Bharatiya Gyanpeeth
कथाकोशः
Front matter
No text on this page.
अप्रकाशितपूर्वः कथाकोशः जैनलिपिलिखितानि प्राचीनपत्रादर्श- पुस्तकानि पर्यालोच्य श्री पण्डित जगदीशलाल शास्त्री, एम. ए., एम. ओ. एल. इत्येतेन सम्पादितः प्रकाशितश्च उपोद्धातपरिशिष्टाभ्याश्च सुपरिष्कृतः।
Published by
Pt. Jagdish Lal Shastri,
M. A., M. O. L.,
Hotu Singh Road,
Sant Nagar, Lahore,
पुनर्मुद्रणाधिकारास्सर्वेऽपि प्रकाशयित्रा स्वायत्तीकृताः ।
Printed by
Shanti Lal Jain
Bombay Sanskrit Press,
Shahi Mohalla, Lahore.
विषयानुक्रमणिका शिखकथानकम् विषया: पृष्ठाः विषयाः पृष्ठाः (क) उपोद्धातः ५-६ | (१८) शीलविषये ऋषिदत्ता. (ख) कथाकोशः १-१६१ कथानकम् तोत्थं कथासूची (18) जीवदयाविषये मेतार्य- (१) श्रीवीतरागपूजाकथा कथानकम् २६-१. (२) देवपूजाविषये देवपालकथा २-४ (३) कोपविषये मुनिकथानकम् ४-५ (२०) नमस्कारविषये रत्न- (४) वचनाविषये अशोकदत्त- कथानकम् (२१) कषायविषये अमरदत्त- (५) लोमविषये कथानकम् ६-१० मित्रानन्दयोः कथानकम्१०६-१६ (6) यशोभद्रकथानकम् १०-१३ (२२) दानधर्मविषये ललिता. (७) महासतीमदनरेखाकथा- अकुमारकथानकम् ११६-१२२ नकम् १३-२० (२३) जीवदयाविषये (क) नागदत्तकथानकम् २१-२३ दामनककथानकम् १२३-१२८ (6) सनत्कुमारर्षे: कथानकम् २३-२६ (२४) गुरुविराधनायां (१०) भावनाविषये अमरचन्द्र- कूलबालककथानकम् १२८-१३५ कथानकम् (२५) दानविषये कनकरथ. (11) अक्षतपूजाविषये शुक- कथानकम् १३५-१४. युग्मकथा (१२) गन्धपूजाविषये सूर- (२०) माने बाहुबलि- कथानकम् १४.-१४३ राजकथा ३८-४३ (१३) नैवेद्यपूजाविषये हालिक- (२७) द्यूतविषये नल. कथानकम् कथानकम् १४३-१६६ (१४) दीपपूजाविषये दीप- (ग) परिशिष्टे शिखकथा ४६-५१: (१) कथाकोशस्थपद्यानामकारादि. (11) दानविषये कुरुचन्द्र कथा ५१-५७ क्रमेणानुक्रमणिका १७०-१७२ (१६) दानोपरि धन्यकथा ५७-६२ (१) कथाकोशस्थसंज्ञाशब्दाना- (१७) श्रीवीतरागसपूजाविषये मकारादिक्रमेणानुक्रमणिका भारामशोभाकथानकम् ६३-७१
No text on this page.
उपोद्धातः कथाकोशस्यादर्शपुस्तकद्वयीप्राप्तिः कथाकोशस्येदं संस्करणं प्राचीनपत्रादर्शपुस्तकद्वयीमधिकृत्याश्रितम् । तत्रै. कस्यादर्शग्रन्थस्य 'अ' (BA) इति व्यपदेशः, अपरस्य 'ज' (2) इति। अकार- व्यपदेशभाग् आदर्शग्रन्थः पञ्चनदप्रान्तवर्तिनः अम्बालानगरस्य जैनभाण्डागारे वर्तते। जकारसंज्ञावांश्च पञ्चनदप्रान्तवर्तिनः जीराग्रामस्य जैनभाण्डागार इति । एषाऽऽदर्शप्रन्थद्वयी तु पाचनदविश्वविद्यालयाध्यक्षनियोगतः पाञ्चनदर्जनभाण्डागारस्थ- हस्तलिखितपुस्तकानां सूची संकलयता मया निर्दिष्टभाण्डागारयोर्निरीचिता। तथा च श्रीमोतीलालबनारसीदासेति नाना विश्वविख्यातस्य पाञ्चनदसंस्कृतपुस्तकालयस्या- ध्यकैः तत्रभवद्भिः श्रीसुन्दरलालशान्तिलाल इत्येतैः मदर्थे महता यत्नेनाऽऽसादिता। 'रनं समागच्छतु काश्चनेन' इति न्यायमनुसरता मयापि जैनधर्मरमस्यास्य कथा- कोशस्य सुविशदैनिर्णयसागरसीसकाक्षरैर्मुद्रणादिकं स्यादिति कृतेऽयं ग्रन्थो लवपुरप्रसिद्ध 'बाम्बे संस्कृत प्रेस' इति नान्नि मुद्रणालये भूयसा व्ययेन प्रकाशितः । कथाकोशस्थादर्शपुस्तकद्वयीविवरणम् अकारव्यपदेशभाक् कथाकोशस्यादर्शपुस्तकम् अम्बालानगरस्थजैनभाण्डा- गारे सुरक्षितम् । तदेतत्वाचनदजैनभाण्डागारस्य अन्यसंख्यायां षट्त्रिंशदधिकचतुश्शती- संख्यामभिव्याप्य वर्तते । अस्य परिमाणम् १२"x५३", पत्राणि 1, पतयः १५, अक्षराणि ६० । एतच्च जैनलिप्यां लिखितम् । अथेदमित्यमारभ्यते-डोंनमो वीतरागाय नमः । यति दुष्टदुरितानि दूरतः कुर्वते सपदि संपदः पदं भूषयति भवनानि कीर्तयः पूजया विहितया जगद्गुरोः । पूर्व श्रीवीतरागपूजाकथा । अस्मिन् जम्बूद्वीपे भरतक्षेत्रे शंखपुरे नगरे श्रीशंखो नाम राजा। इत्यश्चात्र समाप्तिः-नलो मृत्वा कुरो जातः। दवदन्ती मृत्वा तस्य भार्या बभूव। किश्चिद्विराधनानीचदेवत्वं प्राप्तम् । द्वावपि कर्म क्षपयित्वा क्रमेण मोचं यास्यतः। इति चूतविषये नलकथानकं समाप्तं ॥ एतदादर्शपुस्तकलेखकेन खविषये ग्रन्थलेखनकालविषये चेत्थमलेखि - ६ संवत् १६४५ रा मिति असाढशुदी १५ पूर्णमास्यां भृगुवासरे ॥ लिषापितं मुनी जी आत्माराम जी । लिपिकृतं बाबा बालगिरी जी ॥६॥ कथाकोशस्यैतस्मादादर्शपुस्तकात्प्राचीनतरमादर्शपुस्तकं जीराजैनभाण्डागारे विद्यते। तच्चात्र कारव्यपदेशभाक् । पाश्चनदजैनभाण्डागारसंख्यया चास्य पञ्च- त्रिंशदधिकचतुश्शती संख्याऽस्ति । अस्य परिमाणम् १०"x५",पत्राणि ६०,पतयः १६, वर्णाः ५५ । जैनलिप्यां लिपीकृतम् । अथेदमित्थमारभ्यते-ओं नमो वीतरागाय नमः ॥ यान्ति दुष्टदुरितानि दूरतः कुर्वते सपदि सम्पदः पदम् । भूषयंति भवनानि कीर्तयः पूजया विहितया जगद्गुरोः॥ अथेयमत्र समाप्तिः-नलो मृत्वा कुबेरो जातः। दवदन्ती मृत्वा तस्य भार्या बभूव । द्वावपि कर्म क्षपयित्वा मोक्षं यास्यतः । इति द्यूतविषये नलकथानकं समाप्तं ॥ ग्रन्थसमाप्त्यनन्तरञ्चास्मिनादर्शपुस्तके प्रन्यविषयानुक्रमणिकापि वर्तते। सा चेत्थम्-श्रीवीतरागपूजायां धनदकथानकम् १ देवपूजाविषये देवपालकथानकम् २ कोपविषये कुणालायाम् ऋषिकथानकम् ३ कोपविषये संवरमुनिकथानकम् ४ लोभ- विषये अशोकश्रेष्ठिकथानकम् ५ प्रस्तावोही पुण्डरीकयशोभद्रकथानकम ६ शीलवते मदनरेखाकथानकम् ७ अष्टाहिकाविषये नागदत्तकथानकम् - तपोविषये सनत्कुमार- कथानकम् ६ भावनायाम् अमरचन्द्र स्थानम् १० अक्षतपूजायां शुककथानकम् १" गन्धपूजायां मदनावलीकथानकम् १२ नैवेद्यविषये हालिककथानकम् १३ दीप- पूजायां दीपशिखकथानकम् १४ दाने धन्यकथानकम् १५ श्रारामशोभाकथानक पूजायाम् १६ शीनविषये ऋषिदत्ताकथानकम् १७ जीवदयायां मेतार्यकथानकम् १८ नमस्कारविषये रत्नशिखकथानकम् १९ कषायविषये अमरदत्तमित्रानन्दकथा- नकम् २० अमरसेनराजकथानकम् २१ ललिताकथानकम् २२ जीवदयायां दामनक- कथानकम् २३ गुरुविराधनायां कूलबालककथानकम् २४ सुपात्रदानविषये कनकरथ. कथानकम् २५ माने बाहुबलिकथानकम् २६ गते नलराजकथानकम् २७ इति श्री. कथाकोशः : समाप्तः॥ ग्रन्थलिपिकर्तारं प्रन्थलिपिसमयचोरीकृत्य किमपि निर्दिष्टमस्ति । तद् यथा- संवत् १८५६ वर्षे मिती कार्तिकमासे कृष्णपक्षे १३ तिथौ शनिवासरे श्री कीतिरत्नसूरशाखायां वा श्री श्री श्री १०८ श्री ग्यांनप्रमोदजी गणि गजेन्द्राण तत् शिष्य श्री १०५ श्रीदांनभक्ति जी गणि तत्शिष्य श्री १.१ श्रीषुश्यालहेमजी तत् शिष्य पं. देवचन्द लिपीकृतं ॥ फरीदकोटमध्ये चतुर्मासीकृतः श्रीः। यादृशं पुस्तके दृष्ट्वा तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ १॥ कुले रक्षेत् थले रक्षेत्र रचेत् शिथिलबन्धनात् । मूर्खहस्ते न दातव्यम् एवं वदति पुस्तकं ॥२॥ सर्वमंगलमांगल्या सर्वकल्याणकारणं । प्रधानं सर्वधर्माणां जैन जयतु शासनं ॥३॥ श्रीरस्तु, कल्याणमस्तु, श्रीः, शुभं भूयात् । श्रीः ॥ कथाकोशस्य कर्तृत्वविचारः, रचनासमयनिर्धारणश्च ग्रन्थस्यादावन्ते वा ग्रन्थकर्तारः प्रायश: खपरिचायकं किञ्चिदुपनिबध्नन्ति । परन्तु कथाकोशक; न क्वचिदपि स्वनामाद्युपनिबद्धम् । नचान्यत्र कुत्रापि कथा- कोशकर्तृत्वेन कस्यापि कर्नाम समुपलभ्यते । तदेवं प्रमाणाभावेन कथाकोशस्य कर्तृत्वनिर्धारणा कष्टैव। कथाकोशस्य निर्माणकालनिर्धारणमपि नैव सुकरम् , एतन्निर्माणकालोल्ले. खस्य कुत्राप्यलब्धत्वात् । किन्तु केषुचित् स्थलेषु प्रयुक्ताः चीठीत्यादयो हिन्दी. भाषाप्रयोगा अस्य प्रन्थस्यार्वाचीनतां द्योतयन्ति । कथाकोशस्य भाषा कथाकोशस्य भाषा सुविशदा मनोज्ञा च । गद्यस्थले संस्कृतमयी, पद्यस्थले क्वचित् संस्कृतमयी क्वचित्ताकृतमयी। वाक्यरचना च अदुरूहार्थाभिसूचकै तिविष. मैरसमस्तैः पदैनिबद्धा । सन्त्यत्र केचिच्छब्दा विदुषां विचारणीयाः। यथा-कबाडिक ( ४, ६) मुत्कलितः (७,७), चीठी ( २२, १) छिबितः (२२, ३) कुट्यमानाम् ( ८४, ७) दब्बडक (६४, २३ ) इत्यादयः। किन्तु प्रकरणान्वयेनार्थावबोधकः कतिपयैश्वेतरसंस्कृतैः शब्दैन कथाकोशस्य भाषावैशिष्टयं व्याहन्तुं शक्यम् । अत्रेदं व्यक्तिगतं किञ्चिदावश्यकमवधेयम्-एतद्ग्रन्थस्य सम्पादनमुद्रणादिकार्य विक्रमराज्यतः नवोत्तरनवत्यधिकैकोनविंशतिशततमे वर्षे भाद्रपदे मासे संवृत्तम् । तत्र वर्षाकाले एकान्तत एतन्नियोगाश्रयणात् कार्यसमाप्तिस्सुलभैवाभूत् । गुरुमप्येतत्कार्यभारं सामोदमुद्रोढर्मम गुरवस्तत्रभवन्तो विद्याव्यसनिनः पञ्चनदविश्वविद्यालयाधिकृत- संस्कृतविभागाध्यक्षाः एम. ए. (पंजाब), डी. फिल. ( आक्सफोर्ड ) आफिसर् डी एकेडेमी (फ्रान्स ), इत्याद्युपाधिभूषिता आचार्यवरा: श्रीलक्ष्मणस्वरूपमहोदया एव परमादर्श इति निवेदयति जगदीशलालशास्त्री --
No text on this page.
कथाकोशः ॐ नमो वीतरागाय। यान्ति दुष्टदुरितानि दूरतः कुर्वते सपदि सम्पदः पदम् । भूषयन्ति भवनानि कीर्तयः पूजया विहितया जगद्गुरोः ॥१॥ श्रीवीतरागपूजाकथा। अस्मिन् जम्बूद्वीपे भरतक्षेत्रे' शंखपुरे नगरे श्रीशंखो नाम राजा । तत्र धनदनामा श्रेष्ठी वसति । सोऽतीव धनवान् । चत्वारः तस्य पुत्राः। अन्यदा तेन व्यवहारिणा लक्ष्मी चञ्चलां विमृश्य श्रीवीतरागप्रासादः कारितः। तत्र बिम्बप्रतिष्ठा कारिता महतोत्सवेन । अन्यदा पूर्वभवान्तरायकर्मवशाधिर्धनों बभूव । अतिनिर्धनत्वात्तं पुरं परित्यज्य तन्नगरासन्न एकस्मिन् प्रामे परिवसति । नगरे याता- यातेन सुतोपात्ताऽऽजीविका कियन्तमपि कालमतिवाहितवान् । अथान्यस्मिन्नवसर आयाते चातुर्मासिकपर्वणि तत्र यायिभिः सुतैः समं स धनदः शंखपुरं प्राप्य निजप्रासादसोपानमधिरोहन निजा- राममालिकयोपायनीकृतपुष्पचतुस्सरिकस्ताभिर्जिनेन्द्रमभ्यर्च्य रात्री आत्मीयं दरिद्रभाव निन्दन गुरुभिः कपर्दियक्षाऽऽकृष्टि- मन्त्रो ददे । अन्यदा कृष्णचतुर्दश्यां मध्यरात्री तमेव मन्त्रमाराधय- तस्तस्य पुरः कपर्दियक्षः प्रत्यक्षीबभूव । उक्तं च-'भो धनर्दे! चातुर्मासिकावसरे श्रीवीतरागस्य पुष्पचतुस्सरपूजापुण्यफलं मे देहि।' तेन कथितम्-'एकस्यापि पूजाकुसुमस्य फलं सर्वशं विना दातुं न समर्थः' इति कारणात्तस्य साधर्मिकत्वात् कपर्दियक्षण तद् गृहे चतुषु गृहकोणिकेषु सुवर्णापूर्णान् चतुरः कलशानिधीकृत्यादृश्यत्वं १. अस्मिन् जम्बूद्वीपे भरतक्षेत्रे is wanting in Z. २. Z. adds पुरा before शंखपुरे। ३. •प्रतिकृति: for प्रतिष्ठा A. ४. A adds तुष्टोऽहं मार्गयस्व मनोवाञ्छितम् । ततः श्रेष्ठी प्रोवाच । यदि त्वं तुष्टोऽसि तर्हि after धनद। गुरूणां पुर २ 3 कथाकोशः भेजे । धनदः प्रभाते स्वगृहं गतः। धर्मनिन्दापरेषु नन्दनेषु तद्व्यं समर्पयामास । तेऽप्यत्यादरापितुः पाश्र्वात्तद्वैभवलामहेतुमपृच्छन् । तेषां हदि धर्मप्रभावाविर्भावार्य जिनपूजामभावतः परितुष्टेन कपर्दि- यण प्रसादीकृतां तां सम्पदं निवेदयामास । तेऽपि सम्पन्नसम्पत्तयः तदेव जन्मनगरं समाश्रित्य निजधर्मस्थानसमारचनापराजिनशासन- प्रभावनां कुर्वन्तो वैधर्मिकाणामपि मनस्सु धर्म निश्चलीकृतवन्तः॥ इति श्रीवीतरागपूजायां धनदकथानकम् ॥ देवपूजाविषये देवपालकथानकम् । जिनपूजनं जनानां जनयत्येकमपि सम्पदः सकलाः । जलमिव जलदविमुकं काले सस्यश्रियो विपुलाः॥१॥ अवैव भरते वसन्तपुरं नाम पत्तनम् । तत्र नाना परिणामे- नापि जिनदासः श्रेष्ठी । तद्गृहे देवपालनामा कर्मकरोऽतीव विनय- वान् शान्तो विवेकवान गुणः स्वामिभक्को गाश्चारयति । अथान्यदा वर्षाकालसमायातः। गति घणा नंति सिहिगों लवइं विज्जुला गयणे । कूलंकसायकलुसं वहति वरसंति वारिधरा ॥२॥ तस्मिन्काले देवपालनामा कर्मकरो गाधारयित्वा यावद्गृह- मायाति तावन्मार्गे नदी जलपूरेण दुस्तरा जाता । देवपालो यावत्र- दीपूरं पश्यति ताबजलमध्ये शैखमयीं जिनप्रतिमा दृष्टवान् । चिन्तितश्च- अहोभाग्यमहोभाग्यमहो मे पुण्यस्यामः । अहो मे कर्मसामग्री कटरे कर्मलाघवम् ॥ ३ ॥ अन्ते महान् वर्षः। वां जिनप्रतिमां गृहीत्वा तव पिप्पल- तरोस्तले स्थापयामास । नियमममिजमाह-पूजामकृत्वा कदापि नाहं मोदये। गृहमागतः। जलदो वर्षति । देवपालोऽपि नदीपूरेल स्खलितो देवपूजामकृत्वा भोजनं न करोति । जिनदालेन भणितोऽपि १. भागतः for भेजे A. २..प्रभावाविर्भावः सजिन• for प्रमावा- fanfara fram. A. 4. This line is supplied by the Editor. ४. सिंहमयुर• for सिहि. 2. ५. कर्मकरः is missing in Z.
कथाको ३ नपारवति । सप्तदिनप्रास्ते मेघा स्थितः। तस्य सप्तोपवासा जाता। सप्तोपवासप्रान्ते देवपूजार्थे यतो नदीतटे। सत्वाद् वर्षति पर्जन्यः सत्त्वाव सित्यन्ति देवताः । सत्त्वेव धार्यते पृथ्वी सर्व सत्त्वे प्रतिष्ठितम् ॥ ४॥ तस्य सत्त्वात्परितुष्टो देवः। सप्तमे दिने तस्मै राज्यं तस्य नगरस्य दसम् । सप्तमे दिने तन्नगरस्वामी विचिकारोगेण मृतः। परमपुत्रवान् । पुत्राभावे मन्विमिर्गजा प्रतिष्ठितः। कुम्भस्थले' जल- पूर्णकलशो मुक्तः। तदा ततस्तत्रैव सप्तमे दिने पिप्पलतरोर्मूले सुप्तस्य देवपालनानः शिरसि कलयो ढालितः। राज्यं दत्तम् । दिव्यवेषं बमार । पूर्ववेषं तत्रैव तत्याज । महतोत्सवेन नगरे तस्य प्रवेशो बभूव । तनगरस्वामी जातः। अन्यस्मिन् दिने वेनैव व्यवहारिणा तस्य पूर्ववेषो राजप्रतोलीद्वारे बद्धः । तं दृष्ट्वा सर्वोऽपि राज- वर्गस्तस्मिन् विरको बभूव । देवपालराजापि सर्व जनं विरतं दृष्ट्वा पुनर्गतो जिनसमीपम् । स्तुतः स्वामी। स्वामिनो व्यन्तरदेवेन तस्थाप्रे कथितम्-तव राज्यं दत्तम् । केनाप्यन्यथा न क्रियते । परं तु धवलगृहे गत्वा मृत्तिकामयं गजं निर्माय तस्मिन् गज उपविश्य श्रीवीतरागनाममन्त्रस्मरणपूर्वमहतैः छंटयेथाः। एवं कृते स गजः प्रत्यक्षगज इव चलिष्यति । एवं च तं महिमानं दृष्ट्वा सर्वे लोकास्त्वां' नमस्यन्ति । देवपालोऽप्येवं व्यन्तरोनिमाकलय्य सौघं जगाम । मृन्मयो गजः कारितः। तस्मिनधिरुह्य जिननामोचारपूर्वकमक्षतैः छंटितः सजीवो बभूव । सर्वे सकौतुकं राजानं दृष्टय प्रणमन्ति । राजा निष्कपटकं राज्यमनुभवति । अथान्यदा राजा सपरिजनस्तस्य जिन- वासनाम्न श्रेष्ठिनो गृहं गतः। तावच्छेष्ठिनापि स्वलस्थालं रबपरि- पूलै प्राकृतीकृतम्। उवयारउ उववारत सम्बू कोई करे । अवगुणकिई जु गुण करै विरला जणणि बसेइ ॥५॥ राक्षा सन्तुष्टेन स श्रेष्ठी सर्वमुद्राधिकारी कृतः। स्वयन्तु १..स्थे for स्थले 2. २..स्तां 2. स्तं A. 1.2.adds तं before राजानम्। ४.कृत्वा for दृष्ट्य Z. and A... •किइ ज्जु for •किई जZ.
- कथाकोशः निधिन्तो राज्यमनुशास्ति । अन्यदा नगरमध्ये महाकायः पर्वतप्रायो जिनप्रासादः कारितः। तत्र सैव जिनप्रतिमा स्थापिता.। राजा सान्त:- पुरोऽहर्निश जिनालये याति । तत्रागरुक'चन्दनसुगन्धकुसुमद्रव्यैः श्रीवीतरागमपूजयत् । अन्यदा सान्तःपुरस्य राको जिनालय आगच्छतो मार्गे शिरस्थितकाष्टभारक एक कबाडिका सम्मुखो बभूव । राक्षी तथाविधं तं कबाडिकं निरीक्ष्य मूर्छामवाए । पूर्वभवं स्मरति । अचैतन्या पूर्वभवस्मरणादेनां गाथां पुनः पुनः पठति- अडवि हि पत्ती नई जलु तोइ न व्हा हत्य। . अन्वो तह वि कबाडी यह अब वि सावि भवत्य ॥६॥ मूर्छा भन्ना। राक्या पृष्टम्-'देव! किमेतत्कारणं यदेतेन कबाडिकेन दृष्टेन मम पूर्वभवः स्मृतः १. पूर्वमवेऽहं पुलिन्यभूवम् । अयं तु मम भर्ताऽऽसीत् । अन्यदा तस्मिन् प्रदेश मुनिः प्राप्तः । तेन मुनिना देवपूजार्थे नियमो ददे । मया गृहीतः, परंतु मम भी न गृहीतः। अहं त्रिसन्ध्यं जिनपूजां करोमि । तेन पुण्यफलेनाई तव पट्टमहादेवी जाता । अयन्तु तामेव दु:स्थामवस्था भुक्ते।' इति श्रुत्वा सर्वे देवपूजां कुर्वन्ति । इति देवपूजाविषये देवपालकथानकम् ॥ कोपः। वर्षमेचं कुणालायां दिनानि दश पञ्च च । मुसलप्रमाणधाराभिर्यया रात्री तथा दिवा ॥१॥ कुणालायां नगर्या द्वौ ऋषी निर्धमनयो कायोत्सर्गेण वर्षायां स्थिती। मेघः सर्वत्र वर्षति । पशुपालकैः साधोर्दूषण दत्तम्-प्रमू मुनी मेघ वर्षन्तं वारयतः।' मुनी कोपं गतौ। प्रथमेनोक्तम्-वर्षमेचं कुणालायाम्। द्वितीयः प्राह 'दिनानि दश पञ्च च। पुनः प्रथमः माह-'मुसलप्रमाणधारामिः' । पुनर्वितीयः प्राह-'यथा रात्री तथा दिवा ॥' मुनिशापेन मेघा पश्चदशदिनानि ववर्ष । मगरी साविता । मुनी अपि मृत्वा नरकं गतौ । अतः कोपो न कर्तव्यः । १. भवं is missing in Z. २. नैजनु for नई जलु Z. ३. निर्ष: मनयोः for निर्धमनया Z. ४. इचणं for दूषणं Z.
५ 3 कथाकोशः उत्तगिरौ संवरमुनिः कायोत्सर्गेण स्थितः । शासनदेवी तुथ । 'महात्मन् ! येदा (भवान् ) कष्टमुपैति तदाऽहं स्मर्तव्या। अन्यदा पारणकाय ग्राम प्रति चचाल । मार्गे सम्मुखं शकटमुपैति, परं मुनिर्मार्ग न मुश्चति । शाकटिकेन बहुधोक्तोऽपि यदा मार्ग न त्यजति तदा सकोपः शाकटिकः शकटादुत्तीर्य पिराणकेन मुनि ताडयति । मुनिः सकोपस्तं दण्डेन ताडयति । मिथो युद्धं जातम् । मानं बाहुबलिमरीचिरचयत् श्रीस्थूलभद्रः प्रभुः साधु: सिंहगुहास्थितो मतिमदः श्रीसिद्धसेनः कविः । चाणक्यः किल कोणिकः क्षितिपतिदुर्योधनो रावणः सूरिः सागरचन्द्र इत्यभिमतश्चक्री चतुर्थोऽपि चे ॥२॥ वश्वनाविषयेऽशोकदत्तकथानकम् । दक्षिणमथुरायामशोकदत्तनामा श्रेष्ठी वसति कोटीश्वरः । उत्तरमथुरायाः समृद्धदत्तनामा श्रेष्ठी पैश्वशतशकटैः समं वाणिज्याय चलितः । दक्षिणमथुरायामशोकदत्तेन सह मित्रत्वं जातम् । महान् बेहः । समृद्धिदत्तः स्वनगरं ययौ । अन्यदा शोकदत्तगृहे पुत्रोत्प- तिर्बभूव । श्रीपतिरिति तनाम कृतम् । मित्रस्य वर्धापनं कथापितम्। समृद्धिगृहे पुञ्युत्पत्रा। वर्धापनं समृद्धिदत्तेन कथापितम्। द्वाभ्यां मि- पाभ्यां परस्परमिति प्रतिपन्नम्-अनयोर्विवाहोत्सवः कर्तव्य इति । वर- १.Z.adds यः before यदा. २. वा for च Z. ३. After this verse A and Z read the following lines which are out of place here:- 'तथा हि-धम्मो मएण हुँतो. विनीतायां नगर्या श्रीऋषभदेवप्रिया सुमाता सुनन्दा। देवीसुमंगलाए भरहो बंभीयमिहुणयं जायम् । देवीसुनंदाए बाहुबली सुन्दरी चेव ॥ श्रीऋषभदेवे व्रतमापने श्रीमरतेश्वरस्य राज्ये दत्तेऽष्टनवतिपुत्राणां विभज्य राज्ये दते स्वामी केवलज्ञानमवाप ॥ ४. उत्तरमथुरायाः समृखदत्तनामा श्रेष्ठी is missing in Z. ५. शत is missing in A.
कथाकोश पकं जातम् । लनं गणितम् । अन्यदाऽकस्मादशोकदत्तस्य घोरज्वरो- दयोऽभूत् । श्रेष्ठी मृतः। श्रीपतिः पदे स्थापितो गृहमारं निर्वाहयति । अन्यदा श्रीपतिः स्नानार्थमुपविष्टः । तदा स्वर्णकुण्डी उत्पमिता। माने कृते स्नानपट्टोऽपि गतः। देवतावसरं वन्दनाय यावद् याति तावद् देवतावसरोऽगमत् । इतश्च प्रवहणानां अडितानां वार्ता समा- याता । मोजनायोपविष्टस्य स्थालिगता। स्वर्णमयकचोल २२, सिपाः ३२, गतानि । स्थालि थरथरति।स्थालं ब्रजमान हस्तेन साहितं खण्ड मुला गतम् । अन्यदा एक ऋणपुरुषः समागतः प्राह-'द्रव्यलक्ष एको मया लभ्यः, देहि।' यावनिधानानि विलोकयति तावद् द्रव्याणि रजोमयान्यभूवन् । विषादापन्नो मातरं मुत्कलाय्य देशान्तरं प्रतस्थे। स्थालखण्डं सदैव गृहीतम्। पर्वते चटित्वा कालं कुर्वन् कामाश्रावणी कुरुते । इतश्च गुहामध्ये मुनिः कायोत्सर्गेण स्थितोऽस्ति । तेन शाने- नालोक्योकिम्-'भोः श्रीपते ! साहसं मा कुरु, ईडशेन मरणेन व्यन्त. रत्वं प्राप्यते, कुमृत्यु मा कुरु, यतः- रज्जुग्गहणे बिसमक्खणेय जलणेय जलपवेसेय । तिराहाबुहा किलो मरिऊणं हुंति वितरीया ॥१॥ अतो मा कुरु मृत्युम् ।' श्रीपतिरागत्य मुनि प्रणमति । मुनिः प्राह-'किमर्थ म्रियसे? श्रीपतिः प्राह-'द्रव्यदाहो मे बाघते मुने!' मुनिः प्राह-'भो श्रीपते! असारं द्रव्यं मलिनं वैरकारणम् अनर्थ- मूलम् । अत्र दृष्टान्त:- पूर्वमत्रैव भरतक्षेत्रे कोशवर्धनं नाम नगरम् । तत्र भीमो ब्राह्मणः । तस्य द्वौ पुत्रौ देवधर्म-देवशर्मनामानौ । दारिदद्योपहतो द्रव्योपार्जनार्थ द्वावपि बान्धवौ देशान्तराय चलितो, देशादेशं प्रामाद खरंगमन्ती जलमुरेमी। परिकली. नामा राजा। पुची मदनापती । तया रायपुम्य सौभाग्यसन्दीपनं नाम तप. रावस्य चपस उंचापनं कुर्वासाऽऽस्ते । तया पुरमध्ये पटहो १. Z. adds लहणायत after ऋण. २. आलोक for भालोक्य Z. ३. बिसमकेणे for बिसमक्खणे.z. ४. किलति for किलंता A... A omits देवधर्म, इ. जयपुरनगरे for जयपुरे 2.
- कथाकोशः दापितः। दो अपूर्वब्राह्मणौ यौवनावस्थावाकारणीयौ । रूपसम्पयौ नैष्ठिको चतो द्वाषप्याकारितौ । सुवर्णमयभाजनं द्रव्यसुवर्णरत्ने त्वोपरि मण्डकमोदकशर्कराभिः सम्पूर्य ब्राह्मणाभ्यां दत्तम् । द्वौ बान्धवौ द्वे स्थाले प्रादाय नद्यांगत्वा भोजनं चक्राते । ताभ्यां मिथ बालोच्य द्रव्यं तत्रैव निखातीकृतम् । द्रव्योपार्जनार्थ देशान्तरे चलितो। तयोमार्गे गच्छतोवृद्धभ्रातुश्चित्तं चलितम् । कौशाम्बीपुरी- प्रत्यासन्नाटव्यां वृद्धभ्रात्रा लघुबान्धवो जलावलोकनायान्धकूपे मुत्क- लिता-'हे भ्रातः! जलं विलोक्यागच्छ। अहमतीव तृषातुरोऽस्मि।' लघुबन्धुः कूपे यावजलं विलोकयति तावदेवशर्मनाना वृद्धबान्धवेन से निक्षिप्तः । तेन पतताप्यश्चले साहितः । द्वावपि कूपे पतित्वा मृतौ । मृत्वा सपो जातौ। तृतीयभवे मूषकोजातौ। चतुर्थभवे हरिणौ व्यायेन मारितौ। पञ्चमभवे कौशाम्बीनगर्यां माधवब्राह्मणगृहे वासन्ती प्रिया, तस्याः कुक्षौ पुत्रौ उत्पन्नौ रुद्रमहेश्वरनामानौ। अन्यदा क्षेत्रे द्वावपि दोहनार्थ गतौ । तस्य निखातस्योपरि कलहं कुरुतः। प्रत्या- सन्त्रकौटुम्बिकैरितौ गृहमागतौ। गृहे नेहः, क्षेत्रे वैरम् । अन्यदा केवली पृष्टः । केवलिना पूर्वभववृत्तान्तः कथितः। तौ द्वावपि बान्धवी प्रबुद्धौ। व्रतं जगृहतुः । मृत्वा देवलोकं गतौ । तपोधनः कथयति- श्रीपते! अमुष्यासारस्य द्रव्यस्यार्थे कः कुमृत्युं विधाय मानुषं जन्म निष्फलं विदधाति' इति श्रुत्वा श्रीपतेः प्रबोधो बभूव । गीतार्थ- त्वादेकाकी विचरति । कियत्कालानन्तरं तपःप्रभावात्तस्यावधिज्ञान- मुत्पन्नम् । विहारं कुर्वन् कियद्भिर्दिनैरुत्तरमथुरायां समृद्धिदत्तगृहे वितरणायागतः। नानकुण्डिका,लोटका, देवतावसरसमुदायः, स्थाले कचोलाः ३२, सिप्राः ३२, सर्व स्वकीयं दृष्टमुपलक्षितम् । खण्डस्थालौ श्रेष्ठी भोजनं कुरुते । मुनिर्दिशोदिशि निजकीयामृद्धि विलोकयति । श्रेष्ठी ऊचिवान्-'मुने दिशोदिशि किं निरीक्षसे ?' तपोधन आह- भोःश्रेष्ठिन् एतानि नानस्थानानि स्थालकचोलादीनि च भवद्भिःकारि- तानि किं वा भवत्पूर्वजकारितानि ? श्रेष्ठी जगाद-महात्मन् ! अने- तनान्यमूनि ।' मुनिराह-'कोचरे स्थालकेवले कथं भुज्यते?' श्रेष्ठि- १. दावापितः for दापितः Z. २. आकरणीयौ for आकारणीयौ A. ३. स्थालौ for स्थाले 2. ४. कुण्डीका for कुण्डिका A.
। कथाकोशः नोक्तम्-'स्थाले खण्डं न तिष्ठति। श्रीपतिः कटीप्रदेशात् स्थालखण्ड माकृष्य स्थालसम्मुखंयावद्विदधाति तावत् स्थालखण्डं स्थाले संलनम्। स्थालमखण्डमभूत् । तपोधनश्चलितः । समृद्धदत्तो मुनिमभिवन्ध पृष्टवान् । मुनिराह -'यत्त्वमलीकं प्रभाषसे तदहं कथं कथयामि।' समृद्धदत्तः प्राह-'अहं वरांसितः (१)। अलीकमुक्तम् । अस्याश्चः- मम गृहे अष्टौ वर्षाण्यभूवन्।' मुनिराह-'सर्व मदीयमिदम्। अशोक- दत्तस्य सुतोऽहं श्रीपति म।' समृद्धदत्तो हर्षितः। 'मया तुभ्यं पुत्री प्रदत्चास्ति । पाणिग्रहणं कुरु । द्रव्यं सुवर्णमहं पूरयिष्यामि ।' मुनि- राह-'हे श्रेष्ठिन् ! इदं सर्व त्वदीयम्। त्यक्तं मया संसारसुखम् । हे श्रेष्ठिन् ! पूर्वभवं शृणु।' उपविष्टो मुनिः पूर्वभवमाख्याति-"श्रीपुरे नगरे जिनदत्तः श्रेष्ठी वसति । तस्य द्वौ पुत्रौ पद्माकरगुणाकरी। अन्यदा मृत्युवेलायां क्षेत्रे निखातं कथितम् । अन्यदा द्वाभ्यां कथि- तम्-'प्रस्तावे गृहीष्यावो निखातम्। अन्यदा वृद्धभ्रात्रा पद्माकरण मध्यरात्रौ गत्वा क्षेत्र प्रच्छन्नं तन्निखातं गृहीतम् । अन्यदा द्वावपि मिलित्वा क्षेत्रे द्रव्यखननार्थ गतौ द्रव्यं खनितं परं नष्टम् । पद्माकरस्य कपटेन मूर्छा समागता। कथितम्-'हे गुणाकर ! (द्रव्यं ) त्वया गृहीतम् । लघुभ्राता दिव्यं कारितः। कालेन कियता मृत्वा आजन्म- वञ्चकत्वगुणेन पद्माकरजीवेनाहं गुणाकरजीवेन त्वमुत्पन्नः । अस्मिन् भवे पूर्वभववञ्चनाप्रभावेन मम द्रव्यं तव गृहे समागतम् । अतो वञ्चना कस्यापि न कार्या । श्रेष्ठी प्रतिबुद्धो व्रतं जग्राह ॥ इति वचनाविषयेऽशोकदत्तकथानकम् ॥ लोमविषये कथानकम् सर्वलोकरचित जगत्त्रये लोकनाटकमपूर्वमीक्ष्यताम् । यत्र नाम कमलाहृदीश्वरः सोऽपि वामनविडम्बना धितः । लोभमूलानि पापानि रसमूलाश्च व्याधयः। नेहमूलानि दुःखानि त्रीणि त्यका सुखी भव ॥ १. The form is ambiguous. २. • द्धिर्मम for .श्चमम A. ३. सुषम् for सुखम् 2. .. .रहितं for रचितं A and Z. ५. 'कम' is missing in A. ६. श्रितं for श्रितः A. ।
कथाकोशः ह प्रत्रष्टान्तमाह- जहा लाहो तहा लोहो लाहालोहो पवड्डए दोमासकयं कम्म कोडीए न निवडए ॥ ३ ॥ अत्रैव भरते कुशस्थलप्रामे वासुदेवनामा ब्राह्मण परिवसति। तस्य वाल्यत्वे पिता मृतः। अन्यदा मातरं मुत्कलाय्य विद्यापठनाय चम्पापुरी ययौ। तत्र क्षीरकदम्बोपाध्यायसमीपे पठति । जनमध्ये विद्यार्थी प्रसिद्धो राजकुले भिक्षां लभते । अतिपरिचयादन्यदा राज- कीयदास्या समं सम्बन्धोऽभवत् । कियद्भिर्दिनैः सा दासी सगर्मा बभूव । तया कथितम्-'हे विप्र ! प्रसवकाले कथं मे सूतिकाकर्म भविष्यति अर्थ विना किश्चिदपि प्रयोजनं सिद्धि नयाति ततो द्रव्यो- पार्जनोपायं विचिन्तय। तेनोक्तम्-'किमुपायं चिन्तयामि दास्योक्तम् -'श्रीपुरे नगरे श्रीवर्धनो नाम राजा। स राजाऽपूर्वागतबामणस्य प्रभाते सुवर्णमाषयुगलं ददाति । सुवर्णमाषयुगलेन मम प्रसूतिरोगो निर्वहिण्यति' इति श्रुत्वा श्रीपुरे गतो विप्रः रात्रौ देशीयकुट्यां सुप्तः। लोभाज्ज्ञानविकलो मध्यरात्रमपि प्रभातं जानन् माषद्वययाचनाया- रात्र उत्थितः। प्रधाहं मन्दो यास्यामि तदान्यः कोऽपि याचयित्वा यास्यति ततोऽहं सकालेऽपि यामीति चिन्तयन् अर्धमागें यावद् याति तावत्तलारकैश्चौरशङ्ख्या बद्धः । प्रातर्गृहीतो राजसभायां राका शान्तचेतसंतं दृष्ट्वा बन्धनाच्छोटितः। पृष्टं च-'कस्त्वम् ! किमर्थमर्ध- रात्रौचलितः? तेनामूलचूलादपि दासीवृत्तान्तो माषद्वयकारणमप्यु- कम्। राजा प्राह-तहि याचस्व निजेच्छया। तुष्टोऽस्मिते। तेनोक्तम्- 'आलोच्य याचयिष्यामि।' राक्षोक्तम्-'आलोचय' । विप्रोप्येकान्त उच्चप्रदेश उपविश्य यावदालोचयति तावच्छतेन सहनेण लक्षण कोट्यापि माषाणां कृष्णा नोपशाम्यति । तावन्मुनिरेको बद्धपद्मासनो गार्थी पठन् दृष्टः। १. कुच• for कुश• 2. १. नामा is missing in A. ३.Z. adds नगरे after श्रीपुरे. ४. Z.addssपि after •राने... A. reads सकलो. for सकाले.. .Z.adds ऊन before पहलेण. .A omits दृष्ट: after पठन् .
१० কীয় सव्वं गीयं विलवियं सवा नबिडवणा। सम्वे आभरणा मारा सब्वे कामा दुहावहा ॥४॥ ४॥" विन इमां गायां श्रुत्वा वैराग्यपूर्णश्चिन्तयति-जहा लाहो. इति । विमृश्य केशानुन्मूल्य व्रतमाददे । राक्षे धर्मलाभाशीर्वाद दत्वा गाथाथै व्याख्याय बने जगाम स्वयम्बुद्धो मुनिः, इति सर्वथा लोमः परिहर्तव्यः। इति लोभविषये कथानकम् ॥ यशोभद्रकथानकम् । इहैव भरते साकेतपुरं नाम नगरम् । तत्र पुण्डरीको राजा। तस्य लघुभ्राता कण्डरीकः। कण्डरीकभार्या यशोभद्रा नानी। अन्यदा वृद्धभ्रातुः पुण्डरीकस्य चित्ते कामबाणैराहतस्य लघुभ्रातुः कण्डरी- कस्य भार्यायामनुरागो बभूव । एकदा एकान्ते वधूं प्रत्युवाच- 'कान्ते ! मां पति भजस्व'। तयोक्तम्-'राजन् ! किमेवमाभिदधासि ? प्रहाय वहौ बहवो विशन्ति शस्त्रः स्वदेहानि विदारयन्ति । तीवाणि कृछ्राणि समाचरन्ति मारारिवीरं विरला जयन्ति ॥१॥ राशी वदति-हेराजन् !अमृते विषमुत्पत्रम् , सूर्यादन्धकारः, चन्द्रमसोऽङ्गारवृष्टिः। यतो रक्षा ततो भयम् । जलादमिरुत्थितः। यदि सुनेत्रो नर उन्मार्गे गच्छति तद् दृष्टिविकलस्य को दोषः १ हीया हीया बीहा थु नारि पिराई वाहीर्य । रुली रावणु साथु इथंह सीयाह कारणिणं ॥२॥ राक्षा दुर्वचनतर्जिता वधूः । अन्यदा कोपातुरेण रावा तस्याः सङ्गं चिन्तयता लघुभ्रातुः कण्डरीकस्य मारणाय विषं दत्तम् । यतः- दिवा पश्यति नो घूको रात्री काको न पश्यति । कामान्धः कोऽपि पापीयान् दिवारात्रौ न पश्यति ॥३॥ १. For this verse A reads सव्वं विलंवियं गीयं इत्यादि। २. A and.Z. read भार्या for भार्यायाम् . ३. A and Z. read राचस: for रचा. ४. याति for गच्छति Z ...A reads गाथा after दोषः. ६. वाहीइ for वाहीय Z. ७.Z. adds अउ after स्लीउ. म. कारणिण for कारणिणं 2.
कथाकोशः कण्डरीके भर्तरि मृते सति राशी चिन्तयति-'अयं पापी मां शीलविनाशकलङ्कं दास्यति । ततोऽहं कचिद्गत्वा शीलं रक्षामी तिमनसि विमृश्य रात्री निर्गत्य श्रावस्तीनगयों गता। तत्र तपोधना सुबता तस्याः पौषधागारे गता, तन्मुखाद्धर्मोपदेशं निशम्य संसारोपरि विका बभूव । उत्पन्ने वैराग्ये सा राजो दीक्षां जग्राह । पूर्वसम्भवो गर्भोऽस्तीति व्रतान्तरायत्वान्महासत्यो अनेन निवेदितम् । स्वपति- सम्भवो गर्भो वृद्धिमाप । तया सुव्रतया महासत्योक्तम्-'वत्स! किमेतत् ? राशी प्राह-'भगवति ! दीक्षाकाझ्या मया न कथितम्।' सुगुप्तगीतार्थश्रावकगृहे मुक्ता । तत्र प्रसवो बभूव । पुत्रो जातः । तस्य पुत्रस्य यशोभद्र इति नाम परिकल्पितम् । अष्टवार्षिके जाते गुरुभिर्दी- क्षितोऽध्यापितः। यौवनकाल उन्मत्तो विषयाभिलाषी मत्तहस्तीव विन्ध्यं स्मरन् अचेतन इवातिष्ठत् । रोगी, अन्नद्वेषी, व्रतद्वेषी चित्तं विना व्रतं पालयति । यत:- हरिहरबंभपुरंदरसुरनरनिवहा वि विजिया जेण । सो मयणो लदरसो जेण जिउतं जिणं रामह ॥४॥ सब्बगहाणं पभवो महागहो सव्वदोसपायहिई। कामगहो दुरप्पा जैण भिभूयं जगं सव्वं ॥५॥ इतश्च कसिंश्चिदवसरे मातुरने निवेदितम्-'मातः ! न शक्नोम्यहं व्रतं पालयितुम् । यास्यामि निजे राज्ये । भजिष्यामि गाईस्थ्यम् । भुक्तभोगो वृद्धत्वे व्रतं गृहीष्ये। अधुना निजपितृव्यस्य पुण्डरीकस्य पाचे राज्यं करिष्यामि।' माता पाह-वत्स! तर्हि मम - प्रार्थितं कुरु- अशकोऽपि व्रतं कर्तुं मम प्रार्थनयाऽनया। तिष्ठ द्वादशवर्षाणि पश्चार्या यथोचितम् ॥६॥ प्रतिपच्चं तेन तन्मातुर्वचनम् , द्वादशवर्षान्त गुरुण्या वर्षाणि द्वादश स्थापितः। उपाध्यायेन वर्षाणि द्वादश स्थापितः। गुरुवाक्येन वर्षाणि द्वादश । एवमष्टचत्वारिंशद्वर्षप्रान्ते गुरुन् मुत्कलापयति । माता बजतः पुत्रस्य रत्नकम्बलं ददौ । स्वपितृव्यपुण्डरीकपार्वे १.A. and Z. read महासती for महासत्या. २. मयाणा for मययो. ३. कस्मिअवसरे for कस्मिंश्चिदवसरे A.and Z.
कथाको गच्छति । रजन्यां साकेतपुरे गतः। प्रातर्भूपालं भेटयियामीति रात्री देवकुले प्रेक्षणविलोकनाय खच्छन्दमुपविष्टः । तत्र बहवो भूपाल- प्रभूतयो लोकाः प्रेक्षणकं विलोकयन्तस्तिष्ठन्ति । महारसे प्रेक्षणकं भवति । रात्रीपहरत्रये व्यतीते नर्तिकी खिन्ना । मात्रोक्तम्-'वत्से ! स्तोकव्यतिकरे कथमझ मोटयसि ? मुष्ठु गीतं त्वया मुष्ठु नर्तितं सुष्ठु विन्दितम् । दीर्घरात्रमतिकम्य मा प्रमादीनिशात्यये ॥ ७॥' इमां गायां श्रुत्वा तपोधनो वैराग्यमार रखकम्बलं ददौ नर्तक्याः। राजकुमारेण सुवर्णकुण्डलं रतजटितं ददे । श्रीकान्ता नाम तत्रैव वास्तव्या श्री मौक्तिकहारं ददौ । हस्तिपकोऽङ्कुशं ददौ। जयसन्धिनामा मन्त्रीश्वरो नर्तक्याः सुवर्णकटको ददौ। पञ्चापि लक्षमूल्यानि । राशो मनसि विस्मयो बभूव । राजाऽनुचितदानहेतुं मुनिः पृष्टः । तपोधनः प्राह- 'यनाचीतं मनः स्थाने गुरुणा नापि तत्तया । सूर्यामेवं मिनत्त्येवं दीपिका भूगृहे तमः ॥८॥ राजन् ! एषा स्त्री मम गुरुणी सुगतिं ददाति, अतः कारणाद् रतकम्बलं दत्तम् ।' रामाश्रीकान्ता पृष्टा । सापि वक्ति-'राजन् ! मम मनसि इति चिन्ताऽभूत् यत् स्वभर्तारं विनाश्य अन्यं पति करि- प्यामि, ममाप्यस्या वाक्यात्प्रतिबोधः। राजा हस्तिपको दानकारणं पृष्टः । 'राजन् ! अहमन्यद् राज्यं गन्तुकामोगजेन्द्र प्रेरयित्वा रणाणे त्वां वैरिणां मध्ये नेण्यामि ।' ममेति चिन्ताऽभूत् । 'अमात्यस्य राजकुमारस्य चैको मन्त्रः। राजानं विनाश्य राज्यं गृहीतुकामौ प्रख्या वाक्येन प्रतिबुद्धौ।' आवश्यकसिद्धान्त उकम् - सुगु गाईयं सुटु वाईयं सुटु नचियं सामसुंदरि। अणुपालिय दीहराइंनो' सुमिणं ते मा पमायए ॥६॥ राजा सर्वेषामाशयान निशम्य सहर्षों बभूव । संसारासारतां विधायें राजा विशेषतः, तपोधनादेशनया सर्वेऽपि प्रतिबुद्धाः । राजा १. मि त्वेव for मिनत्त्येव A. २. मामसुंदर for सामसुन्दरि Z. ३. दीहराइंट tor दीहराइंभो 2. Y. A and Z.add प्रतिछां दो after विज्ञाय.
कथाकोशः कुमारं राज्ये विनिवेश्य मुनिपाचे व्रतं गृहीत्वा निरतीचारं चारित्रं पालयित्वा दिवमगमत् । यशोभद्रो मुनिरपि गुरुपावें गतः । स्वदु- कृतमालोच्य प्रतिक्रम्य पुनश्चारित्रं पालयित्वा केवलशानी बभूव । प्रान्ते समाधिमृत्युं विधाय शिवं जगाम । अंतः कारणात्- प्रस्तावे भणितं वाक्यं प्रस्तावे दानमङ्गिनाम् । प्रस्तावे वृष्टिरल्पापि भवेत्कोटिफलप्रदा ॥१०॥ इति प्रस्तावोक्तिविषये यशोभद्रकथानकम् ॥ महासतीमदनरेखाकथानकम् । शीलं प्रधानं न कुलं प्रधानं कुलेन किं शीलविवार्जितेन । एके न राज्ञी च कुलप्रसूताः स्वर्ग गताः शीलमुपैति धीरः ॥१॥ सीतया दुरपवादभीतया पावके खतनुराहुतिः कृता । पावकोऽपि जलतां जगाम यत् तत्र शीलमहिमा विजृम्भते ॥२॥ वहिर्वारि जलं स्थलं कमलिनीनालं भुजङ्गश्वरः पीयूषं गरलः खलश्च सरलः कण्ठीरवः फेरवः । किं वान्यद् विषमं समं तनुमतां यस्योर्जितैः स्फूर्जितैः तं शीलाद्भुतवेधसं स्फुरदुरुश्रीतेजसं सुस्तुमः ॥ ३॥ निजपतिमृतियोगे ज्येष्ठनिर्दिष्ट भोगे खचरजनितरङ्गे सम्भवन्मानभने । जगति जनितरेखा रूपलावण्यरेखा जयति मदनरेखा मानिनी दिव्यवेषा। इहैव जम्बूद्वीपे भरतक्षेत्रे अङ्गदेशे सुदर्शनपुरं नाम नगरम् । तत्र मणिरथो नाम राजा राज्यं करोति । युगबाहुनामा तस्य लघुभ्राता । युगबाहुपत्नी मदनरेखा अत्यन्तरूपपात्रम् परं । सा जिनधर्मरता सुशीला सुलक्षणा सौभाग्यवती। अन्यदा मणिरथेन राक्षा ज्येष्ठेन मदनरेखारूपमोहितमानसेन इति चिन्तितं यदेषा स्त्री सुखेन दुःखेन वा कृत्याकत्येन मया गृहीतव्या। अतः कारणादयं मणिरथो राजाऽस्या आवर्जनार्थ पुष्पताम्बूलादि वस्त्रालङ्करणादिकं वात्सल्यादर्पयति । सा मदनरेखापि निर्विकारा सती सर्वे गृहाति । अन्यदा राक्षा दूती प्रहिता । सापि गत्वा मदनरेखामेवं वदति-'भद्रे! असौ राजा तव गुणानुरको मन्मुखात् त्वामिदं वदति'- १. प्रकृतं या for अत: A. and Z. २.०जन. for जनि.A. ३. अवंती for 2. - कथाकोशः मां भरि प्रतिपद्य राज्यस्य खामिनी भव । जाताकूता ततो राशी जगादैवं सतां मनः॥ ५॥ अन्याखप्यभिलाषेण व्रजन्ति नरकं नराः। तद् राजन् ! कुरु सन्तोष मुच्च भोगकदाग्रहम्। दूती तस्येतिवाक्यानि राज्ञे तूर्ण न्यवेदयत् ॥ ६ ॥ राक्षा चिन्तितम्-'यावद्युगबाहुर्जीवति तावदेषा मम प्रिया न भवति तथा करिष्ये यथा भ्रातरमपि विनाश्यैनां प्रियामानयिष्ये।' अन्यदा मदनरखया चन्द्रमाः स्वप्ने दृष्टः। प्रभाते पत्युरने निवेदितम्। सोऽप्युवाच-देवि ! तव चन्द्रसमानः सौम्याकारः प्रसन्नवदनः पुत्रो भविष्यति । अथ तृतीये मासे मदनरेखाया गर्भप्रभावन देव- पूजार्थे दानं दातुं दोहदो बभूव । राक्षा युगबाहुना स दोहदः पूरितो वसन्तसमये । अन्यदा राजा युगबाहुर्मदनरेखया सह क्रीडाथै गतः । नागरिकजनवरीविलोकयन् युगबाहुः कदलीगृहं प्रविवेश। अथ रात्रौ पतितायां मणिरथो राजा दध्यौ। अधुना मदीयोऽवसरो यद् युगबाहुः स्वल्पपरिवारण वने निशायां सुष्वाप । ततो मणिरथो राजा खड्गं करे कृत्वा युगबाहुप्राहरिकान् पप्रच्छ-'भोः प्राहरिकाः! कुत्रास्ते मम भ्राता युगबाहुः ?' तैरुक्तम्-'खामिन् ! कदलीगृहे शेते। अत्र वने कोऽपि शत्रुर्मम भ्रातरं परिभविष्यतीति कारणाद् असन्तोषेणाहमत्रागत' इति अवाणो राजा कदलीगृहे विवेश। युग- बाहुरपि ज्येष्ठभ्रातरं राजानमागतमाकलय्य ससम्भ्रममुत्तस्थौ। राहोक्तम्-'वत्स! एहि पुरीयामः,अत्र वासो नोचितः। ततः कृत. प्रणामो युगबाहुः प्रस्थातुमारेभे । 'ज्येष्ठभ्राता मम विशेषतः प्रभुः। अनुलक्या अमी' इत्यचिन्तयत् । ततः पापधिया राक्षाऽपयशोभयमव- गाय्य युगबाहुभ्राता स्कन्धेऽसिना हतःअहो! अतंत्रमिदं मदनरेखायाः कृर्जितम् । युगबाहुं खड्गप्रहारेण हतं ज्ञात्वा धाविताः समीपवर्तिनो भटाः किमेतदिति जल्पन्तो राज्ञा मणिरथेनोक्ता:-'मत्प्रमादेन मम करात् खद्गो निपपात ।' ततो भटैश्चरितं शात्वा बलादपि मणिरथो १. राजास्तूर्ण न्यवेदयति for राशं तूर्ण न्यवेदयत् 2. राजा स्त्रूणं निवेदयेत् A. १. पतिरने for पत्युरप्रे A. and Z. ३. परं for पुरी A. and Z. ४. अचत• for अचत्र.2... कूलितम् for कूजितम् A.
খাজায় १५ राजा गृहे नीतः। युगबाहुपुत्रस्य चन्द्रयशसस्तत्स्वरूपं निवेदितम् । सोऽपि हाहारवं कुर्वन् वैद्यानादाय उद्याने जग्मिवान् , आत्मीयपितु. व्रणकर्मादिकमकारयत्। क्षणेनास्य स्थिता वाणी नेत्रयुग्मं निमीलितम् । अशं बभूव निश्चेष्टं पारडुरं रक्तनिर्गमात् ॥ ७॥ ज्ञात्वा मदनरेखा स्वभर्तुः प्राणान्तिकां दशाम् । तस्य कर्णान्तिके गत्वा जगादेति भूदुखरम् ॥८॥ मदनरेखा तु धाष्टर्यमालम्ब्य भर्तुरन्त्याराधनं कारयामास- 'अहो महानुभाव ! त्वमधुना सावधानो भव । इयं धीरवेला । खेदं मा कार्षीः । कर्मपरिणामो बलवान् । येन यत् पुरा कर्म विहितं तस्य तत्कर्म समायाति, परो निमित्तमात्रम् । पुण्यपाथेयं गृहाण । दुष्कृतं सर्वमपि निन्द । मित्रममित्रं खजनं परजनं क्षमयख । तिर्यक्त्वे सति तियश्चो नारकत्वे च नारकाः । अमरा अमरत्वे च मनुष्यत्वे च मानुषाः ॥ ६ ॥ ये त्वया दुःखे स्थापितास्तान् क्षमयस्व । जीवितं यौवनं लक्ष्मी रूपं प्रियसमागमः । बलं सर्वमिदं वात्या नर्तिताब्धितरगवत् ॥ १०॥ व्याधिजन्मजरामृत्युप्रस्तानां प्राणिनामिह । विना जिनोदितं धर्म शरणं कोऽपि नापरः ॥ ११॥ अन्यदिपुवधं तावदन्यद् धान्यधनादिकम् । बन्धवोऽन्येऽन्यश्च जीवो वृथा मुह्यति बालिशः॥ १२ ॥ वसारुधिरमांसास्थियकृद्विमूत्रपूरिते। वपुष्यशुचिनिलये मूर्छा कुर्वीत कः सुधीः ॥ १३ ॥ अर्हन्ताद्यान् शरणं प्रपद्यस्व।नमस्कारं स्मर । अष्टादशपापस्था- नानि व्युत्सृज । जिनधर्म स्मर।श्रीयुगादिप्रमुखान् जिनान् चिन्तय।' इत्थमाराधनां षोढां विधाय दयितं निजं मत्सरं त्याजितवती। ततः ऋन्दितुमारेमे दुःखी चन्द्रयशा भृशम् । दध्यौ मदनरेखापि मन्दभाग्या हतास्मि हा ॥ १४ ॥ १. कर्म is missing in A. २. मत्सरत्यार्जिता for मत्सरं त्याजित.A.and Z.
कथाकोशः 'घि मे रूपं यन्मयात्र दृष्टया गुरूणामपि विकारं याति मान- सम् । यनिमित्तं हतो येन निजभ्रातापि गृहीष्यते च मां तस्मान्मम स्थातुं न युज्यते । तद्गत्वा कचिदन्यत्र पारत्र्यं कार्यमाश्रये ॥१॥ अन्यथा पुत्रमप्येष मम पापो हनिष्यति।' मन्त्रयित्वेति सा पुत्रे शोकाते निरगात्ततः ॥ १६ ॥ निशीथे दिशि पूर्वस्यां गच्छन्त्या महाटवीं गता रात्रिः। एकाकिनी द्वितीयेऽहि प्राप चास्तं दिनेश्वरः । चक्रे वनफलैस्तत्र प्राणवृत्तिं जलं पपौ ॥ १७॥ प्रत्याख्यायाथ कासारं नक्कमध्वश्रमादिता। खेदच्छेदार्थमेकस्मिन् सुष्वाप कदलीगृहे ॥ १८ ॥ तत्र रजनी पतिता । नमस्कारप्रभावाद् व्याघ्रादयो जीवा दूरं गताः । अर्धरात्रे च कदलीगृहे सुषुवे पुत्रं सर्वलक्षणसम्पूर्णम् । प्रभातसमये तस्य पुत्रस्य करे युगबाहुनामाकितां मुद्रां प्रक्षिप्य रख- कम्बलेन तं पुत्रमाच्छाद्य चीवराणि प्रक्षालयितुं सरोवरे गता। तत्र यावत् सानं करोति तावजलगजेनाकाश उल्लालिता, अंथ नन्दीश्वर- द्वीपे गच्छता विद्याधरेणाकाशात्पतन्ती मदनरेखा राक्षी गृहीता। तेन वैताव्यपर्वतं प्रति नीता। राक्षी विद्याधरं प्राह-'भो महासत्त्व ! रात्रौ मम पुत्र उत्पन्नोऽस्ति, तं पुत्रं कदलीगृहे मुक्त्वा स्वानं कर्तुं चीवराणि प्रक्षालयितुं यावदहं सरोवर भागता तावजलगजेन शुण्डाग्रेण धृत्वाऽऽकाशे उन्नालिता पतन्ती त्वया गृहीता। स बाल: केनापि श्वापदेन हनिष्यते, अथवाऽऽहारं विना खयमेव विपत्स्यते । स बालोऽत्रानीयताम् , अथवा मां तत्र नय, प्रसादं कुरु ।' विद्याधरः प्राह-'यदि मां भर्तारं प्रतिपद्यसे ततोऽहं तवादेशकारी भवामि ।' राशी पाह-त्वं कः? तेन कथितम्-'वैताव्यपर्वते रत्नवहपुरे मणि- चुडो नाम विद्याधरः। तस्य पुत्रोऽहं मणिप्रभः। पिता मां राज्ये निवेश्य व्रतमाददे। साम्प्रतं स मुनिनन्दीश्वरद्वीपेऽस्ति, चैत्यानि वन्दितुं गतः। तं वीक्षितुं बजता मया त्वं दृष्टा । अपरं स तव पुत्रस्तुरङ्गापहतेन मिथिलापतेिना पनरथेन वने दृष्टः। गृहीत्वा स १. साकारं for कासारं A. २. अन्ध for अथ.
कथाकोशः पुत्रः पुष्पमालायाः स्वप्रियायाः समर्पितः। तया सुतवत्प्रतिपालितः सुखं तिष्ठति। प्रज्ञप्तीविद्यामुखात्सर्व परिक्षातम् । त्वं मम राज्यम- खुकुरु ।' मदनरेखया तच्छ्रुत्वा चिन्तितम्-'शीलरक्षार्थ किमुपायं करोमी ति।राझ्याऽऽत्ममनसि विमृश्य कथितम्-'प्रथमं मां नन्दीश्वर- यात्रां कारय, पश्चात्तव कथितं करिष्यामि ।' ततो मणिप्रभविद्याधर- स्तस्या वाक्येन परितुष्टस्तां नन्दीश्वरे नीत्वा शाश्वतचैत्यानि वन्दा- पयामास । तत्र मणिचूडमुनीश्वरं प्रणम्य मणिप्रभो मदनरेखा चोमो तस्याने उपविष्टौ । स मुनिझनेन मदनरेखावृत्तं शात्वा धर्मदेशनापूर्व मणिप्रभं स्वपुत्रम् अबोधयत् । मणिप्रभो मदनरेखां प्रति प्राह- 'अद्यप्रभृति त्वं मदीया भगिनी, तवाज्ञाकारी किङ्करोऽस्मि ।' अत्र मणिप्रभप्रतिबोधः। ततो मदनरेखया पुत्रोदन्तं मुनिः पृष्टः। मुनिःप्राह -'पूर्व द्वौ राजपुत्रौ अभूताम् । तौ मृत्वा देवौ बभूवतुः। तयोर्मध्या- देकश्च्युत्वा राजा पद्मरथो बभूव । द्वितीयस्तव सुतोऽभवत्। ततस्तेन पद्मरथेनाश्वापहृतेन तव पुत्र आत्मप्रियायाः पुष्पमालायाः समर्पितः पूर्वभवनहात् । पद्मरथेन राक्षा मिथिलायां महान् प्रवेशमहोत्सवः कारितः।' मुनीश्वर एवं वदति कोऽपि विमानाधिरूढो महधिको देवो देवाङ्गनानृत्यगीतकौतुकानन्दितचित्तः प्रवरभूषणो मदनरेखां त्रि: प्रदक्षिणीकृत्य प्रणम्य पश्चान्मुनि नत्वा पुरोनिषण्णः। तदसम्बद्धं वीक्ष्य मणिप्रभस्तमुवाच-'देवानामपि यद्येषा नीतिस्तत्कस्याप्रतो प्रमः ? चतुनिधरं चारुचारित्रं मुनिपुङ्गवं हित्वा त्वयास्त्रीमात्रस्य कथं पूर्वे प्रणामः कृतः ?' अथ यावद्देवो वदति तावन्मुनिर्जगौ-'एवं मा ब्रहि, अयं देवो नोपालम्भयोग्यः , यतो मणिरथो राजा भ्रातरं युगबाहुं जघान अस्यां मदनरेखायां लुब्धः। अनया मृत्युकाले कृताराधनो युगबाहुः पञ्चमकल्पे देवो बभूव । अतः कारणादस्य देवस्य मदनरेखाधर्माचार्यस्य स्थाने यो येन शुद्धधर्मे स्थाप्यते स तस्य गुरु', इत्युक्तेऽनन्तरं विद्याधरः सुरं क्षमयामास । अथ सुरो राक्षी माह-'भद्रे तवेष्टं किं करोमि।' राशी वदति-मम मोक्ष एव प्रिया, 9. The portion beginning with arrat and ending with स्वं is missing in Z. २. चारु is missing in.z.. .
२५ तथापि मिथिलायां मां शीलं पय । तब पुत्रमुखं दृष्ट्वा धर्मकर्मणि उपमं करिष्ये। युगवा(सुरेख यही मिथिलायां नीता यत्र श्रीमलि- नाथस्य त्रीणि कल्याणकानि शानानि जन्मदीक्षाकेवलशानादीनि । अतः कारणात्प्रथमं तीर्थबुद्धयाऽर्हचैत्येषु द्वावपि गतौ । अथ तत्रैव प्रत्यासन्ने उपाश्रये साध्वी/दय द्वावपि प्रणेमतुः। ताभिः साध्वी भिस्तयोरप्रेधर्मः कथितःदेशनामान्ते देवेनोक्तम्-'आगच्छ मदन- रेखे ! यथा राजकुले गत्वा पुवं दर्शयामि ।' मदनरेखा वदति-भवहे- तुना बेहेन किं प्रयोजनम् । एतासामेव साध्वीनां चरणौ शरणं मम' इत्युक्त युगबाहुदेवोऽपि साध्वी प्रणम्य दिवं गतः। मदनरेखा दीक्षा जग्राह । सुव्रतानाम जातम् । दुष्करं तपःकुरुते । अथ तस्य बालकस्य प्रभावेन राक्षः परथस्य सर्वेऽपि राजानो नमिताः। अथ तस्य पुत्रस्य 'नमिः' इति नाम कृतम् । क्रमेण धात्रीमिाल्यमानो ववृधे । अन्यदा यौवने पारथेनराशा नमिरष्टोत्तरसहस्रकन्यकानां पाणिग्रहणं कारितः। कियद्भिर्दिनैस्तं राज्ये निवेश्यात्मनो बलात् क्षीणकर्मा शिवं जगाम । नमितभूपालो नमी राज्यं करोति । इतश्च यस्यां रात्रौ मणिरथो राजा सोदरं युगबाहुमवधीत् तस्यामेव रात्रौ मणिरथो राजा सण इष्टः । मृत्वा चतुर्थे नरके गतः । ततश्चन्द्रयशा युगबाहु- पुत्रो मन्त्रिभी राज्ये स्थापितः । चन्द्रयशा राज्यं करोति । अन्यदा नमिराक्षो भद्रजाती चतुर्दन्ती धवलः पट्टहस्ती स्तम्भमुन्मूल्य विन्ध्याटवीं प्रति चचाल । स हस्ती मार्गेण गच्छन् सुदर्शनपुरासन- लोकैदृष्टः । विक्षतं चन्द्रयशसो राक्षः। राक्षा वशीकृत्यानीतः । स हस्ती आनीयालानस्तम्भे बद्धः। नमिराक्षा तज्ज्ञात्वा सुदर्शनपुरे चन्द्रयशसो दूतः प्रहितः। दूतेन चन्द्रयशसो विक्षप्तम् । दूतस्याने राशा कथितम्- 'न श्रीः कुलकमायाता शासने लिखितेऽपि वा। खोनाक्रम्य भुजीत वीरभोग्या वसुन्धरा' ॥१६॥ इत्युका चन्द्रयशसा राधा दूतो विसृष्टः । सोऽपि गत्वा नमि- योऽने सर्व कथयामास । कुपितो नमिराजा सर्वबलेन सत्रा सुदर्शनपुरं प्रातः । चन्द्रयशा राजापि तस्य सम्मुखं चचाल, परं शकनार्यमाणोऽपि चन्दयश मन्त्रिवचनानगरप्रतोलीद्वाराणि कि- कथाकोशः घाय स्थितः। नमिर्नगरं वेष्टवामास । चन्द्रयशा नगरमध्ये स्थितः। इति पापार सुव्रता विज्ञाय तैयोईयोर्योधार्थे युद्धनिवारणार्थ तत्रागतो नमिः सङ्कामभूमौ तपोधनां वीक्ष्याभ्युत्थानं चके । राजा भूमावुपविष्टः । सुवता तपोधना तस्य देशनां चके-'राजन् ! कुतोऽयं समरसंरम्भः । असारा राज्यश्रीः। भोगा 'निर्वाहदारुणाः । तत् त्वं सङ्कामानिवर्तस्व, सामं मा कुरु । अन्यश्च निजसहोदरेण सह का सङ्कामः ?' नमी राजा वदति-'मम कः सहोदरः ?' सुव्रता वदति-'चन्द्रयशा राजा तव सः। तस्य प्रत्ययार्थे मुद्रारनकम्बलं च दर्शयामास । तथापि सामान निवर्तते । ततः सुव्रता चन्द्रयशसः पाश्चें गता । तेनोपलक्षिता-'मम माता महासती च । महाविनयेन नमस्कृता, भक्याऽऽसनं दत्तम् । अन्तःपुरीजन: सर्वोऽपि तां ननाम। राजा प्राह-'आर्ये ! किमेतदुप्रतपःप्रारब्धम् ?' सुव्रता राक्षा इति पृष्टा निजं वृत्तान्तं कथयामास । राज्ञोक्तम्-'अनाधुना स मम लघु- सहोदरः कुत्रास्ति ? आर्यया गदितम्-'बाहो, येन त्वं रोधितोऽसि।' ततो हर्षानिर्गतो बाहो राजा चन्द्रयशाः । नमी राजापि निजं वृद्ध- बान्धवं ज्ञात्वा हृष्टो बभूव । द्वावपि बान्धवौ सम्मुखमायातौ । ज्येष्ठ- बान्धवेनोत्थाय नमिः सस्वजे । वृषभातोचिवान् । 'वत्स ! पितुर्मरणं विलोक्य मम राज्यद्वेषः, परं राज्यघराभावादियत्कालं विलम्बितः। अधुना त्वंराज्यमलनुरु, अहंदीक्षा ग्रहीष्यामि इति वाक्यैनमी राजानं प्रतिबोध्य राज्येऽभ्यषिश्चत् । चन्द्रयशा राजा दीक्षां जग्राह । नमी राजा सूर्य इव तपति । अन्यदा पाएमासिको दाहज्वरो नमेरुत्पन्नः । औषधमन्त्रयन्त्रादिभिरुपायैः सहस्रैरपि नोपशाम्यति । ततो देव्यः स्वयं तदर्थ चन्दनं धर्षन्ति, तदाहुवलयश्रेणिकाणेनमेमहत्यरति- जायते । ततस्तस्य नमे राम आदेशात् सर्वा अपि राज्यः कङ्कणान्यु- दवारयन् , क्रमेण यावदेकैककर माताय करे दधुः। अथापृच्छन्नृपो 'देव्यः 1 किन घर्षन्ति चन्दनम् ! यष श्रूयते शब्द' खतो मन्त्रिजनोऽवदत् ॥ २०॥ १. इदं for इति Z. १. पापाकारं for पापाकरं A. ३. तद् द्वौ for anleate A and B. r, farfarce for farate Z.
२० कथाकोशः 'देव्यः सर्वा अपि स्वामिन् ! धर्षयन्ति पुनः पुनः । किन्स्वेकवलयत्वेन ततो न ज्ञायते ध्वनिः ॥२१॥ ततः प्रतिबोधो बभूव । यथा बहुभिः कङ्कणैर्दुःखं जातम्, अल्पैरल्पतरं सुखं जातम् । तथाऽतो दृष्टान्तादेकाकित्वे महासुखम् । ततोऽसौ यदि मे दाहः प्रशाम्यति कयञ्चन । सर्वस परित्यज्य तदैकाकी भवाम्यहम् ॥ २२ ॥ इति चिन्तयन् नमी राजा सुप्तः। खमे श्वेतगजाधिरूढमात्मानं पश्यति । अथ प्रभाते शंखनूपुररवेण प्रतिबुद्धो राजा दध्यो । अब प्रधानः खमो मया ददृशे। तस्यैवं चिन्तयतो जातिस्मरणं बभूव । यदहं पूर्वभवे चारित्रं पातयित्वा प्राणतकल्पे देवोऽभूवं ततश्च्युत्वा नमिर्जातः। राजा निजपुत्रं राज्ये संस्थाप्य दीक्षां गृहीतवान् । शासन- देवतया यतिवेषः समर्पितः, नगाँ निस्सृतः, इन्द्रेण परीक्षा कृता । विप्रवेषं धृत्वा तत्र समागतः। राक्षः पुरो भूत्वैवं वदति-'राजन् ! जीवदयां कुरु, एषा पुरी त्वां विना निस्स्वामिका क्रन्दति । तदि. दमयुक्तम् ।' मुनिराह-'लोक: स्वस्वकर्मकृतं फलं प्राप्नोति ततोऽह- मपि स्वकार्य कुर्वे। अन्यचिन्तया कि प्रयोजनम् ?' विप्रेणोक्तम्- 'मिथिला दह्यते पुरी।' मुनियह-'मिथिलायां दद्यमानायां न मे दधति किञ्चन ।' विप्र आह-'नगर्यां प्राकारं कारय।' मुनिनोकम्- 'संयमपुरे उपशमप्राकारो विहितो नययन्त्रसंयुतः' इत्यादि बहुविधं भणितोऽपियदेषनचलति तदा प्रत्यक्षीभूय नमि नत्वेन्द्र इदमवदत्- 'तचैव लाध्यते गोत्रं सत्त्वं यस्यासमं मुनः । यश्च त्वं मोहपढेन न कोशमिव लप्यस' ॥ २३॥ इत्येवं तं हरिं स्तुत्वा वन्दित्वा त्रिप्रदक्षिणमुत्पपात नभसि देवो दीप्यमानमणिकुण्डलः। एवं व्रतं परिपाल्य नमिः शिवं जगाम । मदनरेखापि चारित्रं शीलं परिपाल्य त्रिदिवं जगाम । इति शीलवते मदनरेखाकथानकम् ॥ १. The portion 'अल्परल्पतरं सुखं जातम्' is missing in A. १. म for सत्वं 2.३.नमे for नभसि A and Z.
कथाकोशः नागदत्तकथानकम् । तपः सर्वाक्षसारणवशीकरणवागुरा । कषायतापमृद्धीका कर्माजीर्णहरीतकी ॥१॥ अत्र तपोविषये दृष्टान्तः। अत्रैवभरते कुसुमपुरं नाम नगरम्। तत्र नागचन्द्र इति नाम श्रेष्ठी वसति । तस्य नागदत्तनामा पुत्र: विनीतः सततोत्साही मातृपितृप्रियः सुधीः । पुण्यवानाकृतिदक्षः सुतो भाग्येन जायते ॥२॥ अन्यदा तेन नागदत्तेन जिनभुवने केनापि धर्मपारेण कारिता महापूजा जिनस्य दृष्टाऽष्टप्रकारा । पुत्रेणोक्तम्-'तात ! अहमपि निजं धनं निजभुजाभ्यामुपाज्येग्विधां पूजां करिष्यामि । यतः- पियविढत्तई डिभडै वुगु वुगु कुकु न करेय । सैइ विट विणासै दिलसण विरला जगणि जणेइ ॥३॥ इति विचार्य देशान्तरं गन्तुकामो हट्टे उपविष्टः । अत्रान्तर एको ब्राह्मणः पञ्चशतद्रम्ममूल्येन श्लोकमकं विक्रीणाति- अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि ॥ ४ ॥ नागदत्तः पञ्चशतद्रम्मैरिमं श्लोकमवाग्रहीत् । पिता कोपे चटितः। ईर्ष्यापरेणात्यर्थ तर्जितः, प्रवहणपश्चशतैः सह समुद्रया- प्रायां चचाल । यावता कियन्ति दिनानि यावत् समुद्रमध्ये प्रवहणानि प्रयान्ति तावद् भुजगवलयपर्वतकुम्भिकायां पतितानि । अग्रे तत्रैव कुम्भिकायां प्रवहणमेकं पतितमस्ति यावन्नागदत्तः प्रवहणे गतस्ता- वत्तस्मिन् प्रवहणे एको नरो मर्तुकामो नागदत्तेनानशनपूर्व नमस्कार- दाने नियमितः। अथ तत्र शुकशतं सुवर्णद्वीपवासिँ परार्थ सुन्दरनृपस्यादेशेन वसतिं । यः कोऽपि कष्ट पतितो भवति तं राहोऽप्रे विज्ञपयति । राजा ततः कष्टभजनोपायं चिन्तयति । अथै- १. तप for तपः Z. २. डिभडइ for डिंभडै Z. ३. सइ for मैं 2. ४. विलसणी for बिलसणा Z. ५. कुम्भका० for कुम्भिका... शत: for शतं A and z. ७..वासिनः for वासिAand Z. ८.परार्थ for परार्थ A. 1. वसन्ति for वसति A and Z. १०. विज्ञपयन्ति for विज्ञपयति A andZ. ।
कथाः कदा नागदत्तेन शुकपादे चोठी बदा। राजा चीठीवृत्तान्तं विशय भोजनं न करोति । राक्षा नगरमध्ये पटहो दापितः। तत्र वास्तव्येन केनापि निर्यामकेने पटहाछिवित्त:-'प्रहमुपायेन समुद्रमध्ये प्रवहणकं भुजगवलयपर्वतकुम्भिकामध्यानिष्कासयिष्यामि । राक्षा सुवर्णलक्ष- मूल्यं प्रदत्तम् । प्रवहणिकोऽपि प्रवहणे चटित्वा गतस्तत्र भुजग- वलयपर्वतद्वारे। नागदत्तस्याने कथितम्-'यदि भवतां मध्यात्कोऽपि साहसं कुरुते तदा प्रवहणानि निस्सरन्ति ।' नागदत्तेन वृद्धनिर्याम- कस्याने कथितम्-'कि साहसम् ?' प्रवहणकेनोक्तम्-'अस्य भुजङ्ग वलयस्य पर्वतस्योपरि इन्द्रनीलमणिमयं श्रीनेमीश्वरविम्ब मणिमय- प्रासादे विद्यते। तस्मिन् प्रासादे महत्प्रमाणा ढकाः सन्ति । यः कोऽप्यमुं वटवृक्षमवलम्ब्य पर्वते गत्वा ढका वादयति ततस्तासां नादभीताः कोटिसंख्या भारुण्डपक्षिण उत्पतन्ति । तेषां पक्षवातेन प्रवहणानि मार्गे चलिष्यन्ति इत्युक्ते नागदत्तः प्राह-'यः कोऽपि तत्र याति तस्याहं सुवर्णलक्षमकं ददामि । मृत्युभयात् तत्र [कोपि] न याति । नागदत्तो लोकोपकारं विचिन्त्य साहसकैवीरो वटशाखा- मवलम्ब्य स्वयमेव तत्र जगाम । श्रीनमीश्वरप्रासादे गत्वा श्रीनेमी- श्वरं प्रणम्य ढक्का वादिता। तासां नादेन भारुण्डपक्षिण उत्पतिताः । तेषां वातेन प्रवहणानि मार्गे लग्नानि । तत्र नागदत्तेन स्वयं सामा- विकमादायाष्टाह्निकातपःप्रत्याख्यातम् । अत्रान्तरे चारणमुनिरुपागतो महामांसमक्षिप्रतिबोधनार्थम् । नागदत्तो मुनि महामत्या मखिपत्योचिवान्-'भगवन् ! मेऽनशनं दीयताम् ।' मुनिरुवाच- अद्यापि भवतो भोगफलं कर्म विद्यते। विद्याप प्रतियोध्य महा- मांसनिषेधं विधाय मुनिराकाश उत्पपात । विद्याधरेण निजपुत्री नागदत्तस्य दत्ता। नागदत्तः पाणिग्रहणं चकार विद्याधरेण नाग- पचाय विधामन्त्रौषधीद्रव्यसुवर्णरमादिकं यथेच्छ दत्वा विमान रचयित्वा तस्मिन् विमाने खयं नागदचमुपवेश्य निजगृहे मुख्य। १. न is missing in 2. २. नामिकेन for निर्यामकेन Z. १. निकासविध्यामि for निष्कासयिष्यामि Z. ४. प्रमहणनोकम् is supplied by the Editor. ५. पत्रात for पर्वते Z. ६. वादवामाघ for वादपति A and 2. ..Supplied by the Editor.
कथाकोशः निजमावृपित्रोमिलितो नागदत्तः । प्रवहणन्यागतानि । वर्धापनक बभूव । नामदचेन जिनप्रासादः कारितः। तत्र जिनप्रतिमा स्थापिता। खयंकारितप्रासादे त्रिवेलां याति । तत्र जिनबिम्बे पूजां रचयति । पुण्यं कुरुते। इति अष्टाहिकातपोविषये नागदत्तकथानकम ॥ सनत्कुमारपेः कथानकम् । इहैव भरते कुरुदेशे हस्तिनागपुरं नाम नगरम् । तत्राश्वसेनो नाम राजा । सहदेवी नाम तत्पत्नी । अन्यदाचतुर्दशस्वमसूचितोऽतीव रूपवान् सनत्कुमारनामा पुत्रोऽभूत्।तस्य सनत्कुमारस्य सूरराजसुतो महेन्द्रसिंहनामा राजपुत्रो महामित्रं बभूव । सनत्कुमारः क्रमेण सकलाः कला: पाठितः । श्रन्यदा यौवनारम्भे वसन्तोत्सवे मित्रेण सह क्रीडाथै सनत्कुमारो वने गतः। तत्रोत्सवे कौतुकानि विलोक- यति । अत्रान्तरे केनाप्यश्वपतिना कुमाराय प्रधानोऽश्व उपढौकितः। कुमारस्तस्मिस्तुरगेऽधिरूढः । तेन तुरगेणापहृत्य दूरं नीतो राज- कुमारः। राजा कुमारगवेषणाय चलितः । विलोकितोऽपि सनत्कुमारो न लब्धः पित्रा । ततोऽश्वसेनं निवार्य महेन्द्रसिंहो मित्रदर्शनाय स्वयमेव चचाल । एकं वर्षे महाटव्यां बभ्राम । अथैकदा सारसध्वनि भुत्वा कमलगन्धमाघ्राय मधुरध्वनि शृण्वन् यावदने याति तावत् सरोवर एको राष्टः।तत्र सरोवरासन्ने कदलीगृहे स्त्रीवृन्दैरनुगम्यमानं सनत्कुमारं क्रीडन्तं ददर्श। बन्दीमुखादेकं स्तुतिश्लोकं पठ्यमानम- शृणोत्- कुरुदेशैक्यमाणिक्य ! अश्वसेननृपाज ! श्रीमत्सनत्कुमार ! त्वं जय त्रैलोक्यविश्रुत ! ॥१॥ इति पाठवणेन महेन्द्रसिंहन विमृष्टम्-निश्चितं सनत्कुमा- रोऽ तिष्ठति । यावदने विलोकयति तावद् दृष्टः कुमारः। महेन्द्र- सिंहेन प्रणामो विहितः। मिलितः कुमारस्य अत्र महाहर्षः। 'भक्त्या महेन्द्रसिंहो मोजितः । कुमारण पृष्टम्-'मम पितरौ कथं वर्तेते ?' 1. अग्रे याति तावत् is missing in A. २. कुमारः or कुमारण सह is suggested for कुमारस्य.
कथाकोशः मित्रेणोक्तम्-'महता दुःखेन । परं ममान प्रात्मीयं चरित्रं कथय ।' कुमारेणोक्तम्-'प्रायाति बकुलमती नाम मम प्रिया विद्याधरी। प्रतिविद्याप्रभावाद् वृत्तान्तं शात्वा सर्व मम चरित्रं तवाग्रे कथयि- प्यति। एवं निगद्य कुमारः सुप्तः। बकुलमती पाह-शृणु महेन्द्रसिंह! यदा कुमारोऽपहृतोऽश्वेन महाटव्यां पातितः, ततो द्वितीयदिनेऽपि तुरङ्गमस्तथैव याति । तृतीयदिवसे नुघातृषाक्रान्तो जितां कृष्ठा तुरङ्गमः पतितः । तुरङ्गमादुत्तीर्णः कुमारः। तुरङ्गमो मृतः। सनत्कु- मारोऽपि जलाप्राप्त्या भ्रान्ताक्षोऽचेतनो भूमौ पतितः । तत्र वनस्थि- तेनैकेन यक्षेण जलैः सिक्तः सचेतनो जातः । कुमारेण लब्धचैतन्ये. नोक्तम्-'यक्ष! एवंविधं शीतलं जलंक प्रवर्तते ?' यक्षणोक्तम्- 'मानससरोवरे वर्तते।' कुमारः प्राह-'यदि तत्र स्नानं करोमि ततः शरीरतापो याति ।' यक्षेण तत्र मानससरोवरे नीतः। तत्र स्वानं कृतम् । जलं पीत्वा यावत्सरोवरपाल्यामुपविष्टः कुमारस्तावत्पूर्वभव- वैरिणाऽसितयक्षेण दृष्टः। कुमारयक्षयोयुद्धं बभूव । अत्रान्तरे महेन्द्र सिंहेन पृष्टा-'तेन यक्षेण सह कुमारस्य किं वैरकारणम् ?' बकुलमती प्राह-'तर्हि श्रूयतां वैरकारणम्-पूर्वभवे श्रीकाश्चनपुरे विक्रमयशो नाम नृपः। तस्य पञ्चशतानि स्त्रीणां सन्ति । तत्रैव नगरे नागदत्तो नाम व्यवहारी। तस्य भार्या विष्णुश्रीरत्यन्तरूपवती। अन्यदा राज- वाटिकायां बजता विक्रमयशसा राक्षा दृष्टा । तस्या रूपमोहितचित्तेन सा गृहीत्वा निजेऽन्तःपुरे क्षिप्ता । नागदत्तस्तस्या वियोगाद् दुःखेन तिष्ठति । राजा पूर्णमनोरथो दिनान्यतिकामयति । अन्यदा मात्सर्यात् शेषसपत्नीराक्षीभिः कार्मणप्रयोगेण विष्णुश्रीफ्पादिता । राजाऽतीव तुःखी बभूव । तस्याः संस्कारं कर्तुं न ददाति । प्रधान राक्षः प्रच्छन्नं सा विष्णुश्रीबहिस्त्यका । राजाऽनादिकानामभिग्रहं कृत्वा स्थितः। प्रधान राक्षोऽभिप्रहं शात्वा तृतीयदिवसे नगरोपवने गत्वा विष्णुश्री- दर्शिता । दुर्गन्धं कलेवरं वीक्ष्य वैराग्येण राक्षा चारित्रं गृहीतम् । तपस्तप्त्वा तृतीयदेवलोके गतः । ततः सम्पूर्ण आयुषि च्युत्वा रखपुरे नगरे जिनवर्मा नाम वणिक् बभूव । इतश्च नागदत्तः प्रियाविरहार्दितो मृत्वा सिंहपुरेऽग्निशर्मा विजो जातः । कियति काले १. कर्मणा for कार्मण A.
कथाकोशः गते सत्यनिशर्मा वित्रा त्रिदण्डिव्रतं जग्राह । तपः कुर्वाणोऽन्यदा राजरहे नगरे गतः । तत्र नरवाहनेन राज्ञा पाराय निमन्त्रितः। तदा जिनवर्मा वणिरतत्रैवागतस्तेन त्रिदण्डिना दृष्टः ।पूर्वभववैरं स्मृतम्। राजोऽने इदं वचनमवदत्-'हे महाराज ! यद्यस्य श्रेष्ठिनः पृष्ठे तान- पाश्यां क्षीरानं कृत्वा पारणं करोमि, अन्यथा न, राहातत् कारितम्। मेष्ठिना पृष्ठत्वम् उत्पतिता । श्रेष्ठिना पूर्वकर्मफलं सोढम् । चैत्यपूजां विधाय तुझपर्वतशिखरेऽनशनेनैकं मासं स्थित्वा कायोत्सर्गाराधनया मृतः सौधर्मेन्द्रो जातः । त्रिदण्डी मृत्वा इन्द्रस्य वाहनमैपवणो बभूव । ततश्व्युत्वा तिर्यग् जातिषु भ्रान्त्वाऽज्ञानतपसाऽसिताक्षयको जो । इन्द्रोऽपि च्युत्वा हस्तिनागपुरे सनत्कुमारश्चक्री बभूव । एतद् वैरकारणं जानीहि । ततो यक्षकुमाराभ्यां महायुद्धं कृतम् । लब्ध- लक्ष्येण कुमारेण यक्षो मुष्टिना हतः, देवत्वान मृतः, परं नष्टः। विद्याधरैः कुमारोपरि पुष्पवृष्टिः कृता । सनत्कुमारो यावदने चलति तावदष्टौ भावेगविद्याधरसुता दृष्टास्तेन । भानुवेगेन दत्ताः, कुमारण परिणीताः। विवाहानन्तरमाबद्धकङ्कणः सुप्तः । किश्चिजागरूकस्तावत् करुणाखरं श्रुत्वा यावदने याति तावद् रनङ्गगिरावेकं भुवनं इष्टम् । स्त्रीकरुणाखरं ऋन्दितमाकर्ण्य तत्र गतो विद्याधरान् बलेन निर्जित्य सुनन्दा श्रीरत्नं परिणीय तस्याः खसारं च सन्ध्यायां परिणिन्ये । वज्रवेगविद्याधरो जितः। कन्याशतं परिणीतम् । इतन सङ्गामकाले चक्रं समुत्पन्नम् । यावद् बकुलमती एवं जल्पते तावत्स- नत्कुमारस्य निदान्तो जातः। ततो महता परिवारेण वैताढये गतः। ततो मित्रार्थितो हस्तिनागपुरं ययौ। अत्र प्रवेशविस्तरः। मातापित्रो- मिलितः । नव निधानान्युत्पन्नानि । भरतक्षेत्रस्य पट्खण्डसाधनं कृतम् । अत्रान्तरे सौधर्मेन्द्रसभायोमीशानदेवलोकादागतः सङ्गमकः। तेजसा सभा उद्योतिता । देवैः पृष्टम्-'अहो ! अस्य देवस्य सर्वेशी प्रभाऽन्यस्य कस्यापि देवी विद्यते?' इन्द्रेणोकम्-'हस्तिनागपुरनगरे मनुष्यरूपस्य सनत्कुमारस्य विद्यते प्रभा ।' ततः प्रचलितो द्वौ देवी १. त्रिदण्डनं for त्रिदण्डिना Z. २. मान• for भानु.2.३. सभा- या ईशान• far समायामीशान• 2. ४. The portion beginning with wexit and ending with grace is missing in Z, । - .. कथाकोशः परीक्षार्थे जरद्विजरूपेण चक्रवर्तिनमुपागतौ । पृष्टौ चक्रवर्तिना- 'युवां कौ? कुत इहागमनम्?" तावूचतुः-भवदीयरूपविलोकनार्थम्।' सनत्कुमारचक्रवर्तिनोक्तम्-'अधुना तैलाभ्यङ्गितदेहे रूपं नास्ति । सभावसर प्रागन्तव्यम् ।' गतौ देवी, सानं कृत्वा सिंहासनोपविष्टे चक्रवर्तिनि समागतौ । रूपं विलोक्य कृष्णवदनौ जातौ। चक्रवर्तिना पृष्टम्-'किमिदम् ? कृष्णवदनौ युवाम् ?' तावूचतुः-'रूपभ्रंशो दृश्यते।' चक्रवर्तिरुचे-'कथं जानीतः१ तावूचतुः-देवत्वेन । ततो देवौ प्रत्यक्षीभ्य तं प्रशंस्य स्वस्थानं गतौ। राज्ञा वैराग्यपरेण विमृष्टम् - 'रूपयौवनादिकाः पदार्थाः क्षणविनश्वराः। ततः किमनेन पापहेतुना राज्येन इति विचार्य विनयन्धरगुरोः पार्श्वे दीक्षाऽङ्गीकृता । गीतार्थः सन् एकल्लविहारप्रतिमया विजहार । कृतषष्ठाटमादितपोगोचरचर्यया परिभ्रमन् एकदा चीनककूरमजातकं लब्धवान् । तेन कदर्याहारेण सप्त व्याघयः सखाता:- शुष्ककच्छुवरः श्वासः कासश्चान्नारुचिस्तथा । अक्षिदुःख हृदो दुःखं सप्तैतेऽत्यन्तदारुणाः ॥२॥ सप्तवर्षशतानि सप्तरोगदुःखं सेहे राजर्षिः, व्याधिप्रतीकारं न करोति । इन्द्रेण सभासमक्ष प्रशंसितः । द्वौ देवौ परीक्षणार्थ वैद्यरूपं विधायागतौ मुनिसमीपे । राजर्षिर्वन्दितः । कथितञ्च-'शरीरचिकि- त्सकावावाम् ।' मुनिनोक्तम्-'अहं बाह्यरोगाणां प्रतीकारंन कारयामि किन्त्वन्तरङ्गरोगाणाम् । वैद्यौ कथयेते-तद्वयं न जानीमः ।। मुनिनोक्तम्-'एतत्प्रतीकारमहमपि न जानामि ।' एकां गलितामलि लेष्मणा सह विलिप्य पुनर्नवीकृतवान् । प्रशंसां कृत्वा देवौ स्वस्थान गतौ । एवंविघं तपः सम्पूर्ण विधाय राजर्षिस्तृतीयदेवलोके गतः ॥ इति तपोविषये राजर्षिसनत्कुमारकथा ॥ भावनाविषये अमरचन्द्रकथानकम् । भावना सकललोकपावना सम्भवेद्भवविनाशकारिता । भावना नाम(सुमतिप्रिया सर्वपापनिचयक्षयङ्करी ॥१॥ १. तया for तपो Z. २. न is missing in Z. ३. Z. adds लापवर्षायुप्रयाल after राजर्षि, ४. भावि for भाव. Z. ५. One syllable is too short in this pada.
२७ -- कथाकोशः भावनासहशी दूती न भूता न भविष्यति । या करोत्यमरस्त्रीणां मानुषैः सह सड़मम् ॥२॥ अत्रैव भरतक्षेत्रे रत्नाकरं नाम नगरम् । तत्र सुरसुन्दरो नाम राजा न्यायेन जनं पालयति । छत्रेषु दण्डश्विकरेषु बन्धः सारीषु मारिश्रवणं जनानाम् । हारेषु च छिद्रविलोकनानि यस्मिन् विवाहे करपीडनानि ॥३॥ इत्थं नीतिवर्णनम् । तस्य विलासवती नाम राशी । महाखान- संसूचितः अमरचन्द्रनामा कुमारः, षोडशवर्षीयो द्विसप्ततिकला- संयुक्तः । अन्यदा अमरचन्द्रकुमारो मध्यरात्रौ पल्यङ्के सुप्तो विलाप- करुणखरं करोति-'अस्ति कोऽपि क्षत्रियकुलसम्भवो महावीर्य- सम्पूर्णो धात्र्याम् ? किं निर्वीरा धात्री ? एवमपि विलापं श्रुत्वा न करोति यो मे उद्धारम् ?' अमरचन्द्रकुमारोपि प्रचलायां निद्रायां प्रचलायमानः शब्दमाकर्ण्य क्षात्रभावात्खङ्गं करे गृहीत्वा किरणं दत्त्वा दुर्ग समुल्लङ्घय वनान्तरं प्राप । यावच्छब्दानुसारेणाप्रतो याति तावत् किं पश्यति-एकः पुरुषः स्त्रियं वेणीदण्डे धृत्वा खड्गमाकृष्य भाययन्त्रस्ति । कुमारेण हाकितः पुरुषः-रेरे दुराचार ! दुष्ट ! पापिष्ठ! ममाग्रे तिष्ठ । कयास्यसि मयि समागते इमां स्त्रियं मारयन् ? अबलां स्त्रियं मुश्च । मया समं कुरु सङ्ग्रामम् ।' विद्याधरः प्राह-हे कुमार ! बाल ! धवल ! सुकुमार! दुग्धभृत- वदन ! मया सह साहसं मा कुरु । अत्र मोदका न लभ्यन्ते । ब्रज पश्चात् । अतीव साहसिकोऽसि।' कुमारः साटोपं प्राह - रेरे दुष्ट! पापिष्ठ ! क यास्यसि खेचराधम? यावदित्थं वीराक्यविद्याधर आच्छोटयति तावदकरसादुद्योतो जातः । उद्योतभयानष्टो विद्याधरः। अमरचन्द्रकुमारेणोक्तम्-'हे अबले ! का त्वम् ?' तयोक्तम्-'वैता- व्यदक्षिणश्रेण्यां गगनवल्लभं नाम पुरम् । तत्र पवनगति म विद्या: धरः, तस्य पुत्री चित्रलेखा । अहमन्यदा गवाक्षस्था विद्याधरवासवे- नापहता । तेनात्रानीता । तावत् त्वया रक्षिता । अयं किरणावलि- म मम भर्ता भविष्यति । तावत् किरणावलिना चित्रलेखा पृष्टा- 'भद्रे ! कोऽयं पुमान् !' सा प्राह-'अनेन विद्याधरपार्थादहं रक्षिता।' तुष्टः किरणावलिः । कुमारस्य परकायप्रवेशविद्या दत्ता । 'सङ्कामकाले हारप्रभावात्तव हारिन भविष्यति' इत्युका एको हार समर्पितः । सर्वेऽपि स्वस्थानं गताः।कुमारेण पितुरने रात्रौ वृत्तान्त उकः । पहा तस्यासमसाहसात् कुमारभुतिः प्रदत्ता। मत्रान्तरे दूतः समागतः। राज्ञोऽग्रे सभायां विज्ञप्तिकां करोति-"श्रीपुरनगरे श्रीधे- णो नाम राजा । तस्य पुत्री जयश्रीयौवनाभिमुखी जाता। अन्यदाराक्षा पृष्टा-'वत्से ! भवत्याः कीडशो वरः करिष्यते? किं गुणवान् ? कि रूपवान् ? किं वा धनवान् ?' पुत्री प्राह-'कुलीनः प्रेमवान् विलोक- नीवो वरः।' राजा प्राह-'वत्से!स कशास्यते ? यावदिति चिन्ता- प्रपनो रात्री सुप्तः किञ्चिजागरनस्ति तावत्समे गोत्रदेव्योक्तम्- 'राजन् ! खयंवरमण्डपः कारयितव्यः। दृष्टिदर्शनेन योऽस्था रोचते स वरः। ततोऽहं राक्षा प्रेषितः-अमरचन्द्रकुमारं प्रेषयत' इति ।" राणा कुमारः प्रेषितः । महोत्सवेन नगरमध्ये प्रवेशितः । प्रथ सयंवरदिवसेऽवृत्तवेषाः सर्वे राजकुमारा मञ्षपविष्टाः । जयश्रीदि- व्यवेषं विधाय प्रतीहारीयुक्ता समागता । सर्वान् कुमारान् परित्यज्य अमरचन्द्रस्य कण्ठे परमाला क्षिता। अन्यैः कुमारैः कथितम्-'हे अमरचन्द्रकुमार ! अस्मान् दृष्ट्वा पाणिग्रहणं करणीयम्' इति श्रुत्वा कुमारेण चिन्तितम्-'यदर्थमियान् प्रयासो विधीयते प्रथमं वलमाया रागविरागी विलोकयिष्यामि । यतः- ददाति रागिणी प्राणान् गृहाति देषिणी पुनः । रागो वा यदि वा देषः कोऽप्यपूर्वो वरत्रियाम् ॥ ४॥ - शलेग वेणीविनिगूहितेन विदूरथं खा महिषी जधान । विषप्रदिग्धेन च पुरेणा देवी विरका किल काशिराजम् ॥2॥ मित्रामात्येन सहालोच्य कुमारेण मिषान्तरं चके-यन्मे शीर्षे व्ययते इति । कुमारेण परकायप्रवेशविद्या कृता। कुमारो मृत इति वार्ताऽभूत् । कुमारी इति वचा श्रुत्वा काष्ठानि याचते। पिन- अतिमिः सर्वलोकैः कुमारैर्वारितापि सर्वथा न तिष्ठति । कुमार १.अमालरभुः for कुमारभुक्तिः Z... The portion प्रेषरत इति राक्षा मारः is missing in A. ३. सर्वा• for 4.2.
२६ कथाकोशः क्दन्ति-असा भयाद् असौ राजकुमारोऽमरचन्द्रो मृतः।'कुमारी श्वेतारं विधाय तुरगाधिरूढा, अमरचन्द्रनिमित्तं या चिता कृता वर्तते तस्याः समीपे गता । अमात्वेनोक्तम्-'कुमारा इति वचनं बदन्ति यदसावमरचन्द्रकुमारोऽसद्भयेन विनष्टः । ततोऽनेन कल नास्मिन् कुले मृता अपि जीवन्ति ।' कुमारैरुतम्-'यदि शक्ति रस्ति ततोऽमरचन्द्रकुमाराय जीवदानं दीयताम्' इत्युक्तेरनन्तरं पूर्वजया विद्यया सद्यो जीवितः कुमारः। मिथो वदन्ति कुमारा:- 'युद्धं विधाय पाणिग्रहणं कुरु, अन्यथा न।' युद्धसन्नद्धः कुमारो हारप्रभावाद् रिपूनजयत्।' पाणिग्रहणं कृत्वाऽमरचन्द्रःखनगरं गतः। प्रवेशमहोत्सवो बभूव । तावत्प्रेरणीयैः सुरसुन्दरस्य राज्ञोऽग्रेऽवसरो मण्डितोऽस्ति । बंशे त्रिपुत्रिकात्र नृत्यं करोति । अत्रान्तरे गगन- मार्गेण चारणभ्रमण उपागतो व्याख्यानं कुरुते–'राजन् ! अन्तरङ्ग- नाटकं विलोकय, बाहनाटकं किमवलोकयसि, यतस्तव स्थितिरिय रणभूमिः। महानामा वंशः । चतस्रो गतयः । चत्वारः दारः। चत्वारः कषायाः। कीलकाः क्रोधमानमायालोमादयः। अष्ट कर्ममर्दलानि । मनुष्यरूपाणि वेषकराः। अयं जीवो नर्तकः।' इत्थं चारणमुनिना बोधितो राजा। कुमार राज्ये निवेश्य सुरसुन्दरो व्रतं जग्राह । अमरचन्द्रो जयश्रीयुतो राज्यं करोति । राजा महाविषयी। अन्यदा राक्षा जयश्रीभुवने पुमान् दृष्टः। कुमारण हाकितः। यावद्भटानां सनद्धतां कर्तुं समायामायाति तावत् सभायां सिंहासनासीनः स एव पुमान् दृष्टः । परं राक्षः सहक्ष एव । राजा नगरानिस्स्तो बहिर्जगाम । तावत् कुरुचन्द्रनामाऽमात्योदलं गृहीत्वा तस्य मारणाय मुत्कलितः। अमात्योऽपि तं दृष्ट्या विस्मितः । मन्त्रिणा पृष्टम् - 'कस्त्वम् ?' तेनोक्तम्-'अमरचन्द्रो नाम राजा।' मन्त्रिणा मर्माणि पृष्टः। सर्व कथितम् । द्वौ दिव्यं कारितौ । द्वावपि शुद्धौ। देवेन विद्या- बलेनामरचन्द्रस्य राक्षः परकायप्रवेशविद्या विस्मारिता। अमात्येन निष्कासितो विदेशं गतो राजा । कालकरणाय पर्वते चटितः। कामाश्रावणी करोति। तावद् गुहायां कायोत्सर्ग स्थितेन मुनिना १. जीवति for जीवितः Z. ३. ऽवसरो is missing in A. ३. श्रमण is missing in A. ४. दरा: for दारा A.
- ३० कथाकोशः भन्यजीवमवलोक्य गाढस्वरेणोक्तम्-'राजन् ! साहसं मा फुरु राजैतच्छ्रत्वा विस्मितः । तत्र गत्वा मुनिनमस्कृतः । मुनिनोक्तम्-- 'राजन् ! कि वैराग्यं प्रपन्नः राज्ञोक्तम्-भगवन् ! किंकारण- महं राज्यानिष्कासितः?' मुनिः प्राह-"राजन्! पूर्वभवे मेघपुरे नगरे मेघरथो नाम राजा । तस्य मन्त्री प्रियङ्करो नाम, व्ययकर्ता शुभकर। परं प्रियङ्करः सम्यक्त्वधारी विवेकवान् । अन्यदा रात्री देशावका. शिकवतं गृहीतम् । रात्रौ गृहद्वारे न गन्तव्यमिति देशावकाशिकम् । इतश्च राक्षा मन्त्रिण आकारणं प्रेषितम् । न याति मन्त्री। राजा सकोपनः । 'नायाति चेत्तदा मुद्राऽऽनेतव्या।' मुद्राऽर्पिता, न पुन- नियमस्य भक्तः। राजा शुभङ्करस्याने कथितम्-त्वं गृहाण ।' तेन कथितम्-'नहि नहि, शरीरेऽपि दत्ते नृपस्याने घटिकायुग्ममपि पुण्यं कर्तुं न लभ्यते तत् किमनेन राज्येन ?' राजा सविषादमाह- 'किं करोमि' मन्त्री प्राह-'सबहुमानं प्रियङ्करस्य पुनरेव मुद्रा दीयताम् । राक्षा गृहे गत्वा मनावितो मन्त्री। मन्त्रिणोमिंथो महान् स्नेहः। द्वाभ्यां पर्यन्ते व्रतं गृहीतम् । शुभकरण प्रियङ्करस्याने कथि- तम्-'समये त्वयाऽहं बोधनीयः।' 'तथा' इत्युक्त्वा द्वावपि खर्ग गतौ । 'अयं प्रियङ्करजीवो देवो येन त्वं राज्यानिर्वासितः। त्वं शुभ- करजीवोऽमरचन्द्रो नाम । अतः कारणात् स देवस्तत्रैव प्रत्यको बभूव । देवेनोक्तम्-'तव बोधनायाहमागतः। राड्या उपरि विरूपं न चिन्तनीयम् । एतानि मम रूपाणि' इति श्रुत्वा राक्षो जातिस्मरण- मुत्पन्नम् । देवेन राजा स्वस्थाने मुक्तः। पुत्र राज्ये निवेश्य अमर- चन्द्रोऽपि व्रतं पालयित्वा मोक्षे गतः ॥ इति भावनाविषये अमरचन्द्रकथानकम् ॥ प्रचतपूजाविषये शुकयुग्मकथा । अखंडफुट्ठियसुक्खखएहिं पुंजत्तय जिणिदस्स । पुरउ नरा कुणंता. पावंति अखंडियसुहाहं ॥१॥ जह जिणपुरउ सुक्खखऐहिं पुंजत्तयं कुर्णतेहिं । किरमिहुणेण पत्तं अखंडियं साससं सुक्खं ॥२॥ १. •जीव.श्रव• for जीवमव.. Z. २. गीतम् for गृहीतम् A. ३. दुखखएहि for सुक्खखएहिं Z.
कथाकोशः अस्मिन् भरते कीरमिथुनेन शुकयुग्मेन जिनपुरतोऽक्षतान् प्रयच्छता शाश्वतं सौख्यं प्राप्तमित्यर्थः । यथेति दृष्टान्तः । अस्मिन् भरते सिद्धपुरं नाम नगरम् । तस्य बाह्योद्याने श्रीयु- गादिनाथचैत्यं वर्तते । तस्य जिनमन्दिरस्याने सहकारमहावृक्षोऽस्ति । तस्मिन् शुकमिथुनं वसति । इतश्चान्यदा शुकस्त्रियाऽऽत्मभर्ता एवं भणितः-'शुक! शालिक्षेत्राच्छीर्षमानय, मम दोहदो वर्तते।' शुकः प्राह-'प्रिये! श्रीकान्तराक्ष एतत् क्षेत्रम् । य एतस्माच्छालिक्षेत्राच्छीर्ष गृह्णाति राजातस्य शीर्ष गृहाति।' इति श्रुत्वा शुक्या भणितम्-'स्वामिन् ! तव समानः कोऽपि कापुरुषो नास्ति । निजमायाँ म्रियमाणां निजजी- वितलोभेन वाञ्छसि । एवं शुकीवचनं श्रुत्वा शुको निजजीवितस्यापि निरपेक्षो जातः। शालिक्षेत्राच्छालिशीर्षाण्यानयति । एवं नित्यं शुकः शालिरक्षकाणां रक्षतामपि प्रियाथै शालिशीर्षाण्यानयति । अथान्यदा राजा तस्मिन् क्षेत्रे समागतः। एकस्मिन् प्रदेशे तच्छालिक्षेत्र पक्षिभि- भतितं पश्यति । राक्षा शालिरक्षकाः पृष्टाः-रे! पक्षिमिर्विनाशितं कथं क्षेत्रम् ?' ततश्च शालिरक्षकैरुक्तम्-'स्वामिन् ! एकः शुको नित्यं शालिशीर्षाणि गृहीत्वा याति । रक्ष्यमाणोऽपि चौर इव नश्यति ।' ततः क्रुद्धेन राज्ञोक्तम्-'भोः पाशन्मण्डयित्वा स शुको धृत्वा मम समीप आनेतन्यो यथा तं चौरवद्धन्म ।' अथान्यदा राजादेशेन तैः पुरुषैः पाशे पातयित्वा शुको गृहीतः । ततो राजसमीपे शुकेन सह गताः। अथ तस्य शुकस्य भार्याऽऽक्रन्दन्ती शुकपृष्ठे समागता । इतश्च तैः पुरुषै राजसमीपे शुको मुक्तः । 'स्वामिन् ! येन शालिक्षत्रं विना- शितम् एष स शुकः।' राजा तं दृष्ट्वा खरं यावनिहन्ति तावत्तस्य पत्नी निजखामिनोऽन्तरे पतिता । शुकी राजानं प्रति भणति-स्वामिन् ! मां हन, परन्तु मम जीवितव्यदायकं मम भरिमेनं विहंगराज परि- मुश । अनेन मम भी निजप्राणान् वृणीकृत्य मम जीवितं दत्तम् । देव! तव शाल्या उपरि मम दोहदो जातः, अनेने परिपूरितः।' इति श्रुत्वा विहस्य राजा शुकं प्रति प्राह-'शुक! त्वं पण्डित इति १. The portion 'राजा तस्य शीर्ष गृह्णाति' is missing in A. 8. The portion beginning with A4 Haf and ending with अनेन is missing in A.
कथाको नामा ख्यातोऽसि । ततो महिलाकार्ये निजजीवितव्यं त्यजन् कथं पण्डितोऽसि?' इतश्च शुकी भणतिस्वामिन् । जननीजनकबान्ध- वादयः सन्तु दूरे, पुरुषो महिलाकार्ये निजजीवितव्यमपि त्यजति यथा स्वया पूर्व श्रीदेवीकृते निजजीवितव्यं त्यक्तम् । कथमस्य शुकस्य दोषः ? राजा तस्या वचनेन विस्मितो दूयते, चिन्तयति-'एषा पक्षिणी मम वृत्तान्तं कथं जानाति ? राजा प्राह-'हे शुकि! अत्राहं कयं दृष्टान्तः कृतस्त्वया १ एतत् सर्वे कथय । ममातिगुरुकं कौतुकं विद्यते।' शुकी भणति-स्वामिन् ! तव नगरे पूर्वमेका योगिनी बभूव, परं बहुकूटकपटभरिता सा तव भार्यया बहूपचरिता। अन्यदा तव भार्यया श्रीदेव्या सा योगिन्येवं पृष्टा-'भद्रे! सर्वासां राजीनां मध्येऽहं दौर्भाग्या जाता । अतस्त्वं कमपि प्रसादं कुरु यथाऽहं राक्षो वल्लभा भवामि ।' ततो योगिन्या तस्या वशीकरणमन्त्रो बचः। तस्य प्रभावेन राबो वल्लमा बभूव। सर्वासामन्तःपुरीणां मध्येऽप्रमहिषी जाता, ततो यदृच्छया दानं ददाति, भोगान् भुक्क्ते। अन्यदा तथैव योगिन्या राक्षी पृष्ट-देवि! सम्पन्ना तव मनोरथ- सिद्धिः?' तयोलम्-'देवि! सर्वमस्ति तव प्रसादात् । तथापि राज्ञा सह स्नेहपरीक्षा क्रियते, मयि जीवत्यां जीवति, मयि नियमाणायां नियते राजा । एषा बेहपरीक्षा।' योगिन्योक्तम्-'यद्येवं ततो गृहा सौषधी स्यः यथा त्वं गतजीवा भवसि । पश्चादहं द्वितीयमूलिकया स्वां जीवयिष्यामि।' राक्षा प्रोषधिवलकं गृहीतम् । योगिनी निज- स्थाने गता । इतश्च सा श्रीदेवी राशी ओषधी स्यो गृहीत्वा रामः पावें सुप्ता । प्रभातकाले मृता रष्टा। इतश्च राको भुवने पाकन्दखर उच्चलितः । 'देवी मृता, देवी मृता' इति भणित्वा सर्वे लोका आक- न्दन्ति । ततो राजादेशादहवो मन्त्रयन्त्रनिपुणा मिलिताः। तैरपि सा परित्यक्ता । ततो मान्त्रिमी राजा विज्ञप्तः। 'स्वामिन् ! अस्याः संस्कारो भवतु ।' राज्ञोक्तम्-'अनया सह ममाप्यग्निसंस्कारो भवतु ।' लोको भणति-सामिन् ! न युज्यते एवं कर्तु महिलाकते पुरुषस्य मरणम् । राहोक्तम्-'नेहेन किन विधीयते ? ततः शीघ्र चन्दनकालानि सब्जीकुरुते । एवं भणितोऽपि राजा न तिष्ठति । ततो । १. ती is missing in A.
कथाकोशः वाद्यमानतूर्यरवे रुदति पौरलोके गतो राजा । श्मशानभूमौ याव- चितां कृत्वा प्रियतमासहितो राजाऽग्नौ प्रविशति तावद् दूरादपि रुदनं कुर्वती एका योगिनी समागता । तया भाणतम्-'देव ! त्वमेवं साहसं मा कुरु ।' राजा भणितम्-'भगवति मम प्रियया सह जीवितव्यम् ।' योगिनी प्राह-'यद्येवं ततः क्षणमेकं विलम्बस्व यथा लोकप्रत्यक्षं दयितां जीवापयामि ।' राजैवं श्रुत्वा प्रमोदपूर्णहृदयो बभूव । ततो द्वितीयमूलिकया नास्ये दत्ते राक्षी निरामया बभूव । तां जीवितां दृष्ट्वा राजोर्द्धवाहुर्नृत्यति । ततो राजा श्रीदेवीसहितो राज्य करोति । योगिनी मृत्वा शुकी जाता। साम्प्रतं तव पार्चे स्थितां श्रीदेवीं वीक्ष्य मम पूर्वभवः स्मृतः।" इतश्च शुकीवचनं श्रुत्वा देवी प्राह-'भगवति ! कथं त्वं पतिणी जाता।' शुकी प्राह-'देवकर्म- वशेन जीवाः सर्वमनुभवन्ति। राजैवं श्रुत्वा शुकमिथुनं प्रति परितुष्टः। शुकस्याभयदानं दत्तम् । शालिरक्षकं पुरुषं प्रत्येवमुक्तम्-'क्षेत्रस्य समीपे एतस्य शुकमिथुनस्य प्रतिदिवसं तण्डुलानां द्रोण एको मोच- नीय इति श्रुत्वा शुकमिथुनमुडीय सहकारवृक्षे गतम्। तत्र सम्पूर्ण- दोहदा शुकी अण्डकयुग्मं प्रसूता। इतश्च तसिन् समये तस्याः सपत्नी शुकी निजकीयेऽङ्गशाले एकमण्डकं प्रसूता । यावत्सा चूर्णि- निमित्तं गता तावत् प्रथमा शुकी तस्या अण्डकं मत्सरेणानयति । यावत्साऽऽगता निजमपत्यं विलोकयति तावन्न पश्यति। ततो मूच्छिता धरणीतले पतिता। तां विलपन्तीं वीक्ष्य प्रथमया पुनरपि तदण्डं तत्रैव मुक्तम् । धरणीतले लुठित्वा यावत्पुनर्निजेऽङ्गशाले सा द्वितीया शुकी आयाति तावद् दृष्टं निजमपत्यम् । ततो दृष्टा जाता । प्रथमया शुक्या तनिमित्तं कर्म बद्धम् यत् पश्चात्तापेन तदण्डं पश्चान्मुक्तं ततः कारणा- देकभवदुःखं बद्धम् । तस्मिन्नण्डकयुगले एकः शुकः, एका शुकी जाता। राजादेशेन रचिते तमिन् तण्डुलराशौ तन्मिथुनं तण्डुलाना- नीय निजापत्यपोषणं करोति । इतश्चान्यदा तस्मिन् जिनभुवने एक- धारणश्रमणो मुनिनिधरः समागतः। राजा नरनारीवृन्देण सहितो 1. The portion beginning with ant and ending with बभूव is missing in Z. २. The portion तावन्न पश्यति is missing in A.
कथाकोशः . मुनिवन्दनाय समागतः। ततो गुरुन् नमस्कृत्य राजाऽक्षतपूजाफलं पृच्छति । ततो गुरुः प्राह- 'अखंडफुट्टियसुक्खखएहि पुंजत्तयं जिणंदस्स। पुरउँ नरा कुणता पावंति अखंडियसुहाई ॥३॥' इत्यक्षतपूजाफलं श्रुत्वा सर्वो लोकोऽक्षतपूजाविषय उद्यमपरो जातः, अक्षतपूजां करोति । तथाऽऽवाभ्यामप्यक्षतपूजा क्रियते । ततो द्वावप्यक्षतपूजां कुरुतः । अन्यदाऽपत्ययुगलं भाणितम्-'युवामपि जिनेन्द्रस्याप्रेक्षतान मुञ्चत यथाऽक्षतसौख्यं भवति' इति प्रतिदिवसं महाभक्त्या जिनेन्द्रस्याक्षतपूजां विधायाऽऽयुःक्षये चत्वारो मृत्वा देवलोके गताः । देवभोगान् भुत्ता शुकजीवो हेमपुरे नगरे हेमप्रभो नाम राजा बभूव । शुकीजीवोऽपि देवलोकाच्च्युत्वा जयसुन्दरी नाम हेमप्रभस्य भार्या बभूव । सा पश्चिमा शुकी अपि संसारे परिभ्रम्य हेमप्रभराको रतिनामा अन्तःपुरी जाता । श्रन्या अपि तस्य पञ्चशत भार्याः सन्ति। परं पूर्वभवस्नेहात्प्रथमे द्वे भार्ये वल्लभे संजाते । अन्यदा तस्य राजो दुःखज्वरतापो बभूव । क्षणं भूमौ लुठति, क्षणं चन्दननि- लिप्तगात्रः, क्षणं शय्यायाम् , तथापि निर्वृतिं न प्रामोति । ततो मन्त्र- यन्त्रकुशला वैद्याःप्रतीकारं कुर्वन्ति, परं कस्यापि राक्षः प्रतीकारो न लगति । ततश्च शान्तिकं क्रियते । जिनमन्दिरेषु श्रीजिनेश्वराणां महापूजा विधीयते । गोत्रदेवताः पूज्यन्ते । ततोऽपि राज्ञः शरीरे ज्वरतापो नोपशाम्यति । इतश्च रात्रिसमये राक्षस एकःप्रत्यक्षीभूय राजानमूचे-'राजन् सुप्तोऽसि किं वा जागर्षि ?' राज्ञोक्तम्-'कुतो मम निद्रा ?' राक्षसः प्राह-'योका राझी आत्मानमवतार्य अग्निकुण्डं परिक्षिपति ततस्तव जीवितव्यम्, अन्यथा नास्ति ।' एव- मुला राक्षसो निजस्थानं गतः। राजा चिन्तयति-'किमिन्द्रजाल- मिदम् ? अथवा दुःखपतितेन मयैवंविधः स्वप्नो लब्धः ? अथवैष न स्वप्नो यत् प्रत्यक्षो राक्षसो दृष्टः ?' इतश्च प्रभाते प्रबुझेन राक्षा सुम- त्रियोऽग्रे रात्रिवृत्तान्तः कथितः । तेनोक्कम-'जीवनकार्ये एतदपि १. दुखएहिं for सुक्खखएहिं 2. २. पुजउ for पुरउ A. ३. ऽपि देव is missing in A. ४. तापो is missing in Z. L. The portion beginning with तेनोकम् and ending with कथितः is , कथाकोशः क्रियताम् ।' ततः सर्वासां राशीनामने मन्त्रिणा राक्षसवृत्तान्तः कथितः। एतद् वृत्तान्तं श्रुत्वा निजजीवितव्यलोमेन सर्वा अपि राज्योऽधोमुख्यो बभूवुः । इतश्च विकसितमुखकमला रतिमहादेवी एवं भणति-'मम जीवितव्येन यदि राजा जीवति ततो मया किं न प्राप्तम् ।' ततो मन्त्रिणा गवाक्षस्याघो महदग्निकुण्ड कारितम् । सापि कृतारा राजानमेवं भणति-'खामिन् ! मम जीवितेन जीवख, अहमग्नौ प्रविशामि ।' राजा भणति- 'देवि मम कृते जीवितव्यं मा त्यज । अहं पुराकृतं कर्म खयमेवानुभविष्यामि । ततोराशी भणति-वामिन् ! तव कृते यदि जीवितव्यं याति तद् यातु' इत्युक्त्वा गवाक्ष आरूढा यावदाग्निकुण्डे पतति तावत्तस्याः सत्त्वेन परितुष्टो राक्षस आह-'भद्रे ! अहं तव सत्त्वेन परितुष्टः, ततः प्रार्थय मनीषितम् ।' राक्षी प्राह-'जननीजन- काभ्यां दत्तो हेमप्रभो नाम राजा मम वरः। अतोऽहं तमेवप्रार्थयामि । अन्येन मम नास्ति प्रयोजनम् ।' राक्षसः प्राह-'तथापि प्रार्थयख यतोऽमोघं देवदर्शनम् ।' राशी प्राह-'यद्येवं मम भर्ता व्याधिरहित- श्चिरकालं जीवतु ।' राक्षसः प्राह-एवं भवतु' इत्युक्त्वा गतो निज- स्थाने राक्षसः । ततो राजा परितुष्टः । 'देवि! वरं प्रार्थय, त्वया जीवितव्यमूल्येन वशीकृतोऽहम् ।' राजा प्राह-'यद्येवं तदेष वरो भाण्डागारेऽस्तु, यदा प्रार्थयामि तदा दातव्यः।' इतश्चान्यदा रति- महादेव्या पुत्रार्थिन्या कुलदेव्याराधिता । एवमुक्तञ्च-'यदि मम पुत्रो भविष्यति ततो जयसुन्दरीपुत्रेण तव बलि दास्यामि ।' भवित- व्यतावशेन द्वयोबहुलक्षणसम्पूर्णे पुत्रौ जातौ । रतिमहादेवी परितुष्टा चिन्तयति-'कुलदेवतया मम पुत्रो दत्तः। ततो जयसुन्दरी- पुत्रेण पूजा कथं कर्तव्या' इति चिन्तयन्त्या तयोपायो लब्धः। राजदत्तवरेण समीहित करिष्यामि इति विचिन्त्याऽन्यदा प्रस्ताव प्राप्य राजा विक्षप्तः-'स्वामिन् ! पूर्वोक्तं वरं देहि । राज्ञोक्तम्-एवं भवतु ।' ततो रात्री पञ्चदिनानि यावद् राज्यं करोति । इतश्च रजनी- पश्चिमे प्रहरे जयसुन्दरीपुत्रमानाययति । तं सपयित्वा चन्दनपुष्पा- missing in A. १. तव is missing in z.
३६ कथाकोशः पतेः परिपूज्य पटल्युपरि कृत्वा दासीमस्तके स्थापयति । ततो वाद्य- मानतूर्येण परिवारसहिता देवीपूजनाय चचाल । इतश्च काञ्चनपुर खामिना सूरिनाना विद्याधरेण विमानारूढेनाकाशे गच्छता पटली- संस्थितो बालको दृष्टः। ततोऽन्यं मृतबालकं मुक्त्वा स राजपुत्रो गृहीतः। विद्याधरः खस्थाने गतः । निजभार्यायाः समर्पितः कुमारः। इतच रतिमहादेव्या तत्र देवीभुवने तं मृतबालं शिलातल प्रास्फाल्य निजमनोरथः सम्पूर्णः कृतः । जयसुन्दरी पुत्रविरहे महाकष्टेन दिवसान् गमयति । तत्र विद्याधरनगरे तेन सूरिविद्याधरण तस्य बालस्य मदनकुमार इति नाम कृतम् । क्रमेण गृहीतविद्यो बभूव । अन्यदाऽऽकाशे विमानारूढो ब्रजन् गवाक्ष उपविष्टः पुत्रविरहेण कष्टितामात्ममातरं पश्यति। ततश्चातिनेहनिर्भरेण मदनकुमारेण सा निजजननी गृहीता, विमाने क्षिप्ता । ततो राक्षी तं कुमारं पश्यन्ती तृप्ति न याति, ततो राजपरिवारो जयसुन्दरीमपहृतां दृष्ट्वा उःखर- माकन्दति । हेमप्रभो राजाऽतिशूरोऽपि पादचारी किं करोति विद्या- धरस्य । ततो राजा चिन्तयति-'मम क्षते वारसदृशं दुःखं जातम् । एकं पुत्रस्य मरणम् , द्वितीयं भार्याहरणम्' इति दुःखार्तो दिवसान गमयति । इतश्च मदनकुमारो विद्याधरो राजी गृहीत्वा निजनगर- स्योद्याने सरोवरपालौ सहकारच्छायायां यावत्तिष्ठति तावत्पूर्वभवस्य बेहेन शुकीजीवन देवलोकस्थितेनावधिज्ञानेन ज्ञात्वा निजमनसि चिन्तितम्-'अहो संसारखरूपम् ! यन्मम भ्राता निजजननी कलत्रबुद्धयाऽपहरति, ततस्तं बोधयिष्यामि । ततश्चैको वानर एका वानरी, एवं द्वे रूपे कृत्वा तस्मिन् सहकारवृक्ष समागतौ। ततो वानरो वानरी प्रति प्राह-'भद्रे ! एतत् कामुकतीर्थ कथ्यते । तिर्यचोऽत्र पतिता मनुष्यत्वं लभन्ते। मनुष्योऽत्र पतितः कामुक- तीर्थप्रभावेन देवत्वं प्राप्नोति । अस्मिन् विषये नास्ति सन्देहः।' ततोऽस्य सहकारस्य छायायां द्वौ मनुष्यावुपविष्टौ । तयोक्तम्-'तयो अपं मनसि कृत्वाऽस्मिन् कुण्डे भम्पा दीयते, यथा त्वं मनुष्यो भवसि, अहं मानुषी भवामि । ततो वानरेण भणितम्-'धिक् धिक् ! पतस्य पुरुषस्य को नाम गृहाति येन निजमाता कलत्रबुद्धयाऽपहृता, १. पूर्वस्य for पूर्वz.
कथाकोशः ३७ तस्य पापखरूपे आवयोः कोऽभिलाष' इति वानरवचनं श्रुत्वा द्वावपि विस्मितौ। विद्याधरश्चिन्तयति-कथमहमस्याः पुत्रः?'राक्षी चिन्तयति- 'अयं विद्याधरः कथं मम पुत्रः?' द्वावपि यावदित्थं चिन्तयतस्तावद्विद्या- घरेण वानरः पृष्टः। अहो महाभाग!कथमेतत् सत्यम्?' वानरेणोक्तम्- 'सत्यमेव, अस्मिन् कार्ये नास्ति सन्देहः । यदि न मन्यसे ततोऽस्मिन् पर्वतनिकुळे केवलज्ञानी मुनिः कायोत्सर्गे स्थितोऽस्ति तस्य पायें गत्वा पृच्छ' इति भणित्वा वानरयुगलमहशीबभूव । सोऽपि विद्याधरकुमारो निजजननीसहितो निकुजे केवलिनं पृच्छति- 'भगवन् ! वानरेण यदुक्तं तत्सत्यम्।' मुनिनोक्तम्-'सत्यमेव पुनरहं ध्यानविघ्नभयान कथयिष्यामि। हेमपुरे केवलज्ञानी सर्व कथयिष्यति' इति श्रुत्वा मुनि नमस्कृत्य गतो निजगृहे विद्याधरकुमारः। पूर्वजननी- मेकान्ते मुक्ता द्वितीयजननीं प्रत्युक्तम्-'मातः! मम का जननी? को जनकः ?' ततो विद्याधरी प्राह-'पुत्र ! अहं तव जननी, एष विद्याधरस्तव पिता। तेनोक्तम्-'मात एतत् सत्यम् । तथापि कार- णेन पृच्छामि ।' ततो विद्याधरी प्राह-'सत्यं परमार्थ तव पिता जानाति । ततश्च तेन विद्याधरः पृष्टः। विद्याधरेण पटलीवृत्तान्तः कथितः । अतः सम्यक् तव पितरौ न जानामि । ततः कुमारेण भणितम्-'तात ! यैषा नारी मयाऽऽनीता सा वानरेण केवलिना च मम जननी कथिता, ततोऽहं हेमपुरे गत्वा केवलिसमीपे सन्देह- मपनेष्यामि ।' इत्युत्ता जननीसहितो हेमपुरे गतः, तत्र केवली पृष्टः । इतश्च जयसुन्दरी बहुनारीमध्य उपविष्टा । हेमप्रभो राजा निजपरि- वारपरिवृतो गुरुमुखात्पुण्यं शृणोति । इतश्वावसरं प्राप्य हेमप्रमेण राक्षा केवली पृष्टः । 'भगवन् ! सा मम भार्या जयसुन्दरी केनापहृता?' केवलिनोक्तम्-'राजन् ! पुत्रेणापहृता ।' ततो राक्षा विस्मितहृदयेन पृष्टम्-'भगवन् ! तस्याः पुत्रः कुतोऽस्ति ? य एकः पुत्र प्रासीत् सोऽग्रेऽपि हतकृतान्तेन कवलीकृतः । द्वितीयः पुत्रो नास्ति ।युष्माकं वचनमलीकं न सम्भवति ।' ततश्च मुनिना राक्षः संशयहरणार्थ कुलदेवीवृत्तान्तः कथितः । ततो निजं पितरं दृष्ट्वा सहर्षों बभूव । मदनकुमारो निजपितुर्मिलितः । अत्र महान् हर्षः । ततो जयसुन्दरी केवलिनं पृच्छति-भगवन् ! केन कर्मणा मम पुत्रवियोगो - ३८ कथाकोशः बभूव । केवलिनोक्तम्-'पूर्वभवे शुकजन्मनि षोडश मुहूर्तानि यावदपहृतं सपत्न्यण्डकं ततोऽस्मिन् भवेषोडशवर्षाणि तव पुत्रविरहो बभूव । यतः- जो दुक्खं सुखं वा तिलतुसमितुं च देइ अन्नस्स । सो वीयं वसुखित्ते परलोए बहुफलं लहइ ॥४॥ इति मुनिवचनं निशम्य पश्चात्तापोत्सापितशरीरा जयसुन्दरी राशी रतिमहादेवी वामयति । तयापि सा राज्ञी शामिता । इतश्च हेमप्रभो राजा केवलिनं पृच्छति-भगवन् ! पूर्वभवे मैया किं पुण्यं कृतंयेनास्मिन् भवे' जयसुन्दरीसहितेनैवं विपुलं राज्यं प्राप्तम् ?' ततश्च केवलिनोक्तम्-'पूर्वभवे शुकजन्मनि युवाभ्यां पुत्रपत्नीसहिताभ्यां जिनेन्द्रस्याक्षतपूजा कृता । ततो मृत्वा देवलोके गतौ। ततश्च्युत्वा राज्यं प्राप्तम्' इति पूर्वभवं श्रुत्वा रतिपुत्रस्य राज्यं दत्त्वा जयसुन्द- रीमदनकुमारसहितो राजा प्रवजितः । वतं चिरकालं पालयित्वा अयोऽपि मृत्वा सप्तमदेवलोके देवत्वेनोत्पन्नाः । ततश्च्युत्वा मानुष्यं प्राप्य सिद्धि यास्यन्ति । इत्यचतपूजाविषये शुकयुग्मकथानकम् ॥ गन्धपूजाविषये सूरराजकथा । पणमह तं नाभिसुयं सुरवइसंकंतलोयणसहस्सं । सकलकलं व विरायइ नहनिवहं जस्स पयजुयलं ॥१॥ वरगंधधूववुखखुएहि कुसुमेहिं पवरदीवहिं । नवजफलजलेंहि य जिणपूयाणे गहा होइ ॥ २ ॥ अंगं गंधसुर्यधं वनं रूवं सुहं व सोहग्गं । पामइ परमपयंपिहु पुरिसो जिएणगंधयाए ॥३॥ यथा- जाह जयसरिनिवणं जायासहिएण तइयजम्मंमि । संपत्तो निव्वाणं जिणंदमुणिगंधपूयाए ॥४॥ 9. The portion beginning with and ending with भवे is missing in A. २, जयलं for • जुयलं Z.
कथाकोशः यथेति दृष्टान्तः । सूरनाना राक्षा कलत्रसहितेन जिनेन्द्र गन्धपूजया परिपूज्य निर्वाणपदं सम्प्राप्तम् ॥ अत्रैव भरतक्षेत्रे वैताठ्यपर्वते गजपुरे नगरे विद्याधरस्वामी सूरराजा राज्यं करोति । तस्य श्रुतमती नाम भार्या । अन्यदा तस्य गर्भे देवलोकाच्च्युत्वा सम्यग्दृष्टिः कोऽपि देवोऽवततार । ततो गर्भा- नुभावन दोहदोऽभूत् । अपूर्णदोहदा दिने दिने दुर्बलदेहा भवति । ततो राक्षा पृष्टम् -'देवि ! किमेवं खिद्यसे ?' राशी प्राह -'देव ! गर्भानुभावेनाष्टापदपर्वततीर्थे देवान् नमस्कर्तु दोहद उत्पन्नः।' इत्युक्ते सूरराजा राशीसहितोऽष्टापदे जगाम । तत्र पटुपटहशंखभूरकाहल- स्वरेण विधिनानायविधिं कृत्वा राक्षी हर्षितहृदया सुगन्धगन्धैर्जि- नेन्द्राणां पूजां चकार । पूजां कृत्वा दोहदं पूरयित्वा राशीसहितो राजा यावदुत्तरति तावद्वनगहननिकुळे दुस्सहो दुर्गन्धः समायाति । राक्षी विस्मितहृदयाराजानं पृच्छति-'स्वामिन् ! कुसुमगन्धसमाकुलेऽस्मिन् वनेऽयं कस्य दुर्गन्धः ?' तेन भणितम्-'देवि! अग्रेतनप्रदेशे ऊ:- कृतभुजं कायोत्सर्गे स्थितं महामुनि किं न पश्यसि ? सूर्यकिरण- तापित्वान्मलमलिनखेदलिन्नादस्य देहादयं दुर्गन्धः समायाति ।' राशी प्राह-'स्वामिन् ! जिनधर्मो भव्य एव, परंतु प्रांशुकजलेन यदि मानं भवति ततो रम्यतर एव । तथाप्यस्या अझं प्रांशुकजलेन प्रक्षा- ल्यतां यथा दुर्गन्धोयाति । ततो निजप्रियाया आग्रहेण पमिनीपुटेन जलमानीय मुनेरङ्गं प्रक्षालितं विद्याधरेण । पश्चाद् द्वाभ्यामपि सुरभिचन्दनेन विलितं तस्य मुनेः शरीरम् । तौ द्वावपि मुनि नमस्कृत्यान्यतीर्थयात्रां कर्तुं गतौ विमानारूढी । इतश्च सुरभिगन्ध- लुब्धेन भ्रमरसमूहेन पुष्पभरसमाकुलं वृक्षं परित्यज्य तस्य मुनेः शरीरमधिष्ठितम् । मुनिरपि भ्रमराणामुपसर्ग सहते । इतश्च पक्षान्तरोद्भावे ? विद्याधरौ तीर्थानि नमस्कृत्य तस्मिन् मुनिप्रदेश समागतौ। राक्षी मुनि न पश्यति । ततो विद्याधरं प्राह-स्वामिन् ! अयं स एव मुनिप्रदेशः । ततोऽत्र मुनिः कथं न दृश्यते?' याव- द्विद्याधरो विलोकयति तावन्मुनिस्थाने कीलको दृष्टः । गगनाङ्गणा- १. यावत्पर्वतादुत्तरति for यावदुत्तरति Z. २. स्वामिन् is missing in Z. ३. वृचं is supplied by the Editor.
कथाकोशः दवतीर्य शावपि यावद्विलोकयतस्तावद् भ्रमरैः खाद्यमानो मुनिदृष्टः । द्वावपि दु:खिनौ जातौ । 'धिगावाम् । उपकारस्थानेऽपकारो विहितः। ततो द्वावपि भ्रमरान् उडापयतः। ततश्योपसर्गप्रान्ते घातिकर्मणि क्षीणे तस्य मुनेः केवलज्ञानमुत्पन्नम्। चतुर्विधदेवास्तत्र क्षणे केवलिमहिमानं कुर्वन्ति । ततश्च जयसूरो राजा प्रियासहितो मुनि प्रति भणति-मुनीश्वर ! अस्माकमपराध क्षमख।' ततो मुनिः प्राह-'निजमनसि खेदं मा कुरु, येन यत्कर्म कृतं निश्चितं स जीव- स्तत्कर्मानुभवति, पुनर्मलमलिनं मुनिं दृष्ट्वा यो दुगंच्छां करोति स कर्मदोषेण भवे भवे दुर्गच्छणीयो भवति । यतः- मलमयपंकमयला धूलीमयला न ते नरा मयला । जे पावपंकमयला ते मयला इछलोयंमि ॥ ५॥' इदं वचनं श्रुत्वा भयभीता श्रुतमती राशी प्राह-'भगवन् ! मया पापया पूर्व यूयं दुगंछिताः' इति । पुनः पुनर्मुनेश्चरणयो- विलग्य मुनि क्षामयति । मुनिनोक्तम्-'भद्रे ! मा कुरु खेदम् । त्वयैवं क्षामयन्त्या सर्वमशुभकर्म ध्वंसितम् , परन्त्वेकभवयोग्य कर्मानुभवसि ।' तमेव धर्म श्रुत्वा प्रियासहितो जयसूरो राजा निजनगरे सम्प्राप्तः। ततश्च कियत्यपि गते काले द्वाभ्यां दीक्षा गृहोता। मृत्वा सौधर्म उत्पन्नौ। आयुःक्षये देवलोकाच्च्युत्वा राजजीवः सुरपुरे नगरे सिंहध्वजनामा राजा बभूव । राशीजीवो मदनावली नाम तस्य भार्या बभूव । पूर्वभवमोहात्सकलस्यान्तःपुरस्य मध्ये सा मदनावली राक्षो वल्लभा जाता । इतश्च पूर्वभवे मुनिदुर्गच्छणादशुभं कर्म बद्धम् , तस्य कर्मण उदयो बभूव । स्थितसुभटैः रक्ष्यमाणा वनमध्ये राक्षी मुक्ता । राक्षी चिन्तयति-'अहो पुरा चीनं कर्म तावदेकानमनसा मया सोढव्यम् ।' यावदित्थं चिन्ता प्रवर्तते तावत्तस्य धवलगृहस्य समीपे एकस्मिन् सहकारवृक्षे शुकमिथुनं पश्यति । शुकी निजं भर्तारं प्रति प्राह-'खामिन् ! किमप्यपूर्व कथानकं ममाने कथय ।' मदना- वली चिन्तयति-'अहमपि शृणोमि यथा दुःखविस्मरणं भवति ।' शुकेनोक्तम् -'प्रिये ! चरित्रमथवा कल्पितं किं कथयामि। शुकी 9. The portion begiuni: with राज्ञीजीवो and ending with उदयो बभूव is missi::A. ततश्च - কখাকায় प्राह-'खामिन् ! चरित्रं कथय । ततो यथा जयसूरो नाम विद्याधरः, यथा श्रुतमती नाम तस्य भार्या, यथाऽष्टापदगमनम् , यथा मुनि- गन्धपूजा, यथा देवलोकगमनम् , यथा सुरपुरनगरे च्यवनम् , यथा सिंहध्वजो राजा, यथा तस्य भार्या मदनावली, इत्येवमामूल- चूलं मदनावलीचरित्रं तेन शुकेन कथितम् । राशी चिन्तयति- 'अयं पक्षी कथं मम भवत्रयं जानाति ? भवतु साम्प्रतं यत्कथयति तच्छृणोमि ।' शुकी पुनः प्राह-स्वामिन् ! साम्प्रतं सा मदनावली क वर्तते.?' शुकः प्राह -'एषा तवाग्रे धवलगृह उपविष्टा दृश्यते।' पुनःशुकी प्राह-'स्वामिन् ! अस्या राश्यारोगस्यास्ति कोऽपि प्रतीकारः ? शुकेनोक्कम्-'यत् पूर्वभवे मुनिदुर्गच्छा विहिता, ततोऽ सिन् भवे एषा दुर्गन्धा बभूव । यदि सप्त दिनानि यावत् सुगन्ध- द्रव्यैत्रिकालं जिनेन्द्रमर्चयति ततोऽस्माद् दुर्गन्धकष्टान्मुच्यते।' ततश्च मदनावली एवं श्रुत्वा तस्य शुकमिथुनस्य पुरो निजं सर्वाना- भरणं प्रयच्छति । एवमुका तच्छुकमिथुनं क्षणेनादृशीवभूव । राजी विस्मयापनहृदया चिन्तयति-'एष शुको मम वृत्तान्तं कथं वेत्ति ? प्रस्तावे शानघरमुनिपार्थे शुकवृत्तान्तं पृच्छामि । साम्प्रतं तेन शुकन यदुक्तं तत्करोमि । सुगन्धैर्जिनेन्द्रं पूजयामि ।' एवं चिन्तयित्वा सप्त दिनानि जिनेन्द्रं पूजयित्वा सप्तदिनप्रान्ते तस्य देहारोग्यं जातम् । दुर्गन्धो गतः। ततो रक्षपालपुरुषै राजा वर्धापितः-'देव! मदनावली- देहाद् दुर्गन्धो गतः । ततो हृष्टचित्तेन रामा गजेन्द्र आरोग्य निज- धवलगृह आनीता । ततो नगरमध्य उत्सवं कारयति । इतश्च तस्मिन् क्षणे मदनावलीसहितो राजा उद्यानपालपुरुषेणैवं विक्षस:- 'स्वामिन् ! अधोद्यानेऽमृततेजो मुनिः केवलशानी समागतोऽस्ति ।' अत्रान्तरे मदनावलीसहितो राजा मुनीन् वन्दितुं चचाल । मुनीन् नमस्कृत्य धर्म शृणोति । इतश्चावसरं प्राप्य मदनावली मुनि पृच्छति-'भगवन् ! येनाहं दुःखे पतिता प्रतिबोधितास का शुकः? सा केवलिना भणिता-'भद्रे ! तव पूर्वभवमर्ता देवो देवलोकादाग- त्य शुकरूपं विधाय तव समीपे समागतः।' राक्षी पुनः केवलिन १. The portion सप्त दिनानि जिनेन्दं पूजयित्वा is missing in A.
कथाकोश पृच्छति-भगवन् अस्मिन् देवसमूहे स देवोऽस्ति किंवा न !' केवलिनोक्तम्-'मणिरत्नकुण्डलामरणो यो देवस्तवाप्रे तिष्ठति अयंस देवः।' राख्या तं देवं प्रति भणितम्-'महाभाग ! अहं दुःखे पतिता त्वयासाधु प्रतिबोधिता, तवोपकारस्य बलिमानं किमुपकारं करोमि ?' देवेनोक्तम्-'भद्रे! अहमद्य सप्तमे दिने देवलोकाच्च्युत्वा विद्या- धरपुत्रो भविष्यामि । त्वयाऽहं तदा प्रतिबोधयितव्यः।' राक्षा तत्तस्य वाक्यं प्रतिपन्नम्। 'यदि मम शानं भविष्यति तदा बोधयि. च्यामि' इत्युक्त्या देवः स्वस्थाने गतः। राशी निजभर्तारं राजानं प्रति प्राह-स्वामिन् ! मयि मोहं त्यज! अहं केवलिसमीपे दीक्षां प्रहीष्यामि ।' राजा भणति-'देवि! प्रस्तावे आवां दीक्षां प्रही- प्यावः। ततो महाग्रहेण स्नेहपाशं छित्वा राशी दीक्षां जग्राह । राजा श्रावकत्वं प्रतिपद्य निजगृहे समागतः । मदनावली तपस्सपति । इतश्च सप्तमे दिवसे स देवश्व्युत्वा विद्याधरपुत्रो बभूव । मृगाङ्क इति नाम कृतम् । क्रमेण यौवनारूढो बभूव । इतश्च मदनावली निजोपाश्रयद्वारे रात्रौ ध्याने स्थिताऽऽकाशे गच्छता विमानारूढेन तेन सुगाङ्ककुमारेण दृष्टा । ततो विमानादुत्तीर्यात्मीयऋद्धिं प्रकट- यन् तां प्रति प्राह-'भद्रे! उग्रं तपः कथं तपसि ? यदि भोगार्थ तपस्तपसि ततो मम वाक्यं शृणु-अहं विद्याधरपुत्रो मृगाङ्कनामा, रखमालायाः पाणिग्रहणनिमित्तं गच्छन्नलि, ततो मया त्वं दृष्टा । इदं विमानमारोहख । रजमालया मम किमपि नास्ति कार्यम् । मया सह विद्याधरसौख्यं परिभुव ।' तस्यैवं भणतोऽप्यनेक- चाटूनि अल्पमानस्यापि मदनावली निजसस्वान्न चलति । यथा यथाऽयं मदनविकारान् दर्शयति तथा तथा मदनावली शुमध्यान- मारोहति । इत्यं तस्या उपसर्ग सहमानायाः केवलज्ञानमुत्पन्नम् । ततो देवमहिमा कृतः। ततो मदनावल्या तस्य मृगाङ्कनाम्रो विद्या- घरस्य देशना दत्ता। ततो विद्याधरण पृष्टम्-खामिन् ! त्वयि ममानुरागः कथम् ।" ततो मदनावल्या तस्य भवत्रयं कथितम् । 'प्रतो मयि तव मोहः। अतः संसारकारणं मोहं परित्यजे, धर्म- विषये उद्यम कुरु।' इति केवलिमुखात्पूर्वभवं श्रुत्वा विद्याधरो १. परित्यज्य for परित्यजZ.
कथाकोशः वैराग्यवान दीक्षां जग्राह । तपस्तप्त्वा शिवं जगाम । मदनावल्यपि केवलिपर्यायान् पालयित्वा भव्यजीवान् प्रतिबोध्य मोक्षं जगाम । इति गन्धपूजाविषये मदनावलीकथानकम् ॥ नैवेद्यपूजाविषये हालिककथानकम् । आइ जो नेवबं जिणपुरउ भत्तिनिन्भरमण । सो नरसुरशिवसुख लहै नरो हलियपुरसुव । ढोवै बहुभत्तिजुउनेवजं जो जिणंदचंदाणं । भुजई सो वरभीए देवासुरमणुयनाहाणं ॥ अत्रैव भरते क्षेत्रे खेमा नानी नगरी। तत्र सूरसेनोनाम राजा। इतश्च पूर्वतस्य राज्ञो वंशे धन्या नानी नगरीपासीत्। तस्यैव राक्षो वंशे सिंहध्वजो नाम राजा बभूव । तस्या नगर्याः प्रवेशमार्ग एक उग्रतपा मुनिः कायोत्सर्ग स्थितः । ततश्च नगरीमध्ये प्रविशन् निर्दयों लोकः 'अयमस्माकमपशकुनः' इति भणित्वोपसर्ग करोति। ततश्च तलिन् क्षणे तनगरनिवासी देवः कुपितो नगरलोकस्य । अत्रान्तरे घोरोपसर्ग सहमानस्य मुनेः केवलबानमुत्पन्नम् । तत्कालमेव मरणं सजातम् । ततो नगपधिष्ठातृदेवो नगरलोकं मारयिष्यामीति प्रतिजले। राक्षा महाभक्त्याऽऽपधितो देवः। ततो देवेनोक्तम्- 'राजन् ! एतां नगरीमुद्वास्यान्यत्र नगरी निवेशय यथा क्षेम भवति। ततोऽन्यत्र नगरी निवेशिता । क्षेमापुरीति नाम कृतम् । सोऽपि सम्यग्दृष्टिदेवोऽरण्येऽपि ऋषभभुवनेसिंहरूपेण परिवसति, दुधना प्रवेशमपिन ददाति । इतश्चैको हालिक:श्रीऋषभमन्दिरस्याने हलं खेटयति । क्षेमपुरनगरात्तस्य भार्या भनमानयति । एवं तस्य दिवसा ब्रजन्ति । अन्यस्मिन् दिने तत्र अषमभुवने एकचारणो मुनिः समागतोजिनं नन्तुम् । तं दृष्ट्या हालिकोऽपि तत्र समागतः। मुनि नत्वाहालिकेनोक्तम्-'भगवन् ! मनुष्यजन्मनि अहमेवं कथं दुःखी?' मुनिनोक्तम्-'पूर्वमवे त्वया मुनीनां दानं न दत्तम् । जिनाने नवेचं न दत्तम् । अतस्त्वं भोगरहितः।' इति श्रुत्वा तेन तस्य मुनेः' सावं १. जिणिंद for जिद Z. २. भुजै for मुंबड Z. ३. निंदये A. निदव 2. ४. इति प्रतिजले is supplied by the Editor.
, कथाकोशः नियमो गृहीतः-भगवन् ! अधप्रभृति निजभोजनमध्याजिनपुरतः पिण्डीकत्या नैवेद्यमुपढौकयिष्यामि । यथाशक्त्या मुनीनामपि दानं दास्यामि ।' मुनिनोक्तम्-'वत्स ! नियमं गृहीत्वा मा प्रमाद कार्षीः' इत्युका मुनिराकाश उत्पपात । स हालिकोऽपि प्रतिदिवसं भक्त समागते जिनपुरतो नैवेद्यमुपढौकयति । अन्यदाऽतिक्षुधितस्य चिरकालाद् भक्त समागतम् । भोजनायोपविष्टो यावत्कवलमुत्पाटयति तावनियम स्मरति। ततश्च कवलं त्याला नैवेद्यं गृहीत्वा यावजिनमन्दिरे याति तावद् दंष्ट्राविकरालमुखं महासिंह पश्यति । ततो हालिकश्चि- न्तयति-नैवेद्यमदत्त्वा कथं भोजनं करोमि। तावदद्य मम जिनाने जीवितमथवा मरणं भवतु पुनमयाऽवश्यं नैवेद्यं दातव्यमेव' इति सत्त्वमवलम्ब्य यथा यथा जिनभुवने याति तथा तथा सोऽपि सिंहः पश्चिमपदाभ्यामपसरति । तस्येक्सत्त्वेन परितुष्टो देव इति निश्च- लचित्तो यावनिजगृहे प्रविशति तावसिहोऽदृश्यो बभूव । भक्ति- मरनिर्भरो जिनवरेन्द्रस्य नैवेद्यं दत्त्वा निजस्थाने समागतो हालिकः। ततश्च स एव देवो भोजनसमये मुनिवेषेण तस्य हालिकस्य समीपे सत्त्वपरीक्षार्थे समागतः । यावद्धालिकः कवलमुत्तिपति तावदने मुनिष्टः । यद् भक्तं भोजनार्थ सद्गृहीतं तत्परितुष्टेन मुनये दत्तम् । अन्यद् मतं गृहीत्वा यावद्ः भोजनं करोति तावत्पुनरेको मुनिः समागतो वृद्धवेषेण । ततस्तस्यापि भक्तं दत्तम् । यावत्पुनर्मोजनं करोति तावत्वुलकवेषेण समागतो मुनिः । ततोऽवशिष्टं भक्तं तस्मै दत्तम् । एवं वारत्रयं मुनये भक्तं दत्तम् । ततोऽतिसत्त्वेन परितुष्टो देवः । प्रकटितं देवरूपम् । हालिकं प्रत्युक्तं देवेन-'भो भो जिनवर- भक्ती शुद्धभत्या तवाहं तुष्टः । ततः प्रार्थयस्व वरम् ।' हालिकनो. कम्-स्वामिन् ! यदि मे परितुष्टोसि ततोऽमुष्मात् समूहान्मां विच्छोटय । देवेनोक्तम्-'एवं भवतु ।' इति भणित्वा गतो निजस्थाने देवः । हालिकेन सर्व देवदर्शनं प्रियाने निवेदितम् । तयोक्तम्-'स्वामिन् ! त्वं धन्योसि येन शुद्धभत्त्या जिनवरेन्द्र प्रायषितः। तयैवमनुमोदनं कुर्वत्या पुण्यमर्जितम् । इतश्च क्षेमपु- रीनमयों सूरलेनरामः पुत्री विष्णुश्रीरत्यन्तरूपपात्रं वर्तते । राजा तस्याः पुच्या योग्यं वरमलभमानः खयम्वरं कारयति । ततश्च सर्वे.
कथाकोशः राजपुत्रा प्राकारिताः । स्वयम्वरदिवसे सर्वे राजानः कृतश्पृङ्गारा मञ्चे ज्वारूढाः। ततो विष्णुश्रीः सर्वाङ्गाभरणा खयम्वरमध्ये समागता। इतश्च सोऽपि हालिकस्तं खयम्बरं श्रुत्वा विलोकयितुं समागतः। क्रमेण प्रतीहारी सर्वेषां राज्ञां वंशान् वर्णयित्वा विष्णुश्रीसहिता स्वयंवरद्वारे समागता ।हलमारूढोहालिको दृष्टः । कृतसुरसानिध्यया कन्यया सर्वान् राजपुत्रान् मुक्का हालिको वृतः । ततश्च तस्याः पितरौ दुखिनौ जाती-'धिगस्मान् यदस्मत्पुञ्या हालिको वृतः।' इति । ततश्च सर्वे राजानः सकोपा जाता:-'अस्मासुविद्यमानेष्वनया हालिकः परिवृतः । ततोऽस्याः पुच्या अस्य हालिकस्य च न दूषणम् , एतत् सूरसेनराक्षः पुत्रीपितुर्दूषणम्-अस्मान् श्राकार्य हालिकाय कन्या प्रदत्ता। तदेनं हालिकं व्यापाचैनां ग्रहीष्यामः । एवमुला सर्वे राजानो हालिकं प्रति दधाविरे । हालिकोऽपि देवताबलेन तैः सर्वैः सह युद्धं करोति । हालिकेन समं सर्वेऽपि राजानो युद्धं कुर्वन्ति । ततश्च हालिको हलमुत्पाट्य करिकुम्भान् मिनत्ति, तुरङ्गमघटा नि- हन्ति, रथाने भूरयति । ततश्च सर्वे राजानो विस्मिताः । परस्पर- मित्थं कथयन्ति-एष किं देवः ? किं वा विद्याधरः? किंवा कोऽपि सिद्धपुरुषः १ यदेवं बलं दृश्यते । यावदयं सर्वेषां संहारं करोति तावदुपशामं नीयते ।' एवमुला चण्डसिंहप्रमुखाः सर्वे राजानो मिलित्वा हालिकं वामयन्ति-'देव! यदस्माभिरशुभं कृतं तत्क्षन्त- व्यम् । ततश्च तस्यैवंविधं चेष्टितं विलोक्य जननीजनकाभ्यां महोत्सवेन विवाहं कृत्वा हालिका परिणयितः । ततः सर्वे राजानो मानं दत्त्वा विसर्जिताः।हालिकोऽपि विष्णुश्रिया सह राज्यसौख्या- न्यनुभवति । अन्यदा स एव देवः प्रत्यक्षीबभूव । हालिकं प्रत्युक्तम्- 'महाभाग ! अन्यदपि यत्किश्चित्प्रार्थयसि तत् ते त्वरितं ददामि।' हालिकेनोक्तम्-'खामिन् ! यद्येवं तत् त्वया या नगरी उद्वसीकृता सा व तु तव प्रसादात् ।' देवेनोक्तम्-'भवत्वेवम् । ततः सा नगरी वासिता । विष्णुश्रीसहितो हालिकराजा नवनवान् विलासान् करोति । श्रीजिनेन्द्राणां नैवेद्यपुण्ययोगेनेह लोकेऽपि राज्यं प्राप्तम् । ततो. नैवेधफलं पात्वा द्वाभ्यां प्रियाभ्यां सह प्रतिदिवस जिनपुरतो नैवेद्य- १. रथान् is missing in A. २. तत् for ततश्च A.
कथाकोशः मुपढोकयति । एवं सुखावगाढस्य दोगुण्डिकदेववत् तस्य दिवसा ब्रजन्ति । इतश्च स एव देव आयुक्षये व्युत्वा विष्णुश्रीगर्भ उत्पन्नः। सम्पूर्ण दिवसे पुषजन्म । कुंसुद इति नाम कृतम् । क्रमेण यौवनवयो बभूव । बेहेन हलराशो वल्लभो बभूव। कियत्यपि गते काले तस्य पुत्रस्य राज्यं दत्त्वा व्रतं जग्राह । नैवेद्यपुण्यफलेन मृत्वा प्रथमदेव- लोके देवो बभूव । अवधिमानेन चिन्तयति-'पूर्वभवे मया किं पुण्यं कृतं येन मयैषा ऋद्धिःप्राप्ता?' ततो नैवेधपुण्यफलेनेडशी सम्पत् मम सजाता' इति चिन्तयति । प्रात्मभावचरित्रं शात्वा निजपुत्रप्रतिबोध- नार्थ प्रतिदिवसं समायाति ।रजनीपाश्चात्यपहरेएवंमणति-'राजन् ! एकाग्रचित्तेन मम वचनं शृणु-यन्मया पूर्वभवे महामन्या जिन- वरस्य नैवेद्यं दत्तं तेन ममषा ऋद्धिः सजाता, परं तव प्रसादाजिन- धरधर्माच एषा ऋद्धिः सखाता । ततस्त्वमपि जिनवरधर्म कुरु । अहं तव पिता जिननैवेद्यफलेन देवलोके देवो जातः। पूर्वभवमोहेन तव बोधनार्थ समागतः । अतस्तवापि जिनधर्मः शरणम् इति पुत्रं प्रतिबोध्य देवलोके देवः सम्प्राप्तः। जिननैवेद्यफलेन सुरनरसौख्या- म्यनुभूय सप्तमे भवे मोतं यास्यति । इति श्रीनैवेद्यपूजाविषये हालिककथानकम् ॥ दीपपूजाविषये दीपशिखकथा । दाऊण दीवयं जो जिणस्से पुरउ पराई भत्तीए। पत्तामुखं अक्लेमि गंधमदाइत्तीऐ ॥१॥ अत्रभरते श्वेताम्बिका नाम नगरी। तत्र विजयवर्मा नाम रोजा । गन्धभद्रा नाम कर्मकरी । अन्यदातया जिनस्य दीपपूजापुण्य- फलं श्रुतम् । यतः- चंग अंग सुद्धा बुद्धी अवलक्खयाई अक्साई। सव्वुत्तमं पहुत्तं जिणंददीवयपयाणफलं ॥२॥ इति श्रुत्वा तस्याः श्रद्धा बभूव । ततो न्यायोपार्जितेन दीप- १.जिगंदस्य for जिणस्स A. २. पराय for पराइZ... After this line Z.adds 'तस्या गन्धभदाया पाख्यानं चारित्रं भनेमि कथयाम कह'. ४. राजा । गन्धमा नाम is missing in A...बंगे for चंगं A.
कथाकोशः समये जिनमन्दिरे प्रदीपो दत्तः । श्रायुम्क्षये मृत्वा तस्यामेव नगयाँ विजयवर्मणो राको जयामार्योदरे उत्पनो जीवः । तस्मिन् क्षणे राकी खमे मुखे प्रविशन्तं ज्वलन्तमग्निं पश्यति । प्रभाते राज्ञोऽने विक्षतम् । राक्षा कथितम्-'देवि ! उत्तमः कोऽपि पुत्रो भविष्यति । ततश्च तृतीये मासे दोहदो जातः । देवी ति जानाति यदहं देवान् गुरूंश्च पूजयामि । दीनानां दु:स्थितानां दानं ददामि । राक्षा पूरितो दोहदः। सम्पूर्णेषु दिवसेषु पुत्रो जातः । वर्धापनकं जातम् । दीपशिख इति नाम कृतम् । सहजेनापि तस्य ललाटे दीपशिखासदृशेन रतिलकेन सर्वस्य जनस्य चित्ते विस्मयो बभूव । इतश्च कान्तिपुरे विक्रमसेनो नाम राजा । तस्य गन्धर्वदत्ता नाम पुत्री । सा वीणावादनकलागर्वि- ताऽऽत्मानमेव मन्यते । एवञ्च कथयति-'यः कोऽपि वीणावादन- कलया मा जेष्यति अहं तं भर्तारमङ्गीकरोमि । ततो राक्षा स्वयम्वरमण्डपो रचितः । सर्वे राजपुत्रा आकारिताः । दीपशिखोऽपि यौवनाधिरूढस्तस्मिन् स्वयंवरे समागतः । सर्वेषु राजकुमारेषु मञ्चेष्पविष्टषु गन्धर्वदत्ता स्वयंवरमध्ये समागता । तां दृष्ट्वा दीपशिखेन चिन्तितम्-'अहो विधेर्विनिर्माणविक्षा- नम् ।' गन्धर्वदत्तया दीपशिखकुमारो दृष्टः । ततो गन्धर्वदत्ता चिन्तयति-'अहो वीणाविनोदविज्ञानवर्जितोप्येष पुरुषः पुरुषरत्नम् , तावन्मयाऽयमेव परिणेतव्यः। तदा सा कुमारी दीपशिखं दृष्ट्वा तन्मया बभूव । इतश्च जालन्धरपुरुषेण वयंवरमध्ये एवमुक्तम्- भो भो ! राजकुमार! अनया राजपुत्र्या इयं प्रतिज्ञा कृताऽस्ति- 'एतेषां कुमाराणां मध्ये यः कोऽपि वीणाकलायां ममाधिकोऽस्ति स मम प्रियः। ततो यूयं निजनिजवीणाविज्ञानं प्रकटीकुरुत। तत एवं श्रुत्वा एकेन गर्वितेन राजकुमारेण वीणा वादिता। आसने एको मत्तगजेन्द्र स्थापितः। वीणां पादयताऽनेन राजकुमारेण स्तम्मितो गजः। ततो राजकन्यया चिन्तितम्-'एतेऽपि राजपुत्रा अतीव कला- कुशला दृश्यन्ते । ततो मया यः पूर्व दृष्टः कुमारः अहं यदि तमेव भृणोमि ततोऽभमप्रतिज्ञा भवामि ।' ततोऽज्येन राजकुमारेण वीणा गृहीता। वन्ध्यवृक्षः स्थापितः, वीणां वादयित्वा फुल्लावितो वृतः। १. दिवसेषु is missing in A.
कथाकोशः ततोऽन्येन गृहीता वीणा। मधुरखरं वादयित्वा दूरस्थो मृग आकृष्टः। ततोऽन्येन गृहीता वीणा। प्रत्यासनो गजः स्थापितः। दत्तो मिष्टा- घस्य कवलो गजस्य । वीणां वादयित्वाऽर्धमतं कवलं त्याजितो गज इत्यादीनि बहूनि वीणाविज्ञानकौतुकानि दर्शितानि सर्वैः कुमारैः। ततो गन्धर्वदत्तया वीणा गृहीता, वादिता मधुरखरम् । ततो दूरा- दपि मत्तगजेन्द्रः खरेण मूले समागतः। मृगो दूरादपि समागतः। आमूलं फुल्लावितो वन्ध्यवृक्षः। मूलादपि कवलं त्याजितो गजः । सर्वेऽपि राजकुमारा विस्मिताः । परस्परमेवं चिन्तयन्ति -'यद् दुपापा एषा राजकुमारी। इतश्च दीपशिखत्य वीणाऽपिता । वादिता दीपशिखेन वीणा। सर्वोऽपि लोको वीणां श्रोतुमुत्कण्ठितो बभूव । अनेन तथा वीणा वादितायथा स्वयम्वरमध्ये सर्वोऽपि लोकः सुप्तः। तं सर्वे सुप्तं दृष्ट्वा दीपशिखकुमारेण राजपुत्रीहस्तान्मुद्रिका गृहीता। विक्रमसेनराजहस्तात्सुवर्णकटकं गृहीतम् । अन्येषामपि सर्वेषामाभ- रणानि गृहीतानि । स्वयंवरमध्ये कृत आभरणराशिः, क्षणान्तरे जजागार राजलोकः । अाभरणराशिदृष्टः । विस्मितचित्तेन राजलोकन भणितम्-'अहो ! अपूर्वमस्य वीणावादनविज्ञानम् ' परितुष्टया गन्धर्वदत्तया तस्य कण्ठे वरमाला तिता। विस्तरेण कृतं पाणिग्रहणम्। कियत्कालं तत्र स्थित्वा गन्धर्वदत्तासहितश्चलितो निजदेशं प्रति कुमारः। मार्गे गच्छन् प्रतिष्ठानपुरे समागतः। तत्रोधाने परिसर आवासितः । इतश्च तस्य पुरस्य स्वामिनः कर्कराजस्य पुत्री लीलावती नाम्नी सर्पण दष्टा मृतेति भणित्वा चितां प्रति निस्सार्यते । दीपशिख- कुमारेण वाहित्रशब्दः श्रुतः। भणिता गन्धर्वदत्ता-'प्रिये ! जीवन् मानुष्यं निस्तार्यते।' तया भणितम्-'कथं जानासि स्वामिन् ?' तेनोक्तम्-'प्रिये स्वरविशेषादहं जानामि । तयोक्तम्-'स्वर- विशेषेण कथं शायते ?' तेनोक्तम्-'मन्त्रबलेन सर्वे ज्ञायते।' तयोक्तम्-'यद्येवं ततो जीवापय तन्मृतकम् ।' ततो निजपुरुषा प्रहितः। स्थापितो मृतकः । लिम्पायितश्चितासमीपे । एवं कृते पश्चात्कुमारो गतः। दृष्टः कर्केण राजा। तं कुमारं दृष्ट्वा विस्मितो राजा । अवश्यं जीवापिता लीलावतीति चिन्तयति। कृतः शिखाबन्धो १. मृगो दूरादपि समागतः is missing in A, कथाकोशः ४३ - दीपशिखकुमारेण । लिप्तभूमौ मोचिता लीलावती । कुमारेण मन्त्र स्मृत्वेति भाणिता कुमारी-'उत्तिष्ट, मुखशौचं देहि मे। गृहीतवर्ण- करिकोत्थिता लीलावती । सर्वोऽपि हृष्टो लोकः । जातं वर्धापनकम् । कर्केण राक्षा विजयधर्मपुत्रं ज्ञात्वा दीपशिखाय दत्ता लीलावती कन्या। विवाहो बभूव । ततश्च कियन्ति दिनानि तत्र स्थित्वा पुनः स्वदेशे चलितः। मार्गे गच्छन् क्रमेणोजयिनी प्राप्तः। दैवयोगेन तत्रावासितः। इतश्च सन्ध्यासमये जाज्वल्यमानां चितां पश्यति कुमारः। तत्र गतो निशासमये भार्याया अग्रेकथयित्वा । खाहस्तो गतश्चितासमीपे। यावदेकस्य वृक्षस्य मूले स्थितोऽस्ति तावत्समागतो विद्यासाधकः पुमान् । तेन मण्डलमालिख्य मन्त्रखरेण डमरको वादितः । मण्डल- मध्ये एका कन्यका निर्देशिता । विद्यासाधकेन कन्यैवं भणिता- 'अरे! इष्टदेवं स्मर। समागतोऽवसानकालस्तव ।' यावत्चुरिकामा- कृष्यैवं कन्यां भाययति तावत्कन्यकाऽऽन्दितुं प्रवृत्ता । ततो जाता- नुकम्पो दीपशिखः कुमारः । एवं कन्याविलापं श्रुत्वा कोशात् खगमाकृष्य 'मा बिभेहि' कन्यां प्रत्येवं भणति । विद्यासाधकपुरु- षोऽने बभूव । उक्तश्व-रे रे दुराचार ! पुरुषाधम ! इमामबला मारयन् किं न लजितः१ अनेन खड्नेन तव शिरोऽपनेष्यामि इति वीरवचनं श्रुत्वा भयकम्पमानसर्वाङ्गो विस्मृतमन्त्रस्मरणो विद्या- साधको बभूव । साधकेन भणितं कुमारं प्रति-'महाभाग ! मम विद्यासाधनार्थमुद्यतस्य विघ्नं कर्तुं तव न युक्तम् । अहं भारिभूतिनामा विद्यासाधकः। मया स्त्रीरत्नाकर्षणस्य मन्त्रस्य साधनं प्रारब्धम् । द्वादशमासान् सेवा कृता। ततोऽद्य प्रधानदिवसे मन्त्रबलेनैषा राज- कन्याऽऽनीता होमनिमित्तम् । ततो विघ्नं मा कुरु।' इतश्च दीपशिख- कुमारेण भणितम्-'भो महाभाग ! अनुचितः स्त्रीवध उत्तम- पुरुषस्य । ततोऽत्यन्तपापहेतुना स्त्रीवघेन पर्याप्तम् । त्वं तु मनो- हराकृतिदृश्यसे । अतस्तवानुचितोऽयं स्त्रीवधः। ततो लजितो विद्यासाधकपुरुषः कुमारं प्रति भणति-'भो महानुभाव ! साधु प्रतिबोधितस्त्वयाऽहं महापापात्मा । ततो मयैतत् पापकर्म परित्यक्तम् । अतः साम्प्रतं गच्छामि खस्थानम् । त्वयैषाऽवन्तिनी १. दीपशिष्य: for दीपशिखः Z. २. बिभ्यसु for विमेहि MSS.
कथाकोशः नानी कन्याऽवन्तिवर्धनस्य राक्षः समर्पणीया।' कुमारेण भणितम्- 'एवं करिष्यामि । एवमुक्त्वा गतो विद्यासाधकः स्वस्थाने । दीप- शिखकुमारोऽपि कन्यासहितो निजावासे गतः। कथितो वृत्तान्तः खकलत्रयोः । प्रभातेऽवन्तिवर्धनस्य समर्पिता पुत्री। यथावृत्तं कथितं राज्ञोऽने। परितुष्टोऽवन्तिवर्धनो राजा। तस्मै दीपशिखाय दत्ता पुत्री। विवाहोत्सयो बभूव । कियन्तं कालं स्थित्वा क्रमेण पुन- निजदेश प्रति चलितः। मार्गे गच्छन् पद्मावत्यां नगयाँ समागतः । नगरीबायोद्यान आवासितः। शातवृत्तान्तेन तन्नगरीखामिना मञ्च- राक्षा महोत्सवेन नगरी प्रवेशितः कुमारः। इतश्च तस्य राज्ञः सभायां परस्परमीदृशः संवादो बभूव । मञ्चराझोक्तम् -'देवता मनुष्यगात्रेड वतीर्य किश्चित्स्फुटं न जल्पन्ति ।' दीपशिखेन भणितम्-'स्वामिन् ! एवं मा भण । एतत् सर्वे घटते।' पुना रालोक्तम्-'मनुष्यशरीरे- मानुषं कथमवतरति ? दीपशिखेनोक्तम्-'यदि तव कौतुकं ततोऽहमेवैवं करोमि। ततो राशा कामलता नानी निजपुत्री पाना- यिता । दीपशिखकुमारणे स्मृतो मन्त्रो निजहृदये। आकारितो हनूमान् महावीरः । तावद् वाताहतपत्रमिव पात्रं घूर्मयति, न च जल्पति । ततो दीपशिखकुमारेण गाढं मन्त्रस्मरणं विहितम् । ततश्च वक्तुं प्रवृत्तं पात्रम् । दीपशिखेन भणितम् । 'तावदपरं प्रष्टव्यमस्तु । कथमत्र कालविलम्बो बभूव।' दीपशिखेनोक्तम्-'प्रथम भव्यपात्रं विलोक्यते, अक्षीणपञ्चेन्द्रियैः सहितम् , यत्परेषामिन्द्रियैर्वक्तव्यम् । अतोऽहं हिमाचले गत्वा तत्र दिव्यौषधीरानीयात्रागता । एत- कालविलम्बकारणम् । अन्यदपि पद्मावतीपुरीस्वामिना पृष्टम् । तत् सर्व कथितं देव्याः। ततः परितुष्टो राजा दीपशिखो देवतां विसर्ज- यति । तत्प्रभृति कामलता राजपुत्री सरस्वतीव संलपति । ततो दत्ता दीपशिखकुमाराय कामलता। कियन्ति दिनानि तत्र स्थित्वा भार्या- चतुष्टयसहितः श्वेताम्बिकां नगरी प्राप्तः। तत्र निजपितुर्मिलितः। कृतं वर्धापनकम् । विजयवर्मराक्षा दीपशिखं राज्ये निवेश्य दीक्षा गृहीता । दीपशिखो राज्यं करोति । अन्यदैवं चिन्तयति-'पूर्वभवे १. मात्रे for गात्रे Z. २. Z. adds आनायिता। मण्डलमध्ये निवे- शिता after दीपशिखकुमारण.
থাকীয় ५१ मया कि पुण्यं कृतं येनेदृशं सौख्यं मम सातम्' इतीहापोहं कुर्वतस्तस्योत्पन्नं जातिस्मरणम्। ततो दीपपूजाफलं दृष्टम् , विशे- पतो धर्म करोति॥ इति दीपपूजायां दीपशिखकथा । दानविषये कुरुचन्द्रकथा । साहारणछदाणे बहुण साहारणं फलं होइ । तत्थय कुरुचंदस्स व्व उत्तमफलसोहगो भावो॥१॥ जम्बूद्वीपे अत्रैव भरते गजपुरं नाम नगरम् । तत्र कुरुचन्द्रो नाम राजा । इतश्चान्यदा श्रीशान्तिनाथः समवस्तो गजपुरोधाने । राजा महाविभूत्या श्रीशान्तिनाथं वन्दितुं जगाम । स्वामिनं प्रणम्य धर्म शृणोति राजा । प्रस्तावं प्राप्य पृष्टो जिनः-'स्वामिन् ! केन पुण्येन मयैवंविधं राज्यं प्राप्तम् । अन्यच केन कर्मणा वस्त्रफलप्रमु- खानि पश्च पञ्च वस्तूनि प्रतिदिवसं दोयनिकायां सम्पद्यन्ते । तानि भणित्वाऽऽत्मना नोपभुऔमि, अन्यस्य कस्यापिन ददामि । एतत्सर्वे ममाग्रे समादिश, स्वामिन् !' भगवान् प्राह -'राजन् साधुदानात्त्वया राज्यं प्राप्तम् । यथा पुण्यफलेन प्राप्तं तत्पुण्यं शृणु- 'अत्रैव भरते श्रीपुरं नाम नगरम् । तत्र परस्परं प्रीतिमन्तश्च- त्वारो वणिजो वसन्ति । ते चामीभिर्नामभिर्विख्याताः सुधनधनपति- घनेश्वरधनदाः । चत्वारोऽप्यर्थोपार्जनाय रनद्वीपं प्रति चलिताः । तेषां चतुर्णा द्रोणको नाम कर्मकरः सेंबलवाहको वर्तते । अन्यदा तैस्सर्वैर्वनमध्ये प्रतिमया स्थितो महामुनिदृष्टः । चिन्तितञ्च-'अहो! अस्माकं पुण्यमुपस्थितं यदयमुपशमराशिरिव मुनिदृष्टिगोचरं गतः। तदेतस्मै मुनये किञ्चिहत्त्वाऽऽत्मानमनुगृहीमो वयम् । मुनेरपि गोचरसमयो बभूव । ततस्तैश्चतुर्भिोणक एवं भणित:-'भो भद्र द्रोणक! देह्यस्मै मुनये किश्चित् । ततस्तेभ्योऽधिकश्रद्धया प्रतिला- मितो मुनिः । तेन द्रोणकेन बद्धं महापुण्यफलं कर्म । ततस्तेन रसद्वीपं प्राप्ताः । तत्रार्थमुपार्जयित्वाऽऽगताः स्वदेशम् । तेनैव पुण्य- १. ढोयनिकायो for दोयनिकायां A. २. नोपभुजानि for नोपभुञ्जामि 2. 1. कर्म is missing in Z. ४. संबल• for सबल Z.
कथाकोशः बीजेन सर्वदापि ते ऋद्धिमन्तोजाताः। किन्तु धनपतिधनेश्वरावतीव मायाविनौ वर्तेते, सुधनधनदाभ्यां सह सूक्ष्ममायया व्यवहार कुरुतः । द्रोणकोप्यत्यन्तनिर्मलचित्तः, आयुःक्षये मृत्वा गजपुरे नगरे दुष्पसहस्य राक्षः श्रीसुन्दरीकुक्षौ चन्द्रखमेन त्वं कुरुचन्द्रो बभूव । अत्रान्तरे सुधनधनदौ मृत्वा समुत्पत्रौ पृथक् पृथग वणिग्पुत्रौ । एकः काम्पिल्यपुरे द्वितीयः कार्तिकपुरे। एकस्य वसन्तदेव इति नाम, अन्यस्य कामपाल इति नाम | तावपि मायाविनी धनपतिधने- श्वरौ आयुःक्षये मृत्वा मायाप्रभावन स्त्रीत्व उत्पन्नौ, एका शंखपुरे, अन्या जयन्त्याम् । एकस्या मयल्लेति नाम, द्वितीयस्याः केसरेति नाम । क्रमेण सर्वेऽपि यौवनं प्राप्ताः । इतश्चान्यदा काम्पिल्यपुराद् वसन्तदेवोऽर्थोपार्जनाय जयन्त्यां गतः । तत्राष्टमीचन्द्रमहोत्सवे रतिनन्दनोद्याने केसरा दृष्टा, तयापि सः । वसन्तदेवेन जयन्ती- वास्तव्यः पुरुषः पृष्टः-'एषा का नारी?' ततश्च सजातमित्रभाव: प्रियङ्करो नाम वणिकपुत्रः प्राह-'अहो मित्र! पञ्चनन्दिनः श्रेष्ठिनः पुत्री केसरी नाम, जयन्तदेवस्य भगिनी ।' ततो वसन्तदेवो जयन्तदेवेन सह मैत्री करोति । अन्यदा जयन्तदेवेन वसन्तदेवो भोजनाय निजगृहे निमन्त्रितः। ततोवसन्तदेवेन दृष्टाऽत्यन्तरूपवती केसरी। इतश्च जयन्तदेवस्य हस्ताद् वसन्तदेवः कुसुमानि गृह्णाति । ततश्च प्रियङ्करा नानी तस्याः केसराया धात्री तच्छुभ शकुनं विचार- यति।ततः केसरी प्रति प्रियङ्कराप्राह-'देविकेसरे अस्य वसन्तदेवस्य कामपि प्रतिपत्ति कर्तुतवापि युक्तम् ।' तयोक्तम्-'तव यद्रोचते तत् कुरु । ततो निजगृहोद्याने गतस्य वसन्तदेवस्य प्रियङ्गमञ्जरीककोल- फलानि समर्पयन्ती प्रियङ्करा प्राह-'सुन्दरखहस्तारोपितवृक्षसमु- त्पत्रानीष्टानीमानि केसरया मम स्वामिन्या तत् प्रेषितानि ।' ततो हर्षितेन वसन्तदेवेन तस्या भावं शात्वा प्रियङ्करैवमुक्ता-'भद्रे त्वया साधु कृतम्, इत्थमन्यदपि यत्तव योग्यं तत्कर्तव्यम् ?' ततो गत्वा केसर्यप्रे एवं सर्व कथितं प्रियकरया। केसरा परितुष्टा जाता। इतश्च रजनीपश्चिममहरे केसरया खमो लब्धः-किलाहं वसन्तदेवेन परि. 1. The portion beginning with ottato and ending with •स्वहस्ता• is missing in. A.
कथाकोशः गीता । वसन्तदेवेनापि खनो दृष्टो यत् केसरया सह परिणयनं कृतम्। प्रभाते तुष्टचित्तया केसरया प्रियकराऽने खप्नः कथितः। अत्रान्तरे पुरोहितनोक्तम्-‘एवं भविष्यति।' इति पुरोहितवचनं श्रुत्वा वे अपि हष्टे जाते । प्रियङ्करा प्राह केसरां प्रति-'सर्वथा वसन्तदेवस्तव भर्ता भविष्यति । केसरया शकुनप्रन्धिर्वद्धा। प्रियङ्करया वसन्तदेवस्याने केसरास्वमवृत्तान्तः कथितः । वसन्तदेवेनाऽऽत्मखप्नः कथितः। स्वान- संवादात्सिद्ध कार्य मन्यमानःप्रमोदंगतो वसन्तदेवः। एवं प्रतिदिवसं प्रवर्धमानानुरागयोस्तयोर्गतः कियान कालः । इतश्चान्यदा निजगृहे स्थितेन वसन्तदेवेन पञ्चनन्दिश्रेष्ठिगृहे मालतूर्यशब्दः श्रुतः। 'अहो किमेतत् ? ततश्चैकया कर्मकर्योकम् -'यतोऽध केसरा कान्यकुब्ज- वास्तव्यसुदचश्रेष्ठिपुत्राय वरदत्ताय दत्तातनिमित्तमेतद्वर्धापनकम्।' एवं श्रुत्वा मूच्छितो वसन्तदेवः । अत्रान्तरे आगता प्रियङ्करा, तयाऽऽश्वासितो वसन्तदेवः, भणितश्च-'अहं केसरया प्रेषिता, तया इति सन्दिष्टम् -'त्वया खेदो नकर्तव्यः। एतैर्मम मातृपितबान्धवैर्मम चित्तमजानद्भिरेतत्सर्वे प्रारब्धम् । सर्वथा मम त्वमेव भर्ता । त्वां विनाऽन्यथा मया मर्तव्यम् ।' एवं श्रुत्वा परितुष्टो वसन्तदेवः । भन्ना मूर्छा । ततो वसन्तदेवेन भणिता प्रियङ्करा-भरे ! अस्मिन् व्यति- करे ममाप्येष निश्चयः।' प्रियङ्करया गत्वा कथितं केसराने।सा पुन- र्जाता। तयोविवाहोपायं चिन्तयतोर्गता बहवो दिवसाः। इतश्च जन्य- यात्रा समागता।ततोवसन्तदेवचिन्तयति-'प्रभाते विवाहोभविष्यति' इति श्रुत्वा दुःखमना नगरानिर्गत्य वनमध्ये गतश्चिन्तयति-'अहो विधेविलसितम् । सा कन्या मम परिणयने कृतप्रतिक्षा मातृपितृमि- रन्यसै दीयमाना मरणं करिष्यति, ततोऽहं यावत्तस्या मृत्यु न शृणोमि तावत्प्रथमं प्राणत्यागं करोमि' इति विचिन्त्याशोकवृक्षस्य शाखायां पाशं बद्धा यावदात्मा बद्धो वसन्तदेवेन तावद्वन्धुरिव वनगहरात्समागतः पुमानेकः । तेनोक्तम्-'अहो महाभाग ! एवं साहसं मा कुरु', इति कथयित्वा पाशा छेदितः। किविलीवृक्षतले तमानयति । द्वाषप्युपविष्टौ । पुरुषो भणति-'हो महाभाग! किमेवमुत्तमजनविरुद्धमारब्धम् । ततो वसन्तदेवो निजवृत्तान्तं १. दिनश्रेष्ठ• for नन्दिष्ठि.2.
५४ कथाकोशः कथयति । अथ पुरुषः प्राह-'यद्यप्येवं तथापि तव विवेकिनो न युज्यते एवं कर्तुम् । अत्र कोप्युपायो योज्यः। यद्युपायेनापि कार्य न सिद्धयति ततो मरणं शरणम् । अहमप्यस्मिन्नेव व्यतिकरे दु:खितो जीवामि यतो 'जीवनरो भद्रशतानि पश्यति । एवं श्रुत्वा वसन्तदेवः प्राह-'महानुभाव ! कस्त्वम् ? कथं वा दुःखी?" तेनोक्तम्-"काति- कपुरवास्तव्यो वणिकपुत्रः कामलनामाहम् । अन्यदा देशानां दर्शनार्थ विनिर्गतः, परिभ्रमन् क्रमेण शंखपुरे समागतः। अन्यदा तसिन्नगरे शंखयक्षस्य यात्रार्थ सर्वोऽपि लोको बाह्योद्याने मिलितः। अहमपि तत्र गतः। तत्र सहकारवनमध्ये मयैका कन्यका दृष्टा । तयाऽप्यहं दृष्टः । ततो महानेहो द्वयोरपि सञ्जातः । ततस्तया दत्तं स्वहस्तेन ताम्बूलम् । मया चिन्तितम्-'किं करोमि ? गृहामि किंवा न गृह्णामि ?' यावदिति चिन्तयामि तावन्मत्तगजेन्द्रोनिजेच्छया विचरन् तत्र समागतः। तस्य भयेन कन्यकापरिवारो नष्टः । परन्तु कन्यका न नष्टा । यावत् स हस्ती तां कम्पमानसर्वाङ्गीं कन्यां गृह्णाति तावन्मया लकुटेन हतो हस्ती पश्चिमे भागे। कन्यकां मुखा गतो हस्ती। ततो मिलितः कन्यापरिवारः। प्रशंसितोऽहं कन्यापरिवारेण । अत्रान्तरे समागतं नागवृन्दम् । तेन 'दिशोदिशं पलायितो लोकः। ततो मया न शाता सा कन्या कुतो गता। कियन्ति दिनान्यहं तत्र नगरे भ्रमित्वा तस्याः कन्यायाः शुद्धिमप्राप्य शून्यचित्तोऽत्रागतः। तस्यां कन्यायां ममानुरागोऽस्ति। किन्तु तस्याः शुद्धिमजानतो मम नास्ति सम्माप्तिः। तथाप्यस्मरणं नाङ्गीकरोमि,पुनस्तव केसराप्तावस्त्युपायः। प्रभाते सा परिणेष्यते। ततोऽद्य तया केसरया कन्दर्पदेवस्य पूजा कर्तव्या। तां पूजामेकाकिन्येव करोतीति नियमः। तावदावामनाग- सायामेव नगरमध्ये प्रविशावः। तत्र कन्दर्पभुवने यावः । ततोऽहं तस्यां कन्दर्पभुवन आगतायां तस्याः केसराया सम्मतेन तस्या वेषं गृहीत्वा गृहे गमिष्यामि । त्वया त्वमासु दूरं गतेषु केसरां गृहीत्वा त्वरितं गन्तव्यम् । 'युक्तमुक्तं त्वया' इत्युक्त्वा हर्षितो वसन्तदेवः कामपाल प्रति माह-मित्र! मम कार्य तवैव व्यसनम् ।' इतश्च केनापि चिकनम् । कामपालेनोक्तम्-तव कार्यकरणेन ममाभ्युदय' १. तावति for तावत् Z. २. दिशो is missing in A.
कथाकोशः अत्रान्तरे केनापि निजकार्य प्रत्येवमुक्तम्-'अत्र न सन्देहः।' गृहीतशकुनार्थेन प्रतिपन्नं वसन्तदेवेन तस्य कामपालस्य वाक्यम् । द्वावपि नगरमध्ये प्रविष्टौ। भोजनकृत्यं कृत्वा सन्ध्यासमये द्वावपि कन्दर्पभुवने गतौ । कन्दर्पप्रतिमापृष्ठे द्वाप निलीय रहितौ। क्षणा- न्तरे तूर्यनिर्घोषः श्रुतः। 'केसराऽऽगच्छति' इति श्रुत्वा द्वावपि हर्षितौ। क्रमेणागता तत्र केसरातचेष्टया प्रियसमागमं चिन्तयन्ती। सुखासनादुत्तीर्णा केसरा। प्रविष्टा कन्दर्पमन्दिरे। प्रियङ्कराहस्ताद गृहीतं पूजोपकरणम् । ततश्च प्रियङ्करया पिहितं द्वारम् । केसरया कृता पूजा । कन्दर्पदेवस्य पूजानन्तरं कन्दर्पदेवं प्रत्येवं' भणितम्- 'स्वामिन् ! रतिरमण ! सकलप्राणिनां चित्तानि त्वमुपलक्षयसि, तावन्मम चित्तं जाननपि अनिर्दिष्टभा सह मां कथं योजयसि ? वसन्तदेवं विनाऽन्यत्रन रमते मम चित्तम् । अथवा साम्प्रतमनेनोपा- लम्भेन किम् ? सर्वथा जन्मान्तरेऽपि तव प्रसादेन मम स एव भर्ता भवतु' इति भणित्वा तस्यास्तोरण आत्मानमुनाति । वसन्तदेवेन निर्गत्य रक्षिता केसरा । 'कुत एष' इति तं दृष्ट्वा विस्मितैषा । वसन्त- देवेन भणितम्-'यस्त्वया कन्दर्पदेवाद् वसन्तदेवो वरः प्रार्थितः सोऽहमेष मम मित्रन् । आवां प्रथममेवात्र प्रविष्टौ । तव हरणार्थ- मुपायः कृतः। ततस्त्वं निजमाभरणादिकमस्य मम मित्रस्य समर्पय, यथा तव वेषधार्यहं तव गृहे यामि यथाऽऽवां देशान्तरं यावः' इति भणिता सा केसरा निजवेषं कामपालाय प्रयच्छति। कामपालस्य वेषं गृहीत्वा स्वयं कन्दर्पपृष्ठे निलीय स्थिता । कामपालोऽपि स्त्रीवेषधारी सर्वतो वस्त्राच्छादितदेहो नारङ्गीपिहितघदनो मद- नभुवनाद् द्वारमुद्धाट्य बहिनिस्सृतः । प्रियङ्कराहस्ते पात्री समयं तस्याः करे लगित्वा सुखासने चटितः । तत्काल तदुत्पाटित कर्मकरैः सुखासनम् । परिवारेणाक्षातो गतः पञ्चनन्विश्रेष्ठिगृहे । सुपयुक्तस्य दम्भस्य ब्रह्माप्यन्तं न गच्छति । गृहे गत्वा सुखासनादुत्तीर्य वधूगृहं नीतः । प्रियकरया परं भणितम्-'प्रियासमागममन्त्रं स्मर' इत्युक्त्वा बहिनिस्सृता प्रियङ्करा । कामपालोऽपि रतिसमागममन्त्रं स्मर्तुं प्रवृत्तः। इतश्च १. A. adds प्राह after प्रति. १. प्रथमौ for प्रविष्टौ A.
कथाकोशः केसराया मातुलपुत्री शंखपुरवासिनी मारानानी तत्र विवाहे समागता । एतेन कामपालेन पूर्व या दृष्याऽऽसीत्, वधूगृह आगत्य वक्तुं प्रवृत्ता-'सखि ! साम्प्रतमावयोर्वक्तुमवसरोऽस्ति । ततोऽहं किञ्चित्कथयामि, उद्वेगं परिहर यतः सर्वप्राणिनामिष्टानिष्टकार्येषु विधिरेव प्रमाणम् । शंखपुरे स्थितया सर्वोऽपि तव वृत्तान्तः श्रुतः। वसन्तदेवं विनाऽन्यत्र न रमते तव चित्तम् । पुनः सखि ! त्वं धन्या वर्तसे यया प्रियेण सह दर्शनालापादिकं प्राप्तम् । पुनर्मम दारुणं वृत्तान्तं शृणु । अन्यदाऽहं शंखयक्षस्य यात्रायां परिवारेण सह बाह्योद्याने गता। तत्र कन्दर्पसमानः कोऽपि तरुणः पुरुषो दृष्टः । मया सखीहस्तेन तस्मै ताम्बूलादिकं प्रहितम् । तेनाहं मत्तगजेन्द्राद् रक्षिता, पुनरपि हस्तिभयादहं नष्टा । स युवा कुत्रापि गतो न खभ्यते । अनेकधा विलोकितोऽपि परंन प्राप्तः । तत्प्रनृत्यहं कुत्रापि निर्वृति न प्रामोमि । स्वप्ने मया स पुमान् दृष्टः । परं कदापि प्रत्यक्षो न दृष्टः। एवमालापमा प्रेमास्ति, विधिवशेन संयोगो भविष्यति । अस्मिन् व्यतिकरे यन्मम दुःखं तदहमेव जानामि । त्वं मम प्राणसमा । अतस्तवाग्रे सर्वे मया निवेदितम् , तावद् भगिनि ! खेदं मुञ्च, धीराभव । अनुकूलविधिवशेन सर्व सुन्दरं भविष्यति । अथ कामपालो भणति-मृगाति! तदा यक्षमहोत्सवे त्वया यो युवा पुरुषो दृष्टः स एषोऽहम् । अनुकूलविधिवशेन वसन्तदेवस्य केसरया सह संयोगो जातः। तथाऽऽवयोरपि संयोगो बभूव । तचिन्तां मुश्च। ततो महरा प्रकटितनिजदेहं तमुपलक्ष्य परितुष्टा जाता । भयवशेन किञ्चिदपि वक्तुं न समर्था । ततो भणितं काम- पालेन । 'प्रिये ! भयं मुञ्च । मम निर्गमद्वारं दर्शय।' ततो महरया गृहोद्यानस्य पश्चिमद्वारमुपदिष्टम् । तसिन द्वारे प्रियासहितः काम- पालो निर्गतः। तत्र केसरया सह पूर्वमागतस्य मिलितो वसन्तदे- वस्य । तौ द्वावपि समवसरणे समागतौ । जिनेन कुरुचन्द्रस्य राको दर्शितौ। 'यत्पूर्वभवे पञ्चमिर्मिलित्वा मुनये दानं दत्तं तत्तव दिनं प्रति पञ्चदिव्यवस्तुनि दोयनिकायामागच्छन्ति । अतः कारणात्तानि पञ्च वस्तूनि एतेषामदत्वा भोक्तुं न शक्नोषि' इति श्रीशान्तिमुखात् पूर्वमवं भुत्वा सर्वेषां जातिस्मरणमुत्पनम् । पूर्वमवः स्मृतः। जिनं कथाकोशः । नमस्कृत्य राक्षा ते सन्तदेवकामपालप्रभृतयो निजसहोदरा इव गृह नीताः । तैः सह राज्यं करोति । कियन्तं कालं यावद् राज्यं परिपाल्य पुत्र राज्ये निवेश्य पञ्चभिरपि दीक्षा गृहीता । अतीचाररहितं चारित्र पालयित्वा पञ्चापि स्वर्ग जग्मुः॥ इति साधारणदाने कुरुचन्द्रकथानकम् ॥ दानोपरि धन्यकथा। जो चारित्तनिहाणं निम्मलतमैनियमनिमियदेहीणं । साहूण देइ दाणं सो सुहं लहइ धो च ॥१॥ अत्रैव भरतक्षेत्रे सुप्रतिष्ठं नाम नगरम् । तत्र जितशत्रुर्नाम राजा । अन्यदा पूर्व सधनं पश्चाद्विधिवशेन निर्धनमेकं कुलमन्यपुरा- लजमानं तत्र नगरे समागतम् । तस्मिन् कुले प्रकृत्या विनीते दानलालस एकस्तरुणः पुत्रो लोकानां वत्सरूपाणि चारयति । अन्यदिने तत्र नगरे महोत्सवः सातः । ततः सर्वो लोको बहुविध- भोजनानि गृहीत्वा उद्याने गतः। तं लोकं दृष्ट्वा महोत्सवं कर्तु तस्य वत्सपालकस्य मनोरथः सजातः । नगरपरिसरे वत्सरूपाणि मुला गृह आगतः। माता भणिता-मातर्ममापि महोत्सवं क सामग्री कुरु ।' माता पुत्रवचनं श्रुत्वा पूर्वऋद्धिं स्मृत्वा मन्युभरमरितकण्ठा करुणास्वरं रोदितुं प्रवृत्ता, यतः स्त्रीणां क्रन्दनं विनाऽन्यद् बलं नास्ति । प्रतिवेशिकाभिः स्त्रीभिस्तस्याः क्रन्दनं श्रुत्वा तस्य वत्सपाल- कस्य माता एवं भणिता-'कथं रोदिषि ?' इति ताभिः पृष्टे सा निजवृत्तान्तं प्राह । ततस्ताभिरुत्पत्रकरुणाभिः पुत्रपरितोषहेतोर्तुग्ध- तण्डुलगुडाज्यादिकं तस्यै समर्पितम् । तत प्रारब्धं पायसम् । ततो भोजनं लात्वा भोजनार्थमुपविष्टः स बालकः । परिवेष्टितं घृतगुड- सहित परमाचं मात्रा उष्ण इति भणित्वा। यावत् स बालक प्रती- पति तावत् तपःशोषिताङ्गो जितेन्द्रियो जितपरीसहो मिक्षार्थे मुनिः समागतः। बालकस्तं दृष्ट्वा निजहृदये चिन्तयति-'अहो! अहं १. निम्मल is missing in 2. २. •तय• for तम.Z... निमय for निमिय Z. ४. For this line A. reads साहूणं सो सुर्ख लहइ धनो ब्व। ५. बहुविधि for बहुविध Z. ६. ततो रब्धं for तत मारन्छ Z.
- कथाकोशः कुसुमपालस्य गृहे पुत्री जाता। ततो गोभद्रकुसुमपाली द्वावपि राजमन्दिरे गतौ । 'स्वामिन् ! अद्यास्मद्हे पुत्र्यौ उत्पन्ने।' राक्षा सम्मानितौ, एवं भणितो-'मम पुच्या सह ते द्वे अपि सख्यो भवताम् ।' ततौ राजादेशं गृहीत्वा स्वगृहे गतौ। गोभद्रव्यवहारिणा निजपुत्र्या सुभद्रा इति नाम कृतम् । मालाकारेण कुसुमपालेन निजपुत्र्याः पुष्पवतीति नाम कृतम् । राक्षा निजपुत्र्याः सोमश्री इति नाम कृतम् । इतश्च सा राजपुत्री ताभ्यां सखीभ्यां सह वर्धते । क्रमेण तिस्रोऽपि यौवनं प्राप्ताः। तास्तिस्रोपि इति चिन्तयन्ति- 'अस्माकं तिसूणां कः पतिर्भविष्यति ? अन्यदा धन्यं दृष्ट्वा पुष्पवत्या अनुरागो बभूव । चिन्तितं निजमनसि । 'अहो सुरूपः पुण्यवानयं पुरुषः, यदलित्रागते येषां वृक्षाणामने एकमपि पुर्ण नासीत् ते सर्वे पुष्पिताः फलिता जाताः। ततस्तिसृणामप्यस्माकमयं युक्तो भर्ता । ततः केनाप्युपायेन शापयामि राजपुत्रीम् । ततस्तया धन्याद्विचित्र- भङ्गयुक्ता कुसुममाला कारिता । राजमन्दिरे गत्वा खसख्यै सोमश्रिये समर्पिता। तया तां मालां दृष्ट्वा पृष्टा-'सखि ! केनैषा पुष्पमाला विनिर्मिता । पुष्पवल्या कथितम्-'साख ! कोऽपि युवापुरुषः कन्दर्पसमरूपः सकलकलाकुशलोऽस्मगृहे तिष्ठति । तेन खविज्ञानं दर्शयितुं तवैषा माला प्रहिता।' ततस्तस्य नाम श्रुत्वा सोमश्रिया चिन्तितम्-'तं विनाऽन्यो मया न परिणेतव्यः। ततः प्रभृति तस्य चिन्तां कुर्वाणा वामकरतलन्यस्तकपोला दी?वश्वासविशोषिताधरा परित्याशेषकार्या तमेव चिन्तयन्ती तिष्ठति । ततो राक्षा परिजना- देतत् पुत्रीस्वरूपं शात्वा प्रतीहारं प्रेषयित्वा कुसुमपालमालिकगृहा- दाकारितो धन्यः। कृतप्रणामो निवशित उचितासने । तं सुरकुमा- रोपमं दृष्ट्वा चिन्तितं राशा-'स्थाने कृतोऽनुरागो मम पुज्या।' भाकारिता राज्ञा कन्या। 'धन्य' इत्युक्तो राक्षा। एषा कन्या मया तुभ्यं दचा। ततो हर्षभरनिर्भरण प्रतीच्छिता सा धन्येन । अथ सोमानियाऽपि तो प्रणम्योक्तम्-'द्वयोर्मम सख्योरेष एव वरो भवतु । ततो राधा भणितम्-'यदि युष्माकं तिलां रोचते ततो मवतु। एवं ततः सोमश्रिया सखीनामने कथितम् । ततो राजा महवर्या ताः कन्या धन्यं परिणाययति । गोमकुसुमपालौ तत्र कथाकोशः बहर्थ व्ययं कुरुतः। धन्यो राजदचे धवलगृहे. ताभिः पत्नीभिः समं रमते । राक्षा, तस्मै धन्याय करितुरगकनककप्पडप्रमुखं बहु द्रव्य दत्तम् । सुखेन तिष्ठति । तत्र धन्येनान्यदा गवाक्षोपविष्टेन दुःस्था- वस्थौ मलिनवस्त्रौ मार्गे परिभ्रमन्तौ निजापितरौ दृष्टौ। तेन निज- पुरुषान् प्रेषयित्वा निजगृह आनीती, ततः स्नानं कारितो, दिव्य- वस्त्राणि परिधापितौ, धन्यस्य कराठे लगित्वा उस्स्वरं रुदतः । भव्यासन उपवेश्य निजापितरौ एवं भणति धन्य:-'तात ! युष्माक- मकस्माद् दारिद्रयं कुतः १ तावन्मात्रं कथं द्रव्यं त्रुटितम् ?' जनकः प्राह-त्वय्यस्मद्गृहानिर्गते तत्कालं सर्वोऽपि विभवः क्षयं गतः। कोऽपि विभवश्धौरहतः। कोऽपि प्रदीपेनाग्निना दग्धः। कोऽपि पुत्रैः कृतापराधेन राक्षा गृहीतः' इति सकले धने त्रुटिते लजया तत्र वसितुमशक्नुवन्तो वयमत्र समागताः । तावज्ज्येष्ठबान्धवा बाये तिष्ठन्तिः । ततो धन्येन पुरुषं प्रेष्यानीताः खगृहे स्खबान्धवाः। तैरुक्तम्-'वान्धव ! अस्माभिर्न कृतं तव रुचिरम् । ततो गुणाकर! क्षमस्खास्माकमपराधम् । ततश्च धन्यो धनं दत्त्वा तान् निजबान्धवान् अन्यत्र नगरे विसर्जयति । धन्यस्य प्रभावेन ते सर्वेऽपि महर्द्धयो जाताः। जननीजनकाभ्यां सर्वे गृहव्यापारं दत्त्वा प्रियाभिः सह भोगान् भुते धन्यः। अन्यदिने सुभद्रा क्रन्दनं कुर्वाणा धन्येन पृष्टा-'मृगाति ! कथं रोदिषि ?' तयोक्तम्-'प्रियतम! शालिभद्र- नामा सहोदरो मम धर्मघोषाचार्यसमीपे धर्म श्रुत्वा संविग्नो बभूव । चारित्रं गृहीतुकामो जनन्या भणित:-'वत्स ! दुष्करं चारित्रम् । सुखलालितोऽसि त्वम् । तावद् यदि तव निबन्धस्तता स्तोक स्तोकं विषयसौख्यं त्यज यथा तव देहः संयोग्यो भवति। ततो जननी- वचनेन दिने दिने संक्षेपं करोति भोजनभाषणतूलिकाविलेपना- दीनामिति भोगनिस्पृहः शालिभद्र प्राचाम्लं तपः करोति, एकेन वस्त्रेण महीतले स्वपिति । साम्प्रतं निश्चयमेव दीक्षा ग्रहीष्यतीति दुःखकारणं जानीहि ।' ततो हसित्वा धन्यो भाषते-'अहो कातर शालिभद्रो यः सहसैव संयमभारमुत्क्षप्तुं न शक्नोति । अथ सोम- श्रीमणति-'खामिन् ! स सुकुमारो न पुनः कातरः, दुष्करसंयम- १. प्रदीपने for प्रदीपेन 2..
शृणुतः। धर्म काकोशः योन्यं शनैः शनैदेहं करोति । धन्येन पुनर्भणितम्-'धीरपुरुषाणां किं दुष्करम् ?' ततो हसित्वा सुभद्रयोक्तम्-'योतन दुष्कर ततो यूयमप्येतत् कथं न कुरुत ?' ततो धन्येनोक्तम्-'यदि यूयं कथयत धर्म कुरु ततः करोमि, किंवा न करोमि ततो दूषणं देयम् । ततस्तामिभणितम्-'यदि त्वं संयम प्रहीष्यसि ततस्तीर्थकरपाद- मुले वयमपि दीक्षा ग्रहीष्यामः । इतश्च तस्मिन् नगरे जितजिना नन्दः श्रीवीरः समवसृतः । आदेशकारिपुरुषैर्धन्यस्याने कथितं श्रीवीरसमागमनम् । ततः परितुष्टो धन्यः शिविकारूढो महा तिसृभिर्भार्याभियुक्तः श्रीवीरवन्दनार्थ निकान्तः । गुरुकविभूत्या देव इव मणिभूषणैः शोभमानो व्रतग्रहणाथै निर्गतः शालिभद्रः। ततो वाहनानि मुक्का तौ द्वावपि समवसरणे प्रविश्य जिनं नमस्कृत्य यथास्थान उपविश्य धर्म श्रुत्वा शालिमद्रः खयमेव केशानुत्पाट्याष्टमार्याभिस्साकं दीक्षां गृक्षति । ततो धन्योऽपि तिसृभिर्भार्यामिदीक्षां गृहाति । ततश्चिरकालमुप्रतपः कृत्वाऽन्तकाले- अनशनं गृहीत्वा सर्वार्थसिद्धिविमाने देवाबुत्पनी। इति दानोपरि धन्यकथा ॥ श्रीवीतरागसङ्घपूजाविषये आरामशोमाकथानकम् । सद्धर्ममूलसम्यक्त्वनैमल्यकरणे सदा । यतध्वं तच्च तीर्थेशसङ्घपूजादिभिर्भवेत् ॥३॥ इहैव भरते कुशायदेशे स्थलाश्रयो ग्रामोऽस्ति । तत्परितो योजनान्तं यावत् तुणानि मुक्त्वाऽन्यो वृतः कदाचिनोत्तिष्ठति । तयाग्निशर्मा नाम द्विजः। तस्य ज्वलनशिखा नानी ब्राह्मणी, विद्यु- त्पमा नानी पुत्री। तस्यामष्टवार्षिकायां माता व्यपद्यत । ततो गृह- कर्माणि विद्युत्मा करोति । सा प्रभात उत्थाय गां दोन्धि । प्रमाण- नलिम्पनादिकं कृत्वा धेनूभारयितुं बहिर्याति । मध्याह्ने गाः समानीय जनकं भोजयित्वा पश्चात् खयं भुके। पुनः सुरभीचारयितुं वने याति। भ्रान्ता. सन्ध्यासमये ग्रह आगत्य गृहकर्माणि करोति । प्रतिदिवसमेवं कर्म कुर्वाणाऽतिकुटुम्बभारेण खिना जाता। अन्यदा गृहमारभग्ना पितरं प्रत्यवोचत्-'तात! अम्यां जननी समानय, - कथाकोशः स्थाहं सुखीभवामि । इति पुत्रीवचनं श्रुत्वाऽनेनान्या स्त्री परि- णीता। सा सर्व गृहमारं विद्युत्नभामध्ये निक्षिप्य स्वयमङ्गविलेपन- बानमण्डनानि करोति । विद्युत्प्रभया चिन्तितम्-'अहो मया खसौख्यतोरन्या माता पितपार्वाद आनायिता । ततोऽस्यां समागतायां विशेषतो व्यापारवर्धनादहं कष्टिता। इयं मम माता पादोपरि पदं कृत्वा सदा. सुखेन तिष्ठति। एवं क्लेशेन वर्तमाना द्वादशवार्षिका बभूव । इतश्चान्यदा गोषु तुणं मुक्त्वा स्वयं सुप्ता। तदा कृष्णवों महाकायो भयभीत एको भुजङ्गमस्तस्याः समीप आगतः। ततो मनुष्यभाषया तामुत्थाप्य सर्पो वक्तुं प्रवृत्ता- 'प्रत्यर्थ भयभीतोऽहं तव शरणं प्रविष्टः । इमे पापा गारुडिका मम पृष्टे समायान्ति, वत्से !मामादाय करण्डमध्ये क्षेप्स्यन्ति ततो निजो. त्सने मां संस्थाप्योत्तरवस्त्रेणाच्छादय ।' ततो विद्युत्प्रभया निश्शक चित्तया तथैव कृतम् । ततो गारुडिका ओषधीहस्तास्तत्र समागताः। गारुडिकैरेषा बाला पृष्टा-'बाले ! त्वयामुना मार्गेणागच्छन् सो विलोकितः ? विप्रसुता गारुडिकानूचे-'अहं सुप्ताऽभूवम् , ततः किञ्चिन्न जानामि । ते परस्परं जगदुः-'एषा बाला पनगं भयभीता भवति ।' ततो गारुडिका गताः । तया सो भणित: 'सर्वे गारुडिका गताः । शङ्का मुक्त्वा विनिस्सर। ततः सर्प त्यक्त्वा देवः प्रत्यक्षीभूय तां कन्यां प्रत्यूचे-वत्स ! तवोपकारेण तुष्टोऽ हम् । ततो वरं वृणु।' साप्राह-सौख्येन यथा गाश्चारयामि ममो. परि छायां कुरु ।' देवेन चिन्तितम्-'अहो मुग्धा एषा छायां प्रार्थ- यति। ततस्तस्या उपरि महारामं व्यधात् । तथैवंविधः- संवर्तकः फलैः पुष्पैर्निचितः पत्रसंकुलः । गन्धलोलालिसङ्कीर्णो रुद्धादित्यकरः सदा ॥२॥ ततो देवः प्राह -'वत्से! यत्र त्वं स्थास्यसि अथवा यास्यसि अयमारामोऽपि त्वया सह तत्र तत्र यास्यति, व्यसने मां स्मरे.' इत्युक्त्वा देवोऽदृश्यो बभूव । अथोपस्थित पारामो गोभिः सह रात्रौ गृहे गतः। मात्रोक्तम्-'वत्से भोजनं कुरु ।' तयोक्तम्-'मम नास्ति तुधा। ततश्च रजनीपश्चिमे प्रहरे गोसंयुक्ता सा विद्युत्प्रभा १. सुखिनी भवामि for सुखीभवामि Z. - कथाकोशः बहिर्ययो। एवं सदैव साऽऽरामसंयुक्ता गृहे याति आयाति च । अन्यदाऽऽरामतले सुप्तायास्तस्याः पाटलीपुत्रनायको दिग्यात्र विधाय तत्र बने समागतः। सर्वमनोहरं तमारामं वीक्ष्य राजा सहकारतल उपाविशत् । ततो राजादेशाद् वृक्षेषु गजाश्वकरभादयो बद्धाः । वृक्षशाखासु लम्बिताः प्रस्खरादयः । ततश्च सा पुत्री सुभट- शब्दर्जागृता । कुञ्जरादीनां भयादुत्तस्ताः सुरभीर्विलोकयितुं सा बाला चलिता। एषा यदा धेनूनां वलनाय वधावे तावदश्वादिकं खात्वाऽऽरामोऽपि तया समं जगाम । 'किमेतत्' इति. सम्भ्रान्तेन राक्षा निजामात्यसमीपे पृष्टम्-'मन्त्रिन् ! इदं किमद्भुतं दृश्यते ?' मन्त्रिणोत्रम्-'देव निश्चितमस्या एवं प्रभावः।' सचिवेन बालिका पृष्टा-त्वं पश्चाद्वलस्व, तव धेनूरानेष्यामः ।' सा पश्चाद्वलिता। पारामोऽपि तया सह वलितः। अश्ववारा राजादेशात्सुरभीरानया- मासुः । राजा कुमारत्वं विचार्य तस्या विषये रागं चकार । ततो मन्त्रिण राज्ञोऽभिप्रायं ज्ञात्वोक्तम्-'वत्से ! एनं जितशत्रुनामानं राजानं पतिं कुरु ।' बालिका प्राह-एतद्ग्रामवास्तव्योऽग्निशर्मा द्विजो जानाति । एतदहं न जानामि।' ततो मन्त्री राजादेशात्तस्मिन् प्रामे गत्वा विप्रमयाचत-'इमां कन्यां जितशत्रुनरेन्द्राय प्रदेहि ।' ब्राह्मणः प्राह-'प्राणा अपि राक्षे दत्तास्तनया किमुच्यते ।' ततो दत्ता कन्या विप्रेण । जितशत्रुरामा गन्धर्वविवाहेन परिणीता । यदस्या- मुपरि सर्वदाऽऽरामः शोमते तस्मात्कारणादारामशोभा इति नाम कृतं राक्षा। तस्मै निजश्वशुरविप्राय द्वादश प्रामा दत्ताः। ततो राजारामशोभा गजस्कन्धे निवेश्योपरि स्थित आरामसहितो निजनगरं प्रति चलितः। महोत्सवपुरस्सरं राजा धवलगृहं समा. गतः। आरामशोभासहितो महाविषयसौख्ये निमनो राजा राज्यं करोति । धवलगृहोपारामः स्थितः । इतश्चाग्निशर्मविप्रस्य ब्राह्मणी पुत्री सुषुवे । क्रमेण सा पुत्री तारुण्यं प्राप । ततस्तस्या माता चिन्त- यति-'यद्यारामशोभा त्रियते ततो राजेमां परिणयेत्' इत्याराम- शोभाया मारणोपायं चिन्तयन्त्या तया ब्राह्मण एवमुक्त:-स्वामिन् ! १. बालना for वलनाय A. २. The portion आरामोऽपि तया सह वलितः is missing in Z. .
कथाकोशः घ पारामशोमायाः कृते किश्विद्भक्तादिकं न प्रेषयसि । ब्राह्मणेनोक्तम्- 'तस्याः किश्चिन्यूनं नास्ति।' ब्राह्मणी पुनः प्राह-'यद्यपि न्यूनं नास्ति तथापि पुत्री पितृकुलादागतं वाञ्छत्येव ।' ततः प्रधानद्रव्यसंयुक्ता- स्तया कृताः सिंहकेसरा मोदकाः। परन्तु विषसम्पूर्णा विहिताः। तान् मोदकान् अव्यले घटे प्रक्षिप्य ब्राह्मणं प्रति प्राह-वामिन् ! स्वयं गत्वा इमान् आरामशोभायाः समर्पय । सापि मदीयं वाक्यं भवितव्या । इमे मोदकास्त्वयैव भोकव्या अन्यस्मै न देयाः । एषां मोदकानां विरूपकत्वेन राज्यकुले हास्यं भवति, यतो प्रामवासिनां कीटग विज्ञानम् । तस्याः कौटिल्यमजानानः घटे मुद्रां दत्त्वाऽग्नि- शर्मा चचाल । क्रमेण पाटलीपुत्रनगरे गतः। नगरोद्याने एकस्य वटवृक्षस्य छायायां परिश्रान्तः सुप्तः। इतश्च तेनैव नागकुमारण वटच्छायायां सुप्तो ब्राह्मणो दृष्टः, कर्मधर्मसंयोगादवधिज्ञानेनाराम- शोभायाः पिता। 'हुं सातम् । विमात्रा विषमिश्रितशंबलं दत्त्वाऽs. रामशोभामरणहेतवेऽयं प्रहितः। तत इति ज्ञात्वा तेन देवेन विषम- पहृतं शंबलतः। आरामशोमया राक्ष उक्तम् । 'खामिन् ! अन घटे खदृष्टिीयतां यथोद्घाट्यते घटः।' राक्षोत्रम्-'देवि! त्वदीयस्थाने मम कोपि न विद्यते तत् स्वयमेवोद्घाटय । ततो देव्या घट उद्घाटितः । ततो घटमध्यान्मर्त्यलोकदुर्लभो गन्ध उच्छलितः । अमृतसदृशास्तत्र मोदका दृष्टाः। राज्ञोक्तम्-'देव ! सर्वासां राशी- नामेकैको मोदको दीयताम् ।' ततो राजादेशात् सर्वासां राजीनामे- कैको मोदको दत्तः। आवादितेषु मोदकेषु सर्वा राज्य आरामशोभा प्रशंसन्ति-'अहो अस्याः पितरौ धन्यौ यो खपुज्या ईदृशान् राक्षां दुर्लभान मोदकान् प्रेषयतः।' इतश्च अग्निशर्मा राक्षे प्राह-वामिन् ! कियतो वासरान् आरामशोभा पितगृहे प्रेष्यतां यथा मातृदर्शनं कुरुते।' राशोकम् -'राजदारा असूर्यम्पश्या भवन्ति, त्वमेतदपि न जानासि।' ततो गृहे गतोऽनिशर्मा विप्रा । पल्यने सर्वखरूपं कथितम् । तया चिन्तितम् । 'अहो मम चिन्तितं न सिचम् । ततो निश्चितं सवीर्य विषं नैव, तदन्यदुनविषं मध्ये प्रक्षिप्य पुनः प्रेष- यिष्यामि पकानम् ।' ततो रम्याः फेनिकाः कृत्वा मध्ये उपविषं तित्वा तथैव ब्राह्मणहस्ते प्रेषयामास । तथैव वटतले सुप्तस्य ब्राह्मणस्य ६६ कथाकोशः मोदकमध्यान् देवेन विषमपहृतम्।तथैव राजकुले पक्कामप्रशंसा बभूव । विप्रेण गृहे आगत्य पुनः स्वपल्यै सर्वे कथितम् । तच्छुत्वा सा पाप- चिता सन्तापं प्राप। अन्यदाऽऽरामशोमां गर्भवतीं श्रुत्वा तालपुट- विषमिश्रितं शंबलं कृत्वा समर्पितं ब्राह्मणहस्ते। पुनःप्रेषितो ब्राह्मणः। उक्तश्चैवम्-'सा पुत्री गर्भवती वर्तते । अवश्यं पितृगृहे आनेतन्या । यतः प्रथमगर्भ पितृगृहे प्रसूते पुत्री।' गतो ब्राह्मणः । मार्गे सुप्तस्य देवेन तथैव विषमपहृतम् । गतो राजमन्दिरे । समर्पितं शम्बलम् । तथैव प्रशंसा जाता। ब्राह्मणेन राज्ञः समीपे पुत्री मुत्कलापिता । रायोक्तम्-'भो ब्राह्मण! राजपत्न्यः कदापि पितगृहे न प्रसुवते।' उदरे तुरिकां धृत्वा ब्राह्मणेन राजानं प्रत्युक्तम्-'युष्माकं ब्रह्महत्यां दास्यामि यदि मम पुत्रीं न प्रेषयध्वे ।' अमात्यैः राजानं प्रत्युक्तम्- 'खामिन् ! अयं द्विजो' प्रथिलः, कदाचिद् ब्रह्महत्यां दास्यति, ततो देवीं प्रेषयत ।' ततो महती सामग्री कृत्वा प्रेषिता राक्षा। ततो ब्राह्मणेन सह गता पितगृहे तत्र सुखेन पुत्रं सुषुवे । अन्यदाऽऽवास- पाश्चात्यप्रदेशे देहचिन्तार्थ गताऽऽरामशोमा। तस्याः पृष्ठतो लगा। तस्या माताऽपि सह चलिता। तत्र कूपं दृष्ट्वाऽऽरामशोभयोक्तम्- 'मातः! कदा प्रभृत्ययं कूपः ?' मात्रोक्तम्-'वत्से ! मयाऽयं कूपः कारितः।' आरामशोभा यावत्कूपं विलोकयितुं लना तावत्तस्याः पृष्ठ आगत्य तया कूपे क्षिप्ता। अथ तया कूपं पतन्त्या नागकुमारः स्मृतः। नागेन पतन्ती निजकर विधृता । ततस्तस्या ब्राह्मण्या उपरि कुपितो देवः। आरामशोभयोक्तम्-'स्वामिन् ! एषा मम माता' इति भणित्वा उपशामितो देवः। ततो देवेन कूपमध्ये भुवनं कृत्वा तब स्थापिता। आरामोऽपि तया सह कूपमध्ये प्रविष्टः । अथ विमात्रा तत्स्थाने तत्पुत्रपार्थे कृतप्रसविकावेषा खसुता शिक्षयित्वा स्थापिता । अन्यदा दैवयोगेन तस्याः शरीरं विच्छायं बभूव । ततस्तस्याः सखीमिः पृष्टा-'देवि ! किमेतत् १ तव शरीरं विच्छायं दृश्यते । आरामशोभयोक्तम्-'न जानामि । अध कल्ये मम शरीरं नहि खच्छम् । ततो विविधा उपचाराः कृताः। परमेकेनापि न १. सिद्धजः for द्विजःA. २. The portion beginning with पारामशोभयो. and ending with कारित: is missing in Z. - ६७ कथाकोशः बभूव देहखास्थ्यम् । इतश्च पाटलीपुत्रपत्तनाद् राक्षा तामानेतुं मन्त्री प्रहितः । ततश्चलितारामशोभा। ततो दासीभिर्विक्षप्ता देवी। 'देवि ! आरामः सार्थे किं नैति?' तयोक्तम्-'असावारामो जलं पातुं दृषितः कूपे प्रविष्टः, पश्चादागमिष्यति ।' गता परिवारसहिता देवी। पाटलीपुत्रपत्तने राक्षः प्रवेशमहोत्सवः कारितः। निजपुत्रं विलोक्य हर्षितो राजा। ततो देव्या विरूपं देहं विलोक्य रांशोक्तम्- 'देवि! तव शरीरे एतत् किं सञ्जातम् ?' ततो दासीभिरुक्तम्- 'खामिन् ! देव्याः शरीरे कोऽपि दोषोऽभवत् ।' ततो विषण्णचित्तेन राक्षा पुनरुक्तम्-'देवि! स आरामोऽपि अत्र किं न दृश्यते ?' आरामशोभयोक्तम्-'देव पानीयं पिबन् मुक्तोऽस्ति, पृष्ठे समेष्यति स्मृतमात्रः।' ततो राक्षा चिन्तितम्-'किमेषा सैवाऽऽरामशोभा कि वान्या ? राक्षाऽन्यदा देव्युक्ता-'देवि ! पाराममानय । तयोक्तम्- 'प्रस्ताव आनेष्यामि।' राज्ञा चिन्तितम्-'निश्चितमेषा सा नाss. रामशोभा, अन्या काचिनी । अन्यदाऽऽरामशोभया देवं प्रत्येवं भणितम्-'स्वामिन् ! पुत्रविरहोऽत्यर्थे मां पीडयति, तत् तथा कुरु यथा पुत्रदर्शनं करोमि ।' देवः प्राह-मम शक्त्या निजं पुत्रं विलोकय गत्वा । परं सूर्योदयमक शीघ्रमागन्तव्यम् । यदि नाग- मिष्यसि तत् प्रभृति तव दर्शनं न दास्ये। अस्मिन् विषयेऽयं प्रत्ययः- 'खकीयेषु केशपाशेषु एकं मृतं सर्प पश्यसि ।' तयोक्तम्-'एव- मस्तु ।' इत्युक्त्वाऽऽरामशोभा तत्कालं गत्वा सौधे गता यस्मिन् पुत्रः सुप्तोऽस्ति । सुकुमारपाणिभ्यां पुत्रमादाय क्षणं क्रीडयित्वा पुनरात्मीय- स्थाने सुतमशाययत् । ततश्च पातालभुवने गत्वा निजारामसत्कं पुष्प- फलोत्करं कुमारस्य चतुर्दिनु क्षिप्तम् । प्रभातसमये तत्पुत्रधात्री' तत्स्वरूपं रामोऽग्रे निवेदयति। राजा तच्छ्रुत्वा प्रत्यक्षं दृष्ट्वाऽऽरामशोमां पप्रच्छ 'देवि ! इदं किं दृश्यते ? तयोक्तम्-'स्वामिन् ! निजारा- मादेतत्सर्वे मयाऽऽनीतम् । रासोक्तम्-'तहिं साम्प्रतमानीयताम् ।' राक्षी प्राह-'देव! रात्राववानेतुं शक्यते न पुनर्दिवा।' तच्छुत्वा राक्षा चिन्तितम्-'निश्चितं किश्चित्साहसं कर्म ।' ततो द्वितीये दिने तथैव तत् सकलं बभूव । ततस्तृतीये दिवसे राजा एकाग्रहृदयो रात्री 1. तत्पुत्री for तत्पत्रधात्री A.
६८ कथाकोशः दीपच्छायायां स्थितः। आरामशोमायाः सर्वाचेष्टा दृष्टा रामा। ततो हर्षभरेण राजा एवं चिन्तयति-प्रारामशोभेयम्' इति । तत्काल- मारामशोभा पुत्रमन्दिरानिर्गता । प्रभाते आरामशोभाया भगिनीं पजाऽभणत्-'अद्य आरामोऽत्र समानेतव्यः । अन्यथाऽन्यत्कार्य न।' एवं श्रुत्वाऽऽरामशोभा विवर्णवदना जाता-'अद्य किमुत्तरं भविष्यति' इति । इतधारामशोभा तत्सकलं निर्माय यावनिवृत्ता तावद् दीपच्छायास्थितेन राजा राशीकरो दधे । राजा प्राह-'मां कार्य विना कि विप्रतारयसि । तत आरामशोभा प्राह-वामिन् ! अहं कदाचित् त्वां न विप्रतारयामि । किन्तु कारणं विद्यते।' राहो- क्तम्-'किं कारणम् ? राशी प्राह-'कथयिष्यामि साम्प्रतं मां विसर्जय।' राज्ञोक्तम्-'अधुनैव कारणेन कथितेन भविष्यति ।' पारामशोमयोक्तम्-'कारणे कथिते तव पश्चातापो भविष्यति ।' एवमुक्तोऽपि राजाऽऽप्रहं न मुञ्चति । ततश्चारामशोभया मूलतः सर्वे मातवृत्तान्तखरूपं कथितम् । इतवारुणोदयो जातः । यावदा- रामशोमा प्रस्तं केशपाशं बद्धं प्रवृत्ता तावत् तत्क्षणादेव मृतः सर्पः पतितः केशपाशात् । तं दृष्ट्वा राक्षी दुःखिता जाता। 'हा तात! त्वया परित्यक्ताऽहम्' इति उ:खरं विलपति राजी। ततो राहो. क्तम्-'देवि! एवं कथं खिद्यसे?' ततश्च तया सर्वोऽपि नाग- पृचान्तः कथितः। ततो राजा तस्या ब्राह्मण्या उपरि रुष्टः, तामानाय्य वयं कशामहारैस्ताडयामास । आरामशोभया पदोनिपत्य विकतो राजा-'वामिन् ! मुच्यताम् एषा। ततो मोचिता साऽऽरामशो- मया। ततो निजद्वादशनामान् उद्दाल्य तौ द्वावपि खदेशानिष्कासितो राहा। तयोः परस्परं बेहसारं विषयसौख्यं भुजानयोः कियान् कातो गतः । इतश्चान्यदा उद्यानपालेन विज्ञतो राजा-'देव! अध चन्दनवनोद्याने विद्याज्ञानधरः श्रीवीरचन्द्रसूरिः समागतोऽस्ति । ततोऽन्तःपुरीवर्गसहितो वन्दनाय चचाल राजा । गत्वा मुनीन्द्रं नत्वा धर्म श्रोतुमुपविष्टः । देशनाप्रान्त आरामशोमया पृष्टम्-भगवन् ! पूर्वमवे मया किं कर्म विहितम् ? ततो गुरुः प्राह- "अत्रैव भरते चम्पानगयों कुलन्धरो नाम श्रेष्ठी। तस्य कुला- 1. भगति for भ्रमणत् 2.
জবজয় - नन्दा नाम भार्या । तयोः सप्तपुत्र्यो वर्तन्ते । तासाममूनि नामानि कमलश्री, कमलावती, कमला, लक्ष्मीका, श्रीः, यशोदेवी, प्रियका- रिता। सप्तापि लक्ष्मीवतां व्यवहारिणां गृहेषु परिणीताः। इतश्चान्यदा अष्टमी पुत्री उत्पन्ना, परं पुण्यरहिता। ततस्तस्या मातापितरौ तस्या जन्मनि दु:खिनौ जाती। ततस्तस्या नामापि न कृतम् । क्रमेण रूढा जाता । पिता तां न पर्यणाययत् । लोकैर्मणित:-कथं न परिणायसे कन्याम् ?' ततो लोकवाक्यात् श्रेष्ठी वरचिन्तापरो जातः । अन्यदा श्रेष्ठिहट्टे मलेमलिनगात्र एकः पान्थः समागतः। श्रेष्ठिना पृष्टम्-- 'कस्त्वम् ? कीदृग् जातिः ? किनाम, तेनोक्तम्-'कौशलीनगरी- धास्तव्यो नन्दननामाऽहं वणिपुत्रः। अन्यदाधने क्षीणे धनोपार्जनाय गौडदेशे गतस्तत्राप्यभाग्यत्वाद् धनप्राप्तिर्न बभूव । अभिमानेन पुनर्निजदेशे गतः। परसेवया जीवामि ।' एवं श्रुत्वा श्रेष्ठी चिन्त- यति-'मम पुज्या अयमेव वरो युक्तः, ततस्तस्मै दत्ता सा कन्या ।' अन्यदा तेन श्रेष्ठिनं प्रत्युक्तम्-'अहं पुनगौंडदेश यास्यामि । तेन श्रेष्ठिनोक्तम्-'तहिं निजमायाँ गृहीत्वा गच्छेः। ततो निजभार्यया सह चलितो नन्दनः क्रमेण गच्छन्नुज्जयिन्यां गतः । ततः पथिक- शालायां सन्ध्याकाले गतौ द्वावपि । चन्दनेन चिन्तितम्-'कलत्रेण सह गच्छतो मम स्तोकप्रयाणैः शम्बलं त्रुटितं बहु । यदि सकलमपि शम्बलं त्रुटिष्यति ततो मिव कर्तव्या।' ततः प्रियां सुप्तां मुक्त्वा शम्बलं गृहीत्वा नन्दनो गतः। प्रभाते सा प्रबुद्धा चिन्तयति-'कुतो गतो मम भर्ता। अहमेकाकिनी किं करिष्यामि' मम पितगृहे गताया आदरो न भविष्यति।' ततो बहून् विलापान कृत्वाऽऽत्मानं धीरयित्वा शीलरक्षार्थ तस्यामेवोजयिन्यां मणिभद्रश्रेष्ठिगृहे गता। श्रेष्ठिनोक्तम्-'का त्वम् ? कस्य पुत्री? को भर्ता?' तयोक्तम्- 'अहं चम्पावास्तव्यकुलन्धरष्टिपुत्री । नन्दनो नाम मम भर्ता । सा गौडदेशे यान्ती सार्थाद् भ्रष्य। एवं श्रुत्वा मणिभद्रेणोक्तम्- 'क्त्से ! त्वं मम पुत्री, सुखेन मम गृहे तिष्ठ । ततो मणिभद्रगृहे स्थिता गृहकर्माणिकरोति । मणिभद्रेण कोऽपि सार्थी निजपुरुषान् १. मल is missing in A. २. Z: adds शीलयित्वा after धीरयित्वा. ३. 2. repeats ततो मणिभद्रगृहे स्थिता गृहकर्माणि करोति.
कथाकोशः प्रेष्यान्वेत्रितः। परं शुद्धिरपि न परिक्षाता । ततस्तस्याः पितगृहे कुलन्धरश्रेष्ठिसमीपे पुरुषः प्रेषितः। तेन गत्वा श्रेष्ठी पृष्टः-'श्रेष्ठिन् ! कियन्त्यः पुज्यस्तव वर्तन्ते ? कियन्त्यः - परिणीताः, कियन्त्यः कुमार्यः ? तत् खरूपं ममाग्रे निवेद्यताम् । मणिभद्रेण तु कन्यां वरीतुमहं प्रेषितोऽस्मि । तेनोक्तम्-'अष्टौ मम पुग्यो वर्तन्ते । ताः सप्त अत्रैव चम्पायौं परिणीताः। एका निजम सह गौडदेशे चलिता। ततस्तेन उज्जयिन्यामागत्य मणिभद्रस्याने सर्वे' स्वरूपं कथितम् । ततो ज्ञातवृत्तान्तो मणिभद्रस्तस्या गौरवं करोति । इतश्च मणिभद्रेण कारित जैनप्रासादे सा पुत्री उपालपनमण्डलमुख्यं धर्म- व्यापारमादरात् करोति । साध्वीनां संसर्गात्सा सर्वपापरहिता बभूव । मणिभद्रो यद् यद् धनं तस्यै ददाति तद् तद् धनं विक्रीय प्रधानानि वादित्राणि जिनभुवने सा कारयामास । प्रभूतद्रव्यप्राप्ती रम्यं छत्रत्रयं कारितम् । बहुविधानि तपांसि कृत्वा उद्यापनानि कारयामास । स्वशक्त्या सङ्घवात्सल्यं करोति । अन्यदा मणिभद्र- श्रेष्ठिनं चिन्तातुरं दृष्ट्वा तया भणितम्-'तात ! अब यूयं कथं चिन्तातुराः ?' मणिभद्र आह-'पुत्रि! राक्षाऽर्पितो देवस्योरामः । सफलपुष्पकुसुमालोऽपि अद्य सहसा शुष्कः । बहवोऽप्युपायाः कृताः। परमयमारामः पुनर्नवो न जातः। अनेन कारणेन वयं चिन्तातुराः।' तच्छ्रुत्वा सा प्राह-'तात! खेदं मा कुरु । शीलप्रभावेन वनं पुनर्नवं करिष्यामि ।' इत्युक्त्वा शासनदेवतां हृदये ध्यात्वा चतुर्विधमप्याहार प्रत्याख्याय कायोत्सर्गे स्थिता। ततश्च तृतीये दिवसे प्रत्यक्षीभूय शासनदेवतयोक्तम्-'सुश्राविके ! अयं व्यन्तरोपद्रुत आरामः शुष्कप्रायस्तव शीलप्रभावेन प्रभाते ताडगेव भविष्यति' इत्युदित्वा देवी जगाम । ततश्च प्रभाते जाते सा सर्वे रात्रिवृत्तान्तं श्रेष्ठिनोऽs. कथयत् । मणिभद्रस्तच्छ्रुत्वाऽऽरामं विलोकयितुं जगाम । पुष्पफल- व्याप्तं तद् वनं दृष्ट्वा श्रेष्ठीपुत्री बभाण-पुत्रि! तव प्रभावेन मम मनोरथाः सम्पूर्ण जाताः, तत् त्वं पारणकं कुरु।' इत्युक्त्वा जन- १. तब for तु Z. २. The portion beginning with parat and ending with ad is missing in 2. 4. ATTO for मण्डल Z.
. कथाकोशः मेलकं कृत्वा वाद्यमानतूर्येषु महाहर्षेण तां गृह आनयत् । सर्वैलो कैर्वर्यमाना सा स्त्री गृहे गत्वा चतुर्विधसङ्घ प्रतिलाभ्य समाधिमरणं कृत्वा सौधर्मे देवो बभूव । ततश्व्युत्वा विद्युत्प्रभा नाम विप्रपुत्री जाता। मणिभद्रोऽपि देवलोके गतः। ततश्च्युत्वा मनुष्यो जातः । ततो मृत्वा नागकुमारो बभूव यस्त्वां प्रति वात्सल्यपरः । यत्पूर्वभवे मिथ्यात्वमोहिता पूर्वमशानभावेन पापं कृतवतीतत्प्रभावेन त्वं दुःखिता जाता । यत्पूर्वभवे मणिभद्रगृहे स्थिता उत्तुङ्गजिनधर्म व्यधास्तत्प्रभा- वेन निरुपम सौख्यं त्वं प्रापः। तदा यजिनगृहारामो निजशीलेन पुनर्नवीकृतस्तत्प्रभावेन देवतादत्तोऽयमारामस्त्वया सह भ्राम्यति । यत्पूर्वमवे छत्रत्रयं दत्तं तत्प्रभावेन सदैव छायायां तिष्ठसि । यत्पूर्वभवे जिनस्य पूजाङ्गानि दचानि तत्प्रभावेन तव भोगा अभवन् । जिन- भक्त्या तव राज्यश्रीर्षभूष। क्रमान्मोतं प्राप्स्यसि' इति श्रुत्वा देवी मूर्छया भुवि पतिता, जातिस्मरा जाता। पूर्वभवो दृष्टः। मूर्छा- प्रान्ते राज्ञी गुरुन् प्राह-भगवन् ! यावद्राक्षः पार्वादात्मानं विमोच्य भवतां समीपे दीक्षां गृह्णामि तावदत्रैव विलम्बनीयम् ।' राशोकम्- 'अहमपि यावत्पुत्रं राज्ये निवेश्य दीक्षार्थमागच्छामि तावदत्रैव स्थातव्यम् ।' ततो मलयसुन्दरं राज्ये निवेश्यारामशोभा- सहितो राजा दीक्षां जग्राह । निरतीचारं चारित्रं प्रतिपाल्य द्वावपि वर्गसम्पदं प्रापतुः। ततश्च्युत्वा क्रमात् कतिपयान् भवान् प्राप्य मोक्षं यास्यतः॥ इत्यारामशोभाकथानकम् ॥ शीलविषये ऋषिदचाकथानकम् । अत्रैव जम्बूद्वीपे भरतक्षेत्रे मध्यदेशो वर्तते। तत्र रथमर्दनं नाम नगरम् । तत्र हेमरथो नाम राजा। तस्य सुयशा नानी राशी। तयोः कनकरथनामा पुत्ररत्नम् । इतश्चोत्तरस्यां दिशि कावेरीनानी पुरी वर्तते । तत्र सुरसुन्दरो राजा । तस्य वासुला नानी राशी । तयो रुक्मिणी नानी पुत्री क्रमेण यौवनं प्राप्ता । नवयौवनां तां दृष्ट्वा तस्या मात्रा सर्वाङ्गीणाभरणधारिणी कृत्वा पितुः समीपे प्रेषिता कन्या 9. A. adds ToT after AfAT.
दूतमुखाद् वचनं कथाकोशः रुक्मिणी। ततः सुरसुन्दरो राजा कृतप्रणामां तां निजोत्सा आरोग्य चेतसि चिन्तयामास-'इयं नवयौवनस्था कस्मै वराय दातव्या इति ।' हुं शातम्-'हेमरथराज्ञः कुमारः कनकरथोऽस्ति । अस्याः स एव सुगुणः पतिर्भवति, नापरः' इति मन्त्रिभिः सहालोच्य तसे दूतं विसृष्टवान् । ततो दूताहृतः खपितुराक्षया कनकरथः कौबेरी प्रति चचाल । एतस्याविलम्बितैः प्रयाणैर्गच्छतः सीमान्तवनभूमि- ध्वावासा जाताः। तत उष्ट्रवृत्तीर्यमाणभारेषु, पटमण्डपपतिषु सम- न्तात्ताज्यमानासु, उत्पर्याणितपृष्ठेषु तुरङ्गमेषु पृथ्वीतले वेल्लत्सु, निषादिभिः कुअरेषु स्तम्भमानीयमानेषु, तस्मिन् क्षणे सिंहासनमल- इत्य सहकारतले स्थितं कनकरथं कुमारं कश्चितः समागत्या. ब्रवीत्-'देव ! कुमार ! अरिदमनो नाम स्वामी मन्मुखेन त्वां समा- दिशति -'यदमद्देशसीमामध्ये तव प्रवेशो मृत्यवे । अथ यदि सडामवाञ्छा तव वर्तते ततो मम पुरो भव । अथवा ममामामादाय स्वगृहान् प्रति निवर्तख ।' तत इति श्रुत्वा कुमारो भृकुटीमङ्गभीषणो दूतं प्रति प्राह-रे रे दूत! इतो गत्वा तत्कुत- पांसुनमात्मखामिनं ब्रूहि-'यदयं राजकुमारस्त्वामेव हन्तुं समायातः। युद्धकौतुकहर्षितोऽहं सम्रा स्थितोऽस्मि । त्वरितं प्रेषय निजखामि- नम्' इत्युक्ते दूतोऽपि गत्वा निजखामिनेऽखिलं कनकरथकुमारोपदिष्टं वृत्तान्तं कथयामास । अरिमर्दनोऽपि तच्छुत्वा कनकरथकुमारं प्रति योद्धं सर्वसेनया सह चचाल । ततो वाताश्चिभिस्तमायान्तं विज्ञाय तस्य संमुखं कुमारोऽपि चचाल । अथ मिलितयोः सैन्ययोरुणे रणो बभूव । तस्मिन् क्षणे तूर्यशब्दसुभटसिंहनादगजहितहयहे. पितैर्विश्वं नादमयं जातम् । अथ कुमारोऽपि हयवेगेन गत्वा परि. दमनं प्राह-'अरे सामसरोमेक ! विवेकविकल! अयमहमागतः, कुरु श्रायुद्धम्' इत्युक्त्वा विद्युत्कालं किरणं दवा कुमारो जीवन्त- मग्रहीत् । तं सार्थे गृहीत्वा कतिपयानि प्रयाणानि दत्वा पुनस्तं मुमोच । सोऽप्यरिदमनो वैराग्ययुक्तो राज्यं त्यक्त्वा दीक्षां जयाह । निरतीचारं चारित्रं प्रतिपाल्य नमितीर्थकरस्य तीये शिवं जगाम । कुमारोऽपि वजन्नेकामटवी गतः। तत्रान्तरे कुमारस्य सेनावालान १. • हूतः is missing in z.
कथाकोशः दत्त्वाऽटवीं नगरीसहशीमकरोत् । इतश्च जलविलोकनाय गतैः पुरुषः सन्यासमय आगत्य कुमारो नमस्कृतः। कुमारण पृष्टाः-'कथं भो! भवतामियती वेला लगा।' तैरुक्तम्-'देवादेशादितः स्थानाद् वय- मेकस्मिन् वने गताः। तत्र समुद्रसमानं सरोदृष्टम् । यावद्वयं तस्मिन् वने स्थिताः स्मस्तावद् दोलाकेलि कुर्वती 'जितस्वर्वधूरूपाऽस्मामि- रेवंविधा कन्या दृष्टा । अस्माकं पश्यतामेव साऽकस्मात्तणेनाइशी- बभूव । ततोऽस्माभिर्वृक्षाद् वृत्तं तद्वनं विलोकयद्भिर्नैव दृष्टा। ततो स्माकमियती वेला लना ।' कुमारोऽपि इति श्रुत्वा विस्मयरसेन तरलोऽभवत् । इतश्च सूर्योऽस्तं गतः। कुमारोऽपि तान् विसृज्य सान्ध्यं विधि कृत्वा हंसतूलिकामलङ्कृत्य सुष्वाप । प्रभाते जाते वदनाम्भोज प्रक्षाल्य देवपूजां कृत्वा प्रयाणाय जयढकामदापयत् कुमारः। ढक्कानिनादं श्रुत्वा सर्व सैन्यं प्रयाणोपक्रमं चकार । पुमा- रोऽपि निजैः कतिपयै राजकुमारैर्वेष्टितश्चरैनिर्दिश्यमानमार्गोऽप्रेसर अचाल । इतश्च जलविलोकनाय गतैर्यत्र प्रदेश सा कन्या हया तत्रैव कुमारो गतः। दैवयोगेन तत्रैव कुमारस्तां कन्यां ददर्श। तां चिन्तयति कुमारः-'योषा स्त्रर्वधूस्तत इन्द्रस्य नेत्रमाला सफला । अथवा यदीयं भुजगी ततो भोगी स एव भोगीशः। ईदृशं स्त्रीरत्न- मलिन् मर्त्यलोकेऽपि न घटते। किं कर्पूरपूरो लषणाकरे जायते? कुमार इति चिन्तापरवशो यावदस्ति तावत्पाश्चात्यं सैन्यं समागतम् । ततश्च पाश्चात्यसैन्यकलकलं समाकर्य सा नष्टा । तत्र सरोवरस्य परितः सैन्येनोत्प्रयाणकं चक्रे। कुमारोऽपि कन्दर्पणाकृष्टचेताः तां सुलोचनां विलोकयन्नेकं चैत्यमलोकयत् । ततः कुमारेण चिन्तितम्- 'अस्मिन् चैत्ये सा सुलोचना भविष्यति' इति कारणात्तस्य मध्ये विवेश। ततश्च कुमारस्तत्र प्रासादे नामेयस्य विभो मूर्ति ददर्श । ततः प्राज्यं पुष्पसमूहमानाय्य जिनोत्तममानर्च । जिनं पूजयित्वा स्तुतिमिमां चकार- 'अद्य मे सफलं चक्षुरध मे सफल शिरः। अद्य मे सफलः पाणिरध मे सफलं जगत् ॥१॥ । . १. यतिस्वर्व for जितस्वर्वधू Z.
- ? कथाकोशः तुष्टोऽसि वन्दितोऽसि त्वं स्तुतोऽसि पूजितोऽसि यत् । वदनिति स तीर्थेशं प्रणनाम मुहुर्मुहुः ॥ १॥ इतश्च तस्मिन्नवसरे प्रलम्बितजटामरो जराजर्जरवपुरेको मुनिः समागतः। तयैव नायिकया प्रौढोदूढकरण्डकमेवंविधं मुनि दृष्टा कुमारः कौतुकोसानलोचनो बभूव । साऽपि बाला तं कुमारं दृष्ट्वा चिन्तयति- 'किमिन्द्रः किमुत चन्द्रः किं वा चासो दिवाकरः । देवः किमथवा साक्षादयं मकरकेतनः॥३॥' अथ कुमारोऽपि जिनेश्वरं नमस्कृत्य समायान्तं मुनि नमश्चके। ततो मुनिः कुमारं प्रति प्राह-'वत्स! भवता कि कुलं सफली- कृतम् ? त्वन्नाम्ना का वर्णपरम्परा वर्या । केन कारणेनात्र भवदा- गमनोत्सवो बभूव ।' ततः कुमारः सर्वे कथयामास । अत्रान्तरे जटाभारतिरोहितां तां कन्यां कुमारोऽद्राक्षीत् । ततः कुमारेण मुनिः पृष्टः-'इदं जिनमन्दिरं केन कारितम् ? अत्राटव्यां किं यूयम् इयं का कन्या ? एतत् सर्वं मम कथ्यताम् । अथ मुनिः प्राह- "वत्स ! इयमस्माकं कथा महती वर्तते । प्रथमं देवपूजां कुर्मः। तावत्क्षणं प्रतीक्षताम्' इत्युत्ता मध्ये गत्वा मुनिर्देवपूजां व्यधात् । सा कुमारं विलोकयामास । कुमारस्तां विलोकितवान् । ततो मुनिः कमलैर्देवपूजां कृत्वा मण्डप आगत्य कनकरथकुमारमब्रवीत्- "कुमार ! आगम्यतामिहासने ममोटजे यतो भवतः पूजा विधीयते।' ततस्तस्योपरोधादुटजे गतः कुमारः। मुनिरूचे-"वत्स ! श्रूयतां चैत्यस्य मम च अस्याः कन्यायाश्च कथा- 'अत्रैव भरते अमरावती नानी नगरी वर्तते । तत्र हरिषेणो नाम राजा । तस्य प्रियदर्शना नानी रात्री बभूव । तयोजितसेनो नाम कुमारः। अन्यदा कश्चिद्विपरीतशिक्षाशिक्षितोऽश्वो नरेश्वरं हरिषेणं जहार । अत्रैव भवन आगत्य मुक्तो राजा क्रमेण वनमध्ये परिभ्रमन् अस्मिन् आश्रमे समागतः । तत्र कच्छमहाकच्छवंशोत्पनं विश्वभूति- नामानं कुलपतिं नमश्चके। मुनिना 'राजायम्' इति लक्षणैर्विज्ञाय 9. The portion beginning with $417: and ending with इदं is missing in Z. - कथाकोशः प्राशीदत्ता, उच-'कुतो यूयमिहागता? कथं वैकाकिनः ततो मुनिनैवं पृष्टो राजा सर्वे निवेदयामास । इतश्च राक्षः पृष्ठे सैन्य समागतम् । राजानं दृष्ट्वा प्रमोदं प्राप सैन्यम् । ततश्चाश्रमबाह्ये सैन्यस्यावासा जाताः । राजा मुनीनाराधयन् तत्राश्रमे मासमेक स्थितः। तेनेदं नाभेयमन्दिरं कारितम् । अथ गच्छते हरिषेणगों मुनिर्विषापहारमन्त्रं ददौ। ततो राजाऽऽत्मनगरी गतः । लोकैर्म- हतोत्सवेन नगरमध्ये प्रवेशः कृतः। राजा राज्यं परिपालयति । अन्यदाऽस्य राशः सभायामुपविष्टस्य पुमानेको व्यजिशपत्-'देव! मालावती नानी नगरो अस्ति । तत्र प्रियदर्शनो नाम राजा राज्यं करोति । तस्य विद्युत्प्रभा नानी राशी वर्तते । तयोः प्रीतिमती नानी कन्या। सा सर्पण दष्टा। अस्माकं स्वामिना इति निवेदयितुमहं प्रेषितः।' राजा तस्य वचनं श्रुत्वा वेगिमिः करभैस्तत्र गत्वा तेनैव विषापहारमन्त्रेण तां निर्विषीचकार । ततस्तां पित्रा दत्तां परिणीय पुनर्निजनगरी समागतो हरिषेणराजा । ततो भोगान् भुत्ला कियति काले गते तया नवपरिणीतया सह पुत्र राज्यभारं निवेश्य तपखिता' भेजे । विश्वभूतेः कुलपतेराश्रमं गतौ। तत्र राजाराझ्यौ तपश्चक्रतुः । अथ प्रीतिमत्यास्तपः कुर्वत्याः पूर्वसम्भवो गर्भः पञ्चमे मासे प्रकटी- बभूव । तां तथास्थां दृष्ट्वा तपखिनः सर्वेऽपि लजिताः। ततो हरि- षेणराक्षा पृष्च-'देवि ! किमेतत् ? राक्षी प्राह-खामिन् पूर्व- सम्भवो गर्भः। तदा मया व्रतविघ्नभयेन न कथितो युष्माकम् ।' इतश्चातनीयाः सर्वेऽपि तपखिनस्तमाश्रमं विमुच्यान्यत्र गताः। हरिषेणस्तपखी तसिनेवाश्रमे स्थितः । ततो द्वावप्यतिदु:खिनौ निजकर्म निन्दन्तौ चतुरो मासानत्यवाहयताम् । सा प्रीतिमती राक्षी सम्पूर्णे नवमे मासे पुत्रीमसूत । ऋषीणामाश्रमे जाता इयं पुत्रीति कारणात् पितृभ्यां तस्या ऋषिदत्तेति नाम कृतम् । ततो दैवयोगात् प्रसरोगेण तस्या जननी प्रीतिमती पञ्चत्वं प्राप। तत और्वदेहिक कृत्वा लालयित्वाऽष्टवार्षिकामकरोत् पिता इमाम् । मम पुत्री रूपवती दृष्ट्वा वनेचरा हरिष्यन्ति इति चिन्तयित्वा तस्या योजनकाअनं' चकार । अहशीकरणाअनं पूर्व विश्वभूतिकुलपतिना निवेदितम् । १. पश्चितi for तपखित A. २. तस्यार्थों जिनकोजनं for तस्या योजनकाजनं Z. ३. अदृशीकरणं जनं for प्रशीकरणानं Z.
तेन कारणेनामिन् वने सापुत्री वनेचराणामगोचरा बभूव । 'कुमार! सुभगाकार ! अयं सोऽहम् । सेयं मम कम्यका ।' कुमारस्तामृषिपुत्री बेहपरम्परया दशा तथाऽपश्यत् यथाऽन्योन्यमात्मा एकीभूतः । मुनिरपि एतयोरभिप्रायं निजचित्ते विभाव्य स्मित्वा कुमारमुवाच- 'कुमार! मया तुभ्यमियं पुत्री दत्ता।' कुमारेणोक्तम्-'यत्पूज्याः समाविशन्ति मया तत्प्रतिपन्नम्।' मुनिनोक्लम्-'कुमार! उत्तिष्ठ ! खं कटकं गच्छ, भोजनं कुरु ।' कुमारोऽपि मुनि प्राह-'प्रभो! अब युष्माभिः समं भोदयामि तम्मया सह चलत ।' मुनिनोक्तम्- 'वत्स! तव गौरवं प्रमाणम् । परं मुनीनां कन्दमूलादि मुस्काऽज्यन्त्र कल्पते' इत्युक्त्वा मुनिना विसृष्टः कुमारः कटके गत्वा सपरिच्छदो भोजनं चकार । अथ शुभ लग्ने कुमारेण सा हरिषेणपुत्री ऋषिदत्ता परिणीता । ततः कुमारस्य तया नवोढया सह तत्रैव वसतः कियन्तो वासरा गताः । अन्यदा मुनिः कुमारं गद्दया गिराऽब्रवीत्- 'कुमार! जगदाधार ! वयं त्वां बहु कि ब्रमहे । एनामपमानपदं कदापि मा कृथाः । इयं वनवसनात् कौशल्ये कशा त्वयि न्यासीकृता मया । तव सङ्गमेनैषाऽपि गुणवती भविष्यति । यतः मृगनाभौ गता धूलिरपि सुरभीभवेत् । किचाहमझौ प्रवेष्टुं वाञ्छामि । यतो माशा जीवितान्मरणं श्रेयः।' कुमारोऽपि मुनेः पादयोर्निपत्य मुनीश्वरं प्राह-'प्राणपरित्यागवार्तयाप्यलम् । ततः क्रन्दन्ती ऋषिदत्ता निज- पितरं प्रति प्राह-मयि करुणां कुरुत। मुनिरुवाच-'वत्से! एवं मा ब्राहि । परं मम शिक्षां शृणु, गुरुन् शुश्रूषेथाः, शीलं पालयेथाः । सपनीवपि मा कोपी। सुखे दुःखे चाधर्मपराङ्मुखी । ततश्च कनकरयकुमारं खामपि पुत्री मुत्कलाप्य पञ्चपरमेष्टिमन्त्रं स्मरन् मुनिरमी विवेश । ऋषिदचापि रुदती जगतीपीठे विलुव्य इति विलापानकरोद- 'हा तात ! तात ! निस्सीमापत्यवात्सल्यतत्पर ! अयाहं त्वते शोच्या गतमूलेव कन्दली ॥४॥ दृष्टापि न मया माता तात! मातासि मे भवान् । तदुभावप्यजायतां भुवि हस्तौ गते त्वयि ॥४॥ तता कमकरयकुमारो निजप्रियां बोधयितुं प्राह- - 'तिष्ठ तिष्ठ प्रिये ! माधुपातमत्यन्तमातनु । किं बलं ते कृते दुःखें, परलोकपथं गताः॥६॥ देवि! अयं तव पिता न शोच्यः, यतः कृतराज्यः कृतव्रतः।' इत्यं तस्यौदेहिककार्य कृत्वा कुमारः श्मशानस्थाने स्थण्डिलं चकार । अथ ऋषिदत्तया पल्या सार्द्ध कुमारोऽपि निजनगरं प्रति चलितः। ततः पल्या सह यान्ती ऋषिदत्ता पित्रा दत्तां सदाफलवृक्षफलावली मार्गेऽवपत् । प्रथाखण्डितप्रयाणैः कुमारो रथमर्दनं महतोत्सवेन विवेश। ततः सकलत्रः कनकरयकुमारः पित्रोचरणौ ननाम । ततः पितृभ्यामभिनन्दितः कनकरथकुमारस्तया सह विषयसुखमभुक्त। इतश्च काबेरीखामिना सुरसुन्दरराक्षा 'कुमारेण पुत्री मुनेः परिणीता' अयं वृत्तान्तः श्रुतः। सापि नृपपुत्री रुक्मिणी कुमाराकाहिणी दु:खिनी जाता । अथान्यदा तस्या रुक्मिण्याः सुलसा नानी योगिनी मिलिता। परं सा समस्तमन्त्रतन्त्रादिवेदिनी । तया रुक्मिण्या ऋषिदत्ताकलङ्काय कुमारागमनहेतवे भोजनवस्त्रादिभिः सा चाव- जिंता । रुक्मिणी तां दुष्टां सुलसां रथमर्दनपुरे प्राहिणोत् । ततः सा सुलसा कियहिवसै रथमर्दनपुरे समागता। ततश्च रात्रिसमये कनकरथकुमारधवलगृहे गता। सर्वेषां जनानामवखापिनीं दत्त्वा कुमारस्य समीपे ऋषिदत्तां सुप्तां दृष्ट्वा निजमस्तकं धुन्वती सुलसा निजचित्ते इति चिन्तयति- 'अहो रूपमहो दृष्टिरेतस्या मृगचक्षुषः । अयं च पुण्यवान् यस्य दयितयमजायत ॥७॥' अथ तया योगिन्या ऋषिदत्तामुखं रुधिरेण विलितम् । उच्छी के किञ्चिदामिषं न्यस्तम् । एकं नरं मारयित्वा कुमारधवलगृहात् पलायिता । ततः प्रभातकाले मारितं नरमालोक्य कलकलचके परि- वारेण। कलकलं श्रुत्वा कुमारेण चिन्तितम्-'हाहा! अद्य कधिनरो मारितः श्रूयते, तत्कथमेषा मम दयिता राक्षसी।' ततो रुधिरेण विलिप्तमुखोवृत्रिदत्तामुच्छीर्षकोपरि न्यस्तमामिष दृष्ट्वा कुमारण चिन्तितम्-'अहो यत् शाने रूपलक्ष्मीरपायबहुला तत्सत्यम्' इति बहून् संकल्पविकल्पान् चिन्तयन् तत्कालमेव प्रियां १. दीप्ति• for दृष्टि.2. - ७e कथाकोश प्राबोधयत्-'देवि! जागृहि, जागृहि । ततः सुप्तोत्थितां खवलमां प्रोवाच-'देवि! भवतीं किञ्चित्पृच्छामि । हरिषेणकुले उत्पनापि किं त्वं राक्षसी भवसि साऽपि भीताऽमणत्-'देव! मय्येवं कि जल्पसि ?' कुमारः प्राह-'प्रिये ! अद्य रात्रौ पुरुषो मारितः। तवोच्छीर्षके मांसं न्यस्तम् । मुखं रुधिरेण विलिप्तम् । एतद् द्वयं मया प्रत्यक्षं दृष्टम्' इति पत्युर्वचनं श्रुत्वा स्वयं तद् दृष्टवा ऋषिदत्ता कुमारं प्रत्यभाषत-देव! यदि पुरापि मांसभोजनीम- वामि ततो मांसनिषेधं कथं कुर्याम् । एतत्किमप्यहं न जानामि । केनापि विद्वेषिणा मम कर्मप्रेरितेनैतत् कृतम् । अथवा यदि तव काप्यप्रीतिस्ततो मां निगृहाण ।' कुमार इति वचनं श्रुत्वा तामवो- चत्-'प्रिये ! त्वं निर्दोष । चित्ते खेदं मा कुरु।' कुमार इति वदन् स्वयमेव मांसं निराकृत्य तस्यामुखाम्बुजं प्रक्षालयामास । एवं कलङ्गं सा योगिनी नित्यमेव तस्याश्चके। कुमारणापि स्नेहपरेण नित्यं कलङ्कोऽपलपितः। अन्यदा हेमरथो राजाऽमात्यान् इत्यभाषिष्ट- 'रेरे मम पुरे नित्यमेकैको जनो मार्यते। यूयं किमु न जानीथ ।' तैरतम्-'देव ! एतन्मानवीचरित्रं न, अपरं किञ्चिद्वयं न जानीमः।' राशा कोपाविष्टेनोक्तम्-'तहोते पापण्डिनो नगरान्निस्यन्तां यदेते किश्चिदपि न जानन्ति।' ततो राजादेशाजैनमुनीन मुक्त्वा सर्वे पापण्डिनो निष्कासिताः। इतश्च तस्मिन्नवसरे सुलसा योगिनी राजसमायामागत्य राजानमिदं व्यजिज्ञपत्-"देव ! मयाच रात्री खनो रटो यत्केनापि देवेन मां प्रत्युक्तम्-'यत् प्रभाते सर्वान् पापण्डिनो निष्कासयिष्यति (राजा), ततो भवत्या गत्वा रामोऽग्रे निवेदनीयं यत्-तव कुमारस्य वनादानीता वधूनिश्चितं राक्षसी। तस्या एवेशं चेष्टितम् । पाषण्डिनां परामवं मा कुरु । यतः शूकर वूिन खादति क्रुध्यते महिषाननम् ।' राजन् ! यदि मदीये वचसि तब सन्देहो भवति तदद्य रात्रौ स्वयं गत्वा विलोकय ।" रामोक्तम्- 'हुं विलोकयिष्यामि।' इत्युका योगिनी विसर्जयित्वा रात्रौ कनक- रथकुमारं स्वाङ्गपीडाकपटाद् आत्मसमीपे अशाययत् । कुमारश्वि- तापरो रात्रौ पितुः समीपे सुप्त इति चिन्तां करोति-'हा अध १. न गृहाण for निगृहाणZ.
कथाकोशः प्रियाकलङ्कःप्रकटोभविष्यति। यत एकता पितुरादेशलानं न युज्यते, अन्यतो दयिता दूषिता। इतो व्याघ्र इतस्तटी।' इतश्च सुलसया लस्या रात्री तथैव ऋषिदत्तामुखं रुचिरेण विलिप्तम्, उच्छीर्षे आमिषं मुक्तम् । हेमरथराक्षा चरान् प्रेषयित्वा तत्स्वरूपं विलोकि- तम् । अथ प्रभाते तत्स्वरूपं चरै राक्षोऽग्रे निवेदितम् । ततो हेमरथराज्ञा कुपितेन कुमारस्यान उक्तम्-अरे ! क्रूरचरितामेनां राक्षसी जानन्नपि कथं पालयसि १ याहि याहि-'अरे! राक्षसी- पते! मम दिशोऽयं त्यज। अद्य त्वया निर्मलं कुलं कलङ्कितम्।' ततः कुमारोऽप्यञ्जलि योजयित्वा नृपं विक्षपयामास। 'देव! इदं सर्वमलीकं मम विषये। प्रसीद ! कोपं मा कुरु।' अथ राजा प्राह-'अरे स्वं स्वयं गत्वा निमालय । ततश्च कुमारोऽपि दुखितो निजगृहे गतः। वामकरतले न्यस्तकपोला रुदती प्रियां दृष्ट्वा कुमारेणोक्तम्-'देवि ! अश्रुधाराभिर्जलवर्षणं किं कुरुषे ? किं कुर्मः? कल्पेतनीये दिवसे नृपस्याग्रे योगिनीत्वां राक्षसी न्यवेदयत्। अद्य प्रभाते राक्षा चरान् प्रेष्य त्वमीहशी दृष्टा । अधुना तव यद्भवि- प्यति तद् वयं न जानीमः।' अत्रान्तरे हेमरथो राजा तां केशैराकृष्य विलपन्तीं दण्डपाशिकानामर्पयामास।तानेवमादिदेश-'एनां पापिनी राक्षसी नगरे भ्रामयित्वा श्मशानमध्ये नीत्वाऽनवलम्बं मारयत ।' कनकरथकुमारोऽपि खाणघातं कुर्वन् राक्षा स्वयमेव बद्धा निषिद्धः । अथ सप्तशिखाबद्धश्रीफलां निम्बपत्रमालाक्रान्तकण्ठाम् उद्दण्डविधृत- छित्वरचा जीर्णसम्मार्जनीखण्डशेखराम् अग्रेसचारिविस्वरकाहला- निडिण्डिमां मिलितनीचलोकपातितबुंबिकाचूर्णचित्रितनिश्शेषश- रीरां दण्डपाशिका राजादेशादेवंविधामृषिदत्तां नगरमध्ये भ्रामया- मासुः । ततः पौरेषु हाहाकारं कुर्वसु दण्डपाशिकाः श्मशानमध्ये तां नयन्ति स । तसिनवसरे सूर्योऽप्यस्तमितस्तस्या दुःस्थां कष्ट दशां विलोययितुमनीश्वर इव । ततोऽन्धकारं सर्वतः परितस्तरे। इतच तेषां मध्यात् खहं गृहीत्वा एकेन ऋषिदत्ता प्रत्युक्तम्-'अरे रे ! किञ्चिदीप्सितं दैवतं स्मर, एषा न भवसि' इत्युका यावदयं खड्ग- मुद्धामयति तावद् ऋषिदत्ता भयाद् भूमी पपात मूछिता । ततो मृतावस्थामेनां दृष्टा किमिदं मृतमारणम्' इत्युक्त्वा सर्वेऽपि दण्ड- पाशिका व्यावृत्य नगरे गताः।सापि सन्ध्यासमये शीते वाते शरीरे कथाकोशः ततो राजकुमारोऽपि मुनि प्रत्यवोचत्-'मुने ! त्वां पश्यतो मम दृष्टिः कथं न तृप्यति?' मुनिनोकम्-'देव !कोऽपि कस्यापि वल्लभो भवति । कुमुदानि चन्द्रे मोदन्ते, कमलानि भास्करे।' ततः कुमारेगो- कम्-'मुने! मयाने गन्तव्यमस्ति । ततः कथं यामि यतस्त्वत्प्रीति- शालाबद्धं मम मनो गन्तुं न शक्नोति । तन्मयैव समं चल । वलमा- नस्त्वामत्रैव मोक्ष्यामि ।' अथ मुनिः प्राह-'कुमार ! आग्रहं मा कृथाः। यतो देव ! संयमिना' राजसङ्गतिर्दोषाय जायते। ततः कुमारः पुनर्मुनि प्रति प्राह-'प्रभो ! किं भवाहशा अपि प्रार्थनामङ्गं कुर्वते । अमात्योऽपि तं मुनि प्राह-'मुने! यदयं कुमारः कथयति तत्कुरु ।' ऋषिदत्तामुनिः सर्वेषां महाऽऽग्रहेण तत्सर्वं मेने। इतश्च सूर्योऽस्तं गतः । तौ कुमारमुनी सन्ध्याविधि कृत्वा एकस्मिन् पल्यके शायिनौ तां रात्रिमतिवाहयताम् । अद्य प्रभात कुमारः प्रयासमकरोत् । ततोऽविच्छिन्नप्रयाणैः कावेरी नगरीमभ्यागात्। ततः सुरसुन्दरो राजा सपरिवारस्तस्य सम्मुखमाजगाम । ततो महतोत्सवेन नगरीमध्ये प्रवेशमहोत्सवो बभूव । विवाहसजीकृतं धवलगृहं कुमारोऽलञ्चके । अथ गणकोपदिष्टे दिवसे राजकुमारो रुक्मिणी पर्यणैषीत् । अन्यदा कुमारस्योत्सङ्गे स्थिता रुक्मिणी कुमारं प्रति इति बभाषे-'प्राणेश! सा तपस्विनी ऋषिदत्ता कीदृश्यासीद् यया तव चित्तं वशीकृतम् ।' ततः कुमारो जगाद- 'तस्या ऋषिदचाया एकैकं किं वार्यते यस्या रूपस्याने कामभार्या दासी वर्तते, मेनका यस्या वर्णिका, नागयोषितो यस्याः पदरेणवः । दैवयोगान्मम तस्या विरहे जाते त्वमपि प्रिया प्रासीः, यत्क्षौरं विना वृष्टिरपि प्रीतिकरी भवति। ततः सकोपा रुक्मिणी पूर्वकारितं निजं पौरुषं कुमारस्याने कथयामास । तस्मिन् क्षणे अषिदत्तामुनि निजकलकापनयनाद् हृदये मुदं दः । अथ कुमार इति श्रुत्वा भृकुटीमाभीषणो रुक्मिणी निजोत्सझादपाकृत्यात्यथै निरमसंयत्- 'अरे पापीयसि ! क्रूरे ! भवत्याऽऽत्माऽहच नरके क्षितौ ।हाहा! गुणवती रूपवती याऽऽसीत् महासती कथाशेषीकृता, साऽपि गता। अंशुकारिएया त्वयाऽऽत्महितं कुर्वत्या लोकविरुद्धं किं कृतम्' इति - १.2.adds राजसंगामना after संयमिना। २. विधि for .विषz.
कथाकोशः ३ निर्मसयतस्तस्य प्रभातं जातम् । अथ कुमारो भाविरहविह्वल- स्तत्रैव वितां कारयामास । कुमारः स्वजनैर्वार्यमाणोऽपि चिताम- घिरोढुं चलितः। ततः कावेरीपतिना, वेगेन समागत्य कुमारो वारितः। 'कुमार ! त्वादृशामिदमबलाकर्म न युज्यते । राक्षा इत्युक्तो- ऽपि कुमारो यावदाग्रहं न मुञ्चति ततश्च परिवारजन ऋषिदत्ता- मुनिमवोचत्-भगवन् अयं राजकुमारस्तव कथितं करोति । तत एनं मारणानिवर्तय।' मुनिस्तैः परिजनैरभ्यर्थितो विहस्य कुमार प्रति प्राह-'कुमार ! महिलामात्रकृते किं म्रियते? मां वनादानयता त्वया यत् प्रतिश्रुतं तत्कथितं तव विस्मृतम् । किञ्च वल्लभासङ्गवार्ता- ऽपि तव दुर्लभा। जीवतः पुनरागत्य सा कुतोऽपि मिलिष्यति।' कुमारोऽपि मुनि प्राह-'मुने! मां किं विसावयसि ? किं कुत्रापि मृतस्य जीवितं जायते ?' मुनिः प्राह-वचनं कुरु, अनेन तव सत्त्वेन ऋषिदत्ता मृतापि जीविष्यति।' अथ कुमारो मुनिमभाषिष्ट- 'प्रभो ! पुनरप्येतदेव त्वरितं श्रावय-त्वया सा कि प्रत्यक्षं कापि दृष्टा, अथवा किं श्रुता, अथवा किं झानेन जीवन्ती कापि स्थितां जानासि यतस्त्वमेव सावष्टम्भं जल्पसि ? पुनर्मुनिर्जगाद्-'कुमार! शानेन तव वल्लभा जानामि । यथा मां पश्यसि तथा दक्षिणदिक्पते- नगरे तव वल्लभाऽस्ति । ततोऽहं तस्याः पदे आत्मानं यमस्य पायें प्रस्थाप्य तव मित्रस्य कार्य तामृषिदत्तामानयिष्यामि । अथ कुमारः प्राह-'मुने! यद्येवमस्ति ततो विलम्बो न युज्यते।' मुनिः प्राह- 'दक्षिणयानं ध्यानेन क्षणं न भवति, शीतमेव मुघा पतेत् ।' कुमारः प्राह-'तुभ्यमप्रेऽपिचित्तं मयाऽर्पितं साम्प्रतमयममात्मापितावकः।' मुनिः प्राह-'कुमार! तवात्मा तव पार्श्वेऽस्तु, यदाऽहं यत्किञ्चित्मा- र्थयामि तत्त्वया मम दातव्यम् ।' कुमारेपोकम्-एवमस्तु' इत्युका मुनिः पटान्तरितो बभूव । क्षणान्तरं तत्र स्थित्वा द्वितीयया औषच्या मुनित्वं त्वका पटमध्यान् हरिषेणपुची ऋषीदत्ता प्रकटीबभूव । ततश्च देवगणेन तस्याः शिरसि कुसुमवृष्टिः कृता। लोकस्ता दृष्ट परस्परमित्युवाच, 'याशी सुवर्णस्याने किल पित्तला ऋषिदचार्या अने १. ऋषम• for ऋषि. Z. २.कि दक्षिणया विना ध्यानदक्षिणे A. दक्षिणया वनाध्यांनषणे 2. ३. •स्त्वां for स्तां 2... या is missing inz.
कथाकोशः तादृशीरुक्मिणी भवेत्।ततः कनकरथकुमारस्य स्थान प्राग्रहः। अस्याः कृते को न म्रियेत ? कुमारोऽपिचिरदृष्टामृषिदचां प्रियां विलोकयनपि तृप्तिं न प्राप । सुरसुन्दरोऽपि तामालोक्यातिसहर्षो जातः । ततः सुरसुन्दरो राजा कुमारसहितामृषिदत्तांगजेन्द्रेऽधिरोप्य निजधवल- गृहे निनाय । ततो गौरवात्स्नानवस्त्रालङ्करणादिकैः तां सच्चकार । ततः सुरसुन्दरो राजा तां पापिनीं सुलसां योगिनी नगरे भ्रामयित्वा पदे पदे पौरलोकैनिन्धमानां पदे लोकैर्यष्टिमुष्टयादिभिः कुट्यमानां गर्दभारोपितां वाद्यमानकाहलडिण्डिमां विलूनकर्णयुगलनासिकां निजनगरानिष्कासयन् निजपुत्रीमेकान्ते कृत्वाऽत्यन्तं निरभर्सयत् । कनकरथकुमारोऽपि ऋषिदत्तया सह सुखहदे मना कियत्काल श्वशुरेण प्रसादितः स्थितः । अन्यदोत्सङ्गनिषदुषीं प्रियामृषिदत्तां कुमार एवमुवाच-प्रिये! सवैभव्यमभूत् । परं मम मित्रं मुनिर्यमस्य समीपे कष्टेन विद्यते ।' ऋषिदत्ता हसित्वा प्राह-'देव ! विषादं मा कुरु । इदं सर्वमौषधीचेष्टितम् । किश्चिन्मम वरं पूर्वप्रतिपनं देहि ।' कुमारेणोक्तम्-'तर्हि किं दीयताम् ?' ऋषिदत्ता प्राह- 'यथा मां पश्यसि तथा रुक्मिणीमपि पश्य' इति श्रुत्वा कुमारेण चिन्तितम्-'विरोधिन्यामप्यस्यां कीदृशी चित्तवृत्तिः' इति चिन्त- यित्वा दयितामुवाच कुमारः। 'देवि! एवमस्तु' इति भर्तुर्वचनं श्रुत्वा ऋषिदत्ताऽऽत्मनाऽऽकार्य रुक्मिणी लजाभगमकारयत् । कुमारोऽपि कावेरीपति मुत्कलाप्य ताभ्यां दयिताभ्यां सहितो निज नगरमाजगाम । अथ हेमरथो निजपुत्र प्रत्यभ्याजगाम । निजतात- मायान्तं विलोक्य कुमारो ननाम । ततो नगरमध्ये प्रवेशो बभूव । ततो वृत्तान्तं शात्वा हेमरथो निजापराधेन लजित ऋषिदत्वाममा- नयत् । क्रमात्कनकरथं राज्ये निवेश्य भद्राचार्यसमीपे हेमरथो दीक्षा जमाह । अथ न्यायेन पृथ्वीं पालयन् कनकरथो राजा ऋषिदत्तायां सिंहरचनामानं पुत्रमजीजनत्। अन्यदा ऋषिदत्तासहितो राजा गवाक्ष उपविष्टो मेघपटलमद्रासीत् । ततः प्रचण्डपवनवशात्क्षणेन विलीन ततध मिलितं गलितं दृष्ट्या मेघवृन्दं वैराग्यवान् राजा इंदं चिन्तया. मास-'यारागदं दृष्टनष्टं मेघवृन्दम् अस्मिन् संसारे आयुर्विभवादिकं कथाकोशः ताडगेव चलाचलम्' इति वैराग्यपुरस्सरमृषिदत्तासाहतस्य प्रभाते आरामिकेन राशोऽग्रे इति विज्ञप्तम्-'देव ! कुसुमाकरे उद्याने भद्- यशा नामाचार्यः सपरिवारः समवासरत्' इति राजा श्रुत्वा तस्मै पञ्चामप्रसादं कृत्वा गुरुन् वन्दितुं चचाल | गुरुन् वन्दित्वा ऋषि- दत्तासहितो धर्म शृणोति देशनाप्रान्ते । ऋषिदत्ता प्राह-'भगवन् ! पूर्वभवे मया कि कर्म विहितं यन्ममालीको राक्षसीकलको बभूव ।' गुरुः प्राह- "अलिन् भरते गङ्गापुरं नाम नगरम् । तत्र गङ्गादत्तो राजा। तस्य गङ्गा नानी राशी। तयोर्गङ्गासेना पुत्री। तत्रैव पुरे चन्द्रयश नानी प्रवर्तिनी। तस्याः समीपे गङ्गासेना धर्मशृणोति । ततःकियति काले गते चन्द्रयशासमीपे तया विषया विषसहशा अवगणिताः। ततश्च तत्रैव पुरे काचित् सङ्गा नानी श्राविकामासक्षपणतपः करोति। ततो लोकस्तां नमस्करोति । एवं दृष्ट्वा तस्याः प्रशंसां गङ्गासेना न सहते। अन्यदा लोकसमक्षं गङ्गासेनया तस्याः श्राविकाया अयं कलको दत्तः-'यदेषा राक्षसी रात्रौ मृतकामिषं न खादति, दिवा तपस्तपति । एवं कलई श्रुत्वा सा सङ्गा तितिक्षामास । पुनर्मिथ्या- दुष्कृतं न दत्तम् । तस्य कर्मणो वशद् गङ्गासेना बहून् भवान् परिभ्राम्य पुनर्गङ्गापुरे राजपुत्री जाता । ततः पुनश्चारित्रं गृहीत्वा को कृत्वाऽन्तकाले कोपमनालोच्य मृत्वा ईशानेन्द्रस्य कलत्रं जातम् । ततश्च्युत्वा हरिषेणमुनेः पुत्री प्रीतिमती कुतिसम्भवाऽऽश्रमे ऋषि- दत्ता जाता । भद्रे ! पूर्वकर्मवशाद तवायं महान् कलको बभूव" इति गुरुमुखात्पूर्वभवं श्रुत्वा ऋषिदत्ता जातिस्मरणं प्राप । तच्छ्रुत्वा कनक- रथोऽपि वैराग्यं प्राप । अथ सिंहरथनामानं पुत्रं राज्ये निवेश्य मद्रयशाचार्यसमीपे द्वाभ्यां दीक्षा गृहीता। उग्रं तपः कुरुतः । द्वावपि केवलज्ञान प्रापतुः। गतेवति विततायुःकर्मणि प्रान्तमन्तःकरणशरणवैरिध्वंसनादत्तकीर्तिः । अथ पृथुमथितार्पत केवलद्वन्द्वमेतत् परमपदमुदारानन्दसन्दोहमूहे ॥१॥ इति शीलविषये ऋषिदत्ताकथानकम् ।। १. •सहि• is missing in Z. २. गति• for गत•Z. ३. प्रान्ति for प्रान्त Z. ४. पृथुमपिता यत् A., पृथुमपितापत् Z.
कथाकोशः जीवदयाविषये मेतार्यकथानकम् । अत्रैव भरते साकेतपुरे चन्द्रावतंसको राजा। तस्य सुदर्शना- प्रियदर्शनानाम्न्यौ द्वे राज्यौ। सागरचन्द्रमुनिचन्द्रनामानौ सुदर्शना- पुत्रौ। गुणचन्द्रबालचन्द्रनामानौ प्रियदर्शनापुत्रौ। चन्द्रावतंसकराक्षा सागरचन्द्रो युवराजपदे कृतः। मुनिचन्द्रस्य कुमारभुत्यै उज्जयिन्या राज्यं दत्तम् । अन्यदा माघमासे शयनगृहे चन्द्रावतंसकराक्षा प्रतिमा- कायोत्सर्गः कृतः। 'यावद्दीपो दीप्रस्तावत्कायोत्सर्ग न पारयामि, अयमभिग्रहो गृहीतः। ततश्च शय्यापालिकया चतुर्दा प्रहरेषु दीप- स्तैलेन सिक्तः । दिनोदये सुकुमारतया राजा मृतः, गतो देवलोकम् । तस्य पट्टे सागरचन्द्रो राज्यं करोति । अन्यदा सपनीमाता प्रिय- दर्शना सागरचन्द्रराक्षा उका-'तव पुत्रयो राज्यं भवतु । अहं दीक्षा ग्रहीष्यामि।' तया चिन्तितम्-'राज्यमनेन सागरचन्द्रेणैव निर्वहति, मन्येन न निर्वहति । इति कारणान गृहीतं राज्यम् । बहवो दिवसा गताः । अन्यदा राज्यलक्ष्म्याऽलङ्कतो वसन्तक्रीडायां गच्छन् प्रिय- दर्शनया सागरचन्द्रो दृष्टः। ततः स्त्रीखभावात् सागरचन्द्रविषये कोपो बभूव । प्रियदर्शना चिन्तयति-तदा मया निजपुत्रयोर्वीयमानं राज्यं नाभिलषितम् , साम्प्रतं यदि कथमपि मम पुत्रयोराज्यं भवति ततो रम्यम, ततः केनाप्युपायेन सागरचन्द्रं मारयामि ।' अन्यदा बायोगाने स्थितेन सागरचन्द्रेण निजलघुभ्रावसहितेन शीताशनार्थ मोदकानयनाय सूपकारसमीपे एका दासी प्रहिता । प्रियदर्शनया पृथ-'किमर्थमागता त्वम् ?' तयोक्तम्-'राक्षः शीताशनार्थमागता।' अत्रान्तरे प्रियदर्शना राशी हस्तौ विषलितौ कृत्वा मार्ग स्थिता । इतच सा दासी सिंहकेसरमोदकमेकमेव गृहीत्वा गच्छन्ती प्रिय- दर्शनया दृष्टा । विलोकनमिषेण मोदको निजकरे ग्रहीतः। ततो हस्ताभ्यां घृष्टः। ततो विषभावनालाः पुनर्वासीहस्ते समर्पितः। वास्या सागरचन्द्रराशः समर्पितो मोदकः। रामा चिन्तितम्-'मोदक १. is missing in Z. २. The portion अन्येन न निर्वहति is missing in 2. 3. The portion charraige: is missing inz.
- - कथाकोशः एक एव । मम भातरौ सुधितौ । तेषु बुभुक्षितेषु न युज्यते मोक्तुम् ।' तयोईयोरपि मोदकार्य दत्तम् । ताभ्यां भातितश्च । ततो विषघूर्णमाननयनौ दृष्टौ। रामा आकारिता वैद्याः। वैद्यैः कुमारसुवर्ण पायितौ। ततो रामा दाली पृष्टा-केनार्पितो मोदकः तयोक्तम्- 'सूपकारेणार्पितः । मम मार्गे आगच्छन्त्या प्रियदर्शनया मम हस्ताद गृहीतो मोदका, पश्चात्परामृष्टः।' सागरचन्द्रराक्षा चिन्तितम्- 'अनया मम सपत्नीमात्रा मम विनाशाय विषेण मोदकः परिभाव्य प्रहितः।' स्वरूपं सात्वा राजा चिन्तयति-तदा दीयमानं राज्यं न गृहीतम् । अधुना ईदृक् स्वरूपम् ।' ततो वैराग्यपरेण सागरचन्द्रेण दीक्षा गृहीता। प्रियदर्शनापुत्रयो राज्यं दत्तम् । अन्यदा उज्जयिन्याः साधवः समागताः । सागरचन्द्रमुनिना पृष्टाः-'उज्जयिन्यामस्ति निरुपसर्गत्वम् ।' तैः कथितम्-'तत्र राजपुत्रः पुरोहितपुत्रश्च मुनी- नामुपसर्ग कुरुतः। ततः सागरचन्द्रो मुनिर्निजबान्धवस्य पुत्रस्य स्वरूपं सात्वा उज्जयिन्यां गतः। कस्मिन्नपि गच्छे विश्रान्तः। तंत्र वास्तव्यमुनिभिभिक्षावलायां निमन्त्रितः सागरचन्द्रो मुनिः। सागर- चन्द्रमुनिनोक्तम्-'अहमात्मलन्धं पारयामि । परानीतमाहारं न गृक्षामि । ततो मम स्थापनाकुलानि दर्शयत ।' तत एकेन मुनिना पुरोहितगृहं दर्शितम् ।' तत्र गत्वा सागरचन्द्रमुनिना महता शब्दन धर्मलाभः कथितः । ततो हाहाकारं कुर्वन्त्योऽन्तःपुर्यो बहिनिर्गताः । मुनिना गाढखरेण भणितम्-श्राविक ! किमेतत् ?' इतश्च कलकलं श्रुत्वा तौ राजपुत्रपुरोहितपुत्रौ तत्रागतौ । द्वाभ्यां मुनिं दृष्ट्वा द्वारो दत्तः, कथितश्च-'भो मुने! नृत्यं विधेहि ।' मुनिनोक्तम्-वादित्रं विना कथं नृत्यं करोमि ? ततो युवां छन्दविशेषं वादित्रं वादयथ यथा भवतो नृत्याभिलाषं पूरयामि ।' ततो मुनिः पार्श्वे पात्रं विमुच्य नृत्यति। ततो मुनिनोकम्-'युवां सम्यक् वादित्रं वादयितुं न जानीतः। ततः कोपितो मेलः। ताभ्यां राजपुत्रपुरोहितपुत्राभ्या- मुक्तम्-'आवयोयुद्धकलाऽस्ति परं वादित्रकला नहि ।' मुनिनोक्तम्- 'तहिं मया समं युद्धं कुरुथ । ततस्ताभ्यां सह योर्बु प्रवृत्तो मुनिः। .. The portion beginning with तत्र वास्तव्य and ending with a fire is missing in Z.
কয়জীয় ततो युद्धे पराजित्य मुनिस्तयोर्गात्रभकं कृत्वा स्वयं द्वारमुद्धाट्य गतः। उद्याने गत्वा धर्मध्यानं कर्तुं प्रवृत्तः सागरचन्द्रो मुनिः। मुनिचन्द्रस्य श्रुतिर्जाता। सर्वत्र विलोकितोऽपि सागरचन्द्रमुनिर्न प्राप्तः। ततो मुनयः पृष्टाः । तैः कथितम्-'अबैकोऽतिथिः समागतोऽभूत् , परं कापि गतो न बायते, अधोद्याने स्थितो दृष्टः।' तत्र गत्वा मुनिचन्द्र- राक्षा उपालब्धो मुनिः । मुनिनोपालब्धो राजा-'राजन् ! किं तवाप्येतन्मुनिजनावहेलनं युक्तम् ।' लजितो राजा पुनः प्राह- 'प्रभो ! कुरुत प्रसादम् , मुश्चत कुमारौ।' मुनिनोक्तम्-'यदि दीक्षां गृहीतस्तत एनौ मुञ्चामि ।' राशा तत्प्रतिपन्नम् । ततस्तौ स्वस्थीकृत्य द्वाभ्यामपि दीक्षा गृहीता। राजपुत्रो निजपितव्यसागरचन्द्रसमीपे सम्यग् बतं पालयति । पुरोहितपुत्रो जुगुप्सापरो जातः। ततस्तो मृत्वा देवलोके गतौ। तत्र द्वाभ्यां परस्परमिति प्रतिपन्नम्-'यः प्रथमं देवलोकाच्च्यवति तेन स बोद्धव्यः।' पुरोहितजीवो देव- लोकाच्च्युत्वा राजगृहे नगरे दुगंछाकर्मप्रभावेन मेवपत्नीकुक्षाववा- तरत् । इतश्च तस्या मेवपत्न्याः तत्रैव वास्तव्या श्रेष्ठिभार्या श्रेष्ठिनी सखी वर्तते । तया निजपुत्रः श्रेष्ठिन्या दत्तः। ततो नित्यं श्रेष्ठिनी तस्या मेवपल्याः पादयोः पातयति पुत्रं मेतार्यनामदत्तम् । क्रमेणैव मेतार्यों वृद्धि प्राप्तः । रात्री देवलोकाद् देव आगत्य तं मेतार्य बोध- यति, परंस न बुध्यते। इतश्च मेतार्यो नवयौवनालङ्कृतोऽष्टौ इभ्याः कन्या: परिणीय विमानारूढो निजगृह आगच्छन्मेवेन दृष्टः। ततो मेवेन कथितम्-'यदि मम पुत्रोजीवति ततोऽहमपि कौतुकं पूरयामि। ततो देवप्रभावाधिष्ठितया मेवपल्या कथितं मेषस्याग्रे निजं सर्वे खरूपम्। 'अयं मम पुत्रः मेवेन निजपुत्रं श्रुत्वा विमानान्मतार्यः पातितः। असमा- नजातीयानां पाणिग्रहणमुत्तमैजर्जातीयैः सह न रम्यम्' इति भणित्वा निजगृहे गर्ने क्षिप्तः। द्वादशवर्देवस्तत्रागतः । देवेनोक्तम्-'मित्र ! उपसमयसिमाम् ?' मेतार्येणोक्तं- 'नाहमुपलक्षयामि त्वाम्। ततो देवेन निजं रूपं प्रकटीकृत्योक्तम् - 'अहं तव पूर्वभवमित्रम् , देवलोकादा- गत्याहं त्वां बोधयामि, परं त्वं न बुध्यसे। एतत् सर्व स्वरूपं मयैव तव कृतम् । मेतार्येणोक्तम्-तथा कुरु यथाहं शुद्धो भवामि । ततो देवेन छगलको दत्तः । स छगलको नित्यं रतानि व्युत्सृजति । मेता. यस्य पिता नित्यं तानि रतानि श्रेणिकराक्षः समर्पयति । राक्षा । कथाकोशः पृष्ठम्-'कथय तव किं ददामि ?' मेवेनोक्तम्-'मम पुत्रस्य निजपुत्री देहि। नित्यं रत्नानि ढोकयति। अन्यदाऽभयकुमारण पृष्टो मेवः- तव गृहे कुतो रत्नानि ?' मेवेन कथितम्-'छगलो ददाति ।' ततोऽ भयकुमारेण मेवसमीपे छगलको याचितः, मेवेनार्पितः । राशा धवल- गृहे समानीतः । ततो रत्नानि न व्युत्सृजति छगलकः । केवलं दुर्गन्धमेव व्युत्सृजति । ततो मेवस्य समर्पितः। तत्र मेवगृहे रत्नान्येव व्युत्सृजति । श्रेणिकराशा चिन्तितम्-'देवप्रभावोऽयं छगलकः।' अन्यदा देवपार्वाद वैभारपर्वतमार्गो रथचकमणयोग्यः कारितोराशा। देवेन कृतः । पुनः सुवर्णप्राकारं याचितो देवः । देवेन सुवर्णप्राकारो रचितः । अन्यदा मेवस्याने राज्ञोक्तम्-'समुद्रमत्रानय, यथा तव पुत्रः समुद्रमध्ये मानं कृत्वा शुद्धो भवति । देवेन तथा कृतम् । ततो राक्षा निजपुत्री दत्ता मेवदत्ताय । या अष्टौ इभ्यकन्या मेवेन परिणीता अभूवन ता अपि समागताः । ततो द्वादशवर्षाणि गृहवासे नवभार्याभिःसहितो विषयसुखं भुजानःस्थितः। पुनर्देवेन प्रतिबोधितः। ततस्तस्य पार्श्व मेतार्यभार्यामिदशवर्षाणि याचितानि । तत एकोन- पञ्चाशत् ४६ वर्षप्रान्ते मेतार्येण दीक्षा गृहीता । श्रीमहावीरेण दीक्षित एकलविहारप्रतिमया व्यचरत् । अन्यदा राजगृहे नगरे भिक्षार्थ गृहाद् गृहं परिभ्रमन् सुवर्णकारगृहे गतः । इतश्च सुवर्णकारो गुरुकार्थे सुवर्णयवान् पदोपरि मुस्का गृहमध्ये गतः। ततश्च क्रौञ्चपक्षिणाऽक- सादागत्य भ्रान्त्या सर्वेऽपि सुवर्णयवा भक्षिताः । सुवर्णकारो गृहाद- हिरागतोयावद्विलोकयति तावन्न पश्यति यवान् । चिन्तितम्-'अनेनैव मुनिना गृहीता यवाः। ततो मुनिः पृष्टः-'मुने ! यवास्त्वया गृहीताः।' मुनिना जीवरक्षार्थ न कथितम् । ततः सुवर्णकारेण पृष्टो मुनि:-'यदि यवास्त्वया गृहीताः सन्ति तत् तान् समर्पय । अथवाऽन्येन केनापि गृहीताः। ततस्तं कथय ।' मुनिः कायोत्सर्ग कृत्वा मौनेन स्थितः। ततः कोपान्तरेण मुनेः शिरसि आद्रो वाध्रो वेष्टितः । मुनिः सर्व सहते। परं यवमाक्षिणं क्रौञ्चपक्षिणंन कथयति । ततश्च फाचरप्रहारेण मुनेत्रद्वयमले पतितम् । शुक्लध्यानगतस्य मेतार्यस्य केवलज्ञानमु. त्पन्नम्। अन्तगढकेवलज्ञानं प्राप्य मेतार्यमुनिर्मोक्षं जगाम। इतश्च तस्य १. मुनेः for मुनिः Z. .
कथाकोशः सुवर्णकारस्य कर्मकरण काष्टभारः सहसैव मुक्तः । तस्य भयात् क्रौञ्चन यवा मुक्ताः। तान् दृष्ट्वा सपरिवारेण सुवर्णकारेण दीक्षा गृहीता। इति जीवदयायां मेतार्यकथानकम् ॥ नमस्कारविषये रत्नशिखकथानकम् । भने वि इत्य धम्मे रयणसिहाई विसुद्धजोगरया । कल्लाणभाइणो सब सिद्धाणेगे महासत्ता ॥१॥ अत्रैव जम्बूद्वीपेऽस्मिन्नेव भरते शालिग्रामो नाम प्रामः । तत्र स्वभावसरलः सङ्गतो नाम कौटुम्बिका, परमतीव दारिद्रयवान् । अन्यदा तेन मुनीनामात्मगृहे उपाश्रयो दत्तः। मुनिभिस्तस्य धर्मदेशना दत्ता-'अहो सङ्गत ! सर्वत्र पुष्पं फलति । यतः- 'धम्मेण रिद्धी धणयस्स तुल धम्मेण कित्ती विमलाइ बुद्धी । पुत्ता विणीया दुहिया सुसीला संपजए सयणमणिछिय भो ॥२॥, कौटुम्बिकेनोक्तम्-'महात्मन् ! अस्मादृशां जनानां कुतो नाम धर्मा येषां सदैव दारिद्रयम् ।' गुरुभिरुक्तम्-'भो महाभाग ! महा- मन्त्रं पठ।' तेनोक्तम्-'को नमस्कारः ? किं भवति तेन पठितेन ?' गुरुमिरुतम्-'शृणु नमस्कारमाहात्म्यम्- कृत्वा पापंसहस्पणि हत्वा जन्तुशतानि च । अमुं मन्त्रं समाराध्य तिर्ययोऽपि दिवं गताः ॥३॥ ये याता येऽपि यास्यन्ति ये च यान्ति परं पदम् । तेऽपि सर्वे नमस्कारं स्मारं स्मारं दिवं गताः॥४॥' इति माहात्म्यं श्रुत्वा मुनिमुखातेन नमस्कारमन्त्री गृहीतः। गुरुभिरुतम्-त्वया नियमपूर्व विसन्ध्यमयं मन्त्रः स्मर्तव्यः । इत्युक्त्वा प्रभाते मुनिभिर्विहारः कृतः। सोऽपि त्रिसन्ध्यं नमस्कार सरति विशुद्धमनाः । कियता कालेनायुपर्यन्तं मृतः। अत्रैव भरते सन्दर्मदेशे नन्दिपुरे नगरे पमाननो नाम राजा, तस्य कुमुदिनी नानी राशी. तस्याः कुक्षाववातरत् । खमे रत्नराशिदृष्टः । अतः कारणाचसिन जाते रत्नशिख इति नाम कृतम् । क्रमेण लाल्यमान सर्वकलाकुशलो जातः । यौवनकालेऽपि पित्रा परिणायितः कोशल कथाकोशः राजपुत्री सुकोशां नानीम् । अन्यदा पलितदर्शनाजातवैराग्येण पमाननराशा रत्नशिखो राज्येऽभिषिक्तः । आत्मना राशीसहितेन वनवास प्राश्रितः। रत्नशिखो राजा राज्यं करोति । परमस्य राक्षः कथानकेषु महाप्रसादं ददाति। अन्यदा केनापि वीराङ्गदसुमित्रयोः कथानकं प्रारब्धम्-"शृणु राजन् ! अमिन्नेव भरते विजयपुरं नाम नगरम् । तत्र सुराङ्गदो नाम राजा । तस्य पुत्रो वीराङ्गदो नाम कुमारः। परं स कुमारोऽर्थिनामर्थस्य चिन्तामणिः, शरणागतानां वजपिञ्जरा, दीनदुःस्थितानां पितृगृहम् । तस्य कुमारस्य महामन्त्रि- पुनः सुमित्रनामा महामित्रं बभूव । अन्यदा सुमित्रेण सह कुमारस्यै- विध आलापो बभूव । कुमारेणोक्तम्-'भो मित्र! देशान्तरेगम्यते। देशान्तरं विना निजपुण्यपरीक्षा कथं शायते ? अपूर्वविद्यागमः कुतः प्राप्यते? तावनिजकीयौ मातापितरावुक्त्वा देशान्तरं गमिष्यावः' इत्या- लोचयाञ्चक्रतुः। निर्गमोपायं चिन्तयन्तौ वर्तेते। अन्यदोद्यानभूमौ क्रीडां कुर्वतो राजकुमारस्य शरणमिति भणन् कृतवध्यमण्डनो भयभ्रान्तलोचनश्चौर एका कुमारस्य चरणयोः पतितः। तावत्तस्य पृष्ठे धावन्तो दण्डपाशिकास्तत्र सम्प्राप्ताः । कुमारस्यान उक्तम्- 'राजकुमार ! एष पापतस्करोऽद्य सुदत्तश्रेष्ठिगृहाधनं हत्वा निर्ग- च्छन्नमाभिरीष्टः। ततो राजाज्ञया शूलारोपणनिमित्तं वध्यभूमौ नीतः। तावत्पलायित्वा तव पार्श्व समागतः। तदनुजानीहि कुमार! येन राजाज्ञां सफलीकुर्मः।' कुमारेण चिन्तितम्-'महात्मनां शरणागत- समर्पणं न युक्तम् , तस्कररक्षणमपि न युक्तम् । ततोऽहं कि करोमि ?' चिन्तितं पुनः कुमारण- यादृशस्तादृशो भवतु परं शरणा- गतानां रक्षणमेव युक्तम् ।' कुमारेणोक्तम्-'मयि जीवत्येनं मारयितुं कोऽपि न समर्थः । सर्वथा प्रलयेऽप्येनं नार्पयामि । तातस्याने यात्वा कथयत ।' दण्डपाशिकै राज्ञोऽग्रे विज्ञप्तम् । राजा रुष्टः । कुमारस्य देशत्यागः समाविष्टः। ततो हर्षितः कुमारः सुमित्रेण सह देशान्तरं प्रति चचाल । लकितनकराज्यः कुमारः परिभ्रमन् अन्यदा एकसिन् महावने परिश्रमस्फेटनार्थम् एकस्य वटवृक्षस्य छायायां सुप्तः । सुमि- प्रोऽपि तस्य प्रहरके स्थितः। इतश्च तस्मिन् वटे एको यक्षः परि- १. ददात् for ददाति ८.
१२ कथाको वसति । तेन तयो रूपादिगुणरञ्जितेनैवं चिन्तितम्-'एनयोः किधि- दातिथ्यं करोमि' इति चिन्तयित्वा यक्षः प्रत्यक्षो बभूव । सुमित्रो. पि'अयं कोऽपि देव' इति विचिन्त्याभ्युत्थानं चकार । ततो येक्षण भणितम्-भो सुमित्र ! अहमत्र वटे निवसन् यक्षः।' सुमित्रेण नमस्कारो विहितः। यक्षेणोक्तम्-'भो महाभाग! युवामद्य मम प्राघूर्णको। बद किमातिथ्यं करोमि।' सुमित्रेणोक्तम्-'युष्माकं दर्शनमेवातिथ्यम् ।' यक्षेण भणितम्-'तथाप्यमोघं देवदर्शनम् इति सात्वा गृहासमो द्वौ मणी।' सुमित्रेण मणिमाहात्म्यं पृष्टम् । यणो. क्तम्-'एको यो नीलमणिः सप्तराज्यं पूजितो राज्यं ददाति । द्वितीयो रक्तमणिः, तवमनोरथादधिकं दिवसमोगसामग्री दास्यति । नीलमणिः राजकुमाराय दातव्यः।' सुमित्रेण द्वावपि मणी गृहीती। यक्षोऽदृश्यत्वं भेजे । सुमित्रेण चिन्तितम्-'अहो राजकुमारस्य पुण्यप्रभावो यद्देवा अप्येवंविधं साहाय्यं कुर्वन्ति ।' ततश्च प्रमाते जाते द्वावपि चलितौ । राजकुमारस्य बुभुक्षा लना । यावत्फलभक्षणा- योचमं करोति तावत्सुमित्रेण वारितः । इतश्च मध्याह्नकाले महाशाल- नगरे गतौ नगरोद्याने स्थितौ। ततश्च सुमित्रेण नीलमणि कुमारा- यार्पितः। कुमारेण विस्मयपरेण पृष्टम्-'इदं महारत्नं कुतो लब्धम् ? सुमित्रेणोक्तम्-'तव पुण्यप्रभावात् । प्राप्ते राज्ये सर्वे निवेदयि- च्यामि।' कुमारण पृष्टम्-मित्र ! कथं राज्यलाभो भविष्यति ?' इति चिन्तयन् सहकारच्छायायामुपविष्टः । सुमित्रेणाप्येकान्ते गत्वा चिन्तामणिः पूजितो दिवसभोगं प्रार्थितः। तत्क्षणदेवमङ्गमर्दकाः समागताः । तैरामर्दकैः सविनयं सुगन्धतैलेन द्वयोः कुमारयोर्मदनं दत्तम् । ततश्च सुगन्धोद्वर्तनहस्ता दिव्यरूपधारिएषः खियः समा- गताः । तामियोः कुमारयोरुवर्तनं कृतम् । ततश्च मजनकृते खान- मण्डपे गती द्वौ कुमारौ। ततो दिव्यदेवाहनावर्गेण प्रचुरसुवर्ण- सिंहासनोपविष्टौ सुगन्धनीरभरितम्रकारैः सानं कारितो। ततश्च प्रधानदेवदूष्यवस्त्राणि परिघापितो। ततश्च पुष्पाणि शिरसि बद्धा श्रीचन्दनेन शरीरेऽनपगं कृत्वा भोजनं कारितो। ततो भोजनान- न्तरं क्षणेन तत्सकलमप्यहशीबभूव । ततश्च राजकुमारेणोक्तम्- 'सुमित्र! एतत्किमपूर्वमाश्चर्यम् ? सुमिणोकम् -'कुमार! एष काकोशः नीलमणिप्रभाव इतश्च तस्मिन्नेव महाशालनगरेऽपुत्रो राजा मृतः। ततः सामन्तवर्गणाधिवासितानि गजतुरगप्रमुखानि पञ्चदिव्यानि । गजो गुलुगुलायमानो नगरोद्यान आगतः। तत्राभिषिको वीराङ्गद- नामा राजकुमारः। शुण्डाग्रेण धृत्वा निजकुम्भस्थल आरोपितः। 'जयति महाराजा' इति भणद्भिः सामन्तमहामन्त्रिप्रमुखैः प्रणतः । मन्त्रिवर्गो विक्षपयति राजानम्-'स्वामिन्' इति । नगरमध्ये पादमवधारितः। विस्मितो राजा। सुमित्रोऽपि सुस्थीभूतः। सुमित्रेण चिन्तितम्-'भवतु मम प्रियमित्रस्य राज्यम् । अहं निजेच्छया राक्षाप्रच्छन्नो नगरमध्ये विलासान् करिष्यामि' इति विचार्यादृश्यो बभूव । नगरमध्ये गतः सुमित्रः। राज्ञा सर्वत्र विलोकितोऽपिन दृष्टः । ततः सामन्तवर्गस्यादिष्टं राक्षा: मम प्रियमित्रं विलोक्यानयत । ततो राजा नगरमध्ये प्रविष्टः । तत्र करोति राज्यम् । अष्टौ राजपुत्र्यः परिणीताः। एवं निष्कण्टकं राज्यं परिपालयति राजा वीराङ्गदः । सुमित्रोऽपि नगरमध्ये खेच्छया परिभ्रमति । अन्यदा तनगरीनिवा- सिनी रतिसेना नानी वेश्या गवाक्ष उपविष्टा । तयाऽतीव रूपवान् सुमित्रो दृष्टः। चिन्तितम्-'नूनमयमतीव श्रीमान् , ततो येन केन प्रकारेणात्रानीयते ततो रम्यं भवति । ततो दासीप्रहिता। तया सुमित्रो गृह पानीतः। रतिसेनया तस्य महती भक्निविहिता। सुमित्रोऽपि तस्या रूपेण रचितोऽत्यन्तं ततस्तत्या गृहे स्थितः। तत्र स्थितस्य तया सह महान् स्नेहो बभूव। सुमित्रोऽपि तस्यास्तथाविधं द्रव्यं न ददाति । ततः सा वेश्या मन्दस्नेहा जाता। अन्यदा सुमित्रेण चिन्ति- तम्-'एषा स्तोकदानेन तुष्टा न जायते।' ततः शुभे दिवसे तेन चिन्तामणियराधिता। ततश्चिन्तामणिप्रभावात्तेन तस्याः प्रचुरं धनं दत्तम् । परितुष्टा वेश्या । लोमेन पुनः प्रार्थितं द्रव्यम् । सुमित्रेण चिन्तामणिप्रभावाहत्तं धनम् । यदा यदा सा द्रव्यं प्रार्थयति तदा तदा सुमित्रो द्रव्यं पूरयति । अन्यदा वेश्यया चिन्तितम्-'निश्चित- मस्य समीपे चिन्तामणिर्वर्तते । अन्यदा कथमीहशी दानशक्ति ? तावद् प्रहीष्यामि तद रत्नम् ।' अन्यदा तस्य नानोपविष्टस्यात्राय- मध्याद् गृहीतश्चिन्तामणिः। सुमित्रोऽपि यावचिन्तामणि विलोकयति तावन दृष्टः । चिन्तितं सुमित्रेण-'निश्चितमनयैव वेश्यया गृहीतो कथाकोशः मणिः। ततः सुमित्रेण वेश्या पृष्टा । ततो वेश्याऽलीककोपा सुमित्र प्रति भणति-'पर्याप्तं तव दानेन । अलीककलङ्केन मां मा विगो. पय समीनमध्ये' इति श्रुत्वा सुमित्रेण चिन्तितम् -'निश्चितमनयैव गृहीतश्चिन्तामणिः । अन्यथा कथं कृतकार्या इव एवंविधं निष्ठुर- वाक्यं वदति ? ततः सुमित्रस्तद् गृहानिर्गतः। लजया राजानं विक्ष- पयितुं न शक्नोति । ततो देशान्तरं प्रति चचाल । सुमित्रश्चिन्तयति- 'अहो मम अज्ञानत्वं यत्स्त्रीमात्रेणापि वञ्चितोऽहम् । साम्प्रतं कमपि प्रकारं चिन्तयामि येनाहं तस्याः कमपि द्रोहं करोमि । अन्य- उवयारं उवयारीण वरविजयेणं च वेरीणं । काउं जो न समत्यो धिगत्यु पुरिसत्तणं तस्स'॥५॥ इति चिन्तापरो देशान्तरं परिभ्रमन् प्रवरारामदुर्गमन्दिराल- कृतमेकं महानगरं पश्यति । नगररमणीयतां दृष्ट्वा सहर्षो बभूव । यावनगरमध्ये प्रविशति तावन्नगरं सर्व शून्यं पश्यति । देवकुलेषु किलकिलायमानानि कपिकुलानि पश्यति। गृहमध्ये घुरघुरारावं कुर्वत सर्वत्र व्याघ्रान् पश्यति । तोरणेषु प्रलम्बमानान् सान् पश्यति । ततम नगरमध्ये गृहाद् गृहं परिभ्रमन् गतो राजमन्दिरं सुमित्रस्त- चापि राजमन्दिरे कमपि मानुषं न पश्यति । तदा सप्तभूमौ गतः ।तत्र कुङ्कुमरागपिञ्जरितशरीरं कर्पूरपूरेण धवलितोत्तमा सुरमिकुसुममा- लालतसरलग्रीवं लोहनिगडसंदानितचरणयुगलम् एवंविधं करमी- युगल पश्यति । चिन्तितं सुमिण-'अहो आश्चर्यम् । एते. करभ्यो अत्र शूल्यनगरे कथमागतौ? अथवात्र सप्तभूम्युपरि कथं चंटिते ?' यावचिन्तां करोतीत्थं तावत्तत्रैव गवाने द्वौ दब्बडको पश्यति । एकलिन दब्बडके धवलमधनं द्वितीये कृष्णम् । तत्रैव नेत्रजिन- शलाका पश्यति । चिन्तितं सुमित्रेण-निश्चितमेतहिव्ययोगाजन वर्तते । धवलासनेन करभीनेत्राण्यजितानि, तदेते मानुषिण्यो अक्ष- नकप्रयोगात् करभ्यो सजाते । ततः कृष्णाजनेन तयोर्नेत्राययजितानि सुमित्रेण । ततश्चाजनबलाद् अप्रतिमरूपे मानुष्यो जाते । ताभ्यां कन्यकाम्यामुक्त सुमित्र प्रति-एवंविघे शून्यनगरे युष्माकमागमनं १. पिछलसमतीर:for पिजरितशरीरं 2.
कथाकोशः कुतः सखातम् ?' सुमित्रेणोक्तम्-'मम कुशलं प्रवर्त्तते, परं मह- दाश्चर्य मम चिचे । अस्मिन् शून्ये नगरे युवा स्त्रीरूपधारिण्यौ कुतः सम्पाते?' तयोरेकया निजवृत्तान्त उक्तः-"अत्रैव भरते उत्तरस्यां दिशि गङ्गानदीतटे सुभद्रं नामनगरम् । तत्र गङ्गादित्यो नाम श्रेष्ठी। तस्य वसुधारा नानी भार्या । तस्याष्टपुत्राणामुपरि द्वे कन्ये जया- विजया नाम्न्यो जाते युगलिन्यो। क्रमेण नवयौवनारूढे साते । इतश्च तत्रैव गङ्गापुलिनवने प्रियभाषी प्रस्तावकथानिपुणो निमित्त- विधाकुशलो रूपवान् सुशर्मा नाम जटाधारी परिवसति। अन्यदा मम पित्रा भोजनार्थे सगौरवं निमन्त्रितो भरटकः। भोजनवेलायां मम पित्रा तस्य चरणौ प्रक्षाल्योपवेशितो भोजनार्थम् । ततश्च खाद्यलेह्या- दिव्य आहारः परिवेषितः । तस्मिन् क्षणे आवाभ्यां तालवृन्तेन सह तस्य वायुः कृतः । ततश्च तेन तापलेन भोजनं कुर्वताऽसद्रूपं निरीक्षितम् । कन्दर्पपरवशो बभूव । ततश्च कन्दर्पपरवशेन तेन तापसेन चिन्तितम्- डब्मउ वउ पासंडचंडु धिसिधिसि मांणग्गहु । जिउ सिवपुरिपडअवजवइकुंतहत्थरगहु ॥ ६ ॥ जइ परिसतरुणिहि सणाहु रइसुखु न माणउ । ता मन मह निविसे सुनिछ अप्पाणउ ॥ ७ ॥ इति चिन्ताप्रपन्नस्य तस्य भोजनं विस्मृत्य गतम् । योगीवन्मौनं कृत्वा ध्यानं नाटयति । तावच्छेष्ठिनोक्लम्-'भो महात्मन् ! भोजनं कुरु । इदानीं न युक्तं चिन्तां कर्तुम् । भक्तं शीतं भवति' इति भणितेन चिन्ताप्रपनेन तेन तापसेन किञ्चिद्रोजनं कृतम् । भोजनानन्तरं श्रेष्ठिना पृष्टम्-'महात्मन् ! एवं किं दुःखं भवतां प्रवर्तते येन भोजनमपि विस्मृत्य गतम् ।' तापसेनोक्तम्-'भोः श्रेष्ठिन् ! युष्म- सदृशेषु भक्तिपरेषु जन्तुषु वर्तमानेषु अस्माकं किञ्चिदपि दुःखं नहि, परन्तु भवतामकुशलत्वं द्रष्टुं न समर्था वयम्' । इति भणित्वा गतो निजस्थानं तापसः। श्रेष्ठिना चिन्तितम्-'निश्चितमयं महानैमित्तिका, तदनेन शानबलेन किञ्चिदस्माकं दृष्टमकुशलम् । ततो ब्याकुलचित्ते- १. Z. adds स्वाय after खाय. २. श is missing in Z.
१६ कथकोशः नास्मतातेन तस्य मठे गत्वा एकान्ते से तापसः पृष्टः । ततस्तापस: प्राह-'किं करोमि एकतो व्याघ्रः, एकतस्तटी, त्वं महामक्तिमान अलानीयोसि । मुनिजनस्यदृशं वक्तुमयुक्तम् । तथापि भक्तिपरस्य तवाने कथयिष्यामि । तत्र भोजनक्षण उपविष्टेन मया तव पुध्योलक्षणपतिर्दृष्टा जनकपक्षक्षयकारिणी । एवं चिन्तापरवशेन मया भोजनं परित्यक्तम् । तवोपरोधेन किश्चिद्रोजनं कृतम् ।' ततो भयातुरेणोक्तं श्रेष्ठिना-'भगवन्नस्ति कोऽप्युपायः।' तापसेन भणितम्-'एष उपायो दुष्करोऽस्ति । इमे पुन्यौ कुलस्याभीष्टे । कोऽपि त्यक्तुंन दास्यति।' व्यवहारिणोक्तम्-'त्यजेदेकं कुलस्यायें इति न्यायाद् यद् यूयमादिशथ तत् करोम्यहम् ।' तापस: प्राह-'ययेवं तदिमे कन्ये सर्वाङ्गीणाभरणानि परिधाग्य काष्टम- जूषामध्ये निक्षिप्य सर्वलोकप्रच्छन्नं गङ्गाप्रवाहे प्रवाह्य पश्चाच्छान्तिकं क्रियते ततो रम्यं भवति । एवमुक्ते व्यवहारिणा तथैव कुलरक्षा निमित्तं महामञ्जूषा कारिता । ततः स्नान काराप्य सर्वाभरणानि परिघाप्य तत्र मञ्जूषामध्ये वे पुन्यौ तिते । मञ्जूषामध्ये शम्बलं क्षिप्तम् । मञ्जूषाद्वाराणि निस्सारितानि । ततो गङ्गाप्रवाहे प्रवाहिता मञ्जूषा । पिता निजगृहे आगतः । ततश्च तापसेन शान्तिकं कृतम् । तापसो निजमठीं गतः। निजशिष्याणामने कथितम्-रे शिष्या अद्य भगवत्या गङ्गादेव्या हिमाचलपर्वतान्मन्त्रसिद्धिनिमित्तं पूजोपकरण- परिपूर्णा काष्टमञ्जूषाऽऽनीता वर्तते । युष्माभिरधस्तनतीर्थे गत्वा सा काष्टमञ्जूषाऽऽनेतव्या, नोद्घाटयितव्या, याद्धाटयिष्यथ तदा मम मन्त्रविनो भविष्यति ।' चिन्तितं शिष्यैः-'अहो! अस्माकं गुरोर्माहा- त्स्यम् । सर्वेऽणि शिष्याः सविस्मया जाताः। इतश्च गुरुणा भणितम्- 'द्विगन्यूतिप्रमाणभूमौ ततीर्थे भवति। ततश्चलिताः शिष्याः। इतश्च सा काष्टमञ्जूषा एतस्य नगरस्य स्वामिना सुभीमराक्षा नदीमध्ये क्रीडां कुर्वता दृष्टा । सा कौतुकेन गृहीता, तावदुद्धाटिता, इष्टे द्वे कन्ये। राक्षा कन्यारूपं दृष्ट्वा कन्दर्परूपपरवशेन मन्त्रिणं प्रत्युक्तम्-'भो मन्त्रि ! विलोकयाश्चर्यम् । यतः- १. स is missing in Z. २. The portion beginning with d and ending with one is unissing in Z.
कथाकोशः । पायालकनयाउ किं वा विजाहरीउपउमा किं वा समबहूउ किंवा नरनाहधूयाउ ॥ ७॥ राक्षा कन्ये पृष्टे । ताभ्यां किञ्चिदपि नोक्तम् । अत्रान्तरे विज्ञात- नरेन्द्राभिप्रायेण मित्रेण जल्पितम्-'देव ! एवमलङ्कृतकन्यके कोऽपि कारणं विना न परित्यजति, तावदिष्टसिद्धिनिमित्तं केनापि गङ्गामध्ये एते कन्यके उपहारीकृते, तावदेतयोः स्थानेऽन्यद् युग्मं परिक्षिप्य राजा गृहातु कन्यके। अन्येन भणितम्-'नारीयुग्ममेव स्थाप्यताम्।' इतश्च वनखण्डान्मर्कटीयुग्ममानीय तत्र मञ्जूषामध्ये परिक्षितम् । तत्रैव मुद्रित्वा सा काष्टमञ्जूषा गङ्गाप्रवाहे प्रवाहिता। ततो राजा हृष्टो जातः।नगरमध्ये समागतः।राज्यं करोति । ततश्च तैस्तापस- शिष्यैर्गातटे परिभ्रमद्भिश्चिरकालेन दैवयोगालब्धा काष्टमञ्जूषा । ग्रहीत्या शीघ्रं तापसायोपनीता । तापसो हृष्टो जातः। तस्य पापगु- रोरतीवोत्कण्ठितस्य कथं कथमप्यस्तमितो दिवसनाथः। ततश्च तेन तापसेन निजशिष्या एवंभणिताः। भोः अद्य युष्माभिर्मठीकपाटेषु तालं दत्त्वा बहिः स्थातव्यम् , यावत्सूर्योदयो भवति तावत् प्रचुर- पोकारितमपि श्रुत्वा नागन्तव्यम् । सर्वथा मम मन्त्रसिद्धिविध्वंसनेन द्रोहकैन भवितव्यम् । ततश्च तापसो मठीकपाटानि दत्त्वाऽऽत्मना मध्ये स्थितः । ततश्च तापस इति वक्तुं प्रारभत-'हे स्त्रियौ! युष्माकं भाग्यस्य नावधिर्यत् स्वर्गवास्यहं भर्ता लब्धः । तावन्मम मानभलो न कर्तव्यः?' इत्युक्तवता तेन मञ्जूषामुद्घाटयितुं द्वौ हस्तौ नियोजितौ । यावदुद्धाटिता मञ्जूषा तावदुभुक्षाब्याकुलाभ्यां मर्कटी- भ्यां स दुष्टतापसो गृहीतः । मर्कटीभ्यामेवंविधः कृतस्तापसः, यतः खरनहरदिरियंगो तोडियकन्नो विदारियकवोलो। दंतग्गभग्गनासो कउं हयासो पवंगीहि ॥ ८॥ हा हा धावह धावह सीसाए सोहं रखसीहि खजामि । इय विलवतो तिव्वं पडिउ सहसत्ति धरणीए ॥४॥ ...पयाउ for •पउमाउ Z. २. •यंगौ for •यंगो Z. ३. कमी for कमो 2.
कथाकोशः तस्य शिष्या एवं विलापं श्रुत्वा नागताः, 'यतो गुरुणा वयं वारिताः, इति । ततश्च ताभ्यां मर्कटीभ्यां खाधमानसर्वाङ्गः क्रमेण विदारितचतुर्वक्षःस्थलो रात्रिप्रान्ते मृतः। भवितव्यतानियोगात्म तापसो मृत्वा महारौद्रो राक्षसो बभूव । बानेन निजपूर्वभवमरणं ज्ञात्वा दुष्टचारो जात:-'एतेन सुभीमेन राक्षा मम कलत्रे अपहते । अस्य प्रयोगेन मम कुमरणं जातम् , ततस्तापसो राक्षः सुभीमस्य प्रकुपितः । इतश्च तेन तापसेन पूर्ववैरं स्मृतवता राजानं व्यापाद्यावां वे कन्ये गृहीत्वा नगरमुखसीकृतम् ।" ताभ्यां कन्याभ्यां सुमित्रस्यान एवमुक्तम्-'भो महासत्त्व! एषोऽअनप्रयोगस्तेन राक्षसेन कृतः । धवलाखनेन मनुष्या उष्ट्रा भवन्ति, कृष्णाञ्जनेन पुनर्मनुष्या भवन्ति । अयमस्माकं वृत्तान्तः। ततस्त्वमस्माकं भाग्येन समागतः। आवा- मस्माच्छून्यारण्यवासानिर्विरणौ । ततोऽमुष्मात्कष्टात्त्वं मोचय ।' एतच्छ्रुत्वा प्रार्थनाऽभङ्गकरेण कारुण्यहृदयेनोक्तं सुमित्रेण-राक्षसोs- धुना कुत्र वर्तते ? कियत्यां वेलायां भवत्याः समीपे समायाति' ताभ्यां कन्याभ्यामुक्तम्-'राक्षसद्वीपात्कदाचिहिनद्वयप्रान्ते कदा- चिहिनत्रयप्रान्ते निजेच्छया समायाति, कदाचित्पतं तिष्ठति, मासं च पुनः । अद्य निश्चयेन समेष्यति, तावत्त्वया निशाविभागे अधस्तनभूमौ रनसरोवारिगतेन जीवितरक्षा कर्तव्या । प्रभाते यथा- युक्तं कुर्याः। ततः सुमित्रस्त कन्ये पुनरप्युष्टयौ कृत्वा तत्रैव प्रदेश निलीय स्थितः। तावत्सन्ध्यासमये 'अद्य मनुष्यगन्धः समायाति कुतः' इति भणन् सम्प्राप्तो राक्षसः। ताभ्यां कन्याभ्यामुक्तम्- 'आवां मानुष्यो । तत आवयोर्गन्धः प्रवर्तते ।' ततो राक्षसस्तत्रैव तां निशामुषितः ।प्रभाते ताभ्यां राक्षसो भणित:-'स्वामिन् ! एका- किन्यौ आवां बिभ्यतः। अतस्त्वया त्वरितमागन्तव्यम्' इति । एवमिति कथयित्वा गतो राक्षसः। सुमित्रेणाप्यानडब्बडको गृहीतौ। ते स्त्रियौ मानुष्यौ कृत्वा सप्तभूमेरवतार्य ततः पुनरपि करभ्यौ कृती। उपरि रसभारं निवेश्य महाशालनगरं प्रति चचाल । कतिचिदिन- पर्यन्ते एकस्य भूतविद्यानिपुणपुरुषस्य मिलितः । तस्याने कथितं निजचरित्रं सुमित्रेण । तेन कथितम्-'सुमित्र ! मा भैषीः' इत्युस्खा १. रदाय• for खाद्य.. २. समायाति is missing in Z.
জন্ধীয়ঃ धीरवितस्तेन विद्यासिद्धपुरुषेण । इतश्च कृतविकरालरूपो घोराट्ट- हासोत्वासितसत्त्वगणः समागतो दुष्टराक्षसः । तावत्तेन विद्यासिद्धेन पुरुषेण स्तम्भितो राक्षसः। ततो राक्षसेन मन्त्रमाहात्म्यरश्रितेन सिद्धं प्रति भणितम्-'अहो विद्यासिद्ध ! राक्षसानां भेषजानि भव- न्तीति जनप्रवादः त्वया सत्यापितः। तावन्मां मुश्च, यद्भणिज्यसि तत्करिष्यामि।' विद्यासिद्धपुरुषेणोक्तम्-'यद्येवं तदलिन् पुरुष सुमित्रे वैरभावं त्यज ।' राक्षसः प्राह-'यद्येवं ततो मम प्रियतमे अस्य पार्थात् समर्पिय ।' विद्यासिद्धपुरुषेणोक्तम्-'निश्चितं परवधूगम- नात्तव कष्टं दारुणमरणम् । मृतोऽपि नरके यास्यसि । त्वं तावद्देव- कपः । एते मानुष्यो। तत्तव देवरूपस्य मानुष्योर्विषये को मोहः। सर्वथा एते लियौ मुश्च । एतदधमपुरुषाणां कर्म' इति सिद्धपुरुष- वचनं श्रुत्वा राक्षसः परितुष्टः । त्रियौ सुमित्रस्य दत्ते । राक्षसो निजस्थाने गतः । ततः परितुष्टेन सुमित्रेण विद्यासिद्धपुरुषो भणित:- 'भो महासत्त्व ! महासाहसिक! महाकरुणापर! नास्ति तव समानः कोऽप्यन्यः परोपकारी येनैवंविधो दुष्टरायसो मन्त्रबलाजितः । विद्याधरसिद्धपुरुषेणोक्तम् -'सुमित्र ! अहं किं साहसिकः? त्वमेव साहसिकः, येन त्वया मन्त्रबलं विना राक्षसलियो आनीते' इति परस्परं प्रियालापं कृत्वा द्वावपि खस्थाने प्रचलितो। विद्याधरसिद्धो- ऽपि स्वस्थाने गतः । सुमित्रोऽपि भार्याद्वयसहितो महाशालनगरे गतः। तत्र रम्यं धवलगृहं कारितम् । तत्र सकलनोविलासान् करोति, सुखेन वर्तते । इतश्च सा रतिसेना सुमित्रविरहेण दु:खिनी जाता। त्रिरात्रं यावद् भक्तं प्रत्याख्यातम् । तस्य रनमध्याद् द्रव्यं न पतति ततो विशेषतो दुःखपरा जाता । तस्या वृद्धमात्रा प्रतिबोधिताऽपि न मुश्चति तसिवनुरागम् । वृद्धवेश्यां प्रति भणति रतिसेना- 'प्रावि आलिंगइ अंगं भयर्थ मद्धउ धुवं मुज्म । न उण सुमित्ता अषो पुरिसो सरिसा विमाणेण ॥६॥ वरमग्नौ प्रविशमि पुनः सुमित्रादन्यं पुरुषं न रमामि' इति निश्चयं कृत्वा स्थिता। अन्यदा गवाक्ष उपविष्टया रतिसेनया कृत- शृङ्गारो दृष्टः सुमित्रः । ततश्च त्वरितं गत्वा सविनयं निजगृह १.मः for म.Z.
- कथाकोशः श्रानीतः। महती भक्ति कृता । ततो वृद्धवेश्ययोक्तं सुमित्रं प्रति- 'वत्स! एतावन्ति दिनानि त्वं कुतो गतः ? यस्मिन् दिनेऽसाकं गृहात्त्वं गतस्तदिवसात्प्रभृति तव वियोगेनैषा मम पुत्री प्राणसन्देहं गता। ततः सुमित्रेण चिन्तितम्-'अहो ! अनया पुनः कूटं मण्डितं ततोऽहमपि कियत्कालमस्या गृहे स्थास्यामि । अन्यथा रत्नं न चटिष्यति । अयमेवोपायो रत्नप्राप्तये' इति विचिन्त्य स्थितो वेश्या- गृहे । कियत्यपि गते कालेऽन्यदा सुमित्रेण रतिसेनैवं भणिता- 'प्रिये ! अपूर्व कौतुकं तव दर्शयामि यदि न करोषि कोपम्।' तयो- कम्-'तदर्शय कौतुकम् ।' ततः सुमित्रेण पूर्वोक्तिनाञ्जनप्रयोगेण रतिसेना करभीकृता । वयं खमन्दिरे गतः। इतश्च भोजनावसरे दास्याऽऽकारिता रतिसेना, यावत् पश्यति तावत् करमी दृष्श, नहि सा रतिसेना । ततश्च भयभीतया दास्या सकलपरिजनस्याने उतम् - 'नूनमस्माकं स्वामिनी राक्षसेन भक्षिता। अन्यथा रातसं विना कथ- मस्मिन् धवलगृहे करभी चटति ।' परिजनोऽपि तत्रागतः। सर्वस्य कस्यापि मनसि विस्मयो बभूव । ततस्तस्याः परिजनेन परस्पर- मित्युक्तम्-'श्रद्य कल्येऽस्याः को भुजङ्गः ? दास्या उक्तम्-'देशान्त- रादागतो निश्चितं कोऽपि सकलकलापारगामी अस्याः पतिः। ततो निश्चितं तस्यैव चेष्टितम् ।' ततो यावत् स पुमान् दूरे न याति तावद् राज्ञोऽने निवेदितम् । ततो वृद्धवेश्यया राजमन्दिरे गत्वा राहोऽग्रे निवेदितम् । राक्षा चिन्तितम्-'निश्चितं सुमित्रान्मम मित्रादन्यस्य कस्यापीदृशं न सम्भाव्यते। ततो राक्षा भणिता वृद्धवेश्या-'भद्रे । अस्य तव गृहे आगतस्य कियान् कालो बभूव ।' ततो वेश्यया भणितम्-'यस्मिन् दिने देवेनैतस्य पुरस्य राज्य प्राप्तं तसिन दिने मम गृहेऽयं पुरुषः समागतः। अन्तरे कुत्रापि देशान्तरे गतः। साम्प्रतं पुनरागतः। एकः पक्षो बभूव तस्यागतस्य ।' राक्षा इति श्रुत्वा वेगेन मित्रविलोकनार्थमादिष्टा निजसेवकाः। ततश्च वृद्धवेश्यया राजसेवकानां दर्शितः सुमित्रः। ते राजसमीप पानीतः। राजा दूरादपि निजमित्रमायातं दृष्ट्रोत्थितः। सम्मुखं गाढमालिङ्गय बाब- प्युपविष्टौ । परस्परं वार्तालापो बभूव । वीराङ्गदराक्षा पृष्टम्-'कुशलं धूर्तस्य मम मित्रस्य सुमित्रस्य ।' सुमित्रेण भणितम् । 'सर्वमस्ति भवतां प्रसादेन ।' राशा कथितम्-'शेषवृत्तान्तोऽस्तु, साम्प्रतं कथय कथाकोशः करमादेतस्या धेश्यायाः पुत्री उष्ट्रीकता।' सुमित्रेण कथितम्-'देव ! यथा सुखेनैषा वृक्षपल्लवान् चरति । एतस्यास्तावद् द्रव्यं नहि । नहि याचता भोजनं सम्पद्यते ।' अत्रान्तरे दास्योक्तं सुमित्रं प्रति- 'कपोलवादनालम् । कुरु निरामयां मम खामिनीम् । दृष्टं तव कला- कुशलत्वम् ।' सुमित्रेण भणितम्-'पापिष्ठे ! एतत् किं कलाकौश- लम् ? त्वामपि रासमी कृत्वा सकलनगरस्य विष्ठां चारयिष्यामि यथा मम स्वामिनो नगरेऽशुभगन्धो न भवति । अथवा समर्पय मम चिन्तारत्नम्।' इतश्च राशोक्तम्-'मित्र! तत्कि चिन्तारत्नम् ?' सुमित्रः प्राह-'यस्य प्रभावान्मया वनमध्ये तव भोजनसामग्री कृता।' ततः कोपारुणलोचनेन राक्षा भणितम्-रे दुष्टगणिके ! प्रत्यक्षतस्करे ! मम मित्ररत्नं गृहीतम्। ततो वेश्या भयभीता शरण- मिति भणन्ती सुमित्रचरणयोः पतिता। सुमित्रेणोपशामितो वीरा. दो राजा । निजचिन्तारत्नं गृहीतम् । प्रगुणीकृता रतिसेना सुमित्र- विषयेऽतीव स्नेहपरा । ततो वृद्धवेश्यया दत्ता सुमित्राय रतिसेना। एवं कलत्रत्रितयसहितो वैषयिकसुखमनुभवन् गमयति कालं सुमित्रः। अन्यदिने राक्षा मित्रं प्रत्युक्तम्-'सुमित्र! तस्मिन् दिने मां मुक्त्वा इयत्कालं कथं गतः ? अन्यश्च किं सुखं दुःखमनुभूतं त्वया? पूर्वोतं मणियुगलं कथं प्राप्तम् ? एष वृत्तान्तो मम कौतुकमावहति । ततश्च सुमित्रेण मणिलामादारभ्य सर्वो यथास्थितो वृत्तान्तः कथितः । एवं सुमित्रवृत्तान्तं श्रुत्वा राज्ञा विलितेन सुमित्रं प्रत्युक्तम् -'अहो तव व्यवसायंदक्षता। यतः- विणयाउ गायत्तं वैवसायाउ मणिछिया लच्छी। पच्छाउ आरोग्गं संगो मुखो विधम्माउ ॥ ६ ॥ ततः सुमित्रेण भणितम्-'राजन् ! व्यवसायेन किं भवति पुरुषाणाम् ? पुण्यमेव प्रधानम् । व्यवसायं विनापि पुण्येन सर्वे रम्यं जायते । यत:- ज दुलह जंजि दूरि जं दुग्गमिसठिउ । जं परवमुचिरकालसजवुजणिहिं अहिट्ठिउ ॥१०॥ 1. The portion beginning with 24 and ending with वव is missing in z. २. अं सौ for गं सग्गो Z.
कथाकोशः । तं सुहुचिंतिउमित्तुजणहलीलहिं संपवइ । जइ पुत्वजिउधम्मलेसु सुसहिजउ चिट्ठ॥११॥' इत्यादिधर्मवर्णनं कृत्वा द्वौ मित्रौ तत्र राज्यं कुरुतः। तावद् देव! रतशिखराज! एष कथाप्रबन्धः। वचउ जत्थ वितत्थवि जंवा तं वा करेउ ववसायं । पुनाहि उय पावइ सुहाई वीरंगदाउ व्व ॥१३॥ इतश्च भमुखाद रत्नशिखो राजा इमां कथां श्रुत्वा चिन्त- यति-'अहो ! अपूर्वाणि धीरपुरुषाणां चरितानि । यतः- श्रावइ सहस्सकसवहएसु धणियं कसिजमाणस्स । पुरिसस्स सुवनस्स व्व माहप्पंपइडं होइ॥ १३॥' रत्नशिखो राजा एवं चिन्तयति-'देशान्तरं विना कीर्तिः ख्यातिः कलामहणं किञ्चिन्न भवति । तावत्सर्वथा देशान्तरे गत्वा निजपुण्यपरीक्षां करिष्यामि' इति विचिन्त्य पूर्णभद्रनामो निजा- मात्यस्याग्रे वृत्तान्तः कथितः। तेन भणितम्-'देव ! युष्माकमिच्छा- भकं कः करोति ? तथापि विज्ञपयामि देवम्-दुर्गमानि देशान्तराणि । मार्गा अपायबहुलाः। छिद्रान्वेषिणो वैरिणः । अनायाससहं देव. शरीरम् । अतः प्राप्तराज्यमेतदेव पुण्यफलं परिपालयतु देवः।' मन्त्रिण एवं बहुप्रकारैर्भणितोऽपि न तिष्ठति राजा। ततश्च गुप्त- मन्त्रं कृत्वा पश्चिमरात्रौ खङ्गसहायो नगराधितो राजा उत्तरा- मिमुखं चचाल । इतश्च प्रामाकरपुरनगरेषु बहुविधानि कौतुकानि विलोकयन् सर्वत्र निजपुण्यप्रभावेन विलसन् कदाचिद् भीमं कान्तारं प्रविष्टो राजा, तद् वनमीदृशं वर्तते सिबारवंजवर्जुलवडबेडसकुडयकडाहपडिहत्यं । अंकुल्लविल्लसल्लइकयमालतमालसालटुं ॥१४॥ निवंबअंबडंबरिकाउंबरिबोरिकहरघणरुई । पिप्पलपलासनलनीलझिलमिल्लायडकडिलं ॥१५॥ जंबूकयंबंविलियाकवित्यिकथारियोहिरिहिपरं । टिंबरुणिवरुणप्रसडुयसिरीससीवनिसंकि ॥ १६॥ 9. y for yg Z. R. a is missing in 2. 4. A. reads विउ for उ। ४.Z.adds नेत्रश्च after बजु ।
कथाकोशः १०३ हिंतालतालसीसभिसमिसंबलिलग्गसग्गवच्छूलं । धमधम्माणवेणुयपालिदुइड्डयाइन्नं ॥ १७ ॥ ततश्च तस्मिन् वने यावत् कियती भूमि याति तावदैरावण- सदृशं मत्तगजेन्द्रं पश्यति मेदिनीनाथः । राक्षा चिन्तितम्-'अथात्र वने ईदृशरूपो गजः कथं वर्तते ?' तावद् गजेन्द्रोऽपि शुण्डमुत्पाट्य रत्नशिखराजसमीपे समागतः । ततश्च राक्षा गजशिक्षादक्षण गजो वशीचके । तस्मिन्नवसरे गगनमण्डलाद् राक्षः कण्ठे कुसुममाला पपात । राजा विस्मयपरोगगनमण्डले देवाङ्गनानामिति वचनं शृणोति 'अहो वीरचरित्र जयति । ततश्च तस्मिन् गजेऽधिरूढो राजा उत्तराभिमुखं स्थितः। तावत् तृषाक्रान्तो विलोकयन् एकं महासरोवरं दृष्टवान् । राक्षा गजेन्द्रादवतीर्य जलं पीतम् । गजेन्द्रो जलं पीत्वा सरोवरमध्यान्न निस्सरति । ततो गजं मुस्का राजा चचाल । यावदने याति तावदेकया स्त्रिया महाय॑मूलानि देवदुष्यवस्त्राणि समर्पितानि । ततश्च सर्वाङ्गोपाङ्गमलङ्करणं प्रदत्तम्, पुनरपि पुष्पविलेपनसहितं कर्पूरैलाककोलताम्बूलमिति । भणितश्च-'स्वागतं देवस्य ।' राक्षा भणितम्-'भद्रे ! का त्वम् ? स्त्री पुनः प्राह-वागतमपूर्वदेवस्य ।' राकोलम्-'भद्रे ! अपूर्वदेव इति त्वया कथमुक्तम् ।' स्त्री प्राह- 'इन्द्रादयो देवाश्चिरकालं सेविता अपि ददति न ददति, अस्माकं सख्या त्वमाराधितः सफलीजातः ।' राक्षा पृष्टम् - 'कैषा तव सखी? कदा तयाऽहं दृष्टः ? राक्षा इति पृष्टे तयोक्तम्-'इत उत्त- रस्यां दिशि वैतात्यनामा पर्वतोऽस्ति । तत्र सगयं नाम नगरम् । तत्र सूरणो नाम राजा । तस्य स्वयंप्रभा महाप्रभानाम्न्यौ पुध्यौ । अन्यदा शशिवगं राज्ये निवेश्य रवितेजचारणमुनिसमीपे सूरणन राक्षा दीक्षा गृहीता । ततश्च तल्लीलावलोकनात् सूरवेगस्य राज्यतृष्णा बभूव । ततश्च वसुवेगं नाम मातुलं सहायं कृत्वा शशिवेगेन सह युद्धं कर्तुं समागतः सूरवेगो विद्याधरः। शशिवेगोऽपि सूरवेगं सबलं ज्ञात्वा मन्त्रिणां वचनात् सबलवाहनो नगरानिर्गत्याऽस्मिन् वने नगरं कृत्वा थितः । तस्य चन्द्रप्रभा नानी कन्या वर्तते । अन्यदा नैमित्तिकेन चन्द्रप्रभां दृष्ट्वा राशोऽने निवेदितम्-'एनां यः परिणेष्यति तस्मात्तव खराज्यसम्प्राप्तिर्भविष्यति। शशिवेगराक्षापृष्टम्-'स कथं ज्ञातव्यः ?' - কথায় । नैमित्तिकेन भाणितम्-'सुग्रीवनगरस्वामिनो गन्धगजेन्द्र मदोन्मत्त- मत्रारण्ये परिभ्रमन्तं यो वशीकरिष्यति स तव पुत्रीभर्ता भविष्यति, राज्यं च दास्यति । ततश्च तदिवसात्प्रभृति अनुदिनं विद्याधरैः परिवृतः स एव गन्धगजो मिंठमवगणय्य पालानस्तम्भमुन्मूल्यात्र वने प्रविष्टः । अतः कारणाच्छशिवेगपुच्या सखीसहितया चन्द्रप्रभ- याssकाशमार्ग स्थितया सोत्कण्ठं तव कण्ठे स्वयम्बरमाला परिक्षिता एतद्वत्रताम्बूलादिकं तव प्रहितम् ।" यावत्सा विद्याधरी राज्ञोऽग्रे एवं निवेदयति तावत् कुतोऽपि तुरङ्गमसाहणं समागतम् । राजा विस्मितः । तावदेकेनाश्ववारेण प्रणामपूर्वमेवं विज्ञतः-'येन गजेन्द्रो वशीचक्रे साम्प्रतं स पुमान् कुत्र वर्तते । अस्माकं खामी तस्य दर्शनं वाञ्छति । तस्य शरीरस्य कुशलं पृच्छति ।' ततो विद्याधरी प्राह-'य एवं विलोक्यते स किं गजमपहृत्य गतः?' अश्ववारः प्राह-'एवं न, परं मम स्वामी परितुष्टस्तस्य । तेन कारणेन तस्य दर्शनं वाञ्छति ।' ततो विद्याधरी कथयति- 'कृतान्तसदृशो महागजः किं मनुष्येन वशीक्रियते ? ततोऽयं देवस्वरूपः तावत् तव स्वामी स्वयमागत्यैनं विलोकयतु ।' एवं श्रुत्वा सविस्मितमश्ववारेण निजखामिनः कथित वसुतेजराशः । तेनापि चिन्तितम्-'अचिन्त्यानि पुण्यविलसितानि ।' ततो राक्षा तस्याऽऽकारणाय निजमन्त्री प्रहितः। अत्रान्तर विद्या- धरी स्वस्थानं प्रति गता। ततो मन्त्रिणा विविधविनयप्रतिपत्त्याss. वर्जयित्वा राक्षः समीपे नीतो रत्नशिखो राजा । गजोऽपि महामिठेन धृतः। ततश्च सिद्धकार्यों गतः सुग्रीवनगरे वसुतेजो राजा । तत्र रत्नशिखराजानमष्टौ कन्याः परिणाय्य निजसमीपे स्थापितः । अन्यदा वसुतेजराज्ञा र शिखराजानं प्रत्युक्तम्-"पूर्व सुमङ्गलनामा केवल- शानी मम पुरे समागतः। तस्य वचनेन मम प्रतिबोधो बभूष। अस्मानरकनिबन्धनाद् राज्यादहं निर्विरणः । ततोऽविद्यमानराज. भारयोग्यपुत्रण मया सुमङ्गलकेवली पृष्टः । केवलिनोक्तम्-'यस्तव महागजेन्दं वशीकरिष्यति स तव राज्यधरो भविष्यति । ततो मामनुजानीहि, साम्प्रतं राज्यं गृहाण यथाहं दीक्षां गृहामि ।' रत्नशिखराक्षाऽनुमतं तस्य वचः। वसुतेजराशा रत्नशिखराजाss- स्मपदे स्थापितः । खयन्तु दीक्षा गृहीता। रत्नशिखराजा तत्र राज्य- सौख्यान्यनुभवति । इतश्च शशिवेगविद्याधरेण रत्नशिखस्य राज्य- জগন্ধীয় प्रातिनिर्वृत्तितिा । ततश्च खयं तत्र गत्वा चन्द्रप्रभा पुत्री तसै रत्न- शिखराश दत्ता, अपराजिता नाम विद्या दत्ता विद्यासहस्रपरिवारा। तं व्यतिकरं ज्ञात्वा सुवेगविद्याधरस्तत्रागत्य गजरूपं कृत्वा सुग्रीव- पुरस्योद्याने स्थितः। इतश्च कौतुकवशेन रत्नशिखो राजाऽल्पपरिवा- रेण तत्र बने सम्प्राप्तः। तं मत्तगजं चिरकालं क्रीडयित्वा वशीचकार । यावत् तस्मिन् गजे राजा उपविष्टः तावद् गगनमार्ग उत्पपात । ततो राशा वज्रदण्डसदृशेन मुष्टिप्रहारेण गजो मस्तकेन हतः। ततो महाप्रहारविधुरीकृतदेहो विस्मृतमन्त्रस्मरणो धरणीतले निपपात प्रकटीकृतनिजरूपो विद्याधरः। ततो विद्याधरो 'नमो अरिहंताणं' इति स्मरन् भूमितले लुठति । रत्नशिखराशा चिन्तितम्-'अहो सङ्कटेऽस्य मन्त्रस्मरणम् , धन्योऽयम्' इति पानीयेन सिञ्चितः । पवनेन स्वस्थीकृत्योक्तं रत्नशिखराशा । 'अहो महाभाग! क्षमख ममापराधम् ।' ततो विद्याधरेणोक्तम्-'राजन् ! अशाततत्त्वस्य न तव दोषः। अयं ममैव दोषः। अहं महापापात्मा येन मया जान- ताऽपि तव महासाधर्मिकस्यैवं विहितम् ।' राशा पृष्टो विद्याधरः- 'भो महाभाग ! कस्त्वम् ?' विद्याधरेणोक्तम्-'चक्रपुरनगरस्वामी सुवेगो नामाहं विद्याधरः। मया निजभगिनीनन्दनसूरवेगपक्षपातात् शशिवेगो राज्यानिष्कासितः, सूरवेगो राज्ये स्थापितः, इतश्च नैमि- त्तिकमुखान्मया इति श्रुतं यत् शशिवेगस्य तव सकाशाद् राज्यलामो भविष्यति इति श्रुत्वा तव वधार्थ हस्तिरूपं कृत्वा इहागतः। ताव- त्वया विनिर्जितः। अतोऽहं निर्विएणोऽस्मात्संसारसमुद्रात् । मम राज्यं गृहाण त्वम् । अहं शशिवेग तामयित्वाऽऽत्मसमीहितं करिष्यामि इति कथयतोऽकस्मात् शशिवेगोऽपि तत्रैवागतः । सुवेगविद्याधरेण क्षमितः । एवमुक्तश्च-शशिवेग ! मम राज्ये एनं मम बान्धवं रत्नशिखं राजानं निवेशय ।' रत्नशिखशशिवेगाभ्यामेवमुक्तः सुवेगः । 'महाभाग! कुलकमायातं राज्यं प्रतिपालय, पश्चात् वृद्धात्वतपो. विधानं कर्तव्यम्' इति भणितोऽपि न तिष्ठति सुवेगः। गुरुपाचे दीक्षा गृहीता। रत्नशिखसुवेगौ चक्रपुरे गतौ। रत्नशिखो राजा चक्रपुरखामी बभूव । सूरवेगेन ज्ञातमातुलवृत्तान्तन वैराग्यपरण दीक्षा गृहीता। शशिवेगाय राज्यं समर्पितम् । इतश्च प्राप्तसौख्यो कथाकोशः रत्नशिखो राजा वैताव्यपर्वतराज्यं परिपालयति, अनेकानि जिन- भुवनानि कारयति, सुपात्रेभ्यो दानं ददाति, तीर्थेषु प्रभावनां करोति। अन्यदा साकेतपुरे सुजसनामानं तीर्थङ्करं समवसृतं पश्यति। तत्र सकलरोमोर्षिततनुः मालस्थले रचिताअलिरेवं जिनेन्द्रं स्तौति रत्नशिखराजा- 'जय जय जणवछल! जलहरपक्यासवनयण । नयणमणपमयवद्धणकण्यरयणसममण ॥१८॥ इत्यादिस्तुतिपाठेन जिनेन्द्रं स्तुत्वा शेषपरिवारमुनीन् वन्दित्वा उपविष्टो जिनसमीपे रत्नशिखो राजा शृणोति धर्मदेशनाम्- 'सम्पदो जलतरविलोला यौवनं त्रिचतुराणि दिनानि । शारदाभ्रमिव चञ्चलमायुः किं धनैः कुरुत धर्ममनिन्द्यम् ॥ १९ ॥' इति देशनां जिनमुखात् श्रुत्वा ततश्च निजपूर्वभवं पृष्टः खामी। खामिनोक्तम्-'तस्य पूर्वभवे नमस्कारप्रभावेन एवंविधराज्यस- म्प्राप्तिः। इति पूर्वभवं श्रुत्वा नमस्कारमाहात्म्यं श्रुत्वा विशेषतो धर्म- परो जातः ।कियत्यपि गते काले प्राप्तवैराग्यो निजपुत्रस्य राज्यं दत्त्वा निर्मलचारित्रं प्रतिपाल्य प्राप्तकेवलो मोतं गतो रत्नशिखो राजा। इति नमस्कारविषये रमशिखकथानकम् ॥ कषायविषये अमरदत्तमित्रानन्दयो कथा । असिन् भरते सुरतिलकं नाम नगरम् । तत्र मकरध्वजो नाम राजा । तस्य मदनसेना नानी राशी वर्तते । अन्यदा राड्यो स्वप्नमध्ये पभिनीषण्डमण्डितं सरोवरं दृष्टम् । सम्पूर्णे काले पुत्रजन्म बभूव । ततस्तस्य कुमारस्य पद्मकेसर इति नाम कृतम्। ततश्च क्रमेण युवराजा बभूव कुमारः। अन्यदा मकरध्वजराज्ञो मस्तके केशपाशं विवृण्वत्या मदनसेनया राड्या पलितं दृष्टम्-'खामिन् ! धर्मदूतः समागत' इत्युपहासं कृत्वा राहो हस्ते पलितं मुक्तम् । तद् दृष्ट्वा राजा कृष्णमुखो बभूव । ततः पद्मकेसरकुमार राज्ये निवेश्य राशीसहितो वने गत्वा तापसो बभूव । तत्र गतस्य तपतस्तस्य राक्ष्योः पूर्वसम्भवो गर्भो ववृधे । ततोरामा पृष्टा देवी-देवि ! किमेतत् ? राक्षी प्राह- १. राज्ञा for राश्या 2. २. राक्ष: for राश्या: A.
কীয় १०७ 'देव ! पूर्वसम्भवोऽयं गर्मो मया व्रतविनमयेन न निवेदितः। ततो राक्षा कुलपतये तत्स्वरूपं कथितम् । ततश्च सम्पूर्णे काले पुत्रं सुषुवे राशी । अन्यतापसीमिरुपचर्यमाणापि भैषज्याभावात् सूतिरोगेण पीडिता राशी मृता। इतश्चोजयिनीवास्तव्यो देवधरनामा व्यवहारी देवसेनाप्रियायुक्तो हर्षपुरं गत्वा निवृत्तस्तत्र तपोवने समागतः। परं तापसेषु भक्तिमान् कुलपतिः श्याममुखो दृष्टः । व्यवहारिणा पृष्टम् - 'कुतः कृष्णमुखा यूयम् ?' कुलपतिना सर्व खरूपं कथितम् । व्यवहारिणोक्तम्-'तहयं बालो मम समर्म्यतां यथा नवप्रसूतायै निजपल्यै अर्पयामि एनं बालकम् । तस्याग्रेऽपि पुत्री उत्पन्नाऽस्ति । अतोऽसौ बालको बालिका च सुखेन स्तन्यपानं कुर्वन्त्यौ वृद्धि यास्यतः।' कुलपतिनाऽर्पितः पुत्रो देवघरव्यवहारिणे । व्यवहारिणां निजपरिवारस्याने इति कथितम्-'मम पत्न्यां पुत्रः पुत्री च युग्म- मुत्पन्नम् ।' पुत्रस्य अमरदत्त इति नाम कृतम्, पुत्र्याः सुन्दरीति नाम कृतम्। अन्यदा तत्र वास्तव्येन सागरदत्तपुत्रण मित्रानन्देन सह अमरदत्तस्य महाप्रीतिर्बभूव । अन्यदा वर्षाकाले तौदावपि उजयि. न्युद्याने सिप्रानदीतटे सिद्धवटसमीपे क्रीडाथै गतौ । तत्र तो मिथ उन्देयकाक्रीडां कुरुतः । यावदमरदत्तः प्रेरयत्युन्देयकां मित्रानन्दः प्रतीच्छति तावद् वटोलम्बितशवस्य मुखे सा उन्देयका पतिता । शवो ब्रवीति-'उन्देयका यथा मम मुखे पतिता तथा तवायमिन्नेव वटे उनम्बितस्य मुखे पतिष्यति । एतच्छ्रुत्वा मित्रानन्देनामरदत्तं प्रत्युक्तं भीतेन-बान्धव ! क्रीडया पर्याप्तम्, निजमन्दिरे गच्छावः । अमरदोनोक्तम्-'योषा उन्देयका शवमुखे गता ततोऽन्यया क्रीडयिष्यावः। एवमुक्तोऽपि मित्रानन्दो न क्रीडां करोति । ततो दावपि निजनिजगृहे गतौ। भुक्तोत्तरं दावप्येकत्रोपविष्टौ । अमर- दत्चेनोक्तम्-त्वं कथं श्याममुखो दृश्यसे ?' मित्रानन्देन सकलं स्वरूपं कथितम् । अमरदत्तेनोक्तम्-बान्धव ! शवो न भाषते, परत्वेषा व्यन्तरक्रीडा । अस्तु सत्यमथवाऽसत्यम्, पौरुषं कृत्वा एषोऽन्तरायो हन्यते, यथा पूर्वे शानगर्भणोधमं कुर्वता स्वकष्टं वारि- १. व्यवहारिणा is missing in Z.
१०८ कथाकोशः तम् । ततो मित्रानन्देनोक्तम्-'अमरदत्त ! कोऽयं शानगर्भः? अमरदत्तोऽब्रवीत् । "अत्रैव भरते चम्पा नानी महापुरी। तत्र जित शत्रुर्नामा नृपः । शानगर्भनामाऽमात्यः। सुबुद्धिनामाऽमात्यस्य वृद्ध- पुत्रः । अन्येऽपि बहवः पुत्राः सन्ति । अन्यदा सभायामुपविष्टे राशि कश्चिदागामिवेदको महानैमित्तकः समागतः। राक्षाऽऽसनं दापितम्, पृष्टश्च-वद, किं नु वेत्सि ? अहो नैमित्तिक! तेन कथितम्-- 'राजन् ! अष्टाङ्गनिमित्तशोऽहम्।' राक्षोक्तम्-'तहि पक्षमध्ये पतेषां सभ्यानां किं किं भवति। तेन विचार्योकम्-'पक्षमध्येऽस्य ज्ञान- गर्भस्य मन्त्रिणः सकुटुम्बस्य मृत्युभविष्यति। तच्छ्रुत्वा सभां विसृज्य मानगर्भो नैमित्तिकेन सह गृहे गतः। तत्र सव्यक्तं पृष्टम् । नैमित्तिकेन कथितम् । 'तव वृद्धपुत्रान्मारिर्भविष्यति'इति श्रुत्वा देवशं सत्कृत्य विससर्ज । तत् स्वरूपं वृद्धपुत्राग्रे निवेदितं मन्त्रिणा । ततः कुलरक्षार्थ मञ्जूषामध्ये आहारनीहारचिन्तां विधाय वृद्धपुत्रमतिपत् । तत्र ताल- कान दत्त्वा 'मम गृहसारमेतत्'इत्युत्ता नृपमुद्रामन्यामदापयत् । ततो राजमन्दिरे मुक्ता सा मञ्जूषा । मन्त्री स्वयं गृहे गत्वा गृहचैत्यान्या- राधयितुं प्रवृत्तः। श्रात्मीयं गृहमश्वैः पत्तिभिः सर्वतोऽपि भरक्षयत्। इतश्च पञ्चदशे दिने समागतेऽन्तःपुरमध्ये दासीमुखेभ्य इति कोला- हलो बभूव । अयं मन्त्रिपुत्रो रत्नवतीकेशपाशं छित्वा याति । ततो 'धावत ! धावत । एतच्छ्रुत्वा राजा क्रुद्धस्तं मन्त्रिपुत्रं हन्तु सेना प्राहिणोत् । तावद् गृहस्थितेन मन्त्रिणा चमूपतिरेवमुक्तः-'तावस्त्र- तीक्षख यावत्त्वत्सेवकैतो राजसमीपं यामि । तेन तथा विहितम् । गतो मन्त्री राजसमीपे । विज्ञप्तो राक्षा-स्वामिन् ! यावत्ता मञ्जूषा- मुखाटयामि ताषद् विलम्बख।' राक्षाऽनुमतम् । मञ्जूषा उद्घाटिता। तत्र कृपाणीकबरीकर मन्त्रिपुत्रं ददृशे । मन्त्रिणोक्तम्-'राजन् ! पूर्वमक्वैरिणः कस्यापि व्यन्तरस्य चेष्टितम् ।' तष्टितं दृष्ट्वा तौ खामिसचिवौ विरक्तौ जातौ । ततो निजनिजपदे पुत्रं निवेश्य द्वाभ्यां दीक्षा गृहीता।" ततोऽहमप्युपायेनान्तरायं हनिष्यामि । मित्रानन्दे. नोक्तम्-'मित्र ! ततोऽयं देशः परित्यज्यते' इति विमृश्य तौ परस्परं गृहखापमिषेण निर्गती, निरन्तरं यान्तौ कदाचित्पाटलीपुत्रपचने बहिरुधाने गतौ । तत्र महान्तं प्रासादमेकं दहशतुः । तत्रामरदत्त- कथाकोशः कुमारेका शालमक्षिका दृष्टा । तामतिरूपां विलोकयन् स कन्दर्प- बाणैः पीडितः गन्तुं पदमपि न शक्नोति । अमरदत्तस्तां तथाविधी चिन्तयति-'किमेषा देवाङ्गना काचित् कस्यापि शापेन पाषाणत्वं गता-'इत्थं चिन्तां कुर्वाणं कुमार मित्रानन्दोऽवदत्-मित्र ! नगरमध्ये गम्यते। अमरदत्तेनोक्तम्-'मित्रानन्द ! क्षणमेकं प्रती. क्षख यथा शालमञ्जीरूपं विलोकयामि' इत्युक्ते मित्रानन्दः स्थितः । क्षणान्तरे मित्रानन्देन पुनरुक्तम्-बान्धव ! उत्तिष्ठ नगरमध्ये यावः।' ततोऽमरदत्तकुमारेण लजां विमुच्योक्तम्-'मित्र!इमां शालिभञ्जिकां मोक्तुं न शक्रोमि । यदि त्वं बलान्मोचयसे ततो निश्चितं मम प्राणा यास्यन्ति इति श्रुत्वा मित्रानन्दोरुरोद । अमरदत्तोऽपि रुरोद । इतश्च तत्र वास्तव्यो रत्नसागरनामा श्रेष्ठी तत्र प्रासादे समागतस्तेन पृष्टौ- 'किमर्थ शोकाकुलौ युवाम् ? मित्रानन्देन यथा तथाऽमरदत्तस्य खरूपं श्रेष्ठिनोऽग्रे निवेदितम् । व्यवहारिणा चिन्तितम्-'अहो कन्दर्पस्य माहात्म्यं विजृम्भते । पाषाणपुत्रिकायामपि अस्य मनसि विषयवाञ्छा। मित्रानन्देन श्रेष्ठी पृष्टः-खामिन् ! केनायं प्रासादः कारितः कः कर्ता ? कस्येदं विज्ञानकौशलम् ? एषा पुत्रिकाऽऽत्म- विज्ञानेन कृताऽथवा कस्याश्चित्प्रतिच्छन्दो विहितः।' श्रेष्ठिनोक्तम्- 'एष प्रासादो मया कारितः । सोपारपुरवास्तव्येन सूरदेवसूत्रधारेण कृतः। अहं तत्र यास्यामि।' मित्रानन्देनेत्युक्तेऽमरदत्तो जगाद-त्वां विना प्राणान् धर्तुनतमोऽस्मि'। ततो मित्रानन्देन मासद्वयावधिश्चके। मित्ररक्षायै रत्नसारस्य शिक्षा दत्ता।ततो महासमुद्रमुल्लङ्घय सोपारपुरे गतो मित्रानन्दः । तत्र दिव्यवेषं कृत्वा गृहीतोपायनो गतः सूत्रधार- गृहे। सूत्रधारेण तस्य विशेषभक्तिः कृता । पृष्टं समागमनकारणम् । मित्रानन्देनोक्तम्-'अहमेकं देवप्रासादं कारयितुकामोऽस्मि । अत- स्तव समीप आगतः । ततो दर्शय कश्चित्प्रासादप्रतिच्छन्दम् ?' सूत्रधारो जगाद-'पाटलीपुरस्योद्याने यः प्रासादो विद्यते स मया विनिर्मितः । अयं प्रतिच्छन्दः।' मित्रानन्देनोक्तम्-'तत्र या पाषाण- मयी पुत्रिका साऽऽत्मबुद्धया कृता, किं वा कस्याश्चित् प्रतिच्छन्दो विहितः १ सूत्रधारेणोक्तम्-'उज्जयिन्यां श्रीमहासेनराक्षः पुत्री रन- मजरी, तस्या रूपम् , नात्र मे बुद्धिकौशलम् ।' इति श्रुत्वा 'शुभमुहूर्त दृष्ट्वा एष्यामि'इत्युका मित्रानन्दः समागत उज्जयिन्याम् । तत्र सन्ध्या ११० कथाकोशः समये वेश्यागृहे गतः । तत्र स्थितेन मित्रानन्देन रात्रिसमये पटहाघोषणं श्रुतम्-'यः कोऽपि एनं दोषेण मृतं नरं प्रभातं यावद् रक्षति ईश्वरः श्रेष्ठी दीनाराणां सहस्रमेकं ददाति' इति श्रुत्वा मित्रानन्देन पुरुषः पृष्टः-'किमर्थे रक्ष्यते शवः ?' तेनोक्तम् -'दुःखेन रक्ष्यतेऽयं शवो मारितः ।' तच्छ्रुत्वा मित्रा- नन्दो धनार्थी पटहं पस्पर्श । दीनाराणां पञ्चशतीं पूर्व जगृहे। ततो रात्रौ शवस्य रक्षणं कृतम्। प्रभाते शेषदीनारामदत्त्वा बला- दपि गृहीतः शवो बन्धुभिस्तस्य । मित्रानन्देनोक्तम्-'एतदन्याय- खरूपं राज्ञोऽग्रे निवेदयिष्यामि । ततश्च दीनारशतेन भन्यवेषो विहितः। वसन्ततिलका नाम वारमुख्या। तस्या गृहं ययौ । तत्र दीनाराणां चतुश्शती वसन्ततिलकामातुः समर्पिता। ततः सगौरवं बानभोजनसामग्री कारितः। ततो मित्रकार्यकरणार्थ कामभोगेषु पराङ्मुखो रात्रिप्रहरत्रयं मित्रानन्दो निर्विकारं स्थितः। ततो वृद्ध- वेश्यया भणितो मित्रानन्दः-'मुधा मत्पुत्रीं किं विडम्बयसि ? कि मम पुत्री सस्नेहा न, अथवा न मुरूपा यदेनां नालापयसि ?' इत्युक्ते मित्रानन्देनोक्तम्-'मातः ! सर्व तव कथितं करिष्यामि । किन्तु त्वां पृच्छामि कन्यान्तःपुरे तव गतिरस्ति किं वा नास्ति ? तयोक्तम्- 'एषा मम पुत्री नित्यं कन्यान्तःपुरे याति । रत्नमबरी मम पुत्रीसखी वर्तते । ततो मित्रानन्देनोक्तम्-'भद्रे! तत्र कन्याऽन्तःपुरे गत्वा सा रत्नमबरी एवं वाच्या यत् तव सन्देशात्तव प्राणप्रियतमेनामर- दचेन प्रेषितः। तच्छ्रुत्वा सा वृद्धवेश्या दृष्ट जाता, खयमेव कन्या- न्तःपुरे गता । तां दृष्ट्वा रत्नमचर्या पृष्टम् । 'मातः! सहर्षोत्कर्षेवाय दृश्यसे।' तयोक्तं तस्य धूर्तस्य चेष्टितं सर्वम् । कुमारी किञ्चिद् दृष्टा जाता। कन्ययोक्तम्-मातः! तर्हि दर्शय मेलाकारकम् । वेश्या इति श्रुत्वा गृहे आगता। मित्रानन्दस्याने तत्वरूपं कथितम् । ततो रात्रिविमागे तेन सह गता सिंहद्वारम् । मित्रानन्दस्याने उकम्- 'वत्स ! अस्मिन् सप्तप्राकारपरिवेष्टिते रत्नमबरीमन्दिरे कथं 9. The portion beginning with Tal and ending with #funt is missing in Z.
कथाकोशः यास्यसि ततोऽकुल्यप्रेण वेश्ययारत्नमञ्जरीमन्दिरं दर्शितम् । ततश्च विद्युत्फालकिरणं दत्त्वा सप्त प्राकारान् उल्लध्य कन्यामन्दिरे गतः। तत्र गवाक्षे चटितो रत्नमारी दृष्टवान् । 'एषः कोऽपि वीरपुरुषो यस्यैवंविधं बलम् ।' वेश्या इति चिन्तयन्ती गृहे गता। कन्याप्यायान्तं वीरपुरुषं दृष्ट्वा विस्मयप्रपत्रा जाता। "किं करोत्ययम्' इति कपटेन सुप्ता । इतश्च मित्रानन्दः छुरीमाकृष्य तस्या दक्षिणजवायां लाञ्छनं चकार । ततश्च वामहस्तात् कङ्कणं जहार । पुनर्येन पथाऽऽगतस्तेनैव मार्गेण वेश्यागृहे समागतः। कन्यापि खं निनिन्द यद् 'अनेन वीर- पुरुषेणाहं नालापिता।' सकलामपि रात्रि जजागार । रात्रिप्रान्ते सुप्ता । इतश्च प्रभातकालं वंशाने पूलकं धृत्वा राक्षः सिंहद्वारे फूत्कार- पूर्व प्राप मित्रानन्दः। प्रतीहारेण विक्षप्तो राजा। मित्रानन्द आकारितः पृष्टश्च-कथं भोः ! उन्मना दृश्यसे?' मित्रानन्दो व्यवहारिणः पराभवं निवेदयामास। राक्षा श्रेष्ठी आकारितः। राक्षोक्तम्-'कथमस्य देयं द्रव्यंन ददासि? श्रेष्ठिनोक्तम्-'दिनत्रयं यावत् शोके निपतितो लोकयात्रया स्थितोऽहम् , ततो मया न दत्तमस्य देयं द्रव्यम् । अतो वास्यामि ।' इत्युक्त्वा श्रेष्ठी गृहे गतः। राक्षा मित्रानन्दः पृष्टः- 'त्वया केन प्रकारेण मृतको रक्षितः? मित्रानन्देनोक्तम्-'देव! गाढं परिकरं बद्धा तुरिकामाकृष्य दिशो विलोकयनहं सावधानोऽ. स्थाम् , तावत् प्रथमप्रहरे शृगालीवर्गः समागतः । द्वितीयाहरे कराला वेतालाः समागताः। तृतीयप्रहरे शाकिनीवर्गः समागतः। ततश्चतुर्थप्रहरे रम्यवेषा एका नायिका शवसमीप आगता । मया सा मारिरिति शात्वा वामकरे धृता। ततो मम हस्तात् सा नष्टा। नश्यती सा मया दक्षिणजवायां छुरिकया लाञ्छिता। तस्या नश्यन्त्या मम करे कङ्कणं स्थितम् ।' राक्षोक्तम्-'तर्हि कङ्कणं दर्शय । मित्रानन्दन कटीप्रदेशादाकृष्य तत्कङ्कणं राक्षः करे मुक्तम्-'राक्षा स्वनामाङ्कितं रत्नमबरीकङ्कणं दृष्टम् । राजा कृष्णमुखो जातः । चिन्तितम्- 'अमृते विषमुत्पन्नम्, यदस्यारत्नमञ्जर्या मारिघोषणा जाता।' ततश्च राजा रत्नमबरीमन्दिरे गतः । तत्राच्छवस्त्रपरिवृतां निद्रामरसुप्तां वामकर कङ्कणरहितां दक्षिणजवायां बद्धपट्टबन्ध रत्नमञ्जरी विलो- 1. The syllables ता । सकलाम are missing in Z.
এখী कितवान् । ततो राज्ञा चिन्तितम्-'अहमेवैनां शाकिनीवत् मम कुलकलकिनी स्वयं गृहामि' इति विमृश्य पुनर्निजावासे समा- गतः। राज्ञा मित्रानन्दस्यान उक्तम्-'यथा शवरक्षणे तव साहसं तथाऽन्यदपि किञ्चिन्मन्त्रादिकंजानासि? तेनोक्तम्-मान्त्रिकोऽहम् । राक्षोक्तम्-'या त्वया रजनीचतुर्थप्रहरे नायिका दृष्टा सा मारिक- लहिता ममैव पुत्री। ततो यदि तव शक्तिरस्ति तदेनां गृहाण, अथवा निगृहाण ।' मित्रानन्देनोक्तम्-'एकवेलं तां साध्यामसाध्यां विलोकयिष्यामि ।' राज्ञोक्तम्-'एवं भवतु ।' ततो राजादेशाद् रत्नमञ्जरीमन्दिरे गतो मित्रानन्दः । ततो रत्नमञ्जर्या तातादेशात् तमायान्तं वीक्ष्याऽऽसनादिभिस्तस्य भक्तिश्चके। अथ मित्रानन्देन राजपुत्री एवमुक्ता-'भद्रे ! शृणु वृत्तान्तम् - यत् पाटलीपुरपत्तने मम प्राणमित्रम् अमरदत्तनामा कुमारो नगरोद्याने प्रासादे तव रूपपाषाणपुत्रिकाविलोकनेन मोहितोऽस्ति, तवालाभान्मरणं प्राप्नोति, तस्य महामित्रं मित्रानन्दो नामाहं तव निमित्तमिहागतः । मया तस्या- मरदत्तस्य कृते राक्षोऽने तव मारिकलङ्को दत्तोऽस्ति । रात्रौ मयैव तव वामकरात्कङ्कणमपहृतम् । दक्षिणजवायां मयैव छुरिकया सह लाञ्छनं कृतम् । अथ पश्चादहं तव प्रियं करोमि तत् सर्व कर्तव्यम् । यदि त्वमेवं न करिष्यसि तदाऽहमत्रैव मरिष्यामि, अमरदत्तस्तत्र मरिष्यति । तव मारिकलङ्क उपस्थित एव । अतो यद् रोचते तत् कुरु।' एवं श्रुत्वा निजमनसि विमृश्य रत्नमञ्जरी मित्रानन्दं प्रति प्राह-'हे मित्रानन्द ! यस्तव मित्रममरदत्तकुमारः पाषाणमय्यां मय्येवमनुरागवान् वर्तते, ततो मया निजप्राणैरपि त्वं सच रक्षणीयौ।' मित्रानन्दोऽवदत्-'यद्येवं ततो यदा राजा त्वां मम समर्पयति तदा त्वया फूत्कर्तव्यम्'इति शिक्षां दत्त्वा मित्रानन्दो राक्षः सभायां समागतः । राज्ञोक्तम्-'भो मान्त्रिक ! अस्ति तव साध्या किंवा न ?' तेनोक्तम्-'अस्ति मम साध्या सा स्त्री, पुनरेकोऽश्वः समर्प्यताम् , सूर्योदयादाक् तां देशान्तरं मयामि' इत्युक्त राज्ञा भयभीतेन केशै- राकृष्य फूत्कारं कुर्वती तस्य समर्पिता । मित्रानन्दोऽपि 'हुं फट्' इति मन्त्रोभरणपूर्वकं रत्नमञ्जरी तुरङ्गम अारोप्य सन्ध्यासमये निर्गतः। मार्गे गच्छन्त्या रत्नमबर्या मित्रानन्दं प्रत्युक्तम्-'खामिन् !
कथाकोशः मित्रकलत्रेण सहकस्मिन् वाहन आरोदुन युज्यते। तेनोक्तम्-'मम त्वं पुत्रीस्थाने वर्तसे। ततः किमेकवाहने आरोढुं न युज्यते ?' इति श्रुत्वा तया चिन्तितम् । 'यस्यायं मित्रः स धन्य' इति चिन्तयन्ती तेन मित्रानन्देन पाटलीपुरोधाने नीता। इतश्चामरदत्तो मासद्वयावधी सम्पूर्णे मित्रदुःखेन रत्नसारश्रेष्ठिनं काष्टानि याचते । ततश्च रत्नसार- श्रेष्ठिना सजितेषु काष्टेषु पौरलोकेनामरदत्त एवमुक्त:-'अद्यतनीयं दिवसं विलम्बस्व कथञ्चन ।' ततोऽमरदत्तो लोकवाक्यात् स्थितः । तावत् लोकेन अमरदत्तस्याने इत्युक्तम्-'कोप्यश्ववारः समेति । सर्वे यावत्ससम्भ्रमं विलोकयन्ति तावन्मित्रानन्दोऽमरदत्तसमीपे समागतः। अत्र द्वयोभित्रयोर्महान् हर्षः । ततश्च तस्यैवानेः साक्षिकममर- दत्तस्य पाणिग्रहणं बभूव । रत्नसारश्रेष्टिना पौरलोकेन च तौ परस्परं व्याख्यातौ । इतश्च रात्रिविभागे तस्य नगरस्य स्वामी अपुत्रो मृतः । ततो मन्त्रिवर्गेण पञ्च दिव्यानि प्रतिष्ठितानि । गजेन्द्रो बायोगाने समागतः। तत्रामरदत्तकुमारोऽभिषिक्तो गजेन्द्रेण, निजपृष्ठे आरो. पितः कुमारः। ततश्च हयो हेषारवंचके, चामराभ्यां वीजिता, शिरसि छत्रं धृतम् । 'जयति अमरदत्तो राजा' इत्याकाशे देववाणी बभूव । ततो नगरे महान्त उत्सवाः साताः। अमरदत्तराशो नगरमध्ये प्रवेशमहोत्सवो बभूव । धवलगृहे सम्प्राप्तः। ततोऽमात्यसामन्तायैः राज्येऽभिषिक्तः। अमरदत्तराक्षा मित्रानन्दो निजमन्त्रीश्वरश्चके। रत्नमञ्जरी अन्तःपुरसारं बभूव । रत्नसारश्रेष्ठी श्रेष्ठिपदे कृतः। एवं राज्य परिपालयति । अन्यदा बहुषु दिवसेषु गतेषु मित्रानन्देन राजा एवं विक्षप्त:-'देव! तच्छववाक्यं पीडयति माम् । ततः प्रसाद कुरु, मां दूरे विसृज।' अत्याग्रहेणामरदत्तराबाऽऽत्मसेवकैः परिवे- टितो मित्रानन्दो वसन्तपुरे प्रहितः । 'तस्य शुद्धावनायान्त्यां दिनैः कतिपयैर्नृपः । मानुषेण व्यधात् शुद्धिं प्रवृत्तिः काप्यभवतु ॥१॥ ततो राक्षा चिन्तितम्-'किंजातं मम मित्रस्य ? तज् शानिनः समीपे मित्रनिवृत्ति पृच्छामि।' यावद् राजा एवं चिन्तयति तावदु- द्यानवनपालकपुरुषेण विक्षप्तः-स्वामिन् ! अद्योद्यानभूमौ चतुर्सानी 'धर्मघोषसूरिः' इति नामा मुनीश्वरः समागतोऽस्ति, तच्छ्रुत्वा राजा । ..
কাজী सहर्षों बभूव । रनमञ्जरीसहितो बन्दनाय जगाम । तं नमस्कृत्य तस्य मुखाइशना श्रुता । इतश्च तत्रैव वास्तव्येनाशोकदसश्रेष्ठिना गुरुन् प्रणम्योक्तम्-'भगवन् ! केन कर्मणाऽस्मिन् भवे मम पुत्री सरोगा वर्तते ? तत् किं कारणम् गुरुभिः सा तत्रानायिता, दृष्टि- मात्रावलोकनाद् आरोग्या बभूव । ततो व्यवहारिणा पृष्टम्-भगवन्! पूर्वभवेऽनया मम पुज्या किं कर्म कृतम् ।' गुरुः प्राह-"पूर्वभवे भूत- सालनगरे भूतदेवनामा व्यवहारी, तस्य कुक्षिमती भार्या । अन्यदा मार्जारेण पीयमानं दुग्धं दृष्ट्वा कुक्षिमत्या निजवधू प्रत्येवं दुष्टवचन- मुक्तम्-'किं त्वं शाकिनीभिहीता, यत्त्वं दुग्धं न रक्षसि ?' तच्छ्रुत्वा सा वधूस्तत्कालशाकिन्या छलिता । ततो नरेन्द्रप्रभृतिलोकैः सा शाकिनीपार्धात् मोचिता । श्रेष्ठिपुत्रवधूः पुनः खस्था जाता। ततः प्रभृति सा कुतिमती कालजिह्वा इति रूढिं गता। ततो जनापवादं श्रुत्वा वैराग्यपरा जाता। कुक्षिमती दीक्षां गृहीत्वा स्वर्गे गता। तत- श्च्युत्वा एषा तव पुत्री प्रभूत्। ततः पूर्वभवकर्मवशादाकाशदेवीभि- गृहीता। मम दर्शनात् साम्प्रतमेनां विमुच्य आकाशदेव्यो नष्टा इत्युक्ने तस्या जातिसरणं जातम् । पूर्वभवो दृष्टः । वैराग्यमुत्पनम् । दीक्षा प्रार्थिता, गुरुभिन दत्ता । अद्यापि तव भोगफलं वर्तते, ततो गृहस्थ- धर्म परिपालयति।" अस्मिनवसरे अमरदत्तराशा मित्रानन्दवृत्तान्तः पृष्टो गुरुसमीपे । ततो गुरुभिरादिष्टम्-"शृणु राजन् ! तदा त्वत्स- काशात्तव सुभटैः परिवेष्टितो मित्रानन्दो वसन्तपुरं प्रति चचाल । एकस्मिन् वने यावदुत्प्रयाणं कृतं तावद् मिल्लानां धाटी पतिता। सर्वे सुभटा जीवितन्यरक्षणाय धाटीभयान्नष्टाः । मित्रानन्दोऽप्येक दिशं प्रति चलितः। इतश्च मित्रानन्दो वनमध्ये भ्रमित्वा एकसिन् सरोवरे गतः। तत्र जलं पीत्वा एकस्य वटवृक्षस्य तले सुष्वाप । तावत्तस्य वटवृक्षस्य कोटरात्सों निस्सृतः। तेन दष्टो मित्रानन्दः । सतश्च तत्र कोऽपि तापसः समायातः । तेन विषवेगेन मूच्छितो मित्रानन्दो जीवापितः । तापसः स्वस्थानं गतः। मित्रानन्दोऽपि तव समीप आगच्छन् मार्गे तस्करैर्गृहीतः। ततश्च तस्करैरपि विक्रीता केषाश्चिमौवितानां पार्थे । तेऽपि नौवित्तकास्तं मित्रानन्दं पारसकूले १. गृहीत. for गृहस्थ. A and Z.
कथाकोशः गृहीत्वा गताः । ततश्च पारसकूला सार्थे गृहीत्वा देशान्तरं गन्तु- कामास्ते नौवित्तका उज्जयिन्यां समागताःतावत्सा नगरी चौरमयेन व्याकुला वर्तते । सर्वत्र राजादेशातलारकाः परिभ्रमन्ति । ततश्च मित्रानन्दो नष्टस्तेभ्यः सार्थपुरुषेभ्य उज्जयिन्यां दुर्गस्रोतसः प्रविशन् तेलारकपुरुषैदृष्टः, चौर इति भणित्वा गाढतरं रात्रौ बद्धः । तैरपि निजखामिने तलारकाय समर्पितः । तेनामिक्रुद्धन तस्मिन्नेव वटे उल्लम्बितो मित्रानन्दः । मृतश्च । इतश्च गोपानां क्रीडतां मित्रानन्दस्य मुखे उन्देयका प्रविष्टा ।" अमरदत्तो राजा मुनिमुखात् मित्रानन्दस्य मृत्युं श्रुत्वा उच्चैःस्वरं चक्रन्द । रनमार्यपि चक्रन्द । मुनीश्वरेण वैराग्यकारिणीभिर्देशनाभिरमरदत्तो राजा स्वस्थीकृतः। 'राजन् ! मा कुरु शोकम् , जीवानां विचित्रा कर्मगतिः ।' इतश्च अमरदत्तराशा पृष्टम् -'भगवन् कुत्रोत्पनो मित्रानन्दस्य जीवः।' गुरुभिः शुभध्यान- गतिं तस्य विज्ञाय राजानं प्रत्युक्तम्-'राजन् ! तवैव फुले रनमअर्यु- दरे उत्पन्नो मित्रानन्दजीवः कमलगुप्तनाना तव पुत्रो भविष्यति ।' इतश्च राक्षा मित्रानन्दस्य पूर्वभवं पृष्टा मुनयः-'भगवन् ! पूर्वमवे मित्रानन्दजीवेन किं कर्म विहितं यदलिन् भवे तस्यैवंविघं दुःखं जातम् ।' गुरुभिरुक्तम्-"शृणु राजन् ! पूर्वभवेऽसिन् भरते साकेतपुरे क्षेमकरो नाम कौटुम्बिकः । तस्य सत्यश्रीनानी गृहिणी, चण्डसेननामा कर्मकरः सर्वकर्मसु निपुणः। अन्यदा चण्डसेनकर्म- काक्षेत्र रक्षति । इतश्चान्यदा तस्य क्षेत्रसमीपेऽन्यस्य कस्यापि क्षेत्रे कार्पटिकमेकं धान्यं गृहन्तं निरीक्ष्य चण्डसेनेनोक्तम्-'हे पुरुषाः अयं चौरोऽस्य वृक्षस्य शाखायामुल्लम्ब्यताम् । परंतस्य क्षेत्रस्य खामिना कृपया तत् न कृतम् । तस्य कटुवचनेन कार्पटिकचित्तेऽतीव दुःखं बभूव । चण्डसेनः सन्ध्यासमये गृहे पागतः । चण्डसेनेन तत् कर्म बद्धम् । अन्यदा सत्यश्रिया निजवध्वा भुखानया गले विलग्नं कवलं वीक्ष्य 'अरे! त्वं राक्षसीसदृशा, यत् स्थूलैः कवलोक्यसे' इत्युक्ते वधूनिजचित्ते दूयिता । अन्यदा चण्डसेनेन निजस्वामी क्षेमकरनामा एवं विषप्तः । निजसगीतानां मिलनाय यामि । तेन क्रुखेनैवमुक्तम्- १. तलरच. Z. तलारक्षक A. २. A. adds सर्वकर्मसु निपुणः before चेत्र।
कथाकोशः
'तव खजनानाममिलनमस्तु । एकदा ताभ्यां क्षेमकरसत्यश्रीभ्यां
शुद्धानैर्मुनिः प्रत्यलाभ्यत । चण्डसेनोऽपि पार्थस्थितस्तावन्वमोदत ।
मुनौ गते त्रयाणामुपरि विद्युत्पपात । ततस्त्रयोऽपि सौधम्ये गताः।
ततश्च्युत्वा क्षमङ्करजीवो भवान् अमरदत्तो जातः। सत्यश्रीजीवो
रत्नमसरी जाता। चएडसेनजीवो मित्रानन्दो बभूव । ततो दुर्वाक्य-
दानेन मित्रानन्दो वटशाखायामुल्लम्बितः । यत् सत्यश्रिया पूर्वभवे
वन्या राक्षसीदुर्वाक्यं दत्तं ततोऽस्मिन् भवे रत्नमञ्जरी मारिकलङ्केन
दूषिता । यत् त्वया पूर्वभवे कर्मकरस्याने इत्युक्तम्-'स्वजनानां मा
मिलितं तव', अतोऽस्मिन् भवे तव स्वजनैः सह विरहो बभूव ।' इति
पूर्वभवं श्रुत्वा ताभ्यां श्रावकवतानि गृहीतानि । अमरदत्तेन पुनर्मुनि-
र्भाषितः-भगवन् !शवः किंभाषते?' मुनिनोक्तम् -'कार्पटिकजीवो
मृत्वा व्यन्तरोजातः। ततः पूर्ववैरेण शवमुखेऽवतीर्य मित्रानन्दस्याने
उनम्।' इति श्रुत्वा सर्वेऽपिखस्थानं गताः।राजाऽपि रत्नमअरीसहितो
राज्यं करोति । अन्यदा रत्नमञ्जरी पुत्रं सुषुवे। कमलगुप्त इति नाम
कृतम् । शास्त्राभ्यासंकुर्वन् क्रमेण तारुण्यवयो बभूव कमलगुप्तः कुमारः।
अन्यदाऽमरदत्तराशा रत्नमञ्जरीसहितेन पुत्र राज्ये निवेश्य तस्यैव
गुरोः समीपे दीक्षा गृहीता । तपस्तप्त्वा क्रमेण सिद्धिं यास्यति ।
मयं विषयकषाया निद्दा विकहाय पंचमी भणिया।
एए पंचपमाया जीवं पार्डति संसारे ॥३॥'
अतोऽमरदत्तमित्रानन्दयोः कथां निशाम्य कषायः परिहर्तव्यः॥
इति कषायविषयेऽमरदत्तमित्रानन्दयोः कथानकम् ॥
दानधर्मविषये कथा ।
दानं शीलं तपो भावो धर्मश्चायं चतुर्विधः ।
ये पालयन्ति भावेन ते जीवाः पुण्यभाजनम् ॥१॥
दानेन भूतानि वशीभवन्ति दानेन वैराण्यपि यान्ति नाशम् ।
दानेन कीर्तिभवतीन्दुशुभ्रा दानात्परं नो परमस्ति वश्यम् ॥ २ ॥
पुलं गतमलं कामानुरूप रूपमव्ययम् ।
विश्वभोग्यं च सौभाग्यं श्रीविलासो विकखरः॥३॥
कथाकोशः अनवद्या पुनर्विद्या कीर्तिः स्फूर्तिमती सती । अमिरामो गुणग्रामः सर्व दानादवाप्यते ॥४॥ पक्षपातोऽपि धर्मस्य जयाय ललिताङ्गवत् । समृत्यसज्जनस्येव चयाय पुनरन्यथा ॥ ५॥ जम्बूद्वीपेऽत्र भरते श्रीवासं नाम पत्तनम् । तत्र नरवाहनो नाम राजा । तस्य कमला नानी पट्टमहादेवी । तयोर्मातपित्रोर्नेत्रानन्दनो ललिताङ्ग इति नाम नन्दनोऽजनि। सर्वलक्षणसम्पूर्णः सकलकलाकुश- लोऽतीव विद्यावान् विवेकवान् गुणज्ञः स क्रूरः बालोऽपि विदुषां मनसि उवास। देवगुरुपितृमातृप्रमुखसर्वखजनानां भक्तिमान् , परम- तीव दानेश्वरस, याचके दृष्टे महाप्रीतिः। गलितेव तिथिस्तस्य चित्ते मास इवाधिकः । तहिनं गणना नैति यस्मिन्नार्थिसमागमः ॥ ६॥ अथ सजन इति नाम सेवकस्तस्य मित्रोऽभवत् । नानासजना, परन्तु परिणामेन दुर्जनः। अन्यदा ललिताङ्गनाना तेन राजकुमारण पित्रा प्रसादीकृतं बहुमूल्यमाभरणं याचकाय दत्तम् । सजनेन रातो- ने ललिताङ्गस्य दानावगुणः कथितः। राजातस्य वचसा कोपं गतः। कुमारमाकार्य पूर्व सामवाक्यैः कथितम् , किन्तु प्रौढं पुत्रोऽपि मित्रवत् । यतः- लालयेत्पञ्चवर्षाणि दश वर्षाणि ताडयेत् । प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥ ७ ॥ 'वत्स ! किन श्रुतं भवता ? तरुदाहोऽतिशीतेन दुर्भिक्षमतिवर्षणात् । अतित्यागादनौचित्यमति कुत्रापि नेष्यते ॥८॥ वत्स! अतः कारणात्वयाऽल्पतरो व्ययः कार्यः। कुमारः प्राह-'तात! गरीयसाऽपि त्यागेन न याति निधनं धनम् । प्रामेणोदब्यमानेऽपि महाकूपे जलं यथा ॥६॥ तथाप्यहं राजन् ! तन्न करिष्ये यद्रामोऽप्रियम् । पूज्यादेशः कथाकोशः प्रमाणम्' इत्युक्त्वा कुमारः खगृहं ययौ। कुमारोऽतिदानानिषिद्धः । याचकाः कथयन्ति-कुमार ! किमेतत् ? एष चिन्तामणिभूत्वा देव । दानेन भूतले । पाषाण इव संवृत्तस्तदिदानी कथं भवान् ॥ १०॥ कलामिन्दुः करं दाता धारां धाराधरो यदि। सङ्कोचयिष्यते तहिं जीविष्यति कथं जगत् ॥१॥ सङ्ककपरः प्राप समुदोऽपि रसातलम् । दाता तु जलद: पश्य भुवनोपरि गर्जति ॥ १२ ॥ समुद्राः स्थितिमुज्झन्ति चलन्ति कुलपर्वताः । प्रलयेऽपि न मुञ्चन्ति महान्तोऽमीकृतं व्रतम् ॥ १३॥ कुमार एवं श्रुत्वा पुननिं दातुमारेमे । राक्षा श्रुतम् । राज- मन्दिरमध्ये प्रवेशो रक्षितः। कुमारो मनसि दुःखं चकार । 'व्याधिमालिन्यदारिद्रयापमानव्यसनागमे । परदेशं विना नान्यदिह श्रेयो मनखिनाम् ॥ १४॥' इति निश्चित्य मध्यरात्री निर्जने जाते च तुराममधिरुह्य एक- दिशं प्रति चचाल । तस्य मित्रं सजनोऽपि सहैव चचाल । मार्गे मजतोईयोरिति संलापो बभूव । कुमारेण कथितम्-'भो सजन ! बेहि कामपि वार्ताम् ।' तेनोक्तम्-'कुमार ! पुण्यपापयोः किं श्रेष्ठम् ?' कुमारः प्राह-रे मूर्ख ! अबलाबालगोपालहालिकानामपि स्फुटम् । इदं हि यजयो धर्माद् अधर्मेण पुनः चयः॥ १५ ॥ तेनोक्तम्-'अहं मूर्खः, परं कथय पुण्यपापयोः को धर्मः ? कि पापम् ? कुमारः प्राह- 'वचः सत्यं गुरोभक्तिः शक्त्या दानं दयादित । धर्मोऽयमिष्टसंयोगकरोऽनिष्टनिवारकः ॥१६॥ एतस्माद्विपरीतोऽधर्मः।' सज्जनेनोक्तम्-'हे कुमार ! धर्मण तया, पापेनैव जयः, यदिदानी तव धार्मिकस्यापि दुःस्था इंडशी अवस्था जाता। ततो धर्मात् कुतो जयः साम्प्रतं पापं कर्तुं युक्तम् ।
থাকায় चौर्यादिना व्यापारेण लक्ष्मीमुपार्जय ।' कुमारः प्राह-'सज्जन! एवं माभग- अन्यायेन मया लक्ष्मीः, स उद्योतः प्रदीपवान् । चणं प्रकाश्य वस्तूनि निर्वाह केवलं रजः॥१७॥ अत्र बने आवां द्वावेव जनौ। को वादे निर्णयं ददाति? यद्या- वयोरपतो गच्छतोः कोऽपि साक्षी नो धर्माज्जयं कथयिष्यति कुमारस्तदाहमाजीवितान्तं तव किङ्करत्वं करिष्ये ।' सज्जनेनोक्तम्- 'यदि मम वचः प्रमाणम् , तदाहं तव तुरङ्गाभरणादिकं गृहीष्ये । कुमारेणोक्तम्-एवमस्तु' इति प्रतिपन्ने गतौ पल्लीग्रामे । तत्र जरातुरा वृद्धपुलिन्दाः पृष्टाः, 'धर्माज्जयः पापाद्वा', दैवयोगात्तैरपि पापादेव जयः कथितः । सज्जनेन कुमारपाश्र्वात्तुरगाभरणादिकं जगृहे । ललिताजकुमारोऽपि चरणचारी समेति । शठः सज्जनो वदति-'कुमार! धर्मपक्षपातफलं प्रत्यक्षमनुभूतम् । अधुनापि पाएं प्रमाणीकुरु।' कुमारःप्राह-'सजन!प्रलयान्तेऽपिनाहं धर्म त्यजामि, तहिं धर्मजये नेत्रे हारितव्ये', इत्थं पणबन्धश्चके। यादृक् पूर्व परि- त्यक्ता पल्ली प्राप्ताऽग्रे । दैवयोगार्जरत्पुलिन्दैः पापादेव जयः कथितः । दूरे गत्वा सजनेन कुमारोऽभाणि-'देव! निजं वाक्यं पालय । नेत्रे मम समर्प्यताम् ।' कुमारेणापि वटतरोस्तले गत्वा धर्मा- जयं अवता स्वयमेवोद्धत्य खनेत्रे सज्जनाय समर्पिते । सज्जनोऽपि चक्षुषी गृहीत्वा गतः पापी । तत्रैव वटतरोस्तले स्थितस्य कुमारस्य सूर्योऽस्तमितः। शब्दायमाना विविधाः पक्षिणोऽपि तदापदि । क्रन्दन्त इव दुःखेन निलीना नीडवेश्मसु ॥ १८ ॥ अत्रान्तरे वटे तकत्र सम्मिलितास्तदा । भारुण्डपक्षिण: स्वैरं संलापमिति चक्रिरे ॥१६॥ 'भोः पक्षिणः केन किं किं कौतुकं दृष्टम् ।' एकेन पक्षिणो- क्तम्-"चम्पायां नगर्यां जितशत्रु म महीपतिः। तस्य पुत्री पुष्प- वती नानी । देवयोगात् पूर्वभवकर्मवशात् सा नयनविकला अन्धा पाणिग्रहणयोग्या पितुर्मनसि जीवितशल्यं वर्तते । अन्यदा राक्षा नगरीमध्ये पटहो दापित:-'यः कधिज्जितशत्रोः पुड्याः पुष्पवत्या १२० कथाकोशः लोचने औषधबलेन मन्त्रबलेन वा सज्जीकरोति राजा तसै निज राज्यस्याई कन्यां च दास्यति । एकेन लघुपक्षिणा वृद्धपक्षिणः पाई पृष्टम्-'तात ! उपायः कोऽप्यस्ति येनोपायेन तस्या नेत्रे पुनर्नवे भवतः।' वृद्धपक्षिणोक्तम्-'वत्स ! दिवा निरीक्ष्य वक्तव्यं रात्रौ नैव च नैव च । सचरन्ति महाधूर्ता वटे वररुचिर्यथा ॥ २०॥ ततः कारणादधुना मा पृच्छ, प्रभातसमये उपायं कथयिष्यामि। लघुपक्षी श्राग्रहं न विमुश्चति । अत्याग्रहेण पृष्टम्-'कथितं विना त्वां न मोक्ष्यामि।' तेनोक्तम्-'वल्ली वटमूलं वेष्टयित्वा वटोपरि समा- गताऽस्ति, तदीयरससंसकालोचने तत्कालं पुनर्नवे भवतः। एवं तस्य वचः कुमारेण वटमूलस्थितेनाकर्णितम् । प्रथमं तदोषधं खलो. चनयोः क्षिप्तम् । लोचने निर्मले जाते । चिन्तितं कुमारण, औषधं गृहीत्वा यास्यामि चम्पानगर्याम् , राजपुत्रीलोचने निर्मले करोमि । ततः पुण्यमौषधं लात्वा एकस्य भारुण्डपक्षिणः पक्षमध्ये प्रविश्य निलीनः । प्रभातसमये ते सर्वेऽपि भारुण्डपक्षिणो गताश्चम्पायां पुरि। पक्षमध्यानिस्सृत्य नगरी प्रविष्टः। ततश्च राजकुले जगाम । तत्र गत्वा तेनैवौषधेन राजपुत्रीनेत्रे निर्मलीकृते । राक्षाऽर्धराज्यं दत्तम् । कुमारी दत्ता । ललिताङ्गकुमारेण परिणीता पुष्पवती अर्द्धराज्यं करोति। कियति काले गते स एव सज्जनो ग्रासमात्रार्थ गृहाद् गृहं रङ्कवद् भ्रमन राजकुमारसिंहद्वार आजगाम । राक्षा दृष्टः । 'अथ मम परम- मित्रं सज्जन उपलक्षितः।' अथ त्याजितदुर्वेषं कारितमानभोजनम् । परिधापितसद्वस्त्रं कुमारस्तमभाषत ॥ २१ ॥ 'प्रद्य मे सफलं राज्यं यत्र दुःखसखो भवान् । समाजगाम तत् सौख्यं भुत निश्चिन्तमानसः ॥ २१ ॥' कुमारेण सजनस्य महासनं दत्तम् । एकदा एकान्ते पुष्प वत्या पृष्टम्-'नाथ! इयं कल्ये सजनेन सह महती प्रीतिर्वर्तते । कोऽयं सजनः?' कुमारेणापि आमूलचूल देशान्तरादारभ्य सर्व याथातथ्यं कथितम् । कुमार्या उक्तम्-'नाथ ! नायं सज्जनः, किन्तु कथाकोशः दुर्जनः । अनेन साकं प्रीतिः तवन युज्यते । सर्वथाऽयं त्याज्य एवेति विमृश्या{ विसृज । राजन् ! किं न श्रुतम् ? उत्तमैः सह सायं पण्डितः सह सङ्कथाम् । अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति' ॥२१॥ अत्र हंसवायसदृष्टान्तः। नाहं काको महाराज ! हंसोऽहं विमले जले। नीचसाप्रसङ्गेण मृत्युरेव न संशयः ॥ २४ ॥ एवमुक्तोऽपि कुमारः सज्जनं न मुञ्चति । यतः- 'महतामप्यहो दैवाहुर्वारा नीचसङ्गतिः। करस्य कथं न स्यादगारेण समं रतिः ॥ २५ ॥ अन्यदा ललिताङ्गश्वशुरेण जितशत्रुराक्षा एकान्ते सज्जनः पृष्टः। 'कोऽयं ललिताङ्गः कुमारः ? अस्य का जातिः?' तेन प्रकटित प्रात्मखभावः । 'राजन् ! अहं राजकुमार । अयं कोरिकपुत्रः।' एवं श्रुत्वा क्रुद्धो राजा । ललिताङ्गमारणाय सेवका आदिष्टाः-'सन्ध्या- समये यो धवलगृहप्रतोलीद्वारमार्गेण समायाति स विनाश्यः। एवं सन्ध्याकाले प्रेषितं ललिताङ्गस्याऽऽकारणम्। कुमारोऽपि खगंगृहीत्वा यावदुत्तिष्ठति तावत्पुष्पवत्या निषिद्धः । "विश्वासोऽत्र न कर्तव्यस्तचरेण विजानता। नीती किं न श्रुतं राजा मित्रं कस्यापि नो भवेत् ॥ २६ ॥ तत् स्वामिन् ! तिष्ठन्तु भवन्तः। अस्मिन् कार्ये सज्जनं प्रेषय।' प्रेषितः सज्जनः।राजप्रतोलीद्वारं प्रविशन् मारितः सज्जनः । कुमार्या बातम्-'मम पिता रुष्टः।' पत्युरने निवेदितम्-'खामिन् ! सैन्यं सज्जीकृत्वा बहिर्याहि ।' तथा कृतम् । जितशत्रुरपि सनद्धो बभूव । प्रधानैर्विज्ञतो राजा- 'सहसाकारिणं सद्यो मुखन्ति सुखसम्पदः। इत्यर्थे भ्रूयतां देव ! जयराज्ञो निदर्शनम्' ॥२७॥ तथाहि-"विन्ध्याचलमहाटव्यां वटवृक्षे शुकद्वयं वसति । शुको जातः । अन्यदा मातृपित्रोर्वने गतयोरङ्गेसलामध्याच्छुको निस्सृतः। स्तोकभूमि यात्वा शैशवत्वाद् भूमौ पतितः । श्रान्तः केन- कथाकोशः चिन्मुनिनारष्ट। कृपया जलं पायितः। निजे आश्रमे जगृहे । शुकनास इति नाम दत्तम् । शुकस्य पितरावपि तं पुत्रं गवेषयन्तौ तत्रैवाश्रम आगतौ । अन्यदा कुलपतिना कथ्यमानं शिष्याणामने शुकः शुश्राव- 'यत्समुद्रमध्ये हरिमेलो नाम द्वीपस्तस्येशानदिक्कोणे सहकारद्रुमो- ऽस्ति अमृतसिक्तः। तस्य फलेन दोषरोगजरामुक्तं वपुर्भवति ।' उड्डीय ययौ शुकः सहकारफलानयनाय । तत्रैव द्वीपे वलमान आम्र- भारेण समुद्रमध्ये पपात । एतत् सागरसार्थपतिना दृष्टम् । गृहीतो जीवापितः । व्यवहारिणा पृष्टः शुकः-'किमिदं फलम् ?' शुकेन स्ववृ- तान्तः कथितः । फलं सागरदत्तस्य दत्तम् । अन्यत्फलं गृहीत्वा पित्रोरपितवान् । सागरेण तत्फलं जयपुराधीशस्योपढौकितम् । तस्य फलस्य सम्बन्धो माहात्म्यं च कथितम् । रामा विश्वस्याप्युपकाराय सहकारतरुवाटिकायां वापितः। महोत्सवेन पुष्पितः फलितः सह राजमनोरथैः।अन्यदा शकुनिकामुखगृहीतसर्पगरलमा फलस्योपरि पतितम् । विषतापात्तत्फलं सकलमपि पकं गलित्वा भूमौ पतितम् । आरामरक्षकेन राक्ष उपढौकितम् । राक्षा 'इष्टं धर्मेण योजयेत्' इति कारणात् पुरोहितस्य फलमर्पितम् । तेन पुरोहितेनाप्यप्रक्षालितमेव सहसा भक्षितम्, विपनश्च । क्रुखेन राक्षा विषतरुरिति भणित्वा छेदितः। मर्तुकामा देहविकला रोगातुरा अन्धाः कुष्ठिनः सर्वेऽपि जनास्तस्य फलानि तथाऽदन्ति यथा स्पष्टदेहा बभूवुः। राक्षा तत्स्वरूपं सातम् । आजीवितावधि सन्तापो बभूव । तथा त्वमपि मा कुरु ।" जयराजकथा श्रुत्वा इतश्च नरवाहनराक्षःप्रधानैः कुमारस्य कुलादिकं कथितम् । ललितापितरौ तत्र समागतो। श्वशुरो ललिताशकुमाराय निजं राज्यं दत्त्वा प्रवज्य त्रिदिवं ययौ। नरवाहनराजा खपुषो निजनगर पानीतः, अपराधं क्षामितः। 'वत्स! दानप्रभावननक्षीयते।' पित्रा ललिताङ्गस्य राज्यं दत्त्वा दीक्षा गृहीता। चारित्रं पालयित्वा दिवं ययौ । ललिताको राजा राज्यं प्रतिपालयति । कुमारानयनायागतैः इति ललिताशमारकथानकम् ॥
জখী जीवदयाविषये दामनककथा जो जीपदयापरगो परस्स पीडं परिचटइ पुरिसो। वसणं पिऊसवो होई तस्स दामनगस्स जहा ॥१॥ अत्रैव भरतक्षेत्रे राजपुरं नाम नगरम् , यत्र नगरे मयूरगणा जिनमन्दिरे वाघमानातोद्यध्वनि श्रुत्वा नृत्यं कुर्वन्ति । तत्र नगरे सुनन्द इति नाना कुलपुत्रको वसति धीवरः। परं खभावेन जीव- दयापरः। तस्य जिनदासनामा श्रावकः परममित्र बभूव । अन्यदा जिनदासेन सह सुनन्दो गुरूणां पार्वे जगाम । गुरुन् वन्दित्वा दावप्युपविष्टौ । गुरुभिर्जीवदयाविषये धर्मदेशना कृता- कल्लाणकोडिजणणी दुरंतदोहग्गदुखनिद्दलणी । सग्गापवग्गहेऊ इच्चिय होइ जीवदया ॥२॥ सुनन्देनाभिग्रहो गृहीत:-'भगवन् ! अतः परं जीववधो न कार्यो मया। मांस न भक्षितव्यम् ।' अन्यदा बहुषु दिनेषु व्यतिक्रान्तेषु दुर्भिक्षः सञ्जातः । तस्मिन् दुर्भिक्षे सर्वोऽपि जनोऽनस्याप्राप्तौ मत्स्य- मांसाहारं करोति । सुनन्दोऽपि भार्यया भणित:-त्वमपि लोकाचारं प्रतिपालय । तेन कथितम्-'पापहेतुना कर्मणाऽलम्।' भार्या प्राह- 'रे मूर्ख! त्वं केन भ्रामितः, यत्कुलाचारं न पालयसि।' इतश्च तस्य सालका मिलिता। तैर्बलानदीमहाहदे नीता तत्र जालं क्षेपितः। जाले पतितान् बहून् मत्स्यान् दृष्ट्या सुनन्दस्य हृदये कृपा समुत्पना । सर्वान् मत्स्यान् विमुच्य सुनन्दो गृहमागतः। एवं त्रीणि दिनानि तैः सालकैस्तस्य सुनन्दस्य पाश्वात् तत्पापकर्म कारितम् । तेन देहेन मनसाऽपि न विहितम्, परं संघटवणादेकस्य मत्स्यस्य पांखुडी भग्ना । तेन सालकानामने कथितम् । 'भो ! मोः! कुटुम्बस्य कते प्राणवघं न करोमि । यता- जस्स कए कोडीउ जीवाणं वहेमि संपयं मूढो। नरयंगयस्स सरणं मम कुटुंबेन त होइ ॥३॥ इक पि पयं वचइज परलोयंमि सहन जीवेण । तस्स सरीरस्स कए कह पिका इति जीवबई॥४॥ - १. परयो for •परगो• A.
१२४ कथाकोश इत्युका तेनानशनं गृहीतम्, मृतः। अत्रैव भरते राजगृहे नगरे नरवर्मा नाम राजा। तत्र मणिकारो नाम श्रेष्ठी द्वादशसुवर्ण- कोटीनामधिपतिः। तस्य सुजसा नानी भार्या । तस्या कुक्षौ सुन. न्दजीवः समुत्पन्नः। सम्पूर्णे काले पुत्रजन्माभवत् । तस्य दामनक इति नाम कल्पितम् । क्रमेणाष्टवार्षिको जातः। अन्यदा भवितव्यता- वशेन तस्य श्रेष्ठिनो गृहे मारिरोगः सजातः । ददाति दयया चानं पयः पाययते तु यः। तस्याश्चलदललग्नो मारिः प्रसरितः चितौ ॥ ५॥ राशा भणितम्-'अयं मारिरोगः सर्वत्र पुरे सञ्चरिष्यति । अतोऽस्य गृहद्वारे वाटी कारिता। कियता कालेनैव मारिरोगेण सर्वे मातृपितृप्रमुखा मनुष्या मृताः। पूर्वमवकृतानुकम्पावशेन परं दाम- मक उद्भरितः। परं गृहानिस्सारं न लभते । क्रमेण मृतकभक्षकश्वा- नप्रवेशमार्गेण निर्गतः। मिक्षानिमित्तं भ्रमन् सागरपोतस्य व्यवहा- रिणो गृहे गतः। यावद् गृहद्वारि तिष्ठति तावन्मुनियुगलं विहरणाय समागतम् । दामन्त्रकं दृष्ट्वा ज्येष्ठतपोधनेनोक्तम्-'भोः! आइन ह मह वयणु तणु लखुणिहिं मुणामि । एउ बालुय एह घराहकवणि भविस्सइ सामी ॥६॥ कुड्यन्तरितेन सागरपोतन्यवहारिणा इदं वचः शुधुवे । खम- नसि चिन्तितम्-'मुनयः प्रलयेऽपि अलीकं न वदन्ति । यतः- वजिय रागद्दोसा सममणितणमित्तसत्तुणो मुणियो। इयरनरु वन जति नूमवियारियं प्रत्थं ॥७॥ तावकि मम कुलक्षयो भविष्यति ? समुद्रदत्तो मे पुत्रः कि विनाशं यास्यति यत इयति प्रौढे मम कुटुम्बे प्रवर्तमानेऽयं रखो मम गृहखामी भविष्यति ? अन्य यन्मुनिनोकं तदन्यथा न जायते।' श्रेष्ठी दुःखी बभूव । 'घिग् संसारनाटकं यो विभवो मम पितृपिता- महप्रमुखैरतिचिरं पालिता, हा तस्य विभवस्यायं रक खामी भविष्यति । तावत् कमप्युपायं करिष्यामि । किं कृतेन दुखेन, ताव- दस्य मारणोपायं चिन्तयामि । अयं रोग इवोपेक्षितो मरणाय जायते' ..मायाह for आइन ह A. १. •सुत्यु• for सतु A.
জখীয়ঃ १२५ इति स्वचितेन सह मन्त्रयित्वा मोदकं गृहीत्वा तस्य दामनकस्याने उक्तम्-'वत्स पागच्छ यथा ते मोदकं ददामि' इति श्रुत्वा दामन- कोऽपि तेन सह जगाम । गतो व्यवहारी चण्डालपाटके। तत्र खंगिलो नाम चण्डालाप्रणीः। तमाकार्य एकान्ते तस्मै द्रव्यं प्रदाय तस्याने इत्युक्तम्-'भो मदीयमेतत् प्रयोजनं कुरु। यथा बालः प्रच्छन्नं हन्तव्यः। मारितस्यामिक्षानं मम दर्शितव्यम् ।' चण्डाले- नापि प्रतिपन्नम् । नगराद् दूरं नीतो दामन्नकः । चण्डालेन चित्ते चिन्तितम्-'अनेन वराकेन कोऽपराधो विहितः यत् सागरपोत एनं मारयति। तदहं सर्वथा एनं न मारयिष्यामि। मम हस्तौनवहतः।' ततो यमजितासमानां कर्तिकां समाकृष्य तस्य कनिष्ठाङ्गली छिना। तस्य बालकस्योक्तम्-'यद्यस्मिन् नगरे स्थास्यसि ततो मारयि- ज्यामि त्वाम् , यदि नगरं मुकाऽन्यत्र यासि ततो मुश्चामि त्वाम् ।' तेन रुदता प्रत्युक्तम् 'एवं करिष्ये। ततोमुक्तश्चण्डालेन । चण्डालो गृहे गतः। अगलीखण्डं दर्शितं सागरपोतस्य । सोऽपि हृष्टो बभूव । दामनकोऽपि वने भ्रमन् सागरपोतस्य गोकुलिकेन दृष्टः । पृष्टञ्च- 'कस्त्वम् ? दामनकेनोक्तम्-'उच्छिन्नवंशो वणिकपुत्रोहम्। ततः खगृहे नीतः निजमार्यायाः समर्पितः। तव अपुत्राया अयं पुत्रो गोत्र- देव्या दत्तः । गोकुलिकगृहिणी परितुष्टा जाता। विनयप्रमुखैर्गुणैः तयोरतीव वल्लभो बभूव । अथ दामनकस्तत्र गोकुले वर्धमानो यौवनं समाससाद । अन्यदा गोकुलविलोकनार्थ सागरपोतो व्यव- हारी भाजगाम । तत्र दामन्नकं दृष्ट्व व्यवहारिणा पृष्टम्-'कोऽयं बालः तेनोक्तम्-'एकाकी अत्र वने भ्रमन् निर्नाथो मया पुत्रत्वेन प्रतिपन्नः।' व्यवहारिणा कर्तितकनिष्ठाकुलीदर्शनाद् 'दामनक एवा- यम्' इति निश्चितम् । ततश्चिन्तितञ्च सागरपोतेन-'मम बाह्य- घनस्यायं खामी बभूव । मुनिवचनं किमन्यथा भवति? तथापि पुरुष- कारो न मोक्तव्यः।' एवं विचिन्त्य सागरपोतेनोक्तम्-'भो गोकु- लिक ! वयं गमिष्यामो गृहम् । तेनोक्तम्-'बहोः कालादध यूय- मागता प्रचापि गोकुलं न विलोकितम् ।' सागरपोतेनोक्तम्- 'हे महत्कार्यमस्ति, अतोऽधुनैव यास्यामः।' गोकुलिकेनोक्तम्- 'यद्यत्युत्सुकं कार्यमस्ति ततो लेखं गृहीत्वाऽयं मम पुत्रस्तत्र यास्यति ।
१२६ . कथाकोशः सागरपोतेन लेखं लिखित्वा तस्य करेऽपयित्वा प्रेषितः । गतो दाम- अकः । यावद् राजगृहनगरोद्याने गतस्तावत् परिश्रान्तो विश्राम- हेतोः कन्दर्पदेवगृहे सुप्तः, निद्रा समागता। इतश्च तस्यैव व्यवहा- रिणो विषानानी पुत्री मदनपूजानिमित्तं तत्रैव माता । तया दृष्टो दामनको विशाललोचनो विशालवक्षःस्थलः। तस्यास्तं विलोकयन्त्याः पित्लेखे दृष्टिगता। यष्टिप्रान्तात्तं गृहीत्वा वाचयति-स्वस्ति श्री. गोकुलात्सागरपोतः समुद्रदत्तं सनेहमालिजय वार्तयति कार्यश्च । अधौतपादकस्यैव पुरुषस्यास्य सत्वरम् । विषं दत्त्वा त्वया कार्य निश्शल्यं हृदयं मम ॥ ८ ॥ ततस्तया चिन्तितम्-'नूनं पित्रा मम योग्य एष बरो लब्धः।' यदधैव विवाहः कार्यस्तदद्यतनीय सुन्दरं दिनं दृष्टम् , अतोऽथैव विवाहः । यद् विषं दातव्यं तदुस्सुकतावशादाकारस्थानेऽनुखारो विहितः, तदहं शुद्धं करिष्यामि' इति विचिन्त्य नयनाजनं गृहीत्वा विन्दुस्थाने आकारः कृतः। पुनरपि मुद्रयित्वा लेखस्तथैव मुक्तः । सा गृहं गता । स्तोकवेलानन्तरं दामन्त्रकोऽपि गृहमाजगाम । समु. द्रदत्तस्य लेखः समर्पितः । समुद्रदत्तेनापि वाचयित्वा लेखोऽवधा- रितः। 'तातादेशो मम प्रमाणम्' इति भणित्वा विवाहस्य सामग्री कृता । समग्रोऽपि स्वजनवर्गों मिलितः। तस्मिन्नेव दिने शुभे लझे समागते दामन्नको विवाहं कारितः। प्रारब्धं वर्धापनकम् । भामरणकिरणदिप्पंतदेह प्रहरीकयसूहबरूवरेह । घणकुंकुमकद्दमघरदुवारि खुप्पंति चलण नचंति नारि ॥६॥ अमान्तरे सागरपोतो नगरं प्राप्तः । मार्गमिलितेन लोकेन कथितम्-'धन्यस्त्वं येनेग् जामाता माता ।' सागरेण चिन्तितम्- 'नूनं तेन दुरात्मना मम पुत्री परिणीता । गृहागतेन सा सपुत्री, विवाहकरणालङ्कृतशरीरो डटो दामनकः । 'स! अन्यथाऽहं कार्य चिन्तयामि, देववशेनान्यथा परिणमति । साम्प्रतं मम गृहमनुष्याणा मयं खामी बभूव । यतः गृहस्थानां गृहेषु स्त्रिया प्रमाणम्, स्त्रीयां जामाता प्रमाणम् । मणितश्च- - कथाकोशः तीयह तिमि पियारडा कलिकबलसिंदूर । अमइ तिनि पियारडा दुद्धजमाईतूर ॥॥ पतदनुचितं द्रष्टुं न शक्नोमि । मम पुञ्या वैधव्यं वरं सहिये. पुनरेनं सर्वथा मारयिष्यामि इति विचिन्त्य गतो मातङ्गपाटके खनिलो भणितः। रखडिल ! त्वया मम वचःप्रमाणीकृतं न ।' तेनोक्तम्- 'तदा बालकं दृष्ट्वा कृपा उत्पन्ना, अधुना दर्शय यथा तं व्यापादयामि।' सागरपोतेन भणितम्-'यद्येवं ततोऽध नगरदेवतापूजनार्थ तं दाम- नकंप्रेषयिष्यामि तदा त्वया मारयितव्यः। ततोगृहमागतः।गृहमाग- तेनोक्तम्-'वधूवराभ्यां कुलोचित आचारः प्रतिपालितः किंवा न?' तैरुक्तम्-'प्रतिपालितः।' ततो नगरदेवीपूजनाय सामग्री कृता । ततश्चलितोवरवध्वौ देवीपूजार्थम् । मागें वजन्तौ दृष्टौ । हट्टनिविष्टेन समुद्रदत्तेन पृष्टौ च-'ईदृशे सन्ध्यासमये सूर्येऽस्तमिते तिमिरप्रसरे- परिस्फुरिते युवां कुत्रचलितो?' दामनकेनोक्तम्-'नगरदेवीपूजनाय।' समुद्रदत्तेनोक्तम्-'तर्हि युवां तिष्ठतः, अहमेव गत्वा देवीपूजां करिष्यामि ।' पूजोपकरणं गृहीत्वा गतः समुद्रदत्तो देवीगृहं प्रविशन् पूर्वप्रविष्टेन हतः खगिलेन । सागरदत्त इति श्रुत्वा यावत् समुद्रदत्त निरीक्षणाय हट्ट आयाति तावद्दृष्टो दामनको वधूसहितः।सागरपोतः पुत्रविनाशं श्रुत्वा हृदयविस्फोटेन मृतः। सातवृत्तान्तेन राक्षा दामन- कस्तस्य गृहे स्वामी कृतः। अन्यदा मङ्गलपाठकैरिति पठितम्- 'अणु पंखमावहं ता विश्रावया तस्स ऊस वाहुंति' सुदुखुकत्य फुडउ जस्स कयंतो वहैं पखं ॥११॥ एतच्छुत्वा तेषां त्रिसहस्रद्रव्याणां दानं दत्तं दामनकेण । राक्षाऽनुचितदानं श्रुत्वा दामनक आकारितः। पृष्टं दानकारणम् । तेन निजपूर्ववृत्तान्तो राज्ञोऽने निवेदितः । राक्षा परितुष्टेन तस्य श्रेष्ठिपदं दत्तम् । विपुलान् भुनक्ति, दानं ददाति, प्रासादान उद्धरति । अन्यदा तस्य इति चिन्ता बभूव यत् 'पूर्वभवे मम किं कर्म विहितं यद् व्यसनस्थाने ममोत्सवः इति विचिन्तयतस्तस्य प्रभातं जातम् । .. वाहुंत Z. २. सुह• for सुहु• Z. ३. दुख for •दुखु. Z. ४. वहइ पखं for वहै पखं Z.
कथाकोशः प्रभाते धर्मनियुक्तेन पुरुषेण दामनकस्यान उक्तम्-'उद्याने विमलबोध प्राचार्यः समागतः। दामनको हृष्टो बभूव । गतो वन्दनार्थम् । वन्दित्वा पूर्वभवः पृष्टः । मुनिनापि पूर्वोक्तस्तस्य पूर्वभवः कथितः 'यत् त्वया पूर्वभवे मत्स्यानां त्रिवेलं कष्टम् उपादत्तं ततोऽसिन् भवे तवापि त्रिवार कष्टमागतम् । यदेकस्य मत्स्यस्य पाखुण्डी ममा ततस्तव कनिष्ठाङ्गुली छिन्ना । जीवदयाप्रमावात्तवेडशी सम्पति श्रुत्वा जातिसरो जातः । दीक्षां गृहीत्वा वर्ग जगाम ॥ इति जीवदयाविषये दामनककथानकम् । कूलबालककथा तविउ वि तवो तिव्वो चिरकालं सेविउ विवणवासे। इह कूलवालयस्स व विहलो गुरुभत्तिरहियस्स ॥१॥ अत्रैव भरतक्षेत्रे राजगृहं नाम नगरम् । तत्र श्रेणिको नाम राजा राज्यं करोति। तस्य सप्त धातवो जिनवदनं विनिर्गतै सप्तधातु- भिर्वासिता वर्तन्ते । तस्य नन्दाकुक्षिसमुद्भूतोऽभयकुमारो नाम पुत्रः, चिल्लणाकुक्षिसमुद्भूतः अशोकचन्द्रो नाम कुमारः। अन्येऽपि हल्लवि- हल्लकुमारप्रमुखाचिल्लणापुत्राः, अन्यासां देवीनां कालकुमारप्रभृतयो बहवः कुमाराः। जनः परः। श्रेणिको राज्यं परिपालयति। अन्यदा तत्र श्रीमहावीरः समवासरत् । राजा वन्दनाय गतः। वन्दित्वा उपविष्टः। देशनान्ते अभयकुमारेण स्वामी पृष्टः । 'भगवन् ! अतः परमपश्चिमो राजर्षिः को भविष्यति ?' भगवताऽऽदिष्टम्-'अस्माकं तीर्थेऽन्तिमो राजर्षिः श्रीउदायीनृपो जातः। तेनातः परं बद्धमुकुटा नरेन्द्रा व्रतं न ग्रहीष्यन्ति ।' ततो व्रतविघ्नभयेन अभयकुमारेण राज्यं न गृहीतम् । श्रेणिकेनोक्तम्-'मामनापृच्छय त्वया दीक्षा न प्रहीतव्या। अहं यदि न मुश्वामि त्वां तावन्न गन्तव्यम् ।' अभयकुमारेणापि तथैव प्रति पन्नम् । अन्यदा शीतकालसमये महाशीतभरे पतति चिलणादेवी सहितोराजाश्रीवीरवन्दनाय जगाम । वन्दित्वा यावद् व्यावृत्तस्तावर चिलणादेव्या शीतपरीषहं सहमानः कायोत्सर्गेण स्थित एको महा 5. The portion beginning with an and ending with विनिर्गतः is missing in Z. .
. कथाकोशः मुनिः।राशी चिन्तयति-'अयं महामुनिः अस्मिन् शीतभरे निराव: रणो रजनी कथं गमयिष्यति' इति चिन्तया रात्रौ पल्याङ्के देवी मुखा। अथ कथमपि तस्या करो निर्गत. आवरणबाह्ये। तस्मिन् करे शीतेम' पीडिते चिमणादेवी जागृता इतिभणति-'सकधरजनीगमयिष्यति? राक्षा एतद्वचः श्रुतम्-'नूनं केनापि सह कृतसङ्केता देवी यद्धार वारमेवं कथयति । राजा कोपे चटितः । प्रभातकालेऽभयकुमारस्थाने उक्तम्-'अन्तःपुरं सकलमपि प्रज्वालय' इति शिक्षा दत्त्वा स्वयं जिनसमीपं गतः । नत्वा स्वामिनं पृच्छति-'भगवन् ! चिल्लणादेवी किमेकपत्नी किं वा बहुपत्नी ?' स्वामिनाऽऽदिष्टम्-एकपत्नी सुशीला चिल्लणादेवी । यत् पुनः ‘स कथं रजनी गमयिष्यति' देव्या इत्युक्तं ततः शीतपरीषहं सहमानो मुनिर्दष्टः। सन्ध्याकाले रात्रौ महाशीते देव्याः कर आवरणबाह्ये गतः।तेन मुनिःस्मृतः, 'सकथं भविष्यति' सन्देहो भन्नः । पश्चात्तापरो राजा धवलगृहं प्रति चलितः। तावद- भयकुमारोऽपिशून्यहस्तिशाला प्रज्वाल्य जिनवन्दनार्थ चलितः। मार्गे राजा मिलितः । राक्षा पृष्टम्-'अभयकुमार ! प्रज्वालितमन्तःपुरम् ।' तेनोक्तम्-'एवमेव' । राशोक्तम्-'त्वं किं न प्रविष्टो मध्ये। अभय- कुमारेणोक्तम्-'यद्येवं तातादेशस्ततो द्रव्याग्निप्रवेशनालम् , संयम भावाग्निं प्रविशामि। ततोनन्दामात्रासमम् अभयकुमारेण महाविभूत्या दीक्षा गृहीता । ततः कियति गते काले कोणिकस्य राज्यं दास्यामीति चिन्तयित्वा हल्लविहल्लकुमारयोः सेचनको हस्तिराशा दत्तः। चिल्ल- णादेव्या देवदत्तो हारो दत्तः । पट्टकूलयुगलं कुण्डलयुगलं च चिल्ल- णायाः प्रदत्तम् । अन्यदा कोणिकेन कालकुमारप्रभृतिभिर्दशभिः कुमारैस्सह मन्त्रयित्वा श्रेणिको राजा गुप्तौ क्षिप्तः । पूर्वाह्वेऽपराहे कशानां शतेन हन्ति, भक्तपानं च वारितम् । ततश्विल्लणादेवी केशेषु कुल्माषान् महता कष्टेन भोजनार्थे प्रवेशयति । उपाये केशेषु चन्द्र हासा मदिरां नयति । शतवारं प्रक्षालितेषु केशेषु सर्व पानीयं सुरा भवति । राजा सुराप्रभावात् कशाघातान् सहते । अन्यदा तस्य कोणिकस्य पद्मावतीकुक्षीसम्भव उदायनामां पुत्र उत्पन्नः। अन्यदोत्सङ्गे तं संस्थाप्य कोणिको भोजनं कुरुते । तस्य 'मूत्र . १.z.reads मया मुक्तः for वंनि प्रविष्टो मध्ये ।
कथाकोशः समलमध्ये पतति । कोणिकस्तं पराक उत्सनान करोति, समाधि- संमानवान्मूत्रमिश्रितं भक्तं जक्षति । पार्श्वस्थितां मातरं वदति- 'मात! अन्यस्यापि कस्य पुत्र एवं प्रियोऽस्ति मात्रोक्तम्-रे दुराचारमा शृणुत्वयि गर्भगते मम तव पितुर्मांसभक्षणे दोहदो जातः। राक्षा पूस्तिो दोहदः। मया त्वयि जाते दुष्ट इति भणित्वा त्वं परि- त्यानितोऽशोकवाटिकायाम् । राबैतच्छ्रुत्वा खयं गत्वा त्वमानीतः। अशोकचन्द्र इति तव नाम कृतम् । तत्र कुक्कुटेन तवाङ्गुली विदारिता। सा कोणिका जाता । तेन कोणिक इति तव नाम कृतम् । तयाऽङ्गुल्या पच्यमानया तवातीवारतिर्जाता । तव पिता पूतगलन्तीं तामङ्गलि लमुले धारयति । ततस्त्वं न रोदिषि । इत्थं त्वं वल्लभः ।' कोणिक इति श्रुत्वा सपश्चात्तापो बभूव-'घिग्मे खपितरं प्रत्यपकारः। तत- स्तत्कालमेव लोहदण्डं गृहीत्वा निगडमानार्थ खयमेव चलितः। तावद् रक्षापुरुषै राकोऽप्रे विज्ञप्तम्-'लोहदण्डं गृहीत्वाऽत्युत्सुकः कोणिका समायाति, न शायते केनापि कार्येण ।' राजा चिन्तयति- 'केनापि विडम्बनामरणेन मां मारयिष्यति' इति विचार्य तालपुटं विषं भक्षितम् । यावत् कोणिकस्तत्रायाति तावन्मृतो राजा श्रेणिकः । प्रथमनरके चतुरशीतिवर्षसहनायु रकी बभूव । नरकादुद्धृतोऽ- त्रैव भरते महापद्मनामा प्रथमतीर्थकरो भविष्यति । इतश्च कोणि- कोऽपि पितुर्वियोगेन दुःखी बभूव । इमां गाथां पठति- धारामगिहपएसा हसियव्वि जिमिय जं पि उद्देसा । दीसंति ते पएसा तिम्वियपुरसा न दीसंति ॥२॥ प्रधानः प्रतिबोधितोऽपि न करोति सानभोजनक्रियाम् । ततम कोखिकेन पितुःखमसहमानेन राजगृहं परित्यज्य नव्या चम्पापुरी निवेशिता । तत्र कोणिकोऽभिराज्यं करोति । इतश्च हल्ल- विदाकुमारी सेचनकगजारूढौ दुकूलकुण्डलवरहारविराजितौचम्पा- पुरीमध्ये प्रतिदिनं परिभ्रमतः। अन्यदा तयोराश्चर्य दृष्ट्या कोणक- भार्या पावती राजानं प्रति प्राह-देव! राज्यं तव क्लेशमात्रम् , परन्तु राज्यसौख्यं हलविहलकुमारयोः। द्वौ पुरीमध्ये सेचनकमजा- बढी क्रीडां कुरुतः। तावत्मार्थयख सेचनकप्रमुखानि रत्नानि ।' राजा कथाकोशः मणति-पित्रा दत्तानि रत्नानि प्रार्थयन् लजेऽहम् ।' राशी भणति- 'एतेषां रतानां स्थानेऽन्यानि समर्पय।' ततो राजा कुमारयोःपार्धात् सेचनकप्रमुखानि रनानि प्रार्थयति । ताभ्यामुक्तम्-त्वं राजा सर्व स्वस्यापि स्वामी, गृहाण रत्नानि' इत्युक्त्वा गृहं गतौ कुमारौ। द्वाभ्या- मालोचितम्-'अयं शस्याऽपि ग्रहीष्यति' इत्यालोच्य रात्री सेच- नकगजारूढौ निर्गतौ विशाल्यां चेटकराक्षः समीपे। सातवृत्तान्तेन कोणिकरामा चेटकराक्षः समीपे दूतः प्रेषितः। दूतो वदति-'हा- विहलो शीघ्रं प्रेषय ।' चेटकराणोक्तम्-'मम चित्ते एतयोस्तवाप्यन्तरं न । सहशौ हलविहालौ । द्वावपि मम पुत्र्याः पुत्रौ। एतौ शर णागतौ कथं समर्पयामि । अन्योऽपि शरणागतो नाय॑ते, विशेषतो दौहित्रौ' इति श्रुत्वा कोपं गतो राजा कोणिकः। पुनरपि दूतः प्रेषितः- 'अर्पय कुमारौ। यदि नार्पयसि ततो युद्धविषये सजो भव ।' चेटक: प्राह- श्रियो नाशं यान्तु व्रजतु निधनं गोत्रमखिलं शिरश्छेदो वाऽस्तु प्रभवतु समन्ताद्विपदपि । विवेकार्कज्योतिर्विघटितमहामोहतमस: प्रतिज्ञातादत्तिदपि न चलन्त्येव कृतिनः ॥३॥ इति विमृश्य चेटकेन युद्ध प्रतिपन्नम् । कोणिकोऽपि समप्र- युद्धसामग्री विधाय वैशाल्यां समागतः। प्रारब्धं युद्धम् । परं चेट- कस्यायमभिग्रहः-'यदेकस्मिन् दिने एक एव बाण प्रात्मसमानस्य सुभटस्य प्रक्षेप्यः। देवताबलात् सोऽपि बाणो निष्फलो न भवति । तहभिर्दिनैः कोणिकस्य लघुभ्रातरो दशकालकुमारप्रभृतयो हताः।' ततो भयार्तचित्तेन कोणकेन चिन्तितम्-'नूनमेकादशमे दिने मम विनाशो भविष्यति । तावद् युद्धं कर्तुन युज्यते। राजाऽपत्याएम- तपः करोति। ततः पूर्वसङ्केतात् सौधर्मेन्द्रचमरेन्द्रौसमीप भागती। कोणिकं प्रति भणतः-राजन् । तव किं प्रियं कुर्वहे ? राक्षा भणितं चेटकविनाशाय । ताभ्यामुक्तम्-'परमसम्यग् दृष्टं चेटकं कथं मार- यावः। परं तव युद्धं कुर्वाणस्य प्राणरक्षणं करिष्यावः। रक्षा मणि- तम्-एवं भवतु ।' ततः कोणिको राजा चेटकेन युद्धं करोति । ततधमरेन्द्र साहाय्यात् रथमुसलशिलाकण्टकसतमैः प्रतिपक्षपक्षं कथाकोशः विक्षपन कोणिकचेटकसमीपमागतः। ततश्चेटकराक्षा कोणिकं प्रति बाणो मुक्तः। सोऽपि शिलायामास्फलज्य इन्द्रप्रभावान्मार्गे स्खलितः। चिन्तित राक्षा चेटकेन-'किं मे पुण्यप्रसरः क्षीणो यदयममोषो बाणः स्खलितः ततोऽतः परं युद्धं कर्तुं न युज्यते । प्रविष्टः पुरी- मध्ये राजा । कोणिकोऽपि नगरी निरुध्य स्थितः । तुंगप्राकारा सा नगरी केनापि नातिकाम्यते । हलविहल्लकुमारौ सेचनकगजारूढी रात्री कटकमध्ये प्रविश्य सैन्यं प्रतिदिनं हतः। ततः कोणिकेन मन्त्रिणा पृष्ठा-कोऽप्यस्त्युपायो येनेमो हन्यते।' मन्त्रिणो भणन्ति- "यदि सेचनकगजो हन्यते तदेतावहतावपि हतौ । ततः सेचनकमार- रणोपायः क्रियते। ततो मार्गे खदिराङ्गारपूर्णा खातिका कारिता, उपरि तृणसमूहेनाच्छादिता । ततो रात्री हलविहल्लकुमारौ गजाधिरूढौ समागतो। हस्तीखातिकोपकण्ठे समागतः। परमग्रे ताज्यमानोऽपि न चलति, तावत् कुमारी प्रकुपितौ गजं प्रति कथयतः-'रे गज! तावदस्माभिस्त्वं वर्धितः। तव कृते चेटकोऽधेशीमवस्था प्रापितः। अद्य व्यसनवेलायां त्वं न चलसि ।' गज इति श्रुत्वा स्कन्धात्कुमारावुत्तार्याङ्गारस्वातिकायां पतित्वा मृतः। नरके गतः। कुमारोगजमरणाददुःखिनौ वैराग्यपरौ शासनदेव्या श्रीमहावीरपाखें नीती। तत्र स्वामिहस्तेन द्वाभ्यां दीक्षा गृहीता। अथान्यदा चिन्ता- प्रपत्रस्य कोणिकस्याकाशवाणी जाता- समणे जइ कूलवालए मा गहियं गणियं गमिस्सएं। राया असोयचंदए वेसालि नगरी गहिस्सए ॥४॥ तत् श्रुत्वा राक्षा भणितम्-'कोऽसौ कूलवालको मुनिः ? केनापि भातवृत्तान्तेन मन्त्रिणा कूलबालकचारित्रमुक्तम्-"देव! अलि- व भरते सङ्गमसूरयो नामाचार्या बहुशिष्यपरिकराः। तेषामेका शिष्यों दुविनीत बीणां रूपलावण्यादिवर्णनं करोति । यथाऽऽगम उकम्- थेवो वि जह दम्वग्गी दहइ समग्गं पिनत्ति कतारं । तिव्व पि तव वहनि दुवेइ तरुणीणा नाम पि ॥५॥ गणिय is missing in A. २. लमिस्साए for गमिस्सए Z.
कथाकोश: एवं प्रतिबोधितोऽपि स न बुध्यति गुरुविषये, विशेषतो वैरं वहति । अन्यसिन् दिने गुरवस्तेन कुशिष्येण सह गिरनारिशिखरे चटिताः। श्रीनमीश्वरं प्रणिपत्य यावदुत्तरन्ति तावत्तेन कुशिष्यण निजचेतसि इति विमृष्टम्-'गुरूणां विनाशेऽयमेवावसरः, तावद् हनिष्यामि स्वगुरुम् , अन्यथा दुर्वचनमा ताडयिष्यन्ति । ततो गुरु- पृष्ठतो महती शिला मुक्ता । गुरुभिरागच्छन्ती रडरडायमाना दृष्टा । मार्ग परित्यज्य दूरं गताः। गुरुभिः शिष्यो भणितः-रे रे दुरा- स्मन् ! गुरुतल्पक! गुरुप्रत्यानीक ! किं कृतं भवता? एके एकवारं कृतमुपकारं न विस्मरन्ति । अस्मामिश्चिरमुपकृतं तव विद्यादाना- दिना। गुरुभिरुक्तम्-'यदर्थे त्वं ममोपरि वैरं वहसि ततस्तव स्त्री. सकाशात्तपःक्षयो भविष्यति । एवमुक्त्वाऽऽचार्यः खगच्छे गतः। कुशिष्योऽपि-गुरोर्वचोऽलीकं करिष्यामि' इति विमृश्यारण्ये गतः। गिरिनदीकूले तपः करोति । इतश्च वर्षाकाले समागते नदी जलपूरेण वोढुं प्रवृत्ता। तावजलदेवतया तस्य महर्षेरुप्रतपसा रञ्जितया इति चिन्तितम्-'नदीजलप्रवाहेणायं महात्मा न प्रवत्', ततोऽत्यकूलेन नदी वहति । ततश्च तद्देशवासिना लोकेन इति कथितम् । तस्य कूलबालक इति नाम कल्पितम् ।मासदिनान्ते पक्षदिनान्ते यः कोऽपि सार्थस्तत्र समायाति तत्र गत्वा पारणं करोति । ततश्च कोणिकेन राजा इति श्रुत्वा मागधिका नाम पण्याङ्गना इत्युक्ता-'भद्रे ! इहानय तं कूलबालकश्रमणम् ।' तया इत्युक्तम्-'एवं करिष्यामि ।' कपट- श्राविका जाता, सार्थेन सह तत्र गता। तं कूलबालकश्रमणं वन्दित्वा सविनयम् एवं वदति-भगवन् ! त्वामत्र स्थितं श्रुत्वा वन्दनार्थ- मिहागता' इति । स्तवनं विधते- 'ता अज दिणं सह लजं दिट्ठो जंगम तुम तित्थं । संपइ कुणमुपसायं महमुणिवरगिहिउँ भिक्खं ॥६॥ मम भिक्षां गृहाण । यतः- लज्मति पुनवसउ जम्हा तुम्हारि साइ पत्ताय । किं होइ कणइ बुट्टी घरंगणे पुनरहियस्सा' ॥७॥ इति तस्या विनयेन रखितः कूलबालको भिक्षार्थे तस्याः स्थाने गतः । तया मोदका दत्ताः । मोदकमुक्त्यनन्तरं तस्या प्रतीसार -- कथाकोशः उत्पन्नः। अतीसारेण पीडित उत्थातुमपिन शक्नोति । ततो मागधिका मुनि भणति-'हाहा मया त्वं कष्टे पातितः। साम्प्रतं तव प्रतीकारं कर्नु वाञ्छामि, तदनुजानीत मां प्रांशुकै ब्यरुपकारं कर्तुम् । भवतां कोऽप्यतीचा समेति पश्चात्तमालोचयथाः। यतः- सम्वत्थसंजमसंजमाउ अप्पपाणमेव रक्खंतो। मुबह अइवायाउ पुणो वि सो होनया विरई ॥८॥ इति सिद्धान्तोक्कयुक्तविधिभिस्तयाप्रतिबोधितः। तेन महात्मना तस्याः पार्थाद् वैयावृस्यमनुमतम् । ततो मागधिका तस्य वैयावृत्त्यं करोति । कतिचिहिनान्यौषधादिना तस्य प्रतीकारो विहितः । स्पष्टदेहो बभूव मुनिः। इतश्च सा मागधिका प्रकटितसर्वानावयवा सर्वाभरणविभूषितदेहा सविलासकृतहास्या अन्यदा मुनिमेवं भणति- 'दुष्कारणमनेन तपसा किम् ? सुभग!सुखैकनिधानं मामेव सेवख। परिहर व्रतमुद्राम् , अरण्यं मुञ्च, नगरं समाश्रय ।' कूलबालकमुनि- रेवंविधानि तस्या वाक्यानि श्रुत्वा परित्यक्तधीरमागुणोव्रतं मुञ्चति। अथ तेन समं परितुष्टमना मागधिका कोणिकस्य पार्श्वे गता इति विज्ञपयति-'देव! अयं मम जीवितेश्वरः कूलबालको नाम मुनिः। अनेन यत् किञ्चित् कार्य भवति तत् क्रियताम् ।' राजा कूलबालकं प्रत्येवं वदति-'महात्मन् ! तं किमप्युपायं चिन्तय येन वैशालीपुरी भज्यते।' महात्मा तदङ्गीकरोति । त्रिदण्डिनो वेषं विधाय पुरीमध्ये प्रविष्टः । श्रीमुनिसुव्रतस्वामिस्तूपो दृष्टः पुरीमध्ये, चिन्तितश्च- नूनमस्य स्तूपस्य प्रभावेन पुरी न भज्यते, तावतथा करिष्ये यथा लोकाः स्तूपमुन्मूलयन्ति । लोकास्तस्य समीप इति पृच्छन्ति-भोः त्रिदण्डिन् ! कदाचिदपि पुरीरोधो निवर्तयिष्यति ?' मुनिः कथ- यति-'यदि स्तूपमुन्मूलयन्ति लोकास्तदापुरीरोधो निवर्तते अन्यथा न। सैन्यमध्ये गत्वा कोणिकेन सहायं सङ्केतः कृतः-'यदा लोकास्तू- पमपनयन्ति तदा त्वया सैन्येन सहापसतव्यम् ।' सहा तत् प्रतिपक्षम् । पुनः प्रविष्टो मुनिः पुरीमध्ये। लोका भणन्ति-'त्रिदण्डिन् ! अस्मिन् विषये का प्रत्ययः । तेनोक्तम्-स्तूपे उन्मूल्यमाने कटकं यास्यति । अयं प्रत्ययः।' लोकास्स्तूपमुन्मूलयन्ति । यथा यथा स्तूपमुत्पाटयन्ति तथा तथा सैन्यं प्रयाति । उपत्यया लोका विशेषत उन्मूलयन्ति कथाकोशः स्तूपम् । ततधोन्मूलिते स्तूपे कोणिकन व्यावृत्य पुरी भया । इतच बेटको राजा जिनप्रतिमा गृहीत्वा कूपे पतितः। पतन धरणेन्द्रेण गृहीतः। निजनगरी नीतः। तत्र मासं यावन्महोत्सवेनानशनं गृहीत्वा स्वर्ग जगाम इति कूलबालको मुनिर्गुरुभक्तिरहितस्तपः क्षयं प्राप्तः। अतो गुरुभक्तिपरैर्भाव्यम् । इति गुरुविराधनायां कूलबालककया । दानविषये कनकरथकथानकम् । अत्रैव भरते वैताव्यपर्वते कनकपुरं नाम नगरम् । तत्र कनक- रथो नाम विद्याधरो राजा तस्यैते गुणा निवसन्ति-त्यागी, सरलः, दाक्षिण्यसाररूपवान् । कामरूपविद्याप्रभावतः पूजितसर्वसमीहितार्थ- सार्थः । अन्यदा रात्रौ निजनगरस्य मध्ये नष्टचर्यायां परिभ्रमति कनकरथः तावदेकस्मिन् देवकुले प्रेक्षणीकं भवति, तत्र गीतं गीयते। तावद् गायकेनैषा गाथा पठिता- हंसा सव्वत्थ सिया सिर्हिडिणो सव्वचित्तियं गुरुहा । सव्वत्य जम्ममरणं सम्वत्य वि भोइणो भोपा ॥१॥ इमांगाथां श्रुत्वा विद्याधरोनिजमनसि चिन्तयामाख-'त्रयाणां पदानामर्थः प्रत्यक्षो दृश्यते । अस्मिन् जीवलोके हंसाः सर्वत्र श्वेता, मयूराः सर्वत्र चित्रिताः, जन्ममृत्यू सर्वत्र, परमेतद्वचनमात्र नपुनः प्रत्यक्षम् । भोगिनां सर्वत्र भोगा भवन्ति, एतदन्यथा । यथा राजा निजकीयदेशं त्यकाऽन्यत्र पूजां न लभते, यथा निजगृहे निजकान्ता- ऽलिङ्गनसौख्यं कोऽपि भुनक्ति तथाऽन्यत्र न । तावत् सर्वथाप्येतद- लीकम् । अहं भोगवान् वर्ते यद्येवंविधा भोगाः । मम विदेश एतत् सत्यं वर' इति चिन्तयित्वा निजमन्त्रिणमाकार्य तेन सह मन्त्रयित्वा श्रीताम्रचूडनगरं गतो योजनशतप्रान्ते । नगरगतेन राक्षा चिन्ति- तम्-'मनोपवेषधारी रूपवान् पुरुषः सर्वत्र गौरवं लभते ।' ततः कारणाद् विमष्टदेहो बभूव प्रसवन्नयनयुगलो विनष्टनासिका प्रनष्टो. ठपुटः । किं बहुना, अतीव कुरूपो विलोकयितुमशक्य एवंविधो जातः । इतश्च ताम्रचूडो राजा सप्तभूमिकप्रासाद उपविष्टो नगररम- .. गायनेनेषा A. and-Z. २. सर्वत्र is missing in Z.
- । कथाकोशः खीयतां विलोकयति । तत्र रामः समीपे सेवाकरणाथै सामन्तमहा- सामन्तश्रीकरणव्ययकरणप्रमुखसभ्येषूपविष्टेषु निजराज्यभारेण गर्वितो राजा एवं वदति-हे सभ्याः ! कस्य प्रसादेन यूयमीहशीं राज्य- सम्पदं विलसथ । तैश्छन्दानुवृत्त्या राशोऽप्र उक्तम्-'राजन् ! तव प्रसादात् सर्वमेतद् विजृम्भते । अथ राजपुत्री मदनमञ्जरीनानी सामन्तादीनां तेषामिति वचः श्रुत्वा ईषद् हसित्वा मौनेन स्थिता । राक्षा हास्यकारणं पुत्री पृष्टा-'वत्से ! किमेतत्!' पुत्री प्राह-'तात! अमीभिस्तव सेवकैरलीकमुक्तम् , अतो मयाहसितम्।' राजा प्राह- 'वत्से ! किमलीकम्' तयोक्तम्-'मी तव प्रसादादिति कथयन्ति तदसत्यम् ।' राज्ञा पुत्री पृष्टा-'वत्से ! तर्हि किं सत्यम् !' तयोक्तम्- 'सर्वः कोऽपि स्वकर्मणा वर्तते जनः।' राजा सभामध्ये पुन्या इति वचः श्रुत्वा कोपे चटितः। ततो मन्त्रिण कार्य एवं वदति-रेरे कश्चिद् दरिद्रं कुष्ठिनं व्याधिपीडितं महादीनं नरं पुत्रीयोग्यं वरमान- यत, यथेयं मदनमञ्जरी तस्मै दीयते, यथा स्वकृतकर्मफलं प्रामोति' इति राक्षो वचः श्रुत्वा सर्वेऽपि नगरमध्ये तादृशं नरं विलोकयन्ति । अत्रान्तरे तस्य माता लोकमुखादिति श्रुत्वा समामध्ये समागता मदनमञ्जरी प्रत्येवं वदति-'वत्से ! त्वया राक्षोऽने किमुक्तम् ?' पुत्री प्राह-'मयाऽलीकं नोक्तं यतः सर्वोऽपि निजकर्मफलं भुनक्ति।' माता प्राह-वत्से ! अद्यापि किश्चिदपि न विनष्टम् । राज्ञो वचनं मानय ।' पुत्री पाह-'प्रलयेऽप्यलीकं न वच्मि ।' अथ ते राजसेवकनगरमध्ये परिभ्रमद्भिश्चतुष्पथमध्ये स एव कुष्ठरूपधारी पुमान् दृष्टः । तैः परस्परमित्युक्तम्-'यादृशो देवेनाविष्टोऽयं तादृश एव । एतस्मादपरः कोऽपि दुःखी न जायते, तत एनं गृहीत्वा यास्यामो राजसमीपे इति विर्चायोक्तं तैः-'भोः कुष्ठिन् !' उत्तिष्ठ । राजा.त्यामाकारयति।' ततस्तेन कुष्ठिनोक्रम्-'अहमऽपि देवेन हसितः भवतां नहि युक्तं मयासह हास्यं कर्तुम् । किं राजपुत्रीयोग्योऽपरः कोऽपिवरो नास्ति। राजपुरुषैरुतम् -'भो उचिष्ठ वयं राजादेशकारिणः । परन्त्वेनमर्थ- मसाकं स्वामी वेचि वयं म विमः। एवमुक्का तैः सर्वैरुत्पादयनीतो राजसमीपे ।ततो मन्त्रिभिः करान् वियोज्य राजा विक्ष:-'स्वामिन्! भवतामादेशनायं नः समानीतः। ततो राक्षा निजपुत्री तस्मै कुष्ठिने प्रदचा। ततं. कुष्ठी राजानं प्रति प्राह-स्वामिन् ! अहातकुलस्य
-
कथाकोशः
'व्याधितस्य पुत्री दातुं तव न युज्यते । किं राजहंस्या सह पाणिग्रहणं
काकस्य युज्यते' इत्याचनिच्छमानोऽपि कुष्ठी राक्षा निजपुत्री
परिणाय्य विसर्जितः । मदनमखरी पित्रोचरणानभिवन्ध हष्ट-
मुखकमला राजभुवनानिस्सृता। यावनिजम सहयाति मदनमञ्जरी
तावत् कुष्ठी राजमार्गे पतित्वा स्थितः। निजप्रियां प्रति कुष्ठी प्राह-
'देवि! अस्मात् स्थानात् पदमपि चलितुं न शक्नोमि । ततो मदन-
मञ्जरी भणति - 'नाथ! कातरो मा भव । मम पृष्ठप्रदेशे चटस्व ।
यथासमीहित स्थान प्रापयामि ।' तस्याः स्वभावं सात्वा कुष्ठी प्राह-
'अधात्रैव तिष्ठामः। कल्ये यद् युक्तं तत् करिष्यावः।' असिन प्रस्तावे
महाजनवर्गो राजधवलगृहे गत्वा राजानं विक्षपयति-स्वामिन् !
प्रसाद कुरु यथा तव जामातुरेकं तृणकुटीरकं कृत्वाऽर्पयामो वयम्।'
राक्षा प्रसादः कृतः। ततो महाजनेन तयोः कुटीरकं कृत्वाऽपितम्।
तस्मिन् कुटीरके निजभार्यासहितः कुष्ठी स्थितः। अत्रान्तरे तेन
कुष्टिना निजहृदये चिन्तितम्-एषा मम भार्या मयि रका किं वाs-
रता तदहमस्या रागविरागौ विलोकयिष्यामि।' ततो वक्तुमारभत
'देवि! सावधानहृदया एकं मम वचनं शृणु। मम संसर्गात् स्तोक-
कालेनैव त्वमपि कुष्ठिनी भविष्यसि, यत एते रोगाः संचारिणो
भवन्ति-पामा, क्षया, कुष्ठः, कामलः, नेत्ररोगः। एवं पञ्च रोगाः
संसर्गाजायन्ते, कुष्ठप्रभावादलिकुलकजलश्यामलस्तव केशकलापः
क्षयं यास्यति । मुखकमलं विच्छायं भविष्यति । विकसितकुवलयदल-
सदृशं नेत्रयुगं सङ्कोचमेष्यति । हे कृशोदरि ! पकविम्बीफलानुका-
रस्तवाघरो न प्राप्स्यते शोमाम् । किं बहुना, सर्वथा मम संसर्गातव
शरीरं विनाशं यास्यति, विषवृक्षयोगाद् यथाऽऽम्रफलं विनाशं याति ।
तावधिजजननीमातुलानां शरणं व्रज । मम कृते किं म्रियसे ।" इत्युत्ता
मौनमाधाय कुष्ठी स्थितः । ततो मदनमबरी भणति-'नाथ ! ईडश-
मसमञ्जसं किं प्रलपसि ? सुकुलोत्पन्नाः प्रलयेऽपीहा कर्म न समा-
चरन्ति । आर्यपुत्र ! एतत् किं न श्रुतम् उत्तमनारीणां भर्तार एव
देवता भवन्ति ? यतः-
निन्भउ अंग पि गलंतु लोप्रणा जोवणं इक्कमउ ।
जीव पि जाउ तह वि तुह सुस्सूसं करिस्यामि ॥२॥
? থাকায় तं सामी तं मित्तो तं बंधू तं धणं गई तास । तं जीयं मह पिययम किं बहुणा जंपिए णित्य ॥३॥ हे नाथ ! तावन्ममाने एवंविधं नीचजनसदृशं वाक्यं न भाषितव्यम् । तेन विद्याधरण निजपत्यनुरागं बात्वा बहुरूपकारिणी देवी स्मृता । खामिनि ! बहुरूपकारिणि ! देवते ! साम्प्रतं जात्य- सुवर्णमयं प्रासादं कुरु । ततो देवतया क्षणार्द्धन प्रासादो निर्मितः । स कीडशः ? पश्चवर्णरत्ननिर्मित यस्य भूपीठं शोभते, निर्मलस्फटिक- मसिरचिता यस्य भित्त्याद्या राजन्ते, यत्र प्रासादे काञ्चनस्तम्भेषु रचिताः सहस्रसंख्या रत्नपुत्तलिका वर्तन्ते । अन्यच्च- बत्तीसभूमिकलिऊ चामीयरक्लससहससोहिल्लो । उत्तुंगिमाइ रविरहतुरंगपडिभग्गए पसरो॥ ४ ॥ तस्य मध्ये सुवर्णसिंहासनोपरि स्थितं देवकुमारसमानरूप- मात्मानं पश्यति कुष्ठी । तं प्रासादं दृष्ट्वा नगरलोको विस्मितः-'किं स्वर्गादवतीर्ण देवविमानम् । एष प्रासादः पूर्व न दृष्टः पुस्तकेषु न श्रुतः। सर्वथा महाश्चर्यकारी अयं प्रासादः' इतश्च ताम्रचूडेन राक्षा स प्रासादः श्रुतः । एवं श्रुत्वा महाकौतुकपूर्णहृदयस्तस्य विलोकनार्थ चचाल राजा । यावनिजपरिवारेण सहितो राजा तस्मिन् प्रासादे चटति तावत् स्फाटिकभित्तिरचनाकारणाच लभते मार्ग सर्वत्र तेजोमयमेव । ततो राक्षा महता कष्टेन लब्धो मार्गः। राजा तस्य प्रासादस्य शिखरे सिंहासनोपविष्टं दिव्यरूपं दिव्याभरणधारिएं विद्याधरं ददर्श । तं तथाविधं दृष्ट्वा राक्षो मनसि विस्मयो बभूव इतश्च तस्य विद्याधरस्यामात्यो बुद्धिसागरनामा विद्याधरसुभटसहि स्तनागतः। बुद्धिसागरो राजानं प्रणम्योपविष्टः। सर्वे विद्याधर सुमड़ा यथास्थानमुपविष्टाः। अष्टौ वाराङ्गनाः सशामरधारिण्यञ्च मयत बालयन्ति । अत्रान्तरे विद्याधरैर्नाटकं प्रारब्धम् । तद् ए सर्वोऽपि नगरविवासी लोको विस्मितः। ताम्रचूडोऽपि विस्मयं गत सर्वे सकौतुकमेवं कथयन्ति-पूर्व कुष्ठी, साम्प्रतमेवंविधाए कोऽयम् ? न्द्रः किं वा कन्दर्पः ? किं वा नारायणः ? किंवा बह 1. श्रुतः is supplied by the Editor.
कथाकोशः - देवः किं वा धनदनामा यक्षः?' यावत्ताघ्रचूडप्रमुखःसर्वोऽपि लोक एवं चिन्तयति तावदेकेन विद्याधरसुभटेनैषा गाथा पठिता- जय वेयहनगाहिंव जय बहुविध्वविजयपडिवस्तु । जय पणईणयवछल जय जय सिक्खिणगरहराय ॥ ५॥ एनां गाथां श्रुत्वा लोकैरिति चिन्तितम्-'निश्चितमयं विद्या- धरेन्द्रः १ केनापि कारणेन कुष्ठिरूपं विधायेहागतः।' तावदेषा मदन- मञ्जरी राजपुत्री धन्या कृतपुण्या, यथा विद्याधरस्वामी अयं मर्ता प्रातः। अथ कनकरथराशा खयमुत्थाय ताम्रचूडस्य राक्ष आसनं दापितम् । अत्रान्तरे राजपत्नी मदनमञ्जरी माता धारणीनानी तत्रा- गता। अत्रान्तरे मदनमअरी ताम्रचूडं स्वपितरं प्रणम्योचे-तात! त्वया कुत्सितशरीराय कुष्ठिनेऽहं दत्ता, मम पुण्यप्रभावात्सोन्यमर कुमारोपमो जातः । यतः- वचउ देशं परिभमउ काणणं सायरं मि बुड्डेउ । सगिहेवि नरो पुनाउ पावए सुखरिबोली ॥६॥ तत् तात ! तव वचः सत्यं किं वा मम ? रामा भणितम्-'पुत्रि! तव कथितं सत्यम् । नास्ति सन्देहः । इयन्तं कालं यावदहमात्मकुप्राहेण विडम्बितः। अतः परं सर्वस्य खैकर्म प्रमालम्।' इतश्च ताम्रचूडेन राक्षा विद्याधरं प्रत्युक्तम्-'स्वामिन् ! यूयं केन कौतुकेन एवंविधं रूपं विधाय अत्रागताः ?' ततो विद्याधरेण आमूल- धूलं निजवृत्तान्तो राक्षोऽने कथितः । राजा तच्छ्रुत्वा दृष्टो बभूव । ततो विद्याधरो राजानं प्रति प्राह-'राजन् ! अनुजानीत मां यथा निजपुरं गच्छामः ।' राझोक्तम्-'तर्हि ममावासेऽद्य सपरिवारै- भॊजनं विधाय गन्तव्यम् । विद्याधरेणानुमतं राक्षो वचः। ततो दिव्य- सानभोजनाच्छादनामरणसुगन्धवस्तुप्रभृतिक्रियाभिस्तं विद्याधरेन्द्र सन्तोष्य राक्षा स्वपुत्री उक्ता-वत्से! समयान्तरे पुनदर्शनं दद्याः।' इत्युक्त्वा तौ विसर्जितौ खनगरं प्रति । ततो विद्याधरेण दिव्यविमानं कारितम् । तस्मिन्नधिरुह्य निजभार्यासहितश्चचाल । ततो गतः खनगरम् । तत्रानेकानि वर्धापनकानि जातानि । ततो नगर १. विज्ज is missing in Z. २. स्व is missing in Z.
कथाकोशः मध्ये महता विस्तरेण प्रवेशमहोत्सवो बभूव ।कनकरयो धवल- गृहं सम्प्राप्तः । मदनमञ्जरीसहितो विद्याधरः सौख्यमनुभवति । अन्यदा कस्मिन्नव्यवसरे उद्यानपालकेन योजितकरसम्पुटेन कनकरथो राजा एवं विक्षप्तः-'देव! वर्धाप्यसे । अद्य मनोरमे उद्याने बहु- शिष्यपरिवृताः श्रीधर्मघोषसूरयः समागताः' इति उद्यानवनपालक- मुखात् श्रुत्वा दृष्टो बभूव । तस्मै पारितोषिकं दत्तम् । ततो महता विस्तरेण मदनमबरीसहितोगुरुनमस्करणाय चलित उद्याने सम्प्रातः। तत्र गुरुन् वन्दित्वा देशनां शृणोति । गुरुः प्राह-'भो विद्याधर! दुर्लभ मनुष्यत्वं लब्ध्वा धर्मविषय उद्यमः कार्यः। यतःभोगाः कीर्तिः सौभाग्यं लक्ष्मी रूपं मोक्ष एते पुण्येनैव लभ्यन्ते । तावद् भो राजन् ! इति शात्वा सकलसौख्यहेतोधर्मे यनं कर्तव्यम् ।' इति श्रुत्वा राजा पूर्वभवं पृच्छति-'भगवन् ! पूर्वभवे मया किं पुण्यं विहितं यदस्मिन् भवे मम सर्वत्र भोगाः सम्भवन्ति । गुरुभिरुतम्-शृणु पूर्वमवे शालिग्रामे धनदेवो नाम कुटुम्बी, तस्य भार्या यशोदेवी । अन्यदा मासक्षपणपारणके तव गृहे एको मुनिरागतः। त्वया यशो- देवीभार्यासहितेन क्षीरानेन प्रतिलाभितः । तेन पुण्येन त्वं मृत्वा विद्याधरखामी जातः । अस्मिन् भवे यशोदेवी मृत्वा मदनमञ्जरी तव भार्या जाता' इति कथिते द्वयोजातिसरणं समुत्पन्नम् । पूर्वमवो हष्टो मूळमध्ये। मूछन्तेि चिन्तितम्-'अल्पस्यापि दानस्य सुपाने दत्तस्य पतावन्मानं फलम् ।' ततो द्वादश प्रतानि उच्चारितानि । गुरु प्रणिपत्य गतौ खस्थाने । कनकरथो निजभार्यासहितः सुपात्रे दानं ददाति । प्रान्तकाले पुत्र राज्ये निवेश्यानशनं गृहीत्वा द्वावपि खर्गे गती। इति सुपात्रदानविषये कनकरथकथानकम् ॥ माने बाहुबलिकथानकम् । मानं बाहुबलिमरीचिरचयत् श्रीस्थूलभद्रः प्रभुः साधुः सिंहगुहास्थितो मतिमदः श्रीसिद्धसेनः कविः । चाणक्यः किल कोणिक चितिपतिदुर्योधनो रावणः हरिः सागरचन्द्र इत्यभिमतश्चक्री चतुर्थों रुचा॥१॥ १. मृता कथाकोशः तथाहि-विनीतायां नगर्यां श्रीऋषभदेवप्रिया सुमङ्गला सुनन्दा। देवी सुमंगलाए भरहो बंभीय मिहुणयं जायं । देवीसुनंदाए बाहुबली सुंदरी चैव ॥ २ ॥ श्रीऋषभदेवे व्रतमापने श्रीभरतेश्वरस्य राज्ये दत्ते, अष्टनवति- पुत्राणां विभज्य राज्ये दत्ते, खामी केवलक्षानमवाप । इतश्च दिग्वि- जयं विधायाष्टनवतिबान्धवेषु राज्यानि परित्यज्य तातपार्वे व्रतं प्राहितेषु षष्टिसहस्राणामनन्तरं विनीतायामागते भरते आयुध- शालायां चक्रं न प्रविशति । ततस्तक्षशिलायां बाहुबलेरुपरि विग्रहं विधाय श्रीभरतः सुवेगनामानं दूतं प्रेषयति । दूतो बाहुबलिसभायां गतः। बाहुबलिः प्राह- 'श्रीतातपादैः परिपालितानां कलाकलापार्पणलालितानाम् । क्वचिद्विनीतानगरीप्रजानामार्यस्य राज्ये जयवान् प्रमोदः ॥३॥ अनामयं देशपुरीनरेशहस्त्यश्वसेनापतिसैनिकानाम् ।' एवं समापृच्छय नृपे निवृत्तऽब्रवीदनावेगमिदं सुवेगः ॥४॥ दूतःप्राह- 'यस्मिन् वशीभूतनृदेवदेवे देवोऽपि नैवापकृतौ कृती स्यात् । तत्तत्परीवारपुरीतुरङ्गाङ्गनाय कस्याः कुशलं सृजेत्कः ॥ ५ ॥ ज्येष्ठोऽप्रजत्वेन पराकमेण स चक्रवर्ती तव सेव्य एव । त्वं चेचिरं जीवितराज्यकामस्तन्मुच्यतां बाहुबलेऽवलेपः' ॥६॥ इत्युक्त्वा विरते बाहुबलिः प्राह - 'दूत | त्वया युक्तमिदं यदुक्तं वाग्मी त्वमेकोऽसि सैनो न तेऽस्ति । एवं वदन् यः पुरतो ममापि खाम्यर्थकृत्प्राणभयं न धत्से' ॥७॥ दूतोऽर्द्धचन्द्रं दत्त्वा निर्वासितः। दूतेन गत्वा श्रीभरतस्याने याथातथ्यमुक्तम्-'खामिन् ! बाहुबलिरिति वदति बलगर्वितः। रे दूत ! निजखाम्यग्रे गत्वा कथय कथं तदिनं तव विस्मृतं यत्र दिने कन्दुकवत् उल्लालितोऽसि । भो भो गङ्गासिन्ध्वबलायुगलेन नाहलैश्च १. A. and Z. add the following after इतश्च-भरते- 'मागधवरदामपभाससिन्धुखण्डप्पवायतिमिसगुहा । सर्हि वाससहस्से मोअवियं भागमो भरहो' । ३. समा A., समा ८. ३. वैदेयाः for वदन यः A. and Z.
খােকায় भटैः साधितैः किं गर्वमुखहसि' इत्युक्त श्रीभरतः साटो प्रयाणढक्का वादयामास । मिथो मिलिते सैन्ये महद् युद्धम् । अत्रान्तरे भूमि- गृहस्थोऽनिलवेगो विद्याधरपुत्रो रणदकां श्रुतवान् । निस्सृतो दिव्य- शृङ्गारभूषितो महाभटः। प्रणम्य बाहुबलि प्रथम मुत्थापनिकां ददाति। अनेकधाऽयुद्धं विदधाति । सैन्यं त्रासितम्।भरतः खयमुत्थितवान् । करिणो करीहिं तुरगा तुरंगमेहि रहेहिं रहिणोय । सुहडा सुहडेहिं तया समगंचीय तत्य जुजंति ॥८॥ अनिलवेगेनानिरस्त्रीकृतो भरतो वर्षान्ते चक्रं मुञ्चति, चक्रेण समं मुष्टया दिव्ययुद्धमेकविंशतिदिनानि यावत् । एकविंशतिमे दिवसे तृष्णयाऽचेतनस्य अनिलवेगसुभटस्य शिरश्चक्रेण चिच्छेद । ततो बाहुबलिर्बहुजीवसंहारमालोक्य भरतस्य दूतं प्रेषितवान्- 'आवयोर्युद्धं वैरञ्च । कथमयं जनसंहारः क्रियते।' भरतेन प्रतिश्रुत्य पञ्चयुद्धानि कल्पितानि- पढम दिट्टीयुद्धं वायायुद्धं तहेव वाहाहिं । मुट्ठीहिय दंडहिय सव्वत्थ वि जिप्पए भरहो ॥ ९ ॥ बाहुबलिना पञ्चसु युद्धेषु जितो भरतः। क्रुद्धश्चकं मुञ्चति । खगोत्रे चक्रन प्रभवति । शिरसः परितः परिभ्रम्य स्वस्थाने गतं चक्रम्। बाहुबलिश्चिन्तयति-'अहो संसारपरिणामः । इति विचिन्त्य बाहुबलिर्लोचं चकार । दीक्षा गृहीता। ध्यानस्थं बाहुबलिं दृष्ट्वा भरत- स्तममिवन्दति । एवं वदति च- 'षट्खण्डजेता भरतोऽप्यहं यैरस्त्रिलोकीजयिभिर्जितोऽहम् । तान्यप्यहो येन जितानि नूनं वन्दे सुनन्दातनयं भटं तम् ॥१०॥ इति सुत्वा पुत्रराज्येऽभिषिच्य स्वस्थानं गतश्चक्री । बाहुबलि- वर्षे यावन्मानेन तत्रैव कायोत्सर्गे तस्थौ-'यदहं तातपादान्ते लघु- बाल्यवानां प्रणिपातं न करिष्यामि। कण्ठान्तसंसकतीरशाखिशाखा- मुवलीवितानसम्बन्धमौलिभूषणः क्रमयुग्मान्तमिनकुशाग्रो वल्मीक- पर्वत इव वपुषाऽभवत् । श्रीऋषभदेवो मानेन विज्ञाय बंभीसुन्दरी- सुताबयं प्रतिबोधाय प्राहिणोत् । तान्यामुको मुनिः-'भ्रातर्मान. गजेन्द्रादवतर' इत्युपदेशमासाथ यावद्विषरणो मुनिश्चरणमुत्पाटयति कथाकोशः ततो लब्धसङ्केत इवोत्पेदे । केवलज्ञानं गतस्तातपायें केवलिपरिषदि उपविष्टः । अतो मानो न विधेयः। इति माने बाहुबलिकथानकम् ॥ द्यूतविषये नलकथानकम् । अत्र भरते कोशलदेशे कोशला नानी नगरी। तत्र इदवाकु- कुलोत्पन्नो निषधो नाम राजा । तस्य सुन्दरी नानी राशी। नलकूबरौ द्वौ पुत्रौ । इतश्च विदर्भदेशे कुण्डिनपुरं नाम नगरम् । तत्र भीमरथो राजा । तस्य पुष्पदन्ती भार्यातयोर्विषयसौख्यमनुभवतोः समुत्पन्ना पुत्री । तस्या भाले सूर्यबिम्बमिव स्वाभाविकं तिलकं वर्तते । यदस्यां गर्भगतायां मात्रा स्वमे दवे दह्यमानो दन्ती दृष्टः, अतो दवदन्तीति नाम कृतम् । श्वेतपक्षचन्द्रकला इव दिने दिने वृद्धिं याति । प्रस्तावे समर्पिता कलाचार्यस्य समीपे विद्याग्रहणाय । क्रमेण समप्रविधायां निपुणा जाता । अन्यदा तस्याः प्रकृष्टपुण्येन तुष्टा शासनदेवता । तया भाविनः श्रीशान्तिनाथदेवस्य काञ्चनमयी प्रतिमाऽर्पिता। एवमुक्ता च-वत्से ! एषा शान्तिनाथदेवस्य प्रतिमा त्वया त्रिसन्ध्यं पूज- नीया। सापि तथैव करोति । क्रमेण यौवनं प्राता। तां यौवनस्थां दृष्ट्वा राज्ञा चिन्तितम्–'एषा निरुपमरूपा कस्मै दातव्या तावदस्याः समानरूपो वरो नास्ति, यदि वाऽस्ति तथापि न ज्ञायते । अतः स्वयंवरं कर्तुं युक्तं यथा निजेच्छया सा मम पुत्री वरं वृणोति । ततो दृतं प्रेष्याकारिता राजानः। राजपुत्राश्चागता गजतुरगरथपदातिभिः परिवृताः। नलोऽपि तत्र प्राप्तः। भीमरथराक्षा सर्वे सम्मानिताः प्रवरावासेषु।ततः कारितः काञ्चनमयस्तम्भमण्डितः स्वयंवरमण्डपः। तत्र प्रवरमञ्चास्तत्र स्थापितानि सुवर्णसिंहासनानि । तेषूपविष्टा राजानोराजपुत्राश्च । अत्रान्तरे जनकादेशेन प्रकटितप्रभाजालतिलका- लता प्रसन्नवदना घनस्तनमण्डना स्वयंवरमण्डपं मण्डयन्ती दवदन्ती समागता । तां दृष्ट्वा विस्मितमुखाः सर्वेऽपि राजानो जाताः। ततो राजादेशनान्तःपुरस्य प्रतीहारी भद्रानानी कुमार्या अप्रे राज- वंशान् वक्तुं प्रवृत्ता-देवि ! वदन्ति ! अयं काशीपतिदृढभुजबलो बलो नाम राजा । यदि तुगतरां गङ्गां नदी द्रष्टुं वाञ्छसि तदेनं कथाकोशः वृणु !' दवदन्त्या भणितम्-'भद्रे ! काशीनिवासिनो लोकाः परं वञ्चनव्यसनिनो भवन्ति । ततोऽस्मिन् मम मनोन रमते । अग्रतो गच्छ' । अग्रे गत्वा तया पुनर्भणितम्-'देवि ! अयं कुकुणपतिः सिंहनामा नरेन्द्रः। एनं वृत्वा ग्रीष्मकाले कदलीवनेषु सुखेन क्रीडस्व । ततो दवदन्त्या भणितम्-'भद्रे!अकारणकोपना कोङ्कुणाः । तावत्पदे पदे न शक्नोमि एनमनुकूलयितुम् । अन्य राजानं कथयस्व । अग्रतो गत्वा तया पुनर्भणितम्-'देवि ! अयं काश्मीरदेशनिवासी महेन्द्रो नाम राजा । कुङ्कुमक्रीडां कर्तुकामा तत एनं वृणु-दवदन्त्या भणितम्-'हिमसंसारभीरुकं मम शरीरं किं त्वं न जानासि ।' ततोऽग्रतो गत्वा पुनर्भणितं तया- देवि! अयं कौशाम्ब्याः स्वामी जयकोशो नाम राजा तदेनं वृणु' । दवदन्त्योक्तम्-'कपिलले ! अति- रमणीया माला विनिर्मिता।' प्रतिहार्या चिन्तितम् -'अस्य रामोऽ. प्रतिवचनमेव प्रतिषेधः। ततोऽग्रतो गत्वा पुनरुक्तं तया-'कलिङ्ग- देशस्वामिनो जयराक्षः कण्ठे वरमालां क्षिपस्व यस्य कृपाणराहुणा वैरिशशिनः कवलीकृताः ।' दवदन्त्योक्तम्-'तातसमानवयापरि- णामाय नम एतस्मै । ततो भद्रयाऽप्रतो गत्वा भणितम्–'गौडदेश- पतिर्गगनमणिनामा एष किं तव रोचते यस्य करिनिकरघटरवेण ब्रह्माण्डं स्फुटति।' दवदन्त्योक्तम्-'मातर्मनुष्याणामीहशमपि कृष्ण. भीषणं रूपं भवति । त्वरितमग्रतो गच्छ ।' ततो भद्रयाऽग्रतो गत्वा पुनर्भणितम्-'देवि! अयमुजयिनीपतिः पमनाभो नाम राजा । यदि सिप्रानदीतटे उद्गतेषु वृक्षेषु तव क्रीडां कर्तुं वाञ्छा विद्यते तदेनं वृणु।' दवदन्त्या उक्तम्-'धिग् धिग् अनेन स्वयंवरमण्डपसंवरणपरिश्रमेण निर्विरणाहं ततोऽग्रतो गच्छामि। ततो भद्रयाऽग्रतो गत्वोक्तम्- 'देवि! अयं कन्दर्पसमानरूपो निषधपुत्रो नलो राजा। ततो विसित- चित्तया दवदन्त्या चिन्तितम्-'अहो ! अस्याऽसामान्य रूपम् , अहो ! उदग्रं सौभाग्यम्। ततो नलस्य कण्ठे वरमाला क्षिप्ता । अहो! सुष्टु वृतम् , सुष्टु वृतं दवदन्त्या' इति समुत्थितो जनकलकलः। अत्रान्तरे खड्गमाकृष्य नलमाक्षप्तुं प्रवृत्तः कृष्णराज:-'भो नल! १. वृखेषु is missing in Z.
कथाकोशः ववदन्ती परिणेतुं न लभ्यते । अनया दवदन्त्याऽयुक्तं कृतं यत् त्वं वृता। तावदेनां मुन्ध । अथवा युद्धसजो भव । नलेन भणितम्- 'अरे नराधम ! यदि दवदन्त्या त्वं न वृतः ततः किं दूयितोऽसि । तावत् परित्यक्कसाधुमार्गो मया त्वं शिक्षितव्यः।' खड्गमाकृष्य ज्वल- कोपानलो राजा बभूव । ततो द्वयोरपि दले सनद्धे जाते । दवदन्त्या चिन्तितम्-'हा कि मन्दभाग्याऽहं यन्मम कृत एष प्रलय उपस्थितः। तावद् यदि मम अर्हति देवे भक्तिस्ततो देवि! श्रीशासनदेवते !नलो विजयलक्ष्मी प्राप्नोतु, उपशमतु सङ्कामः' इति भणित्वा वारिपूर्णो भृङ्गारो गृहीतः। तिस्रोजलच्छटाः क्षिप्ताः । तेन स्पर्शिताको निस्तेजो बभूव कृष्णराजः । ततो रोषरहितः कृष्णराजश्चिन्तयति हो मयाऽयुक्तं कृतम् । न सामान्योऽयं पुरुषः। तावन्नमस्कर्तुं युज्यते मम । ततः कृष्णराजेन प्रणामपूर्व क्षामितो नलः । नलेन सम्भाष्य विसर्जितः कृष्णराजः। ततो नलस्य पराक्रम विलोक्य विस्मितेन भीमरथराशा महाविस्तरेण पाणिग्रहणं कारितो नलः । करितुरगरत्ना- लवारवस्त्रादीनि नलकुमाराय समर्पितानि । एवं विवाहानन्तरं कियन्ति दिनानि तत्र स्थित्वा पुनर्नगरी प्रति चलितो नलः । नखेन सह वजन्ती दवदन्ती मात्रा एवमुक्ता- 'पिज पियं विणयं करिज वजिज पुत्ति परनिंदं । वसणे वि मा विमुंचसु देहत्थाय ब्व नियनाहं ॥१॥ रिविं पत्ता वि हु मा विहिज मुविणेवि माणलेसं पि । तह निकलंकसील पाणपणासेवि पालिजा' ॥२॥ इति जननीशिक्षामङ्गीकृत्य पितरौ प्रणम्य प्रस्थिता दवदन्ती। रथ प्रारोप्य नलेन निजोत्सने निवेशिता। ततश्च तुरङ्गबलोतिप्तक्षो- णिरेपनिकरण रुद्धनभोमण्डलस्य राशो नलस्य ब्रजतोऽन्तरालेऽस्त- वो रविः । अन्धकारपटलेन पूरितं भुवनगर्भम् । जलस्थखवृतगिरि- गर्वविशेषो न बायते । तथापि निजनगरोत्कण्ठितमना गमनान निवर्तते नलः। अन्धकारो विलयं गतः। ततो निष्प्रत्यूहं बलं मार्गे प्रयाति । अन्यदा मागे गच्छतोस्तयोर्नलवदन्त्योर्डष्टिगोचरे भ्रमरैः खाद्यमानसर्वाङ्गो कायोत्सर्गेण स्थितो मुनिरेको बभूव। ततो नलदव- दन्तीय सस्थीकतो मुनिः, प्राशुकानैश्च प्रतिलान्यते । मुनि नत्वा कियद्भिरखण्डितप्रयाणैः कोशलानगरीपरिसरे गतो नखः निलेन कथाकोशः दवदन्ती प्रत्युक्तम्-'देवि ! जिनभुवनमण्डितप्रदेशा एषा मम पुरी कोशला नानी'। तया भणितम्-'धन्याऽहं नवं प्रियं प्राप्य नित्यं देवान पूजयिष्यामि ।' अथ प्रशस्तदिवसे बहुप्रकारमञ्चविस्तरितदि- डम्बरां प्रतिभवनं प्रणतितध्वजाञ्चलचुम्बिताम्बरां विविधतूर्यरवा- पूरितदिगन्तरां नृत्यत्तरणीचक्रनिरन्तर पदे पदे क्रियमाणमालो नलो निजनगरी प्रविष्टः । ततश्च दवदन्तीसहितेन नलेन प्रणतो पितरौ। ततश्च नलकुमारो दवदन्त्या सह कदाचिजलक्रीडां करोति, कदाचिहोलान्दोलनसौख्यमनुभवति, कदाचित् खयंप्रथितसुरमि- कुसुमैर्विचित्रसम्बन्धधम्मिझं पूरयति, कदाचिदक्षप्ते रमते, कदा- चित् स्वयंविधातोयवादनपरो दवदन्तीमकान्तेऽनर्तयत् । एवं नलो दवदन्त्या अवियुक्तो नवनवैविनोदैः कालमतिकामति। अन्यदा निषध- राक्षा नलं निजपदे निवेश्य कूबर कुमारत्वे स्थापयित्वा दीक्षा गृहीता। ततोऽनल इव दुर्विषहतेजःप्रसरो नलो राज्यं पालयति । अन्यदा नलेन मन्त्रिणः पृष्टा:-'अहं जनकोपार्जितामेव महीं पालयामि कि वाऽधिकाम् ? मन्त्रिभिरुतम्-'त्रिभागोनं भरता वशीकृतं किन्वितो द्वियोजनशतैस्तक्षशिला नगरी वर्तते। तत्र कदम्बो राजा तवाशांन मन्यते । अयं त्वयोपेक्षितो रोगलेश इव दुस्साभ्यो बभूव । ततः प्रथमं दूतः प्रेष्यतां येन तस्य चित्तं शायते। ततो दूतः प्रहितो गतोऽविलम्ब तक्षशिलाम् । तेन भणितः कदम्बा-'वैरिवनदहन- दावानलेन नलेन इत्याज्ञातं मम पदसेवामङ्गीकृत्य निजराज्यं परि- पालय । यद्येवं न करिष्यसि ततोऽस्मादाको भ्रंशं प्राप्स्यसि इति दूतवचनं श्रुत्वा दशनाप्रदष्टोष्ठपुट प्रात्मानमजानन् कदम्बराजा दूतं प्रति प्राह-रे दूत! तव खामी कि बालोऽथवा किं प्रमत्तोऽ. थवा वातसुप्ता, य: सकलरिपुभुजङ्गगरुडं मां न जानाति ? अथवा किं तस्य गुणदोषविचारणा केऽपि मन्त्रिणो न सन्ति थैरेवमसमासं जल्पमानो नलो न निषिद्धः? तावदहो। दूत! गच्छ, यदि तव स्वामी जीवितस्य निर्विरणोऽत्यन्तं ततः सङ्कामविषये सजो भूत्वा त्वरितमागच्छतु । अहमपि सङ्कामविषये सजीभूय स्थितः। ततो 1. The portion beginning with fa and ending with feugi is missing in 2.
कथाकोशः तेनापि आगत्य कदम्बोक्तं कथितं नलस्याने। ततः कोपारुणितलो. अनचतुरसेनायुक्तो नलराजा चचाल । क्रमेण प्राप्तस्तक्षशिलायाम्। तो वेशिता नलेन तक्षशिला। तामसहमानः कदम्बः सन्ना बहि- नंर्गतः । विविधप्रहरणकिरणद्विगुणितदिनमणिप्रभाप्रसरं निरुद्ध- रहीमण्डलं मण्डलाग्रसंघट्टसमुत्थितशिखिशिखाभासुरं सुरसिद्धय. प्रेक्ष्यमाणनृत्यत्कबन्धसमूहं वहद्रुधिरनदीकमलायमानसुभटमस्तकं हाभ्यां बलाभ्यां प्रारब्धं युद्धम् । नलेन कदम्बो भणित:-'एभिः हमतुल्यैः पदातिभिर्मारितैः किं प्रयोजनम् ? अहं त्वच द्वावपि युद्ध पुर्वः। ततो वावपि बाहुयुद्धप्रमुखैयुद्धोधुं प्रवृत्तौ। कदम्बेन द युद्धं नल प्रार्थितस्तत्र तत्र निर्जितो नलेन कदम्बः। ततः पला- येत्वा संयमं प्रतिपद्य कायोत्सर्गे स्थितः कदम्बः। ततः कायोत्सर्ग- स्थतः कदम्बो नलेनैवं भणितः 'अनेन सञ्चरित्रेण त्वयाऽहं निर्जिता, प्रावधिजराज्यं कुरु। कदम्बेन न गृहीतं राज्यं निस्पृहत्वेन । ततश्च कदम्बसस्वरचितेन नलेन जयशक्तिनामा कदम्बपुत्रो राज्ये स्थापितः। तो नरेन्द्रनलस्य भरतार्द्धराज्याभिषेकः कृतः। ततः कोशलायों समागतो राजानलः । ततो विविधविनोदैर्दवदन्त्या सह कालं गम- पति । कूबरोऽपि निजकुलाङ्गारो राज्यलुब्धो नलस्य छलं विलोकयन् वर्तते । अन्यदा भवितव्यतावशेन नलस्य दूतव्यसनं जातम् । 'नलस्य राज्यं गृहामि' इति चिन्तयन् कूबरो नलं रमते, निरन्तरं डमरूकवद् इयोरपि जये सञ्चरति बहुकालो गतः। अन्यदा दैवषशेन नलेन बरो जेतुं न शक्यते। नलस्य वाञ्छितः पाशको न पतितः। ततः कूबरः पुनर्नलसारिमारणं करोति । ततः कूबरेण नगरप्राम- खेटककर्बुटादीनि हरापितो नलः । ग्रीष्मे जलेन हीयमानसर इव विमवेन हीयमानो नलो बभूव । विषण्णो लोकः । धुतान्धबलेन सम्पाचमानमनोरथो हर्षितः कूबरः । नलानुरफेन लोकेन कृतो हाहारवः । तं हाहारवं श्रुत्वा समागता दवदन्ती । सा जल्पति- 'नाथ ! मम प्रसादं कुरु, त्वामहं प्रार्थयामि । एतत् द्यूतव्यसनं मुञ्च, निश्चितं वैरिण इव तव व्यसनदानदक्षा इमे अक्षाः। वरं लघुवान्ध- पस्य कबरस्य एतद् राज्यं खयं देहि, पुनरात्मनोऽकीति मार्जय। प्रनेकयुखप्रारम्भैरजित राज्यं ब्रूतेन हारितं सिक्थमिव मम चिचं दूययति' इति भणितोऽपि नलो चूतान निवर्तते । ततो दवदन्त्या मन्त्रिणा पहिताः। ततो बहुविधमुक्तोऽपि नलो धूतान निवर्तितः। सन्निपातगृहीतस्य किश्चिद् भेषजादिकं न सम्भवति । ततश्च हारित- समप्रराज्यो हारितदवदन्तीप्रमुखान्तःपुरो हारितशारीरपरिहित सकलामरणो नलो बभूव । ततः कूबरेण भणितम्-'मम राज्यं त्यज, अत्र मा तिष्ठ । एतद् राज्यं पूर्व तव पित्रा दत्तम्, साम्प्रतं पुनर्ममा- दत्तम् । ततो नलः परिहितवनद्रव्यो राज्यं त्यक्ता चलितः। दर- दन्त्यपि नलेन सह चलन्ती कूबरेण निषिद्धा-'मृगाक्षि! त्वं मा गच्छ, मया त्वं छूते जितासि । ममान्तःपुरमलकुरु।' ततो मन्त्रि- मिरुका कूबरः, परपुरुषच्छायामपि न स्पृशति दवदन्ती । तावदेता- मन्तःपुरे मा क्षिपख, यतो ज्येष्ठबान्धवस्य पत्नी जननीवद् द्रष्टव्या । ततो यदि हठेनैवं करिष्यसि ततो महासत्याः शापेन छारोत्करो भविष्यसि, यतः-सतीनां नहि किमपि दुष्करम् । अन्य व नलं प्रति प्रामनगरदानेनालं तव, किन्तु पाथेयसहितं ससारथिमेक रथं सम- पैय। एवममात्यभयेन कूबरेण विसर्जिता दवदन्ती, पाथेयसारथि- सहितः समर्पितो रथः। नलेनोक्तम्-'येन मया भरतार्द्धविजयो- पार्जिता लीलया लक्ष्मीस्त्यका तस्य मम रथेन किं प्रयोजनम् । प्रधानर्भणितो नल:-'चिरसेवकानप्यस्मान् त्वामनुव्रजतः कुबरी निवारयति । किश्चास्मिन् वंशे यो राजा तं सेवामो वयम् , असाक- भयंक्रमः । साम्प्रतं दवदन्त्येव तव भार्या मन्त्री, पदातिरेषा शिरीष- कुसुमसुकुमारशरीरा सूर्यकरनिकरसन्तप्तरेणुकणदुर्गमे मार्गे कथं कमलकोमलाभ्यां चरणाभ्यां चलिष्यति ? ततः स्वामिन् एनं रथ गृहाण, दवदन्त्या सह समारहख रथम्।' एवं प्रधानः प्राधितो रथमारुह्य दवदन्त्या सह प्रस्थितो नलः । सानोचतामिवैकवला दक्दन्तीं दृष्ट्वा नगरनारीभिः प्ररुदितम् । इतश्च नलेन बजता नगरी मध्ये हस्तपञ्चशतप्रमाण एका स्तम्भो दृष्टाः। राज्यभ्रंशोहवं दु:ख- मजानता कौतुकेन कदलीस्तम्भ इव लीलयोन्मूलितः पुनस्त- वारोपितः। एवं दृष्ट्वा नागरिकैरुतम् -'अहो एवं बलमलिनोऽपि नलख दैवयोगेन राज्यभ्रंशः । पूर्व नमरोबाने कूपरेखा सह कीडतो नलस्य दिव्यमानी मुनिः समागतः। तेन नलं पोकम्, कथाकोश बनलो दक्षिणभरता,स्वामी भविष्यति, नगरमध्ये स्थितं हस्त- शतप्रमाणं स्तम्भ चालयिष्यति । एतद् द्वयमपि मिलितमसाभि- जिनेष्टम् । यत् पुनर्नले जीवति कोशलायामन्यो राजा सातः तद्विसंवदति । अथवा नाऽन्यथा केवलिवचनम् । न नन्दिष्यति वर। नल एव राजात्र भविष्यति ।' एवं श्लोकसंलापं शृण्वन् चदन्त्या सह रथाधिरूढो निर्गतो नलः । नलेन दवदन्ती पृष्टा- हेवि! कुत्र बजामो वयम् ? तयोक्तम्-'देव ! कुण्डिनपुरं प्रति च्छथ । तत्र प्रापूर्णकीभूय अनुगृह्णीत मे तातम् । ततो नलादेशेन रथिना कुण्डिनपुरं प्रति प्रेरिता रथतुरङ्गमाः। क्रमेण घुरघुराय- पणव्याघ्रचित्रत्रस्तपान्थन्यूहं रौद्रशन्दशार्दूलसंहृतहरिणसमूह विष- षमविसर्पमाणसर्पभीषणं दृश्यमानश्वापदसमूहभीषणमेवंविधमरण्यं तो नलः । तत्र वने करविधृतधनुर्बाणैमिल्लनिरुद्धो नलः । रथं का तेषां सम्मुखो बभूव नलः । ततश्च स दवदन्त्या करे धृतः। वामिन् ! एषु शृगालरूपेषु तव सिंहवत् क आक्षेपः १ । भरतार्द्ध- वजयलक्ष्मीविलासभुवनम् एषु तव कृपाणः । किं न लजसे?' तो दवदन्त्या शीलमाहात्म्य दुस्सहा मुला हुकारा हरिणा इव । संहगर्जितैस्तैहुंकारैः प्रनष्टा दिशोदिशं भिल्लाः । भिल्लानां पृष्ठे नलेन मिं दवदन्ती दूरंगता । इतश्चान्यभिल्लै रथो गृहीतः। विपरीतविधी रुषस्य पुरुषकारः किं करोति ? तस्मिन्नरण्ये' दवदन्त्याः करं हीत्वा पाणिग्रहणोत्सवं स्मारयन् चालतो नलः। दर्भाग्रभित्रकोमल. रणकमलस्रवद्रुधिरबिन्दुभिर्दवदन्त्या तदररायमिन्द्रगोपाङ्कितं तिम् । दवदन्त्या प्रथमं यः पट्टबन्धो मस्तके बभूव नलेन साम्प्रतं । निजवनखण्डैः पादयोः कृतः । ततो नलो मार्गगमनखियां ज्ञास्थले निषण्णां दवदन्तीं न्यूनपरिधानाञ्चलवीजनेन वीजयति । मिनीपत्रपुटेषु सलिलमानीय दवदन्तीं पाययति । इतश्च दवदन्त्या टम्-'स्वामिन् ! अद्यापि कियद् गन्तव्यम् ?' नलेनोक्तम्-'देवि! जनशतमेतदरण्यम् । अद्यापि पञ्चैव योजनानि उल्लासितानि । ततो रा भव ।' तयोरवमुक्तवतोरस्तंगतो रविः । ततश्च कोमलपल्लवैः शस्तः प्रस्तरो विहितो नलेन । दवदन्ती एवमुक्का-'देवि ! अत्र ..A.adas निजकरेण after.धरराये।
कथाकोश शयनं कुरु, भयशङ्का न कर्तव्या, अहं प्रहरके स्थितोऽसि' इत्युका नलेन निजनिवसनाई नस्तरे क्षितम् । ततो देवान् वन्दित्वा पञ्च- परमेष्टिं स्मृत्वा प्रसुप्ता दवदन्ती । तस्यां निद्रायमाणायां नखेन चिन्तितम्-'येषां श्वशुरः शरणं ते पुरुषाः पुरुषेषु रेखां न लभन्ते । ततोऽहमीगवस्थायां न पितृगृहे व्रजामि । हृदयं वज्रवत्कठिनं कृत्वा प्रियामपि दवदन्ती मुत्का रङ्कवद् आत्मोदरं गृहीत्वाऽन्यत्र बजामि । दवदन्त्याः शीलप्रभावन कोऽप्यपायो न भविष्यति यतः सतीत्वशील- मेव सर्वाङ्गरक्षणकरं सन्नाहः । ततः बुरिकया निजनिवसनाई छिन्नम् , दवदन्तीवस्त्राञ्चले निजरूधिरेणाक्षराणि लिखितानि- बडरुषदांहिण दिसिहं जाइ विदब्भह मग्ग । वामदिसिहिं भावइ तहि भावै तह लग्गु ॥३॥ ततश्च निश्शब्दं रुदन चौरवनिश्शब्दपदोगन्तुं प्रवृत्तो नलः। प्रसुप्तां दवदन्तीं मुस्खा चलितकन्धरं विलोकयन् कियभूमिभागं गत्वा पुनः चिन्तितं नलेन-'अरण्ये प्रसुप्तां बालामनाथामेनां व्यानो वा सिंहो वा भक्षयिष्यति ततो मम का गतिर्भविष्यति अतः कारणा- सूर्योदयं यावद्रक्षाम्येनाम् , प्रभातकाले बजत्वेषा निजेच्छया। तत- स्तैरेव पादैनिवृत्तो नलः । भूमिसुप्तां दवदन्तीं दृष्ट्वा चिन्तितं नलेन- 'हा ! दवदन्ती एकवस्त्रा एकाकिनी शून्यारण्ये खपिति । अहो! नलस्यासूर्यम्पश्यमन्तःपुरम् । मम कर्मदोषेण पनामवस्थां गता दव- दन्ती। तावत् किं करोमि ? अहं हताशोऽनाथामिव प्रियां महीपीठे लुठितां विलोकयन्नपि यदहं न लजे तनिश्चितं निर्लजोऽहम् । बजा- घटितोऽस्मि । अथवा यन्मया एषा दवदन्ती अरण्ये मुक्का तावत् पतिव्रतामेनां मुकाऽन्यत्र गन्तुं मम मनो नोत्सहते।' जीवितं मरणं वा ममाऽनया सह भवतु । अथवाऽपायशतसरकुलेऽरएयेऽहमेव भवामि दुःखमाजनम् । एषा पुनः वस्नलिखितं ममादेशं कुर्वती खजनभुवने गत्वा सुखेन तिष्ठतु।' एवं कृतनिश्चयो रजनी गयित्वा दवदन्तीजागरणकाले तिरोहितः त्वरितपदक्षेपं नलः। इतश्च रजनी- विरामे दवदन्त्याः खप्नो दृष्टः-'फलपुष्पमनोहरे सहकारवृतेऽहमा- सढा, मया तस्य पेशलानि फलानि भक्षितानि । ततश्च वनगजेन सहसैवोन्मूलितः सहकारवृक्षः ततोऽहं पृथ्वीतले मुसा पतिता।'
कथाकोशः व प्रतिबुद्धा दवदन्ती नलमदृष्ट्वा यूथभ्रष्टा हरिणीव दिशो विलो- प्रतुं प्रवृत्ता । 'हाऽतिशयेनाहितं कृतं यत् शून्यारण्येऽशरणप्रिय- न मुक्ताऽसि । अथवा प्रभाते मम वदनशुद्धिसलिलानयनार्थ पि जलाश्रये गतो भविष्यति । अथवा निरुपमरूपलुब्धया कयापि पायर्या क्रीडाथै नीतः। ते द्रुमाः पर्वतास्तेऽपि तदरण्यं च सा च भूः । एकमेव न पश्यामि नलं कमललोचनम् ॥४॥ एवमनल्पविकल्पव्याकुलचित्ता दिशो विलोकयन्ती नलम- पमाणा भीता खनार्थ विचारयितुं प्रवृत्ता-'यः पुष्पफलसमृद्धः कारवृक्षः स नलो राजा, यन्मया फलान्याखादितानि तद् राज- ख्यम् , यद् वनगजेन सहकारवृक्ष उन्मूलितस्तदैवयोगेन नलस्य त्यभ्रंशः । यत्पुनः तस्मात् सहकारवृक्षादहं पतिता ततोऽहं नलाद् जाता। ततोऽनेन वनेन दुर्लभ मम नलस्य दर्शनम् । ततो मुक्त- ठमुचैःवरं रोदितुं प्रवृत्ता दवदन्ती यत् कातरचित्तानां स्त्रीणां सने समुपस्थिते धीरिमा न भवति । 'हा नाथ ! त्वयाऽहं कथं का? कि तव भारकारिणी भवामि । सर्पस्यापि निजा कंचुलिका रन करोति । भो वनदेवताः! युष्मानहं प्रार्थयामि मे प्राणनाथं यिथ । अथवा पवित्रितं मार्ग दर्शयथ। पकवालुंकफलमिव स्फुट रणि ! यथा तेन विवरेण पातालं प्रविश्य निर्वृत्ति प्रामोमि ।' एवं लपन्तीअश्रुजलसारणीभिररण्यवृक्षान् सिञ्चन्ती नलं विना कुत्रापि ले स्थले रतिमप्राप्नुवन्ती वस्त्राश्चलेऽक्षराणि दृष्ट्वा विकसद्वदना दन्ती वाचयति-'निश्चितं प्रियतमेन त्यक्ताऽहं देहमात्रेण न चित्तेन । अन्यथा कथमादेशदानेनानुगृहीतालि । ततो गुरुवाक्य- व निजपतेराक्षां कुर्वत्या मम निर्मल इह लोकः । अतो ब्रजामि तुर्ग्रहम् । यत्पुनर् भर्तृभवनं पति विना तत् पराभवस्थानं नारी- म्' इति निश्चित्य चलिता वटवृक्षस्य दक्षिणदिशो मार्गेण पार्थस्थित लमिव नलाक्षराणि विलोकयन्ती । विमलशीलप्रभावेन तस्याः केड- पद्रधान प्रभवन्ति । कोपवशसजितक्रमोऽपि सिंहो दवदन्ती- क्रिमितुं न शक्तः । गन्धलुग्धभ्रमरबधिरितसकलदिश्चक्रं विस्तृत- ..A. and Z.add कुटिलं दंष्ट्रयाः प्रेष्य एवंविधः after क्रमोऽपि ।
शुएखादण्ड कुपितमपि गजकुलं दबदन्तीशीलप्रभावन दूरं याति । धूमध्यानमलनितदिश्चको महज्ज्वालाहितगगनालपार्कोऽप्राप्तोभाव- सन्तापो बनदयो विध्माति । विस्फारितस्फारफणा हुशार विमुक- विषोत्कयः प्रसरदोषविहला एवंविधा विषधरास्तस्याः प्रातुन क्षमाः । अध मार्गपरिश्रमखेदजलक्लिनगात्रया कण्टकषिद्धपादतल- तुरखुधिरया धूलधूसरशरीरया दवदन्त्या दृष्टः सार्थ एका समापतत । ततश्चिन्तितं दवदन्त्या-'अहो मम पुण्योदयेन अरण्यनिस्तारणका- रणं मया प्रशस्तः सार्थो दष्टः। यात्किञ्चित् स्वस्थीभूता तावत्सम- न्ताद् विविधायुधभयङ्करैस्तस्करै रुद्धः सार्थः। संत्रस्ता लोका।' दवदन्त्या भणितम्-'भो मा बिभ्यथ' इति । उकास्तस्करा:-'अरे. दुराचाराः ! मया रक्ष्यमाणम् एनं सार्थ मा लुण्टयथ, अन्यथाऽनर्थ प्राप्स्यथ । तथापि न विरमन्ति चौराः। ततस्तया शीलप्रभावदुस्सहा मुक्का हङ्काराः । तैर्षनुर्गुणटवारर्वायसा इव सर्वे प्रनयाधौरा ततब्ध सार्यलोकेन भणितम्-'अस्मत्पुण्यैराकष्टा काप्येषा वनदेवता समा- गता यया एभ्यो रक्षितः सार्थः ।' सार्थवाहो जननीमिव तां प्रणम्य पृच्छति-'देवि! कासि त्वम् , कथमरण्ये परिभ्रमसि ततो दव- दन्त्या रुदत्या तस्यामे सर्वो निजवृत्तान्तः कथितः । तेनोक्तम्- 'महाराज! नलस्य भार्या मम पूजनीयाऽसि त्वया तस्करेभ्यो रक्षन्या उपकारितोऽहम् । ततो ममावासं पवित्रीकुरु' इति भणित्वा विजा- पासे नीता सार्थचाहेन। देवतामिव तां पूजयति । अत्रान्तरे प्रायो वर्षाकालानिरा निरन्तरा वृधिः सजाता। दवदन्ती सुखोन स्थिता। तत्र बिरतायां वृष्टी साथै मुत्या एकाकिनी पुनमलिवा दवदन्ती। ततच मार्गे गच्छन्ती पीवकेश अमरकुखकष्यपरं कर्तिकाकरान परमेषि राक्षसं पश्यति दवदन्ती। ततो भणितं यक्षसेब-पहो। पराखिवस्य मम भक्ष्यमुपस्थितम् । स्वदन्योक्तम्-'मः। अवस्य पीक्स अल्प प्रमार्थस्य सयुभय। मनेक यापिका इमामोसाको मरणं मार्पयामि । त्यपि बलवियर माम सोनमकृषिमालि। दुको मनमा कि विलम्बाले । मावस्यमामा समर्पित.सरपं. विमा दावानां जबकि जायतशतता Taarत मषितम विवादिमिक पनि पनि युरो- कथाकोशः ततः कथय कदा मम पतिसङ्गमो भविष्यति? विभावलेन भिणितं राक्षसेन-'प्रवासदिवसादारभ्य सम्पूर्णषु द्वादशवर्षेषु हस्थितायाः स्वयमेव मिलिष्यति नलस्तव ।' पुनस्तेन भणितम्- न मार्गखेदेन किम् ! यदि भणसि ततो निमेषमात्रेण त्वां पित- रे नयामि। तयोक्तम्-'कृतार्थाऽहं नलसङ्गमकथनेन नाह रुषेण समं बजामि। ब्रज त्वं खस्थाने।' प्रभापुञ्जमाखरं देवशरीरं पत्वाऽदृश्यो बभूव राक्षसः। द्वादशवार्षिकं नलप्रवास ज्ञात्वा दव- नियमा गृहीताः-रक्तवस्त्राणि ताम्बूलं विभूषणविलेपनं तयानं ग्रहीष्ये न यावम्मिलिष्यति मे नलः। ततस्तीवतपश्चरणपरा एके बीजरहितफलविहितप्राणवृत्तिश्चित्तस्थितां श्रीशान्तिनाथ. मां ध्यायन्ती गिरिगुहायां स्थिता। सार्थवाहः सार्थमध्ये तामदृष्ट्वा बान्तचित्तः सर्वत्र विलोकयन् गिरिगुहायां समागतः। ध्यान- प्त्या तया सम्भाषितः सार्थवाहः । तयोः संलापं श्रुत्वा सम्प्राप्ता- केऽपि तापसा हरिणा इव निश्चलकर्णाः स्थिताः। अत्रान्तरे धाराभिर्वर्षितुं प्रवृत्तो मेघः। सजातभयया दवदन्त्या भणितम्- Tमा बिभ्यथ । तेषां परितश्चतुर्दिनु कुण्डं कृत्वा कृता शोल- रणा। यदि मम अखण्डितं शीलं ततः कुण्डबाह्य वर्षतु मेघः। तुणच्छन्ने गृह इवन निपतितं जलम् । अन्यत्र प्रस्तरा अपि पय:- साविताः । तद् दृष्ट्वा विस्मितचिस्तापसैश्चिन्तितम्-'अहो! व्याईडग् रूपम् ईटशी शक्तिर्न भवति । ततो नूनं कापि देवता । सार्थवाहेनोक्तम्-देवि! कि त्वं ध्यायसि ? किंवा निर्भया सि' तयोक्तम्-अहमहन्तं देवं ध्यायामि तस्य प्रभावान्नास्ति मम ।' देवगुरुधर्मखरूपं सविस्तरं कथयित्वा जिनधर्मप्रतिपति तः सार्थवाहः। तापसा अपि सम्प्रासक्षीरपाना कानिकमिव धर्म निन्दन्तो जिनधर्म प्रपत्राः । तत्र सार्थवाहेन नगरं कारितं पिसानां पञ्चशतानि प्रतिबुद्धानि। ततस्तस्य नगरस्य तापसपुरं कृतम् । तत्र जिनमन्दिरं कारितम् । मध्ये श्रीशान्तिनाथप्रतिमा पिता। सर्वेऽपि जिनधर्मपराः कालमतिकामयन्ति । अन्यदा रात्रि- पायसमये गिरिशिखरे दवदन्त्या उद्योतो इष्टः । उत्पतन्तो निप- 1. विकृतयो A. and Z. २. कृत्वा is missing in Z, कथाकोशः तन्तश्च देवा दृष्टाः। तेषां जयजयरवैनगरवास्तव्या लोका जागृताः। तैः सह पर्वतं समारूढा दवदन्ती। तत्र देवैः सिंहकेसरिमुनेः केव- लिमहिमा कृता । तं मुनि नमस्कृत्य सर्वेऽग्रे उपविष्टाः। इतश्च तस्य केवलिनो मुनेर्यशोभद्रनामा गुरुस्तत्र समागतः। सोऽपि केवलिनं नत्वाऽप्र उपविष्टः । केवलिना धर्मदेशना कृता। अत्रान्तरे गगनमण्डलमुद्योतयन् तत्रैको देवः समागतः ॥ केवलिनं नत्वा तेन भणिता दवदन्ती-भद्रे! अत्रैव तपोवने कुलपतेः शिष्या करो नाम । अहं पञ्चाग्निसाधकः परं तापसा मयि कोपं कुर्वन्ति । ततस्तेषु रोपं वहन्नन्यत्र गतोऽहम् । अन्यदा रात्रौ रोषान्धो मार्गे ब्रजन् निपतितो गिरिकन्दरायाम् । गिरिदन्तानलमा भन्ना मम दन्ताः । दन्तभङ्गपीडापरवशोऽहं तत्रैव पतितः स्थितः। सप्तरात्रं दुःखमस्येव तापसमम वार्तापि न कृताकिं पुनःप्रतीकार ? विशेषतो भुजङ्गे गृहानिर्गत इव तपोवनात्तस्मिनिर्गते तापसानां सुखं सजा- तम् । सोऽप्यहं तापसेषु विशेषोलसितकोपो मृत्वा तत्रैव तापसारण्ये सो बभूव । कदाचित्कृतफणाटोपोऽहं तव दशनार्थ प्रधावितः। त्वया मां दृष्ट्वा पठितः परमेष्ठिमन्त्रः। तेन परमेष्ठिमन्त्रेण कर्णगोच- रतां गतेन मम रुद्धा गतिः। पुनरपि बिलं प्रविष्टः। अन्यदा त्वया तापसानां कथ्यमानं धर्म शृणोमि । यः क्रोधमानमायालोभानुगतः प्राणिवघं करोति स द्वितीयभवे उग्रदुःखानि प्रामोति । ततो मया चिन्तितम्-अहं कथं भविष्यामि यो जीववधेनैव जीवामि । एते व तापसाः कुत्रापि पूर्व दृष्टा मया इतीहापोहं कुर्वतो मम जातिस- एणं सजातम् । संवेगपूर्व पूर्वदुष्कृतानि निन्दता मया कृतमनशनम् । सोऽहं मृत्वा सौधर्म समुत्पन्नो देवः कुसुमप्रमनामा । भवधर्मवचन- प्रवणात् प्राप्तं मया देवत्वम् इति कारणात् त्वामुपकारिणीं दृष्ट्वाऽह- मागतः । ततोऽहं तव धर्मपुत्रः ।" तेन तापसा भणिता:- 'ताम्यत मम पूर्वकोपाचरणम् । पूर्वप्रतिपन्नं श्रावकवतं पाल- पति । गिरिकन्दरायास्तत् सर्पकलेवरं समाकृष्य एकस्मिन् वृक्ष उलम्बितमिति भणिता-'यः कोऽपि कोपं करिष्यति स कर्पर व परमवे सो भविष्यति । ततः संविनचित्तेन कुलपतिना भणितः केवली-भगवन ! मम दीक्षां देहि ।' केवलिनोलम्-'एष यशोभद्र- कथाकोशः स्वां दीक्षायिष्यति । पुनः कुलपतिना उक्तम्-'भगवन् मिः कथं दीक्षा गृहीता। केवलिनोक्तम्-कोशलायां नगाँ स्य पुत्रोऽहम् । सहानगरीखामिना केसरिणा बन्धुमती नानी दत्ता निजपुत्री । जनकादेशेन मया गत्वा तत्र सा कन्या ता। तया सह निवृत्तेन मार्गे समवसृतोऽयं जयमदनामाचार्यों परमभक्त्या वन्दितः । श्रवणामृतसारिणी तस्य मुखान्मया श्रुता । देशनान्ते मया पृष्टम्-भगवन् ! मम कियदायुर्वर्तते? दत्तोपयोगेन गुरुणोक्तम्-'वत्स ! पञ्चैव दिवसानि तवायुः। मयाऽऽसन्नं मरणं ज्ञात्वा उक्तम्-'भगवन् ! स्तोकजीवित- हम् , साम्प्रतं किं करोमि ? गुरुणोक्तम्-वत्स! मा कुरु र, दीक्षां गृहाण, यत एकदिवसमपि प्रतिपालिता दीक्षा एषा पिवर्गकारणम् । ततोऽहं प्रतिपनो दीक्षां गुरुनिदेशेन । अत्रा- ऽहं शुक्लध्यानानलेन दग्धकर्मेन्धनः केवलज्ञानं प्राप्तः ।' एवं यत्वा कृतयोगनिरोधः क्षपितभवोपग्राहिकर्मा सिंहकेसरी मोद । देवैः केलिशरीरस्य संस्कारो विहितः । कुलपतिना यशो- परिपाचे दीक्षा गृहीता । दवदन्त्या भणितम्-'भगवन् ! पि दीक्षां देहि ।' सूरिणा भणितम्-'भद्रे! त्वयाऽधापि नलेन भोगा भोक्तव्याः। अतो नाहसि त्वं दीनाम् ।' प्रभाते पर्वता- र्य यशोभद्रसूरिस्तापसपुरे समागतः । एवं धर्मप्रसक्ता मलिन- I सप्तवर्षाणि गिरिगुहायां स्थिताः । अन्यदा तयाऽकरमादेवं यथा 'दवदन्ति ! अमुकप्रदेशे तव पतिर्मयाऽध नलो दृष्टः।' श्रुत्वा वचनानुसारेण प्रधाविता दवदन्ती गता दूरम् अरण्ये ता नलमविलोकयन्ती रोदितुं प्रवृत्ता । 'हा किं करोमि, कुत्र में' इति विलापं कुर्वती तामेव गिरिगुहां गन्तुं प्रवृत्ता । ततश्च रितवदनया 'भक्षयिष्यामि' इति भणन्त्या एकया राक्षस्या दृष्टा इन्ती। तयापि शीलप्रभावाद् भक्षितुं न शक्ला । ततो राक्षसी उष्टेवाडश्या बभूव । अग्रतो गच्छन्त्या तया एका निर्जला नदी ।। पिपासापीडितया पाणिप्रहारेण शीलप्रभावादुत्पादितं जलम् । जलं पीत्वा पुनः परिभ्रान्ता वटवृक्षस्य तले प्रान्ता सार्थपुरुषैदृष्टा । तैणिता-'भद्रे! का त्वं देवीव दृश्यले ? क्तम्-'मानुषी अहं सार्थपरिभ्रष्टाऽस्मिारण्ये सञ्चरामि । प्रस्थिता । पुरतः
No text on this page.
कथाकोश मना वाप्युपकण्ठे उपविष्टा । तत्राचलपुरे ऋतुपर्णो नाम ऽस्ति । तस्य चन्द्रयशा नाली राशी । तस्या दासीभिर्दष्टा दव- -'अहो! अस्या रूपम्' इति विस्मिताभिर्गत्वा कथितं चन्द्र- या अग्रेतयाऽपि आत्मसमीप आनायिता दवदन्ती पृष्टाच कासि त्वम् १" दवदन्त्योक्तम्-'वणिपुत्र्यहमरण्ये त्यक्ता' यशया उक्तम्-'चन्द्रवती पुत्रीव मम वर्तसे ? अतः सुखेन गृहे तिष्ठ।' इतश्च दवदन्ती नगरपरिसरे प्रतिदिवसं दीना- नां दानं ददाति । अन्यदा दानशालायां स्थिता तलारकैीयमानं (बन्धैर्बद्धं चौरं पश्यति । ततः पृष्टं दवदन्त्या-'अनेन किं शितं. भोः । तैरुक्तम्-'चन्द्रवतीकरण्डिकाऽपहृताऽनेन । ऽयं हन्यते।' चौरोऽपि दन्तैरङ्गुलीहीत्वा दवदन्ती भणति- मोचय माम् , समागतोऽहं तव शरणम्।' दवदन्त्या कृता श्रावणा । शीलप्रभावात्तस्य बन्धास्त्रुटिताः। दूरीभूतास्तलारकाः । वृत्तान्तं श्रुत्वा तत्र समागतो राजा । राक्षोक्तम्-'वत्से ! तेदयुक्तं कथं कृतम् ? तस्करो रक्षितुं न युज्यते। दवदन्त्यो- -देव ! कृपापरवशचित्तया मया एवं कृतम् । अयं ममापराधः व्यः। ततो मुक्तस्तस्करो राक्षा । चौरोऽपि निजमातरमिव दिवसं वदन्ती प्रणमति । अन्यदा दवदन्त्या चौर एवमुक्तः- स्वम् । कुतः समागतः १ चौरेणोक्तम्-त्वं कथं नोपलक्षयसि १ अहं तापसपुरवास्तव्यवसन्तसार्थवाहस्य पिकलो नाम अन्यदा यूतादिव्यसनासक्तेन मया वसन्तसार्थवाहस्य गृहे पातयित्वाऽपहतं सारद्रव्यम् । तद् गृहीत्वा मार्गे गच्छतो मम माचौरहीतम् । ततोऽहमत्राचलपुरे आगतः। ऋतुपर्णो राजा पियवा चन्द्रवत्या रखकरण्डिको दृष्ट्वा मम चित्तं चलितम् । मया गृहीतो रखकरण्डकः । तद्रूपं सात्वा राजादेशेन पा विधार्थ नीयमानेन मया त्वं दृष्य । ततस्वया ताकि वापसपुरास्ववि मापसपुरात्वयि गतायां वसन्तसार्थवाहः सतरा लियतः । ततः सप्तदिवसप्रान्ते यशोभद्रसरिता मोजने कारितः । अन्यदा प्रधानमामृतं गृहीत्वा सरप्राई कोशलायां गतः । ततस्तुन वरेण aal तन्तसार्थवाहाय तापसपुरप्रभुत्वं वचम् । ततस्तूर्यरवापूरितदिग- रो वसन्तः श्रीशेखरो निजगृहे समागतः। तत्र तापसपुरराज्यं ऐति।" दवदन्त्या भणितम्-'वत्स दीक्षां गृहाण । तेनोक्तम्- तिर्यत्वं कथयिष्यसि अहं तदेव करिष्यामि। ततः पिङ्गलेन गृहीता हा। इतश्चान्यदा भीमरथरामा इति श्रुतं यमलेन घुतासलेन त्यं हारितम् । दवदन्ती गृहीत्वामहाटवीं प्रविष्टः।नायते कुत्रापि जीवति अथवा मृतः। तच्छ्रुत्वा स्थूलाश्रुसलिलसिच्यमानदया दिता पुष्पदन्ती। ततो भीमरथराला तयोर्विलोकनार्थ प्रभुकार्य- लपटा प्रेषितो हरिमित्रनामा वटुः क्रमेण परिभ्रमन् अचलपुरे गतः। ऋतुपर्मरायः पावें गतः। चन्द्रयशया पृष्ठम्-'मम न्याः पुष्पदन्त्याः कुशलम् ?' बटुकेनोक्तम्-'नित्यमपि कुशलं दिया। किन्तुनलदवदन्त्यो राज्यभ्रंशभ्रषणात् पुष्पदन्त्या महान् तसन्तापो वर्तते।' चन्द्रयशया उक्तम्-'बटुक! नल एवं कि सि ? ततो हरिमित्रवटुन मूलादपि नलदवदन्स्योवृत्तान्तः पतः। एवं श्रुत्वा चन्द्रयशा प्रत्यर्थ रोदनं करोति। तां रुदती सकलोऽपि राजलोको रोदिति । सर्वे शोकनिर्भरं ष्वा सुधा. तो बटुको दानशालायां गतः। तत्र भोजनार्थ प्रविष्टः । तत्र आधिकारिणी दवदन्तीमुपलक्ष्य सहर्षों बभूव । उत्थाय ववदन्ती पति । एवमुक्तश्व-देवि! तव का एषा दु:स्थाऽवस्था जाता। त्यं वर्तते यबद्यापि जीवन्ती रथा' ततो विस्मृतधादुम्सो पन्यासमीपे । एवं भसितम्-'देवि! वर्धाप्यसे, तब दान- स्यां ववन्ती वर्तते। तच्छुत्वा वागता चन्द्रमाया देवी दवदन्ती गाहमालिकति चिन्द्रयायोक्तम्-'विन पिर मां ययेगवस्था पसभिचा। ततो बल्ले। बात्मानं गोपवित्वा स्वयाऽहंक ने विस्वमा नतो मुस्ता किंवा नलेन त्वं मुक्ता? त्वया मुक्का। विस्वमपि बासनपतितं पति परिस्य सोभियत परिपारिवमदिसाय उदेति। हामीन अपामेला परिहार मिला। एसोषितम्। यशशिमलाममापरायचोपततिलति कथाको जिनिष्ठीवनेन चन्द्रयशया दवदन्त्या मालपट्ट परामृष्टम् । सोऽर्फ इव, अनलोतीर्ण सुवर्णपिएडमिव दवदन्त्या भाले स्फुरितकान्तिर्बभूव । अथ चन्द्रयशया निजकराभ्यां स्नानं । दिव्यवस्त्राणि परिधाप्य राक्षः समीपे नीता दवदन्ती। हायवदन्त्यौ । अपि राक्षा सहोपविष्टौ । इतश्च तस्मिन् समये तं गतः। तिमिरेण कजलेनेव भाजनं गगनमण्डलं भरितम् । राजसभामध्ये तिमिरंन स्फुरति। ततोरात्रोक्तम्-'निश्चितं तमितः । अत्र सभायां दीपो नहि ततः किमत्रोद्योतः ततो सभालतिलकं दर्शितं चन्द्रयशादेव्याः । ततः कौतुकेन राक्षा ण तिलकमाच्छादितम् । ततो गिरिगुहेव तिमिरनिर्भरा जाता । पाणिमपसार्य राज्ञा दवदन्ती राज्यभ्रंशादिवृत्तान्तं पृष्टा। नतमुख्यया रुदत्या दवदन्त्या सकलोऽपि राज्यभ्रंशादिवृत्तान्तः । राक्षा निजोत्तरीयवस्त्रेण तस्या नयने परामृशता उक्तम्- मा दिहि । सुरासुरेष्वपि प्रभवति विधिः।' अत्रान्तरे रणतेजसाऽमरेण सभायामागत्य कृताञ्जलिना भणिता दव- 'अहं तवादेशेन पिकलनामा चौरः। चरित्रं गृहीत्वा विहरन् रे गतः। तत्र श्मशाने कायोत्सर्गे स्थितः चितावैश्वानरेण धर्मध्यानपरमेष्ठिमन्त्रं सरन् पूर्वपापानि निन्दन् मृतो देवी अवधिज्ञानेन पूर्वभवं ज्ञात्वा जीवितरक्षणेन प्रवज्यादापनेन चरिणी द्रष्टुमागतः। ततस्त्वं चिरं नन्द ।' तत सप्त काश्चन- प्रवृष्यं गतो देवः खस्थानमेवं देवानुभूतं सुकृतफलं विलो- त्यक्षस्तुपर्णो राजा प्रपत्रो जिनधर्मम् । इतश्च कियहिना- टुकेन ऋतुपर्णो राजा एवं विक्षप्तः–'देव ! विसर्जय दव- तिगृहे।' चन्द्रयशया उक्तम्-'एवं भवतु । ततः ऋतुपर्णेन सर्जिता चतुरसेनाकलिता चलिता दवदन्ती । आगच्छन्ती । श्रुत्वा मेहतन्तुसन्दानितो निर्गतः पुष्पदन्तीसहितो राजा । ततो दूरादपि निजपितरौ दृष्ट्वा वाहनंत्यका पित्रोः पात दबदन्ती। तेषां चिरान्मिलितानां नेत्रजलेन निपतता महीतले कर्दमं जातम् । यमुनेव गङ्गां जननीमालिङ्गय दव- WA.
খতীয় । जननीकण्ठे लगित्वा विमुक्तकण्ठं चिरं रोदिति। ततो मुख- लानि प्रक्षाल्य अखिलमपि सुखदुःखं कथयति । अथ पुष्पदन्ती न्तीम् उत्सने आरोप्य भणति-वत्से! यदि त्वं जीवन्ती रष्टा माकं पुण्यं जागर्ति । अस्मद्गृहे तिष्ठन्ती सुखेन निजपतिं विलो- व्यसि।' ततो भीमरथराशा परितुष्टेन हरिमित्राय प्रामाणां शतानि दत्तानि । ततो नगरमध्ये प्रवेशमहोत्सवो बभूव । सप्त नि यावद्विशेषतो देवगुरुपूजा कृता । अष्टमदिने भीमरथराहा इन्ती प्रत्युक्तम्-'वत्से ! तथा करिष्ये यथा तव नलसङ्गमो भवि. है।' इतश्च तस्मिन् क्षणे नलराशा दवदन्तीं मुका अरण्ये परि- ता वननिकुआदुद्गतो धूमो दृष्टः । क्षणान्तरेण ज्वालाकरालो r: । ततश्च प्रसरितदह्यमानवंशत्रटनटारवो विविधश्वापदा- इभैरवः कृतद्रुमोपद्रवः प्रदीप्तो वनदवः । तत्र 'इक्ष्वाकुकुलकमल- ण्डमण्डल नल! मां रक्ष।' इति शब्दो नलेन श्रुतः। ततश्च कारणकरुणाप्रधानत्वेन शब्दानुसारतो गच्छन् 'रक्ष रक्ष' इति न् महाभुजङ्गमो दृष्टोनलेन। 'अयं मम नाम कुलं वाकथं जानाति ? वा सर्पस्येति मानुषी भाषा कथं भवति ?' इति विलितचित्तेन पाकर्षणार्थ निजमुत्तरीयवस्त्रं क्षिप्तं नलेन । तद् भूमी लग्नं निज- गेन वेष्टितं सर्पण । रज्जुरिव कूपादाकृष्य निस्तुणे प्रदेशे धर्तुकामो दष्टः करे । तं सर्प भूमितले परिक्षिप्य नलेन भणितम्-'त्वया शेिन साधु कृतं यन्ममोपकारिण एवमुपकृतम् । निश्चितं तत् सत्यं क्षीरं पाययति सोऽपि तव जात्या दश्यते। एवमुक्तवतो नलस्य सर्पता सर्पविषेण क्षणेन कुजं वपुर्बभूव । पिशाच इव कपिलकेशः भइव सूक्ष्मपाणिपादः गणपतिरिव लम्बोदर एवंविधरूपो नलो दूव । ततश्च बीभत्ससर्वगात्रमात्मानं विलोक्य नलेन चिन्तितम्- रहो! अनेन रूपेण मुधा मम जीवितम् , ततः परलोकोपकारिणी क्षिां गृहामि' इति चिन्ताप्रपन्नस्य नलस्य सर्परूपं त्यका देवः प्रकटी- भूव । उक्तञ्च-'राजन् ! विषादं मुश्च । अहं निषधनामा तव पिता। दातवराज्यं दत्त्वा दीक्षा प्रतिपद्य मृत्वा ब्रह्मदेवलोके देवत्वेनोत्पन्नः। वधिज्ञानेन मया तवैषाऽवस्था ज्ञाता। ततो मया मायया सर्परूपं त्वा दुर्दशापतितस्य शरीरं विरूपं विहितं तत् त्वया कटुकौषध- कथाकोशः । चिन्तयितव्यं यतस्त्वया सर्वेऽपि राजानः किरीकृताः। रूपत्वेनानुपलक्षणीयं त्वां नोपद्रविष्यन्ति । साम्प्रतं दीक्षा- मपि मा कुरु । अद्यापि भोक्तव्या त्वया सकलापि मही। तव चारित्रसमयं कथयिष्यामि । तथाच एतद् बिल्वमेनां ऐडकां च गृहाण । एतद् द्वयं यत्नेन धार्य यदा पुनः स्वरूप- । तदेतद् बिल्वं स्फोटनीयम् । तस्य मध्ये देवदूष्यानि, रन- का उद्घाटनीया, तत्र हारप्रमुखान्यामरणानि द्रक्ष्यसि । तैर्देव. रणैश्च पहिरतैनिजरूपं प्राप्स्यसि।' इतश्च नलेन देवसमीपे वृत्तान्तः पृष्टः, तेन देवेन सतीत्वप्रधानः सर्वोऽपि वृत्तान्तः । भणितो देवेन नल:-'किमेवमरण्ये परिभ्राम्यसि ? यत्र तुमिच्छसि तत्र नयामि त्वाम् ।' नलेनोक्तम्-'सुसुमारपुरे । ततश्च क्षणमात्रेण सुंसुमारपुरे नलं विमुच्य गतो देवः म् । नलोऽपि तस्य नगरस्योद्याने जिनभुवने नमिनाथं नत्वा पुरद्वारे गतः । इतधोन्मूलितालानस्तम्भः पवनस्पर्शेऽपि सन उपरि सञ्चरतो विहङ्गमानपि करेणाकर्षयन् तरुवनं भ्रान्तो मत्तहस्ती । तत्र दधिपणेन राक्षा प्राकारमारुह्य -य एनं कुअरं वशीकरोति तस्य यद् वाञ्छितं तहदामि।' नोक्तम्-'कुतोऽसौ मत्तगजो यथा वशीकरोमि ।' एवं नलस्य मेघ इव गर्जन् तत्र प्रदेशे समागतो गजः। तं प्रति कुब्जः। गजशुएडापातवञ्चनाकुशलेनाग्रतः पृष्ठतः पार्श्वत: निलेन परिश्रमं नीतो गजः । गरुड इवोत्प्लुत्य तस्य स्कन्ध कुब्जः । पूर्वासने उपविश्य पृष्ठिप्रदेशे चरणौ प्रक्षिप्य कुम्भ- टयाऽऽहतो गजः। ततो लोकेन जयारव उद्धृष्टः । राक्षा लं दत्तम् । वशीकृत्वा नलेनालानस्तम्भे नीतो गजः। ततो र्य दधिपर्णस्य प्रणाममकृत्वाऽऽसन उपविष्टो नलः । राक्षा नोक्तम्-'भोर कुब्ज ! हस्तिशिक्षाविचक्षण ! अन्यदपि मानमस्ति ?' कुब्जेनोक्तम्-'यदि सूर्यपाकां रसवतीं द्रष्टु- । ततः करोमि। ततो राक्षा समर्पिता रसवती सामग्री '। सूर्यातापस्थाली मुक्त्वा सूर्यविद्यां स्मरता कुब्जेन कता एसवती । कल्पवृक्षदत्तामिव मनोक्षां तां रसवती सपरिवारो राजा।ततो दधिपर्णरासोक्तम्-'अहो रसवत्याः पाकप्रकर्षः!
-- ? कथाकोशः अहो रसमाधुर्यम् ! अहो विशेषपेशलता! अहो सर्वेन्द्रियोपकार- स्वम् ! ईडशी रसवती नल एव जानाति । नलं सेवमानस्य मम चिरपरिचिता एषा । ततः किमहो कुब्ज!नलस्त्वम् १ अथवा ईडशो विरूपो नलो न सम्भाव्यते ? अथवा द्वियोजनशतान्तरितस्यागमनं कुतः ? अथवा तस्य भरतालस्वामिन एकाकित्वं कुतः१ ततस्तुष्टेन पक्षा कुब्जस्य वस्त्रालङ्करणानि दत्तानि । टलक्षं ग्रामाणां च पञ्चशतं पक्षा दत्तम् । शेषं सर्वमपि गृहीतं प्रामाणां पञ्चशतानि न गृहीतानि। पहा कुब्ज प्रत्युक्तम्-'तवान्यदपि किञ्चित्प्रदीयताम् ।' कुब्जेनोक्तम्- 'यद्येवं ततो निजराज्ये आखेटकञ्च मद्यश्च निवारय ।' राज्ञापि तस्य वचनबहुमानतस्तथैव कृतम् । अन्यदा दधिपर्णराशा कुजः पृष्टः- 'कस्त्वम् ? कुतो वाऽऽगतः?' कुब्जेनोक्तम्-'कोशलायां नगर्यो नलराको हुण्डिकनामाऽहं सूपकारः। तस्य नलस्य समीपे मया कला: शिक्षिताः । नलः कूबरेण द्यूतराज्यं जितः । दवदन्ती गृहीत्वा प्राप्तोऽरण्ये । तत्रैवारण्ये नलो विपन्नः । ततः कारणादहं तव समीप पागतः। पुनरगुणशस्य कपटकूटस्य कूबरस्य समीपे न स्थितोऽहम् ।' ततो दधिपर्णनरेन्द्रो नलस्य मरणवृत्तान्तं श्रुत्वा तं शोकं प्राप्तो यः कथयितुमपि न शक्यते । अन्यदा दवदन्त्याः पितुः समीपे केनापि कारणेन दधिपर्णराज्ञा दूतः प्रेषितः । भीमेन राज्ञा सत्कारितः। कदाचित्प्रस्ताव भीमराशोऽने दूतेनोक्तम्-'मम स्वामिनः समीपे नलसूपकारोऽस्ति । नलोपदेशात्स सूर्यपाकां रसवतीं जानाति ।' तच्छुत्वा दवदन्त्या पिता उक्तः-'तात ! चरं प्रेक्ष्य जानीहि कीडशो- ऽस्ति सूपकारः । नलं विना न जानाति कोऽयन्यः सूर्यपाका रस- पतीम् । यदि पुनर्गोपितात्मा नलो भवेत् ।' ततः स्वामिकार्यकुशल: कुशलो नाम विप्रो दधिपर्णसूपकारस्य रुपज्ञानकृते राक्षा भीमेन प्रहितः । कुशलविप्रः सुंसुमारपुरे गतः । परं शुभशकुनैर्विगुणितो- साहो जातः । कुजं दृष्टा निषरणो विषण्णश्च चिन्तयति-'कुत्र नलो दिव्यरूपः ? कुत्रायं कुब्जः १ यन्मेरुसर्षपयोरन्तरमेतयोनेल- कुब्जयोस्तदेवान्तरम् ।' ततः कुशलश्चित्ते किमपि सम्प्रधार्य नल- परीक्षायें दोधकगीतं गायति- - कथाकोश १६३ निघुणनिठुरकापुरिसु इक्क जि नलु नहुं भंति । मुक्क गहासइ जेण वणि निसि सुत्ती दवदंती ॥५॥ ततो गीतं पुनः पुनर्गीयमानं श्रुत्वा दवदन्ती सरन् गलदश्रु- नलो रोदिति । कुशलेनोक्तम्-'भोः कुब्ज! कथं रोदिषि?' जेनोक्तम्-'करुणारससम्पूर्ण तव गीतं श्रुत्वा रोदिमि ।' कुब्जेन :कुशलो गीतार्थम् । ततो नलघूतादारभ्य कुण्डिनपुरे दवदन्ती- नपर्यन्तं कुशलेन कथा कथिता । पुनरप्युक्तं कुशलेन-भोः ज! दधिपर्णराक्षो दूतेन भीमराज्ञोऽग्रे त्वं सूर्यपाकरसवतीकार: पतः । सूर्यपाकरसवतीसमर्थो नल एवं' इति चिन्तयन्त्या दव- या जनकमभ्यर्थ्य तव विलोकनार्थमहं प्रेषितः । त्वां दृष्ट्वा मया न्ततम्-'कुत्रात्यर्थ कुरूपः कुब्जः? कुत्र सर्वाङ्गोपाङ्गपेशलो नलः ? दलितमत्स्यकुटुम्बको बकः ? कुत्र वा कृतजनानन्दश्चन्द्रः ? तव नं प्रत्यागच्छतो मम शुभशकुनसवातः सातः। सोऽपि निष्फलो व यत्त्वं न भवसि नलः । ततो दवदन्तीप्रेमपरवशेन कुब्जेन गृहे नीतो विप्रः। यतः- जत्थ जणो वसइ पिउ तीए दिसाए समागउ संतो। काउवि कुणइ हरिसं किं पुण पिय पेसिउ पुरितो ॥६॥ कुब्जेनोक्तम्-'भो विष ! महासत्या महापुरुषस्य नलस्य श्रावणेन तव किं स्वागतं क्रियताम् ? इत्युक्त्वा भोजनादिसामग्री । कुब्जेन । दधिपर्णदत्तमाभरणं सर्व विप्राय दत्तम् । ततश्च लेन कुशलः सम्प्राप्तः कुण्डिनपुरम् । भीमराशो मतगजवशी- एमूलः सर्वोऽपि कुजवृत्तान्तः कथितः । दवदन्त्या उक्तम्- निधितं स नल एवं केनाप्याहारदोषेण वा विरूपो जातः । करिशिक्षाकुशलत्वं सूर्यपाककरणसामर्थ्यम् अत्यद्भुतं च नलं विनाऽन्यस्य नास्त्येव । ततः केनाप्युपायेन तं कुब्जमिहानय 'तस्य स्वयमेव परीक्षां करोमि।' भीमराक्षा उक्तम्-'वत्से! किं स्वयंवरं श्रुत्वा त्वरितमागमिष्यति यदि स कुब्जो नलो प्यति । ततस्त्वामन्यस्मै दीयमानं श्रुत्वा न सहिष्यते । तेन दधि- सिह समेष्यति । तथा च तुरङ्गमहृदयज्ञोऽस्ति नलः । यदि स नलो भविष्यति ततो रथतुरङ्गमप्रेरणेन सातव्यः । पास कथाकोशः देवसं कथयिष्यामि यदि तत्र कुब्जो वेगेन समेष्यति । ततो नेश्चितं नल एव सः । अन्योऽपि स्लीपराभवं न सहते किं पुनर्नल- नरेन्द्रः। ततो भीमेन दधिपर्णस्य दूतः प्रेषितः । तेन चैत्रशुदि- श्चिम्यां दवदन्तीस्वयम्वरः कथितः । दधिपणेन चिन्तितम्- 'ममाभिलषणीया दवदन्ती । परं दूरदेशे वर्तते । प्रभाते पञ्चमी। पत्र गन्तुं न शक्यते । तावकि करोमि ? चिन्तापरवशो मत्स्य इव तोकजलेऽरति प्राप्तो दधिपर्णः।' कुब्जेन चिन्तितम्-'दवदन्ती महासती अन्यं वरं न वाञ्छति । कदापि यदीच्छति तथापि मयि विद्यमाने तां को गृह्णाति ? ततो दधिपर्ण षभिः प्रहरैर्नयामि । सत्र यथाऽनेन सह ममापि प्रसनेन गमनं भवति । ततः कुन्जेनोक्तो दधिपर्ण:-'एवं किं त्वं ताम्यसि ? कारणं कथय, प्रकथितरोगस्य रोगिणश्चिकित्सा न क्रियते ।' राक्षोत्रम्-'भो। दुब्ज ! कृतसुरपुरप्रवेशमङ्गलो नलो बभूव । दवदन्ती पुनरपि प्रभाते स्वयम्बरं करिष्यति । मम दवदन्तीलाभाभिलाषोऽस्ति । ततो विदर्भा दूरे, षडेव प्रहरा अन्तरे । बहुभिर्दिवसैर्दूतः समागतः। अहं पुनरियता कालेन कथं गमिष्यामीति चिन्तया निर्वृतिं न प्रामोमि ।' कुब्जेनो- कम्-'राजन् !मा कुरु चिन्ताम् , जात्यतुरङ्गमसहितं ममार्पय रथं स्था प्रभाते त्वां कुण्डिनपुरं नयामि ।' 'अयं न सामान्यपुरुषः किन्तु वेद्याधरः सुरो वा' इति विचिन्त्य जात्यतुरगयुक्तोऽर्पितो रथो पक्षा । तं रथं प्रगुणीकृत्य नलेन दधिपणे भणितः–'राजन् ! रथ- गरोह ।' ततो राजा स्थगिकारः, छत्रधरः, द्वौ चामरधरी, तस्मिन् ये पते पश्चारूढाः षष्ठः कुब्ज । तद् बिल्वं च करण्डिकां च न्टीतले वस्त्रेण बद्ध्वा कृतदेवगुरुस्मरणस्तुरङ्गमान खेटयति कुब्जः। तो हयहृदयन नलेन प्रेर्यमाणतुरङ्गमो रथो गन्तुं प्रवृत्तः। इतश्च यवेगपवनोद्धृतो दधिपर्णस्य पटः पतितः। दधिपणेनोक्तं कुब्ज- स्याने।कुब्जेनोक्तं विहस्य-'राजन् ! कुत्र तव पटः १ पटपतनाद् गेजनानां पञ्चविंशती रथः समागतः। ततो विस्मितेन दधिपणेनाले पेमीतकवृतं दृष्ट्वा कुजं प्रत्युक्तम्-'भोः कुब्ज ! अत्र विभीतके गवन्ति फलानि तिष्ठन्ति तान्यगणयनहं तेषां संख्यां जानामि ।' हब्जेनोक्तम्-तहिं दर्शय कौतुकम् । राशोक्तम्-'साम्प्रतं काल- लम्बो भवति वलमानस्तव कौतुकं दर्शयिष्यामि। कुब्जेनोक्तम्- कथाकोश १६५ न् ! मा विभेहि । मया सारथिना कालविलम्बो न भविष्यति । बुष्टिप्रहारेण सर्वाणि फलानि तवाने पातयामि । पातय त्वं नि । आधर्य विलोकय । फलानामष्टादशसहस्रं तिष्ठति । ततो प्रहारेण पातितानि कुब्जेन । दधिपणेन गणितानि यावन्ति तानि तावन्त्येव । ततः प्रार्थितेन कुब्जेन दधिपर्णस्याश्वहृदय- । दत्ता । स्वयं दधिपर्णात् फलसंख्याविद्या गृहीता । प्रभाते इनपुरासन्ने गतो रथः। दधिपर्णो विकसितमुखकमलो जातः । न्तरे दवदन्त्या रात्रिविरामे स्वप्नो दृष्टः । पितुरने कथितं यन्मया नर्वृतिदेवी दृष्टा । तया गगनमार्गे कोशलोद्याने अनीता । ततो पचनेन पुष्पफलकलितम् अहं सहकारवृक्षम् श्रारूढा । मम देव्याः प्रधानफलं समर्पितम् । तस्मिन्क्षणे पूर्व रूढो विहङ्गमः तः। भीमेनोक्तम्-'पुत्रि ! त्वया उत्तमः स्वप्नो दृष्टो या निर्वृति- स तव पुण्यराशिरुदितः, यत्कोशलोद्यानं तत् कोशलाराज्यम् , हकारारोहणं तन्त्रलसङ्गमकारणम्, यत्पूर्वारूढविहङ्गमपतनं बरस्य राज्यभ्रंशः, यत्प्रभाते दृष्टः स्वमस्तसवाचैव नलो मिलि- । तदानीमेव दधिपर्णः पुरद्वारे समागतः । मङ्गलाभिधानपुरु- गत्य भीमस्याने निवेदितो दधिपर्णः । भीमेन मित्रमिवालिङ्गितो ।। समर्पितः प्रवरावासः। भोजनादिप्रतिपत्ति काराप्य भीमेन दधिपर्णः 'तव सूर्यपाकसूपकारोऽस्ति तं दर्शय मम । ततो पर्णेन रसवतीकरणाथै कुब्जः समादिष्टः । कुब्जेनापि तत्क्षणादेव वती कृता । दधिपर्णोपरोधेन भीमः सपरिवारस्तां रसवती वान् । ततो दवदन्त्या तस्यास्वादपरीतार्थ भक्तपूरितं स्थालमानाय्य म् । 'रसास्वादनानिश्चितमयं कुब्जो नल एवं' इति भणितं दव- ।। पूर्व शानिना गुरुणा मम कथितम्-'भरतक्षेत्र नलं विना- न जानाति सूर्यपाका रसवतीम् । ततो निश्चितमयं नल एव, नरयं कुब्जस्तत् केनापि कारणेन भवितव्यम् । नलस्यैका परीक्षा वती, द्वितीयाप्यस्ति । अहं नलाङ्गल्या स्पृष्ठाप्युत्पुलकिता भवामि । 'गुल्या स्पृशतु मां कुब्जः । यदि पुनरेषापि परीक्षा मिलति निश्चितमयं कुब्जो नल एव।' ततः कुब्जा पृष्टः-'भोः कुब्ज ! त्वं नलः ?' तेनोक्तम्-'कुत्र विस्तीर्णवक्षःस्थलो नलः । कुत्राई १६६ कथाकोशः जननयनदुःखोचतः कुब्जा?' तथापि गाढोपरोधेन दवदन्त्या वक्षा- स्थलं निजागुल्या स्पृष्टम् । तावन्मात्रेणाप्यङ्गुलीस्पर्शन विहितहर्षोत्क- र्षेण कर्कोटकमिवोत्कएटकितं दवदन्त्या वपुः । तदा त्वयाऽहं सुप्ता मुक्ता, साम्प्रतं प्राणनाथ ! दृष्टोऽसि त्वं कुत्र गमिष्यसि ? इति भणत्या तया नीतो गृहाभ्यन्तरं नलोऽभ्यर्थितश्च-स्वरूपं प्रकाशय। ततो बिल्वात् करण्डकाद् वस्त्राभरणानि परिधाय खरूपो जातो नलः तं दृष्ट्वा हृष्टचित्ता दवदन्ती वल्ली पादपमिव सर्वाङ्गं गाढमा- लिङ्गति । भीमेनापि ज्ञात्वा नलो निवेशितो निज़सिंहासने । 'त्वं स्वामी, समादिश किं करोमि' इति भणन् कृताञ्जलिरग्र उपविष्टो भीमः। दधिपणेन विज्ञप्तो नल:-'त्वं नाथोऽसि, यदशानात्तवानु- चितं मया विहितं तत्क्षमस्व ।' दवदन्त्याऽऽकारितः समागतः ऋतु- पों राजा चन्द्रयशासमेतः । तथा च तापसपुरस्वामी वसन्तः श्रीशेखर आकारितः। भीमेन तेषां प्रतिपत्तिः कृता । अन्यदा भीम- सभायां सर्वेषामुपविष्टानामेको देवः समागतः। तेन कृताञ्जलिना भणिता दवदन्ती-'अहं तापसानां कुलपतिः त्वयैव प्रतिबोधितो जिनधर्मप्रभावेण मृत्वा सौधर्मे देवो बभूव' इति कारणात् सप्तकोटी प्रवृष्यं गतः स्वस्थानम् । भीमरथऋतुपर्णवसन्तममुखैमहीनाथै- मलित्वा नलो राज्येऽभिषिक्तः । ततो नलादेशेन तैः सर्वैर्निजबलैः परिवृतो गर्जमानमदमत्तमतङ्गजस्तुरगखुरक्षतक्षोणिरेणुरुद्धनभस्तलो स्थचक्रचीत्कारोत्कम्पितारिचक्रकर्णयुगलो नलः प्राप्तोऽयोध्यापरि- उरे । नलं समागतं श्रुत्वा महासन्तापकवलितकलेवरः कूबरो बभूव । तमुखेन नलेन कबरस्य कथापितम्-'मया सह युध्यस्व तव मीर्मम भवतु, अथवा मम लक्ष्मीस्तव भवतु । अथ कूबरेण हुन तं प्रारब्धं युद्धभीतेन । ततश्च पुण्यपरिभृतेन नलेन सर्वे हारा- पेतः कूबरः । ततो नलेन क्रूरोऽपि कूबरो 'मम लघुबन्धुः' इति कारणात् पूर्वमिव युवराजपदे कृतः । ततो निजराज्यं लब्ध्वा दव. न्तीसहितो नलो राजा उत्कण्ठितोऽयोध्याचैत्यानि नमस्करोति। तविविधप्राभृतैनरेन्द्रनलो नमितपदकमलो भरतार्द्धराज्यं बहूनि र्षसहस्राणि करोति । अन्यदिने स्वर्गानिषधदेवो विषयसुखसेवा- ' प्रमुष Z..
कथाकोशः १६७ प्रथिलं नलं प्रत्येवं भणति-'रागादितस्करैलुंएव्यमानं विवेक- वंय पात्मनोऽपि न रक्षसि ततस्त्वं पुरुषो न भवसि । प्रवज्या- तव कथयिष्यामि यन्मया पूर्व तवोक्तं ततः साम्प्रतं संयम ' इत्युक्त्वा देवः स्वस्थाने गतः । इतश्च तत्र जिनभद्रनामाss- ज्ञानयुक्तः समागतः । ततो दवदन्तीसहितो नलस्तस्य वन्द- गतः । तं वन्दित्वा धर्मे श्रुत्वा राक्षा पृष्टम् -'भगवन् ! भ्यां पूर्वभवे किं सुकृतं विहितं यदीशं राज्यं प्राप्य हारितं प्राप्तं च ।' मुरुणा भणितम् -"अत्रैव जम्बूद्वीपे भरतक्षेत्रेऽष्टा- पर्वतस्य समीपे संगरं नामास्ति नगरम् । तत्र मम्मणो नाम । तस्य वीरमती प्रिया । अन्यदा वीरमतीसहितेन राज्ञाss- हाथै गतेन सार्थेन सह गच्छन्मुनिरेको दृष्टः। 'अयमाखेटक- कारी ममाशकुनम्' इति चिन्तयता तेन मुनिः सार्थाद् धृतः । ये निजगृहे नीतः। द्वादश घटिका यावद् विडम्बितो मुनिः। पृष्टो द्वाभ्याम् –'कस्त्वम् ? कुतो वा समागतः ? कुत्र चलितो- १ मुनिना भणितम्-'रोहीतकपुरादष्टापदपर्वते जिनबिम्बानां नार्थ सार्थेन सह चलितोऽहम् ।' एवं मुनिवचनं श्रुत्वा तयोः । विगलितः । तयोर्भद्रकभावं ज्ञात्वा मुनिना तयोरने जीवदया- तो धर्मः कथितः । ततस्तयोः किञ्चिद् धर्मपरिणामो बभूव । भक्तपानदानेन प्रतिलाभितो मुनिः । कियत्कालं स्थापयित्वा श्रुत्वा विसर्जितो मुनिरष्टापदे गतः । एवं साधुसंसर्गात्पति- भ्यां यत्नेन श्रावकवतं पालितम् । अन्यदा वीरमती धर्मस्थिरी- [ार्थ शासनदेवतयाऽष्टापदपर्वते नीता। तत्र निजजीवप्रमाणयुक्ता धरत्नघटिताः सुरासुरविनिर्मितमहिमा अर्हत्प्रतिमा दृष्ट्वा परम- गोषं गता वीरमती। सा प्रतिमा वन्दित्वा आगता निजनगरम् । वीरमती 'महत्तीर्थ मया वन्दितम्' इति श्रद्धया जिनं जिनं प्राचाम्लानां' चतुर्विंशतिं करोति । उपरिनिवेशितमाणिक्य- हराणि कनकविनिर्मितानि चतुर्विंशतिजिनप्रतिमानां योग्यानि कानि कारयति । अन्यदिने वीरमती अष्टापदगिरी सपरिवारा | जिनानां सपनविलेपनप्रमुखां पूजां करोति । जिनप्रतिमानां १ भाचारं म्लानां Z.
१६८ কাজী ललाटेषु महाभल्या तानि तिलकानि ददाति । तत्र तीर्थ ागताना चारणश्रमणादीनां यथायोग्यं दानं दत्त्वा वीरमती तपस उद्यापनं करोति । मनुष्यभवं कृतकृत्यं विभवं सफलं जीवितं कृतार्थ मन्य- माना वीरमती पुनरपि निजनगरे समागता इति जिनधर्म कुर्वाणयोः बहुकालोऽतिक्रान्तः । प्रायुःक्षये मृत्वा द्वावपि सौधर्मे देवदेवीत्व उत्पनौ । ततो मम्मणजीवोऽत्रैव भरते बहुलीनानि देशे पोतनपुरे धम्मिल्लासस्याभीरस्य रेणुकाया उदरे उत्पन्नः । तस्मिन् जाते धन्य इति नाम कृतम् । वीरमतीजीवो देवलोकाच्च्युत्वा धन्यस्य गृहिणी धूसरी नानी बभूव । धन्यो निजमहिषी थे गत्वा चारयति । अथ वर्षाकाले समागते, मेघेषु वृष्टिं कुर्वत्सु शिरस उपरि छत्रं धृत्वा महिषीणां चारणार्थ धन्योऽरण्ये गतः । तत्र तेन तीव्रतपःकशो निश्चलः कायोत्सर्गेण स्थितो मुनिदृष्टः । ततो धन्येन मेघे वर्षति मुनेः शिरसि महामस्या छत्रं धृतम् । ततो मुनि नमस्कृत्य धन्येन भणितम्-'कुतस्त्वमत्रागतः ?' मुनिनोक्कम् -'अहो महानुभाव !अहं पाण्डुदेशादागतः । लङ्कां प्रति चलितः । तत्र गुरुन् वन्दितुं यामि । सतरा वर्षता मेघेन रुद्धः।' धन्येनोक्तम्-'स्वामिन् ! पङ्कविषमा पृथ्वी । ततो नगरमध्ये ममैनं महिषमारुह्य मम गृहे समागच्छ।' मुनिनोक्कम्-'अहो महानुभाव ! साधूनां वाहनारोहणमयुक्तम् ।' ततो धन्येन सहितो मुनिनगरमध्ये समागतः। ततो गृहे नीत्वा धन्येन दुग्धेन पारणं कारितो मुनिः। धूसरीसहितेन धन्येन मुनि- समीपे श्रावकत्वमङ्गीकृतम् । तत्रैव पोतनपुरे वर्षाकालं स्थितो मुनि, पश्चादन्यत्र गतः । धन्यो धूसरीच चिरकालं श्रावकत्वं पालयित्वा वारित्रं गृहीत्वा सप्तवर्षचारित्रं पालयित्वा द्वावपि मृत्वा चतुर्थे भवे हिमवन्तक्षेत्रे युगलत्व उत्पनौ। ततो धर्म कृत्वाऽन्ते मृत्वा पञ्चमभवे सौधर्मदेवलोके धन्यः क्षीरडिण्डीरनामा देवो बभूव । धूसरी तत्रैव देवलोके तस्य भार्या तीरडिण्डीरदेवी बभूव । ततो धन्यस्य जीवो देवलोकाच्छ्युत्वा त्वं नलो जातः । धूसरीजीवो देवलोकाच्च्युत्वा एषा तव भार्या दवदन्ती बभूव । यत्पूर्वभवे मुनिदानं र श्रावकत्वं च कृतं तस्य फलेन देवत्वं राज्यत्वं च प्राप्तम् । . महानुभावा: 2.
कथाकोशः दवदन्तीतस्य धर्मस्य प्रभावेण तवभार्या बभूव । यत्पूर्वभवे अष्टा- रौ चतुर्विंशतिजिनानां पूजापूर्व रत्नमाणिक्यतिलकानि दत्तानि प्रभावेण ललाटपट्टे सूर्यबिम्बसमानं खाभाविकं तिलकं बभूव । भिवे द्वादश घटिकाः सार्थाद् वियोजितो मुनिस्ततो द्वादश- णे युवयो राज्यभ्रंशो बभूव ।” इति गुरुवाक्यं श्रुत्वा वैराग्यपरो निजपुत्रं पुष्कलनामानं निजराज्ये निवेश्य दवदन्त्या सहितो स्तेन दीक्षां जग्राह । ततः सिद्धान्तं पठति । दुस्सहान् परीषहान् ।। अथान्यदा नलो मुनिः कर्मवशेन भोगार्थ दवदन्त्यामनुरागं ते । गुरुभिस्त्यको निषधदेवनागत्य प्रतियोधितः व्रतं परिपाल- मशक्लो नलोऽनशनं करोति । दवदन्त्यापि गृहीतमनशनम् । मृत्वा कुबेरो आतः । दवदन्ती मृत्वा तस्य भार्या बभूव । बद्विराधनानीचदेवत्व प्राप्तम् । द्वावपि कर्म क्षपयित्वा क्रमेण यास्यतः॥ इति द्यूतविषये नलकथानकम् ॥
कथाकोशस्थपद्यानामकारादिक्रमेणानुक्रमणिका पृष्टाः पद्यानि पृष्ठाः १२४ १२३ १२१ ३ द्यानि प्रगं गंधसुयधं प्रद जो नेव प्रकर्तव्यं न कर्तव्यं प्रखंडफुट्टियसुक्खं अडविहि पत्ती प्रणुपंखमावहता अत्रान्तरे वटे प्रय त्याजितदुर्वेष प्रथापृच्छन्नृपो देव्यः। प्रद्य मे सफलं चक्षु प्रद्य मे सफलं राज्य प्रधौतपादकस्यैव अनवद्या पुनर्विद्या प्रनामयं देशपुरी प्रने वि इत्य धम्मे प्रन्यथा पुत्रमप्येष प्रन्यदिपुवधं अन्यायेन मया लक्ष्मी प्रन्याखप्यभिलाषण प्रबलाबालगोपाल प्रशतोऽपि महोभाग्यमहोभाग्य महो रूपमहो १६ ११८ १४२ प्रायनह मह वयणु ४३ / आरामगिहपएसा श्रावइसहस्सकसवडएसु प्रावि आलिंगड अंग इकं पि पयं बच्चा १२७ उत्तमैः सह सात्यं 1१६ उब्भउ वउ १२. उवयारं उवयारीण उवयारउ एकाकिनी द्वितीयेऽह्नि १२० एष चिन्तामणिभूत्वा १२६ करिणो करीहि ११७ | कलामिन्दुः करं दाता १४१ कल्लाणकोडिजणणी किमिन्द्रः किमुत चन्द्रः १६ कुरुदेशैक्यमाणिक १५ कुलं गतमलं ११. कृत्वा पापसहस्राणि १४ चणेनास्य स्थिता ११८ खरनहरदिरियंगो गजति घणा २ गतवति विततायुः गरीयसाऽपि त्यागेन गलितव तिथिस्तस्य १२६ महीष्यते च मां ११८ १२३ २३ ८५ ७७ महाय वही पाभरणकिरणदिप्पंतदेहं पृष्ठाः पंग सुद्धा ११३ १३३ । पियं विणयं पं बिलिया हि जंजि दूरिज रिसतरुणिहिं १२७ जणो वसई य जणवचल यहनगाहिव कए कोडीउ १३२ १२४ २८ ११० पृष्ठाः पद्यानि १६ तविउ वि तवो तस्य शुद्धावनायान्त्यां १४५ ता अब दिणं १.३ तिर्यकत्वे सति तिष्ठ तिष्ठ तीयह तिनि पियारडा ते द्रुमाः पर्वतास्तेऽपि १०६ तुष्टोसि वन्दितोसि १३६। वो वि जह दव्वग्गी १२५ ददाति दयया चाचं ३. ददाति रागिणी दाऊण दीवयं जो ३० दानं शीलं दानेन भूतानि वशीभवन्ति १५ दिवा निरीक्ष्य वक्तव्यं दिवा पश्यति १२३ दूत ! त्वया युवमिदं ३८ । देवी सुमंगलाए १४१ देव्यः सर्वा अपि दृष्टापि न मया माता ४३ । धम्मेण रिद्धी न श्री: कुलकमायाता १३८ नाहं काको महाराज ८. निघुणनिट्ठर २. निजपतिमृतियोगे १५ निबंब अंब उंबरि २. निब्भउ अंग १४ पढम दिट्ठीयुद्ध पणमह तं नाभिसुयं ११७ | पक्षपातोऽपि धर्मस्य बणपुरउ नाहो जयसूरिनिवेणं जनं जनानां यौवनं रित्तनिहाणं व दयापरगो खं सुखं वा प्रजत्वेन मदनरेखा हुभत्तिजुउ चिंतउ मित्त तं मित्तो ११६ १२. १४१ २० १११ १६३ तरवः सर्वे श्लाघ्यते नन्दितुमारेमे यदि मे जन् । कुरु निसार अतिशीतेन १३७ १४२ पृष्ठाः ११५ ११६ पनि पालकमयाउ पविदत्तइ डिभडे याख्यायाथ तावे भणितं इरुषदाहिण बनासहशी दूती विषयकषाया. समयपंक इतामप्यहो दैवात् भर्तारं प्रतिपद्य नं बाहुबलि मानीतं सन् वशीभूत न्ति दुष्टदुरितानि याता येऽपि यास्यन्ति जुग्गहणे बिसभक्खणेय १४१ ६३ ६२ ३ समणे जइ १३२ ११६ पृष्ठाः | पद्यानि १७ व्याधिजन्म २१ व्याधिमालिन्यदारिया शब्दायमाना विविधाः ५ शस्त्रेण वेणीविनिगूहितेन १५. शीलं प्रधान १७ | शुष्ककच्छुवरः ११६ | श्रियो नाशं यान्तु श्रीतातपादैः परिपालिताना १२१ | संवर्तकैः फलैः १४ | सप्रहैकपरः प्राप ५, १४० | सद्धर्ममूल १२ | सत्त्वाद् वर्षति समजायत दुःखाय १ समुद्राः स्थितिमुज्झन्ति ६ सम्पदो जलतरङ्ग १४५ सर्वलोकरचितं १३३ / सब्वं गीयं विलवियं ११७ सम्वगहाणं ११८ सव्वत्थ संजमाउ साहारणछदाणे १०२ १३६ | सिजारवंजवंजुल १२४ १३. सुट्ठु गाइयं ३८ सुष्ठु गीतं हंसा सवत्थसिया १५ | हरिहरबंभ १३ हा हा धावह घावह हा तात तात निस्सीमा २. हीया हीया १११ हिंतालतालसीस दि पत्ता ज्झति पुन वसउ १. लियेताचवर्षाणि वः सत्यं गुशोमतिः बउ जत्थवि तत्यवि बउ देसं ५१ १०२ १३ सीतया दुरपवाद १३५ जियरागहोसा तीसभूमिकलिऊँ रगंधधूवबुख मेघ सारुधिरमांसास्थि हिर्वारि जलं गयाउ गायत्त नीतः सततोत्साही वासोऽत्र न कर्तव्यः कथाकोशस्थसंज्ञाशब्दानामकारादि- क्रमेणानुक्रमणिका ग ११५, दाः पृष्ठाः संज्ञाशब्दाः पृष्ठा: न २४, २५, ६२, ६५, ६५ ऋषिदत्ता १३ | ऋषभदेव १४१,१४२ र १५६-१५८ | ऐरावण २५,१.३ १४२ कण्डरीक मार ८६, १२८,१२६ कदम्ब १४६, १४७ कनकपुर त १.६-१.६,१११-११६ कनकरथ ७१,७२,०४,६,७७, ती ७४ ७८,८४,८५,१३,१४., T १६६ कपर्दियक्ष १,२ उरी ६ / कपिजला १४४ उन ७२ कमलगुप्त नी कमला ६६,११७ वर्धन कमलश्रीः १२८, १३०, १३२ | कमलावती ४६ २३ | कर्कराज १ कपर ๆนะ शोभा ६४-६८,७१ कलिादेश १४४ २०, २५, २६, ७३,१०१ काञ्चनपुर २४,३६ ४६,६९,७०,८६,८७, काची १५६ १०७, १.६, ११५, १४४ | कान्तिपुर १२८,१२६ कामपाल ५०,५४,५५,५६,५७ गेरि ५ कामलता १५७-१५६, १६६ काम्पिल्यपुर भुवन ४३ | कार्तिकपुर मन्दिर ७१,७२,८०-८४ ५, ८, ११४ | कर्क न न "B १२,५४ ४१ । कावेरी ४ शब्दाः पृष्ठाः संज्ञाशब्दाः पृक्षाः शिराज २८ कोशला १४३, १४५-१४७, १५५, शी १५७, १६२, १६५ एमीर १४! कोशवर्धन रणावलि २७/ कौशली एण १४४/ कौशाम्बी पाला चीरकदम्ब चीरडिण्डीर ऐडनपुर १४७, १४३,१३-१५ रधवल ११५,११६ दिनी चमा चेमापुरी ६,५१,५२,० देश १२५, १२७ गगनमणि न्धर ६८,५६, गगनवल्लभ निन्दा 15- १६२ गरा ५,५,६,६७,१४, गहादत ! स्थिल गादित्य व्य ४६ गापुर मपाल गासेना ५५,६. मपुर गजपुर गन्धभद्रा मप्रभ แช ४६ गन्धर्वदत्ता मती ११४ ४७,४८ गिरनार १३३ गुणचन्द्र र १४,१६-१४८, १५५, गुणाकर १५७, १६२,११५, १६ गोमद बालक १२८, ११२-१३५ गोडदेश पराज १४४, १४५ चक्रपुर ४२-5 चक्री ५,१४. पक ५, १२९-11,1. चण्डसिंह ४५ ., चण्डसेन र . 16 जिनदास , -- पृष्ठाः | संज्ञाशब्दाः पृष्ठा: T १.8-1..जितसेन 1१५,१०,१९,८५,१५७- जिनदत्त २,३,१२३ जिनभद्र १२९ जिनवर्मा २४,२५ सक शानगर्भ १.७,१०८ १३.शानयुक्त १५ ज्वलनशिखा ११६, १०, १३. तक्षशिला १४१,१४,१४७ ५, तापसपुर १५३-11, नि २९, २६ ताम्रचूड दधिपर्ण १६१-१६६ १२८,१२५ दवदन्ती १५३-१५, १५-१६५ १११, १३२, देवदत्त १५५ । १,१३,५१,७१,९., दशकालमार दामनक १२३-१२९ दीपशिख ४७-५. १४४ दुर्योधन ५, १४० ५२ देवधर्म देवधर ६, १२२ देवपाल . १५. देवशर्म १२१, १२२, १m देवसेना १२ द्रोणक १४७ धनद धनदेव १४-१८ । धनपति धनेश्वर १,५२ १,२,५१,५२, १११ १४०,११६ त ५१,११ घन्य ५०-६२, १६५ १५,१४,१०,११,१२१ धन्या ६ पृष्ठाः १२ १५-१६ . १४३, १५८-11. १०२ १६८ शब्दाः पृष्ठाः संज्ञाशन्दा म्मलास १६८ पवनगति (गेन्द्र १३५ | पाटलीपुत्र घोष ११३, १४. पाटलीपुर बलगृह ४०,४१,६१,६४,६२, पिङ्गल ८४, ८५ पुण्डरीक रणी १२६ पुष्कल सरी १६८ पुष्पदन्ती पुष्पमाला १२८, १२६ पुष्पवती न्दपुर पूर्णभद्र दीवर १६, १७ पोतनपुर मे १६,२०, ५२ प्रसनचन्द्र मेनाथ प्रियकारिता (वर्मा १२४ प्रियङ्कर एवाहन ११५, १२२ प्रियङ्करा १४३-१५३,११,१५८, प्रियदर्शन १६.-१९५, १६५-१६६ प्रियदर्शना [गकुमार ६. प्रीतिमती गचन्द्र २१ बकुलमती २१-२४, बन्धुमती षध १४३, १४४,१६., बम्भी १६६,१६९ बहुली मीश्वर २२, १३३ बालचन्द्र ग्रकेसर बाहुबलि मनाभ १४४ बुद्धिसागर प्ररथ ११-10 भद्रयशस् ३०, ५२ ५२, १३,५५ ७४, ८६,८७ २४, २५ น १४१, १४२ ८६ १४३, १४ 'मानन "," भदाचार्य ८४ ... वनन्दिन ११६ भरत २,१,२३,३१,३६,५१, ५२,२५६२,६८,७४,RL ,,.,., । दाः पृष्ठा संज्ञाशब्दाः पृष्ठाः ११,११५, १२४, १२८, मयमा १३५,१४१-१४३, १४६ मलयसुन्दरी १४६ मल्लिनाथ १८,१५० १,६,१३, २५, २५, महाधन ५८ ५७,७१,१२३ महापन गहाप्रभा ते ४६ महाशालनगर. १२,६३,५,६६ ६, १६२-१९६ महावीर २६, १२८, १३२ १४३, १४५,१५८,१५६, महासेन १०१ १६.१६६ महेन्द्र १४४ लय २१, २२ महेन्द्रसिंह २३,२४ จะ महेश्वर मागधिका १३३, १३४ माधव १०६ मित्रानन्द १.६-16 ती मिथिला १६-१८,२०,१५६ ५. मुनिचन्द्र ८६, 'र १२४ मृगार ४२ मेघपुर म मेघरथ ६६, मेतार्य १३, १४, १७, १८ मेनका ८२ मेव मार ३६-३० यमुना जरी १३६,१३,१४. यशोदेवी ६९,१४. १५-१८,२. यशोभद्र १,१३,१४,१५,१५७ यशोभद्रा ली ६.४०,४१, ४३ | युगबाहु १३-१४ श रति ३८ १६५, १६८ रतिनन्दन ५२ , ८८,८८ ८८, ९ -- . शब्दाः पृष्ठाः । संज्ञाशब्दाः पृष्ठाः महादेवी १५ | वसन्तदेव ४२,३,४,५,६,७ सेना वसन्तपुर २, १३, १४ बीप ५१ वसुतेज पुर वसुधारा मजरी १.6-1१६ बसुवेग १.0 माला ४२ | बासन्ती वती १.८ | वासुदेव वासुला सार १.५,१३ विक्रमयश शिख १०,६१,१.२-१.६ विक्रमसेन ४७,४८ गिरि २५ / विजयपुर २७ / विजयवर्मन् ४६,४५,५. मर्दन विजया मर्दनपुर विदर्भ १६४,१४॥ १०. विदूरथ २८ गृह ११४, १२६, १२८ विद्याधरनगर १२३ विद्युत्प्रभा ५,१०, १४. विनीता मणी ७१,७२, ७७, ८१, ८२,५४ विन्ध्य १,१२१ विन्ध्याटवी विनयन्धर तक विमलबोध ताज ११७,१११-१२२ विलासवती मीका १३१,१३४ पावती ४०, ४६ विश्वभूति वेग पालक विष्णुश्री २४,४४,४५,४६ १२-१३१ १५७, १५८, वीरचन्द्र ततिलका १. वीरमती १९५ ६. विशाली २. विषा -- - थि --- पृष्ठाः संज्ञाशब्दाः पृष्ठाः १०,६३, १.० १.१ सामसूरि १६.२६, २७,१६,१०३, सहा ८५,१५५ १.६, १३५ सजन ११७.१५ ति सत्यश्री १०३-१०५ सनत्कुमार २३-२१ १ सन्दर्भदेश १,५१,५४,५६ समुद्रदत्त १२४,११६, १२७ ५४,५६ समृद्धदत्त ११, १४३, १५३ | सहदेवी म साकेत १.,८१,१.६,११५ सागर १२२, १२९ सागरचन्द्र ५,८१,८७,८०,१४. सागरदत्त सागरपोत १२४-१२७ ६६ साधु ५,१४. १४४ ३२,३ सिंहकेसरिन् ११४,१५ ६,३६ सिंहगुहा १, २८,५१ सिंहध्वज सिंहपुर २४ ११. सिंहरथ ४, ५ ५. १४० ३४४०, सिदपुर ८८, ९, १२-१३. सिन्धु १४१ ४६,५. सिप्रा १.७,१४४ १६. सुंसुमारपुर ५ सुकोशा ... | सुग्रीव ३. सिंह ६१ सिद्धसेन ४१ का सुजसा ११४ भद्र १६, हाशब्दाः पृष्ठाः संज्ञाशब्दाः पृष्ठाः ५५,० सुवेग १.५,१४१ दर्शनपुर १५, १८ सुशर्मा दर्शना ८६ सूर ३९ ५१,५२ सूरदेव १.५ १२३, ११४ नन्दा २५,१४,१४१ सूरराज न्दरी सूरवेग १.१,१.५ न्दरनृप २१ सूरसेन ४३, ४४, ४५ न्दरी १०७, १४१-१४३ सूरि ३० प्रतिष्ठ सेचनक १२९-१३२ बुद्धि १. | सोपारपुर सोमश्री १०-१२ सौधर्मेन्द मीम स्थलाध्य माल स्थूलभद्र ५,१४. माला खयंप्रभा मित्र ११, १२, १३, १४, १५, हरिमित्र १५,१६. २८,५,...,." हरिमेल यशा हरिषेण ७४-६, ७८,८१,८३,८॥ रतिलक १. हर्षपुर रसुन्दर २५, २६,७०,०, हा १२८, १२५,..,११,११२ हस्तिनागपुर २३,२५ हिमवन्त ७७-८०, हुरिडक लोचना ७३, हेमपुर वर्णद्वीप २१ हेमप्रभ ३४-३६१ बत ७१-७२, ७-८१,८४ बता ",1,18 ४. १३४ हेमरथ
No text on this page.
No text on this page.
No text on this page.