Uttarpara Jaykrishna Public Library, Hooghly
Sridurgasaptasati Ed. 1st
Front matter
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
॥ श्रीदुर्गासप्तशती ॥
श्रीमहेशचन्द्र भट्टाचार्य एण्ड को.
८४ नं० कारव छोट,
प्रथम संस्कर]
१९३७
प्रकाशक- - श्रीफकीरदास सरकार इकानमिक फार्मेसी ८४, क्लाइव स्ट्रीट, कलकत्ता। मुद्रक- श्रीशैलेन्द्रचन्द्र भट्टाचार्य काममिक प्रेस २५, रायबागान स्ट्रीट, कलकत्ता । 10K)-12-1-370
॥ श्रीगणेशाय नमः ॥
॥ श्री दुर्गासप्तशती ॥
॥ अथ पाठक्रमः॥
साधकः कृतप्रातर्नित्यकृत्यः
प्राङ्मुख आचामेत् ॥
आचमनम् ॥
ॐ ऐं आत्मतत्त्वं संशोधयामि नमः स्वाहा ।
ॐ ह्रीं विद्यातत्त्वं संशोधयामि नमः स्वाहा ॥
ॐ क्लीं शिवतत्त्वं संशोधयामि नमः स्वाहा ॥
इति तत्वत्रयेणाचम्य पवित्रपाणिः प्राणानायम्य मूलेन
वामनासया वायुमापूर्य कुम्भकेन चतुर्वारं मूलं पठित्वा
वारद्वयं मूलमुच्चरन् दक्षनासया तं रेचयेत् ॥ ततो गणा-
धिपादीनत्वा संकल्पं कुर्यात् ॥
॥ संकल्पः॥
देशकालौ संकीर्त्य अस्माकं सर्वेषां समस्तमंगला-
वाप्त्यर्थ अमुकगोत्रस्यामुकनाम्नो मम अमुककामनासिद्धये
[ख] महाकाली महालक्ष्मी महासरस्वतीस्वरूपिणी त्रिगुणात्मिका- महालक्ष्मीप्रीत्यर्थ कवचार्गलाकीलकैकादशन्यासपूर्वकनवार्णमं- त्राष्टोत्तरशतजपरात्रिसूक्तपाठपूर्वक देवीसूक्तपठननवार्णमंत्रा- ष्टोत्तरशतजपरहस्यत्रयपठनांतं श्रीचंडीसप्तशत्याः पाठमहं करिष्ये ॥ तदंगत्वेनादौ संक्षेपत आसनविधिभूशुद्धिभूत- शुद्धयादि कर्म दीपस्थापनपूजने सप्तशतीपुस्तकपूजनं रहस्योक्तयंत्रस्थप्रधानदेवतापूजनं वा तंत्रोक्तनवार्णयंत्रस्थ- प्रधानदेवतापूजनं पूजांगबलिदानं सकलशापप्रतिरोधिनि- वृत्तये शापोद्धारमंत्रस्य सप्तसंख्याकजपं पाठादौ पाठान्ते चैक- विंशतिसंख्याकतंत्रोक्तोत्कीलनमंत्रजपं च करिष्ये ॥ आदौ निर्विघ्नतासिद्धयर्थं महागणपतिस्मरणं पूजनं वा करिष्ये ॥ गणा० स्मरणे पूजने वा विनियोगः॥ ॐ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमं । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनं इति ॥ तथा गुरु च ॥ नमो गुरुभ्यो गुरुपादुका- भ्यो नमः परेभ्यः परपादुकाभ्यः । आचार्यसिद्ध श्वर- ॥ [ ग ] पादुकाभ्यो नमोस्तु लक्ष्मीपतिपादुकाभ्यः ॥ इति गण- पतिं गुरुंच प्रणमेत् ॥ आसनविधिः कल्पितासनाधों जलादिना त्रिकोणं विलिख्य-ॐ ह्रीं आधारशक्तिकमलासनाय नमः इत्याधारशक्तिं संपूज्य तदु- पर्यनुद्विग्नताकरमजिनोर्णाद्यासनमास्तीर्य पृथ्वीति मंत्रस्य मेरुपृष्ठऋषिः कूमों देवता सुतलं छंदः आसने विनियोगः । ॐ पृश्चि त्वया धृता लोका देवि त्वं विष्णुना धृता त्वं च धारय मां देवी पवित्रं कुरुत्रासनम् ॥ इति मंत्रेण आधारशक्तिं संप्रार्थ्य ॐ भूर्भुवः स्वरित्यासनं संप्रोक्ष्य तस्मिन्नासने प्राङ्मुख उदङमुखो वोपविशेत् ॥ ॥ गुरुप्रणामः॥ ततः स्ववामे गुरुभ्यो नमः। दक्षिणे भद्रकाल्यै नमः । उपरि गणपतये नमः॥ इति द्वारदेवताः संपूज्य मूलं पठन् दिव्यदृष्ट्यवलोकनेन दिव्यान् विघ्नानुत्सार्य ॐ फडिति मंत्रण प्रोक्षणेनांतरिक्षस्थान् विघ्नानुत्सार्य तेनैव मंत्रेण भूमौ वामपादपाणिपातेन भौमान् विघ्नानुत्सार्य अस्त्राय फडिति तालत्रयेण दिग्बंधनं कृत्वा ॐ नमः सुदर्शनायास्त्राय [ 1 ] फडिति मंत्रेण छोटिकया वह्निप्राकारत्रयं विभाव्य मूलेनाचम्य प्राणायामं कुर्यात् ॥ ॥ ॥ ॥ अथ भूशुद्धिः ॥ ॐ हुमिति बीजेन कुंडलिनीमुत्थाप्य हृदयस्थं दीप- कलिकाकारं जीवं ॐ हं सः इति मंत्रेण ब्रह्मणि संयोज्य वामकुक्षिस्थितं पापपुरुषमसद्वासनात्मकं ध्यात्वा यमिति वायुबीजेन ३२ द्वात्रिंशद्वारमावर्तितेन संशोध्य रमित्यग्नि- बीजेन ६४ चतुःषष्टिवारमावर्तितेन तं दग्ध्वा भूयो यमिति वायुवीजेन १६ षोडशमात्रया तद्भस्म रेचयित्वा वमित्य- मृतबीजैन प्राणायामं कुर्यात् ॥ इति भूशुद्धिः ॥ ॥ ॥ अथ भूतशुद्धिः॥ इडया वायुमापूर्य कुंभके हं यं रं लं वं इति पंच भूत- बीजानि सकृदावत्यं पिंगलया रेचयेत् ॥ ततो वमित्यमृत- बीजेन प्राणायामं कृत्वा सद्वासनात्मकं देवीशरीरमुत्पाद्य सोहं इति मंत्रण कुंडलिनी ब्रह्मणोवहृत्य तत्रस्थं जीवं हृदि निधाय कुंडलिनी मूलाधारगतां विभावयेत् ॥
[ 6 ] ॥ अथ प्राणप्रतिष्ठा॥ आं ह्रीं क्रौं मम प्राणा इह प्राणाः । आं ह्रीं क्रौं मम जीव इह स्थितः । आं ह्रीं क्रौं मम सर्वेन्द्रियाणीह स्थितानि । आं ह्रीं क्रौं मम वाङ्गनस्त्वक्चक्षुः श्रोत्रजिह्वाघाणप्राणाः इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा ॥ ॐ असुनीते पुनरस्मासु चक्षुपुनः प्राणमिह नो धेहि भोगं। ज्योपश्येम सूर्यमुच्चरंतमनुमते मृड़यानः स्वस्ति ॥ गर्भाधानादिपंचदशसंस्कारसिद्धययं पंचदशप्रणवावृत्तीः करि- प्ये इति ॐकारं १५ वारं जपेत् । रक्तांभोधिस्थपोतोल्ल- सदरुणसरोजाधिरूढ़ाकराजैः पाशं कोदंडमिक्षुद्भवमथ गुण- मप्यंकुशं पंचबाणान् । बिभ्राणानुक्कपालं त्रिनयनलसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राण- शक्तिः परानः ॥ सुप्रतिष्ठितमस्तु ॥ इति प्राणप्रतिष्ठा ॥ ॥ अथ मातृकान्यासः॥ ॐ अं नमः ललाटे ॥ आं नमः मुखवृत्ते ॥ ॐई नमः दक्षनेत्रे॥ ई नमः वामनेत्रे॥
॥
[ च ]
ॐ उं नमः दक्षकर्णे॥ ऊं नमः वामकर्णे
ॐ नमः दक्षनसि ॥ ऋ नमः वामनसि ॥
ॐ लं नमः दक्षगंडे ॥ लू नमः वामगंडे ।
ॐ एं नमः ऊोष्ठे॥ ऐं नमः अधरोष्ठे॥
ॐ ओं नमः ऊर्ध्वदंतपंक्तौ ॥ औं नमः अधोदंतपंक्तौ ॥
ॐ अं नमः शिरसि । अः नमः मुखै ॥
ॐ कं नमः दक्षबाहुमूले ॥ खं नमः दक्षकूपरे ।
ॐ गं नमः दक्षिण मणिबंधे ॥ घं नमः दक्षांगुलिमूले ॥
ॐ हुं नमः दक्षांगुल्यग्रे॥ चं नमः वामबाहुमूले ॥
ॐ छ नमः वामकूपरे ॥ जं नमः वाममणिबंधे॥
ॐ ॐ नमः वामांगुलिमूले ॥ अं नमः वामांगुल्यग्रे॥
ॐ टं नमः दक्षपादमूले ॥ ठं नमः दक्षजानुनि ॥
ॐ डं नमः दक्षगुल्फे॥ ढं नमः दक्षपादांगुलिमूले ॥
ॐ शं नमः दक्षपादांगुल्यग्रे॥ तं नमः वामपादमूले ॥
ॐ थं नमः वामजानुनि ॥ दं नमः वामगुल्फे॥
ॐ धं नमः वामांगलिमूले ॥ नं नमः वामांगुल्यौ ।
ॐ पं नमः दक्षपार्वे ॥ फं नमः वामपाश्र्वे ॥
ॐ नमः पृष्ठे ॥ भं नमः नाभौ ॥
. ॥ [ छ ॐ मं नमः जठरे ॥ यं नमः हृदि ॥ ॐ नमः दक्षांसे ॥ लं नमः ककुदि ॥ ॐ वं नमः वामांसे ॥ शं नमः हृदयादिदक्षहस्तांतम् ॥ ॐषं नमः हृदयादिवामहस्तांतम् ॥ सं नमः हृदयादिदक्ष- पादांतम् ॥ ॐ हं नमः हृदयादि वामपादान्तम् ॥ ॐ ई नमः जठरे॥ क्षं नमः मुखे ॥ प्रणवादिः सर्वत्रेति तत्त्वमुद्रया मातृकान्यासं कुर्यात् ॥ ॥ अथ दीपप्रतिष्ठा॥ मूलेनाचाम्य प्राणानायम्य कर्मसाक्षित्वेन दीपस्थापन तत्र दीपाधारयंत्रं त्रिकोणं गंधेन देवीदक्षिणतो लिखित्वा दीपाधारयंत्राय नमः॥ इति मंत्रण संपूज्य तदु- परि दीपं संस्थाप्य गन्धादिना दीपं संपूज्य प्रार्थयेत् ॥ भो दीप देवीरूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत् ॥ यावत्कर्म- समाप्तिः स्यात्तावत्वं सुस्थिरो भव ॥ इति दीपं संप्रार्थ्य तथैव वामेऽपि तैलदीपं प्रज्वालयेत् ॥ ॥ अथ यंत्र-पूजा ॥ तत्र स्फटिकहेमताम्राद्यन्यतमपत्रे पात्रे वा यथाशक्ति गन्धाष्टकेन रक्तचन्दनेन वा नवकोष्ठं यंत्रं लिखित्वा- कुर्यात् ॥
[ ज ] प्रथम पंक्तावीशानकोणाग्निकोणपर्यंतं गौरीरुद्रौ सरस्वती- विरिंची लक्ष्मीविष्णू इति क्रमेण स्थाप्य मध्यपंक्तावुत्तरतः दक्षिणांतं महाकाली महालक्ष्मी महासरस्वत्यः तथा तृतीय- पंक्ती वायुकोणतो निर्ऋतिकोणपर्यंतं क्रमेण दशाननाष्टादश- भुजाऽष्टभुजाः स्थापयेत् । अत्र तृतीयपंक्तिमध्यकोष्ठस्थायाः अष्टादशभुजायाः दक्षे सिंहं वामे महिषं च स्थापयेत् ॥ ततः पूर्वोक्तप्राणप्रतिष्ठामंत्रण यंत्रस्य प्राणप्रतिष्ठां कृत्वा- ऽऽवाहनादिषोडशोपचारैः संपूज्य मूलभूतां तुरीयां महालक्ष्मी विश्वेश्वरी जगद्धात्री० इत्यादिभिश्चरित्रत्रयोक्तः स्तोत्रः स्तुवीत ॥ ॥ अथ पूजाविधिः॥ अस्य श्रीनवार्णमंत्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः गाय- त्र्युष्णिगनुष्टुभश्छन्दांसि श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः नन्दाशाकंभरीभीमाः शक्तयः रक्तदन्तिकादुर्गाभ्रामयों बीजानि अग्निवायुसूर्यास्तत्त्वानि श्रीजगदम्बाप्रीत्यर्थे न्यासे पूजायां च विनियोगः॥ ऋष्यादिन्यासान् मूलषडंगन्या- सांश्च विधाय कलशशंखघंटादि संपूज्य ॥ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ॥ यः स्मरेत् पुंडरीकाक्षं स
[ भ ]
वाह्माभ्यन्तरः शुचिः॥ मूलेनात्मानं पूजाद्रव्यानि प्रोक्षेत् ॥
यंत्रं संस्पृश्य ॐ आं सोहं इति विवारोच्चारितमंत्रण यंत्रस्य
प्राणप्रतिष्ठां कृत्वा ततः त्रिखण्डामुद्राया पुष्पमादाय स्वह-
दिस्थां त्रिगुणां देवीं सुषुम्णामार्गेण ब्रह्मरन्ध्रद्वारा कुसुमे
समागतां विभाव्य तत्र रूपत्रयं बिभ्राणां ध्यायेत् ॥
॥ अथ ध्यानम् ॥
खड्ग चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डी शिरः
शंखं संदधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ॥
नीलाश्मधु तिमास्यपाददशकां सेवे महाकालिकां
यामस्तोत्स्वपिते हरौ कमलजो हन्तुं मधुकैटभम् ॥ १ ॥
अक्षस्रक्परशं गदेषु कुलिशं पद्म धनुः कुण्डिका
दंडं शक्तिमसिं च चर्म जलजं घंटां सुराभाजनम् ॥
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नाननां
सेवे सैरिभमर्दिनीमिह महालक्ष्मी सरोजस्थिताम् ॥ २ ॥
घण्टाशूलहानि शंखमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ॥
गौरीदेहसमुद्भवां त्रिनयनामाधारभूतां महा-
पूर्वामत्र सरस्वतीमनुभजे शुम्भादि दैत्यार्दिनीम् ॥ ३॥
। [ ब तत्पुष्पं यंत्रे संस्थाप्य तत्र मध्यबीजत्रये महालक्ष्म्यादि- देवतात्रयं संस्थितं विभावयेत् । तत आवाहनी स्थापनी- संनिधापिनी-संनिरोधिनी-धेनु-योनिमुद्रामूलेन प्रदर्श्य मूल- मुच्चार्य श्रीमहाकाली महालक्ष्मीमहासरस्वत्यै नमः आवाह- यामि ॥ एवं मूलेनासनपाद्यार्थ्याचमनीयस्नानमंगलस्नानमधुपर्क- पंचामृतपूजां विधाय श्रीएकपुरुष सूक्तादिभिरभिषिच्य मूलेन वस्त्रोपवस्त्रोत्तरीयकंचुकीयज्ञोपवीतचन्दनालंकारहरिद्रा- कुंकुमकजलसिन्दूरपरिमलद्रव्यकङ्कणकण्ठसूत्रादिसौभाग्यालं- कारपुष्पाणि मृलेन श्रीमहाकालीमहालक्ष्मी महासरस्वत्यै नमः अमुकद्रव्यं समर्पयामीति प्रत्युपचारमुच्चार्य मंत्रपुष्पांत- पूजां कृत्वा आवरणदेवता आवाह्य संपूजयेत् । सर्वत्रापि यथाक्रमं प्रागादिशो ग्राह्याः। इन्द्रादिलोकपाला- द्यावाहनविषये तु प्रागादिक्रम एवेति ज्ञेयम् । तत्र यंत्र- षट्क्रोणस्थपूर्वकोणे सरस्वतीब्रह्मभ्यां नमः सरस्वती ब्रह्मणा- वाहयामीत्येवं सर्वत्रावाहने वाच्यम् १ एवमीशान- कोणे गौरीरुद्राभ्यां नमः । २ आग्नेयकोणे लक्ष्मी- हृषीकेशाभ्यां नमः ३ पश्चिमकोणे अष्टादशभुजायै नमः ४ अत्र [2 ] वायकोणे दशाननायै नमः ५ नैर्ऋत्यकोणे अष्टभुजायै नमः ६ दयाब्धे त्राहि संसारसान्मां शरणागतम् । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ अनेन प्रथमा- वरणार्चनेन भगवती श्रीमहाकाली महालक्ष्मी महासरस्वती प्रीयंताम् ॥ १॥ पुनः षट्कोणेषु प्रागादिदिक्षु ॥ १। ॐ नं नंदजायै नमः। २। ॐरं रक्तदंतिकायै नमः। ३ । ॐ शां शाकंभय नमः। ४। ॐ दुदुर्गायै नमः । ५ । ॐ भी भीमायै नमः। ६। ॐ भ्रां भ्रामयै नमः । दयाब्धे त्राहि संसारसर्पान्मां शरणागतम् ॥२॥ षट्कोणाबहिराग्नेय्यादिचतुर्भागेषु- १। ॐ जं जयायै नमः । २ । ॐ विं विजयायै नमः । ३। ॐ जं जयंत्यै नमः । ४ । ॐ अं अपराजितायै नमः । ५। षट्कोणपाश्र्वयोर्दक्षिणभागे ॐ सिंहाय नमः । ६ । उत्तरभागे ॐ महिषाय नमः दयाब्धे० ॥ तृतीयावरणार्चनम् ॥ अनेन तृ० ॥३॥ अष्टदलेषु प्रागादिषु १। ॐ ब्रां ब्राह्मय नमः । २। ॐ मां माहेश्वर्यै नमः । ३ । ॐ कौं कौमार्यै नमः । ४। ॐ वैष्णव्यै नमः। ५ । ॐ वां वारायै नमः।
[ 8 ] ६ । ॐ नां नारसिंयै नमः। ७। ॐ ऐं ऐंद्रथै नमः । ८ । ॐ चां चामुंडायै नमः। दयाब्धे त्राहि संसार० चतुर्थावरणार्चनम् ॥ अनेन० ॥ ४॥ पुनरष्टदलेषु प्रागादिषु १। ॐ अं असितांगभैरवाय नमः । २। ॐ रु रुरुभैरवाय नमः । ३ । ॐ चं चंडभैरवाय नमः । ४। ॐक्रों क्रोधभैरवाय नमः। ५ । ॐ उं उन्मत्तभैरवाय नमः। ६ । ॐकं कपालभैरवाय नमः।७। ॐ भी भीषणभैरवाय। ८। ॐ सं संहारभैरवाय नमः। दयाब्धे त्राहि संसार० पंचमावरणार्चनम् ॥ अनेन० ॥ ५ ॥ केसरेषु प्रागादिक्रमेण १। ॐ विष्णुमायायै नमः । २। ॐ चैतनायै नमः । ३। ॐ बुद्धय नमः। ४। ॐ निद्रायै नमः। ॐ क्षुधायै नमः। ६। ॐ छायायै नमः। ७। ॐ शक्त्यै नमः। ८। ॐ तृष्णायै नमः। है। ॐ क्षात्यै नमः। १०। ॐ जात्यै नमः। ११ । ॐ लजायै नमः। १२। ॐ शांत्यै नमः। १३। ॐ श्रद्धायै नमः। १४। ॐ कात्यै नमः। १५ । ॐ लक्ष्म्यै नमः । १६ । ॐ धृत्यै नमः। नमः। १७। ॐ वृत्यै नमः । ५।
[ ड]
१८। ॐ स्मृत्यै नमः। १६ । ॐ दयायै नमः।
२०। ॐ तुष्ट्य नमः। २१॥ ॐ पुष्ट्यै नमः।
२२। ॐ मात्रे नमः। २३ । ॐ भ्रांत्यै नमः॥
दयाब्धे त्राहि० षष्ठावरणार्चनम् ॥ अनेन०॥६॥
ar
प्रागादिषु लोकपालान् । १। ॐ लं इंद्राय नमः ।
२। ॐ रं अग्नये नमः। ३। ॐ मं यमाय नमः ।
४। ॐक्षं नियंतये नमः । ५ । ॐ वं वरुणाय नमः ।
६ । ॐ यं वायवे नमः। ७। ॐ सं सोमाय नमः ।
८। ॐ हं रुद्राय नमः ईशानीप्रागंतराले । । ॐ आं ब्रह्मणे०
१०। वरुण नित्यंतराले ह्रीं शेषाय नमः ।
दयाब्धे सप्तमावरणार्चनम् ॥ अनेन० ॥७॥
%D
१
पुनस्तेनैव क्रमेण १। ॐ वं वज्राय नमः २ । ॐ शंशक्त्यै नमः।
३। ॐ दं दंडाय नमः। ४। ॐ खं खगाय नमः।
५ । ॐ पां पाशाय नमः। ६। ॐ अं अंकुशाय नमः ।
७। ॐ गं गदायै नमः। ८। ॐ त्रिं त्रिशूलाय नमः।
है । ॐ पं पद्माय नमः। १० । ॐ चं चक्राय नमः।
दयाब्धे० अष्टमावरणार्चनम् ॥ अनेन ॥८॥
--
[ 8 ]
भूयहादुबहिः प्रागादिदिक्षु १। ॐ गं गणपतये नमः
२। ॐ अँ क्षे क्षेत्रपालाय नमः ३। ॐ बं बटुकाय नमः
४। ॐ यों योगिनीभ्यो नमः॥ दयाब्धे० नवमा- ..
वरणार्चनम् ॥ अनेन ॥६॥
ॐ आवरण देवताभ्यो नमः चन्दनं० इत्यादिपं चोपचार
पूजा ॥ ततः मूलमुच्चार्य श्रीमहाकाली महालक्ष्मी महा-
सरस्वती ३ धूपं दीपं नैवेद्य तांबूलं दक्षिणां फलानि महा-
नीराजनदीपं कर्पूरदीपं नमस्कारान् प्रदक्षिणाः मंत्रपुष्पं० ॥
३
॥ अथ क्षमाऽपराधम् ॥
अपराधसहस्राणि क्रियतेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥ १॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥ २ ॥
मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।
यत्पूजितं मया देवि परिपूर्ण तदस्तु मे ॥३॥
अपराधशतं कृत्वा जगदंवेति चोच्चरेत् ।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥४॥
[ ण ] सापराधोस्मि शरणं प्राप्तस्त्वा जगदम्बिके । इदानीमनुकंप्योऽहं यथेच्छसि तथा कुरु ॥ ५ ॥ अज्ञानाद्विस्मृतीत्या यन्न्यूनमधिकं कृतम् । तत्सर्व क्षम्यतां देवि प्रसीद परमेश्वरि ॥६॥ कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे । गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥७॥ गुह्यातिगुह्यगोत्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि स्वत्प्रसादात् सुरेश्वरि ॥ ८॥ इति प्रार्थना ॥ गीतवाद्यनृत्यछत्रचामरांदोलनदर्पणादिसर्वराजोपचारार्थेअ- क्षतान् ॥ नमस्करोमि ॥ अनेन यथाशक्त्यर्चनेन भग- वती श्रीजगदम्बा प्रीयताम् ॥ शाक्तभ्यो नमः सर्वोपचारार्थे गन्धाक्ष० ॥ अथ कुमारीपूजा ॥ यजमानः पूजयेच कन्यानां नवकं शुभम् । द्विवर्षाद्या दशाब्दांताः कुमारीः परिपूजयेत् ॥१॥ अर्थादेकहायन्यः अल्पवयस्का वाः ॥ उपवेश्यावाहयेन्मंत्रण ॥ ता आसने
[ त ]
मंत्राक्षरमयीं लक्ष्मी मातृणां रूपधारिणीम् ।
नवदुर्गात्मिकां साक्षात्कन्यामावाहयाम्यहम् ॥ १॥
अनेनैव मंत्रेण नवापि आवाहयेत् । अशक्तौ यथा-
शक्ति एकामपि ॥
॥ अथ नवानां पूजामंत्रः॥
द्विहायनी कूमारीसंज्ञका, तत्पूजामंत्र:-
सर्वस्वरूपे सर्वेशे शर्वशक्तिस्वरूपिणि ।
पूजां गृहाण कौमारि जगन्मातर्नमोऽस्तु ते ॥ २ ॥
त्रिहायनी त्रिमूर्तिः, तन्मंत्रः-
त्रिपुरां त्रिपुराधारां त्रिवर्षा ज्ञानरूपिणीम् ।
त्रैलोक्यवंदितां देवीं त्रिमूर्ति पूजयाम्यहम् ॥ ३ ॥
चतुर्वर्षा कल्याणी, तत्पूजामंत्रः-
कलात्मिकां कलातीतां कारुण्यहृदयां शिवाम् !
कल्याणजननी देवीं कल्याणी पूजयाम्यहम् ॥ ४॥
पञ्चवर्षा रोहिणी, तत्पूजामंत्रः-
अणिमादिगुणाधारामकारायक्षरात्मिकाम् ।
अनंतशक्तिकां लक्ष्मी रोहिणीं पूजयाम्यहम् ॥ ५ ॥
[ २ ] षड्वर्षा कालिका, तत्पूजामंत्रः- कामचारां शुभां कांतां कालचक्रस्वरूपिणीम् । कामदां करुणोदारा कालिका पूजयाम्यहम् ॥ ६ ॥ सप्तवर्षा चण्डिका, तत्पूजामंत्रः- चंडवीरां चण्डमायां चण्डमुण्डप्रभंजनीम् । पूजयामि सदा देवीं चंडिका चंडविक्रमाम् ॥ ७॥ अष्टवर्षा शांभवी, तत्पूजामंत्रः- सदानंदकरी शान्तां सर्वदेवनमस्कृताम् । सर्वभूतात्मिका लक्ष्मी शांभवीं पूजयाम्यहम् ॥ ८ ॥ नवहायनी दुर्गा, तत्पूजामंत्रः- दुर्गमे दुस्तरे कार्ये भवदुःखविनाशिनीम् । पूजयामि सदा भक्त्या दुर्गा दुर्गातिनाशिनीम् ॥ ६ ॥ दशवर्षा सुभद्रा, तत्पूजामंत्र:- सुन्दरीं स्वर्णवर्णाभा सुखसौभाग्यदायिनीम् । सुभद्रजननीं देवीं सुभद्रा पूजयाम्यहम् ॥ १० ॥ इति प्रत्येकं मन्त्रान्ते तत्तन्नाममंत्रण नवापि षोडशोप- चारैः पंचोपचारैर्वा पूजयेदिति ॥
[ द ]
॥ अथ बलिदानम् ॥
मूल मंत्रान्ते श्रीमहालक्ष्म्यै नमः पायसबलिं समर्पयामि
इति महाकाल्यादियोगिन्यतयंत्रस्थावरणदेवताभ्यः प्रत्येक
सर्वाभ्यो बलीन् दद्यात् ॥
अथ कूष्मांडबलिः॥
आचम्य प्राणानायम्य देशकालायुच्चार्य मम सकुटुम्बस्य
सर्वारिष्टशान्तिसर्वाभीष्टसिद्धिकल्पोक्तफलावाप्तिद्वारा श्रीमहा-
काली महालक्ष्मी महासरस्वती देवताप्रीत्यर्थ कूष्माण्डबलिदानं
करिष्ये। तदंगत्वेन पंचोपचारैः पूजनं बलिपूजनं च
करिष्ये ॥
मूलमंत्रणमुख्यदेवतां पंचोपचारैः
संपूज्य तत्पुरतः
स्वयमुदङ्मुखो बलिं प्राङ्मुखं पीठे वस्त्रगुंठितं कूष्माडं
निधाय ॐ कूष्मांडबलये नमः ॥ इति आवाहनवस्त्रगंधादिभिः
संपूज्याभिमंत्रयेत्॥
पशुस्त्वं बलिरूपेण मम भाग्यादवस्थितः ।
प्रणमामि ततः सर्वरूपिणं बलिरूपिणम् ॥१॥
[ ध ] चण्डिकाप्रीति दानेन दातुरापद्विनाशनम् । चामुण्डाबलिरूपाय बले तुभ्यं नमोऽस्तु ते ॥२॥ यज्ञार्थ बलयः सृष्टाः स्वयमेव स्वयंभुवा । अतस्त्वां घातयाम्यद्य यस्मायज्ञं वधोऽवधः॥३॥ ततः शस्त्रं गंधादिना संपूज्याभिमंत्रयेत् । ॐ ऐं ह्रीं श्री रसना त्वं चंडिकायाः सुरलोकप्रसाधकः। इति ह्रां ह्रीं खड्ग आं हुं फट् इति हस्ते शस्त्रं गृहीत्वा ॐ कालवश्वरि लोहदंडायै नमः इति पठन् कूष्माडं छित्त्वा छेदनावसरे तं न विलोकयेत् ॥ कौशिकी रुधिरेणाप्यायतामिति देव्यै तदर्ध निवेद्य अवशिष्टार्धस्य पञ्चभागान् कृत्वा पूतनायै बलिभागं निवेदयामि। चरक्यै बलिभागं निवेदयामि । पापराक्षस्यै बलिभागं निवेदयामि । ततो माषपिष्टपशुं शत्रु शस्त्रेण छित्त्वा स्कंदाय पश्वधं समर्पयामि विशिखाय पश्वधं समर्पयामि इति समर्प्य शेष रक्षोभ्यो हरेत् ॥ मंत्रास्तु-ॐ ह्रीं स्फुर स्फुर ॐ क्रीं ॐ हुं फट मर्द मर्द हु इति तच्छेषं बहिर्दद्यात् ।
[ म ]
बलिं गृहंत्विमे देवा आदित्या वसवस्तथा ।
मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ॥
असुरा यातुधानाश्च
पिशाचोरगराक्षसाः ।
डाकिन्यो यक्षवेताला योगिन्यः पूतनाः शिवाः ॥
जृम्भकासिद्धगंधर्वाः साध्या विद्याधरानगाः ।
दिक्पाला लोकपालाश्च ये च विघ्नविनायकाः॥
जगतां शान्तिकर्तारो ब्रह्माद्याश्च महर्षयः ।
मा विघ्नं मा च मे पापं मा संतु परिपंथिनः ॥
सौम्या भवन्तु तृप्तास्ते भूतप्रेताः सुखावहाः ॥
भूतानि यानीह वसंति तानि बलिं गृहीत्वा विधिवत्प्रयुक्तम् ॥
अन्यत्र वासं परिकल्पयंतु रक्षतु मां तानि सदैव चात्र ॥इति ॥
ततः स्नात्वा कृततिलको देवी प्रार्थयेत्-
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शकिनी चापिनी वाणभुशुण्डीपरमायुधा ॥ १ ॥
शूलेन पाहिनो देवि पाहि खड्ने न चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ॥२॥
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥३॥
[ प ]
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।
पुत्रान् देहि धनं देहि सर्वान्कामांश्च देहि मे ॥
महिषन्नि महामाये चामुण्डे मुण्डमालिनि ।
आयुरारोग्यमैश्वर्यं देहि देवि नमोऽस्तु ते ॥
इति प्रार्थयेत्॥
एतद् बलिदानं होमांगं तच्च होमोत्तरमेव ॥
पूजांगं वैकल्पिकं तत्र च पायसबलिदानमवश्यमेवेति
बलिदानविधिः॥
॥ अथ पुस्तकपूजनं ॥
मूलमंत्रणाचम्य प्राणानायम्य ॥ ॐ नमः पिशाचिनि
करंकिनि त्रिशूलंखड्गहस्ते सिंहारूढ़े एोहि आगच्छ आगच्छ
इमां पूजां गृह्ण गृह्ण स्वाहा । सप्तशतीरूपिण्यै सरस्वत्यै
नमः इति मंत्रणावाह्य ॐ ह्रीं चण्डिकायै नमः इति मंत्रण
षोडशोपचारैः पूजयेत् ॥
अथ शापोद्धारोत्कीलनमंत्रः॥
ॐ ह्रीं क्लीं श्रीं क्रां क्रीं चण्डिके देवि शापानुग्रहं कुरु
कुरु स्वाहा ॥ इति सप्तवारं शापोद्धारमंत्रं जपित्वा ॐ श्रीं
[ फ ] क्लीं ह्रीं सप्तशति चण्डिके उत्कीलनं कुरु कुरु इत्येकविंशति- वारमुत्कीलनमंत्रं जपेदिति ॥ ततोऽर्थानुसंधानपूर्वकं कवचार्गलकीलकं पठित्वा सप्त- शत्युक्तं रात्रिसूक्तं वेदोक्तं रात्री व्यख्यदायतीति वा पठित्वा नवाणं जपेत् ॥ तत्र कवचं सार्धपंचपंचाशच्छोकात्मकं कीलकं चतुर्दश श्लोकात्मकं पठेत् ॥ ॥ इति पाठक्रमः॥
॥ श्रीदुर्गासप्तशती ॥
॥ अथ कवचम् ॥
अस्य श्री चण्डीकवचस्य ब्रह्मा ऋषिः अनुष्टुपछंदः
चामुण्डा देवता अंगन्यासोक्तमातरो बीजं दिग्बंधदेवतास्तत्त्वं
श्रीत्रिगुणादेवीप्रीत्यर्थं जपे विनियोगः ॥
॥ ॐ नमश्चण्डिकायै ॥ मार्कण्डेय उवाच ॥
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ॥
यन्न कस्यचिदाख्यातं तन्मे ब्रहि पितामह ॥ १॥
॥ ब्रह्मोवाच॥
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ॥
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २॥
२
श्रीदुर्गासप्तशती *
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ॥
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३ ॥
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ॥
सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् ॥ ४ ॥
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ॥
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५ ॥
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ॥
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ ६ ॥
न तेषां जायते किंचिदशुभं रणसङ्कटे ॥
नापदं तस्य पश्यामि शोकदुःखभयं नहि ॥ ७॥
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ॥
प्रेतसंस्था तु चामुण्डा वाराही महिषासना ॥ ८ ॥
ऐन्द्री गजसमारूढ़ा वैष्णवी गरुडासना ॥
माहेश्वरी वृषारूढा कौमारी शिखिवाहना ॥६॥
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥
श्वेतरूपधरा देवी ईश्वरी
देवी ईश्वरी वृषवाहना ॥ १० ॥
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥
इत्येता मातरः सर्वाः सर्वयोगसमन्विताः ॥ ११ ॥
३ * कवचम् * नानाभरणशोभाढ्या नानारत्नोपशोभिताः ॥ दृश्यंते रथमारूढा देव्यः क्रोधसमाकुलाः ॥ १२ ॥ शंखं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ खेटकं तोमरं चैव परशुं पाशमेव च ॥ १३ ॥ कुन्तायुधं त्रिशूलं च शाङ्गमायुधमुत्तमम् ॥ दैत्यानां देहनाशाय भक्तानामभयाय च ॥ १४ ॥ धारयन्त्यायुधानीत्थं देवानां च हिताय वै॥ नमस्तेस्तु महारौद्रे महाघोरपराक्रमे ॥ १५ ॥ महाबले महोत्साहे महाभयविनाशिनि ॥ त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ॥ १६ ॥ प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ दक्षिणेऽवतु वाराही नैर्ऋत्यां खड्गधारिणी ॥ १७ ॥ प्रतीच्या वारुणी रक्षेद्वायव्यां मृगवाहिनी ॥ उदीच्यां पातु कौबेरी ईशान्यां शूलधारिणी ॥ १८ ॥ ऊर्ध्व ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ॥ एवं दश दिशो रक्षेच्चामुंडा शववाहना ॥ १६ ॥ जया मे चाग्रतः पातु विजया पातु पृष्ठतः॥ अजिता वामपार्वे तु दक्षिणे चापराजिता ॥ २०॥ ॥
* श्रीदुर्गासप्तशती *
शिखां मे द्योतिनी रक्षेदुमामूर्ध्नि व्यवस्थिता।
मालाधरी ललाटे च ध्रुवौरक्षेद्यशस्विनी ॥ २१ ॥
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ।
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोरिवासिनी ॥ २२ ॥
कपोलौ कालिका रक्षेत् कर्णमूले तु शाङ्करी ॥
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ॥ २३ ॥
अधरे चामृतकला जिह्वायां च सरस्वती ॥
दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका ॥ २४ ॥
घण्टिकां चित्रघण्टा च महामाया च तालुके ॥
कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला ॥ २५ ॥
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥
नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी ॥ २६ ॥
खड्गधारिण्युभौ स्कन्धौ
बाहू
मे वज्रधारिणी॥
हस्तयोदंडिनी रक्षेदम्बिका चांगुलीषु च ॥ २७ ॥
नखाञ्छूलेश्वरी रक्षेत् कुक्षौ रक्षेन्नलेश्वरी ॥
स्तनौ रक्षेन्महादेवी मनःशोक विनाशिनी ॥ २८ ॥
हृदये ललिता देवी ह्युदरे शूलधारिणी ॥
नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा ॥ २६ ॥
* कवचम् *
५
पार्वती ॥३३॥
भूतनाथा च मेढू मे गुदे महिषवाहिनी ॥
कठ्यां भगवती रक्षेजानुनी किन्ध्यवासिनी ॥ ३०॥
जंघे महाबला रक्षेत् सर्वकामप्रदायिनी ॥
गुल्फयोर्नारसिंही च पादौ चामिततेजसी ॥३१॥
पादांगुलीः श्रीमें रक्षेत् पादाधस्तलवासिनी ॥
नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी ॥ ३२ ॥
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ॥
रक्तमजावसामांसान्यस्थिमेदांसि
अंत्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥
पद्मावती पद्मकोशे कर्फ चूड़ामणिस्तथा ॥ ३४॥
ज्वालामुखी नखज्वालामभेया सर्वसंधिषु ॥
शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा ॥ ३५ ॥
अहंकारं मनो बुद्धिं रक्षेन्मे धर्मचारिणी ॥
प्राणापानौ तथा व्यानमुदानं च समानकम् ॥ ३६ ॥
वज्रहस्ता च मे रक्षेत् प्राणकल्पं च शोभनम् ॥
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ॥ ३७॥
सत्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥
आयू रक्षतु वाराही धर्म रक्षतु वैष्णवी ॥ ३८ ॥
॥
श्रीदुर्गासप्तशती *
यशः कीर्तिं च लक्ष्मी च सदा रक्षतु मातरः ॥
गोत्रमिंद्राणी मे रक्षेत् पशून्मे रक्ष चण्डिके ॥ ३६ ॥
पुत्रान् रक्षेन्महालक्ष्मीर्भार्या रक्षतु भैरवी ।
पंथानं सुपथा रक्षेन्मार्ग क्षेमकरी तथा ॥४०॥
राजद्वारे महालक्ष्मीविजया सर्वतः स्थिता ॥
रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु ॥४१॥
तत्सर्वं रक्ष मे देवि जयंती पापनाशिनी ॥
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ॥ ४२ ॥
कवचेनावृतो नित्यं यत्र यत्राधिगच्छति ॥
तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः ॥ ४३ ॥
यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ॥
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ॥ ४४ ॥
निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ॥
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ॥ ४५ ॥
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥
यः पठेत्प्रयतो नित्यं त्रिसंध्यं श्रद्धयान्वितः॥ ४६ ॥
देवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः॥
जोवेद्वर्षशतं साग्रमपमृत्युविवर्जितः
॥४७॥
.. * कवचम् * नश्यन्ति व्याधयः सर्वे लताविस्फोटकादयः॥ स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् ॥ ४८ ॥ अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ॥ भूचराः खेचराश्चैव जलजाश्चौपदेशिकाः ॥ ४ ॥ सहजा कुलजा माला शाकिनी डाकिनी तथा ॥ अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ॥ ५० ॥ ग्रहभूतपिशाचाच यक्षगंधर्वराक्षसाः ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ॥ ५१ ॥ नश्यंति दर्शनात्तस्य कवचं हृदि संस्थिते ॥ मानोन्नतिभवेद्राज्ञस्तेजोवृद्धिकरं परम् ॥५२॥ यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ॥ जपेत् सप्तशती चण्डी कृत्वा तु कवचं पुरा ॥ ५३ ॥ यावद्भूमण्डलं धत्ते सशैलवनकाननम् ॥ तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ॥ ५४ ॥ देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ प्राप्नोति पुरुषो नित्यं महामाया प्रसादतः ॥ ५५ ॥ इति श्रीवाराहपुराणे हरिहरब्रह्मप्रणीतं देव्याः कवचं समाप्तम् ॥
॥ अथार्गलास्तुतिः ॥ अस्य श्रीअर्गलास्तोत्रमंत्रस्य विष्णुर्ऋषिः अनुष्टुप् छंदः श्रीमहालक्ष्मीदेवता श्रीजगदंबाप्रीत्यर्थे जपे विनियोगः ॥ ॥ ॐ नमश्चण्डिकायै ॥ मार्कण्डेय उवाच ।। जयन्ती मङ्गला काली भद्रकाली कपालिनी॥ दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तुते ॥ १ ॥ मधुकैटभविद्रावि विधातृ वरदे नमः ॥ रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २ ॥ महिषासुरनिर्नाशि विधातृवरदे नमः ॥ रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ३॥ रक्तबीज बधे देवि चण्डमुण्डविनाशिनी ॥ रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ४॥ शुभस्यैव निशुंभस्य धूम्राक्षस्य च मर्दिनो । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ५ ॥ वंदितांघ्रियुगे देवि सर्वसौभाग्यदायिनी ॥ रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ६ ॥ ॥
*पर्गलास्तुतिः
अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि ॥
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ७॥
न तेभ्यः सर्वदा भक्त्या चण्डिके दुरितापहे ॥
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥८॥
स्तुवद्भयो भक्तिपूर्व त्वां चंडिके व्याधिनाशिनि ॥
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ६ ॥
चंडिके सततं ये त्वामर्चयंतीह भक्तितः ॥
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १०॥
देहि सौभाग्यमारोग्यं देहि देवि परं सुखम् ॥
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ११ ॥
विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः ॥
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १२ ॥
विधेहि देवि कल्याणं विधेहि परमां श्रियम् ॥
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १३ ॥
विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तं जनं कुरु ॥
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १४ ॥
प्रचंडदैत्यदर्पघ्ने चण्डिके प्रणताय मे ॥
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १५ ॥
१० श्रीदुर्गासप्तशती चतुर्भुजे चतुर्वक्त्रसंस्तुते परमेश्वरि ॥ रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १६ ॥ कृष्णेन संस्तुते देवि शश्वद्भक्त्या त्वमम्बिके। रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १७॥ हिमाचलसुतानाथसंस्तुते परमेश्वरि ॥ रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १८ ॥ सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके ॥ रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १६ ॥ इन्द्राणीपतिसद्भावपूजिते परमेश्वरि ॥ रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २० ॥ देवि प्रचण्डदोर्दण्डदैत्यदर्पविनाशिनि ॥ रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २१ ॥ पुत्रान् देहि धनं देहि सर्वान् कामांश्च देहि मे ॥ रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २२ ॥ देवि भक्तजनोद्दामदत्तानन्दोदयेऽम्बिके ॥ रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २३ ॥ पत्नी मनोरमां देहि मनोवृत्तानुसारिणीम् ॥ तारिणीं दुर्गसंसारसागरस्य कुलोद्भवाम् ॥ २४ ॥ %D ११ * कीलकम् - इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः ॥ स तु सप्तशतीसंख्यावरमानोति संपदाम् ॥ २५ ॥ ॥ इति मार्कण्डेयपुराणे अर्गलास्तोत्रं सम्पूर्णम् ॥ ॥ ॥ अथ कीलकम् ॥ अस्य श्रीकीलकमंत्रस्य शिव ऋषिः अनुष्टुप् छन्दः श्रीमहासरस्वती देवता श्रीजगदम्बाप्रीत्यर्थे जपे विनियोगः॥ ॥ ॐ नमश्चण्डिकायै ॥ मार्कण्डेय उवाच ॥ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे ॥ श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे ॥१॥ सर्वमेतद्विना यस्तु मन्त्राणामपि कीलकम् ॥ सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः ॥२॥ सिद्धयन्त्युच्चटानादीनि वस्तूनि सकलान्यपि ॥ एतेन स्तुवतां नित्यं स्तोत्रमात्रेण सिद्धयति ॥ ३॥ न मन्त्रो नौषधं तत्र न किश्चिदपि विद्यते ॥ विना जाप्येन सिद्धयते सर्वमुच्चाटनादिकम् ॥ ४॥ ॥
१२
* श्रीदुर्गासप्तशती *
समग्राण्यपि सिध्यन्ति लोकशङ्कामिमां हरः॥
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ॥ ५ ॥
स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः॥
समाप्नोति स पुण्येन तां यथावन्नियन्त्रणाम् ॥६॥
सोपि क्षेममवाप्नोति सर्वमेव न संशयः॥
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ॥७॥
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति ॥
इत्थं रूपेण कीलेन महादेवेन कीलितम् ॥८॥
यो निष्कीलां विधायैनां नित्यं जपति सुस्फुटम् ॥
स सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः॥६॥
न चैवाप्यटतस्तस्य भयं क्वापि हि जायते ॥
नाल्पमृत्युवशं याति मृतो मोक्षमवाप्नुयात् ॥ १०॥
ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति ॥
ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः ॥ ११ ॥
सौभाग्यादि च यत्किश्चिद् दृश्यते ललनाजने ॥
तत्सर्वं त्वत्प्रसादेन तेन जाप्यमिदं शुभम् ॥ १२॥
शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः ॥
भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ॥ १३॥
१ * नवार्णमंत्रम् ऐश्वयं यत्प्रसादेन सौभाग्यारोग्यसम्पदः ॥ शत्रुहानिः परो मोक्षः स्तूयते सा म किं जनैः ॥ १४ ॥ इति श्रीभगवत्याः कीलकस्तोत्रं समाप्तम् ® ॥ अथ नवार्णमंत्रम् ॥ ॐ अस्य श्रीनवार्णमन्त्रस्य । ब्रह्मविष्णुमहेश्वरा ऋषयः। गायत्र्युष्णिगनुष्टुप्छन्दांसि। श्रीमहाकालीमहालक्ष्मी- महासरस्वत्यो देवताः। नन्दाशाकम्भरीभीमाः शक्तयः । रक्तदन्तिकादुर्गाभ्रामयों बीजानि। अग्निवायुसूर्यास्तत्त्वानि । सप्तशतीपाठांगत्वेन नवार्णमन्त्रजपे विनियोगः॥ ॐ ब्रह्मविष्णुमहेश्वरऋषिभ्यो नमः शिरसि ॥ ॐ गायत्र्युष्णिगनुष्टुप्छन्दोभ्यो नमः मुखे ॥ ॐ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीदेवताभ्यो नमः हृदये॥ ॐ नन्दाशाकम्भरीभीमाशक्तिभ्यो नमः दक्षिणस्तने ।
१४
श्रीदुर्गासप्तशती.
ॐ रक्तदन्तिकादुर्गाभ्रामरीबीजेभ्यो नमः वामस्तने ॥
ॐ अग्निवायुसूर्यतत्त्वेभ्यो नमः नाभौ ॥
इति ऋष्यादिन्यासः ॥॥ मूलेन करौ संशोध्य ॥
॥ अथ एकादशन्यासाः॥
तत्रादौ प्राथमिकंदेवसारूप्यप्रदं मातृकान्यासं कृत्वा
॥१॥ द्वितीयं सारस्वताभिधं कुर्यात् ॥
॥ माटकान्यासः।।
॥
ॐ अनमो ललाटे॥ ॐ आंनमो मुखवृत्ते॥
ॐ इनमो दक्षिणनेत्र॥ ॐईनमो वामनेत्रे ॥
ॐ उनमो दक्षिणकर्णे॥ ॐ ॐनमो वामकर्णे॥
ॐ ऋनमो दक्षिणनसि ॥ ॐ नमो वामनसि॥
ॐ लं'नमो दक्षिणगंडे ॥ ॐ लूनमो वामगंडे ॥
ॐ एनमः ऊोष्ठे ॥ ॐ ऐंनमोऽधरोष्ठे॥
ॐ नमः ऊर्ध्वदंतपंक्तौ ॥ ॐ औनमोऽधोदंतपंक्तौ ॥
ॐ अंनमः शिरसि ॥ ॐ अनमो मुखे ॥
॥
* एकादशन्यासा:
॥
१५
ॐ कनमो दक्षबाहुमूले ॥ ॐ खंनमो दक्षकूपरे ॥
ॐ गंनमो दक्षमणिबंधे ॥ ॐ घनमो दक्षांगलिमूले ॥
ॐ डंनमो दक्षांगुल्यमे ॥ ॐ चनमो वामबाहुमूले ॥
ॐ छनमो वामकूपरे॥ ॐ नमो वाममणिबंधे ॥
ॐ झनमो वामांगुलिमूले ॥ ॐ अनमो वामांगुल्यग्रे ॥
ॐ टनमो दक्षपादमूले॥ ॐ ठनमो दक्षजानुनि ॥
ॐ डं नमो दक्षगुल्फे॥
ॐ ढंनमो दक्षपादांगुलिमूले ॥
ॐ णंनमो दक्षपादांगुल्यग्रे॥ॐ नमो वामपादमूले ॥
ॐ नमो वामजानुनि ॥ ॐ दंनमो वामगुल्फे॥
ॐ धंनमो वामपादांगुलिमूले॥ॐ नमो वामपादांगुल्यमे ॥
ॐ पंनमो दक्षपार्वे ॥
ॐ फंनमो वामपाश्र्वे ॥
ॐ बंनमः पृष्ठे ॥ ॐ भंनमो नाभौ ॥
ॐ मनमो जठरे ॥ ॐ यंनमो हृदि ॥
ॐ रंनमो दक्षांसे ॥ ॐ लंनमः ककुदि ॥
ॐ नमो वामांसे॥ ॐ शंनमो हृदादिदक्षहस्तान्ते॥
ॐनमो हृदादिवामहस्तांते॥ॐ संनमो हृदादिदक्षपादांते॥
ॐ हनमो हृदादिवामपादान्त। इंनमोजठरे॥ॐक्षनमो मुख
इति मात्रिकान्यासो देवसारूप्यप्रदः प्रथमः॥
श्रीदुर्गासप्तशती के ॐ ऐं ह्रीं क्लीं नमः कनिष्ठिकयोः॥ ॐ ऐं ह्रीं क्लीं नमः अनामिकयोः॥ ॐ ऐ ह्रीं क्लीं नमः मध्यमयोः ॥ ॐ ऐं ह्रीं क्लीं नमः तर्जन्योः ॥ ॐ ऐं ह्रीं क्लीं नमः अंगुष्ठयोः ॥ ॐ ऐं ह्रीं क्लीं नमः करमध्ये ॐ ऐं ह्रीं क्लीं नमः करपृष्ठे ॥ ॐ ऐं ह्रीं क्लीं नमः मणिबन्धयोः ॥ ॐ ऐं ह्रीं क्लीं नमः कूपरयोः ॐ ऐं ह्रीं क्लीं नमः हृदयाय नमः ॐ ऐं ह्रीं क्लीं नमः शिरसे स्वाहा । ॐ ऐं ह्रीं क्लीं नमः शिखायै वषट् ॥ ॐ ऐं ह्रीं क्लीं नमः कवचाय हुं ॥ ॐ ऐं ह्रीं क्लीं नमो नेत्रत्रयाय वौषट् ॥ ॐ ऐं ह्रीं क्लीं नमोऽस्त्राय फट् ॥ ॥ इति सारस्वताभिधो जाड्यविनाशको द्वितीयः॥२॥ ॐ ह्रीं ब्राह्मी पूर्वस्यां मां पातु । ॐ ह्रीं माहेश्वरी आग्नेय्यां मां पातु । ॥
* एकादशन्यासा: * १७ ॐ ह्रीं कौमारी दक्षिणस्यां मां पातु । ॐ ह्रीं वैष्णवी नैऋत्यां . मां पातु । ॐ ह्रीं वाराही पश्चिमायां मां पातु । ॐ ह्रीं इन्द्राणी वायव्यां मां पातु । ॐ ह्रीं चामुण्डा उत्तरस्यां मां पातु । ॐ ह्रीं महालक्ष्मीरेशान्यां मां पातु । ॐ हीं व्योमेश्वरी ऊवं मां पातु । ॐ ह्रीं सप्तद्वीपेश्वरी भूमौ मां पातु । ॐ ह्रीं कामेश्वरी पाताले मां पातु । इति त्रैलोक्यविजयप्रदो मातृगणन्यासस्तृतीयः ॥ ३ ॥ ॐ कमलांकुशमंडिता नन्दजा पूर्वीगं मे पातु । खगपात्रधरा रक्तदन्तिका दक्षिणांगं मे पातु । पुष्पपल्लवसंयुता शाकंभरी पश्चिमांगं मे पातु । धनुर्बाणकरा दुर्गा वामांगं मे शिरः पात्रकरा भीमा मस्तकाच्चरणावधि मां पातु । चित्रकांतिभृदभ्रामरी पादादि मस्तकांतं मे पातु । इति नन्दजादि न्यासो जरामृत्युहरश्चतुर्थः ॥ ४ ॥ पातु ।
१८ मे पातु । श्रीदुर्गासप्तशती * पादादिनाभिपर्यंतं ब्रह्मा मां पातु । नाभेर्विशुद्धिपर्यंतं जनार्दनो मां पातु । विशुद्ध ब्रह्मरंध्रांतं रुद्रो मां पातु । हंसो मे पदद्वय पातु। वैनतेयः करद्वयं मे पातु । वृषभः चक्षुषी मे पातु गजाननः सर्वा गं आनन्दमयो हरिः परापरों देहभागौ मे पातु ॥ ॥ इति सर्वाकामप्रदो ब्रम्हादिन्यासः पञ्चमः ॥ ५ ॥ अष्टादशभुजा महालक्ष्मीर्मध्यभागं मे पातु । अष्टभुजा महासरस्वती ऊळभागं मे पातु । दशभुजा महाकाली अधोभागं मे पातु । सिंहो हस्तद्वयं हंसोऽक्षियुगं मे पातु। महिषारूढो यमः पदद्वयं मे पातु । महेशश्चण्डिकायुक्तः सर्वांगं मे पातु ॥ ॥ इति सद्गतिप्रदो महालक्ष्म्यादिन्यासः षष्ठः ॥६॥ ॐ ऐं नमः ब्रह्मरन्ध्र ॥ ॐ ह्रीं नमः दक्षनेत्रे॥ ॐ क्लीं नमः वामनेत्रे ॥ ॐ चां नमः दक्षकर्णे॥ मे पातु।
* एकादशन्यासा:* नमः ॥ ॐ मुं नमः वामकर्णे ॥ ॐ डां नमः दक्षनासापुटे ॥ ॐ ये नमः वामनासापुटे ॥ ॐ विं नमः मुखे ॥ गुह्ये ॥ इति मूलाक्षरादिन्यासो रोगक्षयकरः सप्तमः ॥ ७ ॥ ॐ च्चें नमो गुह्ये ॥ ॐ वि नमो मुखे ॥ ॐ मैं नमो वामनासापुटे ॥ ॐ डां नमो दक्षनासापुटे । ॐ मुं नमो वामकर्णे ॥ ॐ चां नमो दक्षकर्णे ॥ ॐ क्लीं नमो वामनेत्रे॥ ॐ ह्रीं नमो दक्षनेत्रे॥ ॐ ऐं नमो ब्रह्मरन्ध्र ॥ ॥ इति विलोमाक्षरन्यासः सर्वदुःखनाशकोऽटमः ॥ ८ ॥ मूलमुच्चार्य मस्तकाच्चरणांतं चरणान्मस्तकांतं व्यापक- मष्टवारं कुर्यात् ॥ यथा- प्रथमं पुरतो मूलेन मस्तकाच्चरणावधि ॥ १॥ ततश्च- रणान्मस्तकावधिमूलोच्चारेण व्यापकम् ॥ २॥ एवं दक्षिणतः पश्चाद्वामभागे चेति प्रतिदिग्भागेऽनुलोमविलोमतया रिति अष्टवारं व्यापकं भवति ॥ ॥ इति देवताप्राप्तिकरो मूलव्यापकन्यासो नवमः ॥६॥ ॥
२०
* श्रीदुर्गासप्तशती
ॐ ऐं ह्रीं क्लीं हृदयाय नमः॥
एवं प्रत्येकमंगं मूलमुच्चार्य षडंगेषु न्यसेदिति
त्रैलोक्यवशकरो मूलषडंगन्यासो दशमः ॥ १० ॥
खङ्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ॥
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ॥१॥
सौम्या सौम्यतरा शेषसौम्येभ्यस्त्वतिसुन्दरी ॥
परापराणां परमा
त्वमेव
परमेश्वरी ॥२॥
यच्च किंचित्क्वचिद्वस्तु सदसद्वाखिलात्मिके ॥
तस्य सर्वस्य याशक्तिः सा त्वं किं स्तूयसे मया ॥ ३ ॥
यया त्वया जगत्स्स्रष्टा जगरपात्यत्ति यो जगत् ॥
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥ ४ ॥
विष्णुः शरीरग्रहणमहमीशान एव
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्॥५॥
आय वाग्बीजं कृष्णतरं ध्यात्वा सर्वांगे विन्यसामि ॥
॥ इति सर्वांगे न्यसेत् ॥
शूलेन पाहि नो देवि पाहि खड्गेन चांबिके ॥
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ॥१॥
* एकादशन्यासा:* २१ प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ॥ भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥२॥ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरंति ते ॥ यानि चात्यंतघोराणि ते रक्षास्मांस्तथा भुवम् ॥ ३॥ खड्गशूलगदादीनि यानि चास्त्राणि तेम्बिके । करपल्लवसंगीनि तैरस्मात्रक्ष सर्वतः ॥४॥ ॥ इति द्वितीयं मायाबीजं सूर्यसदृशं ध्यात्वा सर्वांगे विन्यसेत् ॥ सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते ॥ भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोस्तु ते ॥ १ ॥ एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ॥ पातु नः सर्वभूतेभ्यः कात्यायनि नमोस्तु ते ॥ २ ॥ ज्वालाकरालमत्युग्रमशेषासुरसूदनम् त्रिशूलं पातु नो भीतेर्भद्रकालि नमोस्तु ते ॥३॥ हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ॥ सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव ॥ ४ ॥ असुरास्मृग्वसापंकचर्चितस्ते करोज्ज्वलः ॥ शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् ॥ ५ ॥ ॥
२२ स यथा- ॥ * श्रीदुर्गासप्तशती * ॥ तृतीयं कामबीजं स्फटिकाभं ध्वात्वा सर्वांगे विन्यसामि ॥ इति सर्वांगे विन्यसेत् ॥ इति सूक्तादिवीजत्रयन्यासः ॥ पञ्चमः सर्वानिष्टहरः सर्वाभीष्टदःसर्वरक्षाकरश्चैकादशः॥११॥ पुनः षडंगन्यासं कुर्यात् ॥ ॐ ऐं हृदयाय नमः॥ ॐ ह्रीं शिरसे नमः॥ ॐ क्लीं शिखायै वषट् ॥ ॐ चामुंडायै कवचाय हुँ । ॐ विच्चे नेत्रत्रयाय वौषट् ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे अस्त्राय फट् ॥ ॥ अथाक्षरन्यासः ॥ ॐ ऐं नमः शिखायां ॐ ह्रीं नमः दक्षनेत्रे॥ ॐ क्लीं नमः वामनेत्रे॥ ॐ चां नमः दक्षकर्णे॥ ॐ मुं नमः वामकर्णे ॥ ॐ डां नमः दक्षनासापुटे ॥ ॐ मैं नमः वामनासापुटे ॥ ॐ विं नमः मुखे ॥ ॐ चे नमः गुह्ये ॥ समस्तमंत्रमुच्चार्याष्टवारं व्यापकं पूर्ववच्चरेत् ॥ ॐ ऐं प्राच्यै नमः ॐ ऐं आग्नेयै नमः॥ ॐ ह्रीं दक्षिणायै नमः ॥ ॐ ह्रीं नैर्ऋत्यै नमः ॥ ॐ क्लीं प्रतीच्यै नमः॥ ॐ क्लीं वायव्यै नमः॥ %D
२३
* देवी ध्यानम् *
ॐ चामुंडायै उदीच्यै नमः ॥ ॐ विच्चे ईशान्यै नमः ॥
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ऊर्ध्वायै नमः ॥
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे भूम्यै नमः ॥
॥ अथ देवो ध्यानम् ॥
खड्गं चक्रगदेषुचापपरिघान्छूलं भुशुण्डी शिरः
शंख संदधतीं करैस्त्रिनयनां सर्वांगभूषावृताम् ॥
नीलाश्मयु तिमास्यपाददशकां सेवे महाकालिका
यामस्तोत्स्वपिते हरौ कमलजो हंतुं मधु कैटभम् ॥ १॥
अक्षत्रकपरशू गदेषुकुलिशं पदमं धनुः कुण्डिका
दण्डं शक्तिमसिं च चर्म जलजं घण्टा सुराभाजनम् ॥
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभा
सेवे सैरिभमर्दिनीमिह महालक्ष्मी सरोजस्थिताम् ॥२॥
घण्टाशूलहलानि शंखमुसले चक्रं धनुः सायकं
हस्ताब्जर्दधतीं घनांतविलसच्छीतांशुतुल्यप्रभाम् ॥
गौरीदेहसमुद्भवां त्रिनयनामाधारभूतां
महापूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यादिनीम् ॥३॥
* श्रीदुर्गासप्तशती * एवं देवीं ध्यात्वा मानसोपचारैः संपूज्य मालां प्रार्थयेत् ॥ ॐ महामाले महामाये सर्वशक्तिस्वरूपिणि ॥ चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ इति मंत्रण मालां प्रार्थ्य ॐ सिद्धय नमः इति मालां नत्वा जपेत् । ( मंत्रार्थः॥ महासरस्वत्यादिरूपे चित्सदानन्द- मये चण्डिके त्वां ब्रह्मविद्याप्राप्त्यर्थं वयं सर्वदा ध्यायामः । इति मंत्रार्थानुसंधानपूर्वकमष्टोत्तरशतं १०८ सहस्र वा नवार्णमंत्र जपेत् ॥ जपांते गुह्येत्यादिना जपं समाप्य सप्तशतीं पठेत् ॥ ततो रात्रिसूक्तं पठेत् ॥ तत्रादौ ऋग्वेदोक्तं रात्रिसूक्तं यथा- रात्रीव्यख्यदिति सूक्तस्य कुशिक ऋषिः रात्रिर्देवता गायत्री छन्दः श्रीजगदम्बाप्रीत्यर्थे जपे विनियोगः॥ ॐ रात्रीव्यख्यदायतीपुरुत्रादेव्य १ क्षभिः ॥ विश्वाअधिश्रियोधित ॥ ओर्वप्रा अमानिवतोदेव्युव्रतः॥ ज्यातिषाबाधतेतमः॥ निरुस्वसारमस्कृतोषसं देव्यायती ॥ ॥
* तंत्रोत रात्रिसूताम् * २५ । यावया- अपेदुहासतेतमः ॥ सानो अद्ययस्यावयंनिते यामनविदमहि। वृक्षेनवसतिंवयः ॥ निग्रामा सोअविक्षतनिपद्ध'तोनि- पक्षिणः ॥ निश्येना संश्चिदर्थिनः वृक्यं १ वृकयवयस्तेनमू> ॥ अथानः सुतराभव ॥ उपमापेपिशत्तमः कृष्णंव्यक्तमस्थित ॥ उषऋणे- वयातया ॥ उपते गाइवाकरं वृणीष्वदुहितर्दिवः ॥ रात्रिस्तोमंन जिग्युषे ॥१॥ इति ऋग्वेदोक्तं रात्रिसूक्तम् ॥ - . ॥ अथ तंत्रोत रात्रिसूक्तम् ।। विश्वेश्वरी जगद्धात्री स्थितिसंहारकारिणीम् ॥ निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ १॥ ॥ ब्रह्मोवाच ॥ त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका सुधा त्वमक्षरे नित्या त्रिधामात्रात्मिका स्थिता ॥२॥ ॥ ॥
श्रीदुर्गासप्तशती
अर्धमात्रा स्थिता नित्या यामुच्चार्या विशेषतः ॥
त्वमेव सन्ध्या सावित्री स्वं देवि जननी परा ॥३॥
त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत् ॥
त्वयैतत्पाल्यते देवि त्वमत्स्यते च सर्वदा ॥४॥
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ॥
तथा संहृतिरूपांते जगतोऽस्य
जगन्मये ॥५॥
महाविद्या महामाया महामेधा महास्मृतिः ॥
महामोहा च भवती महादेवी महेश्वरी ॥६॥
प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनि ॥
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ॥७॥
त्वं श्रीस्त्वमीश्वरीस्त्वं ह्रीस्त्वं बुद्धिबोधलक्षणा ॥
लज्जापुष्टिस्तथा तुष्टिस्त्वं शांतिः क्षांतिरेव च ॥८॥
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा॥
शंखिनी चापिनी बाणाभुशुण्डीपरिघायुधा ॥६॥
सौम्या सौम्यतरा शेषसौम्येभ्यस्त्वतिसुन्दरी ॥
परापराणां परमा त्वमेव परमेश्वरी
॥१०॥
यच्च किंचित् कचिद्वस्तु सदसदाखिलात्मिके ॥
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया ॥११॥
* न्यासः यया त्वया जगत्स्स्रष्टा जगत्यात्यत्ति यो जगत् ॥ सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥१२॥ विष्णुः शरीरग्रहणमहमीशान एव च ॥ कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ॥१३॥ सा त्वमित्थं प्रभावैः स्वरुदारैर्देवि संस्तुता ॥ मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥ १४ ॥ प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ॥ बोधश्च क्रियतामस्य हंतुमेतौ महासुरौ ॥ १५ ॥ ॥ इति तंत्रोक्तं रात्रिसूक्तम् ॥ एतेषां श्रीप्रथममध्यमोत्तमचरित्राणां ब्रह्मविष्णुरुद्रा ऋषयः ॥ गायत्र्युष्णिगनुष्टुप्छदांसि ॥ श्रीमहाकालीमहा- लक्ष्मीमहासरस्वत्यो देवताः॥ नन्दाशाकम्भरीभीमाः शक्तयः॥ रक्तदन्तिकादुर्गाभ्रामयों बीजानि ॥ अग्निवायुसूर्यास्तत्त्वानि ॥ ऋग्यजुःसामवेदा ध्यानानि ॥ चतुर्विधपुरुषार्थसिद्धयर्थं श्री- महाकालीमहालक्ष्मीमहासरस्वतीप्रीत्यर्थं सप्तशतीजपे विनियोगः॥ च
२८
* श्रीदुर्गासप्तशती *
॥ तत्रादौ न्यासः ॥
ॐ ब्रह्मविष्णुरुद्रऋषिभ्यो नमः शिरसि ॥
ॐ गायत्र्युष्णिगनुष्टुपछंदोभ्यो नमः मुखे ॥
ॐ महाकालीमहालक्ष्मीमहासरस्वतीदेवताभ्यो नमः हृदये।
ॐ ऐं ह्रीं क्लीं बीजेभ्यो नमः गुह्ये ॥
ॐ अग्निवायुसूर्यतत्त्वेभ्यो नमः पादयोः ॥
ॐ ह्रीं हृदयाय नमः । ॐ चं शिरसे स्वाहा ॥
ॐ डिं शिखायै वषट् ॥ ॐ कां कवचाय हुं ॥
ॐ मैं नेत्रत्रयाय वौषट् ॥ॐ ह्रीं चण्डिकायै अस्त्राय फट्।
॥ अथ चक्रन्यासः॥
ॐ शंभुतेजोज्वलज्ज्वालामालिनिपावके
हां नन्दायै अंगुष्ठाभ्यां नमः ॥
ॐ शंभुतेजोज्वलज्ज्वालामालिनी पावके
ह्रीं रक्तदन्तिकाय तर्जनीभ्यां नमः ॥
ॐ शंभुतेजोवलज्ज्वालामालिनि पावके
हूँ शाकंभर्यै मध्यमाभ्यां नमः
ॐ शंभुतेजोज्वलज्ज्वालामालिनि पावके
हैं दुर्गायै अनामिकाभ्यां नमः
॥
॥
* अङ्गन्यास: *
॥
ॐ शंभुतेजोज्वलज्ज्वालामालिनि पावके
ह्रौं भीमायै कनिष्ठिकाभ्यां नमः
ॐ शंभुतेजोवलज्ज्वालामालिनि पावके
हः भ्रामय करतलकरपृष्ठाभ्यां नमः ॥अस्त्राय फट् ॥
एवं हृदयादिषडंगन्यासः ॥
॥ अथांगन्यासः ॥
ॐ वारायै नमः पादयोः॥ ॐ नारसिंयै नमः नितम्बे ॥
ॐ चामुण्डायै नमः नाभौ ॥ ॐ माहेंद्रेय नमः कण्ठे ॥
ॐ ब्राहम्यै नमः पृष्ठे॥ ॐ वैष्णव्यै नमःदक्षिणभुजे॥
ॐ माहेश्वर्यै नमः वामभुजे॥ ॐ कौमार्यै नमः स्कन्धयोः॥
ॐ कात्यायन्यै नमः मुखे ॥ ॐ शिवदूत्यै नमः शिरसि ॥.
ॐ शिवायै नमः हृदि ॥ ॐ काल्यै नमः दक्षिणकुक्षौ॥
ॐ रक्तदंतिकायै नमः वामकुक्षौ॥ ॐ शताक्ष्यै नमः पृष्ठवंशे ॥
ॐ शाकंभय नमः ध्रुवोः।
ॐ खगिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शंखिनी चापिनी बाणभुशुण्डीपरिघायुधा शिरसि ॥
ॐ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च मुखे ॥
३०
भ्रामणेनात्मशूलस्य
%3D
* श्रीदुर्गासप्तशती *
ॐ प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे।
उत्तरस्यां तथेश्वरी कण्ठे ॥
ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरंति ते ।
यानि चात्यर्थघोराणि ते रक्षास्मांस्तथा भुवम् बाह्वोः॥
ॐ खड्गशूलगदादीनि यानि चास्त्राणि तेम्बिके ।
करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः हृदये
ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते उदरे ॥
ॐ एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ।
पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तु ते नाभौ ॥
ॐ ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ।
त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ऊर्वोः ॥
ॐ हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ।
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव जान्वोः॥
ॐ अंसुरामृग्वसापंकचर्चितस्ते करोज्ज्वलः
शुभाय खड्गो भवतु चंडिके त्वां नता वयम् पादयोः॥
॥ एवं न्यस्तशरीरः साधकः सच्चिदानंदरूपिणीं ध्यायेत् ॥
* ध्यानम् * ॥ अथ ध्यानम् ।। विद्यु दामसमप्रभां मृगपतिस्कंन्धस्थितां भीषणां कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् । हस्तैश्चक्रधरालिखेटविशिखांश्चापं गुणं तर्जनीं । बित्राणामनलात्मिकां शशिधरां दुर्गा त्रिनेत्रां भजे ॥१॥ ॥ इति ध्यानम् ॥
॥ अथ प्रथमचरित्रम् ॥
प्रथमचरित्रस्य ब्रह्मा ऋषिः॥ महाकाली देवता ॥
गायत्री छन्दः ॥ नन्दा शक्तिः ॥ रक्तदन्तिका बीजं ॥ अग्नि-
स्तत्त्वं ॥ ऋग्वेदः स्वरूपं ॥ श्रीमहाकालीप्रीत्यर्थं प्रथमचरित्र-
जपे विनियोग।
खड्गं चक्रगदेषुचापपरिघान् शूलं भुशुण्डी शिरः
शंख संदधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मयु तिमास्यपाददशकां सेवे महाकालिकां
यामस्तोत्स्वपिते हरौ कमलजो हंतुं मधुकैटभम् ॥
॥ ॐ नमश्चण्डिकायै ॥
॥ ॐ ऐं मार्कण्डेय उवाच ॥ १॥
सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः ॥
निशामय तदुत्पत्तिं विस्तराद्गदतो मम ॥२॥
महामायानुभावेन यथा मन्वंतराधिपः ॥
स बभूव महाभागः सावर्णिस्तनयो खेः ॥३॥
तस्य ॥ * प्रथमचरितम् - स्वारोचिषेतरे पूर्व चैत्रवंशसमुद्भवः ॥ सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले ॥४॥ तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान् ॥ बभूवुः शत्रवो भूपाः क्रोलाविध्वंसिनस्तदा ॥ ५ ॥ तैरभवा द्धमतिप्रबलदण्डिनः न्यूनैरपि स तैयुद्ध कोलाविध्वंसिभिर्जितः ॥ ६ ॥ ततः स्वपुरमायातो निजदेशाधिपोऽभवत् ॥ आक्रांतस्स महाभागस्तैस्तदा प्रबलारिभि ॥७॥ अमात्यैर्बलिभिदुष्टैर्दुर्बलस्य दुरात्मभिः ॥ कोशो बलं चापहृतं तत्रापि स्वपुरे ततः॥८॥ ततो मृगयाव्याजेन हृतस्वाम्यस्स भूपतिः ॥ एकाकी हयमारुह्य जगाम गहनं वनम् ॥६॥ स तत्राश्रममद्राक्षीद्विजवर्यस्य मेधसः ॥ प्रशांतः श्वापदाकीणं मुनिशिष्योपशोभितम् ॥ १० ॥ तस्थौ कश्चित्स कालं च मुनिना तेन सत्कृतः॥ इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे ॥११॥ सोऽचिंतयत्तदा तत्र ममत्वाकृष्टमानसः ॥१२॥ मत्पूर्वैः पालितं पूर्व मया हीनं पुरं हि तत् ॥ ५
३४
**
श्रीदुर्गासप्तशती
मदभृत्यैस्तैरसदवृत्तैर्धर्मतः पाल्यते न वा ॥ १३ ॥
न जाने स प्रधानो मे शूरो हस्ती सदामदः॥
मम वैरिवशं यातः कान् भोगानुपलप्स्यते ॥ १४ ॥
ये ममानुगता नित्यं प्रसाधनभोजनैः ॥
अनुवृत्तिं ध्रुवं तेऽद्य कुर्वत्यन्यमहीभृताम् ॥ १५ ॥
असम्यग्व्ययशीलस्तैः कुर्वद्भिः सततं व्ययम् ॥
संचितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति ॥ १६ ॥
एतच्चान्यच्च सततं चिंतयामास
पार्थिवः
तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः ॥ १७ ॥
स पृष्टस्तेन कस्त्वं भो हेतुश्चागमनेऽत्र कः॥
सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे ॥ १८ ॥
इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् ॥
प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् ॥ १६ ॥
वैश्य उवाच ॥ २० ॥
समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले ॥
पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः ॥ २१ ॥
विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् ॥
वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः ॥ २२ ॥
* प्रथमचरितम् *
सोऽहं न वेद्मि पुत्राणां कुशलाकुशलामिकाम् ॥
प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः ॥ २३ ॥
किं नु तेषां गृहे क्षेममक्षेमं किं नु सांप्रतम् ॥ २४ ॥
कथं ते किं नु सद्वृत्ता दुर्वृत्ताः किं नु मे सुताः ॥ २५ ॥
राजोवाच ॥ २६ ॥
यैर्निरस्तो भवॉल्लुब्धैः पुत्रदारादिभिर्धनैः ॥ २७ ॥
तेषु किं भवतः न हमनुबध्नाति मानसम् ॥ २८ ॥
॥ वैश्य उवाच ॥ २६ ॥
एवमेतद्यथा. प्राह भवानस्मद्तं वचः॥
किं करोमि न बध्नाति मम निष्ठुरतां मनः ॥ ३० ॥
यैः संत्यज्य पितृस्ने हें धनलुब्धैर्निराकृतः ॥
पतिः स्वजनहादं च हार्दितेष्वेव मे मनः ॥ ३१॥
किमेतन्नाभिजानामि जानन्नपि महामते ॥
यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बंधुषु ॥ ३२ ॥
तेषां कृते मे निःश्वासो दौर्मनस्यं च जायते ॥ ३३ ॥
करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ॥ ३४ ॥
श्रीदुर्गासप्तशती *
॥ माकंडेय उवाच ॥ ३५ ॥
ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ ॥ ३६ ॥
समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः ॥ ३७॥
कृत्वा तु तौ यथान्यायं यथाहं तेन संविदम् ।।
उपविष्टौ कथाः काश्चिञ्चक्रतुर्वैश्यपार्थिवौ ॥ ३८ ॥
जोवाच ॥ ३८ ॥
भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत् ॥ ४० ॥
दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना ॥४१॥
ममत्वं गतराज्यस्य राज्यांगेष्वखिलेष्वपि ॥
जानतोपि यथाज्ञस्य किमेतन्मुनिसत्तम ॥ ४२ ॥
अयं च निकृतः पुत्रैर्दारै त्यैस्तथोज्झितः ॥
स्वजनेन च संत्यक्तस्तेषु हार्दी तथाप्यति ॥ ४३ ॥
एवमेष तथाहं च द्वावप्यत्यंतदुःखितौ॥
दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ ॥४४॥
तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि ॥
ममास्य च भवत्येषा विवेकांधस्य मूढता ॥ ४५ ॥
प्रथमचरितम् - ॥ ऋषिरुवाच॥ ४६॥ ज्ञानमस्ति समस्तस्य जंतोर्विषयगोचरे ॥ विषयाश्च महाभाग यांति चैवं पृथक्पृथक् ॥ ४७ ॥ दिवांधाः प्राणिनः केचिद्रात्राबंधास्तथापरे ॥ केचिदिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः॥४८॥ ज्ञानिनोमनुजाः सत्यं किं नु तेन हि केवलम् ॥ यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः ॥ ४६ ॥ ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम् ॥ मनुष्याणां यत्तेषां तुल्यमन्यत्तथोभयोः ॥ ५० ॥ ज्ञानेऽपि सति पश्यैतान् पतंगाञ्छावचंचुषु । कणमोक्षाहतान् मोहात्पीड्यमानानपि क्षुधा ॥ ५१ ॥ मानुषा मनुजव्यावसाभिलाषाः सुतान् प्रति ॥ लोभात्प्रत्युपकाराय नन्वेतान् किं न पश्यसि ॥ ५२ ॥ तथापि ममतावर्ते मोहगते निपातिताः॥ महामायाप्रभावेण संसारस्थितिकारिणा ॥ ५३ ॥ तन्नात्र विस्मयः कार्यों योगनिद्रा जगत्पतेः ॥ महामाया हरेश्चैषा तया संमोह्यते जगत् ॥ ५४ ॥ ज्ञानिनामपि चेतांसि देवी भगवती हि सा॥
३८
*
।
श्रीदुर्गासप्तशती
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ ५५ ॥
तया विसृज्यते विश्वं जगदेतच्चराचरम् ॥
सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ॥ ५६ ॥
सा विद्या परमा मुक्तेहेतुभूतासनातनी ॥ ५७ ॥
संसारबंधहेतुश्च सैव सर्वेश्वरेश्वरी ॥ ५८॥
राजोवाच ॥ ५९॥
भगवन् का हि सा देवी महामायेति यां भवान् ॥
ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज ॥ ६० ॥
यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा ॥ ६१ ॥
तत्सर्व श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥ ६२ ॥
॥ ऋषिरुवाच ॥ ६३॥
नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् ॥ ६४ ॥
तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम ॥ ६५ ॥
देवानां कार्यसिद्धयर्थमाविर्भवति सा यदा ॥
उत्पन्नति तदा लोके सा नित्याप्यभिधीयते ॥ ६६ ॥
योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते ॥
आस्तीर्यशेषमभजत् कल्पांते भगवान् प्रभुः॥ ६७ ॥
* प्रथमचरितम्
तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ ॥
विष्णुकर्णमलोद्भू तो हंतुं ब्रह्माणमुद्यतौ ॥ ६८ ॥
स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः॥
दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम् ॥ ६६ ॥
तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः ॥
विवोधनार्थाय हरेहरिनेत्रकृतालयाम् ॥७॥
विश्वेश्वरी जगद्धात्री स्थितिसंहारकारिणीम् ॥
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ ११ ॥
॥ ब्रह्मोवाच ॥ ७२॥
त्वं स्वाहात्वं स्वधात्वं हि वषट्कारः स्वरात्मिका ॥
सुधा त्वमक्षरे नित्ये त्रिधामात्रात्मिका स्थिता ॥ ७३ ॥
अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः ॥
त्वमेव संध्या सावित्री त्वं देवि जननी परा ॥ ७४ ॥
त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत् ॥
त्वयैतत् पाल्यते देवि त्वमत्स्यते च सर्वदा ॥ ७५ ॥
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ॥
तथा संहृतिरूपांते जगतोऽस्य जगन्मये ॥ ७६ ॥
४० * श्रीदुर्गासप्तशता महाविद्या महामाया महामेधा महास्मृतिः॥ महामोहा च भवती• महादेवी महेश्वरी ॥ ७७॥ प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ॥ कालरात्रिर्महारात्रिमोहरात्रिश्च दारुणा ॥७८॥ त्वंश्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिबोधलक्षणा ॥ लजा पुष्टिस्तथा तुष्टिस्त्वं शांतिः क्षांतिरेव च ॥ ७ ॥ खगिनी शूलिनी घोरा गदिनी चक्रिणी तथा ॥ शंखिनी चापिनी बाणभुशुंडीपरिघायुधा ॥८॥ सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुंदरी ॥ परापराणां त्वमेव परमेश्वरी ॥८१ ॥ यच्च किंचित्कचिद्वस्तु सदसदाखिलात्मिके। तस्य सर्वस्य या शक्तिः सात्वं किं स्तूयसे मया ॥८२ ॥ यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् । सोपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥८३ ॥ विष्णुः शरीरग्रहणमहमीशान एव च ॥ कारितास्ते यतोऽतस्त्वांकः स्तोतुं शक्तिमान् भवेत्॥४॥ सा त्वमित्थं प्रभावैः स्वैरुदादेवि संस्तुता ॥ मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥८५ ॥ परमा ४१ * प्रथमचरितम् - प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ॥८६ ॥ बोधश्च क्रियतामस्य हंतुमेतौ महासुरौ ॥८७॥ ॥ ऋषिरुवाच ॥८८॥ एवं स्तुता तदा देवी तामसी तत्र वेधसा ॥ विष्णोः प्रबोधनार्थाय निहंतुं मधुकैटभौ ॥ ८६ ॥ नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः ॥ निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः ॥६॥ उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः ॥ एकार्णवेऽहि शयनात्ततः स ददृशे च तौ ॥ ६१ ॥ मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ॥ क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ ॥ ६२ ॥ समुत्थाय ततस्ताभ्यां युयुधे भगवान हरिः ॥ पंचवर्षसहस्राणि बाहुप्रहरणो विभुः ॥१३॥ तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ॥ ६४ ॥ उक्तवंती बरोस्मत्तो बियतामिति केशवम् ॥ ५ ॥ ॥ श्रीभगवानुवाच ॥९॥ भवेतामय मे तुष्टौ मम वध्यावुभावपि ॥ ७ ॥ किमन्येन वरेणात्र एतावद्धि वृतं मया ॥१८॥ air
४२
*
श्रीदुर्गासप्तशती
|| ऋषिरुवाच ॥६॥
वंचिताभ्यामिति तदा सर्वमापोमयं जगत् ॥
विलोक्य ताभ्यां गदितो भगवान कमलेक्षणः ॥ १०० ॥
आवां जहि न यत्रो: सलिलेन परिप्लुता ॥ १०१ ।।
॥ ऋषिरुवाच ॥ १.२॥
तथेत्युक्त्वा
शंखचक्रगदाभृता ॥
कृत्वा चक्रेण वैछिन्ने जघने शिरसी तयोः ॥ १०३ ॥
एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् ॥
प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते ॥ १०४ ॥
ॐ श्रीमार्कण्डेयपुराणे सावर्णिके
मन्वंतरे देवीमाहात्म्ये मधुकैटभवधो
भगवता
नाम प्रथमः ॥१॥
॥ अथ मध्यमचरितम ॥
ॐ मध्यमचरितस्य । विष्णुर्ऋषिः । महालक्ष्मीर्देवता ।
उष्णिकछंदः । शाकंभरी शक्तिः। दुर्गा बीजं। वायुस्तत्त्वं ।
यजुर्वेदः स्वरूपं ॥ महालक्ष्मीप्रीत्यर्थं मध्यमचरितजपे
विनियोगः॥
ॐअक्षत्रकपरशुं गदेषु कुलिशं पद्मं धनुः कुण्डिका
दंडं शक्तिमसिं च चर्म जलजं घंटां सुराभाजनम् ॥
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नाननां
सेवे सैरिभमर्दिनीमिह महालक्ष्मी सरोजस्थिताम् ॥
ॐ ऋषिरुवाच ॥१॥
पुरा॥
देवासुरमभूयुद्धं
पूर्णमब्दशतं
महिषेसुराणामधिपे देवानां च पुरंदरे ॥ २ ॥
तत्रासुरैर्महावीगैर्देवसैन्यं
पराजितम् ॥
जित्वा च सकलान् देवान्निद्रोभून्महिषासुरः ॥३॥
४४
श्रीदुर्गासप्तशती *
ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् ॥
पुरस्कृत्य गतास्तत्र' यत्रेशगरुडध्वजौ ॥४॥
यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् ॥
त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ॥ ५ ॥
सूर्येन्द्राग्न्यनिलंदूनां यमस्य वरुणस्यच ॥
अन्येषां चाधिकारान्सः स्वयमेवाधितिष्ठति ॥ ६॥
स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि ॥
विचरंति यथा मा महिषेण दुरात्मना ॥७॥
एतद्वः
कथितं सर्वममरारिविचेष्टितम् ॥
शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिंत्यताम् ॥८॥
इत्थं निशम्य देवानां वचांसि मधुसूदनः॥
चकार कोपं शंभुश्च भृकुटीकुटिलाननौ ॥६॥
ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः ॥
निश्चक्राम महत्तेजो ब्रह्मणः शंकरस्य च ॥ १० ॥
अन्येषां चैव देवानां शक्रादीनां शरीरतः॥
निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत ॥ ११ ॥
अतीव तेजसः कूटं ज्वलंतमिव पर्वतम् ॥
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगंतरम् ॥ १२ ॥
४५ तत्र %3D * मध्यमचरितम् * अतुलं तत्तेजः सर्वदेवशरीरजम् ॥ एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ॥ १३ ॥ यदभूच्छांभवं तेजस्तेनाजायत तन्मुखम् ॥ याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ॥ १४ ॥ सौम्येन स्तनयोर्युग्मं मध्यं चेंद्रेण चाभवत् ॥ वारुणेन च जंघोरू नितम्बस्तेजसा भुवः ॥ १५ ॥ ब्रह्मणस्तेजसा पादौ तदंगुल्योऽर्कतेजसा ॥ वसूनां च करांगुल्यः कौबेरेण च नासिका ॥ १६ ॥ तस्यास्तु दंतास्संभूताः प्राजापत्येन तेजसा । नयनत्रितयं जज्ञे तथा पावकतेजसा ॥ १७ ॥ ध्रुवौ च संध्ययोस्तेजः श्रवणावनिलस्य च ॥ अन्येषां चैव देवानां संभवस्तेजसां शिवा ॥ १८ ॥ ततः समस्तदेवानां तेजोराशिसमुद्भवाम् ॥ तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः ॥ १६ ॥ शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् ॥ चक्रं च दत्तवान् कृष्णः समुत्पाव्य स्वचक्रतः ॥ २० ॥ शङ्खच वरुणः शक्तिं ददौ तस्यै मारुतो दत्तवांश्चापं बाणपूर्ण तथेषुधी ॥ २१ ॥ हुताशनः॥
४६
श्रीदुर्गासप्तशती *
वज्रमिन्द्रः समुत्पाव्य कुलिशादमराधिपः ॥
ददौ तस्यै सहस्राक्षो 'घण्टामरावताद्गजात् ॥ २२॥
कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ ॥
प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् ॥ २३ ॥
समस्तरोमकूपेषु निजरश्मीन दिवाकरः ॥
कालश्च दत्तवान खङ्गतस्याश्चर्म च निर्मलम् ॥ २४ ॥
क्षीरोदश्चामलं हारमजरे च तथाम्बरे ॥
चूडामणि तथा दिव्यं कुण्डले कटकानि च ॥ २५ ॥
अर्धचन्द्रं तथा शुभ्र केयूरान् सर्वबाहुषु ॥
नूपुरौ विमलौ तद्वद् गवेयकमनुत्तमम् ॥ २६ ॥
अंगुलीयकरत्नानि समस्तास्वंगुलीषु च ॥
विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् ॥ २७ ॥
अस्त्राण्यनेकरूपाणि तथाऽभेयं च दशनम् ॥
अम्लानपङ्कजां मालां शिरस्युरसि चापराम् ॥ २८ ॥
अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् ॥
हिमवान वाहनं सिंहं रत्नानि विविधानि च ॥ २६ ॥
ददावशून्यं सुरया पानपात्रं धनाधिपः ॥
शेषश्च सर्वनागेशो महामणिविभूषितम् ॥ ३० ॥
४७ * मध्यमचरितम् . नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् ॥ अन्यैरपि सुरैर्देवी. सुरैर्देवी. भूषणैरायुधैस्तथा भूषणैरायुधैस्तथा ॥ ३१ ॥ सम्मानिता ननादोच्चैः साहासं मुहुर्मुहुः ॥ तस्या नादेन घोरेण कृत्स्नमापूरितं नभः ॥ ३२ ॥ अमायतातिमहता प्रतिशब्दो महानभूत् ॥ चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे ॥ ३३ ॥ चचाल वसुधा चेलुः सकलाश्च महीधराः ॥ जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् ॥ ३४ ॥ तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः ॥ दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः ॥ ३५ ॥ सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः ॥ आः किमेतदिति क्रोधादाभाष्य महिषासुरः ॥ ३६॥ शब्दमशेषैरसुरैर्वृतः ॥ स ददर्श ततो देवीं व्याप्तलोकत्रयीं विषा ॥ ३७॥ पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम् ॥ क्षोभिताशेषपातालां धनानिःस्वनेनताम् ॥ ३८ ॥ दिशो भुजसहस्रण समन्ताव्याप्य संस्थिताम् ॥ ततः प्रववृते युद्ध तया देव्या सुरद्विषाम् ॥ ३९ ॥ अभ्यधावत तं ४६ * श्रीदुर्गासप्तशती शस्त्रास्त्रैर्बहुधा मुक्तरादीपितदिगन्तरम् ॥ महिषासुरसेनानीश्चिक्षुराख्यो महासुरः ॥४०॥ युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः ॥ रथानामयुतैः षड्भिरुदग्राख्यो महासुरः ॥४१॥ अयुध्यतायुतानां च सहस्रण महाहनुः ॥ पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः ॥ ४२ ॥ अयुतानां शतैः षड्भिर्बाष्कलो युयुधे रणे ॥ गजवाजिसहस्रौघेरनेकैः परिवारितः ॥४३॥ वृतो स्थानां कोट्या च युद्धे तस्मिन्नयुध्यत ॥ विडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः ॥ ४४ ॥ युयुधे संयुगे तत्र रथानां परिवारितः ॥ अन्ये च तत्रायुतशो रथनागहयैर्वृताः ॥ ४५ ॥ युयुधः संयुगे देव्या सह तत्र महासुरः ॥ कोटिकोकोटिसहस्रस्तु रथानां दन्तिना तथा ॥ ४६ ॥ हयानां च वृतो युद्ध तत्राभून्महिषासुरः ॥ तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा ॥ १७ ॥ युयुधुः संयुगे देव्या खः परशुपटिशैः ॥ केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे ॥४८॥ .
* मध्यमचरितम् *
देवी खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः ॥
सापि देवी ततस्तानिशस्त्राण्यस्वाणि चण्डिका ॥ ४६॥
लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी
अनायस्तानना. देवी स्तूयमाना सुरर्षिभिः ॥ ५० ॥
मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी ॥
सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी ॥५१॥
चचारासुरसैन्येषु वनेष्विव
हुताशनः॥
निःश्वासान मुमुचे यांश्च युध्यमाना रणेऽम्बिका॥५२॥
त एव सद्यस्संभूता गणाः शतसहस्रशः॥
युयुधुस्ते परशुभिर्भिन्दिपालासिपदिशैः ॥ ५३ ॥
नाशयन्तो सुरगणान् देवी शक्त्युपहिताः ॥
अवादयन्त पटहान गणाः शंखांस्तथापरे ॥ ५४॥
मृदङ्गांश्च तथैवान्ये तस्मिन्युद्धमहोत्सवे ॥
ततो देवी त्रिशूलेन गदया शक्तिऋष्टिभिः ॥ ५५ ॥
खड्गादिभिश्च शतशो निजघान महासुरान् ॥
पातयामास चैवान्यान घण्टास्वनविमोहितान् ॥ ५६ ॥
असुरान् भुवि पाशेन बध्वा चान्यानकर्षयत् ॥
केचिद् द्विधाकृतास्तीक्ष्णैः खड्गपातैस्तथापरे ॥ ५७ ॥
श्रीदुर्गासप्तशती विपोथिता निपातेन गदया भुवि शेरते ॥ वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः ॥ ५८ ॥ केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि ॥ निरंतराः शरौघेण कृताः केचिद्रणाजिरे ॥ ५ ॥ सेनानुकारिणः प्राणान्मुमुचुस्त्रिदशार्दनाः॥ केषांचिद्वाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे ॥ ६०॥ शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः ॥ विच्छिन्नजकास्त्वपरे पेतुरुा महासुराः ॥ ६१ ॥ एकबाह्वक्षिचरणाः केचिद्द व्या द्विधाकृताः ॥ छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः ॥ ६२ ॥ युयुधुर्देव्या गृहीतपरमायुधाः ॥ ननृतुश्चापरे तत्र युद्ध तूर्यलयाश्रिताः ॥ ६३ ॥ कबंधाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः॥ तिष्ठ तिष्ठेति भाषंतो देवीमन्ये महासुराः ॥ ६४ ॥ पातित रथनागाश्वैरसुरैश्च वसुन्धरा ॥ अगम्या साऽभवत्तत्र यत्राभूत् स महारणः ॥ ६५ ॥ शोणितौघा महानद्यस्सयस्तत्र विसुनुवुः ॥ मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥ ६६ ॥ कबन्धा ५१ * मध्यमचरितम् * क्षणेन तन्महासैन्यमसुराणां तथांबिका ॥ निन्ये क्षयं यथा वह्विस्तृणदासमहाचयम् ॥ ६७ ॥ स च सिंहो महानादमुत्सृजन् धुतकेसरः ॥ शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ॥६॥ देव्या गणैश्च तैस्तत्र कृतं युद्ध तथासुरैः ॥ यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि ॥ ६६ ॥ श्रीमार्कण्डेयपुराणे सावर्णिके मन्वंतरे देवीमाहात्म्ये महिषासुरसैन्यवधो नाम द्वितीयः ॥ २ ॥ -(x::x)-
॥ अथ तृतीयोऽध्यायः॥
॥
ऋषिरुवाच ॥१॥
निहन्यमानं तत्सैन्यमवलोक्य महासुरः
सेनानीश्चिक्षुरः कोपाद्ययौ योद्ध मथाम्बिकाम् ॥ २॥
स देवीं शरवर्षेण ववर्ष समरेऽसुरः ॥
यथा मेरुगिरेः शङ्ख तोयवर्षेण तोयदः ॥३॥
तस्य छित्वा ततो देवी लीलयैव शरोत्करान् ॥
जघान तुरगान्बाणैर्यतारं चैव वाजिनाम् ॥ ४ ॥
चिच्छेद च धनुः सद्यो ध्वजं चातिसमुच्छ्रितम् ॥
विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः ॥ ५ ॥
सछिन्नधन्वा विस्थो हताश्वो हतसारथिः ॥
अभ्यधावत तां देवी खड्गचर्मधरोऽसुरः ॥६॥
सिंहमाहत्य खड्नेन तीक्ष्णधारेण मूर्धनि ॥
आजघान भुजै सव्ये देवीमप्यतिवेगवान् ॥ ७ ॥
तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन ॥
ततो जग्राह शूलं स कोपादरुणलोचनः ॥८॥
५३
३
आजगाम
* मध्यमचरितम् *
चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः ॥
जाज्वल्यमानं तेजोभी रविबिंबंमिवांबरात् ॥६॥
दृष्ट्वा तदापतच्छ्रलं देवी शूलममुश्चत ॥
तच्छूलं शतधा तेन नीतं स च महासुरः ॥ १० ॥
हते तस्मिन्महावीर्ये महिषस्य चमूपतौ ॥
गजारूढश्चामरस्त्रिदशार्दनः
॥ ११ ॥
सोऽपि शक्तिं मुमोचाथ देव्यास्तामंबिका द्रुतम् ॥
हुंकाराभिहतां भूमौ पातयामास निष्प्रभाम् ॥ १२ ॥
भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः ॥
चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ॥ १३ ॥
ततः सिंहः समुत्पत्य गजकुंभांतरे स्थितः ॥
बाहुयुद्धन युयुधे तेनाच्चैस्त्रिदशारिणा ॥ १४ ॥
युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ ॥
युयुधातेतिसंरब्धौ प्रहारैतिदारुणैः
ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा ॥
करप्रहारेण शिरश्चामरस्य पृथककृतम् ॥ १६ ॥
उदग्रश्चरणे देव्या शिलावृक्षादिभिर्हतः ॥
दन्तमुष्टितलैश्चैव करालश्च निपातितः ॥ १७ ॥
॥
॥ १५ ॥
५४ * श्रीदुर्गासप्तशती * देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् ॥ बाष्कलं भिंदिपालेन बाणैस्ताम्र तथांधकम् ॥ १८ ॥ उपास्यमुग्रवीयं च तथैव च महाहनुम् ॥ त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥ १६ ॥ बिडालस्यासिना कायात् पातयामास वै शिरः॥ दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ॥ २० ॥ एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः ॥ माहिषेण स्वरूपेण त्रासयामास तान् गणान् ॥ २१ ॥ कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान् लांगूलताडितांश्चान्यान् शृङ्गाभ्यां च विदारितान् ॥ २२ ॥ वेगेन कांश्चिदपरान्नादेन भ्रमणेन च ॥ निःश्वासपवनेनान्यान्पातयामास भूतले ॥ २३॥ निपात्य प्रमथानीकमभ्यधावत सोऽसुरः । सिंहं हंतुं महादेव्याः कोपं चक्रे ततोऽम्बिका ॥ २४ ॥ सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः ॥ शङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ॥ २५ ॥ वेगनमणविक्षुण्णा मही तस्य व्यशीर्यत ॥ लांगूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ॥ २६ ॥ ॥
५५ ॥ * मध्यमचरित्रम् * धुतशृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घनाः ॥ श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ॥ २७ ॥ इति क्रोधसमाध्मातमापतंतं महासुरम् ॥ दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाऽकरोत् ॥ २८ ॥ सा क्षिप्त्वा तस्य वै पाशं तं बबंध महासुरम् ॥ तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे ॥ २६ ॥ ततः सिंहोऽभवत्सद्यो यावत्तस्यांबिका शिरः छिनत्ति तावत् पुरुषः खड्गपाणिरदृश्यत ॥ ३०॥ तत एवाशु पुरुषं देवी चिच्छेद सायकैः ॥ तं खड्गचर्मणा साधं ततः सोऽभून्महागजः ॥ ३१ ॥ करेण च महासिंह तं चकर्ष जगर्न च ॥ कर्षतस्तु करं देवी खङ्गेन निरकृन्तत ॥ ३२ ॥ ततो महासुरो भूयो माहिषं वपुरास्थितः ॥ तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥ ३३ ॥ ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् ॥ पपौ पुनः पुनश्चैव जहासारुणलोचना ॥ ३४ ॥ सोऽपि बलवीर्यमदोद्धतः ॥ विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान् ॥ ३५ ॥ ननर्द चासुरः
५६
श्रीदुर्गासप्तशती.
सा च तान्प्रहितांस्तेन चूर्णयंती शरोत्करैः ॥
उवाच तं मदोद्ध तर्मुखरागाकुलाक्षरम् ॥ ३६ ॥
॥ देव्युवाच ॥ ३७॥
गर्ज गर्ज क्षणं मूढ़ मधु यावत्पिबाम्यहम् ॥
मया त्वयि हतेऽत्रैव गर्जिष्यंत्याशु देवताः ॥ ३८ ॥
॥ ऋषिरुवाच ॥ ३६ ॥
एवमुक्त्वा समुत्पत्य साऽऽरूढा तं महासुरम् ॥
पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् ॥ ४० ॥
ततः सोऽपि पादाक्रांतस्तया निजमुखात्ततः ॥
अर्धनिष्कांत एवासीदव्या वीर्येण संवृतः ॥४१॥
अर्धनिष्क्रांत एवासौ युध्यमानो महासुरः ॥
तया महासिना देव्या शिरच्छित्त्वा निपातितः॥४२॥
ततो हाहाकृतं सर्व दैत्यसैन्यं ननाश तत् ॥
प्रहर्ष च परं जग्मुः सकला देवतागणाः ॥ ४३ ॥
तुष्टुवुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः ॥
जगुर्गन्धर्वपतयो
ननृतुश्चाप्सरोगणाः
॥४४॥
श्रीमार्कण्डेयपुराणे सावर्णिके मन्वंतरे देवीमाहात्म्ये
महिषासुरवधो नाम तृतीयोऽध्यायः ॥३॥
॥ अथ चतुर्थोऽध्यायः ॥
॥
ऋषिरुवाच ॥१॥
शक्रायः सुरगणा निहतेऽतिवीर्ये
तस्मिन्दुरात्मनि सुरारिबले च देव्या ॥
तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा
वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ २ ॥
देव्या यया ततमिदं जगदात्मशक्त्या
निःशेषदेवगणशक्तिसमूहमूर्त्या ॥
तामम्बिकामखिलदेवमहर्षिपूज्यां
भक्त्या नताः स्म विदधातु शुभानि सा नः ॥३॥
यस्याः प्रभावमतुलं भगवाननन्तो
ब्रह्मा हरश्च न हि वक्तुमलं बलं च ॥
सा चण्डिकाखिलजगत्परिपालनाय
नाशाय चाशुभभयस्य मतिं करोतु ॥४॥
* श्रीदुर्गासप्तशती या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः ॥ श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् ॥५॥ किं वर्णयाम तव रूपमचिंत्यमेतत्कि चातिवीर्यमसुरक्षयकारि भूरि ॥ किं चाहवेषु चरितानि तवाति यानि सर्वेषु देव्यसुरदेवगणादिकेषु ॥ ६ ॥ हेतुः समस्तजगतां त्रिगुणापि दोषैन ज्ञायसे हरिहरादिभिरप्यपारा ॥ सर्वाश्रयाखिलमिदं जगदंशभूत- मव्याकृता हि परमा प्रकृतिस्त्वमाद्या॥ ॥ यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवी ॥ स्वाहासि वै पितृगणस्य च तृप्तिहेतु- रुच्चार्यसे त्वमत एव जनैः स्वधा च ॥८॥ या मुक्तिहेतुरविचिन्त्यमहाव्रता त्वमभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः ।
५८
* मध्यमचरितम् *
मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै-
विद्याऽसि सा भगवती परमा हि देवि ॥६॥
शब्दात्मिका सुविमलय॑जुषां निधान-
मुद्गीथरम्यपदपाठवतां च सानाम् ॥
देवी त्रयी भगवती भवभावनाय
वार्ता च सर्वजगतां परमार्तिहंत्री ॥१०॥
मेधाऽसि देवि विदिताखिलशास्त्रसारा
दुर्गाऽसि दुर्गभवसागरनौरसङ्गा ॥
श्रीः कैटभारिहृदयककृताधिवासा
गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा ॥ ११ ॥
ईषत्सहासममलं परिपूर्णचन्द्र-
बिम्बानुकारि कनकोत्तमकान्तिकान्तम् ॥
अत्यदभुतं प्रहृतमात्तरुषा तथापि
वक्त्रं विलोक्य सहसा महिषासुरेण ॥ १२ ॥
दृष्ट्वा तु देवि कुपितं भृकुटीकराल-
मुद्यच्छशांकसदृशच्छवि यन्न सद्यः॥
प्राणान् मुमोच महिषस्तदतीव चित्रं
कैर्जीव्यते हि कुपितांतकदर्शनेन ॥ १३ ॥
* श्रीदुर्गासप्तशती * देवि प्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि ॥ विज्ञातमेतदधुनैव यदस्तमेतन्नीतं बलं सुविपुलं महिषासुरस्य ॥ १४ ॥ ते संमता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवगः॥ धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना ॥ १५ ॥ धाणि देवि सकलानि सदैव कर्माण्यत्यादृतः प्रतिदिनं सुकृती करोति ॥ स्वर्ग प्रयाति च ततो भवती प्रसादा- लोकत्रयेऽपि फलदा ननु देवि तेन ॥ १६ ॥ दुर्गे स्मृता हरसि भीतिमशेषजंतोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि ॥ दारिद्रयदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदाचित्ता ॥ १७ ॥ एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वतु नाम नरकाय चिराय पापम् ॥ .
* मध्यमचरितम् संग्राममृत्युमधिगम्य दिवं प्रयांतु मत्वेति नूनमहितान्विनिहंसि देवि ॥ १८ ॥ दृष्ट्वैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ॥ लोकान्प्रयांतु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वहितेषु साध्वो ॥ १६ ॥ खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः शूलायकांतिनिवहेन दृशोऽसुराणाम् ॥ यन्नागता विलयमंशुमदिंदुखण्ड- योग्याननं तव विलोकयतां तदेतत् ॥ २० ॥ दुवृत्तवृत्तशमनं तव देवि शीलं रूपं तथैतदविचिंत्यमतुल्यमन्यैः ॥ वीयं च हंत हृतदेवपराक्रमाणां वैरिष्वपि प्रकटितव दया त्वयेत्थम् ॥ २१ ॥ तेऽस्य पराक्रमस्य रूपं च शत्रुभयकार्यतिहारि कुत्र । चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि ॥ २२ ॥ केनोपमा भवतु ६२ श्रीदुर्गासप्तशती * त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा । नीता दिवं रिपुगणा भयमप्यपास्त- मस्माकमुन्मदसुरारिभवं नमस्ते ॥ २३ ॥ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ॥ घण्टास्वनेन नः पाहि चापज्यानिस्स्वनेन च ॥ २४ ॥ प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे॥ भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥ २५ ॥ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते॥ यानि चात्यंतघोराणि ते रक्षास्मांस्तथा भुवम् ॥ २६ ॥ खड्गशलगदादीनि यानि चास्त्राणि तेऽम्बिके । करपल्लवसंगीनि तैरस्मान्रक्ष सर्वतः ॥ २७ ॥ ऋषिरुवाच ॥ २८॥ एवं स्तुता सुरैर्दिव्यैः कुसुमैनन्दनोद्भवैः ॥ अर्चिता जगतां धात्री तथागंधानुलेपनैः ॥ २६ ॥ भक्त्या समस्तैस्त्रिदशैर्दिव्यैधूपैः सुधूपिता ॥ प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् ॥ ३०॥ ..
६३
* मध्यमचरितम् -
देव्युवाच ॥ ३१॥
वियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवांछितम् ॥ ३२ ॥
देवा ऊचुः॥ ३३॥
भगवत्या कृतं सर्वं न किंचिदवशिष्यते ॥
यदयं निहतः शत्रुरस्माकंमहिषासुरः ॥ ३४ ॥
यदि चापि वरो देयस्त्वयाऽस्माकं महेश्वरि ॥
संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः ॥ ३५ ॥
यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ॥
तस्य वित्तद्धि विभवैर्धनदारादि संपदाम् ॥३६ ॥
वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके ॥ ३७॥
ऋषिरुवाच ॥ ३८॥
इति प्रसादिता देवैर्जगतोर्थे तथात्मनः ॥
तथेत्युक्त्वा भद्रकाली बभूवांतर्हिता नृप ॥३६ ॥
इत्येतत्कथितं भूप संभूता सा यथा पुरा ॥
देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी ॥ ४०॥
पुनश्च गौरीदेहात्सा समुदभूता यथा भवत् ॥
वधाय दुष्टदैत्यानां तथा शुम्भनिशुंभयोः ॥ ४१ ॥
६४
* श्रीदुर्गासप्तशती
रक्षणाय च लोकानां देवानामुपकारिणी ॥
तच्छृणुष्व मयाख्यातं यथावत्कथयामि ते ॥ ४२ ॥
ॐ श्रीमार्कण्डेयपुराणे सावर्णिके मन्वंतरे देवीमाहात्म्ये
शक्रादिस्तुति म चतुर्थः ॥ ४ ॥
॥ अथ उत्तमचरितम् ॥
॥
ॐ उत्तमचरितस्य रुद्र ऋषिः॥ महासरस्वती देवता ॥
अनुष्टुप् छंदः॥भीमा शक्तिः॥भ्रामरी बीजम् ॥ सूर्यस्तत्त्वम् ॥
सामवेदः स्वरूपम् ॥
महासरस्वतीप्रीत्यर्थमुत्तमचरितजपे
विनियोगः ॥
॥ अथ ध्यानम् ॥
घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायक
हस्ताब्जर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ॥
गौरीदेहंसमुद्भवां त्रिनयनामाधारभूतां महा-
पूर्वामत्र सरस्वतीमनुभजे शुम्भादि दैत्यादिनीम् ॥
ॐ ऋषिरुवाच ॥ १॥
पुरा शुंभनिशुंभाभ्यामसुराभ्यां शचीपतेः ॥
त्रैलोक्यं यज्ञभागाश्च हृता मदबलाश्रयात् ॥ २ ॥
तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् ॥
कौबेरमथ याम्यं च चक्राते वरुणस्य च ॥३॥
श्रीदुर्गासप्तशती *
तावेव पवनद्धिं च चक्रतुर्वह्निकर्म च ॥
ततो देवा विनिधूता भ्रष्टराज्याः पराजिताः ॥ ४ ॥
हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः ॥
महासुराभ्यां तां देवीं संस्मरंत्यपराजिताम् ॥ ५ ॥
तयास्माकं वरो दत्तो यथापत्सु स्मृताखिलाः ॥
भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥ ६ ॥
इति कृत्वा मतिं देवा हिमवंतं नगेश्वरम् ॥
जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥ ७ ॥
देवा ऊचुः ॥८॥
नमो देव्यै महादेव्यै शिवायै सततं नमः ॥
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ ६ ॥
रौद्रायै नमो नित्याय गोय धात्र्यै नमो नमः ॥
ज्योत्स्नायै चंदुरूपिण्यै सुखायै सततं नमः ॥ १० ॥
कल्याण्य प्रणतां वृध्ये सिद्ध्यै कूम्टौं नमो नमः ॥
नैर्ऋत्य भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥ ११ ॥
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ॥
ख्यात्य तथैव कृष्णाय धूम्रायै सततं नमः ॥ १२ ॥
उत्तमचरितम् .
अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः॥
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमोनमः ॥ १३ ॥
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ॥
नमस्तस्यै ॥१४॥ नमस्तस्यै ॥१५॥ नमस्तस्यै नमो नमः ॥१६॥
या देवी सर्वभूतेषु चेतनेत्यभिधीयते ॥
नमस्तस्यै ॥१७॥ नमस्तस्यै ॥१८॥ नमस्तस्यै नमो नमः॥१६॥
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ॥
नमस्तस्यै ॥२०॥ नमस्तस्यै ॥२१॥ नमस्तस्यै नमो नमः॥२२॥
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ॥
नमस्तस्यै ॥२३॥ नमस्तस्यै ॥२४॥ नमस्तस्यै नमोनमः ॥२५॥
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ॥
नमस्तस्यै ॥२६॥ नमस्तस्यै॥२७॥ नमस्तस्यै नमो नमः॥२८॥
या देवी सर्वभूतेषु छायारूपेण संस्थिता ॥
नमस्तस्यै॥२६॥ नमस्तस्यै ॥३०॥ नमस्तस्यै नमो नमः ॥३१॥
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ॥
नमस्तस्यै॥३२॥ नमस्तस्यै॥३३॥ नमस्तस्यै नमो नमः ॥३४॥
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ॥
नमस्तस्यै॥३५॥ नमस्तस्यै ॥३६॥ नमस्तस्यै नमो नमः ॥३७॥
श्रीदुर्गासप्तशती *
या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ॥
नमस्तस्यै॥३८॥ नमस्तस्यै ॥३६॥ नमस्तस्यै नमो नमः ॥४०॥
या देवी सर्वभूतेषु जातिरूपेण संस्थिता ॥
नमस्तस्यै॥४१॥ नमस्तस्यै॥४२॥ नमस्तस्यै नमो नमः ॥४३॥
या देवी सर्वभूतेषु लजारूपेण संस्थिता ॥
नमस्तस्यै॥४४॥ नमस्तस्यै॥४५॥ नमस्तस्यै नमो नमः॥४६॥
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ॥
नमस्तस्यै॥४७॥ नमस्तस्यै ॥४८॥ नमस्तस्यै नमो नमः॥४६॥
या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ॥
नमस्तस्यै ॥५०॥नमस्तस्यै ॥५१॥ नमस्तस्यै नमो नमः॥५२॥
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ॥
नमस्तस्यै ॥५३॥ नमस्तस्यै ॥५४॥ नमस्तस्यै नमो नमः॥५५॥
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ॥
नमस्तस्यै ॥५६॥ नमस्तस्यै ॥५७॥ नमस्तस्यै नमो नमः॥५८॥
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ॥
नमस्तस्यै॥५६॥ नमस्तस्यै ॥६०॥ नमस्तस्यै नमो नमः॥६१॥
या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ॥
नमस्तस्यै॥६२॥ नमस्तस्यै ॥६३॥ नमस्तस्यै नमो नमः ॥६॥
* उत्तमचरितम् * या देवी सर्वभूतेषु दयारूपेण संस्थिता ॥ नमस्तस्यै॥६५॥ नमस्तस्यै ॥६६॥ नमस्तस्यै नमो नमः॥६७॥ या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ॥ नमस्तस्यै॥६॥ नमस्तस्यै॥६६॥ नमस्तस्यै नमो नमः ॥७॥ या देवी सर्वभूतेषु मातृरूपेण संस्थिता ॥ नमस्तस्यै॥७१॥ नमस्तस्यै ॥७२॥ नमस्तस्यै नमो नमः ॥७३॥ या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता ॥ नमस्तस्यै ॥७॥नमस्तस्यै॥७॥ नमस्तस्यै नमो नमः ॥७६॥ इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या॥ भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः ॥ ७७ ॥ चितिरूपेण या कृत्स्नमेतद्वयाप्य स्थिता जगत् ॥ नमस्तस्यै॥७॥ नमस्तस्यै॥७९॥ नमस्तस्यै नमो नमः॥८॥ स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सेविता करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ॥ ८१ ॥ ॥
या सांप्रतं
श्रीदुर्गासप्तशती
चोद्धतदैत्यतापित-
रस्माभिरीशा च सुरैर्नमस्यते ॥
या च स्मृता तत्क्षणमेव हन्ति
नः सर्वापदो भक्तिविनम्रमूर्तिभिः ॥ ८२ ॥
ऋषिरुवाच ॥ ८३॥
एवं स्तवादियुक्तानां देवानां तत्र पार्वती ॥
स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ॥८४ ॥
साऽब्रवीत्तान्सुरान्सुभ्रूभवद्भिः स्तूयतेऽत्र का ॥
शरीरकोशतश्चास्याः समुद्भूताऽब्रवीच्छिवा ॥ ८५ ॥
स्तोत्रं ममैतक्रियते शुम्भदैत्यनिराकृतैः ॥
देवैः समस्तैः समरे निशुम्भेन पराजितैः ॥ ८६ ॥
शरीरकोशायत्तस्याः पार्वत्या निःसृताम्बिका ॥
कौशिकोति समस्तेषु ततो लोकेषु गीयते ॥ ८७ ॥
तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती ॥
कालिकेति समाख्याता हिमाचल कृताश्रया ॥८८ ॥
ततोम्बिका परं रूपं बिभ्राणां सुमनोहरम् ॥
ददर्श चण्डो मुण्डश्च भृत्यौ शुम्भनिशुंभयोः ॥ ८६ ॥
* उत्तमचरितम् -
ताम्यां शुम्भाय चाख्यातासाऽतीव सुमनोहरा॥
काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम् ॥६०॥
नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम् ॥
ज्ञायतां काप्यसौदेवी गृह्यतां चासुरेश्वर ॥ ६१ ॥
स्त्रीरत्नमतिचार्वङ्गी द्योतयन्ती दिशस्त्विषा ॥
सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति ॥ १२ ॥
यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो ॥
त्रैलोक्ये त समस्तानि सांप्रतं भान्ति ते गृहे ॥३॥
ऐरावतः समानीतो गजरत्नं पुरंदरात् ॥
पारिजाततरुश्चाय तथैवोच्चैःश्रवा हयः ॥ १४ ॥
विमानं हंससंयुक्तमेतत्तिष्ठति तेऽङ्गणे ॥
रत्नभूतमिहानीतं यदासीद्वधसोद्भुतम् ॥ ६५ ॥
निधिरेष महापद्मः समानीतो धनेश्वरात् ॥
किंजल्किनी ददौ चाब्धिर्मालामम्लानपङ्कजाम् ॥६६॥
छत्रं ते वारुणं गेहे काञ्चनस्त्रावि तिष्ठति ॥
तथाऽयं स्यन्दनवरो यः पुरासीत्प्रजापतेः ॥ १७ ॥
मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता ॥
पाशः सलिलराजस्य भ्रातस्तव परिग्रहे ॥ ६ ॥
७२
* बीदुर्गासप्तशती.
निशुंभस्याब्धिजाताश्च समस्ता रत्नजातयः ॥
वह्निश्चापि ददौ तुभ्यमग्निशौचे च वाससी ॥ ६ ॥
एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते ॥
स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते ॥ १०० ॥
ऋषिरुवाच ॥ १०१॥
निशम्येति वचः शुंभः स तदा चण्डमुण्डयोः ॥
प्रेषयामास सुग्रीवं दूतं देव्या महासुरम् ॥ १०२ ॥
इति चेति च वक्तव्या सा गत्वा वचनान्मम ॥
यथा चाभ्येति संप्रीत्या तथा कार्य त्वया लघु ॥१०३॥
स तत्र गत्वा यत्रास्ते शैलोदेशेतिशोभने ॥
सा देवी तां ततः प्राह श्लक्ष्णं मधुरया गिरा॥१०४॥
दूत उवाच ॥ १०५ ॥
देवि दैत्येश्वरः शुंभस्त्रैलोक्ये परमेश्वरः ॥
दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः ॥ १०६ ॥
अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु ॥
निर्जिताखिलदैत्यारिः स यदाह शृणुष्व तत् ॥ १०७ ॥
मम त्रैलोक्यमखिलं मम देवा वशानुगाः ॥
यज्ञभागानहं सर्वानुपश्नामि पृथक् पृथक् ॥ १०८ ॥
M
॥
* उत्तमचरितम्
त्रैलोक्ये वररत्नानि मम वश्यान्यशेषतः॥
तथैव गजरत्नं च हृतं देवेन्द्रवाहनम् ॥ १०६ ॥
क्षीरोदमथनोदभूतमश्वरत्नं
ममामरैः
उच्चैःश्रवससंज्ञं तत्प्रणिपत्य समर्पितम् ॥ ११ ॥
यानि चान्यानि देवेषु गन्धर्वेधूरगेषु च ॥
रत्नभूतानि भूतानि तानि मय्येव शोभने ॥ १११ ॥
स्त्रीरत्नभूतां त्वां देवि लोके मन्यामहे वयम् ॥
सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम् ॥ ११२ ॥
मां वा ममानुजं वापि निशुंभमुरुविक्रमम् ॥
भज त्वं चञ्चलापाङ्गि रत्नभूतासि वै यतः ॥ ११३ ॥
परमैश्वर्यमतुलं प्राप्स्यसे मत्परिग्रहात् ॥
एतदबुद्धया समालोच्य मत्परिग्रहतां व्रज ॥ ११४ ॥
ऋषिरुवाच ॥ ११५ ॥
इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ ॥
दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ॥ ११६ ॥
देव्युवाच ॥ ११७ ॥
सत्यमुक्तं त्वया नात्र मिथ्या किञ्चित्वयोदितम् ॥
त्रैलोक्याधिपतिः शुभो निशुंभश्चापि तादृशः ॥ ११८ ॥
७४
• श्रीदुर्गासप्तशती *
किं त्वत्र यत्प्रतिज्ञातं मिथ्या तक्रियते कथम् ॥
श्रूयतामल्पबुद्धित्वात्प्रतिज्ञा या कृता पुरा ॥ ११६ ॥
यो मां जयति संग्रामे यो मे दर्प व्यपोहति ॥
यो में प्रतिबलो लोके स मे भर्ता भविष्यति ॥ १२० ॥
तदागच्छतु शुम्भोऽत्र निशुंभो वा महासुरः ॥
मां जित्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु ॥ १२१ ॥
दूत उवाच ॥ १२२॥
अवलिप्तासि मैवं त्वं देवि ब्रहि ममाग्रतः ॥
त्रैलोक्ये कः पुमांस्तिष्ठेदग्रे शुंभनिशुंभयोः ॥ १२३ ॥
अन्येषामपि दैत्यानां सर्वे देवा न वै युधि ॥
तिष्ठन्ति संमुख देवि किं पुनः स्त्री त्वमेकिका ॥ १२४ ॥
इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे॥
शुभादीनां कथं तेषां स्त्री प्रयास्यसि संमुखम् ॥ १२५ ॥
सा त्वं गच्छ मयैवोक्ता पाश्वं शुंभनिशुम्भयोः॥
केशाकर्षणनिधूतगौरवा मा गमिष्यसि ॥ १२६ ॥
देव्युवाच ॥ १२७॥
एवमेतद्बली शंभो निशुम्भश्चातिवीर्यवान् ॥
किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा ॥ १२८॥
७५ उत्तमचरितम् * स त्वं गच्छ मयोक्तं ते यदेतत्सर्वमाहतः॥ तदाचक्ष्वासुरेन्द्राय स च युक्तं करौतु यत् ॥ १२६ ॥ श्रीमार्कण्डेयपुराणे सावर्णिके मन्वंतरे देवीमाहात्म्य देव्या दूतसंवादो नाम पञ्चमः ॥ ५ ॥ -(xiox)-
॥ अथ षष्ठोऽध्यायः॥
-०६९
ऋषिरुवाच ॥१॥
इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः ॥
समाचष्ट समागम्य दैत्यराजाय विस्तरात् ॥२॥
तस्य दूतस्य तद्वाक्यमार्कण्यासुरराट् ततः॥
सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ॥३॥
हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः ॥
तामानय बलाददुष्टां केशाकर्षणविह्वलाम् ॥४॥
तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठते परः ॥
स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा ॥ ५ ॥
ऋषिरुवाच ॥ ६॥
तेनाज्ञप्तस्ततः शीघ्र स दैत्यो धूम्रलोचनः॥
वृतः षष्टया सहस्राणामसुराणां द्रुतं ययौ ॥७॥
स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् ॥
जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः॥८॥
उत्तमचरितम्
न चेत्प्रीत्याय भवती मद्भर्तारमुपैष्यति ॥
ततो बलान्नयाम्येष : केशाकर्षणविह्वलाम् ॥६॥
देव्युवाच ॥१०॥
दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः ॥
बलानयसि मामेवं ततः किं ते करोम्यहम् ॥ ११ ॥
ऋषिरुवाच ॥ १२॥
इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः ॥
हुंकारेणैव तं भस्म सा चकाराम्बिका ततः॥ १३ ॥
अथ क्रुद्ध महासैन्यमसुराणां तथाम्बिका ॥
ववर्ष सायकैस्तीक्ष्णैस्तथाशक्तिपरश्वधैः ॥ १४ ॥
ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम् ॥
पपातासुरसेनायां सिंहो देव्याः स्ववाहनः ॥ १५ ॥
कांश्चित्करप्रहारेण दैत्यानास्येन चापरान् ॥
आक्रान्त्या चाधरेणान्यान् स जघान महासुरान् ॥ १६ ॥
केषांचित्पाटयामास नखैः कोष्ठानि केसरी॥
तथा तलप्रहारण शिरांसि कृतवान्पृथक् ॥ १७ ॥
विच्छिन्नबाहुशिरसः कृतास्तेन तथा परे ॥
पपौ च रुधिरं कोष्ठादन्येषां धुतकेसरः ॥ १८ ॥
* श्रीदुर्गासप्तशती. क्षणेन तदबलं सर्व क्षयं नीतं महात्मना ॥ तेन केसरिणा देव्या धाहनेनातिकोपिना ॥ १६ ॥ श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम् ॥ बलं च क्षयितं कृत्स्नं देवी केसरिणा ततः ॥ २० ॥ चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः ॥ आज्ञापयामास च तौ चण्डमुण्डौ महासुरी ॥ २१ ॥ हे चण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ ॥ तत्र गच्छत गत्वा च सा समानीयतां लघु ॥ २२ ॥ केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि ॥ तदाशेषायुधैः सवैरसुरैर्विनिहन्यताम् ॥ २३ ॥ तस्यां हतायां दुष्टायां सिंहे च विनिपातिते ॥ शीघमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् ॥ २४ ॥ श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये धूम्रलोचनवधो नाम षष्ठः ॥ ६ ॥ -:(०):- ॥ अथ सप्तमोऽध्यायः॥ ॥ २॥ ऋषिरुवाच ॥१॥ आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः ॥ चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् ॥ सिंहस्योपरि शैलेन्द्रशृङ्ग महति काञ्चने ॥ ३ ॥ ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुयताः ॥ आकृष्टचापासिंधरास्तथाऽन्ये तत्समीपगाः ॥ ४ ॥ ततः कोपं चकारोच्चैरम्बिका तानरीन्प्रति ॥ कोपेन चास्या वदनं मषीवर्णमभूत्तदा ॥ ५ ॥ भृकुटीकुटिलात्तस्या ललाटफलकाद्रुतम् ॥ काली करालवदना विनिष्क्रान्तासिपाशिनी ॥ ६ ॥ विचित्रखष्ट्वाङ्गधरा नरमालाविभूषणा दीपिचर्मपरीधाना शुष्कमांसातिभैरवा ॥७॥ %D
८०
॥
श्रीदुर्गासप्तशती.
अतिविस्तारवदना जिह्वाललनभीषणा ॥
निमग्ना रक्तनयना नांदापूरितदिङमुखा ॥८॥
सा वेगेनाभिपतिता घातयन्ती महासुरान् ।
सैन्ये तत्र सुरारीणामभक्षयत तदबलम् ॥ ६ ॥
पाणिग्राहांकुशग्राहयोधघण्टासमन्विताम्
समादायैकहस्तेन मुखे चिक्षेप वारणान् ॥ १० ॥
तथैव योधं तुरगै रथं सारथिना सह ॥
निक्षिप्य वक्त्रे दशनैश्चर्वयन्त्यतिभैरवम् ॥ ११ ॥
एकं जग्राह केशेषु ग्रीवायामथ चापरम् ॥
पादेनाक्रम्य चैवान्यमुरसाऽन्यमपोथयत् ॥ १२ ॥
तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथासुरैः ।।
मुखेन जग्राह रुषा दशनैर्मथितान्यपि ॥ १३ ॥
बलिनां तबलं सर्वमसुराणां निपातितम् ॥
ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तथा ॥ १४ ॥
असिना निहताः केचित्केचित्खट्टाङ्गताडिताः ॥
जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा ॥ १५ ॥
क्षणेन तदबलं सर्वमसुराणां निपातितम् ॥
दृष्ट्वा चण्डोऽभिदुद्राव तां कालीमतिभीषणाम् ॥ १६ ॥
८१ * उत्तमचरित्रम् * शरवषैर्महाभीमीमाक्षीं तां महासुरः ॥ छादयामास चक्रश्च मुण्डः क्षिप्तः सहस्रशः ॥ १७ ॥ तानि चक्राण्यनेकानि विशमानानि तन्मुखम् ॥ बभुर्यथाऽर्कबिम्बानि सुबहूनि घनोदरम् ॥ १८ ॥ ततो जहासातिरुषा भीमं भैरवनादिनी ॥ काली करालवस्त्रान्तर्दुर्दर्शदशनोज्ज्वला ॥ १६ ॥ उत्थाय च महासिंहं देवी चण्डमधावत ॥ गृहीत्वा चास्य केशेषु शिरस्तेनासिनाऽच्छिनत् ॥ २० ॥ अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम् ॥ तमप्यपातयभूमौ सा खड़गाभिहतं रुषा ॥ २१ ॥ हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम् ॥ मुण्डं च सुमहावीर्य दिशो भेजे भयातुरम् ॥ २२ ॥ शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च ॥ प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् ॥ २३ ॥ मया तवात्रोपहृतौ चण्डमुण्डौ महापशू ॥ युद्धयज्ञे स्वयं शुम्भ निशुम्भं च हनिष्यसि ॥ २४ ॥ ११
.
श्रीदुर्गासप्तगतो*
ऋषिरुवाच ॥ २५ ॥
तावानीतौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ ॥
उवाच काली कल्याणी ललितं चण्डिका वचः॥ २६ ॥
यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता ॥
चामुण्डेति ततो लोके ख्याता देवी भविष्यसि ॥ २७ ॥
श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
चण्डमुण्डवधो नाम सप्तमः ॥७॥
॥ अथ अष्टमोऽध्यायः॥
-K
ऋषिरुवाच ॥१॥
चण्डे च निहते दैत्ये मुण्डे च विनिपातिते ॥
बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ॥२॥
ततः कोपपराधीनचेताः शुम्भः प्रतापवान् ॥
उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह ॥३॥
अद्य सर्वबलँदैत्याः षडशीतिरुदायुधाः ॥
कम्बूनां चतुराशीतिनिर्यान्तु स्वबलैर्वृताः ॥ ४ ॥
कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै॥
शतं कुलानि धूम्राणां निर्गच्छन्तु ममाज्ञया ॥ ५ ॥
कालका दौढदा मौर्याः कालिकेयास्तथासुराः ॥
युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम ॥ ६ ॥
इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः ॥
निर्जगाम महासैन्यसहस्रर्बहुभिर्वृतः ॥७॥
८४
* श्रीदुर्गासप्तशती.
आयांतं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् ॥
ज्यास्वनैः पूरयामास धरणीगगनान्तरम् ॥८॥
ततः सिंहो महानादमतीव कृतवान्नृप ॥
घण्टास्वनेन तान्नादानम्बिका चोपद्व्हयत् ॥ ६ ॥
धनुpसिंहघण्टानां नादापूरितदिङ्मुखा ॥
निनादर्भीषणैः काली जिग्ये विस्तारितानना ॥ १०॥
तं निनादमुपश्रुत्य दैत्यसैन्यैश्चतुर्दिशम् ॥
देवी सिंहस्तथा काली शरौघः परिवारिताः॥ ११ ॥
एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् ॥
भवायामरसिंहानामतिवीर्यबलान्विताः
॥ १२॥
ब्रह्म शगुहविष्णनां तथेन्द्रस्य च शक्तयः ॥
शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ॥ १३ ॥
यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ॥
तद्वदेव हि तच्छक्तिरसुरान्योद्धमाययौ ॥ १४ ॥
हंसयुक्तविमानाने साक्षसूत्रकमण्डलुः
आयाता ब्रह्मणः शक्तिब्रह्माणीत्यभिधीयते ॥ १५ ॥
माहेश्वरी
वृषारूढा त्रिशूलवरधारिणी ॥
महाहिवलयाप्राप्ता चन्द्ररेखाविभूषणा ॥ १६ ॥
८५ तत्र उत्तमचरितम कौमारी शक्तिहस्ता च मयूरवरवाहना ॥ योदधुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥ १७ ॥ तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ॥ शङ्खचक्रगदाशार्ङ्गखड्गहस्ताऽभ्युपाययौ ॥ १८॥ यज्ञवाराहमतुलं रूपं या बिभ्रती हरेः ॥ शक्तिः साऽप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥ १६ ॥ नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ॥ प्राप्ता सटाक्षपक्षिप्तनक्षत्रसंहतिः ॥२०॥ वज्रहस्ता तथैवैन्द्री गजराजोपरिस्थिता ॥ प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ॥ २१ ॥ ततः परिवृतस्ताभिरीशानो देवशक्तिभिः ॥ हन्यंतामसुराः शीघ्र मम प्रीत्याह चण्डिकाम् ॥ २२ ॥ ततो देवीशरीरात्तु विनिष्कान्तातिभीषणा ॥ चण्डिका शक्तिरत्युग्रा शिवा शतनिनादिनी ॥ २३ ॥ सा चाह धूम्रजटिलमीशानमपराजिता ॥ दूत त्वं गच्छ भगवन्पाइवं शुम्भनिशुम्भयोः ॥ २४ ॥ ब्रूहि शुभं निशुभं च दानवावतिगर्वितौ ॥ ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ॥ २५ ॥ ॥
८६
बौदुर्गासप्तशती *
त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः॥
यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥ २६ ॥
बलावलेपादथ चेद्भवन्तो युद्धकांक्षिणः ॥
तदागच्छत तृप्यन्तु मच्छिवाः पिशितेन वः ॥ २७ ॥
यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् ॥
शिवदूतीति लोकेऽस्मिंस्ततः सा ख्यातिमागता ॥ २८ ॥
तेऽपि श्रुत्वा वचो देव्याः शख्यिातं महासुराः ॥
अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥ २६ ॥
ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः ॥
ववर्षरुद्धतामर्षास्तां देवीममरारयः
॥३०॥
साच तान् प्रहितान् बाणाञ्छूलशक्तिपरश्वधान् ॥
चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः ॥ ३१ ॥
तस्याग्रतस्तथा काली शूलपातविदारितान् ॥
खट्वाङ्गपोथितांश्चारीन्कुर्वती व्यचरत्तदा ॥ ३२ ॥
कमण्डलुजलाक्षेपहतवीर्यान्
हतौजसः ॥
ब्रह्माणी चाकरोच्छत्रन्येन येन स्म धावती ॥ ३३ ॥
माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी ॥
दैत्याञ्जघान कौमारी तथा शक्त्याऽतिकोपना ॥ ३४ ॥
%3D
उत्तमचरितम
ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः ॥
पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ॥ ३५ ॥
तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः
वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ॥ ३६ ॥
नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् ॥
नारसिंही चचाराजौ नादापूर्णदिगम्बरा ॥ ३७ ॥
चण्डाहासैरसुराः शिवदूत्यभिदूषिताः ॥
पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ॥ ३८ ॥
इति मातृगणं क्रुद्ध मर्दयंतं महासुरान् ॥
दृष्ट्वाऽभ्युपायैर्विविधैर्नेशुदेवारिसैनिकाः ॥३६ ॥
पलायनपरान्दृष्ट्वा दैत्यान्मातृगणार्दितान् ॥
योद्धमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥ ४० ॥
रक्तबिंदुर्यदा भूमौ पतत्यस्य शरीरतः ॥
समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ॥ ४१ ॥
युयुधे स गदापाणिरिंद्रशक्त्या महासुरः ॥
ततश्चैन्द्री स्ववजण रक्तबीजमताडयत् ॥ ४२ ॥
कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् ॥
समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः ॥ ४३ ॥
*बौदुर्गासप्तशती
यावंतः पतितास्तस्य शरीराद्रक्तबिन्दवः ॥
तावंतः पुरुषा जातास्तद्वीर्यबलविक्रमाः ॥४४॥
ते चापि युयुधुस्तत्र पुरुषा रक्तसंभवाः ॥
समं मातृभिरत्युग्रशस्रपाताति भीषणम् ॥ ४५ ॥
पुनश्च वज्रपातेन क्षतमस्य शिरो यदा ॥
ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः॥ ४६ ॥
वैष्णवी समरे चैनं चक्रणाभिजघान है ॥
गदया ताडयामास ऐन्द्री तमसुरेश्वरम् ॥ ४७ ॥
वैष्णवीचक्रभिन्नस्य रुधिरत्रावसंभवः ॥
सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ॥ ४८ ॥
शक्त्या जघान कौमारी वाराही च तथाऽसिना ।
माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ॥ ४६ ॥
स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् ॥
मातृः कोपसमाविष्टो रक्तबीजो महासुरः ॥ ५० ॥
तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि ॥
पपात यो वै रक्तौघस्तेनासञ्छतशोसुराः ॥५१ ॥
तैश्चासुरामृक्संभूतैरसुरैः सकलं जगत् ॥
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥ ५२ ॥
॥ • उत्तमचरितम् । तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राह सत्वरम् ॥ उवाच कालीं चामुण्डे विस्तीर्ण वदनं कुरु ॥ ५३॥ मच्छस्त्रपातसंभूतानक्तबिंदून महासुरान् रक्तबिंदोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥ ५४॥ भक्षयंती चर रणे तदुत्पन्नान्महासुरान् ॥ एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति ॥ ५५ ॥ भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यंति चापरे ॥ इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥५६॥ मुखेन काली जगृहे रक्तबीजस्य शोणितम् ॥ ५७ ॥ ततोऽसावाजघानाथ गदया तत्र चण्डिकाम् ॥ न चास्या वेदनां चक्र गदापातोऽल्पिकामपि ॥ ५८ ॥ तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥ यतस्ततस्तद्वक्त्रेण चामुण्डा संप्रतीच्छति ॥ ५६ ॥ मुखे समुद्गता येऽस्या रक्तपातान् महासुराः ॥ तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् ॥६०॥ देवी शूलेन वज्रण बाणैरसिभिष्टिभिः ॥ जघान रक्तबीजं तं चामुण्डा पीतशोणितम् ॥ ६१ ॥ १२ श्रीदुर्गासप्तशती * स पपात महीपृष्ठे शस्त्रसंघसमाहतः ॥ नीरक्तश्च महीपाल रक्तबीजो महासुरः ॥ ६२ ॥ ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप ॥ तेषां मातृगणो जातो ननर्तासङ्गदोद्धतः ॥ ६३ ॥ श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये रक्तबीजवधो नाम अष्टमः ॥८॥ XOX . TY
॥ अथ नवमोऽध्यायः ॥
०९
राजोवाच ॥ १ ॥
विचित्रमिदमाख्यातं भगवन् भवता मम ।।
देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम् ॥२॥
भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते ॥
चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः ॥ ३ ॥
ऋषिरुवाच ॥ ४॥
चकार कोपमतुलं रक्तबीजे निपातिते ॥
शुंभासुरो निशुंभश्च हतेष्वन्येषु चाहवे ॥ ५ ॥
हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन ॥
अभ्यधावन्निशुंभोऽथ मुख्ययासुरसेनया ॥ ६ ॥
तस्यायतस्तथा पृष्ठे पार्श्वयोश्च महासुराः ॥
संदष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः ॥ ७ ॥
८२
वर्षतोः ॥६॥
श्रीदुर्गासप्तशती.
आजगाम महावीर्यः शुंभोऽपि स्वबलैर्वृतः ॥
निहन्तुं चंडिकां कोपात्कृत्वा युद्ध तु मातृभिः॥ ८ ॥
ततो युद्धमतीवासीदेव्या शुंभनिशुंभयोः॥
शरवर्षमतीवायं मेघयोरिख
चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करैः॥
ताडयामास चांगेषु शस्त्रोधैरसुरेश्वरौ ॥ १० ॥
निशुंभो निशितं खङ्गं चर्म चादाय सुप्रभम् ॥
अताडयन्मूर्ध्नि सिंह देव्या वाहनमुत्तमम् ॥ ११ ॥
ताडिते वाहने देवी क्षुरप्रेणासिमुत्तमम् ॥
निशुंभस्याशु चिच्छेद चर्म चाप्यष्टचन्द्रकम् ॥ १२ ॥
छिन्ने चर्मणि खड़े च शक्तिं चिक्षेप सोसुरः ।।
तामध्यस्य द्विधा चक्रे चक्रणाभिमुखागताम् ॥ १३ ॥
कोपाध्मातो निशंभोऽथ शूलं जग्राह दानवः ॥
आयान्तं मुष्टिपातेन देवी तच्चाप्यचूर्णयत् ॥ १४ ॥
आविद्ध्याथ गदां सोपिचिक्षेप चण्डिकां प्रति॥
सापि देव्या त्रिशूलेन भिन्ना भस्मत्वमागता ॥ १५ ॥
ततः परशुहस्तं तमायान्तं दैत्यपुंगवम् ॥
आहत्य
देवी बाणोघरपातयत भूतले ॥ १६ ॥
८३
२
॥
• उत्तमचरित ।
तस्मिन्निपतिते भूमौ निशंभे भीमविक्रमे ॥
भ्रातर्यतीव संक्रुद्धः प्रययौ हन्तुमम्बिकाम् ॥ १७ ॥
स रथस्थस्तथात्युच्च गृहीतपरमायुधैः
भुजैरष्टाभिरतुलैाप्याशेषं बभौ नभः ॥ १८ ॥
तमायान्तं समालोक्य देवी शंखमवादयत् ॥
ज्याशब्दं चापि धनुषश्चकारातीव दुस्सहम् ॥ १६ ॥
पूरयामास ककुभो निजघण्टास्वनेन च ॥
समस्तदैत्यसैन्यानां तेजोवधविधायिनाम् ॥२०॥
ततः सिंहो महानादैस्त्याजितेभमहामदैः ॥
पूरयामास गगनं गां तथैव दिशोदश ॥ २१ ॥
ततः काली समुत्पत्य गगनं इमामताडयत् ॥
कराभ्यां तन्निनादेन प्राक स्वनास्ते तिरोहिताः ॥ २२ ॥
अट्टाहासमशिवं शिवदूती चकार ह॥
तैः शब्दैरसुरास्त्रेसुः शुंभः कोपं परं ययौ ॥ २३ ॥
दुरात्मंस्तिष्ठतिष्टेति व्याजहाराम्बिका यदा ॥
तदा जयेत्यभिहितं देवैराकाशसंस्थितैः ॥ २४ ॥
शुंभेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा ॥
आयांती वह्निकूटाभा सा निरस्ता महोल्कया ॥ २५ ॥
८४
* कीदुर्गासप्तशती.
सिंहनादेन शुभस्य व्याप्त लोकत्रयांतरम् ॥
निर्घातनिःस्वनो घोरो जितवानवनीपते ॥ २६ ॥
शुंभमुक्ताञ्छरान्देवी शंभस्तत्प्रहिताञ्छरान् ॥
चिच्छेद स्वशरैरुयैः शतशोऽथ सहस्रशः ॥ २७॥
ततः सा चण्डिका कुद्धा शूलेनाभिजघान तम् ॥
स तदाभिहतो भूमौ मूर्च्छितो निपपात ह ॥ २८ ॥
ततो निशुंभः संप्राप्य चेतनामात्तकार्मुकः ॥
आजघान शरैर्देवीं काली केसरिणं तथा ॥ २६ ॥
पुनश्च कृत्वा बाहूनामयुतं दनुजेश्वरः ॥
चक्रायुधेन दितिजश्छादयामास चण्डिकाम् ॥ ३०॥
ततो भगवती क्रुद्धा दुर्गादुर्गार्तिनाशिनी ॥
चिच्छेद तानि चक्राणि स्वशरैःसायकांश्च तान् ॥३१॥
ततो निशुंभो वेगेन गदामादाय चण्डिकाम् ॥
अभ्यधावत वै हतुं दैत्यसेनासमावृतः ॥ ३ ॥
तस्यापतत एवाशु गदां चिच्छेद चण्डिका ॥
खड्नेन शितधारेण स च शूलं समाददे ॥ ३३ ॥
शूलहस्तं समायांतं निशुंभममरार्दनम् ॥
हृदि विव्याध शलेन वेगाविद्धन चण्डिका ॥ ३४ ॥
냈 * उत्तमचरित भिन्नस्य तस्य शूलेन हृदयनिःसृतोपरः ॥ महाबलो महावीर्यस्तिष्ठेतिषुरुषोवदन् ॥ ३५ ॥ तस्य निष्कामतो देवी प्रहस्य स्वनवत्ततः॥ शिरश्चिच्छेद खड्गन ततोसावपतद्भुवि ॥३६ ॥ ततः सिंहश्चखादोगदंष्ट्राक्षुण्णशिरोधरान् ॥ असुरांस्तांस्तथा काली शिवदूती तथापरान् ॥ ३७ ॥ कौमारीशक्तिनिर्भिन्नाः केचिन्नेशुमहासुराः ॥ ब्रह्माणीमन्त्रपूतेन तोयेनान्ये निराकृताः ॥ ३८ ॥ माहेश्वरीत्रिशूलेन भिन्नाः पेतुस्तथापरे ॥ वाराहीतुण्डघातेन केचिच्चूर्णीकृता भुवि ॥ ३६ ॥ खण्डं खण्डं च चक्रण वैष्णव्या दानवाः कृताः॥ वज्रण चैन्द्रीहस्तायविमुक्तेन तथापरे ॥ ४० ॥ केचिद्विनेशुरसुराः केचिन्नष्टा महाहवात् ॥ भक्षिताश्चापरे कालीशिवदूतीमृगाधिपैः ॥ ४१॥ श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्ये निशुंभवधो नाम नवमः ॥६॥ -(xox)-
॥ अथ दशमोऽध्यायः ॥
-*
ऋषिरुवाच ॥१॥
निशुंभं निहतं दृष्ट्वा भ्रातरं प्राणसंमितम् ॥
हन्यमानं बलं चैव शुभः क्रुद्धोऽब्रवीद्वचः ॥ २॥
बलावलेपदुष्टे त्वं मा दुर्गे गर्वमावह ॥
अन्यासा बलमाश्रित्य युध्यसे चातिमानिनी ॥३॥
देव्युवाच ॥ ४॥
एकैवाहं जगत्यत्र द्वितीया का ममापरा ॥
पश्यैता दुष्टमय्येव विशन्त्यो मद्विभूतयः ॥ ५ ॥
ततः समस्तास्ता देव्या ब्रह्माणीप्रमुखालयम्
तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदांबिका ॥ ६ ॥
देव्युवाच ॥७॥
अहं विभूत्या बहुभिरिहरूपैर्यदा स्थिता ॥
तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव ॥ ८॥
• उत्तमचरितम ऋषिरुवाच ॥६॥ ततः प्रववृते युद्ध देव्याः शुभस्य 'चोभयोः । पश्यतां सर्वदेवानामसुराणां च दारुणम् ॥१०॥ शरवषैः शतैः शस्त्रैस्तथास्त्रैश्चैव दारुणैः ॥ तयोर्युद्धमभृद्भू यः सर्वलोकभयंकरम् ॥११॥ दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका॥ बभंज तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः ॥ १२ ॥ मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी ॥ बभंज लीलयैवोग्रहुंकारोच्चारणादिभिः ॥ १३ ॥ शरशतैर्देवीमाच्छादयत सोऽसुरः ॥ सापि तत्कुपिता देवी धनुश्चिच्छेद चेषुभिः ॥ १४ ॥ छिन्ने धनुषि दैत्यन्द्रस्तथा शक्तिमथाददे ॥ चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् ॥ १५ ॥ ततः खड्गमुपादाय शतचन्द्र च भानुमत् ॥ अभ्यधावत्तदा देवी दैत्यानामधिपेश्वरः ॥ १६ ॥ तस्यापतत एवाशु खङ्गं चिच्छ दे चंडिका ॥ धनुर्मुक्तैः शितैर्बाणैश्चर्मचार्ककरामलम् ॥ १७ ॥ (अश्वांश्च पातयामास रथं तारथिना सह ॥ ततः १३
*2
श्रीदुर्गासप्तशती
हताश्वः स तदा दैत्यश्छिन्नधन्वा विसारथिः ॥
जग्राह मुद्गरं घोरमंबिकानिधनोद्यतः ॥१८॥
चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः ॥
तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् ॥ १६ ॥
समुष्टिं पातयामास हृदये दैत्यपुंगवः ॥
देव्यास्तं चापि सा देवी तलेनोरस्यताडयत् ॥ २०॥
तलप्रहाराभिहतो निपपात महीतले॥
स दैत्यराजः सहसा पुनरेव तथोत्थितः ॥ २१ ॥
उत्पत्य च प्रगृह्योच्च देवीं गगनमास्थितः॥
तत्रापि सा निराधारा युयुधे तेन चण्डिका ॥ २२ ॥
नियुद्ध खे तदा दैत्यश्चण्डिका च परस्परम् ॥
चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम् ॥ २३ ॥
ततो नियुद्ध सुचिरं कृत्वा तेनाम्बिकासह ॥
उत्पाट्य भ्रामयामास चिक्षेप धरणीतले ॥ २४ ॥
स क्षिप्तो धरणी प्राप्य मुष्टिमुद्यम्य वेगवान् ॥
अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया ॥ २५ ॥
तमायांतं ततो देवी सर्वदैत्यजनेश्वरम् ॥
जगत्यां पातयामास भित्वा शूलेन वक्षसि ॥ २६ ॥
* उत्तमचरितमा ८८ रितम् स गतासुः पपातोयीं देवीशूलामविक्षतः ॥ चालयन् सकलां पृथ्वी साब्धिद्वीपां सपर्वताम् ॥ २७ ॥ ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि ॥ जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ॥ २८ ॥ उत्पातमेघाः सोल्का ये प्रागासंस्ते शमं ययुः ॥ सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥ २६ ॥ ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ॥ बभूवुनिहते तस्मिन् गन्धर्वा ललितं जगुः ॥ ३० ॥ अवादयंस्तथैवान्ये ननृतुश्चाप्सरोगणाः ॥ ववुः पुण्यास्तथा वाताः सुप्रभोऽभूदिवाकरः ॥ ३१ ॥ जज्वलुश्चामयः शांताश्शांता दिगजनितस्स्वनाः॥३२॥ श्री मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी- माहात्म्ये शुंभवधो नाम दशमोऽध्यायः दशमोऽध्यायः ॥१०॥ -(x:0:x)-
॥ अथ एकादशोऽध्यायः॥
hi-
ऋषिरुवाच ॥१॥
देव्या हते तत्र महासुरेन्द्र सेन्द्राः
सुरा वह्निपुरोगमास्तातम् ॥
कात्यायनीं तुष्टुवुरिष्टलाभाद्विकासि-
वक्ताजविकासिताशाः ॥२॥
देवि
प्रपन्नातिहरे प्रसीद
प्रसीद
मातर्जगतोऽखिलस्य ॥
प्रसीद विश्वेश्वरि पाहि विश्वं
त्वमीश्वरी देवि चराचरस्य ॥३॥
आधारभूता
जगतस्त्वमेका
महीस्वरूपेण यतः स्थितासि ॥
अपां स्वरूपस्थितया त्वयैत-
दाप्यायते कृत्स्नमलक्यवीर्ये ॥४॥
१०१
उत्तमचरितम
त्वं वैष्णवी शक्तिरनन्तवीर्या
विश्वस्य बीजं परमासि माया ॥
संमोहितं देवि
देवि समस्तमेतत्त्वं
वै प्रसन्ना भुवि मुक्तिहेतुः ॥ ५ ॥
विद्याः समस्तास्तव देवि भेदाः
स्त्रियः समस्ताः सकला जगत्सुः॥
त्वयैकया पूरितमम्बयैतत्का
ते स्तुतिः स्तव्यपरापरोक्तिः ॥६॥
सर्वभूत यदा देवी भुक्तिमुक्तिप्रदायिनी ॥
त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥७॥
सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते ॥
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥८॥
कलाकाष्ठादिरूपेण परिणामप्रदायिनि ॥
विश्वस्योपरतो शक्ते नारायणि नमोऽस्तु ते ॥ ६ ॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके॥
शरण्ये त्रयम्बके गौरि नारायणि नमोऽस्तु ते ॥ १०॥
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ॥
गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥ ११ ॥
१०२ ॥ मयूरकुक्कुटवृते श्रीदुर्गामप्तशती शरणागतदानार्तपरित्राणपरायण सर्वस्यातिहरे देवि नारायणि नमोऽस्तु ते ॥ १२ ॥ हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि ॥ कौशाम्भः क्षरिके देवि नारायणि नमोऽस्तुते ॥ १३ ॥ त्रिशूलचन्द्राहिधरे महावृषभवाहिनि ॥ माहेश्वरीस्वरूपेण नारायणि नमोऽस्तु ते ॥ १४ ॥ महाशक्तिधरेऽनघे ॥ कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते ॥ १५ ॥ शंखचक्रगदाशार्ङ्गगृहीतपरमायुधे प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ॥ १६ ॥ गृहीतोग्रमहाचक्र दंष्ट्रोद्ध तवसुंधरे ॥ वराहरूपिणि शिवे नारायणि नमोऽस्तु ते ॥ नृसिंहरूपेणोण हन्तुं दैत्यान् कृतोद्यमे ॥ त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते ॥ १८ ॥ किरीटिनि महावज्र सहस्रनयनोज्ज्वले॥ वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते ॥ १६ ॥ शिवदूतीस्वरूपेण हतदैत्यमहाबले ॥ घोररूपे महारावे नारायणि नमोऽस्तु ते ॥ २० ॥ ॥ ॥ ॥
* उत्तमचरित दंष्ट्राकरालवदने शिरोमालाविभूषणे ॥ चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते ॥ २१ ॥ लक्ष्मि लज्जे महाविद्य श्रद्ध पुष्टि स्वधे धूवे ॥ महारात्रि महामाये नारायणि नमोऽस्तु ते ॥ २२ ॥ मेधे सरस्वति वरे भूति बाभ्रवि तामसि ॥ नियते त्वं प्रसीदेशे नारायणि नमोऽस्तु ते ॥ २३ ॥ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ॥ भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ २४ ॥ एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ॥ पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तु ते ॥ २५ ॥ ज्वालाकरालमत्युग्रमशेषासुरसूदनम् त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥ २६ ॥ हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ॥ सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव ॥२७॥ असुरास्मृग्वसापङ्कचर्चितस्ते करोज्ज्वलः ॥ शुभाय खड्गो भवतु चण्डिके वां नता वयम् ॥ २८ ॥ रोगानशेषानपहंसि तुष्टा तु, कामान् सकलानभीष्टान् ॥
१०४
*
मीदुर्गासप्तशती *
त्वामाश्रितानां न विपन्नराणां
त्वमाश्रिता ह्याश्रयतां प्रयान्ति ॥ २६ ॥
एतत्कृतं यत्कदनं त्वयाद्य
धर्मद्विषां देवि महासुराणाम् ॥.
रूपैरनेकेर्बहुधात्ममूर्ति
कृत्वाम्बिके तत्प्रक्ररोति कान्या ॥३०॥
विद्यासु शास्त्रषु विवेकदीपेष्वाद्यषु
वाक्येषु का त्वदन्या ॥
ममत्वगर्तेऽतिमहान्धकारे
विभ्रामयत्येतदतीव विश्वम् ॥३१॥
रक्षांसि यत्रोग्रविषाश्च
यत्रारयो दस्युबलानि यत्र ॥
दावानलो यत्र तथाब्धिमध्ये तत्र
स्थिता त्वं परिपासि विश्वम् ॥ ३२ ॥
विश्वेश्वरि त्वं परिपासि विश्वं
विश्वात्मिका धारयसीति विश्वम् ॥
विश्वेशवन्द्या भवती भवन्ति
विश्वाश्रया ये त्वयि भक्तिनम्राः ॥ ३३ ॥
१०५ * उत्तमचरितम् देवि प्रसीद परिपालय नोऽरि- भीतेर्नित्यं यथासुरवधादधुनैव सद्यः॥ पापानि सर्वजगतां प्रशमं नयाशु ह्युत्पातपाकजनितांश्च महोपसर्गान् ॥ ३४ ॥ प्रणतानां प्रसीद त्वं देवि विश्वातिहारिणि ॥ त्रैलोक्यवासिनामीड्य लोकानां वरदा भव ॥ ३५ ॥ देव्युवाच ॥ ३६॥ वरदाऽहं सुरगणा वरं यन्मनसेच्छथ ॥ तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् ॥ ३७॥ देवा ऊचुः॥ ३८॥ सर्वबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ॥ एवमेव त्वया कार्यमस्मद्वे रिविनाशनम् ॥ ३९ ॥ देव्युवाच ॥ ४०॥ वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे॥ शुंभो निशुंभश्चैवान्यांवुत्पत्स्येते महासुरौ ॥४१॥ नन्दगोपगृहे जाता यशोदा गर्भसंभवा ॥ ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी ॥ ४२ ॥ १४
१०६
श्रीदुर्गासप्तशती.
पुनरप्यतिरोद्रेण रूपेण पृथिवीतले ॥
अवतीर्य हनिष्यामि वैप्रचित्तांश्च दानवान् ॥४३॥
भक्षयन्त्याश्च तानुग्रान्वैप्रचित्तान् महासुरान् ॥
रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥ ४४ ॥
ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः॥
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् ॥ ४५ ॥
भृयश्च शतवार्षिक्यामनावृष्टयामनम्भसि ॥
मुनिभिः संस्मृता भूमौ संभविष्याम्ययोनिजा॥४६॥
ततः शतेन नेत्राणां निरीक्षिष्यामि यन्मुनीन् ।
कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः॥४७॥
ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः॥
भरिष्यामि सुराः शाकैरावृष्टः प्राणधारकैः ॥४८॥
शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि ।
तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ॥ ४६॥
दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति ॥
पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले ॥ ५० ॥
रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात् ॥
तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः ॥ ५१ ॥
१०७
॥
* उत्तमचरितम्
भीमादेवीति विख्यातं तन्मे नाम भविष्यति
यदारुणाख्यस्त्रैलोक्ये महाबाधां
करिष्यति ॥ ५२॥
तदाऽहं भ्रामरं रूपं कृत्वा संख्येयषट्पदम् ॥
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् ॥ ५३ ॥
भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वतः॥
इत्थं यदा यदा बाधा दानवोत्था भविष्यति ॥ ५४॥
तदा तदाऽवतीर्याहं करिष्याम्यरिसंक्षयम् ॥ ५५ ॥
श्रीमार्कण्डेयपुराणे सावर्णिके मन्वंतरे देवीमाहात्म्ये
नारायणीस्तुति मैकादशोऽध्यायः ॥ ११ ॥
॥ अथ द्वादशोऽध्यायः ॥
०९६-
देव्युवाच ॥ १॥
एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः॥
तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम् ॥ २॥
मधुकैटभनाशं महिषासुरघातनम् ॥
कीर्तयिष्यन्ति ये तद्वद्वधं शुंभनिशुंभयोः ॥३॥
अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः॥
श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ॥ ४॥
न तेषां दुष्कृतं किंचिदुष्कृतोत्था न चापदः ॥
भविष्यति न दारिद्रयं न चैवेष्टवियोजनम् ॥ ५ ॥
शत्रुतो न भयं तस्य दस्युतो वा न राजतः ॥
न शस्त्रानलतोयौघात् कदाचित् संभविष्यति ॥ ६ ॥
तस्मान्ममैतन्माहात्म्यं पठितव्यं समाहितः॥
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं हि तत् ॥७॥
१०८ * उत्तमचरित्रम् उपसर्गानशेषास्तु महामारीसमुद्भवान् ॥ तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम ॥८॥ यत्रतत्पठ्यते सम्यनित्यमायतने मम ॥ सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मे स्थितम् ॥ ६॥ बलिप्रदाने पूजायामग्निकार्ये महोत्सवे ॥ सर्वं ममैतच्चरितमुच्चार्य श्राव्यमेव वा ॥ १० ॥ जानताऽजानता वापि बलिपूजां तथा कृताम् ॥ प्रतीक्षिष्याम्यहं प्रीत्या वह्निहोमं यथाकृतम् ॥ ११ ॥ शरत्काले महापूजा क्रियते या च वार्षिकी ॥ तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः॥ १२ ॥ सर्वबाधाविनिर्मुक्तो धनधान्यसमन्वितः ॥ मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॥ १३ ॥ श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः॥ पराक्रमं च युद्धषु जायते निर्भयः पुमान् ॥ १४ ॥ रिपवः संक्षयं यान्ति कल्याणं चोपपद्यते ॥ नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वताम् ॥ १५ ॥ शान्तिकर्मणि सर्वत्र तथा दुःस्वप्नदर्शने ॥ ग्रहपीडासु चोग्रासु माहात्म्यं शृणुयान्मम ॥ १६ ॥ ॥
११०
॥ २०॥
* श्रीदुर्गासप्तशती
उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः
दुःस्वप्नं च नृभिष्टं सुस्वप्नमुपजायते ॥ १७ ॥
वालग्रहाभिभूतानां बालानां शान्तिकारकम् ॥
संघातभेदे च नृणां मैत्रीकरणमुत्तमम् ॥ १८ ॥
दुर्वृत्तानामशेषाणां बलहानिकरं परम् ॥
रक्षोभूतपिशाचानां पठनादेव नाशनम् ॥ १६ ॥
सर्व ममैतन्माहात्म्यं मम सन्निधिकारकम् ॥
पशुपुष्पार्घधूपैश्च गन्धदीपस्तथोत्तमैः
विप्राणां भौजनैहोंमैः प्रोक्षणीयैरहर्निशम्
अन्यैश्च विविधैोगैः प्रदानैर्वत्सरेण या ॥ २१ ॥
प्रीतिमें क्रियते सास्मिन्सकृत्सुरिचते श्रुते ॥
श्रुतं हरति पापानि तथारोग्यं प्रयच्छति ॥ २२ ॥
रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम ॥
युद्धषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् ॥ २३ ॥
तस्मिञ्च्छ्र ते वैरिकृतं भयं पुंसां न जायते ॥
युष्माभिःस्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः॥२४॥
ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति शुभां मतिम्॥
अरण्ये प्रान्तरेवापि दावाग्निपरिवारितः ॥ २५ ॥
१११
• उत्तमचरितम् -
दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रु भिः ॥
सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः ॥ २६ ॥
राज्ञा क्रुद्ध न चाज्ञप्तो वध्यो बन्धगतोऽपि वा ॥
आपूर्णितो वा वातेन स्थितः पोते महार्णवे ॥२७॥
पतत्सु चापि शस्त्रेषु संग्रामे भृशदारुणे॥
सर्वबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा ॥ २८ ॥
स्मरन् ममैतच्चरितं नरो मुच्येत संकटात् ॥
मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा ॥ २६ ॥
दूरादेव पलायन्ते स्मरतश्चरितं मम ॥ ३० ॥
ऋषिरुवाच ॥३१॥
इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा ॥३२॥
पश्यतामेव देवानां तत्रैवान्तरधीयत ॥
तेऽपि देवा निरातङ्काः स्वाधिकारान्यथा पुरा ॥ ३३ ॥
यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः ॥
दैत्याश्च देव्या निहते शुंभे देवरिपौ युधि ॥ ३४ ॥
जगद्विध्वंसिनि तस्मिन् महोग्रेऽतुलविक्रमे ॥
निशंभे च महावीयें शेषाः पातालमाययुः ॥ ३५ ॥
११२ श्रीदुर्गासप्तशती. एवं भगवती देवी सनित्यापि पुनः पुनः॥ संभूय कुरुते भूप जगतः परिपालनम् ॥ ३६ ॥ तयैतन्मोद्यते विश्वं सैव विश्वं प्रसूयते ॥ सा याचिता व विज्ञानं तुष्टा ऋद्धि प्रयच्छति ॥३७॥ व्याप्त तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर ॥ महाकाल्या महाकाले महामारीस्वरूपया ॥ ३८ ॥ सैव काले महामारी सैव सृष्टिर्भवत्यजा ॥ स्थितिं करोति भूतानां सैव काले सनातनी ॥ ३९ ॥ भवकाले नृणां सैव लक्ष्मी द्धिपदा गृहे ॥ सैवाभावे तथा लक्ष्मीविनाशायोपजायते ॥ ४०॥ स्तुता संपूजिता पुष्पैर्गन्धधुपादिभिस्तथा ॥ ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभाम् ॥ ४१ ॥ श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्य भगवतीवाक्यं नाम द्वादशोऽध्यायः ॥ १२ ॥ -(xiox)- ॥ अथ प्रयोदशोऽध्यायः॥ ऋषिरुवाच ॥१॥ एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् ॥२॥ एवंप्रभावा सा देवी ययेदं धार्यते जगत् ॥ विद्या तथैव क्रियते भगवद्विष्णुमायया ॥३॥ तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः॥ मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे ॥४॥ तामुपैहि महाराज शरणं परमेश्वरीम् ॥ आराधिता सैव नृणां भोगस्वर्गापवर्गदा ॥ ५ ॥ मार्कण्डेय उवाच ॥ ६ ॥ इति तस्य वचः श्रुत्वा सुरथः स नराधिपः । प्रणिपत्य महाभागं तमृषि संशितव्रतम् ॥७॥ निर्विष्णोऽतिममत्वेन सज्यापहरणेन च ॥ जगाम लयस्तपसे. स च वैश्यो महामुने ।
११४
* बीदुर्गासप्तशती.
संदर्शनार्थमम्बाया । नदीपुलिनसंस्थितः ॥
स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् ॥ ६ ॥
तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्ति महीमयीम् ॥
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ॥ १०॥
निराहारौ यताहारों तन्मनस्कौ समाहितौ ॥
ददतुस्तौ बलिं चैव निजगात्रामृगुक्षितम् ॥ ११ ॥
एवं समाराधयतोस्त्रिभिर्वषैर्यतात्मनोः॥
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चंडिका ॥ १२ ॥
देव्युवाच ॥ १३॥
यत्प्रार्थ्यते स्वया भूप त्वया च कुलनन्दन ॥ १४ ॥
मत्तस्तत्प्राप्यतां सर्व परितुष्टा ददामि ते ॥ १५ ॥
मार्कण्डेय उवाच ॥ १६ ॥
ततो वो नृपों राज्यमविभ्रंश्यन्यजन्मनि ॥
अत्रैव च निजं राज्यं हतशत्रुबलं बलात् ॥ १७ ॥
सोऽपि वैश्यस्ततो ज्ञानं ववे निविण्णमानसः॥
ममेत्यहमिति प्राज्ञस्संगविच्युतिकारकम् ॥ १८ ॥
देव्युवाच ॥ १६ ॥
स्वल्पैरहोभिर्न पते स्त्रं राज्यं प्राप्स्यते भवान् ॥ २० ॥
११५ * उत्तमचरितम् - हत्वा रिपूनस्खलितं तव तत्र भविष्यति ॥ २१ ॥ मृतश्च भूयः संप्राप्य जन्म देवाद्विवस्वतः॥ २२ ॥ सावर्णिको नाम मनुर्भवान्भुवि भविष्यति ॥ २३ ॥ वैश्यवर्य त्वया यश्च वरोऽस्मत्तोऽभिवांछितः ॥ २४ ॥ तं प्रयच्छामि संसिद्धय तव ज्ञानं भविष्यति ॥ २५ ॥ मार्कण्डेय उवाच ॥ २६ ॥ इति दत्वा तयोदेवी यथाभिलषितं वरम् ॥ बभूवांतर्हिता सयो भक्त्या ताभ्यामभिष्टुता ॥ २७ ॥ एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः ॥ सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः ॥ २८ ॥ पुनरपि ॥ इति दत्ता तयो० ॥एवं देव्यावरं० ॥२६॥ श्री मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये सुरथवैश्ययोर्वरपदानं नाम त्रयोदशोऽध्यायः ॥ १३ ॥ एवमादितः ॥ ७००॥ -(xiox)-
॥ अथ उत्तराङ्गानि ॥
अथोत्तरन्यासाः॥
॥
खगिनी शूलिनी घोरा गदिनी चक्रिणी तथा ॥
शंखिनी चापिनी बाणभुशुंडीपरिघायुधा ॥ हृदयाय नमः ॥
शूलेन पाहि नो देवि पाहि खड्गन चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ॥शिरसे स्वाहा॥
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे॥
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥ शिखायै वषट् ॥
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ॥
यानि चात्यर्थपोराणि तै रक्षास्मांस्तथा भुवम् ॥कवचाय हुं ॥
खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ।
करपल्लवसंगीनि तैरस्मात्रक्ष सर्वतः ॥ नेत्रत्रयाय वौषट् ॥
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ॥
भयेभ्यस्त्राहि नोदेवि दुर्गे देवि नमोऽस्तु ते ॥अस्त्राय फट्॥
*सरलनि* ११७ . .... अथ ध्या॥ विद्यु दामसमप्रभा मृगपतिस्कंधस्थितां भीषणां कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ॥ हस्तैश्चकारालिखेटविशिखांश्चापं गुणं तर्जनी बिभ्राणामनलात्मिकां शशिधरां दुर्गा त्रिनेत्रां भजे ॥१॥ अथ देवीसूक्तम् ॥ तत्रादौ ऋग्वेदोक्तं देवीसूक्तम् ॥ ॐ अहं रुद्रेभिरित्यष्टर्चस्य सूक्तस्य वागांभृणी ऋषिः । श्रीआदिशक्तिर्देवता त्रिष्टुपछंदः द्वितीया जगती श्री- जगदंबाप्रीत्यर्थे सप्तशतीजपांते जपे विनियोगः ॥ अहरुदेभिर्वसुभिश्चराम्यहमादित्यैरुतविश्वदेवैः ॥ अहमित्रावरुणोभाविभ→हमिंद्रामीअहमश्विनोभा ॥ अहंसोममाहनसंबिभर्म्यहं त्वष्टारमुत पूषणं भगं ॥ अहंदधामिद्रविणंहविष्मतेसुप्राव्ये यजमानाय सुन्वते ॥ अहं राष्ट्रीसंगमनीवसूनांचिकितुषीप्रथमायज्ञियानां ॥ ३
११८
श्रीदुर्गासप्तशती *
-
।
तामादेवा व्यदधुःपुरुषाभूरिस्थात्रांभूर्याशयन्तीम् ॥
मयासोअन्नमत्तियो विपश्यतिय प्राणिति यईशृणोत्युक्तम् ॥
अमंतवोमां तउपक्षियंति श्रुधिश्रुतश्रद्धिवंते वदामि ॥
अहमेवस्वयमिदंवदामिजुष्ट देवेभिरुतमानुषेभिः ॥
यंकामयेतंतमुग्रंकृणोमितंब्रह्माणंतमृषितंसुमेधां ॥
अहंरुद्रायधनुरातनोमिब्रह्मद्विषेशरवेहंतवा उ ॥
अहंजनायसमर्दकृणोम्यहंद्यावापृथिवी आविवेश ॥
अहंसुवेपितरमस्यमूर्धन्ममयो निरप्वं ? तःसमुद्रे ॥
ततोवितिष्ठे भुवनानि विश्वोता यां
वर्मणोप स्पृशामि॥
अहमेव वातइव ब्राम्यारभमाणाभुवनानिविश्वा ॥
परोदिवापरएनापृथिव्यै तावतीमहिना संबभूव ॥
इति ऋग्वेदोक्तं देवीसूक्तं समाप्तम् ॥
*उत्तरानि. ११८ अथ तंत्रोक्तं देवीसूक्तम् ॥ नमो देव्यै महादेव्यै शिवायै सततं नमः ॥ नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ १॥ रौद्रायै नमो नित्यायै गौय धात्र्यै नमो नमः॥ ज्योत्स्नायै चंदुरूपिण्यै सुखायै सततं नमः ॥२॥ कल्याण्यै प्रणतां वृद्धय सिद्धय कूम्यै नमो नमः॥ नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥३॥ दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ॥ ख्यात्यै तथैव कृष्णायै धम्रायै सततं नमः॥४॥ अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ॥ नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः॥ ५॥ या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ॥ नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ६ ॥ या देवी सर्वभूतेषु चेतनेत्यभिधीयते । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥७॥ या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ॥ नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥८॥ -
श्रीदुर्गातली
या देवी सर्वभूतेषु निदारूपेण संस्थिता ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥६॥
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१०॥
या देवी सर्वभूतेषु छायारूपेण संस्थिता ।।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ११ ॥
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १२ ॥
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १३ ॥
या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १४ ॥
या देवी सर्वभूतेषु जातिरूपेण संस्थिता ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १५ ॥
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १६ ॥
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै, नमस्तस्यै नमो नमः॥ १७॥
१२१ * उत्तराङ्गानि या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ॥ नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १८ ॥ या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ॥ नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १६ ॥ या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ॥ नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २० ॥ या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ॥ नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २१ ॥ या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ॥ नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २२ ॥ या देवी सर्वभूतेषु दयारूपेण संस्थिता ॥ नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २३ ॥ या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ॥ नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २४ ॥ या देवी सर्वभूतेषु मातृरूपेण संस्थिता ॥ नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २५ ॥ या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता ॥ नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २६ ॥ १६ १२२ सेविता॥ * श्रीदुर्गासप्तशती इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।। भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः ॥ २७ ॥ चितिरूपेण या कृत्स्नमेतद्वयाप्य स्थिता जगत्। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २८ ॥ स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ॥ २६ ॥ या सांप्रतं चोद्धतदैत्यतापितै- रस्माभिरीशा च सुरैर्नमस्यते ॥ या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः ॥३०॥ इति देवीसूक्तं पठित्वा पूर्ववन्नवार्णमंत्रस्य ऋष्यादि- पडंगन्यासपूर्वकमष्टोत्तरशतं जपं कृत्वा तदुत्तरन्यासान्वि- धाय॥ गुह्यातिगुह्यगोत्री वं गृहाणास्मत्कृतं जपम् ॥ सिद्धि- र्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥ इतिमन्त्रेण देव्या वामहस्ते जपं निवेदयित्वा रहस्यत्रयं पठेत् ॥
१२३
२
* उत्सराङ्गानि
अस्य श्रीसप्तशतीरहस्यत्रयस्य नारायण ऋषिः॥
अनुष्टुप् छंदः ॥ महाकालीमहालक्ष्मी महासरस्वत्यो देवताः ॥
यथोक्तफलावाप्त्यर्थं जपे विनियोगः ॥
राजोवाच ॥
भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः ॥
एतेषां प्रकृतिं ब्रह्मन् प्रधानं वक्तुमर्हसि ॥ १ ॥
आराध्यं यन्मया देव्याः स्वरूपं येन वै द्विज ॥
विधिना ब्रूहि सकलं यथावत्प्रणतस्य मे ॥ २ ॥
ऋषिरुवाच ॥
इदं रहस्यं परममनाख्येयं प्रचक्ष्यते ॥
भक्तोऽसीति न मे किंचित्तवावाच्यं नराधिप ॥३॥
सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी ॥
लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता॥४॥
मातुलिङ्गं गदां खेटं पानपात्रं च बिभ्रती॥
नागं लिङ्गं च योनिं च बिभ्रती नृप मूर्धनि ॥५॥
तप्तकांचनवर्णाभा
तप्तकांचनभूषणा ॥
शून्यं तदखिलं स्वेन पूरयामास तेजसा ॥६॥
१२४
॥
श्रीदुर्गासप्तशती.
शून्यं तदखिलं लोक विलोक्य परमेश्वरी ॥
बभार रूपमपरं
तमसा केवलेन हि ॥७॥
सा भिन्नांजनसंकाशा दंष्ट्रांचितवरानना ॥
विशाललोचना नारी बभूव तनुमध्यमा ॥८॥
खड्गपात्रशिरःखेटेरलंकृतचतुर्भुजा
कबंधहारं शिरसा बिभ्राणा हि शिरःस्रजम् ॥ ६ ॥
सा प्रोवाच महालक्ष्मी तामसी प्रमदोत्तमा ।
नाम कर्म च मे मातर्देहि तुभ्यं नमो नमः ॥ १० ॥
तां प्रोवाच महालक्ष्मीस्तामसी प्रमदोत्तमाम् ॥
ददामि तव नामानि यानि कर्माणि तानि च ॥ ११ ॥
महामाया महाकाली महामारी क्षुधा तृषा ॥
निद्रा तृष्णा चैकवीरा कालरात्रिर्दुरत्यया ॥ १२ ॥
इमानि तव नामानि प्रतिपाद्यानि कर्मभिः॥
एमिःकर्माणि ते ज्ञात्वा योऽधीते सोऽश्नुतेसुखम् ॥१३॥
तामित्युक्त्वा महालक्ष्मीः स्वरूपमपरं नृप ॥
सत्वाख्येनातिशुद्धन गुणेनेन्दुप्रभं दधौ ॥ १४ ॥
अक्षमालांकुशधरा वीणापुस्तकधारिणी ॥
सा बभूव वरा नारी नामान्यस्यै च सा ददौ ॥ १५ ॥
१२५
* उत्तराङ्गानि
महाविद्या महावाणी भारती वांक सरस्वती॥
आर्या ब्राह्मी कामधेनुर्वेदगर्भा च धीश्वरी ॥ १६ ॥
अथोवाच महालक्षमीमहाकाली सरस्वतीम् ॥
युवां जनयतां देव्यौ मिथुने स्वानुरूपतः ॥ १७ ॥
इत्युक्त्वा ते महालक्ष्मीः ससर्ज मिथुनं स्वयम् ॥
हिरण्यगर्भी रुचिरौ स्त्रीपंसौ कमलासनौ ॥ १८ ॥
ब्रह्मन्विधे विरिंचेति धातरित्याह तं नरम् ॥
श्रीःपद्म कमले लक्ष्मीत्याह माता स्त्रियं च ताम् ॥१६॥
महाकाली भारती च मिथुने मृजतः सह ॥
एतयोरपि रूपाणि नामानि च वदामि ते ॥ २०॥
नीलकण्ठं रक्तबाहुं श्वेतांगं चंद्रशेखरं ॥
जनयामास पुरुषं महाकाली सितां स्त्रियम् ॥ २१ ॥
स रुद्रः शंकरः स्थाणुः कपर्दी च त्रिलोचनः॥
त्रयी विद्या कामधेनुः सा स्त्री भाषाक्षरा स्वरा ॥ २२॥
सरस्वती स्त्रियं गौरी कृष्णं च पुरुषं नृप ॥
जनयामास नामानि तयोरपि वदामि ते ॥ २३ ॥
विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः ॥
उमा गौरी सती चंडी सुंदरी सुभगा शुभा ॥ २४ ॥
१२६
#
एवं युवतयः
श्रीदुर्गासप्तशती
सद्यः 'पुरुषत्वं प्रपेदिरे ॥
चक्षुष्मन्तोऽनुपश्यन्ति नेतरे तद्विदो जनाः ॥ २५ ॥
ब्रह्मणे प्रददौ पत्नी महालक्ष्मीनू पत्रयीम् ॥
रुद्राय गौरी वरदां वासुदेवाय च श्रियम् ॥ २६ ॥
स्वरया सह संभूय विरिंचोऽण्डमजीजनत् ॥
बिभेद भगवान्रुद्रस्तद्गौर्या सहवीर्यवान् ॥ २७ ॥
अण्डमध्ये प्रधानादिकार्यजातमभून्नृप ॥
महाभूतात्मकं सर्व जगत्स्थावरजंगमम् ॥ २८ ॥
पुपोष पालयामास तल्लक्षम्या सह केशवः ॥
संजहार जगत्सर्व सह गौर्या महेश्वरः ॥ २६ ॥
महालक्ष्मीमहाराज सर्वसत्त्वमयीश्वरी॥
निराकारा च साकारा सैव नानाभिधानभृत् ॥ ३०॥
नामान्तरैर्निरूप्यैषा नाम्ना नान्येन केनचित् ॥ ३१ ॥
इति प्राधानिक रहस्यं समाप्तम् ॥
ऋषिरुवाच॥
त्रिगुणा तामसी देवी सात्त्विकी या त्वयोदिता॥
सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते ॥१॥
१३७ ॥ * उत्तराङ्गानि * योगनिद्रा हरेरुक्ता महाकाली तमोगुणा ॥ मधुकैटभनाशार्थ यां' तुष्टावाम्बुजासनः ॥२॥ दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा ॥ विशालया राजमाना त्रिंशल्लोचनमालया ॥३॥ स्फुरद्दशनदंता सा भीमरूपापि भूमिप ॥ रूपसौभाग्यकान्तीनां सा प्रतिष्ठा महाश्रियाम् ॥ ४॥ खगबाणगदाशूलशंखचक्रभुशुण्डिभृत् परिघं कार्मुकं शीर्ष निश्योतद्रुधिरं दधौ ॥ ५ ॥ एषा सा वैष्णवी माया महाकाली दुरत्यया ॥ आराधिता वशीकुर्यात्पूजाकर्तुश्चराचरम् ॥ ६ ॥ सर्वदेवशरीरेभ्यो याऽऽविर्भूतामितप्रभा ॥ त्रिगुणा सा महालक्ष्मीः साक्षान्महिषमर्दिनी ॥ ७ ॥ श्वेतानना नीलभुजा सुश्वेतस्तनमण्डला ॥ रक्तमध्या रक्तपादा नीलजंघोरुरुन्मदा ॥८॥ सुचित्रजघना चित्रमाल्याम्बरविभूषणा ॥ चित्रानुलेपना कान्तिरूपसौभाग्यशालिनी ॥ ६ ॥ अष्टादशभुजापूज्या सा सहस्रभुजा सती ॥ आयुधान्यत्रवक्षयन्ते दक्षिणाधः करक्रमात् ॥ १० ॥ ॥
* श्रीदुर्गासप्तशती * अक्षमाला च कमलं बाणोऽसिः कुलिशं गदा ॥ चक्रं त्रिशूलं परशुः शंखो घण्टा च पाशकः ॥ ११ ॥ शक्तिर्दण्डश्चर्मचापं पानपात्रं कमण्डलुः ॥ अलंकृतभुजामेभिरायुधैः कमलासनाम् ॥ १२ ॥ सर्वदेवमयीमीशां महालक्ष्मीमिमां नृप ॥ पूजयेत् सर्वलोकानां स देवानां प्रभुर्भवेत् ॥ १३ ॥ गौरीदेहात्समुद्भू ता या सत्त्वैकगुणाश्रया ॥ साक्षात्सरस्वती प्रोक्ता शुभासुरनिबर्हिणी ॥ १४ ॥ दधौ चाष्टभुजा बाणान मुसलं शूलचक्रभृत् ॥ शंख घण्टां लांगलं च कार्मुकं वसुधाधिप ॥ १५ ॥ एषा संपूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति ॥ निशुंभमथिनी देवी देवी शुभासुरनिबर्हिणी ॥ १६ ॥ इत्युक्तानि स्वरूपाणि मूर्तीनां तव पार्थिव ॥ उपासनं जगन्मातुः पृथगासां निशामय ॥ १७ ॥ महालक्ष्मीर्यदा पूज्या महाकाली सरस्वती ॥ दक्षिणोत्तरयोः पूज्ये पृष्ठतो मिथुनत्रयम् ॥ १८ ॥ विरंचिः स्वरया मध्ये सद्रो गौर्या च दक्षिणे ॥ वामे लक्षम्या हृषीकेशः पुरतो देवतात्रयम् ॥ १६ ॥ ॥
* उत्तराङ्गानि * १२८ अष्टादशभुजा मध्य वाम चास्या दशानना ॥ दक्षिणेऽष्टभुजा लक्ष्मीमहतीति समर्चयेत् ॥ २० ॥ पूर्वादिदलतः पूज्या असिताङ्गादिभैरवाः ॥ अष्टादशभुजा चैषा यदा पूज्या नराधिप ॥२१॥ दशानना चाष्टभुजा दक्षिणोत्तरयोस्तदा ॥ दशानना यदा पूज्या दक्षिणोत्तरयोस्तदा ॥ २२ ॥ कालमृत्यू च संपूज्यौ सर्वारिष्टप्रशान्तये ॥ यदा चाष्टभुजा पूज्या शुंभासुरनिबर्हिणी ॥ २३ ॥ नवास्याः शक्तयः पूज्यास्तदा रुद्रविनायकौ ॥ नमो देव्या इति स्तोत्रमहालक्ष्मी समर्चयेत् ॥ २४ ॥ अवतारत्रयार्चायां स्तोत्रमन्त्रास्तदाश्रयाः ॥ अष्टादशभुजा चैषा पूज्या महिषमर्दिनी ॥ २५ ॥ महालक्ष्मीर्महाकाली सैव प्रोक्ता सरस्वती ॥ ईश्वरी पुण्यपापानां सर्वलोकमहेश्वरी ॥ २६ ॥ महिषान्तकरी येन पूजिता स जगत्प्रभुः॥ पूजयेजगतां धात्री चण्डिकां भक्तवत्सलाम् ॥ २७ ॥ अर्घादिभिरलंकारैर्गन्धपुष्पैस्तथोत्तमैः धूपैर्दीपैश्च नैवेद्य नाभक्ष्यसमन्वितैः ॥ २८ ॥ ॥
१३०
**
श्रीदुर्गासप्तशती
रुधिराक्तंन बलिना मांसेन सुरया नृप ॥
बलिमांसादि पूजेयं विप्रवा मयेरिता ॥ २६ ॥
तेषां किल सुरामांसोक्ता पूजा नृप क्वचित् ॥
प्रणामाचमनीयश्च चन्दनेन सुगन्धिना ॥३०॥
सकर्पूरैश्च ताम्बूलभक्तिभावसमन्वितैः॥
वामभागेऽग्रतो देव्याश्छिन्नशीष महासुरम् ॥ ३१ ॥
पूजयेन्महिषं येन प्राप्तं सायुज्यमीशया ॥
दक्षिणे पुरतः सिंह समय धर्ममीश्वरम् ॥ ३२ ॥
वाहनं पूजयेदेव्या धृतं येन चराचरम् ॥
ततः कृतांजलिर्भूत्वा स्तुवीत चरितैरिमैः ॥ ३३ ॥
एकेन या मध्यमेन नकेनेतरयोरिह॥
चरिताधं तु न जपेज्जपञ्छिद्रमवाप्नुयात् ॥ ३४ ॥
स्तोत्रमन्त्रैः स्तुवीतेमां यदि वाजगदंबिकाम् ॥
प्रदक्षिणा नमस्कारान् कृत्वा मूर्ध्नि कृतांजलिः॥ ३५ ॥
क्षमापयेजगद्धात्री मुहुर्मुहुरतन्द्रितः॥
प्रतिश्लोकं च जुहुयात्पायसं तिलसर्पिषा ॥ ३६॥
जुहुयात्स्तोत्रमन्त्रैर्वा चण्डिकायै शुभं हविः ॥
भूयो नामपदैर्देवी पूजयेत् सुसमाहितः ॥ ३७ ॥
* ভাজালি *
प्रयतः प्रांजलिः प्रह्वः प्राणानारोप्य चात्मनि ॥
सुचिरं भावयेदेवीं चण्डिकां तन्मयो भवेत् ॥ ३८ ॥
एवं यः पूजयेद्भक्त्या प्रत्यहं परमेश्वरीम् ॥
भुक्त्वा भोगान् यथाकामं देवीसायुज्यमाप्नुयात् ॥३६॥
यो न पूजयते नित्यं चण्डिका भक्तवत्सलाम् ॥
भस्मीकृत्यास्य पुण्यानि निर्दहेत्परमेश्वरी ॥४०॥
तस्मात्युजय भूपाल सर्वलोकमहेश्वरीम् ॥
यथोक्तन विधानेन चण्डिकां सुखमाप्स्यसि ॥४१॥
इति वैकृतिकं रहस्यं समाप्तम् ॥
ऋषिरुवाच॥
नन्दा भगवतीनाम या भविष्यति नन्दजा ।।
स्तुता संपूजिता भक्त्या वशी कुर्याज्जगत्त्रयम् ॥ १॥
कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा ॥
देवी कनकवर्णाभा कनकोत्तमभूषणा ॥२॥
कमलाङ्कशपाशाब्जैरलंकृतचतुर्भुजा ।।
इन्दिरा कमलालक्ष्मीः सा श्रीरुक्मांबुजासना ॥ ३ ॥
या रक्तदन्तिका नाम देवी प्रोक्ता मयाऽनघ ।
तस्याः स्वरूपं वक्ष्यामि शणु सर्वभयापहम् ॥ ४ ॥
१३२
*
श्रीदुर्गामप्तशती
यच्छु त्वा सर्वपापेभ्यो मुच्यते नात्र संशयः॥
रक्ताम्बरा रक्तवर्णा रक्तसर्वांगभूषणा ॥५॥
रक्तायुधा रक्तनेत्रा रक्तकेशाऽतिभीषणा ॥
रक्ततीक्ष्णनखा रक्तरसना रक्तदन्तिका ॥ ६ ॥
पतिं नारी वाऽनुरक्ता देवी भक्तं भजेज्जनम् ॥
वसुधेव विशाला सा सुमेरुयुगलस्तनी ॥७॥
दीर्घो लम्बावतिस्थूलौ तावतीव मनोहरौ ॥
कर्कशावतिकान्तौ तौ सर्वानन्दपयोनिधी ॥८॥
भक्तान् संपाययेदेवी सर्वकामदुघौ स्तनौ ॥
खङ्गपात्रशिरः खेटेरलंकृतचतुर्भुजा ॥६॥
आख्याता रक्तचामुण्डा देवी योगेश्वरीति च ॥
अनया व्याप्तमखिलं जगत्स्थावरजंगमम् ॥१०॥
इमां यः पूजयेद्भक्त्या स व्याप्नोति चराचरम् ॥
भुक्त्वा भोगान् यथाकामं देवीसायुज्यमाप्नुयात्॥११॥
अधीते य इमं नित्यं रक्तदन्त्या वपुः स्तवम् ॥
तं सा परिचरेदेवी पतिं प्रियमिवांगना ॥ १२ ॥
शाकंभरी नीलवर्णा नीलोत्पलविलोचना ॥
गम्भीरनाभिस्त्रिवलीविभूषिततनूदरी ॥ १३ ॥
१३३
॥
* उत्तमचरितम् *
सुकर्कशसमोत्तुंगवृत्तपीनघनस्तनी
मुष्टिं शिलीमुखा पूर्ण कमलं कमलालया ॥ १४ ॥
पुष्पपल्लवमूलादिफलाढय शाकसंचयम् ॥
काम्यानन्तरसैर्युक्तंक्षुत्तृण्मृत्युजरापहम् ॥ १५ ॥
कार्मुकं च स्फुरत्कान्ति बिभर्ति परमेश्वरी ॥
शाकंभरी शताक्षी सा सैव दुर्गा प्रकीर्तिता ॥ १६ ॥
उमा गौरी सती चंडी कालिका सा च पार्वती ॥
शाकंभरी स्तुवन् ध्यायन् जपन् संपूजयन्नमन् ॥ १७ ॥
अक्षय्यमश्नुते शीघ्रमन्नपानामृतं फलम् ॥
भीमापि नीलवर्णा सा दंष्ट्रादशनभासुरा ॥ १८ ॥
विशाललोचना नारी वृत्तपीनपयोधरा ॥
चन्द्रहासं च डमरु शिरःपात्रं च बिभ्रती ॥ १६ ॥
एकवीरा कालरात्रिः सैवोक्ता कामदा स्तुता ॥
तेजोमण्डलदुर्धर्षा भ्रामरी चित्रकान्तिभृत् ॥ २० ॥
चित्रनमरसंकाशा महामारीति गीयते ॥
इत्येता मूर्तयो देव्या व्याख्याता वसुधाधिप ॥ २१ ॥
जगन्मातुश्चण्डिकायाः कीर्तिताः कामधेनवः ॥
इदं रहस्यं परमं न वाच्यं कस्यचित्त्वया ॥ २२ ॥
१३४ ॥ * श्रीदुर्गासप्तशती आख्यानं दिव्यमूर्तीनामधीष्वावहितः स्वयम् ॥ एतस्यास्त्वं प्रसादेन सर्वमान्यो भविष्यसि ॥ २३ ॥ सप्तजन्मार्जितौर ब्रह्महत्यासमैरपि पाठमात्रेण मंत्राणां मुच्यते सर्वकिल्विषैः ॥ २४ ॥ देव्या ध्यानं मया ख्यातं गुह्याद् ह्यतरं महत् ॥ सर्वरूपमयी देवी सर्व देवीमयं जगत् ॥ २५ ॥ ततोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम् ॥ २६ ॥ इति मूर्ति रहस्यं समाप्तम् ॥ -(४:०:४)-
१३५
॥
* उत्तराङ्गानि *
अपराधशतं कृत्वा जगदंबेति चोच्चरेत् ॥
यां गतिं समवाप्नोतिन तां ब्रह्मादयः सुराः ॥
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदंबिके ।
इदानीमनुकंप्योऽहं यथेच्छसि तथा कुरु ॥
अज्ञानाद्विस्मृतीत्या यन्न्यूनमधिकं कृतम् ॥
तत्सर्व क्षम्यतां देवि प्रसीद परमेश्वरि ॥
कामेश्वरि जगन्मातः सच्चिदानंदविग्रहे ॥
गृहाणा मिमां प्रीत्या प्रसीद परमेश्वरि ॥
सर्वरूपमयी देवी सर्व देवीमयं जगत् ॥
अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम् ॥
गुह्यातिगृह्यगोत्री त्वं गृहाणास्मत्कृतं जपम् ॥
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरी ॥
इति मंत्रण देव्या दक्षिणकरे जपं समय यथासुखं
विहरेदिति ॥
श्रीजगदंबा प्रसन्ना भवतु ॥
इत्युत्तरविधिः समाप्तः।
No text on this page.
---
TIMILA
--
॥ नवचंडीशतचंडीसहस्रचंडी-
होमप्रयोगः॥
"
Thi
॥ अथ सप्तशतीहोमप्रयोगः॥ R ॥ श्रीगणेशाय नमः। यजमानः शुभदिने सपत्नीकस्तिलतैलेन कृताभ्यंगः स्नात्वा सपूर्णकलशहस्तो मंडपं प्रदक्षिणीकृत्य पश्चिमद्वारेण प्रविश्योपविश्य देशकालौ स्मृत्वा ममेहजन्मनि दुर्गाप्रीतिद्वारा सर्वापच्छांतिपूर्वकदीर्घायुर्विपुलधनधान्यपुत्रपौत्राद्यनवच्छिन्नसं- ततिस्थिरलक्ष्मीकीर्तिलाभशत्रुपराजयसदभीष्टसिद्धयर्थ ममा- मुककार्यसिद्धयर्थ वा सनवग्रहमखां नवचंडी शतचंडी सहस्त्रचंडी (वा ब्राह्मणद्वारा) करिष्ये ॥ तदंगतया गणेशपूजन पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धमाचार्यादिवरणं च करिष्ये ॥ इति संकल्प्य तानि कृत्वा आचार्यादीन्वृत्वा तान्यथा- विभवं वस्त्रादिना संपूज्य प्रार्थयेच्च ॥ (ते च शतचंड्यां दश। सहस्रचंड्यांशतं । केचिदत्र ग्रहजपार्थमेकमृत्विजं वरयंति॥)
* सप्तपती होमप्रयोग: * अथाचार्यः आचम्य देशकालौ संकीर्त्य यजमानेन वृतोहमाचार्यकर्म करिष्ये । इति संकल्प्य यदतिगौरसर्षपा- विकीर्य पंचगव्येन कुशोदकेन वा मंडपं प्रोक्षेत् ॥ ॥ भूतशुद्धिः॥ आपोहिष्ठा मयोभुवस्तानऽऊर्जे दधातन । महेरणाय चक्षसे । यो वः शिवतमो रसस्तस्य भाजयते हनः॥ उश- तीरिव मातरः तस्माऽअरङ्गमामवो यस्य क्षयाय जिन्न्वथ । आपोजनयथा च नः॥ अपवित्रः पवित्रो वा सर्वावस्थांगतोपि वा। यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः । ॥ आसनशुद्धिः॥ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता। स्वं च धारय मां देविपवित्रं कुरु चासनम् । इत्युपविश्य अनंता- सनाय नमः॥ विमलासनाय नमः । पद्मासनाय नमः । अप- क्रामंतु भूतानि पिशाचाः सर्वतो दिशम् सर्वेषामविरोधेन पूजा कर्म समारभे। इति भूमौ वामपादघातत्रयं कृत्वा यथोपदेशं विस्तरतः संक्षेपेण वा भूतशुद्धयादि कृत्वा नवार्ण- १४. श्रीदुर्गासप्तशती विध्युक्तकादशन्यासान्कुर्यात् ॥ अथवैकादशमेवैकं न्यास कुर्यात् ॥ ततो योनिमुद्रां प्रदर्य ध्यायेत् ॥ ॥ ध्यानम् ॥ श्वेतानना नीलभुजा सुवेतस्तनमंडला ॥ रक्कमध्या रक्तपादा नीलजंघोरुरुन्मदा ॥ सुचित्रजघना चित्रमाल्यांबर- विभूषणा ॥ चित्रानुलेपना कांतिरूपसौभाग्यशालिनी ॥ अष्टा- दशभुजा पूज्या सा सहस्रभुजा सती॥ आयुधान्यत्र वक्ष्यंते दक्षिणाधःकरक्रमात् । अक्षमाला च कमलं बाणोऽसिः कुलिशं गदा ॥ चक्रं त्रिशूलं परशुः शंखो घंटा च पाशकः ॥ शक्तिदंडश्चर्म चापं पानपात्रं कमंडलुः ॥ ततो वेद्यां सर्वतोभद्रमष्टदलं वा विलिख्य तत्र ब्रह्मा- दिमंडलदेवताः संस्थाप्य तन्मध्ये महीद्योरित्यादिमंत्रः कलशं संस्थाप्य तस्मिन्गंधपुष्पफलसौषधिदूर्वापंचपल्लवसप्तमृत्तिका- स्तत्तन्मंत्रेण निक्षिप्य वस्त्रद्वयेनावेष्ट्य तदुपरि पूर्णपात्रं निधाय कलशे वरुणमावाह्य पूजयेत् ॥ ततःकलशदेवताःस्मरेत् ॥ ॥ कलशाऽवाहनम् ॥ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः। मूले तत्रस्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः। कुक्षौ तु १४१ समायती होमप्रयोगः. सागराः सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदोऽथ युजुर्वेदः साम- वेदो ह्यथर्वणः । अझैश्च सहिताः सर्वे कलशं तु समाश्रितः ॥ ॥ कलशप्रार्थना ॥ देवदानवसंवादे मध्यमाने महोदधौ। उत्पन्नोऽसि सदा कुम्भ विधृतो विष्णुना स्वयम् । त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः। त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः । शिवः स्वयं त्वमेवाऽसि विष्णुस्त्वं च प्रजापतिः । आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः। त्वयि तिष्ठन्ति सर्वेपि यतः कामफलप्रदाः। त्वत्प्रसादादिमां पूजां कर्तुमीहे जलोद्भव। सान्निध्यं कुरु मे देव प्रसन्नो भव सर्वदा॥ तथा कलशोपरिस्थपूर्णावस्त्रे यंत्र लिखेत् ॥ तद्यथा ॥ मध्ये त्रिकोणं तद्वहिः षट्कोणं तबाह्ये वृत्तं तद्वाद्येऽष्टौ- दलानि तद्वाह्य चतुरं चतुरस्त्रत्रयमिति । एवं यंत्र विलिख्य तत्राष्टादशभुजां अष्टभुजां वा सिंहारूढां सौवर्णी देवीमूर्ति- मग्न्युत्तारणप्राणप्रतिष्ठापूर्वकं प्रतिष्ठाप्य पूजयेत् ॥ तद्यथा ॥ स्ववामे कर्पूरादियुतजलपूर्णकलशं संपूज्य-कलशस्यमुखे विष्णुः कण्ठे रुद्रः समाश्रितः। मूले तत्रस्थितो ब्रह्मा मध्ये बौदुर्गासप्तमी मातृगणाः स्मृताः । कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥ अङ्गश्च सहिताः सर्वे कलशं तु समाश्रिताः॥ गंगे च यमुने चैव गोदावरि सरस्वति। नर्मदे सिन्धो कावेरि जलेस्मिन् सन्निधिं कुरु । इत्यादि पठित्वा कलशमुद्रां प्रदर्य दक्षिणतः शंख पूजयेत् ॥ ॥शंखपूजनम् ॥ शंखं चंद्रार्कदेवत्यं कुक्षौ वरुण देवता। पृष्ठे प्रजा- पतिश्चैव अग्रे गंगा सरस्वती। त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया। शङ्ख तिष्ठन्ति विप्रेन्द्र तस्माच्छङ्क्ष प्रपूजयेत। त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । निर्मितः सर्वदेवश्च पाञ्चजन्य नमोऽस्तु ते। पाञ्चजन्याय विगहे । पावनाय धीमहि । तन्नः शङ्खःप्रचोदयात् । इति पठित्वा शंखमुद्रां प्रदर्य शंखोदकेनात्मानं पूजाद्रव्याणि च प्रोक्षेत् ॥ अपवित्रः पवित्रोवा०॥ पीठपूजांकुर्यात् । ॥ पीठपूजनम् ॥ देवीदक्षिणे गं गुरुभ्यो नमः॥ पं परमगुरुभ्योनमः॥ पं परात्परगुरुभ्योनमः ॥ पं परमेष्टिगुरुभ्यो नमः ॥ वामे- २४३ "समतीमायोग: गणपतये नमः ॥ दुं दुर्गायै नमः ॥ क्षं क्षेत्रपालाय नमः । मध्ये—आधारशक्त्यैनमः ॥ मूलप्रकृत्यै नमः ॥ कालाभि- रुद्राय नमः ॥ महामंडूकाय नमः ॥ कूर्माय नमः॥ वराहाय नमः॥ अनंताय नमः॥ भूम्यै नमः॥ अमृतार्णवाय नमः॥ रत्नद्वीपाय नमः॥ हेमगिरये नमः ॥ नंदनोद्यानाय नमः॥ मणिभूम्यै नमः॥ रत्नमंडपाय नमः॥ कल्पतरवे नमः॥ रत्नसिंहासनाय नमः ॥ आग्नेय्यादिकोणेषु- धर्माय नमः॥ ज्ञानाय नमः॥ वैराग्याय नमः ॥ ऐश्वर्याय नमः॥ अधर्माय नमः ॥ अज्ञानाय नमः॥ अवैराग्याय नमः ॥ अनैश्वर्याय नमः॥ ऊर्ध्वं ब्रह्मणे नमः॥ अधः- अनंताय नमः ॥ मध्ये वास्तुपुरुषाय नमः ॥ सं सत्वाय नमः॥ रं रजसे नमः॥ तं तमसे नमः॥ मां मायायै नमः॥वि विद्यायै नमः॥ पूर्वायष्टदिक्षु-उड्डाणपीठेश्वरसहितामुड्डाणपीठेश्वयंबा- पादुकां पूजयामि ॥ मातृकापीठेश्वरसहितां मातृकापीठेश्वयंपा- पादुकां पूजयामि॥जालंधरपीठेश्वरसहितां जालंधरपीठेश्वयंचा- पादुकां पूजयामि ॥ कोल्हामिरिपोठेश्वरसहितां कोल्हागिरि- पीठेश्वयंघापादुकां पूजयामि ॥ पूर्णगिरिपीठेश्वरसहित पूर्म- १४४ कामरूप- ॥ ॥ * श्रीदुर्गासप्तशती गिरिपीठेश्वर्यबापादुकां पूजयामि ॥ संहारगिरिपीठेश्वरसहितां संहारगिरिपोठेश्वर्यबापादुकां पूजयामि ॥ कोल्हापुरपीठेश्वर- सहितां कोल्हापुरपीठेश्वर्यबापादुकां पूजयामि ॥ पीठेश्वरसहितां कामरूपपीठेश्वर्यबापादुकां पूजयामि ॥ पुनः पूर्वादिचतुर्दिक्षु-गंगणेशायनमः॥क्ष क्षेत्रपालाय नमः । पां पादुकाभ्यो नमः ॥ बं बटुकेभ्यो नमः॥ आग्नेय्या- दिविदिक्षु-जं जयायै नमः॥ विं विजयायै नमः॥ जं जयंत्यै नमः॥ अं अपराजितायै नमः॥ तत्रैव-अग्नि- मुखवेतालाय नमः ॥ प्रेतवाहनवेतालाय नमः ॥ ज्वालामुख- वेतालाय नमः॥ धूम्राक्षवेतालाय नमः॥ कंदाय नमः ॥ नालाय नमः ॥ दलेभ्यो नमः ॥ केसरेभ्यो नमः ॥ कर्णि- कायै नमः ॥ अंसूर्यमंडलाय नमः ॥ उं सोममंडलाय नमः ॥ मं वह्निमंडलाय नमः ॥ अं आत्मने नमः॥ उं अंतरात्मने नमः ॥ पं परमात्मने नमः ॥ उंज्ञानात्मने नमः ॥ विं विष्णुमायायै नमः ॥ चे चेतनायै नमः ॥ बुं बुद्धय नमः॥ नि निद्रायै नमः ॥ क्षुधायै नमः॥ छां छायायै नमः ॥ शं शक्त्यै नमः॥ तृ तृष्णायै नमः ॥ क्षां क्षात्यै नमः। जां जात्यै नमः॥ लं ललितायै नमः॥ शां शांत्यै नमः॥ ॥ ॥
२४५ सप्तशतीहीमप्रयोगः- अं श्रद्धायै नमः॥ कां कात्यै नमः ॥ लं लक्ष्म्यै नमः ॥ धुं धृत्यै नमः॥ वृद्धये नमः ॥ स्मृ स्मृत्यै नमः॥ दं दयायै नमः॥ तु तुष्ट्य नमः ॥ पुं पुष्ट्य नमः ॥ मां मातृकायै नमः॥ भ्रां भ्रांत्यै नमः ॥ ह्रीं सर्वशक्तिकमला- सनाय नमः॥ सर्वात्मसंसर्गयोगपीठात्मने नमः॥ इति पीठपूजा ॥ तथा स्थापितमूतौदेवीमावाहयेत् ॥ ॥ आवाहनम् ॥ आगच्छ वरदे देवि दैत्यदर्पनिषदिनि ॥ पूजां गृहाण सुमुखि नमस्ते शंकरप्रिये ॥ दुर्गेदेवि समागच्छ सान्निध्य- मिहकल्पय ॥ बलिं पूजां गृहाणत्वमष्टाभिः शक्तिभिः सह ॥ मृती मंत्रौ पठित्वा मूतौ देवीमावाह्य मूलमंत्रेण जयं- तीमंगलाकालीत्यनेन वा आसनपाद्यार्थ्याचमनमधुपर्कान्नि- वेदयेत् ॥ ॥ पंचामृतस्नानं ॥ देवीसूक्तश्रीसूक्तसरस्वतीसूक्तैर्देवीमाहात्म्योक्तैः शक्रा- दयइत्यादिस्तोत्रैश्चाभिषेकः ॥ ततः पूर्वोक्तमंत्रेण वस्त्रकंचुका- भरणाष्टगंधबिल्वपत्रनानापुष्पहरिद्राकुंकुमसिंदूरालक्तकपरिमल- द्रव्याणि समर्पयेत् ॥ । १०
* श्रीदुर्गासप्तशती.
॥ अथांगपूजा॥
ॐ दुर्गायै नमः पादौ । गिरिजायै नमः गुल्फो । अपर्णायै
नमः जानुनी । हरिप्रियायै नमः ऊरू । पार्वत्यै नमः कटिं।
आर्याय नमः नाभिं। जगन्मात्रे नमः उदरं । मंगलायै
नमः कुक्षिं ॥ शिवायै नमः हृदयं । माहेश्वर्यै नमः कंठं।
विश्ववंद्यायै नमः स्कंधौ । काल्यै नमः बाहू । आद्यायै नमः
हस्तौ। वरदायै नमः मुखं । सुवाण्यै नमः नासिकां ।
कमलाक्ष्यै नमः नेत्रे। अंबिकायै नमः शिरः। देव्यै नमः
सर्वागं।
अथाष्टोत्तरशतनामानि ॥
ॐ माहेश्वर्यै नमः। महादेव्यै नमः। जयंत्यै नमः ।
सर्वमंगलायै नमः। लज्जायै नमः । भगवत्यै नमः। वंद्यायै
नमः। भवान्यै नमः। पापनाशिन्यै नमः । चंडिकायै नमः ।
कालरात्र्यै नमः। भद्रकाल्यै नमः। अपराजितायै नमः ।
महाविद्यायै नमः। महामेधायै नमः। महामायायै नमः।
महाबलायै नमः। कात्यायन्यै नमः। जयायै नमः ।
दुर्गायै नमः। मंदारवनवासिन्यै नमः। आर्यायै नमः ।
१४७ * सप्तपती होममयोगः. गिरिसुतायै नमः । धात्र्यै नमः। महिषासुरघातिन्यै नमः । सिद्धिदायै नमः । बुद्धिदायै नमः । नित्यायै नमः। वरदायै नमः। वरवर्णिन्यै नमः। अंबिकायै नमः। सुखदायै नमः। सौम्यायै नमः। जगन्मात्रे नमः। शिवप्रियायै नमः। भक्तसंतापसंहन्यै नमः। सर्वकामप्रपूरिण्यै नमः। जगत्कन्यै नमः। जगद्धात्र्यै नमः। जगत्पालनतत्परायै नमः । अव्यक्तायै नमः। व्यक्तरूपायै नमः। भीमायै नमः। त्रिपुरसुंदर्यै नमः। अपर्णायै नमः। ललितायै नमः। वेद्यायै नमः । पूर्णचंद्र निभाननायै नमः । चामुंडायै नमः । चतुरायै नमः। चंद्रायै नमः। गुणत्रयविभागिन्यै नमः। हेरंबजनन्यै नमः। काल्यै नमः। त्रिगुणायै नमः। यशो- धारिण्यै नमः । उमायै नमः। कलशहस्तायै नमः। दैत्य- दर्पनिषदिन्यै नमः । बुद्धय नमः । कात्यै नमः ।क्षमायै नमः । शांत्यै नमः । पुष्टयै नमः । तुष्ट्य नमः। धृत्यै नमः । मत्यै नमः। वरायुधधरायै नमः। धीरायै नमः। गौर्य नमः । शाकंभयै नमः। शिवायै नमः। अष्टसिद्धिप्रदायै नमः । वामायै नमः। शिववामांगवासिन्यै नमः। धर्मदायै नमः। धनदायै नमः। श्रीदायै नमः । कामदायै नमः।
१४८ * बीदुर्गासप्तमी मोक्षदायै नमः। अपरायै नमः। चित्स्वरूपायै नमः । चिदा. नंदायै नमः। जयश्रियै नमः। जयदायिन्यै नमः । सर्व- मंगलमांगल्यायै नमः ।जगत्त्यहितैषिण्यै नमः। शर्वाण्यै नमः। पार्वत्यै नमः । धन्यायै नमः । स्कंदमात्रे नमः। अखिलेश्वर्य नमः । प्रपन्नातिहरायै नमः । देव्यै नमः। सुभगायै नमः। कामरूपिण्यै नमः। निराकारायै नमः। साकारायै नमः। महाकाल्यै नमः। सुरेश्वर्यै नमः। शर्वायै नमः। श्रद्धायै नमः । ध्रुवायै नमः। कृत्यायै नमः। मृडान्यै नमः भक्तवत्सलायै नमः। सर्वशक्तिसमायुतायै नमः । शरण्याये नमः । सर्वकामदायै नमः । इत्यष्टोत्तरशतनामानि ॥ ॥ अथावरणपूजा॥ देव्या दक्षिणे-ऐं महाकाल्यै विच्चे नमः॥ वामे- ह्रीं महालक्ष्म्यै विच्चे नमः ॥ पुरतः-क्लीं महासरस्वत्यैविच्चे नमः॥वामे-हूँ महिषाय नमः ॥ दक्षिणे क्षौं सिंहाय नमः॥ पुरतः-गंगणपतये नमः ॥ हूं, कालायनमः ॥ पश्चात् है मृत्यवे नमः॥ षट्दलेषु रुद्राय नमः॥ह्रौं गौर्यै नमः॥ श्री विष्णवे नमः॥ श्री लक्ष्म्यै नमः॥ऐं ब्रह्मणे नमः ॥में सरस्वत्यै नमः ॥ तत्रैव-हां हृदयाय नमः॥ ह्रीं शिरसे १४८ समशतीहीमप्रयोग: लाहा॥हूँ शिखायै वषट् ॥हैं कवचाय हुं ॥ ह्रौं नेत्रत्रयाय वौषट् अखाय फट् ॥ तत्रैव-गुरुभ्यो नमः॥पं परम- गुरुभ्यो नमः॥ परमेष्ठीगुरुभ्यो नमः ॥ हरये नमः ॥ हराय- नमः॥ गणेशाय नमः॥ तत्रैव-नंदजायै नमः।रक्तदंतिकार्य नमः॥ शाकंभय नमः ॥ दुर्गायै नमः ॥ भीमायै नमः॥ भ्रामयै नमः॥ अथाष्टदलेषु -ब्राह्मय नमः॥माहेश्वर्यै नमः॥ कौमाय नमः ॥ वैष्णव्यै नमः॥ वारायै नमः॥ इंद्राण्यै नमः ॥ नारसिंयै नमः ॥ चामुंडायै नमः ॥ पूर्वादिदिक्षु-अं असितांगभैरवाय नमः । रुरुरुभैरवाय नमः। चं चंडभैरवाय नमः । क्रों क्रोधभैरवाय नमः । उं उन्मत्तभैरवाय नमः । के कपालभैरवाय नमः। भी भीषणभैरवाय नमः। सं संहार- - भैरवाय नमः॥ पुनः पूर्वादिषु-लं इंद्राय नमः॥रं अग्नये नमः ॥ मं यमाय नमः॥षं निर्ऋतये नमः ॥वं वरुणाय नमः॥ यं वायवे नमः ॥ सं सोमाय नमः ॥ हं ईशानाय नमः॥ तबहिः-पूर्वादि वजाय नमः ॥ शक्त्यै नमः॥ दंडाय नमः ॥ खगाय नमः॥पाशाय नमः॥अंकुशाय नमः॥ गदायै नमः ॥ त्रिशूलाय नमः ॥ इत्यावरणपूजा ।
* श्रीदुर्गासप्तशती. ततः पूर्वोक्तमंत्रेण धूपदीपनैवेद्यादिमंत्रपुष्पांतपूजां कृत्वा नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणतास्मताम् इतिमंत्रैर्नमस्कृत्य यथासंभवं छत्रचा- मरगीतनृत्यवाद्यादिसमर्प्य कूष्मांडनारिकेलकदलीफलादिबलिं दत्वा ॥मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि। यत्पूजितं मया देवि प्रसीद परमेश्वरि ॥ आवाहनं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि प्रसीद परमेश्वरि ॥ अनेन पूजनेन श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यः प्रीयंतां ॥ ॥ कुमारीपूजा॥ देशकालौ संकीयं शतचंडीजपांगत्वेन कुमारीपूजां करिष्ये इतिसंकल्प्य मूलेन षडंगं कृत्वा मूलमंत्रमुच्चार्य ॥ मंत्राक्षरमयीं देवी मातृणां रूपधारिणीं ॥ नवदुर्गाल्मिकां साक्षात्कन्या- मावाहयाम्यहं ॥ इति कुमारीमावाह्य यथासंभवं पूजयेत् ॥ कुमार्यश्च प्रत्यहं शतं नव एकावा यथाशक्ति वा पूज्या॥ प्रत्यह- मेकवृद्धया वा पूजयेत् ॥ ततो ब्राह्मणसुवासिनीपूजा ॥ एवं देवीकुमार्यादिपूजा प्रत्यहं कार्या॥ ततः सर्वे विप्राः कृतांगन्या- साः शतं नवार्णमंत्र जप्त्वा कवचार्गलकीलकानि सकृज्जप्त्वा सप्तशती जप्त्वांते रहस्यादि नवार्ण शतं च जपेत् । एकस्मिन्दि- ॥
॥ • सती होमप्रयोगः ने अनेकावृत्तिषु तु कवचादीनां प्रत्यावृत्ति नावृत्तिः॥ एवमृत्वि- जःप्रथमदिने एक द्वितीय तृतीये त्रीणि चतुर्थे चत्वारि रूपा- णीत्येवं जपं कुर्युः ॥ ऋत्विजां यजमानस्य प्रत्यहं क्षीरमात्रा- शनं अशक्तौ हविष्याशनं वा। प्रत्यहं सहलं शतं दश वा ब्राह्मणान्भोजयेत् । पंचमेह्निहोमः॥ नवरात्रेतु नवम्यामेव होमः ॥ कचित्तु अष्टम्यामारभ्य नवम्यां समापयंति ॥ ॥ अथ होमः॥ देशकालौस्मृत्वा मया ब्राह्मणद्वारा कृतस्य शतचंडीजपस्य संपूर्णतासिद्धयर्थं जपदशांशेन तिलादिमिश्रपायसद्रव्येण होम करिष्ये इतिसंकल्प्य ॥ अत्र केचित्पुण्याहवाचनमपिकुर्वति ॥ तथापूर्वोक्तकलशस्थापनं देवतास्थापनं पूजनं चात्रैवकुर्वति ॥ ततः सनवग्रहशतचंडीजपदशांशहोमं कर्तुं स्थंडिलादिकरिष्ये इतिसंकल्प्य स्थंडिलमुपलिप्योलिख्य तत्र (शत )मंगलना- मानमग्निं प्रतिष्ठाप्य समिध्य ध्यायेत् ॥ ततः प्रागकृतं चेदिदा- नीमीशान्यां दिशि नवग्रहस्थापनं कृत्वा तत्पूर्वतः कलशं स्थाप- येत् ॥ ततोनिसमीपमागत्यान्वाधानं कुर्यात् ॥ समिद्वयमा- दाय क्रियमाणे शतचंडीजपांगहोमे देवतापरिग्रहार्थमन्वाधान अस्मिन्नन्वाहितेनावित्यादिचक्षुषीआज्येनेत्यं- करिष्ये ॥
* श्री दुर्गा-सतशती तमुक्त्वा आदित्यादिनवग्रहान् प्रतिद्रव्यमष्टाविंशतिसंख्या- काभिरष्टाभिर्वा समित्तिलाज्याहुतिभिः अधिदेवताः प्रत्यधि- देवताश्चचतुःसंख्याकाभिःतैरेवद्रव्यैःगणपतिचतुष्टयं इंद्रायष्टी. लोकपालांश्चैकैकयासमित्तिलाज्याहुत्यायक्ष्ये ॥ महाकाली- महालक्ष्मीमहासरस्वतीमूलमंत्रण शतवारं सप्तशतीमंत्रः जप- दशांशसंख्यया पायसतिलपलाशपुष्पसर्षपपूगीफललाजादूर्वा - कुरयवबिल्वफलरक्तचंदनगुग्गुलुद्रव्यैर्यथालाभद्रव्यैर्वा तिल- मिश्रपायसेन वा पुनर्मूलमंत्रण शतवारं तैरेव द्रव्यैः आधार- शक्त्यादिपीठदेवताः महाकाल्याद्यावरणदेवताश्चैकैकाहुत्या- पायसाज्येनयक्ष्ये शेषेण स्विष्टकृतमित्याद्याज्यभागांतं कृत्वा । यजमानः इदं हवनीयद्रव्यं यथादैवतमस्तु नममेति त्यजेत् ॥ नवग्रहादिभ्यः समित्तिलाज्यानिहुत्वा उक्तद्रव्याणि मूलमंत्रण शतवारं हुत्वा सप्तशतीमंत्रैर्जपदशांशेन हुत्वा पुनर्मूलमंत्रेण शत- वारं जुहुयात् ॥ मूलमंत्रोनवार्णमंत्रः ॥ नवार्णमंत्रस्यकेवलाज्ये- नैववाहोमः॥अत्राध्यायसमाप्तौउवाचस्थलेचपत्रपुष्पफलैहोमः॥ एवं प्रधानहोमं कृत्वा पीठदेवताभ्यो नामभिराज्यं पाय- सं च जुहुयात् ॥ आधारशक्त्यै नमः। मूलप्रकृत्यै नमः । कालाग्निरुद्राय नमः। महामंडूकाय नमः। कूर्माय नमः। ॥
* सप्तशती होमप्रयोगः * वराहाय नमः । अनंताय नमः। भूम्यै नमः। अमृतार्णवाय नमः। रत्नद्वीपाय नमः । हेमगिरये नमः। नंदनोद्यानाय नमः । मणिभूम्यै नमः। रत्नमंडपाय नमः। कल्पतरवे नमः। रत्न- सिंहासनाय नमः । धर्माय नमः। ज्ञानाय नमः । वैराग्याय नमः। ऐश्वर्याय नमः । अधर्माय नमः । अज्ञानाय नमः। अवैराग्याय नमः । अनैश्वर्याय नमः । ब्रह्मणे नमः । अनंताय नमः । वास्तुपुरुषाय नमः। सं सत्वाय नमः। रं रजसे नमः । तं तमसे नमः । मां मायायै नमः। विं विद्यायै नमः। उड्डाणपीठेश्वरसहितोड्डाणपीठेश्वयंबायै नमः । मातृकापीटेश्वर- सहितमातृकापीठेश्वर्यबाय नमः । जालंधरपीठेश्वरसहितजालं- धरपीठेश्वयंबायै नमः । कोल्हागिरिपीठेश्वरसहितकोल्हागिरि- पीटेश्वर्यबायै नमः। पूर्णगिरिपीठेश्वरसहितपूर्णगिरिपीठेश्वर्य- बायै नमः। संहारगिरिपीठेश्वरसहितसंहारगिरिपीठेश्वर्यबाये नमः। कोल्हापुरपीठेश्वरसहितकोल्हापुरपीठेश्वर्यबायै नमः । कामरूपपीठेश्वरसहितकामरूपपीठेश्वर्यबाय नमः । गं गणेशाय नमः । क्ष क्षेत्रपालाय नमः। पां पादुकाभ्यो नमः।बंबटुकेभ्यो नमः। जं जयायै नमः। विविजयायै नमः । जं जयंत्यै नमः । अं अपराजितायै नमः । अग्निमुखवेतालाय नमः । प्रेतवाहन २० १५४ * श्रीदुर्गासप्तशती. वेतालाय नमः । ज्वालामुखवेतालाय नमः। धूम्राक्षवेतालाय नमः। कंदाय नमः । नालाय नमः। दलेभ्यो नमः। केसरेभ्यो नमः । कर्णिकायै नमः । अं सूर्यमंडलाय नमः । उ सोममंड- लाय नमः। मं वह्निमंडलाय नमः। अं आत्मने नमः। उं अंतरात्मने नमः। पं परात्मने नमः। उं ज्ञानात्मने नमः । विं विष्णुमायायै नमः। चे चेतनायै नमः । बुबुद्धयै नमः। नि निद्रायै नमः। झुं क्षुधायै नमः। छां छायायै नमः। शं शक्त्यै नमः । तूं तृष्णायै नमः। क्षांक्षांत्यै नमः। जां जात्यै नमः। लं ललितायै नमः। शां शांत्यै नमः। श्रं श्रद्धायै नमः। कां कात्यै नमः। लं लक्ष्म्यै नमः। धुं धृत्यै नमः। वृद्धय नमः । स्तृ स्मृत्यै नमः। दं ददायै नमः । तुतुष्ट्यै नमः। पुपुष्ट्यै नमः। मां मातृकायै नमः। भ्रां भ्रांत्यै नमः। ह्रीं सर्वशक्तिकमलासनाय नमः। सर्वा- त्मसंसर्गयोगपीठात्मने नमः । इति पीठदेवताहोमः । ॥ अथावरणदेवताः॥ ऐं महाकाल्यैविच्चे । ह्रीं महालक्ष्म्यैविच्च । क्लीं महासर- स्वत्यैविच्चे। हूँ महिषाय नमः।क्षं सिंहाय नमः । गं गणपतये १५५ • सप्तशती होमप्रयोगः- नमः । हूं कालाय नमः । हूं मृत्यवे नमः। है रुद्राय नमः । हौं गौर्यै नमः। श्री विष्णवे नमः । श्री लक्ष्म्यै नमः। ऐं ब्रह्मणे नमः। ऐं सरस्वत्यै नमः। ह्रां हृदयाय नमः। ह्रीं शिरसे स्वाहा । हूं शिखायै वषट् । हूँ कवचाय हुं । ह्रौं नेत्र- त्रयाय वौषट् । ह्रः अस्त्राय फट । गुं गुरुभ्यो नमः। पं परम- गुरुभ्यो नमः। पं परमेष्ठिगुरुभ्यो नमः। हरये नमः । हराय नमः। गणेशाय नमः। नंदजायै नमः। रक्त दंतिकायै नमः। शाकंभय नमः। दुर्गायै नमः। भीमायै नमः । भ्रामयै नमः। ब्राह्मय नमः । माहेश्वर्यै नमः। कौमार्यै नमः । वैष्णव्यै नमः । वारायै नमः । इंद्राण्यै नमः । नारसिंयै नमः । चामुंडायैनमः।अंअसितांगभैरवाय नमः । रुरुरुभैरवाय नमः। चं चंडभैरवाय नमः। क्रों क्रोधभैरवाय नमः। उं उन्मत्तभैरवाय नमः। के कपालभैरवाय नमः । भी भीषणभैरवाय नमः । सं संहारभैरवाय नमः । लं इंद्रायनमः। रं अग्नये नमः । मं यमाय नमः । क्षं निर्ऋतये नमः । वं वरुणाय नमः । यं वायवे नमः । सं सोमाय नमः । हं ईशानाय नमः । वज्राय नमः । शक्तयै नमः । दंडाय नमः। खगाय नमः। पाशाय नमः । अंकुशाय नमः । गदायै नमः। त्रिशूलाय नमः ॥
१५६ * श्रीदुर्गासप्तशती एवं होमं कृत्वा स्विष्टकृदादिप्रायश्चित्तहोमांतं कृत्वा इंद्रादिनवग्रहक्षेत्रपालादिभ्यो माषभक्तबलीस्तत्तन्मंत्रैर्दद्यात् ॥ तत्र मंत्राः ॥ इंद्रवो० इंद्रः सुरपतिश्चैव वज्रहस्तो महाबलः॥ शतयागाधिपो देवस्तस्मै नित्यं नमोनमः ॥ इंद्राय सांगाय सपरिवाराय सशक्तिकाय सायुधाय इमं सदी- पमाषभक्तबलिं समर्पयामि भो इंद्र इमं बलिं भक्ष दिशं रक्ष ममं यजमानस्य आयुःकर्ता शांतिकर्ता पुष्टिकर्ता तुष्टिकर्ता कल्याणकर्ता वरदोभव ॥ अनेन बलिदानेन इंद्रः प्रीयतां ॥ १॥ अग्निदूतं । आग्नेयः पुरुषोरक्तः सर्वदेवमयोव्ययः । धूम- केतुरनाधृष्यस्तस्मै नित्यं नमोनमः अग्नये० इत्यादि० ॥२॥ यमाय सोमं । यमश्चोत्पलपत्राक्षः किरीटीदंडधक्सदा ॥ लोकसाक्षी विशुद्धात्मा तस्मै नित्यं नमोनमः ॥ यमाय सां- गायत्यादि० ॥३॥ मोषुणः परापरा० निर्ऋतिस्तु पुमान्कृष्णः सर्वरक्षोधिपोमहान् ॥ खड्गहस्तोमहासत्वस्तरमै नित्यं० निर्ऋतये सांगायेत्यादि० ॥४॥ तत्त्वायामि० । वरुणः सर्वलोकेषु पुरुषोनिम्नगाधिपः॥ पाशहस्तोमहापाबाहुस्तस्मै नित्यं । वरुणाय सांगायत्यादि० ॥५॥ तववाय० सर्व- प्राणात्मकोवायुः सर्वजंतुष्ववस्थितः ॥ ध्वजहस्तोमहाप्राण- १५१ * सप्तशतीहोमप्रयोगः * स्तस्मैनित्यं० वायवे सांगायेत्यादि० ॥६॥ सोमोधेनुं० गौरोयस्तु पुमान्सौम्यः सर्वोषधिसमन्वितः ॥ नक्षत्राधिपतिः सोमस्तस्मै नित्यं० सोमाय सांगायेत्यादि०॥७॥ तमीशानं० ईशानः पुरुषः शुक्लः सर्वदेवाधिपो महान् ॥ शूलहस्तोविरूपाक्ष- स्तस्मै नित्यं० ईशानाय सांगायेत्यादि० ॥८॥ आयंगौः पृश्नि. योसावनंतरूपेण ब्रह्मांडं सचराचरम् ॥ पुष्पवद्धारये- न्मूर्ध्नि तस्मै नित्यं० अनंताय सांगायेत्यादि०॥६॥ब्रह्मजज्ञानं० पद्मयोनिश्चतुर्मूर्तिर्वेदावासः पितामहः ॥ कमंडलुधरोदेवस्त- स्मै ॥ ब्रह्मणे सांगायेत्यादि ॥ १०॥ नवग्रहेभ्यः सांगे. भ्य इत्यादिना ग्रहेभ्यो बलिं दत्वा क्षेत्रपालाय दद्यात् ॥ क्षेत्रस्य पतिना : सर्वभूताधिपाय क्षेत्राधिपतये शाकिनीडाकिनी- भूतप्रेतपिशाचादिपरिवारसहिताय इमं वलिं समर्पयामि ॥ भो क्षेत्रपाल अमुंबलिं भक्ष दिशो रक्ष मम यजमानस्य वा आयु:- कर्तेत्यादि ॥बलिं गृह्णविमे देवा आदित्यावसवस्तथा॥ मरुत- श्चाश्विनौ रुद्राः सुपर्णाः पन्नगाः खगाः ॥ असुरायातुधानाश्च पिशाचोरगराक्षसाः ॥ डाकिन्योयक्षवेतालायोगिन्यः पूतनाः शिवाः ॥ ज़ुभकाः सिद्धगंधर्वानागाविद्याधरानगाः ॥ दिक्पा- लालोकपालाश्च ये च विघ्नविनायकाः ॥ जगतां शांतिकारो- ०. ॥
१५८ * श्रीदुर्गासप्तशती ब्रह्माद्याश्च महर्षयः ॥ मा विनमा च मे पापं मा संतु परिपंथिनः ॥ सौम्या भवंतु तृप्ताश्च भूतप्रेताः सुखावहाः॥ इतिमंत्रान्पठेत् ॥ अयं बलिः शूद्रण दुर्ब्राह्मणेन वा नेयः ॥ ततो हस्तौ पादौ प्रक्षाल्याचम्य पूर्णाहुतिं जुहुयात् ॥ सु. चिनु वेण द्वादशवारमाज्यं गृहीत्वा नारिकेलादि च गृहीत्वा ॥ समुद्रादूर्मि० ३ मूर्धानं० १ पुनस्त्वा० पूर्णादवि० सप्ततेअग्ने० धामतेविश्वं० मूलमंत्रः नमोदेव्यै इत्यादि मंत्राश्च ॥ ततो वसोर्धारां हुत्वा प्रणीताविमोकादि कर्मशेष समाप्य ॥ मूलमंत्रण होमदशांशेन दुग्धेन जलेन वा तर्पणं कृत्वा तेनैव मंत्रेण तद्दशांशेन मार्जयेत् ॥ ततो यजमान आचार्यादीन्वस्त्रा- द्यः संपूज्य तेभ्यो गोमिथुनानि हिरण्यं च दद्यात् ॥ · तत आचार्यादिभ्योन्येभ्यो वा कपिलागोनीलमणिश्वेताश्वछत्रचामर- भूमिशय्यासप्तधान्यानि यथासंभवं वा दद्यात् ॥ तत आचार्या- दयः कलशोदकेन सपत्नीकं सकुटुंबं यजमानं समुद्र-ज्येष्ठा- इत्यादिभिः सुरास्त्वेत्यादिर्भिग्रहमंत्रैश्चाभिषिंचेयुः॥ ततो यजमानो ग्रहाणामुत्तरपूजां कृत्वाचार्येण विसर्जनेकृते ग्रह- पीठदानं कृत्वा देवीं पंचोपचारैःसंपूज्य महाबलिंदद्यात् ॥ तत्र क्षत्रियादिनाश्वनेषच्छागमहिषाणामन्यतरोदेयः॥ विप्रेणतु ॥
१५८ ॥ %D • समगतीहीमप्रयोग कूष्मांडबिल्वमिक्षवश्चदेयाः॥ सचेत्थं ॥ देवीं द्रोणपुष्पबिल्वा- म्रदलजातीचंपकैः संपूज्य कर्ता उदङ्मुखः पूर्वमुखं देवीमुखं वा बलिं गंधादिनाभ्यर्च्य ॥ पशुस्त्वं बलिरूपेण मम भाग्या- दुपस्थितः ॥ प्रणमामि ततः सर्वरूपिणं बलिरूपिणं॥ चंडि- काप्रीतिदानेन दातुरापद्विनाशनं ॥ चामुंडाबलिरूपाय बले तु- भ्यं नमोस्तुते ॥ यज्ञार्थे बलयः सृष्टाः स्वयमेव स्वयंभु वा ॥ अतस्त्वां घातयाम्यद्य तस्माद्यज्ञेवधोऽवधः ॥ इति बलिमभि- मंत्र्य ऐं ह्रीं श्रीं इति मंत्रपुष्पं क्षिप्त्वा ॥ रसना त्वं चंडिकायाः सुरलोकप्रसाधकः ॥ हाहींखड्ग आहुंफट् इतिखत मन्यद्वा शस्त्रं संपूज्य ॥ ॐ कालिकालियशेश्वरिलोहदंडायै नमः॥ इति बलिं छेदयित्वा ॐ ह्रीं ऐं ह्रीं कौशिकि रुधिरेणाप्यायतां इति देव्यै निवेद्य ततो माषपिष्टमयंशत्रु कृत्वाखड्नेन छेदयित्वा स्कंदाय विशिखाय च दत्वा बलिशेषं रक्षोभ्यो हरेत् ॥ मंत्रस्तु ॐ ह्रीं स्फुरस्फुर कुंभ २ सुनु २ गुल्लु २ धुनु २ मारय २ विद्रावय २ विदारय २ कंपय २ कंपातय २ पूरय २ ॐ ह्रीं ॐ हुं फट् २ हुं मर्दय २ हुं ॥ ततः शेषं बहिर्दद्यात् ॥ तत्रमंत्राः॥ बलिं गृह्णात्विमं देवा इत्यादयःपूर्वोक्ता एव ॥ ततः स्नात्वा तिलकं धृत्वा देवी प्रार्थयेत् ॥ तत्र मंत्राः ॥ खड्गिनी शू- ॥ ॥
१६० ॥ श्रीदुर्गासप्तशती * लिनी घोरा० १ शूलेन पाहिनोदेवि० ४ नमोदेव्यै महादेव्यै० ६ रूपं देहि यशो देहि भगं भगवति देहि मे ॥ पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे ॥ महिषप्नि महामाये चामुंडे मुंडमालिनि । आयुरारोग्यमैश्वयं देहि देवि नमोस्तुते ॥ इति देवीं संप्रार्थ्य गुयातिगुह्यगोत्रीत्वं गृहाणास्मत्कृतं जपं ॥ सिद्धिर्भवतु मे देवि- प्रसादात्तव सुन्दरि ॥ इति देव्यैजपं निवेद्य ॥ कृतस्य कर्मणः सांगतासिद्धयर्थ कुमारीब्राह्मणसुवासिनीः पूजापूर्वकं संभोज्य संकल्प्य वा न्यूनातिरिक्तदोषपरिहारार्थ ब्राह्मणेभ्यो भूयसी दक्षिणां दत्वाग्निं संपूज्य विभूतिं धृत्वा गच्छगच्छेत्यग्निविसृज्य मूलमंत्रण पुष्पेण देवीमुद्वास्य तेनैव षडंगं कृत्वा उत्तिष्टब्रह्मण. अभ्यार०॥ उत्तिष्ट देवि चंडेशि शुभां पूजां प्रगृह्य च ॥ कुरुष्व मम कल्याणमष्टाभिः शक्तिभिः सह ॥ इति मंत्रैविसृज्या- चार्याय दत्वा मंत्रं पठेत् ॥ त्रैलोक्यमातर्देवित्वं सर्वभूतद. यान्विते ॥ दानेनानेन संतुष्टा सुप्रीता वरदाभव ॥ ततः यस्य- स्मृत्या० ॥ प्रमादात्कुर्वतांकर्म० इत्यादि जपित्वा कमेश्वरार्पणं- कृत्वा सुहृद्यु तो भुंजीत ॥ ॥इति नवचंडीशतचंडोसहस्रचंडीहोमप्रयोगः॥ -:(x):-
No text on this page.
ܕ
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.