Asr,melkote

Vakhyartha Ratnam With Suvarna Mudrika

Aahobalasuuri- · 2004/12/24

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

University of Mysore
Oriental Library Publications
SANSKRIT SERIES No. 83
GENERAL EDITOR
H. R RANGASWAMY IYENGAR, M.A.,
Curator in-charge Government Oriental Library, Mysore
श्रीमदहोबलमूरिविरचितम्
वाक्यार्थ रत्नम्
स्वोपज्ञसुवर्णमुद्रिकाख्यव्याख्यया समलङ्कृतम्
THE VAKYARTHA RATNAM
WITH
THE SUVARNA MUDRIKĀ
OF
A HOBALA SURI
EDITED BY
VIDVAN R. RAMA SASTRY
Pandit, Oriental Library, Jysore
MYSORE:
PRIN I'ED BY THE ASST. SUPDT. AT THE GOVT. BRANCH PRESS
1943

No text on this page.

PREFACE IT a T is a matter of pride that the Oriental Library, Mysore, has been able to bring out, for the first time, an edition of the text of vākyartharatna with its commentary Suvarna Mudrikā by Ahõbalasūri, compendium on the theory of import of Vedic injunction according to the 'Prābhākara School of Pūrva Mīmāmsa. The editing of this work had been at first entrusted to Pandit A. Vyasachar, Proof-reader, and was later on transferred to Pandit R. Ramasastry, who has prepared the edition with a good Sanskrit introduction by collating five manuscripts, which have been fully described in his introduction. The late Mr. M. S. Basavalingayya, M.A., B.L., Curator of the Library, lad under contemplation the publication of an English translation along with the Sanskrit text of the work. But alas ! death snatched him away from our midst in the prime of his youth, before the work could see the light of day. By publishing this volume, the Oriental Library, Mysore, may be said to have enriched the meagre stock of literature of the 'Prābhākara School' which is not so widely known as the other--the 'Bhātsā School' of the Pūrva Mīmāmsa. The earliest work that is available on this system, devoted mainly to the problems of right interpretation of the Vedic texts for sacrificial purposes, is the Mimāmsa Sūtra of Jaimini. This work consists of 12 Adhyāyas or chapters and has been commented upon by Vțittikāras like Upavarşa, Bödhāyana, Bhartřmitra, Hari and Bhavadāsa. The oldest of these Vșttikāras is Upa varsa whose views have been set forth in detail by Śabara in his Bhāsya on the Sūtras. But these Commentators are known only by names; the earliest Commentary that has been available to us, so far, in its entirety is that by Šabara, known as the Šābara Bhāşya. It is this work that has formed the basis and starting point ii for all later Mimāmsa works. The earliest commentaries, so far found on this Bhaşya, are those by Prabhākara also known as Guru, and by Kumārila Bhatta or simply Bhatta. These two writers became the founders of the two well-known schools of the Pūrva Mimāmsa, to which a third was later on added in the person of Murāri Miśra. Of the two schools, the Bhätta and the Prābhākara, the former is very well known and has influenced other schools of Indian thought especially the Advaita System. Many works of this school have been discovered, published and even studied in Schools and Colleges. The Brhati of Prabhākara, a commentary on Śabara Bhāșya with its Tīka, Rjuvimala, the Prakarana Pancika of Sālikānātha and the Nayaviveka of Bhavanātha exhaust the list of works now available on the Prābhākara School. The Vākyārtharatna with its commentary Suvarna Mudrika will surely be a welcome addition to the works of this school. It is a smail compendium in four chapters by Ahobala Sūri of whom we know very little except that he was the son of Mārayārya of Srivatsa Gotra, and is different from Ahobalasuri, the author of Abhinava Kādambari, Nala Vilāsa Nātakam, or of the Commentary on Sankalpa Sūryodaya of Vedānta Desika. It brings within a short compass all the details which are scattered over several Adhikaranas in the Bhaşya and gives in a lucid style a well-grounded exposition of the Niyoga theory of the import of Vedic sentences as distinguished from the Bhāvana theory of the Bhāttas. I am sure this work will be of great value as an efficient aid to the study of the Prābhākara School. I commend to the readers the thoughtful Sanskrit Introduction which gives a summary of the work by chapters and explains the usefulness of the principles of interpretation according to Mimāmsa in determining the meanings of texts of Hindu Law. MYSORE, H. R. RANGASWAMY IYENGAR, M.A., 16-11-1943. Curator in-charge, Oriental Library, Mysore.

॥ श्रीः॥ भूमि का यत्कृपावज्रपातेन विनादिरपि भिद्यते। वन्द तं गजराजास्यं भक्ताभीष्टवरप्रदम् ॥ विज्ञप्तिः अयि गुणैकपक्षपातिनो विज्ञवरा वाचकमहाशयाः ! किञ्चि- दिदं भवतां पुरतः सकुतुक्रमावेदयामि । स्तो हि मीमांसातन्त्रे सुगृहीतनामधेययोः 1 प्रभाकरकुमारिलयोः सिद्धान्तौ । कुमारिलसिद्धान्तबोधका बहवो ग्रन्था मुद्रिता अमुद्रिताश्च दरी- दृश्यन्ते । प्रभाकरसिद्धान्तस्य तु पूर्वपक्षतया दृष्टान्ततया वा कौमारिलग्रन्थेषु ग्रन्थान्तरेषु वानूद्यमानत्वेऽपि तस्यैव सिद्धान्तस्य प्राधान्येन प्रतिपादका ग्रन्थाः कौमारिलग्रन्थापेक्षया विरलतरा एवेत्यतिरोहितमेतत्समेषामपि विदुषाम् । 1 प्रकृतवक्तव्यम् साम्प्रतं प्राचीनभन्थमुद्रणवद्धकङ्कणान्महीशूरराजकीयप्राच्य- कोशागारात्सम्मुन्य प्रकाशितः सुवर्णमुद्रिकाख्यया व्याख्यया सनाथितो वाक्यार्थरत्नाभिधोऽयं मीमांसाग्रन्थोऽतिविस्तीर्णस्यापि गुरुमतवाक्यार्थस्य सरलसरण्या सङ्ग्रहेण प्रतिपादको गुरुमत- वाक्यार्थव्युत्पित्सूनामतितरामुपकुर्यादिति महदिदं प्रमोदस्थानं विद्वज्जनवृन्दस्याध्यापकाध्येतृनिवहस्य च ॥ 1 प्रभाकरस्यैव गुरुरिति नामान्तरम् । प्रभाकरो हि कदाचित् स्वगुरुणाऽ- विदित वाक्यार्थं तस्मै न्यवेदयत् । गुरुश्च तदा तं ' त्वमेव गुरुः' इति निरदिक्षत् । तदाप्रभृत्ययं गुरुनाम्ना प्रथित इति कथाऽनुश्रूयते.

ii ग्रन्थनामनिर्देशः अन्थेऽस्मिन् ‘वाक्यार्थरनं प्राकाशि' इति मूलोपान्त्यश्लोक- भागेन 'वाश्यार्थरत्नं सुधियां धृतये योजयाम्यहम्' इति व्याख्यानश्लोकभागेन च मूलभागो वाक्यार्थरत्ननाम्ना व्यवडियत इति विज्ञायते । तथा व्याख्याने- "सुवर्णपदसंहत्या मुद्रयाऽभीष्टया गुरोः । वाक्यार्थरत्नं सुधियां धृतये योजयाम्यहम् ' ॥ इति श्लोकेन, परिच्छेदसमाप्तौ सर्वत्र ' वाक्यार्थरत्नतात्पर्य प्रकाशिकायां सुवर्णमुद्रिकायां' इत्युल्लेखेन च व्याख्यानभागः सुवर्णमुद्रिकानाम्ना व्यवह्रियत इति विज्ञायते ॥ ग्रन्थकर्टसमालोचनम् ग्रन्थेऽस्मिन् मूलस्य प्रथयिता श्रीवत्सगोत्रे दुर्वासोवंश- संभूतस्य मारयार्यस्यात्मसंभवोऽहोबलनामधेय इत्येतन्मूलरचयि- तैव- इति श्रीवत्सदुर्वासोमारयार्यस्य सूनुना। अहोबलेन वाक्यार्थरत्नं प्राकाशि सूरिणा" ॥ इत्येतन्मूलोपान्त्यश्लोके व्यक्तं न्यरूपयत्। व्याख्यानेऽपि परिच्छेद- समाप्तौ सर्वत्र " इत्यहोबलार्यविरचितायाम्' इत्युक्तया व्याख्यान- स्याप्यहोवलकर्तृकत्वावगमान्मूलव्याख्यानयोरुभयोरप्येककर्तृकत्व- मध्यवसीयते । स्थाने चैत् । दृश्यते हि पद्यात्मना मूलं विरचित- वतां शिष्यानुकम्पया स्वकीयाभिप्रायाविष्करणाय मूलार्थविवरणे- ऽपि प्रवृत्तिः । यथा जैमिनीयन्यायमालारचयितृणां माधवा- चार्याणां तद्विस्तरे प्रवृत्तिः । यथा वा कारिकावलीरचयितॄणां विश्वनाथभट्टाचार्याणां मुक्तावल्याम् । एवमत्रापि पद्यात्मकमूल- कर्तुरेव स्वाभिप्रायाविष्करणाय व्याख्यानेऽपि प्रवृत्तिरुपपद्यते । किं च व्याख्यानान्ते “मारयायतनयेनाहोबलेन विरचितायां वाक्यार्थ- रत्नप्रकाशिकायां सुवर्णमुद्रिकायां" इत्युक्तिरप्यमुमर्थ द्रढयति ॥ " iii ग्रन्थकर्तुर्देशकालादिचिन्ता ग्रन्थकृतोऽस्य देशे काले ग्रन्थान्तरेषु वा नोपलभ्यते किञ्चिद्गमकम्। अहोवलेत्येतद्न्थकृत्समाननामधेयेषु यतिराजचरित्र- चम्पवा दिकर्तृषु केषुचित्समुपलभ्यमानेष्वपि वाक्यार्थरत्नकृदय- महोबलस्तेभ्यो भिद्यत इति तद्न्थावलोकनाज्ज्ञायते ॥ ग्रन्थप्रवेशः ग्रन्थोऽयं परिच्छेदचतुष्टयात्मको नियोगरूपकार्यस्य प्राधा- न्येन वाक्यार्थत्वं समर्थयति। तदुपयोगितयान्येऽपि विषया ग्रन्थेऽस्मिन्नययोज्यन्त॥ प्रथमपरिच्छेदावलोकनम् तत्र प्रथमपरिच्छेदे ग्रन्थकृता नियोगरूपकार्यस्य प्राधान्येन वाक्यार्थत्वसिध्युपयोगिविचारनिरूपणपूर्वकं कार्यरूपापूर्वस्य नि- योगादिसंज्ञितस्य लिङर्थत्वं सम्यङ्न्यरूप ॥ मङ्गलाचरणचिन्ता तत्रापि ग्रन्थकृत्प्रथमं तावत् मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते” इत्याद्यभियुक्तोक्तिमनुसरन् "उपा- स्महे महो रामनामकम्” इत्यादिना स्वेष्टदेवतारूपं रामनामकं ज्योतिरनुसन्धाय ग्रन्थं प्रारेभे। अत्र यन्नियोगत” इति पद- व्याख्यानावसरे ग्रन्थकृता मीमांसातन्त्रे नियोगादिपदाभिलप्या- पूर्वस्यैव प्राधान्याद्विग्रहादिमद्देवताया अनङ्गीकारेण “इन्दीवर- दलश्यामः पद्मपत्रनिभेक्षणः" इत्यादिवचनसिद्धविग्रहाद्युपेतं राम. नामकदेवतास्वरूपं तन्त्रविरुद्ध कथमनुसन्धीयत इत्याशङ्कय नियोगस्यापि रामपदाभिधेयपरमेश्वररूपत्वेनैव फलजनकत्वम् , देवताविग्रहनिराकरणं तु नियोगप्राधान्यप्रतिपादनार्थमेव, न सर्वथा विग्रहनिषेधतात्पर्यकम् , अत एव “यस्यै कस्यै देवतायै . 1 अत्र आदिपदेन अभिनवकादम्बरी-नलविलासनाटक-पादरेणुकासहस्र- तद्वयाख्या-सङ्कल्पसूर्योदयव्याख्या-वेदान्तसारव्याख्यानामकग्रन्था ग्राह्याः.

iv " हविहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्” इति वचनसिद्धदेवतानु- सन्धानमप्युपपद्यते, देवताया विग्रहाद्यभावे तदनुसन्धानमेव न घटत इत्यभिप्रायेण समाहितम् ॥ देवताविषये भट्टमतानुयायिनामभिप्रायः भट्टमतानुयायिनस्तु-यद्यपि “यज देवपूजायाम्” इति देव पूजार्थकयजिधातोर्निष्पन्नो यागशब्दो देवतोद्देश्यकद्रव्यत्यागरूपं यागं वदति । यागे च देवतायाः सम्प्रदानत्वात् सम्प्रदानस्य च कर्मकारकापेक्षयाप्यभिप्रेयमाणतया प्राधान्यमस्त्येव । यागश्चोक्त- विधया देवपूजारूपो देवतासंस्कारकः। संस्कारश्चोपयोक्ष्यमाणस्यो- पयुक्तस्य वा संभवति । यागादन्यत्र देवतोपयोगस्यानिष्पन्नत्वादुप- योक्ष्यमाणत्वेनैव देवतायाः संस्कारो वाच्यः । उपयोगश्च क्वेत्य- पेक्षायां “स एवैनं भूतिं गमयति" तृप्त एवैनमिन्द्रः प्रजया पशुभिश्च तर्पयति" इत्याद्यर्थवादवाक्यानुसारेण यागेन प्रसन्नाया देवतायाः फलदातृत्वावगमात्फलदान एव वाच्यः। तथा च याग एव फलजनक इत्यत्र नास्ति किञ्चित्प्रमाणम् । तदभावे च याग- स्यैवापूर्वजनकत्वे सुतरां प्रमाणाभाव इति शङ्काऽवतरति ॥ तथापि "ब्राह्मणाय गां ददाति" इत्यादौ ब्राह्मणस्य फल- दातृत्वासंभवेन सम्प्रदानसामान्यस्यापि न कर्मकारकापेक्षयाभि- प्रेयमाणत्वमुपपद्यते । प्रत्युत यागकरणकभावनाया भाव्यापेक्षायां स्वर्गादिफलस्यैव भाव्यत्वेनान्वये देवताया अपि यागसंस्कार्यत्वा- भ्युपगमे तस्या अप्युद्देश्यत्वावश्यम्भावेनानेकोद्देश्यान्वयनिवन्धन- वाक्यभेदप्रसङ्गाद्देवताया यागं प्रत्यङ्गत्वमेवाङ्गीकर्तव्यम् ॥ न च क्षणिको यागो न कालान्तरभाविफलं जनयितुमलम् , अतस्तस्य फलजनकत्वे व्यापारापेक्षायामश्रुतापूर्वकल्पनापेक्षया रात्रिसत्रादाविवार्थवादिकदेवताप्रसादस्यैव द्वारत्वकल्पनौचित्यात् प्रसादस्य च देवताया विग्रहभोगादिकं विनानुपपन्नतया "तृप्त एवैनमिन्द्रः प्रजया पशुभिश्च तर्पयति” इत्याद्यर्थवादानुसारेण विग्रहभोगादिकल्पनेऽपि न दोष इति वाच्यम्; प्रसादस्येच्छारूप- तया फलं भवत्वित्येवंरूपेण फलजनकत्वे तस्य सर्वपुरुषसाधा- रणतया दर्शादियागाकर्तुरपि तजन्यफलं प्रसज्येत । “दर्शादियाग- कर्तुस्तत्फलं भवतु" इत्येवं कर्तृविशेषसंसृष्टरूपेण फलजनकत्वे जनकतावच्छेदकगौरवम् ॥ किं च दर्शादियागकर्तुः सकृदादिजन्यफलभोगे जातेऽपि तस्य दर्शादियागकर्तृत्वानपायादन्यकृतदर्शपूर्णमासादिजन्यप्रसा- दात्पुनरपि तजन्यफलस्य तस्मिन् प्रसक्तिरनिवार्या स्यात् । अतस्तद्वारणाय “तत्फलव्यक्तिं प्रति तद्यक्तिकर्तुः सा फलव्यक्तिर्भ- वतु" इत्येवमाकारेच्छात्वेन विशिप्य कारणत्वोक्तौ चानेककार्य- कारणभावकल्पनं कारणतावच्छेदकगौरवं च स्यात् ॥ अपि चैतादृशप्रसादो यागजन्यत्वेनाभ्युपगम्यमानो यदि ब्राह्मणतर्पणान्ते जायते तदा दर्शादियागानां क्षणिकत्वेन विनष्टतया प्रसादोत्पादो न युज्यते । यदि च तत्तद्यागेभ्योऽप्यवान्तरप्रसादा "आग्नेयव्यक्तिकर्तुस्तजन्यफलं भवतु' इत्येवमाद्याकारा जायन्ते तदा देतानामवन्ध्येच्छत्वादेवादग्नीषोमीयाद्यकरणेऽपि फलप्राप्तिः स्यात् ॥ अपि च विध्यनपेक्षणादपि देवताप्रसादादिकं नार्थवादेन बोधयितुं शक्यम् । न च विध्यनपेक्षितत्वादर्थवादोपस्थितप्रसादा- द्यकल्पनेऽपि लक्षणया प्राशस्त्यपरस्याप्यर्थवादस्य प्रमाणान्तरा- विरोधे स्वशक्यार्थेऽपि प्रामाण्याभ्युपगमाद्विग्रहमोगप्रसादादि- स्वीकारादपूर्वान्त एव प्रसादस्वीकरणमस्त्विति वाच्यम्, प्राशस्त्य- तात्पर्यकस्य वाक्यस्यान्यत्र तात्पर्यायोगात् । अन्यथा पुरुषमात्र- प्रवेशतात्पर्य के " यष्टीः प्रवेशय” इत्यादौ, परान्नभोजननिवृत्ति- तात्पर्य के "मृदं भुझे" त्यादौ च प्रमाणान्तरविरोधाभावेन स्वशक्ययाष्टप्रवेशमृद्भक्षणादाव पे प्रामाण्यमापद्येत। अतः “सक- दुञ्चरितः शब्दः सकृदेनार्थ गमयति" इति न्यायानुरोधेन शाब्दबोधं प्रति तात्पर्यज्ञानस्य कारणत्वानुरोधेन चार्थवादानां शक्यार्थे प्रामाण्यानुपपत्तेर्न कथञ्चिदपि देवताविग्रहादिस्वीकारः संभवति । किं तु शब्द एव देवता । अर्थस्तु प्रातिपदिकानुरोधाच्चेतनोऽचेतनो वा कश्चित्स्वीक्रियते। न तु विग्रहादिमान् । देवताध्यानादिकं त्वाहा- र्यरूपमेवेति वदन्ति ॥

vi ग्रन्थारम्भबीजम् सत्स्वपि बहुषु मीमांसाशास्त्रप्रमेयेषु तेषां सर्वेषामपि तत्तदधि- करणपर्यवसितत्वान्न पृथनिरूपणमपेक्ष्यते । वाक्यार्थोपयोगिप्रमे- यस्य त्वनेकाधिकरणपर्यवसानादेकत्रासिद्धतया तदुपपादनायै- तद्रून्थारम्भः । व्यक्तं चैतत् “धर्म चे" (श्लो. ४) त्यादिश्लोकव्या- ख्यायाम् ।। प्रवर्तकचिन्ता 1“अथातो धर्मजिज्ञासे" ति सूत्रेण धर्मविषयकजिज्ञासायां प्रतिज्ञातायां “को धर्मः किंलक्षण" इ ते पुनर्जिज्ञासोदये 2 "चोदना- लक्षणोऽर्थो धर्म" इति सूत्रेण धर्मस्वरूपं तत्प्रमाणं च न्यरूपि । तत्र च चोदनाशब्दार्थविवरणवेलायां भाष्ये "चोदनेति क्रियायाः प्रव- तकं वचनमाहुः' इत्यभ्यधायि । अभिधानेऽस्मिन् वचनस्य क्रिया- प्रवर्तकत्वाभिधानं प्रवृत्तिहेतुभूतार्थाभिधायकत्वेनोपपद्यते । एवं च प्रवृत्तिहेतुभूतार्थाभिधायकवचनं प्रवर्तकमिति भाष्याशयः पर्यव- स्यति । अत्र प्रवृत्तिजनकोऽर्थः क इति चिन्त्यते ।। धात्वर्थस्य प्रवर्तकत्वाशङ्कासमाधाने नन्विष्टसाधनीभूतधात्वर्थ एव प्रवर्तकः । इष्टानिष्टप्राप्तिपरि- हारयोः पुरुषाभिलषितत्वेन तत्साधन एव लोके प्रवृत्तिदर्शनात् । वेदेऽपि ‘स्वर्गकामो यजेते" त्यनेन यागस्यैव स्वर्गसाधनत्वमव- गम्यते । अत इष्टसाधनीभूतधात्वर्थस्यैव प्रवर्तकत्वमिति चेत्न, इष्टहेतुताया अतीतानागतधात्वर्थसाधारण्येन तत्रापि फलार्थिनः प्रवृत्त्यापत्तः । न च कृत्यहधात्वर्थस्यैवेष्टहेतुत्वम्, अतो नातीतादि- पुरुषस्य प्रवृत्त्यापत्तिरिति वाच्यम , कृत्यहत्वस्य विभज्य- वचनीयत्वात् । तथाहि-किमत्र धात्वर्थस्य कृत्यहत्वम् ? किं कृतिजन्य- त्वरूपम् ? आहोस्वित्कृत्युद्देश्यत्वरूपम् ? नाद्यः, अतीतादेस्थलेऽपि कृतिजन्यत्वस्याबाधितत्वेन प्रवृत्त्यापत्तेरपरिहार्यत्वात् । द्वितीये तु न गुरुमतविरोधः । तन्मतेऽपि कार्यज्ञानस्य कृत्युद्देश्येष्टज्ञानहेतु- त्वाभ्युपगमात् । नापि केवलेष्टसाधनताशानस्य प्रवर्तकत्वम् । इन्दुमण्डलस्यापीष्टसाधनत्वमवगत्य तत्रापि प्रवृत्त्यापत्तः ॥ सू. १-१-१. शाबरभाष्यम्. १-१-२. धात्वर्थ पुरुषस्य ७ 1 जै. 2 जै. सू. १-१-२.

vii , , शब्दभावनायाः प्रवर्तकत्वाशङ्का शब्दभावनायाः प्रवर्तकतावादिनस्तु-"यजेत स्वर्गकामः" इत्यत्र लिङ्प्रत्ययो लिङ्त्वेन शब्दभावनामभिधत्ते । आख्यातत्वेन चार्थभावनाम् । तदुक्तम्- ! " अभिधाभावनामाहुरन्यामेव लिङादयः । अर्थात्मभावना त्वन्या सर्वाख्यातेषु गम्यते ॥” इति । अर्थभावना नामोत्पद्यमानस्वर्गादेरुत्पत्यनुकूल उत्पादकनिष्ठ- व्यापारविशेषः। स च प्रयत्नापरपर्यायः कृत्यात्मक एव ! शब्द भावना तु पुरुषस्य यागादौ प्रवृत्त्यनुकूलोऽलौकिको व्यापारविंशषः । स चानादिशब्दनिष्ठत्वाच्छब्दभावनापदाभिधेयो भवति । शब्द भावनायाः प्रवर्तकत्वं च लिङादिश्रवणाद वगम्यते । लिङ्शवणे हि पुरुषस्य 'अयं मां प्रवर्तयति मत्प्रवृत्त्यनुकूलव्यापारवानयम् इत्येवं वोधो भवति । लिङश्च प्रवर्तकत्वं प्रवर्तकाभिधायित्वनोप. पादनीयम् । एवं च लिङभिहितः शब्दभावनारूपोऽर्थः प्रवर्तक इति सिध्यतीति वदन्ति॥ शब्दभावनाया विध्याभिहितत्वानुपपत्तिः अत्रोच्यते-विधिनाभिहितोऽर्थः प्रवर्तक इत्यभ्युपगन्तव्यम् । शब्दभावनायास्तु न शब्देनाभिधानमुपपद्यते । शब्दस्य स्वव्यापारान- भिधायकत्वात् । शब्दभावना हि पुरुषप्रवृत्तिप्रयोजकः शब्दनिष्ठो व्यापारविशय इत्युक्तम् ॥ ननु कथं शब्दभावनायाः शब्दव्यापारत्वमिति चेत् : उच्यते- लोके घुत्तमवृद्धो मध्यमवृद्धप्रवृत्तिसिद्धये गामानयेत्यादिवाक्यं प्रयुङ्क्ते । मध्यमवृद्धस्तु स्वप्रवर्तकस्य गवानयनप्रवर्तने तात्पर्यमव- गत्य गवानयनादौ प्रवर्तते । तत्र च प्रवृत्त्यनुकूलव्यापारस्येच्छा- रूपत्वेऽपि वदस्यानादितया पुरुषसम्बन्धाभावाद्वेदेन प्रतीयमानः प्रवृत्त्यनुकूलव्यापारः प्रवर्तनावोधकलिङादिशब्दनिष्ठ एवेत्यवश्य- मभ्युपगन्तव्यम् । अत एव 'अभिधाभावनामाहुरन्यामेव लिङादयः' इत्युक्तिरपि सङ्गच्छते । तथा हि-अभिधाभावनेत्यत्र द्वयी गतिः संभवति । आभिधा चासौ भावना चेत्येका गतिः, आभिधाया भावनेत्यन्या । तत्राद्ये अभिधीयत इत्यभिधा प्रवर्तना, सैव 1 तन्त्रवार्तिकम्. अ. २ पा. १ अधि. १.

viii पुरुषप्रवृत्ति भावयतीति भावना भवति । अथवा अभिधा हीष्टसाध- नत्वस्याभिधानम् । सैव पुरुषप्रवृत्तिं भावयतीति भावनापदेनाभि- धीयते। द्वितीयपक्षे तु अभिधत्त इत्यभिधा शब्दः। तस्य पुरुषप्रवृत्ती कर्तृत्वं प्रतिपद्यमानस्य व्यापारो भावनेत्यर्थः प्रतीयते । पक्षद्वयेऽप्य- स्मिन् शब्दभावना शब्दव्यापार एव भवति । तथा च शब्दस्य स्वव्यापाराभिधायकत्वस्थानुपपन्नतया न युज्यत एवास्य प्रवर्त- कत्वाभिधानम् ॥ किं च शब्दभावनायाः प्रवर्तकत्वं किं ज्ञाततया अज्ञाततया वा? न ताहितीयः पक्षो युज्यते ; अज्ञातायास्तस्याः प्रवर्तकत्वे सर्वेषामपि सर्वदा प्रवृत्तिप्रसङ्गात् । आद्यपक्षेऽपि किं शब्दभावनायाः स्वतोशातायाःप्रवर्तकत्वम् ? परतो ज्ञाताया वा? आद्ये आत्माश्रयः। परतो ज्ञानपक्षेऽपि तस्याप्यन्यापेक्षायामनवस्था स्यात् ॥ ननु शब्दभावनाया न शब्देन शक्तयाऽभिधानम् । अपि तु लक्षणयैव । तथा च को दोष इति चेत् ; भैवम्-वृत्तिद्वयकल्पना- प्रसङ्गात् । तथा हि-लिङादियुक्तवाक्येषु भावनाद्वयमवगम्यते । शब्दभावना अर्थभावना चेति पूर्वचार्याभिधानादुभयमपि शब्द- गम्यमेवेत्यभ्युपगन्तव्यम् ॥ न चात्र द्वयोरप्यभिधया बोध्यत्वमुपपद्यते । ' अन्यायश्चानेका- र्थत्व' मिति न्यायेनाभिधया युगपदनेकार्थबोधनाऽसंभवात् । शब्द- भावनाया लक्षणायोध्यत्वम् , अर्थभावनायाश्चाभिधाबोध्यत्वमित्यपि नोपपद्यते । सकृदुचरितशब्देऽनेकवृत्त्यभ्युपगमे स एव दोषः । उक्तश्चायमत्र मूले 'सकृदुच्चरितः शब्दो न वृत्तिद्वयमहति' इत्यनेन । अत्रान्येऽपि विरम्यव्यापारादयो दोषा मूल एव स्पष्टाः॥ अभिप्रायस्य प्रवर्तकत्वशङ्कासमाधाने वैशेषिकादयस्तु वेदस्येश्वरकर्तृकत्वं मन्यमाना गामानये- त्यादिवाक्यश्रवणसमनन्तरं मध्यमवृद्धस्य गवानयने दव्युत्पन्नस्य प्रवृत्त्यदर्शनाञ्च पराभिप्रायस्यैवावगतस्य प्रवर्तकत्वं मन्यन्ते । तदपि अभिप्रायस्य पदार्थवाक्यार्थान्यतरत्वासंभवान्नोप- पद्यते । तथा हि- परप्रयुक्तवाक्यात्पराभिप्रायोऽवगम्यमानः किं पदार्थत्वेनावगम्यते ? उत वाक्यार्थत्वेन ? नाद्यः, गामानयेत्यादि- ७ . प्रवृत्तिदर्शना- ix वाक्येषु गवादिपदानां गोत्वाद्यर्थाभिधायकत्वेनाभिप्रायाभिधाय- कत्वासंभवात् । न द्वितीयः । वाक्यार्थो ह्यन्विताः पदार्थाः, पदार्था- नामन्वयो वा स्यात् । अभिप्रायस्य चोभयविधत्वाभावान्न वाक्यार्थत्वं युज्यते ॥ न चाभिप्रायस्य पदार्थवाक्यार्थान्यतरत्वेन प्रतीत्यभावेऽपि 'विमतवाक्यं विशिष्टाभिप्रायवद्भवितुमर्हति, वाक्यत्वात्, सम्मत- वाक्यवदि त्यनुमानेनाभिप्रायज्ञानं भवतीति वाच्यम् ; विकल्पा- सहत्वात् । तथा हि-किमनुमानेनाभिप्रायविशेषोऽनुमीयते? उत तत्सामान्यम्? न तावदभिप्रायविशेषस्यानुमितिः संभवति । दृष्टान्ताभावेन विशेपव्याप्तयग्रहणात् । अभिप्रायसामान्यानुमानेन प्रवर्तमानस्य गामनयेति वाक्यादश्वानयनेऽपि प्रवृत्त्यापत्तः। अतो नाभिप्रायस्य प्रवर्तकता ॥ इच्छायाः प्रवर्तकत्वाशङ्कासमाधाने ननु जानाति, इच्छति, यतते, इत्येवं ज्ञानेच्छाकृतीनां नियत- क्रमदर्शनाक्रमस्य च हेतुहेतुमद्भावनिवन्धनतयेच्छातः प्रवृत्त्युप- पत्तेरिच्छा प्रवर्तिकेति युक्तमिति चेत् ;-सत्यमिच्छानन्तरं प्रवृत्तिः प्रकाशते । सात्विच्छायाः सत्तामात्रेण संभवति, न तु वाक्यार्थतया ज्ञायमानत्वेन । अस्मिश्च शास्त्रे वाक्यार्यतया ज्ञायमानमेव प्रवर्त- कतया विचार्यते । अतो नेच्छापि प्रवर्तिका ॥ गुरुमते प्रवर्तकत्वेन शास्त्रतात्पर्यविषयः किं तर्हि ज्ञायमानतया प्रवर्तकामति बेत्-अत्र गुरुमतानु- यायिनस्तु-शब्दार्थप्रतिपत्तेः शाक्तग्रहणपूर्वकत्वे न कोऽपि विप्रति- पद्यते । शक्तिग्रहणं च लोके वृद्धव्यवहारनिबन्धनमेवोपलभ्यते । वृद्धव्यवहारस्य कार्यावलस्वित्वेनोपलब्धेः कार्यमेव वाक्यार्थः। तच्च पुरुषं प्रवर्तय त । तथा हि-व्युत्पित्सुर्हि गामानयेत्याधुत्तमवृद्ध- वाक्यश्रवणसमनन्तरं गवाद्यानयनरूपकार्ये प्रवर्तमानं मध्यमवृद्धं पार्श्वस्थ एव समुपलभ्य ‘गामनयेत्युत्तमवृद्धवाक्यश्रवणसमनन्तर- मेव प्रवर्तमानस्य प्रवृत्तिः शक्तिग्रहणपूर्विका, प्रवृत्तित्वात्, स्वप्रवृ- त्तिवादे' त्यनुमानेनोत्तमवृद्धप्रयुक्तवाक्यस्य गवानयनरूपकार्यमेव वाक्यार्थ इति गृह्णाति। ततश्च मध्यमवृद्धप्रवृत्तिहेतुभूता मध्यमवृद्धस्य बुद्धिरुत्तमवृद्धवाक्यहेतुका भवितुमर्हति, असति निमित्तान्तर उत्तम- वृद्धवाक्यश्रवणसमनन्तरभावित्वादि त्यनुमानेन मध्यमवृद्धबुद्धे. रुत्तमवृद्धवाक्यहेतुकत्वमनुमाय गामानयन्तं मध्यमवृद्धमव लोक्यगामानयेतिवाक्यादनिर्धारितपदार्थविशेष गवानयनरूप कार्य वाक्यार्थ इति प्रतिपद्यते। पदार्थविशेषप्रतिपत्तिस्तु पदान्तरप्रक्षेप- पूर्वपदपरित्यागरूपावापोद्धाराभ्यां प्रतिपदमर्थविशेषप्रतिपत्तेर्भवति । तथा हि-उत्तमवृद्धो हि स्वप्रयुक्तगामानयेतिवाक्यश्रवणसमनन्तरं मध्यमवृद्धेन गामानीतां दृष्ट्वा पुनरपि तं "गां वधाने" ति नियुते । तच्छ्रुत्वा मध्यमवृद्धोऽपि गां वध्नाति । गां मुञ्चेत्युक्ते मुञ्चति । ततश्च पार्श्वस्थो व्युत्पित्सुर्गोपदस्य सर्ववाक्येष्वनुवृत्तत्वात्तस्य सानादिमानथः, आनयेतिपदस्य व्यावृत्तत्त्वादानयनरूपकार्यमर्थः, वधानेत्यस्य वन्धनरूपकार्थमर्थः, मुश्चेत्यस्य मोचनरूपं कार्यमर्थ इत्येवं प्रतिपदमर्थविशेष प्रतिपद्यते । तथा च लोके कार्यरूपार्थस्यैव वाक्यार्थत्वावगमाल्लोकवेदाधिकरणन्यायेन (पू. मी. अ. १ पा. ३ अधि. ९) वेदेऽपि कार्यस्यैव वाक्यार्थत्वनिर्णयात्तस्यैव वाक्यात्प्रा- धान्येनावगतस्य प्रवर्तकत्वम् । इदं च कार्य वेदे न क्रियारूपम् । तस्य प्रत्यक्षसिद्धत्नापूर्वत्वाभावात् । अतः क्रियाभिन्नं प्रमाणान्तरानव- गतत्वादपूर्वमिति तदिप्यते इति वदन्ति । उक्तं च शालिकानाथेन- 1" क्रियादिभिन्नं यत्कार्य वेद्यं मानान्तरैर्न तत् । अतो मानान्तरापूर्वमपूर्वमिति गीयते ॥” इति । एवं यागजन्यापूर्वस्यैव लिङथत्वेन वाक्यार्थत्वमाशङ्कय नियोगस्यैव कार्यत्वं तस्यैव वाक्यार्थत्वं चेति तेनैवाभ्यधायि-- 2 " कार्यत्वेन नियोज्यं च स्वात्मानि प्रेरयन्नसौ। नियोग इति मीमांसानिष्णातैरभिधीयते ॥ कार्यस्यैव प्रधानत्वाद्वाक्यार्थत्वं च युज्यते। वाक्यं तदेव हि प्राह नियोज्यविषयान्वितम् ॥” इति ।। वेदे क्रियाव्यतिरिक्तकार्यप्रतिपत्त्युपायः " स्वर्गकामो यजेत' इत्यत्र स्वर्गकामपदस्य नियोज्याभिधाय- 1 प्रकरणपञ्चिका. 2 प्रकरणपञ्चिका.

कत्वं षष्ठाये स्वर्गकामाधिकरणे निरूपितम् । अत्र कामशब्दबलात् स्वर्गस्य साध्यत्वं प्रतीयते । स च स्वर्गः साध्यत्वेन नियोज्यविशेष- णम् । नियोज्यश्च स्वकामनाविषयीभूतस्वर्गसाधनं कार्यत्वेनाव. गच्छन् देशान्तरे कालान्तरे देहान्तरे भोक्ष्यमाणफलं प्रति प्रत्य- क्षायाः क्षणिकक्रियायाः साधनत्वासंभवं मन्वानस्तयतिरिक्तमेव लिङर्थरूपकार्य नियोगापरपर्यायं स्वर्गसाधनमित्यवधारयति । तथा च स्वर्गकामपदसमभिव्याहारान्नियोज्यः स्वकामनाविषयी- भूतस्वर्गसाधनत्वेनापूर्वाख्यकार्य लिङादितः प्रतिपद्यत इत्युक्तं भवति । इदं चोचकञ्छालिकानाथो वाक्यार्थमातृकायां "नियोज्य- सम्बन्धसामर्थ्यात्कालान्तरस्थायि कार्य क्रियातिरिक्तं लिङादिभि- रेवोच्यते” इत्यादिना । समभिव्याहारस्यार्थविशेषप्रतिपत्तिनिया- मकत्वं 1यववराहाधिकरणादौ (पू. मी. अ. १ पा. ३ अधि. ४) व्यक्तमेव ॥ द्वितीयपरिच्छेदग्रतिपाद्यम् ग्रन्थेऽस्मिन् द्वितीयपरिच्छदे स्वर्गकामपदसमभिव्याहारोप- पत्त्यर्थ क्रियायाः स्थायित्वं परिकल्प्यतां किमपूर्वाख्यकार्येणे- त्याशङ्कय तस्याः स्थायित्वं निराक्रियते ॥ क्रियायाः स्थायित्वशङ्का अत्रेवमाशङ्का-स्वर्गकामपदसमभिन्याहारादेव हि स्थाय्य- पूर्वाख्यं कार्य लिङाद्यभिधेयमिति गुरुमतसिद्धान्तः। तद्यदि स्वर्ग- कामपदमन्यथाप्युपपधेत न स्यात्तदा तदनुरोधनापूख्यिकार्यस्य लिङर्थता । तथा हि-साध्यस्वर्गविशिष्टो हि नियोज्यः स्वकामना- विषयीभूतस्वर्गसाधनं कार्यत्वेनावगच्छन् क्षणभङ्गुरायाः क्रियायाः कालान्तरभाविस्वर्गादिरूपफलसाधनत्वानुपपत्त्या तस्या एव स्थायि- त्वपरिकल्पनया कालान्तरमाविस्वर्गादिफललाधनत्वमवगन्तु- मर्हति । न च क्रियायाः फलविनाश्यत्वस्य प्रत्यक्षसिद्धतया तस्याः स्थायित्वं प्रत्यक्षविरुद्धमिति वाच्यम् । कालान्तरभाविफलसाधनी- 1 अनादिपदेनोक्ताधिकरणं ग्राह्यम्.

xii ? भूतक्रियायास्तादृशफलेनैव विनाश्यत्वाभ्युपगमात् । न हि क्रियायाः क्षणिकत्वं स्थायित्वं वा स्वाभाविकम्। अपि तु स्वजन्यफलनिबन्धन- मेव तद्वाच्यम् । तद्यत्र स्वानन्तरभाविफलजनकत्वावगमस्तत्र तादृश- फलेनव तादृशफलजनकक्रियाया नाशः। यत्र च क्रियायाः काला- न्तरभाविफलजनकत्वावगमस्तत्र कालान्तरभाविफलेनैव तादृश- क्रियाया नाशः । तदेवं क्रियायाः स्वोत्पाद्यफलविनाश्यत्वस्वाभा- व्यात् प्रकृते कालान्तरभाविफलपर्यन्तं क्रियायाः सत्वस्यैष्टव्यतया तस्याः स्थायित्वाभ्युपगमो युज्यते ॥ किं च 'वरं धर्मिकल्पनातो धर्मकल्पना' इति न्यायेन फल- साधनत्वेन सिद्धाया एव क्रियायाः स्थायित्वरूपधर्ममात्रकल्पन समुचितम् । न स्थायित्वविशिष्टापूर्वाख्यधर्मिकल्पनम् ॥ यद्यप्यपूर्वाख्यकार्यस्य लिङाद्यभिधेयत्वान्न कल्प्यता। तथापि शब्दार्थप्रतिपत्तेः शक्तिग्रहणपूर्वकत्वाल्लिङादीनां चापूर्वे शक्तिग्रहा- भावात्तेषामपूर्वाभिधायकत्वं लोकविरुद्धमेव । लिङादीनां शक्तिग्रहा- पेक्षयैवापूर्वाख्यकार्याभिधायकत्वेऽपि किं तेषां लोकतोऽपूर्वे शक्ति- ग्रहः? वेदतो वा? लोकतश्चेन्नापूर्वप्रतिपत्तिः संभवति। क्रियारूप- कार्यस्यैव लोके लिङाद्यवगतत्वेन वेदेऽपि तस्यैव लिङाद्यर्थत्वस्य वाच्यत्वात् । तथा च तस्य प्रत्यक्षादिप्रमाणाधीनव्युत्पत्तिकत्वेन लिडाद्यभिधेयस्य मानान्तरामेयत्वरूपापूर्वत्वभङ्गापत्तिश्च । वेदतो- ऽपूर्वाख्यकार्यप्रतिपत्तिरित्यपि नाजसम् । व्युत्पादकस्यैव लिङोऽभि- धायकत्वप्रसक्तयाऽऽत्माश्रयदोषप्रसङ्गात् ॥ नच तर्कपरामृष्टेऽपूर्वे लिङादीनां व्युत्पत्तिः। अतो न माना- न्तरामेयत्वरूपापूर्वत्वस्य हनिरिति वाच्यम् । तथापि कार्यस्यापूर्वत्वा- नुपपत्तेः। तथा हि-ननु कोऽयं तर्को नाम ? किमनुभवः ? आहो- स्वित्स्मृतिः ? अनुभवश्चेत्कार्यस्योक्तापूर्वत्वं व्याहन्येत। स्मृतित्व- पक्षे तु स्मृतेरनुभवजन्यसंस्काराधीनत्वेन स्वजनकसंस्कारार्थमनु- भवस्य पूर्वमपेक्षितत्वात्कार्यस्य तद्विषयत्वस्यावश्यकतयाऽपूर्वत्व- व्याहतिरेव। न चान्यविधं ज्ञानं गुरुमते प्रसिद्धम् । अतो नापूख्यि- कार्यस्य लिङाद्यभिधेयत्वम्। किंतु क्रियाया एव लिवाच्यत्वम् । तस्या लिवाच्यत्वे च लोकवेदयोरुभयोरप्येकविधस्यैव क्रियारूप- कार्यस्य वाक्यार्थत्वं युज्यते । एवं च नियोज्याभिधायकस्वर्गकाम- पदस्य क्रियास्थायित्वकल्पनेऽप्युपपत्तिः संभवतीति चेत्- .० xili आत्मनः क्रियायाः स्थायित्वकल्पनानुपपत्तिः अत्र गुरुमतानुयायिनः--न तावत्क्रियायाः स्थायित्वं प्रकल्प्य स्वर्गकामपदस्योपपत्तिः प्रतिपादयितुं शक्यते। क्रियायाः स्थायि- त्वानुपपत्तेः। तथा हि-प्रत्यक्षेण तावत्क्रियायाः क्षणिकत्वावगमा- त्तस्याः स्थायित्वकल्पनं प्रत्यक्षविरुद्धमेव । लोकतः क्रियायाः फल- नाश्यत्वावगमेऽपि या क्रिया यत्र सम्बद्धा जायते सा तत्रैव फलं जनयित्वा विनश्यतीत्येवं दर्शनात् कारकाश्रितेनैव फलेन क्रियाया विनाशोऽभ्युपगन्तव्यः। "क्रियां कुर्वद्धि कारकम्” इति कारक- लक्षणानुरोधेन क्रियां कुर्वत एव कारकत्वाद्यगानुष्ठानदशायां यत् कारकत्वमस्ति तत् स्वर्गात्मकफलभोगवेलायां तस्य नास्त्येव । तदानी क्रियासम्बन्धाभावात् । अतः स्वर्गात्मकफलस्य कारकावस्थाश्रितत्वाभावान्न यागक्रियायास्तादृशफलविनाश्यत्व- संभवः ॥ न च लोकेऽपि कथं कारकाश्रितस्यैव फलस्य क्रियानाशकत्व- मिति वाच्यम् । क्रियायोगिन एव कारकतया क्रियायोगस्य च कारणमन्तरेण नाशासम्भवात्कारणमावश्यकम् । तच्च सम्वन्धि- नाशो विरोधिगुणप्रादुर्भावश्चेति द्विविधं सम्भवति। तत्र विरोधि- गुणप्रादुर्भावाभावात्सम्बन्धिनाश एवावशिष्यते । सम्बन्धिनौ चात्र क्रियात्मानौ। तत्रात्मनो नित्यत्वेन क्रियारूपसम्बन्धिन एव नाशो वक्तव्यः । स च विनैव कारणं नोपपद्यत इत्युत्पन्नेनैव फलेनोप- पादनीयः। लोके तु फलोत्पत्तिक्षणे क्रियाकारकफलोभयसत्व- सम्भवेन विद्यत एव फलस्य कारकाश्रितत्वम् । अतस्तेनैव फलेन क्रियाया विनाश इति युक्तमेव । यागक्रियायाश्च फलोत्पत्ति- समये कारकाश्रितत्वाभावान्न कारकाशितफलविनाश्यत्वोपपत्तिः। क्रियायाः स्थायित्वकल्पनेऽपि फलोत्पत्तिं यावक्रिया व वर्तते ? किमात्मनि ? उत यवत्तादिद्रव्ये? अथवा तत्परमाणुपु? तत्र न तावदात्मनि क्रिया वर्तत इति युक्तम् । आत्मनो निष्क्रियत्वात् । यवत्तादिद्रव्याश्रितत्वं तु यवत्तादिद्रव्यस्याग्निना भस्मीभावा- देवानुपपन्नम् । परमाणुनिष्टत्वे तु तस्या आत्मनि फलजनकत्वं नोपपद्यते । क्रियाया आश्रयान्तरे फलजनकत्वासम्भवात् । अतः क्रियायाः स्थायित्वकल्पनं न युक्तिपथमर्हति । किं तु कार्यात्मक- स्थाय्यपूर्वस्यैव फलजनकत्वमुपपद्यते ॥ .

Σiν किं च यागस्वर्गयोः साध्यसाधनभावावेदकश्रुतिवलादेव यागक्रियायाः स्थायित्वं कल्पनीयम् । तच्चान्योन्याश्रयदोषवशान्न सिद्धयति । क्षणिकक्रियायाः कथं कालान्तरमाविस्वर्गजनकत्व- मित्युक्ते स्थायित्वादिति वक्तव्यम् । स्थायेत्वं च कथमित्युक्ते कालान्तरमावेफलसाधनभावेनेत्येवमन्योन्याश्रयदोषस्य विस्पष्ट- त्वात् । अतः 'स्वर्गकामो यजेत' इत्यादिवाक्यैरवगम्यमानः कामना- विषयीभूतस्वर्गादिविशिष्टो नियोज्यो देशान्तरकालान्तरदेहान्तर- भाविस्वर्गादिरूपफलसाधनं कार्यत्वेनावगच्छन् यागादिक्रियायाः क्षणभङ्गरत्वेन स्थायित्वानुपपत्त्या ततोऽन्यदेव कार्यत्वेन प्रतिपद्यते । तदेव लिङाद्यभिधेयम् । अपूख्यिकार्ये व्युत्पत्त्यसम्भव इत्येतदपि न। पूर्वजन्मज नेतवेदार्थानुभवोत्थवासनाया इदानीन्तनवेदाध्ययने- नोबुद्धतया तजन्यस्नृत्याऽपूर्वाख्यकार्यस्य विषयीकरणात्तर्कितत्व- सम्भवेन व्युत्पत्तिसम्भवात् । बालस्यापि स्तन्यपानादौ प्राग्भवीयानुभवमूलकवासनयैव प्रवृत्तिरुपपाद्यते । सङ्केतग्राहक- तर्कस्य प्रमाणत्वाभ्युपगमेऽपि न दोषः । शक्तिग्राहकप्रमाणाति- रिक्तप्रमाणान्तरामेयत्वमपूर्वत्व मेति निर्वचनसम्भवेनापूर्वत्वस्याप्यु- पत्तः॥ न चापूर्वस्य फलसाधनत्वाङ्गीकारे तस्य प्राधान्येन वाक्यार्थ- त्ववर्णनं नोपपद्यतेति वाच्यम् । नियोज्याभिधायकस्वर्गकामपद- समभिव्याहारवलाक्रियातिरिक्तस्थाय्यपूर्वस्य फलेनोपस्थाप्यमा - नस्य कृतिसाध्यतया प्राधान्येन लिङाद्यभिधेयत्वसम्भवात् ॥ वाक्यभेदाशङ्कासमाधाने ननु “यजेते" त्यत्रापूर्व कृतिसाध्यतयाभिधीयते । “स्वर्गकाम इत्यत्र च स्वर्गोऽपि कामनाविषयत्वेनाभिधीयते । तदेवं साध्यद्वयं प्रतिपादयदेकं वाक्यं भिद्येत । वाक्यभेदस्य च 'सम्भवत्येक- वाक्यत्वे वाक्यभेदस्तु नेष्यते' इतिन्यावेन दुष्टत्वावगमादिति चेत्- सत्यं "यजेत स्वर्गकाम' इत्यत्रापूर्व स्वर्गश्चेति साध्यद्वयं प्रतीयते । तथापि स्वर्गात्मकसाध्यस्य नियोज्यविशेषणत्वेनैवाभिधानादपूर्व- वत्प्राधान्येनानभिधानान्च वाक्यभेदापादकत्वम् । वाक्यमेदस्तु यत्र प्राधान्येन साध्यद्वयं प्रतीयते तत्र भवति । नात्र स्वर्गापूर्वयोः प्राधान्येन प्रतीतिरस्ति । अतोन वाक्य मेदावकाशः । अथवा अपूर्वस्वर्गयोरेकलोलीभावेनैकसाध्यत्वान्न वाक्यभेदः । यद्वा अपूर्व- रूपसाध्यं फलपर्यन्तं विवर्धते जातिरिव व्यक्तिपर्यन्तम् । अतो मुख्यविवृध्याऽपि न साध्यद्वयविरोधः । किं च गर्भदासाय भृतिदानादिनोपकुर्वतोऽपि स्वामिनो यथा न प्राधान्यपरित्यागः तद्वदपूर्वस्यापि स्वसिद्धावनुकूलव्यापाराय कामिनियोज्याय स्वर्गा- दिफलं प्रयच्छतो न प्राधान्यपरित्यागः सम्भवति । क्रिया- स्थायित्वपक्षे स्थायित्वरूपधर्मकल्पनाप्रयुक्तलाघवसम्भवेऽपि प्रत्यक्षविरोधादिनकविधदोषोपलब्धेः 'त्यजेदेकमि' ति न्यायेन लाघवमुपेक्ष्य धर्मिकल्पन एव श्रेयः समीक्ष्यापूख्यिकार्यमेव लिङाद्यभिधेयमास्थेयमिति वदन्ति ॥ तृतीयपरिच्छेदप्रतिपाद्यम् ग्रन्थेऽस्मिन् तृतीयपरिच्छेदे यागस्य फलसाधनत्वोपपत्तये व्यापारतयाऽपूर्वकल्पनमेव लघीय इति विप्रतिपत्तिनिरस्यते ॥ भावनाया वाक्यार्थत्ववादिनां मतम् भावनाया वाक्यार्थत्ववादिनस्तु- 'यजेत स्वर्गकामः' इत्यादौ लिङा लिङ्लेन शब्दभावनोच्यते । आख्यातत्वेन चार्थ- भावना । सा च स्वभावतः साध्यं, साधनं, इतिकर्तव्यता, चेत्यंशत्रय- माकाङ्क्षति। तत्र शब्दभावनायाः साध्याकाङ्क्षायां साध्यसाधनेति- कर्तव्यताविशिष्टार्थभावना साध्यत्वेनान्वेति । करणाकाङ्क्षायां च लिझानं करणन्वेन । इतिकर्तव्यताकाङ्क्षायां चार्थवादोपस्थित- प्राशस्त्यज्ञानमितिकर्तव्यतात्वेन । अर्थभावनायाः साध्याकाङ्क्षायां स्वर्गकामादिपदोपात्तस्वर्गादिकं स्वतः पुरुषार्थत्वात्साध्यत्वेनान्वेति। करणाकाङ्क्षायामेकपदश्रुत्या धात्वर्थः करणन्वेनात्वेति। इतिकर्त- व्यताकाङ्क्षायां च प्राच्योदीच्यप्रयाजाद्यगरीतेः करणत्वेनान्वयः। तथा च "स्वर्गकामो यजेते" तिवाक्यात्स्वर्गभाव्यकयागकरणकप्रया- जादीतिकर्तव्यताकार्थभावना शब्दभावनाप्रयोज्येत्येवं वोधस्यानु- भविकतया भावनाया एव वाक्यार्थत्वम् । अत एव यागस्य श्रुत- करणत्वनिर्वाहायापूर्व कल्प्यत इति वदन्ति ॥ १ XV1 . भावनाया वाक्यार्थत्वानङ्गीकारे युक्तिः अत्र गुरुमतानुयायिनस्तु यदि "स्वर्गकामो यजेते" त्यादौ यागस्य करणत्वं शब्देनैवाभिधीयेत स्यात्तदा यागकरणकभावनाया लिङर्थत्वेन वाक्यार्थत्वं, करणत्वोपपत्त्यर्थमपूर्वकल्पनं च। न चैत- संभवति । अयोग्यतया यागकरणत्वस्य शब्देनानभिधानात्। यथा हि वह्नेः सेकसाधनत्वमयोग्यत्वेन शब्दो नामिधत्ते तथैव काला- न्तरभाविफलं प्रति क्षणभगिनो यागस्य करणत्वं शब्दो नाभिधत्ते। अर्थभावनाया भाब्याकाङ्क्षायां स्वर्गस्य भाव्यत्वेनान्वय इत्यपि न । अपूर्वाख्यकार्यस्य लिङाद्यभिधेयत्त्वात्तेनैव भावनाया भाव्याकाङ्क्षा- परिपूरणसम्भवात् ॥ न च गुरुमते लिङादेरपूर्वमानवाचित्वात्कथं भावना लिर्थ इति वाच्यम् । प्रधानभूतापूर्वोपसर्जनतया लिङादेरर्थभावनाभि- धायकत्वस्य तैरप्यङ्गीकृतत्वात्। तथा च भावनायां स्वर्गस्य भाव्य- त्वाभावाद्यागस्यापे स्वर्गसाधनत्वं नोरीकर्तुं शक्यते। कथं तर्हि धात्वर्थस्य सम्बन्ध इति चेत् ; अर्थभावनाख्यकृतिविषयत्वेनैवेति वदन्ति॥ अयमाशयः ---प्रथम तावत् यागस्य शब्दतः करणत्वं न प्रती- यते। किन्त्वाकाङ्क्षानुरोधेनैव पदार्थानामन्वयो वक्तव्यः। आकाङ्क्षा च लिङ्प्रत्ययार्थभूतेऽपूर्वे कृतिसाध्यतयावगते सति कृतिस्वरूप- निरूपणाय प्रथमं किंविषयककृतिसाध्यमित्याकारिका जायते । न तु कथमिति प्रकाराकाङ्क्षा। अज्ञाते स्वरूपे प्रकारस्यानाकासितत्वात् । जातायां च तथा वेधाकाङ्क्षायां प्रकृत्यर्थभूतो याग एव "यागविषय- कृतिसाध्यम्” इति कृतिस्वरूपमवच्छिन्दन् विषयत्वेनान्वेति। अतो विषयत्वेनान्वयः शाब्दः । तदुक्तमभियुक्तैर्विषयस्वरूपनिरूपणावसरे 1" विषयिणं विषिण्वन्ति अनुवघ्नन्ति स्वरूपतो निरूपणीयं कुर्व- न्तीति यावत्" इति। एवं कृतिस्वरूपनिरूपणाकाङ्क्षायां यागकृत्य- पूर्वाणां क्रमेणान्वयः। पश्चात्त्वभाव्यस्यापूर्वस्य कथं कृतिसाध्यत्व- मित्याकालायां यागद्वारेणेत्यघटमानं कृत्यपूर्वसंसर्ग मध्ये स्थित्वा घटयन् यागो घटकत्वेनान्वेतीति कृतिसाध्ययागसाध्यतया कृति- साङ्ख्यतत्त्वकौमुदी श्लो.५. 1 xvii - यागापूर्वीणां क्रमेणान्वयः संभवति । इत्थं चावच्छेदकत्वरूप- विषयत्वमेव घटकत्वमिति पर्यवस्यति । व्यक्तं चेदं प्रकरण- पञ्चकायाम्-“विषयत्वेनान्वितस्य करणत्वेनान्वय इत न याग- स्यादौ करणत्वेनान्वयः" इत्यादिना । भवनाथमिश्रेरपि शब्दान्त- राधिकरणे- कृतितत्साध्यमध्यस्थो यागादिविषयो मतः। कार्ये सङ्घटिताकारे करणत्वेन सम्मतः॥ इत्यभिहितम् । यागस्य च प्रथमं शब्दात्करणत्वानवगमेप्यौपादा- निकस्य तस्योपपन्नतया न किं चिदनुपपन्नम्। उपादानं चाभि- धानाभिधेयानुपपत्तिबलायातकल्पनात्मकम् । नियोगस्य च लिङा- द्यभिहितस्य यागादिकरणं विनाऽपर्यवसानात् स स्वपर्यवसानाय धात्वर्थस्य करणत्वमाक्षिपतीति भवत्येव यागादेरौपादानिकी कर- णत्वप्रतीतिरिति॥ नियोगपक्षे यागस्य करणत्वसमर्थनम् ननु यागस्य करणत्वाभावेऽपि नियोगाख्यकार्यस्य काऽनुप- पत्तिरिति चेत् ; अत्रोच्यते - स्वर्णोद्देश्यका हि स्वर्गकाम- समवेतकृतिः स्वर्गसाधनस्य वर्गोदेशप्रवृत्तपुरुषकृतिव्याप्यत्वानुप- पत्त्या वर्गसाधनमेव नियमेन व्याप्नोति। नियोगश्च स्वर्ग प्रति- करणत्वेन यागमनुसन्धत्ते। करणत्वेनानभिसंहितस्य च स्वर्गकाम- कृतिव्याप्यत्वरूपविषयत्वाभावात्। तदभावे च नियोगस्य विषय- निरूपितकृतिसाध्यत्वेनाभिधानं नोपपद्यत एव । अतश्च विध्याक्षेप- बलादेव यागस्य फलकरणत्वमभिसन्धीयते। तेन च फलं प्रति करणत्वेनाभिसं.हेतस्यैव यागस्यापूर्वकृतौ विषयत्वेनान्वयः सिध्य- तीति॥ करणत्वसाधनत्वयोर्भेदनिरूपणम् ननु यागस्य कालान्तरभाविफलं प्रति साधनत्वासंभवे करणीभूतस्य यागस्य विषयत्वेनान्वय इत्यपि न युज्यते। साधनत्व- करणत्वयोर्भेदाभावादिति चेत् ; मैवम् ; करणत्वं हि साधनत्वा- द्भिद्यत एव। तथाहि करणत्वं तावन्न साधनत्वव्याप्यम्। किन्तु VAKYARTHARATNAM xviii "क्रियां कुर्वद्धि कारकम् इति कारकलक्षणानुरोधेन क्रियाघटितमेव तत् । साधनत्वं तु कारणत्वावान्तरमेव। तच्चानन्यथासिद्धनियतपूर्व- क्षणवर्तित्वमित्यनयोर्भेदः। क्रियाघटितत्वं तु षण्णामपि कारकाणां विद्यत एव। स्पष्टं चेदं सोदाहरणं “स्नाति तीर्थ' इत्यादिमूले तद्याख्यायां च। अतश्च यागस्यापूर्वसाधनत्वाभावेऽपि क्रिया- द्वारकं करणत्वमदुष्टमेव । साधनत्वस्य चोत्पादनक्रियाद्वारक- त्वोक्तावयाकाङ्क्षानुसारेणैवान्वयो वक्तव्यः। वाक्यार्थश्च साधनमाकाङ्कत। कृतिसाध्यमित्युक्ते किंविषयकृतिसाध्यमिति कृति- स्वरूपनिरूपणापेक्षा प्रथमं जायते। न तु कथमिति प्रकारापेक्षा। झाते हि स्वरूपे प्रकारोऽपेक्ष्यते। तथाच यागविषयकृतिसाध्यमिति यागस्य प्रथमं विषयत्वेनान्वयः। न साध्यत्वेन। अनपेक्षितत्वात् । अनन्त चाभाव्यस्यापूर्वस्य कथं कृतिसाध्यत्वमित्यपेक्षायां याग- द्वारेति यागस्य घटकत्वम् । कृतिसाध्यत्वात् । अतो न साधनत्वं वाक्यार्थेऽपेक्ष्यते । करणत्वापेक्षा त्वन्वयानुप्रविष्टतयैवोपपादनीया। न चास्ति सा प्रकृते । यद्यपि करणत्वमशब्दार्थत्वादाकाङ्क्षयाऽन्वे- तुमसमर्थमेव । तथापि विध्याक्षेपरूपोपादानतस्तत्संभवः सुलभ एव । तथा च "यजेत स्वर्गकामः' इत्यादौ यागादेर्लिङाद्यभि- हितनियोगविषयावच्छिन्नकृत्याश्रयीभूतनियोज्यकाम्यभूतस्वार्थप्र- वृत्तकृतिव्याप्यत्वरूपकरणत्वस्य न काप्यनुपपत्तिः। एवं च लोक- वेदयोः सर्वत्र कार्यस्य वाक्यार्थत्वाविशेषेऽपि वेदे तस्य स्थायित्व- मपूर्वत्वं च विमर्शतः सिध्यतीति पूर्वोक्तविशेषो न विस्मर्तव्यः। व्यक्त- श्चायमर्थः व्युत्पत्तिरपि कार्यार्थे व्यवहारानुसारिणी। किं तु निर्धारणामात्रं वेदवाक्यविमर्शजम् ॥ इति शालिकातद्वयख्यानयोः॥ सिद्धार्थे व्युत्पत्तिशङ्का वेदान्तिनस्तु-यदि लोके वृद्धव्यवहारवशाद्वयुत्पित्लोः कार्य एव व्युत्पत्तिस्तदा वैदिकवाक्यानामपि यया कयाचन विधया कार्यपरतैव स्यात्। नचैवम् । किं लोके व्युत्पित्लोः “पुत्रस्ते जातः” इत्यादौ पुत्रजन्मरूपसिद्धार्थेऽपि शब्दानां शक्तिग्रहदर्शना- -- । तु xix द्वेदान्तानामपि सिद्धरूपब्रह्मणि शक्तिग्रहः संभवत्येव । नच लोके सिद्धपरवाक्यस्यैवाप्रयोग इति वाच्यम् । तदुपलब्धेर्विस्यष्टत्वात्। तथा हे-देशान्तरे पुत्रजननसमनन्तरमलक्तकाङ्कितपुत्रपदं पट त.त्पत्रे कुमारजन्मोत्सवसंसूचनाय श्वशुरादयो वाताहारेण प्रेप- यन्त। वार्ताहारश्च तं पटं गृहित्वा जनकाभ्याशमागत्य जनकाय पुत्रपदाङ्कतं पटं प्रदर्श्य “दिष्ट या वर्धसे चैत्र! पुत्रस्ते जातः इति वदते। वाताहारेण सहैवागतस्य व्युत्पित्सोः सिद्धेऽपि व्युत्पत्तिर्भवति। सम्मतश्चायं क्रमः पूर्वाचार्याणामपि। तदुक्तं मूले- "दृष्टचैत्रसुतोत्पत्तस्तत्पदाङ्कितवाससा। वार्ताहारेण यातस्य परिशेषाद्विनिश्चितिः ॥ इति अत्र व्युत्पित्सुर्वार्ताहारोक्त यनन्तरं पितरि मुखप्रसाद- मुपलभ्य तेन तस्मिन् हर्षमनुमिनोति । निमित्तान्तरस्य चादर्श- नात्तत्कालं वार्ताहारनिवेदितपुत्रजनेरेव हर्पहेतुत्वं निश्चिनोति । एवं वार्ताहारेण पित्रे 'कन्या ते गर्भिणी"त्युक्ते वार्ताहारेण सहागतो व्युत्पत्सुः पितरि तादृशवाक्यश्रवणसमनन्तरं मुखमालिन्यमव- लोक्य तेन तत्कारणत्वेन दुःखमनुमिनो ते । तथा च पितरि सुख- दुःखयोः कारणान्तरादर्शने सति वार्ताहारोक्तिश्रवणसमनन्तरमेव मुखविकासमुखमालिन्ययोर्दर्शनात् तद्धेतुभूतपुत्रजननकन्यागर्भ रूपावाँ पित्रा वार्ताहारवाक्यादेव प्रतिपन्नाविति सिद्धार्थेऽपि वाक्यतात्पर्यावगमा त्सद्धरूपब्रह्मप्रतिपादकत्वं वेदान्तानामपि युक्त- तरमेवेति वदन्ति ॥ सिद्धार्थे व्युत्पत्तिनिरासः अत्र गुरुमतानुयायिनस्तु---"गामानये” त्यादौ सर्वत्र वाक्ये कार्यस्यैव वाक्यार्थत्वावधारणात्पुत्रजननप्रतिपादनपरे 'पुत्रस्तेजात' इत्यादाव पे कार्याभिधायकपदस्य कार्यरूपार्थस्यैव वाऽध्याहारेण कार्यपरत्ववर्गन मेव समुचितम् । दृश्यते च लोके द्वारस्य संवरण- विवरणान्यतरेच्छया 'द्वारम्' इति शब्दप्रयोगः । अत्र संवि- यतां विवियतामित्येवं संवरणादिकार्यवाचकपदस्य संवरणादि- रूपार्थस्यैव वाध्याहरेण कार्यप्रतिपादकत्वं वाक्यस्यावगम्यते । एवं ७ ७ ७ पुनले जात इत्यादिवाक्येष्वपि ' तं पश्य गृहाणे 'त्येवं दर्शनादिरूप- कायोभिधायकशब्दस्य दर्शनादिरूपकार्यस्यैव वाध्याहारेण कार्य- परन्यसंभवान्न सिद्धार्थे पदानां शक्तिग्रहः संभवति । वेदान्त- वाक्यानां च 'सत्यं ज्ञानमनन्त' मित्यादीनां कर्मविध्यपेक्षित- कप्रतिपत्त्युपयोगित्वेन कार्यपरत्वप्रतिपादनसंभवात् । ज्ञान- काण्डस्य कर्मकाण्डात्पृथक्च्छास्त्रत्वेऽप्युपासनादि विधिशेषत्वस्य ब्रह्मध्यप्युपपत्तेः सर्वत्र कार्यान्वितत्वेनैव पदार्थावगम इति वदन्ति । तुरीयपरिच्छेदप्रतिपाद्यम् अन्थेऽस्मिन् तुरीयपरिच्छेदे स्वर्गकामपदस्य कर्तृपरत्वेन नियोज्यपरत्वाभावान्न तत्सम भिव्याहारबलादपूख्यिनियोगस्य लिङाद्यभिधेयत्वमित्याशङ्का निराक्रियते ॥ स्वर्गकामपदस्य कर्तृपरत्वाशङ्का यजेत स्वर्गकामः' इत्यादौ भावार्थाधिकरणन्यायेन धात्व- र्थस्य साध्यत्वात् 'सिद्धसाध्यसमभिव्याहारे च "सिद्धं साध्यायो- पदिश्यत" इति न्यायेन धात्वर्थस्य साध्यत्वेनाभिधानात्स्वर्गकाम- पदार्थस्यापि तदानुगुण्येनैवान्वयो वाच्यः। स्वर्गकामपदार्थस्य च कर्तृत्वेन साध्यभूतधात्वर्थान्वये सत्यानुगुण्यं भवति । न नियोज्यत्वेनान्वये । स्वर्गकामस्य कर्तृत्वेनान्वये च स्वर्गभ्य कर्तृ- समवेतकामनाविशेषणत्वेनोपसर्जनतयान्वयो वाच्यः। पुरुषार्थतया प्रधानस्यापि स्वर्गस्योपसर्जनत्वं त्वेवं सङ्गच्छते । स्वर्गकामपदं हि स्वर्गे कामः कामना यस्य सः, स्वर्ग कामयते वत्येवं द्वधोपपद्यते। पक्षद्वयेऽपि कामनाया एव प्राधान्यात्तद्विशेषणीभूतस्य स्वर्ग त्यो- पसर्जनत्वमेव । स्वर्गस्य च कामनोपसर्जनत्वादेव स्वर्गकामपदं कर्तृसमर्पकं भवति ॥ किं च यजेत स्वर्गकामः' ' आसीरन् वृद्धिकामाः' इत्यादा- वाख्यातात्कर्तृसङ्ख्यानुविधानं तावदवगम्यते । न चेदं स्वर्गकामादि- पदस्य नियोज्यपरत्वे युज्यते । अतः स्वर्गकाममदं कर्तपरमेव । न नियोज्यपरम् । नियोज्यस्यानुपादेयतया तद्तसङ्ख्याया ग्रहैक- त्वाधिकरणन्यायेनाविवक्षितत्वापत्तेः॥ ७ xi कत्वं षष्ठाये स्वर्गकामाधिकरणे निरूपितम्। अत्र कामशब्दबलात् स्वर्गस्य साध्यत्वं प्रतीयते । स च स्वर्गः साध्यत्वेन नियोज्यविशेष- णम् । नियोज्यश्च स्वकामनाविषयीभूतस्वर्गसाधनं कार्यत्वेनाव- गच्छन् देशान्तरे कालान्तरे देहान्तरे भोक्ष्यमाणफलं प्रति प्रत्य- क्षायाः क्षणिकक्रियायाः साधनत्वासंभवं मन्वानस्तयतिरिक्तमेव लिडर्थरूपकार्य नियोगापरपर्यायं स्वर्गसाधनमित्यवधारयति । तथा च स्वर्गकामपदसमभिव्याहारानियोज्यः स्वकामनाविषयी- भूतस्वर्गसाधनत्वेनापूर्वख्यकार्य लिङादितः प्रतिपद्यत इत्युक्तं भवति । इदं चोचिवञ्छालिकानाथो वाक्यार्थमातृकायां "नियोज्य- सम्बन्धसामर्थ्यात्कालान्तरस्थायि कार्य क्रियातिरिक्तं लिङादिभि- रेवोच्यते” इत्यादिना । समभिव्याहारस्यार्थविशेषप्रतिपत्तिनिया- मकत्वं 1 यववराहाधिकरणादौ (पू. मी. अ. १ पा. ३ अधि. ४) व्यक्तमेव ॥ द्वितीयपरिच्छेदप्रतिपाद्यम् ग्रन्थेऽस्मिन् द्वितीयपरिच्छेदे स्वर्गकामपदसमभिव्याहारोप- पत्त्यर्थ क्रियायाः स्थायित्वं परिकल्प्यतां किमपूर्वाख्यकार्येणे- त्याशङ्कय तस्याः स्थायित्वं निराक्रियते॥ क्रियायाः स्थायित्वशङ्का अत्रैवमाशङ्का-स्वर्गकामपदसमभिव्याहारादेव हि स्थाय्य- पूर्वाख्यं कार्य लिङाद्यभिधेयमिति गुरुमतसिद्धान्तः। तद्यदि स्वर्ग- कामपदमन्यथाप्युपपद्येत न स्यात्तदा तदनुरोधेनापूर्वाख्यकार्यस्य लिङर्थता । तथा हि-साध्यस्वर्गविशिष्टो हि नियोज्यः स्वकामना- विषयीभूतस्वर्गसाधनं कार्यत्वेनावगच्छन् क्षणभङ्गुरायाः क्रियायाः कालान्तरभाविस्वर्गादिरूपफलसाधनत्वानुपपत्त्या तस्या एवस्थायि- त्वपरिकल्पनया कालान्तरमाविस्वर्गादिफलसाधनत्वमवगन्तु- महति । न च क्रियायाः फलविनाश्यत्वस्य प्रत्यक्षसिद्धतया तस्याः स्थायित्वं प्रत्यक्षविरुद्धमिति वाच्यम् । कालान्तरभाविफलसाधनी- 1 अत्रादिपदेनोक्ताधिकरणं ग्राह्यम्.

xxli कार्यमित्येवं बोधो नियोज्यस्य व्यापारः । धात्वर्थभूतक्रियानुष्ठानं कर्तुापारः। अतो नानयोरेकत्वं संभवति । आत्मीयत्येनाव- गम्यमान नेयोगरूपकार्येण नियोज्यस्यान्वयः, अनुष्ठीयमान क्रियया च कर्तुरन्वय इत्यनयोरन्वयवैलक्षण्यमपि स्फुटमेव ॥ नियोज्यपक्षे आख्यातोपात्तसङ्ख्यान्वयोपपत्तिः आख्यातोपात्तसङ्ख्यायाश्च निराश्रयत्वेनावस्थित्यनुपपत्तः स्वा श्रयक क्षेपादाक्षेपलभ्यकर्तृसङ्ख्यानुविधानादपि स्वर्गकामपद- स्य नियोज्यपरत्वे नाख्यातोपात्तसङ्ख्यान्वयानुपपत्तिर्बाधिका । तथा च स्वर्गकामपदं कृतिसाध्यतया लिङा प्रतीयमानस्यापूर्वस्य कृत्याश्रयाकाङ्क्षायां कृत्याश्रयत्वेन नियोज्यं समर्पयतीति नियोज्या- भिधायकमेव, न कत्रभिधायकमिति स्थितमेव स्वर्गकामपदस्य नियोज्याभिधायकत्वम् । उक्तं च मूले- 'तत्स्वर्गकामशब्दोऽयं कृतेराश्रयभावतः। नियोज्यमेवाभिधत्त इति कर्तुन वाचकः ॥” इति कार्याख्यापूर्वस्यौपस्थितिकोपसर्जनत्वशङ्कासमाधाने ननु नियोज्यस्य 'ममेदं कार्य ' मित्यवगतिर्भवति । ममेत्यत्र षष्ठी च नियोज्यकार्ययोः सम्बन्धमन्तरेणानुपपद्यमाना तयोः स्वस्वामिभावसम्बन्धं बोधयति । तथाच स्वत्वेनोप.स्थतस्य कार्यस्य गुणत्वमेष्टव्यमेव । उपलभ्यते च 'चैत्रस्य गावः' इत्यादौ स्वत्वेनोपस्थितानां गवां स्वामिनं चैत्र प्रति गुणत्वमिति चेत्-सत्य षष्ठया स्वामित्वं नियोज्यस्य प्रतीयते । तच्च कृति प्रत्येव । न कार्य प्रति। मत्कृतसाध्यमित्येवं नियोज्यस्य स्वामित्वेन कृत्यैवान्वय- दर्शनात् । कार्य प्रति तु नियोज्यस्य गुणत्वेनान्वयेऽपि नात्यन्तिक- गुणत्वरूपशेषत्वमस्ति । नियोज्य एव मत्फलसाधनत्वान्मदर्थमिदं कर्मेत्यनुसन्धानात् फलोद्देश्यककृतिव्याप्ये कर्मणि स्वामी भवन्नधि- कार्यपि भव ते । तस्यैव च पश्चाक्रियानुष्ठातृत्वलक्षणं कर्तृत्वमप्युप- पद्यते । अश्रुतनियोज्यकेषु च विश्वजिदादिवाक्येषु नियोज्यस्या- क्षेपादेव लाभसंभवात् श्रुतनियोज्यकवाक्येष्विव कार्यप्राधान्यxxiii यत्परः मव्याहतमेव । अध्ययन विधौ तु नियोज्याश्रवणेऽपि “तमध्याप यी- ते"ति वि.धेना प्रेरितोऽध्यापक एव स्वस्याध्यापकत्व सिद्धयर्थ माणवकनुपनीय वेदमध्यापयतीति न नियोज्यपरिकल्पनाऽपेक्ष्यते ॥ गुरुमते विधिवाक्यार्थः अत्रैवं गुरुमते वाक्यार्थप्रक्रिया-"ज्योतिष्टोमेन स्वर्गकामो यजेत" इत्यादौ यजेतेत्यत्र लिङ्प्रत्ययेन कृतिसाध्यतयाऽपूर्वमभिधी- यते । तत्र कृतेस्तत्साध्यस्य कर्तृसङ्ख्यायश्च शब्दार्थत्वेऽपि " शब्दः स शब्दार्थः" इति न्यायेन प्राधान्येनापूर्वस्य वाक्यार्थत्वम् । कृत्य भधानं तु कार्याभिधानेनैव लभ्यत इति 'अनन्यलभ्यः शब्दार्थः" इते न्यायेन कार्यस्य प्राधान्येन प्रत्ययार्थत्वे कृतेिलङ्घययोरूपसर्जन- त्वमेकेनैवाभिधाव्यापारेणावगम्यते । व्यापारान्तराभ्युपगमे विरम्य व्यापारापत्तेः । अर्थद्वयस्यैकव्यापारेण शब्दतात्पर्य वेषयत्वेऽपि गोत्वगोव्यक्तयोरिव प्रधानोपसर्जनभावोऽविरुद्ध एव । शब्दस्य तथा विधसामर्थ्यावधारणात् । तेन लिङ्प्रत्ययस्य कार्या भिधायक- स्वेऽवधारिते यजिप्रकृतिस्तदाका हितविषयं समर्पय त । तथा च यजेतेत्यमेन यागविषयककृतिसाध्य मेति वाक्यार्थबोधः पर्यवस्य ते । पूर्णायां च कृतिविषयाकाङ्क्षायां स्वर्गकामपदं कृत्याश्रयं नियोज्य- मभिधत्ते । ज्योतिष्टोमेनेत्यत्र च प्रकृत्या यागपरिच्छेदाय तन्ना- माभिधीयते । तृतीया चौपादानिकं यागकरणत्वमनुवदति । एवं स्वर्गकामनियोज्याश्रितज्योतिष्टोमनामकयागविषयककृतिसा- ध्यमपूर्वमिति वाक्यार्थः पर्यवस्यतीति हृदयम् ॥ मीमांसाया उपयोगः सर्वोऽपि लोकः सुखमिच्छन् तत्साधनेषु प्रवर्तते, दुःखमसह- मानस्तत्साधनेभ्यो निवर्तत इति नात्र किञ्चिदविदितं विशेषु निवेदनीयमस्ति । सुखसाधनं च धर्मो दुःखसाधन चाधर्म इत्यपि मतिमतामतिरोहितमेव । तौ च धर्माधर्मों वेदेन प्रयोजन- मुद्दिश्य विधीयमानो निषिध्यमानश्चेति वेदवादिनासुद्धोपः । धर्मश्च जगतः स्थितिहेतुरित्यनुश्रूयते "धर्मो विश्वस्य जगतः प्रतिष्ठा' इत्यादिना । तस्यैव रक्षितस्य स्वानुष्ठातृसर्वलोकपरि- xxiv रक्षकत्वमपि “धर्मो रक्षति रक्षितः" इत्यादिना विज्ञायते । अतो धर्मः सर्वस्वमास्तिकमहाशयानाम् । धर्मे पुरुषमतिविपर्यासश्च धर्म प्रति विप्रतिपन्ना बहुविदः' इत्यादिना भाष्ये “मतिबहु- विदां पुंसां संशयान्नोपजायते इत्यादिना वार्तिके च व्यक्तं प्रत्यपादि। एवंभूतं चैनं भ्रमप्रमादादिदूषितचेतसोन यथावदवगन्तुं पारयन्तीति मन्वानः परमकारुणिको भगवान् जैमिनिमहर्षिर्धर्म- स्यास्य न्यायतो निर्णयाय अथातो धर्मजिज्ञासा इत्यारभ्य 'अन्वाहार्ये च दर्शनात्" इत्यन्तैः सूत्रजालैमर्मीमांसां प्राणैपीत् । न्यायविशोधित चार्थ न पुरुषमतविभ्रमादिकमाविलयितुमलं भवति । न्यायविशुद्धिश्च मीमांसयैव सआयते । सा चापरिचिता दुष्परिचिता वा न न्यायविशोधनाय प्रभवति । प्रत्युतान्याय्यार्था- पादनेन पुरुषं निश्रेयसाद्वियोजयेदेव। अत एवोचुस्तत्रभवन्तो भट्टपादाः- मीमांसायां त्विहाज्ञाते दुर्शाते वाऽविवेकतः। न्यायमार्गे महान् दोष इति यत्नोपचर्यता ॥” इति । अतो धर्माधर्मप्रतिपादकवेदार्थ निर्णायकन्यायान् व्युत्पादयन्ती मीमांसा पुरुषस्याल्पमतेर्धर्माधर्मयोर्यथावत्प्रतिपत्तावतितरामुप- करोति ॥ मीमांसाया ग्रन्थान्तरेषु व्याप्तिः धर्माधर्मव्यवस्थापकन्यायप्रकाशकं हीदं मीमांसाशास्त्रं शा- स्त्रान्तरेप्वप्यतितरामा द्रयते । तथा हि- पूज्यतमो व्यासमहर्षिः स्वकीयशारीरकशास्त्रे “ हानौ तूपायनशब्दशेषत्वात्कुशाछन्दस्तुत्यु- पगानवत्तदुक्तम् " (व. सू. अ. ३ पा. ३ सू. २६) “प्रदानवदेव तदुक्तम् ” (. सू. अ. ३ पा. अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्तवदृष्टश्च तदुक्तम्" (ब्र. सू. अ. ३ पा. ३ सू. ५०) मन्त्रादिवद्वाऽविरोधः” (व्र. सू. अ. ३ पा. ३ सू. ५६) अक्षर- धियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्” (ब्र. सू. अ. ३ पा. ३ सू. ३३) इत्येवमाद्यनेकेष्वधिकरणेषु पूर्व मीमांसाधि- करणन्यायदृष्टान्तेन तत्तद्वेदान्तवाक्यार्थनिर्णयप्रति पेपादयिषया तदुक्तम् ' इत्यादिपदैर्मीमांसाधिकरणान्युदाहार्षीत् । शङ्करभग- वत्पादाद्याचार्या अपि तदीयभाष्यभाषणावसरे तदुक्तमित्या देपदानां व्यासमहर्षेः पूर्वमीमांसाधिकरणसिद्धन्यायप्रतिपादने तात्पर्य मति तत्तत्पूर्वमीमांसासूत्रनिर्देशपुरस्सरमावेदयामासुः । तध्याख्यातारश्च वाचस्पतिमिश्रप्रमुखास्तत्तत्सन्दर्भोचितमीमांसान्यायान् तत्तद्या- ख्यानावसरे सम्यगुपापादयन्निति नात्र तद्वयुत्पादने प्रयता- मह॥ योगीश्वरोयाज्ञवल्कयमहर्षिरपि स्वनामाङ्कितस्मृतावाचारादि- धर्मनिर्णायकत्वेनानेकान् मीमांसान्यायानङ्गयकादि ते तदीयस्मृति- व्याख्यादिभ्यो विस्पष्टं विज्ञायते । तथाहि ;- " स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः इत्युक्तथा महर्षिरयं यत्र स्मृतिद्वयस्य परस्परं विरोधः प्रसज्यते तत्र वृद्धव्यवहारलब्धन्यायानुरोधेनव विरोधस्य परिहरणीयतां विस्पष्टमवर्णयत् । ते च न्याया उत्सर्गापवादादिरूपाः पूर्व- मीमांसायां प्रसिद्धा एवेति लक्ष्मीविज्ञानेश्वराभ्यां मिताक्षरात- याख्यानयोः स्पष्टीक्रियते स्म । मिताक्षराकारो हि धर्मन्याय- रहस्यवित् “यत्र स्मृत्योः परस्परतो विरोधस्तत्र विरोध- परिहाराय विषयव्यवस्थापनादावुत्सर्गापवादादिलक्षणो न्यायो बलवान् समर्थः। स च न्यायः कुतः प्रत्यतव्य इत्यत आह---- व्यवहारत इति । व्यवहारात् वृद्धव्यवहारात्' इत्यादिग्रन्थेन वृद्धव्यवहारसिद्धोत्सर्गापवादादिरूपन्यायमाश्रित्य स्मृतिद्वय वरोध- स्थलऽर्थो निर्णतव्य इति स्मृत्यर्थमवर्णयत् । तद्याख्याने च वालम्भयाख्ये लक्ष्मीविरचिते उत्सर्गेतिप्रतीकग्रहणपूर्वक सामान्यस्य विशेषो बाधक इत्येवं सामान्यापवादलक्षणो न्यायस्तत्रान्तरे प्रसिद्ध इत्यर्थः" इत्यादिग्रन्थेनोत्सर्गापवादशब्दार्थ- विवरणपुरस्सरमुत्सर्गापवादादिलक्षणन्यायस्य पूर्वमीमांसारूढ- त्वमवाचि। स्मृतिग्रन्थोऽयं प्रायेण मीमांसान्यायजटिल इत्येत- ड्रन्थावलोकयितृणां व्यक्तमेव । अत्रैको न्यायो दिक्प्रदर्शनाय व्युत्पाद्यते ॥ | पूर्व मांसायामित्यर्थः VAKYARTHARATNAM xxvi स्मृतौ मीमांसान्यायव्युत्पादनम् दृष्टादृष्टयोदृष्टपरिग्रहन्यायः न्यायोऽयं पूर्वमीमांसायां षष्ठाध्यायप्रथमपादे सप्तमाधिकरणे व्युत्पादितः। सोऽज याज्ञवल्क्यस्मृतौ व्यवहाराध्याये २२ श्लोके लक्ष्मी वरचितवालम्भट्टयां “दृष्टे सत्यदृष्टाश्रयणस्यान्याय्यत्त्वा- दिति ग्रन्थेन प्रकृतप्रमेयसंशोधनाय प्रत्यपादि । अत्र मूलम्- "प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तिताः। एषामन्यतमाभावे दिव्यान्यतममुच्यते ॥” इति । (या. स्मृ. व्य. श्लो. २२) अस्यार्थस्तु-ऋणादानादिव्यवहारपदेषु सञ्जातविवादयोन्यायाधि- करणोपस्थितयोर्वादिप्रतिवादिनोर्व्यवहारे प्राड्विवाकेन निर्णेतव्ये निर्णायकप्रमाणत्वेन लेख्य-भोग-साक्षिण उपादेयाः। एषां लिखित- भोगसाक्षिणामन्यतमस्यापि प्रमाणस्यालामे दिव्यप्रकरणे वक्ष्य- माणानां तुलाग्निविषादिदिव्यप्रमाणानामन्यतमप्रमाणस्योपादान- मिति । तत्र लेख्यं नाम ऋणादानादिव्यवहारविषयीभूतवस्तु- निर्देशविशिष्टमुत्तमर्णाधमर्णादीनां देशकालाद्युल्लेखसहितमधमणेन तत्पक्षीयेण वान्येन लिखितं पत्रम् । भोगोनाम विवादास्पदीभूतवस्तु- विषयक उपभोगः। साक्षिणस्तु विवादकालोपस्थिता विवादपद- द्रष्टारः प्रसिद्धा एव । अत्र च दृष्टविधया प्रमाणीभवतां लेख्यभोग- साक्षिणां मनुष्यकृतत्वनिमित्तेन मानुषप्रमाणत्वेन व्यपदेशः। दिव्यानां त्वदृष्टविधया प्रमाणीभवतां दिव्यप्रमाणत्वेन व्यपदेशः । अत्र लेख्य-भोग-साक्षिरूपप्रमाणत्रयेऽन्यतमस्योपायस्यासंभवे दि- व्यप्रमाणप्रवृत्तिरिति यदुक्तं याज्ञवल्क्यमुनिभिस्तत्रेयमाशङ्का प्रसरति, तत्तत्प्रमाणानां परस्परनिरपेक्षतया वस्तुसाधकत्वेन समत्वे स्थिते दिव्यानां मानुषाणां वा प्रमाणानामविशेषेण प्रवृत्तरेव न्याय्यत्वात् “मानुषप्रमाणासंभव एव दिव्यप्रमाणप्रवृत्तिरि"त्येत- नियमनमयुक्तमिति । तथा हि-न तावदत्र दिव्यप्रमाणानां मानुष- प्रमाणसापेक्षत्वम्, लिखित-भोग-साक्ष्यादिनरपेक्ष्येणैव तेषां विवादास्पदीभूतार्थनिर्णायकत्वसंभवात् ॥

xxvii न च साक्ष्यादिप्रमाणेनेव तुलादिप्रमाणेन साक्षादितिवृत्ता. ज्ञानात्तत्सहायेनैव तेषां प्रामाण्यं विज्ञायत इति साक्ष्यादिप्रमाणा- पेक्षया दिव्यप्रमाणस्य दौर्बल्यमेवेति वाच्यम् । तथात्वे भोग- प्रमाणस्यापि साक्षादितिवृत्तज्ञापकत्वाभावेन साक्ष्यपेक्षया दुर्व- लत्वापत्तः । न हि साक्षिवद्वाग्व्यापारेण भोगस्येतिवृत्तज्ञापकत्वं संभवति, अचेतनत्वात् । लेख्यस्यापि वचनामापकत्वेन वचनरूप- त्वासंभवात्साक्षादितिवृत्तज्ञापकत्वाभवेन साक्षिप्रमाणापेक्षया दुर्वल- त्वमापयेत। लिखितभोगयोः साक्ष्यपेक्षया दुर्बलत्वमिष्टमेवेति तु न युक्तम् । तथात्वे लिखितभोगदिव्यानां साक्ष्यपेक्षया दौर्बल्यविषये समानत्वेन "साक्ष्यभावे लिखित-भोग-दिव्येष्वन्यतमप्रमाणं ग्राह्य म” त्येव वक्तव्यतया लिखितभोगसाक्षिणामन्यतमाभावे दिव्यान्यतमं ग्राह्य” मिति याज्ञवल्क्योक्तेरसङ्गतिप्रसङ्गात् । एवं च मानुषप्रमाणानां दिव्यप्रमाणानां च परस्परं सापेक्षनिरपेक्षभावस्य प्रबलदुर्बलभावस्य वाऽभावेन प्रामाण्यांशे समानत्वे विद्यमाने मानुषप्रमाणाभावे दिव्यप्रमाणग्रहणं, 'दिव्यप्रमाणाभावे वा मानुष- प्रमाणग्रहणमि' त्यत्र नियामकाभावेन सर्वविधव्यवहारेषु सर्वेषामपि प्रमाणानां तुल्यप्रवृत्तिकतैव युक्तेति प्राप्तम् । तथा च "एषामन्य- तमाभावे दिव्यान्यतममुच्यते” इत्येवं मूलकारैर्मानुषप्रमाणासंभव एव दिव्यप्रमाणग्रहणमिति यदुक्तं तनियुक्तिकमेवेतीदग्विधाक्षेप- समाधानार्थमेव बालम्भट्टीये ‘दृष्टे सत्यदृष्टस्यान्याय्यत्वात् इत्युक्तम्॥ अयमभिप्रायः-पूर्वोक्तानां मानुषाणां दिव्यानां वा प्रमाणानां वादिप्रतिवाद्यन्यतरपक्षसाधनद्वारा व्यवहारोपयोगित्वमिति ताव- निर्विवादम्। तत्र मानुषाणां प्रमाणानां दृष्टविधयैव वादिप्रतिवाद्य- न्यतरपक्षसाधकत्वम् । न हि लिखितेन भोगेन साक्षिवचनेन वा तत्तत्पक्षे साधयितव्येऽदृष्टसिध्यपेक्षास्ति । दिव्यप्रमाणैस्तत्तत्पक्ष. साधनं तु अदृष्टायत्तम्॥ यद्यपि दिव्यप्रमाणान्तर्गते अग्निदिव्यादौ तप्तायःपिण्डधार- णादिप्रसङ्गे निष्पद्यमानहस्तदाहतदभावादेः प्रत्यक्षत्वेन दृष्टद्वारैव दिव्यप्रमाणानां व्यवहारसाधनोपयोगित्वमित्याशङ्कयेत । तथापि तादृशदाहादाहाद्युपयोग्यदृष्टविशेषसूचनद्वारैव दिव्यप्रमाणस्य 4 Xxxviii पुटम् पतिः विषयाः ७२ स्थायित्वधर्मकल्पनायां "धर्मिकल्पनातो वरं धर्मकल्पने'' ति न्यायानुगुण्यप्रकटनम् । ७३ पूर्वोत्तदोषस्मारगेन क्रियास्थायित्वनिराकरणम् ७४ व्यापारत्वेनापूर्वकल्पनावादस्यायुक्तत्वप्रदर्शनेन परि- च्छेदोपसंहारः। " * * or " ... " ७ तृतीयपरिच्छेदः श्रीरामाद्यनुसन्धातुर्विद्वदभिनन्दनीयवाग्वैभवनिरू- पणम्। २ द्वितीयपरिच्छेदार्थस्मरणपूर्वकं यागस्य फलसाधन- तोपपत्तये व्यापारतयापूर्वकल्पनमेव लघीय इति तृतीयपरिच्छेदस्यासाधारणोपाधिकथनम् । ३ भावनावाक्यार्थवादिमतोपन्यासः ४ भावनावाक्यार्थवादिमतेऽपूर्वाङ्गीकारप्रकारः शब्दभावनाया अंशत्यनिरूपणम् ६ अर्थभावनाया अंशत्रयप्रतिज्ञा अर्थभावनाया अंशत्रयनिरूपणम् ८ अपूर्वकल्पनया यागस्य करणत्वाभिधानम् ९ भावनावादे “ यजेत स्वर्गकामः" इति वाक्यार्थ- वर्णनम् । यागस्य करणत्वेनान्वयनिरासः अर्थभावनायां स्वर्गादिफलस्य भाव्यत्वेनान्वय- निरासः। १२ अपूर्वस्य लिङर्थतामते भावनानुपस्थितेभावनाया भाव्याकाङ्केत्युत्त यनुपपत्त्यनुयोगनिरासः । १३ अपूर्वस्य लिङर्थत्वेऽपि तदुपसर्जनत्वेन भावनोप- स्थितिप्रतिपादनम् । १४ भावनायां स्वर्गस्य भाव्यत्वाभावादेव यागस्य स्वर्गकरणत्वेनानन्वयनिरूपणम् । १५ यजेतेत्यादौ प्रकृत्यर्थयागादेः कृतावन्वयकथनम्.... ७ २५ २८ ३ .... " " २२ ३९ xxix मीमांसान्यायानां लोके प्रचारः लोकेऽपि मीमांसान्यायानुरोधेनैव सामाजिकव्यवहारा अन्ये च तादृशा यथासंभवं निर्णीयमाना दृश्यन्ते। तथा हि--समाजेप्वेक- स्मिन् कार्ये जनानां विप्रतिपत्तौ वहुमतानुरोधेन (Br the Majority) तत्कार्य व्यवस्थाप्यते । इदं च कार्यव्यवस्थापन "विप्रतिपद्धसमवाये भूयसां स्यात्स्वधर्मत्वम्' (जै. सू. अ. १२ पा.२ सू. २४) इत्येतन्मीमांसाधिकरणसिद्धस्य 'न्यूनाधिकसङ्ख्याक विरोधेऽधिकसङ्खयाकानुग्रहः' इति न्यायस्यानुमतं भवति । एवं परस्सहत्रपुरुषपूर्णायां महत्यां सभायां पश्चादागतोऽपि महाराजः पुरस्क्रियमाणो दृश्यते । इदमपि “अङ्गगुणविरोधे तादात्" (जै. सू. अ. १२ पा. २ सू. २७) इत्येतत्पूर्वनीमांसाधि- करणसिद्धस्य गुणमुख्ययोर्नुख्यानुग्रहः' इति न्यायस्य सम्मतं भवति । इदमध्यत्र दिङ्मात्रमुपदर्शितम् । इत्थं प्रायशः सर्वेषामपि मीमांसान्यायानां लोकव्यवहारेयु समन्वयो भवत्येव ॥ उपसंहारः एवं च लौकिकशास्त्रीयव्यवहारेषु सर्वत्र व्यवहारनिर्णायक- न्यायव्युत्पादकस्य मीमांसाशास्त्रस्यानितरसाधारणं माहात्म्य- मित्युक्तेः स्वरूपकथनमेव । न लेशतोऽप्यतिशयवर्णनम्। सत्येव. भीदृशस्य मीमांसाशास्त्रस्योपादेयतायां नापेक्ष्यतेऽन्यदसाधारणं किञ्चित्कारणम् । अतो लौकिकशास्त्रीयव्यवहारेषु न्यायनैपुण्याभि- लापिभिः सर्वैरपि मीमांसाशास्त्रे समादरो विधेय इति नात्रातीव विस्तरोऽपेक्ष्यते ॥ सर्वथा ग्रन्थोऽयमतितरां दुरवगाहस्य गुरुमतवाक्यार्थस्याव- बोधनेन तन्मतव्युत्पित्सूनां नितान्तमुपकुर्यादेव ॥ एतद्न्यसंस्करणे सहीतान्यादर्शपुस्तकानि ग्रन्थस्यास्य संस्करणे सङ्गहीतेषु पञ्चस्वादर्शपुस्तकेषु- क-संज्ञकं (A. 723) काकलपत्रात्मकं प्रायेण शुद्धमेकम् । ख-सज्ञक (2177) तालपत्रात्मकं किञ्चित्रुटितं शुद्धमपरम् । ग-सज्ञकं (B. 377) काकलपत्रात्मकं नातिशुद्धमितरत् । VAKYARTHARATNAM a

ऊ-संज्ञकं (B. 376) काकलपत्रात्मकं संशोधितमन्यत् ।
एतत्पुस्तकचतुष्टयमप्येतत्कोशागारस्थमेव ॥
घ-संज्ञकं (Madras) चेन्नपुरीस्थाडयाराच्यकोशागा-
रादासादितं प्रायः शुद्धमेकन् !
एवं पुस्तकपञ्चकसहायेन अन्थो यं समशोधीति शम् ॥
इत्थं
सुधी विधेयः,
आर्. रामशास्त्री.

॥ श्रीः ॥ सुवर्णमुद्रिकासहितवाक्यार्थरनस्थविषयसूची प्रथमपरिच्छेदः पुटम् पतिः १ ७ " .... ॐ ८ १ १ .... " " १३ 4... क्रमाङ्कः विषयाः मङ्गलाचरणम् २ उपासने मीमांसातन्त्रविरोधमाशङ्कय समाधानम् ३ प्रन्थप्रतिपाद्यारम्भः प्रन्थस्य न्यूनतामाशङ्कय परिहारः ५ वेदान्त्यभिमतप्रवर्तकनिरूपणम् ६ प्रवर्तके कुमारिलभट्टाचार्याणां पतन् ७ वैशेषिकाभिसतप्रवर्तककथनम् प्रवर्तक नैयायिकैकदेशिनामभिप्रायः प्रवर्त प्रभाकराशयः वृद्धव्यवहारात्कार्यस्य प्रवर्तकत्वावगतिः वृद्धव्यवहारा युत्पित्लोरवगतिक्रमः १२ कार्यस्य प्रवर्तकत्वसिद्धिप्रकारः १३ प्रवर्तकनिश्चयस्य शब्दहेतुकत्वानुमाने व्याप्तिनिरू- पणम् अनिर्धारितविशेषरूपेण कार्यस्य वाक्यार्थत्वावगतिः १५ गामानयेतिवाक्यादावापोद्दाराभ्यां पदार्थविशेषाव- गतिक्रमः १६ लोकदृष्टान्तेन बेड़े कार्यस्य प्रवर्तकत्वनिर्णयः इष्टसाधनत्वातीनां प्रवर्तकत्वनिरासप्रतिज्ञा इष्टसाधनताज्ञानस्य प्रवृत्तिहेतुतानिरासः १९ धात्वर्थगतेष्टसाधनत्वस्य प्रवृत्तिहेतुतानिरासः इष्टसाधनत्वस्य प्रवृत्तिहेतुत्वे विशेषाशङ्का २१ कृतियोग्यत्वविकल्पनम् XXXi २४ " . .... " ૨૨ १ ६ 7* xxxii पुटम् पक्तिः " ११ " " ३ .... .... २० .... क्रमाङ्कः विषयाः २२ कृतिजन्यत्वकल्पनिरासः २३ कृत्युद्देश्यत्वकल्पस्य गुरुमताविरोधादगीकारः शब्दभावनायाः प्रवर्तकत्वनिरासः २५ शब्दभावनायाः शब्देनानभिधाने युक्तिः २६ शब्दभावनाया अभिधाभावनाशब्दार्थविवरणपूर्वक शब्दव्यापारत्वसमर्थनम् २७ अभिधाभावनापदार्थविवरणम् २८ अभिधाभावनापदस्य कर्मधारयपक्षेऽर्थान्तरवर्णनम् २९ अमिधाभवनापदस्य बष्टीतत्पुरुषपक्षेऽर्थविवरणम् पक्षत्रवेऽपि शब्दभावनाया व्यापारत्वनिर्णयः ३१ शब्दभावनायाः शब्दन्यापारने फलितम् ३२ शब्दभावनायाः प्रवर्तकत्वाभावे युक्तयन्तरम् ३३ शब्दभावनाथा अज्ञाततया प्रवर्तकत्वे दोषः ३४ शब्दभावनाया ज्ञाततया प्रवर्तकत्वस्य दूषणाय विकल्पनम् ३५ विकल्पितपक्षद्वयस्यापि निरासः ३६ शब्दभावनाया लक्ष्यत्वाभिपायेण शङ्का ३७ वृत्तिद्वयप्रसक्तया शब्दभावनाया लक्ष्यत्वासंभव- कथनन् ३८ वृत्तिद्वयप्रसक्त्युपपादतन् ३९ वृत्तिद्वयाङ्गीकारस्यायुक्तत्वकथनन् शब्दभावनाया लक्ष्यत्वासंभवकथनम् शब्दभावनाया लक्ष्यत्वे "न विधौ परः शब्दार्थः' इतिन्यायविरोधप्रकटनम् ४२ लक्ष्यत्वपक्षे पूर्वग्रन्थविरोधप्रदर्शनम् ४३ शब्दभावनार्थभावनयोर्द्वयोरप्यभिधेयत्वानुपपत्तिः ४४ शब्दभावनार्थभावनयोर्युगपच्छब्दाभिधाने दोषः ४५ शब्दभावनार्थभावनयो. क्रमेण शब्दामिधाने दोषः. ४६ शब्दभावनाप्रवर्तकत्वनिराकरणोपसंहारः ४७ अभिप्रायज्ञानप्रवर्तकत्वानुवादः १ .... " 10 " .... .... " " - ३ " " ૨૨ " " २४ .... ४८ तदूषणम् ... १३ xxxiii पुटम् पतिः " ... " " क्रमाङ्कः विषयाः ४९ परप्रयुक्तशब्दात्पराभिप्रायावगतिशङ्का ५० तन्निरासायाभिप्रायविकल्पनम् ५१ अभिप्रायस्य पदार्थत्वे दूषणम् ५२ अभिप्रायस्य वाक्यार्थत्वे दूषणम् ५३ वाक्यत्वलिङ्गकानुमानेन पराभिप्रायावगतिशङ्का ५४ तत्परिहारः ५५ अभिप्रायविशेषस्यानुमेयत्वे दोषः ५६ अभिप्रायसामान्यस्याजुमेयत्वे दोषः अभिप्रायप्रवर्तकत्वनिरासनिगमनम् ५८ इच्छाप्रवर्तकत्वमतानुवादः ५९ तहषणम् ६० प्रकारान्तरेणेच्छायाः प्रवर्तकत्वपर्यनुयोगस्तत्समा- ४ " " " ... " " २ धानं च. १ 3 २५ ७ प्रभाकराभिमतप्रवर्तकनिरूपणम् ६२ लोकवेदाधिकरणन्यायेन वेदेऽपि कार्यस्यैव लिङ- र्थत्वनिर्णयः. ६३ लिङादीतरपदानां कार्यान्वितार्थप्रतिपादनेन कार्य- परत्वम्. ६४ कार्याभिधानपक्षे लोकवेदाधिकरणन्यायानुगुण्य- कथनम्. ६५ वेदे कार्य क्रियात्मकमुतान्यदित्याशङ्कय तस्य क्रिया- तोऽन्यत्वसमर्थनम्. ६६ वैदिककार्यस्य क्रियातिरिक्तत्ये युक्तयभिधानन् ६७ वेदेऽपि क्रियाया एव फलसाधनत्वमाशङ्कय समा- धानम्. ६८ पदान्तरसमभिव्याहारबलादर्थनिर्णये यववराहाधि- करणोदाहरणप्रदर्शनम्. ६९ पदान्तरसमभिव्याहारस्यार्थनिर्णायकत्व उदाहरणा- न्तरम्. उदाहरणसिद्धप्रमेयस्य दार्शन्तिके सङ्गमनम् शालिकानुसारेण लिङर्थस्थायिकार्यस्यैवापूर्वत्वोप- पादनम्. " " ३ " १३ xxxiv क्रमात पुटम् पतिः " " : १ विषयाः उतार्थे शालिकाया अनुवादः ७३ लिङ्ककार्यस्य शालिकानुसारेण नियोगत्वसमर्थ- नम्. तत्र शालिकानुवादः ७५ शालिकानुरोधेन नियोज्यलक्षणकथनम् तत्र शालिकानुवादः कार्यस्य लिङ्काच्यत्वोपसंहरः ७८ शालिकानुरोधेन कार्यस्य लोकवेदयो रैकरूप्य निरूपणम्. तत्र शालिकानुवादः कार्यस्यैव प्रवर्तकत्वमिति सिद्दान्तस्योपसंहारः And " aama-- द्वितीयपरिच्छेदः -- १ ... ... द्वितीयादिपरिच्छेदत्रयस्यासंकीर्णोपाधिनिरूपण- पूर्वकं द्वितीयपरिच्छेदस्यासाधारणप्रमेयनिरूप- णम्. क्रियास्थायित्ववदिनामाक्षेपः ३ तत्यकार: ४ अपूर्वानङ्गीकारपर्यनुयोगस्तत्समाधानं च ५ स्वर्गकामशब्दस्य क्रियास्थायित्वपलेऽप्युपपत्तिशङ्का क्रियायाः स्थायित्वपक्षे क्षणिकत्वावगाहिप्रत्यक्ष- विरोधशङ्का तत्समाधानं च. प्रत्यक्षविरोधे हेतूपन्यासः ८ पुनश्चाध्यक्षविरोधेन क्रियायाः कालान्तरभाविफल- पर्यन्तावस्थायित्वानुपपत्तिचोदनम्. क्रियास्थायित्ववादिनः समाधानम् क्रियायाः स्थायित्वे युक्तिनिरूपणम् ૨૨ 10 " ६ " : .... " पुटम् पक्तिः १ क्रमाङ्क: विषया ११ अपूर्वाख्यकार्यस्य लिझाद्यभिधेयत्वेन सिद्धत्वान तत्कल्पनामूलकगौरवमित्याशङ्कय स्थायिकार्यस्य लिङाद्यभिधेयत्वे व्यवहारविरोधनिरूपणम् । १२ व्युत्पत्यवेक्षत्रैव लिङादीनां स्थायिकार्याभिधायकत्व- मितिशङ्कानुवादः. " " " " १३ लिङादीनामपूर्वे व्युत्पत्तिपक्षे किं लोकतो व्युत्पत्ति- ग्रहो वेदतो वेति विकल्पनम्. १४ लोकतो व्युत्पत्तिपक्षे दोषः १५ प्रत्यक्षादिप्रमाणतो लिङादीनामपूर्वे व्युत्पत्त्यभ्युप- गमे दोषः. १६ बेदादपूर्वस्य व्युत्पत्तौ दोषः १७ तांदपूर्व लिङादीनां व्युत्पत्यङ्गीकारेऽप्यपूर्वत्वा- त्माश्रयत्वायोरभावशङ्का. १८ तर्कस्य प्रमाणत्वं स्मृतित्वं वेति दिकल्पनन् तर्कस्य प्रमाणत्वे दोषः २० स्थायिकार्यस्यापूर्वत्वभङ्गप्रसङ्गेनैव तर्कस्य स्मृतित्व- पक्षनिरासः. तर्कस्य स्मृतित्वे स्थायिकार्यस्यापूर्वत्वाच्याहति- शङ्कापूर्वकं तत्पनेऽपूर्वत्वव्याहतिनिरूपणन्. २२ स्मृनेरनुभवोत्थत्वानङ्कीकारेण सापेशज्ञानस्य स्मृतित्वमभ्युपगम्य तर्कस्यापि प्रमाणाणतया प्रमा- पेक्षाशङ्का. २३ सापेक्षज्ञानस्य स्मृतित्वाङ्गीकारे शालिकानाथोक्त- स्मृतिलक्षणविरोधप्रदर्शनम्. २४ स्मृतेः सापेक्षत्वमुत्पत्तौ ज्ञलो बेति बिकल्पप्रदर्शनम् २५ उत्पत्ती साक्षत्वमपि ज्ञानजात्रापेक्षत्वं वस्तुमात्रा- पेक्षत्वं वेति विकल्प्य पक्षद्वयेऽपि दोषकथनम्. २६ ज्ञप्ती सापेक्षत्वमपि वस्त्वन्तरापेक्षत्वं ज्ञानान्तरा- पेक्षत्वं वेति विकल्प्याये दोषप्रदर्शनपुरस्सरं द्वितीये दोषनिर्देशः. २७ शालिकानाथोक्तस्मुतिलक्षणानुगुण्याभावात्पूर्वोक्त- दोषाच सापेक्षज्ञानत्वस्य स्मृतिलक्षणत्वानहत्व- निरूपणम्. २३ १ " 3 १ १ Xxxvi पुटम् पतिः २६ " " " ... " १ " " विषयाः २८ लिङादीनां व्युत्पत्तिराहित्यात्स्थाय्यपूर्वानभिधाय- कन्ववर्णनम्. क्रियायाः प्रवर्तकत्वाभ्युपगमे लोकवेदयोविधि- वाक्याथै क्याल्लाघवकथनम्. ३० क्रियास्थायित्वकल्पनेन स्थायिकार्यनिराकरणपक्षोप- संहारः. ३१ अपूर्वस्य लिङर्थत्ववादिनां गुरुमतानुयायिनां समा- धानम्. ३२ अपूर्वस्य लिङर्थत्वे युक्तिः ३३ क्रियास्थायित्वानुवादेन तद्दषणम् ३४ क्रियायाः फलविनाश्यत्वोक्तेरभिप्रायः ३५ लोक क्रियायाः फलविनाश्यत्वोपपत्तिः ३६ स्वर्गादिफलस्य कारकाश्रितत्वसम्भवेन क्रियानाश- कत्वोपपत्तिरितिशङ्कायाः समाधानम्. लोके फलस्य कारकाश्रितत्वात्कियानाशकत्वमित्युप- पादनम्. ३८ स्वर्गादिफलस्य यागादिक्रियानाशकत्वं न सम्भव- ताति लोकवैलक्षण्यकथनम्. ३१ यागादिक्रियायाः फलपर्यन्तमवस्थानमाशङ्कयाश्रया- सम्भवात्तन्निराकरणम्. क्रियाया आत्माश्रितत्वाभावनिरूपणम् क्रियाया यवत्तादिद्रव्याश्रितत्त्वाशङ्का ४२ तत्परिहारः ४३ कार्यव्यस्य होमेन भस्मीभावेऽपि परमाणूनां नित्यत्वात्क्रियायास्तदाश्रितत्वं संभवतीत्याशङ्गय परिहारः. ४४ क्रियातिरिक्तस्य स्थायिनो फलजनकस्य निरूपणम् ४५ क्रियायाः स्थायित्वकल्पकाभावेन तत्कल्पनानुप- पत्तिप्रदर्शनम् । क्रियास्थायित्वकल्पकाशङ्का क्रियास्थायित्वकल्पकत्वेनाशङ्किते दोषकथनम् क्रियास्थायित्वकल्पने नियोज्यबोधकस्वर्गकामपद- सममिव्याहारानुपपत्तिः। २८ " " " " १५ २९ ३ " " Xxvii पुटम् पद्धिः १ .... ८ २ .... ... क्रमाङ्कः विषयाः क्रियास्थायित्वकल्पने लोकसिद्धाभाणकोदाहरणम् आमाणकल्याभिप्रायवर्णनम् लिङादीनामपूर्वे व्युत्पच्यसंभवशङ्कानिराकरणार्थ पूर्वसन्दर्भानुबादः। ५२ लिङादीनामपूर्वे व्युत्पच्यसंभवानर्निरासः ५३ गुरुमतनिरूपणम् तर्कस्य स्मृतित्वपक्षपरिग्रहः ५५ अपूर्वस्य तर्कगम्यत्वेऽप्यपूर्वत्वाविरोधः ५६ प्राग्भवानुभवाङ्गीकारेऽपि लिइर्थकार्यस्यापूर्वत्यो- पपत्तिः । ५७ प्राग्भवानुभवात्स्मृत्युत्पत्तो दृष्टान्तप्रदर्शनपूर्वकं लिड्थेऽपि तत्संभवनिरूपणम् । तर्कस्य प्रमागरूपत्वेऽपि लिइर्थस्यापूर्ववोप- पत्तिः। ५५९ स्वर्गकामपदसमभिव्याहाराल्लिकादीनामपूर्वपरत्वा- भ्युपगमे तस्य साधनत्वेनाप्राधान्यं स्यादिति " ૨૨ " " . ३२ " २२ ३ ३ " .... " .... " .... ६० अपूर्वस्य साधनत्योपपादनेन प्राधान्यसमर्थनम् ६१ अपूर्वफलयोः साध्यत्वेनैकवास्योपस्थितो बाक्य- भेदाराना। ६२ तत्परिहारः ६३ वाक्यभेदशङ्कापरिहारे प्रकारभेदः ६४ तत्रैव प्रकारान्तरम् ६५ अपूर्वस्य प्राधान्ये युक्ततोपपादनम् ६६ अपूर्वस्य साधनत्वेऽपि प्राधान्योपपत्तौ लौकिको- दाहरणम्। ३७ एकदेशिमतानुरोधेन लिङविवरणम् ६८ एकदेशिमतनिरासः आख्यातानां सामान्याभिधायकत्वासंभवः ७० अपूर्वकल्पनपक्षेऽपि क्रियास्थायित्वपक्ष इवान्यो- न्याश्रयदोषप्रसङ्गः ! ७१ अन्योन्याश्रयदोषोपपादनम् " ३ .... ३ १ Xxxviii पुटम् पाडि " क्रमाङ्कः विषयाः स्थायित्वधर्मकल्पनायां "धर्मिकल्पनातो वरं धर्मकल्पने" ति न्यायानुगुण्यप्रकटनम् । ७३ पूर्वोक्तदोपस्मारणेन क्रियास्थायित्वनिराकरणम् ७४ व्यापारत्वेनापूर्वकल्पनावादस्यायुक्तत्वप्रदर्शनेन परि- च्छेदोपसंहारः। " १ ३६ ३ " ० " " .... ४ " ६ ... तृतीयपरिच्छेदः श्रीरामाधनुसन्धातुर्विद्वदभिनन्दनीयवाग्वैभवनिरू- पणम्। २ द्वितीयपरिच्छेदार्थस्मरणपूर्वकं यागस्य फलसाधन- तोपपत्तये व्यापारतयापूर्वकल्पनमेव लघीय इति तृतीयपरिच्छेदस्यासाधारणोपाधिकथनम् । ३ भावनावाक्यार्थवादिमतोपन्यासः ४ भावनावाक्यार्थवादिमतेऽपूर्वाङ्गीकारप्रकारः शब्दभावनाया अंशत्रयनिरूपणम् ६ अर्थभावनाया अंशत्रयप्रतिज्ञा अर्थभावनाया अंशत्रयनिरूपणम् ८ अपूर्वकल्पनया यागस्य करणत्वाभिधानम् ९ भावनावादे " यजेत स्वर्गकामः" इति वाक्यार्थ- वर्णनम् । यागस्य करणत्वेनान्वयनिरासः अर्थभावनायां स्वर्गादिफलस्य भाव्यत्वेनान्वय- निरासः। १२ अपूर्वस्य लिङर्थतामते भावनानुपस्थितेर्भावनाया भाव्याकाङ्केत्युत्तयनुपपत्त्यनुयोगनिरासः । १३ अपूर्वस्य लिर्थत्वेऽपि तदुपसर्जनत्वेन भावनोप- स्थितिप्रतिपादनम् । भावनायां स्वर्गस्य भाव्यत्वाभावादेव यागस्य स्वर्गकरणत्वेनानन्वयनिरूपणम् । १५ यजेतेत्यादौ प्रकृत्यर्थयागादेः कृतावन्वयकथनम्.... " २८ ३ " २२ ४ ४ xxxix पुटम् पतिः " ४० . २० . २१ .... .... ॐ १३ क्रमाङ्कः विषयाः १६ यागादविषयत्वेन कृत्यन्वयपझे आकाङ्क्षोपपत्ति- वर्णनम् यागकरणत्वस्याशाब्दत्वेऽपि प्रकारान्तरेण तल्लाभ- वर्णनम् १८ यागकरणत्वस्याशाब्दत्वसमर्थनम् १९ यागे करणत्वस्य शब्दत उपस्थित्यसंभवेऽपि तदुपपत्त्यर्थमपूर्वकल्पनेति वाचोयुक्ते रिक्तता- प्रतिपादनम् । २० अपूर्ववादिनामाग्नेयादिप्रतिबन्धा प्रत्यवस्थितिः २१ अपूर्वसमर्थनप्रकारः २२ शङ्कामुखेन सिद्धान्तिनोऽभिप्रायवर्णनम् २३ प्रतिबन्दीप्रमेयस्य दाष्टान्ति के योजनम् २४ अपूर्ववाद्युक्तप्रतिबन्दीनिरासः २५ अपूर्वकल्पनावादे तस्यैव साधनत्वावश्यकतोप- पादनम्. २६ सिद्धान्ते आग्नेयादियागानामपूर्वव्यवहितानां साध- नत्वानुपपत्तिरितिशङ्कायाः समाधानम्. २७ आग्नेयादियागानां नियोगसाधनतानिहाय प्रकल्पि- तोत्पत्त्यपूर्वाणामवगमकविकल्पः प्रथमकल्पनिरास- प्रतिज्ञा च. २८ प्रथमकल्पनिरासे युक्तिः २९ अधिकारवाक्यस्योत्पत्त्यपूर्वोपस्थापकत्वासंभववर्णनम् ३० द्वितीयकल्पनिरासप्रतिज्ञा ३१ द्वितीयकल्पनिराले युक्तिः ३२ तत्रैव युक्तयन्तरम् ३३ द्वितीयकल्पनिरासोपयोगित्वेन वर्णितस्य जैमिनीय- सप्तमाद्यप्रतिपादितान्वितामिधानविरोधस्य स्फोर- णम्. ३४ आग्नेयादिवाक्यस्थलिङादिभिरपूर्वान्तरबोधने दोषः ३५ सप्तमाद्योक्तान्विताभिधानविरोधानुवादेन तत्प्रतिक्षेपः ३६ आग्नेयादिवाक्येषूत्पत्त्यपूर्वगमकं किमपि नास्तीति पूर्वोक्तस्य दूषणम्. " ४ ३ .... " .... " २२ .... २४ .... " .... ३१ xl पुटम् पतिः .... " " .... " ४५ ४ क्रमाङ्क: विषयाः ३७ आग्नेयादिवाक्यैरपूर्वान्तरबोधनेऽन्विताभिधानवि- रोधाभावनिरूपणम्. तत्र कारणोपन्यासः ३९ आग्नेयादिभ्योऽपूर्वस्वीकारे तस्यैव कारणत्वग्रसङ्गः ४० दोषसाम्याभावादाग्नेयादिप्रतिबन्धनुपपत्तिनिरूपणेन निगमनम्. यागस्य साधनत्वाभावे पश्चाद्वा तस्य कथमौपादानिक करणत्वमित्याशङ्का करणत्वस्य साधनत्वा दनिरूपणेन समाधानम् .... ४३ साधनत्वकरणत्वयोर्मेदसमर्थनम् ४४ वैदिकोदाहरणप्रदर्शनेन षण्णामपि कारकाणां क्रियाद्वारकत्वप्रदर्शनम् साधनत्वस्य क्रियाद्वारकत्वाभाववर्णनम् यागस्य फलसाधनत्वाभावेऽपि तत्करणत्वोपपत्तिः साधनत्वस्यापि क्रियाद्वारकत्वमाशङ्कय समाधानम् ४८ करणत्वस्यान्वयाननुप्रविष्टत्वेऽप्यपेक्षितत्वनिरूपणम् ४९ स्वर्गकामादिपदसमभिव्याहाराल्लिङादीनां कार्या- ख्यापूर्वप्रतिपादनमिति पूर्वप्रबन्धनिष्कर्षः ५० स्थायिकार्यरूपापूर्वम्य लिडर्थत्वे लाघवम् ५१ लोकवेदयोः कार्यैक्याङ्गीकारे स्थायिकार्यस्यापूर्वत्व- भङ्गमाशङ्कय समाधानम्. ५२ लोकवेदयोः कार्यैक्याङ्गीकारेऽपि नापूर्वत्वहानिरि- त्यत्र शालिकानिदर्शनं तदभिप्रायवर्णनं च. ५३ वृद्धव्यवहारानुरोधेन लोकवेदाधिकरणानुरोधेन च कार्यस्यैव लिङर्थत्ववर्णनेनोपसंहारः. ५४ शब्दानां सिद्धार्थे व्युत्पत्तिमङ्गीकुर्वतां वेदान्ति- नामाक्षपः. शब्दानां सिद्धे व्युत्पत्तिनिरूपणाय स्थलशोधनम् ५६ पूर्वाचार्याणां सिद्धार्थबोधनक्रमः ५७ सिद्धार्थबोधने निदर्शितायाः शालिकायास्तात्पर्य- विवरणम्. ५८ वार्ताहारवाक्यस्यैवोत्तमवृद्धवाक्यस्थानीयत्वाभ्युप- गमेन व्युत्पत्तिसंभवकथनम् " .... " " ४ ... % ae पुटम् पतिः २ ६ ६२ लोके ma ... " २२ २ ६ १ क्रमाङ्कः विषयाः ५९ अन्वयव्यतिरेकाभ्यां वार्ताहारवाक्यश्रवणस्यैव हर्षादिहेतुत्वनिर्णयः। पुत्रस्ते जातः" इति वार्ताहारवाक्यस्य सिद्धार्थ- परता। "पुत्रस्ते जातः” इति वाक्यस्य पदशोऽर्थाव धारणम्। प्राथमिकव्युत्पत्तेः सिद्धार्थविषकन्व- निरूपणम् । ६३ पदानां सिद्धार्थे व्युत्पत्त्यभ्युपगमस्य फलम् ६४ पदानां सिद्धार्थे व्युत्पत्तिनिराकरणम् ६५ पदानां सिद्धार्थे व्युत्पत्त्यसंभवे युक्तिः पुत्रस्ते जातः इत्यत्र कर्याभिधायकपदाश्रव- णेऽपि तादृशपदाध्थाहारनिरूपणम् । अध्याहारस्य प्रामाणिकत्वकथनम् पुत्रस्ते जातः" इत्यत्राध्याहाररीतिः ६९ लौकिकवाक्यानां सिद्धपरत्वे दोषः वाक्यसामान्यस्य कार्यपरत्वावगमे वेदान्त- वाक्यानां गतिमाशङ्कय तेषां ज्योतिष्टामादि- विध्यपेक्षितकर्तृसमर्पकत्वसमाधानस्य प्रकरण भेदेनासंभवमभिप्रेत्योपासनाविध्यपेक्षितोपास्य-- स्वरूपसमर्पणपरत्वेनोपपत्तिवर्णनम् । उपासनाया विधेयत्वासंभवाशङ्का उपासनाविध्यनुपपत्त्या श्रोतव्यवाक्ये विध्यभ्युप- “ ६ " १ .... .... " " २१ १ ॐ ७ गमः । 4.. " " २३ or ७३ श्रवणविधौ नियोज्यसमर्पणम् ७४ लिङाद्यघटितवेदान्तवाक्यानां श्रवणविधिशेषत्व- कथनम्। 'देवदत्तः काष्ठेः स्थाल्यामोदेनं पचति' इत्यादि- सिद्धपरलौकिकवाक्यानामुपपत्तिः । ७६ लिङादीनामपूर्वमर्थ इति प्रकृतप्रमेयस्योपसंहारः परिच्छेदत्रयफलतया यजेतेतिपदार्थनिरूपणोप- संहारः। ० xlii चतुर्थपरिच्छेदः पुटन् पतिः .. १ .... .... ३ " tuv ० " १३ ३ " विषयाः १ इष्टदेवतानुसन्धानम् २ चतुर्थपरिच्छेदस्यालाधारणोपाधिनिरूपण, स्वर्गकाम- पदस्य नियोज्यपरत्वाक्षेपश्च। ३ स्वर्गकामपदार्थस्य धात्वर्थानुगुण्येनान्वयसंभवः.... ४ स्वर्गकामपदार्थस्य धात्वर्थानुगुण्यप्रकारः ५ स्वर्गकामपदस्य कर्तृपरत्वे स्वर्गस्य कर्तृगतकामना- विशेषणत्वेनान्वयः। स्वर्गस्य कामनाविशेषणत्वेनान्वये काम्यत्वेन प्राधा- न्यावगतेविरोधाशङ्का । ७ स्वर्गगतकामनोपसर्जनत्वस्य तद्गतकाम्यतायत्तत्त्व- वर्णनम् । स्वर्गस्य कामनोपसर्जनत्वनिरूपणोपयोगितया स्वर्ग- कामशब्दस्य व्युत्पत्तिद्वयप्रकटनम् । ९ स्वर्गकामपदस्य द्विविधव्युत्पत्तिपक्षेऽपि स्वर्गस्य कामनोपसर्जनत्वोपपत्तिः । १० स्वर्गगतकामनोपसर्जनत्वस्य स्वर्गकामपदे कर्तृ- परत्वनियामकत्वम्। ११ स्वर्गकामपदस्य नियोज्यपरत्वे आख्यातोपात्त- सङ्ख्याविवक्षानुपपत्तिः। १२ फलसिद्धौ नियोज्यस्य कर्तृत्वसंभवेऽपि धातूपात्त- व्यापारकर्तृत्वाभावात्तस्याख्यातोपात्तसङ्ख्यानुवि- धानानुपपत्तिनिरूपणम्। १३ धातूपात्तव्यापाराकर्तर्याख्यातोपात्तसङ्ख्थानुविधाना- भावे दृष्टान्तः। १४ स्वर्गकामपदस्य कर्तृपरत्वोपसंहारः १५ स्वर्गकामपदस्य कर्तृपरत्वोपपादनफलम् १६ स्वर्गकामपदस्य कर्तृपरत्वप्रतिषेधाय प्रथम स्वर्गस्थ कामनाविशेषणत्वनिरासः। स्वर्गस्य कामनाविशेषणत्वे "परनिप्यत्तये नेष्टः " इति न्यायविरोधकथनम् । ३ " " . २३ .... ३ " xliii पुटम् पतिः " " १ १ . " २२ १ ६ क्रमाङ्कः विषयाः १८ स्वर्गस्य कामनाविशेषणत्वानुपपत्तिनिरूपणम् स्यर्गस्य प्राधान्यात्तत्कामस्य कर्तृत्वानुपपत्तिः २० स्वर्गकामपदार्थस्य कर्तृत्वाभावेऽपि वाक्यार्थान्वयो- पपत्तिनिरूपणम्. स्वर्गकामस्य नियोज्यत्वेऽपि सिई साध्यायोप- दिश्यते” इति न्यायोपपत्तिः, २२ सिसाध्यन्यायस्य विषयविवेकः २३ अधिकारवाक्येऽपि नियोज्यान्वयानुरोधेनापूर्वस्यैव साध्यत्वावश्यम्भावात्स्वर्गस्य तदभावे कथं यागस्य साधनत्वमित्याशङ्कय समाधानन्, २४ कर्तृनियोज्ययोरवैलक्षण्याशङ्का अन्वय-व्यापार-प्रतीतिमिः कर्तृनियोज्ययोर्वैलक्षण्य- प्रदर्शनम्. व्यापारतः कर्तृनियोज्ययो_लक्षण्यम् २७ कर्तृनियोज्ययोरन्वयतो भेदः २८ स्वर्गकामपदेन कर्तुरनभिधानेऽप्याख्यातोपात्त- सङ्ख्थानुविधानोपपत्तिः. २९ स्वर्गकामपदस्य नियोज्यमात्रामिधायकत्वम् ३० कार्यप्राधान्याक्षेपः ३३ सदृष्टान्त कार्यप्राधान्यदृढीकरणम् ३२ कार्यप्राधान्याक्षेपनिराकरणम् ३३ नियोज्यस्य कार्यैणान्वयोपपत्तिः ३४ नियोज्यस्य कार्य प्रत्यात्यन्तिकगुणत्वाभावकथनम् ३५ नियोज्यस्यैवाधिकारनिरूपणम् ३६ नियोज्यस्यैव क्रियानुष्ठातृत्वरूपकर्तृत्वप्रतिपादनम् ३७ स्वर्गकामादिपदस्य नियोज्यपरत्वप्रतिपादनोपयोगः ३८ अश्रुतनियोज्यस्थलेऽप्यौपादानिकतत्कल्पनया तदनु- रोधेन लिङादीनामपूर्वप्रतिपादकत्ववर्णनम्. ३९ अश्रुतनियोज्यकस्थले नियोज्यमन्तरा. विध्यपर्यव- सानात्तत्कल्पनाया आवश्यकत्वकथनम्, नियोज्यस्य जीवनवत्वेन कल्पनानुपपत्तिः तत्कारणं च नियोज्यस्य फलविशिष्टत्वेन कल्पने प्रयोजनम् । " " २२ " २ " ८ २४ ४० २३ xliy पुटम् पति १ " ६ ९ m " " 110 " " क्रमाङ्क: विषयाः ४२ पशुपुत्रादिफलस्य नियोज्यविशेषणत्वेनाकल्पनम् ४३ स्वर्गस्य सर्वपुरुषाभिलषितत्वात्तस्यैव नियोज्यविशे- पणत्वेन कल्पनम्. ४४ स्वर्गस्य सर्वपुरुषाभिलषितत्वाक्षेपसमाधाने ४५ फलकामनावतामेव स्वर्णोद्देश्यककर्मण्यधिकार- प्रदर्शनम्. ४६ अश्रुतनियोज्यकविश्वजिदादौ नियोज्यपरिकल्पन- मित्यस्योपसंहारः. ४७ अश्रुतनियोज्यकविश्वजिदादौ नियोज्यविशेषणवेन स्वर्गस्यैव कल्पनमित्यस्य जैमिनिसूत्रारूढत्व- वर्णनम्. ४८ अश्रुतनियोज्यकस्थले विश्व जिहुदाहरणस्यायुतत्यचो- दनमू. ४९ उक्तचोदनमभ्युपेत्य कृत्वाचिन्तया समाधानम् ... ५० रात्रिसत्रादेरश्रुतनियोज्यकस्थलोदाहरणत्वानुपपत्ति- कथनम्. रात्रिसनन्यायस्य स्थलान्तरेऽतिदेशः ५२ रात्रिसत्रन्यायस्य पर्णतायामतिदेशशङ्का ५३ तत्परिहारः ५४ अध्ययनविधौ नियोज्यमनपेक्ष्यैवाध्ययनसम्भव- कथनम्. ५५ अध्यापनविधिनैवाध्ययनलाभादध्ययनविधी नियो- ज्यापरिकल्पनमू. ५६ अध्ययनाध्यापनयोभिन्चकर्तृकत्वेऽप्यध्ययनत्याध्या- पनविधिमूलकत्ववर्णनम्. ५७ अध्यापनस्याध्ययनमूलत्वोपपादनम् ५८ अध्ययनविधेरर्थज्ञानकामनियोज्यकत्वाशङ्का ५९ तत्समाधानम् ६० अध्ययनविधावर्थज्ञानकामस्यानियोज्यत्वे हेत्वन्तर- वर्णनम्. ६१ हुमादीनां जैमिनीयनयानुरोधेनोपयोगवर्णनम् ६२ अर्थज्ञानकामस्याध्ययनविधौ नियोज्यत्वाभावरूप- स्यार्थस्योपसंहारः. . " " २३ " " " २२ १ " xlv पुटम् ८ १ ३ " क्रमाङ्कः विषयाः अध्ययनविधेर्निनियोज्यकत्वेऽध्ययनेऽनुष्टात्रभाव इति शङ्कायाः समाधानम्. अध्ययने अध्यापनविधिप्रयुक्तत्ववपरीत्यचिन्ता ... तत्र सविकल्पमध्ययनस्वरूपासिद्धिप्रतिज्ञया प्रथम- कल्पे दोषवर्णनम्. ६६ द्वितीयकल्पे दोषनिरूपणेनाध्ययनस्याध्यापनविधि- मूलत्वसमर्थनम्. ६७ कामश्रुतेरध्ययनप्रयोजकत्वपर्यनुयोगप्रतिवचने ६८ अध्ययनस्याध्यापनविधिप्रयुक्तत्वे तस्य तदङ्गत्व- चोदनम्. ६९ सोदाहरणं प्रयोज्यत्वस्याङ्गत्वेऽतन्त्रत्वाभिधानम्. प्रयोज्यत्स्य प्रयोजकाङ्गत्वाभावे समुदाहृताधान- पर्यनुयोगनिरासः. आधानस्य पर्णतान्यायेन ऋत्यर्थत्वाशङ्का ७२ तत्परिहारः अध्ययनस्याध्यापनाङ्गत्वाभावानाध्ययनविधौ नियो- ज्यपरिकल्पनमित्यवान्तरप्रकरणस्योपसंहारः. विधिस्थले नियोज्यनिर्णयस्योपयोगः ७५ लोकवेदयोर्लिङःकार्यपरत्वनिर्णयेनोपसंहारः ७६ उक्तप्रमेयाणां श्रोतृबुद्धिसमाधानाय संक्षेपतो निरू- पणप्रतिज्ञा. विधिवाक्योदाहरणम् विधिवाक्यार्थप्रतिपत्त्युपयोगितया वाक्यघटक- पदार्थप्रतिपदानम्. ७९ स्वर्गकामपदार्थविवरणम् ज्योतिष्टोमवाक्ये ज्योतिष्टोमपदोपयोगकथनम् यजेतेत्यत्र यागे करणत्वमप्राप्तं कथमनूद्यत इति चोद्यस्योत्तरम्. ८२ ज्योतिष्टोमवाक्यार्थवर्णनम् ८३ ज्योतिष्टोमाधिकारविधिवाक्यार्थक्रमस्येतराधिकार - विधिवाक्यार्थव्वतिदेशः. राजसूयाधिकारविधिवाक्यार्थे विशेषकथनप्रतिज्ञा VAKYARTHARATNAM २० " " " " " ... ३ " ८ " xlvi पुटम् पतिः १ " " " २० क्रनाङ्कः विषयाः राजसूयाधिकारवाक्याथै विशेषविवरणम् ८६ राजसूयाधिकारविधिवाक्यस्थराजपदार्ये विशेषमा- शङ्कय समाधानम्. ८७ अनुपादेयविशेषणस्य विवक्षायां वाक्यभेदे ग्रहैक- त्वाधिकरणोदाहरणनिरूपणम्. ८८ राजसूयवाक्ये राजपदस्याक्षेपलभ्यकर्चनुवादकत्व- निरूपणम्. ८९ राजसूयवाक्ये दुयोर्यजमानयोरित्यत्रेवार्थविवरण- शका. ९० द्वयोर्यजमानयोरितिवाक्य उद्देश्यप्रतिपादकव्यव- स्थापनम्. ९१ राजसूयाधिकारवाक्ये द्वयोर्यजमानयोरिति वाक्या- द्वैलक्षण्यकथनम्. ९२ राजसूयवाक्यार्थवर्णनम् ९३ राजसूयवाक्ये राजसूयप्रातिपदिकार्थस्य तृतीयार्थस्य च वाक्यार्थानुप्रवेशकथनम्. ९४ परिच्छेदचतुष्टयप्रमेयोपसंहारः ९५ प्रकृतग्रन्थोपसंहारस्योपक्रमानुरोधित्ववर्णनम् ९६ ग्रन्थसमाप्तिसूचनम् ९७ प्रकृतग्रन्थस्यष्टदेवतायै समर्पणम् १ १ " " 40 शुद्धाशुद्धपाठमूची पु. ३ २६ शुद्धः निमित्ते इत्येवमभिधा शब्द वाक्यार्थता तदेवं वुपमञ्चन नाप्यात्माश्रय रापूर्वावगम प्रवृत्तेश्चादशना २३ अशुद्धः निमित्ते हि इत्येवमभिधाशब्द वाक्यर्थता तदेव वुपभुञ्जते ना प्या माश्रय रापूर्वावाम प्रवृत्तेश्च दर्शना पदान्यत्र ऋत्वफूर्व चौपादानिक फल- थोषमाह am ३ १४ २ ६ ऋत्वपूर्व चौपादानिकफल दोषमाह xlvii

No text on this page.

॥श्रीः॥ ॥ श्रीगुरुभ्यो नमः ॥ वाक्यार्थरत्नम् (सुवर्णमुद्रिकासहितम्) प्रथमः परिच्छेदः 1 वन्दे राम जगजन्मस्थितिसंयमकारणम् । विज्ञानानन्दवपुषं अय्यन्तमणिमन्दिरम् ।। करयुगळयुगळ्या वित्तिमुद्राक्षमाले कलशममृतपूर्ण पुस्तकं बिभ्रदाये । स्फटिकविशदवों भद्रपीठे निषण्णो दिशतु विशदबुद्धिं दक्षिणामूर्तिदेवः ॥ कृष्ण गोविन्दमनिशं श्रीगोपीजनवल्लभम् । वन्दे पार्थरथारूढं ज्ञानमुद्रालसत्करम् ॥ सुवर्णपदसंहत्या मुद्रयाऽभीष्टया गुरोः । वाक्यार्थरत्नं सुधियां धृतये योजयाम्यहम् ॥ इह खलु ' मङ्गळारम्भा ग्रन्थाः प्रचीयन्ते ३, निष्प्रत्यूह परिसमाप्यन्ते चे 'ति वचनेन प्रचिक्रमिषितस्य निरन्तरायपरिसमाप्तिप्रचयादिकं प्रयोजनमाशासानोऽभिमत- देवतोपासनात्मक मङ्गळमादावाचरति- उपास्महे महो रामनामकं यन्नियोगतः । नियुक्तोऽधिकृतः कर्मकर्ते प्रफलमश्नुते ॥ १ ॥ महः उपास्मह इत्यन्वयः । तन्मह इत्युपासीत महान् भवति" इति श्रुतौ महस्त्वेन (महश्शब्दगतत्वेन) उपासनाया महत्वरूप फलैश्वर्यप्राप्तेरभिधानादत्रापि 1 आद्यं श्लोकद्वयं क. ख.-पुस्तकयोर्नोपलभ्यते. 2 एतत्पर्यन्तग्रन्थः घ.-पुस्तके नोपलभ्यते. 3न्ते परिचीयन्ते चेति-क. 4 र्ता स्वफ-घ. 5 गम्यत्वे-क. घ. 6 पस्यैव प्रा-ऊ.

२ सुवर्णमुद्रिकासहिते वाक्यार्थरत्ने - महत्वापेक्षया ज्योत्स्नापरपर्याय महः सेवामह इत्यर्थः । महःशब्दस्य सामान्या- भिधायितया निर्विशेष सामान्यस्यापर्यवसानात्प्रकृतोपयोगितया विशेषमभिधत्ते- रामनामकमिति । रमयति स्वोपासकान् आत्मप्रवणान् कुरुत इति रामः परमात्मा। यद्वा रमन्ते योगिनोऽस्मिन्निति रामः- रमन्ते योगिनोऽनन्ते नित्यानन्दे चिदात्मनि । इति रामपदेनासौ परं ब्रह्माभिधीयते ॥ इति वचनात् । राम इति नाम यस्य तद्रामनामकं महः ॥ ननु रामोपासनया किं प्रयोजनमभिगम्यत इत्यत्राह-यन्नियोगत इति । यस्य रामस्य, नियोगतः आज्ञावशात्, नियुक्तः प्रेरितः, अधिकृतः कर्मणि प्राप्तैश्वर्यः, कर्म- कर्ताऽनुष्ठाता, इष्टं स्वाभिमतं, फलमश्नुते प्रामोतीति । तेन रामोपासनयोपासकस्य यद्यदभीष्टं तत्फलं प्राप्यते, विभीषणसुग्रीवहनुमदादीनां रघुनायकनियोगानुसन्धानेन स्वाभिमतफलप्राप्तेः सार्वजनीनानुभवगोचरत्वादित्युक्तं भवति ॥ ननु रामोपासनं तन्त्रविरुद्धम् । नियोगप्राधान्यवादिभिरुपास्यविग्रहादि- मद्देवताया अनङ्गीकारात् । रामश्च 7 इन्दीवरदळश्यामः पद्मपत्रनिभेक्षणः' इत्यादि- लक्षणसम्पन्नः तथा च कथं संप्रदायानभिमतमनुसन्धीयत इत्यपि शङ्कां परि- हरति-यन्नियोगत इति । यद्राम10 रूपनियोगादित्यर्थः । नियोगस्यापि परमेश्वर- रूपत्वेनैव ऋतु11फलदायकत्वम् । यत्तु देवताविग्रहनिराकरणं तदपि नियोगप्राधान्य- प्रतिपादनार्थमेव । न तु देवतास्वरूपनिराकरणार्थम् । “ यस्यै कस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिप्यन् ” इति वचनेन ध्यानस्याभिहितत्वात् । विग्रहाद्यभावे ध्यानानुपपत्तिप्रसङ्गात् । इह च यस्य परमेश्वरस्य रामपदाभिधेयस्य स्वरूपादेवावस्थाविशेषमभिगम्य नियोगसंज्ञामवतीर्णादपूख्यिकार्यान्नियुक्तः ममेदं कार्य12मित्येव बुद्धवा नियोज्यत्वं प्राप्य समनन्तरं कार्यसाध्यफलसाधनभूतकर्मणि मादर्थ्यलक्षणमधिकारमधिगत्य पश्चात्फलसाधनभूतां क्रियामनुष्ठाय समभिलषितं पुत्रपशुस्वाराज्यादिकं फलमधिगच्छतीति सम्प्रदायसम्मतमेवोच्यते । न तद्विरुद्ध- मिति न कश्चिद्दोषः । एतेन वक्ष्यमाणग्रन्थप्रतिपाद्यमपि प्रदर्शितं भवति ॥१॥ , -- । 1 भिधेयत-क. ख. न्यापर्यवसानात्प्रकृतोपयोगिनं-क. ख. 3 गिनं बि-ङ. 4 पास्यान्-ख. 5 सत्यानन्दे-क. नीलोत्पलदळश्यामः 6 नियोग आज्ञा तद्वशान्नि-घ. 10 मनियो-घ. पुण्डरीकनिभेक्षण:-क. ख. 8 यविरुद्धममिधीय-क. ख. यस्माद्रा-क. ख. 12 मिति बु-क. ख. 13 णमुपकारम-ख. ग. 11 फलनाधकत्वात्-क. ख. 14 शुस्वर्ग- राज्या-3. 15 मभिगना. घ.

प्रथमपरिच्छेदः ३ मथ स्वग्रन्थं प्रत्यभिमुखानां प्रेक्षावतां प्रस्तुत शास्त्रानुसारेणैवाशिषमाशास्ते- अस्तु तद्वस्तु धर्माख्यं स्वस्तिप्रदमनारतम् । वेदमस्तकवेद्यत्वं यस्य वेदविदो विदुः॥२॥ धर्म इत्याख्या यस्य तद्धर्माख्यं तद्वस्तु, अनारतं सर्वदा, स्वस्तिप्रदं कुशलप्रदायक, 'स्वस्तीत्यविनाशिनामे' ति नैरुक्तैरभिधानात् । आस्त्विति सम्बन्धः । तदिति सर्वनाम्ना प्रसिद्धपरामर्शः कर्तव्यः । धर्माख्यस्य वस्तुनः कथं प्रसिद्धिरित्यत्राह- वेदमस्तकेति। निरपेक्षतथा वित्तिकरणं ब्राह्मणवाक्यमिह वेदशब्देनाभिधीयते । तस्य वेदस्य मस्तकमिव मस्तकं लिङ्पदं, तेन वेद्यत्वं अभिधेयत्वं, वेदविदो मीमांसकाः, यस्य धर्माख्यस्य वस्तुनो, विदुः कथयन्ति; तद्वस्त्वित्यर्थः । एतेन लिङ्वाच्यतया धर्मस्य मीमांसकैः प्रसिद्धेः प्रसिद्धं च धर्माख्यं वस्तु तदिति सर्वनाम्ना परामृश्यत इत्युक्तं . , भवति ॥२॥ , अथेदानी कृतमङ्गळाचरणो भाविप्रयत्नस्य निरन्तरायपरिसमाप्तिं मत्वा ग्रन्थ- मारभते- गुरुतन्त्रमहाम्भोधिमवगाह्य समुद्धृतम् । वाक्यार्थरत्नं विद्वद्भयो ददाम्यहमुपायनम् ॥ ३ ॥ गुरोः प्रभाकरगुरोः, तन्त्रं प्रभाकरशाखें, तदेव च दुरवगाह्यत्वेन चापरिमेयत्वेन चाम्भोनिधिकल्पत्वेन चाम्भोधिः, तमवगाह्येत्यनेन अम्भोधिवदुरवगाह्यस्यापि गुरू- तन्त्र स्यावगाहनेन 'स्वमाहात्म्यमपि प्रकटितं भवति । समुद्धृतं सम्यगुद्धृतम् । अनेन शास्त्रे नानास्थानेषु विप्रकीर्णस्य विप्रकीर्णस्य वाक्यार्थोपयोगिप्रमेयस्य चिरन्तन- प्रबन्धेषु सम्यगभिहितस्योद्धरणेनैकत्र सङ्कलय्य कथनमेव क्रियते । न तु किञ्चि- स्परिकल्प्यते। अतः प्रामाणिकमेतदित्युक्तं भवति। वाक्यार्थरत्नमिति ग्रन्थनाम । तद्नं यथा सर्वेषामुपादेयं तश्रेदमपि रनवच्छृष्टतया विदुषामुपादेयम् । अत एवो- पायनं चिट्ठग्यो ददामीत्युक्तम् । उपायनमुपदा। लोके तु यः कश्चिद्रनं लब्ध्वा अन्येभ्यो न प्रयच्छति, किन्तु रहसि गोपायति। अहं तु विद्वद्भयो ददामीत्युक्तं भवति । तथा च वाक्यार्थरत्नसंज्ञकं ग्रन्थ रचयामीति प्रतिज्ञातं भवति ॥३॥ 4 प्रवृत्तिक-घ. 5 धिम-ङ. 1 नुवादेनैवा-घ. 2 प्रदम्-घ. 3 त्यत आ-ग.ख. 6 स्य निर रायपरिसमाप्तिं मत्वा ग्रन्थमवगाहनेनाऽस्य माहा-घ मात्रमेव-ङ. 7 स्वमहत्वम-क. ख. 8 कथन- ४ सुवर्णमुद्रिकासहिते वाक्यार्थरत्ने नन्वस्य ग्रन्थस्य कृत्स्नशास्त्रप्रमेयसम्बन्धित्वाभावेन प्रकरणतयैकदेशसम्बन्धि- त्वेऽपि शास्त्रे प्रमेयान्तराण्यपि सन्ति, किमिति तदनिरूप गेन वाक्यार्थोपयोगिप्रमेयमेव निरूप्यत इत्यत्राह- धर्म च विषयीकृत्य मीमांसा वर्तते स च । चोदनालक्षण इति भगवानाह जैमिनिः ॥४॥ श्रूयते वचनं वेदे यत्क्रिया याः प्रवर्तकम् । तच्चोदनेति मुनिना शबरस्वामिनेरितम् ॥ ५ ॥ प्रवृत्तिजनकं चार्थमभिधत्ते हि यद्वचः। प्रवर्तकत्वं वाक्यस्य तस्य युक्तं न तु स्वतः ॥ ६॥ प्रवृत्तिजनकश्चार्थः को वेत्यत्र विचार्यते । तत्र विप्रतिपद्यन्ते वादिनो बहुधा तथा ॥७॥ अथातो धर्मजिज्ञासा' (पू. मी. अ. १ पा. १ सू. १) इति धर्मस्य विचारविषयतया मीमांसारम्भं प्रतिज्ञाय को धर्म इत्याकाङ्क्षायां , चोदनालक्षणोऽर्थों धर्मः" (पू. मी. अ. १ पा. १ सू. २) इत्युक्तं भगवता मीमांसाशास्त्रकृता जैमिनिना। तत्र चोदनाशब्दार्थ विवृण्वता भाष्यकृता शबरस्वामिना 'चोदनेति क्रियायाः प्रवर्तकं वचनमाहुः' (शा. भा. अ. १ पा. १ सू . २) इत्यभिहितम् । तत्र वचनस्य प्रवर्तकत्वं प्रवृत्तिहेतुभूतार्थाभिधायित्वेनैव युज्यते। न स्वभावतः । इवरथा सर्वत्र वाक्यश्रवणमात्रेणापि प्रवृत्तिप्रसक्तेः । तेन प्रवृत्तिहेतुभूतार्था- भिधायित्वेनैव वाक्यं प्रवर्तकमिति वक्तव्यम् । ततश्च प्रवर्तकस्यैव वाक्यार्थत्वाद्वाक्या- पयोगिप्रमेयमेव निरूप्यते ॥ एतदुक्तं भवति-यद्यपि शास्त्रे प्रमेयान्तराण्यपि सन्ति । तानि तु तत्र तत्राधिकरणे पर्यवसितान्येव निरूपितानि । वाक्यार्थोपयोगिप्रमेयं 6 त्वनेकाधिकरण- विप्रकीर्णत्वेन न पर्यवसितमेकत्र । तथा हि-“ स्वर्गकामो यजेते तावद्गुरुमते स्वर्गकामनियोज्याश्रितयागविषयकृतिसाध्यमपूर्वमित्यत्र कार्यरूपं लिङ्वाच्य- मिति शास्त्रादौ, 7 तत्तु स्थायितया प्रमाणान्तराविषयत्वेनापूर्वमित्यपूर्वाधिकरणे, कृत्यव- च्छेदकत्वेन यागस्य विषयत्वमिति शब्दान्तरनये, क्रियायाः स्थायित्वमनुपपन्नं कारका- श्रितफलविनाश्यत्वादिति बादर्यधिकरणे, फलं प्रति करणीभूतस्यैव यागस्या पूर्व प्रति विषयत्वमिति सर्वशक्तिनये, फलकरणत्वं चौपादानिकं, न शाब्दमिति लिप्सासूत्रे, . "ति वाक्यस्य 1 यां-प्र.घ. वेकाधिकरणप्र-व. 4न यु-ङ. 5 शास्त्रान्तरे-घ. 6 धाऽकथाः-घ. ३ य 'चो-ऊ. वस्तु-ङ. 6वकृति-प्र. घ. 7 प्रथमपरिच्छेदः । स्वर्गकामस्य नियोगाश्रयत्वाभावेन नियोज्यत्वमिति स्वर्गकामाधिकरगे, एवमनेका- धिकरणविप्रकीर्णत्वाद्वाक्यार्थोपयोगिप्रमेयस्य तस्य च शास्त्रे सर्वत्रोपयुक्नत्वात्तदेव प्रवृत्तिहेतुभूतार्थगोचरं वादिविप्रतिपत्ति- निराकरणपुरस्सरं प्रपञ्च यत इति वाक्यार्थ- प्रमेयमेवास्मिन् प्रकरगे प्रतिज्ञातवतः तात्पर्यमिति ॥४-७॥ वादिनां विप्रनिपत्तिमुपपादयितुं वेदान्तिनां मतमादावुपन्यस्यति- धात्वर्थस्येष्टहेतुत्वं केचिदाहुः प्रवर्तकम् । इष्टसाधनभूतो धात्वर्थः प्रवर्तक इति वेदान्तिनां मतम् । 4 (इष्टानिष्टप्राप्ति- परिहारयोरेव पुरुषार्थत्वेन तत्साधन एव लोके प्रवृत्तिदर्शनात् । वेदे च ‘स्वर्गकामो यजेते' त्यत्र यागस्य स्वर्गसाधनत्वमवगम्यते । अतस्तदेव प्रवर्तकमिति भावः ॥ आचार्यमतमाह- प्रवृत्तिजनिकामाहुरपरे शब्दभावनाम् ॥ ८ ॥ शब्दभावना प्रवर्ति कति तान्त्रिका मन्यन्ने। आनयतीत्युक्ते प्रवृत्त्यदर्शनात् । आनयेत्युक्ते प्रवृत्त्यवगमादवगम्यते लिङादीनां तादृशी काचन शक्तिरस्तीति । सैव प्रवर्तिकेत्यर्थः)॥ ८॥ वैशेषिकादिमतमाह- विज्ञाय वक्रभिप्रायं पुरुषो हि प्रवर्तते । अतः प्रवृत्तिजनकः स एवेत्यपरे जगुः ॥९॥ वेदस्येश्वरप्रणीतत्वं मन्यमाना वैशेषिकादयो लोके गामानयेति वाक्यश्रवण- समनन्तरं मध्यमवृद्धप्रवृत्तिदर्शनात् अव्युत्पन्नस्य चाप्रवृत्तरभिप्रायस्यैव प्रतीतस्य प्रवर्तकत्वं मन्यन्त इत्याशयः ॥९॥ न्यायैकदेशिनां मतमाह- विज्ञायाभिमतं वस्तु तदिच्छातः प्रवर्तते । पुमानतः प्रवृत्तेस्तु हेतुरिच्छेति केचन ॥१०॥ यद्यपि ज्ञानानन्तरमेव प्रवृत्तिः, तथापीच्छाया अभावे प्रवृत्त्यदर्शनात् यद- नन्तरं यदृश्यते तत्तस्य कारण” मिति न्यायेन प्रवृत्तरिच्छेव कारणमिति न्यायैक- देशिनः सङ्गिरन्त इत्यर्थः ॥ १० ॥ 1 श्रयाभावेन-क. त्तिपु-क. 3 न्तिनो मन्यन्ते-घ. 4 अयं कुण्डलितः पाठः घ.-पुस्तके न दृश्यते. - , सुवर्णमुद्रिकासहिते वाक्यार्थरत्ने .. - इदानी स्वसम्प्रदायमाह- गुरुस्तु लौकिके वृद्धव्यवहार रे] समीक्ष[क्ष्य] ते। प्रवृत्तिजनकं कार्यज्ञानमित्याह तद्यथा ॥ ११ ॥ शब्दार्थप्रतिपत्तेः सङ्केतग्रहणपूर्वकत्वात्, सङ्केतग्रहणस्य 1च वृद्धव्यवहारनि- बन्धनत्वात्, वृदृव्यवहारस्य च कार्यसमवलम्बितया दृष्टत्वात्कार्यमेव प्रवर्तकमिति गुरुसम्प्रदायविद इति भावः ॥११॥ अथ कोऽसौ वृद्धव्यवहारः, यद्वशात्कार्यमेव प्रवर्तकतयाऽभिहितमित्यत्राह- नियुब्ते गामानयेति लोके कंचन कश्चन । गवानयनमुद्दिश्य स पुमांश्च प्रवर्तते ॥१२॥ तोत्थं पार्श्वतः स्थित्वा व्युत्पित्सुरधिगच्छति । उत्तमवृद्धवाक्यश्रवणसमनन्तरं प्रवर्तमानं मध्यमवृद्धमुपलभ्य पार्श्वस्थस्य व्युत्पित्सोः कार्य एव व्युत्पन्नत्वात्तदेव प्रवर्तकमित्यर्थः ॥ १२ ॥ ननु ब्युत्पित्सुः कथमनुमिनोतीत्याशङ्कयानुमानप्रकारमाह- बुद्धिपूर्वयमप्यत्र वृत्तिर्भवितुमर्हति ॥ १३॥ प्रवृत्तिहेतुतो यहन्मत्प्रवृत्तिः पुरातनी । गामनयेत्युत्तमवृद्धवाक्यश्रवणसमनन्तरमेव प्रवर्तमानस्य प्रवृत्तिरिह पक्षः, बुद्धिपूर्वकत्वं साध्यते प्रवृत्तित्वेन हेतुना, स्वप्रवृत्तिर्दृष्टान्तः ॥ १३ ॥ ननु प्रवृत्तेर्बुद्धिपूर्वकत्वेऽपि कार्यस्य प्रवर्तकत्वसिद्धिः कथमित्यत्राह- इयं च बुद्धिर्युक्ततद्वाक्यश्रवणहेतुका ॥१४॥ असत्यन्यनिमित्त हि यद्वाक्यश्रवणगामिनी । आद्यानुमानेन प्रवृत्तेबुद्धिपूर्वकत्वे सिद्धे अनुमानान्तरेण बुद्धेर्वाक्यश्रवणहेतुकत्वं साध्यते । इयं च मध्यमप्रवृत्तिहेतुभूता मध्यमवृद्धस्य बुद्धिरेतद्वाक्यश्रवणहेतुका भवितुमर्हति । असति निमित्तान्तरे वाक्यश्रवणसमनन्तरभावित्वात् ॥ १४ ॥ अस्यानुमानस्य व्याप्तिमाह- यद्यस्यानन्तरं प्राप्तं तत्तजन्यं हि युज्यते ॥१५॥ व्याप्तिप्रदर्शनेनैव समनन्तरभावि दृष्टान्ततया अवगन्तव्यम् ॥ १५॥ तस्याः .. 1च व्यवहाराधीन-क. ख. ग. 2 त्तिदृष्टान्तेन-क. ख. 3 व. कारणस-घ.

- १ का । कथमेतावता कार्यस्य प्रवर्तकत्वनिश्चय इत्यत्राह- इत्थं निश्चित्य पुरुषमानयन्तं तथैव गाम् । विलोक्यावैति वाक्याथै गवानयनकार्यताम् ॥१६॥ अथ चव्युपिन्सुर्गामानयन्तं मध्यमवृद्धमवलोक्य गामनयेति वाक्यस्यानिर्धारित- पदार्थविशेषं गवानयनरूपं कार्य वाच्यार्थ इति प्रतिपयने ।। १६ ॥ कथं तर्हि पदार्थविशेषप्रतिपत्तिरित्यत्राह- ततश्च गां वधानेति गां मुञ्चति च वाक्यतः । प्रतिशब्दमथावापोद्धाराभ्या मर्थनिर्णयः॥१७॥ आवापो नाम पदान्तरप्रक्षेपः, उद्धारस्तु पूर्वपदपरित्यागः, ताभ्यां प्रतिपदमर्थ- विशेष प्रतिपत्तिः । तथाहि --गामनयेति वाक्यादानीतां गां दृष्ट्वा गां बधाननि नियुङ्ते, सोपि गां बनानि । गां मुञ्चन्युक्त मुञ्चति । ततश्च गोपदस्य सर्ववाक्येष्वनुवृत्तत्वात् तस्य सास्नादिमती व्यक्तिरर्थः । आननि पदत्य व्यावृत्तत्वादानयनरूपकार्यमर्थः । नेत्यस्य बन्धनमर्थः । मुञ्चत्यम्य मोचनमित्येवं प्रतिपदमर्थविशेष प्रतिपद्यते ॥ १७ ॥ एवं वृद्धव्यवहारबलात्कार्यरूप एवार्थे लोकव्युत्पत्त्यवगमात् वेदेऽपि तथैव कार्य प्रवर्तकतयाऽङ्गीकर्तव्यमित्युपसंहरति- ततो लोकानुसारेण कार्यमेव प्रवर्तकम् । ननु पूर्वोपन्यस्तानां मतानां परिपन्थितयाऽवस्थाने कथं कार्यमेव प्रवर्तकमिति मतसिद्धिस्तत्राह- न चेष्टहेतुतादीनां प्रवृत्तिं प्रति हेतुता ॥ १८ ॥ सत्यम्, तानि मतानि निर्वहन्ति चेन्नास्मन्मतसिद्धिः । तान्येव तु न निर्वहन्तीत्यर्थः ॥१८॥ तत्रादाविष्टसाधनता प्रवर्ति कति मतं दृषयितुं किमिष्टसाधनतामानं प्रवर्तकं, उत धात्वर्थगतमिष्टसाधनत्वमिति विकल्पं मनसि निधाय आद्य पक्षमुपन्यस्य दृषयति- इष्टसाधनताज्ञानं प्रवृत्ति जनयेद्यदि । प्रवृत्तिं न कथं कुर्यादिन्दुमण्डल ईप्सिते ॥ १९ ॥ इन्दुमण्डलादेरपि समीहितसाधनत्वात्तत्रापि प्रवृत्तिः स्यादिति भावः ॥ १९ ॥ - 1 थेनिश्चयः-घ.

सुवर्णमुद्रिकासहिते वाक्याथरत्ने :॥ २०॥ - - द्वितीयमनूद्य दूषयनि- यदि प्रवृत्तिहेतुः स्याद्धात्वर्थस्येष्टहेतुता। अतीतादौ च जनयेत्प्रवृत्तिं सेष्टहेतुता ॥२०॥ अतीतानागतवृष्टयादिधात्वर्थस्यापि समीहितसाधनत्वेन तत्रापि प्रवृत्तिर्भवे- दित्यर्थः विशेषमाशङ्कते- अथ कृत्यहधात्वर्थस्येष्टहेतुत्वमिष्यते । अकृत्यर्हतयाऽतीतं प्रवृत्तेर्विषयो न चेत् ॥ २१ ॥ कृनियोग्यधात्वर्थगतमिष्टसाधनत्वं 1 प्रवृत्तिहेतुः । अतीतवृष्टयादिरूपधात्वर्थस्य कृतियोग्यत्वाभावान्न प्रवृत्तिहेतुत्वमिति वैषम्यमित्यर्थः ॥ २१ ॥ तदेतदृषयितुं विकल्पयति कृतिजन्यत्वमहत्वं कृत्युद्देश्यत्वमेव वा। किमिदं कृतियोग्यत्वं कृतिजन्यत्वं वा कृत्युद्देश्यत्वं वेति विकल्पार्थः ॥ आद्यमनूद्य क्षयति- यदि स्यात्कृतिजन्यत्वं तदतीतेऽपि विद्यते ॥ २२॥ अतीतादेरपि कृतिजन्यत्वेन तत्रापि प्रवृत्तिः स्यादेवेति भावः ॥ २२॥ द्वितीयमनूद्य स्वमताविरोधित्वेनाङ्गीकरोति- अथोच्येताहता कृत्युद्देश्यतेति न तन्मतम् । गुरुतन्त्रविरोधि स्याद्गुरुणा हि समीरितम् ॥२३॥ कृत्युद्देश्येष्टविज्ञानहेतुत्वात्कार्यधीरिति । शब्दभावना प्रवृत्तिहेतुरिति तान्त्रिकमतं दूषयितुमनुवदति- यच्च प्रवर्तिका शब्दभावनेति समीरितम् ॥२४॥ अयुक्तमेव तत्तस्याः शब्देनानभिधानतः। शब्दनाभिहितोऽर्थः प्रवर्तक इति वक्तव्यम्। शब्दभावनायास्तु । शब्दाभिधान- गोचरत्वाभावेन प्रवर्तकत्वं न युज्यत इत्यर्थः ॥ २४ ॥ अनभिधानमेव कथं तत्राह- यतः शब्दो नाभिधत्ते स्वयं व्यापारमात्मनः ॥२५॥ शब्दस्य स्वव्यापारं स्वयमेवाभिधातुमक्षमत्वादिति भावः ॥२५॥ - 1 प्रवर्तकमिति-क. ख. व हि-ड. तियोग्यत्वं-.क.

प्रथमपरिच्छेदः .. News- ननु कथं शब्दभावनायाः शब्दव्यापारत्वं, कथं वा शब्दनाभिधानं तत्राह- अभिधाभावना ह्यषा गीयते शब्दभावना । सा च व्यापार इत्येवं व्याख्यातं पूर्वसू रेभिः ॥२६॥ अयमभिप्रायः-शब्दभावना नाम अभिधाभावना आचार्यरुभयथाऽपि व्यव- ह्रियमाणन्वात् । तथा हि-लिङ्गादियुक्तवाक्येषु द्वे भावने अवगम्यते। शब्दभावना अर्थभावना चेत्युक्तमेकत्र । अन्यत्र नु- अभिधाभावनामाहुरन्यामेव लिङादयः । अर्थात्मभावना त्वन्या सर्वाख्यातेपु गम्यते।। (नन्त्रवा. अ. २ पा. १ अधि. :) इत्युक्तम् । तथा च भाव्यभवनसमर्थो भावकव्यापारो भावनति भावनासामान्य- लक्षणपर्यालोच'नयापि व्यापार एव शब्दभावना । तत्रापि व्यापार्यभूताया अर्थभाव- नायाः प्रकाशने उत्पादने वा समर्थस्य शब्दस्य व्यापार इत्येव लक्षणानुगतिर्वनव्या, ततो न शब्दनाभिधीयत इति ॥ २६ ॥ अथाऽभिधाभावनाशब्दार्थपर्यालोचनायामपि व्यापाररूपैव शब्दभावनेनि वक्तुं पूर्वाचार्योक्तं " अभिधाभावनामाहु" रित्यस्य वार्तिकस्य व्याख्यानं प्रदर्शयति- अभिधीयत इत्येवमभिधा सा प्रवर्तिका । सैव पुंसो भावयति प्रवृत्तिमिह भावना ॥२७॥ अभिधाभावने त्यत्र द्वेधा गतिः । अभिधा चासौ भावनेत्येकः पक्षः। अभिधाया भावनेत्यपरः । तत्राद्यपक्षे अभिधीयत इत्यभिधा प्रवर्तना, सैव पुरुषप्रवृत्तिं भाव- यतीति भावनेत्यर्थः ॥ २७ ॥ पक्षान्तरमाह- यद्वेष्टसाधनत्वस्याभिधानमभिधोच्यते। सैव भावयतीत्येवं प्रवृत्तिमिह भावना ॥२८॥ अभिधा नामेष्टसाधन त्वस्याभिधानम् । सैव पुरुषप्रवृत्तिं भावयतीति भावने- त्यर्धः ॥२८॥ अभिधाया भावनेति द्वितीयं पक्षमाह- यद्वाभिधत्त इत्येवमभिधाशब्द उच्यते । तस्य प्रवृत्तौ कर्तुस्सा भावनाव्यापृतिर्मता ॥ २९ ॥ 1 चनायामपि ङ. त्यस्य-क.ख. अस्य प्रवृत्तौ कर्तृत्वं-घ. । - 2 सुवर्णमुद्रिकासाहेते वाक्याथरत्ने अभिदत्त इत्यभिधा शब्दः । तस्य पुरुषप्रवृत्तौ कर्तृत्वं प्रतिपद्यमानस्य व्यापारो एवं त्रिपकारमभिधाभावनाव्याख्यानम् । तथा च पक्षत्रयेऽपि व्यापार एव शब्दभावनेत्यविरोध इत्याह- इत्थं त्रिष्वपि पक्षेषु व्यापारः शब्दभावना । ततः किमित्यत्राह- स्वव्यापारं ततः शब्दो नाभिधत्त इतीर्यते ॥३०॥ तत्राद्यपक्षे प्रवर्तना तावत्पुरुषसमवेता शब्दव्यापार इति न शक्यते वक्तुम् । अभिधानमेवाभिधेति द्वितीयपक्षे सैव भावनेति शक्यते वक्तुम् । अभिधान- स्याभिधान्तराभावात् । अभिधा नाम शब्द इति तृतीयपक्षे शब्दव्यापारो भावना चेत्तस्याश्शब्देनाभिधानमनुपपन्नम् , स्वव्यापारस्य स्वेनैवाभिधातुमशक्यत्वात् । अर्थाभिधाने हि करणस्य शब्दस्य व्यापाराभावे " नाव्यापृतं करणं भवती"ति न्यायेन व्यापारोऽवश्यमङ्गीकरणीयः। ततश्च व्यापारस्याभिधाने व्यापारान्तरापेक्षा- यामनवस्था स्यादिति भावः ॥३०॥ प्रकारान्तरेणापि शब्दभावनायाः प्रवर्तकत्वमनुपपन्नमिति वक्तुमाह- किञ्च प्रवृत्तिजनिका ज्ञाता स्याच्छब्दभावना। उताशाता, किमियं लिङाद्यभिधेया शब्दभावना ज्ञाता सती प्रवृत्तिं जनयेत् आहोस्वि- दज्ञाता॥ द्वितीयपक्षे दोषमाह- न तावत्स्यादज्ञाताऽतिप्रसङ्गतः ॥३१॥ अज्ञाताऽपि यदि प्रवृत्तिं जनयेत् सर्वत्र सर्वदा जनयेत् । अविशेषादिति भावः ॥३१॥ ज्ञाता प्रवृत्तिं जनयतीत्याद्यपक्षमपि द्वेधा विकल्पयति- यदि ज्ञाता तदा वाच्यं स्वतो ज्ञाताऽथ वाऽन्यतः। ज्ञाता प्रवृत्तिं जनयेदित्यपि पक्षे सा किं स्वयमेव स्वतो ज्ञाता, अथान्यस्मा- ज्ज्ञापकहेतोरिति विकल्पार्थः ॥ mama- 1 रशब्द-क. 2 किमित्याह-क. 3 पारान्तरम-घ.

प्रथमपरिच्छेदः ३ : पक्षद्वयेऽपि दोषमाह- आत्माश्रयत्वमाये स्याद्वितीये त्वनवस्तितिः ॥ ३२ ॥ स्वत एव स्वयं ज्ञायत इनि पक्षे स्यादात्माश्रयत्वम् । तच्च स्वस्कन्धारोहणकल्प- वादनुपपन्नम्। अन्यस्माज्ज्ञापकहेतोरिति पक्षे तस्याप्यन्यापेक्षायां हेत्वन्तरन् । एवं नस्य, तस्यापीत्येवमनवस्था मूलक्षयकरी स्यादिति भावः ॥ ३२ ॥ ननु शब्दभावनाया लिडायभिधेयत्वे स्यादयं दोपः । लक्ष्यत्वे तु नायं दोष इति शङ्कते- अथ नैवोच्यते शब्दभावनाऽपि तु लक्ष्यते । लिङति, तर्हि वृत्तिद्वयनसकेरयुक्तमेतदिति परिहरति-- अनुपपन्नं यल्लिङो वृत्तिद्वयं भवेत् ॥३३॥ तदेव कथमित्याशङ्कयोपपादयति- तथा हि वृत्तिर्वाक्यार्थभावनायां लिङो मता। वृत्तिाक्षणकी शब्दभावनायां निगद्यते ॥३४॥ अयमभिप्रायः-लिङादियुक्तवाक्येषु द्वे भावने अवगम्यते । शब्दभावना अर्थ- भावनाचेति। पूर्वाचार्याभिधानादुभयमपि शब्दगम्यमेवेति मन्तव्यम्। तच्च नोभयमपि शब्दाभिधेयम् । उक्तदोषापत्तेः । “अन्यायश्चानेकार्थत्व "मिति न्यायस्य चानुप- पन्नत्वात् । किन्तु शब्दभावना लक्ष्यते, अभिधीयते त्वर्थभावनेति वक्तव्यम् । तथा चैकस्यैव लिङ्पदस्य शब्दभावनायां लक्षणावृत्तिः, अर्थभावनायां मुख्यवृत्तिरित्येवं वृत्तिद्वयं स्यादिति ॥३४॥ न चैतद्यज्यत इत्याह- सकृदुच्चरितश्शब्दो न वृत्तिद्वयमर्हति । इति ॥ किंच शब्दभावनाया लिङादिलक्ष्यत्वे शब्दान्तरेण मुख्यत्वं वक्तव्यम् । रोधः- कूलादिशब्देषु मुख्यस्यैव तीरादेर्गङ्गादिपदलक्ष्यत्वदर्शनादित्याह- यदि स्याल्लक्ष्यता शब्दभावनाया लिङादिना ॥३५॥ मुख्यताऽन्यत्र वक्तव्या मुख्यस्यैव हि लक्ष्यता । , 1 अर्थद-व. 2 ति वक्तव्यम्-ङ.

सुवर्णमुद्रिकासहिते वाक्यार्थरत्ने लक्ष्यत्वे न्यायविरोधोपीत्याह न विधौ परः शब्दार्थ" इति न्यायान्न लक्षणा ॥३६॥ पूर्वग्रन्थविरोधोऽपि लक्ष्यतायामित्याह- लक्ष्यता यदि पूर्वेषां ग्रन्थानां विप्लवस्तदा । लिङादयोऽपि कुर्वन्ति प्रेरणां प्रवदन्ति च ।। ३७ ।। लिङादियुक्तवाक्येषु भावनाद्वयमित्यपि । विरुध्येत ग्रन्थजातं, " लिङादयोऽपि कुर्वन्ति प्रेरणामभिदधति चे" ति लिङादियुक्तवाक्येषु द्वे भावने अवगम्यते । ' शब्दभावना अर्थभावना चेती' त्यादि ग्रन्थेषु द्वयोरपि शब्दार्थत्व. प्रदर्शनादित्यर्थः॥ नन्वेतत्समस्तानुपपत्तिपरिहाराय द्वयोरप्यभिधेयत्वमेव वदाम इत्यत्राह- द्वयो प्यभिधेयता ॥ ३८॥ कुत इत्याशङ्कय विकल्पासहत्वादित्याह- 1 सकृत्क्रमाभिधानेन विकल्पे सत्ययुक्तितः। किं द्वयोर्युगपदाभिधानं क्रमेण वेति विकल्पार्थः ॥ तत्राद्यपक्षे दोषमाह- अनेकार्थत्वदोषः स्यादभिधाने सकृद्वयोः ॥ ३९ ॥ अन्यायश्चानेकार्थत्व "मिति न्यायादुभयोर्युगपदभिधानमयुक्तमिति भावः ॥ द्वितीये दोषमाह- क्रमेण चाभिधाने तु विरम्य व्यापृतिर्भवेत् । शब्दबुद्धिकर्मणां विरम्य व्यापाराभावाद्वयोः क्रमेणाभिधानमयुक्तमिति भावः ॥ एवं शब्दभावनायां प्रवर्तकत्वं निराकृत्योपसंहरति- तन्न प्रवृत्तिजनिका युज्यते शब्दभावना ॥ ४०॥ अथाभिप्रायविज्ञानं प्रवर्तकमिति पक्षं दूषयितुमनुवदति- यच्चाभिप्रायविज्ञानं प्रवर्तकमितीरितम् । 1 सकृत्तथाऽभि-घ.

प्रथमपरिच्छेदः तदृषयनि- तन्नाभिप्रायरूपिण्याः परबुद्धरजानतः ॥ ४२ ॥ अभिप्रायो नाम अध्यवसायः । न च तद्विज्ञानं युनं, परबुद्धेरप्रत्यक्षत्वादिनि मावः ॥४१॥ ननु परबुद्धेरप्रत्यक्षत्वेऽपि परप्रयुक्तवाक्यादवगम्यत इति शङ्कते- अथ वाक्याद्विभातीति परिहरनि-- विकल्पे सत्ययुक्तितः । अभिप्रायः पदार्थो वा उत वाक्यार्थ इष्यते ॥४२॥ परप्रयुक्तवाक्यात्पराभिप्रायोऽवगम्यमानः किं पदार्थत्वेनावगम्यते, उत वाक्यार्थ- त्वनेति विकल्पार्थः ॥ ४२ ॥ पदार्थत्वेनेति वक्तुं न शक्यते । गवादिपदानां स्वार्थाभिधायकन्वेनाभिप्रायाभि- धायकत्वाभावादित्याद्य दूषयति- न तावच्छक्यते वक्तुं पदार्थ इति यत्पदैः । गवादिरूपस्यार्थस्याभिधानं न धियो मतम् ॥ ४३ ॥ द्वितीयं दूषयति- न च वाक्यर्थता युक्ताऽभिप्रायस्य द्वयी हि सा। पदार्थानामन्वयो वा पदार्था वाऽन्वितास्तथा ॥४४॥ वाक्यार्थ इत्यभिमतमभिप्रायस्तु नोभयम् । अभिप्रायो 2 वाक्यार्थत्वेनावगम्यत इत्युक्तम् । अन्विताः पदार्थाः, पदार्थाना- मन्वयो वा वाक्यार्थ इत्यङ्गीकारादभिप्रायस्य चोभयोरन्यतरत्वाभावेन वाक्यादवगते- रयुक्तत्वादिति भावः ॥ ननु विमतवाक्यं विशिष्टाभिप्रायवद्भवितुमर्हति, वाक्यत्वात्, सम्मतवाक्य- वदित्यनुमानेनाभिप्रायविज्ञानं + भविष्यतीनि शङ्कते- अभिप्रायानुमानं चेद्वाक्यत्वादिति हेतुना ॥४५॥ क्यादव-क. ख. इत्युक्तम् -ङ. 1 भिधायकत्वेनाभिप्रायानभिधायकत्वात् -घ. 4 फलिष्यतीति-क. ख.

नुवर्णमुद्रिकासहिते वाक्या!रत्ने manon- विकल्पासहत्वेन परिहरति- न तद्युक्तं विशेषोऽत्र सामान्य वाऽनुमीयते । अभिप्रायविशेषोऽनुमीयते सामान्य वेति विकल्पार्थः ।। अद्य दूषयति- नाद्यो व्याप्तिग्रहाभावात् विशेषविषयव्याप्तौ दृष्टान्ताभावादित्यर्थः ।। द्वितीये दोषमाह- द्वितीये तु व्यवस्थिता ॥ ४६॥ प्रवृत्तिोंपलभ्येत अभिप्रायसामान्यानुमानेन प्रवर्तमानो गामानयेति वाक्यादश्वानयनेऽपि प्रवर्ततेति माव: ॥ एवमभिप्रायस्य प्रवर्तकत्वं निरस्य निगमयति- ततोऽयं न प्रवर्तकः। पराभिप्रायस्य मध्यमवृद्धेन ज्ञातुमशक्यत्वादभिप्रायः प्रवर्तक इति पक्षो न युक्त इति भावः ॥ इच्छायाः प्रवर्तकत्वपक्षं दूषयितुमनुवदति- अभ्यदायि च येच्छायाः प्रवृत्ति प्रति हेतुता ॥४७॥ दूषयति- न साऽपि युज्यते यस्मान्न मीमांसासहिष्णुता । ननु ज्ञानेच्छाप्रयत्नानां क्रमभावित्वेन दृष्टत्वात्कथमिच्छातः प्रवृत्तिर्न युक्तेत्यत्राह - प्रवृत्तिर्यद्यपीच्छातः पुरुषस्य हि दृश्यते ॥४८॥ अपि सा सत्तया तस्या ज्ञायमानतया न तु। प्रवर्तकं ज्ञायमानतयाऽत्र तु विचार्यते ॥४९॥ इच्छानन्तरं प्रवृत्तिः प्रकाशते, सा विच्छायाः सत्तामात्रेणैव भवति, न तु वाक्यार्थतया ज्ञायमानत्वेन। इह तु शास्त्रे वाक्यार्थतया ज्ञायमानमेव प्रवर्तकतया विचार्यते, अतो नेच्छा प्रवर्तिकेति भावः ॥४९॥ सत्यम्, 2 1त्वादिति भावः-क. ख. 2 ज्ञानानन्तरं-ङ.

प्रथमचरिच्छेदः : - - किं ताह ज्ञायमानतया प्रवर्तकं तत्राह - तञ्चोक्तरीत्या कार्य स्यान्नान्याक्तिविरोधतः । वृद्धव्यवहारानुगुणं प्रवृत्तिजनकं कार्यमेव निर्णीतम् । अन्यत्त्वानुगुण्याभावान्न प्रवर्तकमित्यर्थः 1॥ ननु लोके वृद्धव्यवहारबलात्कार्यमेव प्रवर्तकमस्तु, वेद त्वन्यदेव किं न स्यादित्यत्राह- अन्वयव्यतिरेकाभ्यां यतो लोके प्रवर्तकम् ॥ ५० ॥ कार्यमेव ततो वेदे तदेवेष्टं प्रवर्तकम् । अयं भावः–य एव लौकिकाः शब्दास्त एव वैदिकास्त एव च तेपामा इति लोकवेदाधिकरणे (पू. मी. अ. १ पा. ३ अधि. ९) निर्णीतम् । तथा सत्यन्वयव्यतिरेक- बलाढुन्द्धव्यवहारानुगुण्येन लोके कार्यस्यैव प्रवर्तकतया निश्चितत्वाद्वेदेऽपि तदेव प्रवर्त- कतयाऽङ्गीकर्तव्यमिति ॥ नन्वेवं कार्याभिधायिपदस्य कार्यपरत्वेऽपि पदान्तराणामन्यार्थतया नैक- रूपता स्यात्तत्राह- तस्मात्कार्यान्वितं सर्व पदानां वदतामपि ॥ ५१ ॥ स्यात्कार्यपरता साक्षाल्लिङ्गादेस्त्वभिधानतः। सत्यम् , लिङादिपदस्याभिधायकत्वेनैव कार्यपरत्वम् । इतरपदानामपि कार्या- न्वितस्वार्थाभिधायकत्वेनैव कार्यपरत्वं सेत्स्यति । कार्यान्वयं विना स्वतन्त्रार्थाभिधाने सामर्थ्याभावात् । अन्वि-ताभिधानस्य सम्प्रदायतः सप्तमाद्यसिद्धत्वाद्वाक्यार्थमातृ- कायामुपोद्धातपरिच्छेदे शालिकानाथेन निपुणतरमुपपादितत्वान्नेह प्रपञ्चयत इति भावः ॥ उक्तप्रकारेण कार्यस्य लोके प्रवर्तकतया अनुभवसिद्धत्वाद्वेदेऽपि तदेवाङ्गीकर 8. णीयम् । तथा सति लोकवेदाधिकरणन्यायः स्यादित्याह- तदेव कार्यमेवैकरूपत्वाल्लोकवेदयोः ॥५२॥ प्रवर्तकतया ज्ञेयं विशेषस्त्वनयोरियान् । न च लोके वृद्धव्यवहारानुगुण्येन प्रवर्तकत्वं कार्यस्यास्तु। वेदे त्वपौरुषेये वृद्धव्यवहाराभावात्कथं तत्र कार्यार्थनिश्चय इति वाच्यमित्याह- लोके क्रियात्मकं कार्य स्यादृद्धव्यवहारतः ॥ ५३॥ 1 मिति भावः-घ. 2 अयं श्लोकः ख.-पुस्तके नोपलभ्यते. ॐ इतरस्यापि ङ. 4 तानभि-घ. 5 दानतः-घ. 6णीयमिति-घ. :

सुवर्णमुद्रिकासहिते वाक्यार्थरत्ने तदेव चैदिकं कार्य किं वाऽन्यदिति संशये । समभिव्याहृताच्छब्दादन्यदेवेति निश्चयः ॥१४॥ 1 कार्यस्य प्रवर्तकन्वं तावदुभयत्र लोकवेदाधिकरणसिद्धम् । तच्च कार्य वृद्धव्यव- हारवलाक्रियात्मकमपि सिद्धम् । वेदे तु वृद्धव्यवहाराभावास्क्रियात्मकं वा स्यात्, अन्यद्वेति संशयो भवति । स च संशयः पदान्तरसमभिव्याहारबलाक्रियातिरिक्त कार्यार्थत्वनिर्णयेन निराक्रियत इति भावः ॥ ५३-५४॥ नन्वत्र किं वा पदान्तरं समभिव्याहृतम् । कथं वा तदृशाक्रियातिरिक्त- कार्यार्थत्वनिश्चय इत्यत्राह स्वर्गकामपदं तत्र समभिव्याहृतं लिङा । नियोज्यमभिधत्ते तदिति षष्ठाद्यनिश्चितम् ॥ ५५॥ साध्यस्वर्गविशिष्टोऽसौ स्वकाम्यस्यापि साधनम् । अवगच्छति कार्य, "स्वर्गकामो यजेते "त्यत्र लिङ्पदसमभिव्याहृतं स्वर्गकामपदं नियोज्याभि- धायकमिति घटाये स्वर्गकामाधिकरगे निरूपितम् । अत्र कामशब्दबलात्स्वर्गस्य साध्यत्वं प्रतीयते । स च स्वर्गः साध्यत्वेनैव 2 नियोज्यविशेषणं भवति । तथा च साध्यस्वर्गविशिष्टो नियोज्यः स्वकाम्यमानस्वर्गसाधनमपि कार्यत्वेनावबुध्यत इत्यर्थः ॥ ननु स्वकाम्यमानस्वर्गसाधनतया क्रियामेव कार्यमवबुध्यताम् । तथा च लोकवेदयोरैकरूप्यमेव स्यात्तत्राह- तत्काम्यं न प्राप्यतेऽधुना ॥ ५६ ॥ अन्यदेशेऽन्यकाले च देहेनान्येन भुज्यते । ततः कार्यतयाऽवैति न क्रियां क्षणभङ्गिनीम् ॥ ५७ ॥ तद्वेदे स्थायिना भाव्यं कार्येणाऽऽलोचने सति । सत्यम् , क्रियामेव कार्यतयाऽवगच्छेत्, यदि तत्फलमधुना प्राप्येत । तत्तु देशान्तरे कालान्तरे देहान्तरे भोग्यम् । क्रिया च क्षणिकतया प्रत्यक्षसिद्धा। अतस्तां कार्यत्वेन नावगच्छति । किन्तु कालान्तरभाविफलं पर्यालोच्य ताइक्फलप्रापर्क स्थाय्येव किञ्चित्कार्यत्वेनावबुध्यत इत्यर्थः ॥ ५६-५७॥ 1कार्यप्रवर्तक-ड. 2 योगवि-क. 3 नमेव-ङ. 4 कार्यत्वेनाव-घ.

प्रथमपरिच्छेदः ननु पदान्तरसमभिव्याहारबलात्पदार्थनिर्णयः कुत्र मिड इत्यत्राह- समभिव्याहृतः शब्दो ह्यस्य शब्दार्थबोधने ॥ ५८॥ हेतुर्यववराहाधिकरणे वाक्यशेषतः । वराहवेतसयवशब्दानामर्थनिश्चयात् ॥ ५९ ॥ पदान्तरसममिव्याहारबलात्पदार्थनिर्णयः प्रथमाध्यायतृतीयपादे यववराहाधिकरणे (अधि. ४.) प्रसिद्धः । तथा हि-" यवमयश्चरुर्भवति" "वाराही उपानहावुपभुञ्चते " 1 वैतसे कटेऽश्वं चिनोति' इत्यत्र किमेषामप्रामाण्यमुत प्रामाण्यमिनि चिन्तायां यववराहवेतसशब्दानां प्रियङ्गुवायसजम्बूवाचकत्वमनार्या व्यवहरन्ति । आर्यास्तु दीर्घकसूकरवानीराभिधायकत्वम् । तथाचाऽऽर्यानार्यव्यवहारविप्रतिपत्त्या यवादिपदार्था- नध्यवसायादप्रामाण्यमनध्यवसितार्थपदवद्वेदवाक्यानामिति प्राप्ते- राद्वान्तः-यद्यपि विरुद्व व्यवहारद्वयम् । तथाऽपि वाक्यशेषानुगुण्यमार्यव्यवहार- स्यास्ति । न त्वनार्यव्यवहारस्य । इतरौषधिम्लानदशायामनार्यव्यवहारसिद्धयवशब्द- वाच्यप्रियङ्गनां मोदमानत्वाभावात् । गवां च वत्सबुद्ध्या वायसानुधावनस्यायुक्त- त्वात् । जम्ब्बाश्चाप्सु जन्माभावात् । तस्माद्वाक्यशेषबलाद्यववराहवेतसशब्दानां दीर्घशूकसूकरवानीरा एवार्थाः, न प्रियङ्गुवायसजम्ब्ब इति पदार्थाध्यवसानस्य विद्यमानत्वादध्यवसितार्थपदवद्वेदवाक्यानां प्रामाण्यमिति स्थापितत्वादिति भावः ॥ क न केवलं यववराहाधिकरण एव सममिव्याहारबलात्पदार्थाध्यवसानं, स्थलान्तरे- ऽप्यस्तीत्याह- अक्ता उपदधातीति चाअनद्रव्यसंशये। वाक्यशेषेण 'तेजो वै घृतमित्यर्थनिश्चयात् ॥ ६०॥ तत्रैवाध्याये चतुर्थपादे [एकोनविंशाधिकरगे] " भक्ताः शर्करा उप- दधाती'त्यत्र अप्रामाण्यं प्रामाण्यं वेति चिन्ता । यद्यप्यक्तशब्दस्याञ्जनद्रव्ययुक्तमर्थो भवति । तत्त्वञ्जनद्रव्यं धृततैलबसादीनामन्यतमं भवति । तन्निर्णयाभावे चानुष्टानं न सिद्धयतीत्यननुष्ठानलक्षणमग्रामाण्यमिति प्राप्ले- राद्धान्त: यद्यपि घृततेलादीनामन्यतमेनाञ्जन संभवति । तत्तु 'तेजो वै घृतमिति वाक्यशेषाद्धृतमेवेति निर्णयाचाननुष्ठानलक्षणमप्रामाण्यमिति 2 कृष्णशकुनि-ब. 1 वैतसे कटे प्राजापत्यान् सञ्चिनोति (इति शाबरभाष्य)-ग. उन्तरेऽपीत्याह-ङ. 4 अक्ता उपदधाति-. तमवद्भवति-ऊ. VAKYARTHARTNAM, 2 सुवर्णमुद्रिकासहिते वाक्यार्थरने 1 १ " 1 सन्दिग्धेयु वाक्यशेषात् " (पू. मी. अ. १, पा. ४, मू. २६) इत्यत्र स्थापित- मिति भावः ॥ ६॥ तथा चात्र नियोज्याभिधायकस्वर्गकामपदम्मममिव्याहारवलाल्लिङादीनां स्थायि- रूपकार्यार्थत्वं निश्चीयत इत्याह- स्वर्गकामपदनात्र समभिव्याहृतेन च । लिङादीनां स्थायिरूपकायित्वविनिश्चयः ॥६१ ॥ न च वाच्यं यववराहस्थल बाक्यशेषः पदार्थनिर्णयहेतुः, अत्र तु वाक्यस्थमेव पदं पदार्थान्तरनिर्णयहेतुरिनि वैषम्यमिनि । एकवाक्यत्वाभाव तत्रापि निर्णयहेतुत्वा- नुपपत्तेः । न च तत्र पदसमुदायो निर्णयहेतुः, अन्न त्वेकं पदमिति वाच्यम् । अप्रयो- जकवैषम्यमानत्वात् । लोच इह प्रभिन्नकमलोदरे मधूनि मधुकरः पिबती' त्यत्र प्रसिद्धार्थपढ़समभिव्याहारबलान्मधुकरशब्दस्यैकवाक्यगतस्यैवार्थनिश्चयात् । सिद्धे व्युत्पत्तिप्रसङ्गः । निराकरिज्यमाणत्वादिति भावः ॥ ६१ ॥ ननु गुरुमत लिङादीनामपूर्वार्थत्वमेव वदन्ति, न तु स्थायिकार्यार्थत्वम्। अतः कथमुच्यत इत्यत्राह- तच्च कार्य प्रमाणानामन्येपामप्यगोचरम् । लभतेऽपूर्वमित्याख्यामित्युक्तं शालिकाकृता ॥ ६२ ॥ स्थायिकार्यमेव प्रमाणान्तरागोचरं सदपूर्वमित्युच्यते, न तु तब्यतिरिक्तं किंचि- दिति शालिकानाथेनोक्तमित्यर्थः ॥ ६२ ॥ तामेव शालिकामाह- क्रियादि]विभिन्नं यत्कार्य वेद्यं मानान्तरैर्न तत् । अतो मानान्तरापूर्वमपूर्वमभिधीयते ॥ ६३ ॥ क्रियाव्यतिरिक्तं यत्स्थायिकार्यमस्ति तद्वेदव्यतिरिक्तैः प्रमाणे वेद्यते । अत एवं प्रमाणान्तरैः पूर्वमनधिगतत्वादपूर्वमित्यभिधीयत इति शालिकार्थः ॥ ६३ ॥ ननु नियोगार्थत्वमपि क्वचिदुक्तं कथमित्याशङ्कय तदेव स्थायिरूपमपूर्वाख्य- मवस्थाभेदन नियोगसंज्ञां प्रामोतीति शालिकानाथेनैवोक्तमित्याह- अवस्थान्तरमापन्नमपूर्वाख्यं तदेव - हि। नियोगाख्यां लभेतेति तेनैवोक्ता हि शालिका ॥ ६४ ॥ 1 सन्दिग्वे तु -घ. 2वा-ङ.

प्रथमपरिच्छेदः शालिकामेवाह- कार्यत्वेन नियोज्यं च स्वात्मनि प्ररयन्नसौ। नियोग इति मीमांसानिष्णातैरभिधीयते ॥ ६ ॥ अदपूर्व स्वात्मनि पुरुषस्य ‘मसेदं कार्यमि' नि बोधं जनयन् पुरुष नियुङ्लेऽसौ नियोग इति मीमांसानिपुणैरभिधीयत इत्यर्थः ॥ ६५ ॥ अथ कोऽसौ नियोज्य इत्याशङ्का नलक्षणमपि शालिकानाधेनवोनमित्याह- तेनैव हि नियोज्यस्य लक्षगं च समीरितम् । किं तदित्याशङ्कय तदुक्तमेवाह- नियोज्यस्स तु कार्य यस्स्वकीयत्वेन बुध्यते ॥६६॥ यस्तु ममेदं कार्यमिति बुध्यते स नियोज्य इत्यर्थः ॥६६॥ mame क एवं स्वर्गकामपदसममिव्याहारवलेन स्थायिरूपकार्यमपूर्वाख्यं लिडर्थ इति प्रतिपादितमर्थमुपसंहरति- तत्का[म] मिशब्दसमभिव्याहारात्स्थायिरूपिणः । अपूर्वाख्यस्य कार्यस्य लिङादिपदवाच्यता ॥ ६७ ॥ नन्येवं लोके क्रियात्मक कार्य, बेदे त्वपूर्वमिति लोकवेदयोरेकरूपता कथं ? तत्राह- स्थायिरूपमपूर्व यद्वेदवेद्यं तदेव नः । कार्य मानान्तरेणापि वेद्यमित्याह शालिका ॥ ६८ ॥ तामेवोदाहति- कृतिसाध्यं प्रधाः यत्तत्कार्यमभिधीयते । तञ्च मानान्तरेणापि वेधमोदनपाकवत् ॥ ६९ ॥ यत्तावत्प्रधानतया कृत्या साध्यते तत्कार्यमित्युच्यते। तञ्च प्रमाणान्तरेणापि वेद्यते। ओदनं पचेत्युक्ते पाकस्य प्रधानतया कृनिसाध्यत्वेन प्रतीयमानत्वादिति शालिकार्थः ।। ६९॥ 1नियोग -3. 2 तेनवाऽस्ति-घ. * २० सुवर्णमुद्रिकासहित वाक्यार्थरत्ने एवं महता प्रपञ्चेन प्रतिपादितं कार्यमेव प्रवर्तकमिति 1पक्षं निगमयति- ततः प्रवर्तकं कार्यमेष्टव्यं लोकवेदयोः। ऐकरूप्यादताप्यानेतरत्तु प्रवर्तकम् ॥ ७० ॥ उक्तकार्यमेव लोकवेदयोरेकरूपत्वान्प्रवर्तकतयाऽङ्गीकर्तव्यम् । इष्टसाधनत्वादिकं त्वेकरूपत्वाभावान प्रवर्तकमिति भावः ॥ ७० ॥ ।। इत्यहाँ बलदेवविरचितायां वाक्यार्थरत्न तात्पर्यप्रकाशिकायां सुवर्णमुद्रिकायां उपोद्धातो नाम प्रथमः परिच्छेदः।। .. 1 इदं पक्षमिति पदं क. ख.-पुस्तकयोर्न दृश्यते. 2 बलार्य-क. ख.

द्वितीयः परिच्छेदः । - एवं तावदपूर्वाख्यं स्थायिकार्य लिङाद्यर्थ इति प्रतिपादितम् । तत्र च त्रितयी विप्रतिपत्तिः स्वर्गकामपदसमभिव्याहारोपपत्तिसिद्धयर्थ क्रियायाः स्थायित्वं परिकल्प्यताम्, किमपूर्वे गत्येका । यागस्य स्वर्ग प्रति श्रुतसाधनभावस्य निर्वाहा- यापूर्वं कल्प्यताम् , न तु तस्य लिङाद्यभिधेयतेत्यपरा । स्वर्गकामपदस्य कर्तृपरत्वेन नियोज्यपरत्वाभावान्न तत्मममिव्याहारबलायातमपूर्वस्य लिडायभिधेयत्वमित्यन्या। एवं विप्रतिपत्तित्रयमपि वर्तिव्यमागपरिच्छेदत्रितयेन निराकरिष्यमाण इदानीमपूर्वाख्यस्य स्थायिकार्यस्य लिङाद्यभिधेयतामनङ्गीकुर्वाणस्य क्रियायाः स्थायित्ववादिनो मतमुप- स्थापयति- अत्र प्रत्यवतिष्ठन्त एकेऽपूर्वान्वयं प्रति । एक क्रियायाः स्थायित्ववादिन इत्यर्थः ।। प्रत्यवस्थानप्रकारमेव दर्शयति- प्रवर्तकं कार्यमस्तु तत्त्वपूर्व न मृप्यते ॥१॥ कार्य तावत्प्रवर्तकमस्तु । तत्तु कार्यमपूर्वमित्येतन्न - मृप्याम इत्यर्थः ॥ ३॥ ननु पूर्वमेव सोपपत्तिकमुपपादितत्वात्कथं नाङ्गीक्रियत इत्यत्राह- कामशब्दवलादेव ह्यपूर्वस्य लिङर्थता । स्थायिरूपस्य कार्यस्य भवताऽप्यभिधीयते ॥२॥ कामशब्दस्य समभिव्याहारो युज्यतेऽन्यथा । स्वर्गकाम[पद]सममिव्याहारबलाद्धि स्थायिरूपमपूर्वाख्य कार्य लिङाद्यमिधेयमिति गुरुमतम् । कामपदसममिव्याहारस्त्वन्यथाऽप्युपपद्यत इत्यर्थः ॥ २ ॥ नन्वपूर्वस्य लिङाद्यभिधेयतामन्तरेण कथं कामपदसमभिव्याहारस्यान्य था- प्युपपत्तिरित्यत्राह- उपपत्तर्नियोज्यस्य क्रियास्थायित्वकल्पने ॥३॥ साध्यस्वर्गविशिष्टो नियोज्यः स्वकाम्यमानसाधनं कार्यत्वेनावगच्छति । तस्य च काम्यस्य कालान्तरभावित्वेन क्रियां क्षणभङ्गिनी न कार्यत्वेनावगन्तुमर्हतीति समीरितम् । 1 नत्वपूर्व तदिष्यते-घ. 2 मृष्यामह इत्यर्थः-क. ख. 3 कमिशब्द-ग. पत्तिरित्यत्राह-ङ. थानुप- २१ सुवर्णमुद्रिकासहित वाक्याथरत्ने तस्या एव क्रियायाः स्थायित्वं परिकल्प्यताम् । तथा च स्थायिनी क्रियामेव कालान्तरभाविस्वर्गसाधनतया कार्यत्वेनावगच्छन्वित्यर्थः ॥३॥ .. - ननु स्यादेवं यदि क्रियायाः स्थायित्वं प्रामाणिकं स्यात्, तत्तु विरुद्धम् । क्षणिकतया प्रत्यक्षत्वोपगमादित्यत्राह- न चाध्यक्षविरोधोऽपि क्रियास्थायित्वकल्पने । अत्र हेनुमाह- फलनाश्यतया लोके क्रिया यदवगम्यते ॥४॥ उत्तरसंयोगान्तत्वेन क्रियायाः प्रत्यक्षसिद्धत्वादिति भावः ॥ ४ ॥ .. - नन्वेवमपि क्रियायाः कालान्तरभाविफलपर्यन्तावस्थानमनुपपन्नम् , ब्रिक्षणाव- स्थायित्वस्य दृष्टत्वादिति चोदयति- ननु क्रिया फलेनापि समनन्तरभाविना। विनष्टा लोकतो दृष्टान कालान्तरभाविना ॥५॥ इति चेत्, समाधत्ते- उच्यते यादृक्फलसाधनभावतः। क्रियाऽवगम्यते तादृक्फलेनासौ विनश्यति ॥६॥ न च क्रियायाः क्षणिकत्वं स्थायित्वं वा 1 स्वभावः । किंतु स्वोत्पाद्यफलविनाश्य- त्वम् । तथा च यत्र समनन्तरभाविफलसाधकत्वं दृष्टं तत्र तेनैव 2 फलेन विनाश्यतया क्षणिकत्वम् , ३ यत्र तु कालान्तरभावि-साधकत्वं तत्र तज्जातेनैव फलेन विनाश्यत्वम् , स्वोत्पाद्यफल विनाश्यत्वरूपक्षणिकत्वस्वाभाव्याक्रियाया इति भावः ॥ ६॥ लाघवादपि स्थायित्वमेव कल्प्यतामित्याह- किं च युक्ताऽपि धर्मस्य कल्पना धर्मिकल्पनात् । नियोज्यार्थमतो युक्तं क्रियास्थायित्वकल्पनम् ॥ ७ ॥ क्रियायाः स्थायित्वं धर्ममात्रमेव कल्प्यम् । लाघवात् । अपूर्वाख्ये धर्मिणि कल्प्यमाने तस्य स्थायित्व मपी]मिति गौरवमिति भावः ॥ ७ ॥ 1 स्वभावतः-ङ. विनाशनया-ङ. फलेन-ह. विनाश्यत्वस्वाभाव्यत्-घ. 3 अत्र-ङ. साधकत्वेन तत्यानेनैव द्वितीयपरिच्छेदः २ नन्वपूर्वस्य कल्प्यत्वे गौरवं भवेदेव, अस्माभिरपूर्वस्य लिङाद्यभिधेयत्वामि- धाने तु कल्प्यत्वाभावान्नाऽयं दोष इत्याशङ्कय व्यवहारविरुद्ध स्थायिकार्यस्य लिङाद्यमि- धेयत्वमित्याह- किं च व्युत्पत्तिसापेक्षाश्शब्दास्सर्वेऽर्थबोधकाः। कथं तामनपेक्ष्यैव वदन्त्यर्थ लिङादयः ॥ ८॥ शब्दार्थ प्रतिपत्तेः सङ्केतग्रहणपूर्वकन्वालिङादीनां चापूर्वे सङ्केताभावात्तदन- पेक्षया लिङादीनामपूर्वाभिधायकत्वं लोकव्यवहारविरुद्धमिति भावः ॥ ८ ॥ ननु न वयमपि स्थायिकार्ये लिङादीनां व्युत्पत्त्यनपेक्षतां ब्रूमः । अपि तु व्युत्पत्तिमपेक्ष्यैव लिङादयः स्थायिकार्यमभिदधनानि शङ्कामनुवदनि- 2 व्युत्पत्तिं यद्यपेक्ष्यैव वदन्तीत्युच्यते तदा । तदेतद्विकल्पयनि-- किं लोकतो लिङोऽपूर्वे व्युत्पत्तिर्वेदतोऽथवा ॥९॥ किं प्रत्यक्षादिप्रमाणादिनाऽपूर्वकार्ये व्युत्पत्तिः, किं वा वेदाधीनेति विकल्पार्थः ॥९॥ आधमनूध दूषयति- यदि लोकाक्रियारूपं कार्य तर्हि प्रसज्यते । तस्य लोके प्रतीतत्वादितरस्याप्रतीतितः ॥१०॥ स्थायिकार्ये लिङाडेव्युत्पत्तेः प्रत्यक्षादिप्रमाणाधीनत्वे क्रियाकार्यस्यैव प्रतिपन्नत्वा- द्वेदेऽपि तदेव कार्य लिङाद्यभिधेयतया प्रसज्येतेति भावः ॥ १० ॥ प्रत्यक्षादिप्रमाणाधीनव्युत्पत्तिकन्वे लिङाद्यभिधेयस्य मानान्तरामेयत्वरूपमपूर्वत्वं च व्याहतं स्यादित्याह- भज्येतापूर्वता तर्हि व्युत्प. त्तियदि लोकतः। मानान्तराप्रमेयत्वादपूर्वत्वं हि सम्मतम् ॥११॥ वेदाधीना लिङादीनामपूर्वे व्युत्पत्तिरिति द्वितीयपझे दोपमाह- प्रसज्येत द्वितीयेऽपि कल्प आत्माश्रयो यतः । व्युत्पत्त्यर्थमसौ लिङ् स्यादभिधानार्थमित्यपि ॥१२॥ 1 प्रवृत्ते:-क. ख. 2 यदि व्युत्पत्तिसाक्षा- ख. ग. 3 वेदादिनेति-घ. 4 प्रवर्तते-ङ.

सुवर्णमुद्रिकासहिने वाक्यार्थरत्न 1 वेदाधीनेत्यत्रापि 2 लिङाद्यधीनेत्येव वक्तव्यम् । तथा च व्युत्पत्त्यर्थमभि- धानार्थ चैक एव लिडित्यात्माश्रयत्वमित्यर्थः ॥ १२॥ ननु तर्कितेऽपूर्वे लिङादीनां व्युत्पत्तिं ब्रूमः। तथा च नापूर्वत्वभङ्गो ना प्या- त्माश्रयत्वमित्याशङ्कते- अथ तर्कपरामृष्टं स्थाय्यपूर्व लिङादयः । बोधयन्तीत्यपि तदेतद्विकल्पयति-- तदा शानद्वैराश्यवादिनाम् ॥ १३ ॥ प्रमाणं किमयं तर्कः स्मृतिर्वा स्यात् , प्रमाणं स्मृतिश्चेति द्विप्रकारकमेव ज्ञानं गुरुमते। तथा च तर्कात्मकं परामर्शज्ञानं किं प्रमाण, किं वा स्मृतिरिति विकल्पार्थः ॥ १३॥ आय दूषयति- न चाग्रिमः। भज्येताऽपूर्वता यस्मात् , प्रमाणाधीनव्युत्पत्तिकत्वेऽपूर्वत्वमेव व्याहन्येतेत्यर्थः ॥ उक्तदोषापत्त्यैव द्वितीयं दूषयति--- अत एव न चेतरः॥१४॥ ननु स्मृतिपक्षे कथमपूर्वार्थत्वव्याहतिरित्यत्राह- अनुभूतिसमुद्भूतसंस्कारात्स्मृतिजन्म नः । अत्राप्यनुभवोत्थत्वे तज्ज्ञेयाऽपूर्वता हता॥१५॥ अनुभवसमुत्थसंस्कारमन्तरेण स्मृतिरेव नोदतीति ३ स्मृत्यर्थमनुभवेन भाव्यम् । तथाचानुभवजन्यस्मृतिगोचरत्वेऽपूर्वत्वव्याहतिरेवेति भावः ॥ १५॥ -- ननु न वयमनुभवोत्थां स्मृतिं ब्रूमः । अपि तु सापेक्षं ज्ञानमित्येव । अस्ति च तर्क- स्यापि प्रमाणाङ्गत्वेन प्रमित्यपेक्षेति स्मृतिरित्याशङ्कते- अथ सापेक्षतामात्रात्स्मृतिता यदि चेप्यते । 1वेदादिनेत्यत्रापि-घ. 2 लिङादीत्येव-घ. 3 स्मृतिजनकानुभवेन-ङ.

द्वितीयपरिच्छेदः ma तर्हि शालिकानाथोक्तस्मृतिलक्षणविरोधो भवेदिति दूषयति- प्रमाणमनुभूतिस्सा स्मृतेरन्या स्मृतिः पुनः॥१६॥ पूर्वविज्ञानसंस्कारमात्रजं ज्ञानमुच्यते । इति वृद्धरभिहितं तर्हि भज्येत लक्षणम् ॥ १७ ॥ पूर्वानुभवजन्यसंस्कारमात्रजन्यं ज्ञानं स्मृतिरिति स्मृतिलक्षणम् । प्रत्यभिज्ञायाः संस्कारेन्द्रियसंप्रयोगजन्यत्वात्तन्निवृत्त्यर्थं मात्रग्रहणम् । तेन सापेक्षं ज्ञानं स्मृतिरिति न लक्षणमित्यर्थः ॥ १६-१७ ॥ स्मृतेः सापेक्षज्ञानतामङ्गीकृत्याऽपि दूधणान्तरं वक्तुं विकल्पयति- किं च सापेक्षतोत्पत्तौ शप्तौ वेति निरूप्यताम् । उत्पत्ती सापेक्षत्वमित्यत्रापि किं ज्ञानमात्रापेक्षत्वम् ? वस्तुमात्रापेक्षत्वं वा ? नाद्यः । अनुमानादेाप्तिज्ञानसापेक्षत्वेन स्मृतित्वप्रसङ्गात् । न द्वितीयः । प्रत्यक्षादेरपि स्वोत्पत्ताविन्द्रियार्थसन्निकर्षसापेक्षत्वेन स्मृतित्वमापद्येतत्यर्थः ॥ ज्ञप्तौ सापेक्षत्वमित्यत्रापि किं वस्त्वन्तरापेक्षत्वम् ? उत ज्ञानान्तरसापेक्षत्वम् ? नाद्यः । प्रत्यक्षादरपि स्वज्ञप्तौ प्रमात्रादिसापेक्षत्वेन स्मृतित्वापत्तरित्यभिप्रेत्य द्वितीये दोषमाह- अथ ज्ञप्तौ तदा ज्ञप्तेहीयेत स्वप्रकाशता ॥१८॥ तर्कात्मकस्य परामर्शज्ञानस्य स्वज्ञप्ती ज्ञानान्तरसापेक्षत्वे ज्ञानस्य गुरुनयसिद्ध स्वप्रकाशत्वं न स्यादित्यर्थः ॥ १८॥ उक्तप्रकारेण दुष्टत्वाच्छालिकोक्तलक्षणानुगुण्याभावाच्च सापेक्षत्वं स्मृतिलक्षणं न युक्तमित्याह- ततः सापेक्षतामात्रात्स्मृतित्वं तु न शक्यते । शालिकालक्षणस्यानुरोधाभावाच्च नेष्यते ॥ १९ ॥ एवमुक्तरीत्या व्युत्पत्तिराहिल्यादपि स्थाय्यपूर्व न लिङाद्यभिधेयमित्याह- अतो लिङादयः स्थायिकार्ये व्युत्पत्तिवर्जिताः। तन्नाभिद्धतीत्येव नापूर्वस्य लिङर्थता ॥२०॥ तेन क्रियायाः स्थायित्वमेव कल्पनीयमिति भावः ॥२०॥ - 3 2 स्मृतित्वमापद्यतेत्यर्थः-घ. ३ तस्मादभिदधत्येवं-क. ] संस्कारसंप्रयोग-ऊ. 4 लिङर्थताम्-क.

सुवर्णमुद्रिकासहिने बाक्याथरते - .. क्रियाकार्यस्यैव वैदेऽपि प्रवर्तकतया वाक्यार्थत्वाङ्गीकारे लाघवमप्यस्तीत्याह- किं च क्रियात्मक कार्य वेदे चेदिप्यते तदा । एकरूपमिदं कार्य युज्यते लोकवेदयोः ॥२१॥ लोकवेदयोः प्रवर्तकस्यैकरूपत्वे लाघवं, भिन्नरूपत्वे गौरवमिति भावः ॥ २१ ॥ प्रतिपादितपूर्वपक्षार्थमुपसंहरति- एवं कामिनियोज्यस्य क्रियास्थायित्वकल्पने। उपपत्तरसङ्गत्या नापूर्व तु लिङोच्यते ॥२२॥ नियोज्याभिधायकस्वर्गकामपदसमभिव्याहारस्य क्रियास्थायित्वकल्पनेऽप्युपपन्न- त्वात् [सङ्गतिग्रहणाभावाच्च न लिङाद्यभिधेयत्वमपूर्वस्येत्यर्थः ॥ २२ ॥ अत्र सिद्धान्तमाह-- तदिदं न सहन्ते हि गुरुवर्मानुसारिणः । अत्र हेतुद्वयमाह- स्थायितानुपपत्तेश्च व्युत्पत्तश्चोपपत्तितः ॥२३॥ साद्यहेतुसमर्थनार्थं पूर्वोक्तं दूषयितुमनुवदति- यदिदं कामिसिद्धयर्थ क्रियास्थायित्वकल्पनम् । तल्लोके क्षणिकत्वेन 1 प्रतीतायामसङ्गतम् ॥ २४ ॥ प्रत्यक्षेण क्रियाक्षणिकत्वावगमाविरुद्ध 2 स्थायित्वकल्पनमित्यर्थः॥२४॥ ननूक्तमेव क्रियायाः स्थायित्वं, न प्रत्यक्षविरुद्धं, फलनाश्यत्वेन क्रियायाः 3-4 प्रत्यक्षतोऽवगमादित्यत्राह- फलनाश्यतया ज्ञानं यक्रियायाः समीरितम् । तत्तत्र कारकाधारफलेनैव च नान्यथा ॥२५॥ सत्यं, क्रियायाः फलेन विनाश्यत्वं लोकतोऽवगतम् , तत्तु कारकाश्रितेन फलेन । अतो न लोकवद्वेद वक्तुं शक्यत इत्यर्थः ॥ २५ ॥ तत्कथमेवं वैषम्यमित्याशङ्कयोपपादयति- लोके हि कारकगतं फलं नाशयात क्रियाम् । 1प्रनीताया असङ्गतम्-क. घ. 2 स्थायित्वं न कल्प्यत इत्यर्थः-घ, 3 प्रत्यक्षतोऽव- गतत्वादित्यर्थ:-क. 4 प्रत्यक्षत्वोपगमादित्यर्थ:-ऊ. तत्तत्कारकयुक्तेन क-घ. 5 - 5 द्वितीयपरिच्छेदः i । या क्रिया यत्र समयता जायतं सा तत्रवोत्तरसंयोग जनयित्वा विनश्याति विद्यत एव तत्र कारकाश्रितफलविनाश्यत्वम् । यागक्रियायास्तु 1 फलविनाश्यत्वं न विद्यत इत्यर्थः ॥ ननु स्वगात्मकस्य फलस्य कथं कारकाश्रितन्वाभावः । येन न तद्विनाश्यत्वमित्यत्राह- येन युक्ता क्रिया भाति तत्कारकमितीर्यते ॥ २६ ॥ यदा तु स्वर्गयोगोऽस्य न योगः क्रियया तदा । ततः फलेन तेनात्र क्रियाया न विनाश्यता ॥ २७ ॥ "क्रियां कुर्वद्धि कारकं” इति हि कारकलक्षणम् । तथा च यागानुष्ठानदशायां यदात्मनः कारकत्वमस्ति तन्नु स्वर्गात्मकफलयोगित्ववेलायां नास्ति । तदानी क्रिया- योगाभावात् । अतः स्वगात्मकफलस्य कारकावस्थाश्रितत्वाभावान यागक्रियायास्तेन फलेन विनाश्यत्वं संभवतीत्यर्थः ॥ २६-२७॥ ननु लो वा कथं कारकाश्रितत्वं फलस्य, कथं वा तेन फलेन क्रियाया विनाश इत्यत्राह- लोके हि फलनाश्यत्वं क्रियायाः खलु युज्यते । यक्रियायोगि तद्वस्तु कारकं परिकीर्त्यते ॥२८॥ सम्वन्धात्मा च योगोऽयं विना हेतुं न नश्यति । हेतुः सम्बन्धनाशा वा विरोधिगुण एव वा ॥ २९ ॥ विरोधिगुणराहित्यादाद्य एवावशिष्यते। न च सम्बन्ध नाशेऽपि क्लप्तोऽन्यो हेतुरस्ति हि ॥ ३० ॥ उत्पन्नं फलमेवार्थाश्रितं तन्नाशकं मतम् । आये फलक्षणे कर्म कारकं फलमेव च ॥ ३१॥ एवं चास्ते फलस्यापि कारकाथितता ततः। फलेनैव विनाश्यत्वं क्रियाया लोक इप्यते ॥३२॥ क्रियायोगित्वं हि कारकत्वम् । क्रियायोगोऽस्यास्तीति क्रियायोगीति वक्तव्यम् । तथा च सम्बन्धात्मकस्य योगस्य कारणमन्तरेण विनाशायोगात्कारर्णन भवितव्यम् । तच्च कारणं द्विविधमेव । सम्बन्धिनाशो वा, विरोधिगुणप्रादुर्भावो वा। 4 तत्र विरोधि- गुणप्रादुर्भावाभावात्सम्बन्धिनाश एवं शिन्यते। सम्बन्धिनौ चात्र क्रियाऽऽत्मानौ। तत्र चात्मनो नित्यत्वेन क्रियात्मन एव सम्बन्धिनो नाशो वक्तव्यः । सच हेतुमन्त- तादृक् फलविनाश्यत्वम्-ग. 2 तथा-क.घ. नाशो हि-घ. 4अन-क.

सुवर्णमुद्रिकासहित वाक्यार्थरत्न रेण नोपपद्यत इत्युत्पन्नेन फलेनैकार्थममवायिना क्रियाया विनाश इति वक्तव्यम् । आये फलोत्पत्तिक्ष क्रिया कारकं फलं चेति विद्यत एव फलस्य कारकाश्रितत्वम् । अतस्तेनैव फलेन विनाश्यत्वं लो क्रियाया इत्यर्थः ॥ २८-३२ ॥ न त्येवं बड़े स्वर्गस्य क्रियां प्रति नाशकन्वं वस्तुं शक्यम् । कारकावस्थाश्रितत्वा- भावादित्याह- न च यागक्रियायास्तु पुज्यते स्वर्गनाश्यता। ननु क्रियायाः स्थायित्वं कल्प्यताम् , फलपर्यन्तं क्रियावस्थानस्य विद्यमान- त्वेन कारकावस्थाश्रितत्वमपि विद्यत इनि कथं न तेन फलेन बिनाश्यत्वमित्याशङ्कय क्रियायाः स्थायित्वमयुक्तम् । आश्रितत्वकस्वभावायाः [क्रियायाः स्थाय्याश्रयाभावा- दित्याह- यदि क्रिया स्थानिनी' स्यात्कुत्रासाववतिष्ठते । ३३ । 1 'कुत्रासावतिष्ठते' इत्यनेन किमात्माश्रिता क्रिया, अथ यवत्तादिद्रव्याश्रिता, अथ वा तत्परमाण्वाश्रितनि विकल्पोऽभिप्रेत इत्यर्थः ॥ ३३ ॥ आत्माश्रिता क्रिया भविष्यति । स्थिरत्वादात्मन इत्याचं पक्षं दूषयति- न तावदात्मनिष्ठा सा निष्क्रियत्वेन चात्मनः । व्यापकत्वेनऽऽात्मनो निस्क्रियत्वादात्माश्रितत्वं क्रियाया न युक्तमित्यर्थः ॥ ननु देवतोद्देशेन व्यत्यागात्मकस्य यागादः]पुरोडाशादिप्रक्षेपान्तत्वाद्द्यवत्तादि- द्रव्याश्रितत्वं भविष्यतीति द्वितीयं शङ्कते- अथोच्येत यवत्तादिद्रव्याधारेति, परिहरति- द्रव्यस्य भस्मसात्कारादग्निना होममात्रतः। अग्निना भस्मीभूतस्य पुरोडाशादिद्रव्यस्य स्थायिक्रियाश्रयत्वमनुपपन्नमित्यर्थः ॥ 2 ननु कार्यद्रव्यत्याग्निना भस्मीभावेप्यणू नां नित्यत्वेन स्थिरक्रियाश्रयत्वं भविष्य- तीति तृतीयं पक्षमनूद्य परिहरति- अथोच्येताणुनिष्ठति तन्नान्याश्रयधीर्यतः ॥ ३० ॥ क्रियान्यस्मिन्न प्रसूते फलं सिन्नाश्रयत्वतः । 1 न कुत्राप्यवतिष्ठत-घ. 2 ननु द्रव्यस्य-क. ङ. 3 नामग्निनिष्ठत्वेनस्थिरत्वात् क्रियाश्रयत्वं-घ.

द्वितीयपरिच्छेदः अण्वाश्रितायाः क्रियाया आमनि फलजनक-चमनुप पनन् । अन्याश्रितायाः क्रियाया आश्रयान्तरे फलजनकत्वाभावादित्यर्थः ॥३५॥ ननु क्रियास्थायित्वाभावे किं तर्हि स्थिरं फलजनकमित्यत्राह- ततश्च क्षणभङ्गन्याः क्रियाया फलसम्भवः ॥३६॥ न विद्यत इति स्थायिनोऽपूर्वातफलसम्भवः । यस्मात्कारणान्क्रियायाः फल जनकचं नास्ति तम्मादपूर्वन्य स्थायितया फल- जनकत्वं युज्यत इत्यर्थः ।। ३६ ॥ घुवं क्रियायाः स्थायित्वकल्पनमङ्गीकृत्य दूपणान्युन्तानि । सम्प्रति तदंबानुप- पन्नम् । कल्पकाभावादित्याह- ननु क्रियास्थायितायाः किं वा कल्पकमुच्यताम् ।। ३७ ॥ किमपि कल्पकं नास्तीत्यर्थः ॥ ३७ ॥ कल्पकमाशङ्कते- फलसाधनभावेन यागस्य श्रुतिरेव चेत् । तदेव दुष्टमित्याह- परस्पराश्रयस्तर्हि साधनं च क्रिया स्थिरा ॥३८॥ स्थिरताकल्पनं चात्र साधनत्वश्रुतेर्वलात् । कथं तावक्रिया क्षणभङ्गिनी कालान्तरभाविफलसाधनमित्युक्त स्थायित्वकल्प- नयेति वाच्यम् । स्थायित्वकल्पनं च फलसाधनभावनेत्येवमन्योन्याश्रय इत्यर्थः ।। ॥ ३८॥ इत्थं क्रियास्थायित्वकल्पनस्यानेकदोषदुष्टत्वेन नियोज्यसमभिव्याहारो नोपपद्यत इत्याह- एवं क्रियायाः स्थिरताकल्पनं वहुदोपभाक् ॥ ३९ ॥ अतो नियोज्यसमभिन्याहारो नोपपद्यते । अत्र लौकिकामाणकमप्युदाहरनि- आभणन्त्यत्र च न्यायं लोके यो हि यदिच्छति ॥४०॥ तत्करोति न वा तस्यासाध्यत्वं तस्य साधनम् । - 1 मनेकाश्रय-ङ.

३ सुवर्णमुद्रिकासहित वाक्यार्थरने - किमुक्तं भवतीत्याशङ्कय पूर्वोक्तमर्थ स्मारयति- काम्यस्वर्गविशिष्टोऽत्र नियोज्यश्चावगम्यते ॥४३॥ तच्च कास्य देशकालदेहान्तरभवं ततः। स्वकाम्यसाधनं सोऽपि कार्यत्वेनावबुध्यते ॥ ४२ ।। कार्यत्वेन 1च नावैति क्रियाां तु क्षणभङ्गिनीम् । आपे तु स्थायि यद्वस्तु तत्कार्य प्रतिपद्यते ॥४३॥ अतो लिङदिपदतोऽपूर्वप्रत्यय इप्यते । एवं क्रियास्थायित्वकल्पनस्यानुपपत्तिरूपं प्रथमहेतुमुपपाय “व्युत्पत्तश्चोप- पत्तितः' इति द्वितीयहेतुसमर्थनार्थ लिङादीनामपूर्वे व्युत्पत्तिराहित्यं यदुक्तं तद्रूषयितु- मनुवदति- यच्चाभ्यधायि व्युत्पत्ति पूर्वे विद्यते लिङः ॥४४॥ दूषयति- इत्येतदपरामृष्टगुरुतन्त्रस्य भाषितम् । गुरुमताभिज्ञो नैवं भाषत इत्यर्थः ॥ .. किंविधं तु तन्मतं तत्राह- यतस्तत्र परामृष्टं स्थाय्यपूर्व लिङादयः ॥ ४५ ॥ वदन्ति कामिसमभिव्याहारादिति तन्मतम् । ननूक्तमेव प्रमाणस्मृत्योरन्यतरत्वेन तर्कस्य वर्णनमिति तत्राह-- कृत्वा विकल्पं यत्तदूषणं विहितं पुरा ॥ ४६॥ तर्कस्य स्मृतित्वाङ्गीकारेण तहषयति- तदप्यसङ्गतं तर्कः स्मृतिरित्युच्यते यतः । ननूक्तमेव तर्कस्य स्मृतित्वे तन्मेयस्यापूर्वत्वविरोध इति तत्राह- नापूर्वत्वविरोधोऽपि प्राग्भवानुभवोद्भवात् ॥४७॥ संस्काराजायते वुद्धिस्तादृशीत्यवधारणात् । 1तु-क. तस्तु-क. 3 स्मृतित्वाङ्गीकरणेन-ङ.

द्वितीयपरिच्छेदः पूर्वजन्मसंबन्धिनोऽनुभवात्संस्कारो जायते । संस्काराच परामर्शात्मिका बुद्धि- जर्जायते। तया च परामृष्टं स्थायिकार्य लिङादिभिरभिधीयन इति नापूर्ववविरोध इति भावः ॥ ४७ ॥ ननु पूर्वस्मिन्नपि जन्मन्यनुभवगोचरत्वेनापूर्वत्व विरोधोऽस्त्येवेत्यत्राह-- प्राग्भवे वेदवाक्यानुभवोत्था वासना स्थिरा ॥४८॥ पुनस्तच्छ्रवणेनासावुद्धा जनयेत्स्मृतिम् । पूर्वस्मिन्नपि जन्मनि यदि प्रत्यक्षाद्यनुभवगोचरत्वं स्यात् तदाऽपूर्वत्वविरोधः स्यादेव । अत्र तु वेदवाक्यादेवापूर्वानुभवो जातः संस्कारं जनयति । स च संस्का- रोऽस्मिन् जन्मनि वेदवाक्य श्रव गेन समुद्बुद्वः स्मृति जनयतीति नापूर्वत्वविरोध इति .. भावः ॥४८॥ न चैतददृष्टचरम् । अन्यत्रापि दृष्टवादित्याह -- बालस्य स्तन्यपानादी प्रवृत्तेर्गतिरीदृशी ॥ ४२ ॥ लोके वेदेऽपि च तथा वासनातः स्मृतेर्जनिः। स्मृत्याऽपूर्व परामृष्टं लिङादीनि पदान्यपि ॥२०॥ वदन्तीति कुतस्तेषां स्याद्व्युत्पत्त्यनपेक्षता। जातमात्रस्य शिशोर्मातुः स्तन्यपानादौ कथं प्रवृत्तिरित्यत्र प्राग्भवीयवासना- वशादिति वक्तव्यम् । एवमेवात्रापि प्रारभवीयवेदवाक्यानुभवसमुत्पन्न वासना- बलात्स्मृत्यारूढमपूर्व लिडादिपदान्यभिदधतीति न तेषां व्युत्पत्त्यनपेक्षत्व- मित्यर्थः ॥ ४९-५०॥ एवं तर्को नाम स्मृतिरिन्युक्तम् । सम्प्रति प्रमाणरूपतायामपि न दोष इत्याह- यद्वा प्रमाणं तर्कोऽस्तु स्थाय्यस्तीत्येवमाकृतिः ॥५१ ॥ परामर्शात्मिका साऽपि विरुद्धा नान्यमेयता। व्युत्पत्ताबुपयुक्तेन प्रमाणेन हि मेयता ॥५२॥ अतो मानान्त रामेयत्वेनापि न विरुध्यते । मानात्मक्रेन तर्केण स्मृतिरूपेण वा पुनः ॥ ५३॥ परामृष्टं स्थायिकार्य प्रवदन्ति लिङादयः। 1 विरोधोऽस्तीत्यत्राह-घ. 2 स्थिता-ऊ. श्रवणसमुद्बुद्ध:-क. 4 भवसंस्कारस-ङ. वासनालाभात्स्मृ-इ. 6रापूर्वत्वेनापि-क्र. 3. 7 मानार्थकेन -घ. 5 सुवर्णमुद्रिकासहिते वाक्यार्थरत्ने " स्वर्गकामो यजेते पत्र कालान्तरमाविस्वर्गसाधनं किंचित्स्थाय्यस्तीति परामों जायते । नेन च परामृष्टमपूर्व लिङादयः प्रमापयन्ति । न चापूर्वत्वविरोधः । व्युत्पत्युपयुक्त मानव्यतिरिक्तमानामेयत्वमपूर्वत्वमिति निर्वचनात् । तथा च तर्कः प्रमाणरूपो वाऽस्तु स्मृतिरूपो वा । सर्वथा तात्मकपरामर्शोपस्थापितमपूर्व लिङादय बोधयन्नीति सुस्थमिति भावः ॥ ५१-५३ ।। नन्य सन्धिमतोऽपरं प्रच्यवत इत्याह- अहो नियोज्यसमभिव्याहाराद्यदि लिङ्पदम् ॥२४॥ वदेदपूर्व तहस्थ साधनत्वं न साध्यता। एवं त्र कृतिलाध्यत्वात्प्राधान्यं व्याहृतं तु यत् ॥ .. ५ ॥ कृतिसाध्यं प्रधानं यदित्यत्रैतञ्च हीयते । स्वर्गकामपदसमभिव्याहाराखलु क्षणभङ्गिन्याः क्रियायाः कालान्तरभाविफल- साधनवानुपपत्त्या स्थाय्यपूर्वस्य लिडादिवाच्यताऽङ्गीक्रियते। तथाचापूर्वस्य साधन- स्वापत्त्या प्राधान्यं न स्यादिति भावः ॥ ५४-५५ ॥ इति चेदुच्यतेऽपूर्वफलसाधनता तु या ॥ ६ ॥ स्वरूपोपस्थापने स्याद्वयाहारः परिकीर्त्यते। लिडादिवाच्यतायां तु नास्या व्याहार इष्यते ।। ५७ ।। कृतिसाध्यतयैवार्थ वदन्ति हि लिङादयः । अपूर्व तावत्फलेनोपस्थाप्यते। न तु तथैव लिङादिभिरभिधीयते । अपि तु कृतिसाध्यतया प्राधान्येनैवाभिधीयते । तेन नियोज्याभिधायकस्वर्गकामपदसमभि- व्याहारवलाक्रियातिरिक्तस्थाय्यपूर्वस्य कृतिसाध्यतया प्राधान्येन लिडादिभिरभिधानान्न कश्चिद्विरोध इति भावः ॥ ५६-५७ ॥ अत्र प्राप्तावकाशः प्रत्यवतिष्ठते- नन्वपूर्व फलं चेति द्वयस्यात्र हि साध्यता ॥ ५८ ।। साध्यद्धयपरत्वेन वाक्यभेदः प्रसज्यते । अयं भावः यजेतेत्यत्रापूर्व तावत्कृतिसा ध्यत्वेनाभिधीयते प्रधानतया। स्वर्गकाम इत्यत्र च स्वर्गोऽपि काम्यत्वेन साध्यतयाऽभिधीयते। तथा च साध्यद्वयं विदधदेकं वाक्यं भिद्येत । ततश्च वाक्य भेदो दोषः। 'संभवत्येकवाक्यत्वे वाक्यभेदस्तु नेप्यते' इति न्यायादिति ॥ ५८ ॥ मानवृत्तिव्यतिरिक्त-घ. 2 तदेव पूर्व-ङ. ध्यतयाऽभिधीयते-क. काम्यमान- खेन-क. ग. 5 भेददोष:-ग. घ. । - 1 द्वितीयपरिच्छेदः IMAR तत्परिहरति- उच्यते साध्यभावेऽपि फलं कामिविशेषणम् ॥५०॥ अतोऽनुगुणसाध्यत्वाद्वाक्यभेदो न युज्यते। सत्यम् , अपूर्वस्वर्गात्मकसाध्यद्वयमत्र प्रतीयते । तथाऽपि स्वर्गात्मकस्य माध्यस्य नियोज्यविशेषणन्वनवाभिधानादपूर्ववत्प्रधाननया वाक्यार्थत्वेनाभिधानाभावानमा ध्यत्वं वाक्यभेदावहं न भवति । वास्यभेदो हि नत्र भवति, यत्र प्रधानतयैव माध्य- द्वयं प्रतीयते । अत्र नु स्वर्गमाध्यत्वं अपूर्वसाध्यत्वं न विरुणद्धि । अनुगुणत्वात् । वाक्यभेदो हि श्रुतनिरिवलपदानां सम्भूयकारित्वं व्युत्पत्तिमिदमवसादयन् वाक्यस्या- बोधकत्वमापादयन दोषो भवति । अत्र तु माध्यस्वर्गविशिष्टनियोज्याश्रितयागविषय- कृतिमाध्यरूपार्थ बोधयत्येकं वाक्यम् । अतो न दोष इति भावः ॥ ५९ ॥ प्रकारान्तरेणापि वाक्यभेदो नास्तीत्याह- अपूर्वफलयोरेकलोलीभावेन माध्यता ॥ १० ॥ यदि भिन्न माध्यद्वयमेकस्मिन् वाक्ये स्यात्तदा वाक्यं भिद्येत । न च तथा, अपूर्वफलयोरेकसाध्यत्वात् । अतो न दोष इत्यर्थः ॥६० ॥ यद्वाऽपूर्वमेव साध्यं फलपर्यन्तं विवर्धते । जातिरित्र व्यक्तिपर्यन्तम् । इयमेव मुख्यविवृद्धिरित्युच्यत इत्याह-- फलस्य साध्यता मुख्य विवृद्धया वा न दोषभाक् । सर्वथा वाक्यभेदो नास्त्येवेति भावः ॥ युक्तं चैतदित्याह- अत एव नियोज्यस्य स्वसिद्धावुपकुर्वतः ॥ ६ ॥ फलं यत्तदपूर्व च स्वप्राधान्यं च 'नोज्झति । आत्मसिद्धयनुकूलस्य नियोज्यस्य प्रसिद्धये । कुर्वत्स्वर्गादिकमपि प्रधान कार्यमेव नः ॥ (प्रकरण-वाक्यर्थ. श्लो. २७). इति शालिकानाथेनोक्तत्वादिति भावः ॥ ६ ॥ उक्तमर्थ लौकिकदृष्टान्तकथनेन द्रढयति- यथा हि गर्भदासाय स्वामी भृत्यादिदानतः ॥ ६२॥ उपकुर्वन्नपि स्वस्य प्राधान्यं न विमुञ्चति । 1 ध्यं-हु.. 2 माध्यमे-क ३ प्रमि-इ. प्रथति-क. हु. VAKYRTHARATNAJI.

सुवर्णमुद्रिकासहिते वाक्यार्थरने यथा हि स्वामिनो गर्भदालाय भृतिदानादिनोपकुर्वतोऽपि न प्राधान्यपरि- त्यागः, तद्वदपूर्वस्यापि स्वसिद्धावनुकूलव्यापाराय कामिनियोज्याय स्वर्गादिफलं प्रय- च्छतो न प्राधान्यपरित्याग इति भावः ॥ ६२ ।। अत्रैकदेशिनां मतं दृषयितुनुपन्यस्यति केचिदाहुर्लिङा कार्यसामान्यमभिधीयते ॥ १३॥ ततश्च निर्विशेपस्य सामान्यस्याप्रतीतितः । क्रियारूपापूर्वरूपविशेपस्त्वभिधीयते ॥ ६४ ॥ ते खल्वेवं मन्यन्ते । लिङादीनां तावत्कार्यसामान्यमर्थः । तथा च निर्विशेष- सामान्यस्यापर्यवसानाक्रियारूपापूर्वरूपविशेषप्रतिपत्तिरित्यर्थः ।। ६३-६४ ॥ andee तदेतद्दषयति-- इत्यसङ्गतमेवैतत्प्रागुक्तेनैव वर्त्मना। कार्यस्वरूपमेवानुगतं यल्लोकवेदयोः ॥६५॥ पूर्वोक्तमार्गेण कार्यस्वरूपस्यैव लोकवेदयोरनुवृत्तत्वान्न सामान्याभिधायकत्वं वक्तव्यमित्यर्थः ॥६५॥ किं चाख्यातानां व्यक्तिवाचकत्वस्यैवावधृतत्वान्न सामान्याभि'धायकत्वं युक्त- मित्याह- न च सामान्यवाचित्वं लिङादेर्व्यक्तिवाचिनः । एकदेश्यन्तरमतं दूषयितुमुपन्यस्यति- अत्र केचन मन्यन्ते लोकव्युत्पत्तिवर्मना ॥६६॥ कार्यत्वेन क्रियैवाभिधीयतां फलहेतुता। तस्या एवास्तु यदि सा क्षणिकाया न विद्यते ॥६७॥ तदा तदुपपत्त्यर्थमपूर्व कल्प्यतामिति । लो वृद्धव्यवहारवलाल्लिङादीनां क्रियाकार्य एव व्युत्पत्तिदर्शनात्तदेवात्र कार्यत्वे- नाभिधीयते । फलसाधनत्वं च तत्रैवास्तु । न च क्षणभङ्गिन्याः क्रियायाः कालान्तर- भाविकलसाधनत्वमनुपपन्नम् । क्रियाफलयोर्मध्येऽपूर्वकल्पने सति तदुपपत्तिरित्येक- देशिनो मन्यन्त इत्यर्थः ।। ६६-६७ ॥ Aama 1धायित्वं-घ. तस्या एवा-घ.

विनयपरिच्छेदः 6 अपूर्वकल्पनमपि क्रियास्थायित्वकल्पनवदन्योन्याश्रयग्रस्तत्वादयुकमिति परि- हरनि--- तन्नोपपद्यतेऽन्योन्यसंश्रयः स्यात्नदा यतः ॥ १८ ॥ अन्योन्याश्रयमेव प्रतिपादयति- तथा हि क्षणभङ्गिन्याः क्रियायाः फलहेतुता । युज्यते कमिन्युक्तेऽपूर्वकल्पनयेत्यपि ।। ६९ ॥ वाक्यं तु कल्पनामूलं फलहेतुतया श्रुतेः । अतोन तन्मतं. अपूर्वकल्पनेन क्रियायाः फलमाधनत्वं, फलसाधनन्य चापूर्वकल्पनमित्य- न्योन्याश्रय इत्यर्थः ॥ ६९।। सर्वथा क्रियाया एव फलमाधनवं वक्तव्यम् । तदा धर्मिकल्पनातो वरं धर्मकल्पने' ति न्यायाक्रियायाः स्थायित्वमेव धर्ममात्रं म्यान वपूर्व धार्मीत्याह- किं च धर्मिणः कल्पनाद्वरम् ॥ ७० ॥ धर्मस्य कल्पनमिति कल्ल्येत स्थायिता तदा । नु तर्हि क्रियायाः फलमाधनभावोपपत्त्यर्थ स्थायिनैव कल्प्यतामिन्याशङ्कमानं प्रत्याह- न साऽपि युज्यते दोषादिति पूर्व समीरितम् ॥ ७ ॥ प्रत्यक्षविरोधाद्यनेकदोषदुष्टतया स्थायित्वकल्पनमनुपपन्नमिति पूर्वमेव निरा- कृतत्वादिति भावः ॥ ७१ ॥ एवं चापूर्वकल्पनावाचोयुक्तिर्न युक्किमनीन्युपसंहारनि- तस्मान्न युज्यतेऽपूर्वपरिकल्पनभाषणम् ॥ १॥ and ॥ इत्यहोबलदवविरचितायां वाक्याथरत्नतात्पयप्रकाशिकाय सुवर्णमुद्रिकायां क्रियास्थायित्वनिगकरणं नाम द्वितीयः परिच्छेदः ।। 1 दित्यर्थ:-व.

4 तृतीयः परिच्छदः श्रीरामो दक्षिणामूर्तिः कृष्णो वाऽर्जुनदेशिकः । हृदि यस्य स्थितो वाचस्तस्य सन्ति सुधीप्रियाः॥१॥ एवं तावन्क्रियायाः स्थायित्वनिराकर गेनापूर्वस्य लिङाद्यभिधेयत्वं प्रतिपादितम् । सम्प्रति यागस्य फलमाधनभावोपपत्त्यर्थमपूर्वकल्पनैव लघीयसीति विप्रतिपत्तिनिरा- करणार्थस्तृतीयपरिच्छेद आरभ्यते । अत्र भावनावाक्यार्थवादिनां मतं दूषयितुमुपन्यस्यति-- अत्र केचन वाक्यार्थ प्रवदन्तोऽर्थभावनाम् । अपूर्वकल्पनामेव मन्यन्ते हि लघीयसीम् ॥ २॥ तैरप्यपूर्व कल्प्यमित्यभिधानात्तन्मतोपन्यासः ॥ २ ॥ - कथं तेषामपूर्वप्रक्रियेत्याशङ्कय तेषां प्रतिपादनप्रक्रियामाह- "स्वर्गकामो यजेतेति" गीयते भावनाद्वयम् । अभिधाभावना चार्थभावना च लिडादिना ॥३॥ तञ्च स्वभावतो भाव्यमुख्यत्रितयमिच्छति । इतिकर्तव्यता भाव्यं करणं चेति तत्त्रयम् ॥ ४॥ अयमर्थः---लिङादियुक्तवाक्येषु द्वे भावने अवगम्यते । शब्दभावना अर्थभावना चेति । तयोश्च प्रत्येकं भाव्यकरगेतिकर्तव्यताकाङ्क्षाऽस्ति । अंशत्रयावऽच्छिन्नस्वभाव- त्वादिति ॥ ३-४॥ कथं तर्हि द्वयोर्भावनयोरंशत्रयनिरूपणमित्याशङ्कयाभिधाभावनायास्तावदादौ त्रितयमपि दर्शयति- 2 तत्राभिधाभावनाया भाव्या स्यादर्थभावना । करणं लिङ् चार्थवादा इतिकर्तव्यता मताः ॥५॥ 1 अयं श्लोकः क. घ. पुस्तकयो!पलभ्यते. 2 अत्राभिधा-3.

तृतीयपरिच्छेदः शब्दभावनायाः पुरुषप्रवृत्तिरूपार्थभावना भाव्या । 1 लिडादिपदं तदर्थयो- र्वाच्यवाचकसम्बन्धो वा योग्यतया करणम् । योग्यत्वादेवार्थवादिकी स्तुनिरितिकर्तव्ये- त्यर्थः ॥५॥ अर्थभावनाया अपि त्रितयमभिधीयत इत्याह- वाच्यं तु करणाद्यर्थभावनाया अपि त्रयम् । किं तत्त्रयमित्याशङ्कयाह- अत्र श्रुत्या समपदोपादानात्मत[त्मिक]या यजेः ॥६॥ भाव्यत्वमवगम्येत भावनां प्रति यद्यपि। तथाप्यपुरुषार्थत्वाद्यागस्य न हि भाव्यता ॥ ७ ॥ किं तु स्वर्गस्य भाव्यत्वं पुरुषार्थत्वहेतुना । पदान्तरोपात्तस्यापि योग्यत्वादवगम्यते ॥८॥ अर्थभावनायास्तु "स्वर्गकामो यजेते "त्यत्र स्वर्गस्यैव पुरुषार्थत्वेन भाव्यत्वम् । यद्यपि यजेतेति समानो नपदोपादानलक्षणया श्रुत्या यागस्य भाव्यत्वमवगम्यते । तथाऽपि यागस्य क्लेशात्मकत्वेन पुरुषार्थत्वाभावात्तत्परित्यज्य पदान्तरोपात्तस्यापि स्वर्गस्य पुरुषर्थत्वेन भाव्यत्वमवश्यमङ्गीकरणीयम्। श्रौतान्वयाभावेऽपि वाक्यान्वयस्यापि मुख्यत्वादित्यर्थः ॥६-८॥ अस्तु स्वर्गस्य भाव्यत्वम् । कस्य तर्हि करणत्वमित्यत्राह- सिद्धे स्वर्गस्य भाव्यत्वे प्रकृत्यर्थतया यजेः। करणत्वं च योग्यत्वादुपपन्नं तथा सति ॥९॥ क्षणिकत्वेऽपि यागस्यापूर्वकल्पनयाऽन्तरा। उक्तप्रकारेण 2 स्वर्गस्य · भाव्यतयाऽन्वये सति प्रकृत्यर्थस्य योग्यत्वात्करणत्वं भवति । न च क्षणिकस्य यागस्य कालान्तरभाविफलं प्रति करणत्वानुपपत्तिः । मध्येऽपूर्वकल्पनया तदुपपत्तेः । यागस्य करणत्वेनान्वये सति प्रयाजादीनीतिकर्तव्यतात्वं प्राप्नुवन्तीत्यर्थभावनाया अंशत्रयमित्यर्थः ॥ ९ ॥ एवं च निरङ्कुशे यागस्यापूर्वसाधनतया करणत्वे ' यागेन स्वर्ग भावयेदिति तन्मते वाक्यार्थः संपद्यत इत्याह- यागेन भावयेत्स्वर्गमिति वाक्यार्थ इप्यते ॥१०॥ 1लिङादिपदतदर्थ-घ. 2 स्वर्गे भाव्यतयान्विते सति-घ. 3 प्राच्योदीच्यादी-क. ख. घ.

सुवणमुद्रिकासहित वाक्याथरत्न एवं भावनावाश्यान्ववादिनो यागस्य करणवनिर्वाहायापूर्वकल्पनामेव लघुतरां सङ्गिरन्त इत्यर्थः ॥ १०॥ तदनपरिहरनि- इत्येतन्न मतं युक्तं न यागः करणं फले । योग्यत्वे सति युज्येत यथा वह्निर्निषेचने ॥११॥ सत्यम् , एषा प्रक्रिया तदेवं संपधेत, यदा यागस्य करणत्वं वाक्यतोऽवगम्येत । न चेनदस्ति । अयोग्यतया यागकरणवस्य शब्देनैवानभिधानात । यथा हि वह्वेः सेकसाधन- त्वमयोग्यत्वेन शब्दो नाभिधत्त, तथंव कालान्तरभाविफलं प्रति क्षणभङ्गिनो यागस्य करणत्वं शब्दो नाभिधत्ते । ततो न तन्मूलमपूर्वकल्पनं युक्तमित्यर्थः ॥ १५ ॥ अञ्चोक्तमर्थभावनाया भाव्याकाङ्क्षायां स्वर्गस्य भाव्य त्वेनान्वय इति तदपि नास्तीत्याह- लिङादियुक्तवाक्येषु भावना न ह्यपेक्षते । भाव्यान्तरमपूर्वस्य लिङ्पदेनाभिधानतः ॥१२॥ अपूर्वस्य लिडादिनाऽभिहितत्वात्तेनैव भावनाया भाव्याकाङ्क्षापरिपूरणान्न स्वर्गादिभाव्यान्तराकाक्षेत्यर्थः ॥ १२ ॥ ननु लिङ्पदमपूर्वाभिधानमात्रेण चरितार्थं भवन्मते न भावनामभिधत्ते । तथा च कथं भावनाया भाच्याकाङ्क्षापरिपूरणमित्यत्राह- प्रधानभूतापूर्वोपसर्जनीभावतो लिङा। अभिधीयत एवार्थभावनेति सीरितम् ॥ १३॥ सत्यम्, अपूर्वाभिधायित्वेऽपि लिङादिनोपसर्जनत्वेन भावनाभिधानमपि नानुप- पञ्चमित्यर्थः ॥ १३॥ ननु लिङादिना प्रधानापूर्वोपसर्जनत्वादिनाऽर्थभावनाभिधानं गुरुतन्त्रे वापि न प्रसिद्धमित्यत्राह- कृतिसाध्यतयाऽपूर्वस्याभिधानाल्लिादिभिः । अपूर्व भाव्यमेवार्थभावनाया न चेतरत् ॥ १४॥ 1वेन सम्बन्ध इति-ग. घ. - लिङ्पदेनाऽभि-क. ख. भिधानेन चरितार्थ तृतीयपरिच्छेदः ३ अपूर्व तावत्कृतिसाध्यतया लिडादिभिरभिधीयते। कृतिश्च पुरुषप्रयत्नः । स एवार्थ- भावनाशब्देनाभिधीयते । अतोऽत्र कृतिसाध्यत्वेनापूर्वस्याभिधानात्कृत्यपरपर्यायार्थभाव नाया अप्यपूर्वमेव भाव्यं, नान्यदिति भाव्यान्तराकाङ्क्षा नास्तीत्यर्थः ॥ १४ ॥ भावनां प्रति स्वर्गस्य भाव्यत्वाभावादेव यागस्यापि स्वर्गकरणत्वेनान्वयः नास्ती. त्याह- अतो न करणत्वेन यागस्यान्वय इष्यते । यदि यागस्य करणत्वेन नान्वयः कथं तर्हि प्रकृत्यर्थभूतस्य यागस्य भावनान्वय इत्यत्राह- किं त्वस्य विषयत्वेन कृति प्रति समीरितः॥१५॥ - नन्वाकाङ्क्षानुसारेण यागस्य करणत्वेनैवान्वये युक्त कथं तद्विहाय विषयत्वमभिधी- यत इत्यत्राह- कृतिसाध्यतयाऽपूर्वे प्रतीते सति सा कृतिः। भवेत्किविषयेत्यादावाकाङ्क्षा विषयं प्रति ॥ १६ ॥ तदा कृतिमवच्छिन्दन्यागो विषय इप्यते । सा कृतिर्यागविषयेत्येवं विषयतान्वयः ॥ १७ ॥ इदमत्राभिप्रेतम्-यागस्याऽऽदौ तावच्छब्दत: करणत्वं न प्रतीयते । अपि त्वाका- झानुसारेणैव पदानामन्वयो भवति । आकाङ्क्षा च लिङ्प्रत्ययार्थभूतेऽपूर्वे कृतिसाध्यतया प्रतिपन्ने सति किंविषयकृतिसाध्यमिति कृतिस्वरूपनिरूपणार्थमेवादौ जायते । न तु कथ. मिति प्रकाराकाङ्क्षा। अज्ञाते स्वरूपे प्रकारस्यानाकाक्षितत्वात् । जातायां च तथाऽऽकाङ्क्षायां प्रकृत्यर्थभूतो याग एव यागविषयकृतिसाध्यमिति कृतिस्वरूपमवच्छि- न्दन् विषयत्वेनान्वेति । प्रथमं शाब्दो विषयत्वेनान्वयः । विषयत्वं विशेषणत्व- मवच्छेदकत्वमिति पर्यायाः। तदुक्तमाचार्यैः-" विषयिणं विषिण्वन्ति अनुबनन्ति स्वरूपतो निरूपणीयं कुर्वन्तीति यावत् (साङ्ख्यतत्त्वकौमुदी श्लो. ५) इति । एवं कृतिस्वरूपनिरूपणाकाङ्क्षायां यागः कृतिरपूर्वमिति क्रमेणान्वयः। पश्चात्त्वभाव्यस्यापू- र्वस्य कथं कृतिसाध्यत्वमित्याकाङ्क्षायां यागद्वारेणेत्यघटमानं कृत्यपूर्वसंसर्ग मध्ये स्थित्वा रेण पदाना-क. ख.

सुवर्णमुद्रिकासहित वाक्याथरत - घटय न्यागो बटक-वनातीति कृतिमाध्ययागमाध्यतया कृतिर्यागोऽपूर्वमिति क्रमेणा- न्धयः । इत्यनवच्छेदक-वरूपं विषयवमेव घटकन्वर्यन्तमिति भवनाथमित्रैः शब्दान्त- रनये- कृतितत्माध्यमध्यस्था यागादिर्विषयो मतः। कार्ये संवटिताकारे कारण वेन सम्मतः॥ (नयविवेकः अ. २ पा. २ अधि. १) इत्युक्तम् । एतच्च सर्व पूर्वतरनिबन्धनेषु शब्दान्तरनये लिप्सासूत्रे च निपुण- तरमुपपादितम् । शालिकानायेन प्रकरगपञ्चिकायाम् - -" विषयत्वेनान्वितस्य करणत्वे- नान्वयइनि न यागस्यादौ करणवेनान्वय'' करगवेनान्वय" इत्यभिहित-मिनि नादौ करणत्वमा- काइक्षितमिति ॥ १६-१७॥ ननु यागस्यादौ यदि करणवेन नान्वयः कथं तर्हि कामाधिकारे करणीभूतस्य यागस्य विषयत्वेन नित्यकाम्यवैषम्यव्युत्पादनमित्यत्राह- न शादं करणत्वं तु किं तूपादानमानतः । सत्यम् , यागस्यादौ यागस्यादौ करणत्वमस्ति । तत्तु न शब्दतः प्रतिपन्नम् । आकाङ्क्षाऽ- भावादयोग्यत्वाच्च । किं तूपादानप्रमाणात् । उपादानं नाम विध्याक्षेपः। तथा हि- लिडादिमिरमिहितो नियोगो येन विना न पर्यवस्यति तदाक्षिपतीत्य मिधा- नाभिधेयानुपपत्तिबलायातकल्पनान्मकमुपादानम् । तचाभिहितार्थानुपपत्तिबलायात- कल्पनारूपश्रुता र्थापत्तिव्यतिरिक्तमिति चतुर्थे निरूपितम् । तथा च यागस्य फलकरण- स्वमन्तरेणाभिधानाभिधेययोरपर्यवसानानियोगाक्षेपरूपोपादानमेव यागस्य फलकरणत्वं कल्पयतीत्यौपादानिकमेव करणत्वम् । न शाब्दमित्यर्थः ॥ ननु यागस्य फलं प्रति करणत्वाभावे नियोगस्याभिधेयस्य काऽनुपपत्तिः। कथं वा तद्धलात्करणस्वपरिकल्पनमित्यत्राह- स्वर्गकामस्य हि कृतिानोति स्वर्गसाधनम् ॥ १८॥ न च स्वर्गासाधनस्य तत्कृतिव्याप्यता भवेत् । अतोऽत्र करणत्वेन प्रतिसन्धीयते यजिः ॥१९॥ इत्युपादानतस्तस्य करणत्वं न शब्दतः । अतो न करणत्वेन यागस्य प्रथमान्वयः॥२०॥ इदमत्राभिप्रेतम्-स्वर्णोद्देशेन प्रवृत्ता हि स्वर्गकामकृतिः स्वर्गसाधनमेव न्यामोति । स्वर्ग प्रत्यसाधनस्य स्वर्गार्थप्रवृत्तकृतिव्याप्यत्वमनुपपन्नमिति स्वर्ग प्रति 1 ताकाले-क. 2 मित्यादौ करणत्वमनाकाक्षि-क. 3 तदाक्षेप इत्यभिधाना-क. ख. त्ति-रूपश्रुतार्थापत्ति-क. 5 नुपपत्ति-घ. 6 त्वविकल्पन-ड. - : करणत्वेन : नियोज्यो यागमनुसन्धत्ते । कर गन्नानभिसंहितस्य च स्वर्गकामकृति- व्याप्यत्वरूपविषयवाभावात् । विषयत्वाभावे च नियोगस्य विषयनिरूपितकृतिमा ध्य- बेनाभिधानमनुपपन्नमिति बिध्यालेपबलाइव यागस्य फलकरणत्वम भिसन्धीयते । तेन च फलं प्रति करण बेनाभिसंहितस्यैव यागस्यापूर्वकृति प्रति विषयत्वेनान्वयानित्यकाम्य- वैषम्यमपि सिद्वम् । तथा हि-* कामाधिकारे कर गांश फलरागान्प्रवृत्तिः । अङ्गेषु विधिवशान्निन्येषु फलाभावात्माङ्गे प्रधाने विधितः प्रवृत्तिः । करणवं हि नानुपकृतस्य भवतीति भवितव्यमितिकर्तव्यतया। सा च कृत्स्नाङ्गे रैवेति सर्वाङ्गोपसंहारसमर्थस्यैव काम्ये कर्मण्यधिकारः । निन्ये विधिर्यथाकथंचिदुपसंहृनयेतिकर्तव्यतया म्वमिद्धिमङ्गीक- रोतीति सर्वाङ्गोपसंहाराशकस्याप्यधिकारः । अत एव श्येनानीधीमीयवैषम्यमपि । 'श्येनेनामिचरन् यजेते त्यत्र प्रधानस्य श्येनयागस्य फलरागाधीनप्रवृत्तिगोचरत्वात् । तत्र च पुरुषार्थहिंसागोचरस्य ‘न हिंस्यात्सर्वा भूतनी ति निषेधस्यानुप्रवेशः ! 'अग्नी षोमीयं पशुमालभेते त्यत्र तु पशुयागस्य विध्यधीनप्रवृत्तिगोचरतया फलरागाधीनप्रवृ- त्यविषयत्वात्तत्र पुरुषार्थहिंसानिषेधस्य नानुप्रवेशः । एवमौपादानिकं फलकरणत्वमव- लम्ब्यैव नित्यकाम्यवैषम्यं श्येनाग्नीषोमीयवैषम्यं च लिप्सासूत्रे सर्वशक्तिनये च निपुणतरमुपपादितम् । तेनोपादानप्रमाणगम्यमेव फलकरणत्वं यागस्य, न शाब्दमिति भावनावाक्यार्थत्ववादिमतानुसारेणापि करगत्वं न शाब्दबोधार्ह मिति ॥ १८-२० ॥ उक्तेन प्रकारेण करणवस्यैवाशाब्दत्वात्तदुपपत्त्यर्थमपूर्वकल्पनावाचोयुक्तिरापि रिक्तेति न युक्तिमतीत्युपसंहरति- तस्मान्न यागकरणभावनिर्वाहसिद्धये । अपूर्व कल्पयिष्याम इति वाक्यस्य रिक्तता ॥२१॥ इदानीमाग्नेयादिप्रतिबन्धाऽपूर्ववादिमतमुत्थापयति- तत्राग्नेयादिषड्यागप्रतिबन्धा परे स्थिताः । समर्थयन्तेऽपूर्वस्य कल्पनामेव वादिनः ॥ २२ ॥ दर्शपूर्णमासाभ्यां स्वर्गकामो यजते ति श्रुतम् । नत्र "आग्नेयोऽष्टाक- पालोऽमावास्यायाम् , ऐन्द्रं दध्यमावास्यायाम् . ऐन्दं पयोऽमावास्याया"मिति दर्शवयं 1 नियोगो या-घ. 2 ध्यत्वेनाभि-कु. क. विद्यापेक्षकब-ख. ग. 4 भिधीयते-3. 6 कामनाधिकारे-क. ख. केति-ऊ. 5 पूर्वकृतिविषयत्वेन-ध. नित्यकाम्यश्येना-घ. १ वीप्सासूत्रे-ङ. 10 धावहमिति-घ. 11 त्वस्य शाब्द-घ. 12 पिन युक्तिमती-ध.

सुवर्णमुद्रिकासहिते वाक्याथरले । श्रुतम् । 'आग्नेयोऽष्टाकपालः, अग्नीषोमीयमेकादशकपालम् , उपांशुयाजमन्तरा यज. ती 'ति पूर्णमासत्रयम् । तत्रोत्पत्तिवाक्यस्थलिङ्पदानि दर्शपूर्णमालाधिकारसन्निधिसमा नातानि परमापूर्वानुवादशङ्काकुण्ठितशक्तिकानि दागपूर्वान्तराणि न बोधयन्ति । किंत्वाग्नेयादीनां षण्णां यागानामसहभुवां सम्भूयोपकारसधीचीनानां परमापूर्वोत्पा- दनार्थमवान्तरव्यापारत्वेनोत्पत्त्यपूर्वाणि कल्प्यन्त इति चतुर्थे स्थितम् । तथा च अथाऽऽग्नेयादीनां परमापूर्वसाधनत्वोपपत्त्यर्थमपूर्वकल्पनामिष्टं तदेव क्षणिकस्य यागस्य कालान्तरभाविस्वर्गसाधनभावोपपत्त्यर्थमपूर्व कल्प्यमित्यपरे वादिनोऽपूर्वकल्पनमेव समर्थयन्त इत्यर्थः ॥ २२ ॥ समर्थनप्रकारमेव दर्शयति- यदि साधनता न स्यात्क्षणिकत्वाविशेषतः । आग्नेयादेरपि तदा नापूर्व प्रति सा भवेत् ॥ २३ ॥ क्षणिकत्वेन यागस्य कालान्तरभाविफलसाधनत्यानुपपत्तावानेयादीनां षण्णामपि यागानां दर्शपूर्णमा साधिकारवाक्यबलादागतमपूर्वसाधनत्वमपि नोप-पद्यते । क्षणिकत्वा- विशेषादित्यर्थः ॥ २३॥ अत्र राधान्ती स्वाभिप्रायमाविष्कुर्वनाशङ्कते- अथोच्यते दर्शपूर्णमासवाक्यस्थलिङ्पदम् । कृतिसाध्यतयाऽपूर्व यदि वाऽभिदधाति च ॥२४॥ तत्राग्नेयादियागानां घटकत्वं कृति प्रति । साक्षाद्धि कृतिसाध्यत्वमभाव्यस्य न विद्यते ॥२५॥ तदानेयादियागानां साधनत्वोपपत्तये । " मध्ये स्वव्यापारतयाऽपूर्वाणां कल्पनेप्यते ॥ २६॥ दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते" त्यत्र यदेतल्लिङ्पदं तत्तावद्विषयनि- योज्यसङ्घटितत्वेन कृतिसाध्यमपूर्वमभिधत्ते । तन्न सन्निधिसमानातान्याग्नेयादिवाक्यानि परमापूर्वस्याभाव्यस्य साक्षात्कृतिसाध्यत्वानुपपत्तेः कृतिसाध्याग्नेयादियागसाध्यत्वमुप स्थापयन्ति । तथाऽपि यागानां परमापूर्वसाधनत्वमनुपपन्नम् । क्षणिकत्वेन सर्वेषां सह. भावानुपपत्तेः प्राच्योढ़ी च्याङ्गसम्भूत्यभावाच्च । अतस्तत्साधनभावोपपत्त्यर्थ मवान्तर- व्यापारत्वेनोत्पत्त्यपूर्वाणि परिकल्प्यन्त इत्यर्थः ॥ २४-२६॥ 1त्वाद्यजेः परे-घ. यत्वान्न चेष्यते-ङ. 3 सादि वाक्य-ङ. 5 च्येत ङ. 6 मध्यमव्यापरतया-ङ. स्वव्यापृतितया-क. 8 च्यसम्भू-ग. बान्तरत्वेन-क. ख. " 4 पद्येतला. 9 मपूर्वा.

तृतीयपरिच्छेदः ए[तकग्रन्थनाह-- अतश्चोत्पत्त्यपूर्वाणां व्यापारत्वेन कल्पनात्। नत्राग्नयादियागानां साधनत्वं न हीयेत ॥२७॥ यत एवमुत्पत्त्यपूर्वाणि व्यापारन्वेन परिकल्प्यन्तेऽतस्तद्वारा यागानामाग्नेया- दीनां साधनत्वं यदि निर्वहेत, तहि यागस्यापि क्षणिकत्वेन कालान्तरभाविफलसाधन- न्वानुपपत्तावपूर्वकल्पनेन माधनत्वं निर्वहेदपीत्यर्थः ॥ २७ ॥ एतां प्रतिबन्दीमनुद्य दूषयति- इत्येवं प्रतिवन्द्या यत्प्रत्यवस्थानारितम् । नैतत्संगच्छतेऽपूर्व यदि कल्प्येत नद्यपि ॥ २८ ॥ तस्यैव साधनत्वं स्यादत्तिः पूर्वक्षणे यतः । अपूर्वकल्पने तस्यैव पूर्वक्षणवर्तित्वेन साधनत्वापत्त्या यागस्य साधनत्वं न भवेदित्यर्थः ॥ २८॥ ननु पूर्वक्षणवर्तित्वमात्रेण कथमपूर्वस्यैव साधनत्वं, न यागस्येत्यत्राह यस्य पूर्वक्षणे वृत्तिर्नियता परिदृश्यत ॥ २९ ॥ यस्मादनन्यथासिद्धं तस्य तत्कारणं भवेत। अनन्यथासिद्धनियतपूर्वक्षणवर्ति कारणमिति कारणलक्षणस्योक्तत्वादपूर्वस्य तादृशलक्षणोपेतत्वात्तदेव कारणं भवेत् । न तु यागः । नियतपूर्वक्षणवर्तित्वाभावा- दित्यर्थः ॥२९॥ ननु भवन्मते वा कथमाग्नेयादीनां साधनत्वम् । उत्पत्त्यपूर्वव्यवहितत्वेन पूर्वक्षण- वर्तित्वाभावादित्यत्राह वयं तूत्पत्त्यपूर्वाणामेव पूर्वक्षणे स्थितः ॥३०॥ नियोगसाधनत्वं च ब्रूमः किं तत्र हीयते । तत्रापि नियतपूर्वक्षणवर्तित्वेनोत्पत्त्यपूर्वाणामेव परमापूर्वसाधनत्वेऽपि न दोषः। अयं तु विशेषः--' नाव्यापृतं करणं भवतीति न्यायेनाग्नेयादीनामपूर्वकरणत्वनिर्वा- हाय व्यापारत्वेनोत्पत्त्यपूर्वकल्पनेऽपि “स्वाङ्गमव्यवधायक"मिति न्यायेनापूर्वाण्याने- यादीनां करणत्वं न विरुन्धन्ति । अत्र तु यागस्य तावत् कालान्तर भाविफल- * साधनत्वोपपत्तौ-3. 1 एतच्चो-क. ख. 2विद्यत-घ. 3 साधनत्वोपपत्ता-क. 5 वृत्तित्वा-ख. साधनत्वं-क. भावित्वं-क.

सुवर्णमुद्रिकासहिते वाक्याथरत्ने साधनत्वं क्षणिकस्यायोग्यमित्यपूर्व स्वयमागत्यापि फलसाधनतां स्वयमेव भजते । नियतपूर्वक्षणवर्तित्वात् । न तु यागस्य फलसाधनतां सहते। अङ्गत्वाभावेनाव्यवधा- यकत्वाभावादिति भावः ॥ ३०॥ आग्नेयादियागानां नियोगसाधनतानिहाय कल्पितानामुत्पत्त्यपूर्वाणामवगमकं किमिति विकल्पयति- ॐ अत्राधिकारवाक्या किमुताग्नेयादिवाक्यतः ॥ ३१ ॥ बोध उत्पत्त्यपूर्वाणां न तावद्युज्येतऽग्रिमः । अत्र श्लोक पादत्रयेण विकल्पप्रदर्शनम् । तुरीयपादेनाधिकारवाक्यादवान्तरा- पूर्वावाम इति प्रथमपक्षप्रतिषेधः ॥३१॥ कुतो न युज्यत इत्याशङ्कयावगमकपदाभावादित्याह- पदमुत्पत्त्यपूर्वाणां वोधकं न हि विद्यते ॥३२॥ नन्वनेकपदकदम्बकात्मक कथमवान्तरापूर्वावगमकपदाभाव इत्याशङ्कयार्थान्तर- प्रकाशने व्वापृतस्य पदस्यार्थान्तरबोधकत्वानुपपत्तेरित्याह- लिङ्पदं यागविषयकृतिसाध्यार्थवाचकम् । स्वर्गकामपदं त्वत्र नियोज्यस्याभिधायकम् ॥ ३३॥ यद्दर्शपूर्णमासाभ्यामिति तन्नाम कर्मणः । अतः प्रत्यायकपदाभावात्पक्षो न चादिमः ॥ ३४॥ यजेतेत्यत्र प्रत्ययस्य कृतिसाध्यापूर्वसमर्पकत्वेन प्रकृतेश्चापूर्वकृतिविषयसमर्प- कत्वेन स्वर्गकामपदस्य कृत्याश्रयतया नियोज्यसमर्पकत्वेन दर्शपूर्णमासपदस्य कर्म- नामतया तृतीयाविभक्तेश्चौपादानिक 'फलसाधनत्वानुवादकत्वादुत्पत्त्यपूर्वप्रत्यायकमधि- कारवाक्ये किमपि पदं नास्तीति प्रथमपक्षो नोपपद्यत इत्यर्थः ॥ ३३-३४ ॥ द्वितीयं दूषयति- न चाग्नेयादिवाक्यानां तत्प्रत्यायकता भवेत् । कुत इत्यत आह- यतोऽधिकारवाक्यस्य समानातानि सन्निधौ ॥३५॥ न चाग्नेयादिवाक्यानि पृथगर्थ वदन्त्यपि । - 1 मवगम्यापि-घ. यागस्य साधनतां-क. 3 अथाधि-क. ङ. 4 किमानेयादिति- वाक्यत:-ऊ. निवगम इ-घ. न स्वर्गकामपदस्य-क. ङ. 7 कल-3.

तुनाथरिच्छेदः ४. परमापूर्वानुवादशङ्काकुण्ठित शक्तिकाः ॥ ३० ॥ तस्माल्लिङादयोऽपूर्व न पृथग्बोधयन्ति हि। अधिकारसन्निधिपटितानामाग्नेयादिवाक्यस्थलकादीनां परमापूर्वानुवादशाकु- ण्ठितशक्तिकन्वेन द्रागपूर्वान्तरबोधकन्वाभावादित्यर्थः ॥ ३५-३६ ॥ यद्याग्नेयादिवाक्यस्थलकादयोऽपूर्वाण्यवगमयन्तीत्यभिधीयते तदा सप्तमाद्य- विरोधोऽपि स्यादिति युक्तयन्तरमाह- सप्तमाद्यविरोधोऽपि मति चैवं प्रसज्यते ॥३७॥ ननु सप्तमाये किमुक्तं, कथं वा तेन विरोध इत्याशङ्कय नव्रत्य प्रमेयस्मरणपूर्वकं- विरोधं स्फोरयति- तत्रान्विताभिधानार्थ ग्राहकग्रहणं स्मृतम् । तथाऽधिकारवाक्यस्थलिपदेन समीरितम् ॥ ३८ ॥ प्रतीयते प्रकरणी नियोग इतरत्तथा । पदार्थजातं तस्योपसर्जनत्वेन पठ्यते ॥३॥ प्रयोजनं तथाऽपूर्वमितरत्तु प्रयोजनि । खले कपोतवत्सर्वान् पदार्थान् स्वीयभावतः ॥ ४० ।। गृह्णात्यादौ यथायोग्यद्वारा पश्चात्तदन्वयः । इत्येवं सप्तमाद्योक्तं, सप्तमाय एवं चिन्तितम्-किं सर्ववेदविहिताः सर्वे क्रतुधर्माः सर्वत्र परिप्लवा भव- न्ति, किं वा प्रतिप्रकरणं व्यवतिष्टन्त इति । तत्र यदि सर्वत्र सर्वे धर्माः पारिप्लवा भवेयु- स्तर्हि सर्वेषामपि ऋतूनां व्यवस्थाऽभावेन क्रतुभेदो न स्यात् । सर्वधर्मानुष्ठानाचा- तिप्रसङ्गः स्यात् । अतोऽधिकारवाक्यैः प्रत्येक विषयनियोज्यसंघटितापूर्वाणामवबोधनाद- पूर्वणां च त्येकं यागविषयकृतिसाध्यतयाऽवगतत्वाद्विषयस्य चाभिसंहितफलकरणत्व- पूर्वकत्वादितिकर्तव्यतासध्रीचीनस्य करणत्वात्प्रकरणपटितरेवाङ्गैरितिकर्तव्यताया अवगमा- प्रतिप्रकरणं धर्मा व्यवतिष्ठन्त इति । तत्र च स्वाधिकारवाक्यगतलिङ्पढ़ेन प्रतीयमान- मपूर्व प्रकरणित्वेन प्रधानतया प्रतीयते । ' तच्च प्रकरणग्राहकं, विनियोजकं, प्रयोजकं चेति त्रिविधम् । तत्र प्रकरणपठितान् पदार्थान् स्वीयभावेन गृह्णद्राहकं, द्वारकार्य विनियुञानं विनियोजकं, अनुष्टापयत्प्रयोजकमित्येवमधिकारविधेरेव ग्राहकत्वं स्थापयति-कु. 1 तथा लिङादयो-क. इ. 4 पद्यते-क. ख. 5 तरस्तु-ग. 2 प्रक्रियास्मरणपूर्वकं विरोध-क. ङ. प्रयोजने-क. ततश्च-घ.

सुवर्णमुद्रिकासहिने बाक्यार्थरने .. , विनियोजकत्वं प्रयोजकन्वं चेत्युक्तम् । तत्र चादौ सर्वेषामपि पदार्थानां प्रातिपदिक, मात्राभिहितानाम पूर्वीयत्वेनैवान्वयः । तदव चान्विताभिधानं ग्राहकग्रहणमिति चोच्यते। तत्र चाधिकारविधेः प्राधान्येन प्रयोजनत्वम् । इतरपदार्थजातस्य तूपसर्जनत्वेना- पूर्वीयत्वात्प्रयोजनित्वम् । स एव प्रयोजनप्रयोजनिभावः । अनेन चान्वयेन खले कपोतन्याय उदाह्रियते---यथा हि गगने समुत्पतन कपोतः खलेऽवशिष्टान् गृह्णन् स्वीयत्वेनाभिमन्यमानः खले निपतति, तद्वदपूर्वमपि प्रकरणपठितान् पदार्थान् स्वीय- त्वेन गृह्णातीत्यादौ तिरस्कृतविभक्तिकप्रातिपदिकार्थानामेवान्वयः। पश्चात्तु विभक्ति- पर्यालोचनया यथायोग्यद्वारा कार्यान्वय इत्येवं सप्तमायेऽभिहितमिति भावः ॥३८-४०॥ नन्वेवमस्तु नाम ग्राहकग्रहणापरनामधेयमन्विताभिधानं सप्तमाद्योक्तम् । कथमत्राऽऽग्नेयादिगतलिङादिभिरपूर्वान्तरबोधने तद्विरोध इत्याशङ्कयाह तथा सति लिङादिभिः ॥४१॥ यद्याग्नेयादिवाक्य-स्थैरपूर्वान्तरमुच्यते । तर्हि प्रयाजवाक्यैरप्यपूर्वान्तरबोधने ॥ ४२ ॥ प्रधानानां तदङ्गाङ्गिभावो न स्यात्परस्परम् । अधिकारसन्निधिसमानातानामाग्नेयादिवाक्यानां परमापूर्वानु-वादशङ्काकुण्ठित- शक्तीनामपूर्वान्तरबोधकत्वे प्रयाजादिवाक्यानामप्य पूर्वान्तरबोधकत्येन सर्वेषामप्य- पूर्वानुबन्धकर्मणां प्राधान्ये प्रधानानां परस्परमङ्गाङ्गिभावाभावेन प्रयोजनप्रयोजनि. भावान्वयविरोधो भवेदिति भावः ॥ ४१-४२॥ तदेतदनुवादपुरस्सरं प्रतिक्षिपति -- विरुध्यते तदा सप्तमाद्योक्तमिति चेन्न तत् ॥ ४३ ॥ पूर्वोक्तमनूद्य दृषयति उत्पत्त्यपूर्वगमकं नास्तीत्यभिहितं तु यत् । असङ्गतं तदाग्नेयादिवाक्यात्तत्प्रतीतितः ॥४४॥ ननूक्तमाग्नेयादिवाक्यानामपूर्वान्तरबोधकत्वे सप्तमाद्यविरोध इति तदपि नास्तीत्याह--- सप्तमाद्यविरोधोऽपि सत्येवं न प्रसज्यते । - 1 1 पूर्वेण यदन्वयः-घ. स्थमपू-क. ङ. वादनकुकुण्ठिन-क. 5 पूर्वानुबन्धकत्वेन-क. 6 वयो न विरोधी भवतीति-क. ख. ङ. वादकुण्ठित-दु.

तृतीयपरिच्छेदः कुत इत्यत्राह-- यद्यपि प्राग्लिङादीनां शङ्काकुण्ठितशक्तिता ॥ ४५ ॥ पश्चादेवोत्पत्त्यपूर्ववाचकत्वं तु कल्प्यते । क्षणिकानां तु यागानां सह साधनता न हि ॥४६॥ प्राच्योदीच्याङ्गसम्भृतेरपि सत्ता न विद्यते। अत उत्पत्त्यपूर्वाणि कल्प्यन्ते साधनानि च ॥४७॥ नियोगं प्रति तान्येव भवन्तीति न दुष्यति। प्रथमं तावदानेयादिवाक्यगतलिङादीनां परमापूर्वानुवादशङ्काकुण्ठितशक्तिकत्वेना- पूर्वान्तरबोधकवाभावेऽन्याग्नेयादीनां घण्णामपि यागानां क्षणिकत्वेन सह साधन- भावानुपपत्तेः प्राच्योदीच्याङ्गसम्भूत्यभावाच्च कल्पितान्यवान्तरापूर्वाणि प्रति वाचकत्वं पश्चादेवात्र परिकल्प्यते । एवं सति परमापूर्वसाधनत्वमाझेयादिजन्योत्पत्त्यपूर्वाणामेव भविष्यतीति न सप्तमाद्यविरोध इत्यर्थः ॥ ४५-४७ ॥ नन्वेवं क्षणिकाया यागक्रियायाः कालान्तरभाविफलमाधनभावोपपत्त्यर्थमपूर्व- कल्पनं स्यादित्यत्राह- न चाग्नेयादिषड्यागक्रियातोऽपूर्वकल्पनम् ॥४८॥ अपूर्वस्यैव नहि स्यात्साधनत्वं यजेन हि । कल्पितस्येवापूर्वस्य नियतपूर्वक्षणवर्तित्वेन साधनताऽऽपत्त्या यागस्य 1 तदभावेन साधनत्वाभावादित्यर्थः ।। ४८॥ एवमानेयादिप्रतिबन्दी निराकृत्य निगमयति- प्रतिवन्दी ततश्चैषा साम्याभावान युज्यते ॥४९॥ अतोऽत्र कल्पनाऽपूर्वस्योपपत्तिमती न हि । साम्ये सति प्रतिबन्दी जायते । अत्र तूत्पत्त्यपूर्वाणामेवानन्यथासिद्धनियतपूर्व- क्षणवर्तित्वेन साधनत्वम् । अव्यवधानात् । तद्वत्परमापूर्वस्य साधनतया कल्पने यागस्य तट्यवधानान्न साधनत्वमिति सामान्याभावान्न प्रतिबन्दी युज्यत इत्यर्थः ॥ ४९ ॥ अत्र लब्धावकाशश्चोदयति- ननु साधनता यागस्यादौ यदि न विद्यते ॥ ५० ॥ करणत्वं कथं तस्य पश्चाद्वा भवतीति चेत् । .. 1 तथात्वाभावेन-घ. साधनस्वाभिधानात् । क..

सुवर्णमुद्रिकासहिते वाक्यार्थरत्ने , पूर्व यागस्य कालान्तरभाविफलं प्रति साधनत्वाभावे कथं तर्हि करणीभूतस्य यागस्य विषयत्वेनान्वयप्रतिपादनमिति साधनत्वकरणत्वयोरभेदं प्रतिपद्यमानस्यैत- खोद्यमिति भावः ॥ १७ ।। तदेतत्परिहरति-- उच्यते करणत्वं हि साधनत्वाद्विभिद्यते ॥५१॥ करणत्वसाधनत्वयोः परस्परं भिन्नत्वात्साधनत्वाभावेऽपि करणत्वं विद्यत इति न चैतखोद्यमवतरतीत्यर्थः ॥ ५१ ॥ कुतो भेद इत्यत्राह- तत्स्वरूपपरामर्शात्तथा हि श्रूयतामिदम् । कारकत्वेन सङ्ख्यातं यत्कर्तृकरणादिकम् ॥ ५२ ।। तिक्रियाद्वारकतया सा च षण्णां हि विद्यते । न करणत्वं - साधनत्वावान्तररूपम् । तत्तु क्रियाद्वारकम् । 'क्रियां कुर्वद्धि कारक मिति तल्लक्षणात् । साधनत्वं तु कारणत्वावान्तरभेदात्मकम् । तच्चानन्यथासिद्धनियतपूर्व- क्षणवर्तित्वमित्यनयोर्भेदः । क्रियाद्वार'कता च षण्णामपि कारकाणां विद्यत- इत्यर्थः॥५२ इदानी घटस्वपि कार केषु क्रमेण क्रियाद्वारकतां दर्शयितु वैदिकान्येवोदाहरणान्यु पादत्ते- स्नाति तीर्थ इति तथा क्रियाद्वारा हि कर्तृता ॥ ५३॥ वीहीणामपि कर्मत्वमवहन्तिक्रियाकृतम् । उद्धन्तिक्रियया स्फ्यस्य करणत्वमपि स्थितम् ॥ ५४॥ सम्प्रदानत्वमात्रेयो भजते स्वर्णदानतः । अपादानत्वमग्नेश्च तृणापचयनागतम् ॥ ५५ ॥ तथा चाहवनीयादौ होमादाधारता स्थिता । "तीर्थे स्नाती'त्यत्र यजमानस्य यत्स्वातन्त्र्यरूपकर्तृत्वं तत्स्नानक्रियाद्वारा। तथा 'वीहीनवहन्ती त्यत्र यत्कर्तृक्रिययेप्सिततमत्वरूपं कर्मत्वं तच्चावहननक्रियाद्वारकमेव । तथा "स्फ्येनोद्धन्ती त्यत्र स्फ्यस्य यत्साधकतमत्वं क्रियाप्रसिद्धौ प्रकृष्टोपकारकत्व- " a 1 कारणभूतस्य-क. ङ. 2 त्वादिभिद्यते-क. . कारणत्वेन-क. छ. + यति-ध कारणत्वावान्तरभेदरूपम्-घ. 6 मित्येवमन-घ. कः स च-घ. कः स च-घ. 8 यत्स्नानकर्तृत्व-क. ङ.

तृतीयपरिच्छेदः रूपं करणत्वं तदप्युद्धननक्रियाद्वारकमेव । तथा " हिरण्यमात्रेयाय ददाती" त्यत्र यत्करणभूतेन कर्मणा कर्चभिप्रायगोचरत्वमात्रेयस्य सम्प्रदानत्वं तदपि हिरण्यदान- क्रियाद्वारकम् । तथैव “ अग्नेस्तृणान्यपचिनोती” त्यत्राग्नेर्यदवधित्वरूपमपादानत्वं तदपि तृणापचयनक्रियाद्वारकम् । तथैव “आहवनीये जुहोती” त्यत्र यदाहवनीयस्य कर्तृकर्मणोरन्यतरस्य धारणक्रियां प्रत्याधारत्वरूपमधिकरणत्वं तदपि होमक्रियाद्वारकमिति पपणामपि कारकाणां क्रियाद्वारकमेव कारकत्वामित्यर्थः ।। ५३-५५ ।। चैवं साधनत्वं क्रियाद्वारकमित्याह- 1 यस्य त्वनन्यथासिद्धा नियता प्राक्क्षणस्थितिः ॥५६॥ साधनत्वं तु तस्यास्ति न क्रियाद्वारकं तु तत् । कार्यात्पूर्वमनन्यथासिद्धनियतस्थितिमात्रेण साधनत्वं, न क्रिया द्वारकमित्यर्थः॥४६॥ एवं चात्र यागस्यापूर्वसाधनत्वाभावेऽपि फलोत्पादकक्रियाद्वारकं करणत्वं न दुष्टमित्याह- प्राक्च यद्यपि यागस्य साधनत्वं न विद्यते ॥२७॥ तथाऽपि च क्रियाद्वारं करणत्वं न दुष्यति । ननु साधनत्वमप्युत्पादनक्रियाद्वारकमस्तीत्याशङ्कयाऽऽकाङ्क्षानुसारेणान्वयो वक्त- व्यः, न च साधनाकाङ्क्षा वाक्यार्थस्येत्याह- आदौ हि विषयत्वेन यागस्यान्वय इष्यते ॥ ५८ ॥ कृतिः किंविषयेत्यादौ कृतिरूपनिरूपणे। आकाङ्क्षा जायते पूर्व तदाकाङ्क्षानुसारतः॥ ५९ ॥ सा कृतियोगविषयेत्येवं विषयता यजेः। प्रकारोऽपेक्ष्यते पश्चात्कथं कृत्या हि साध्यते ॥ ६०॥ अपूर्वमित्यपेक्षायां यागद्वारेति तद्गतिः । कृतिसाध्यमित्युक्ते किंविषयकृतिसाध्यमिति कृतिस्वरूपनिरूपणापेक्षा प्रथम, तु कथमिति प्रकारापेक्षा । ज्ञाते स्वरूपे प्रकारस्यापेक्षितत्वात् । तथा च यागविषय- कृतिसाध्यमिति प्रथमं यागस्य विषयत्वेनान्वयो न साधनत्वेन, अनपेक्षितत्वात् । अनन्तरं चाभाव्यस्यापूर्वस्य कथं कृतिसाध्यत्वमित्याकाङ्क्षायां यागद्वारेति यागस्य घटकत्वं, कृतिसाध्यत्वात् । अतो न कुत्रापि साधनत्वमपेक्षितमित्यर्थः ।।५४-६० ॥ १ 1 यत्र-ड. द्विारेत्य-क. ऊ. 3 क्यस्ये-छ. VAKYARTEARATNAM.

सुवर्णमुद्रिकासहिते वाक्याथरत्ने ननु करणत्वस्य वा कथमपेक्षितत्वं, अन्वयाननुप्रविष्टवादित्यत्राह- ततो नियोज्यविषयघटिते बोधिते सति ॥ ६१ ॥ लिङादिभिरपूर्वे तु विमर्शोऽयं प्रजायते। स्वर्गकामकृतिस्तावत्स्वर्गमुद्दिश्य वर्तते ॥ ६२ ॥ सा च साधयितुं स्वर्ग साक्षाच्छन्नोति नैव हि ! अतश्च स्वर्गकरण यागं व्याप्नोति तत्कृतिः ॥६३ ॥ तत्कृतिव्याप्यता न स्यात्करणत्वं न चेत्फले । अतः फलकृतिव्यातो यागोऽयं करणं फले ॥६४ ॥ इत्युपादानतो यागकरणत्वं न शब्दतः। इति व्युत्पादितं लिप्सासूत्रे पूर्वमनीषिभिः ॥ ६ ॥ अतो न दोषः करणभावे यागस्य विद्यते। सत्यम् , करणत्वमशब्दार्थतयाऽऽकाङ्क्षानुसारेणान्वयानुप्रविष्टं न भवति । अपि तु विध्याक्षेपरूपोपादानतः प्राप्तमेव । तथा च विषयनियोज्यसंघटिताकारवाक्यस्थ- लिडादिभिरभिहितो नियोगः स्वविषयावच्छिन्नकृत्याश्रयभूतनियोज्यकाम्यभूतस्वर्गार्थ- प्रवृत्तकृतिव्याप्यत्वरूपं करणत्वं च नानुपपन्नमित्यर्थः ।। ६१-६५ ।। एवमियता प्रबन्धेन प्रतिपादितमर्थं निष्कृष्य दर्शयति- अतो नियोज्यसमभिव्याहारेण लिङादिभिः ॥६६॥ वैदिकैरुच्यतेऽपूर्व स्थायिकार्यमिति स्थितम् । स्थायिकार्यस्यैवान लिङाद्यभिधेयत्वेनाङ्गीकारे लाघवमप्यस्तीत्याह इत्थं कार्यान्वयो लोकवेदयोः सम इष्यते ॥६७॥ यदि लोकवेदयोरेकमेव कार्य, कथं तार्ह वैदिककार्यस्य मानान्तरामेयत्व- मित्यत्राह- अस्य तु स्थायितामात्रं वेदादित्यत्र शालिका। मानान्तरामेयत्वं चेति शेषः।। तामेव शालिकामुदाहरति- व्युत्पत्तिरपि कार्यार्थ व्यवहारानुसारिणी ॥ ६८ ॥ किन्तु निर्धारणामात्रं वेदवाक्यविमर्शजम् । - तृतीयपरिच्छेदः , wo- अयमत्र शालिकार्थः-लिङादीनां कृतिसाध्यरूप कार्यार्थे व्युत्पत्तिद्धन्यव- हारानुसारेणेव । तत्तु कार्य प्रमाणान्तरागोचरं स्थायि चति वेदवाक्यविमर्शादेव जायते । स्वर्गकामपदस्य नियोज्यत्वेनाभिधानादिति ॥ ६८॥ एवमुक्तरीत्या कार्यान्वय स्यादुष्टत्वाल्लोकाभिमतवृद्धव्यवहारानुसारित्वाल्लो वेदाधिकरणानुग्रहाच्चावश्यं कार्यमेव लिकाद्यभिधेयतयाऽङ्गीकर्तव्यमित्युपसंहरति-- तस्मात्कार्यान्वये दोषकला नैवास्ति काचन ॥ ६॥ इति प्रवर्तकं लोकानुसारात्कार्यमिप्यताम् । ततश्च लोकवेदाधिकरणं चार्थवद्भवेत् ॥ ७० ॥ यद्यप्यपूर्वस्य कल्प्यत्वनिराकरणमेवैतत्परिच्छेदार्थः, तथाऽपि तत्प्रसङ्गादेवान्य- दपि किंचित्प्रकृतोपयोगितया प्रतिपादितमिति मन्तव्यम् ॥ ६९-७० ॥ अथेदानीं सर्वेषामपि सिद्धब्रह्मपरत्वं प्रतिपादयतां वेदान्तिनां मतमुन्थाप- यति- तत्र वेदान्तवाक्यानां सिद्ध ब्रह्मणि मानताम् । इच्छन्त औपनिषदा लौकिकी सिद्धसङ्गतिम् ॥ ७२ ॥ पुत्रस्ते जात" इत्यादौ वदन्ति परिशेषतः। ते हि मन्यन्ते-यदि लोके वृद्धव्यवहारवशाव्युन्पित्सोः कार्य एव व्युत्पत्तिः, तदा वैदिकवाक्यानामपि यया कयाचन रीत्या कार्यपरतैव स्यात्, न चैवं, किन्तु लोके व्युत्पित्सोः 'पुत्रस्ते जात' इत्यादौ पुत्रजन्मनि सिद्धेऽपि सङ्गतिग्रहोऽस्ति । अत- स्तबलाद्वेदान्तवाक्यानां सिद्धब्रह्मपरत्वं नानुपपत्रमिति भावः ॥ ७१ ॥ कुत्र तर्हि 'पुत्रस्ते जात' इति वाक्यं, येन लोके न्युत्पित्सोः सिद्धेऽपि सङ्गति- ग्रह इत्याशङ्कय व्युत्पादयितुं स्थलशुद्धिं तावदाह- क्वचिद्देशे सुतोत्पत्तौ पटं सुतपदाङ्कितम् ॥७२॥ प्रेषयन्ति जना वार्ताहारेण जनकान्तिकम् । व्युत्पित्सोस्तत्र सिद्धेऽपि व्युत्पत्तिरिति ते जगुः ॥ ७३ ॥ कस्मिंश्चिद्देशे पुत्रजननसमनन्तरं अलनकादिना पुत्रपदाङ्कितं पटं तपित्रे कुमारजननसूचनार्थ केन चिद्वार्ताम्हारेण श्वशुरादयः प्रेषयन्ति । स च वार्ता हारस्तं पटं 1 वाक्याथै-ग. 3 स्य दु?-ग. 6 हर:-ग. . वाक्यान्व-ख.ग. साक्षात्का-ह. हरेण.

सुवर्णमुद्रिकासहिते वाक्यार्थरत्ने . , गृहीत्वा जनकाभ्याशं प्राप्य प्रातरस्मै पुत्रपदाङ्कितं पटं प्रदर्य - दिष्टया वर्धसे ! पुत्रस्ते जात' इति वदति । तत्र वार्ताहारेण सहैवागतस्य व्युत्पित्सोस्तत्र सिद्धेऽपि व्युत्पत्ति वदन्तीत्यर्थः ॥ ७२-७३ ॥ एवंविधार्थद्योतकं पूर्वाचार्यवचनमुद्दाहरति- दृष्टचैत्रसुतोत्पत्तेस्तत्पदाङ्कितवाससा । वार्ताहारेण यातस्य परिशेषाद्विनिश्चितिः ॥ ७४॥ दृष्टा चैत्रसुतोत्पत्तिर्येन सः दृष्टचैत्रसुतोत्पत्तिः । उत्पन्न चैत्रसुतं दृष्टवानित्यर्थः । तादृशव्युत्पित्सोः परिशेषप्रमाणेन सिद्धे सङ्गतिग्रहनिश्चयादित्यन्वयः । चैत्रसुतोत्पत्तिदर्शन- मात्रेण कथं वाक्यस्य कुमारजननार्थत्वनिश्चय इत्यत्राह-1 वार्ताहरेण यातस्येति । व्युत्पित्सोरिति शेषः। ननु वार्ताहारेण सहागमनमात्रे कथं तदर्थत्वनिश्चयः, वार्ता- हारोऽन्यद्वा कथयतीति सन्देहस्य विद्यमानत्वादित्यत्राह-तत्पदाङ्कितवाससेति तस्य पुत्रस्य पदेन अङ्कितं वासो यस्य तेन । पुत्रपदाङ्कितपट प्रदर्य निमित्तान्तर- कथनस्यायुक्तत्वादप्रसक्तत्वाचेत्यर्थः ॥ ७४ ॥ तामेव शालिका तात्पर्यकथनेन विवृणोति- तथा हि स्वामिने वार्ताहारः पुत्रपदाङ्कितम् । पटं प्रदर्य वदति पुत्रस्ते जात इत्यपि ॥ ७५ ।। पटप्रदर्शनेन विदितमेवार्थ पुत्रस्ते जात इति वाक्थेन वदतीत्यर्थः ॥ ७५ ॥ ननु कथं व्युत्पित्सोः सिद्धे सङ्गतिग्रहः । उत्तमवृद्धवाक्याभावात्तत्समनन्तर- भाविमध्यमवृद्धप्रवृत्तश्च दर्शनादित्यत्राह- व्युत्पित्सुरपि तत्पुत्रजन्म दृष्टा समागतः । तादृग्वाक्यं समाकर्ण्य विकसद्वदनं नरम् ॥ ७६ ।। विलोक्य हर्षमप्यस्य विकासान्निश्चिनोति सः । यद्यप्युत्तमवृद्धवाक्यान्मध्यमवृद्धप्रवृतिर्नास्ति, तथाऽपि तत्स्थानीयवार्ताहारवाक्य- श्रवणाच्चैत्रमुखप्रसादो विद्यते । तेन मुखप्रसादलिङ्गेन चैत्रस्य हर्षोऽनुमीयते 'अयं चैत्रो हर्षवान् भवितुमर्हति, प्रसन्नवदनत्वान्मद्वदित्यर्थः ॥ ७६ ॥ ननु मुखप्रसादलिङ्गेन हर्षमात्रानुमानेऽपि कथं हर्षस्य तदेकनिमित्तत्वनिश्चय इत्यत्राह- तन्निमित्तान्तराभावे वाक्यश्रुत्यनुगामिनम् ॥ ७७ ॥ 1 वार्ताहरेण यातस्येति । सहेति शेषः-घ. , 2 त्यसौ-ड.

तृतीयपरिच्छेदः
हर्ष वाक्यार्थविज्ञानजनितं निश्चिनोत्यपि ।
परिदृश्यमाननिमित्तान्तराभावाद्वाक्यश्रवणममनन्तरभाविनो हर्षस्य वाक्यार्थजनि-
तत्वमनुमीयते । अयं च हर्षो वाताहारवाक्यश्रवणलमनन्तरभाविवाक्यार्थज्ञानजनितो
भावितुमर्हति, असति निमित्तान्तरे वाक्यश्रवणसमनन्तरभावित्वात्, यदनन्तरं यदृश्यने
तत्तस्य कारण, यथा तन्तुसमनन्तरभाविनः पटस्य तन्तब इत्यर्थः ।। ७७ ॥
.
भवतु नामैवं वाक्यश्रवणसमनन्तरभाविनो हर्षस्य वाक्यार्थज्ञानजनितत्वनिश्चयः,
स तु वाक्यार्थः पुत्रजन्मेति निश्चयः कथमित्यत्राह
प्रियत्वेन च तत्पुत्रजन्मनो निश्चयो भवेत् ॥ ७८ ।।
व्युत्पित्सुरपि पूर्व पुत्रजन्मनो दृष्टत्वात् तत्पदाङ्कितपटप्रदर्शनाच्च लोक हर्षस्य
प्रियश्रवणजनितत्वेन च दृष्टत्वाच्च पुत्रजन्मनश्च लोले सकलजनसाधारणतया प्रियत्वेना-
वगमाच्च पुत्रजन्मैव वाक्यार्थ इति निश्चिनोति, न तु सुखप्रसवादिकम् , “पुत्रोत्पत्तिविप-
त्तिभ्यां नापरं सुखदुः
:खयो" रिति वचनादिति भावः ॥ ७८ ।।
नन्वेवं पुत्रजन्मनः सामान्येन वाक्यार्थतया निर्णयेऽपि प्रतिपदमर्थनिर्णयः
कथमित्यत्राह-
प्रतिशब्दमथावापोद्धाराभ्यामर्थनिर्णयः ।
एवं परिशेषप्रमाणेन पुत्रजन्मनो वाक्यार्थतयाऽवधारण सति समनन्तरं 'पुत्रस्ते
निरामयस्तिष्ठति' 'पुत्रस्ते देशान्तरादागत' इति वाक्यान्तरादावापोद्धाराभ्यां
प्रतिपदमर्थनिर्णय इत्यर्थः ॥
ननु प्रथमव्युत्पत्तोंके कार्यपरत्वमुक्तमित्यत्राह-
तस्मात्प्राथमिकी सिद्धे व्युत्पत्तिर्लोक इप्यते ॥ ७९ ॥
सिद्धेऽपि प्राथमिकी व्युत्पत्तिरिष्यत इत्यर्थः ॥ ७९ ॥
एवं प्रतिपादने फलमाह-
अतो वेदान्तवाक्यानां सिद्धे ब्रह्मणि मानता ।
सिद्धे सङ्गतिग्रहस्य लोकतोऽवगत्या वेदान्तवाक्यानां सिद्धब्रह्मपरत्वं निरङ्कुशतया
सिद्धमित्यर्थः ॥
एतन्मतोपसंहारपुरस्सरं तत्र राद्धान्तमाह--
इति वेदान्तिनः प्राहुस्तदेतन्नोपपद्यते ॥ ८०॥

सुवर्णमुद्रिकासहित बाक्यार्थरत्ने - , remeen तत्र हेतुमाह- यतः प्राथमिकी कार्ये व्युत्पत्तिलौकिकी स्थिता । आयव्युत्पत्तेः कार्यपरत्वेन सोपपत्तिकं प्रतिपादितत्वात्सर्वत्र कार्यपरत्वमेवाङ्गी- कर्तव्यमित्यर्थः ।। ननु 'पुत्रस्ते जात' इति वाक्ये कार्याभिधायकं पदं न प्रतीयते । अतस्तस्य वाक्यस्य कार्यपरत्वं कथमित्यत्राह- पुत्रस्ते जात इत्यत्र पदं कार्याभिधायकम् ॥ ८१ ॥ न यद्यपि तथाऽप्यध्याहारात्तेनान्वयो मतः । सत्यम् , तथाविध पदं नास्ति । तथाऽपि तेन विना वाक्यार्थस्यापर्यवसानात्तादृशं पदमध्याहरणीयमित्यर्थः ।। ८१ ॥ नन्वध्याहारो न प्रामाणिक इत्याशङ्कय लोकसिद्धत्वान्नैवमित्याह- लोकेऽपि द्वारमित्यादावध्याहारोऽपि दृश्यते ॥ ८२॥ द्वारस्य संवरणे विवरणे वा चिकीर्षिते द्वारमित्येतावन्मात्रोक्तौ संब्रियता, विवि- यतामिति वा पदमध्याहृत्य तेनान्वयदर्शनात्पदाध्याहारोऽर्थाध्याहारो वा लोकत एव सिद्ध इत्यर्थः ॥ ८२॥ कथं पुत्रस्ते जात इत्यत्र कार्याभिधायकपदस्य वा कर्तव्यरूपस्यार्थस्य वाऽध्याहार इत्यत्राह- तं पश्य तं गृहाणेति वाऽध्याहारोऽत्र चेष्यताम् । पुत्रस्ते जात इत्यत्रापि तं पश्य, तं गृहाणेति पदस्य दर्शनग्रहणरूपस्यार्थस्य वाध्याहारेण तेनान्वयो भवतीत्यर्थः ।। ननु लोकेऽप्यध्याहारादिना सिद्धपराणामपि वाक्यानां किमिति कार्यपरत्वमेव वर्ण्यते, केषाञ्चिद्वाक्यानां सिद्धपरत्वे को दोष इत्यत्राह- स च तादृग्विधामेव प्रतीतिमनुमापयन् ॥ ८३ ॥ व्यवहारो विशिष्टार्थविषयः परिदृश्यते । व्युत्पत्तावादिमार्गस्सन् विशिष्टार्थाभिधायिताम् ॥ ८४ ॥ कल्पयत्येव शब्दस्येत्येवं कार्यान्वयो मतः । लोके तावद्वृद्धव्यवहारो व्युत्पत्तावादिमार्ग इति वक्तव्यः, स च गवानयनादि- कार्यविषय एव परिदृश्यमानः सर्वत्रापि शब्दस्य कार्यपरतामापादयतीत्येवमध्या- हारादिनाऽपि कार्यान्वय एवावश्यमङ्गीकरणीय इत्यर्थः ॥ ८३-८४ ॥ m तृतीयपरिच्छेदः .. ननु यदि लौकिकवाक्यानामवश्यं कार्यपरता तर्हि सिद्धब्रह्मपराणां वेदान्त- वाक्यानां का गतिः । अथ तान्यपि ज्योतिष्टोमादिविध्यानीतकर्तृपरतया वर्ण्यन्त इति । तन । मिन्नप्रकरणस्थानां वेदान्तवाक्यानां कर्मविध्येकवाक्यतानुपपत्तेरित्याशङ्कय तर्युपासनावाक्यशेषतया वेदान्तवाक्यानां गतिर्वर्णनीयेत्याह- यञ्चाभ्यधायि वेदान्तास्सिद्धब्रह्मपरा इति ॥ ८५॥ तत्राप्युपासनावाक्यशेषत्वे किशु हीयते । ननूपासनाया विधेयत्वं नास्ति, तत्सामग्रयभावादित्याशकते- 1 कर्तुमेकमकर्तुं वा चान्यथा कर्तुमेव वा ॥ ८६॥ यच्छक्यते विधेयं तन्न तथोपासनेति चेत् । यदि विधानसामग्रीराहित्यादुपासनाया विधेयत्वं नास्ति तदानीं 'श्रोतन्यः' इत्यत्र विधिसामग्रया विद्यमानतया श्रवणक्रियाविधेयत्वं युज्यत इत्याह- तर्हि श्रोतव्य इत्यत्र विधेया श्रवणक्रिया ॥ ८७॥ तव्यप्रत्ययतः कार्य कृतिसाध्यं प्रतीयते । 'श्रोतव्य' इति तन्यप्रत्ययेन कृतिसाध्यतयाऽभिहितस्य नियोगस्य कृति प्रति प्रकृत्यर्थभूता श्रवणक्रिया विषयतयाऽन्वेतीत्यर्थः ॥ ८७ ॥ नन्वत्र नियोज्यो वक्तव्यः । तमन्तरेण कार्यप्रतीतेरभावात् । तदुक्तम्-" न ह्यविषयानिनियोज्यान्नियोगज्ञानमुत्पद्यत" इति । अतो विषयनियोज्ययोविधिप्रतीतो तुल्यवत्सामग्रीत्वाद्विषयप्रतीतावपि नियोज्यप्रतीत्याऽवश्यं भवितव्यमित्यत्राह- नियोज्यत्वं च भवति ब्रह्मीभवनमिच्छतः ॥ ८८ ॥ ब्रह्म वेद ब्रह्मैव भवती"त्यत्र ब्रह्मवेदनस्य फलं ब्रह्मीभवनमर्थवादतोऽव- गम्यते तेन रात्रिसत्रन्यायेनाऽऽर्थवादिकब्रह्मीभावफलकामस्यात्र नियोज्यत्व- मित्यर्थः ।।८८॥ नन्वेवं 'श्रोतव्य' इति वाक्यस्य कार्याभिधायकतन्यप्रत्ययबलात्कार्यपरत्वमस्तु, इतरेषां वेदान्तवाक्यानां का गतिरित्यत्राह- अतस्तत्कार्यशेषत्वं वेदान्तानां च युज्यताम् । श्रोतव्य' इत्यादिवाक्यस्य सिद्ध कार्यपरत्वे तदन्वितस्वार्थाभिधायकत्वेन तदेक- वाक्यताऽऽपन्नानामितरेषामपि वेदान्तवाक्यानां कार्यपरत्वमेवेत्यर्थः॥ we . । 1 अथ कर्तुमकर्तुं वा-च. 2 तन्नाथवोपा-घ. श्रोतव्यविधिसामग्रथा-प.

सुवर्णमुद्रिकासहिते वाक्यार्थरत्ने सत्यम् , नन्वेवमुक्तरीत्या यदि लौकिकानां वैदिकानां च वाक्यानां कर्यपरत्वमेव तर्हि 'देवदत्तः काष्टैः स्थाल्यामोदनं पचति' इह प्रभिन्नकमलोदरे मधूनि मधुकरः पिबती 'त्यादिषु वर्तमानापदेशेषु प्रसिद्धार्थपदसमभिव्याहारबलात्कथं सिद्धे व्युत्पत्ति- रित्यत्राह- एवं कार्यपरा यस्मादाद्या व्युत्पत्तिरिष्यते ॥ ८९ ॥ ततस्सिद्धपदान्यत्र चेद्वितीयादि का हि सा । कार्य एव प्रयम व्युत्पत्तिः । सिद्धपरेषु वाक्येषु द्वितीया व्युत्पत्ति- भविष्यतीति न दोषः । यद्वा तत्राध्याहारादिना व्युत्पत्तिसिद्धकार्यपरत्वमेव वर्णनीय- मित्यर्थः ॥ ८९॥ प्रतिपादितं प्रमेयमुपसंहरति- तस्माल्लोकानुसारेण वेदे कार्य प्रवर्तकम् ॥९० ॥ इत्यपूर्वाभिधायित्वं लिङादीनामपि स्थितम् । व्युत्पत्यनुसारेण शब्दार्थवर्णनं कार्यम् । व्युत्पत्तिश्च लोदे. कार्य एवेति वैदिक- लिङादीनामपि स्थायिरूपापूर्वकार्याभिधायकत्वं सिद्धमित्यर्थः ॥९० ॥ एवं परिच्छेदत्रितयप्रतिपादितमुपसंहरति- एवमर्थो यजेतेति पदस्यात्र निरूपितः ।९१॥ इत्थमियता प्रबन्धेन प्रतिज्ञाते वाक्यार्थनिरूपणे यागविषयकृतिसाध्यस्यापूर्वस्य लिडादिपदवाच्यत्वेन निरूपणाद्यजेतेति लिङ्पदार्थो निरूपित इत्यर्थः ॥ ९ ॥ इत्यहोवलदेवविरचितायां वाक्यार्थरत्नतात्पर्यप्रकाशिकायां सुवर्णमुद्रिकायामपूर्वस्य कल्प्यत्वनिराकरणेन लिङाद्यभिधेयत्वसमर्थनं नाम तृतीयः परिच्छेदः ॥

चतुर्थः परिच्छेदः , । नियोज्या यन्नियोगेन वसिष्ठसनकादयः । तं वयं दक्षिणामूर्ति रघुनाथमुपास्महे ॥ १ ॥ अथेदानी स्वर्गकामपदस्य कर्तृपरत्वेन नियोज्यपरन्वाभावान-ममभिव्याहार- बलायातमपूर्वाख्यस्थायिकार्यस्य लिङाद्यभिधेयत्वमनुपपन्नमिनि तृतीयां विप्रतिपत्ति निराकर्तुं चतुर्थपरिच्छेद आरभ्यते । तत्र सर्वेषामधिकारवाश्यानां नियोज्यसापेक्षतयाs- पूर्वबोधकत्वमसहमानः तत्सिद्धिमाक्षिपति- ननु सर्व नियोज्यत्वे स्वर्गकामस्य सिध्यति । स्वर्गकामपदं त्वेतन नियोज्याभिधायकम् ॥ २॥ सर्वमिति पूर्व परिच्छेदनयनिरूपितं लिङादीनां स्थाय्यपूर्वाभिधायकत्वं, फलं प्रति करणत्वेनाभिसंहितस्य यागस्य विषयत्वमित्येवमादिकं परामपृश्यते । तद्धि सर्व स्वर्गकामपदसमभिव्याहारबलादेवोक्तम् । साध्यस्वर्गविशिष्टो नियोज्यः स्वकाम्यसाधनं 2 कार्यत्वेनावैति । तञ्च देशकालान्तरभावीति क्षणभगिनी क्रियां अयोग्यत्वात्परित्यज्य स्थायिकार्यमेव कार्यत्वेनावैतीति लिङादयः स्थायिकार्यमेवाभिदधतीति स्थापितम् । तत्सर्वं नियोज्यसापेक्षम् । अतस्तस्य नियोज्यस्य यदि सिद्धिः स्यात्तदा सर्वमपि सिध्यति । स तु नियोज्य एव न सिध्यति । स्वर्गकामपदस्य नियोज्याभिधायकत्वा. भावादित्यर्थः ॥२॥ ननु यदीदं स्वर्गकामपदं नियोज्यं नाभिधत्ते, कस्य तमुभिधायकमित्यत्राह- धात्वर्थस्य हि भावार्थनये साध्यत्वमीरितम् । तथा च यत्र समभिव्याहारः सिद्धसाध्ययोः ॥३॥ तत्र साध्यानुगुण्येन सिद्धस्यान्वय इप्यते । अविरुद्धेन हि पदार्थानामन्वयेन भवितव्यम् । तथा च भावार्थाधिकरण (पृ. मी. अ. २ पा. ५ अघि.) धात्वर्थस्य साध्यत्वामिधानासिद्धसाध्यसमभिव्याहारे "सिद्धं साध्यायोपदिश्यत" इति न्यायेन धात्वर्थस्य साध्यत्वेनाभिधानात्स्वर्गकामपदार्थस्यापि तदानुगुण्येनान्वयो भवतीत्यर्थः ॥३॥ JHAR 1 तम्निनियो-छ. 2 काम्यत्वेन-ना. माध्यातयो-ड. ५७ सुवर्णमुद्रिकासहिते वाक्यार्थरले amme mme - तहि कन प्रकारेण तदानुगुण्यं स्यादित्यत्राह- ततश्च कर्तृपरता स्वर्गकामपदस्य तु ॥ ४॥ न नियोज्याभिधायित्वं, स्वर्गकामपदस्य ! कर्तृपरत्वेन साध्यभूतधात्वर्थान्वये भवत्यानुगुण्यं, न नियोज्य- त्वेनेति स्वर्गकामपदं कर्तृपरं, न नियोज्यपरमित्यर्थः ॥ ४ ॥ ननु स्वर्गकामपदस्य कर्तृत्वेनान्वये स्वर्गस्य कथमन्वय इत्यत्राह- तदा स्वर्गो विशेषणम् । कामनाया भवन् गच्छत्युपसर्जनतामपि ॥५॥ कर्तृगतकामनाविशेषणत्वेन स्वर्गस्योपसर्जनतयाऽन्वय इत्यर्थः ॥ ५ ॥ कामनाकर्मत्वेन साध्यतया प्रधानभूतस्य स्वर्गस्योपसर्जनत्वमयुक्तमित्याशङ्कते- अथ काम्यतया स्वर्गः पुरुषार्थो भवन् कथम् । उपसर्जनतां गच्छेत्, स्वर्गस्य कामनाकर्मत्वमेवोपसर्जनतामापादयतीति समाधत्ते- इति चेदभिधीयते ॥६॥ काम्यत्वादेव तस्योपसर्जनत्वं समागतम् । ननु काम्यत्वादुपसर्जनत्वं स्वर्गस्य कथमित्यत्राह- स्वर्गकामपदस्यात्र युज्यते हि द्विधा गतिः ॥७॥ स्वर्ग कामयते यश्चेत्येवमिष्टा कृदन्तता। वहुव्रीहिस्तु यस्यास्ति कामना स्वर्ग इत्यपि ॥ ८॥ अयमभिप्रायः-स्वर्गकामपदस्य तावद्विधैवोपपत्तिः । स्वर्ग कामयत इत्येकः पक्षः । स्वर्गे कामः कामना यस्य सः स्वर्गकाम इत्यपरः । न तु प्रकारान्तरमस्तीति -- , नन्वेवमस्तु स्वर्गकामपदस्योपपत्तिः, कथमुपसर्जनता स्वर्गस्येत्यत्राह-- उपसर्जनतैवाऽस्य काम्यत्वे पक्षयोर्द्वयोः । पक्षद्वयेऽपि कामनाया एव प्राधान्यात्तद्विशेषणभूतस्य स्वर्गस्योपसर्जनत्वमनि- वायमित्यर्थः ॥ 1 कार्यत्वेन-इ. ? कुतं तथा-क.. 3 समासस्तु-क..

चतुर्थपरिच्छेदः me एवं च स्वर्गस्य कामनाविशेषणत्वादेव स्वर्गकामपदं कर्तृवाचकमिन्याह-- अतोऽभिधत्त कर्तारं स्वर्गकामपदं त्विदम् ॥९॥ किं च-यजेत स्वर्गकामः ' ' आसीरन् वृद्धिकामाः ' इनि कर्तृसङ्ग्यानुविधानं ताबदाख्यातादवगम्यते । न चेदं नियोज्यपरत्वे युज्यते । नियोज्यस्यानुपादेयत्वेन तत्सङ्ख्याया अविवक्षितत्वादित्याह- आख्यातात्कर्म कर्तृ सङ्ख्यानुविधानमपि दृश्यते । यथाऽऽसीरन् वृद्धिकामा यजेत स्वर्गकाम्यपि ॥१०॥ तेनापि स्वर्गकामस्य कर्तृत्वमवगम्यते । अतः स्वर्गकामपदं कर्तृपरमेव । न नियोज्यपरम् । अनुपादेयगतविशेषणाविवक्षाया प्रहैकत्वा] हाधिकरण निरूपितत्वादिति भावः ॥ १० ॥ ननु नियोज्यस्य नियोज्यत्वाकारेणानुपादेयत्वेऽपि तस्यैव फलसिद्धौ कर्तृत्वा- त्तत्सङ्ख्यानुविधानमेवैतत् किं न स्यादित्यत्राह- 1 नियोज्यस्यापि कर्तृत्वं फलसिद्धौ तु यद्यपि ।। ११ ॥ तथाऽपि धातुनोपात्ते व्यापारे यस्य कर्तृता । तत्सङ्ख्थानुविधानं खल्वाख्यातेनापि युज्यते ॥१२॥ सत्यं, नियोज्यस्यापि कर्तृत्वं फलसिद्धौ विद्यते । तथाऽपि धातूपात्ते ब्यापारे कर्तृत्वं नास्ति । तथापि च धात्वर्थन्यापारकर्तृगतसङ्ख्यानुविधानमेवाऽऽख्यातेनोप- पद्यत इत्यर्थः ।।११-१२॥ तदेतदृष्टान्तमुखेन ढायति-- यथा हि पचतीत्युक्ते गच्छतो भाति नैकता। पचतीत्यत्र यथा पाककर्तुरेवैकत्वममिधीयते। 4-न गमनकर्तुः । तद्वदत्रापि यजेतेत्यत्र यागकर्तुरेवैकत्वं, न फलसिद्धिकर्तुरित्यर्थः ।। एवमुक्तेन प्रकारेण स्वर्गकामपदस्य कर्तृपरत्वमेवोपपनमित्युपसंहरति- स्वर्गकामपदं तस्मात्कर्तुरेवाभिधायकम् ॥ १३ ॥ भस्त्वेवं, तथाऽपि का हानिरित्यत्राह- न नियोज्याभिधायीति न लिङोऽपूर्ववाचिता। 1 नियोज्यस्य तु-क. ङ. 2 नास्ति, अतोऽर्थ कर्तृगत ?-च. 3 तदेव-क. फलकर्तुः-क. 5 न पाठकर्तुः-ऊ. . 4 न सुवर्णमुद्रिकासहिते वाक्याथरत्ने स्वर्गकामपदसमभिव्याहारबलादाभिहितं लिङादीनामपूर्वाभिधायकत्वं न स्यादि- त्यर्थः ॥ एवं स्वर्गकामपदस्य कर्तृपरत्वेन पूर्वपक्षे प्राप्ते राद्धान्तमारभते - 1 अत्राभिधीयते स्वर्गस्तावत्प्रीत्यात्मकः स्वतः ॥१४॥ खत एवेष्टरूपत्वान्न विशेषणतां भजेत् । यत्तावदुक्तं 2 स्वर्गस्य कामनायां विशेषणत्वमिति तत्प्रीतिरूपत्वेन पुरुषार्थतया स्वत एवेच्छागोचरस्य स्वर्गस्य विशेषणत्वमयुक्तमित्यर्थः ॥ १४ ॥ स्वर्गस्य विशेषणत्वे न्यायविरोधोऽपीत्याह- परनिष्पत्तये नेष्ट इति हि न्याय इष्यते ॥ १५ ॥ ननु स्वर्गस्य कथं न विशेषणत्वमित्यत्राह- समभिव्याहृतं स्वर्गपदं का[म] मिपदेन तु। काम्यमानतया साध्यं प्रधानं वदति स्वतः॥ १६ ॥ का म]मिपदसमभिव्याहारात्स्वर्गस्य काम्यमानत्वेन प्राधान्यमवगम्यते । कामनाविषयत्वेन कृतिसाध्यत्वादित्यतो न विशेषणत्वं युक्तमित्यर्थः ॥ १६ ॥ ननु का म]मिपदसमभिव्याहारात्स्वर्गस्य कामनाकर्मत्वमत्रावगम्यते । न तु प्राधान्यमित्यत्राह- कामनाकर्मता स्वर्गे न हि साध्यत्वमन्तरा। इति साध्यतया स्वर्गः प्रधानत्वेन सम्मतः॥१७॥ कामनां प्रति कर्मभूतस्य स्वर्गस्य कामनाविषयतया कृतिसाध्यत्वेन प्राधान्य स्वत एवापततीत्यत एव स्वर्गकाम नावान् कर्ता न भवतीत्यर्थः ॥ १७ ॥ ननु । यदि स्वर्गकामः कर्ता न भवति, कथं तर्हि स्वर्गकामस्यान्वय इत्यत्राह- साध्यस्वर्गविशिष्टश्च नरस्साध्यस्य साधनम् । जानन् कार्यतया कार्य नियोज्य इति गीयते ॥ १८॥ कालान्तरभाविनं स्वर्ग कामयमानः तत्साधनं कार्यत्वेनावगच्छति । साक्षात्कृतिसाध्यत्वाभावात् क्षणिकस्य यागस्य कालान्तरभाविफलसाधनत्वाभावात् साध्यमपूर्व कार्यत्वेनावयन् नियोज्यत्वेनान्वेति ।" नियोज्यः स च कार्य यस्वकीयत्वेन इत्युक्तत्वादित्यर्थः ॥ १८॥ 1 तत्राभि-क. उ. 2 स्वर्गकामनायां विशेषण-ख. घ. णत्वादयुक्त-क. ड. 4 नाथकर्ता-क. 5 यस्य-ग. Adewa बुध्यते " 3 6 तु-ख.

चतुर्थपरिच्छेदः ननूक्तं सिद्धसाध्यसमभिन्याहारे 'मिदं माध्यायोपदिश्यने' इनि न्यायाद्यागस्य साध्यतया प्रतीतौ स्वर्गकामस्य तदानुगुण्येन भवितव्यमिन्यत्राह- यञ्चाभ्यधायि भावार्थनयाद्धात्वर्थसाध्यता। इतरस्याऽऽनुगुण्येन स्यात्तदन्वयितेति नत् ॥ १० ॥ अस्माकमविरोध्येव स्वर्ग साध्यतया स्थिते । इतरस्याऽऽनुगुण्येन यस्मादन्वय इप्यते ॥२०॥ नहि सिद्वसाध्यन्यायोऽस्मामिरपि निराक्रियते । अपित्वपूर्वस्य लिडादिना कृति- साध्यतयाऽभिधानादितरस्य तदानुगुण्येनैवान्बयप्रतिपादनादङ्गीक्रियत एवेत्यर्थः । masatar ननु भावार्थाधिकरणन्यायस्य कुत्रापि विषयो न लभ्यत इत्यत्राह- यत्र स्वर्गेण समभिव्याहारो नैव विद्यते। साध्यता तत्र धात्वर्थस्येतरत्र तु नैव सा ॥२१॥ अधिकारवाक्ये स्वर्गपदसममिव्याहारात्तत्र स्वर्गस्यैव साध्यवेनेतरस्म तदानु- गुण्येनान्वयः । अन्यत्र तु क्रियाया एव साध्यत्वादितरस्य तदानुगुण्येनान्वयोऽस्तीनि भावार्थाधिकरणन्यायस्य विषयो लभ्यत इत्यर्थः ॥ २१ ॥ नवाधिकारवाक्यस्थलेऽपि स्वर्गकामस्य नियोज्यत्नान्वयेऽपि प्रधानापूर्वस्यैव साध्यतया स्वर्गस्य साध्यत्वाभावेन तत्साधनता यागस्य न स्यादित्यत्राह- साध्यसाधनभावो हि तथैव स्वर्गयागयोः । अभिधत्ते नियोज्यं तु स्वर्गकामपदं यथा ॥२२॥ साध्यस्वर्गविशिष्टस्य नियोज्यत्वात्स्वर्गस्यापि नियोज्यकृतिसाध्यत्वाद्यागस्यापि स्वर्गार्थप्रवृत्तकृतिसाध्यत्वेन यागस्य स्वर्गसाधनत्वमस्त्थेवेत्यर्थः ॥ २२ ॥ ननु साध्यस्वर्गविशिष्टत्वे समाने कर्तृनियोज्ययोः को भेद इत्याशङ्कने--- अथोच्यते नियोज्यस्य कर्तुश्चैक्यं भवत्विति ॥ अन्वये व्यापारे प्रतीतौ च उभयोरपि विलक्षणत्वान्नानयोरक्यसम्भावनाऽपीनि परिहरति- तन्नानयोर्वहुविधो भेदो यस्मात्प्रतीयते ॥२३॥ - 1 ण्येनान्वय-ख. ग. 2 यम्य-ख.

सुवर्णमुद्रिकासहिते वाक्यार्थरने - १ ब्यापारभेदात्तावदनयोभदं दर्शयति- नियोज्यः स हि यः कार्य ममेदमिति बुध्यते । कती तु धातुनोपात्तव्यापार प्रति कारणम् ॥ २४॥ ममेदं कार्यमित्येवं बोधो नियोज्यस्य ब्यापारः। धात्वर्थभूतक्रियाऽनुष्टानं कर्नु. यापार इति भेद इत्यर्थः ॥ २४ ॥ अन्वयतो भेदं दर्शयति- कार्यबोधदशायां तु लियोज्यस्यान्वयो मतः । कर्तुत्वनुष्ठीयमानधात्वर्थेनान्वयो मतः ॥ २५ ॥ आत्मीयत्वेन बुद्धयमाननियोगरूपकार्येण नियोज्यस्यान्वयः, अनुष्टीयमानक्रिय- याऽन्वयः कर्तुरित्येवमन्वयभेदादेव प्रतीतिभेदोऽपि सिद्ध इति भावः ॥ २५ ॥ नन्वाख्यातात्कर्तृसङ्घ यानुविधानं स्वर्गकामपदस्य कर्तृपरतामवगमयतीत्युक्त- मित्यत्राह- 1-2 आख्यातकर्तृसङ्ख थानुविधानं यत्प्रकीर्तितम् । तत्क-नमिधानेऽपि युक्तमाक्षेप सत्त्वतः ॥२६॥ स्वर्गकामपदेन क–नमिधाने निराश्रयसङ्ख्याया अभावात्सङ्ख्यया स्वाश्रयकाक्षेपादाक्षेपलभ्यकर्तृसङ्ख्यानुविधानं युज्यत इत्यर्थः ॥ २६ ॥ उक्तरीत्या स्वर्गकामपदं कृतिसाध्यतया लिझतीयमानस्यापूर्वस्य कृत्याश्रया- काङ्क्षायां कृत्याश्रयत्वेन नियोज्यं समर्पयतीति नियोज्यामिधायकमेव, न कर्त्रभिधायक- मित्याह- तत्स्वर्गकामशब्दोऽयं कृतेराश्रयभावतः । नियोज्यमेवाभिधत्त इति कर्तुर्न वाचकः ॥२७॥ ननु स्वर्गकामपदस्य नियोज्यपरत्वप्रतिपादनेन पूर्व यदुक्तं कार्यस्य प्राधान्य 'कृतिसाध्यं प्रधानमि' त्यादिना तन्न स्यादेव। तथा चैकं सन्धित्सतोऽपरं प्रच्यवत इत्याक्षिपनि- अथोच्यते नियोज्यस्य ममेदं कार्थमित्यपि । भावात्कार्यस्य गुणता प्रधानत्वं न विद्यते ॥२८॥ नियोज्यो हि कार्य ममेदमित्यवगच्छति । तथा च कार्यस्य गुणत्वेन प्राधान्यं न स्यादित्यर्थः ॥ २८॥ 1 आख्यातात्कर्मसक्यानुवि-ख. 2 आख्यातापूर्वसं-घ. 3 पक्षतः-घ.

चतुर्थपरिच्छेदः ननु ममेदमित्यवतिमात्रेण कथं प्राधान्यच्युतिरित्याशङ्कय दृष्टान्तप्रदर्शनेन द्रढयन्जाह- स्वस्वामिभावसंबन्धे षष्ठीयं दृश्यते यथा। चैत्रस्य गाव इत्यत्र विभाति गुणता गवाम् ॥२९॥ ममेति षष्टी तावनियोज्यकार्ययोः सम्बन्धमन्तरेण न घटते । स च लम्बन्धोऽत्र स्वस्वामिभावलक्षणः । तत्र नियोज्यस्य स्वामितया कार्यस्य स्वत्वेन गुणत्रमापनि । चैत्रस्य गाव' इत्यत्र यथा चैत्रस्येति षष्ट्या स्वामित्वं चैत्रस्य, गवां च स्वत्वेन गुणवं, तद्वत् 'ममेदं कार्य ' मित्यत्र नियोज्यस्य स्वामित्वेन कार्यस्य गुणन्वमनिवार्यमित्यर्थः .. -- . तमेतमाक्षेपं समाधत्ते- इति चेदुच्यते स्वर्गकामस्यात्र कृति प्रति । अन्वयो न तु कार्येण तन्न प्राधान्यविच्युतिः ॥३०॥ सत्यम् , षष्ठया स्वामित्वं नियोज्यस्य प्रतीयते। तत्तु कृति प्रत्येव । न तु कार्य प्रति । मत्कृतिसाध्यमित्येवं नियोज्यस्य स्वामित्वेन कृत्यैवान्वयादित्यर्थः ॥ ३० ॥ ननु यदि नियोज्यस्य स्थायित्वेन कृत्यैवान्वयः । कथं तर्हि कार्येणान्वय- इत्यत्राह- कार्येण तु नियोज्यस्य गुणत्वेनैव चान्वयः। 1 नियोज्यस्य कार्यमित्यत्र कृतिसाध्यत्वेन नियोगस्य प्राधान्यात्तदन्वयो नियो ज्यस्य गुणत्वेनान्वय इत्यर्थः । ननु यदि नियोज्यस्य गुणत्वेनैवान्वयः शेषत्वमपि तर्हि स्यादित्यत्राह- गुणत्वमपि नात्यन्तमतो नैवास्ति शेषता ॥३१॥ गुणत्वमात्रेण शेषत्वं नापतति । शेषत्वस्याऽऽत्यन्तिकगुणरूपत्वात् । अत्र चात्यन्तिकगुणत्वाभावादित्यर्थः ॥३१॥ ननु यदि स्वर्गकामस्यादौ ‘ममेदं कार्य' मित्येवं बोद्धृत्वलक्षणं नियोज्यत्वं, कस्तयधिकारीत्यत्राह- स एव कर्मणैश्वर्यमवाप्य फलसाधने । अधिकारी मम फलं साधयत्कर्म मत्कृते ॥३२॥ मत्फलसाधनत्वान्मदर्थमिदं कर्मेति फलार्थकृतिच्या कर्मणि स्वामीभवनियोज्य एवाधिकारीत्यर्थः ॥३२॥ 1 नियोज्यं कार्यमित्यत्र-3. - सुवर्णमुद्रिकासहिते वाक्यार्थरत्ने तस्यैव समनन्तरं क्रियानुष्टातृत्व लक्षणं कर्तृत्वमित्याह- इति वुद्धा क्रियायास्तु साधयन्ननुतिष्ठति । स तु का भवेत्कर्मगुणभावादितीर्यते ॥३३॥ आदौ नियोगे 'ममेदं कार्य ' मिति स्वर्गकामस्य गुणतया नियोज्यत्वेनान्वयः । अनन्नरं फलसाधनभूते कर्मणि स्वामितयाऽन्वयादैश्वर्यलक्षणमधिकारित्वम् । पश्चात्तस्यैव क्रियां प्रति गुणत्वेनानुष्ठानदशायामनुष्टातृत्वलक्षणं कर्तृत्वमित्येवं नियोज्याधिकारि- कर्तृभेद इति भावः ॥ ३३ ॥ उक्तप्रकारेण प्रतिपादितनियोज्यनिरूपणस्योपयोगं दर्शयति- तस्मानियोज्यसमभिव्याहारेण लिङगदयः । क्रियातिरिक्तमेवाहुर्वेदे कार्यमिति स्थितम् ॥ ३४॥ लोके तावद्वन्द्धव्यवहारबलात्कार्यमेव लिङाद्यर्थ इति निर्णीतम् । वेदेऽपि तदनु- सारेणैव कार्यार्थत्वं वर्णनीयम् । तत्तु कार्य गवानयनादिवक्रियारूपं न भवति । क्षणभङ्गिन्याः क्रियायाः कालान्तरभाविफलसाधकत्वाभावेन स्वर्गकामस्य कार्यतया वेदनानहत्वादित्येवं निरूपितस्य प्रमेयस्योपयुक्तं नियोज्यनिरूपणमित्यर्थः ॥ ३४ ॥ ननु यदि वैदिकलिाङादीनां स्वर्गकामपदसमभिन्याहारादेव स्थायिकार्याभिधाय- कत्वं तमुश्रुतनियोज्यकेषु वाक्येषु लिङादीनामर्थान्तरमेव वर्णनीयं स्यादित्यत्राह- यत्र त्वसौ नियोज्योऽपि न वाक्ये श्रूयते तदा । तत्रोपादानकल्प्योऽसौ यथा विश्वजिदादिषु ॥ ३५ ॥ सत्यम् , नियोज्यसमभिव्याहारादेव वैदिकलिङादीनां स्थाय्यपूर्वार्थत्वं प्रथमतो निर्णीतम् । तद्वलादन्यत्राश्रुतनियोज्य के विश्वजिदादौ स्थाय्यपूर्वार्थकत्वमेव भवति । व्युत्पत्तिबलायातस्यार्थस्य निमित्तमन्तरेण दुर्निवारत्वात् । तत्र तु विध्याक्षेपरूपो- पादानरूपप्रमाणगम्यो नियोज्य इत्ययमर्थश्चतुर्थे (जै. सू. अ. ४ पा. २ अधि. ५) निरूपित इत्यर्थः ।। ३५॥ नन्वश्रुतनियोज्य केष्वपि वाक्येषु यदि लिङादीनां स्थाय्यपूर्वार्थत्वमेव, किमिति तर्हि विध्याक्षेपबलान्नियोज्यपरिकल्पनमित्यत्राह- तत्रापि हि लिङाऽपूर्व यच्च कार्यतयोच्यते । कृत्यधीनस्वभावं तत्कृतिश्च विषयं विना ॥३६॥ 1 फलं प्रति सा-क. ख. 2 केषु वाफक्येषु-क.

चतुर्थपरिच्छेदः : नास्ति सा विषयाधीनस्वभावा विषयश्च सः। कर्तारमन्तरेणानुष्ठानाभावान्न सिध्यति ॥३७॥ कर्ताऽपि कर्मणैश्वर्यं विना स्वफलसाधने । नानुतिष्ठति तत्कर्म नानियोज्यश्च चेश्वरः ॥ ३८ ॥ अविशिष्टो नियोज्यश्च नेति तस्य विशषणम् । स्वर्ग एवानवच्छिन्न उपादानेन कल्प्ययते ॥ ३९ ॥ इदमत्रामिप्रेतम्-लिङादीनां स्थायिकार्याभिधायकत्वं व्युत्पत्तिबलादनुशासन- बलाच्च सिद्धम् । तच्चाभिधेयं कार्य नियोज्यमन्तरेणापर्यवसितं सन्नियोज्यमाक्षिपति । तथाहि-कार्य तावत्कृतिसाध्यत्वेन कृत्यधीनात्म लाभत्वात्कृतिमपेक्षते । कृतिश्च विषयाधीनस्वलाभत्वाद्विषयमपेक्षते । विवयश्च स्वानुष्ठानार्थ कारम् । कर्ताऽपि कर्मणि मादर्थ्यलक्षणमधिकारमनधिगम्य क्रियां नानुतिष्ठति । अधिकारोऽपि नानियोज्यस्य भवति । नियोज्यश्चाविशिष्टो न भवतीत्येवं लिङादीनामपूर्वाभिधानपर्यवसानार्थ स्वर्गोऽत्र विशेषणत्वेन विध्याक्षेपरूपोपाइनेन कल्प्यत इत्यर्थवानेवाश्रुतनियोज्यक विश्वजिदादौ नियोज्यपरिकल्पनार्थमारम्भ इति ॥ ३६-३९॥ ननु विश्वजिदादौ निायोज्यः परिकल्प्यमानोऽपि जीवनवानेव भवतु । तथा सति तस्यैव विशेषणत्वं भविष्यतीत्यत्राह- विशेषणत्वमप्यत्र जीवनादेर्न युज्यते । कुत इत्यत्राह- तथा सति प्रयुक्तिः स्यात्प्रधानस्य विलम्विनी ॥४०॥ यदि विश्वजिदादौ नियोज्यविशेषणत्वेन जीवनं परिकल्प्येत, तदा विश्वजिदादे- नित्यत्वापत्तेः साऽपि प्रधाने विधित एव प्रयुक्तिः स्यात् । तथा च गौरवं, विलम्बश्न भवेत् । अतो जीवनादिकं विहाय फलमेव नियोज्यविशेषणत्वेन कल्प्यमित्यर्थः ।। ४० ॥ फले तु नियोज्यविशेषणत्वेन परिकल्प्यमाने कामाधिकारतया करणांशे रागादेव प्रयुक्तिः स्यात् । तथा च लाघवं, न विलम्बश्चेत्याह- फलं यदि प्रकरप्येत प्रयुक्तिः स्यात्तदा फलात् । प्रधानांश इति शेषः। अङ्गेष्वेव विधितः प्रवृत्तिरिति न गौरवमितिभावः ।। लाभवत्वा-क. ग. 3 विशेषणत्वं न भविष्यती-क. VAKYRTHARATNAM 5 सुवर्णमुद्रिकासहिते वाक्यार्थरले ननु प्रयुक्तिलाघवाद्यदि नियोज्यविशेषणत्वेन फलमेव परिकल्प्यं स्यात्तर्हि पशुपुत्रादिफलं किमिति न कल्प्यत इत्यत्राह- फलं च पशुपुत्रादि नावच्छिन्नतयेष्यते ॥४१॥ पशुपुत्रादिमतां तदपेक्षाराहित्येन परिमितत्वात्पशुपुत्रादिफलं न विशेषणत्वेन कल्प्यत इत्यर्थः ॥ ४ ॥ स्वर्गस्य तु सर्वपुरुषकाम्यमानत्वेनानवच्छिन्नत्वात्तत्कल्पनमेवोचितमित्याह स्वर्गात्मके फले सर्वपुरुषाणां हि कामना । अतः फलं तदेवात्र नियोज्यस्य विशेषणम् ॥४२॥ ननु सर्वपुरुषकाम्यमानत्वं स्वर्गस्यानुपपन्न, मुमुक्षुभिरन पेक्षणीयत्वा- दित्यत्राह- न च वाच्यं मुमुक्षूणां न स्वर्गेऽप्यास्त कामना । इति तेन सहापेक्ष फलमात्रमपि स्वयम् ॥ ४३ ॥ न हि मुमुक्षवः कर्मण्यधिक्रियन्ते । “शान्तो दान्त उपरत " इत्यादिभिरिहामुत्र- फलभोगविरक्तस्याध्यात्मविद्यायामेवाधिकारदर्शनात् । न च “ यज्ञेन दानेने 'त्यादिना तेषामपि कर्मण्यधिकार इति वाच्यम् । तत्रापि चित्तशुद्धिसंपादनद्वारा विविदिषा- साधनत्वेनाऽऽरादुपकारकत्वस्यैवोक्तत्वात् । अतो न तेषामधिकार इति भावः ॥ ४३ ॥ कस्य तर्हाधिकार इत्यत्राह- ततः फलार्थिनामेव स्वर्गोऽत्र परिकल्प्यते । फलकामस्यैव नियोज्यस्य विशेषणत्वेन स्वर्गात्मकं फलं परिकल्प्यत इत्यर्थः ।। उक्तमर्थमुपसंहरति- अतो नियोज्यरहितस्थले स्वर्गो विशेषणम् ॥४४॥ कल्ल्यतां स्वर्गकामस्य नियोज्यत्वं तथा भवेत् । अश्रुतनियोज्यके विश्वजिदादौ कृतिसाध्यतया लिङादिभिरभिधीयमानमपूर्व नियोज्यमन्तरेणापर्यवसितं स्वर्गकामं नियोज्यत्वेन परिकल्पयतीत्यर्थः ॥४४॥ उक्तमर्थं सूत्रारूढं करोति- सर्वान् प्रत्यविशिष्टत्वात्स स्वर्गोऽत्र भवेदिति ॥४५॥ 'स स्वर्गः सर्वान् प्रत्यविशिष्टत्वात् ' इति । (जै. सू. अ. ४. पा. ३, सू.) अस्य सूत्रस्यायमर्थः । अवच्छेदकत्वेन नियोज्यं व्यावर्तयन् विशेषः स्वर्ग एव स्यात्, - .. 1 पेक्षितत्वा-क. ग. इ.

चतुर्थपरिच्छेदः कुतः? सर्वान् पशुपुत्रादिसुखविशेषान् प्रत्यविष्टत्वात् अनवच्छिन्नत्वात् । अथ वा सर्वानध्येतॄन् प्रति साधारणत्वादिति । एवमर्थद्वयेनापि पूर्वोक्तं प्रमेयं सूत्रारूढ- मित्यर्थः ।। ४५॥ अत्राश्रुतनियोज्यकस्य विश्वजिदुदाहरणं न संभवति । ‘सत्रायागूर्य विश्वजिता यजते ति सत्रागरणवतो विश्वजित्यधिकारप्रदर्शनादिति चोदयति-- ननु सत्रागरणवतो विश्वजित्यधिकारिता । अतोऽत्र नोपादानेन स्वर्गस्य परिकल्पनम् ॥ ४६॥ नोदाहरणमादरणीय, कृत्वाचिन्तयाऽपि न्यायप्रवृत्तेरिति समाधत्ते- इतिचेदुच्यते नोदाहरणं दोपभाक्तदा। अनाम्नाताधिकारं यत्पितृयज्ञोऽपि तद्भवेत् ॥४७॥ यदि विश्वजिन्नाश्रुतनियोज्यकः, तर्हि " अमावास्यायामपराह्ने पिण्डपितृयज्ञेन चरन्ती" त्यश्रुतनियोज्यस्य पिण्डपितृयज्ञस्योदाहरणत्वमस्तु, विश्वजितस्तूदाहरणत्वेन प्रदर्शन कृत्वाचिन्तयाऽपि न्यायप्रवृत्तिसूचनार्थमित्यर्थः ॥ ४७ ॥ ननु तर्हि रात्रिसत्रादावश्रुतनियोज्य के किमुपादानकल्प्यः स्वर्गकाम एव नियोज्यः ? नेत्याह- श्रूयते यत्र तु फलमर्थवादेषु यत्तदा । आर्थवादिकमेवात्र रात्रिसत्रादिषु स्थितम् ॥ ४८ ॥ न हि तत्र स्वर्गात्मकं फलमुपादानतो नियोज्यविशेषणत्वेन कल्प्यते । 'प्रति- तिष्ठन्ति ह वा य एता रात्रीरुपयन्ती त्यर्थवादत एव प्रतिष्टारूपस्य फलस्यावगतत्वात्त- देवात्र नियोज्यविशेषणत्वेनाङ्गीक्रियते लाघवादित्यर्थः ।। ४८ ॥ उक्तन्यायमन्यत्राप्यतिदिशति- तथा वेदान्तवाक्येषु चामृतत्वादिकं फलम् । आर्थवादिकमेवैतत्कामिनोऽपि नियोज्यता ॥४९॥ तत्रापि हि 'एतावदरे खल्वमृतत्व' मित्यार्थवादिकं फलममृतत्वं ' श्रोतव्य' इत्यत्र धात्वर्थभूतश्रवणक्रियाविषयकृतिसाध्यापूर्वे नियोज्यविशेषणत्वेनाङ्गीक्रियते। तथा चामृतत्वकामस्तनियोज्य इत्यर्थः ॥ ४९ ॥ - . 1 प्रत्यपि शिष्टत्वात्-घ. 5* सुवर्णमुद्रिकासहिते वाक्यार्थरत्वे - גל अन्न लब्धावकाशश्शङ्कते- नन्वेवमर्थवादेषु श्रुतं स्याच्चेत्फलं तदा। दुर्वादाश्रवणेच्छोः स्यात्पर्णतायां नियोज्यता ॥ ५० ॥ यस्य पर्णमयी जुहूर्भवति न स पाफ श्लोकः श्रुणोती' ति दुर्वादाश्रवण- स्यार्थवादतः फलत्वेनावगमात्तत्कामस्य पर्णतायां नियोज्यत्वं रात्रिसत्रन्यायेन भवे- दित्यर्थः ॥ ५० ॥ परिहरति- इति चेदुच्यते तत्र जुहूद्वारा हि पर्णता । जुहूमत्क्रत्वपूर्वार्था भवेत्तन्न पृथक्फलम् ॥ ५१ ॥ पर्णता हि जुहूप्रकृतित्वेनानारभ्य 1 पठिता। जुहूश्च दर्शपूर्णमासनियोगान्विता। 'जुह्वा जुहोती' ति श्रवणात् । तेन पर्णताऽपि जुहूद्वारा जुहूमत्क्रत्वपूर्वार्था भवतीति पर्णतायाः प्रधानफलेनैव फलवत्त्वम् । तेन नात्र रात्रिसत्रन्याय इति “अङ्गेषु फलश्रुति- रर्थवादस्स्यादि ” त्यत्र (जै. सू. अ. ४ पा. ४ सू. १) चतुर्थे पर्णमय्यधिकरणे निरूपित- मित्यर्थः ॥ ५० ॥ ननु " स्वाध्यायोऽध्येतव्य' इत्यत्राध्ययनविधौ निर्नियोज्ये किं पिण्डपितृयज्ञ- न्यायेन स्वर्गो नियोज्यविशेषणत्वेन परिकल्पनीयः? किं वा रात्रिसत्रन्यायेनाऽऽर्थवादिक- दधिमधुघृतकुल्यादितृप्तपित्रादिलब्धायुरादिसर्वफलावाप्तिरित्याशय नोभयमप्यत्र क्रमते, किं तु प्रकारान्तरमित्याह- यत्रापि विधितोऽप्यस्ति प्रयुक्तिस्तत्र नैव हि। अपेक्ष्यते नियोज्योऽसौ यद्वदध्ययनादिषु ॥५२॥ अध्ययनविधौ तावन्नियोज्यापेक्षा 2 नास्त्येव । अध्ययनानुष्ठानस्यान्यतो लब्ध- त्वात्।। ५२॥ कुतोऽन्यत इत्यत्राह- अध्यापनविधेरेव प्रयुक्तिस्तत्र लभ्यते । यस्मादध्ययनस्यातो न नियोज्यस्य कल्पना ॥५३॥ अध्यापनविधिरेवाध्ययनस्य प्रयोजको भवति। अतो न पिण्डपितृयज्ञन्यायेन स्वर्गकल्पनम् । नापि रात्रिसत्रन्यायेनाऽऽर्थवादिकफलस्याभ्युपगमः। अर्थवादानामेव 1 अधीता-घ. 2 नास्ति-क.

चतुर्थपरिच्छेदः MEREIN फलप्रापकाणामभावात् । न चैवं ' 1 यदृचोऽधीत' इत्यादयोऽर्थवादा इति वाच्यम् । तेषां ब्रह्मयज्ञ विधिशेषत्वात् । न च तेषामतिदेशतो लाभायुक्तमेव तदीयफलस्य नियोज्यविशेषणत्वमिति वाच्यम् । तत्र प्रमाणाभावागौरवाञ्चेति भावः ॥ ५३॥ ननु कथमध्यापनविधिप्रयुक्तत्वमध्ययनस्य ? तयोभिन्नकर्तृकत्वादित्यत्राह अध्यापकः खलु स्वस्याऽऽचा-भवनमिच्छति । तत्साधनतयाऽध्यापने स्वयं च प्रवर्तते ॥५४॥ सत्यमध्ययनाध्यापनयोभिन्नकर्तृकत्वम् । तथाप्याचा-बुभूपुस्तत्साधने प्रवर्तते ! “यो हि यदिच्छति स तत्करोति तदुपायं बेति' न्यायादित्यर्थः ॥ ५४॥ नन्वेतावताऽपि नाध्ययनविधिरध्यापनविधिप्रयुक्तः प्रतीयत इत्यत्राह- अध्यापनं चाध्ययनमन्तरेण न सिध्यति । अतोऽध्यापयिता शिष्यमुपनीय श्रुतेर्वलात् ॥ ५५ ॥ प्रवर्तयत्यध्ययने नात्र तत्कामिकल्पना । अध्ययनमन्तरेणाध्यापनस्यासिद्धत्वात् । " उपनीय गुरुः शियं महाव्याहृतिपूर्वकम् । वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् " ॥ (याज्ञवल्क्य.-अ. १ श्लो. १५) इति वचनादध्यापयिता माणवकमध्ययने प्रवर्तयतीत्येवमध्ययनस्याध्यापनविधि- प्रयुक्तत्वान्न तत्र नियोज्यकल्पनमित्यर्थः ॥ ५५ ॥ अत्राध्ययनविधावर्थज्ञानकामस्य नियोज्यत्वं भविष्यति, किमिति स्वतन्त्रस्या- ध्ययनविधेः परप्रयुक्त्युपजीवित्वं वर्ण्यत इत्याशङ्कते- नन्वर्थज्ञानकामस्य नियोज्यत्वं न किं भवेत् ॥ ५६ ॥ तथा चाध्ययनस्यास्य विधितो न प्रयोज्यता। परिहरति- इति चेदुच्यतेऽर्थावबोधस्य न हि काम्यता ॥ ५७ ।। प्रागध्ययनतो यस्मान्न प्रियत्वेन गम्यते। लोके हि पुरुषार्थतया ज्ञाते वस्तुनि कामना दृष्टा। न पुनरज्ञाते। अत्र चार्थज्ञानं माणवकेनाध्ययनात्पूर्व न प्रियत्वेन ज्ञातम् । अतो न तद्रोचरा कामनोपपद्यते। तेन तत्कामस्य नियोज्यत्वं न संभवतीत्यर्थः ॥ ५७ ॥ 1 यद्यबोधित-क, ख. विधिविशेषत्वात्-रु.

सुवर्णमुद्रिकासहिते वाक्यार्थरने - ननु माणवकस्याध्ययनात्पूर्वमर्थज्ञानगोचरप्रियत्वज्ञानाभावेऽपि ज्ञातवेदवेदार्थों गुरुरेवार्थमभ्युदयकरत्वेन बोधयन्माणवकस्य कामनामुत्पादयिष्यतीत्याशङ्कयाह- किं चार्थज्ञानकामोऽप्यधिकारी नोपपद्यते ॥५८ ॥ हुमादीनां हि वर्णानां नार्थपरताऽपि च । स्यादेवं यदि सर्वस्यापि वेदराशेरर्थपरत्वं स्यात् । न त्वेतदस्ति । हुमादीना- मर्थपरत्वाभावात् । न च सर्वस्यापि वेदार्थस्याभ्युदयकरणत्वम् । नित्यनैमित्तिकविधीना. मतथात्वादिति भावः ॥ ५८॥ ननु हुमादीनां कथमर्थपरत्वाभाव इत्यत्राह ते हि स्तोभाक्षरत्वेन नार्थज्ञानपरा मताः ॥ ५९॥ ऋगक्षरैरसंवद्धसामभागस्य पूरकाः । इत्युक्तं नवमे तेषामप्यर्थपरता भवेत् ॥ ६० ।। हुमादयो हि स्तोभाक्षरत्वेन ऋगक्षराव्याप्तसामभागपरिपृरकतया नार्थज्ञानपरा इति नवमे प्रतिपादितत्वादित्यर्थः । ६०॥ निगमयति- अतोऽर्थज्ञानकामस्य न नियोज्यत्वमिष्यते। अर्थज्ञानस्य काम्यत्वानुपपत्तेस्तत्कामस्य नियोज्यत्वं न संभवतीत्यर्थः ॥ ननु यदि निर्नियोज्यकोऽध्ययनविधिस्त_धिकारिणोऽपि राहिल्या दनुष्ठाता न स्यादित्यत्राह किं त्वर्थज्ञानवानेवाधिकारी कल्प्यते तदा ॥६॥ वेदाध्ययनमीमांसाश्रुत्योरिति निरूपितम् । अध्यापनविधिबलादाचार्य एवाध्ययने माणवकं प्रवर्तयतीत्यनुष्ठाता तावद्विद्यत एव । अधिकारो व्युत्पन्नार्थज्ञानस्य माणवकस्याध्ययनमीमांसाश्रवणयोर्मध्ये कल्प्यत इत्यर्थज्ञानवानेवाधिकारी । तेन निर्नियोज्यकोऽध्ययन विधिर्न दुष्यतीत्यर्थः ।। इदमिदानी वक्तव्यम् । अध्ययनमन्तरेणाध्यापनस्यासिद्धरध्यापनविधिरेवाध्ययन प्रयुङ्त इति प्रतिपादितम् । तदिदानी विपरीतं दृश्यते । अध्यापनमन्तरेणाध्ययन- निष्पत्तेरभावात्, प्रयोजकव्यापारस्य प्रयोज्यव्यापारहेतुत्वात्, तेनाध्यापनमेवाध्ययन- - - 1दिति भाव:-क. ङ. दधिकारिता-क. ङ. चिरिष्यते-ग, चतुर्थपरिच्छेदः mantatus .. . विधिप्रयोज्यमुक्तमिति। नैतयुज्यते । अध्ययनस्वर स्वरूपस्य वास्थानमिद्धेः । तथाहि- तत्किमध्ययनं कामाधिकारप्रयुक्तं? उत स्वविधिप्रयुकम् ? यद्यायः कल्पः अध्ययने शूद्रा- णामधिकारः स्यात् । अध्ययनस्य कामाधिकारविध्यविषयत्वेन शूद्रादेः कामाधिकारेऽ- नधिकारो वक्तव्यः । अध्ययनं चेत्कामाधिकारप्रयुक्तं तदा शूद्रस्यापि कामनासदावा दधिकारो दुर्वारः स्यात् । तत्प्रयुक्तत्वेन चाध्ययनेऽप्यनुपनीतस्याप्यधिकारः स्यात्, उपनयनमपि वाऽऽक्षिपेत् । सति चैव वसन्तादिवाक्यानि निमित्तार्थानि भवेयुः । तस्मान्न कामाधिकारप्रयुक्तिरध्ययनस्य ।। नच स्वविधिनैवाध्ययनं प्रयुज्यत इति द्वितीयः कल्पः । बालस्य ममेदं कार्यमिनि बोधाभावादध्ययनविमुखत्वाच्च कुण्ठि'तप्रयुक्तिशक्तिरध्ययनविधिः कथमिवाध्ययन प्रयुञ्जीत । स्वकरणानुष्ठान एवाशक्तः कथमन्यनयुको प्रगल्भः स्यात् । यदि पुनरध्यापक- प्रवर्तित एव बालोऽध्ययने प्रवर्तत इत्युच्येत तिष्ठतु दूरेऽध्ययनविधेरध्यापनप्रयोजकत्व- कथा । तस्मात्स्वविधिप्रयुक्तिरध्ययनस्य नास्तीति परप्रयुक्तिरन्येपणीया। तत्र न कामाधि- कारोऽध्ययनस्य प्रयोजकः । अध्यापनविधिस्तु स्यादेव । अध्यापयेदिल्यत्र प्रकृत्यर्थभूतस्या- ध्ययनस्य प्रयोज्यव्यापारस्य प्रयोजकव्यापारमध्यापनं प्रत्युपकारकत्वस्य मिलिताभ्यां प्रकृतिप्रत्ययाभ्यां प्रतिपादनात् । उपकारस्य चोपकार्यप्रयुक्त वात् । नचाध्ययनस्य कामाधिकारोपकारकत्वे प्रमाणमस्ति, येन तत्प्रयुक्तिः स्यात् । नच विद्यायाः काम- श्रुत्यङ्गतयाध्ययनं विना विद्याया असंभवाद्विद्यां प्रयुञ्जाना कामश्रुतिरध्ययनमपि प्रयुङ्त इति वाच्यम् । साक्षादध्यापनोपकारित्वादध्ययनस्य तत्प्रयुक्तयैव शीघ्रगामिन्या आकाहायाः शान्तत्वाच॥ किंच कामश्रुतिप्रयुक्तत्वेऽपि कामनारहितस्य कामश्रुत्यङ्ग विद्येत्यजानतस्तदुपयोग्य- ध्ययनमित्यप्यमन्यमानस्य बालकस्य कथं तत्प्रयुक्तिप्रवृत्तिः । तत्र चान्यप्रवर्तितः प्रवर्तत इति वक्तव्यम् । न चाध्ययनविधिप्रयुक्तत्वे सम्यगाचार्यः प्रवर्तक इति । तस्मादाचार्य- करणविधिप्रयुक्तिरेव युक्तेति । अध्यापनविधिरपि बालस्याप्रवृत्तौ किमिव हि कतुं शक्नोतीति तन्न । बालस्याप्रवृत्तौ स्वकर्तृकाध्यापनस्य अध्ययनमन्तरेणानुपपत्तेरध्यापक एव प्रवर्तयिष्यतीति किमनुपपन्नम् । नच माणवकनानध्ययनेऽपि कामश्रुतिकर्म- कर्तुः स्वानुष्ठानस्यनुपपत्तिः, येन स एव माणवकं प्रवर्तयेत् ॥ , +तप्रभूतप्रयुक्त- 1 ति सारम्-ग. 2 वास्थानासिद्धः-घ. अध्ययने न-1.. शक्ति-क.ङ. 5 युक्तरेव-ङ. 6 चान्यविधिप्रयुक्तल्ने सत्याचार्यः क. ङ. मेव प्रदर्शयि-घ. कामश्रुतिकर्तुः स्वानुष्टानस्योपपतिः-ख. 7 पनस्याध्ययन- सुवर्णमुद्रिकासहिते वाक्यार्थरले .. ननु कामश्रुतिरेव स्वकालेऽनुष्ठेयकङ्गिभूतविद्यासिध्यर्थमुपनीतावस्थं माणवक- मध्ययने प्रवर्तयिष्यतीति तन्न। बालस्यैवमनुसन्धानाभावात् । अनुसन्धानाभावे च प्रवृत्तेरनुपपत्तेः । नचाध्ययनात्याग्बालस्य कामश्रुतिपरिज्ञानं, येन तत्प्रयुक्तोऽध्ययने प्रवर्तेत । अध्ययनेन च तज्ज्ञाने परस्पराश्रयत्वम् । तस्मान्न कामाधिकारविधिप्रयुक्ति- रध्ययनस्य । मध्यापनविधेस्तु प्रयुक्तिर्भवति ॥ " उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः । सकल्पं सरहस्यं च तमाचार्य प्रचक्षते ॥” (मनु. अ. २. श्लो. १४०). इति वचनादाचार्यत्वमिच्छतोऽध्यापने प्रवृत्तत्वात्। अध्यापनस्याध्ययनमन्तरेणा- निष्पत्तेः ॥ हितं 1 तस्याचरेन्नित्यं मनोवाकायकर्ममिः । आहूतश्चाप्यधीयीत लब्धं 2 चास्मै निवेदयेत् ॥ (याज्ञवल्क्य-अ. १. श्लो. २७) इत्यादिविशेषस्मृतिविहिताचरणदाक्षिणादानादिदर्शनात्तल्लिप्सुराचार्याभवनमिच्छन् माण- वकमध्ययने प्रवर्तयतीत्येवमध्यापनविधिप्रयुक्तमेवाध्ययनमिति सर्वं सुस्थम् ॥ ६१ ॥ यद्यध्यापनविधिप्रयुक्तिरध्ययनस्य स्थात्, तदाऽध्यापनाङ्गत्वमध्ययनस्य स्यादिति चोदयति- नन्वाचार्यविधेरेवाध्ययनस्य प्रयोज्यता ॥ ६२॥ यदि स्यादङ्गता तार्ह भवेत्तस्य च तं प्रति । क्रत्वफूर्वप्रयुक्तानां ब्रीह्मवहननादीनां ऋत्वङ्गत्वा त्वव दिति भावः ॥ ६२ ॥ तदेतत्समाधत्ते- इति चेदुच्यतेऽङ्गत्वं न प्रयुक्तः प्रसज्यते ॥ ६३ ॥ कामश्रुतिप्रयोज्यत्वेऽप्याधानस्याङ्गता न हि । न प्रयुक्तिरङ्गत्वे तन्त्रम् , कामश्रुतिप्रयुक्तस्याधानस्य तदङ्गत्वाभावादितिभावः ॥ नन्वाधानस्य वा कथमङ्गत्वाभाव इत्यत्राह- आधानस्याङ्गतायां च श्रुत्यादेन च मानता ॥ ६४ ॥ न हि प्रकरणे तस्य पाठोऽनारभ्य पाठतः। श्रुत्यादीनि हि प्रमाणान्यङ्गत्वबोधकानि । न चाधानस्य ऋत्वङ्गत्वे श्रुत्यादीनि क्रमन्ते । 'अग्नीनादधीते ' त्यत्र द्वितीयाश्रुतिस्तावन्नाधानस्य ऋतुशेषत्वं बोधयति Immedia 1 चास्य च-ऊ. 2 चास्मिन् निवेशयेत्-ड. 3 प्रयुज्यते-ङ.

चतुर्थपरिच्छेदः अग्निमात्र शेषत्वबोधने चरितार्थत्वात् । न च प्रकरणात्क्रनुशेषत्वम् । अनारभ्याधीतत्वा- दिति भावः ॥ ६४ ॥ अनारभ्याधीतस्यायाधानस्याऽऽहवनीयद्वारा क्रत्वन्वयो भविष्यति । 'आहवनीये जुहोती' ति तस्य क्रत्वन्वयात् । यथाऽनारभ्याधीताया अपि पर्णताया जुहूद्वारा क्रत्व- न्वय इत्याशङ्कते- अथानारभ्य पाठेऽपि जुहूद्वारा हि पर्णता ॥ ६॥ यथा क्रत्वन्विता दृष्टाऽऽधानमप्येवमिप्यताम् । तत्राप्याहवनीयादेराधानद्वारतेति चेत् ॥ ६६ ॥ तदेतत्परिहरति- नैतदाहवनीयादेर्लोकतः सिद्धिरिष्यते । लौकिकत्वेन जुह्वादेः पर्णताद्यन्वयो मतः ॥ ६७ ॥ युज्यते जुह्वादेलौकिकत्वेन पूर्व प्रसिद्धत्वात्तद्वारा पर्णतान्वयः । आहवनीयस्य त्वलौकिकत्वान्न तन्मुखेनाऽऽधानत्य कन्वन्वयो युक्त इत्यर्थः ॥ ६७ ॥ अवान्तरप्रकृतमुपसंहरति- तस्मादध्ययनस्याङ्गभावो नास्ति प्रयुक्तितः। अनुष्ठानं तदास्तीति न नियोज्यस्य कल्पना ॥ ६८ ॥ अध्ययनस्याध्यापनविधिप्रयुक्त वेऽप्यङ्गत्वाभावात्तत्प्रयुक्तिबलादेवानुष्टानस्यापि ला- भारिप ण्डपितृयज्ञन्यायेन वा रात्रिसत्रन्यायेन वा नियोज्यकल्पनमध्ययनविधौ नास्ती- त्यर्थः ॥ ६८॥ 4 इत्थमियता प्रबन्धेन प्रतिपादितनियोज्यनिर्णयस्योपयोगमाह- तस्मात्सर्वविधिष्वेव नियोज्योऽपेक्षितस्ततः । स्थायिकार्य तत्समभिव्याहाराच लिङोच्यते ॥ ६९ ॥ नियोज्याकाङ्क्षायाः सर्वविधिसाधारणत्वान्न तन्निरूपणमयुक्तं, तेन नियोज्यसममि- न्याहारादेव स्थाय्यपूर्वकार्य लिङादिमिरमिधीयत 5 इत्यर्थः ॥ ६९ ॥ एवमखिलशङ्काकलङ्करहितत्वाल्लोकवेदयोः समत्वाच्च कार्यान्वय एवाङ्गीकरणीय इत्युपसंहरति- अतः कार्यान्वये दोषलवोऽपीह न विद्यते । तत्कार्यस्य लिङर्थत्वमिप्यतां लोकवेदयोः ॥ ७० ॥ त्वात्तन्निरूपणमुपयुक्तम्- 1 वादेऽपि-घ. ते नियोजनिर्णयेऽस्यो-घ. 6 इति भावः-ख. स्वाध्यायापू-घ. 6मतीव श-घ' सुवर्णमुद्रिकासहिते वाक्यार्थरत्ने .. एवं प्रसक्तानुप्रसक्तया बहुविधग्रमेय निर्णाययकन्यायनिरूपणेन व्याकुलित- चित्तानां श्रोतृणां चेतःसमाधानार्थ वाक्याथ संकलय्य कथयितुमारभते- तथा च सति वाक्यार्थ एवं संपद्यते यथा। किं तद्वाक्यं ? कश्च वाक्यार्थः ? इत्याकाङ्क्षायां वाक्यमुदाहरति-- स्वर्गकामो यजेत ज्यो.तष्टोमेनेति हि श्रुतम् ॥ ७१ ॥ वाक्याथ कथयितुमादौ तावद्वाक्यस्थपदानामर्थमाह- लिङ्प्रत्ययेन यत्कार्य कृतिसाध्यतयोच्यते । तत्कृतेविषयत्वेन प्रकृत्या याग उच्यते ॥ ७२ ॥ यजेतेत्यत्र प्रत्ययेन कृतिसाध्यतयाऽपूर्वमभिधीयते । तत्र कृतेस्तत्साध्यस्य कर्तृ- संख्यायाश्च शब्दार्थत्वेऽपि — यत्परो हि शब्दः स शब्दार्थ' इति न्यायेन प्राधान्येनापूर्वस्य वाक्यार्थत्वं, कृत्यभिधानं तु कार्याभिधानेनैव लभ्यत इत्यनन्यलभ्यः शब्दार्थ इति कार्यस्य प्राधान्येन प्रत्ययार्थत्वे कृतिसङ्ख्ययोरुपसर्जनत्वमेवेनैवाभिधाब्यापारेणावगम्यते। व्यापारान्तराभ्युपगमे विरम्य व्यापारापत्तेः । नचैवेनैवाभिधाव्यापारेण शब्दतात्पर्य- गोचरस्यार्थद्वयस्य कथं प्रधानोपसर्जनभाव इति वाच्यम् । शब्दस्य तथाविधसामर्थ्याव- धारणात् । यथा वा जातेः शब्दार्थत्वेऽपि व्यक्तेर्मुख्यवृत्या शब्दतात्पर्यगोचरत्वमेकधी- वेद्यतया तावदभ्युपगम्यते, शब्दस्य तथाविधसामर्थ्यावधारणात् । तेन लिङ्प्रत्ययस्य कार्याभिधायितायां यजिप्रकृत्याऽऽकासितविषयसमर्पणं क्रियत इति भावः ॥ ७२ ॥ एवं यजेतेत्यस्यार्थमभिधाय स्वर्गकामपदस्यार्थमाह- स्वर्गकामपदं त्वत्र तत्कृत्याश्रयभावतः। नियोज्यमभिधत्ते यः कार्यबोद्धा निगद्यते ॥७३॥ यजेतेत्यत्र यागविषयकृतिसाध्यमित्युक्ते पूर्णायां विषयाकाङ्क्षायां कृत्याश्रयं सम- र्पयदिदं स्वर्गकामपदं नियोज्याभिधायकम् । कोऽसौ नियोज्य इत्यत उक्तं ' यः कार्य- बोद्धे 'ति । ममेदं कार्यमिति नियोग बोद्धृत्वलक्षणको नियोज्य इत्यर्थः ॥ ७३ ॥ ननु कार्यप्रतीत्युपयुक्तं " स्वर्गकामो यजेते" त्येतावतैवोक्तम्, तथा च ज्योतिष्ठो- मेनेति पदेन किमभिधीयत इत्यत्राह- ज्योतिष्टोमप्रकृत्या तु यागनामाभिधीयते। तृतीयया तु यागस्य करणत्वमनूद्यते ॥ ७४ ॥ 1निर्णयनि-घ. 2 यत्साध्यं कु. वगतत्वावा-ङ. 6 बोध्यत्वलक्षणो-क, ma- - ख्यतया-3. 5 पता ताव-ख. ग.

चतुर्थपरिच्छेदः यजेतेत्यत्र धातुना विहितस्य यागस्य सामान्यरूपतया विशेषपर्यवसानार्थ ज्योति- टोमप्रातिपदिकन यागनाम समर्थ्यते। तृतीयाविभक्त्या यागस्य करणत्वमनूद्यते ॥ ७४ ॥ नच यागस्य करणत्वमप्राप्तं कथमनूद्यत इति वाच्यमित्याह- *उपादानप्रमाणेन फलं प्रति यदागतम् ॥ ७॥ उपादानेति-सत्यम्, न शब्दाभिधानतः प्राप्तं यागस्य करणत्वम्, किन्तूपादानेन विध्याक्षेपरूपेण प्राप्त यागस्य फलं प्रति करणन्वमित्युक्तम् । तदिदानीं तृतीयया साध्यत इति युक्तमित्युक्तमित्यर्थः ॥ ७५ ॥ एवं 1 पदशोऽर्थ विविच्य संप्रति समस्तवाक्यार्थमाह- स्वर्गकामनियोज्याश्रिता यागविषया कृतिः। कृतिसाध्यमपूर्व चेत्ययमों गुरोर्मते ॥ ६॥ स्वर्गकामनियोज्याश्रितज्योतिष्टोमनामकयागविषयकृतिसाध्यमपूर्वमिति गुरुमते वाक्यार्थ इत्यर्थः ॥ ७६॥ ननु ज्योतिष्टोमाधिकारवाक्यस्यैवमर्थवर्णनमस्तु । इतरेषामधिकारवाक्यानां कथमर्थो वर्णनीय इत्यत्राह- सर्वाधिकारवाक्यानामेवमेवार्थ इष्यताम् । ज्योतिष्टोमाधिकारवाक्य त्याओं वर्णितस्तथैवेतरेषामप्यधिकारवाक्यानां स्वारज्यकामाश्रितवाजयनामकयागविषयकृतिसाध्यमपूर्वमित्यादिना प्रकारेण यथाई- मर्थवर्णनं कार्यमित्यर्थः।। राजसूयाधिकारवाक्ये तु विशेषोऽस्तीत्याह-- यद्राजसूयाधिकारवाक्यं तत्र भिधाऽस्तितु ॥७७ ॥ कस्तत्र विशेष इत्यत्राह-- तत्र स्वाराज्यकामस्य नियोज्यत्वं प्रतिष्ठितम् । यत्तु राजपदं तत्तु कर्तुरेवाभिधायकम् ॥ ७८ ॥ 'राजा राजसूयेन स्वाराज्यकामो यजेते'ति राजपदमेकमधिकम्, तच्च कर्तृपरमिति विशेष इत्यर्थः ॥ ७८॥ यथा 1 पदपदाथ-क.ङ. यथार्थम-क. ङ. 3 तत्राभिदाऽस्ति तु-क. ङ. * उपादानेति सत्यं तन्न च जब्दाभिधानतः । अयं श्लोकभागः घ पुस्तके ७५ श्लोक- संबन्धितया दृश्यते।

सुवर्णमुद्रिकासहिते वाक्यार्थरले sous ७ , ननु किमिति राजपदस्याक्षेपलभ्यकर्तृपरत्वमुच्यते । वाक्यस्थस्वाराज्यकाम- नियोज्ये विशेषणमेव किन्न स्यादित्यत्राह- विशेषणं नियोज्यस्याभिदध्यात्तत्पदं यदि। वाक्यभेदः प्रसज्येत तत्तस्यानभिधायकम् ॥ ७९ ॥ स्वाराज्यकामस्य नियोज्यत्वे सति राजपदस्य कर्तृपरत्वं विहाय नियोज्यविशेषणत्वं यदि 1 वर्येत, स्वाराज्यकामो नियोज्यः, स च राजेति, तर्हि नियोज्यस्यानुपादेयत्वेन तद्विशेषणविवक्षायां वाक्यभेदः प्रसज्येतेत्यर्थः ॥ ७९ ॥ नन्वनुपादेयगतविशेषणविवक्षायां वाक्यभेदः स्यादिति कुत्रोक्तमित्याशङ्कयाह-- विशेषणं विवक्ष्येतानुपादेयगतं यदि। भिद्येत वाक्यमित्येवं ग्रहाधिकरणे स्थितम् ॥ ८०॥ 'ग्रहं संमार्टी' त्यत्र किमेकग्रहस्य संमार्गः? उत सर्वेषामिति संशये-न तावदयं विशिष्टविधिः, ग्रहाणां पूर्वमेव प्रप्तत्वात् । न च ग्रहोद्देशेन संमार्गो विधीयत इतिवाच्यम् । तथा च ग्रहस्यानुपादयत्वेन तद्विशेषणस्यैकत्वस्य विवक्षायां वाक्यभेदः स्यात् । अतो नैकग्रहस्य संमार्गः। अपि तु सर्वेषामिति तृतीये श्रुतिपादे ग्रहाधिकरणे प्रतिपादितमित्यर्थः॥ तेनात्रापि स्वाराज्यकामनियोज्यस्यानुपादेयत्वेन राजपदस्य विशेषणतया विवक्षाया अयुक्तत्वादाक्षेपलभ्यकर्तृविशेषणपरत्वमेव युक्तमिस्याह- अतो राजपदं राजसूयकर्तुर्विशेषणम् । वदेत्तत्र समन्वेति न नियोज्यविशेषणम् ॥ ८१ ॥ अत्र चोढ़यति- ननु द्वयोः प्रतिपदं कृरूत यजमानयोः । इत्यत्र वाक्यभेदोऽपि नास्ति तद्वद्भवेन्न किम् ॥ ८२॥ अस्ति *कुलाययज्ञो राजकर्तृकः । तत्र “ द्वयोर्यजमानयोः प्रतिपदं कुर्वीते" त्यत्र किं यजमानयोरित्युद्देश्यसमर्पकम् ? किं वा द्वयोरिति संशये-यदि यजमानयोरि- त्युद्देश्यसमर्पकं भवेत्तदा द्वयोरिति विशेषणविवक्षायां वाक्यभेदः स्यात् । तस्माद्योरि- त्येवोद्देश्यसमर्पणेन कयोयोरित्याकाङ्क्षायां यजमानयोरित्याकाङ्क्षा पूरकत्वेनान्वेती- युक्तम् । तद्वदत्रापि स्यादित्यर्थः ॥ ८२ ॥ 1 तक्येत-ध. 2 भियते-क. 3 स्वराज्यकामस्या-घ. 4 किलाय य-घ, 5 व्यापक-घ.

चतुर्थपरिच्छेदः फmom 1 तदेतत्परिहरति- 2 उच्यते तत्र चोद्देश्यं यजमानपदं यदि। तदा द्वयोरिति पदं न विशेषणवाचकम् ॥ ८३ ॥ विशेषणविवक्षायां वाक्यभेदप्रसक्तितः। तस्माद्योरिति पदेनोद्देश्यस्य समर्पणे ॥ ८४ ॥ 5 यजमानयोरिति पदं पूरकं परिकीर्त्यते । युक्तं तत्र द्वयोरित्युद्देश्यस्यापरिपूर्णत्वाद्यजमानपदस्य तत्पूरकत्वं, वैपरीत्येनान्वये वाक्यभेदप्रसङ्गात् । प्रकृते तु नैवमित्याह- अत्र राजपदं स्वर्गकामं न विशिनष्टि तत् ॥ ८ ॥ वाक्यभेदाकिंतु यागकर्तारं विशिनष्टि तत् । कमिपदसंबन्धात्स्वाराज्यकामपदस्यैव नियोज्यपरत्वं वक्तव्यम्, न राजपदस्य, विशेषणत्वाभावात् । तथा च राजपदस्य नियोज्यविशेषणपरत्वे वाक्यभेदप्रसङ्गात्कर्तृ- परत्वमेवेति भावः ॥ ८५॥ एवं सति राजसूयवाक्यस्य कथमर्थवर्णनमित्यत्राह- ततश्च स्वाराज्यकामनियोज्याश्रयिणी कृतिः ॥ ८६ ॥ सा राजकर्तृकयजिविषयेत्यवधार्यते। कृतिसाध्यमपूर्व चेत्यर्थो वाक्यस्य वर्णितः॥८७॥ " राजा राजसूयेन स्वाराज्यकामो यजेते" ति वाक्यस्य स्वाराज्यकामनियोज्या- श्रितराजकर्तृकयागविषयकृतिसाध्यमपूर्वमित्यर्थः ॥ ८७ ॥ नन्वत्र राजसूयपदस्य तृतीयायाश्चार्थो नान्वेतीत्यत्राह- राजसूयपदं चात्र यागनामसमर्पकम् ॥ ८८ ॥ करणत्वमुपादानात्प्राप्तं यागस्य तत्तथा । तृतीययाऽनूद्यत इति तद्वाक्यार्थप्रवेशिका ॥ ८९ ॥ यथा ज्योतिष्टोमाधिकारवाक्ये ज्योतिष्टोमपदं 'यजेते 'त्यत्र प्रकृत्युपात्तस्य कर्मणो नामसमर्पकं, तृतीया चौपादानिक फलकरणत्वमनुवदतीत्युक्तम् । तद्वदेवात्र राजसूयपदं 4 पदं 1वैपर्गत्ये थोषमाह-क. ङ. अन्यथा-क. ङ. वदेद्वयोरिति-क. ङ. चोद्देश्यस्य समर्पकम्-क. ङ 5 यजमानपदं तस्व-क. ङ. 6 दः आनर्थक्यं चेत्यर्थः. 7 तस्य च।-घ.

सुवर्णमुद्रिकासहिते वाक्यार्थरत्ने 1 कर्मनाम, तृतीया 1 चौपादानिकफलकरणत्वानुवादिकत्येवं वाक्यानुप्रवेश इत्यर्थः । एवं सति स्वाराज्यकामनियोज्याश्रितराजकर्तृकराजसूयनामकयागविषयकृतिसाध्यमपूर्व- मिति राजसूयाधिकारवाक्यार्थ इत्युक्तं भवति ।। ८९ ॥ एवं परिच्छेदचतुष्टयेनापि प्रतिपादि-तप्रमेयमुपसंहरति- तस्मात्प्रवर्तकं लोकवेदानुगतभावतः । एएब्यं कार्यमेवेति रमणीयतरं स्थितम् ॥ ९० ॥ उपक्रमोपसंहारयोरेकरूपत्वेन हि ग्रन्थस्यैकस्मिन्नथे तात्पर्य भवति । तस्मात्प्र- वृत्तिहेतुभूतार्थगोचरवादिविप्रतिपत्तिनिराकरणपूर्वकं कार्यमेव प्रवर्तकमिति प्रतिपाद्य तच्च कार्यमपूर्वाख्यं स्थायिकार्य वैदिकमिति सोपपत्तिक प्रतिपादितत्वात्कार्यमेव प्रवर्तक- मिति रमणीयतरमित्यर्थः ॥ १०॥ - यत्प्रतिज्ञातं 'गुरुतन्त्रमहाम्भोधिमवगाह्ये' त्यादिना तत्तथैवोक्तमित्याह- इत्थंप्रकारस्तु गुरोः संप्रदायः प्रदर्शितः । यथाश्रुतं यथाप्रशं विद्वद्भिः परिगृह्यताम् ॥९१॥ एवमुक्तेन प्रकारेण 4 प्रभाकरगुरोः संप्रदायो गुरुशिष्यपरंपराप्रा तो मार्गों गुरूपदेशतो यथाश्रुतं यथावबुद्ध तथा प्रदर्षितः । न तु किञ्चिदश्रुतं नाप्यनव बुद्धमुक्तम् । तेन विद्वद्भिाह्योऽयं ग्रन्थ इत्यर्थः ॥९१ ॥ ग्रन्थसमाप्ति सूचयति- इति श्रीवत्सदुर्वा' सोमारयार्यस्य सूनुना । अहोवलेन वाक्यार्थरत्नं प्राकाशि सूरिणा ॥९२॥ अहोबल इति ग्रन्थकर्तुर्नाम, तेन अहोबलेन सूरिणा विदुषा वाक्यार्थरत्नसंज्ञितो ग्रन्थः प्राकाशि प्रकाशित इत्यनेन स्वकपोलकल्पितं किमपि नास्ति, अपि तु पुरातननिबन्धन- कर्तृभिः प्रतिपादितमेवोपन्यस्तमित्युक्तं भवति । कोसावहोबलाख्यो विद्वानित्यत उक्तं श्रीवत्सेति-श्रीवत्सगोत्राणां दुर्वाससां वंश्यो यो मारयार्योऽस्ति तत्सूनुरहोबलः, तेनेतद्वाक्यार्थरनं प्रकाशितमित्यर्थः॥ ९२ ॥ . 2 तमथमु-घ. क्तप्र-ख. 4 प्राभाकर-ख. ङ. प्राप्तमा. 1 च करणत्वा-घ. 6 दुध्योक्तं-घ. स-ड.

चतुर्थपरिच्छेदः ' इत्थं कृतं ग्रन्थमिष्टदेवतायै समर्पयति- धर्मब्रह्मसमाख्याभ्यां यो वेदशिरसि स्थितः। देवः स रामो वाख्यार्थरत्नदानेन तुप्यतु ॥ ९३ ॥ धर्मसमाख्यया वेदस्य ब्राह्मणवाक्यस्य शिरोवदवस्थिते लिङ्पदे स्थितः। चोदनालक्षणोऽर्थो धर्म' धर्म' इत्युक्तत्वात् । ब्रह्मसमाख्यया वेदानां शिरोभूतेषु वेदान्तेषूपनिषत्सु प्रतिपाद्यतया स्थितः । तं त्वौपनिषदं पुरुषं पृच्छामी' ति श्रुत्यनु- सारेण 'शास्त्रयोनित्वादि' (ब्र. सू. अ. १. पा. १. सू ३) त्यत्र ब्रह्मणो वेदान्त- वेद्यत्वस्यावधृतत्वात् । तेन धर्मसमाख्यया ब्रह्मसमाख्यया च यो रामो वेदशिरः- प्रतिपाद्यो वाक्यार्थरत्नसमर्पणेन स रामः प्रीतो भवत्वित्यर्थः ॥ ९३॥ ।। इति श्री मारयायतनयेन अहोबलेन विरचिनायां वाक्याथरत्नप्रकाशिकायां सुवर्णमुद्रिकायां स्वर्गकामपदस्य नियोज्यपरत्वनिरूपणं नाम चतुर्थपरिच्छेदः समाप्तः ॥ समाप्तश्वाऽयं ग्रन्थः श्रीकृष्णार्पणमस्तु

No text on this page.

सुवणमुद्रिकासहितवाक्यार्थरनोदाहृत- श्रुत्यादिवाक्यानि. अन्नाश्शर्करा उपदधानि-ने. काठक :-) अग्नीनादधीत-शतपथ 1-1-1 अग्नीषोमीयमेकादशकपालम्-ते. महितायां 2-5-- अग्नीषोमीयं पशुमालभेत-ते. सं. 15-1-11 अग्नेस्तृणान्यपचिनोति-? अथातो धर्मजिज्ञासा-जै. म. 1-1-1 अन्यायश्चानेकार्थत्वम्-शाबरभाग्ये 2-1-12. अमिधाभावनामाहुरन्यामेव लिङादयः । अर्थात्मभावना त्वन्या सर्वाख्यातेपु गम्यते ।। -तन्त्रवा. अ. पा. 1 अधि. 1. अमावास्यायामपरारू पिण्डपितृयज्ञेन चरन्ति-आ. श्री. मू. 1-7.1 आग्नेयोऽष्टाकपाल:-तै, सं. 2-15-3 आसीरन् वृद्धिकामाः-? आहवनीये जुहोति-ते. ब्राह्मण 1-6-2 उपांशुयाजमन्तरा यजनि-ने. सं. 2-5-15 एतावदरे खल्वमृतत्वम्-बृ. उपनिषदि 4-5-15 ऐन्द्रं दध्यमावास्यायाम्-ते. सं. 2-5-4 ऐन्द्रं पयोऽमावास्यायाम्-ते. सं. ? कृतितत्साध्यमध्यस्थो यागादिविषयो मतः । कार्ये सङ्घटिताकारे कारणत्वेन संमत:-नयविवेक 2-2-1 ग्रहं संमार्टि-? चोदनालक्षणोऽर्थो धर्मः-जे. चोदनेति क्रियायाः प्रवर्तकं वचनमाहुः-शाबरभाप्ये 1-1--2 जुह्वा जुहोति-? तन्मह इत्युपासीत-तै. उ. 3-10-3 तीर्थे स्वाति-तै. सं. 6-1-1 तेजो वै घृतं-ते. का. 3-5 तं त्वौपनिषदं पुरुषं पृच्छामि-बृ. उ. 3-9-26 दर्शपूर्णमासाभ्यां स्वर्गकामो यजत-? द्वयोर्यजमानयोः प्रतिपदं कुर्वीत-? VAKYARTARATNAM. सू. 1-1-2 न विधौ परः शब्दार्थः-? न हिंस्यात्मा भूतानि--? न ह्यविषयानिनियोज्यान्नियोगज्ञानमुत्पद्यते-प्रकरणपञ्चिका नाव्यापृतं करणं भवति----? पुत्रोत्पत्तिविपत्तिभ्यां नापरं सुखदुःखयोः- प्रतितिष्ठन्ति हवा य एता रात्रीरुपयन्ति-? ब्रह्म वेद ब्रह्मैव भवति--मु. उ. 3-2-9 मङ्गलारम्भा ग्रन्थाः प्रचीयन्ते निष्प्रत्यूह परिचीयन्ते च-? यदनन्तरं यदृश्यते तत्तस्य कारणम् -? यहचोऽधीते--ते. आरण्यके-15 यवमयश्चरुर्भवति-? यज्ञेन दानेन-बृ. उ.4-1-22 यस्यै कस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्--? रमन्ते योगिनोऽनन्ते नित्यानन्दे चिदात्मनि । इति रामपदेनासौ परं ब्रह्माभिधीयते ॥-रामतापनी प्र. उ. राजा राजसूयेन स्वाराज्यकामो यजेत--? वाराही उपानहावुपमुञ्चते--ते. बा. 1-7-9 विषयत्वेनान्वितस्य करणन्वेनान्वय इति न यागस्यादौ करणत्वेनान्वयः -प्रकरणपञ्चिका. वैतसे कटेऽश्वं चिनोति-ते. ब्रा. :-8-20-1 श्रीहीनवहन्ति----आ. श्री. सू. 1-19) शास्त्रयोनित्वात्-ब्र. सू. 1-1-3 शान्तो दान्त उपरत:-बृ. उ, 1-1-23 श्रोतव्यः-बृ. उ.-4-5 श्येनेनामिचरन् यजेत? सन्दिग्धेषु वाक्यशेषात्-जै. सू. 1-4-26 सत्रायागूर्य विश्वजिता यजेत- ? सिद्ध साध्यायोपदिश्यते-? स्फ्येनोद्धन्ति-तै. सं. 6-6-4 स्वर्गकामो यजेत-ताण्ड्यब्राह्मणे 18-2-33; तै. सं. 2-5-5 स्वस्तीत्यविनाशिनाम-निरुक्ते :-21-5 स्वाङ्गमन्यवधायकम्-? स्वाध्यायोऽध्येतव्यः--तै. आ. 2-16 हिरण्यमात्रेयाय ददाति-?

वाक्यार्थरत्नस्थश्लोकानामकारादिक्रमेणानुक्रमणिका श्रो. सं. पृ. अथोच्यते नियोज्यस्य अथोच्यते नियोज्यम्य अथोच्येत २८ का " अध्यापकः .... ६ अध्यापन अध्यापन २९ अनुभूति ३३ अन्य दशे भपि सा ३१ अपूर्वस्यैत्र ५ २० .... अक्ता उपदधातीति अतस्तत्कार्यशंषत्वं अतश्चोत्पत्त्यपूर्वाणां अतो न करणत्वेन अतो न दोषः अतो नियोज्य अतोऽनुगुण अतोऽर्थक्षान भतो मानान्तर अतो राजपदं अतो लिङादयः अतो लिङादि अतो वेदान्त अतोऽत्र अतः कार्यान्वये अत्र केचन अत्र प्रत्यवतिष्ठन्त अथ कास्यतया मथ कृत्यह अथ तर्कपरामृष्टं अथ नैवोच्यते अथ वाक्यात् भथ सापेक्षतामात्रात् अथोच्यते दर्श अपूर्व अभिधाभावना अभिधीयते .... ५३ अयुक्तमेव २५ ... अवस्थान्तरं ७३ अविशिष्टो ३६ असत्यन्यनिमित्त .... २ .... २ अस्तु अस्माकं .... २४ अस्य तु अहोबलेन .... आ १३ आख्यात आख्यातात ८३ 6. मं. पृ. लो. सं. पृ. गुष्टव्यं ... ૨૨ क इनि चंदुच्यते नोदाहरणं ४७ इति चंदुच्यने यादृक् .... इनि चेदुच्यते स्वर्ग इनि चेदुच्यते यत्र इति प्रवर्तकम् .... ६३ कापि कल्पयत्येव कल्प्यता .... इति बुद्धा ३ कामशब्द .... १० कामश्रुति .... कामनाकर्मता .... ३० .... इत्थं त्रिष्वपि इत्थं निश्चित्य इत्यपूर्वाभिधायित्वं इत्यमङ्गतं इत्युपादान इत्युपादानतः इत्येतदपरामृष्ट इत्येतन्न इत्येवं .... ૨૨ ३ उ २३ उच्यते तत्र ५६ कार्यबोधदशायां ३४ कार्यत्वेन च कार्यत्वेन नियोज्यं काम्यत्वादेव किं च युक्तापि ३८ किं च सापेक्षतोत्पत्तो.... ४३ किं च क्रियात्मक किं च प्रवृत्तिजनिका किं च व्युत्पत्ति किं नु स्वर्गस्य कृतिः किंविषयेत्यादौ २७ कृतिजन्यत्वं ३३ कृतिसाध्यं प्रधान कृतिसाध्य १ कृतिसाध्यतयैव कृतिसाध्यतयापूर्व कृतिसाध्यतया कृत्युद्देश्येष्टविज्ञान क्रमेण २६ क्रियान्यस्मिन् क्रियाविभिन्न .... ३१ .... २२ उत्पत्त्यपूर्व उत्पन्न उपकुर्वन्नपि उपसर्जनतेव उपास्महे .... १९ ३२ .... ३२ .... ऋ .... ३८ ऋगक्षरैरसम्बद्ध १ .... ३ ७० .... ए २ .... एवं कामि एवं चास्त ३२ 1८ को. सं. पू. श्री. सं. पू. क्षणिकत्वेऽपि ३७ / तत्रान्विताभिधानार्थ तत्रेत्थं पार्थतः तत्स्वरूपपरामर्शात ३ तत्स्वर्गकाम १३ ग .... ३ गुरुतन्त्रमहाम्भोधि गुरुस्तु गृह्णात्यादी ३ तव्यप्रत्ययतः ८८ .... .... .... ज्योतिष्टोम ३४ तस्मान्न यागकरण तस्मान युज्यते तस्मानियोज्य तस्यैव साधनत्वं तृतीयया तेनापि ४३ .... .... 1 .... ३ तेनैव हि तं पश्य द .... दृष्टचत्रसुतोत्पत्तेः देवः स रामो .... द्रव्यस्य २५ ४ ततश्च गां ततश्च निर्विशेषस्य ततो लोकानुसारेण ततः प्रवर्तक ततः फलार्थिनामेव ततः सापेक्षतामात्रात् ततः सिद्धपराण्यत्र तत्करोति तत्कामि तत्कृतिव्याप्यता तक्रियाद्वारकतया तत्र वेदान्त तत्र साध्यानुगुण्येन तत्र स्वाराज्य तत्राग्नेयादिषड्याग तत्राग्नेयादियागानां .... तत्रापि हि तत्राप्युपासना तत्राभिधाभावनायाः .... .... धर्मस्य ४८ धर्म च धात्वर्थस्थेष्ट धात्वर्थस्य 4 ३ ४२ ३३ १३ .... न च यागक्रियायास्तु . न च वाक्यार्थता न च वाच्यं न च सामान्यवाचित्वं ३६ ६ लो. मं. पृ. श्लो. सं. पृ. .... पुत्रस्ते ४४ | पुनस्तच्छवणेन २२ पूर्वविज्ञान १४ प्रतिशब्द .... न च स्वर्गासाधनस्य नचाग्नेयादि नचाध्यक्षविरोधोऽपि .... न तयुक्तं न तावच्छक्यते न तावदात्मनिष्ठा न नियोज्याभिधायीति न नियोज्याभिधायित्वं १३ प्रतीयते RO .... ननु क्रिया ननु वयोः ७ २ २८ प्रधानानां प्रमाणं प्रयोजन २२ प्रवर्तकतया ७६ प्रवर्तयत्यध्ययने ६७ प्रवृत्तिजनकः ५७ प्रवृत्तिजनक ६८ प्रवृत्तिहेतुतो ५४ प्रवृत्तिर्नोपलभ्येत प्रसज्येत प्रागध्ययनतो ५४ प्राच्योदीच्य प्रेषयन्ति ननु सत्रागरण ननु सर्व नन्वेवमर्थवादेषु न यद्यपि न विद्यते न शाब्दं न सापि न हि प्रकरण ४ ३७ .... .... नास्ति सा ६ ३ .... ३१ नियुके नियोगसाधनत्वं नियोगं नियोज्यः नियोज्याः नेताहवनीय २५ રે રે फलसाधनभावेन फलनाश्यतया फलं यत्तदपूर्व फलं यदि .... .... १ २ ४६ .... ३ बोध उत्पत्त्यपूर्वाणां ३२ .... ४ ६ पश्चाइवोत्पत्त्यपूर्व परामर्शामिका परास्पृष्टं m २३ .... ३५ | भज्येतापूर्वता ३१ भाव्यत्वमवगस्येत ....

लो. सं. पृ. a मुख्यतान्यत्र ३६ लिङादिभिरपूर्व लिडादियुक्त लिङ्गादियुन लिङ्पदं ६१ लिङ्प्रत्ययन यञ्चाभ्यधायि यच्छक्यते यतः प्राथमिकी यत्र स्वर्गण ... लोकऽपि लोक बंदऽपि लोकहि कारकगतं लोक हि फलनाश्यत्वं यत्र बसो ३ ७ १३ १३ ५.९ ३१ यत्रापि यथा त्वन्विता यथा हि यथा श्रुतं यदा तु यदि प्रवृत्तिहेतुः यदि साधनता यदि स्यादङ्गता वदन्ति वदन्तीति वदेदपूर्व वाक्यभेदात् वाक्यार्थ इत्यभिमतं वाच्य तु 3 यदि ज्ञाता प २३ ० .... १४ .... यदि लोकात् यदिद यदर्शपूर्णमासाभ्यां यद्याग्नेयादि यद्वाभिधत्त इत्येवं यद्वेष्टसाधनत्वस्य यस्मादनन्यथा 10 ७२ विज्ञाय वन्कृभिप्राय विज्ञायाभिमतं विरोधिगुण विलोक्य हर्ष विशेषणविवक्षायां विशेषणत्वमप्यत्र विशेषणं नियोज्यस्य विशेषणं विवक्ष्येत ४३ वेदाध्ययन वैदिकैरुच्यते व्यवहारो व्युत्पत्ति १२ व्युपिन्सुरपि .... ब .... ६२ र राजसूयपदं ४४ ल लक्ष्यता यदि ३१ लो. सं . बीहीणामपि ८ .." .... ९ श्रीराम श्रूयते यत्र श्रूयते वचनं लो. सं. पृ. माध्यस्वर्गविशिष्टश्च मिट्टै स्वर्गस्य संस्काराजायते १ ३६ स्थायिरूपमपूर्व स्थिरताकल्पनं स्यात्कार्यपरता स्वर्गकामपदं तत्र स्वर्गकामपदं त्वत्र ३ २९ .... ३ २ ६३ स्वर्गकामपदेन ३ स्वर्गकामनियोज्य ४६ स्वर्गकामो ३ ३ AM २९ स्वर्ग कामयते स्वर्गात्मक स्वत एच स्वरूपोपस्थापने स्वस्वामिभाव ७७ स एव सकृत्क्रमाभिधानेन सप्तमाद्यविरोधोऽपि संप्रदानत्वं समभिव्याहृतं संबन्धात्मा सर्वाधिकार सा कृतिः सा च साधयितुं साधनत्वं साध्यद्वयपरत्वेन मा राजकर्तृक साध्यसाधनभावः साध्यस्वर्गविशिष्टोऽसौ ७५ ३२ ६० २९ ho ७७ ... हर्ष ६१ हुमादीनां १६ हेतुर्यववराह -numan-in- मैसूरु राजकीय प्राच्यकोशागारे परिष्कृत्य देवनागराक्षरैः सम्मुद्रय प्रकाशिताः संस्कृतग्रन्थाः -ameer ग्रन्थनाम मूल्यम् रू. आ. .... .... .... *1 आपस्तम्बगृह्यसूत्रम् , सुदर्शनार्यप्रणीततात्पर्यदर्शनाख्य- भाष्यसहितम् 1 12 *2 आपस्तम्बयज्ञपरिभाषासूत्रम् , हरदत्तकपर्दिस्वामिभाष्या- भ्यां सहितम् 10 *3 माधवीयधातुवृत्तिः (अदादि-दिवादि जुहोत्यादयः) 20 *4 तैत्तिरीयसंहिता, सस्वरचिह्ना सपदपाठा श्रीभट्ट- भास्करीयज्ञानयज्ञाख्यभाष्यसहिता च, प्रथमसंपुटम् 28 * तैत्तिरीयसंहिता, सस्वरचिह्ना सपदपाठा श्रीभट्ट- भास्करीयज्ञानयज्ञाख्यभाष्यसहिता च, द्वितीयसंपुटम् 28 *6 दक्षिणामूर्तिस्तोत्रम् , सुरेश्वराचार्यकृतटीकासहितम् 1 4 *7 तैत्तिरीयसंहिता, सस्वरचिह्ना सपदपाठा भट्टभास्करीय- ज्ञानयज्ञाख्यभाष्यसहिता च, तृतीयसंपुटस् 30 *8 श्रीभगवद्गीता, श्रीशङ्कराचार्यकृतभाष्यसहिता 212 *9 तैत्तिरीयसंहिता, सस्वरचिह्ना सपदपाठा भट्टभास्करीय- ज्ञानयज्ञाख्यभाष्ययुता च, चतुर्थसंपुटम् 3 0 *10 मण्डलब्राह्मणोपनिषत् 06 *11 सौन्दर्यलहरी .... .... .... 1 0 * एतच्चिद्वाङ्किता ग्रन्थाः संप्रति विक्रयायात्र नोपलभ्यन्ते, 2 मन्थनाम रू. आ. " .... ... १ *12 तैत्तिरीयसंहिता, सस्वरचिह्ना सपदपाठा भट्टभास्करीय- ज्ञानयज्ञाख्यभाष्यसहिता च, पञ्चमसंपुटम् 30 *13 दशमसंपुटम् 3 0 *14 एकादशसंपुटम् 30 *15 आपस्तम्वधर्मसूत्रं हरदत्ताचार्यप्रणीतोवलाख्यवृत्तियुतम् 1 12 *16 तैत्तिरीयसंहिता, सस्वरचिता सपदपाठा भट्टभास्करीय- ज्ञानयज्ञाख्यभाष्यसहिता च, अष्टमं संपुटम् 30 *17 नवमं संपुटम् 2 4 *18 द्वादशं संपुटम् 1 12 *19 श्रीशङ्कराचार्यप्रवन्धावली, प्रथमसंपुटम् , (श्रीविष्णु- सहस्रनाम-सनत्सुजातीयभाष्यम्) *20 द्वितीयसंपुटम् (अपरोक्षानुभूतिः, शत- श्लोकी, हरिस्तुतिः, दशश्लोकी च) .... 1 4 *21 तृतीयसंपुटम् (उपदेशसाहस्त्री, गद्यपद्योभया- त्मिका, रामतीर्थव्याख्यायुता) 20 *22 चतुर्थसंपुटम् (आत्मबोध-विवेकचूडामणि- वाक्यवृत्ति-स्वात्मनिरूपण-योगतारावली सर्ववेदान्त- सिद्धान्तसारसंग्रहाः) 10 *.23 माधवीयधातुवृत्तिः भ्वादौ प्रथमसंपुटम् 20 द्वितीयसंपुटम् 20 *25 गोत्रप्रवरनिवन्धकदम्बम् *.26 तैत्तिरीयारण्यकम् , सस्वरचिवम् , भट्टभास्करीयभाष्य- सहितम् , प्रथमसंपुटम् (1-4 प्रश्नाः) 1 12 *27 तैत्तिरीयारण्यकम् , सस्वरचितम् , भट्टभास्करीयभाष्य- सहितम् , द्वितीयसंपुटम् (5-6 प्रश्नौ) 0 *28 एकाग्निकाण्डः, सस्वरचिह्नः, हरदत्तीयभाष्यसहितः *29 तैत्तिरीयारण्यकम् , सस्वरचिह्न, भट्टभास्करीयभाष्य- सहितम्, तृतीयसंपुटम् (7-8 प्रश्नौ) 1 0 .... .... *24 20 . .... 1 .... . 1 4 .... , एतच्चिह्नाङ्किता ग्रन्थाः सप्रति विक्रयायात्र नोपलभ्यन्ते.

3 ग्रन्यनाम 2 .. .... ... 9... 38 .. 2... .... *30 ब्रह्ममीमांसा, श्रीकण्ठमाप्यसहिता *31 माधवीयधातुवृत्तिः, स्वादिमारभ्य समग्रा 20 *32 बोधायनगृह्यसूत्रम् , सपरिशिष्टम् (प्रथम मुद्रणम्) *33 तैत्तरोयप्रा तशाख्यम् , वैदिकाभरण त्रेभाष्यरत्नाख्य- व्याख्याद्वययुतम् *34 बोधायनधर्मसूत्रम् , गोविन्दस्वामिकृतविवरणसमेतम् 30 *35 भादीपिका, प्रथमसंपुटम् तृतीयाध्याये तुरीयपा- दान्ता) 30 *36 तैत्तिरीयब्राह्मणम् , सस्वरचिन्ह्नम्, भट्टभास्करीयभाष्य- युतम् . *37 कौटिलीयमर्थशास्त्रम् (प्रथममुद्रणम्) *38 तैत्तिरीयब्राह्मणम्, सस्वरचिह्नम् , भट्टभास्करीयभाष्य- सहितम् (तृतीयाष्टके 1-7 प्रश्नाः) 38 *39 श्रीमद्रह्मसूत्रभाष्यम्, आनन्दतीर्थीयम्, तत्त्वप्रकाशिका- चन्द्रिका प्रकाशसहितम्, प्रथमसंपुटम् *40 भाट्टदीपिका, द्वितीयसंपुटम् , (तृतीयाध्याये पञ्चमपाद- प्रभृति सप्तमाध्यायान्तम् ) 30 41 खादिरगृह्यसूत्रम्, रुद्रस्कन्दीयवृत्तिसहितम् *42 तैत्तिरीयब्राह्मणम् , सस्वरचिह्नम् , भट्टभास्करीयभाष्य- 24 युतम् (तृतीयाष्टके 8-12 प्रश्नाः) 43 स्मृतिचन्द्रिका, याज्ञिकदेवणभट्टकृता, संस्कार- 8 44 आह्निककाण्डः 28 45 व्यवहारकाण्डे प्रथमसंपुटम् 20 *46 भाट्टदीपिका, तृतीयसंपुटम् (अष्टमाध्यायप्रभृति दशमे चतुर्थपादान्ता) 28 " 30 1 0 काण्ड: pood .... .... .... .... एतचिह्नाङ्किता अन्याः संप्रति विक्रयायात्र नोपलभ्यन्ते.

ग्रन्थनाम रू. आ. ... " *47 श्रीमद्ब्रह्मसूत्रभाष्यम्, आनन्दतीर्थीयम्, तत्त्वप्रका शका- चन्द्रिका प्रकाशयुतम्, द्वितीयसंपुटम, समन्वया- धिकरणप्रभृति आकाशाधिकरणान्तम् ) 30 48 स्मृतिचन्द्रिका, यानिकदेवणभट्टकृता व्यवहारकाण्डे द्वितीयसंपुटम् 30 *49 भाट्टदीपिका, खण्डदेवकृता, चतुर्थसंपुटम् दशमा- ध्याये पञ्चमपादप्रभृतिसमना) *50 - गौतमधर्मसूत्रम्, मस्करिभाष्ययुतम् *51 अलङ्कारमणिहारः, प्रथमसंपुटम् (समासोक्तयलङ्का- 3 0 .... 3 8 .... रान्तः) 3 0 .... . . .... 3 0 ७... काण्ड: 18 52 स्मृतिचन्द्रिका, याज्ञिकडेवणभट्टकृता, श्राद्धकाण्डः 53 श्रीमद्ब्रह्मसूत्रभाप्यम् , आनन्दतीर्थीयम् , तत्त्वप्रकाशिका- चन्द्रिका प्रकाशयुतम् , तृतीयसंपुटम्, (प्राणाधि- करणप्रभृति प्रथमे द्वितीयपादान्तम्) 40 *54 कौटिलीयमर्थशास्त्रम् (द्वितीयमुद्रणम्) *55 बोधायनगृह्यसूत्रम् , सपरिशिष्टम् (द्वितीयमुद्रणम्) 24 56 स्मृतिचन्द्रिका, याज्ञिकदेवणभट्टकृता, आशौच: 57 तैत्तिरीयब्राह्मणम् , सस्वरचिह्नम् , भट्टभास्करीयक्वाचि- कसायणभाष्याभ्यां युतम् , द्वितीयाष्टकम् 38 58 अलङ्कारमणिहारः, द्वितीयसंपुटम् (परिकरालङ्कारप्रभृति मालादीपकालङ्कारान्तः) 38 59 श्रीमद्रह्मसूत्रभाष्यम् , आनन्दतीर्थीयम् , तत्त्वप्रकाशिका- चन्द्रिका प्रकाशयुतम् , चतुर्थसंपुटम्, (प्रथमाध्याये तृतीयपादे आदितः अपशूद्राधिकरणान्तम्) *60 काव्यप्रकाशः, मम्मटभट्टकृतः, माणिक्यचन्द्रकृतसङ्के- ताख्यटीकायुतः .... , 38 3 8 .... एतचिह्नाङ्किता ग्रन्थाः संप्रति विक्रयायात्र नोपलभ्यन्ते.

. ... 28 .... ... .... 66 8 .... ... 18 .... 61 आयुर्वेदसूत्रम्, योगानन्दनाथभाष्यसहितम् 62 अलङ्कारमणिहारः, तृतीयसंपुटम् (सारालङ्कारप्रभृति हेत्वलङ्कारान्तः) 63 विद्यामाधवीयम् , विष्णुशर्मकतमुहूर्तदीपिकाटीकायुतम्, प्रथमसंपुटम् (1-5 अध्यायाः) 64 कौटिलीयमर्थशास्त्रम् (तृतीयमुद्रणम्) 30 65 अर्थशास्त्रपदसूची प्रथमसंपुटम् 28 द्वितीयसंपुटम् 67 विद्यामाधवीयम्, विष्णुशर्मकृतमुहूर्तदीपिकाटीकायुतम् द्वितीयसंपुटम् (6-10 अध्यायाः) 68 अर्थशास्त्रपदसूची, तृतीयसंपुटम् 69 अभिलषितार्थचिन्तामणिः, प्रथमसंपुटम् 70 विद्यामाधवीयम् , विष्णुशर्मकृतमुहूर्तदीपिकाटीकायुतम् तृतीयसंपुटम् 11-15 अध्यायाः) 71 सरस्वती विलासः, व्यवहारकाण्डः 72 अलङ्कारमणिहारः, चतुर्थसंपुटम् (रसवदलङ्कारप्रभृति समनः) 73 आपस्तम्बशुल्बसूत्रम् , कपर्दीय - करविन्दीय -सुन्दर- राजीयव्याख्याभिस्सहितम् 74 तर्कताण्डवम् , व्यासयतिकृतम् , न्यायदीपाख्यव्याख्या- युतम्, प्रथमपरिच्छेदः 30 75 अद्वैतसिद्धिः, मधुसूदनसरस्वतीकृता, गुरुचन्द्रिकाटीका- युता, प्रथमसंपुटम् (प्रथमपरिच्छेदे विश्वमिथ्यात्व- प्रभृत्यागमादिबाधोद्धारान्ता) 312 76 तत्त्वमुक्ताकलापः, सर्वार्थसिद्धितयाख्यादियुतः, प्रथम- संपुटम् , जडद्रव्यसरः 40 77 तर्कताण्डवम् , व्यासयतिकृतम् , न्यायदीपाख्यव्याख्या- युतम् , द्वितीयसंपुटम् (द्वितीयपरिच्छेदे विधि- 20 वादान्तम् .... .... 2 12 ... .... .... .... .... ....

6 ग्रन्थनाम रू.आ. 78 अद्वैतसिद्धिः, मधुसूदनसरस्वतीकृता, गुरुचन्द्रिकाटीका- युता, द्वितीयसंपुटम्, प्रथमपरिच्छेदे असतस्साधक- त्वोपपत्तिप्रभृति अवेद्याप्रतिपादकश्रुत्युपपत्तिपर्यन्ता 3 79 तर्कताण्डवम्, न्यायदीपाख्यव्याख्यायुतम्, तृतीयसंपुटम् 2 0 80 अद्वैतसिद्धिः, गुरुचन्द्रिकोपेता, तृतीयसंपुटम् (प्रथमपरि- च्छेदान्ता) 24 81 तत्त्वमुक्ताकलापः, सर्वार्थसिद्धितद्याख्या दयुतः, द्वितीय- संपुटम् 82 तर्कताण्डवम्, न्यायदीपाख्यव्याख्यायुतम्, चतुर्थसंपुटम् । 83 वाक्यार्थरत्नम्, सुवर्णमुद्रिकायुतम् 84 मैसूरुराजकीयकोशागारस्थलिखितसंस्कृतग्रन्थसूची, सविवरणा, प्रथमसंपुटम्, वेदाः (संहिता, ब्राह्मणं, आरण्यकं, उपनिषत् , मन्त्रसंग्रहश्च).... .... 30 24 .... 312 ಮೈಸೂರು ಗೌರ ಮೆಂಟ್ ಓರಿಯಂಟಲ್ ಲೈಬ್ರರಿಯಿಂದ ಪ್ರಕಟಿಸಲ್ಪಟ್ಟ ಕನ್ನಡ ಗ್ರಂಥಗಳು ರವಿ, ಆ *) 8 21-) reak # # # 0 # # # # 1 12 1 12 * *8 *** 3 5 1 * ಪಂಪಮಹಾಕವಿಯು ಆದಿಪುರಾಣ * ರುದ್ರಭಟ್ಟನ ಜಗನ್ನಾಥವಿಜಯ (ಮೆದಲನೆಯ ಮುದ್ರಣ 3 ಸದಾನಂದಯೋಗಿಯು ಮಹಾಭಾರತ ಪೌಲೋಮಾಸ್ತಿಕ ಪರ್ವಗಳು). 4 ಕುಮಾರವ್ಯಾಸನ ಮಹಾಭಾರತ ಸಂಭವಪರ್ವ ಜತುಗೃಹಾದಿಪರ್ವ 6 ಸಭಾಪರ್ವ 7 ಅರಣ್ಯಪರ್ವ ಮಿರಾಟಪ 9 ಲಿಂಗಣ್ಣನ ಕೆಳದಿ ನೃಪವಿಜಯ 10 ಸೋಮರಾಜನ ಉದ್ಭಟಕಾವ್ಯ 11 ರುದ್ರಭಟ್ಟನ ಜಗನ್ನಾಥವಿಜಯ (ಎರಡನೆಯ ಮುದ್ರಣ *12 ಕುಮಾರವ್ಯಾಸನ ಮಹಾಭಾರತ ಉದ್ಯೋಗಪರ್ವ 13 ಸೋಮನಾಥನ ಅಕೂರಚರಿತ್ರೆ 14 ನಯಸೇನನ ಧರ್ಮಾಮೃತ ಸಂ. ] 15 ಗೋವಿಂದವೈದ್ಯನ ಕಂಠೀರವ ನರಸರಾಜವಿಜಯ 16 ನಯಸೇನನ ಧರ್ಮಾಮೃತ ಸಂ. II 17 ವೀರಭದ್ರಪಾಲನ ವೀರಭದ್ರವಿಜಯ 18 ಜನ್ನನ ಅನಂತನಾಥಪುರಾಣ .... 19 ಸಕಲವೈದ್ಯಸಂಹಿತಾಸಾರಾರ್ಣವ ಸಂ 1 *20 ಕುಮಾರವ್ಯಾಸನ ಮಹಾಭಾರತ ಭೀಷ್ಮಪರ್ವ 21 ದ್ರೋಣಪರ್ವ 22 ನಾಗವರ್ಮನ ಕಾವ್ಯಾವಲೋಕನ (ದ್ವಿತೀಯ ಮುದ್ರಣ) 23 ಕುಮಾರವ್ಯಾಸನ ಮಹಾಭಾರತ ಕರ್ಣಪರ್ವ ಶಲ್ಯ ಗದಾಪರ್ವಗಳು * ಈ ಗುರ್ತಿರುವ ಗ್ರಂಥಗಳು ಈಗ ಬೆಲೆಗೆ ದೊರೆಯುವುದಿಲ್ಲ. > 13 :) 1 | 1 ) 8 ka 4 4 4 4 Boad 6 6 6 d pomat 2 0 # 14 0 1 3 1 8 2 4 9 ) # # # 6 24 1 LIST OF WORKS PUBLISHED BY THE MYSORE GOVERNMENT ORIENTAL LIBRARY, MYSORE. A.-Sanskrit Publications. PRICE. Rs. 2 und *1. Apastamba Grihya Sutra with the commentary of Sudarsanacarya 1 12 *2. Apastamba Paribhasha Sutra with the commen. taries of Haradatta and Kapardi Swami 3. Madhaviya Dhatuvritti, Vol. II, Part I (Adadi- Divadi Juhotyadi) 2 0 *4. Taittiriya Samhita with the commentary of Bhatta- Bhaskara with Padapatha and Swarapatha, Vol. I 2 8 *5. Taittiriya Samhita with the commentary of Bhatta- Bhaskara with Padapatha and Svarapatha, Vol II 2 *6. Dakshinamurtistotra with the commentary of Suresvaracharya 1 4 *7 Taittiriya Samhita with the commentary of Bhatta- Bhaskara with Padapatha and Svarapatha, Vol. III 3 0 *8. Bhagavadgita with the commentary of Sankaracarya 2 12 *9. Taittiriya Samhita with the commentary of Bhatta- Bhaskara with Padapatha and Padapatha and Svarapatha, Vol. IV 3 0 *10. Mandala Brahmanopanishad with a commentary ... 06 *11. Saundaryalahari with the commentary of Lakshmidhara, Bhavanopanishad with a commentary, and Devipancastavi 1 0 *12. Taittiriya Samhita with the commentary of Bhatta- Bhaskara with Padapatha anil Svarapatha, Vol. V *13. Taittiriya Samhita with the commentary of Bhatta- Bhaskara with Padapatha and Padapatha and Svarapatha, Vol. X 3 0 . ... ... .O. ... ... are out of stock. N.B.--Numbers marked thus 8 9 .. ... .. ... PRICE. Rs. a. *14. Taittiriya Samhita with the commentary of Bhatta- Bhaskara with Padapatha and Svarapatha, Vol. XI 3 0 * 15. Apastamba Dharma Sutra with the commentary called Ujjvala 1 12 *16. Taittiriya Samhita with the commentary of Bhatta- Bhaskara with Padapatha and Svarapatha, Vol. VIII 3 0 *17. Taittiriya Sanhita with the commentary of Bhatta- Bhaskara with Padapatha and Svarapatha, Vol. IX 2 4 *18. Taittiriya Samhita with the commentary of Bhatta- Bhaskara with Padapatha and Svarapatha, Vol. XII 1 12 *19. Sankaracarya's Miscellaneous Works, Vol. I, commentaries on Vishnusahasranama and Sanatsujatiya 1 1 *20. Sankaracarya's Miscellaneous Works, Vol. II, Aparokshanubhuti, Satasloki, Haristuti and Dasasloki with a commentary 1 4 *21. Sankaracarya's Miscellaneous Works, Vol. III, Upadesa ahasri with a commentary 2 0 *22. Sankaracarya's Miscellaneous Works, Vol. IV, Atmabodha, Vivekacudamani, Vakyavritti, Svatmanirupana, Yogataravali, Sarva-vedantasiddhanta-sarasangraha 1 *23. Madhaviya Dhatuvritti, Vol. I, Part I (Bhvadi) 2 0 *24. Madhaviya Dhatuvritti, Vol. I, Part II (Bhvadi)... 2 0 *25. Gotra pravara-nibandha-kadambakam 2 0 *26. Taittiriyaranyaka with the commentary of Bhatta- Bhaskara with Svarapatha, Vol. I 1 12 *27. Taittiriyaranyaka with the commentary of Bhatta- Bhaskara with Svarapatha, Vol. II 1 0 *28. Ekagnikanda with the commentary of Haradatta with Svarapatha 1 4 *29. Taittiriyaranyaka with the commentary of Bhatta. Bhaskara with Svarapatha, Vol. III 1 0 *30. Brahmamimamsa with the commentary of Srikantha 2 0 31. Madhaviya Dhatuvritti, Vol. II, Part II (Svadi and Curadi) 2 0 *32. Bodhayana Grihya Sutra with Parisishta 2 4 *33. Taittiriya Pratisakhya with Vaidikabharana and Tribhashyaratna ... . ... . N.B.-Numbers marked thus * are out of stock. 2 10 PRICE Rs. a. 3 3 0 3 8 3 8 3 0 3 1 0 ... 2 4 1 8 2 8 2 0 2. 8 *34. Bodhayana Dharma Sutra with a commentary *35. Bhattadipika, Vol. I *36. Taittiriya Brahmana with the commentary of Bhatta-Bhaskara with Svarapatha, Ashtaka I *37. Kautilya Arthasastra (First Edition) *38. Taittiriya Brahmana with the commentary of Bhatta-Bhaskara with Svarapatha, Ashtaka III. Part I *39. Srimaci-Brahmasutra Bhashya (Anandatirthiya) with Tatparya Candrika, etc., Vol. I *40. Bhattadipika, Vol. II 41. Khadira Grihya Sutra with Rudraskandiya *42. Taittiriya Brahniana with Bhatta-Bhaskara's commentary, Ashtaka 111, Part II 43. riticardrika, Samskara Kanda 44. Smriticandrika, Ahnika Kanda. 45. Smriticandrika, Vyaralara Kanda, Part I *46. Bhattadipika, Vol. III *47. Srimad-Brahmasutra Bhashya (Anandatirthiya) with Tatparya Candrika, etc., Vol. II 48. Smriticandrika. Vyavahara Kanda, Part II *49. Bhatladipika, Vol. IV 50. Gautama Dharma Sutra with Maskariya 51. Alankara llanihara, Vol. I 52. Smriticandrika, Sraddha Kanda 53. Srimad-Brahmasutra Bhashya (Anandatirthiya) with Tatparya Candrika, etc., Vol. III 54. Kautilya Arthasastra (Second Edition) *55. Bodhavana Grihya Sutra with Parisishta 56. Smriticandrika, Asauca Kanda 57. Taittiriya Brahmana with the commentary partly of Bhatta-Bhaskara and partly of Sayana, Ashtaka II 58. Alankara Manihara, Vol. II 59. Srimad-Brahmasutra Bhashya (Anandatirthiya) with Tatparya Candrika, etc., Vol. IV *60. Kavya-Prakasa with the commentary of Sanketa 61. Ayurveda Sutra with the commentary of Yoganandanatha 62. Alankara Manihara, Vol. III 63. Vidyamadhaviya of Vidyamadhava with the commentary Muhurthadipika by Vishnu Sarma, Vol. I 3 0 3 3 0 3 8 3 0 3 4 4 0 3 0 2 4 1 8 #.. .. 3 8 3 8 ... 3 8 3 8 ... 2 2 0 8 ... 2 0 N.B, -Numbers marked thus are out of stock.

11 ... ... PRICE Rs. a. 64. Kautilya Arthasastra (Third Edition) 3 0 65. Index Verborum to the published texts of Arthasastra of Kautilya, Vol. I 2 8 66. Index Verborum to the published texts of Arthasastra of Kautilya, Vol. II 2 8 67. Vidyamadhaviya of Vidyanadhava with the commentary of Muhurtadipika by Vishnu Sarma, Vol. II 2 0 68. Index Verborum to the published texts of Arthasastra, Vol. III 2 0 69. Abhilashithartha Cintamani, Vol. I 2 0 70. Vidyamadhaviya, Vol. III 1 8 71. Sarasvati Vilasa (Vya vahara Kanda) 2 8 72. Alankara Manihara, Vol. IV 2 4 73. Apastamba Sulba Sutra 2 12 74. Tarkatandava with Nyayadipa, Vol. I ... 3 0 75 Advaitasiddhi with Gurucandrika, Vol. I 3 12 76. Tattvamuktakalapa with Sarvarthasiddhi, Bhavaprakasa and Anandadayini, Vol. I 4 0 77. Tarkatandava, Vol. II 2 0 78. Advaitasiddhi with Gurucandrika, Vol II 3 4 79. Tarkatandava, Vol. III 3 4 80. Advaitasiddhi with Gurucandrika, Vol. III 2 4 81. Tattvamuktakalapa with Sarvarthasiddhi, Anandadayini, and Bhavaprakasa, Vol. II. 3 0 82. Tarkatandava, Vol. IV 2 4 83. Vakyartharatna with the Suvarnamudrika . ... ... ... MISCELLANEOUS. 1. A Descriptive Catalogue of Sanskrit Manuscripts in the Oriental Library, Mysore, Vol. I-Vedas. 3 12 B.--Kannada Publications. ... *1. Adipurana of Pampa *2. Jagannatha Vijaya (First Edition) 3. Mahabharata-Pauloma and Astika Parvas 4. Mahabharata by Kumara Vyasa, Sambhava Parva 5. Mahabharata by Kumara Vyasa, Jatugriha Parva 6. Mahabharata by Kumara Vyasa, Sabha Parva 7. Mahabharata by Kumara Vyasa, Aranya Parva *8. Mahabharata by Kumara Vyasa, Virata Parva N.B. -Numbers marked thus * are out of stock, 2 8 2 8 1 8 2 0 1 12 1 12 2 0 1 8 ... ... ..4 12 • • • PRICE Rs. a. Keladinripa Vijaya of Linganna 1 8 10. Udbata kavya of Somaraja 2 0 11. Jagannatha Vijaya of Rudrabhatta (Second Edition) 2 12 *12. Mahabharata by Kumara Vyasa, Udyoga Parva ... 1 2 13. Akrura Caritre of Somanatha 1 0 14. 2 Dharmamrita of Nyayasena, Vol. I Kantirava Narasaraja Vijaya 2 8 16. Dharmamrita of Nayasena, Vol. II 1 4 17. Virabhadravijaya 1 2 18. Anantanathapurana of Janna 0 19. Sakalavaidya Samhita Sararnava by Virarajendra 1 14 *20. 1 0 Mahabharata by Kumara Vyasa, Bhishma Parva... 1 12 21. Mahabharata by Kumara Vyasa, Drona Parva 1 8 22. Kavyavalokana by Nagavarna (Second Edition) 23. Mahabharata by Kumara Vyasa, Karna Parva 2 4 24. Mahabharata by Kumara Vyasa, Salya and Gada Parvas 1 0 * 25. Yogaratnakara with translation in Kannada and Telugu, Part I 2 12 .. ... WORKS IN THE PRESS, Sanskrit- 1. Tattvamuktakalapa, Vol. III. 2. Apastamba Srauta Sutra Bhashya. Yadavabhyudaya, Cantos 13-24. 4. Prakritamanidipika with Tippani. 5. Tattvarthasutravritti of Bhaskaranandi. 6. Saundaryalahari with the Commentary of Laxmidhara. 7. Saivaparibhasa of Sivagrayogi. Kannada- 1. Sakti Sudharnava of Mallikarjuna. 2. Singiraja Purana. Miscellaneous 1. A Descriptive Catalogue of Sanskrit Manuscripts in the Oriental Library, Mysore, Vol. II-Smritis. N.B.-Numbers marked thus * are out of stock. WD 4504 GBPM -750-2-12-43.

No text on this page.

No text on this page.

No text on this page.

Vakhyartha Ratnam With Suvarna Mudrika

Author
Aahobalasuuri-
Title
Vaakyaar^tharatnamuu
File name
Vakhyartha Ratnam With Suvarna Mudrika
Text
OCR done
Citation
1943
Published
2004/12/24
Publisher
Govt Of Mysore And Oriental Research Institute ,mysore
Language
Sanskrit
Pages
158
Library
Asr,melkote
Classification
Hinduism Narrowly
Keywords
Vakhyartha ratnam commentary Suvarna Mudrika of Ahobhila Suri
DLI number
383299
Barcode
1990020047579.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
neuo5hHmgLS
Download PDF

Vakhyartha Ratnam With Suvarna Mudrika