Sri Vysaraaja Mattam

Shriimadbhahmasuutraand-i Saadhanaadhyaaya

Maagad'i Shriirang-kanaayaachaarya · 2005/10/10

PDF Proofread

Front matter

No text on this page.

|| श्रीः॥ श्रीमद्ब्रह्मसत्राणि श्रीजगन्नाथयतिकृतभाष्यदीपिकासमलङ्कृत- श्रीमन्मध्वभाष्यसहितानि सूत्रदीपिकासंवलितानि (साधनाध्यायः) H..... श्रीचामराजेन्द्रसंस्कृतमहापाठशालायां द्वैतवेदान्तप्रधानाध्यापकैः विद्याविशारद न्यायवेदान्तचूडामणि मागडि श्रीरङ्गनाथाचार्यैः मुद्रणावसरे संशोधितानि श्रीमद्वयासराजगुरुसार्वभौमविद्याकर्णाटकसिंहासनाधीश्वर- श्रीमद्विद्याप्रसन्नतीर्थश्रीपादानामाज्ञानुसारेण बेङ्गळूरुनगरीस्थया भाष्यदीपिकाप्रकाशनसमित्या प्रकाशितानि शालिवाहनशकाब्दाः १८८७ क्रिस्ताब्दाः १९६५

पुस्तकप्राप्तिस्थानम् :-
श्री बि. एस्. प्राणेशरान्
अड्वोकेट
४७, II स्ट्रीट् , माडल हौस् ब्लाक्
बेंगळूर - ४.
अयं नन्थः कल्याणनगर्यां गौडिगेरे श्रीश्रीनिवासाचार्याणामात्मजेन
श्री डि. एस्. कृष्णाचार्येण स्वकीयमुद्रणालये सम्मुद्रितः
शालिवाहन शकाब्दाः १८८७
विश्वावसु सं. पुष्य शुक्ल द्वितीया
२४ - १२-१९६५

श्रीमब्रह्मसूत्राधिकरणविषयसूचिका
तृतीयाध्यायस्य प्रथमः पादः
अधि०। सूत्र०।
२
७
विषयाः।
१ जीवस्य भूतसम्बन्धः देहनाशेऽपि न निवर्तते इति
निरूपणम् ॥
२ समस्तभूतविशिष्टस्य जीवस्य गमननिरूपणम् ॥
३ ३ भूतानां जीवेन सह गमननिरूपणम् ॥
४ प्राणाः जीवेन सह भागतः गच्छन्तीति निरूपणम् ॥
५ भूतानां जीवेन सह गमनविषये पूर्वपक्षपरिहारः॥
६ ६ भूतानां जीवेन सह गमनविषये प्रत्यक्षश्रुतिः नास्तीति
पूर्वपक्षस्य परिहारः॥
७ वैराग्यभक्त्युपासनशानैरेव मोक्ष भवति कर्मणा जायमानो
मोक्षः गौणः इति निरूपणम् ॥
८ कर्म अनुभवेन निश्शेषं न नश्यति अतः वैराग्यादिसाधनं
आवश्यकमेव इति निरूपणम् ॥
९ जीवस्य स्वर्गादिकं प्रति येन पथा गमन तथा नियमेन
आगम नेति निरूपणम् ॥
१० १०-१२ जीवस्य गमनागमनं कर्मणैव न आचारमात्रेण इति
निरूपणम् ॥
११ १३-१५ पापकर्मकृतामपि गमनागमनमस्तीति, केचिजीवाः नरके
दुःखं अनुभूय ऊर्ध्वलोकं आरोहन्ति, अन्ये तमसि
अवरोहन्ति इति निरूपणम् ॥
१६ नरकाणि सप्तेति निरूपणम् ॥
८
१२

२ विषयाः। अधिक सूत्र० १७ परमात्मा जीवस्य अन्तःस्थित्वा प्रेरकोऽपि तस्य नरकानु- भवः नेति निरूपणम् ॥ १८ देवयानपिढ्यानयोः गमने जीवानां स्वातन्त्र नेति निरूपणम् ॥ १५ १९-२३ तमसि सुखलेशोऽपि नास्तीति निरूपणम् ॥ २४ जीवः धूमादिदेवतादेहेषु प्रविश्य तस्य स्थितौ तिष्ठति तद्गमने गच्छति न तु तद्रूपत्वं तत्पदं वा प्राप्नोति इति निरूपणम् ॥ २५ जीवः पुण्यमनुभूय धूममार्गेण अविळम्बेन संवत्सरा- प्रागेव मातृदेहं प्रविशति इति निरूपणम् ॥ १८ २६-२७ कर्मिणां स्वर्गादवरोहणे दुःखानुभवा नास्तीति निरूपणम् ॥ २८ जीवः प्रथमतः पितृदेहं प्रविश्य अनन्तरं मातृयोनि प्रविशतीति निरूपणम् ॥ २९ योनिप्रवेशानन्तरं शरीरप्राप्तिः इत्येतत् सामान्यजननं, विशेषतस्तु मातापितृशरीरसम्बन्धं विनाऽपि जनन- मस्तीति निरूपणम् ॥ १७ २० तृतीयाध्यायस्य द्वितीयः पादः some १ , १-४ यत्स्वप्ने दृश्यते तत्सत्यं, तत्कर्ता परमात्मेति, स्वाप्निक- पदार्थः जाग्रच्छुभाशुभसूचकः इति च निरूपणम् ॥ ५ स्वप्नपदार्थस्य अदर्शनमपि परमात्माधीनमेव इति निरूप- २ णम् ॥ ३ ६ जाग्रदवस्था परमात्मनैव भवतीति निरूपणम् ॥

३ अधि०। सूत्र। विषया। ७ नाडीस्थपरमात्मनि जीवस्य प्रवेशः सुषुप्तिरिति मिरूप- णम्॥ ८ ब्रह्मैव सुप्तपुरुष प्रबोधयतीति निरूपणम् ॥ ९ सर्वेषां सर्वकालेष्वपि ब्रह्मैव स्वप्नादिकारणं इति निरू- पणम् ॥ १० जीवस्य परमात्मनि अर्धप्रवेशे मूर्छा संभवतीति निरूप- ५ ६ णम् ॥ १० १२ ११-१३ जाग्रत्स्वप्नसुषुप्तिषु प्रवर्तकः विश्वतैजसप्राशरूपः पर- मात्मा एक एवेति निरूपणम् ॥ १४.१७ परमात्मा प्राकृतरूपरहितः अप्राकृतज्ञानानन्दादिरूपवान् इति निरूपणम॥ १८ यथा सूर्यात् सूर्यप्रतिबिम्बः भिन्न तथा जीवः परमात्मनः अन्यः इति निरूपणम्॥ १९ जीवः शानानन्दवरूपोऽपि तदभिव्यक्तयर्थ भक्तिं कुर्या- दिति निरूपणम् ॥ २०-२१ साधनेषु न्यूनाधिकभावसत्त्वात् फलेऽपि न्यूनाधिकभावो वर्तते इति निरूपणम् ॥ २२ परमात्मनः सृष्टिसंहारकर्तृत्वमात्रं नास्ति, किन्तु पालन- कर्तृत्वमपि अस्तीति निरूपणम् ॥ २३-२७ परमात्मा अव्यक्तोऽपि स्वप्रसादात् व्यक्तो भवतीति निरूपणम् ॥ २८-३१ परमात्मनि गुणत्वं गुणित्वं च वर्तते इति निरूपणम् ॥ ३२-३४ परमात्मनः आनन्दादिकं लौकिकानन्दादिभ्यः विलक्षण- मिति निरूपणम् ॥ ३५-३६ परमात्मरूपाणां आनन्दादिषु परस्परवैलक्षण्यं नास्ति इति निरूपणम् ॥ १३ १५ १७ अधिः। सूत्र०। विषयाः। ३७ ध्यानकाले यद्रूपं प्रतीयते तत् ब्रह्मस्वरूपं न इति निरूपणम् ॥ ३८ सर्वत्र सर्वकालेषु च सृष्टयादिकं परमात्मनैवेति निरूप- णम् ॥ ३९-४२ परमात्मैव कर्मणः फलस्य च हेतुः इति निरूपणम् ॥ .. तृतीयाध्यायस्य तृतीयः पादः oM १४ ३ १.५ सर्ववेदार्थविचारेण ब्रह्म ज्ञातव्यं इति समर्थनम् ॥ ६९ सर्ववेदोक्तगुणान् प्रकरणानुसारेण उपसंहृत्य उपासना कर्तव्येति निरूपणम् ॥ १० विरिश्च एव सर्ववेदोक्तसर्वगुणैः उपासना कर्तुं योग्यः, अन्ये देवाः योग्यताऽनुसारेण एककाले यावन्तो गुणाः स्फुरन्ति तावद्गुणैः उपासनां कर्तुं योग्याः, मनुष्यास्तु आनन्दादिगुणैः उपासनां कर्तुं योग्याः इति निरूपणम् ॥ ११ अधिकगुणोपासनाक्रमेण फलप्राप्तिक्रमः इति निरूपणम् ॥ १२ प्रधानफलस्य मोक्षस्य प्राप्तये सत्यं ज्ञानं आनन्दं आत्मा ब्रह्म इति चतुर्गुणैः सर्वैः परमात्मा उपास्यः इति निरूपणम् ॥ १३ प्रियशिरस्त्वादिगुणाः सर्वैः नोपास्याः केचिद्देवा एव तदुपासनां कर्तुं योग्याः इति निरूपणम् ॥ १४ चतुर्थ्यः सर्वेभ्यश्च अन्ये परमात्मनः गुणाः देवादिभिः उपास्याः इति निरूपणम् ॥ १५-१६ सर्वगुणोपसंहारानुपसंहारयोः कर्तव्यत्वे प्रमाणनिरूप- ६ णम् ॥

९ १० १४ अधि०। सूत्र। विषयाः। १७ “आत्मेत्येव उपासीत" इति वचने सत्यपि चतुर्गुणाः उपास्या एवेति निरूपणम् ॥ १८ आत्मशब्दः सर्वगुणबोधकोऽपि विरिश्चेतरेषां सर्वगुण- बोधको न भवतीति निरूपणम् ॥ १९ मोक्षार्थ उपास्यमानगुणाः लोकविलक्षणा इति निरूप. णम् ॥ १२ २०-२१ वाण्याः त्रिविक्रमत्वादिक्रियाणां पृथक् उपासना नास्तीति निरूपणम् ॥ १३ २२-२३ आत्मशब्दः तत्तदधिकारियोग्यगुणाभिधायकः इति निरूपणम् ॥ २४ सम्यग्भरणं, अन्तरिक्षादिलोकव्याप्तिश्च देवादिभिः उपास्ये इति निरूपणम् ॥ २५ सर्ववेदोक्तगुणैरेव उपासना कर्तव्या इति निरूपणम् ॥ २६ सर्वैः भेदनादिगुणा नोपास्या इति निरूपणम् ॥ २७-२८ मोक्षे मुक्तानां उपासना अस्ति । सा तु ऐच्छिकी इति निरूपणम् ॥ २९-३१ मोक्षे मुक्ताः स्वेच्छया कर्म कुर्वन्तीति निरूपणम् ॥ १९ ३२ सर्वेषां ज्ञानिना मुक्तिरस्तीति निरूपणम् ॥ ३३-३४ मुक्तानां योग्यतातारतम्यानुसारेण आनन्दः, आनन्दतार तम्येऽपि तेषां परस्परविरोधो नास्तीति निरूपणम् ॥ २१ ३५-३७ मुख्यप्राणादूर्व अधिकारिणः अभावात् प्राणावसानमेव अधिकारितारतम्यं इति निरूपणम् ॥ २२ ३८ परमात्मा प्राणादधिक इति निरूपणम् ॥ २३ ३९ छान्दोग्ये सत्यादिप्रकरणे उक्ताः सत्यादयः भगवत्स्वरूप- भूताः इति निरूपणम् ॥ २४ ४०-४२ लक्ष्मीः नित्यमुक्ताऽपि भक्तिविशेषात् उपासनां करोति इति निरूपणम् ॥ २० २७ ५० .. अधि०। सूत्र। विषयाः। ४३ ब्रह्मसाक्षात्कारार्थ श्रवणमननध्यानरूपोपासना कर्तव्या, श्रवणेन तत्त्वज्ञानं, मननात् तन्निश्चयः, ध्यानात् अपरोक्षः इति निरूपणम् ॥ ४४ केवलं श्रवणमात्रेण ज्ञानं न सम्भवति, गुरुप्रसादपूर्वक श्रवणेनैव ज्ञानं इति निरूपणम् ॥ ४५ गुरुप्रसादः बलीयान् इति निरूपणम् ॥ ४६-४७ पूर्वगुरुसमानश्चेत् गुर्वनुज्ञया अन्यगुरुः स्वीकार्यः अधिक- श्चेत् पूर्वानुज्ञां विनैव अन्यगुरुः स्वीकार्यः इति निरूपणम् ॥ २९ ४८-४९ अपरोक्षशानमेव मोक्षकारणमिति निरूपणम् ॥ ३० "ज्ञानात् मोक्षः" इति वचनं 'कर्मणा मोक्षः' इति वचनेन बाधितं न भवतीति निरूपणम् ॥ ५१ ब्रह्मदर्शनं श्रवणादिमात्रेण न भवति, किन्तु हरिगुरु- भक्तिशमदमादिभिश्च इति निरूपणम् ॥ ३२ ५२ यथा यथा उपासनाभेदः तथा तथा दर्शनभेदः इति निरूपणम् ॥ ५३ सामान्यतः भगवदवतारदर्शनात् न मुक्तिः, किन्तु स्वयोग्यरूपदर्शनादेव मुक्तिः इति निरूपणम् ॥ ५४ परमात्मप्रसादादेव अपरोक्षज्ञानं, न भक्तिमात्रेण इति निरूपणम् ॥ ३५ ५५-५६ उपासना तत्तजीवयोग्यतानुसारिणी इति निरूपणम् ॥ ३६ ५७ ५८ अप्रधानत्वेन अन्यदेवता अपि उपास्याः, तत्रापि अधम- गुणाः उत्तमेषु उपसंहार्याः, न उत्तमगुणाः अधमेषु इति निरूपणम् ॥ ५९ पूर्णत्वरूपगुणेन परमात्मा उपास्यः इति निरूपणम् ॥ ३८ ६० परमात्मगुणेषु पूर्णत्वं जीवानां योग्यताऽनुसारेण प्रतीयते इति निरूपणम् ॥ ३१ ३ ३ ३ ३४ अधि०। सूत्र०॥ विषयाः। ३९ ६१ योग्यताऽनुसारेण कर्तव्योपासनानन्तरं अन्यरूपोपास- नाऽपि इच्छानुसारेण कर्तव्या इति निरूपणम् ॥ ६२ काम्यापेक्षी कामानुसारेण कामसाधनगुणविशिष्टतया उपासनां कुर्यात् , तद्रहितः मुमुक्षुस्तु न कुर्यात् इति निरूपणम् ॥ ४१ ६३.६६ देवैः स्वोत्पादकाङ्गवत्त्वेन परमात्मा उपास्यः इति निरूप- णम् ॥ ६७-६८ पूर्वोक्ताङ्गोपासना देवव्यतिरिक्तैः न कर्तव्या इति निरू- पणम्॥ १ ३ ४ तृतीयाध्यायस्य चतुर्थः पादः १.९ अपरोक्षज्ञानात् सर्वपुरुषार्थप्राप्तिरिति निरूपणम् ॥ १०-१२ सर्वेषां अपरोक्षशाने अधिकारो नास्ति परन्तु वेदाध्ययन- वतामेव अधिकारः इति निरूपणम् ॥ १३ सर्वेषामपि एकप्रकारेण ज्ञानाधिकारः न, किन्तु योग्यता- तारतम्यानुसारेण इति समर्थनम् ॥ १४-३३ मनुष्येषु ज्ञानिनां अपि यथेष्टाचरणं न निषिद्धप्रवृत्ति विषयं, तर्हि तेषां दुष्कर्मानुष्ठानेन मोक्षहानिः न भवति मोक्षफले एव ह्रासो भवति सत्कर्मानुष्ठानेन फलाधिक्यं भवतीति, देवा एव कामचरणानुशावन्तः तत्रापि अनुष्ठेयकार्याणां मध्ये एव कामचरणमिति, विरिञ्चस्तु यथेच्छाचरणविधिमान् इति निरूपणम् ॥ ३४-४० श्रवणमननादिषु यत्नवतामपि शानयोग्यानामेव शानं संभ- वति न अयोग्यानां इति निरूपणम् ॥ ,

६
अधि०। सूत्र।
विषयाः।
४१-४३ उत्तमाधिकारिणां पदं अधमाधिकारिभिः नापेक्षणीयं इति
निरूपणम् ॥
४४-४६ ज्ञानादिफलं इन्द्रियाद्यभिमानिदेवानामेव मुख्यं प्रजानां
अल्पं इति निरूपणम् ॥
४७-४८ गृहस्थाश्रमिणः आश्रमिषु उत्तमाः न भवन्ति, किन्तु
यतय एव इति निरूपणम् ॥
९ ४९ अयोग्यानां उपदेशः न कर्तव्यः इति निरूपणम् ॥
५० प्रारब्धकर्मप्रतिबन्धाभावे श्रवणमननादिभिः तजन्मन्येव
शानं सम्भवति अन्यथा जन्मान्तरे इति निरूपणम् ॥
११ ५१ शानिनोऽपि प्रारब्धकर्मप्रतिबन्धाभावे तच्छरीरपाता-
नन्तरमेव मोक्षः इति निरूपणम् ॥
१०
१

॥ श्रीगुरुभ्यो नमः ॥ ॥ हरिः ॐ॥ ॥ ब्रह्मसूत्रभाष्यम् ॥ श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम् । ॥ अथ तृतीयाध्यायः॥ प्रथमः पादः ॥१. तदन्तराधिकरणम् ॥ (१) साधनविचारोऽयमध्यायः । वैराग्याथै गत्यादिनिरूपणा प्रथमपादे। . ॥ अथ तृतीयाध्यायः॥ ॥ १. तदन्तराधिकरणम् ॥ (१) वृत्तवर्तिष्यमाणयोरध्याययोः सङ्गत्यर्थमेतदध्यायप्रतिपाद्यं दर्श- यति-साधनेति ॥ वैराग्यादिमोक्षसाधनानि विचार्यन्ते । अवश्यानुष्ठेयत्वेन निरूप्यन्ते अत्रेति साधनविचार इत्यर्थः । अयं' उपक्रम्यमाणः। अनेन समन्वयाविरोधार्थकाभ्यां अध्यायाभ्यामस्यानन्तर्यलक्षणा सङ्गतिरुक्ता भवति । तथाहि-यद्यप्याद्यसूत्रे ससाधनफलो ब्रह्मविचार: कर्तव्यतयोक्तः। तञ्च ब्रह्म पूर्वद्विके सम्यक्सविरोधपरिहारं विचारितम्। तथापि कृतब्रह्म- विचारस्याधिकारिणो यन्सया कार्य साधनं तत्कि कथं भूतमिति जिज्ञासा भवत्येवेति तदर्थ तृतीयाध्यायः प्रवृत्त इति । प्रथमपादार्थ दर्शयति- वैराग्यार्थ इति । ब्रह्मेतरविषयभोगरागोच्छेदायेत्यर्थः । गतिः स्वर्ग प्रति। आदिपदेन स्वर्गाद्भूमि प्रत्यागतिः नरकगर्भवासादि च गृह्यते। एतेषां 'निरूपणा' दुःखरूपत्वप्रतिपादनं 'प्रथमपादे' तृतीयस्याद्यपादे क्रियत इत्यर्थः। अस्मिन् पादे गत्यादिनिरूपणे सति तस्य दुःखरूपतां श्रुत्वा चिन्तयतोऽधिकारिणः पुमर्थत्वेन सिद्धेऽपि स्वर्गादौ रागो विच्छिद्यत एवेति तस्याः तादर्थ्य युज्यत इति भावः । वैराग्यनिरूपणेत्यनुक्त्वा २ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा - १. (२) भूतबन्धो हि बन्धः। भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो विमोचनम् । इति च वाराहे ॥ (३) तच्च मरणे भवति । भूतानां विनिवृत्तिस्तु मरणं समुदाहृतम् । वैराग्याथै गत्यादीत्युक्त्या वैराग्यस्य विषयासौन्दर्यशानाधीनत्वेन पुरुष- प्रयत्नाविषयत्वान्न साक्षात्तस्यानुष्ठेयत्वेन निरूपणं युज्यत इति सूचितम् । अनेनैव वैराग्यसाधनबोधविषयगत्यादिस्वरूपस्यैवात्र निरूपणेन मुखतो लक्षणप्रमाणाभ्यां वैराग्यस्यानिरूपणात् असङ्गतिरिति चोद्यं निरस्तम् । गत्यादिनिरूपणे सति तच्छ्रोतुस्तत्र वैराग्यस्य खत एवोत्पादेन तस्य तदुपयोगितया तन्निरूपणस्य वैराग्यपादे सङ्गतत्वात् । (२) अत्राधिकरणे भगवत्प्राप्तिसाधनवैराग्याय जीवस्य भूता वियोगः समर्थ्यते। पूर्वपक्षयति-भूतेति ॥ यन्निवृत्त्यर्थ वैराग्यादि साधनमिष्यते स बन्धो नाम पञ्चभिः भूतैर्बन्ध इत्यर्थः। उपलक्षणमेतत् । बन्धनिवृत्ति- मुक्तिरित्यपि द्रष्टव्यम्। हिशब्दो यत इत्यर्थे । अत इत्युत्तरेणान्वेति । कुत एतदुभयमवगतमित्यत आह-भूतबन्धस्त्विति । तुः एवार्थः । यस्संसाराख्यो बन्धः स भूतबन्ध एवेत्यर्थः। मुक्तिस्त्विति वाऽन्वयः। तथाच या बन्धनिवृत्त्याख्या मुक्तिः सा तेभ्यो भूतेभ्य आत्यन्तिकविमोचन मेव, नान्येत्यर्थः। वाराहे पुराणवचने उक्तमिति शेषः। न केवलमस्माभि रिति चार्थः। (३) ततः किमित्यत आह-तञ्चेति ॥ चस्त्वर्थः । तथाच तद्भूत- विमोचनं तु 'मरणे' प्राणत्यागे सति तन्निमित्तं भवतीत्यर्थः। यद्वा- 'मरणं समुदाहृतम्' इत्यभेदोक्तेर्मरणशब्दार्थेऽन्तर्भवति तद्रूपं भवती- त्यर्थः। भूतविमोचनं मरणे भवतीत्येतत्कुत इत्यत आह-भूतानामिति । तुः अवधारणे। चः समुच्चये। तथाच पूर्वपक्षे भूतनिवृत्तिरात्यन्ति- क्यभिमता। सा च तद्वियोगः स च मरणाविनाभावीति वा भूतसंयोग वियोगावेव जनिमरणे इति वा पण्डितैः समुदाहृतमित्यर्थः। भारत इत्यनन्तरं पूर्ववच्छेषश्वार्थश्च बोध्यः। किञ्चाऽत इत्यत आह-अत इति । . " :

अधि - १. सू.१.] दीपिकासहितम् ३ . भूतानां संप्रयोगश्च जनिरित्येव पण्डितैः ॥ इति भारते। अतः किं साधनैरिति । (४) अत आह- सू-ॐ॥ तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ॐ॥१॥ शरीरान्तरप्रतिपत्तौ भूतसंपरिष्वक्त एव गच्छति । तथाच यतो बन्धनिवृत्त्यर्थ साधनान्यनुष्ठेयानि, सा च मरणमेव तत्कारणकं वा, मरणं च नियतत्वान्न साधनसापेक्षं, अतो वैराग्यादि- साधनैः किं कृत्यं, न किमपीति न तान्यनुष्ठेयानीति योजना। साधनैरिति सामान्योक्तया वैराग्यादिसर्वसाधनविचारारम्भप्रयोजकतया जिज्ञासा- सूत्रस्य शास्त्रेणेवास्याधिकरणस्य साधनाध्यायेनौपोद्धातिकी सङ्गतिरुक्ता भवति। अत एवास्य वैराग्यप्रतिपादनारम्भप्रयोजकत्वादेतत्पादेनाप्यस्ति सङ्गतिरित्यभिप्रेति । उक्तं हि तत्वप्रदीपे-मोक्षस्य मरणातिरिक्तकारणाय- त्तत्वं प्रदर्य साधनविचारस्य प्रयोजकत्वप्रतिपादनात्मकमिदमधिकरणं स्वर्गादिगतिनिरूपणया वैराग्याख्यप्रथमसाधनप्रतिपादनारम्भात्मकं च भवतीति । अत एवास्य प्रथमपादादौ निवेशः। प्रथमातिक्रमे कारणा- भावात् ॥ (४) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे-अत इति ॥ शरीरेत्यनेन मांसादीति पूर्वसूत्रे प्रकृतं शरीरमिह तच्छब्देन ग्राह्यमिति सूचितम् । ऐहिकशरीरादन्यच्छरीरं शरीरान्तरम् , भूतपरिष्वङ्गेण इहागतिवैयर्थ्य- परिहारायोक्तम् । तदन्तरप्रतिपत्तौ प्राप्ताविति तादर्थं सप्तमीयम् । भूत- सम्परिष्वक्त इत्यनेन तत्तच्छरीरारम्भकत्वेन प्रस्तुतभूतसंयुक्त इत्येवं सम्परिष्वक्तपदं व्याख्यातम् । समित्युक्तया मुक्तिपर्यन्तं परिष्वक्त एव, न मध्ये वियुक्त इत्याह । तदनूद्य व्याख्यातमेवेति । रहतीत्यस्यार्थो-गच्छ- तीति । शो जीव इत्यस्ति । यतोऽत इति शेषः । अस्य न मरणे आत्यन्तिकः भूतवियोग इत्यध्याहृतसाध्येनान्वयः। अनेन 'भूतानां विनिवृत्तिः' इत्येतद्भागनिवृत्तिपरम् । एवं भूतसंप्रयोगोऽपीत्युक्तं भवति ॥

ब्रह्मसूत्रभाष्यम्
[अध्या - ३. पा. १.
(५) 'वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति
इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' (छां.५-३-९.)
इति प्रश्नपरिहाराभ्याम् ।
॥ इति तदन्तराधिकरणम् ॥ १॥
(५) भूतसंयुक्तस्यैव गतिरसिद्धत्यतः प्रवृत्तं प्रश्नेत्यादिकं व्याचष्टे-
वेत्थेति। छान्दोग्यस्थाविमौ प्रश्नपरिहारौ। श्वेतकेतुर्नाम ऋषिः स्वपित-
समीपेऽभ्यस्तविद्यः पाञ्चालानां समिति जगाम । तत्र तद्देशाधिपतिः
प्रवाहणो नाम राजा पण्डितंमन्यस्यास्याहङ्कारशान्त्यै परीक्षार्थ पञ्च प्रश्ना-
नप्राक्षीत् । तत्र 'वेत्थ' इति पञ्चमप्रश्नवाक्यम् । तस्यायमर्थः हे
श्वेतकेतो 'यथा' येन क्रमेण येन प्रकारेण च युपर्जन्यधरापुरुषयोपाख्येषु
पञ्चस्वग्निषु आहुत्यधिकरणत्वेन अग्निशब्दवाच्येषु मध्ये योषाख्याग्नौ रेतो-
रूपायां पञ्चम्यामाहुता हुतायां 'आप' अद्भिः सम्परिप्वक्तो जीवो लब्धदेहः
पुरुषवचसः' पुरुषनामवान् भवति, तं क्रमं प्रकारं च वेत्थ किमिति ।
एवं पृष्टः श्वेतकेतुः 'नव भगव इति' (छा. ५-३-३.) अहं नैव वेदेत्यवोचत् ।
तहिं कथं विद्वानिति ब्रवीषि इति राज्ञा साक्षेपमप्रतिष्ठितः स्वपितुः
स्थानमागत्य तत्सर्व यथावदवदत्। श्वेतकेतुनैवमुक्तस्तपितोद्दालकः स्वय-
मपि राजकृतप्रश्नोत्तरासमर्थतज्ज्ञातुकामः स्वयमेव राजस्थानं प्रत्यागत्यै-
तद्विद्यां मे बहीति प्रार्थयामास । अथ प्रवाहणो राजोद्दालकं प्रति पञ्चप्रश्न-
परिहारानवदत्-असौ लोको गौतमाग्निरित्यादिना । तत्र स्वर्गपर्जन्यभूमि-
पुरुषयोषिदन्तर्गतेषु नारायणवासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाख्येषु पञ्चाग्नि-
विषयप्रश्नपरिहारेषु अभिहितेषु, किं तत इत्यतः पञ्चमप्रश्नोत्तरं जात-
मित्याह-इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति । तस्यार्थस्तु-
इत्येवं प्रकारेण रेतोरूपायां 'पञ्चम्यामाहुतौ' योषाख्यायां हुतायां प्रक्षिप्तायां
मरणानन्तरं जीवेन सह गताः पुनः सहागताः भूतत्रयात्मिका आपः
'पुरुषवचस' तच्छब्दवाच्या भवन्तीति। इतीति । अमितिशब्दो
भाष्यकारीयः, न तु प्रश्नोत्तरयोरन्यतरः । सूत्रे पित्रसामर्थ्य ज्ञापनाय
ज्ञापनापरपर्यायनिरूपणशब्देऽभिहितेऽपि पर्यवसितार्थाभिप्रायेण परि-
हारेति तद्विवरणं कृतम् ।
॥ इति तदन्तराधिकरणम् ॥ १ ॥

अधि - २. सू - २.] दीपिकासहितम् ॥२. त्रयात्मकत्वाधिकरणम् ॥ (१) सू-ॐ॥ त्रयात्मकत्वात्तु भूयस्त्वात्॥ॐ॥२॥ अप्छब्दस्तु यात्मकत्वाद्युज्यते, भूयस्त्वाच्चापाम् । ॥२. यात्मकत्वाधिकरणम् ॥ (१) अत्र भगवत्प्राप्तिलाधनवैगग्याथै जीवस्य समस्तभूतपरिष्वक्तस्य गतिः समर्थ्यते। सौत्रतुशब्देनैव 'आपः' इति श्रवणाजीवोऽम्मात्र- परिष्वक्त एव गच्छति, न सर्वभूतैरिति पूर्वपक्षसूचनात्तमनुपन्यस्य सिद्धान्तयत्सूत्रमेवोपन्यस्य व्याचष्टे-ध्यात्मकत्वादिति ॥ 'अप्छब्दः' श्रुतावाप इति विशेषनामग्रहणं 'ध्यात्मकत्वात् ' क्षितिसलिलानलात्मक- त्वात् । अपामित्यत्रापि सम्बध्यते । अप्छब्दस्तु युज्यत इत्यनेन तुशब्दोऽ- ध्याहृतान्वयी सन् नाप्छब्दविरोध इति साध्यसूचक इत्युक्तं भवति । व्यात्मकत्वादयामित्यनेन श्रुतावग्रहणे अन्यभूतानामप्यर्थात् प्राप्तेर्न तद्विरोध इति हेतुस्सुचितः । न च जीवेल सहागतानां त्रिवृत्करणशून्यत्वान्न त्रयान्मकत्वमिति वाच्यम् । आदिकाले मिश्रत्वेन सृष्टानां भूतानां त्रिवृत्करणेन पुनर्मिश्रीकृतानां जीवशरीरस्थत्वेन तेन सहागतानामपि तेषां त्रिवृत्कृतत्वाविरोधात् , त्रिवृत्कृतजातीयत्वाद्वा । ननु यद्यापो भूत- त्रयात्मिक्यः, कथं तर्हि तत्र विशिष्याप्छब्दप्रयोग इत्यतस्तत्रोत्तरतया भूयस्त्वादित्यंशो योज्य इत्याशयेनाह-भूयस्त्वादिति। आधिक्यादित्यर्थः। चस्त्वर्थेऽवधारणे च । तथा च अप्छब्दस्त्वप्सु युज्यते यतोऽतो न तत्र तदुक्तिविरोधः। कुतः ? अपां भूयस्त्वादेवेति योजना। अनेन हेतुद्वय. स्यापि तुशब्दसूचितसाध्येनान्वयो दर्शितः। श्रुत्युदकरूपर्मिभेदात्साध्य- भेद इति ज्ञातव्यम् । यद्वा-अस्त्वषां क्षितिसलिलानलात्मकत्वेन श्रुतौ तहणेऽन्यभूतानामपि प्राप्तिः। तथापि अपामिव भूतान्तरस्यापि सर्व- भूतात्मकत्वात् अपामेव ग्रहणे को विशेषहेतुरित्यत आह-भूयस्त्वादिति । 'पार्थिवानां शरीराणां अर्धेन' इत्युक्तप्रकारेण सर्वदेहेषु सम्भूय भूतेजसो- रप्यपां दशभागयुक्तत्वेन भूयस्त्वात्तद्रहणं युज्यत इत्यर्थः। तत्त्वप्रदीपे तु अनाप्यशरीरेष्वप्यपां भूयस्त्वमित्युक्तम् । ? ।

६ ब्रह्मसूत्रभाष्यम् [अध्या- ३. पा-१. (२) तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः । इति भागवते । ॥ इति त्रयात्मकत्वाधिकरणम् ॥२॥ ॥३. प्राणगत्यधिकरणम् ॥ (१) सू-ॐ ॥ प्राणगतेश्च ॥ॐ ॥३॥ 'यत्र वाव भूतानि तत्र करणानि नित्यानि ह वा एतानि (२) अपां भूयस्त्वधर्मकत्वे प्रमाणमाह-तापेति ॥ क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् । तापापनोदः ॥ इति भागवतवाक्यम् ॥ क्लेदनं' आर्दीकरणं 'पिण्डनं' पिण्डीकरणं 'तृप्तिः' तर्पकत्वं 'प्राणनं' चेष्टाकारणत्वं 'आप्यायनं' सुखकरत्वं ' उन्दनं' बिन्दुभावः 'उन्दनं बिन्दुभावस्स्यात्' इत्युक्तेः, 'तापापनोदः' तापनिवर्तकत्वं 'भूयस्त्वं' अन्येभ्यो भूतेभ्यः कार्येषु भागाधिक्यं । इमा अष्टौ 'अम्भसो' जलस्य 'वृत्तयः' स्वरूपलक्षणभूता धर्मा इत्यर्थः। भागवते तृतीयस्कन्धे इत्यस्य भूयस्त्वादित्यनेन अन्वयः। अनेन भूयस्त्वादित्येतद्भूयस्त्वावगमादित्यपि व्याख्यातम्। ॥ इति त्रयात्मकत्वाधिकरणम् ॥ २॥ ' . . ॥ ३. प्राणगत्यधिकरणम् ॥ (१) अत्राधिकरणे वैराग्यसिद्ध्यर्थं जीवस्य भूतैः सह गतिः समर्थ्यते । सूत्रे हेतूक्तया भूतसम्परिष्वक्त एव रंहति जीव इति साध्यानुवृत्तिसूचनात् तत एव न भूतानि सह गच्छन्तीति तद्विरोधि- पूर्वपक्षस्य सिद्धत्वात्तमनुपन्यस्य सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे-प्राणेति। सूत्रे चशब्दः प्राणानां भूतैस्सहाविनाभावार्थक इत्यभिप्रेत्य तदसिद्धि- परिहाराय तत्र श्रुतिमुदाहरति-यत्रेति । व्याप्तेरागमिकत्वान्नात्र दृष्टान्तो मृग्यः । यद्यपि टीकायां प्राणपदोक्तेन्द्रियाणां व्यापकतावगतेः श्रुत्याऽपि तथैव प्रतीतेः सूत्रभाष्ययोश्च तेषां व्याप्यताबोधात् विरोधो भाति । तथापि यत्रैव भूतानि तत्रैव करणानि इत्येवकारशिरस्कतया अधि • ४. सू - ४.] दीपिकासहितम् . भूतानि करणानि न चैतानि कदाचिद्वियुज्यन्ते न च विलीयन्ते' इति भाल्लवेयश्रुतेः प्राणगतेभूतान्यपि सह गच्छन्तीति सिद्धम् । ॥ इति प्राणगत्यधिकरणम् ॥३॥ ) ॥ ४. अग्नयाद्यधिकरणम् ॥ (१) सू-ॐ ॥ अग्नयादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ ॐ ॥ ४ ॥ श्रुतिव्याख्यानात् , तत्सहगन्तृप्राणा अविनाभूता यैरितिटीकाविवरणाच्च भूतानां व्यापकतोपपत्तेः । समव्याप्त्यभिप्रायेण वा श्रुतिटीकाप्रवृत्तेर्न विरोधः। प्राणगतेः इत्यतः प्राक् व्यापकत्वेनावगतेरित्युपस्कार्यम् । अनेन श्रुतेाप्तिग्राहकत्वं अभिप्रैति। श्रुतेः सिद्धमितिवाऽन्वयः । अस्मिन् पक्षे नोपस्कारः ! हेत्वसिद्धिपरिहारस्तु 'ये प्राणमनूत्क्रामन्ति' ( इत्यादितत्त्वप्रदीपोदाहृतश्रुत्या लोकप्रसिद्धितश्च कर्तव्यः। भाष्ये भूतान्यपि सन्तीति पाठे गन्तजीवेन सह गतिमन्ति वर्तन्ते सह गच्छन्तीति यावदिति व्याख्येयम् । श्रुत्यनुसार्ययम् । न केवलं प्राणाः किंतु भूतान्यपि जीवेन सह गच्छन्तीत्यपिशब्दार्थः । यद्यपि वह्निगमनेऽपि धूमगमनाभावा- द्वयभिचारः। तथापि नियमेन संयुक्तयोर्मध्ये व्यापकगमने व्याप्यगमन- मवश्यं भावि । प्राणभूतयोर्यथा नियतसंयोगः न तथा वह्निधूमसामान्ययो- रिति न व्यभिचारः। श्रुतौ वावेत्यवधारणे। 'भूतानि' पृथिव्यादीनि 'करणानि' चक्षुरादीन्द्रियाणि । न केवलं भूतेन्द्रिययोर्दैशिकी व्याप्तिः, कालतोऽप्यस्तीत्याह-नित्यानीति । उभयविधां व्याप्तिमुपपादयति-न चैतानीति । भूतानि करणानि चेत्यर्थः। आमोक्षमिति भावः । ॥ इति प्राणगत्यधिकरणम् ॥ ३॥ ॥ ४. अग्नयाद्यधिकरणम् ॥ (१) अत्राधिकरणे प्राणानां जीवेन सह गतिः समर्थ्यते। सूत्र एव पूर्वपक्षस्योक्तत्वात् तदुपन्यस्य पूर्वपक्षांशं तावद्वयाचष्टे-अग्नयादीति ॥ बृहदारण्यके 'यत्रास्य' इत्यादावग्नयादीन् प्रति प्राणानां गतिश्रुतेरित्यर्थः।

८ A (अध्या ब्रह्मसूत्रभाष्यम् पा-१. यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणः' (बृ. ५-२-१३.) इत्यादिश्रुतेः न प्राणानां जीवेन सह गतिरिति चेत्- (२) न, भागतोऽग्नयादिप्राप्तः । आदिशब्देन 'चक्षुरादित्यं मनश्चन्द्रमसं दिशः श्रोत्रम् ' (बृ. ५-२-१३.) इत्यादिह्यते । पूर्वपक्षहेतुभागं व्याख्याय नेत्यस्यावृत्त्या प्राणगतेरित्य- स्यानुवृत्त्या च लब्धं साध्यं दर्शयति-नेति । प्राणानामिन्द्रियाणां जीवेन सह गमनं नेति । अनेन पूर्वहेतोरसिद्धिरुक्ता भवति। 'यत्र' यदा मरणकाले 'मृतस्य' म्रियमाणस्य 'अस्य' पुरुषस्य जीवस्य सम्बन्धिनी 'याक्' वागिन्द्रियमग्निमप्येति । वातं' वायु 'प्राणः' श्वासादिरूपो जडवायु- स्तदभिमानी मुख्यप्राणश्च प्राप्नोति। 'श्रोत्रं' एकेन रूपेण 'दिशो' दिग्देवानप्येतीत्यर्थः। अत्र विष्णोस्तत्वदेवानां चैकांशेन जीवं त्यक्त्वा स्वस्वमूलरूपप्राप्तिः। अंशान्तरेण तु जीवेन सह गमनमभिप्रेतम् । यथोक्त- मैतरेयभाष्ये- म्रियमाणमिमं जीवं वासुदेवादिदेवताः। त्यक्त्वा भागेन गच्छन्ति भागतोऽ ऽनुव्रजन्ति तम् ॥ इति ॥ तथा बृहद्भाष्ये- आकाशाख्यं स्वरूपं तु विष्णुस्तद्धदि संस्थितः। भागतो भागतश्चैताननुयाति जनार्दनः ॥ इति । पूर्वपक्षे तु सामस्त्येन गतिः श्रुत्यर्थः। न च मुख्यप्राणस्याप्यंशेन गमने 'अनावृत्तिर्देहिनां देहपाते' इत्युक्तिविरोध इति वाच्यम्। वायुः अनावृत्तिमोक्षप्रद इति वा अनस्य मुख्यप्राणस्य अवृत्तिः असत्यमिति वा देहपाते अनस्यावृत्तिः कारणमिति वा तस्य व्याख्यानात्। (२) सिद्धान्तांशं व्याचष्टे-नेति ॥ न प्राणानां श्रुतिबलादसह- गतिर्वक्तव्येत्यर्थः। कुतो नेत्यतस्तद्धेतुत्वेन उक्तश्रुतेः सावकाशत्वादि त्याशयेन तदुक्तयर्थं प्रवृत्तस्य भाक्तत्वादित्यंशस्याग्नयादिगतिश्रुतेः भाक्त- त्वात् गतिश्रुत्योक्तित्वादित्युभयत्रान्वयमभिप्रेत्याह-भागत इति । भागे- , ब्रह्मन् , अधि - ४. सू - ४.] दीपिकासहितम् (३) पुरुषस्य मृतौ ब्रह्मन् प्राणा भागत एव तु । अधिदैवं प्राप्नुवन्ति भागतोऽनुव्रजन्ति तम् ॥ पुनश्शरीरसंप्राप्तौ तमेवानुविशन्ति च ॥ इति ब्राह्मे ॥ नेत्यर्थः। प्राणानामित्यनुवर्तते । श्रुतेरिति शेषः । तथाच प्राणाना- मग्नयादीन् प्रति भागतः प्राप्तेः श्रुतेरपि प्राणानामग्नयादीन् प्रति भागतः प्राप्तिविषयत्वादित्यावृत्त्या योजना । (३) जीवेन सह केचन प्राणभागा गच्छन्ति, अग्नयादीन् प्रति तु के- चनेत्ययं विभागः कुतोऽवगत इत्यत आह–पुरुषस्येति ॥ जीवस्येत्यर्थः । उभयान्वयीदम्-पुरुषस्य मृतौ सत्यां पुरुषस्य प्राणा इति । हे ज्ञानिवृद्धति चतुर्मुखो नारदं प्रति वक्ति । 'प्राणाः' इन्द्रियाणि तद्देवाश्च । एवेति समस्तभागं व्यावर्तयति। तुशब्दो मृतौ त्विति वा प्राणास्त्विति वाऽन्वेति । द्वितीयान्वयेनोपचितेष्वेवायं विवेक इति सूचितम् । 'अधिदैवं' अग्नयादीन् 'तं' पुरुषम् । ननु प्रतिमरणं अधिदेवमिन्द्रियभागापगमे कालतः सर्वापगमः स्यात् । तथाच सर्वभूताप- गमः प्राप्त इत्यत आह–पुनरिति । स्वर्गादिभोगानन्तरं भूलोकं प्राप्तस्य शरीरान्तरप्राप्तौ सत्यां यमनुव्रजन्ति 'तमेव' पुरुषं जीवमनुसृत्य तेन सह शरीरान्तरं प्रविशन्तीत्यर्थः। गमनप्रवेशयोः समुच्चये चशब्दः। अत्र जीवालां भूलोके शरीरत्यागप्राप्त्योरेवेन्द्रियाणां गमनागमनयोरभिप्रेतत्वेन स्वर्गादिभोगाय पूर्वशरीरत्यागेन ज्योतिर्मयादिशरीरान्तरप्राप्तौ गमना- गमनयोरभावात्तदुक्तयनुपपत्तिरिति चोद्यानवकाशः । गतै गैरपि पुनः विशेयुभॊगसिद्धये । भोग्यलोकमनुप्राप्तम् ॥ इत्यैतरेयभाष्यस्याप्ययमेवाभिप्रायः। अत्र एकादशेन्द्रियाणां पञ्चभूतानां च लिङ्गशरीरात्मना अनादितो जीवेन सह विद्यमानानामपि प्रतिसृष्टिकालं 'तेषां भूतैरुपचयः सृष्टिकाले विधीयते' इत्युक्तरीत्या उपचयो भवति । प्रलये च तदपचयः । उपचितभागेष्वपि मरणकाले केषांचिद्भागानां गमनम् । पुनश्शरीरप्राप्तावागमनं चेति विशेषः तुशब्देन चशब्देन च सूचितो द्रष्टव्यः।

ब्रह्मसूत्रभाष्यम् [अध्या- ३. पा. १. (४) ब्रह्माण्डे च- मृतिकाले जहत्येनं प्राणा भूतानि पञ्च च । भागतो भागतस्त्वेनमनुगच्छन्ति सर्वशः॥ इति ।। ॥ इत्यनयाद्यधिकरणम् ॥ ४॥ ॥ ५. प्रथमाधिकरणम् ॥ (१) सू-ॐ ॥ प्रथमेश्रवणादिति चेन्न ता एव ह्यपपत्तेः॥ ॐ॥ ५॥ . (४) ननु भागतोऽग्नयादीन् प्रति गच्छद्भिः प्राणैस्सह भूतानां गति- रस्ति न वा । अस्ति चेत् न जीवेन सह गतिः, सामस्त्येन तान् प्रत्येव गतत्वात् । न चेत्प्राणभूतयोः समव्यात्यभाव इत्यत आह-ब्रह्माण्डे चेति ॥ न केवलं ब्राह्मे अग्नयादिप्राप्तेरुक्तिः, किंतु ब्रह्माण्डे चेति समुच्चये चशब्दः। का उक्तिरित्यतः तां पठति-मृतीति । 'एनं' पुरुषं 'भागतो जहति त्यजन्तीत्यर्थः। 'सर्वशो भूतानि' पृथिव्यादिसर्वभूतानि प्राणाश्चैनमनु- गच्छन्तीत्यर्थः। तथाच प्राणैस्सह भूतानां भागतो गतिसत्त्वेऽपि न सर्वशो गमनमिति जीवेन सहापि भागतो गतिर्युक्तेति भावः। आद्यश्व- शब्दः समुच्चये। द्वितीयस्तुशब्दार्थो विशेषद्योतकः। ॥ इत्यनयाद्यधिकरणम् ॥ ४॥ ॥ ५ प्रथमाधिकरणम् ॥ (१) अत्राधिकरणे भूतानां जीवेन सह गतिराक्षिप्य समाधीयते । पूर्वपक्षस्य सूत्र पवोक्तत्वात् तत्पठित्वा पूर्वपक्षांशं तावद्वयाचष्टे-प्रथम इति ॥ 'तस्मिन् ' (छा. ५४-२.) इति छान्दोग्यवाक्योदाहरणेन प्रथम इत्यस्यावृतिस्सूचिता। जुबतीत्यनन्तरं श्रूयत इत्यनुवर्तते। यत इति शेषः। श्रूयते न श्रूयत इत्यनेन श्रवणादश्रवणादित्युभयथा पदच्छेद स्सूचितः। नेति । न भूतानां जीवेन सह गतिरित्यर्थः। अनेन नेत्यस्य आवृत्तिस्सूचिता। तथाच यतः 'प्रथमे' 'तस्मिन् ' इत्युपक्रमवाक्ये अधि - ५. सू . ५.] दीपिकासहितम् 'तस्मिन्नेतस्मिन्ननौ देवाः श्रद्धां जुह्वति' (छा. ५-४-२.) इति प्रथमाग्नौ श्रूयते न भूतानि जुह्वतीति । अतो नेति चेत्- (२) न, ता एव प्रस्तुता आपः श्रद्धारूपेण हूयन्ते 'इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' (छा. ५-९-१.) इत्युपसंहारोपपत्तेः। ॥ इति प्रथमाधिकरणम् ॥५॥ - प्रथमे' स्वर्गाख्यप्रथमाग्नौ श्रद्धासहितस्य जीवस्य होमः श्रूयते, यतश्च भूतानि जुह्वतीति न श्रूयते, अतो नेति योजना । श्रुतौ श्रद्धाशब्दः पूर्वपक्षे श्रद्धामात्रयुक्तजीवपरः। सिद्धान्ते त्वजहल्लक्षणया श्रद्धयाद्भिश्च सम्परि- वक्तं जीवमाह। तथाच 'तस्मिन् ' धुलोकाख्ये 'एतस्मिन्' आदित्यादि- समिदादिविशिष्टे 'द्वयादीनां देवताभोगस्थानत्वात् अग्नित्वम् ' इति तत्त्व- प्रदीपोक्तेः देवताभोगस्थानत्वात् अग्निशब्दवाच्ये नारायणाधिष्ठाने छुपर्जन्यधरापुंस्त्रयाख्यपञ्चाग्निषु मध्ये प्रथमाग्नौ धुलोकाधिपतयो देवाः श्रद्धां तयेष्टवन्तं यजमानं 'श्रद्धासोमवर्षान्नादीनां देवभोग्यत्वादाहुतित्वम्' इति तत्त्वप्रदीपोतरीत्या आहुतिरूपं 'जुह्वति' निक्षिपन्तीत्यर्थः । . (२) सिद्धान्तांशं व्याचष्टे-नेति ॥ प्रथमाग्नौ भूतसहितस्य होमा- श्रवणात् न भूतानामसहगतिः कल्पनीयेत्यर्थः । कुतो नेत्यतस्तत्रोक्त- हेत्वसिद्धेरिति हेतुमभिप्रेत्य कुतः सेत्यतस्तत्र हेतुत्वेन ता एव हीति सूत्रखण्डं व्याचष्टे-ता इति । यत इत्यादी संयोज्यम् । अनेन सौत्रो हिर्व्याख्यातः। ता इत्यनूद्य प्रस्तुता इति व्याख्यानम्। 'वेत्थ' इति वाक्ये प्रकृता इत्यर्थः। आप एवेत्यन्वयः। न श्रद्धामात्रमित्येवार्थः। 'श्रद्धारूपेण' श्रद्धाशब्दार्थरूपतया 'हूयन्ते ' होम्यतया श्रूयन्ते। श्रद्धा- शब्दस्याजहल्लक्षणया श्रद्धोपयुक्तजीवपरत्वादिति भावः। अपां श्रद्धा शब्दार्थत्वं कुत इत्यतस्तत्र हेतुत्वेनोपपत्तेरिति सूत्रखण्डं व्याचष्टे- इतीति । इत्युपसंहारेति । एवं सति एवंरूपोपसंहारवाक्यस्योपपन्नत्वा- दविरुद्धत्वादित्यर्थः । अन्यथोपसंहारानुसारेणोपक्रमार्थाकल्पने उपसंहारा- , १२ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा. १. ॥ ६. अश्रुतत्वाधिकरणम् ॥ (१) सू- ॐ॥ अश्रुतत्वादिति चेन्नेष्टादि- कारिणां प्रतीतेः ॥ ॐ ॥ ६॥ अग्नयादिगतिः प्रत्यक्षतः श्रूयते । अतः प्रत्यक्षाश्रवणान्न युक्तमिति चेत्- (२) न, 'अथैनं यजमानं किं न जहाति भूतान्येव भूतैरेव गच्छति नुपपत्तेस्तद्विरोधेनोपक्रमस्य प्रबलप्रमाणविरुद्धार्थबोधकत्वरूपाप्रामाण्य- प्रसङ्गादिति भावः। ॥ इति प्रथमाधिकरणम् ॥ ५॥ - ॥ ६. अश्रुतत्वाधिकरणम् ॥ (१) अत्राधिकरणे जीवस्य भूतैः सह गतिस्समर्थ्यते । पूर्वपक्षस्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं तावद्वयाचष्टे-अश्रुतत्वादिति ॥ अतश्शब्दस्तथाशब्दार्थे । तेन यथेत्यप्यादौ सिध्यति । हेत्वर्थे च । न भूतानामित्यध्याहियते । अतःशब्दस्य हेत्वर्थत्वं च अतः शब्दस्तु हेत्वर्थे तथेत्यर्थं च वर्तते । उभयाथै च भवति यथाशब्दविदो विदुः ॥ इति श्रुतिगीतातात्पर्योदाहृतवचनसिद्धम् । शब्दस्वरूपमनतिक्रम्य वर्तमान यथाशब्दं तद्विद इत्यर्थः। हेत्वर्थकातःशब्दस्य विवरणं प्रत्यक्षेति । न युक्तमित्यनेन नावृत्तिः सूचिता। तथाच यथा प्राणानामग्नयादीन् प्रति गतिः 'प्रत्यक्षतः' 'अग्निं वाक्' (बृ. ५-२-१३.) इति साक्षाच्छूयते न तथा भूतानां गतिः प्रत्यक्षतः श्रूयते । अतः प्रत्यक्षाश्रवणाद्भूतानां जीवेन सह गतेर्विशेषतोऽश्रवणादतः नियमेन प्रत्यक्षाश्रवणस्यार्थिकश्रवणादपि बल- वत्त्वात् 'न युक्तम् ' न जीवो रंहति सम्परिष्वक्त इत्युक्तं युक्तमिति योजना। (२) सिद्धान्तांशं व्याचष्टे नेति ॥ न प्रत्यक्षश्रुत्यभावादसहगति- भूतानां वक्तव्येत्यर्थः। कुतो नेत्यतोऽस्यासिद्धेरिति भावेन तद्विरोधिप्रतीत्या मा अधि - ७. सू - ७.] दीपिकासहितम् भूतैर्युक्त भूतैरुत्पद्यते भूतैश्चरति भूतैविचरति' इति कौण्डिन्य- श्रुतौ प्रतीतेः। ॥ इत्यश्रुतत्वाधिकरणम् ॥ ६ ॥ ॥ ७. भाक्ताधिकरणम् ॥ (१) 'अपामसोमममृता अभूम' (ऋ. ८-४८-३.) इत्यादि- श्रुतिविरोध इति । तामुपपादयति-अथेति । प्रमेयान्तरप्रश्नारम्भेऽथशब्दः । मृतिकाले सदेति वा शेषः। 'यजमानं ' यागादिकर्तारं 'एन' पुरुषं 'किं' वस्तु न जहातीति । अस्योत्तरमाह-भूतानीति । एवशब्दो विपरिणतेन जहतीत्यनेन सम्बध्यते। तत्र हेतुः-भूतैरित्यादि । भूतैः सहैव परं लोकं गच्छती- त्यर्थः। एवमुत्तरत्रापि स हैवेत्यर्थः । भुङ्क्ते' पुण्यफलं 'उत्पद्यते ' भूमौ 'चरति' सञ्चरति सत्कर्म करोतीति वा 'विचरति' विरुद्धं दुष्टं कर्मा- चरति करोतीत्यर्थः। सौत्रादिपदार्थेऽप्येषैव श्रुतिः प्रमाणम् । यद्वा- आदिपदोपात्तपूर्तादिकृतामपि भूतैस्सह गतौ श्रुत्यन्तरमस्तीति ज्ञातव्यम् । प्रतीतेरित्यनेन इष्टादिकारिणामिति सौत्रपदं संयोज्यम् । तथाच इष्टादि- कारिणां यागपूर्तादिकृतां भूतैः सहैव गतेः 'प्रतीतेः' प्रत्यक्षत एव श्रवणादित्यर्थः। ॥ इत्यश्रुतत्वाधिकरणम् ॥ ६॥ , , ॥ ७. भाक्ताधिकरणम् ॥ (१) अत्राधिकरणे भगवत्प्राप्त्यर्थ कर्मणामस्थिरफलकत्वोक्तया वैराग्यादेरावश्यकसाधनत्वं समर्थ्यते । पूर्वपक्षयति-अपामेति ॥ तीत्यादौ अध्याहार्यम् । तत एव यदीति लभ्यते । आदिपदेन अक्षय्यं हवै चातुर्मास्ययाजिनः सुकृतं भवति' (आप.श्री. ८-१-१.) इत्यादिकं गृह्यते । तथाच यद्यधिकरणषट्कोक्तरीत्या मरणमात्रेण मोक्षाभावात्तदर्थ मुमुक्षु- णाऽवश्यमनुष्ठेयं वैराग्यादिसाधनम् , तर्हि 'अपाम' इत्यादिश्रुतिविरोधः तत्र विना वैराग्यादिकं कर्मादिनैव मोक्षोक्तरित्यर्थः । तत्त्वप्रदीपे तु १४ ब्रह्मसूत्रभाष्यम् [अध्या- ३. पा - १. (२) अतो वक्ति सू-ॐ ॥ भाक्तं वाऽनात्मवित्त्वा- तथाहि दर्शयति ॥ ॐ ॥ ७ ॥ तदन्तरप्रतिपत्तावित्यादौ इष्टादिकारिणां धूमादिमार्गेण स्वर्ग गतानां पुनरावृत्तिरभिप्रेता, तर्हि 'अपाम' इत्यादिश्रुतिविरोध इत्याक्षेपाभिप्राय उक्तः । इष्टशेषं सोमं 'अपाम' अपिबाम, अतोऽमृताः मुक्ता अभूम । सुकृतम क्षय्यं मोक्षमिति पूर्वपक्षे श्रुत्यर्थः । (२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे-अत इति ॥ तदमृतत्वमिति द्वे पदे । तथाच यस्मात् 'तदमृतत्वं' अपामेति श्रुत्युक्तममृतत्वं काम्यसोम- यागादिसाध्यं मुक्तत्वं 'भागतः' कालभागतः तमपेक्ष्याल्पकालीनममुख्य मिति यावत् । तस्मान्न श्रुतिविरोध इति योजना। भागत इत्यनेन भाक्त- मिति व्याख्यातम् । तदित्यनेन सूत्रे तत्पदाध्याहारः सूचितः। मुख्या- मृतत्वमेव श्रुत्यर्थः किं न स्यादित्यतः तदुत्तरत्वेन तथाहि दर्शयति इति सूत्रखण्डसूचितां श्रुतिमाह-नेति । श्रुतेरित्यनेन सौत्रो हिशब्दो हेत्वर्थ- तया व्याख्यातः। योजना तु यतो 'नान्यः' इति श्रुतेर्मुख्यामृतत्वं न काम्यकर्मसाध्यमित्यन्वयव्यतिरेकोक्त्याऽवगतम् , अतस्तदमृतत्वं भागत एवेति। श्रुतिस्तु जिज्ञासानये व्याख्याता । काम्यकर्मिणां कुतो मुख्या- मृतत्वाभाव इत्यतस्तदुत्तरत्वेन अनात्मवित्त्वादित्यंशं व्यतिरेकमुखेन योजयति-आत्मेति। न त्वनात्मविद इत्येवशब्दार्थः। हिशब्दो हेतौ। तदमृतत्वम्। ननु काम्यकर्मिणां मुख्यामृतत्त्वाभावेऽपि अकाम्यकर्मिणां तदस्त्वित्याशङ्कापरिहाराय प्रवृत्तं सौत्रं वाशब्दं व्यवस्थितविकल्पाद्यतया व्याख्याति-वाशब्दादिति । इति सूचितमिति शेषः। तदमृतत्वमित्युभय- त्रानुवर्तते । योजना तु 'अपाम' इति श्रुतौ यद्यकाम्यं कर्म विवक्षितम् , तदा तजिज्ञासूनां चेत्तदमृतत्वं मुख्यामृतत्वमेव, परं तु तत् कर्मणा न साक्षाद्भवति, किंतु कर्मणा शुद्धान्तःकरणस्य वैराग्यादि, अथ तद्वतः श्रवणादिरूपा जिज्ञासा, जिज्ञासोानम् , ज्ञानिनो मोक्ष इति 'पारम्पर्यण' परम्परयैव लभ्यमिति परम्पराविवक्षयैवैषा श्रुतिः प्रवृत्तेति वक्तुं युक्तम् । , अधि - ७. सू - ७.] दीपिकासहितम् १५ भागतस्तदमृतत्वं 'नान्यः पन्था अयनाय विद्यते । (तै.आ. ३-१२-७.) इति श्रुतेरात्मविद एव हि मुख्यम् । वाशब्दा- त्पारम्पर्येणात्मविदपेक्षया वा । . अपरोक्षशानिनामकाम्यं कर्म चेत्तदा तच्छ्रुत्युक्तममृतत्वं न ज्ञानसाध्य- संसारनिवृत्तिरूपं, किंतु 'आत्मविदपेक्षया' परमात्मापरोक्षज्ञानिनमपेक्ष्यैव तत्कर्मफलमपेक्ष्यैव आत्मज्ञानलब्धे मोक्षे प्रचुरानन्दव्यक्तिवैचित्रयाख्याति- शयमपेक्ष्यैवोक्तं तद्रूपमेवोक्तमिति यावदिति वाशब्दात्सूत्रकृत्सूचयतीति । तथाच न सर्वथा संसारनिवृत्तिरूपमोक्षः कर्मसाध्य इति तदर्थ वैराग्यादिकमावश्यकमिति नोक्तविरोध इति भावः। अत्र तत्त्वप्रदीपे- परम्परयाऽमृतत्वफलकत्वमपि नाशकृतकर्मणः, किंतु ज्ञानिकृतस्यैवेत्याश- येन पारम्पर्येणात्मविदपेक्षया वा तदमृतत्वमिति एकवाक्यतया भाष्यं व्याख्याय, 'कर्मणा ज्ञानमातनोति' ( ) इत्यादिश्रुत्यनुसारेण वाशब्दादित्यादेरन्यश्चार्थः-वाशब्दापारम्पर्येण कर्मिणाममृतत्वं ज्ञानो- त्पत्तिद्वारेणेतीदं प्रकारान्तरेणापि व्याख्यातम् । तथाच तत्त्वप्रदीपे टीकोक्त- प्रकारत्रयं विनाऽस्याप्युक्तत्वात् टीकायां प्रकारत्रयेत्युपलक्षणम् । सिद्धान्ते अपामेति श्रुतेरयमर्थः-यस्मात्सोमरसमपाम, सोमादिकर्मणाचान्तःकरण- शुद्धिद्वारा देवान्विष्ण्वादीस्तारतम्येन ‘अविदाम' व्यजिशासिष्म । अथ 'ज्योतिः' ब्रह्म 'अगन्म' अद्राक्ष्म, तस्मात् 'अमृताः' मुक्ता अभूमेति । यथोक्तं तत्त्वप्रदीपे-सोममपाम, देवानविदाम, ज्योतिरगन्म, अमृता अभूमेति । ज्योतिर्ब्रह्मेत्युदितमिति च । 'ज्योतिश्चरणाभिधानात्' इत्यादौ ज्योतिब्रह्मेत्युदितमित्यर्थः । यद्वा-काम्यकर्मभिज्योतिब्रह्म 'अगन्म' अशासिष्म, 'ज्योतिः' ब्रह्मज्ञानं 'अगन्म' प्राप्नुम इति वा। तेन च 'देवान्' अचिरादिमार्गस्थान् ‘अविदाम' प्राप्नुम इत्यर्थः। एवं चान्द्रमसं ज्योतिरगन्म, ततो मार्गरूपान् धूमादिदेवान् अविदाम, ततोऽल्पकालममृता अभूमेति । प्रथमपक्षे यतः पूर्वकल्पे मनुष्याः सन्तोज्योतिरपरोक्षतोऽगन्म, अतो देवान्यथायोग्यं देवादित्वमविदामेति । तृतीयपक्षे च वाक्यशेषार्थों द्रष्टव्यः। यद्यपि कर्मनिर्णयटीकायां अमृता इवामृता इति गौण्या वृत्त्या मन्वन्तरापेक्षयाऽमृतशब्दस्य तत्साधनशानलक्षणया तदेकदेशलक्षणया ब्रह्मसूत्रभाष्यम् [अध्या- ३. पा- १. तथा' (३) तथा हि श्रुतिः-'स एनमविदितो न भुनक्ति यथा वेदो वाऽननूक्तोऽन्यद्वा कर्माकृतं यदि ह वा अप्यनेवं विन्महत्पुण्यं कर्म करोति तद्धास्थान्ततः क्षीयत एवात्मानमेव लोकमुपासीत चेति त्रेधाऽमृतशब्दस्यामुख्यत्वरूपभाक्तत्वोक्तेः अत्र चाकाम्यकर्मणां पारम्पर्येण मोक्षसाधनत्वपक्षेऽमृतशब्दस्य मुख्यत्वोक्तेविरोधः। तथापि यथाकथञ्चित् श्रुतेरविरुद्धार्थोक्तो तात्पर्यात्तत्रापि मुख्यत्वस्यैवाभिप्रेत- त्वादविरोधः। यद्वा-चाचनिकार्थत्यागेनेति कर्मनिर्णयगतवाचनिकपदं न मुख्यार्थमात्रपरम् , किंतु प्रतिपाद्यपरमिति सूचनाय तत्रामुख्यत्वोक्ता- वयत्र मुख्यत्वोक्तिरिति वा तत्त्वप्रदीपरीत्याऽत्राप्यमुख्यत्वाद्वा न विरोधः। (३) यदुक्तमनात्मवित्त्वान्न कर्मिणो मुख्यामृतत्वमिति। तदयुक्तम् , तेषामपि तदभ्युपगमे विरोधाभावादित्याशङ्कापरिहारायास्याः श्रुतेरुक्तार्थ- त्रयसमर्थनाय च तथा हि दर्शयतीत्यनेन ज्ञापिताः श्रुतीरुदाहतु प्रति- जानीते-तथाहीति ॥ दर्शयतीत्यस्ति । तथाच 'हि' यतः भाक्तं वेत्युक्तप्रकारेण श्रुतिः 'दर्शयति' प्रतिपादयतीत्यर्थः। अस्यात उक्तं युक्तमित्यध्याहृतेनान्वयः । श्रुतिरिति समुदायैकवचनम्। यद्यप्य नात्मविदां न मोक्ष इत्यस्मिन्नर्थे 'नान्यः' इति श्रुतिरुदाहृता। न च तत्रैव श्रुत्यन्तरमेतदिति वाच्यम् । तस्यापि पूर्वमेवोदाहर्तव्यत्वात् । तथापि 'स य आत्मानम् ' (बृ. ३-४-१५.) इत्यादेरात्मविदपेक्षयेत्युक्तार्थसाधक त्वस्यापि सत्त्वात् अत्रोदाहरणम् । अनात्मविदामेव मुख्यामृतत्वं नानात्म- विदामित्यर्थे 'स एनम्' इत्यारभ्य 'तत्तत्सृजते' इत्यन्तं बृहदारण्यकवाक्यं प्रमाणम् । आत्मविदां कर्मापेक्षया तदमृतत्वमित्यर्थे 'आत्मानमेव' इत्यादिभागतस्तदमृतत्वमित्यस्मिन्नर्थे 'अमृतः' इति श्रुत्यन्तरम् , पारम्पर्ये- णेत्यर्थे 'कर्मणा' इत्यन्यश्रुतिः प्रमाणमिति विवेकः। इति चेत्यस्य श्रुतिरिति पूर्वणान्वयः। चशब्दोऽनेकश्रुतिसमुच्चये। अनेनेतिशब्दः प्रत्येकं संयोज्य इति सूचितम् । श्रुत्यर्थस्तु-अथ यो ह वा अस्माल्लोकमदृष्ट्वा प्रैति (बृ. ३-४-१५.) इति वाक्ये प्रकृतो योऽग्निविप्रार्चकोऽधिकारी अखिलाश्रय- त्वाल्लोकशब्दितं परमात्मानमदृष्ट्वाऽस्मादेहात्प्रेति तमेनं 'सः' हरिः 'अविदितः' तेनादृष्टो 'न भुनक्ति' नामृतत्वं भोजयति न पालयति .

अधि - ७. सू - ७.] दीपिकासहितम् स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्मा- येवात्मनो यद्यत्कामयते तत्तत्सृजते' (बृ. ३-४-१५.) - n . चेति । अत्र दृष्टान्तमाह-यथेति । यथा वेदः 'अननूक्तो' यथाविध्यनधीत ईश्वरज्ञानादिजननेनैनं श्रोत्रियं न भुनक्ति। अन्यद्वा निदर्शनं, यथा वा अकृतं' यथावदननुष्ठितं कर्म न फलप्रदं तथेत्यर्थः। ननु विप्रानयादि- पूजनादिना मोक्षाभावेऽपि अश्वमेधादिमहत्कर्मानुष्ठानेन स भविष्यतीत्यत आह-यदि हेति । यदि 'अनैवंवित्' उक्तप्रकारेण परमात्मानपरोक्षज्ञानी महदपि 'पुण्यं ' पुण्यसाधनं अश्वमेधादि कर्म करोति, तदा 'अस्य' अज्ञानिनः 'तत्' कर्म 'अन्ततः' अन्ते स्वर्गादिफलभोगावसाने स्वल्प- फलदानान्त इति वा क्षीयत एव 'ह' निश्चितम् , न तु पुनरक्षयमोक्ष- फलसाधनं, तस्मान्मुमुक्षुः 'लोकं' सर्वाश्रयं ज्ञानरूपं वा 'आत्मानं' विष्णुं 'उपासीत' जानीयाच्चेत्यर्थः। यद्वा-लोक्यत इति लोकशब्दः स्वरूपवाची 'आत्मानमेव लोकमुपासीत' (बृ. ३-४-१५.) इतिवदित्यैतरेय- भाष्योक्तेः परमात्माख्यं प्रकाशमानस्वरूपमित्यर्थः। ननु जिज्ञासुज्ञानिकृत- कर्मणोरपि अज्ञकर्मवत्क्षये किं ज्ञानसम्पादनेन इत्यत आह–स य इति । 'सः' प्रसिद्धो ‘यो' जिज्ञासुः ‘आत्मानं' परमुपास्ते तस्य 'कर्म अकाम्यं पुण्यं 'न क्षीयते' ज्ञानद्वारेणाक्षयमोक्षदं भवति । तथा यः 'उपास्ते' जानीतेऽस्य पुण्यं कर्म 'न क्षीयते' अक्षयमोक्षातिशयाय भवतीत्यर्थः। ननु कर्मण आशुतरविनाशित्वान्न क्षीयत इति कथमित्यत आह-अस्मा. दिति । 'हि' यस्मादेवमुपासनापरोक्षज्ञानाभ्यां मुक्तौ मोक्षे यद्यद्वैषयिक फलं कामयते तत्सर्वं 'तस्मादेव' अपरोक्षीकृतात्मनस्तत्प्रसादादेव कर्म सृजत इत्यर्थः। यद्वा-यद्यत्कामयते मुक्तस्तत्तत्सृजते कर्मेति यत् तत् अस्मात् ' आत्मनोऽनुग्रहाद्धि, कर्मणा प्रसन्नः परमात्मैव सृजतीत्यर्थः । तथाच कर्मण आशुतरविनाशित्वेऽपि तजातभगवत्प्रसादस्य नित्यत्वेन तद्विवक्षया न तस्य कर्म क्षीयत इत्युक्तिरिति भावः। केचित्तु-तत्कर्म सृजतीत्युक्त्या ज्ञानोत्तरानुष्ठितकर्मजातपुण्यस्य जीवखरूपतया मुक्ता. ववस्थानं सिद्ध्यति। अन्यथा कर्मण एव प्रसादजनकत्वापत्त्याऽदृष्टासिद्धि- प्रसङ्गादित्याहुः। , 3 १८ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा.१. (४) 'अमृतो वाव सोमपो भवति यावदिन्द्रो यावन्मनुर्याव- दादित्य' ( (५) 'कर्मणा ज्ञानमातनोति ज्ञानेनामृतीभवति अथामृतानि कर्माणि (४) 'अमृतः' इति श्रुतौ वावेति निपातौ प्रसिद्धौ । तथाच 'सोमप' सोमयाजी 'अमृतः' अमुख्यामृतत्ववान् भवति । तस्यामुख्यत्वं कुत इत्यतोऽनित्यत्वादित्याह-यावदिति। इन्द्रः खपदे यावत्कालमास्ते, एवं मनुः सूर्यश्च, अयं तावदमृतो भवतीत्यर्थः । (५) अधिकारी अकाम्येन कर्मणा ज्ञानं 'आतनोति' उत्पादयति । तेन 'अमृती' मुक्तो भवतीत्यर्थः। कर्मणां पारम्पर्येण मुक्तिसाधनत्वे युक्तिमाह-अथेति ॥ यतः कर्माणि 'एनं' जिज्ञासुं 'अमृतत्वं' मोक्षं 'नयन्ति' प्रापयन्ति । अथ तस्मादेवामृतानीत्युच्यन्ते, अतस्तेषां तत्साधनत्वं युक्तमिति भावः । नन्वेवं श्रुत्यादिबलात् 'अपाम' इत्यस्य त्रेधा स्वार्थपरत्वोक्तो यानि तीर्थादिवाक्यानि कर्मादि विषयाणि च । स्तावकान्येव तानि स्युरझानां मोहकानि च ॥ इति गीताभाष्यवचनविरोध इति चेन, रोचनार्थ फलश्रुतिरित्युक्तेः फलवचनवदल्पाधिकार्यपेक्षया तदुपपत्तेः, श्रुतीनां स्वार्थपरत्वस्यात्यागात्। अन्यथा 'प्रशंसादीनां तात्पर्य वाचनिकार्थात्यागेनैवोक्तं स्वयं भगवता भाक्तं वेति' इति कर्मनिर्णयविरोधात् । सूत्रार्थस्तु-यतः 'तत्' अमृतत्वं 'अपाम' इति श्रुतौ काम्यकर्मिण उक्तममृतत्वं 'भाक्तं' काल- भागतोऽल्पकालीनमिति यावत् । 'वा' अथ वा जिज्ञासोरकाम्य- कर्मिणः पारम्पर्येण तदमृतत्वं श्रुतावुक्तम् । यद्वा-परमात्मविदां कर्मापेक्षया तदमृतत्वमुक्तम् , अतो मुमुक्षुणाऽवश्यानुष्ठेयमेव वैराग्यादी. त्युक्तार्थे न अतिविरोधः। काम्यकर्मिभिरपि मुख्यामृतत्वमेव प्राप्यमिति श्रुत्यर्थः किं न स्यादित्यत आह–अनात्मवित्त्वादिति। काम्यकर्मिणां परमात्मानपरोक्षशानित्वादित्यर्थः । अनात्मवित्त्वेऽपि कुतो न तेषां मुख्या- मृतत्वलाभः। तथा 'अपाम' इत्यादेरुक्तानेकार्थकत्वे च किं प्रमाणमित्यत आह-तथा हीति । 'हि' यतो 'नान्यः' इति ‘स एनम्' इति श्रुतिश्च अधि - ८, सू . ८.] दीपिकासहितम् यत एनममृतत्वं नयन्तिः ( ) इति च । ॥ इति भाक्ताधिकरणम् ॥ ७ ॥ ॥ ८. कृतात्ययाधिकरणम् ॥ (१) कृतस्य कर्मणो भोगेन क्षयान्मुक्तिरिति । (२) अत आह- सू-ॐ॥ कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्याम् ॐ ॥ - 'तथा' आत्मविदामेव मुख्यामृतत्वं नानात्मविदामित्यर्थम् , 'आत्मानमेव' इति श्रुतिर्शानोत्तरकर्मापेक्षयेत्यर्थं 'अमृतः' इति श्रुतिर्भाक्तमित्यर्थं कर्मणा' इति श्रुतिः पारम्पर्येणेत्यर्थ च 'दर्शयति' प्रतिपादयत्यत इति । ॥ इति भाक्ताधिकरणम् ॥ ७ ॥ . ॥ ८. कृतात्ययाधिकरणम् ॥ (१) अत्राधिकरणे वैराग्यादिसाधनस्यावश्यानुष्ठेयत्वं समर्थ्यते । 'कृतात्यये' इत्यनेन सूचितं पूर्वपक्षं दर्शयति कृतस्येति ॥ कृतस्ये- त्यनुवादेन कर्मण इति व्याख्यानम् । भोगेन' फलानुभवेन 'क्षयात्' नाशात् । अनेन निमित्तसप्तमीति सूचितम् । कर्मणः क्षयादित्यावर्तते । तथाच जीवेन सहागतस्य कृतस्य कर्मणः स्वर्गादिष्वेव भोगेन निश्शेष- मत्ययान्नाशात् तत एव कर्मणस्तन्मूलबन्धस्यापि क्षयादुच्छेदात् तदुच्छेद- रूपा मुक्तिः स्वत एव भवतीति न तदर्थ वैराग्यादिकमनुष्ठेयमिति योजना। मुक्तिरिति सूत्रे शेषोक्तिः । (२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे-अत इति ॥ श्रुतेरित्यनेन भावार्थकदृष्टपदं व्याख्यातम् । चः समुच्चये। 'शेषवान्' भुक्तकर्मशेषवानेव, न तु निश्शेष इत्येवशब्दार्थः । अनेन अनुशयपदं कर्ममात्रवाचकमपि स्मृत्यनुसारादेवं व्याख्यातम् । सूत्रे नेति आयातीति च शेषः। तथाच भोगेन कृतात्ययानिमित्तात्तन्मूलबन्धात्ययात्स्वत एव मुक्तिः स्यादिति किं वैराग्यादिसाधनैरिति चेन्न, यतोऽयं जीवः कृतानां मध्ये कतिपयात्ययेऽपि ..

२० ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा - १. - 'ततः शेषेणेमं लोकमायाति पुनः कर्म कुरुते पुनर्गच्छति पुनरागच्छति । ( ) इति श्रुतेः। भुक्तशेषानुशयवानिमां प्राप्य भुवं पुनः । कर्म कृत्वा पुनर्गच्छेत्पुनरायाति नित्यशः॥ आ चतुर्दशमावर्षात्कर्माणि नियमेन तु । दशावराणां देहानां कारणानि करोत्ययम् ॥ 'अनुशयवान्' भुक्तशिष्टकर्मवानेव परलोकादायाति भुवम् । न चास्यासिद्धिः दृष्टस्मृतिभ्यां श्रुतिस्मृतिभ्यां तत्सिद्धेरिति सूत्रार्थः। 'ततः' स्वर्गादेः 'शेषेण' कर्मशेषेण तद्युक्त एव ' इमं लोकं' भूलोकं प्रत्यायाति कर्मी। पुनर्भूमौ कर्म कुरुते, पुनः स्वर्ग प्रतिगच्छति पुनरायाति भुवमित्यर्थः । स्मृतावनुशयशब्दः कर्मार्थकः। तथाच कर्मी जीवो भुक्तशिष्टकर्मवानिमां भुवं प्राप्य पुनस्तत्र कर्म कृत्वा पुनस्वर्ग गच्छेत् । पुनस्ततो भुवं नित्यशो' नियमेन करोत्यायाति गच्छतीत्यर्थः। अनेन श्रुतौ पुनः कर्म कुरुते, स्मृतौ पुनः कर्म कृत्वेत्युक्तया एवं द्वित्रिचतुरावर्तने अशेषकर्मनिवृत्तिः स्यादिति शङ्का निरस्ता । अल्पापादने कर्मसमाप्तिरित्याशङ्कानिरासायाह- आचतुर्दशमाद्वर्षादिति । अत्राङ् पूर्वावधिरूपमर्यादार्थकः आजन्मेत्यादिवत् न त्वामुक्तीत्यादाविवोत्तरावधिरूपमर्यादार्थकः। 'नान्तादसङ्ख्यादेः' इति निषेधस्त्विह न प्रवर्तते, निपातनादेव । तथाच चतुर्दशमं वर्षमारभ्ये- त्यर्थः । “अयं' बद्धजीवो 'नियमेन तु' नियमेनैव ‘दशावराणां दशसङ्ख्याका देहा येषु प्राप्तव्येषु देहेष्ववरकक्ष्यात्वमापन्नास्ते दशावरा- स्तेषाम् । अत्रावरपदबलादारब्धव्येषु देहेषु दशकस्य पृथकक्ष्यात्वसिद्धिः । इतोऽधिकानामेकादशादीनामपि बहुव्रीहिणैव सिद्धिः । अत एव प्रमेयदीपे 'स्त्री वाऽप्यनूनदशकम्' इत्यत्र दशानां सङ्घो दशकः अनूनो दशको यस्येति विग्रहप्रदर्शनेन दशकस्य ततोऽधिकसलयानां चान्यपदार्थत्वमाश्रितम् । न च 'जीवंश्चतुर्दशादूर्ध्वम्' इति वचनविरोधः। अत्र चतुर्दशमं वर्षे तत्समाप्तिमारभ्येत्यर्थाश्रयणात् उभयत्रापि तदुत्पत्तिमारभ्य तदुत्पत्तेरूर्ध्व- मित्यर्थाश्रयणाद्वा न विरोधः। केचित्त्वेतद्वचनविरोधाद्विभ्यतो दशावरा इत्यत्र दश वरा येषु न भवति किंतु समकक्ष्यात्वं वाऽवरकक्ष्यात्वं .. , ।

अधि - ९. सू - ९.] दौपिकासहितम् २१ अतः कर्मक्षयान्मुक्तिः कुत एव भविष्यति ॥ इत्यादिस्मृतेश्च शेषवानेवायाति ॥८॥ ॥ इति कृत्याधिकरणम् ॥ ८॥ ॥९. यथेताधिकरणम् ॥ (१) 'यथेतमेव गच्छति यथेतमागच्छति स भुङ्क्ते स कर्म कुरुते स परिवर्तते' ( ) इति गतिप्रकारेणागतिः प्रतीयते । वाऽऽपन्ना येषु देहेषु तेषां कारणानीति व्याचख्युः। तन्न, उक्तरीत्योक्त- वचनविरोधाभावेन कौटिल्यकल्पनायोगात् । दशकस्य वरत्वमात्रनिषेधेऽपि समकक्ष्यात्वस्य वाऽवरकक्ष्यात्वस्य वाऽनुक्तेः, 'अनूनदशकम् ' इत्युक्ति- विरोधाच्च। 'मुनिस्सुकर्मशीलोऽपि' इति वचनान्मुनिविषयमेतदित्यपि न, मुनिरपीति कैमुत्यस्यैवोक्तथाऽस्य सर्वविषयत्वात् । कर्मक्षयान्मुक्ति- रिति । बन्धककर्मणो निश्शेषक्षयानिमित्ताकर्ममूलकबन्धनिवृत्तिरूपा मुक्तिः 'कुतो' न कुतोऽपीत्यर्थः । ॥ इति कृतात्ययाधिकरणम् ॥ ८॥ ॥ ९. यथेताधिकरणम् ॥ (१) अत्राधिकरणे स्वर्गादागतिप्रकारो निरूप्यते। तत्रानेवमित्यनेन सूचितं पूर्वपक्षं दर्शयति-यथेति ॥ गतिप्रकारेणेत्याद्यावर्तते । तथाच इति श्रुतौ यतो जीवस्यैवं गतिप्रकारेणागतिः प्रतीयते अतो गतिप्रकारेणैव आगतिः, न त्वनेवमपीति योजना । पूर्वमन्यैः स्वेन वा यथा येन मार्गेण स्वर्गादिमं लोकं प्रति 'इतं' आगतं तथा तेन स्वर्ग प्रतिगच्छति । यथाऽस्माल्लोकात्स्वर्ग 'इतं' गतं तथा भुवमागच्छतीत्यर्थः। गमने फलमाह-स इति। 'सः' जीवः कर्मफलं स्वर्गादौ भुङ्क्ते इत्यर्थः । आगमने फलमाह-स इति । कुरुते भूमौ । गमनागमनयोरामुक्त्युच्छित्ति- नास्तीत्याह-स इति । 'परिवर्तते' आवर्तत इत्यर्थः। जीवविषयमेतदिति शापनाय वाक्यशेषोदाहरणम् ।

२२ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा. १. - (२) अतो ब्रूते- सू-ॐ ॥ यथेतमनेवं च ॥ ॐ ॥ ९ ॥ 'धूमादभ्रमभ्रादाकाशमाकाशाचन्द्रलोकं यथेतमाका- शमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति' इति काषायणश्रुतेर्यथागतमन्यथा च ॥९॥ ॥ इति यथेताधिकरणम् ॥९॥ चेति । (२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे-अत इति ॥ काषायणश्रुते- रित्यनेन सूत्रे हेत्वनुक्तिदोषः परिहृतः। प्रतिज्ञोक्तयैव तत्सुचनात् । जीवः पूर्वमन्यैः स्वेन वा 'यथा' येन पथा वा स्वर्ग प्रति गतस्तथाऽऽकाश- पर्यन्तमागच्छति ततोऽर्वाक् भुवं प्रत्यन्यथा चागच्छतीत्यर्थः। यथोक्तं तत्त्वप्रदीपे-यथागतं तथाऽऽकाशपर्यन्तं आगच्छति। ततोऽर्वागन्यथा चः प्रकारसमुच्चये । अनेन यथेतमनेवं चेति प्रतिज्ञावाक्यं व्याख्यातम् । यद्यपि 'यथा' इत्यादि छन्दोगा अपि पठन्ति । तथापि 'धूमात्' इत्यादेस्तैरपाठाच्छाखान्तरवाक्यमुदाहृतम्। तदर्थस्तु-धूम- देवतालोकाभ्रदेवलोकं गच्छति, अभ्रादाकाशं आकाशाच्चन्द्रलोकं गच्छति । यथा' येन पथा आकाशं प्रति 'इतं' गतं तथा तेनैव पथा तावत्पर्यन्तं गतिप्रकारेणैव आगच्छतीत्यर्थः। आकाशलोकानन्तरमागमने प्रदेशविशेषेऽन्यथात्वमाह-आकाशाद्वायुमिति। वायुर्भूत्वेत्यादेः कर्मणः तत्वाभाव्यापत्तिरेवार्थो, न तु तदैक्यम्, तत्पदप्राप्तिर्वा । धूमादि- खाभाव्यापत्ति म धूमादिदेवतास्वभावसदृशस्वभाववत्त्वप्राप्तिः। सादृश्य च तद्देहप्रवेशेन तद्गतौ गतिः तत्स्थितौ स्थितिरित्येवंरूपम् । अभ्रमेघयोः अवान्तरभेदात् तद्देवलोकयोरपि भेदोक्तिः। प्रवर्पतीति । प्रवर्षणान्तर्गतो भवतीत्यर्थः। ॥ इति यथेताधिकरणम् ॥९॥ , अधि.१०. सू - १०. ] दीपिकासहितम् २३ ॥ १०. चरणाधिकरणम् ॥ (१) सू-ॐ॥ चरणादिति चेन्न तदुपलक्षणार्थेति कार्णाजिनिः ॥ ॐ ॥१०॥ 'तद्य इह रमणीयचरणा रमणीयां योनिमापद्यन्ते १ ॥ १०. चरणाधिकरणम् ॥ (१) अत्राधिकरणे गतागतस्य कर्मफलत्वं समर्थ्यते । पूर्वपक्षस्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं तावद्वयाचष्टे-चरणादिति ॥ श्रुते. रित्यनेन चरणादित्यस्य चरणश्रुतेरित्यर्थ उक्तः । यद्यपि छन्दोगा आपधेरनिति पठन्ति । तथापि तदेशेऽर्थतोऽनुवादः शाखान्तरपाठो वेत्यदोषः। 'तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनि- मापोरन् ब्राह्मणयोनि वा क्षत्रिययोनि वा वैश्ययोनि वा। अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापधेरन् श्वयोनि वा सूकरयोनि वा चण्डालयोनि वा' इति छन्दोगवाक्यम् । प्रमेयान्तरारम्भेऽथशब्दः। 'तत्' तत्र कर्मिषु मध्ये ये 'रमणीयचरणाः' सदाचारपूर्वक साधुयज्ञादि- मन्तस्ते 'इह ' भूमौ संसारे 'रमणीयां' साधु 'योनि' जन्म 'आपधेरन्' आपद्यन्ते । आपद्यन्त इति यत् तच्च अभ्याशः' समीपं कालसामीप्येन, न तु विलम्बेन 'ह' प्रसिद्धमित्यर्थः। तत्त्वप्रदीपे तु–'अभ्याशोहयत् यथा योन्यापत्तौ कालतः सन्निकर्षो भवति तथा योनिमापद्यन्त इत्युक्तम् । अत्र तत्त्वप्रदीपटीकापक्षयोः यदित्यस्य यथाशब्दार्थत्वानुवादकत्वाभ्यां अभ्याश इत्यस्य प्रथमातृतीयाविभक्तयर्थत्वाभ्यां आपद्यन्त इत्यस्या- वृत्त्यनुवृत्तिभ्यां च भेद इति ध्येयम् । रमणीयामित्युक्तं विवृणोति- ब्राह्मणयोनिमित्यादिना । 'कप्यचरणाः' असाधुयज्ञादिमन्तः। अन्यत्स- मम् । 'चरणफलं' आचारफलमित्यर्थः। गमनं चागमनं च तत्तथेति द्वन्द्वैकवद्भावः। एवकारव्यावार्थ दर्शयति-नेति । न यज्ञादिकर्मण इत्यर्थः। यद्वा-यागादिकर्तुः फलं नेत्यर्थः। इति ज्ञायत इति शेषः । न च श्रुतौ चरणस्य गमनागमनसाधकता न प्रतीयत इति वाच्यम् । रमणीयस्वर्गादिगतेरपि तत्तत्कर्मफलत्वेनात्राभिप्रेतत्वात् । चरणफल- . " ..

ब्रह्मसूत्रभाष्यम् [ अध्या - ३. पा - १. कपूयचरणाः कपूयाम् ' (छा. ५-१०-७.) इति श्रुते- श्वरणफलमेव गमनागमनं न यज्ञादिकृतः । (२) आचार इति सम्प्रोक्तः कर्माङ्गत्वेन शुद्धिदः । अशुद्धिदस्त्वनाचारः चरणं तूभयं मतम् ।। मित्यादिना सूत्रे चरणादित्यस्यावृत्तिः सूचिता। तथाच तत्र गतागतं चरणादेव भवतीत्यनेन पूर्वपक्षप्रतिज्ञा सूचिता । (२) ननु यज्ञादिकर्मण एव श्रुतिस्थचरणशब्दोक्तत्वात् कथं इति श्रुतेश्वरणफलं गतागतं, न यज्ञादिफलमित्युक्तिरित्यत आह-आचार इति ॥ यः कर्माङ्गत्वेन प्रोक्तः स आचारः स क्रियाद्रव्यतत्कर्तृशुद्धिदः । अनाचारस्त्वशुद्धिदः। आचारानाचाराख्यं तदुभयमपि चरणशब्दवाच्यं मतमित्यर्थः। इति स्मृतेरित्यस्य इति श्रुतेश्चरणफलमेवेति सहेतुकप्रतिज्ञ योक्तं युक्तमित्यध्याहारेणान्वयः । सिद्धान्तांश व्याचष्टे नेति । गतागतस्य कर्मफलत्वाभावो नेत्यर्थः। किन्तु यज्ञादिकर्मफलमेव गतागतमिति वाक्य- शेषः। कुत इत्यतस्तत्र 'नान्यः पन्था अयनाय विद्यते' (तै. आ. ३-१२-७.) इति श्रुत्या गतागतशून्यफलस्य कर्मसाध्यत्वनिषेधात्तत्फलस्य च परिशेषा द्गतागतवत्फलत्वप्राप्तेः 'इष्टा पूर्तम्' (मु. १.२.१०) इत्यादिवचनाञ्चेति हेतुं बहिरेवाभिप्रेत्य तर्हि 'रमणीय' इति श्रुतिविरोध इत्यतस्तदुत्तरत्वेन श्रुतिगतिप्रदर्शकतया तदित्यादिकं योजयति-यशादीति। तच्छब्दार्थो- तिरियम् । आदिपदात्पूर्वादिग्रहणम् । चरणादिश्रुतिरिति । चरणादि- पद्घटितश्रुतिरित्यर्थः। आदिपदात् 'अथ य इमे ग्राम इष्टापूर्ते दत्तमित्यु- पासते ते धूममभिसम्भवन्ति' (छा. ५-१०-३.) इति श्रुतिर्गृह्यते । श्रुति- रित्यनन्तरमतो न विरोध इति शेषः। तथाच यतश्चरणादिश्रुतिः तदुप- लक्षणार्थी' तस्य यज्ञादेरुपलक्षणं ज्ञापनमर्थः प्रयोजनं यस्याः सा तथोक्ता। अजहल्लक्षणया यज्ञादिकर्मप्रतिपादिकाऽतो गतागतस्य यज्ञादिफलत्वेन न चरणश्रुतिविरोध इति योजना। यद्यपि विष्णुतत्त्वनिर्णयटीकायां इष्टं यजनं पूर्तमन्नदानादिकं 'अन्येषामपि दृश्यते' इति दीर्घ इति व्याख्यातम्। तथापि 'अथ य इमे' इति श्रुतौ दत्तमिति पृथक् श्रवणात्पूर्त तटाकादीति गाख्येयम् । इतिशब्द आद्यर्थे । तथाच ये स्वस्वग्रामे इष्टापूर्ते दत्तं दानं .

अधि १०.५ ११.] दीपिकासहितम् इति स्मृतेरिति चेन्न, यज्ञाद्युपलक्षणार्था चरणादि- श्रुतिरिति कार्णाजिनिर्मन्यते ॥१०॥ (३) सू-ॐ ॥ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ ॥ॐ॥११॥ तहि रमणीयाः कपूया इत्येव स्यात् । चरणशब्दस्या- नर्थक्यमिति चेत्- (४) न, चरणापेक्षत्वाद्रमणीयत्वादेस्तज्ज्ञापनार्थत्वेनोपपत्तेः॥११॥ एवमादि कर्म 'उपासते' अनुतिष्ठन्तीति सिद्धान्तरीत्या श्रुत्यर्थः । इतीति सूत्रपदानुवादः। एवमित्यर्थः। कार्णाजिनिरिति कश्चिदाचार्यः, मन्यत इति शेषोक्तिः॥ (३) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्वयाचष्टे- आनर्थक्यमिति ॥ तीत्युक्ते यदीति लभ्यते। यज्ञादीत्यादिकमत्रापि सम्बध्यते। तथाच यदि 'रमणीयचरणाः' (छा. ५-१०-७.) इत्यादिश्रुति- यज्ञाद्युपलक्षणार्था, तर्हि श्रुतौ चरणशब्दस्य 'आनर्थक्यं' तत्प्रयोगवैय- र्थ्यम् , किन्तु रमणीयाः कपूया इत्येव प्रयोज्यं स्यात् न तु चरणशब्दोऽ- पीत्यर्थः । यज्ञादिकारिणां पूर्व प्रकृतत्वेन ये यशादिकारिणो रमणीयाः कपूयाश्चेति रमणीयकपूयपदाभ्यामेव यज्ञाद्युपलक्षणसम्भवात् 'चरण- शब्दानर्थक्य' तच्च न युक्तमिति भावः ॥ (४) परिहारांशं व्याचष्टे नेति ॥ वैयर्थ्यप्रसङ्गादुपलक्षकत्वमेव नास्तीति पक्षो नेत्यर्थः। तथा सति 'इष्टापूर्त मन्यमानाः' (मु.१-२-१०) विद्याः' इत्यागमविरोधः स्यादिति भावः। यद्वा-उपलक्षणत्वमङ्गी- कृत्य पदान्तरेणाप्युपलक्षणसम्भवाचरणपदेनैवोपलक्षणे किं प्रयोजनं न किमपीति पझो नेत्यर्थः। कुतो नेत्यतश्चरणपदसार्थक्योपपादकतया तदपेक्षत्वादित्येतद्योजयति-चरणापेक्षत्वादिति । ' रमणीयत्वादेः' साध्वसाधुयज्ञादिमत्त्वस्य चरणापेक्षत्वात् स्नानाचमनाद्याचारापेक्षत्वा- दित्यर्थः । ततः किमित्यत आह तदिति । तदित्यावर्तते । सार्थक्येत्युप- स्कार्यम् । एवं सूत्रेऽपि । तस्य रमणीयत्वादेपिनमर्थः प्रयोजनं यस्य तस्य ७ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा. १. (५) सू-ॐ ॥ सुकृतदुष्कृत एवेति तु बादरिः॥ ॐ ॥ १२॥ 'धर्म चरत माऽधर्मम् । इत्यादिप्रयोगात्सुकृतदुष्कृते एव चरणशब्दोक्ते इति बादरिर्मन्यते । तुशब्दात् भावस्तत्त्वं तेनेति विग्रहः। इत्थंभूतलक्षणे तृतीया। तथाच रमणीय- चरणत्वेन ये साधवो यज्ञादिकृतः 'ते रमणीया' इति श्रुतियोजनायां तेषां यज्ञादिकारिणामपि रमणीयकपूयाचाराभ्यामेतद्रमणीयत्वादि इति झाप- नार्थत्वेन तस्य चरणशब्दस्य सार्थक्योपपत्तेरिति योजना । अनेन यदि चरणादिश्रुतिर्यज्ञाद्युपलक्षणार्था, तर्हि चरणशब्दस्यानर्थक्यं, रमणीयक- पूयपदाभ्यामेव केवलाभ्यां यज्ञाद्युपलक्षणसम्भवादिति चेन्न, कुतः ? 'तदपेक्षत्वात् तस्य यज्ञादेस्तस्य रमणीयत्वादेस्तदपेक्षत्वात्साध्वसाध्वा- चारापेक्षत्वात्। ततश्च तेषां यज्ञादिकृतां रमणीयकपूयाचाराभ्यामेव रमणीयत्वादि नान्यत इति ज्ञापनाय तस्य चरणशब्दस्य सार्थक्योपपत्तेरिति सूत्रार्थ उक्तो भवति ॥ (५) प्रकारान्तरेण चरणश्रुति पठित्वा व्याचष्टे-सुकृतेति ॥ इत्यादि- प्रयोगादिति । कुरुतेत्यर्थे चरतेति प्रयोगादित्यर्थः। 'सुकृतदुष्कृते' साध्वसाध्वाचाराङ्गविशिष्टे एव यज्ञादिकर्मणी इत्यर्थः । न तु सदसदा- चाराङ्गमात्रमित्येवशब्दार्थः। 'चरणशब्दोक्ते' एव श्रुतिस्थचरणशब्द- वाच्ये एवेत्यर्थः। ('चरणशब्दोक्ते' पतच्छ्रुतिस्थचरणशब्दवाच्ये अपी. त्यर्थः। न केवलमुपलक्ष्ये इत्यपिपदार्थः। भाष्ये अपिपदाध्याहारेण सूत्रगततुशब्दो व्याख्यातः।) चरणशब्दोक्ते इत्यनेन सूत्रे चरणे इति विपरिणतपदानुवृत्तिः सूचिता। एवकारस्योभयत्रान्वयश्च। न चाङ्ग- विशिष्ट कर्मण एव चरणशब्दवाच्यत्वे केवलाचारे तत्प्रयोगानुपपत्तिरिति वाच्यम्। अन्यत्राङ्गमात्रवाचित्वस्याप्यभ्युपगमात् । अत एव टीकायां साधारणश्रुतेश्च अत्रबाधकवशात्साङ्गकर्मार्थत्वस्यैवोपपत्तरित्युक्तम् । नान्यः पन्थाः' (ते.आ. ३.१३.) 'इष्टापूर्तम्' (मु. १-२-१०) इत्यादि- बाधकवशादित्यर्थः । न च शक्यानेकत्वं स्यादिति वाच्यम् । इष्टापत्तेः।

अधि - ११. सू. १३ ] दीपिकासहितम् २७ खसिद्धान्तोऽपि स एवेति सूचयति । तुशब्दस्तु विशेष स्यात्स्वसिद्धान्तेऽवधारणे ॥ इति नाममहोदधौ ॥१२॥ ॥ ११. अनिष्टाधिकरणम् ॥ (१) पुण्यकृतामेव गमनागमने नेतरेषामिति । अतएव तत्त्वप्रदीपे-चरणशब्दस्यानुष्ठानमात्रेऽपि प्रवृत्तिमत्त्वात्सदाचारादेः सुकृतादावन्तर्भावाच्चेत्युक्तम् । सुकृतशब्दार्थेऽन्तर्भावादित्यर्थः। टीकाया- मपि साधारणश्रुतेश्चेत्युक्तम् । (एतेनैवकारस्य भिन्नक्रमत्वमुपेत्य सुकृत- दुष्कृते चरणपदोक्ते एव न तु लक्ष्ये इति भाष्यव्याख्यानं निरस्तम् । न चरणश्रुतिः यज्ञाद्युपलक्षत्वेनैवोक्ताविरोधिनी, किनाम यज्ञादिकर्मवाचिनी चेति टीकाविरोधात्, तत्वप्रदीपविरोधाच्च ।) 'बादरिः' शुकाचार्यः । मन्यत इति शेषोक्तिः। परमतमभिधाय सूत्रकारः खमतं कुतो न वक्तीत्यत आह-तुशब्दादिति । 'स्वः' सूत्रकृत् । न केवलमन्यसिद्धान्त इत्यपेरर्थः। 'स एव' बादरिसिद्धान्त एव । न त्वन्य इत्येवार्थः। 'सूचयति' सूत्रकृत् । (अनेन तुशब्दार्थस्यापेः बादरिरपीत्यन्वयो दर्शितः। यद्वा-) निर्दिष्टसिद्धान्तस्य स्वसिद्धान्तस्य चैक्यं तुशब्दार्थ इति भावः । तुशब्द स्यैतदभिधायकत्वं कुत इत्यत आह-तुशब्द इति । नाममहोदधौ' ग्रन्थे। उक्तमिति शेषः ॥ १० ॥ ॥ इति चरणाधिकरणम् ॥ ११. अनिष्टाधिकरणम् ॥ (१) अत्राधिकरणेऽनिष्टादिकारिणामपि गतागतादिदुःखमस्तीति पूर्वपक्षयति-पुण्येति ॥ इष्टादिपुण्यकर्मकृतामेवेत्यर्थः। स्वप्रयुक्तैवशब्दव्यावर्त्य दर्शयति-नेति । 'इतरेषां' पापकर्मकारिणामपि नेत्यर्थः। अनात्मविदामिति शेषः । तथाच अनिष्टादिकारिणामशानां गतागतयोरभावात्तेषां तच्छ्रन्यो मोक्ष एवेति पुण्यतत्फलयोरेव विरक्तया भाव्यं, नान्यत्रानिष्टादावपीति भावः ॥ समर्थ्यते ।

२८ ब्रह्मसूत्रभाष्यम् [अध्या- ३. पा-१. (२) अत आह- सू-ॐ ॥ अनिष्टादिकारिणामपि च श्रुतम् ॥ ॐ ॥ १३ ॥ तद्य इह शुभाकृतो ये चाशुभकृतस्तेऽशुभमनुभूयावर्तन्ते पुनः कर्म कुर्वन्ति पुनर्गच्छन्ति पुनरागच्छन्ति । इति भालवेयश्रुतौ ॥१३॥ (३) सू-ॐ ॥ संयमने त्वनुभूयतरेषा- मारोहावरोहौ तद्गतिदर्शनात् ॥ॐ॥१४॥ (२) सिद्धान्तयत्सूत्रमवतार्य तदुपात्तश्रुतिमेवोदाहरति—अत इति । श्रुतावित्यस्य सूत्रेणान्वयः। गमनागमने इत्यनुषज्यते । अनेन सूत्रे यथेत्यत इतमनितं चेति पदद्वयानुवृत्तिस्सूचिता। पुण्यकृतामित्यनेनापिशब्दार्थ- स्सूचितः। सूत्र संयमनसूत्रोक्तदुःखान्तरसमुच्चायकश्चशब्दः। इतं' गमनं ' अनितं' आगमनं च न केवलमिष्टादिकारिणां, किं नाम ? 'अनिष्टादिकारिणामपि' यागाद्यकारिणां तद्विरुद्धपापकर्मकारिणां चास्ति। न केवलमनिष्टादिकारिणां गतागतमात्रम् , किं नाम ? संयमनाख्यं प्रबलदुःखान्तरं चास्ति। कुतो? यतः 'तद्य इह ' इति श्रुतौ तथा श्रुतं अत इति योजना। 'इह ' भूमौ 'ये शुभाकृतो' यागादिपुण्यकर्माकारिणः ये च 'अशुभकृतः' इष्टादिविरुद्धपापादिकारिणः ते लोकान्तरं गतास्तत्र 'अशुभं' पापफलमनुभूय पुनः आवर्तन्ते । भुवमागच्छन्ति, आगत्य च पुनः तत्र कर्म कुर्वन्ति, पुनः परलोकं गच्छन्ति, पुनर्भुवमागच्छन्तीत्यर्थः । शुभकृतः' इति पाठे 'ये चाशुभकृतः' इत्यस्य द्वेधाऽर्थः। 'तेशुभम्' इत्यत्रापि द्वेधा पदच्छेदः ॥ (३) न केवलमनिष्टादिकारिणां गतागतमात्रम् , किं नाम ? अतिदुःखं पूर्वसूत्रे चशब्देन सूचितमन्यदस्तीत्यर्थप्रतिपादकं सूत्रमुपन्यस्य व्याचष्टे- संयमने विति॥ अत्र संयमन इत्यावर्तते । तत्रैकमधिकरणसप्तम्यन्तं नरक- वाचि, अपरं कर्मवाचि सप्तम्यन्तमित्याशयेन संयमनमिति व्याख्यातम् । तथाच . . , , अधि - ११. सू - १४.] दीपिकासहितम् संयमनमनुभूय केषाश्चिदारोहः केषाश्चिदवरोहः । तुशब्दोऽवधारणे । 'सर्वे वा एतेऽशुभकृतः संयमने प्रपतन्ति तत्र ये परद्विषो गुरुद्विषः श्रुतिद्विषस्तदव- मन्तारः शठा मूर्खा इति ते वै ततोऽवरुह्य तमसि सम्यग्यमनं नियमनं शासन संयमनं यमस्येति शेषः। अतएव तत्त्वप्रदीपे- 'यम उपरमे' इतिधातोः पापोपरमणं संयमनमित्युक्तम् । तत्र यमशासनमेव पापोपरमशब्दार्थ इति। तच्चेदं चार्थत एकरूपमेव । अनुभूयेति । यमशासन- निमित्तदुःखमनुभूयैवेत्यर्थः। संयमन इति तात्पर्यम् । अतएव तत्त्वप्रदीपे- संयमने नरक इत्युक्तम्। केषांचिदित्यनेन 'इतरेषां ' इष्टादिकारिभ्योऽन्ये- षामनिष्टादिकारिणां मध्ये केषांचिदिति व्याख्यातम् । ‘आरोहो' नरका- दुत्थानं अवरोहः' ततोऽतिनीचस्थाने नित्यनरके पातो भवतीति शेषः । न च तमसः पृथिव्यां लोकालोकगिरेःपरस्तात्सत्त्वेन पृथिवीसमानदेशत्वात् संयमनस्य च पातालस्थत्वेन चतुरशीतिसहस्रयोजनाधस्तनत्वात्कथ- मूर्ध्वगते तमस्यवरोहोक्तिरिति वाच्यम् । तमसः अतिगम्भीरत्वेन पाताल- स्थित बिलद्वारागतानां क्रमेण पातालगतनरकादपि नीचस्थाने तमस अधोभागे पातसम्भवेन विरोधाभावात् । यथा भगवद्वेषादियुतानामेव नित्यनरकपातलक्षणोऽवरोहः, अन्येषां ततो व्युत्थानलक्षण आरोह इति व्यवस्थितविकल्पः तथा संयमनेऽप्यस्तीति शङ्कानिरासकत्वेन तुशब्द व्याचष्टे-तुशब्द इति । स चानुभूयेत्यनेन सङ्गमनीय इति हृदयम् । श्रुतेरित्यनेन तद्गतीति हेत्वंशः तेषां तद्गतेः एवंविधगते श्रुति सिद्धत्वादित्येवं तच्छब्दावृत्त्या व्याख्यातो भवति । श्रुतौ अशुभकृत इत्यस्य शुभकर्मा- कारिणस्तद्विरुद्वाशुभकर्मकारिणश्चेत्यर्थः। एतेन सर्व इत्यनेनाशमात्रस्य नरकपातो न तत्र नियम इति सूचितम् । संयमने प्रपतन्तीत्यनेन सौत्र- सप्तम्यर्थो दर्शितः। तत्र तेषु मध्य इत्यनेनेतरेषा मिति व्याख्यातम्। 'परद्विषः' हरिद्विषः। विष्णुद्वेषो नाम तत्र प्रतीपबुद्धिः। सा च 'जीवाभेदो निर्गुणत्वम् इत्याद्यागमादनेकविधा द्रष्टव्या। 'श्रुतिद्विषः' वेदद्वेषिणः तदप्रामाण्य- वादिनः तदनभिमतवक्तारश्च । 'तदवमन्तारो' हरिगुरुश्रुत्यवमन्तारः। " ३० ब्रह्मसूत्रभाष्यम् [अध्या- ३. पा.१. प्रपतन्ति नैवेत उत्तिष्ठन्तेऽपि कर्हिचित् वत्रं वा एत- दित्याहुरथ येऽन्ये ब्रह्मद्विषः स्तेनाः सुरापा इति ते वै तदनुभूयेमं लोकमनुव्रजन्ति । इति कौण्ठरव्यश्रुतेः ॥१४॥ (४) सू-ॐ ॥ स्मरन्ति च ॥ ॐ ॥ १५ ॥ विष्णाववमति म अवमत्वेन नीचतया विज्ञानमिति न्यायदीपिका- टीकयोक्तिः। ब्रह्मरुद्ररमादीनां साम्यदृष्टिरनन्यता। प्रादुर्भावगतस्यापि दोषदृष्टिरपूर्णता ॥ धर्मदेहावतारादेर्भेददृष्टिश्च सङ्करः । अवतारेष्विति ज्ञेयमवज्ञानं जनार्दने ॥ इति गीतातात्पर्यवचनानुसारेण विष्णावन्यसाम्यादिदृष्टि । 'शठाः' गूढद्वेषिणः 'मूर्खाः' तत्वज्ञानशून्याः विपरीतज्ञानिनश्च । इतीत्यस्य इति ये प्रसिद्धा इत्यन्वयः। 'ते' अज्ञाः 'ततः' संयमनीपुरात् अवरुह्येत्यनन्तरं ततोऽपि नीचस्थाने इति शेषः। 'इतः' तमसः 'कर्हिचिदपि कदाचिदपि नोत्तिष्ठन्ते एवेत्यन्वयः। नैवेत इत्यनेन यत्तमसः पुनरावृत्तिराहित्यमुक्तम् , तत्कुत इत्यत आह-वमिति । स्वस्थितान् चारयति गन्तुं न विमुञ्चतीति वत्रम् । न्यायदीपिकायां तु स्वगतानां गमनं वारयतीति टीकोक्तमुक्त्वा सदा आवृणोतीति वा वरमानन्दं वारयतीति वा ववमित्यर्थान्तरं चोक्तम् । वैशब्दोऽवधारणार्थः। 'एतत् ' तमः 'आहुः' 'ववाननन्तान् ' ( इत्यागमाः। अथेत्यर्थान्तरारम्भे । 'अन्ये' परद्विडादिभ्यः षड्भ्योऽन्ये 'ब्रह्मद्विषो' ब्राह्मणद्वेषिणः 'स्तेनाः ' चोराः 'सुरापाः' मद्यपायिन इति ये वै प्रसिद्धाः 'ते' सर्वे 'तत् ' संयमनदुःखमनुभूयैव ' अनु' अनन्तरं तत उपरि आरुह्य 'इम' भूलोकं ब्रजन्तीत्यर्थः ॥ (४) उक्तार्थ स्मृत्या समर्थयत्सूत्रं पठित्वा तां स्मृतिमुदाहरति- स्मरन्ति चेति ॥ सूत्रे दर्शनपदोक्तश्रुतिस्मरणयोः समुञ्चये चशब्दः। इत्यादि स्मरन्तीत्यन्वयः। स्मृतिकार एवंभूतां स्मृतिं कुर्वन्तीत्यर्थः। इत्यादीत्यनेन सूत्रगतबहुवचनकृत्यमुक्तं भवति । आदिपदेन . ) , .

अधि - ११. सू - १५.]
दीपिकासहितम्
३१
गच्छन्ति पापिनस्सर्वे नरकं नात्र संशयः।
तत्र भुक्त्वा पतन्त्येव ये द्विषन्ति जनार्दनम् ॥
महातमसि मनानां न तेषामुत्थितिः क्वचित् ।
इतरेषां तु पापानां व्युत्थानं विद्यतेऽपि च ॥
सुखस्थानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
इति सर्वत्र नियमः पञ्चकष्टे तु तत्सदा ॥ इत्यादि ॥१५॥
॥ इति अनिष्टाधिकरणम् ॥ ११ ॥
-
तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥
इत्यस्याः-
सर्वदेववरत्वेन यो न जानाति केशवम् ।
तस्य पुण्यानि मोघानि याति चान्धंतमो ध्रुवम् ॥
इत्यादेश्च सङ्गहः । यत इत्यादि स्मरन्ति, अतोऽप्युक्तं युक्तमिति सूत्रार्थः ।
स्मृत्यर्थस्तु-सर्वेऽपि पापिनो नरकं गच्छन्ति । तत्र संयमनं चानुभवन्ति
नात्र संशयः। 'तत्र' पापिषु ये जनार्दनं द्विषन्ति । उपलक्षणमेतत् ।
पूर्वश्रुत्युदाहृतं सर्व ग्राह्यम् । ते नरके किञ्चित्कालं दुःखं भुक्त्वा
ततोऽवरुह्य महातमसि पतन्त्येव । तत्र मनानां तेषां च क्वचिदपि
नैवोत्थितिः' नारोहोऽस्ति ववाभिधत्वादिति भावः। द्वेषिभ्य इतरेषां
'पापानां' पापवतां तु 'व्युत्थान' पापस्थानादारोहः फलतो निवृत्तिश्च
कदाचिद्विद्यते । नैवं तमसि मनानाम् । अपि च-'सुखस्यानन्तरं दुःखं
दुःखस्यानन्तरं सुखम् ' इति सर्वत्रानित्यनरके नियमोऽस्ति। रौरवादिभ्यः
पञ्चभ्योऽपि कष्टे पञ्चेन्द्रियाणि प्रति कष्टे दुस्सहशब्दादिपञ्चकयुक्तत्वात्प-
श्वकष्टे इति वा एतादृशे नित्यनरके तु तत् ' दुःखं सदाऽस्तीति ॥ ११ ॥
.
॥ इति अनिष्टाधिकरणम् ॥ ११ ॥

ब्रह्मसूत्रभाष्यम् [अध्या - ३ पा-१. ॥ १२. अपिसप्ताधिकरणम् ॥ (१) सू-ॐ ॥ अपि सप्त ॥ ॐ ॥ १६ ॥ रौरवोऽथ महांश्चैव वह्निवैतरणी तथा । कुम्भीपाक इति प्रोक्तान्यनित्यनरकाणि च ॥ तामिस्त्रश्चान्धतामित्रो द्वौ नित्यौ सम्प्रकीर्तितौ । इति सप्त प्रधानानि बलीयस्तूत्तरोत्तरम् । अत्र ॥ १२. अपिसप्ताधिकरणम् ॥ (१) अत्र भगवद्वेषादिफलस्य नरकस्य नित्यत्वं समर्थ्यते । नरक भोगोऽनित्य एवेति पूर्वपक्षे सिद्धान्तयत्सूत्रं पठति-अपीति ॥ 'नैवेत उत्तिष्ठन्ते' (कौण्ठरव्य.) इति श्रुतेनरकभोगो भवत्येव नित्य इति सहेतुकसिद्धान्तप्रतिज्ञा बहिरेवाभिप्रेत्य तर्हि 'यावदिन्द्राश्चतुर्दश' 'याव- दाभूतसंप्लव' इति वचनविरोध इत्याशङ्कापरिहाराय प्रवृत्तं सूत्रं स्मृत्यु- दाहरणेन व्याचष्टे रौरव इति । भारते इत्यस्यापिपदेनानुकृष्टेन स्मरन्ती- त्यनेनान्वयः। तथा च यतः स्मृतिकारः संयमनानि सप्तापि नरकान् तेषु नित्यानित्यविभागं च स्मरन्ति । अतो न नरकसप्तत्वे तद्वान्तरविभागे च प्रमाणाभावो न वा नरकानित्यत्वोक्तिविरोधस्तस्यानित्यविषयत्वादिति सूत्रार्थः । तत्वप्रदीपे तु–यद्यपि बहुकोटयो नरकाः, तथापि सप्त प्रधाना- नीत्यपिशब्दार्थः। दर्शयति च आचार्यः इति सप्त प्रधानानि' इति सौत्रापि- शब्दस्यार्थान्तरप्रतिपादनपरेति सप्तप्रधानानीति भाष्यानुसारेणापि- पदं बहुनरकाभिधायकपुराणविरोधपरिहाराय यद्यपि तथापीत्यर्थकतया व्याख्यातम् एतदपि टीकाकृदनुमतमेव । सप्तप्रधानानीत्यनेन पुराण- विरोधोऽपि परिहृत इत्युक्तेः। अनेन भाष्ये भारतोदाहरणमुपलक्षणम् । अत एवापिपदात् स्मरन्तीति बहुस्मृतिसूचकबहुवचनान्तपदमाकृष्टम् । स्मृतावथेत्यर्थान्तरे । तदेवाह-महारौरव इत्यर्थः । चः समुच्चये । तथैवे. त्यन्वयः। उपमार्थस्तथाशब्दः। तुरेवार्थः । ननु 'तत्र हैके नरकानेक- विंशतिं गणयन्ति अष्टाविंशतिनरका एवंविधा नरका यमालये सन्ति शतशः सहस्रशः' इत्यादिना भागवतादौ नरकबाहुल्योक्तेस्तद्विरोधोऽ- दीपिकासहितम् ३३ अधि - १३. सू - १५.] ३ एतानि क्रमशो गत्वैवारोहोऽथावरोहणम् ॥ इति भारते ॥१६॥ ॥ इति अपिसप्ताधिकरणम् ॥ १२ ॥ ॥ १३. तत्राप्यधिकरणम् ॥ (१) ईश्वरस्य नरकायुक्तेः 'सर्व विसृजति सर्व विलापयति सर्व रमयति सर्व न रमयति सर्व प्रवर्तयत्यन्त- रस्मिन्निविष्टः' इति कोषारवश्रुतिविरोध इति । स्येत्यत आह-इति सप्त प्रधानानि नरकाणीति। एतेषूत्तरोत्तरं पूर्वपूर्व- निर्दिष्टापेक्षया 'बलीयो' दुःखाधिक्ययुक्तम् । 'क्रमशः' पापाधिक्यक्रमात् निर्दिष्टक्रमानुसारेण च । अधिकारिभेदज्ञापनायारोहावरोहयोर्मध्येऽथे- त्युक्तिः ॥ १२ ॥ ॥ इति अपिसप्ताधिकरणम् ॥ १२ ॥ ॥ १३. तत्राप्यधिकरणम् ॥ (१) अत्राधिकरणे नरकस्य सदुःखत्वं समर्थ्यते । पूर्वपक्षमाह- ईश्वरस्येति ॥ हेतुगर्भमेतत् । न तत्र दुःख मिति शेषः। तथाच यदि नरके दुःखमङ्गीक्रियते तदा तत्र नारकिजनप्रेरकतया ईश्वरोप्यङ्गीकार्यः । तथाच तस्य जीववदुःखमप्यङ्गीकार्यम् , तच्चायुक्तम् । ईश्वरत्वविरोधात् अतो न तत्र दुःखमस्तीत्यङ्गीकार्यमिति भावः। ननु नरके प्रेरकतया ईश्वरसत्त्वं नोपेयते, अतो नोक्तदोष इत्यत आह-सर्वमिति। सर्वमित्यतः प्रागन्यथे- त्युपस्कार्यम् । ईश्वरस्य प्रेरकतया नरके सत्त्वानभ्युपगम इति तदर्थः। ईश्वरः सर्व जगत् 'विसृजति' विविधाकारेण सृजति 'विलापयति' नाशयति यो जनो रमणयोग्यस्तं सर्व रमयति यस्तदयोग्यस्तं न रमयती. त्यर्थः। 'अस्मिन् ' सर्वस्मिन् अन्तर्निविष्टो रमयति । प्रवृत्तिकदित्यनेन प्रेरकत्वमुक्तं भवति ॥

ब्रह्मसूत्रभाष्यम् [ अध्या - ३. पा.१. ॥ ॥ (२) अतो वक्ति- सू-ॐ ॥ तत्रापि च तद्वयापारा- दविरोधः॥ ॐ ॥ १७॥ चशब्दाददुःखानुभवेन। (३) 'स स्वर्गे स भूमौ स नरके सोऽन्धे तमसि प्रवृत्तिकदेक एवानुविष्टो नासौ दुःखभुगीश्वरः प्रभुत्वात्सर्व पश्यति सर्व कारयति नासौ दुःखभुग्य एवं वेद । इति पौत्रायण- श्रुतेरविरोधः । (२) सिद्धान्तयत्सूत्रमवतारयति-अत इति ॥ नरकस्य सदुःखत्वमुपेत्य तत्र प्रवर्तकतया ईश्वरसत्त्वाभ्युपगमे दुःखप्राप्तेः ईश्वरत्वव्याकोप इति यो विरोध उक्तः तत्परिहारः कुतो न सूत्रित इत्यत आह–चशब्दादिति । अदुःखेति । नीचोच्चतापर्यवसितदुःखानुभवाभावेनेत्यर्थः। इति समुच्चिनो- तीति शेषः। सूत्रे तदिति व्यस्तं समस्तं च । तथाच न केवलं स्वर्गादौ, किन्तु 'तत्रापि ' नरकेऽपि अदुःखानुभवेन 'तद्वयापारात् ' तस्येश्वरस्य प्रेरणाख्यव्यापाराभ्युपगमात् श्रुतियुक्तिविरोधाभाव इति सूत्रार्थः ॥ (३) भवेदयमुभयविरोधाभावो यद्यस्यार्थस्य प्रामाणिकत्वं स्यात् , तदेव कुत इत्यत आह–स इति ॥ इति श्रुतेरित्यस्य न सन्निहितेनाविरोध- पदेनान्वयः, किं त्वदुःखेन । तद्वयापारादित्यस्य नासिद्धिरित्युपस्कृत- साध्येन, अस्य चाविरोध इत्यनेनान्वयः। अविरोधः नरके दुःखमङ्गीकृत्य ईश्वरस्य नारकिप्रेरकत्वपक्षोक्तदोषो नेत्यर्थः । प्रेरकत्वमङ्गीकृत्य तत्र दुःखा- ननुभवेन तत्रोक्तदोषपरिहारादिति भावः। 'ल' ईश्वरः स्वर्गादावन- विष्टस्सन् एक एव स्वतः प्रवृत्तिकदित्यर्थः। ननु स्वर्गनरकादो जीवेन सहावस्थानात्तद्वदीश्वरस्यापि तत्तद्गतसुखदुःखभोगः स्यादित्यत आह- नेति। 'असौ' ईश्वरः। नेत्यत्र हेतुः-प्रभुत्वादिति । तथात्वे असार्वज्ञ स्यात् यतो दुःखाभोगो दुःखाननुभव इत्यत उक्तम्-सर्व पश्यतीति । तत्र हेतुः-सर्व कारयतीति । कैमुत्यन्यायेनेश्वरस्य दुःखाभोगमाह-नेति । य एवं वेदासावधिकार्यपि न दुःखभुक्, किमीश्वर इत्यर्थः ॥ . , ३५ अधि - १३. सू - १७.] दीपिकासहितम् (४) नरकेऽपि वसन्नीशो नासौ दुःख गुच्यते । नीचोच्चतैव दुःखादे ग इत्यभिधीयते ॥ नासौ नीचोचतां याति पश्यत्येव प्रभुत्वतः ॥ इति भागवततन्त्रे ॥१७॥ ॥ इति तत्राप्यधिकरणम् ॥ १३ ॥ , (४) सर्व पश्यतीत्युक्तार्थे स्मृति चाह-नरकेऽपीति ॥ तर्हि सर्वशस्य कथं दुःखाभोगः, अनुभवस्यैव भोगत्वादित्यत आह-नीचेति । अल्पं तेजस्तथैवाल्पं जीवरूपं हि संसृतौ । तदेव सुमहत्तेजः करोति भगवान् महत् ॥ इति बृहद्भाष्योक्तदिशा तूलपिण्डस्येव स्वरूपसङ्कोचविकासावेव दुःखादे- भौंग इत्युच्यते, न तत्साक्षात्कारमात्रमित्यर्थः । न च तद्गतानां तु भोगानां भोगोऽभिमतिरुच्यते । तभावान्नाभिमानी भगवान् पुरुषोत्तमः ॥ इति गीतातात्पर्यवचनविरोधः। तथा भोगोऽनुभवः स्वीयतया साक्षात्कार इति गीताभाष्यप्रमेयदीपविरोधः। अत्रोभयत्राभिमानरूपसम्बन्धेन खीय- तया सुखादिसाक्षात्कारो भोग इत्युक्तत्वादिति वाच्यम् । अस्य लक्षणा- न्तरपरत्वात् , एवकारेण च केवलसाक्षात्कारव्यावर्तनात् । एवं जीव- खरूपभूतसाक्ष्यनुभवप्रयोज्यत्वात् तयोरीश्वरे वाऽभावान्नासौ दुःखभु- गिति। ततः किमित्यत आह-नेति । 'असौ ' ईश्वरः पश्यति' दुःखा- दिकं सर्वे, तथा च दुःखादिसाक्षात्कारमात्रस्य भोगत्वाभावान्नीचोच्चतयो- रेव भोगत्वात्तयोश्च दुःखादिविषयकजीवखरूपभूतसाक्ष्यनुभवप्रयोज्यत्वा- दीश्वरे तद्भावे तयोरप्यभावात् सर्वज्ञत्वेऽपीश्वरस्य न दुःखभोग इति भावः। जीवसहभूतस्यापीश्वरस्य दुःखादिसाक्षात्कार एव, न तु भोग इत्यत्र हेतुमाह-प्रभुत्वत इति । भागवततन्त्र इत्यस्य सर्व पश्यतीत्याद्युक्त- मित्यध्याहृतेनान्वयः ॥१३॥ ॥ इति तत्राप्यधिकरणम् ॥ १३ ॥ , ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा. १. तद्वर्जितस्त्रिधा याति तिर्यग्वा नरकं तमः ॥ इति ॥ १८ ॥ ॥ इति विद्याधिकरणम् ॥ १४॥ ॥ १५. न तृतीयाधिकरणम् ॥ (१) यत्र दुःखं सुखं तत्र सर्वत्रापि प्रतीयते । अपि नीचगतौ किञ्चित्किमु मानुषदेहिनः ।। इति वचनान्महातमस्यपि सुखप्राप्तिरिति । इत्यादिनेति । अनेन नरकार्थतया यातनापदमपि व्याख्यातम् । वाशब्द उभयत्र सम्बध्यते । भारते इत्यनन्तरं वचनादिति शेषः । अस्य विद्याकर्मा- पेक्षयेति पूर्वेणान्वयः। केचित्तु-सूत्रे इतिशब्दः सौत्रपदार्थोक्तिपरः। अर्थशब्दश्चाध्याहार्यः। तथा चैतयोरित्यस्य 'विद्याकमणोरिति' कर्मणोरेवार्थः, न तु मार्गयोरित्यपीति सूत्रार्थमाहुः ॥ १४ ॥ ॥ इति विद्याधिकरणम् ॥ १४॥ तु विद्या- , ॥१५. न तृतीयाधिकरणम् ॥ (१) अत्राधिकरणेऽन्धतमसस्य दुःखमात्रत्वं समर्थ्यते । पूर्वपक्ष- यति-यत्रेति ॥ इति वचनादिति । इत्येतद्वचनगृहीतव्याप्तिकदुःखयुक्तत्व- हेतोरित्यर्थः । तथा च परसुखदुःखयोरप्रत्यक्षत्वाद्वयाप्तिग्रहणायोग इति चोद्यानवकाशः । अत्र यस्मिन् यस्मिन् दुःखं तत्र सर्वत्रापि सुखमस्ति न तु क्वचिदिति नियतसहचारप्रतीतेरिति भावः। सर्वत्रेत्युक्तमुपपादयति- अपीति। विशेषणसमुच्चयार्थोऽपिः। तथा च यदा दुःखाकरत्वेन प्रसिद्धा- यामपि 'नीचगतौ ' नरके किञ्चित्सुखमस्ति तदा मानुषदेहिनो गतौ सुख- मस्तीति किमु वक्तव्यमित्यर्थः । तथा च न कुत्रापि व्यभिचार इति भावः । महातमस्यपीति । त्रिविधाधोगतिषु मध्ये न केवलं मानुषादौ नरके च, किन्तु महादुःखत्वेन प्रसिद्ध तमस्यपीत्यर्थः। प्राप्तिरिति। अस्ति तमोयो- ग्यस्येति शेषः। अनेनान्धं तमोऽपि सुखयुक्तमेवेति पूर्वपक्षसाध्यं दर्शितम् । सुखप्राप्तिरपीत्यन्वये सति दुःखयुक्तत्वादिति हेतुरपि दर्शितः ॥

अधि - १५. सू. २०.] दीपिकासहितम् १ ९ (२) अत आह- सू-ॐ॥ न तृतीये तथोपलब्धेः ॐ ॥ १९ ॥ 'अथा विद्वानकर्माऽवाग्गच्छति । त्रिधा ह वावाग्गतिस्तिय- ग्यातना तम इति । द्वे वाव सुखानुवृत्ते न तमस्सुखानुवृत्तं केवलं ह्येवात्र दुःख भवति । ( ) इति श्रुतेन तृतीया- वाग्गतौ सुखम् ॥ १९॥ (३) सू-ॐ ॥ स्मयतेऽपि च लोके ॥ ॐ ॥ २० ॥ (२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे-अत इति ॥ अर्थान्तरारम्भेऽथ- शब्दः। 'अविद्वान् ' मुक्तिहेतुज्ञानरहितः 'अकर्मा' स्वर्गाद्यापादक- कर्मरहितो दुष्टकर्मा सात्त्विकतामसो राजसतामसश्च 'अवाक् ' अघोगतिं 'गच्छति' प्राप्नोति। तां विभजते-त्रिधेति। 'त्रिधा ह वाऽवाग्गच्छति' इति श्रुतिपाठः। हेति प्रसिद्धौ । वावेत्यवधारणे। तत्त्वप्रदीपोक्तरीत्या समाने लोप इति एकवकारलोपः। अवाग्गच्छतीति यत्तत्त्रिधैवेत्यर्थः । त्रैविध्यमेव दर्शयति-र्तियगिति । तिर्यक्त्वमित्यर्थः। साच नानायोनि- प्राप्तिरूपा 'जायस्व म्रियस्व' इत्युक्ता तृतीया गतिः। 'यातना' नरको दुर्नरत्वं वा । यथोक्तं गीतातात्पर्ये-'दुरत्वं च तिर्यक्त्वं तमश्चेति फलं क्रमात्' इति । इति त्रिधैवेत्यन्वयः। तासां लक्षणमाह-द्वे इति । 'अनुवृत्ते' युक्त। न तमः सुखयुक्तमित्यत्र हेतुमाह-'हि' यतः ‘केवलं' अत्यन्तं ' तमसि दुःखं 'भवति' प्राप्यते। इति श्रुतेरित्यनेन तथोपलब्धे. रिति हेतुर्व्याख्यातः। न तृतीयेति। 'तिर्यग्वा नरकं तमः' इत्युक्ताधो- गतिषु 'तृतीये' तमसि न सुखमस्तीत्यर्थः। अनेन सुखमस्तीत्यध्याहृत. साध्यभागो व्याख्यातः॥ (३) एतमेवार्थ स्मृत्यनुमानाभ्यां च साधयत्सूत्रमुपन्यस्य तां स्मृतिमुदाहरति-स्मर्यत इति ॥ तिर्यविति। 'क्षुद्रमित्राणि' इत्युक्त- तृतीयगतावित्यर्थः। 'विधीयत' अस्तीत्युच्यते आगमेषु। 'मनानां' , ४० ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा - १. तिर्यक्षु नरके चैव सुखलेशो विधीयते । नान्धे तमसि मनानां सुखलशोऽपि कश्चन ॥ इति भविष्यत्पर्वणि। (४) लोकसिद्धं चैतत् । चशब्दाल्लोकसिद्धिरपि स्मार्तेत्याह । (५) अतिप्रिये यथा राजा न दुःखं सहते क्वचित् । अत्यप्रिये सुखमपि तथैव परमेश्वरः ।। इति हि ब्राह्मे ॥ २० ॥ स्थितानां 'कश्चन' किंनिमित्तोऽपीत्यर्थः। किमु यथेष्टमित्यपेरर्थः। भविष्यत्पर्वणीत्यस्य स्मर्यत इत्यनेनान्वयः॥ (४) लोक इत्येतदनुमानसूचकतया व्याख्याति-लोकसिद्धमिति ॥ 'एतत्' अन्धे तमसि सुखराहित्यं लौकिकदृष्टान्तयुक्तानुमानसिद्धं चेत्यर्थः। न केवलं स्मृतिसिद्धमिति चार्थः। चेत्यनेन अपिः व्याख्यातः। अनुमानप्राबल्यहेतुस्मृतिसिद्धत्वसूचकतया चशब्दं व्याख्याति-चशब्दा- दिति । न केवलं तमसः सुखराहित्यं श्रुतिसिद्धं, किन्तु 'लोकसिद्धिः' लौकिकदृष्टान्तवदनुमानेन तमसः सुखराहित्यसिद्धिरपि 'स्मार्ता' स्मृतिसिद्धेति चशब्दात् सूत्रकारः 'आह' सूचयतीत्यर्थः। तथा च लोकसिद्धत्वं च स्मर्यत इति चशब्दान्वय इति भावः॥ (५) काऽसौ स्मृतिरित्यत आह–अतीति ॥ राजा यथा अतिप्रिये पुरुषे कंचित्कालेऽपि दुःखं न सहते, किन्तु सुखमेव। यथा चात्यप्रिये सुखं न सहते, किन्तु दुःखमेव, तथा परमेश्वरोऽपीत्यर्थः । अनेन विप्रति- पन्नास्तामसाः न सुखित्वेन ईश्वरेष्टाः अप्रियत्वादिति सूत्रकृदभिप्रेतानुमाने पादवयेन राजप्रिये व्यतिरेकव्याप्तिः तृतीयेन तु राजविप्रियेऽन्वयव्याप्तिश्च दर्शिता भवति । अथवा-पूर्व सदसजनानां प्रकृतत्वात्तेषां प्रकृतिः स्वरूपमत्रोच्यते । न चासङ्गतिः। प्रियत्वाप्रियत्वाभ्यां सदसजनेषु दुःख- सुखासहने साध्ये अनुमानद्वयेऽप्यन्वयव्याप्तेः दृष्टान्तप्रदर्शनार्थत्वेन सङ्ग- तत्वात् । यद्यपि नानेनानुमानेन तमसः सुखराहित्यसिद्धिः। तथाऽप्यनेन , अधि · १५. सू - २१.] दीपिकासहितम् (६) सू-ॐ ॥ दर्शनाच्च ॥ ॐ ॥ २१ ॥ नारायणप्रसादेन समिद्धज्ञानचक्षुषा । अत्यन्तदुःखसंलीनान्निश्शेषसुखवर्जितान् । नित्यमेव तथाभूतान्विमिश्रांश्च गणान् बहून् । निरस्ताशेषदुःखांश्च नित्यानन्दैकभागिनः ॥ सिद्धेन सुखित्वेनेश्वरानिष्टत्वेन हेतुना तामसानां सुखराहित्यसिद्धौ तमसस्तद्रहितत्वमपि सिद्ध्यतीति तात्पर्यम् । इति हीति । हिशब्दो यत इत्यर्थे । तथा च ब्राह्मे पुराणवचने यत इत्युक्तं अतः चशब्दादित्युक्तं युक्तमित्यन्वयः॥ (६) प्रत्यक्षेणाप्येतमर्थ साधयत्सूत्रमुपन्यस्य ब्याचष्टे-दर्शनाच्चेति॥ दर्शनवचनादित्यनेन दर्शनादित्येतद्दर्शनवचनादिति व्याख्यातम् । अनेन हेत्वसिद्धिः परिहृता । पाद्मे दर्शनप्रतिपादकवचनादित्यन्वयः। चशब्दस्तु न वचनान्वितः, किन्तु दर्शनान्वितः । तस्य तमसः सुखराहित्ये साध्ये हिरण्यगर्भकर्तृकप्रत्यक्षाख्यहेतुसमुच्चयार्थत्वात् । सम्यगिद्धं दीप्तं समिद्धं, समृद्धमिति पाठे सम्यगभिवृद्धमित्यर्थः । समिद्धं च तत् ज्ञानचक्षुश्चेति विग्रहः । चक्षुदृष्टिः । तथा च चतुर्मुखो नारायणप्रसादेन समृद्धज्ञान- चक्षुषा 'साक्षात् ' परमुखमन्तरेण स्वयमेव त्रिविधान् जीवानपश्य- दित्यन्वयः। तानेव प्रकारिणो दर्शयति-अत्यन्तेति। 'संलीनान् ' मन्नान् । अनेन पादद्वयेन तमोयोग्याः सङ्गहीताः। नित्यमेवेति पादद्वयेन नित्यसंसा- रिणः । 'तथाभूतान् ' मिश्रभूतान् । निरस्तेति पादद्वयेन मोक्षयोग्याः। जीवानिति शेषः । चौ परस्परसमुच्चये। अत्र तस्वप्रदीपे–'अपश्यत्त्रि- विधान्ब्रह्मा' इत्युक्तम् । त्रैविध्यं त्रिष्वपि तेषु नित्यदुःखिषु विमिश्रेषु नित्य- सुखिषु च अवान्तरभेदादवगन्तव्यम् । 'महातमस्त्रिधा प्रोक्तमूर्ध्वं मध्य तथाऽधरम्' इति हि वक्ष्यति दुःखतारतम्येन मेदं तदायतनानाम् । विमि- श्रभेदस्तु अल्पसुखसममिश्राल्पदुःखमेदान्नारकिणो मानुषाः स्वर्गिण इति । मनुष्योत्तमा ऋषिगन्धर्वा देवा इति मुक्तेषु नित्यमुखिषु च सु- खतारतम्याद्भेद उक्तः। एतेषु नित्यमेव तथाभूतत्वं च समानम् । विमि- 6 ४२ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा. १. अपश्यत्रिविधान्ब्रह्मा साक्षादेव चतुर्मुखः। इति दर्शनवचनाच्च पाझे ॥ २१ ॥ , . श्रेषु नित्यमतथाभाविनश्च सन्ति । स्वरूपस्थितमध्यम एव नित्यं तथा भावात्सर्वेषां च जीवानां आस्वरूपावस्थानाद्विमिश्रत्वमेवेत्यनेकशो विमिश्राः। अत एव तदाह-विमिश्रांश्च गणान्बहूनिति । तच्च विमि- श्रत्वमनन्तविधमिति सूचयति-विमिश्रानिति, इत्युक्तम् । अनेन त्रिविधा- नित्यस्य प्रत्येक त्रिविधानित्यर्थः सूचितः। 'तदायतनानां' नित्यदुःख- स्थानानामित्यर्थः। विमिश्रभेदस्तु नारकिणो मानुषाः स्वर्गिण इत्युक्त इत्यन्वयः। कथम् ? अल्पसुखादिभेदात् । अल्पसुखमिश्राः सुखदुःख- साम्येन मिश्राः अल्पदुःखमिश्राश्चेति भेदादित्यर्थः। 'नारकिणो' नरक- प्रचुराः 'मानुषाः' भूप्रचुराः 'खर्गिणः' स्वर्गप्रचुराः। भेदः उक्त इति । तत्र मन्दा मनुष्येषु' इत्यादिप्रमाणेषूक्त इत्यर्थः। 'एतेषु' त्रिषु तमो- योग्यादिषु नित्यमेव तथाभूतत्वं' स्वस्वरूपावथितत्वम् । समानमित्यनेन नित्यमेव तथाभूतानित्येतन्त्रिविधानामपि विशेषणमिति सूचितम् । विमि- श्रेषु नित्यमतथाभाविनश्च सन्तीत्यनेन मुक्तियोग्यादीनां त्रयाणामपि विमि- श्रत्वं सूचितम् । परंतु मुक्तियोग्यतमोयोग्ययोः 'आस्वरूपावस्थानात् वरूपाविर्भावपर्यन्तमेव, न तु ततः परमपि विमिश्रत्वम्। 'स्वरूपस्थित- मध्यमे नित्यसंसारिण्येव नित्यं मिश्रभाव इति ते नित्यमेव तथाभूताः। अनेकश इति । मुक्तियोग्यतमोयोग्यनित्यसंसारिभेदेन अनेकरूपा इत्यर्थः। अनन्तविधमिति। प्रतिजीवं सुखवैचित्रयेणानन्तविधत्वमित्यर्थः । केचित्-सर्वेषां च जीवानामाखरूपावस्थानाद्विमिश्रत्वमिति तत्त्वप्र- दीपोक्तेः नित्यसंसारिणामपि मुक्तिरस्तीत्याहुः। तन्न, मुक्तिपर्यन्तं त्रितय. निष्ठं, ततः परं विमिश्रत्वं नित्यसंसारिमात्रनिष्ठमिति तद्वाक्यार्थाभ्युप- गमात् । अन्यथा 'त्रिदिवनिरयभूगोचरान्नित्यबद्धान्' इति तद्गन्थका- रोक्तिविरोधापत्तेः॥ अत्र अधि- १५. सू - २२.] दीपिकासहितम् ४३ (७) सू-ॐ॥ तृतीये शब्दावरोधः संशोकजस्य ॥ॐ ॥ २२ ॥ तृतीये तृतीयतमसः श्रवणादेव शब्दानुसारेण संशोकज- मोहप्राप्तिः ॥ २२॥ , (७) अर्थापत्त्याऽप्येतमर्थ समर्थयत्सूत्रं पठित्वा व्याचष्टे-तृतीय इति ॥ अत्र तृतीयपदेन नाधोगतिषु तृतीयं विवक्षितम् , तस्य 'न तृतीये' इति प्रथमसूत्र एवोक्तत्वात् अत्र पुनस्तृतीयग्रहणवैयर्थ्यात्। किन्तु तमस- स्तृतीयं ग्राह्यमित्याशयेन तृतीयपदमनूद्य विवृणोति-तृतीय इति । तमस्वित्यादावुपस्कार्यम्। कर्मणि षष्ठीयम्। तृतीये विषयसप्तमी मत्वाऽऽह-तमस इति । 'श्रवणात्' प्रतिपादकशब्दश्रवणादिति साव- धारणमेतत्। श्रवणादेव, किम्वनुभवादिनेति कैमुत्यद्योतक एवकारः। अनेन सूत्रे शब्दपदं श्रवणोपलक्षकम् । विषयसप्तमीयम् , तृतीयातत्पुरुषः, संशोकजस्यावरोधः प्राप्तिरित्यन्वयस्सूचितः। तथा च तृतीयविषये यः शब्दस्तेनावरोधः प्राप्तिर्भवति । कस्य ? 'संशोकजस्य' सम्यक् शोकः संशोकोऽतिदुःखं तजन्यस्य मोहस्य मूर्छाया इति सूत्रार्थः। शब्दानु- सारेणेत्यनेन शब्दश्रवणेन भवन्ती मोहप्राप्तिरपि न सर्वेषामेकविधा, किन्तु स्वकारणश्रवणविषयवक्तृशब्दानुसारेणेत्युक्तं भवति । तथाच तृतीयतमः- स्वरूपप्रतिपादकवक्तृशब्दविस्तरानुसारात्तदानुगुण्यादित्यर्थः। विस्तुरस्तु व्याख्यानसम्यग्व्याख्यानातिसम्यग्व्याख्यानादिरूपः । फलमपि सम्यग्व्या. ख्यानेऽतिमूईत्यादिरूपम्। तदुक्तिविस्तरानुसारेण मूर्छादि समासतो व्यासतो वा भवतीति तत्त्वप्रदीपवाक्यस्य एकस्य द्वयोर्वा प्राप्तिस्समासः, सर्वेषां प्राप्तिास इत्यर्थः। प्राप्तिरित्यनन्तरमतोऽपीत्यध्याहारेण न तृतीये सुखमिति प्रधानसाध्येनान्वयः। अनेन यतस्तृतीयतमस्सु विषये वक्त शब्दानुसारात् संशोकजादेरवरोधः प्राप्तिर्भवति, अतश्च न तृतीये सुख- मिति चशब्दानुषङ्गेण सूत्रयोजनान्तरमुक्तं भवति ॥

ब्रह्मसूत्रभाष्यम् [अध्या- ३. पा-१. (८) सू-ॐ ॥ स्मरणाञ्च ॥ ॐ ॥ २३ ॥ महातमस्त्रिधा प्रोक्तमूर्ध्व मध्यं तथाऽधरम् । श्रवणादेव मूर्छादिरधरस्य यतो भवेत् ॥ तस्मान्न विस्तरेणैतत्कथ्यते राजसत्तम । इति कौर्मे ॥ २३ ॥ ॥ इति न तृतीयाधिकरणम् ॥ १५ ॥ ॥१६. तत्स्वाभाव्याधिकरणम् ॥ (१) 'धूमो भूत्वाऽभ्रं भवति' (छा. ५-१०-५.) इत्याद्यन्यभावः श्रूयते । स कथमिति । - (८) तृतीयतमास्वरूपश्रवणे श्रोतॄणां मोहप्राप्तिरित्येतत्कुतोऽवग- म्यते । यदन्यथाऽनुपपत्त्या तत्र सुखाभावावगम इत्याशङ्कां स्मृत्या परि हरत्सूत्रं पठित्वा तां स्मृतिमुदाहरति-स्मरणाच्चेति ॥ अत्र चशब्दो नाक्षेपकस्यासिद्विरिति साध्यसमुच्चायकः। तस्येति शेषः । तथा च तस्य तृतीये शब्दावरोधस्य स्मरणानार्थापत्तावाक्षेपकस्यासिद्धिरिति सूत्रार्थः । स्मृतौ 'महातमः' अन्धता मिस्राख्यम् । 'अधरस्य' तमसः शब्दश्रवणेन तस्मानिमित्ताच्छ्रोतॄणां मूर्छादिर्भवेदित्यर्थः। आदिशब्दाट्टीकारीत्याऽति- मूर्छादि ग्राह्य, तत्त्वप्रदीपरीत्या तु उन्मादमरणयोर्ग्रहणम् । 'विस्तरेण सम्यग्व्याख्यानेन 'एतत् ' अन्धतमसः, विस्तारोन क्रियत इति यावत् । राजसत्तमेति कस्यचित्सम्बुद्धिः। कौमें स्मरणादित्यन्वयः ॥१५॥ ॥ इति न तृतीयाधिकरणम् ॥ १५॥ ॥ १६. तत्स्वाभाव्याधिकरणम् ॥ (१) अत्राधिकरणे कर्मिणो धूमादिभावो निवार्यते। तत्र विषरं दर्शयति-धूम इति ॥ इत्यादीति लुप्तविभक्तिकम् । तथा च छन्दोगश्रुत काषायणश्रुतौ च 'धूमो भूत्वा' इत्यादौ धूमादिदेवताभ्योऽन्यस्य कर्मिण अधि - १६. सू - २४.] दीपिकासहितम् ४५ (२) अतो ब्रवीति- सू-ॐ॥ तत्स्वाभाव्यापत्तिरुपपत्तेः॥ ॐ ॥ २४ ॥ धूमादिषु प्रविश्य तद्गतौ गतिस्तत्स्थितौ स्थितिरित्या- दिरेव तद्भावापत्तिः। न ह्यन्यस्यान्यभावो युज्यते । न च तत्पदप्राप्तिः। . धूमादिदेवताभावः श्रूयत इत्यर्थः। अनेन धूमादिदेवताभावाख्यविषयो दर्शितः। सन्देहप्रकारं दर्शयति-स इति। धूमादिभावः ‘कथं' किं प्रकारः किं कर्मिणो धूमादिदेवतैक्यं ? किं वा तत्पप्राप्तिः १ प्रकारान्तरं वेत्यर्थः॥ (२) धूमादिदेवतैक्यं तत्पदप्राप्तिर्वा धूमादिभाव इति पूर्वपक्षस्य अन्यभावः प्रतीयते इत्यनेनैव प्रदर्शितत्वात्तमप्रदर्य सिद्धान्तयत्सूत्रमव- तार्य व्याचष्टे-अत इति ॥ धूमादिष्विति । धूमादिदेवतादेहेष्वित्यर्थः । कर्मणि सप्तमी। 'तद्गतौ' धूमादिगतौ । स्थितावित्यत्रापि तच्छब्दान्वयः। आदिशब्दाल्लघुत्वं अन्यदेहाविष्टग्रहवत्तदेह एवाभिमानः पृथगभिमाना- भावश्च गृह्यते । 'तद्भावापत्तिः' तत्स्वभावापत्तिः। तथा च तत्स्वभावक- देशसादृश्यनिबन्धनो गौणोऽयं निर्देश इति भावः। यद्वा-आदिशब्देन स्थानक्यं गृह्यते । तेन लाक्षणिकोऽयं प्रयोग इति सूचयति । एवं टीकाभि- प्रेतं तदधीनत्वनिमित्तं च आदिपदार्थतया ग्राह्यम् । अत एव स्मृतौ 'ब्रह्मेदं जगदित्यपि ' इति दृष्टान्तोक्तिः। अन्यथाऽसङ्गतेः। अस्मिन् पक्षे श्रौतनिर्देशो मुख्यः। अनेन सूत्रे तत्त्वप्रदीपोक्तरीत्या गजमुख इतिवत्तस्य धूमादेःस्वभावपदोक्तधर्मसदृशः स्वभावो यस्य सः तत्स्वभावः, तस्य भावः तत्स्वाभाव्यम् , तस्यापत्तिरिति विग्रहः। लाक्षणिकत्वपक्षे तस्य स्वभावस्य तदेहस्थितत्वस्यापत्तिरिति विग्रहः। मुख्यत्वपक्षे तदधीनस्व- भावस्यापत्तिरिति। पक्षद्वयेऽपि स्वार्थे ष्यन् । तथा च 'तस्यां' 'धूमो भूत्वा' इति श्रुतौ श्रुता 'तद्भावापत्तिः' धूमादिभावप्राप्ति म तत्स्वा- भाव्यापत्तिरेव, न त्वैक्यम् , तत्पदप्राप्तिति प्रतिज्ञार्थ उक्तो भवति ।

४६ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा. १. (३) गारुडे च- धूमादिभावप्राप्तिश्च तद्गतौ गतिरेव तु । स्थितौ स्थितिः प्रवेशश्च लघुत्वादिस्तथैव च ॥ न ह्यन्यस्यान्यथाभावो न च तत्पदमिष्यते। विद्यागम्यं पदं यस्मान्न तत्प्राप्यं हि कर्मणा ॥ (४) एकदेशस्वभावेन वागभेदाऽपि युज्यते । कुतोऽर्थोऽयं श्रुतेः स्यादित्यतः प्रवृत्तमुपपत्तेरिति हेतुं व्याचष्टे न हीति। हिशब्दो यस्मादित्यर्थे । 'अन्यस्य' कर्मिणः 'अन्यभावो' धूमादिभावः । कुतो नेत्यतोऽप्याह-न हीति । दृश्यत इति शेषः। तत्पदेति । धूमादिपद- प्राप्तिरित्यर्थः । युज्यत इत्यनुषज्यते । अत्र युक्तिस्तु स्मृत्युक्तेति हृदयम् । अनेन स्वप्रयुक्तवकारव्यावर्त्य दर्शितं भवति ॥ (३) एवं न्यायप्राप्तेऽर्थे स्मृति चाह-गारुडे चेति । अस्य उक्तमित्य- ध्याहारेण इत्यपीत्यनेनान्वयः । न केवलं न्यायलब्धमेतदिति चशब्दार्थः । किमुक्तमित्यतस्तत्पठति-धूमादीति । श्रुत्युक्तेति शेषः । चशब्दतुशब्दयोः प्रातिस्तु स्थितिश्चेति भिन्नक्रमेणान्वयः । अत्र प्रवेशो न गौणत्वार्थमुक्तः, किन्तु स्थानक्यरूपपक्षान्तरोपन्यासार्थम् । अत एव खवाक्ये प्रविश्येत्यु- क्तम् । अनेन श्रौततदापत्तेः गौणत्वलाक्षणिकत्वे ज्ञापिते। आदिपदात्पृथ- गभिमानाभावो गृह्यते । कुत इयं श्रुतेरमुख्यार्थकल्पनेत्यतो मुख्यार्थानुप- पत्तेरेवेत्याह-न ह्यन्यस्येति । व्याख्यातमेतत् । 'तत्पद' अन्यस्य प्राप्यमिति शेषः । कर्तरि षष्ठी। 'इष्यते' अङ्गीक्रियते प्रामाणिकैः। कुतो नेत्यत आह-विद्येति । 'हि' यस्मात्तत्पदं विद्यया ब्रह्मदर्शनेनैव गम्यम् । 'तत्' तस्मात्तेन कर्मणाप्राप्यं नेत्यर्थः । हिशब्दोऽस्य श्रुतिप्रसिद्धतामाह । यद्वा- युगपदनेककर्मिसमवायेऽनेकेषामेकपदप्राप्त्ययोग इति न्यायसूचको हि- शब्दः। 'कर्मणा' काम्यकर्मणा ॥ (४) न च 'धूमो भूत्वा' इति सामानाधिकरण्यश्रुतिविरोध इत्यत आह-एकदेशेति ॥ स्वभावैकदेशसादृश्येनेत्यर्थः। 'अभेदा' न विद्यते , - , अधि - १६. सू • २४.] दीपिकासहितम् यथा जीवः परं ब्रह्म ब्रह्मेदं जगदित्यपि ॥ इति ॥ २४ ॥ ॥ इति तत्स्वाभान्याधिकरणम् ॥ १६ ॥ ॥ १७. नातिचिरेणाधिकरणम् ॥ (१) बहुस्थानगमनात्कल्पान्तमप्येवं स्यादिति । भेदः प्रतिपाद्यो यस्यां सा अभेदा अभेदवादिनी वागित्यर्थः । यथोक्तं तत्त्व- प्रदीपे-भेदरहिता वागिति । केचितु-अर्श आद्यजन्तोऽयं शब्द इत्याहुः। अपिनिमित्तान्तरसमुच्चये। पूर्वपादेनान्वेति । नन्वदर्शनादयुक्तोऽयमर्थ इत्यत एकदेशसादृश्येनाभेदप्रयोगं दर्शयति यथेति । 'तत्त्वमसि' (छा. ६-८-७. ) इत्यादावित्यर्थः। श्रुतियुक्त्यनुभवसम्प्रतिपत्तिबलायं दृष्टान्त उपात्तः। यत्प्राक्सूचितं तदधीनत्वादप्ययं प्रयोग इति, तत्र दृष्टान्त- माह ब्रह्मेदमिति । 'सर्वं खल्विदं ब्रह्म' (छा. ३-१४-१. ) इत्यादावित्यर्थः । सर्वस्य ब्रह्माधीनत्वादयं व्यपदेशः। यद्वा तद्गुणसारत्वादित्यत्रोक्तदिशाऽय- मपि दृष्टान्तः सकलजगद्गुणसदृशगुणात्मकत्वेन ब्रह्म जगदित्युच्यत इति सादृश्यनिमित्तक एव योजनीयः। अपिदृष्टान्तसमुच्चये ॥ ॥ इति तत्स्वाभाव्याधिकरणम् ॥ १६ ॥ ॥ १७. नातिचिरेणाधिकरणम् ॥ (१) अत्राधिकरणे स्वर्गादवरूढस्य कर्मिणोऽचिरेण गर्भवासादि- प्राप्तिः समर्थ्यते । तत्र कर्मी स्वर्गानिर्गतश्चिरेणैव देहं प्राप्नोतीति पूर्वपक्ष- प्रतिज्ञाया नातिचिरेणेति सूत्रांशेन ज्ञापितत्वात्तमप्रदर्श्य तद्धतुं दर्शयति- बहुस्थानेति ॥ गमनं प्राप्तिः। तेन च तच्छ्रवणमुपलक्ष्यते। तथा च 'यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति' (छा. ५-१०-५.) इत्यादौ कर्मिणो बहुस्थानप्राप्तिश्रवणादित्यर्थः । बहुस्थानगमनं च नाचि- रेण सम्भवति । तत्र तत्र तत्स्वाभाव्येनातिमहासुखे च सम्भवति तद्वि- हायागमने प्रयोजनाभावात् । अतस्तदन्यथानुपपत्त्याऽऽगतौ विलम्बोऽङ्गी- कार्य इति भावः । तावता स्वर्गादागमने विलम्बः कुत इत्यत आहे- कल्पान्तमिति। ब्रह्मकल्पपर्यन्तमित्यर्थः। 'एवं' तत्तद्देवतास्वाभाव्य ४८ ब्रह्मसूत्रभाष्यम् [अध्या- ३. पा. १. ma- (२) अत आह- सू-ॐ ॥ नातिचिरेण विशेषात् ॥ ॐ ॥२५॥ तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनि- मापद्यन्ते । (छा. ५-१०-७.) इति विशेषान्नातिचिरेण । (३) स्वर्गाल्लोकादवाक्प्राप्तो वत्सरापूर्वमेव तु । मातुश्शरीरमामोति पर्यटन्यत्र तत्र च ॥ इति च नारदीये ॥ २५॥ ॥ इति नातिचिरेणाधिकरणम् ॥ १७ ॥ स्यात् ' असकृदनुष्ठितयज्ञस्य मध्येमार्गमितिभावः । सदेत्यनुक्त्वा कल्पा- न्तमित्यवध्युक्तिः कल्पावसाने देवानां पदपर्यवसानादित्यभिप्रायेण ॥ (२) सिद्धान्तयत्सूत्रमवतार्य ब्याचष्टे-अत इति ॥ विशेषादिति । कालसामीप्यबोधकविशेषश्रुतेरित्यर्थः। सौत्रप्रतिक्षामनुकरोति-नेति । कर्मी स्वर्गान चिरेणेमं लोकमागच्छति, किन्त्वचिरेणैव । तर्हि बहुस्थान- गमनविरोध इति न वाच्यम् । यतः कल्पान्तरूपातिचिरेण गमनाभावेऽपि बहुस्थानप्राप्तिप्रयुक्तचिरगमनमस्त्येवेत्याशयेन-अतीत्याह। व्याख्यातेयं श्रुतिश्चरणनये ॥ (३) ननु 'अभ्याशः' (छा. ५-१०-७.) इति श्रुतिर्न निर्णायिका कल्पान्तकालस्यापि ततोऽधिककालापेक्षया समीपत्वादित्यतः श्रुत्यर्थनिर्ण- याय स्मृतिमुदाहरति-स्वर्गादिति ॥ अवाक् ' अधोदेशं प्राप्तः 'वत्स- रात् ' संवत्सरात्तत्समाप्तेः पूर्वमेव, न त्वधिककालमित्येवशब्दार्थः। तुशब्दः संवत्सरे मानुषत्वरूपविशेषद्योतकः । 'यत्र तत्र च' यत्र कुत्र चेत्यर्थः। अनेकस्थानेष्विति यावत् । ‘पर्यटन् ' सञ्चरन् । इति चेति चशब्दो नारदीये चेति सम्बध्यते। न केवलं श्रुतिवचनात् , किन्तु नारदीये पुराणे उक्तमित्यर्थः ॥ ॥ इति नातिचिरेणाधिकरणम् ॥ १७ ॥ , अधि - १८. सू. २६.] दीपिकासहितम् ४९ ॥ १८. अन्याधिकरणम् ॥ (१) 'त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते' (छा. ५-१०-६.) इति श्रवणादनर्थफलत्वं यज्ञादेरिति । (२) अतो वक्ति- सू-ॐ॥ अन्याधिष्ठिते पूर्ववदभिलापात् ॥ ॐ॥ २६॥ अन्याधिष्ठिते ब्रीह्यादिशरीरे प्रवेशः। न तु भोगोऽस्य । ॥ १८. अन्याधिकरणम् ॥ (१) अत्राधिकरणे कर्मिणां व्रीह्यादिभावनिमित्तकदुःखाभावः प्रति- पाद्यते । पूर्वपक्षयति-त इति ॥ इतीति । एवंरूपछन्दोगश्रुतेरित्यर्थः । 'अनर्थफलत्वं' दुःखफलकत्वमेव 'यज्ञादेः' अन्ततः प्राप्नोतीति शेषः। अत्र श्रुतिन दुःखफलकत्वे साक्षाद्धेतुः, किन्तु स्वावगतव्रीह्यादिभाव- कृतच्छेदनादिनिमित्तेन योनिप्रवेशप्राकालीनस्थावरजातिनिमित्तेन वेति द्रष्टव्यम् । तथा च सुखसाधनतया वेदोक्तस्यापि कमणो दुःखसाधनत्वे मोक्षसाधनत्वेनोपदिष्टवैराग्यादावपि विश्वासाभावादननुष्ठेयत्वं तस्येति भावः। 'ते' भुक्तपुण्याः कर्मिणः स्वर्गादागच्छन्तो मेघपर्यन्तेन पथा वर्षेण सहावनितलमापन्नाः ‘इह' भूमौ केचिद्रीहियवाः केचिदोषधि- वनस्पतयः केचित्तिलमाषाः 'जायन्ते' अन्यजीवाधिष्ठिते व्रीह्यादिशरीरे प्रविशन्तीत्यर्थः। इतिशब्दः आद्यर्थकः श्यामाकादिधान्योपलक्षणार्थकः ॥ (२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे–अत इति ॥ अन्येति । अन्येन बीह्यादिशरीराभिमानिजीवेन भोक्तृतयाऽधिष्ठितव्रीह्यादिशरीरे इत्यर्थः । सूत्रेऽपेक्षितशेषं दर्शयति-प्रवेश इति। सावधारणमेतत् । न त्वभि- मानित्वमिति तदर्थः। श्रुतावुच्यते यत इति शेषः। अस्यातो मानाभावान कर्मिणो व्रीह्यादिभावो न वा तत्कृतदुःखमित्युपस्कृतवाक्येनान्वयः। ननु माभूदभिमानित्वं कर्मिणः, तथापि ब्रीह्यादिसहावस्थानेऽपि दुःखं 7 ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा-१. . 'धूमो भूत्वाऽभ्रं भवति । (छा. ५-१०-५.) इत्यादि- पूर्वोक्तिवत् । (३) 'सोऽवाग्गतः स्थावरान्प्रविश्याभोगेनैव व्रजन् स्थूलं शरीर- मेति स्थूलाच्छरीराद्भोगाननुभुङ्क्ते' इत्यभिलापात्कौषारव- श्रुतौ । (४) स्वर्गादवाग्गतो देही व्रीह्यादीतरदेहगः । अभुऑस्तु क्रमेणैव देहमाप्नोति कालतः ॥ इतिवाराहे ॥ २६ ॥ स्यादित्यत आह-नत्विति 'अस्य' कर्मिणः। तुशब्दो भोगस्यानवसरप्राप्तत्व- रूपविशेषद्योतकः। यदि कर्मिणो व्रीह्यादिप्रवेश एव, न तद्भावः, तर्हि कथं सामानाधिकरण्यमित्यतस्तत्परिहारत्वेन पूर्ववदित्यंशं व्याचष्टे-धूम इति । यथा तत्स्वाभाव्यापत्तिरिति पूर्वसूत्रे प्रकृता 'त इह' इत्युक्त्यपेक्षया पूर्वा 'धूमो भूत्वा' इत्यादिरूपोक्तिः धूमादिदेवतादेहप्रवेशेन स्थानक्याद्य- भिप्राया, तथा ‘त इह व्रीहियवाः' इति सामानाधिकरण्योक्तिरपीत्यर्थः । पूर्वोक्तवदिति पाठे यथा धूमादिषु पूर्वोक्तषु तद्भावोक्तया प्रवेशादिः विवक्षित इति तत्त्वप्रदीपोक्तार्थो द्रष्टव्यः॥ (३) ननु कर्मिणो ब्रीह्यादिशरीरप्रवेश एव, न तु तदभिमतिकृत- तद्भावः । प्रवेशेऽपि न भोग इत्येतत्कुतो ज्ञायते, येन श्रुतेरर्थान्तरकल्पने- त्यतःप्रवृत्तं अभिलापादित्यंशं व्याचष्टे-स इति ॥ 'सः' कर्मी स्वर्गाद- वाग्गतः 'स्थावरान्' बीमादिरूपान् 'प्रविश्याभोगेनैव ब्रजन्' इतर- जीवेन सहावस्थानेऽपि दुःखाननुभवेन वर्तमानः पितृमातृद्वारा 'स्थूलं' मानुषादिशरीरमाप्नोति । 'स्थूलाच्छरीरात्' स्थूलशरीरेण 'भोगान्' भोग्यान् सुखादीननुभवतीत्यर्थः। अभिलापो वचनम्। कोषारवश्रुतौ इत्यभिलापादित्यन्वयः। अभिलापादित्यस्य चान्याधिष्ठिते प्रवेश एवेति प्रतिज्ञयाऽन्वयः॥ (४) अबार्थे स्मृतिं चाह-स्वर्गादिति ॥ ब्रीह्यादीति । इतरस्य देहः इतरदेहः ब्रीह्यादिरूपश्चासावितरदेहश्चेति स तथोक्तः। तत्र स्थित इत्यर्थः। .

अधि - १८. सू . २७.] दीपिकासहितम् ५१ , - . (५) सू-ॐ ॥ अशुद्धमिति चेन्न शब्दात् ॥ २७ ॥ हिंसारूपत्वात्पापस्यापि सम्भवाद्दुःखं च भवत्विति चेन्न, शब्द- विहितत्वात् । (६) हिंसा त्ववैदिका या तु तयाऽनों ध्रुवं भवेत् । अभुञ्जन्निति । सहावस्थानेऽपि तदेहकृतदुःखमननुभवन्नित्यर्थः । 'कालतः अल्पकालेनैव ‘क्रमेण' मातापितक्रमेण 'देहं' स्थूल देहमाप्नोतीत्यर्थः । अभुञ्जनिति परस्मैपदमार्षम् । वाराह इत्यस्याभिलापादित्यनेनान्वयः ॥ (५) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्वयाचष्टे- अशुद्धमिति ॥ 'हिंसारूपत्वात् ' तयुक्तत्वात् । यज्ञादिकर्मण इति शेषः । पापस्येत्यतःप्राक्तत इति संयोज्यम् । न केवलं पुण्यस्येत्यपेरर्थः। दुःखं चेत्यत्रापि तत इति वर्तते । न केवलं पापमिति चशब्दार्थः । अत्रोत्तरं प्रति पूर्वो हेतुतया योज्यः। अनेन यज्ञादि कर्म 'अशुद्धं' दुःखहेतुः । कुतः? यतः अशुद्धं ' पापापादकम् । तत्त्वमपि कुतः ? यतः 'अशुद्धं हिंसारूपमिति पूर्वपक्षांश आवृत्त्या व्याख्यातः। परिहारांशं व्याचष्टे- नेति । इदं चावर्तनीयम् । यज्ञादिकं न दुःखसाधनं, कुतः १ यतो न पाप- साधनमिति । कुतो नेत्यत आह-शब्देति । 'वायव्यं श्वेतमालभेत' (तै. सं. २-१-१.) इत्यादिश्रुतिविहितत्वादित्यर्थः । अनेन सूत्रे शब्दादित्यनन्तरं विहितत्वादिति शेषः कार्य इति सूचितम् । हिंसारूपत्वात्कथं न पाप- साधनत्वमित्यतोऽप्याह-शब्देति । तथाच अनुमानस्य निषिद्धत्वोपाधि- दुष्टत्वमिति भावः॥ (६) स्मृतिविरोधं चाह-हिंसेति ॥ 'अवैदिका' वेदाविहिता। ङीवभाव आर्षः। ठक्भ्यामन्यो वा प्रत्यय इति प्रमेयदीपोक्तिवत् । यद्वा-वैदिकाः शब्दाः अस्यां सन्ति ज्ञापका इति 'अर्शआदिभ्योऽच् , इति अचि कृते वैदिकेति भवति। न वैदिकाऽवैदिकेत्यर्थः। अथ वा- अय गतावित्यस्मात्कर्मणि घम् । तथाच वैदिकशब्दराया वैदिकाया ततो नङ्समासः। अत्र च पक्षे तच्छब्दबलाद्यच्छब्दलाभः । इदं च समाधान- त्रयं ' विद्वद्रुढिवैदिका स्यात्' इत्येतत्सुधारित्या कृतम् । अवैदिकीति पाठः स्वरसः। 'तया' अवैदिकहिंसया 'अनर्थः' पापं दुःखं 'ध्रुवं ब्रह्मसूत्रभाष्यम् [अध्या- ३. पा. १. वेदोक्तया हिंसया तु नैवानर्थः कथश्चन ॥ इति वाराहे ॥ २७ ॥ ॥ इत्यन्याधिकरणम् ॥ १८ ॥ ॥ १९. रेतोऽधिकरणम् ॥ (१) स्वर्गादवाग्गतश्चापि मातुरेवोदरं व्रजेत् । इति वचनात् ‘य एव गृही भवति यो वा रेतस्सिञ्चति तमेवानु- विशति' ( ) इति श्रुतिः कथमिति । निश्चितं भवेत् । तुशब्दो विशेषार्थः। 'कथञ्चन' कमपि प्रकार प्राप्तोऽल्पो वा महान् वा न भवेदिति यावत् । वाराहे उक्तमिति शेषः॥ ॥ इत्यन्याधिकरणम् ॥ १८॥ ॥ १९. रेतोऽधिकरणम् ॥ (१) अत्राधिकरणे स्वर्गादवतीर्णस्य पितृप्रवेशः समर्थ्यते । तत्र रेतस्सिक्पदसूचितं पूर्वपक्षं दर्शयति स्वर्गादिति ॥ स्वर्गादवाग्गतो भू- मि प्रत्यागतश्चेति विशेषसमुच्चये चशब्दः। न केवलं स्वर्गादागतः कर्मी किंतु नरकादपीत्यपेरर्थः। एवकारः पूर्वपक्षे अन्ययोगव्यवच्छेदकः। सिद्धान्ते त्वयोगव्यवछेदकः। इतीति । इति स्मृतिवचनादित्यर्थः। वचना- दित्यस्य न जीवस्य पितृप्रवेशोऽस्तीति ज्ञायते इत्यध्याहृतप्रतिज्ञयाऽन्वयः। न चास्य पितृप्रवेशश्रुतिविरोधः। वचनस्य युक्तिसाहित्येन बलवत्त्वा- दित्याह-य एवेति । यद्यपीयं श्रुतिः शाखान्तरस्थत्वान्नोदाहर्तुमुचिता, किन्तु 'यो यो हन्नमत्ति यो वा रेतः सिञ्चति तद्भूय एव भवति' (छां. ५-१०-६.) इति छन्दोगश्रुतिरेवोदाहार्या स्यात् , 'त इह' (छां ५-१०-६.) इत्यादिवाक्येन सह एकप्रकरणस्थत्वात् । तथापि इति श्रुति- श्चेति चशब्देनास्या अपि समुच्चितत्वात् । श्रुत्यन्तरस्य स्पष्टार्थत्वाच्चोदा- हरणं युक्तम् । अत एव तत्त्वप्रदीपे ‘य एवं गृही भवति यो वा रेतः सिञ्चति' इत्यादिश्रुतिः 'यो यो हन्नमत्ति यो वा रेतः सिञ्चति' इत्यादि कया समानप्रकरणपठितया च सह कथं युज्यत इत्युक्तम्। समानप्रकरण- पठितयेत्यस्य 'त इह' इत्यादिवाक्येन सहकप्रकरणपठितयेत्यर्थः। 'यः' , अधि • १९. सू-२८.] दीपिकासहितम् ५३ (२) अत आह- ॐ॥ रेतस्सिग्योगोऽथ ॥ ॐ॥ २८ ॥ पुरुषो 'गृहस्थाश्रमी भवति, यो वा रेतः सिञ्चति तं पितरमेव प्रविशति जीव इति श्रुत्यर्थः । श्रुतिरिति । श्रुत्युक्ता पितृशरीरप्राप्तिरित्यर्थः । कथ- मित्याक्षेपे । किमर्था निष्प्रयोजनेत्यर्थः । अनेन स्मृतेः पितृप्रवेशे प्रयोजना- भावादिति युक्तियुक्तत्वेन प्राबल्यमुक्तं भवति । ननु श्रुतेर्युक्तययुक्तत्वेऽपि श्रुतित्वेन स्वभावतः प्रबलत्वात्साम्यमित्यतोऽप्याह-श्रुतिः कथमिति आक्षेपोऽयम् । प्रतीतार्थे प्रमाणमिति शेषः। कुत इत्यतोऽत्रापि ' इति वच- नात् ' वचनविरोधादित्युक्त एव हेतुर्योज्यः। तथा च श्रुतेरर्थान्तरपरतया सावकाशत्वेन दुर्बलत्वान्न तद्विरोधः स्मृतेरिति भावः । ननु सावकाशत्वं ममासिद्धमित्यतोऽप्याह-श्रुतिः कथमिति । प्रश्नोऽयं, किमर्थेत्यर्थः । वचनात् ' वचनविरोधादित्यत्रापि सम्बध्यते । तथा च श्रुतिर्यत उक्तवचनविरुद्धाऽतः प्रतीतार्थायोगादर्थान्तरस्यावश्यंभावाकिमर्था श्रुतिः श्रुत्यर्थः क इति सिद्धान्तिनं प्रति वादिना पृष्टे तदा तेनापि श्रुतेरर्थान्तरमेव वक्तव्यम् , न प्रतीतार्थ एवाग्रहः कार्य इति नासिद्धिरिति भावः। 'हि' यतः 'अन्नं' अद्यमत्ति अत एव यो वै रेतः सिञ्चति अतस्तद्भूय एव भवति तद्भाव एव तन्मयो वा भवति । अद्यमानान्नानुगतः कर्मी 'तमेव रेतस्सिचमेव पुरुषं प्रविशतीति श्रुत्यर्थः॥ (२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे-अत इति ॥ श्रुतेरित्यनेन पूर्व- स्माच्छब्दादित्यनुवर्तनीयमिति सूचितम् । पितरं प्रविशतीत्यनेन रेतस्सि- ग्योग इति पदं व्याख्यातम् । सूत्रे पितृयोग इत्यनुक्त्वा रेतस्सिग्योग इत्युक्तिः शरीरपरिणामाय रेतसोऽपेक्षितत्वात्तस्य च सेचकपुरुषं विनाs- योगात् पितुरेवानुपयोग इति चोद्यानवकाश इति ज्ञापनाय पितृप्रवेशस्त्वी- शक्लृप्तत्वान्न व्यर्थ इति भावः। पितरमेवेत्यनेन रेतस्सिक्पदं सावधारण- मिति सूचितम् । प्रथमत इति सूत्रे शेषोक्तिः। एवकारोऽन्यप्रवेशस्य प्राथम्य- व्यवच्छेदकः।श्रुत्यर्थस्तु-स इत्यस्याकर्षणेन अन्नशब्दस्य चाध्याहारेण 'सः' व्रीह्यादिस्थो जीवः 'ततः' अथान्नेन सह पितरमेव प्रविशतीति तत्त्वप्र- दीपोक्तो बोध्यः । 'अथ' पितृप्रवेशानन्तरं 'प्रसूयते' उत्पद्यते । एवं चेत् ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा - १. ततो रेतस्सिचमेवानुप्रविशत्यथ मातरमथ प्रसूयते स कर्म कुरुते' इति कौण्ठरव्यश्रुतेः पितरमेव प्रथमतः प्रविशति । मातृप्राप्तेः पश्चादपि भाव्यत्वात् ॥ २८ ॥ ॥ इति रेतोऽधिकरणम् ॥ १९ ॥ - ॥२०. योन्यधिकरणम् ॥ (१) देहं गर्भस्थितं क्वापि प्रविशेत्स्वर्गतो गतः । इति वचनात्पश्चादेव प्रविशतीति । 'मातुरेवोदरं व्रजेत् ' इति वचनमप्रमाणं प्राप्तमित्यत आह–अथेति । तद्व्याख्यान-मात्रिति । अपिः मातृप्राप्तेः प्रथममभावेऽपीत्यर्थे । तथाच मातृप्राप्तेः ' प्रथममभावेऽपि 'पश्चात् ' पितृप्रवेशानन्तरं 'भाव्यत्वात् ' विद्यमानत्वादित्यर्थः। अनेन सूत्रे अत्यनन्तरं मातृप्राप्तिरिति शेषः सू- चितः। तथाच स्मृतेः पश्चात्तनविषयत्वान्नाप्रामाण्यं न वा तद्विरोधः श्रुतेः। स्मृतेः सावकाशत्वादिति भावः। स्मृतिगतैवकारस्तु ब्रजेदेवेत्यन्वितोऽ. योगव्यवच्छेदकः। अन्ययोगव्यवच्छेदकत्वेऽप्यास्तिकादिविशेषविषयम् । उक्तं हि तत्त्वप्रदीपे-मातुरेवाङ्गतः। अतश्चैतदाह-'स्वर्गादवाग्गतो देही मातृरेवोदरं व्रजेत् ' इतीति ॥ ॥ इति रेतोऽधिकरणम् ॥ १९ ॥ ॥२०. योन्यधिकरणम् ॥ (१) अत्राधिकरणे जीवस्य पितृद्वारा योनि प्रविश्य शरीरप्राप्तिः समर्थ्यते । पूर्वपक्षयति-देहमिति॥कर्मी 'रेतोरक्तसंयोगात्पश्चात्' मातृ- योनौ पित्रा सिक्तस्य रेतसो रक्तसंयुक्तस्य देहाकारेण परिणामानन्तरमेव मातृगर्भस्थं पूर्वसिद्धं देहमन्नादिद्वारेण प्रविशतीत्यर्थः । न तु पितृशरीरा- द्रेतसा सह योनिद्वारा मातृशरीरं प्रविश्याथ तत्र देहं प्राप्नोतीति नियम इत्येवकारार्थः। अनेन पूर्वपक्षे योनिप्रवेशो न विद्यते, व्यर्थश्च योनिप्रवेशः, पितृप्रवेशोऽप्ययुक्त शरीरप्राप्तिरप्यनुपपन्नेत्यनेकप्रतिज्ञा सूचिता। सर्वत्रापि 'देहं गर्भस्थितं क्वापि ' इति वचनादिति हेतुर्योज्यः। तद्वच- अधि - २०. सू - २९.] दीपिकासहितम् - (२) अत आह- सू-ॐ ॥ योनेः शरीरम् ॥ ॐ ॥ २९ ॥ पितृशरीरान्मातृयोनिमनुप्रविश्य तत एव शरीरमाप्नोति । (३) 'दिवः स्थास्नूनगच्छति स्थास्नुभ्यः पितरं पितुर्मातरं मातुः शरीरं शरीरेण जायत इति सम्मितम् । अथासम्मितं नस्य वर्गाद्भूमिं गतो जीवः पितृगर्भस्थितं पितुः सकाशात्संस्पर्शद्वारेण मातुरुदरस्थगर्भस्थितं वा प्रागसिद्धशरीरं क्वापि क्वचिन्मातृस्थरेतसैव परिणतं मातृगर्भस्थितं वा प्राक्सिद्धशरीरं मात्रुपभुक्तानादिद्वारेण पितुर्मातुरुदरस्थगर्भस्थितं वा प्रागसिद्धशरीरं प्रविशेदिति व्याख्यानेनोक्त- साध्यचतुष्टयेऽपि हेतुबोधकता द्रष्टव्या ॥ (२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे-अत इति ॥ पितृशब्दो रेत- स्सिक्परः । अनेन सौत्रो योनिशब्दो बीजपुरुषाधुपलक्षक इति सूचितम् । पितृशरीरादिति ल्यब्लोपनिमित्ता पञ्चमी । प्रथमत इति शेषः । योनिमनु- प्रविश्येत्यनेन सौत्री पञ्चमी ल्यब्लोपनिमित्तेति ज्ञापितम्। 'ततः' अनन्तरम् । अनेन सूत्रेऽथशब्दानुवृत्तिस्सूचिता । एवकारो भिन्नक्रमः । तथाच स्वर्गादवागतो जीवो वृष्टिद्वारा ब्रीह्यादिबीजेषु सङ्कान्तो रेत- स्सिक्पुरुषस्य शरीर प्रविश्यैव अथ ततो रेतसा सह मातृयोनिद्वारा तदुदमनुप्रविश्य ततस्तत्रैव प्रागसिद्धं कललबुद्रुदादिक्रमेणोत्पन्नं शरीरं प्राप्नोति, न तूतक्रमातिकमेणेति सावधारणप्रतिज्ञार्थः ॥ (३) यथोक्तं सुधायाम् नैतद्युक्तमप्रामाणिकत्वादिति। अतोऽत्र प्रमाणमाह-दिव इति ॥ 'दिवः' स्वर्गाद्भमि प्रत्यागतो जीवः 'स्थास्तून् ' स्थावराणि व्रीह्यादिशरीराणि 'गच्छति' प्राप्नोति । स्थास्नुभ्यः पितरं गच्छति । पितुस्सकाशाद्योनिद्वारा मातरं गच्छति। मातुस्सकाशाच्छरीरं प्रागसिद्धं गच्छति । ततश्शरीरेण युक्तो जायत इत्येवं 'सम्मितं' विद्यातप- आदिविशेषकारणमन्तरेण साधारणं जन्मोक्तमित्यर्थः। सूत्रेऽनुवृत्तस्याथ- शब्दस्य योने शरीरमापद्यते नापद्यते च क्वचिदित्यर्थान्तरार्थत्वमभिप्रेत्य तत्र प्रमाणमाह-अथेति । अथान्यत् ' असम्मितं' तपोज्ञानादिविशेष- ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा - १. . स्थास्तुभ्यो जायते पितुर्मातुरन्तरे वा गर्ने वा बहिर्वा' इति पौष्यायणश्रुतेः। (४) स्थावराणि दिवः प्राप्तः स्थावरेभ्यश्च पूरुषम् । कारणकमुत्तममुत्तमाधिकारिभिरेव लभ्यमसाधारणं जन्मेत्यर्थः। इति सम्मितमित्यादिशेषवाक्योदाहरणेन 'देहं गर्भस्थितम् ' इत्यादिप्रागुदा- हृतवचनस्य साधारणजन्मविषयत्वेन गतिरुक्ता भवति । 'स्थास्नुभ्यः स्थावरेभ्यः । कश्चिजीव इति शेषः । यथा शुकादिः अरण्यादेः। 'पितुः जायते कश्चित् , यथा मान्धातृप्रमुखाः । 'मातुः' जायते, यथा जरत्का. र्वाद्यनुग्रहादास्तिकादिः। 'अन्तरे' स्थानान्तरे, यथा धृष्टद्युम्नादिरग्नौ । यद्वा-'अन्तरे' मातापित्रोमध्ये अन्योन्यदर्शनमात्रेणेत्यर्थः। उदाहरणं तूक्तमेव । तत्त्वप्रदीपे तु अन्तरे द्रुपदादयः इत्युक्तम् । 'गर्भ' पूर्वमेव सिद्धं शरीरं केचित्प्रविशन्ति यथा श्रीमध्वाचार्याद्याः। तदुक्तं मध्वविजये- 'सम्पूर्णलक्षणचणम्' इत्यादिनेति केचिदाहुः। तच्च तत्त्वप्रदीपे तेषां बहिःप्रवेशोक्तया विरुद्धम् । अत एव तत्त्वप्रदीपे-अत्यन्तविशिष्टविषय बहिःप्रवेशवचनमवगम्यत इत्युक्तम् । अत्यन्तविशिष्टास्तु ऋजव एव । न च टीकायां बहिर्द्वपदादय इत्युक्तिविरोधः। तस्याः पितृमात्रपेक्षया मातुरु- दरादहिरित्यर्थाश्रयेण प्रवृत्तत्वात्। तत्त्वप्रदीपस्य च मातापित्रुभयबहिर्गतो. भयनिरपेक्षदेह विषयत्वात् । यथोक्तं तत्त्वप्रदीपे-सञ्जाते शरीरे प्रवेष्टुर्गर्भ- वासप्रसूत्यादिदुःखग्रामलेशस्पर्शाद्विनैव ' यथाकामं देहग्रहणसम्भवात्तस्य च जन्मभाजामतिदुर्लभत्वादतो नारायणपरायणस्य कस्यचित् तत्प्रसाद- सामग्रीसमुद्भतप्रभावस्यैव तत्सुलभमुपलभामहे । स्वयं चावोचत् 'बीजपूरुषयोनीनाम्' इत्यादि। तहिनिर्गतशरीरप्रवेशेन जनन- मित्यर्थः । तस्मात् ऋजुव्यतिरिक्ता एव गर्भ इत्यत्रोदाहरणीयाः। अत एव टीकायां गर्भे पूर्वसिद्धशरीरं केचिदिति सामान्येनोक्तं, न त्वाचार्या इति। तस्माद्गर्भ इत्येतत् ऋजुव्यतिरिक्तजीवविषयं, बहिरित्ये- तत् ऋजुविषयमिति विवेको द्रष्टव्यः। श्रुतेरित्यस्य पितृशरीरादिति प्रतिज्ञयाऽन्वयः॥ (४) श्रुत्यर्थनिर्णयायात्र स्मृति चाह-स्थावराणीति ॥ 'जन्तुः .

अधि - २०. सू.२९.] दीपिकासहितम् ५७ पुरुषात् स्त्रियमापनस्ततो देहं यथाक्रमम् ॥ देहेन जायते जन्तुरिति सामान्यतो जनिः । विशेषजननं चापि प्रोच्यमानं निबोध मे ॥ स्थास्नुष्वथापि पुरुषे प्रमदायामथापि वा । गर्ने वा बहिरेवाथ कचित्स्थानान्तरेषु च ॥ इति ब्राह्मे ॥ २९ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये तृतीयाध्यायस्य प्रथमः पादः , कर्मिजीवः 'दिवः' स्वर्गात् 'स्थावराणि' व्रीह्यादीनि प्राप्तो भवती- त्यन्वयः। एवमुत्तरत्रापि 'यथाक्रम' उक्तक्रममनतिक्रम्य 'देहेन' तद्विशिष्टः 'सामान्यतः' साधारणम् । 'विशेषजननं ' असाधारणं जन्म प्रोच्यमान' प्रवक्ष्यमाणं 'मे' सकाशान्मयेति वा 'निबोध' जानीहि। प्रमदायां' भार्यायां जरत्कार्वादो। स्थास्नुवित्यादेख्दाहरणानि तु पूर्वोक्तान्येव द्रष्टव्यानि । 'ब्राह्मे' उक्तत्वादिति शेषः। अस्यापि पितृ शरीरादिति प्रतिक्षयाऽन्वयः॥ ॥ इति योन्यधिकरणम् ॥ २० ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्नाथयतिना कृतायां श्रीमब्रह्मसूत्रभाष्यदीपिकायां तृतीयाध्यायस्य प्रथमः पादः 8 ब्रह्मसूत्रभाष्यम् [अध्या- ३. पा- २. ॥ अथ द्वितीयः पादः॥ ॥ १. सन्ध्याधिकरणम् ॥ (१) भक्तिरस्मिन् पाद उच्यते । भक्तयर्थ भगवन्महिमोक्तिः । सू-ॐ ॥ सन्ध्ये सृष्टिराह हि ॥ ॐ ॥ १ ॥ न स्वप्नोऽपि तं विना प्रतीयते । . . ॥ १. सन्ध्याधिकरणम् ॥ (१) एतत्पादप्रतिपाद्यं दर्शयति-भक्तिरिति ॥ यद्दाढर्यार्थ वैराग्यं निरूपितं पूर्वपादे, या चोपासनस्याङ्गं सा भक्तिरवसरप्राप्ता 'अस्मिन्' तृतीयस्य द्वितीयपादे ' उच्यते' निरूप्यत इत्यर्थः। ननु भक्तिरुच्यत इति कोऽर्थः। किंतत्स्वरूपं निरूप्यते ? उत तत्कर्तव्यता विधीयते । नाद्योऽ (ऽनु- पलम्भात्। न द्वितीयः, स्नेहरूपायास्तस्याः पुरुषप्रयत्नायोग्यत्वेन तत्कर्तव्यताविधेरयोगादित्यत आह-भक्तयर्थमिति । माहात्म्यज्ञानपूर्व- कस्नेहो भक्तिः, तदुत्पादनार्थमित्यर्थः। तथाच भक्तिरुच्यत इत्यस्य भक्तयैकदेशोपायज्ञानविषयमाहात्म्यमुच्यत इति वा, भक्तयैकदेशोत्पाद- नार्थं माहात्म्यमुच्यत इति वाऽर्थाश्रयणान्नानुपपत्तिरिति भावः। ननु सर्वस्यापि माहात्म्यस्य प्रथमाध्याय एवोक्तत्वात्कथमत्रोक्तिरिति। सत्यम् , उक्तिरित्यस्य क्वचिद्विवेचनं क्वचित्समर्थनमित्यर्थाश्रयणात् । क्रियत इति शेषः । अत्राधिकरणे भगवत्प्राप्तिसाधनभक्तयर्थमर्थज्ञानात्मकस्य स्वाप्न- प्रपञ्चस्य भगवदधीनत्वमहिमा वर्ण्यते । मरुमरीचिकाजलादिवत्प्रातीतिक त्वेनासत्त्वान्न स्वप्नविषयस्येश्वराधीनत्वमिति न तस्य महामहिमत्वमिति प्राप्त सिद्धान्तयत्सूत्रं पठित्वा अधिकरणतात्पर्य तावदाह-सन्ध्य इति । स्वप्न इत्यनेन जाग्रत्सुषुप्तिसन्धौ भवं सन्ध्यं स्वप्न इति सन्ध्यशब्दो व्याख्यातः। अपीत्यनेनोत्तरसूत्राञ्चशब्दस्यानुकर्षस्सूचितः । न केवलं जाग्रदादिप्रतीतिः, किन्तु स्वप्नोऽपीत्यपिशब्दार्थः। 'तं' प्रस्तुतं परमा- स्मानमेवेति । अनेन सूत्रे परमात्मन एवेति शेषो दर्शितः । प्रतीयत इत्यनेन सृष्टिशब्दो व्याख्यातः। यथोक्तं तत्त्वप्रदीपे-तत्प्रत्यायनस्यैव सृष्टित्वात् सृष्टिशब्दः प्रतीयत इति व्यख्यात इति । तथाच न केवलं जाग्रदादिप्रतीतिः, . , , अधि - १. सू - २.] दीपिकासहितम् (२) 'न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथ- योगान् पथः सृजते' (बृ. ६-३-१०) इत्यादिश्रुतेः ॥ १॥ (३) सू-ॐ॥निर्मातारं चैके पुत्रादयश्च ॥ॐ॥२॥ ' य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ' (कठ. ५-८.) इति च। 'एतस्माद्धयेव पुत्रो जायते एतस्माद्भातै- किंतु स्वमोऽपि तं विना न प्रतीयते इति योजना। अनेन न केवलं जाग्रदादि- प्रतीतिः, किन्तु 'सन्ध्ये' तद्विषये 'सृष्टिः' प्रतीतिश्च स्वप्नोऽपीति यावत् , परमात्मनस्सकाशादेव भवति, 'न तं विना' तदधीनैवेति परमसाध्यं दर्शितं भवति ॥ (२) ननु न स्वप्नस्य भगवदधीनत्वं युक्तं पश्चाददृष्टरित्यतस्तत्परि- हारत्वेन आवृत्त्या अन्वितस्य सन्ध्ये सृष्टिहीत्यंशस्य 'हि' यतः सन्ध्ये प्रागसतां पदार्थानां परमात्मनः सृष्टिनिरोधश्चाङ्गीक्रियते, अतो नोक्तदोष इत्यर्थमभिप्रेत्यास्याप्रामाणिकत्वशङ्कापरिहारकतया प्रवृत्तं सृष्टिमाह हीति सूत्रांशं व्याचष्टे-नेति ॥ श्रुतेरित्यनेन हिशब्दो वचनकर्तुः शब्दस्य हेतुत्व- सूचकतया व्याख्यातः। तस्यावृत्तिरपि सूचिता । आदिशब्देन 'न तत्रानन्दा मुदःप्रमुदो भवन्ति । अथानन्दान्मुदः प्रमुदः सृजते । न तत्र वेशान्ताः पुष्करिण्यः स्त्रवन्त्यो भवन्त्यथ वेशान्ताः पुष्करिण्यः सवन्त्या सृजते स हि सर्वस्य कर्ता' (बृ. ६-३-१०) इति समग्रवाक्यं निरोधवाक्यं च गृह्यते । बृहदारण्यकश्रुतिरियम् । तत्र' स्वप्नावस्थायां अन्तरिक्षे स्वर्ग मोक्षे वा 'रथा न भवन्ति' पूर्व नासन् । रथैर्युज्यन्त इति रथयोगा अश्वादयश्च पुरा नालन् । तथा ' पन्थानो' मार्गाश्च न प्रागासन् । किन्तु तदैव स आत्मा तत्तत्कर्मानुसारेण रथान् रथयोगान् पथश्च सृजते। तथा आनन्दमुत्प्रमुदः सुखविशेषा न प्राक्स्थिताः, तांश्च सृजते। वेश्यायै दीयमानं वेशं तत्सम्बन्धिनी वेश्यापि वेशेत्युच्यते । प्रवेश्या गृहाः ‘अन्तस्स्थान स्थलं वासः' इति वचनात् । 'पुष्करिण्यः' सरांसि सवन्त्यो' नद्यस्ताश्च सूजते । न केवलं स्वाप्नादीनामेव कर्ता स परमात्मा, किन्तु सर्वस्य जगतोऽपि हीति श्रुत्यर्थः ॥ (३) ननु कर्तुरभावान्न स्वप्नकालीनसृष्टिर्युक्ता। न हि जीवस्तत्कर्ता । सुप्तत्वात्तस्य । नापीश्वरः। तत्प्रमाणाभावात् । न च पक्षद्वयेऽपि सृष्टिरुप- तस्या अन्ताः .

ब्रह्मसूत्रभाष्यम् [अध्या- ३. पा. २. तस्माद्भार्या यदैनं पुरुषमेष स्वप्नेनाभिहन्ति' इति गौपवन- श्रुतिश्च ॥ २॥ (४) केन साधनेन? सू-ॐ॥ मायामात्रं तु कात्स्न्येनानभिव्यक्त- स्वरूपत्वात् ॥ ॐ ॥ ३ । पन्ना। तत्काल एवोत्पत्तिविनाशकर्तुरदर्शनादित्याशङ्कां परिहरत्सूत्रमुप- न्यस्य तत्सूचितश्रुतीरुदाहरति-निर्मातारमिति ॥ इति चेत्यस्य इत्येके शाखिनः ईश्वरं निर्मातारं सन्ध्यकर्तारं आहुरिति सौत्रपदेनान्वयः । चशब्दः आह हीत्युक्तप्रमाणसमुच्चयार्थः। यत इत्यर्थे वा। अतो नेश्वरस्य स्वामकर्तृत्वे प्रमाणाभाव इति वाक्यशेषः। 'यः' पुरुषः पूर्णषड्गुणः पुरि- शयो वा 'एषु' जीवेषु सुप्तेषु सत्सु, तदा 'काम' स्वेच्छानुसारेण 'काम' काम्यं स्वाप्नरथादीन् निर्मिमाणो जागर्ति, तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते (कठ. ५-८.) 'शुक्र' शोकरहितं 'ब्रह्म' पूर्ण 'अमृतं' नित्यमुक्तमित्युच्यते इति कठश्रुत्यर्थः । गौपवनश्रुतिश्चेत्यनन्तरं ईश्वरं सन्ध्यकर्तारमाहेति शेषः। अनेन निर्मेयभूताः स्वाप्नपुत्रादयो हरेरेव जायन्ते इति 'एके शाखिनो' गौपवनाः स्पष्टं 'एतस्मात् ' इत्यादिना आहुरित्यध्याहारावृत्तिभ्यां पुत्रादयश्चेत्यस्यान्वय उक्तः । यदा एनं पुरुषं' जीवं 'एषः' परमात्मा 'स्वप्नेनाभिहन्ति' संयोजयति तदा स्वप्नावस्थायां एतस्माद्धरेरेव पुत्रादयश्च स्वाना जायन्ते। हि प्रसिद्ध मिति श्रुत्यर्थः॥ (४) उपादाननिमित्तयोरभावात्स्वानसृष्टिरनुपपन्नत्याक्षिपति-केनेति ॥ सन्ध्ये सृष्टिरित्यनुवर्तते । तथा च साधनाभावान्न सन्ध्ये सृष्टिर्युक्तेत्यर्थः। एतदाक्षेपपरिहाराय सूत्रमुपन्यस्य व्याचष्टे-मायेति । अनादीति। अनादि- भूतं यन्मनस्त्रिगुणात्मकं तद्गतान् तदुपादानकान् ‘संस्कारान्' पूर्वानु- भूतवस्तुविषयकान् वासनाख्यसंस्कारान् उपादानीकृत्य 'स्वेच्छामात्रेण' निमित्तभूतया स्वेच्छयैव, न तु परापेक्षया मनसा 'प्रदर्शयति' सन्ध्य- मीश्वरो जीवायेति योजना। स्वामशिरश्छेदादीनामसत्त्वपरिहाराय अना- अधि - १. सू - ३.] दीपिकासहितम् अनादिमनोगतान् संस्कारान् स्वेच्छामात्रेण प्रदर्शयति । नान्येन साधनेन । सम्यगनभिव्यक्तत्वात् । (५) ब्रह्माण्डे च- मनोगतांस्तु संस्कारान् स्वेच्छया परमेश्वरः । दिमनोग्रहणम्। तेषामपि इह जन्मनि जन्मान्तरे वा कदाचिदनुभव- सम्भवेन तज्जन्यसंस्कारस्यापि अनादिमनसि स्थितिसम्भवादिति भावः। संस्कारानित्यनेन जैवप्रज्ञापरतया मायाशब्दार्थो व्याख्यातः । त्रिगुणात्मिकाऽथ ज्ञानं च विष्णुशक्तिस्तथैव च । मायाशब्देन भण्यन्ते शब्दतत्त्वार्थवेदिभिः॥ इति वचनात् । स्वेच्छयेति मायाशब्दस्यार्थान्तरोक्तिः । महामायेत्यविद्येति नियतिर्मोहिनीति च । प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यते ॥ इति वचनात् । अनेन मायाभ्यां निर्मितं मायामात्रमिति विग्रहस्सूचि- तः। मनसा प्रदर्शयतीत्यनेन यथा घटादीनां मृदादिभिः सृष्टिश्चक्षुरादिभिः प्रदर्शनं नात्र तथा, किन्तु मनसैव तदुभयमिति सूचितम्। प्रेत्यनेन सन्ध्यस्येश्वरकर्तृकत्वेनाबाधितप्रमाविषयत्वात्सत्यत्वमेवेति सूचितम् । कुतोऽस्य वासनामयत्वं, बाह्यकारणकत्वं किं न स्यादित्याशङ्कोत्तरत्वेन प्रवृत्तं तुशब्दमवधारणार्थमभिप्रेत्य तस्य बुद्ध्या विविक्तमायाशब्दार्थेना- न्वयं प्रदर्श्य तद्वयाव] च दर्शयति-नेति । आन्तरवासनादन्येन 'साध- नेन' मृदादिरूपबाह्यकारणेन न प्रदर्शयति न तदुपादानीकृत्य सन्ध्यं सृजतीत्यर्थः । कुतो नेत्यतस्तत्र हेतुत्वेन कात्नयनेत्यंशं योजयति-सम्य- गिति। जागरितार्थवत्स्वानानां सम्यगभिव्यक्तिरहितस्वरूपत्वादित्यर्थः । अनेन सन्ध्यं 'मायामात्र तु' मायाभ्यामेव निर्मितं, न बाह्यकारण कम्। कुतः ' कात्मन' सम्यगतभिव्यक्तस्वरूपत्वात् । यत एवमतो नोपादानाद्यभावेन सन्ध्यस्य सृष्टयभावः शङ्कय इति सूत्रयोजना दर्शिता भवति ॥ (५) सूत्रार्थ स्मृतिसम्मतिं च दर्शयति-ब्रह्माण्डे चेति ॥ अवधार- णार्थस्तुशब्दः स्वेच्छयेत्यनेन सम्बध्यते। तेन बाह्यसाधनव्यावृत्तिः। , ' ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा. २. प्रदर्शयति जीवाय स स्वम इति गीयते ॥ यदन्यथात्वं जाग्रत्वं सा भ्रान्तिस्तत्र तत्कृता । अनभिव्यक्तरूपत्वान्नान्यसाधनजं भवेत् ॥ इति ॥ ३ ॥ (६) सू-ॐ ॥ सूचकश्च हि श्रुतेराचक्षते च तद्विदः साधनान्तराभावेऽपि भावाभावसूचकत्वेनेश्वरो दर्शयति ।। 'संस्कारान् ' तदुपादानकार्थान् तानुपादानीकृत्य स्वनिर्मित सन्ध्यमिति शेषो वा। स इति। यत्प्रदर्शनं यत्प्रयोज्यज्ञानमर्थश्च स इत्यर्थः। ननु स्वप्नोत्थितस्याविद्यमानानेव करितुरगादीनहमपश्यमित्यनुभवात् कथमु- त्पत्तिस्वानस्योच्यत इत्यत आह-यदिति । तत्र स्वाप्नपदार्थेषु 'यज्जा- ग्रत्त्वं' अहं जाग्रत् जाग्रदिदमिति प्रतीतं यज्जाग्रत्त्वजागरानु भूतपदाथैरेकत्वं घटादीनां मृदाधुपादानकत्वं जलाहरणाद्यर्थक्रिया- कारित्वं चेत्यादि तस्य यतोऽन्यथात्वं बाध्यत्वं 'तदन्यथात्वं' अन्यथा बाध्यमिति केचित् । अतस्तत्प्रतीतिरेव भ्रान्तिनं स्वप्नप्रतीतिः। न च जाग्रत्त्वप्रतीतेः भ्रान्तित्वे मानाभाव इत्यतो विषयान्यथात्वमेव तत्र मानम् , न पृथङ्मानं गवेषणीयमित्याह-सा च तत्कृतेति। 'सा' भ्रान्तिता अन्यथात्वहेतुकृतेत्यर्थः । यद्वा-भ्रान्तिकारणाभावान्न तदुत्पत्ति सम्भव इत्यत आह-सा च तत्कृता ईश्वरकृतेति। अन्यकारणकारण- कत्वाभावे अनभिव्यक्तस्वरूपत्वादिति हेतुः। सम्यगित्यादौ योज्यम् । सन्ध्यमिति शेषः। इति' ब्रह्माण्डे उक्तमिति शेषः। सुत्रकृतेति चार्थः॥ (६) ननु सत्यताशून्यानां स्वानानां बाह्यार्थजन्यत्वाभावाच्छुक्ति- रजतादिवदसत्त्वं स्यादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे सूच- कश्चेति ॥ 'साधनान्तराभावेऽपि' बाह्यकारणजन्यत्वाभावेऽपीत्यर्थः । अनेन वक्ष्यमाणानुमाने उपाधिशङ्का निरस्ता । परोक्तहेतोरप्रयोजकत्वं चोक्तं भवति । अपिः यद्यपितथापीत्यर्थे। अनेन सौत्राद्यश्चशब्दो व्याख्यातः । स्वानानां न सत्त्वहानिरिति शेषः। कुत इत्यत आह-भावाभावसूच- न केवलं अधि - १. सू - ४.] दीपिकासहितम् ६ ३ (७) यदा कर्मसु काम्येषु स्त्रियं स्वमेऽभिपश्यति । समृद्धि तत्र जानीयात्तस्मिन् स्वमनिदर्शने ॥ (छा. ५-२-९) इत्यादिश्रुतेः । हिशब्दाद्दर्शनाच्च । कत्वेन ' शुभाशुभसूचकत्वेन हेतुनेति । सन्ध्यस्येति शेषः। अनेन सन्ध्यः सन्नेव नासन् , कुतः? यतो भावभावसूचकः। न ह्यविद्यमान शाकुनं कस्यचित्सूचकं भवति । न च बाह्यार्थजन्यत्वमुपाधिः। तद्भावेऽपि सन्ध्यस्य शुभाशुभसूचकत्वेन सत्त्वस्यैव निश्चिततया साध्याव्यापकत्वेन तदभावेनासत्त्वसाधनायोगात्। किञ्च-यतः ईश्वरः सन्ध्यं जीवस्य 'दर्शयति' ज्ञापयति। अतोऽपि नासन् न हीश्वरेण सम्यक्प्रदर्शि- तस्यासत्त्वं शङ्काहम्। न च प्रदर्शनेन प्रयोजनाभावः, यतस्सन्ध्यं भावाभावसूचकत्वेन शुभाशुभसूचनाय दर्शयत्यत इति सूत्रखण्डो , व्याख्यातः॥ . (७) स्वाप्नपदार्थानां भावाभावसूचकत्वमे वकुत इत्यतः प्रवृत्तं श्रुते- रित्यंशं व्याचष्टे-यदेति ॥ छन्दोगश्रुतिरियम् । आदिशब्देन 'पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति मर्कट एनं हन्ति' (ऐ. आ. ३.२.४) इत्यैतरेयादिश्रुतिगृह्यते । श्रुतेरित्यस्य सूचक इति साध्येनान्वयः । अत्रैव प्रमाणान्तरपरतया हिशब्द योजयति-हिशब्दादिति । इति सृचित- मिति शेषः । न केवलं श्रुतेः, किन्तु 'दर्शनात् ' साक्षिप्रत्यक्षाच्च प्रत्यक्षतः फलदर्शनाद्वा सन्ध्यस्सूचक इति योजना। अनेनाद्यश्चशब्दः श्रुतिप्रत्यक्षयोः समुच्चायकोऽपीत्युक्तं भवति। अत एव प्राक् शुभाशुभसूचकत्वेनेश्वरो दर्शयतीत्येतावदेवोक्त्वा अत्रैव चशब्दः पठित इति ध्येयम् । काम्येषु कर्मसु क्रियमाणेषु ‘यदा' यदि स्त्रियमभिपश्यति पुरुषः 'तत्र' तर्हि 'तस्मिन् स्वप्ननिदर्शने' स्वानाख्यनिदर्शने जाते सति स्वस्य ‘समृद्धि' श्रेयोलाभं जानीयादित्यर्थः। कृष्णं कृष्णदन्तं वा पुरुषं मर्कटं वा यदि स्वप्ने पश्यति जीवस्तदा 'सः' स्वप्नदृष्टपदार्थः 'एनं' द्रष्टारं 'हन्ति' हननसूचको भवतीत्यर्थः । यद्यप्यत्र ज्ञानस्यैव शुभाशुभसूचकत्वं प्रतीयते न त्वर्थस्य । उक्तं हि न्यायामृते-'पुरुषं कृष्णं कृष्णदन्तं पश्यति' इत्यादिश्रुत्या ज्ञानमेव सूचकम् , स्वाप्नज्ञानमेव अर्थक्रियाकारीति च। तथापि अर्था . , ..

ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा- २. (८) यद्वाव ब्राह्मणो ब्रूयाद्देवता वृषभोऽपि वा । स्वमस्थमथ वा राजा तत्तथैव भविष्यति ॥ इत्याचक्षते च स्वमविदो व्यासादयः ॥ ४ ॥ ॥ इति सन्ध्याधिकरणम् ॥१॥ ॥२. पराभिध्यानाधिकरणम् ॥ (१) सू-ॐ ॥ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ॐ॥५॥ । वच्छिन्नज्ञानस्य सूचकत्वे विशेषणतयाऽर्थस्यापि सूचकत्वलाभादेवमुक्तम् । स्वप्नसत्यतासाधकार्थसत्त्वमन्तरेण वचनसत्यताऽयोगात् अनेन स्वामसत्यता सिद्धिः॥ (८) स्मृतिपरतया आचक्षते च तद्विद इति सूत्रांशं व्याचष्टे- यदिति ॥ वावेत्यवधारणे । वाऽपीत्यपि पाठः। 'यत्' यदि ब्राह्मणो वा देवता वा 'वृषभो' देवश्रेष्ठो वा वृषं बिभर्तीति वृषभो रुद्रो वा अथ राजा वा 'स्वप्नस्थं' स्वप्नावस्थापन्नं जनं प्रति 'यत्' यदेव कार्य ब्रूयात् 'तत् ' तद्वचनं 'तथैव' तथ्यमेव 'भविष्यति' भवेदित्यर्थः। 'इत्या- चक्षते' वदन्ति चेति। चो हेतुसमुच्चये । स्वप्नविद इत्यनेन तद्विद इति व्याख्यातम्। व्यासाद्य इत्यादिशब्दात् मन्वादयो गृह्यन्ते । अनेन यतो व्यासादय इत्याचक्षते अतोऽपि सन्ध्यः सूचकः। न चाप्रयोजकता। यतस्ते तद्विदः अत इति सूत्रखण्डो व्याख्यातः ॥ ॥ इति सन्ध्याधिकरणम् ॥ १॥ ॥२. पराभिध्यानाधिकरणम् ॥ अत्राधिकरणे भगवतः स्वप्नतिरोधायकत्वमहिमा वर्ण्यते । सौत्रतु- शब्देनैव बाह्यार्थज्ञानादेव स्वप्नतिरोधानं नाशः, तस्य तदज्ञानकृतत्वादिति सयुक्तिकपूर्वपक्षस्य सूचनात् सिद्धान्तयत्सूत्रमेवोपन्यस्य व्याचष्टे-परेति ॥ बन्धमोक्षप्रदातृत्वादित्यनेन हिशब्दो हेत्वर्थतया व्याख्यातः। मोक्षेति विपर्ययपदार्थकथनम् । सूत्रे पराभिध्यानादितीच्छाग्रहणेऽपि इच्छेश्वर- अधि - २. सू - ५.] दीपिकासहितम् ३५ वन्धमोक्षप्रदत्वात्स एव स्वमतिरस्कर्ता । (२) स्वमादिबुद्धिकर्ता च तिरस्कर्ता स एव च । तदिच्छया यतो ह्यस्य बन्धमोक्षौ प्रतिष्ठितौ ॥ इति कौर्मे ॥५॥ ॥ इति पराभिध्यानाधिकरणम् ॥२॥ योरैक्यात्स पर ईश्वर एवेत्युक्तम् । न ज्ञानमित्येवशब्दार्थः । अनेन तुशब्दो व्याख्यातः । स्वप्नतिरस्कर्तेति । जीवस्य स्वाप्नपदार्थज्ञानकर्ता तत्तिरस्कर्ता चेत्यर्थः। अनेन सूत्रे तिरोहितमित्युपलक्षणम् । आविर्भूतमिति च द्रष्टव्यम् । सन्ध्यमिति च संयोज्यम् । कर्मणि क्तः। स्वप्नस्य तिरस्कर्ता इति विग्रहे भावेक्तः अस्येति स्वप्नजीवयोरित्युक्तं भवति । न च बन्धमोक्ष- प्रदातृत्वेन कथं स्वप्नतिरोधायकत्वसिद्धिः व्याप्तयभावादिति वाच्यम् । यदभिध्याननिबन्धनोऽनादिबन्धः तद्विमोक्षश्चातिदुरापोऽनन्तकालीनः, स्वप्नतिरोधानादिशक्तिः किं तस्य वर्णनीयेति तत्त्वप्रदीपोक्तरीत्याऽस्य कैमु- त्यपरत्वेन व्याप्त्यनभ्युपगमात् । टीकायां तु यथा 'अस्य' जीवस्य वन्ध- मोक्षावज्ञानज्ञानकृतत्वेन सुप्रसिद्धावपि हि 'बन्धको भवपाशेन भव- पाशाच्च मोचकः' इति वचनात् 'पराभिध्यानात्तु' परमेश्वरेच्छाया एव तद्धीनावेव । नाज्ञानज्ञानकृती तयोरचेतनत्वेनास्वातन्त्रयात् । तथा अस्य ' स्वप्नस्य तिरोधानम् । उपलक्षणमेतत् आविर्भावश्च 'पराभिध्या- नात्' इच्छाऽभिन्नपरमेश्वरादेव जायते, न ज्ञानाज्ञानाभ्याम् । ते तु निमित्तमात्रमिति दृष्टान्तदान्तिकभावपरतया सूत्रं व्याख्यातम् । अनेन ज्ञानाशाने न स्वातन्त्रयेण तिरोभावादिहेतू अचेतनत्वात्तन्निमित्तमात्रत्वेन प्रसिद्धत्वादित्यनुमानं सूचितम् ॥ (२) नेदं दृष्टान्तमूलकानुमानमात्रमिति भावेन सूत्रार्थे स्मृतिं चोदा- हरति-स्वप्नादीति ॥ स्वप्नः अर्थात्मा, तद्बुद्धेः पृथगुक्तत्वात् आदिपदा- जाग्रत् । तिरस्कर्ता स्वप्नादिबुद्धेः। चौ परस्परसमुच्चये । 'सः' ईश्वरः। 'तदिच्छया' ईश्वरेच्छया। 'हिः' प्रसिद्धौ। 'अस्य' जीवस्य । अत्र दृष्टान्तदान्तिकभावः कैमुत्यं वा, आगमाद्वयातेरेव निश्चयोपपत्तेः . , .. . . 9 ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा • २. ॥ ३. देहयोगाधिकरणम् ॥ (१) सू-ॐ ॥ देहयोगाद्वासोऽपि ॥ ॐ ॥६॥ देहयोगेन वासो जाग्रदपि तत एव । (२) ' स एव जागरिते स्थापयति स स्वप्ने स प्रभुस्तुरापाट् स एको साऽप्यभिप्रेयते । इति कौमें चोक्तमित्यन्वयः। न केवलं सूत्रकृतेति चार्थः। ॥ इति पराभिध्यानाधिकरणम् ॥ २ ॥ ॥ ३. देहयोगाधिकरणम् ॥ (१) अत्राधिकरणे विष्णोर्जाग्रत्प्रवर्तकत्वमहिमा निरूप्यते । जाग- रणस्य कालाधीनतायाः प्रत्यक्षसिद्धत्वात् । तस्य च बाधकामावेन भ्रान्तित्वा- योगात् नेश्वराधीनत्वमितिपूर्वपक्षे सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे- देहेति ॥ 'देहयोगेन' स्वदेहाभिमानेन तद्विशिष्टतया वासः स्थिति- रित्यर्थः। अनेन पञ्चमी तृतीयार्थतया व्याख्याता। फलितार्थमाह- जाग्रत् ' जाग्रत्त्वं जाग्रदवस्थेति यावदिति । तत एवेति । पराभिध्याना- देवेत्यर्थः। भवतीति शेषः। न कालजीवादेरित्येवार्थः। तत एवेत्यनेनापेः पराभिध्यानादिति पदानुकर्षकत्वं सूचितम् । यद्वा-अनुक्तसमुच्चाय- कोऽपिः। तथाच न केवलं जाग्रदेव, किन्तु स्वप्नसुषुप्ती अपीति। अत एव 'स स्वप्ने' इति श्रुतिशेषोदाहरणम् । पदद्वयानुवादेन सूत्रे जाग्रदपीति वाच्ये देहयोगाद्वास इत्युक्तिः जाग्रत्त्वेन देहाभिमानेन अवस्थितिः जान- दवस्थेति जाग्रत्वरूपनिर्वचनायेति सूचितम् ॥ (२) ननु जाग्रद्वस्थायाः प्रत्यक्षत एवाहरादिकालाधीनत्वप्रतीतेः कथमीश्वराधीनत्वमुच्यत इत्यतः पूर्वस्माद्धिशब्दमनुवर्त्य सेन अपिना च सूचितां स्मृतिमुदाहरति-स इति ॥ 'सः' ईश्वर एव, न कालजीवादि- रित्यर्थः। 'जागरिते' जाग्रदवस्थायां, जीवमिति शेषः। असामर्थ्यमा- शङ्कयाह-प्रभुरिति । तदुपपादनं-तुराषाडिति । वैरिवेगसह इत्यर्थः। 'तुरं भगस्य धीमहि' (ऋ. ५-८२-१) इति तुरशब्दस्य वायौ प्रयोगात् वायुसह इति वा । नन्वेकस्यानेकावस्थाप्रेरकत्वं कथमित्यत आह–स इति । बहुधा' विश्वतैजसादिरूपेण । श्रुतेरित्यस्य देहयोगेनेत्यादिनाऽन्वयः । " , , अधि - ४. सू - ७.] दौपिकासहितम् ६७ बहुधा भवति' इति कौण्ठरव्यश्रुतेः ॥ ६॥ ॥ इति देहयोगाधिकरणम् ॥३॥ ॥४. तदभावाधिकरणम् ॥ (१) सू-ॐ॥ तदभावो नाडीषु तछूतेरात्मनि ह ॐ॥७॥ जाग्रत्स्वमाभावः सुप्तिः नाडीस्थे परमात्मनि । तथाच कालस्यैव तत्प्रवर्तकत्वे श्रुतिविरोधानिमित्तमात्रविषयं प्रत्यक्षमिति भावः॥ ॥ इति देहयोगाधिकरणम् ॥ ३ ॥ ॥४. तदभावाधिकरणम् ॥ (१) अत्राधिकरणे सुप्तप्राप्यत्वमहिमा वर्ण्यते। नाडीविति पदेन परमात्मन्येव सुप्तिः, न तु नाडीष्वपीति पूर्वपक्षस्य सूचितत्वात् तम- नुपन्यस्य सिद्धान्तयत्सूत्रमेवोपन्यस्य व्याचष्टे-तदिति ॥ न च केवलपर- मात्मनि सुप्तिरिति पूर्वपक्षे भगवतो माहात्म्याक्षेपाभावेन भक्तयनाक्षेपा- कथमयं विरोधीति वाच्यम् । तथासति नाडीसुप्तिप्रतिपादकश्रुतेरप्रा. माण्यापातेन तनयायेन भक्तेः मोक्षसाधनत्वश्रुतेरीश्वरमाहात्म्यप्रति- पादकश्रुतेश्चाप्रामाण्यापातादित्येवं विरोधित्वात् । जाग्रदिति भावप्रधानः। अनेन तयोः जाग्रत्त्वस्वप्नयोरभावः तदभाव इति तद्भावपदं व्याख्यातम् । फलितार्थमाह-सुप्तिरिति । अस्य जीवस्येति वर्तते। अनेन सूत्रे सुप्तिरिति वक्तव्ये तदभाव इत्युक्तिः सर्वेन्द्रियव्यापारोपरतिः सुप्तिरिति सुप्तिस्वरूप निर्वचनार्थेति सूचितम् । एवं तदभाव इति पक्षवचनं व्याख्याय नाडी- वात्मनीति साध्यांशं व्याचष्टे-नाडीस्थ इति। अत्र सूत्रे न श्रुतपदार्थयो- रेवाभेदेनान्वयः,नापि प्रत्येकमन्वयः, किन्तु स्थित इति पदाध्याहारेण सामा- नाधिकरण्येनान्वयः, मन्दिरे मञ्जूषायां मणिमालेत्यत्रेवाधाराधेयभावो वाऽभिप्रेत इति सूचितम् । 'परमात्मनि' भवतीति शेषः । ननु परमात्मन्येव सुतिरस्तु किं नाडीस्थत्वविशेषणेनेत्यतः प्रवृत्तं तच्छ्रुतेरिति हेत्वंशं परमा- , ६८ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा - २. (२) 'आसु तदा नाडीषु सृप्तो भवति' (छा. ८-६-३.) 'सता सोम्य तदा सम्पन्नो भवति । (छा. ६-८-१.) इतिश्रुतेः ॥७॥ ॥ इति तदभावाधिकरणम् ॥ ४ ॥ त्मनो नाडीस्थत्वप्रतिपादकश्रुतिपरतया जीवस्य परमात्मनि सुप्तिप्रतिपाद- कश्रुतिपरतया च व्याचष्टे-आस्विति ॥ इति श्रुतेरिति । इति छान्दो ग्यश्रुतिवचनद्वयादित्यर्थः । श्रुतिद्वयोदाहरणेन नाडीस्थे परमात्मन्येव- सुप्तिः न तु केवलयोः। अन्यथा श्रुतिद्वयानुपपत्तेरिति सूचितम् । तद्यत्रै- तत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानाति ' (छा. ८-६-३.) इति पूर्ववाक्ये 'तत् ' तदा स्वप्नकाले 'यत्र' प्राज्ञे परमात्मनि 'एतत्सुप्तः एष सुप्तः 'समस्तः' उपसंहृतेन्द्रियव्यापारः 'संप्रसन्नः' स्वरूप- सुखानुभववान् 'स्वप्न' स्वाप्नमेव वस्तु न विजानाति, किमु जाग्रस्त्विति प्रकृतो जीवः 'आसु नाडीषु' स्वप्नवहन्नाडीषु नाडी सुषुम्नाख्यां ' सृप्तः' प्राप्तो भवतीत्यर्थः । प्रतिशरीरं नाडीभेदाद्वहुवचनम् । यत्रतत्पुरुषः स्वपिति नाम 'तदा' सुप्तिकाले एष पुरुषः सता' परमात्मना सम्पन्नः' सङ्गतो भवतीति द्वितीयस्यार्थः । सोम्येति श्वेतकेतुसम्बुद्धिः। सूत्रे हेति- शब्दः 'तन्नाडीसंस्थितं विष्णु मध्ये जीवः प्रपद्यते' इति छान्दोग्य- भाष्योदाहृतप्रमाणप्रसिद्धिद्योतकः। अत एव तत्त्वप्रदीपे तदुपन्यासः। . नच अङ्गुष्ठमात्रे पुरुषे कर्णिकाग्रस्थिते हरौ। प्रविशन्ति सुषुप्तौ तु प्रबुध्यन्ते ततस्तथा ॥ इति बृहद्भाष्योदाहृतप्रमाणात्कर्णिकाग्रस्थतयाऽवगतस्य हरेः कथं नाडी- स्थतेति वाच्यम्। मन्दिरे मणिमालेतिवन्नाडीकर्णिकोभयस्थत्वोपपत्तेः। न च ‘देहाङ्गुष्ठमितो देहे जीवाङ्गुष्ठमितो हृदि' इति काठकभाष्योक्तेः देहाङ्गुष्ठमितस्य कथमतिसूक्ष्मनाडीस्थकर्णिकायस्थत्वमिति वाच्यम् । अचिन्त्यत्वादीश्वरशक्तः ॥ इति तदभावाधिकरणम् ॥ ४॥ , अधि - ५. सू - ८.] दीपिकासहितम् ॥ ५. प्रबोधाधिकरणम् ॥ (१) सू-ॐ ॥ अतः प्रबोधोऽस्मात् ॥ ॐ ॥८॥ यतस्तस्मिन् सुप्तिः । (२) 'एष एव सुप्तं प्रबोधयत्येतस्माजीव उत्तिष्ठत्येष प्रमातैष परमः" इति कौण्डिन्यश्रुतिः ॥ ८॥ ॥ इति प्रबोधाधिकरणम् ॥ ५॥ ॥ ५. प्रबोधाधिकरणम् ॥ (१) अत्राधिकरणे हरेः सुप्तप्रबोधकत्वमाहात्म्यं वर्ण्यते । भेरीताडनादे- रेव सुप्तस्य प्रबोधो नेश्वरादिति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे- अत इति ॥ तस्मिन्निति सावधारणम् । तथाच नाडीस्थे परमात्मन्येवे- त्यर्थः। उपलक्षणं चैतत् । तदभिध्यानादेवेति तत्त्वप्रदीपोक्तं द्रष्टव्यम् । सुप्तिरित्यनन्तरं उक्तेति शेषः । अस्येत्य नुवृत्तिश्च कार्या। अनेन यतोऽस्य जीवस्य तस्मिन्नेव तदिच्छयैव सुतिरुक्ता, अतोऽस्यास्मात्परमात्मन एवं तदिच्छयैव सुप्तेः प्रबोधोऽपि नान्यस्मादिति सूत्रयोजनोक्ता भवति । न আসৗজন্ধরা। अङ्गुष्ठमात्रे पुरुष कर्णिकाग्रस्थिते हरौ। प्रविशन्ति सुषुप्तौ तु प्रबुध्यन्ते ततस्तथा ॥ इति वचनविरोधात् । देहाद्देहान्तरगते प्रविशेत्प्राणमेव तु। जीवः प्राणः परात्मानमेवं सुप्तौ . . . . ॥ इति वचनाच्च । मुख्यप्राणद्वारेण स्वान्तनिवेशितस्य जीवस्य तत्प्रेरणामन्त- रेण स्वत एव सुप्त्युद्वोधनशक्तयभावाच्च ॥ (२) ननु मेरीताडनाद्यनन्तरं प्रबोधदर्शनातेषामपि सुप्तप्रबोधहे. तुत्वं सिद्धमिति कथं प्रबोधस्य भगवदेकाधीनत्वं प्रत्यक्षविरोधादित्या- शङ्कापरिहारायातश्शब्दं श्रुतिपरतयाऽपि व्याचष्ट-एष इति । श्रुतिरित्य- नन्तरं यत इत्यनुवर्तते । तथा च 'यतः' एवं कौण्डिन्यश्रुतिरतोऽस्मादेव प्रबोधो भवतीत्यन्वयः। अनेनातश्शब्दस्य तदभावो नाडीष्वात्मनीत्युक्त- ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा.२. ॥ ६. कर्मानुस्मृत्यधिकरणम् ॥ (१) सू-ॐ ॥ स एव च कर्मानुस्मृति- शब्दविधिभ्यः ॥ॐ ॥ ९॥ परामर्शकत्वं तच्छ्रुतेरिति प्रकृतश्रुतिपरामर्शकत्वं चोक्तं भवति । प्रत्यक्षं तु निमित्तमात्रविषयं, अन्यथा सावधारणश्रुतिविरोधादिति भावः। 'एषः' परमात्मैव 'सुप्तं ' जीवं सुप्तेः प्रबोधयति नान्यः। एतस्मादीशा. देव जीव उत्तिष्ठति सुप्तेः । एष एव 'प्रमाता' सुप्तस्य प्रबोधकः । एष परम इति तदुपपादन मिति श्रुत्यर्थः ॥ ॥ इति प्रबोधाधिकरणम् ॥ ५ ॥ ६. कर्मानुस्मृत्यधिकरणम् ॥ (१) अत्राधिकरणे सर्वपुरुषीयसार्वकालिकसर्वावस्थानां भगवद- धीनत्वमहिमा वर्ण्यते । न सर्वेषां सार्वकालीनावस्थाः भगवधीनाः, कि नाम ? केषाञ्चित् किञ्चित्कालीनैवेति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे-स एवेति ॥ चशब्दः शङ्कापरिहारसमुच्चये । केषाञ्चित्पुरुषाणां इत्युपलक्षणम् । कदाचिदित्यपि द्रष्टव्यम् । 'सः' ईश्वरः। स्वप्नादीत्यादि- शब्देन सुषुप्तिः गृह्यते। तुशब्दोऽवधारणे केषाञ्चिदेवेति । तद्वयावर्त्यमाह- नेति । सर्वेषामित्युपलक्षणम् । सर्वदेत्यपि द्रष्टव्यम् । न कदाचित् केषा- श्चित् , किन्तु सर्वदा सर्वपुरुषाणां स परमात्मैव स्वप्नादिकतैति सौत्रचशब्दः साध्यधर्मसमुच्चायकः। यद्वा सौत्रैवशब्दः पुरुषान्तरे कालान्तरे अवस्था- प्रेरकत्वव्यवच्छेदकः। चशब्दस्तु अवधारणार्थः परमात्मनः ईश्वरान्तर- साहित्येन सर्वावस्थाप्रेरकत्वव्यवच्छेदकः । अत एव टीकायां पक्षान्तर- निषेधार्थश्वशब्द इत्युक्तम् । तत्त्वदीपरित्या हेतौ वा चशब्दः। तस्मात्स एव परमात्मा सर्वकर्ता, नान्यो न च किश्चित्स्वभावत एव । स्वभावस्यापि परमात्माधीनत्वादित्यभिप्राय इत्युक्तम्। इति न च मन्तव्यमित्यन्वयः। कुत इत्यतस्तत्र हेतुत्वेन कमत्याद्यशं योजयति-एष ह्येवेति । श्रुताविति- शेषः। 'कर्मणि' सर्वक्रियाहेतुत्वे। तथाच 'एष ह्येव' इति श्रुतावीशस्यैव सर्वकर्महेतुत्वं, नान्यस्येत्येवकारेणान्यत्र क्रियाहेतुत्वस्य ' अवधारणात् १ अधि - ६.सू - १.] दीपिकासहितम् न च केषाश्चित्स्वमादिकर्ता न तु सर्वेषामिति । 'एष ह्येव साधु कर्म कारयति' (को. ३-८), इंति कर्मण्यवधारणात् । (२) प्रदर्शकस्तु सर्वेषां स्वमादेरेक एव तु । परमः पुरुषो विष्णुस्ततोऽन्यो नास्ति कश्चन ॥ इत्यनुसारिस्मृतेश्च । एष स्वमान्प्रदर्शयत्येष प्रबोधयत्येष एव व्यवच्छेदात्स्वप्नादिप्राप्तेरपि क्रियारूपत्वात्स एव सर्वेषां सर्वावस्थाप्रेरको, न केषाञ्चिदिति भावः। अनेन सौत्रकर्मशब्दो लक्षणया कर्मणामीशैका- धीनत्वश्रुतिपर इत्युक्तं भवति । यद्यपि सुधायां श्रुतिस्थः साधुकर्मशब्दो मोक्षजनकज्ञानाद्युपलक्षकः । असाधुकर्मशब्दश्च मिथ्याज्ञानाद्युपलक्षक इत्युक्तम् । तथापि कर्मशब्दस्यात्रोक्तक्रियावाचित्वापरित्यागेन उनिनी- पतिवाक्यपर्यालोचनया उपलक्षणोक्तेरदोषः। व्याख्यालेयं श्रुतिर्वैषम्या- धिकरणे॥ (२) प्रदर्शक इति ॥ स्मृतेरित्यनेन स्मृतेरित्यशोऽनुसारीत्यनेना- न्वित्यशो व्याख्यातः। स्फुटमभिमतार्थाभिधायकत्वमनुसारित्वम् । हेतु समुच्चये चः। स्मृतौ तुशब्दश्वार्थः। यतः स्वप्नादेर्जनकश्चेति तत्त्वप्रदी- पोक्तः। द्वितीयो मुख्यत्वविशेषद्योतकः । सर्वदेति शेषः। तथाच विष्णु- रेव मुख्यतः सर्वदा सर्वेषां स्वप्नादेरवस्थानस्य 'प्रदर्शकः' तत्प्रेरका तजनकश्च एक एव, न तु सद्वितीयः पुरुषान्तरसहितः। स च विष्णुरेव भवेत् , नान्यः, कुतः? यतस्ततः कञ्चन' कोऽपि परमः पुरुषो नास्त्यत इत्यर्थः । इति श्रुतिश्चेत्यन्वयः। यत इति शेषः। अनेन शब्दा- दित्यशो व्याख्यातः। श्रुतावेवशब्दः सर्वत्र सम्बध्यते । अन्यथा स्वप्ना- निति बहुवचनेन सर्वपुरुषसम्बन्धिसार्वकालिकावस्थाप्रेरकत्वलाभेऽपि तस्यान्यस्यापि सर्वावस्थाप्रेरकस्य सत्त्वेऽपि सम्भवेन तद्वयावृत्त्यलाभात्पर- मात्मन एव सर्वावस्थाप्रेरकत्वरूपविवक्षितार्थासिद्धिप्रसङ्गात् । न चाव- धारणस्य पूर्वसम्बन्धस्य प्रयोजनवत्त्वेऽपि परम इति वाक्ये सम्बन्धो व्यर्थ इति वाच्यम् । अन्यस्यापि सर्वावस्थाप्रेरकस्य सत्त्वे तस्यापि परम- त्वप्राप्त्या 'एष होव परमः' इत्यवधारणासम्भव इति बाधकोपन्या- . n :

७२ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा-२ : परम आनन्दः' ( ) इति च श्रुतिः 'आत्मानमेव लोकमुपासीत ' (बृ. उ. ३-४-१५) इति च विधिः॥९॥ ॥ इति कर्मानुस्मृत्यधिकरणम् ॥ ६॥ ॥ ७. सम्पत्त्यधिकरणम् ॥ (१) सू-ॐ ॥ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ ॐ ॥ १०॥ मोहावस्थायां परमेश्वरेऽर्धप्राप्तिीवस्य । सार्थत्वात् । तथाच यतः 'एषः' परमात्मैव 'स्वप्नान् ' स्वप्नावस्थाः 'प्रदर्शयति' संयोजयति जीवान , यतश्चैष एव सुप्तजीवान् प्रबोधयति अत एष एव 'परमः' सर्वोत्तमः 'आनन्दः' पूर्णानन्द इति श्रुत्यर्थः। 'विधिः' परमात्मन एवोगस्यत्वविधायकश्रुतिरिति । अनेन बिधेरित्यंशो व्याख्यातः। अत्रापि चशब्दो योज्यः । यत इति शेषः । अन्यस्यापि प्रेरकस्य सद्भावे तस्याप्युपास्यत्वप्राप्त्या श्रुतौ परमात्मन एवोपास्यत्वाव- धारणानुपपत्तिरिति भावः । श्रुतिस्तु भाक्तनये व्याख्याता ॥ ॥ इति कर्मानुस्मृत्यधिकरणम् ॥ ६॥ ॥ ७. सम्पत्त्यधिकरणम् ॥ (१) अत्राधिकरणे ईश्वरस्यावान्तरावस्थासंस्थितजीवप्राप्यत्वमहिमा निरूप्यते । भगवत्येव मोह इति पूर्वपक्षे मोहावस्थायाः सुषुप्त्यन्तर्भावापत्त्या पृथगवस्थासंस्थितजीवप्राप्यत्वमहिमालाभात् मोहावस्थाया अर्धप्राप्ति- रूपत्वेन ईश्वरतदितराधिकरणकत्वमिति समर्थनेन पृथगवस्थात्वसमर्थन मपि तन्निरूपणोपयुक्तमेव भवति । अत्र भगवत्येव मोहोन तदितरत्रापीति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य प्रतिज्ञांशं तावद्वयाचष्टे-मुग्ध इति ॥ मोहेत्यनेन 'मुग्धे' मूर्छायामिति मुग्धपदं भावार्थकक्तप्रत्ययान्ततया व्याख्यातम् । परमेश्वरेत्यनेन तद्भावसूत्रादात्मनीत्यस्यानुवृत्तिः सूचिता । अर्धप्राप्तिरिति । भगवदुदरे अर्धप्रवेश एवेत्यर्थः। अनेनार्धसम्पत्तिपदं अधि - ७. सू.१०.] दीपिकासहितम् ७३ वत्प्रवेशं व्रजन् (२) हृदयस्थात्पराजीवो दूरस्थो जाग्रदेष्यति । समीपस्थस्तथा स्वप्नं स्वपित्यस्मिन् लयं व्रजन् । यत एवं त्रयोऽवस्था मोहस्तु परिशेषतः । व्याख्यातम् । 'पर' इति सूत्रादनुवृत्तस्य अस्येत्यस्यार्थो जीवस्येति । अनेन न मोह ईश्वर एव, नापि तदितरत्रैव, किन्त्वीश्वरे तदितरत्र चेति सिद्धान्तप्रतिज्ञा प्रदर्शिता भवति ॥ (२) एवं प्रतिज्ञांशं व्याख्याय परिशेषादिति हेत्वंशं व्याख्यातुं प्रति- ज्ञाहेत्वात्मकसमस्तसूत्रार्थे स्मृतिमुदाहरति हृदयस्थादिति ॥ ल्यब्लोप- निमित्त पञ्चम्यौ। तथाशब्दस्समुच्चये। तथाच यदा जीवः ‘परात्' परमात्मानमपेक्ष्य ' दूरस्थः' अक्षिस्थो भवति तदा ‘जाग्रत् ' जाग्रत्त्व- मेष्यति । यदा तु 'समीपस्थः' कण्ठदेशस्थस्तदा स्वप्नावस्थामेष्यति । यदा च 'अस्मिन् ' परमात्मनि लयं' मक्षिकाणां ग्रहगोधिकादेहान्तःप्रवेश- भवति तदा 'स्वपिति' सुप्त्यवस्थां प्राप्नोतीत्यर्थः । ननु जीवस्य दक्षिणाक्षिस्थत्वे दूरस्थत्वं कुतः? तत्रापि 'दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः' (मां.उ. २-२.) इति श्रुतेः विश्वनामकपरमात्म- सामीप्यसत्त्वादित्यत उक्तं हृदयस्थादिति । तथाच नेह यत्किञ्चिद्रू- पात्सामीप्यमभिप्रेतम् , किन्तु हृदयस्थप्राज्ञनामकपरमात्मानमपेक्ष्य, तच्च नातिप्रसङ्गीति भावः। त्रय इत्यावर्तते । लिङ्गव्यत्ययः । अवस्था इति बहु- वचनम् । न तथेति शेषः । तथाच 'यत एवं' उक्तप्रकारेण 'त्रयः' तिनः अवस्थाः' जायदाद्याः परमात्मविदूरत्वतत्सामीप्यतत्प्रवेशार्धप्रवेशाख्य- प्रकारेषु मध्ये 'त्रयः' क्रमेण परमात्मविदूरत्वसामीप्यप्रवेशरूपप्रकार- त्रययुताः, मोहस्तु न तथा, अतः 'परिशेषतः' प्रसक्तप्रतिषेधे परिशिष्य- माणे वुद्धिः परिशेषः, तेन तत्कारणानुमान गृह्यते । तस्मात् मोहः अर्ध. प्राप्तिः' अर्धप्रवेशाख्यप्रकारयुक्त इति ज्ञेय इत्यर्थः । यद्वा-दूरस्थत्वादि- त्रयः प्रकाराः यत एवमवस्थात्रयेऽपि नियुक्ता अतः परिशेषात् ' अवस्था अवान्तरावस्थारूपो मोहोऽर्धप्राप्तिरिति ज्ञेय इत्यर्थः। अस्मिन् पक्षे न लिङ्गव्यत्ययः। अवस्थापदं चैकवचनान्तम् । अवस्थात्रये विनियुक्ता इति प्रकारा इति च शेष इति ध्येयम् । न च हृदि ह्येष आत्मा' (प्र. ३-६.) इति श्रुतेर्ह दिस्थानां जीवानां कथमक्ष्यादिस्थत्वमिति वाच्यम् । देवाना- । . , , 10 ७४ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा. २. अर्धप्राप्तिरिति ज्ञेयो दुःखमात्रप्रतिस्मृतेः॥ इति वाराहे ॥ मंशेन तदितरेषामभिमानातिशयेन प्रकाशगुणेन वा हृदयस्थत्वोपपत्तेः । उक्तं हि देवताविषये बृहदारण्यकभाष्ये- हृदये संस्थितो जीवो विशेषेण हरिस्तथा । चक्षुरादिषु रूपाणि जाग्रत्काले तयोस्सदा ॥ बहूनि सन्ति तान्येव यदैकीभावमाप्नुयुः। हृदयस्थेन रूपेण तदा जीवो न किञ्चन ॥ जानातीति विदुः प्राज्ञाः ॥ इति ॥ न चैवमैतरेयभाष्ये न हि जीवस्याक्ष्यादिषु पृथक्शिरोबारादिकं विद्यते हृदिस्थमेव हि तस्य रूपमित्युक्तिविरोधः। 'पृथक् ' स्वरूपाद्भिन्नं शिर- आदिकं नास्तीति विशिष्टनिषेधाभ्युपगमात् । अन्यथा तयोः 'चक्षुरादिषु बहूनि रूपाणि सन्ति' इत्युक्तिविरोधात् । रूपशब्दितशरीरस्य शिर आदिकं विनाऽयोगात् । अत एव तत्र जागरितेऽप्यक्ष्यादिषु विशेषसन्नि- हितं भवतीत्युक्तम् । देवेतरजीवविषयं वा तद्भाष्य, तथात्वे शिरोबारादि- कमित्यस्य शिरआदिमद्र्पमित्यर्थः। ननु मोहस्यावस्थात्रयातिरेकित्वे परं दूरस्थत्वादिप्रकारत्रयस्यावस्थात्रये विनियुक्तत्वात्परिशिष्टोऽर्धप्रवेशो मोहे भवेत् , तदेव कुत इत्यत आह-दुःखेति। दुःखपद्मात्मकालयोरुपलक्षणम् । प्रतिस्मृतिः अनुसन्धानम् । मात्रपदेन दुःखात्मकालेतरविषयदर्शनं व्या. वर्त्यते । अनेन मोहस्यावस्थात्रयातिरेकित्वं परिशेषात्सिद्धमित्युक्तं भवति । तथा हि-न तावत्सुप्त्यन्तीवो मोहस्य, दुःखानुसन्धानात् । न च तदानीं कारणाभावेन दुःखानुदयात्कथं तदनुभव इति वाच्यम् । मोहात्मा. ग्विषयानुभवजन्यस्य दुःखस्य तदानीमनुसन्धानसम्भवात् । नापि जान- त्स्वप्नयोरन्तर्भावः । दुःखात्मकालातिरिक्तविषयादर्शनात् । अतः परिशेषा- न्मोहस्य पृथगवस्थात्वसिद्धिरिति । यद्वा-अनेन मोहे अर्धप्राप्तिसमर्थ. नाय साक्षादेव परिशेषप्रकारः प्रदर्श्यते । तथाहि-न सुप्ताविव मोहे समग्रप्राप्तिः दुःखानुसन्धानात् । नापि जाग्रत्स्वप्नयोरिवाप्राप्तिरेव, दुःख- मात्रानुसन्धानेन अन्यार्थादर्शनात् । अतः परिशेषादर्धप्राप्तिरेवेति । वाराहे उक्तमिति शेषः । न केवलं सूत्रे, किन्तु वाराहे चेति चशब्दार्थः॥ ..

अधि - ७. सू. १०.]
दीपिकासहितम्
७५
.
(३) सोऽपि तत एवेति सिद्धम् ।
(४) मूर्छाप्रबोधनं चैव यत एव प्रवर्तते ।
स ईशः परमो ज्ञेयः परमानन्दलक्षणः ॥
इति कौमें ॥ १० ॥
॥ इति सम्पत्त्यधिकरणम् ॥ ७ ॥
(३) ननु मोहे जीवस्य अर्धप्रवेशरूपावस्थानमेव चिन्त्यते । तद-
युक्तम् । मोहस्येश्वराधीनतायाः असिद्धत्वेन तस्यैवेह चिन्त्यत्वात् ।
केवलैतच्चिन्तनस्य व्यर्थत्वात् । न च शङ्काकारणाभाव इति वाच्यम् ।
मोहे आघातव्याध्यादिकारणान्तरस्यापि दर्शनेन तस्येश्वरानधीनत्वशङ्को-
दयात् इत्यत आह-सोऽपीति ॥ अपिशब्दस्समुच्चये। तत इत्यावर्तते ।
भवतीत्यध्याहारः। तथाच यतः न केवलं स्वप्नादिः, अपि तु
मोहोऽपि तद्बोधश्च 'तत एव' ईश्वरादेव भवतीति, 'तत एव ' कर्मा
नुस्मृत्यादिपूर्वोक्तहेतुत एव सिद्धम्। अतस्स ततोऽन्यतो वेति चिन्ता न
क्रियत इत्यन्वयः॥
(४) ननु कर्मानुस्मृत्यादेः साध्यसङ्कोचः कार्यः। अन्यथा घातादि-
बाह्यकारणदर्शनविरोध इत्यतो निमित्तकारणविषयं तत् , अन्यथा विशेष-
स्मृतिविरोधादिति भावेन तां स्मृतिमुदाहरति-मूर्छति ॥ इदं च व्यस्त
समस्तं च । समासे मूर्छायाः प्रबोधनमिति विग्रहः । चस्समुच्चये। तथा
च मूर्छा मूर्छायाः प्रबोधनं च 'यतः' यस्मादेव 'प्रवर्तते' उत्पद्यते स
परम ईशः परमेश्वर एव शेयो, न ब्रह्मादिजीवः। कुतः? यतः सः
'परमानन्दलक्षणः' परमः उत्तमः पूर्णो वा आनन्दः स्वरूपलक्षणं यस्यासौ
तथोक्तो नान्योऽत इति योजना । कौमें उक्तमिति शेषः। अस्यातः सोऽपि
तत एवेति पूर्वेणान्वयः। तथाच मोहावस्थाया ईश्वराधीनत्वस्य पूर्वन्याय-
सिद्धत्वेन अविचार्यत्वात् अनिश्चितस्वरूपायाश्च तदधीनत्वज्ञानायोगात्
अवस्थास्वरूपविचारोऽपि तदधीनत्वप्रतिपत्तिहेतुत्वात् सार्थक एवेति
.
भावः॥
॥ इति सम्पत्त्यधिकरणम् ॥ ७ ॥

७६ ब्रह्मसूत्रभाष्यम् [अध्या- ३. पा-२. ८. न स्थानतोऽप्यधिकरणम् ॥ (१) स्थानापेक्षया परमात्मनो भेदादनुग्राह्यानुग्राहकभाव इति । (२) अत आह- सू-ॐ ॥ न स्थानतोऽपि परस्योभय- लिङ्गं सर्वत्र हि ॥ ॐ ॥ ११ ॥ ८. न स्थानतोऽप्यधिकरणम् ॥ (१) अत्रेश्वरस्य सर्वरूपेषु निर्दोषाशेषगुणत्वं समर्थ्यते । तत्र नस्थान- तोऽपीत्यनेन सूचितं पूर्वपक्षं दर्शयति-स्थानेति ॥ स्थानानां सुरनरादि- सर्वशरीराणां तत्रापि दक्षिणाक्ष्यादीनां अपेक्षया तद्भेदापेक्षया स्थानभेदा- निमित्तादिति यावत्। न केवलं स्थानानां, किन्तु स्थानिपरमात्मनोऽ- पीति वा न केवलमात्मनां जीवानां अनात्मनां पटादीनां, किन्तु परमात्मनोऽ. पीति वाऽपिशब्दार्थः । ततः किमित्यतोऽनिष्टमापाद्यमाह-अनुग्राह्येति । स्यादिति शेषः । अपिशब्दोऽत्रापि सम्बध्यते । परमात्मन इति पञ्चमी षष्ठी च । तथा च परमात्मनः सकाशाद्धटादीनां स्थानभेदा ददर्शनात् तत एव भेदनिमित्तकगुणादितारतम्यस्यापि दर्शनात् तत एवानुग्राह्यानुग्राहक भावदर्शनात् तद्वद्विश्वादिरूपिणः परमात्मनोऽपि परस्परं स्थानापेक्षया भेदात्' भेदप्राप्तेः तत एव गुणादितारतम्यमनुग्राह्यनुग्राहकभावश्च स्यादिति योजना । एवंच स पवेत्युक्तमयुक्तमिति भावः ॥ (२) एवं पूर्वपक्षं प्रदर्श्य सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे--अत इति ॥ न केवलं स्वतः, किन्तु 'स्थानापेक्षया' स्थानभेदादपीत्यर्थः । अनेन सूत्रे स्थानपदं तद्भेदोपलक्षकं, सप्तम्यर्थे च तसिरित्युक्तं भवति । परस्ये- त्यस्य व्याख्या-परमात्मन इति । सूत्रे परस्योभयत्वमित्येवोक्तौ वियदा- दिवत्पाणिपादाद्यवयवरूपैकैकदेशतोऽनेकस्थानस्थितत्वं तत्रैव भेदाभावश्च विज्ञायेत तदुभयं प्रमाणासिद्धम् , परमात्मा नैकैकदेशतः अनेकस्थानः एकदेशतोऽपि पूर्णत्वादिति युक्तिविरुद्धम् , ' सप्ताङ्ग एकोनविंशतिमुखो विश्वः' (मा २-३. ) इति स्पष्टश्रुतिविरुद्धं च। अतस्तन्मा विज्ञायीति उभयलिङ्गमित्युक्तम् । तत्र भिन्नमित्यनेनोभयपदं व्याख्यातम् । रूपमित्य- . .

अधि. ८. सू. ११.] दीपिकासहितम् स्थानापेक्षयापि परमात्मनो न भिन्न रूपम् (३) ' सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते' (ऐ. आ. ३-२-३.) इति श्रुतिः। नेन लिङ्गपदं, 'लिङ्गं स्वरूपमुद्दिष्टम्' इति वचनात् । रूपस्वरूपशब्दयोश्च पर्यायत्वात् । तथाच पूर्वपक्षे विश्वादिरूपिणो हरेः समग्ररूपेणैव भिन्न- स्थानस्थितत्वहेतुको भेदो ज्ञायत इति भावः। सिद्धान्ते न भिन्नमिति विशिष्टनिषेधो विशेषणीभूतभेदनिषेधपर्यवसितः। भेदशब्देन च सुघोक्त- रीत्या अन्योन्याभावस्य तत्साध्यगुणादिकृतहीनाधिकभावस्य तत्साध्यानु- ग्राह्यानुग्राहकभावस्य च ग्रहणम् । उभयशब्दस्य भिन्नार्थत्वं चोभशब्द- पर्यायत्वात्सिद्धम्। तच्च ' उभादुदात्तः' इति सूत्रवृत्तिसिद्धम् । सूत्रे रूपमित्यनुक्त्वा लिङ्गमित्युक्तिः न स्थानापेक्षयाऽपि परमात्मनो भिन्नं रूपं, न हि स्थानभेदस्तस्योभयत्वस्य लिङ्गं कारणं वा भवति । स्थानभेदेऽपि तद्तवस्त्वेकत्वोपपत्तेः । स्वप्नाद्यवस्थाभेदेऽपि तद्वतो भोक्तुरेकत्ववदिति तत्त्वप्रदीपे, न स्थानमेदस्तद्भेदस्य ज्ञापकः कारको वा स्यादिति आनन्द- मालायां चोक्त स्यार्थान्तरस्य ज्ञापकत्वरूपस्य ज्ञापनार्था । तदपि पूर्वपक्ष्य- भिमतहेतोरप्रयोजकत्वोद्धाटनार्थम् । तथाच तत्त्वप्रदीपकारस्य स्थानत इति प्रथमार्थ तसिः। उभयमिति च भावनिर्देशः। तस्य द्वित्वपर्यायत्वा- द्भेदत्वम् । लिङ्गत्वं च ज्ञापकत्वं कार णत्वं वाऽभिप्रेतम् । परमात्मनो रूपं विश्वादिलक्षणं स्थानभेदान्न भिन्नं ज्ञेयमिति भाष्यार्थश्वाभिप्रेत इति ध्येयम् ॥ (३) कुतो नेत्यतस्तद्धेतुत्वेन प्रवृत्तं सर्वत्र हीति सूत्रखण्डं व्याचष्टे- सर्वेष्विति ॥ इतिशब्दः प्रकारवाची । एकत्वमेकवचनार्थः। तथाच 'सर्वेषु भूतेषु' सुरनरादिदेहेषु तत्रापि चक्षुरादिस्थानेषु 'पतं' परमात्मानमेकमेव 'ब्रह्म' पूर्णगुणमाचक्षते विद्वांस इति श्रुत्यर्थोऽत्राभिप्रेतः। सर्वत्राधि- करणेषु नैवं इति । 'हि' इति श्रुतिरैतरेयेऽस्तीति शेषः ॥ तथाच 'हि' यतः परस्य 'सर्वत्र' सर्वेषु नैवं निर्दोषाशेषगुणत्वाभेदप्रतिपादिका 'सर्वेषु भूतेषु' इति श्रुतिरस्ति अतो न तस्य स्थानभेदात् उभयं लिङ्गं मन्तव्य- मिति योजना॥

ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा- २. (४) एकरूपः परो विष्णुः सर्वत्रापि न संशयः। ऐश्वर्याद्रूपमेकं च सूर्यवद्वहुधेयते ॥ इति मात्स्ये। (५) प्रतिदृशमिव नकधार्कमेक समधिगतोऽस्मि विधूतभेदमोहः । इति च भागवते ॥११॥ (४) ननु हरेः समग्ररूपेणानेकस्थानस्थितत्वं कथमुपपद्यते तदन्य- त्रादृष्टत्वादित्यतः सर्वत्रेत्यनेन सूचितां सर्वत्रेतिपदघटितां स्मृतिमुदा- हरति एकरूप इति ॥ रूपशब्दोऽवतारधर्मपरः। अपिरभिव्याप्तौ। तथा च विष्णुः सर्वत्रापि स्थानेषु गुणादिभिरवतारैश्चैकरूप एव अभिन्नरूप एवास्ति, न भिन्नो न वा हीनाधिकरूपः । स च सर्वत्र 'परः' अवयवैः पूर्ण एव, न त्वेकदेशेन स्थितः। कथमेतदित्यत आह-'ऐश्वर्यात् ईश्वरत्वादिति । चोऽप्यर्थः । तथाचैकमपि तद्रूपं ऐश्वर्यात् बहुधा अनेक- स्थानेषु सामग्रयेणैव सूर्यवत् अनेकधा स्थितं ज्ञायते इत्यर्थः। सूर्यवदि- त्युक्त्या अन्यत्रादृष्टशङ्का निरस्ता । 'मात्स्ये ' पुराणे उक्तमिति शेषः ॥ (५) सूर्यदृष्टान्तं स्पष्टयन् उक्तार्थे स्मृति चाह-प्रतिशमिति ॥ इदं च- तमिममहमजं शरीरभाजां हृदि हृदि विष्ठितमात्मकल्पितानाम् । इति पूर्वार्धेन सह व्याख्येयम् । तथाहि-'प्रतिदृशं' दृशं दृशं प्रति चक्षुर- भिमानितया तन्नियामकत्वेनैश्वर्यवशात् 'नैकधा' नसमासः। अनेकरूपेण स्थितमर्कमिव तं यथा एकमेव समधिगच्छति ज्ञानी, तथा अहमपि आत्मकल्पितानां' परमात्मसृष्टानां 'शरीरभाजां' जीवानां 'हृदि हृदि' प्रतिहृदयं 'विष्ठितं ' समग्ररूपेणैव विविधतया स्थितं 'तं' ईश्वरं 'इममजं' कृष्णं एकत्वसङ्ख्याविशिष्टमभिन्नं भेदमोहो भेदोऽस्तीति व्यामोहो विधूतः अवतारगुणादिषु निरस्तो भेदभ्रमो यस्य सः, समधि- गतोऽस्मीत्यर्थः । करचरणादिरूपसामग्रयमात्रेऽयं दृष्टान्तः न तु द्रव्यपूर्ति- रूपेऽपि । सूर्यस्य ईश्वरवच्चक्षुरादिषु द्रव्यपूर्त्या स्थित्यभावादिति ध्येयम् । n ७९ " अधि - ८. सू . १२.] दीपिकासहितम् (६) सू-ॐ ॥ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ ॐ ॥ १२॥ कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिध्यतः ॥ (मा. २-१६.) इति भेदवचनान्नेति चेत्- यद्वा-'प्रतिदृशं' दृशं शं प्रति मा प्रति मा प्रत्ययं वर्तत इति नैकया बहुनामाभिमुख्येन स्थितमर्कमेकमेकमिव ईश्वरमप्यहं एकं समधिगतोऽ. स्मीत्यर्थः। न चास्मिन् पक्षे सूर्यस्य वस्तुतोऽनेकस्थानत्वाभावात्कथमस्य पूर्वप्रमाणगतसूर्यदृष्टान्तस्पष्टनरूपत्वमिति वाच्यम् । मां प्रति मां प्रतीति भ्रान्त्या बहुधा व्यवस्थितस्य सूर्यस्य यथैकत्वज्ञानमित्येवंस्पष्टनरूपत्वसम्भ- वात् । इति चेति । न केवलं मात्स्ये, किन्तु भागवते चोक्तार्थोऽभिहित इति चशब्दार्थः। प्रथमस्कन्धे युधिष्ठिरं प्रति भीष्मवाक्यमेतत् । (६) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्वयाचष्टे- नेति ॥ भेदवचनादित्यनेन भेदशब्दो वचनपरतया व्याख्यातः । शेषित्वा- देरुपलक्षणमेतत्। तथाच ‘कार्यकारणबद्धौ ' इति भेदकधर्मोक्तिमुखेन भेदोक्तेविश्वाद्यात्मनः परस्यानुग्राह्यानुग्राहकभावान्न तस्याभेदो निर्दोषत्वं गुणपूर्णत्वं च युक्तमित्यर्थः। 'सर्वत्र हि' इत्युक्तानुमानं तु प्रतिपक्षि- तत्वादसाधकमिति भावः। 'कार्य' इति माण्डूकश्रुतौ कार्यशब्देनाज्ञान- कार्यस्वातन्त्रयभ्रमरूपं वा, तत्त्वप्रदीपोक्तरीत्या प्रकृतिकार्यदेहेन्द्रियादि विषयकममताभिमानादिरूपं वा, जागरणं जाग्रत्कालीनभ्रमकार्यभूतभ्रम- रूपस्वप्नश्च विवक्षितः। न च स्वप्नस्य जाग्रत्कालीनभ्रमकार्यत्वं कथमिति वाच्यम्। जाग्रत्कालीनभ्रमाहितसंस्कारात्स्वप्नकालीनजाग्रत्त्वभ्रमोत्पत्ति- सम्भवात् । कारणशब्देन तु अज्ञानं वा, भ्रान्तिकारणप्रकृति, 'स्वप्ना- दुत्थाने तैजसाद्विभक्तो विश्वः' इति माण्डूकभाष्योक्तेः जाग्रदवस्थाकारणं खप्नो वा विवक्षितः । बद्धत्वं च सिद्धान्ते बन्धखामित्वम् । पूर्वपक्षे बन्ध कत्वे अवान्तरभेदादेव रूपभेदो वक्तुं शक्यः । तथापि सिद्धान्ते पूर्वपक्ष्य- भिमतबद्धत्वनिरासाय वयाख्यानपरस्मृत्युदाहरणात्पूर्वपक्षे बद्धत्वमेवा- ~ - ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा-२ . (७) न, 'एष त आत्माऽन्तर्याम्यमृतः' (बृ. ५-७-३.) अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ' (बृ. ४-५-१.) 'अयं वै हरयोऽयं वै दश च सहस्राणि च बहूनि चानन्तानिच भिप्रेतम् । अत एव टीकायां उभयपरबद्धशब्दप्रयोगः। अत्र कार्य च कारणं चेति, कार्य कारणं यस्येति, कार्यस्य कारणमिति च विग्रहः । तथा च अविद्याकार्यभ्रमरूपजाग्रत्त्वेनाविद्यातत्कार्यस्खप्तरूपोभयकारणकजाग्रत्त्वेन च बद्धो विश्वः कार्यकारणबद्धः। तैजसोऽप्येवमुभयबद्धः। प्राज्ञस्तु कारणमात्रबद्धः। जाग्रत्स्वप्नयोः कारणं यदज्ञानं तन्मात्ररूपसुप्तिवद्धत्वा- कार्यकारणाकारेण द्वावपि बन्धौ तुर्याख्यरूपे न स्त इत्यर्थः ॥ (७) परिहारांशं व्याचष्टे नेति ॥ नैतच्छृतिबलेनेश्वररूपाणां भेदो वक्तव्य इत्यर्थः । कुतो नेत्यतः प्रवृत्तं प्रत्येकमतद्वचनादित्यंशं व्याचष्टे- एष त इति । इति प्रत्येकमित्यस्यानन्तरं परस्परं मूलरूपेणेति च शेषः । इदं च 'एष त आत्मा' इति प्रत्येकमभेदवचनात् 'अयमेव सः' इति प्रत्येकममेदवचनात् 'अयं वै हरयः' इति प्रत्येकमभेदवचनादिति वाक्य- त्रयेऽप्यावृत्त्या योज्यम् । तत्राद्ययोः प्रत्येकं परस्परमित्यस्यान्वयः। अन्तेन तु मूलरूपेणेत्यस्य । अनेन ' यः पृथिव्यां तिष्ठन्....योऽपसु तिष्ठन्... योऽग्नौ तिष्ठन् ' (बृ. ५-७) इत्यादिना भगवतोऽनेकस्थानान्युक्त्वा तत्र तत्र प्रत्येकं 'एष त आत्माऽन्तर्याम्यमृतः' इति तत्तत्स्थानगतभगवद्रूपाणां परस्परमन्योन्यमभेदवचनात् । तथा 'यः पृथिव्यां तेजोमयोऽमृतमयो.... योऽप्सु तेजोमयोऽमृतमयो...योऽग्नौ तेजोमयोऽमृतमयो यो वायो' (बृ. ४-५.) इत्यादिना भगवतोऽनेकस्थानस्थितत्वमभिधाय तत्र तत्र प्रत्येक 'अयमेव स योऽयमात्मा . . . . . अयमेव स योऽयमात्मा' इति तद्रूपाणां परस्परमभेवचनात् । तथा 'अयं वै हरयोऽयं वै दश' (बृ. ४-५-१९) इति भगवद्पाणां मूलरूपेणाभेदवचनादिति हेत्वर्थ उक्तो भवति। सूत्रभाष्ययोः प्रत्येकमित्युक्तिरादरसूचनार्था। तत्प्रयोजनं तु सिद्धान्तश्रुतीनां प्राबल्यसूचनेन ताभिः पूर्वपक्षश्रुतेर्बाधसूचनम् । तेन भेदा- भेदवचनयोः साम्यादनिर्णय इति शङ्का निरस्ता। 'एष ते' इति बृह- दारण्यके उद्दालकं प्रति यायवल्क्यवचनमेतत् । 'एषः' पृथिव्यन्त- म्येव तवान्तर्यामीत्यर्थः । एवमबादावपि । 'अयमेव सः' इत्यारभ्य 'इदं .

८१ अधि - ८. सू - १२.] दौपिकासहितम् तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्य- नुशासनम् ' (बृ. ४-५-१९) इति प्रत्येकमभेदवचनात् ॥१२॥ , सर्वम् ' इत्यन्तमपि । तत्रैव मधुब्राह्मणे श्रुतम् । तदर्थस्तु-यः 'तेजोमयोऽ- मृतमयः पुरुषः' इति पूर्ववाक्ये तेजःपूर्णत्वनित्यस्वरूपत्वपूर्णत्वगुणः परमात्मा अभिहितः सोऽयम् । अयं क इत्याशङ्कायामाह—य इति। अयं स एव यः पूर्वोक्त आत्मा सर्वगो हयशीर्षाख्यः। 'इदं रूपं 'अमृतं' नित्यमुक्तं 'सर्वमिदं ' जगत् 'ब्रह्म' तदधीनमिति ! 'अयं वै हरयः' इत्यारभ्य 'इत्यनुशासनम् ' इत्यन्तमपि बृहदारण्यके श्रुतम् । अनेन हि परमात्मरूपाणाममेदे प्रमाणत्वेन 'इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दश' (क्र.६-४७-१८.) इति मन्त्रमुदाहृत्य व्याख्यातः। 'हरयो' हरिनामानो 'दश' मत्स्याद्याः 'अयं वै' मूलरूप्येव चशब्दा. सूचितानि शतानि नारायणादिहरिनामकानि अयमेव । एवमृक्स्थं 'शता दश' इत्येतद्वयहद्वयपरत्वेन व्याख्याय दशशतानीति व्युत्क्रमेणान्वयेनैक- व्यूहपरत्वेनापि व्याख्याति--सहस्राणीति । विश्वादीनि सहस्राणि अयं वा इत्यन्वयः । दशेत्येतद्बहुपर्यायमभ्युपेत्य व्यूहान्तरपरत्वेनापि व्याख्याति- बहूनि चेति । परादीनि बहूनि च हरयोऽयं वा इत्यन्वया 'शतमनन्तं भवति' ( ) इति वचनाच्छतेत्येतदनन्तपर्यायमित्यभिप्रेत्य व्यूहा- न्तरपरत्वेनापि व्याचष्टे-अनन्तानि चेति | अजितादीन्यपि हरयोऽयं वा इत्यन्वयः । एवं मत्स्यादिपरमात्मरूपाणामभेदमुक्त्वा तन्महिमानमाह- तदेतदिति। 'तत्' प्रसिद्धमेतद्रूपजातं 'ब्रह्म' गुणपूर्ण न विद्यते पूर्व यस्मात्तत् 'अपूर्व' अनादि न विद्यते परमुत्तरं यस्मात्तत् ‘अनपरम् अन्तशून्यं न विद्यतेऽन्तरमन्यद्यस्य तत् 'अनन्तरम् ' न विद्यते बहिरन्य- द्यस्य तत् 'अबाह्यं' इदमेव सर्वस्मादन्तरं बाह्यं चेत्यर्थः । ब्रह्मायमात्मा सर्वमनुभवतीति ‘सर्वानुभूः' सर्वज्ञ इति 'वेदानुशासनं' वेदव्या- ख्यानमित्यर्थः । पुनर्ब्रह्मत्युक्तिस्तात्पर्यार्था, अनेकविशेषणसम्बन्धार्था वा। यद्वा-ब्रह्मेत्यनुवादोऽतो न पौनरुक्तयम् । तथाच यत् ब्रह्मायमात्मा सर्वानुभूरित्यन्वयः। विधेयविवक्षया अयमात्मेति पुल्लिङ्गप्रयोगः ॥ , 11 ८२ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा. २. । (८) सू-ॐ ॥ अपि चैवमके ॥ ॐ ॥ १३ ॥ एवमभेदेनैव चशब्दादनन्तरूपत्वं चैके शाखिनः पठन्ति । अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमश्शिवः । ओङ्कारो विदितो येन स मुनिर्नेतरो जनः॥ (मा. ४-७.) इति ॥ (८) ननु नाभेदश्रुतिभिः भेदश्रुतेः बाधो युक्तः । तासां कतिपयरूप- विषयत्वेन सावकाशत्वात् । नापि 'अयं वै हरयः' इत्यन्तिमश्रुतिविरोधः। तत्र पर स्परमभेदानुक्तेः, मूलरूपेणापि 'एष त आत्मा . . . . . अयमेव सः' इतिवत् स्पष्टमभेदाप्रतीतेः । अतो भेदश्रुतिबलात् विश्वादीनां भेद एवेत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे-अपीति ॥ अत्रापिः तत्त्वप्रदी- पोक्तरीत्या न केवलं काण्वा एवं पठन्ति, किन्तु 'एके' अन्ये माण्डूकेया अपीति समुच्चयार्थः । एवमित्यनुवादः, अभेदेनेति व्याख्यानम् । इत्थंभूत- लक्षणे तृतीया। तथाच अभिन्नत्वप्रकारं प्राप्तान्येवेत्यर्थः। विश्वाद्यनन्त- रूपाणीति शेषः । चशब्दादित्यनन्तरं विष्णोस्समुचितमिति शेषः। द्विती- यान्तशब्दयोरेके पठन्तीत्यनेनान्वयः । यद्वा-अभेदेनेति सहयोगे तृतीया । तथाच चशब्दबोधितं 'अनन्तरूपत्वं' विश्वादिरूपाणामनन्तत्वं बहुत्वं अभेदेन सहैके पठन्तीत्यर्थः चस्समुच्चये । इति पठन्तीत्यन्वयः। इतिरा- वर्तते । स च हेतौ। तथाच इति यतः पठन्ति अतो न भेदश्रुतिमवलम्ब्य विश्वादिभेदो ग्राह्यः, न भेदश्रुतिः अभेदश्रुतिविरोधिनीति वा अध्याहारे- णान्वयः । अनेन सूत्रे पठन्तीत्यस्य यतोऽतश्शब्दयोरुक्तसाध्यवाक्यस्य च अध्याहारः कार्य इति सूचितम् । श्रुत्यर्थस्तु-यद्यपि 'अमात्रो' भिन्नांश- शून्यः तथापि 'अनन्तमात्रः' अभिन्नानन्तांशवान् 'द्वैतस्योपशमः' द्वितीयेन प्रकारेणेतं द्वीतं इण गती, भावे निष्ठा, द्वीतमेव द्वैतं, मिथ्याज्ञानं तस्योपशमस्तनाशकृत् । तत्त्वप्रदीपे तु–'अमात्रः' परिमाणरहितः अनन्तमात्रः' अनन्तरूपः 'शिवः' सुखात्मकः 'ॐकारः' ओमित्याक्रिय माणः प्रणववाच्यः परमात्मा येन जीवेन विदितः स एव मुनिःन वितर इति 'द्वैतस्योपशमः' भेदरहित इति व्याख्यातम् । पठन्तीत्यन्वयः ॥ .

अधि - ८. सू - १३.] दीपिकासहितम् ८३ (९) अभेदेऽपि भेदव्यपदेशः स्थानभेदादैश्वर्ययोगाच्च युज्यते । (१०) ब्रह्मतर्के च। बद्धो बन्धादिसाक्षित्वाद्भिन्नो भिन्नेषु संस्थितेः । निर्दोषाद्वयरूपोऽपि कथ्यते परमेश्वरः ॥ इति ॥ १३ ॥ ॥ इति न स्थानतोऽप्यधिकरणम् ॥ ८॥ (९) तर्हि का गतिः ' कार्यकारणबद्धौ' (मा. २-१६.) इति भेदव्यप- देशस्येत्यत आह-अभेदेऽपीति ॥ विश्वादिरूपाणामभिन्नत्वेऽपीत्यर्थः । यद्यपि तथापीत्यर्थे अपिशब्दः। अनेन सौत्रापिशब्दस्यार्थान्तरं दर्शितम् । मेदव्यपदेशो युज्यत इति । विश्वादयो बद्धाः तुरीयस्त्ववद्ध इति भेदक- धर्मोक्तिमुखेन भेदोक्तियुज्यते इत्यर्थः । अनेनैवंशब्दस्यार्थान्तरं दर्शितम्। कथं युज्यते अत आह-स्थानभेदादिति । अक्ष्यादितदन्यरूपस्थानभेदा- दित्यर्थः। तथाचाक्ष्यादिस्थो बद्धः अन्यत्रगस्त्वबद्ध इति भेदकधर्मोक्तिः स्थानभेदाधुज्यते । तथा भेदोक्तिरपि स्थानगतभेदस्य स्थानिन्युपचारा- धुज्यत इत्यर्थः । 'अनन्योऽप्यन्यशब्देन ' इत्यानन्दमयनयोदाहृतप्रमाणे तु अभेदे भेदव्यपदेशः अचिन्त्यैश्वर्यात् युज्यत इत्युक्तम् । तत् भेदव्यप- देशस्य मुख्यत्वाभिप्रायकम् । अभिन्नस्यैकस्य स्थानभेदोऽपि कुत इत्यत आह-ऐश्वयेति। अचिन्त्यशक्तयाख्योपायादित्यर्थः। हेतुसाधक हेतु- समुच्चये चशब्दः॥ (१०) ननु निर्दोषस्य हरेः कथं बन्ध इत्याशङ्कां परिहर्तुमुक्तार्थे चशब्दसूचितां स्मृतिमाह-ब्रह्मत चेति ॥ न केवलमस्माभिरिति समुच्चये शङ्कापरिहारसमुच्चये वा चशब्दः। बन्धादीति । जीवस्य जान- दादिभ्रमकारणतया बन्धकर्तृत्वादित्यर्थः। आदिशब्देन दुःखादिदोषो गृह्यते । बद्ध इत्युपलक्षणम् । दुःखीत्यपि द्रष्टव्यम् । निदोषेति विशेषणयोः कर्मधारयो बहुलग्रहणात् । अपिः प्रत्येकं सम्बध्यते। तथाच परमेश्वरो यद्यपि निर्दोषः, तथापि 'बन्धादिसाक्षित्वात्' अन्यगतबन्धदुःखादि द्रष्टत्वात्तत्स्वामित्वाच्च बद्धादिरिति कथ्यते । एवं परमेश्वरो यद्यपि अद्वयरूपः' अभिन्नरूपः। तथापि 'भिन्नेषु' अक्ष्यादिषु संस्थिते- , ८४ ब्रह्मसूत्रभाष्यम् [अध्या- ३. पा - २. - ॥९. अरूपाधिकरणम् ॥ (१) रूपवत्वादनित्यत्वमिति । (२) अतो वक्ति- सू-ॐ ॥अरूपवदेव हि तत्प्रधानत्वात्॥ॐ॥१४॥ प्रकृत्यादिप्रवर्तकत्वेन तदुत्तमत्वान्नैव रूपवद्ब्रह्म । निमित्ताद्भिन्न इति कथ्यते इति योजना । इति ब्रह्मतर्क इत्यन्वयः। उक्त- मिति शेषः॥ ॥ इति न स्थानतोऽप्यधिकरणम् ॥ ८ ॥ ॥९, अरूपाधिकरणम् ॥ (१) अत्राधिकरणे विष्णोरप्राकृतरूपं समर्थ्यते । पूर्वपक्षयति-रूप- वत्त्वादिति ॥ शुक्लादिरूपवत्त्वेन विग्रहवत्त्वेन चोक्तत्वादित्यर्थः। अत एव च तत्त्वप्रदीपे 'रूपोपन्यासाच्च पुरुषविधमपि' इत्यादिना रूपवत्त्वमुक्त- मिति रूपशब्दितविग्रहवर्णोभयप्रापकसूत्रोदाहरणं कृतम्। न चैवं रूपशब्देन शुक्लादिगुणप्रतीतिः स्यात् अतः-शिरःपाणीत्युक्तमिति सुधाविरोध इति वाच्यम् । तस्यास्तन्मात्रप्रतीतिस्स्यादित्यर्थकत्वात् । 'अनित्यत्वं' देहतो नाशवत्त्वं, विष्णोः स्यादिति शेषः। एवं रूपवत्त्वादित्येतत् रूपवत्त्वेन 'रुक्मवर्ण, आदित्यवर्णम्' इत्यादिश्रुतिसिद्धत्वादित्यपि व्याख्येयम् । तेन हेत्वसिद्धिः परिहृता। अनित्यपदं च विष्णो रूपवत्त्वे 'अरूपमव्ययम्' तदरूपमनामयम्' इत्यादिश्रुत्यप्रामाण्यं च स्यादित्यप्रामाण्यपरतयाऽपि व्याख्येयम्-यथा 'अनित्यमुच्यते ' (१-२-१.) इति जैमिनिसूत्रे बाधक- द्वयमुक्तं भवति, एवमरूपत्वपक्षेऽपि बाधकद्वयं टीकोक्तमनुसन्धेयम् । तथाच पक्षद्वयेऽपि भक्तिरनुपपन्नेति पूर्वपक्ष्यभिप्रायः ॥ (२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे-अत इति 'प्रकृत्यादि प्रवर्तकत्वेन ' तन्नियामकत्वेनेति । अनेन तच्छब्दार्थो दर्शितः। आदिशब्देन भूतं गृह्यते । उत्तमत्वादित्यनेन प्रधानत्वादित्येतत्प्रकारान्तरेण व्याख्यातम् । तत्र पूर्व उत्तमत्वे प्रकारप्रदर्शनरूपम् । सूत्रेऽरूपमितिवाच्ये रूपरूपिमेद- निवृत्त्यर्थमरूपवदित्युक्तं, तद्वयाचष्टे-नेति । प्राकृतभौतिकरूपवद्भिन्नमेवे. , .

अधि - ९. सू - १४.] दीपिकासहितम् ** (३) हिशब्दात् 'अस्थूलमनणु' (बृ. ५-८-८). इत्यादिश्रुतेश्च । (४) भौतिकानि हि रूपाणि भूतेभ्योऽसौ परो यतः। अरूपवानतः प्रोक्तः क तदव्यक्ततः परे॥ इति मात्स्ये ॥ १४ ॥ त्यर्थः। न तु तद्वदित्येवकारार्थः । सूत्रे तदिति व्यस्तं समस्तं चेत्याशयेन व्यस्ततच्छब्दार्थमाह-ब्रह्मेति । तस्मात् नानित्यत्वं ब्रह्मणः शङ्कयमिति वाक्यशेषः॥ (३) ननु ब्रह्मणः प्रकृत्यादिसामर्थन देहबन्धाभावेऽपि स्वेच्छालीला- दिनिमित्तं रूपं किं न स्यादित्याशङ्कावारकतया हिशब्दं व्याचष्टे-हिशब्दा- दिति ॥ सूचिताया इति शेषः । श्रुतेरित्यस्य नेतिवाक्येनान्वयः। तथाच निमित्तान्तरकृतरूपपदोक्तदेहाभ्युपगमे श्रुतावरूपमिति सामान्यनिषेधो न स्यादिति भावः । न केवलमुक्तयुक्तरिति चशब्दार्थः। व्याख्यातेयं श्रुतिः अक्षरनये । अनेन सूत्रे नपुंसकोक्तिरेतच्छ्रुत्यनुसारादिति ध्येयम् ॥ (४) सूत्राथै स्मृतिं चाह-भौतिकानीति ॥ 'रूपाणि' शरीराणि पाञ्चभौतिकानि । उपलक्षणमेतत् । आव्यक्तिकानि च । यस्माद्वा 'असौ' परमात्मा भूतेभ्यः परः' तत्प्रवर्तकत्वेन तदुत्तमः तस्मात् 'अरूपवान् ' तत्कार्यरूपरहितः । ननु भूतपरे भौतिकरूपाभावेऽपि अव्यक्तकार्य रूपं किं न स्यादित्यत आह-क्केति । 'अव्यक्तः' प्रकृतितः 'परे' तत्प्रवर्तकत्वेन तदुत्तमे तत एव तत्कृतबन्धशून्ये ब्रह्मणि 'तत्' आव्यक्तिक रूपमपि 'क्व' नेत्यर्थः। यद्वा-तत्त्वप्रदीपोक्तरीत्या कैमुत्य- मेतत् । अस्मिन् पक्षे नोपलक्षणम् । तच्छब्देन भौतिकरूपस्यैव परामर्शः। तथाच यदा भूतेभ्यः परे भगवति भूतकार्यदेहो न, तदा भूतकारणाव्यक्त- मप्यतीत्य वर्तमाने तस्मिन् तदव्यक्तकार्यभूतकार्यशरीरं नेति किमु वक्तव्य- मित्यर्थः। यदा भूतपरत्वमेव भौतिकदेहाभावे हेतुः, तदा सुतरां भूतपरा- व्यक्तपरत्वमिति भावः। एवं यतो भौतिकानि रूपाणि अनित्यत्वव्याप्तानि, असौ च भूतेभ्यः परत्वात्तद्रहितोऽतो नानित्यताशङ्का कार्येत्यध्याहारेण तत्त्वप्रदीपोक्तं योजनान्तरं द्रष्टव्यम् । इति मास्त्य इति । उक्तमिति शेषः॥ यस्मात् सर्वाणि n ८८ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा. २. ॥ . , (७) सू-ॐ ॥ आह च तन्मात्रम् ॥ ॐ ॥ १६ ॥ वैलक्षण्यं चोच्यते रूपस्य विज्ञानानन्दमात्रत्वं 'ऐकात्म्यप्रत्य- यसारम् । (मा. २-७.) इति। 'आत्मैवास्य ज्योतिः' (बृ. ६-६-६.) इति प्रकाशार्थकज्योतिश्शब्दव्यव- हारवदुपपद्यते अत इति ॥ (७) ननु कथं ब्रह्मणो विलक्षणरूपवत्त्वं, येनानित्यत्वादिदोषाभावः, सर्वरूपाणां प्रकृत्याद्यात्मकत्वनियमात् इतररूपापेक्षया तद्रूपस्य वैलक्षण्या- नुक्तेरित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे-आह चेति ॥ सूत्रे भाष्ये च चोऽवधारणे। उच्यत एवेति सम्बध्यते । न तु नोच्यत इत्येवशब्दार्थः । रूपस्य' शरीरस्येति बुद्धया विविक्तस्य विपरिणतस्य तत्पदस्य व्याख्या- नम् । विज्ञानानन्दमात्रत्वमिति । ज्ञानानन्दाद्यकस्वरूपत्वमित्यर्थः। अनेन तच्छब्दः तहुणलारत्वादिस्यत्र प्रकृतज्ञानानन्दगुणवाची भावनिर्देशश्चाय- मिति सूचितम् । इदं च वैल मण्यपदेन समानाधिकृततयाऽन्तव्यम् । मात्रपदेन रूपस्य प्राकृतत्वनिवृत्तिः। इति श्रुत्योच्यत इत्यन्वयः । ब्रह्मणो ज्ञानानन्दाद्यात्मकत्वोक्तया तद्रूपस्यापि तदुक्तमित्यभिप्रायः। अनेन यतः 'ऐकात्म्यप्रत्ययसारम् ' इति माण्डूकश्रुतिः तस्य ब्रह्मणो रूपस्य तन्मात्रत्वं ज्ञानानन्दाद्येकवरूपत्वं 'आह च' वक्तयेव अतो न वैलक्षण्यानुक्तिरिति सूत्रार्थ उक्तो भवति । तथाच पूर्ववाद्युक्तहेतुरसिद्ध इति भावः। एका प्रधानः स चासावात्मा च पूर्णश्चैकात्मा तस्य भावः ऐकात्म्यम् , प्रत्ययो ज्ञानं, ऐकात्म्यं प्रत्ययश्चेत्युभय सारः स्वरूपं यस्य तदैकात्म्यप्रत्ययसार- मिति श्रुत्यर्थः । यद्यपि माण्डूकभाष्ये- एकः प्रधान उद्दिष्टः आत्मा पूर्णत्वतश्श्रुतः । तदेवास्य स्वरूपं यदैकात्म्यं तेन कीर्तितम् ॥ प्रत्ययो ज्ञानरूपत्वात्सार आनन्दरूपतः॥ इत्यानन्दरूपत्वं सारशब्दार्थो, न स्वरूपमित्युक्तम् । तथा व्यासतीर्थीये- स्वार्थे प्यञ् । ऐकात्म्यस्य ब्रह्मामेदं चाश्रित्य ऐकात्म्यश्चासौ प्रत्ययश्चासौ सारश्चेति विग्रहः प्रदर्शितः। तथापि 'आनन्दमात्रम्' इत्युत्तरश्रुत्यवै- यायेह स्वरूपार्थतया सारशब्दो व्याख्यातः ॥ , अधि • ९. सू - १५.] दीपिकासहितम् (८) आनन्दमात्रमजरं पुराणं एकं सन्तं बहुधा दृश्यमानम् । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ।। इति चतुर्वेदशिखायाम् ॥ १६ ॥ (९) सू-ॐ ॥ दर्शयति चाथो अपि स्मर्यते ॥ ॐ ॥ १७॥ दर्शयति चानन्दरूपत्वं तद्विज्ञानेन परिपश्यन्ति धीराः आनन्दरूपममृतं यद्विभाति' (मु. २-२-८.) इति ॥ (८) इह सारशब्दस्य स्वरूपार्थत्वादानन्दरूपत्वे श्रुत्यन्तरं पठति- आनन्दमात्रमिति। आनन्दैकस्वरूपं, न तु प्राकृतं, कुतः १ यतः 'अजरं' सदा दृढं 'पुराणं ' अनादिभूतं 'एक' सर्वोत्कृष्टं — सन्तं' निर्दुष्टं, एक सन्तमिति वा 'बहुधा' विश्वाद्यात्मना मत्स्यादिरूपैर्वा दृश्यमानं 'आत्मस्थं' देहस्थं प्ररमात्मानं 'ये धीरा' ज्ञानिनः 'अनुपश्यन्ति' साक्षात्कुर्वन्ति तेषां 'शाश्वतं सुखं' मोक्षो भवति, नान्येषामित्यर्थः। इतीति । इति चतुर्वेद- शिखायां च वैलक्षण्यमुच्यत इत्यन्वयः । अनेन सौत्रचशब्दः श्रुतिसमुच्च- येऽपीति सूचितम् ॥ (९) ननु उक्तश्रुतिद्वये ब्रह्मणो ज्ञानानन्दाद्यात्मकत्वमेवोच्यते, नत्वा- नन्दादेब्रह्मशरीरत्वम् । अतो रूपिपदोक्तदेहित्वश्रुतेर्लोकविलक्षणरूप- विषयत्वाभावाद्वैयर्थ्यम् , सौन्दयाभावश्चापरिहृतः। न च रूपरूपिणोर. भेदादिति तत्वप्रदीपे तदपि श्रुत्यभिप्रेतमित्युक्तमिति वाच्यम् । स्पष्टोक्तय- भावना निर्णयादित्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे-दर्शयतीति ॥ चशब्दो रूपत्वमित्यतः परो योज्यः। 'आनन्दरूपत्वं ब्रह्मशरीरत्वमिति । अनेन सूत्रेऽपेक्षिताध्याहारो दर्शितः। न केवलमानन्दस्य ब्रह्मात्मकत्वं किन्तु तच्छरीरत्वं चेति चशब्दार्थः। इतीत्यनन्तरं भाष्ये सूत्रे च श्रुति- रितिशेषः। श्रुतिर्दर्शयतीत्यन्वयः। 'आनन्दरूपं ' आनन्दशरीरं अत एव अमृतं ' देहतो नाशरहितं यद्विभाति तब्रह्म 'विज्ञानेन' श्रवणादिजनित- साक्षात्कारेण 'परिपश्यन्ति ' विषयीकुर्वन्ति ज्ञानिन इत्याथर्वणश्रुत्यर्थः । .. . 12 ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा - २. (१०) शुद्धस्फटिकसङ्काशं वासुदेवं निरञ्जनम् । चिन्तयीत यतिर्नान्यं ज्ञानरूपाहते हरेः॥ इति च मात्स्ये ॥ १७ ॥ ॥ इत्यरूपाधिकरणम् ॥ ९॥ (१०) सूत्रे अथोपदं ज्ञानरूपार्थान्तरवाचि। अपिस्समुच्चये । असन्धिः प्रगृह्यत्वात्। तथाच न केवलमानन्दस्यैव ब्रह्मात्मकत्वं तद्रूपत्वं चोच्यते श्रुत्या, किन्तु ज्ञानस्यापि तदात्मत्त्वं तद्रूपत्वं चोच्यते स्मृत्येति सूत्रखण्डार्थमभिप्रेत्य तां स्मृति पठति-शुद्धेति ॥ इति मात्स्ये स्मर्यत इत्यन्वयः। तद्वचनाख्यस्मृत्येदमुच्यत इति यावत् । यतिः 'शुद्धस्फटिक- सङ्काशं तद्वच्छुक्लवर्ण निरञ्जनं वासुदेवमेव परं प्रधानं 'ऋते ' ज्ञानाय 'चिन्तयीत' ध्यायीत । 'ज्ञानरूपात्' ज्ञानशरीराद्वासुदेवाटते 'अन्य' ब्रह्मा- दिकं परत्वेन न चिन्तयीतेत्यर्थः । न चैतत्सूत्रे एव ज्ञानानन्दयोः ब्रह्मरूपत्वे स्पष्टश्रुत्युक्तेरार्थिकोक्तिरूपपूर्वसूत्रवैयर्थ्यमिति वाच्यम् । वरूपस्यापि ज्ञानाद्यात्मकत्वसिद्ध्यर्थं तदुपन्यासात् । न चानर्थक्यम् । ब्रह्मतच्छरीर- योरभेदेन ब्रह्मणो ज्ञानानन्दाद्यात्मकत्वे तच्छरीरस्यापि तल्लाभाभिप्रायेण तदुदाहरणोपपत्तेः । अत्र तत्त्वप्रदीपे दर्शयति चानन्दस्य स्वरूपत्वं आनन्दरूपम् ' इत्यादि । अथो च दर्शयति-- सज्ज्ञानानन्दशीर्षोऽसौ सज्ज्ञानानन्दबाहुकः । सज्ज्ञानानन्देहस्तु सज्ज्ञानानन्दपावान् ॥ इति । अथो च दर्शयति- ब्रह्मणस्तगुणानां च भेददर्यधरं तमः । भेदाभेदप्रदर्शी च तम एवोत्तरं विशेत् ॥ विजानीयात्ततो ब्रह्म सदा सर्वगुणात्मकम् । गुणानां च विशेषोऽस्ति न विशेषः कथश्चन ॥ ते सर्वेऽपि गुणाः पूर्णास्तच्छरीरः परः स्मृतः। आनन्दज्ञानशक्तयादिदेहं विष्णुं तु ये जनाः ॥

अधि - १०. सू - १८.] दीपिकासहितम् ॥ १०. उपमाधिकरणम् ॥ (१) सू-ॐ ॥ अत एव चोपमा सूर्यकादिवत् ॥ ॐ ॥ १८॥ यस्मादेवं परमेश्वररूपाणां मिथो न कश्चिद्भेदः। अतः साह- श्याजीवस्यापि तथा स्यादिति, तस्य प्रतिबिम्बत्वमुक्त्वा च- शब्देन भेदं दर्शयति । अदेहं भूतदेहं वा विदुस्ते चाधरं तमः । तथा प्रकृतिदेहशाः कर्मदेहविदोऽपि वा ॥ तस्मादानन्दचिद्देहं चिदानन्दशिरोमुखम् । चिदानन्दभुजं ज्ञानसुखैकपरमाङ्गुलिम् ॥ आदेहादा नखाग्रेभ्यः पूर्णचित्सुखशक्तिकम् । प्रत्येकं तु गुणांस्तांस्तु सदा सर्वगुणात्मकान् । ज्ञात्वा विमुच्यते विष्णोः प्रसादान्मानुषोऽपि सन् ॥ इति पैङ्गिश्रुतिरिति । एवं दर्शयति इत्येतत् अथो इत्युत्तरत्रापि संयोज्य व्याख्यातम् । तत्पक्षे न केवलं दर्शयति, किन्तु स्मयतेऽपीत्यपिशब्दार्थः॥ ॥ इत्यरूपाधिकरणम् ॥९॥ ॥ १०. उपमाधिकरणम् ॥ (१) अत्राधिकरणे ईश्वरस्य जीवाद्भेदाभेदो निराक्रियते । अत्र पूर्व पक्षानुवादरूपं अत एवोपमेति सूत्रांशं व्याकरोति-यस्मादिति ॥ योजना तु 'यस्मात् ' यत एवं ' न स्थानतोऽपि' इत्यायुक्तप्रकारेण परमेश्वर- रूपाणां परमेश्वरस्य च 'मिथः' परस्परं 'कश्चित् ' अन्योन्याभावरूपो वा हीनाधिकभावरूपो वा अनुग्राह्यानुग्राहकभावरूपो वा भेदो न, किन्त्वमेद एव सिद्धोऽत इति दृष्टान्तलाभादिति भावः । न तत्रान्योऽन्वेषणीय इत्येव- शब्दार्थः। एवं सौत्रातःशब्दपरामृश्यं प्रदावृत्त्यभिप्रायेण तमनुकृत्य तस्यार्थान्तरमाह-सादृश्यादिति । चित्त्वादिना परमेश्वरसादृश्यादि- ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा - २. , (२) रूपं रूपं प्रतिरूपो बभूव (बृ. ४-५-१९) बहवस्सूर्यका यद्वत्सूर्यस्य सदृशा जले । एवमेवात्मका लोके परात्मसदृशा मताः ॥ ( इत्यादि। त्यर्थः । सूत्रे 'ततो ह्यस्य' इत्यतोऽनुवृत्तस्यास्येत्यस्यार्थमाह-जीवस्येति। न केवलं परमेश्वररूपाणामित्यपेरर्थः। अनेन पूर्वत्रापि चशब्दसम्बन्धो ज्ञापितः। उपमेत्यस्यार्थः-तथेति । परमेश्वराभेद इत्यर्थः। स्यादिति शेषोक्तिः। स्यादितीत्यनन्तरं प्राप्ते तत्परिहारायेति शेषः। अनेन सूत्रे 'न स्थानतोऽपि' इत्यतो नानुकर्षोऽभिप्रेयते ॥ कुतो नेत्यतस्तत्र हेतुतयाऽऽ- गतं सूर्यकादिवञ्चेत्यंशं सिद्धान्त्यभिप्रेतानुमानपरतया व्याचष्टे तस्येति । जीवस्येत्यर्थः । 'प्रतिबिम्बत्वं' ईशप्रतिबिम्बत्वाख्यं हेतुमुक्त्वा सूर्यकादिव- दिति दृष्टान्तोक्त्यैवेति शेषः। 'चशब्देन' उत्तरत्राप्यन्वितेन 'भेदं परमे- श्वरेणात्यन्तभेदरूपं साध्यं 'दर्शयति' समुचिनोति सूत्रकार इत्यर्थः। तत्त्व- प्रदीपरीत्या तु रूपमित्यादिका श्रुतिस्तस्य प्रतिबिम्बत्वमुक्त्वा भेदं दर्शय- तीति चशब्देन सूत्रकारो दर्शयतीत्यर्थः। यद्वा-भेदाभेदपूर्वपक्षस्य बहिरेव लाभादत एवेत्यादि समयसूत्रं सिद्धान्त एवेत्याह-यस्मादिति। ज्ञानेश्वर्या- दाविति शेषः। भेदशब्दश्च विशेषवाची। अत इत्यावर्ततेऽपीति च । तथा च यस्मादेवमुक्तरीत्या परमेश्वररूपाणां तत्स्वरूपांशानां मत्स्यादीनां परमे- श्वरस्य च मिथो ज्ञानेश्वर्यादौ न कश्चिद्विशेषः, तस्मादेव जीवस्यापि अतः परमेश्वरस्वरूपांशत्वे 'सादृश्यात् ' मत्स्यादिसाम्यात् 'तथा स्यात् परमेश्वरस्वरूपांशवत् ज्ञानेश्वर्याद्यविशेषः स्यादिति 'अतः' एतदर्थमेवा- निष्टप्रसङ्गपरिहारार्थमेव अत एवोपमेति पदैः तस्य' जीवस्य तथापि अंशत्वेऽपि तथा' प्रतिबिम्बभाव एवेति प्रतिबिम्बभावमेवोक्त्वा 'चशब्देन' अतस्तेन हेतुना सूर्यकादिदृष्टान्तेन ' भेदं ' साध्यं समुच्चिनोति सूत्रकार इत्यन्वयः॥ (२) जीवस्येश्वरप्रतिबिम्बत्वमेव कुत इत्यतश्चशब्दसूचितश्रुतेरेवे- त्याह-रूपमिति ॥ द्वितीयव्याख्याने तु युक्तिसिद्धप्रतिबिम्बत्वे दाढाय श्रुत्युपन्यासः । व्याख्यातेयं श्रुतिरंशनये । 'जले' जलादौ ‘सूर्यकाः' तत्र अधि - १०. सू - १८.] दीपिकासहितम् ९३ ३) अत एव भिन्नत्वतदधीनत्वतत्सादृश्यैरेव सूर्यकाद्युपमा, नोपाध्य- धीनत्वादिना ॥१८॥ ॥ इत्युपमाधिकरणम् ॥ १० ॥ . प्रतिबिम्बताः सूर्याः 'यद्वत्' यथा सूर्यस्य सदशा मताः, एवमेव लोके प्रमिताः 'आत्मका:' ईशप्रतिबिम्बभूता अमुख्यात्मानः परमात्मसदृशा मता इति श्रुत्यन्तरार्थः। अत्राद्यश्रुतौ रूपशब्दोक्तं प्रतिबिम्बत्वं द्वितीयश्रुत्या परमात्मसदृशा इति व्याख्यातमिति ज्ञेयम् । इत्यादीत्यनन्तरं श्रुतिरिति शेषः । अत एव तत्त्वप्रदीपेश्रुतिर्दर्शयतीत्युक्तम्। टीकाकृतापि श्रुतिरित्य- ध्याहारस्य सिद्धत्वादित्याशयेन प्रतिबिम्वत्वं दर्शयतीत्यन्वययोग्यपदद्वय- मनुषज्यते इत्युक्तम् । तथाचायं टीकारीत्या सूत्रार्थः-'अत एवं' ईशतद्रूपा- णामभेदोक्तरेव 'अत एव' जीवस्य चेतनत्वादिना ईश्वरसास्यादेवास्य जी- वस्य 'उपमा' मत्स्यादिसाम्यम् । तद्वदीशाभेदः स्यादिति न, कुतः १ यतः 'सूर्यकादिवत्' जलादौ प्रतिबिम्बितसर्यच्छायादिवत् ईशप्रतिबिम्बस्तस्मा- देव तद्भिन्नश्चातः । यद्वा-'अत एवं मत्स्यादीनामीश्वरस्य च ज्ञानेश्वर्यादा- विव विशेषस्योक्तत्वादेव अतः। तर्हि जीवस्यापि परमेश्वरस्वरूपांशत्वे यतः 'उपमा' मत्स्यादिभिः साम्यं स्यात् , ततश्च तस्योपमा परमेश्वरवत् ज्ञानाद्य- विशेषः स्यात् अतः एतदर्थमेवंरूपानिष्टपरिहारार्थ जीवस्योपमैव ईश्वरप्रति- बिम्बतैव, न स्वरूपांशता। यतः प्रतिबिम्बोऽतः सूर्यकादिवच्च भेद एव ना- भेदोऽपि । न च हेत्वसिद्धिः। 'रूपम्' इत्यादिश्रुतेरिति। तत्त्वप्रदीपरीत्या तु-'अत एव' जीवस्य परमेश्वरेण चिदानन्दादिसादृश्यादेव 'रूपम्' इत्या- दिश्रुतौ सूर्यकादिवदुपमा प्रतिबिम्बत्वमुक्तम् । तस्य तद्पत्वादिति भावः। 'अत एव' प्रतिबिम्बत्वोक्तयैव श्रुत्या भेदोऽप्युक्तः। तस्य भेदघटितत्वादिति चशब्दार्थ इति ॥ (३) यदुक्तं सूर्यकादिवज्जीवो ब्रह्मप्रतिबिम्ब इति। तद्युक्तम् । जीवस्य सूर्यकादिवदुपाध्यायत्तत्वाभावेन तदुपमत्वासम्भवात् । तद्भावे चानित्यत्व- जन्ममोक्षाभावापत्तेः । अतः प्रतिबिम्बत्वाभावाझेदासिद्धिरिति दूषणं सुस्थमित्याशङ्कोत्तरत्वेनापि अत एव चोपमेति सूत्रखण्डं व्याचष्टे-अत एवेति ॥ अनुकृतातःशब्दपरामृश्यं दर्शयति-भिन्नत्वेति । अत्र भिन्नत्वं ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा- २. ॥११. अम्बुवदधिकरणम् ॥ (१) नित्यसिद्धत्वात्सादृश्यस्य नित्यानन्दज्ञानादेः न भक्तिज्ञानादिना प्रयोजनमिति । साध्यत्वेनोपात्तं, न तु त्रयाणामेकप्रकारत्वम् । तथाच बिम्बभिन्नत्वरूप- साध्यधर्मेण बिम्बाधीनत्वतत्सादृश्यरूपसाधनधर्माभ्यामेव जीवस्य 'सूर्य- काद्युपमा' तत्साम्यमित्यर्थः । सूत्रकृतोक्तेति शेषः। प्रागाभासत्वं चोक्त- मिति चशब्दार्थः। स्वप्रयुक्तैवकारव्यावर्त्यमाह-नेति । आदिशब्देनोपा- धिनाशनाश्यत्वजडत्वादिह्यते । अतो न सूर्यकाद्युपमासम्भवः । न वाs- नित्यत्वादिप्रसङ्ग इति वाक्यशेषः । दृष्टान्तदान्तिकयोः सर्वसाम्यस्यान- पेक्षितत्वादिति भावः। अनेन 'अत एव' तदधीनत्वासादृश्याभ्यामेव सूर्यकादिवत् ' आभासत्वं जीवस्य सूर्यकाद्युपमा चाभिहिता नोपाध्य- धीनत्वादिनेति सूत्रखण्डस्य वृत्त्यन्तरमुक्तं भवति ॥ ॥ इत्युपमाधिकरणम् ॥ १० ॥ . ॥ ११. अम्बुवदधिकरणम् ॥ (१) अत्राधिकरणे ईश्वरे भक्तयर्थ तस्या जीवस्वरूपाभिव्यक्तिरूप- फलं निरूप्यते । पूर्वपक्षयति-नित्येति ॥ भक्तिश्च ज्ञानं च भक्तिज्ञाने, ज्ञानमपरोक्षं, आदिशब्देन प्रसादो लभ्यते । प्रत्येकं तृतीयान्वयः। प्रयोजनं' साध्यम् । न प्रयोजनमित्यावर्तते । यत इति मोक्षस्येति च शेषः। तथाचेत्थं योजना। न भक्तिः कर्तव्या। कुतः? यतो न तया प्रयोजनमस्ति । नच ज्ञानमेव प्रयोजनम् । यतो न तेनापि प्रयोजनमस्ति । न च तस्य प्रसादः प्रयोजनम् । यतो न तेनापि प्रयोजनमस्ति । न च प्रसादेन मोक्षसम्भवात्कथं तेन न प्रयोजनमिति वाच्यम् । मोक्षस्य नित्यसिद्धत्वात्। कथम् ? 'नित्यानन्दशानादेः' मोक्षस्य नित्यानन्द- ज्ञानबलादिरूपत्वात् । कुतस्तस्य नित्यसिद्धत्वम् ? परमात्मसादृश्यस्य जीवे 'नित्यसिद्धत्वात् ' नित्यं सत्त्वात् । किं ततः १ तस्य नित्यज्ञानानन्दादिरूप- त्वात् । न च विद्यमानस्याप्यभिव्यक्तयर्थं भक्तयाद्यपेक्षितमिति वाच्यम् । ..

अधि- ११. सू. १९.] दीपिकासहितम् ३५ - (२) अतो ब्रवीति- सू-ॐ ॥ अम्बुवदग्रहणात्तु न तथात्वम् ।। ॐ ॥ १९॥ अम्बुवत्स्नेहेन, ग्रहणं ज्ञानं, भक्ति विना न तत्सादृश्यं सम्य- विद्यमानस्य योग्यस्याभिव्यक्तनित्यसिद्धत्वात् कदाचित्स्वयमेव सम्भवा. त्सुप्ताविवेति ॥ (२) सिद्धान्तयत्सूत्रमुपन्यस्याम्बुवदिति पदतात्पर्यमाह–अम्बुव- दिति ॥ अम्बुवद्ग्रहणादिति अर्थाभावेऽव्ययमित्याशयेन तत्प्रविष्टग्रहणपदं व्याचष्टे-ग्रहणमिति । सूत्रार्थमाह-भक्तिं विनेति । भक्ति विनेत्यनुक्त्वा अम्बुवद्ग्रहणादिति गुरूक्तेः प्रयोजनं सलक्षणं दर्शयितुमेवमुक्तिर्गोपनी- यत्वेन चेति तत्त्वप्रदीपेऽभिहितम् । अत्र भाष्ये--अम्बुवदित्यनूद्य स्नेहेनेति व्याख्याति । स्नेहात्मकत्वाम्बुनः। तेन मानसस्नेहं लक्षयति । अम्बुवद्हणं स्नेहसहितं ज्ञानमित्यर्थ इति तत्त्वप्रदीपानुसारात् स्नेहेनेत्यनन्तरं सहित- मिति शेषः । सूत्रे अम्बुवदिति मतुब्वत्त्वं छान्दसम् । स्नेहात्मकजलवाच- काम्वुपदस्य तदात्मकस्नेहे शक्तिः, चिक्कणतासाधारणस्नेहमात्रप्रतिपाद- कस्याम्बुपदस्य मानसस्नेहेलक्षणा । तथाचाम्बुवदग्रहणादित्यस्य मानसिक- स्नेहेन सहितं यन्माहात्म्यग्रहणं तस्याभावादित्यर्थः। अस्य पर्यवसितार्थों भक्तिं विनेति भाष्ये स्नेहेनेत्यस्यान्वयाय तत्त्वप्रदीपावतारिका- टीकारीत्या सहितमिति पदाध्याहारस्यावश्यकत्वात् । सूत्रार्थकथनेन सिद्धान्त्यभिमतानुमाने हेत्वसिद्धिपरिहाराय प्रवृत्तस्य सूत्रस्यासिद्धिका- रणव्यतिरेकव्यभिचारपरिहारकत्वमुक्तं भवति । तथात्वमित्यस्यार्थमाह- तत्सादृश्यमिति । तदुणसारत्वादिति प्रकृतं ज्ञानानन्दादिनेश्वरसादृश्य- मित्यर्थः । अस्य जीवस्येति वर्तते । तुशब्दार्थस्सम्यगिति। सुप्तौ विनाऽपि भक्तिं सुखाद्यभिव्यक्तिदर्शनाद्वयभिचारपरिहारायैतत्पदम् । सूत्रे भव- तीत्यध्याहारेण भवतेय॑क्त्यर्थत्वं अभिव्यज्यत इति क्रियापदाध्याहारं वाऽ- भिप्रेत्याह-अभिव्यज्यत इति । सूत्रे न साम्यमित्यनुक्त्वा न तथात्व- मित्युक्तया अभिव्यक्तिरपि कदाचित्स्वयमेव भवतीति शङ्का निरस्ता। कदा- ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा- २. गभिव्यज्यते। 'यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् । (कठ. २-२३). इति हि श्रुतिः । (३) महित्वबुद्धिर्भक्तिस्तु स्नेहपूर्वाऽभिधीयते । तथैव व्यज्यते सम्यग्जीवरूपं सुखादिकम् ॥ इति पाझे ॥ १९॥ ॥ इत्यम्बुवदधिकरणम् ॥ ११ ॥ , चित् तत्सादृश्यस्य स्वयमेवाभिव्यक्तत्वमपि नेति तस्यार्थान्तरसम्भवात् । स्वयमेवाभिव्यक्तयङ्गीकारेऽनादिसंसारप्रवाहानुपपत्तेरिति भावः। भक्ति विना न तत्सादृश्यं सम्यगभिव्यज्यत इति भाष्यस्य सूत्रानुसारेण व्यति- रेकमुखत्वेऽपि तेन किन्तु भक्तयैवाभिव्यज्यत इत्यन्वयोऽपि सूचितः। तत्कुत इत्यत आह-यमिति । कठश्रुतिरियम् । भक्तिमतः 'तस्य' जीवस्य खां , तनुं' तत्स्वरूपमानन्दादिजीवस्वरूपं 'विवृणुते' प्रकाशयतीत्यर्थोंs- त्राभिमतः । इति हीति । हिर्यतः । अस्तीति शेषः ॥ (३) यदुक्तं स्नेहेन सहितं ज्ञानं भक्तिः, तया जीवखरूपस्य सम्य- गभिव्यक्तिरिति तत्स्फुटमत्र श्रुतौ न प्रतीयत इत्यतः स्मृतिं चाह- महित्वेति ॥ तुरवधारणे । 'महित्वबुद्धिः' महत्त्वबुद्धिः। तृतीयोऽतिशये। अत एव तत्त्वप्रदीपे महित्वबुद्धिः महत्त्वबुद्धिः। 'वैश्वानरो महिनः शर्म यच्छेत् ' ( ) इतिवदित्युक्तम् । स्नेहः पूर्वः साहित्यप्रतियो. गित्वेन पूर्वनिर्दिष्टो यस्यां सा तथोक्ता । तथाच मानसिकस्नेहसहिता विष्णोर्माहात्म्यज्ञप्तिरेव भक्तिरित्यभिधीयत इत्यर्थः । 'तया' भक्तया, न स्वत इत्येवशब्दार्थः । 'जीवरूपं ' जीवखरूपम् । यद्यपि- माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः । स्नेहो भक्तिरिति प्रोक्तः॥ इति भारततात्पर्यनिर्णये स्नेहस्य विशेष्यत्वमुक्तम् । तथापि विशेषण- विशेष्यभावस्य कामचारत्वादविरोधः। अत्रं यद्यपि पूर्वपक्षभाष्येऽपरोक्ष- ज्ञानपूर्वकालीना भक्तिर्गृहीता। सिद्धान्तभाष्ये तु ज्ञानोत्तरकालीनेति नैक- अधि . १२. सू - २०.] दीपिकासहितम् १७ ॥ १२. वृद्धिहासाधिकरणम् ॥ (१) सू-ॐ ॥ वृद्धिहासभाक्त्वमन्तर्भावा- दुभयसामञ्जस्यादेवम् ॥ ॐ ॥ २० ॥ रूप्यम् । तथापि भक्तिमात्रस्य भक्तित्वेनैकरूपस्येहसाफल्यसमर्थनान्न विरोधः। न च भक्तयैव सम्यगभिव्यक्ती ज्ञानोत्तरकृतकर्मवैयर्थ्यमिति वाच्यम् । ज्ञानजन्यभक्तेः सम्यगभिव्यक्तिहेतुत्वं ज्ञानानन्तरं पुनरनुष्ठीय- मानभक्तरुपासनस्य निवृत्तकर्मणां चेश्वरप्रसादद्वारा अनभिव्यक्तानन्दाभि- व्यक्तिरूपे वा विचित्रानुभवरूपे वा आनन्दवैचित्रये हेतुत्वमित्यङ्गीकारेण सार्थक्योपपत्तेः । यथोक्तम्-' उपासया कर्मभिश्च भक्तथा चानन्द- चित्रता' ( ) इति । पाद्म इत्यतःप्राक् हीत्यनुवर्तते । उक्त- मिति शेषः । अस्य पूर्वस्य च अत इत्यध्याहारेण भक्तिं विनेत्यनेनान्वयः॥ ॥ इत्यम्बुवद्धिकरणम् ॥ ११ ॥ ॥ १२. वृद्धिहासाधिकरणम् ॥ (१) अत्राधिकरणे यदर्थ भगवन्म हिमोच्यते, सा भक्तिः पुरुषेषु तारतम्येन तिष्ठति । तदनुसारेण भगवान् फलं प्रयच्छतीत्येतत्समर्थ्यते । तत्र भक्तिः साधकेषु एकप्रकारेति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस व्याचष्टे-वृद्धीति ॥ अरूपसूत्रादनुवृत्तं तत्पदं विपरिणाम्यानूध व्याचष्टे- तस्येति । चशब्दोऽवधारणार्थः 'वृद्धिहासभाक्त्वं' साधकेष्वाधिक्यन्यून तावत्त्वमित्यनेन सम्बध्यते। न त्वेकप्रकारत्वमित्यवधारणार्थः। अनेन पूर्वसूत्रादत्र तुशब्दानुवृत्तिः सूचिता । भक्तिशब्देन तत्त्वप्रदीपरीत्या अपरोक्षज्ञानसाधनं भक्तिर्गृह्यते । ज्ञानशब्देन परोक्षज्ञानम् । भक्तयं- शत्वेऽपि ज्ञानस्य पृथगुक्तिः स्नेहवद्वहुमानात्मको भाव एवापरोक्षज्ञान- साधन मिति सूचयितुम् । भक्तथा त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन ॥ इति गीतोक्तेः॥ भावबोधे तु भक्तिशब्देनापरोक्षज्ञानसाध्यमोक्षसाधनोद्रिक्तभक्तेर्ग्रहणम् । ज्ञानशब्देनापरोक्षज्ञानस्येत्युक्तम् । तत् तत्त्वप्रदीपविरूद्धम् । आदिशब्देन 13 ९८ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा. २. तस्य च भक्तिज्ञानादेः वृद्धिहासभाक्त्वं विद्यते ब्रह्मादीनामुत्त- मानां सर्वेषां भक्तत्वेऽन्तर्भावात् । (२) एवं भक्तयादिविशेषाङ्गीकारादेवेश्वरस्य ब्रह्मादीनन्यान् प्रति च सामञ्जस्यं भवति । भक्तिसाधनवैराग्यादेस्तत्साध्योपासनादेश्च ग्रहणम् । 'विद्यते' अङ्गीकार्य- त्वेनास्ति। अङ्गीकार्यमिति यावत्। यद्यपि पूर्वसूत्रे अम्बुवद्रहणपदेन भक्तेः प्रकृतत्वात्सैवेह धर्मिसमर्पकतच्छब्देन परामर्शनीया, भक्तितारतम्यकथ- नेनैवेष्टसिद्धेः, न तु ज्ञानादिकमपि । तथाऽपि ज्ञानादितारतम्याभावे तत्सा- ध्यभक्तितारतम्यं न सिध्यति।फलतारतम्यवत्साधनतारतम्यस्यापि भक्तिता. रतम्यहेतुत्वादित्याशयेनोपलक्षणाभिप्रायेण भक्तिज्ञानादेरित्युक्तम्। कुतो भक्तेर्वृद्धिहासभाक्त्वमित्यतस्तत्र हेतुत्वेन अन्तर्भावादित्यंशं सर्वेषामिति भक्तत्वे इति पदाध्याहारेण तेषां महदल्पत्वादिति हेतूपस्कारेण च व्याचष्टे -ब्रह्मादीनामिति। 'उत्तमानां' ब्रह्मादिदेवानां भक्तत्वे' भक्तवर्ग अन्त- र्भावात्तेषां च महाफलत्वात् , एवं ब्रह्मादिदेवेतरेषां मध्यमानां ऋष्यादीनां अधमानां मनुष्योत्तमानां च सर्वेषामधिकारिणां भक्तत्वेऽन्तर्भावात्तेषां च महदल्पफलत्वादिति योजना । अनेनोभयेषामिति धर्मिसमर्पकपदं देवत. दन्यपरतया विवृतं भवति । मध्यमाधमाधिकारिणामल्पफलत्वेन देवेतर. त्वेन चैकीकरणम्। सूत्रे उभयेषां भक्तत्वादित्येवोक्तौ भक्तत्वस्योभयत्व- वद्वयासज्यवृत्तित्वाभावेनोभयत्वाश्रयेष्वेकैकेष्वपि पर्याप्तत्वादन्यतरेषाम- भक्तत्वशङ्का स्यात् तथाचोभयसामञ्जस्यादित्ययुक्तं स्यादत उभयपद- स्योभयविधभक्तपरत्वात् अतोऽन्तर्भावादित्युक्तम् । अनेन त्रिविधाधि- कारिणामपि भक्तत्वसिद्धिः। यद्यपि सूत्र भाष्ये च भक्त्यादेः पक्षीकरणा- दधिकारिनिष्ठहेतुप्रयोगोऽनुपपन्नः । तथापि पक्षधर्मताया अनावश्यकत्वा- देवमुक्तम् ॥ (२) ब्रह्मादीनामन्येषां च महदल्पफलत्वेऽपि कुतो भक्तितारतम्य- मित्यतः प्रवृत्तमुभयेत्यादिसुत्रखण्डं व्याचष्टे-एवमिति ॥ अस्यार्थी- भक्त्यादीति । विशेषस्तारतम्यम् । आदिशब्देन पूर्वोक्तानां ग्रहणम् । अङ्गी- कारादेव अङ्गीकारे सत्येवेति । अनेन एवमित्येतत्सावधारणमादौ योजनीय- मित्युक्तं भवति । न स्थानत इत्यतोऽनुवृत्तस्य परस्येत्यस्यार्थमाह-ईश्वर- ..

अधि - १२. सू - २१.] दीपिकासहितम् (३) साधनस्योत्तमत्वेन साध्यं चोत्तममाप्नुयुः । ब्रह्मादयः क्रमेणैव यथाऽऽनन्दश्रुतौ श्रुताः ॥ इति ब्राह्मे ॥ २० ॥ (४) कुतः ? सू-ॐ ॥ दर्शनाच्च ॥ ॐ ॥ २१ ॥ स्येति । विषमफलदातुरिति शेषः । उभयपदपरामर्श दर्शयति-ब्रह्मादी- निति । 'अन्यान्' मध्यमाधमान् । बहुलग्रहणाद्वितीयातत्पुरुषः। चः समु चये। सामञ्जस्यमिति । समञ्जसो वैषम्यादिदोषशून्यस्तस्य भावः सामञ्जस्य 'भवति' भवेत् नान्यथेत्येवशब्दार्थः। न तु समभक्तीनां फलवैषम्य- मिति तदर्थः। तथाच फलवैषम्यान्यथानुपपत्त्या भक्तितारतम्यसिद्धि- रिति भावः॥ , (३) फलं समं, साधनं तु विषममित्येवंरूपफलसाधनवैरूप्ये सूत्र- कृदुक्तं युक्तिविरोधमुक्त्वा स्मृतिविरोधं च दर्शयति-साधनस्येति ॥ भक्तयादिरूपसाधनस्येत्यर्थः। 'उत्तमत्वेन' महत्वेनाल्पत्वेन चेत्यस्याप्युप- लक्षकमेतत् । हेतौ तृतीया । हेतुत्वं च साध्यगतोत्तमत्वं प्रतीति द्रष्टव्यम् । 'साध्यं' मुक्तिफलं 'उत्तम' महत् , अल्पं चेत्यपि ग्राह्यम् । चोऽप्यर्थस्स- मुच्चये। ब्रह्माद्यो देवा इति शेषः। अन्योपलक्षकमेतत् । साम्यभ्रमनिरा- सायाह-क्रमेणेति । 'अथात आनन्दस्य' (ते. २-८.) इति श्रुतौ 'यथा' येन क्रमेणानन्दित्वेन श्रुताः, तथा तेनैव क्रमेण साध्यमानन्दमाप्नुयुरित्यर्थः । इतीति । ब्राझे उक्तिश्चात्र प्रमाणत्वेन भवतीत्यन्वयः॥ (४) ननु भवेदेतद्यदि ब्रह्मादीनां फलतारतम्यं स्यात् , तदेव कुत इति हेत्वसिद्धिमाक्षिपति-कुत इति ॥ फलस्य वृद्धिहासभाक्त्वं कुतः ? प्रमाणाभावान्नास्त्येवेति भावः। एतदाक्षेपपरिहाराय सूत्रं पठित्वा व्याचष्टे- दर्शनाच्चेति ॥ आरभ्येति आरभ्य पठितायां श्रुतावित्यन्वयः। यद्वा-इति सुखे विशेषदर्शनादित्यन्वयः। आरभ्येत्यस्य मनुष्योत्तममारभ्येत्यर्थः । आद्यपक्षे मनुष्योत्तममारभ्येति शेषः। 'ब्रह्मपर्यन्तेषु' चतुर्मुखपर्यन्तेषु मुक्तेष्विति शेषः। 'सुखे' आनन्देषु विशेषस्य तारतम्यस्य दर्शनादुक्तत्वा- दित्यर्थः। यद्यपि 'सैषाऽऽनन्दस्य मीमांसा भवति' (ते. २.८.) इति १०० अतः ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा. २. अथात आनन्दस्य मीमांसा भवति । (ते. २-८.) इत्यारभ्य ब्रह्मपर्यन्तेषु सुखे विशेषदर्शनात् । तैत्तिरीयश्रुतिपाठः। तथापि शाखान्तरपाठोऽयमित्यदोषः। श्रुतौ प्रकर- णान्तरारम्भे अथशब्दः। ' पक्षद्वयमापकसत्त्वात् 'आनन्दस्य' मुक्तसुखस्य मीमांसा' किं सर्वेषामेकप्रकार उत अनेकप्रकार आनन्द इति विचारो ‘भवति' प्रवर्तत इत्यर्थः। एवं विचारे अनेकधेत्युत्तर- मुच्यत इति केचित् । तन्न, तैत्तिरीयभाष्ये आनन्दस्य मीमांसा' विचित्रता भवतीति व्याख्यानात् । विविधचरणं वैचित्र्यम् धात्वर्थः । स्वार्थे सन् । फलवैचित्रये हेतुभावादित्यतश्शब्दार्थः। मानुषोत्तममारभ्य विरिञ्चपर्यन्तमानन्दतारतम्यं वक्तुं तत्र मनुष्योत्तमचक्रवर्त्यानन्दस्य पूर्वा- वधिभूतत्वात्तद्वचनाय मुक्तचक्रवर्तिनो विशेषणान्याह-युवा स्यादित्या- दिना। विष्णुना युतस्सन् वाति गच्छतीति युवा। साधुगुणयुक्तत्वा- त्साधुना विष्णुना युतत्वाद्वा साधुयुवा । मुक्त्याख्याध्ययनफलवत्त्वादाध्या- यकः। आसमन्ताच्छमस्येत्याशः अतिशयेनाशः आशिष्ठः नित्यपूर्णसुखवा- नित्यर्थः । अतिशयेन दृढो द्रविष्ठः । अतिशयेन बली बलिष्ठः । य एवंभूतः मुक्तचक्रवर्ती तस्य त्रेतायुगे संसारदशायामियं सर्वा पृथिवी 'वित्तस्य' वित्तेन पूर्णा स्यात्तदा तस्य यत्सुखं ‘स एको मानुष आनन्दः' मुक्त- मनुष्यचक्रवर्तिसम्बन्ध्येक आनन्द इत्यर्थः। 'ते' प्रसिद्धाः 'ये शतं मानुषाः' मुक्तमनुष्यचक्रवर्तिसम्बन्ध्यानन्दाः 'स एकः मनुष्यगन्धर्वाणां' मुक्तानामानन्दः। मुक्तत्वज्ञापनाय विशेषणद्वयमाह-श्रोत्रियस्येति । श्रोत्रियाणामकामहतानां चेत्यर्थः। एवमग्रेऽपि वचनव्यत्ययो शेयः। प्राप्त- मोक्षिणः श्रोत्रियाः। कामकृतोपद्वशून्याः अकामहताः। ये साक्षाद्देव- प्रेष्यास्ते देवगन्धर्वाः। तेषां मनुष्यगन्धर्वापेक्षया शतगुणितोत्कृष्ट आनन्द इत्यर्थः । एवमग्रेऽपि पूर्वपूर्वापेक्षया उत्तरोत्तरेषां शतगुणोत्कर्षो ज्ञातव्यः । चिरकालीनो लोकश्चिरलोकः, स एव लोको येषां ते तथोक्तास्तेषा- मित्यर्थः । देवेष्वनाख्याता अकथिता या देवताः देवकुले जातास्ते आजान- देवास्तेषामित्यर्थः। के कर्मदेवाः ? कुतश्च तेषां कर्मदेवत्वमित्यत उक्तं- ये कर्मणेत्यादि । 'ये' बल्याद्याः कर्मणा मध्ये 'देवान् ' देवत्वं 'अपि- यन्ति' प्राप्नुवन्ति ते कर्मदेवा इत्यर्थः । देवानामिति । सृष्टयादौ देवत्वं .4 n अधि - १२. सू - २१.] दीपिकासहितम् १०१ (५) चशब्दात् स्मृतिः। यथा भक्तिविशेषोज दृश्यते पुरुषोत्तमे । तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदने ॥ इति ॥ २१ ॥ ॥ इति वृद्धिह्रासाधिकरणम् ॥ १२ ॥ ॥ १३. प्रकृत्यधिकरणम् ॥ (१) सृष्टिसंहारकर्तृत्वमेवास्य, न पालकन्वम् , स्वतस्सिद्धेरिति । प्राप्तानां तत्त्वाभिमानिदेवानामित्यर्थः । इन्द्रस्य' दक्षप्रजेश्वरस्य बृहस्पतेः' पुरन्दरस्य 'प्रजापतेः' रुद्रस्य 'ब्रह्मणः' चतुर्मुखस्येति समनश्रुत्यर्थः॥ (५) नन्वस्तु कलतारतम्यं, तथापि भक्तिसाम्यं किं न स्यात् , फलतारतम्यस्य भक्तीतरप्रसादादितारतम्येनापि सम्भवादित्यत आह- चशब्दादिति ॥ समुचितेति शेषः। काऽसावित्यतः तां स्मृति पठति- यथेति अत्र' संसारे ज्ञानिनां परमेश्वरे 'यथा भक्तिविशेषो भक्तयातिशयो दृश्यते, तथैव तेषां लिङ्गभेदने' लिङ्गशरीरभङ्ग जाते- सति 'मुक्तिविशेषो' मुक्तावानन्दव्यक्तिविशेषोऽपि दृश्यते । नान्य- थेत्यर्थः। दृशिरत्र भवत्यर्थः। यद्वा-अत्र 'ज्ञानिनां' ज्ञानिषु यथा भक्तितारतम्यं योगिभिः 'दृश्यते' ज्ञायते तथैव तेषां लिङ्गभेदने सति मुक्तिविशेषो' मुक्तितारतम्यमपि दृश्यते। न बैरूप्येणेत्यर्थः इति स्मृतिरित्यन्वयः॥ ॥ इति वृद्धिह्रासाधिकरणम् ॥ १२ ॥ ॥ १३. प्रकृत्यधिकरणम् ॥ (१) अनाधिकरणे विश्वपालकत्वं समर्थ्यते । पूर्वपक्षयति-सृष्टीति॥ सृष्टिश्च संहारश्च तयोः कर्ता तस्य भावस्तत्त्वमित्यर्थः। यद्वा-सृष्टौ सत्या संहारः तस्य कर्तृत्वमित्यर्थः अस्य' भगवतः । इदं चावर्तनीयम् । एव- कारः क्रमेण भिन्नक्रमेण चान्वेति । तत्राद्यपक्षे तद्वयावयं दर्शयति- नेति । अस्तीति शेषः । अस्येत्यनुवृत्तपदं । तथाच न विश्वपालकत्वं भगव- तोऽस्ति किन्तु सृष्टिसंहारकर्तृत्वमेव । कुतः ? यतोऽस्य संहारकर्तृत्वं, न च संहर्तुः पालकत्वं सम्भवतीति भावः। पालनसाध्यकार्याभावाच्च । न च , १०२ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा. २. (२) अत आह- सू-ॐ ॥ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः॥ ॐ ॥ २२ ॥ स्थितिस्तत्कार्य, सृष्टौ सत्यां यावत्संहारस्तावदस्य जगतः स्थितिकार्यस्य पालनं विना स्वत एव सिद्धस्तस्य तदेकप्रयोजनत्वात् । न च संहारनिवारण- व्यापारः अवान्तरोपद्रवनिवारणं वा तत्प्रयोजनम् । यतोऽस्यैव सृष्टिसंहार- कर्तृत्वं न त्वन्यस्येति योजना। अनेन सयुक्तिकः पूर्वपक्षः प्रदर्शितो भवति॥ (२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे-अत इति । उक्तमिति । स्वस्या प्रागुक्तमित्यर्थः । अनेन प्रकृतेति प्रातिपदिकं व्याख्यातं भवति । एतावत्त्व- मित्येतद्वयाचष्टे-सृष्टीति । इदं चावर्तते। तथाच उक्तं सृष्टिसंहारकर्तृत्वं सृष्टिसंहारकर्तृत्वमा तावन्मात्रपर्यवसितमित्येतत्प्रतिषिध्येत्यर्थः । वचना- पेक्षया प्रतिषेधस्य पूर्वकालीनत्वज्ञापनाय ल्यबन्तनिर्देशः । मात्रशब्देन पालनाख्यगुणान्तरं व्यावय॑ते । 'ततः ' उक्तात् । भूय इत्यस्य व्याख्यानं -अधिकमिति । पालनमपीत्यर्थः । अस्येत्यनुवर्तते । ब्रवीतीत्यनन्तरं श्रुति- रिति यत इति च शेषः । अस्य हेतोरस्त्येव हरेः पालकत्वमिति प्रकरण- लब्धसाध्येनान्वयः। अनेन हिशब्दो हेत्वर्थतया व्याख्यातः। अस्येदेषा सुमतिः पप्रथानाऽभवत्पूर्व्या भूमना गौः । अस्य सनीळा असुरस्य योनौ समान आभरणे विभ्रमाणाः ॥ किंस्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । सन्तस्थाने अजरे इतऊती अहानि पूर्वीरुषसोऽजरन्त ॥ नैतावदेनापरो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति । त्वचं पवित्रं कृणुत स्वधावान्यदीं सूर्य न हरितो वहन्ति ॥ (ऋ. १०-३१-६, ७, ८.) इति श्रुतेरयमर्थः 'अस्येत् ' विष्णोस्सकाशादेव 'एषा सुमतिः' ब्रह्मादि- सुबुद्धिः-'पप्रधाना' अतिशयेन प्रथाना प्रथमाऽभवत् । अनेन 'भूमना' भूम्ना पूर्णेन विष्णुना ' पूर्व्या' पूर्वतना ‘गौः' द्यावापृथिवी 'अभवत् ' अभूताम् । अस्य विष्णोर्भूम्ना महिम्नैव सुमतिर्गौश्चाभवदिति वा। 'असु.

१०३ - . , अधि - १३. सू - २२.] दीपिकासहितम् उक्तं सृष्टिसंहारकर्तृत्वमात्रं प्रतिषिध्य ततोऽधिकं ब्रवीति । नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी विभर्ति । इति (ऋ. १०-३१-८). रस्य' असुषु प्राणेषु रमणादसुत्वात्प्राणरूपत्वात् रमणीयत्वाचासुरो वायुः महद्देवानामसुरत्वमेकम् ' (ऋ. ३-५५-१.) इति श्रुतेः । ' या मारुताद्गर्भ- माधत्त पूर्वम् ' इति स्मृतेः। तस्य — योनौ' भार्यायां 'समाने' एक- स्मिन् 'आभरणे' आसमन्ताद्भरणस्थाने गर्भ 'भ्रियमाणाः' देवाः अस्य सकाशादेव 'सनीलाः' भवन्ति निलीयन्ते संह्रियन्त इति यावत् ॥ भगवन्महिम्नैव शुभ्वाद्युत्पत्तिरित्यनङ्गीकारे तन्निर्माणे अधिष्ठानादिकं किं स्यादित्याक्षिपति-किं विदित्यादिना ॥ सर्गाद्यसमये वनं किं वाऽऽसीत् , क एव वृक्ष आस, न कोऽपीत्यर्थः । एवं वनं 'किंस्वित्' कस्माजातं ' स वृक्षो' वनादन्यत्र विद्यमान एकैकवृक्षश्च ‘क आस' कस्माजातः। किंकारणकं वनमास, किंकारणकश्च वृक्ष आसेति प्रश्नपर- तयाऽपीदं व्याख्येयम् । अस्योत्तरमाह-यत इति । 'यतो' यस्माद्धरेः सर्वे लोकास्तत्स्थाश्च ‘निष्टतक्षुः' समुत्पन्नाः। यस्मादेव 'सन्तस्थाने' सम्यक् स्थायिन्यौ 'अजरे' जराशून्ये दृढे द्यावापृथिव्यौ 'इत ऊती अस्मादेव समुद्भूतज्ञानादिके अहानि ' पूर्वीः ' पूर्व्य उषसश्च 'अजरन्त' जीर्णा अभूवन् । यद्वा-'पाताळमेतस्य हि पादमूलं लोमानि वृक्षौषधयः' इतिस्मृतेः 'यतो' यस्यावयवेभ्यो द्यावापृथिव्युपलक्षितचतुर्दशभुवनानि 'निष्टतक्षुः' नितरां कृतानि तेभ्य एवावयवेभ्यो 'वनं' वृक्षादि जातं, किञ्च-' इतो' भूमेरुपरि गते 'अजरे' नाशरहिते 'सन्तस्थाने सम्यक्तते वैकुण्ठादिस्थाने 'ऊती' ऊतयो व्याप्तयो यस्य परमात्मनः पूर्वीरहानि उषसश्च 'अजरन्त' जीर्णा आसन् । येनानेनेश्वरेण भवत्कार्य- मिति शेषः॥ 'अस्येदेषा सुमतिः' इत्यादिना प्रागुक्तं सृष्टिसंहाररूपं एतावत्सृष्टि- संहारमात्रपर्यवसितं न भवति, किन्त्वन्यदप्यस्ति । किं तदित्यत आह- स इति । 'सः' परमात्मा 'उक्षा' भक्ताभिलषितसेचकः द्यावापृथिव्यौ 'बिभर्ति' धत्ते पुष्णाति च । यः 'स्वधावान्' पूर्णसुखो भगवान् तस्य स्मृत्या तद्वन्तो भूत्वा 'त्वचं' शरीरं पवित्रं 'कृणुत ' कुरुत। हे सन्त , . . , १०४ ब्रह्मसूत्रभाष्यम् [अध्या- ३. पा- २. . (३) चशब्दात् स्मृतिश्च- सृष्टिं च पालनं चैव संहारं नियम तथा । एक एव करोतीशः सर्वस्य जगतो हरिः॥ इति ब्रह्माण्डे ॥ २२॥ ॥ इति प्रकृत्यधिकरणम् ॥ १३ ॥ इति शेषः। यद्वा-स्वधावान् स परमात्मा ध्यातश्चच्छरीरं पवित्रं करोती- त्यर्थः। 'यत्' येन पवित्रीकरणेन 'हरितो' दिशः 'सूर्य न' सूर्यमिव सदा भगवन्तमक्लेशेनैव प्रजा वहन्तीत्यर्थः। भावबोधे तु सदिति पदच्छे दं कृत्वा सदित्यस्य भवत्कार्यमिति च द्वेधा व्याख्यानमित्युक्तम्। तत्र स इति प्रसिद्धपद विभागविरोधादकारे द्वित्वाश्रवणं च बाधकमिति ध्येयम् ॥ (३) सृष्टिसंहारकर्तुरपि पालकत्वरूपगुणान्तरवत्ने स्पष्टस्मृतिपर- तया सौत्रचशब्दं व्याचष्टे-चशब्दादिति ॥ समुचितेति शेषः । तां स्मृति पठति-सृष्टयादिशब्दैः प्रयोज्यव्यापारा लक्ष्यन्ते। सर्वस्य जगत इत्यादौ योज्यम्। परस्परसमुच्चये चः। 'चैव' एवं संहारम् । तथाशब्दः समुच्चये। नियमनं च। एक एव ' न त्वन्यः। अत्रोपपत्तिः-ईश इति । ब्रह्माण्डे उक्तिश्चेति शेषः । अस्य श्रुतिरित्यस्य च ब्रवीतीति क्रियापदे- नान्वयः। श्रुतौ स्थित्यतिरिक्तस्य धारणपोषणादिरूपप्रयोजनान्तरस्योक्तया तस्य च 'एकः' इति स्मृतावनन्यसाध्यत्वस्योक्तयाच स्थितेः स्वत- स्सिद्धत्वात्तपालनं निष्प्रयोजनमिति चोचं निरस्तं भवति । अनेन-'हि यतो 'नैतावत् ' इति श्रुतिः ‘अस्येदेषा सुमतिः' इत्यादिना पूर्व प्रकृतस्योक्तस्य सृष्टयादिकर्तृत्त्वस्य 'एतावत्त्वं' एतावन्मात्रपर्यवसितत्वं पालनाख्यगुणान्तरासाहित्यं प्रतिषेधति । न केवलमेतावत्किन्तु 'ततः सृष्टयादिकर्तृत्वात् ' भूयः' अधिकं पालकत्वमप्यस्य विष्णोर्ब्रवीति । तथा 'सृष्टिं च' इति स्मृतिश्च, स्पष्टम् । अतः सृष्टिसंहारकर्तृत्वातिरिक्तं पालकत्वाख्यं महिमान्तरमपि परस्य सिद्धमिति सूत्रार्थ उक्तो भवति ॥ ॥ इति प्रकृत्यधिकरणम् ॥ १३ ॥ . .

अधि - १४ सू - २३ ] दीपिकासहितम् १०५ ॥ १४. अव्यक्तत्वाधिकरणम् ॥ (१) परमात्मापरोक्ष्यं च तत्प्रसादादेव । न जीवशक्तयेति वक्तु- मुच्यते- सू-ॐ ॥ तदव्यक्तमाह ॥ॐ॥ २३ ॥ अव्यक्तमेव तद्ब्रह्म स्वतः। (२) अरूपमक्षरं ब्रह्म सदाऽव्यक्तं च निष्कलम् । यज्ज्ञात्वा मुच्यते जन्तुरानन्दश्चाक्षयो भवेत् ॥ इति कौण्ठख्यश्रुतिः ॥ २३ ॥ ॥ १४. अव्यक्तत्वाधिकरणम् ॥ (१) अत्राधिकरणे भगवद्भक्तेः कर्तव्यतासमर्थनाय तस्योपलब्ध्ययो- ग्यत्वं समर्थ्य से । सिद्धान्तयत्सूत्रमवतारयति-परमात्मेति ॥ चस्त्वर्थः । भक्तिफलत्वेनोक्तमिति विशेषणसमुच्चये वा । तदिति ईश्वरो भक्तिश्चो- च्यते । तथाच भक्तिसाध्येश्वरप्रसादादित्यर्थः । यद्वा-तदितीश्वर एवोक्तः। भक्तिसाध्यादिति शेषः । एवकारव्यावर्त्यमाह-नेति। 'जीव- शक्तया' पुरुषप्रयत्नेनेत्यर्थः। अनेनेश्वरस्य व्यक्तत्वे विनैव भक्तिं जीव- शक्तयेव स्तम्भादिवदपरोक्षज्ञानसम्भवात् अव्यक्तत्वे च सत्यामपि भक्तो तदसम्भवात्प्रयोजनस्याभावान भक्तिः कर्तव्ये ति सयुक्तिकपूर्वपक्षः, तथा खतोऽव्यक्तस्यापीश्वरस्य भक्तिसाध्यप्रसादादापरोक्ष्यसम्भवात्सफलत्वा- द्भक्तिः कर्तव्येति सयुक्तिकसिद्धान्तश्च सूचितो भवति । ' इति ' एवं वक्तुं 'अतोऽनन्तेन' इत्यादाविति शेषः। 'उच्यते' प्रथमं तत्र हेतुत्वेन अव्यक्तत्वमिति शेषः । अव्यक्तमेवेत्यनेन सूत्रे पूर्वस्मात् एवार्थकचशब्दानु- वृत्तिस्सूचितः । तदित्यस्य व्याख्या--ब्रह्मेति । परं ब्रह्मत्यर्थः। 'स्वतः' स्वभावत इति शेषोक्तिः। अनेन अव्यक्तत्वस्यास्वाभाविकत्वं निराकृतं भवति । स्वत इत्यनन्तरं यत इति शेषः। अस्य परमात्मापरोक्ष्यं चन जीवशक्तया, किन्तु तत्प्रसादादेवेति प्रकृतसाध्येनान्वयः। अत एव साध्य- वाक्यप्रदर्शनार्थमेव वक्तुमित्यन्तमुक्तम् ॥ (२) अव्यक्तत्वहेतोरसिद्धिपरिहाराय प्रवृत्तं-आह हीति सूत्रखण्डं व्याचष्टे--अरूपमिति ॥ ब्रह्म यतः 'अक्षरं' सर्वथा नाशशून्यमतः 'अरूपं' .. , ।

१०६ . ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा - २. (३) सू-ॐ ॥ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ ॐ ॥ २४ ॥ आराधनेऽप्यव्यक्तमेव ज्ञानिनां प्रत्यक्षेण इतरेषामतिसूक्ष्मत्वलिङ्गा- दनुमानेन । प्राकृतविग्रहशून्यं तादृशशुक्लादिरूपशून्यं च, अन्यथा नाशापत्तेरिति भावः। यतोऽरूपमतः 'अव्यक्तं' अप्रत्यक्षम् । कादाचित्कास्वाभाविका- व्यक्ततानिरासाय-सदेत्युक्तम्। चो विशेषणसमुच्चये। 'निष्कळं' भिन्नांश- शून्यं षोडशकलाशून्यं वा, निष्कळत्वमक्षरत्वे हेतुतयोक्तम् । 'यत्' ब्रह्माख्यं वस्त्वित्यस्य तत्रत्यतच्छब्देनान्वयः। ' ज्ञात्वा' अपरोक्षतो 'जन्तुः ' स जीवो मुच्यते संसृतेः । न केवलमनिष्टनिवृत्तिमात्रं, किन्त्वस्य स्वरूपभू. तानन्दः 'अक्षयो' नित्योऽभिव्यक्तश्च भवेदित्यर्थः । हिशब्दो हेतौ। श्रुतिराहेति । अनेन सूत्रे श्रुतिरिति शेषो दर्शितः ॥ (३) नन्वस्तु ब्रह्म स्वतोऽव्यक्तं, तथाप्याराधनेन पुरुषप्रयत्नेन व्यक्तीभविष्यति । समाराधनेनाव्यक्तयक्षसाक्षात्कारदर्शनात्। एवं चेतिक भक्त्येत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे-अपीति ॥ अव्यक्तमेवेत्य- नन्तरं तत्स्वत इत्यनुवर्तते । तथाच न केवलमनाराधने ऽव्यक्तं, किंतु "आराधनऽपि' भक्तिरहिताराधनेन संपूजनेनाप्यव्यक्तमेव, न तु व्यक्ती- कर्तुं शक्यमित्यर्थः । कुतः ? यतस्तद्ब्रह्म स्वतोऽव्यक्तं अत इति योजना। यद्वा-भक्तिरहिताराधने एव तद्व्यक्त, न तु भक्तिसहिताराधनेऽपि येन भक्तेर्वैयर्थ्य स्यादिति । अनेन सूत्रे संराधने संपूजने इति निमित्त सप्तमी । अपिः भिन्नक्रमः समुच्चये। तदव्यक्तमिति चानुवर्तनीयमित्युक्त भवाते। आराधनेऽप्यव्यक्तत्वं कुत इत्यतः प्रवृत्तं प्रत्यक्षानुमानाभ्यामिति सूत्रखण्डं व्याचष्टे–ज्ञानिनां प्रत्यक्षेणेति । कर्तरि षष्ठीयम् । इतरेषां ज्ञान- साधनमाह-इतरेषामिति । ज्ञानिभ्योऽन्येषामित्यर्थः । इतरेषामित्यनेन प्रत्यक्षसिद्धेऽर्थेऽनुमानवैफल्यमिति निरस्तम् । लिङ्गादनुमानेनेति । लिङ्गा- ख्येनानुमानेनेत्यर्थः। आगमव्यावर्तनायेदं विशेषणम् । यद्वा-लिङ्गाद- व्यक्तत्वस्य अनुमानेनेति वैयधिकरण्येनान्वयः। समासपाठे सूक्ष्मत्व- हेतुकानुमानेनेत्यर्थः। अस्याराधनेऽप्यव्यक्तमेवेति साध्येनान्वयः। इति अधि . १४. सू - २४.] दीपिकासहितम् . , (४) न तमाराधयित्वाऽपि कश्चिद्वयक्तीकरिष्यति । नित्याव्यक्तो यतो देवः परमात्मा सनातनः।। इति ब्रह्मवैवर्ते ॥ २४ ॥ (५) नित्याव्यक्तरूपेण तथैव तिष्ठति व्यक्तं किञ्चिद्रूपं गृहीत्वा सिद्धमिति शेषः। यद्यपि सूक्ष्मत्वस्याव्यक्तशब्दप्रवृत्तिनिमित्तत्वान्न तत्साधकत्वम् । तथापि प्रत्यक्षाविषयस्वभावत्वमव्यक्तत्वम् । सूक्ष्मत्वं तु ततोऽतिरिक्तमिति भेदादविरोधः। यदा सूक्ष्मा अपि परमाण्वादयो नामदक्षगोचराः तदा किम्वतिसूक्ष्मं ब्रह्मेति झापनाय-अतीत्युक्तम् । न च ज्ञानिकर्तृकब्रह्मविशेष्यकाव्यक्तत्वप्रकारप्रत्यक्षे ब्रह्मणोऽपि भानात् तस्याव्यक्तताविरोध इति वाच्यम् । खतोऽव्यक्तस्यापि ब्रह्मणो भक्ति- वशादचिन्त्यशक्त्याऽभिव्यक्तेरङ्गीकारात् ॥ (४) ननु परप्रत्यक्षस्यासिद्धत्वात्कथमत्र ज्ञानिप्रत्यक्ष प्रमाणीक्रियत इत्यतः तैरव्यक्तत्वोक्त्या तदन्यथाऽनुपपत्त्या तेषामव्यक्तप्रत्यक्षसिद्ध तदुपन्यासोपपत्तेरिति भावनाह-वेति ॥ तं' परमात्मानं, न केवलम- नाराधयित्वा, किन्तु भक्ति विनाऽऽराधयित्वाऽपि भक्ति विनाऽपीति वा अपिशब्दार्थः । 'कश्चित् ' योग्यो जनः । कुतो न व्यक्तीकरिष्यति ? यतोऽव्यक्तः। नन्वव्यक्तस्यापि विष्णोराराधनेन व्यक्तिस्सम्भवति यशादिवदित्यत उक्तम्-नित्येति। नित्यं सदा खतोऽव्यक्त इत्यर्थः । यक्षादयस्तु नैवमिति न व्यभिचार इति भावः। एवंभूतश्चेत्कथं भक्त्याऽपि व्यक्तो भवेत् , तथाच भक्तेर्वैयर्थ्यमित्यतो-देवः परमात्मेति चोक्तम् । अचिन्त्यशक्त्योभयं युज्यत इति तदभिप्रायः। अनित्यस्य कथं नित्याभि व्यक्तत्वमित्यत आह-सनातन इति । देहतः स्वभावतश्च नित्य इत्यर्थः। ब्रह्मवैवर्त इति । उक्तमिति शेषः । अतो न प्रत्यक्षासिद्धिरिति भावः ॥ न चानेनाव्यक्तत्वमात्रसिद्धावपि कथं तत्प्रत्यक्षसिद्धिरिति वाच्यम् । व्यासा- दिज्ञानिकर्तृकाव्यक्तत्वादिवचनस्य वचनान्तरमूलत्वेनानवस्थापत्त्या प्रत्य- क्षमूलकत्वस्यैव वक्तव्यत्वेन तेनाव्यक्तत्वसिद्धिसम्भवात् ॥ (५) आक्षिपति-नित्येति ॥ ब्रह्मेत्यनुवर्तते । आदिपदेन जलभुवौ गृह्यते । न त्वकाशवायू अपि, तयोः स्थूलरूपेणाप्यदृश्यत्वात् । यद्यपितथा- पीत्यर्थेऽपिशब्दः। तथाच यथा अग्नयादयोऽग्निमात्रादिलक्षणानुपचित- १०८ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा - २. दृश्यते । यथाऽग्नयादयस्तन्मात्रारूपेणादृश्या अपि स्थूलरूपेण दृश्यन्ते एवमिति चेत्- (६) न, सू-ॐ ॥ प्रकाशवच्चावैशेष्यम् ॥ ॐ ॥ २५ ॥ अग्नयादिवत्स्थूलसूक्ष्मत्वविशेषाभावात् । (७) 'नासौ सूक्ष्मो न स्थूलः पर एव स भवति । तस्मादाहुः परमः' इति माण्डव्यश्रुतेः। सूक्ष्मरूपेणादृश्या अपि स्थूलेनोपचितरूपेण 'दृश्यन्ते' व्यज्यन्ते, एवं नित्यमुत्पत्त्यादिरहितमत एवाव्यक्तं यन्मूलरूपं तेन 'तथैव' अव्यक्त- स्वेनैव तिष्ठति ब्रह्म, किश्चिदवताररूपं गृहीत्वा तेन दृश्यत इति योजना। यत एवमतो भक्ति विनाऽपि ब्रह्मदर्शनभावाद्वयर्था सेति वाक्यशेषः। तथैवेत्येतदवताररूपमित्यनेनापि सम्बध्यते । मूलरूपसदृशमेवेति तदर्थः । तेन मूलरूपदर्शनस्य मोक्षहेतुत्वेऽपि नावतारदर्शनस्य तथात्वमिति शङ्काऽनवकाशः॥ (६) एतच्चोद्यं प्रतिषेधति- नेति ॥ नित्येत्यादिनोक्तं नेत्यर्थः । अनेन सौत्रचशब्दो न दृष्टान्तान्तरसमुच्चायकः, किन्तु शङ्काव्यावर्तक इत्युक्तं भवति। तत्त्वप्रदीपे तु 'सर्वतः प्रकृतिः सूक्ष्मा प्रकृतेः परमेश्वरः' इति तुरश्रुतेः प्रकृतिवच्च नास्य सूक्ष्मत्वं नेत्र चाग्नयादिवदिति चकारार्थ इति चकारस्या- नुक्तदृष्टान्तसमुच्चायकत्वमुक्तम्। एतत्पक्षे नेत्येतत् आगामिसूत्रेऽध्याहृत- नार्थकथनरूपमिति द्रष्टव्यम् । कुतो नेति हेत्वाकांक्षायां सूत्रमुपन्यस्य व्याचष्टे-प्रकाशवच्चेति । अग्नयादिवदित्यनेन गुणवाचकप्रकाशशब्दोs- नयादिगुणिवाचकतया व्याख्यातः। आदिशब्देन जलपृथिव्योर्ग्रहणम् । त्वप्रत्ययः प्रत्येकं सम्बध्यते । विशेषेत्यनेन सूत्रे स्वाथै प्यजित्युक्तं भवति । विशेषो धर्मः। पञ्चमीनिर्देशेन चो यत इत्यर्थेऽपीत्युक्तं भवति । ब्रह्मणीति शेषः॥ (७) ननु ब्रह्मणि स्थूलसूक्ष्मत्वयोरभावः कुतो ज्ञायते, येन व्यक्ता- व्यक्तत्वयोरभावः स्यादित्यतः अत्रापि-आह हीत्यस्यानुवृत्तिमभिप्रेत्य तदभिप्रेतां श्रुतिमुदाहरति-नासाविति ॥ ' असौ ' भगवान् केनचिद्रूपेण , n १०९ , अधि · १४. सू - २५.] दीपिकासहितम् (८) स्थूलसूक्ष्म विशेषोच न क्वचित्परमेश्वरे । सर्वत्रैकप्रकारोऽसौ सर्वरूपेष्वजो यतः ॥ इति च गारुडे। (९) अव्यक्तव्यक्तभावौ च न क्वचित्परमेश्वरे । सर्वत्राव्यक्तरूपोऽयं यत एव जनार्दनः॥ इति कौमें ॥ १५ ॥ सूक्ष्मः केनचित्स्थूल इति न, किन्तु ‘स पर एव' सर्वरूपेषु परमसूक्ष्म एव भवति न त्वनैवंभूतः । एवं असौ केनचित् रूपेण स्थूलः केनचित्सूक्ष्म इति न, किन्तु सर्वत्र ‘परः' परमस्थूल एवेत्यर्थः। अत एव नद्वय- प्रयोगः, 'महतो महीयान् ' (कठ. २-२०.) इति श्रुत्यविरोधश्च । स्थूलात् स्थूलतमत्वं हि तदर्थः । न चैवं व्यक्तत्वापत्तिः, तद्विरोधिपरमसूक्ष्मत्वेन तत्प्रतिबन्धात् । किश्चातः ? यस्मात्सर्वत्र परमसूक्ष्मः स्थूलश्च तस्मादेनं विष्णुं परम इत्याहुानिन इत्यर्थः। श्रुतेरित्यस्यावैशेष्यमित्यनेनान्वयः। सिद्धमिति शेषः॥ (८) नन्वनुत्पन्नस्य मूलरूपस्योत्पन्नानां चावताररूपाणां च कथं स्थूलसूक्ष्मत्वविशेषाभाव इत्यत आह-स्थूलेति ॥ व्यवस्थयेति शेषः । तथाच यतोऽसौ भगवान् ‘ सर्वरूपेष्वजः' उत्पत्तिशून्यः सदा अतः 'अत्र' भगवति क्वचिदपि रूपे काले वा 'स्थूलसूक्ष्मविशेषः' स्थूलसूक्ष्मत्वरूपो धर्मः 'व्यवस्थया' केनचित् रूपेण स्थूलः केनचित् रूपेण सूक्ष्म इति न । एवं घटादिवजननात्पूर्व सूक्ष्मस्तदूर्ध्व स्थूल इत्यपि न, किन्तु सर्वत्रैकरूप एवेत्यर्थः । ननु कथमेतदन्यत्रादृष्टमत्र युज्यत इत्यत आह–परमेश्वर इति । हेतुगर्भमेतत् । इति चेति चः श्रुतिसमुच्चये। गारुडे उक्तमिति शेषः । अस्याप्यवैशेष्यमित्यनेनान्वयः ॥ (९) एवं स्थूलसूक्ष्मत्वयोपिकयोर्हरावनुपलब्ध्या तव्याप्ययोर्व्य- क्तत्वाव्यक्तत्वयोरप्यभाव उक्तः। स्मृत्याऽप्येतभावं साधयति- अव्यक्तेति ॥ अव्यक्तत्वव्यक्तत्वे इत्यर्थः। चः समुच्चये। क्वचिद्रूपेऽ व्यक्तत्वं क्वचिद्वयक्तत्वमिति व्यवस्थितौ नेत्यर्थः। परमेश्वरपदप्रयोजनं तु पूर्ववदेव । कुतो नेत्यत आह-सर्वत्रेति । सर्वरूपेष्वित्यर्थः । 'अव्यक्त- .

११० ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा - २. . (१०) तर्हि किं यत्नेनेत्यत आह- सू-ॐ ॥ प्रकाशश्च कर्मण्यभ्यासात् ॥ॐ ॥ २६ ॥ विषयभूते तस्मिन्नेव श्रवणाद्यभ्यासात्प्रकाशश्च भवति । (११) आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः (बृ. ४-४-५) इति श्रुतेः ॥ २६ ॥ अव्यक्तस्वरूपः 'अयं' परमेश्वरः। कुत इत्यत आह-यत इति । एवकारो भिन्नक्रमः । उत्पत्त्या जननं व्यक्तिमर्दयति गमयति प्राप- यत्येवान्यान् न स्वयमन्यशक्त्या प्रामोतीति जनार्दनः। स्वजननमर्दयति अपगमयतीति वा । गीताभाष्ये तु न जायत इति जनः अर्दयति गमयति संसारमिति जनार्दन इति व्याख्यातं, तदपि प्रकृतानुकूलमेव । कौमें उक्त- मिति शेषः । अस्याप्यवैशेष्यमित्यनेनान्वयः। व्यक्तत्वाव्यक्तत्वरूपविशेष- राहित्यमिति तदर्थः॥ (१०) उत्तरसूत्रमवतारयति-त_ति ॥ ब्रह्मणः सर्वथाऽव्यक्तत्वे इत्यर्थः । किमिति । 'यत्नेन' श्रवणादिरूपेण भक्तिपूर्वकेण किं प्रयोजनं, न किमपीत्यर्थः । इत्यतः' इति शङ्कायां परिहारमाह सूत्रकृदित्यर्थः। सूत्र निराकृतेऽप्यशब्दत्वे तदव्यक्तमित्युक्तया कस्यचित्तदविषयत्वाशङ्का स्यात् , तां वारयितुं प्रयुक्तः कर्मशब्दः कर्मकारकपरः। तदव्यक्तमित्यनुवर्तते । तस्य विपरिणाम इत्याशयेन विषयभूते 'तस्मिन् ' अव्यक्ते ब्रह्मणीत्युक्तम् । न त्वन्यत्रेत्येवार्थः। तथाच तदेकविषयकश्रवणमननाद्यावर्तनादित्यर्थः । भक्तिपूर्वकादिति शेषः । प्रकाश इत्यत्रापि तस्मिन्नित्यावर्तनीयम् । तथाच तस्मिन् 'प्रकाशः, तद्विषयकापरोक्ष्य मित्यर्थः । न केवलमप्रकाशः, किन्तु प्रकाशश्चेति चार्थः। 'तस्मिन् ' अव्यक्तेऽपीत्यप्यर्थो वा । यत इति शेषः । अनेन सूत्रे हिशब्दस्यानुवृत्तिस्सूचिता । अस्यातो न श्रवणादिवैयर्थ्यमित्य- ध्याहृतेनान्वयः । अनेन सूत्रे नअनुवृत्तिस्सूचिता ॥ (११) श्रवणाद्यभ्यालेन अपरोक्षं भवतीत्येतत्कुतो ज्ञायत इत्यतश्च. शब्देन आह हीत्यनुवृत्तेन वा सूचितश्रुतेरेवेत्याह-आत्मेति ॥ ब्रह्मणो निदिध्यासनकर्मत्वं च स्वप्रतिमाद्वारा तदुपासनं च भवति। प्रतिमोपासन- मित्युक्तेः । व्याख्यातेयं श्रुतिर्जिज्ञासाधिकरणे ॥ ७ अधि - १४. सू. २७.] दीपिकासहितम १११ (१२) नित्याव्यक्तस्य कथं प्रकाश इत्यत उच्यते-- सू-ॐ ॥ अतोऽनन्तेन तथा हि लिङ्गम् ॥ ॐ ॥ २७॥ उभयत्र प्रमाणभावात् तत्प्रसादादेव प्रकाशो भवति । (१३) 'तस्थाभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः' (श्वे. १-१०). इति लिङ्गात् । (१२) उत्तरसूत्रमवतारयति–नित्येति ॥ ब्रह्मणः श्रवणाद्यभ्यासाद पीति सम्बन्धः। कथमित्याक्षेपे। न कथमपीत्यर्थः। युक्तिविरोधादिति भावः। उच्यत इति । इत्यस्मिन् चोये परिहार उच्यत इत्यर्थः। तत्सूत्रं पठित्वाचष्टे-अत इति । उभयत्रेति । अव्यक्तत्वे प्रत्यक्षत्वे च प्रमाण- सट्टावादित्यर्थः। तदन्यथाऽनुपपत्त्येति यावत् । अत इत्यस्यार्थान्तरमाह -तस्य प्रसादादिति। तस्याधिकारिणस्तस्याव्यक्तस्यपि परब्रह्मणः प्रसादादेवेत्यर्थः । न साधनसामयनेत्येवार्थः । आपरोक्ष्यम् । इदं चानुवृत्तं पदं भवति । इति ज्ञायत इतिशेषः। चेत्यप्यनुः षजनीयम् । तस्य 'अनन्तेन ' अपरिमितसामर्थ्य नेत्यनेनान्वितस्यावधा- रणार्थत्वं, प्रकाशश्चेत्यनेनान्वितस्य पुरुषप्रयत्नेनाप्रकाशसमुच्चायकत्वं च द्रष्टव्यम् ॥ (१३) न केवलमन्यथाऽनुपपत्या प्रसादाधीन प्रत्यक्षत्वं ब्रह्मणः, किन्तु बलवद्युक्तया चेत्याह सूत्रकृत्-तथाहीति । तद्व्याचष्टे-तस्येति ॥ इतिलिङ्गादिति। इतिवाक्योक्ताद्वन्धनिवृत्तिरूपमोक्षस्य मध्यमप्रसादसाध्य- स्वरूपात् दर्शनस्य प्रसादसाध्यत्वज्ञापकादित्यर्थः । इतिशब्द आद्यर्थे । तेन च 'दृष्दैव तं मुच्यते' ( ) इति श्रुतिः सूचिता। तथाच 'तस्या- भिध्यानात् ' ' दृष्दैव' इति वाक्यद्वयबलादर्शनान्मोक्षः, उपासनाजनित- प्रसादाच्च दर्शनमिति पारम्पर्य सिद्धयतीति भावः । लिङ्गादित्युक्तया सूत्रे यत इत्यध्याहार्यमित्युक्तं भवति। तथाशब्दस्तूपमार्थो वा अर्थापत्तियुक्तयोः समुच्चयार्थो वेति हृदयम् । 'तस्य' इतिश्रुतिस्तदभिध्याननये 'प्रकाशः . . , व्याख्याता॥

११२ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा - २. (१४) युज्यते च तस्य अनन्तशक्तित्वात् । (१५) नित्याव्यक्तोऽपि भगवान् ईक्ष्यते निजशक्तितः । तमृते परमात्मानं कः पश्येतामितं प्रभुम् ॥ इति नारायणाध्यात्मे ॥ २७॥ ॥ इत्यव्यक्तत्वाधिकरणम् ॥ १४ ॥ (१४) नन्वव्यक्तखभावस्य ब्रह्मणः प्रसादेनापि न प्रत्यक्षता युज्यते । न हि प्रसन्नोऽपि नरो वानरो भवितुमीष्ट इत्यत आह—युज्यते चेति ॥ चशब्दोऽवधारणार्थः। उभयमिति विपरिणामेन सम्बध्यते । तदिति च। तथाच तस्य विष्णोरव्यक्तत्वं प्रत्यक्षत्वं चेत्युक्तमुभयं युज्यते । तस्यैव युज्यते न त्वन्यस्येति वा । कुतः ? 'अनन्तशक्तित्वात् ' अपरिमिताघटित- घटकसामर्थ्यत्वादित्यर्थः। तस्यैवानन्तशक्तित्वादित्यनेन सूत्रे तेनेत्य- नुक्त्वा अनन्तेनेत्यधिकोक्तोः प्रयोजनं चोक्तं भवति । अत एवं प्रमेयदीपे -ननु शानिभिर्भगवान् दृश्यते चिन्त्यते च । तत्कथमुच्यते ' अव्यक्तोऽ. यमचिन्त्योऽयम्' (गीता. २२५.) इत्यवतार्य अत एवाव्यक्तादिरूप इति भाष्यं 'अत एव' अचिन्त्यशक्तित्वादेव, यथोक्तं-अतोऽनन्तेन' इतीति व्याख्यातम् । सौत्रातश्शब्दस्य व्याख्यानान्तरमिदमिति केचित् ।। (१५) सूत्राथै स्मृति चाह-नित्येति ॥ अत्रेत्थं योजना-यद्यपि भगवान्नित्यं नियमेन स्वतोऽव्यक्तस्तथाऽपि 'भक्तैरीक्ष्यते' तदर्शन- विषयो भवति । कथम् ? 'निजशक्तितः ' स्वरूपसामर्थ्यादेव । तेन विना भवत्कार्य प्रति कथं तस्य हेतुत्वं व्यभिचारादित्यत आह-तमिति परमात्मानं विना तत्प्रसादं विनेति यावत् । तं परमात्मानं कः पश्येन्न कोऽपीति । अव्यक्तस्वभावस्य कथं दर्शनकर्मता युक्तिविरोधादित्यत उक्तम्-' अमितं' अनन्तं 'प्रभु' समर्थमिति च । नारायणाध्यात्म इत्यनन्तरं सूत्रोक्तमुक्तमिति शेषः ॥ ॥ इत्यव्यक्तत्वाधिकरणम् ॥ १४ ॥ - - ११३ अधि - १५. सू - २८.] दीपिकासहितम् ॥ १५. अहिकुण्डलाधिकरणम् ॥ (१) स्वरूपेणानन्दादिना कथमानन्दित्वादिरिति । (२) अत उच्यते- सू-ॐ ॥ उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ॐ॥ २८॥ ? . - ॥ १५. अहिकुण्डलाधिकरणम् ॥ (१) अत्र भगवतो गुणित्वं समर्थ्यते । सयुक्तिकं पूर्वपक्षयति- स्वरूपेणेति ॥ हेतौ तृतीया। कथमित्याक्षेपे । ब्रह्मण इति शेषः। प्रथमादि- पदेन ज्ञानादिकं गृह्यते । द्वितीयेन ज्ञानित्वादिकं भजनीयत्वं च । युज्यते इत्याकृष्यते। तथाच ब्रह्मणः 'कथं भजनीयत्वं युज्यते' न युज्यते । कुतः ? यतस्तस्य 'कथमानन्दित्वादियुज्यते' न युज्यते । अगुणित्वादिति यावत् । कुतः? ' स्वरूपेण' ब्रह्मस्वरूपत्वेनाङ्गीकृते नानन्दादिना हेतुना, आनन्दादिगुणानां ब्रह्मस्वरूपत्वाङ्गीकारादिति यावत् । तत्स्वरूपत्वे च तद्वत्त्वायोगादिति भाव इति योजना। स्वरूपेणानन्दादिना धर्मेण कथमा- नन्दित्वादियुज्यते इत्येकान्वयो वा। तथात्वे युक्तिविरोधादिति शेषः ॥ (२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे-अत इति ॥ 'आनन्दं ब्रह्मणः इति तैत्तिरीयश्रुतेः 'न बिभेति कदाचन' इत्युत्तरेणान्वयः। 'अथ इत्यन्या श्रुतिः। 'एषः' विष्णुरेव ‘परमः' पूर्णः। इतिशब्द आद्यर्थे । तेन 'आनन्दो ब्रह्म. (तै. ३.६) इत्यादिः गृह्यते। इत्युभयव्यपदेशादिति । इत्याद्यासु श्रुतिधूभयोः ब्रह्मतदानन्दाद्योः उभयोगुणित्वतत्स्वरूपत्वयोरुक्त- त्वादिल्यर्थः। यद्वा-ब्रह्मण इति शेषः। अत्राद्यवाक्यं ब्रह्मणो गुणित्वं वक्ति, द्वितीयं तत्स्वरूपत्वमिति विवेकः । ननु श्रौतमपि गुणात्मकस्य ब्रह्मणो गुणित्वं कथं युज्यते अदर्शनादित्यत उक्तं-अहिकुण्डलवदिति दृष्टान्तवाक्यमनूध व्याचष्टे-अहीति । नन्वहेः कुण्डलित्वावस्थायाः कादाचित्कत्वेन खण्डितत्वाद्भेदाभेदयोः सत्त्वेन कुण्डलित्वं कुण्डलत्वं चेत्युभयं युज्यते । ब्रह्मणस्तु आनन्दादिनाऽत्यन्ताभेदात्कथं गुणत्वं गुणित्वं च युज्यत इत्यतः अहिकुण्डलवदिति सावधारणमित्याह-एवेति। विशेषा- देवेत्यर्थः। तथाच ब्रह्मणस्तद्धर्माणां च भेदप्रतिनिधिविशेषाङ्गीकारा- , 15 ११४ ॥ . ब्रह्मसूत्रभाष्यम् [अध्या- ३. पा- २. 'आनन्दं ब्रह्मणो विद्वान् । (ते. २-४) अथैष एव परम आनन्द: (बृ. ६-३-३३.) इत्युभयव्यपदेशादहिकुण्डलवदेव युज्यते । यथाऽहिः कुण्डली कुण्डलं च । तुशब्दात्केवलश्रुतिगम्यत्वं दर्शयति ॥ २८ ॥ (३) सू-ॐ ॥ प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ ॐ ॥ २९॥ यथाऽऽदित्यस्य प्रकाशत्वं प्रकाशित्वं च एवं वा दृष्टान्तः । तेजोरूपत्वाब्रह्मणः ॥ २९॥ देवोक्तं युज्यत इति भावः । युज्यत इत्यत्र स्वरूपेणानन्दादिनेत्याद्यनुवर्तते । अनेन सूत्रेऽध्याहार्य प्रतिज्ञावाक्यं दर्शितम् । ननु नेश्वरो गुणवान् , गुणा- त्मकत्वात् , यथा अश्वोऽनश्ववान् दण्डोऽदण्डवान् । आनन्दाद्या न ब्रह्म- गुणाः तत्स्वरूपत्वाद्ब्रह्मवदिति युक्तिविरोधात् न गुणित्वं गुणत्वं च ब्रह्मणो युज्यत इत्यतः प्रवृत्तं तुशब्दं व्याचष्टे--तुशब्दादिति ॥ केवलेति। प्रत्यक्षाद्य- सहितेत्यर्थः। श्रुत्यैकसमधिगम्यत्वमिति यावत् । ब्रह्मस्वरूपानन्दादेरिति शेषः। 'दर्शयति' ज्ञापयति सूत्रकार इत्यर्थः। तथाच न तत्र युक्ति- विरोधः शङ्कय इति भावः। तत्र अहेः कुण्डलित्वस्य सिद्धत्वात् कुण्डलत्व- वदित्येकस्यैव ग्रहणं कृतमिति ध्येयम् ॥ (३) दृष्टान्तान्तरेणैतदेव साधयत्सूत्रमुपन्यस्य व्याचष्टे-प्रकाशेति । यथाऽऽदित्यस्य प्रकाशत्वं प्रकाशित्वं चेत्यनेन भास्वररूपार्थप्रकाशशब्दो भावप्रधानः, प्रकाशाश्रयशब्दोऽपि भावप्रधानः। स चावर्तनीयः। तत्पुरुषश्चा- यम्। तथाच प्रकाशाश्रयस्यादित्यमण्डलस्य प्रकाशत्ववत् प्रकाशाश्रयत्व- वत् प्रकाशित्ववच्चेति दृष्टान्तपदस्यार्थ उक्तो भवति । अत्र पूर्वदृष्टान्त इव न भेदाभेदौ, अखण्डितत्वात् । किन्तु भेदप्रतिनिधिविशेष एवेति ध्येयम् । एवमित्यत्र ब्रह्मण इत्याकृष्यते । तथा ब्रह्मणोऽपि विशेषबलाहुणगुणिभावो युज्यत इत्यर्थः। इतिशब्दोऽध्याहार्यः। वाशब्दो व्यवस्थितविकल्पे । 'दृष्टान्तो' वाच्य इति शेषः। उभयेत्युक्तानुमाने अहिकुण्डलवदिति वा प्रकाशाश्रयवदिति वा दृष्टान्तपदं प्रयोज्यमिति सूत्रकृतो हृदयमिति भावः । .

अधि - १५. सू - ३०.] दीपिकासहितम् (४) सू-ॐ॥ पूर्ववद्वा ॥ ॐ ॥ ३० ॥ यथैक एव कालः पूर्व इति अवच्छेदको अवच्छेद्यश्च भवति । अतिसूक्ष्मत्वापेक्षयैष दृष्टान्तः। स्थूलमतीनां च प्रदर्शनार्थमहि- कुण्डलदृष्टान्तः। (५) प्रकाशवत्कालवद्वा यथाऽङ्गे शयनादिकम् । ब्रह्मणश्चैव मुक्तानामानन्दो भिन्न एव तु ॥ इति नारायणाध्यात्मे। नन्वत्र यावद्दव्यभाविगुणाभिन्नानां तद्वतां घटादीनामपि दृष्टान्तयितुं शक्यत्वात्तान्विहाय विशिष्यादित्यग्रहणे का विवक्षेत्यतः प्रवृत्तं तेजस्त्वा- दिति सूत्रखण्डं व्याचष्टे तेजोरूपत्वादिति । ब्रह्मणः आदित्यस्येत्युभा. भ्यामस्य सम्बन्धः। तेन सूत्रे उभयोरिति पदानुवृत्तिस्सूचिता। तथाच घटादीनामतेजोरूपत्वात् तान् परित्यज्य तेजोरूपत्वसाधर्म्यविवक्षयाss- दित्यदृष्टान्तोक्तिरिति भावः ॥ (४) दृष्टान्तान्तरेण ब्रह्मणो गुणगुणिरूपत्वं साधयत्सूत्रं पठित्वा व्याचष्टे--पूर्ववद्वेति । एक एवेति । अभिन्नोऽपीत्यर्थः । कालशब्दस्तदश- परः। पूर्व इत्यनन्तरमपि कालशब्दो योज्यः । भवतीत्यनन्तरं एवमित्यादि च। तथाच यथा पूर्वः काल इति प्रयोगे पूर्वेणाभिन्नोऽपि कालः पूर्व इति 'अवच्छेदको' विशेषकः काल इति 'अवच्छेद्यो' विशेष्यश्च विशेष- बलाद्भवत्येवमिति वा दृष्टान्तयोजना । ननु व्यक्तेिरपर्यवसानाकिमर्थोऽयं दृष्टान्त इत्यत आह–अतीति । 'अपेक्षया' विवक्षया । ब्रह्मण इति शेषः । 'एषः' कालदृष्टान्तः । तमुलमनेन दृष्टान्तद्वयेन, किं भेदाभेद विषयेणाहि- कुण्डलदृष्टान्ते नेत्यत आह–स्थूलेति। चोऽप्यर्थः। 'प्रदर्शनार्थ' एक- मिन्नेव विशेषणविशेष्यभावस्येति शेषः। अत एवास्य प्राथमिकत्वम् । उभयत्र सूत्रकृभिहितमिति शेषः ॥ (५) सूत्रकृदुक्तार्थे स्मृति पठति-प्रकाशवदिति ॥ आदित्यमण्डल- प्रकाशवदित्यर्थः। 'कालवत् ' साक्षिसिद्धपूर्वोत्तरादिकालावयववदित्यर्थः। अङ्गे' शरीरे 'शयनं' अवस्थाविशेषः, न तु निद्रा मनोधर्मो वा। तथा- च अङ्गे शयनमिति प्रयोगे अङ्गाभिन्नमपि शयनं यथा अङ्गविशेषणकं भवति - ११६ ब्रह्मसूत्रभाष्यम् [अध्या. ३. पा-२. . . (६) आनन्देन त्वभिन्नेन व्यवहारः प्रकाशवत् । कालवद्वा यथा कालः स्वावच्छेदकतां व्रजेत् ॥ इति ब्राह्मे ॥ ३०॥ (७) सू-ॐ ॥ प्रतिषेधाच ॥ ॐ ॥ ३१ ॥ एकमेवाद्वितीयम् ' (छा. ६-२-१.) 'नेह नानाऽस्ति किञ्चन' (कठ. २-४-११) इति भेदस्य ॥ ३१ ॥ ॥ इत्यहिकुण्डलाधिकरणम् ॥ १५ ॥ अङ्गं शयनविशेषणं भवतीत्यर्थः । आदिपदेनाझं शेत इत्यङ्गस्य शयनक्रिया- कर्तृभावो गृह्यते । अङ्गमङ्गमधिशेत इत्यङ्गस्य शयनक्रियाकमकर्तृभावो वा। अनेनाहिकुण्डलहटन्तः संगृहीतः कुण्डलस्याप्यवस्थाविशेषत्वात् । 'एव' एवम् । तुशब्दो विशेषार्थः। चशब्दो भिन्नक्रमः। तथाच यद्यप्यभिन्न एवा- नन्दः, तथापि प्रकाशवकालवद्वा ब्रह्मणो मुक्तानां चेत्येवं तत्सम्बन्धित्वेनो- च्यते इत्येकोऽन्वयः। यथाऽङ्गे शयनादिकं शयनक्रियानिरूपितविशेषणत्व- कर्तृत्वादिकं तदभिन्नमपि तद्धर्मत्वेनोच्यते, तथा ब्रह्माभिन्नोऽप्यानन्दादि- विशेषादेव तद्धर्मत्वेनोच्यते इत्यपरोऽन्वयो द्रष्टव्यः । नत्वेकान्वयः। आद्य- योर्विशेषनिर्वाह्यत्वात् अन्त्यस्य भेदनिर्वाह्यत्वात् । अत एव प्रकाशवत् कालदिति यथाऽङ्गे शयनादिकमिति विचित्रोक्तिः ॥ (६) सूत्रकृदुक्तार्थे स्मृत्यन्तरं चाह-आनन्देन त्विति ॥ तुरवधारणे। स्वाभिन्नेनैवेति सम्बध्यते । 'व्यवहारो' विशेषणविशेष्यभावेन व्यपदेशः। भवतीति शेषः । कालवदित्येतद्विवृणोति यथेति। 'स्वावच्छेदकता' स्ववि- शेषणकत्वम् । स्वावच्छेद्यत्वस्याप्युपलक्षणमेतत् । एवमानन्दादिरपीत्युप- स्कृतवाक्येनास्यान्वयः । नारायणाध्यात्मे ब्राह्मे इत्युभयत्रापि सूत्रोक्तमुक्त- मिति शेषः । आद्यदृष्टान्तस्य विषमत्वाहितीयस्मृतावनुक्तिः ॥ (७) ननु किमनेन गुणगुणिनोरभेदनभ्युपेत्य ब्रह्मणो गुणित्वप्रति- पादनेन । गुणगुणिनोर्भेद एव कि न स्यादित्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे-प्रतिषेधाच्चेति ॥ इति वाक्येन ब्रह्मणस्तगुणानां च भेदनिषेधादि- त्येवं भाष्यस्य सूत्रेणान्ययः । अनेन सौत्रश्चशब्दः शङ्काव्यावर्तकः । तेन न ब्रह्मतहुणादेर्भेदः शंक्य इति प्रतिज्ञा सिद्धा। कुतः? तस्य भेदस्य प्रतिषेधा- .. ?

. अधि - १६. सू . ३२.] दीपिकासहितम् ॥ १६. परमताधिकरणम् ॥ (१) सू-ॐ ॥ परमतः सेतुन्मानसम्बन्धभेद- व्यपदेशेभ्यः ॥ ॐ ॥ ३२॥ न चानन्दादित्वाल्लोकानन्दादिवत् , एष सेतुर्विधृतिः (छा. ८-४-१.) “य एष आनन्दः परस्य 'एष नित्यो दिति वा, उभयोर्गुणगुणिनोरुभयत्वस्य भेदस्य प्रतिषिद्धत्वादिति वाऽध्या- हारानुष त्तिभ्यां सूत्रयोजना दर्शिता भवति । 'एकमेव' इति छन्दोगश्रुतिः। तस्याः 'एक' ज्ञानानन्दादिगुणैरवयवैश्चाभिन्नं ब्रह्मैकमेव, न घटादिवद- वयवसहितैकत्वयुक्तं खावयवैभिन्नाभिन्नं, 'अद्वितीयं समाभ्यधिकशून्य- मित्यर्थः। 'नेह' इति कठश्रुतिः । तस्याः 'इह' ब्रह्मणि 'किञ्चन' गुण- गुण्यादिकं 'नाना' भिन्नं नास्तीत्यर्थः । तत्त्वप्रदीपे तु 'इह' परमेश्वर- रूपेषु अवयवेषु धर्मेषु च किञ्चन नाना नास्तीत्यर्थ इत्युक्तम् । एतत्पक्षे नानाशब्दो नानात्वार्थकः। तथाच 'किञ्चन' किंरूपोऽपि हीनाधिकभावो वा अन्योन्याभावो वा पृथस्त्वरूपो वा भेदो नास्तीत्यर्थः ।। ॥ इत्यहिकुण्डलाधिकरणम् ॥ १५ ॥ ॥ १६. परमताधिकरणम् ॥ (१) अत्र भगवद्गुणानां लोकविलक्षणत्वं समर्थ्यते। सिद्धान्तयत्सूत्र- मुपन्यस्य व्याचष्टे-परमिति ॥ अत्रेत्थं योजना । ब्रह्मानन्दादिकं 'आनन्दा- दित्वात् ' तच्छब्दवाच्यत्वाद्धेतोः 'लोकानन्दादिवत् ' लौकिकजीवा. नन्दादिसदृशं न, किन्त्वतो लोकानन्दादेः 'अलौकिकत्वात् ' तृतीयार्थे पञ्चमी। अलौकिकत्वेन प्रकारेण 'परं' विलक्षणं अलौकिकमेवेत्येका प्रतिज्ञा । यद्वा-परब्रह्मानन्दादिकं अतो' लोकानन्दादेः 'परं' विलक्षणमित्येव प्रतिज्ञासमर्पकम् , नालौकिकत्वादित्यपि । न चेत्यादिक- मपि अतः परमेवेति सावधारणप्रतिज्ञासूचितपूर्वपक्षनिषेधकं, न प्रति- ज्ञान्तर्गतं, अलौकिकत्वादित्येतच्च हेतुसमर्पकमित्यपरा । प्रथमपक्षे कुतोऽ. लौकिकत्वरूपवैलक्षण्यमित्यतः प्रवृत्तं सेतून्मानेति हेतुं व्याचष्टे-एष इति । यद्वा-द्वितीयपक्षे चैलक्षण्ये साध्येऽतःशब्दोक्तस्यालौकिकत्वादिति ११८ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा.२. महिमा ब्राह्मणस्य । (बृ. ६-४-२३.) इति सेतुत्वं ह्युच्यते । 'यतो वाचो निवर्तन्ते । (ते. २-४.) इत्युन्मानत्वं 'एतस्यै- वानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ' (बृ. ६-३-३२.) इति सम्बन्धः। हेतोः साधकतया प्रवृत्तं हेतुवाक्यं व्याचष्टे-एष इति । सेतुपदं भाव- प्रधानमित्याशयेन इति सेतुत्वमित्युक्तम् । पवंविधमाधारत्वरूपं वैलक्षण्य- मित्यर्थः। हिशब्दो यत इत्यर्थे । 'उच्यते ' व्यपदिश्यने । इन्युच्यत इति सर्वत्र सम्बध्यते । अस्यात एभ्यो व्यपदेशेभ्योऽलौकिकत्वावगमादित्य- न्वयः। अत्र प्रथमपक्षे सेतुत्वादिधर्मवत्त्वरूपवैलक्षण्ये व्यपदेशः साक्षा- हेतुः। द्वितीये तु अवगमो हेतुः । व्यपदेशस्तु तत्साधक इति विवेकः । न च व्यपदेशेभ्यः सेतुत्वादिकमेवावगम्यते नालौकिकत्वहेतुरिति वाच्यम् । अलौकिकत्वादित्यस्य टीकारीत्या लोकानन्दादावसम्भावितसेतुत्वादिधर्म- वत्त्वादित्यर्थाभ्युपगमात् । 'एषः' इति शाखान्तरवाक्ये विधृतिः सेतुः धारणसमर्थाश्रय इत्यर्थः। एष इति क इत्यत आह—य इति । नन्वत्रा- नन्दस्य विष्णुसम्बन्धित्वं न प्रतीयते परशब्दस्यानेकार्थत्वादित्यत उक्तं- एष इति। प्रकृतलार्वज्ञपूर्णानन्दादिरित्यर्थः। तथाच विष्णुपरब्राह्मण- श्रुतिनित्यमहिमत्व लिङ्गबलाद्विष्णुसम्बन्धित्वं ज्ञायत इति भावः । 'यतः' इति श्रुतिरीक्षत्यधिकरणे व्याख्याता। उन्मानपदमपि भावप्रधानं कृत्वा व्याचष्टे-उन्मानत्वमिति। उद्गतं मान मर्यादा यस्मादिति विग्रहः । पूर्णत्व- मित्यर्थः । अत्र यद्यपि सर्वात्मना वेदाधवाच्यत्वमानन्दस्य प्रतीयते, न विष्णोः, न चोद्तमर्यादत्वम् । तथापि निमित्तेन नैमित्तिकोपल मणाना. सङ्गतिः। व्याख्यानान्तरं वा। स्वरूपत्वाच्चानन्दस्य, ततो नासङ्गतिः । एतस्य' इति बृहदारण्यकवाक्यम् । 'अन्यानि भूतानि' ब्रह्मादीनि मुक्तान्यपि 'एतस्य' विष्णोरेवानन्दस्य 'मात्रां' प्रतिबिम्बांशमश्नन्ती- त्यर्थः। प्रतिबिम्बरूपविप्लुटकं तदानन्दस्य चाखिलाः। मुक्ता ब्रह्मादयोऽश्नन्ति तारतम्येन नित्यदा ॥ इति वृहद्भाष्योक्तेः। इतीत्यनन्तरं वाक्यबोधित इति शेषः। 'सम्बन्धो' बिम्बप्रतिबिम्बभावः उपजीव्योपजीवकभावरूपः । अन्यज्ज्ञान मिति । .

अधि- १६. सू . ३२.] दीपिकासहितम् ११९ अन्यज्ज्ञानं तु जीवानामन्यज्ज्ञानं परस्य च । नित्यानन्दाव्ययं पूर्ण परज्ञानं विधीयते ।। इति भेदः। अतोऽलौकिकत्वात्परमेव ब्रह्मानन्दादिकम् ॥ ३२ ॥ जीवानां ज्ञानमन्यत्' नियामकादीशज्ञानानियम्यत्वेन विलक्षणमित्यर्थः। परस्य' विष्णोः । वैलक्षण्ये निमित्तमाह-नित्येति । परस्य ज्ञानं नित्यानन्दाव्ययं' नियमेनानन्दरूपमव्ययं च 'पूर्ण' अपरिमितं च विधीयते' तेन रूपेण व्यपदिश्यते शास्त्रेषु, जैवं तु न तथेत्यर्थः । इतीति। इति श्रुतिवाक्य इत्यर्थः । 'भेदः' ईशज्ञानस्याधिक्यरूपं वैलक्षण्यम् । यद्यप्युदाहृतवाक्यैरानन्दमात्रस्यालौकिकत्वमवगम्यते, न सर्वगुणानाम् । तथाच ब्रह्मानन्दादिकमित्यादिपदायोगः । तथापि सेत्वादिवाक्येष्वानन्द ग्रहणात् वैलक्षण्यवाक्ये ज्ञानग्रहणात् तस्य चानन्दाभेदोक्तेः प्रयोजनान्तरा- भावात् विचित्रोक्तिबलात्पूर्वत्र ज्ञानादीनामुत्तरत्रानन्दादीनां चोपलक्षणया ग्रहणावगनान्नदोषः । अथ वा--न चेत्यनेन अतः परमित्यनेन ज्ञापितपूर्व- पक्षं प्रतिषिद्धय 'एषः' इत्यादिना सौत्रहेतून्व्याख्याय अतः परमिति प्रतिज्ञा व्याख्यायते । अत्रात इत्यनूदितपदस्य लौकिकत्वादिति पदच्छेदेन 'अमृतत्वस्येशानः' (तै. आ. ३-१२ ) इतिवत् भावभवित्रोरभेदविवक्षया त्वप्रत्ययस्य स्वार्थिकत्वेन वा लौकिकत्वादिति व्याख्यानम् । तथाच 'अतो, लौकिकत्वात्परं' अलौकिकमित्यर्थः। लौकिकत्वात्परं तदतिक्रान्तमिति यथाश्रुतमेव वा । अस्मिन् पक्षे न चेत्यपि न सिद्धान्तप्रतिज्ञान्तर्गतं, किन्तु द्वितीयपक्ष इव पूर्वपक्षप्रतिषेधकम् । आद्यपक्षे तु तदपि प्रतिज्ञान्तर्गतम् । न चैवमस्य द्वितीयसाङ्कर्यम् । नमश्लेषाप्रश्लेषाभ्यां भेदात् । ब्रह्मानन्दादि- कमित्यनेन अहिकुण्डलसूत्र प्रकृतमीशानन्दादिकमिह विशेष्यत्वेन संयोज्य- मित्युक्तं भवति । शिष्टं सुगमम् । तत्वप्रदीपे तु परमित्यस्य उत्तममित्यर्थ- मुपेत्य 'एष सेतुः' इत्यादी आधारत्वामितत्वोपजीव्यत्वनियामकत्वानां व्यपदेशात् 'नित्यानन्द' इत्यादावाधिक्येन वैलक्षण्यव्यपदेशाच्च सर्वस्मा- त्परं उत्तममेव ब्रह्मानन्दादिकमिति सूत्रार्थोऽभिहितः । अस्मिन् पक्षे 'अतो' व्यपदेशेभ्यः सेतुत्वाद्यलौकिकधर्मवत्त्वरूपालौकिकत्वावगमात्परमिति भा. ध्यार्थोऽवगन्तव्यः॥ , n .. . ।

ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा • २. (२) सू-ॐ ॥ दर्शनात् ॥ ॐ ॥ ३३ ॥ दर्शनादेव चान्यानन्दादीनाम् । (३) अदृष्टमव्यवहार्यमव्यपदेश्यं सुखं ज्ञानमोजो बलमिति ब्रह्मणस्तस्माद्ब्रह्मत्याचक्षते तस्माद्ब्रह्मेत्याचक्षते' इति कौण्डिन्य- श्रुतिः ॥३३॥ (४) अप्रसिद्धस्य कथमानन्द इत्यादिव्यपदेश इत्यतो वक्ति- (२) हेत्वन्तरेणानन्दादेरलौकिकत्वं समर्थयत्सूत्रमुपन्यस्य व्याचष्टे- दर्शनादिति ॥ मनोवाग्गोचरत्वादित्यर्थः । अत एवोत्तरत्र तादृक्श्रुत्युप- न्यासः। अन्येति । ब्रह्मणोऽन्येषां जीवानामानन्दादीनामित्यर्थः। अस्य अतः परमिति साध्याक्नान्वयः। एवान्दो लिङ्गस्य निरवकाशत्वेन प्राबल्यसूचकः । चो भिन्नतः। न केवलं सेतुत्वादिभ्यः, किन्तु दर्शनाच ब्रह्माद्यानन्दादीनां मनसा विषयीकरणात् वाचा व्यवहाणात् परानन्दा- दीनां चातथाभूतत्वाञ्चेति समुच्चये । न चान्यानन्दादीनां तत्तत्साक्षि- वेद्यानां च कथं अन्यमनोजन्यप्रत्यक्षविषयत्व मिति वाच्यम् । तेषां परिमि- तत्वेन योगिमनोजन्यप्रत्यक्षविषयत्वसम्भवात् । सूत्रभाष्ययोः मनसा वाचेत्यध्याहारेण दर्शनपदस्य मनोवाग्वृत्तिसामान्यपरत्वाच ॥ (३) ननु अन्यानन्दादीनां मनोवाग्गोचरत्वादस्तु लौकिकत्वं, तावता ब्रह्मानन्दादेः कथमलौकिकत्वसिद्धिः मानाभावादित्यतस्तत्प्रमाणत्वेन दर्शनपदोक्तां श्रुतिमाह-अदृष्टमिति ॥ परमादन्यैस्सर्वात्मनाऽस्पष्टत्वेन च मनसाऽदृष्टमित्यर्थः। 'अव्यवहार्य ' वाचा । तत्त्वप्रदीपरीत्याऽहेयोपादेयं वा। 'अव्यपदेश्य ' वाचा विविक्ततया निरूपयितुमशक्यम् । तत्त्वप्रदीप- रीत्या वाचा अव्यवहार्य वा। इति ब्रह्मण इति । ब्रह्मण आनन्दादिकमेवं ज्ञेयमित्यर्थः। तस्मादृष्टत्वादिनाऽलौकिकानन्दादिपूर्णत्वाब्रह्मेत्याचक्षते शानिनः। तस्मात्तच्छब्दसुख्यवाच्यत्वाब्रह्मेतिशब्देन परं ब्रह्म व्यवहरन्ती- त्यर्थः। श्रुतिरिति । ब्रह्मानन्दादेरलौकिकत्वं वक्तीत्यर्थः ॥ (४) नन्वेवमानन्दादेरलौकिकत्वात्कथं श्रुतिपुराणादिष्वानन्दादिपद- प्रयोग इत्याशङ्कय तत्परिहाराय सूत्रमवतार्य व्याचष्टे-अप्रसिद्धस्येति ॥ ब्रह्मानन्दादेरिति विपरिणामेनान्वेति । हेतुगर्भमिदम् । कथमित्याक्षेपे ।

अधि - १६. सू - ३४.] दीपिकासहितम् १२१ , सू-ॐ ॥ बुद्धयर्थः पादवत् ॥ ॐ ॥ ३४ ॥ जीवेश्वरसम्बन्धज्ञापनार्थमप्रसिद्धोऽपि पादो यथा पादशब्देन व्यपदिश्यते पादोऽस्य विश्वा भूतानि (ऋ. १०.९०-३.) इति तथा । आनन्दशब्दात्परं इतिशब्दो योज्यः। आदिशब्देन ज्ञानमित्यादिव्यवहारो गृह्यते । तथाच 'अप्रसिद्धस्य' ब्रह्मानन्दादेः 'आनन्दादिव्यपदेशः' ब्रह्मानन्दादिकर्मकानन्दादिशब्दव्यवहारः ‘कथं' केनोपायेन युज्यते । एवं 'कथं किमर्थं युज्यते न युज्यते, तस्याप्रसिद्धत्वेन तच्छब्दानां तत्र शक्ति- ग्रहायोगात् तत्र तत्प्रयोगे प्रयोजनाभावाच्चेत्याक्षेपाभिप्रायः। आनन्दादिव्य- पदेश इत्येतत् बुद्ध्यर्थ इत्यनेनापि सम्बध्यते । बुद्ध्यर्थ इत्यस्य बुद्ध्यर्थमिति व्यत्ययेन दृष्टान्तभागेऽप्यन्वयमभिप्रेत्य पादवदित्यंशं विवृणोति-जीवेति । सम्बन्धः अंशांशिभावः । तथाच यथा पुरुषपादस्य तदंशत्वं तथा भूताना- मिति जीवेश्वरयोरंशांशित्वसम्बन्धज्ञापनार्थमित्यर्थः। न चैवं जीवेश्वरयोर- भेदप्रत्ययापत्तिः। भेदश्रुतिपर्यालोचनया ज्ञातांशांशिभावस्यापि पुंसो भिन्नांशत्वस्यैव प्रतीतेः। अप्रसिद्ध इति । पुरुषदेहावयवप्रसिद्धचरणवि- लक्षणः 'त्रिपादस्यामृतं दिवि' (ऋ. १०-९०-३.) इत्युक्तश्वेतद्वीपानन्तासन- वैकुण्ठगतनारायणवासुदेववैकुण्ठाख्यमूर्तित्रयविलक्षणश्चेत्यर्थः। यद्यपि तथापीत्यर्थे, न केवलं प्रसिद्धः, किन्तु अप्रसिद्धोऽपीति समुच्चये वा अपि- शब्दः। पाद इति । विश्वाख्योऽश इत्यर्थः । इति श्रुतिगतेन पादशब्देनेत्यन्वयः। 'व्यपदिश्यते' व्यवह्रियते । पादवदित्यनेन लब्धं दाान्तिकभागं दर्शयति- तथेति । 'तथा व्यपदिश्यते' तद्वदेव व्युत्पाद्यत इत्यर्थः। एवं 'तथा' लौकिकविलक्षणत्वेन अप्रसिद्धस्याप्यानन्दादेर्व्यपदेशो बुद्ध्यर्थः' आनन्दादेरनुकूलवेदनीयत्वादिज्ञापनार्थ इत्यर्थः । प्रकारान्तरेण तत्प्रत्याय- नोपायाभावादिति भावः। न चैवमप्यलौकिकत्वविशिष्टानन्दप्रत्ययोपाया- भाव इति वाच्यम् । अनुकूलवेदनीयत्वादिज्ञानमात्रवतः पुरुषस्य ' अदृष्टम- व्यवहार्यम्' (कौण्डिन्य.) 'अलौकिकास्तस्य शब्दाः तथाऽर्थाः' ( अलौकिको ह्येष विष्णुः परत्वात् ( ) इत्यादिश्रुत्यन्तरबलेना- लौकिकत्वज्ञानसम्भवात् । सूत्रभाष्ययोर्यत इति शेषः। अस्यातो नानन्दा- दिव्यपदेशायोगो न वा प्रयोजनाभाव इत्यवतारिकालब्धसाध्येनान्वयः॥ . - । ) . 16 १२२ .. . ब्रह्मसूत्रभाष्यम् [अध्या- ३. पा - २. (५) अलौकिकोऽपि ज्ञानादिस्तच्छब्दैरेव भण्यते । ज्ञापनार्थाय लोकस्य यथा राजेव देवराट् ॥ इति पाझे ॥ ३४॥ ॥ इति परमताधिकरणम् ॥१६॥ ॥ १७. स्थानविशेषाधिकरणम् ॥ (१) परानन्दमात्रात्वे कथं ब्रह्माद्यानन्दादीनां विशेष इति । (५) अत्रार्थेऽनुभवसिद्धदृष्टान्तप्रतिपादिकां स्मृति चाह-अलौकि- कोऽपीति ॥ यद्यपितथापीत्यर्थेऽपिशब्दः । आदिपदादानन्दादिग्रहः । तच्छब्दैः' ज्ञानमित्यादिरूपैरलौकिकैश्शब्दैः 'लोकस्य' जनस्य ज्ञापना- र्थायैवेति सम्बन्धः। बोधकत्वसर्वव्यवहारहेतुत्वानुकूलवेदनीयत्वादिज्ञाप- नप्रयोजनायेत्यर्थः। यथैव ' देवराट् ' देवेन्द्रः प्रसिद्धराजविलक्षणोऽपि राजेवास्ते इति यथा राजेतिशब्देन 'भण्यते' व्यवह्रियते तथेत्यर्थः। यद्वा-यथा राजा तथेन्द्र इति वाक्येनेवेत्यर्थः। “भण्यते' निर्दिश्यते । अत्र ईश्वरानन्दादिरूपाणामर्थानामलौकिकत्वं नाम अप्राकृतत्वं शब्दानाम- लौकिकत्वं नाम वैदिकत्वमिति भावबोधकाराः । तन्न, लौकिका अपि शब्दाः अमुष्मिन् प्रवर्तमानाः अधिकार्थान लोकविलक्षणानन्दादीन्वद- न्तीति वाक्यशेषानुपपत्तेः। संस्कृतत्वरूपवैदिकत्वस्य लौकिकेष्वपि सत्त्वात् प्राकृतानां चेह प्रसक्त्यभावात् । तस्माच्छन्दतदुपजीवीतरप्रमाणगम्यत्वं लौकिकत्वमर्थस्य तदगम्यत्वमलौकिकत्वम् । एवंविधार्थके एवशब्दस्य लौकिकत्वालौकिकत्वे इति द्रष्टव्यम् । केचित्तु-शब्दस्यालौकिकत्वं लोका- प्राप्तभगवत्स्वरूपभूतानन्तवर्णपदादिरूपत्वमित्याहुः । तन्मूलं चिन्त्यम् , पाझे चायमर्थ उक्त इत्यन्वयः ॥ ॥ इति परमताधिकरणम् ॥ १६ ॥ ॥ १७. स्थानविशेषाधिकरणम् ॥ (१) अत्राधिकरणे ब्रह्माद्यानन्दादीनां भगवदानन्दादिप्रतिबिम्बत्वं पूर्वनयोक्तं समर्थ्यते । पूर्वपक्षयति-परेति ॥ आनन्दशब्दात्परं आदिशब्दो योज्यः। मात्रात्वं प्रतिबिम्बत्वम् । कथमित्याक्षेपे। ब्रह्मा चतुर्मुखः। मुक्त- ब्रह्मादिपरोऽयं शब्दः । उक्तं हि तत्त्वप्रदीपे-मृतिगानां सृष्ट्यादिना अधि - १७. सू. ३५.] दीपिकासहितम् १२३ , (२) अत उच्यते- सू-ॐ ॥ स्थानविशेषात्प्रकाशादिवत् ॥ॐ॥ ३५॥ यथाऽऽदित्यस्य दर्पणादिस्थानविशेषात् प्रतिबिम्बे विशेषः एवमानन्दादेरपि। (३) ब्रह्मादिगुणवैशेष्यादानन्दादिः परस्य च । वैषम्यकालुष्यादेर्वैचित्रयमुपपद्यते, न मुक्तब्रह्माद्यानन्दादीनां विशुद्धरूपाणां तदुपपत्तिरिति । मिथ इति शेषः। 'विशेषो' शुद्धचैतन्यरूपेण वैचित्रयं स्यात् । यत इति शेषः । तथाच यतो ब्रह्माद्यानन्दादीनां परमात्मानन्दादि- मात्रात्वे अभ्युपगते तेषां 'मिथः' अन्योन्यं 'विशेषः' वैचित्रयं कथं स्यात् न स्यात् , अन्यथा बिम्बभूतभगवदानन्दादावपि विशेषः स्यात् तथाच भगवद्रूपेषु विशेषः गुणतारतम्यम् । एवं चेत् कथं तत्र भक्तिः कर्तव्या स्यात् , न कर्तव्यैव स्यात् , अतः कथं ब्रह्माद्यानन्दादीनां परानन्दादिमात्रात्वं तत्प्रतिविम्बत्वं स्यात्, नास्त्येवेति योजना ॥ (२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे अत इति ॥ यथेति । दर्पणा- दीत्यादिपदेन जलसूर्यकान्तादेग्रहणम् । प्रसिद्धत्वाद्दर्पणग्रहणं, न प्रकृतो- पयुक्तत्वात् । अपिर्यद्यपितथापीत्यर्थे । दृष्टान्तदान्तिकसमुच्चये चः । आदित्यशब्दात्परमादिशब्दो योज्यः। तथाच यथाऽऽदित्यादेः प्रतिबिम्बे सूर्यकान्तायुपाधिकृते सूर्यकान्तादिस्थानविशेषात् स्थानगुणात् विशेषः अग्निजनकत्वादिवैचित्रयं, एवं परमात्मानन्दादेः प्रतिबिम्बे जीवानन्दादी ब्रह्मादिस्थानगतभक्तयादिगुणविशेषाद्विशेषो वैचित्रयं युज्यत इति योजना। अस्यातो न प्रतिबिम्बे वैचित्रयानुपपत्तिरित्यध्याहृतसाध्येनान्वयः। अनेन सूत्रे षष्ठयन्तात्सप्तम्यन्ताच्च वतिः, आवर्तनीयश्चाय, प्रतिबिम्बोपलक्षकश्च विशेषशब्दोऽप्यावर्तनीय इति सूचितम् ॥ (३) अत्र स्मृति चाह-ब्रह्मादीति ॥ परमस्य आनन्दादिः 'मध्योच्चा- दिविभेदतो' मध्यमोत्तमाधमभेदेन 'ब्रह्मादिगुणवैशेष्यात् ' ब्रह्मादिगत- भक्तिज्ञानादिगुणवैचित्रयात् 'प्रतिबिम्बत्वमायाति' प्रतिफलितो भवति । ब्रह्मादिस्वरूपोपाधौ मध्योच्चादिभेदतः प्रतिबिम्बकरो भवतीत्यर्थः। उक्तं , १२४ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा - २. प्रतिबिम्बत्वमायाति मध्योचादिविशेषतः॥ इति वाराहे ॥ ३५॥ (४) सू-ॐ ॥ उपपत्तेश्च ॥ ॐ ॥ ३६ ॥ ऐश्वर्यात्परमाद्विष्णोभक्तयादीनामनादितः। ब्रह्मादीनां सूपपन्ना द्यानन्दादेविचित्रता ॥ इति पाझे ॥३६॥ ॥ इति स्थानविशेषाधिकरणम् ॥ १७ ॥ हि तत्त्वप्रदीपे-एवं परमात्मानन्दादेरपि ब्रह्मादिस्थानगतगुणविशेषात् प्रतिबिम्बभूतानन्दादिविशेष इत्युक्त्वा प्रतिबिम्बत्वमायातीत्यर्थ इति । भावबोधे तु-ब्रह्मादीनामिति पदमध्याहृत्य ब्रह्मादीनामानन्दादिः परस्या- नन्दादेब्रह्मादिगुणवैशेष्यात् मध्योञ्चादिविभेदतः 'प्रतिबिम्बत्वमायाति' प्रतिफलितो भवति गधीनत्वे सति तत्सदृशो भवतीति व्याख्यातम् । तत्पक्षे तत्त्वप्रदीपविरोधः तावत् स्फुटः, प्रतिविम्बो भवतीत्यनुक्त्वा प्रति- फलितो भवतीत्युक्तावस्वारस्यं चेति ध्येयम्। वाराह इति । उक्तार्थोऽ. भिहित इति शेषः ॥ (४) युक्तयन्तरेण बिम्बानन्दाद्यवैचित्रयेऽपि प्रतिबिम्बवैचित्रयमुप- पादयत्सूत्रं पठित्वा स्मृत्यैव व्याचष्टे-उपपत्तेश्चेति ॥ न केवलं प्रति- विम्बानन्दादिवैचित्रयस्य बिम्बावैचित्रयेऽपि स्थानविशेषादुपपत्तिः, किन्तु बिम्बभूतभगवदैश्वर्यवशाच्चेति सूत्रवृत्तिं चशब्दस्याध्याहृतहेतुनाऽन्वयं चाभिप्रेत्यासिद्धिपरिहारायोपपत्तेरित्यस्य उक्तहेतुकोपपत्तिवचनादित्यर्थ- मुपेत्य स्मृतिरूपं तद्वचनमुदाहरति-ऐश्वर्यादिति ॥ विष्णोः परमा- दैश्वर्याब्रह्मादीनां गुणानां भक्तयादीनां 'अनादितः' अनादिभक्तयादिव. शादिति यावत् । ब्रह्मादीनामानन्दादेः 'विचित्रता' मध्योच्चादिभेदभिन्नं तारतम्यं 'हि' आनन्दश्रुत्यादिप्रसिद्ध सूपपन्ना' सम्यगुपपन्नमित्यर्थः । एकस्यैवानन्दस्य चूतफलादिभोगप्रयुक्ता ये आनन्दादेविशेषास्तदात्मकत्वं विचित्रत्वं तु प्रकृतानुपयुक्तम् । भक्तयादिग्रहणेन पूर्वसूत्रोक्तभक्तयादिरूप- निमित्तं चशब्दसमुच्चेयं दर्शितम् । भक्तयादीनामनादित्वोक्तया पुरुषा- पाद्यानां भक्तवादिस्थानगुणानां कथं स्वाभाविकानन्दादिवैचित्रये हेतुत्व- अधि - १८. सू - ३७.] दीपिकासहितम् १२५ - ॥१८. तथान्यत्वाधिकरणम् ॥ (१) ध्यानकाले यश्चित्ते प्रदृश्यते तदेव ब्रह्मरूपं अतः कथमव्यक्ततेति । (२) अत आह- सू-ॐ ॥ तथाऽन्यत्प्रतिषेधात् ॥ ॐ ॥३७ ॥ यथा जीवानन्दादेरन्यद्ब्रह्म तथोपासाकृतादपि । यन्मनसा न मनुते येनार्मनो मतम् । मिति शङ्का परिहता। पाद्म इत्यस्य सूत्रेणान्वयः। 'उपपत्तेः' उपपन्नत्वोक्ते- रित्यर्थः । अस्य नासिद्धिरित्यध्याहृतसाध्येनान्वयः ॥ ॥ इति स्थानविशेषाधिकरणम् ॥ १७ ॥ ॥ १८. तथान्यत्वाधिकरणम् ॥ (१) अत्राधिकरणे ब्रह्मणो ध्यानप्रतीतादन्यत्वोक्तया पुनरव्यक्तत्वं समर्थ्यते । पूर्वपक्षयति-ध्यानेति ॥ योजना तु-'यत्' यतो ब्रह्म ध्यान- काले 'चित्ते मनसि 'प्रदृश्यते' तेन प्रतीयते अतः कथं ब्रह्मणोऽव्यक्तता तस्माद्वयक्तमेवेति । न च यञ्चित्ते प्रदृश्यते न तब्रह्मेति वाच्यम् । यतस्तद्ब्रह्म- रूपमेव, न ततोऽन्यत् । ननु ध्यानप्रतीतं न ब्रह्म, तथा सति ध्यातृबहुत्वेन तस्य वहुत्वापत्तरित्यतोऽप्युक्तं-ब्रह्मरूपमिति। रूपशब्दोऽत्र व्यक्तिपरः । समुदायैकवचनमेतत् । तथाच चित्ते प्रतीतानि ब्रह्मरूपाण्येव अतः स्वरूप- भेदाभावेऽपि रूपाणां नानात्वात् ध्येयवहुत्वोपपत्तिरिति भावः ॥ (२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ ब्रह्मेत्येतत् तदा- नन्दादेरप्युपलक्षकम् । उपासाकृतात्' उपासनेन मानसवासनामयस्य वस्तुनो मनसाऽवलोकनाख्येन विषयीकृताद्वासनामयात् । अपिभिन्नक्रमः समुच्चयेऽवधारणे च । अत्र यथा जीवानन्दादेः ब्रह्मानन्दादिकमन्यत् तथा ब्रह्म उपासाकृतात् अन्यदिति नान्वयः । वैषम्येनोपमानोपमेयभावायोगात् । किन्तु जीवानन्दादेरित्यतः परं यथाशब्दस्यावृत्त्या योजनेन यथा जीवा- नन्दादेर्यथा येन विकृतत्वापरपर्यायान्यथात्वाल्पत्वादिना कारणेन ब्रह्मा- नन्दादि ततः 'अन्यत्' विलक्षणं तथा तत्सदृशेन दुर्लक्षणत्वादिना कारणेन ब्रह्मापि उपासाकृतात् 'अन्यदपि विलक्षणमेवेति । अनेन सौत्र- स्तथाशब्द परमतः' इत्यत्रोक्तन्यायातिदेशकः समुच्चयार्थ इत्युक्तं - , .

१२६ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा - २. तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते (केन. १-६.) । इति प्रतिषेधात् । (३) पश्यन्ति परमं ब्रह्म चित्ते यत्प्रतिबिम्बितम् । ब्रह्मैव प्रतिबिम्बे यदतस्तेषां फलप्रदम् ॥ तदुपासनं च भवति प्रतिमोपासनं यथा । भवति । इतीति । इत्येवं रूपे तलवकारवाक्ये उपासाकृतस्य ब्रह्मत्वप्रतिषेधा- दित्यर्थः । अनेन सूत्रे तदव्यक्तमित्यनुवर्तनीयम् । अन्यदिति चावर्तनीयम् । तथाच 'तत् ' ब्रह्म उपासाकृतादन्यत् । कुतः १ यतोऽन्यत् अत एव शेष- शेषिणोरैक्यानुपपत्तेरेव श्रुतौ तस्य चित्ते प्रतिबिम्बितस्य ब्रह्मत्वप्रतिषेधः, अतः प्रतिषेधात् तद्वा ब्रह्म न, यतोऽन्यत् अतोऽव्यक्तमेव, न व्यक्तमिति सूत्रयोजना दर्शिता भवति । यदिदं वस्तु 'उपासते' ध्यायन्ति नेदं ब्रह्म, किन्तु पुरुषो यद्वस्तु ' न मनुते' साकल्येन न जानाति, येन वस्तुना मनो ज्ञातमाहुः कवयस्तदेव त्वं ब्रह्मति विद्धीत्यर्थः । उमां प्रति शङ्करवाक्य. मेतत् । यद्यपि तलवकारभाष्ये आसेति भिन्न पदमुपेत्य नेदं जीवस्वरूपं ब्रह्म, किन्तु यत् 'ते' तव 'उप' समीपे 'आस' नियामकतया आस्ते तदेव ब्रह्म विद्धीति श्रुत्यर्थोऽभिहितः । तथापि प्रकृतोपयुक्तं व्याख्यानान्तर- मेतत् । तत्राप्यासत इत्यैकपद्यं वेत्य विरोधः॥ (३) ननु ध्यानकाले प्रतीतस्याब्रह्मत्वे कथं ब्रह्म फलदं स्यात् । न ह्यन्यस्य ध्यानमन्यस्य फलदातृत्वमिति युज्यते अतिप्रसङ्गादित्यत आह- पश्यन्तीति ॥ यन्मनसि 'प्रतिबिम्वितं प्रतिफलितं वासनामयं वस्तु तत्परमं ब्रह्मत्युच्यते । उपचारेण तदाश्रये तद्वयपदेश इति भावः । तदेव ध्यानकाले पश्यन्ति। केचित्तु-ध्यानानन्तरं परमं ब्रह्मापरोक्ष्येण पश्यन्तीत्यन्वयमाहुः। ननु प्रतिबिम्बितस्याब्रह्मत्वात् तद्ध्यानं कथं ब्रह्मध्यानफलदं स्यादित्यत आह-ब्रह्मैवेति । यतो न ध्यानं फलदं, किन्तु प्रतिबिम्बे यब्रह्मास्ति तदेव तेषां ध्यातॄणां दर्शनाख्यफलप्रदमतो नोक्तदोष इत्यर्थः। यतः प्रतिबिम्बे ब्रह्मास्ति अतस्तेषां फलप्रदं भवतीत्येव वा। अल्पा अपि पिशाचादयः खाकारस्मृतौ किञ्चित्फलं दधुः किमुत सर्वशं सर्वशक्तिकं ब्रह्मेति भावेन पुनर्ब्रह्मेत्युक्तिः। ननु स्थितिमात्रेण कथं ब्रह्म फलदमध्यातत्वादित्यत आह - १२७ अधि - १९. सू - ३७.] दीपिकासहितम् दृश्यते त्वापरोक्ष्येण ज्ञानेनैव परं पदम् ॥ उपासनात्त्वापरोक्ष्यं गमयेत्तत्प्रसादतः ॥ इति ब्रह्मतर्के ॥ ३७॥ ॥ इति तथान्यत्वाधिकरणम् ॥ १८ ॥ ॥ १९. सर्वगतत्वाधिकरणम् ॥ (१) देशकालान्तरे अन्यतोऽपि सृष्टयादि युक्तम् ॥ इति ॥ -तदिति। प्रतिबिम्बोपासनमित्यध्याहारेण सम्बध्यते । तदुपासनमित्यस्या- वृत्तिर्वा । तथाच यथा ' प्रतिमोपासनं ' प्रतिमायामित्थंभूतो भगवानस्तीति स्मृतिः तदुपासनं तदधिष्ठितब्रह्मोपासनं भवति, तथा ' तदुपासनं' प्रति- बिम्बोपासनं वासनामयवस्तुध्यानमपि तदुपासनं ब्रह्मोपासनं भवतीति योजना ॥ प्रतिबिम्ब ब्रह्मैव कुतः न भवतीत्यत आह-दृश्यते इति ॥ यतः 'परं पदं उत्तम ब्रह्मापरोक्ष्येण । खार्थे प्यञ्-भावभवित्रोरभेदोपदेशो वा । अपरोक्षेण ज्ञानेनैव 'दृश्यते' विषयीक्रियते, न तु ध्यानेनेत्यर्थः। अपरोक्षेणेति पाठः स्वरसः। तर्हि ज्ञालायैव प्रयतितव्यं किमुपासनयेत्यत आह-उपास- नेति । तुशब्दो निरर्थकत्वव्यवच्छेदकः, स्वातन्त्र्यव्यवच्छेदको वा अवधारणे वा। तथाचोपासना तस्य ध्यानमेव! तस्य ब्रह्मणः प्रसादेन 'तत्' ब्रह्मापरोक्ष्य गमयेत् ' प्रापयेदित्यर्थः। तद्ब्रह्मापरोक्ष्यमपरोक्षज्ञानं तद्विषयतां गमये- दिति वा। ब्रह्मतर्क इत्यनन्तरमुक्तं अतो न किञ्चिच्चोधावकाश इति वाक्यशेषः॥ ॥ इति तथान्यत्वाधिकरणम् ॥ १८ ॥ ॥ १९. सर्वगतत्वाधिकरणम् ॥ (२) अत्राधिकरणे भगवत एव सर्वकर्तृत्वादि समर्थ्यते । पूर्वपक्षयति -देशेति ॥ 'अन्यतो' ब्रह्मणोऽन्यस्मात् । अपिरेवार्थः। तत्त्वप्रदीपे तु यद्यपि सृष्टयादि ब्रह्मण एव, तथापि देशकालान्तरेऽन्यतो युक्तमित्यपि- शब्दार्थ उक्तः। तथाच न ब्रह्मणः सकाशादेव सर्वसृष्टयादि युक्तमिति भावः। युक्तेति पाठे क्रियेति संयोज्यम् । युक्तेत्यनेन राजादौ तथा दर्शना- दिति युक्तिरुक्ता भवति ॥ , १२८ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा - २. - (२) अतो ब्रूते- सू-ॐ ॥ अनेन सर्वगतत्वमायामय- शब्दादिभ्यः॥ ॐ ॥ ३८॥ सर्वदेशकालवस्तुष्वनेनैव सृष्टयादिकं प्रवर्तते । एष सर्व एष सर्वगत एष सर्वेश्वर एषोऽचिन्त्य एष परमः' इति भाल्लवेयश्रुतिः। ३) सर्वत्र सर्वमेतस्मात्सर्वदा सर्ववस्तुषु । स्वरूपभूतया नित्यशक्तया मायाख्यया यतः ॥ (२) सिद्धान्तयत्स्सूत्रमवतार्य व्याचष्टे-अत इति ॥ प्रवर्तन इत्यन्तेन अनेनेति साध्यभागः अनेन एषु इदमित्यावृत्तिविपरिणामाभ्यां व्याख्यातः । सृष्टयादिकं प्रवर्तते भवतीति शेषो वा। पूर्वसूत्रेऽन्यदित्यस्य विशेष्यतया प्रकृतं ब्रह्मानेनेति परामृश्यते। न वन्यत इत्यवधारणार्थः। आधारत्वं विषयत्वं च सप्तम्यर्थः। तत्र देशकालयोराधारत्वं वियदादिवस्तुनो विषयत्वमिति विवेकः। कुत इत्यतोऽत्र हेतुत्वेन प्रवृत्तं सर्वगतत्वेत्याधुशं सर्वगतत्वं च मायामयशब्दश्च सर्वगतत्वमायामयशब्दौ तयोश्शब्द इति शब्दपदावृत्त्या विग्रहं एकत्र षष्ठयाः प्रतिशद्यप्रतिपादकसम्बन्धार्थकत्वं अन्यत्र व्याख्यानव्याख्येयभावलम्बन्धार्थकत्वं चाभिप्रेत्योभयविधश्रुत्युप- न्यासपूर्वकं व्याचष्टे-एष इति । 'एषः हरिः 'सर्वो' गुणपूर्णः व्याप्त- श्चेत्यर्थः । प्रत्युद्देश्यं विधेयसम्बन्धबोधनायैष इत्यभ्यासः। यद्यपि प्रथ- मोक्तं सर्वत्वं न साध्यसाधकमिति भावेन यदनन्तरोक्तं सर्वगतत्वं सूत्र- कृता गृहीतं तदप्यस्यैव सृष्टयादिकर्तृन्वमित्युक्तसाध्ये साधकं न भवति । तथापि 'अनुप्रविश्य नामरूपे व्याकरोत् ' (छा. ६-३-३.) इति श्रुतेः सर्वगतत्वस्य सृष्टयाद्यर्थत्वात् तच्छब्देनोक्तसाध्यसिद्धिसम्भवाद्युक्तस्तदुप- न्यासः। ईश्वरपरत्वज्ञापनाय समनश्रुत्युपन्यासः। सर्वगतत्वश्रुतौ सर्व सृष्टयादिकर्तृत्वस्य अर्थादुक्तत्वात् मायामयशब्दोक्तायां मायामयशब्द- व्याख्यानरूपायां श्रुतौ तु साक्षादुक्तत्वात् प्रमेयभेदाच्छ्रुतिद्वयोपन्यासः॥ (३) 'सर्वत्र ' सर्वदेशेषु 'एतस्मात् ' विष्णोः ' सर्वदा' सर्वकालेषु सर्ववस्तुषु सर्वमित्यन्वयः। सर्ववस्तुविषयं सृष्टयादीत्यर्थः। प्रवर्तत इति भाष्यपदमिहापि सम्बध्यते । तथाच यतः एतस्मात् मायया विश्वसृष्टयादि , .. , १२९ अधि · १९. सू - ३८.] दीपिकासहितम् अतो मायामयं विष्णुं प्रवदन्ति सनातनम् । इति चतुर्वेदशिखायाम् । आदिशब्दादन्यत्र प्रमाणाभावाच ॥ ३८॥ ॥ इति सर्वगतत्वाधिकरणम् ॥ १९ ॥ ॥ २०. फलाधिकरणम् ॥ (१) कर्मापेक्षत्वात्फलदानस्य तदेव ददातीति न वाच्यम् । कुतः ? प्रवर्तते' भवति, अत एनं विष्णु मायामयं वदन्ति कवयः। मायया शक्त्या मातीति माया इच्छात्मिका शक्तिः स्वरूपभूता यस्यासौ मायामय इति व्युत्पत्तिसम्भवादिति भावः। कदाचिद्विष्ण्वभावे शक्तयभावेन सर्व- देशकालीनसर्वसृष्टयादिकर्तृत्वायोग इति शङ्कावारणाय-'सनातनं' परमनित्यं विष्णुं नित्यशक्त्येति चोक्तम् । नित्यत्वोपपादनाय-स्वरूप- भूतयेति! चतुर्वेदशिखायां श्रुतिः पठितेति शेषः। 'अन्यत्र' देशकालान्तरे कतिपयवस्तुविषये विष्णोरन्यतः सृष्टयादावित्यर्थः। प्रमाणाभावाच्चेति इति लगृहीतमिति शेषः। न केवलं स्वपक्षसाधकादुक्तसाध्यसिद्धिः, किन्त्वन्यत्र परपक्षेप्रमाणाभावाञ्चेति समुच्चये चशब्दः ॥ ॥ इति सर्वगतत्वाधिकरणम् ॥ १९ ॥ ॥ २०. फलाधिकरणम् ॥ (१) अत्राधिकरणे भगवतः स्वर्गादिकर्मफलदातृत्वं समर्थ्यते । पूर्व- पक्षयति-कर्मेति ॥ फलदानस्येति षष्ठी सप्तम्यर्थे। ईश्वरस्येति शेषः । तथाच शुभाशुभफलदाने ईश्वरस्य पुण्यपापाख्यकर्मापेक्षत्वादित्यर्थः । यद्वा-ईश्वरकर्तृकफलदानस्य कर्मापेक्षत्वात्तद्धीनत्वादित्यर्थः। कर्मा- पेक्षत्वादित्येतद्वयाहत्यसिद्धिपरिहाराय कर्मापेक्षत्वस्येश्वरवादिभिरङ्गीकृत तत्वादित्यपि व्याख्येयम् । एवं फलदानस्य फलखण्डनस्य फलादानस्य कर्मापेक्षत्वात् तदकरणापेक्षत्वादिति व्यतिरेकपरतयाऽपीदं व्याख्येयम् । तथाच अन्वयव्यतिरेकाभ्यां तदेव कर्मैव फलं ददाति नेश्वर इति ज्ञायत इत्यर्थः। सिद्धान्तयन्नेतत्प्रतिषेधति-इति न वाच्यमिति । अत्र हेतुं पृच्छति-कुत इति ॥ 17 १३० ब्रह्मसूत्रभाष्यम् [अध्या. ३. पा-२. . . (२) सू-ॐ ॥ फलमत उपपत्तेः ॥ ॐ ॥ ३९ ॥ अत एवेश्वरात्फलं भवति। न ह्यचेतनस्य स्वतः प्रवृत्ति- युज्यते ॥ ३९॥ (३) सू-ॐ ॥ श्रुतत्वाञ्च ॥ ॐ ॥ ४० ॥ 'विज्ञानमानन्दं ब्रह्म रातिदातुः परायणम्' (बृ. ५-९-२८), इति ।। ४० ॥ (२) एतच्चोद्योत्तरत्वेन सूत्रमुपन्यस्य व्याचष्टे-फलमिति । अत इत्यनूद्य सावधारणत्वाभिप्रायेणास्मादीश्वरादेवेति व्याख्यातम् । न कर्मण इत्येवार्थः। उपलक्षणमेतत् । अतः सर्वत्र सर्वमेतस्मादित्युक्तेरेवेति तत्त्व- प्रदीपोक्तमपि द्रष्टव्यम्। फलं' स्वर्गनरकादिरूपम् । भवतीति सूत्र- शेषोक्तिः। इतिशब्दो हेतौ, सूत्रार्थस्य न वाच्यमिति साध्ये हेतुत्व- द्योतकः । फलमत इति प्रतिज्ञायामुपपत्तेरिति हेतुर्योज्यः। तस्येश्वरस्य चेतनत्वात्सशितृत्वाच्च फलदातृत्वोपपत्तेरित्यर्थः इत्याशयेनैवकारेणोक्ते कर्मणः फलदातृत्वाभावे उपपत्तरित्यनेनाल्लिब्धं हेतुं स्वयं योजयति- न हीति । अचेतनस्येति हेतुगर्भः। 'प्रवृत्तिः' फलदाने। फलदातृत्व- मिति यावत् । अस्मदादावदर्शनादिति हिशब्दार्थः। अन्याधीनप्रवृत्ति- दर्शनात्कथमेतदित्यत आह-स्वत इति ॥ (३) नन्वीश्वरस्य चेतनत्वेन फलदातृत्वसम्भावनैव भवेत् न निश्चयः, अतः कुतोऽसौ निश्चय इत्याशङ्कां परिहरत्सुत्रमुपन्यस्य तदुपात्त- श्रुतिमेवोदाहरति-श्रुतत्वाच्चेति ॥ इति श्रुतत्वाञ्चेत्यन्वयः। न केवलं चेत- नत्वाद्युपपत्तरीश्वरस्य फलदातृत्वं सम्भाव्यते, किन्तु श्रुत्युक्तत्वाञ्च तन्नि- श्वीयते चेति सूत्रार्थः। विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् । तिष्टमानस्य तद्विदः ' (बृ. ५-९-२८.) इति वाजसनेयवाक्ये एकवचनं समुदायापेक्षया, विशेष्यब्रह्मशब्दविव- शया आनन्द मिति नपुंसकप्रयोगः निर्दोषचैतन्यसुखान्तनुम् ' इति an .

१३१ अधि - २०. सू . ४१.] दीपिकासहितम् (४) सू-ॐ ॥ धर्म जैमिनिरत एव ॥ ॐ ॥ ४१ ॥ यतः फलं तदेव कर्म ईश्वराद्भवति। ‘एवं ह्येव साधुकर्म कार- यति (को. ३-८) इति श्रुतेरिति जैमिनिः ॥४१॥ विष्णुतत्त्वनिर्णयोदाहृतवाक्य इव । तथाच 'दातुः' हवि-प्रदातॄणां यजमा- नानां पूजकानां 'रातिः' प्रियः। फलप्रद इति यावत् । 'तिष्ठमानस्य' स्वस्मिन् मनसा वर्तमानानां 'तद्विदो' ब्रह्मज्ञानिनां परायणं' परमप्रियं 'विज्ञान' पूर्णज्ञानं पूर्णानन्दं ब्रह्मेत्यर्थः । यथोक्तं बृहद्भाष्ये- स प्रियः सर्वदातॄणां ज्ञानिनां परमप्रियः। ये तु तद्भाविता नित्यं तेषामेव परायणम् ॥ इति ॥ ब्रह्मपरत्वस्फोरणाय विज्ञानमित्याधुदाहृतम् ॥ (४) उक्तमाक्षिपत्सूत्रमुपन्यस्य व्याचष्टे-धर्ममिति ॥ तत्कमैवेत्येव- कारान्वयः। सौत्रधर्मपदमधर्मस्याप्युपलक्षकमिति भावेन तदिति स्वपदं कमॆति सामान्यपदेन विवृतम् । ईश्वरात् यतश्श्रुतिरित्याभ्यां अत इति पदं द्वेधा व्याख्यातम् ! कर्मेति सामान्योक्तया 'एष ह्येव' इति श्रुतिप्रतीकग्रहणेन च 'एष ह्येवासाधु कर्म कारयति' (कौ. ३-८.) इत्य- स्याप्युदाहर्तव्यतां ज्ञापयति । जैमिनिर्मन्यत इति शेषः। श्रुतिस्तु वैषम्य- नये व्याख्याता। सूत्रे नेति शेषः। तथाच यदुक्तं ईश्वर एव फलप्रदो, न कर्मेति तन्न, कुतः ? 'अत एव' फलस्य कर्मान्वयव्यतिरेकानुविधा- यित्वादेव । इदं तु न्याय्यं, किं तत् ? यत् 'अतो' धर्माधर्माख्यकर्मत एव फलं भवति, तच्च कर्म तदीश्वराद्भवति। कुतः ? 'अतः' इति श्रुतेरेव । यत एवमत ईश्वरोऽपि अतः एतस्मिन् 'रातिः' इति श्रुतिवचने एतेन फलदातृत्वेन रूपेणोपचर्यत इति । न केवलं कर्मणः फल- प्रदत्वमन्वयव्यतिरेकरूपन्यायप्राप्तं, किन्तु जैमिनिराचार्योऽपि धर्माधर्माख्यं कमैव फलप्रदं मन्यते । अतोऽपीदं युक्तमिति पूर्वपक्षरीत्या सूत्रार्थः । जैमिन्यभिप्रायानुसारेण तु यतः फलं तस्मादीश्वरादेव कर्म भवतीति 'एष ह्येव' इति श्रुतेरिति सूत्रार्थः। अस्मिन् पक्षे यतः फलं तस्मादेवेश्वरात् भवतीति भाष्ययोजना द्रष्टव्या। तथैव तत्त्वप्रदीपोक्तेः॥ . एष ह्येव' .

१३२ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा - २. (५) सू-ॐ॥ पूर्व तु बादरायणो हेतुव्यपदेशात् ।। ॐ ॥ ४२ ॥ परस्य कर्मणश्चोभयोः फलकारणत्वेऽपि न कर्म पर प्रवर्तकम् । पर एव कर्मणः प्रवर्तकः । 'पुण्येन पुण्यं लोकं नयति पापेन (५) एतत्परिहाराय सूत्रमुपन्यस्य व्याचष्टे-पूर्वमिति ॥ उभयोरिति खपदं परस्य परमात्मनः कर्मणश्चेति च व्याख्यातम् । समुच्चये चशब्दः । अपिशब्दो यद्यपीत्याद्यर्थे । अनेन सौत्रतुशब्दोऽप्यर्थतया व्याख्यातः । तुशब्दस्य कर्तृत्वकरणत्वरूपविशेषार्थत्वमवधारणार्थत्वं चाभिप्रेत्यावधा- रणव्यावत्यै दर्शयति-नेति । कर्मत्यनन्तरं कर्तृ सदिति पर एवेत्यनन्तरं कर्ता सन्निति च शेषः ! प्रयोजकः प्रवर्तक इति सूत्रशेषोक्तिः। अनेन यद्यपि कर्मब्रह्मणोरुभयोः कारणत्वमस्ति, तथापि नोभयोः समप्रधानभावः, किन्तु पूर्व पूर्वसूत्रेऽतश्शब्देनोक्तं ब्रह्मैव फलदाने कर्तृ सत् करणीभूतस्य कर्मणः प्रयोजक, न तु कर्म ब्रह्मणः । तत्तु करणं सत् ब्रह्म प्रयोज्यमेवेति सौत्रः प्रतिज्ञाभागो व्याख्यातः । कुत इत्यतः प्रवृत्तं हेतुव्यपदेशादिति हेतुं व्याचष्टे-पुण्येनेति । इति श्रुतौ ब्रह्मकर्मणोः कर्तृत्वकरणत्वरूपहेतुत्वस्यो- क्तत्वादित्यर्थः । यद्वा-हेतुशब्दो निमित्तपरः। तथाच ब्रह्मणः कर्तृत्वाख्य. स्यैव कर्मणः करणत्वाख्यस्यैव फलप्रदाने स्वातन्त्रयास्वातन्त्रयनिमित्तस्यो. क्तत्वादित्यर्थः । अत एव न समप्रधानभावो, न विनिमयो वा शङ्कय इति भावः। व्यपदेशादित्यनन्तरं इति बादरायणो मन्यत इति वाक्यशेषः । न केवलं फलप्रदानक्रियायां कर्म परप्रेरितं, किन्तु तत्सत्ताऽपीश्वराधीनेति न तत्कत्रिति भावनाह-द्रव्यमिति । इति वचनाच्च न कर्म प्रवर्तकमित्य- न्वयः। अनेन सौत्रस्तुशब्दश्चार्थोऽपि भवति। तेन पूर्वोक्तचेतनत्वादिति हेतुः 'द्रव्यम् ' इति स्मृतिश्च समुच्चीयत इत्युक्तं भवति । 'पुण्येन इति श्रुतिः वैषम्यनये 'द्रव्यम् ' इति स्मृतिश्च रचनाधिकरणे व्याख्याता। अत्र श्रुतेः पुण्येन च ज्ञानमुत्पाद्य पापं विनाश्य तस्य पुण्यपापरहितस्य ज्ञानिनः प्रसन्नः स्वयमेव फलमनन्तं हि ददातीत्यहो भगवतो नारायणस्या- an " अधि-२०. सू . ४२.] दीपिकासहितम् १३३ पापम् ' (प्र. ३-७) इति हेतुव्यपदेशात् । 'द्रव्यं कर्म च कालश्च' इति च ॥४२॥ ॥ इति फलाधिकरणम् ॥२०॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये तृतीयाध्यायस्य द्वितीयः पादः श्चर्यरूपोऽयं महिमेति तत्त्वप्रदीपोक्तार्थविशेषोऽपि ग्राह्यः। कर्मब्रह्मणोः खातन्त्रयाखातन्त्रयव्युत्पादनप्रकारश्च तत्रैवोक्तः ॥ ॥ इति फलाधिकरणम् ॥ २० ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमजगन्नाथयतिना कृतायां श्रीमब्रह्मसूत्रभाष्यदीपिकायां तृतीयाध्यायस्य द्वितीयः पादः १३४ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा-३ ॥ अथ तृतीयः पादः॥ ॥ १. सर्ववेदाधिकरणम् ॥ (१) उपासनाऽस्मिन् पाद उच्यते । सर्वपरिज्ञानं प्रथमत उच्यते- सू-ॐ ॥ सर्ववेदान्तप्रत्ययं चोदनाद्य- विशेषात् ॥ ॐ ॥ १॥ ॥ १. सर्ववेदाधिकरणम् ॥ (१) एतत्पादार्थ दर्शयाते-उपासनेति ॥ जिज्ञासापरपर्यायोपासना अस्मिन् ' तृतीयस्य तृतीये पादे 'उच्यते' कर्तव्यत्वेन प्रतिपाद्यत इत्यर्थः। आद्याधिकरणतात्पर्यमाह-सर्वेति । उपासना द्विविधा। श्रवणमननापर. पर्यायशास्त्राभ्यासरूपा ध्यानरूपा चेति । तत्राद्यायाः यथाशक्तिसर्ववेद- तदर्थज्ञानरूपाया अज्ञानसंशयविपर्ययनिवर्तिकायाः ध्यानाङ्गत्वात् सैव प्रथमतः' आधाधिकरणे "उच्यते' अधिकारिभिः सम्पाद्यत्वेन प्रति- पाद्यत इत्यर्थः । अत्र भाष्यसुधाटीकासु सर्ववेदेति सर्वशाखेति च विशिष्योक्तया मीमांसकमत इव ऋग्यजुस्सामरूपवेदत्रयस्याध्येतव्यत्व नियमवत्तैत्तिरीयकाण्वादिरूपशाखाद्वयस्याध्येतव्यत्वनियमो नास्तीति न भ्रमितव्यमिति सूचितम् । अस्मन्मते सर्ववेदसर्वशाखोक्तब्रह्मगुणज्ञानार्थ शक्तैस्सर्ववेदवत्सवशाखानां अध्येतव्यत्वात् । तदर्थानामपि शक्तयित्वात् । अशक्तैस्तु यथाशक्ति अध्येतव्यत्वात् ज्ञेयत्वाच्च । अत्र किमेकैकेनैव सर्व- वेदशाखोक्तं ब्रह्म श्रवणमननाभ्यां ज्ञातव्यं उत स्वखवेदशाखोक्तमिति संशये स्वखवेदशाखोक्तमेव ज्ञातव्यमिति पूर्वपक्षे च सति सिद्धान्तयत्सूत्रं पठति-सर्वेति । अत्र वेदान्तपदस्योपनिषत्परत्वभ्रान्तिवारणाय अन्तपदं व्याचष्टे-अन्त इति । अत्र प्रमाणमाह-उभयोरिति । 'नासतो विद्यते भावो नाभावो विद्यते सतः' (गी. २.१६. ) इति पूर्वार्धन असच्छब्दितस्य कारणस्य प्रकृतेः सच्छब्दितस्य ब्रह्मणश्चाभावः प्रागभावः प्रध्वंसश्च न विद्यत इति वेदनित्यत्वसाधकानादिनित्यत्वव्याप्तावनेकदृष्टान्तप्रदर्शनाय तत्रादर- पूर्वकं प्रकृतिपरब्रह्मणोरनादिनित्यत्वमभिधाय अत्रार्थे सम्प्रदायरूपप्रमाण- मुच्यते-उभयोरिति । 'अनयोरुभयोः' सदसतोरन्तो निर्णयोऽनादिनित्य.

. अधि - १. सू - १.] दीपिकासहितम् १३५ अन्तो निर्णयः 'उभयोरपि दृष्टोऽन्तः। (गी. २-१६.) इति वचनात् सर्ववेदविनिर्णयोत्पाद्यज्ञानं ब्रह्म । (२) 'आत्मेत्येवोपासीत' (बृ. ३-४-७) इत्यादिविधीनां तदुक्त- त्वावधारणं 'तत्त्वदर्शिभिः वेदार्थतत्त्वज्ञानिभिः 'अपिदृष्टः ' कृतश्चेत्यर्थः । अपिसिञ्चतिवत् अपिदृष्ट इति निर्देशः। यद्वा तत्त्वदर्शिभिरपीति भिन्न- क्रमेणापिशब्दान्वयः । न केवलं 'प्रकृतिः पुरुषश्चैव नित्यौ कालश्च सत्तम' इत्यागमसिद्धमेतदित्यपिशब्दार्थः। यद्वा-'अन्तः' निर्णयः तद्विषयीभूतार्थो दृष्ट इत्यर्थः । अनेन दर्शनमूलकः सम्प्रदायः उपदेशपरम्परारूपो लक्षणयोक्तो भवति ! वचनादिति । गीतायामिति शेषः। सूत्रे पूर्वसूत्रात् ब्रह्मवाचकं पूर्वपदमनुवर्त्य सर्वेति साध्यभागं व्याचष्टे-सर्वेति । सूत्रभाष्ययोर्वेद. शब्दः तदर्थपरः। शब्दविषयकनिर्णयस्य ब्रह्मविषयकत्वाभावात् । तथाच सर्ववेदानां तदर्थानां अन्तः सर्ववेदान्तः तद्रपा प्रत्ययो ज्ञानं यस्य तत्तथो- क्तम् । अनेन ब्रह्मण एव सर्ववेदार्थत्वं ज्ञापितम् । अन्यथा सर्ववेदाधिगमो व्यर्थस्स्यात् । तथाच तत्त्वप्रदीपटीकारीत्या पूर्वपदोदितं ब्रह्म सर्ववेदाधि- गमानन्तरोत्पन्नविचारसाध्यवेदार्थनिर्णयरूपज्ञानविषय इति साध्यार्थः। टीकायां ध्यानार्थिना सर्ववेदान्निीय श्रवणमननाभ्यां ज्ञातव्यं ब्रह्मेत्यन्वयः। केचित्तु-सर्ववेदानां योऽन्तः निर्णयः तेनोत्पाद्यं यदर्थज्ञानं तद्विषयो ब्रह्मेत्यर्थ इत्याहुः । अस्मिन् पक्षे ब्यधिकरणबहुव्रीहिमात्र दोषः। उदाहृत- तत्त्वप्रदीपटीके अनुगुणे। सर्ववेदनिर्णयेनोत्पाद्यज्ञानविषय इति टीका तु अत्यन्तमनुगुणेति ध्येयम् ॥ (२) कुत इत्यतस्तत्र हेतुत्वेन चोदनाद्यविशेषादित्यंशं व्याचष्टे- आत्मेति ॥ इत्यादीनि विधिवाक्यानि यास्विति बहुव्रीहिः। तथाच इत्यादि- विधियुक्तानां काण्वादिशाखानां 'अविशिष्टत्वात् ' अधिकारिविशेषनिर्देश- शून्यत्वादित्यर्थः । अस्य हेतोरसिद्धिपरिहारकतयाऽप्ययं योज्यः । अस्मिन् पक्षे इत्यादयश्च ते विधयश्चेति कर्मधारयः। तथाच ' इत्यादिविधीनामवि- शिष्टत्वात्' सर्वाधिकारिसाधारणत्वादित्यर्थः । इत्यादीत्यादिशब्देन 'आत्मानमेव लोकमुपासीत' (बृ. ३-४-१५.) 'तमेवैकं जानथ' (मुं. २-२-५.) 'विज्ञाय प्रज्ञां कुर्वीत' (बृ. ६-४-२१.) इत्यादिविधयो गृह्यन्ते । ननु कर्म- विद्यायां गृहीवात्राधिकारिविशेषः कल्प्यताम् । न च स्वर्गकामत्वादिवदिह ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा-३. युक्तीनां च अविशिष्टत्वात् ॥ १॥ गुणाः 'एक कल्पकाभाव इति वाच्यम् । युक्तीनां कल्पकत्वसम्भवात् इत्याशङ्कापरि- हारायोक्तमादिशब्दं व्याख्याति-तदिति । तदित्यावर्तते। तथाच तस्मै ज्ञानविध्यर्थं तत्र उपासीतेत्यादिज्ञानविधिसमीपगतेषु 'अत्र ह्येतेसर्व एकं भवन्ति' (बृ. ३-४-७.) 'स य आत्मानमेव लोकमुपास्ते' (बृ. ३-४-१५.) न हास्य कर्म क्षीयते' (बृ. ३-४-१५.) 'अमृतस्यैष सेतुः' (मुं. २-२-५.) 'वाचो विग्लापनं हि तत्' (बृ. ६-४-२१.) इत्यादिवाक्येषूक्तानां युक्तीनां अविशिष्टत्वात् ' सर्वाधिकारिसाधारणत्वा दित्यर्थः । इतरांशस्तु शेयादि- प्रतिपादकत्वात् नाधिकारिविशेषकल्पक इति भावः। बृहदारण्यके आत्मेत्येवोपासीत' इति विधिसमीपे 'अत्र ह्येते' इत्यात्मत्वप्रशंसार्थ- मर्थवादश्श्रुतः । अत्र आत्मत्वगुणे 'एते' 'प्राणन्नेव प्राणोनाम भवति वदन् वाक् पश्यन् चक्षुः शृण्वन् श्रोत्रं मन्वानो मनः' (बृ. ३.४-७. ) इति पूर्ववाक्योक्ताः प्राणत्ववक्तृत्वद्रष्टत्वश्रोतृत्वमन्तृत्वादयः सर्वे भवन्ति' अन्तर्भवन्तीत्युक्तेः अत्रात्मत्वस्य विवक्षितसर्वगुणसङ्गाहकत्व. युक्तिरुच्यते । यद्यपि 'अत्र' आत्मत्वे सर्वेऽप्यानन्दादयो गुणाः अन्तर्भ- वन्तीत्यर्थः टीकायां 'आत्मगृहीतिः' इत्यधिकरणे अभिहितः। तथा व्यास- तीर्थीये 'अत्र' आत्मशब्दे 'एते' आनन्दादयः सर्वे धर्माः वाच्यत्वेन एकं भवन्ति ' पुञ्जीभवन्तीत्यर्थ उक्तः। ते च पूर्व नोक्ताः, किन्तु तत्त्व- प्रदीपोदाहृतवाक्योक्ता एव । तथापि 'प्राणन् ' इत्यनेनानन्दस्वामित्व- निर्दोषत्वानां ग्रहणादविरोधः। एवं 'आत्मानमेव लोकम् ' इति विधि- समीपवर्तिनि 'न हास्य ' इति वाक्ये अक्षयकर्मफलहेतुत्वयुक्तिरुच्यते । तथाऽऽथर्वणे 'तमेवैकम् ' इति विधिसमीपवर्तिनि 'अमृतस्य' इत्यर्थ- वादे मुक्तोपसृप्यत्वयुक्तिरुच्यते ! तथा बृहदारण्यके 'विज्ञाय' इति वाक्य समीपवर्तिनि 'वाचो विग्लापनम् ' इति वाक्येऽन्यार्थवेदाध्ययनादेर्वा- क्श्रमकरत्वयुक्तिरुच्यत इति ध्येयम् । अनेन चोदनानां विधीनामविशेषा- सर्वसाधारणत्वादत एव चोदनायुक्तकाण्वादिशाखानामविशेषात् , एवं काण्वैरध्येतव्यं एवं माध्यन्दिनैः इत्यधिकारिविशेषनिर्देशशून्यत्वात् तदुक्त- युक्तीनामप्यविशिष्टत्वेनाधिकारिविशेषाकल्पकत्वादिति हेतुवाक्यस्यानेक- धाऽर्थ उक्तो भवति ॥ - , अधि - १. सू - २.] दीपिकासहितम् (३) सू-ॐ॥ भेदान्नेति चेदेकस्यामपि ॥ ॐ ॥२॥ विज्ञानमानन्दं ब्रह्म' (बृ. ५-९-२८) 'सत्यं ज्ञानमनन्तं ब्रह्म' (ते. २-१). इत्यादिप्रतिशाखमुक्तिभेदान्नैकाधिकारि- विषयाः सर्वशाखा इति चेत्-न, एकस्यामपि शाखायां 'आत्मत्येवोपासीत' (बृ. ३-४-७) कं ब्रह्म खं ब्रह्म (छा. ४-१०-५.) इत्यादिभेददर्शनात् ॥ २॥ (३) उक्तमाक्षिप्य समादधत्सूत्रं पठित्वाऽऽक्षेपांशं तावद्वयाचष्टे- भेदादिति ॥ 'विज्ञानम् ' इति वाजसनेयके 'सत्यम्' इति तैत्तिरीयके। आदिपदेन 'श्रोता मन्ता' (ऐ. आ. ३-२-४-१९). इत्यैतरेयवाक्यम् , 'य आत्माऽपहतपाप्मा' (छा. ८-७-१). इति छन्दोगवाक्यं च गृह्यते। प्रति- शाखमित्याधुक्तिभेदादित्यन्वयः। इत्यादिरूपा च सा उक्तिश्च इत्यादिरूपा उक्ति वाचिका येषामर्थानामिति च द्वेधा विग्रहः। एवमाक्षेपांशे साध- नांशं व्याख्याय साध्यांशं व्याख्याति-नेति। सर्वशाखाः नैकार्थविषयाः तत्प्रतिपादिकाः, किन्तु भिन्नविषयाः, अत एव नैकविषया नैकाधिकारिका इत्यावृत्त्याऽन्वयः। एकेनैकस्यैवार्थस्य ज्ञेयत्वादिति भावः । नमावृत्त्य- भिप्रायेण सौत्रं परिहारांशं व्याचष्टे । नेति । तत्तच्छाखोक्तार्थानां पृथक्त्वा- सर्वशाखोक्तं नैकेन ज्ञातव्यम् , किन्त्वनेकैरिति नेत्यर्थः। कुतो नेत्यतः प्रवृत्तं परिहारांशे साधनभागं व्याचष्टे-एकस्यामिति । न केवलमनेक- शाखास्वित्यपिशब्दार्थः । चोदनापदस्य विपरिणतस्य विशेष्यत्वमभिप्रेत्याह -शाखायामिति। वाजसनेयशाखायामित्यर्थः । इत्यादीति। इत्याधुक्तीनां तदर्थानामानन्दज्ञानरूपत्वादिधर्माणां च भेददर्शनादित्यर्थः । आवृत्त्याऽन्वि- तस्य मेदादित्यस्यासिद्धिपरिहाराय-दर्शनादित्युक्तम्। आवृत्तिसूचनाय चशब्दः। श्रुतौ कखशब्दावानन्दज्ञानवाचिनौ। आदिशब्देन गुणान्तरो- क्तयो गृह्यन्ते । सूत्रे भेदादपीत्यपिशब्दान्वयः। न मेदादित्यपि । भेदशब्देन प्रसङ्गमेदोऽपि ग्राह्यः। साम्यादिति शेषः। तथाचायं सूत्रार्थः- 'भेदात्' प्रतिशाखं 'विज्ञानमानन्दं ब्रह्म' 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्याधुक्ति- मेदात् अत एव सर्वशाखोक्तार्थानामपि 'मेदात् ' एकेनैकस्यैव ज्ञेयत्वात् न पूर्वपदोक्तं ब्रह्म सर्ववेदान्तप्रत्ययं, किन्तु वखशाखान्तप्रत्ययमिति चेन्न । 18 १३८ ब्रह्मसूत्रभाष्यम् [अध्या- ३. पा-३. (४) सू-ॐ ॥ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच ॥ ॐ ॥ ३ ॥ 'स्वाध्यायोऽध्येतव्यः' (ते. आ. २-१५.) इति सामान्य- विधेः। हिशब्दात् वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना। इति स्मृतः॥ तथासति “एकस्यामपि चोदनायां शाखायां 'भेदात् ' 'आत्मेत्येवोपासीत' कं ब्रह्म खं ब्रह्म' (छा. ४-१०.५.) इत्याधुक्तिभेदर्शनात् अत एव तत्रो- तार्थानामपि भेदावगमादेकस्यामपि 'भेदात् ' अधिकारिभेदप्रसङ्गात् । नन्वेकस्यामपि शाखाय विधेयधर्मस्यैव भेदाद्धर्मिणो 'नभेदात् ' अभेदान्न प्रतिपाद्यभेद इति चेन्न । 'अपि' सर्वशास्त्रास्वपि विधेयधर्मस्यैव भेदाद्धर्मिणो न पृथक्त्वमिति समाधिसाम्यात् । ननु न सर्वशाखोक्तं ब्रह्म, तथासति न भेदात् सर्वशाखानाकविषयत्वात्पौनरुक्त्यप्रसङ्गादिति चेन्न । एकस्या- मपि साम्यात् । नन्वेकस्यां शाखायो प्रसङ्गभेदात् प्रागुक्तस्यानुवादाद्वान पौनरुक्त्यम् । काण्वश्रुतौ 'अत्रायं पुरुषः' (बृ. ६-३-९.) इति द्विरुक्त- वाक्यस्य जीवस्य परमात्मज्योतिष्ट्रपरस्य स्वप्नसुषुप्तिप्रकरणयोः श्रुतस्य प्रसङ्गभेदेनानुवादविधानाश्रयणादपौनरुक्त्यवत् छन्दोगश्रुतौ 'सैषा षड्डि- धा चतुष्पदा गायत्री' (छा. ३-१२-५.) इति वाक्ये प्रसङ्गभेदात्प्रागुक्त- पाड्डिध्यानुवादेन चतुष्पात्त्वविधानात्तदंशेऽपौनरुक्त्यवच्चेति चेन्न । 'अपि' सर्वशाखास्वपि प्रसङ्गभेदात् अनुवादादिपरिहारस्य साम्यादिति ॥ (४) पूर्व सर्ववेदान्तप्रत्ययमित्यत्रैव हेत्वन्तराभिधानाय सूत्र-स्वाध्या- यस्येति ॥ अत्र स्वाध्यायस्य तथात्वेनेत्यावृत्तेन हेतुवाक्येनोक्तं हेतुसाधकं हेतुमाह-स्वाध्याय इति । इति विधेः सामान्यादित्यन्वयः। 'स्वाध्यायोड- ध्येतव्यः' इति यजुर्वेदगतविधेः 'सामान्यात् ' अयं स्वाध्यायोऽनेनाध्ये तव्यः अयं अनेन इति विशेषं विना सर्ववेदसर्वाधिकारिसाधारणत्वादि- त्यर्थः। सामान्यपदेन सौत्रं तथात्वपदं अविशेषादिति प्रकृतसाधारण्यार्थ- कमित्युक्तं भवति । पञ्चमीप्रयोगेन तृतीया पञ्चम्यर्थेत्युक्तम् । विधेरित्य- नन्तरं स्वाध्यायस्य तथात्वेनेति संयोज्यं, तस्य स्वाध्यायस्य सर्वशखाध्ययनस्य तथात्वेन सर्वसाधारणत्वेन एकैकाधिकारिकत्वेनेत्यर्थः। सूत्रे भाष्ये च अधि - १. सू. ३.] दीपिकासहितम् १३९ .. (५) सर्ववेदोक्तमार्गेण कर्म कुर्वीत नित्यशः । आनन्दो हि फलं यस्मात् शाखाभेदो ह्यशक्तिजः॥ सर्वकर्मकृतौ यस्मात् अशक्तास्सर्वजन्तवः । शाखाभेदं कर्मभेदं व्यासस्तस्मादचीक्नु पत् ॥ इति समाचारे सर्वेषामधिकाराच्च ॥ ३॥ हेत्वन्तरत्वद्योतकः चशब्दोऽत्रापि योज्यः। ननु लोके शाखामेदस्य प्रसिद्धत्वाद्विधेरपि विशेषनिष्ठताऽऽवश्यकीति सामान्यादित्यसिद्धमित्यतः प्रवृत्तस्य हिशब्दस्यार्थमाह-हिशब्दादिति । सूचिताया इति शेषः। स्मृते- रित्यस्य विधेः सामान्यादित्यनेनान्वयः। ज्ञानोपलक्षकमेतत् । 'द्विजन्मना' त्रैवर्णिकेन 'सरहस्यः' उपनिषत्सहितो रहस्यार्थसहितो वा 'कृत्स्नः' सर्वो वेदः 'अधिगन्तव्यः' अर्थज्ञानार्थमध्येतव्य इत्यर्थः। एवं सर्वशाखे- त्यपि द्रष्टव्यम् ॥ (५) किं च अनुष्ठानापेक्षया ज्ञानमात्रस्य सुलभत्वात् यदा सर्व- वेदोक्तशक्यकर्मानुष्ठाने सर्वेषामधिकारसद्भावः तदा तदुक्तब्रह्मज्ञाने सुत- रामिति भावेन हेत्वन्तरप्रतिपादनाय प्रवृत्तं समाचारेऽधिकाराचेत्यंशं सप्रमाणकं व्याचष्टे-सर्वेति॥ सर्वान् वेदान् सर्वशाखाश्च अधिगम्य 'सर्ववेदोक्तमार्गेण' तदुक्तप्रकारेणानुष्ठानपूर्वकं यज्ञादि कर्म 'नित्यशः नित्यं कुर्यात् सर्वोऽपि जन्तुरिति विपरिणामेनान्वयः। न च प्रयोजना- भावः। 'हि' यतः यस्माद्वेदोदितसर्वकर्मशानतदनुष्ठानात् 'आनन्दः मौक्तसुखोद्रेकः फलं भवति ज्ञानिनः। तदितरस्यान्यत् चित्तशुद्ध्यादि अतः। अनेन सौत्रः संशब्दो व्याख्यातः । ननु यदि सर्वेषां सर्वशाखाध्यय- नादि, कथं तर्हि शाखाभेदः, कर्मणि च भेद इत्यत आह-शाखेति । कर्म- भेदश्चेत्यपि द्रष्टव्यम् । 'हि' यस्मात् 'अशक्तिजः' असामर्थ्यनिमित्तका तस्मात् स न प्रकृतविरोधीति वाक्यशेषः। एतदेवोपपादयति-सर्वेति । सम्यक्सर्वशाखोतकर्माचरण इत्यर्थः। सर्वशाखाध्ययने चेत्यपि द्रष्टव्यम्। 'जन्तवो' द्विजाः। 'अचीक्लुपत् ' अकरोत् । इतीत्यनन्तरं स्मृतेरित्यनु- षज्यते । 'समाचारः' वेदोदितसर्वकर्मणां सम्यगनुष्ठानम् । तत्र 'सर्वेषां' शाखिना अधिकारादित्यर्थः। अत्र देवाद्याचार एव हेतुः। तस्यानधिकार- , १४० ब्रह्मसूत्रभाष्यम् [ अध्या - ३. पा-३. (६) सू-ॐ ॥ सलिलवच्च तन्नियमः ॥ॐ ॥ ४॥ यथा सर्व सलिलं समुद्रं गच्छति । एवं सर्वाणि वचनानि ब्रह्म- ज्ञानार्थानीति नियमः। (७) आग्नेये च- यथा नदीनां सलिलं शक्ये सागरगं भवेत् । एवं वाक्यानि सर्वाणि पुंशक्तया ब्रह्मवित्तये ॥ इति ॥ ४ ॥ कृताभावशङ्कावारणाय पूर्वोक्तस्मारणाय अधिकारादित्युक्तम् । इदमपि ज्ञानोपलक्षकम् । चः समुच्चये। विधेस्सामान्यात् अधिकारादित्यनयोः सर्वेति प्रतिज्ञावाक्येनान्वयः। अनेन-हिशब्दसूचितस्मृतेः 'स्वाध्यायस्य' वेदाध्ययन विधेः 'तथात्वं' अविशिष्टत्वं यत एवं अतः 'स्वाध्यायस्य' वेदाध्ययनस्य 'तथात्वं' सर्वसाधारणत्वम् । न च सर्वशाखाध्ययनस्य सर्वसाधारणत्वेऽपि सर्वशाखोक्तमेकेन ज्ञातव्यमित्येतत्कुत इति वाच्यम् । यतः 'स्वाध्यायस्य' अध्ययनविधेः 'तथात्वं' अर्थज्ञानपर्यवसायित्वं, न त्वक्षरग्रहणमात्रे चरितार्थत्वम् । न केवलं खाध्यायस्य तथात्वात् , किन्तु सर्ववेदोक्तकर्मसमाचारे सर्वेषामधिकारात् , अत एव सुतरां तत्साध्ये ब्रह्मज्ञानेऽधिकाराच्च, पूर्वं ब्रह्म एकैकेनैव सर्ववेदान्तप्रत्ययमिति सूत्रार्थ उक्तो भवति । तत्त्वप्रदीपे तु कैमुत्यं न प्रदर्शितम् ॥ (६) ननु यदि सर्वशाखोक्तप्रकारेण जानतो ध्यानाधिकारः, तमुध- माधिकारिणां ध्यानाभावः प्राप्त इत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे- सलिलवदिति ॥ 'सर्व सलिलं' नद्यादिजलं 'गच्छति' प्राप्नोति 'वच- नानि' वेदवचनानि 'ब्रह्मज्ञानार्थानि' पुंशक्तयनुसारेण स्वज्ञानद्वारा ब्रह्मज्ञानप्रयोजनकानीत्यर्थः। इति नियम इति । इत्येवं रूपनियम इत्यर्थः । अनेन सूत्रे स चासौ नियमश्च तन्नियमः ध्यानेच्छुना सर्ववेदान्तप्रत्यय ब्रह्म सर्ववेदोक्तप्रकारेण ज्ञातव्यमित्येवंरूपः, तस्य तत्त्वं च प्रतिबन्धाभाव- मपेक्ष्य प्रवृत्तत्वं, चशब्दश्च प्रतिबन्धाभावमपेक्ष्यैव नियमो, न त्वतिदृढ इत्यवधारणार्थ इत्युक्तं भवति । (७) चशब्दः स्मृतिसमुच्चायकोऽपीत्यभिप्रेत्यात्रैवार्थे स्मृतिमाह- आग्नेये चेति । न केवलं सूत्रे, किन्तु स्मृतावप्ययमर्थ उक्त इत्यर्थः। शक्य १४१ . अधि - १. सू - ५.] दौपिकासहितम् (८) सू-ॐ ॥ दर्शयति च ॥ ॐ ॥ ५॥ सर्वैश्व वेदैः परमो हि देवो जिज्ञास्योऽसौ नाल्पवेदैः प्रसिध्येत् । तस्मादेनं सर्ववेदानधीत्य विचार्य च ज्ञातुमिच्छेन्मुमुक्षुः॥ इति चतुर्वेद शिखायाम् । सर्वान् वेदान् सेतिहासान् सपुराणान् सयुक्तिकान् ।। स पञ्चरात्रान्विज्ञाय विष्णुज्ञेयो न चान्यथा ।। इति ब्रह्मतर्के ॥५॥ ॥ इति सर्ववेदाधिकरणम् ॥१॥ इति । समुद्रं गन्तुं शक्ये सतीत्यर्थः। असति प्रतिबन्धक इति यावत् । 'वाक्यानि ' वेदवचनानि 'पुंशक्तया' पुरुषशक्तयनुसारेण 'ब्रह्मवित्तये' अध्ययनद्वारा परब्रह्मज्ञानाय भवन्तीत्यर्थः। तथाच यथाशक्त्यधीतसर्व- वेदेभ्यः श्रवणमननाभ्यां ब्रह्म जानतां मन्दानामपि ध्यानोपपत्तिरिति भावः। इत्याग्नये इतीतिशब्दान्वयः॥ (८) चोदनाविशेषादित्युक्तिसमर्थितार्थ श्रुतिस्मृतिभ्यां च साधय- सूत्रं पठित्वा तवचनद्वयमुदाहरति-दर्शयति चेति ॥ तमेतमर्थ यतः श्रुतिः मुखत एव 'दर्शयति' प्रतिपादयति। चशब्दात्स्मृतिश्च, अतः सर्व- वेदान्तप्रत्ययं ब्रह्मेति तत्त्वप्रदीपदिशा सूत्रार्थः। न केवलं युक्तिः, किन्तु श्रुतिः स्मृतिश्चेति वा टीकादिशा चार्थः। 'हि' यस्मात्परमो देवः 'सवै- र्वेदैरेव प्रसिद्धयेत् ' ज्ञातो भवेत् , नाल्पैर्वेदैः तस्मात्सर्वैरेव वेदैः जिज्ञास्यो नाल्पवेदैः। यस्मादेवं तस्माद्यदि मुमुक्षुः एनं' विष्णुमपरोक्षतो ज्ञातु- मिच्छेत् तदा 'सर्ववेदानधीत्य विचार्य' श्रवणमननाभ्यां तं ज्ञात्वैव तिष्ठेत् । तदैव देवः 'प्रसिद्धयेत् ' अपरोक्षविषयो भवेदित्यर्थ । इति चतुः वैदशिखायामयमर्थ उक्त इति शेषः। इतिहासो' भारतं 'युक्तिः मीमांसा 'विज्ञाय' स्थितेन विजानतेति यावत् । विष्णुज्ञेयो 'नान्यथा' नाल्पवेदान् जानतेत्यर्थः। ब्रह्मतर्क इत्यत्रापि पूर्ववच्छेषः ॥ ॥ इति सर्ववेदाधिकरणम् ॥ १॥ . १ १४२ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा - ३. ॥२. उपसंहाराधिकरणम् ॥ (१) सईदै यो नोपास्योऽशक्यत्वात् इति । अत आह- सू-ॐ ॥ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च॥ ॐ ॥६॥ सर्ववेदोक्तान गुणान् दोषाभावांश्चोपसंहृत्यैव परमात्मोपास्यः । ॥२. उपसंहाराधिकरणम् ॥ (१) अत्राधिकरणे ज्ञानार्थे सार्वत्रिकगुणोपसंहारः समर्थ्यते। पूर्व- पक्षयति-सर्वैरिति । परमात्मेति शेषः। ज्ञेय इति सावधारणम् । तथाच परमात्मा सदैः' सर्ववेदोक्तगुणैर्विशिष्टत्वेन ज्ञेय एव 'नोपास्यो' न सर्ववेदोक्तगुणानुपसंहृत्य ध्यातव्य इत्यर्थः। तथाच तदर्थमुक्तं सर्वपरि- ज्ञानं व्यर्थमिति भावः। कुत हत्यत आह-अशक्यत्वादिति। अनन्तवेदो- दितानन्तगुणानां स्वभुजवद्युगपद्बुद्धावारोपरूपोपसंहारस्थाशक्यत्वेन तत्पूर्व- कोपासनस्याप्यशक्यत्वादित्यर्थः । सर्वपरिज्ञानं तु विततप्रज्ञानां केषांचित् कथंचित् क्रमेण शक्यमिति भावः। सूत्रे सर्ववेदान्तेत्यतः सर्ववेदेत्यनु- वर्तते । अर्थशब्दो गुणदोषाभावपरः । सर्ववेदार्थाभेदात् उपसंहार इत्यन्वयः। अर्थपदं चोभयान्वयीत्यभिप्रेत्य उपसंहारोऽर्थाभेदादिति प्रति- शांशं व्याचष्टे-सर्ववेदेति। यद्यपि दोषाभावो गुण इत्युक्तेर्दोषाभावोऽपि गुणः, शुभधर्मपरत्वाहुणशब्दस्य । तथापि ये विधिमुखवेद्या आनन्दादयो धर्मास्ते गुणाः। ये निषेधमुखवेद्या अपहतपाप्मत्वनिर्दुःखत्वादयः ते दोषा- भावा इति विवक्षाभेदात्पृथगुक्तिः । तत्त्वप्रदीपे तु लोकवेदानुसारेण भेदोक्त्युपदेशः स्पष्टत्वायेत्युक्तम् । चेत्यनन्तरं अभेदादिति सौत्रपदमन्वे- तव्यम् । 'अभेदात् ' अविभागेन एते गुणा नोपसंहर्तव्याः एते तु उप- संहर्तव्या इति विभागमन्तरेणेत्यर्थः । यद्वा-'अभेदात् ' ऐक्येनेत्यर्थः । उक्तं हि तत्त्वप्रदीपे–एको हि परमात्मा सर्ववेदादिषूपास्योऽर्थः सर्वगुणा- त्मक इति । उपसंहारश्चेत्यपि चशब्दान्वयमभिप्रेत्य तदर्थमाह-उपसंहृत्यै- वेति। नतु कांश्चिदनुपसंहृत्येत्येवशब्दार्थः। सूत्रे सर्ववेदान्तप्रत्ययमित्य- , १४३ अधि - २. सू - ६.] दीमिकासहितम् (२) उपास्य एकः परतः परो यो वेदैश्च सर्वैस्सह चेतिहासैः। सपञ्चरात्रैस्सपुराणैश्च देवः सर्वैर्गुणैस्तत्र तत्र प्रतीतैः ॥ इति भाल्लवेयश्रुतिः । (३) आग्नेये च- विधिशेषाणि कर्माणि सर्ववेदोदितान्यपि । यथा कार्याणि सर्वेश्च सर्वाण्येवाविशेषतः ॥ एवं सर्वगुणान् सर्वदोषाभावांश्च यत्नतः । योजयित्वैव भगवानुपास्यो नान्यथा क्वचित् ॥ इति ॥ नेन प्रकृतः परमात्मा उपसंहारोपलक्ष्येणोपासनेन विषयतया सम्बन्धनीय इत्याशयेनाह-परमात्मेति। उपास्य इति सावधारणम् ॥ (२) कुत इत्यतस्तत्र यतो विधिशेषवादित्यनेन श्रुतिविहितत्वादिति हेतुस्सूचित इत्याशयेन तां श्रुतिमुदाहरति-उपास्य इति ॥ 'परतो' रमादेः परो देवः सर्वैर्वेदैः एकः ' अविभक्तः अविभागेन 'उपास्यः इत्य- न्वयः। सहेतिहासैः' सपुराणैरिति सामान्योक्तावपि वेदानुकूलग्रन्थपर- तया इदं व्याख्येयम् । ननु सदैरुपास्य इत्यसङ्गतमित्यतस्तद्विवृणोति- सर्वैर्गुणैरिति । सर्वैर्गुणै रित्यनेन पूर्वोक्तं व्याचष्टे श्रुतिः। एक इति पदे- नार्थाभेदादिति सूत्रावयवं व्याचष्टे । एको हि परमात्मा सर्ववेदादिभिरु- पास्योऽर्थ इति तत्त्वप्रदीपोक्तेः। अस्मिन् पक्षे 'एकः' अभिन्न इत्यर्थः । 'सूत्रावयवं' अभेदादिति सूत्रावयवावयवम् । भावबोधे तु बहुवचनेन त्रिमात्रप्रतीतिवारणाय सर्वैरितिपदेन विवृतमित्युक्तम् । वेदपुराणादिषु 'प्रतीतैः' प्रतिपादितैरित्यर्थः । श्रुतिरित्यनन्तरं यत इति , तत्र तत्र शेषः॥ (३) उपसंहृत्योपास्य इत्यत्रैवाथै स्मृतिमाह-आग्नेये चेति ॥ श्रुति- समुच्चये चः। 'विधिशेषाणि' शिष्यन्त इति शेषाणि विधिभिः शिष्टानि सोमेन यजेत' (आप. श्री. १०-२-१.) इत्यादिविधिविहितानि कर्माणि ज्योतिष्टोमादीनि । यद्वा-प्रधानविधिशेषाणि कर्माणि प्रयाजादीनि । न केवलं स्वस्वशाखाविधिविहितानि, किन्तु सर्ववेदोदितान्यपि 'अविशेषतः' अधिकारिविशेषाविभागेन 'सर्वैः' शाखिभिः यथा कार्याणि एवं भगवान् १४४ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा.३. - (४) समानविषये चोपसंहारः। न तु 'सोऽरोदीत् ' (तै. सं. १-५-१.) इत्यादीनाम् । (५) गुणैरेव स तूपास्यो नैव दोषैः कथञ्चन । गुणैरपि न तूपास्यो ये पूर्णत्व विरोधिनः ॥ इति बृहत्तन्त्रे ॥६॥ सर्ववेदोक्तान गुणान् दोषाभावांश्च ' यत्नतः' श्रवणादिप्रयत्नतः ‘योज- यित्वा' यथाशक्त्युपसंहृत्यैव सर्वैरुपास्यो, न तु 'क्वचित् ' कालदेशपुरु- षेषु उक्तस्यान्यथाभावोऽस्तीत्यर्थः। इतिशब्दस्य इत्याग्नेये वचनाच्च उपास्य इत्यन्वयः॥ (४) सर्ववेदोक्तगुणोपसंहारमुक्त्वा तदपवादमाह-समाने चेति ॥ तद्वयाचष्टे-समानविषये चेति ॥ योग्यगुणविषय एवेत्वर्थः । अनेन विषय सप्तमीयम् , चोऽवधारण इति सूचितम्। उपसंहार इत्यस्यावृत्त्याऽत्रा- प्यन्वय इत्याह-उपसंहार इति । चशब्दार्थावधारणव्यावर्त्यमाह- न विति। 'इत्यादीनां' इत्यादिवाक्यबोध्यानामर्थानाम् । असमानानामिति शेषः । इत्यादीनामुपसंहार इत्यन्वयः। अयोग्योपासनेनानर्थप्राप्तेरिति भावः। आदिशब्देन 'यदरोदीत्तद्रुद्रस्य रुद्रत्वम्' (ते. सं १-५-१). 'रुद्रस्य त्वेव धनुरानिः शिर उत्पिपेष (ते. आ. १.५.) इत्यादिश्रुतिर्गृह्यते । 'स' प्रकृतो महादेवः ‘अरोदीत् ' रोदनमकार्षीत् । अरोदीदिति पद्बोध्यं यद्रोदनं तद्रुद्रस्य प्रसिद्धस्य ‘रुद्रत्वं' रुद्रशब्दप्रवृत्तिनिमित्तम् । विष्णुविवक्षायां तु रोदनखातन्त्रयं रुद्रशब्दप्रवृत्तिनिमित्तमिति विवेकः। आरोपितं धनुः क्षिताववष्टभ्य स्थितस्य रुद्रस्य शिरो ज्यायां वनिरूपेण इन्द्रेण छिन्नायां उत्क्षिप्त्वा 'धनुरानिः' धनुष्कोटिः 'उत्पिपेष' चिच्छेदेति श्रुत्यर्थः॥ (५) अत्र स्मृतिमाह-गुणैरिति ॥ 'सः' विष्णुः ज्ञानानन्दादि- गुणैरेवोपास्यः, न तु दुःखादिदोषैः। ननु रोदनादीनामपि विधिमुखवेद्य- त्वेन गुणत्वादुपास्यत्वापत्तिः। तथाच 'नैव दोषैः' इति व्याहतमित्यतः उक्तस्यापवादमाह-गुणैरिति । भगवान् ये पूर्णत्वविरोधिनो मितभुक्त्वा- दयस्तादृशगुणैरपि नोपास्य एव मितभुक्त्वादीनां लोके गुणत्वेऽपीश्वरे दोषत्वात्। तत्र बहुभुक्त्वस्यैव गुणत्वात् । तदुक्तम्-'बहुभुक्त्वं यथा १४५ अधि - २. सू - ७.] दीपिकासहितम् (६) सू-ॐ॥ अन्यथात्वं च शब्दादिति चेन्नाविशेषात् ॥ ॐ॥७॥ 'आत्मेत्येवोपासीत । (बृ. ३-४-७.) इति शब्दादुपसंहार- स्थान्यथात्वमिति चेन्न, एते गुणा नोपास्या इति विशेषवचना- भावात् ' सर्वैर्गुणैरेक एवेशिताऽसावुपासितव्यो न तु दोषैः दोषो नृषु नैव हरौ क्वचित् ' इति बृहत्तन्त्रे उक्तमिति शेषः। सूत्रार्थस्तु- अर्थानां सर्ववेदार्थभूतानां धर्माणां भावाभावरूपाणां अभेदात् अविभागेन एते उपसंहर्तव्या एते तु नेति विभागमन्तरेण उपसंहारो युगपद्बुद्धावारोपः कार्यः। उपसंहृत्य च परमात्मा तहुणात्मकत्वेन ध्यातव्य इति यावत् । कुतः १ यतो 'विधिशेषवदयं विशिष्टसन्ध्यावन्दनादिवदस्यापि विहित- त्वात् । गुणदोषाभाववत् दोषाणामप्युपसंहर्तव्यत्वं किं न स्यादिति न वाच्यम् । यतः स चोपसंहारः 'समाने च' योग्ये एव पूर्णत्वाविरोधिगुण- विषये एव युक्तः, न तु तद्विरोधिरोदनमितभुक्त्वादिष्विति । (६) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्य व्याचष्टे-अन्यथात्वमिति॥ अत्र पूर्वसूत्राद्विधिशेषवदिति पदस्यानुवृत्ति उपसंहारस्येति विपरिणत- पदानुवृत्तिं अन्यथात्वमित्यस्यावृत्तिं चाभिप्रेत्य शब्दपदगृहीतश्रुत्युदाहरण- पूर्वकं आक्षेपांशं व्याचष्टे-आत्मेति । योजना तु 'विधिशेषवत् ' विधि- विहितोपसंहारवत् यतः 'आत्मा' इति शब्दादुपसंहारस्यान्यथात्वं च अनुपसंहारः अल्पगुणज्ञानरूपोऽप्यर्थाद्विहितः ततश्च 'अन्यथात्वं' अन्यथोप- संहारे विधिशेषस्य विधिविहितकर्मणः 'अन्यथात्वं' लोपः प्रसज्यते तदुपसंहारस्य 'अन्यथात्वं' अकर्तव्यत्वं सिद्धमिति । परिहारांशं व्याचष्टे-नेति । सर्वगुणोपसंहारस्य अन्यथात्वं' अभावः नेत्यर्थः। कुतो नेत्यतः किमसौ प्रामाणिकत्वादङ्गीक्रियते, उत तद्विरोधिगुणोपसंहारे प्रमाणाभावाद्वेति विकल्प्य आद्यपक्षनिषेधहेतुत्वेन अविशेषादिति पदं व्याचष्टे-एत इति । विशेषेति। विशेषप्रमाणाभावादित्यर्थः । नाविशेषा- दित्यस्यैकपद्याश्रयणेन विशेषवचनादित्यर्थाभिप्रायेण द्वितीयपक्षनिषेध हेतुत्वेनाप्येतद्वयाचष्टे-सर्वैरिति। सर्ववेदोक्तैरित्यर्थः। 'गुणैः' पूर्णत्वा- विरोधिधर्मः। तथाचासावीश्वरः 'एक एव' अभिन्न एव सर्वैर्गुणैरेव , , 19 १४६ ब्रह्मसूत्रभाष्यम् [अध्या- ३. पा. ३. कदाचित् ( ) इति विशेषवचनाच्च । आत्मेत्येवेत्य- वधारणमनात्मत्वनिवृत्त्यर्थम् ॥ ७ ॥ (७) सू-ॐ ॥ न वा प्रकरणभेदात्परोवरीय- स्त्वादिवत् ॥ ॐ॥८॥ प्रकरणभेदान्न वोपसंहारः कार्यः। परोवरीयस्त्वादिषु तावदेव युक्तम् ॥ ८॥ 'उपासितव्यः' उपसंहृत्य ध्यातव्यो न तु दुःखादिदोषैरपीति योजना। चः समुच्चये। नन्वात्मत्वमेवोपासीत न त्वन्यदिति आत्मत्वावधारणादेव तदन्यगुणा नोपास्या इति सिद्ध्यतीत्यतः तदुत्तरत्वेनाप्यविशेषादिति हेतुं व्याचष्टे-आत्मेति । इत्यवधारणमिति! इतिवाक्यगतैवकार इत्यर्थः। अनात्मत्वेति । अनात्मत्वमात्मत्वायोगः तस्य निवृत्तिर्व्यवच्छेदः स एवार्थो यस्य तत्तथोक्तम् । यतोऽतो न तद्विरोध इति वाक्यशेषः। तथाच भगवन्तं आत्मैवायमित्युपासीत न त्वनात्मेतीति उत्तमाधिकारिणः प्रति अयोगव्यवच्छेदक एव एवकारो नान्ययोगव्यवच्छेदकः। निरवकाशोदा- हृतश्रुतिविरोधादिति भावः। अनेनावधारणस्यायोगव्यवच्छेदेऽप्यविशेषा- दिति सौचहेतोरर्थान्तरमुक्तं भवति ।। (७) ननु नायं सर्वगुणोपसंहारो युक्तोऽशक्यत्वादित्याशङ्कामभ्युप- गमवादेन परिहरन् न वेति सूत्रं उपसंहारः कार्य इत्येतयोरनुवृत्त्यध्या- हाराभ्यां व्याचष्टे-प्रकरणभेदादिति ॥ परोवरीयस्त्वादिवदित्यादावुप स्कार्यम् । वेति व्यवस्थितविकल्पः। तथाच एवमुपसंहारः कार्यतयोक्तः नासौ कार्यो वा। कुतः १ परोवरीयस्त्वादिवत् प्रकरणभेदात् । परोवरीयो- वैश्वानरादिप्रकरणानां विद्यानां भेदादित्यर्थः। यद्येकैकस्य सर्वगुणोपासनं स्यान्न तर्हि प्रकरणानि भिधेरन् कारणाभावादिति भावः । नन्वेकैकस्मिन्नेव प्रकरणे सर्वगुणोक्तिसम्भवात्प्रकरणभेदेऽपि सर्वगुणोपासनोपपत्तिरित्यत आह-परोवरीयस्त्वादिष्विति । परोवरीयस्त्वादिगुणप्रतिपादकेष्वित्यर्थः । प्रकरणेष्विति । यथेति च शेषः। परोवरीयस्त्वं नाम 'परस्मात्' इत्यनेन निरुक्तं निरवधिकसर्वोत्तमत्वम् | आदिपदेनोद्गीथत्वानन्तत्वे प्रकरणान्त- रोक्तं च गृह्यते । स्पष्टं गुणप्रतिपत्त्यर्थ त्वप्रत्ययः। सूत्रे तु सप्तम्यन्तं १४७ . . अधि - २. सू - ९.] दीपिकासहितम् (८) सू-ॐ॥ संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ॥ॐ॥९॥ सर्वविद्या उक्त्वा 'सोऽहं नामविदेवास्मि नात्मवित् । (छा. ७-१-३.) इति वचनात्सर्वस्य ब्रह्मनामत्वात्तदुपसंहारः कार्यः । प्रथमान्तं चेतत् । अनेनैवं सर्वगुणोपसंहारः कर्तव्यतयोक्तः सः न कर्तव्यो वा। कुतः ? 'प्रकरणभेदात् ' परोवरीयोवैश्वानरादिविद्याभेदात् । अन्यथा स न स्यात् । न चैकस्मिन् प्रकरणे सर्वगुणोक्तिसम्भवात्प्रकरणमेदेऽपि सर्वगुणोपसंहारोपपत्तिरिति वाच्यम् । यतः 'परोवरीयस्त्वादिवत् ' निर. वधिकसर्वोत्कृष्टत्वरूपपरोवरीयस्त्वादिगुणप्रतिपादकेषु ‘स एष परोवरी यानुद्गीथः स एषोऽनन्तः' (छा. १-९-२.) इत्यादिषु प्रकरणेषु तावदेवोपा. स्यगुणेषु । कियदेव ? परोवरीयस्त्वादि उक्तं न सर्वमत इति सूत्रार्थ उक्तो भवति॥ (८) उक्तमाक्षिप्य समादधत्सूत्र-संज्ञात इति । अत्रापि पूर्ववदुप- संहारः कार्य इत्येतयोरावृत्त्यध्याहाराभ्यामाक्षेपांशं व्याचष्टे-सर्वेति । सर्वस्येत्यावर्तते । गुणाभिधायकत्वात् गुणाभिधानस्य चोपसंहारार्थत्वा- दिति शेषः। कार्य इति सावधारणम् । तथाच 'सर्वस्य' सर्वविद्योक्त- गुणस्योपसंहारः कार्य एव । कुतः ? 'सर्वस्य' विद्याराशेः ब्रह्मगुणाभि- धायकत्वात् गुणाभिधानस्य चोपसंहारार्थत्वात् । न चासिद्धिः। 'सर्वस्य' शब्दराशेः ब्रह्मनामत्वात् । नामोदितगुणानुपसंहारे तन्नानो ब्रह्मणोऽनुपा- स्तिप्रसङ्गादिति योजना। अनेन सूत्रे सर्वस्येति शेषः कार्यः, संज्ञात इति भावप्रधानमित्युक्तं भवति। ननु सर्वस्य ब्रह्मनामत्वमसिद्धमित्यत आह- 'सोऽहं नामविदेवास्मि नात्मवित्' इति वचनादिति । सनत्कुमारं प्रति नारदोक्तेरित्यर्थः । इति वचनादवगतात् ब्रह्मनामत्वादित्यन्वयः। 'सः' एवं सर्वविद्यावेत्ताऽप्यहं परमात्मनाम विदेवास्मि न परमात्मवित्। कुतः सर्वविद्यानिक्तव्याज्ञानादिति श्रुत्यर्थः। यद्यपि 'मन्त्रविदेव' इति छन्दो- गानां पाठः। तथापि शाखान्तरवाक्यमेतदित्यदोषः। 'यद्वै किंचिद्ध्य गीष्ट नामैवैतत् ' (छा. ७-१-३) इति उत्तरवाक्यबलान्मन्त्रशब्दो नामपरो वा। केचित्तु-'मन्त्रवित्' इत्येव श्रुतिपाठः । भाष्यं तूपनिषदर्थानुवाद- १ - १४८ ब्रह्मसूत्रभाष्यम् [अध्या- ३. पा.३. (९) नामत्वात्सर्वविद्यानां गुणानामुपसंहतिः । कार्यैव ब्रह्मणि परे नात्र कार्या विचारणा ॥ इति च ब्रह्मतर्के । इति चेत् सत्यं, उक्तो ह्युपसंहारः। परमित्याहुः। ननु 'सोऽहम् ' इति वाक्ये स्वस्य नामवित्त्वमात्रोक्तावपि कथं सर्वस्य ब्रह्मनामत्वसिद्धिरित्यत आह-सर्वेति। ऋग्वेदमित्यादिनेति प्रागध्याहार्यम्। वेदयन्तीति विद्या वेदादयः। तथाच 'ऋग्वेदं भगवोs- ध्येमि यजुर्वेदं सामवेदं अथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदम्' (छा. ७-१-२). इत्यादिनाऽऽत्मनः सर्वविद्यावेदित्वमुक्त्वेत्यर्थः । यद्वा-ऋगादिसर्व विद्या आत्मना अधीता इत्युक्त्वेत्यर्थः। तथाच सर्व- विद्यावेत्ताऽहं नामविदेवेत्युक्तिबलात् सर्वस्य ब्रह्मनामत्वमवगम्यत इति भावः । श्रुत्यर्थस्तु-'भगवो' भगवान् सनत्कुमार अहं ऋग्वेदादिक- मध्येमि। इतिहासपुराणमिति द्वन्द्वैकवद्भावः । विशेष्यनिघ्नोऽयं शब्दः। वेदशब्द आवर्तते। तथाच इतिहासपुराणात्मक ग्रन्थं वेदं सन्तं वेदानां पञ्चमं पञ्चत्वसङ्ख्यापूरणं वेदमध्येमीति । (९) अत्रैव स्मृतिमाह-नामत्वादिति ॥ सर्वविद्यानां ब्रह्मनामत्वात् । अत एव सर्वगुणाभिधायकत्वाहणाभिधानस्य चोपसंहारार्थत्वात्परे ब्रह्मणि गुणानामुपसंहृतिः कार्यवेति योजना। इति चेति । इति ब्रह्मतर्क वचनाच्चोपसंहारः कार्य इत्यन्वयः। न केवलं सूत्रकृदुक्तहेतोरिति चार्थः। अभ्युपगमरूपं तदुक्तमित्यादिसमाधानांशं व्याचष्टे--सत्यमिति । सोप- पत्तिकं यद्गुणोपसंहारकर्तव्यत्वमुक्तं तत् ‘सत्यं' युक्तमेवेत्यर्थः। अनेन सूत्रे सत्यमिति शेषः। तस्य तदित्यनेनान्वय इत्युक्तं भवति । कथं युक्त मित्यतस्तद्धेतुत्वेनापि तदुक्तमित्येतद्योजयति-उक्तो हीति। 'हि' यतः कर्तव्यतयेति शेषः। अनेन तदुपसंहारकर्तव्यत्वं यतोऽस्माभिः 'उक्तं साधितमिति सूत्रखण्डार्थ उक्तो भवति। श्रुत्याऽप्युक्तार्थसाधनाय- अस्ति तु तदपीति सूत्रांशः प्रवृत्तः। तं व्याचष्टे-तदिति। तदित्यनूद्य प्रमाणमित्यर्थकथनम्। यद्वा-तस्मिन् सर्वविद्यानां ब्रह्मनामत्वेन तद्गुणाभि- धायकत्वादुपसंहारः कार्य इत्युक्तार्थे इत्यर्थः। 'प्रमाणं' श्रुतिवचनम् । न केवलं गुणाभिधानस्योपसंहारार्थत्वादिति युक्तिमात्रमित्यपिशब्दार्थः । सौत्रतुशब्दार्थमाह-एवेति । अस्य सत्यमित्यनेनान्वयः। एतास्सर्वविद्याः .

अधि - ३. सू - १०.] दीपिकासहितम् १४९ , तत्प्रमाणमप्यस्त्येव । ' नाम वा एता ब्रह्मणः सर्वविद्यास्तस्मादेकः सर्वगुणैर्विचिन्त्यः' इति कौण्डिन्यश्रुतौ ॥ ९ ॥ ॥ इत्युपसंहाराधिकरणम् ॥ ॥३. प्राप्त्यधिकरणम् ॥ (१) सू-ॐ ॥ प्राप्तेश्च समञ्जसम् ॥ ॐ ॥ १० ॥ युज्यते चोपसंहारोऽनुपसंहारश्च योग्यताविशेषात् । परब्रह्मनामैव, तस्माद्विष्णुरेक एव सर्वगुणैरुपसंहृत्योपास्य इत्यर्थः । यावच्छक्तिप्रयत्नेनोपसंहारे फलाधिक्यबोधनार्थं बहुप्रमाणग्रहणार्थं च पुनः पुनः उपसंहारोपन्यास इति न पौनरुक्तयमिति तत्वप्रदीपोक्तिः। कौण्डिन्यश्रुतावित्यस्य उक्तो युपसंहार इत्यनुषङ्गः। अतः तत्प्रमाणमस्त्ये- वेत्यन्वयः॥ ॥ इत्युपसंहाराधिकरणम् ॥ ॥ ३. प्राप्त्यधिकरणम् ॥ (२) अत्राधिकरणे प्रागुक्तोपसंहारानुपसंहारयोः पुरुषभेदेन कर्तव्यत्वं समर्थ्यते। सूत्रे समञ्जसमित्यनेन असमञ्जसमिति पूर्वपक्षस्य सूचनात्त- मनुपन्यस्य सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे-प्राप्तेश्चेति ॥ समञ्जसमित्य- स्यार्थो न्युज्यत इति । चशब्दोऽवधारणे। अनेन सोत्रश्वशब्दः भिन्नक्रम इति सूचितम् । उपसंहारोऽनुपसंहार इति सूत्रेऽनुषक्तपदस्यार्थकथनम् । चः समुच्चये। युज्यत इत्यस्य प्रत्येकं सम्बन्धः। पुरुषभेदेनेति शेषः। नन्वने- नोपसंहारः कर्तव्यः अनेनानुपसंहार इति निर्णयाभावात् तौ पुरुषभेदेनापि न युक्तावित्यतस्तदुत्तरत्वेन प्राप्तरित्येतद्वयाचष्टे-योग्यतेति। प्राप्यते फलमनयेति प्राप्तिर्योग्यता। तथाच स्वभुजवत् ध्यानकाले युगपहुणप्रती- त्यादियोग्यताविशेषादित्यर्थः। विशेषात् प्राप्तेरित्यनेन प्राप्तेरित्यस्य पुरुष- विशेषात् निर्णयसंभवादित्यप्यर्थ उक्तो भवति । तत्र युगपद्वेदोक्तसर्व- गुणप्रतीतियोग्यता ब्रह्मणः । देवपित्रादीनां क्रमेण न्यूनगुणप्रतीतिः। मानु षाणामल्पगुणप्रतीतिरित्येवं युगपत्प्रतीत्यादियोग्यता ज्ञातव्या ॥

ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा.३. (२) गुणैस्सर्वैरुपास्योऽसौ ब्रह्मणा परमेश्वरः । अन्यैर्यथाक्रमं चैव मानुषैः कैश्चिदेव तु ॥ इति भविष्यत्पर्वणि ॥ १० ॥ ॥ इति प्राप्त्यधिकरणम् ॥ ३ ॥ ॥ ४. सर्वाभेदाधिकरणम् ॥ (१) सू-ॐ ॥ सर्वाभेदादन्यत्रेमे ॥ ॐ ॥ ११ ॥ सर्वगुणयुक्तत्वेनोपासनादन्यत्रैव फले ब्रह्मादयो भवन्ति । (२) युगपत्सर्वगुणप्रतीतिः ब्रह्मणः अन्येषां क्रमेणेति तदेवशृङ्गग्राहि- कया स्मृत्या दर्शयति-गुणैरिति ॥ 'अन्यैः ' चतुर्मुखेतरदेवपित्रादिभिः। चोऽप्यर्थः । मानुषैस्त्वित्यन्वयः। ‘कैश्चित् ' अल्पैरानन्दादिगुणैः । यद्यपि स्मृतावुपासनाविशेष एवोच्यते न तु प्रतीतिनियमः । तथापि ध्यानरूपो- पासनस्य गुणप्रतीतिसाध्यत्वादात्तलाभ इति भावः। तथाच सर्वैर्गुणै- रित्यस्य युगपत् प्रतीतैरित्यभ्युपगमान्नासंगतिरिति भावः ॥ ॥ इति प्राप्त्यधिकरणम् ॥ ३॥ ॥४. सर्वाभेदाधिकरणम् ॥ (१) अत्राधिकरणे बहुगुणोपसंहारस्य फलातिशयोक्त्या कर्तव्यता समर्थ्यते । प्रमाणाभावेन फलविशेषानिर्णयादयुक्तो बहुगुणोपसंहार इति प्राप्ते सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे-सर्वेति॥ अत्र पूर्वसूत्रादवधारणार्थक- चशब्दशिरस्कस्य विपरिणतसमञ्जसपदस्योपसंहारसूत्रादुपसंहारपदस्य चानुवृत्त्या युक्त एव ब्रह्मादीनां यथायोगं बहुगुणोपसंहार इति साध्य- लाभमभिप्रेत्य तत्र हेतुसमर्पकतया सूत्रं व्याचष्टे-सर्वेति । सर्वगुणयुक्त- त्वेनोपासनादित्यनेन सर्वाभेदादित्यस्य एते गुणा उपसंहर्तव्या एते तु नेति विभागं विना सर्वेषां गुणानामभेदाद विभागेनेत्यर्थ उक्तो भवति । 'उपा- सनात् ' उपसंहृत्योपासनानिमित्तादिति शेषः। अन्यत्रेत्यस्य विशेष्य- माह-फल इति । एवकारेणाल्पफलव्यावृत्तिः। अनेनान्यत्रेत्यस्यानुपसंहारा- ल्पाधिकारिभ्योऽन्यत्र तत्फलविलक्षणे फले इत्यर्थ उक्तो भवति । इमे इत्यस्यार्थो-ब्रह्मादय इति । इमे इति विशेषतः प्रस्तुतत्वात् सर्वोपसंहारा , १५१ -- अधि. ५. सू . १२.] दौपिकासहितम् (२) सम्पूर्णोपासनाब्रह्मा सम्पूर्णानन्दभाग्भवेत् । इतरे तु यथायोगं सम्यङ्मुक्तौ भवन्ति हि ॥ इति पाझे ॥ ११॥ ॥ इति सर्वामेदाधिकरणम् ॥ ४॥ ॥५. आनन्दाधिकरणम् ॥ (१) सर्वेषां मुमुक्षूणां कियन्नियमेनोपास्यमित्यत आह- उच्यन्त इति तत्त्वप्रदीपोक्तेः । यद्यपि ब्रह्मैव सर्वोपासक इति आदिपदानुप- पत्तिः। तथापि तदनतिन्यूनब्रह्माण्यादिविषयमादिपदमित्युक्तं तत्त्वप्रदीपे। भवन्तीति सूत्रे शेषोक्तिः। यत इति शेषः । अस्य लब्धसाध्येनान्वयः ॥ (२) न केवलमुपासनानां महदल्पत्वाभ्यां तत्फलानामपि महदल्पत्वे निश्चीयेते, किन्तु तथा स्मृत्युक्तत्वाञ्चेत्याह-सम्पूर्णेति ॥ 'आनन्दभाक् आनन्दयुक्तः। तुशब्दोऽप्यर्थः। सम्यगिति क्रियाविशेषणम् । तथाच 'इतरे तु' ब्रह्मब्रह्माणीतरदेवादयोऽपि 'यथायोगं ' यथायोग्यं उपास. नात् मुक्तौ यथायोगं 'सम्यग्भवन्ति ' अतिशयवन्तो भवन्तीत्यर्थः । तत्त्व- प्रदीपे तु सम्यङ्मुक्तावित्यैकपद्याभिप्रायेण इतरे तु यथायोगं यथाशक्त्यु- पास्ति कुर्वाणाः 'सम्यङ्मुक्तौ भवन्ति ' यथायोगं फलभाजो भवन्ति । सम्यङ्मुक्ताविति वचनादत्यल्पगुणोपासकानामपि सम्यङ्मुक्तिरेव ना- सम्यङ्मुक्तिरिति सिध्यति । दुःखलेशाभावादिति विशेषार्थ उक्तः । पाने वचनादिति शेषः॥ ॥ इति सर्वामेदाधिकरणम् ॥ ४॥ ॥ ५, आनन्दाधिकरणम् ॥ (१) अत्राधिकरणे सर्वमुमुक्षुसाधारणोपास्यगुणा निर्णीयन्ते। पूर्व- पक्षं सूचयति-सर्वेषामिति ॥ कियदित्याक्षेपे । उपास्यगुणजातं 'कियत्' न कियदित्यर्थः । अनेन संख्याक्लप्त्याक्षेपः कृतो भवति। किमुपास्यमिति निर्देशक्लुप्त्याक्षेपस्याप्युपलक्षकमेतत् । क्वचित् किमिति पाठः । तदा व्यत्यासः । एवं कियत्किमित्यनयोः नियमशब्देनान्वयः यदितोरध्याहारेण यदि उपास्यगुणाः चत्वारः पञ्च वा इति चोच्यते तहि अन्येषामपि समुच्चयसम्भवात् नैते, अन्ये एवेत्यपि वक्तुं शक्यत्वात् कियत् नियमेन १५२ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा-३. सू-ॐ ॥ आनन्दादयः प्रधानस्य ॥ ॐ ॥ १२॥ प्रधानफलस्य मोक्षस्याथै आनन्दो ज्ञानं सदात्मेत्युपास्य एव । किं नियमेनेति नियमाक्षेपपरत्वेयापीदं व्याख्येयम् । इत्यत इति । सर्वसु- मुक्षूपास्यगुणानिर्णयान्न कस्याप्युपासनं युक्तमित्यर्थः। आहेति । सिद्धान्तं सूत्रकार इति शेषः। सूत्रे प्रधानस्येति हेत्वंशं व्याचष्टे-प्रधानफलस्येति । शेषित्वेन प्रधानस्य फलस्येत्यर्थः। यद्वा-फलेषु प्रधानस्येत्यर्थः। फलं निर्दिशति-मोक्षस्येति। अर्थ इति शेषोक्तिः। मोक्षप्रयोजनायेत्यर्थः । आनन्दादय इति साध्यभागं व्याचष्टे-आनन्द इत्यादिना । सर्वेषां मुमुक्षूः णामित्यत्रापि सम्बध्यते । सर्वमुमुक्षुभिरित्यर्थः। सदात्मेति भावप्रधानो निर्देशः। इतिशब्दो वस्तुनिर्देशार्थः । गुणा इति शेषः । एवशब्दस्य एते एवेत्यध्याहृतपदेन सम्बन्धः। न च चतुर्गुणोपासनस्य सर्वमुमुक्षुसाधा- रण्यानुपपत्तिरेकगुणोपासकानां तदभावात् । अन्यथा 'आत्मेत्येवपरं देवमुपास्य ' इति वचनविरोधापत्तेरिति वाच्यम्। अस्य चतुर्विधमोक्ष- योग्याधिकारिविषयत्वात् । अत एव तत्र टीका-न चानन्दादयः प्रधानस्ये- त्युक्तिविरोधः । तदुपासनस्य सम्पूर्णमोक्षार्थत्वात् । अत्र च 'नोत्क्रामन्ति' इति पूर्णमोक्षाभावोक्तेरिति । न चास्य देवसाधारण्यानुपपत्तिः। देवाना- मुत्क्रान्तिमार्गयोरभावादिति वाच्यम् । तेषामप्यंशेनोत्क्रान्तिसम्भवात् , तप्राप्तेः पूर्व तत्सम्भवाञ्च । न च 'सच्चिदानन्द आत्मेति मानुषैः' इत्यणु- भाष्ये, ये सम्यङ्मुक्तिमात्रमिच्छन्ति न तत्र विशेषान् तेषां ये गुणा उपास्याः ते कियन्त इत्यधुना निरूप्यत इति तत्त्वप्रदीपे च अस्योपासनस्य मनुष्य- मात्राधिकारत्वोक्तेविरोध इति वाच्यम्। प्राधान्येन चतुर्गुणोपासनं मनुष्याणामेवेत्यभिप्रायेण ग्रन्थद्वयप्रवृत्तेः । देवैस्तु साधारण्येनैव तदुपास्ति- करणात् । यद्यपि सूत्रे आनन्दमात्रस्य मुखतो निर्देशात्सङ्ख्या निर्देशक्लृप्त्य सम्भवः । तथापि सत्पदोदितनिर्दोषत्वस्य ज्ञानानन्दयोः आत्मपदोदित- खामित्वस्य सर्वापेक्षितत्वात् खसम्बन्धानुस्मरणस्य भगवत्प्रीतिसाधनत्वेन सर्वापेक्षितत्वात् 'तं यथा यथा' ( ) इति श्रुतेरपेक्षितफला- नुसारेणैवेश्वरस्योपास्यत्वात् प्रधानस्येत्युक्तफलपर्यालोचनया आदिपदेन ज्ञानादित्रयस्यैव ग्राह्यत्वात् सङ्ख्या निर्देशज्ञानं सुकरमिति न दोषः। यद्यप्यु- पासनस्यानन्दादिरूपमोक्षार्थत्वाहिति सौत्रो हेतुः निर्देशनियमसाधक एव, अधि • ६. सू. १३.] दीपिकासहितम् १५३ (२) सच्चिदानन्द आत्मेति ब्रह्मोपासा विनिश्चिता । सर्वेषां च मुमुक्षूणां फलसाम्यादपेक्षिता ॥ इति ब्रह्मतकें ॥ १२॥ ॥ इत्यानन्दाधिकरणम् ॥ ५॥ ॥ ६. प्रियशिरस्त्वाधिकरणम् ॥ (१) सू-ॐ॥ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयो हि भेदे ॥ॐ ॥ १३॥ न त्वधिकसङ्ख्येयसमुच्चयव्यवच्छेदमुखेन सङ्ख्यानियमसाधकः। तथापि तत्सूचितस्सर्वेषां मुमुक्षूणामधिकोपासनासमर्थत्वादिति हेतुस्तत्साधको भविष्यतीत्यदोषः॥ (२) अत्र स्मृति चाह-सच्चिदिति ॥ 'सर्वेषां मुमुक्षूणां' कर्मक्षया- दिचतुर्विधमोक्षेच्छूनां ब्रह्म सच्चिदानन्दात्मेत्येवं प्रकारेणोपासा विनि- श्चिता कर्तव्यतयेति शेषः। कुतः१ यतः सा 'अपेक्षिता' अपेक्षितफल- साधनम् । न चास्तु अन्यथाऽप्युपासनं, 'फलसाम्यात् ' फलस्योपास्ति- सदृशत्वात् । यद्वा-उपासनस्य प्रतिमुखस्य 'यथामुखश्रीः' इति भागव- तोक्तेः अपेक्षितफलेन साम्यात् तदनुसारित्वादित्यर्थः ॥ ॥ इत्यानन्दाधिकरणम् ॥ ५॥ ॥ ६. प्रियशिरस्त्वाधिकरणम् ॥ (१) अत्राधिकरणे ब्रह्मोपासने प्रियशिरस्त्वादिगुणानां सर्वाधिकारि- साधारण्यनिरासेन सर्वेषां चतुर्गुण नियमः समर्थ्यते । अप्राप्तिरित्यनेन प्राप्ति- पूर्वपक्षसूचनात्तमनुपन्यस्य सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे-प्रियेति ॥ सूत्रे प्रधानस्येत्यनुवर्तते । तस्य भेदशब्देनान्वयः। भेद इति तादर्थ्य सप्तमी। हिशब्दो हेतौ प्रसिद्धी चेत्यभिप्रेत्य भेदे उपचयापचयौ हीति हेत्वंशं व्याचष्टे-फलभेदार्थमिति । अथात आनन्दस्य' इति श्रुतिसिद्धफलतार- तम्यार्थमित्यर्थः। 'उपचयापचययोः' क्रमेणाधिकाल्पविशेषविषयकत्व- रूपयोः । तारतम्यस्येति यावत् । गुणोपासनेऽपीति शेषः। केचित्तु-उत्त- माना साधारणातिरिक्तस्य गुणस्य यथायोग्यमुपचयः संग्रहः अन्येषां 20 ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा - ३. फलभेदार्थमुपचयापचययोः भावान्न सर्वेषां प्रियशिरस्त्वादि- गुणोपासाप्राप्तिः । (२) नैव सर्वगुणाः सर्वैरुपास्या मुक्तिभेदतः । अपचयः त्याग इत्याहुः । 'भावात् ' अभ्युपेतत्वादित्यर्थः । नम्व्यत्यासेना- न्वयमभिप्रेत्य प्रियशिरस्त्वाद्यप्राप्तिरिति साध्यांशं व्याचष्टेनेति । 'सर्वेषां' उत्तमानामवरेषां चेत्यर्थः। प्रियं शिरो यस्यानन्दमयस्य तस्य भावः प्रियशिरस्त्वं, आदिपदेन मोदादिपक्षकत्वादीनां ग्रहणम् । गुण- शब्दात्परो विशेषशब्दो योज्यः । प्रियशिरस्त्वादिरूपश्चासौ आनन्दादि- गुणविशेषश्च तस्योपासा आनन्दादिगुणानां प्रियशिरस्त्वादिसकलविशेष- युक्तत्वेन उपासनेति यावत् । तस्याः प्राप्तिः योग्यता तस्याः प्राप्तिः प्रसक्ति- रित्यर्थः न सर्वैः चतुर्णां गुणानां सकलविशेषयुक्तत्वेनोपासनीयत्वं, तथा- सति सर्वेषां सर्वगुणोपास्तिप्रसङ्गात्सर्वगुणानामपि गुणचतुष्टयविशेषत्वस्य वक्तुं शक्यत्वात् । किन्तूत्तमैरेवेति फलितोऽर्थः। यथोक्तं तत्त्वप्रदीपे- एकैकस्मिन् गुणे विशेषाणामुपचयापचयौ फलतारतम्यार्थं भवतः। अपचयः फलमात्राय भवति, न फलाभावाय। उक्तगुणोपास्तावुपचयोऽ. धिकफलाय भवति अतो नावरेषां प्रियशिरस्त्वादिप्रियगुणविशेषोपास्तिः। प्राप्यत इति । अस्यार्थः-आनन्दादिषु एकैकस्मिन्नपि गुणे विद्यमानाना विशेषाणामवान्तरभेदानां प्रियत्वादीनां विषयीकरणे उपचयापचयावाधि. क्याल्पत्वे फलतारतम्यार्थमङ्गीकार्यों भवतः। 'अपचयः' कतिपयविशेष- विषयत्वरूपमल्पत्वम् । उपास्तावित्युभयत्राप्याकृष्यते। 'फलमात्राय' मोक्षायैव भवति, नातिशयितफलाय। 'उक्तगुणोपास्तावुपचयः' उक्तानां आनन्दादिगुणानां मध्ये एकैकस्मिन्नपि गुणे विद्यमाना ये प्रियत्वादयस्तेषां साकल्येन विषयीकरणमुपचयः साधिकफलाय सातिशयमोक्षाय भवति । यत इत्यर्थः । 'अवरेषां' उत्तमाधिकारिव्यतिरिक्तानां गुणविशेषोपास्तिः' उक्तगुणगतविशेषविषयोपास्तिरित्यर्थः। किन्तूत्तमानामेवेति वाक्यशेषः ॥ (२) अत्रैव स्मृतिमाह-नैवेति । सर्वगुणास्तद्विशेषाश्च सर्वैरुपास्या नैव। कुतो ? 'मुक्तिभेदतः' मुक्तो फलतारतम्यात् । अन्यथा स न स्यादिति भावः। 'यत्' यस्माद्विरिञ्चस्यैव मुक्तावानन्दफलस्य सुपूर्णता, अन्येषां विरिश्चेतरेषामपूर्णता चास्तीत्यर्थः। वाराहे पुराणे उक्तमिति शेषः। " अधि - ७. सू.१४.] दीपिकासहितम् १५५ विरिश्चस्यैव यन्मुक्तावानन्दस्य सुपूर्णता ॥ इति वाराहे ॥ १३॥ ॥ इति प्रियशिरस्त्वाधिकरणम् ॥ ६ ॥ ॥७. इतराधिकरणम् ॥ (१) ॐ ॥ इतरे त्वर्थसामान्यात् ॥ ॐ ॥ १४ ॥ इतरे गुणाः फलसाम्यापेक्षयोपसंहर्तव्याः ॥ १४ ॥ ॥ इतीतराधिकरणम् ॥ ७॥ अस्य नेत्यनेनान्वयः। न चास्य सूत्रस्य 'अज्ञात्वैनं सर्वविशेषयुक्तं देवं परं को विमुच्येत बन्धात्' ( ) इति गीताभाष्योदाहृतश्रुतिविरोधः शङ्कयः। यतः प्रमेयदीपे ध्यानापेक्षया सूत्र, ज्ञानापेक्षया तु श्रुतिरिति विशिष्टाधिकारिविषयेयं श्रुतिरिति च द्वेधा समाधानमुक्तम् ॥ ॥ इति प्रियशिरस्त्वाधिकरणम् ॥ ६॥ ॥ ७. इतराधिकरणम् ॥ (१) अत्राधिकरणे देवगन्धर्वपर्यन्तानां ब्रह्मवाणीतरदेवादीनां प्रिय- शिरस्त्वादिबहुगुणोपासनं समर्थ्यते। योग्यतानियमानिर्णयाद्विरिञ्चतर- देवादिभिश्चतुभ्योऽन्ये मध्यमगुणा नोपास्या इति प्राप्ते सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे-इतरे त्विति ॥ 'आनन्दादयः' इत्यत्र प्रकृतेभ्यश्चतुर्थ्यः 'सर्वाभेदात्' इत्यत्र प्रकृतेभ्यस्सर्वगुणेभ्यश्च 'इतरे' मध्यमगुणाः 'इतरैः' चतुर्मुखेतरदेवादिभिः 'उपसंहर्तव्याः' उपसंहृत्योपास्या इत्यर्थः। अनेन तुरप्यर्थ इति सूचितम् । न चोपासनयोग्यतानिर्णय इत्यतः तहेतुत्वेन अर्थादित्येतत् ल्यब्लोपनिमित्तपञ्चमीत्वाभिप्रायेण व्याचष्टे-फलेति । तत्तत्प्राप्यफलानुसारेणेत्यर्थः। फलमपेक्ष्य कथं निर्णय इत्यतः फलो- पासनयोः साम्यादिति युक्तिकथनपरतया सामान्यपदं व्याचष्टे-साम्येति । उपासनस्य तत्तत्प्राप्यफलसाम्यमपेक्ष्येत्यर्थः। यद्वा-फलस्योपासन- साम्यमपेक्ष्येत्यर्थः । न च भविष्यत्फलानिर्णयः, गुरूपदेशेन तन्निर्णयोप- पत्तेरिति भावः। अनेन सूत्रे निर्णयोपपत्तेरिति शेषः। तस्य फलनिर्ण- योपपत्तेः योग्यता निर्णयोपपत्तेरिति द्वधाऽर्थ उक्तो भवति ॥ ॥ इतीतराधिकरणम् ॥७॥ , १५६ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा-३, - ॥ ८. आध्यानाधिकरणम् ॥ (१) उपसंहारानुपसंहारप्रमाणमाह- सू-ॐ॥ आध्यानाय प्रयोजनाभावात् ॥ॐ॥ १५॥ आध्यानार्थ हि सर्वे गुणा उच्यन्ते प्रयोजनान्तराभावात् । (२) ज्ञानार्थमथ ध्यानार्थ गुणानां समुदीरणा । ज्ञातव्याश्चैव ध्यातव्या गुणास्सर्वेऽप्यतो हरेः॥ ॥ ८. आध्यानाधिकरणम् ॥ (१) अत्राधिकरणे सर्वगुणोपसंहारानुपसंहारयोः कर्तव्यत्वे प्रमाण- मुच्यते । मानाभावान्नोपसंहारानुपसंहारौ कर्तव्याविति प्राप्ते सिद्धान्त- यन्नधिकरणतात्पर्यमाह-उपसंहारेति ॥ सर्वगुणोपसंहारानुपसंहारयोः कर्तव्यत्वे प्रमाणमाह अस्मिन्नधिकरणे सूत्रकृदित्यर्थः। अनुपसंहारशब्दः तत्त्वप्रदीपरीत्याऽल्पगुणोपसंहारपरः। तत्र प्रथममुपसंहारप्रमाणप्रदर्श- नार्थ सूत्रं पठति-आध्यानायेति। अत्र प्रियशिरस्त्वादीत्यतो हिशब्द- मनुवर्त्य सर्वविद्यासु सर्वे गुणा उच्यन्तेऽत इति चोपस्कृत्य आध्यानायेति हेत्वंशं व्याचष्टे-आध्यानार्थ हीति। अत्र तत्त्वप्रदीपे आप्त्वा धिया ध्यानार्थ हि सर्वे गुणा उच्यन्ते इत्याङोऽर्थ उक्तः । अस्यार्थः-धिया अशेषान् गुणानाप्त्वोपसंहृत्येति । स एव टीकायामशेषेत्यादिना विवृतः । हि' यस्मात् 'आध्यानार्थ' अशेषगुणोपसंहारपूर्वकध्यानार्थ सर्वविद्यासु सर्वे गुणा उच्यन्ते इत्यर्थः । अस्य तस्मात् सर्वविद्यातो गुणोप- संहारः कार्य इति उपसंहारसूत्रोक्तसाध्येनान्वयः। सर्वविद्यानां भगवद्गुणा- भिधायकत्वं च सर्वासां भगवत्संज्ञात्वतः सिद्धमिति न तदसिद्धिरिति भावः। गुणाभिधानस्य ध्यानार्थत्वं कुत इत्यतः तत्र हेतुत्वेन प्रयोजना- भावादित्यंशं व्याचष्टे-प्रयोजनान्तरेति। ध्यानं विनाऽन्यस्य प्रयोजनस्या- भावादित्यर्थः । ध्यानलक्षणप्रयोजनसत्त्वादसिद्धिवारणाय–अन्तरेति । विप्रकीर्णगुणोपसंहारफलं तु मोक्तानन्दातिशय इति टीकायामुक्तम् ॥ (२) गुणभिधानस्य ध्यानार्थत्वे स्मृति चाह-शानार्थ मिति ॥ अथ- शब्दः कर्मणां चेत्यर्थान्तरे । तस्या इति शेषः। तथाच यतः 'तस्याः' तथाच १५७ , अधि - ८. सू • १५.] दीपिकासहितम नान्यत्प्रयोजनं ज्ञानाद्धयानात्कर्मकृतेरपि । श्रवणाचाथ पाठाद्वा विद्याभिः किश्चिदिष्यते ॥ इति परमसंहितायाम् ॥ (३) गुणास्सर्वेऽपि वेत्तव्या ध्यातव्याश्च न संशयः॥ नान्यत्प्रयोजनं मुख्यं गुणानां कथने भवेत् ।। (४) ज्ञानध्यानसमायोगाद्गुणानां सर्वशः फलम् । मुख्यं भवेन्न चान्येन फलं मुख्यं क्वचिद्भवेत् इति बृहत्तन्त्रे ॥ १५॥ उदीरणायाः विद्याभिर्गुणाद्युक्त विद्याभिधेयानां हरेर्गुणानां परोक्षशानात् ध्यानात् हरेः कर्मकरणात् शब्दग्रहणरूपाच्छ्रचणात् शब्दाभ्यासरूपा- त्पाठात् अन्यत् किश्चित्प्रयोजनं 'नेष्यते' नोपेयते, अतो 'विद्याभिः ब्रह्मकर्मोभयविद्याभिर्गुणानां कर्मणां च 'समुदीरणा' अभिधानं ज्ञानार्थ तद्दारा ध्यानार्थमेव भवेत् । उपलक्षणमेतत् । कर्मकरणार्थं चेत्यपि द्रष्टव्यम् । यतः सोदीरणा ध्यानाद्यर्थमेव, न प्रयोजनान्तराय, अतस्तस्याः प्रयोजनवत्त्वाय सर्वेऽपि हरेर्गुणाः ज्ञातव्या ध्यातव्याश्चैवेत्यर्थः। कर्माणि च कर्तव्यान्येवेत्यपि द्रष्टव्यम् । तथाच अनया स्मृत्या गुणाभिधानमाध्यानायैव भवति, सप्रयोजनस्य सतः प्रयोजनान्तराभावादिति सूत्रकृटुक्तानुमानं ज्ञापितं भवतीति ध्येयम् । ' इति परमसंहितायां' तदाख्यग्रन्थे सूत्रकृदुक्तं कथितमिति शेषः। (३) ननु तथापि प्रयोजनान्तराभावादिति हेतुरसिद्धः। स्मृती श्रवणपाठयोरपि गुणाभिधानप्रयोजनत्वेनोक्तत्वादित्यत आह-गुणा इति। यतो गुणानां 'कथने' कथनात् ज्ञानध्यानाभ्यामन्यत् मुख्यं प्रयोजनं न भवेदेव, अतस्तस्य तत्प्रयोजनवत्त्वाय सर्वे हरेर्गुणा ज्ञातव्या ध्यातव्या- श्वेत्यर्थः। तथाच श्रवणादेः परोक्षज्ञानध्यानार्थत्वेन तत्साधनत्वान्न तगुणाभिधानस्य मुख्य प्रयोजनमिति हेतुत्वेनाभिमतस्य मुख्यप्रयोजनान्तरा- भावस्य नासिद्धिरिति भावः ॥ (४) ननु तथापि ध्यानान्यस्य परोक्षज्ञानस्य गुणाभिधानप्रयोजन- त्वात्प्रयोजनान्तराभावादित्यसिद्धमित्यत आह-ज्ञानेति ॥ 'सर्वशः' १५६ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा-३. - ॥ ८. आध्यानाधिकरणम् ॥ (१) उपसंहारानुपसंहारप्रमाणमाह- सू-ॐ ॥ आध्यानाय प्रयोजनाभावात् ॥ॐ॥१५॥ आध्यानार्थ हि सर्वे गुणा उच्यन्ते प्रयोजनान्तराभावात् । (२) ज्ञानार्थमथ ध्यानार्थ गुणानां समुदीरणा । ज्ञातव्याश्चैव ध्यातव्या गुणास्सर्वेऽप्यतो हरेः ।। ॥ ८. आध्यानाधिकरणम् ॥ (१) अत्राधिकरणे सर्वगुणोपसंहारानुपसंहारयोः कर्तव्यत्वे प्रमाण- मुच्यते । मानाभावानोपसंहारानुपसंहारौ कर्तव्याविति प्राप्ते सिद्धान्त यन्नधिकरणतात्पर्यमाह-उपसंहारेति ॥ सर्वगुणोपसंहारानुपसंहारयोः कर्तव्यत्वे प्रमाणमाह अस्मिन्नधिकरणे सूत्रकृदित्यर्थः। अनुपसंहारशब्दः तत्त्वप्रदीपरीत्याऽल्पगुणोपसंहारपरः। तत्र प्रथममुपसंहारप्रमाणप्रदर्श- नार्थ सूत्रं पठति-आध्यानायेति। अत्र प्रियशिरस्त्वादीत्यतो हिशब्द- मनुवर्त्य सर्वविद्यासु सर्वे गुणा उच्यन्तेऽत इति चोपस्कृत्य आध्यानायेति हेत्वंशं व्याचष्टे-आध्यानार्थ हीति। अत्र तत्त्वप्रदीपे आप्त्वा धिया ध्यानार्थ हि सर्वे गुणा उच्यन्ते इत्याडोऽर्थ उक्तः। अस्यार्थः-धिया अशेषान् गुणानाप्त्वोपसंहृत्येति । स एव टीकायामशेषेत्यादिना विवृतः। हि' यस्मात् 'आध्यानार्थ' अशेषगुणोपसंहारपूर्वकध्यानार्थ सर्वविद्यासु सर्वे गुणा उच्यन्ते इत्यर्थः । अस्य तस्मात् सर्वविद्यातो गुणोप- संहारः कार्य इति उपसंहारसूत्रोक्तसाध्येनान्वयः। सर्वविद्यानां भगवद्गुणा- भिधायकत्वं च सर्वासां भगवत्संज्ञात्वतः सिद्धमिति न तदसिद्धिरिति भावः। गुणाभिधानस्य ध्यानार्थत्वं कुत इत्यतः तत्र हेतुत्वेन प्रयोजना- भावादित्यंशं व्याचष्टे-प्रयोजनान्तरेति। ध्यानं विनाऽन्यस्य प्रयोजनस्था- भावादित्यर्थः । ध्यानलक्षणप्रयोजनसत्त्वादसिद्धिवारणाय–अन्तरेति । विप्रकीर्णगुणोपसंहारफलं तु मोक्तानन्दातिशय इति टीकायामुक्तम् ॥ (२) गुणभिधानस्य ध्यानार्थत्वे स्मृति चाह-शानार्थमिति ॥ अथ- शब्दः कर्मणां चेत्यर्थान्तरे। तस्या इति शेषः। तथाच यतः 'तस्याः' . , तथाच अधि - ८. सू . १५.] दीपिकासहितम् नान्यत्प्रयोजनं ज्ञानाद्धयानात्कर्मकृतेरपि । श्रवणाचाथ पाठाद्वा विद्याभिः किश्चिदिष्यते ॥ इति परमसंहितायाम् ॥ (३) गुणास्सर्वेऽपि वेत्तव्या ध्यातव्याश्च न संशयः ।। नान्यत्प्रयोजनं मुख्यं गुणानां कथने भवेत् ॥ (४) ज्ञानध्यानसमायोगाद्गुणानां सर्वशः फलम् । मुख्यं भवेन चान्येन फलं मुख्यं क्वचिद्भवेत् ॥ इति बृहत्तन्त्रे ॥ १५॥ उदीरणायाः विद्याभिर्गुणाद्युक्त विद्याभिधेयानां हरेर्गुणानां परोक्षज्ञानात् ध्यानात् हरेः कर्मकरणात् शब्दग्रहणरूपाच्छ्रवणात् शब्दाभ्यासरूपा- त्पाठात् अन्यत् किञ्चित्प्रयोजनं 'नेष्यते' नोपेयते, अतो 'विद्याभिः ब्रह्मकर्मोभयविद्याभिर्गुणानां कर्मणां च "समुदीरणा' अभिधानं ज्ञानार्थ तद्वारा ध्यानार्थमेव भवेत्। उपलक्षणमेतत्। कर्मकरणार्थ चेत्यपि द्रष्टव्यम् । यतः सोदीरणा ध्यानाद्यर्थमेव, न प्रयोजनान्तराय, अतस्तस्याः प्रयोजनवत्त्वाय सर्वेऽपि हरेर्गुणाः ज्ञातव्या ध्यातव्याश्चैवेत्यर्थः। कर्माणि च कर्तव्यान्येवेत्यपि द्रष्टव्यम् । तथाच अनया स्मृत्या गुणाभिधानमाध्यानायैव भवति, सप्रयोजनस्य सतः प्रयोजनान्तराभावादिति सूत्रकृदुक्तानुमानं ज्ञापितं भवतीति ध्येयम् । 'इति परमसंहितायां' तदाख्यग्रन्थे सूत्रकृदुक्तं कथितमिति शेषः। (३) ननु तथापि प्रयोजनान्तराभावादिति हेतुरसिद्धः। स्मृती श्रवणपाठयोरपि गुणाभिधानप्रयोजनत्वेनोक्तत्वादित्यत आह-गुणा इति। यतो गुणानां 'कथने' कथनात् ज्ञानध्यानाभ्यामन्यत् मुख्य प्रयोजनं न भवेदेव, अतस्तस्य तत्प्रयोजनवत्त्वाय सर्वे हरेर्गुणा ज्ञातव्या ध्यातव्या- श्वेत्यर्थः। तथाच श्रवणादेः परोक्षज्ञानध्यानार्थत्वेन तत्साधनत्वान तगुणाभिधानस्य मुख्य प्रयोजनमिति हेतुत्वेनाभिमतस्य मुख्यप्रयोजनान्तरा- भावस्य नासिद्धिरिति भावः ॥ (४) ननु तथापि ध्यानान्यस्य परोक्षज्ञानस्य गुणाभिधानप्रयोजन- त्वात्प्रयोजनान्तराभावादित्यसिद्धमित्यत आह-ज्ञानेति ॥ . 'सर्वशः' , १५८ ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा - ३. (५) सू-ॐ ॥ आत्मशब्दाच्च ॥ ॐ ॥ १६ ॥ 'आत्मेत्येवोपासीत' (बृ.३-४-७.) इत्यनुपसंहारे प्रमाणम्॥१६॥ ॥ इत्याध्यानाधिकरणम् ॥ ८॥ सर्वेषां गुणानां 'ज्ञानध्यानसमायोगात्' शानध्यानयोरुपयोग्युपयोज्यभावेन संमेलनान्मुख्यं फलमपरोक्षशानादिकं भवेत् , नान्येन परोक्षज्ञानमात्रे- णेत्यर्थः। तथाच ध्यानपूर्वभाविज्ञानमपि ध्यानोपयोगितया न मुख्यमिति न मुख्यप्रयोजनान्तराभावहेतोरसिद्धिरिति भावः। यद्यपि श्रवणादेस्तत्व निश्चयद्वारा जनलोकादिफलकस्य गुणाभिधानमुख्यप्रयोजनत्वसम्भवात् मुख्यत्वविशेषणेऽपि प्रयोजनान्तराभावहेतोरसिद्धिरेव । तथापि मोक्षाख्य- महाफलसाधनापरोक्षज्ञानसाधनत्वेन विहितस्य श्रवणादेर्जनलोकादिकं न मुख्य प्रयोजनमिति ज्ञानमेव प्रयोजनं वाच्यम् । तथाच श्रवणादेरपरोक्ष- ज्ञानसाधनतत्त्वज्ञानार्थत्वेन न श्रवणादिकं गुणकथनस्य मुख्यं प्रयोजनमिति नासिद्धिरिति भावः। इति बृहत्तन्त्रे कथितत्वान्नासिद्ध्यादिदोष इत्यन्वयः। अनेनोपसंहारे मुख्यप्रयोजनान्तरशून्यसप्रयोजनसर्वगुणाभिधानमेव लिङ्ग- तया प्रमाणमित्युक्तं भवति ॥ (५) एवं सर्वगुणोसंहारं प्रमाणेन समर्थ्यनुपसंहारं च समर्थयत्सूत्रं पठित्वा व्यांचष्टे-आत्मशब्दाच्चेति ॥ चोऽप्यर्थः । तथाच 'आत्मशब्दात् ' तद्धटितश्रुतेः अनुपसंहारोऽपि सिद्ध्यतीति सूत्रार्थमभिप्रेत्य श्रुत्युदाहरण- पूर्वकं सूत्रं व्याचष्टे-आत्मेति । इति वाक्यमिति शेषः। अनुपसंहारेति । उपासनाक्षिप्ताल्पगुणोपसंहारे प्रमाणमित्यर्थः । अन्यथा गुणान्तरव्यावृत्ति- पूर्वकं आत्मत्वोपासनस्यैवात्र विधानादसङ्गतः। न च अवधारणस्य अन्यथात्वम्' इति सूत्रे अयोगव्यवच्छेदकत्वस्योक्तत्वात् कथमन्ययोग- व्यवच्छेदकत्वमुच्यत इति वाच्यम् । उपसंहारानुपसंहारवब्रह्मादीन् उत्तमा- धिकरणः प्रत्ययोगव्यवच्छेदकत्वं अधमाधिकारिणः प्रत्यन्ययोगव्यवच्छेद- कत्वमित्यधिकारिभेदेनाविरोधात् ॥ ॥ इत्याध्यानाधिकरणम् ॥८॥ ॥

अधि - ९. सू - १७.] दीपिकासहितम् यतः 'सत्यं ॥ ९. आत्मगृहीत्यधिकरणम् ॥ (१) सू-ॐ ॥ आत्मगृहीतिरितरवदुत्तरात् ॥ॐ॥१७॥ न च 'आनन्दादयः प्रधानस्य' इत्युक्तिविरोधः । ज्ञानमनन्तं ब्रह्म' (ते. २-१.) विज्ञानमानन्दं ब्रह्म' (बृ. ५-९-२८.) इतिवदेवात्मशब्दगृहीतिः। 'अत्र ह्येते सर्व एकीभवन्ति' (बृ. ३-४-७.) इत्युत्तरात् । (२) आनन्दानुभवत्वाच निदोषत्वाच्च भण्यते । ॥९. आत्मगृहीत्यधिकरणम् ॥ (१) अत्राधिकरणे उपासनायामानन्दादिचतुर्गुणनियमः समर्थ्यते । आत्मेत्येवोपासीत' इति सावधारणश्रुतेरात्मत्वमेव सर्वोपास्यं न त्वानन्दादयोऽपीति पूर्वपक्षे प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्यति-आत्मेति । अत्रात्मपदं शब्दपर मित्याशयेन आत्मगृहीतिरित्युक्तहेतोरपेक्षितं साध्य- मध्याहृत्य दर्शयति-न चेति । इत्युक्तीत्यावर्तते। तथाच 'आनन्दादयः प्रधानस्य' इत्युक्तेः “आत्मेत्येवोपासीत' इति सावधारणोक्तिविरोधो नैवेत्यर्थः। कुतो नेत्यतस्तत्र हेतुत्वेन इतरवदिति दृष्टान्तविवरणपूर्वक- मात्मगृहीतिरित्येतद्योजयति-यत इति। 'सत्यं ज्ञानम् ' इति तैत्तिरीये 'विज्ञानमानन्दं ब्रह्म' इति बृहदारण्यके। इतिवदिति । इत्यादिवाक्येषु यथा अनेकेषां सत्यत्वज्ञानानन्दादीनां ग्रहणम् , तथा आत्मशब्देनापि सत्यज्ञानानन्दादीनां 'गृहीतिः' ग्रहणं भवेत् । 'आनन्दानुभवत्वाच्च इति वचनादात्मशब्दस्यापि सत्यज्ञानानन्दादिग्राहकत्वात् । यथोक्तं तत्त्व- प्रदीपे-यथेतरेषु विज्ञानमानन्दं ब्रह्मेत्यादिषु वचनेषु नैकगुणगृहीतिः तद्वदितरयुक्तत्वेनैवात्मशब्दगृहीतिरानन्दादयो गुणा आत्मशब्देन विव- क्षिता इत्यर्थ इति । कुतोऽयमात्मशब्दः सत्त्वानन्दाद्यभिधायको, न स्वामि- त्वमात्रस्येत्याशङ्कोत्तरत्वेनोत्तरादित्यशं व्याचष्टे-अत्रेति। उत्तरादिति । बृहदारण्यके 'आत्मा' इति विधेरुत्तरत्र श्रुताद्वाक्यादित्यर्थः। व्याख्यात- मेतत्सर्ववेदान्तनये ॥ (२) आत्मशब्दो न स्वामित्वमात्रं वक्ति, किन्तु सत्त्वानन्दादीन- पीत्युक्तार्थे स्मृति चाह-आनन्देति ॥ ईश्वरो वेदवादिभिर्न केवलं . , , ब्रह्मसूत्रभाष्यम् [अध्या - ३. पा-३. नित्यत्वाच तथाऽऽत्मेति वेदवादिभिरीश्वरः॥ इति बृहत्तन्त्रे ॥ १७ ॥ ॥ इत्यात्मगृहीत्यधिकरणम् ॥ ९ ॥ ॥ १०. अन्वयाधिकरणम् ॥ (१) सू-ॐ ॥ अन्वयादिति चेत्स्यादवधारणात् . सर्वगुणानामन्वय आत्मशब्दे भवति । आप्तव्याप्तेरात्मशब्दः परमस्य प्रयुज्यते' इति वचनादिति चेत्सत्यम् , स्याच्चैवम् । खामित्वादात्मेति भण्यते, किन्तु 'आनन्दरूपत्वात् ' अनुभवरूपत्वात् निर्दोषत्वात् नित्यत्वाच्च 'भण्यते' उच्यत इत्यर्थः। निर्दोषत्वान्नित्यत्वादि- त्यनेन सत्त्वमात्मशब्दार्थ इति सूचितम् । चशब्दः समुच्चये। बृहत्तन्त्रे उक्तमिति शेषः॥ ॥ इत्यात्मगृहीत्यधिकरणम् ॥९॥ ॥ १०. अन्वयाधिकरणम्॥ (१) अत्राधिकरणे आत्मशब्दस्य पूर्वोक्तमनुपसंहारमानत्वमाक्षिप्य समाधीयते। पूर्वपक्षस्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं तावद्वया- चष्टे-अन्वयादिति ॥ अत्रेत्थं योजना-नात्मशब्दस्थानुपसंहारमानत्वं युक्तम् , तदुक्तगुणानां सर्वोपास्यत्वाभावात् । कुतः ? श्रुतचतुर्गुणोपास- नस्य पुंसः विभ्रमकरत्वेन निश्चायकत्वाभावात् । सोऽपि कुतो? यत आत्मशब्दे सर्वगुणानां वाच्यतयाऽन्वयो भवति अत आत्मशब्दस्य सर्व. गुणा भिधायकत्वमिति यावत्। तदापि कुतः ? आतव्यातेरिति वचनादिति। वचनार्थस्तु–आप्ता प्राप्ता व्यात्तिर्देशकालगुणापरिच्छेदो यं स तथोक्तस्त- स्येति हेतुगर्भ विशेषणम् । 'परमस्य' परमात्मनः। सप्तम्यर्थे षष्ठी। आत्मशब्दः :' आत्मेति शब्दः 'इति वचनात् ' इत्यन्वयवचनात्। सत्य- मेवमिति पदद्वयाध्याहारेण स्यादवधारणादिति सिद्धान्तांशं व्याचष्टे- सत्यमिति। अर्धाङ्गीकारे सत्यमितिशब्दः। तथाच यत् परेण सर्वगुणा- भिधायकत्वमात्मशब्दस्योक्तं तदङ्गीक्रियते । यदात्मशब्दोक्तस्य सर्वो- -

Shriimadbhahmasuutraand-i Saadhanaadhyaaya

Author
Maagad'i Shriirang-kanaayaachaarya
Title
Shriimadbhahmasuutraand-i Saadhanaadhyaaya
File name
Shriimadbhahmasuutraand-i Saadhanaadhyaaya
Text
OCR done
Citation
1887
Published
2005/10/10
Publisher
Bhaashhyadiipikaapraakaashanasamiti
Language
Sanskrit
Pages
169
Library
Sri Vysaraaja Mattam
Classification
Language. Linguistics. Literature
Keywords
maagad'i shriirang-kanaayaachaarya
DLI number
368663
Barcode
5010010017990.00
Scanning centre
RMSC, IIIT-H
Digital publisher
Digital Library Of India
Rights
OUT_OF_COPYRIGHT
VMLT id
nfogJaGkXIv
Download PDF

Shriimadbhahmasuutraand-i Saadhanaadhyaaya