Moheary Public Library, Howrah
Damayanti
Front matter
No text on this page.
No text on this page.
No text on this page.
RAMA FAR मुखबन्धः। HOHEAS ग्रन्या कतिपय-वत्सरान् यावत् कलिकाता विश्व- विद्यालये संस्कृतमपि दितीय-भाषास्थाने प्रवर्ति- तम् ; अत: सर्वेष्वेव विद्यालयेषु विश्वविद्यालय- परीक्षा प्रदानार्थि-समन्वितेषु कतिचित् संस्कृत- दानीमध्याप्यन्ते । सास्वेव भाषास अन्तःप्रवेशलाभमभिलषतां, तत्तद्भाषिक-गद्य-रचि. तषु सरलेषु केषुचिदुपास्थान-पुस्तकषु स्वयमे. वाऽनुशोलन प्रतिभाति नितान्तमावश्यकन्वेन । संस्कृत च तादृशा गद्य-ग्रन्या अलौव विरलाः । ये तु पञ्चतन्त-हितोपदेशादयो विद्यन्ते, ते चांशत जुपाठेवन्तर्निविष्टतया अध्यापक-सकाश पठिता भवन्ति ; ये च कादम्बरी-दशकुमार-वास- वदत्ताप्रभृतयः सन्ति-तषां रचना प्रगाढ़ा, दुरूहा, वर्तमान विश्वविद्यालयच्छात्राणामनेकेषां दुरधिगल्या च; अतः विश्वविद्यालय-परीक्षा- प्रदानार्थिनो विनाऽपि परस्य साहाय्येन स्वयमे- वाऽध्येतुं शक्ष्यन्तीत्यभिप्रेत्य महभारतीय प्रथितमेव एव
[ २ ]
नलोपाख्यान' गद्येन मया परिवर्तितम्-प्रका
शितञ्चेदं 'दमयन्ती' नामधेयेन ; यद्येतत्-पाठन
खल्पोऽप्युपकारलाभो भवेदध्येढणां तदैव कृतार्थतां
लभेयम् ।
धमप्रमादादिजास्तु दोषाः संशोधनीयाः सुधी.
भिविनयाञ्जलियाचितैरिन्यलम् ।
बहरमपुरविदयालयम्
माघस्य १३ शम् दिन
संवत् १९२५।
श्रीरामगति शमणा।
एद्धिपत्रम्। एछा .. पतिः यशुद्धम् मुघान्ती छनन्तनं शुद्धम् मुष्णती अनन्तर ३ भल्लका भलका ५ सप्यश्व मप्यश्व my ५ नाम् ; सहस इच्यामि ३८ है नामसंहस द्रक्षामि यमुस्मिन् निन्नधेषु ३८ १५ १६ अमुमिन निषधेषु गवीर यार्वीर १७ my . २ हत ४६ २१ जगामः जगाम 89 मार्तण्ड २४ मार्तण्ड ३ दिवश्वप्रतः दिवश्वात मुखबन्धे महभार महाभार लभेयम् लभय।
No text on this page.
दमयन्ती। प्रथमोऽध्यायः । घदयादनिलो वाति वारिवाहः प्रवर्षति । सूर्यस्तपति वहिश्च ज्वलनीशं नमामि तम् । श्रासोत् पुरा निषधेषु सत्य-धम्म-परायणः परम- रूपवानऽख-शास्त्र-कुशलो वेदविहित-क्रिया-परः अतीव शूरः, सुरपतिरिव देवानाम् आदित्य इव तेजस्विनां मानवानामग्रगणनीय: सर्वगुणालङ्कृतो वोरसेनसुतो राजा नलो नाम। आसोच्च तस्मि नेव समये विदर्भेषु तथैव रूपौदार्यसलाद्युपेतो भीमपराक्रमो भीमाभिधेयो नरपतिः । प्रजाः प्रजार्थ सुसमाहितः सर्वदेव परं यत्न- मकरोत् । तमेकदा दमनो नाम दोप्ततेजा ब्रह्मर्षि- रभ्यागच्छत् ; अतिथिसेवाविधिज्ञस्तु राजा प्रजा. सचाऽ- दमयन्ती। कामनया महिण्या सह तमत्यर्थ तोषयामास । तोषितश्च ब्रह्मर्षि स्तमी वरं ददौ ; तहरेण राजी दमयन्तीनानी दुहिता, दम-दान्त-दमननामानः मन्त- -गुणसम्पन्ना स्तनयाश्च त्रयो जज्ञिरे। दमयन्ती तु सितपक्षीया शशिकलेव दिने दिने परिबर्द्धमाना रूपेण गुणेन च लोकेषु परां ख्याति- मवाप ; क्रमशो यौवनपदवीमवतीर्णा च दीर्घकेशी विशालनयना सुमध्यमा सर्वावयवाऽनवद्या सर्वाभ- रण-भूषिता पृथिव्यां ललना-जन-ललाम-भूता बभूव ; न देवेषु न गन्धर्वेषु न यक्षेषु न चोरगेषु-कैव कथा मानुषेषु-समदृश्यत काचिदङ्गना तादृग- तीवरूपसम्पन्ना। किम्बहुना तथाऽमुपमरूप. लावण्यतया दिवौकसामपि मानसान्याचकर्ष सा सुन्दरी बसुधातलस्था । निषधाधिपति नेलश्च मनसिज व मूर्तिमान रूपेण जगत्यामप्रतिमो बभूव । अथ तस्य रूपं शोलं शौर्य विद्याञ्च सततमितस्ततः कथयतो जन- बजादुपश्रुत्य मानसमभूद् भैम्या स्तस्मिन्नतीवानु- षतम्। नलोऽपि तां सर्वथाऽऽत्मनोऽनुरूप रूप-गुण-शालिनीमाकर्ण्य मनसा तामेव कृतवान् हृदयेखरौं।
प्रथमाध्यायः एवमन्योन्य मदृष्टयो रप्यनुरागे बद्धाङ्गुरे, एकदा तु निषधेखरी रहसि दमयन्ती-चिन्तया- ऽऽत्मानं विनोदयितुकामः शुद्धान्त-समीप-गं रमणीय मुद्यानं प्रविवेश । तत्र स जातरूप परिष्कृतान विच- रतो इंसानऽवलोक्य कौतुकाऽऽकुलित-हृदयः करे- णैकं जग्राह । स तु ग्टहीतमात्री हेम-विहङ्गमी मानुषवाचा विस्माययन् आरभताभिधातुम्- "राजन् ! माबधी मां-प्रियं ते करिव्यामि । अहं लोक-लोचन-चन्द्रिकाया विदर्भ-राज-तनजाया दम- यन्त्याः सकाशे त्वां तथा वर्णयिव्ये, यथा मा त्वदन्यं पुरुषं चक्षुषाऽपि नालोकयिष्यतीति" राजा तमुत्- ससर्ज। अथ ते समुत्पत्य विहङ्गमा विदर्भ पर्य- गच्छन् निपेतुश्च विदर्भनगरौं प्राप्य अन्तिके दमयन्त्याः। सा तु प्रमद-वन-स्था राज-बाला सखी-गण-सं. वृता चामौकर-चारूनऽवलोक्य तान् विचित्र-विह- गान् समुत्पन्न-कुतहला ग्रहीतु ग्रहमकरोत् । इंसास्तु कन्याभि स्ताभि रेकैकश: समनुद्रुता उत्प्ल- त्योत्प्लत्य प्रमद-वन-मध्ये सर्वतः परिक्रमितुमारेभिरे। यन्तु दमयन्तो समुपाधावत् स च क्रमेण गत्वा निम्मक्षिकं स्थानं मानुषो मवलम्बा गिरं दमयन्ती दमयन्ती व्याजहार “राजपुत्रि ! विमुच्यतां मद्ग्रहण-प्रयासः भूयताञ्च यत् त्वामभिदधामि-अस्ति निषधेषु नलाभिधयो नरपतिः-सच रुपेण कलङ्ग-रहितः कलाधर इव, बुद्ध्या वृहस्पतिरिव, विक्रमेण च सुर- पतिरिव राजते ; न सन्ति मानवाः पृथिव्यां तस्य समाः, अतो यदि तस्य भाया भवेः, तदा भवति सफलं ते रूपमिद मलौकिकं-जन्म च ; वयं हि नानादेशान् परिभ्रमन्तो दृष्टवन्तो देव-गन्धर्व- मनुष्योरगान् बहनेव, न तु कदापि कुत्रापि लोके तादृशं पुरुषं ; त्वं हि नारीणां रत्न, सोऽपि पुरु- षेषु ; अतो योगइव मणि-काञ्चनयो: भवतु युवयोः समागमः सर्वेषां सुखाय' एवमुक्ता तु मरालेन 'ममापि वृत्तान्तं कथय नलाय' इत्यादिदेश तं मरालगामिनी। सोऽपि पुनरागम्य निषधं सर्व नलाय निवेदयामास । द्वितीयोऽध्यायः। श्रुत्वा तु सर्वमुदन्त मुदक-चर-मुखा दुच्छलितं नृपति-बालायाः सुख-सागरेण । सा तु तदारभ्य द्वितीयाध्यायः । ; कथं तं पश्येयं! कदा तहचन माकर्ण येयं ! केनोपाये नास्म शरीरं समर्पयेयं ! अपि स मां ग्रहीयात् ! अप्यहं तदर्थ मिव मोऽपि मदर्थमन्मना भवेत् ! एवम्भूतै रन्यैश्च वासना-सहस्र रहनिशं याति- वती : अनबरत-तचिन्ता परतया च प्रजागर-लशा तामक्षणा क्षामदेहा च नाऽऽहारविहारेष्वपि स- मध्यगच्छत् कामपि रतिं; क्रमशो विवर्ण-वदना मुन्मत्त दर्शनाञ्च मोहोऽपि कदाचिदाक्रान्तवान् राजनन्दिनीम् । अथता मसुस्था मोदृशाकाराञ्च विलोक्य सखी- गणो न्यवेदय दिङ्गित विदर्भाधिपतये। राजा तु शुवा, कथं ईदृगसुस्था मे तनूजा जाता ? रोगी मनस्तापो वा-किमस्य कारणं भवेत् ? कध. मेतत् प्रतिकुयां ? दादि बहुधा विचिन्तयन् . अनुस्मृत्य दुहितु रश्रिमतयौवनत्वं स्वयंवरार्थ यत्न- मकरोत्, निमन्त्रयामास च नाना-दिगन्त वास्तव्यान् प्रथितान्वय-सम्भवान् अनेकानऽवनीभुजान् विदर्भा- गमनाय । ते तु विश्रुत-रूप-गुणाया रमणी रत्न भू ताया दमयन्त्याः स्वयंवर माकर्ण्य त्वरमाण हृदया: सत्वर मेव हम्ल श्व-रथ-निवहेन च्छादयन्तो वनानि विदर्भ मुपगन्तु मारेभिरे। भीमोऽपि व्यय-मुक्त- दमयन्ती। हस्तो विधाय तेषां यथायथ महणां न्यवेशयत् तान् परायॊपकरण-सम्भृतेषु रमणीयेषु रहेषु । एतस्मिन्नेव समये देवर्षी, नारदः पर्वतच, यदृच्छया पर्यटन्तौ जग्मतु भूलोकात् देवराज- भवनम् । महेन्द्रस्तु विधिवत् संपूज्य तौ महाव्रती तयो भुवनस्य चाऽनामयं पृष्टवान्, प्रत्युक्तश्च नार- देन ; त्रिदिवनाथ! अवगच्छाऽऽवयोः सवतो वात, धरणीश्वरांश्च धरायां कुशलिनी जानी- होति । पुनरपि तं शक्रः पृष्टवान् देवर्षे ! ये हि महौजसो मानधनाः पृथिवीपाला विग्टह्य धर्मेण युद्धेनाऽपराङ्मुखाः शख-मुखाऽऽहुत-जीविता भवन्ति, प्राप्णुवन्ति ते मदीयेऽस्मिन् भवने सादर मातिथ्यं, भवति चायं लोकस्तेषा मक्षयाय- क गता इदानों ते शहराः क्षत्रियाः कथन पश्यामि तानताऽऽगच्छतो मे प्रियातिथीन् ? "आकर्ण्यतां मघवन्' उवाच नारदः “येन कारणेन महीक्षितोऽत्र न दृश्यन्ते ;-विदर्भाधिपते भॊमस्य दुहिता दमयन्तौति विश्रूयते, सा तु रूपेण सर्वाः सौमन्तिनीः पृथिव्या मतिशयितवतो। तस्याः स्वयंवरः सम्प्रति भविता, तत्रैव सर्वे राजानो राजपुत्राच विस्मत-सर्व-कार्याः काम- ?
दितीयाध्यायः यन्त स्तामेव रमणीरत्नभूतां गच्छन्ति, अतो न विद्यते लोकेषु समरस्य वार्ताऽपोति"। एतस्मि- ब्रेव कथ्यमाने वहिपुरोगमा लोकपाला स्तत्रैवा- जग्मुः, शत्रुवुश्च नारदमुखात् दमयन्ती-गतं सर्व वृत्तान्त', ईषुश्च सर्वेऽपि परम-प्रहृष्टाः स्वयंवर- गमनाय, चेलुश्च तत्क्षणमेव सगणाः सवाहनाच विदर्भाभिमुखम् । अथ गच्छन्तस्ते विमानेन, मूर्तिमन्त मन्म- थमिव तेजमा भ्राजमान ददृशुः खयंवरार्थमेव चलितं भूतले नलं राजानं । तस्य रूपसम्पद मवेक्ष्य विस्मिता विहत-दमयन्ती-लाभाशाश्च विष्टभ्य विमानान्यन्तरीक्षे, अवतीयं च नभस्तलादाचख्युः "भो भो निषधराजेन्द्र नरोत्तम नल ! विधेहि किञ्चिदस्माकं साहाय्यं, परिग्रहाण दौत्य कस्म चित् कार्यायेति" स तु श्रुत्वैव "करिव्ये" इति प्रतिज्ञाय कृताञ्जलिरभ्युपेत्य पृष्टवान्-“कान् पुनरचभवतोऽवच्छामि ? को मां दौत्यार्थ नियोज- यति ? किंवा कर्तव्य मयेति । प्रत्युवाच मघवा- दमयन्त्यर्थ गच्छतोऽस्मानऽमरानऽवेहि-अहमिन्द्रः, अयमग्निः, एष यमः, असौ च वरुणः । दमयन्तीसकाशं गत्वा कथय यन्महेन्द्राद्या लोक- ?
दमयन्ती। । पालाः स्वयंवरदिदृक्षव: सभा यान्ति, प्राप्तुमभिः लेषन्ति च त्वाममरगर्भाभां । यस्तेषां तुभ्यं रोचते, तस्मै एवाऽस्माकमन्यतमस्मै पतित्वे वरयखेति । स बदभ्रान्तइव प्राञ्जलिरब्रवीत् भगवन् ! अमुमेवार्थ- मुद्दिश्य प्रयान्तं मां मैवं वनुमर्हति ; कोहि पुमान् मनोरथप्रियां शक्नोति परार्थमौदृशमभिधातुं ? तत् क्षमध्व ममामराः ! अन्य कमपि कार्येऽस्मिन् नियोजयत, एष वः शिरसाऽञ्जलिरिति। देवा ऊचुः--राजन 'करिय्ये' इति प्रघमं प्रतिश्रुत्य मैवं वतामहसि-त्वं हि लोकः मत्यत इति गीयसे । स तु ब्रीड़ित इव तथेति बीचकार अब्रवीच देवेश ! कन्यान्तःपुरवेश्मानि अवश्यं सुरक्षितानि भवि व्यन्ति, कथमहं तत्र प्रवेच्यामि ?--महरेणाऽवा- रितः प्रवेक्ष्यमोति शक्रस्तं प्रतिजगाद । मनुजेश्वरः प्रणम्य तान् सुरेश्वरान् चचाल भीमनरेन्द्रभवन, प्राविशत् कन्यान्तःपुर, व्यलोकयच्च तत्र अनवद्यमर्याङ्गसुन्दरीं सर्वालङ्कार शोभितां सखो-गण-समावृतां राजनन्दिनों दम यन्तौं। दृष्ट्वैव तां लावण्य-सागर-सन्तारिणो मति मात्रमुन्ममा बभूव राजपुत्रः, न्यवारयश्च वशित्वाद दौत्यभङ्गभयाच आत्मनो मानस-विकारम् ।
द्वितीयाध्यायः। ६ कथ- अथ ता अदृष्ट-पूर्व-पुरुष-वर-सन्दर्शनेन स- म्भान्ता वराङ्गनाः सहसा समुत्तस्थुरासनेभ्यः, चिन्तयामासुश्च मनसि-अहो पुरुषरत्नस्य रूप। अहो लावण्यं ! अहो गाम्भीर्य -कोऽयं भवेत् ! देवः-यक्ष:-गन्धर्वो वेति ; न तु लजावत्यः तस्य रूपणाऽलौकिकेन धर्षिताश्च शक्नुवन्ति स्म कि- ञ्चन व्याहतूं। अथ तासां दमयन्ती लज्जा- सम्भमविधुराऽपि, समुचित ग्रह-समागत-जनस्य सम्भाषणमिति गद्गद-कण्ठ-स्वरम् आरभत प्रष्टुं कोकिलकलभाषिणी; कस्त्वमसि वीर ? मागतोऽसि मद्भवनम् ? केन वा कारणेन लक्षि- तोऽसि नान्यैः ? सुरक्षितं हि मदीयं प्रकोष्ठ, राजाचोग्रशासन इति । स त्वेवमुक्ती वैदर्थ्या प्रत्युवाच, विद्धि मां राजनन्दिनि! नलं निष- धाधिपतिं देवदूतं त्वदर्घमुपेतं; शक्रोऽग्निवरुणो यमश्च देवा स्त्वां प्राप्तमिच्छन्ति, वरय तेषामन्य- तम सुन्दरि भर्तार, तेषामेव प्रभावेण न लक्षि- तोऽहं प्रविशन, केनापि न निवारितश, श्रुत्वेद- मिदानों यथारुचि कुरुवेति । दमयन्ती तु पूर्वमेव मराल-मुखादाकर्णनदि- नादारभ्य नल एव प्रगाढ़मनुरता श्रासोत् ; इदा- १ दमयन्ती। ; नोन्तु तं सर्वाकार-मनोरम नल प्रत्यक्षीकृत्य हर्ष- निर्भर-मन्थरा पुलकित-सर्व-काया चरितार्था नयन- युगलस्य जन्मनश्चात्मनः साफल्यं मेने ; उभ्रान्त- इंदया वेपमाना च देवानाम्प्रार्थनया, नमस्कृत्य तान् मानसेनैव, विसृज्य च समुचितां शालीनतां प्राक्रामत वर्नु-राजन् निषधेश्वर ! यदैव हंसमुखा- दाकर्णितं, ततः प्रभृत्येव त्वय्येव मया सर्व सम- पितं ; मम शरीरं मानस' धन यच्चान्यहा विद्यते, तत् सर्वमेवाधुना त्वदधौनजानीहि ; त्वदवाप्तिलो- भाऽनलेनाऽहं कोदृशमन्तर्दह्ये तज्जानात्यन्तर्यामी भंगवानेव ; त्वत्कृते हि मया स्वयंवराऽपदेशेन राजानः सन्निधापिताः ; किम्बहुना यदि त्वमित्यं भजमानां मां प्रत्याख्यास्यसि तदा विषं अग्निं जलं रज्जु वाऽवश्यमेव अवलम्बिये, एष हि मे स्थिरी निश्चय इति । स तां प्रत्युवाच-विपरीतमेतत् राजपुत्रि ! यतो महेन्द्र-प्रमृतीनऽवमन्य दिगौशान् मानुष पति मिच्छसि ! अतो निवर्त्ततामस्माद- दुरध्यवसायात्, प्रवर्त्तताञ्च मतिस्ते महात्मसु ली. कपालेषु, येषां चरणरजसाऽपि तुल्यो नाहं । मृत्यु- मिच्छति हि मयो विप्रियमाचरनमानां, अत. स्वायख भामिनि ! मामात्मानञ्च सुरकोपात्, द्वितीयाध्यायः। वृणीष्व तेषामन्यतमम्, अनुभव च वासांसि विरजां. सि, माला अम्लान कुसुमाः, भूषणानि च कल्पतरू प्रसूतानि तेषां प्रसादेन । यस्यैव दण्डभयानीताः सर्वएव जीवाः खं खं धर्ममनुवर्तन्ते का तं कृतान्तं खामिन नाभिलषेत् ? योहि सङ्कल्प- मात्रेण सर्वान् सरित्सागरादौन शोषयेद् बई येद्दा का तयादःपतिं पतिं न वरयेत् ? यः खल रुषित स्थावरजङ्गमात्मक समस्तमेव विश्वं क्षणनैव भस्मीकुर्यात्, का तं कृष्णवर्मान भर्तारं नेच्छेत् ? पश्च हि देवानपि सर्वानाज्ञां वाइयति, का वा त शचीपतिं पतित्वेन नाङ्गोकुयात् ? इत्योवमुक्ता नैषधेन "पृथिवीनाथ ! अहं नम- स्कृत्य सर्वेभ्यो देवेभ्यः त्वामेव भर्तारं वृणे" इति सनिबंधमालपन्तौं वाष्पाविल-नयनां वेपमानां पुनरप्युवाच राजा दमयन्ती-किमहं करवाणि कृशोदरि ! कथमहं दौत्येनागत्य विहत्य नियोता- णमर्थ, खार्थ साधयेयं? एवं स्वार्थसाधनेन देवेष्व- पराधः महानऽधर्मश्च मे सम्पद्यते । तद् यद्येवं कश्चिदुपायः समुद्भाव्येत यत् सदृश-स्वार्थाऽऽचरण- नाऽप्यधा न मां कलयितुं शकुयात्, तदा शक्नोमि त्वम्मतमनुमोदितु। अथ सा साश्रुनयना दमयन्ती। विचिन्य क्षणमेकं पुनरपि तं कृताञ्जलिरब्रवीत, नरनाथ ! चिन्तितो मया कश्चिदुपायः, श्रूयतां युक्तो न वेति-भवान् देवाश्च महेन्द्रादय: सहिता एक सर्वे स्वयंवरभूमिमायान्तु, तनाहं लोक- पालानां सन्निधावेव नवन्तमेव वरिव्ये-नेस्थ भवतो भविता कश्चन दोष इति । श्रुत्वैवं नलः प्रहृष्टः प्रतिश्रुत्य च तथेति, प्रत्याजगाम तत्र, यत्र देवास्त प्रतीक्षन्तेस्म ; पृष्टश्च तेभ्यो निवेद्य सर्वमन्तःपुरगमन-पराऽदर्शन-दमयन्तीसंलापादिकं सविस्तरं वृत्तान्तं "प्रमाणमिदानीमत्रमवन्तः” इति प्रणम्य विरराम, सहिताच सर्वे विदर्भ नगरमाजग्मः। टतीयोऽध्यायः अथ शुभे काले पवित्र च मुहर्त आजुहाव राजा भीम: समागतान् भूपालान् स्वयंवराय । ते तु त्वरितास्ताक्षणमेव दमयन्ती-दर्शन-लालमाः समुत्सुक-मानसाः सुरायुध-सदृश-तोरण-रुचिर रतीयोरध्यायः । कनकमय-स्तम्भ-राजि-राजित उपरि विन्यस्त- विचित्र-चन्द्रातपं लोहिल-यबनिका पिहित-प्रान्त श्रेणीबद्ध-मनोरमासन-शोभित-सङ्ख्यातीत-राजमञ्च प्रविष्टवन्तो रङ्गम् ; उपविविशुश्च यथायथमासनेषु सुसंस्कृत केश-जालाः सुरभि-माल्य-धारिण: लक्ष्णा- म्बर-परिहिता रत्नालङ्कार-भूषिताः। अथ विहित- खयम्बर-वेशा दमयन्ती, मुष्णन्तो प्रभया तेषां नेत्राणि चित्तानि च सभातलमाजगाम गजेन्द्र- गामिनी। येवेवावयवेषु तस्याः पतिता राज्ञा दृष्टिः तत्रैव लग्नाऽभूत् न चान्यतचचाल । अनन्तलं कयाचित् प्रगल्भया प्रतोहाय मही- त्यमानेषु राजां कुल भोल-नामधेयादिषु "मामेव बरिष्यते-मामेव बरिष्यते” इत्यारूढ़सङ्कल्पाकुलित- चित्तेषु भूपालेषु राजनन्दिनो हताशता-मलिन. वदनान् अतिक्रम्य बहुशो राजनन्दनान् ददर्श कुत्र- चित, सलिल-तरङ्गेषु प्रतिविम्बित-शशधरानिव नलाकृतीन निर्विशेष-रूपान् पञ्चपुरुषान् । समीक्ष्य तु तान् एकरूपान् एकवेशांश्च नाभिज्ञातवतो बैदर्भी कतमस्तेषां निषधराज इति। यं यमेव सा निरी- क्षते स्म, तं तमेव नलं मेने ; हड्डेभ्यो यानि तु देव- लिङ्गानि श्रुतान्यासन, तान्यऽपि केषुचिदपि तेषु . २ १४ दमयन्ती। भूमावस्थितेषु न लक्षितवती भैमौ। अथ सा भय- वेपमानाङ्गो विचिन्त्य चिरं, विचार्य च बहुधा, देवानव शरणं आपद्यमाना, नमस्कृत्य च तान् कायेन वाचा मनसा च भतिनयमूतिः कृताञ्जलिः वाष्पगगदमुवाच “भो भो भगवन्तो देवाः सर्व- भूतान्तर्यामिनः ! यदि हंस-वचन-श्रवण-दिनादा- रभ्य नल एव मचा सर्वात्मना पतित्वे हतः ; यदि कायेन मनसा वाचा वा कदाचिदपि निषधराजे नाहं व्यभिचरितवती; यदि नलाराधनाय विविध- नियम-कर्शिताङ्गो एतावन्तं कालं अतिलेशन या- पितवती ; यदि च स एव मे विधाट-विहितो भर्ता भवेत्, ततः अनुग्रहन्तु मां भवन्तः-स्वीकुर्वन्तु खानि रूपाणि-अभिज्ञापयन्तु च मां तं पुण्य- लोकं निषधराजम् । देवास्तु निशम्य सरलायाः तत् करुणं परिदेवितं राजबालायाः, बुद्ध्वा च तस्या मनोविशुद्धि भक्तिच्चाऽकत्रिमा निषधराजे, यथा- प्रार्थितं परिग्टहीतवन्तः खं खं रूपम् । अथ सा सविस्मयं अमृत-वर्ति-विशोधित-नयनेव नयनमुन्नी- लयन्ती खेद-लेश-रहितान् अनिमिष-लोचनान् रजो-होनान् अम्लान-माला-धरान् क्षितिमस्पृष्दैव अवस्थितान् छाया-होनान् देवानपश्यत्-अपश्यच्च टतीयाध्यायः । १५ तत्रैव खिब-गात्र रजो-रुषित सनिमेष-लोचन भूमिष्ठं शिथिल-स्रग्धर छाया-हितीयञ्च नैषध'। अभिज्ञायैव तं पुण्यश्लोकं हर्ष-भर-विश्लथाङ्गी लज्जा- मधुर-मूर्त्तिवरवर्णिनी वसनान्ते तं जग्राह, समर्पया- मास च स्कन्धदेशेऽस्य मङ्गला स्वयम्बरमालाम् । अथ सर्वतः सभां सहसा मुक्ती हाहेति शब्दः भग्न-मनोरथैर्महीपालैः, साधु साध्विति च रवो योग्य-समागम-प्रोतैर्देवैमहर्षिभिश्च । ततः प्रहर्ष- पुलकित-गात्रः प्रौति विस्फारित-नेत्री वेरसेनि: सवाष्य-गद्गदमुवाच दमयन्तों, “बरारोहे ! यत् त्वं देवानामपि सनिधी मामेव एकाग्रेण मनसा वरि- तवतो भर्तार, अतः शुचिस्मिते ! थावन्मे देहै प्राणा धरिव्यन्ति, तावदेवाऽहं तवानुचर: त्वत्सुख- दुःखैक-सुख-दुःखः त्वदेकायत्त-जीवितश्च भविष्यामि इति सत्यं सत्यमेव खलु ब्रवीमि"। अथ तो वाञ्छित-समागमात् परस्परमतीव प्रोतौ समौक्ष्य पुरतो वहिपुरोगमान् लोकपालान् मनसा तानेव शरणं गतवन्तौ। तेऽपि प्रहृष्ट-मनसो महौजसः भैमौ-वृताय नैषधाय दत्तवन्ती बरानष्टौ-शक्रोऽस्य यज्ञेषु आत्मनः प्रत्यक्षदर्शनं अन्ते चास्मै शोभनां गति-अग्निः, यत्रैव नैषधो वाञ्छिष्यति तत्रैवाऽऽम-.
दमयन्ती। भवं आत्मप्रभांश्च लोकान्-यमः, नल-पक्केष्वऽब्रेघु परम रस धर्म परानुरागञ्च, अपाम्पतिरपि नले- च्छया सर्वत्रवाऽऽत्मभवं शोभन-गन्धायाः स्रजच परमया प्रोत्या दत्तवन्तः, गतवन्तश्च तयोः कृता- शिषः स्वेषु खेषु स्थानेषु त्रिदिवस्थ । अथ पार्थिवा नानादिग्देशात् आगता: समीक्ष्य स्वयम्बर-महोत्सवं यथागत प्रतिजग्मुः । गतेषु च तेषु भौमः परम प्रीतो निर्वयामास विवाह अग्निसाक्षिक दुहितुनषधस्य च । ततो निषधेखरः यथाकाममुषित्वा परमोपचरितः कतिचिद्दिक्सान् विदर्भेषु, प्रतिगतो भीमाऽनुमतः खकीयां राज- धानीम् । तत्र च पिता पुत्रानिव प्रजाः पालया- मास ; अश्वमेधेन अपरैश्वाध्वरै रोजे, विजहार च समाप्य राज कार्याणि सर्वदैव वनेषु उपवनेषु च रमणीयेषु तया जीवित-तुल्यया । अथ कालेषु व्यतीतेषु प्रस्तवती राजमहिषी-सुतमेकं इन्द्रसेन- नामान' सुताञ्च इन्द्रसेनाभिधेयाम् । लालयन्तौ पालयन्तौ च तौ समवाप्त-सर्व-सुख-सारी कति- चिट् वत्सरान् अषतः परमया मुदा दम्पती।
चतुथारध्यायः चतुर्थोऽध्यायः। वृते तु नले दमयन्त्या दिव गच्छन्ती लोक- पालाः पथि द्वापरेण साईमायान्त कलि ददृशः, पप्रच्छश्च कले! क यासि हापर-द्वितीयः ? स तु प्रत्यवाच, दमयन्याः स्वयम्बरो भावीत्युपश्रुत्य तामेव बरयितु तत्रैवाऽऽवां गच्छावः, मनो हि मे तस्यां अतीवाऽऽसक्तमिति । अथ विहस्य अब्रवोद्- वृत्रहा कले! निवृत्तः स स्वयम्बरः, वृतस्तया निषधराजः पतिरस्मसमीप एव । श्रुत्वैव कलिः कोपाकुलित: सर्वानेव तानऽमरान् आमन्त्रा वचन- मिदमुवाच पश्यन्तु भगवन्तो दुर्विनौताया नि- मयादतां ! सत्सु इन्द्रादिष्वपि लोकपालेषु मानुष पति मादत्तवतो मन्दभागिनी ! अहो तस्या देवता- देषः ! अनेनैव दोषेण विपुलं दण्डमर्हति सा दुष्ट- मानुषो, किं वा भवन्तो मन्यन्त इति । एवमुक्तास्तु कलिना दिवौकसः प्रत्यूचुः कले ! अस्माकं अनु- मतावेव नलो ग्रहोतो दमयन्या, अतो न वयं तत्र मन्यु कत्तुमर्हामः-का वा कामिनौ-देवी मानुषी वा तादृश-लोकोत्तर-रूप-गुणोपेत विह्मय नल दमयन्ती। राजान कामयेत अपर कमपि ? नलो हि नि- खिलानेव धम्मान् वेत्ति, चतुर एव वेदानऽधीते, नित्यमेव यज्ञेषु हविर्भुजः प्रोणयति, सदा सत्यमेव ब्रूते, न जातु कमपि हिनस्ति, ज्ञान-तपः-शौचा- चारेन्द्रिय-संयमादिभिश्च संयुतो नित्यमेवाऽवति- ष्ठते ; अत: को वा स्वहित काम ईदृशं पुरुषप्रवर अकारण शपतुमुद्यच्छेत् ? यस्तु मूढ़स्त शपेत्, स श्रात्मनैव आत्मानं हन्यात्, किम्बहुना स नि- पतेदेव निरये महाघोरे इति । एवमुक्कैव देवा दिव गतवन्तः । गतेषु च तेषु कलि: हापरमुवाच हापर ! वचसाऽपि देवानां न शक्नोम्यहं नलोपरि कोप संहतु, अतो भ्रंशयिष्यामि त राज्यात्, वियोजयिष्यामि च दमयन्त्या ; त्वमपि अक्षान् समाविश्य विधेहि मे किञ्चित् साहायकमिति । अथैवं विधाय समयं दापरेण सार्द्ध आज- गाम कलिस्तन, यत्र राजा नैषधो बभूव । स च नित्यमेव अस्याऽन्तर प्रेप्सः बहुदिन अवसन्नि- षधषु प्राप्नोच्च तत् हादशे वर्षे । एकदा तु नली विधाय सावं अश्वत्वैव पादयोः शौचं उपास्त सन्ध्यां, आविशच कलिरेन तेनैव च्छिद्रेण। स त्वेकरूपेण त समाविश्य गत्वा चान्यरूपेण पुष्कर नलभातर चतुरध्यायः । १९ मुवाच-एहि पुष्कर ! दीव्य अवैलेन, विजित्य च द्यूते मत्प्रसादेन नलं, प्रतिपद्यस्व राज्यं हस्त्यश्व- धन-जन-रत्न-परिपूरितम् । असौ तु पुष्करः लोभ- भ्रान्त-चेता नलसमोपमगमत्, कलिश्च धृतवृषभा- कारः तयोरगत एव सञ्चचार । अथ पुष्करी नल द्यूतार्थ मुहुर्मुहुरानुहाव-एहि नल ! दोश्याव आवामः एतेनैव वृषण पणेन-एहौति । स तु वारंवारमाइयमानो दमयन्तीसमक्षं सोढुन शेके, प्रावतेत छूते हस्यश्वरथसुवर्णदिना पणेन, अजी- यत च कलि-समाविष्टः पुनःपुनरेव । एवं परा- जयेनैव अस्य धूतानुरागो ववधे ; का निशा कि दिवा का सन्ध्या सर्वदैव विस्मृत-सर्व कार्यो दीव्यतिस्म अक्षः । तदा तु त तादृगक्ष मद-सम्मत्तं न कोऽपि सुहृदां शशाक निवारयितुम् । अथ पुर-वामि-वर्गः सह सचिव-मुख्यैः आज गाम राजभवन राजान' द्रष्टुम्, गतचेतनञ्च त द्यूतानिवारयितु। उपलभ्यैतत् सारथिः, उपगम्य वैदर्भी निवेदयामास देवि ! द्वारि तिष्ठन्ति प्रक- अमृष्यमाणा राज्ञो व्यसन, तबिवेद्यतां नैषधायेति । अथ सा खामिहितार्थिनी भर्तृ-व्य- सनदर्शन-कर्शिता दुःख-भर-तिरोहित-मुख-प्रसादा तयः दमयन्ती। साश्रुनयना समुपेत्य नैषधं प्रोवाच वाचा वाष्य- भिन्न-खरया, राजन् ! लोश सहन्ते हि पौरजनाः हारि . समवतिष्ठमानाः सामात्याः त्वदर्शनाय, प्रतो द्रष्टुमर्हसि तान् राजभक्तिपुरस्कृतानिति । स तु पुनःपुनरुतोऽयेवं प्राविष्टः कलिना नाभ्य- भाषत किञ्चित् तां कोकिलकण्ठों तथा विल- पन्तीम् । ततो मन्त्रिणः पुरवासिनश्च 'नाय- मिदानीं भवति' इति दुःखिता ब्रोड़िताश्च गत- वन्तः स्वानि निकेतनानि, चलितच्च नलपुष्करयोः घृतमविच्छेदेन बहुदिन यावत्, यच नलस्य सर्व- दैव पराजय आसीत्। अथ दमयन्तो विलोक्य अनुदिन-होयमान- चेतन हृत-सर्वखञ्च नराधिप, भयेन शोकेन चाकुला चिन्तयामास-किमिदमिदानीमापतित मे जीवितेश्वरस्य ! कथमयं न मां पूर्ववदभि- नन्दति ? केन पापनाऽसौ दुरोदरोन्माद एनमा- विष्टवान् ? कथं तादृशधार्मिकोऽपि धर्मकार्यार्थ- मपि न चिन्तयति ! अहोवताऽस्य शून्य-हृदयता ! सर्वथा मामेव मन्दभागिनौं लेशयितुकामस्य विधेरेव विलसितमिदं इति प्रतिभाति । एवं बहुविलप्य विचार्य च बुद्धया बराङ्गना ब्याजहार चतुथारध्यायः । परिचारिकां चिरमनुरता हितार्थिनों वृहत्सेनां नाम ; वृहमेने ! नलादेश इति सचिवान् कोष- ज्ञान् आनाय्य यावद्धन हारित यावञ्चाऽवशिष्ट- मिति निरुप्य राज्ञे निवेदयितमाचक्ष्वेति । तंतो मन्त्रिणोऽपि तहचनात्, दिष्टया पुनरुदितमिदानों राज्ञश्चैतन्यं, इति मन्यमानाः सानन्दाः त्वरितमेव राजभवनमाजग्मुः । भौमसुता च पुनरेव मन्त्रिणा- मागमन राजे निवेदितवती, स तु तत् श्रुत्वाऽपि न श्रुतवान् । तथा वाक्यमनभिनन्दन्त वौच्य भार शोकेन, अभिमानेन, ब्रीड़या च विधुरा प्रविवेश गेहाभ्यन्तर मानिनी, मन्चिवाव यथायह जग्मः । यदा तु राज्ञी सततमेव अक्षान् पुण्य- श्लोक-प्रतिकूलान् अश्टणोत्, यदा च नाथं हत- सर्वखमपि प्रतिदिवसोपचीयमान-दुरोदरानुरागम् अपश्यत्, तदा सा परित्यक्त-सर्व-शुभाशा वार्णय- नामधेय आप्त-सारथिं समीपमानाययामास, प्रोवाच च नक्षाया वाचा-वार्णय ! सारसि त्वं सम्यक् यथा राजा प्रकृतिस्थः त्वाम्प्रति समाच- चार? त्व' ह्यस्य प्राणा दुव वहिवराः परम प्रियः सर्वकार्येष्वाभ्यन्तरीणश्च श्रासोः, स त्वमि- दानों अस्य विषमस्थस्य विधेहि स्तोक साहाय्यं । .
२२ दमयन्ती। पश्य यथा बथाहि राजा जीयते पुष्करण, तथा तथैवाऽस्य द्यूतानुरागो विवद्धते, यथा चाऽक्षाः पुष्करस्य सदैवाऽनुकूलाः पतन्ति, तथैवाऽस्य प्रति- कूलाः; अतो मन्ये केनाऽपि प्रतिकूल-दैवेनाऽऽ- क्रान्तेनाऽनेन भवितव्यं । यतोऽयं, मामपि नाभि- नन्दति, अपत्यमङ्गारोहणोत्सुकं नालिङ्गति, सु- हृत्वजनवाक्यान्यपि नाकर्ण यति। अतः भारथे ! भौताऽस्मि वाढ़, दक्षिणाति मे सर्वदैव स्फुरति, गुरुतर किमप्यनिष्टं अस्थाऽऽपतिष्यतीति सदैव मे चेतसि पङ्का जायते ; अतस्त्वामहमिदानों शरण- मापनास्मि-विधैहि मदचन, इदं मम अपत्य- इय नलप्रियतमैमनोजवैरश्वैः प्रायोजित रथमा- रोप्य कुण्डिनपुर याहि, समर्पय च तत्र मौ दारको, स्यन्दनमिदं, वाहांश्च मम पित्रोः । ततस्त्वं तत्र व वस-यथाकाम मन्यत्र वा गच्छ- यथारुचि कुरुष्वेति । श्रुत्वा तु दमयन्तौ-वचन नलमारथि वर्णियो निवेदयामास तत् सर्वेष्वेव सचिववरेषु। अथ तेः समेत्य विविय च बहुधाऽभ्यनुजातो जगाम म विदर्भेषु समादाय दारकहयं, विधाय च तत्र सर्व .यथादिष्ट वैदा, अामन्त्रा च भौम दमयन्ती- पञ्चमोध्यायः । २३ पितर निजगाम तस्मात् अनवरत-नल-शोकानल- दह्यमानमानसश्च पर्यटन्नितस्ततः गतवानऽयोध्यायां ऋतुपर्ण राजान, न्यवसञ्च तत्र दूयमान चित्तः सारथ्येन महीपालस्य । पञ्चमोऽध्यायः। निर्याते तु वार्णये दीव्यता पुण्यश्लोकेन राञ्च अपरञ्च धनरत्नादिकं सर्वमेवाऽपहारितम् । अथ तं हृत-सर्वखमवेक्ष्य पुष्करः प्रहसनब्रवीत् नल, प्रवर्ततां भूयोऽपि चूतं ? कस्सवाऽधुना प्रतिपाणो भविष्यति ? मया तु सर्वमेव जित त्वदीयं, केवल- मेका दमयन्ती विद्यते ; अतो यद्यभिमतं भवेत् सैवेदानों विधीयतां पण इति । एवमुक्तस्य तु पुष्करेण व्यदीर्यतेव हृदय मन्युना पुण्यश्लोकस्य ; स तु नो शशाक किञ्चिदप्येनं प्रतिवनु, केवलं हृदय- स्थित-शोकानल-धूम-राशिभिरिव अनवरत गलभि- ष्पिवर्षेरुरःस्थलमानुतवान्, उन्मुथ चाभरणनि सर्वेभ्यो गात्रेभ्यः पुनरपि पावर्तत ताय, व्यजी- दमयन्ती यत च तत्क्षणादेव सर्व तत् पुष्करण। अथ स एक-वासाः दीर्घमुष्णच निश्वस्य विहाय श्रियं विपुलां, शोचितः समाकुल-मानसैः सुहन्ननैः निश्चक्राम पुरोत्तमाद्राजा, दमयन्त्यप्य कवस्त्रा त व्रजन्तमनुवत्राज । अस्मिन्नेव समये पुष्करी घोष- यामास यथा “यः कचिवले साधु समाचरि- बति, स मे बध्यतां यास्यतीति"। तहोषणत् देवन-समय-वताऽनभिनन्दनाच न सत्कृतवन्त स्तं पौरा यथोचितम् । स तु जलमात्रेण वर्तयन् तया राजमहिण्या साई वाह्य एव नगरस्य विरात्रमुवास, प्रतस्थे चानन्तर छाययेवाऽनुगग्य- मानो दमयन्त्या, विहाय नगर यत्र त नयन- युगल निनाय। अथैकदा समतोत-बहुल देशी धरणोश: क्षुधया पौड्यमान: परमया, ददर्श कुत्रचित् कतिचित् शकु- नान् सुवर्ण-सदृश-च्छद-धारिणः, चिन्तयामास च अहो ! सुप्रसन्नोऽद्य मे विधाता, येन एवंविधसमये ईदृशो मे जीवनोपायो दर्शितः-एतेषां पक्षिणां मांसानि पर्याप्त आवयोरद्य भोजनानि भविष्यन्ति -पक्षेश्च विक्रीतैर्धनमपि किञ्चित् लप्स्यते । एवं सम्प्रचार्य मुदितमानसः परिधानेन वाससा तान् पच्चमाध्यायः । २५ समावणोत्, ते च तत् आदाय विहायसा उत्- पतिताः, अचुच गच्छन्तो भूमिस्थं दिग्बाससं भूपम्–“सुदुर्बुद्धे ! त्वहासोजिहोषू नऽक्षाने ता- नऽस्मानऽवगच्छ, न जाता प्रीतिरस्माकं पाप्ता, विलोक्य त्वां निर्यात संवाससमिति" अथ स समीच्य विहगान् हृत-वसनान् आत्मानञ्च विवा- सस विहल इव क्षणं कि-वक्तव्य-विधुरः तुष्णी- मधोमुखस्तस्थौ । प्रत्यागत-प्रकृतिश्च अनन्तर शनैः शनैर्दमयन्तीमुवाच-प्रिये किं कथयामि मे दौर्भाग्य ! येषां प्रकोपात् अहमैश्चयात् स्वजनात् खदेशाच्च प्रच्युतः, येषामेव कृते पृथिवीपतिरप्यह तुधातुरः प्राणयानामग्यऽलभमानः किरात इव वने वने भ्रमामि, यदर्थमेव च तादृशानुरता अपि नैषधा नाहय मां पृष्टवन्तस्तदानों, त एवेमे अक्षा: शकुनोभूय वासो मे हरन्ति ! पश्याऽहं कौशौं विषमां दशां प्राप्तः ! मन्ये विधिकोपो नाद्यापि प्रथाम्यति, न जाने कियच्चिरं वा फल- मस्याऽनुभविष्यामि। नाहमिदानीमामार्थ शो- चामि, भवतु पूर्ण-कामो मयि दुर्विधाता ; किन्तु किं करिष्यसि त्वं सुकुमारी राजबाला ? अहं ते भर्ती-अतो यदहमामहितं त्वामिदानी ब्रवीमि दमयन्ती। तत्-अवहिता समाकर्णय ;-एते बहवः पन्थानः संमतिक्रम्याऽवन्तौं पर्वतञ्च वृक्षवन्त दक्षिणापथ यान्ति-एष विन्ध्यो नाम महाशैलः-सौ प- योणी मरित्-मे च बहुमूल-फलान्विता मह- र्षीणामाश्रमाः-एष पुरोदृश्यमानः पन्या विद- र्भाण, अयञ्च कोशलां गच्छति-अतःपरश्चासौ दक्षिणे दक्षिणापथो नाम देश इति । श्रुत्वा तु वल्लभ-वचनम् उद्धान्त-हृदया प्रा- वोचत पति-प्राणा, नाथ ! किमिदं त्वया कथ्यते ? चिन्तयन्त्याः पुनःपुनस्त्वत्सङ्कल्प वेपते मे हृदय, सौदन्त्यङ्गानि, विपूर्णति मस्तक, न च पश्यति नेत्र निमौलितमिवाऽन्धकारेण । कथमहमिदानों त्वां हृत-राज्यं विवसन क्षुत्पिपासाकुलञ्च नि- जनेऽस्मिन् वने निहाय गच्छेय ? कान्त ! क- थित खलु पण्डितैः यथा पत्नो हि परममोषध नराणामा नाम, न विद्यते कश्चिदपि जगति तादृशो बन्धुस्तेषां दुःखरामयेषु ; अतोऽहं प्रिय- तम ! ब्रवोमि, अध्वनान्तस्य ते चरणाऽवह सम्बा- हयिष्यामि, धर्मोपरुद्धस्य ते तरु-पर्ण-वौजनैः खेद- मपनेष्यामि, क्षुधार्तस्य ते फल-मूलानि आहरि- व्यामि, उषातुरस्य ते पानीयमानेष्यामि, पूर्व-सुख- .
पञ्चमाध्यायः। चिन्तनेन प्रशोकस्य च ते कण्ठे ग्टहीत्वा नयन- जलं प्रोञ्छिष्यामि। मा मां नाथ हासौरनाथा- भिव–एष ते चरणयोरनलिरिति । अथ नलः प्रत्युवाच तां वाष्प-पयाकुलाक्षी, प्रिये ! यदेत- दात्थ तत्तथैव, अहमपि जानामि यन्नास्ति मित्र भाधा-सम दुःखमम्नानां नराणाम्-अतो नाहं त्वां त्यक्रमिच्छामि, त्वन्तु भौरु ! वृथैव शङ्कसे ; किम्बहुना प्राणाधिके ! अहमात्मानमपि त्यजेयं न च त्वां मगत-जीविताम्। ततस्तथावादिन नैषध प्राह दमयन्तौ हृदयेश्वर ! जानाम्यह ते हृदयं त्वञ्च ममापि ; अवैमि चाहं यथा त्व मां विहाय न पारयिष्यसि क्षणमपि स्थातुम्- किन्तु त्वमिदानौं मोहेनाऽऽकृतः कायाकार्य- विधुरः संवृत्तः, अतएव मे शङ्का जायते-यदि वा नाथ ! न मां त्यमिच्छसि कथ तहि विदर्भाणां पन्यानमभौक्षणमुपदिशसि ? एतदध्व-प्रदर्शनेनैव स- मुद्दान्तं नानाशङ्गाकुलञ्च भवति मे चेतः। अथ चेत् अयमभिप्रायो भवतः यदहं पिटसकाशं गच्छेयमिति-भवतु तदेव, सहितावेव ावां विद- र्भान् गच्छावः ? तत्र त्वं विदर्भ-नाथेन परमया मुदा पूजितः सुख वत्स्यसोति । प्रत्याह निषधे..
दमयन्ती। श्वरः अयि सुक्षत्रिये ! सत्यमेव विदर्भराज्यं यथा तव तातस्य तथा ममापि, न तत्राऽस्ति कश्चि- दपि विशेषः, किन्तु गन्तुमिच्छामि नाऽहमिदानी तत्र अनया विषमयाऽवस्थया ; पूर्व हि गत तत्र मां विलोक्य समृद्धिसंयुत हर्ष-भर-निर्भरा बभू- विथ, अधुना तु दृष्ट्वा तचैव मामकिञ्चन न पारयिष्यसि सम्बरीतु शोकान्-अतो न तत्र गमनमुचित ममेदानों-दृश्यतां तावहिधविल- सित, स्थीयताञ्च कानिचित् अहानि अचैव, इति पुनःपुनर्बुवन् सान्त्वयंश्च तत्कालोचिताभिर्वाग्भि- दमयन्तों तस्थाएव वसनस्याऽर्द्ध परिहितवान् निषधराजः। अथ तो एकवस्त्रसंवीतौ पर्यटन्तौ वनाहना- न्तर, एकदा प्राप्य काञ्चिद् वृक्ष-मूल-वैदिकां निषेदतुस्तत्र सहितौ क्षुत्पिपासापरिश्रान्तौ । क्षणादनन्तरञ्च मलिनः पां-गुण्ठितश्च भूमिपति- रुपधाय वामां बाहुलतां धरणीतल एव शयित- वान् । दमयन्त्यऽपि राज-दुहिता निःसहाऽत्यर्थ- मध्व-अमेण भूमावेव शयित्वा निद्रामुपपदे । सुप्तायान्तु तस्यां शोकाऽवरुद्ध-निद्रा-सुखी निमी- ल्यैव नयने नैषधः, तदेवयं-तत् सुख-तां द्यूत- पञ्चमोरध्यायः। क्रीड़ां-तदाज्यापहरणं-त बन्धुजन-विरह- वर्तमानञ्च वन-वाम-लोभ सर्वमेव सम मनसा स्मत्त मारेभे, चिन्तयामास च, अहो ! .किमह- मासं ! किच्चाहमस्मि ! किमहमिदानों करोमि ! कि वा मया कर्तव्य ! कथम प्राणांस्त्यजेय ? दमां वा मगतप्राणां कामिनीम् ? इयं हि मदनुरका मदर्थमेव इत्य दुःखमाप्नोति ; विहोना चेन्मया, मन्ये वजनान् इयं गच्छत् । यावदेषा मत्सकाशे वर्त्तिव्यते तावदसंशयमेव दुःखमतितरां प्राश्यति तपस्विनो; मदुमिता च समाश्रित्य बन्ध न् कदाचित् सुखमपि विन्दत । एवं स कलि-दर्शित-विपरीत-पथो मनुजनाथो वितर्य मनसि बहुधा विचार्य च वारंवार, परित्याग- मेव प्रियतमायाः श्रेयांस मेने, मेने चैषा महाभागा पतिव्रता न जातु पथि महिहीना तेजसा केनापि धर्षयितु शक्येति । एवं तस्य कलि समावेश-दुष्टबुद्धेर्दमयन्तीविस- ज्जन एव स्थिरा बुद्धिरजायत । अथाऽसौ श्रात्मनो विवसमतां तस्याश्चक-वमनतामाकलय्य परां चिन्ता- मुपपेदे, निश्चिकाय च मनसा तस्यैव वस्त्राई- स्याऽवकर्तनम्। किन्तु वासो विकर्तयिष्यामि, दमयन्ती। प्रिया च मे न जागरिव्यति, कथमौदृश उपायो भवेदिति चिन्तयन् तामेव वेदिकां विलोकथितु- मारब्धवान् दृष्टवांश्च तस्मिन्नेव तरुमूले निपतित विकोषमेक चन्द्रहासम्। दृष्ट्वा दृष्टश्च तेनैव छित्त्वा वसनस्याई स्वयम्परिहितवान्, उसृज्य च हृदय वल्लभां गतचेतनामनाथामिव तस्मिन् विजने पतितां सत्वर प्रदुद्राव अथ स गत्वा कतिचित् पदानि पुनः प्रतिनिहत्य दमयन्ती सुप्तामालोक्यम् विगलदश्रु विलपितुमारेभे -अहो! यामादित्य- श्चन्द्रो वायुर्वा पुरा न पश्यन्ति स्म, सेयमद्य मे प्रियतमा भूमौ अनाथेव धूलिधूषरिता शेते ! अहो! दृष्ट्वाऽप्येतनलस्य हृदयं न सहस्रधा दीर्यते !-हा प्रिये ! हा चारुहासिनि ! हा मधुर-भाषिणि ! हा मदर्थ-परित्यक्त-सर्व-सुखे ! हा मन्मय-जीविते ! एतदेव त्वया दुरात्मनो नलात् प्रियमाकाङ्गितम् ? एतदर्थमेव खयम्बरे देवगण- स्वयाऽवमानितः? हा विदर्भ-राजाङ्गजे ! हा निषध-राजमहिषि ! हा अनुपम-रूप-लावण्ये ! एष ते परिणामः ? हा ! प्रतिबुध्य मामपश्यन्ती कथ- मिव त्वं भविष्यसि ? कथं वाऽस्मिन् विजने सिंह. शार्दूल-विते मया विरहिता उन्मत्त-वेशा एका- ! ! ?
घटाध्यायः। किनी विचरिष्यसि ? भो भो आदित्याः ! वसवः ! रुद्राः ! मरुद्गणाः सर्वे च देवाः ! रक्षन्तु भवन्तः पतिव्रतां धम्म-कञ्चुक संवृतामिमामवलाम् । एवं स पुण्यश्लोको रुदन् विलपंश्च प्रातिष्ठत गन्तु। गत्वा-च प्रतिनिवृत्त्य पुन:पुनरेव तां वेदिका माजगाम। स एकतः कलिना,-अपरतश्च स्नेहे- नाऽऽन्तरेण पाकव्यमाणो मुहुः दोलेव यया वाययो च । अथ कलिना गाढ़मवकष्टो विसृज्य तां वनिता मेकाकिनौ मरण्ये शून्ये परिदेवयन् अतिकरुण विलोकयंश्च तां नयनाऽमृत-वर्ति निद्राभिभूत- चेतनां विच्छिन्न-स्नेहपाशो बाष्य-स्नात-वक्षाच एकतः प्रतस्थे । षष्ठोऽध्यायः अपक्रान्ते तु नले गत-लमा प्राबुध्यत विदर्भ- राज-नन्दिनी, अपश्यन्ती च पार्श्वे प्राणनाथ पूर्वा- देव सजात-शङ्का भय-पिहला हा नाथ ! महाराज ! कि परित्यज्य मामेकाकिनी .शून्य दमयन्ती। गहने पलायितोऽसि?-हा हताऽस्मि-हा विन. टाऽस्मि, हा विहलाऽस्मि, हा जीवितेश ! हा पत्नी-रत्मल! परिचायख मां भीतां त्वया विना अस्मिन् कान्तारे; हा धर्मज्ञ ! हा कारुणिक ! कथं मुप्तामनुव्रतामनपकारिणीं विहाय वने भाया. मन्यत्र पलायसे ? हा सत्य-सन्ध ! कथ लोक-पा- लानां सन्निधौ तादृशमभिधाय तदिपरौतमाच- रसि ? हा जीवितेश्वर ! बुद्धं मया यन्नाऽकाले कदापि भवति मृत्युमानां, यत स्त्वदुत्सृष्टाऽप्यह मुहर्तमपि जीवामि!-अयि चतुर-चूड़ामणे ! बुद्ध मया परिहासस्त्वयाऽयं कल्पितः--पर्याप्तोऽयं परि- हासः, विरमत्वऽयमिदानों-अहमत्यर्थ भौताऽस्मि -दर्शयाऽऽत्मानम्-नाऽहमतःपरं शक्नोमि-मोढ़; -राजन् एष व दृश्य से !-दृश्यले !-अहो दृष्टो- ऽसि !-कथं गुलझानमात्य मां त्रासयसि ? -सर्वथा नृशंसोऽसि संहत्तः, यन्मामेवङ्गतामा- विभूय पुरतो नाखासयमि !-कथं तथापि न प्रतिवचन ?-सत्यमेव पलायितोऽसि ? हा नाथ ! हा निषध-राज ! नाहमामार्थ किमपि शोचामि -फलतु बत्, यन्मे भाग्ये लिखित वैधमा ; केवल- मिदमेवाऽहं चिन्तयामि यत् साया श्रान्तः क्षुत्- !
पठारध्यायः। ३१ पिपासाकुलो वृक्षमूले निषसच मामपश्यन् पार्श्व कथमिव त्वं भविष्यसि ? कस्ते पानीयमानेष्यति ? कस्ते फल-मूलानि आहरिष्यति ? कस्त. पादौ सम्बाहयिष्यति ? कश ते शोक शमयिष्यति ? हा नाथ ! हा निषधेश्वर ! हा सर्व-गुणाकर ! क्कासि मे देहि प्रतिवचनं-इत्येवमपरञ्च विलपन्ती मुहु- रितस्ततो दत्तदृष्टि रुन्मत्त-दर्शना वन-मभितो धावितु मारेभे; तीव्र-शोक-समाविष्टा च मुहुरे- कतो दधाव-मुडश्चैकत्र निषसाढ-मुहमुक्तकण्ठं चुक्रोश मुहुश्च भूकेव तुष्णों तस्थौ, मुहुविचेतना संवृत्ता, मुहुथ केशानाऽऽच्छिद्य वक्षस्ताड़ितवती, मुहु मुहुश्चाऽसोम-साहसा सर्वतो विलोकयामास । इत्येवं शोक-भय-समाकुला पतिमन्विव्यन्तो विलपन्ती धावन्ती क्रोशन्ती च चेतसि चिन्त- यामास दमयन्ती,-अहो कथमोदृशः पुण्यश्लो- कस्य बुद्धि-विपासो जातः ? स तु कदापि मनसाऽपि पाप नानुष्ठितवान् । यः खलु तमपाप- चेतस परम-धाम्भिकमीदृश दुःखमानीय मोदते, अनुभवतु स दुरामा दुःखमधिकतरमस्मादपि । इत्येवमभिशष्य पूर्ववदेव परिदेवयन्तों. विच, ीता वेपते स्म, ३४ दमयन्ती। रन्तीञ्च नल-दर्शनाकाजया सर्वमेव तद्दिपिन- स्याऽभ्यन्तर-भाग जग्राह सहसा कश्चित् महाकाय: क्षुधान्वितः तामभ्यास-गतामजगरः । मा तु ग्रस्यमाना ग्राहेण भयोद्धान्त-चेतना हा नाथ ! हा राजन् ! वायख मामनाथामिव भुजगेनाऽनेन कवलिताम् । कथ मिदानी मम्य दासीन स्तिष्ठसि ! शोघ्र दर्शयाऽऽत्मानं, सत्यमेव निठुरोऽसि संवृत्तः ! हा नयनानन्दन ! सत्यमेव न पुनस्त्वामस्मिन् जन्मनि एताभ्यां चतुर्थी विलोकयिव्ये ? प्रीतिप्रद ! अधुना सकृदेव पुनराविभूय पुरतो मे तिष्ठ, अह विलोक्य त्वाम्मयाप्त कृतार्था प्राणांत्यजामि- पालयस्तेमां में चरमां प्रार्थनामिति त्यक-जीवि- ताश मुक्तकण्ठ क्रोशन्तो ददृशे केनचित् क्रन्दन- शब्दानुसारिणा मृगयार्थ मटता मृगजीवनेन । स विलोक्य तादृशे विपिने ग्रस्तां भुजङ्गमेन रूपे- णोद्भासयन्तों वनराजि आयत-लोचनां वराङ्गणां ससम्भमाकलित निशित-निस्त्रिंशः शातयामामाऽस्य व्यालस्य शिरोधरां, मोक्षयामास तां मूर्छित- प्रायां, सलिलैः क्षालिताऽवयवां समाखस्तां कृता- हाराञ्च पश्चात् पप्रच्छ-अयि मदिरेक्षण ! काऽसि ! कस्याऽसि ? कथमिद ममानुष घोर- पछाध्यायः । वती? मरण्यमागता? कथं वेदं कच्छमति-महत् प्राप्त- सा तु पृष्टैव प्राण-रक्षकेण वाष्याकुल- मुखी सर्व मामूलतो वृत्तं निजगाद। .व्याधस्तु निरीक्ष्य तामईवसन-सम्बीतां राका-शशाङ्कसङ्का- शाननां सर्वाषयवानवद्या कोकिल-कल-भाषिणी- मेकाकिनों शून्ये गहने, वश्यता मुपेतो मनो- भवस्य, लक्ष्णया वाचा सान्त्वयित मारेभे। बुद्धा च तमस्य मनोगतं भाव भाविनी तीव्र-रोष-समा. विष्टा मन्युना प्रजज्वालेव पतिव्रता । स च पापमति- रुपलभ्य तां प्रतिकूलवर्तिनों तत्स्थानात् अपगन्तु मिच्छतोच्च पञ्च-शर-शर-जज़रितो धर्षयितुमियेष, मत्वा च तामग्निशिखामिव ज्वलन्तीं नो शशाव सहसाऽऽक्रमितुम् । अथ तादृशे काले रोष-शोक. भय-विक्लवाङ्गी सर्वथाऽसहाया ध्यायन्ती हृदये हृदयेखर प्रार्थयन्ती च मानसेन एकाग्रेण सुरान् शरणं वाष्यसब-कण्ठो 'यथाऽहं कदापि मन- साऽपि नलादन्यं न चिन्तितवती, तथा पतत्वयं क्षुद्रः पशुमारः परासुः' इति रोषादुक्रवतो। सोऽपि शप्तमात्र स्तया साध्वा मृगाजीवो द्रुम इव छिन्नमूलो धरायां पपात च ममार च । अथैव निपात्य त मृगाजीव प्रतस्थ .पृथिवी दमयन्ती। पाल-महिषो, गच्छन्ती च परितो झिल्लिका-गण- नादित, सिंह-शार्दूल-मृग-महिष-गण्डार-वराह- वानर-श्ट्गाल-भलकाचे रारण्य-जीवैः सर्वतः स- चरित, विविध-विराव-विहङ्गम-गणघुष्ट, शाल- ताल-तमाल-महकार-कदम्ब-जम्बु-खदिर-ख र- विस्व-वदरो-किंशाक-शाल्मली-वट-वंश-वेव हरीतको प्रभृतिभि महोरहगण राच्छन, सर्व-जन-लोम- हर्षण कानन ददर्श, ददर्श च तत्र नानाधातु- रचिताऽनभ्रंलिह-शिखराग्रान् बहुविधानऽचलान् ; रमणीयान् निकुञ्जान् ; प्रवहमाना: स्रोतस्वतीः ; स्फटिक-सङ्काश-सलिल-पूर्णानि सरांसि ; गिरि- शिखरेभ्यो निपततो मुखरित-दिगन्तान् निझ- रान् ; सर्वतश्च विचरतो भोम-भोगान् भुज- गान् । सञ्चरन्ती तु सा एकाकिनी तथाभूतायां दारुणाया मटव्यां पति मार्गयन्ती तेजस्विनी विदर्भ-राज-नन्दिनी कुतोऽपि भय नाधिजगाम ; आश्रित्य च कञ्चित् शिलातलमुन्मत्तवेशा शोक- भर-भिन्न-हृदया विलपितु मारेभे। राजन् निषधेश्वर ! क नु गतोऽसि मा मेका- किनी मरण्येऽस्मिन् विजने परित्यज्य ? हा सत्य- सन्ध ! अश्वमेधादिभिराहवैरिट्वा प्राप्य च पवि- ..
पछाध्यायः । धर्माः चकमक्या जमेषु ख्यातिं 'पुण्यश्लोक' इति, कथा मनाथायां त्वदेक-शरणायामशुक्तरूपमयि समा- चरसि ? स्मर नरेश्वर ! यत् त्वया स्वयम्बरसमये सर्वेषामेव पुरतः प्रतिश्रुतं; मत्यरक्षणमेव साधूनां -विशेषतो भवादृशानाम्स; हसमप्यश्वमेधानां न तुलां प्राप्नोति सत्य कथनस्य ; अतः पालय सत्यं मत्यज्ञ ! यत् वयाऽवलम्बित प्राक् मत्सकाशे। हा नाथ ! करुणापर ! कथमटन्तीमद्भान्तामिव मां घोरयामस्थामटव्यां नहि प्रतिभाषसे ? अयं हि भीषणाकतिमंगराजो व्यादाय मुख मामत्तुमा गच्छति, कि न बायसे ? नाथ ! लुधया पिपा- सया चाऽऽकुलाऽस्मि, कि मदर्थ फलानि पानीय वा नान्वियसि ? रक्षण हि पत्नीनामनुव्रतानां सत्पतीनां धीः-तत् कथं तं नानुवर्तसे ? कथ- मह मत्तेव विलपन्ती दौना, मलिना, विवर्णा, वस्त्राई-संवीता च उन्मत्तेव वनाद् वन भ्रमन्ती पृथिवी-नाथ-प्रियाऽपि अशेष-जन-शरखाऽपि कमपि शरण नाधिगच्छन्ती हरिणीव यूथ-भ्रष्टा भय- विहल नयना किं-कर्त्तव्य-विमूढ़ा सर्वतः परि- धावामि, द्रुतपदमागत्य मां नाखासयसि ? हा प्रियतम ! त्वगत-जीविता भीता महारण्येवेका.
३६ दमयन्ती। । किनी दमयन्ती त्वामाक्रन्दति, किं न प्रतिभाषसे ? हा प्राणवल्लभ ! दृष्ट्वा मामौषदपि विषम-वदना- मुद्धान्त-हृदयो बभूविथ, कथमिदानों तामेव माभीदृशेषु दुःखमागरेषु निमनामुपेक्षसे ? यि जीवितनाथ ! कि द्रक्ष्यामि पुनस्ते मुखचन्द्रमस्मिन् जन्मनि ? अथवाऽयमेव शेष: तादृशस्य सुखस्य मन्दभागिन्याः?-अहो असमर्थास्मि चिन्तयितुमपि मनसि, यदाहमस्मिन् कानने पुरोवर्तिनि वा गिरि- पृष्ठे न त्वां कदापि द्रक्षामि शयानं, आसीनं परिता वा भ्रमन्तं-कं नु खलु घोरेऽस्मिन् सिंह-शार्दूल- सेविते वनप्रदेश पृच्छामि ‘अपि दृष्टस्त्वया क्वचि- दपि शारद-शशधर-समानी निषधराजो नलः' इति ? कोहि वर्षिष्यति श्रवणयोमै सुधाधारां, निगद्य मे 'राजमहिषि ! दृष्टो मया चारु-सर्वाङ्गो विपुल-वक्षा विशाल-नयनो धाम्यन् अमुस्मिन् प्रदेशे निषधाधिपः, यवं वने वने मृगयसे' इति । अयं हि पुरतः स्फीत-केशरी विकृत-वदनः सिंहः समभ्येति, भवतु पृच्छाम्येन तावत् कृताञ्जलि:- अयि मृगराज ! अहं हि तनया विदर्भ-नाथस्य, महिषो निषधराजस्य दमयन्तो नाम भ्रमामि वने वने पति नष्टमन्विव्यन्तो ; त्वमस्य काननस्य प्रभुः, घछारध्यायः । ब्रूहि-यदि कदाचिदवलोकितस्त्वया सर्वाङ्ग-सुन्दरी मे प्राणवल्लभः ? नवेद् भक्षयित्वा समुत्तारय मा- मस्माद्यसनार्णवात्। कथं नाऽयमाकर्ण्य मे प्रार्थना गतवानऽन्यां दिशं ! भवतु, पुरोवर्त्तिनम् अनेकवर्ण- मनोहरैरंभंलिहबेहुभिः शिखरैः शोभितं, सिंह- शार्दूल-मातङ्गवराह-मृगगणासेवितं, विचित्रविहगा- वली-संयुतं, फल-भर-नतेनंतोबतैलतागुल्म-तरुभि- राहतं, खर-शब्दाभिर्विमल-सलिल-वाहिनोभिनि- झरिणीभिरुपेतं शिलोच्चय तावदिम पृच्छामि भगवन् अचलेश्वर ! त्वामहं प्रणमामि-जानीहि मां राजपुत्रों-राजस्नुषां राजपत्नीच्च दमयन्ती नाम-महाबलो महारथो रक्षिता चातुर्वण्यं स्य, आहर्ता वाजपेयाश्वमेधादि-कढनां, विजेता साग- रान्तायाः पृथिव्याः, विश्रुतकीर्त्तिविद्यते विदर्भेषु राजा भीमो नाम ; अहं तस्यैवाऽऽत्मजा। आसी- निन्नधेषु सुग्रहौत-नामा स्मरणीय-शुभ-कार्य- कलापः पुण्यवानऽतीव, नरपतिरार्योर्वीरसेन इति, तस्थात्मजः रूपोपहमित-नलकूवरः, मनोभव व मूर्तिमान्, प्रताप-नमित-समस्त-सामन्त-चक्रः, वि- क्रमक निलयः निखिल-वेद-वेदाङ्ग-पारगः, समा- हत-सदक्षिण-बहुशत-यज्ञः, विश्रुतः 'पुण्यश्लोक' इति . .
दमयन्ती। - नाना, पालयिता पुत्रवत् प्रजानां, समस्त--सद्- गुणाभिरामो भूपतिनलो नाम मामुपयेमे । स हि भाग्यवशादपहारित-समस्त-विभवः परित्यक्त-राज्यः समवलम्बित-काननाश्रयो विहाय मां विकृत-मति- मानव-सम्पर्क-शून्येऽस्मिन् विपिने, क्वापि गतवान् ; अहन्तु तं हृदय-नाथमितस्ततोमृगयमाणा भ्रमामि विपिनाहिपिनान्तरं-त्वं हि गिरिराज ! निरी- क्षसे गगनोलेखिभिः शिखरैः समस्तामेव वनभूमि- अपि दृश्यते दृष्टोवाऽत्र क्वचिदपि घन-केशजाल:- प्रशस्त-ललाटः-पाकर्ण-विश्रान्त-लोचनः--कम्बु- ग्रोवः विशाल-वक्षा:-दीर्घ-बाहु:-सर्वाङ्ग-सुन्दरः -गजेन्ट्र-विक्रमो नलाभिधानो निषधराज: ?-- कथं तुष्णीं स्थोयते ?--न किञ्चित् प्रत्युच्यते ?- नगाधिप ! कथय ! कथय ! कुत्र सास्ते ?-अहं सातिशयं भोताऽस्मि, अतीव व्याकुलाऽस्मि-प्रा- णान् धारयितुमक्षमाऽस्मि-अलमतःपरमपि विल- बेन !-कथं तथापि न प्रतिवचनम् !! हा नाथ । हा हृदयवल्लभ ! हा धर्मवत्सल ! हा सत्यसन्ध ! कमिदं? यन्त्र कोऽपि नैषधं दृष्टवानऽस्मि' इति ब्रवीति ! हा! न पुनः श्रोग्याम्येव किं जीमूत- सान्द्राममृतोपमा 'का भौतिवैदर्भि!' इति वि- वहारध्यायः ११ स्पष्टमधुरां, नाथ ! ते भारतीम् ? हा किमिदमा- पतित मे मन्दभाग्याया दमयन्त्याः ?-मर्वथाऽह- मतोव निष्ठुराऽस्मि यदेतादृशावस्थाऽपि जीवामि ! इत्येवमादि परिदेवयन्ती मत्तेव, उन्मत्तेव, विकृत-दर्शना, भत्त-दर्शन-लालसा, पर्यटन्तौ दम- यन्ती, अवलम्बा दिशामुत्तरां त्रीनहोरावान् गत- वती, दृष्टवती च क्वचिदेकत्र, आहुति-धूम-स्निग्ध- पल्लवै-बहुल-पुष्प-फलशालिभि रविरलच्छायैः पा- दपैराहतं, परित्यक्त-सहज वैरै-मंग-मृगेन्द्र-तुरङ्ग- महिष-काकोलक प्रभृतिभिर्जीवगणैः सर्वतः सञ्च- रितं, जलाहारर्वायुभक्षेलित-पर्ण-जोविभिश्च वल्- कलाजिन-वासोभिर्जितेन्द्रियैः प्रशान्त-मानसमं गु- वशिष्ठ-नारद-मरीचि-समै स्तापसै रुपशोभित, किमपि रमणीयं तपोवन-मध्यगतमाश्रमपदम् : दृष्ट्वैव जन-समागम-शून्ये विजने मानुषाकारान विशेषतो विश्वसनीय-प्रकृतीन् मुनिजनान् परं हर्षमवाप राजमहिषी । प्रविश्य चाश्रम-पदं विनय- विनम्र-मूर्तिस्तपोधनान् प्रणनाम। तैश्च, भने ! खागतं ते ? इहाऽऽस्यतामित्युक्ता यथाविधि सत्- कृता च तेषां सर्वत्र वार्त' जिज्ञासितवती, प्रत्यक्ता च-महाभागे ! जानीहि त्वमस्माक सर्वचैव शुभं ?
दमयन्ती। . परं पृच्छामस्वां, काऽसि ? कस्याऽसि ? किमर्थ वा वने वने भमसि ? दृष्ट्वैव तवातिमानुष रूप- लावण्य परं विस्मयमापना वयम्-का त्वमनि- न्दिते ! किमस्या अटव्या देवी ? उताऽस्य महीधर- स्याऽधिष्ठात्री ? आहोखिदस्या निम्नगाया आत्म. रूपाऽसोति ? सा तु श्रुत्वैतदृषिवचन लज्जा- विनय-मन्थरमभिधातुमारभत-अयि तपोधनाः ! नाहं देवी, नान्या वा काचित् देवयोनिः-मां मानुषीमवगच्छन्तु भगवन्तः इत्युक्त्वा निवेद्य च सर्वमामूलत आत्मवृत्तान्तं पप्रच्छ, कच्चिदिदं भग- वतामाश्रमपदं कदाचित् प्रविष्टो नलो निषधे- खरः ? अपि दृष्टः कदाचित् तादृश: पुरुषो वनेऽ- स्मिन् भ्रमन्-तरुमूले वा शयितः-तटिनो-तटे वा आसीनः वस्त्रार्द्ध-संतो धूलि-धूसरित-गात्रः समि- त्पुष्प-जलाहरणार्थमितस्ततः पर्यटद्भिर्भगवद्भिः? -यत्कृतेऽहमोदृशं व्यसनं प्रपन्ना, यदर्थमहं श- रारु-चक-भीषणं सर्वभूत-लोमहर्षणं गहनं पर्य- टामि, यदि न पश्येयं कैश्चिदहोभिस्तं मे जीवित- नाथं, तदावश्यमेव दुःखावसान करिष्यामि प्रा. णानामेषां विमोचनात् ; कि मे जोवितेन प्रयो- जनं तत् पुरुषरत्नविना ;-हा कथं ! तेन वियो.
पछाध्यायः । १३ जिताऽपि इदानोमयाहं जौवामि ! अहो मे नृ- शंस-हृदयता ! हा नाथ ! हा हृदयवल्लभ ! सम्भन- वय मामोदृशे समये आत्म प्रदर्शनेन । इत्येवमादि बहुविधं विलपन्ती भीमनरेन्द्र- नन्दिनीं तापसाः करुणाई-मानसाः सादरं सम्भाव्य समाखास्य च मधुराभिर्वाग्मिः प्रोचुः-'कल्या- णिनि ! वयं तपसा भूतं वर्तमान भावि च सर्व- मेव पश्यामः, अतः वयं त्वां ब्रूमः यत् त्वं न चिरा- देव द्रक्ष्यसि पुन: पतिं, पतिव्रते ! सर्वपाप-विनि- मुक्त सर्व-शुभ-समेतं तदेव नगरं पूर्ववत् प्रशासतं नलं निषध-राजम्, माऽत्र नो वचसि विकल्पः कार्यः' इत्यभिधाय ते नल-वल्लभां सहसैवाऽन्त- दधुः साश्रमास्तपोधनाः। अथ सा दृष्ट्वा तत् मह दाश्चयं भय विस्मय-निमग्ना प्रारभत मनसि चिन्त- यितुम्-अहो किओतत् ! किम् स्वप्नो मया दृष्टः ? न चाहं निद्रिता-किमैन्द्रजालिक-विचेष्टितमिदम् ? न कोऽप्यन्द्रजालिकोऽत्र दृश्यते ! किमासुरी दैवी वा काऽपौयं माया ? को वा मन्दभागिनों प्रतार्य कस्याऽपि फल-लाभाशयः । चित्र ! चित्र! क से तापसाः ! क तदाऽश्रम-मण्डलम् ! कच सा पुण्यजला तटिनी? गन्धर्व-नगरमिव सर्वमेव मे, 88 दमयन्ती। पश्यन्त्या एव विलीनम् ! किमिदानों करोमि ? व गच्छामि ? कस्य पुरतः खदुःखं निवेदयामि? कं वा शरणमुपयामि ? हा प्राणेश्वर ! आदिश इदानीं किं मया कर्त्तव्य मन्दभागिन्या त्वया विनाकृतयेति भूयो भूयः परिदेवयन्तो किंकर्तव्य- विमूढ़ा तमेव कान्तारं पत्युरन्वेषणार्थ भ्रमितु मारेभे, ददर्श च बहुशो द्रुम-गुल्म-लता-वृतान् पर्ववान्, मधुर-राव-राविणो विहङ्गमान् कलकल- मापततो निर्झरान्, विचित्र-मृग-गणसंयुतानि कान- नानि, विमल-सलिल-सञ्चारिणीः सरितश्च । एवं सा गत्वा कियन्तमध्वानं शुचिस्मिता, क्वचिदपि गज-वाजि-रथ-समूह-सङ्गलं विविध- पण्य-पूर्ण-शकट-मन-समेतं काच्चिदायतां नदीमुत्त- रन्तं महान्त कमपि सार्थम् ददर्श, प्रविवेश च तेषामव जनानां मध्यं सुमध्यमा। अथ ते सार्थ- पुरुषा दृष्ट्वैव तामुन्मत्तरूपां शोकाकुलितां वस- नाईसंवृतां कृशां विवणीं मलिनां धूलिध्वस्त- शिरोरुहाञ्च-केचित् भव-विकल-गावाः प्रदुद्रुवुः, केचित् केय भविष्यतीति परां चिन्तामापुः, केचित् हताः स्म इति मत्वा विचुक्रुः, केचिदिकृताकार- दर्शनेन जहसुः, केचित्तां हन्तुमुद्ये मः, केचिच पछारध्यायः 81 कृपया जिज्ञासितु मारेभिरे-काऽसि ? कस्याऽसि त्वं वरवर्णिनि! कं वा वनेऽस्मिन् दारुणे मृग- यसे? दृष्ट्वा त्वामीदृशाकारां विस्मिता भीताच वयं संवृत्ताः-कथय सत्य-अपि मानुषी वैम् ? अरण्यस्याऽस्य महौधरस्थ वा देवता ? विद्याधरी यक्षी राक्षसी वा काऽपि विहरसे ? अथवा या वा सा वा भवसि, वयं त्वां शरणं प्रपन्नाः-रक्षाऽस्मान् शरणागतान, विधेहि क्षेममस्मत्-सार्थवाहस्य, यथाऽयं सगण: सद्रव्यः समोहितस्थानं याया- दिति। सैवमुक्ता लज्जा-विनय-मन्थरमवादोत्- मानुय्येवाऽहं सार्थपुरुषाः ! नैव देवी नाऽपि काऽपि देवयोनिः ; विदर्भाधिपतेर्भीमस्याऽऽत्मजाऽहं, न. लस्य च निषधेश्वरस्य वनिता-पतिमन्विव्यन्ती वने वने विचरामि। अपि दृष्टो भवद्भिः सुदूरा दागच्छद्भिः गजेन्द्रविक्रमः सिंह-संहननो नलो नाम कश्चित् पुरुषः । येन तु वसनार्द्ध-संवौतेन धूलि-धूषरितेनाऽति-तेजखिना-वहिनेव च्छादितेन भाव्यम् । कथयत, महाभागाः ! दृष्ट इति ! जोवयत च तदेकजीवितामेतां मन्दभागि- नौम् ! अथ शुचिर्नाम सार्थवाह स्तामनवद्याङ्गी- मुवाच साध्वि ! कल्याणिनि ! अहमेवाऽस्य महत; भस्मा- दमयन्ती। - सार्थस्य नेता, आगच्छामि च विदूरात्-बहनेवा- ऽस्मिन् महति गहने शादलान् महिषान् कुञ्जरान् वानरान् मृगान् मृगेन्द्रांचाऽपश्यम्-न च कदापि भवतीं मानुषों विहाय कमपि मयं व्यलोकय- मिति । अथ सा भग्न-हृदया पुनरेव तं पृष्टवती, कुत्र खलु देशे सार्थोऽयम्भवतो गमिष्यति ? चेदि- राजस्य सुवाहोर्जनपदमिति प्रत्यक्ता च । अथाकण्यं तत् सार्थवाह-वचनं चारु-सर्वाङ्गी प्रारभत गन्तु सह तेनैव सार्थेन भल-दर्शन-लालसा- परीता, अतिचक्राम च भूरिशः सरित: बहु- विधानि वनानि अनेकांच महीधरान् कतिपयैरेव दिवसैः। अथैकदा समतिकान्त-बहुलाऽध्यानस्त बणिजो वनान्तरालवर्तिनं प्रफुल्ल-कुमुद-कुवलय-कारं निम्मल-शीतल-स्वादु- सलिलं तोर-दृश्यमान-प्रभूत-यवसेन्धनं कञ्चिदायतं तड़ागं, मनोदधुस्तत्र निवेशाय श्रान्त-वाहनाः, अवतस्थिरेच पश्चिम तौरमस्याश्रित्य सत्वरमधिकृत- रमणीय भूमिभागाः। अथ निशीथे स्तिमितेष्व- रण्यभागेषु निर्वाणायां दीपावल्यां सुप्तेषु च सार्थ- पुरुषेषु, किमपि गजयूथं पानौयार्थ तमेव जला- शयमाजगामः दृष्ट्वैव ते यूथवर्तिनो वनगजा एकत्र पारध्यायः । ग्राम्यगजान् इतस्ततः शयानान् रोषात् विस्त- गण्ड-स्थला जिघांसया परितो धावितवन्तः । तेषाञ्च, शिखरि च्युतानां ङ्गाणाभिव, धाबमा- नानां वेगेन वन-विटपिनो भग्नाः, शकट-शिविरा- दयश्चणिताः, गज-वाजि गो-खरोष्ट्र-नराच विमर्दिता बभूवुः। अथ ते निद्रान्धाः सार्थिकपुरुषाः सह- सैवाऽतर्कितं भयमुपलभ्य किं कर्तव्य-विमूढ़ा हाहा- कारं विमुञ्चन्तः परितो धावन्तिम्मा। तत्र करिणां करचरण-दशन-ताड़िता: केचित् भग्न-पादाः, कचन विनिष्ट बाहवः, अन्ये चूर्णित थिरसः, अपरे विम हितोदराः, इतरे रुधिरानुता बभूवुः। एवं ते. वन्यगजैस्तस्यां निशीथिन्यामतीव तेषां सार्थिकानां कदनं कृतम् । ततः प्रभातायां यामिन्यां उदिते च मार्तण्डे हतावशिष्टा स्ते भ्रातरं पितरं पुत्रं सुहृज्जनञ्च शोचन्तो गन्तुमुपचक्रमिरे तस्मात् प्रदेशात् दिश- मातरवैः पूरयन्तो वणिजः । अथ वैदर्भी तादृ- शेऽपि विपत्पाते अमुक्तजीविता सार्थिक-विनाश-. दर्शन-दुःख कातरा च परिदेवयितु मारेभे, अहो ! किं मया दुष्कृतं कृतं मन्दभागिन्या ? किमपराद्ध विधातुः ? केषां नाम दुरदृष्टानां फलपरिणामो- दमयन्ती। ऽयम् ? जलधिमध्ये फलकमिव यदेव . मया मार्थिकवन्दं मानवसम्बन्धवर्जितेऽस्मिन् प्रदेशे शरणमवाप्तवतो, तदपि ममैव भाग्यविपर्ययात् कार्लरूपिणा मतङ्गजयूथेन इतम् ! नूनमद्यापि सुमहानव दुःखभारो मया भोक्तव्यो विद्यते, तदर्थ मेव न विमहिताऽस्मि करिभिरेतैः । जगति न किञ्चिदपि नराणामदैवतं विद्यते;, नचाऽहं स्मरामि बालभावेऽपि कम्मणा मनसा वाचा वा किमपि दुष्कृतमाचरितं यदर्थमेवं मे दुःखमुपनतं भवेत् । मन्ये वयम्बरसमये लोकपाला यन्मया विमानिताः, तस्यैव मे फलमद्य विपक्कम् ; नूनं तेषामेव प्रभावण दशौं विषमां दशां प्राप्त वत्यस्मि ; भवतु, भो लोकापाला: ! विदन्ति भवन्तो लोकानामान्तरं तत्त्व, अती न किञ्चित् मे निवे. दयितव्यं विद्यते ; केवलमान्तरेण भावेन शरणं वः प्रपन्नाऽस्मि, विधत्त मे तत् यत् युष्मभ्य रोचत इति। इत्येवमादि विलपन्लो, खानि भाग्यानि शोचन्ती, विदर्भराज-तनूजा हताशिष्टः साई ब्राह्मणादिभि रगच्छत् सा दि-राज-राज्यम् प्रविवेश च पुरं सायाने साधन्तन-सुधाकर-सुन्दर- मुखी सुबाहोमहोपालस्य ।
बछोरध्यायः । 88 अध तामई-वसन-सम्बौर्ता पयाकुल-लोचना का दीनामसंस्कृत-मुक्त-रूक्ष्म-केयां पांशु-कईमाव- लेपेऽपि स्फुट-लक्ष्यमाणाऽलौकिक-रूप-लावण्यां म- तामिव उन्मत्तामिव किमिवाऽविष्यन्तौं नगरान्तरं भ्रमन्तीं नगरवासिनो विस्मयोत्फुल्ल-नयना विलो- कयितुमारेभिरे। बालाय रथ्या-विहारिणो दृष्ट्या तां तदाकारा परितः परिवार्य केचिनहसः, केचन हस्ततालान् ददुः, केचिदुपल-खण्डादिभिराजघ्नुः, केचिच्च वसनप्रान्तेषु तामाक्रष्टुं प्रवृत्ताः । स तु तः, एवमनुगम्यमाना राजासविधं भ्रमन्ती प्रा- सादशिरोवर्तिन्या राजमात्रा प्रेषिता, प्रानौता च स्वसमीपं धाव्या समाश्वास्य दाया वाचा । अथ तां प्रासाद-तलमारूढ़ां रूपेणोद्भासयन्तीमिव दिव्यानि ग्रहाणि, राजजननो विस्मय-विकसित- नेत्रा पृष्टवती-काऽसि व वराङ्गणे ! किमर्थ वा ईशावस्था भ्रमसिं?-नहोदते मानुष रूप ! उन्मत्तवेश-प्रच्छवाऽपि लक्ष्मीरेव त्वमे प्रतीयसे । गषा खलु ते गात्रयष्टिविहीनाऽपि भूषणैमघोदर- मध्यगता तडिदिव लक्ष्यते, अती नाहमि मां मतारयितु, ब्रूहि मत्वं काऽसि कस्याऽसीति । मात्ववादीत् मैवं ब्रूहि मां महाभागे ! भत्तुं. ५ दमयन्ती। दर्शन-लालसामनीचजातीयां मैरिधी मामवेहि। भत्ता हि मन्दभागिन्या असंख्येय-गुणो रूपवानु- दारमत्त्वो दिवश्चातः कोऽपि देव इव मूर्तिमान, यस्याऽहं छायेवाऽनुगामिन्याऽऽसम्। अथ भाग्य-विप- ययादतिमात्र देवने प्रसक्तः, निजितः सकलानि रत्नानि, वनमेकाको स एकवसनः समाश्रितवान्, अहञ्चाऽनुवबाज नानोपायैस्तं समाखासयन्ती। अथ केनचित् कारणान्तरेण तदप्येकवसनं तेनाऽप- हारित, परिदधे च स ममैव वसनस्याऽर्द्धम् । अन- न्तरमेकदा तदपि स छित्त्वा परित्यज्य मां निद्रा- तुरां निर्जनेऽरण्ये, कापि पलायितः। साऽहं विना तेन नौल-नलिन-नयनेन किं करोमि, कि पश्यामि, किं श्टणोमि, क गच्छामि, कुत्र तिष्ठा- मोति किमपि न जाने, केवलमहर्निशं तहिरहानल- दह्यमान-हृदया उन्मत्तवत् पर्यटामौति । राज- माता तु निशम्य तस्याः सर्व' शोक-पूर्ण-मुदन्त दृष्ट्वा च ताम-यु-विलुलितादीमतोवदीनावस्थां परां करुणा मुपपेदे, उक्तवती च अयि कल्याणिनि ! दुहितरीव त्वयि मे मानमनितरामेव नियति, न जाने किमत्र कारणम्-तसाऽस्मिन् मत्पुरे निर्भी- कदया ; मृगयिष्यन्ति ते भार ममैव पुरुषाः ।
पछारध्यायः कदाचित् सोऽपि परितो धावन् खयमेवाऽचाऽs- गच्छेत् ; अतोऽत्रैव वसन्ती नि:संशयं पतिमुपल- प्स्यसे, एतन्मे मनसि समुत्पद्यते-जहीहि शोक- अत्रैव वसेति। सा तु तदाकर्ण्य सविनयमुवाच अयि महाभागे ! महानऽनुग्रहोऽयं मयि भवत्या प्रदर्शितः, परमहं समयेन केनचित् वस्तुं शक्नु । याम्-अहमुच्छिष्टं न भोक्ष्ये -पादान् न धाव- यिव्ये, अन्यांश्च पुरुषानाभाषिष्ये। यदि कश्चि- दिहत्यः प्रार्थयेन्मां पुरुषः, स त्वया कठिनतरं दण्ड- नौयः । भत्तुं रुदन्तज्ञानार्थ केवलमहं समये समये ब्राह्मणानऽवलोकयिव्ये, इत्येष मे समयः, यमनति- क्रम्यैवाऽहमत्र वस्तु शक्नुयाम्-अन्यथा विस्ज मां, यामि यत्र मां नयने नयत इति । राजमाता तु निशम्य तस्याः परमपातिव्रत्य-सूचकान् निय- मान् अतीव प्रहृष्टेन चेतसा तां प्रत्युवाच-भने ! सर्वमेव ते समयमह पालयिथामि, मा भैषोः, आगच्छ मया सहेति तामादाय स्व-दुहिट-समीप गत्वा तामुवाच सुनन्द ! सुर-सुतोपमा मयैषा सैरिधी समासादिता-यन्तु रूप-गुणोपेता वयसा च समाना तवैव सखी भवतु-नाचरे: कदाचिदप्यस्यां किमप्यऽन्याय्यरूपमिति । सुनन्दा दमयन्ती। . तु प्राय तां सर्वाकारहृदयङ्गमा सहचरौं परमाता- दिता खग्रहमुपगम्य सर्वासु सखीषु तां न्यवेदयत् । दमयन्त्यऽपि तत्र रूपेण विनयेन शोलेन च सर्वासा प्राण-भूता सर्वाभिः परिपूजिता च सन्तोषित- सुनन्दा-मानसा निरुगा नल-चिन्ता-परायणा न्यवसत् । सप्तमोऽध्यायः। नलस्तु निषधराजः उत्ज्य तां निद्रा-विहला- मर्द्ध-वसनां बनान्ते वैदर्भी पर्यटन्नितस्तत: शो- कान्ध-मानसः कचिदेकत्र वनराजोर्दहन्तं प्रचण्ड दावानलं ददर्थ, शुश्राव च तन्मध्यवर्तिनः कस्या- ऽपि भूतस्य “भो भोः पुण्यश्लोक महीपते नल ! सत्वरं सत्वर-अभिधाव-वायख मां महतो भयात्” इत्यसक्नदुचरन्तमुझेरार्त्तनादम् । श्रुत्वैव "न भेतव्यम्-न भेतव्यम्-प्रथमहमागतोऽस्मि" इत्यभिधाय त्वरितपदं गत्वा वरभ्यन्तरं, अपश्यदेकत्र कुण्डलीकृत शयान कमपि भु- सप्तमारध्यायः। ५३ जङ्गमम् । स तु वेपमानः कृताञ्जलिरभाषत राजन् ! विधि मां नाग कर्कोटकं नाम । मया हि करबुद्धिना देवर्षी नारदे खल्वऽपरा- द्धम् । स तु मन्यु-परीतो मामभिशप्तवान् "तिष्ठ रे दुरामन ! स्थावर इव, यावत् कश्चित् नली नाम भूमिपतिः इतस्त्वाम् स्थानान्तर मयतीति" अहन्तु तस्य देवर्षेः शापात् पदात् पदमपि चलितुं न शक्नोमि ; अतो रक्ष मां राजन् ! करुणवा, श्रेय स्तवाहमुपदेच्यामि, सखा च ते भविष्यामि, नास्ति जगति कोऽपि मत्समः पन्नगः; अती मया सुहृदा कदाचिदपि तवार्थः कोऽपि सम्पत्- स्थते । तिष्ठतु तावत् तादृशालापः ; अहमिदानों लघुर्भवामि-सत्वरमादाय मामपसर' इत्यभिधा- यैव स नागपतिरङ्गठ-मात्रको बभूव । नलोऽपि तमादाय दाव-शून्य देशं प्रायात् । अथ तन तं त्यकामं कर्कोटक: पुनरब्रवीत्-राजन् ! स्वा- न्येव कानिचित् पदानि गणयन् गच्छ, तत्रैवाई ते श्रेयो विधास्यामि। सोऽपि तवचनात् संख्यातु. मारब्धवान् ; व्यतीतएवच दशमे पदे कर्कोटकस्तम- दशत्, दष्टस्य च तस्य स्वाभाविक रूपं सहसैवाऽ- न्तरदधात् । अथ स विकृत-रूपो विस्मय-विकल.
५४ दमयन्ती। नेत्रः स्तब्ध इव तस्थौ, दंदर्श च पुरोवर्तिनं खरुप- धारिणं नागम् । अथ तं विस्मितं राजानं कर्को- टकः सान्त्वयनब्रवीत् महीपते ! मा भेषीविकृत- रूप दर्शनेन, मया ते स्वरूपमेवमन्तर्धापितं यथा त्वां स्वरूपतो न कोऽपि प्रत्यभिजानीयात्५ यत्- कृते च त्वमदुःखार्दोऽपि ईदृशेन दुःखेनाऽभिपरीतः, यो हि त्वामनागसमपि केवलमसूयया दारुणा- मिमां यन्त्रणामनुभावयति, स खलु दुरात्मा महिष- दग्ध-गात्रो नियतमेवाऽतोव लेशमनुभवन् त्वयि निवत्स्यति । किम्बहुना यावदेवाऽसौ त्वां न मो- यति, तावदेवाऽस्य विष-ज्वालाऽपि नाऽपगमि- थति ; तव तु मनुव्येन्द्र ! मत्प्रसादात् नमानवेभ्यः न खापदेभ्यः नाऽपि केभ्यश्चिदपरेभ्यो भूतेभ्यो भयं भविता ; प्रास्यसि च त्वं रणमुखे राजेन्द्र ! शश्व- देव विजयम् । अधुना त्वं प्रख्यापयन्नाऽऽत्मानं सृतं बाहुक माम, गच्छाऽयोध्याया मृतुपर्णस्य राज्ञः समी- पम्। स चेवाकु-कुल-प्रदीपः परमेव प्रावीण्य- मुपगतवानऽक्षकौड़ासु। सहवास-सम्पर्कात् स ते पर मित्र भविष्यति, दास्यति च तुभ्य मन-हृदय- खानं, समादाय बत्सकाशादख-हृदय-विद्याम् ।
सप्तमोध्यायः। ५५ यदा तु त्वमक्ष-हृदय-ज्ञो भविष्यसि तदेव श्रेयसा, दारैः, तनयाभ्यां, राज्येन च योक्ष्यसे, एतत्त सत्य ब्रवीमि। यदा तु राजन् ! स्वकीयं रूप- मवलोकयितुमिच्छेः तदैवाऽहं त्वया स्मर्तव्यः, इदच कोसोयुगं परिधावव्यम्, अनेन हि वाससा च्छन्नो नियतमेव वं रूपं प्रतिपत्स्यसे, इत्यभि- धायैव स नागराजः प्रदाय तस्मै दिव्यं वासो-युगलं उपदिश्य च बहूनि श्रेयांसि सत्वरमन्तरदधात् । अन्तहिते तु तस्मिन् नागाधिपती प्रयवौ स राजा निषधेश्वरः ऋतुपर्णस्य राज्ञो नगरं प्राप्त- वांश्च तद् दशमे दिवसे | अथ स राजानमास्थांन- गतमुपलभ्य विनयावनतो वनुमुपकान्तवान्- राजन् ! नास्ति मत्सदृशः कोऽपि पृथिव्यामश्व- सारथ्य-कम्मणि ; राजनीतीनामपि किञ्चिदभि- ज्ञोऽस्मि ; अन्नादिकमतीव सुरसं पक्तमहं जा- नामि। यानि चापराणि शिल्पानि सन्ति, यहा- ऽतोव दुष्कर' पृथिव्यां विद्यते, तत् सर्वमेवाहं कर्तु यतिथ्ये ; अतो यद्यर्थो मया मृत्येन, भरख मां. पते ! नाम्ना बाहुकमिति । ऋतुपर्णस्तु समा- कर्ण्य तवचनं दृष्ट्वा च तस्य सर्वगुणशंसि शरोरं अतीवप्रीतो निजगाद, भद्र ! वाहुक ! सूच्यन्ते.
दमयन्ती। सर्व एव गुणास्तवाऽस्यामाकृत्यामेव ; विशेषतः शीघ्रयाने सदैव मे मानस रमते, अतो यतख मे वाहान मनोजवान् कर्तुम्, ददामि तुभ्यमह- मखाध्यक्षता बहुशतेन वेतनेन ; इमौ च पुरतो दृश्यमानौ वार्णय-जीवली सदैव त्वामुपचरिष्यतः ; एताभ्यां साई यथासुखं निवसति । अथैवमुक्तो दासत्व-प्राप्तापि परम संहृष्टः पुण्य- नोकस्ताभ्या मह तत्रैव राजभवने न्यवसत्, बैदर्भी- चिन्ता-जर्जरित-हृदयस्तु प्रतिदिनमेव सन्ध्या- समये लोकमिममुदगायत्- "क नु सा क्षुत्पिपासार्चा श्रान्ता शेते तपखिनी। स्मरन्ती तस्य मन्दस्य कं वा साऽद्योपतिष्ठति ! ॥" ततो नित्यमेव ब्रुवन्तमेवं एकदा जोवलो निशायां पृष्टवान् सखे बाहुक ! का सा नारी? कस्य वा पत्नी ? यां नित्यमेव त्वं एवमनुशोचसि ? यदि न दोषः कथनेन पूरय मे कौतूहलमिति । स त्वेवं भूयोभूयः पृष्टः प्रत्युक्तवान्-सखे ! किमहं ब्रवीमि ! सा खल्वासीत् कस्याऽपि मन्दमते:, पता- केव पतिव्रतानां प्राणभ्योऽपि प्रियतरा पत्नी। म खलु नष्टभाग्यः केलाऽपि कारणेन तया विप्रयुक्तः शोकानलदह्यमानमानसो भ्रमित्वा बहन् देशान् / सप्तमारध्यायः सा तु सोध्वौ . अनुभूब च दारुणमाधि, वसति कचिदपीदानौं समासाद्य किञ्चन सर्वथाऽनई, गायति च प्रति- दिन निशागमे लोकमिमं, संस्मरन् तां विनि- न्दितेन्दुवदनां हृदयाधिकाम् । कान्ताप्यनुगता, परित्यका च तेन पापमतिना किमिदानीमपि जीवति? अहो! एकाकिनी, मार्गाणमनभिज्ञा, संखोचिता, सुकुमारी, सुधा पिपासया च परिमथाङ्गी किमधुनाऽपि प्राणिति ? हा धिक् ! मानुष-समागम-मृन्ये सिंह-शार्दूल- सेविते दारुणे गहने परित्यक्ता पाषाण-हृदयेन किमद्यापि प्राणान् धारयति ? इत्येवमात्मवृत्ता- न्तमविस्पष्टमश्रुजलाविलाक्षः समये समये जीवलाय निवेदयन् दमयन्ती-चिन्तयैव दिवानिशं यापयन् इच्छन्नपि प्राणां स्यनुमपारयन् पुण्यश्लोको नस्लो निषषेश्वरो बहनि दिनानि यावत् तस्यैव राज चतुपर्णस्य नगयामज्ञातवास न्यवसत् । समाप्तोऽयं पूर्वभागः। FAMILIE
No text on this page.
No text on this page.
No text on this page.
No text on this page.