Sanmati Library, Jaipur

Vesesik Sutr Vedikvrety

Hariprasad · 2010/02

PDF Proofread

Front matter

No text on this page.

TRETMATLATTITUSTIETIEDOT
यस्तु:स्तपनान्वयोऽतुलधृतिः श्रुत्सब्जनागैर्वृतं
पश्यन् रोषमुपागतो वृषपती रामो यथा रावणम् ।
चक्ने भारतकं रवेण विवृतं पुण्येन तेजोवपुः
सोऽयं मे हदि राजतामृषिवरो गोविन्दसिंहो गुरुः॥
ELEBRATINE
A
।
श्रीमन्निखिलशास्त्रनिष्णात
पण्डित स्वामि हरिप्रसाद परमहंस.
LAL

No text on this page.

अथ वैशेषिकदर्शनम्। - प्रथमोऽध्यायः। आद्यमाह्निकम् अर्थतत्त्वस्य वेत्तारं वीतमन्यु तपोनिधिम् । कणादं काश्यपं वन्दे देशिकेन्द्रं महामुनिम् ॥१॥ ध्यायन्नर्थविदामुक्तिं चिन्तयन् वेदपद्धतिम् । कुर्वे काणादसूत्राणां वृत्तिमादाय सन्मतिम् ॥ २॥ अथ निःश्रेयसासाधारणं हेतुं तत्त्वज्ञानमुपदिदिक्षुराचार्य्यस्तत्परं शा- स्त्रमारभमाणः पूर्वन्तावत्तद्धेतुभूतं धर्म व्याख्यातुं प्रतिजानीते। "अथातो धर्म व्याख्यास्यामः ॥१॥ अथ-शिप्यजिज्ञासानन्तरमतेः यतः शुश्रूषवः श्रेयोऽर्थिनः श्रवणा- दिपटवोऽनसूयकाश्चान्तेवासिन उपसेदुरस्माद् धर्म-धर्मपदार्थ व्याख्या- स्यामः लक्षणप्रमाणाभ्यां निरूपयिष्याम इत्यर्थः ॥१॥ ननु धर्मस्य किं लक्षणं ? तत्राह । "यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः ॥२॥ अभ्युदयनिःश्रेयससिद्धिः इह वाऽमुत्र वाऽभीष्टकार्याणामुदयोऽभ्यु- दयः, त्रिविधदुःखात्यन्तनिवृत्तिलक्षणा मुक्तिनिःश्रेयस, निःशेषेण श्रेय- स्त्वात् , तत्र हि सर्व श्रेयः परिसमाप्यते, न किञ्चिदवशिष्यते, तयो- रभ्युदयनिःश्रेयसयोः सिद्धि प्राप्तिर्यतः यस्मात्साक्षात्परम्परया वा भवति स धर्म इत्यर्थः। .

२ वैशेपिकदर्शनम् । (आयम् तनाभ्युदयस्य साक्षान्निःश्रेयसस्य च तत्त्वज्ञानोत्पादनेन परम्परयेति विवेकः। अभ्युदयस्तत्त्वज्ञानं तद्वारा निःश्रेयसस्य सिद्धिर्यतः स धर्म इत्युद- यनाचार्यः ॥२॥ नन्वेवंलक्षणे धर्मे किं प्रमाणं ? तत्राह । "तद्वचनादानायस्य प्रामाण्यम् ॥३॥ तद्वचनात् भावप्रधानो निर्देशः । तस्य-उक्तलक्षणधर्मस्यवचनं- निर्वचनं याथातथ्येन प्रतिपादनमस्ति यत्र, तस्य भावस्तत्त्वं, तस्मात्-तद्व- चनत्वादाम्नायस्य ऋग्यजुःसामाथर्वनाम्नो भगवतो वेदस्य प्रामाण्यं धर्मे प्रमाणत्वमित्यर्थः । तदेतदुक्तं तन्त्रान्तरेऽपि. भी. अ.१ पा.१सू. २. "चोदनालक्षणोऽर्थों धर्मः इति. भगवता मनुनाप्युक्तम् अ. २ श्लो. १३. "धर्म जिज्ञासमानानां प्रमाणं परमं श्रुतिः इति । तथा चाभ्युदयनिःश्रेयसकामैः पुरुपधौरेयैर्यत्नतो वैदिको धर्मोऽनुष्ठेयोऽ- वैदिकश्च परिहेयः इत्युपदिष्टं भवति, तच्चाह भगवान् मनुः अ.४ श्लो.१४. वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः। तद्धि कुर्वन् यथाशक्त्या मामोति परमां गतिम् इति । परमां गति-निःश्रेयसमित्यर्थः । ननु वेदप्रमाणको धर्मो व्याख्येयः । स न व्याख्येयत्वमर्हति यतो वयं वेदप्रामाण्य एव विप्रतिपद्यामहे, तत्राह तद्वचनात् तेनेश्वरेण प्रणयना- दानायस्य वेदस्य प्रामाण्य-प्रमाणत्वमित्यर्थः । तथा च वेदस्येश्वरवचन- वेन प्रामाण्ये निर्बाधे तत्प्रमाणको धर्मों व्याख्येय एवेति भाव इत्यु- दयनाचार्यः ॥ ३॥ लक्षणप्रमाणाभ्यां धर्म व्याख्याय तद्धेतुकात्तत्त्वज्ञानानिःश्रेयसप्रति- ज्ञामाह।

. आदिकम्] प्रथमोऽध्यायः । "धर्मविशेषप्रस्ताद द्रव्यगुणकर्मसामान्यविशेषसम- वायानां पदार्थानां साधर्म्यवैधाभ्यां तत्वज्ञानान्निाश्रे- यसम्॥४॥ धर्मविशेषप्रसूतात् वेदचोदितैर्निष्कामकर्मभिर्जन्यः पुण्यविशेषो धर्म- विशेषस्तेन प्रसूतात्-उत्पन्नात् तत्त्वज्ञानादित्यन्वयः । द्रव्यगुणकर्मसामा. न्यविशेषसमवायानां द्रव्याणि च गुणाश्च कर्माणि च सामान्यञ्च विशेषाश्च समवायश्च ते तथा, तेषां पदार्थानां पदवृत्तिविषयाणां षण्णामर्थानां साधर्म्यवैधाभ्यां बहुव्रीहेर्भावप्रत्ययः समानोधर्मः अनुगतोधर्मः सा- धारणोधर्मः साधर्म्यम्, विशेषोधर्मः व्यावृत्तोधर्मः असाधारणोधर्मो वै- धर्म्यम्, ताभ्यां लक्षणभूताभ्यां तत्त्वज्ञानात् असमर्थसमासोऽयं, द्रव्या- दीनां तत्त्वस्येत्यन्वयात्, समानासमानजातीयव्यवच्छिन्नं विविक्तानारोपित खरूपं तत्त्वं, तस्य ज्ञानात् साक्षात्कारान्निःश्रेयसं-पूर्वोक्तलक्षणं कैवल्यं भवतीत्यर्थः । शरीरेन्द्रियादिसर्वानात्मपदार्थविविक्तात्मतत्त्वस्य ज्ञानं हि मिथ्या- ज्ञानप्रतिद्वन्द्रितया निःश्रेयसस्यासाधारणो हेतुरिति सिद्धान्तः। तच्चात्मत- त्रज्ञानं विविक्ततत्तत्पदार्थस्वरूपज्ञानं विना न सुशकम् । पदार्थाश्च साध- यंवैधाभ्यामेव तत्त्वतो विविच्यन्ते । यथा वक्रकोटरादिभ्यां स्थावा- दयो नान्यथा । ते चावान्तरभेदेन बहुधा सन्तोऽपि समासतः षडेव सम्भ- वन्ति । तत्रापि द्रव्यं गुणः कर्मेति त्रय एव मुख्याः पदार्थाः " अर्थ इति द्रव्यगुणकर्मसु" इति वक्ष्यमाणसूत्रात्, सामान्य विशेषः सम- वायश्चेति त्रयस्तच्छेषत्वादुपपदार्थाः । नातोऽधिका अभ्युपगम्यन्ते, पदस्खे- वाधिकानामन्त वसिद्धेः । तस्माद् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पण्णां पदार्थानां साधर्म्यवैधाभ्यां तत्त्वस्य ज्ञानान्निःश्रेयसमिति प्रति- ज्ञातमिति भावः। तत्र द्रव्यगुणकर्मसामान्यविशेषसमवायानामिति शैषिकी पष्ठी, साध- यंवैधाभ्यामिति लक्षणे तृतीया, तत्वस्य ज्ञानादिति कर्मणि षष्ठी इति विवेकः।

वैशेषिकदर्शनम् । [आयम् इदमत्र बोध्यम्. यद्यपि “तमेव विदित्वाऽतिमृत्युमेति नान्यःपन्था विद्यतेऽयनाय" यजुः-अ. ३१ मं. १८ "तमेव विद्वान् न बिभाय मृत्योरात्मानं धीरमजरं युवानम्" अ- थर्व-का.१० सू.५ म.४४."ब्रह्मविदामोतिपरम्" तै.२-१. १. इत्यादिश्रुतेः साक्षात्परमात्मापरोक्षज्ञानमेव मोक्षस्यासाधारणो हेतुर्नवि- विक्तात्मतत्त्वज्ञानं, तथापि विविक्तात्मतत्त्वज्ञानाभावे परमात्मज्ञानासम्भ- वात् तद्भावे चावश्यंभावादात्मतत्त्वज्ञानमेव मोक्षस्यासाधारणो हेतुरिति राद्धान्तः । अत एव च सांख्ययोगन्यायवैशेषिकादिपु पञ्चसु वैदिकदर्श- नेषु महता प्रबन्धेन विविक्तात्मतत्त्वज्ञानमुपदिश्य पश्चादुत्तरमीमांसायां परमात्मनो ज्ञानमुपदिश्यते "अथातो ब्रह्मजिज्ञासा” इति । वि- विक्तात्मतत्त्वज्ञानस्य हि फलं मिथ्याज्ञानादिनिवृत्त्या त्रिविधदुःखात्यन्त- निवृत्तिः, परमात्मवेदनस्य च शाश्वतसुखोपभुक्तिः, तथा चाम्नातमुपनि- पत्सु. “यदा पश्यः पश्यते रुक्मवर्णम्" मुं. ३-१-३ "एको वशी सर्व भूतान्तरात्मा एक रूपं बहुधा यः करोति तमा- त्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम्" कठ. २-५-१२ इति । पश्या विविक्तात्मद्रष्टा, रुक्मवर्ण स्वप्रकाशं, शाश्वतं सुखं परमात्मनः स्वरूपभूतं सुखम् , अस्यैव नामान्तरं परमं पदं, परमं धाम, परमा गतिः, परमा शान्तिः। तच्चैतदात्मतत्त्वज्ञानमधिकारिणां श्रवणमननादिजनितसंस्कारसचिवेन धर्मविशेषात्सत्त्वोद्रित्तौनितरांशुद्धन मनसा जन्यते, परमात्मदर्शनन्तु विविक्तात्मतत्त्वेन खेनेति विशेष इति । उदयनाचार्य्यस्त्वभावोऽपि सप्तमः पदार्थोऽत्र सङ्ग्रहीतव्य इति मन्यते । तथा च तस्य किरणावल्यामुल्लेखः "एतेन भावपदार्था एव प्रधा- नतयोद्दिष्टा वेदितव्याः, अभावस्तु स्वरूपवानपि पृथ- इनोद्दिष्टा, प्रतियोगिनिरूपणाधीननिरूपणत्वान्नतु तुच्छ- ! त्वादिति । सोऽयमभावश्चतुर्विधः प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावो- ऽन्योऽन्याभावश्चेति । कार्य्यस्योत्पत्तेः पूर्वं योऽभावः स प्रागभावः । स चानादिः सन्नपि विनश्यति, विनाशश्च तस्य वस्तूत्पाद एव नातिरिक्तः , आहिकम्] प्रथमोऽध्यायः । कश्चित् । न च वस्तुनि निवृत्ते पुनः प्रागभावोपलब्धिप्रसङ्ग इति वाच्यम् । वस्तुवद् वस्त्ववयवानामपि प्रागभावविनाशरूपत्वाभ्युपगमात् । अतो वि- नाश्यभावत्वं प्रागभावत्वमिति निष्कर्षः । उत्पन्नस्य विनाशात्परं योऽभावः स प्रध्वंसाभावः, स चोत्पत्तिमानप्यनन्तो न कदाचिद्धट- वत्प्रध्वस्यते, तेन जथाभावत्वं प्रध्वंसाभावत्वमिति फलितार्थः । अथ कोऽयं प्रध्वंसस्योत्पादः ? प्रागसतः पश्चाद्भावः। कः पुनस्तस्य प्राग- भावः? यस्यार्थस्य यः प्रध्वंसः तस्यार्थस्य स्वरूपस्थितिरेव तत्प्रध्वंसस्य प्रा- गभावः-तन्नाशश्च ध्वंसोत्पत्तिरिति । यस्त्वेकत्र सतोऽर्थस्यान्यत्र त्रैका- लिकोऽभावः सोऽत्यन्ताभावः। स चानादिरनन्तो, न कदाचित्प्रसूयते, न वा कदाचित्प्रदूयते, नित्यत्वात् । अत एव नित्यसंसर्गाभावत्वम- त्यन्ताभावत्वमिति तन्निष्कृष्टं लक्षणम् । त्रयश्चैतेऽभाववादिनां संस- भावनाम्ना परिभाष्यन्ते । घटः पटो न भवति, पटश्च घटो न, इत्या- दिरूपो य एकस्य भावस्यान्यभावात्मनाऽभावः तादात्म्यसम्बन्धाव- च्छिन्नप्रतियोगिताकाभाव इति यावत् , सोऽन्योऽन्याभाव इति । कैश्चित्तूपजनापायशाली समयविशेषे प्रतीयमानः पञ्चमः सामयि- काभावोऽप्यभ्युपगम्यते । स चोदयनाचार्य्यस्य नात्यन्ताभावतोऽतिरि- च्यते । तस्य तत्प्रतीतौ च प्रतियोगिसम्बन्धस्य प्रागभावप्रध्वंसाभावौ नियामको, घटवति भूतले घटसम्बन्धस्य प्रागभावप्रध्वंसयोरसत्त्वाद् घटा- त्यन्ताभावस्य नित्यत्वेन तत्र सत्त्वेऽपि न तहुद्धिरिति सर्वमनवद्यम् । तत्र घटाभावाभावो घटवरूप इति वाचस्पतिमिश्राः "नो खल्वभावा- भावो नाम कश्चिदन्यो भावात् , नापि भावाभावोऽन्योs- भावादिति तात्पर्य्यटीकायामुक्तत्वात् । तृतीयाभावः स इति तु नवीनाः। तस्य च प्रथमाभावखरूपत्वान्नानवस्थादोषः । सामान्याभावस्तु विशेपा- भावसमुदायादतिरिक्त एवेति सर्वेषां समानम् । अभावत्वञ्च भावभिन्नत्व- मिति केचित् । निषेधमुखप्रतीतिविपयस्वमित्यपरे । द्रव्यादिपटकान्योऽन्या- भाववत्वमित्यन्ये । समवायान्यत्वे सत्यसमवायित्वमिति मानमनोहरकारः । तादात्म्यसम्बन्धावच्छिन्नभावत्वावच्छिन्नभावनिष्ठप्रतियोगितानिरूपितानु, ६ वैशेषिकदर्शनम् । [आयम् योगिताविशेषवत्त्वमित्यर्वाञ्चः । वैशेपिकाणाञ्चेमे चत्वारः पृथक्त्वभेद- विशेषत्वाद्गुणे तस्मिन्नन्तर्भवन्ति, नातो वैशेपिकाचार्यरेपोऽभावपदार्थः पृथगुद्दिष्टः। पृथक्त्वमयोगो वैलक्षण्यमनेकता चेत्यनान्तरम् , तेनायोगरूपे तस्मिन् प्रागभावादित्रयस्य, वैलक्षण्यरूपे चान्योऽन्याभावस्य तुरीयस्यान्त- र्भाव इति द्रष्टव्यम् ॥४॥ तत्र प्रथमोद्दिष्टस्य द्रव्यपदार्थस्य विभागमाह । पृथिव्यापस्तेजो वायुराकाशं का- लो दिगात्मा मन इति द्रव्याणि ॥५॥ पृथिवी-भूरापः वारि तेजः ज्योतिर्वायुः मरुदाकाशं व्योम काल:= समयो दिग-आशाऽऽत्मा क्षेत्रज्ञो मनः अन्तःकरणं-चित्तमिति एतानि नव द्रव्याणि-द्रव्यपदवाच्यानि-द्रव्यपदार्थ इत्यर्थः । तत्र पृथिव्यापस्तेज इति प्रथमानि त्रीण्यनित्यानि, वायुराकाशं कालो दिगामा मन इति चरमाणि पडू नित्यानि । तत्राप्यात्मा द्विविधो जीवात्मा परमात्मा च, तौ च द्वौ पृथिव्यादीनां मूलकारणं प्रकृतिश्चेति त्रीणि परमार्थतो नित्यानि । तत्त्वञ्चोत्पचिविनाशशून्यत्वं, प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वमिति यावत् । वायुराकाशं कालो दिडान इति च पञ्च चिरस्थायित्वाद् व्यवहारभूमौ नित्यानि । तत्रामोक्षं स्थायि मनः, तदि तरच्चतुष्टयञ्चामहाप्रलयम् । तत्र पृथिव्यादीनां यन्मूलकारणं तत्सांख्ययोग- वैदान्तिकानां प्रकृतिनाम्ना वैशेपिकगौतमजैमिनीयानाञ्च तदवस्थाविशेप- त्वात् परमाणुनाम्ना व्यपदिश्यते, त्रिगुणत्वञ्चोभयत्रोभयेषां समानमिति विवेकः । पृथिव्यादीनि चत्वार्यानित्यानि, तदितराणि पञ्च नित्यानीति केचित् यत्तु नवीनतराः केचिदाहुः । अत्रापां पृथग्वचनं न कर्तव्य, तासां विजातीयवायुद्वयसन्निपातजन्यत्वेन तद्रहणादेव ग्रहणोपपत्तेरिति । तद- युक्तम् । अपां विजातीयवायुद्वयसन्निपाताभिव्यङ्गयत्वेनाभिव्यञ्जकग्रहणाद्रह- णानुपपत्तेः । ययोर्हि वाय्वोः सन्निपातादाप उत्पद्यमाना दृश्यन्ते, तत्रापि ताः सूक्ष्मभूता विद्यन्ते, केवलं प्रक्रियाविशेषात्तदानीमभिव्यज्यन्ते। नचा-

.
आहिकम्]
प्रथमोऽध्यायः।
भिव्यज्यमानानां तासामभिव्यञ्जकग्रहणेन ग्रहणमुपपद्यते, अर्थान्तरभूत-
वात् । अतो युक्तं तासां वायोः पृथग वचनमिति ॥५॥
द्रव्यं विभज्य गुणपदार्थ विभजते ।
रूपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथक्त्वं
संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ
प्रयत्लाश्व गुणाः ॥ ६ ॥
गुरुत्ववस्वस्नेहसंस्कारधर्माधर्मशब्दाः इति सप्त चकारेण समुचिनोति
रूपादिशब्दान्ताश्चतुर्विंशतिर्गुणाः गुणपदवाच्या गुणपदार्थ इत्यर्थः ।
तत्र द्रवत्वं सांसिद्धिक नैमित्तिकञ्चेति द्विविधम् । वेगस्थितिस्थापक-
भावनाभेदात्संस्कारस्त्रिविधः । रूपरसगन्धस्पर्शस्नेहसांसिद्धिकद्रवत्वशब्दबुद्धि
सुखदुःखेच्छाप्रयत्नधर्माधर्मभावनासंस्काराः इति विशेषगुणाः । ते चामी
सामान्यविशेषवन्तः सन्तः स्वाश्रयभूतं द्रव्यं द्रव्यान्तराद् विशिंपन्ति=
व्यवच्छिन्दन्ति, तस्माद् विशेषगुणा इति व्यवह्रियन्ते । या हि जाति-
व्यविभाजकोपाधिद्वयसामानाधिकरण्यं न भजते न वा द्रव्यं कर्म चा-
धिशेते तादृक् जातिमत्त्वं, जातिमत्त्वे वा बाखैकेन्द्रियमात्रग्राह्यत्वं विशेष-
गुणवमिति तल्लक्षणं बोध्यम् ।
नवीनास्तु "भावनाऽन्यो यो वायुवृत्तिवृत्तिस्पर्शावृतिधर्मसमवायी तद-
न्यत्वे सति गुरुत्वाजलद्रवत्वान्यगुणत्वं विशेषगुणत्वमिति तल्लक्षणमाचक्षते ।
संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वनैमित्तिकद्रवत्वगुरुत्ववेगस्थि-
तिस्थापकसंस्काराः इति सामान्यगुणाः । न चैते विशेषगुणा इव खाश्रय-
भूतं द्रव्यं द्रव्यान्तराद् विशिषन्ति, सर्वान् प्रति समानत्वात् । तत्त्वञ्च वि
शेषगुणमिन्नगुणत्वमिति तेषां पर्य्यवसितं लक्षणम् । प्रतिद्रव्यञ्चैषां रूपा-
दिगुणानां विभागः कारिकासु पठ्यते.
स्पर्शादयोऽष्टी वेगाख्या संस्कारो मरुतो गुणाः।
स्पर्शाद्यष्टौ रूपवेगौ द्रवत्वं तेजसो गुणाः॥१॥
स्पर्शादयोऽष्टौ वेगश्च द्रवत्वञ्च गुरुत्वकम् ।
रूपं रसस्तथा लेहो वारिण्येते चतुर्दशः॥ २ ॥

स्युश्चतुर्दश। वैशेपिकदर्शनम् । [आयम् लेहहीना गन्धयुताः क्षितावेते चतुर्दश। बुद्धवादिषदं संख्यादिपञ्चकं भावना तथा ॥३॥ धर्माधर्मों गुणा एते आस्मनः संख्यादिपञ्चकं कालदिशो शब्दश्च ते च खे ॥४॥ संख्यादिपञ्चकं वुन्डिरिच्छा यत्नोऽपि चेश्वरे । परत्वापरत्वे संख्यादिपश्च वेगश्च मानसे ॥५॥ इति. केचित्तु शक्तिमपि गुणान्तरमाहुः। केचिद्रव्यान्तरं । वैशेषिकानाञ्च यस्य भावस्य या शक्तिः सा तद्रूपैव न ततोऽतिरिक्तेति न गुणान्तरं, तादा- म्येन वर्तमानत्वात् , गुणानाञ्च समवाय इति । तथा लघुत्वमपि सांख्या- दिवत् केचिद्गुणान्तरमाहुः । तत्तु युक्तं पश्यामः । संयोगविभागवत् परस्पर- प्रत्यनीकभावापन्नयोर्गुरुत्वलघुत्वयोरुभयोरपि स्वीकारस्यावश्यकत्वात् । ए- केनापरस्य सिद्धेः संयोगविभागयोरपि वक्तुं शक्यत्वात् । मृदुत्वकठिनत्वयो- स्त्ववयवसयोगविशेपात्मकत्वात् शौर्योदार्यकारुण्यदाक्षिण्यौग्र्यादीनाञ्चप्रय- नादिष्वन्तर्भावान गुणान्तरत्वं युक्तमिति पञ्चविंशतिर्गुणाः । तत्र वलव- तोऽपि परस्य पराजयाय प्रत्युत्साहः शौर्य प्रयत्नः, सतत सन्मार्गवर्तिनी बुद्धिरौदार्य्यम्, परदुःखप्रहाणेच्छा कारुण्यम्, तत्त्वाभिनिवेशिनी बुद्धिर्दा- क्षिण्यम् , आत्मन्युत्कर्षप्रत्यय औग्र्यं बुद्धिरिति विवेकः ॥ ६॥ कर्मविभागमाह । उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति क- माणि ॥७॥ येन कर्मणा वस्तूवं क्षिप्यते तदुत्क्षेपणम्, येनावाचीनं क्षिप्यते तद- वक्षेपणम्, उत्क्षेपावक्षेपौ तु संयोगविशेषौ, सत्यारम्भके संयोगे येनापरो- ऽवयवानां संयोगस्तदाकुञ्चनम् , येन तत्प्रतिद्वन्द्वी विभागस्तत्प्रसारणम् , यच्चान्यत्किञ्चिन्द्रमणरेचनस्यन्दनो+ज्वलनतिर्यग्गमनादिकं कर्म तत्सर्व गमनमिति एतानि पञ्च कर्माणि कर्मपदार्थ इत्यर्थः ॥७॥ द्रव्यगुणकर्माणि विभज्य तत्त्वज्ञानानुकूलत्वात्तेषां साधयेवैधर्म्य- प्रकरणमारभमाणः पूर्वन्तावद् द्रव्यगुणकर्मणां साधर्म्यमाह ।

आहिकम्] प्रथमोऽध्यायः । "सदनित्यं द्रव्यवत्कार्य कारण सामान्यविशेषव- दिति द्रव्यगुणकर्मणामविशेषः ॥ ८॥ अत्र प्रकरणे मूलकारणं प्रकृति जीवात्मानं परमात्मानञ्च विहाय शिष्टानां त्रयाणामविशेषो वा विशेषो वा द्रष्टव्यः । अथवोपाधि पुरस्कृत्य सर्वत्राव्याप्तिदोषः परिहरणीयः । भावप्रधानश्चेह निर्देशः । सत्-सत्तावत्त्वम्। अनित्य-विनाशित्वं भूत्वाऽभावित्वम् , अथवा ध्वंसप्रतियोगिवृत्तिपदार्थ विभाजकोपाधिमत्त्व तत्त्वम् । द्रव्यवत्-द्रव्यं समवायिकारणतयाऽस्यास्ती- तिद्रव्यवत्-द्रव्यसमवायिकारणकत्वम्, अथवा द्रव्यसमवायिकारणक- वृत्तिपदार्थविभाजकोपाधिमत्त्वं तत्त्वम् । कार्यम्-उत्पत्तिमत्त्वम् अभूत्वा भावित्वं पागभावप्रतियोगित्वम्, अथवा प्रागभावप्रतियोगिवृत्तिपदार्थ- विभाजकोपाधिमत्त्वं तत्त्वम् । कारण कार्य्यजनकत्वम्, अथवा ज्ञाने- तरकार्यनियतपूर्ववर्तिजातीयवृत्तिपदार्थविभाजकोपाधिमत्त्वं तत्त्वम् । तेन विषयतया स्वसाक्षात्कारे कारणे गोत्वादौ नातिव्याप्तिनवाऽजनके पारिमाण्डल्यादावव्याप्तिः । सामान्यविशेषवत् अनुवृत्तिहेतुत्वात्सामान्य व्यावृत्तिहेतुत्वाद्विशेषः, सामान्यञ्च तद्विशेषश्च ते सामान्यविशेषाःद्रव्य- त्वादयस्तद्वत्त्वमिति द्रव्यगुणकर्मणां त्रयाणामविशेषः विशेषणं 'विशेषः, न विशेषोऽविशेषः-समानो धर्मः साधर्म्यमिति यावदित्यर्थः । यथा सत्तादिमत्त्वं द्रव्यस्य तथा गुणकर्मणोरपि न तत्रास्ति कश्चि- द्विशेष इत्यविशेष इति भावः ॥ ८॥ त्रयाणां साधर्म्यमुक्त्वा द्वयोः साधर्म्यमाह- "द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम् ॥९॥ साधार्थकाविशेप इति पदानुवृत्तिसंभवेऽपि तत्रार्थान्तरभ्रमो माभू- दिति तदर्थविस्पष्टप्रतिपत्तये पुनः साक्षात्साधर्म्यपदमुपात्तम् । द्रव्यगु- णयोः द्रव्याणां गुणानाञ्च सजातीयारम्भकत्वं-खसमानजातीयारम्भकत्वं साधर्म्य-समानो धर्मः अविशेष इत्यर्थः ॥ ९॥ तदेव स्पष्टयति- "द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम्॥१०॥ २ १० वैशेषिकदर्शनम् । [आद्यम् द्रव्याणि-गृथिव्यादीनि द्रव्याणि द्रव्यमारभमाणानि सन्ति द्रव्यान्तरं- खसमानजातीयमेवान्यद् द्रव्यमारभन्ते प्रारभन्ते न विजातीयम् , तद्यथा पृथिवी पृथिव्यन्तरम्, आपोऽवन्तरं, तेजस्तेजोऽन्तरम्, एवं गुणाश्च रूपादयो गुणाश्च गुणमारभमाणा गुणान्तरं स्वसमानजातीयमेवान्य गुण- मारभन्ते, न विजातीयं, तद्यथा रूप रूपान्तरं, रसो रसान्तरं, गन्धो गन्धान्तरमित्यर्थः यद्यपि सूक्ष्मवाय्वाकाशयोः स्थूलवाय्याकाशारम्भकत्वमस्ति । तथापि स्थूलयोस्तयोः पृथिव्यादिवस्वसमानजातीयद्रव्यान्तरारम्भकत्वं नास्ति । न वा दिकालमनसा । न वा घटपटादीनां । न वा तत्र- त्यानां गुणानाम् । अतोऽत्रान्त्यावयविविभुद्रव्याणि तथाऽन्त्यावयविगुणान् द्वित्वद्विपृथक्त्वपरत्वापरत्वादिगुणॉश्च विहाय शिष्टयोर्द्रव्यगुणयोः सजाती- यारम्भकत्वं साधय द्रष्टव्यम् । अथवा सजातीयारम्भकवृत्तिप- दार्थविभाजकोपाधिमत्त्व तदर्थोऽध्यवसातव्यः ॥ १०॥ ननु यथा द्रव्याणि द्रव्यान्तरमारभन्ते, गुणाश्च गुणान्तरं, तथा कर्माणि कर्मान्तरमारभन्ते इति कुतो नोक्तं ? तत्राह- "कर्म कर्मसाध्यं न विद्यते ॥११॥ कर्म-पञ्चसु कर्मसु किमपि कर्म कर्मसाध्य कर्म साध्यम् आरभ्यं यस्य तत्तथा न विद्यते न भवतीत्यर्थः । कर्म ह्यत्युन्नं सद्विभागमुपजनयति, तस्य च स्वेनैवोत्पन्नेन तेनोपज- ननात्प्रयोजनान्तराभावे पुनस्तस्य तदर्थकर्मान्तरारम्भानुपपत्तेरिति भावः । यत्त्ववयवचलनेनावयविनि चलनाख्यं कर्म, न तत्कर्मजन्यम्, अपि च वेगजन्यमिति ध्येयम् ॥ ११ ॥ द्रव्यगुणकर्मणां साधर्म्यमुक्तम् । इदानी गुणकर्मभ्यां द्रव्यस्य वैधhमाह- न द्रव्यं कार्य कारणञ्च बधति ॥१२॥ द्रव्यं कर्मणि द्वितीया, कारणद्रव्यं कार्य्यद्रव्यञ्च कार्य कारणञ्च .

आहिकम्] प्रथमोऽध्यायः । - . . - यथासंख्यमन्वयः, कार्य्यद्रव्यं कारणद्रव्यञ्च न वधति सौत्रो निर्देशः, न बधयति-न हिनस्ति-न नाशयतीत्यर्थः । आश्रयनाशारम्भकसंयोगनाशाभ्यामेव द्रव्यनाशस्य ध्रौव्यादिति भावः ॥ १२ ॥ ननु गुणाः कीदृशः ? तत्राह- "उभयथा गुणाः ॥ १३ ॥ उभयथा-उभयप्रकाराः गुणास्तान् कार्य्यमपि बधति कारणमपि बधतीत्यर्थः। तद्यथादिमं शब्दं कार्य्यभूतः स्वोत्तरः शब्दः, अन्तिमञ्च तमुपान्त्यः कारणभूत इति ॥ १३॥ ननु कर्म कीडग् भवति ? तत्राह- "कार्यविरोधि कर्म ॥१४॥ कार्यविरोधि-कार्य-स्वजन्यमुत्तरसंयोगादि विरोधि-नाशकं यस्य । तत्तथा कर्मत्यर्थः। कर्म हि विभागोत्पादनानन्तरमुत्तरसंयोगमुत्पाद्य विनश्यतीति कार्य- विरोधि कर्मेति भावः ॥ १४ ॥ ननु यस्य द्रव्यस्येलभावो न तत् कार्य बधति; न कारणं, तस्य किंलक्षणं? तत्राह- "क्रियागुणवत्समवायिकारणमिति द्रव्यलक्षणम्॥१५॥ क्रियागुणवत्-भावप्रधानो निर्देशः । क्रियावत्त्वं गुणवत्त्वं समवायि- कारणत्वमिति त्रयं द्रव्यलक्षणं-द्रव्यस्य प्रथमोद्दिष्टद्रव्यपदार्थस्य लक्षणं समानासमानजातीयव्यवच्छेदकमित्यर्थः । यत्क्रियावद् , गुणवत् , समवायिकारणं, तद् द्रव्यमिति भावः । तत्र क्रियावत्त्वस्याकाशादौ गुणवत्त्वस्य चोत्पत्तिकालावच्छेदेन घटा- दावव्याप्तेः समवायिकारणमिति - तृतीयलक्षणमुपात्तम् । तदपि परमात्मानं न व्याप्नोति, 'तस्माद् द्रव्यत्वजातिमत्त्वं द्रव्यत्वमिति निर्दुष्टं लक्षणम् । -

१२
वैशेषिकदर्शनम् ।
[आयम्
अव्याप्तिरतिव्याप्तिरसंभवश्चेति त्रयो लक्षणदोषाः । तत्र लक्ष्यैकदेशावृत्ति-
त्वमव्याप्तिः । यथा गोः कपिलत्वम् । लक्ष्यवृत्तित्वे सत्यलक्ष्यवृत्तित्वम-
तिव्याप्तिः । यथा गोः शृङ्गित्वम् । लक्ष्यमात्रावृत्तित्वमसंभवः । यथा
गोरेकशफवत्त्वम् । एतद्दोषत्रयञ्च यत्र न विद्यते सोऽयमसाधारणो धर्मो
निर्दृष्टं लक्षणं, यथा गो. सालादिमत्त्वम् । असाधारणत्वञ्च लक्ष्यतावच्छे-
दकसमनियतत्वम् । यस्य लक्षणं क्रियते, तल्लक्ष्यं, तच्च यद्धर्मावच्छिन्न
स एव धर्मो लक्ष्यतावच्छेदक इति विवेकः ॥१५॥
ननु गुणस्य किं लक्षण ? तत्राह-
द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष
इति गुणलक्षणम् ॥ १६ ॥
द्रव्याश्रयी-द्रव्यमाश्रयितु शीलमस्य स द्रव्याश्रयी, तदेतद् द्रव्येऽ-
तिव्याप्तमतो विशिनष्टि अगुणवान् गुणवद्भिन्नः, तथापि कर्मणि गत-
मतो विशिनष्टि सयोगविभागेष्वकारणमनपेक्षः संयोगविभागेषु जनयितव्ये-
प्वनपेक्षः सन् कारणं कर्मपदार्थः, तद्भिन्नो यः स गुण इति गुणलक्षण-
गुणपदार्थलक्षणमित्यर्थः ।
यो द्रव्यमाश्रयति, गुणवॉश्च न भवति, न चानपेक्षः सन् संयोगवि-
भागेषु कारण भवति, स गुण इति भावः ।
यद्यप्येतल्लक्षण सामान्यादिष्वप्यतिप्रसज्यते, तथाप्याचास्तेिषां व्य-
तिरेकं कर्मवन्नाभिदधति, तेन स्पष्टमवगम्यते न सामान्यादयो द्रव्यादि-
समाः पदार्थाः, किन्तु तच्छेषत्वादुपपदार्था इत्यनतिप्रसक्तिः । अथवा
तत्रातिप्रसक्तिवारणाय सामान्यवान् इत्यधिक लक्षणे निवेशनीयम् । सा
मान्यादयस्तु न सामान्यवन्तः । गुणत्वजातिमत्त्व वा गुणत्वमिति लक्षणं
निश्चयम् ।। १६॥
ननु कर्मणः कि लक्षणं ? तत्राह----
"एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति क-
मलक्षणम् ॥ १७ ॥

आहिकम् प्रथमोऽध्यायः। १३ एकद्रव्यम्-एकमेव द्रव्यमाश्रयो यस्य तदेकद्रव्यम्, अगुण-न विद्यते गुणो यस्मिन् तद्गुणं, संयोगविभागेष्वनपेक्षकारणं सयोगविभागेषु जनयितव्येषु स्वोत्पत्त्यनन्तरोत्पत्तिकं भावान्तरं नापेक्षते कारणञ्च भवति यत् तत्कर्मेति कर्मलक्षणं-कर्मपदार्थलक्षणमित्यर्थ. । कर्म हि स्वयमुत्पन्नं संयोगविभागौ जनयति, तज्जनने च कर्म यद्यपि समवायि द्रव्यं पूर्वसंयोगनाशश्चापेक्षते, तथापि न तद्र्व्यं कर्मोत्पत्त्यनन्तरो- त्पत्तिकं, नापि पूर्वसंयोगनाशो भाव इति संयोगविभागेष्वनपेक्षकारणं सद् यद् गुणवन्न भवति द्रव्यञ्चैकमाश्रयति तत्कर्मेति भावः ॥ १७ ॥ ननु किं पुनरेषां साधर्म्य ? तत्राह- "द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम् ॥ १८॥ द्रव्यगुणकर्मणां-पूर्वोक्तलक्षणानां द्रव्यगुणकर्मणा द्रव्य कारणम्-ए- कद्रव्यकारणकत्वं सामान्य समानानां द्रव्यगुणकर्मणामिदं सामान्य-सा- धर्म्यमित्यर्थः । द्रव्यं द्रव्यमारभते गुणं कर्म चेति स्वसमवेतानां द्रव्यगुणकर्मणां कारण द्रव्यमित्येष तेषां समानो धर्म इति भावः ॥ १८ ॥ साधान्तरमाह- "तथा गुणः ॥ १०॥ द्रव्यगुणकर्मणां कारणं सामान्यमित्यनुवर्तते । द्रव्यगुणकर्मणां यथा द्रव्य कारणं तथा गुण इति द्रव्यगुणकर्मणामेकगुणकारणकत्वं सामा- न्यमित्यर्थः। तत्र कारणद्रव्यसंयोगः कार्य्यद्रव्यस्य, कारणरूपादिकं कार्य्यरू- पादेः, गुरुत्वादिकश्चोत्क्षेपणादिकर्मण. कारणमित्युदाहरणविवेकः ॥ १९॥ साधान्तरमाह- "संयोगविभागवेगानां कर्म समानम् ॥ २० ॥ कारणमित्यनुवर्तते । संयोगविभागवेगानां सयोगस्य विभागस्य वेगस्य च कर्म कारणं-कर्मकारणकत्वं समान-समानो धर्म इत्यर्थः ।

१४ वैशेषिकदर्शनम् । [आद्यम् " - कर्म हि किञ्चित्संयुनक्ति वियुनक्ति च किञ्चिद् वेगञ्चादधाति क्वचिदिति संयोगविभागवेगानां कर्म कारणं समानमिति भावः । तत्र शरादौ जायमानं कर्म धनुरादिना तद्विभागस्योत्तरदेशेन च तत्सयोगस्य स्वाश्रये च वेगस्य कारणमित्युदाहरणविवेकः ।। २० ।। ननु सयोगविभागवेगानां कर्म कारणं समानमिति न्यूनमुच्यते, द्र- व्याणामित्यपि वक्तव्यं, कर्मारब्धेनैवारम्भकसयोगेन तदुत्पत्तेस्तत्राह- "न द्रव्याणां कर्म ॥ २१ ॥ कारणमित्यनुवर्तते । द्रव्याणां कर्म कारणं न भवतीत्यर्थः ॥ २१ ॥ ननु कस्माद् द्रव्याणा कर्म कारणं न भवति ? तत्राह- "व्यतिरेकात् ॥ २२॥ द्रव्योत्पत्तिवेलायां कर्मणो व्यतिरेकात्-अभावादित्यर्थः । कर्म ह्यारम्भकसयोगं निर्वयं निवर्तते, द्रव्यञ्च निवृत्ते तस्मिन्नुत्पद्यते । चेद्रव्याणां कर्म कारणं भवेत् तदाऽवश्यं तदुत्पत्तिपर्यन्तमवतिष्ठेत । न चावतिष्ठते । विनश्यदवस्थस्य च कारणत्व नोपपद्यते । तस्मात्परम्परया कारणं सदपि कर्म साक्षाव्याणां कारणं न भवति । साक्षाच्च कारणत्व. मत्र विवक्षितमिति भाव ॥२२॥ कारणमुखेन सामान्यमुक्त्वा कार्यमुखेन तदाह- "द्रव्याणां द्रव्यं कायं सामान्यम् ।। २३ ॥ द्रव्याणाम् एकशेपोऽत्र समासः, द्रव्ये च द्रव्याणि च, द्रव्याणि, तेषां द्रव्याणां द्रव्यंकार्य-द्रव्यकार्यकत्व सामान्य समानभावः साधर्म्य- मित्यर्थः । यथा द्रव्याणां द्रव्य कारण तथा द्रव्य कार्यमिति द्रव्यकारणभाववद् द्रव्यकार्यभावोऽपि तेपां सामान्यमिति भावः । तत्र घट. कपालयो पटश्च तन्तूना कार्य्यमित्युदाहरणविवेकः॥२३॥ ननु यथा गुणा द्रव्यमाश्रयन्ति तथा कर्माण्यपि, तथा च गुणाना गुण इन कर्मणामपि कर्म कार्य सामान्यं स्यात् , तत्राह - -

आह्निकम् ]
प्रथमोऽध्यायः ।
१५
"गुणवैधान्न कर्मणां कर्म ॥ २४ ॥
कार्यमित्यनुवर्तते । गुणवैधात् सजातीयारम्भकत्वं गुणानां सा-
धर्म्य, तद्विरुद्धं वैधर्म्यम् । अथवा द्रव्याश्रयत्वं साधर्म्य, तद्विरुद्धं
कर्मत्वं वैधय, तदाश्रयत्वाकर्मणां कर्म कार्य न भवतीत्यर्थः ।
द्रव्याश्रयत्वाविशेषेऽपि यथा कारणगुणा रूपादयः कार्यगुण रूपा-
दिकमारभन्ते न तथाऽवयवकर्माण्यवयविनि कर्मेति गुणसाधर्म्यात्प्राप्त
गुणवैवात्प्रतिपिध्यते । तत्र पूर्वन्तावत्कारणसामान्यमाश्रित्य “कर्म
कर्मसाध्यं न विद्यत" इत्युक्तम्, अत्र तु कार्य्यसामान्यमित्यपौनरु-
क्त्यमिति द्रष्टव्यम् ॥ २४ ॥
द्रव्याणा द्रव्यं कार्यमुक्त्वा गुणः कार्यमाह-
"द्वित्वप्रभृतयः संख्याः पृथक्त्वसंयोगविभागाश्च ॥२६॥
कार्यमित्यनुवर्तते । द्रव्याणामिति शेपः । द्वित्वप्रभृतयः संख्याः द्वि-
वादिकाः पराद्यपर्यन्ताः संख्याः पृथक्त्वसंयोगविभागाश्च द्विप्रभृति-
पृथक्त्वानि संयोगश्च विभागश्च द्रव्याणां कार्य्यम् अनेकद्रव्यसामान्यका-
>मित्यर्थः ।
द्रव्याणा सामान्यकार्य गुणः संख्यादिरिति संख्यादीनामनेकद्रव्य-
कार्य साधर्म्यमिति भावः ।। २५ ।।
ननु यथा द्वित्वप्रभृतयः सख्याः पृथक्त्वसंयोगविभागाश्च द्रव्याणां
सामान्यकार्य, तथा कर्मापि तेषां सामान्यकार्य्य किन्न स्यात् ?
तत्राहर
"असमवायात्सामान्यकार्य कर्म न विद्यते ॥ २६ ॥
द्रव्याणामिति शेपः । असमवायात्-द्वयोर्वा वहुयु वा द्वित्वप्रभृतिसं-
ख्यादिवत्कर्मणो व्यासज्यसमवायाभावात्कर्म द्रव्याणां सामान्यकार्य न
विद्यतेन भवतीत्यर्थः ।
यथा हि द्वित्वप्रभृतिसंख्यादयो गुणा द्रव्ययोर्द्रव्येषु वा व्यासज्य समव-
यन्ति, न तथा कर्म द्वयोर्वा बहुपु वा तेषु समवैति । तस्मात्संख्यादिवन्न
तद्रव्याणा सामान्यकार्य सभवतीति भावः ॥ २६॥

१६ वैशेपिकदर्शनम् । [आद्यम् द्रव्याणां द्रव्यं सामान्यकार्यमुक्तम् । इदानी गुणानां द्रव्यं सामान्य- कार्यमाह- "संयोगानां द्रव्यम् ॥ २७॥ सामान्यकार्यमित्यनुवर्तते । सयोगानाम् तन्तुप्रभृतिलक्षणावयव- संयोगानां द्रव्यं-पटादिकमवयविलक्षणं द्रव्यं सामान्यकार्यमित्यर्थः । यथाह्येकः संयोगः कारणं द्रव्यस्य, तथैव सर्व संयोगा इति भवति सर्वेषां तेपां सामान्यकार्य द्रव्यमिति भावः ॥ २७ ॥ गुणानां द्रव्यमेकं कार्यमुक्त्वा गुणमेकं कार्यमाह- "रूपाणां रूपम् ॥ २८॥ सामान्यकार्य्यमित्यनुवर्तते । रूपाणां तन्तुप्रभृतिगतानामवयवरूपाणां रूप-पटादिगतमवयविरूप सामान्यकार्यमित्यर्थः । यथा रूपाणां सामान्यकार्य रूपं, तथा रसगन्धस्पर्शस्नेहसांसिद्धि- कद्रवत्वैकत्वैकपृथक्त्वपरिमाणवेगस्थितिस्थापकगुरुत्वानां सामान्यकार्य रसादिक व्याख्यातं द्रष्टव्यम् ॥ २८॥ गुणाना गुणमेकं कार्य्यमभिधाय कर्मैकं कार्यमभिधत्ते- "गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम् ॥ २९॥ सामान्यकार्यमित्यनुवर्तते । गुरुत्वप्रयत्नसंयोगानाम् उत्क्षेप्योत्क्षेप्मृह- स्तगानां गुरुत्वप्रयत्नसंयोगानामुत्क्षपेणं लोष्टाद्युत्क्षेप्यगतमुत्क्षेपणं कर्म सा- मान्यकार्यमित्यर्थः। एतेनावक्षेपणादिकं कर्म गुरुत्वादीनां सामान्यकार्यमित्यपि व्याख्यातं विज्ञेयम् । यथाहि गुरुणो लोप्टादेरात्मन. प्रयत्नेन हस्तसयोगेन चोत्क्षेप- णमुत्पद्यते, तथैवावक्षेपणादिकमितिगुरुत्वादीनां सामान्यकार्यमुत्क्षेपणादिकं कर्मेति भावः ॥ २९॥ गुणकार्यमुक्त्वा कर्मकार्यमाह- "संयोगविभागाश्च कर्मणाम् ॥ ३० ॥ सामान्यकार्य्यमित्यनुवर्तते । चकारेण वेग समुचिनोति । सयोगवि- १७ आह्निकम्] प्रथमोऽध्यायः । भागाश्व-संयोगो विभागो वेगश्च कर्मणाम्-उत्क्षेपणादीनां कर्मणां सा- मान्यकार्यमित्यर्थः ॥ ३०॥ ननु चेत्संयोगविभागादिकमेव कर्मकार्य न द्रव्यकर्मणी, तदा "संयोगविभागाश्च कर्मणां न द्रव्यकर्मणी" इति कुतो न सूत्रितं ? तत्राह । "कारणसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तम् ॥३१॥ कारणसामान्ये- कारणमुखेन सामान्याभिधानसमये द्रव्यकर्मणां-द्र- व्यस्य कर्मणश्च कर्माकारणं-कारणं न भवतीत्युक्तं "न द्रव्याणां कर्म" "कर्म कर्मसाध्यं न विद्यते" इति सूत्राभ्यामुक्त- मित्यर्थः । न पुनरिह तदानेडनापेक्षेति भावः ॥ ३१॥ मेयोद्देशो विभागोऽथ सामान्यश्च विशेषकम् ।। अर्थस्य लक्षणञ्चास्मिन्नाहिके सम्प्रकीर्तितम् ॥१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्य्यात्मारामभगव- त्पादशिष्यहरिप्रसादकृतायां वैशेषिकसूत्रवैदिकवृत्ती प्रथमाध्यायस्याद्यमाह्निकम् ।

- १८ वैशेषिकदर्शनम् । [द्वितीयम् प्रथमोऽध्यायः। द्वितीयमाह्निकम् । ननु यदेतत्कारणसामान्य कार्य्यसामान्यञ्च द्रव्यगुणकर्मणामभिहितं, तत्कार्यकारणस्वरूपाज्ञाने न सुबोधम् , अतः कारणमिदं कार्यश्चेदमिति येन सम्यगवसेयं, तद्वक्तव्यं, तत्राह- "कारणाभावात्कार्याभावः ॥१॥ सामग्र्यन्तरसत्त्वेऽपि यस्याभावान्नियमेन यस्याभावस्तत्तस्य कारणं, कार्य्यञ्चैतस्य तदित्यवसातव्यम् ? कुतः । यतः कारणाभावात् कारणा- भावादेव का भावः नियमेन कार्याभावो भवतीत्यर्थः । कारणसत्त्वे कार्यसत्त्वं, कारणाभावे च का-भाव इति ध्रुवो नियमः । तस्माद् यस्य भावाद्भावोऽभावाच्चाभावो भवेत् , तदेव नियत- पूर्ववृत्तित्वात्कारणं यथाबीजं, तद्भावभावि तदभावाभावि चेतरत्कार्य यथाऽङ्कुर इति निश्चेतव्यमिति भावः ॥१॥ ननु कारणाभावाद् यथा कार्याभावस्तथा कार्याभावात्कारणाभा- वोऽपि सेत्स्यति, तथाच व ते नियमध्रौव्यं, तत्राह- "नतु कार्याभावात्कारणाभावः ॥२॥ कारणापेक्षया कार्य्यस्याल्पत्वेन कार्याभावात्कारणाभावो नतु-नैव भवतीत्यर्थः। व्यापकं हि कारणं, कार्य्यच व्याप्यं, न च व्याप्याभावाद् व्याप• काभावो युज्यते, अतस्तदवस्थं तन्नियमध्रौव्यमिति भावः । एतेनेमप्युपदिष्टं भवति-यन्मिथ्याज्ञाननिवृत्तौ सत्यामेव दोपादिनिवृत्त्या दुःखात्यन्तनिवृत्तिर्भवति, न दुःखात्यन्तनिवृत्तौ जन्मा- दिनिवृत्त्या मिथ्याज्ञाननिवृत्तिः । मिथ्याज्ञानस्य कारणत्वात् । दोषादेश्व कार्यत्वात् । तस्मान्मुमुक्षुभिः शिष्यैर्दुःखात्यन्तनिवृत्तिमुद्दिश्य मिथ्याज्ञान- निवृत्यर्थमेव यतनीयं, न दुःखात्यन्तनिवृत्यर्थम् । मिथ्याज्ञाननिवृत्तिश्चा- . आह्निकम्] प्रथमोऽध्यायः । १९ त्मतत्त्वज्ञानात्, तच्च साधर्म्यवैधाभ्यां पदार्थतत्त्वज्ञानात्, तच्च सां- ख्यादिवद्वैशेषिकाच्छास्त्रानियमेन भवतीति सर्वथोपादेयमिदं वैदिकं वैशे- पिकं शास्त्रमिति |॥२॥ प्रथमोद्दिष्टानां द्रव्यगुणकर्मणां यथाक्रमं लक्षणमुक्तम् । तस्वरूपवि- वेकोपयुक्तं साधये वैधर्म्यञ्च किञ्चिन्निरूपितम् ।. किं कारणं किञ्च का- >मिति सम्यक्समाहितम् । इदानीमुद्देशक्रमप्राप्तस्य सामान्यपदार्थस्य लक्षणपरीक्षे प्रवर्तयिष्यन् तत्र बहुवादिविप्रतिपत्तिमुपलभमानः पूर्वन्तावत्त- सद्भावे प्रमाणमाह- "सामान्य विशेष इति वुद्ध्यपेक्षम् ॥ ३॥ द्रव्यगुणकर्मणां समानो धर्मः द्रव्यगुणकर्मवृत्तिभाव इति यावत्सामा- न्यम्, तेषामेवैकैकमात्रवृत्तित्वात्सामान्यविशेषो विशेषः, इति इत्येतत्सा- मान्यद्वयं बुद्ध्यपेक्षम् अनुवृत्ता व्यावृत्ता वा वुद्धिरपेक्षा लक्षणं-प्रमाणं यस्मिन् , तत्तथेत्यर्थः । येयं मिथो मिन्नेषु द्रव्यगुणकर्मस्खभिन्ना बुद्धिः द्रव्यं सद् गुणः सन् कर्म सदित्यादिलक्षणा समाना बुद्धि'-अनुवृत्तबुद्धिरिति यावत्, न सा वस्तुभूतं निमित्तमन्तरेण संभवति, यदस्याः निमित्तं तदेव सामान्यम् । एवं यन्निमित्ता द्रव्यं गुणः कर्मेति प्रत्येकं विशेषबुद्धिः व्यावृत्तबुद्धिरिति यावत् , साऽवान्तरविशेषापेक्षया सामान्यं सद्विशेष इत्यनुवृत्तबुद्ध्यपेक्षं सा- मान्यं व्यावृत्तवुद्ध्यपेक्षश्च विशेप इति भावः । इमत्र बोध्यम् । यद्धि व्यवहारभूमौ नित्यं सदनेकासु व्यक्तिषु समवैति, तदेव वैशेषिकाणां सद्मनि सामान्यमिति गीयते । तच्च सामान्य- विशेषभेदाद् द्विविधम् । भिन्नेष्वधिकरणेषु यत्समानां बुद्धिं प्रसूते येन च बहूनीतरेतरतो न व्यावर्तन्ते तत्सामान्यम् । यश्च केषाञ्चिदभेदं कुत- श्चिद्भेदं कुरुते स सामान्यविशेषः । सोऽयं जातिरित्याख्यायते । तत्रायं द्रव्यगुणकर्मवृत्तितया महाविषयत्वात्परसामान्यं । द्वितीयश्च द्रव्यमान- गुणमात्र-कर्ममात्रवृत्तितया तदपेक्षयाऽल्पविषयत्वादपरसामान्यमिति परि- .

Ayu २० वैशेषिकदर्शनम् । [द्वितीयम् भाष्यते । परत्वं व्यापकत्वम् । अपरत्वं व्याप्यत्वम् । यदेतत्परसामान्य तदेव सत्ता भाव इति नामभाक् । सा च द्रव्यगुणकर्मसु समवायसम्ब- न्धेन वर्तते, सामान्यविशेषसमवायेषु चैकार्थसमवायेन तस्याः प्रतीतिमात्रं, न परमार्थतस्तत्र तद्वृत्तिरिति सिद्धान्तः । अपरसामान्यञ्च द्रव्यगुणकर्मणा- मेकैकमात्रसमवेत सत्ताव्याप्यं द्रव्यत्वं गुणत्व कर्मत्वमिति त्रयम् । तच्चै- तत्सत्ताव्याप्यत्वादपरसामान्यं सत् पृथिवीत्वरूपत्वोत्क्षेपणत्वादिव्यापकत्वात्प- रसामान्यमपि सम्पद्यते । व्यापकत्वात्पराऽपि स्याद् व्याप्यत्वादपराऽपि चेत्यभ्युपगमात् । एवं पृथिवीत्वादावपि घटत्वाद्यपेक्षया परत्वं द्रव्यत्वाद्य- पेक्षया चापरत्वमूहनीयम् । यथा च परसामान्यं सत्ता द्रव्यगुणकर्मस्लेव वर्तते सामान्यविशेपसमवायेषु, तथाऽपरसामान्यमपि द्रव्यगुणकर्मवेव वर्तते न सामान्यादिषु । तत्रापि न व्योनि न काले न दिशि । तत्र सर्वत्र तबाधकस्य सद्भावात् । तत्सङ्ग्रहश्चोदयनाचार्येण किरणावल्यां दर्शितः । "व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथाऽनवस्थितिः। रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः ॥ इति । स्वाश्रयव्यक्तेरैक्यं व्यक्तेरभेदः, तेनाकाशत्वं कालत्वं दिक्त्वञ्च न जातिः, अनेकवृत्तित्वाभावात् । अन्यूनानतिरिक्तव्यक्तिकत्वं-वभिन्नजातिसमनि- यतत्वं तुल्यत्वं, तेन घटत्व कलशत्वञ्चोभयं न जातिः, किन्त्वेकम् । परस्परात्य- न्ताभावसमानाधिकरणयोधर्मयोरेकत्र समावेशः सङ्करः, तेन भूतत्वं मूर्त- त्वञ्च न जातिः, भूतत्वं विहाय मूर्त्तत्वं मनसि, मूर्त्तत्वं विहाय भूतत्वमाकाशे, पृथिव्यादौ च तदुभयोः समावेशः, तस्मान्नोभयं जातिः, किन्तूपाधिः । अनवस्थितिरनवस्था, तेन सामान्ये न सामान्यान्तरम् । स्वतो व्यावर्तकत्वा- त्मकरूपस्य हानी रूपहानिः, तेन विशेषपदार्थे विशेषत्वं न जातिः, तस्य स्वरूपतो व्यावर्तकत्वस्वीकारात् । जातिस्वीकारे तु स तयैव व्याव- तकः स्यात् , न स्वरूपेण, सामान्याश्रयस्यार्थस्य सामान्यमुखेनैव व्याव- तकत्वनियमात् । सम्बन्धाभावोऽसम्बन्धः, तेन समवायत्वं न जातिः । समवाये समवायान्तरानङ्गीकारात् । जातेश्च समवायेन वृत्तित्वनियमात् ।

. आदिकम्] प्रथमोऽध्यायः। २१ नापि सामान्यादिपु वर्तमानाः सामान्यत्वादयोऽखण्डोपाधिः । तस्यापि जातिकल्पत्वात्, किन्तु सखण्डोपाधिः । उपाधिदैविध्यस्योरसिकरणात् । यस्तावन्न निर्वक्तुं शक्यते जातिवत् सोऽखण्डोपाधिः, यश्च तथा शक्यते स सखण्डोपाधिः । तत्र "नित्यत्वे सत्यनेकसमवेतत्वं सामान्यत्वम्, स्वपर- व्यावर्तकस्वभावत्वं विशेषत्वम् , नित्यसम्बन्धत्वं समवायत्वम्, शब्दसमवा- यिकारणत्वमाकाशत्वम् , अतीतादिव्यवहारहेतुत्वं कालत्वम् , प्राच्यादि- व्यवहारहेतुत्वं दिक्त्वमिति । तत्र नामधेयेन पदार्थमात्रस्याभिधानमुद्देशः । विभागोऽप्युद्देश एव, तत्रापि पदार्थमात्राभिधानेनोद्देशलक्षणसत्त्वात् । उद्दिष्टस्य तत्त्वव्यवच्छेद- कोऽसाधारणो धर्मो लक्षणम् । लक्षितस्य लक्षणमुपपद्यते न वेति प्रमाणे- रवधारणं परीक्षा । पृथिव्यप्तेजोवायुमनांसि मूर्त्तानि । क्रियाश्रयत्वं मूर्त- त्वम् । क्षितिजलज्योतिरनिलान्तरिक्षाणि पञ्च भूतानि । बहिरिन्द्रियग्रा- ह्यविशेषगुणवत्त्वं भूतत्त्वमिति विवेकः । यदा द्रव्यगुणकर्मलक्षणानन्तरमुद्देशक्रमप्राप्त सामान्यपदार्थ लक्षण- परीक्षाभ्यामवधारयिष्यन् पूर्वन्तावत्परिभाषासूत्रमाह । “सामान्य वि- शेष इति बुद्ध्यपेक्षम्" यत्सामान्यं सामान्यविशेष इति इत्येतद- भिधानं, तदेकस्मिन्नेव द्रव्यगुणकर्मणां भावभूते सामान्यपदार्थे बुद्धयपे- क्षम् अनुवृत्तव्यावृत्तबुद्धयपेक्षं मन्तव्यमित्यर्थः । समानानां द्रव्यगुणकर्मणां भावेषु तावत्सामान्यमिति व्यपदेशो भवति, तत्राप्यनुवृत्तबुद्धयपेक्षया सामान्य व्यावृत्तबुद्धयपेक्षया च सामान्यविशेष इति व्यपदेशो मन्तव्य इति भावः ॥ ३ ॥ ननु यदेतजुद्धिप्रमाणकं सामान्यतद्विशेषभेदभिन्नं सामान्यमभिहितं, तत्समानानां द्रव्यगुणकर्मणामनागन्तुको धर्मो वक्तव्यः स च नाना- विधः, तत्र कोऽसौ 'धर्मः सामान्यमेव भवति न सामान्यविशेष इति वक्तव्यं, तबाह ।। "भावोऽनुवृत्तरेव हेतुत्वात्सामान्यमेव ॥४॥ 1 -- " ? २२ वैशेषिकदर्शनम् । [द्वितीयम् भावः-सत्ताख्यं परसामान्यमनुवृत्तेरेव-व्यावृत्तिव्यवच्छेदायैवकारः, अ- नुवृत्तबुद्धेरेव हेतुलात-कारणत्वात्सामान्यमेव-विशेषव्यावृत्त्यर्थमेवकारः सामान्यसंज्ञकमेव भवति, न कदापि विशेषाख्यां लभत इत्यर्थः ॥ ४ । ननु केषान्तर्हि सामान्यानां सतां विशेषसंज्ञा ? तत्राह । "द्रव्यत्वं गुणत्वं कर्मत्वञ्च सामान्यानि विशेषाश्च॥५॥ द्रव्यत्वं गुणत्वं कर्मत्वञ्चेत्यत्र समासाभावो मिथो व्याप्यव्यापकभावा. भावसूचनार्थः, चस्तु पृथिवीत्वरूपत्वोत्क्षेपणत्वादीनां द्रव्यत्वादिव्याप्यापर- सामन्यानां समुच्चायकः, तथाच द्रव्यत्वगुणत्वकर्मत्वादीनि सामान्यानि सामान्यानि सन्ति विशेषाश्च-विशेषसंज्ञकान्यपि भवन्तीत्यर्थः । तत्र सत्तापेक्षया न्यूनदेशवृत्तित्वाद् द्रव्यत्वादीनां विशेषत्वम् अपर- त्वम् । स्वव्याप्यपृथिवीत्वाद्यपेक्षया चाधिकदेशवृत्तित्वात्सामान्यत्वं परत्वम् । एवं पृथिवीत्वादीनामपि द्रव्यत्वाद्यपेक्षयाऽपरत्वं घटत्वाद्यपेक्षया च परत्व- मिति विवेकः ॥५॥ ननु किं द्रव्यादीनां सर्वे भावाः सामान्यानि विशेषाश्चेति सार्वत्रिको नियमः? तत्राह। "अन्यत्रान्त्येभ्यो विशेषेभ्यः॥ ६॥ सामान्यानि विशेषाश्चेत्यनुवर्तते, अन्त्येभ्यः अन्ते अन्तिमावयविनि भवा अन्त्यास्तेभ्यो विशेषेभ्यः घटत्वपटत्वादिविशेषेभ्योऽन्यत्र-द्रव्यत्वादिषु सामान्यानि विशेषाश्चेति नियम इत्यर्थः । यथा घटत्वपटत्वादयोऽन्त्या विशेषा विशेषा एव भवन्ति न सामा- न्यानि, तथान्त्यं सत्तासामान्यमपि सामान्यमेव भवति न विशेष इति न विस्मर्तव्यम् । अथवा सामान्यानि विशेषाश्चेत्युपश्रुत्य विशेषपदार्थे सन्दिहानं प्रत्याह-"अन्यत्रान्त्येभ्योविशेषेभ्यः" अन्त्येभ्यः अन्तेअवसाने भवन्तीत्यन्त्याः, येभ्योऽपरे विशेषा न सन्तीत्युदयनाचार्यः, अन्ते-उ- सादविनाशयोरवसाने भवन्तीत्यन्त्याः नित्यद्रव्याणि, तेषु भवा अन्त्या आह्निकम्] प्रथमोऽध्यायः । २३ - इति वृत्तिकृतः, तेभ्यो विशेषेभ्यः-विशेषपदार्थेभ्योऽन्यत्र सामान्यपदार्थे सामान्य विशेषइति संज्ञा नतु विशेषपदार्थे इत्यर्थः । अन्त्येषु भवत्वादन्त्याः, खाश्रयविशेषकत्वाच विशेषाः । ते चात्यन्तव्यावृत्तिहेतुत्वाद् विशेषा एव, प्रतिनित्यद्रव्यमेकत्वाच्चानन्ता इति निश्चेतव्यम् ॥ ६॥ ननु सत्तायाः किं लक्षणं ? तत्राह- "सदिति यतो द्रव्यगुणकर्मसु सा सत्ता ॥७॥ यतः यन्निमित्तको द्रव्यगुणकर्मसु-द्रव्येषु गुणेषु कर्मसु च सदिति- सद् द्रव्यं सन् गुणः सत् कर्मत्याकारकः प्रत्ययः शब्दप्रयोगो वा भवति, सा सत्तेत्यर्थः ॥ ७॥ ननु द्रव्यगुणकर्मखरूपैव सत्ता, न ततोऽर्थान्तरं भवितुमर्हति स- दिति व्यवहारस्य स्वरूपेणाप्युपपत्तेस्तत्राह- "द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता ॥८॥ अनुवृत्त्या सत्तापदलाभेऽपि पुनस्तद्ग्रहणं विस्पष्टप्रतिपत्त्यर्थम् । द्र- व्यगुणकर्मभ्यः-द्रव्येभ्यो गुणेभ्यः कर्मभ्यश्चार्थान्तरम् अन्यः पदार्थः सत्ता-सत्ताख्यं परसामान्यमित्यर्थः । द्रव्यगुणकर्मवरूपस्याननुगतत्वेनानुगतव्यवहाराप्रयोजकत्वादिति भावः ॥ ८॥ अर्थान्तरत्वमेवोपपादयति- "गुणकर्मसु च भावान कर्म न गुणः ॥९॥ पूर्वसूत्रमनुवर्तते । गुणकर्मसु च-गुणेषु कर्मसु च भावात् वर्तमान- त्वान्न कर्म न गुणो न द्रव्यमित्यपि द्रष्टव्यं, किन्तु द्रव्यगुणकर्मभ्योऽर्था- न्तरमित्यर्थः । चेत्सत्ता द्रव्यगुणकर्मरूपा भवेत् , तदा गुणकर्मसु न वर्तेत, द्रव्य गुणकर्मणां गुणकर्मसु वृत्तित्वासिद्धेः । सत्ता च गुणकर्मसु वर्तते । तस्मा तेभ्यः पदार्थान्तरमिति भावः ॥९॥ - २४ वैशेषिकदर्शनम् । [द्वितीयम् अर्थान्तरत्वे हेत्वन्तरमाह- "सामान्यविशेषाभावेन च ॥१०॥ द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्तेत्यनुवर्तते । पूर्वोक्ता द्रव्यत्वादयः सामा- न्यविशेषास्तदभावेन च तदभाववत्त्वेनापि हेतुना द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्तेत्यर्थः। चेत्सत्ता द्रव्यगुणकर्मभ्योऽर्थान्तरं न स्यात् तदाऽवश्यं द्रव्यादिवत् सामान्यविशेपवती स्यात् । न च द्रव्यत्वादयः सामान्यविशेषाः सत्तायां वर्तन्ते । तस्माद् द्रव्याद्यात्मिका सत्ता न, किन्तु पदार्थान्तरमिति भावः ॥ १०॥ द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्तेति प्रमाणैरवधारितम् । इदानीमपरसा- मान्यं द्रव्यत्वं तेभ्योऽर्थान्तरं प्रमाणैरवधारयति- "अनेकद्रव्यवत्वेन द्रव्यत्वमुक्तम् ॥ ११ ॥ द्रव्यगुणकर्मभ्योऽर्थान्तरमित्यनुवर्तते । अनेकद्रव्यवत्त्वेन अनेकम् अ- खिलं द्रव्यं समवायितयाऽस्ति यस्य, तदनेकद्रव्यवत्, तस्य भावस्तत्त्वं तेन-सर्वद्रव्येषु समवेतत्वेन हेतुना द्रव्यत्वं-सत्ताव्याप्यमपरसामान्यं द्र- व्यत्वमुक्तं सत्तावद् द्रव्यगुणकर्मभ्योऽर्थान्तरं व्याख्यातमित्यर्थः । द्रव्यगुणकर्मणां तथात्वाभावादिति भावः ॥ ११ ॥ हेत्वन्तरमाह-- "सामान्यविशेषाभावेन च ॥१२॥ सामान्यविशेषाः द्रव्यत्वादयस्तदभाववत्वेनापि हेतुना सत्तावद् द्र- व्यगुणकर्मभ्योऽर्थान्तरं द्रव्यत्वमित्यर्थः । चेत्तथा न स्यात्, तदा द्रव्यादिवत्सामान्यविशेषवत्त्वेनोपलभ्येत, नो- पलभ्यते, तस्मान्न तदात्मकं तदिति भावः ॥ १२॥ द्रव्यत्वमुक्त्वा गुणत्वमिदानीमर्थान्तरमाह- "गुणेषु भावाद् गुणत्वमुक्तम् ॥ १३ ॥ द्रव्यगुणकर्मभ्योऽर्थान्तरमित्यनुवर्तते । गुणेपु-रूपादिपु गुणेषु भा-

-
-
आहिकम्]
प्रथमोऽध्यायः ।
२५
वात्समवेतत्वाद् गुणत्वं सत्ताव्याप्यमपरसामान्य गुणत्वमुक्त सत्तावद्
द्रव्यगुणकर्मभ्योऽर्थान्तरं व्याख्यातमित्यर्थः ॥ १३ ॥
हेत्वन्तरमाह-
"सामान्यविशेषाभावेन च ॥१४॥
पूर्ववद् व्याख्येयम् ॥ १४ ॥
कर्मत्वमाह-
"कर्मसु भावात्कर्मत्वमुक्तम् ॥ १५ ॥
द्रव्यगुणकर्मभ्योऽर्थान्तरमित्यनुवर्तते । कर्मसु भावात्कर्मत्वमुक्तं द्र-
व्यगुणकर्मभ्योऽर्थान्तरं व्याख्यातमित्यर्थः ॥ १५ ॥
हेवन्तरमाह-
"सामान्यविशेषाभावेन च ॥१६॥
पूर्ववद् व्याख्येयम् ॥ १६ ॥
अर्थान्तरत्वं साधयित्वा सत्तैकत्वं साधयति-
"सदिति लिङ्गाविशेषादु' विशेषलिङ्गाभावाचैको
भावः ॥ १७॥
सदिति लिङ्गाविशेषात् सद् द्रव्यं सन् गुणः सत्कर्मेत्याकारकव्यव-
हारात्मकस्य सत्तानुमापकलिङ्गस्याविशेषात्-विशेषो भेदस्तदभावाद्-व्य-
गुणकर्मसु समानत्वेनोपलम्भात् विशेषलिङ्गाभावाच-सत्ताभेदो विशेष-
स्तत्र लिङ्गस्याभावोऽनुपलम्भस्तस्माच्चैको भावः एकमेव सत्तासामान्यं ना-
वच्छेदकभेदभिन्नमित्यर्थः ।
चेदवच्छेदकभेदेन सत्तासामान्यं मिद्येत । तदा तैस्तुल्यव्यक्तिकतया
सत्तासामान्यं वा न स्यात्, तानि वा न स्युः, अतो नावच्छेदकभेदात्त-
द्भेदः, किन्तु सदिति लिङ्गाविशेषाद्विशेषलिङ्गाभावाच्चैकं सत्तासामान्यमिति
भावः।
यथावच्छेदकभेदान्न सत्ताभेदः,. तथा द्रव्यत्वादीनामपि तद्भेदान्न भेद
इत्यपि द्रष्टव्यम् ॥ १७॥

२६ वैशेपिकदर्शनम् । [आद्यम् कार्यकारणयोनि सामान्यार्थस्य लक्षणम् । परीक्षणश्च संक्षेपाद् द्वितीयेऽस्मिन् प्रदर्शितम् ॥१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्यात्मारामभगव- त्पादशिष्यहरिप्रसादकृतायां वैशेषिकसूत्रवैदिकवृत्तौ प्रथमाध्यायस्य द्वितीयमाह्निकम् । समाप्तश्चायं समवेताशेपपदार्थाध्यायः प्रथमः ।

द्वितीयोऽध्यायः। - आद्यमाह्निकम् । अथ शिष्यजिज्ञासामनुरुध्य यथोद्देशक्रम द्रव्याणि लिलक्षयिषुराचार्यः पूर्वन्तावत्पृथिवीं लक्षयति- "रूपरसगन्धस्पर्शवती पृथिवी ॥१॥ नील-शुक्ल-लोहित-पीत-हरित-कपिश-चित्रभेदात्सप्तविधं रूपम् , मधु- राम्ल-लवण-कटु-कपाय-तिक्तभेदात् षड्विधो रसः, सुरभिरसुरभिश्व गन्धः, पाकजोऽनुष्णाशीतः स्पर्श, इत्येते समवायेन विद्यन्ते यस्याः सा पृथि- वीत्यर्थः। मतुपो द्वन्द्वान्ते श्रूयमाणत्वात्प्रत्येकमन्वयः । तेन चत्वारि लक्षणानीति शंकरमिश्रः । तत्र कृष्णं रूपं पृथिव्याः स्वाभाविकं “यत्कृष्णं तदनस्य" छा० ६-४-१ इति छन्दोगानामाम्नानाद् । निमित्तव्यपाश्रयं चान्यत् । तथा । गन्धो नाम पृथिव्या नैजो गुणः । कारणक्रमाच रूपादयः । शब्दस्त्वन- भिव्यक्तः सन्नपि नोक्त इति विवेकः ॥ १॥ अपां लक्षणमाह । "रूपरसस्पर्शवत्य आपो द्रवाः लिग्धाः ॥२॥ याः द्रवाः सांसिद्धिकद्रवत्ववत्यः स्निग्धाः-लेहवत्यः, तथा रूपरसस्प- र्शवत्यः शुक्लं रूपं, मधुरो रसः, शीतः स्पर्श, इत्येते सन्ति यासां, ता आप इत्यर्थः। तत्र शुक्लं रूपमपां खाभाविकं, निमित्तव्यपाश्रयमन्यत् । “यच्छुक्लं तदपाम्" छा० ६-४-१ इति छान्दोग्यश्रुतेः। तथा रसद्रवत्वस्नेहा नैजा गुणाः । कारणक्रमाच्च रूपस्पर्शी । द्रवत्वस्नेहौ च रसवत्कारणक्रमेणा- न्यत्र तदारम्भको न भवत इति पृथगुक्तौ । सेयमननुयोज्या वस्तुशक्तिः । शब्दस्त्वनभिव्यक्तः सन्नपि नोक्त इति विवेकः ।। २ ॥ 1 ३ २८ वैशेषिकदर्शनम् । [आयम् । तेजोलक्षणमाह । "तेजोरूपस्पर्शवत् ॥३॥ भाखरशुक्लं रूपमिति नवीनाः । लोहितं रूपमिति वैदिकाः । “य- दग्ने रोहितं रूपं तेजसस्तद्रूपम्" छा० ६-४-१ इति छान्दोग्ये श्रवणात् । उष्णः स्पर्शः इत्येतौ द्वौ स्तो यस्य तत्तेज इत्यर्थः । तत्र रूपं तेजसो नैजो गुणः । कारणक्रमादपरः । शब्दस्त्वनभिव्यक्तः सन्नपि नोक्त इति विवेकः ॥३॥ वायुं लक्षयति "स्पर्शवान् वायुः ॥ ४॥ अपाकजोऽनुष्णाशीतः स्पर्शोऽस्ति यस्य, स वायुरित्यर्थः । तत्रानुष्णाशीतो विलक्षणः स्पर्शो वायो जो गुणः । अन्यव्यपाश्रयः शी- तादिः । शब्दस्तु कारणक्रमादुत्पन्नोऽपि नाभिव्यज्यत इति नोक्त इति विवेकः ॥४॥ नन्वाकाशस्यापि रूपरसगन्धस्पर्शानामन्यतमगुणवत्त्वं लक्षणं वक्तव्यं भूतत्वाविशेपात् रूपोपलम्भाच्च । तत्राह- "त आकाशे न विद्यन्ते ॥५॥ ते-रूपरसगन्धस्पर्शाश्चत्वारो गुणाः आकाशे-व्योम्नि न विद्यन्ते-न वर्तन्ते इत्यर्थः । तेजःप्रभृतीनां हि रूपादयो नैजा गुणाः । न च ते कथञ्चिदाकाशम- धिकर्तुं पारयन्ते । येन लक्षणतामापोरन् । तत्र तत्प्रतीतिस्त्वन्यव्यपान- यान्न स्वभावादिति भावः ॥५॥ नन्वापो द्रवा इत्युक्तमयुक्तं, सर्पिरादावपि द्रवत्वोपलव्धेस्तत्राह- "सर्पिर्जतुमधूच्छिष्टानामग्निसंयोगाद् द्रवत्वमद्भिः सा- मान्यम् ॥६॥ सर्पिर्जतुमधूच्छिष्टानां-घृतलाक्षासिक्थकानामग्निसयोगात् औष्ण्यप्रक- - - -- , आहिकम्] द्वितीयोऽध्यायः। '२९ पवत्तेज सम्बन्धाद् द्रवत्वम्-उत्पद्यमानं द्रवत्वमद्भिः पयसा सामान्यं - समानो धर्म इत्यर्थः। सर्जितुमधूच्छिष्टानामग्निसंयोगाद् यद् द्वत्वमुत्पद्यते, तद् यद्यपि जल- द्रवत्वेन समानं, तथापि न सांसिद्धिकम् , अपि च नैमित्तिकम् । सांसि- द्धिकञ्च लक्षणम् । अतो नातिप्रसङ्ग इति भावः ॥ ६॥ ननु त्रपुसीसलोहरजतसुवर्णेषु द्रवत्वोपलब्धेस्तवस्थोऽतिप्रसङ्गस्त- त्राह "त्रपुसीसलोहरजतसुवर्णानामग्निसंयोगाद् द्रवत्वम- द्भिः सामान्यम् ॥७॥ त्रपुसीसलोहरजतसुवर्णानाम् अत्रानुक्ताः कांस्यताम्रपित्तलपारदादयोऽ- पि द्रष्टव्याः । रङ्गसीसकायाकलधौतकाञ्चनादीनामग्निसंयोगात्-वहिसं- वन्धाद् द्रवत्वम्-उत्पद्यमानं द्रवत्वमद्भिः पयसा सामान्य-समानो धर्म इत्यर्थः । त्रप्वादीनामग्निसंयोगाद् यद् द्रवत्वमुत्पद्यते, तद् यद्यपि जलद्रवत्वेन समानं, तथापि न सांसिद्धिकम्, अपिच नैमित्तिकम्। सांसिद्धिकं च लक्ष- णम् । अतो नातिप्रसङ्ग इति भावः । तत्र सर्पिरादिकं पार्थिवं, त्रप्वादिकं च तेजोंऽशबाहुल्यात्तैजसमिति वैशे- पिकाचार्याः । उभयमपि पार्थिवमिति प्रत्यया इति विवेकः ॥ ७ ॥ ननु स्पर्शवान् वायुरिति वायुलक्षणं न युज्यते, लक्ष्यस्य वायोरेवासि- द्धरित्याशंक्य सामान्यतो दृष्टेनादृष्टलिङ्गेन तसिद्धयै पूर्वन्तावद् दृष्टं लिङ्गमुदाहरति- "विषाणी ककुद्धान् प्रान्तेबालधीः सालावान् इति गोत्वे दृष्टं लिङ्गम् ॥ ८॥ विपाणी-महिपमेषादिशृङ्गतो विजातीयं शृङ्गं विषाणं, तदस्ति यस्य स तथा, वृपस्कन्धपृष्ठस्थो मांसपिण्डः ककुत्, तदस्ति यस्य स ककुद्वान् । प्रान्तेवालधिः अन्ते अवसाने बालाः लोमानि धीयन्ते माधीयन्ते ..

. ३० वैशेषिकदर्शनम् । [आद्यम् यस्मिन् तद् अन्तेबालधि-पुच्छं । कण्ठेकाल इत्यादिवत्सप्तम्या अलुक् । महिषादिपुच्छस्य प्रलम्बत्वाभावाद् अश्वमेषादिपुच्छस्य च कात्स्न्येन बाल- मयत्वात्ततः प्रकृष्टं विलक्षणजातीयमन्तेबालधि विद्यते यस्य, स प्रान्तेबा- लधिः । गलकम्बलं सास्ना, सा विद्यते यस्य, स सानावान् , इति-पूर्वोक्तं विषाणित्वं ककुद्वत्त्वं प्रान्तेबालधित्वं सास्नावत्त्वमित्येतच्चतुष्टयं यथा गो- वेगोत्वानुमितौ दृष्टं लिङ्गं दृष्टस्वसाध्याविनाभावसम्बन्धं दृष्टविशेपव्या- प्तिकं लिङ्ग-हेतुरित्यर्थः । अत्र "गोत्वे दृष्टं लिङ्गमि"ति वचनात् सामान्यविशेषविषयं प्रत्यक्षं, सा- मान्यविषयमनुमानमिति सिद्धान्तो निश्चेतव्यः । यत्र धूमस्तत्राग्निरित्यादौ सर्वत्र सामान्ययोरेव व्याप्तिग्रहणेन तद्विषयत्वस्यैवौचित्यात् । एतेन शब्दो- ऽपि सामान्यविषयो व्याख्यातः । सोऽपि सामान्यमुख्येनैव विशेषेण कृतस- ङ्केतो न केवलविशेषेण । आनन्त्याद् व्यभिचाराच्च ॥८॥ उदाहरणमुक्त्वौदाहरणिकमाह- "स्पर्शश्च वायोः ॥९॥ लिङ्गमित्यनुवर्तते। तथेति शेषः। चकारेण शब्दधृतिकम्पाः समुच्चीयन्ते। तथा स्पर्श:-उपलभ्यमानोऽयं विलक्षणः स्पर्शो वायोः खाश्रयतया वा- वनुमितौ लिङ्ग-हेतुरित्यर्थः। विषाणादिकं दृष्टं लिङ्गम् । अयं चादृष्टं लिडमिति विशेषः । लिगमात्रे चैतदुदाहरणम् । तत्र यथा चैतददृष्टं लिङ्ग, तथाने पञ्चदशसूत्रे सुव्यक्त- मिति बोध्यम् ॥ ९॥ ननु भूवा रिज्योतिषामेवायं स्पर्शो न वायोः । तत्राह-- "न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः ॥ १० ॥ स्पर्शः उपलभ्यमानोऽयं स्पर्शो दृष्टाना-दृष्टिविषयाणां पृथिव्यप्तेजसा न च-नैव भवितुमर्हति, विलक्षणत्वात् , इति-अतोऽदृष्टलिगः-न दृष्ट' प्र- त्यक्षेण गृहीत. स्वसाध्येनाविनाभावसम्बन्धो यस्य स्पर्शस्य, सोऽदृष्टः अह- प्रविशेपव्याप्तिक इति यावत्, स च लिङ्ग-स्वाश्रयतयाऽनुमापक यस्य, स तथा वायु' समीरण इत्यर्थः ॥ १० ॥ -

आहिकम्]
द्वितीयोऽध्यायः ।
३१
ननु स्पर्शेन लिनेन वायुः कश्चित् सिध्यति न द्रव्यं, तत्राह-
"अद्रव्यवत्त्वेन द्रव्यम् ॥ ११ ।।
वायुरित्यनुवर्तते । अद्रव्यवत्त्वेन-द्रव्यं यन्न भवति तद् अद्रव्यं-गुणो
वा कर्म वा सामान्यं वा, प्रकृतत्वादत्र स्पर्शः, तदाश्रयत्वेन वायुर्द्रव्यमि-
त्यर्थः ।
,
,
अत्र वायुर्द्रव्यं समवायेनाद्रव्याश्रयत्वाद घटवदिति प्रयोगाकारो बो-
द्धव्यः ॥११॥
ननु समवायेनाद्रव्यवत्त्वं द्रव्यं व्यभिचरति, द्रव्यत्वाभाववति गुणे क-
मणि विपक्षेऽपि सत्त्वात् , तत्राह-
"क्रियावत्त्वाद्गुणवत्त्वाच ॥ १२ ॥
वायुर्द्रव्यमित्यनुवर्तते । स्पष्टार्थ सूत्रम् । तथा च न कुत्रापि व्यभिचार
इति भावः ॥१२॥
ननु क्रियावन्ति गुणवन्ति च पृथिव्यप्तेजांसि न व्यवहारभूमौ नि-
त्यानि, वायुरपि क्रियावान् गुणवॉश्च, तत्कथमस्य व्यवहारभूमौ नित्यत्वमु-
च्यते, तत्राह--
"अद्रव्यत्वेन नित्यत्वमुक्तम् ॥ १३ ॥
वायोरित्यग्रिमसूत्रादाकृष्यते । अद्रव्यत्वेन न विद्यतेऽवान्तरसर्गेषूत्प-
त्तिकारणं द्रव्यं यस्य सोऽद्रव्य., तस्य भावस्तत्त्वं, तेन आ महाप्रलयमवस्था-
नादवान्तरसर्गेषुत्पत्तिकारणद्रव्याभाववत्त्वेन वायोर्नित्यत्वं व्यवहारभूमौ नि-
त्यत्वमुक्तम् अभिहितमित्यर्थः ।
महाप्रलये विनश्यन्नपि वायुरवान्तरसर्गप्रलयेषु न विनश्यति, तेन स-
गर्गादौ प्रकृतेः सकाशादुत्पन्नोऽपि नावान्तरसर्गेषु पृथिव्यादिवत्पुनरुत्पद्यते
तावतैव चास्य नित्यत्वमुक्तं न परमार्थतो नित्यत्वमिति भावः ॥ १३ ॥
ननु व्यवहारभूमौ नित्यश्चेद्वायुस्तर्हि नाना न स्यात् , खादीनामतथा-
त्वात्, नाना चेत्तन्नानात्वे किं लिङ्ग १ तत्राह ।
"वायोर्वायुसम्मूछेनं नानात्वे लिङ्गम् ॥ १४ ॥

। . ३२ वैशेषिकदर्शनम् । [आधम् वायुसम्मूर्च्छन-समानवेगयोर्विरुद्धदिक्क्रिययोर्वाय्वोस्तथाभूतानां वा वायूनां सन्निपातः तृणतूलकाचूर्ध्वगमनानुमेयो लोके वातूल इति प्र- ख्यातो वायोः अनिलस्य नानात्वे जानाभावे लिङ्गं हेतुरित्यर्थः । यदिदं वायुप्रेरितानां तृणादीनामूर्ध्वगमनमुपलभ्यते, न च तद् वायु- सम्मूर्च्छनमन्तरेणोपपद्यते । लोके विरुद्धदिक्रिययोर्नदीस्रोतसोः सम्मूर्छ- नेनैव पयसां तत्संसृष्टानां च तृणादीनामूर्ध्वगमनस्य दृष्टत्वात् , सम्पूछेनं च सन्निपातो वायूनामिति भवति तन्नानात्वे लिङ्गमिति भावः । तत्र यस्तावद् वायुराशिरभितः पृथिवीं वर्तते, येनायं लोकः प्राणिति, स च स्पृष्टोऽपि सर्वकालमल्पत्वान्नोपलभ्यते, तदपरश्च प्रत्यासन्नः सर्वः सर्वैरुपलभ्यत इति विशेषः ॥ १४ ॥ ननु स्पर्शस्य दृष्टत्वात्कथमुक्तमदृष्टलिङ्गो वायुरित्याशंक्य स्पर्शस्य दृष्टत्वेऽपि तस्यादृष्टलिङ्गत्वं व्यक्तीकरोति- "वायुसन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गन विद्यते॥१५॥ वायुसन्निकर्षे वायुना स्पर्शेन्द्रियसंप्रयोगे प्रत्यक्षाभावात् स्पर्शस्य प्र- त्यक्षत्वेऽपि वायुप्रत्यक्षाभावात् लिङ्ग-स्पर्शाख्यं लिङ्गं दृष्ट-दृष्टविशेषव्या- प्तिकं न विद्यतेन भवतीत्यर्थः । लिङ्गलिङ्गिनोरुभयोईष्टलं हि गोचविषाणित्वयोरिव लिङ्गस्य दृष्टत्वे प्रयोजकम् । यत्र तु लिनि न दृष्ट, तत्र स्वरूपतो दृष्टमपि लिङ्गमदृष्टमेव भवति न दृष्टम् । अदृष्टवसाध्याविनाभावसंबन्धत्वेन दृष्टविशेषव्याप्तिकत्वा- भावादिति भावः ॥१५॥ ननु सम्बन्धस्य दृष्टत्वाभावे कथं स्पर्शादिना लिङ्गेन वायुसिद्धिरि- त्याशंक्य तत्सिद्धिप्रकारमाह- "सामान्यतो दृष्टाचाविशेषः ॥ १६ ॥ यद्यपि “यत्र विषाणित्वं तत्र गोत्वं, यत्र वा धूमस्तत्राग्निरित्यादिवत् योग् विलक्षणः स्पर्शस्तत्र वायुत्वमिति न दृष्ट । तथापि यत्र क्रियात्वं तत्र सकरणकत्वमित्यादिवत् यत्र गुणस्तत्र द्रव्यत्वमिति सामान्यतो दृष्टमेव ।

आह्निकम्] द्वितीयोऽध्यायः। ३३ गुणः, , तथा च सामान्यतो दृष्टाच-सामान्यतो दृष्टव्याप्तिकाच स्पर्शादिलिङ्गाद- विशेषः वायुत्वविशेषरहितः सामान्यतोऽष्टद्रव्यव्यतिरिक्त उपलभ्यमानवि- जातीयस्पर्शाश्रयः कश्चिद् द्रव्यभेदः सिध्यति । स एव वायुरित्यर्थः । तत्र रूपादयो गुणा द्रव्यमाश्रयन्तो दृष्टाः, स्पर्शोऽपि तेनापि इव्यमाश्रयितव्यं, यत्तदाश्रयभूतं द्रव्यं, स वायुः । भेरीशब्दसन्तानो द्रव्याभि- बातजन्यो दृप्टः, पर्णादिशब्दसन्तानोऽपि शब्दः, तेनाप्यसति रूपवद्ग- याभिघाते स्पर्शवद्वेगवद्व्याभिघातजन्येन भवितव्यं, यत्तत्र स्पर्शवद्वेगव- व्यं, स वायुः । या याऽमदाधनधिष्ठितद्रव्यधृतिः, सा सर्वा स्पर्शवद्वे- विद्रव्यसंयोगहेतुका दृष्टा, यथा नौकाधृतिः, नभसि तृणतूलस्तनयिनुवि- सानादीनां धृतिरपि धृतिः, तयाऽपि स्पर्शवद्वेगवद्र्व्यहेतुकया भवितव्यं, य- तत्र स्पर्शवद्वेगवद्रव्यं, स वायुः। काशादिकम्पो नदीपूराभिघातजन्यो दृष्टः। क्षादिकम्पोऽपि कम्पः, तेनाप्यसति रूपवद्र्व्याभिघाते स्पर्शवद्वेगवद्रव्या- भेघातजन्यन भवितव्यं, यत्तत्र स्पर्शवद्वेगवद्रव्यं स वायुरिति तत्साधका- मानप्रकारः॥१६॥ ननु सामान्यतोदृष्टलिङ्गादृष्टद्रव्यातिरिक्तः कश्चिद् विजातीयस्पर्शा- यो द्रव्यभेदः सिध्यतु, तस्य वायुरिति नाम कुतः सिद्ध ? तत्राह- "तस्मादागामिकम् ॥ १७॥ तस्मात्-यस्मात्सामान्यतो दृष्टलिङ्गाद् द्रव्यसामान्यतया वायुः सिध्यति । विशेषतया, तस्मात्तस्य वायुरिति विशेषतो नामागमिकम् आगमाः दास्तत्सिद्धं वेदितव्यमित्यर्थः । सामान्यतो दृष्टात्सोमान्येन प्रतिपन्नस्य वायोः "प्राणादायुरजायत" जुः अ ३१ मन्त्र १३ इत्याद्यागमेभ्यो विशेषतः प्रतिपत्तिरिति .. वः ॥ १७॥ नन्वागमानामीश्वरप्रणीतत्वे लिङ्गानुपलब्धेस्तत्प्रयुक्तप्रामाण्यासंभवात् त- सद्धा संज्ञाऽपि कथं प्रामाणिकी स्यात् । तत्राह--- "संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम् ॥ १८ ॥ - ५ ३४ वैशेषिकदर्शनम् । [आधम् संज्ञाकर्म तु-संज्ञायाः कर्मणश्च समानप्रवर्तकत्वसूचनाय समाहारद्व- न्द्वादेकवद्भावः, लिङ्गाभावविच्छित्त्यै तुः, इयमस्य संज्ञा, संज्ञाचास्येयम् , इदमिष्टं कर्म वर्णाश्रमिभिरनुठेयम् , इदश्चानिष्टं कर्म परिहेयमित्येवं वे. दोक्तं नाम च कर्म चैतदुभयमस्मद्विशिष्टानाम् अस्मच्छब्दप्रयोगेण मनु- प्यातिरिक्ताधिकार प्रतिक्षिपति, यद्वा मनुष्यमात्राधिकार सम्पादयति, मनुष्यमात्रशिरोधार्याणामृग्यजुःसामाथर्वणाश्चतुर्णामागमानां सर्वज्ञकल्प- त्वाद्विशिष्टगुणवतां लिङ्गम् ईश्वरप्रणीतत्वे लिङ्गमित्यर्थः ॥ १८ ॥ ननु कुत एतत् ? तत्राह- "प्रत्यक्षप्रवृत्तत्वात्संज्ञाकर्मणः ॥ १९॥ संज्ञाकर्मणः एकवद्भावः पूर्ववत् , सज्ञायाः कर्मणश्च प्रत्यक्षप्रवृत्तत्वात्= प्रत्यक्षे विपये प्रवृत्तिमत्त्वादित्यर्थः । यस्य हि भूतभविष्यद्वर्तमाना व्यवहितविप्रकृष्टा इष्टानिष्टाः सर्वे वि- पयाः प्रत्यक्षाः सन्ति, स एव तत्र संज्ञां कर्तु पारयते । स एव च सन्ध्या- वन्दनाग्निहोत्रादिकमिष्टं कर्म विधातुं, सुरापानादिकञ्चानिष्टं कर्म प्रतिपेद्ध- मीष्टे । न च ते जीवानां तथा सभवन्ति । तेषां ज्ञानस्योपदेशतन्त्रत्वात् । किन्तु परमपितुर्भगवतः परमेश्वरस्येति स एवादौ चतुर्भिरागमै. संज्ञाकर्म- प्रवर्तकोऽभ्युपगन्तव्यः । तथाचागमानां तेषां संज्ञाकर्मलिङ्गेनेश्वरप्रणीतत्वे सिद्धे प्रामाण्यं तावत्सिद्धमेव, तत्सिद्धौ च तत्सिद्धा संज्ञापि प्रामाणिकीति भावः। संज्ञाकर्मप्रवृत्तिश्चादौ वेदेभ्य एव जातेति भगवता मनुनाप्यभ्यधायि । अ१-श्लो॥ २१॥ सर्वेषान्तु स नामानि कर्माणि च पृथक्पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥ २१ ॥ इति स-प्रजापतिः, पृथक्संस्था प्रतिव्यक्ति लौकिकी व्यवस्थेत्यर्थः ॥१९॥ ननु भवतु वायुसिद्धौ स्पर्शो लिङ्ग, तेन च तत्सिद्धिः । आकाश- सिद्धौ पुनः किं लिङ्गं, येन तदभ्युपेयं ? तबाह- ?

३५ 1 , . आह्निकम्]] द्वितीयोऽध्यायः। "निष्क्रमणं प्रवेशनमित्याकाशलिङ्गम् ॥ २०॥ स्पर्शवतो द्रव्यस्य बहिर्गमनं निष्क्रमणम् , अन्तर्गमनं प्रवेशनम्, इति एतत्कर्मद्वयमाकाशलिङ्गम् आकाशसिद्धौ लिङ्गमित्यर्थः । अवकाशेन हि निष्क्रमणं, प्रवेशनं चैतदुभयं कर्म व्याप्तम् । चेत्क्रश्चि- दवकाशं न दद्यात् , तदा तदभावे न निष्क्रमणमुपपद्येत, न प्रवेशनम् । उपपन्नं चानिशं तदुभयम् । ततोऽनुमीयते 'अस्त्याकाशं यदवकाशं ददाति' इति भावः ॥ २०॥ तदेतदपवदति- "तदलिगमेकद्रव्यत्वात्कर्मणः ॥२१॥ आकाशस्येत्यनुवर्तते । तत्-निष्क्रमणं, प्रवेशनं चेति कर्माकाशस्या- लिङ्गंलिङ्गं नोपपद्यते । कुतः? कर्मणः निष्क्रमणप्रवेशनलक्षणकर्मण- स्तस्यैकद्रव्यत्वात्यनिष्कामति, प्रविशति च, तदेकद्रव्यं, तन्मात्रसमवे- तत्वादित्यर्थः । एकद्रव्यसमवेतं कर्म कथमपरस्य सिद्धौ लिङ्गमुपपद्यतेति भावः॥२१॥ ननु नायं नियमः यत्र यत्समवैति, तस्य तल्लिङ्गमिति, अपि च, कारणस्य, कारणं चाकाशं, नियतपूर्ववृत्तित्वात् , तत्राह- "कारणान्तरानुक्लुसिवैधाच ॥ २२ ॥ आकाशस्येत्यनुवर्तते । यत्समवेतं कार्यमुत्पद्यते, तस्मात्कारणादन्यत्का- रणं कारणान्तरं, तस्य या अनुक्लप्तिः अनुक्लप्यते-ज्ञाप्यतेऽनेनेति व्युत्प- त्या लक्षणं, तद्वैधाच्च-तद्विरुद्धलक्षणकत्वाच्चाकाशस्य कर्मकारणत्वं न संभवतीत्यर्थः। अन्वयव्यतिरेकाभ्यां हि कारणभावोऽवगम्यते । न चाकाशस्यान्वयो वा व्यतिरेको वा शक्यो निश्चेतुम् । तस्य सर्वकालत्वेन सर्वगतत्वात् । अतो यथा ह्यस्य पूर्वभावनियमः, तथैव पश्चाद्भावनियमोऽपि, तथैव च व्यतिरेकामावोऽपीति कारणभावानिश्चये नियतपूर्ववृत्तित्वरूपकारणान्तरा- नुक्लप्तिवैधादकारणमाकाशमिति भावः ।। २२ ।। - B- ३६ वैशेषिकदर्शनम् । [अधिम् समाधत्ते- "संयोगाभावः कर्मणः ॥ २३ ॥ संयोगात्-कर्मजन्यसंयोगसमवायादाकाशे कर्मणः निष्क्रमणप्रवेशनल- क्षणकर्मणोऽभावः समवायाभाव इत्यर्थः । कर्म हि क्रिया । सा च धात्वर्थत्वात्फलं, व्यापारश्चेति द्वयी । निष्क- मणं, प्रवेशनं च व्यापारः । तज्जन्यो निष्कामतः प्रविशतश्च द्रव्यस्य सं- योगः फलम् । तत्राकाशे फलसमवायाद् व्यापारसमवायाभावो, न त्वका- रणत्वात् । कारणत्वं च नियतपूर्ववृत्तित्वम् । तच्च तस्य सर्वकालत्वेऽपीश्वर- वन्निश्चेतुं शक्यम् । अतः कारणान्तरानुक्लूप्तिवैधाभावाद् भवति तस्य तल्लिङ्गमिति भावः । "निष्क्रमणं प्रवेशनम्" इति पूर्वः पक्षः। अग्रिमसूत्रत्रयेण च त- निरासः । तत्र "तलिङ्गम्” इति सूत्रेणाकाशस्य कर्मसमवायिकार- णत्वं निरस्यते । “कारणान्तरा०" इति सूत्रेण चासमवायिकारणत्वं, द्रव्यातिरिक्तस्यैव तन्नियमात् , आकाशस्य च द्रव्यत्वात् । “संयोगाद- भावः कर्मणः” इत्यनेन च निमित्तकारणत्वम्। सयोगात् प्रतिबन्धकी- भूतमूर्त्तद्रव्यसंयोगविशेषात्कर्महेतुवेगगुरुत्वादीनां प्रतिबन्धेन कर्मणोऽभा- वः अनुत्पादो भवति, न त्वाकाशाभावात् । तस्य व्यापकत्वात् । तस्मा- दाकाशान्वयोऽन्यथासिद्धो नाकाशनिमित्ततां गमयतीति सर्वथा तस्य कर्मकारणत्वासम्भवे समवायिकारणतया वाऽसमवायिकारणतया वा नि- मित्तकारणतया वा नाकाशस्य लिङ्गं कर्म समवतीति शङ्करमिश्रप्रभृतीनां व्याख्यानम् ॥ २३॥ निष्क्रमणं, प्रवेशनमित्याकाशलिङ्गमित्युपपादितम् । सम्प्रति शब्दस्य पारिशेप्यादाकाशगुणत्वेन तल्लिङ्गत्वमुपपादयितुं पूर्व तस्य भूतचतुष्टयगु- णता प्रतिपेधयिष्यन् भूमिकामाह- "कारणगुणपूर्वक कार्यगुणो दृष्टः २४॥ कार्यगुण. कार्य्यस्य घटपटादेर्यो रूपादिविशेषगुणः, स कारणगुणपू- -

३७
-
,
आहिकम्] द्वितीयोऽध्यायः ।
का कारणस्य कपालतन्त्वादेयों रूपादिविशेषगुणः, स पूर्व कारणं यस्य
स तथा दृष्टः उपलब्ध इत्यर्थः ।
इद्मनोपदिष्टं भवति । कार्ये त एव गुणाः प्रादुर्भवन्ति, ये
तत्कारणे समवयन्ति । येषां च कारणे न समवायः, न च तत्पूर्वकाः
कार्यगुणाः कथञ्चिदाविर्भवन्ति । न वा कदाचिदिदमित्थ विपर्येति-
कारणे वर्तमानाः गुणाः कार्ये न प्रादुष्युः, ततो विलक्षणाः वा तत्र
प्रादुर्भवेयुः । अतः कायं दृष्ट्वा निःशङ्कमनुमातुं शक्यते-येऽमी कार्य-
गुणाः अनुभूयन्ते, नूनं तत्सजातीयास्तत्कारणे विद्यन्ते, ये चात्र कार्ये
नोपलभ्यन्ते, न च ते तत्रापि वर्तन्ते इति ॥ २४ ॥
ननु कारणगुणपूर्वकः कार्यगुणो दृश्यतां, किं तेन ? तत्राह-
"कार्यान्तराऽप्रादुर्भावाच्छन्दः स्पर्शवतामगुणः ॥२६॥
कार्यान्तराऽप्रादुर्भावात् दण्डाद्यभिघातेन भेर्यादौ कार्ये शब्दस्य
प्रादुर्भावेऽपि तद्भिन्ने घटपटादौ कार्यान्तरे तत्प्रादुर्भावाभावात् शब्दः-श-
ब्दपदार्थः स्पर्शवतां पृथिव्यप्तजोवायूनामगुणः विशेषगुणो नेत्यर्थः ।
चेत्स्पर्शवतां द्रव्याणां शब्दो विशेषगुणो भवेत् , तदाऽवश्यं भे--
दिवत् तत्काऱ्यान्तरे घटपटादावपि प्रादुर्भवेत् । अप्रादुर्भश्च कथं स
तद्विशेषगुणः सिध्येत् । भेादौ वा प्रादुर्भवन् तस्मादन्यत्र नोपलभ्येत,
यावद् भेर्यादिकं चावतिष्ठेत, तरतमादिभावेन च न जात्वनुभूयेत । न
हि तेषां रूपादयो विशेषगुणाः कसिंश्चित्कार्ये प्रादुर्भवन्तः कार्यान्तरे
नाभिव्यज्यन्ते, तत्राभिव्यज्यमानाः वा तस्मादन्यत्राप्युपलभ्यन्ते, यावदा-
श्रयं वा नावतिष्ठन्ते, तरतमादिभावेन वा क्वचिदनुभूयन्ते । शब्दस्तु
सर्वथा तद्विपरीतः । ततोऽनुमीयते-नासौ स्पर्शवतां विशेषगुणः, इति
मावः ॥ २५॥
ननु शब्दः स्पर्शवतां पृथिव्यप्तेजोवायूनां विशेषगुणो मा सैत्सीत्,
आत्मनो वा, दिकालमनसां वा सेत्स्यति, तत्राह-
"परन समवायात्प्रत्यक्षत्वाच नात्मगुणो न मनो-
गुणः॥ २६॥

३८ वैशेषिकदर्शनम् । [आद्यम् शब्द इत्यनुवर्तते । परत्र-परमिन्नात्मातिरिक्ते द्रव्ये समवायात्-सम- वेतत्वात् , प्रत्यक्षत्वाच्च-श्रावणप्रत्यक्षविषयत्वाच्च शब्दो नात्मगुणः-ना- स्मनो विशेपगुणः, न मनोगुणः मन इत्युपलक्षणं, न वा दिकालमन- सां विशेषगुण इत्यर्थः। शब्दश्चेदात्मनि समवेयात्, न बहिरिन्द्रियप्रत्यक्षतामियात् नवाऽह- कारेण विभक्तो गृह्येत, नवाऽऽत्मान्तरेणानुभूयेत । शब्दश्च तथा, तसा- नात्मविशेषगुणः । श्रोत्रग्राह्यत्वाद्विशेषगुणत्वाच न दिकालमनसां गुण इति भावः। अत्र प्रथमहेतोः साध्यत्वमालोच्य द्वितीयो हेतुरुपन्यस्तः, सिद्धस्यैव हेतुत्वोपपत्तेरिति ध्येयम्। परत्र समवायान्नात्मगुणः, प्रत्यक्षत्वाच्च न दिकालमनसां गुण इति शङ्करमिश्रः॥ २६॥ ननु यदि नाम शब्दः पृथिव्यादीनामष्टानां द्रव्याणां विशेषगुणो न भवति, मा भूत् , आकाशस्य सिद्धौ किमायातं ? तत्राह- "परिशेषाल्लिङ्गमाकाशस्य ॥ २७ ॥ शब्दो गुण इत्यनुवर्तते । परिशेषात् शब्दो गुणः, तेन नान्तरेण गुणिना भवितव्यम्, न च पृथिव्यादयोऽष्टौ तस्य गुणिनः सिध्यन्ति, तद्भिन्नेषु च गुणकर्मादिषु न तत्प्रसङ्गः, तस्माद् यस्यैष गुणिनो विशेषगुणः, तदाकाशमिति परिशेषानुमानादाकाशस्य अष्टद्रव्यातिरिक्तस्याकाशपदा- र्थस्य शब्दो गुणः विशेषगुण सिद्धो भूत्वेतिशेषः, लिङ्गं भवति तत्सि- द्धौ लिङ्गमित्यर्थः। तन्त्र प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गाच्छिण्यमाणे सम्प्रत्ययः परिशेपः । शब्दः, कचिदाश्रितः,गुणत्वाद्, इच्छादिवदिति सामान्यतोदृष्टाकारः शब्दः, पृथिव्याधष्टद्रव्यातिरिक्तद्रव्याश्रितः, अष्टद्रव्यानाश्रितत्वे सति द्रव्याश्रित.. त्वात् , यन्नैवं, तन्नैवं, यथा सयोगादिकमिति तु तदाकारः। शब्दो, विशेषगुणः जातिमत्त्वे सति बाखैकेन्द्रियमात्रग्राह्यत्वात्, रूपवदिति विशेषगुणतासाध- - आह्निकम्] द्वितीयोऽध्यायः। ३९ कमनुमानम् । बाह्येन्द्रियत्वं च प्रतिनियतार्थविषयत्वं, नियमेन बाह्यार्थप्रका- शकत्वं वेति विवेकः ॥ २७॥ यथाऽऽत्मगुणता हीच्छाद्वेषादेरुपपद्यते । शब्दो नयेन तेनैव भविष्यति नभोगुणः ॥१॥ ननु परिशेषात्केवलं शब्दस्याश्रयभूतमाकाशं सिध्यति, न द्रव्यं, न व्यवहारभूमौ नित्यं, तत्राह- "द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥ २८ ॥ आकाशस्येत्यनुवर्तते । द्रव्यत्वनित्यत्वे द्रव्यत्वं, नित्यत्वं चाकाशस्य वा- युना-चायोव्यत्वनित्यत्वसाधकेन गुणवत्त्वेनाद्रव्यत्वेन च हेतुना व्याख्या- ते प्रतिपादिते वेदितव्ये इत्यर्थः । तत्र गुणवत्त्वाद् द्रव्यत्वम्, अद्रव्यत्वान्नित्यत्वं व्याख्यातमिति वि- वेकः ॥ २८॥ ननु द्रव्यत्वनित्यत्वे वायुना व्याख्यायेताम् , एकत्वं तस्य केन व्या- ख्यास्यते ? तत्राह- "तत्त्वं भावेन ॥ २९ ॥ आकाशस्य व्याख्यातमिति विपरिणम्यानुवर्तते । तत्त्वम् एकत्वमाका- शस्य भावेन सत्तया व्याख्यातमित्यर्थः । सत्तायाः यथैकत्वं, तथाकाशस्यापि वेदितव्यमिति भावः ॥ २९ ॥ ननु सदिति लिङ्गाविशेषाद् विशेपलिङ्गाभावाच भावस्यैकत्वम् , आकाशस्य तत्कुतः स्यात् । तत्राह- "शब्दलिङ्गाविशेषाद्विशेषलिङ्गाभावाच ॥ ३०॥ आकाशस्य तत्त्वमित्यनुवर्तते । शब्दलिङ्गाविशेषात् शब्दरूपलिङ्गस्य भेदाभावात् समानत्वाद्, विशेषलिङ्गाभावाच=भेदे लिङ्गस्यानुपलम्भाचा- काशस्य तत्त्वमित्यर्थः । आकाशस्य लिङ्गं शब्दः, स च सर्वत्राविशिष्टः, विशेषे च लिङ्गान्त- रानुपलम्भ, इति सत्तावदेकमाकाशमिति भावः ।। ३० ।। -- .. .

४० वैशेषिकदर्शनम् । [आयम् ननु शब्दलिङ्गाविशेषादेकत्वे सिद्धेऽपि तस्यैकपृथक्त्वं कुतः सिध्येत् ? तत्राह- "तनुविधानादेकपृथक्त्वं चेति ॥३१॥ इतिरादिकसमाप्तिमाह। आकाशस्येत्यनुवर्तते । तदनुविधानात्-तस्यैक- त्वस्य यत्पृथक्त्वेनानुविधानंयत्रयत्रैकत्वं तत्रतत्रैकपृथक्त्वमिति साहचर्य- नियमः, तसादेकपृथक्त्वं च-एकपृथक्त्वमपि व्योम्नः सिद्धमित्यर्थः । क्षित्यादिपञ्चभूतानां लक्षणं लक्ष्यगं तथा । नभोनभखतोरीक्षा सम्यगत्र प्रदर्शिता ॥१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्ध्यात्मारामभगव- त्पादशिष्यहरिप्रसादकृतायां वैशेषिकसूत्रवैदिकवृत्ती द्वितीयाध्यायस्याद्यमाह्निकम् ।

द्वितीयोऽध्यायः। द्वितीयमाह्निकम् । पूर्वस्मिन्नाहिके पृथिव्यादीनि पञ्च महाभूतानि लक्षितानि । सम्प्रति तल्लक्षणानि परीक्ष्यन्ते । तत्रादौ पृथिवीलक्षणं गन्धं परीक्षयिष्यन्नाचार्यः पृथिवीतोऽन्यत्र तदभावे लिङ्गमाह- "पुष्पवस्त्रयोः सति सन्निकर्षे गुणान्तराप्रादुर्भावो वस्त्रे गन्धाभावलिङ्गम् ॥ १॥ पुष्पवस्त्रयोः कुसुमवाससोः सति सन्निकर्ष-संयोगलक्षणे सान्निध्ये सति वस्त्रे पुष्पगन्धस्य प्रादुर्भावेऽपि यो गुणान्तराप्रादुर्भावः कार्यगुणादन्यः कारणगुणो गुणान्तरं, तत्पूर्वकोऽप्रादुर्भावः तदनुत्पादः स वने-कुसुमसं- युक्ते वाससि तस्मिन् गन्धाभावलिङ्ग-पुष्पसन्निकर्षादुपलभ्यमानो गन्धो न - वस्त्रस्य स्वाभाविको गुणः, तत्कारणगुणपूर्वकत्वाभावात् , शीतोष्णस्पर्शव- दिति स्वभावतः पुष्पगन्धाभावस्यानुमितौ लिङ्गमित्यर्थः । तथा च वस्त्रे पुष्पसम्बन्धादुपलभ्यमानो गन्धो यथा न तस्य स्वा- भाविको गुणः किं त्वौपाधिकः, तथा जलादावप्युपलभ्यमानो गन्धो न तस्य स्वाभाविको गुणो मन्तव्यः, अपि चौपाधिक इति भावः ॥१॥ ननु जलादौ चेद् गन्धो नास्ति, क तर्हि गन्धो व्यवतिष्ठते ? तत्राह- "व्यवस्थितः पृथिव्यां गन्धः ॥२॥ यस्मादन्यत्र जलादौ गन्धाभावे लिङ्गमस्ति, पृथिव्यां च तन्नास्ति, त- स्माद्गन्धः-सुरभ्यसुरभिभेदभिन्नो द्विविधो गन्धः पृथिव्यां क्षितावेव व्यव- स्थितः विशेषेण-गन्धवत्येव पृथिवी, पृथिव्येव गन्धवतीत्ययोगान्ययोगव्य- वच्छेदेनावस्थितः प्रतिष्ठित इत्यर्थः । तथा च खाभाविको गन्धः पृथिव्याः लक्षणमिति न जलादावतिप्रसङ्ग । इति भावः ॥२॥ ६ - - ४२ वैशेषिकदर्शनम् । [द्वितीयम् , पृथिवीलक्षणं परीक्षितं, जलादिलक्षणं परीक्षमाणोऽतिदिशति- "एतेनोष्णता व्याख्याता ॥ ३ ॥ एतेन गन्धस्य स्वभाविकत्वौपाधिकत्वव्यवस्थापनप्रकारेणोष्णताशी- तताऽप्युपलक्षणीया, उप्णता, शीतता चापि व्याख्याता क्वचिस्वाभाविकी क्वचिदौपाधिकी व्याख्याता वेदितव्येत्यर्थः ॥ ३ ॥ व्याख्यानफलमाह- "तेजस उष्णता ॥४॥ व्याख्यातेत्यनुवर्तते । तेजसः तेजोद्रव्यस्योप्णता-स्वाभाविक्युष्णता- व्याख्याता लक्षणतया व्यवस्थापिता बोद्धव्येत्यर्थः । तेन जलादौ नातिप्रसङ्ग इति भावः ॥ ४ ॥ "अप्सु शीतता ॥५॥ व्याख्यातेत्यनुवर्तते । अप्सु-पयसि शीतता स्वाभाविकी शीतता लक्षणतया व्याख्यातेत्यर्थः । शिलातलादौ शीतताप्रतीतावपि न लक्षणातिप्रसङ्गः, तत्रतत्प्रतीतेरौ- पाधिकत्वादिति भावः। तत्र यथा गन्धादिकं स्वाभाविकमौपाधिकं च क्वचित् , तथा रूपा- दिगुणान्तरमपि स्वाभाविकमौपाधिकं च क्वचित्प्रतिपत्तव्यमिति द्योतनायो- द्देशक्रमभङ्गः, वायुलक्षणस्य परीक्षितत्वद्योतनाय वा क्रमभङ्गः, शैत्यं विप- येति नौष्ण्यमिति सूचनाय वा स इति विवेकः ॥५॥ पृथिव्यादीनां चतुर्णा लक्षणानि परीक्षितानि । व्योमलक्षणं शब्दः परीक्षयिष्यते । सम्प्रति कालः परीक्षणीयः, उद्देशक्रमप्राप्तत्वात् , अतः पूर्व तावत् तत्सद्भावे लिङ्गानि दर्शयति- "अपरस्मिन्नपरं युगपचिरं क्षिप्रमिति काललिङ्गानि ॥६॥ इतिशब्दो ज्ञानप्रकारमाह । तस्य च प्रत्येकमन्वयः । अपरमिन्नपरमि- त्युपलक्षणम्, परस्मिन् परमित्यपि द्रष्टव्यम् । अपरस्मिन्-अल्पतरतपनपरि- स्पन्दान्तरितजन्मनि यूनि स्थविरं मर्यादीकृत्यापरमिति ज्ञानं, परस्मिन्- बहुतरतपनपरिस्पन्दान्तरितजन्मनि स्थविरे युवानं सीमीकृत्य परमिति . आहिकम्] द्वितीयोऽध्यायः। ४३ ज्ञानं. युगपत् युगपज्जायन्ते, युगपत्तिष्ठन्ति, युगपत्कुर्वन्तीतियुगपज्ज्ञानं, चिरं-चिरं जीवति, चिरं जातमिति चिरज्ञानं, क्षिप्रं-क्षिप्रं गच्छति, क्षिप्रं करोतीति क्षिप्रज्ञानमिति एतानि ज्ञानानि काललिङ्गानि स्वनिमित्ततया कालस्यानुमापकानीत्यर्थः । यमपेक्ष्य हि यस्य भूयसां सूर्य्यपरिस्पन्दानां सम्बन्धः, स तदपेक्षया स्थविरपिण्डः परः, तमपेक्ष्य यस्य चाल्पानां तेषां सम्बन्धः, स तदपेक्षया युवपिण्डोऽपरः । परत्न ज्येष्ठत्वम् , अपरत्वं च कनिष्ठत्वम् । न च स्थवि- स्युवपिण्डाभ्यां सूर्यपरिस्पन्दानां साक्षात्सम्बन्धो विद्यते । सूर्ये तत्सम- वायात् । न वा तत्सम्बन्धमन्तरेण स्थविरे परं, यूनि चापरमिति ज्ञानमु- त्पत्तुमर्हति । तस्य तत्प्रयोज्यत्वात् । न हि पृथिव्यादयश्चत्वारस्तत्सम्ब- न्धारः सम्भवन्ति । तेपामव्यापकत्वेन पिण्डसंयोगे सत्यपि सूर्येण तदभावात् । न चाकाशमपि तत्सम्बन्झ सम्भवति । तस्य तत्स्वभावकल्पने ऽतिप्रसङ्गात् । दैशिक परत्वमपरत्वं चेतो विलक्षणम् । अचेतनं चान्यधर्मम- न्यत्रोपनयद् दृष्टम् , यथा-पुप्पस्य गन्धं वायुः । अतो भूभ्यादिभ्यो भिन्नं यदचेतनं द्रव्यं स्थविरयुवपिण्डाभ्यां सूर्येण च संसृज्य स्वसमवायिसंयु- तसंयोगलक्षणया प्रत्यासत्त्या, स्वसंयुक्तसंयुक्तसमवायलक्षणया वा प्रत्या- सत्त्या, तत्परिस्पन्दान् पिण्डाभ्यां सम्बध्नाति, पूर्वत्र स्वं परिस्पन्द., चरमे पिण्डं, तदेव द्रव्यं काल, इति भवति परस्मिन् परमपरस्मॅिश्चापर- मिति ज्ञानं कालसिद्धौ लिङ्गम् । एवमेकेन सूर्य्यपरिस्पन्देनावच्छिन्नाः अनेकाः क्रियाः युगपज्ज्ञानेन गोचरी क्रियन्ते । क्रमेण भवद्भिरनेकैः स्थूलभूतैः सूर्य्यपरिस्पन्दैश्चावच्छिन्ना क्रिया चिरज्ञानेन, तथाभूतैरनेकैरल्प- तरैश्च सूर्यपरिस्पन्दैरवच्छिन्ना क्रिया क्षिप्रज्ञानेन, गोचरी क्रियते । तत्र सूर्यपरिस्पन्ददेवदत्तादिपरिस्पन्दयोश्च मिथः सम्बन्धो भूम्यादिभिर्न घटते, ज्ञानान्यथाऽनुपपत्त्या सम्बन्धेन चावश्यं भवितव्यम् । अतो यद्रव्यं संयु- कसमवायेन ताभ्यां संसृज्य तयोः परस्परं खसमवायिसंयुक्तसंयुक्तसमवा- यलक्षणं सम्बन्धं करोति, तदेव द्रव्यं काल इति भवति युगपच्चिरं क्षिप्र- मिति ज्ञानमपि कालसिद्धौ लिङ्गमिति भावः । . .

, -- -- वैशेषिकदर्शनम् । [द्वितीयम् तत्रैकसूर्यपरिस्पन्दावच्छिन्नकालसम्बन्धिन्यः क्रियाः युगपत्प्रत्ययगो- चरः, वृहत्तरानेकसूर्यपरिस्पन्दावच्छिन्नकालसम्बन्धिनी क्रिया चिरप्रत्यय- गोचरः, अल्पतरानेकसूर्यपरिस्पन्दावच्छिन्नकालसम्बन्धिनी क्रिया क्षिप्र- प्रत्ययगोचर इति विवेकः ॥ ६॥ नन्वपरं परं युगपच्चिरं क्षिप्रमिति प्रत्ययलिङ्गेन तन्निमित्तभूतः कश्चि- कालः सिध्यति, न द्रव्य न वा व्यवहारभूमौ नित्यं, तत्राह- "द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥७॥ कालस्येति प्रकरणाल्लभ्यते । द्रव्यत्वनित्यत्वे पूर्वोक्तलिङ्गस्य कालस्य द्रव्यत्वं, नित्यत्वं च वायुनाचायोर्द्रव्यत्वनित्यत्वसाधकहेतुना व्याख्याते-- साधिते वेदितव्ये इत्यर्थः ॥७॥ ननु द्रव्यत्वनित्यत्वे कालस्य वायुना व्याचष्टाम् , एकत्वं केन व्याख्या- स्यति ? तत्राह- "तत्वं भावेन ॥८॥ व्याख्यातमिति विपरिणम्यानुवर्तते । तत्त्वं कालस्यैकत्वं भावेन-स- त्तया व्याख्यातं वेदितव्यमित्यर्थः । यथा सदितिलिङ्गाविशेषाद्विशेषलिङ्गाभावाच्च भावस्यैकत्वम् , एवं परापरादिप्रत्ययलिङ्गाविशेषाद्विशेपलिङ्गाभावाच कालस्यैकत्वं व्याख्यात- मिति भावः । तत्र परमार्थतः कालस्यैकत्वम् , उपाधितश्च क्षण-लव-निमेप-काष्ठा- कला-महूर्त-यामा-होरात्रार्द्धमास-मासर्वयन-संवत्सर-युग-कल्पादिभेदा- त्, शान्तोदिताव्यपदेश्यभेदाच नानात्वम् । उपाधिश्च सूर्यादिपरिस्पन्दः । कार्याणामारम्भक्रियाभिनिर्वृत्तिस्थितिनिरोधाश्चेति विवेकः । तत्रोत्पन्नं द्रव्यं यावदगुणमुत्पद्यते, अन्त्यतन्तुसंयोगे वा यावन्न पटः, उत्पन्ने वा कर्मणि यावन्न विभागः, तावत्कालः क्षणः । सामग्री वा कार्य्यर- हिता क्षणः, इत्युदयनाचार्यः। निमपस्य चतुर्थो भागः=क्षणः, क्षण- द्वयेन लवः, अक्षिपक्ष्मकर्मोपललितकाल. निमेप इति भश्रीधरःख- . 1 , - .

, - आहिकम्] द्वितीयोऽध्यायः । ४५ जन्यविभागप्रागभावावच्छिन्नं यत्कर्म तदुपलक्षितःकालः प्रथमः क्षणः । खं कर्म। पूर्वसंयोगावच्छिन्नविभागोपलक्षितः कालो द्वितीयः क्षणः । पूर्वसंयो- गनाशावच्छिन्नोत्तरसंयोगप्रागभावोपलक्षितः कालस्तृतीयः क्षणः । उत्तर- । संयोगावच्छिन्नकर्मोपलक्षितः कालश्चतुर्थः क्षणः । उत्तरसंयोगे सति कर्मनाशात्पुनः कर्मान्तरेण क्षणव्यवहारः, क्षणकूटैश्च दिनादिव्यवहार इति विश्वनाथः । एवं कार्याणामारम्भः प्रागभावः, क्रिया व्यापार इति तदुपलक्षितः कालो भविष्यत् कालः । अभिनिर्वृत्तिः सिद्धिः, स्थितिः आविनाशात्क्रमवत्सहकारिसम्बन्धस्तदुपलक्षितः कालो वर्तमानकालः। नि- रोधः विनाशस्तदुपलक्षितः कालोऽतीतकालः । उत्पत्तिस्थितिनिरोधयो- 'गिफलावच्छेदेन नानाक्षणपरम्परात्मिकापि क्रियेत्युच्यते । सा वर्तमानादि- भेदवती च । तथाहि । स्थाल्यधिश्रयणात्प्रभृति आ तदवतरणादुत्पद्यमा- नौदनाख्यफलावच्छेदात् क्रिया वर्तमानोच्यते-पचतीति । तदवच्छेदाद् घटाकाशवकालोऽपि तावान् वर्तमान इत्युच्यते । अभिनिवृत्तफलावच्छे- दात्मा क्रियासन्ततिश्चातीता भवति-अपाक्षीदिति । तदवच्छेदात्कालोऽप्य- तीत उच्यते । अनारब्धफलावच्छेदाद् भविष्यन्ती क्रियोच्यते-पक्ष्यतीति । तदवच्छेदात्कालोऽपि भविष्यन्निति तु जयन्तभट्ट इति प्रविवेकः ॥८॥ ननु परापरादिप्रत्ययलिङ्गेन सिद्धे तस्मिन् नित्यैकद्रव्ये कालसंज्ञासि- द्धिः कुत इत्याशझ्यान्वयव्यतिरेकाभ्या तस्य कार्यमाने हेतुत्वमुपपाद- यन्नागमात्कालसंज्ञासिद्धिमाह- "नित्येष्वभावादनित्येषु भावात्कारणे कालाख्येति॥९॥ इतिशब्दः कालनिरूपणप्रकरणोपसंहारमाह । नित्येषु-परमार्थनित्येषु व्यवहारभूमौ नित्येषु च अभावात् युगपज्जातः, चिरञ्जातः, क्षिप्र- जातः, इदानी जातः, दिवा जातः, नक्तं जात इत्यादिप्रत्ययानामभावात्, अनित्येपु-कार्येपु-घटपटाभूम्यादिषु भावात्-उक्तप्रत्ययसद्भावात्कार्य- मात्रकारणं कालः । तस्मॅिश्च कारणे "कालोऽमूं दिवमजनयत्, काल इमाः पृथिवीरत" अथर्व-कां १९-सू ५३-मं ५, इत्याद्यागमसिद्धा कालाख्या कालसंज्ञेत्यर्थः ॥ ९॥ . L r नगरिकनम् । गिर काल पर्गय लिपस्या- "इन इदामिनि गतस्ताहिक लिङ्गम् ।। १० ॥ अपरमिति काललि पटिगामि नन्यारेनानानने । तभ पामिरगन्याप्युपलाया । मीना इतः मयुक्तमयोगा- लीयन्ताधिकरणादमणादियारागांगुकामयोगाधिकरणं परंदु: रम्, स्तम-गगुफर्मयोगभूपनगाधिकरणाम च्यादित राक्मयोगाली- यायाधिकरण मारमनिराकीि-एना गायनान् पररया- दपरलाग लियभवानिमितापाने, सागर परसमपाल परिदय लिरसन्यन्ये स्तिः, दिगनुगालिमित्यर्थः । मूर्तद्रामवानि ना मर्तगा न्यषु पनिगमगारमि चान्नादप- गिनि भानगुरापते-गया-झाम्यागास्थितम पुग. प्रयागरेश्य गुम्ने परं, कुलेनगपेश न प्रयागोर पनि । तर परत्वापरले निमित्तम् । परतं च सयुक्तसयोगभूयन्न्याश्रयत्वम् । अमरत्वं च मयुरागयोगाल्पीय- म्त्वाश्रयत्नम् । ग ग ते भूयासो वाऽयीयांगो या संयुक्तमयोगा कुरुक्षेत्र का प्रयागं या गाक्षादायितुमईन्ति । तेषां तरामोशे समतलेन तन मगवायागमवात् । परेण च केनचित्तत्र तदुपनयनं वक्तव्यम् । नहि पृथिव्यादिभिलतांभवति । परिच्छिजत्वात् । आकागं च नोक्तस्वगावमि- युक्तम् । कालनु कियामाग्रोपनायकः । कियामिनधर्ममारोपनायकले तु कार्नाटककामिनीवदनारनिन्दं प्रति कारगीरकुहागपकरागमप्युपनयेत् । अचे- तनस्य चान्यन परधर्मापनायकत्वं दृष्टम् । अतः पृथिव्यादिभ्यो व्यनिरिक्तं यढचेतनं द्रव्यं स्वसमवायिसंयुत्तासंयोगलक्षणया प्रत्यासत्या काशीमारभ्य भूयसः संयुक्तसंयोगान् कुरुक्षेत्रे, ततोऽल्पीयसस्तान् प्रयागे चोपनयति ।खं सयुक्तसंयोगाः । तदेव द्रव्यं दिगिनि भाव । तत्र परत्वापरत्वबुद्धौ निमित्तं परत्वापरत्वे, तत्र च तदाश्रये द्रव्ये भूयसां सयुक्तसयोगानामल्पीयसां च तेषामुपनयः, तत्र च दिगिति विवेकः॥१०॥ ननु लिनेन सामान्यतो निमित्तभूता काचिदिक् सिध्यति, न तस्या. द्रव्यत्व न वा व्यवहारभूमौ नित्यत्व, तनाह--- , 6. आह्निकम्] द्वितीयोऽध्यायः। "द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥११॥ दिश इति प्रकरणालभ्यते । द्रव्यत्वनित्यत्वे-परवापरत्वलिङ्गेन सामान्यतः सिध्यन्त्यो दिशो द्रव्यत्वं नित्यत्वं च वायुना वायुद्रव्यत्वनित्य- त्वसाधकहेतुना व्याख्याते-साधिते वेदितव्ये इत्यर्थः ॥ ११ ॥ ननु द्रव्यत्वनित्यत्वे वायुना व्याचष्टाम् , एकत्वं केन व्याख्या- स्यति ? तत्राह- "तत्त्वं भावेन ॥ १२॥ व्याख्यातमिति विपरिणम्यानुवर्तते । दिशः सम्बन्ध प्रकरणात् । तत्त्वं-दिगेकत्वं भावेन-सत्तया व्याख्यातं वेदितव्यमित्यर्थः । यथा सदिति लिङ्गाविशेषाद् , विशेषलिङ्गाभावाच भावस्यैकत्वम्, एवमिदं दूरमिदमन्तिकमिति दिलिङ्गाविशेषाद्विशेषलिङ्गाभावाच दिशस्त- त्वमिति भावः ॥ १२ ॥ ननु चेदेकैव दिक्, कथं तर्हि प्राचीयं प्रतीचीयं दक्षिणेयमुदीचीय- मिति तन्नानात्वव्यपदेशः? तत्राह- "कार्यविशेषेण नानात्वम् ॥ १३ ॥ कार्यविशेषेण परमार्थतो दिशस्तत्त्वेऽपि सूर्यसंयोगलक्षणेनोपाधिभू- तेन कार्यविशेषेण नानात्वं नानाव्यपदेशभाक्त्वमित्यर्थः ॥ १३ ॥ तदेवोपपादयति- "आदित्यसंयोगाद् भूतपूर्वाद् भविष्यतो भूताच प्राची।। १४॥ आदित्यसंयोगादिति विशेष्यम् , इतरत्पञ्चम्यन्तं पदत्रयं च विशेपणम् । भूतपूर्वात्-पूर्व-सर्गारम्भे भूतो भूतपूर्व शान्तः अतीतः, तस्मात् , भवि- प्यत' भविष्यन्नव्यपदेश्यस्तस्मात् भाविनः, भूताच आदिकर्मणि का, तेन वर्तमानलामः-भूतम्-उदितं वर्तमानं, तस्साचादित्यसंयोगात्प्राथमि- कारविसम्बन्धात् प्राची मागस्यामञ्चति प्राप्नोति सूर्य इति तद्व्युत्पत्ते प्राची दिगिति व्यपदेश इत्यर्थः ।

वैशेपिकदर्शनम् । [द्वितीयम् यस्यां दिशि भगवानादित्यः सर्गारम्भे प्रथममुदैत् , अग्रे चोदेष्यति, सम्प्रति चोदेति, सा दिक्-आचीति भावः ॥ १४ ॥ अतिदिशति- "तथा दक्षिणा प्रतीच्युदीची च ॥ १५ ॥ आदित्यसंयोगाद् भूतपूर्वाद् भविष्यतो भूताचेत्यनुवर्तते । तथा यथो- तादित्यसयोगात्प्राचीति व्यपदिश्यते, तथा तथाभूततत्सयोगाद् दक्षिणा, प्रतीच्युदीची च दिगिति व्यपदेष्टव्यमित्यर्थः । प्राच्यभिमुखस्य पुरुपस्य दक्षिणे भागे यस्यां दिशि भूतपूर्वो वा, भवि- प्यन् वा, भवन् वा सूर्य्यसंयोगः, सा दक्षिणा अवाची दिक् । अवागस्याम- ञ्चति सूर्य इति । यस्यां च तस्यैव पृष्टभागे स, सा प्रतीची दिक् । तत्र हि प्राच्यपेक्षया सूर्यः प्रातिकूल्येनाञ्चति । प्राच्यामुदयः, प्रतीच्यां चास्त- मय इति प्रातिकूल्यम् । यस्यां च तस्यैव वामभागे स, सोदीची दिक् । उदगञ्चनात् । तत्र हि सूर्यः पृथिव्या ऊर्ध्वं दूरमञ्चतीति भावः ॥१५॥ "एतेन दिगन्तरालानि व्याख्यातानि ॥ १६ ॥ एतेनाच्यादिपु दर्शितप्रकारेण दिगन्तरालानिमागवाची, अवाक् प्रतीची, प्रत्यगुदीची, उदक्झाची, अध उर्चेति मध्यगा विदिशोऽपि पट् व्याख्यातानि-व्याख्याता वेदितव्या इत्यर्थः । यद्यप्येका दिक् । तथाप्युपाधिभेदात् प्राच्यादिभेदेन सा दशधा व्यपदिश्यते । तत्र सूर्योदयसन्निहिता दिक् प्राची, तद्व्यवहिता दिक् प्रतीची, प्राच्यभिमुखस्थितपुरुषवामदेशावच्छिन्ना दिगुदीची, ताहक्पुरुषद- क्षिणदेशावच्छिन्ना दिगवाची । वामत्वदक्षिणत्वे च शरीरावयववृत्तिजाति- विशेषौ । यतः पतति सा दिगू; । यत्र पतति साऽधः । एवमन्या अपि विदिशः कल्पनीया इति दिक् ॥ १६ ॥ पर्याप्ता दिपरीक्षा । सम्प्रति व्योमलक्षणं शब्द परीक्षणीयं मन्यमानः पूर्व तावत् परीक्षाङ्गभूतं संशयं कारणतो लक्षणतश्च व्युत्पादयति- "सामान्यप्रत्यक्षादू विशेषाप्रत्यक्षाद् विशेषस्मृतेश्च संशयः ॥१७॥ -

आहिकम्]
द्वितीयोऽध्यायः ।
४९.
सामान्यप्रत्यक्षात्-सामान्यस्य कोटिद्वयसहचरितस्य साधारणधर्मस्योचै-
स्तरत्वादेः प्रत्यक्षात-उपलम्भात् । अनेन धर्म्युपलम्भोऽपि सङ्गृह्यते । तेन
साधारणधर्मवतो धर्मिणः प्रत्यक्षादिति निष्कर्षः । विशेषाप्रत्यक्षात्-विशे-
पस्य अन्योऽन्यव्यावर्तकस्य वक्रकोटरशिरःपाण्यादेरसाधारणधर्मस्याप्रत्य-
क्षात् उपलम्भाभावात् , विशेषस्मृतेश्च-विशेषस्य सामान्यविशेषस्य स्था-
णुत्वपुरुषत्वगोत्वगव्यत्वादेः स्मृतेः स्मरणात् उपस्थितेरिति यावत् ।
चकारेण दुरदृष्टमपि समुच्चीयते । दुरदृष्टाच संशयः-किस्विदिति विरुद्ध-
धर्मद्वयावलम्बी प्रत्ययो भवतीत्यर्थः ।
यदा हि प्रतिपत्ताऽयमुभयसाधारणं कञ्चिद्धर्म कचिदेकत्र धर्मिणि
प्रतिपद्यते, तस्य धर्मिणो विशेषञ्च कुतश्चिन्निमितान्नोपलभते, पूर्वप्रतीतयोः
परस्परविरुद्धयोः सामान्यविशेषयोश्च स्मरति, स्मृतयोश्च तयोमिथो विरुद्ध-
वादेकत्र सद्भावं, तदविनाभूतस्य च सामान्यस्य दर्शनान्नाप्यभावं, सम्भा-
वयति, तदाऽस्य प्रतिपत्तु सामान्याश्रयत्वेनावधारिते धर्मिणि विशेषानव.
धारणात्मको यः प्रत्ययो जायते, स एव संशय इति भावः ।
तत्र साधारणधर्मोपलम्भो मुख्य कारणं, तदितरत्सर्व सहकारि-
कारणम् , एकस्मिन् धर्मिणि विरुद्धनानाधर्मप्रकारकज्ञानत्वं च संशयत्व-
मिति विवेकः ॥ १७॥
ननु यस्य सामान्यस्य प्रत्यक्षं संशयस्य मुख्य कारणमाख्यायते, तत्
कीदृशं विवक्षितं ? तत्राह-
"दृष्टं च दृष्टवत् ॥१८॥
दृष्ट च-उपलब्धं चोच्चैस्तरत्वादिसामान्यं दृष्टवत् दृष्टाभ्यां स्थाणु-
पुरुषप्रभृतिभ्यां तुल्यं पुरोवर्तिनि वर्तमानं विवक्षितमित्यर्थः ।
यत्सामान्यं स्थाणुपुरुषयोर्गोगवययोर्वा वर्तते, तस्यैव कालान्तरे
देशान्तरे वा पुरोवर्तिनि प्रत्यक्षात् तद्विशेषस्य चाप्रत्यक्षात्सामान्यविशेष-
योश्च स्मरणास्थाणुर्वी पुरुषो वा गौर्वा गवयो वा इत्यादि. संशयो
भवति, नान्यस्य, तस्मात् पुरोवर्तिनि वर्तमान सामान्यं, यस्य प्रत्यक्षात्सं-
शयो भवति,स्थाणुपुरुषप्रभृतिवृत्तिसामान्यं चैकं विवक्षितमिति भाव ॥१८॥

५० वैशेपिकदर्शनम् । [द्वितीयम् कारणतो लक्षणतश्च संशयो व्युत्पादितः । स च कारणस्यैकविधत्वादे- कविधः सन्नप्यवान्तरभेदाद् द्विविधो भवति-बाह्यविषयः आभ्यन्तर- विषयश्च । बाह्यविषयोऽपि पुनर्द्विविव.-अनेकधर्मिवृत्तिविशेपानुस्मृतिपूर्वकः एकर्मिवृत्तिविशेषानुस्मृतिपूर्वकश्च । तत्राद्य स्थाणुर्वा पुरुषो वा गौर्वा गवयो वा, इत्यादिकः प्रसिद्ध एवेति मन्यमानो द्वितीयं तावद् बाह्यविषयं संशयभेदमुदाहरति- "यथादृष्टमयथादृष्टत्वाच ॥ १९॥ "सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेपस्मृतेश्च संशयः" इत्यनुवर्तते । संश- यश्च द्विरावृत्तिः । यथादृष्टं येन प्रकारेण विशिष्टं चैत्रमैत्रादिकं दृष्ट-जटिलं वा मुण्डं वा, पुनरयथादृष्टत्वाच्च यथापूर्व दृष्टं ततो विपर्यायेण दृष्टत्वाच्च मुण्डं वा जटिलं वा, तद्नु कालान्तरे प्रावृतशिरसि दृष्टे तस्मिन् चैत्रत्वा- दिसामान्यप्रत्यक्षाद् जटादिविशेषाप्रत्यक्षाद् जटिलत्वादिविशेषस्मृतेश्च 'किमय जटिलो वा मुण्डो वेति यः सशय., स एकर्मिवृत्तिविशेषानुस्मृतिपूर्वको बाह्यविपयः सशय इत्यर्थः। स्थाणुर्वा पुरुपो वा इत्यादौ हि यः स्थाणुर्नासौ पुरुषः, यश्च पुरुषो नासौ स्थाणुः । अत्र तु य एव जटिलः स एव मुण्डः, य एव मुण्डः स एव जटिल इति विशेषः ॥ १९ ॥ आन्तरविषयं संशयभेदमुदाहरति- "विद्याऽविद्यातश्च संशयः॥ २०॥ "सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद् विशेषस्मृतेश्च संशयः" इति सूत्रमनुवर्तते । तत्रानुवृत्तं सशयपदं सशयसामान्यमाह, सौत्र तु संशयविशे- षम् । तस्य चावृत्त्या लाभसमवेऽप्यान्तरत्वलक्षणवैलक्षण्यलाभाय साक्षादु- पादानम् । संशयान्तरस्योदाहरणमेतदिति सूचनाय चकारः । विद्यावि- घातश्च-पञ्चम्यास्तसिलं, सम्यग् ज्ञानं विद्या, मिथ्याज्ञानमविद्या, ताभ्यां दृष्टाभ्यां कदाचिदुत्पन्ने मनसि ताहग्ज्ञानधर्मिणि कस्मिंश्चिद्ज्ञानत्वसामान्यस्य प्रत्यक्षात्, तद्वति तत्प्रकारकत्वादिलक्षणविशेषस्याप्रत्यक्षात्, सम्यक्त्वा- .

आह्निकम्] द्वितीयोऽध्यायः । ५१ - - दिविशेपस्य स्मृतेश्च, "किमिदं ममोत्पन्नं ज्ञानं सम्यग वा मिथ्या वा" इति यः संशयः, स आन्तरविषयः संशय इत्यर्थः एकदा जले जलज्ञानमुत्पन्नं सम्यग् जातम् । अन्यदा मरुमरीचिकायां • मिथ्या । तदनु च कदाचिद्वनगतस्य दूरतो लिङ्गदर्शनाजायमाने वृक्ष- सद्धेषु जलज्ञाने "किमिदं ममोत्पन्नं जलज्ञानं सम्यग् वा मिथ्यावा" इति यः संशयः, यथा वा केनचिदादेशिकेनैकदा किञ्चिन्निमित्तमुपलभ्यादिष्टं 'किञ्चि- दिष्टमनिष्टं वा भविष्यति, तत्तथैव वृत्तम्, अन्यदा चादिष्टं वितथम् , सम्प्रति तथाभूतमेव निमित्तमुपलभ्यादिशतस्तस्यान्तः स्वज्ञाने "किमिदं ममो- त्पन्नं ज्ञानं सम्यग् वा मिथ्या वा" इति य. संशयः, स आन्तरविपयः संशय इति भावः ॥ २० ॥ यत्परीक्षाथै परीक्षाङ्गभूतः संशयः सावान्तरप्रभेदः कारणतो लक्षण- तश्च व्युत्पादितः, साम्प्रतं तमेव परीक्षणीयं संशयमिणं शब्द लक्षण- मुखेनावतारयति- "श्रोत्रग्रहणो योऽर्थः स शब्दः ॥२१॥ श्रोत्रग्रहणः श्रोत्रं श्रोत्रेन्द्रियं ग्रहणं ग्रहकरणं यस्य, स तथोक्तो यः= यो धर्मिभूतोऽर्थः पदार्थः, स शब्द इत्यर्थः । श्रोत्रग्राह्यो गुण शब्द इति भावः ॥ २१ ॥ संशयधर्मिणं शब्दं लक्षणमुखेनावता-काशलिगत्वसिद्धये वाभीष्ट गुणत्वं व्यवस्थापयिष्यस्तत्र संशयं तावदुत्थापयति- "तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्योभयथादृष्ट- त्वात् ।। २२॥ संशयः शब्दे इति विपरिणम्यानुवर्तते । तुल्यजातीयेषु शब्दसमान- प्रकारकेषु रूपादिगुणेषु, अर्थान्तरभूतेपु-ततो भिन्नप्रकारकेषु पदार्थेषु पृथिव्यादिद्रव्येषु उत्क्षेपणादिकर्मसु च, विशेषस्य प्रत्येकं वर्तमानस्य रूप- स्व-रसत्र-पृथिवीत्व-जलत्वो-क्षेपणत्वापक्षेपणत्वादिलक्षणविशेषस्योभयथा तुल्यजातीयवृत्तिधर्मेण गुणत्वेनार्थान्तरभूतवृत्तिधर्मेण द्रव्यत्वेन कर्मत्वेन च सह दृष्टत्वात् दर्शनात् शब्दवृत्तिश्रावणत्वविशेषस्योपलब्धेर्द्रव्याश्रयित्वादि- - - ५२ वैशेषिकदर्शनम् । [द्वितीयम् विशेषान्तरस्य चानुपलब्धेर्गुणत्वद्रव्यत्वादिसामान्यविशेपस्य स्मृतेश्च शब्दे शब्दधर्मिणि संशयः किमयं गुणो वा द्रव्यं वा कर्म वेति संशय इत्यर्थः । रूपादिगुणेष्वेकैकशो वर्तमानो रूपत्वरसत्वादिलक्षणो विशेषो गुणत्व- समानाधिकरणः, पृथिव्यादिद्रव्येष्वेकैकशो वर्तमानः पृथिवीत्वजलत्वतेज- स्त्वादिलक्षणो विशेषो द्रव्यत्वसमानाधिकरणः, उत्क्षेपणादिकर्मखेकैकशो वर्तमान उत्क्षेपणत्वापक्षेपणत्वादिलक्षणो विशेषः कर्मत्वसमानाधिकरणो दृष्टः । किमुक्तं ? विशेषो गुणत्वद्रव्यत्वकर्मत्वसमानाधिकरणो दृष्ट इति । शब्दे श्रावणत्वमपि विशेषः । तस्य विशेषत्वेन तत्र प्रत्यक्षाद्, द्रव्याश्रयि- त्वादिविशेषस्य च प्रत्यक्षाभावाद्, विशेषसमानाधिकरणानां गुणत्वद्रव्यत्व- कर्मत्वानां च स्मृतेर्भवति संशयः-"किमयं गुणो वा स्याद्, द्रव्यं वा स्यात् , कर्म वा स्याच्छब्दः" इति भावः । तत्र साधारणधर्मोपलम्भवदसाधारणधर्मोपलम्भोऽपि संशायक इति गौतमीयाः । तेषां श्रावणत्वत्वेन श्रावणत्वं विशेषः शब्दे द्रव्यादिकोटिकस- शयस्य हेतुः । वैशेषिकाणां च विशेषत्वेन सामान्यधर्मेण । तेषां सामान्य- धर्मोपलम्भस्यैव संशायकत्वादिति विशेषः । शब्दे सत्त्वकारणवत्त्वादिकं दृश्यते । सामान्यविशेषसमवायेषु च त- नास्ति । निःसामान्यत्वात्, व्यवहारभूमौ नित्यत्वाच्च । अतो न तत्र तत्कोटिकः संशय इति द्रष्टव्यम् । सूत्रे विशेपशब्दः शब्दवर्तिनं कश्चिद् धर्मविशेपमाह, न त्वसाधारणं धर्मम् । तस्य गुणत्वद्रव्यत्वादिसामानाधिकरण्याभावेन तत्स्मारकत्वानुपपत्ती संशयानुपपत्तेः । विशेषस्य शब्दवर्तिनः संयोगजत्वस्य धर्मविशेषस्य तुल्य- जातीयेपु-समानप्रकारकेषु गुणेपु, अर्थान्तरभूतेपु-भिन्नप्रकारकेपु द्रव्येषु कर्मसु चोभयथादृष्टत्वात्-तुल्यजातीयेषु गुणत्वेन सह अर्थान्तरभूतेषु च द्रव्यत्वेन कर्मत्वेन च सह दर्शनाच्छन्दे-गब्दधर्मिणि संशयः-"किमयं गुणो वा स्याद्रव्य वा स्यात्कर्म वा" स्यादिति संशय इत्यर्थः । संयोगजत्वं गुणे द्रव्ये कर्मणि च दृष्ट, शब्दे तस्य प्रत्यक्षाद् द्रव्याश्रयित्वादिविशेपस्याप्रत्य- - आहिकम्] द्वितीयोऽध्यायः । ५३ , ? क्षाद्गुणत्वद्रव्यत्वादिविशेषस्य स्मृतेश्च संशयः-"किमयं गुणो वा, द्रव्यं वा, कर्म वा, शब्दः" इति भाव इति तु नितान्तस्थवीयानर्थः । विशेषस्य शब्दत्वश्रोत्रग्राह्यत्वलक्षणविशेषस्य व्यावृत्तेस्तुल्यजातीयेषु-त्र- योविंशतिगुणेष्वर्थान्तरभूतेषु-द्रव्येषु कर्मसु चोभयथा-उभयत्र दृष्टत्वात्= दर्शनात् शब्दः किं गुणो, द्रव्यं, कर्म, वेति संशयः । तत्र यद्यपि शब्द- वं श्रोत्रग्राह्यत्वं चासाधारणो धर्मः । तथापि व्यावृत्तिरस्य सजातीयास- जातीयसाधारणीति व्यावृत्तेः साधारणस्यैव धर्मस्य संशयजनकत्वमिति शङ्करमिश्रः ॥ २२॥ किमयं गुणो वा, द्रव्यं वा, कर्म वा, शब्द इति संशय्य परिशेषाद् गुणत्वं तस्य निर्णेष्यमाणः पूर्वं तावद् द्रव्यत्वं प्रतिपेधति- "एकद्रव्यत्वान्न द्रव्यम् ॥२३॥ शब्द इत्यनुवर्तते । शब्दो द्रव्यं द्रव्यत्वजातिमान् न=न भवति । कुतः ? एकद्रव्यत्वात् एकं द्रव्यं समवायिकारणं यस्य स तथोक्तः, तस्य भावस्तत्त्वं, तस्मात् एकद्रव्यसमवायिकारणकत्वादित्यर्थः । यत्कार्य्यद्रव्यं, तत्क्रिमप्येकद्रव्यं न भवति । शब्दश्च व्योमैकाश्रित- वादेकद्रव्यः । तस्मान्न द्रव्यमिति भावः ॥ २३ ॥ नन्वस्तु तर्हि कर्मैव शब्दः, तस्यैकद्रव्यत्वात् , तत्राह- "नापि कर्माचाक्षुषत्वात् ॥ २४ ॥ शब्द इत्यनुवर्तते । नापि शब्दः कर्म कर्मत्वजातिमान् संभवति । कुतः? अचाक्षुपत्वात् चाक्षुषप्रत्यक्षागोचरत्वात् , गन्धादिवदित्यर्थः । यद्यपि शब्दवदेकद्रव्यं कर्म तथापि तच्चक्षुषा गृह्यते । शब्दस्तु तेन न गृह्यते, चेत्सोऽपि कर्म स्यात् , तदावश्यं तेन गृह्येत । न च गृह्यते । तस्मान्नासौ कर्मेति भावः । शब्दत्वं न कर्मवृत्ति, अचाक्षुषवृत्तिजातित्वात् , रसत्वादिवदिति शब्द- स्याकर्मत्वे नव्यानां प्रयोगः । कर्म न समानजातीयं कारभते, शब्दस्तु तद्विपरीतः समानजातीयं शब्दमारभते, चेत्कर्म भवेत् , न जालारभेत, आरम्भणाच नासौ कर्म । यथा न कर्म, न द्रव्यं, तथा न सामान्यं,

.
वैशेषिकदर्शनम् । - [द्वितीयम्
न समवायो, न विशेषोऽपि । जातिमत्त्वादप्रसक्तेः । परिशेपाद्गुण इति
निर्णयः ॥ २४॥
ननु यथा हि कर्माशु विनश्यति, तथैव शब्द इति कथं न कर्म
स्यात् ? तत्राह-
"गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् ॥ २५ ॥
गुणस्य-असक्तयोर्द्रव्यकर्मणोः प्रतिषेधेऽन्यत्र सामान्यादावप्रसङ्गेन पा-
रिशेण्याद् गुणत्वजातिमतः सतः सिध्यतः शब्दस्य योऽयमपवर्गः आशु-
विनाशः, स कर्मभिः कर्मत्वजातिमद्भिः साधर्म्य-समानो धर्म इत्यर्थः ।
आशुविनाशित्वं हि न कर्मत्वव्याप्यम् । तस्य सर्वसम्प्रतिपन्नद्वित्वादि-
संख्या-ज्ञान-सुखदुःखादिगुणेऽपि दर्शनात् । अतो न तेन शब्दस्य कर्मत्वं
सिध्यति, किन्तु कर्मभिः साधर्म्य-समानधर्मतामात्रमिति भावः ।
तत्र चतुःक्षणावस्थायि सर्व कर्म, पञ्चमक्षणे विनश्यति । गुरुत्वप्रयत्नसं-
योगेभ्यः पूर्व द्रव्ये कर्म, ततो विभागः, ततः पूर्वसंयोगनाशः, ततः
उत्तरसंयोगः, ततः कर्मनाश इति प्रक्रियाऽभ्युपगमात् । द्वित्वप्रभृतिसं-
ख्यादिनिमित्तमपेक्षाबुद्धिस्तु विक्षणावस्थायिनी चतुर्थक्षणे विनश्यति ।
पूर्वमयमेकोऽयमेक इत्याकाराऽपेक्षाबुद्धिः, ततो द्वित्वोत्पत्तिः, ततो द्वित्व-
त्वनिर्विकल्पज्ञानं, ततो द्वित्वत्वविशिष्टस्य 'इमौ द्वौ' इति सविकल्पक
प्रत्यक्षम् , अपेक्षाबुद्धिनाशश्च, ततो द्वित्वनाश इति सिद्धान्तात् ।
ज्ञानशब्दौ च द्विक्षणावस्थायिनौ तृतीयक्षणे विनश्यत इति विवेकः॥२५॥
ननु भवतु शब्दो गुणः, तथाप्याकाशलिङ्गं न संभवति, तस्य
नित्यत्वेन तत्काय॑त्वाभावात् , कदाचित्तदनुपलम्भस्तु व्यञ्जकाभावप्रयुक्तो,
न कार्यत्वप्रयुक्तः, तत्राह-
"सतो लिङ्गाभावात् ॥ २६ ॥
शब्दो न नित्यः, कुतः? सतः नित्यत्वं सत्त्वं, नित्यस्य तस्य लिगा-
भावात्-साधकलिङ्गानुपलम्भादित्यर्थः ।
तन्नित्यतासाधकलिङ्गानुपलब्धेरिति भावः ॥ २६ ॥

आहिकम्] द्वितीयोऽध्यायः । ५५ ननु लिङ्गाभावेऽपि नित्यः किं न स्यात् ? तत्राह- "नित्यवैधात् ॥ २७॥ शब्दो न नित्यः, कुतः? नित्यवैधात्-नित्यस्यानुत्पादविनाशी धर्मों, तद्विरुद्धौ चोत्पादविनाशौ, तद्धर्मकत्वादित्यर्थः ॥ २७ ॥ ननु लिङ्गाभावनित्यवैधाभ्यां नित्यः शब्दो मा सैत्सीत्, अनि- त्योऽपि कुतः? सिध्येत, न हि नित्यत्वप्रतिपेधमात्रेण कश्चिदनित्यः से मर्हति, तत्राह- "अनित्यश्चायं कारणतः ॥ २८॥ चकारेणानित्यत्वसाधनोपक्रमः सूच्यते । अनित्यश्चायं शब्दः कारणतः कारणवत्वहेतुत: सिध्यतीत्यर्थ । शब्दः अनित्य., कारणवत्वाद्, घटादिवदिति भावः ॥ २८ ॥ ननु स्वरूपासिद्धो हेतुः, शब्दस्य कारणवत्यासिद्धे., तबाह "न चासिद्धं विकारात् ।। २९ ।। असिद्ध-शब्दानित्यत्वसाधकं कारणवत्वलिङ्गं स्वरूपासिद्धं न च नैव मन्तव्यम् । कुतः? विकारात्-विकारित्वात्-कार्य्यत्वात् तस्य तसिद्धेरि- त्यर्थः । , शब्दः, कारणवान्, कार्य्यत्वाद् , घटवदिति भावः ॥ २९ ॥ ननु तदा हि शब्दः, कारणवान् भवेत् , चेत्कारणकलापेन निप्पयेत, न च निष्पद्यते, अपि चाभिव्यज्यते, तत्राह- "अभिव्यक्तौ दोषात् ।। ३० ।। नाभिव्यज्यते शब्द इति प्रतिज्ञाशेषः । तत्र हेतुः 'अभिव्यक्तौ दो. पात्-समानेन्द्रियग्राह्याणां समनियतानामेकव्यञ्जकाभिव्यङ्गयत्वनियमेनक वर्णाभिव्यक्तौ सत्यां यावद्वर्णाभिव्यक्तिलक्षणदोषप्रसङ्गादित्यर्थः । घटपटादिगताः रूपरसगन्धस्पर्शास्तु न समानेन्द्रियग्राह्याः, सत्त्वमनु प्यत्वब्राह्मणत्वादयश्च न समनियता इति तत्र व्यञ्जकभेदाभ्युपगमेऽपि न वर्णेषु तद्भेदोऽभ्युपगन्तुं शक्यते, समानेन्द्रियग्राह्याणां समनियतानां घटः पटादिसंख्यापरिमाणादीनामेकेनालोकसंयोगेनाभिव्यञ्जकेनैकाभिव्यक्ती नि ५६ वैशेषिकदर्शनम् । [द्वितीयम् खिलाभिव्यक्तिदर्शनात्, वर्णा अपि समानेन्द्रियग्राह्याः, समनियताश्च । तस्मादेकाभिव्यक्तौ सर्वाभिव्यक्तिप्रसङ्गो दोपो ज्यायानिति भावः ॥ ३०॥ ननु कस्सात्तर्हि कारणकलापात् शब्दोऽयं व्योम्नि निष्पद्यते ? तत्राह- "संयोगाद् विभागाच्छन्दाच शब्दनिष्पत्तिः ॥ ३१ ।। संयोगात् भेरीदण्डादिसंयोगात्, विभागात् वेणुपादिविभागात् , श- ब्दाच्च-वीचीसन्तानन्यायेन शब्दाच्च, शब्दनिष्पत्तिः व्योम्नि शब्दसामा- न्यस्योत्पत्तिर्भवतीत्यर्थः । तत्रायः शब्दः संयोगाद्विभागाच जायते । तत्पूर्वकस्तु शब्दात् । सोऽयं शब्दो द्विविधः-वर्णात्मको, ध्वन्यात्मकश्च । अकारादिवर्णात्मकः, भेादिनिमित्तो ध्वन्यात्मकः । वर्णात्मकस्य सयोगाच्छब्दाच्चोत्पत्तिः । ध्वन्यात्मकस्य च संयोगाद्विभागाच्छब्दाच्चोत्पत्तिः । वर्णात्मकं शब्दं प्रति कण्ठादिस्थानस्य वायुनाऽभिघाताख्यः सयोगो निमित्तकारणं, वायुनाऽभिह- न्यमानस्य तस्यैवाकाशेन संयोगोऽसमवायिकारणं । पूर्वानुभूतवर्णस्मृत्यपे- क्षादात्ममनसोः सयोगात्पूर्वं वर्णोच्चारणेच्छा, तद्नु प्रयत्नः, तमपेक्षमाणा- दात्मवायुसंयोगाच्च कोष्ठये वायौ कर्म, तेन चोर्ध्व गच्छन् वायुः पुनः कण्ठादीनभिहन्ति, तेनाभिहताश्चाकाशेन ते सयुज्यन्ते, ततश्च वर्णोत्पत्ति- रिति प्रक्रियाभ्युपगमात् । ध्वन्यात्मकं शब्द प्रति भेरीदण्डसंयोगो निमि- त्तकारणं, भेाकाशसंयोगोऽसमवायिकारणम् । एव शङ्खमुखसंयोगः, शङ्खाकाशसंयोगश्च शड्खशब्द प्रति निमित्तकारणमसमवायिकारणञ्चोन्ने- यम् । एवं विभागज शब्द प्रति वेणुपर्वविभागो निमित्तकारणं, वेण्वाका- शविभागोऽसमवायिकारणम् । यत्र तु दूरप्रदेशे संयोगविभागाभ्यामुत्पन्नस्य शब्दस्य वीचीसन्तानन्यायेन श्रोत्रप्रदेशमागतस्य ग्रहणं, तत्र शब्दाच्छ- ब्दोत्पत्तिः । कर्णशष्कुल्यवच्छिन्नस्याकाशस्य श्रोत्रत्वेन निष्क्रियतया शब्दप्रदेशे गमनस्य, शब्दस्य च गुणत्वेन क्रियाऽभावाच्छ्रोत्रप्रदेशागमनस्या- संभवात् , अप्राप्यकारित्वस्य चेन्द्रियाणामनभ्युपगमात् , तद्रहणान्यथानु- पपत्त्या वीचीसन्तानवच्छब्दसन्तानसिद्धिः । अत्र पवनादिक निमित्तका. रणं, पूर्वपूर्वशब्दोऽसमवायिकारणम् । यद्यदवच्छेदेन शब्दो निप्पद्यते, ५७. आहिकम्] द्वितीयोऽध्यायः।' तत्तवच्छिन्नमाकाशन्तु सर्वत्र समवायिकारणम् । द्रव्यस्यैव समवायिका- रणतानियमादिति विवेकः ॥ ३१ ॥ ननु भवतु संयोगादितः शब्दनिष्यत्तिः, तदनित्यत्वे किमायातं ? : 'तत्राह "लिङ्गाचानित्यः शब्दः ॥ ३२॥ लिङ्गाच-उत्पत्तिमत्त्वलिगाच सिद्धोऽनित्यः शब्द इत्यायातमित्यर्थः । अनित्यत्वे हेत्वन्तरं समुचिनोति-"लिड्डाचानित्यः शब्दः वर्णात्मकः' शब्दः, अनित्यः, जातिमत्त्वे सति श्रोत्रग्राह्यत्वात्, वीणादिध्वनिवदित्यर्थ इति शङ्करमिश्रः ।। ३२ ॥ पूर्वपक्षयति- "द्वयोस्तु प्रवृत्त्योरभावात् ॥ ३३ ॥ तुशब्दः पूर्वपक्षमभिव्यनक्ति । शब्दोऽनित्य इत्यनुवर्तते । पूर्वपक्षसा- मर्थ्यान्न पदलाभः । नानित्यः शब्दः सम्भवति । कुतः ? तथा सति. द्वयोः अध्येत्रध्यापकयोरुभयोः प्रवृत्त्योः अध्ययनाध्यापनप्रवृत्त्योरभावात् अभावप्रसङ्गादित्यर्थः । गुरुहि शिष्यं यं शब्दमध्यापयति, शिष्यस्तमेवाधीते । न च गुरोरध्या- पने शिष्यस्य चाध्ययनं शब्दस्य युगपत्सम्भवतः । क्रममावित्वात् । न ह्यनित्यः शब्दोऽध्यापनकाले तिष्ठन्नप्यध्ययनकाले स्थातुमर्हति । नित्यत्व- प्रसङ्गात् । अनित्यश्चाभ्युपगम्यते । तस्माद् यं शब्दमध्यापको गुरुरध्ये- तारमध्यापयेत्, कथं तमेवाध्येता शिष्योऽध्येतुं पारयेत् । तस्यानित्यत्वेन तदानीमभावात् । तदध्ययनाभावे च प्रसक्तः शब्दस्यानित्यत्वे द्वयोः प्रवृत्त्योरभाव इति भावः ।। ३३ ।। ननु कुतः पुन नित्यः शब्दः १ तत्राह- "प्रथमाशब्दात् ॥ ३४॥ "तासां त्रिः प्रथमामन्वाह निरुत्तमाम्" (ऐतरेय ब्रा०३ ध्या० ३ ख०) इत्यादौ प्रथमायाः उत्तमायाश्च सामिधेन्योस्त्रिरुच्चारणस्य शब्दनानानित्यः शब्दः सम्भवतीति पूर्ववदित्यर्थः । -- . - ?

५८ वैशेषिकदर्शनम् । [द्वितीयम् अनित्यः शब्दः क्षणद्वयादूर्ध्व नावतिष्ठते, तथासतश्च त्रिरुच्चारणं कथमपि न युज्यते, त्रिरुच्चारणं च ब्राह्मणवाक्येनोपदिश्यते, ततोऽनु- मीयते-नानित्यः शब्दोऽपि च नित्य इति भावः । तत्र "प्रवो वाजा अभिद्य चो हविष्मन्तो घृताच्या दे- वाञिगाति सुन्नयः" (ऋग्वे० मण्ड० ३ सू० २७ मं० १) इ- त्याद्याः एकादशसंख्याका ऋचो वह्निसमिन्धनहेतुत्वात्सामिधेन्य इत्युच्यन्ते इति द्रष्टव्यम् ॥ ३४ ॥ तत्रैव हेत्वन्तरं समुचिनोति-- "सम्प्रतिपत्तिभावाच ॥ ३५ ॥ सम्यग-अभेदेन प्रतिपत्तिः ज्ञप्तिः सम्प्रतिपत्तिः प्रत्यभिज्ञा, तस्याः स- दावः भावः, तसाच नानित्यः शब्द इत्यर्थः । यमेवानुवाकं चैत्रोऽयमध्यैत, तमेव मैत्रोऽयमधीते, यदेव वाक्यं राम परुत् परारि वा त्वमभ्यधत्थाः, तदेवेदानीमप्यभिधत्से, विष्णुमित्रो यो यां गाथामबूत, तामेव भ्रातस्त्वमद्य ब्रूषे, सोऽयमकारः सोऽयं ककार इत्या- दिका भवति तावत्सम्प्रतिपत्तिः । न च सा शब्दस्यानित्यत्वे सम्भवति । तस्मान्नानित्यः शब्द इति भावः ॥ ३५ ॥ पूर्वपक्षं निरस्यति- "सन्दिग्धाः ॥ ३६॥ नामी योऽपि हेतवः शब्दस्यानित्यत्वाभावं साधयितुमुपन्यस्ताः पर्य्या- साः । कुतः १ यतः सन्दिग्धाः साध्याभाववद्वृत्तित्वं सन्देहः, तद्युक्ताः-दे- वदत्तो मैत्रं नृत्यमध्यापयति, मैत्रस्तदेव नृत्यमधीते, द्विरनृत्यत्, बिरन त्यत्, विष्णुमित्रः परुत् पसरि च यदेव नृत्यमकार्षीत् , तदेवेदानी भद्रसेनः करोति, तदेवेदं नृत्यं यत्पूर्वमद्राक्षमित्यादिके लोकसिद्धे क्षणिके नृत्यकर्म- ण्यनैकान्ता व्यभिचारिणः सन्तीत्यर्थः । निश्चितो हेतुः खसाध्यं साधयितुं क्षमते, न सन्दिग्धः । भग्नव्याप्तिक- त्वात् । सन्दिग्धाश्चेमे भवदुपन्यस्तास्त्रयोऽपि हेतवः । साध्याभाववति नृत्ये कर्मणि वर्तमानत्वात् । अतस्ते न स्वसाध्यसाधनक्षमा इति भावः । 1 ५९ . आह्निकम्] द्वितीयोऽध्यायः । तत्र येषामसौ क्षणिकः शब्दः, तेषां तत्र प्रतीयमानं तारत्वादिकं सां- सिद्धिक, येषां चाक्षणिकः, तेषां ध्वनिनिमित्तकत्वान्नैमित्तिकमिति वि- शेषः ॥३६॥ ननु शब्दस्यानित्यतया प्रतिवर्ण बहुत्वे “पञ्चाशद्वर्णाश्चतुर्दशाचः" इत्यादिका शिक्षोक्ता नियता संख्या कथमुपपत्स्यते तत्राह- "सति बहुत्वे संख्याभावः सामान्यतः ॥ ३७॥ बहुत्वे शब्दस्यानित्यत्वात्प्रतिवर्ण नानात्वे सति-सत्यपि संख्याभावः- शिक्षोक्तनियतसंख्यायाः सद्भाव सामान्यतः :-वर्णवृत्तिसामान्यविशेषतः उपपद्यते इत्यर्थः। यद्यपि शब्दस्यानित्यत्वादकारककारादयो वर्णी नाना सम्पद्यन्ते । तथापि ते न जात्वत्वकत्वादिकं सामान्यमतिशेरते । तस्मात्सामान्यविशेष- निबन्धनस्तत्र संख्यानियमो न व्यक्तिनिबन्धन इति भावः ॥ ३७॥ क्षित्यज्योतिस्समीराणां लक्षणस्य यथोचितम् । तथा दिकालशब्दानां वृत्तमस्मिन् परीक्षणम् ॥१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्यात्मारामभगव- त्पादशिष्यहरिप्रसादकृतायां वैशेषिकसूत्रवैदिकवृत्ती द्वितीयाध्यायस्य द्वितीयमाहिकम् । समाप्तश्चायं वाह्यद्रव्याध्यायो द्वितीयः। y ६० वैशेषिकदर्शनम् । [आद्यम् अथ तृतीयोऽध्यायः। आद्यमाह्निकम् । पृथिव्यादीनि बहिर्द्रव्याणि सप्त लक्षणतः स्वरूपतश्च परीक्षितानि । परि- शिष्टमात्मा, मन, इत्याभ्यन्तरं द्रव्यद्वयं परीक्षणीयमवशिष्यते । तत्रोद्देशक- मेणात्मानं परीक्षिष्यमाणः पूर्व तावत्तत्सिद्धौ हेतुं प्रदर्शयितुं पीठमारचयति- "प्रसिद्धा इन्द्रियार्थाः ॥१॥ इन्द्रियार्थाः इन्द्रियाणि चार्थाश्च ते तथा घाणरसनचक्षुस्त्वक्ोत्राणि पञ्चेन्द्रियाणि, गन्धरसरूपस्पर्शशब्दाश्च पञ्च तदर्थाः प्रसिद्धाः प्रकृष्टा ज्ञप्तिः प्रसिद्धिः तद्विषयाः प्रकर्षेण ज्ञाताः सन्तीत्यर्थः । घ्राणादीनीन्द्रियाणि गन्धादिग्राहकतया प्रसिद्धानि, गन्धादयश्च गुणा- स्तदर्थतया प्रसिद्धाः विद्यन्ते को नु नाम न जानाति. घ्राणमिन्द्रियं गन्धं गृह्णाति, रसनं रसं, चक्षुः रूपं, त्वक् स्पर्श, श्रोत्रं शब्दमिति । तस्मान्न त- त्साधनापेक्षेति भावः ॥१॥ नन्विन्द्रियार्थाः प्रसिद्धाः सन्तु, किं तेन, तत्राह- "इन्द्रियार्थसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरस्य हेतुः॥शा इन्द्रियार्थप्रसिद्धिः इन्द्रियेषु घ्राणादिपु, तदर्थेषु च गन्धादिषु प्रसि- द्धेषु येयं प्रसिद्धिः प्राणमिदं, रसनमिद, गन्धोऽयं, रसोऽयमित्यादिकानु. भूतिः, सा चेन्द्रियार्थेभ्यः इन्द्रियेभ्योऽर्थेभ्यश्चान्तरस्य अन्यस्य प्रसाध- कस्यार्थस्य आत्मपदार्थस्य हेतुः= अपदेशः साधकं लिङ्गमित्यर्थः । प्रसिद्धिः, क्वचिदाश्रिता, गुणत्वाद् , शब्दादिवत्, क्रियात्वात्, छि- दादिक्रियावत् , यस्तावत्प्रसिद्धराश्रयः प्रसाधकः, स आत्मेति भाव ॥२॥ ननु यस्यार्थान्तरस्य हेतुरिन्द्रियार्थप्रसिद्धिरभिधीयते, तन्नात्मलक्षणं किञ्चिद्रव्यान्तरम्, अपि चैतच्छरीरमेव, प्रसिद्धेस्तत्कार्य्यत्वाद् रूपादिवत्तदा- श्रयत्वोपपत्ते, तत्राह- "सोऽनपदेशः ॥३॥ सः शरीरस्य ज्ञानाश्रयत्वमायक: "तत्कायंत्यात्" इति हेतुरनपदेशः , , - , स - आह्निकम्] तृतीयोऽध्यायः ।. ६१ "हेतुरपदेशो लिङ्ग प्रमाणं करणमित्यनान्तरम् "(९।२।४) इति वक्ष्यमाणसूत्रादपदेशो हेतु, तद्भिन्नः अहेतुः शरीरानाश्रिते घटपटादौ तत्कार्येऽनैकान्तिकत्वाद्धेत्वाभास इत्यर्थः । एतेन प्रसिद्धेरिन्द्रियाश्रयत्वमपि तत्का>त्वाद् निरस्तं वेदित- व्यम् । प्रदीपकार्यत्वेऽपि घटपटादिप्रसिद्धेस्तदनाश्रितत्वात् । यथा च हेत्वाभासः साध्यसाधको न भवति, तथाग्रे सुव्यक्तम् ॥ ३॥ ननु न तत्का>त्वमात्रं हेतुः, अपि च तत्समवेतत्वे सति तत्कार्य- त्वम् , अतोऽनैकान्तिकत्वाभावाद् रूपादिवच्छरीरस्यैव विशेषगुणो शान सेत्स्यति नात्मनः, तत्राह- "कारणाज्ञानात् ॥ ४॥ ज्ञानं, शरीरसमवेतत्वे सति शरीरकाय्यं नोपपद्यते। कुतः? कारणाज्ञा- नात्-शरीरकारणेषु भूतसूक्ष्मेषु ज्ञानाभावादित्यर्थः । जन्यं तावच्छरीरं, तत्र सर्वे समवेताः गुणाः कारणगुणपूर्वका एव वक्तव्या. "द्रव्याणिद्रव्यान्तरमारभन्ते, गुणाश्च गुणान्त- रम्” (१।१।१०) इति सूत्रात् । न च तदारम्भकारणेषु भूतसूक्ष्मेषु ज्ञानं विद्यते । येन तत्कायें शरीरेऽपि तत्कार्य भवत्समवेयात् । अतस्त- समवेतत्वे सति तत्कार्यत्वस्य हेतोरसिद्धेर्न तद्विशेषगुणो ज्ञानं सिध्य- तीति भावः । तत्र पूर्वत्र हेतोय॑भिचारः प्रदर्शितः, अत्र तु स्वरूपासिद्धिरिति विवेकः ॥४॥ ननु शरीरारम्भकभूतसूक्ष्मेष्वपि ज्ञानमभ्युपगम्यते, अतो न स्वरूपा. सिद्धो हेतुः, तत्राह- "कार्येषु ज्ञानात् ॥५॥ कार्येपु-सर्वेषु घटपटादिपु भूतसूक्ष्मकार्येषु ज्ञानात् ज्ञानप्रसङ्गा- दित्यर्थः। यथा हि भूतसूक्ष्माणां कार्य शरीरं, तथैव घटपटादयोऽपि । तत्र चेज्ज्ञानमभ्युपगम्येत, तदा शरीरवत्तेप्वपि तत्प्रसज्येतेति भावः ॥

६२ वैशेषिकदर्शनम् । [आद्यम् ननु तत्रापि ज्ञानं विद्यते, कृतमतिप्रसक्त्या, तत्राह- "अज्ञानाच ॥६॥ कार्येषु इत्यनुवर्तते । भूतसूक्ष्मेषु ज्ञानाभावसाधनाय सूत्रद्वयेन हेतु- द्वयोपन्यास इति चकारेण सूत्रयति । भूतसूक्ष्मकार्येषु घटपटादिषु केनापि प्रमाणेन ज्ञानस्योपलम्भाभावाच न तत्कारणेषु भूतसूक्ष्मे ज्ञानमभ्युप- गन्तुं शक्यते इत्यर्थः । भूतसूक्ष्मेषु चेज्ज्ञानं विद्येत, तदावश्यं तत्कार्येष्वप्युपलभ्येत । का- र्यगुणानां कारणगुणपूर्वकत्वनियमात् । न च तत्र केनापि प्रमाणेन ज्ञान- मुपलभ्यते । तस्माद्नुमीयते नास्ति तेषु ज्ञानम् । अत एव चायुक्तस्तत्र तदभ्युपगम इति भावः ॥६॥ ननु मा सैत्सीच्छरीराश्रयं ज्ञानम् , आत्माश्रयमपि न सेडुमर्हति, तस्य भिन्नत्वेनाऽत्मना तादात्म्याभावाद्धेतुत्वानुपपत्तेः, तत्राह- "अन्यदेव हेतुरित्यनपदेशः ॥७॥ अन्यदेव साध्याद् भिन्न एव साध्यप्रतियोगिकभेदाश्रय एव हेतुः अ. पदेशो भवति, न तदात्मभूतः, साध्याविशेषप्रसङ्गात् इति अतोऽनप- देशः तादात्म्यघटितोऽपदेशोऽनपदेशः= अहेतुरित्यर्थः । यस्य हि येन तादात्म्यम् , उत्पत्तिर्वा यस्य यस्मात्, स एव तस्य हेतुर्भवति नान्यः कश्चिदिति सौगताः आमनन्ति । तत्र वैशेषिकास्तावदु- त्पत्तिर्यस्य यस्मात् , स तस्य हेतुरिति स्वीकुर्वन्तोऽपि यस्य येन तादात्म्य स एव तस्य हेतुरिति शेपं नियमं नाभ्युपयन्ति । तादात्म्यघटितस्य हेतुत्वे व्यभिचारात् । तद्विरहिणां च बहूनां हेतुत्वदर्शनात् । तदेतदने विस्पष्टम् । अतस्तादात्म्यस्य हेतुघटकत्वानभ्युपगमेन ज्ञानस्यात्मना तादात्म्याभावेऽपि न हेतुत्वानुपपत्तिरिति भावः ॥७॥ ननु चेदन्यदेव हेतुर्न तादात्म्यघटित , तदाऽन्यत्वाविशेषाद् वढेरिव रासभस्यापि धूमो हेतुर्भवेत् , तत्राह- "अर्थान्तरं घर्थान्तरस्यानपदेशः ॥ ८ ॥ . , . आह्निकम्] तृतीयोऽध्यायः । अर्थान्तरं हि सर्वथा साध्यादन्योऽप्यर्थान्तरस्य स्वस्मादन्यस्य साध्य- स्यानपदेशः अपदेशो न भवतीत्यर्थः । इदमत्र बोध्यं-यस्य हि येन तादात्म्य, स तस्य हेतुरिति नायं नियमः । वृक्षोऽयं शिंशपा, शिशपेयं वृक्ष इति वृक्षत्वशिशपात्वयोस्ता- दात्म्ये समानेऽपि वृक्षत्वस्य शिंशपात्वाहेतुत्वात् । नापि यस्य यत्कार्य, तस्य तल्लिङ्गमिति नियमः । धूमवर्तिपार्थिवत्वस्य वहिकार्य्यत्वेऽपि धूमव- त्तदहेतुत्वात् । नाप्यर्थान्तरमर्थान्तरस्य हेतुरिति नियमः । धूमस्यार्थान्तर- त्वेऽपि रासभादिहेतुत्वाभावात् । किन्तु वस्तुखभावात् यो हि येन प्रतिबद्धः सन् तद्भावे भवति, तदभावे च न भवति, स एव तस्य हेतुरिति सार्व- त्रिको नियमः । न तत्र कार्य्यत्वकारणत्वसंयोगसमवायतादात्म्यादिप्रवेशः। तावतैव सर्वत्र निर्वाहसंभवे तत्प्रवेशस्याकिञ्चित्करत्वात् । अत एवोक्तं प्रशस्तपादैः सङ्घहे। "यद् अनुमेयेन सम्बद्धं प्रसिद्धं च तदन्विते । तभावे च नास्त्येव तल्लिङ्गमनुमापकम्" ॥१॥ इति । तथा च न कुत्रापि कश्चिद्दोष इति ॥ ८॥ ननु भवतु साध्यादन्यदेव वस्तुस्वभावप्रतिबद्धं लिङ्ग, तथापि परि- गणनाभावे कथं तत्परिज्ञेयं, तत्राह- "संयोगि समवाय्येकार्थसमवायि विरोधि च ॥९॥ लिङ्गमिति शेषः । कार्य, कारणं, देशाविनाभूतं, कालाविनाभूतमिति चतुष्टयं चकारेण समुचिनोति । संयोग्यादिकं प्रायेण लिङ्गं भवतीत्यर्थः । तत्र यत्र कार्येण धूमालोकादिना हुतभुगादिकारणानुमानं तत्र कार्य लिङ्गम् । यत्र च यथाविधि कृतेन वैदिककर्मणा, मेघोन्नत्यादिना च कारणेन भाविसुखविशेषवर्षादिका-नुमान, तत्र कारणं लिङ्गम् । यत्र च करणेन कर्तुरनुमानं, शरीरं, त्वग्वत्, शरीरत्वात् । अयं देशः, सारथिमान्, विलक्षणगतिमद्रथादित्येवं संयोगिना वा शरीरादिना त्वक्सारथ्यादेरनुमान, तत्र संयोगि लिङ्गम् । यत्र च गुणादिना तदाश्रयविशेषस्यानुमानं, तत्र समवायि लिङ्गं । यत्र चोमिति श्रावयताऽध्वर्युणा व्यवहितस्य होतुरनु- -

वैशेषिकदर्शनम् ।
[आधम्
मान-काश्मीरेषु वा सुवर्णभाण्डागारिकाणां पुरुपाणां यववाटिकासरक्षणेन
यवनालेषु हेमाङ्कुरोऽदस्यानुमानं, तत्र देशाविनाभूतं लिङ्गम् । यत्र
च समुद्रवृद्धिकुमुदविकाशाभ्यां चन्द्रोदयस्य, शरदि वा पयःप्रसादेनागस्त्यो-
। दयस्यानुमानं, तत्र कालाविनाभूतं लिङ्गम् । एकार्थसमवायि,
विरोधि च लिङ्गं खयं सूत्रकृदुदाहरिष्यतीति लिङ्गोदाहरणविवेकः ।
यद्यपि लिने संयोगादिकं नापेक्षितं, नापि शक्यपरिगणनं लिङ्गम
तथापि शिष्याणामुदाहरणनिष्ठं कृत्वा किमप्यव्यभिचारि लिङ्गं दर्श-
नीयमिति सूत्रे सयोग्यादिकमुदाहृतं, न त्वेतावन्त्येव लिगानीति दर्शयितु-
मिति द्रष्टव्यम् ॥ ९॥
एकार्थसमवायिलिङ्गमुदाहरति-
"काय कार्यान्तरस्य ॥१०॥
कार्य-रूपं कार्यान्तरस्य-स्पर्शस्य, गन्धो वा रसस्यैकार्थसमवायि
लिङ्गमित्यर्थः।
यथा कार्य कार्ये, तथाऽकार्यमप्याकाशादीनामेकत्वमाकाशादी-
। नामेकपृथक्त्वे, परममहत्त्वे चैकार्थसमवायि लिङ्गम् । एकार्थसमवायित्व
चैकसिन्नथै समवायेन वृत्तिमत्त्वमिति बोद्धव्यम् ॥ १० ॥
विरोधिलिङ्गमुदाहरति-
"विरोध्यभूतं भूतस्य ॥ ११ ॥
अभूतम् अविद्यमानम् "अभूतं नास्तीत्यनर्थान्तरम् (९।१।९)
इति वक्ष्यमाणसूत्रात् । वर्षमिति शेषः । भूतस्य विद्यमानस्य विजा-
तीयमरुदभ्रसंयोगस्य विरोधि-विरोधि लिङ्गमित्यर्थः ।
प्रत्यक्षाप्रत्यक्षसंयोगस्य प्रत्यक्षत्वाभावादनुमेयोऽयं विजातीयमरुभ्रसं-
योग इति ध्येयम् ॥ ११॥
विरोधि लिङ्गान्तरमुदाहरति-
"भूतमभूतस्य ॥१२॥
विरोधि इत्यनुवर्तते । भूतं विद्यमानं वर्षमभूतस्य अविद्यमानस्य,
विजातीयमरुदभ्रसंयोगस्य विरोधि लिङ्गमित्यर्थः ॥ १२ ॥

आह्निकम्] तृतीयोऽध्यायः । ६ . , विद्यमानं विद्यमानस्य विरोधिनो लिङ्गमुदाहरति- "भूतो भूतस्य ॥ १३ ॥ विरोधि इत्यनुवर्तते । भूतः विद्यमानो विस्फूर्जनहिर्भूतस्य विद्यमा- नस्य झाटान्तरितनकुलस्य विरोधि लिङ्गमित्यर्थः ॥ १३ ॥ लिङ्गोदाहरणं यद् यद्दिमात्रेणेह दर्शितम् । ताहक्ताहक्स्वयं कल्प्यं धियोदाहरणान्तरम् ॥१॥ ननु संयोग्यादिनाम्ना लिङ्गानां परिगणनेऽपि वस्तुतो लिङ्गावगमो न भवति, कुत्रचित्तद्भिन्नस्यापि लिङ्गत्वदर्शनात, तस्मात्कश्चिन्नियम- विशेषो वक्तव्यः, येन सुखेन लिगमवगच्छेम, तत्राह- "प्रसिद्धिपूर्वकत्वादपदेशस्य ॥ १४ ॥ अपदेशस्य लिङ्गस्य प्रसिद्धिपूर्वकत्वात् व्याप्तिज्ञानमत्र प्रसिद्धिः, तत्पू- र्वकत्वनियमाद् यस्य येन व्याप्तिर्ज्ञायेत, तत्तस्य लिगमवगन्तव्यमित्यर्थः । । वस्तुस्वभावसिद्धः साध्यसाधनयोरव्यभिचरितसम्बन्धो हि व्याप्तिरुच्यते । यां केचिदविनाभावसम्बन्धं वा, यत्रधूमस्तत्रा- निरित्येवमादिरूपं साहचर्यनियम वा सझिरन्ते, यां वा नव्याः साध्यवत्प्रतियोगिकभेदाधिकरणनिरूपितवृत्तित्वाभावं, हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामाना- धिकरण्यं वा निर्बुवते, सा चाव्यभिचारग्रहपुरस्सरं भूयःसहचारदर्श- नेन वा, सकृत्सहचारदर्शनेन वा, यस्य येन गृह्येत, तत्तस्यानुमापकं लिङ्ग, निश्चेतव्यमिति भावः। यत्र हि महानसादौ भूयःसहचारदर्शनात् साधनधर्मस्य धूमादेः साधनी- यधर्मेण वयादिना व्याप्तिर्गृह्यते, स च निश्चितसाध्यवान-सपक्षः। यत्र च पर्वतादौ किमिह वयादिकमस्ति न वेति साधनीयधर्मगोचरः सन्देहः, स सन्दिग्धसाध्यवान-पक्षः। सिषाधयिषाविरहविशिष्टसिद्धयभा- १ साधयितुमिच्छासिषाधयिषा, तस्याः विरहोऽभावः, तद्विशिष्टा या सिद्धि साध्य निश्चयस्तदभावः-पक्षतेतितदर्थः । तत्र सिपाधयिषोत्तेजिका । तद्विरहविशिष्टा सिद्धिश्चानु- मितौ प्रतिवन्धिका । सिद्धौ सत्यामपि सिपाधयिषासत्त्वेऽनुमितिर्जायते । तदर्थे सिषाध- . , ९ J वैशेषिकदर्शनम् । [आयम् वःपक्षता, स्वप्रतियोगिविशेष्यतासम्बन्धेन तद्वान् पक्ष इति यावत् । यत्र च जलहदादौ साध्याभावस्तत्पूर्वकः साधनाभावश्च निश्चितः, स निश्चितसाध्याभाववान-विपक्ष इत्युच्यते । यदा चायं सपक्षे भूयःसहचारदर्शनेन यत्र धूमस्तत्राग्निरिति प्रसिद्धसमयो दैवादारण्यं गच्छेन्, पर्वतं समालोक्य किमिह वहिरस्ति न वेति सन्दिहानस्तत्राविच्छिन्नमूलां धूम- लेखां पश्यति, तदा यत्र धूमस्तत्राग्निरिति व्याप्तिं संस्मरन्नध्यवस्यति-पर्व- तोऽयमग्निमानिति । तत्र पक्षे धूम एवायं न बाष्पादिकमित्यसन्दिग्धधूमादि- लिङ्गदर्शनमनुमितिकरणत्वादनुमानम् । व्यापारवदसाधारणं कारणं-क- रणं, तज्जन्यत्वे सति तज्जन्यजनको व्यापार इति व्याप्तिस्मरणं व्यापारः। 'एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकम्' इति न्यायेन लिङ्गदर्शनस्य व्याप्ति- स्मरणहेतुत्वात् । साधनीयधर्मस्य वयादेः प्रमितिरनुमितिः । अथवा साधनीयधर्मस्य प्रमितिरनुमानम् । तत्र गुणदोषमाध्यस्थ्यानुसन्धानम- नुमितिः। केचित्तु पूर्व महानसादौ लिगलिङ्गिनोर्व्याप्तिज्ञानं, तदनु लिङ्गस्य पक्षधर्मतया ज्ञानं, पश्चाद् व्याप्तिस्मरणपूर्वकं परामर्शापरनामधेयं व्याप्यवा- नयमिति व्याप्तिविशिष्टस्य लिङ्गस्य पक्षवृत्तित्वज्ञानं तृतीयमनुमितिकरण- त्वादनुमानम् , फलायोगव्यवच्छिन्नं कारणं च करणमित्याहुः । नवी- नास्तु व्याप्तिज्ञानं करणं, परामर्शो व्यापारः इति व्यवस्थापयन्ति। तच्चैतदनुमानं स्वानुमितिहेतुत्वात्स्वार्थमिति परिभाष्यते । स्वस्यार्थः= साधनीयधर्मानुमितिलक्षणं प्रयोजनं यस्मादिति तद्वद्युत्पत्तेः । यत्तु परानु- मित्यर्थकं पञ्चावयवसाध्यमनुमानं, किमुक्तम् ? यत् परप्रतिपत्त्यर्थ पञ्चावय- वेन वाक्येन स्वनिश्चितार्थप्रतिपादनं, तत्परार्थमिति व्यपदिश्यते । प्रति- यिषाविरहविशिष्टेति सिद्धिविशेषणम् । तथा च विशेषणाभावप्रयुक्तविशिष्टाभावसत्त्वात्प- क्षता । सिषाधयिषासत्त्वेऽसत्या च सिद्धौ विशेषणविशेष्योभयाभावप्रयुक्तो विशिष्टाभाव। सिषाधयिषाया अपि अभावे तु विशेष्याभावप्रयुक्तो विशिष्टाभावः । यत्र तु सिद्धिरस्ति सिषाधयिषा च नास्ति, तत्र न पक्षता । सिषाधयिषाविरहविशिष्टाया. सिद्धेः प्रतिवन्धकत्वात्।

1 ६७ आह्निकम्] तृतीयोऽध्यायः । ज्ञाहेतूदाहरणोपनयनिगमनापरनामानः प्रतिज्ञापदेशनिदर्शनानुस- न्धानप्रत्यान्नायाः इति पञ्चावयवाः -तत्र प्रत्यक्षानुमानागमख- , शास्त्रस्ववचनाविरोधी साधनीयधर्मविशिष्टस्य धर्मिणो निर्देशः प्रतिज्ञा, यथा वहिमान् पर्वत इत्यादिः । अत्राविरोधीति ग्रहणाद् "अनुष्णो वह्निः, धनमम्बरं, ब्राह्मणेन सुरा पेया, वैशेषिकस्य सत्कार्य- वादः, शब्दो नार्थप्रत्यायक इति यथाक्रमं प्रत्यक्षादिविरोधिनो निर्देशाः प्रतिज्ञाभासत्वान्निरस्ता भवन्ति । १। पञ्चम्यन्तं तृतीयान्तं वा लिङ्गवचनमपदेशः, यथा-धूमाद्, धूमेनेत्यादिः । धूमवत्त्वाद् धूमा- दिति त्वनन्तरम् । २ । साध्यसाधनयोरन्वयव्यतिरेकन्या- सिनिदर्शकं वचनं निदर्शनम् । तत्रान्वयव्याप्तिनिदर्शकं वचनं साधर्म्यनिदर्शनम् , तद्यथा-यो यो धूमवान् स स वह्निमान्, यथा महानसमित्यादि । व्यतिरेकव्याप्तिनिदर्शकं वचनं वैधय॑निदर्शनम्, तद्यथा 'यो यो वह्निमान् न भवति, स स धूमवान् न भवति, यथा जलहृद इत्यादिकम् । ३। इदमत्र बोध्यं यत्र हि साध्यसाधनयोक्- तिनिश्चिता, तदेव व्याप्तिनिदर्शकस्थलत्वान्निदर्शनं भवति, न तत्र पक्षा- न्यत्वानन्यत्वनियमः कश्चित् । सति तन्निश्चये पक्षान्यस्येव पक्षकदेशस्यापि निदर्शनत्वनिर्णयात् , यथा जगत्सकर्तृकत्वानुमाने, पृथिवीतरभेदानुमाने च, पक्षकदेशस्यापि घटस्य निदर्शनत्वम् । न च पक्षकदेशे साध्यनिश्चयो भवन् पक्षमात्रे साध्यानुमिति प्रतिबध्नाति, पक्षतावच्छेदकावच्छेदेन सा- ध्यानुमिति प्रति पक्षतावच्छेदकसामानाधिकरण्येन साध्यनिश्चयस्य प्रति- बन्धकत्वानभ्युपगमात् । किमुक्तम् ? यदवच्छेदेन साध्यमनुमीयते, तदवच्छेदेन तन्निश्चयः प्रतिबन्धको, न ततो न्यूनावच्छेदेन, अत एव पक्षतावच्छेदकसामानाधिकरण्येन साध्यानुमितिं प्रति पक्षतावच्छेदकाव- च्छेदेन साध्यनिश्चयः, पक्षतावच्छेदकसामानाधिकरण्येन साध्यनिश्चयश्च प्रतिबन्धक इति सार्वत्रिको राद्धान्त इति । निदर्शने साध्यावि- नाभूतत्वेन दृष्टस्य लिङ्गस्यान्वयव्यासौ तथेति व्यतिरेक- व्यासाचन तथेति पक्षनिष्ठतयोपसंहरणमनुसन्धानम्, ।

६८ वैशेषिकदर्शनम् । [आद्यम् तद्यथा अन्वये 'तथा चायं ='धूमवाँश्वायम्' इत्यादि, व्यतिरेके च 'न च तथाऽयं न च धूमाभाववानयम्' इत्यादि । ४ । प्रतिज्ञावचनेन पक्षेऽनु- मेयतयोद्दिष्टेऽनिश्चिते साध्यधर्मे हेत्वादिभिस्त्रिभिरवयवैः सजातानुमेयपति- पत्तिसामर्थ्यानां परेषां परिपूर्णेन वाक्येन निश्चयापादनार्थ तस्मात्त-. थेति हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं प्रत्यानायः । तद्यथा 'तस्मात्तथा'='धूमाद् वह्निमान् पर्वतः' इत्यादि । ५। तदेतत्स्वार्थपरार्थभेदभिन्नमनुमानं सामान्यविशेषभेदेन व्याप्तेद्वैविध्याद् द्विविधं-दृष्टं, सामान्यतोदृष्टं च। लिङ्गविशेषस्य लिगिविशेषेण व्याप्ति- ग्रहाद् यदनुमानं, तद् दृष्टम् , किमुक्तम् । यत्पूर्व लिङ्गेन सह दृष्ट साध्यं, यच्च सम्प्रत्यनुमेयं, तयोरत्यन्तजात्यभेदे यद्नुमानं तद् दृष्टम् , यथा धूमेन वयनुमानम् ।। लिङ्गसामान्यस्य लिनिसामान्येन व्याप्तिग्रहात् यदनुमानं, तत्सामान्यतोदृष्टव्याप्तिकत्वात्सामान्यतो दृष्टम् , किमुक्तम् ? यत्पूर्व लिङ्गेन सह दृष्टं साध्यं, यच्च सम्प्रत्यनुमेयं, तयोरत्यन्तजातिभेदे यदनुमानं तत्सामान्यतो दृष्टम् , यथा-स्पर्शादिलिङ्गेन वाय्वनुमानम् , वा ज्ञानादिना लिङ्गेनात्मानुमानम्, यथा वा क्रियात्वसामान्यस्य करणसा- ध्यत्वसामान्येनाविनाभावदर्शनाद् वास्यादिसाध्यच्छिदादिक्रियामुदाहृत्य ग- न्धादिज्ञानानां क्रियात्वेन तत्करणघ्राणादीन्द्रियानुमानम्, यथा वा-प्रवृ- त्तित्वसामान्यस्य फलवत्त्वसामान्येनाविनाभावदर्शनात्कर्षकवणिग्राजपुरुषाणां प्रवृत्तिमुदाहृत्य प्रवृत्तित्वेन हेतुना वर्णाश्रमिणां वैदिककर्मसु प्रवृत्तेः फल- वत्त्वानुमानम् । २ । गौतमीयास्तु व्याप्तेस्वैविध्यादनुमानत्रैविध्यमाहुः तद्वयं गोतमसूत्रवैदिकवृत्तौ सविस्तरं समुपापीपदाम, तत एव तदवलोक- नीयम् । अत्र च सर्वत्रानुमाने व्याप्तिप्प्यैकनियतैवावगन्तव्या, न कदा चिद् व्यापकनियतापि, यतो न सा संयोगादिवदुभयत्र व्यासज्यते, व्या- पकस्याधिकदेशवृत्तित्वेन व्याप्यव्यभिचारात् । यत्रापि समव्याप्तिके कृतकत्वानित्यत्वादौ व्याप्यस्यापि व्यापकत्वमस्ति, तत्रापि व्याप्यत्वरूप- माश्रित्यैव व्याप्तिर्वर्तते, न व्यापकत्वरूपम् , तस्य व्यभिचारिण्यपि संभवात् । अतस्तत्प्रदर्शनवेलायां व्याप्यगतत्वेनैव सा सर्वदा प्रदर्शनीया 'यो यो धूम- यथा - 1 आह्निकम् ] तृतीयोऽध्यायः । ६९. वान् स स वह्निमान्' इति, न तु कदाचिद् व्यापकगतत्वेनापि यो यो वहिमान् स स धूमवान्' इति । तत्रान्वये-साधनं तावद् व्याप्यं, साध्यं च व्यापकं, व्यतिरेके तु तद्विपरीतं-साध्याभावो व्याप्यः, साधनाभावश्च व्या- पकः । तद् यथोक्तं मीमांसाभाष्यवार्तिके (अ १० पा १ अनु० परि० का. १२१)- "व्याप्यव्यापकभावो हि भावयोर्यादगिष्यते। तयोरभावयोस्तस्मादविपरीतः प्रतीयते ॥१॥ इति अन्वये साधनं व्याप्यं साध्यं व्यापकमिष्यते । साध्याभावोऽन्यथा व्याप्यो व्यापकः साधनात्ययः॥२॥ तस्माद् व्याप्तेफ्प्यगतत्वनियमात्सर्वत्र तगृहपूर्वक एव हेतुरवग- न्तव्य इति दिक् ॥ १४॥ ननु यथाऽनुमानाङ्गत्वादपदेशो निरूपितः, तथा तत्प्रतियोगित्वादन- २ पदेशोऽपि निरूपणीयः, तदवगमे तन्निरूपणस्योपयोगात्, अन्यथा विवेक- ग्रहाभावेन सुखतस्तवगमानुपपत्तेः, तत्राह- "अप्रसिद्धोऽनपदेशः ॥ १५॥ अप्रसिद्धः यो हेतुः सपक्षे न प्रसिद्धः न साध्येन गृहीतव्याप्तिकः= साध्याभावव्याप्त इति यावत् , सोऽनपदेशः ईषदपदेशः अपदेशाभासः= विरुद्धाख्यो हेत्वाभास इत्यर्थः ।। तत्रानपदेश इति लक्ष्यनिर्देशः, अप्रसिद्ध इति लक्षणमिति वि- वेकः ॥१५॥ ननु किमेक एवानपदेशो वैशेषिकाणां? तबाह- "असन् सन्दिग्धश्चानपदेशः ।।१६।। अनुवृत्त्या लाभसम्भवेऽपि कार्यभेदज्ञापनार्थमनपदेश इति पुनरुपा- तम् । असन्यो हेतुः पक्षे न सन्-आश्रयस्वरूपादितो न भवति, यश्च सन्दिग्धः सन्दिग्धव्याप्तिकः, सोऽनपदेशः प्रथमोऽसिद्धाख्यो द्विती- योऽनैकान्तिकाख्यो हेलाभास इत्यर्थः । - - - , वैशेषिकदर्शनम् । । [आद्यम् तत्रानपदेश इति लक्ष्यनिर्देशः । असन् सन्दिग्धश्चेति लक्षणमिति विवेकः । यत्तु न्यायप्रक्रियासाम्यं कामयमानो वृत्तिकृत् सूत्रस्थचकारेण बाध. सत्प्रतिपक्षावपि समुदचैषीत् । तन्न युक्तम् । वैदिकदर्शनानां मुख्यसि- द्धान्तसाम्येऽपि प्रक्रियासाम्यानभ्युपगमात् । अन्यथा दर्शनभेदानुपपत्तेः । बाधस्यासिद्धौ सत्प्रतिपक्षस्यानैकान्तिके चान्तर्भावेण निर्वाहसम्भवात् । "विरुहासिद्धसन्दिग्धमलिङ्ग काश्यपोऽब्रवीद्" इति प्रश- स्ताचार्हेत्वाभासत्रयस्यैव सद्महे महर्षिसंमतत्वाभिधानाच्च । इदमन्त्र बोध्य-यो हि वस्तुतो हेतुर्न भवति, केवलं पञ्चम्यादिनिर्देश- सामान्याद्हेतुवदाभासते, किंबहुना! यगोचरयज्ज्ञानं साक्षात्पम्परया वा- ऽनुमिति प्रतिबध्नाति, स एव हेतुवदाभासनाद्धेत्वाभासः,अपदेशाभासत्वादन- पदेशः, हेतुदोषैर्विरोधासिद्धिव्यभिचारैर्दुष्टत्वाच्चासद्धेतुरित्युच्यते। सच वि- । रुद्धासिद्धानकान्तिकभेदान्त्रिविधः-तत्र यस्तावत् सपक्षे न वर्तते, विपक्षे च वर्तते, व्याप्तिबलेन साध्यविपर्यायं च सानोति; स विरुद्धः । विपरीतसाधनात् । तञ्चैतं नव्याः "साध्याभावव्याप्तो वा साध्य- व्यापकीभूताभावप्रतियोगी वा हेतुर्विरुद्धः" इति निर्बुवते। तस्योदाहरणं-शब्दो, नित्यः, कृतकत्वात् , घटादिवदित्यादिकम्। अयं च सा- ध्याभावग्रहसामग्रीत्वेन साक्षाद्नुमितिप्रतिबन्धकः । साध्यवदवृत्तित्वलक्षण- विरोधरूपदोषविशिष्टोऽयं हेतुरिति ज्ञाने सत्यनुमित्युदयासम्भवात् । १। असिद्धस्त्रिविधः-आश्रयासिद्धः, स्वरूपासिद्ध., व्याप्यत्वासिद्धश्च । तत्त्व चाश्रयासिद्धाद्यन्यतमत्वम् । तत्र यस्य हेतोराश्रयः धर्मी-पक्ष इति यावन्न सिद्धन प्रमितः, स आश्रयासिद्धः । पक्षे पक्षतावच्छेदकविरहः, पक्षतावच्छेदकविरहवान् वा-पक्षः आश्रयासिद्धिः, तया वर्तमानो हेतुरा- श्रयासिद्ध इति नव्याः। तस्योदाहरणं-गगनारविन्दं, सुरभि, अरविन्दत्वात् सरोजारविन्दवदित्यादिकम् । अस्य च करणप्रतिबन्धेनानुमितिप्रतिवन्धः कार्यम् । पक्षासिद्धौ लिङ्गदर्शनासिद्धेः। १। यो हेतु: पक्षे स्वरूपतो न सिद्धः-न प्रमितः, किमुक्तं ? यो हेतुः पक्षे न वर्तते, स वरूपा- " न आहिकम् तृतीयोऽध्यायः । सिद्धः । पक्षे हेत्वभावो, हेत्वभाववान् पक्षो वा स्वरूपासिद्धिः, तया वर्त- मानो हेतुः स्वरूपासिद्ध इति नवीनाः।स चोभयासिद्धान्यतरासिद्धतद्भा- वासिद्धभागासिद्धभेदाच्चतुर्विधः-वादिप्रतिवादिनोरुभयोरसिद्धः उभया- सिद्धः । यथा शब्दः, अनित्यः, सावयवत्वात्, घटवदिति । सावयवत्वं हि शब्दनित्यत्वानित्यत्ववादिनोरुभयोस्तत्रासिद्धम् । वादिप्रतिवादिनोरुभयो- रेकस्य सिद्धोऽप्यन्यस्यासिद्धः अन्तरासिद्धः । यथा-शब्दः, अनित्यः, कार्य्यत्वादिति । शब्दानित्यत्ववादिनो वैशेषिकस्य शब्दे सिद्धमपि का- यत्वं न तन्नित्यत्ववादिनो मीमांसकस्य तत्र तसिद्धम् । पक्षे हेतुभावेना- सिद्धः तद्भावासिद्धः। यथा धूमभावेन वयधिगतौ कर्तव्यायामुपन्यस्तो बाप्प इति । विशेषणतो विशेषतोऽसिद्धः भागासिद्धः । यथा वायुः, प्रत्यक्षः, रूपवत्त्वे सति प्रत्यक्षस्पर्शाश्रयत्वात्, प्रत्यक्षस्पर्शाश्रयत्वे सति रूपवत्त्वादिति । कार्य चास्य खरूपासिद्धस्य पूर्ववत् ।२। व्याप्यस्य भावो व्याप्यत्वं व्याप्तिः, तस्याः असिद्धिः व्याप्यत्वासिद्धिः, सा यत्र नियता, स व्याप्यत्वासिद्धः। स च साध्याप्रसिद्धसाधनाप्रसिद्धसोपाधिकभेदात् त्रिविधः -तत्र यस्य हेतोः पक्षादन्यत्र साध्यं न प्रसिध्यति, स साध्या- प्रसिद्धः । यथा 'पर्वतः, काञ्चनमयवह्निमान् , धूमादिति । काञ्चनम- योवहिर्न कुत्रापि प्रमीयते इति तत्साध्यको हेतुः साध्याप्रसिद्धः । साध्ये साध्यतावच्छेदकाभावः साध्याप्रसिद्धिः, तया वर्तमानः साध्याप्रसिद्ध इति नव्याः । यस्तु स्वयमेव न कचित्प्रसिध्यति, स साधनाप्रसिद्धः। यथा पर्वतो, वहिमान् , काञ्चनमयधूमादिति। धूमो न कुत्रापि का- ञ्चनमयत्वेन प्रसिद्ध इति साधनाप्रसिद्धः । नवीनास्तु हेतौ हेतुता- वच्छेदकाभावः साधनाप्रसिद्धिः, तया वर्तमानः साधनाप्रसिद्ध इत्याहुः। पूर्वस्य करणप्रतिबन्धः, चरमस्य च व्याप्तिज्ञानप्रतिबन्धः, कार्य्यम् । उपाधिना सह वर्तमानो हेतुः सोपाधिकः । साध्यस्य व्यापक: साधनस्य चाव्यापको धर्म:-उपाधिः। साध्यव्यापकत्वं च साध्य- "समानाधिकरणात्यन्ताभावाप्रतियोगित्वं, साधनाव्यापकत्वं च साधनवन्नि- छात्यन्ताभावप्रतियोगित्वमिति नव्याः। स च केवलसाध्यव्यापकः, पक्षध- A + LAN ७२ वैशेषिकदर्शनम् । [आद्यम् विच्छिन्नसाध्यव्यापकः, साधनावच्छिन्नसाध्यव्यापक इति भेदात् त्रिविधः । तत्राद्यः पर्वतो, धूमवान् , वहेरित्यत्र "आर्द्वन्धनसंयोगः", द्वितीयो वायुः, प्रत्यक्षः, प्रत्यक्षस्पर्शाश्रयत्वादित्यत्र "उद्भूतरूपवत्त्वम्", अयं चाइँन्धनसंयोगवन्न केवलसाध्यस्य व्यापकः, गुणकर्मसु व्यभिचारात्, अपि च पक्षधर्मो द्रव्यत्वं, तद्विशिष्टस्य साध्यस्य । गुणकर्मसु च द्रव्यत्वाभाव- वान्न तस्य तत्र व्यभिचार इति । तृतीयः स श्यामः, मित्रातनयत्वादित्यत्र "शाकपाकजन्यत्वम्" । एका मित्रानाम्नी काचित्कल्याणी तनयद्व- यमजीजनत्-एकदा शुभ्रभोजना शुभ्रम् , अन्यदा चशाकभोजना श्यामम् । तत्र शुभ्रस्तत्पदार्थः पक्षः, श्यामो निदर्शनम् , अत्र कोकिलादौ चोभयत्र श्यामत्वं साध्यमस्ति, शाकपाकजन्यत्वं नास्ति, तस्मान्नायं केवलसाध्य- व्यापकः, किन्तु साधनं मित्रातनयत्वं, तदवच्छिन्नसाध्यव्यापकः । कोकि- लादौ च मित्रातनयत्वविशेषणाभावेन विशिष्टाभावान्न तस्य तत्र व्यभिचार इति । सर्वश्चायमुपाधिः साध्यसमव्याप्तः, कदाचित्कुत्रचित्साध्यादधि- कदेशवृत्तितया विषमव्याप्तोऽपि भवति । तस्य चैतस्य "अयं हेतुः, साध्यव्यभिचारी, साध्यव्यापकोपाधिव्यभिचारित्वाद्” इति हेतोः साध्यव्य- भिचारानुमानेन व्याप्तिप्रतिबन्धः परमं प्रयोजनम् । इदमन बोध्यं- यत्रयत्रोपाधिरागच्छेत्, तत्र सर्वत्र तत्परिशुद्धयर्थमुपाधिव्यतिरेकेण सा- ध्यव्यतिरेकोऽनुमातव्यः, तस्मिन्ननुमीयमाने चेपुनरपि कश्चिदुपाधि- रापतेत्, तदा पूर्वोद्भावितः सोऽनुपाधिमन्तव्यः, हेतुश्च निरुपाधिकः खसाध्यसाधनक्षमः । तस्योदाहरणं "विमतं जगत्, कर्तृजन्यं, कार्य- त्वात् , घटादिवदिति वैदिकानामीश्वरसाधकमनुमानम् । अत्र बाबरुद्भावितः शरीरजन्यत्वमुपाधिः । स च सपक्षे साध्यव्यापकः, पक्षे च साधनाव्या- पकः । तत्परीक्षार्थ "विमतं जगत्, कर्तृजन्यं न भवति, शरीरजन्यत्वाभा- वाद्, व्योमवद्" इति बाह्यमतेन तव्यतिरेकात्साध्यव्यतिरेकानुमाने प्राग- भावाप्रतियोगित्वमुपाधिः । स च यत्र कर्तृजन्यत्वाभावस्तत्र शरीरज- न्यत्वाभाव इति व्योनि सम्मतत्वात्साध्यस्य व्यापकः, पक्षे च जगति शरी- रजन्यत्वाभावे सत्यपि कर्तृजन्यत्वाभावाभावात्साधनस्याव्यापक इति ।

आदिकम्] तृतीयोऽध्यायः । तस्मादिह शरीरजन्यत्वमुपाधिरनुपाधिरिति । यस्य हेतोः प्रत्यक्षादिविरो- धात्प्रतिज्ञैव न सिध्यति, स प्रतिज्ञासिद्धः चतुर्थोऽसिद्धः। यं गौत- मीयाः कालात्ययापदिष्टनाम्ना, बाधनाम्ना च व्यपदिशन्ति । स च पूर्व प्रतिज्ञालक्षणेऽविरोधिपदनिवेशादेव सङ्गृहीतः, अतो नेह पृथगुपन्यस्त इति बोध्यम् । अनैकान्तिकः सव्यभिचारः । स च साधारणासा- धारणानुपसंहारिभेदात् त्रिविधः । तत्त्वं च साधारणायन्यतमत्वम् । यो हेतुः साध्यमतिक्रम्य वर्तते, किमुक्तं ? यत्रयत्र साध्य, तत्रतत्र वर्तमानोऽपि यत्र साध्यं नोपावर्तते, तत्रापि वर्तते-साध्यवदन्यवृत्तिरिति यावत् , स साधारणोऽनैकान्तिकः। यथा पर्वतो, वह्निमान् , प्रमे- यत्वादित्यत्र प्रमेयत्वम् । विरुद्धस्तु केवलविपक्षवृत्तिः, अयं च पक्षसप- क्षवृत्तिः सन् विपक्षवृत्तिरिति विशेषः । यो हेतुर्न सपक्षे वर्तते न विपक्षे, पक्षे केवलमुपावर्तते, स सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिर- साधारणः । यथा शब्दो नित्यः, शब्दत्वादित्यत्र शब्दत्वम् । यस्य हेतो. साध्यं सर्वत्रान्वीयते, स केवलान्वयिसाधकोऽनुपसंहारी । यथा घटः, अभिधेयः, प्रमेयत्वादिति । केवलान्वयित्वं चात्यन्ताभावाप्रतियोगित्वमिति नव्याः । सर्वस्य चास्य व्याप्तिज्ञानप्रतिबन्धः कार्य्यम् । गौतमीयानां सत्प्रतिपक्षोऽपि सन्दिग्धेऽनैकान्तिकेऽन्तर्भवति । यथा हि साधारणो- उनैकान्तिकः पक्षसपक्षविपक्षवृत्तिः, तथैव सत्प्रतिपक्षोऽपि, न तयोरस्ति किञ्चिदन्तरम् । यस्य हि साध्याभावसाधकं हेत्वन्तरं वि- यते, स सत्प्रतिदक्षः । यथा-शब्दः, नित्यः, श्रावणत्वात् , शब्दत्व- वदित्यत्र श्रावणत्वम् । शब्दः, अनित्यः, कार्यत्वाद्, घटवदिति साध्यामात्र- साधकतया तत्प्रतिपक्षस्य कार्य्यत्वरूपहेत्वन्तरस्य विद्यमानत्वात् । तच्च प्रमेयत्ववत्पक्षसपक्षविपक्षेषु शब्दशब्दत्वध्वनिपु वर्तमान न साधारणादति- रिच्यते । तस्माद् वैशेषिकाणां त्रय एव हेत्वाभासाः यथालक्षणमध्यवसा- तव्या इति। एतेन निदर्शनाभासोऽपि व्याख्यातो वेदितव्यः । स हि साध्य- विकलसाधनविकलसाध्यसाधनोभयविकलभेदात्रिविधः । तत्र साध्येन - १० -- [अधिम् वैशेषिकदर्शनम् । हीनः साध्यविकलः । यथा-शब्दो, नित्यः, श्रावणत्वात् , ध्वनिवदि ति । ध्वनौ नित्यत्वं नास्ति । जन्यत्वात् । साधनेन हीनः साधन- विकलः। यथा शब्दो, नित्यः, श्रावणत्वाद्, आत्मवदिति । श्रावणत्व- मात्मनि नास्ति । साध्यसाधनोशाभ्यां हीनः उभयविकलः। यथा-शब्दो, नित्यः, श्रावणत्वात्, घटवदिति । घटे नित्यत्वं नास्ति । जन्यत्वात् । श्रावणत्वं नास्ति । द्रव्यत्वात् । आत्माश्रयान्योऽन्याश्रयचक्रकानवस्थादयो दोपाः निग्रहस्थानान्तर्भूताः ते च न्यायसूत्रवैदिकवृत्तौ व्याख्याताः, तस्मात्तत एव दर्शनीया इत्यलमिह बहुना ॥ १६॥ विरुद्धासिद्धयोरुदाहरणमाह- “यस्माद्विषाणी तस्माश्वः ॥१७॥ यस्मादस्य विपाणमस्ति, तस्मादयमश्व इत्यर्थः । रासभपिण्डं दूरतः पश्यतोऽयं प्रयोगः । पिण्डोऽयम् , अश्वः, विपाणि- त्वात् , यन्नैवं, तन्नैवं, यथा शशशृगालनरवानरादिकम् । अत्र विपाणित्वं हेतुः साध्याभावेन व्याप्तत्वाद् विरुद्धः, पक्षेऽसत्त्वाचासिद्धः इति भावः । इदं च विरुद्धैकदेशस्योदाहरणं न विरुद्धस्य । विपाणित्वस्य हेतोः सर्व- त्रानश्वे स्तम्भादावभावात् । तदुदाहरणं तु पुरस्तादुक्तमिति ध्येयम् ॥१७॥ सन्दिग्धमुदाहरति- “यस्माद्विषाणी तस्माद्गौरिति चानकान्तिकस्योदाह- रणम् ॥१८॥ विरुद्धासिद्धयोरुदाहरणमुक्तमिति सूचनाय चकारः। गोपिण्डोऽत्र पक्षः। गौगोवजाति- यस्मादयं पुरोवर्ती पिण्डो विपाणी-विपाणवान् , तस्माद् मानिति असिन प्रयोगे यदिदं विपाणित्वं हेतुः तदनैकान्तिकस्य-सन्दि- ग्धस्योदाहरणं-साध्यवदन्यस्मिन् वर्तमानत्वाद् निदर्शनमित्यर्थः । तत्राय, गौः विपाणित्वात् , संमतवदिति प्रयोगाकारः ॥ १८॥ - - आह्निकम् ] तृतीयोऽध्यायः । लक्ष्मोदाहरणैः सम्यग्हेत्वाभासा निरूपिताः। घोषितव्या यथासत्त्वमर्थे शुद्धिमभीप्सता ॥१॥ ननु वैदिकानां सच्चित्स्वरूपो जीवात्मा, कथम् "इन्द्रियार्थप्र- सिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरस्य हेतुः" इति तज्जन्यज्ञानगुण- लिङ्गेन तस्य सिद्धिरुच्यते ? तत्राह- "आत्मेन्द्रियार्थसन्निकर्षाद्यनिष्यद्यते, तदन्यत्॥१९॥ आत्मेन्द्रियार्थसन्निकर्षाद-आत्माधिष्ठितानां घ्राणादीनामिन्द्रियाणां गन्धादिभिः प्रातिस्विकार्थैः संयुक्तसमवायादिलक्षणात्सम्बन्धविशेषात्सन्नि- कर्षात् यत्-तत्तदर्थानुभवात्मकं यज्ज्ञानं निष्पद्यते प्रत्यगात्मनि समवाय- सम्वन्धेनोत्पद्यते, तत्-तज्ज्ञानमन्यत् स्वरूपभूताज्ज्ञानाद् भिन्नमित्यर्थः । सत्यं वैदिकानामस्माकं परमार्थतो ज्ञानस्वरूप एव जीवात्मा, न ज्ञान- गुणकः । तथापि तत्रासंसारं मनःसंयोगात्तत्तदर्थानुभवात्मकं "गन्धोऽयं, रसोऽयं, गन्धमनुभवामि, रसमनुभवामीत्यादिव्यवहारप्रयोजकमिच्छादिव- तत्समकक्षमुत्पादविनाशशीलं ज्ञानं गुणोऽप्यभ्युपगम्यते । ज्ञानस्वरूपस्य च तस्य ज्ञानगुणाश्रयत्वं प्रकाशात्मनः सवितुः प्रभाश्रयत्ववन्नानुपपन्नमिति न ज्ञानगुणलिङ्गेन तत्सिद्धौ कश्चिद्दोष इति भावः । इदमत्र बोध्यं यथा हि साङ्ख्ययोगवेदान्तिनो वैदिकान्तराः प्र- काशात्मकत्वेऽपि प्रत्यगात्मनस्तत्रोक्तव्यवहारोपपत्त्यर्थ वृत्तिज्ञानमभ्युपगच्छ- न्ति तथैव वैशेषिकाः गौतमाः मीमांसकाश्चात्मनि ज्ञानं गुणमभ्युपयन्ति । विशेषस्त्वियानेव यत्ते प्रत्यगात्मसन्निधानाचेतनायमाने मनसि ज्ञानो- त्पत्तिमभ्युपगम्यात्मनि तदुपचारमाहुः, वैशेषिकादयश्चात्मसन्निधाने सत्यपि मनसस्तथात्वमनभ्युपेत्य तत्र तदुत्पत्तेरशक्यत्वेन तद्योगविशिष्टे प्रत्यगात्म- न्येव तदुत्पादमाहुरिति, मुत्यवस्थायां च सर्वेषां मनःसंयोगाभावाविशेषण तत्संयोगजज्ञानादिसमस्तगुणानुत्पत्तौ दुःखात्यन्तनिवृत्त्या शुद्धः केवलः पुमान् खेनात्मना चिता ब्रह्मानन्दमुपभुञ्जानो विष्णुपदं सुखमध्यास्त इति सर्वमनवद्यमिति । 4 वैशेपिकदर्शनम् । [आद्यम् इदानी हेत्वाभासविवेचनस्य फलमाह-आत्मेन्द्रियार्थसन्निकर्पाद् यत्ताव- ज्ज्ञानमुत्पद्यते, तच्चात्मनि लिगमसिद्धविरुद्धानकान्तिके योऽन्यत्-अना- भासमित्यर्थ इति शङ्करमिश्रः ॥ १९ ॥ ननु ज्ञानगुणलिङ्गेन खात्मसिद्धावपि परात्मसिद्धिः कथं स्यात् ? न- हि परकीयं ज्ञानं कस्याप्यध्यक्ष, येन तत् तत्र लिङ्गं भवेत्, तत्राह- "प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् ॥२०॥ प्रवृत्तिनिवृत्ती चरागजन्यः प्रयत्नविशेपः प्रवृत्तिः, द्वेषजन्यः प्रयत्नवि- शेपो निवृत्तिः, ते च प्रत्यगात्मनि-स्वात्मनि दृष्टे-हिताहितप्राप्तिपरिहारा- नुकूलक्रियात्मकचेष्टाजनकतया साक्षात्कृते परत्र-परस्मिन्नात्मनि लिङ्ग- लिङ्गसम्पादकत्वाल्लिङ्गमित्यर्थः । यथा हि स्वकीया चेष्टा तथैव परकीया । चेष्टात्वसामान्यात् । तां पश्यतो भवत्यनुमानम् “अस्येयं चेप्टा, प्रयत्नविशेषजन्या, चेष्टात्वात् , मदीयचेष्टावत् । स च प्रयत्न; आत्मसमवेतः, प्रयत्नत्वात् , मदीयप्रयत्नवद्" इति । तेन च परात्मसिद्धिरिति भावः ॥ २० ॥ आत्मसिद्धिप्रसङ्गेन लिङ्कालिङ्गविनिर्णयः । तथा परात्मनो भावः आहिकेऽस्मिन् प्रदर्शितः॥१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्ध्यात्मारामभगव- पादशिष्यहरिप्रसादकृतायां वैशेषिकसूत्रवैदिकवृत्ती तृतीयाध्यायस्याद्यमाह्निकम् ।

. ৩৩ आह्निकम्] तृतीयोऽध्यायः । अथ तृतीयोऽध्यायः। द्वितीयमाह्निकम् । अथेन्द्रियार्थप्रसिद्धिमिव मनसो गतिमात्मनो लिङ्गं वक्ष्यति, तच्चान्त- रेण मनःपरीक्षा नोपपद्यते, तसादुद्देशक्रममुल्लड्ध्य तत्परीक्षामध्ये मनः परीक्षामारभमाणः आह- "आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोऽभावश्च मन- सो लिङ्गम् ॥१॥ स्मृतिरनुमानमागमः संशयः सुखदुःखोपलब्धिरिति चकारेण समुच्चि- नोति । आत्मेन्द्रियार्थसन्निकर्षे-आत्माधिष्ठितानामिन्द्रियाणां खस्वार्थैर्युग- पत्सन्निकर्षे सत्यपि योऽयमेकस्मिन्नर्थे ज्ञानस्य तद्गोचरसाक्षात्कारात्मकस्या- नुभवस्य भावः-उत्पादः, अन्यस्मिंश्च तस्मिन्नभावः अनुत्पादः, स मनसः== मनइन्द्रियस्य लिङ्ग-सिद्धौ प्रमाणमित्यर्थः । आत्माधिष्ठितानि ध्राणादीनीन्द्रियाणि गन्धादिभिः स्वस्वविषयः सम्प्र- युक्तानि सन्त्यपि न सर्वाणि तानि सर्वार्थविषयमेकदा ज्ञानं जनयन्ति, किन्त्वेकमेव किञ्चिदेकार्थविषयम्, तेन भवत्यनुमानम् 'अस्ति किञ्चिन्निमि- त्तान्तरं, यस्य सन्निधानवशादेकत्र ज्ञानमुत्पद्यते, तदभावाच्चान्यत्र नोत्प- द्यते', इति । यत्तन्निमित्त तदेव मन इति भावः । तत्रात्मेन्द्रियार्थसन्निकर्षः, कार्योत्पत्तौ करणान्तरसापेक्षः, सत्यपि का- उनुत्पादकत्वात् , तन्त्वादिवत्, अत्र यदपेक्षणीयं करणान्तरं तन्मनः । सुखादिज्ञानं, करणजन्यं, ज्ञानत्वात् , गन्धादिज्ञानवत् , अत्र प्राणादीना- मकरणत्वाद् यत्तावत्करणं तदिन्द्रियं मनः । स्मृत्यादयो, न प्राणादिनि- मित्ताः, प्राणाद्युपरमेऽपि गन्धादिस्मृत्याग्रुपलब्धेः, न चानिमित्तास्ते सम्भ- वन्ति, तस्माद्यदेषां निमित्तं तन्मन इति विवेकः । इदमत्र बोध्यं यद्यपि वैशेषिकैर्वेदिकत्वान्मध्यमपरिमाणं मनोऽभ्यु- पगम्यते, नाणुपरिमाणम् । अवैदिकत्वात् । तस्य च सर्वदा घ्राणादिभि- ' वैशेषिकदर्शनम् । [द्वितीयम् रिन्द्रियैः सन्निधानमेव विद्यते, नासन्निधानम् । तथापि न तत्सन्निधानमत्र विवक्षितम् । समानस्य तस्य ज्ञानप्रयोजकत्वानभ्युपगमात् । अपि चात्म- कृत्या तत्तदिन्द्रियप्रदेशे लब्धवृत्तिकस्य मनसः सन्निधानम् । तच्चासमानमेव, न समानम्, अतो न तत्र काचिदनुपपत्तिरिति ॥१॥ नन्वेवं सिध्यतु मनः, तस्य द्रव्यत्वनित्यत्वे केन सेत्स्यतः १ तत्राह- "तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥२॥ तस्य-मनसो द्रव्यत्वनित्यत्वे-द्रव्यत्वं नित्यत्वं च वायुनाचायुद्रव्यत्व नित्यत्वसाधकहेतुना व्याख्याते साधिते वेदितव्ये इत्यर्थः । यद्धि शरीराश्रयं सत्वसंयुक्तेऽर्थे ज्ञातुरपरोक्षप्रतीतिसाधनं द्रव्यं, तदि- न्द्रियमित्युच्यते । मनसि घ्राणादौ चैतल्लक्षणं समानम् । तत्र संयोगो गुणः, तद्वत्त्वात् क्रियावत्त्वाच्च द्रव्यम् , आमोक्षं स्थायित्वादद्रव्यत्वेन नित्यं च, मनो वायुवदिति भावः । नव्यास्तु "आत्मभिन्नत्वे सति ज्ञानकारणमनःसयोगाश्रयत्वमिन्द्रि- यत्वं, शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमन संयोगाश्रयत्वं वा तत्त्वमिति सर्वेन्द्रियसाधारण लक्षणं वर्णयन्ति ॥ २॥ ननु किमिदं प्रतिशरीरमेकमुतानेक मनः ? तत्राह- "प्रयत्नायौगपद्याज्ज्ञानायौगपद्याच्चैकम् ॥३॥ मन इति विपरिणम्यानुवर्तते । प्रयत्नायौगपद्यात्-प्रत्यवयवं क्रियाहेतु- प्रयत्नस्य यौगपद्याभावात् एकदाऽनुत्पादात् , ज्ञानायौगपद्याच्च प्रतिविषयं ज्ञानस्य यौगपद्येनोत्पादाभावाच्चैकं-प्रतिशरीरमेकं मन इत्यर्थः । येनाङ्गेन येनेन्द्रियेण च मनः संयुज्यते, तदङ्गक्रियाहेतुः प्रयत्नः, तेने- न्द्रियेण च तद्विपयविषयं ज्ञानमात्मनि समुत्पद्यते इति हि वैशेपिकी सर. णिः । तत्र प्रतिशरीरं मनसोऽनेकत्वे प्रत्यवयव प्रतीन्द्रिय च मनःसंयोग- सद्भावादनेके प्रयत्ना. ज्ञानानि चानेकानि युगपदात्मनि समुत्पोरन् , न कमेण । दृश्यते तु प्रयत्नानां ज्ञानानां च क्रमेणोत्पादः । तद्यथा-एक- त्र प्रयतमानत्यान्यत्र व्यापाराभावः, तत्र समाप्तव्यापारस्य चान्यस्मिन् व्यापारसद्भावः, एवमेकविषयज्ञानस्य विषयान्तरे जानाभावः, तत्रोपर- - 1- - आदिकम्] तृतीयोऽध्यायः । तस्य च तस्मिन् ज्ञानसद्भाव इति । न चायमन्तरेणैकं मनः संभवति, तस्मादनुमीयते-प्रतिशरीरमेकं मनो नानेकमिति भावः ॥ ३ ॥ मनः परीक्ष्य पुनरात्मानं परीक्षमाणस्तत्साधकानि लिङ्गानि दर्शयति- - "प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरवि- काराः सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मनो लिङ्गानि ॥४॥ ज्ञानमात्मनो लिङ्गं पुरस्तादुक्तमिति सूचनाय चकारः । मुखनासि- काभ्यां बहिर्निष्क्रमणशीलः ऊर्ध्वगतिकः शरीरान्तःसञ्चारी वायुः प्राणः, मूत्रपुरीषयोरधोनयनहेतुरवाग्गतिकः शरीरान्तःसञ्चारी वायुरपानः, अक्षि- पक्ष्मणोः संयोगनिमित्तं कर्म निमेषः, तयोश्च विभागनिमित्तं कर्मोन्मेषः, शरीरस्य वृद्धिक्षतसंरोहणादिकं जीवनकार्य्यत्वाजीवनम् , तच्च प्राणधार- णम् , अभिमतविषयग्राहकैरिन्द्रियैः सम्वन्धार्थ तत्रतत्र मनसो वृत्ति- मनोगतिः, चक्षुरिन्द्रियेण नागरगचिरबिल्वादिरूपालोचनानन्तरं रसा- नुस्मृतिक्रमेण दन्तोदकसम्प्लवलक्षणा रसनेद्रियविक्रिया इन्द्रियान्तर- विकारः, धर्मजन्यमनुकूलवेदनीयं गुणः सुखम्, अधर्मजन्यं प्रतिकू- लवेदनीयं गुणो दुःखम्, स्वार्थ वा परार्थ वाऽप्राप्तार्थप्रार्थनमिच्छा, यस्मिन् सति प्रज्वलितमिवात्मानं मन्यते, स द्विष्टसाधनताज्ञानजन्यो गुणो देषः, कृतिपर्यायश्चेष्टाजनको गुणः प्रयत्नः, प्राणापानौ, निमेषोन्मेषौ, जीवनं, मनोगतिः, इन्द्रियान्तरविकारः, सुखं, दुःखम् , इच्छा, द्वेषः, प्रय- नश्चेति दशात्मनः जीवात्मनो लिङ्गानिज्ञानवत् साधकप्रमाणानीत्यर्थः । शरीरपरिगृहीते प्राणापानलक्षणे वायौ यदिदमूर्ध्वाधोगमनलक्षणं खभावविपरीतं कर्म, तदन्तरेण प्रयत्नवन्तं शरीराधिष्ठातारमनुपपन्नम् । अतो यस्तं तिर्यग्गमनस्वभावं वायुमिच्छापूर्वकं भस्वाध्मापयतेव भस्त्रका- मूर्ध्वमधश्चानयति, स आत्मा । १ । निमेषोन्मेषाख्ये कर्मणी नोदनाभिघा- तादिदृष्टकारणमन्तरेणोत्पद्यमाने दारुयन्त्रनिमेषोन्मेषवत्कस्यचित्प्रयत्नं विना न संभवतः, तत्र यस्तावद्दारुयन्त्रप्रयोक्तेव यतवान् तस्य प्रयोक्ता, स आत्मा । २। जीवनपदवाच्यं शरीरस्य प्रतिक्षणं वर्द्धनं, क्षतस्य भग्नस्य च संरोहणं, नान्तरेणाधिष्ठातारमुपपद्यते, यथा लघीयसः सदनस्य वर्द्धनं - १ ८० वैशेषिकदर्शनम् । [द्वितीयम् क्षतस्य भग्नस्य च निर्माणम् , अतो यस्तत्र सदनाधिपतिरिव सदनं शरीर- मिदं यथोचिताहारादिना प्रतिक्षणं वर्धयति, क्षतं चौषधादिना प्ररोहयति, भग्नं च तेन संरोहयति, स आत्मा । ३। स्वाभिमतविषयग्राहकैर्घाणा- दिभिरिन्द्रियैः सम्बन्धविशेषाय शरीराभ्यन्तरप्रदेशेषु मनसोगतिर्नान्तरेण. प्रेरयितारमुपपद्यते, तस्मात्सदनस्थदारक इव हृदयस्थो यः कन्दुकं मनस्तत्र तत्र सम्बन्धार्थ प्रेरयति,स आत्मा।४। चक्षुषा नागरगादिरूपालोचनानन्तरं तत्सहचारिरसानुस्मृतिक्रमेण रसनेन्द्रियविकारो दृश्यते, न च सोऽन्तरेण प्रयत्नं संभवति, न वा प्रयत्नोऽयमन्तरेणेच्छां, न वा गर्द्धयमन्तरेण रसा- नुस्मृति, न वा स्मृतिरियमन्तरेण पूर्वानुभवम्, अतो यस्तावत्सदनस्य गवाक्षयोरुभयोरन्तःप्रेक्षक इव द्वाभ्यामिन्द्रियाभ्यां रूपरसयोर्दशी चेतनः कश्चित् , स आत्मा । ५। यस्तावद्गुणः, स द्रव्याश्रितो दृष्टः, यथा रूपम् , सुखदुःखादयोऽपि, गुणाः, न च तेऽयावद्व्यभाविनोऽहम्प्रत्यय- समानाधिकरणा. बाह्येन्द्रियाप्रत्यक्षाः सन्तः पृथिव्यादीनि द्रव्याणि कथ- ञ्चिदाश्रयितुमर्हन्ति, द्रव्येण च तदाश्रयेण भवितव्यम्, अतो यद् द्रव्यं तेषामाश्रयः स आत्मेति भावः । इदमत्र बोध्यं यद्यप्यत्र ज्ञानादयोऽनित्याः गुणाः नित्यस्यात्मनः सूत्रिता, तथापि ते मनोयोगविशिष्टस्यैव विज्ञातव्या, न केवलस्य, तस्य कूटस्थनित्यत्वाभ्युपगमात् । धर्मोपचयापचयाभ्यां च धर्मिविकारस्य सर्व- तन्त्रसिद्धत्वात् । मुक्त्यवस्थायां च मनोयोगनिवृत्त्या तन्निवृत्तेरभिधास्यमा- नत्वादिति ॥ ४॥ ननु ज्ञानादिभिर्लिङ्गैः सिद्धेऽपि प्रत्यगात्मनि तस्य द्रव्यत्वनित्यत्वे केन सिध्येताम् ? तत्राह- "तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥५॥ तस्य आत्मनो द्रव्यत्वनित्यत्वेन्द्रव्यत्र नित्यत्वं च, वायुनायायुद्रव्य- वनित्यत्वसाधकहेतुना व्याख्याते-साधिते वेदितव्ये इत्यर्थः । इदमत्र योध्यं-यागो वायुनित्यो द्रव्यं च, ताहगेवात्मा नित्यो द्रव्यं चेति नायमतिदेशार्थः । तस्य परमार्थतो नित्यत्वात् । विशिष्टस्य - आहिकम्] तृतीयोऽध्यायः । ८१ ज्ञानादिगुणाश्रयत्वेऽपि केवलस्य तदभावात् । अपि च नित्यत्वसामान्य द्रव्यत्वसामान्यं चातिदेशार्थ इति ॥ ५॥ ननु केनचिद् दृष्टेन लिङ्गेनात्मा साधयितव्यः?, किं ज्ञानादिनोप- । न्यस्तेन लिङ्गेन ? तत्राह- "यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गन विद्यते ॥६॥ सन्निकर्ष यज्ञदत्तेन त्वक्चक्षुषोः संयोगलक्षणे सन्निकर्षे सति यज्ञदत्त इति प्रत्यक्षाभावात् इतिना प्रत्यक्षाकारमाह, शरीरप्रत्यक्षेऽपि यज्ञद- त्तोऽयमिति तदधिष्ठातुरात्मनः प्रत्यक्षाभावाद् दृष्टं लिङ्गं विशेपतो दृष्टव्याप्तिकं लिङ्गं न विद्यते-न वर्तते इत्यर्थः ॥ ६॥ ननु कीदृशस्तर्हि ज्ञानादितो लिङ्गादात्मा सिध्यति ? तत्राह- "सामान्यतोदृष्टाचाविशेषः ॥७॥ चकारेण ज्ञानादिकं समुचिनोति । सामान्यतोदृष्टाच-सामान्यतोदृष्टसं- ज्ञकाच ज्ञानादितोलिङ्गादविशेष: आत्मत्वसामान्यविशेषरहितः कश्चित्तदा- श्रयः सामान्यतो द्रव्यभेदः सिध्यतीत्यर्थः ॥ ७॥ नन्वात्माऽयमिति विशेषस्य कुतो लाभः ? तत्राह- "तस्मादागमिकः ॥ ८॥ तस्मात् यस्मात्सामान्यतोदृष्टादनुमानादविशेषः सिध्यति, तसात्तस्या- स्मेति विशेषोऽयमागमिकः आगमा" "यस्मिन् सर्वाणि भूता- न्यात्मैवाभूद्विजानतः” (यजुः ४०७) "आत्मानं चेद्वि- जानीयादू" (बृह. ४।४।१२) इत्यादयो वेदाः, तत्सिद्ध इत्यर्थः॥ ८॥ ननु पृथिव्यादीनामष्टानामन्यतमः कश्चिदात्मा सेत्स्यति, कृतं तब्य- तिरिक्तेनागमिकेन, तत्राह- अहमितिशब्दस्य व्यतिरेकानागमिकम् ॥९॥ अहमितिशब्दस्य आत्मनि निरूढस्याहमितिपदस्य व्यतिरेकात्-पृ- थिव्यादिवाचकैः शब्दैर्व्यतिरेकदर्शनात् तदन्यतमत्वासिद्धे गमिक-ना- गमसिद्धमात्मानं तं कश्चिदपह्रोतुं पर्याप्त इत्यर्थः । - ११ ८२ वैशेपिकदर्शनम् । [द्वितीयम् यो हि यस्यार्थस्य वाचकः शब्दः, तस्य तेनान्वयो दृष्टः, न व्यतिरेकः, सामानाधिकरण्यमन्वयः, तदभावो व्यतिरेकः । चेत्पृथिव्यादीनामष्टानाम- न्यतमः कश्चिदात्मा भवेत्, तदा तस्मिन् निरुढस्याहमितिशब्दस्य पृथि- व्यादिभिरष्टाभिर्व्यतिरेको न दृश्येत, किन्तु "द्रव्यं भूः द्रव्यमापो द्रव्यं तेजः" इत्यादिवद् "अहं भूरहमुदकमह तेजोऽहं वायुः" इत्याद्यन्वयो दृश्येत, न च दृश्यते, ततो भवत्यनुमान-'नायमात्मा पृथिव्यादीनामन्यतमः कश्चित्' अपि च ? ततो व्यतिरिक्तः सामान्यतोदृष्टलिङ्गाधिगम्यः, यस्यागमतो विशे- पप्रतिपत्तिरिति भावः ॥९॥ अन्न प्रत्यक्षात्मवादी प्रत्यवतिष्ठते- "यदि दृष्टमन्वक्षमहं देवदत्तोऽहं यज्ञदत्त इति॥१०॥ इतिशब्दो ज्ञानाकारमाह । यदि-चेहं देवदत्तोऽहं यज्ञदत्त इति-देव- दत्तोऽहं यज्ञदत्तोऽहमित्याकारकमन्वक्षम् आत्मविषयं प्रत्यक्ष दृष्टभाने क्तः, दर्शनं मानस ज्ञानमितियावदस्ति, तदा किं तत्साधकानुमानो- पन्यासेनेत्यर्थः। यद्धि प्रत्यक्ष वस्तु, न तस्यानुमानेन साधनं युज्यते, यथाः श्री. वाचस्पतिमिश्राः न्यायवार्तिकतात्पर्य्यटीकायां-"न हि फरिणि दृष्टे चीत्कारेण तमनुमिमतेऽनुमातारः" इति । देवदत्तोऽई यज्ञदत्तो. ऽहमिति प्रत्यक्षश्च प्रत्यगात्मा। तस्मात्तस्यानुगानेन गाधनगयुक्तमिति भाव ॥१०॥ समाधत्ते- "दृष्ट आत्मनि लिने एक एव हदत्वात् प्रत्यक्षवत्म- त्ययः॥११॥ आत्मनि पष्ठचयं मप्ती । भानादिलिजाश्रयत्वगतानार्थमागग स. सन्या निर्देश आत्मसम्बन्धिनि निभानप्रति लिदै पानागि, पटगिच्छागि, गटे जगेर्ना गरामनामा का. प्रत्यक्षात्मामन्ययान्तरपाटमोऽवभागणार्यः, न भागलगाय. T- बिगाग्निनिधायक. प्रलगायोगगन मनाया - .

आह्निकम् ] तृतीयोऽध्यायः। - वधारणम्, एकः अनुमानात्मक एव प्रत्ययः अस्ति पृथिव्यादिव्यतिरिक्तः कश्चिदात्मा यदाश्रयं ज्ञानप्रभृतिकं लिङ्गमिति तद्द्वोचरो योऽध्यवसायो जायते, स च दृढत्वात् अन्यथाभावशङ्कया चालयितुमशक्यत्वात्प्रत्यक्ष- चत्-प्रत्यक्ष इवावभासते, न तु प्रत्यक्ष इत्यर्थः । यदिदं ज्ञानप्रभृतिकं लिङ्गमात्मनि दृश्यते, ततस्तद्गोचरोऽनुमानात्मक एक एव प्रत्ययो जायते "अस्ति कश्चिदृष्टद्रव्यातिरिक्तः प्रत्यगात्मा, यं ज्ञानेच्छाकृतिप्रभृतयो गुणाः आश्रयन्ति" इति, न तदुपरः प्रत्यक्षात्मकोऽ- पि तद्विषयः प्रत्ययः । अन्यथा प्रावादुकानां दृष्टिभेदानुपपत्तेः । स च दृढत्वात्प्रत्यक्षवदवभासमानोऽपि न प्रत्यक्षः सम्पद्यते । लैङ्गिकत्वात् । अत एव च तद्विषयः प्रत्यगात्मापि न जातु प्रत्यक्षः । तथा च वक्ष्यति- "तत्रात्मा मनश्चाप्रत्यक्षे" वै०-अ० ८-आ० १-सू० २ इति । प्रत्यक्षं चेह लौकिकमिन्द्रियार्थसन्निकर्षोत्पन्नमव्यपदेश्यमव्यभिचारि ज्ञानम्। अनुमानं च लैगिकं ज्ञानमिति भावः ॥ ११ ॥ ननु न वयमात्मानं लैङ्गिकपत्ययगोचरतया प्रत्यक्षं ब्रूमहे, अपि च देवदत्तोऽहं यज्ञदत्तोऽहमिति मानसप्रत्ययगोचरतया, तत्राह- "देवदत्तो गच्छति यज्ञदत्तो गच्छत्तीत्युपचाराच्छरीरे प्रत्ययः॥१२॥ देवदत्तो गच्छति यज्ञदत्तो गच्छतीति देवदत्तो गच्छति यज्ञदत्तो गच्छतीति प्रत्ययवदुपचारात्-लक्षणातः शरीरे-विषयत्वं सप्तम्यर्थः, श- रीरगोचरः प्रत्ययः देवदत्तोऽहं यज्ञदत्तोऽहमिति प्रत्यय इत्यर्थः । अन्वयानुपपत्तिर्वा, तात्पर्य्यानुपपत्तिर्वा लक्षणाबीजमाख्यायते । तत्र यथान्वयानुपपत्त्या शरीरविशिष्टे प्रत्यगात्मनि शक्तानां देवदत्तादिपदाना- मुपचाराद् देवदत्तो गच्छति यज्ञदत्तो गच्छतीति शरीरगोचरः प्रत्ययः तथा देवदत्तोऽहं, यज्ञदत्तोऽहमिति प्रत्ययोऽपि शरीरगोचरो मन्तव्यो नात्मगोचर इति भावः ॥ १२ ॥ आशड्कते- "सन्दिग्धस्तूपचारः ॥१३॥ - -

८४
वैशेषिकदर्शनम् । [द्वितीयम्
तुशब्दः पूर्वपक्षमभिव्यनक्ति । ननु देवदत्तोऽहं यज्ञदत्तोऽहमित्यादौ
निरूपितो भवद्भिपचारः सन्दिग्धः किमयं शरीरे वा स्यादात्मनि वा
स्यादुभयत्र वा स्यादिति संशयितो विद्यते, नाध्यवसित इत्यर्थः ।
विनिगमकाभावादुपचारे सन्देहः, सति च तस्मिन्ननिर्णयस्तत्त्वस्येरि
भावः ॥ १३ ॥
ननु मदुक्तोपचारे सन्दिग्धे देवदत्तोऽहं यज्ञदत्तोऽहमिति शरीरप्रत्यक्ष
नो चेत्प्रत्ययः, तर्हि क्वायं प्रत्यक्षः स्यात् ? तत्राह-
"अहमिति प्रत्यगात्मनि भावात्परत्राभावार्थान्तर
प्रत्यक्षः ॥१४॥
अहमिति-देवदत्तोऽहं यज्ञदत्तोऽहमितिप्रत्ययः प्रत्यगात्मनि-खमिन
भावात्-सत्त्वात् परत्रपरस्सिँश्वाभावात् असत्त्वादर्थान्तरप्रत्यक्षः शरीरा-
दन्योऽर्थोऽर्थान्तरमात्मा, तत्र प्रत्यक्षः इत्यर्थः ।
अहमिति प्रत्ययः प्रत्यगात्मनि भवति, परत्र च न भवति, चेच्छरी-
रप्रत्यक्षः स्यात् , तदा योग्यत्वाविशेषात्परत्रापि स्यात् , नासौ भवति,
तस्मान्नायं शरीरप्रत्यक्षः, अपि चात्मप्रत्यक्ष इति भावः ॥ १४ ॥
समाधत्ते-
"देवदत्तो गच्छतीत्युपचारादभिमानात्तावच्छरीरप्र-
त्यक्षोऽहङ्कारः ॥१५॥
देवदत्तो गच्छतीति-देवदत्तो गच्छति यज्ञदत्तो गच्छतीति प्रत्ययवदुः
पचारात्-लक्षणातोऽभिमानाच्छरीरप्रत्यक्षा आत्मत्वाभिमानादात्मभूते श-
रोरे प्रत्यक्षस्तावदहङ्कारः देवदत्तोऽहं यज्ञदत्तोऽहमिति प्रत्यय इत्यर्थः
यथा हि "गौरोऽहं कृशोऽहम्" इत्यभिमानाद, "देवदत्तो गच्छति
यज्ञदत्तो गच्छति" इति चोपचाराच्छरीरविपयस्तावत्प्रत्ययः, तथा देवद-
तोऽहं यज्ञदत्तोऽहमिति प्रत्ययोऽपि शरीरविषय एव प्रत्येतव्यो, नात्मविषयः,
समानयोगक्षेमत्वादिति भावः ॥ १५ ॥
पुनः शङ्कते-
"सन्दिग्धस्तूपचारः॥ १६ ॥

. - आहिकम्] तृतीयोऽध्यायः। ८५ तुशब्दः पूर्वपक्षमभिव्यनक्ति । ननु देवदत्तो गच्छति यज्ञदत्तो गच्छ- तीत्यत्राभिहितो भवद्भिपचारः सन्दिग्धः किमिहात्मनि गतरुपचारः, किं वा शरीरे देवदत्तत्वादेरुपचारः-इति संशयितो विद्यते, नाध्यवसित इत्यर्थः । विनिगमकाभावात्सन्देहः, सति च तस्मिंस्तत्त्वस्य निर्णयो न भवति । ततोऽर्थान्तरप्रत्यक्षोऽहङ्कारो न शरीरप्रत्यक्ष इति भावः ।। १६॥ परिहरति- "न तु शरीरविशेषाद् यज्ञदत्तविष्णुमित्रयोानं वि- षयः ॥ १७॥ यज्ञदत्तविष्णुमित्रयोनि-यज्ञदत्तोऽहं, विष्णुमित्रोऽहमिति प्रत्ययः श- रीरविशेषात् अकारो विशेषः, शरीरं विशेषो यस्मिन् स तथा, तस्मात्-श- रीरप्रकारकत्वात्-शरीरविषयत्वादिति यावद् विषयः-उपचारसन्देहेनात्म- विषयो न तु-नैव कल्पयितव्य इत्यर्थः । कूटस्थनित्यस्तावदात्मा, न केवले तस्मिन्नौपचारिकी वा, स्वाभाविकी वा गतिः संभवति । शरीरे च सा प्रत्यक्षा । तेन तत्र तत्सामानाधिकर- ण्याय देवदत्तत्वादेरुपचारो न विरुथ्यते । कुतस्तत्सन्देहः स्यात् । तदस- न्देहे च देवदत्तोऽहं यज्ञदत्तोऽहं विष्णुमित्रोऽहमिति शरीरप्रत्यक्षोऽहङ्कारो नात्मप्रत्यक्ष इति भावः ॥ १७ ॥ ननु देवदत्तोऽहं यज्ञदत्तोऽहं विष्णुमित्रोऽहमित्यभिमानाच्चेच्छरीरप्र- त्यक्षोऽहङ्कारो नात्मप्रत्यक्षः, तदा सामान्यतोदृष्टाद् विशेषासिद्धेरागमिक एव परं भवतु प्रत्यगात्मा, कृतं तत्रानुमानप्रयासेन बहुना, तत्राह- "अहमितिमुख्ययोग्याभ्यां शब्दवव्यतिरेकाव्यभि- चाराद्विशेषसिद्धनागमिकः ॥१८॥ मुख्ययोग्याभ्याम् अनौपचारिकत्वं मुख्यत्वं, प्रत्यक्षयोग्यत्वं योग्यत्वं, मुख्येन योग्येन चाहमिति-देवदत्तोऽहं यज्ञदत्तोऽहं विष्णुमित्रोऽहमिति प्रत्ययेन शब्दवद्व्यतिरेकाव्यभिचाराद्विशेषसिद्धेः शब्देन लिङ्गेन पृथिव्या- दिष्वष्टसु द्रव्येषु स्वव्यतिरेकस्यैकान्तिकत्वात्पृथिव्यादिव्यतिरिक्तस्य स्वा- ८६ वैशेषिकदर्शनम् । [द्वितीयम् श्रयभूतस्याकाशस्येवात्मनोविशेषस्यसिद्धेन गमिका नायमागममात्रसिद्ध इ- त्यर्थः। - यथा हि पृथिव्यादिष्वष्टसु द्रव्येष्वनुपलम्भात्पृथिव्यादिव्यतिरेकं न जातु शब्दो व्यभिचरति, तव्यतिरेकाव्यभिचारिणा मुख्येन योग्येन च तेन खाश्रयभूतस्य पृथिव्याधष्टद्रव्यातिरिक्तस्याकाशविशेषस्य सिद्धिर्भवति, तथा पृथिव्यादिष्वष्टसु द्रव्येष्वनुपलम्भात्तद्व्यतिरेकाव्यभिचारिणा मुख्येन योग्येन चाहमिति प्रत्ययलिङ्गेन खाश्रयभूतस्य पृथिव्याद्यष्टद्रव्यातिरि- क्तस्यात्मनो विशेषस्य सिद्धिर्जायते । तस्मादनुमानतोऽपि विशेषसिद्धे- नागममात्रसिद्धोऽयं प्रत्यगात्मा, अपि चानुमानागमोभयसिद्ध इति भावः ॥ १८॥ परीक्षितं तावदात्मद्रव्यम्, इदानीं तन्नानात्वं परीक्षयिष्यन् पूर्वपक्ष- यति- "सुखदुःखज्ञाननिष्पत्त्यविशेषादैकात्म्यम् ॥ १९ ॥ ऐकात्म्यं चैत्रमैत्रादिशरीरभेदेऽपि नात्मभेदः, किन्त्वैकात्म्यम्-आत्मै- कत्वं सर्वेषु चैत्रमैत्रादिशरीरेण्वेक एवात्मेति यावत् । कुतः १ सुखदुःख- ज्ञाननिष्पत्त्यविशेषात्-सुखं च दुःखं च ज्ञानं च, तानि सुखदुःखज्ञानानि, कामादीनामुपलक्षणमेतत्, तेषां सुखदुःखज्ञानादीनां निष्पत्तेः उत्पत्तेरवि- शेषात् प्रतिशरीरं समानत्वादित्यर्थः । यथा हि शब्दलिङ्गाविशेषादेकमेवाकाशं, योगपद्यादिप्रत्ययलिङ्गाविशे- पादेक एव कालः, पूर्वापरादिप्रत्ययलिङ्गाविशेषाच्चैकैव दिक्, तथा सु- खदुःखज्ञानादिलिङ्गाविशेषात्सर्वेषु शरीरेप्वेक एवात्मेति भावः ॥ १९ ॥ सिद्धान्तयति- "व्यवस्थातो नाना ॥२०॥ नाना-नैक एवात्मा, किन्तु प्रतिशरीरं भिन्नत्वान्नानात्मानः । कुत ? व्यवस्थातः नानाभेदभिन्नानां सुखदुःखादीनां प्रत्यात्ममप्रतिसन्धान व्य- वस्था, प्रत्यात्म तन्नियम इति यावत् , तत इत्यर्थः । " ?

- आह्निकम्] तृतीयोऽध्यायः । यथा हि बाल्यावस्थायामनुभूतं वृद्धावस्थायामनुसन्धीयते-'मम सु- खमासीद्' 'मम दुःखमासीदिति, तथैकात्म्येऽपि देहान्तरानुभूतमनुसन्धी- येत । तत्रेव च सर्वत्रानुभवितुरेकत्वात् । तथा चैकस्मिन् सुखिनि सर्वे सुखिनो, दुःखिनि च सर्वे दुःखिनो भवेयुः । न चैवमुपलभ्यते । तस्मान्नै- कात्म्यम् । अपि च प्रतिशरीरमात्मभेदान्नानात्मान इति भावः ।। २० ॥ ननु युक्तिरुच्यते, न शास्त्रं, तत्राह- "शास्त्रसामर्थ्याच ॥ २१॥ 'नाना' इत्यनुवर्तते । “ये समानाः समनसो जीवा जीवेषु मामकाः" (यजुः १९-४६) "चेतनश्चेतनानाम्" (कठो०५।१३ इत्यादिवेदः शास्त्रं, तत्सामर्थ्यादपि नानात्मान इत्यर्थः ॥ २१॥ मनः परीक्षणं कृत्वा कृतमात्मपरीक्षणम् । अवशिष्टं, तृतीयस्य द्वितीयेऽस्मिन् , सविस्तरम् ॥१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्यात्मारामभगव- त्पादशिष्यहरिप्रसादकृतायां वैशेषिकसूत्रवैदिकवृत्तौ तृतीयाध्यायस्य द्वितीयमाह्निकम् । समाप्तश्चायमात्ममनोऽध्यायस्तृतीयः। - ८८ वैशेषिकदर्शनम् । [आवम् अथ चतुर्थोऽध्यायः। आद्यमाह्निकम् । अथोद्दिष्टानि पृथिव्यादीनि द्रव्याणि नव यथासम्भवं परीक्षितानि, सम्प्रति जीवात्मपरमात्मभेदभिन्नमात्मद्रव्यं वर्जयित्वा शिष्टानां तेषां मूल. कारणं प्रकृति परीचिक्षिषुराचार्यश्चतुर्थाध्यायमारभमाणः पूर्व तस्य स्वरूपं दर्शयति- "सदकारणवन्नित्यम् ॥१॥ सत्-सत्तायोगिभवदकारणवत्-कारणवन्न भवति नित्यं परिणामिनित्यं च यत्, तदेव पृथिव्यादीनां मूलकारणं प्रकृतिरित्यर्थः । तत्र सदित्यनेनासतोऽभावस्य, अकारणवदित्यनेनेच्छाया गुणस्य, नित्य- मित्यनेन क्षणिकात्मनो विज्ञानस्य, कूटस्थनित्यस्य च ब्रह्मणो, व्यवच्छेद इति विवेकः ॥ १॥ नन्वस्य सद्भावे किं प्रमाणं तत्राह- "तस्य कार्य लिङ्गम् ॥२॥ तस्य-नित्यस्य मूलकारणस्य सद्भावे कार्य-दृश्यमानमेतज्जगल्लक्षण- कार्य लिङ्गं प्रमाणमित्यर्थः । यत्कार्य तत्सर्व सोपादानकं यथा घटादि, कार्य चेदं, जगत् सा- वयवत्वात् , तस्मादनेनापि सोपादानकेन भवितव्यं, यदस्योपादानकार- ण-समवायिकारणमिति यावत् , तदेव नित्यं मूलकारणं प्रकृतिरिति भावः ॥ २॥ ननु कस्मात्कार्य कारणस्य लिङ्गं भवति? तत्राह- "कारणभावात्कार्यभावः॥३॥ यत इति शेषः । यतः कारणभावात् कारणस्य सत्त्वात् कार्यभावः- कार्य्यस्य सत्त्वं भवतीत्यर्थः । यस्य भावो हि यस्य भावादभावश्चाभावात् , तत्तस्य लिङ्गमिति ध्रुवो नियमः । कार्य्यस्य भावोऽपि कारणस्य भावादभावश्चाभावान्नियमेन जायते, - आह्निकम्] चतुर्थोऽध्यायः। न जातु कचिद् व्यभिचरति, तस्मात् तत्तस्य लिङ्गं भवतीति भावः । तत्रावयवक्रियाविभागादिन्यायेन विभज्यमानस्य स्थूलकार्य्यस्य लोष्ठा- देरुत्तरमुत्तरमल्पतरतमादिभावो यत्र निवर्तते-किमुक्तं ? यत्रोत्तरोत्तरं गच्छन्नवयवावयविप्रवाहस्तावदुपरमते, यतश्च नापरं किञ्चिदल्पतमं विद्यते, यः खलु परमोऽल्पीयान् , स परमाणुरिति परिभाष्यते, ते चानन्ताः पृथि- व्यादीनां परमाणवो न सहस्रेणापि पुरुषायुषैः परिगणयितुं शक्यन्ते । न च तेषां सङ्ख्यावच्छक्तितोऽप्यन्तो विद्यते । ते चावान्तरभेदाद् बहुधा सन्तोऽपि सत्त्वादिभेदात् त्रिधैव विभज्यन्ते । ताँश्चैतान् साङ्ख्ययोगवै- दान्तिकाः गुणनाम्ना, वैशेषिका इव गौतमाः मीमांसकाश्च परमाणुनाना, श्वेताश्वतरशाखिनश्च लोहितशुक्लकृष्णनाम्ना,प्रकाशक्रियाऽऽवरणशक्तिनाम्ना च व्यपदिशन्ति । सर्वेषां चामीषां या काचिद्दिव्यशक्तिलक्षणा प्रमाणकुश- लैरप्यधिगन्तुमशक्या योगिभिश्चदुर्लक्ष्या मुमुक्षुभिश्चदुरतिक्रमा कार्य्या- संहितावस्था, यां सांख्ययोगवैदान्तिकाः वैदिकान्तराः साम्यावस्था तावदाचक्षते, तदेवेह मूलकारणं प्रकृतिरित्यभिधीयते । दैवी शक्तिः परा शक्तिर्माया महामाया प्रकृतिरव्यक्तमव्याकृतमित्यादिकं चास्यैव महतो मूल- कारणस्य प्रकृतेर्नामान्तरम् । अस्यामेव च मूलप्रकृतौ ब्राह्मण मानेन वर्षश- तस्यान्ते प्रलयवेलायामखिलं जगन्निशि सुषुप्तमिव तमसा गूढं तत्पिण्डी- भूतमवतिष्ठते । प्रकृतिश्च तदा स्वधानामभाग भवति । तद्यथाऽऽनातं भगवति वेदे "न मृत्युरासीदमृतं न तर्हि न रात्र्या अह आसीत्प्रकेतः। आनीवातंखधया तदेकं तस्माद्धान्यद्न पर: किञ्चनास॥ ऋ० म० १० सू० १२९ इति । तत्र च प्राणिनां भोगभूतये भगवत्सिसक्षानन्तरं यदा क्षोभः उपजायते, तदा क्षुब्धायास्तस्याः रजस्तमोन्यग्भूतः सत्त्वगुणबहुलो यो भागविशेषो जातः, स महदित्याख्यायते । महतश्चावस्थाविशेषः क- श्चिदहङ्कार इति । तौ चेमौ द्वौ साड्ययोगाभ्यां प्रकृतिपरि- णामविशेषौ स्वीक्रियेते, वैशेषिकैरिव गौतमैर्मीमांसकैवैदान्तिकैश्च क्षु- ९० वैशेषिकदर्शनम् । [आयम् ब्धायाः प्रकृतेर्भागविशेषौ । ततस्तौ साख्यानां योगानां चातिरिक्तावपि न वैशेषिकादीनां ततोऽतिरिच्यते । प्रक्रियाभेदस्य चाभ्युपगमान्नायं कश्चि- दोष इति । तस्याहकारस्य च सत्त्वगुणबहुलाद् भागविशेषादीश्वरनियत्या मध्यमपरिमाणं प्रतिजीवमेकमाभ्यन्तरेन्द्रियं मनः समुत्पद्यते । तमोगुणब- हुलाच तस्माद् व्यापकौ दिक्कालौ, व्यापकं च शब्दतन्मात्रम् , अणुपरि- माणं च स्पर्शतन्मात्रं, रूपतन्मात्रं रसतन्मात्रं, गन्धतन्मात्रमिति चतुष्टय. मुपजायते । तानि चैतानि चत्वारि वैशेषिकैर्गौतमैर्मीमांसकैश्च व्यणुकप- रिभाषया परिभाष्यन्ते । शब्दतन्मात्रादाकाशमुत्पद्यते, स्पर्शतन्मात्रात् व्यणुकादिप्रक्रमेण महान् वायुः, रूपतन्मात्रात् तेनैव क्रमेण महाँस्तेजो- राशिः, रसतन्मात्रात् तेनैव क्रमेण महान् सलिलनिधिः, गन्धतन्मात्राच तेनैव क्रमेण महती भूरिति विवेकः ॥ ३ ॥ ननु कार्यलिङ्गात् किञ्चिन्मूलकारणमात्रं सिध्यति, न नित्यं, नित्ये तस्मिन् किं लिङ्गं ? तत्राह- "अनित्य इति विशेषतः प्रतिषेधभावः ॥४॥ लिङ्गमिति मण्डूकातिन्यायेनानुवर्तते । अनित्य इति नास्ति नित्यः कश्चिद्भावपदार्थ इति भवतां यो विशेषतः सार्वविभक्तिकस्तसिः, विशेषस्य नित्यस्य प्रतिषेधभावः प्रतिषेधसद्भावः स एव लिङ्गं-नित्ये तस्मिन् लिङ्ग- मित्यर्थः । यदि नित्यः कश्चित्पदार्थो न स्यात्, तदा कस्यायम् 'अनित्य इति प्रतिषेधो भवेत् । न हि निष्पतियोगिकः कश्चन प्रतिषेधो भवति । तसा- दस्ति कश्चिन्नित्यः पदार्थो, यस्यायं प्रतिषेध इति भावः ॥ ४॥ ननु भावमात्रस्योत्पत्तिविनाशधर्मकत्वादनित्य इति विशेषतः प्रतिपेध- भावोऽस्साकं न कस्यचिन्नित्यभावस्यापेक्षया, तत्राह- "अविद्या ॥५॥ यो यो भावः ससर्वो जन्यते ध्वस्यते चेति सर्वथा भावत्की भ्रान्तिरित्यर्थः । निरवयवभावानामुत्पत्तिविनाशासम्भवादिति भावः । तत्र वैदिकानामीश्वरो, जीवः, प्रकृतिश्चेति भावत्रयं निरवयवम् जीव - आहिकम्] चतुर्थोऽध्यायः । अन्यत् सावयवम् । ईश्वरो जीवश्चेति द्वौ कूटस्थनित्यौ, प्रकृतिश्च परि- णामिनित्येति विवेकः ॥५॥ प्रकृति व ईशश्च त्रयमेतत्सनातनम् । अभिधेयं विनिश्चेयं दर्शनानां तु वैदिकम् ॥१॥ ननु चेत्पृथिव्यादीनां मूलकारणं प्रकृतिर्विद्यते, तदा कुतो न तस्य चक्षुषोपलब्धिः? तत्राह- "महत्यनेकद्रव्यवत्वाद् रूपाचोपलब्धिः ॥ ६ ॥ महति महत्त्वं परिमाणं, तद्वति द्रव्ये वर्तमानादनेकद्रव्यवत्त्वात् अने- कद्रव्यसमवेतत्वाद् रूपाच-रूपसमवायाचोपलब्धिः चक्षुषोपलब्धिर्भव- तीत्यर्थः। यस्मिन् महत्यनेकद्रव्यवत्त्वं रूपं च विद्यते, तस्यैव चक्षुषोपलब्धिर्म- वति, नान्यस्य । मूलकारणे च तस्मिन्ननेकद्रव्यवत्त्वाभावान्न तस्य चक्षुषो- पलब्धिरिति भावः। तत्रानेकद्रव्यवत्त्वाद् रूपाचोपलब्धिरित्युक्ते व्यणुकेऽतिव्याप्तिः स्यात् , अतो महतीत्युक्तम् । द्वयणुके महत्त्वं नास्ति । तस्य त्रसरेण्वादावेवाभ्यु- पगमात् । महत्यनेकद्रव्यवत्त्वादित्युक्ते वायावतिव्याप्तिः स्यात् , तद्वारणाय रूपाचेत्युक्तम् । महति रूपाचेत्युक्ते स्फुटत्वास्फुटत्वातिशयानतिशयदर्शन- लक्षणेऽवयविप्रत्यक्षेऽव्याप्तिः, तस्यावयवभूयस्त्वप्रकर्षाप्रकर्षाभ्यां जायमान- त्वात्, अतोऽनेकद्रव्यवत्त्वादियुक्तम् । अनेकद्रव्यवत्त्वं चानेकद्रव्यसमवे- तत्वं भूयोऽवयवाश्रितत्वमिति विवेकः ॥६॥ ननु वायौ महत्यनेकद्रव्यवत्त्वं विद्यते, तस्य कुतो न चक्षुषोपलब्धिः? तत्राह- "सत्यपि द्रव्यत्वे महत्त्वे रूपसंस्काराभावाद वायो- रनुपलब्धिः ॥७॥ द्रव्यत्वे अनेकद्रव्यवत्त्वे महत्त्वे महत्त्वपरिमाणवत्त्वे सत्यपि विद्यमा- नेऽपि रूपसंस्काराभावात् सम्बन्धप्रयोजकत्वात्संस्कारः सम्बन्धः, रूपस्य वैशेषिकदर्शनम् । [आद्यम् सम्बन्धः समवायः, तस्याभावाद् वायोः मरुतोऽनुपलब्धिः चक्षुपोपल- धिन भवतीत्यर्थः। अत्र चाक्षुपरश्मेरुद्भूतरूपाभावात् मध्यन्दिनोल्काप्रकाशस्य च रूपा- भिभवादनुपलब्धिरित्यादिस्वयमूह्यम् नव्यास्तु पहिरिन्द्रियजन्यद्रव्यप्र- त्यक्षमात्रे न रूपं कारणं, किन्तु चाक्षुपप्रत्यक्ष रूपं, स्पार्शनप्रत्यक्षे स्पर्शः कारणमित्याहुः । तदेतद् वायुप्रत्यक्षत्वप्रसक्तरयुक्तमिति वैदिकाः ॥ ७ ॥ ननु यस्य रूपस्य सम्बन्धाद् द्रव्यस्य चाक्षुपोपलब्धिरुच्यते, तदुप- लब्धिः कुतो भवति तत्राह- "अनेकद्रव्यसमवायादुरूपविशेपाच रूपोपलब्धिः॥८॥ अनेकद्रव्यसमवायात्=अनेकानि द्रव्याणि समवायिकारणतया विद्यन्ते यस्य, तसिन्ननेकद्रव्यारब्धे महत्परिमाणवति द्रव्ये समवायात् समवेत- त्वाद् रूपविशेपाच-रूपगतो विशेपो रूपविशेषः-रूपत्वव्याप्यमुद्भूतत्व- मनभिभूतत्वं च, तदाश्रयत्वाच्च रूपोपलब्धिः-रूपस्य चक्षुपोपलब्धिर्म- वतीत्यर्थः । यदनेकद्रव्यारब्धं महत्परिमाणवद् द्रव्यं समवैति, विशेषं च भजते, तदेव रूपं चक्षुपोपलभ्यते, नान्यत् । अतो विशेपाश्रयत्वे सत्यनेकद्रव्या. रब्धमहत्परिमाणवद्र्व्यसमवायाद् रूपोपलब्धिश्चक्षुपा भवतीति भावः । तत्र प्रत्यक्षग्रहणयोग्यत्वमुद्भवः, बलवत्सजातीयग्रहणकृतमग्रहणम- भिभव इति विवेकः ॥८॥ अतिदिशति- "तेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् ॥९॥ तेन रूपे प्रत्यक्षज्ञानं प्रति यत् प्रयोजकमुक्तं, तेन रसगन्धस्पर्शे- पु-रसे, गन्धे, स्पर्शे च विशेषगुणे ज्ञानं रासनं, नासिकं, पार्शनं ज्ञान व्याख्यातं निरूपितं वेदितव्यमित्यर्थः । यथाऽनेकद्रव्यसमवायाद् रूपविशेषाच रूपोपलब्धिश्चक्षुषा भवति, तथाऽनेकद्रव्यसमवायाद् रसविशेषाद् गन्धविशेषात्स्पर्शविशेषाच्च रसगन्ध- स्पर्शीपलब्धी रसनया घोणया त्वचा च भवतीति वेदितव्यमिति भावः॥९॥ { + * आहिकम्] चतुर्थोऽध्यायः । ९३ ननु पाषाणादिगन्धस्य घोणयाऽनुपलब्धेळभिचारस्तत्राह- "तस्याभावाव्यभिचारः ॥१०॥ तस्य गन्धविशेषस्याभावात्-तत्रोद्भवाभावादव्यभिचारः-उक्तनियम- व्यभिचारो नेत्यर्थः । पाषाणादिगन्धस्यानुद्भूतत्वाद् घोणयाऽनुपलब्धिरिति भावः । तत्र पाषाणादिध्वंसजन्यं तद् भस्म गन्धवदुपलभ्यते, तच तदुपादा- नोपादेयमिति सुध्रुवं, लोके यद् द्रव्यं यद्रव्यध्वंसजन्यं तत्तदुपादानोपादेयं, यथामहावस्त्रध्वंसजन्यं खण्डवस्त्रम् । द्वयोश्च समानोपादानोपादेयत्वे भस्म- वत्पाषाणादिनापि गन्धसमवायिना भवितव्यम् । तस्य तत्समवायित्वे घोणया तद्नुपलब्धिरनुद्भूतत्वादिति विवेकः ॥ १० ॥ ननु यथा रूपरसगन्धस्पर्शानां गुणानां बाझेकैकेन्द्रियेणोपलब्धौ प्रयोजकं कथितं तथा संख्यादिगुणान्तरोपलब्धावपि किञ्चित्प्रयोजक कथितव्यं ? तत्राह "संख्या:, परिमाणानि, पृथक्त्वं, संयोगविभागौ, परत्वापरत्वे, कर्म च रूपिद्रव्यसमवायाचाक्षुषाणि ॥११॥ चकारेण स्नेहद्रवत्ववेगानामुपसङ्ग्रहः । कर्मेति प्रसनादुक्तम् । स्नेहद्रव- त्ववेगसहितानि सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वकर्माणि रूपिद्रव्यसमवायात्-रूपवद्रव्येषु समवायेन वर्तनाच्चाक्षुषाणि चाक्षुपाणि पार्शनानि च भवन्तीत्यर्थः । तत्र संङ्ख्याः इति बहुवचनमेकत्वादिसर्वसङ्खयोपसङ्घहार्थम् । एकत्वं च नित्यगतं नित्यमनित्यगतमनित्यं, द्वित्वादिकं परार्द्धपर्यन्तमपेक्षावुद्धिजन्य- त्वात्सर्वत्रानित्यम् । गुणकर्मादौ संङ्ख्याप्रतीतिस्त्वेकार्थसमवायान्न तु समवायादिति विवेकः ॥ ११ ॥ "अरूपिष्वचाक्षुषाणि ॥ १२ ॥ पूर्वसूत्रं समग्रमनुवर्तते । अरूपिपु-रूपरहितेषु च द्रव्येषु समवायेन वर्तमानानि तानि सङ्ख्यादीनि कर्मान्तान्यचाक्षुपाणि-न चाक्षुपाणि भवन्ति न स्पार्शनानि चेत्यर्थः ।। १२ ।। - वैशेषिकदर्शनम् । [आयम् अतिदिशति- "एतेन गुणत्वे, भावे च सर्वेन्द्रियं ज्ञानं व्याख्या- तम् ॥१३॥ एतेन-रूपादिपु गुणेषु तत्तत्प्रयोजकात् तत्तदिन्द्रियजन्यप्रत्यक्षज्ञान- व्याख्यानेन गुणत्वे तद्तायां गुणत्वजातौ भावे च-सत्तायां च परजातौ सर्वेन्द्रियं ज्ञानं-चक्षुरादिसर्वेन्द्रियजन्यं ज्ञानं व्याख्यातं "येनेन्द्रियेण या व्यक्तिर्गृह्यते, तेनैव तद्गता जातिः” इति न्यायेन व्याख्यातं वेदितव्यमित्यर्थः ॥ १३ ॥ भूरादिसर्वभावानां प्रकृतिर्मूलकारणम् । पारोक्ष्यं चापरोक्ष्यं च तेषामस्मिन् परीक्षितम् ॥१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्ध्यात्मारामभगव- त्पादशिष्यहरिप्रसादकृतायां वैशेषिकसूत्रवैदिकवृत्ती चतुर्थाध्यायस्याद्यमाह्निकम् ।

4 आदिकम्] चतुर्थोऽध्यायः। ९५ अथ चतुर्थोऽध्यायः। द्वितीयमाह्निकम् । ननु मूलकारणसद्भावे यत्पृथिव्यादिकार्य्यद्रव्यं लिगमुदाहृतं, तत्कति- विधं भवति? तत्राह- "तत्पुनः पृथिव्यादिकार्यद्रव्यं त्रिविधं शरीरेन्द्रिय- विषयसंज्ञकम् ॥१॥ तत्पुनः मूलकारणप्रकृतिसद्भावे यल्लिङ्गत्वेनोदाहृतं, तच्च पृथिव्यादि- कार्य्यद्रव्यं भूप्रभृतिकं जन्यद्रव्यं शरीरेन्द्रियविषयसंज्ञकं-शरीरसंज्ञकमि- न्द्रियसंज्ञक विषयसंज्ञकं भवत्रिविध-त्रिप्रकारं भवतीत्यर्थः । भोक्तु गायतनं, चेष्टेन्द्रियार्थाश्रयो वा, शरीरम् । शरीराश्रयं सत्स्व- संयुक्तेऽर्थे ज्ञातुरपरोक्षप्रतीतिसाधनं द्रव्यमिन्द्रियमित्युक्तम् । शरीरेन्द्रिय- व्यतिरिक्तत्वे सत्यात्मोपभोगसाधनं द्रव्यं विषयः । तद्भेदात् त्रिधा पृथिवी, त्रिधा जलं, त्रिधा तेजस्त्रिधा वायुः, चतुर्थेति प्रशस्तदेवः, द्विधाऽऽकाशं, शरीराभावात् , एकधा कालः, शरीरेन्द्रियोरुभयोरभावात् , एकधा दिक् , तथात्वादिति भावः। तत्रामदादीनां शरीरं, नासाग्रवर्ति घ्राणमिन्द्रियं, मृत्पाषाणादिविषय इति त्रिधा पृथिवी १, पानीयमण्डलस्थसत्त्वानां शरीरं; जिह्वाग्रवर्ति रसनमिन्द्रियं, सरित्समुद्रहिमकरकादिविषय इति त्रिधा जलम् २, ते जोमण्डलस्थसत्त्वानां शरीरं, कृष्णताराप्रवर्ति चक्षुरिन्द्रिय, भौम, दिव्यम् उदय॑म् , आकरजं, विषय इति त्रिधा ज्वलनम् ३, वायुमण्डलस्थस- त्त्वानां शरीरं, सर्वशरीरव्यापि त्वगिन्द्रियं, वृक्षादिकम्पनहेतुः शरीरान्त- स्सञ्चारी वायुः प्राणश्च विषय इति त्रिधा वायुः ४, प्राणस्त्वेकोऽपि हृदा- दिनानास्थानवशात् , मुखनासिकानिर्गमादिनानाक्रियावशाच्च प्राणापानस- मानोदानव्यानभेदात्पञ्चधा व्यपदिश्यते, नागकूर्मकृकलदेवदत्तधनञ्जयानां प्राणेऽन्तर्भावाभ्युपगमात् , तथा च तत्सङ्ग्रहश्लोक. १ उद्गीर्णस्यहेतुर्नागः, उन्मीलनस्य कर्मः, क्षुतः कृकलः, विजृम्भणस्य देवदत्तः, पोपणस्य धनजय.। . , .

वैशेषिकदर्शनम् । [द्वितीयम् "हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः। उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः॥१॥इति। कर्णशण्कुल्यवच्छिन्नमाकाशं श्रोत्रं, शिष्टं विषय इति द्विधाकाशम् ५, क्षणादिकालो विषयः ६; पूर्वादिदिग् विषयः ७; मनस्त्विन्द्रियमुक्तमिति विवेकः। अत्र घ्राणं पार्थिवं, रूपादिषु गन्धस्यैवाभिव्यञ्जकत्वात् , कुङ्कुमग- न्धाभिव्यञ्जकगोघृतवत् । न चोदाहरणे हेत्वसिद्धिः, तस्य स्वीयरूपा- दिव्यञ्जकत्वेन गन्धमात्राभिव्यञ्जकत्वामावादिति वाच्यम् । तत्रैवकारेण परकीयरूपाद्यव्यञ्जकत्वस्यापिविवक्षितत्वात् । नवशरावगन्धाभिव्यञ्जकोदके तु न व्यभिचारः संभवति । तस्य सक्तुरसस्यापि व्यञ्जकत्वात् । वायूपनीत- सुरभिभागाः वाऽत्रोदाहा-ः, तेन न कुत्रापि कश्चिद्दोषः। गन्धमात्राभिव्य- ञ्जके घ्राणेन्द्रियसन्निकर्षे व्यभिचारवारणार्थ तु द्रव्यत्वे सतीति विशेषणं नियमेन दातव्यम् । रसनं जलीयं, गन्धाद्यव्यञ्जकत्वे सति रसाभिव्यञ्ज- कत्वात् , सक्तुरसाभिव्यञ्जकोदकवत् । अत्रापि सन्निकर्पे व्यभिचारवारणाय द्रव्यत्वं देयम् । चक्षुः तैजस, परकीयस्पर्शाद्यव्यञ्जकत्वे सति परकीयरू- पव्यञ्जकत्वात् , प्रदीपवत् । प्रदीपस्य स्वीयस्पर्शव्यञ्जकत्वादत्र दृष्टान्तेऽसि- द्धिवारणाय प्रथमं परकीयेति, घटादेः खीयरूपव्यञ्जकत्वाद् व्यभिचारवार- णाय द्वितीयं परकीयेति । यदा प्रभाया दृष्टान्तत्त्वसभवादाचं परकीयेति न देयम् । द्रव्यत्वं तु पूर्ववदोषवारणाय देयम् । त्वगिन्द्रियं वायवीयं, रूपादिपु स्पर्शस्यैवाभिव्यञ्जकत्वात्, अगसगिसलिलशैत्याभिव्यञ्जकव्यजन- पवनवत् । द्रव्यत्वनिवेशः पूर्ववत् । श्रोत्रं तु शब्दग्राहकत्वादाकाशमेव, न ततोऽतिरिक्तमिति द्रष्टव्यम् । १ । ननु यदेतत्रिविध पृथिव्यादि कार्य्यद्रव्य निरूपितं, तत् कि पञ्चभि- भूतैरेकैकमारभ्यते, आहोखिदेकैकमेकैकेन ? तत्राह- "प्रत्यक्षाप्रत्यक्षाणां संयोगस्याप्रत्यक्षत्वात् पञ्चात्मकं विद्यते ॥२॥ शरीरेन्द्रियविषयसज्ञकं पृथिव्यादिकार्य्यद्रव्यमित्यनुवर्तते, तत् पश्चा- ९७ - आह्निकम्] चतुर्थोऽध्यायः। त्मकं पञ्चभूतात्मक पञ्चभूतसंयोगासमवायिकारणकमिति यावत् न वि- द्यतेन भवति, कुतः१ प्रत्यक्षाप्रत्यक्षाणां प्रत्यक्षाप्रत्यक्षद्रव्याणां संयोगस्य- परस्परसंयोगसम्बन्धस्याप्रत्यक्षत्वात् प्रत्यक्षत्वाभावनियमात् प्रत्यक्षाप्रत्यक्षद्र- व्यसंयोगासमवायिकारणकस्य तस्याप्रत्यक्षापत्तेरित्यर्थः । यथा प्रत्यक्षाप्रत्यक्षाणां वायुवनस्पतीनां संयोगो न प्रत्यक्षः, तथा प्रत्यक्षाप्रत्यक्षद्रव्यसंयोगात्मकत्वाद् शरीरादिकार्य्यद्रव्यमपि प्रत्यक्षं न स्यात्, प्रत्यक्षं च विद्यते, तस्मान्न तदेकैकं पञ्चभिरारभ्यते, किन्त्वेकैकेन । तत्र पृथिव्यप्तेजॉसि प्रत्यक्षाणि, वायुराकाशं चेति द्वयमप्रत्यक्षमिति भावः ॥२॥ ननु नैतत्संयोगात्मकम्, अपि च संयोगारभ्यम्, अतस्तस्य प्रत्येकं पञ्चात्मकत्वेऽपि न कश्चिद्दोषः, तत्राह- "गुणान्तराभावाच ॥३॥ शरीरेन्द्रियविषयसंज्ञकं पृथिव्यादिकार्य्यद्रव्यं पञ्चात्मकं न विद्यते इति सूत्राभ्यामनुवर्तते । पञ्चात्मकत्वाभावे हेत्वन्तरमेतदिति सूचनाय चकारः । शरीरेन्द्रियादिकं पञ्चात्मकं न विद्यते । कुतः ? गुणान्तरा- प्रादुर्भावात् कारणगुणादन्यो गुणो गुणान्तरं, तस्याप्रादुर्भावोऽनुत्पादः, तस्मात्-गुणान्तरोत्पादानाश्रयत्वादित्यर्थः । चेदेतत् पञ्चभूतसंयोगारभ्यं भवेत् । तदाऽवश्यं हरिद्राचूर्णसंयोगा- रब्धे द्रव्ये लौहित्यवदत्र गुणान्तरं प्रादुर्भवेत् । न चेह किञ्चिद् गुणान्तरं प्रादुर्भवदुपलभ्यते । तस्मात्प्रतिपद्यते-नेदं पञ्चात्मकमिति भावः ॥ ३ ॥ ननु मा भूत् पञ्चात्मकं, त्र्यात्मकं भविष्यति; तत्राह- "न न्यात्मकम् ॥४॥ शरीरेन्द्रियविषयसंज्ञकं पृथिव्यादिकार्य्यद्रव्यं गुणान्तराप्रादुर्भावाच्चेत्यनु- वर्तते । गुणान्तराप्रादुर्भावाद् शरीरादिकार्य च्यात्मकमपि न विद्यते इत्यर्थः। यथा गुणान्तरोत्सादानाश्रयत्वाद् शरीरादिकार्य पञ्चात्मकं नोप- पद्यते, तथा भूजलज्योतिरात्मकमपि नोपपद्यते इति भावः ॥ ४ ॥ नन्वेवं चेत् तदा गन्धवदा क्लेदपाकव्यूहावकाशाः जलज्योतिरनि- लाकाशधर्माः नोपलभ्येरन्, तत्राह- - १३ - ९८ वैशेषिकदर्शनम् । [द्वितीयम् "अणुसंयोगस्त्वप्रतिषिद्धः॥५॥ तुशब्देनासमवायिकारणलक्षणं संयोग व्यवच्छिनत्ति । शरीरादि- कार्येऽणुसंयोगस्तु जलादीनामारम्भकत्वाभावेऽप्युपष्टम्भकत्वाभ्युपगमान्नि- मित्तकारणलक्षणस्तत्परमाणुसंयोगसम्बन्धस्त्वप्रतिषिद्धः नास्माभिः पूर्व-. सूत्राभ्यां प्रतिषिद्धः निषिद्ध इत्यर्थः । एकैकद्रव्यारब्धे शरीरादिकार्ये द्रव्यान्तराणामारम्भकत्वानभ्युपगमे- नासमवायिकारणलक्षणः संयोगः प्रतिषिध्यते, न निमित्तकारणलक्षणः संयोगोऽपि । तेषामुपष्टम्भकत्वाभ्युपगमात् । अतस्तत्र तद्धर्मोपकन्धावपि न कश्चिद्दोष इति भावः । तत्र क्लेदः क्षरणं, पाकः औष्ण्यं, व्यूहः क्रिया, मुखादावन्नादिगत्यप्र- तिबन्धः अवकाश इति विवेकः ॥५॥ शरीरं विभजते- "तत्र शरीरं द्विविधं योनिजमयोनिजं च ॥६॥ तत्र-शरीरेन्द्रियविषयेषु शरीरं यच्छरीरसंज्ञकं कार्यद्रव्यं तद् योनिजमयोनिजं च-शुक्रशोणितयोः सन्निपातो योनिः, तज्जन्यं योनिज, तद्विपर्य्ययाज्जातमयोनिजं चेति द्विविध-द्विप्रकारमित्यर्थः । तत्राप्यं तैजसं वायवीयमयोनिजं, पार्थिवं योनिजमयोनिजं चेति प्रशस्तदेवः । योनिजं द्विविधं-जरायुजमण्डजं च । गर्भवेष्टनचर्मपुटक जरायुः, तज्जत्वान्मानुषपशुमृगाणां शरीरं जरायुजम् । अण्डं विम्बः, तज्ज- त्वात्पक्षिसरीसृपाणां शरीरमण्डजम् । अयोनिजं चतुर्विधं-साङ्कल्पिक, सांसिद्धिकं, स्वेदजमुद्भिजं च । प्रजापतिसङ्कल्पात्सर्गादौ जातानां महर्षीणां पश्चादीनां च शरीरं साङ्कल्पिकम्, योगसिद्धिसिद्धं योगिनां शरीरं सांसि- द्धिकम्, दंशमशकादीनां शरीरं स्वेदजम्, तरुगुल्मादीनां शरीरमुद्भिज्ज- मिति विवेकः ॥ ६॥ ननु सर्गादावुत्पन्नानां जीवात्मनामयोनिजाः शरीरभेदाः भवन्तीति नानुजानीमः, तत्कारणानिरूपणात्; तत्राह- "अनियतदिग्देशपूर्वकत्वात् ॥७॥ -

-
आहिकम्]
चतुर्थोऽध्यायः।
सन्त्ययोनिजा इत्यग्रिमसूत्रमाकृष्यते।हेतूनांप्रतिज्ञासाकाङ्क्षत्वात् । न
नियतौ निश्चितौ निरवयवत्वव्यापकत्वाभ्यां दिग्देशौ-दिक् च देशश्च
तौ येषां भूतसूक्ष्माणां, ते पूर्व कारणं येषां शरीरभेदानां, तेषां भावस्तत्त्वं,
तस्मात् आरम्भक्रमेण भूतसूक्ष्मकारणकत्वादयोनिजाः योनिमन्तरा स-
गोदौ जायमानाः शरीरभेदाः सन्ति भवन्तीत्यनुज्ञातव्यमित्यर्थः ॥ ७॥
नन्वारम्भक्रमेण भूतसूक्ष्मकारणकाश्चेत्, तदा समानकारणकत्वाद्
घटादिभ्यो विलक्षणास्ते न जातु प्रादुष्युः, तत्राह-
"धर्मविशेषाच ॥८॥
चकारेणाधर्मविशेष समुच्चिनोति । न च ते केवलाद् भूतसूक्ष्मात्कार-
णात्प्रादुर्भवन्ति, येन घटादिभ्यो विलक्षणाः न प्रादुष्युः, अपि च
धर्मविशेपाच-विशिष्यते इति विशेषः, धर्म एव विशेषः धर्मविशेषः-
प्रकृष्टो धर्म इति यावत् , तस्मात् प्रकृष्टधर्मसहितादधर्मविशेषसहिताच
भूतसूक्ष्मात्कारणादित्यर्थः ।
तत्र धर्मविशेषसहितात्सर्गादिभुवां महर्षीणां शरीराणि जायन्ते,
अधर्मविशेषसहकृताचाधुनाप्यनिशं जायमानानां क्षुद्रजन्तूनां दंशमशका-
दीनां, धर्माधर्मसहकृताच पश्चादीनामिति विवेकः॥८॥
ननु कुतश्चैतदवगम्यते पश्वादिवन्महर्षीणामयोनिजाः शरीरभेदाः
सन्तीति ? तत्राह-
"समाख्याभावाच ॥९॥
सन्त्ययोनिजा इति पूर्ववदाकर्षः । पूर्वोक्तहेतुद्वयापेक्षया चः । यौगिकी
संज्ञा समाख्या, तस्याः सद्भावो भावः, तस्साच महर्षीणां वेदोक्तायाः
"मनुरग्निर्वायुः" इत्यादियौगिकसंज्ञायाः सद्भावाच्च “सन्त्ययोनिजास्त-
। च्छरीरभेदाः" इति भवत्यनुमानादवगम इत्यर्थः ।
न हि महर्षीणां वेदोक्ता सा सा संज्ञा मातापितृभ्यां कृता भवति,
येन तेषा योनिजाः शरीरभेदाः सिध्येयुः । अपि च वेदवचनेन जगदी-
श्वरेण, ताइक्संज्ञासद्भावस्य वेदेष्वेव नियमेन दर्शनात्, तत्प्रवृत्तेश्च तत
एव स्मरणात् । अतोऽवगम्यते-न योनिजास्तावत् तच्छरीरभेदाः सन्ति,
किन्वयोनिजा इति भावः ॥९॥

१०० वैशेषिकदर्शनम् । [द्वितीयम् , ननु महर्षिभिः पश्चादीनां गौरश्वो हस्ती सिंह इत्यादिसंज्ञावत् तेषां संज्ञापि वेदान् दृष्ट्वा तन्मातापितृभ्यामेव कृता किन्न स्यात्, तत्राह-- "संज्ञाया आदित्वात् ॥१०॥ संज्ञायाः महर्षीणां तत्तत्संज्ञायाः आदित्वात् प्रथमत्वादित्यर्थः । सर्गादिभुवो हि महर्षयो, न ततः पूर्वं कस्यचित्सर्गोऽभूत्, कुत- स्तन्मातापितरौ स्यातां, कुतश्च वेदान् दृष्ट्वा तत्कृता संज्ञेति भावः ॥१०॥ निगमयति- "सन्त्ययोनिजाः ॥११॥ तस्मात्सर्गादिभुवां महर्षीणां पश्वादीनां चायोनिजाः योनिमन्तरेण जायमाना. शरीरभेदाः सन्ति-भवन्तीत्यर्थः ॥ ११ ॥ ननु लौकिकैलिङ्गैः सिद्धमपि सर्गादिभुवां महर्षीणां पश्वादीनां च शरीराणामयोनिजत्वं वेदप्रमाणासिद्धत्वात्कथ वैदिकानामुपादेयं स्यात् ? तत्राह- "वेलिङ्गाच ॥१२॥ सन्त्ययोनिजा इति पूर्वसूत्रमनुवर्तते । “विश्वान् देवाञ्जगत्या- विवेश । तेन चाकृपे ऋषयो मनुष्याः" (ऋग्वे० अष्ट० ८७ व० १८।५।) "तस्मादश्वा अजायन्त ये के चोभयादतः । गावो ह जज्ञिरे तस्मात् तस्माजाता अजावयः" (ऋग्वे० अष्ट० ८।४। व० १८।१०) इत्यादिवेदसामर्थ्याच्च सन्त्ययोनिजाः शरीरभेटा इत्यर्थः ॥ १२॥ शरीरादिप्रभेदेन भूम्यादि त्रिविधं मतम् । शरीरं द्विविधं चास्मिन्नाहिके विशदीकृतम् ॥१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्यात्मारामभगव- त्पादशिष्यहरिप्रसादकृतायां वैशेपिकसूत्रवैदिकवृत्ती चतुर्थाध्यायस्य द्वितीयमाह्निकम् । समाप्तश्चायं प्रकृतिशरीराध्यायश्चतुर्थः ।

लाल आह्निकम्] प्रञ्चमोऽध्यायः । अथ पञ्चमोऽध्यायः आद्यमाह्निकम् । परीक्षितानि द्रव्याणि, गुणेषु परीक्षणीयेषूपस्थितेषु शिष्यनिवासमा रुध्य तत्परीक्षातः पूर्व कर्मपरीचिक्षिषया पञ्चमाध्यायमारभमाणः प्रथम- न्तावदुत्क्षेपणलक्षणं कर्माधिकृत्याह- "आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म ॥१॥ आत्मसंयोगप्रयत्नाभ्यां संयोगापक्षया प्रयत्नस्याभ्यर्हितत्वेऽपि निमित्त- कारणत्वान्न पूर्वप्रयोगः, आत्मनः -मनोविशिष्टस्य प्रत्यगात्मनः संयो- गप्रयत्नाभ्यां संयोगश्च, प्रयत्नश्च, ताभ्यां हस्ते-शरीरावयवे करे कर्म-उ- क्षेपणाख्यं कर्म भवतीत्यर्थः । यदा ह्ययं चिकीर्षितेषु यज्ञाध्ययनादिषु शरीरावयवं हस्तमुक्षेप्तुं काम- यति, तदाऽस्यात्मनि तदनुकूल. प्रयत्नः संजायते, तमपेक्षमाणादात्मह- स्तसयोगाच्च तत्रोत्लेपणलक्षणं कर्मेति भावः । इदमन्त्र बोध्यं यद्यप्यात्मनोऽणुत्वाद् हृदयस्थतया हस्तादिना सा- क्षात्सयोगो न सम्भवति, तथापि मनसो मध्यमपरिमाणत्वात् तद्विशि- ष्टस्य तस्य न तत्संभवाभाव इति । तत्र समवायिकारणं हस्तः "कारणमिति द्रव्ये कार्यसम- वायात्" (वै. अ. १० आ. २-सू. १) इति वक्ष्यमाणात् । असमवा- यिकारणं प्रयत्नवदात्मसंयोगः, कारणैकार्थसमवायात् । निमित्तकारणं प्रयत्न इति विवेकः॥१॥ हस्तोत्क्षेपणमुक्त्वा तदधीनं मुषलोत्क्षेपणमाह- "तथा हस्तसंयोगाच मुषले कर्म ॥२॥ चकारेण गुरुत्वं समुच्चिनोति । तथा हस्तसंयोगाच-उत्क्षेपणवद्धस्तसंयो- गाद् गुरुत्वाच मुषले यज्ञादिषूपयुक्ते धान्यादिकण्डवहाशि मुसले कर्म= उत्क्षेपणं कर्मोत्पद्यते इत्यर्थः यदा हस्तेन मुशलं गृहीत्वा कामयति हिमोलिपामि सशलम्" इति... - 13017

१०२
वैशेषिकदर्शनम् ।
[आयम्
तदा तत्कामनया जायमानं प्रयत्नमपेक्षमाणादात्महस्तसंयोगाद् यस्मिन्
क्षणे हस्ते तस्मिन्नुत्क्षेपणं कर्म संजायते । तस्मिन्नेव क्षणे तमेव प्रयत्नमपे-
क्षमाणादुत्क्षेपणवद्धस्तमुशलसयोगान्मुशलेऽप्युत्क्षेपणं कर्मोत्पद्यते । ततो
दूरमुल्लिप्ते मुशले तदिच्छानिवृत्तौ पुनरपक्षेपणेच्छायामुत्पन्न प्रयत्नमपेक्ष-
माणादात्महस्तसयोगाद् हस्ते तथाभूतहस्तमुशलसंयोगाच मुशले युगपद-
पक्षेपणं कर्म समुत्पद्यत इति भावः ।
तत्र शरीरावयवेपु तत्संबद्धेषु च मुशलादिपु यदूर्ध्वमाग्भिः प्रदेशैः
संयोगकारणमधोभाभिश्च प्रदेशैविभागकारण प्रयत्नसंयोगगुरुत्वेभ्यः कर्मो-
त्पद्यते तत् उत्क्षेपणं। तद्विपर्ययेण च संयोगविभागकारणं यत्कर्मोपजायते
तत् अपक्षेपणम् । उभयस्मॅिश्चास्मिन् मुशलादिकर्मणि मुशलादिकं सम-
वायिकारणम् । उत्क्षेपणवद्धस्तमुशलादिसंयोगोऽसमवायिकारणम् । प्रयत्नो
गुरुत्वं च निमित्तकारणम् । सत्यपि प्रयत्ने गुरुत्वरहितस्योत्क्षेपणापक्षेपणयो-
रसंभवाद् गुरुत्वस्यापि तत्र प्रयत्नवनिमित्तकारणत्वमिति विवेकः ॥ २॥
ननु यदोलूखलादिकमभिहत्य मुशलादिकमुत्पतति, तदा तस्योत्पतने
कर्मणि किं पूर्ववद् हस्तसंयोगोऽपि कारणं भवति ? तत्राह-
"अभिघातजे मुशलादौ कर्मणि व्यतिरेकादकारणं
हस्तसंयोगः ॥३॥
अभिघातजे मुशलादेरुदूखलादिना योऽभिघाताख्यः संयोगसंबन्ध-
विशेषस्तजन्ये मुशलादौ कर्मणि-मुशलादावुत्पतनकर्मणि हस्तसंयोगः तथा
हस्तसंयोगोऽकारणं कारणं न भवति । कुतः? व्यतिरेकात्-तद्व्यतिरे-
केऽपि जायमानत्वादित्यर्थः ।
मुशलादिगतापक्षेपणलक्षणेन कर्मणा तावदुलूखलमुशलप्रभृत्योरभिघा-
ताख्यः संयोगः क्रियते । सच मुशलादिगतं वेगमपेक्षमाणो मुशलादाव-
न्तरेण प्रयत्नमुत्पतनलक्षणं कर्म करोति । तस्मॅिश्च कर्मणि हस्तसंयोगो
नासमवायिकारणम् । अन्यथासिद्धत्वात् । नापि प्रयत्न । अपिचाभिघा-
ताख्यः सयोगः । तेनैव तदुत्पत्तेः । मुशलादिकं तु समवायिकारणं ।
निमित्तकारणं च वेग इति भावः ॥३॥

आहिकम्] पञ्चमोऽध्यायः । १०३ - 'अतिदिशति- "तथाऽऽत्मसंयोगो हस्तकर्मणि ॥४॥ व्यतिरेकादकारणमित्यनुवर्तते । तथा यथाऽभिघातजे मुशलादिक- मणि हस्तसंयोगो न कारणं, तथा हस्तकर्मणि-मुशलादिनोत्सततासहोत्पततो- हस्तस्योत्पतने कर्मण्यात्मसंयोगः अयनवदात्मसंयोगो व्यतिरेकादकारण- मित्यर्थ. ॥ ४॥ ननु कस्मात्तर्हि हस्ते तदोत्पतनं कर्म जायते ? तत्राह- "अभिघातान्मुषलसंयोगाद्धस्ते कर्म ॥५॥ अमिघातात्-उदूखलाभिघातान्मुपलसंयोगात्-जातवेगेन मुपलेन स- ह संयोगाद्धस्ते कर्म-उत्पतनं कर्म भवतीत्यर्थः । उदुखलायभिघाताज्जायमानं मुपलादेरुत्पतनं कर्म मुपलादौ तावद्वे- गाख्यं संस्कारमारभते, तत्सहकृतश्च मुपलादिसंयोगः स्वाश्रये हस्तेऽप्युत्प- तनाल्यं कर्म प्रारभते । तदा चोत्पतता मुषलादिना सह तन्मुखस्थलोह- वदवश. सन् हस्तोऽप्युत्पतति । तत्रच न प्रयत्नवदात्मसंयोगोऽसमवायिका- रणम् । अपिच हस्तमुशलादिसंयोग । निमित्तकारणं च वेगाख्यः संस्कार इति भावः ॥ ५॥ ननु यदोलूखलायभिघाताजातवेगेन मुशलादिना संयोगाद् हस्ते क- यॊत्पद्यते, तदा तदवयविनि शरीरेऽपि कर्म दृश्यते, तत्कुतो भवति ? तत्राह- "आत्मकर्म हस्तसंयोगाच ॥६॥ हस्तसंयोगाच्च वेगसमुच्चयाय चः, शरीरावयवस्य हस्तस्य वेगवता मुश- लादिना यः संयोगस्तस्माद् वेगाचात्मकर्म आत्मनि-शरीरे कर्म भवतीत्यर्थः। यत्र वेगेनोत्पतता मुशलादिना दृढतरसंयुक्तहस्तः पुरुषोऽपि सह तेनो- स्पतति, तत्र तदुत्पतनं वेगसहकृताद् हस्तसंयोगादेव भवति, न कारणान्त- रादिति भावः ॥६॥ ननु भवतु गुरुत्ववतः पदार्थस्य संयोगविशेपादुत्क्षेपणापरपर्य्यायमुत्प- तनम् । अपक्षेपणापरपर्यायं पतनं पुनरुचैः स्थितस्य तादृशस्तस्य कथं भवेत् ? तत्राह-- - , वैशेषिकदर्शनम् । [आयम् "संयोगाभावे गुरुत्वात्पतनम् ॥ ७ ॥ संयोगाभावे-पतनहेतुगुरुत्वविधारकतया पतनप्रतिबन्धकस्य संयोगवि- शेषस्याभावे सति गुरुत्वात् तदानीमप्रतिबद्धादसमवायिकारणाद्गुरुत्वात्पत- नम् उत्पततस्तस्यापक्षेपणं भवतीत्यर्थः । तत्राचं पतनं गुरुत्वाद् , द्वितीयादीनि तु तानि गुरुत्ववेगाभ्यामिति विवेकः ॥ ७॥ ननु कस्साद्गुरुत्वात्पतनमेवभवति नोर्ध्वगमनं न तिर्यग्गमनं ? तत्राह- "नोदनविशेषाभावान्नोवं न तिर्यग् गमनम् ॥ ८॥ नोदनविशेषाभावात् संयोगसम्बधविशेषो नोदन., तद्विशेषस्तरतमादिः, तस्याभावाद् नोर्ध्वम्-ऊर्ध्वगमनं न भवति, न तिर्यग्गमनं तिर्यगगमनश्च न भवतीत्यर्थः। ऊर्ध्वगमने तिर्यग्गमने च नोदनविशेषसहकृतं गुरुत्वं कारणं, पतने च प्रतिबन्धकाभावे सति केवलं गुरुत्वमिति भावः ॥ ८॥ ननु नोदनविशेषः कुतो भवति ? तत्राह- "प्रयत्नविशेषानोदनविशेषः ॥९॥ प्रयत्नविशेषात् ऊर्ध्व तिर्यग् दूरमासन्नमेतत् क्षिपामीति कामनाविशे- षजनितात्प्रयत्नविशेषान्नोदनविशेषः-नोदकस्य हस्तज्यादेर्नोद्यस्य च लोष्ठ- शरादेः संबन्धविशेषलक्षणो नोदनविशेषो भवतीत्यर्थः ॥९॥ ननु भवतु प्रयलविशेषान्नोदनविशेषः, गुरुणो द्रव्यस्योर्ध्वतिर्यग् गमने किमायातं? तत्राह- "नोदनविशेषादुदसनविशेषः ॥ १० ॥ नोदनविशेषात् प्रयत्नविशेषजनितान्नोदनविशेषादुदसनविशेषः गुरुणो द्रव्यस्य दूरोत्क्षेपणादिकं भवतीत्यर्थः । तत्रोदसनमुत्क्षेपणं, तद्विशेषो दूरोत्क्षेपणं दूरतरोत्क्षेपणं, तिर्यग्- गमनलाम. प्रकरणादिति विवेकः ॥१०॥ ननु नोदनविशेषाच्चेदुटसनविशेषः, तदा क्रीडतो दारकस्योर्ध्वतिर्यक् - ८ आहिकम्] पञ्चमोऽध्यायः । १०५ करचरणादिचालनलक्षणं कर्म-उदसनविशेषो नोपपद्येत, नोदनविशेषाभावे- ऽपि जायमानत्वात् , तत्राह- "हस्तकर्मणा दारककर्म व्याख्यातम् ॥११॥ हस्तकर्मणा लोष्ठाद्युत्क्षेपणकालकेनात्मसंयोगप्रयत्नाभ्यां जनितेन हस्त- कर्मणा दारककर्म-क्रीडतो बालकस्य करचरणादिचालनलक्षणं कर्म व्या- ख्यातम् उपपादितं वेदितव्यमित्यर्थः । यथाहि लोष्ठादेरुक्षेप्तुः पुरुषस्य हस्तोत्क्षेपणादिकं कर्म प्रयत्नविशेषज- नितमपि न नोदनविशेषजनितम् । तथा दारकस्यापि कर्म विज्ञेयम् । नोदनविशेषस्योदसनविशेषे हेतुत्वेऽपि यावदुदसने कर्मणि हेतुत्वानभ्युपगमा- दिति भावः ॥ ११॥ नन्वस्त्यन्यदपि किचिदीदृशं कर्म, यन्नोदनमात्रजनितमपि नोदन- विशेषजनितं न स्यात् ? तत्राह- "तथा दग्धस्य विस्फोटने ॥१२॥ दग्धस्य वहिसंयोगेन दग्धकल्पस्याश्मफलादेविस्फोटने-विपाटने सति यत्तदवयवानामूर्ध्वाधस्तिर्यग्गमनादिलक्षणं कर्म, तत् तथा दारककर्म- वनोदनविशेषाजनितमित्यर्थः । तत्र प्रयत्नपूर्वकं दारककर्म, नोदनमात्रपूर्वकं त्वश्मफलादिखण्डानां कर्म, नोदनविशेषाजन्यत्वं च समानमुभयोति विवेकः ॥ १२॥ ननु यदाऽयं प्रसुप्त्यादौ न किचिच्चेतयति, तदापि कदाचिद् चलन् दृश्यते, तदस्य चलनं प्रयत्नाभावे कथं भवेत् ? तत्राह- "यत्नाभावे प्रसुप्तस्य चलनम् ॥ १३ ॥ वायुसंयोगादित्यग्रिमसूत्रादाकृष्यते । यत्नामावे-अयनाभावे प्रसुप्तस्य = प्रसुप्तिरत्राचेतनावस्थामुपलक्षयति, तेन मूर्च्छितस्य मृतस्य च सङ्ग्रहः, प्रसुप्त्यादिदशाविशेषमापन्नस्य चलनं यदकस्मात्कादाचित्कं चलनं, तद् वायुसंयोगात् वायुविशेपसंयोगाद् भवतीत्यर्थः ॥ १३ ॥ वायुसंयोगजमपरं कर्माह- "तृणे कर्म वायुसंयोगात् ॥ १४ ॥ . - १४ ? १०६ वैशेपिकदर्शनम् । [आयम् तृणे-तृणादौ कर्म=यदूर्ध्वतिर्यग्गमनलक्षणं कर्म, तद् वायुसयोगात्= आधिभौतिकवायुसम्बन्धाद्भवतीत्यर्थः ॥ १४ ॥ ननु यत्र मण्यादेरभिसर्पणे प्रयत्नादिकं दृष्टं कारणं किमपि नोपल- भ्यते, तत्कि कारणकं स्यात् ? तत्राह- "मणिगमनं सूच्यभिसर्पणमदृष्टकारणम् ॥ १५ ॥ मणिगमनं-तृणविशेपस्य यत् तृणकान्तमणि प्रत्यभिसर्पण कर्म, यच्च सूच्यभिसर्पणं लोहमयस्य सूच्यादेरयस्कान्तमण्यभिमुखगमनं कर्म, तद- दृष्टकारणं दृष्टविलक्षणवस्तुशक्तिभूतादृप्टकारणकमित्यर्थः । यत् तृणजातीयं तृणकान्तमयश्चायस्कान्त मणिमभिसर्पति । तत्र तच्छक्तिः कारणं । साच मणिसन्निधानादुगुध्यते । प्रयत्नादिवच्च न दृश्यते । कार्यानुमेयत्वात् । अत. सूत्रितमदृष्टकारणमिति भावः । तत्र तृणादिकं समवायिकारणं । तेन च मणिसंयोगविशेषोऽसमवा- यिकारणम् । अदृष्टं निमित्तकारणमिति विवेक । सुकृतं दुष्कृतं चेहादृष्टमिति सर्वे शङ्करमिश्रप्रभृतयो व्याख्यातारः॥१५॥ ननु कर्मणश्चतुःक्षणमात्रस्थायित्वेन पञ्चमे क्षणे नाशावश्यंभावाद्- ज्याविभक्तस्येपोर्यावत्पतनमनेकानि कर्माणि मध्ये जायन्त इति वक्तव्यं, तन्न वक्तुं शक्यते, तदनेकत्वे लिङ्गानुपलव्धेस्तत्राह- "इषावयुगपत्संयोगविशेषाः कर्मान्यत्वे हेतुः ॥ १६ ॥ इषौ ज्याविभक्ते बाणे कर्मान्यत्वे-यावत्यतनं मध्ये जायमानेऽनेक- स्मिन् कर्मण्ययुगपत्संयोगविशेपाः भिन्नभिन्नसमये जायमानाः स्वजन्योत्तरो- त्तरसंयोगविशेपाः हेतु लिङ्गमित्यर्थः । क्षिप्तस्येपोरन्तराले पतनात्पूर्व तत्तद्देशेन वहवः संयोगास्तावदनुभूयन्ते । . तेच "पूर्व कर्मोत्पत्तिः, अथविभागः, तद्नु पूर्वसयोगनाशः, ततश्चोत्तरसं- योग." इति जायमानात्कर्मणश्चतुर्थे क्षणे भवन्ति । पञ्चमक्षणे च खजनक कर्म नाशयन्तीति संप्रतिपन्नम् । नचामी युगपद् जायन्त इति कल्पना युज्यते । सम्भवाभावात् । अपि चायुगपदिति मन्तव्यम् । नह्ययुगपद् बहु- संयोगोत्पत्तिरेकेन कर्मणा संभवति । तदसम्भवे च सुखेनानेककर्मसिद्धि- आहिकम्] पञ्चमोऽध्यायः। १०७ रिति भवत्ययुगपत्संयोगविशेषाः कर्मान्यत्वे हेतुरिति भावः ॥ १६ ॥ ननु कस्मात्कस्मात्कारणादापतनं बाणेऽनेकं कर्मोत्पद्यते ? तत्राह- "नोदनादाद्यमिषोः कर्म, तत्कर्मकारिताच संस्कारादु- 'त्तरं तथोत्तरमुत्तरं च ॥१७॥ नोदनात् नोदनाख्यादिषु ज्यासंयोगविशेषादिषोः निष्ठाषष्ठीयम् ,इषुनि- ठमाचं प्राथमिकं कर्म-गमनलक्षणं कर्म जायते, तत्कर्मकारिताच आद्य- कर्मजनिताच संस्कारात् वेगाख्यसंस्कारादुत्तरं-द्वितीयं कर्म । तथोत्तरं यथाधकर्मकारितासंस्काराद् द्वितीय, तथैवाद्यकर्मकारितासंस्कारात्तदु- त्तरं तृतीयम् । उत्तरं च तदुत्तरं तुरीयं च पञ्चमं चापतनमनेक कर्म जायत इत्यर्थः । यदाहि ज्या प्रयत्नेनाकृष्यते, तदा तत्र कर्मोत्पद्यते । तच्चोत्पन्नं ज्या- वेगाख्यं संस्कारमारभते।तं च संस्कारमपेक्षमाणो योऽयमिषुज्यासंयोगः स नोदनं । तस्मादेव नोदनादिषोराचं कर्म भवति । तत्र समवायिकारण- मिषुः, असमवायिकारणं नोदनं, प्रयत्नो गुरुत्वं च निमित्तकारणम् । तच्च नोदनापेक्षमिषौ वेगाख्यसंस्कारमारभते । तेन चेपुज्याविभागानुकूलं कर्म । ततश्चेषुज्याविभागः । ततश्च नोदननिवृत्तिः । तद्नु चाधकर्मका- रिताद्वगाख्यसंस्कारादेव तावत्कर्माणि भवन्ति, यावन्नेषुर्भूतले पतति । तत्र च सर्वत्रासमवायिकारणमेक एव प्राथमिकः संस्कार इति भावः ॥ १७ ॥ नन्वेक एव संस्कारश्चेत्कर्मसन्तानजनकः, तदेषुः कदापि न पतेत् । तत्राह- "संस्काराभावे गुरुत्वात्पतनम् ॥ १८॥ संस्काराभावे कर्मसन्तानलक्षणबहुकार्यकरणात्क्षीणशक्तितया प्रतिब- न्धकीभूतस्य वेगाख्यसंस्कारस्य नाशे सति गुरुत्वात् तदानीमप्रतिबद्धादि- पुगताद् गुरुत्वात्पतनम् = इषोरधःप्रदेशसंयोगजनकं कर्म भवतीत्यर्थः । तदाहि कदाचिदिषुर्न पतेत् , चेत्कर्मसन्तानजनकः संस्कारो न कथं- चिदपक्षीयेत, सर्वदा चैकरसमनुवर्तेत । नच स तथानुवर्तते । अपिच यथा यथा कर्मात्मकं कार्य करोति, तथा तथाऽस्य कार्यकरणशक्तिरप- १०८ वैशेषिकदर्शनम् । [आद्यम् क्षीयते । यथा यथा च शक्तिरपक्षीयते । तथा तथाऽस्य कार्य मन्दतर- तमादिभेदभिन्नमुपजायते । यथा तरुणस्य शाखिनः फलं प्रकृष्यते, जीर्णस्य चापकृष्यते । सर्वथा चायमपक्षीयमाणशक्तिकोऽन्ते स्वयमेव नश्यति । तन्नाशे चेपुरवशमात्मगतागुरुत्वात्पतति । गुरु ह्याकृष्यते पृथिव्येति नियमात् । यथाचेह, तथा क्षिप्ते लोष्ठादावपि द्रष्टव्यं, समानत्वादिति भावः ॥ १८॥ प्रयत्नपूर्वकं कर्म यादृशं लोकसंमतम् । तथा प्रासङ्गिकं चास्मिन्नाह्निके साधु वर्णितम् ॥१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्ध्यात्मारामभगव- त्पादशिष्यहरिप्रसादकृतायां वैशेषिकसूत्रवैदिकवृत्ती पञ्चमाध्यायस्यायमाह्निकम् ।

. । आह्निकम्] पञ्चमोऽध्यायः। १०९ अथ पञ्चमोऽध्यायः। द्वितीयमाह्निकम्। आत्माधिष्ठितेषु शरीरावयवेषु तत्सम्बद्धेषु च मुषलादिषु यन्त्रविशेषेषु प्रयत्नादितो जायमानमुत्क्षेपणापक्षेपणादिलक्षण कर्म परीक्षितम् । संप्रति पृथिव्यादिपु द्रव्येषु नोदनादितो जायमानं गमनादिलक्षणं कर्म परीक्षितु- कामः पूर्व पृथिव्यान्तावत्तज्जन्यं कर्माह- "नोदनाभिघातात् संयुक्तसंयोगाच पृथिव्यां कर्म ॥१॥ नोदनाभिघातात् आभ्यन्तरवस्तूनां नोदनाभिघाताख्यसंयोगात्, संयु- क्तसंयोगाच्च वस्तुसंयुक्तपृथिवीसयोगाच्च पृथिव्यां भूभूधरादिरूपायां पृ- थिव्यां कर्म भूकम्पादिनामकं गमनविशेषात्मकं कर्म भवतीत्यर्थः । गुरुत्वद्वत्ववेगादीन् समस्तान् व्यस्तान् वा गुणानपेक्षमाणो नोद्यनोद- कयोः संयोगिनोरुभयोरविभागकृत कर्मणः कारणं यः संयोगविशेषः स नो- दनं, किमुक्तं ? येन सयोगविशेषेण जनितं कर्म संयोगिनोरुभयोः परस्परं विभागं न करोति, तन्नोदनं, किंबहुना यः सयोगविशेषः शब्दनिमित्त- कारणं न भवति, स्पर्शवद्रव्यसंयोग इति यावत्, स नोदनाख्यः सयोगः।। वेगमात्रमपेक्षमाणोऽभिघात्याभिघातकयोरुभयोर्विभागकृतः कर्मणः कारणं यः संयोगविशेषः, सोऽभिघातः, किमुक्तं ? येन संयोगविशेषेण जनितं कर्म संयोगिनोरुभयोः परस्परं विभागं करोति, स्वयञ्चोत्पन्नः शब्दं जनयति, सोड- भिघातः, किंबहुना स्पर्शवेगोभयवद्र्व्यसंयोगोऽभिघाताख्यः संयोगः ।। आभ्यन्तरवस्तुभिर्नुद्यमानायाः अभिहन्यमानाया' वा पृथिव्याः यः खोपरि- तिष्ठद्भिर्भूधरादिभिर्नोदनाभिघातयोरन्यतरापेक्षो वा तदुभयापेक्षो वा संयो- गविशेषः, स संयुक्तसंयोगः, किंबहुना कर्माजन्यसंयोगः, सयुक्तस्य संयोग इति यावत् , स संयुक्तसंयोगः । ३ । तत्र पृथिव्यास्तावद् ये प्रदेशा आ- भ्यन्तरवस्तुभिर्नुयन्ते वाऽभिहन्यन्ते वा, तेषु यत्कर्म भवति, तन्नोदनाद्वाड- भिघाताद्वा जायते, तेषामेव नुद्यमानानां वाऽभिहन्यमानानां वा भूप्रदेशाना संयोगादनुयमानेषु वाऽनभिहन्यमानेषु वा प्रदेशेषु, नुद्यमानामिहन्यमान- , ११० वैशेषिकदर्शनम् । [द्वितीयम् प्रदेशानामुपरिस्थितेषु भूधरादिषु, पदार्थेषु वा तथाभूतेषु, यत्कर्म भवति, तत्संयुक्तसंयोगादिति भावः । तत्र नोदनाभिघातजन्ये कर्मणि नोदनाभिघातौ यथासंभवमसमवायि- कारणम् । संयुक्तसंयोगजे च कर्मणि संयुक्तसंयोगः । गुरुत्वद्रवत्ववेगादयस्तु । यथासंभवं निमित्तकारणं । यत्र कर्म सा पृथिवी समवायिकारणमिति विवेकः ॥ १॥ ननु यदेतत्स्वाक्षं वा विवस्वानं वा परितो भ्रमन्त्यां पृथिव्यां गमना- त्मकं कर्म, तत्कुतो जायते ? तत्राह- "तद्विशेषेणाष्टकारितम् ।। २ ।। विशेषेण स्वाक्षं वा विवस्वानं वा परितो भ्रमन्त्याः पृथिव्याः यत्पत्य विशेपरूपेण गमनात्मकं कर्म, तत्-तत्कर्मादृष्टकारितम् जीवादृष्टैः का- रितत्वाददृष्टं वस्तुशक्तिः, तजनितमित्यर्थः । कर्मवैचिच्यात्सृष्टिवैचित्र्यमिति हि वैदिकानां राद्धान्तः । अतो जीवा- दृष्टकारिता वस्तुशक्तिरेवैतादृशी, यतः सूर्यमण्डलाकृष्टा खलु पृथिवी- यमनिशं परिभ्रमतीति भावः । तत्र पृथिवी समवायिकारणम् । आकर्पणक्रियाप्रयोजकादित्यसंयोग- विशेषोऽसमवायिकारणम् । अदृष्टं निमित्तकारणमितिविवेकः ॥२॥ पृथिवीकर्म परीक्षितम् । अपां कर्म परीक्षयिष्यन्नुपक्रमते- "अपां संयोगाभावे गुरुत्वात्पतनम् ॥३॥ अपां-सयोगेन मेघमण्डलस्थानामपां संयोगाभावे-वायुसंयोगात्कर्मों- स्पत्त्या गुरुत्वविधारकतया पतनप्रतिवन्धकस्य मेघसंयोगस्योपरमे सति गुरु- त्वात् तदानीमप्रतिवद्धात्स्वगताद्गुरुत्वात्पतनम् अधःप्रदेशसंयोगफलकं व- पणात्मकं कर्म भवतीत्यर्थः । तत्रापः समवायिकारणं, गुरुत्वमसमवायिकारणं, संयोगाभावो निमि- त्तकारणमिति विवेकः ॥३॥ ननु भूमौ पतितानामपां परस्परसयोगेन बोतलया स्थलान्निन्नाभि- सर्पणलक्षणं यत्कर्म, तत् कुतो भवति? तबाह- - आह्निकम्] पञ्चमोऽध्यायः "द्रवत्वात्स्यन्दनम् ॥४॥ अपामित्यनुवर्तते । भूमौ वर्षानन्तरं स्रोतोभूतानामपां यत् स्यन्दनं स्थलान्निम्नाभिसर्पणं, तद् द्रवत्वात् खगतद्रवत्वगुणाद् भवतीत्यर्थः । तत्रापःसमवायि कारणं, द्रवत्वमसमवायिकारण, गुरुत्वं निमित्तका- रणमिति विवेकः ॥४॥ ननु यन्त्रमन्तरेण भूमिष्ठानामपामन्तरिक्षारोहणं कुतो जायते, येन तास्तत्र धूमेन ज्योतिषा वायुना च संसृज्य मेघभावमापन्ना भूमौ पतन्ति ? तत्राह- "नाड्यवायुसंयोगादारोहणम् ॥५॥ अपामित्यनुवर्तते । नाड्यवायुसयोगात्-नाडीपु-सूर्य्यरश्मिपु भवो ना- ज्यः, नाड्यश्च वायुसंयोगश्च नाड्यवायुसंयोग., तस्मादपामारोहणम् अन्त- रिक्षारोहणं भवतीत्यर्थः । वायुसंयुक्ताःसूर्य्यरश्मयोऽपोभूमिष्ठास्तावदन्तरिक्षमारोहयन्तीति भावः||५ ननु नाड्यवायुसयोगस्याप्स्वभावात् तेन तदारोहणं कथं भवति ? सत्राह- "नोदनापीडनात्संयुक्तसंयोगाच ॥६॥ निदर्शनार्थकश्चः। अपामारोहणमिति पदद्वयमनुवर्तते। नोदनापीड़नात्= बलवद्वायुनोदनेनापीडनात् आस्कन्दनाल्लब्धजन्मनः संयुक्तसंयोगात्-वा- युसंयुक्तसूर्य्यरश्मिसंयोगविशेषादपामारोहणं भवति, चन्यथा बलवद्वायुनुन्न- वह्निरश्मिभिः संयोगात्स्थालीस्थानां क्वथ्यमानानामपामित्यर्थः । यथा हि स्थाल्यां क्वथ्यमानमुदकं बलिना मारुतेन नुन्नस्तेजोरश्मिभिः संयोगादूर्ध्वमारोहति, तथैव बलिनो मारुतस्य नोदनेनापीड्यमानाभिः सूर्य्यनाडीभिः संयोगादापो भूमिष्ठास्तावदूर्ध्वमारोहन्तीति भावः । तत्रापः समवायिकारणम् , आद्यः संयोगो निमित्तकारणं, द्वितीयोऽसम- वायिकारणमिति विवेकः ॥ ६॥ ननु वृक्षमूले निपिक्तानामपां यद् वृक्षाभ्यन्तरेणोर्ध्वगमनं तंत्कुतो जायते, सूर्य्यनाडीभिस्तदूर्ध्वनयनासम्भवात् ? तत्राह- - । ? - .

- ११२ वैशेषिकदर्शनम् । [द्वितीयम् "वृक्षाभिसर्पणमित्यदृष्टकारितम् ॥७॥ अपामित्यनुवर्तते । मूले निषिक्तानामपां यद् वृक्षामिसर्पण-वृक्षमभितः सर्पणमिति तददृष्टकारितं-जीवादृष्टैः कारितत्वाददृष्ट शक्तिविशेषः, तज्ज- नितं वेदितव्यमित्यर्थः। यस्य हि जीवात्मनः पत्रकाण्डपुष्पफलादिवृद्धिकृतेन सुखेन भवितव्यं, तददृष्टकृताच्छक्तिविशेषान्मूलमारभ्य यावदनं वृक्षनिविष्टः शिरासन्तानोऽपां पार्थिवरसानाञ्चाकर्षणं करोति, तेनैव स वृक्षो जीवति, नान्यथा जीवेत्, अतोऽदृष्टकारितमपां वृक्षाभिसर्पणं कर्मेति भावः । तत्रापः समवायिकारणम् । अदृष्टवदात्मसंयोगोऽसमवायिकारणम् । अदृष्टं निमित्तकारणमिति विवेकः ॥ ७॥ ननुसांसिद्धिकद्रवा आपोऽन्तरिक्षमारूढाः कुतःसंहन्यन्ते, येनेदं करका- दिक पतति, कुत पुनर्भूमिष्ठाः सत्यो विलीयन्ते, येनेमाः स्यन्दन्ति ? तत्राह- अपां संघातो विलयनश्च तेजासंयोगात् ॥ ८॥ अपां-मेघमण्डलस्थानामपां संघातः-हिमकरकादिभावलक्षणो दृढतर- संयोगविशेषो, विलयनञ्च-तद्विनाशलक्षणः, शिथिलाख्यसंयोगविशेषश्च, तेजःसयोगात् अयोजकत्वं पञ्चम्यर्थः, दिव्यादिव्यतेजःसम्बन्धविशेषाद् भव- तीत्यर्थः। अन्तरिक्षस्थास्वप्सु बलिनो दिव्यतेजसःसंयोगेन हि सामान्यतो वर्तमानमनुद्भूतरूपवत्तेजो द्रव्यं निःसार्यते, तन्निःसरणाच्च तासां द्रागि- त्येव सांसिद्धिक द्रवत्वं प्रतिरुध्यते, तत एव ताः परस्परं संहन्यन्ते, सहन्य- मानानाञ्च तासां यदा पुनर्भूमौ पूर्वतो विजातीयेनादिव्येन तेजसा सयोगो जायते, तदा तेनाप्रतिवद्धद्रवत्वाः सत्यस्ता. विलीयन्ते इति भावः ॥ ८॥ नन्वन्तरिक्षस्थास्वप्सु दिव्यतेज.सयोगसद्भावे कि प्रमाण ? तत्राह- "तत्र विस्फूर्जलिङ्गम् ॥९॥ तत्र मेघमण्डलस्थावप्सु दिव्यतेजःसंयोगसद्भावे विस्फूर्जथुः-वजनि- धोपो लिङ्ग-प्रमाणमित्यर्थः । चेत् तत्र दिव्यतेन.संयोगो न भवेत् , तदाऽऽदौ विद्युत्प्रकाशोऽनन्तरं आहिकम्] पञ्चमोऽध्यायः । विस्फूर्जथुस्तदनन्तरमेव च करकादिपातो न दृश्येत, दृश्यते च तथा, त- साद् भवत्यनुमानं "विद्यते तत्र दिव्यतेजःसंयोगो येनैवं करकादिकं पतति' इति भावः ॥९॥ ननु कल्पनामात्रमेतद् नात्र किञ्चिद्वैदिकं प्रमाणमुपलभामहे, तत्राह- "वैदिकश्च ॥१०॥ "गर्भो यो अपाम्” (ऋ. अष्ट. १-अ. ५-व. १४-मं. २) 'अग्ने गर्भो अपामसि' (यजुः-अ. १२-मं. ३७) इत्यादिकं दिकं प्रमाणञ्चेह वेदितव्यमित्यर्थः । तत्र गर्भः गर्भवदन्तर्वर्तीति विवेकः ॥१०॥ ननु यः शब्दः स सर्वः संयोगविभागपूर्वक इति नियमः, विस्फूर्जथुरपि ब्दः, तेनापि संयोगविभागपूर्वकेणावश्यं भवितव्यम् , अवशेषाद्, अतो किव्यं-कस्य संयोगात्, कस्य वा विभागादेष उपजायते ? तत्राह-. "अपां संयोगाद् विभागाच स्तनयित्नोः ॥११॥ उपजनिरिति शेषः। अपाम्-उपलक्षणमेतत् , अप्तेजसोः संयोगात्-मिथः योगसंबन्धाद् विभागाच्च-विभक्तेश्च स्तनयिनोः विस्फूर्जयोरुपजनिर्भव- तीत्यर्थः। तत्राकाशं समवायिकारणम् । तेजःसंयोगविभागौ चाकाशेनासमवायि- कारणम् । अद्भिश्च तो निमित्तकारणमिति विवेकः ॥ ११ ॥ अपां कर्म परीक्ष्य तेजःप्रभृतिकर्मपरीक्षामतिदिशति- "पृथिवीकर्मणातेजाकर्म वायुकर्म च व्याख्यातम्॥१२॥ पृथिवीकर्मणा नोदनादिजनितेन पृथिवीकर्मणा तेजःकर्म वायुकर्म च नोदनादिजनित व्याख्यातं-परीक्षितं वेदितव्यमित्यर्थः ॥ १२॥ ननु तेजःप्रभृतीनामदृष्टकारितं कर्म किमस्ति ? तत्राह- "अग्नरूज्वलनं वायोस्तियंकपवनमणूनां मनस- श्वायं कर्मादृष्टकारितम् ॥१३॥ अग्ने: वहेरूलचलनम् ऊर्ध्वगमनात्मकं कर्म, वायो. जमखतस्तिर्य- पर्वन-तिर्यक् चलनात्मकं कर्म,अणूनां परमाणूनामार्य कर्म-महाभूतार- १५ HEA ११४ वैशेषिकदर्शनम् । [द्वितीयम् न. म्भकं प्राथमिकं कर्म, मनसश्चप्रकृतिलीनस्याभ्यन्तरेन्द्रियस्य मनसश्चाचं कर्म-सुखदुःखहेतुरभिव्यक्तिलक्षणं प्राथमिकं कर्मादृष्टकारितम् अदृष्ट- जनितं विज्ञातव्यमित्यर्थः। तत्र तेजः कर्मणि वायुकर्मणि चादृष्टकारितत्वाददृष्टं वस्तुशक्तिः, दृश्यते हि सा, किन्त्वनुमीयते । परमाणुकर्मणि मनःकर्मणि च जीवानां भोगहेतुः पुण्यापुण्यात्मकं कर्मादृष्टमिति विवेकः ॥ १३ ।। नन्वायकर्मवन्मनसस्तत्तदिन्द्रियैः संबन्धविशेषप्रयोजकं तत्तत्प्रदेशे जा- यमान वृत्तिलक्षण कर्मापि व्याख्येयं, तत्राह- "हस्तकर्मणा मनसः कर्म व्याख्यातम् ॥ १४ ॥ मनसः सर्गादावभिव्यक्तस्याभ्यन्तरेन्द्रियस्य मनसः कर्म-तत्तदिन्द्रियैः संबन्धविशेषप्रयोजकं वृत्तिलक्षणं कर्म हस्तकर्मणा आत्मसंयोगप्रयत्नाभ्यां जनितेन हस्तकर्मणा व्याख्यातम्-आत्मसंयोगप्रयत्नाभ्यां जनितं व्याख्यातं वेदितव्यमित्यर्थः। यथा हि शरीरावयवं हस्तादिकं चिचालयिषुर्जीवात्मा पुरुषो यदा प्र- यतते, तदा तत्र यथाकामं कर्मोत्पद्यते । तथैव मनसो मध्यमपरिमाणत्वेन तत्तदिन्द्रियैः संबन्धसामान्ये सत्यपि तस्य ज्ञानहेतुसंबन्धविशेषोत्पादनार्थ यदाऽयं प्रयतते, तदैतत् तत्तदिन्द्रियप्रदेशे तेन तेनेन्द्रियेण विशेषतः सम्ब- न्धुं सम्बन्धविशेषप्रयोजिकां वृत्तिं लभते, वृत्ति लभमानञ्च विशेषतः सम्ब- ध्यते । अतस्तस्यतत्तदिन्द्रियप्रदेशे योऽयं वृत्तिलाभः, तदेव सम्बन्धविशेषप्र- योजकत्वात् कर्म । तच्च हस्तादिकर्मवत् प्रयत्नजन्यमिति तदव्याख्यानेन व्याख्यातमिति भावः ॥ १४ ॥ नन्वीहड्मनःकर्मसद्भावे किं लिङ्गं ? तत्राह- "आत्मेन्द्रियमनोऽर्थसन्निकर्षात्सुखदुःखे ॥ १५ ॥ आत्मेन्द्रियमनोऽर्थसन्निकर्षात् आत्मना घ्राणादिभिरिन्द्रियैश्च मनसः, गन्धादिभिरथै श्चेन्द्रियाणा तेषां, सन्निकर्पात सयोगसंयुक्तसमवायादिलक्ष- णात् सम्बन्धात् तत्तदर्थानुभवेन जायमाने सुखदुःखे-सुखञ्च दुःखञ्च, ताड्मनःकर्मसद्भावे लिङ्गमित्यर्थः । ते आह्निकम्] पञ्चमोऽध्यायः। ११५ पुरुषस्तावदिष्टमर्थमनुभवन् सुखी, विपरीतञ्चार्थमनुभवन् दुःखी भवति, न च तस्य तत्तदर्थानुभवः खल्विन्द्रियार्थसन्निकर्षमात्रादुत्पत्तुमर्हति । सत्यपि तस्मिन्नन्यत्रमनसस्तदुत्पादाननुभावात् । किन्त्वात्मसंयुक्तस्य मनसो प्राणा- दिभिरिन्द्रियैः, तेषाञ्च गन्धादिमिरथैः सन्निकर्षात् । न चैपोऽन्तरेण मनः- कर्म कथञ्चिदुपपद्यते । द्रव्यसन्निकर्षस्य कर्मजन्यत्वनियमात् । न च मध्यम- परिमाणस्य मनसस्तत्तदिन्द्रियप्रदेशे विना वृत्तिलक्षणकर्म कर्मान्तरमुपप- द्यते । न वा विना ताइक्कर्म तत्तदर्थानुभवो युज्यते । न वा तं वर्जयित्वा सुखदुःखे संभवतः । तस्मात् ते एवान्यथाऽनुपपद्यमाने भवतस्तादृङ्मनः कर्मसद्भावे लिङ्गमिति भावः ॥ १५॥ ननु मनसि कर्मानारम्भः कदा भवति? योगदशायामिति चेत्, कोड- यं योगो नाम ? तत्राह- "तदनारभ्भ आत्मस्थे मनसि, शरीरस्य दुःखाभाव: सयोगः॥१६॥ आत्मस्थे वैराग्याभ्यासाभ्यामात्ममात्रनिष्ठे मनसि-चेतसितदनारम्भः= कर्मानुगुणप्रयत्नाभावात्कारम्भो न भवति, तत्र च यः शरीरस्य शारीरस्य विशिष्टात्मनो दुःखाभावः दुःखहेतूनां प्रमाणादिवृत्तीनामभावः स योगः= योगपदवाच्य इत्यर्थः । यदा हि चित्तं दृष्टानुश्रविकविषयवितृष्णं भवत्स्थित्यै प्रयतते, निरन्तरप्रयत्नेनान्यत्र स्थितिमलभमानमात्ममात्रे चावतिष्ठते, तदा तस्मिन् कर्मानुगुणप्रयत्नाभावाद् बहिरिन्द्रियसम्बन्धप्रयोजकानि कर्माणि नारभ्यन्ते, प्रत्युत बहिरिन्द्रियाणि च तदनुकारं भजन्ते । तत्रात्मन्यवस्थितस्य चेतसः कर्मारम्भाभावाद् योऽयं प्रमाणविपर्ययविकल्पनिद्रास्मृतीनामसद्भावः, स योग इति भावः ॥१६॥ अदृष्टजन्यं कर्मान्तरं दर्शयति- "अपसर्पणमुपसर्पणमशितपीतसंयोगाः कार्यान्तर- संयोगाश्चेत्यदृष्टकारितानि ॥ १७ ॥ - ११६ वैशेषिकदर्शनम् । [द्वितीयम् अपसर्पणं भोगेन प्रारब्धकर्मक्षये विनश्यतो देहादात्मसहितस्य मनसो बहिरुत्क्रमणं-मृतशरीरादात्मविभागस्य जनकं मनसः कर्मेति यावत्, उपसर्पणम् आत्मसहितस्य मनसो देहान्तरे प्रवेशनम् अभिनवदेहेनात्मनः सम्बन्धस्य जनकं मनसः कर्मेति यावत्, अशितपीतसंयोगाः अशिताना- मन्नानां पीतानाञ्चोदकानां प्रक्रियाविशेषण पक्वानां देहावयवोपचयहेतुभूता- स्तत्तन्नाडीमुखेन तत्तदेहावयवेषु संयोगाः, कार्यान्तरसंयोगाश्च देहाद्दे- हान्तरमुपसर्पता मनसा सह बहिरिन्द्रियाणां प्राणानाञ्च कार्यान्तराणां देहान्तरेण तेन संयोगाश्च येन येन कर्मणा भवन्ति, तानि चेति-एतानि सर्वाण्यदृष्टकारितानि-पुण्यापुण्यं कर्मादृष्टं, तज्जन्यानीत्यर्थः । यथा बहिरिन्द्रियाणि प्राणाश्च कार्य, तथा मनोऽपि कार्यामिति सूचनाय कार्यान्तरेत्युक्तिः । तत्र मनःप्रभृति समवायिकारणम् । अदृष्टव- दात्मसंयोगोऽसमवायिकारणम् । अदृष्टं निमित्तकारणमिति विवेकः ॥१७॥ नन्वदृष्टाधीनमनःकर्मप्रयोज्यः संसारो यथा निरूपितः, तथा मोक्षो- ऽपि निरूपणीयः तत्राहर "तभावे संयोगाभावोऽप्रादुर्भावश्च मोक्षः॥१८॥ तदभावे नेतिनेतीति तत्त्वाभ्यासादुत्पन्नेन विवेकज्ञानेन सञ्चिताना, भोगेन च प्रारब्धानां, मिथ्याज्ञानापाये दोषनिवृत्त्या चागामिकानामदृष्टा- नामभावे यः संयोगाभावः प्रयोजकाभावादात्मनो मनःप्रभृतिसम्बन्धा- भावः-जन्माभाव इति यावत्, अप्रादुर्भावश्च निमित्ताभावात्पुनर्दुःखानु- त्पादश्च, स मोक्षः मोक्षपदार्थ इत्यर्थः । पुनः पुनर्जन्मैव हि पुरुषाणां दुःखफलः संसारः, तच्च यावददृष्टं विद्यते, तावन्न निवर्तते । दोषाधीनञ्चादृष्टं, दोषाश्च मिथ्याज्ञाननिबन्धनाः। तस्मात् तत्त्वज्ञानेन मिथ्याज्ञानापाये दोषापायाददृष्टन्तावदपैति, तदपाये च जन्मापायाद् यः खलु जन्मनिमित्तानामाध्यात्मिकादित्रिविधदुःखानामत्य- न्तापायः स मोक्ष इति भावः। इदमत्र बोध्यम्-यद्यपि वैदिकानां तत्त्वज्ञानेन दुःखात्यन्तनिवृत्त्या चिदात्मना स्वेन ब्रह्मानन्दोपभोगो मोक्ष इति राद्धान्तः। तथापि दुःखात्य- - , आह्निकम्] पञ्चमोऽध्यायः। ११७ न्तनिवृत्तौ सत्यां सोऽवश्यं भवति, दुःखात्यन्तनिवृत्तिरेव च सर्वथा यत्ननि- प्पाचा, नब्रह्मानन्दोपभोगः, तस्मात्सेवापवर्ग इति सर्वशास्त्रप्रवाद इति ॥१८॥ ननु पृथिव्यादिवत् तमसः कर्म करसान्न परीक्षितं, नीलं तमश्चल- तीति तत्कर्मणोऽप्यनुभवात् , तत्राह- "द्रव्यगुणकर्मनिष्पत्तिवैधाद् भाभावस्तमः॥ १९ ॥ द्रव्यगुणकर्मनिष्पत्तिवैधात्-पृथिव्यादीनां द्रव्याणां, रूपादीनां गुणा- नाम् , उत्क्षेपणादीनां कर्मणाच्च या निष्पत्तिः, ततो विलक्षणनिष्पत्तिधर्मक- त्वात्-निष्पत्तिधर्मकेभ्यो द्रव्यगुणकर्मभ्यो विलक्षणत्वादिति यावत् भाभावः तेजोऽभावस्तमः तमःपदार्थ इत्यर्थः । नित्यं तम इत्येतत्तावदसम्भवं, जन्युपलब्धेः । जन्यमिति चेत्, तदा जन्यानां द्रव्यगुणकर्मणामन्यतमं स्यात् , न च गुणो वा कर्म वा संभवति, रूपवत्त्वेनोपलम्भात् । न च भूरुदकं तेजो वा तमो युज्यते, तनिष्पत्तितो विलक्षणनिष्पत्तिकत्वात्-स्पर्शवद्र्व्यतन्त्रा हि तन्निष्पत्तिः, न च त- मसि स्पर्शोऽनुभूयते, न वा गन्धादयस्तदसाधारणाः गुणास्तत्रोपलभ्यन्ते । तदतिरिक्तं द्रव्यं चेत्, तदा नीलरूपवदवयवैरारब्धं वक्तव्यं, तन्न वक्तुं शक्यते, नीलरूपस्य गन्धनान्तरीयकत्वनियमेन गन्धस्यापि तत्रोपलब्धि- प्रसङ्गात् । नीलरूपमात्रगुणकत्वे चालोकनिरपेक्षेण चक्षुषा न गृह्येत, रूपवतः कस्यापि तथात्वादृष्टेः । तस्माद् गुणकर्मवद् द्रव्यमपि तमो न युक्तम् । अपि चोद्भूतरूपवद्यावत्तेजःसंसर्गाभावस्तमः, न ततोऽतिरिक्तः कश्चिद् भावपदार्थः, येन तत्कर्म परीक्षितव्यं स्यादिति भावः ॥ १९ ॥ ननु द्रव्यगुणकर्मनिष्पत्तिवैधान्मासैसीद् भावस्तमः, भाभावोऽपि कुतो निश्चयं ? तत्राह- "तेजसो द्रव्यान्तरेणावरणाच ॥ २०॥ भाभावस्तम इत्यनुवर्तते । तमसि कर्मप्रतीती रूपप्रतीतिश्चौपाधि- कीति चार्थः । द्रव्यान्तरेण तेजसो भिन्नेनावरकेण द्रव्येण तेजसः-उद्भूत- रूपवतस्तेजोमात्रस्यावरणात् आच्छादनाद् नियमेन तम प्रतीते माव- स्तमः प्रतिपत्तव्यमित्यर्थः।

, ११८ वैशेषिकदर्शनम् । [द्वितीयम् यदा हि द्रव्यान्तरेण तेजस्तावदात्रियते, तदैव तमःप्रतीयते नान्यदा । चेद् द्रव्यान्तरं किञ्चिद् भवेत् , न जातु तथा प्रतीयेत । तस्यैवं प्रतीतेर्भव- त्यनुमानं भाभावस्तमो न द्रव्यान्तरमिति भावः । तत्रावरकद्रव्यगत्या तमसि गतिप्रतीतिः, आश्रयगतरूपतश्च रूपप्र--- तीतिर्न खत इति विवेकः ॥ २० ॥ ननु भवतु तमसोऽभावत्वात् तत्कर्मापरीक्षणं, दिगादिकर्म कस्मान्न परीक्ष्यते, तत्राह- "दिकालावाकाशच क्रियावदैधानिष्क्रियाणिरशा दिक्कालावाकाशञ्च-दिक्कालाकाशानि च क्रियावद्वैधात् यत् क्रि- यावत् , तन्मूर्तम् , इति नियमात् क्रियावतां साधयं मूतत्वं, वैधर्म्यममू- तत्वं, तस्मानिष्क्रियाणि कर्मशून्यानि सन्तीत्यर्थः । अमूर्तत्वानिष्क्रियौ दिक्कालौ, निष्क्रियञ्चाकाशम् । अतो न तत्कर्म परीक्ष्यते इति भावः । तत्र चकारादात्मसवह इति शङ्करमिश्रः। आत्मा च परमात्मा। जीवा- त्मनोऽणुत्वेऽपि कूटस्थनित्यतया क्रियापरिणामासंभवानिष्क्रियत्वमिति विवेकः ॥ २१॥ अतिदिशति- "एतेन कर्माणि गुणाश्च व्याख्याताः ॥ २२॥ निष्क्रियाणीत्यनुवर्तते । एतेन=क्रियावद्वैधये॒णैव हेतुना कर्माणि-उत्से- पणादीनि कर्माणि, गुणाश्च रूपादयो गुणाश्च, व्याख्याताः यथाक्रमं नि- क्रियाणि, निष्क्रियाश्च व्याख्याताः वेदितव्या इत्यर्थः ॥ २२ ॥ ननु गुणकर्मणोनिष्क्रियत्वे तयोर्द्रव्येण सम्बन्धो न सिध्येत् , लोके सम्बन्धस्य कर्मैकजन्यत्वदर्शनात्, तत्राह- "निष्क्रियाणां समवायः, कर्मभ्यो निषिद्धः ॥२३॥ निष्क्रियाणां गुणाना कर्मणाञ्च समवायः द्रव्येण साकं समवायः सम्बन्धोऽभ्युपगम्यते, न संयोगः। तदुत्पादश्च नित्यत्वात् कर्मभ्यो निषिद्धः- अस्माभिः प्रतिषिद्ध इत्यर्थः । - , आहिकम्] पञ्चमोऽध्यायः। ११९ संयोगे कर्मजन्यत्तनियमो न समवाये, तस्य नित्यत्वाभ्युपगमात् । गुणानां कर्मणाञ्च द्रव्येण समवायः सम्बन्धो न संयोग इति भावः॥२३॥ ननु निष्क्रियाश्चेद्गुणास्तदा कथं ते कारभन्ते इति पुरस्तादुक्तं, नहि निष्क्रियः कश्चित्कारब्धुं शक्नोति, तत्राह- "कारणन्त्वसमवायिनो गुणाः ॥२४॥ गुणाः संयोगादयो गुणाः कारणन्त्वसमवायिनः बहुवचनमेतत् , तु- शब्देन 'समवायिनः' इति व्यवच्छिनत्ति, कर्म प्रति पूर्वमसमवायिनः कारण- मुक्ताः, न समवायिन इत्यर्थः । कर्मसमवायिकारणं निष्क्रियं न सङ्गच्छते, न तदसमवायिकारणम् । गुणानाञ्च पूर्व कर्मप्रत्यसमवायिकारणत्वमेवोक्तं, न समवायिकारणत्वम् । अतो न कश्चिद्दोष इति भावः ॥ २४ ॥ ननु गुणकर्मणोनिष्क्रियत्वेऽपि दिक्कालौ निष्क्रियौ नोपपद्यते, तयोः "इह कर्मोत्पन्नम् , इदानीं कर्मोत्पन्नम्" इत्यादिना कर्मसमवायिकारणत्व- प्रतीतेः, तत्राह- "गुणैर्दिगव्याख्याता॥२५॥ गुणैः अमूर्तत्वेन हेतुना निष्पन्नैः कर्मसमवायिकारणत्वाभाववद्धी रूपादिमिर्गुणैर्दिक्-पूर्वादिदिगपि व्याख्याता कर्मसमवायिकारणत्वामाव- वती व्याख्याता वेदितव्येत्यर्थः । यथा गुणा न कर्मसमवायिकारणम्, अमूर्त्तत्वात् । तथा दिगपि न तत्समवायिकारणं सम्भवति, अमूर्त्तत्वाविशेषात् । कर्माधारत्वप्रतीतिस्तु "वने सिंहनादः" इत्यादिवदौपचारिकी, न मुख्या। तस्मानिष्क्रिया दिगिति भावः ॥ २५॥ "कारणेन कालः ॥२६॥ व्याख्यात इति विपरिणम्यानुवर्तते । कारणेन-भावप्रधानो निर्देशः, निमित्तकारणत्वेन कालः कालपदार्थों व्याख्यातः कर्मसमवायिकारण- वाभाववान् व्याख्यातो वेदितव्य इत्यर्थः ।

स
१२०
वैशेषिकदर्शनम् ।
[द्वितीयम्
यद् यस्य निमित्तकारणं, तत् तस्य समवायिकारणं न भवति,
यथा तुरीवेमादिकं पटस्य । कर्मनिमित्तकारणञ्च कालः, जन्यमात्रनिमि-
तत्वात् । अतो नासौ कर्मसमवायिकारणम् । कर्माधारत्वप्रतीतिस्तु तर
निमित्ततयाऽप्युपपद्यते । तस्मानिष्क्रियः कालः इति भावः ॥ २६ ॥
भूम्यादिपञ्चगं कर्म नोदनादृष्टकारितम् ।
तमः प्रासङ्गिकञ्चान्यद्वितीयेऽस्मिन् परीक्षितम् ॥१॥
इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्यात्मारामभगव-
स्पादशिष्यहरिप्रसादकृतायां वैशेषिकसूत्रवैदिकवृत्ती
पञ्चमाध्यायस्य द्वितीयमाह्निकम् ॥२॥
समाप्तश्चायं कर्माध्यायः पञ्चमः ॥ ५॥

आह्निकम्] पष्ठोऽध्यायः। १२१ अथ षष्ठोऽध्यायः। आद्यमाह्निकम् । "अथातो धर्म व्याख्यास्यामः" इति प्रतिज्ञाय प्रमाणजि- ज्ञासायां "तद्वचनादानायस्य प्रामाण्यम्" इत्यभिहितम् । इदानी कर्मप्रसङ्गादुपस्थितं व्याख्यास्यमानत्वेन प्रतिज्ञातं तमेव वेद- विहितं धर्म संक्षेपेण व्याख्यातुकामः षष्ठाध्यायमारभमाणः पूर्वन्तावद् धर्मे प्रमाणत्वेनाभिहितस्य भगवतो वेदस्य प्रामाण्याय तस्पेश्वरबुद्धिपूर्वकत्वमनु- मानेन साधयिष्यन्नाह- "वुद्धिपूर्वा वाक्कृतिवेदे ॥१॥ वेदे ऋग्यजुःसामाथर्वनाम्नि भगवति वेदे या वाकृतिः वाक्य- रचना सा वुद्धिपूर्वा स्वार्थविषयवक्तृयथार्थज्ञानपूर्विका, वाकृति- त्वात् , अस्सदादिवाकृतिवदित्यर्थः । अनेकविद्यास्थानोपबृंहितस्य प्रदीपवत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य भगवतो वेदस्य वाक्यरचनायाः रचनाविशेषतया बुद्धिपूर्वकत्वावश्य- भावेनासदादिबुद्धिपूर्वकत्वासम्भवात्सर्वज्ञेश्वरबुद्धिपूर्वकत्वसिद्धौ प्रामाण्यं नि- धिमिति भावः ॥१॥ प्रमाणान्तरमाह- "ब्राह्मणे संज्ञाकर्म सिद्धिलिङ्गम् ॥ २॥ ब्राह्मणे ब्राह्मणप्रभृति निखिलपाणिभेदे संज्ञाकर्म-समाहारद्वन्द्वादेकव- द्भावः, सर्गारम्भे भगवतो वेदात्प्रवृत्तं संज्ञाकर्म सिद्धिलिङ्गं तस्येश्वरोक्तत्व- सिद्धौ प्रमाणमित्यर्थः । नहि सर्गारम्भे भगवतो जगदीश्वरादन्यः कश्चिन्निखिलप्राणिनां संज्ञां च कर्म च विधातुमीप्टे । संज्ञाकर्म चादौ भगवतो वेदात्प्रवृत्तम् । अतस्तदेवान्यथानुपपन्नं सत्तस्येश्वरोक्तत्वे भवति लिङ्गमिति भावः । यद्यप्येतत् "संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम्” (वै० अ० २ आ० १ सू० १५) इति पुरस्तादुपन्यस्तम्, तथापि प्रमाणवर्ग- सङ्कलनार्थमिह पुनस्तस्योपन्यास इत्यदोषः ॥ २ ॥ १६ १२२ वैशेषिकदर्शनम् । [आद्यम् अन्यं प्रमाणमाह-- “वुद्धिपूर्वो ददातिः॥३॥ "ददातिः उच्चा दिवि दक्षिणावन्तो अस्थुः, ये अश्वदाः सह ते सूर्येण । हिरण्यदा अमृतत्वं भजन्ते, वासोदा. सोमप्रतिरन्तआयुः” (ऋ० अ० ८ अ० ६ व० ३ मं० २) इत्यादिनोपदिष्टो यो ददातिः, स बुद्धिपूर्वः सर्वज्ञवुद्धिपूर्वक इत्यर्थः । ये दीर्घदर्शिनी महाभागाः सद्गृहस्थाः देशात्मोद्धारार्थं तत्प्रबन्धृभ्यः प्राप्तब्रह्मसम्पद्भ्यो ब्राह्मणेभ्यः श्रद्धाभक्तिभ्यां हिरण्यादिकं ददते, तेऽ- मृतत्वं भजन्ते, इत्येतत्तावन्नाल्पज्ञः कश्चिदुपदेष्टुमर्हति, तस्य भाविफल- ज्ञानासम्भवात् , उपदिशति च भगवान् वेदः, ततो भवत्यनुमानं नूनमेष सर्वज्ञबुद्धिपूर्वक इति भावः ॥ ३ ॥ अतिदिशति- तथा प्रतिग्रहः ॥४॥ प्रतिग्रहः कायेन मनसा वाचा प्रतिक्षणं देशात्मोद्धारमिच्छद्भिर्गृहमे- धिमिर्महाभागैः प्राप्तब्रह्मसम्पद्भ्यो ब्राह्मणेभ्यः श्रद्धाभक्तिभ्यां दत्तस्य हिर- ण्यादेर्यस्तैवेदोपदिष्टः सादर खीकारः, सोऽपि तथा सर्वज्ञबुद्धिपूर्वक इत्यर्थः । गृहमेधिभिर्महाभागैर्दत्तस्य हिरण्यादेः प्रतिग्रहीतारो लब्धब्रह्मसम्पदो ब्राह्मणाः खलु यथोचितप्रबन्धेन दायिनस्तान् द्रागित्येवामृतं सुखं भाज- यन्ते । विलक्षणा ह्येषां प्रबन्द्धृणामाध्यात्मिकी शक्तिः। न तत्कायं किञ्चिद् जगति विद्यते, यज्जागरूकाः सन्तोऽमी भारतमानसराजहंसाः किलार्य- कुलनन्दनाः न जातु सत्वरं निष्पादयेयुः। अमृतञ्चार्य्यतनयास्ते विद्याबलिनो न तान् सम्प्रापयेयुः । तस्माद् भो महाभागाः सद्गृहस्थाः ? सर्वदा देशात्मो- द्धारार्थ यथा स्यात्तथा भवद्भिस्तत्प्रबन्द्धृभ्यो लब्धब्रह्मसम्पद्भ्यो ब्राह्मणेभ्यो हिरण्यादिकं प्राणप्रियं वस्तु सदपि यावज्जीवं दातव्यम् । प्रतिग्रहीतृभिश्चतैः सादरं तत्प्रतिगृह्य यथेष्टोपयोगेन देशात्मानौ समुद्धृत्यामृतं सुखं भाज- यितव्यम्-इत्येतत्तावन्नाल्पज्ञ कश्चिदपदेष्टु शक्नोति । तस्य भाविफलवेदने ?

आह्निकम्] षष्ठोऽध्यायः । १२३ सामर्थ्याभावात् । उपदिशति च भगवान् वेदः । ततो भवत्यनुमान नूनमेष प्रतिग्रहो ददातिवत् सर्वज्ञबुद्धिपूर्वक इति भावः । तत्रोत्सर्गपूर्वकः परस्वत्वेन सम्बन्धो ददातिः, उत्सृष्टस्य सादरं कारः प्रतिगृह्णातिः, इति विवेकः ॥ ४ ॥ भगवद्बुद्धिपूर्वकत्वात्प्रमाणं वेद इति साधितम् । सम्प्रति तत्प्रमाणकं मैनिखिलं विहितं कर्म संक्षेपतो व्याख्यास्यन् पूर्वन्तस्य सामानाधिकर- न फलजनकत्वन्तावत्साधयते- "आत्मान्तरगुणानामात्मान्तरेऽकारणत्वात् ॥५॥ वेदविहितमखिलं कर्मानुष्ठित सत् स्वसामानाधिकरण्येनैव फलं जन- ते, न वैयधिकरण्येनेति प्रतिज्ञाशेषः । हेतोः प्रतिज्ञासाकांक्षत्वात् । तत्र तुः- आत्मान्तरगुणानाम् अन्येनात्मनाऽनुष्ठितानां कर्मणामात्मान्तरे- न्यस्मिन्नात्मन्यकारणत्वात् फलाजनकत्वादित्यर्थः । यो हि पुण्यं वा पापं वा कर्म कुरुते, स एव सुखं वा दुःखं वा त- कलमुपभो, न तदपरः, तद्यथोक्तं पूर्वमीमांसायां "शास्त्रफलं प्रयो- करि" (मी. अ. ३ पा. ७ सू. १५) इति । चेदपरोऽप्यन्यानुष्ठितस्य मणः फलमुपभुञ्जीत, तदा कृतहान्यकृताभ्यागमः प्रसज्येत । नचैष [यान् । अतो लौकिककर्मवदग्निहोत्रादिकं वैदिकं कर्माप्यनुष्ठितं सत्व- मानाधिकरण्येनैव फलमुपजनयति, न वैयधिकरण्येनेति भावः ॥ ५॥ ननु यदेतद् वैदिकं कर्म तत्किमनुष्ठीयमानं सत्सर्वत्रफलजनकं विद्यते? वाहन "तद् दुष्टभोजने न विद्यते ॥६॥ तत्-बैदिकं कर्म दुष्टभोजने दुष्टं शास्त्रप्रतिषिद्ध भोजनं यस्य, त- मन्नार्ये न विद्यते-फलजनकं न भवतीत्यर्थः । यस्तावदार्यो दुष्टं भोजनं कुरुते, न तदनुष्ठितं किमपि वैदिकं कर्म लं प्रसूते, वैगुण्यादिति भावः ॥ ६॥ ननु किन्तद् दुष्टं भोजनं ? तत्राह- "दुष्टं हिंसायाम् ॥७॥ - १२४ वैशेषिकदर्शनम् । [आयम् हिंसायां-सर्वशास्त्रप्रतिषिद्धायां प्राणिहिसायां सत्यां यद् भोजनं तद् दुष्टमित्यर्थः । "पशून् पाहि" (यजुः.-अ.१-मं.१) "गांमाहिंसीः” (यजुः. अ.१३-मं. ४३) "अविमाहिंसी:” (यजुः अ. १३-मं. ४४) "इम माहिंसीर्दिपादं पशुम्" (यजुः-अ. १३-म. ४७) "माहिंसी- रेकशर्फ पशुम्” (यजुः-अ.१३-मं. ४८) "नाऽकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते कचित् । न च प्राणिवधः खग्यस्त- स्मान्मांसं विवर्जयेत् ॥ समुत्पत्तिञ्च मांसस्य ववन्धौ च देहिनाम् । प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात्" (मनुः अ. ५ श्लो. ४८१४९) इत्यादिकं शास्त्रविधिमुल्लच यः पुरुषः प्राणिनो हिनस्ति, तन्मांसाँश्चात्मनः कृते पचति, तस्य शास्त्रप्रतिपिद्धत्वाद् भोजनं दुष्टमिति भावः ॥७॥ ननु चेदेको हिनस्ति तदपरोऽभ्यवहरति, तदा किमभ्यवहरतोऽपर- स्यापि कश्चिद्दोषो भवति ? तत्राह- "तस्य समभिव्याहारतो दोषः ॥८॥ तस्य यस्य पुरुपस्य दुष्टं भोजनं, तस्य समभिव्याहारतः पञ्चम्यास्तसिः, विद्यासम्बन्धो योनिसम्बन्धश्च समभिव्याहारः, तस्माद्दोपः विहितकर्म- फलप्रतिवन्धको दोपो भवतीत्यर्थः । यथा हि दुष्टभोजनस्याखिल कर्म विफलं जायते, तथा तत्ससर्गि- नोऽपि वेदितव्यम् । वेदाज्ञोल्लनस्योभयत्र समानत्वादिति भावः ॥८॥ ननु चेदयं दुष्टभोजनः कदाचिद् दुष्ट भोजनं परिजयात्, किन्तदाऽ- पि तत्समभिव्याहारतो दोपो भवति? तत्राह- "तदुष्टे न विद्यते ॥९॥ पूर्वसूत्रमनुवर्तते । तदुष्टे तस्मिन्नदुष्टभोजने सनि तत्समभिव्याहारतो दोपो न विद्यतेन भवतीत्यर्थ. ॥९॥ ननु दुष्टं भोजनं त्यजता पुनः किं विधेयं, येनास्यानुष्ठितं निखिलं कर्म फलवद्भवेत् ? तत्राह-- - आह्निकम्] षष्ठोऽध्यायः १२५ "पुनर्विशिष्ट प्रवृत्तिः ॥१०॥ पुनः दुष्टभोजनपरित्यागानन्तरं विशिष्टे-शास्त्रसंमते सत्त्वगुणवि- शिष्टे केवलसात्त्विके भोजने प्रवृत्तिः आत्मप्रवृत्तिर्विधातव्येत्यर्थः ।। १० ।। ननु विशिष्ट प्रवृत्तावसमर्थन क प्रवृत्तिर्विधातव्या ? तत्राह- "समे हीने वा प्रवृत्तिः ॥ ११ ॥ समे विशिष्टप्रवृत्तौ सामर्थ्याभावे सत्त्वरजस्समे न केवलसात्त्विके न केवलराजसे किन्तु समानभावेन तदुभयमिश्रिते, होने वा-सत्त्वहीने केवल- राजसे वा, भोजने प्रवृतिर्विधातव्या, न हीनतरे तामसे दुष्ट इत्यर्थः॥११॥ अतिदिशति- "एतेन हीनसमविशिष्टधार्मिकेभ्यः परस्त्रादानं व्या- ख्यातम् ॥१२॥ एतेन यथासामर्थ्य होनसमविशिष्टभोजनेषु प्रवृत्तिव्याख्यानेन हीनस- मविशिष्टधार्मिकेभ्यः मन्दमध्यमोत्तमेभ्यो नित्यं धर्मानुशीलेभ्यो गृहमेधिभ्यः परस्वादान-परेषां तेपां-स्वस्य धनस्यादानं सादरं परिग्रहणं व्याख्यातम्- उपपादितं वेदितव्यमित्यर्थः। यथाशक्ति नियमेन विशिष्टधार्मिकेभ्यो गृहमेधिभ्यो देशात्मोपकारार्थ हिरण्यादिकं प्रतिग्रहीतव्यम् । तदभावे समधार्मिकेभ्यो हीनधार्मिकेम्यो वा । न जातु हीनतरधार्मिकेभ्यो, हानिकरत्वादिति भावः । तत्र यस्तावत्सर्वाङ्गपूर्ण वेदविहितं निखिलं कर्म सततमनुतिष्ठति, स विशिष्टः । ततः किञ्चिदूनं, स समः । ततोऽपि न्यूनं, स हीन इति विवेकः ॥ १२॥ अतिदेशान्तरमाह- "तथा विरुद्धानां त्यागः ॥१३ ।। व्याख्यात इति विपरिणम्यानुवर्तते । तथा यथा हीनादिभ्यः परखा- दानं व्याख्यातं, तथा विरुद्धानां श्रुतिस्मृतिविरुद्धानां कर्मणां त्यागः= परित्यागोऽपि ,व्याख्यातो द्रष्टव्य इत्यर्थः। श्रुतिस्मृतिविरुद्धं सर्व कर्म सर्वथा परित्यक्तव्यं “यान्यनवद्यानि - [आयम् - - १२६ वैशेषिकदर्शनम् । कर्माणि, तानि सेवितव्यानि नो इतराणि" (तै. शि. अ.- व. १ अनु. ११) इत्याद्यनुशासनादिति भावः ॥ १३ ॥ ननु चेद् वैदिकधर्ममर्यादानभिज्ञो लुब्धकः कश्चिद् धर्मदस्युरा-- नमान् बलेन हस्तीकर्तुमागच्छेत् , तदा हिंसाकर्मणः श्रुतिस्मृतिभ्यां प्रतिपिद्धत्वात्तदनुष्ठानासमर्थैरहिंसाधर्मप्रधानरस्माभिः स्वधर्माभिरक्षार्थ किं विधेय? तनाह- "हीने परे त्यागः ॥१४॥ पूर्वतोऽनुवृत्तिसम्भवेऽप्यर्थभेदज्ञापनाय त्यागपदं पुनरुपात्तम् । परे= हस्तीकर्तुमागते धर्मदस्यो हीने बलतो हीने ज्ञाते सति त्यागः युद्धेन तस्य विसर्गः वधो विधातव्य इत्यर्थः । यस्तावद् धीमान् स्वधर्माभिरक्षा प्राणतः प्रियां मन्यते । तदर्थश्च परे- णापरामुखो युध्यते, न स पुण्यजन्मा वीरपुङ्गवो युद्धहिंसाकर्मणा मात्र- याऽपि लिप्यते । धर्मरक्षा हि तत्कर्म, न तदन्तरेण धर्मो रक्षितुं शक्यते । नवाऽकृतरक्षासविधाना. क्वचिद् यथाकामं स्वधर्म खल्वनुष्ठातुं पारयन्ते । तदनुष्ठानाभावे वा निरातङ्कं स्वर्ग सुखमनुवते । तस्मात्स्वधर्माभिरक्षायै प्रारब्धे धर्मासामे निःशवं परः पापीयान् पराजेयः, तीक्ष्णैर्वा क्षुरधारैः सबलं यमपुरी नेयः, नास्त्यत्र किञ्चित्पापं, न वा किञ्चित् प्रायश्चित्तमिति भावः ॥ १४॥ ननु चेत्परः समो ज्ञायेत, तदा कि विधातव्यं ? तत्राह- "सम आत्मत्यागः परत्यागो वा ॥१५॥ पर इत्यनुवर्तते । परे तस्मिन् समे-खसमानबले ज्ञाते सत्यात्मत्यागः- पुण्येन योधनकर्मणा वस्य विसर्गः, परत्यागो वा-परस्य विसर्गो वा विधा- तव्य इत्यर्थः। बहुश्रेयसी खलु वैदिकधर्मरक्षा, लोकपरलोकयोरभ्युदयनिश्रेयसो पायत्वात् । अल्पञ्च तदपेक्षया क्षणभङ्गुरं मानुषजीवनम् । तेन धन्यास्ते देहिनो निर्मलकीर्तयो ये वीरकर्माणः सन्तोऽल्पमिदं जीवनं तुच्छीकृत्य प्रसन्नवदनाः श्रेयस्यै धर्मरक्षायै पादोदरनिर्खयनीवत्सुखेन तद् विसृ- जन्ति । यावज्जीवञ्च न जातु युद्धाद्विमुखी भवन्ति । प्राणान्तं युध्यमानाच - भाहिकम्] पष्ठोऽध्यायः। १२७ . खधर्म पालयन्ति । तस्माद् धर्म्य युद्धं कर्म, अतः श्रेयास्तत्रात्मत्यागः, ततोऽपि वा श्रेयान् परत्याग इति भावः ॥ १५ ॥ ननु चेत्परो विशिष्टो ज्ञायेत, तदा कि कर्तव्यं ? तत्राह- "विशिष्ट आत्मत्यागः॥ १६॥ पर इत्यनुवर्तते । परे तस्मिन् विशिष्टेबलविशेषयुक्ते ज्ञाते सत्यात्म- त्यागः अपराङ्मुख्येन युद्धे कर्मण्यात्मनो विसर्गः कर्तव्य इत्यर्थः । यथाहि धर्म्य युद्धे परत्यागस्तावच्छेयान् , तथात्मत्यागोऽपि मन्तव्यः। नायं ततो लेशेनापि किञ्चिन्न्यूनो वर्तते, अपिच सहस्रशो विशिप्यते । परं हि विसर्जयन् धर्म रक्षति, रक्षिताच तसादभ्युदयं निःश्रेयसञ्च लभते । प्राणॉस्त्यज॑श्चाद्धा योगिभिरपि दुर्लभं श्रेयःपदमक्षुते । यत्र न किञ्चिद् भयं विद्यते, न वा जरया कश्चिद् बिभेति । प्रत्युत शान्तसङ्कल्पः सुमना भूत्वा चिरमवतिष्ठमानो रामाभिच्छन्दतो रमते । तद्यथाऽऽम्नातं भगवति वेदे, "ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यजः । ये वा सहस्रदक्षिणास्ताँश्चिदेवापि गच्छतात्" (ऋ. अ. ८ अ. ८ व. १३ मं. ३) इति । भगवता मनुनाऽप्युक्तम्, "आहवेषु मिथोऽन्योऽन्यं जिघांसन्तो महीक्षितः। युध्यमानाः परं शक्त्या स्वर्ग यान्त्यपराङ्मुखाः" (अ.७ श्लोक ८९) इति। अतएव च नेदं कपूयाचरणम् , अपि च धार्मिकैरभ्युपेतत्वाद् रमणी- याचरणम् । न च रमणीयाचरणा. अपि क्वचित्कपूयां योनि प्रतियन्ति, तस्माद्विशिष्टे परे युध्यमाने निःशङ्कमपराङ्मुख्येन युद्धेनात्मनो विसर्गः कर्त- व्य इति भावः ॥ १६ ॥ मानं वेदवचा, कर्म कर्तव्येव फलप्रदम् , अदुष्टभोजने सम्यगाहिकेऽस्मिन् परीक्षितम् ॥१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्यात्मारामभगव- त्पादशिष्यहरिप्रसादकृतायां वैशेषिकसूत्रवैदिकवृत्तौ षष्ठाध्यायस्याद्यमाह्निकम् । , १२८ वैशेषिकदर्शनम् । [द्वितीयम् अथ षष्ठोऽध्यायः। द्वितीयमाह्निकम्। सामान्यतो वेदविहितं कर्म परीक्षित, सम्प्रति विशेषतः परीक्षयिष्यन्नाह- "दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनमभ्युदयाय॥१ दृष्टादृष्टप्रयोजनानाम् ऐहिकं दृष्टम् , आमुग्मिकमदृष्टं, दृष्टञ्चादृष्ट- चोभयविधं प्रयोजन-फलं येषां वैदिककर्मणां, तानि तथा, तेषां दृष्टा- भावे दृष्टप्रयोजनप्राप्त्यभावे प्रयोजनं भावेल्युट,-अयोगः अनुष्ठानमभ्यु- दयाय=दृष्टाभावस्योक्तत्वादामुष्मिकोऽभीष्टकार्याणामुदयोऽत्राभ्युदयः, त- दर्थ वेदितव्यमित्यर्थ.। वैदिकानि कर्माणि यथाशास्त्रमनुष्ठितानि सन्ति दृष्टमदृष्टञ्च प्रयोजन साधयन्ति । तेषां यस्य कर्मणो यथाशास्त्रमनुष्ठानाद् दृष्टं प्रयो- जनं न लभ्येत, तस्य तद्नुष्ठानमदृष्टफलाय निश्चेतव्यमिति भावः ॥१॥ ननु कानि तानि वैदिकानि कर्माणि, यानि यथाशास्त्रमनुष्ठितानि सन्ति दृष्टादृष्टप्रयोजनाय प्रभवन्ति ? तत्राह- "अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थयज्ञ- दानप्रोक्षणदिनक्षत्रमन्त्रकालनियमाश्चादृष्टाय ॥२॥ अभ्युदयाय इत्यनुवर्तते । दृष्टाय इति भिन्नक्रमेण चकारेण समु- चिनोति । शुचिद्रव्याभ्यवहरणञ्चाभिषेचनग्रहणेन गृह्यते । ब्रह्मच- येण चाहिंसादयो यमाः उपलक्ष्यन्ते । शुद्धाभिरद्भिः स्नानम्-अभि- षेचनम्, पापादुपरम्य चेतसो विहिते कर्मणि वास'-उपवासः। धर्ये वोपस्थिते निमित्ते यथाशक्त्यन्नजलयोरसम्बन्धः-उपवासः। उपस्थेन्द्रियसंयमः ब्रह्मचर्य, साङ्गोपाङ्गश्रुत्यधिगमाय गुरुकुले वास= गुरुकुलवासः, वयःपरिणामे वनंप्रस्थितस्य श्रुतिस्मृतिविहितं कर्म वानप्रस्थम्, अग्निहोत्राद्यश्वमेधान्तं कर्म यज्ञः, यथाशक्ति देशात्मोप- कारार्थ हिरण्यवस्त्रभोजनादिषु स्वस्वत्वनिवृत्तिपूर्वकपरस्खत्वोत्पादन-दानं, यज्ञादिकर्मणि हविराद्यर्थ ब्रीह्यादिव्याणां यथाविधि पयसा संस्करणं%3 आह्निकम्] पष्ठोऽध्यायः। १२९ . प्रोक्षणं, प्राच्यादयः-दिशः, गर्भाधानादिकर्मण्युपयुक्तं रोहिण्यादिकं= नक्षत्रम्, "आपोहिष्ठाः” (ऋ. अ. ७ अ. ६ व. ६ सू. ९) "ऋतञ्चसत्यञ्च" (ऋ. अ. ८ अ. ८ व. ४८ सू. १९०) "दुपदा- दिव" (यजुः-अ. २० मं. २०) इत्यादिकं च प्रत्यहं जप्यं सूक्तत्रयं मन्त्रा,कर्माङ्गावबद्धः प्रातरपराह्नदर्शपूर्णमासवसन्तचातुर्मास्यादिः काल:, बाह्यशौचस्याभिषेचनग्रहणेन ग्रहणादाभ्यन्तरशौचसन्तोषतपःस्वाध्यायेश्वर- प्रणिधानानि-नियमाः, तदेतचातुराश्रम्यं कर्मानुष्ठितं सद् दृष्टाह- ष्टाभ्युदयाय कल्पते इत्यर्थ.। तत्राभिषेचनादितो जीवात्मनि धर्म उत्पद्यते, तेन चाभ्युदयः । धर्मे च जीवात्मा समवायिकारणं, मनःसंयोगोऽसमवायिकारणं, विद्याश्रद्धा- दिकञ्च निमित्तकारणमिति विवेकः ॥ २॥ ननु यदेतच्चातुराश्रम्यं कर्माभिहितं, तत्किमितरनिरपेक्षं स्वफलं जन- यति, सापेक्षं वा ? तत्राह- "चातुराश्रम्यमुपधाः अनुपधाश्च ॥३॥ चातुराश्रम्यं यदेतच्चतुर्णामाश्रमाणां साधारणमसाधारणञ्चाभिषेचना- दिकं कर्माभिहितं, तदुपधा- अनुपधाश्च कर्मणि द्वितीयेयं, वक्ष्यमाण- लक्षणाः उपधाः अनुपधाश्च सहायीकृत्य स्वफलमुपजनयतीत्यर्थ.॥३॥ ननु केयमुपधा का चानुपधा ? तत्राह- "भावदोष उपधाऽदोषोऽनुपधा ॥४॥ भावदोषः-भावस्य-जीवात्मनो यो दोपः अविद्याऽश्रद्धाप्रभृतिदोषः, स उपधा-उपधाशब्देन परिभाप्यते, यश्चादोप' दोपविपरीतो विद्या-श्रद्धा प्रभृतिगुण., सोऽनुपधा-अनुपधाशब्देन कीर्त्यते इत्यर्थः । इतरसापेक्षं सदभिपेचनादिकं वैदिकं कर्म वफलं प्रसूते, न निरपे- क्षम् । तत्र चानुपधासापेक्ष दृष्टादृष्टाभ्युदयं “यदेव विद्यया करोति श्रद्धयोपनिषदा तदेववीर्यवत्तरं भवति" (छा. प्र. ३ खं. १-१०) इति श्रुतेः, उपधासापेक्षन्तु तद्विपरीतम् । अतो दृष्टादृष्टाभ्यु- , १३० वैशेषिकदर्शनम् । [द्वितीयम् दयकामैदिकैः सर्वदाऽनुपधयैध विहितं कर्मानुष्ठेयमिति भावः ॥ ४ ॥ ननु कि तच्छुचि द्रव्य, यस्याभ्यवहरणं दृष्टादृष्टाभ्युदयमुत्पादय- तीत्युच्यते? तत्राह- "यदिष्टरूपरसगन्धस्पर्श प्रोक्षितमभ्युक्षितं च, त च्छुचि ॥५॥ प्रोक्षितं यथाविधि शुद्धेन पयसा संस्कृतम् , अभ्युक्षितं च खेच्छया वा तादृशपयसा संस्कृतं चेष्टरूपरसगन्धस्पर्शम् इष्टाः श्रुतिस्मृतिशिष्टा- नामिष्टाः स्वस्य च प्रियाः रूपरसगन्धस्पर्शाः यस्य न्यायार्जितद्रव्यस्य, तत्तथा यद् यद् द्रव्यं, तत् तद् द्रव्यं शुचि-शुद्धम् अभ्यवहारादि- क्रियायै स्वीकतुं योग्यमित्यर्थः । प्रोक्षितमभ्युक्षितं च यन्यायार्जितं प्रशस्तरूपरसगन्धस्पर्शवद् द्रव्य, तच्छुचीति भावः ॥५॥ नन्वशुचि कि विज्ञेय? तत्राह- "अशुचीति शुचिप्रतिषेधः ॥६॥ शुचिप्रतिषेधः यच्छुचि न भवति, तदशुचीति वेदितव्यमित्यर्थः । यद्धि निपिद्धेन पयसा प्रोक्षितं, ताशा वाऽभ्युक्षितम् , अन्यायेन वाऽर्जितम् , अप्रशस्तरूपरसगन्धस्पर्शवद् वा द्रव्यं, तदशुचीति भावः॥६॥ अशुच्यन्तरमाह- "अर्थान्तरं च ॥७॥ अशुचीत्यनुवर्तते । योऽर्थो यस्य वर्णाश्रमिणो विहितस्तदन्यस्तस्याशुचि- रित्यर्थः । द्रव्यं गुणः कर्मेति त्रयमर्थशब्देन परिभाष्यते, तत्र यद् द्रव्य यन्य भोजनादौ विहित, ततोऽन्यत्तस्याशुचि । तथा यो गुणो यस्य विहितो मार्दवादिस्तद्विपर्ययस्तस्याशुचि । एव यत्कम यस्य विहितं, ततोऽन्यत्त- स्याशुचीति भावः ॥ ७॥ . .

आह्निकम्] पष्ठोऽध्यायः। १३१ ननु यः कश्चिदेतच्छुचि भोजनं कुरुते, किं स सर्वोऽप्यभ्युदयं तावदु- पभुते? तत्राह- "अयतस्य शुचिभोजनादभ्युद्यो न विद्यते, नियमा- भावात् ॥८॥ अयतस्य अहिंसादियमरहितस्य पुंसः शुचिभोजनात्-शुचिभोजनक- रणादभ्युदयः दृष्टादृष्टाभ्युदयो न विद्यते न भवति । कुतः ? नियमाभा- वात्-तस्य यमाभावे शौचादिनियमस्याप्यभावादित्यर्थः । यस्य यमो नास्ति, तस्य नियमोऽपि न संभवति । यतो नियतश्च शुचि भुञ्जानः फलमुपभु नेतर इति भावः ॥ ८ ॥ नन्वेवं तर्हि हिसाकर्मणि युद्धे प्रवृत्तानां शुचिभोजनादभ्युदयो न विद्येत, तत्राह- - "विद्यते वार्थान्तरत्वादु यमस्य ॥९॥ शुचिभोजनादभ्युदय इत्यनुवर्तते । वा शब्दः पक्षान्तरमाह। विद्यते वा= हिंसाकर्मणि युद्धे प्रवृत्तानां तु शुचिभोजनादभ्युदयो विद्यते । कुतः? अर्था- न्तरत्वाद् यमस्य नियमस्येत्यपि द्रष्टव्यं, यमस्य नियमस्य चार्थान्तरविप- यत्वात्-युद्धकालातिरिक्तकालविषयत्वादित्यर्थः । देशात्मोद्धाराथै यथान्यायं युध्यमानानां तु भुजिक्रियायां नास्ति कि- चिद्वन्धनमिति भावः ॥९॥ ननु युद्धादन्यत्रापि शुचिभोजनादेवाभ्युदयः सेत्स्यति, कृतं तत्सहका- रिभ्यां यमनियमाभ्यां, तत्राह- "असति चाभावात् ॥ १० ॥ असति च यमनियमाभावे चाभावात्-शुचिभोजनासम्भवादित्यर्थः । यस्य हि यमनियमौ नस्तः, न तस्य भोजनं शुचि सम्पत्तुमर्हति । तद- धीनत्वात्तत्सम्पत्तेः । अभ्युदयस्तु ततो दवीयान् । अतस्तत्काम. सर्वदा यमनियमाभ्यामेव शुचि भोक्तव्यं नान्यथेति भावः ॥ १० ॥ - .

१३२
वैशेषिकदर्शनम् ।
[द्वितीयम्
विशेषतः कर्म परीक्षितम् । इदानीं तन्निमित्तं दोष परीक्षमाणस्तदुत्पा-
दप्रकारमाह-
"सुखाद रागः ॥११॥
दुःखाद् द्वेष इत्यपि द्रष्टव्यम् । सुखात्-विषयेण विषयिणं लक्षयति, सु-
खानुभवात्तज्जातीयसुखतत्साधनगोचरो रागः, दुःखानुभवाच तज्जाती-
यदुःखतत्साधनगोचरोद्वेष उत्पद्यते इत्यर्थः ।
यस्य यस्य साधनस्योपादानात्सुख दुःखं चानुभूतं, तज्जातीयं सुखं पुन-
रनुबभूषुर्दुःखं च परिजिहीर्षुस्तजातीयेषु सुखसाधनेष्वनुरज्यति, दुःखसा-
धनानि च तज्जातीयानि परिद्वेष्टीति ततस्तदुत्पाद इति भावः ॥ ११ ॥
"तन्मयत्वाच्च ॥ १२॥
राग इत्यनुवर्तते । स च द्वेषस्याप्युपलक्षणम् । सुखदुःखसाधनाभ्यासज-
नितो दृढतरसंस्कारविशेषः तन्मयत्वं, तसाच सुखदुःखतत्साधनेषु राग-
द्वेषौ भवत इत्यर्थः ।
यदशाद्धयेकदा कामिनीसुखमुपभुञ्जानः कामुकः कामिनीमलभमानः
सर्वत्र कामिनीम् , कदाचित्पादोदरदष्टश्च सर्वत्र पादोदरं पश्यति, तमेव
संस्कारभेदं तन्मयत्वेनाचक्षते । ततश्चानुकूलेषु रागः प्रतिकूलेषु च द्वेषः
संजायत इति भावः ।। १२ ।।
"अदृष्टाच॥ १३॥
रागद्वेषलाभः पूर्ववत् । पूर्वजन्मार्जितादृष्टाच रागद्वेषौ भवत इत्यर्थः ।
येन पुरुषेणैतज्जन्मनि कामिनीसुखं पादोदरदंशजं दुःखं च नानु-
भूतं, तस्य यौवनोद्भेदे योऽयं कामिनीरागः पादोदरे च द्वेषः, सोऽदृष्ट-
निमित्त इति भावः ॥ १३ ॥
"जातिविशेषाच ॥ १४ ॥
रागद्वेपलामः पूर्ववत् । जातिर्जन्म, तद्विशेषाच रागद्वेषौ भवत इत्यर्थः।
योऽयं मनुष्यजातीयानामन्नादौ, करभजातीयानां च कण्टकादौ, रागः,
नकुलजातीयानां भुजङ्गमे, महिपजातीयानां च तुरङ्गमे, द्वेपः, स जातिविशेष-
निमित्त इति भावः ॥ १४ ॥

आह्निकम् ] पष्ठोऽध्यायः । १३३ ननु भवतु सुखादितो रागद्वेषोत्पादः, तन्निष्ठकर्मनिमित्ततायां किमा- यातं तत्राह-- - "इच्छाबेषपूर्विका धर्माधर्मप्रवृत्तिः ॥ १५॥ धर्माधर्मप्रवृत्तिःच्यावती पुंसः सुखदुःखहेतुपुण्यापुण्यजनिका वाङ्मनः- कायव्यापृतिः, सा सर्वा इच्छाद्वेषपूर्विका रागद्वेपनिमित्तिका भवतीत्यर्थः । मिथ्याज्ञानप्रयुक्तस्तावत्पुरुषोऽनुकूलेषु रागं प्रतिकूलेषु च द्वेष कुरुते। ततश्चायमनुकूलानभीप्सन् प्रतिकूलॉश्च जिहासन् वाचा सत्यस्वाध्याया- नृतकामसूत्रादौ मनसा दयाऽस्पृहापरद्रोहपरद्रव्याभीप्सादौ कायेनाभि- पेचनदानहिंसास्तेयादौ च प्रवर्तते । सेयमस्य रागद्वेषपूर्विका धर्माधर्म- प्रवृत्तिरिति भावः। तत्राभिपेचनादौ विहिते कर्मणि रागनिबन्धना प्रवृत्तिः सुखहेतुं धर्म प्रसूते । हिसादौ च निपिद्धे कर्मणि द्वेपनिबन्धना प्रवृत्तिर्दुःखहेतुमधर्म- मिति विवेकः ॥ १५॥ ननु धर्माधर्मप्रवृत्तितोऽस्य किं भवति ? तत्राह- "तत् संयोगो विभागः ॥१६॥ तत् अव्ययम् , ततोऽस्य संयोगः अपूर्वाभिः शरीरेन्द्रियवेदनामिः स- म्बन्धः पुनश्चाभिर्विभागः प्रारब्धकावसाने सम्बन्धाभावो भवतीत्यर्थ । धर्माधर्मप्रवृत्तितो नानाविधोच्चावचजीवयोनिषु पुनः पुनर्जायते म्रि- यते चेति भावः ॥ १६ ॥ ननु दुःखमूलादसाजन्ममरणप्रबन्धलक्षणात्प्रेत्यभावादस्य मोक्षः कदा भवति? तत्राह- - "आत्मकर्मसु मोक्षो व्याख्यातः॥ १७ ॥ आत्मकर्मसु परापरात्मज्ञानसाधनकर्मसु यमनियमादिषु सत्सु मोक्षः- पुरुषस्यापवर्गो व्याख्यातः वेदोपनिषद्भ्या व्याख्यात इत्यर्थः । यदाऽयं मयो निष्कामः सन् तत्त्वज्ञानसाधनं वेदोक्तं कर्म सम्यग- नुतिष्ठति, यमनियमादिकं च यत्नतः सम्पादयति, तदाऽस्य मोक्षो भवति नान्यदेति भावः ।

Date
१३४
वैशेषिकदर्शनम् ।
[द्वितीयम्
अत्र वेदोपनिषदुक्तमेवार्याणां नैश्रेयस कर्म नान्योक्तमिति सूचयितुं
सूत्रितं व्याख्यात इति । तेन जन्ममरणप्रबन्धरूपप्रेत्यभावोच्छेदलक्षणनि:-
श्रेयसाभिलाषुकैरार्यधौरेयैस्तदुपदिष्टं कर्म यततोऽनुष्ठातव्यमिति शिष्टं
भवतीति वेद्यम् ॥ १७॥
अनादौ संसारे स्थितमिदमहो मूढमनसां
जनित्वा जन्तूनां मरणमथ मृत्वापि जननम् ।
इयं सा दुःखानां सरणिरिति सञ्चिन्त्य कृतिभिः
विधातव्यं चेतो जननमरणोच्छेदिनि पदे ॥१॥
दृष्टादृष्टफलं यस्य तादृशं कर्म वैदिकम् ।
सनिमित्तं द्वितीयेऽस्मिन्नाह्निके स्फुटमीक्षितम् ॥२॥
इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्यात्मारामभगव-
त्पादशिष्यहरिप्रसादकृतायां वैशेषिकसूत्रवैदिकवृत्तौ
षष्ठाध्यायस्य द्वितीयमाह्निकम् ।
समाप्तश्चायं श्रौतधर्माध्यायः पष्ठः ॥ ६ ॥

- आहिकम्] सप्तमोऽध्यायः । १३५ अथ सप्तमोऽध्यायः । आद्यमाह्निकम् । द्रव्याणि कर्माणि च परीक्षितानि । शिष्यजिज्ञासानुरोधेन मध्ये श्रौत- धर्मोऽपि परीक्षितः । सम्प्रति क्रमप्राप्तान् गुणान् सप्तमेऽस्मिन् परीचिक्षिषु- रादौ विप्रकृष्टान् तान् सारयन्नाह- "उक्ताः गुणाः॥१॥ उक्ता'="रूपरसगन्धस्पर्शाः संख्याः, परिमाणानि, पृ- थकं, संयोगविभागौ, परत्वापरत्वे, बुद्धयः, सुखदुःखे, इच्छाद्वेषौ, प्रयत्नाश्चेति सूत्रे कण्ठतश्चकारेण चोद्दिष्टा गुणाः-रूपा- दयो गुणाः परीक्ष्यन्ते इत्यर्थः । यदा कण्ठोक्ताः रूपादयो गुणा परीक्ष्यन्ते । नतु चकारेण समुचिता गुरुत्वादयो गुणा इत्यर्थः। तत्र-चक्षुर्मात्रग्राह्यो गुणो रूपम् । तच्च नीलशुक्ललोहितह- रितकपिशचित्रभेदात्सप्तविधं पृथिव्यप्तेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अप्सु शुक्लं, तेजसि लोहितम् । १ । रसनग्राह्यो गुणो रसः। सच मधुराम्ललवणकटुकपायतिक्तभेदात् षड्विधः पृथिवीजलवृत्तिः । तत्र पृथिव्यां पड्विधः । जले मधुर एव । २ । धाणग्राह्यो गुणो गन्धः। स द्विविधः सुरभिरसुरभिश्च, पृथिवीमात्रवृत्तिः । ३। त्वगिन्द्रियमा- ग्राह्यो गुणः स्पर्शः । सच शीतोष्णानुष्णाशीतभेदात् त्रिविधः पृथिव्यप्तेजोवायुवृत्तिः । तत्र शीतो जले। उष्णस्तेजसि । अनुप्णाशीत. पृ- थिवीवाय्वो । ४ । एकत्वादिव्यवहारहेतुः सङ्ख्या।सा नवद्रव्य- वृत्ति । एकत्वं नित्यगतं नित्यमनित्यगतमनित्यम् । द्वित्वादिकं तु परार्धप- य॑न्तमपेक्षावुद्धिजन्यत्वात्सर्वत्रानित्यम् । ५। एक दशशतं चैव सहस्रमयुतं तथा । लक्षं च नियुतं चैव कोटिरर्बुद्देव च ॥१॥ .

१३६ वैशेषिकदर्शनम् । [आधम् वृन्द खों निखर्वश्च शङ्खः पद्मश्च सागरः। अन्यं मध्यं परार्धं च दशवृद्ध्या यथाक्रमम् ॥२॥ मानव्यवहारासाधारणकारणं परिमाणम् । सर्वद्रव्यवृत्ति। तच्चतुर्विधम्-अणु, महत् , दीर्घ, हृखं च । ६ । पृथग्व्यवहारा-- साधारणकारणं पृथक्त्वम् । सर्वद्रव्यवृत्ति । ७ । संयुक्तव्यव- हारहेतुः संयोगः । सर्वद्रव्यवृत्तिः । ८ । संयोगनाशको गुणो विभागः। सर्वद्रव्यवृत्तिः।९। परापरव्यवहारासाधारणकारणे परत्वापरत्वे । मूर्तद्रव्यवृत्तिनी । ते च द्विविधे-दिक्कृते, कालकृते च। दूरस्थे दिकृत परत्वम् । अन्तिकस्थे दिकृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् । कनिष्ठे कालकृतमपरत्वम् । १०-११ । सर्वव्यव- हारहेतुर्ज्ञानं बुद्धिः । ज्ञानमुपलब्धिः प्रत्ययो बुद्धिरित्यनान्तरम् । सा च द्विविधा-अनुभूतिः स्मृतिश्च । अनुभूतिरपि द्विविधा-विद्याऽविद्या च । यथार्था विद्या, अयथार्थाऽविद्या । तद्वति तत्कारिकाऽनुभू- तिर्विद्या, सैव प्रमेत्युच्यते । तदभाववति तत्कारिकाऽनु भूतिरविद्या । तत्र विद्या त्रिविधा-प्रत्यक्षा, लैगिकी, शाब्दी च । प्रत्यक्षं प्रमाणं चक्षुरादीनीन्द्रियाणि, तज्जन्या प्रत्यक्षा । लिङ्गदर्शनमनुमान- प्रमाणं, तज्जन्या लिङ्गिगोचरानुभूतिलैंगिकी । सैवानुमितिरिति कथ्यते । शब्दप्रमाणमाप्तोपदेश., तज्जन्या शाब्दी । सशयविपर्ययभेदादविद्याऽपि द्वि- विधा । तत्रैकस्मिन् धर्मिणि विरुद्धनानाधर्मप्रकारकं ज्ञानं संशयः। अतस्मिँस्तबुद्धिर्विपर्ययः । संस्कारमात्रजन्या बुद्धिः स्मृतिः। साऽपि द्विविधा-भावितस्मर्तव्या अभावितस्मर्तव्या च । खप्ने भावितसर्तव्या जाग्रत्समये त्वभावितस्मर्तव्येति बुद्धिप्रपञ्चः । १२ । धर्मजन्यमनुकूलवेदनीयं गुणः सुखम् । १३ । अधर्मजन्य प्रतिकूलवेदनीयं गुणो दुःखम् । १४ । स्वार्थ वा परार्थ वाऽप्रासार्थप्रार्थनमिच्छा । १५ । क्रोधो द्वेषः । १६ । कृतिः प्रयत्नः । १७ । इति सप्तदश कण्ठोक्ता गुणाः । आद्यप- तनासमवायिकारणं गुरुत्वं । पृथिवीजलवृत्ति । १ । आद्य- आहिकम्] सप्तमोऽध्यायः। १३७ स्यन्दनासमवायिकारणं द्रवत्वं । तद् द्विविध-सांसिद्धिक नैमि- त्तिकं च । जले सांसिद्धिकं, नैमित्तिकं पृथिवीतेजसोरिति वैशेषिकाचार्याः । पृथिव्यामेवेति प्रत्ययाः । सुवर्णादेरपि पार्थिवत्वाभ्युपगमात् । २। सङ्घ- हमृजादिहेतुर्गुणः लेहः । जलमात्रवृत्तिः । तैलादौ च पार्थिवे द्रव्ये जलीय एवासौ प्रकृष्टत्वादोरानुकूल्यं भजते । अपकृष्टस्नेहं हि जलमग्नि ना- शयतीति भावः । ३ । सामान्यगुणात्मविशेषगुणोभयवृत्तिगु- णत्वव्याप्यजातिमान् संस्कारः । सच त्रिविधः-वेगो भावना स्थितिस्थापकश्च । तत्र द्वितीयादिपतनासमवायिकारणं वेगः। सच कर्मजवेगजभेदाद्विविधो मूर्त्तमात्रवृत्तिश्च । अनुभवजन्या स्मृति- हेतुर्गुणो भावना । जीवात्मवृत्तिः । अन्यथाकृतस्य पुनः पूर्व- ववस्थापक: स्थितिस्थापकः । कटशाखादिष्पृथिवीवृत्तिः । ४ । विहितकर्मजन्यो गुणो धर्मः । ५। निषिद्धकर्मजन्यो गु- णोऽधर्मः। ६ । श्रोत्रग्राह्यो गुणः शब्दः । आकाशमात्रवृत्तिः । स द्विविधो-ध्वन्यात्मको वर्णात्मकश्च । ७ । इति चकारेण समुचिताः सप्तेतिविवेकः। तत्र रूपरसगन्धस्पर्शपरत्वापरत्वगुरुत्वद्वत्वनेहवेगसुखदुःखभावनाद्वे- पधर्माधर्माः मूर्तगुणाः । शब्दोऽमूर्त्तगुणः । मूर्तेषु मरुदादिचतुर्वन- भिव्यक्तत्वात् । संख्यापरिमाणपृथक्त्वसंयोगविभागबुद्धीच्छायताः मू मूतॊभय- गुणाः । संयोगविभागद्वित्वद्विपृथक्त्वादयोऽनेकाश्रिताः । रूपरसगन्ध- स्पर्शकत्वपरिमाणकपृथक्त्वपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नगुरुत्वव- त्वमेहसंस्कारधर्माधर्मशब्दाःएकैकवृत्तयः शब्दस्पर्शरूपरसगन्धाः बाथै- कैकेन्द्रियग्राह्याः। संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वद्रव- त्वलेहवेगाः दीन्द्रियग्रायाः। जीवीयबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाः म- नोमानग्राह्याः । ईश्वरीयबुद्धीच्छायनाः गुरुत्वधर्माधर्मभावनाश्चाती- न्द्रियाः। अपाकजरूपरसगन्धस्पर्शपरिमाणैकत्वैकपृथक्त्वगुरुत्वद्वत्वस्नेह- वेगाः कारणगुणपूर्वकाः । वुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावना- - १३८ वैशेषिकदर्शनम् । [आद्यम् शब्दाः अकारणगुणपूर्वकाः । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्ममा- वनाशब्दतूलपरिमाणोत्तरसयोगनैमित्तिकद्रवत्वपरत्वापरत्वपाकजरूपादयः संयोगजाः । संयोगविभागवेगाः कर्मजाः। परत्वापरत्वद्वित्वद्विपृथक्त्वा- दयो बुद्ध्यपेक्षाः। रूपरसगन्धानुप्णस्पर्शशब्दपरिमाणैकत्वैकपृथक्त्वन्नेहाः समानजात्यारम्भकाः । सुखदुःखेच्छाद्वेषप्रयत्लाश्चासमानजा- त्यारम्भकाः। संयोगविभागसख्यागुरुत्नद्रवत्वोप्णस्पर्शज्ञानधर्माधर्मसंस्काराः समा- नासमानजात्यारम्भकाः। रूपरसगन्धानुप्णस्पर्शसंख्यापरिमाणैक- पृथक्त्वस्नेहशब्दाः असमवायिकारणम् । वुद्धिसुखदुःखेच्छाद्वेषप्रयत्न- धर्माधर्मभावनाः निमित्तकारणम् । संयोगविभागोष्णस्पर्शगुरुत्वद्रवत्व- वेगाः उभयकारणम् । परत्वापरत्वद्वित्वद्विपृथक्त्वादिकम्-अकारणम्। संयोगविभागशब्दाः अव्याप्यवृत्तयः । शिष्टाः व्याप्यवृत्तय इति तवान्तरविशेपः ॥ १॥ गुणान् संस्मार्य तत्परीक्षामारभते- "पृथिव्यादिरूपरसगन्धस्पर्शाः द्रव्यानित्यत्वादनि- त्याश्च ॥ २॥ चकारेण परिमाणैकत्वैकपृथक्त्वसांसिद्धिकद्रवत्वगुरुत्वस्नेहाः समुच्चीय- न्ते । पृथिव्यादिरूपरसगन्धस्पर्शाः पृथिव्यतेजसां रूपादयो गुणाः द्रव्या- नित्यत्वात् आश्रयभूतद्व्यानित्यत्वादनित्याः विनाशप्रतियोगिनो मन्तव्या इत्यर्थः ॥२॥ १. तत्र भावनान्ता आत्ममन संयोगजाः, शब्दो भेर्याकाशसयोगज , तूलपरिमाण प्रचयाख्यसयोगजम्, उत्तरसंयोग सयोगजसंयोग , नैमित्तिकद्रवत्व वहिसयोगज, परत्वा- परत्वे दिक्कालपिण्डसंयोगजे, पाकजरूपादयो वहिसंयोगजा । २. सयोगात् समानजातीय उत्तरसयोग , विजातीय द्वितूलके महत्परिमाण, विभागा- द्विभाग. शब्दश्च, कारणगतैकत्वसंख्यात कार्यवर्तिन्येकत्वसख्या, द्वित्ववहुत्वसख्याभ्या चाणुत्वमहत्त्वे, गुरुत्वाद् गुरुत्वान्तरं पतन च, द्रवत्वाद् द्रवत्वान्तर स्यन्दनक्रिया च, उष्ण स्पर्शादुष्णस्पर्श. पार्थिवपरमाणुरूपादयश्च, ज्ञानाज्ज्ञान सस्कारश्च, धर्माद्धर्म सुख च, अधर्मादधर्मों दुख च, सस्कारात् सस्कार मरण च । - आहिकम्] सप्तमोऽध्यायः। पृथिव्यादिष्वनित्येषु रूपादीनामनित्यत्वमभिधाय नित्येषु तेषां नित्य- त्वमर्थबललभ्यमाह- "एतेन नित्येषु नित्यत्वमुक्तम् ॥ ३ ॥ एतेन पृथिव्यादिषु वर्तमानानां रूपादीनामाश्रयानित्यत्वादनित्यत्ववच- नेन नित्येषु-नित्यद्रव्येषु तेषु वर्तमानानां तेषां नित्यत्वं विनाशाप्रतियोगि- त्वमुक्तम् अर्थादुक्तं वेदितव्यमित्यर्थः ॥ ३ ॥ रूपादीनां सामान्यतो नित्येषु नित्यत्वमनित्येषु चानित्यत्वमुक्तम् । इदानीं तत्र विशेष वक्तुं सङ्कोचमाह- "अप्सु तेजसि वायौ च नित्याः द्रव्यनित्यत्वात् ॥४॥ द्रव्यनित्यत्वात् आश्रयभूतद्रव्यस्य नित्यत्वाद्य तदाश्रिता गुणाः नित्याः उक्ताः, तेऽप्सु जलपरमाणुषु तेजसि-तेजःपरमाणुषु वायौ च सर्वत्र नभवति च नित्याः विनाशाप्रतियोगिनो वेदितव्याः नपृथिव्यामित्यर्थः॥४॥ ननु नित्यवत्किमनित्येष्वप्यस्तिकश्चिद्विशेषः? तत्राह- "अनित्येष्वनित्याः द्रव्यानित्यत्वात् ॥५॥ अनित्येषु-अनित्यद्रव्येषु अनित्याः तदाश्रिताः रूपादयो गुणाः सर्वत्रा- नित्याः निश्चेतव्याः, कुतः? द्रव्यानित्यत्वात् तदाश्रयभूतद्रव्यानित्यत्वा- दित्यर्थः । नास्ति कश्चिद्विशेष इति भावः ॥ ५॥ ननु जलादिपरमाणुवत्पृथिवीपरमाणूनामपि नित्यत्वात्तदाश्रिताः गुणाः कसान नित्याः? तत्राह- "कारणगुणपूर्वकाः पृथिव्यां पाकजाः ॥ ६॥ यत इति शेषः । यस्मात्पृथिव्याम् अवयविरूपायां पृथिव्यां पाकजाः-- रूपादिपरावृत्तिहेतुतेजःसंयोगविशेषः पाकः, तस्माज्जाताः परावृतिं गताः रूपरसगन्धस्पर्शाःगुणाः कारणगुणपूर्वकाः अवयिवनः कारणमवयवाः, तेषां गुणाः पूर्व-कारणं येषां, ते तथा खकारणगुणासमवायिकारणकाः प्रादुर्भ- वन्तीत्यर्थः। आमद्रव्यस्यावयविनो घटादेस्तेजःसंयोगविशेषाद् येयं रूपरसगन्धस्स- र्शानां परावृत्तिः, नच सा तत्रैव भवितुमर्हति, बहिरन्तःसर्वेष्ववयवेषु .

१४० वैशेषिकदर्शनम् । [आयम् वर्तमानस्यावयविनो बाह्ये देशे वर्तमानेन तेजःसंयोगेनान्तर्वर्तिनां तेषां परावृत्तेरसंभवात् । तत्परावृत्त्यर्थं तेजःपरमाणूनामन्तःप्रवेशायावयविनः सान्तरत्वाभ्युपगमस्तु न साधीयान् । तत्परमाणूनां निर्भागत्वेन सान्तरत्वा- भावात् । द्वयणुकस्य सान्तरत्वे तदारम्भकपरमाण्वोरसंयोगस्यावश्यवक्तव्य- तया तदुत्पादायोगात् । व्यणुकादीनां च सान्तरत्वे द्वयणुके तत्परावृत्त्य- नुपपत्तेस्तादवस्थ्यात् । अतोऽशेष तस्मिन्नवयविनि रूपादिपरावृत्त्यथै बल- वत्तेजःसंयोगविशेषेणाऽऽपरमाणुभ्य आच कपालादेः कर्मोत्पत्त्या परस्परवि- भागतः परस्परसंयोगनाशेऽसमवायिकारणनाशादवयविनि विनष्टे स्वतन्त्रभू- तेषु परमाणुषु रूपादिपरावृत्तिरेष्टव्या । तत्र तत्परावृत्तौ च पुनर्भोगिनामह- ष्टनोत्पन्नपाकजरूपादिषु तेषु कर्मोत्पत्त्या परस्परसंयोगाद् द्वयणुकादिक्रमे णारब्धे तस्मिन्नवयविनि कारणगुणपूर्वकः पाकजगुणारम्भ इति न पृथिवी- परमाण्वाश्रिताः रूपादयो गुणाः नित्या इति भावः । तत्र परावृत्तिं गतेषु पार्थिवपरमाणुरूपादिषु परमाणवः समवायिकार- णम् । तेजःसयोगोऽसमवायिकारणम् । अदृष्टादिकं निमित्तकारणम् । द्वय- णुकादिरूपप्रभृतिषु च व्यणुकादिकं समवायिकारणं, कारणरूपादिकं चासमवायिकारणमिति विवेकः ॥६॥ ननु पृथिव्यां पाकजाः गुणाः कारणगुणपूर्वकाः भवन्तीति नोपपद्यते । कारणगुणानां कार्येऽसत्त्वेन सामानाधिकरण्याभावात् । तत्राह- "एकद्रव्यत्वात् ॥७॥ पूर्वसूत्रं समग्रमनुवर्तते । एकद्रव्यत्वात् स्वसमवायिसमवायसंबन्धेन कार्यलक्षणमेकं द्रव्यमाश्रयतया विद्यते येषां कारणगुणानां, ते तथा, तेषां भावस्तत्त्वं, तस्मात् परम्परासंबन्धेन कार्यलक्षणैकद्रव्याश्रयत्वात्सामाना- धिकरण्यसंभवे कारणगुणपूर्वकाः पृथिव्यां पाकजाःगुणाः सम्भवन्तीत्यर्थः । यद्यपि कायॆकार्थप्रत्त्यासत्त्या सामानाधिकरण्यं नास्ति, तथापि कारण- कार्थप्रत्यासत्त्या विद्यते । अतो न काचिद्नुपपत्तिरिति भावः ॥७॥ रूपरसगन्धस्पर्शान् चतुरो गुणान् परीक्ष्य क्रमप्राप्तसंख्यागुणमुल्लङ्घय परिमाणं परीक्षयिष्यन्नादौ तत्सद्भावसाधकं पूर्वप्रकरणं सारयति- आहिकम्] सप्तमोऽध्यायः ।। "अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते ॥८॥ नित्ये "सदकारणवन्नित्यम्" इत्यादिके चतुर्थाध्यायेऽणोः अणु- परिमाणकस्य महतश्च महत्परिमाणकस्य च द्रव्यस्योपलब्ध्यनुपलब्धी "अल्पान्तरम्" इत्युपलब्धिशब्दस्य पूर्वप्रयोगः, तेन यथाविग्रह- मन्वयः, अणोरनुपलब्धिः अप्रत्यक्षं महतश्वोपलब्धिः प्रत्यक्षं व्याख्याते- कथिते इत्यर्थः। तथाचास्ति द्रव्यप्रत्यक्षकारणतया स्वयं च प्रत्यक्षविषयतया कश्चिद्गुणः परिमाणमिति भावः। तत्राणु महद् दीर्घ ह्रखं चेति चतुर्विधं परिमाणम् । यत्खलु रूपस- हायं सदपि खाश्रयं न प्रत्यक्षयति तद्णु । यच्च रूपसहायं सत्वाश्रयम- ध्यक्षयति तन्महत् । हखत्वदीर्घत्वे त्वणुत्वमहत्त्वसहभूते । न तत्र कश्चिद् विशेषः । तच्चैतच्चतुर्विधं परिमाणं नित्यानित्यभेदाद् द्विविधम् । तथाच "निये नित्यमनित्येऽनित्यम्” इति वक्ष्यति । यन्नित्यं तत् परमो- पपदेन, यच्चानित्यं तन्मध्यमोपपदेन, व्यपदिश्यते । तत्र परमाणुत्वं परमह- खत्वं जीवात्मसु परमाणुषु च, मध्यमाणुत्वं मध्यमहखत्वं द्वयणुके । परम- महत्वं परमदीर्घत्वं खकालदिक्षु, परमात्मनि च । खादिषु सापेक्षं, परमा- मनि च निरपेक्षमिति विशेषः । मध्यममहत्त्वं मध्यमदीर्घत्वं च मनस्सु, व्यणुकमारभ्य सर्वावयविषु चेति विवेकः ॥ ८॥ ननु त्र्यणुकादौ महत्त्वं कुतो जायते ? तत्राह- "कारणबहुत्वाच॥९॥ चकारेण महत्त्वप्रचयौ समुचिनोति । खाश्रयसमवायिकारणगतसंख्या- बहुत्वात्, स्वाश्रयसमवायिकारणगतमहत्परिमाणात्, शिथिलाख्यः सं- योगः प्रचयः, तसाच व्यणुकादौ महत्त्वमुत्पद्यते इत्यर्थः । तत्र व्यणुकमहत्त्वे द्वचणुकत्रयगतं संख्यात्रित्वमसमवायिकारणं, तद्तं परिमाणम् । तस्य खसमानजातीयोत्कृष्टपरिमाणजनकत्वनियमेन व्य- णुकाणुतरत्वप्रसक्तेद्वर्यणुकपरिमाणस्य तत्रासमवायिकारणत्वासम्भवात्। च- तुरणुकादिमहत्त्वे ज्यणुकादिमहत्परिमाणं, घटादिमहत्त्वे च कपालादि- न

.
११२
वैशेषिकदर्शनम् ।
[आवम्
महत्व, द्वान्यां तूलकापिण्डाभ्यामारये तूलकपिण्डे च यन्महत्त्वं, तर
द्वितूलकापिण्डयोः प्रयोऽगमवायिकारणमिति शिवकः ॥ ९ ॥
ननु भवतु कारणवत्लादिकारण यशुकाटी गइपरिमाणं, द्वय-
णुकादी पुनरणुपरिमाणं फिकारण विज्ञेयं ? तबाह-
"अतो विपरीतमणु ॥ १०॥
अतः परिमाणाश्रयसगयायिकारणगतं यत्सल्याबहुत्वम् , अलाद् निप-
रीतं विपरीतकारणकर-परिमाणाश्रयसगवायिकारणगतं यत् संख्याद्विलं,
तदसमवायिकारणकमणु दयणुकगतमणुपरिमाणं विज्ञातव्यमित्यर्थः ।
द्वान्यां परमाणुभ्यामारब्धं हि व्यणुकं, तत्परिमाणे च न परमाणुगतं
परिमाणमसमवायिकारणं सम्भवति, परिमाणस्य स्वसमानजातीयोत्कृष्टपरि-
माणजनकत्वनियमेनाणुतरत्वप्रसन्नात्, अपि च सर्गादो जीवबुद्धीनामस.
त्वेनेश्वरापेक्षाबुद्धिजन्यं परमाणुगत द्वित्वमिति भावः ॥ १० ॥
ननु व्यणुकएवानित्यमणुपरिमाणमित्ययुक्तं, लोके "विल्यापेक्षयाऽऽम-
लकमणु, कुवलयापेक्षयाचामलकं महत्" इति तद्भिन्नेऽप्यण्वादिव्यवहार-
दर्शनात् , तत्राह-
"अणु महदिति तस्मिन् विशेपभावाहिशेपाभावाच ११
विशेषभावात् महत्परिमाणप्रकर्पो विशेषः, तस्य कुवलयमपेक्ष्यमा-
वात्-सत्वात् , विशेपाभावाच-विल्वमपेक्ष्य ताहविशेषासत्त्वाच्च तस्मिन्
आमलकादौ सर्वस्मिन्नणुमहदिति-प्रकारेऽयमितिशब्द., यथायोग्यंचान्वयः,
महदिति प्रकारकोऽण्विति प्रकारकश्च व्यवहार इत्यर्थः ।
तत्र महदिति व्यवहारो मुख्यः, तस्मिन् वस्तुतो महत्त्वप्रकर्षाभावे-
ऽपि महत्त्वसामान्यस्य सत्त्वेन सापेक्षप्रकर्पस्यापि सद्भावात् , अण्विति
च भाक्तः, अणुत्वस्य तत्र वस्तुतोऽसत्त्वादिति विवेकः ।
तस्मिन् आमलकादौ विशेषभावात् महत्त्वविशेषस्य सत्त्वान्महदिति
व्यवहारो मुख्यः । विशेषाभावाच-अणुत्वविशेपाभावाचाण्विति व्यवहारो-
भाक्त इत्यर्थ इति शकरमिश्रः ॥ ११ ॥

आदिकम्] सप्तमोऽध्यायः। १४३ ननु कुतस्तसिन्नविति व्यवहारो भाक्तो महदिति व्यवहारश्च मुख्यः? तत्राह- - "एककालत्वात् ॥ १२॥ अणुमहदिति तसिन्नित्यनुवर्तते । तस्मिन्नणुमहदिति व्यवहारद्वयस्य समानकालकत्वादित्यर्थः । नोकस्सिन्नैककालिकं परस्परविरुद्धं व्यवहारद्वयं मुख्यमुपपद्यते । वस्तुनि विकल्पासम्मवात् । अतस्तत्रैको मुख्योऽपरश्च भाक्त इत्यवश्य वक्तव्यम् । नच महदिति व्यवहारो भाक्तो भवितुमर्हति । महत्त्वस्य तत्रा- नुभवसिद्धत्वात् । अपि च पारिशेष्यादण्वितिव्यवहार इतिभावः ॥ १२ ॥ तत्रैव हेत्वन्तरं समुच्चिनोति- "दृष्टान्ताच ॥१३॥ अणुमहदिति तस्मिन्नित्यनुवर्तते । यथैकस्मिन् दीर्घ काष्ठवस्तुनि दीर्घ- तरकाष्ठान्तरापेक्षया इखमिति व्यवहारो भाक्तः, लघुभूतकाष्ठान्तरापेक्षया च दीर्घमिति मुख्यः, यथा वा देवदत्तसेनातो महती रणलब्धवर्णा यज्ञद- तसेना, सैव चाण्वी विष्णुमित्रादिसेनात इत्याद्युदाहरणं दृष्टान्तः, दृश्यते ह्यत्रान्तः-परिच्छेदो वस्तुन इति, तसाच तस्मिन्नण्विति व्यवहारो भाक्तो महदिति व्यवहारश्च मुख्य इत्यर्थः । एतेनावाद्यपेक्षया भूमिरवी, भारतखण्डापेक्षया च महती, व्योमाद्य- पेक्षया जलादिकमणु, भूम्यपेक्षया च महत्, जलाद्यपेक्षया व्योमादिकं महत् , प्रकृत्यपेक्षया चाणु, व्योमाद्यपेक्षया महती प्रकृतिः, ईश्वरापेक्षया चाण्वी, नचेश्वरसमः कश्चिदधिकोवा कश्चिदीश्वरान विद्यते, तस्मात्स एवैकः परमार्थतो महान् इत्यादि व्यवहारोऽपि व्याख्यातो द्रष्टव्यः ॥१३॥ ननु भवतु द्वयणुकादन्यत्र व्यणुकादौ सर्वत्राण्विति व्यवहारो भाक्तः, तत्राणुत्वाभावात् , महत्त्वस्य च सत्त्वात् , परन्तु द्रव्यवदणुत्वमहत्त्वयोरणुत्व- महत्त्वे किं न स्याताम्, अणुमहदिति संज्ञाऽविशेषात् , तत्राह- अणुत्वमहत्त्वयोरणुत्वमहत्त्वाभावः कर्मगणैव्या- ख्यातः॥१४॥ . " १४४ वैशेषिकदर्शनम् । [आद्यम् अणुत्वमहत्त्वयोः अणुत्वे महत्त्वे चाणुत्वमहत्त्वाभावः यथासंख्यम- न्वयः, अणुत्वाभावो महत्त्वाभावश्च कर्मगुणैः हेतौ तृतीया, कर्माभाव- वद्भिः कर्मभिर्गुणाभाववद्भिर्गुणैश्च व्याख्यातः निरूपितो वेदितव्य इत्यर्थः । यथा कर्माणि न कर्मवन्ति, गुणाश्च न गुणवन्तः, तथाऽणुत्वं ना- णुत्ववत्, महत्त्वञ्च न महत्त्ववत् , खस्य खभावानुपपत्तेरिति भावः । यथा गुणकर्मणी नाणुत्वमहत्त्ववती, तथाऽणुत्वमहत्त्वे अपि नाणु- त्वमहत्त्ववती, इत्यर्थ इति शङ्करमिश्रः ॥ १४ ॥ नन्वणुत्वमहत्त्वयोरणुत्वमहत्त्वाभावः कर्मगुणैर्व्याख्यात इति नोपप- यते, कर्मसु कर्माभावस्य गुणेषु च गुणाभावस्याव्याख्यानात् , तबाह- "कर्मभिः कर्माणि गुणैश्च गुणाः व्याख्याताः ॥ १५ ॥ कर्मभिः हेतौ तृतीया, उत्क्षेपणादिकर्मभिः कर्माणि-उत्क्षेपणादीनि कर्माणि व्याख्यातानि-विपरिणम्यान्वयः, तत्तत्काभाववन्ति व्याख्या- तानि, गुणैश्च-रूपादिभिर्गुणैश्च गुणाः-रूपादयो गुणाः व्याख्याताः-तत्त- द्गुणाभाववन्तो व्याख्याताः द्रष्टव्या इत्यर्थः । द्रव्यं तावत्कर्मणा वा गुणेन वा विशेष्टुं शक्यते । न कर्म न गुणः । खस्य स्वविशेषकत्वानुपपत्तेः, अन्यथा देवदत्तो गृहं गच्छति, यज्ञदत्तो दण्डमुत्क्षिपति, नीलो घटः शुक्लः पट इत्यादिवद् "गच्छति गमनम् , उत्क्षेपणमुक्षिपति" इत्यपि स्यात् । न तथा भवति , तस्मात्प्रतिपद्यते- कर्मवादेव कर्माणि न कर्मवन्ति, गुणाश्च न गुणवन्त इति भावः॥१५॥ ननु माभूगुणकर्मणोर्गुणकर्माश्रयत्वम्, अणुत्वमहत्त्वाश्रयत्वं तु स्यात् । अणूनि कर्माणि महान्ति कर्माणि, तथाणवो गुणाः महान्तो गुणा इति व्यवहारदर्शनात्, तत्राह- "अणुत्वमहत्त्वाभ्यां कर्मगुणाश्च ॥ १६ ॥ व्याख्यता इत्यनुवर्तते । अणुत्वमहत्त्वाभ्याम् अणुत्वमहत्त्वाभावव- यामणुत्वमहत्त्वाभ्यां कर्मगुणाश्च कर्माणि गुणाश्च व्याख्याताः अणुत्व- महत्त्वाभाववन्तो व्याख्याताः वेदितव्या इत्यर्थः । अणोर्भावो ह्यणुत्वं, महतो भावश्च महत्त्वं, नचैतदणुत्वस्य मह- आह्निकम्] सप्तमोऽध्यायः। १४५ . M त्त्वस्य च भावः सम्भवति । खस्य खभावानुपपत्तेः । परिमाणं च गुणः, कर्मापि गुणसमकक्षः, ततो भवति प्रतिपत्तिः “यथाऽणुत्वमहत्त्वे नाणुत्व- महत्त्ववती, तथा कर्माणि गुणाश्च नाणुत्वमहत्त्ववन्त" इति भावः । यथा कर्म गुणश्च नाणुत्वमहत्त्वाश्रयस्तथा सामान्यं समवायो विशेषोऽपि द्रष्टव्यः । समानयोगक्षेमत्वात् ॥ १६ ॥ अणुवमहत्त्वे परीक्ष्य ह्रखत्वदीर्घत्वयोस्तत्परीक्षातिदेशमाह- "एतेन दीर्घत्वहखत्वे व्याख्याते ॥१७॥ एतेन अणुत्वमहत्त्वयोरणुत्वमहत्त्वाभाववत्तया व्याख्यानेन दीर्घत्वह- खत्त्वे तदेकार्थसमवेते हखत्वदीर्घत्वे अपि व्याख्याते-हखत्वदीर्घत्वाभाव- वती व्याख्याते वेदितव्ये इत्यर्थः । यत्राणुत्वं तत्रैव ह्रखत्वं, यत्र च महत्त्वं तत्रैव दीर्घत्वम् । यदेवाणुत्वो- त्पादकं, तदेव ह्रखत्वोत्पादकम् । यदेव च महत्त्वोत्पादकं, तदेव दीर्घ- लोत्पादकम् । यथाऽणुत्वं नाणुत्ववत् , महत्त्वं च न महत्त्ववत् । तथा ह्रख- त्वमपि न हखत्ववत् , दीर्घत्वं च न दीर्घत्ववदिति भावः । कारणाभेदेऽपि कार्यभेदो 'महत्सु दीर्घमानीयता, दीर्धेषु च महदा- नीयताम्' इत्यादि व्यवहारादुपपद्यते । समानयोगक्षेमयोश्चैकत्र वृत्त्यविरो- धान्नैकस्मिन्नपि परिमाणद्वयवृत्त्यनुपपत्तिरिति निश्चयम् ॥ १७ ।। ननु किमिदं चतुर्विधं परिमाणमनित्यम् , उत नित्यं ? तत्राह- "अनित्येऽनित्यम् ॥ १८॥ तदेतच्चतुर्विधं परिमाणमनित्ये नित्यमिन्ने जनिविनाशयोगिनि द्रव्येऽ- नित्यं तद्विनाशानुविनाशयोगीत्यर्थः ॥ १८ ॥ ननु भवत्वनित्येऽनित्यं, नित्ये तत् कीदृशं ? तत्राह- "नित्ये नित्यम् ॥ १९॥ नित्ये नित्यद्रव्ये वर्तमानमेतन्नित्यं-सततभावीत्यर्थः । आश्रयनाशेनैव परिमाणनाशस्य नियमादिति भावः ॥ १९॥ ननु किन्तन्नित्यं परिमाणं ? तत्राह- "नित्यं परिमण्डलम् ॥ २० ॥ . - . - १९ १ वैशेषिकदर्शनम् । [आँधम् परिमण्डलं-परमाणुपरिमाणस्येयं तान्त्रिकी परिभाषा, परमाणुप- रिमाणं नित्यम् आश्रयनित्यत्वान्नित्यमित्यर्थः। खार्थप्रत्ययात् 'पारिमण्डल्यम्' इत्यपि वैशेषिकानां परमाणुपरि- माणस्य पारिभापिकी संज्ञेति बोद्धव्यम् ॥ २० ॥ ननु परिमण्डलसद्भावे कि प्रमाणं तत्राह- "अविद्या च विद्यालिङ्गम् ॥ २१ ॥ अविद्या च-कुवलयामलकबिल्वेषु समिदिक्षुप्रभृतिषु च पारमार्थि- काणुत्वह्रस्वत्वाभाववत्सु जायमानमणुत्वहखत्वप्रकारकं ज्ञानमविद्या, सा च नियमेन विद्यापूर्वकत्वाद् विद्यालिङ्ग पारमार्थिकाणुत्वहखत्वगोचर- विद्यायां लिङ्ग-प्रमाणमित्यर्थः । विद्यापूर्विका ह्यविद्येति नियम', सदसदनिर्वचनीयख्यातित्रयनिरासेना- न्यथाख्यात्यभ्युपगमात् । विद्या च तद्वति तत्प्रकारिका संवित् । अतो भवति प्रतिपत्तिः 'अस्ति क्वचित्पारमार्थिकमणुत्वं ह्रखत्वं च परिमाणद्वयं' यद्गो-~ चरविद्यापूर्विकेयमविद्येति भावः ॥ २१ ॥ परमाणुषु नित्यमणुपरिमाणं सप्रमाणमभिधायेश्वराकाशयोनित्यं मह- परिमाणं हेतुनाऽभिदधाति- "विभवान्महानाकाशस्तथाचात्मा ॥२२॥ विभवात्-सोपसर्गाद् भवतेरच, विभुभावादाकाशः नाको- महान् परममहत्परिमाणवान् , तथा चात्मा सामान्यशब्दोऽयम् , अत्रा- काशसन्निधानात्परमात्मानमाह, अग्रिमसूत्रे चानुवर्तमानो मनःसन्निधाना- ज्जीवात्मानमभिधास्यति, चोऽप्यर्थो भिन्नक्रमः, परमात्माऽपि तथा विभवात्परममहत्परिमाणवानित्यर्थः । तत्राकाशे सापेक्षं महत्त्वम् । सर्वमूर्तद्रव्यसंयोगित्वं च विभुत्वम् । पर- मात्मनि च निरपेक्षं महत्त्वम् । सर्ववस्तुबहिरन्तर्वर्तमानत्वं च विभुत्वमिति विवेक. ॥ २२॥ ननु जीवात्मा किंपरिमाणकः? तत्राह- "तभावादणु मनः ॥ २३ ॥ " - आह्निकम्] सप्तमोऽध्यायः । १४७ आत्मेत्यनुवर्तते । तदभावात्-विभवाभावान्मनआत्मा मनोवानात्मा जीवात्मेति यावदणु-अणुपरिमाण इत्यर्थः । वैशेषिकाः हि सच्चित्स्वरूपं जीवात्मानमाहुः । सच मिथ्याज्ञानपूर्व- कान्मनःसम्बन्धाद् बध्यते । विवेकज्ञानेन मिथ्याज्ञाननिवृत्त्या सम्बन्धनि- वृत्तौ च मुच्यते । न चास्यैतौ बन्धमोक्षौ स्वरूपनिबन्धनौ भवतः, सर्वदा तदन्यतरप्रसक्तेरवर्जनात् । अपिच स्वभावनिबन्धनौ युक्तौ । स्वभावश्च वस्तुमात्रस्यापर्यनुयोज्यः । तेन ह्ययं कदाचिन्मिथ्याज्ञानाद् बन्धं प्राप्नोति, विवेकज्ञानाच कदाचिन्मोक्षमधिगच्छति । बन्धं प्राप्नुवश्च नायं खरूपतः किंचिदपक्षीयते । मोक्षं चाधिगच्छन्नायं स्वरूपतः किंचिदभिवर्द्धते । स- मानं खल्वस्य रूपं सर्वास्ववस्थासु भवति, न जातु प्रत्यवस्थं मात्रयापि विषमम् । अतएव चैनं वैदिकाः सर्वे नित्यशुद्धबुद्धमुक्तखभावमाचक्षते । विशे- षस्तु तत्रेयानेव-यदयं बन्धावस्थायां मनःप्रतिबिम्बनेन तत्तादात्म्यमापन्नः खसमारोपितया तद्वृत्त्या सर्वान् सुखदुःखमोहात्मकान् बाह्याभ्यन्तरविषया- नुपलभते, यत्रेदमुक्तं भवति-"योऽयं विज्ञानमयः प्राणेषु हृद्य- न्तज्योतिः पुरुषः, स समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव" (वृ.अ. ६ वा. ३-कं. ७)। इति । मो- क्षावस्थायां च निवृत्ताखिलप्राकृतसम्बन्धः परमानन्दाब्धिना भगवता - ह्मणा तादात्म्यमापन्नः शोकादितो विनिर्मुच्य ब्रह्मैव भवन् स्वात्मना चिता तत्स्वरूपानन्दमुपभुते, यत्रेदमुक्तं भवति-"जुष्टं यदा पश्यत्यन्य- मीशमस्य महिमानमिति वीतशोकः" "निरञ्जनः परमं साम्यमुपैति" (मुं. ३-खं. १-२-३) "ब्रह्मविदाप्नोति परम्" (तै. व्र. व. अनु. १-१) "आनन्दं ब्रह्मणो विद्वान् नबिभेति कदाचन" (तै.व. व. अनु. ९) "ब्रह्मैव सन् ब्रह्माप्यैति" (वृ. अ. ६-बा. ४-कं. ६) इत्यादि-इति । तत्र मनश्च प्राणेन्द्रियाधि- छातृ मध्यमपरिमाणं प्रारब्धकर्मणा यादृशं शरीरं प्रविशति, तादृशं भवति, किंबहुना-सङ्कुचिते तस्मिन् सङ्कोचमापद्यते, विस्तृते च विस्तारम् । एत- देव च सपरिवार सङ्कोचविकाशशीलं चित्तं वैदिकैर्लिङ्गमिति परिभाष्यते।

(१४८ वैशेषिकदर्शनम् । [आधम् यत्रेदमुक्तं भवति-"तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य” (वृ.अ. ६-बा. ४-कं. ६) "ससदशैकं लि- गम्" (सां.अ. ३-सू. ८) इति। तचैतत्प्रकृतिकार्य्यत्वेऽपि सात्त्विकत्वा- प्रकाशस्वभावमात्मप्रतिबिम्बेन भानुवद् देदीप्यमानं भवदाऽऽनखादा च मूर्ध्नः शरीरमात्रं दीपयति । स्वानुचरैश्च घ्राणादिभिरिन्द्रियैर्गन्धादीन- नादाय हृद्यन्तोतिषं तं धीसचिव इव सम्राजं निवेदयति । स च शरी- रैकदेशे हृदि स्थितोऽप्यपरिणामित्वात्खात्मभूतेन तेन युगपत्सर्वाङ्गीणं शैत्यं शिरोवेदनां पादसुखं च जानाति । जानॅश्च सुखमिच्छति, दुःख च द्वेष्टि । ज्ञानेच्छादयश्चोत्पादविनाशशालिनः सर्वे विशिष्टस्यैव गुणाः भवन्ति, न केवलस्यात्मनः, तस्य कूटस्थनित्यत्वेन ज्ञानादिपरिणामानभ्युपगमात् । वि- शिष्टश्च मध्यमपरिमाण इति सर्वमनवद्यम् । केवलात्मा च नेश्वरवद् व्या- पको भवितुमर्हति। व्यवस्थातस्तस्य नानात्वेन प्रत्येकसिन् शरीरे सर्वेषां तेषां विद्यमानतया कस्येदं शरीरमित्यनिर्धारणप्रसङ्गात् । सर्वात्मसन्निधौ क्रि--- यमाणानां चादृष्टानां स्वयमनिर्धारिततया तन्निर्धारकत्वासम्भवात् । नापि तदभ्युपगमः श्रेयान् प्रतिभासते । कर्मफलप्रदातुरीश्वरस्येच्छया तत्तद्देशवि- शेषे तत्तदृष्टसम्बन्धोपपत्तौ फलानुपलम्भात् । किंचात्मत्वव्यापकत्वयोः साम्ये कस्मादेकस्तावदीश्वरो जातोऽपरश्च जीव इति विभुवादिनस्ते दुरुत्तरं प्रसज्यते । न च ज्ञानादिनित्यत्वानित्वाभ्यामित्येतदुत्तरं सदुत्तरं मन्तव्यम् । द्वयोः साम्ये कस्सादेकस्य ज्ञानादिकं नित्यं जातमपरस्य चानित्यमिति तत्रापि प्रश्नोपपत्तेः। न च स्वभावादित्येषा साध्वी कल्पना प्रकारान्तरासं- भवे खभावाश्रयणस्य युक्तत्वात् । नापि प्रत्यगात्मनो व्यापकत्वे किंचित्प्र- माणमुपलभ्यते । “स वा एषमहानजा" (वृ.अ.६-बा.४-कं.२२) इत्यादिश्रुतीनामीश्वरपरत्वेन तत्परत्वाभावात् । “एषोऽणुरात्मा चे- तसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश । (मुं. ३ -खे. १-९) "वालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते" (धे. अ. ५-९) इत्यादिमिरणुल्वपरैः श्रुत्यन्तरैश्च विरोधेन तासां तत्परत्वकल्प-

आह्निकम्]
सप्तमोऽध्यायः।
१४९
नाऽसंभवात् । न च "जीवोऽनणुः प्रत्यक्षगुणाश्रयत्वात् प्रत्यक्षत्वाच्च घट-
वत्" इत्यनुमानद्वयं प्रमाणम् ।जीवशब्देन विशिष्टाभिधाने सिद्धसाधनात् ।
आत्ममात्राभिधाने च तत्र प्रत्यक्षगुणाश्रयत्व-योगीतरप्रत्यक्षत्वयोरनभ्युपग-
-- मेन हेत्वसिद्धेः । दुःखप्रागभावानधिकरणत्वोपाधेश्च । एतेन "जीवोs-
नणुः, आत्मत्वात् अभूतत्वाच, ईश्वरवत्" इत्यनुमानद्वयं प्रमाणमित्यपि
निरस्तम् । अत्रापि साधनावच्छिन्नसाध्यव्यापकस्य सर्वज्ञत्वादेरुपाधि-
त्वात् । अन्यच्च नास्ति किंचित्प्रमाणम् । अतो व्यापकत्वाभावादव्यापकत्व-
सिद्धौ मध्यमपरिमाणस्यनित्यत्वेन निरस्ततया सिद्धः पारिशेष्यादणुपरि-
माणो जीव इति भावः।
यत्तु मूर्तिपूजायां जीवव्यापकत्वसाधनं,तत्तु पौराणिकम् । अतः किं तेन ।
शङ्करमिश्रप्रभृतयस्तु सर्वे व्याख्यातारो मनःपरिमाणपरमेतत्सूत्रं व्याचक्षते।
तन्न सम्यग् । “अन्नमय हि सोम्य मनः" (छा.प्रपा.६-खं. ५-४)
"एतस्मात्मजायन्ते मनःसर्वेन्द्रियाणि च” (मुं.२-खं.१-३)
इत्यादिश्रुतिभिर्मनसो जन्युपलब्धेरणुत्वासम्भवात् । वैदिकसिद्धान्तप्रका-
शनाय प्रवृत्तानां महर्षीणां दर्शने चौपनिषदवचोविरोधायोगात् । सापेक्षाणु-
त्वाभिप्रायेण व्याख्याने तु नास्ति कश्चिद् विरोध इति सर्व चतुरस्त्रम्॥२३॥
ननु दिक्कालयोरपि परिमाणं व्याख्येयं ? तत्राह-
"गुणैर्दिग् व्याख्याता ॥२४॥
मण्डूकप्लुतिन्यायेन महतीति विपरिणम्यानुर्वतते । गुणैः सकलद्वीपवर्ति-
पुरुषमात्रसाधारणपरापरव्यवहारासाधारणकारणसर्वमूर्त्तद्रव्यनिष्ठपरत्वापरत्व-
लक्षणगुणैर्दिक्याच्यादिव्यपदेशभाग् दिग् व्याख्याता=महती व्याख्याता
द्रष्टव्येत्यर्थः।
परापरव्यवहारस्तावत्सर्वत्राविशिष्टः, तदसाधारणकारणे च परत्वापरत्वे,
तत्र च दिपिण्डसंयोगोऽसमवायिकारणम् । चेद् दिग् विभ्वी न भवेत् ,
तदा सर्वत्राविशेषणोक्तव्यवहारो नोपजायेत । जायते च। तस्मात्सा विभ्वी,
विभ्वीत्वाच्च महतीति भावः ॥ २४॥

१५० वैशेषिकदर्शनम् । [आयम् "कारणेन कालः ॥ २५ ॥ महानिति मण्डूकप्लुतिन्यायेन, व्याख्यात इति च विपरिणम्य पूर्ववद्नु- वर्तते । कारणेन सर्वोत्पत्तिमन्निमित्तकारणत्वेन हेतुना कालः कालपदार्थों महान् व्याख्यात इत्यर्थः । यावदुत्पत्तिमन्निमित्तकारणत्वं कालस्य विभुत्वं विना नोपपद्यते, विभु- त्वाचाकाशादिवत्कालो महानिति भावः । "कारणे काल:" इत्यपि प्रायः पाठः । तत्र च सर्वोत्पत्तिमतां कारणे निमित्ततया सम्बध्यमानः कालो महानित्यर्थः ॥ २५ ॥ रूपं रसस्तथा गन्धः स्पर्शों मानं चतुर्विधम् । गुणोद्देशं च संस्मार्य प्रथमेऽस्मिन् परीक्षितम् ॥१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्यात्मारामभगव- त्पादशिष्यहरिप्रसादकृतायां वैशेपिकसूत्रवैदिकवृत्ती सप्तमाध्यायस्याद्यमाहिकम् ॥

- ? , आह्निकम्] सप्तमोऽध्यायः। १५१ अथ सप्तमोऽध्यायः। द्वितीयमाह्निकम् । परिमाणं परीक्ष्य संख्या परीक्षितुकामः पूर्वन्तस्याः रूपादितोऽर्थान्त- रत्वमाहन "रूपरसगन्धस्पर्शव्यतिरेकार्थान्तरमेकत्वम् ॥१॥ एकत्वम्=एको घटः, एको मठ इत्यादिव्यवहारकारणमेकत्वमर्थान्तरं रूपादिभ्योभिन्नोऽर्थः भिन्नमिति यावत् , कुतः १ रूपरसगन्धस्पर्शव्यतिरे- कात्-रूपादिकमुपलक्षणं, रूपादिव्यतिरेकेऽप्युक्तव्यवहारस्य जायमानत्वा- दित्यर्थः । एकत्वं चेद् रूपादितोऽर्थान्तरं न भवेत् , तदा यत्राकाशादौ रूपादिक नास्ति, तत्रैकमाकाशमित्यादिकः संख्यानिबन्धनो व्यवहारो नोपजायेत । जायते च। ततो भवति प्रतिपत्तिः "एकत्वं रूपादितोऽर्थान्तरम्" इति भावः। अतिदिशति- "तथा पृथक्त्वम् ॥२॥ रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमित्यनुवर्तते । तथा यथैकत्वं तथा पृथक्त्वम् एकपृथक्त्वं रूपरसगन्धस्पर्शव्यतिरेकाद् रूपादितोऽर्थान्तर- मित्यर्थः ॥२॥ ननु यथैको घटः,एको मठः, घटो मठात्पृथग, मठो घटात्पृथग्, इत्या- दिव्यवहाराद् घटमठादावेकत्वैकपृथक्त्वे, तथैकमेकत्वं, रूपादितः पृथक् पृथ- क्त्वमित्यादिव्यवहारादेकत्वैकपृथक्त्वयोरप्येकत्वैकपृथक्त्वे स्याता,तत्राह- "एकत्वैकपृथक्त्वयोरेकत्वैकपृथक्त्वाभावोऽणुत्वमह- स्वाभ्यां व्याख्यातः ॥३॥ एकत्वैकपृथक्त्वयोः एकत्वे चैकपृथक्त्वे चैकत्वैकपृथक्त्वाभावः यथा- संख्यमन्वयः,एकत्वाभाव एकपृथक्त्वाभावश्चाणुत्वमहत्त्वाभ्याम् अणुत्वमह- स्वाभाववद्भ्यामणुत्वमहत्त्वाभ्यां व्याख्यातः कथितो वेदितव्य इत्यर्थः । यथा ह्मणो वोऽणुत्वं नाणुत्वे. महतो भावश्च महत्त्वं न महत्त्वे, तथै- । 4 । - - -- --- 1 १५२ वैशेषिकदर्शनम् । [द्वितीयम् कस्य भाव एकत्वं नैकत्वे, पृथग्भावश्च पृथक्त्वं न पृथक्त्वे भवतः, स्वस्य खभावानुपपत्तेरिति भावः ॥ ३ ॥ ननु द्रव्यवद्गुणकर्मणोरप्येकत्वादिव्यवहारदर्शनात्सर्वसाधारणन्तावदे- कत्वं किन्न स्यात् ? तत्राह- "निःसंख्यत्वात्कर्मगुणानां सर्वैकत्वं न विद्यते ॥४॥ कर्मगुणानां कर्मणां गुणानाञ्च निःसंख्यत्वात्-संख्यातो निष्कान्त- त्वात्-संख्याशून्यत्वादिति यावत्सर्वैकत्वं सर्वसाधारणं-द्रव्यगुणकर्मसाधा- रणमेकत्वं संख्या न विद्यते न भवतीत्यर्थः द्रव्यस्यैव गुणकर्माश्रयत्वाभ्युपगमादिति भावः ॥ ४ ॥ ननु कर्मगुणानाञ्चेन्नि संख्यात्वं, तदा 'एकं कर्म, एक रूपम्' इत्यादि- ज्ञानं तत्पूर्वकः शब्दव्यवहारश्च कथं स्यात् ? तत्राह- "भ्रान्तं तत् ॥५॥ तत्-एक कर्मेकं रूपमित्यादि कर्मगुणसाधारणमेकत्वज्ञानं भ्रान्तं भ्रमरूपं-न प्रमात्मकमित्यर्थः । तस्मात् तत्पूर्वकः शब्दप्रयोगोऽपि भाक्तः, स्वरूपाभेदश्चात्र भक्तिरिति भावः ॥५॥ ननु कर्मगुणयोरिव द्रव्येऽप्येकत्वज्ञानं भ्रान्तं, तत्पूर्वकः शब्दप्रयो- गश्च भाक्तो भवतु, किन्तत्र परमार्थिकैकत्वाभ्युपगमेन, तत्राह- "एकत्वाभावाद्भक्तिस्तु न विद्यते ॥६॥ एकत्वाभावात्=कुत्रापि मुख्यैकत्वानभ्युपगमाद् भक्तिस्तु भाक्तशब्द- प्रयोगप्रयोजिका भक्तिरेव न विद्यते न स्वरूपं लभते इत्यर्थः । भक्तिर्हि समानो धर्मः सादृश्य-गुण इति यावत् , उभाभ्यां धर्मिभ्यां मज्यते सेव्यते योऽसौ धर्मः, स भक्तिरिति तद् व्युत्पत्तेः । तन्निवन्धनः पदपदार्थयोः सम्बन्धोऽपि भक्तिः । ततः प्राप्तो भाक्तो गौणो लाक्षणिक इति च पर्यायः । सा च 'कस्य कुत्र' इति सापेक्षधर्मत्वादसति मुख्य प्रति- योगिनि नोपपद्यते। न हि मुख्यसिंहाभावे कश्चिदमुख्यः सिहः सम्भवति । तसादकामेनापि मन्तव्यम्- 'भस्ति मुख्यः कश्चित्सिंहः, यत्र सिहशब्दप्रयो- आहिकम्] सप्तमोऽध्यायः । १५३ गो मुख्यः, पुरुषे च तदपेक्षभक्तिनिबन्धनो भाक्तः इति । तथैव द्रव्येऽपि, चेत् कर्मगुणयोरिव मुख्यमेकत्वं नाभ्युपगम्येत, तदा कुत्रापि तदभ्युपग- माभावात् तदपेक्षानियता भक्तिरपि तत्र न विद्येत । सुतरां च भाक्तः शब्दप्रयोगः । अतोऽवश्यं कुत्रापि पारमार्थिकं तावदेकत्वमभ्युपगन्तव्यम् । न च द्रव्यादन्यत्र तदभ्युपगमो युक्तः । तव्यतिरिक्तस्य सर्वस्य निर्गुणत्वेन गुणाश्रयत्वासम्भवात् । द्रव्ये तदभ्युपगतौ च पारमार्थिकैकत्वस्य तत्र स- द्भावान्न तगोचरं ज्ञानं भ्रान्तं, न वा तत्पूर्वकः शब्दप्रयोगो भाक्त इति भावः । एतेन मुख्यमेकपृथक्त्वमपि द्रव्ये व्याख्यातमिति द्रष्टव्यम् ॥६॥ ननु स्यातामेकत्वैकपृथक्त्वे द्रव्ये मुख्ये, तथापि तस्य कार्यकारणभे- देन द्वैविध्याभ्युपगमात् तत्रोभयत्रैकत्वैकपृथक्त्वयोरेकत्वे "कारणगु- णपूर्वकाः कार्यगुणा भवन्ति" इति कथमुपपद्येत ? तत्राह- "कार्यकारणयोरेकत्वैकपृथक्त्वाभावादेकत्वैकपृथक्त्वं न विद्यते ॥७॥ कार्यकारणयोः कार्ये कारणे चोभयत्रैकत्वैकपृथक्त्वाभावात् एकत्व- मभेदः, एकपृथक्त्वं चावलक्षण्यं, तदभ्युपगमाभावादेकत्वैकपृथक्त्वम् एकत्वमेकपृथक्त्वं च न विद्यते एकं न वर्तते इत्यर्थः । कार्ये ह्यन्यदेकत्वैकपृथक्त्वं, कारणे चान्यत्। तयोः कार्य्यत्वकारणत्वा- भ्यां भेदाभ्युपगमात् । न च कार्ये तदाकस्मिकं, किंतु कारणगुणपूर्वकम् । अतः "कारणगुणपूर्वकाः कार्यगुणा भवन्ति" इति नानुपपन्नमितिभाव ॥७॥ ननु यदेतत्कारणगुणपूर्वकत्वं व्याख्यातं, तत्कि सर्वत्रैकत्वादिसंख्या- पृथक्त्वयोर्विज्ञातव्यं ? तत्राह- "एतदनित्ययोाख्यातम् ॥ ८॥ एकत्वैकपृथक्त्वयोरिति विपरिणम्यानुवर्तते । एतत् कारणगुणपूर्वक- त्वमनित्ययोः अनित्यगतयोरेकत्वैकपृथक्त्वयोरेव व्याख्यातं व्याख्यातं द्र- ष्टव्यमित्यर्थः। तत्र 'एक द्वे त्रीणि' इत्यादि व्यवहारहेतुः संख्या । सा चैकानैक- द्रव्याश्रया। तत्रैकं द्रव्यं नित्यानित्यमेदाद् द्विविधम् । सा नित्यगता नित्या । २० १५४ वैशेषिकदर्शनम् । [द्वितीयम् अनित्यगता चानित्या । सैव कारणगुणपूर्विका । स्वाश्रयनाशेन च नाश्या। द्वित्वादिका पराद्धर्चपर्य्यन्ता चानेकद्रव्याश्रया । सा न कारणगुणपूर्विका । किंत्वपेक्षाबुद्धिपूर्विका । तन्नाशेन च नाश्या । तत्र च पदार्थद्वयादि समवा- यिकारणम् । तद्गतमेकत्वमसमवायिकारणम् । अपेक्षाबुद्धिनिमित्तकारणम् । एकपृथक्त्वं चैकत्ववद्, द्विपृथक्त्वादिकं च द्वित्वादिवदिति विवेकः॥८॥ क्रमप्राप्तं संयोगं परीक्षयति- "अन्यतरकर्मज उभयकर्मजः संयोगजश्च संयोगः ॥९॥ अन्यतरकर्मजः ययोर्द्वयोः संयोगः, तयोरन्यतरस्य कर्मणा जन्यः उभय- कर्मजः-स्वाश्रयस्योभयस्य कर्मणा जन्यः । सयोगजश्व कारणाकारणसं- योगजन्यश्च संयोगः संयोगपदार्थों भवतीत्यर्थः तत्र संयुक्तप्रत्ययहेतुरप्राप्तयोः प्राप्तिः संयोगः। स त्रिविधः-अन्यतरक- र्मजः, उभयकर्मजः, संयोगजश्च । निष्क्रियस्य क्रियावता संयोगः प्रथमः, यथा महीधरस्य श्येनेन, विभुनश्च मूर्तेन । विरुद्धदिक्रिययोः सयोगो द्वितीयः, यथा मल्लस्य मल्लेन, मेषस्य च मेषेण । कारणाकारणसंयोगपूर्वकः कार्या- कार्यसंयोगस्तृतीयः, यथाऽङ्गुलितरुसयोगाद्धस्ततरुसंयोगः, हस्ततरुसंयो- गाद्वा शरीरतरुसयोगः, यथा वा तन्तुतरुसंयोगात्पटतरुसंयोगः, हस्तसंयु- क्तदण्डामध्यसयोगाद्वा शरीरामध्यसंयोगः । सोऽयं त्रिविधः सन्नपि नोदना- भिघातभेदाद्विविधः, द्रव्यगुणकर्मजनकश्च पूर्वोपवर्णितरीत्या निश्चय इति विवेकः ॥ ८॥ अतिदिशति- "एतेन विभागो व्याख्यातः ॥१०॥ एतेन संयोगत्रैविध्यव्याख्यानेन विभागः तत्प्रतिद्वन्द्विविभागोऽपि व्या. ख्यातः त्रिविधो व्याख्यात इत्यर्थः । तत्र विभक्तप्रत्ययहेतुः प्राप्तिपूर्विकाऽप्राप्तिर्विभागः । स च संयोगवत् त्रिविध.-अन्यतरकर्मजः, उभयकर्मजः, विभागजश्च । श्येनमहीधरयोर्वि- भागः प्रथम मल्लयोर्मेपयोश्च विभागो द्वितीयः । तृतीयस्तु द्विविधः-कार- णविभागपूर्वक. कारणाकारणविभागः, कारणाकारणविभागपूर्वकः कार्या- आहिकम्] सप्तमोऽध्यायः। १५५ , कार्यविभागश्चेति। पूर्व कपाले कर्म, ततः कपालद्वयविभागः, ततो घटा- रम्भकसंयोगनाशः, ततो घटनाशः, ततस्तेनैव कपालविभागेन यः सक- मणः कपालस्याकाशाद्विभागः, स प्रथमः । अड्डलिहस्ततन्तुक्रियातो जाय- मानेनाङ्गुलिहस्ततन्तुतरुविभागेन यो हस्तशरीरपटतरुविभागः, स द्वितीय इति विवेकः ॥ १० ॥ ननु संयोगविभागयोः संयोगविभागाभावाव्याख्याने तयोर्द्रव्यमानव- तित्वनियमो न सङ्गच्छते, तत्राह- "संयोगविभागयोः संयोगविभागा- भावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः ॥ ११ ॥ संयोगविभागयोः संयोगे विभागे च संयोगविभागाभावः यथासंख्य- मन्वयः, सयोगाभावो विभागाभावश्चाणुत्वमहत्त्वाभ्याम् अणुत्वमहत्त्वाभा- ववयामणुत्वमहत्त्वाभ्यां व्याख्यातः प्रतिपादितो द्रष्टव्य इत्यर्थः । यथाऽणुत्वमहत्त्वयोरणुत्वमहत्त्वे न स्तः, तथा संयोगविभागयोः संयोगवि- भागौ न भवत इति भावः ॥ ११ ॥ ननु विस्तरेणैतद् व्याख्येयं, येन सम्यगधिगच्छेम १ तत्राह- "कर्मभिः कर्माणि, गुणैश्च गुणा अणुत्वमहत्त्वाभ्या- मिति ॥१२॥ व्याख्यातमिति विपरिणम्यानुवर्तते । तदेतत् "कर्मभिः कर्माणि गुणैश्च गुणा व्याख्याताः" (वै. अ ७ आ. १ सू. १५) "अणु- त्वमहत्त्वाभ्यां कर्मगुणाच" (वै.अ.७ आ. १ सू १६) इत्यत्र विस्तरेण व्याख्यातमित्यर्थः ॥ १२ ॥ ननु यथा कार्याकार्ययोः कारणाकारणयोश्च संयोगविभागौ प्रदर्शितौ, तथा कार्यकारणयोस्तौ कुतो न प्रदश्यते ? तत्राह- "युतसिद्ध्यभावात्कार्यकारणयोः संयोगविभागौ न, विद्यते ॥१३॥ कार्यकारणयोः कार्यकारणभूतयोर्द्रव्ययोः । संयोगविभागौ-संयोगश्च . - -- १५६ वैशेषिकदर्शनम् । [द्वितीयम् विभागश्च न विद्यतेन स्तः, कुतः १ युतसिद्धयभावात्-पृथग्भूतयोस्त- योरवस्थानासम्भवादित्यर्थः । युतसिद्ध्या नियतौ हि संयोगविभागौ । सा च परस्परमसम्बन्धिनोः सतोः पृथगवस्थितिः । न च सा कार्याकार्ययोः कारणाकारणयोरिव वा कार्यकारणयोः सम्भवति । कारणस्य कार्यासम्बन्धिनः सतः पृथगवस्थिति- सम्भवेऽपि कार्य्यस्य तदसम्भवात् । अतोन तयोस्तौ भवत इति भावः॥१३॥ संयोगसम्बन्धस्य प्रकृतत्वात्सम्बन्धत्वाविशेषेणोपस्थितं शब्दार्थयोः सम्बन्धं साङ्केतिक निर्धारयिष्यन्नादौ तयोः संयोगादिकं प्रतिक्षिपति- "गुणत्वात् ॥१४॥ शब्दस्यार्थेन संयोगो न भवतीति प्रतिज्ञाशेषः। तत्र हेतुः-गुणत्वात्-गु- णपदार्थत्वादित्यर्थः। घटः पट इत्यादिकःशब्दः । स गुणः । घटपटादिरर्थः । स च द्रव्यम् । द्रव्यगुणयोश्च सतोस्तयोर्युतसिद्धयभावात्सयोगाभाव इति भावः ॥ १४॥ किंच- "गुणोऽपि विभाव्यते ॥१५॥ न केवलं द्रव्यम् , अपि च गुणोऽपि-गुणपदार्थोऽपि विभाव्यते-श- ब्देन प्रतिपाद्यते इत्यर्थः । गुणयोश्च सतोस्तयोर्न संयोगसम्बन्धसंभव इति भावः ॥ १५ ॥ संयोगाभावे हेत्वन्तरमाह- "निष्क्रियत्वात् ॥१६॥ शब्दस्य क्रियाशून्यत्वादर्थेन संयोगो न भवतीत्यर्थः । गुणत्वानिष्क्रियः शब्दः, संयोगस्तु क्रियाजन्य इति भावः । आकाशादेविभवानिष्क्रियत्वेनार्थकर्मजोऽपि संयोगो न सम्भवतीत्यपि द्रष्टव्यम् ॥१६॥ संयोगाभावेऽन्यं हेतुमाह- "असति नास्तीति च प्रयोगात् ॥१७॥ भिन्नक्रमश्वः । असति अविद्यमाने घटपटादिपदार्थ नास्तीति प्रयोगा- - आहिकम्] सप्तमोऽध्यायः। १५७ -भविष्यतीति प्रयोगोऽपि द्रष्टव्यः, नास्ति घटो भविष्यति पट इत्यादि- प्रयोगदर्शनाच न शब्दस्यार्थेन संयोगः सम्भवतीत्यर्थः । यन्न विद्यते, यच्चोत्पत्स्यते, तदुभयमसदिति शब्द्यते । तच्च शब्दो ..वोधयति । न च सम्बन्धमन्तरेणैतदुपपद्यते । सम्बन्धश्च सतोरेव भ- वति न सदसतोरिति भावः ॥१७॥ ननु मास्तु संयोगः किमतः १ तत्राह- शब्दार्थावसम्बन्धौ ॥ १८॥ शब्दार्थो शब्दश्वार्थश्वासम्बन्धौ-सम्बन्धरहितौ सिद्धावित्यर्थः ॥१८॥ ननु न नः केवलं संयोग एवैकः सम्बन्धः, समवायस्याप्यभ्युपगमात् , अतस्तयोरन्यतरः कश्चित्सेत्स्यति, कुतस्तदसम्बन्धसिद्धिः, तत्राह- "संयोगिनो दण्डात्, समवायिनो विशेषाच ॥१९॥ पूर्वसूत्रमनुवर्तते। न, यथा, तथा, प्रत्ययो भवतीतिशेषः। दण्डात् यथा दण्डदर्शनासंयोगिनः दण्डसंयोगिनः पुंसः प्रत्ययः दण्डवान्पुरुषोऽयमिति प्रत्ययः, विशेषाच अवयवविशेपदर्शनाच समवायिनः अवयवसमवायिनः प्रत्ययः हस्तीति प्रत्ययो भवति, न तथा शब्दश्रवणादर्थप्रत्ययः, अतस्तद- न्यतरसम्बन्धरहितौ शब्दार्थावित्यर्थः । चेदर्थेन शब्दः संयुज्येत, तत्र वा समवेयात्, तदाऽवश्यं 'दण्डी पुरुषः, हस्ती कुञ्जरः' इत्यादि प्रत्ययवद् 'घटशब्दवान् घटोऽर्थः इत्यादिप्रत्य- योऽपि जायेत । शब्देनार्थसंयोगे च मोदकाग्निक्षुरशब्दानामुच्चारणे मुखस्य पूर्ण दहनं पाटनं चोपलभ्येत । न च तथा प्रत्ययो जायते, न वा मुखस्य पूर्णादिकमुपलभ्यते । ततो भवति प्रतिपत्तिः "नास्ति शब्दार्थयोः संयोगो वा समवायो वा कश्चित् सम्वन्धः" इति भावः ॥ १९ ॥ ननु चेदसम्बन्धौ शब्दार्थों, तर्हि किन्निमित्तको नियमेन शब्दादर्थ- प्रत्ययः१ तबाह "सामायिकः शब्दार्थप्रत्ययः ॥२०॥ शब्दात्-घटपटादिपदादर्थप्रत्ययः घटपटादिपदार्थावबोधः सामयिका "असाच्छब्दादयमों बोद्धव्यः" इति भगवन्नियोगात्मकः सङ्केतः समयः, - १५८ वैशेषिकदर्शनम् । [द्वितीयम् स एव च पदपदार्थयोः सम्बन्धस्य हेतुत्वात्सम्बन्धो वृत्तिरिति चानन्तरं, तदवगतिनिबन्धनो भवतीत्यर्थः । यस्य पदस्य हि यस्मिन्नर्थे वृत्तिराप्तोपदेशादिना पूर्वमवगम्यते, तज्ज्ञा- नादेवास्य पुंसोऽर्थज्ञानमुत्पद्यते, नान्यज्ञानात्, अतस्तत्र तदवगतिरपि निमित्तम् । विषयिणो निमित्तत्त्वे विषयस्यापि निमित्तत्वात्सामयिकः शब्दाद- र्थप्रत्यय इति भावः। तत्र वृत्तिर्द्विविधा-शक्तिलक्षणा च । पदपदार्थयोः साक्षात्स- म्बन्धः शक्तिः। तस्या आश्रयत्वात्पदं शक्तं, गोचरत्वादर्थः शक्यः। स च विशेषणतया जातेः प्रथममुपस्थितत्वाद् व्यक्तिलाभस्य चानुमानेन सम्भ- वाज्जातिरिति मीमांसकाः, गामानय इत्यादौ सर्वत्रानयनादेर्व्यक्तावेव सम्भवेन जातिविशिष्टा व्यक्तिरिति वैशेषिकाः। पदपदार्थयोः परम्प- रासम्बन्धो लक्षणा । तस्या आश्रयत्वात्पदं लाक्षणिकं, गोचरत्वा- दर्थों लक्ष्यः। सा च द्विविधा केवललक्षणा, लक्षितलक्षणा च। शक्य- साक्षात्सम्बन्धः केवललक्षणा । सा च द्विविधा-जहल्लक्षणा, अजहलक्षणा च । गङ्गायां घोषः विषं भुक्ष्व इत्यादौ प्रथमा, शक्यमन- न्तर्भाव्यार्थान्तरप्रतीतेः । छत्रिणो यान्ति, मञ्चाः क्रोशन्ति काकेभ्यो दधि रक्ष्यतामित्यादौ द्वितीया, शक्यार्थमन्तर्भाव्यैवान्तरप्रतीतेः। सोऽयं देवदत्त इत्यादौ तु विशिष्टवाचकपदानामेकदेशपरत्वेऽपि न काचिल्लक्षणा। शक्युपस्थितयोविशिष्टयोरभेदान्वयानुपपत्तौ विशेष्ययोः शक्त्युपस्थितयोरे- वाभेदान्वयाविरोधात् । यथा घटोऽनित्य इत्यत्र घटपदवाच्यैकदेशघटत्वस्या- योग्यत्वेऽपि योग्यघटव्यत्या सहानित्यत्वान्वयः । यत्र हि पदार्थैकदेशस्य विशेषणतयोपस्थितिः, तत्रैव खातन्त्र्येणोपस्थितये लक्षणाऽभ्युपगमः, यथा घटो नित्य इत्यत्र घटपदाद् घटत्वस्य शक्त्या वातन्त्र्येणानुप- स्थित्या तादृशोपस्थित्यर्थ घटपदस्य घटत्वे लक्षणेति । शक्यपरम्परा- सम्बन्धो लक्षितलक्षणा । यथा “द्विरेफो रौति" इत्यत्र द्विरेफप- दस्य स्वशक्यरेफद्वयघटितभ्रमरपदप्रतिपाद्यत्वरूपपरम्परासम्बन्धेन मधुपे लक्षणा, सिंहो देवदत्त इत्यत्र च सिंहपदस्य स्वशक्यसम्बन्धिशौर्यक्रो- - आह्निकम्] सप्तमोऽध्यायः। १५९ -दिगुणसम्बन्धेन पुरुषे लक्षणा । सर्वस्याश्चास्याः लक्षणायास्तात्पर्य्यानुपप- त्तिबीजमिति विवेकः ॥ २० ॥ क्रमप्राप्ते परत्वापरत्वे परीक्षयति, "एकदिकाभ्यामेककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरं च ॥ २१॥ एकदिक्काभ्याम् एका प्राची, प्रतीची वा दिगाश्रयो ययोर्मूर्त्तद्रव्य योस्ताभ्यां सन्निकृष्टविप्रकृष्टाभ्यां संयुक्तसंयोगाल्पीयस्त्वं सन्निकर्षः, संयुक्त- संयोगभूयस्त्वं विप्रकर्षः, तद्वद्भया मूर्त्तद्रव्याभ्याम् , एककालाभ्याम् एकः वर्तमानः कालः-समयो ययोर्जन्यद्रव्ययोस्ताभ्यां सन्निकृष्टविप्रकृष्टाभ्याम् अल्पतरतपनपरिस्पन्दान्तरितजन्मत्वं सन्निकर्षः, बहुतरतपनपरिस्पन्दान्त- रितजन्मत्वं विप्रकर्षः, तद्वद्भयां जन्यद्रव्याभ्यां परमपरंच-भावप्रधानो निर्देशः, दैशिकं कालिकं परत्वमपरत्वंचोत्पद्यते इत्यर्थः । परापराभिधानप्रत्ययनिमित्तं हि परत्वमपरत्वम् । तच्च द्विविधं-दिक्कृतं कालकृतं च । तत्र दिग्विशेषप्रत्यायकं दिक्कृतं, क्योभेदप्रत्यायकं कालकृतम् । एकस्यां दिशि प्राच्यां वा प्रतीच्या वाऽवस्थितयोः पिण्डयो- रेकस्य द्रष्टुः संयुक्तेन भूप्रदेशेन सहापरस्य भूप्रदेशस्य संयोगस्तेनापि सम- मपरस्येति संयुक्तसंयोगानां बहुत्वे सत्यल्पसंयुक्तसंयोगवन्तं पिण्डं सन्निक- ष्टमवधिं कृत्वैतस्मात्पिण्डाद् विप्रकृष्टोऽयमिति संयुक्तसंयोगभूयस्त्ववति भवि- ध्यतः परत्वस्याधारे पिण्डे विप्रकृष्टा बुद्धिरुदेति । ततो निमित्तकारणभूतां तामपेक्ष्य परेण संयुक्तसंयोगभूयस्त्ववता दिक्प्रदेशेन संयोगादसमवायिका- रणाद् विप्रकृष्टे पिण्डे समवायिकारणभूते समवायेन परत्वस्योत्पत्तिः । द्रष्ट- पुरुषस्य स्वशरीरापेक्षया संयुक्तसंयोगभूयस्त्ववन्तं विप्रकृष्टं चावधिं कृत्वेतर- स्मिन् संयुक्तसंयोगाल्पीयस्त्ववति पिण्डे सन्निकृष्टा बुद्धिरुदेति । तां च सन्नि- कृष्टवुद्धि निमित्तीकृत्यापरेण सयुक्तसंयोगाल्पीयस्त्ववता दिनदेशेन सह संयोगादसमवायिकारणात्सन्निकृष्टे पिण्डे समवायिकारणभूते समवायेनापर- त्वस्योत्पत्तिः । एकदिगवस्थितयोभिन्नदिगवस्थितयोर्वा वर्तमानकालयोर्यु- वस्थविरपिण्डयोः कालविप्रकर्षलिङ्गानां रूढश्मश्रुकार्कश्यवलिपलिता- १६० वैशेषिकदर्शनम् । [द्वितीयम् दीनां सांनिध्ये सत्येकस्य द्रष्ट्र रूढश्मश्रुकार्कश्याधभावानुमिताल्पोत्पत्तिका- लकं युवानमवधिं कृत्वा रूढश्मश्रुवलिपलितादिमति स्थविरे विप्रकृष्टा बुद्धिरुत्पद्यते । तां बुद्धिमपेक्ष्य परेणादित्यपरिस्पन्दभूयस्त्ववता कालप्रदे- शेन संयोगादसमवायिकारणात् तस्मिन्नेव स्थविरे समवायेन परत्वस्योत्पत्तिः। स्थविरं चावधिं कृत्वा यूनि सन्निकृष्टा वुद्धिरुत्पद्यते । तां बुद्धिमपेक्ष्यापरे- णादित्यपरिस्पन्दाल्पीयस्त्ववता कालप्रदेशेन संयोगादसमवायिकारणात्सम- वायिकारणभूते यूनि तस्मिन् समवायेनापरत्वस्योत्पत्तिर्भवति । नाशस्त्वपेक्षा- वुद्धिनाशादिति भावः। तत्र पूर्वापरदिगवस्थितयोः पिण्डयोः परत्वापरत्वे नोत्पयेते, तदर्थमे- कदिक्काभ्यामित्युक्तम् । एवं द्वयोरेकस्मिन् वाऽविद्यमाने पिण्डे परत्वाप- रत्वे नोद्भवतः, तदर्थमेककालाभ्यामित्युक्तमिति विवेकः ॥ २१॥ नन्वेकदिक्कालाभ्यां सन्निकृष्टविप्रकृष्टपिण्डाभ्यामुत्पद्यतां समवायेन परत्वमपरत्वं, "परमिदम् ,अपरमिदम्" इति पिण्डगोचरव्यवहारे किमायातं? तत्राह- "कारणपरत्वात्कारणापरत्वाच्च ॥ २२ ॥ परमपरं चेत्यनुवर्तते । कारणपरत्वात्-विप्रकृष्टबुद्धिमपेक्ष्य जायमाना- पिण्डरूपकारणगतात्परत्वात्परं, कारणापरत्वाच-सन्निकृष्टबुद्धिमपेक्ष्य जाय- मानापिण्डरूपकारणगतादपरत्वाच्चापरमिति च व्यवहारो भवतीत्यर्थः ॥२२॥ ननु यथा सन्निकृष्टविप्रकृष्टपिण्डयोः परत्वापरत्वे, तथा परत्वापरत्व- योरपि परत्वापरत्वे किं न स्यातां? तत्राह- "परत्वापरत्वयोः परत्वापरत्वाभावोऽणुत्वमहत्त्वा- भ्यां व्याख्यातः॥ २३॥ परत्वापरत्वयोः परत्वेऽपरत्वे च परत्वापरत्वाभावः परत्वाभावोऽपरत्वा- भावश्चाणुत्वमहत्त्वाभ्याम्-अणुत्वमहत्त्वाभाववद्भ्यामणुत्वमहत्त्वाभ्यां व्या- ख्यातः कथितो वेदितव्य इत्यर्थः । यथाऽणुत्वमहत्त्वयोरणुत्वमहत्त्वे न भवतः, तथा परत्वापरत्वयोः परत्वापरत्वे न स्त इति भावः ॥ २३ ॥ - स . आदिकम्] सप्तमोऽध्यायः। ननु विस्तरेणैतद्व्याख्येयं येन सम्यगधिगच्छेम ? तत्राह- "कर्मभिः कर्माणि गुणैर्गुणाः ॥ २४ ॥ व्याख्यातमिति विपरिणम्यानुवर्तते । तदेतत् "कर्मभिः कर्माणि गुणैश्च गुणा व्याख्याताः" (वै.-अ.१-आ.७-सू. १६) "अ- णुत्वमहत्त्वाभ्यां कर्मगुणाच" (वै. अ. ७-आ. १-सू. १७), इत्यत्र विस्तरेण व्याख्यातमित्यर्थ. ॥ २४ ॥ ननु कोऽयं समवायो नाम येन परत्वापरत्वे पिण्डयोरुत्पद्येते? तत्राह- "इहेमिति यतः कार्यकारणयोः, स समवायः ॥२५॥ कार्यकारणयो: अकार्यकारणयोरित्यपि द्रष्टव्यम् , अवयवावयविनो- र्जातिव्यत्योर्गुणगुणिनोः क्रियाक्रियावतोनित्यद्रव्यविशेषयोश्चायुतसिद्धयो- रिहेदमिति-तन्तुषु पटः, पटे पटत्वं, घटे रूपम् , इत्येवं प्रकारकः प्रत्ययो यतः यन्निमित्तको भवति, स समवायः समवायपदार्थः-समवायाख्यः सम्बन्ध इत्यर्थ.। द्रव्यगुणकर्मसामान्यविशेषाणां कार्यकारणभूतानामकार्यकारणभू- तानां वाऽयुतसिद्धानामाधाउधारभावेनावस्थितानामिहेदमिति वुद्धिर्यतो भवति, यतश्चासर्वगतानामधिगतान्यत्वानामपृथगभावः अखातन्त्र्यमिति यावत्स समवाय इति भावः ॥ २५ ॥ परस्परोपसंश्लेषो भिन्नानां यत्कृतोभवेत् । समवायः स विज्ञेयः खातव्यप्रतिरोधकः ॥१॥ ननु समवायो न पदार्थान्तरम्, अपि च द्रव्यगुणयोरेवान्यतरः क. श्चित् , तत्राह- "द्रव्यत्वगुणत्वप्रतिषेधो भावेन व्याख्यातः ॥ २६ ॥ समवाये इति सप्तम्यन्तेन विपरिणम्यानुवर्तते । समवाये द्रव्यत्वगुण- त्वप्रतिपेध -अप्रसक्तत्वात्कर्मत्वाप्रतिषेधः, द्रव्यत्त्वगुणत्वयोरभावो भावेन- सत्तया व्याख्यातः-उपपादितो वेदितव्य इत्यर्थः ।

१६२
वैशेषिकदर्शनम् ।
[द्वितीयम्
यथाहि सत्ता द्रव्यादिबुद्धितो विलक्षणबुद्धिहेतुत्वाद् द्रव्यादितोऽर्था-
न्तरं, किंबहुना-तत्र द्रव्यत्वगुणत्वकर्मत्वानामभावः, तथैव समवा.
योऽपि द्रव्यादितोऽर्थान्तरं, न तदन्यतरः कश्चित् । विलक्षणबुद्धिहेतुत्वा-
दिति भावः ॥ २६ ॥
ननु समवाये कि द्रव्यत्वगुणत्वयोः प्रतिषेधमात्रं भावेन व्याख्यायते ?
तत्राह-
"तत्त्वं च ॥ २७॥
भावेन व्याख्यातमिति विपरिम्यानुवर्तते । तत्त्वञ्चन्द्रव्यत्वादिप्रतिषेध-
वदेकत्वं नित्यत्वं चापि तत्र भावेन व्याख्यातं द्रष्टव्यमित्यर्थः ।
यथा हि सदिति लिहाविशेषाद्विशेषलिङ्गाभावाच्चैकोऽकारणत्वान्नि-
त्यश्च भावः, तथैव "इहेदमिति लिङ्गाविशेषाद्विशेषलिङ्गाभावाच्चैकोऽ-
कारणत्वाद् नित्यश्च समवाय इति भावः ।
इदमत्र बोध्यम्-यद्यप्येकः समवायः, तथापि प्रतियोगिभेदाद्
भिद्यते, तेन स्पर्शप्रतियोगिकसमवायसत्त्वेऽपि रूपप्रतियोगिकसमवायाभा-
वान्न वायौ रूपवत्ताबुद्धिप्रसङ्ग इति ।
तत्रातीन्द्रियत्वादिहबुद्धयनुमेयः समवाय इति वैशेपिकाः । इन्द्रियस-
म्बद्धविशेषणताप्रत्यासत्त्या प्रत्यक्षोऽयमिति नैयायिका इति विवेकः ॥२७॥
संख्यायो गुणाः पञ्च समचायेन संयुताः।
शब्दार्थयोश्च सम्बन्धो द्वितीयेऽस्मिन् परीक्षितः॥१॥
इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्यात्मारामभगव-
त्पादशिष्यहरिप्रसादकृतायां वैशेषिकसूत्रवैदिकवृत्ती
सप्तमाध्यायस्य द्वितीयमाह्निकम् ।
समाप्तश्चार्य, गुणसमवायाध्यायः सप्तमः ॥ ७ ॥

आह्निकम्] अष्टमोऽध्यायः। १६३ अथाष्टमोऽध्यायः। आद्यमाह्निकम् । परत्वापरत्वे परीक्षिते, क्रमप्राप्ता वुद्धिरिदानी परीक्षणीया, ताश्च प्रत्य- क्षादिभेदभिन्ना बयः, तत्रादौ तद्भेदं प्रत्यक्षं तावत्परीक्षयन्नाह- "द्रव्येषु ज्ञानं व्याख्यातम् ॥१॥ द्रव्येषु-विषयसप्तमीयं, गुणकर्मसामान्यानां द्रव्यप्रत्यक्षाधीनप्रत्यक्षत्वा- त्तथोक्तिः, पृथिव्यादिद्रव्येषु ज्ञान प्रत्यक्षज्ञानं व्याख्यातं "महत्यनेक- द्रव्यवत्त्वाद्रूपाचोपलब्धिः" (४।१६) इत्यनेन व्याख्यातमित्यर्थः । द्रव्यगुणकर्मसामान्येपु हि प्रत्यक्षमुत्पद्यते, न विशेषसमवाययोः, तयो- रतीन्द्रियत्वाभ्युपगमात्। गुणकर्मसामान्यानि च द्रव्यप्रत्यक्षाधीनप्रत्यक्षाणि, न खतः, तदाश्रितत्वात्। अत एव “द्रव्यगुणकर्मसामान्येषु" इति वक्तव्ये "द्रव्येषु" इत्युक्तम् । तेन द्रव्यादिषु प्रत्यक्षज्ञानं "महत्यनेक- द्रव्यवत्त्वाद” इत्यादिना चतुर्थाध्याये व्याख्यातमिति भावः ॥ १॥ ननु पृथिव्यादिपु द्रव्येषु कस्य द्रव्यस्य प्रत्यक्षं न भवति? तत्राह- "तत्रात्मा मनश्चाप्रत्यक्षे॥२॥ वाय्वाकाशे, कालाशे, मूलप्रकृतिश्चेति चार्थः । परमात्मा प्रत्यगात्मा चात्मपदार्थः। तत्र-पृथिव्यादिद्रव्येष्वात्मा मनश्च आत्ममनसी चाप्रत्यक्षे= प्रत्यक्षे न भवत इत्यर्थः । वाय्वाकाशकालदिशां मूलप्रकृतेर्जीवात्मपरमात्मनोर्मनसश्च प्रत्यक्ष न भवतीति भावः ॥२॥ ननु कथमेतत्प्रत्यक्षं ज्ञानमुत्पद्यते ? तत्राह- "ज्ञाननिर्देशे ज्ञाननिष्पत्तिविधिरक्तः ॥३॥ ज्ञाननिदेशे ज्ञानस्यात्मलिङ्गतया निर्देशो यत्र कृतस्तस्मिन् तृतीया- ध्याये ज्ञाननिष्पत्तिविधिः प्रत्यक्षज्ञानोत्पत्तिप्रकारः उक्तः "आत्मेन्द्रि- यार्थसन्निकर्षादू" इत्यादिना कथितः इत्यर्थः ।

१६४ वैशेषिकदर्शनम् । [आद्यम् आत्मनो मनसा, मनसश्चेन्द्रियैः, इन्द्रियाणा चाथैः, संयोगात् प्रत्यक्ष ज्ञानमुत्पद्यते इति भावः। तत्राक्षमक्षम् इन्द्रियमिन्द्रियं प्रतीत्य प्राप्य यज्ज्ञानमुत्पद्यते, तत्प्र- त्यक्षम् । प्रतिगतमक्षं प्रत्यक्षमिति तद्वयुत्पत्तेः। “कुगतिप्रादयः" (अ- टाध्या० २।२।१८) इति प्रादिसमासः । अक्षजं ज्ञान प्रत्यक्षमिति फलि- तम् । न च ज्ञानमात्रस्य मनोरूपेन्द्रियजन्यत्वादतिव्याप्तिः । इन्द्रियत्वेना- साधारणरूपणेन्द्रियाणां यत्र ज्ञाने करणत्वं, तत्प्रत्यक्षमिति विवक्षितत्वात् । मनस्तु सुखादिज्ञानादन्यत्र सर्वत्र मनस्त्वेन हेतुः । ईश्वरप्रत्यक्षं च न लक्ष्यम् । शास्त्रस्य मनुष्याधिकारत्वेन तत्प्रत्यक्षस्यैवात्र लक्ष्यत्वात् । अथवा "इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं, ज्ञानाकरणकं वा ज्ञान, प्रत्यक्षम् । तच्च द्विविधं-निर्विकल्पक सविकल्पकं च । तत्र निष्का- रकं ज्ञान-विशेषणविशेष्यसम्बन्धानवगाहि ज्ञान-नि- विकल्पकम् । किमुक्तं ? यज्ज्ञानं 'घटघटत्वे' इति विशकलिततया केवलविषयत्वेन विषयीकरोति, न च "इद विशेष्यम् , इदं विशेषणम् , अयं संसर्गः इति तत्तद्धर्मप्रकारेण विशेष्यत्वादिना, तन्निर्विकल्पकम्। किंबहुना चक्षुःसंयोगाद्यनन्तरं 'घटः' इत्याकारकं घटत्वादिविशिष्टं ज्ञानं न सम्भवति । पूर्व विशेषणस्य घटत्वादेर्शानाभावात् । विशिष्टबुद्धौ च विशेषणज्ञानस्य कार- णत्वात् । अतः प्रथमं घटघटत्वयोर्वैशिष्टयानवगाहि यज्ज्ञानं जायते, तदेव निर्विकल्पकम् । ससर्गारोपो विकल्पः, तस्मान्निष्क्रान्तं निर्विकल्पकमिति तद्वयुत्पत्तेः । एतच्चातीन्द्रियं, न सविकल्पकवदनुव्यवसायवेद्यम् । अत एव नप्रमा, नापि भ्रमः । सप्रकारकं ज्ञानं नामजात्यादिविशेषण- विशेष्यसम्बन्धावगाहिज्ञानं-सविकल्पकम् । यथा-डित्योऽयं मनुष्योऽयं श्यामोऽयमिति। तच्चैतत्प्रत्यक्ष-घ्राणजं, रासनं, चाक्षुष, स्पार्शनं, श्रौत्रं, मानस चेति षड्विधम् । तस्य षड्डिधत्वात्तत्कारणमिन्द्रियसन्निकर्षोऽपि पविधः संयोगः, सयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवे- तसमवायः, विशेषणविशेष्यभावश्च । तत्र द्रव्यप्रत्यक्ष संयोगः, द्रव्यसमवे- तप्रत्यक्षे सयुक्तसमवायः, द्रव्यसमवेतसमवेतप्रत्यक्षे संयुक्तसमवेतसमवायः, आहिकन्] अष्टमोऽध्यायः । १६५ शब्दप्रत्यले समवायः, शब्दसमवेतप्रत्यक्षे समवेतसमवायः, अभावप्रत्यक्ष विशेषणविशेप्यभावः । किमुक्तं ? गन्धस्य घ्राणजप्रत्यक्षे घ्राणसंयुक्तसम- वायः सन्निकर्पः। घ्राणसंयुक्ते द्रव्ये गन्धस्य समवायात् । गन्धसमवेतस्य • गन्धत्वादेर्घाणजप्रत्यक्षे प्राणसंयुक्तसमवेतसमवायः ।प्राणसंयुक्तद्रव्यसमवेते गन्धे गन्धत्वादेः समवायात् । एवं रसस्य रासनप्रत्यक्षे रसनासंयुक्तसम- वायः सन्निकपः । रससमवेतस्य रासनप्रत्यक्षे रसनासंयुक्तसमेवतसमवायः। घटपटादिद्रव्यस्य चानुपप्रत्यक्ष संयोगः । तत्समवेतरूपादिचाक्षुषप्रत्यक्ष संयुक्तसमवाय. । तत्समवेतरूपत्वादिचाक्षुषप्रत्यक्षे संयुक्तसमवेतसमवायः । एवं तस्य स्पार्शनप्रत्यक्ष संयोगः । तत्समवेतस्य स्पर्शादेः स्पार्शनप्रत्यक्षे संयुक्तसमवायः । तत्समवेतस्पर्शवादेः संयुक्तसमवेतसमवायः । शब्दस्य श्रावणप्रत्यक्षे श्रोत्रावच्छिन्नसमवायः । कर्णविवरवाकाशस्य श्रोत्रत्वात् । शब्दस्याकाशगुणत्वात् । गुणगुणिनोश्च समवायात् । शब्दसमवेतस्य श्राव- णप्रत्यने श्रोत्रावच्छिन्नसमवेतसमवायः । केवलात्मनोऽप्रत्यक्षत्वाद्विशिष्टव- र्तिज्ञानेच्छासुखदुःखादेर्मानसप्रत्यक्षे मनःसंयुक्तसमवायः । तत्समवेतज्ञा- नत्वादेर्मानसप्रत्यक्षे मनःसमवेतसमवायः । आत्मनोऽपि मानसं प्रत्यक्ष मवतीति नव्याः । तत्र च मनःसंयोगः कारणमित्याहुः ॥ अभावप्रत्यक्ष च न केवलमिन्द्रियं करणम्, अपि च "यद्यत्र घट स्यात् , तदा भूतल- मिवोपलभ्येत, न चोपलभ्यते, अतो नास्तीति तर्कितप्रतियोगिसत्त्वविरो- ध्यनुपलब्ध्या सहकृतम्।अतो "घटाभाववद्भूतलम्" इत्यादौ भूतले घटाद्य- भावस्य प्रत्यक्षे संयुक्तविशेषणता सन्निकर्षः । इन्द्रियसंयुक्ते भूतले विशेष्ये घटाद्यभावस्य विशेषणत्वात्। “भूतले घटो नास्ति" इत्यादौ च भूतले घटा- धभावस्य प्रत्यक्षे संयुक्तविशेष्यता सन्निकर्षः । इन्द्रियसयुक्ते भूतले विशे- पणे घटाद्यभावस्य विशेष्यत्वेन वर्तमानत्वात् । एवं सङ्ख्यादौ रूपाद्य- भावस्य प्रत्यक्षे संयुक्तसमवेतविशेषणता सन्निकर्पः । सड्ख्यात्वादौ रूपा- धभावस्य प्रत्यक्षे संयुक्तसमवेतसमवेतविशेषणता, शब्दाभावस्य प्रत्यक्ष केवलश्रोत्रावच्छिन्नविशेषणता, घटाभावादौ वर्तमानस्य पटाभावादेः प्रत्य- क्षे च संयुक्तविशेषणविशेषणता सन्निकर्षः । संसर्गाभावप्रत्यक्षे प्रतियोगिनो १६६ वैशेषिकदर्शनम् । [आद्यम् योग्यता, अन्योऽन्याभावप्रत्यक्षे चाधिकरणस्यानुयोगिनो योग्यता विवक्षिता। तेनायोग्यस्य गुरुत्वादेः संसर्गाभावः, वायौ चोदकान्योऽन्याभावो न केन. चित्प्रत्यक्षः । वायावुद्भूतरूपाभावः, पाषाणे सौरभाभावः, गुडे तिक्ताभावः वह्रावनुष्णत्वाभावः, श्रोत्रे शब्दाभावः, जीवात्मनि सुखाद्यभावस्तु प्रतियोगि- ग्राहकैस्तत्तदिन्द्रियैः प्रत्यक्षः । सर्व चैतत्प्रत्यक्ष लौकिकसन्निकर्षजन्यत्वा- लौकिकं बोध्यम् । अलौकिकं त्वने वक्ष्यति । सर्वत्र चैतस्मिन् षड्डिधे प्र- त्यक्षे महत्त्वं नियमेन कारणम् , अन्यथा प्रत्यक्षानुत्पत्तेः । तत्र द्रव्यप्रत्यक्ष समवायसम्बन्धेन, द्रव्यसमवेतानां गुणकर्मसामान्यानां प्रत्यक्षे खाश्रयसम- वायसम्बन्धेन, द्रव्यसमवेतसमवेतानां गुणत्वकर्मत्वादीनां प्रत्यक्षे स्वाश्रयस- मवेतसमवायसम्बन्धेन कारणम् । आलोकसंयोगस्तु केवलचाक्षुषप्रत्यक्षे कारणं, न प्रत्यक्षान्तरे । तेन विनापि तदुत्पत्तेः । उद्भूतरूपं तु चाक्षुषे पार्शने च प्रत्यक्षे समानं कारणम् । अत्रेन्द्रियाणि प्रत्यक्ष प्रमाणम्। इन्द्रियार्थसन्निकर्षो व्यापारः । तज्जन्यं ज्ञानं प्रमितिः । अथवा इन्द्रियार्थ- सन्निकर्षायज्ज्ञानमुत्पद्यते तत्प्रत्यक्ष प्रमाणम् । तत्र गुणदोषमाध्यस्थ्यदर्शनं प्रमितिः। प्रमेयास्तु द्रव्यादयः पदार्था इति विवेकः ॥३॥ ननु ज्ञाननिर्देशे सामान्यतो ज्ञाननिष्पत्तिविधिरुक्तो न विशेषतः, सम्प्रति विशेषतो वक्तव्यः १ तत्राह-- "गुणकर्मसु सन्निकृष्टेषु ज्ञाननिष्पत्तेद्रव्य कारणम् ॥४॥ सन्निकृष्टेषु इन्द्रियसन्निकर्ष प्राप्तेषु गुणकर्मसु-गुणेषु कर्मसु चार्थेषु ज्ञा- ननिष्पत्तेः-या 'रूपमिदम् , उत्क्षेपणमिदम्' इत्यादिप्रत्यक्षज्ञानस्य निष्पत्तिः= उत्पत्तिर्भवति, तस्याः कारणं सन्निकर्षघटकत्वाद्धेतुर्द्रव्यं तदाश्रयभूतं द्रव्यं वेदितव्यमित्यर्थः। इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं हि प्रत्यक्षम् । न च तदन्तरेण सन्नि- कप गुणकर्मसूत्पत्तुमर्हति । सर्वत्र तत्प्रसक्तेरवर्जनात्। न चद्रव्याश्रितैस्तैरि- न्द्रियाणां साक्षात्कश्चित्सन्निकर्पः सम्भवति । मध्ये द्रव्येण व्यवधानात्। अतस्तद्धटकः सयुक्तसमवायाख्यः सन्निकर्षो वक्तव्यः। इन्द्रियसंयुक्ते द्रव्ये गुणकर्मणा समवायात् । स च द्रव्यघटितत्वाद् द्रव्यकारणक एव सम्पद्यते, - आह्निकम्] अष्टमोऽध्यायः । १६७ - नातत्कारणकः। तेन विना तदनुत्पत्तेः। तस्मादिन्द्रियसनिकृष्टेषु तेषु ज्ञान- 'निष्पत्तेः कारणं द्रव्यमिति भावः । एतेन सत्तादिसामान्यविशेपेषु ज्ञाननिष्पत्तेः कारणं द्रव्यमित्यपि व्या- ख्यातम् । तत्र द्रव्यगते सत्तासामान्ये द्रव्यत्वपृथिवीत्वादिसामान्यविशेषे च संयुक्तसमवायात्प्रत्यक्षं ज्ञानं निष्पद्यते । गुणकर्मगे तस्मिन् गुणत्वकर्म- त्वादिसामान्यविशेषे च संयुक्तसमवेतसमवायात् । शब्दगे सत्तासामान्ये शब्दत्वकत्वगत्वादिसामान्यविशेषे च समवेतसमवायादिति विवेकः॥४॥ ननु सत्तादिसामान्यविशेपेषु किम्प्रकारकं ज्ञानमुत्पद्यते ? तत्राह- "सामान्यविशेषेषु सामान्यविशेषाभावात्तत एव ज्ञानम् ॥५॥ सामान्यविशेषेषु सामान्यं सत्ता, तव्याप्यानि द्रव्यत्वगुणत्वकर्मत्वानि विशेषाः, पृथिवीत्वरूपत्वोत्क्षेपणत्वादयश्च तद्विशेषाः, तेषु सामान्यविशे. पेषु सामान्यविशेषाभावात् सामान्यविशेषाभ्युपगमाभावाद् ज्ञानं तद्गोचरं सार्वेन्द्रियं यज्ज्ञानं निष्पद्यते, तत्तत एव-सामान्यविशेषत एव-स्वरूपत एव निष्पद्यते, न किञ्चित्प्रकारकमित्यर्थः । जात्यखण्डोपाधिव्यतिरिक्तपदार्थज्ञानस्यैव किञ्चिद्धर्मप्रकारकत्वनियमा- दिति भावः ॥५॥ ननु द्रव्यगुणकर्मसु तर्हि किमपेक्षं ज्ञानमुत्पद्यते ? तत्राह- "सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु ॥६॥ ज्ञानमित्यनुवर्तते । द्रव्यगुणकर्मसु-द्रव्ये गुणे कर्मणि च सामन्यविशे- पापेक्ष-द्रव्यत्वगुणत्वकर्मत्वापेक्षं ज्ञानंन्द्रव्यमिदं, गुणोऽयं, कर्मेदमिति विशिष्टज्ञानं निष्पद्यते, इत्यर्थः । विशिष्टज्ञानं हि सर्वमात्मोत्पत्तये विशेष्यवद् विशेषणं विशेषणबुद्धिं च नियमेनापेक्षते, तस्य विशकलितविशेषणविशेष्योभयगोचरनिर्विकल्पकज्ञान- पूर्वकत्वावश्यम्भावात् । विशिष्टं च द्रव्यमिदं, गुणोऽयं, कर्मेदमिति द्रव्या- दिगोचरं ज्ञानम् । प्रकारो विशेषणमिति त्वनन्तरम् । अतस्तेनापि किञ्चि- प्रकारापेक्षेणावश्यं भवितव्यम् । प्रकारश्चेह द्रव्यत्वगुणकर्मत्वलक्षणसामान्य- म - . -

-
१६८
वैशेषिकदर्शनम् ।
[आयम्
विशेष एव विद्यते, न कश्चिदपरः। तस्मादावश्यकी तस्य तदपेक्षेति भावः॥६॥
ननु शुक्लं वस्त्रमित्यादिद्रव्यगोचरं ज्ञानं न द्रव्यत्वप्रकारमपेक्षते, किन्तु
शुक्लत्वम् , अतः कथमविशेषेणोच्यते-“सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु
ज्ञानम्" इति ? तत्राह-
"द्रव्ये द्रव्यगुणकर्मापेक्षम् ॥७॥
ज्ञानमित्यनुवर्तते । द्रव्ये पृथिव्यादिद्रव्ये द्रव्यगुणकर्मापेक्षं-द्रव्यापेक्ष
गुणापेक्षं, कर्मापेक्षमपि ज्ञानं 'दण्डी, शुक्लश्चलति' इत्यादिकं ज्ञानमुत्पद्यते
इत्यर्थः ।
न द्रव्ये केवलं सामान्यविशेषप्रकारापेक्षम् , अपि च द्रव्यगुणकर्म-
प्रकारापेक्षमपि ज्ञान निष्पद्यते, अतो न कश्चिद्दोष इति भावः ॥७॥
ननु कि द्रव्यवद्गुणकर्मसु गुणकर्मापेक्षं ज्ञानं न भवति ? तत्राह-
"गुणकर्मसु गुणकर्माभावाद्गुणकर्मापेक्षं न विद्यते ।।८।।
ज्ञानमित्यनुवर्तते । गुणकर्मसु-गुणेषु कर्मसु च गुणकर्माभावात् यथा-
सख्यमन्वयः, गुणाभावात्कर्माभावाच्च गुणकर्मापेक्षं गुणप्रकारक, कर्म-
प्रकारकं च ज्ञानं न विद्यते न भवतीत्यर्थः॥८॥
ननु विशेषणं-तहृद्धिकारणकं किञ्चिद्विशिष्टज्ञानमुदाहर्तव्यं तत्राह-
"समवायिनः श्वैत्याच्चैत्यबुद्धश्च श्वेते बुद्धि, ते एते
कार्यकारणभूते ॥९॥
समवायिनः श्वैत्यात् पञ्चमीयं हेतौ, श्वैत्यसमवायिनो द्रव्यस्य यच्छेत्यं
गुणस्तस्मात् , श्वैत्यबुद्धेश्च-उक्तार्थेयं पञ्चमी, तद्गोचरश्वैत्यबुद्धेश्च श्वेते=
खैत्यवति द्रव्ये शहादौ वुद्धिः श्वेतोऽयमिति विशिष्टज्ञानमुत्पद्यते, तत्र
ते-पूर्वोक्त एते श्वैत्यबुद्धिः श्वेतबुद्धिश्चेति बुद्धी द्वे कार्यकारणभूते=
पूर्वा विशेषणबुद्धिः कारणं, पश्चिमा विशिष्टवुद्धिश्च कार्यमिति परस्परं
कार्यकारणभूते वेदितव्ये इत्यर्थः ।
श्वैत्यं हि श्वेते द्रव्ये विशेषणं प्रकार इति यावत् । न हि तज्ज्ञा-
नाभावे श्वेतोऽयमिति तत्प्रकारकं विशिष्टज्ञानं सम्भवति । जवाकुसुमादिपु
तदनुपलब्धे. । तस्मात्तत्र श्वैत्यं तद्गोचरं च ज्ञानं कारणं, तत्कारणकं च
श्वेतोऽयमिति विशिष्टज्ञानमिति भाव ॥९॥

माहिकम्] अष्टमोऽध्यायः। १६९ ननु श्वैत्यबुद्धेः, श्वेतबुद्धेश्च क्रमेण भावाचेत्कार्यकारणभावः, तदा क्रमेण भवन्तीनां घटपटादिबुद्धीनामपि कार्यकारणभावः स्यात् । तत्राह- "द्रव्येष्वनितरेतरकारणाः ॥१०॥ वुद्धय इति विपरिणम्यानुवर्तते। द्रव्येषु घटपटादिद्रव्येषु वुद्धयः याः इमा “घटोऽयं, पटोऽयम्" इत्यादिबुद्धयः, ताः अनितरेतरकारणाः नेतरा बुद्धिरितरस्याःबुद्धेः कारणं विद्यते यासु, तास्तथा-परस्परकार्यकारणभाव- वर्जिताः भवन्तीत्यर्थः । तत्र हि द्रव्यबुद्धिरितरस्यां द्रव्यबुद्धौ कारणं भवति, यत्रैकं द्रव्यम- परेण द्रव्येण विशेष्यते । न चेह घटः पटेन, पटो वा मठेन विशेष्यते । तस्मादत्र घटोऽयं, पटोऽयं, मठोऽयं, स्तम्भोऽयमिति क्रमेण भवन्त्योऽपि द्रव्यगोचराः बुद्धयो नेतरेतरकारणाः भवन्तीति भावः ॥ १० ॥ ननु क्रमेण भवन्तीपु घटपटादिबुद्धिषु चेदितरा वुद्धिर्नेतरस्याः बुद्धेः कारणं, तदा कुतोऽयं तासां क्रमः? तत्राह---- "कारणायौगपद्यात्कारणक्रमाच्च घटपटादिवुद्धीनां क्र- मो न हेतुफलभावात् ॥११॥ कारणायोगपद्यात् बुद्धिकारणानामिन्द्रियार्थसन्निकर्षाणां युगपज्जायमा- नत्वाभावात् , कारणक्रमाच-बुद्धिकारणानां तेषां क्रमेण भावाद्वा घटप- टादिबुद्धीनां घटोऽय पटोऽयमित्यादिज्ञानानां क्रमः पूर्वापरभावः, न हेतु- फलभावात् न मिथः कार्यकारणभावादित्यर्थः । योऽयं घटपटादिबुद्धीनां क्रमो दृश्यते, नासौ तासां कार्यकारणभावाद् भवति, किन्तु वुद्धिकारणानामयोगपद्यात् क्रमेण वा भावादिति भावः॥११॥ द्रव्ये गुणे च क्रियायां सामान्ये चाक्षजा प्रमा, घ्राणजादिनभेदेन षविधाऽस्मिन् परीक्षिता ॥१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्ध्यात्मारामभगव- . त्पादशिष्यहरिप्रसादकृतायां वैशेषिकसूत्रवैदिकवृत्ता- वष्टमाध्यायस्याद्यमाह्निकम् । -- - १७० वैशेपिकदर्शनम् । [द्वितीयम् अथाष्टमोऽध्यायः। द्वितीयमाह्निकम् । सम्प्रति बुझ्यपेक्षं ज्ञानमुदाहरति- "अयमेष त्वया कृतं भोजयनमिति बुद्ध्यपेक्षम् ॥ १५॥ अयम् आर्य्यमुनिरयम् , एपः-गुरुकुलाधिपतिरेषः, त्वया कृतं भो आर्यकुलनन्दन भारतमानसहंस! अभूतपूर्व तावद्देशात्मोद्धारार्थ खात्मा- र्पणलक्षणं कर्म त्वया कृतं, भोजयैनं चिरादुपस्थितं वैदिकधर्मोपदेष्टारं खल्वतिथिदेवमेनं सुरेन्द्रपितृचरणं देवदत्तशर्माणं द्रुतं भोजय, इति= इत्यादिकं ज्ञानं बुद्ध्यपेक्ष ज्ञानप्रकारकं भवतीत्यर्थः ॥ १॥ ननु कसादेतत्तथा भवति ? तत्राह- "दृष्टेषु भावादृष्टेष्वभावात् ॥२॥ दृष्टेषु ज्ञातेषु विषयेषु भावात्-सत्त्वात् , अदृष्टेषु अज्ञातेषु चाभावात्= असत्त्वादित्यर्थः । इदमेतदोर्हि प्रत्यक्षेषु विषयेषु शक्तिः, युष्मदश्च स्वजन्यबोधाश्रयतया वक्तृतात्पर्य्यगोचरे विषयविशेषे । अतोऽयमेष इत्यादिकं ज्ञानं प्रत्यक्षेण- ज्ञातेष्वेव विषयेषु भवति, न जात्वज्ञातेषु । प्रत्यक्षविषयविषयत्वादेव च बुद्धयपेक्षमेतदिति भावः ॥२॥ ननु “आत्मेन्द्रियार्थसन्निकर्षाद्" इत्यादिषु वैशेषिकाणामर्थपदेन किं ग्राह्यं तत्राह- "अर्थ इति द्रव्यगुणकर्मसु ॥३॥ अर्थ इति वैशेषिकाणामस्माकं सर्वत्र 'अर्थः' इति पदं द्रव्यगुणकर्मसु- द्रव्ये, गुणे, कर्मणि च प्रयुक्तं वेदितव्यमित्यर्थः । समान्यविशेषसमवायास्तु त्रयोऽसाकमुपार्थाः, द्रव्यगुणकर्माणि चार्थाः- इति भावः ॥३॥ ननु किंप्रकृतीनि घ्राणादीनीन्द्रियाणि, येषामर्थेन सन्निकर्पाज्ज्ञानमु- पद्यते ? तत्र पीठमारचयन्नाह- "द्रव्येषु पश्चात्मकत्वम् ॥४॥ - -

आह्निकम्]
अष्टमोऽध्यायः।
१७१
द्रव्येषु-शरीरादिकार्य्यद्रव्येषु पञ्चात्मकत्वम् अणुसंयोगाप्रतिषेधात्पञ्च-
भूतात्मकत्वं वेदितव्यमित्यर्थः ।
यद्यप्येकभूतारब्धे कार्य्यद्रव्ये भूतान्तराणि नारम्भकाणि भवन्ति ।
"प्रत्यक्षाप्रत्यक्षाणां संयोगस्याप्रत्यक्षत्वात्पश्चात्मकं न वि-
यते" (२२) “न त्र्यात्मकम्" (४।२।३) इति सूत्राभ्यां प्र-
तिषेधात् । तथापि निमित्तकारणानि सन्त्येव । तत्र तदणुसंयोगप्रतिषेधा-
भावात् । "अणुसंयोगस्त्वप्रतिषिद्धः” (४।२।४) इत्युक्तेः । अतो
यावद्भूतसूक्ष्मारब्धं कार्य्यद्रव्यं, तत्सर्व पञ्चभूतात्मकमिति भावः ।
तत्र येन यदारब्धं, तत्र तस्य भूयस्त्वम् , इतरेषां च निमित्तमात्र-
वादल्पीयस्त्वमिति विवेकः ॥४॥
ननु भवतु द्रव्येषु पश्चात्मत्वम् , इन्द्रियप्रकृतौ किमायातं ? तत्राह-
"भूयस्त्वाद् गन्धवत्वाच पृथिवीगन्धज्ञाने प्रकृतिः॥५॥
भूयस्त्वात् अबादिभागापेक्षया पार्थिवभागस्य भूयस्त्वात् , गन्धवत्वा-
च-गन्धगुणाश्रयत्वाच्च पृथिवी-पृथिवी-द्रव्यं गन्धज्ञाने गन्धस्य ज्ञान
साक्षात्कारो नियमेन भवति यसात्, तस्मिन्-नियमेन गन्धस्य ग्राहके घ्राणे-
न्द्रिये प्रकृतिः-उपादानकारणं समवायिकारणमित्यर्थः ।
यं विशेषगुणं हि यदिन्द्रियं नियमेन गृह्णाति, तत् तत्समवायिद्रव्य-
प्रकृतिकं द्रव्यमिति निश्चेतव्यम् । इन्द्रियाणामात्मप्रकृतिगुणग्राहकत्वनिय-
मात् । प्राणेन्द्रियमपि पृथिवीविशेषगुणं गन्धं नियमेन गृह्णाति, तस्मात्ते-
नापि तत्समवायिद्रव्यप्रकृतिकेनावश्यं भवितव्यम् । यथा हि पृथिवी
गन्धोपलब्धौ नियमेन हेतु., तथैव प्राणमिन्द्रियं गन्धोपलब्धौ नियमेन
हेतुः । अतो भवति प्रतिपत्तिः "पृथिवी गन्धज्ञाने प्रकृतिः" इति भावः ।
तत्र द्रव्याणां पञ्चात्मकत्वात्कथं पृथिवीमानं गन्धज्ञाने प्रकृतिरिति
शड्कानिरासायोक्तं "भूयस्त्वात् ," इन्द्रियाणां वप्रकृतिविशेषगुणग्राहित्व-
नियम इति सूचनायोक्तं "गन्धवत्त्वात्" इति विवेकः ॥ ५ ॥
अतिदिशति-
"तथाऽऽपस्तेजो वायुश्च रसरूपस्पर्शज्ञानेऽविशेषात्॥६॥

१७२
वैशेषिकदर्शनम् ।
[द्वितीयम्
प्रकृतिरित्यनुवर्तते । तथा यथा पृथिवी गन्धज्ञाने प्रकृतिः, तथाऽऽप-
स्तेजो वायुश्च-जलं ज्योतिरनिलश्च रसरूपस्पर्शज्ञाने यथासङ्ख्यमन्वयः,
रसज्ञाने, रूपज्ञाने, स्पर्शज्ञाने च प्रकृतिः । कुतः १ अविशेषात् भूयस्त्वा-
दिसमानत्वादित्यर्थः ।
यथा हि भूयस्त्वाद्गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने प्रकृतिः, तथैव
भूयस्त्वाद्रसादिमत्त्वाच्चापस्तेजो वायुश्च रसरूपस्पर्शज्ञाने रसनचक्षुष्वगिन्द्रिये
प्रकृतिरिति भावः।
तत्र शब्दज्ञाने श्रोत्रे प्रकृतिराकाशम् । तच्च परमार्थतो नाकाशाद्भि-
द्यते । कर्णशष्कुलीप्रदेशावच्छिन्नाकाशस्यैव श्रोत्रत्वात् । अतो न तत्पृथ-
गुक्तमिति द्रष्टव्यम् ॥ ६॥
ज्ञानप्रकारकं ज्ञानमिन्द्रियाणां च कारणम् ।
अर्थशब्दाभिधेयं च दितीयेऽस्मिन् निरूपितम् ॥१॥
इति श्रीमत्परमहंसपरित्राजकाचार्योदासीनवर्ध्यात्मारामभगव-
त्पादशिष्यहरिप्रसादकृताया वैशेषिकसूत्रवैदिकवृत्ता-
वष्टमाध्यायस्य द्वितीयमाह्निकम् ॥
समाप्तश्चायं ज्ञानाध्यायोऽष्टमः॥ ८ ॥

आदिकम्] नवमोऽध्यायः। १७३ अथ नवमोऽध्यायः। आद्यमाह्निकम् । ननु किमेतत्पृथिव्यादिकं कार्य्यद्रव्यमुत्पत्तेः प्राक् सद्भवति, उतास- 1 ? तत्राह- • "क्रियागुणव्यपदेशाभावात्प्रागसत् ॥१॥ प्राग-उत्पत्तेः प्रागसत्-पृथिव्यादिकार्य्यद्रव्यमसद्भवति । कुतः १ क्रि- यागुणव्यपदेशाभावात्-क्रियया गुणेन च यो व्यपदेशः व्यवहारः, तद्विषय- वाभावादित्यर्थः। यदा हि कार्यमुत्पत्त्यनन्तरं सद्भवति, तदा क्रियागुणाभ्यां व्यपदिश्यते= भवति, चलति, तिष्ठति नीलो, रोहितः, शुक्ल इति । चेदुत्पत्तेः प्रागपि सद्भवेत्, तदाऽवश्य क्रियावत्त्वेन, गुणवत्त्वेन च व्यपदिश्येत । न च क्रियया, गुणेन च तदानी व्यपदिश्यते । ततो भवति प्रतिपत्तिः-उत्पत्तेः प्राक् कार्य्यजातमसदिति भावः । इमत्र बोध्य-यो हि वैशेपिकाणामसत्कार्य्यवादः, किंबहुना यतः असत्कार्यवादिनो वैशिपिका इति लौकिकी ख्यातिः, तस्येदमेव सूत्रं मूलम् । अत एव चासौ वादः समुत्तिष्ठति । नव्याश्चैतेनैव भ्रान्तिमाप- नाः सत्कार्य्यवादतोऽसत्कार्यवादे बहुविशेष कल्पयन्तो वैदिकदर्शनानां मिथो विरोधमाहुः । परंतु नायं ततो विशिष्यते, संज्ञातो भेदेऽप्यर्थतो मेदाभावात् । उत्पत्तेः प्राक् कारणात्मना कार्य सद्भवति यस्मिन् वादे, तं हि सत्कार्यवादम्, उत्पत्तेः प्राक् कार्यात्मना कार्य्यमसद्भवति यस्मिन् वादे, तञ्चासत्कार्य्यवादमाचक्षते । कार्यात्मना कार्यस्यासत्त्वं, कारणात्मना च सत्त्वमुत्पत्तेः प्रागुभयत्रापि समानं विद्यते । न चेह भवति कश्चिद् विशेषः । संज्ञाभेदमात्रेण भवन् विशेषस्तु न किञ्चिद्धानिकरः । अतो व्यवहारवलक्षण्येऽपि नास्ति वैदिकदर्शनानामत्र कश्चिद्विरोध इति ॥१॥ ननूत्पत्तेः प्राक् चेदसत्कार्य, तदा कारणव्यापारेण कथमुत्पद्येत, न हि सिकतास्वसत्तैलं कारणव्यापारेण कथश्चिदुत्पद्यते, तबाह - . 5 १७४ वैशेषिकदर्शनम् । [आवम् सदसत् ॥ २॥ प्रागित्यनुवर्तते । प्राक् कारणात्मना सद्भवत्कार्यात्मना कार्य्यमस- द्भवतीत्यर्थः । तदेव हि कारणव्यापारेण न कथञ्चिदुत्पद्यते, यत्केनापि रूपेणो- त्पत्तेः पूर्व सन्न भवेत् । यथा सिकतासु तैलम् । कार्य्यजातं तु प्रागुत्पत्तेः कारणात्मना सद्भवदेव कार्यात्मना भवत्यसत् । अतो न कश्चिद्दोष इति भावः ॥ २॥ ननु प्रागुत्पत्तेश्चेत्सत्कार्य, तदा कारणव्यापारेण कि क्रियते? तत्राह- "असतः क्रियागुणव्यपदेशाभावादर्थान्तरम् ॥ ३ ॥ सदित्यनुवर्तते । क्रियागुणव्यपदेशाभावात् उत्पत्तेः प्राक् क्रिया- गुणाभ्यां व्यपदेशस्य न विद्यते भावो यस्मिन्नसति, तस्मादसतः कार्या- मनाऽसद्भूतादर्थान्तरं-विलक्षणं सत् कार्यात्मना कार्य सत् कारण- व्यापारेण विधीयते इत्यर्थः । कारणव्यापारो हि न किञ्चिदपूर्व करोति । तत्र तत्सामर्थ्याभावात् । अन्यथा शशशृङ्गमपि कुर्यात् । अपि च केनचिद्रूपेण सद्भवत्कार्य येन रूपेण सन्न भवति, तेन रूपेण तस्य सत्त्वं करोति । शक्यत्वात् । शक्य- गोचरा च शक्तस्य शक्तिः । अतः कारणरूपेण सतोऽपि कार्य्यस्य कार्य्यरूपेणासत्त्वात्कारणव्यापारस्तेनैव रूपेण तस्य सत्त्वं करोति । तत्रैव तच्छतेः । तस्मान्नासौविफल इति भावः ॥ ३ ॥ ननु कारणव्यापारात्कार्यात्मना सद्भवत्कार्य किं सर्वदा सद्भवति ? तत्राह- "सच्चासत् ॥४॥ सच्च कारणव्यापारात्कार्यात्मना सद्भवच्च कार्यमसत्-पुनर्मुद्रादि- प्रहारेणात्मनः प्रहाणादसद्भवतीत्यर्थः । यजन्यं तदनित्यमिति हि समव्याप्तो न्यायो, न जातु कुत्रचिद् व्यभि- चरति । जन्यं च कार्य्यस्य कार्य रूपम् । कारणव्यापारसाध्यत्वात् । अतो ध्रुवमस्य विनाशो न सर्वदाऽवस्थानमिति भावः ॥ ४॥ - आहिकम्] नवमोऽध्यायः । १७५ नन्वसतो भावो न भवति, सतश्चाभाव इत्यपि नियमोऽस्ति, तत्क- थमुच्यते कारणव्यापारेणासत्सत् क्रियते, सञ्चासत् ? तत्राह- "यच्चान्यदसदतस्तदसत् ॥५॥ एवार्थश्चकारो भिन्नक्रमः । यदतः असात्पूर्वोक्तादसतः कार्या- दन्यत्-भिन्न--विलक्षणमसत्-गगनारविन्दादिकम् तच्च-तदेवासत्-ता- शमसत्, यस्य कदापि कारणव्यापारेण न भाव इत्यर्थः । सत्यमस्ति तादृशमप्यसत्, यस्य सहस्रेणापि कारणव्यापारेण भावो न भवति, यथा गगनारविन्दशश,गवन्ध्यापुत्रादिकम् । सर्वदा सर्वरूपेणा- सत्त्वात् । कार्यं च न तादृशमसत् । अपि चैकेन रूपेण सद्भवद् रूपा- न्तरेणासत् । अतोऽस्य भावो न कारणव्यापारेण दुर्घटः, नापि सतस्ता- दशोऽभाव इति भावः ॥ ५ ॥ ननु कारणव्यापारात्सद् भवत्कार्यं यदा मुद्रादिप्रहारेण पुनरसद्भ- वति, तदा किमाकारकं तद्गोचरं प्रत्यक्षमुपजायते ? तत्राह- "असदिति भूतप्रत्यक्षाभावाद् भूतस्मृतर्विरोधिम- त्यक्षवत् ॥६॥ चोऽनुवर्तते । भूतप्रत्यक्षाभावात्="अभूतं नास्तीत्यनर्थान्तरम्" इति वक्ष्यमाणाद् भूतमस्तीत्यप्यनर्थान्तरम् , भूतस्य कार्यात्मना सतः कार्य्यस्य प्रत्यक्षाभावात् अनुपलम्भात्, भूतस्मृतेश्च-स्मृतिरितिज्ञानं विवक्षितं, तद्गोचरज्ञानाच्चासदिति-प्रत्यक्षाकारमितिपदमाह, न सदिदानी तत्, किन्तु "असत्" इत्याकारकं तद्गोचरं तदा प्रत्यक्षं जायते । विरोधिप्रत्यक्षवत् यथाऽसद्विरोधिनि सति सदित्याकारकं प्रत्यक्षमित्यर्थः । तदा हि प्रतियोगिज्ञानपूर्वकयोग्यानुपलम्मसहकृतादिन्द्रियादसति त- सिन्नसदित्याकारकं प्रत्यक्षं जायते इति भावः ॥६॥ ननु प्रागुत्पत्तेरसति तस्मिन् किमाकारकं प्रत्यक्षं भवति? तत्राह- "तथाऽभावे भावप्रत्यक्षत्वाच ॥७॥ 'असदिति' इत्यनुवर्तते । तथा यथा भूतप्रत्यक्षाभावाद्भूतस्मृतेश्चोत्पत्तेः परतोऽसति कार्येऽसदित्याकारकं प्रत्यक्षं जायते, तथा. भावप्रत्यक्षत्वाच्च A ?

- " १७६ वैशेषिकदर्शनम् । [आद्यम् भावानां तदाश्रयभूतमृदादिपदार्थानां प्रत्यक्षत्वाच्च उपलभ्भाच्चाभावे-न भवति योगोऽत्र सम्प्रति यस्य, तस्मिन् प्रागुत्पत्तेरसति कार्येऽसदिति-ना- यावधि सदन तत्, किन्त्वसदित्याकारकं प्रत्यक्षं भवतीत्यर्थः । तदाश्रयभूतकारणसामग्रीदर्शनादुत्पत्तेः प्रागसति तस्मिन्नसदित्या- कारकं प्रत्यक्षं भवतीति भावः ॥७॥ अतिदिशति- "एतेनाघटोऽगौरधर्मश्च व्याख्यातः॥८॥ भावप्रत्यक्षत्वाचेत्यनुवर्तते । एतेन-भावप्रत्यक्षत्वादसति कार्येऽसदित्या- कारकप्रत्यक्षव्याख्यानेन भावप्रत्यक्षत्वाच्च आश्रयभूतभावोपलम्भाचाघटः- घटविलक्षणेतद्वलक्षण्याश्रयभूते भावे पटेऽघट इत्याकारकः, गोविलक्षणे- ऽश्वेऽगौरित्याकारकः, वेदविहितं कर्म धर्मः, तद्विलक्षणे निषिद्धकर्मजातेड- धर्म इत्याकारकश्च व्याख्यातः प्रत्यक्षप्रत्ययो व्याख्यातो वेदितव्य इत्यर्थः । आश्रयप्रत्यक्षादीदृशः प्रत्ययाः भवन्तीति भावः ॥ ८॥ परिभाषासूत्रं पठति- "अभूतं नास्तीत्यनर्थान्तरम् ॥९॥ अभूतं यन्न भवति, तदभूतं, नास्ति यन्न विद्यते, तन्नास्ति, इति इत्येतद् द्वयमनर्थान्तरं-परस्परभिन्नार्थक नेत्यर्थः । अभूतं नास्तीत्यनयोस्तुल्योऽर्थ इति भावः ॥९॥ ननु नास्ति घटो गेहे, नास्त्यत्र पट इत्यादिप्रत्यक्षस्य को विषयः ? तत्राह- "नास्ति घटो गेह इति सतो घटस्य गेहसंसर्गप्रति- षेधः॥१०॥ नास्ति घटो गेहे-सदने कलशो न विद्यते, नास्त्यत्र पट इति= इत्यादिप्रत्यक्षेण सतः स्वरूपतः सतो घटस्य घटादेर्गेहसंसर्गप्रतिपेधः- गेहेन सदनतलादिना य. संसर्गः सयोगस्तस्य प्रतिषेधः निषेधो गोचरी कियत इत्यर्थः । नास्ति घटो गेहे, नास्त्यत्र पट इत्यादिप्रत्यक्षस्य सत एव घटादेर्गे- हाद्यससर्गो विषय इति भावः ॥ १० ॥ - आहिकम्] नवमोऽध्यायः। १७७ - - - परीक्षितं लौकिक प्रत्यक्षम् , इदानीमलौकिकं तत्परीक्षमाण आह- "आत्मन्यात्ममनसोःसंयोगविशेषादात्मप्रत्यक्षम्॥१२॥ आत्मनि-प्रत्यगात्मनि वर्तमानादात्ममनसोः आत्मनो, मनसश्च सं- योगविशेषात्-योगजो धर्मोऽत्र संयोगे विशेषः, तत्सहकृतासंयोगादात्म- प्रत्यक्ष-प्रत्यगात्मनः साक्षात्कारात्मक ज्ञानमुत्पद्यते इत्यर्थः । यदा हि योगी योगेन प्रक्षीणरजस्तमोमलावरणं चित्तं प्रत्यगात्मनि संयोजयति, तदा तस्य तद्गोचरं यथार्थ प्रत्यक्षमुपजायते इति भावः । इदमिह योध्यं यद्यप्यन्नात्मेति सामान्यशब्दः, तथापि स प्रत्य- गात्मानमेवाह, न परमात्मानम् , तस्य “यन्मनसा न मनुते" इत्यादि- श्रुतिविरोधेन मानससाक्षात्कारविषयत्वानभ्युपगमात् । न हि प्रत्यगात्मसं- युक्तेन मनसा प्रत्यगात्मान्तर्वी स तदात्मभूतः परमात्मा साक्षात्कर्तुं पार्यते । किमस्ति प्रकृतितद्विकाराणामीदृशं सामर्थ्य, यत्सहस्रसूर्यवद् जाज्वल्यमानमेनं महद्भयं संस्पृशेयुः, किंबहुना दूरतोऽपि दर्शयेयुः । स हि जगतां पतिरीश्वरो योगात्साक्षात्कृतेन प्रत्यगात्मनैव स्वेन साक्षात्क्रि- यते । तस्यैव तद्योग्यत्वात् । न चैतदर्थमन्यः कश्चिदुपायोऽप्यन्वेष्टव्यो भ- वति । योगेन प्रत्यगात्मसाक्षात्कारस्यैव तत्साक्षात्कारे परमोपायत्वात् । श्रुतिस्मृतयश्चात्रव सर्वाः सुव्यवस्थिताः सन्ति । तस्मात्परमात्मसाक्षात्का- राभिलापुकैर्मुमुक्षुभिः पूर्व योगाभ्यासेन प्रत्यगात्मैव साक्षात्कर्तव्य इति ॥११॥ अतिदिशति- "तथा द्रव्यान्तरेषु प्रत्यक्षम् ॥ १२॥ तथा यथात्मनि तथा द्रव्यान्तरेपु-सूक्ष्मेषु विप्रकृष्टेषु चात्मभिन्नेषु प्रकृत्यन्तेषु निखिलद्रव्येपु प्रत्यक्षम् अपरोक्षं ज्ञानमुत्पद्यते इत्यर्थः ॥१२॥ ननु द्विविधा योगिनो भवन्ति-कदाचित्समाहितान्तःकरणाः, सर्वदा- समाहितान्तःकरणाश्च, तेपु केपामेतत्प्रत्यक्षमुत्पद्यते ? तत्राह- "असमाहितान्त:करणा उपसंहृतसमाधयस्तेषां च ॥१३॥ प्रत्यक्षमित्यनुवर्तते । भिन्नक्रमश्वः । असमाहितान्तःकरणानः सर्वदा समाहितमन्तःकरणं चित्तं येपां, ते तथा-कदाचित्समाहितान्तःकरणाः, । ? प . २३ १७८ वैशेषिकदर्शनम् । [आधम् ये चोपसंहृतसमाधयः उपसंहृतः उपसंहारं परिपूर्णतां प्राप्तः समाधिः योगो येषां, ते तथा सर्वदा समाहितान्तःकारणाः, तेषाम् उभयेषां तेषां प्रत्यक्षम् आत्मादिगोचरं प्रत्यक्ष भवतीत्यर्थः । तत्रासमाहितान्तःकरणानां ध्यानसहकृतान्मनःसंयोगात्, इतरेषां चेन्द्रियार्थसन्निकर्षादिति विवेकः ॥ १३ ॥ ननु किं योगिनां द्रव्यवद् द्रव्यसमवेतेषु प्रत्यक्षं न भवति ? तत्राह- "तत्समवायात्कर्मगुणेषु ॥ १४ ॥ प्रत्यक्षं, तेषामिति च पदद्वयमनुवर्तते । तत्समवायात् इद्रियसंयुक्त- द्रव्यान्तरसमवायात्-संयुक्तसमवायात्सन्निकर्षादिति यावत्, कर्मगुणेषु-सा- मान्यादीनामुपलक्षणमेतत् , द्रव्यान्तरसमवेतेषु कर्मगुणसामान्यविशेषसमवा- येषु, तत्समवेतेषु च सयुक्तसमवेतसमवायात्प्रत्यक्ष तेषामुत्पद्यते इत्यर्थः । द्रव्येषु संयोगात्, तत्समवेतेषु संयुक्तसमवायात्, तत्समवेतेषु च संयुक्तसमवेतसमवायात्प्रत्यक्षं योगिनां भवतीत्यर्थः ॥ १४ ॥ नन्वात्मान्तरवर्तिसुखदुःखादिगुणेषु योगिनां प्रत्यक्षं कथं भवति? तत्राह- "आत्मसमवायादात्मगुणेषु ॥ १५॥ प्रत्यक्षं तेषामिति पूर्ववदनुवर्तते । आत्मसमवायात् मनःसंयुक्तात्मा- न्तरसमवायात्सन्निकर्षादात्मगुणेषु-द्रव्यान्तरगुणवदात्मान्तरगुणेषु सुख- दुःखादिषु प्रत्यक्षं तेषां भवतीत्यर्थः । मन:सयुक्तसमवायादात्मान्तरवर्तिनः सुखदुःखादिगुणान् साक्षात्य- श्यन्ति तत्रभवन्तो योगिन इति भावः । नव्यास्तु 'अलौकिकप्रत्यक्षे' सामान्यलक्षणा, ज्ञानलक्षणा, योग- जधर्मश्चेति त्रिविधा प्रत्यासत्तिः । तत्र सामान्यलक्षणा-धूमत्वादि- रूपा, तज्ज्ञानरूपा वा । सामान्य लक्षणं-स्वरूपं, विषयो वा यस्या इति तद्युत्पत्ते. । सा चाश्रयाणां निखिलधूमादीनामलौकिकप्रत्यक्षे उपयुज्यते । अतीतानागतधूमादिषु चक्षुःसंयोगादेरसम्भवात् । असन्निकृष्टाना चेन्द्रि- याणां प्रत्यक्षज्ञानाजनकत्वात् । अतस्तजन्य निखिलतदाश्रयगोचरं "धूमाः" इत्यादिकं प्रत्यक्षज्ञानमलौकिकम् । अस्य च धूमो वहिव्याप्यो न वेति संशयोपपत्तिः प्रयोजनम् । एतज्ज्ञानाभावे सशयानुपपत्तेः । प्रत्यक्षे धूमे आहिकम्] नवमोऽध्यायः। १७९ वहिसम्बन्धस्य गृहीतत्वात् , अन्यधूमस्य चानुपस्थितत्वात् । सामान्य- लक्षणया निखिलधूमोपस्थितौ तु कालान्तरीयदेशान्तरीयधूमे वहिव्याप्यत्व- संशयः सम्भवति । तस्मात्तत्वीकारः। न च सामान्यलक्षणाखीकारे प्रमेय- त्वेन सकलप्रमेयज्ञाने जाते सर्वज्ञतापत्तिरिति वाच्यम् । प्रमेयत्वेन सकल- प्रमेयज्ञाने जातेऽपि विशिष्य सकलपदार्थानामज्ञातत्वेन सार्वश्याभावात् । ज्ञानलक्षणा तु ज्ञानरूपा । किमुक्तं? स्वसंयुक्तसंयुक्तसमवेत- विषयत्वरूपा । स्वम् इन्द्रियम् । सामान्यलक्षणातो ज्ञानलक्षणायामियान् विशेषः सा हि खाश्रयाणां ज्ञानं जनयति, ज्ञानलक्षणा तु यद्विषयकं ज्ञानं, तस्यैव नान्यस्य । फलं चास्याः "सुरभिचन्दनम्" इति सौरभ- विशिष्टचन्दनखण्डगोचरं चाक्षुषप्रत्यक्षम् । अत्र सौरभस्य भानं न चक्षुषा, तस्य सौरभेण योग्यसन्निकर्षासम्भवात् । किन्तु ज्ञानलक्षणया । चक्षुः संयुक्तमनःसंयुक्तात्मसवेतस्मृत्यात्मकज्ञानविषयत्वस्य तत्र सत्त्वात् । अ- न्यथा तद्भानानुपपत्तेरित्याहुः ॥ वैशेषिकाणां चैते सामान्यलक्षणा- ज्ञानलक्षणे प्रत्यासत्ती न स्वीकारमर्हतः । फलाभावात् । धूमो वह्नि- व्याप्यो न वेति सम्बन्धसंशयस्य सामान्यधर्मदर्शनेनाप्युपपत्तेः । सम्बन्धो हि कश्चिद् व्यभिचारी भवति, कश्चिच्च विपरीतः, सम्बन्धश्चायमिति संशयोपपत्तिः । सामान्यलक्षणापि खाश्रयव्यक्तीनामेवावगतौ हेतुर्भवति, न तत्सम्बन्धावगतौ । तथा च तद्गोचरसंशयानुपपत्तिस्तदवस्थैव । धर्म्य- वगमाभावे संशयासम्भवात् । तदवगतौ च दृष्टसमानयोगक्षेम एव नियतसम्बन्धोऽवगत इति न संशयः स्यात् । “सुरभिचन्दनम्" इति तु क्रमिकं ज्ञानद्वयं, न चैकं ज्ञानम् । सौरभांशे हि स्मरणं, चन्दनाशे च चाक्षुषम् । क्रमस्याग्रहणाच्च यौगपद्याभिमानः इत्यन्यत्र विस्तरः ॥ १५ ॥ प्रागुत्पत्तेरसत्कार्य तत्रापि ज्ञानमक्षजम् । योगजं च तथा ज्ञानमाह्निकेऽस्मिन् परीक्षितम् ॥१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्य्यात्मारामभगव- ' त्पादशिष्यहरिप्रसादकृतायां वैशेषिकसूत्रवैदिकवृत्ती नवमाध्यायस्याधमाह्निकम् ॥१॥ , - १८० वैशेषिकदर्शनम् । [द्वितीयम् अथ नवमोऽध्यायः। द्वितीयमाह्निकम् । प्रत्यक्ष परीक्ष्य लैगिक ज्ञानं परीक्षयति- "अस्येदं कार्य, कारणं, संयोगि, विरोधि, समवायि चेति लैङ्गिकम् ॥१॥ चकारेणैकार्थसमवाय लिङ्ग समुच्चिनोति । पूर्वोपात्तत्वात् । अस्य-स- म्बन्धषष्ठीयम्, अस्य वयादिकारणस्येदं-धूमादि कार्य्यम्, अस्य वर्षादिका- र्यस्येदं मेघोन्नत्यादि कारणम्, अस्य संयोगिनस्त्वगादेरिदं शरीरादि संयो- गि, विरोधिनोऽस्य मरुभ्रसंयोगस्येदम् अवर्षणं विरोधि, समवायिनोऽस्य द्रव्यस्येदं-गुणादि समवायि, स्पर्शादेरेकार्थसमवायिनश्वास्येद-रूपादिक- म्-एकार्थसमवायि, इति एवं सम्बन्धिनोर्लिङ्गलिगिनोरुभयोः सम्बन्धस्य यद्हणं, तत्पूर्वकाल्लिङ्गज्ञानात् तत्सम्बन्धिलिङ्गिगोचरं यज्ज्ञानमुत्पद्यते, तल्लैङ्गिकम्-लिङ्गमनुमान, तज्जातम् आनुमानिकं ज्ञानमित्यर्थः । अस्येदमिति सपक्षे गृहीतसम्बन्धेन पक्षे चासन्दिग्धं दृष्टेन कार्येण लिङ्गेन कारणस्य, कारणेन कार्य्यस्य, सयोगिना संयोगिनः, विरोधिना विरोधिनः, समवायिना समवायिनः, एकार्थसमवायिना चैकार्थसमवायिनो यज्ज्ञानं, तल्लैङ्गिकमिति भावः । यन्त्र वक्तव्यमासीत्, तत् तृतीयाध्याये प्रोक्तम् । तत्रैव च लिङ्गो- दाहरणानि प्रोक्तानि, नातः पुनरुच्यन्ते ॥१॥ नन्वस्येदम्, अनयोश्च कार्यकारणभावादिसम्बन्ध इति कुतो विज्ञा- यते ? तत्राह- "अस्येदं कार्यकारणसम्बन्धश्चावयवाद्भवति ॥२॥ अस्य-एतद्वस्तुसम्बन्धीदम् एतद्वस्तु-कार्यकारणसम्बन्धश्च संयो- गादेरुपलक्षणमेतत् , परस्परमनयोः कार्यकारणभावादिसम्बन्धश्चावयवात्- उदाहरणाद् भवति-विषयेण विपयिणं लक्षयति, ज्ञायते इत्यर्थः ।

आहिकम्] नवमोऽध्यायः। १८१ - यस्य येन सम्बन्धः, यश्च सम्बधः, तत्सर्वमुदाहरणात्प्रतिपद्यते । तस्मा- दुदाहरणमनुरुध्य सर्वदा प्रयोक्तव्यमिति भावः ॥२॥ लैङ्गिकं ज्ञानं परीक्षितं, शाब्दं तावत्परीक्षितुमतिदिशति- "एतेन शान्दं व्याख्यातम् ॥ ३ ॥ एतेन-लिङ्गलिगिसम्बन्धज्ञानपूर्वकलिङ्गज्ञानजन्यलैङ्गिकज्ञानव्याख्या- नेन शाब्द-शब्दतदर्थसम्बन्धज्ञानपूर्वकाच्छन्दज्ञानाज्जायमानं शाब्द ज्ञानं व्याख्यातं व्याख्यातं वेदितव्यमित्यर्थः । • आप्तोपदेशः शब्दः । साक्षात्करणमर्थानाम्-आप्तिः, तया वर्तते यः स आसः। तस्योपदेशो वाक्यम् , उपदिश्यतेऽनेनेति तद्वयु- त्पत्तेः । अथवाऽर्थाव्यभिचारित्वम्-आतिः, तया वर्तते यः स आप्तः। आप्तश्वासावुपदेशश्च इति कर्मधारयः । अर्थाव्यभिचारि वाक्यं श- न्दप्रमाणम्-इति तत्समुदायार्थः । तद्विविधं-लौकिकं, वैदिकं च । वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणं, लौकिक त्वाप्तोक्तं प्रमाणम्, अन्यदप्र- माणम् । पर्दानां समूहो वाक्यं,शक्त पदम् , अस्मात्पदादयमर्थो बोद्धव्य इति भगवन्नियोगात्मकः सङ्केतः शक्तिः । सा चाप्तोपदेशेन, वृद्ध- व्यवहारेण, प्रसिद्धपदसन्निधानेन च गृह्यते । “त्रिभिः सम्बन्ध- 'सिडि" (सां. अ. ५. स. ३८.) इति कापिलसूत्रात् । तेन च गृहीतशक्तिकस्य "गामानय" "घटमानय” इत्यादिवाक्य- श्रवणसमनन्तरं तद्धटकीभूतसकलपदानां साक्षात्कारात् “एकसम्बन्धि- ज्ञानमपरसम्बन्धिस्मारकम्” इति न्यायेन यथास्थानं सकल- पदार्थोपस्थितौ सत्यामासत्तियोग्यताकाड्डातात्पर्य्यज्ञानसहकारेण यदुप- ' स्थितपदार्थानां क्रियाकर्मादिभावेनान्त्रयरूपं "गोवृत्तिकर्मतानिरूपका- नयनानुकुलकृत्याश्रयः प्रेरणाविषयस्त्वम्पदार्थः" इत्यादिकं ज्ञानमुपजायते तदेव शाब्दं ज्ञानमिति भावः । तत्र वृत्तिविशिष्टपदानां ज्ञानं करणम् । वृत्त्या पदजन्यपदार्थस्सरणं व्यापारः । आसत्तियोग्यताऽऽकाहातात्पर्य्यज्ञानानि सहकारिकारणानि । - १८२ वैशेषिकदर्शनम् । [द्वितीयम् पदार्थानामपूर्वः सम्बन्धः, अपूर्वसम्बन्धवन्तो वा पदार्थाः वाक्यार्थः । तद्रोचरो बोधः शब्दबोधः, फलं प्रमेति विवेकः । अत्र पदं चतुर्विधं-यौगिकं, रूढं, योगरूढं, यौगिकरूढ च । योगोऽ- वयवशक्तिः, तन्मात्रेणार्थप्रतिपादकं यौगिकम् । यथा-पाचकादिपदम् । रूढ़िः समुदायशक्तिः, तन्मात्रेणार्थप्रतिपादकं रूढम् । यथा-गवादिपदम् । योगरूढिभ्यां परस्परसहकारेणार्थप्रतिपादकं योगरूढम् । यथा-पङ्कजादि- पदम् । यौगिकं तद्रूढं चेति व्युत्पत्त्या योगेन, रूढ्या च परस्परासहाये- नार्थप्रतिपादकं यौगिकरूढम् । यथोद्भिदादिपदं योगेन तरुगु- ल्मादेः, रूढ्या च यागविशेषस्य वाचकम् । एषां शक्तिश्चाप्तोपदेशादिना गृह्यते । यथा यास्कपाणिनिप्रभृतयो निरुक्तकारादयो, मातापित्राचार्या- दयश्चाप्ताः, तेषामुपदेशेन "इदं विष्णुर्विचक्रमे त्रेधा निदधे पद्म" इत्यत्र विष्णुरादित्यः, पाचकः पाककर्ता, मातेयं, पिता- ऽयं, गुरुरयम्, आचार्योऽयं, घटोऽयं, पटोयमित्यादिना विष्णुप्रभृतिप- दानामादित्यादौ शक्तिर्गृह्यते । प्रयोजकवृद्धप्रयोज्यवृद्धयोर्व्यवहारः वृद्ध- व्यवहारः । तेन च यथा-प्रयोजकवृद्धेन "गामानय" इत्युक्तं, तच्छ्रुत्वा प्रयोज्यवृद्धेनानीतः, तत्पश्यता पार्श्वस्थेन व्युत्पित्सुना बालधिया गवान- यनरूपं कार्य नूनं गामानयेति शब्दप्रयोज्यमिति निश्चित्य "गां बधान" "अश्वमानय" इत्यादिवाक्यान्तरादावापोद्वापाभ्यां गोपदस्य गोत्वविशिष्टे, अश्वपदस्य चाश्वत्वविशिष्टे शक्तिर्गृह्यते । प्रसिद्धपदसन्निधानेन च यथा- "विकसितपद्मे मधूनि पिबति मधुपः” इत्यादौ विकसितपद्मस- निधानान्मधुपपदस्य मधुकरे शक्तिः । आसत्तियोग्यताकाक्षातात्पर्य्यज्ञा- नानि च शाब्दवोधकारणानि । तत्र यत्पदार्थेन सह यत्पदार्थस्या- न्वयोऽपेक्षित,तयोः पदयोरव्यवधानेनोपस्थितिरासत्तिः। सा यत्र विद्यते, तत्र शाब्दबोधो जायते, नान्यत्र । तेन "गिरि(क्त वहि- मान् देवदत्तेन" इत्यादौ न शाब्दवोधः। नीलो घटः, द्रव्यं पट इत्यत्र त्वासत्तिभ्रमाच्छाब्दवोध. । आसत्तिभ्रमेण च शाब्दभ्रमाभावेऽपि न क्षतिः। भ्रमप्रमासाधारणासत्तिज्ञानस्य शाब्दबोधहेतुत्वाभ्युपगमात् । केचितु - आहिकम्] नवमोऽध्यायः । १८३ श्लोकादौ पदव्यवधाने सत्यपि शाब्दबोधदर्शनात् । “शक्तिलक्षणा- ऽन्यतरसम्बन्धेन पदेभ्योऽन्वययोग्यपदार्थानामुपस्थिति- रासत्तिः" इत्याहुः । अस्मिन् मते च स्वरूपसत्येवासत्तिः शाब्दबो- धहेतुर्न तज्ज्ञानमिति विशेषः । एकपदार्थेऽपरपदार्थसम्बन्धो योग्यता। सा यत्र ज्ञायते तत्र शाब्दबोधो, नान्यत्र । तेन वहिना सिञ्चतीत्यादौ न शाब्दबोधः । तत्र तज्ज्ञानाभावात् । अर्थाबाधो वा योग्यता । तेन वहिना सिञ्चती- त्यादौ वहाँ सेककरणत्वरूपार्थस्य प्रत्यक्षेण वाधान्न शाब्दबोधः ॥ नन्वेतस्याः योग्यतायाः ज्ञानं शाब्दबोधात्प्राक् सर्वत्र न सम्भवति, वाक्यार्थस्या पूर्वत्वात् । न । तत्तत्पदार्थोपस्थितौ सत्यां क्वचित्संशयात्मकस्य, क्वचिच्च निश्चयात्मकस्य तज्ज्ञानस्य सम्भवात् । पदस्यपदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमा- काङ्क्षा । किमुक्तं ? यत्पदस्य यत्पदाभावप्रयुक्तमन्वयवोधाजनकत्वं, तस्य तद्वत्त्वमाकाङ्क्षा । किं बहुना येन पदेन विना यस्य पदस्यान्व- याननुभावकत्वं, तेन पदेन सह तस्याकाक्षा । क्रियापदं विना कारक- पदं नान्वयवोधं जनयति, तेन तस्य तदाकाक्षा । यत्र तु कारकपदं विद्यते, क्रियापदं नास्ति, तत्र क्रियापदमध्याहार्य्यम् । तेन विना शाब्दबो- धानुपपत्तेः । न चार्थाध्याहारेण निर्वाहः । पदजन्यपदार्थोपस्थितेरेव शाब्द- बोधहेतुत्वात् । क्रियाकारकपदानां च तेनतेनैव रूपेणाकाश्तित्वात् । अतो यत्र द्वारमित्युक्तं, तत्र पिधेहि, यत्र पुप्पेभ्य इत्युक्तं, तत्र स्पृहयती- ति क्रियापदमध्याहर्तव्यम् । तेन विना चतुर्थ्यनुपपत्तेरिति द्रष्टव्यम् । इदमिह बोध्यं-यथा हि भूयः सहचारदर्शनेनावगतलिङ्गि- सम्बन्धं लिङ्गं ज्ञातं सल्लिङ्गिनि लैङ्गिकं ज्ञानमुपजनयति, तथैवाप्तोपदे- शादिभिस्त्रिभिरवगतार्थसम्बन्धः शब्दो ज्ञातो भवन्नर्थे शाब्द बोधमुत्पा- दयति । समानोऽनयोरर्थजननप्रकार इत्यतिदेशः । न त्वयं शब्दे प्रमा- णान्तरत्वाभावाभिप्रायकः। वेदानामीश्वरीयत्वेन खतःप्रामाण्यस्य साधनात्। "तद्वचनादानायस्य प्रामाण्यम्" (वै. अ. १० आ. २ सू.१०) । . 7 १८४ वैशेषिकदर्शनम् । [द्वितीयम् इति चोपसंहारेऽभिधास्यमानत्वात् । अन्यथा सर्वविप्लवापत्तेः । वाक्यार्थस्य चापूर्वत्वेनानुमेयत्वानुपपत्तेः । अतो भ्रान्ताः नूनं नव्याः यत्प्रत्यक्षमनुमान- मिति द्वयमेव प्रमाणं वैशेपिकाणां न शब्द इति कल्पयन्ति । श्रान्ति- मूलकत्वाचायुक्तं तत् कल्पनम् । तस्माद्वैदिकैरेतद्दूरतः परित्याज्यं, वैशेपि- काणां च परमादरेण प्रत्यक्षानुमानशब्दा इति प्रमाणत्रयमुपादेयमिति ॥३॥ परिभापासूत्रं पठति- "हेतुरपदेशो लिङ्गं प्रमाणं करणमित्यनन्तरम् ॥४॥ हीयते गम्यतेऽनेनेति हेतुः, अपदिश्यते-निदर्शनबलेन ज्ञायतेऽ- नेनेति अपदेशः, लिङ्गयते लक्ष्यतेऽनेनेति लिङ्गं, प्रमीयतेऽनेनेति प्रमाणं, क्रियते अतिशयेन साध्यतेऽनेनेति करणम् , इति-एतद्धत्वा- दिपञ्चकमनर्थान्तरं नान्यार्थक-समानार्थकमित्यर्थः । य एव हेतुः, स एवापदेशः, तदेव लिङ्गं, तदेव प्रमाणं, तदेव च करणं, शब्दमानं भिद्यते नार्थ इति भावः ॥ ४॥ ननु प्रत्यक्षलैङ्गिकशाब्दज्ञानवदुपमित्यादीनि ज्ञानानि कुतो न परीक्षि- तानि ? तत्राह "अस्वेदमिति बुद्ध्यपेक्षितत्वात् ॥५॥ अस्य व्यापकस्येदं व्याप्यमित्याकारा या सम्बन्धगोचरा बुद्धिः, सा जनकत्वेनापेक्षिता यैस्तानि तथा, तेषां भावस्तत्त्वं, तसात् अस्येदमिति सम्बन्धबुद्धिमपेक्ष्य जायमानत्वात् तानि लैङ्गिकज्ञानतो नातिरिक्तानि सन्तीत्यर्थः । यथा हि लैङ्गिकं ज्ञानम् "अस्येदमिति सम्बन्धबुद्धिमपेक्ष्य जायते, तथैवोपमित्यादीनि ज्ञानान्यपि सम्बन्धबुद्धिमपेक्ष्य जायन्ते, न तत्र कि- ञ्चिद्वैलक्षण्यमस्ति, येन तदतिरेकेण तानि परीक्षितव्यानि स्युरिति भावः । सादृश्यज्ञानजन्यं, वैधय॑ज्ञानजन्यं वा ज्ञानमुप- मितिः । तत्र च कुतश्चिदारण्यकपुरुषादाप्ताद् “गोसदृशो गवया" इत्युपश्रुत्य दैवादारण्यं गतो नागरिको गवयं पश्यन् यदध्यवस्यति "गो- सदृशोऽयम्" इति, तत्सादृश्यज्ञानमुपमितिकरणत्वादुपमानम् । तदनु " । आह्निकम्] नवमोऽध्यायः । १८५ च तस्य यदारण्यकपुरुषोपदिष्टवाक्यार्थस्य सरणं जायते, स च व्यापारः । तज्जन्यत्वे सति तज्जन्यजनकत्वात् । पश्चात्स यनिश्चिनोति "नूनमेष गवयः" इति, तज्ज्ञानमुपमिति । एवम् "उष्ट्रविधर्मा नासिकाग्रे च लसदेकशृङ्गः खड्गमृगः" इति कुतश्चिदारण्यकपुरुषादुपश्रुत्य देवादारण्यं गतस्य नागरिकस्य खड्गमृगं पश्यतो यदुष्ट्रविधर्मायमिति ज्ञानमुपजायते, तदुपमानम् । अतिदेशवाक्यार्थस्मरणं व्यापारः । “नूनमेष खड्गमृगः” इति च ज्ञानमुपमितिः । एतच्चोपमितिद्वयं लैङ्गिकज्ञानमेव सम्पद्यते, न तदतिरिक्तम् । “गोसदृशो गवयः" इति गवयस्येदं गोसादृश्य- मिति गवयपदवाच्यत्वव्याप्यतया गृहीतेन गोसादृश्यरूपलिङ्गेन, "उष्ट्र- विधर्मा नासिकाग्रे च लसदेकशृङ्गः खड्गमृगः" इति खड्गमृगस्येदमुष्ट्र- वैधर्म्यमिति खड्गमृगपदवाच्यत्वव्याप्यतया गृहीतेन चोष्ट्रवैधर्म्यरूपलिङ्गेन जायमानत्वात् । यो हि शब्दो यत्र वृद्धैः प्रयुज्यते, सोऽसति वृत्त्यन्तरे तस्य वाचको भवति, यथा-गोशब्दो गोत्वविशिष्टस्य पिण्डस्य । प्रयुज्यते चैप गवयशब्दो गोसदृशे, तस्सादयं तस्य वाचक इति च प्रयोगसम्भ- वात् । अथवाऽऽप्तेनारण्यकपुरुषेणाप्रसिद्धगवयस्य नागरिकस्य "कीम् गवयः" इति पृच्छतो गोसादृश्येन गवयस्य प्रतिपादनादाप्तवचनमेवोपमानं, न पृथक्प्रमाणम् । • उपपाद्यान्यथानुपपत्तिज्ञानादुपपादकज्ञानमापत्तिः । यद्विना यन्नोपपद्यते, तत्तस्योपपादकम् , इतरचोपपाद्यम् । उपपादकं सम्पादकम् , उपपाद्यं सम्पाद्यमिति चानान्तरम् । अर्थापत्तिशब्दश्च प्रत्यक्षशब्दवत्फलकरणयो. साधारणः । “पीनोऽयं देवदत्तो दिवा न भुते” इति दृष्ट, श्रुतं वा पीनत्वमुपपाद्यम् । तच्च दिवाऽभोजिनि देवदत्ते रात्रिभोजनं विना नोपपद्यते । तस्य तत्सम्पाद्यत्वात् । अतस्तद- न्यथाऽनुपपत्तिज्ञानादुपपादकस्य रात्रिभोजनस्य ज्ञानमर्थापत्तिः। “शत- वर्षजीवी चैत्रो गृहे न विद्यते” इति श्रुतं चैत्रस्य शतवर्षजीवित्व- मुपपाद्यम् । तच गृहेऽसत्तश्चैत्रस्य बहि सत्त्वं विना नोपपद्यते । तदन्य- थानुपपत्तिज्ञानादुपपादकस्य बहिः सत्त्वस्य ज्ञानमापत्तिः । तत्रोषपायावा, २४ १८६ वैशेषिकदर्शनम् । [द्वितीयम् न्यथानुपपत्तिज्ञानमर्थापत्तिप्रमाणम् । अर्थस्य रात्रिभोजनादेरापत्तिः= प्राप्तिः-ज्ञानं यसादिति तयुत्पत्तेः । उपपादकज्ञानमापत्तिप्रमा, फल- मिति यावत् । अर्थस्यापत्तिः प्राप्तिः ज्ञानमिति तद्युत्पत्तेः । न चैपाऽपि लैङ्गिकज्ञानतोऽतिरिच्यते । अस्योपपादकस्येदमुपपाद्यमिति गृहीतसम्ब- न्धेन दृष्टेन वा, श्रुतेन वोपपायेन लिङ्गेनोपपादकस्य लिगिनः साधनात् । तत्र देवदत्तो रात्रौ भुते, दिवाऽभुञ्जानत्वे सति पीनत्वात् , चैत्रो बहि विद्यते, शतवर्षजीवित्वे सति गृहेऽविद्यमानत्वात् , इति प्रयोगोपपत्तेः । विरोधिज्ञानाद्विरोधिनो ज्ञानमभावः । यथा-अविद्यमानाद्वर्ष- कर्मणो विद्यमानस्य मरुभ्रसंयोगस्य ज्ञानम् । तदपि लैङ्गिकम् । अस्येद मिति बुद्धयपेक्षितत्वात् । अथवा योग्यानुपलब्ध्या प्रमेयाभा- वोपलब्धिरभावः । तच्च योग्यानुपलब्ध्या सहकृतेनेन्द्रियेण जाय- मानत्वात्प्रत्यक्षमित्युक्तम् । अविनाभाविनोऽर्थस्य सत्ताज्ञाना- दन्यस्य सत्ताज्ञानं सम्भवः । यथा-द्रोणस्य सत्ताज्ञानादाढकस्य सत्ताज्ञानम्, आढकस्य सत्ताज्ञानात्प्रस्थस्य सत्ताज्ञानम् । सहस्त्रसत्ता- ज्ञानाद्वा शतसत्ताज्ञानं, शतसत्ताज्ञानाच पञ्चाशत्सत्ताज्ञानम् । एतदपि लैङ्गिकं ज्ञानम् । अस्येदमिति सम्बन्धबुद्धिमपेक्ष्य जायमानत्वात् । ऐ- तिहासिकं ज्ञानमैतिद्यम् । “इति ह" इति निपातसमुदायः प्रवादपारम्पर्ये वर्तते, ततः खार्थिकः ष्यन् प्रत्ययः, तसाज्जातं ज्ञान- मैतिह्यम् । तच्चाप्तप्रवक्तृकत्वनिश्चये शाब्दम्, इतरथा त्वप्रमाणमिति निश्चेतव्यम् । इदमत्र बोध्यं-वैदिकाःहि सामान्यतस्तावदष्टौ प्रमाणानि मन्यन्ते- प्रत्यक्षमनुमानं, शब्दः, उपमानमर्थापत्तिरभावः, सम्भवः, ऐतिह्यमिति। तेपा- मर्थापत्त्यादीनामनुमानादिष्वन्तर्भावाच्चत्वार्येव प्रमाणानीति गौतमाचा- Oः। उपमानस्याप्यनुमानान्तर्भावसम्भवात् प्रत्यक्षमनुमानं, शब्दः, इति त्रीण्येव प्रमाणानीति वैशिषिकादयो वैदिकान्तराणि, इति ॥५॥ अनुभवलक्षणा प्रत्यक्षलैगिकशाब्दभेदात् त्रिविधा विद्या तावत्परीक्षिता, सम्प्रति स्मृतिलक्षणां तां परीक्षितुमुपकमते- ,

3
आहिकम्]
नवमोऽध्यायः।
१८७
"आत्ममनसोः संयोगविशेषात्संस्काराच स्मृतिः॥६॥
आत्ममनसोः आत्मनो, मनसश्च संयोगविशेपात्-लिङ्गदर्शनेच्छानुस्म-
रणप्रणिधाननिवन्धाभ्यासादिसहकृतत्वं संयोगे विशेषः, तथाभूतात्तस्माद-
समवायिकारणात्, संस्काराच-पूर्वानुभवजनितभावनाख्यसंस्काराच नि-
मित्तकारणास्मृतिः आत्मनि समवायिकारणे सरणात्मकं ज्ञानमुत्पद्यते
इत्यर्थः ॥ ६॥
द्विविधा खलु स्मृतिः-अभावितस्मर्तव्या, भावितसर्तव्या च, तत्रायां
परीक्ष्य द्वितीयां परीक्षयन्नतिदिशति-
"तथा स्वभः ॥७॥
तथा यथाऽऽत्ममनसोः संयोगविशेषात्संस्काराच स्मृतिरुत्पद्यते,तथा
खमः भावनामयखाप्नपदार्थगोचरं ज्ञानमुत्पद्यते इत्यर्थः ।
यस्यामवस्थायां हि वाह्येन्द्रियाणि खखविषयग्रहणाद् विरमन्ति, मन-
श्व तत्सम्बन्धं परित्यज्यात्मप्रदेशेऽन्तर्हृदये निश्चलमवतिष्ठते, तामेव खान-
माचक्षते । तस्यां चावस्थायां बाहुल्येन प्राणापानवायुसन्ताननिर्गमप्रवेशल-
क्षणायां प्रवृत्तौ सम्भवन्त्यामल्पनिद्रासहकृताखापाख्यादात्ममनःसंयोगवि-
शेपात, पूर्वानुभूतविपयग्रामसंस्कारपाटवाच्च भावनामयेषु तेपुतेषु विषयेषु
यत्प्रत्यक्षाकारमिव मानसं ज्ञानमुत्पद्यते, तदेव स्वप्नः । तच स्मृत्या-
त्मकमेव, नानुभवात्मकम् । सस्कारमात्रजन्यत्वात् । तथा चोक्तं वृत्ति-
• कृता "अनुभूतवस्तुस्फुरणार्थतया न स्मरणार्थान्तरं स्त्रम
ज्ञानम्" इति । शङ्कराचार्यैरपि ब्रह्ममीमांसायामभिहितम् "अपिच
स्मृतिरेषा, यत्स्वमदर्शनम्” (अ० २।२।२९) इति । देशकाल.
व्यवहितेषु विपयेपु भवतोऽपि तस्य प्रत्यक्षवदवभासस्तु शुक्तिरजतादिवत्
संस्कारपाटवधातुनिद्रादिदोपवशादवगन्तव्यो, न खतः।स्मृतित्वव्याघातात् ।
अत एव च नेयं स्मृति.,अपि च स्मृत्याभासः । स्मृतित्वसामान्याचातिदेश
इति भावः ॥ ७॥
अतिदेशान्तरमाह-
"खमान्तिकम् ॥८॥

१८८
वैशेषिकदर्शनम् ।
[द्वितीयम्
तथेत्यनुवर्तते । यथाऽऽस्ममनसोः संयोगविशेषात्सस्काराच्च स्वप्नः, तथा
स्वप्नान्तिक-स्वप्नावस्थायामेव स्वप्नदृष्टस्यार्थस्य प्रत्यवेक्षणात्मक ज्ञानमुत्प-
यते इत्यर्थः ।
यत्कदाचित्स्वप्नावगतस्यार्थस्य खप्नावस्थायामेव प्रतिसन्धानं भवति-
"कदाचिदयं मया दृष्टः" इति, तदेव ज्ञान स्वप्नान्तिकमुच्यते।स्वप्नस्यान्ते
अवसाने भवतीति तद्व्युत्पत्तेः । तदपि स्वप्नवत्स्मृतिरेव । पूर्वावगतस्य
स्वप्नज्ञानप्रवन्धस्यैवानुसन्धानात् । अत एव चातिदेश इति भावः ।
तत्र स्वप्नज्ञानं पूर्वानुभवजनितात्सस्काराद् भवति, स्वप्नान्तिकं तु
तत्कालोत्पन्नज्ञानजनितात्सस्कारादिति विशेपः ॥८॥
ननु स्वप्नज्ञाने स्मृतिज्ञानतो बैलक्षण्यमनुभूयते, कार्यवैलक्षण्यं च
कारणवैलक्षण्यमन्तरेणानुपपन्नम्, अतः कथमुच्यते यथा स्मृतिरात्ममनसो.
सयोगविशेपात्संस्काराचोत्पद्यते, तथा स्वप्नः? तबाह-
"धर्माच्च ॥९॥
अधर्मादिकं धर्मेणोपलक्षयति । खम्म इत्यनुवर्तते। धर्मादिकारणतो-
ऽपि स्वप्नो भवतीत्यर्थः ।
न केवलं स्मृतिवदात्ममनसोः संयोगविशेषः, संस्कारश्चेति कारणद्वय-
मेव स्वप्नज्ञाने कारणम् , अपि च धर्माधर्मधातुदोपरूपकारणान्तरसहित
कारणत्रयम् । अतो युक्तं तस्मिन् स्मृतिज्ञानतो वैलक्षण्यमिति भाव. ।
तत्र कामी वा, क्रुद्धो वा यमर्थमावृतश्चिन्तयन् स्वपिति, तस्य तस्या-
मवस्थाया यत्प्रत्यक्षाकारमिव तदर्थगोचर ज्ञानमुत्पद्यते, तत्-सस्कारपाटवात् ।
यदाकाशगमनादिकम्, अग्निप्रवेशकनकाचलाभ्युदितार्कमण्डलादिकम्, स-
रित्समुद्रप्रतरणहिमपर्वतादिकं च पश्यति, तद् वातपित्तश्लेष्मणां धातूनां
दोषात् । यच्छुभावेदक गजारोहणच्छत्रलाभादिकं पश्यति, तत्संस्कारधर्मा-
भ्यां, यदशुभावेदक तैलाभ्यञ्जनखरोष्ट्रारोहणादिकं पश्यति, तदधर्मसस्कारा-
भ्यामिति विवेकः ॥ ९॥
परीक्षिता स्मृतिः, इदानीमविद्या परीक्ष्यते-
"इन्द्रियदोषात्संस्कारदोषाचाविद्या ॥१०॥

आह्निकम्] नवमोऽध्यायः। १८९ MAP चकारेणाधर्मादिकं समुच्चिनोति । इन्द्रियदोषात् मनःप्रभृतीन्द्रियाणां दोषात्, संस्कारदोपाच-संस्काररूपदोपादधर्मादितश्चाविद्या-संशयविपर्य- यान्यतरलक्षणाऽविद्योत्पद्यते इत्यर्थः । या प्रसिद्धानेकविशेषयोधर्मिणोरेकस्मिन् धर्मिणि कचिदिन्द्रियाणां दो- पेणायथार्थालोचनात्, संस्कारदोषेण चासन्निहितस्य धार्मिणः सरणात्, खरूपाप्रतिष्ठन्ती काचिद्विद्योत्पद्यते, साऽविद्येति भावः । तत्र मनसो रजस्तमोऽतिशयो दोपः, चक्षुरादेश्च पित्तादिर्दोष इति विवेकः। . संस्कारदोपो भ्रमानुभवजातत्वादिरिति जयनारायणः । विशेषाद- शनसाहित्यमिति शङ्करमिश्रः। द्विविधा खल्वविद्या-सशयो, विप- य॑यश्च । तत्र प्रसिद्धानेकविशेपयोर्धमिणोरेकस्मिन् धर्मिणि क्वचिनिन्द्रियदोषे- णायथार्थालोचनात्, किमुक्तं ? विशेपानालोचनेन सामान्यमात्रालोचनात्, संस्कारदोपेण च तदुभयविशेषानुस्मरणादधर्माच जायमानः कि खिदित्यु- भयालम्बी विमर्शः संशयः । स च सलक्षणः सावान्तरप्रभेदो द्वितीयाध्यायस्य द्वितीयाहिके प्राक् परीक्षितः। प्रसिद्धानेकविशेषयोधर्मिणोरि- न्द्रियाणां दोपेणायथार्थालोचनात्, संस्कारदोषेण चा- सन्निहितस्य धर्मिणः स्मरणाद्धर्माचातस्मिस्तदिति प्र- प्रत्ययो विपर्ययः । स च बहुप्रकारोऽपि प्रत्यक्षानुमानशब्दविषय एव भवति । प्रत्यक्षविपये-यथा-शुक्ताविद रजतं, रज्ज्वामयं सर्पः, गव्ययमश्व इति । क्वचिदसत्यपि प्रत्यक्षे प्रत्यक्षाभिमानो भवति । यथा- व्यपगतघनपटलमचलजलनिधिसदृशमम्बरम् , अञ्जनचूर्णपुञ्जश्यामं शार्वरं तम इति । अनुमानशब्दविषये यथा-धूमाभिमतैर्वाप्पादिमिर्वयन- मानं, गवयविषाणदर्शनाच गौरिति, वेददर्शनविपरीतेषु शाक्यादिदर्शने- विदं श्रेय इति, शरीरेन्द्रियमनस्वनात्मखात्मेति, कृतकेपु नित्यत्वदर्शनं, कारणवैकल्ये कार्योत्पत्तिज्ञानम् , हितमुपदिशत्वहितमिति ज्ञानम् , अ- हितमुपदिशत्सु च हितमिति ज्ञानमिति वोध्यम् ॥ १०॥ - १९० वैशेषिकदर्शनम् । [द्वितीयम् -- ननु केयमविद्या भवति ? तत्राह-- "तद् दुष्टज्ञानम् ॥११॥ दुष्टज्ञानं दोषो बाधः, तद्युक्तं ज्ञानं तत्-विधेयलिङ्गत्वानपुंसकम् सेत्यर्थः । दुष्ट ज्ञानमविद्येति भावः ॥ ११ ॥ ननु विद्या का भवति ? तत्राह- अदुष्टं विद्या ॥१२॥ अदुष्टम्-उक्तदोपरहितं ज्ञानं विद्येत्यर्थः । अबाधितार्थविषयं ज्ञानं विद्येति भावः ॥ १२ ॥ ननु वैशेषिकाचार्यैरिदं कुतो ज्ञातं ? तत्राह- "आर्ष सिद्धदर्शनं च धर्मेभ्यः ॥ १३ ॥ आर्षम् ऋषीणामिदं सिद्धदर्शनं च वेदसिद्धानां पदार्थानां यथार्थज्ञानं तु धर्मेभ्यः इहामुत्रकृतवैदिककर्मानुष्ठानेभ्यो भवतीत्यर्थः । इदमनोपदिष्टं भवति-सर्वेषामभ्युदयानां, निःश्रेयसस्य च परम साधनं कायेन, मनसा, वाचा, वैदिककर्मानुष्ठानमिति ॥ १३ ॥ लैङ्गिक शब्दजं ज्ञानं नोपमानादिमानता । स्मृतिः स्वशान्तिकं खमोऽविद्या चास्मिन् परीक्षिता॥१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्यात्मारामभगव- त्पादशिष्यहरिप्रसादकृतायां वैशेपिकसूत्रवैदिकवृत्तौ- नवमाध्यायस्य द्वितीयमाह्निकम् ।। समाप्तश्च ज्ञानविशेपाध्यायो नवमः ॥९॥ MINM ? आहिकम्] दशमोऽध्यायः । १९१ अथ दशमोऽध्यायः। आद्यमाह्निकम् । बुद्धिः सप्रपञ्चा परीक्षिता, सम्प्रति क्रमप्राप्तयोः सुखदुःखयोः परीक्षामार- भमाणः पूर्व तयोः परस्परमर्थान्तरभावमाह--- "इष्टानिष्टकारणविशेषाविरोधाच मिथः सुखदुःख- योरर्थान्तरभावः ॥१॥ सुखदुःखयोः सुखस्य, दुःखस्य च मिथः परस्परमर्थान्तरभावः भि- नार्थत्वं भेदः वैशिष्टयमस्ति । कुतः ? इष्टानिष्टकारणविशेषात्-इष्यमाणं साम्राज्यराज्यस्वातन्त्र्यस्त्रक्चन्दनवनितादिकमिष्टम्, अनिष्यमाणं दारिद्य- भृतिपारतन्त्र्याहिकण्टकादिकमनिष्टम्, तद्रूपयोः सुखदुःखकारणयोर्विशेषा- त्-मिथो भेदात् , विरोधाच्च-परस्परं सहानवस्थानलक्षणविरोधाचेत्यर्थः । इष्टकारणकं हि सुखम्, अनिष्टकारणकं च दुःखम् । न चैते सह भवतः। अतोऽनयोः परस्परमर्थान्तरभाव इति गम्यते । भिन्नकारणकयोरेकत्र चास- हवसतोस्तयोरभेदासम्मवादिति भावः ॥१॥ ननु सुखदुःखयोः परस्परमर्थान्तरभावेऽपि ज्ञानतोऽर्थान्तरत्वे को हेतुः ? तत्राह- "संशयनिर्णयान्तराभावश्च ज्ञानान्तरत्वे हेतुः ॥२॥ सुखदुःखयोरित्यनुवर्तते। संशयनिर्णयान्तराभावश्च संशयनिर्णयान्तगर्त- त्वाभावश्च सुखदुःखयोर्ज्ञानान्तरत्वेज्ञानतोऽर्थान्तरत्वे हेतुः-लिङ्गमित्यर्थः । विविधं हि ज्ञान-संशयो, निर्णयश्च । न च सुख दुःखे तयोरन्तरे भवितु- महंतः।प्रतीतिकार्य्याभ्यां विलक्षणत्वात् । तदन्तराभावश्च तयोनितोऽन्यत्वे भवति हेतुः । कल्पान्तरानुपपत्तेरिति भावः ॥ २॥ ननु सुखदुःखे कथमुत्पद्येते ? तत्राह- "तयोनिष्पत्तिः प्रत्यक्षलैङ्गिकाभ्याम् ॥३॥ तयोः सुखदुःखयोर्निष्पत्तिः उत्पत्ति. प्रत्यक्षलैङ्गिकाभ्यां प्रत्यक्षलैङ्गि- कज्ञाननिष्पतिव्याख्यानाभ्यां व्याख्यातेत्यर्थः । 7- ? - - १९२ वैशेषिकदर्शनम् । [आद्यम् यथा हि प्रत्यक्षमिन्द्रियार्थसन्निकर्षात, लिङ्गदर्शनाच लैङ्गिक ज्ञान- मुत्पद्यते । तथैवाऽभिप्रेतविषयसान्निध्ये सतीष्टोपलब्धीन्द्रियार्थसन्निकर्षात् , अभिप्रेतविषयप्राप्तिलिङ्गदर्शनाच्च सुखमुत्पद्यते, विपर्यायेण च दुःखम् । तस्मात्प्रत्यक्षलैगिकज्ञानोत्पत्तिव्याख्यानेनैव तदुत्पत्तिरपि व्याख्याता वेदि- तव्येति भावः ॥३॥ नन्वतीतानागतासन्निहितविषयेषु सुखदुःखयोर्निष्पत्तिः कथं भवति ? तत्राह- "अभूदित्यपि ॥४॥ तयोर्निष्पत्तिरित्यनुवर्तते । भविष्यतीत्यपेरर्थः । अभूदिति मम साम्रा- यादिकं सुखसाधनमभूदिति स्मरणादतीतेषु, मम साम्राज्यादिकं सुखसा- धनं भविष्यतीति सङ्कल्पादनागतेपु विषयेषु तयोर्निष्पत्तिर्भवतीत्यर्थः । अनुकूलवेदनीयं हि सुखं । तदभिप्रेतविषयेषु साम्राज्यादिषु सन्निहितेषु सत्विन्द्रियार्थसन्निकर्षाद् धर्माद्यपेक्षादात्ममनसोः संयोगविशे- पात्, अतीतेपु चानुस्मरणात्, अनागतेषु च तेषु सङ्कल्पादुत्पद्यते । यत्तु- विदुपामात्मज्ञानवतामसति विषयसन्निधानेऽसति चानुस्मरणेऽसतिसङ्कल्पे चाविर्भवति, तद्विद्याशमसन्तोषधर्मविशेपनिमित्तम् । प्रतिकूलवेदनीयंच दुःखम्। तच्चानभिप्रेतविपयेषु दारिद्यादिषु सन्निहितेपु सत्विन्द्रियार्थसन्नि- कदिधर्माद्यपेक्षादात्ममनसोः संयोगादुत्पद्यते । अतीतेषु च तेपु स्मरणात् , अनागतेपु च संकल्पादिति भावः ॥४॥ ननु ययोः सुखदुःखयोः प्रत्यक्षलैगिकज्ञाननिष्पत्तिव्याख्यानेन नि- प्पत्तिाख्यायते, न च ते ततोऽर्थान्तरभावमर्हतः, समाननिष्पत्तिप्रकारक- त्वात्। तत्राह- "सति च कार्यादर्शनात् ॥५॥ तयोरित्यनुवर्तते । अर्थान्तरभाव इति शेपः । सति च प्रत्यक्षे, लैङ्गिके च ज्ञाने सत्यपि कार्यादर्शनात् सुखकार्य्यस्य मुखप्रसादादे, दुःखकार्य्यस्य च मुखमालिन्यादेरदर्शनात् अनुपलम्भात् तयोस्ततोऽर्था- न्तरभाव इत्यर्थः ।

। 'माह्निकम्] दशमोऽध्यायः। १९३ , चेत्सुखदुःखयोः प्रत्यक्षलैनिकज्ञानतोऽर्थान्तरभावो न स्यात् , तदा प्रत्यक्षे, लैङ्गिके च सति मुखप्रसादमुखमालिन्यादिलक्षणं तत्कार्य्यमवश्यं दृश्येत । "कारणभावात्कार्यभावः' (४११॥३) इत्युक्तत्वात् । न च तस्मिन् सत्यपि तद् दृश्यते । ततो भवति प्रतिपत्तिः "नूनमेतयोः ततोऽर्थान्तरभावः" इति ॥ ५॥ भेदकान्तरमाह- "एकार्थसमवायिकारणान्तरेषु दृष्टत्वात् ॥६॥ तयोरित्यनुवर्तते । अर्थान्तरभाव इति पूर्ववच्छेषः । एकार्थसमवायि- कारणान्तरेपु-यस्मिन्नात्मरूपार्थे सुखदुःखे समवेतः, तस्मिन्नेवैकसिन्नर्थे यानि समवयन्ति कारणान्तराणि='धर्मः, सुखरागः, सुखकारणेच्छा, सुख- साधनोपादानयत्नः, सुखसाधनज्ञानम् , अधर्मः, द्वेषः, दुःखसाधनज्ञानम् , इत्यादीनि कारणान्तराणि, तेषु सत्सु दृष्टत्वात् सुखदुःखयोर्दर्शनात् तयोस्ततोऽर्थान्तरभाव इत्यर्थः । याक्षु कारणेषु सत्सु सुखदुःखे भवत , न ताक्षु कारणेषु सत्सु प्रत्यक्षलैनिके भवतः । अन्यद्धि कारणं सुखस्य, अन्यदुःखस्य, अन्यत्प्र- त्यक्षस्य, अन्यच्च लैङ्गिकस्य । धर्मादिभ्यो हि सुखमुत्पद्यते, अधर्मादिभ्यो दुःखम् । इन्द्रियार्थसन्निकर्षात्प्रत्यक्षम्, अस्पदमिति सम्बन्धज्ञानपूर्वक- । लिङ्गदर्शनाच्च लैगिकम् । चेत्सुखदुःखे ज्ञानप्रभेदावेव स्यातां, तदा प्रत्यक्षलैङ्गिककारणेषु सत्सु नियमेन जायेयाताम् । न च तत्कारणेषु सत्सु जायेते, किन्तु धर्मादिषु कारणान्तरेषु सत्सु । ततो भवति प्रति पत्तिः-नूनमनयोर्ज्ञानतोऽर्थान्तरभाव इति भावः ॥ ६॥ ननु कारणभेदाच्चेत्कार्यभेदः, तदा लोहितरेतसोः कारणयोरविशेषा- देकसिन् शरीरे शिरः, पृष्ठमित्यादितदवयवभेदो न स्यात्, तत्राह- "एकदेश इत्येकस्मिञ्छिरः पृष्ठमुदरं माणि, तद्धि- शेषस्तद्विशेषेभ्यः ॥७॥ एकस्मिन् एकस्मिन् शरीरे, शिरः, पृष्ठमुदरं, मर्माणि, इति-एवंभूतो . 4 . -- २५ १९४ वैशेषिकदर्शनम् । [आद्यम् यो व्यवहारविशेपः, स एकदेशे शरीरावयवे मन्तव्यः। तद्विशेषः शरीराव- यवानां परस्परं भेदस्तु तद्विशेषेभ्यः तत्कारणभेदेभ्य इत्यर्थः । लोहितरेतसोः कारणयोरविशेषेऽपि तदवान्तरविशेषात्कार्यविशेषः । सर्वत्र कारणवैजात्यादेव कार्यवैजात्याभ्युपगमात् । कारणवैजात्यं च कार्यवैजात्यानुगम्यम् । अतो न कश्चिद्दोष इति भावः ॥७॥ सुखदुःखे मिथो भिन्ने खकारणविशेषतः। ज्ञानतश्चानयोर्मेद् आहिकेऽस्मिन् परीक्षितः॥१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्यात्मारामभगव- त्पादशिष्यहरिप्रसादकृतायां वैशेषिकसूत्रवैदिकवृत्तौ- दशमाध्यायस्याघमाह्निकम् ।

आहिकम्] दशमोऽध्यायः। १९५ अथ दशमोऽध्यायः। द्वितीयमाह्निकम् । कारणभेदात्कार्य्यभेद इत्युक्तम् , कारणं च त्रिविध समवायिकार- णम् , असमवायिकारणं, निमित्तकारणमिति, तत्र समवायिकारणं परी- क्षयन्नाह- "कारणमिति द्रव्ये कार्यसमवायात् ॥१॥ कारणमिति समवायिकारणमिति प्रतीतिप्रयोगौ द्रव्ये द्रव्यमाने द्रष्टव्यौ। कुतः ? कार्य्यसमवायात्-का-णि द्रव्यगुणकर्माणि, तेषां तत्रैव समवायादित्यर्थः । यत्समवेतं कार्यमुत्पद्यते, तत्समवायिकारणम् । यथा-तन्तवः पटस्य, पटश्च स्वगतरूपादेः । तच्च द्रव्यमेव भवति, न गुणो, न कर्म । यतस्तत्रैव द्रव्यगुणकर्माणि कार्याणि समवयन्ति । तमा- समवायिकारणमिति व्यवहारो द्रव्यमाने द्रष्टव्यो, नान्यत्रेति भावः । तत्र अनन्यथासिद्धकार्यनियतपूर्ववृत्ति कारणम् । किमुक्तं ? यदन्यथासिद्धं न भवति, कार्याच्च नियमेन पूर्व वर्तते, तत् कारणम् । अन्यथासिद्धश्च पञ्चधा-तत्र-यत्कार्य प्रति कारणस्य पूर्ववृत्तिता येन रूपेण गृह्यते, तत्कार्य प्रति तद्रूपमन्यथासिहं, यथा-घटं प्रति दण्डत्वमिति प्रथमः (१)। यस्य खातन्त्र्येणान्वयव्यतिरेको न स्तः, किन्तु कारण- मादायैव तौ गृह्येते, तदन्यथासिद्धम्, यथा-घटं प्रति दण्डरूपमिति द्वितीयः (२)। अन्यं प्रति पूर्ववृत्तित्वं गृही- त्वैव यस्य यत्कार्य प्रति पूर्ववृत्तित्त्वं गृह्यते, तत् तत्कार्य प्रत्यन्यथासिद्धं, यथा-घटादिकं प्रत्याकाशम् । तस्य हि घटादिकं प्रति कारणत्वमाकाशत्वेनैव स्यात् । तच्च शब्दसमवायिकारण- त्वम् । एवञ्च तस्य शब्दं प्रति कारणत्वं गृहीत्वैव घटादिकं प्रति कार- मन्वं ग्राह्यम् । अतस्तदन्यथासिद्धमिति तृतीयः (३)। यत्कार्य- 4 १९६ वैशेषिकदर्शनम् । [द्वितीयम् जनके प्रति पूर्ववृत्तित्वं गृहीत्वैव यस्य यत्कार्य प्रति पूर्ववृत्तित्वं गृह्यते, तत् तत्काऱ्या प्रत्यन्यथासिद्ध, यथा कुलालपिता घटं प्रति । तस्य च कुलालपितृत्वेन रूपेण घटं प्रति जनकत्वेऽन्यथासिद्धत्वं मन्तव्यं, न कुलालत्वेन रूपेण, तेन कुलाल- मात्रस्य घटं प्रति जनकत्वादिति तुरीयः (४)। येनावश्यक्लप्तनि- यतपूर्ववर्तिना कार्य सम्भवति, तद्भिन्नं सर्वमन्यथासि- द्धम्, यथा घटंप्रति रासभादिकमिति पञ्चम. (५)। एतेषु पञ्चखन्यथा सिद्धेषु पञ्चमोऽन्यथासिद्धः आवश्यकः, तेनैवान्येषां चरितार्थत्वात् । शिष्यबुद्धिवेशद्यार्थ चेह तदुपन्यासः । अत एव नव्याः "लघुनियत- पूर्ववर्तिन एव कार्यसम्भवे तद्भिन्नमन्यथासिद्धम् । लघुत्वं च त्रिविधं-शरीरकृतम् , उपस्थितिकृतं, सम्बन्धकृत च । तत्र प्रथमम्- अनेकद्रव्यसमवेतत्वापेक्षया महत्त्वे, द्वितीयं गन्धं प्रति रूपप्रागभावा- पेक्षया गन्धप्रागभावे, गन्धस्य प्रतियोगिन उपस्थितत्त्वेन शीघ्रं तदुप- स्थितेः, तृतीयं दण्डत्वदण्डरूपाद्यपेक्षया दण्डादौ, स्वाश्रयसंयोगादिरूप- परम्पराया गुरुत्वादित्येकविधमेवान्यथासिद्धमाहुः ।। तदेतत्कारणं त्रिविधं-समवायिकारणम् , असमवायिकारणं, निमित्त- कारणं च । यत्समवेतं कार्यमुत्पद्यते, किमुक्तं ? यस्मिन् सम- वायसम्बन्धेन सम्बद्धं सत्-वर्तमानं भवत्कार्यमुत्पद्यते, तत्समवायि- कारणम् । किं बहुना यद्धर्मावच्छिन्नं यद्धर्मावच्छिन्ने समवाय- सम्बन्धेनोत्पद्यते, तद्धर्मावच्छिन्नं प्रति तद्धर्मावच्छिन्नं समवायिकारणम् । यथा-तन्तवः पटस्य, पटश्च स्वगतरूपादेः । समवायिकारणे प्रत्यासन्नं यत्कारणं, तदसमवायि- कारणम् । प्रत्यासत्तिश्च द्विविधा-कार्येकार्थप्रत्यासत्तिः, कारणैकार्थ- प्रत्यासत्तिश्च । तत्राद्या लम्वी, द्वितीया च महतीति वैशेषिकी परिभाषा । समवायसम्बन्धः काय्र्यैकार्थप्रत्यासत्तिः, खसमवायिसमवायसम्बन्ध. का- रणैकार्थप्रत्यासत्तिः । तथा चात्मविशेषगुणमिन्नत्वे सति समवायखसमवा- यिसमवायान्यतरसम्बन्धेन समवायिकारणे प्रत्यासन्न कारणमसमवायिकारण- आहिकम्] दशमोऽध्यायः। १९७ - मिति पर्य्यवसितम् । आयं यथा-घटादिकं प्रति कपालसंयोगादिकम- समवायिकारणम् । तस्य घटादिसमवायिकारणे कपालादौ समवायेन प्रत्यासन्नत्वात् । द्वितीयं-घटरूपं प्रति कपालरूपमसमवायिकारणम् । तस्य घटरूपसमवायिकारणे घटे खसमवायिसमवायसम्बन्धेन प्रत्यास- नत्वात् । अत्र घटरूपं स्वसमवायिकारणे घटे वर्तते, कपालरूपं च कपाले । समानाधिकरणयोरेव च कार्यकारणभावः । अतो घटरूप- कारणेन घटेन सह कपालरूपस्यैकस्मिन्नर्थे कपाले समवेतत्वात् स्वसम- वायिसमवायसम्बन्धेन सामानाधिकरण्यमुपपन्नम् । खं-कपालरूपम् । तदुभयभिन्नं कारणं निमित्तकारणम् । यथा घटादिकं प्रति दण्डादिकमितिविवेकः॥१॥ द्रव्ये समवायिकारणमिति व्यवहारे हेत्वन्तरं समुचिनोति- "संयोगाद्वा ॥२॥ कारणमितिद्रव्ये इत्यनुवर्तते । चार्थों वाकारः । कार्यासमवायिकारण- संयोगाश्रयत्वाच्च समवायिकारणमिति द्रव्यमाने व्यवहर्तव्यमित्यर्थः । कपालसंयोगो घटस्य, तन्तुसंयोगश्च पटस्यासमवायिकारणम् । तदा- श्रयत्वात् कपालादिकं समवायिकारणमित्यादिकं स्वयमूह्यम् । किमुक्तं ? काऱ्यांसमवायिकारणं संयोगो यत्र समवैति, तत्समवायिकारणम् । संयोग- श्च गुणः, न च तत्समवायो गुणे, कर्मणि वा सम्भवति । द्रव्यस्यैव गुणा- श्रयत्वनियमात् । अतो द्रव्यमाने समवायिकारणमिति व्यवहारोऽसमवायि- कारणसंयोगाश्रयत्वाद्वा कर्तव्य इति भावः ॥२॥ नन्वंसमवायिकारणमिति व व्यवहर्तव्यं १ तबाह- "कारणे समवायात्कर्माणि ॥३॥ कारणमित्यनुवर्तते । कारणे-संयोगविभागवेगानां समवायिकारणे द्रव्ये समवायात्-समवेतत्वात्कर्माणि असमवायिकारणानि कर्माणि, किमुक्त- म् ? असमवायिकारणमिति कर्मणि व्यवहर्तव्यमित्यर्थः । कायॆकार्थकारणैकार्थान्यतरप्रत्यासत्त्या समवायिकारणे प्रत्यासन्नं य. कारणं, तदसमवायिकारणम् । तत्र संयोगविभागवेगाः कार्याणि यस्मि- १९८ वैशेषिकदर्शनम् । [द्वितीयम् नर्थे समवयन्ति, तत्रैव कार्यैकार्थप्रत्यासत्त्या, किमुक्तं ? समवायसम्ब- न्धेन कर्म प्रत्यासीदति । तस्मालम्व्या प्रत्यासत्या संयोगादिकार्याणां समवायिकारणे प्रत्यासन्नत्वादसमवायिकारणानि कर्माणि, किमुक्तम् ? असमवायिकारणमिति कर्मणि व्यवहर्तव्यमिति भावः ॥ ३॥ अतिदिशति- "तथा रूपे कारणैकार्थसमवायाच ॥४॥ कारणमित्यनुवर्तते । तथा यथा कार्यैकार्थप्रत्यासत्त्या समवायि- कारणे प्रत्यासन्नत्वादसमवायिकारणमिति कर्मणि व्यवहारः, तथा कारणैका- र्थसमवायाच कारणैकार्थप्रत्यासत्त्या, किमुक्तं ? खसमवायिसमवाय- सम्बन्धेन समवायिकारणे प्रत्यासन्नत्वाच्च रूपे-उपलक्षणमेतत् , अवयव- गतरूपादावसमवायिकारणमिति व्यवहर्तव्यमित्यर्थः । घटरूपस्यासमवायिकारणं कपालरूपं, पटरूपस्य चासमवायिकारणं त- न्तुरूपम् । तच महत्या प्रत्यासत्त्या, किमुक्तं? खसमवायिसमवायसम्बन्धेन घटरूपादिसमवायिकारणे प्रत्यासीदति । घटरूपादिसमवायिकारणेन घटा- दिना सह कपालादिरूपैकस्मिन्नर्थे समवेतत्वात् । अतः कारणैकार्थसमवाया- चावयवगतरूपादावसमवायिकारणमिति व्यवहारः कर्तव्य इति भावः॥४॥ "कारणसमवायात्संयोगः पटस्य ॥५॥ कारणमित्यनुवर्तते । कारणसमवायात्-पटसमवायिकारणेषु तन्तुपु समवेतत्वात् कार्यैकार्थप्रत्यासत्त्या प्रत्यासन्नत्वात्संयोगः तन्तुसंयोगः प- टस्य-पटरूपकार्य्यस्यासमवायिकारणमित्यर्थः । यथा-तन्तुसंयोगः पटसमवायिकारणेषु तन्तुपु समवेतत्वात्पटस्यासम- वायिकारणं, तथा कपालसंयोगो घटस्यासमवायिकारणमित्यादि स्वयमुत्प्रे क्षणीयम् ॥५॥ "कारणकारणसमवायाच ॥६॥ कारणं संयोग इत्यनुवर्तते । महत्परिमाणस्य समवायिकारणं तूलपि- तस्य समवायिकारण तूलयिण्डावयवः, तत्र कारणस्य कारणे समवेत- ण्ड, आह्निकम्] दशमोऽध्यायः । १९९ त्त्वाच संयोगः-अचयाख्यस्तूलपिण्डावयवसंयोगः कारणं तूलपिण्डमहत्त्वं प्रत्यसमवायिकारणमित्यर्थः । दाभ्यां तूलपिण्डाभ्यां प्रचिताभ्यां समारब्धे तूलपिण्डे यन्महत्त्वमु- स्पद्यते, तत्र समवायिकारणं तूलपिण्डः, असमवायिकारणं प्रचयाख्यस्तूल- पिण्डद्वयसंयोगः । स च कारणस्य कारणे समवैति । तेन महत्या प्रत्यास- त्या, किमुक्तं ? वसमवायिसमवायसम्बन्धेन कार्य्यसामानाधिकरण्यस- म्भवाद् भवति महत्परिमाणे कार्येऽसमवायिकारणं प्रचयाभिधानः संयोग इति भावः ॥६॥ समवायिकारणमसमवायिकारणं च परीक्षितम्, इदानी निमित्तकारण- परीक्षामारभमाण आह- "संयुक्तसमवायादग्नेवैशेषिकम् ॥७॥ कारणमित्यनुवर्तते । अग्नेः तेजसो वैशेषिकं खार्थे तद्धितः, विशेषगु- णात्मकमौष्ण्यम् उष्णस्पर्श इति यावत्, संयुक्तसमवायात् खाश्रयसंयो- गसम्बन्धात्कारणं-पाकजरूपादिषु निमित्तकारणमित्यर्थः । तत्र स्वम्-उष्णस्पर्शः, तस्याऽऽश्रयोऽग्निः, तत्संयुक्ताः फलादयः, तत्र समवायेन पाकजरूपादीनामुत्पत्तिः । फलादिकं समवायिकारणं, तेजःसंयो- गोऽसमवायिकारणम् , उष्णस्पर्शोऽदृष्टादिकं च निमित्तकारणमिति विवेकः। आत्मविशेषगुणाः बुद्धयादयः सर्वत्र निमित्तकारणतामेव भजन्ते, नासमवायिकारणतां क्वचित् । अत एवासमवायिकारणलक्षणे तद्भिन्नत्व- निवेशः । तेषां, तद्भिन्नानां च निमित्तकारणानां परीक्षा स्वयमुत्प्रेक्षणीया । सुगमत्वान्न तानि महर्षिणा परीक्ष्यन्ते । समवाय्यसमवायिकारणभिन्न कारण च निमित्तकारणमिति बोध्यम् ॥७॥ पदार्थाः खलूद्दिष्टाः लक्षिताः यथास्थानं परीक्षिताश्च, तेषामेव तत्त्व- ज्ञानान्निःश्रेयसं, तत्त्वज्ञानं च धर्मविशेषादित्युक्तम्, धर्मविशेषश्च वैदिक- कर्मानुष्ठानजन्यः सुकृतविशेषः, वैदिककर्मानुष्ठानं च श्रद्धातिशयमन्तरेण नोपपद्यते, तस्मादत्र दृष्टफलानुपलम्भात् तत्त्वज्ञानाभिलाषुकाणामा-- णामश्रद्धा मा भूतु; अनुष्ठानं च यथाशक्ति सततमनुवर्तेत, इत्यनुसन्द- २०० वैशेषिकदर्शनम् । [द्वितीयम् धानः परमकारुणिको महर्षिस्तत्र श्रद्धातिशयमुत्पादयितुमन्तेवासिनस्तावद् विश्वासयति- "दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युद- याय॥८॥ दृष्टानां वेदोपलब्धानां भगवता जगदधिपतिना साक्षादुपदिष्टानां वेद- विहितानां कर्मणां दृष्टप्रयोजनानां दृष्टं वेदेभ्योऽवगतम्, अथवा मह- र्षिभिः पूर्वैर्यथाविध्यनुष्ठानात्साक्षात्कृतं प्रयोजनम् ऐहिकामुष्मिकं फलं येषां, तेषां दृष्टादृष्टप्रयोजनानां दृष्टाभावे दृष्टफलप्राप्त्यभावे प्रयोगः यथाविध्यनु- ष्ठानमभ्युदयाय-परत्राभीष्टकार्याणामुयाय वेदितव्यमित्यर्थः । यथाविध्यनुष्ठितं हि वैदिकं कर्म नियमेन दृष्टादृष्टप्रयोजनं प्रसूते । यत्र क्वचिद् भूरिप्रतिबन्धकवशाद् दृष्टं फलं नोपलभ्येत, तत्रादृष्टं फलं निश्चे- तव्यम् । अनुष्ठानाच न जातु विरन्तव्यम् । साक्षादीश्वरेण जगदधिपति- नोपदिष्टं खल्वेतद्वैदिकं कर्म । तत्कथं निष्फलं भवेत् । अतः श्रद्धातव्यम् । तद्यथाम्नातं भगवति वेदे. “श्रद्धां देवा यजमाना वायुगोपा उपासते" (ऋ. मं १० अ. १२ सू. १५१) इति । श्रद्धामूलं हि सर्व फलम् । अत एवाम्नन्ति छन्दोगाः "श्रद्धत्स्व सोम्य ? (छां-प्र-६-ख- १२३) इति। न च श्रद्दधानस्य किञ्चिदुर्लभं विद्यते । तस्माद्भो श्रद्धातव्याः वेदाः, यथाविध्यनुष्ठातव्यं च तदुपदिष्टं निखिलं कर्म । यतोऽत्रैव भवता- मार्याणां श्रेय इति भावः ॥ ८॥ ननु भगवता जगदधिपतिना साक्षादुपदिष्टमिति नोपपद्यते, तत्सद्भावे लिङ्गानुपलब्धेः, तत्राह- "अस्महुद्धिभ्यो लिङ्गमृषेः॥९॥ असहुद्धिभ्यः अस्मच्छब्देन प्राणभृन्मानं गृह्णाति, तद्बुद्धिभ्यो विशि- ष्टा बुद्धिः ऋषेः ऋषति साक्षात्पश्यति निखिलं जगद् यः, स ऋषिः, तस्यै- कर्षेः परमेश्वरस्य लिङ्ग-सद्भावे प्रमाणमित्यर्थः । यत्सातिशयं, तत्कुत्रचिन्निरतिशयम् , यथा-परिमाणं सातिशयं घटादौ, निरतिशयं गगनादौ । सातिशयाश्चासद्बुद्धयः, यतः कश्चित् किश्चिदेव वुध्यते, कश्चिद् बहु, कश्चिद्, बहुतरम् । अतः कयाचिन्निरतिशय- आह्निकम्] दशमोऽध्यायः। २०१ 4 - या विशिष्टया बुद्ध्याऽपि भवितव्यम् । सेयं विशिष्टा वुद्धिर्यत्र वर्तते, स- एव जगदधिपतिरीश्वर इति भावः ॥ ९॥ नन्वेवं त_श्वरोपदिष्ट कर्मानुष्ठातुं शक्यते, न वेदोपदिष्टं, तस्य प्रामा- • ण्याभावात्, तत्राह- "तदचनादानायस्य प्रामाण्यम् ॥ १० ॥ तद्वचनात् तस्यर्षेः परमेश्वरस्य वचनात्-कथनात्, किमुक्तं ? तेने- श्वरेण प्रणयनादाम्नायस्य-भगवतो वेदस्य प्रामाण्य स्वतः प्रमाणत्वम- स्तीत्यर्थ. यस्तावद् वेदानामुपदेशः, स एव भगवतो जगदधिपतेरीश्वरस्योपदेशोऽ स्ति, न ततोऽन्यः कश्चित् तदुपदेशो विद्यते । वेदानामेवेश्वरीयत्वस्य श्रुतिस्मृतियुक्तिभ्यो निर्धारणात् । विस्तरस्त्वस्य मामक आय॑सि- द्वान्ते द्रष्टव्यः । तथा च खतः प्रमाणं वेदाः इति निष्प्रत्यूहम् । तस्मादात्माभ्युदयमिच्छद्भिरायंतनयुर्वेदोपदिष्टम्-अग्निहोत्रायश्वमेधान्तं सर्व कर्म यत्नतोऽनुष्ठातव्यं, तदनुष्ठानाहै पौरुषं च सर्वथा सम्पादयितव्यम् । खातव्यं हि वैदिककर्मानुष्ठाने नितान्तोपयुक्तमिति भावः ॥१०॥ समवाय्यादिभेदेन त्रिविधं कार्यकारणम् । प्रमाणत्वं च वेदानां द्वितीयेऽस्मिन् परीक्षितम् ॥१॥ कणादेन प्रणीतेयमर्थज्ञानोदकप्रपा । मया हरिप्रसादेन वृत्त्या सम्यक् परिष्कृता ॥२॥ यत्प्रसादादियं वृत्तिनित्यं स्थास्यति निश्चला। प्रहीभावेन वन्द्योऽसौ विद्यादातेश्वरः सदा ॥३॥ इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्ध्यात्मारामभगव- त्पादशिष्यहरिप्रसादकृतायां वैशेषिकसूत्रवैदिकवृत्ती दशमाध्यायस्य द्वितीयमाह्निकम् ॥२॥ समाप्तश्चायमात्मगुणभेदाध्यायो दशमः ॥ १० ॥ । समाप्तश्चेदं दर्शनम् ॥ M A

No text on this page.

३ Accमहा नमा साक्षान्तRITTET वैशेषिकसूत्रवैदिकवृत्तेः शुद्धाशुद्धपत्रम्, पृष्ठं. पंक्तिः अशुद्धम्. शुद्धम्. १६ त्रज्ञानं त्वज्ञानं १८ २५ निवृत्यर्थ निवृत्त्यर्थ १९ १८ सोऽवान्तर २८ इत्येतौ द्वौ रेलेते द्वे ३१ १८ आ पमहा-एवमग्रेऽपि ३३ ८ या या -एवमग्रेऽपि ४३ १४ भूभ्यादिभ्यो भयादिभ्यो ५० २४ प्रश्चन्यास्तसिल पञ्चम्यास्तसिः ។ १०-११-१२-१४ कारणवत्व कारणवत्त्व ६२ सूत्रयति सूचयति ६२ १२ नाऽत्मना नाऽऽत्मना ६९ ॥ २ ॥ ॥१॥ ७१ अन्तरासिद्ध अन्यतरासिद्धः ७१ १० विशेपतोड विशेप्यतोऽ ७५ । यन्निष्यद्यते यन्निप्पद्यते ७५ १७ वैदिकान्तरा वैदिकान्तराणि ८० १० सूनिता सूत्रिताः ९१ द्रव्यवत्वाद् द्रव्यवत्त्वाद् १०१ १२-२६ कामयति कामयते १०४ ९-२० तिर्यग् गम तिर्यग्गम १०४ १० नोदनः नोदनं १०४ तिर्यग तिर्यम् १०७ ५ पु ज्या पुज्या १०७ १३ नोदनं नोदनम् ११० ७-१० विवस्वानं विवस्वन्त ६ ६ ३ d ० , १ --- अविशेषाद्. ३ १ ४ पृष्ठं. पंक्तिः अशुद्धम्. शुद्धम्. १११ ११ श्चवायु श्चासौ वायु ११३ ११ अवशेषाद १२१ १९ प्रभृति निखि प्रभृतिनिखि १२२ "ददातिः-उच्चा ददाति: "उच्चा १२३ १० यते यति १२३ १६ गमः गमदोपः १२४ २० नोऽपि णोऽपि १२६ ४.९ हस्तीकर्तुमा हस्तेकर्तुमा १२७ ६-२२ अपराङ्मुख्येन : आपराङ्मुख्येन १२७ १२ भिच्छन्दतो मिश्छन्दतो १३२ सुख त्सुखं । १३९ २२ परावृति परावृत्ति १४२ १८ सत्वात् सत्त्वात १४८ दाऽऽनखा १४९ १९ नुर्वतते १४९ २६ विभ्वीत्वाच १५२ १० संख्यात्वं 'संख्यत्व १५३ १९ भाव भावः १५३ २६ चैकानक १६१ १७ थगभावः १६८ १० ज्ञान १६९ २२ च क्रियायां १८४ ૨૬ दारण्य १८५ ५ दारण्य तकारस्य द्वित्वमद्विलं- वीप्मा मन्निधानममन्निवानञ्चान्यत्र स्वयम् 13800 . ४

No text on this page.

Vesesik Sutr Vedikvrety

Author
Hariprasad
Title
Vesesik Sutr Vedikvrety
File name
Vesesik Sutr Vedikvrety
Text
OCR done
Citation
1904
Published
2010/02
Publisher
Nirnayasagar Press, Bombay
Language
Sanskrit
Pages
208
Library
Sanmati Library, Jaipur
Classification
Vaisheshik Sutra Sangrah
DLI number
344531
Barcode
99999990234390.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
Rights
Copyright permitted
VMLT id
nNSvQRfcaVZ
Download PDF

Vesesik Sutr Vedikvrety