्रतीक्ष्यत्वादुपाज्यं सुकृतं महत् । हरिपेणः परिप्राप्तो लक्ष्मीमत्यंतसुन्नता ॥ ३३३ ॥ मुनेरंतिकमासाद्य समाधानप्रचोदिताः । एकभक्तं जना ये तु कुर्वते शुद्धदर्शनाः ॥ ३३४ ।। एकमक्तेन ते कालं नीत्वा पंचत्वमागताः । उत्पद्यते विमानेषु रत्नभाचक्रवर्तिपु ॥ ३३५ ।। नित्यालोकेपु ते तेषु विमानेपु सुचेतसः । रमते सुचिरं कालं रमते मध्यवर्तिनः ।। ३३६ ॥ +
+ चतुदरा
1
.
पद्मपुराणम् ।
કર
चतुर्दशं पर्व।
हारिणः कटकाधाराः प्रकोष्टाः कटिसूत्रिणः । मौलिमतो भवत्येते छत्रचामरिणोऽमराः ||३३७।।
उनमतसंसक्ता ये चाणुव्रतधारिणः । शरीरमध्रुवं ज्ञात्वा प्रशांतहृदया जनाः ॥ ३३८ ।।
उपवासं चतुर्दश्यामष्टम्यां च सुमानसाः । सेवते तेन वनंति चिरमायुत्रिविष्टपे ॥३३९ ।।
सौधर्मादिषु कल्पेषु यांति केचित्समुद्भवं । अपरे त्वहमिंद्रत्वं मुक्तिमन्ये विशुद्धितः ॥ ३४० ॥
विनयेन परिष्वक्ता गुणशीलसमन्विताः तपःसंयोजितस्वांता यांति नाकमसंशयं ॥.३४१ ॥
'तत्र कामेन भुक्त्वासी भोगान्प्राप्तो मनुष्यतां । मुंक्त राज्यं महज्जैन मतं च प्रतिपद्यते ॥३४२।।
जिनशासनमासाद्य स मात्साधुचेष्टितः । सर्वकर्मविमुक्तानामालयं प्रतिपद्यते ॥ ३४३ ॥
स्तुत्वा कालत्रये यस्तु नमस्पति जिन विधा । शैलराजयदक्षोम्यः कुतीर्थमतवायुभिः ॥३४॥
गुणालंकारसंपन्नः सुशीलसुरभीकृतः । सर्वेद्रियहरं भोग भजते त्रिदशालये ॥ ३४५ ।।
ततः कतिचिदावृत्तीः कृत्वा शुभगतिद्वये । प्रयाति परमं स्थानं सर्वकर्मविवर्जितः ॥ ३४६ ।।
विषया हि समभ्यस्ताश्चिरं संकलजंतुभिः । ततस्तैमोहिताः कर्तुं विरतिं विभवो न ते ॥३४७॥
इदं तत्र परं चित्रं ये तान् दृष्ट्वा विपानवत् । निर्वाणकारणं कर्म सेवंते पुरुषोत्तमाः ॥३४८ ॥
संसारे भ्रमतो जंतोरेकापि विरतिः कृता । सम्यग्दर्शनयुक्तस्य मुक्तेरायाति वीजता.॥ ३४९ ॥
' चतुर्दश पर्व ।
-
पद्मपुराणम् ।
W
एकोऽपि नास्ति येषां तु नियमः प्राणधारिणां । पशबस्तेऽथवा भग्नकुंभा गुणविवर्जिता ।।३५०
गुणवृत्तसमृद्धेन नियमस्तेन जंतुना । भान्यं प्रमादमुक्तेन संसारतरणैपिणा ॥ ३५१॥
दुष्कर्म ये न मुंचंति मानवा मतिदुर्विधाः । भ्रमंति भवकांतारं जात्यंधा इव ते, चिरं ।। ३५२ ।।
ततस्तेऽनंतववीयदुवाङ्मरीचिसमागमात् । प्रमोदं परमं प्राप्ता विर्यमानवनाकजाः ॥ ३५३ ॥
सम्यग्दर्शनमायाताः केचित्केचिदणुव्रतं । महानतधराः केचिज्जाता विक्रमशालिनः ॥ ३५४ ॥
अथ धर्मरथाख्येन मुनिनाऽभापि रावणः । गृहाण नियम भव्य कंचिदित्यात्मशक्तितः ॥३५५।।
द्वीपोयं धर्मरत्नानामनगारमहेश्वरः । गृह्यतामेकमप्यस्माद्रत्नं नियमसंज्ञकं ।। ३५६ ॥
किमर्थमेवमारेभे चिंताभारवशीकृतः । महतां हि ननु त्यागो न मतेः खेदकारण ॥ ३५७ ॥
रत्नद्वीपं प्रविष्टस्य यथा भ्रमति मानसं । इदं वृत्तं तथैवास्य परमाकुलतां गतं ॥.३५८ ।।
अथास्य मानसं चिंता समारूढेयमुत्कटा ! भोगानुरक्तचित्तस्य व्याकुलत्वमुपेयुपः ॥३५९॥
स्वभावेनैव मे शुद्धमंधो गंधमनोहरं । स्वादु वृष्यं परित्यक्तमांसादिमलसंगम ॥ ३६० ।।
स्थूलप्राणिवधादिभ्यो विरतिं गृहवासिनां । एकामपि न शक्तोहं कर्तु कान्यत्र संकथा ॥३६१॥
मत्तेभसदृशं चेतस्तद्वावत्सर्ववस्तुपु । हस्तेनेवात्मभावेन धतुं न प्रभवाम्यहं ॥ ३६२.॥
द चतुर्दश पर्य। ३४४ . . पद्मपुराणम् । हुताशनशिखा पेया पद्धव्यो वायुरंशुके । उत्क्षेप्तव्यो धराधीशो निरॅथत्वमभीप्सता ॥ ३६३ ॥ शूरोऽपि न समर्थोई सेवितुं यत्तपोवतं । अहो चिनमिदं तये धारयति नरोचमा: ॥ ३६४ ।। किमेकमायाम्पेतं नियम शोमनामपि । अवष्टंभामि नानिच्छामन्ययोपा वलादिभिः ॥३६५।। अथवा ननु न क्षुद्रे कुतः शक्तिरियं मयि । स्वस्याप्यस्य न शक्रोमि वो? चित्तस्य निश्चयं३६६ यद्वा लोकत्रये नासौ विद्यते प्रमदोत्तमा । दृष्ट्वा मां विकलत्वं या न बजेन्मन्मथार्दिता ॥३६७॥ का वा नरांतराश्लेपपिचप्रमदा तनौ । उष्ट्रचर्मदधानायां परदंतकृतवणं ॥ ३६८ ॥ दुर्गधायां स्वभावेन वर्णोराशी मवेद्रतिः । नरस्य दधतश्चित्वं मानसंस्कारभाजनं ॥ ३६९ । अवधार्येतिभावन प्रणम्यानंतविक्रमं । देवासुरसमक्षं स प्रकाशमिदमम्यधात् ॥ ३०० ॥ मगवन्न मया नारी परस्येच्छाविवर्जिता | गृहीतव्येति नियमो ममायं कृतनिश्चयः ॥३७१ ।। चतुः शरणमाश्रित्य भानुकर्णोऽपि कर्णवान् । इमं नियममातस्थे मंदरस्थिरमानसः ॥ ३७२ ।। करोमि प्रातरुत्थाय सांप्रत प्रतिवासरं । स्तुत्वा पूजो जिनेंद्राणामभिपेकसमन्वितां ॥३७३ ।। चरिवस्यामवस्त्राणामकृत्वा विधिनान्वितं । अयप्रभृति नाहार करोमीति ससंमदः ।। ३७४ ।। जानुभ्यां अवमाक्रम्य प्रणम्य मुनिमादरान् । अन्यानपि महाशक्तिनियमान् स समार्जयद् ३७५ .
- पंचदर्श पर्व।
पद्मपुराणम् ।
YA
ततो देवा सुरा भक्ताः प्रणम्य मुनिपुंगवं । यधास्त्रं निलयं जग्मुर्हर्पविस्तरितेक्षणाः ॥ ३७६ ॥
अभिलंकां दशास्योऽपि प्रतस्थे पृथुविक्रमः । समुत्पत्य दधल्लीला मुरनाथसमुद्भवां ॥ ३७७ ।।
परखीजनसंघातः कृतप्रणतिपूजनः । नगरी स्वां विवेशासौ वखादिकृतभूपणां ॥ ३७८ ॥
प्रविश्य वसति स्वां च समस्तविभवार्चितां । अनावृत इवातिष्ठद्भीरां मांदरी गुहां ॥ ३७९ ।।
भवंति कर्माणि यदा शरीरिणां । प्रशांतियुक्तानि विमुक्तिभाविनां ॥
तदोपदेशं परमं गुरोर्मुखा । दवाप्नुवंति प्रभवं शुभस्य ते ।। ३८० ॥
इति प्रबुद्धोधतमानसा जनाः । जिनश्रुतौ सन्जत भो पुनः पुनः ।।
परेण धर्म विनयेन भृण्वतां । भवत्यमंदोवगमो यथा रविः ॥ ३८१ ॥
इत्या रविषेणाचार्यप्रोक्त पद्म-चरिते अनंतबलधर्माभिधानं नाम यतुर्दशं पर्व ।
अथ पंचदशं पर्व।
वस्य च मुनेः पार्थे हनूमान् गृहिणां व्रतं । विभीषणश्व जग्राह कृत्वा भावं सुनिश्चितं ॥१॥
न तथा गिरिराजस्य स्थिरत्वं शस्यते बुधैः । हनूमच्छीलसम्यवक्त्वं यथा परमनिश्चलं ॥२॥
F
३४६ ।
.
पद्मपुराणम् ।।
पंचदशे पर्व।
सौभाग्यादिभिरत्यंतं हनूमति ततस्तुते । इत्यूचे मगधाधीशो रोमांचं विभ्रदुत्कटं ॥३॥
हनुमान् को गणाधीश ! किंविशिष्टः कुतः कवा | भगवत्रस्प तत्त्वेन ज्ञातुमिच्छामि चेष्टितं॥४॥
ततः सत्पुरुषाभिख्या संजातपुरुसम्मदः । वाचाल्दादनकारिण्या गणमानहरोऽवदत् ॥५॥
दक्षिणस्यां नृप श्रेण्या विजयार्घस्य भूभृतः । दशयोजनमध्धानमतिक्रम्य व्यवस्थितं ॥ ६ ॥
आदित्पनगराभिख्यं पुरमस्ति मनोहरं । प्रल्हादस्तत्र राजास्य नाम्ना.केतुमती प्रिया ॥७॥
शुभो वायुगतिर्नाम बभूव तनयोऽनयोः । लक्ष्म्या वक्षःस्थलं यस्य विपुलं निलयीकृतं ॥ ८॥
संपूर्णयौवनं दृष्टाः तं तद्दारक्रियां प्रति... चकार जनकश्चितां संतानच्छेदकातरः ॥९॥
आस्तां तावदिदं राजनिमन्यन्मती कुरु । वचनं येन तदारसंभवः परिकीत्येते. ॥ १०॥
वासस्य भरतस्यांते सन्निकृष्टे महोदधेः ।। पूर्वदक्षिणदिदागे दंतीत्यस्ति महीधरः ॥ ११ ॥
विपुलाम्रलिहोदारतेजःशिखरसंकटः । नानाद्रुमौषधिव्याप्तः सुनिझरमहातटः ॥ १२ ॥
यतः प्रभृति तत्रस्थात्सनिवेश्य वरं पुरं । विद्याधरो महेंद्राख्यो . महेंद्रोपमविक्रमः ।। १३ ।।
तत आरभ्य संपाप महेद्राख्यां रसाधरः । महेंद्रनगरं तच्च पुरं तत्र प्रकीर्तिते ॥ १४ ॥
नार्या हृदयवेगायामजायत महेंद्रतः । गुणवंतः शतं पुत्रा नामतोरिंदमादयः॥ १५ ॥
५
पंचदर्श पर्व।
३४८
पद्मपुराणम्।
अथवेंद्रजिते यूने मेघनादाय वा नृप । दीयतामेवमप्येप रावणस्तव बांधवः ॥ २९ ॥
अथ तं न तवाभीष्टं नतः कन्या स्वयंवरा । विमुच्यतां न वैरी ते तथासत्युपजायते ॥ ३० ।।
इत्युक्त्वा विरतिं यानि मंत्रिण्यमरसागरे । विद्वान् सुमतिसंज्ञाको जगाद वचनं स्फुटं ॥३१॥
दयास्योऽनेकपत्नीको महाहंकारगोचरः। इमां प्राप्यापि नो तस्य प्रीतिरस्मासु जायते ॥ ३२॥
पोडशाब्दसमानेऽपि सत्याकारेऽस्य भोगिनः । उत्कृष्टमेव विशेयं वयः, परमतेजसः ॥ ३३ ॥
इंद्रजिन्मेघवाहाय' सति दाने प्रकृप्यति । मेघवाहस्तथा तस्मै तस्मातावपि नो वरौ ॥ ३४ ॥
श्रीपेणमुतयोरासीद्गणिकार्थ तदा महत् । पितृदुःखकर युद्धं स्वीहेतोः किं न वेष्यते ॥ ३५ ॥
वाक्यं तनोनुमन्येदं नाम्ना तारांघरायणः । जगाद वचनं स्वेन भावेन हृतमानमः ॥ ३६ ॥
जयाद्रिदक्षिणं स्थानं कनकं नाम विद्यते । राजा तत्र हिरण्याभः सुमनास्तस्य भामिनी ॥३७॥
अभवत्तनयस्तस्य नान्ना सौदामिनीप्रभः । महता यशसा कात्या वयसा चाविशोमनः ।। ३८॥
सर्व विद्याकलापारो लोकनेत्रमहोत्सवः । गुणैरनुपमश्चेष्टारंजिताखिलविष्टपः ॥ ३९ ॥
सुरविद्याधरैः सर्वैरेकीभूयापि यत्नतः । अजग्यखिजगच्छक्तिसंग्रहेण विनिर्मितः ॥ ४०॥
कन्येयं दीयतां तस्मै भवतां यदि सम्मतं चिरादुत्पद्यतां योगो देपत्योरनुरूपयोः ॥ ४ ॥
३४९ पद्मपुराणम् । पंचदर्श पर्व। उत्नमांगं ततो धूवा संमील्य नयने चिरं । जगाद वचनं मंत्री नान्ना संदेहपारगः ॥ ४२ ॥ भव्याय पूर्वजा याता मम केति विचिंतयन् । संसारप्रकृति बुद्धा निर्वेदं परमेष्यति ॥ ४३ ।। विषयेष्वप्रसक्तात्मा वर्षेष्टादशसंज्ञके । भुक्त्वा भोगमहालाभं गृहितां परिहास्यति ।। ४४ ॥ बहिरंतश्च स संगं परित्यज्य महामनाः । केवलज्ञानमुत्पाद्य किल निर्वाणमेष्यति ॥ ४५ ॥ वियुक्तानेन बालेयं भ्रष्टशोभा भविष्यति । शर्वरीव शशांकन जगदालोककारिणा ॥ ४६ ॥ शृणुतातोऽस्ति नगरमादित्यपुरसंज्ञकं । पुरंदरपुराकार रत्नरादित्यभामुरं ।। ४७ ॥ नभश्वरशशांकोध प्रह्लादो नाम भोगवान् । तस्य केतुमती पत्नी केतुर्मानसवासिनः ।। १८ ॥ तयोविक्रमसमारो रूपशीलो गुणावुधिः । परनंजयनामास्ति तनयो नयमंडनः ॥४९॥ शुभलक्षणसंछन्नविशालो तुंगविग्रहः । कलानां निलयो वीरो दूरीभूतदुरीहितः ॥ ५० ॥ संवत्सरशतेनापि तस्य वक्तुं न शक्यते । गुणग्रामोऽखिलप्राप्तः समस्तजनचेतसः ।। ५१ ॥ अथवा वचनज्ञानमस्पष्टमुपजायते । अतो गत्वैव वीक्षध्वमिमं देवसमद्युतिं ।। ५२ ॥ ततः कैतुमतस्योद्यैर्गुणैः श्रोत्रपथं गतः । सर्वे ते परमं प्राप्ताः प्रमोदं कृतसम्मदाः ॥ ५३ ।। श्रुत्वा कन्यापि तां वार्ता विचकास प्रमोदतः । निशाकरकरालोकमात्रादिव कुमुद्धती ।। ५४ ॥
पंचदशं पर्व। , पद्मपुराणम् । . अत्रांतरेत्ययं प्राप्तः कालो हिमकणान्वितः । कामिनीवदनांभोजलावण्यहरणोयतः ॥ ५५ ॥ नवं पटलमरजानां नलिनीनामजायत । चिरोतकठितमध्वाससमूहकृतसंगमं ॥५६ ॥ घनः शाखाभृतां जज्ञे पापुष्पांकुरोद्भवः । मधुलक्ष्मीपरिष्पंगसंजावपुलकाकृतिः ।। ५७ ॥ चूतस्य मंजरीजालं मधुव्रतकृतस्वनं । मनोलोकस्य विव्याध पटलं स्मरपत्रिणां ॥५८ ।। कोकिलानां स्वनय मानिनीमानभंजनः । जनस्य व्याकुलीभावं वसंतालापतां गतः ॥ ५९॥ रमणद्विजदष्टानामोष्ठानां वेदनाभृतां । उपपद्यत वैशय चिरेण वरयोपितां ॥ ६॥ म्नेहो बभूव चात्यंतमन्योन्यं जगतः परं । उपकारसमाधानपरेहा प्रकटीकृतः ॥ ६१ ॥ भ्रमरी भ्रमणश्रांतां रमणः पक्षयायुना । परितो भ्रमणं कुर्वश्वकार विगतश्रमां ।। ६२ ॥ प्रिवालमुदत्य सारंग्यै पृपतो ददी । तसास्तेनामृतेनेव कापि प्रीतिरजायत ॥ ६३ ॥ करिकंपित रेजे बदनं भ्रंशिपल्लवं । करिण्यां सुखसंभारनिमीलितविलोचनं ।। ६४ ॥. स्तबकस्तननम्राभिश्चलत्पल्लवपाणिभिः । समलिंग्यंत वल्लीमिर्धमराक्षीभिरंघिपाः ॥.६५ ।। दक्षिणाशामुखोद्गीर्णाः प्रावर्तत समीरणः । प्रेर्यमाण इवानेन रविरासीदुदग्गतिः ।। ६६ ॥ समीरणकृतार्कपः केसरप्रकरः पतन् । मधुसिंहस्य पाथेन ददृशे केसरोत्करः ॥ ६७ ।। १
out
-
पद्मपुराणम्।
.
८
।
+
.
.
1
३५१ . ' ' . . I''
। पंचदशं पर्व।
दंष्ट्रा वसंतसिंहस्य मानस्तवेरमांकुशः । अकोटकेसरं रेजे प्रेपितस्त्रीभयंकरं ॥ ६८ ॥
पनं कौरवकं जालं कणझंगकदंपकं । वियोगिनीमनांसीव मधुनाकृष्टमुज्झितं ॥ ६९ ॥
कुइमलोद्दीपितोऽशोकप्रचलनवपल्लयः । प्राचुर्याद्वनितोदीर्णरागराशिरिवायभौ ॥ ७० ॥
किंशुकं धनमत्यंत दिदीपे वनराजिपु । वियोगिनीमनस्थातिरिक्तदुःखानिलोपन ॥ ७१.
निमेपमपि सेहाते न स्त्रीपुंसायदर्शनं । कुत एवान्यदेशेन संगम प्रेमबंधनौ ।। ७३ ॥ ..
गंतुमारेभिरे देवा जिनभक्तिप्रचोदिताः । नंदीश्वरं महामोदाः फाल्गुनाष्टदिनोत्सवे ।।७४ ।।
जग्मुरष्टापदे तत्र काले विद्याधराधिपाः । पूजोपकरणव्यग्रकरभृत्यगणान्विताः ।। ७५ ।।
पूज्यं नाभेयनिवृत्या तमदि भक्तिनिर्भरः । समेतो बंधुवर्गेण महद्रोऽपि समीयिवान् ।। ७६ ॥
स तत्र जिनमर्चित्वा स्तुत्या नत्या च भावतः । रोक्म्ये शिलातले श्रीमानासांचके यथासुखं ७७
प्रहादोऽपि तदायासी गिरि वंदितुं जिनं । कृताभीष्टं म्रमन्नासीन्महेंद्रेण खगोचरः ।। ७८ ॥
महेंद्रस्य ततोभ्यासं सुतप्रीत्या महादरः । ससपे निकसनेत्रः प्रहादः प्रीतिमानसः ॥ ७९ ॥
अभ्युत्थाय महेंद्रोऽपि मुदितः पुरुसंभ्रमः । आलिंगतं समालिंगत्महादं हादकारणं ॥ ८॥
पंचदशे पर्व।
पद्मपुराणम्।
३५२
उपविष्टौ च विश्रब्धी तो मनोनशिलावले । परस्परं शरीरादिकुशलं पर्यपृच्छतां ॥ ८१ ॥
उपाति महेंद्रोथ सखे किं कुशलं मम । कन्यानुरूपसंबंधचिंताव्याकुलितात्मनः ॥ ८२॥
अस्ति में दुहिता योग्या वरं प्राप्तुं मनोहरा । कस्मै तां प्रददामीति मम भ्राम्पति मानसं ॥८॥
रावणो बहुपत्नीकस्तत्सुतौ बजती रुपं । दानेनान्यवरस्थातो न तेपु रुचिरस्ति में ।। ८४ ॥
पुरे हेमपुरामिख्ये तनयः कनकधुतेः । विद्युत्यमो दिनरल्पनिर्वाणं प्रतिपत्स्यते ॥ ८५ ।।
मयेयं विदिता वार्ता प्रकटा सर्पविष्टपे । केनापि कथितं नूनं संज्ञानेनेति योगिना ॥ ८६ ॥
मंत्रिमंडलयुक्तस्य नतो मम विनिश्चतः । पुत्रस्तव परत्वेन निर्वाच्यः पवनंजयः ॥ ८७ ॥
मनोरथोपमायातस्त्वया प्रहाद पूरितः । समयेनासि संजातः क्षणेन परिनिर्वृतः॥ ८८॥
ततोवोचदलं प्रीतः प्रह्लादो लब्धांछितः । चिंता ममापि पुत्रस्य द्वितीयान्वेषणं प्रति ।।८९॥
ततोहमपि वाक्येन त्वदीयनामुना सुहृत् । शन्दगोचरतामुक्ता परिमासः सुखासिकां ॥१०॥
सरसो मानसारूपस्य तस्यात्यंतचारुणि । गुरुभ्यां वांछितं कर्तुं तयोर्ववाहमंगलं ।। ९१ ॥
स्थिते तबोमयोः सेने क्षणकल्पितसंश्रये । गजवाजिपदातीनामनुकूलरवाकुले ॥ ९२ ॥
दिनेषु त्रिषु यातेषु तयोः सांवत्सरा जगुः । कल्याणदिवसं ज्ञातीनखिलज्योतिरीहितः ॥ १३॥
३५३, पञपुराणम् । पंचदर्श पर्व। । - श्रुत्वा परिजनादेतां सर्वावयवसुंदरीं । दिवसानां त्रयं सेहे न पाल्हादिः प्रतीक्षितुं ।। ९४ ॥ संगमोत्कंठितः सोयमेभिर्मन्मथसंभवैः । पूरितो दशभिर्वेगैर्भटो चाणेरिवाहवे ॥ ९५ ॥ आये तद्विपया चिंता वेगे समुपजायते । द्वितीये दृष्टुमाकारो पहिः समभिलप्यते ॥ ९६ ।। तृतीये मंददीर्घोप्णनिश्वासानां विनिर्गमः । चतुर्थे सज्वरो दृष्टज्वलनोपमचंदनः ॥ ९७ ॥ विवर्तः पंचमेंऽगस्य कुसुमप्रस्तरादिषु । मन्यते विविधं स्वादु षष्ठे भक्तं विपोपमं ।। ९८ ।। सप्तमे तत्कथासक्त्या विप्रलापसमुद्भवः । उन्मत्तताष्टमे गीतनृत्यविभ्रमकारिणी ॥ ९९ ।। मदनोरगदष्टस्य नवमे मूर्छनोद्भवः । देशमे दुःखसंभारः स्वसंवेद्यः प्रवर्तते ॥१०० ॥ विवेकिनोऽपि तस्येदं तदा जातमनंकुशं । चरितं वायुवेगस्य हताशं घिगनंगकं ।।.१०१ ।। अथ, चेतोभुवो बेगैरसौ धैर्यात्परिच्युतः । उद्वर्तितकरच्छन्ननिश्वासप्रचलाननः ॥ १०२ ॥ करसंगारुणीभूतस्वेदवद्डमंडलः । उष्णातिदीर्घनिश्वासग्लपितासनपल्लवः ॥ १०३ ॥ मुंभण कंपनं जंभी मंदं कुर्वन्पुनः पुनः । निस्सहं धारयन्कायं गाढाकल्पकशल्यतः ॥ १०४ ।। रामाभिध्यानतो मोघं हुपीकं पटलं दधत् । मनोज्ञेप्वपि देशेषु महतीमधृति व्रजन् ।। १०५ ।। दधानः शुन्यमात्मानं परित्यक्ताखिलक्रियः । क्षणमात्रधृतां भूयः परिसुचनपत्रपां ॥ १०६ ॥ २३
नाना
प्रहसितं
मित्रं
सर्वविश्रंमभाजनं
।
मंदगद्दया
वाचा
जगाद
पचनंजयः
॥
११
९
॥
पंचदशं पर्व।
पद्मपुराणम्
तनुभूतसमस्तांगः परिभ्रष्टविभूषणः । दध्याविति सचित्तेन परिवारेण वीक्षितः ॥ १०७ ।।
कदा नु तामहं कांता वीक्षे स्वांकनिवेशितां । स्पृशे कमलतुल्यानि गात्राणि कृतसंकथः ।।१०८॥
भुत्या तापदियं जाता ममावस्थातिदुःखदा । आलोक्य तां तु नोऽपश्यद्भवयं पंचतां गतः १०९
अहो महदिदं चित्रं मनोवापि सखी मम । यदसौ दुःखमारस्य कारणत्वमुपागतां ॥ ११० ॥
अयि भद्रे कथं यस्मिन्तुष्यते हृदयं त्वया । दग्धं तदेव शक्तासि पंडिते दुःखपन्हिना ॥१११॥
मृदुचिताः स्वभावेन भवंति किल योपितः । मदुःखदानतोनातं विपरीतमिदं तव ॥ ११२ ॥
अनंगः सन् व्यथामेतामनंगत्वं करोपि मे । यदि नाम भवेत्सांगस्ततः कटतमं भवेत् ॥११३॥
कृतं नचात्र मे देहे वेदना च गरीयसी । तिष्ठन्नेकत्र चोद्देशे भ्रमसि कापि संततं,॥ ११४ ।।
दिवसानां त्रयं नैतन्मम क्षेमेण गच्छति । यदि नां विषयीभावमानयामि न चक्षुपः ॥११५ ।।
अतस्तदर्शनोपायः कतरो मे भविष्यति । यस्याधिगमतश्चित्तं प्रशांतिमधियास्यति ।। ११६ ।।
अथवा सर्वकार्येषु साधनीयेषु विष्टपे । मित्रं परममुभित्या कारणं नान्यदीक्ष्यते ॥ ११७ ।।
इति ध्यात्या स्थित पार्थे छायाचिमिवानुगं । विक्रियातः समुत्पन्नं शरीरं स्वमिवापरं ॥११८॥
. पद्मपुराणम्। पंचदर्श पर्व। जानस्पेव ममाकूतमतः किं ते निवेद्यते । केवलं मुखरत्वं ने करोत्सत्यंतदु:खितां ॥ १२० ।। सखे कस्य वदान्यस्य दुःखमेतत्रिवेद्यते । मुक्त्वा त्वां विदिताशेपजगत्त्रयविचेष्टितं ॥ १२१ ॥ कुटंबी क्षितिपालाय, गुरवेंतेवसन् , प्रिया । पत्यै, वैद्याय रोगार्ती, मात्र शैशवसंगतः ॥१२२ ।। निवेद्य युच्यते दुःखाद्ययात्यंतपुरोरपि । मित्रायैवं नरः प्राज्ञस्ततस्ते कथयाम्यहं ॥ १२३ ।। श्रुत्वैव तामहं हृद्यां महेंद्रतनुसंभवा । मन्मथस्य शरैर्दू विकलत्वमुपागतः ॥ १२४ ॥ वामदृष्टातिचक्षुप्या प्रियां मानसहारिणीं । अतिवादयितुं नाहं प्रभवामि दिनत्रयं ॥ १२५ ॥ अतो विधत्स्व तं यत्नं येन पश्यामि तामहं । तदर्शनादहं स्वस्थो मयि स्वस्थे भवानपि १२६ जीवितं ननु सर्वसादिष्टं सर्वशरीरिणां । सति तवान्यकार्याणामात्मलाभस्य संभवः ॥ १२७ ।। एवमुक्तस्ततोपोचदाशु प्रहसितो हसन् । लब्धार्थमिव कुर्वाणः सद्यो मित्रस्य मानसं ।। १२८ ॥ सखे किंबहुनोक्तेन कृत्यकालातिपातिना । वद किं करवाणीति ननु नान्यत्वमावयोः ॥१२९॥ यावत्तयोः समालापो वर्ततेऽयं सुचित्तयोः । तावत्तदुपकारीव गतोऽस्तं धर्मदीधितिः ॥ १३०॥ प्राहादेरापि रागेण संध्यालोकेन भानुना । प्रेरितो ध्वांतसंभूतिमिच्छता प्रियकारिणा ॥१३१।। कांतया रहितस्यास्य दुःखं दृष्ट्वैव संध्यया । करुणायुक्तया भर्ता तेजसामनुवर्तितः ॥ १३२ ।।' 2
पंचदर्श पर्व।
'
4
રૂપ
पद्मपुराणम्।
उत्तो भास्करनाथस्य वियोगादिव कृष्णता । आशा पौरंदरी प्राप तमसात्यंतभूरिणा ॥ १३३ ॥
नीलेनैव च वखण क्षणाल्लोकास्तिरस्कृतः । रजो नीलांजनस्येव प्रवृत्त पतितुं धनं ॥ १३४ ।।
ततः समुचिते काले तस्मिन् प्रस्तुतकर्मणः । इत्यवोचत सोत्साहः, सुहृदं पवनंजयः ।। १३५ ।।
उत्तिष्ठाग्रे सखे तिष्ठ कुरु मागोपदेशनं । बजावस्तत्र सा यत्र तिष्ठति स्वांतहारिणी ॥ १३६ ।।
इत्युक्ते प्रस्थिती गंतु पूर्वग्नस्थितमानसी । मीनाविव महानीलनीलव्योमनलार्णवे ॥.१३७ ।।
क्षणेन च परिप्राप्ती गृहमांजनसुंदरं । सुंदरं तत्समा भक्त्या रत्नाघसममंदिरं ॥ १३८ ।
सप्तमं स्कंधमारुह्य तस्य वातायनस्थिता । मुक्ताबालतिरोधानावंगनां नामपश्यतां ॥ १३९ ।।
संपूर्णवखचंद्रांशुविफलीकृतदीपिकां । सितासितारुणच्छायचक्षुः शारितदिङ्मुखां ।। १४० ॥
आभौगिनी समुत्तुंगी प्रियार्थ हारिणी कुची । कलशाविव विभ्राणा श्रृंगाररसपूरिती ॥ १४१॥
नवपल्लवसच्छायं पाणिपादं सुलक्षणं । समुगिरदिवाभाति लावण्यं नखरश्मिभिः ॥ १४२॥
स्तनभारादिवोदारान्मध्य भंगाभिशंकया । त्रिवलीदामभिर्बद्धं दधतीं तनुवां भृशं ॥ १४३ ।।
तूणी मनोभुवस्तंभी बंधनं मदकामयोः । सुवृत्तौ विनतीमुरू नदी लावण्यवाहिनी ।। १४४ ॥
इंदीवरावलीछायां युक्ता मुक्ताफलोडाभिः । आसक्तां प्रियचंद्रेण पूर्तामेव विभावरी ॥ १४५ ॥
. पद्मपुराणम् । ३५७ पंचदशं पर्व। '. आसेचनकवीक्ष्यां तामेकतानस्थितेक्षणः । संप्राप्तः सुखितामु-मैक्षिष्ट पवनंजयः ॥ १४६ ।। अत्रांतरे प्रियात्यंत वसंततिलकाभिधा । अभापत सखी वाक्यमिदमंजनसुंदरीं ॥ १४७ ।। अहो परमधन्यत्वं सुरूपे भर्तृदारिके । पित्रा वायुकुमाराय यद्दत्तासि महौजसे ॥ १४८ ॥ गुणस्तस्य जगत्सर्व शशांककिरणामलैः । व्याप्तमन्यगुणख्यातितिरस्करणकारणैः ।। १४९ ॥ कलशब्दा महारत्नप्रभापटलरंजिता । अंके स्थास्यति वीरस्य तस्य वेलेव वारिधेः ॥ १५० ।। पतिता वसुधारा त्वं तटे रत्नमहीभृतः । श्लाघ्या संबंधजस्तोपो वधूनामभवत्परः ॥ १५१ ।। कीर्तयंत्यां गुणानेवं तस्य संख्या सुमानसा । लिलेख लज्जयांगुल्या कन्यांप्रिनखमानता ॥१५२॥ नितांतं च हृतो दूर पूरेणानंदवारिणः । विकसन्नयनांभोजच्छन्नास्यः पवनंजयः ॥ १५३ ।। नाम्नाथ मिश्रकेशीति वाक्यं सख्यपरावदत् । संकुचत्पृष्टवियोष्टं धूतधाम्मिल्लपल्लवं ॥ १५४ ॥ अहो परममज्ञानं त्वया कथितमात्मनः । विद्युत्प्रभ परित्यज्य वायोगेगासि यद्गुणान् ॥१५५।। कथा विद्युत्प्रभस्यास्मिन्मया स्वामिगृहे श्रुता । तस्मै देया न देयेय कन्येति मुहुरुगता ।।१५६।। उदन्यदभसो विंदुसंख्यानं योवगच्छति । तद्गुणानां मतिः पारं ब्रजेत्तस्यामलत्विषां ॥ १५७ ।। युवा सौम्यो विनीतात्मा दीप्तो धीरः प्रतापवान् । पारे विद्यास्थितः सर्वजगद्वांछितदर्शनः ।।
m
.
पंचदशं पर्व ।
पद्मपुराणम् ।
विद्युत्नमो भवेदस्याः कन्याया यदि पुण्यतः । भ" ततोनया लब्धं जन्मनोऽस्य फलं भवेत्
वसंतमालिके भेदो वायोर्विद्युत्प्रभस्य च । स गतो जगति ख्याति गोप्पदस्यांबुधेश्चयः १६०
असौ संवत्सरैरल्पैर्मुनिता यास्यतीति सः । अस्याः पित्रा परित्यक्तस्तन्मे नाभाति शोभनं ॥
वरं विद्युत्मभेणामा क्षणोऽपि सुखकारणं । सत्रानंतोऽपि नान्येन कालः क्षुद्रासुधारिणा १६२
ततः प्राहादिमित्युक्ते क्रोधानलविदीपितः । क्षणाच्छायापरावृत्तं संप्राप्तः पुरुवेपंधुः ।। १६३ ॥
दष्टाधरः समाकर्षन् सायकः परिवारितः । निरीक्षणस्फुरच्छोणछायाछनदिगाननः ।। १६४ ॥
ऊचे प्रहसितावश्यमस्या एवेदमीप्सितं । कन्याया यद्वदत्सेवमियं नारी जुगुप्सितं ॥ १६५ ।।
लुनाम्यतोऽनयोः पश्य मूर्धानमुभयोरपि । विद्युत्प्रभोधुना रक्षा करोतु हृदयप्रियः ॥ १६६ ॥
समाकर्ण्य ततो वाक्यं मैत्रं प्रहसितो रुपा । जगाद भृकुटीपंधभीषणालिकपडिकः ॥ १६७ ॥
सखे सखेलमेतेन यत्नेनागोचरे तव । ननु ते सायकस्यारिनरनाशः प्रयोजनं ॥ १६८ ॥
अतः पश्यत वाक्रोशप्रसक्तो दृष्टयोषितां । इमामेतेन दंडेन करोमि गतजीवितां ॥ १६९ ।।
ततो दृष्टास्य संरभ महति पवनंजयः। विस्मृतात्मीयसरंभा खड्ग कोश्यो प्रतिक्षिपन् ॥१७० ॥
निजप्रकृतिसंप्राप्तिप्रवणाशेषविग्रहः । जगाद मुहदं क्रूरकर्मनिश्चितमानसं ॥ १७१ ॥
पंचदर्श पर्व। पद्मपुराणम्। - अयि मित्र शमं गच्छ तवाप्येष न गोचरः । कोपस्यानकसंग्रामजयोपार्जनशालिनः ।। १७२ ॥ इतरस्यापि नो युक्तं कर्तुं नारी विपादनं । किं पुनस्तव मत्तेभकुंभदारणकारिणः ॥ १७ ॥ पुंसां कुलप्रसूतानो गुणख्यातिमुपेयुपा । यशो मलिनताहेतु कर्तुमेवमसांप्रतं ॥ १७४ ॥ तस्मादुत्तिष्ठ गच्छावस्तेनैव पुनरध्वना । विचित्रा चेतसोवृत्तिर्जनस्यात्र न कुप्यते ॥ १७ ॥ नूनमस्याः प्रिपोसौ ना कन्याया येन पार्श्वगां । मज्जुगुप्सनसंसक्तांन मनांगप्यवीवदत् ॥१७६।। वतः समागती झाती न केनचिदिमौ भृशं । स्वर निस्सृत्य निव्यूहाद्वौ वसतिमात्मनः ॥१७७।। ततः परममापनो विरागं पवनंजयः । इति चिंतनमारेभे प्रशांतहृदयो भृशं ॥ १७८ ॥ संदेहविषमावर्ता दुर्भावग्राहसंकुला । दूरतः परिहर्तव्या पररक्तांगनापगा ॥ १७९ ॥ कुमावगहनात्यंत हपीकव्यालजालिनी । बुधेन नार्यरण्यानी सेवनीया न जातुचित् ॥१८॥ किं राजसेवनं शत्रुसमाश्रयसमागमं । इलथं मित्रं स्त्रियं चान्यसको प्राप्य कुतः सुखं ॥ १८१॥ दृष्टा बंधून सुतान् दारान् बुधा मुंचंत्यसत्कृताः। पराभवजलाध्माता क्षुद्रा नश्यति तंत्र तु१८२ मदिरारागिणं वद्य द्विपं शिक्षाविवर्जितं । अहेतुबेरिण क्रूर धर्महिंसनसंगतं ।। १८३ ॥ मूर्सगोष्ठी कुमर्यादं देशं चंडं शिशुं नृपं । वनितां च परासक्तां सूरि₹रेण वर्जयेत् ॥ १८४ ॥ - क्ररमा पंचदशं पर्व। पद्मपुराणम् ।। एवं चिंतयतस्तस्य कन्याप्रीतिरिवागता । क्षयं विभावरी तूर्यमाहतं च प्रयोधकं ॥ १८५ ।। ततः संध्याप्रकाशन कौशिकीया, दिगावृता । पवनंजयनिर्मुक्तरागेणेव निरंतरं, ॥ १८६ ।। उदियाय च तिग्मांशुः खीकोपादिवं लोहितं । दधानस्तरलं विवं, जगचेष्टितकारणं ।। १८७ ॥ ततो वहन्दिरागेण नितांतमलसां तनुं । ऊचे प्रहसितं जायाचिमुखः, पवनंजयः ॥ १८८ ॥ सखेन न समीपेऽपि युज्यनेपस्थितिर्मम । तत्सक्तपवनासंगो माभूदिति ततः शृणु ॥ १८९ ।। उनिष्ठ स्वपुरं यामो न युक्तमवलंबने । सेना प्रयाणशंखेन कार्यतामवंबोधिनी ॥ १९० ॥ नथेति कारिते तेन क्षुब्धसागरसन्निभा । चचाल सा चमू क्षिप्रं कृतयानोचितक्रिया ॥१९१ ।। ततो रथाश्वमातंगपादातप्रभवो महान् । शब्दो भेर्यादिजन्मा च कन्यायाः श्रवणेऽविशत् १९२ प्रयाणचिना. तेन नितांत दुःखिताभवत् । विशता मुद्गराघातवेगतः शंकुनेव .सा ॥ १९३ ॥ अचितयच हा कष्टं दत्त्वा मे विधिना हतं । निधानं किं करोम्यत्र कथमेतद्भविष्यति ।।१९४|| अंगेऽस्य पुम्पेंद्रस्य क्रीडिप्यामीति ये कृताः । नेऽन्यथैव परावृत्ता मंदाया मे मनोरथाः १९५ क्रियमाणमिमं ज्ञात्वा कथंचि दमेतया । वैरिणीभूतया सख्या मयि विद्वेषमागतः ॥१९६ ।। 1 T पंचदशं पर्व । पद्मपुराणम्। ३६१ -- कुर्यान्मह्य हितं तात जीवितेशं निवर्तयेत् । अपि नाम भवेदस्य बुद्धिावर्तनं प्रति ॥ १९८॥ तत्त्वतो यदि नाथो मे परित्यागं करिष्यति । आहारवर्जनं कृत्वा ततो यास्यामि पंचतां १९९ इति संचितयंती सा प्राप्ता मूछो महीतले । पपाताश्चयेनिमुक्ता लूनमूललता यथा ॥ २० ॥ ततः किमिदमित्युक्त्या संभ्रम परमागते । शीतलक्रियया सख्यौ चक्रतुस्तां विमूर्छतां ॥२०११॥ पृच्छयमाना च यत्नेन मूर्छाहेतुं श्लागिका । शशाक त्रपया वक्तुं न सा स्तिमितलोचना२०२ अथ वायुकुमारस्य सेनायामिति मानवः 1. आकुला मानसे चारहेतुगतिविस्मिताः ॥२०३ ॥ अविधायेप्सितं कस्मादयं गंतुं समुद्यतः । कोपोऽस्य जनितः केन केन वा चोदितोऽन्यथा २०४ विद्यते सर्वमेवास्य कन्योपादानकारणं । अतः किमित्ययं कस्मादभूदपगताशयः ॥ २०५ ॥ हसित्वा केचिंदित्यूचुर्नामास्येदं सहार्थकं । पवनंजय इत्येवं तस्माज्जेतास्य वेगतः।। २०६.।। ऊतुरन्येऽयमद्यापि न जानात्यंगनारसं । नूनं येन विहायेमां कन्यां गंतुं समुद्यतः ॥ २०७॥ यदि स्यादस्य विज्ञाता रतिः परमुदारजा । बद्धः स्यात्प्रेमबंधेन ततो वनगजो यथा ॥२०८॥ इत्युपांशुकृतालापसामंतशतमध्यगः । वेगवद्वाहनो गंतुं प्रवृत्तः पवनंजयः ।। २०९ ॥ ततः कन्यापिता ज्ञात्वा प्रयाणं तस्य संभ्रमात् । समस्तैबंधुभिः सार्धमाजगाम समाकुलः २१० ...। पंचवर्श पर्व। । पद्मपुराणम् प्रह्लादेन समं तेन तवोसावित्यभाष्यत । भद्रेदं गमनं कस्मारिक्रयते शोककारणं ॥ २११ ॥ ननु केन विमुक्तोऽसि कस्य नेप्टोस शोभन । चिंतयत्यपि नो कश्चिद्यत्ते बुध न रोचते २१२ पितुर्मम च ते वाक्यं दोपे सत्यपि युज्यते । कर्तु किमुत निदशेषदोपसंगविवर्जितं ।। २१३ ॥ ततः सूरे निवर्वस्व क्रियतां नवमीप्सितं । भवादृशो गुरोराज्ञा नत्वानंदस्य कारणं ॥ २१४ ॥ इत्युक्त्वापत्यरागेण वीरो विनतमस्तकः । श्वसुरेण धृतः पाणौ जनकेन च सादरं ॥२१५ ॥ ततस्तगौरवं भवतुमसमर्थोन्यवर्तत । दध्याविति च कन्यायाः कोपादुःखस्य कारणं ॥२१६ ॥ समुख शातयाम्येनां दुःखेनासंगजन्मना । येनान्यतोऽपि नैवैपा मानाति पुरुपांत्सुखं ।। २१७ ॥ चकार विदिता च मित्रं तेनैतिभापितः । साधु ने विदितं बुद्धया मयाप्येतनिरूपितं ।।२१८॥ निवृत्तं दयितं श्रुत्वा कन्यायाः सम्मदोऽभवत् । निरंतरसमुद्भिनरोमांचाशेपविग्रहः ॥ २१९ ॥ ततः समयमासाद्य तयोर्ववाहमंगलं । प्रभुतं बंधुमिः कर्तु प्राप्तसर्वसमीहितं ॥ २२० । अशोकपल्लवस्पर्शः कन्यायाः स करोऽभवत् । विरक्तचेतसस्तस्य कृशानुरसनोपमः ॥ २२१ ॥ अनिच्छतो गता दृष्टिः कथंचित्तस्य तचनी । क्षणमात्रमपि स्थातुं न सेहे तुल्यविद्युतिः २२२ एप भावं न वेत्तास्या इति विज्ञाय पावकः । स्फुटल्लाजसमूहेन जहासैव कृतस्वनं ।। २२३ ॥
पंगपुराणमें ।
पोवश पर्व ।
ततो विधानयोगेन कृत्वोपयमनं तयोः । परमं प्रमदं प्राप्ताः सशब्दाः सर्वबांधवाः ॥ २२४ ।।
नानाद्रुमलताकीर्णे फलपुष्पविराजिते । मासं तत्र चने कृत्वा विभूत्या परमोत्सवं ।। २२५ ।।
यथोचितं कृतालापाः कृतपूजाः परस्परं । यथास्वं ते ययुः सर्वे वियोगादुषिता क्षणं ॥२२६।।
अविदिततच्यस्थितयो । विदधति यजतवः परे शर्म ॥
तत्तत्र मूलहेतौ । कर्म रखो तापके दृष्टं ॥ २२७ ।।
इत्याचे रविषेणाचार्यप्रोक्त पद्म-चरिते अंजनामुन्दरी विवाहाभिधानं नाम पंचदशे पर्व ।
1
..
.
+
अथ पोडशं पर्व।
ततोऽसंभाषणादस्याचक्षुपश्वानिपातनात् । चकार परमं दुःखं वायुरझाततन्मनाः ॥१॥
रात्रावपि न सा लेभे निद्रां विद्राणलोचना । अनारतगलद्वाष्पमलिनो दधती स्तनौ ॥ २ ॥
वायुमप्यभिनंदती दयितेनैकनामकं । तन्नामश्रवणोत्कंठावष्टन्धश्रवणा भृशं ॥३॥
कुर्वती मानसे रूपं तस्य वेद्यां निरुपितं । अस्पष्टं क्षणनिश्चेष्टस्थिता स्तिमितलोचना ॥४॥
.
पोडश पर्य।
पद्मपुराणम् ।
अंतनिरूप्य वांछंती बहिरप्यस्प दर्शनं । कुर्वती लोचने स्पृष्टे यात्सदृष्टे पुनः शुचं ॥५॥
सकृदस्पष्टदृष्टत्वाचित्रकर्मणि कृतः । लिखती बेपथुग्रस्तहस्तप्रच्युतविग्रहा ॥ ६ ॥
संचारयंती कृच्छ्रेण वदनं करतः करं । कृशीभूतसमस्तांगश्लथसस्वनभूपणा ॥७॥
दीर्घोष्णतनिश्वासदग्धपाणिकपोलिका । अंशुकस्यापि भारेण खेदमंगेषु विनती ॥ ८॥ .
निदंती भृशमात्मानं स्मरती पितरी मुहुः । दधाना हृदयं शून्यं क्षणं निप्पंदविग्रहा ॥९॥
दुम्वनिमृतया वाचा वाप्पसंरुद्धकंठतः । उपालंभ प्रयच्छंती देवायात्यंतविक्लवा ॥ १० ॥
करः शीतकरस्यापि विभ्रती दाहमुत्तमं । प्रासादेऽपि विनिर्याती याति मूर्छा पुनः पुनः .॥११॥
अयि नाथ तवांगानि मनोज्ञानि कथं मम । अंगानां हृदयस्थानि कुर्वते तापमुत्तमं ॥ १२ ॥
ननु ते जानतः कश्चिन्नापराधो मया प्रभो । कारणेन विना कस्मात्को यातोसि मे परं॥१३॥
प्रसीद तव भक्तास्मि कुरु मे चित्तनिर्वृतिं । बहिर्दर्शनदानेन रचितोंजलिरेप ते ॥ १४ ॥
चौरेवादित्यनिर्मुक्ता चंद्रहीनेव शर्वरी । त्वया विना न शोभेहं विद्येव च गुणोज्झिता ।। १५ ॥
प्रयच्छंतीत्युपालंभं पत्ये मानसवासिने । बिंदुन् मुक्ताफलस्थूलान्मुंचती लोचनांमसः ॥१६॥
खिद्यमानात्र दिष्टेषु कुसुमखस्तरेष्वपि । गुरुवाक्यानुरोधेन कुर्वती वपुपः स्थितिं ॥ १७ ॥
३६५ पद्मपुराणम् । पोडश पर्व। चक्रारूढमिवाजलं संदधाना कृतभ्रमं । संस्कारविरहाद्दं भ्रमंती केशसंचयं ॥ १८ ॥ तेजोमयीव संतापाज्जलात्मेवाश्रुसंततेः । शून्यत्वाद्गगनात्मेय पार्थिवीयाक्रियात्मतः ।। १९ ।। संततोत्कलिकायोगाद्वायुनेव विनिर्मिता । तिरोवस्थितचैतन्याद्रूपमात्रोपमात्मिका ।। २० ।। भूमौ निक्षिप्तसागा नोपवेष्टुमपि क्षमा । उपविष्टा च नोत्थातुं देहं नोद्वर्तुमुत्थिता ॥ २१ ॥ सखीजनांसविन्यस्तविगलत्पाणिपल्लवा । भ्राम्यंति कुहिमांकेऽपि प्रस्सलचरणा मुहुः ॥ २२ ॥ स्पृहयंत्यनुयाताभ्यः प्रियैश्चाटुविधायिभिः । वराकी छेककांताभ्यस्तद्गतास्पदवीक्षणा ॥ २३ ॥ प्रियात्परिभवं प्राप्ता कारणेन विवर्जिता । निन्ये सा दिवसान् कृच्छादीना संवत्सरोपमान २४ तस्यामेतदवस्थायां समोऽस्या दुःस्वतोऽथवा | अधिकः परिवारोऽभूतिककर्तव्याकुलात्मकः ॥२५॥ अचिंतयच्च किंत्वेतत्कारणेन विना भवत् । किं वा जन्मांतरोपात्तं कर्म स्यात्पकमीदृशं ॥ २६॥ किंवांतरायकर्म स्याजनितं जन्मांतरे । जातं वायुकुमारस्य फलदानपरायणं ॥ २७ ॥ येनायमनया साकं मुग्धया वीतदोपया । न भुंक्त परमान्भोगान् सर्वद्रियसुरवावहान् ॥ २८ ।। शृणु दुःखं यया पूर्व न प्राप्त भवने पितुः । सेयं कर्मानुभावेन दुःखभारमिमं श्रिताः ॥ २९ ।। उपायमन कं कुर्मो वयं भाग्यविवर्जिताः । अस्मत्प्रयतनासाध्यो गोचरो ह्येष कर्मणां ।। ३० ।।
में
1
पोडश पर्व।
1
३६६
-
पद्मपुराणम् ।
राजपुत्री भवत्वेपा प्रेमसंभारभाजनं । मर्तुरस्मत्कृतेनापि पुण्यजातेन सर्वथा ।। ३१ ॥..
अथवा विद्यते नैव पुण्य नात्यंतमण्यपि ! निमग्रा येन तिष्ठामो वाला दुःखमहार्णवे ॥ ३२ ॥
भविष्यति कदा स्लाध्यः सुमुहूतोकवर्तिनी । यालामिमां प्रियो नर्मगिरा यत्र लपिष्यति ॥३३॥
अत्रांतरे विरोधोऽभूद्रक्षयां विभुना सह । वरुणस्य परं. गर्व केवलं विभ्रतो बलं ॥ ३४ ।।
कंकमीमुनुना दूतः प्रेपितोऽथेत्यभापत । वरुणं स्वामिनः शक्या धानः परमां युति ॥ ३५ ॥
श्रीमान् विद्याधराधीशो वरुण त्याह रावणः । यथा कुरु प्रणामं मे सज्जीभव रणाय वा ॥३६॥
प्रकृतिस्थिरचित्तोध विहस्य वरुणोऽवदत् । दूत को रावणो नाम क्रियते तेन का क्रिया ॥३७॥
नाहमिंद्रो जगनिंधवीर्यवैश्रवणोऽथया । सहस्ररश्मिसंज्ञो वा मरुत्तो वाथवा यमः ॥ ३८ ॥
देवताधिष्ठितरत्नदोस्याभवदुत्तमः । आयातु सममेभिस्तं नयाम्पद्य विसंज्ञतां ।। ३९ ॥
नुनमासन्नमृत्युस्त्वं येनवं मापसे स्फुटं । अभिधायेति तं दूनो गत्वा भर्ने न्यवेदयत् ।। ४० ॥
ततः परमकोपेन परितो वारुण पुरं । अरुणद्रावणो युक्तः सेनयोदधिकल्पया ॥४१॥
प्रतिज्ञा च चकारेमा रत्नरेप मया विना । नेतन्यश्चपलो भंग मृत्यु वेति ससंभ्रमः॥४२॥
राजीवपींडरीकाद्याः क्षुधा वरुणनंदनाः। विनिर्ययुः सुसन्नद्धाः श्रुत्वा प्राप्त वलं द्विपः॥४३॥
- षोडश पर्व। पद्मपुराणम् । रावणस्य बलेनामा तेषां युद्धमभूत्परं । अन्योन्यापातसंच्छिन्नविविधायुधसंहतिः ॥ ४४ ॥ गजागजैः समं सक्ता वाजिनोऽश्वरथारथैः । भटाभटैः कृता रावा दष्टोष्ठा रक्तलोचनाः ॥४५॥ पराचीनं ततः सैन्यं त्रिकूटैारुणं कृतं । चिराय कृतसंग्रामदत्तसोढा युधोत्करं ॥ ४६॥ जलकांतस्ततः कुद्धः कालाग्निरिव दारुणः । अधावद्रक्षसां सैन्यं हेतिपंजरमध्यगः ।। ४७ ।। ततो दुवोरवेगं तं दृष्ट्वा यांत रणांगणे । गोपायितः स्थावाहिन्या रावणो दीप्तशस्त्रयां ॥ ४८ ॥ परुणेन कृताचासास्ततस्तस्य सुताः पुनः । परमं योदुमारब्धा विध्वस्तभटकुंजराः ॥ १९ ॥ ततो यावद्दशग्रीवः क्रोधदीधितमानसः । गृह्णाति कामुकं क्रूरः भृकुटीकुटिलालिकः ॥ ५० ॥ दत्तयुद्धचिरं तावत्खेदवर्जितमानसः । वारुणीनां शतेनाशु गृहीतः खरदूपणः ॥ ५१ ॥ ततश्चित्ते दशग्रीवश्चकारात्यंतमाकुलः । यथा न शोभतेऽस्माकमधुना रणधीरिति ॥ ५२ ॥ खरदूषणभद्रस्य प्रवृत्ते परमाहवे । माभून्मरणसंप्राप्तिस्तस्माच्छांतिरिहोचिता ॥५३॥ इति निश्चित्य संग्रामशिरसोसमसाहसः । नोदाराणां यतः कृत्ये मुच्यते चेतसा रसः ॥ ५४ ॥ ततः स मंत्रिभिः साकं प्रवीणैर्मत्रवस्तुनि । संमंत्र्य निजसामंतान् स्वदेशसमवस्थितान् ।।५५ ।। समग्रबलसंयुक्तान्सर्वान् दीर्घाध्वगामिभिः । आहाय यच्छिरोबद्धलेखमालैरिति द्रुतं ।। ५६ ॥ + पोडशं पर्व । ३६८ पद्मपुराणम् । प्रहादमपि तत्रायाद्रायणपितो नरः । स्वामिभक्त्या कृतं चास्य करणीयं यथोचितं ॥ ५७ ।। विद्यावना प्रभार्भद्र भद्रमित्यर्थचोदितः । सादरं भद्रमित्युक्त्वा सलेच व्यक्षिपत्पुरः ॥ ५८ ॥ ततः स्वयं समादाय कृत्वा शिरसि संभ्रमात् । प्रह्लादोघाचयल्लेस्वमस्यार्थस्याभिधायकं ॥५९।। स्वस्तिस्थाने पुरस्यारादलंकारस्य नामतः 1 निविष्टपूतनः क्षेमी विद्याभृत्स्वामिनों पतिः ॥६॥ सीमालिनंदनो रक्षामंतानांवरचंद्रमाः । आदित्यनगरे भद्रं महादं न्यायवेदिनं ॥ ६१॥ कालदेशविधानक्षमस्मत्त्रीतिपरायणं । आज्ञापयति देहादिकुशलप्रश्नपूर्वकं ।। ६२ ।। यथा मे प्रणताः सर्वे क्षिप्रं विद्याधराधिपाः । करांगुलिनखच्छायाकपिलीकृतमूर्द्धजाः ।। ६३ ।। पातालनगरेयं तु सुसन्नद्धः स्वशक्तितः ! वरुणः प्रत्यवस्थानमकरोदिति दुर्मतिः ॥ ६४ ॥ हृदपव्यथविद्याभूषकेश परिवारितः । समुद्रमध्यमासाथ दुरात्मायं सुखी किल ॥ ६५ ।। ततो निगहने युद्धे प्रवृत्ते खरदूषणः । शते तस्य पुत्राणां कथंचिदपवर्तितः ।। ६६ ।। संग्रामे संशयो माभूत्प्रमादोस्थेति निश्चयः । परित्यक्ता महायुद्धधिपणा कालदिना ॥ ६७ ॥ अंतस्तत्प्रतिकाराय त्वयावश्यमिहागमः । कर्तव्यो नैव कर्तव्ये प्रस्खलंति भवाशाः ॥ ६८}} अवधार्य त्वया साध विधास्यामोध सांप्रत । भापि तेजसां कृत्यं कुरुते रणसंगतः ॥ ६९.१ पद्मपुराणम्। T 1 पोडश पर्व। F ततो लेखार्थमावेद्य वायवे निर्विलवितं । गमने सम्मंतिं चक्ने कृतमंत्रः सुमंत्रिभिः ॥ ७० ॥ अथ तं गमने सक्तं जानुस्पृष्टमहीतलः । वायुय॑ज्ञापयत्कृत्वा प्रणामं रचितांजलिः ।। ७१.॥ नाथ ते गमनं युक्तं विद्यमाने कथं मयि । अलिंगनफलं कृत्यं जनकस्य सुतैर्ननु ॥ ७२ ।। ततो न जात एवास्मि यदि ते न करोमि तत् । गमनाज्ञाप्रदानेन प्रसादं कुरु मे ततः ॥ ७३ ।। ततः पिता जगादैन कुमारोऽसि रणे भवान् । आगतो न कचित्खेदं तस्मादास्व बजाम्यहं ७४ उन्नमय्य ततो वक्षःकनकाद्रितटोपमं । पुना राज्योद्धरं वाक्यं जगाद पवनंजयः ॥ ७५ ॥ तात मे लक्षणं शक्तेस्त्वयैव जननं ननु । जगद्दाहे स्फुलिंगस्य किंवा वीर्य परीक्ष्यते.॥ ७६ ॥ भवच्छासनशेषातिपवित्रीकृतमस्तकः । भंगे पुरंदरस्यापि समर्थोऽस्मि न संशयः ॥ ७७ ॥ अभिधायेति कृत्वा च प्रणाम प्रमदी पुनः । उत्थायानुष्ठितस्त्रानभोजनादिवपुःक्रियः ॥ ७८ ॥ सादरं कुलवृद्धाभिर्दचाशीः कृतमंगलः । प्रणम्य भावतः सिद्धान् दधानः परमां द्युति ॥ ७९ ॥ वाष्पाकुलिननेवाभ्यां मंगलध्वंसभीतितः । आशीर्दानप्रवृत्ताभ्यां पितृभ्यां मूर्ध्नि चुंचितः ॥८॥ आपृच्छय बांधवान् सर्वानभिवाद्य च सस्मितः । संभाष्य प्रणतं भक्तं परिवर्गमशेपतः ॥८१॥ दक्षिणेनांघ्रिणा पूर्व कृतोञ्चालः स्वभावतः । दक्षिणेन कृतानंदः स्फुरता बाहुना मुहुः ॥ ८२॥ -- २४
षोडश पर्व।
३७७
पमपुरापाय।
1
F
F
स पल्लवमुखे पूर्णकुंभे निहितलोचनः । कामन् भवनादेप. सहसेक्षत गेहिनी ।। ८३.॥
द्वारस्तंभनिषण्णांगा वाष्पस्थगितलोचनों । नितंयनिहितग्रंसिनिरादरचलबुर्जा ॥८४ ।।
तांबूलरागनिर्मुक्तधूसरद्विजयासस । तस्मिन्नेव-समुत्कीर्णा मलिनों सालभंजिका ।।.८५ 1,
विद्युतीय ततो दृष्टिं तस्यामापनिवां धणान् । सहस्य कृपितोऽवादीदिति प्रहादनंदनः ॥ ८६ ॥
अमुष्मादवसामु देशादपि दुरीक्षणे । उल्कामिय समर्थोई भवतीं न निरीक्षित ।। ८७ ॥
अहो कुलांगनायास्ते प्रगल्भत्वमिदं परं । यत्पुरोनिष्ट्रयमाणापि तिष्ठसि पयोजिमतें ॥ ८॥
ततात्यंतमपि ङ्करं नद्वाक्यं भर्तृभक्तितः । पितेव चिराष्लन्धममृतं मनसा पपी ।। ८९ ॥
जगाद चांजलिं कृत्वा तत्पादगतलोचना । संस्खलंती मुहुर्वाचमुद्भिरती प्रयत्नतः ॥ १० ॥
तिष्ठतापि त्वया नाथ भुवनेन विवर्जिता | त्वत्सामीप्यकतावासा जीवितास्म्यतिकूलतः ९१
जीविष्याम्यधुना स्वामिन्कपं.दूरंगते त्वयि । त्वत्सद्वचामृतास्वादस्मरणेन विनातुरा. ॥ १२ ॥
कृतं छेकगणस्यापि त्वया संभाषणं प्रभो । पियासुना परं देशमतिस्नेहार्द्रचेतसा ।। ९३ ॥
अनन्यगतचिंत्ताहं त्वदसंगमदुःखिता। कथं नान्यसुखेनापि त्वया संभापिता विभो ।। ९४ ।।
त्यकाया मे त्वया नाथ समस्तेप्यत्र पिएपे । विद्यते शरणं नास्पदधवा मरणं भवेत् ॥ ९५ ॥
. + । ६ . पद्मपुराणम् । . । . प . 1 - }} .. ३७१!!" पोडश पर्व। .. ततस्तेन नियस्वेति संकोचितमुखेन सा । सती निगदितापप्तद्विषण्णा धरणीतले.॥.९६ ॥ वायुरप्युत्तमामृद्धिं दधानः कृपयोज्झितः । परमं नागमारुह्य सामंतैः प्रस्थितः समं ।। ९७ ।। वासरे.प्रथमे वासी संप्राप्तो मानसं सरः। आवासयत्तटे तस्य सेनामश्रांतवाहनः ।। ९८ ॥ तस्यावतरतः सेना शुशुभे नमसस्तलात् । सुरसंततिवन्नानायानशस्त्रविभूपणा ॥ ९९ ॥ आत्मनो बाहनानां च चक्रे कार्य यथोचितं । स्नानप्रत्यवसानादि विद्याभृद्भिः सुमानसैः १०० अथ विद्यायलादाशु रचिते हेमभूमिके । युक्तविस्तारतुंगत्वे प्रासादे चित्तहारिणि ॥ १०१ ।। सहोपरितले कुर्वन् स्वैरं मित्रेण संकथा । परासनगतो भाति संग्रामकृतसम्मदः ॥ १०२.।। गवाक्षजालमार्गेण छिद्रेण तटभूमहान् । ईक्षांचके सरो वायुमंदवायुविघहितं.॥ १०३ ।। भीमः कूमपर्नर्मकरैर्दर्पधारिभिः । मिन्नवीचिकमन्यैश्च यादोभिरिति, भूरिभिः ॥ १०४ । धौतस्फटिकतुल्यांभः कमलोत्पलभूपितं । हंसैः कारंडुवैः क्रौंचः सारसंश्योपशोभितं ।। १०५ ।। मंदफोलाहलं देशं मनाश्रोत्रमलिम्लुचं । तदंतरश्रुतोदात्तभ्रमरीकुलझंकृतं ॥ ११६ ॥ ५ ॥ तत्र चैकाकिनीमेकामाकुलां चक्रवाकिको । वियोगानलसंतप्तां नानाचेष्टितकारिणी ।। १०७ ॥ अस्ताचलसमासनभानुकिंवगवेक्षणां । पद्मिनीदलरंधेषु मुहुन्य॑स्तनिरीक्षणां ॥ १०८.||..
. ३७२ . - पोर्श पर्व। पद्मपुराणम् । धुन्वानां पक्षती वेगात्पातोत्पातकृतश्रमा । मृणालशकलं स्वादु पश्यंती दुःखिता विपं ।।१०९॥ प्रतिवित्रं निजं दृष्ट्वा जले दयितशंकिनी । आइयंती तदप्राप्त्या बजती परमां शुंचं ॥ ११० ॥ नानादेशोद्भवं श्रुत्वा प्रतिशन्दं प्रियाशया । भ्रमं चक्रमिवारूदां कुर्वती साधुलोचनां ।।१११॥ तटपादपमारुह्य न्यस्यंती दिक्षु लोचने । तत्रादृष्ट्वा पुनः पातमाचरंती महाजवं ॥ ११२ ।। उन्नयंती रजो दूरं पमना पक्षधूतिभिः । चिरं नद्तया दृष्टया ददर्शासी कृपादृतः ॥ ११३ ।। इति चानितयत्कष्टं प्राप्समस्या इदं वरं । यत्प्रियेण वियुक्तेयं दह्यते शोकवादिना ॥ ११४ ॥ तदेवेदं सरो रम्यं चंद्रचंदनशीतलं । दावकल्पमभूदस्याः प्राप्य नाथवियुक्ततां ॥ ११५ ॥ रमणेन वियुक्तायाः पल्लयोप्यति खतां । चंद्रांशुरपि वज्रत्वं स्वर्गोऽपि नरकायते ॥ १६॥ इति चिंतयतस्तस्य प्रियायां मानसं गतं । तत्प्रीत्या चैक्षनोद्देशास्तद्विवाहेनिपेवितान् ॥ ११७॥ चक्षुपो गोचरीभूतास्तस्य ते शोकहेतवः । बभूवुर्मर्मभेदानां कर्तार इव दुस्सहा ॥.११८.।। अध्यासीचेति हा कष्टं मया सा क्रूरचेतसा । मुक्तयमिव चक्राहा वैक्रव्यं दयितागमत् ॥११९॥ यदि नाम तदा तस्याः सख्याभाष्यत निष्ठुरं । ततोन्यदीपदोपेण कस्मात्सा वर्जिता मया१२० धिंगस्मत्सदृशान्मूर्खानप्रेक्षापूर्वकारिणः । जनस्य जीविना युक्तं ये कुर्बत्यसुखासनं ॥ १२१ ।।
३७३
पोडशं पर्व।
+
पद्मपुराणम् ।
३
4
मम पत्रमयं नूनं हृदयं पापचेतसः । प्रत्यवस्थित यत्कालमियंत तां प्रियां प्रति ॥ १२२ ॥
किं करोम्पधुना तातमापृच्छच निरितो गृहात् । कथं तु विनिवर्तेहमहो प्राप्तोऽसि संकटं १२३
बजेयं यदि संग्रामं जीवेन्नासौ ततः स्फुटं । तदभारे ममामावः स्वतश्च गुरु नापरं ॥ १२४ ।।
अथवा सर्वसंदेहग्रंथिभेदनकारणं । विद्यते मे परं मित्रं तत्रेदं तिष्ठते शुभे ॥ १२५ ॥
तस्मात्पृच्छाम्यमुं तावत्सर्वाचारविशारदं । निश्चित्य विहिते कार्ये लभंते प्राणिनः सुसं॥१२६॥
इति च ध्यातमेतेन दृष्ट्वा चैवं विचेतसं । मंदं प्रहमितोपृच्छद्देवं तदुःखदुःखितः ॥ १२७ ॥
ससे प्रतिनरोच्छेदकृतये प्रस्थितस्य ते । कस्मादनमयेवं विषण्णमिव दृश्यते ॥ १२८ ।।
अपत्रपां विमुच्याशु मह्यं सुजन वेदय । नितांतमाकुलीभावो जातो मे भवतीशि ॥ १२९ ।।
ततोसावेवमुक्तः सन् कृच्छनिस्त्रपया गिरा | जगादेति परं भ्रंशं दूरधैर्यादुपागतः ॥ १३० ॥
शृणु सुंदर कस्यान्यत्कथनीयमिदं मया । ननु सर्वरहस्यानां त्वमेव मम भाजनं ॥ १३१,॥
स त्वं कथयितुं नैतदन्यस्सै सुहृदर्हसि । त्रपा हि वस्तुनानेन जायते परमा मम ॥ १३२ ॥
ततः प्रहसितोऽवोचद्विश्रब्धस्त्वं निदय । त्वयाहि वेदितो मेर्थस्तप्ताऽयोगत-बारिवत् ॥१३३॥
ततो वायुरुवाचेदं भृणु मित्रांजना मया । न कदाचित्कृतप्रीतिरिति मे दुःखितं मनः ॥१३४॥
. । ३७६ पद्मपुराणम् । योदशं पर्व । कल्याणि मामणीरेवं क्षमस्व जनितं मया । आगो विचारशून्येन पापावष्टब्धचेतसा ॥ १६१ ॥ प्राप्तानि विलयं नूनं दुष्कर्माणि तवाधुना, येन प्रेमगुणाकृष्टो जीवितेशः समागतः ॥ १६२ ।। अधुनास्मिन प्रसनेति किं न जातं सुखावह । ननु चंद्रेण शर्वर्याः संगमे का न चारुता ॥१६३॥ नतः क्षणं स्थिता चेदं जगादजिनसुंदरी । प्रतिनिस्वनवत्येवं सख्यनूदितया गिरा ।। १६४ ॥ असंभाव्यमिदं भद्र ? यथा वर्ष जलोज्झितं । भवत्यप्यथवा काले कल्याणं कर्म चोदितं १६५ तथास्तु स्वागतं तस्य जीवितस्येशितुर्मम । अद्य मे फलितः पूर्वशुभानुष्ठानपादपः ।। १६६ ।। यदत्यामेवमेतस्यामानंदात्यामचक्षुपि । तत्सख्ययांतिक नीतस्तस्याः करुणया प्रियः ॥ १६७ ॥ अस्तसारंगकांताक्षी दृष्ट्वा तं परमोत्सवं । जानुद्वयासकृन्न्यस्तस्रस्तपाणिसरोरुहा ॥ १६८ ॥ स्तंभवत्प्रसता कांडा वेपथुश्रितविग्रहा । शनैरुत्थातुमारब्धा शयनस्था प्रयासिनी ।।.१६९ ।। अथालमलमेतेन देवि क्लेशविधायिना । संभ्रमेणेति वचनं विमुंचनमृतोपमं ॥ १७०॥ समुत्थितां प्रियां कृपादंजलिं बद्धमुद्यतां । गृहीत्वा दयितः पाणी शयने समुपरविशत् ११७१।। स्वेदी पाणिरसौ तस्याः परमं पुलकं वहन् । प्रियस्पर्शामृतेनेव सिक्तो व्यामुंचदंकुरान् ।।१७२।। नवा वसंतमाला तं कृत्वा भाषणमादरात् । साकं प्रहसितेनास्थाद्रम्ये कक्षांतरे सुरवं ।। १७३ ।। T
पद्मपुराणम् ।
३७७
पोडश पर्व।
अथानादरतः पूर्व अपमाणः स्वयंकृतात् । पवनः कुशलं पृष्टुं न प्रावर्तत चेतसा ॥ १७४ ॥
विलक्षस्तु प्रिये मृष्य मया कर्मानुभावतः । निकारं कृतमित्यूचे तत्क्षणाकुलमानसः ॥ १७५ ॥
आद्यसंभाषणात्सापि वहंती नतमाननं । जगाद मंदया वाचा निश्चलाखिलविनहा ।। १७६ ॥
न कश्चिजनितो नाथ त्वया परिभवो मन । अधुना कुर्वता स्नेहं मनोरथसुदुर्लभं ॥ १७७ ।।
स्वत्स्मृतिबद्धं मे वहत्या ननु जीवितं । त्वदायत्तो निकारोपि महानंदसमोऽभवत् ।। १७८ ।।
अथैव भापमाणाया विधाय चिचुकेंगुलिं । उन्नमय्य मुखं पश्यन् जगाद पवनंजयः ॥ १७९ ॥
देवि सर्वापराधानां विस्मृत्यै तव पादयोः । प्रणाममेप यातोस्मि प्रसादं परमं ब्रज ॥ १८० ।।
इत्युक्त्या स्थापितं तेन मूर्द्धानं पादयोः प्रिया । स्वरया करपद्माभ्यामुन्नेतुं व्यापृताभवत् १८१
तथावस्थित एवासौ ततोवोचत्प्रियं वचः । प्रसन्नोस्मीति येनाहमुद्यच्छामि शिरः प्रिये ॥१८२।।
क्षातमित्युदितोथासायुन्नमय्यांगमुत्तमं । चक्रे प्रियासमाश्लेषं सुखमीलितलोचनः ॥ १८३ ॥
आश्लिष्टा दयितस्यासौ तथा गात्रेवलीयत । पुनर्वियोगभीतेव ज्ञातांतर्विग्रहं यथा ॥ १८४ ॥
आलिंगनविमुक्तायास्तस्यास्तिमितलोचनं । मुखं मुक्तनिमेषाभ्यां लोचनाभ्यां पपौ प्रियः १८५
पादयोः करयो भ्यां स्तनयोश्वियुकेलिके । गंडयोर्नेत्रयोश्वास्याश्चुंबनं मदनातुरः ॥ १८६ ॥
पोडश पर्व। . 1 १ . ३७८ . पद्मपुराणम्। " पुनः पुनश्रकारासो स्वेदिना पाणिना स्पृशन् । आससेवा हि सा नूनं क्रियते वक्त्रचुंबने १८७ ततः प्रपुराजीवगर्भच्छदसमप्रभ । स पपावधरं तस्या विमुचंतमिवामृतं ॥ १८८11.., . नीवीविमोचनव्यग्रपाणिमस्यत्र पावती ! रोदुमच्छन्नचाशक्ता पाणिना वेपथुश्रिता ।। १८९ ।। ततो नितंवफलकं दृष्ट्वास्या असनोज्झितं । उवाह हृदयं वायुमनोभूवेगरंगितं ॥ १९० ।। अथ केनापि वेगेन परायत्तीकृतात्मना । गृहीता दयिता . गादं पवनेनाब्जकोमला ॥ १९१ ॥ यथा ब्रवीति वैदग्ध्यं यथा ज्ञापयति स्मरः । अनुरागो यथा शिक्षा प्रयच्छति महोदयः.१९२ तथा नयो रतिः प्राप्ता दंपत्योवृद्धिमुत्तमा । काले तत्र हि यो भावो नैवाख्यातुं स पार्यते ,१९३ स्तनयोः कुंभयोरेप जघने चांगनोत्तमा । आस्फालयन् समारूढो मनोभवमहागजं ॥ १९४॥ विष्ठ मुंच गृहाणेति नानाशब्दसमाकुलं । तयोर्युद्धमियोदारं रतमासीत्सविभ्रमं ॥. १९५ ।। : अधरग्रहणे तस्याः पुरुसीत्कारपूर्वकं । प्रविधूतः करो रेजे लताया इव पछयः ।। १९६॥ प्रियदत्ता नवास्तस्या नखांका जघने बभुः । वडूर्यजगतीमागे पद्मरागोगमा इव ॥ १९७ ।। तस्याः सेचनकत्वं तु जगाम जपनस्थलं । निमेपमुक्ततनिटमुकुलीभूतचक्षुषः ॥ १९८ ।। वलयाना रणत्कारः कलालापसमन्वितः । तदा मनोहरो जज्ञे भ्रमरोघरवोपमः ॥ १९९ ॥:: - पाडश पव . . पापुराणम् . । ॥ - पापुरांणम् । तस्यास्त काम्यमानाया नेत्रकेकरतारक । मुकुले दधतुः शोभा चलालींदीवरस्थिती ॥ २० ॥ प्रस्वेदविदुनिकरस्तस्या मुखकुचोद्गतः । स्वच्छमुक्ताफलाकारो रतस्यांतेऽत्यराजत ॥ २०१॥ रदग्रहारुणीभूतं साघरं विधती बभौ । पलाशयनराजीव समुद्भूतककिंशुक्रः ।। २०२॥१॥ प्रियमुक्तातनुस्तस्यां ऊहे कांतिमनुत्तमा । कनकाद्रितटाश्लिष्टयनपंक्तिकृतोपमा । २०३ ।। ततः संप्राप्तकृत्ये तो समाप्ते सुरतोत्सवे । दंपती सेवितुं निद्रां खिन्नदेहावांछतां । २०४ ॥ परस्परंगुणध्यानवशमानसयोस्तु सा । इर्ण्ययेव तयोर्दूरं कोपात्कापि पलायिता । २०५ ॥ ततः प्रियां स देशस्थदयितामूर्द्धदेशकं । कृतान्योन्य जाइलेप परमप्रेमकीलितं ।। २०६ ॥ महासौरभनिश्वासवासितास्यसरोरुह । विकटोरःपरिष्वंगचक्रितस्तनमंडलं ॥ २०७ ॥ नरोर्वतरनिक्षिप्तवनितकोरुभारकं । यथेष्टदेशविन्यस्तनानाकारोपधानकं । २०८ ।। नागीयमिव तत्कातं मिथुनं कथमप्यंगात । निद्रा स्पर्शसुखांभोधिनिमग्नालीनविग्रहं ।। २०९ ।। जाते. मंदप्रभातेथ शयनीयात्समुत्थिता । पाश्र्वासनस्थिता कांतमंजना पर्यषेवत ॥ २१०॥ दृष्ट्वा परिमलं देहे स्वस्मिन् साभूत्रपावती । प्रमदं च परिप्राप्ता चिराल्लन्धमनोरथा ॥ २११ ।। तयोरज्ञातयोरेवं यथोचितविधायिनोः । अतीयाय निशानेका क्षणादर्शनभीतयोः ॥ २१२ ।। .:; । । + पद्मपुराणम्। ससदश पर्व। रतव्यतिकरच्छिन्नहारमुक्ताफलाचिवात् । पुष्पगंधपरागोरुसौरभाकप्टपटपदात् ।। २३९ ॥ तरंगिच्छदपटाद् दुग्धान्धिद्वीपसन्निभाद । शयनीयात्समुत्तत्या प्रियास्थितमानसः ।।२४० ॥ मंगल सभीत्या च प्रियया साश्रुनेनया । अदृष्टिगोचरं दृष्टः ममित्रो वियद्ययौ ॥ २४१ ।। कदाचिदिह जायते स्वकृतकर्मपाकोदया । रसुसं जगति संगमादभिमतस्य,सहस्तुनः ।। कदाचिदपि संमपत्यसुभृताममोरयं परं । भो भरति न स्थितिः समगुणा यतासर्वदा २४२ अथापि जननात्मभृत्यपिरतं सुसं प्राणिनां । मृतोरपिरतो भोत्तनु तथाप्यमुनासुसं ॥ ततो भजत भो जनः सत्ततभूरिसख्याहं । भासुस्वतमश्छिदं जिनपरोक्तधर्म रनिंबा२४३।। इत्या रविषणाचार्यमोक्ते पन चरिने पवनाजनासभोगाभिधान नाम पोडश पर्व । अथ सप्तदशं पर्व। कियत्यपि प्रयानेथ काले गर्भस्य सूचकाः । विशेषाः प्रादुरभान्महेंद्रतनयातनी १ इयाय पाडुतां छाया यशसेर हनूमतः । मतिमंदतरत्वं च मतिर्दिनागरिभ्रमा ॥ २ ॥ स्तनावत्युननि प्राप्ती श्यामलीभूतचूचुकी । आलस्पाभ्रूसमुत्क्षेपं चकार विषयो गिरः ॥३॥ -- + सप्तदशं पर्व। पद्मपुराणम्। -- ततस्ता लक्षणैरेभिः श्वश्रुर्विज्ञाय गर्भिणी । पप्रच्छ तव केनेदं कृतं कर्मेत्यसूयिका ॥ ४ ॥ सांजलिः सा प्रणम्पोचे निखिलं पूर्वचेष्टितं । प्रतिषिद्धापि कांतेन गतिमन्यामविंदती ॥५॥ ततः केतुमती द्रा जगादेति सुनिष्ठुरं । वाणीमिविदेहाभिस्ताडयंतीच यष्टिभिः ॥६॥ यो न त्वत्सदृशं पापे दृष्टुमाकारमिच्छति । शब्दं वा श्रपणे कर्तुमविद्वेपपरायणः ॥७॥ स कथं स्वजनापृच्छां कृत्वा गेहाद्विनिर्गतः । भवत्यां संगम धीरः कुर्वीत विगतत्रपे ॥८॥ धिक् त्वां पापां शशांकांशुशुभ्रसंतानपिणीं । आचरंती क्रियामेतां लोकद्वितयनिंदितां ॥९॥ सखी वसंतमाला ते साध्वीमेतां मति ददौ । वेश्या वा कुलटानां किं कुर्वति परिचारिका ॥१०॥ दर्शितेऽपि तदा तस्मिन्कटके फरमानसा | प्रतीयाय न सा श्वश्रूकोपात्य॑तमुग्रवार ॥ ११ ॥ इत्युक्त्या क्रूरनामानं क्रूर माय किंकरं । कृतप्रणाममित्यूचे कोपारुणनिरीक्षणा ॥ १२ ॥ अयि क्रूराशु नीत्वेमां महेंद्रपुरगोचरं । यानेन सहितां सख्या निक्षिप्यहि निरंतरं ॥ १३ ॥ ततस्तद्वचनादेतां पृथुवेपथुविग्रहां । महापवननिधूता लतामिव निराश्रयां ॥ १४ ॥ ध्यायंतीमाकुलं भूरिदुःसमागामि निष्प्रभा । विलीनमिव विभ्राणां हृदयं दुःस्वयहिना ।।१५॥ भीत्या निरुत्तरीभूतां सरखीनिहितलोचनां । निंदतीमशुभं कर्म मनसा पुनरुद्दतं ॥ १६ ।।
सप्तदशं पर्व। ३८२ पद्मपुराणम्। -- रतव्यतिकरच्छिन्नहारमुक्ताफलाचितात् । पुष्पगंधपरागोरुमारभाकष्टपदपदात् ।। २३९ ॥ तरंगिच्छदपटाद् दुग्धान्धिद्वीपमनिभात् । शयनीयारसमुत्तत्यौ प्रियास्थितमानसः ॥२४० ॥ मंगल सभीत्या च प्रियया साचनेनया । अदृष्टिगोचरं दृष्टः ममिनो प्रियदुद्ययौ ॥२४१ ॥ कदाचिदिह जायते स्वकनकर्मपाकोदया । रसुसं जगति संगमादभिमतस्य सहस्तुनः ।। कदाचिदपि संभवत्यसुभृताममारयं परं । भरे भाति न स्थितिः समगुणा यतःसवेदा २४२ अथापि जननात्मभृत्यनिरतं सुख प्राणिनां । मृतोरविरतो भोत्तनु तथाप्ययुनासुसं ॥ ततो भजत भो जनः सततभूरिसाख्यारह । भवासुरवतमश्छिदं जिनवरोक्तधर्म रवि ॥२४३॥ इत्याचे रविपणाचार्यप्रोक्त पद्म-चरिते पवनाउनासंभोगाभिधान नाम पोडश पर्व । अथ सप्तदशं पर्व। कियत्यपि प्रयातेभ्ध काले गर्भस्य सूचकाः । विशेषाः प्रादुरभयन्महेंदूतनयातनौ ॥१॥ इयाय पांडुतां छाया यशसेव हनूमतः ! मतिर्मदतरत्वं च मतिर्दिनागनिभ्रमा ॥ २ ॥ स्तनावत्युवनि प्राप्ती श्यामलीभूतचूचुकी । आलस्पासमुत्क्षेष चकार विषयो गिर। ॥३॥ - 44
14
सप्तदशं पर्व।
पद्मपुराणम्।
V
ततस्ता लक्षणैरेभिः श्वश्रूर्विज्ञाय गर्भिणी । पप्रच्छ तव केनेदं कृतं कर्मेत्यसूयिका ॥ ४ ॥
सांजलिः सा प्रणम्योचे निखिलं पूर्वचेष्टितं । प्रतिपिद्धापि कांतेन गतिमन्यामविंदती ॥५॥
ततः केतुमती क्रुद्धा जगादेति सुनिष्ठुर । वाणीमिविदेहाभिस्ताडयंतीव यष्टिभिः ॥ ६॥
यो न त्वत्सदृशं पापे दृष्टुमाकारमिच्छति । शब्दं वा श्रवणे कर्तुमतिद्वेपपरायणः ॥७॥,
स कथं स्वजनापृच्छां कृत्वा गेहाद्विनिर्गतः । भवत्यां संगम धीरः कुर्वीत विगतत्रपे ॥८॥
धिक त्वां पापां शशांकांशुशुभ्रसंतानपिणी । आचरंती क्रियामेतां लोकद्वितयनिंदितां ॥९॥
ससी वसंतमाला ते साध्वीमेतां मतिं ददौ । वेश्या वा कुलटानां किं कुर्नति परिचारिका ॥१०॥
दर्शितेऽपि तदा तस्मिन्कटके फरमानसा | प्रतीयाय न सा श्वश्रूकोपात्यंतमुग्रवाक् ॥ ११ ॥
इत्युक्त्वा क्रूरनामानं क्रूर माहूय किंकरं । कृतप्रणाममित्यूचे कोपारुणनिरीक्षणा ॥ १२ ॥
अयि कूराशु नीत्वमा महेंद्रपुरगोचरं । यानेन सहितां सख्या निक्षिप्यहि निरंतरं ॥ १३ ॥
ततस्तद्वचनादेतां पृथुवेपथुविग्रहां । महापवननिभृतां लतामिव निराश्रयां ॥ १४ ॥
ध्यायंतीमाकुलं भूरिदुःखमागामि निष्प्रभा । विलीनमिव विभ्राणां हृदयं दुःखबहिना ॥१५॥
भीत्या निरुत्तरीभूतां सखीनिहितलोचनां । निंदतीमशुभं कमें मनसा पुनरुद्गतं ॥ १६ ॥
सप्तदशं पर्व। 1 - पद्मपुराणम् ३८४ अश्रुधारां विमुंचती शलाकास्फाटिकीमिच । स्तनमध्ये क्षणं न्यस्तपर्यंतामनवस्थितां ॥ १७ ॥ सख्या समं समारोप्य यानं तत्कर्मदक्षिणः । क्रूरः प्रवडते गंतु महेंद्रनगर प्रति ॥ १८ ॥ . दिनांत तत्पुरस्यांत संप्राप्योवाच सुंदरीं । एवं मधुरया वाचा क्रूरः कृतनमस्कृतिः ॥ १९ ॥ स्वामिनीशासनादेवि कृतमेतन्मया तव । दुरवस्य कारणं कर्म ततो न क्रोडुमर्हसि ॥ २० ॥ एवमुक्त्वावतायतां यानात्सख्या समन्वितां । स्वामिन्यै द्रुतमागत्य कृतामातां न्यवेदयत् २१ ततोजना समालोक्य दुःखमारादिवोत्तमा । मंदीभूतप्रमाचक्ररविरस्तमुपागमत् ॥ २२ ॥. लोचनच्छाययेवास्या रोदनात्यंतशोणया । रवित्राणाय पश्यंत्या पश्चिमाशारुणाऽभवत् ॥ २३ ।। ततस्तदुःखितो मुक्तप्पिरिव धनरलं । दिग्भिनिरंतरं चक्रे श्यामलं नभसस्तलं ॥ २४ ॥ तद्दुःखादिव संप्राप्ता दुःश्वसंघातकारिणः । कुलायेष्वाकुलाचक्रुर्वयः कोलाहलं परं ॥ २५ ॥ नतो दुःखमविज्ञाय सा क्षुदादिसमुद्भवं । अभ्याख्यानमहादुःखसागरप्लवकारिणी ॥२६॥ भीतांतर्वदनं साथु कुर्वती परिदेवनं । सख्या विरचिते तस्थौ पल्लवे संस्तरेजना ॥ २७ ॥ न तस्या नयने निद्रा तस्यां रात्रावीकत । दाहादिव भये प्राप्ता संततोष्णाचसंभवात् ॥२८॥ पाणिसंवाहनात्सख्या विनितपरिश्रमा । सांत्वमाना निशां निन्ये कुन्द्रेणासी समासमं, १२९।।
सप्तदश पर्व । पद्मपुराणम् । ततो दीर्घोष्णनिश्वासनितांतम्लानपल्लवं । प्रभाने शयनं त्यक्त्वा नानाशकातिविक्लवा ।। ३०॥ कृतानुगमना सख्या छाययेवानुकूलया । ऐत्पितुर्मदिरद्वारं सकृपं वीक्षिता जनैः ॥ ३१ ॥ ततस्तत्प्रविशंती सा निरुद्धा द्वाररक्षिणा | प्राप्ता रूपांतर दुःवादविज्ञाता व्यवस्थिता ॥ ३२॥ ततो निखिलमेतस्याः सख्या कृतनिवेदितं । विज्ञाय स्थापयित्वान्यन्नरं द्वारे ससंभ्रमः ।। ३३ ।। गत्वा शिलाकवाटाख्यो द्वारपालः कृतानतिः । सुतागमं महीपाणिरुषाधीशं व्यजिज्ञपत् ॥३४॥ ततः प्रसन्नकीर्ताख्यं महेंद्रः पार्थगं सुतं । आज्ञापयन् महाभूत्या तस्याः शीघ्रं प्रवेशनं ॥३५।। पुरस्य क्रियतां शोभा साधनं परिसज्जतां । स्वयं प्रवेशयामीति पुनरूचे नराधिपः ॥ ३६ ।। जगादासौ ततस्तस्मै द्वारपालो यथास्थितं । सुतायाश्चरितं कृत्वा वदने पाणिपल्लवं ॥ ३७ ।। ततः श्रुत्वा त्रपाहेतुं पिता तस्या विचंटितं । प्रसन्नकीर्तिमित्यूचे परम कोपमागतः ॥ ३८ ॥ निर्वास्थतां पुरादस्मादरं सा पापकारिणी । यस्या मे चरितं श्रुत्वा वज्रेणेवाहत श्रुती ॥ ३९ ।। ततो नाना महोत्साहः सामंतोऽस्यातिवल्लभः । जगाद नाथ नो कर्तुमेवं कर्तुमिमां प्रति ४० वसंतमालया ख्यातं यथास्मै द्वाररक्षिणे । एवमेव न युक्ता तु विचिकित्सा विकारिणा ॥ ४१ ।। श्वश्रूः केतुमती क्रूरा लौकिकश्रुतिभाविता | अत्यंतमविचारास्या विना दोपात्कृतोज्झिता ॥४२।। २५ - . सप्तदर्श पर्व। ३८६ पद्मपुराणम्। + क्रयेयं यथा त्यक्ता कल्याणाचारतत्परा | भवतापि विनिर्धूता शरणं के प्रपद्यतां ॥ ४३ ॥ व्याघ्रदृष्टमृगीवेयं मुग्धास्या त्रासमागता । श्वश्रूतस्त्वां महाकक्षसमं शरणमागता ।। ४४ ॥ सेयं निदायसूर्याशुसंतापादिव दुःखिता । महातरूपम याला विदित्वा त्वां समागता ॥ ४५ ॥ श्रीवत्स्वर्गात्परिभ्रष्टा वराकी विह्वलात्मिका । अभ्याख्यानतया लीदा कल्पवल्लीव कंपिनी ४६ द्वारपालनिरोधेन मुतरामागता अपां । वैलक्ष्यादंशुकेनांगमवगुंठ्य समूर्द्धकं ।। ४७ ॥ पितृस्नेहान्यिता द्वारे सदा दुर्लडितात्मिका । तिष्ठतीत्यमुना ख्यातं द्वारपालेन पार्थिव ॥४८॥ स त्वं कुरु दयामस्यां निर्दोपयं प्रवेश्यता 1 ननु केतुमत्ती ज्ञाता करा कस्य न, विष्टपे ॥ ४९।। तस्य तद्वचनं श्रोत्रे राजश्वके न संश्रयं । नलिनीदलविन्यस्तं बिंदुजालमिवांसभः ॥ ५० ॥. जगाद च सम्वी स्नेहात्कदाचित्सत्यमप्यदः । अन्यथा कथयत्केन निश्चयोचारधार्यते ॥५१॥ तस्मात्संदिग्धशालेयमाशु निर्वास्थतामतः । नगराधावदमले कुले नो जायते मलं.॥ ५२ ।। विशुद्धविनया चावर्षी चारुचेष्टाविधायिनी । मवेदभ्यर्दितात्यंतं कस्य नो कुलबालिका ॥ ५३॥ पुण्यवंतो महासत्वा पुरुषास्तेऽतिनिर्मलाः । यैः कृतो दोपमूलानां दाराणां न परिग्रहः ॥५४॥ परिग्रहे तु दाराणां भवत्येवंविधं फलं | यस्मिन्गते सति ख्याति भूप्रदेशोभिवांछयते ॥५५।।
पद्मपुराणम् । सप्तदशं पर्व। दुःखप्रत्यायनस्वांतस्तावल्लोकोऽवतिष्ठतां । जातमेव ममाप्यत्र मनोऽद्य कृतशंकनं ।। ५६ ॥ एषा भर्तुरचक्षुष्या श्रुता पूर्व मयाऽसकृत् । ततस्तेन न संभूतिरस्या गर्भस्य निश्चिता ॥ ५७ ॥ तस्मादन्योऽपि यस्तस्मै प्रयच्छति समाश्रयं । वियोज्यः स मया प्राणैरित्येप मम संगरः।।५८॥ फुपिनेनेति सा तेन द्वारादविदिता परैः । निर्घाटिता समं सख्या दुःस्वपूरितविग्रहा ॥ ५९ ॥ यद्यत्स्वजनगेहं सा जगामाश्रयकांच्या । तत्र तत्राप्यधीयंत द्वाराणि नृपशासनान् ।। ६० ॥ यत्रव जनकः क्रुद्धो विदधाति निराकृतिं । तत्र शेपजने कास्था तच्छंदकृतचेष्टिते ॥ ६१ ॥ एवं निर्धाट्यमाणा सा सर्वत्रात्यंतविक्लवा । सखीं जगाद वाष्पौषसमार्दीकृतदेहिका ।। ६२ ।। अंबे इहात्र किं भ्रातिं कुर्वत्यावास्वहे सखि | पापाणहृदयो लोको जातोऽयं नः कुकर्मभिः ॥६३॥ पनं तदेव गच्छावस्तत्रैवास्तु यथोचितं । अपमानात्ततो दुःखान्मरणं परमं सुखं ॥ ६४ ॥ इत्युक्त्वासी समं सख्या तदेव प्राविशद्वनं । मृगीव मोहसंप्राप्ता मृगराजविभीपिता ॥ ६५ ।। वातावपपरिश्रांता दुःखसंभारपीडिता । उपविश्य वनस्पतिं सा चक्रे परिदेवनं ॥ ६६ ॥ हा इता मंदभाग्यास्मि विधिना दुःखदायिना । अहेतुवैरिणा कष्टं के परित्राणमाश्रये ॥ ६७ ॥ दौर्भाग्यसागरस्याते प्रसादं कथमप्यगात् । नाथो मे स गतस्त्यक्त्वा दुष्कर्मपरिचोदितः ॥६८||
सप्तदशं पर्य।
-
न
३८८
पद्मपुराणम् ।
श्वश्यादिकृतदुःखानां नारीणां पितुरालये । अवस्थानं ममापुण्यरिदमप्यवसारितं ॥ ६९ ॥
मात्रापि न कृतं किंचित्परित्राणं कथं मम । भर्तृच्छंदानुवर्तिन्यो जायते च कुलांगनाः॥ ७० ॥
त्वया विज्ञातगर्मायामप्यामीति त्वयादितं । हा नाथ वचनं कस्मात्स्मयते न कृपावता ॥७१॥
अपरीक्ष्य कथं श्वश्रु त्यक्तुं मामुचितं तव । ननु संदिग्धशीलानां संत्यपायाः परीक्षणे ॥७२ ।।
उत्संगलालिता वाल्ये सदा दुर्लडितास्मिकां । निप्परीक्ष्य पितस्त्यक्तुं मां कथं तेऽभवन्मतिः ७३
हा मातः साधुवाक्यं ते न कथं निर्गतं मुखात् । सकृदप्युत्तमा प्रीतिरधुना सा किमुज्झिता ७४
एकोदरोपितां भ्रातखातुं ते मां सुदु:खितां । कथं न काचिदुद्भूता चेष्टा निष्ठुरचेतसः ।।७।।
यत्र यूयमिदंचेष्टाः प्रधाना बंधुसंहतिः । तत्र कुर्चतु किं शेपा वराका दूरबांधवाः ।। ७६ ।।
अथवा कोऽत्र यो दोपः पुण्यातॊ मम निष्ठिते (?)। फलिते पुण्यवृक्षोयं निपेव्यो चशया मया ७७
प्रतिशब्दसमं तस्या विलापमकरोत्सखी । तदाकंदविनिर्धृतधैर्यरितमानसा ।। ७८ ।।
अत्यंतदीनभेतस्यां रुदंत्यां तारनिस्वनं । मृगीभिरपि निर्मुक्ताः सुस्थूला वाप्पविदवः ।। ७९ ॥
ततश्विरं रुदित्वनामरुणीभूतलोचना । सखी दोभ्यो समालिंग्य जगावं विचक्षणा ।। ८० ॥
स्वामिन्यलं रुदित्वा ते नन्ववश्यं पुराकृतं । नेत्रे निमील्य पोदव्यं को पाकमुपागतं ॥८१॥
म सप्तदशं पर्व । पद्मपुराणम् । ३८९ सर्वेषामेव जंतूनां पृष्ठतः पार्थतोऽग्रतः । कर्म तिष्ठति यदेवि तत्र कोऽवसरः शुचः ॥ ८२॥ अप्सराशतनेत्रालानिलयीभूतविग्रहाः । प्राप्नुवन्ति परं दुःखं सुकृतांते सुरा अपि ॥ ८३ ।। चिंतयत्यन्यथा लोकः प्राप्नोति फलमन्यथा । लोकव्यापारशक्तात्मा परमो हि गुरुविधिः।।८४॥ हितंकरमपि प्राप्त विधिनाशयति क्षणात् । कदाचिदन्यदा धत्ते मानसस्याप्यगोचरं ।। ८५ ।। गतयः कर्मणां कस्य विचित्राः परिनिचिताः। तस्मात्वमस्य माकार्षीय॑थां गर्भस्य दुःखिताः८६ आक्रम्य दशनैदेतान् कृत्वा ग्रावसमं मनः । कर्म स्वयं कृतं देवि सहस्वाशक्यवर्जनं ।। ८७ ॥ ननु स्वयं विबुद्धाया मया ते शिक्षणं कृतं । अघिक्षेप इवाभाति वद ज्ञातं न किं तव ॥ ८ ॥ अभिधायेति सा तस्या नयने शोणरोचिपी । न्यमार्ट वेपथोयुक्ता पाणिना सांत्वतत्परा ।।८९॥ भूयश्चोचे प्रदेशोयं देवि संश्रयवर्जितः। तस्मादुत्तिष्ठ गच्छावः पार्श्वमस्य महीभृतः ।।९।। गुहायामत्र कस्यांचिदगम्यायां कुजंतुभिः । सूतिकल्याणसंप्राप्त्यै समयं किंचिदास्वहे ॥ ९१ ।। ततस्तयोपदिष्टा सा पदवीं पादचारिणी । गर्भभाराद्विपञ्चारमसमर्था निपेवितुं ।। ९२ ॥ अनुयांती महारण्यधरणीं समयागिरि | व्यालजालसमाकीणों तन्नादात्यंतमीपणां ।। ९३ ।। महानोकहसंरुद्धदिवाकरकरोस्करां । महीभृत्पादसंकीर्णा दर्भसूचीसुदृश्चरी ।। ९४ ॥
सप्तदर्श पर्व ।
.
पद्मपुराणम् ।
युक्तो मतंगमालाभियस्यंती कृच्छ्रतः पदं । मतंगमालिनी भाम प्राप मानसदुर्गमा ।। ९५ ।।
शक्तापि गगने गंतुं पद्भ्यां तस्याः सखी ययौ । प्रेमबंधनसंबद्धा छायावृत्तिमुपाश्रिता ॥ ९६ ॥
भयानको ततः प्राप्य तामसी संकटादधीं । वेपमानसमस्तांगा कांदिशीत्वमुपागमत् ॥९७ ॥
ततस्तामाकुलां ज्ञात्वा गृहीत्वा करपल्लवे । आली जगाद मार्भपीः स्वामिन्येहीति सादरात् ९८
ततः सख्यसविन्यस्तविस्वंशिकरपल्लवा । दर्भसूचीमुखस्पर्शकणितेक्षणकोणिका ॥ ९९ ॥
तत्र तत्रैव भूदेशे न्यस्यंची चरणी पुनः । स्तनंती दुःखसंभारादेहं कृच्छ्रेण विधत्ती ।। १०० ।।
उत्तरंती प्रयासेन निर्झरान वेगवाहिनः । स्मरंती स्वजन सर्व निष्ठुराचारकारिणं ।। १०१॥
निदंती स्वमुपालंभं प्रयच्छंती मुर्विधः । कारुण्यादिव पल्लीमिश्लिष्यमाणाखिलागिका १०२
प्रस्तसारंगजायाक्षी श्रमजस्दवाहिनी । सक्तं कंटकिगुच्छेषु मोचयत्यंशुकं चिरात् ॥ १०३ ।।
क्षतजनाचिती पादौ लाक्षिताविध विभूती । शोकाग्निदाहसंभूतां श्यामां दधती परां ॥१०॥
दलेऽपि चलिते वार्स ब्रजंती चलचिग्रहा। संत्रासस्तमितापूस वदंती खेददुर्वहौ ॥ १०५ ॥
महुर्विश्रभ्यमानात्मा नितांतप्रियवाक्यया । गिरेः प्रापांजना मूलं शनकरिति दुःखिताः॥१०६॥
तत्र भारयित देहमसक्ता साश्रुलोचना । अपकर्ण्य सखीवाक्यं महाखेदादुपाविशत् ॥ १०७ ॥
३९१
पद्मपुराणम् ।
सप्तदशं पर्व।
.
जगाद च न शक्नोमि प्रयातुं पदमप्यतः । तिष्ठाम्यत्रैव देशेहं प्राप्नोमि मरणं वरं ॥ १०८ ॥
सांत्वयित्वा ततो वाक्यः कुशला हृदयंगमैः । विश्रमय्य प्रणम्योचे सख्येवं प्रेमतत्परा ॥१०९॥
पश्य पश्य गुहामेतां देवि नेदीयसी परां । कुरु प्रसादमुत्तिष्ठ स्थास्यावोऽत्र यथासुखं ॥११०॥
प्रदेशे संचरतीह प्राणिनः क्रूरचेष्टिताः । ननु ते रक्षणीयोयं गर्भः स्वामिनि मामुह ।। १११ ।।
इत्युक्वा सानुरोधेन सख्या वनभयेन च । गमनाय समुत्तस्थौ भूयोऽपि परितापिनी ॥ ११२ ।।
महानुभावतायोगादनुज्ञातेरभावतः । छीतश्च नांतिकं वायोरयासिष्टामिमे तदा ॥ ११३ ।।
हस्तावलंपदानेन ततस्तां विपमा भुवं । लंघयित्वा सखी कृच्छाद्गुहाद्वारमुपाहरन् ॥ ११४ ॥ .
प्रवेष्टुं सहसा भीते तत्र ते तस्थतुः क्षणं । विषमग्रावसंक्रांतिसंजातविपुलश्रमे ॥ ११५ ।।
विश्रांताभ्यां चिरादृष्टिस्तत्राभ्यां न्यासि मंदगा । म्लानरक्तशितिवेतनीरजस्रक्समप्रभा ११६
अपश्यतां ततः शुद्धसमामलशिलातले । पर्यकसुस्थितं साधु चारणातिशयान्वितं ।। ११७ ॥
निभृतोच्छ्वासनिश्वासं नासिकाग्राहितेक्षणं । ऋजुश्लथवपुर्यदि स्थाणुवचलनोज्झितं ॥ १८ ॥
अंकस्थवामपाण्यकन्यस्तान्योत्तानपाणिकं । निष्प्रकंप नदीनाथगांभीर्यस्थितमानसं ॥ ११९ ॥
भ्यायंतं वस्तुयाथात्म्यं यथाशासनभावनं । निश्शेपसंगनिर्मुक्तं वायुवद्गगनामलं ॥ १२० ॥
सप्तदशं पर्व।
३९२
पद्मपुराणम् ।
शैलकूटगताशंकं वीक्ष्य ताभ्यां चिरादसौ । निरवायि महासत्वः सौम्यभासुरविग्रहः ॥ १२१ ॥
ततः पूर्वकतानेकश्रमणासेवने मुदा । समीपं जग्मतुस्तस्य क्षणाने विस्मृतासुखे ॥ १२२ ॥
विपरीत्य च भावेन नेमतुर्विहितांजली । मुनि परमिव प्राप्ले बांधवं विकचेक्षणे ॥ १२३ ॥
काले यदृच्छया तत्र वेन योगः समाप्यते । भवत्येव हि भन्यानां क्रिया प्रस्तावसंगता ॥१२४ ।।
ते ततो वदतामेवमविभक्तकरद्वये । अनगारांघिविन्यस्तनिरसुस्थिरलोचने ।। १२५ ॥
भगवन्नयि ते देहे कुशलं कुशलाशय ! मूलमेप हि सर्वेषां साधनानां सुचेष्टित ॥१२६ ।।
उपर्युपरि संबद्धं तपः कश्रिद्गुणांवुधे । विहारोऽपि दमोद्वाहव्युपसर्गो महाक्षमः ॥ १२७ ।।
आचार इति पृच्छावो भवंतमिदमीदृशं । अन्यथा कस्य नो योम्या कुशलस्य भवद्विधाः १२८
भवंति क्षेमतामाजो भवद्विधसमाश्रिताः । स्वस्मिस्तु कैच भावानां कथा साचित्तरात्मना १२९
इत्युक्त्वा ते व्यरंसिष्टां विनयानतविग्रहे । निश्शेषभयनिर्मुक्ते तद्दष्टे च बभूवतुः ॥ १३० ॥
अथ प्रशांतया वाचा श्रमणोऽमृतकल्पया। गंभीरया जगादेवं पाणिमुत्क्षिप्य दक्षिणं ॥ १३१ ॥
कल्याणि कुशलं सर्व मम कर्मानुभावतः । ननु सर्वमिदं वाले नजकर्मविचेष्टितं ॥ १३२ ॥
पश्यतां कर्मणां लीला यदिहागोविवर्जिता । बंधुनिर्वास्थतां याता महेंद्रस्येययमात्मजा ॥१३३॥
. पद्मपुराणम्। ३९३ सप्तदर्श पर्व। -- . + . ततोऽकथितविज्ञाततद्वृत्तांत महामुनि । कुतूहलसमाक्रांतमानसा सुमहादरा ॥ १३४ ॥ नत्वा वसंतमालोचे स्वामिनीप्रियतत्परा । पादयोनॆत्रकात्यास्य कुर्वतीवाभिपेचनं ॥ १३५ ॥ विज्ञापयामि, नाथ त्वां कृपया वक्तुमर्हसि । परोपकारभूयस्यो ननु युष्मादृशां क्रियाः ॥१३६।। हेतुना केन भर्तास्य चिरं कालं व्यरज्यत । अरज्यत पुनर्दुःखं प्राप्ता चैपा महावने ॥ १३७ ॥ कोवास्य मंदभाग्योऽयं जीवोस्याः कुक्षिमाश्रयत् । सुखोचितेयमानीता येन जीवितसंशय।।१३८।। ततः सोऽमितगत्याख्यो ज्ञानत्रयविशारदः । यथावृत्तं जगादास्या वृत्तिरेपा हि धीमतां १३९ वत्से श्रृणु यतः प्राप्ता भव्येयं दुःखमीदृशं । पूर्वमाचरितात्पापासंप्राप्तपरिपाकतः ॥ १४० ॥ इह जंयूमति द्वीपे वास्ये भरतनामनि । नगरे मंदराभिख्ये प्रियनंदीति सद्गृही ॥ १४१ ।। जायाजायास्य तत्राभूदमयंताभिधः सुतः । महीसौभाग्यसंपन्नः कल्याणगुणभूपणः ॥ १४२ ।। अथान्यदा मधौ क्रीडा परमा तत्पुरेऽभवत् । नंदनप्रतिमोद्याने पौरलोकसमाकुले ॥ १४३ ॥ चिक्रीडे दमयंतोऽपि तत्र मित्रः समं सुखं । पटवांसवलक्षांगकुंडलादिविभूपितः ॥ १४४ ॥ अथ तेन स्थितेनाराक्क्रीड़ता गगनायराः | दृष्टास्तपोधना ध्यानस्वाध्यायादिक्रियोदिता।।१४५।। निस्मृत्य मंडलान्मित्राद्रश्मिवत्सोऽतिभासुरः । जगाम मुनिसंघातं मेरुशृंगीघसन्निभ ।। १४६ ॥ T सप्तदर्श पर्व । ३९४ ततः माधुं स दिल्या श्रुत्वा धर्म यथाविधि । सम्यग्दर्शनसंपन्नो बभूव नियमस्थितः ॥१४७॥ दत्वा मातगुणोपेतामन्यदा पारणाममौ । साधुभ्यः पंचता प्राप्य कल्पवासमर्शिश्रयत् ॥१८॥ नियमादानपात्र भोगमन्यमवत्परं । देवीशतेक्षणछायानीलाञ्जसग्विभूषितः ।। १४९ ॥ पुतस्तस्मादिह द्वीप मृगांकनगरेऽभवत् । प्रियंगुलक्ष्मीसंभूतो हरिचंद्रनृपाज्मजः ॥ १५० ॥ सिंहचंद्र इतिख्यातः कलागुणविशारदः । स्थितः प्रत्येकमेकोऽपि चेतः सुप्राणधारिणां ॥१५१॥ तत्रापि मुक्तसद्भोगः साधुभ्योऽवाप्य सन्मतिं । कालधर्मेण संयुक्तो जगाम त्रिदशालयं ॥१५२।। तत्रोदार मुख प्राप संकल्पकृतकल्पनं । देवीवदनराजीवमहाखंडदिवाकरः ॥ १५३ ।। व्युत्वात्रैव ततो वासो विजयाधमहीघरे । नगरेरुणसंज्ञाके मुकंठस्प नरप्रमोः ।। १५४ ।। जायायो कनकोदया सिंहवाहनन्दितः । उदपादि गुणाकृष्टसमस्तजनमानसः ।। १५५ ।। तत्र देव इवोदारसंमोगमनुभूतवान् । अप्सरोविनमस्तेनः कांतालिंगनलालितः ।। १५६ ।। तीर्थ विमलनाथस्य सोऽन्यदा जातसन्मतिः । निक्षिप्य तनये लक्ष्मी धनवाहननामनि १५७ • पुरुसंवेगसंपनो विदितासारसंमृतिः । लक्ष्मीविलकसंज्ञस्य मुनेरानछे शिष्यतां ॥ १५८ ।। अनुपाल्य समीचीनं व्रतं जिनवरोदितं । अनित्यत्वादिभिः कृत्वा चेतना भावनामयीं ॥१५९|| ----
पद्मपुराणम् ।
३९५
सप्तवश पर्व ।
तपः कापुरुषाचित्यं तप्त्वा तन्वादरोज्झितं । रत्नत्रितयतो जातं दधानः परमार्थतां ॥ १६० ॥
नानालन्धिसमुत्पन्नः शक्तोऽप्यहितवारणे । परीपहरिपून पोरानधिसघ सुमानसः ।। १६१.।।
आयुषिराममासाद्य ध्यानमास्थाय निर्मलं । ज्योतिषां पटलं भित्त्वा लांतवेऽभृत्सुरो महान् १६२
इच्छानुरूपमासाद्य तत्र भोगं परस्थितिः । छद्मस्थजनधीवाचां स्थितं संचक्ष्यगोचरं ॥ १६३ ॥
च्युत्वा पुण्यावशेषेण प्रेरितः परमोदयः । कुक्षिमस्या विवेशाय जीवः सौख्यस्य भाजनं १६४
एवं तापदयं गर्भः स्वामिन्यास्ते तनुं श्रितः । हेतुं विरहदुःखस्य श्रुणु कल्याणचेष्टिते ॥ १६५ ॥
भवेऽस्याः कनकोदर्या लक्ष्मीनाम सपत्न्यभूत् । सम्यग्दर्शनपूतात्मा साधुपूजनतत्परा ॥१६६।।
प्रतिमा देवदेवानां प्रतीके समनस्तया । स्थापयित्वार्चिता भक्त्या स्तुतिमंगलवक्त्रया ॥१६७॥
महादेव्यभिमानेन सपल्यै क्रुद्धया तया । चक्रे वाह्यायकाशोसौ जिनेंद्रप्रतियातना ॥ १६८ ॥
अतिरेऽविशद्नेहमस्या भिक्षार्थमार्यिका । संयमश्रीरिति ख्याता तपसा विष्टपेऽखिले ॥ १६९ ।।
ततः परिभवं दृष्ट्वा सार्हत्प्रतियातनं । ययावतिपरं दुःखं पारणापेतमानसा ॥ १७० ॥
इमां च मोहिनीं दृष्ट्वा परं कारुण्यमागता । साधुवर्गो हि सर्वेभ्यः प्राणिभ्यः सुखमिच्छति १७१
अपृष्टोऽपि जनः साधुर्मुरुभक्तिप्रचोदितः । अज्ञप्राणिहितार्थ च धर्मवाक्ये प्रवर्तते ॥ १७२ ॥
सप्तदशं पर्य। पद्मपुराणम् । अवोचत ततः सर्व शीलभूपणघारिणी । तदिमां मितया वाचा माधुर्यमुपमोज्झितं ॥ १७३ ॥ भद्रे शृणु मनः कृत्या परमं परमाते । नरेंद्रकृतसन्माने भोगायतनविग्रहे ॥ १७४ ।। मवे चतुर्गती भ्राम्यन् , जीवो दुःस्वैश्रितः सदा । सुमानुपत्वमायाति शमे कदुककर्मणः ॥१७५।। मनुष्यजातिमापन्ना सा स्वं पुण्येन शोभने । माभूज्जुगुप्सिताचारा कतुं योग्यासि सकियो१७६ लन्ध्या मनुष्यतां कर्म यो नादत्ते जनः शुभं । रत्नं करगतं तस्य भ्रंशमायाति मोहिनः १७७ कायवाक्चेतसां वृतिः शुभाहितविधायिनी । सैवेतरेतराध्यानकारिणी प्राणधारिणां ॥ १७८ ॥ स्वस्य ये हितमुद्दिश्य प्रवर्तते सुकर्मणि । उत्तमास्ते जना लोके निदिंताचारभूयसि ॥ १७९ ॥ कृतार्था अपि ये संतो भवदुःखमहार्णवात् । तारयंति जनान् भव्यानुपदेशविघाननः ॥ १८० ॥ उत्तमोनमतां तेषां विकृतां धर्मचक्रिणां । अर्हतो ये निरस्कार प्रतिक्विस्य कुर्वते ॥ १८१ ॥ जंतूनां मोहिनां तेषां यदनेकभवानुगं । दुःखं संजायते कस्तद्वक्तुं शक्रोति कारस्य॑तः ।।१८२|| यद्यप्येपां प्रपन्नेषु प्रासादो नोपजायते । नचापकारनिष्ठेषु द्वेषो माध्यस्थमीयुपा ॥ १८३ ।। • स्वस्मात्तथापि जंतूनां परिणामाच्छुभाशुभात् । तदुद्देशन संजातात्सुखदुःखसमुद्भवः ॥ १८४ ॥ यथाग्नेः सेवनाच्छीतदुःखं जंतुरपोहते । श्रुत्तृष्णां परिपीडां च भक्तशीतांबुसेवनात् ।। १८५ ।। .
पद्मपुराणम् । सप्तदश पर्व। निस्सर्गोयं तथा येन जिनानामर्चनात्सुखं । जायते प्राणिनां दुःख परमं च तिरस्कृतेः॥१८६॥ यन्नाम दृश्यते लोके दुःखं तत्पापसंभवं । सुखं च चरितात्पूर्वसुकृतादिति विद्यतां ॥ १८७ ॥ सा त्वं पुण्यैरिमां वृद्धि भक्तोरुं पुरुषाधिपं । पुत्रं चाद्भुतकर्माण प्राप्ता श्लाघ्या सुधारिणं १८८ तथा कुरु यथा भूयो लप्स्यसे सुखमात्मनः । मद्वाक्यादवटे भव्ये मापप्तः सति भास्करे॥१८९।। अभविष्यं तवावासो नरके घोरवेदने । अहं नावोधयिष्यं चेत्प्रमादोयमहो महान् ॥ १९० ॥ इत्युक्ता सा परित्रस्ता दुःखतो नरकोद्भवात् । प्रत्ययादिति शुद्धात्मा सम्यग्दर्शनमुत्तमं ।।१९१।। अगृहीदृहिधर्म च शक्तेश्च सदृशं तपः । जन्मान्यदिव मेने च सांप्रतं धर्मसंगमात् ॥ १९२ ॥ प्रतिमा च प्रविश्येनां पूर्वदेशे व्यतिष्ठपत । आनर्च च विचित्राभिः सुमनोभिः सुगंधिभिः १९३ कृतार्थ मन्यमाना स्वं तस्या धर्मनियोजनात्। जगाम स्वोचितं स्थानं संयमश्रीः प्रमोदिनी१९४ कनकोदर्यपि श्रेयः समुपायं गृहे रताः । श्रुत्वा कालं दिवं गत्वा भुक्त्वा भोगं महागुणं ।।१९५।। व्युत्वा महेंद्रराजस्य महेंद्रपुटभेदने । मनोवेगासमाख्यायामंजनेति सुताभवत् ॥ १९६ ॥ . सेयं पुण्यावशेषेण कृतेन जननांतरे । जातेहाढ्यकुले शुद्ध प्राप्ता च वरमुत्तमं ॥ १९७ ॥ प्रतिमां च जिनेंद्रस्य त्रिकालाय॑स्य यद्वहिः । अकार्षीत्समयं कंचित्तेनातो दुःखमागमत् १९८ . M + . सातार्श पर्व। पद्मपुराणम् ! विद्युत्मभगुणस्तोत्रं क्रियमाणं पुरस्तव । मिश्रकश्याः स्वनिंदां च समित्रः पवनंजयः ॥ १९९ ॥ श्रुत्वा गवाक्षजालेन त्रियामायाँ निरोहितः । द्वेपमस्य परिमाप्तो चैधुर्यमकरोत्पुरः ॥२०॥ युद्धाय प्रस्थितो दृष्टा मोऽन्यदा चक्रवाकिका | विरहाद्दीपिता रम्ये मानसे सरसि दुनं ॥२०१|| मख्येव कृपया नीतः समये तो मनोहरी । गतश्च गर्भमादाय कर्तु जनकशासनं ।। २०२॥ इत्युक्ता पुनरूचेऽसायंजनां मुनिपुंगवः । महाकरुण्यसंपन्नः परनिव गिरामृतं ।। २०३ ॥ म त्वं कर्मानुभावन वाले दुःखमिदं थिता । ततो भूयोऽपि माकापारीदृशं कर्म निदिव।।२०४॥ यानि यानि च सौख्यानि जायते चान भूतले। तानि तानि हि सर्वाणि जिनगक्तविशेषत:२०५ मक्ता भव जिनेंद्राणां संसारोत्तारकारिणां । गृहाण नियमं भक्या कुरु श्रमणपूजनं ॥ २०६ ॥ दिष्टया पोधि अपनासि तदा दत्तां तदार्यया । उदहापकिरालंबारसा त्वां योतीमधोगति२०७ अयं च ते महामाग्यः कुक्षि गर्भः समाश्रितः । पुरा निर्लोठिते सम्यग्बहुकल्याणभाजनं ॥२०८|| परमां भूतिमेतस्मात्मुतात्प्राप्स्यसि शोभने । अखंडनीयवीर्याय गीर्वाणैः सकलरपि ॥ २०९ ।। अल्परेव च ते होभिः प्रियसंगो भविष्यति । ततो भव सुखस्वांता प्रमादरहिता शुभे ।। २१० ॥ इत्युक्ताभ्यां नतस्ताभ्यां दृष्टाभ्यां मुनिसत्तमः । प्रगतो विकसनेत्रराजीवाभ्यां पुनः पुनः २११
.
सप्तदशं पर्व।
पद्मपुराणम्
सोऽपि दत्वाशिपं ताभ्यां समुत्पत्य नमस्तलं । संयमस्योचितं देशं जगामामलमानसः ॥२१२।।
पर्यकासनयोगेन यस्मात्तस्यां स सन्मुनिः । तस्थौ जगाम पर्यंकगुहाख्यां सा ततो भुवि २१३
इत्थं निजभवान् , श्रुत्वा भवद्विस्मितमानसा । निदंती दुष्कृतं कर्म पूर्व यदधर्म कृतं ॥२१॥
महेंद्रदुहिता तस्यां सूतिकालव्यपेक्षया । तस्थौ मगधराजेंद्र ! पूतायां मुनिसंगमात् ॥ २१५ ॥
वसंतमालया तस्या विद्यावलसमृद्धया । पानाशनविधिश्चके मनसा विषयीकृतः ॥ २१६ ॥
अथ प्रियविमुक्तां तां कारुण्येनेव भूयसा । असमर्थो रविदृष्टुमस्तमैच्छन्निपेवितुं ॥ २१७ ।।
तदुःखादिव मंदत्वं भास्करस्य करा ययुः । चित्रकार्पितादित्यकरोत्करकृतोपमात् ॥ २१८॥
शोकादिव रवेविवं सहसा पातमागतं । गिरिदृक्षाग्रसंसक्तं करजालं समाहरन् ।। २१९ ।।
अथागंतुकसिंहस्य दृष्टयेव क्रोधताम्रया । संध्यया विहितं सर्व क्षणेन नभसस्तलं ॥ २२० ॥
ततो भाव्युपर्गेण प्रेरितेव त्वरावती । उदियाय तमोलेखा वेतालीव रसातलात् ॥ २२१ ।।
कृतकोलाहलाः पूर्व दृष्ट्वा तामिव भीतितः । निश्शब्दा गहने तस्थुपेक्षाग्रेषु पतत्रिणः ॥२२२॥
प्रावर्तत शिवारावा महानिर्यातमीपणाः । वादिता उपसर्गेण प्रकटा पटहा इव ॥ २२३ ॥
अथ धूतेभकीलालशोणकेसरसंचयः। मृत्युपत्रांगुलिच्छायां भृकृटिं कुटिला दधत् ॥ २२४ ॥
सप्तदशं पर्व। . पद्मपुराणम् । विमुंचन विषमच्छेदानादान् स प्रतिशब्दकान् । बेगिनः सकलं व्योम कुर्वाणमिव खंडशः २२५ प्रलयज्वलनज्वालाविलामाचलयन्मुहुः । महास्यगहरे जिहां प्रहां भूरिजनक्षये ॥ २२६ ॥ जीवाको कुशाकारां दंष्ट्रां तीक्ष्णाग्रसंकटां । कुटिलां धारयन् रौद्रां मृत्योरपि भयंकरां ।।२२७॥ उद्यत्प्रलयतीयांशुमंडलप्रतिमे वहन् । छुरयंती दिशां चक्रं नेत्रे विनासकारिणी ॥ २२८ ॥ मस्तकन्यस्तपुच्छाग्रो नखकोटिक्षतक्षतिः । अष्टापदतटोरस्को जघनं घनमुद्वहन् ॥ २२९ ।। मृत्युदैत्यकृतोऽनु स्यात् प्रेतसोऽनु कलिक्ष्यः । अंतकस्यांतको नु स्याद्भास्करो नु तनूनपात् २३० इतीरां जनिताशकं जंतुभिवीक्षितोऽखिलैः । अविर्वभूव तद्देशे केसरी विकटाक्षणात् ॥ २३१ ।। तस्य प्रतिनिनादेन पूरितोदारकंदराः । भीता इवातिगंभीरं रुरुधुर्धरणीधराः ॥ २३२ ॥ मुद्रणेव घोरेण शब्देनास्य तरस्थिना । श्रोत्रयोस्ताडिताश्चकुरिति चेष्टाः शरीरिणः ॥ २३३ ।। लोचने मुकुलीकुर्वन्नभिदुर्गे महीभृति । शार्दूलो दपनिर्मुक्तः सन् चुकोप सवेपथुः ।। २३४ ॥ शरत्पुप्पसमाकारो हुष्टरोमांचसंभ्रमः । वधूस्तरलगुंजावो विवेश विवरं गिरेः ॥ २३५ ।। सारंगा मुखविभ्रशिकोमलपल्लवाः । यथापूर्वक्षयास्तस्थुर्भयस्तमितविग्रहाः ॥ २३६ ॥' संभ्रांतवधूनेत्राणामुत्कणानां विचेतसां । दानायनिश्चलांगानां मतंगानां विचिच्छिदुः ॥२३७ ।। - सप्तपर्व। पद्मपुराणम् । ४०१ . . मंडलस्यांतरे कृत्वा शावकान् भयवेपितान् । तस्थुः पुरुखगा संधायूथपन्यस्तलोचनाः ॥२३८॥ केसरिघनिवित्रस्ता कंपमानशरीरिका । वपुराहारयोस्त्यागं चक्रे सालंवर्मजना ॥ २३९ ॥ उत्पत्य त्वरिता न्योन्नि सख्यस्यास्तद्ग्रहाक्षमा । वभ्राम पक्षिणीवालमंडलेनाकुलात्मिका २४० भूयः समीपमाकाशमेति प्रेमगुणाहृता । पुनश्च तीववित्रासात्प्रयाति नभसः शिरः ॥ २४१ ॥ अथ ते समय दृष्ट्वा विशीर्णहृदये शुभे | गंधर्वस्तद्गुहायासी कारुण्याश्लेपमीयिवान् ॥ २४२ ।। तमूचे मणीचूलाख्यं रत्नचूला निजांगना । कारुण्येनोरुणा साध्वी चोदिता द्रुतभापिणी २४३ पश्य पश्य प्रिय ! प्रस्तां तां मृगेंद्रादिह स्त्रियं । एतद्भगीतिसमादिष्टां द्वितीयां च नभोगणे ।। कुरु नाथ प्रसादं मे रक्षतामतिविहला । अभिजातां वरां नारी कुतोऽपि विपमाश्रितां ।। २४५ ।। एवमुक्तोथ गंधर्वो विकृत्य शरमाकृतिं । त्रैलोक्यमीपणद्रव्यसंभारेणैव निर्मितं ।। २४६ ॥ हस्तत्रितयमात्रस्थामंजनामसमागतां । सिंहरिपुरकरोदेहं छन्नसानुकदंबकः ॥ २४७ ॥ तयोस्तत्राभवद्भीभः संघट्टो वसंकुलः । विद्युदुद्योतितप्रावृधनसंघ हसन्निव ॥ २४८ ॥ एवं विधेऽपि संप्राप्ते काले वीरभयावहे । अंजनासुंदरी चके हृदये जिनपुंगवान् ।। २४९॥ इत्थं वसंतमाला च मंडलेन कृतभ्रमा । विललाप महादुःखी कुररीव नभस्तले ॥ २५० ।। २६ - .
समवश पर्व। S ४०२ पद्मपुराणम् । हा मर्तृदारिके पूर्व दीर्भाग्यमसि संगता । तस्मिन्नपि गते कन्याद्वार्जितासर्वबंधुभिः ॥२५१॥ संप्राप्तासि वनं भीमं कथमप्यागता गुहां । मुनिनाश्वासिचासन्नप्रियावासिनिवेदनाद ॥ २५२ ॥ सा व केसरिणो वक्त्रमधुना देवि यास्यसि । दंष्ट्राकरालमुत्तद्विरदक्षयकारणं ॥ २५३ ।। हा देवि ते गतः कालो दुर्जनस्य विधर्वशात् । उपर्युपरि दुःखेन मर्मदुर्गतिकारणात् ।। २५४ ॥ परित्रायस्व हा नाथ! पवनंजय! गेहिनी । हा महेंद्र कथं नेमा तनयां परिरक्षसि ।।२५५॥ हा कि केतुमति क्रूरे मुद्वास्या त्वयि | का कृता । हा करुणे मनोवेगे तनयां कि न रक्षसि ।।२५६॥ मरणं राजपुत्रीय प्राप्नोति विजने वने । कुरुत प्राणमेतस्याः कृपया वनदेवताः ॥ २५७ ।। मुनरपि तथा तस्य लोकतत्वाययोधिनः । शुभार्थमूचनं वाक्यं संभवेदन्यथा किमु ? ॥ २५८ ।। आदमिति कुर्वाणा दोलारूदेव विहला । चक्रे वसंतमाला तु स्वामिन्यतं गतागतं ।।२५९॥ अथ भंगगतः सिंहः शरभेण तलाहतः । अंतर्दधे कृतार्थश्च शरभो निलये निजे ॥ २६०॥ तवः स्वप्नोपमं दृष्ट्वा विरतं युद्धमेतयोः । द्रुतं वसंतमालागात् स्वेदिगात्रा पुनर्गुदो ॥ २६१ ।। अतः पछवकांताभ्यां हस्ताभ्यां कृतमार्गणा । कासि कासीति भीशेषात्कृतगद्गदनिस्वना २६२ ब्रात्वा वसंतमाला तो स्पर्शनात्यंत निश्चला । तां प्रति प्राणनाशंकासमाकुलितमानसा ।। २६३॥
पद्मपुराणम् । ४०३ सप्तदर्श पर्व। + - धियसे देविदेवीति चालयंती पुनः पुनः । जगाद स्वामिनीवक्षोविन्यस्तकरपल्लवा ॥ २६४ ।। ततोऽसौ तस्करस्पर्शादागतस्पष्टचेतना | चिरात्सखीयमस्मीति जगादास्पष्टया गिरा ॥ २६५ ॥ ततस्ते संगमात्प्राप्य-कियंतीमपि नियति । पुनर्जन्मेव मेनाते लब्धसंभाषणोद्यते ॥ २६६ ॥ भयशेपेण चाभीलां मुग्धे तां जज्ञतुर्निशां । समासमां कृताशेपवंधुनष्ठुर्यसंकथे ॥ २६७ ॥ ततो विध्वस्य नागारिं नागारिरिव पन्नगं । प्रमोदवानसौ सद्यः प्रीतवान् सुमहागुणं ॥२६८।। गंधर्वकांतयावाचि गंधर्वो लब्धवर्णया | तदूरौ बाहुमादाय तरचारकनेत्रया ॥ २६९ ॥ स्वनकं यच्छ मे नाथ जिज्ञासाम्यधुनोचितं । उपदेशो हि गातन्यं कादंबर्यामनुत्तमं ।। २७० ।। शेपं साध्वसमेते च वनिते परिमुंचतः । श्रुत्वा नौ मधुर गीतं दैवीयं हृदयं गर्म ॥ २७१ ॥ अर्धरात्रे ततस्तस्मिन्नन्यशब्दविवर्जिते । संस्कृत्यावीवदद्वीणां गंधर्वः श्रोत्रंहारिणीं ।। २७२ ॥ कासिके वादयंती च प्रियवक्त्राहितेक्षणा । रत्नचूला जगौ मंद मुनिक्षोभनकारणं ।। २७३ ॥ तयोर्घनं कृतं वाचं सुपिरं च कृतं ततं । परिवर्गेण गंभीरकरतालकमोचितं ।। २७४ ।। पाणिघेरेकतानेन मंद्रधनिसमन्वितं । तथा वैणविक ढं प्रवीणभूविलासिनः ॥ २७५ ॥ प्रवीणामः प्रवालाभां वीणां चारूपमानिकां । कोणेनाताडयदक्षो गंधर्वः काकलीवुधः ।।२७६॥
. सप्तदश पर्व। - ४०४. पद्मपुराणम् ।। - 1 १ मध्यमर्पभगांधारपाइजपंचमधवतान् । निपादसप्तमांश्चक्रे स स्वरांन्क्रममत्यजन् ।। २७७ ।। भेजे वृत्तीर्यथास्थानं द्रुतमध्यविलविताः । एकविंशतिसंख्याश्च मूर्छना ततितेक्षणा ॥ २७८ ।। हाहा हृदूसमानं स गानं चक्रेऽथवाधिकं । प्रायो गंधर्वदेवानां प्रसिद्धिमिदमागतं ।। २७९ ।। वनान्येकोनपंचाशत्स जगी परिनिष्ठितं । जिनेंद्रगुणसंवर्द्धचनैर्ललिताक्षरैः ।। २८० ॥... देवा देवैभक्तिपः पुप्परघुर्नानागंधैः । अर्चामुच्चीत चंयं देवं भक्त्या त्वामहंतं ।। २८१ ।। त्रिभुवनकुशलमतिशयपूतं नमामि भक्या परया । मुनिसुव्रतचरणयुगं सुरपतिमुकुटप्रचनवमणिकिरणं ॥ २८२ ॥ ततो वसंतमाला तद्नेयमत्यंतशोभनं । प्रशंस साश्रुतपूर्व विस्मयंव्याप्तमानसा ।। २८३ ॥ . '' अहो गीतमहो गीतं फेनाप्येतन्मनोहरं । आद्रीकृतमिवानेन हृदयं मे सुधामुचा ॥२८४ ॥ स्वामिनी च जगादचं दैवि कोप्यनुकंपकः । देवोयं येन नौ रक्षा कृता फेसरिनोदनात्।।२८५॥ मन्येस्मवृत्तयेनेन गीतमेतच्छुतप्रियं । कृत्वा कलकलध्वानमंतरे सकलांगकं ।। २८६ ।।.. ! देवि शीलवती कस्य नानुकंप्यासि शोभने । महारण्येऽपि भव्यानां भवंति सुहृदो जनाः २८७ उपसर्गस्य विध्वंसादेतस्मात्ते सुनिश्चितः । भविता प्रियसंपर्कः किंवा वक्त्यन्यथा मुनिः।।२८८||
सप्तदश पर्व।
पद्मपुराणम्।
४०९
तस्मात्साधुमिमं देव समाश्रित्य कृतोचितं । मुनिपर्यकपूतायां गुहायामघसंक्षयात ॥ २८९ ।।
मुनिसुव्रतनाथस्य विन्यस्य प्रतियातनां । अर्चयंत्यो सुखप्राप्त्यै स्वमोदैः कुसुमैरलं ॥ २९०.॥
सुखप्रतिमेतस्य गर्भस्याध्याय चेतसि । विस्मृत्य वैरहं दुःखं समयं किंचिदास्वहे ॥ २९१ ॥
त्वत्संगम समासाद्य-प्रमोदं परमागतः । नैझेरैः शीकरैरेप हसतीव महीधरः ॥ २९२ ॥
फलभारविनम्राग्रा लसत्कोमलपल्लवाः । पुष्पहासकृतो वृक्षा इमे तोपमुपागताः ।। २९३ ॥
मयूरसारिकाकीरकोकिलादिकलस्वनः । कृतजल्पा इवैतस्य वनाभोगा महीभृतः ।। २९४ ।।
नानाधातुकृतच्छायास्तरुसंघातवाससः । अस्मिन्गुहा विराजते कुसुमामोदवासिता ॥ २९५ ।।
जिनपूजनयोग्यानि पंकजानि सरस्सु हि । विद्यते तव वक्त्रस्य धारयति समानतां ॥ २९६ ।।
विधत्स्व धृतिमोशे माभूचिंतावशात्मिका । कल्याणमत्र ते सर्व जनयिष्यंति. देवताः ॥२९७||
अधुना दिनवक्त्रे ते विज्ञायेवानघं वपुः । कोलाहकृतो जाताः प्रमोदेन पतत्रिणः ॥ २९८ ॥
पलाशाग्रस्थितानेते वृक्षा मंदानिलेरितान् । मुंचंत्यानंदयाप्पाभानवश्यायकणान् जडान् ॥२९९॥
संप्रेष्य प्रथम संध्यां दूतीमिव सरागिकां । उदंतं ते परित्रातुमेप भानुः समुद्गतः ।। ३०० ॥
एवमुक्तांजनावोचत्सखि मे सर्वांधवाः । त्वमेव त्वयि सत्यां च ममेदं विपिनं पुरं ॥ ३०१ ॥
. पद्मपुराणम् । ४०६ सप्तदशं पर्य। आपन्मध्योत्सवावस्थाः सेवते यस्य यो जनः । स तस्या बांधवो बंधुरपि शत्रुरसौख्यदः ३०२ इत्युक्त्या देवदेवस्य विन्यस्य प्रतियातनां । पूजयंत्यो स्थिते तत्र ते विद्याकृतवर्तने ।। ३०३ ।। गंधर्वोप्यनयोश्चके सर्वतः परिरक्षणं । आतोयं प्रत्यहं कुर्वन् कारुण्याजिनमक्तितः ॥ ३०४ ॥ अथान्यदांजनायोचत्कुक्षिमें चलितः सखि । आकुलेच च जातास्मि किमिदं न भविष्यति३०५ ततो वसंतमालोचे समयः शोभने तव । अवश्यं प्रसवस्यैप प्राप्तो भव सुखस्थिता ॥ ३०६ ॥ ततो विरचिते तल्पे तया कोमलपल्लवः । अस्त सा सुतं चार्वी प्राचीवाशा विरोचनं ।।३०७ ।। जावेन सा गुहा तेन तेजसा गावजन्मना । हिरण्मयीच संजाता निर्धूतध्यांतसंचया ॥ ३८ ॥ ततस्तमंकमारोप्य प्रमोदस्यापि गोचरं । स्मृतोभयकुला दैन्यप्राप्ता प्ररुदिताभवत् ॥ ३०९ ।। विललाप महावत्स कथं ते जननोत्सवः । क्रियतां कि मयतस्मिञ्जनस्य गहने चने । ३१० ॥ स्थानेऽजनिष्यथाश्वेच्च पितुर्मातामहस्य वा । अभविष्यन्महानंदो जननोन्मत्तकारकः ॥३११॥ मुखचंद्रमिमं दृष्ट्वा तव चाहीवलोचनं । न भवेद्विस्मयं कस्य भुवने शुभचेतसः ।। ३१२ ।। करोमि मंदभाग्या किं सर्ववस्तुविवर्जिता । विधिनाहं दशामता प्रापिता दुःखदायिनी ॥३१३।। जंतुना सर्ववस्तुभ्यो वांछयते दीर्घजीविता । यस्मात्त्वं जीवितात्तस्मान्मम वत्स पर स्थिति ३१४ सप्तदर्श पर्व । ४०७ य पद्मपुराणमें। +4 . 16 ईदृशे पतितारण्ये सद्यः प्राणापनोदिनि । यज्जीवामि तवैवायमनुभावः सुकर्मणः ॥ ३१५॥ मुंचंतीमिति तां वाचं जगादेवं हिता सखी । देवि कल्याणपूर्णा त्वं या प्राप्तासीदृशं सुतं ३१६ चारुलक्षणपूर्णोयं दृश्यतेऽस्य शुभा तनुः । अत्यंतमहतीमृद्धिं वहत्येपा मनोहरा ॥ ३१७ ॥ पट्पदैः कृतसंगीताश्चलत्कोमलपल्लयाः । तव पुत्रोत्सवादेता नृत्यंतीच लतांगनाः ।। ३१८ ॥ तवास्य चानुभावेन वालस्पाघालतेजसः । भविष्यत्यखिल भद्रं मोन्मनीभूरनर्थकं ॥ ३१९ ॥ एवं तयोः समालापे वर्तमाने नभस्तले । क्षणेनाविरभूतुंगं विमान भास्करप्रभं ॥३०॥ ततो वसंतमाला तं दृष्ट्वा देव्यै न्यवेदयत् । विप्रलापं ततो भूयः सेवमाशंकयाकरोत् ।। ३२१ ॥ कोप्यकारणवैरी मे किमथोपनयेत्सुतं । उताहो बांधवः कश्चिद्भवेदेष समागतः ।। ३२२ ॥ विप्रलापं ततः श्रुत्वा तद्विमानं चिरं स्थितं । अवातरत्कृपायुक्तो विद्याभृद्वियदंगणात् ॥३२३॥ स्थापयित्वा गुहाद्वारि विमानं स ततोऽविशत् । पत्नीभिः सहितः शंका वहमानो महानयं३२४ - वसंतमालया दत्चे स्वागते सौ सुमानसः । उपाविशत्स्वभृत्येन प्रापिते च समासने ।। ३२५ ।। ततः क्षणमिव स्थित्वा स भारत्या गभीरया । सारंगानुत्सुखीकुर्वन् घनगर्जितशंकिनः ।।३२६॥ ऊचे तां विनयं विभत्परं स्वागतदायिनीं । दशनज्योत्स्नया कुर्वन् वालभासं विमिश्रितं ३२७
१
४०८
पद्मपुराणम्।
सप्तदर्श पर्व
सुमर्याद वदेयं का दुहिता कस्य चा शुभा । पत्नी वा कस्य कस्माद्वा महारण्यमिदं श्रिता३२८
पटते नाकृतेरस्याः समाचारो विनिंदितः । ततः कथमिमं प्राप्ता विरहं सर्वबंधुभिः ॥ ३२९ ॥
भर्वत्येवाथवा लोके प्रायोऽकारणवरिणः । माध्यस्थेऽपि निषण्णानां ग्रेरिनाः पूर्वकर्मभिः ३३०
ततो दुःखभरोवेला बाप्पसंरुद्धकंठिका | कच्छ्रेणोवाच सानंदं भूतलन्यस्तवीक्षणाः ।। ३३१ ॥
महानुभाव वाचैव ते विशिष्टं मनः शुभं । रोगमूलस्य हिच्छाया न स्निग्धा जायते तरोः ३३२
भावनवेदनस्थानं गुणिनस्त्याशा यतः । निवेदयामि ते तेन भृणु जिज्ञासितं पदं ॥३३३ ॥
दुःखं हि नाशमायाति सज्जनाय निवेदितं । महतां ननु शैलीयं यदापद्गततारणं ॥ ३३४ ॥
शृण्वपा विष्टपव्यापि यशसो विमलात्मनः । सुता महेंद्रराजस्य नामतः प्रथितांजना ॥ ३३५ ॥
प्रहादराजपुत्रस्य गुणापारचेतसः । पत्नी पवनवेगस्य प्राणेभ्योऽपि गरीयसीं ॥ ३३६ ॥
सोऽन्यदा स्वैरविज्ञातः कृत्वास्यां गर्मसंभवं । शासनाजनकस्यागाद्रावणस्य सुहृद्युधे॥३३७॥
दुःस्वभावतयाश्चश्या ततः कारुण्यमुक्तया । मूढ़या जनकं गेहं प्रेपितेयं मलोज्झिता ॥३३८ ॥
ततो नादापिताप्यस्याः स्थानभीतेरकीर्तितः । अलीकादपि हि प्रायो दोपाद्विभ्यति सज्जनाः॥
सेयमालंघनर्मुक्ता सकलः कुलवालिका | मृगीसामान्यमध्यस्थान्महारण्यं समं मया ॥ ३४० ॥
'सतनशं पर्व। + पद्मपुराणम्। :४०९ , एतत्कुलक्रमायाता भुत्यास्म्यस्याः सुचेतसः । विश्रंभपदतां नीता प्रसादपरयानया ॥ ३४१ ॥ सेयमद्य प्रसूता नु वने नानोपसर्गके । न जानामि कथं साध्वी भविष्यति सुखाश्रया ।। ३४२ ।। निवेदितमिदं साधोत्तमस्याः पुलाकतः । सकलं तु न शक्नोमि कर्तुं दुःखनिवेदनं ॥ ३४३ ।। अर्थतदीयसंतापविलीनस्नेहपूरितात् । अमांतीव निरैदस्य हृदयात्साधु भारती ॥ ३४४ ॥ स्वतीया मम साध्वि त्वं चिरकालवियोगतः । प्रायेण नाभिजानामि रूपांतरपरिग्रहात्।।३४५।। पिता विचित्रभानुमें माता सुंदरमालिनी । नामतः प्रतिसूर्योहं द्वीपें हनूरुहाभिधे ॥ ३४६ ॥ इत्युक्त्वा वस्तु यवृत्तं कौमारे सकलं स तत् । अंजनाय पतद्वाप्पनयनस्तमवादयत् ।। ३४७ ।। नितिमातुलाथासौ पूर्ववृत्तनिवेदनात् । तस्य कंठं समारुह्य रुरोद चिरमूर्द्धनि ।। ३४८ ॥ तस्यास्तत्सकलं दुःखं वाष्पेण सहनिर्गतं । स्वजनस्य हि संप्राप्तापैव जगतः स्थितिः ॥३४९॥ तयोः नेहभरेणवं कुर्वतोरथ रोदनं । वसंतमालयाप्युचरुदितं पार्थया तया ।। ३५० ।। रुदत्सु तेषु, कारण्यादरुदस्तद्योपितः । कृतरोदास्वथैतासु रुरुदूरुरुयोपितः ।। ३५१ ॥ गुहावदनमुक्तेन प्रतिनादेन भूयसा । पर्वतोपि रुपोदैवं संततैनिझराश्रुभिः ।। ३५२ ॥ ततः शब्दमयं सर्वं तद्वभूव तदा वनं । शकुंतैरपि कारुण्यादाकुलैः कृतनिस्वनं ॥ ३५३ ।। + . ।
. . . . - . . 11 । , सप्तदशं पर्व। पनपराणम्। सांत्वयित्वा ततस्तस्या दत्तेनोदकवाहिना । वारिणा क्षालयद्वक्त्रं स्वस्य च प्रतिभास्करः॥३५४॥ पारंपर्येण तेनैव ततस्तत्पुनरप्यभूत् । वनं मुक्तमहाशब्दं श्रोतुं चार्वाभिवानयोः ।। ३५५ ।। ततः क्षणमिव स्थित्वा निष्क्रांती दुःखगहरात् । अपृच्छता मिथो वातां कुले कथयतां च तो ॥ संभापणं ततश्चफे तत्खीणामंजना क्रमात् । स्खलंति न विधातव्ये वनेऽपि गुणिनो जनाः ३५७ जगाद मातुलं चैवं पूज्यजावस्य मेऽग्विलं । निवेदय यथावस्थं दिनयोतिः कदंयकं ॥ ३५८ ।। इत्युक्ते पार्श्वगं नाम्ना द्योतिर्गर्भविशारदं । सांवत्सरमपृच्छत्स जातकर्म यथास्थितं, ॥ ३५९ ।। ततः सांवत्सरो योचरकल्याणस्य निवेदय । जन्मसंबंधिनी, वेलामित्युक्त चाख्पदंजना ॥३६०॥ अर्धयामावशेषायां रजन्यामद्य बालकः । प्रजांत इति सख्या.च कथितं निष्प्रमादया ।। ३६१ ।। मुहूर्तेन ततोऽयाचि यथास्थ. च पुराचितं । सुलक्षणैस्तथा मन्ये दारकं सिद्धिभाजनं ।। ३६२ ।। तथापि यद्यसंतोपः क्रियेयं लौकिकीति वा । ततः शृणु पुलाकैन कथयाम्यस्य,जीवनं ॥३६३|| वर्तते तिथिरयेयं चैत्रस्य बहुलाष्टमी । नक्षत्रं श्रवणः स्वामी वासरस्य विभावसुः ॥ ३६४ ।। आदित्यो वर्तते मेपे भवनं तुंगमाश्रितः । चंद्रमा मकर मध्ये भवने समवस्थितः ।। ३६५ ।। लोहितांगो वृषमध्यो मध्ये मीने विधोः सुतः । कुलोरे धिषणोऽत्युच्चैरध्यास्य भवनं स्थितः ।। - F- ४१ पद्मपुराणम् ।, सप्तदशं पर्व । - मीने दैत्यगुरुस्तुंगस्तस्मिन्नेव शनैश्वरः । मीनस्यैवोदयोप्यासीत्तदा नृपतिपुंगवः ॥ ३६७ ।। शनैश्चरं समग्राक्षस्तिन्मभानुर्निरीक्षितः । अर्धदृष्टया महीपुत्रो दिवसस्य पतिं तथा ।। ३६८ ।। गुरुपादनया दृष्ट्वा पतिमहोऽवलोकते । अर्धदृष्ट्या गिरामीशं वासरस्येक्षते विभुः ॥ ३६९ ॥ चंद्रसमस्तया दृष्टचा वचसां पतिरीक्षते । असावप्येवमेवास्य विदधत्यवलोकनं ।। ३७० ॥ गुरुः शनैश्चरं पादन्यूनया वीक्षते दृशा । अर्धावलोकनेनासौ भजते वृहतां पतिः॥ ३७१ ।। गुरुदैत्यगुरुं दृष्ट्वा वीक्ष्यते पादहीनया | दृष्टिं तथाविधामेव पातयत्येष तत्र च ।। ३७२ ।। ग्रहाणां परिशिष्टानां नास्त्यपेक्षा परस्परं । उदयक्षेत्रकालानां वलं चास्ति परं तदा ॥ ३७३ ॥ राज्यं निवेदयंस्तस्य रविभूमौ गुरस्तथा । शनिश्चरः सुयोगिस्वं निवेदयति सिद्धिदं ॥ ३७४ ॥ एकोऽपि भारतीनाथस्तुंगस्थानस्थितोऽभवत् । सर्वकल्याणसंप्राप्तौ कारणत्वं प्रपद्यते ॥३७५ ।। ब्राह्मो नाम तदा योगो मूहूर्तश्च शुभश्रुतिः । एतौ कथयतो ब्राह्मस्थानसौख्यसमागमं ॥३७६॥ एवमेतस्य जातस्य ज्योतिश्चक्रामेदं स्थितं । सूचयत्यखिलं वस्तु सर्वदोपविवर्जितं ।। ३७७ ।। रैशतनां सहस्रेण कालज्ञं पूजितं ततः । प्रतिसूर्यों विधायोचे भागिनयीं ससंमदः ।। ३७८ ॥ एहीदांनी पुरं यामो वत्से हनूरुहं मम । जातकर्मास्य बालस्य तत्र सर्व भविष्यति ॥ ३७९ ॥ ।
सप्तदशपर्व।।
४१२' .
1
पद्मपुराणम्।
,
द
एवमुक्त्या विधायोकपृथुकं. जिनपंदनां । कृत्वा स्थानपत्तिं देवं क्षमयित्वा पुनः पुनः ॥ ३८० ॥
निष्क्रांता सा गुहायासात्स्वजनौघसमन्विता । वनश्रीरित्र जाता च विमानस्यांतिकं स्थिता३८१
ततस्तत्किंकिणीजाले प्रकणत्पवनेरितः । सनिझरमिथोदारर्युक्ताहारः सुनिर्मलैः ॥ ३८२ ।।
ललल्लंबूपर्क काचकदलीवनराजितं । दिवाकरकरस्पर्शस्फुरत्कनकवुदुदं ।। ३८३ ॥
नानारनकरासंगजातानेकसुरायुधं । वैजयंतीशत नावणैः कल्पतरूपमं ॥.३८४ ।।
चित्ररत्नविनिर्माणं नानारत्नसमाचितं । दिव्यं परिवृतं. स्वर्गलोकेनैव समं ततः ॥ ३८५ ॥
दृष्ट्वासी पृथुको मातुरंकात्कौतुकसस्मिनः । उत्पत्य प्रविविक्षुः सन्नपसद्गिरिगहरे ।। ३८६ ॥
हाहाकारं ततः कृत्वा लोकस्तस्य समातृकः । स गतोऽनुपदं ज्ञातुमुहंतमिति विह्वलः ॥३८७॥
चकार विप्रलाप च सुदीनमिममंजना | तिरवामपि कुर्वाणा करुणाकोमलं मनः ॥ ३८८ ॥
हा पुत्र किमिदं वृत्तं देवेन . किमनुष्ठितं । प्रदर्श्य रत्नसंपूर्ण निधानं हरता पुनः ।। ३८९.॥
पत्यसंगमदुःखेन ग्रस्तायां मे भवानभूव । जीवितालंबनं छिन्नं कथं तदपि कर्मणा ।। ३९० ।।
ततः सहस्रशः खंडैनीयतां सुमहास्वनं । शिलायां पातवेगेन ददर्शवं सुखस्थितं ।। ३९१ ॥
अंतरास्यकृतांगुष्ठं कीडनं स्मिनशोभितं । उत्तानं प्रचलत्पाणिचरणं शुभविग्रहं ॥ ३९२ ॥
ܪ ܀ सप्तदशं पर्व ४१३ F पद्मपुराणम् । - मंदमारुतसंपृक्तरक्तोत्पलवनप्रभ । कुर्वाणं सकलं पिंगं तेजसा गिरिगढरं ।। ३९३. ॥ ततोऽनघशरीरं तं जननी पृथुविस्मया । गृहीत्वा शिसि प्रात्वा चक्रे वक्षःस्थलस्थितं, ॥३९४॥ प्रतिसूर्यस्ततोऽयोचदहो चित्रमिदं पर । यत्रेणैव यदेतेन शिलाजातं विचूर्णितं ॥ ३९५ ॥ अर्भकस्य सतोप्येपा शक्तिः सुस्वरातिगा । यौवनस्थस्य किं वाच्यं चरमेयं ध्रुवं तनुः ॥३९६॥ इति ज्ञात्वा परीत्य त्रिः शिरःपाणिसरोरुहः । सहांगनासमूहेन चकारास्या नमस्कृति ॥३९७ ॥ असौ तस्य वरस्त्रीभिर्नेत्रभाभिः कृतस्मितं । सितासितारुणांभोजमालाभिरिव पूजितं ॥ ३९८ ॥ सपुत्रां यानमारोप्य भागिनेयीं ततोऽगमत् । प्रतिसूर्यो निजं स्थानं वजतोरणभूषितं ।। ३९९ ।। ततः प्रत्युद्गतः पौरन नामंगलधारिभिः । स विवेश पुरं तूर्यनादव्याप्तनभस्तलं ॥ ४०० ॥ तत्र जन्मोत्सवस्तस्य महान् विद्याधरैः कृतः । आरवंडलसमुत्पत्तौ गीर्वाणैत्रिदशैर्यथा ॥४०१॥ जन्म लेभे यतः शैले शैलं चाचूर्णयत्ततः । श्रीशैल इति नामास्य चक्रे मात्रा ससूर्यया ४०२ पुरे हनुरुहे यस्माज्जातः संस्कारमाप्तवान् । हनूमानिति तेनागात्प्रसिद्धि स महीतले ॥४०३ ।। सर्वलोकमनोनेत्रमहोत्सववपुःक्रियः । तस्मिन् सुरकुमाराभः पुरे रेमे सुकांतिमान् ॥ ४०४ ॥ ., संभवतीह भूधररिपुः पविरपि कुसुमं । वहिरपीदुपादशिशिर पृथु कमलवनं ।।... +1 ...+ : अष्टादर्श पर्व। . पद्मपुराणमा - m . पहलतापि नारुवनितामुमृदुभुजलता । प्राणिषु पूर्वजन्मजनितात्सुचरितवलतः ॥४०५।। इत्ययगम्प दुःखकुशलाद्विरमतदुरिता । सज्जत सारशर्म चतुरे जिनवरचरिते ॥ एष तपस्यहो परिवृदं जगदनवरतं । व्याधिसहस्ररश्मिनिकरो ननु जननरविः ॥४०६॥ इत्या रविषेणाचार्यप्रोक्त पद्म-चरिते हनूमरसंभवाभिधानं नाम सप्तदशं पर्व । अथाष्टादशं पर्व। इदं ते कथितं जन्म श्रीशैलस्य महात्मनः । शृणु संग्रति वृत्तांत वायोर्मगधमंडन ॥१॥ वायुना वायुनेवाशु गत्वाभ्यास खगेशिनः । लब्धादेशेन संयुध्य नानाशवाकुले रणे ॥ २ ॥ कृनयुद्धधिरं खिनो जलकांतोपपतितः । जातस्तस्य निमानोऽसौ पुष्कला खरदूषणः ।। ३ ।। भूयथ जलकांतेन निनाय्य सरदूपणः । कृत्वा संध्यमहं प्राप्य परमं राक्षसाधिपात् ॥ ४ ॥ अनुवाती वहत्कांतां हृदयेन त्वरान्यितः । जगामाभिजन स्थान, महासामंतमध्यगः ॥ ५॥ प्रविष्टश्च पुरं परिरमियातः सुमंगलैः । ध्यजतोरणमालाभिर्भासुराभिविभूषितं ॥ ६॥ जगाम च निज वैश्म दृष्टो वातायनस्थितः । मुक्तप्रस्तुतकर्तव्यः पौरनारीकदंबकैः ॥ ७ ॥ - अष्टादशं पर्व। पद्मपुराणम्।.. विवेश च कृतार्थादि सन्मानो मानिनां वरः । वाग्भिमंगलसाराभिः स्वजनैरभिनंदिनः ॥ ८॥ विधाय प्रणतिं तत्र गुरुणामितरैर्जनः । नमस्कृतः क्षणं तस्थौ वार्ताभिवरमंडपे ॥ ९॥ ततः प्रासादमारुक्षदंजनायाः समुन्मनाः । युक्तः प्रहसितेनैव पूर्वभावनयान्वितः ॥ १० ।। रिक्तकं तस्य तं दृष्ट्वा प्रासादं प्राणतुल्यया । चेतनामुक्तदेहाभ पपातेव मनः क्षणात् ॥ ११ ॥ ऊचे प्रहसितं चैव वयस्य किमिदं भवेत् । अंजना सुंदरी नात्र दृश्यते पुष्करेक्षणा ॥ १२ ॥ गृहमेतत्तया शून्यं वनं मे प्रतिभासते । आकाशमेव वा क्षिप्रं तस्या वार्ताधिगम्यतां ॥ १३ ॥ आप्तवर्गात्परिज्ञाय वार्ता प्रहसितोऽवदत् । यथावत्सकलां तस्मै हृदये क्षोदकारिणीं ॥ १४ ।। वंचितः स्वजनं सोऽथ समं मित्रेण तत्क्षणं । महेंद्रनगरं तेन प्रवृत्तो गंतुमुन्मनाः ॥ १५ ॥ तस्यासन्नभुवं प्राप्य मित्रमेवमभाषत । मन्यमानोंकसंप्राप्तां दयितां प्रमदान्वितः ॥ १६ ॥ पश्य पत्य पुरस्यास्य वयस्य रमणीयतां । अंजना सुंदरी यत्र वर्तते चारुविभ्रमा ॥ १७ ॥ कैलासकूटसंकाशा यत्र प्रासादपंक्तयः । उद्यानपादपैर्गुप्ता प्रापेण्यधनमभैः ॥ १८ ॥ ब्रुवन्नेव स संप्राप्तः पुरं पुरुषसत्तमः । सुहृदाद्वैतचित्तेन विहितप्रतिभापणः ॥ १९ ।। ततो जनौयतः श्रुत्वा संप्राप्तं पवनंजयं । अघोदिनोपचारेण श्वसुरोऽस्य समागमत् ।। २० ॥ . - अष्टादश पर्व। पद्मपराणम् ।। पुरस्सरेण तेनासा प्रीतियुक्तेन चेतसा । निज प्रवेशितः स्थानं पोरैः सादरमीक्षितः ॥ २१ ॥ विवेश भवनं चास्य कांतादर्शनलालसः । संकथाभिर्मुहूतं च तस्थौ संवर्गणां भजन् ॥ २२ ॥ ततस्तत्राप्यसौ कानामपश्यद्विरहातुरः । अपृच्छद्रालिका काचिदंतर्भवनगोचरं ॥ २३ ॥ अयि वाले न जानासि मत्मिया वर्ततेजना । सायोचदेव नास्त्यन स्वनियेत्यसुखावह ॥ २४ ॥ वज्रणेव ततस्तस्य तेन वाक्येन चूर्णितं । हृदयं पूरिती कणी तमक्षारेंचुनेव च ॥ २५ ॥ वियुक्त इव जीवेन क्षणं चाभूत्सुनिश्चलः । शोकपालेयसंपर्कविच्छायमुखपंकजः ॥२६ ।। निर्गत्यासी ततस्तसाच्छमना श्वशुरापुरात् । बधाम धरणी वार्तामधिगंतुं सुयोपितः ॥२७॥ ज्ञात्वा वायुकुमारं च वायुनेचातुरीकृतं । ऊचे प्रहसितः सत्वं तद्दुःसादमिदुःखितः ॥२८॥ किं वयस्य ! विपण्णोऽसि कुरु चित्तमनाकुलं । द्रक्ष्यसे दयिता सा.ते कियद्वेदं महीतलं ॥२९॥ सोऽयोचद्रच्छ गच्छ त्वं सखे रविपुरं द्रुतं । इदं ज्ञापय वृत्तांत गुरूणां मदनुठिनं ।। ३० ॥ अहं पुनरसंप्राप्य दयितां क्षितिसुंदरी । न मन्ये जीवितं तम्मात्पर्यटाम्पसिला भुवं.॥ ३१ ॥ इत्युक्तस्नेन दुःखेन विमुच्य कथमप्यमुं । आदित्यनगरी दीनः क्षिप्रं प्रहसितो ययौ ।। ३२ ।। पवनोऽपि समारुह्य नागमंवरगोचरं । विचरन् धरणी सर्वामेवं चिंतामुपागतः ॥ ३३ ॥ .
, ४१७। - 1 पोपुराणे । अष्टादशं पर्व। शोकातपपरिम्लाना पद्मकोमलविग्रहा । क गता मे भवेत्कांता वहती हृदयेन मां ॥ ३४ ॥ वैधुर्यारण्यमध्यस्था विरहानलदीपिका । वराकी कांदिशीकासौ दिशं स्यात्कामुपाश्रिता ॥ ३५॥ सत्यार्जवसमेतासौ गर्भगौरवधारिणी | वसंतमालया त्यक्ता भवेत्किनु महावने ॥ ३६ ॥ शोकांधनयना किं.नु बजती विपमे पथि । पतिता स्याज्जरत्कूपे क्षुधिताजगरान्विते ॥ ३७॥ किं नु गर्भपरिक्लिष्टा श्वापदानां च भीपणं । श्रुत्वा. शब्दं परित्रस्ता प्राणान्मुक्तवती भवेत् ॥३८॥ अहो तृष्णार्दिता शुष्कतालकंठा जलोज्झिते । चिंध्यारण्ये विमुक्ता स्यात्प्राणैः प्राणसमा मम ३९ किं वा मंदाकिनी मुग्धा विविधग्राहसंकुलां । अवतीर्णा भवेद् व्यूढा वारिणा तीवरंहसा॥४०॥ दर्भसूचीविनिभिन्नचरणश्रुतशोणिता । अशक्ता पदमप्येकं गंतु किं तु मृता भवेत् ॥४१॥ किं वा दुष्टेन केनापि नीता स्यात् खविचारिणा | कष्टं वार्तापि नो तस्याः केनचिन्मे न विद्यते ४२ किंवा दुःखाच्च्युते गर्भे निर्वेदं परमागता । आर्यिकाणां पदं प्राप्ता भवेद्धर्मानुसेविनी ॥ ४३ ॥ चिंतयनिति पर्यव्य धरणी मतिविह्वलः । ददर्श न यदा कांतां सर्वेद्रियमनोहरां ॥ ४४ ॥ तदा पश्यञ्जगत्कृष्णं शून्य विरहदीपितः । विनिश्चितमसौ चेतश्चकार मरणं प्रति ।। ४५ ।। न शैलेषु न वृक्षेषु न रम्यासु नदीप्वभूत् । धृतिरस्य विप्रयुक्तस्य तया सर्वस्वभूतया ॥ ४६ ॥ - 'अष्टादशं पर्व। ४९८ पअपराणम्। F तस्या वार्ता मुग्धेन देन पृष्टा नगा अपि.। विवेकेन हि.नियुक्ता जायते दुःखिनो जनाः ४७ "अथ भूतरवामिग्ख्यं वनं प्राप्य गजादसी । अवतीर्य क्षणं स्थित्या ध्यायन्यूनिरिव नियां ॥४८॥ अनादरेण निक्षिप्य धरण्यामरकंटकं । धनपादपशाखाग्रतिरोहितमहातपः ।। ४९ ॥ जगाद गजनाय ते. विनयेन पुरस्थित ) गिरा मधुरयात्यर्थ अमेण गुरुणान्वितः ।। ५० ॥ बजेदानी गजेंद्र त्वं भव स्वच्छंदविभ्रमः । तस्या वातासु मुग्धेन क्षमस्व च पराभवं ।। ५१.॥ तीरेऽस्या सरितः शप्पं शल्लकीनां च पल्लवान् । चरन् बिहर यूथेन कारणीनां समन्वितः ॥५२॥ इत्युक्तः सुकृतज्ञो सौ स्वामिवात्सल्यदक्षिणः । न मुमोचाविकं तस्य शेोकार्तस्य सुबंधुवत् ।।५३।। लप्स्ये यदि न तां रामामभिरामामहं ततः । यास्याम्यत्र वने मृत्युमिति वायुविनिश्चितः ॥५४॥ रियागतमनस्कस्य तस्य रात्रिरभूदने । शरच्चतुष्टयोदारा नानासंकल्पसंकुला ॥५५॥ एवं तावदिदं वृत्तं श्रृणु श्रेणिक ते परं । कथयामि गते तस्मिन्यरिपतृम्यां विचेष्टितं ॥ ५६.॥ पवनंजयवृत्तांत तद्विप्रेण निवेदिते । समस्ता बांधवा. वायोः परमं शोकमागता,॥ ५७ ।। अथ केतुमती पुत्रशोकनाभ्याहृता भृशं । ऊचे प्रहसितं बाप्पधाराजनितदुर्दिना ॥ ५८ ।। युक्तःप्रहसितेदं ने कर्तुमीदृविचेष्टितं । मम पुत्रं परित्यज्य यदेकाकी समागतः ।। ५९ ।।
•पपुराणम्। ४१९ 'अष्टादशं पर्व। सोऽवोचदंव तेनैव प्रेपितोऽहं प्रयत्नतः ।.न में केनापि भावेन दत्तं स्थातुमुपातिके ॥ ६० ।। उवाच सा गतः क्यासौ सोम्योचद्यत्र सांजना.। क्यांजनेति च पृष्टेन को चेत्तीति निवेदितं ६१ अपरीक्षणशीलानां सहसा कार्यकारिणां । पश्चात्तापो भवत्येव जनानां प्राणधांरिणां ॥ ६२ ॥ कांतां यदि न पश्यामि मृत्युमेति ततो ध्रुवं । प्रतिज्ञवं कृतानेन त्वत्पुत्रेण सुनिश्चिता,॥ ६३ ।। इति श्रुत्वा विलापं सा चकारेति सुदुस्सहा । वेष्टिता स्त्रीसमूहेन स्रवल्लोचनवारिणा ॥ ६४॥ अज्ञातसत्यया कष्टं पापया किं मया कृतं । येन पुनः परिप्राप्तो जीवनस्य.तु संशयं ।। ६५ ।। 'फरसाधनधारिण्या वक्रमानसया मया | असमीक्षितकारिण्या मंदया. किमनुष्ठितं ॥ ६६ ॥ मुक्तं वायुकुमारेण पुरंमेतन शोभते । विजयाधगिरीशो वा सेना वा रक्षसां विभोः ।। ६७ ।। दुष्करा रावणस्यापि संधिर्यन रणे कृतः । कस्तस्य मम पुत्रस्य सदृशोध्न नरो भुवि ॥ ६८ ॥ हा वत्स ! विनयाधार ! गुरुपूजनतत्पर ! जगत्सुंदर विख्यातगुण क्वासि गतो मम ॥ ६९ ॥ भवदुःखामिसंतप्तां मातरं मातृवत्सल !। प्रतिवाक्यप्रदानेन कुरु शोकविवर्जितां ।। ७० ।। विलापमपि कुर्वाणां ताडयंती मुखे भृशं । सांत्वयन्वनितां कृच्छात्प्रह्लादः साश्रुलोचनः ॥७१।। सर्वबंधुजनाकीर्णः कृत्वा प्रहसितं कृत्वा प्रहसितं पुरः । निर्यातः स्वपुरात्पुत्रमुलब्धुं समुत्सुकः ॥ ७२ ॥ - अष्टादशं पर्व। + ४२० पद्मपुराणम् । F सर्वे चाहायिता तेन सगा द्विश्रेणिवासिनः । प्रीत्या ते तु समायाताः परिवारसमन्विताः ७३ ख पंथानमाथित्य भास्वद्विविधवाहनाः । अन्वेप्यस्ते महीं यत्नाद्गहरन्यस्तलोचना ।। ७४ ॥ प्रतिभानुरुदंतं तं ज्ञात्वा प्रहाददूततः । उबृहतं महाशोकमंजनायै न्यवेदयत् ।। ७५ ॥ प्रथमादपि सा दुःखात्ततो दुःखेन भूयसा । अथुधौतमुखा चक्रे करणं परिदेवनं ॥७६ ।। हा नाथ! प्राणसर्वस्व मम मानसबंधन क मा त्यक्त्वा प्रयातोऽसि केशसंततिभागिनीं ॥७७॥ किंवाद्यापि न त कोपं विमुंचसि पुरातनं । अदृश्यत्वं यदेतोसि सर्वविद्याभृतामपि ।। ७८ ॥ अप्येकं प्रति वाक्यं मे नाथ यच्छामृतोपमं । नत्वापन्नहितोन्मुक्ता महात्मानो भवंति हि ॥७९॥ इयंत धारिताः कालं भवदर्शनकांक्षया । प्राणा मयाधुना कार्य किमतैः पापकर्मभिः ।। ८० ॥ समागममवाक्ष्यामि प्रियेणेति समं कृता । कथं मनोरथा भग्ना देवेनाफलिता मम ।। ८१ ॥ कते मे मंदभाग्याया प्रियोवस्थागतो भवेत् । तामिदं हृदयं ऊरं यां समाशंकते मुहुः ॥ ८२ ॥ वसंतमालिके पश्य किमिदं वर्तते मम । असदविरहांगारपल्यकपरिवर्तनं ।। ८३ ।। वसंतमालया चोक्ता देवि मैवममंगलं । व्यरंटी: सर्वधासौ ते मा गोचरमप्यति ॥ ८४ ॥ एष कल्याणि ते नाथ मानयाम्यचिरादिति । प्रतिसूर्यः समाश्वास्या कृच्छेणांजनसुंदरी १८५|| पद्मपुराणम्। ४२१ अष्टादशं पर्व। -- मनोहरं समासा खगयानं मनोजवं । नभोमूर्धानमुत्पत्य वीक्षमाणःक्षितिं ययौ ॥ ८६ ॥ प्रतिभानुसमेतास्ते वैजयाी नभश्चराः । त्रैकूटाश्च प्रयत्नेन निरक्षत महीतलं ।। ८७ ॥ अथ भूतरवाटव्यां ददृशे ते महाद्विपं । मावृषेण्यधनोदारसंघाताकारधारिणां ॥ ८८॥ अयं स कालमेघाख्यपवनद्विप इत्यमी, अभ्यसासिपुरनं च पूर्वदृष्टेरनेकशः ॥ ८९ ॥ अयमैप स हस्तीति जगदुश्च परस्परं । सर्वे विद्याधरा हृष्टा समं कृतमहारयः ॥ ९० ॥ नीलांजनगिरिच्छायः कुंदराशिसितद्विजः । युक्तप्रमाणहस्तोयं हस्ती यत्रावतिष्ठते ॥ ९१ ॥ पवनंजयवीरेंण देशेत्र गतसंशयं । भवितव्यमयं तस्य मित्रवत्पार्श्वगोचरः ।। ९२ ।। वदंत इति ते याताः समीपं तस्य दंतिनः । निरंकुशतया तस्य मनाग्वित्रस्तमानसाः ॥.९३ ॥ रवेण महता तेषां.चुक्षोभ स महागजः । दुर्निवारश्चलद्भीमसमस्तांगो महाजवः ॥.९४ ॥ मदक्लिनकपोलोसौ स्तब्धकर्णः सुगर्जितः । दिशं पश्यति यामेव तत्र क्षुभ्यंति खेचराः ॥९५|| दृष्ट्वा जनसमूहं तं स्वामिरक्षणतत्परः । पवनंजयसामीप्यं न जहाति स वारणः ॥ ९६ ।। मंडलेन भ्रमत्यस्य सलीलं भमयत्करं । दर्शनेवैव चंडेन त्रासयन् सर्वखेचरान् ।। ९७ ।। करिणीभिरथावृत्य द्विपं यत्नेन खेचराः । वशीकृत्य तमुद्देशमवतीर्णाः समुत्सुका ॥ १८ ॥ - - . पद्मपुराणम्। ४२२. अष्टादशीपर्व। उपायेभ्यो हि.सर्वेभ्यो, वशीकरणवस्तुनि । कामिनीसंगमुझित्वा नापरं विद्यतें परं ॥ ९९ ॥ अथेक्षांचक्रिरे वायु विस्रस्तांग नभश्वराः । पुस्तकर्मसमाकारं वाचंयमतया स्थितं ॥.१० ॥ यथाईमुपचार ते चारस्य तथाप्यसौ.। न प्रयच्छति.चिंतास्था प्रतिवाक्यं मुनिर्यथा ॥१०॥ पुत्रप्रीत्या तमाघाय पितरी. मस्तके मुहुः । आलिंग्य च प्रमोदेन वाष्पस्थगितलोचनी, ॥१०२।।. ऊचतुर्वत्स संत्यज्य पितरौ कथमीशं । चेष्टितं, क्रियते त्वं.हि विनीतानां धुरिस्थितः ॥१३॥ वरशय्योचितः कायस्त्वयाध बिजने वने । संचाहिंतः कथं भीमे रात्री पादपगहरे ॥ १०४.॥ इति. संमाप्यमाणोऽपि नासौं वाचमुदाहरन् । मरणे निश्चितोऽस्मीति संज्ञयैव न्यवेदयत् १०५ व्रतमैतन्मयोपातं. यदप्राप्य महेंद्रजां। न मुंजे न वदारुति तत्कथं भज्यतेधुना ॥.१०६ ॥ आस्तां तावत्प्रियासत्यत्रतं संरक्षता. मया । गुरू प्रशासनाती कथमित्याकुलोऽभवत् ॥१०७॥ ततस्त,नतमूर्धानं मौनव्रतसमाश्रितं । मरणे निश्चित ज्ञात्वा जग्मुर्विद्याधराः शुचं ॥ १०८ ।। समेतास्तपितृभ्यां ते पिलेपुर्दीनमानसाः । संस्पृशंतः करैरस्य शरीरं स्वेदधारिभिः ॥ १०९ ।। ततः स्मितमुखोऽवोचत्पतिसूर्यो नभश्वरान् । माभूत विक्लवा वायुमेष वा भापयाम्यहं ॥११०॥ पचनं च परिष्वज्य जगादानुक्रमान्वितं । कुमार श्रृणु यद्वृत्तं कथयामि तवाखिलं । १११।।
पद्मपुराणम् । अमादशं पर्व। ४२३ । संध्याभ्रपर्वते रम्यै मुनेः कैवल्यमुद्गतं । अनंगवीचिसंज्ञस्य देवेंद्रक्षोभकारणं ।। ११२ ।। वंदित्वा तं प्रदीपन रात्रयागच्छतया मया । रुदितध्वनिरश्रावि खणस्तंत्रीस्वनोपमः ॥११३३ ।। अढौकत तमुद्देशं गिरेः प्रस्थं समुन्नतं । पर्यकनाग्नि दृष्टा च गुहायामंजना मया ॥ ११४ ।। निर्वासकारण चास्या विज्ञाय विनिवेदितं । मया प्राश्वासिता:बाला रुदती शोकविद्वला ११५ तस्यामसूत सा पुत्रमन्वितं लक्षणैः शुभैः । यस्य भासा गुहा सासीत्सुवर्णेनैव निर्मिती ॥११६॥ तोपं च परमं प्राप्तः श्रुत्वा तां जातपुत्रिकां । ततस्तत इति क्षिप्रमपृच्छच्च समीरणः ॥ ११७ ।' अवोचत्स ततस्तस्याः सुतोऽसौ चारुचेष्टितः । विमाने स्थाप्यमानः सन् पतितः शैलंगहरे.।। अत्रांतरें पुनः प्राप्तो विपादं पवनंजयः । हाकारमुखरः साई, तया.खेचरसेनया.॥ ११९ ॥ प्रतिभानुः पुनथोचे मागाः शोकं ततः। शृणु यद्वृत्तं तत्समस्तं तें वार्योदुःख हरिष्यति।।१२०॥ ततो हाकारशब्देन मुखरीकृतदिग्मुखः । अवतीर्यान, बालमैक्षिष्महि, नगांतरे.॥.१२१ ।। चूर्णितश्च ततः शैलस्तेनासौ पतनात्तदा । श्रीशैल इति तेनासावस्माभिर्विस्मितैःस्तुतः ॥१२२॥ वसंतामालया साकं ततः पुत्रेण संयुता । विमानमंजनारोप्य मया नीता निजं पुरं ॥ १२३ ।। ततो. हनूरुहाभिख्ये पुरे संवर्द्धितः शिशुः । हनूमानिति तेनास्य द्वितीयं नाम निर्मित ॥१२४ा अष्टादश पर्व। T पद्मपुराणम् एपा ते कथिता सार्फ पुत्रेणाद्भुतकर्मणा । मत्पुरे शीलसंपन्ना निष्ठतीति विबुध्यता ॥ १२५ ।। पुरस्कृत्य ततो वायुं हृष्टा गगनचारिणः । क्षिप्रं हनूरुहं जग्मुरंजनादर्शनोत्सुकाः ॥ १२६ ।। तेषां महोत्सवस्तत्र समागमकृतोऽभवत् । सुसंवेद्यस्तु दंपत्योर्दुराख्यानो विशेषतः ॥ १२७ ।। तत्र मासद्वयं नीत्वा खेचराः प्रीतमानसाः। आमंत्र्य लब्धसन्माना. ययुःस्थानं यथायथ।।१२८॥ चिरासंप्राप्तपत्नीकः पवनोऽपि सुचेष्टितः । नत्र गीर्वाणवद्रुमे सुतचेष्ट्राभिनंदितः ॥ १२९ ॥ हनूमस्तित्र संप्राप्य यौचनश्रियमुत्तमा । मेरुकूटसमानांग: स्तेनकः सर्वचेतसां ।। १३०॥ सिद्धविद्यः प्रभावाढ्यो विनयज्ञो महाबलः । सर्वशास्त्रार्थकुशलः परोपकृतिदक्षिणः ॥ १३१ ॥ नाकोपभुक्तपाकस्य पुण्यशेषस्य योजकः । रमतेस पुरे तत्र गुरुपूजनतत्परः ॥ १३२ ।। श्रीशैलस्य समुद्भवेन सहितं वायोः समं कांतया । यो भावेन शृणोति संगममिमं नानारसैरद्भुतं ।। जवोस्तस्य समस्तसंमृतिविधिज्ञानेन लब्धात्मनो । युधिर्नाशुभकर्मणि प्रभवति प्रारब्ध सत्कर्मणः।। आयुर्दीर्घमुदारविभ्रमयुतं कांतं वपुर्नीरजं । मेघां सर्वकृतांतपारविषयां कीर्ति च चंद्रामलां ॥ पुण्यं स्वर्गसुखोपभोगचतुरं लोके च यदुर्लभं । तत्सर्व सुकृदभुतेरविवि स्फूतप्रभामंडलः १३६ इत्या रविपणाचार्यप्रोक्त पद्मचरिते पवनांजनासमागमाभिधानं नामाटादशं पर्व । SE ४२५ एकोनविंशति पर्व। पद्मपुराणम्। A U + - है अथैकोनविंशति पर्व। रावणोऽथ वहन्दीर्घ क्रोधमप्राप्तनिवृत्तिः । अडुढौकत्पुनः सर्वान् खेचरान् लेखहारिभिः ॥ १॥ किष्किंधेद्रस्तमभ्यागात्तथा दुंदुभिसंज्ञकः । अलंकाराधिपो यच रथनूपुरकस्तथा ॥२॥ विजयार्द्धनगे ये च श्रेणिद्वयनिवासिनः । सर्वोद्योगेन ते सर्व प्राप्ता रत्नश्रवःसुतं ॥ ३ ॥ अथो, हनूरुहद्वीपं नरो मस्तकलेखकः । प्राप्तः पवनवेगस्य प्रतिसूर्यस्य चांतिकं ॥ ४ ॥ लेखार्थमभिगम्यतौ प्रयाणन्यस्तमानसौ । श्रीशैलस्योद्यतौ कर्तुमभिपेकं नृपास्पदे ॥ ५॥ कृतस्तदर्थमाटोपः सूर्यशब्दादिको महान् । नराः कलशहस्ताश्च श्रीशैलस्य पुरस्थिताः ॥ ६ ॥ किमेतदिति तौ तेन पृष्टापिदमवोचता । राज्यं हनूरुहद्वीपे वत्स त्वं पालयाधुना ॥ ७ ॥ युद्धे सहायता, कुर्तुमावामीशेन रक्षसां.। आहूतौ तस्य कर्तव्यं प्रीत्यावाभ्यां यथोचितं ।। ८.॥ रसातलपुरे. तस्य वरुणः प्रत्यवस्थितः । दुर्जयोऽसौ महासैन्यः पुत्रदुर्गवलोत्कटः ॥९॥ हनूमानेवमुक्तः सन् विययेनेदमबवीत् । मयि स्थिते न युक्तं वां गंतुमायोधनं गुरू ॥१०॥ अविकातरणास्वादो वत्स त्वमिति भापिते । जगाद किं शिवस्थानं कदाचिल्लब्धुमाप्यते ॥१॥ +
एकोनपिंशति पर्व।
पद्मपुराणम्
,
यदा निवार्यमाणोऽपि न. स्थातुं. कुरुते. मनः । तदा ताभ्यामनुज्ञातः स युवा गमनं प्रति ॥१२॥
मात्वा भुक्त्वा स पूर्वाहे मंगलाचिंतविग्रहः । कृतः प्रणामः सिद्धानामर्हतां च प्रयत्नतः ॥१३॥
पितरं मातरं मातुर्मातुलं च महाद्युतिः। प्रणम्याशेपवर्ग च संभाप्य, विधिकोविदः १.१४ ॥
विमानं सूर्यसंकाशं समारूह्य दिशो दश.। व्याप्य शस्त्रसमूहेत.यौं, लंकापुरी प्रतिः ॥.१५ ।।
त्रिकूटाभिमुखों गच्छन्त्रिमानेसावराजत.। मंदराभिमुखो यद्देशानस्त्रिदशाधिपः ॥१६॥
जलवीचिगिरी.तस्य रविरस्तमुपागमत् । समुद्रचीचिसंतानचुंबितोरुनितंबके ।।. १७....
तत्र रात्रि सुखं नीत्वा कृतसद्भटसंकथः । महोत्साहन सन्नह्य ययौ. लंकाहितेक्षणाः॥.१८ ॥
नानाजनपदान्द्वीपानगानुर्मिसमाहतान । ग्रहांश्च जलधा पश्यन् रक्षःसन्यमवाप सः॥१९॥
दृष्ट्वा हनूमतः सैन्यं पुरुराक्षसपुंगवाः । विस्मयं परमं जग्मुः श्रीशैलहितलोचनाः ॥२०॥
चूर्णितोऽनेन शैलोऽसौ सोयं भव्यजनोंत्तमः । इतिशब्दमसौं शृण्वन् रावणस्य गोंतिकं ॥२१॥
मारुतिं रावणो वीक्ष्य कुसुमैरभिपूरितात् । सौरमाकृष्टसंभ्रांतगुंजन्मत्तमधुव्रतात् ॥ २२ ॥
उपरिन्यस्तरत्नांशुरितावरमंडपात् । पर्यतस्थितसामंतादभ्युत्तस्थौ शिलातलात् ॥ २३ ॥
परिष्वज्य हनूमंत विनयानतविग्रहं । उपविष्टः समं तेन तत्र प्रीतिस्मिताननः ॥२४॥
-41
पद्मपुराणम् ।
एकोनविंशति पर्व।
કર્ક
अन्योन्यं कुशलं दृष्ट्वान्योन्यस्य संपदं । रेमा तौ महाभाग्यौ देवेंद्राविव संगती ॥ २५ ॥
अथावोचद्दशग्रीवः प्रमदान्वितमानसः । हनूमंत मुहुः पश्यन्नत्यंतस्निग्धया दृशा ।। २६ ॥'
अहों संवर्द्धितं प्रेम वायुना मम साधुना । यदयं प्रेपितः पुत्रः प्रख्यातगुणसागरः ॥ २७ ॥
एनं प्राप्य महासत्त्वं तेजोमंगलभूषितं । नैव मे दुस्तरं किंचिद्भविष्यत्यत्र विष्टपे ॥ २९ ॥
गुणेषु भाष्यमाणेषु श्रीशैलो नतविग्रहः । सबीड इव संवृत्तः प्रायो वृत्तिरियं सतां ॥ ३० ॥
भविष्यतोऽथ संग्रामाद्भयेनेव दिवाकरः । अस्तं सेवितुमारेमे मंदारुणकरोत्करः ॥ ३१ ॥
संध्यास्य. पृष्ठतो यांतीवहती रागमुत्कटं । शुशुभे प्राणनाथस्य विनीता रमणी यथा ॥ ३२ ॥
ततो निशावधू रेजे कृतचंद्रविशेषका । कुर्वाणानुगतिं भर्तुळसरस्य निरंतर ॥ ३३ ॥
अन्येदुर्भानुभिर्भानोरुज्वल भुवने कृते । दशग्रीवः सुसन्नद्धः समस्तवलमध्यगः ॥ ३४ ॥
आसन्नस्थहनूमत्कः कृतमंगलविग्रहः । विद्यया जलधि भित्त्वा प्रयातो वरुणं पुरं ॥ ३५ ॥
प्रत्यरि बजतोऽमुष्य दीप्तिरासीदनुत्तमा । कुठारराममुद्दिश्य सुभूमस्येव चक्रिणः॥३६॥
ज्ञात्वा दशाननं प्राप्य सैन्यनिस्वनसूचितं । संचुक्षोभ पुरं सर्व वरुणस्य महारवं ॥३७॥
पातालपोडरीकाख्यं तत्पुरं प्रबलध्वजं । सुरत्नतोरणं जातं सन्नाहरवसकुल ॥ ३८॥
एकोनविंशतिपर्व। 1 पद्मपुराणम्। ततो विश्रमयत्सैन्यं रावणवरनिवृतः । उद्याने प्रवरे तस्यों भवनोन्मादनामनि ।। ६५ ।। समुद्रासंगशीतेन वायुनास्य व्यनीयत । सैन्यस्य रणजः खेदो वृक्षच्छायानुवर्तिनः ।। ६६ ।। गृहीतं नायकं ज्ञात्वा वरुणस्याखिलं बलं । प्रविवेश पुरं भीतं पौंडरीकं समाकुलं ।। ६७ ॥ तदेव साधनं तावत्त एव च महाभटाः । प्रधानस्य वियोगेन प्रापुर्व्यर्थशरीरतां ।। ६८ ॥ पुण्यस्य पश्यतौदार्य यदुद्भवति तद्वति: बहुनामुद्भवः पुंसां पतिते पतनं तथा ॥ ६९ ।। अथ भास्करकर्णस्तं मथ्नातिस्म पुरं रिपोः ।.विडलीभूतनिश्शेषजनसंघातसंकुलं-॥ ७०.॥ लुटितं चात्र सकलं धनरत्नादिकं भटैः।। अरातिपुरकोपेन नतु लोभकशस्थितैः ॥ ७१ ॥ रतिविभ्रमधारिण्यः सबदस्राकुलेक्षणाः । विलपत्यो चराकान गृह्यतेस्म वरांगनाः ॥७२॥ स्तनावनम्रदेहास्ताचलत्पल्लवपाणयः । कूर्जत्यो बांधवान् सर्वान् गृहीता निष्ठुरैनरैः ॥ ७३ ॥ विमानाभ्यंतरन्यस्ता काचिदेवमभापत 1 सरवीशोकग्रहास्तसमस्तास्यनिशाकरा।।। ७४ ॥ -सखि शीलविनाशो मे यदि नाम भवेदिह । उल्लंब्यांशुकपडेनामरिप्यामि-न संशयः ।।। ७५ ।। संदिग्धमरण काचिद् व्याहरेती मुहुः प्रियं । संस्मृत्य तद्गुणान् मूछोमानछे म्लानलोचना ७६ मातरं पितरं कांत भ्रातरं मातुलं सुतं । आइयंत्यः क्षरनेत्रास्ता मुनेरपि दुःखदाः ॥ ७७] पद्मपुराणम् । ४३१ एकोनविंशति पर्व। . काचिद्भास्करकिरणस्य शोभया. हृतलोचना | जगादोपांशुवित्रंभांत्सवीं कमललोचना ।। ७८ ॥ सखि कापि ममोत्पन्ना दृष्टुत मुनिपुंगवं । धृतिर्यया कृतेवाहं परायत्तशरीरिका ।। ७९ ॥ इति शुद्धविरुद्धाश्च विकल्पास्तत्र योषिता । बभूवुः कर्मवैचिन्यालोकोऽयं चित्रचेष्टितः ॥८॥ कुवेर इव सद्भूतिः प्रवीरभटसेवितः । जयनिस्वानमुखरः कांतलीलासमन्वितः ।।८१ ॥ अवतीर्य विमानांनाद्भास्करश्रवणो, मुदा पुरो-राक्षसनाथस्य धूसरोष्टीरतिष्ठपत् ।। ८२॥ ता विषादवती दृष्ट्वा बाप्पपूरितलोचनाः। बंधुभीरहिता नम्राः सवेपथुशरीरिका ॥ ८३ ॥ वदंती करुणं स्वैरं किमपि त्रपयान्विता । रावण करुणाविष्टो जगादेति सहोदरं ॥८४ ॥ अहोत्यंतमिदं घाल त्वया दुश्चरितं कृतं । कुलनार्यो यदानीता चंदीग्रहणपंजरं ।। ८५ ॥ दोपः कोऽत्र वराकीणां नारीणां .मुग्धचेतसां । खलीकारमिमा येन त्वयि का मापिता मुधा ८६ पालिका मुग्धलोकस्य शत्रुलोकस्य नाशिका, । गुरु शुश्रूपिणी चेटा ननु चेष्टा महात्मनां ।।८७|| इत्युक्त्वा मोचितास्तेन क्षिप्रा ता ययुरालयं । आश्वासिता गिरा साध्व्यः सद्यः शिथिलसाध्वसा८८ आनाय्य वरुणोऽवाचि रावणेनाथ सत्रपः । भटदर्शनमात्रेण कृतरक्षोनताननः ॥ ८९ ॥ प्रवीण माकृथाः शोकं युद्धग्रहणसंभव । ग्रहणं ननु वीराणां रणे सत्कीर्तिकारणं ॥ २०॥ - एकोनविंशति पर्व। . ४३२ पद्मपुराणम्। . द्वयमेव रणे वारैः प्राप्यते मानशालिभिः । ग्रहणं मरणं वापि कातरैश्च पलायितुं ॥ ९१ ॥ पुरावदखिलं स त्वं राज्यं रथ निजे पदे । मित्रांधवसंपन्नः सकलोपद्रवोज्झितं ॥ १२ ॥ • अथैवमुक्तो वरुणः स वीरं । कृत्वांजलिं प्रावददेतमेव ॥ विशालपुण्यस्य तवात्र लोके । मूढो जनो तिष्ठति वैरभावे ॥९३ ॥ अहो महद्धर्यमिदं त्वदीयं । मुनेरिव स्तोत्रसहसयोग्यं ॥ विहाय रत्नानि पराजितोहं । त्वया यदभ्युन्नतशासनेन ।। ९४ ॥ वायोः सुतस्यैव कथं प्रभावो । निगद्यतामद्भुतकर्मणोऽपि । यतस्त्वदीयेन शुभेन साधो । समाहितः सोऽपि महानुभावः ॥ ९५ ॥ न कस्यचिन्नाम महीयमेतां । गोत्रक्रमाद्विक्रमकोशधारिता ।। वीरस्य भोग्येयमसी भवांव । तेषां स्थितो मूर्धनि साधि लोकं ॥ ९६ ॥ स्वामी, त्वमस्माकमुदारकीर्ते । क्षमस्व दुर्वाक्यकृतं निकार ।। वक्तव्यमित्येव वदामि नाथ । क्षमा तु दृष्टैव तवात्युदारा ॥ ९७ ।। तेन त्वया सार्धमहं विधाय !.संबंधमत्युनतचेएितेन ॥ 2 पद्मपुराणम् । ४३३ एकोनविंशति पर्व। . कृतार्थतामेमि ततो गृहण । तन्मे सुतां योग्यतमस्त्वमस्याः ॥ ९८ ॥ एवं विदित्वा तनुजां विनीता । प्रकीर्तितां सत्यवतीति नाम्ना ॥ ललामरूपां जनितां सुदेव्या । समयत्ताम्ररसामवक्त्रा.॥ ९९ ॥ नयोर्महान् संवत्ते विवाहे । समुत्सवः पूजितसर्वलोकः । तयोहि निश्शेपसमृद्धिभाजो । रन्वेषणीयं न समस्ति किंचित् ॥ १० ॥ सन्मानितस्तेन च मानितेन । कृतानुयानः कतिचिद्दिनानि । सुतावियोगव्यथितांतरात्मा । स्वराजधानी वरुणो विवेश ॥ १०१ ।। कैलाशकंपोऽपि समेत्य लंका। विधाय सन्मानमतिप्रधान ।। महाप्रभां चंद्रनखातनूजां । ददौ समीरप्रभवाय कन्यां ॥ १०२ ॥ अनंगपुप्पेति समस्तलोके । गतां प्रसिद्धिं गुणराजधानी.॥ अनंगपुष्पायुधभूतनेत्रां । लब्ध्या स तां तोपमुदारमार ॥,१०३ ।। श्रियां च संपादिनि कर्णकुंडले । पुरेऽस्य चक्रे क्षितिपाभिपेचनं ।। स्थितः स तत्रोत्तमभोगसंगतो । यथोर्द्धलोके भुवनस्य पालकः ॥ १०४ ।। . २८ एकोनविंशति पर्व - पद्मपुराणम् नधानलः किष्कपुरे शरीरजों । प्रसिद्धिमतां हरिमालिनी श्रुति ।। श्रियं जयंतीमपि रूपसंपदा । ददौ विभूत्या परया हनुमते ॥ १०५ ॥ पुरे तथा किन्नरगीतसंझके । स लन्धवान् किन्नरकन्यकाशतं । इति क्रमेणास्य बभूव योपितां । परं सहस्राद्गणनं महात्मनः ।। १०६ ॥ भ्रमन्नसौ येन नहीघरेऽस्थात् । श्रीशैलसंत्रोत्र समीरपनुः ।। श्रीशैल इत्यागतवानसी तत् । ख्याति पृथिव्यामिति रम्यसानुः ॥ १०७ ।। तदास्ति किकियपुरे महात्मा । सुग्रीवसंज्ञः पुरखेचरेशः॥ तारेति तारापतिकांतिवक्त्रा । बभूव रामास्य रतेः समाना ॥ १०८ ॥ वयोस्तनूजा नवपारागा । गुणैः प्रतीता भुपि पद्मरागा ॥ पोव रूपेण विशालनेत्रा । भामंडलप्रावृतवक्त्रपमा ॥ १०९ ।। महेभकुंभोवतपीवरस्तनी । सुरेंद्रशस्रग्रहणोपमोदरी ।। विशाललावण्यतडागमध्यगा । मलिम्लुचा सर्वजनांतरात्मनां ॥ ११० ॥ विचिंतयंतौ पितरी च वस्या । योग्यं वरं शोभनविभ्रमायाः ।।
-
एकोनविंशति पर्व।
पद्मपुराणम् ।
नक्तं न निद्रा सुखतो लभेता । दिवा तु नैव प्रविकीर्णचित्तौ ॥ १११ ॥
ततः पटेखिद्रजितप्रधाना । विद्याधराः सूचितभीलवंशाः ॥
चित्रीकृता चित्रगुणा दुहित्रे । प्रदर्शितावारुरुचः पितृभ्यां ॥ ११२ ॥
अनुक्रमात्साथ निरीक्ष्यमाणा | मुहुर्मुहुः संहृतनेत्रकांतिः॥
सद्यः समाकृष्टविचेष्टदृष्टिबोला हनूमत्प्रतिमां ददशे ॥ ११३ ।।
दृष्ट्वा च तं वायुसुतं पटस्थं । सादृश्यनिर्मुक्तसमस्तदेहं ।।
अताडयतासौ मदनस्य वाणैः । सुदुस्सहै। पंचभिरेककालं ॥ ११४ ॥
तत्रानुरक्तामधिगम्य वाहमेतामुवाचेति सखी गुणज्ञा ।।
अयं स वाले पवनंजयस्य । श्रीशैलनामा तनयः प्रतीतः ॥ ११५ ॥
गुणस्तवास्य प्रथिता पुरैव । शोमा तु दृग्गोचरतां प्रयाता ॥
एतेन साधं भज कामभोगान् । पित्रोः प्रयच्छातिचिरेण निद्रा ॥ ११६ ।।
अहो पुनचित्रगतेन तेन । मनोविकारो जनितो हनूमता ॥
सखी वदंतीमिति लज्जया नता । जघान लीलाकमलेन कन्यका ॥ ११७ ॥
17 1 एकोनविंशतिपर्व। - पद्मपुराणम् । ततो विदित्वा जनकेन तस्या । हृतं मनो मारुतनंदनेन ।। परः समारूढसुताशरीरः । संप्रेपितो वायुसुताय शीघ्रं ॥ ११८ ॥ दुतो युवा श्रीनगरं समेत्य । जातः प्रविष्टो विहितप्रणामः ॥ हनूमते दर्शयतिम विवं । वारात्मजायाः पटमध्ययातं ।। ११९ ।। सत्यं शराः पंच मनोभवस्य । स्युर्यद्यमुग्मिनु जगति प्रसिद्धाः ।। कन्यालियुक्तः कथमककालं । ततः शवयुसुतं जघान || १२० ।। अजातएवास्मि न यावदेना । प्राप्नोमि कन्यामिति जावचित्तः ॥ समीरसुनुर्विभवेन युक्तः । क्षणेन सुग्रीवपुरं जगाम ॥ १२१॥ श्रुत्वा तमासन्नतरं प्रदृष्टः । सुग्रीवराजोभ्युदियाय सद्यः ।। प्रयुज्यमानोऽर्धशतैर्हनूमान् । पुरं प्रविष्टः श्वसुरेण साधं ॥ १२२ ।। तस्मिंस्तदा राजगृह प्रयाति । प्रासादमालामणिजालकस्थाः॥ तदर्शनव्याकुलनेत्रपदाः । मुक्तान्यचेष्टा ललना बभूवुः ।। १२३ ।। गवाक्षजालेन निरीक्षमाणा । सुग्रीवजा वायुसुतस्य रूपं ॥
एकोनविंशति पर्व। - पद्मपुराणम्। •४३७ कामप्यवस्थां मनसा प्रपन्ना । स्ववेदनीयां सुकुमारदेहा ॥ १२४ ॥ भयं स नायं पुरुषोऽपरोयं । कोप्येप सोऽसौ सखि सोयमेव ।। इत्यंगनाभिः परितर्यमाणो । विवेश सुग्रीवपुरं हनूमान् ।।.१२५ ।। तयोविवाहः परया विभूत्या । विनिर्मितः संगतसर्वबंधुः ॥ तौ दंपती योग्यसमागमेन | प्राप्तौ प्रमोदं परमं सुरूपौ ।। १२६ ॥ जगाम यच्या सहितो हनुमान् । स्थानं निजं निर्दृतचित्तवृत्तिः ॥ कृत्वा सशोको श्वसुरौ स्ववर्गों । सुतावियोगात्स्वचियोजनाच ॥ १२७ ॥ तस्मिंस्तथा श्रीमति वर्तमाने । सुते समस्तक्षितियातकीर्ती ।। महासुखास्वादसमुद्रमध्ये । ममज्ज वायुः क्षितिपोजना च ।। १२८ ॥ श्रीशैलतुल्यैरथ खेचरेशैः । सन्मान्यमानो बहुमानधारी ॥ अभूदशास्यः क्षतसवेशत्रुः । त्रिखंडनाथो हरिकंठतुल्यः ॥ १२९ ।। लंकानगों स विशालकांतिः । सुखेन रेमे पृथुभांगजेन ॥ समस्तलोकस्य धृतिं प्रयच्छन् । यथा सुरेंद्रः सुरलोकपुर्या ।। १३० ।। : .
एकोनविंशति पर्व। ४३८ पद्मपुराणम् । महानुभावः प्रमदाजनस्य । स्तनेघसौ लालितरक्तपाणिः॥ विवेद नो दीर्घमपि व्यतीतं । कालं प्रियावक्त्रतिगिछ गः ॥ १३१ ।। एकापि यस्येह भवेद्विरूपा । नरस्य जाया प्रतिकूलचेष्टा ॥ रतेः पतित्वं स नरः करोति । स्थितः मुखे संमृतिधर्मजाते ॥ १३२ ॥ युक्तः प्रियाणां दशभिः सहस्त्रैः । तथाष्टभिः श्रीजनितोपमानां ।। महाप्रभावः किमुतैप राजा । खंडत्रयस्यानुपमानकातिः ॥ १३३ ।। एवं समस्तखगपैरभिनूयमानः । संभ्रांतसन्नतपरांगधृतानुशिष्टिः ।। खंडत्याधिपतितापिहिताभिपेकः । साम्राज्यमाप जनताभिनुतं दशास्यः ॥ १३४ ।। विद्याधराधिपतिपूजितपादपमः । श्रीकीर्तिकांतिपरिवारमनोज्ञदेहः ।। सर्वग्रहः परिवृतो दशवक्त्रराजा । जातः शशांक इव कस्य न चित्तहारी ॥ १३५ ।। चक्र सुदर्शनममोघममुप्य दिव्यं । मध्याह्नमास्करकरोपममध्यजालं ॥ उद्वृत्तशत्रुनृपवर्गविनाशदक्षं । रेजेऽरिदृष्टमतिभासुररत्नचित्रं ॥ १३६ ॥ दंडश्च मृत्युरिव जातशरीरबंधो । दुष्टात्मनां भयकरः स्फुरितोग्रतेजाः ॥ .
पद्मपुराणम् । ४३९ ३ । एकोनविंशति पर्व। A उल्कासमूह इव संगतवान् प्रचंडो । जज्वाल शस्त्रभवने प्रतिपन्नपूजः ॥ १३७ ।। सोयं स्वकर्मवशतः कुलसंक्रमेण । संप्राप्य राक्षसपुरी पुरुचारुकीर्तिः ।। ऐश्वर्यमद्भुततरं च समंतभद्रं । रक्षःपतिः परमसंसृतिसौख्यमेतः ॥ १३८ ॥ सदृष्टिबोधचरणप्रतिपत्तिहेतौ । दूरं गतेथ मुनिसुव्रतनाथतीर्थे ।। अत्यंतमूढकविभिः परमार्थः । लोकेऽन्यथैव कथितः पुरुषः प्रधानः ॥ १३९ ।। विपयवशमुपेतैर्नष्टतत्त्वार्थयोधैः । कविभिरतिकशीलैनित्यपापानुरक्तैः ॥ कुरचितगरहेतुग्रंथवाग्वागुराभिः । प्रगुणजनमृगौथो बध्यते मंदभाग्यः ॥ १४० ॥ इति विदितयथावत्तवस्तुप्रपंचः । क्षतकुमतजनोक्तग्रंथपंकप्रसंग: मज सुरपतिवंद्य शास्त्ररत्नं जिनानां । रविसमधिकतेजः श्रेणिक श्रीविशालः ॥१४१॥ इत्या रविषेणापार्यप्रोफे पद्म-चरिते रावणसाम्राज्यभिधानं नामैकोनविंशतितमं पर्व विद्याधरकांड समाप्त ।
विंशतितम पर्व।
४४०
पद्मपुराणम्।
-
विशतितमं पर्व।
अथैवं श्रेणिकः श्रुत्वा विनीतात्मा प्रसनधीः। प्रणम्प गणिनः पादौ पुनरूचे सविस्मयः ॥१॥
प्रसादात्तय विज्ञातः प्रतिशत्रोः समुद्भवः । अष्टमस्य तथाभेदः कुलयोः कपिरक्षसां ॥२॥
सांप्रतं श्रोतुमिच्छामि चरितं जिनचक्रिणां । नाथ पूर्वभपर्युक्तं घुद्धिशोधनकारणं ॥३॥
अष्टमो यश्च विख्यातो हली सकलविष्टपे । वंशे कस्य समुभूतः किंवा तस्य विचेष्टितं ॥ ४ ॥
अमीपा जनकादीनां तथा नामानि सन्मुने । जिज्ञासितानि में नाप तत्सर्च वक्तुमर्हसि ॥५॥
इत्युक्तः स महासत्यः परमार्थविशारदः। जगाद गणभृद्वाक्यं चारुप्रश्नाभिनंदितः ॥ ६ ॥
भृणु श्रेणिक वक्ष्यामि जिनानां भवकीर्तनं । पापविध्वंसकरणं त्रिदशेंद्रनमस्कृतं ॥ ७॥
ऋपमोऽजितनाथश्च संभवश्वाभिनंदनः । सुमतिः पद्मनाभश्व सुपार्श्वः शशिभृत्प्रभुः ॥ ८॥
सुविधिः शीतलः श्रेयान् वासपूज्योऽमलप्रभुः । अनंतो धर्मशांती च कुर्देवो महानरः ॥९॥
मल्लिा सुव्रतनाथश्च नमिर्ने मिश्च तीर्थकृत् । पार्थोयं पश्चिमो वीरो शासनं यस्य वर्तते ॥१०॥
नगरी परमोदारा नामतः पुंडरीकिणी । सुसीमेत्यपरा ख्याता क्षेमेत्यन्यातिशोभना ॥ ११॥
पद्मपुराणम् ।... विंशतितम पर्व। . -- । तथा रत्नवरैर्दीप्ता रत्नसंचयनामिका | चतसः परमोदारा सुव्यवस्था इमा पुरः ॥ १२ ॥ वासुपूज्यजिनातानां जिनानामृपभादितः । आसन् पूर्वभवे रम्या राजधान्यः सदोत्सवाः ॥१३॥ सुमहानगरं चारु तथारिष्टपुरं वरं । सुमाद्रिका च विख्याता तथासौ पुंडरीकिनी ॥ १४ ॥ सुसीमा सीमसंपन्ना क्षेमा च क्षेमकारिणी । व्यतीतशोकनामा च चंपा च विदिता भुवि।।१५।। कौशांबी च महाभोगा तथा नागपुरं पृथु । साकेता कांतभवना छत्राकारपुरं तथा ॥ १६ ॥ अनुक्रमेण शेषाणां जिनानां पूर्वजन्मनि । राजधान्य इमा ज्ञेयाः पुर्पः स्वर्गपुरीसमाः ।। १७ ॥ वजनाभिरिति ख्यातस्तथा विमलवाहनः । अन्यश्च विपुलख्यातिः श्रीमान् विपुलवाहनः ॥१८॥ महाबलोऽपरः कांतस्तथातिबलकीर्तनः । अपराजितसंज्ञश्च नंदिपेणाभिधोऽपरः ॥ १९ ।। पद्मश्चान्यो महापद्मस्तथा पद्मोत्तरो भुवि । नाथः पंकजगुल्माख्य पंकजप्रतिमाननः ॥ २० ॥ विभुर्नलिनगुल्मश्च तथा पद्मासनः सुखी । स्मृतः पद्मरथो नाथः श्रीमान् दृढरथोऽपरः ॥२१॥ महामेघरथो नाम शूरः सिंहरयाभिधः । स्वामी वैश्रवणो धीमान् श्रीधर्मोन्यो महाधनः ॥२२॥ अप्रतिष्ठः सुरश्रेष्ठः सिद्धार्थः सिद्धशासनः। आनंदो नंदनीयोऽन्यः सुनंदश्चेति विश्रुतः ।। २३ ॥ पूर्वजन्मनि नामानि जिनानामिति विष्टपे । प्रख्यातानि मयोक्तानि क्रमेण मगधाधिप ॥२४॥ ܚ
..
विंशतितम पर्व।
पद्मपुराणम् ।
वज्रसेनो महातेजास्तथा वीरो रिपुंदमः । अन्य स्वयंप्रभाभिख्यः श्रीमान् विमुलवाहनः ॥२५॥
गुरुः सीमंधरो ज्ञेयो नाथव पिहितात्रयः । महातपस्विनावन्यावरिंदमयुगंधरौ ॥ २६ ॥
तथा सर्वजनानंदः सार्थकाभिख्ययान्वितः । अभयानंदसंज्ञश्च वजदत्तोऽपरः प्रभुः ॥ २७ ।।
वज्रनामिश्च विज्ञेयः सर्वगुप्तिश्च गुप्तिमान । चिंतारक्षप्रसिद्धिश्च पुनविपुलवाहनः ॥ २८ ॥
मुनिर्धनरवो धीरः संवरः साधुसंवरः । वरधर्मखिलोकीयः सुनंदो नंदनामभृत् ॥ २९ ॥
व्यतीतशोकसंजय डामिलः प्रोष्ठिलस्तथा । क्रमेण गुरखो ज्ञेया जिनानां पूर्वजन्मनि ॥ ३० ॥
सर्वार्थसिद्धिसंशब्दो वैजयंतः मुखावहः । नैवेयको महामासः वैजयंतः स एव च ॥ ३१ ॥
ऊर्ध्वग्रेवेयको ज्ञेयो मध्यमश्च प्रकीर्तितः । वैजयंतो महातेजा अपराजितसंज्ञकः ॥ ३२ ॥
आरणव समाख्यातस्तथा पुप्पोत्तराभिधः । कापिष्टः पुर शुक्रश्च सहस्रारो,मनोहरः ॥ ३३ ॥
त्रिपुष्पोत्तरसंज्ञोतो मुक्तिस्थानधरस्थितः विजयाख्यस्तथा श्रीमानपराजितसंज्ञकः ॥ ३४ ॥
प्राणतोऽनंतरातीतो वैजयंतो महाद्युतिः । पुष्पोत्तर इति शेयो जिनानाममरालयाः ॥ ३५ ॥
जिनान.जन्मनक्षत्रं मातरं पितरं पुरं । चैत्यवृक्षं तथा मोक्षस्थानं ते कथयाम्यतः ॥ ३६ ।।
विनीता नगरी नाभिर्मरुदेव्युत्तरा तथा । आपादा वटवृक्षश्च कैलाशः प्रथमो जिनः ॥ ३७॥
पद्मपुराणम्। ४४३ विंशतितम पर्व। साकेता विजया नाथो जितशत्रुजिनोत्तमः । रोहिणी सप्तपर्णश्च मंगलं श्रेणिकास्तु ते ॥ ३८ ॥ सेना जितारिराजश्च श्रावस्तीसंभवो जिनः । ऐंद्रक्षं ततः शालः परमं तेस्तु मंगलं ॥ ३९ ॥ सिद्धार्थी संवरोऽयोध्या सरलश्च पुनर्वसुः । अभिनंदननाथश्च भवंतु तव मंगलं ॥ ४० ।। मुमंगला प्रियंगुष मघा मेघनमा पुरी | साकेता मुमति थो जगदुत्तममंगलं ॥ ४१ ।। मुसीमा वत्सनगरी च चित्रधरणशब्दितः । पद्मप्रभः प्रियंगुश्च भवंतु तव मंगलं ।। ४२ ।। मुमतिष्ठः पुरी काशी विशिखा पृथिवी तथा । शिरीपश्व सुपार्श्वश्व राजन् परममंगलं ।। ४३ ॥ नागवृक्षोऽनुराधर्व महासेनश्च लक्ष्मणः । ख्याता चंद्रपुरी चंद्रप्रभश्च तव मंगलं ॥ ४४ ॥ काकंदी मुविधिमूलं रामा मुग्रीवपार्थिवः । सालस्तरुश्च ते संतु चित्तपावन कारणं ॥ ४५ ॥ प्लक्षो दृढरथो राजा भद्रिका शीतलो जिनः । सुनंदा प्रथमापाढा संतु ते मंगलं परं ॥ ४६॥ विष्णुश्रीः श्रमणो विष्णुः सिंहनादश्च तिंदुकः । सततं नु जिनः श्रेयान् श्रेयः कुर्वतु ते नृप ४७ पाडला वसुपूज्यच जया शतभिपं तथा । चंपा च वासुपूज्यश्व लोकपूजां दिशंतु ते ।। ४८ ॥ कापिल्यं कृतवर्मा च शर्मा प्रोप्नुपदोत्तरा । जंमिलनाथश्च कुर्वतु त्वां मलोज्झितं ॥ ४९ ॥ अवस्थः सिंहसेनश्व विनीता रेवती तथा । श्लाघ्या सर्वयशा नाथोंनंतश्च तव मंगलं ॥५०॥ ते
विंशतितम पर्व।
,
पद्मपुराणम्।
धर्मो रत्नपुरी भानुदाधिपर्णश्च सुनता । पुष्पश्च तव पुष्णातु श्रियं श्रेणिक धर्मिणी ॥५१॥
भरणी हास्तिपस्थानमराणी नंदपादपः । विश्वसेननृपः शांतिः शांतिं कुर्वतु ने सदा ।। ५२ ॥
सूर्या गजपुरं कुंथुस्तिलका श्रीव कृत्तिका । भवंतु.तब राजेंद्र पापद्रवणहेतवः ।। ५३ ॥
मिया सुदर्शनच्चूतो नगर पूर्वकीर्तितं । रोहिण्यरजिनेंद्रश्च नाशयंतु रजस्तव ।।.५४ ॥
रक्षिता मिथिला कुंभो जिनेशो मटिरश्विनी । अशोकच तवाशोक मनः कुर्वतु पार्थिव ।। ५५ ।।
पद्मावती कुशाग्रं च सुमित्रः स्रवणस्तथा । चंपंकः सुव्रतेशश्च वजंतु तब मानसं ।। ५६ ॥
बिजया मिथिला वना बकुलो नमितीर्यकन् । अश्विनी च प्रयच्छतु तव धर्मसमागर्म ॥ ५७ ।।
समुद्रविजयश्चित्रा नेमिः शौरिपुरं शिवा । ऊर्जयंतश्च ते मेपशृंगवास्तु सुखप्रदः ॥ ५८॥
वाराणसी विशाखा च पार्थो वर्माधाधिपः । अश्वसेनश्च ते राजन दिशंतु मनसो धृति ।।५९॥
शाल: कुंडपुरं पावासिद्धार्थः प्रियकारिणी । हस्तोत्तरं महावीरं परम तब मंगलं ॥ ६० ॥
पर वासुपूज्यस्य मोक्षस्थानमुदाहृतं । पूर्वमुक्तं त्रयाणां तु शेपाः सम्मेदनिवृताः ॥ ६१ ॥
शांतिः कुंथुरस्वति राजानश्चक्रवर्तिनः । संतस्तीर्थकरा जाता शेषाः सामान्यपार्थिवाः ।। ६२ ॥
चंद्राभचंद्रसंकाशः पुप्पदंतत्र कीर्तितः । प्रियंगुमंजरीवर्णः सुपार्थो जिनसत्तमः ॥ ६३ ॥
४४५ विंशतितम पर्व । पद्मपुराणम्। अपक्कशालिसंकाशः पार्थो नागाधिपस्तुतः । पद्मगर्भसमच्छायः पद्मप्रभजिनोत्तमः ।। ६४ ॥ किंशुकोत्करसंकाशो वासुपूज्यः प्रकीर्तितः । नीलांजनगिरिच्छायो मुनिसुव्रततीर्थकृत् ॥ ६५ ॥ मयूरकंठसंकाशो जिनो यादवपुंगवः । मुतप्तकांचनच्छायाः शेषा जिनवराः स्मृताः ॥ ६६ ॥ वासुपूज्यो महावीरो मल्लिः पार्थो यदूत्तमः । कुमारा निर्गता गेहात्पृथिवीपतयोऽपरे ॥ ६७॥ एते सुरासुराधीशैः प्रणताः पूजिताः स्तुताः । अभिपेकं परं प्राप्ता नगपार्थिवमूर्धनि ॥ ६८ ॥ सर्वकल्याणसंप्राप्तिकारणीभूतसेवनाः । जिनेंद्रा पातु वो नित्यं त्रैलोक्यपरमाद्भुताः ॥ ६९ ॥ आयुःप्रमाणबोधार्थ गणेश मम सांप्रतं । निवेदय परं तत्त्वं मनःपावनकारणं ॥ ७० ॥ पश्च रामोतरे यस्य जिनेंद्रस्योपपद्यते । तत्सर्व ज्ञातुमिच्छामि प्रतीक्ष त्वत्प्रसादतः ॥ ७१ ।। इत्युक्तों गणभृत्सौम्यः श्रेणिकेन महादरात् । निवेदयांवभूवासौ क्षीरोदामलमानसः ।। ७२ ॥ संख्याया गोचरं योर्थो व्यतिक्रम्य व्यवस्थितः । युद्धी कल्पित दृष्टांतः कथितोऽसौ महात्मभिः ।। योजनप्रतिमं व्योम सर्वतो भित्तिवेष्टितं । अवैः प्रजातमात्रस्थ रोमात्रैः परिपूरितं ।। ७४ ।। द्रव्यपल्यमिदं गाढमाहत्य कठिनीकृतं । कथिते कल्पितं कस्य व्यापारोयं मुधा भवेत् ॥ ७५ ॥ तत्र वर्षशतेतीते एकैकस्मिन् समुद्धृते । क्षीयते येन कालेन कालपल्यं तदुच्यते ।। ७६ ॥
विशतितमं पर्व ।
पद्मपुराणम् ।
कोटीकोटयो दर्शतेषां कालो रत्नाकरोपमः । सागरोपमकोटीनां दशकोट्यावसर्पिणी ॥७७॥ .
उत्सर्पिणी च तावंत्यस्ते सिवासितपक्षवत् । सततं परिवर्तेते राजन् कालस्वभावतः ॥ ७८ ॥
प्रत्येकमेतयोर्भेदाः पडुद्दिष्टा महात्मभिः । संसर्गवस्तुवीर्यादिभेदसंभववृत्तयः ।। ७९ ।।
अत्यंतः सुपमः कालः प्रथमः परिकीर्तितः । कोटीकोटचश्चतस्रोस्य सामुद्रोन्मानमुच्यते ॥८॥
कीर्तितः सुपमस्तिस्रो द्वयं सुपमदुःपमः । वक्ष्यमाणद्विकालाब्दैरूना दुःपमसत्समः ।। ८१ ॥
उक्तो वर्षसहस्राणामेकविंशतिमानतः । प्रत्येकं दुप्पमोत्यंतदुःपमश्च जिनाधिपः ।। ८२ ॥
पंचाशदधिकोटीनां लक्षाः प्रथममुच्यते । त्रिंशदानवैतासां परिपाटया जिनांतरं ।। ८३ ॥
नवतिश्च सहस्राणि नव चासां व्यवस्थितः । शतानि च नवतासां नवतिस्तास्तथा नव ॥८४॥
समुद्रशतहीनका कोटी देशममंतरं । चतुर्भिः सहिता ज्ञेया पंचाशत्सागरास्ततः ॥ ८५ ॥
त्रिंशनवाथ चत्वारः सागराः कीर्तितास्ततः । पल्यभोगत्रयन्यूनं ततोरत्नाकरत्रयं ।। ८६ ।।
पत्याध शोडशं प्रोक्तं चतुर्भागोऽस्य तत्परं । न्यूनः कोटिसहस्रेण वर्षाणां परिकीर्तितः १.८७||
समाः कोटिसहस्रं च तत्परं गदितं बुधैः । चतुःपंचाशदाख्यातं समालक्षस्तु तत्परं ।। ८८ ॥
पदलक्षा उत्तरं तस्मात्ततः पंच प्रकाशित । सहस्राणि व्यशीनिस्तु सार्धाष्टमशतं परं ॥ ८९॥
पद्मपुराणम्। ४४७ विंशतितम पर्व। + शतान्यतृतीयानि समानां कीर्तितं ततः । वर्द्धमानजिनेद्रस्य धर्मः सस्पृष्टदुःषमः ।। ९० ।। निवृते तु महावीरे धर्मचके महेश्वरे । सुरेंद्रमुकुटच्छायापयोधौ तत्क्रमद्वये ।। ९१ ॥ देवागमननिर्मुक्ते कालेऽतिशयवर्जिते । प्रनष्टकेवलोत्पादे ललिचक्रधरोज्झिते ।। ९२ ।। भवद्विधमहाराजगुणसंघातरिक्तके । भविष्यंति प्रजा दुष्टा वंचनोद्यतमानसाः ।। ९३ ॥ निश्शीला नित्रता प्रायः क्लेशव्याघिसमन्विताः । मिथ्याशी महाघोरा भविष्यंत्यसुधारिणः।। अतिवृष्टिरवृष्टिश्च विपमा वृष्टिरीतयः । विविधाथ भविष्यति दुस्सहाः प्राणधारिणां ।। ९५ ॥ मोहकादंबरीमत्ता रागद्वेषात्ममूर्तयः । नर्तिभूकराः पापाः मुहुर्गस्मिता नराः ॥ ९६ ॥ कुवाक्यमुखराः क्रूरा धनलाभपरायणाः । विचरिष्यति खद्योता रानाविव महीतले ॥९७ ॥ गोदंडपथतुल्येषु मूढास्ते पतिताः स्वयं । कुधर्मेषु जनानन्यान्पातयिष्यति दुर्जनाः ॥ ९८ ।। अपकारे समासक्ता परस्य स्वस्य चानिशं । ज्ञास्यंति सिद्धमात्मानं नरा दुर्गविगामिनः ॥१९॥ कुशास्त्रमुक्तहुंकारैः कर्मम्लेच्छमदोद्धतः । अनर्थजनितोत्साहैमोहसंतमसावृतैः ॥ १० ॥ छेत्स्यते सततोद्युक्तर्मदा कालानुभावतः । हिंसाशास्त्रकुठारेण भन्येतरजिनाधिपाः ॥ १०१ ॥ आदावरलयः सप्त जनानां दुःखमे स्मृताः । प्रमाणं क्रमतो हानिस्ततस्तेषां भविष्यति ॥१२॥ F
४४८
विंशतितमै पर्य।
पद्मपुराणम्।
द्विहस्तसम्मिता मां विंशत्यब्दायुपस्ततः । भविष्यंति परे हस्तमात्रोत्सेधाः सुदुप्पमे ॥१०॥
आयुः पोडशवर्षाणि तेषां गदितमुत्तमं । वृत्त्या सरीसृपाणां ते जीविष्यत्यंतिदुःखिताः॥१०४॥
ते विरूपसमस्तांगा नित्यं पापक्रियारताः । तिर्यच इव मोहार्ता भविष्यति रुजार्दिताः ॥१०५॥
न व्यवस्था न संबंधा नेश्वरा नच सेवकाः । न धनं न गृहं नैव सुखमेकांतदुःखमे ॥ १०६ ।।
कामार्थधर्मसंगमारहेतुभिः परिचेरितैः । शून्याः प्रजा भविष्यंति पापपिंडचिता इव ॥ १०७॥
कृष्णपक्षे क्षयं याति यथा शुक्ले च वर्धते । इंदुस्तथैनयोरायुरादीनां हानिवर्धने ॥ १०८.॥
उत्सवादिप्रवृत्तीनां रात्रिवासरयोर्यया । हानिवृद्धी च विज्ञेये कालयोस्तद्वदेतयोः ॥ १०९ ॥
पेनावसर्पिणीकाले क्रमेणोदाहृतः क्षयः । उत्सर्पिण्यामनेनैव परिवृद्धिः प्रकीर्तिता ।। ११० ।।
जिनानामंतरं प्रोक्तमुत्सेधं शृण्वतः परं । क्रमतः कीर्तयिष्यामि राजभवहितो भव ॥ १११ ॥
शतानि पंच चापानां प्रथमस्य महात्मनः । उत्सेधो जिननाथस्य पपुपः परिकीर्तितः ॥११२।।
पंचाशचापहान्यात प्रत्येक परिकीर्तितं । शीतलामाग्जिनेंद्राणां नवतिः शीतलस्य च ॥११३॥
ततो धर्मजिनात्पूर्व दशचापपरिक्षयः । प्रत्येकं धर्मनाथस्य चत्वारिंशत्सपंचिका ।। ११४ ॥
तवा पार्श्वजिनात्पूर्व प्रत्येक पंचमिः क्षयः । नवरनिमितः पार्थो महावीरो द्विवर्जितः॥११५॥
पंद्मपुराणंम् । ४४९ विंशतितम पर्व + . पल्योपमस्य दशमो भाग आद्यस्य कीर्तितं । मित्याकुलकरस्यायुर्लोकालोकावलोकिभिः॥११६॥ दशमो दशमो भागः पौरस्त्यस्य ततः स्मृतः। प्रमाणमायुपो राजन् शेषाणां कुलकारिणां ११७ चतुर्भिरधिकाशीतिः पूर्वलक्षाः प्रकीर्तिताः । प्रथमस्य जिनेंद्रस्थ द्वितीयस्य द्विसप्ततिः ॥१८॥ पष्टिय पंचसु ज्ञेयः क्रमेण दशभिः क्षयः । विज्ञेये पूर्वलक्षे द्वे तथैकं परिकीर्तितं ॥ ११९॥ चतुर्भिरधिकाशीतिरब्दाः लक्षाः द्विसप्ततिः । पष्टित्रिंशद्दशैका च समा लक्षाः प्रकीर्तिताः १२० नवतिः पंचभिः सार्धमशीतिश्चतुरुत्तराः । पंचाशत्पंचभियुक्तास्त्रिंशदश च कीर्तिताः ॥ १२१ ।। एक चाब्दं सहस्राणां संख्येयं परिकीर्तिताः । वर्षाणां च शतं द्वाभ्यामधिका सप्ततिस्तथा १२२ क्रमेणेति जिनेंद्राणामायुः श्रेणिक कीर्तितं । शृणु सम्प्रति यो यत्र जातश्चक्रधरान्तरे ॥ १२३ ॥ ऋपभेण यशोवत्या जातो भरतकीर्तितः । यस्य नाम्ना गतं ख्यातिमेतद्वास्यं जगत्त्रये ॥१२४॥ अभूधः पुंडरीकिन्या पीठः पूर्वत्र जन्मनि । सर्वार्थसिद्धिमैरकृत्वा कुरुसेनस्य शिप्यतां ॥१२५॥ लोचनांतरमुत्पाद्य महासंवेगयोगतः । सर्वावभासनं ज्ञानं निर्वाणं-स समीयिवान् ।। १२६ ॥ बभूव नगरे राजा पृथिवीपुरनामनि । विजयो नाम शिष्योऽभूद्यशोधरगुरोरसौ ॥ १२७ ॥ स, मृतो, विजयं गत्वा भुक्त्वा भोगमनुत्तमं । विनीतायामिह च्युत्वा विजयस्याऽऽप्य पुत्रता.१२८- 2 . pun २९
विशतितम पर्व।
४५०
पपुराणम्।
सौमंगलो बभूवासी चक्री सगरसंधिनः । भुक्या भोग महासारं सुरपूजितशासनः ॥ १२९ ।।
प्रबुद्धः पुत्रशोकन प्रवज्य जिनशामने । उत्पाद्य केवलं नाथः सिद्धानामालयं गतः ॥ १३० ।।
शगिमः पुंडरीकिन्या शिष्योभूद्विमले गुरौ । गत्वा अरेयक भुक्ता संसारसुखमुत्तम ॥१३।।
व्युत्या मुमित्रराजस्स भद्रवत्यामभूत्सुतः । श्रावस्त्यां मघया नाम चक्रलक्ष्मीलतातरुः ॥१३२॥
श्रामाण्यवतमास्थाय धर्मशांतिजिनांतरे । समाधानानुरूपेण गतं सौधर्मवासितां ॥ १३३ ॥
सनत्कुमारचक्रेशे स्तुने मगधपुंगवः । प्रवीति केन पुष्पेन जातोऽसाविति रूपवान् ॥ १३४ ॥
नमै समामतीयोचत् पुराणार्थ महामुनिः । यन्न वर्षेशतेनापि सर्व कथयितुं क्षमं ॥ १३५ ।।
तिर्यगनरकदुःखानि कुमानुषभवांस्तथा । जीवः प्रपद्यते तावद्यावन्नायाति जैनतां ॥१३६ ॥
अस्ति गोवर्धनाभिख्यो ग्रामो जनसमाकुलः । जिनदत्नामिधानोव बभूव गृहिणां वरः ॥१३७।।
यथा सर्वायुधानानां सागरी मूर्द्धनि स्थितः । भूधराणां च सर्वेषां मंदरश्वारुकंदरः ।। १३८ ॥
गृहाणां हरिदश्वन नृणानामिक्षुरर्चितः। तांबूलाख्या च वल्लीनां तरूणां हरिचंदनं ॥ १३९ ॥
कुलानामिनि मर्वेषी श्रावकाणां कुलं स्तुतं । आचारेण हि तत्पूतं सुगत्यर्जनतत्परं ॥ १४० ॥
स गृही तत्र जानः मन् कृत्वा श्रावकचेष्टितं । गुणभूषणसंपन्नः प्रशस्तामाश्रितो गतिं ॥१४॥
पद्मपुराणम् ४५२ विंशतितम पर्व । कृतश्रमः स तैदृष्टो भूरजोभूसरपतिः । गंधामलकपंकेन दिग्धमौलिमहातनुः ॥ १५५ ॥ मानकशाटकः श्रीमान्-स्थितः नानोचिंतासने । नानावर्णपयःपूर्णकुंममंडलमध्यगः ॥ १५६ ॥ उक्तः स तैरहों रूपं साधु शक्रेण वर्णितं । मानुषस्य सतो देवचिनार्पणकारणं ॥ १५७ ।। तेनोक्तास्ते कृतस्नानं भुक्तवंत सभूपणं । सुरा द्रक्षय मां स्तोका चेलामत्रैव तिष्ठत ॥ १५८ ॥ एवमित्युदिते कृत्या यः समस्तं यथोचित । स्थितः सिंहासने रत्नशैलकूटसमद्युतिः ॥ १५९ ॥ दृष्ट्वा तस्य पुनारूपं निनिंदुर्नाकवासिनः । असारी घिगिमां शोभा मानां क्षणिकामिति१६० प्रथमे दर्शने यास्य यौवनेन समन्विता । सेयं क्षणात्कथं हासं प्राप्ता सौदामिनीवरी ॥१६१॥ विज्ञाय क्षणिका लक्ष्मी सुरेभ्यो रागवर्जितः । श्रमणत्वं परिप्राप्य महाघोरतपोन्वितः-1॥ १६२ ।। अघिसद्य महारोगान् महालन्धियुतोऽपि सन् ! सनत्कुमारमारूढः स्वध्यानस्थितियोगतः १६३ बभूव पुंडरीकिन्यां नाना मेघरको नृपः । सर्वार्थसिद्धिमतोऽसौ शिष्यो धनरथस्य सन् ||१६४॥ च्युत्वा नागपुरे विश्वसेनस्यैराशरीरजः । तनयः प्रथितो जातः शांतिः शांतिकरो नृणां॥१६५।। जातभात्रोभिषेक यः सुरेभ्यः प्राप्य मंदिरे । अभूचकांकमोगस्य नाथोऽसाविंद्रसंस्तुतः॥१६६।। विहाय तृणवद्राज्यं प्रात्राज्यं समश्रियत् । चक्रिणां पंचमो भूत्वा जिनानां पोडशोऽभवत्-१६७ 11+, ! . 4 ܐ ܀ ४५३ पद्मपुराणमा विशतितम पर्व। कुंबरी परतस्तस्य संजातौ चक्रवर्तिनौ । जिनेंद्रत्वं च संप्राप्ती पूर्वसंचितकारणौ ।। १६८ ॥ सनत्कुमारराजोभूद्धर्मशांतिजिनांतरे । निजमेवांतरं शेयं त्रयाणां जिनचक्रिणा ॥ १६९ ॥ कनकाम इति ख्यातो. नान्ना धान्यपुरे:नृपः । विचित्रगुप्तशिष्यः सन् स जयंतं समाश्रयत् १७० ईशावत्यां नरेंद्रस्य कार्तवीर्यस्य भामिनी । तारेति तनयस्तस्यामभून्नाकादुपागतः ।। १७१ ।। सुभूम इति चाख्यातश्चक्रांकायाः श्रियः पतिः । येनेयं शोभना भूमिः कृत्वा परमचेष्टिना १७२ पितुर्यों वधकं युद्धे जामदग्न्यममीमरत् । भुंजानः पायस पाच्या चक्रत्वपरिवृत्तया:॥ १७३ ।। जामदग्न्यातक्षाप्रदंता एवास्य पायसं । सत्रे किलाश्रतो जाता नमित्तोक्तं समंततः ॥ १७४ ॥ सप्तवारान् कता क्षत्रारिपूर्णा किल भूरिति । चक्रे त्रिसप्तवारान् यः क्षिति निष्कंठसूत्रिका १७५ अत्युग्रशासनात्तस्माद्विना प्राप्य महाभयं । कुलेपु रजकादीनां क्षत्रिया इव लिलियरे ॥.१७६ ॥ अरमल्यरे चक्री भोगादविरतात्मकः | कालधर्मेण संयुक्तः सप्तमी क्षितिमाश्रितः ।। १७७ ।। नगर्या वीतशोकायां चिंताहः पार्थिवोऽभवत् । भूत्वा सुप्रभशिष्योसौ ब्रह्माहूं कल्पमाश्रिता१७८ च्युतो नागपुरे पद्मरथस्य धरणीपतेः । मयूयों तनयो जातो महापद्मः प्रकीर्तितः ॥ १७९ ।। अष्टौ दुहितरस्तस्य रूपातिशयगर्विताः । नेच्छंति भुवि भर्तारं हृता विद्याधरैरिमा ॥ १० ॥ . - ॥
. । 2 - - पद्मपुराणम् १५४ विंशतितम पर्व। उपलभ्य ताः समानीता निर्वेदिन्य प्रयजुः । समाराधितकल्याणा देवलोकं समाश्रिताः।।१८।। तेष्यष्टौ तद्वियोगेन प्रमज्यां व्योमचारिणः । चकुर्विचित्र संसारदर्शनवासमागताः 1:१८२ ॥ । हेतुना तेन चक्रेगः प्रतियुद्धो महागुणः । मुते न्यस्य श्रियं पद्म निष्फ्रांतो विष्णुना समं ॥१८३|| महापमस्तपः कृत्या परं संप्राप्तकेवलः । लोकमाग्भारमारुक्षदरिमरिजिनान्तरे ।। १८४॥ महेंद्रदत्तनामासीत्पुरे विजयनामनि । कसा नंदनशिष्यत्वं महेंद्र कल्पमुद्ययौ ॥ १८५॥. कांपिल्यनगरे च्युत्वा चप्रायां हरिकेतुतः । हरिपेण इति ख्यातो जज्ञे चक्रांकितेशतः ॥ १८६ ॥ स कृत्वा धरणी सर्या निजां चैत्यविभूषणाम् । नीर्थे मुव्रतनाथस्य सिद्धानां पदमाश्रितः॥१८७|| असिताडोमवद्राजा पुर राजपुराभिधे । मुधर्ममित्रशिष्यत्वं कृत्वा ब्रह्मालयं ययौ ॥ १८८ ॥ . ततध्युतो यशोवत्या जातस्तत्रय वैजयिः । जयसेन इति ख्यातश्चक्रवितशासनः॥१८९ ॥ -- परित्यज्य महाराज्यं दीक्षां देगबरीमितः । रत्नत्रितयमाराध्य सद्धं पदमशिश्रियत् ॥ १९ ॥ स्वतंत्रलिंगसंजस्य संभूतः प्राप्य शिष्यतां । काश्यां कमलगुल्माख्यं विमानं समुपाश्रितः॥१९१।। व्युतो ब्रह्मरथस्याभूव पुरे कोपिल्यनामनि । चूलाहासंभवः पुत्रो ब्रह्मदत्तः प्रकीर्तितः ॥१९२।। चक्रचिट्टामसौ मुक्त्वा श्रियं विरतिवर्जितः । सप्तमी क्षितिमश्लिक्षन्नेमिपावेजिनांतरे ।। १९३ ।।
गड़पुराणम् । ४५५ विंशतितम पर्व । . - एते पखंडभूनाथाः कीर्तिता मगधाधिप । गतिर्न शक्यते येषां रोढुं देवासुरैरपि ।। १९४ ॥ प्रत्यक्षमक्षमुक्तं च फलमेतच्छुभाशुभं । श्रुत्वानुभूय दृष्ट्वा च युक्तं न क्रियते कथं ॥ १९५ ॥ न पायेयमपूपादि गृहीत्वा कश्चिदृच्छति । लोकांतरं न चायाति किंतु तत्सुकृतेतरं ॥ १९६ ॥ कैलासफूटकल्पेषु वरस्त्रीपूर्णकृक्षिपु । यद्वसंति स्वगारेषु तत्फलं पुण्यवृक्षजं ।। १९७.॥ शीतोष्णवातयुक्तेषु कुगृहेषु वसंति यत् । दारिद्रयपङ्कनिर्मनास्तदधर्मतरोः फलं. ॥ १९८ ॥ विंध्यफूटसमाकारेवारणेन्द्रप्रजंति यत् । नरेंद्राश्थामरोद्भूताः पुण्यशालेरिदं फलं ॥ १९९ ।। तुरंगैयदलं वगैर्गम्यते चलचामरैः । पादांतमध्यगैः पुण्यनृपतेस्तद्विचेष्टितं ॥ २००॥ कल्पप्रासादसंकाशं रथमारुह्य यजनाः । जति पुण्यशैलेंद्राच्छुतोऽसौ स्वादुनिझरः ॥ २०१ ।। स्फुटिताभ्यां पदांनिभ्यां मलग्रस्तपटचरैः । भ्रम्यते पुरुषैः पापविषवृक्षस्य तत्फलं ॥ २०२.॥ अन्नं यदमृतं प्राय हेमपात्रेषु भुज्यते । स प्रभावो मुनिश्रेष्ठरुक्तो धर्मरसायनः ॥, २०३ ॥ देवाधिपतिता चक्रविता यच राजिता । लभ्यते भव्यशास्तदहिसालताफलं ।। २०४ ॥ .. रामकेशवयोर्लक्ष्मी लभ्यते यच पुंगवैः । तद्धर्मफलमुन्नेष्ये तत्कीर्तनमथाधुना ।। २०५ ॥ हास्तिनं नगरं रम्यं साकेता केतुभूपिता । श्रावस्ती वरविस्तीर्णा कौशांवी भासितांबरा ।।२०६॥
४५६ 11 . 'पद्मपुराणम् 'विशतितम पर्व । अपूरणम् । पोदन शैलनगर वथा. सिंहपुर पुरं। कौशांबी हास्तिनं चेति क्रमेण परिकीर्तिता ॥ २०७॥ सर्यद्रवणसंपन्ना, मयसंपर्कवर्जिता। नगर्यो वासुदेवानामिमाः पूर्वत्र जन्मनि ॥ २०८ ।। विश्वनंदी महातेजास्ततः पर्वतकाभिषः । धनमित्रस्ततो ज्ञेयस्तृतीयश्चक्रधारिणां ।। २०९ ॥ ततः सागरदत्तारख्याधुन्धसागरनिस्वनः । विकटः प्रियमित्रश्च तथा मानसचेष्टितः ॥ २१ ॥ पुनर्वसुश्च पिनातो गंगदेव कीर्तितः । उक्तान्यनि नामानि कृष्णानां पूर्वजन्मनि ॥ २११ ॥ नविकी यातनं युद्ध विजया प्रमदांहतिः । उद्यानारण्यं भरणं वनक्रीडांभिकांक्षिणः ॥ २१२ ।। अत्यंतविषयासंगो विप्रयोगस्तनूनपात् । दौर्भाग्यं प्रेत्य हेतुभ्य एतेभ्यो हरयोऽभवन् ॥ २१३ ।। विरूपा दुर्भगाः संतः सनिदानतपोधनाः । तत्त्वविज्ञाननिर्मुक्ता संभवंति बलानुजाः ॥ २१४ ॥ सनिदान तपस्तस्माद्वर्जनीयं प्रयत्नतः । तद्धि पवान्महाघोरदुःखदानमुशिक्षितं ॥ २१५ ॥ , संभूततपसो मूर्तिः सुभद्रो वसुदर्शनः । श्रेयसिभृतिसंशय वसुभूतिय कीर्तितः ।। २१६ ।। घोपसेनपरांमोधिनामानी,च महामुनी । द्रुमसेनश्व कृष्णानां गुरवः पूर्वजन्मनि ॥ २१७ ॥ महाशुक्रामिधः कल्पः प्राणतो लांतवस्तथा । सहस्रारे परो ब्रह्मनामा माहेंद्रसंशितः ॥ २१८ ॥ सौधर्मच समाख्यातः कल्पः सचेष्टितालयः । सनत्कुमारनामा च महाशुक्राभिधोऽपरः ॥२११।।
ए पद्मपुराणम्। ४५७ विंशतितम पर्व । एतेभ्यः प्रच्युताः संतः प्राप्तपुण्यफलोदयाः । पुण्यावशेष्वतो जाता वासुदेवा नराधिपाः ॥२२॥ पौदनं द्वापुरी हस्तिनगरं तत्पुनः स्मृतं । तथा चक्रपुरं रम्यं कुशाग्रं मिथिलापुरी ॥ २२१ ॥ विनीता मथुरा चेति माधवोत्पत्तिभूमयः। समस्तधनसंपूणोः सदोत्सवसमाकुलाः ॥ २२२ ।। आद्यः प्रजापतिज्ञेयो ब्रह्मभूतिरतोऽपरः । रौद्रनादस्तथा सोमः प्रख्यातच शिवाकरः ॥२२३ ।। समस्तमुद्धर्षनिनादच ख्यातो दशरथस्तथा । वसुदेवश्च कृष्णानां पितरः परिकीर्तिताः ॥२२४॥ आद्या मृगावती ज्ञेया माधवी पृथिवी तथा । सीताविका च लक्ष्मीश्च केशिनी कैकयी शुभा ॥ देवकी चरमा ज्ञेया महासौभाग्यसंयुता । उदाररूपसंपन्ना कृष्णानां मातरः स्मृताः ॥ २२६ ।। सुप्रभा प्रथमा देवी रूपिणी प्रभवा परा | मनोहरा सुनेत्रा च तथा चिमलसुंदरी ॥ २२७ ।। तथानंदवती ज्ञेया कीर्तिता च प्रभावती । रुक्मिणी चेति कृष्णानां महादेव्यः प्रकीर्तिताः २२८ प्रकांडपांडुरोगारा नगरी पुंडरीकिनी । पृथिवीवसुविस्तीर्णा 'द्वितीया पृथिवी.पुरी ॥ २२९ ।। अन्यानंदपुरी लेया तथानंदपुरी स्मृता । पुरी व्यतीतशोकाख्या पुरं विजयसंज्ञितं ॥ २३० ॥ मुसीमा च तथा क्षेमा हास्तिनं च प्रकीतित । एतानि बलदेवानां पुराणि गतजन्मनि ॥२३१॥ पलो मारुतवेगश्च नंदिमित्रो महाबलः । पुरुपर्पमसंज्ञश्च तथा पष्ठः सुदर्शनः ॥ २३२ ।।...
चिंशतितम पर्व। • •४५८ पद्मपुराणम् । वसुंधरच विज्ञेयः श्रीचंद्रः सखिसंज्ञकः । ज्ञेयान्यमूनि नामानि रामाणां पूर्वजन्मनि ॥ २३३ ।। अमृतारो मुनिः श्रेष्ठः महासुबतसुबतौ । वृषमोऽध प्रजापालस्तथा दमवरामिधः ।। २३४ ।। सुधीर्णयसंज्ञश्च तथा विद्युमसंज्ञितः । अभी पूर्वभवे ज्ञेया गुरवः शीरधारिणां ।। २३५ ।। विवासोऽनुचरा ज्ञेयास्त्रयाणां हलधारिणां । सहस्रारत्रयाणां च द्वयोमनिवासिता ॥ २३६ ।। महाशुक्राभिधानश्च कल्पः परमशोमनः । एभ्ययुत्ता समुत्पन्ना रामाः साधुसुचेष्टिताः।।२३७॥ भद्रोमोजा मुभद्रा च मुपा च सुदर्शना । सुप्रभा विजया चान्या वैजयंती प्रकीर्तिता ॥२३८|| महाभागा च विजेया महाशीलापराजिता । रोहिणी चेति विज्ञेया जनन्यः शीरधारिणां ॥२३९।। श्रेय आदीन जिनाद पंच तृपृष्ठाद्या बलानुजाः । क्रमेण पंच बंदते तत्परावरतः परौ ।। २४० ॥ नमिसुव्रतयोमध्ये लक्ष्मणः परिकीर्तितः । वंदको नेमिनाथस्य कृष्णोऽभूदद्भुतक्रियः ।। २४१ ।। अलकं विजयं ज्ञेयं नंदनं पृथिवीपुरं । तथा इरिपुरं सूर्यसिंहशब्दपरे पुरे ।। २४२ ।। लंकाराजगृहं चान्यक्रमेण प्रतिचक्रिणां । स्थानान्यमूनि वेदानि दीप्तानि मणिरश्मिभिः ॥२४३।। अश्वग्रीव इति ख्यातस्तारको मेरकस्तथा । मधुकैटभसंज्ञश्च निशुंभश्च तथा वलिः ।। २४४ ॥ प्रहादो दशवक्त्रश्च जरासंधश्च कीर्तितः । क्रमेण वासुदेवानां विज्ञेया प्रतिचक्रिणः ॥ २४५ ।।
t . 1 ट --- । विंशतितम पर्व। पद्मपुराणम्। + . है १ . सुवर्णकुंभः सत्कीर्तिः सधर्मोऽथ महामुनिः । मृगांकः श्रुतिकीर्तिश्च सुमित्रो भुवनश्रुतः ॥ २४६ ॥ सुव्रतश्च सुसिद्धार्थी रामाणां गुरवः स्मृताः । तपःसंमारसंजातकीर्तिवेष्टितविष्टपाः ।। २४७ ।। दग्ध्या कर्मोरुकसं क्षुभित बहुविधव्याधिसंभ्रांतसत्त्वं ।' : . . . !! मृत्युाघ्रातिभीम भवविपुलसमं तुंगवृक्षोरुखंड ।। ' याता निर्वाणमष्टौ हलधरविभवं प्राप्य संविमभावाः । संप्राप ब्रह्मलोकं चरमहलधरः कर्मबंधावशेषात् ॥ २४८ ॥ आदौ कृत्वा जिनेंद्रान् भरतजयकृतान् केशवानां वलाना- मेतत्ते पूर्वजन्मप्रभृतिनिगदितं वृत्तमत्यंतचित्रं ।।... ' . ' केचिद्भाम्यंति मोक्षं कृतयुततपसः स्तोकपंकाश्च केचि- स्केचिद्गच्छंति भूयो बहुभवगहनां संसृति निर्विरामाः ।। २४९ ॥ एतज्ज्ञात्वा विचित्रं कलिकलुपमहासागरावर्तमग्नं । संसारप्राणजातं विरसगतिमहादुःखवहिप्रतप्तं ।। .
a पकशितितम पर्य। 4 पद्मपुराणम् । कष्ट नेच्छंति केचित्युक्तपरिचयं कर्तुमन्यस्तु कश्चित् । कृत्वा मोहायमानं रविरिय विमलं केवलज्ञानमेति ।। २५० ।। इत्यर्षे रविषेणाचार्यप्रोक्ते पद्मचरिते तीर्थकरादिभयानुफीर्तनं नाम विंशतितम पर्य । J एकविंशतितम पर्व। श्रृण्वतोऽष्टमरामस्य संबंधार्थ वदामि ते । वंशानुकीनं किंचिन्महापुरुषसंभवं ॥ १॥ जिनेंद्रे दशमे नीते राजासीत्सुमुखश्रुतिः । कौशांब्यामपरो त्रैव चणिजो वीरकश्रुतिः ॥ २ ॥ इत्वा तद्दयितां राजा श्रित्वा काम यथेप्सितं । दत्वा दानं विरागाणां पुरे हरिपुरसंज्ञके ॥ ३ ॥ उत्पन्नौ दंपती क्रीडां कृत्वा रुक्मगिरि ययौ । तत्रापि दक्षिणश्रेण्या भोगभूमिमशिश्रियत् ।। दयिताविरहांगारदग्धदेहस्तु वीरका । तपसा देवतां प्राप देवीनिवहसंकुलं ।। ५।। विदित्वावधिना देवो वैरिणं हरिसंभवं । भरतेऽतिष्ठपद्यातं दुर्गतिं पापीरिति ॥ ६ ॥ यतोऽमी हरित क्षेत्रादानीतो भार्यया समं । ततो हरिरिति ख्यातिं गतः सर्वत्र विष्टपे ॥७॥ .
एकविंशतितमंपर्व। ४६१ पद्मपुराणम् । नाम्ना महागिरिस्तस्य सुतो, हिमगिरिस्ततः । ततो वसुगिरिजातो बभूवेंद्रगिरिस्ततः ॥८॥ रत्नमालोथ संभूतो भूतदेवो महीधरः । इत्याद्याः शतशोतीता राजानो हरिवंशजाः ॥९॥ वंशे तत्र महासत्वः सुमित्र इति विद्युतः । बभूब परमो राजा कुशाग्राख्ये महापुरे ॥ १० ॥ त्रिदशेंद्रसमो भोगैः कात्या जितनिशाकरः । जितप्रभाकरो दीप्त्या, प्रतापानतशात्रवः ॥११॥ पद्मावतीति जायास्य, पद्मनेत्रा महाद्युतिः । शुभलक्षणसंपूर्णा पूर्णसर्वमनोरथा ॥ १२ ॥ सुप्तासौ भुवने रम्ये रात्रौ नल्पे मुखावहै । अद्राक्षीत्पश्चिमे यामे स्वप्नान् पोडश पूजितान्॥१३॥ द्विरदं शात्कर सिंहमभिपेकं श्रियस्तथा । दामनी शीतगुं भानुं झपी कुंभं सरोजवत् ।। १४ ।। सागर सिंहसंयुक्तमासनं रत्नचित्रितं । विमानं भवनं शुभं रत्नराशि हुताशनं ॥ १५ ॥ ततो विस्मितचित्ता सा विबुद्धा बुद्धिशालिनी । कृत्वा यथोचितं याता विनीता भर्तुरंतिक॥१६॥ कृतांजलिश्च पप्रच्छ स्वप्नार्थ न्यायवेदिनी । भद्रासने सुखासीना स्फुरद्वदनपंकजा ॥ १७ ॥ दयितोऽकथयद्यावत्तस्यै स्वप्नफलं शुभं । अपप्तगगनात्तावदृष्टी रत्नप्रसूतिनी ॥ १८ ॥ तिस्रः कोठ्योऽर्धकोटी च वसुनोस्य दिने दिने । भवने मुदितो यक्षो ववपे सुरपाज्ञया ॥१९॥ मासाः पंचदशाऽखंडं पतंत्या वसुधारया । तया रत्नसुवर्णादिमयं तन्नगरं कृतं ॥२०॥ --
।
एकविंशतितम पर्व।
४६२
-
1
पद्मपुराणम्।
11
-
प
तस्याः कमलवासिन्यो जिनमातुः प्रतिकियां । समस्तामाता देव्यश्चत्रुः सपरिवारिकाः ।।२१।।
जातमात्रमथो संतं जिनेंद्र क्षीरवारिणा । लोकपालैः समं शको मेरावस्नपपड्रिया ॥ २२ ॥
संपूज्य मक्तितः स्तुत्वा प्रणम्य च मुराधिपः । मातुरके पुनः प्रीत्या जिननाथमतिष्ठिपत् ।।२३।।
आसीगर्भस्थिते यस्मिन् मुव्रता जननी यतः । विशेषेण ततः कीतिं गतोऽसौ मुबताख्यया २४
अंजनाद्रिप्रकाशोऽपि स जिनो देहतेजसा । जिगाय विग्मगुं पूर्णनिशाकरनिभाननः ॥ २५ ॥
दधता परमं तेन भोगीमद्रेण कल्पितं । अहमिंद्रमुखं दूरमधरीकृतमूर्जितं ॥ २६ ॥
हाहाहूहूथुतीं तस्य तुंवुल नारदस्तथा । विश्वावसुश्व गायंति किंनर्योऽप्सरसो वरा ॥ २७ ॥
वीणावेण्यादिवादेन वक्तेन सुचारुणा । स्नानादिविधिमाप्नोति देवीजनितवर्तनः ॥ २८ ॥
स्मितलज्जितदंभेर्पाप्रासादादिसुविभ्रमाः । यौवनेरमयद्रामाः सोभिरामो यथेप्सितं ॥ २९ ॥
शरदभादविलयं स दृष्ट्वा प्रतियुद्धवान् । स्तुतो लोकोतिर्देवैः प्रविजिपयान्वितः ॥ ३० ॥
दत्या सुव्रतसवाय राज्यं पुत्राय निस्पृहः। प्रणताशेपसामंतमंडलं सुखपालनं ॥ ३१ ।।
निर्गतः सौरमव्याप्तदशदिकचक्रवालतः । दिव्यानुलेपनोदारसुकांतमकरंदतः ॥ ३२ ।।
मौरभाकृष्टसंभ्रांतभ्रमरीपृथुदतः । हरिमणिविभाचक्रपालाशचयसंकुलात् ॥ ३३ ॥
एकविंशतितम पर्व। ४६३ पद्मपुराणम् । दंतपंक्तिसितच्छायाविश्जालसमाकुलात् । नानाविभूषणध्वानविहगारावपूरितात् ॥ ३४ ॥ चलीतुरंगसंपृक्तात् स्वनचक्राइशोमितात् । राजहंसः सितः कीर्त्या दिव्यस्त्रीपद्मखंडतः ॥३५॥ देवमानवराजोढां शिविकामपरजितां । आरुह्य विपुलोद्यानं ययौ चूडामणिनृणां ॥३६ ॥ अवतीर्य ततो राज्ञां सहस्रबहुभिः समं । दधौ जैनेश्वरी दीक्षा हरिवंशावभूपणः ।। ३७ ॥ पष्ठोपवासयुक्ताय तस्मै राजगृहे ददौ । भक्त्या वृषभदत्ताख्यः परमानेन पारणं ॥ ३८ ॥ असमाचारवृत्त्यर्थ भुक्तिश्च विभुना कृता । प्राप्त वृषभदत्तश्च पंचातिशयपूजनम् ॥ ३९ ॥ अधश्चंपकवृक्षस्य शुक्लथ्यानमुपेयुपः । उत्पन्नं घातिकर्माते केवलं परमेष्ठिनः ॥४०॥ ततो देवाः समागत्य सेंद्रा स्तुत्वा प्रणम्य च । संजातगणिनस्तस्माच्छुश्रुवुर्धर्ममुत्तमं ॥४१॥ सागारं च निरागारं बहुभेदं यथाविधि । श्रुत्वा ते विमलं धर्म नत्वा जम्मुर्यथायथं ॥ ४२.॥ मुनिसुव्रतनाथोऽपि धर्मतीर्थप्रवर्तनं । कृत्वा सुरासुरैर्नः स्तूयमानःप्रमोदिभिः ॥ ४३ ॥ गणनाधर्महासत्यैर्गणपालनकारिभिः । अन्यैश्च साधुभिर्युक्तो विहृत्य वसुधातलं ॥ ४४ ॥ सम्मेदगिरिमूधान समारुह्य चतुर्विधं । विधूय कर्म संग्राप लोकचूडामणिस्थितं ॥ ४५ ॥ मुनिसुव्रतमाहात्म्यमिदं येऽधीयते जनाः । शृण्वति वा सुभावेन तेषां नश्यति दुष्कृतिः ॥४६॥ ।
एकविंशतितमं पर्व T पद्मपुराणम्।। 3 ।' 4 भूयश्व सोधिमागत्य ततः कृत्वा मुनिर्मलं । गच्छंति परमं स्थानं यतो,नागमनं पुनः॥४७॥ अथासौं सुव्रतः कृत्वा, चिरं राध्यं सुनिथलं । दक्षं तत्र विनिक्षिप्य प्रवृज्य प्राप निति ॥४८॥ दक्षात्समभवरसूनुरिलायर्धनसंजितः । ततः श्रीवर्धनो जज्ञे श्रीवृक्षाख्यस्ततोऽभवेत् ॥ ४९॥ संजयंतो वभूवास्मादुदभूत्कुणिमस्ततः । महारथः पुलोमा चेत्येवमाद्या नरेवराः॥५०॥ सहस्रशः समुत्पन्ना-हरीणामन्वये शुभे । संप्रापुनिर्वृति केचित्केचिन्नाकनिवासितां ॥ ५१ ।। एवं क्रमात्प्रयातेपु पार्थिवेषु च भूरिषु । नृपो वासबकेंत्याख्यःकुलेऽस्मिन्मैथिलोऽभवत् ॥ ५२ ।। विपुलेति महादेवी तस्यासीद्विपुलेक्षणा । परमश्रीरपि प्राप्ता या मध्येन दरिद्रता ॥ १३ ॥ तस्य जनकनामाभूत्तनयो नयकोविदः । हितं यः सततं चक्रे प्रजानां जनको यथा ॥ ५४ ॥ एवं जनसंभूतिः कथिता ते नराधिप । शृणु संप्रति यदंशे नृपो दशरथोऽभवत् ॥ ५५ ॥ इक्ष्वाकूनां कुले रम्पे निवृत्ते नाभिजे जिने । भरते भास्करे सोमे व्यतीते वंशभूषणें ॥५६॥ संख्यातीतेन कालेन कुले तत्र निराधिपाः । अतिकामति कुर्वतस्तपः परमदुश्चरं ।। ५७ ।। क्रीडति भोगनिर्ममाः शुष्पत्यकृतपुण्यकाः । लभते कर्मणः स्वस्य विषाकमश्रुधारिणः ।।५८ ॥ चक्रवत्परिवर्तते व्यसनानि महोत्सवैः । शनैर्मायादयो दोपाः प्रयांति परिवर्द्धनं ॥५९-।।..
4 एकविंशतितम पर्व। पद्मपुराणम् । क्लिश्यते द्रव्यनिर्मुक्ता नियंते या लतासु च । पूर्वोपात्तायुपि क्षीणे हेतुना चोपसंहृते ॥ ६ ॥ नाना भवंति तिष्ठति निनते शोचयंति च । रुदंत्यदंति वाधंते विवदंति पठति च ॥ ६१ ॥ ध्यायंति. यांति वल्गंति प्रभवंति वहति च । गायत्युपासतेऽश्नंति दरिद्रति नदंति च ॥ ६२ ॥ जयंति राति मुंचंति राजते विलसति च । तुष्यंति शासति शांति स्पृहयंति हरंति च ।। ६३ ॥ पंति द्रांति सज्जंति दूयते कूटयंति च । मार्गयंतेश अभिधावंते कुहयंते. सृजंति च ।। ६४ ॥ शीडति स्यति यच्छंति शीलयंति वसति च । लुच्यंति भांति सीदंति क्रुध्यति विचलंति च ६५ स्तुत्यंत्यचति वंचंति सात्वयंति विदंति च । मांत्यति नृत्यंति स्नियंति विनयंति च ॥६६॥ नुदंत्यंच्छंति कांति भृनंति विनमंति च । दीव्यंति दांति सीव्यंति जुइत्यंगति जाग्रति ॥६७|| स्वपति विभ्यतींगति श्यंति घंति रुदंति च । प्रांति सुन्वंति रुन्वंति रुत्वंति विरुवंति च ॥६८॥ सीव्यत्यति जीर्यति पिवंति रचयंति च । वृण्वते परिमृहति विमृणन्ति पूर्णति च ।। ६९ ॥ मीमांसते जुगुप्सते कामयंते तरंति च । चिकित्स्यंत्यनुमन्यते वारयति गृणन्ति च ॥ ७० ॥ एवमादिक्रियाजालसंततव्याप्तमानसाः । शुभाशुभसमासक्ता व्यतिकामंति मानवाः ।। ७१ ॥ इति चित्रपटाकारचेष्टिताखिलमानवे | कालेऽवसर्पिणीनाम्नि प्रयाति विलयं शतैः ।। ७२ ॥ ३०
+
एकविंशतितम पर्व।
४६६
पद्मपुराणम"
जाते. विंशतिसंख्याने वर्तमानजिनांतरे । देवागमनसंयुक्ते, विनीतायामुरौ, पुरि ॥ ७३ ॥
विजयो नाम राजेंद्रो पिजिताखिलशात्रवः । सौर्यप्रतापसंयुक्तः प्रजापालनपंडितः ॥ ७४, ॥
संभूतो हेमलिन्यां महादेव्यो मुतेजसि । सुरेंद्रमन्यूनामाभूत्यनुस्तस्य महागुणः ॥ ७५ ॥
तस्य कीर्तिसमाख्यायां जायायां तनयद्वयं । चंद्रसूर्यसमच्छायं जातं. गुणसमर्चितं ।। ७६ ॥
बजवाहुस्तयोराधो द्वितीयश्च पुरंदरः । अन्वर्थनामयुक्तौ तौ रेमावे भुवने सुखं ॥ ७७॥
इभवाहननामासीत्तस्मिन् काले नराधिपः । रम्ये नागपुरे. तस्य नाम्ना चूडामणिः प्रिया ॥७॥
तयोर्दुहितरं चावी ख्यातां नाना मनोदयां । पाहुकुमारोऽसौ लेभे श्लाध्यतमो.नृणां ॥७९॥
तत्कन्यासोदरो नेतुमागादुदयसुंदरः । सार्ध तेनोचिठूता श्रीमान्सिवातपनिवारणः ॥ ८ ॥
कन्यां वा रूपतः ख्यातां, सकले वसुधातले । मानसेनयहन्भूत्या प्रतस्थे श्वाशुरं पुरं ॥.८१ ॥
अथास्य बजतो दृष्टिवसंतकुसुमाकुले । गिरी वसंतसंबाके निपपात मनोहरे ।। ८२ ॥
यथा यथा समीपत्वं तस्य याति गिरेरसी । तथा तथा परां लक्ष्मी पश्यन् हर्षमुपागमत् ।।८।।
पुप्पधूलीविमिश्रेण वायुना स मुगंधिना | समालिंग्यत मित्रेण संप्राप्तेन चिरादिय ।। ८४ ॥
पुस्कोकिलकलालापर्जयशब्दमिवाकरोत् । वातपितवृक्षायो वनवाहोर्धराधरः ॥ ८५ ॥
एकविंशतितम पर्य। पद्मपुराणम्। वीणाझंकाररम्येण, श्रृंगाणां मंदशालिनां । नादेन, श्रवणौ तस्य मानसेन समं हृतौ ॥ ८६ ॥ गतोयं. कर्णिकारोयं लोधोयं कुसुमान्वितः । प्रियालोयं पलाशोयं ज्वलत्पावकमासुरः ॥ ८७ ॥ वजंतीति क्रमेणास्य दृष्टिनिश्चलपक्ष्मिका । संदिग्धमानुपाकारे पपात मुनिपुंगवे ॥ ८८.।। स्थाणुः स्याच्छ्मणोयं न शैलकूटमिदं भवेत् । इति राज्ञो वितर्कोऽभूत्कायोत्सर्गस्थिते. मुनौ ८९ ततो नेदीयसं मार्ग प्रयातस्यास्य निश्चयः । उदयादिमहायोगी देहावंदनतत्परः ॥ ९० ।। उच्चावच्चशिलाजालविपमेऽवस्थितं स्थिरं । दिवाकरकरालिष्टाम्लानवक्त्रसरोरुहः ॥ ९१ ॥ प्रलंबितमहामोगिभोगभासुरसद्भुजं । शैलेंद्रतटसंकाशपीवरोदारवक्षसं ॥ ९२ ॥ दिनागवंधनस्तंभस्थिरभास्वद्वरोरुकं । तपसापि कृशं कात्या दृश्यमानं सुपीवरं ॥ ९३ ॥ नासिकाग्रनिविष्टातिसौम्यनिवलचक्षुपं । मुनि ध्यायंतमैकाग्न्यं दृष्ट्वा राजेत्यांचंयत् ॥ ९४ ।। अहो धन्योयमत्यंत प्रशांतो मानवोत्तमः । यद्विहायाखिलं संगं तपस्यति मुमुक्षया ॥ ९५ ॥ विमुक्त्यानुगृहीतोयं कल्याणाभिनिविष्टधीः । परपीडानिवृत्तात्मा. मुनिलक्ष्मीपरिष्कृतः ॥९६ ।।- समः सुहृदि शत्री च रत्नराशी तृणे तथा । मानमत्सरनिमुक्तः सिद्धयालिंगनलालसः ॥ ९७ ॥ वशीकृतहपीकात्मा निष्प्रकंपो गिरींद्रवत् । श्रेयो ध्यायति नीरागः कुशलस्थितमानसः ।। ९८ ॥
एकविंशतितम पर्व ૪૬૮ पद्मपुराणम् । फलं .पुष्कलमेतेन लब्धं मानुपजन्मनः । अयं न वंचित कपायाख्यमलिम्लुचैः ॥ ९९ ॥ अहं नु वेष्टितः पापः कर्मपाशैरनंतरं । आशीविपमहानागर्यथा चंदनपादपः ॥१०॥ प्रमत्तचेतसं पापं धिग्मा निश्ववनोपमं । योहं निद्रामि भोगाद्रिमहाभूगुशिरस्थितः ॥ १०१॥ यदि नाम भजेये माममवस्थामस्य योगिनः । भवेयं लब्धलब्धव्यस्ततो मानुपजन्मनि ॥१०२॥ इति चिंतयतस्तस्य राज्ञो निग्रंथपुंगवे । दृष्टिस्तंभनिबद्धेव बभूवात्यंतनिश्चला ॥१०३ ॥ एवं निश्चलपक्ष्माणं निरीक्ष्योदयसुंदरः । कुर्वनर्म जगावं वनवाहुं कृतस्मितः ॥ १०४ ॥ चिरं निरीक्षितो देवस्त्वयैप मुनिपुंगवः । वृणीप किमिमां दीक्षां रागवानत्र दृश्यसे ॥१०५॥ वनवाहुरथोवोचत्कृतभावनिगृहनः । वर्तते का पुनर्भावस्तवोदय निवेदय ॥ १०६ ।। अंतरिक्तमत्रचानमाहोदयसुंदरः । परिहासानुरागेण दंतांशुन्छुरिताधरः॥ १०७॥ दीक्षामिमां वृणीषे चेत्ततोहमपि ते सखा । अहो विराजसेऽत्यर्थ कुमारः श्रमणाश्रिया ।।१०८॥ अस्त्वेवमिति भापित्वा युक्तो बबाहभूपणैः । अवारोहदसौ नागादारोइधरणीधरं ।। १०९।। ततो वरांगनास्तारं रुरुदुरुरुलोचनाः । छिन्नमुक्तकलापामस्थूलनेत्रांघुविंदवः ॥ ११० ॥ व्यज्ञापयत्स बाष्पाक्षस्तमयोदयसुंदरः । प्रसीद देव नर्मदं कृतं किमनुतिष्ठसि ।। १११ ।।. १ - एकविंशतितमं पर्व। पद्मपुराणम् ।। + - उवाच वज्रवादुस्तं मधुरं परिसांत्वयन् । कल्याणाशय कूपेहं पतनुत्तारितस्त्वया.॥.११२ ॥ भवता सदृशं मित्रं नास्ति मे भुवनत्रये । जातस्य सुंदरावश्यं मृत्युः प्रेतस्य संभवः ॥ ११३ ।। मृत्युजन्म घटीयंत्रमेतद्भाम्यत्यनारत । विद्युत्तरंगदुष्टाहिरसनेभ्योऽपि चंचलं ॥ ११४॥ जगतो दुःखमनस्य किन्न पश्यसि जीवितं । स्वप्नभोगोपमाभोगा जीवितं बुद्धदोपमं ॥११५ ।। संध्यारागोपमः स्नेहस्तारुण्यं कुसुमोपमं । परिहासोऽपि ते भद्र मम जातोऽमृतोपमः ॥११६ ।। परिहासेन किं पीतमौषधं हरते विपं । सत्वमेपोद्यमे बंधुर्यः सुश्रेयः प्रवृत्तये ॥ ११७ ॥ संसाराचारसक्तस्य प्रतिपन्नोऽसि हेतुतां । एपोहं प्रव्रजाम्यद्य कुरु त्वं स्वमनीपितं ॥.११८ ।। गुणसागरनामानं, तमुपेत्य तपोधनं । प्रणम्य चरणानचे विनीतो रचितांजलिः ॥ ११९ ।। स्वामिन् भवत्प्रसादेन पवित्रीकृतमानसः । अद्य निष्क्रमितुं भीमादिच्छामि भवतारकात् ततः समाप्तयोगेन गुरुणेत्यनुमोदितः । महासंवेगसंपन्नस्त्यक्तंवखविभूपणः ॥ १२१ ॥ पर्यकासनमास्थाय रभसान्वितमानसः । केशापनयनं कृत्वा पल्लवारुणपाणिनां ॥ १२२ ॥ जानानः प्रलघु देहमुल्लाघमिव तत्क्षणं । दीक्षा संचक्ष्य वैवाही मोक्षदीक्षामंशिश्रियत् ॥१२३॥ त्यक्तरागमदद्वेषा जातसंवेगरंहसः । सुंदरप्रमुखा वीराः कुमारामारविभ्रमाः ॥ १२४ ॥ प न एकविंशतितम पर्व ४७० पद्मपुराणम्। परमोत्साहसंपन्नाः प्रणम्य मुनिपुंगवं । पड्विंशतिरमा तेन राजपुत्राः प्रपत्रजुः ।। १२५ ॥ तमुदंतं परिज्ञाय सोदरस्नेहकातरा । वहती पुरुसंवेगमदीक्षिष्ट मनोदया ॥ १२६ ।। सितांशुकपरिच्छन्नविशालस्तनमंडला । अल्पोदरी मलच्छन्ना जाता सातितपस्विनी ॥ १२७ ।। विजयस्यंदिनो पातां विदित्वा वजवाइयीं । शोकार्दितो जगादैवं सभामध्यव्यवस्थितः १२८ चित्रं पश्यत मे नप्ता वयसि प्रथमे स्थितः । विषयेभ्यो विरक्तात्मा दीक्षा देगंबरीमितः॥१२९।। मादृशोऽपि सुदुर्मोचैर्वीयान् प्रवर्णाकृतः । मोगैयस्तै कथं तेन कुमारेण विवर्जिताः ॥ १३० ।। अथवानुगृहीतोसी मान्यवान् मुक्तसंपदा । भोगान् यस्तृणवत्यक्त्या. शीतीभावे व्यवस्थितः १३१ मंदभाग्योधुना चेष्टां का व्रजामि जरादितः । सुचिरं वंचितः पापैविषयैर्मुखसुंदरैः ।। १३२ ।। इंद्रनीलांशुसंघातसंकाशो योऽभवत्कथं । केशभारः स मे जाव: कामराशिसमद्युतिः ॥ १३३ ॥ सितासितारुणच्छाये नेत्रे ये जनहारिणी । जाते संप्रति ते मुभ्रूवलीछन्नसुवर्मनी ॥ १३४ ॥ प्रमासमुज्वला कायो योयमासीन्महाबलः । जातः संप्रत्यसौ वर्षाहतचित्रसमच्छविः॥ १३५ ।। अर्थों धर्मश्व कामश्च त्रयस्तै तरुणोचिताः । जरापरीतकायस्य दुष्कराः प्राणधारिणः ।।१३६॥ धिग्मामचेतनं पापं दुराचारं प्रमादिनं । अलीकबांधवस्नेहसागरावर्तवर्तिनं ।। १३७ ।।
पद्मपुराणम् । ४७१. एकविंशतितमं पर्व। इत्युक्त्या बांधवान् सर्वानापृच्छच विगतस्पृहः । दत्वा पुरंदरे राज्य राजा जर्जरविग्रहः १३८ .. पानिर्वाणघोपस्य निग्रंथस्य महात्मनः । सुरेंद्रमन्युना साधं प्रवत्राज महामनाः ॥ १३९ ।। पुरंदरस्य तनयमसूत पृथिवीमती । भार्या कीर्तिधराभिख्यं विख्यातगुणसागरं ॥ १४० ।। क्रमेण स परिप्राप्तो यौवनं विनयाधिकः । एधयन् सर्वबंधूनां प्रसादं चारुचेष्टया ॥ १४१ ।। कौशलस्थनरेंद्रस्य वृता तस्मै शरीरजा । सुतमुद्वाह्य तां गेहान्निश्चक्राम पुरंदरः ।। १४२ ।। क्षेमंकरमुनेः पार्श्वे प्रवज्य गुणभूपणः । तपः कतुं समारेभे कर्मनिर्जरकारणं ॥ १४३ ॥ कुलक्रमागतं राज्यं पालयन् जितशात्रवः । रेमे देवोत्तमैर्भोगैः सुखं कीर्तिधरो नृपः ।। १४४ ।। अथान्यदा कीर्तिधरः क्षितीश्वरः । प्रजासु बंधुः कृतभीररातिषु ॥ मुखासनस्थो भवने मनोरमे । विराजमानो नलकूबरो यथा ।। निरीक्ष्य राहक्षयनीलतेजसा । तिरोहितं भास्करभासमंडलं ॥ अचिंतयत्कष्टमहो न शक्यते । विधिनिनेतुं प्रकटीकृतोदयः ।। १४६ ।। उत्सार्य यो भीषणमंधकारं । करोति निष्कांतिकर्मिदुर्वियं ।। असौ रविः पद्मवनप्रवोधः । स्वर्भानुमुत्सारयितुं न शक्तः ॥ १४७ ॥ ?
एकविंशतितम पर्य। ४७२ पद्मपुराणम् । नारुण्यमूर्योप्ययमेवमेव । प्रणश्यति प्राप्तजरोपरागः ॥ जंतुराको वरपाशबद्धो । मृत्योरवश्य मुखमभ्युपैति ॥ १४८ ।। अनित्यमेतज्जगदेष मत्वा । सभासमेतानगदीदमात्यान् ।। ससागरां रक्षत मो धरित्री । अहं प्रयाम्येप विमुक्तिमार्ग ॥ १४९ ।। इत्युक्तमान युधबंधुपूर्णो | सभा विषादं प्रगता तमूचे ।। राजंस्त्वमस्याः पतिरद्वितीयो । विराजसे सर्ववसुंधरायाः ॥ १५० ।। त्यक्ता वशस्था धरणी च येयं । न राजते निर्जितशत्रुपक्षा ।। नवे ययस्युनतवीर्यराज्यं । कुरुष्व तावत्सुरनायतुल्यं ।। १५१ ॥ जगाद राजा भयवृक्षसंकटां । जरावियोगारतिवहिदीपितां ।। निरीक्ष्य दीपा व्यसनाटबीमिमा । भयं ममात्यंतमुरु प्रजायते ।। १५२ ।। तनिश्चितं मंत्रिजनोऽवगत्य । विध्यातमंगारचयं महांतं ॥ आनाय्य मध्येस्य मरीचिरम्यं । चैडूर्यमस्थापयदत्युदारं ।। १५३ ।। पुनस्तदुवृत्त्य जगाद राजन् । यथामुना रत्नवरेण हीनः ।।
एकविंशतितम पर्व। . ४७३ पद्मपुराणम्। -- - . न शोभतेऽगारकलाप एप । त्वया विनेदं भुवनं तथैव ।। १५४ ॥ नाथ त्वयेमा विकला विनाथा । प्रजा विनश्यंत्यखिला वराक्यः ।। प्रजासु नष्टासु तथैव धर्मों । धर्मे विनष्टे वद किं न नष्टं ॥ १५५ ।। तस्माद्यथा ते जनकः प्रजाभ्यो । दत्वा भवंतं परिपालनाय ।। तपोऽकरोनिवृतिदानदत्तं । तथा भवान् रक्षतु गोत्रधर्म ॥ १५६ ॥ अर्थवमुक्तः कुशलरमात्यै-खग्रई कीर्तिधरवकार ॥ श्रुत्वा प्रजातं तनयं प्रपश्ये । ध्रुवं मुनीनां पदमप्युदारः ॥ १५७ ॥ ततः स शक्रोपमभोगवीर्यः । स्फीतां व्यवस्थामहतीं धरित्रीं ॥ मुखं शशासाखिलभीतिमुक्तां । स भूरिकालं सुसमाहितात्मा ॥ १५८ ॥ चिरं ततः कीर्तिधरेण साकं । सुखं भजती सहदेवदेवी । फ्रमेण संपूर्णगुणं प्रसूता । सुतं धरित्रीधरणे समर्थ ।। १५९ ।। समुत्सवस्तत्र कृतो न जाते । मागाद्धरित्रीपतिकर्णजाई ।। पातेति कांथिदिवसान्निगूढः । कालः कथंचित्प्रसवस्य जातः ॥ १६० ।।
1 . एकविंशतितमं पर्व ४४ 1 पद्मपुराणम्। ततः समुद्यदिवसप्रभूपम-श्चिरं स शक्यः कथमेव गोपितुं ॥ निवेदितो दुर्विधिनातिदु:खिना । नृपाय केनापि नरेण निश्चितः ।। १६१ ॥ तस्मै नरेंद्रो मुकुटादिदृप्यो । विभूषणं सर्वमदान्महात्मा ॥ घोपाख्यशाखानगरं च रम्य । महाधनग्रामशन युक्तं ।। १६२ ।। पुत्रं समानाय्य च यक्षजातं । स्थितं महावेजसि मातुरके ।। अतिष्ठिपर्नुगविभूतियुक्तं । निजे पदे पूजितसर्वलोकः ।। १६३ ॥ जाते यतस्तत्र बभूव रम्या । पुरी विभूत्या फिल कोशलाख्या । सुकोशलख्यां स जगाम तस्मा-द्वाल: समस्ये भुवने सुचेष्टः ॥ १६४ ॥ ततो विनिष्क्रम्य निवासचारका-दशिश्रियत्कीर्तिधरस्तपोवनं ॥ : तपोमवेनैप रराज तेजसा । घनागमोन्मुक्ततनुर्यथा रविः।। १६५ ।। इत्या रविपणाचार्यप्रोके पद्म-चरिते सुप्रतवनबाहुकीर्तिमाहात्म्यवर्णनं नाम एकविंशतितमं पर्व ।
.
१
द्वाविंशतितमं पर्व।
४७५
पद्मपुराणम्।
.
-
1
द्वाविंशतितमं पर्व।
अथ घोरतपोधारी धरातुल्यः क्षमः प्रभुः । मलकंचुकसंवीतवीतमानो महामनाः ॥ १ ॥
तपः शोपितसागो धीरो लुंचविभूषणः । प्रलंचितमहाबाहुर्युगाध्वन्यस्तलोचनः ॥२॥
स्वभावान्मत्तनागेंद्र मंथरायणविभ्रमः निर्विकारः समाधानी विनीतो लोभवर्जितः ॥३॥
अनुसूत्रसमाचारो दयाविमलमानसः। स्नेहपंकविनिमुक्तः श्रमणश्रीसमन्वितः ॥४॥
गृहपंक्तिक्रमप्राप्तं भ्राम्यन्नात्मवरं गृहं । मुनिर्विवेश भिक्षार्थ चिरकालोपवासवान् ।। ५॥
निरीक्ष्य सहदेवी तं गवाक्षनिहितेक्षणा । परमं क्रोधमायाता विस्फुरल्लोहितानना ॥ ६ ॥
प्रतीहारगणानूचे कुंचितोष्ठी दुराशया । श्रमणो गृहभंजोऽयमाशु निर्वास्यातामिति ॥ ७ ॥
मुग्धः सर्वजनप्रीतः स्वभावमृदुमानसः । यावनिरीक्ष्यते नैनं कुमारः सुकुमारकः ॥८॥
अन्यानपि यदीक्षे तु भवने नाममानवान् । निग्रहं यः करिष्यामि प्रतीहारा न संशयः ॥९॥
परित्यज्य दयामुक्तो गतोऽसौ शिशुपुत्रकं । यतः प्रभृति नामीषु तदारभ्य धृतिर्मम ॥१०॥
राज्यश्रियं द्विपंत्येते महाशूरनिपेवितां । नयंत्यत्यंतनिर्वेदं महोद्योगपरानरान् ॥ ११ ॥
द्वाविंशतितम पर्व। ४७६ पद्मपुराणम्। कररित्युदिनः क्षिप्रं दुर्वाक्यजनिताननः । दूर निर्वासिता योगी वेशग्राहितपाणिभिः ।। १२ ।। अन्येऽपि लिंगिनः सर्वे पुरान्निर्वासितस्तदा । कुमारो धर्मशब्दं माथोषीदिति नृपास्सदे।।१३।। इति संतक्ष्यमाणं तं वाग्यास्या मुनिपुंगवं । श्रुत्वा दृष्ट्वा च संजातमत्यग्रौदारशोकिका ॥ १४ ॥ स्वामिनं प्रत्यभिज्ञाय भक्ता कीर्तिधरं चिरात् । धात्रीसाकोशली दीर्घमरोंदीन्मुक्तकंठिका ।।१५।। श्रुत्वा तां रुदनीमाशु समागत्य सुकोशलः । जगाद सांत्वयन मातः केन तेऽपकृतं पदं ॥१६॥ गर्भधारणमात्रेण जनन्या समनुष्ठितं । त्वत्पयोमयमेत्तनु शरीरं जातमीदृशं ॥ १७ ॥ सा मे त्वं जननीतोऽपि पर गौरखमाश्रिता । वदापमानिता केन मृत्युवक्त्रं विविक्षुणा ॥ १८॥ अद्य मे त्वं जनन्यापि परिभूता मवेद्यदि 1 करोम्यविनयं तस्या जंतोरन्यस्य किं पुनः॥१९॥ ततस्तस्मै समाख्यातं वसंतलतया तया । कृच्छ्ण विरलीकृत्य नेत्रांबुप्लवसंतति ॥ २० ॥ आभिषिच्य शिशुं राज्ये भवंतं यस्तपोवनं । प्रविष्टस्ते पिता भीतो भवव्यसनपंजरात् ॥ २१ ॥ भिक्षार्धमागतः सोद्य प्रविष्टो भवतो गृहं । जनन्यास्ते नियोगेन प्रतिहारनिराकृतः ॥ २२ ॥ दृष्ट्वा निर्धार्यमाणं तं जातशोकोरुवेलया । रुदितं मयका वत्स शोकं धर्तुमशक्तया ।। २३ ॥ भवद्गौरवदृष्टायाः कुरुते का पराभवं । मम कारणमेतनु कथितं रुदितस्य.ते ।। २४ ॥ .
द्वाविंशतितमपर्व।
ឬ៤៤
+
पद्मपुराणम्।
.
प्रसादस्तेन नाथेन तदास्माकमकारि यः । स्मर्यमाणः शरीरं स दहत्येप निरंकुशः ॥ २५॥
धृतमेतदपुण्यमें शरीरं दुःखभाजनं । वियोगे तस्य नाथस्य धियते यदयोमयं ॥ २६ ॥ .
निग्रंथं भवतो दृष्ट्वा माभूनिर्दधीरिति । तपस्विनां प्रवेशोऽस्मिन्नगरेऽपि निवारितः ॥ २७ ॥
गोत्रे परंपरायातो धर्मोऽयं भवतां किल । राज्ये यत्तनयं न्यस्यं तपोवननिपेवणं ॥ २८ ॥
किंनास्मादपि जानासि मंत्रिणां संप्रधारणं । न कदाचिदतो गेहाल्लभसे यद्विनिर्गमं ॥ २९ ॥
एतस्मात्कारणात्सर्व वाह्यालीभ्रमणादिकं । अमात्यैः कृतमत्रैव भवने नयशालिमिः ॥३०॥
ततो निशम्य वृत्तांनं सकलं तनिवेदितं । अवतीर्य त्वरायुक्तः प्रासादाग्रात्सुकोशलः। ॥३१ ।।
परिशिष्टातपत्रादिपृथिवीपतिलांछनः । पद्मकोमलकांतिभ्यां चरणाभ्यां श्रियान्वितः ॥३२॥
इतो वरमुनिष्टो भवद्भिरिति नादवान् । परमोत्कंठया युक्तः संप्रापयितुरंतिकं ॥ ३३ ॥
अस्यानुपदवीभूता महासंभ्रमसंगताः । छत्रधारादयः सर्वे व्याकुलीभूतचेतसः॥ ३४ ॥
निविष्टं मासुकोदारे प्रवरऽमुं शिलातले । बाप्पाकुलविशालाक्षस्त्रिः परीत्य सुभावनः ॥ ३५ ॥
करयुग्मांतिक कृत्वा मूर्धानं स्नेहनिर्भरः । ननाम पादयोजानुमस्तकस्पृष्टभूतलः ॥ ३६ ॥
कृतांजलिरथोवाच विनयेन पुरस्थितः । ब्रीडामिव परिप्राप्तो मुनर्गहादपाकृतेः ॥ ३७॥
द्वाविंशतितम पर्व । ४८० पद्मपुराणम् । अनुकंपापराः शांता निग्रंयमुनिपुंगवा । प्रासुकस्थानमासाय चातुर्मासीतं श्रिताः ॥ ६४ ॥ गृहीतं श्रावकैः शक्त्या नानानियमकारिभिः । दिग्विरामश्रितं साधुसेवातत्परमानसः ॥६५॥ एवं महति संप्राप्त समये,जलदाकुले । निग्रंथौ तौ पितापुत्री यथोक्ताचारकारिणौ ॥ ६६ ॥ वृक्षांधकारगभीरं बहुव्यालसमाकुलं । गिरिपादमहादुर्ग रौद्राणामपि भीतिदं ॥ ६७ ।। कंकगृध्रक्षगोमायुरखपूरितगहरं । अर्धदग्धावस्थान भीपण विषमावनिं ॥ ६८ ॥ शिरः कपालसंघातैः क्वचित्पांडुरितक्षतिः । बसातिविसर्गधोनवेगवाहिसमीरणं ।। ६९ ।। साट्टहासभ्रमद्भीमरक्षोवेवालसंकुलं । तृणगुच्छलताजालपरिणद्धोरुपादपं ॥ ७० ॥ पृथुप्रेतपनं धीरा वर्षाढ्यं शुचिमानसी । यदृच्छया परिप्राप्तौ विहरतो तपोधनौ ।। ७१ ॥ चतुर्मासोपवास तो गृहीत्वा तन निस्पृहो । वृक्षमूले स्थिती यत्र संगमासुकितांभसि ॥ ७२ ॥ पर्यकासनयोगेन कायोत्सर्गेण जातचित् । वीरासनादियोगेन निन्ये ताभ्यां धनागमः ।। ७३ ॥ ततः शरहतुः नाप सोद्योगाखिलमानवः । प्रत्यूष इस निश्शेपजगदालोकपंडितः ॥ ७४ ॥ सितच्छायाधना क्यापि दृश्यंते गगनांगण । विकासकाशसंघातसंकाशा मंदकंपिताः।। ७५ ।। धनागमविनिर्मुक्ते भाति खे पद्मांधवः । गते सुदुःपमाकाले भन्यत्रंधुर्जिनो यथा ।। ७६ ॥
द्वाविंशतितम पर्व। ४८१ पद्मपुराणम् । - तारानिकरमध्यस्थो राजते रजनीपतिः । कुमुदाकरमध्यस्थो राजहंसयुवा यथा ।। ७७ ॥ ज्योत्स्नया प्लावितो लोकः क्षीराकूपारकल्पया । रजनीपु निशानाथप्रणालमुखमुक्तया ॥७८॥ नद्यः प्रसन्नता प्राप्तास्तरंगांकितसकताः। क्रौंचसारसचक्राहा नादसंभापणोद्यताः ॥ ७९ ॥ उन्मज्जति चलगा सम्मु कमलाकराः । भन्यसंघा इवोन्मुक्तमिथ्यात्वमलसंचया ॥ ८॥ तलेषु तुंगहाणां पुष्पप्रकरचारुपु । रमते भोगसंपन्ना नरा नक्तं प्रियान्विताः ॥ ८१ ॥ सन्मानितसुहृद्वंधुजनसंघा महोत्सवाः । दंपतीनां वियुक्तानां संजायते समागमाः ।। ८२ ॥ कार्तिक्यामुपजातायां विहरति तपोधनाः । जिनातिशयदेशेषु महिमोद्यतजंतुषु ।। ८३ ।। अथ तो पारणाहेतोः समाप्तनियमौ मुनी । निवेशं गंतुमारब्धौ गत्या समयदृष्टया ।। ८४ ।। सहदेवीचरी व्याघ्री दृष्ट्वा तो क्रोधपूरिता । शोणितारुणसंकीर्णधुतकेसरसंचया ॥ ८५॥ . दंष्ट्राकरालवदना स्फुरपिगनिरीक्षणा । मस्तकोध्येवलत्पुच्छा नखक्षतवसुंधरा ॥८६॥ कृतगंभीरहुंकारा मारीयोपानविग्रहा । लसलोहितजिहाग्रा विस्फुरदेहधारिणी ॥ ८७ ॥ मध्याहरविसंकाशा कृत्वा क्रीडां विलंवितां । उत्पपात महावेगाल्लक्ष्यीकृत्य सुकोशलं ।। ८८ ।। उत्पती तु तां दृष्ट्वा नौ मुनी चारुविभ्रमौ । सालंवभयनिमुक्ती कायोत्सर्गेण तस्थतुः ।।८९॥ ३१ F द्वाविंशतितम पर्य। ४.२ पपुराणम् गुकोशलमुनेरुदं मूर्दप्रभृतिनिर्दया । दारपंती नस पतिता सा महीतले ॥ ९ ॥ तयासी दारितो देहे विमुंचनससंहतीः । बभूव विगलद्धातुवारिनिरौलवत् ॥ ९१॥ ततस्तस्य पुरः स्थित्वा कृत्वा नानाविचेष्टितं । पापा सादितुमारब्धा मुनिमारभ्य पादतः ९२ पश्य श्रेणिक संसारे संमोइस्य विचेष्टितं । यत्राभीष्टस्य पुत्रस्य माता गात्राणि खादति ॥१३॥ किमतोन्यत्परं कष्टं यन्जन्मांतरमोहिताः । बांधवा एव गच्छति वैरितां पापकारिणः ॥९४ ॥ तनो मेरुस्थिरस्यास्यशुक्लध्यानावगाहिनः । उत्पन्नं केवलज्ञानं देहमुक्तेरनंतरं ॥ ९५ ॥ आगत्य च सहेंद्रेण- प्रमोदेन सुरासुराः । चकुर्देहार्चनं तस्य दिव्यपुप्पादिसंपदा ॥ ९६ ।। च्याघ्री कीर्तिघरेणापि सुयाक्यैर्वोधिता सती । सन्यासन शुभं कालं कृत्वा स्वर्गमुपागता ९७ ततः कीर्तिधरस्यापि केवलज्ञानमुद्गतं । यत्रासकैव देवानां जाता महिमकारिणां ॥९८॥ महिमानं परं कृत्वा केवलस्य मुरासुराः । पादी केवलिनी नत्वा ययुः स्थान यथायथं ॥१९॥ मुकोशलस्य महात्म्यमधीते यः पुमानिति । उपसर्गविनिर्मुक्तः सुखं जीवत्यसौ चिरं ॥१०॥ देवी विचित्रमालाथ संपूर्णे समये सुखं । प्रसूता तनयं चारुलक्षणांकितविग्रहं ॥ १०१ ।। हिरण्यरुचिरा माना तस्मिन् गर्भस्थिते भवेत् । यतो हिरण्यगर्भाख्यामतोसौ सुंदरोगमन् १०२
*
द्वाविंशतितम पर्व।
पद्मपुराणम् ।
नाभेयसमयस्तेन गुणैः पुनरिवाहृतः । हरेः स तनयां लेभे नाम्नामृतवती शुभा ॥१०३ ॥
सुहृद्वाधवसंपन्नः सर्वशास्त्रार्थपारगः । अक्षीणद्रविणः श्रीमान् हेमपर्वतसनिभः ॥१०४ ॥
पराननुभवन् भोगानन्यदासौ महामनाः । मध्ये भुंगामकेशानां पलितांकुरमैक्षत ॥ १०५ ।।
दर्पणस्य स्थितं मध्ये दृष्ट्वा तं पलितांकुरं । मृत्योर्दूतसमाहूतमात्मानं शोकमाप्तवान् ॥ १०६ ॥
अचिंतयञ्च हा कष्टं बलादंगानि मे तया । शक्तिकांतिविनाशिन्या व्याप्यंते जरसाधुना ॥१०७।।
चंदनद्रुमसंकाशकायोयमधुना मम | जराज्यलननिर्दग्धोंगारकल्पो भविष्यति ॥ १०८ ॥
तर्कयंती रुजा छिद्रं या स्थिता समयं चिरं । पिशाचीवाधुना सा मे शरीरं वाधयिष्यति ॥१०९॥
चिरं वद्धक्रमो योस्थाद् व्याघ्रवद्ग्रहणोत्सुकः । मृत्युः स मेधुना देहं प्रसमं भक्षयिष्यति ॥११०।।
कर्मभूमिमिमां प्राप्य धन्यास्ते युगपुंगवाः । व्रतपोतं समारुह्य तरुर्ये भवसागरं ॥ १११ ॥
इति संचिंत्य विन्यस्य राज्येऽमृतवतीसुते । नघुपाख्यं प्रवबाज पार्थे विमलयोगिनः ॥ ११२ ।।
न घोषितं यतस्तस्मिन् गर्भस्थेप्यशुभं भुवि । नघुषोऽसी ततः ख्यातो गुणनामितविष्टपे ११३
स जायां सिंहिकाभिख्यां स्थापयित्वा पुरे ययौ । उत्तरां ककुभं जेतुं सामंतान् प्रत्यवस्थितान् ।।
दूरीभूतं नरं ज्ञात्वा दाक्षिणात्या नराधिपाः । पुरी गृहीतमाजग्मुर्विनीता भूरिसाधनाः ॥११॥
द्वाविंशतितमे पर्व।
४८४
पद्मपुराणम् ।
रणे विजित्य तान् सर्वान् सिंहिकातिमतापिनी । स्थापयित्वा दृढं स्थाने रक्षमाप्तवरं नृपं ११६
सामननिर्जितैः सार्दू जेतुं शेषान्नराधिपान् । जगाम दक्षिणामाशां शत्रशास्त्रकृतश्रमाः॥११७॥
प्रतापनव निर्जित्य सामनान् प्रत्यवस्थितान् । आजगाम पुरी राजी जयनिस्वनपूरिता ॥११८॥
नघुपोप्युत्तरामाशां वशीकृत्य समागतः । कोपं परममापन्नः श्रुतदारपराक्रमः ॥ ११९ ॥
अविखंडितशीलाया नेटग्धीबकुलस्त्रियः। भवतीति विनिश्चित्य सिंहिकायां व्यरज्यत ॥१२०॥
महादेवीपदात्साय च्यायित्ता साधुचौटता । महादरिद्रता प्राप्ता कालं कंचिदवस्थिता ॥१२॥
अन्यदाथ महादाहज्वरोभूत्पृथिवीपते । सर्ववैद्यनयुक्तानामौषधीनामगोचरः ॥ १२२ ॥
सिंहिका तं तथाभूतं ज्ञात्वा शेकसमाकुला । स्यं च शोधयितुं साध्वी क्रियामेतां समाश्रिता ॥१२३।।
समाहूयासिलान बंधुन् मामंतान प्रकृतीस्तथा । करे कोशं समादाय वारिदत्तं पुरोधसा।।१२।।
जगाद यदि मे भर्ता नान्यचेतस्पपि स्थितः । ततः सिक्कोंयुनानेन राजास्तु विगतज्वरः ॥१२५।।
ततोऽसौ सिक्तमात्रेऽस्मिन् तत्करोदकशीकरे । दंतवीणाकृतस्थानो हिममन इवाभवत् ॥१२६ ।।
साधु साध्विति शब्देन गगनं परिपूरितं । अदृष्टजननिर्मुक्तर्दृष्टं सुमनसां चयैः ॥ १२७ ।।
इति तां शीलसंपन्नां विज्ञाय नरपुंगवः । महादेवीपदे भूपः कृतपूजामतिष्ठिपत् ॥ १२८ ॥
.
४८५."
.
..
पद्मपुराणम्।
१
, ' द्वाविंशतितम पर्व।
अनुभूय चिरै भोगान तया सार्धमकंटकः । निश्शोषपूर्वजाचारं कृत्वा मनसि निस्पृहः ॥१२९॥
संभूतं सिंहिकादेव्यां सुतं राज्ये नियाय स । जगाम पदवीं धीरो जनकेन निषेवितां ॥ १३०॥
नघुपस्य सुतो यस्मात्सुदासीकृतविद्विषः । सौदास इति तेनासौ भुवने परिकीर्तितः ॥ १३२ ।।
तस्य गोत्रे दिनान्यष्ट चतुर्वासीसमाप्तिपु । भुक्तं न केनचिन्मांसमपि मांसैघितात्मना ॥१३२॥
कर्मणस्त्वशुभस्यास्य कस्यापि समुदीरणात् । बभूव खादितुं मासं तेष्वेव दिवसेषु धीः ॥१३३।।
ततोनेन समाह्वाय सूदः स्वैरममाप्यत । मांसमतुं समुत्पन्ना मम भद्राय धीरिति ॥ १३४ ॥
तेनोक्तो देव जानासि दिनेष्वतेप्वमारणं । जिनपूजासमृद्धेषु समस्तायामपि क्षिती ॥ १३५ ।।
नृपेणोचे पुनः सूदो त्रियेद्य यदि नाघि तत् । इति निश्चित्य यद्युक्तं तदाचर किमुक्तिभिः।।१३६।।
तदयस्थं नृपं ज्ञात्वा पुरात्सूदो बहिर्गतः । ददर्श मृतकं घालं तद्दिने परिखोज्झितं ॥ १३७ ।।
तं वस्त्रावृत्तमानीय संस्कृत्य स्वादुवस्तुभिः । नरेंद्राय ददावतुं मन्यसे मुख्यगोचरं ।.१३८ ।
महामांसरसास्वादनितांतप्रीतमानसः । भुक्त्वोत्थितो मिथः सूदं स जगाद सविस्मयः ॥१३९।।
बद मद्र कुतः प्राप्तं मांसमेतत्त्वयेदृशं । अनास्वादितपूर्वोयं रसो यस्यातिपेशलः ॥ १४० ।।
सोऽभयं मार्गयित्वास्मै यथावद्विन्यवेदयत् । ततो राजा जगादेदं सर्वथा क्रियतामिति ॥१४॥
वाविंशतितम पर्व। ४८६ पद्मपुराणम् । 3 सूदोथ दातुमारब्धः शिशुवर्गाय मोदकान् । शिश्वस्तत्प्रसंगेन प्रत्यहं तं समाययुः ॥ १४२ ॥ गृहीत्वा मोदकान् यातान् शिशूनां पश्चिमं ततः। मारयित्वा ददौ दो राज्ञे संस्कृत्य संततं ॥१४३।। प्रत्यहं धीयमाणेषु पौरखालेषु निश्चितः । सूदेन सहितो राजा देशात्पौरनिराकृतः ॥ १४४ ॥ कनकाभासमुत्पन्नस्तस्य सिंहरथः सुतः । राज्येऽवस्थापितः पौरः प्रणतः सर्वपार्थिवैः ॥१४५॥ महामांसरसासक्तः सौदासो जग्ध सूदकः । वभ्राम धरणी दुःखी भक्षयन्त्रुज्झितान् शवान्॥१४६॥ सिंहस्येव यतो मांसमाहारोऽस्याभवत्ततः । सिंहसीदासशब्दैन भुवने ख्यातिमागतः ॥१४७ ।। दक्षिणापथमासाद्य प्राप्यानंबरसंश्रयं । श्रुत्वा धर्म बभूवासावणुव्रतधरो महान् ॥ १४८ ॥ ततो महापुरे राज्ञि मृते पुत्रविवर्जिते । स्कंधमारोपितः प्राप राज्यं राजद्विपेन सः ।। १४९ ।। व्यसयच पुत्रस्य नतये नमूर्जितः । सोऽलिखत्तव गर्दस्य न नमामीति निर्भयः ॥ १५० ॥ तस्योपरि ततो याति सौदासे विषयोखिलः । प्रपलयितुमारेभे भक्षणत्रासकंपितः ॥ १५१ ॥ स्रजित्वा तनयं युद्धे राज्ये न्यस्य पुनः कृती । महासंवेगसंपन्नः प्रविवेश तपोवनं ।। १५२ ।। ततो ब्रह्मरथो जातश्चतुर्वक्त्रस्ततोभवत् । तस्माद्धेमरथो जज्ञे जातः शतरथस्ततः ॥ १५३ ।। उदपादि पृथुस्तस्मादजस्तस्मात्पयोरथः । बभूवेंद्ररथोऽमुप्मादिननाथरथस्ततः ।। १५४ ॥
द्वाविंशतितम पर्व। ४८७ पद्मपुराणम् । t मांधाता वीरसेनश्व प्रतिमन्युस्ततः क्रमात् । नाम्ना. कमलधुर्थ दीप्त्या कमलबांधवः ॥१५५॥ प्रतापेन वस्तुल्यः समस्तस्थितिकोविदः । रविमन्युश्च विज्ञेयो वसंततिलकस्तथा ॥. १५६ ।। कुवेर दत्तनामा च कुंथुभक्तिव कीर्तिमान् । शरभद्विरदौ प्रोक्तौ रथशब्दोंत्तरश्रुती ॥ १५७ ॥ मृगेशदमनाभिख्यो हिरण्यकशिपुस्तथा । पुंजस्थलककुस्थश्च रघुः परम विक्रमः ।। १५८ ।। इतीक्ष्वाकुकुलोद्भूताः कीर्तिता भुवनाधिपाः । भूरिशोऽत्र गता मोक्षं कृत्वा दैगंबरं व्रतं ॥१५९॥ आसीत्ततो विनीतायामनरण्यो महानृपः । अनरण्यः कृतो येन देशो चासयता जनं ॥ १६० ।। पृथिवीमत्यभिख्यास्य महादेवीं महागुणा । कातिमंडलमध्यस्था सर्वेद्रियसुखावहा ॥ १६१ ।। द्वौ सुतायुदपत्स्यातां तस्यामुत्तमलक्षणौ । ज्येष्ठोऽनंतरथो ज्ञेयः ख्यातो दशरथोऽनुजः॥१६२|| सहसरस्मिसंज्ञस्य राज्ञो माहिष्मतीपतेः । अजयमनरण्येन साकमासीदनुत्तमं ॥ १६३ ॥ अन्योन्यगतिसंहद्धप्रेमाणों तौ नरोत्तमौ । सौधर्मेशानदेवेद्राविवास्थावां स्वधामनि. ॥ १६४ ।।. रावणेन जितो युद्धे सहस्रांशुर्वियुद्धवान् । दीक्षा जैनेश्वरीमाप विभ्रत्संवेगमुन्नतं ॥ १६५ ।। दूतात्तत्प्रेषिताञ् ज्ञात्वा तवृत्तांतमशेषतः । मासजाते श्रियं न्यस्य नापी दशरथे भृशं ॥१६६।। सकाशेऽभयसेनस्य निर्गथस्य महात्मनः । राजानंतरथेनामा प्रवनाजातिनिस्पृहः ॥ १६७ ।।
• ४८८ ।
पद्मपुराणम् ।
द्वाविंशतितम पर्व
अनरण्योऽगमन्मोक्षमतस्पंदनो महीं । सर्वसंगविनिर्मुक्तो विजहार यथोचितं ॥ १६८ ॥
अय॑तदुस्सहयोगी द्वाविंशतिपरीपहैः । न क्षोभितस्ततोनंतवीर्याख्यां स क्षितौ गतः ॥ १६९॥
वपुर्दशरथो लेभे नवयौवनभूषितं । शैलकूटमिरोत्तुगं नानाकुसुमशोभितं ॥ १७० ॥
अथामृतप्रभाषायामुत्पन्ना परयोपिति ! दर्भस्थलपुरेशस्य चारुविभ्रमधारिणः ॥ १७१ ।।
राज्ञः मुकोशलाख्यस्य वनयामपराजितां । उपयेमे स रत्यापि स्त्रीगुणैरपराजितां ।। १७२ ।।
पुरमस्ति महारम्यं नाना कमलसंकुलं । मुबंधुस्तिलकस्तस्य राजा मित्रास्य भामिनी ॥१७३॥
दुहिता कैकयी नाम तयोः कन्या गुणान्विता । मुंडमाला कृता, यस्य नेत्रंदीवरमालया ॥१७४।।
मित्राया अनिता यस्मात्सुचेष्टा रूपशालिनी । सुमित्रेति ततः ख्याति भुवने स समुपागता ।।
महाराज सुतामन्यां प्रापासौ सुप्रभाश्रुति । लावण्यसंपदं याला जनयंती श्रियस्रपां ॥ १७६ ॥
स सम्यग्दर्शनं लेभे राज्यं च परमोदयं । आद्ये रत्नमतिस्तस्य चरमे तृणसेमुखी ॥ १७७ ।।
अधोगतिर्यतोराद्यादत्यक्तादुपजायते । सम्यग्दर्शनयोगात्तु गतिरूद्धमसंशया ॥ १७८ ॥
येभरताचनृपतिभिरुद्धः । कारितपूर्वा जिनवरवासाः ॥
मंगमुपेतान् क्वचिदपि रम्यान । सोनयदेतानभिनवभावान् ॥ १७९ ॥
त्रयोविंशतितम पर्व। ४८९ पद्मपुराणम्। . । 4 इंद्रनुतानां स्वयमपि रम्यान् । तीर्थकराणां परमनिवा सान् । रत्नसमूहः स्फुरदुरुभासः । संततपूजामघटयदेपः॥१८॥ अन्यभवेषु प्रथितसुधर्माः । प्राप्य सुराणां श्रियमतिरम्यां । ईदृशजीवा पुनरिहलोके यांति समृद्धिरविचिता सा ॥ १८१॥ इत्या रविषेणाचार्यप्रोक्त पद्मचरिते सुकोशलमाहात्म्ययुक्तदशरथोत्पत्त्यभिधानं नाम द्वाविंशतितमं पर्व । त्रयोविंशतितमं पर्व । अन्यदाय मुखासीनं सभायां पुरुतेजसं । जिनराजकथासक्तं मुरेंद्रसमविभ्रमं ॥१॥ सहसा जनितालोको गगने देहतेजसा । समाययाववद्धारः शिष्टो दशरथं सुधीः ॥२॥ कत्वाभ्युत्थानमासीनमासने तं सुखावहे । दत्ताशीर्वचनं राजा पप्रच्छ कुशलं कृती ॥३॥ निवेध कुशलं तेन क्षेमं पृष्टो महीपतिः । सकलं क्षेममित्युक्त्वा पुनरेवमभापत ॥ ४ ॥ आगम्यते कुन: स्थानाद्भगवन् विहृतं क्वच । किमु दृष्टं श्रुतं किंवा न ते देशोस्त्यगोचरः ॥५॥ . .
. 1 . . पद्मपुराणम् । ४९०० त्रयोविंशतितम पर्व:- ततो मनस्थजैनेंद्रवर्णनोद्भूतसम्मदः । उन्नतं पुलकं विभ्रदित्यभाषत नारदः ॥६॥ विदेई. नृप याताई मार्स चारु जिनहितं । जिनेंद्र भवनाधारभूरिशैलविभूषितः 11.७ ।। तत्र निष्क्रमणं दृष्टं मया सीमंधराहतः । नगर्या पुंडरीकिण्या नानारत्नोत्तेजसि ॥ ८॥ विमानविविधच्छायः केतुच्छत्रविभूषितः । यानैश्च विविधैर्दृष्टं देवागमनमाकुलं ।।९।। मुनिसुव्रतनाथस्य यथैह सुरपैः कृतं । तधाभिषेचनं. मेरौ मया तस्य मुने श्रुतं ॥१०॥ सुव्रतस्य जिनेंद्रस्य वाच्यमानं श्रुतं यथा । तथा मे चरितं तस्य तत्र गोचरितं दृशा ॥ ११ ॥ नानारत्नप्रभादयानि तुंगानि विपुलानि च । दृष्टानि तत्र चैत्यानि कृतपूजान्यनारवं ॥१२॥ विचित्रमणिभक्तीनि हेमपीठानि पार्थिव | दृष्टान्यत्यंतरम्याणि वनचैत्यानि नंदने ।। १३ ।। चामीकरमहास्तंभयुक्तेषु स्फुरितांशुषु । भास्करालयतुल्यैषु हारतोरणचारुपु ॥ १४ ॥ रत्नदामसमृद्धेषु महादिकमूमिपु । द्विपसिंहादिरूपायवैडूर्योदारभित्तिषु ॥ १५ ॥ कृतसंगीतदिव्यस्त्रीजनपूरितकुक्षिषु | अमरारण्यचैत्येषु जिनार्चाः प्रणता मया ॥ १६ ॥ चैत्यप्रमाविकासाढ्यं कृत्वा मेरं प्रदक्षिणं । पयोदपटलं मित्या समुल्लंघ्योभत नभः ॥ १७ ॥ वास्यांतरगिरीद्राणां शिखरेषु महाप्रभाः । चैत्यालया जिनेंद्राणां प्रणता बहवो मयाः ।। १८ ।।
,
त्रयोविंशतितमं पर्य।
पद्मपुराणम् ।
सर्येषु तेषु चत्येपु जिनानां प्रतियातनाः । अकृत्रिममहाभासो मया पार्थिव वंद्यते ॥ १९ ॥
इत्युक्त देवदेवेभ्यो नम इत्युद्गतध्वनिः। प्रणतं करयुग्मं च चक्रे दशरथः शिरः ॥ २० ॥
संज्ञया नारदेनाय चोदिते जगतीपतिः । जनस्योत्सारणं चक्रे प्रतीहारेण सादरं ॥ २१ ॥.
उपांशुनारदेनाथ जगदे कोशलाधिपः । भृणुष्वावहितो राजन् सद्भावं कथयामि ते ॥ २२॥
गतस्विफ्टशिखरं चंदारहमुत्सुकः । वंदितं शांतिभवनं मया तत्र मनोरमं ।। २३ ॥
भवत्पुण्यानुभावन मया तत्र प्रधारणं । श्रुतं विभीषणादीनां लंकानाथस्य मंत्रिणां ॥ २४ ॥
नमित्तेन समादिष्टं तेन सागरवुद्धिना । भविता दशवक्त्रस्य मृत्युदोशरथिः किल ।। २५ ॥
दुहिता जनकस्यापि हेतुत्वमुपयास्यति । इति श्रुत्वा विषण्णात्मा निश्चित्वाप विभीषणः ॥२६॥
जायते यावदेवास्य प्रजा दशरथस्य न । जनकस्य च तावत्ती मारयामीति सादरः ॥२७॥
पर्यटन चिरं क्षोणी तचरेण निवेदिती । भवतो कामरूपेण स्थानरूपादिलक्षणैः ।। २८ ।।
मुनिविसंमतस्तेन पृष्टोहमपि भो यते । कंचिद्दशरथं वेत्सि जनकं च क्षिताविति ।। २९ ॥
अन्धिप्य कथयामीति मया चोपात्तमुत्तरं । आकृतं दारुणं तस्य पश्यामि नरपुंगव ।। ३० ॥
तने यावदयं किंचिन्न करोति विभीषणः । निगृह्य तावदात्मानं क्वचित्तिष्ठ महीपते ॥ ३१ ॥
त्रयोविंशतितमं पर्य। ! ४९२ पद्मपुराणम् सम्यग्दर्शनयुक्तेषु गुरुपूजनकारिपु । सामान्यनैव मे प्रीनिस्त्वद्विधेषु विशेपतः ।। ३२ ।। सत्वं युक्तं कुरु स्वस्ति भूयात्तेहं गतोऽधुना । इमां वेदयितुं वार्ता क्षिप्रं जनकभूभृतः ।। ३३ ॥ कृतानतिनृपणेव मुक्त्वात्यंतनभस्तलं । अवद्धास्यतिगामिथिलाभिमुखं ययौ ॥ ३४ ॥ . : जनकायापि तेनेदमशेपं विनिवेदितं । भव्यजीवा हि तस्यासन् प्राणेभ्योप्यतिवल्लभाः ॥ ३५ ॥ अवद्धारयनौ याते मरणांशंकिमानसः । समुद्रहृयामात्यमाकारयदिलापतिः ।। ३६ ।। श्रुत्वा राजमुखान्मंत्री समभ्यर्ण महाभयं । जगदे गदता श्रेष्ठः स्वामिभक्तिपरायणः ।। ३७ ।। जीवितायाखिलं कृत्यं क्रियते नाथ जंतुभिः । त्रैलोकेशत्वलाभोऽपि बद तेनोज्झितस्य कः ३८ तस्माद्यायदरातीनां व्यसनं रचयाम्यहं । तावदशातरूपस्त्वं विकृती विहरावनि ॥ ३९ ॥ इत्युक्ते तत्र निक्षिप्य कोशं देश पुरै जनं । निष्कामत्पुराद्राजा सबस्य सुपरीक्षितः ॥ ४० ।। गते राजन्यमात्येन लेख्यं दाशरथं वपुः । कारितं मुख्यवपुपो भिन्न चेतनयंकया ॥ ४१ ।। लाक्षादिरसयोगेन रुधिरं तत्रनिर्मितं । मार्दवं च कृतं तावद्यावत्पत्यासुधारिणः ॥ ४२ ॥ वरासननिविटं तं वेश्मनः सममे तले । युक्तं पुरैव सर्वेण परिवर्गेण पिंचकं ।। ४३ ।। स मंत्री लेप्यकारश्च कृत्रिमं सजतुर्नृपं । भ्रांतिर्हि जायते तत्र पश्यतोरुभयोरपि ॥ ४४ . + त्रयोविंशतितम पर्व। ४९३ . पग्रएराणम्। अयमेव च वृत्तांतो जनकस्यापि कल्पितः । उपर्युपरि हि प्रायश्वलंति विदुषां धियः ॥ ४५ ॥ मया तो क्षितिपी नष्टी भुवनस्थितिकोविदा । आपत्काले यथेद्वको समये जलदायिनां ॥४६॥ यो पुरा घरनारीभिर्महाप्रासादयतिनौ । उदारमोगसंपन्नौ सेवितो मगधाधिप ।। ४७ ॥ इतरापिच तो काँचिदसहायौ नरोचमी । चरणाभ्यां महीं कष्टं भ्रमंती धिग्तवस्थितिं ॥ १८ ॥ इति निधिरय जंतुभ्यो यो ददात्यभयं नरः । किं न तेन भवेद्दत्तं साधूनां धुरि तिष्ठता ॥४९॥ दृष्टी ता तत्र तत्रेति चरवर्गेण वेदिती । अनुजेन दशास्यस्य प्रेपिता वधका भृशं ॥ ५० ॥ ने शुम्रपाणयः ऋरा दृष्टा गोचरविग्रहा । दिवा नक्तं च नगरी भ्रमंति चलचक्षुपः ।। ५१ ।। प्रासादं होनसत्वास्ते प्रयेष्टुं न सहा यदा । चिरायते तदा यासीत्स्वयमेव विभीषणः ॥ ५२ ।। अन्विप्य गीतशब्देन प्रविश्य गतविनमः । ददतिःपुरांतस्थ व्यक्तं दशरथं विभीः ॥ ५३॥ विशुद्विलसितो नाम चोदितस्तेन खेचरः । निकृत्य तस्य मूर्धानं स्वामिने दर्शयन् मुदा ॥५४॥ श्रुतांतःपुरजाकंदो निक्षिप्यतच्छिरों युधी । जनकेऽपि तथा चक्रे निर्दयं स विचेष्टितं ॥५५॥ ततः कतिनमात्मानं कृत्वा सोदरपत्सलः । ययौ विभीषणो लंका प्रमोदपरिपूरितः ॥ ५६ ॥ विमलापं परं कत्या विदित्या पुस्तकर्म च । धृति दाशरथः प्राप परिवर्गः सविस्मयः ॥ ५७ ।।
घयोचिंशतितम पर्व। पद्मपुराणम् । भ विभीषणोऽपि संग्राप पुरीमशुभशान्तये । दानपूजादिकं चक्रे कर्म संजनितोत्सयं ।। ५८ ॥ यभूव च मतिस्तस्य कदाचिच्छांवचेतसः । कर्मणामिति वैचित्र्यात्पश्चात्तापमुपेयुपः ॥ ५९ ॥ असत्यभीत्या क्षितिगोचरी तो निरर्थकं प्रेतगति प्रणीतौ ।। आशीविपांगप्रमवोऽपि सर्प-स्तायस्य शक्रोति किमु प्रहर्तु ।। ६० ।। सुलेशशीयो क्षितिगोचरौ क । क रावणः शक्रसमानशौर्यः ।। केमः मशंको मदमंदगामी । क्य केसरी वायुसमानवेगः ॥ ६१ ॥ यद्या पायच यतश्च येन । दुःसं सुखं या पुरुषेण लभ्यं ।। तत्तत्र तावच ततश्च नेन । संग्राप्यते कर्मवशानुगेन ।। ६२ ।। सम्यग्निमित्रं यदि चेति कश्मियो न कस्मात्कुरुते निजस्य । येनेह लोके लभतेऽति सौख्यं । मोक्षे च देहत्यजनात्पुरस्तात् ।। ६३ ।। राझोस्तयोः प्राणवियोजनेन । नैमिचमूढत्वामित विवेकं ।। दु:शिक्षिनधिमेनुर्जरकार्ये । प्रवर्तते जंतुरसारबुद्धिः ॥ ६४ ।। अस्पांघुनाथस्य पुरी स्थितेयं । अभिन्नपातालतलस्य मध्ये ॥ T
4
४९५
चतुर्विशतितम पर्व।
पद्मपुराणम् ।।
-
कथं सुराणामपि भीतिदक्षा । गम्यत्वमायात् क्षितिगोचराणां ॥६५॥
कृतं मयात्यंतमिदं न योग्यं । करोमि नैवं पुनरप्रधार्य ॥
इति प्रधार्योत्तमदीप्तियुक्तो । रविर्यथास्ते निलये स रेमे ॥ ६६ ॥
इत्या रविपेणाचार्यप्रोक्त पद्मचरिते विभीषणव्यसनवर्णनं नाम त्रयोविंशतितमं पर्व ।
5
चतुर्विशतितमं पर्व।
यदथ भ्राम्यतो वृत्तमनरण्यतनूभुवः । तत्ते श्रेणिक वक्ष्यामि शृणु विस्मयकारणं ॥१॥
इतोऽस्त्युत्तरकाष्ठायां नाना कौतुकमंगलं । नगरं चास्य शैलाभप्राकारपरिशोभितं ॥२॥
राजा शुभमति म यत्रासीत्सार्थकश्रुतिः । पृथुश्री वनिता तस्य योपिगुणविभूषणा ॥ ३ ॥
कैकया द्रोणमेघश्च पुत्रावभवतां तयोः । गुणैरत्यंतविमलैः स्थिती यौ व्याप्य रोदसी ॥ ४ ॥
तत्र सुंदरसोंगा चारुलक्षणधारिणी । नितरां केकया रेजे कलानां परमागता ॥५॥
अंगहाराश्रयं नृत्तं तथाभिनयसंश्रयं । व्यायामिकं च साज्ञासीनत्प्रभेदैः समन्वितं ॥ ६ ॥
घयोविंशतितम पर्व। पद्मपुराणम् । . . विभीपणोऽपि मंत्राप पुरीमशुभशान्तये । दानपूजादिकं चके कर्म संजनितोत्सवं ॥ ५८ ॥ बभूव च मविस्तस्य कदाचिन्छांतचेतसः । कर्मणामिति वैचित्र्यात्पश्चात्तापमुपेयुषः ॥ ५९ ।। असत्यभीत्या क्षितिगोचरौ तौ । निरर्थकं प्रेतगति प्रणीतौ ॥ आशीविपांगप्रमवोऽपि सर्प-स्तायस्य शक्रोति किमु प्रहर्तुं ॥ ६० ।। सुलेशशीयो क्षितिगोचरौ क । क रावणः शक्रसमानशौर्यः ।। केमा सशंको मददगामी । क्व केसरी वायुसमानवेगः ।। ६१ ।। यद्यत्र यावच यतथ येन । दुःख सुखं वा पुरुषेण लभ्यं ।। तत्तत्र तावच ततश्च तेन । संप्राप्यते कर्मवंशानुगेन । ६२ ।। सम्यनिमित्तं यदि वेत्ति कश्चि-ट्यो न कस्मात्कुरुते निजस्य ।। येनेह लोके लभतेऽति सौख्यं । मोक्षे च देहत्यजनात्पुरस्तात् ॥ ६३ ॥ राज्ञोस्तयोः प्राणवियोजनेन । नैमिचमूढत्यमित वियेकं । दुःशिक्षितार्थर्मनुजैरकार्ये । प्रवर्तते जंतुरसारखुद्धिः ॥ ६४ ।। अस्यायुनाथस्य पुरी स्थितेयं । प्रभिन्नपातालतलस्य मध्ये ॥
चतुर्विशतितमं पर्व।
४९५.
पद्मपुराणम्।
कथं सुराणामपि भीतिदक्षा । गम्यत्वमायात् क्षितिगोचराणां ।। ६५ ।।
कृतं मयात्यंतमिदं न योग्यं । करोमि नैवं पुनरप्रधार्य ।
इति प्रधार्योत्तमदीप्तियुक्तो । रविर्यथास्वं निलये स रेमे ॥ ६६ ।।
इत्याचे रविषेणाचार्यप्रोक्त पद्मचरिते विभीषणव्यसनवर्णनं नाम त्रयोविंशतितम पर्व ।
-
चतुर्विंशतितमं पर्व ।
यदथ भ्राम्यतो वृत्तमनरण्यतनूभुवः । तत्ते श्रेणिक वक्ष्यामि शृणु विस्मयकारणं ॥१॥
इतोऽस्त्युत्तरकाष्ठायां नाना कौतुकमंगलं । नगरं चास्य शैलाभप्राकारपरिशोभितं ॥२॥
राजा शुभमति म यत्रासीत्सार्थकश्रुतिः । पृथुश्री वनिता तस्य योपिगुणविभूषणा ।। ३ ।।
कैकया द्रोणमेघश्च पुत्रावभवतां तयोः । गुणैरत्यंतविमलैः स्थितौ यो व्याप्य रोदसी ॥४॥
तत्र सुंदरसर्वांगा चारुलक्षणधारिणी । नितरां केकया रेजे कलानां परमागता ॥५॥
अंगहाराश्रयं नृत्तं तथाभिनयसंश्रयं । व्यायामिकं च साज्ञासीत्तत्प्रमेदैः समन्वितं ॥ ६ ॥
चतुविशतितमंपर्व। पद्मपुराणम् । अभिव्यक्तं निमिः स्थानः कंठेन शिरसोल्सा । स्वरेणु समवेतं च सप्त स्थानेषु तद्यथा ।। ७ ॥ पर्पभो तृतीयश्व गांधारो मध्यमस्तथा । पंचमो धैवतथापि निपादश्चैत्यमी स्वराः ॥ ८ ॥ स्थित लयस्त्रिसंख्यानद्रुतमध्यवि वितैः । असं च चतुरस्रं च तालयोनिद्वयं दधत् ॥ ९ ॥ स्थायिसंचारिमियुक्तं तथारोहावरोहिमिः । वर्णरेभिश्चतुर्भेदैश्चतुःसंख्यपदास्थितं ॥१०॥ नामाख्यातोपसर्गेपु निपातेपु च संस्कृताः। प्राकृती सौरसेनी च भाषा यत्र त्रयी स्मृता ११ धैवत्यथाभीप पट्ठोदीच्या निपादिनी । गांधारी चापरापन कैकशी पडमध्यमा ।। १२ ।। गांधारोदीच्यसंज्ञाभ्यां तथा मध्यमपंचमी । गांधारपंचमी रक्तगांधारी मध्यमा तथा ॥ १३ ॥ आंधी च मध्यमोदीच्या स्मृता कारवीति च । मोक्ताय नंदनी चान्या कैशकी चेति जातयः१४ इमाभिर्जातिभिर्युक्तमष्टाभिर्दशभिस्तथा । अलंकाररमीभिश्च त्रयोदशभिरन्विता ।। १५ ॥ प्रसन्नादिप्रसन्नांतस्तथा मध्यप्रसादवान् । प्रसन्नाद्यवसानश्च चतुर्द्धास्थायिभूपणं ॥ १६ ॥ निर्वृत्तः प्रस्थितो विंदुस्तथा उँखोलितः स्मृतः । तारो मंदः प्रसन्नश्च पोढा संचारिभूपर्ण ॥१७॥ आरोहिणः प्रसन्नादिरेकमेव विभूपणं । प्रसन्नांतस्तथा तुल्पः कुहरश्वावरोहिणः ॥ १८ ॥ गदिती द्वावलंकारावित्यलंकारयोजनं । अयागात्साधुगीतं च लक्षणरेभिरन्वितं ।। १९ ।।
चतुर्विशतितमं पर्व। ४९७ पद्मपुराणम् । ततं तंत्रीसमुत्थानमवनद्धं मृदंगजं । शुपिरं वंशसंभूतं धनं तालसमुत्थितं ॥२०॥ चतुर्विधमिदं वाद्यं नानाभेदैः समन्वितं । जानातिस नितांतं सा यथैवं विरलोऽपरः ॥ २१ ॥ कलानां तिसृणामासां नाद्यमेकी क्रियोच्यते । श्रृंगारहास्यकारुण्यवीराद्भुतभयानकाः ॥ २२ ॥ रौद्रवीभत्सशांताच रसास्तत्र नवोदिताः । वेत्तिस्म तदसौ बाला सप्तभेदमनुत्तमं ॥२३॥ अनुवृत्तं लिपिज्ञानं यत्स्वदेशे प्रवर्तते । द्वितीयं विकृतं ज्ञेयं कल्पितं यत्स्वसंज्ञया ॥ २४ ॥ अत्यंगादिषु वर्णेषु तत्त्वं सामायिक स्मृतं । नैमित्तिकं च पुष्पादि द्रव्यविन्यासतोऽपरं ॥२५॥ प्राच्यमध्यमयौधेयसमाद्रादिभिरन्वितं । लिपिज्ञानमसौ बाला किल ज्ञातवती परं ॥ २६ ॥ अस्युक्तिकौशलं नाम भिन्नं स्थानादिभिः कलाः । स्थानं स्वरोज्य संस्कारो विन्यासः काकुना सह समुदायो विरामश्च सामान्यामिहितस्तथा । समानार्थत्वमार्षश्च जातयश्च प्रकीर्तिताः ॥ २८ ॥ उरः कंठः शिरश्चेति स्थानं तत्र त्रिधा स्मृतं । उक्त एव स्वरः पूर्व पड्जादिः सप्तभेदकः ।।२९॥ संस्कारो द्विविधः प्रोक्तो लक्षणोद्देशतस्तथा । विन्यासस्तु सखंडास्युः पदवाक्यास्तदुत्तराः ३० सापेक्षा निरपेक्षा च काकुर्भेदद्वयान्विता । गयः पद्यश्च मिथश्व समुदायधिोदितः ॥ ३१ ॥ संक्षिप्तता विरामस्तु सामान्याभिहितः पुनः । शब्दानामेकवाच्यानां प्रयोगः परिकीर्तितः ॥३२॥ .
एतेषामपि मैदानां ये भेदा बुद्धधगोचरा । संवैरेभिः समायुक्तं सात्यवेदुक्तिकौशलं ।। ३५ ॥ ४९८ पद्मपुराणम् । चतुर्विंशतितम पर्य। तुल्यार्थतैकशब्देन वहुर्यप्रतिपादनं । भापापलक्षणम्लेच्छनियमात्रिविधा स्मृता ।। ३३ ।। पद्यव्यपहृतिलेख एवमाधास्तु जातयः । व्यक्तवाग्लोकवाग्मार्ग व्यवहारश्च मातरः ।। ३४ ।। शुष्कचित्रं द्विधा प्रोक्तं नाना शुष्कं च वतिनं । आचित्रं पुनर्नाना चंदनादिद्रवोद्भवं ॥३६॥ कृत्रिमाकृत्रिमरंग जलांबरगोचरं । वर्णकः श्लेष्मसंयुक्तं सा विवेदाखिलं शुभा ॥ ३७ ॥ पुस्तकर्म विधा प्रोक्तं क्षयोपचयसंक्रमः । तक्षणादिक्रमोद्भूतं काष्ठादौ क्षयसंस्मृतं ।। ३८ ॥ उपचित्या मृदादीनामुपचेयं तु कथ्यते । संक्रांतं तु यदाहत्य प्रतिविरं विभाव्यते ।। ३९ ।। यंत्रनियंत्रसच्छिद्रनिच्छिद्रादिभिरन्वितं । सा जज्ञे तद्यथा भद्रा लोकेभ्यो दुलेमस्तथा ॥ ४० ॥ बुष्किर्म छिन्नमच्छिन्नं पत्रच्छेद्यं विधोदितं । सूचीदंतादिभिस्तत्र निर्मित बुष्किम स्मृतं ।। ४१ । कर्तरीछेदनोद्भूतं छिन्नं, संबंधसंयुतं । विच्छिन्नं तु तदुद्भूत संबंधपरिवर्जितं ॥ ४२ ॥ पत्रवस्त्रसुवर्णादिसंभवं स्थिरचंचलं । निर्णिन्ये सा परं चार्वी संवृतासंवृतादिजं ॥ ४३ ॥ आर्द्रशुष्कं तदुन्मुक्तं मिथ चेति चतुर्विधं । माल्यं तत्रार्द्रपुष्पादिसंभव प्रयम मतं ।। ४४ ॥ शुष्कपत्रादिसंभूतं शुष्कमक्तं तदुप्सितं । सिक्तकादिसमुद्भूतं संकीर्ण तु विसंकरात् ॥ ४५ ॥ +
1
चतुर्विंशतितम पर्व।
४९९
पद्मपुराणम् ।
रणमयोधनव्यूहसंयोगादिभिरन्वितं । तद्विधातुमलं प्राज्ञा साजासीत्पूरणादिजं ॥ ४६ ।।
योनिद्रव्यमधिष्ठानं रसो वीर्यं च कल्पना । परिकर्म गुणा,दोपा युक्तिरेषा तु कौशलं, ॥ ४७ ॥
योनिविशिष्टमूलादि द्रव्यं तु तंगरादिकं । यद्वर्णवर्तिकाद्येतदधिष्ठानं प्रकीर्तितं ॥४८॥
कपायो मधुरस्तिक्तः कदुकाम्लश्च कीर्तितः । रसः पंचविधो यस्य निर्हारेण विनिश्चयः ॥४९॥
द्रव्याणां शीतमुण्ण च वीय.तत्र द्विधा स्मृतं । कल्पनात्र विवादानुवादसंवादयोजनं ॥५०॥
परिकर्म पुनः म्हशोधनक्षालनादिकं । ज्ञानं च गुणदोषाणां पाटवादीतरात्मनां.।।.५१ ॥
स्वतंबानुगताख्येन तां भेदेन समन्वितां । गंधयुक्तिमसौ सर्वामजानयुक्तविभ्रमा ॥ ५२ ।।
भक्ष्यं भोम्यं च पेयं च लेां चूयं च पंचधा । आस्वाय.तत्र भक्ष्यं तु कृत्रिमाकृत्रिमं स्मृतं ५३
भोग्यं द्विधा यवाग्यादिविशेपाश्चोदनादयः । शीतयोगो जलं मद्यमिति पेयं त्रिघोदितं ॥ ५४ ।
रागखांडवलेयाख्यं लेा त्रिविधमुच्यते । कृत्रिमाकृत्रिम चूप्यं द्विविधं परिकीर्तितं ।। ५५ ॥
पाचनच्छेदनोप्णत्वशीतत्वकरणादिभिः । युक्तमास्त्रायविज्ञानमासीत्तस्या मनोहरं ॥ ५६ ॥
पत्रमौक्तिकवैडूर्यसुवर्णरजतायुधं । वस्त्रसंखादि चावेदीत्सा रत्नं लक्षणादिभिः ।। ५७ ॥
तंतुसंतानयोगं च वखस्य बहुवर्णकं । रागाधानं च सा चारु विवेदातिशयान्वितं ॥ ५८ ॥
चतुविशाततम प ५०० पद्मपुराणम् । लोहदंतजतुक्षारशिलास्तत्रादिसंभवं । तथोपकरणं कर्तुं ज्ञातमत्यंतमुद्यया ॥ ५९॥ मेयदेशतुलाकारभेदान्मानं चतुर्विधं । तत्र प्रस्थादिभिर्भिन्न मेयमानं प्रकीर्तिते ।। ६० ।। दिशमानं वितस्त्यादि तुलामानं पलादिकं । समयादि तु यन्मानं तत्कालस्य प्रकीर्तितं ॥ ६' तचारोहपरीणाहतिर्यग्गौरवभेदतः । क्रियातश्च समुत्पन्नं साध्यगात्मानमुत्तमं ॥ १२ ॥ भूतिकर्म निधि नं रूपज्ञानं, वणिविधि । अन्यथा जीवविज्ञानपासीत्तस्याविशेषवत् ॥६ मानुपद्विपगोवाजिनभृतीनां चिकित्सितं । सा निदानादिभिर्भेदं युक्तं ज्ञातवती परं ॥ ६४ ' मायाकृतं त्रिधा पीडा शऋजालं विमोहनं । मंत्रौपधादिमिर्जातं तच्च सर्व विवेद सा ॥ ६५ समयं च समीज्यादिपाखंडपरिकल्पितं । चारित्रेण पदार्थ विवेद विविधैर्युतं ।। ६६ ।। चेप्टोपकरणा वाणी कलाव्यत्यसनं.तथा । क्रीडा चतुर्विधा प्रोक्ता. तत्र चेष्टा शरीरजा ॥ कंदुकादिति विज्ञेयं तत्रोपकरणं बहु । वाक्क्रीडनं पुनाना सुभापितसमुद्भवं ॥ ६८ ॥ नाना दुरोदरन्यासं कलव्यत्यसनं स्मृतं । क्रीडायां बहुभेदायामस्यां सात्यंतकोविदा ॥६ आश्रिताश्रयतो भिन्नो लोको द्विविध उच्यते । आश्रिता जीवनिर्जीवा पृथिव्यादिस्तदाश्रय तत्र नानाभवोत्पतिःस्थितिर्नश्वरता तथा । ज्ञायते यदिदं प्रोक्तं लोकज्ञत्वं सुदुर्गमे ।। ७१ चतुर्विशतितम पर्व। ५०१ , पद्मपुराणम् । पौर्वापर्याधरस्तुर्यद्वीपदेशादिभेदतः । स्वभावावस्थिते लोके बभूवास्यास्तदुत्तमं ।। ७२ ।। संवाहनकला द्वेधा तत्रैका कर्मसंश्रया । शयौपचारिका चान्या प्रथमा तु चतुर्विधा ।। ७३ ।। त्वांसास्थिमनःसौख्यादेते खासामुपाक्रमाः । सम्पृष्टं च गृहीतं च भुक्तितं जलितं तथा ७४ आहत भंगित विर्द्ध पीडितं भिन्नपाटितं । मृदुमध्यप्रकृष्टत्वात्तत्पुनर्भिद्यते विधा ।। ७५ ।। त्वक्सुखं सुकुमारं तु मध्यमं मांससौख्यकृत् । उत्कृष्टमस्थिसौख्याय मृदुगीति मनःसुखं ॥७६॥ दोपास्तस्या प्रतीयं यल्लोन्नामुद्वतनं तथा । निर्मासपीडितं वाढं केशाकर्षणमद्भुतं ॥ ७७ ।। भ्रष्टप्राप्तममार्गेण प्रघातमतिभुग्नकं । आदेशाहतमत्यर्थमवसुप्तप्रतीपकं ।। ७८ ॥ एभिर्दोपविनिमुक्तं सुकुमारमनीव च । योग्यदेशप्रसुक्तं च ज्ञाताकृतं च शोभनं ॥ ७९ ॥ करणैर्विविधैर्यातु जन्यते चित्तसौख्यदा । संवाहनांवगम्या.सा शय्योपचरणात्मिका ॥ ८ ॥ संवाहनकलामेतामंगप्रत्यंगगोचरां । अवैदसौ यथा कन्या नान्या नारी तथा घनं ।। ८१ ॥ शरीरवेपसंस्कारकौशलं च कला परा । मानमूर्द्धजयासादि निरचपीदिमां च सा ।। ८२ ॥ एवमाद्याः कलाश्चारुशीला लोकमनोहराः । अदीधरत्समस्ताः सा विनयोत्तमभूषणाः ॥ ८३ ॥ कलागुणाभिरूपं च समुद्भूता त्रिविष्टपे । अद्वितीया बभौ तस्याः कीर्तिराकृष्टमानसा ।। ८४ ॥
- पद्मपुराणम् । પરું चतुर्विशतितम पर्व। बहुनात्र किमुक्तेन श्रृणु राजन् समासतः । तस्य वर्षशतेनापि दुश्शक्यं रूपवर्णनं ।। ८५ ।। पित्रा प्रधारितं तस्या योग्यः कोस्या भवेद्वरः । स्वयं रुचितमेवेयं गृहात्विति विसंशयं ॥८६॥ यदथं पार्थिवाः सर्वे वसुमत्यामुपाहृताः । हरिवाहननामाद्याः पुरोविभ्रमभूपिताः ॥ ८७ ॥ गतो दशरथोप्यस्य जनकेन सह भ्रमन् । स्थितं स तादृशोप्येतान् लक्ष्या प्रच्छाध भूपतीन् ८८ मंचेषु सुप्रपंचेषु निविष्टान् वसुधाधिपान् । प्रत्येकमक्षितोदारान् प्रतीहार्या निवेदितान् ॥८९॥ भ्राम्यंती सा ततः साध्वी नरलक्षणपंडिता । कंठे दाशरथे न्यास दृष्टिनीलोत्पलस्रजं ॥९० ॥ भूपालनिवहस्य तं सा ययी चारुविभ्रमा । राजहंस यथा इंसी वकवृंदव्यवस्थितं ।। ९१ ।। भावमालागृहीतेऽस्मिन् न्यस्ता या द्रव्यमालिका । पौनरुत्यं प्रपेदेसी लोकाचारकतास्पदा ९२ कचिचत्र जगुस्तारं प्रसन्नमनसो नृपाः । अहो योग्यो दृतः कोऽपि पुरुषोऽयं सुकन्यया ॥२३॥ केपांचिचतिवलक्ष्यात्स्वदेशगमनं प्रति । विररामातिरेण मनोवैवयेमीपुपां ॥ ९४ ।। केचिदत्संतकृष्टत्वात्परमं कोपमागताः । युद्ध प्रति मनश्चकुः कृतकोलाहला भृशं ॥ ९५ ॥ जगुन ख्यातसशान् महाभोगसमन्वितान् । त्यक्त्वातो गृहूतीमेतमज्ञात कुलशीलिनं ॥९६ ॥ अ{ कमपि वैदेशं दुरभिप्रायकारिणी । गृहीतपूजाकृष्टा प्रसमं दुष्टकन्यकां ॥ ९७ ।।
५०३ पद्मपुराणम् । चतुर्विंशतितम पर्व पर्व। इत्युक्त्वा ते सुसनद्धाः समुद्यतमहायुधाः । नृपा दशरथं तेन चलिताः क्षुदचेतसः ॥ ९८ ॥ ततः समाकुलीभूतो वरं शुभमतिर्जगौ। भद्र यावन्नृपानेतान् सुक्षुब्धान्वारयाम्यहं ।। ९९ ॥ स्थमारोप्य तावत्वं कन्यामंतर्हितो भव । कालज्ञानं हि सर्वेषां नयानां मूर्द्धनि स्थितं ॥ १० ॥ एवमुक्तो जगादासौ स्मितं कृत्वातिधीरधीः । विस्रब्धो भव माम त्वं पश्यैतान् कांदिशीकृतान्।। इत्युक्त्वा रथमारुह्य संयुक्त प्रौढवाजिभिः । भृश संववृते भीमः शरन्मध्याह्नभानुभं ॥ १०२॥ उत्तार्य केकया चाशु स्थवाह रणांगणे । तस्थौ पौरुषमालंव्य तोत्रप्रग्रहधारिणी ।। १०३ ॥ उवाच च प्रयच्छाजा नाथ कस्योपरि द्रुतं । चोदयामि रथं पश्य मृत्युरघातिवत्सलः ॥१०४ ॥ जगादासौ किमत्रान्यवराकैनिहतैनरैः । मूर्द्धनमस्य सैन्यस्य पुरुष पातयाम्यहं ।।.१०५ ।। यस्यैतत्पांडुरच्छवं विभाति शशिविनमं । एतस्याभिमुखं कांते रथं चोदय पंडिते ॥ १०६ ।। एवमुक्ते तयात्यंत धीरया वाहितो रथः । समुच्छ्रितसितच्छत्रस्तरंगितमहाध्वजः ॥ १०७ ।। केतुच्छायामहाज्वाले तत्र दंपतिदेवते । रयाना योधशलभा दृष्टा नष्टाः सहस्रशः ॥ १०८ ॥ दशस्यदननिमुक्तैनाराचैरर्दिता नृपाः । क्षणात्परांमुखीभूताः परस्परविलंघिनः ।। १०९ ।। ततो हेमप्रभेणैते चोदिता लज्जिता जिताः । निवृत्य पुनरारब्धं हंतुं दाशरथं रथं ॥ ११०।।
r . चतुर्विशतितम पर्व। F " ५०४ - . पद्मपुराणम्। वाजिभिः स्पंदनै गैः पादातश्च नृपादृताः । कृतमूरमहानादा धनसंघातवर्तिनः ॥ १११ ।। तोमराणि शरान् पाशश्वकाणि कनकानि च । तमेकं नृपमुद्दिश्य चिक्षिपुत्र समुद्यताः ॥११२।। चित्रमेकरथो भूत्वा तदा दशरथो नृपः । जातः शतस्थः शक्त्या निःसंख्यानस्थोऽयया ॥११३॥ पिचिच्छेद स नाराचैः समं शस्त्राणि विद्विषां । अदृष्टाकर्षसंधानैश्चक्रीकृवंशरासनः ॥ ११ ॥ छिन्नध्वजातपत्रः सन् विडलीकृतवाहनः । शरहेमप्रभस्तेन क्षणेन विरथीकृतः ॥ ११५ ॥ स रथांतरमारुह्य, भयावततमानसः । द्रुतं पलायनं चके कृष्णीकुर्वन्निजं यशः ॥ ११६ ॥ ररक्ष स्वं च जायां च शबूनखाणि चाच्छिन । एको दशरथः कर्म चकेनंतरथोचितं ॥ ११७॥ दृष्ट्वा दशरथं सिंहं विधूतशरकेसरं । दुद्रुवुर्योधसारंगाः परिगृह्य दिगष्टकं ॥ ११८ ॥ अहो शक्तिर्नरस्पास्य हि चित्रं कन्पया कृतं । इति नादः समुनस्थौ महान् स्वपरसेनयोः १२१ बंदिघोषितशब्देन शक्त्या वानन्यतुल्यया । जनैर्दशरथो जसे प्रताप विभ्रदुन्नतं ॥ १२० ॥ वतः पाणिगृहस्तेन कृतःकौतुकमंगले । कन्यायाः परलोकेन कृतःकौतुकमंगलं ।। १२१ ॥ महता भूतिभारेण वृतोपयमनोत्सवः । ययौ दशरथोऽयोध्यों मिथिलां जनको तथा ॥ १२२ ।। पुनर्जन्मोत्सवं तस्य तस्यां चक्रेऽतिसम्मदः । पुनर्नृपाभिषेकं च परिवर्गो महर्द्धिभिः ।। १२३ ॥
T चतुर्विशतितम पर्व। ५०५ पद्मपुराणम् । अशेपभयनिर्मुक्तो रेमे तत्र स पुण्यवान् । आखंडल इव स्वर्गे प्रतिमानिवशासनः ॥ १२४ ॥ तत्र प्रत्यक्षमन्यासां पत्नीनां भूभृतां तथा । अभ्यधायि नरेंद्रेण केकयासन्नवर्तिनी ॥ १२५ ॥ पूर्णदुवदने ब्रूहि यत्ते वस्तु मनीपितं । इह संपादयाम्यद्य प्रसन्नोऽस्मि तव प्रिये ।। १२६ ।। . चोदयेनादिविज्ञानाद्यदि नाम तथा रथं । कथं क्रुद्धारिसंघात विजयेहं सहोत्थितं ।। १२७ ॥ अवस्थितं जगद्व्याप्यं नुदेदकः कथं तमः । संवेष्टा चेगवेदस्य न मूर्तिररुणात्मिका ।। १२८ ।। गुणग्रहणसंघातबीडाभारनवानना । मुहुः प्रचोदितोवाच कथंचिदिति केकया ॥ १२९ ।। नाथ न्यासोयमास्ता मे त्वयि वांछितयाचनं । प्रार्थयिष्ये यदा तस्मिन् काले दास्यसि निर्वचाः ।। इति प्रोक्तमात्रे जगी भूमिनाथः । समग्रेदुनाथ प्रतिस्पर्चिवक्त्रः ।। मवत्वेवमुद्ये पृथुश्रोणिसौम्ये । त्रिवर्णातिकांतप्रसन्नोरुनेत्रे ।। १३१ ।। अहो बुद्धिरस्या महीगोत्रजाया । नयाढया नितांत कलापारगायाः ।। समस्तोपभोगैरलं संगताया । कृतं न्यासभूतं मनःप्रार्थनं यत् ॥ १३२ ।। समस्तोऽपि तस्यास्वदाभीष्टवर्गः । प्रयातः प्रमोदं प्रकृष्टं नितांतं ॥ विचिंत्य प्रधानं शुभा कंचिदर्थ । शनैर्मार्गयिष्यत्यहो केकयेति ॥ १३३ ।।
पंचविंशतितम पर्व । ५०६ पद्मपुराणम् । मतेर्गोचरत्वं मया तावदेत-त्प्रणीतं सुव्रत्तं धरित्रीपते ते ।। समुत्पत्तिमस्मान्महामानवानां । शृणु द्योतकानामुदारान्वयस्य ।। १३४ ॥ समासेन सर्व वदाम्येप नेहं । त्रिलोकस्य वृत्तं किमन प्रपंचैः॥ दुराचारयुक्ताः परं यांति दुःखं । सुखं साधुवृत्ता रविप्रख्यभासः ॥ १३५ ।। इत्या रविषणाचार्यप्रोक्त पद्म-चरिते केकयावरप्रदानं नाम चतुविंशतितम पर्व । प पंचविंशतितमं पर्व। अथापराजिता देवी सुखं सुप्ता बरालये । शयनीये महाकति रत्नोद्योतशिरस्थिते ।। १ ।। रजन्याः पश्चिमे यामे महापुरुषवेदिनः । नितांतं परमान् स्वप्नानक्षिताशयिता यथा ॥ २ ॥ शुभ्रं स्तवरमं सिहं पमिनीवांघवं विधुं । दृष्ट्वा विवोधमायाता तूर्यनंगलनिस्वनैः ॥३॥ ततः प्रत्यंगकार्याणि कृत्वा विस्मितमानसा | दिवाकरकरालोकमंडित भुवने सती ॥ ४ ॥ सा विनीतांतिकं भर्तुर्गवात्यंतसमाकुला । सखीभिरावृता भद्रपीठभूपणकारिणी ।। ५ } : .
पंचविंशतितमं पर्व । ५०७ पद्मपुराणम् । . - कृतांजलिजंगी स्वप्नान् किंचिद्विनतविग्रहा । स्वामिने सावधानाय यथा दृष्टान्मनोहरान् ॥६॥ ततो निखिलविज्ञानपारदृश्वा नराधिपः । बुधमंडलमध्यस्था स्वप्नानामभ्यधारफलं ॥७॥ परमाचर्यहेतुस्ते कांते पुत्रो भविष्यति । अंतर्बहिश्च शत्रूणां यः करिष्यति शातनं ॥८॥ एवमुक्ते पर तोपं हस्तस्पृष्टोदरी यया । मुखकेसरसरुद्धमुखपद्मापराजिता ॥९॥ चकार च समं भा परं प्रमदमीयुपा । जिनेंद्रवेश्मसुस्फीतां पूजां पूजितभावना ॥१०॥ ततः प्रभृतिकात्यासी सुतरां स्मावगाह्यते । बभूव चेनसशास्याः शांतिः कापि महौजसः ॥११॥ सुमित्रानंतरं तस्या ईक्षांचकेतिसुंदरी । विस्मिता पुलकोपेता स्वप्नान् साधुमनोरथा ॥१२॥ सिच्यमानं मृगाधीशं लक्ष्म्या कीर्त्या च सादरं । कलशैश्ववमानास्य कमलेश्वारुवारिभिः ॥१३॥ आत्मानं चातितुंगस्य भूभृतो मूर्धनि स्थितं । पश्यंत मेदिनी स्फीतां निम्नगापतिमेखलां ॥१४॥ स्फुरत्किरणजालं च दिवसाधिपविभ्रमं । नानारत्नोचितं चक्रं सौम्यं कृतविवर्तनं ॥ १५ ॥ चीक्ष्य मंगलनादेन तथैव कृतवोधना । विनीताकथयत्पत्ये नितांतं मधुरसना ॥ १६ ॥ मनुर्युगप्रधान ते शत्रुचक्रक्षयावहः । भविष्यति महातेजाश्चित्रचेष्टो वरानने ॥ १७ ॥ इत्युक्ता सा सती पत्या संमदाक्रांतमानसा । ययौ निजास्पदं लोकं पश्यंतीवाधरस्थितं ॥१८॥ +- पंचविंशतितम पर्व। ५०८ . -। पद्मपुराणम् । अधानेहसि संपूर्णे पूर्णदुरिव पूर्वदिक । अमूत तनयं कात्या विशालमपराजिता ।। १९ ।। दिष्टया वर्धनकारिभ्य प्रयच्छन् वसु पार्थिवः । बभूव चामरच्छत्रपरिधानपरिच्छदः ॥ २० ॥ जन्मोत्सवं महानस्य चक्रे निश्शेषबांधवैः । महाविभवसंपन्नैरुन्मनीभूतविष्टपः ॥२१॥ तरुणादित्यवर्णस्य पदालिंगितवक्षसः । पद्मनेत्रस्य पाख्या पितृभ्यां तस्य निर्मिता ॥ २२ ॥ सुमित्रापि ततः पुत्रमसूत परमद्युति । छायादिगुणयोगेन सद्रत्नं रत्नभूरिव ॥ २३ ॥ पद्मजन्मोत्सवस्यानुसंधानमिव कुर्वता । अनितो बंधुवर्गेण तस्य जन्मोत्सवः परः ॥ २४ ॥ उत्पाता जझिरेऽरातिनगरेपु सहस्रशः । आपदा सूचका बंधुनगरेषु च संपदां ॥२५॥ प्रौदीवरगर्भाभः कातिवारिकृतप्लयः । सुलक्ष्म्या लक्ष्मणाख्यायां पितृभ्यामेव योजितः ॥२६॥ चालो मनोशरूपी ती विद्रुमामरदच्छदौ । रक्तोत्पलसमच्छायपाणिपादौ मुविभ्रमा ॥ २७ ॥ • नवनीतसुखस्पर्शी जातिसौरभधारिणौ । कुर्वाणी शैशवीं क्रीडां चैनः कस्य न जन्तुः ॥२८॥ चंदनद्रवदिग्धांगी कुंकुमस्थासकांचिती । सुवर्णरससंपृक्तरजतांजनकोपमौ ।। २९ ।। अनेकजन्मसंवृद्धस्नेहान्योन्यवशानुगी । अंतःपुरगती सर्वथुभिः कृतपालना ॥ ३० ॥ विच्छदमिव कुर्वाणावमृतेन कृतस्वनौ । मुखपंकेन लिंपताविव लोकं विलोकनात् ।। ३१ ॥
पंचविंशतितम पर्व। ५० ९ -- पद्मपुराणम् । 1 . छिंदताविव दारिद्रयमाहूतागमकारिणौ । तर्पयंताविच स्वांतं सर्वेषामनुकूलतः ॥ ३२ ॥ प्रसादसम्मदो साक्षादिव देहमुपागतौ । रेमाते तो सुखं पुर्या कुमारौ कृतरक्षणौ ॥ ३३ ॥ विजयश्च तृपिष्टय यथापूर्व बभूवतुः । तत्तुल्यचेष्टिता कुमारी तावशेषतः ॥ ३४ ॥ तनयं केकयास्त दिव्यरूपसमन्वितं । यो जगाम महाभाग्यो भुवने भरतश्रुति ॥ ३५ ॥ मुपुये सुप्रभा पुत्रं सुंदरं यस्य विष्टपे । ख्यातेः शत्रुघ्रशब्देन सकलेद्यापि वर्तते ॥ ३६॥ बलनामापरं मात्रा पद्मस्येति विनिर्मितं । सुमित्रया हरिनाम तनयस्य महेच्छया ॥ ३७ ।। कृतोधचक्रिनामायां मात्रेति भरतभिषां । दृष्ट्वा चक्रिणि संपूर्णे केकया प्रापयत्सुतं ॥ ३८ ॥ चक्रवर्तिध्वनि नीतो मात्रायमिति सुप्रजाः । तनयस्याहतो नाम शत्रुघ्नं इति निर्ममे ॥ ३९ ॥ समुद्रा इस चत्वारः कुमारास्ते नया इव । दिग्विभागा इबोदारा बभूवुर्जगतः प्रियाः ॥ ४० ॥ नतः कुमारकान् दृष्ट्वा विद्यासंग्रहणोचितान् । दध्यौ योग्यमुपाध्यायं पितैपां मनसाकुलः ॥४१॥ अथास्ति नगरं नाना कांपिल्यमिति सुंदरं । भार्गवोध शिखी ख्यातस्तस्येपुरिति भामिनी४२ एरिरूढिस्तयोः पुत्रो दुर्विनीतो विलालितः । उपालंभसहस्राणां कारणीभूतचेष्टितः ॥ ४३ ॥ द्रविणोपार्जनं विद्याग्रहणं धर्मसंग्रहः । स्वाधीनमपि तत्प्रायो विदेशे सिद्धमश्नुते ॥ ४४ ॥ F . पद्मपुराणम् ५१० पंचविंशतितम पर्व। पितृभ्यां भवनादेप निविण्णाभ्यां निराकृतः । ययौ राजगृई दुःखी वसानः कर्पटद्वयं ॥ ४५ ॥ तत्र वैवस्वतो नाम धनुर्वेदातिपंडितः । युक्तः सहसमात्रेण शिष्याणामभियोगिनां ।। ४६ ॥ यथावत्तस्य पार्धेसी धनुर्विद्यमुपागमत् । जातः शिष्यसहस्राच रेणाधिककौशलः ॥ १७ ॥ श्रुतं कुशाग्रराजेन मत्सुतेभ्योऽपि कौशल । देशे कापि विन्यस्तमिति ज्ञात्वा रुपं गतः॥४८॥ श्रुत्वा च स्वामिनं क्रुद्धमत्राचार्येण शिष्यवः । एवमेरो यथा राज्ञः पुरः कुंठो भविष्यति ॥४९॥ स समाइयितः शिष्यैः सूतोऽसौ विभुना नृणां । शिक्षा पश्यामि सर्वेषां छात्राणामिति चोदितः५० ततोऽतेवासिनस्तेन क्रमेण शरमोचनं । कारिता लक्षपातं च सर्वे चकुर्यथायथं ।। ५१ ॥ अथैरोऽपि स नियुक्तः शरान् चिक्षेप तादृशान् । दुःशिक्षित इति ज्ञातो विभुना तेन यादृशैः ५२ विदित्वा वितयां सर्वा राजा संप्रेषितो गतः । असाचार्यः स्वकं धाम शिष्यमंडलमध्यगः ॥५३॥ वैवस्वतसुतामैरः स्वीकृत्त्य गुरुसम्मवां । रात्रौ पलायनं कृत्वा प्राप दाशरथी पुरीं ।। ५६ ॥ दौकितश्वानरण्ये स्वं कौशलं च न्यवेदयत् । राज्ञा समर्पिता तसै तुष्टेन तनुसंभवा। ॥ ५५ ॥ तेष्वस्वकोशलं तस्य संभ्रांत स्फीततां गतं । सासु सुप्रसन्नेषु चंद्रवियमिवागतं ॥ ५६ ॥ अन्यानि च गुरुप्राप्त्या विज्ञानानि प्रकाशिता ) यातानि तेषु रत्नानि पिघानापगमादिव ५७ पंचविंशतितम पर्व ५११ पद्मपुराणम्। दृष्ट्वा विज्ञानमेपामतिशयसहितं सर्वशास्त्रेषु राजा। संप्राप्तस्तोपमग्न्यं सुतनयविनयोदारचेष्टाहतात्मा । चक्रे पूजासमेतं गुरुपु गुणगणज्ञानपांडित्ययुक्तो । यातं त्युत्क्रम्य वांछाविभवमतितरां दानविख्यातकीर्तिः ॥ ५८ ॥ ज्ञानं संप्राप्य किंचिद् व्रजति परमतां तुल्यमन्यत्र यातं । तावत्वेनापि नेति कचिदपि पुरुषे कर्मवैपम्ययोगात् ।। अत्यंत स्फीतिमेति स्फटिकगिरितटे तुल्यमन्यत्र देशे । यात्येकांतेन नाशं तिमिरवति रवेरंशुवृदं खगौघैः ।। ५९ ।। इत्याचे रविषेणायार्यप्रोक्ते पाचरिते चतुर्भ्रातृसंभवाभिधानं नाम पंचविंशतितम पर्व ।
. पद्मपुराणम्। पंचविंशतितमं पर्व। पिठ पां भवनादेष निविण्णाभ्यां निराकृतः । ययौ राजगृहं दुःखी वसानः कर्पटद्वयं ॥ ४५ ॥ तत्र वैवस्वतो नाम धनुर्वेदातिपंडितः । युक्तः सहस्रमात्रेण शिष्याणामभियोगिनां ।। ४६ ॥ यथावत्तस्य पार्चेसौ धनुर्विद्यमुपागमत् । जातः शिष्यसहस्राच दूरेणाधिककौशलः ॥ ४७ ।। श्रुतं कुशाग्रराजेन मरसुतेभ्योऽपि कौशलं । वैदेशे कापि विन्यस्तमिति ज्ञात्वा रुपं गतः॥४८॥ श्रुत्वा च स्वामिनं क्रुद्धमखाचार्येण शिप्यतः । एवमेरो यथा राज्ञः पुरः कुंठो भविष्यति ॥४९॥ स समादयितः शिष्यैः सूतोऽसौ विभुना नृणां । शिक्षा पश्यामि सर्वेषां छात्राणामिति चोदितः५० ततोऽतेवासिनस्तेन क्रमेण शरमोचनं । कारिता लक्षपावं च सर्वे चकुर्यथायथं ॥ ५१ ॥ अथैरोऽपि स नियुक्तः शरान् चिक्षेप तादृशान् । दुःशिक्षित इति ज्ञातो. विभुना तेन यादृशैः ५२ विदित्वा वितथा सा राज्ञा संप्रेषितो गतः । अखाचार्यः स्वकं धाम शिष्यमंडलमध्यगः ॥५३॥ वैवस्वतसुतामर स्वीकृत्य. गुरुसम्मतां । रात्रौ पलायनं कृत्वा.प्राप दाशरथी पुरीं ॥ ५४॥ दौकितवानरपये स्वं कौशलं.च न्यवेदयत् । राज्ञा समर्पिता तस तुटेन तनुसंभवाः ॥ ५५ ॥ तेप्वस्त्रकौशलं तस्य संभ्रांत स्फीततां गतं । सरस्सु सुप्रसन्नेपु चंद्रगविवमिवागतं ॥ ५६ ।। अन्यानि च गुरुप्राप्त्या विज्ञानानि प्रकाशित ] यातानि तेषु रत्नानि पिधानापगमादिव ५० पद्मपुराणम् । ५११ पंचविंशतितमं पर्व दृष्ट्वा विज्ञानमेषामनिशयसहितं सर्वशास्त्रेषु राजा । संप्राप्तस्तोपमग्न्यं सुतनयविनयादारचेष्टाहृतात्मा ॥ चके पूजासमेतं गुरुषु गुणगणज्ञानपांडित्ययुक्तो । यातं त्युत्क्रम्य वांछाविभवमतितरां दानविख्यातकीर्तिः ॥ ५८ ॥ शानं संप्राप्य किंचिद् व्रजति परमतां तुल्यमन्यत्र यातं । तावत्वेनापि नेति कचिदपि पुरुषे कर्मवैषम्ययोगात् ।। अत्यंत स्फीतिमेति स्फटिकगिरितटे तुल्यमन्यत्र देशे । यात्येकांतेन नाशं तिमिरवति रवेरंशुवृंदं खगोषैः ॥ ५९ ।। इत्या रविषेणाचार्यप्रोक्ते पाचरिते चतुर्भ्रातृसंभवाभिधानं नाम पंचविंशतितम पर्व ।