Central Archaeological Library_asi_new Delhi
The Arya Saptasati Of Govardhanacharya 1934
Front matter
NEO-ART All Tv 1560 KAVYAMĀLĀ 1. THE ARYA-SAPTAS'ATI OF GOVARDHANĀCHARYA WITH The Commentary Vyañgyārtha-dīpanā OF ANANTA-PANDIT. EDITED BY PANDIT DURGĀPRĀSAD AND KĀS'INĀTH PANDURANG PARAB & VĀSUDEV LAXMAN SĀSTRĪ PANSĪKAR. 25 Third Revised Edition. PUBLISHED BY PĀNDURANG JĀWAJI, PROPRIETOR OF THE "NIRNAYA SIGAR" Press, BOMBAY wunst, ARCH4 AEOLO 1934. Booksellers (New Delhi A CENTRAL Price 14 Rupee. Publishers 1818
[All rights reserved by the publisher. ]
9
Publisher:-Pandurang Jawaji, * Nirnaya-sagar' Press,
Printer:-Ramchandra Yesu Shedge, 526-28, Kolbhat Lane, Bombay,
CENTRAL ARCHAEOLOGIGAN
LIBRARY, NEW DELif,
A0o. No...(560.
Date...I:...6.1954
Cal No.
sa8k
SK/6019/2.64
काव्यमाला १. श्रीगोवर्धनाचार्यविरचिता आर्यासप्तशती। अनन्तपण्डितकृतया व्यङ्ग्यार्थदीपनाटीकया समेता। जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसादतनय- पण्डितकेदारनाथशर्मणा, काशिनाथ पाण्डुरङ्ग परब इत्यनेन मुम्बापुरवासिपणशीकरोपाह्वविद्वद्वर- लक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा च संशोधिता। तृतीयं संस्करणम् । सा-च: AAJ मुम्बय्या , पाण्डुरङ्ग जावजी इत्येतैः .. खीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रापयित्वा प्राकाश्यं नीता । शकाब्दाः १८५६, निस्ताब्दाः १९३४. मूल्यं ॥ साधों रूप्यकः।
No text on this page.
MANTRIYA काव्यमाला। श्रीगोवर्धनाचार्यविरचिता आर्यासप्तशती। अनन्तपण्डितकृतया व्यङ्ग्यार्थदीपनाख्यया व्याख्ययालङ्कृता । ग्रन्थारम्भत्रज्या । सर्वे साधुजनाः सदायतहृदा सत्संप्रदायादलं यज्ज्ञानाय कणादगौतममतान्यालोच्य तत्त्वार्थदान् । वेदान्तान्परिशीलयन्ति रहसि खानन्दकन्दाकर वन्दे तं जगदीश्वरं दयितया सानन्दमालिङ्गितम् ॥ यत्पादाम्बुजमब्जभूप्रभृतयो देवाः सदैवान्तरे ध्यायन्ति ग्लपयन्ति दुःखनिवहं लीलामनुष्याकृतिम् । फुल्लेन्दीवरमित्रनेत्रमतसीपुष्पावभासं लस- च्छ्रीरामं कलयामि चेतसि चिरं चैतन्यमात्रात्मकम् ॥ १. गोवर्धनाचार्यसमयस्त्वद्यापि सम्यङ शायले. परं त्वयं गीतगोविन्दकर्तुर्जयदेवा- प्राचीनस्तत्समकालीनो वेति वक्तुं शक्यते, यतो जयदेवेन गीतगोविन्दप्रारम्भे 'शृङ्गा- रोत्तरसत्प्रमेयरचनैराचार्यगोवर्धनस्पधी कोऽपि न विश्रुतः' इत्युक्तमस्ति जयदेवकविश्व बङ्गदेशाधिपस्य बल्लालसेनसूनोलक्ष्मणसेनस्य सभायामासीदिति श्रीसनातनगोखामिनां मतम्, 'गोवर्धनश्च शरणो जयदेव उमापतिः । कविराजश्च रत्नानि समिती लक्ष्मणस्य च ॥' इत्ययं श्लोको लक्ष्मणसेनसभागृहद्वारोपरि शिलायामुत्कीर्ण आसीत् , तस्सागो- वर्धनजयदेवादयः सर्वेऽपि लक्ष्मणसेनसभायामासन्निति केन्चित. लक्ष्मणसेनश्व खिस्त- संवत्सरस्सैकादशशतकसमाप्तिपर्यन्तं वङ्गादेशं पालयामासेति केचिदितिहासविदः, २. सप्तशतीटीकाकारोऽनन्तपण्डितस्तु टीकासमाप्तौ स्वसमयं लिखितवानेव.
२ काव्यमाला। पञ्चाशद्वर्णभेदैरपरिमिततररर्थजातिश्च युक्ता नानालंकाररम्या गणितगुणगणा साधुवृत्तरुपेता । वाक्सृष्टियत्प्रसादात्प्रेसरति रसनोपान्तदेशे निमेषा- नित्यं चित्तेऽनुरके वसतु मम सुखं भारती सा रसाढ्या ॥ गोवर्धनोक्तिसुखदाननिदानमेतद्व्यङ्ग्यार्थदीपनमनल्पचमत्कृतीनाम् । भूयादनन्तविबुधेन विधीयमानं प्रीत्यै सदा सकलपण्डितमण्डलीनाम् ॥ आर्यार्थग्रहणे तावदार्या एवाधिकारिणः । अतोऽत्र दृष्टिस्तैरेव कार्या नान्यैः कदाचन ।। गभीरार्थप्राप्तौ नियतवचसामाशयजुषां गुणालंकाराणां भवति घटना सत्वरतरम् । अतो हेतोश्चेतो विपुलमतिना तत्र विषये नियोज्यं येनान्तः सततसुखसंबाधवसतिः ॥ संत्यज्य दोषं गुण एव दृष्टिविधीयतामित्यफलं वचो मे। विहाय नीरं सकलोऽपि हंसः पयः प्रगृह्णात्युपदेशतः किम् ॥ विशिष्टशिष्टेष्टकर्तव्यतापत्तिप्राप्तमङ्गलमनुषङ्गतो व्याख्यातृश्रोतृमङ्गलायोपनिबध्नाति- पाणिग्रहे पुलकितं वपुरैशं भूतिभूषितं जयति । अङ्कुरित इव मनोभूर्यसिन्भस्मावशेषोऽपि ॥ १ ॥ पाणिग्रह इति । भूतिभूषितं भस्मनालंकृतम् । भस्मनो भूषणत्वं मनोभवीयत्वेन। यत्तु 'भूत्यैश्वर्येण' इति व्याख्यानं तदेशमित्यनेन गतार्थत्वात्प्रकृतानुपयुक्तत्वाचो- पेक्ष्यम् । पाणिग्रहे । अर्थादत्यन्तानुरक्तकामिन्याः । पुलकितं जातसेमाञ्चम् । सात्त्विकभावोदयादिति भावः । ऐशमीशसंबन्धि । चैत्रादिवदीशपदस्य कर्पूरगौर- वादिमच्छरीरोपहितात्मनि शक्तौ गौरवात् , लाघवात्तादृशशरीर एव शक्तत्वात्, नित्यज्ञानादिमदात्मनि लक्षणा । यद्वा 'ईश ऐश्वर्ये' इति धातोरचि निष्पन्नेनेशपदेन शत्त्या जगत्कर्तृत्वाद्यैश्वर्यवत्त्वं बोध्यते । तत्संबन्धस्य शरीरान्तरे सत्त्वेऽपि भूति- भूषितविशेषणमहिम्ना शंकरीयत्वमायाति वपुषि। एवं च मनोभूभस्मसंबन्धि सर्वो- कर्षशालित्वयोग्यत्वं व्यज्यते । वपुर्जयति । यद्वा भूतिभूषितमित्यनेन भूषणसामा- न्याभावप्रतिपादनेऽपि सर्वोत्कर्षशालित्वे देवीपाणिग्रहणजन्यपुलकवत्ता.हेतुः । जय- तीत्यनेनेशे सर्वोत्कर्षशालित्वप्रतिपादनेन सर्वान्तर्गते स्वस्मिनपकर्षप्रतिपादनान्नति- रावेद्यते । भस्मावशेषोऽपि । एवं चाङ्कुरीभावानहत्वेऽपि तद्भवनेन देवीपाणौ सुंधा - ।
आर्यासप्तशती। रूपत्वमावेद्यते । मनोभूः । एवं च मनसो बीजरूपताप्रतिपादनेन तस्यान्तर्गतत्वा- द्वपुष्यङ्कुरवत्तायोग्यत्वं व्यज्यते । विशिष्यानाकलनीयरूपस्यापि भवनयोग्यत्वेन वपुषि विशेषभवनयोग्यत्वं वा । यस्मिन्वपुष्यङ्कुरित इव संजाताङ्कुर इवेति भस्म- संसर्गिरोमाञ्चेश्रोत्प्रेक्षा । एवं च यथाङ्कुरसंजातमहत्तरतरुकिसलयकुसुमफलादि- नान्यजनोपकारस्तथैतदङ्कुरभाविकुमारफलादिना तारकवधेन सकलजनोपकारो भवि- तेति ध्वन्यते । अत्राङ्कुरितत्वेन पाणिस्पर्शस्यामृतरूपत्वं वस्तुना वस्तु व्यज्यते ॥ मा वम संवृणु विषमिदमिति सातकं पितामहेनोक्तः । प्रातर्जयति सलज्जः कज्जलमलिनाधरः शंभुः ॥२॥ मा वमेति । इदमित्यपलापानहत्वम् । अथवा जगद्विनाशविदितविभवत्वमिति व्यज्यते । विषं मा वम, किं तु संवृण्विति सातङ्कम् । सातत्वं च सकलजग- द्विनाशे पुनस्तद्विधानदुष्करत्वविनिर्णयेन । पितामहेन । एवं च भ्रमयोग्यत्वं हरस्य च लज्जायोग्यत्वं ध्वन्यते । प्रातरुक्तः । प्रातरित्यनेन कज्जले स्फुटयोग्यत्वं ध्वन्यते। अतः सलज्जः । न त्वपत्रपावान् । पितामहेन कज्जलत्वेनाज्ञानात् । कज्जलमलिनाधरः । नेत्रचुम्बनादिति भावः । शंभुः । एवं च कामिनीप्रीत्यतिश- यशालित्वं द्योत्यते । जयति । पितामहसंत्रासजनकगरलगिलनेन, ब्रह्मणः प्रार्थ- नया, सुभगकामिनीरतचिह्नत्वेन वा ॥ जयति प्रियापदान्ते गरलप्रैवेयकः स्मरारातिः । विषमविशिखे विशन्निव शरणं गलबद्धकरवालः ॥ ३ ॥ जयतीति । गरलं ग्रैवेयकं कण्ठभूषा. यस्य स स्मरारातिः प्रियापदान्ते जयति । एवं च कुपितकामिनीप्रसादनकर्तव्यतायाः परमपुरुषार्थत्वं व्यज्यते। गरलवेयक इत्यनेन जीवनायोग्यत्वम् । स्मरारातिरित्यनेन स्मरबाधावत्त्वेन क्वचि- दपि सुखावस्थानायोग्यत्वं ध्वन्यते । एवं चैतादृशस्यापि सर्वोत्कर्षशालिवे प्रिया- पदान्तेऽवस्थितिरेव हेतुः । अतः प्रियापदान्तावस्थितेर्नान्यदधिकतरं वस्त्विति द्योत्यते । यद्वा गरलप्रैवेयक इत्यनेन जीवननिःस्पृहत्वम् । एवं चैतादृशस्यापि कुपितकामिनीप्रसादनलम्पटत्वम्, किमुतान्येषामिति ध्वन्यते । गलबद्धखड्गः। विषमविशिखे । एवं च शरणार्हवं व्यज्यते । शरणं विशन्निव गच्छन्निव । विष- मविशिखे विशनिवेत्युत्प्रेक्षया विषमविशिखस्यापि प्रियापदसांनिध्येनाधिकत्वम्, किं पुनरन्यस्येति द्योत्यते । अत एव स्त्रीणां चरणे मदन इति कामतन्त्रे । अन्योऽपि शस्त्रं गले बद्ध्वा शरणं गच्छतीति लौकिकम् ॥ । । ।
काव्यमाला। १ जयति ललाटकटाक्षः शशिमौले: पक्ष्मलः प्रियाप्रणतौ। धनुषि मरेण निहितः सकण्टकः केतकेषुरिव ॥ ४ ॥ जयतीति । शशिमौलेः। एवं च सकलङ्कस्याप्येतादृशादरसंपादनेन संतापाति- भीरुत्वं ध्वन्यते । तेन च कुपितकामिनीप्रसादनेऽवश्यकर्तव्यत्वम् । पक्ष्मलः प्रश- स्तपक्ष्मवान् । पक्ष्मलपदं केतकोत्प्रेक्षादाक्य । ललाटकटाक्षः । एवं च भ्रूमध्यसन बन्धित्वं द्योत्यते । तेन च धनुर्निहितबाणोत्प्रेक्षादायम् । प्रियाप्रणती प्रियावि- षयकहरप्रणतो सत्यां जयति । चाटुवचनाद्यसाध्यमानापनोदकार्यकारित्वेनेति भावः। स्मरेण सकण्टकः । एवं च निःसरणानहत्वं ध्वन्यते । धनुषि निहितः । न तु. शीघ्रं परित्यक्तः । एवं च मुष्टिबन्धनदायन भेदविशेषकारित्वम् । तेन च मान- लक्ष्यभङ्गेऽतिशीघ्रविधेयत्वं वन्यते । केतकेषुरिव । स्मरस्य पुष्पसायकत्वादिति भावः । एवं च मानापनोदनत्वं व्यज्यते । केचित्तु प्रियाकर्तृकसेवाप्रणतो समा- न्मथविकारललाटकटाक्षो जयतीत्यापि वदन्ति ॥ जयति जटाकिंजल्कं गङ्गामधु मुण्डवलयबीजमयम् । गलगरलपङ्कसंभवमम्भोरुहमाननं शंभोः ॥ ५॥ जयतीति । जटाः किंजल्कानि यति रूपकम् । एवमग्रेऽपि ॥ संध्यासलिलाञ्जलिमपि कङ्कणफणिपीयमानमविजानन् । गौरीमुखार्पितमना विजयाहसितः शिवो जयति ॥ ६॥ संध्येति । कङ्कणरूपफणिपीयमानमपि । कङ्कणपदेन प्रात्यक्षिकत्वं ध्वन्यते। फणिपदेन भूषणयोग्यत्वं ध्वन्यते । पीयमानमित्यनेन ज्ञानयोग्यत्वं ध्वन्यते। संध्यासलिलाजलिम् । राजदन्तादिवदालेः सलिलमिति समासः । संध्यापदेन तदेकचित्तावश्यकत्वं व्यज्यते । अञ्जलिपदेन भूयस्त्वं द्योत्यते । तेन च तत्पानस्य विलम्बसाध्यत्वेनावश्यज्ञेयत्वम् । अविजानन् । अत्र हेतुमाह-गौरीमुखार्पितम- नाः । गौरीत्यनेन मनःसंलमतायोग्यत्वं मुखे ध्वन्यते । अर्पितपदेन ग्रहणायोग्यत्वं ध्वन्यते । एवं चैतादृशविषयज्ञानाभावेनात्यन्तासक्तिगौर्या गिरिशस्य व्यज्यते । अत एव । विजया गौरीसखी तया हसितः शिवो जयति । एतादृशपरिहासस्या- प्युत्कर्षाधायकत्वादिति भावः ॥ ।
आर्यासप्तशती। । प्रतिबिम्बितगौरीमुखविलोकनोत्कम्पशिथिलकरगलितः। खेदभरपूर्यमाणः शंभोः सलिलाञ्जलिर्जयति ॥ ७ ॥ प्रतीति । सलिलाञ्जलिर्जयति । एवं चाञ्जलिजलप्रतिबिम्बितगौरीवदनविलो- कनसंजातकम्परूपसात्त्विकभावविश्लथकरगलितत्वेऽपि खेदरूपसात्त्विकभावभराक- सिकपूरणात्सर्वोत्कर्षशालित्वमिति भावः ॥ प्रणयकुपितप्रियापदलाक्षासंध्यानुबन्धमधुरेन्दुः । तद्बलयकनकनिकषनावग्रीवः शिवो जयति ॥ ८॥ प्रणयेति । प्रणयेन न वास्तवं कुपिता या प्रिया। एवं च चरणप्रणामयोग्यत्वं ध्वन्यते । तस्याश्चरणलाक्षारूपसंध्यानुबन्धसुन्दरश्चन्द्रो यस्य । तस्याः पार्वत्याः कङ्कणकनकस्य निकषोपलरूपा ग्रीवा यस्य । एवं च मानापनोदनात्कण्ठपुरःसरमा- लिङ्गनादि ध्वन्यते । एतादृशः शिवो जयति । प्रियाप्रसादादिति भावः । खका- योद्देशविहितप्रियाप्रणामेन संध्याचन्द्रमसोरपि सङ्गसंपादनादनायासेन परोपकारि- त्वलाभादिति भावः ॥ पूर्णनखेन्दुर्द्विगुणितमञ्जीरा प्रेमशृङ्खला जयति । हरशशिलेखा गौरीचरणाङ्गुलिमध्यगुल्फेषु ॥ ९ ॥ पूर्णेति । गौर्याश्चरणाङ्गुलिमध्यगुल्फेषु । अत्र मध्यस्याङ्गत्वाभावान्नैकवद्भावः । मध्यमपदलोपी समासो वा । पूर्णो नखेन्दुर्यया । पूर्व नखस्यार्धचन्द्रत्वादिति भावः । द्विगुणीकृतं मञ्जीरं यया। पूर्व मञ्जीरस्यैकगुणत्वादिति भावः । प्रेम्णः शृङ्खला यया । पूर्व सुवर्णाभरणान्तरवत्त्वेऽपि प्रेमस्थितिसंपादकाभिनवभूषणत्वा- दिति भावः । एवं च यथा यथा मानापनोदनं तथा तथा शिरश्चरणसंयोगोऽधि- कतरः संवृत्त इति भावः । एवं च सहसा मानिनीचरणे मस्तकस्थापनेऽपि भीति- रावेद्यते । एतादृशी हरचन्द्रलेखा जयति । युगपदनेककार्यसंपादनादिति भावः ॥ श्रीकरपिहितं चक्षुः सुखयतु वः पुण्डरीकनयनस्य । जघनमिवेक्षितुमागतमजनिभं नाभिसुषिरेण ॥ १० ॥ श्रीकरेति । पुण्डरीकनयनस्य विष्णोः । श्रीकरपिहितम् । रतरीतिवसनवि- हीनतया लज्जावशादिति भावः । श्रियः करेण । न तु श्रिया। आनन्दाविर्भावा- दिति भावः । अत एव करोतीति कर इति करपदमन्वर्थम् । ततो नाभिरन्ध्रेण ।
काव्यमाला। । सुषिरपद्रमन्यानवलोकनीयत्वं व्यनक्ति । जघनमीक्षितुमागतमिवेत्युत्प्रेक्षा । एवं च लक्ष्मीजघनदर्शनलालसत्वं व्यज्यते । पिधानानर्थक्यं च । अब्जसदृशम् । एवं च नाभिकमलभ्रान्त्या पिधानायोग्यत्वमावेद्यते । चक्षुर्वो युष्मान्सुखयतु । पिहि- तेऽपि हि गोलकेऽन्यमार्गेणागत्य जघनविलोकनकारितया सुखलम्पटत्वेन सुख- दानस्य सुखप्राप्तिनिदानतयान्यस्य सुखजनकत्वं तस्येति भावः । नन्वत्र पुण्डरीक- नयनस्येत्यनेन कमलसादृश्यसिद्धावब्जनिभमित्यस्य न तथा प्रयोजनमिति चेन्न । पुण्डरीकनयन इत्यत्र रूढिरेव । यद्वाब्जपदस्य वक्रतात्पर्यान्यथानुपपत्त्या रक्ताब्जे लक्षणा । एवं च लक्ष्म्याः सिताम्भोजत्वेन नेत्रज्ञानेऽपि रक्ताम्भोजत्वेनाज्ञानात् । तद्रूपाङ्गीकारेण निभृतमार्गेणागमनेन जघनदर्शनकारित्वेऽपि न श्रीकरपिहितत्व- मिति व्यज्यते। अन्योऽप्यत्यन्तलम्पटो रूपान्तरेण निभृतमार्गेण च गत्वा खकार्य साधयतीति लौकिकम् । केचित्तु रत्नमित्युक्ते रक्तरत्नमेव, अब्जमित्युक्ते रक्ताब्जमे कोपलक्ष्यते कविसंप्रदायादिति वदन्ति ॥ श्यामं श्रीकुचकुङ्कुमपिञ्जरितमुरो मुरद्विषो जयति । दिनमुखनभ इव कौस्तुभविभाकरो यद्विभूषयति ॥ ११ ॥ श्याममिति । श्यामम् । विष्णोः श्यामत्वादिति भावः। श्रीकुचकुङ्कुमपिञ्जरि- तम् । एवं च दृढालिङ्गनमभिव्यज्यते । तन्मुरद्विष उरः । एवं च कठिनत्वमुरसि व्यज्यते । तेन च श्रीकठिनकुचकुम्भसंघटनसहिष्णुत्वम् । जयति । सर्वोत्कर्षे ल- क्ष्मीदृढालिङ्गनं हेतुः । दिनमुखनभ इव । प्रातःकालीननभसः खतो नीलिमत्वात्सं- ध्यासंवलितत्वाच तथाविधोरसः सादृश्यम् । कौस्तुभ एव विभाकरः । पक्षे कौस्तु- भवद्विभाकरः सूर्यः । यदुरो विभूषयति । एवं च त्रिभुवनाधिपतेर्निरीहस्यापि कौस्तुभाभरणधारणमुदरवर्ल्सनेकलोकयुगपत्प्रकाशविश्रान्तिविधाननिदानतां ध्वन- यति । एवं च विभाकरादतिशयो व्यज्यते कौस्तुभे ॥ प्रतिबिम्बितप्रियातनु सकौस्तुभं जयति मधुभिदो वक्षः । पुरुषायितमभ्यस्यति. लक्ष्मीर्यद्वीक्ष्य मुकुरमिव ॥ १२ ॥ प्रतीति । सकौस्तुभम् । अत एव प्रतिबिम्बिता प्रियायास्तनुर्यत्र । यन्मुकु- रमिव वीक्ष्य लक्ष्मीः पुरुषायितं विपरीतरतमभ्यस्यति । तन्मधुभिदो वक्षः । एवं 'च दायमावेद्यते स्वच्छताविशेषो वा । जयति । लक्ष्म्याः पुरुषायिताभ्यासनिदान- तैव सर्वोत्कर्षे हेतुः । अन्योऽप्यादर्श प्रतिबिम्बमवलोक्यैवान्यानवलोकनीयचेष्टा- विशेषाभ्यास करोतीति लौकिकम् ॥ ।
आर्यासप्तशती। । केलिचलाङ्गुलिलम्भितलक्ष्मीनाभिर्मुरद्विषश्चरणः । स जयति येन कृता श्रीरनुरूपा पद्मनाभस्य ॥ १३ ॥ केलीति । क्रीडाचपलाङ्गुल्या लम्भितः स्पृष्टो लक्ष्म्याः। चरणसेवाकारिण्या इति भावः । नाभियन । अत एव येन श्रीः पद्मनाभस्यानुरूपा । चरणरूपपद्म- नाभित्वेनेति भावः । कृता । स मुरद्विषश्चरणो जयति । ब्रह्मणोऽप्यसाध्यकार्य- करणादिति भावः ॥ रोमावली मुरारेः श्रीवत्सनिषेविताग्रभागा वः । उन्नालनाभिनलिनच्छायेवोत्तापमपहरतु ॥ १४ ॥ रोमावलीति । मुरारेः । एवं च सामर्थ्यमभिव्यज्यते। तेन च तद्वत्त्वेऽपि भृगुचरणहननसहिष्णुत्वेन क्षमातिशयत्वम् । श्रीवत्सेन भृगुचरणचिहेन निषेवितः। तत्संबन्धवानित्यर्थः । अग्रभागो यस्याः सा । एतादृशी रोमावली । उदूर्व नालं यस्यैवंभूतं यन्नाभिनलिनं तच्छायेव । एवं च रोमावल्यां नालच्छायोत्प्रेक्षा श्रीवत्से च नलिनच्छायोत्प्रेक्षेति भावः । उत्तापं महासंतापमपहरतु । कमलच्छायायाः संतापापनोदकत्वादिति भावः ॥ आदाय सप्ततन्त्रीचितां विपञ्चीमिव त्रयीं गायन् । मधुरं तुरंगवदनोचितं हरिर्जयति हयमूर्धा ॥ १५ ॥ आदायेति । सप्तसंख्याकानां तत्राणामग्निष्टोमादीनां समाहारः सप्ततन्त्री त- वाप्ताम् । तत्प्रतिपादनपरामिति यावत् । 'तन्त्रं प्रधाने यागे च' इति विश्वः । पक्षे तन्त्री लोहतन्तुविशेषः । त्रयीं विपञ्चीमिवादाय मधुरं तुरंगवदनानां गन्धर्वाणामु- चितं योग्यम् । एवं चैतादृशगानकर्तृत्वाभावस्तेषामिति व्यज्यते । गायन् । हयमूर्धा हयग्रीवः। एवं च तुरंगवदनोचितगानकर्तृकत्वम् । हरिजयति । एता- दृशविलक्षणगानगुणरूपवत्त्वादिति भावः ॥ - स जयति महावराहो जलनिधिजठरे चिरं निमग्नापि । येनात्रैरिव सह फणिगणैर्बलादुद्धृता धरणी ॥ १६ ॥ स इति । येन जलनिधिजठरे । डलयोरैक्यानडनिधित्वेन धरणीस्थानदान- योग्यत्वम् । चिरमित्यनेन झटिति निःसारणायोग्यवं व्यज्यते । निमनापि । अ- NARIBAAR काव्यमाला। । रिवाहिसमूहैः सह बलात्कारेण धरण्युद्धृताः । स महावराहः । एवं चैतइंष्ट्राया अन्ते दृढत्ववक्रत्वाभ्यां जठरान्तर्गतत्वेनानारूपफणिसमूहसहितधरोद्धारसामर्थ्य- मुचितमिति व्यज्यते । जयति । अनन्यसाध्यकार्यकरणादिति भावः ॥ ब्रह्माण्डकुम्भकारं भुजगाकारं जनार्दन नौमि । स्फारे यत्फणचक्रे धरा शरावश्रियं वहति ॥ १७ ॥ ब्रह्माण्डमिति। ब्रह्माण्डं कुम्भस्तं करोतीति तम् । एवं च यथा कुम्भकारस्य कुम्भकरणे न क्लेशस्तथास्य ब्रह्माण्डकरण इति व्यज्यते। भुजगस्याकार इवाकारो यस्य तम् । एवं च वास्तवैतद्रूपं याथातथ्येन निर्णेतुमशक्यमिति व्यज्यते । जना- र्दनम् । एवं चैतद्भीतिरवश्यं विधेयेति ध्वन्यते। तेन चैतदाज्ञा नोल्लङ्घनीयेति । स्फारे । एवं च धराशरावश्रीसंपादनयोग्यत्वं द्योत्यते । यस्य फणासमूहे धरा। एवं च महत्तरत्वं व्यज्यते । शरावस्य स्वल्पमृद्भाजनविशेषस्य श्रियं वहति । तत्तुल्या दृश्यत इति भावः । एवं च परमेश्वरभुजगरूपस्यातिविशालत्वं ध्वन्यते । अन्यस्यापि कुलालस्य चके शरावो भवतीति लौकिकम् । अत्र धरा शरावश्रियं वहतीयेतावतैव फणचक्रे स्फारत्वसिद्धावुत्तमकाव्यत्वे स्फारपदोपादानमनुचितमि- त्याभाति ॥ चण्डीजङ्घाकाण्डः शिरसा चरणस्पृशि प्रिये जयति । शंकरपर्यन्तजितो विजयस्तम्भः स्मरस्येव ॥ १८ ॥ चण्डीति । प्रिये शंकरे शिरसा चरणस्मृशि कोपापनोदनाय प्रणतिकारिणी सती शंकरमभिव्याप्य जयवतः स्मरस्य विजयस्तम्भ इव चण्डीजङ्घारूपः काण्डो वंशो जयति । स्वतः सुखविशेषजनकतया तुच्छविषयपराङ्मुखस्याप्येतादृश्यवस्थासंपाद- नादिति भावः । एवं चैहिकामुष्मिकसुखापेक्षया सीमन्तिनीसङ्गसुखेऽधिकतरत्व- मावेद्यते ॥ उन्नालनाभिपङ्केरुह इव येनावभाति शंभुरपि । जयति पुरुषायितायास्तदाननं शैलकन्यायाः ॥ १९ ॥ उन्नालेति । येन शंभुरपि । अपिना विष्णोरनवतारत्वेन नाभिपकेरुहत्वायो- ग्यत्वं व्यज्यते । ऊर्ध्वनालं यन्नाभिपङ्केरहं तद्वानिव । यद्वा विष्णुरिवेत्यर्थः । एवं ब शरीरस्य नालसाम्यदर्शनात्कृशाङ्गीत्वमभिव्यज्यते । अवभाति । पुरुषायितायाः ।
आर्यासप्तशती। शैलकन्यायाः। एवं च दायम् । तेन पुरुषायितसंपादनयोग्यत्वं ध्वन्यते । तदा- ननं जयति । अघटितघटनापटुत्वादिति भावः ॥ अङ्कनिलीनगजाननशङ्काकुलबाहुलेयहृतवसनौ । समितहरकरकलितौ हिमगिरितनयास्तनौ जयतः ॥ २० ॥ अङ्केति । अङ्के निलीनो यो गजाननखच्छङ्कया। स्तनयोः कुम्भिकुम्भसाम्या- दिति भावः । आकुलः । कथं मां विहायैनमेव संगोप्य बहुकालं स्तन्यं प्रयच्छ- तीति धियेति भावः । यद्वा नयनपिधानक्रीडायां गजाननोऽङ्क एव निलीनो न त्वन्यत्र गत इति मत्वेति भावः । आकुलपदेन शीघ्रमविचारितकार्यकारित्वं व्यज्यते । यो बाहुलेयस्तारकजित्तेन हृतवसनौ । गजानननिर्णयार्थमिति भावः । सस्मितः । कथमतिगुप्तयोरप्याकस्मिकप्राकट्यमिति धियेति भावः । यो हरः । एवं च खत एव वसनहरणादिना तत्कार्यकारित्वं ध्वन्यते। तेन करकलितौ। करोतीति कर इति खतस्तत्कार्यकारित्वेऽपि हरप्रहितत्वेनाकलने दाय॑ द्योत्यते। हिमगिरितन- यायाः। एवं च शैत्यसहितकठिनत्वं द्योत्यते। तेन चावश्यकरकलनयोग्यत्वम् । अत एव हरोऽतिस्मेर इत्यपि युक्तम् । स्तनौ जयतः। भ्रमवतान्येनाविष्कृतत्वेऽप्यन्यस्य सुखसंपादनादिति भावः। यद्वा गजाननशिखिवाहनयोः सकलविघ्ननिवारकत्वकार्यमा- त्रपुरस्करणीयत्वात्तारकवधद्वारकविश्वसंतोषपोषकत्वनिदानस्तन्यवत्त्वादिति भावः । यद्वा सरविरोधिनोऽप्यानन्दजनकत्वादिति भावः ॥ कण्ठोचितोऽपि हुंकृतिमात्रनिरस्तः पदान्तिके पतितः । यस्याश्चन्द्रशिखः सरभल्लनिभो जयति सा चण्डी ॥ २१ ॥ कण्ठोचित इति । आलिङ्गनार्दोऽपि । पक्षेऽर्धचन्द्राकारतया कण्ठलक्ष्ययो- 'ग्योऽपि । हुंकृतिमात्रेण, न तु करतर्जनादिना । पक्षे बाणादिना । निरस्तः । अत एव यस्याः पदान्तिके । प्रणामार्थमिति भावः । पक्षे वेगवशादिति भावः । स्मर- शरसदृशः । अर्धचन्द्रशेखरत्वादिति भावः । स्मरभल्लनिभ इत्यनेन मानापनोदन- समर्थत्वं द्योयते । यहा स्मरभलस्य निभं छन । 'निभं छद्मसदृक्षयोः' इत्यभिधा- नात् । एवं च रूपान्तरसंपादनाद्धीत्यतिशयो द्योलते। चन्द्रशिखः शंभुः पतितः । चन्द्रशिख इत्यनेनोद्दीपकचन्द्रस्यापि मानापनोदकत्वान्माने बाहुल्यमभिव्यज्यते । सा चण्डी जयति । मदनार्धनाराचादीनामप्यगणनादिति भावः ॥ - काव्यमाला। । देवेऽर्पितवरणस्रजि बहुमाये वहति कैटभीरूपम् । जयति सुरासुरहसिता लज्जाजिझेक्षणा लक्ष्मीः ॥ २२ ॥ देव इति । अर्पितवरणसजि । एवं च सङ्गाद्यभावेन तात्त्विकरूपापरिचयो द्योत्यते । बहुमाये । एवं च रूपान्तरग्रहणसामर्थ्यमभिव्यज्यते । देवे, विष्णौ । देवपदेन क्रीडारसिकतयानेकविधदेहधारणनिपुणत्वमावेद्यते । कैटभीरूपम् । दैत्य- वश्चनायेति भावः। वहति सति । एवं च प्रात्यक्षिकत्वेनापलापानहत्वं व्यज्यते । सुरासुरहसिता । कथं सर्वान्सुरान्विहायायमीदृशो वृत इति । अत एव लज्जाकुटि. लेक्षणा । किमियं कामिन्येव पुरुषभ्रमान्मया वृतेति धियेति भावः । लक्ष्मीर्जयति । सर्वोपहासवत्त्वेऽप्यधैर्याकरणादिति भावः ॥ तानसुरानपि हरिमपि तं वन्दे कपटकैटभीरूपम् । यैर्यद्विम्बाधरमधुलुब्धैः पीयूषमपि मुमुचे ॥ २३ ॥ तानिति । तान्सकपटत्वेन प्रसिद्धानसुरानपि । सुष्टु रान्ति ते सुरास्तद्भिन्ना- न्सर्वदासमीचीनग्राहकानपि वन्दे । पीयूषादप्यधिकमेतस्या अधरामृतमिति तात्त्वि- कज्ञानेन समीचीनवस्तुग्राहकत्वादिति भावः । तं कपटशून्यत्वेन प्रसिद्धं कपटक- टभीरूपं हरिमपि वन्दे । कपटाज्ञानेऽपि कपटाकरदैत्यवञ्चनानिपुणकपटरूपधार- णादिति भावः । यैरसुरैर्यस्याः कैटभ्या लक्ष्म्या अधरमधुनि लुब्धैः । मधुपदमु- न्मादजनकतां व्यनक्ति । पीयूषमपि । एवं च परित्यागानहत्वेऽपि तत्करणेन कैटभीरूपे विशेषशालित्वं ध्वन्यते ॥ तल्पीकृताहिरगणितगरुडो हाराभिहतविधियति । फणशतपीतश्वासो रागान्धायाः श्रियः केलिः ॥ २४ ॥ तल्पीति । तल्पीकृताहिः । एवं च सर्पबाधाया अप्यगणनेन रागातिशयो व्यज्यते । अगणितगरुडः । एवं च सर्वत्र गमनयोग्यत्वेन पक्षित्वेन विवेकशून्य- तया वान्यत्रैतत्कथनयोग्यत्वेऽप्येतदगणनयापि स एव द्योत्यते। हाराभिहतविधिः। हारस्य नाभिसंबन्धादिति भावः। आलिङ्गनान्तरभूतस्य त्यागाईत्वेऽपि तदुपर्येव प्रक्षेपेण केलिज्ञानसंपादनेन लज्जाशून्यत्वेन स एव द्योत्यते । यद्वा कथमद्यापि नापसरतीति क्रोधान्निकटवर्तिहाराभिहननेन हारापायभीतिशून्यत्वेन, अयं च हुननक्रोधात्कुत्र कुत्र न वदिष्यतीति ज्ञानहीनतया स एवावेद्यते। शतसंख्याहि- HERE आर्यासप्तशती। ११ । फणपीतवासः । एवं च संख्यायाः पानान्वयो न संभवतीति दूषणमपास्तम् । एवं च मरणभीतिशून्यत्वेन स एव ध्वन्यते । एवंविधा रागान्धायाः केलिः । एवं चान्यांभिरङ्गनाभिर्यद्रागप्रकटनं क्रियते तन्मिथ्येति भावः। जयति । एतादृश- प्रतिबन्धकसमूहेऽपि जायमानत्वादिति भावः । अत्र तल्पीकृताहिरित्यादिना व्यन्ज- नया रागातिशयप्रतिपादनादागान्धाया इत्यस्य न तथा प्रयोजनमित्याभाति ॥ मेराननेन हरिणा सस्पृहमाकारवेदिनाकलितम् । जयति पुरुषायितायाः कमलायाः कैटभीध्यानम् ॥ २५ ॥ मेरेति । मेरं किंचिद्धास्यवत् । सुखविशेषाविर्भावादिति भावः । यदाननम् । अर्थालक्ष्म्याः । तेन कृत्वाकारवेदिना स्मेराननरूपज्ञापकज्ञानवता हरिणाकलितमनु- मितम् । स्मेराननेनेति हरिणेत्यस्यापि विशेषणम् । विपरीतरतकारिण्याः श्रियः सस्पृहम् । एवं च स्वस्यापि सुन्दरत्वेऽपि तद्विषयस्पृहावत्त्वेनानिर्वचनीयरूपशा- लित्वं कैटभ्यां व्यज्यते । कैटभीध्यानम् । एवं च स्त्रियोऽपि स्त्रीध्यानेनाद्भुतत्वं कैटभीरूपे द्योत्यते । जयति । त्रिभुवनाभिरामया रमयापि क्रियमाणत्वादिति भावः ॥ कृतकान्तकलिकुतुकश्रीशीतवाससेकनिद्राणः । घोरितविततालिरुतो नाभिसरोजे विधिर्जयति ॥ २६ ॥ कृतेति । कृतं कान्तं मनोज्ञं यत्केलिकुतुकम् । एवं चोत्साहविशेषेण सुरत- संपादनाच्छ्वासबाहुल्यं व्यज्यते । यत्तु कान्तेन विष्णुना सह यत्केलिकुतुकमिति तन्न । अन्येन सहाप्रसक्तेः । कान्तकेलिरित्यनेन सुरतक्रीडवायातीत्यपि न । अक्ष- क्रीडादेः संभवात् । नाभिसरोज इत्यादिनैव तत्प्रतीतेश्च । यया । एतादृशी या श्रीस्तस्याः शीताः । मदनानलसंतापनिवृत्तरिति भावः । ये श्वासास्तेषां सेकेन निद्राणः । सेकस्य द्रवद्रव्यीयत्वेन श्वासद्वारा वारिसंबन्धो लक्ष्यते । तेन च सुख- निद्रायोग्यत्वं व्यज्यते । विततालिरुतमेव घोरितं यस्य । नाभिसरोजे विधिर्जग- निर्माणकर्ता । एवं च श्रमवत्त्वान्निद्रायोग्यत्वं ध्वन्यते। जयति । सरोजशय- नशीतमन्दसुगन्धसमीरणसुखस्खापवत्त्वादिति भावः ॥ एकरद द्वैमातुर निस्त्रिगुण चतुर्भुजापि पञ्चकर । जय षण्मुखनुत सप्तच्छदगन्धिमदाष्टतनुतनय ॥ २७ ॥ एकेति । एकदन्त । द्वैमातुर । पार्वतीगङ्गारूपमातृद्वयवत्त्वात् । निस्त्रिगुण । - HINTECIHINDISIENSOLE १२ काव्यमाला। । एवं ब्रह्मरूपत्वं द्योत्यते । चतुर्भुजापि पञ्चकर । अपिविरोधाभासार्थकः । शुण्डा मादाय पञ्चकरत्वम् । अन्यथा तु तस्यास्ति चतुर्भुजत्वम् । षण्मुखनुत । ज्येष्ठ त्वादिति भावः । सप्तच्छदगन्धिर्मदो यस्य । अष्टतनुर्महादेवस्तत्तनय । एतार- शस्त्वं जय । संख्याक्रममात्रमत्र ॥ मङ्गलकलशद्वयमयकुम्भमदम्भेन भजत गजवदनम् । यद्दानतोयतरलैस्तिलतुलनालम्बि रोलम्बैः ॥ २८ ॥ मङ्गलेति । मङ्गलकलशद्वयरूपौ कुम्भौ यस्य तम् । एवं च विनविनाशनक्ष- मत्वं ध्वन्यते । गजवदनम् । अदम्भेन । एवं च दम्मेन भजनमनर्थकमित्यावेद्यते। यदीयदानोदकार्थ चञ्चलैः । सौरभ्यशालित्वाद्दानोदकस्येति भावः । तरलपदेन सकलकुसुमगन्धाधिकत्वं दानगन्धे व्यज्यते । रोलम्बैधमरैः । तिलसाम्यम् । श्यामत्वादिति भावः । एवं च कुम्भयोमहत्तरत्वं ध्वन्यते। आलम्बि । गणपति- विषयकोऽत्र भावध्वनिः ।। याभिरनङ्गः साङ्गीकृतः स्त्रियोऽस्त्रीकृताश्च ता येन । वामाचरणप्रवणौ प्रणमत तौ कामिनीकामौ ॥ २९ ॥ याभिरिति । याभिः स्त्रीभिरनको मदनः साङ्गीकृतः । वयं तत्साहाय्यसंपाद. नादिति भावः । येन मदनेन ताः स्त्रियोऽस्त्रीकृताः । खविजयसाधनत्वेनेति भावः। इति वामस्य सुन्दरस्य । समीचीनस्येति यावत् । यदाचरणम् । समीचीनाचरण- मित्यर्थः । तत्र प्रवणौ तत्परौ । एवं चाङ्गहीनस्य साङ्गतासंपादनात्, एवमेव स्त्रीत्वेन नायकाधीनानां स्त्रीणां खास्त्ररूपतासंपादनेन नायकस्य तदधीनत्वसंपाद- नात् , उपकारप्रवणत्वमुभयोय॑ज्यते । अत एवैतादृक्कामिनीकामौ प्रणमत । एवं चैतत्सेवया समीचीनमेव भविष्यतीति ध्वन्यते । यत्राङ्गरहितस्याङ्गवत्तासंपादनात्, स्त्रीणां च स्त्रीभिन्नत्वसंपादनात् , विरुद्धाचरणखाभाब्यात्, कामिनीकामो प्रणमत, एवं चैतयोः संगतिः सतां नोचितेति व्यज्यत इति व्याख्यानं तन्मङ्गलप्रकरण- विरोधादसमञ्जसमिवाभाति । यद्वा परस्परमप्येतयोरीदृशविपरीताचरणप्रवणत्वे प्रियान्यस्य तत्करणस्यातिसुगमत्वात्तत्सेवैव समुचितेति ध्वन्यते ॥ अथ कवीन्स्तौति- विहितघनालंकारं विचित्रवर्णावलीमयस्फुरणम् । शक्रायुधमिव वक्र वल्मीकभुवं कविं नौमि ॥ ३० ॥ विहितेति । शक्रायुधमिव । विहिता घना बहवोऽलंकारा उपमादयो येन तम् ।
आर्यासप्तशती। । पक्षे विहितमेघालंकरणम् । विचित्राणां वर्णानामक्षराणां यावली तत्प्रचुर स्फुरणं स्फूर्तिर्यस्य तम् । पक्षे वर्णा नीलपीतादयस्तत्पतिर्विकारः स्फुरणमुत्पत्तिर्यस्य तम् । वक्र वक्रोक्तिकुशलम् । पक्षे यथाश्रुतम् । वल्मीकभुवं वाल्मीकिम् । शक्र- धनुषोऽपि तत एवोत्पत्तिरिति लौकिकम् । कविं काव्यकर्तारं नौमि । रूपकम- त्रालंकारः ॥ व्यासगिरां निर्यासं सारं विश्वस्य भारतं वन्दे । भूषणतयैव संज्ञां यदङ्कितां भारती वहति ॥ ३१ ॥ व्यासेति। व्यासववसां निर्यासम् । एवं च तत्त्वार्थवत्वं सरसत्वं च व्यज्यते। विश्वस्य जगतः सारम् । एवं चेत उत्पन्नपुरुषार्थसाधनत्वं ध्वन्यते। एतादृशं भारतं वन्दे । यदङ्कितां भारतचिह्नितां संज्ञा भूषणतयैव भारती सरखती वहति । एवं च भारत्याः भूषणरूपतन्नामप्रसिद्धनामवत्त्वप्रतिपादनेन सर्वग्रन्थाधिकत्वमावे- बते भारते । एवकारेण खाभाविकत्वब्युदासः । अन्योऽप्यप्रसिद्धः प्रसिद्धस्य कस्यचिन्नाम्ना प्रसिद्धो भवतीति लौकिकम् । भारतकर्तृत्वेन व्यासस्तुतिरित्यवधेयम् ॥ सति काकुत्स्थकुलोन्नतिकारिणि रामायणे किमन्येन । रोहति कुल्या गङ्गापूरे किं बहुरसे वहति ॥ ३२ ॥ सतीति । काकुत्स्थानां कुलम् । तदुन्नतिकारिणि । कुलपदेन सर्वेषामप्युन्नति- संपादनेन शतकोटिप्रविस्तरत्वं तेन च बहुतरप्रमेयवत्त्वं च व्यज्यते । बहुरसे प्रभूतशृङ्गारादिरसशालिनि । पक्षे बहुजलवति । एवं च तापापनोदकत्वं व्यज्यते। अत एवैतादृशरामायणे सत्यन्यकाव्येन किम् । तेन गतार्थत्वादिति भावः । अत्र दृष्टान्तमाह-गङ्गापूरे वहति सति कुल्याल्पा कृत्रिमा सरिकि रोहति । काका नेत्यर्थः । न चित्तपथमवतरतीति भावः ॥ अतिदीर्घजीविदोषाव्यासेन यशोऽपहारितं हन्त । कै!च्येत गुणाढ्यः स एव जन्मान्तरापन्नः ॥ ३३ ॥ अतीति । अत्यन्तदीर्घजीवित्वदोषात् । चिरकालजीवित्वरूपदोषादित्यर्थः । अतिचिरजीवित्वस्यान्यत्र गुणत्वेऽप्यत्र दोषत्वमिति भावः । दोषपदं परिहरणीयत्वं व्यञ्जयति । व्यासेन यशः । हन्त इति खेदे । अपहारितम् । यशःपदमत्यन्तसं- रक्षणीयत्वं व्यञ्जयति । अत एव खेदौचित्यम् । एतदेवाह-स एव व्यास एवं - काव्यमाला। । जन्मान्तरमापन्नो गुणान्यो वृहत्कथाकर्ता कै!च्येत । अपि तु सर्वैरित्यर्थः । एवं गुणाढ्यव्यवहारे व्यासस्य चिरजीवित्वमेव प्रतिबन्धकं संवृत्तमिति भावः । एवं चैतादृग्यशसि स्पृहा न कृता, किंतु चिरजीवित्व इति महन्मूर्खत्वमावेद्यते व्यासे । तेन च व्यासाधिकत्वं गुणाढ्ये ॥ श्रीरामायणभारतबृहत्कथानां कवीन्नमस्कुर्मः । त्रिस्रोता इव सरसा सरखती स्फुरति बैर्भिन्ना ॥ ३४ ॥ श्रीति। वाल्मीकिव्यासगुणाढ्यान्नमस्कुर्मः। यैर्वाल्मीक्यादिगुणैर्भिन्ना। विलक्ष- णरीत्यनुसरणादिति भावः । सरसा भृङ्गारादिमती । पक्षे सजला । वाणी सती नदीव निस्रोता गङ्गेव । स्वर्गमृत्युपातालेषु प्रवाहवत्त्वाद्गङ्गायाः । एवं च वाल्मी- क्यादिवाचां सकलकल्मषविनाशकत्वं द्योयते । स्फुरति । एवं च त्रितयवाचां वास्तवैकरूपत्वमेवेति व्यज्यते । तेन च वाल्मीक्यादित्रितयस्य समानत्वमावेद्यते। यद्वा वाल्मीक्यपेक्षया किंचिन्यूनत्वं व्यासे, ततो गुणाढ्य इति ध्वन्यते । पूर्वत्र श्रीपदं त्रिष्वप्यन्वेति, अत्र रामायणमात्रे ॥ साकूतमधुरकोमलविलासिनीकण्ठकूजितप्राये । शिक्षासमयेऽपि मुदे रतलीलाकालिदासोक्ती ॥ ३५ ॥ साकूतेति । साकूतं साभिप्रायम् , मधुरं रसोत्कर्षाधायकरसनिष्टगुणवत्, कोमलं शब्दगुणशालि एतादृशं यद्विलासशालिन्याः कण्ठकूजितं तत्प्राये । प्रायः- शब्दः क्रमेण बाहुल्यसादृश्योपस्थापकः । रतलीलाकालिदासोक्ती शिक्षासमयेऽपि मुदे । एवं चोभयोः समत्वमिति भावः । एवं च सर्वजनस्याप्युपदेशसमये बहुधा दुःखदत्वेन रतलीलाकालिदासोक्त्योः सुखप्रदत्वेन वाग्विलासाधिक्यं ध्वन्यते ॥ भवभूतेः संबन्धाद्भूधरभूरेव भारती भाति । एतत्कृतकारुण्ये किमन्यथा रोदिति ग्रावा ।। ३६ ॥ भवेति। भवभूतेः शिवैश्वर्यस्य संबन्धाद्भारत्येव सरखत्येव भूधरभूनगेन्द्रकन्या भाति । एवं चाणिमाद्यैश्वर्यान्तर्गतेच्छानभिघातरूपप्राकाम्याद्भारत्या नगेन्द्रकन्या- रूपत्वम् । तथा भवभूतेः कवेः । एवं चेशैश्वर्याभेदबोधनेन खेच्छानुरूपकार्यकारित्वं व्यज्यते । संबन्धाद्धारत्येव भूधरभूः पर्वतभूमिः । एवं च नान्यथा शङ्कनीयत्व- मिति भावः । भाति । अन्यथैतत्कृतकरुणरसप्रधाने 'अपि पावा रोदित्यपि दलति ।
आर्यासप्तशती। । वज्रस्य हृदयम् इत्युत्तरचरित्रीयपद्ये प्रावा शैलः । 'ग्रावाणौ शैलपाषाणौ' इत्यमरः। किमिति रोदिति । यद्वा भवभूतेः संबन्धादित्यस्य भवैश्वर्याविनाभावादित्यर्थः । भूध- रभूः शैलतनया भारती भाति । सरस्वतीरूपेण दृश्यत इत्यर्थः । एवं च यत्रेशैश्वर्य तत्र शैलसुतयावश्यं स्थेयमिति नियमादीशैश्वर्यवति कवौ शैलसुता सरखतीरूपेणा- वस्थितेति भावः । एवं चैतत्कवेर्दक्षिणामूर्युपासकत्वं व्यज्यते । अत एव भवस्य शंभो तिरैश्वर्यं यस्मिन्निति नाम्नि व्युत्पत्तिरपि संगच्छते । अथवा कवौ भवभूत्य- भेदबोधनेन पार्वतीसत्त्वमावश्यकम् । विपक्षे तर्कमाह-अन्यथा। एतत्कृतकारुण्ये। एवं चान्यैबहुभिः करुणरसप्रधानानि काव्यानि विहितानि, परंतु न तत्र शैल- रोदनमिति भावः । ग्रावा किमिति रोदिति । एवं चैतत्कृतकारुण्ये जामातृसंबन्धेन शैलस्यापि रोदनमिति भावः । अथवा । भवभूतेः शिवैश्वर्यस्य संबन्धात् । तत्कृ- पात इत्यर्थः । भारती भूधरभूरेव । भूधर इति कविनाम । भवभूतिरिति 'गिरि- जायाः कुचौ वन्दे भवभूतिसिताननौ' इति पद्यकरणोत्तरं पदवीनाम । तस्माद्भक्त्वे दृश्येव जाता । एवं च सरखतीप्रचारस्वत एवेत्यन्यकविव्यतिरेको ध्वन्यते । नन्वे- तत्कवर्भूधरत्वे किं प्रमाणामत आह-अन्यथा । एतत्कवेर्भूधरत्वाभावे । एतत्कृत- कारुण्ये ग्रावा पाषाणः कथं रोदिति । एवं चैतत्कृतकारुण्योत्तरकालीनपाषाणरोदन- स्यैतत्संबन्धाभावेऽन्यथानुपपत्त्या कवौ भूधरत्वसिद्धिः । एवं च जन्यजनकभाव- संबन्धाद्रोदने युक्ततैव । एवकार इवार्थ इति केचित् ॥ जाता शिखण्डिनी प्राग्यथा शिखण्डी तथावगच्छामि । प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति ॥ ३७ ।। जातेति । प्राक्पूर्व यथा शिखण्डिनी द्रुपदपुत्री शिखण्डी द्रुपदपुत्ररूपा बभूव, तथा वाणी सरस्वत्यधिकप्रागल्भ्यप्राप्त्यर्थं वाणः कादम्बरीकर्तृरूपा बभूव । पवर्ग- तृतीयान्तस्थबवकारयोरभेदादिति भावः । एवं च सरखतीतोऽधिकत्वं बाणे द्योत्यते । वस्तुतस्तु बवयोरैक्ये दोषाढ़ेद एव ॥ यं गणयन्ति गुरोरनु यस्यास्ते धर्मकर्म संकुचितम् । कविमहमुशनसमिव तं तातं नीलाम्बरं वन्दे ॥ ३८ ॥ यमिति । यं गुरोः प्रभाकरात् । एवं च तत्र प्रभाकरतन्त्रनिपुणत्वं तातस्या- वेद्यते । पक्षे बृहस्पतेः । अनु पश्चाद्गणयन्ति । यस्यास्ते नाशे । पक्षे सूर्यमण्डल- ।
काव्यमाला। सांनिध्येनादर्शने । धर्मकर्म संकुचितम् । तातसदृशस्थान्यस्य धर्मकर्मप्रवर्तकस्या- भावादिति भावः । पक्षे मलमास इव शुक्रास्तेऽपि केषांचित्कर्मणां निषेधादिति भावः । यद्वा यस्य तातस्य धर्मकर्म । एवं चाधर्मकर्मणोऽभावो व्यज्यते। संकुचितं सम्यक् कौ पृथिव्यां चितं व्याप्तम् । आस्ते । एवं च कर्मठत्वेन सर्वत्र तातप्र. सिद्धिरिति भावः । यद्वा यस्याधर्मकर्मविषये संकुचित संकोचः । भीतिरिति यावत् । आस्ते । कविं काव्यकर्तारम् । पक्षे तन्नामानम् । उशनसमिव शुक्रमिव । तं प्रसिद्ध तातं नीलाम्बराभिधं वन्दे ॥ सकलकलाः कल्पयितुं प्रभुः प्रबन्धस्य कुमुदबन्धोश्च । सेनकुलतिलकभूपतिरेको राकाप्रदोषश्च ॥ ३९ ॥ सकलेति । प्रबन्धस्य चतुःषष्टिकलाः । कुमुदबन्धोश्चन्द्रस्य च षोडशकलाः । कल्पयितुं वक्तुं कर्तुं वा । पक्षे दर्शयितुम् । सेनकुलतिलकभूपतिः सेतुकर्ता प्रव- रसेननामा राजा । पौर्णमासीप्रदोष एकः प्रभुः समर्थः । नान्यः इत्यर्थः ।। काव्यस्याक्षरमैत्रीभाजो न च कर्कशा न च ग्राम्याः । शब्दा अपि पुरुषा अपि साधव एवार्थबोधाय ॥ १० ॥ काव्यस्येति ।अक्षराणां वर्णानां मैत्रीमेकवर्गपठितत्वादिरूपाम् । एकस्थानकत्वे सत्येकप्रयत्नकत्वरूपा वा भजति तस्य । एवं च बन्धविशेषशालित्वं व्यज्यते । पुरुषविशेषणमप्यक्षरमैत्रीभाज इति । काव्यस्य योजनाविशेषवच्छब्दार्थोभयस्य अर्थबोधाय । कर्कशाः श्रुतिकटवः । तेषां रसापकर्षकत्वादिति भावः । पक्षे क्रूर- मतयः । एवं च परोक्तिखण्डनमात्रनिपुणत्वं च व्यज्यते । न च ग्राम्या अवि- दग्धप्रयुक्ताः । एवं च चारुत्वाभावो व्यज्यते । पक्षे ग्राममात्रवासिनः । एवं च काव्यवासनावासितान्तःकरणत्वाभावो ध्वन्यते । शब्दा अपि पुरुषा अपि । किंतु साधव एव । व्याकरणसिद्धा एव असाधुत्वज्ञानस्यार्थबोधप्रतिबन्धकत्वात् । पक्षे निर्मलमतय एव । एवं चार्थप्रतिबिम्बभवनयोग्यत्वं द्योत्यते । यद्वा काव्यार्थवा- सनाशालिन इत्यर्थः । एवं चान्येषां काव्यबोधानहत्वमिति भावः ॥ १. सेनकुलं कायस्थकुलं वङ्गदेशप्रसिद्धम्. तत्तिलकायमानो भूपतिलेक्ष्मणसेनः. यत्सभायां गोवर्धनाचार्य आसीत. न तु सेतुबन्धकाव्यकर्ता कश्मीरमहाराजः प्रवरसेनः. स तु क्षत्रियकुलावतंस आसीदिति राजतरङ्गिण्यां स्फुटमेव. । ।
आर्यासप्तशती। १७ .. वंशे घुण इव न विशति दोषो रसभाविते सतां मनसि । रसमपि तु न प्रतीच्छति बहुदोषः संनिपातीव ॥ ११ ॥ वंश इति । वंशे वेणौ घुण इव कीट इव रसभाविते शृङ्गारादिभावनावति । पक्षे जलातिशयसंबन्धवति । औषधीद्रवलेपवतीति कश्चित् । सतां मत्सररहितानां सहृदयानां वा मनसि । मनसीत्येकवचनेन समीचीनमनसामेकव्यसनशालित्वं ध्वन्यते । दोषो न विशति । एवं च सुतरामवस्थित्यभावो द्योत्यते। बहुदोषो दोषैकहक् । पक्षे 'क्षणे दाहः क्षणे शीतमस्थिसंधिशिरोरुजः' इत्यादिबहूपद्रववान् । संनिपातीव युगपत्प्रकुपितवातपित्तादिमान् । रसमपि शृङ्गारादिकमपि । एवं चाव- श्येच्छायोग्यत्वं व्यज्यते । पक्षे मृगाङ्कादिकमपि । एवं च का वार्ता काथादेरिति भावः । न प्रतीच्छति न गृहातीति किं वक्तव्यमिति भावः॥ विगुणोऽपि काव्यबन्धः साधूनामाननं गतः खदते । फूत्कारोऽपि सुवंशैरनूधमानः श्रुति हरति ॥ ४२ ॥ विगुण इति । विगुणोऽपि ये ये काव्ये गुणास्तदन्यतमशून्योऽपि । काव्यवन्धः । अत्र बन्धपदमधिकमाभाति । यद्वा बन्धो रचनामात्रम् । साधूनाम् । एवं च गुणवत्तासंपादनकर्तृत्वं ध्वन्यते । खदते सुखसंपादको भवति। सुवंशः सरलवेणुभि- रनूद्यमानः । एवं चानुवादसंपादनेऽपि सुजनदुर्जनयोरन्तरं भवतीति भावः । फूत्का- रोऽपि । एवं च सुखाजनकत्वं ध्वन्यते । श्रुतिं हरति श्रवणसुखसंपादको भवति ॥ खयमपि भूरिच्छिद्रश्चापलमपि सर्वतोमुखं तन्वन् । तितउस्तुषस्य पिशुनो दोषस्य विवेचनेऽधिकृतः ॥ ४३ ॥ स्वयमिति। स्वयं भूरिच्छिद्रोऽपि बहुवाच्योऽपि । एवं च स्वदोषेषु दर्शनयो- ग्यत्वेऽपि तद्दर्शनाभावेन भ्रान्तत्वमावेद्यते । पक्षे बहुरन्ध्रोऽपि । सर्वतोमुखं सकलजनसमक्षम् । पक्षे सर्वदिग्विषयम् । चापलं मौखर्यम् । एवं च जनभीति- शून्यत्वं ध्वन्यते । पक्षे चाञ्चल्यम् । तन्वन्विस्तारयन् । एवं च विरत्यभावो ध्वन्यते । तितउः । 'तितउर्ना चालनी स्त्रियाम्' इत्यभिधानम् । पिशुनः परोत्कर्षा- सहिष्णुः । विवेचने निर्णये । पक्षे खीकारे । अधिकृतो दत्ताधिकारः । एवं च गुणादिकं विहाय दोषमात्राङ्गीकर्तृत्वं दुष्टानामिति भावः ॥ -- । २ आ० स० काव्यमाला। । अन्तर्मूढानर्थानव्यञ्जयतः प्रसादरहितस्य । संदर्भस्य नदस्य च न रसः प्रीत्यै रसज्ञानाम् ॥ १४ ॥ अन्तरिति । अभ्यन्तरं गूढस्थितिम् । पक्षे निलीनान् । अर्थान्प्रतिपाद्यावेष- यान् । पक्षे पदार्थान् । अव्यञ्जयतो व्यञ्जनाविषयानकुर्वतः। पक्षेऽप्रकाशयतः । अत एव प्रसादेन काव्यगुणेन । पक्षे निर्मलतया । रहितस्य । संदर्भस्य काव्यस्य । नदस्य च । पुंस्त्वनिर्देशेन निर्मलत्वस्यावश्यापेक्षणीयत्वमित्यावेद्यते । यद्वा नदत्वेन विरलतया तत्तुल्यप्रतिपादनात्काव्येऽतिविरलत्वमावेद्यते । उक्तं हि [आनन्दवर्ध- नेन ]-द्वित्रा एव कवयो द्वित्राण्येव काव्यानि' इति । रसः शृङ्गारादिः । पक्षे जलम् । रसज्ञानाम् । एवं चान्येषां प्रीत्यजनकत्वेऽपि न काचित्क्षतिरिति भावः । प्रीसै न ॥ । यदसेवनीयमसताममृतप्रायं सुवर्णविन्यासम् । सुरसार्थमयं काव्यं त्रिविष्टपं वा समं विद्मः ॥ १५ ॥ यदिति । यदसतां सहृदयभिन्नानाम् । पक्षे पापवताम् । असेवनीयम् । अमृ. ततुल्यम् । पक्षेऽमृतबहुलम् । सुवर्णानां शोभनाक्षराणां विन्यासो ग्रथनं यत्र । 'वर्ण तु चाक्षरे' इत्यमरः । पक्षे सुवर्णस्य हेनो विन्यासो रचनादि यत्र । शोभ- नरसार्थोभयप्रचुरम् । पक्षे देवसमूहबहुलम् । काव्यं त्रिविष्टपं स्वर्ग वा समं विद्मः । एवं चात्र नान्यथाभाव आशङ्कनीय इति भावः । एवं च स्वर्गार्थ यथा सद्भिर्यन्नः क्रियते तथा काव्याथ विधेय इति व्यज्यते ॥ सत्कविरसनाशूीनिस्तुषतरशब्दशालिपाकेन । तृप्तो दयिताधरमपि नाद्रियते का सुधा दासी ॥ १६ ॥ सदिति । सत्कवेः। एवं चासत्कवेर्निरासः। रसनैव शूर्यल्पं शूर्पम् । 'प्रस्फोटनं शूर्पमस्त्री' इत्यमरः । यथा खल्पशूर्पण निस्तुषता जायते न तथा महाशूर्पणेति स्त्रीसंप्रदायः । तया निस्तुषतरो निर्दोषः शब्दरूपो यः शालिस्तत्पाकेन । परिणत- निर्दोषकाव्याखादेनेत्यर्थः । तृप्तो दयितायाः । एवं चातिस्पृहणीयत्वमधरे ध्वन्यते। अधरमप्यत्युत्कृष्टतां व्यञ्जयति । नाद्रियते का सुधा दासी । एवं च माध्वीकादेः कुत्र गणनेति भावः। एवं च सुधातोऽधरे, ततोऽपि सत्काव्येऽधिकत्वं ध्वन्यते । एवं च वर्गार्थ यत्नं विहाय काव्यार्थमेव स विधेय इति ध्वन्यते । अत्र च 'शरीरं । ।
आर्यासप्तशती। । तावदिष्टार्थव्यवच्छिन्ना पदावली' इति दण्डिमतेनार्थविशेषविशिष्टशब्दस्यैव काव्य- त्वमिति । प्रदीपकृन्मतेन च शब्दमात्रोपादानम् ॥ अकलितशब्दालंकृतिरनुकूला स्खलितपदनिवेशापि । अभिसारिकेव रमयति सूक्तिः सोत्कर्षशृङ्गारा ॥ १७ ॥ अकलितेति। न कलिता शब्दस्यालंकृतिर्यया । अनुप्रासादिशब्दालंकृतिशून्ये- त्यर्थः । एवं चार्थालंकारादिमत्त्वं व्यज्यते । पक्षेऽकलितः शब्दो ययैतादृश्यलं- कृतिभूषणं यस्याः । सशब्दभूषणवत्त्वेऽन्यस्य ज्ञानं भविष्यतीति धियेति भावः । अनुकूला द्रुतं रसप्रत्यायिका । पक्षे नायकचित्तानुकूल्यवती । स्खलितः पददार्च- शून्यः । कोमल इति यावत् । पदानां सुप्तिङ्वतां निवेशो ग्रथनं यस्याः सा । एवं च गौडीरीतियुक्तेति ध्वन्यते । पक्षे स्खलितं स्थानादन्यत्र पतनम् । एवं च संकेतगमनं सत्वरमावेद्यते । पदनिवेशश्वरणविन्यासः । यद्वानुकूलानि स्फुटमर्थ- प्रतीतिजनकान्यस्खलितानि व्याकरणनिष्पन्नानि । एवं च नेयार्थासाधुत्वशून्यत्वं द्योत्यते । यानि पदानि तत्संनिवेशवती। पक्षेऽनुकूलानि द्रुतं संकेतप्रापकाणि स्खलनहीनानि यानि पदानि तद्विन्यासवती । अपिरनास्थायाम् । एवं च गुणदोषा- भावयोः संपादने नात्यन्तमाग्रह इति भावः। सोत्कर्षशृङ्गारोत्कर्षशालिशृङ्गाररस- वती । पक्षेऽहमस्यायं ममेति रतिपरिपोषवती अमिसारिकेवाभिसरणामिसारणान्यत- रवतीव । उक्तं च-'या चार्ताभिसरेत्कान्तं सारयेद्वाभिसारिका' इति । एवं च प्रेमातिशयो व्यज्यते । सूक्तिः काव्यम् । पक्षे शोभनोक्तिमती । रमयति । एवं च काव्ये शब्दालंकृतिदोषाभावसत्त्वसंपादनमप्रयोजकम् । अपि तूत्कृष्टशृङ्गारसंपादन- मेवोचितमिति व्यज्यते । यद्वा शब्दालंकृतिशून्या सदोषपदविन्यासापि सोत्कर्ष- शृङ्गारा सूक्ती रमयति । शब्दस्य प्राधान्यात्तदलंकारस्यावश्यकत्वेऽपि तदभावे दोषराहित्यस्यावश्यकत्वेऽपि केवलोत्कृष्टशृङ्गारवत्त्वेनैव चमत्कारातिशयजनकत्वं काव्यस्येति भावः । एवं च शृङ्गारादिरसवत्त्वं काव्येऽवश्यमपेक्षितमिति व्यज्यते। अत एव 'नीरसो हि निबन्धो यः सोऽपशब्दो महाकवेः । स तेनाकविरेव स्यादन्येनास्मृतलक्षणः ॥ इति ध्वनिकृता रसस्य प्राधान्यमभ्यधायि। एवं च सर्वरसप्रधानीभूतशृङ्गारवत्त्वमत्यन्तोत्कृष्टमिति तात्पर्यार्थः ॥ अध्वनि पदग्रहपरं मदयति हृदयं न वा न वा श्रवणम् । काव्यमभिज्ञसभायां मञ्जीरं केलिवेलायाम् ॥ १८ ॥ अध्वनीति । अध्वनि व्यङ्गयार्थशून्यम् । यत्तु ध्वनिरुत्तमं काव्यं तद्भिन्नमित्यर्थ ।
काव्यमाला। इति तन्त्र । गुणीभूतव्यङ्गयादेरपि हृदयाहादजनकत्वात् । पक्षे शिञ्जितशून्यम् । पदग्रहपरमनुप्रासमात्रार्थं पदग्रहः परमुत्कृष्टो यत्र । पक्षेऽत्यन्तचरणसंलग्नम् । काव्यमभिज्ञसभायाम् । एवं चानभिज्ञसभायां हृदयाद्यानन्दजनकत्वेऽपि न किंचि- कलमिति भावः । हृदयं वा न मदयति, श्रवणं वा न मदयति । एवं च श्रोतु- रुभयान्यतरदप्यानन्देन विषयान्तरस्फूर्तिशून्यं न करोतीति भावः । अत्र हृदयं श्रवणं वा न मदयतीत्येतावतैव सिद्धे द्वितीय 'न वा' इत्यस्य न तथा प्रयोजन- माभाति । श्रवणं श्रोतुहृदयं वक्तुर्न मदयति । 'आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम्' इत्याद्युक्तेरिति व्याख्याने वाकारद्वयनद्धययोरानर्थक्यमाभाति । मञ्जीरं क्रीडाकाले न मदनाविर्भाववन्तं करोतीत्यर्थः । काव्यं हृदयं न मदयति मञ्जीरं श्रवणं न मदयतीति व्याख्यायां वाकारद्वयमनर्थकमाभाति । अत्रेदमवधे- यम्-व्यङ्ग्यार्थशून्यं काव्यमेव नास्ति । न च 'अव्यङ्गचं त्ववरं स्मृतम्' इत्युक्त्या व्यङ्ग्यात्यन्ताभाववत्यपि काव्यत्वमस्तीति वाच्यम् । तदुदाहरणे 'स्वच्छन्द-' इत्यादि पद्ये मन्दाकिनीविषयकरत्याख्यभावादिव्यङ्गयस्य सत्त्वात् । किं बहुना । 'स कोऽपि विषयो नास्ति यत्र व्यङ्ग्यं न भासते । समयादेविशेषस्य ह्यभावे हेतुता मता ॥' अत एव 'प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थितेः । उभे काव्ये तदन्यद्यत्तचित्रमभिधीयते ॥' इति ध्वनिकृता [ श्रीमदानन्दवर्धनाचार्येण ] अभ्य- धायि । यद्वा काव्यं काव्यत्वाभिमतम् ॥ आस्वादितदयिताधरसुधारसस्यैव सूक्तयो मधुराः । अकलितरसालमुकुलो न कोकिलः कलमुदञ्चयति ॥ १९॥ आस्खादितेति । आखादितः । न तु पीतः । एवं चाधरपानेऽत्यन्ताधरपाने वा कीड्माधुर्यमुत्पत्स्यत इति न विद्म इति भावः । दयिताधररूपसुधारसो येन तस्यैव । एवं च नान्यस्येति भावः । यद्वा मधुरा एवेति योज्यम् । एवं चामधुराणां व्यवच्छेदः । यद्वाखादितो दयिताधरसुधारसो येन तस्यैव । एवं च नृदेहेन दयिताधरपानं विधाय पश्चाद्देवरूपेणामृतं निपीयैतदुभयाधिकतररसवत्काव्येच्छया कविर्भवतीति भावः। एवं च दयिताधरावादादेहेतुत्वप्रतिपादनादवाप्तकार्यस्य कार- गेऽनादरवत्काव्यास्वादवतः सकलविषयाखादमौलिभूतदयिताधररसाखादादावप्य- नादर इति द्योत्यते । एवं च काव्याखादे ब्रह्मरसरूपता द्योत्यते। सूक्तयः काव्यानि । मधुराः । एवं च दयिताधरसुधारसयोरधिकतरत्वस्य काव्यसामान्येऽभि- । । ।
आर्यासप्तशती। २१ धानेन तद्विशेषोत्तमकाव्येऽत्यन्तविशेषस्ततो ध्वन्यते । अत्र दृष्टान्तमाह-अना- खादितचूतमुकुलः । मुकुलपदेन रससंभृतत्वं व्यज्यते । कोकिलः कलं मधुरं न वदति । यद्वा सूक्तय उत्तमकाव्यानि ॥ बालाकटाक्षसूत्रितमसतीनेत्रत्रिभागकृतभाष्यम् । कविमाणवका दूतीव्याख्यातमधीयते भावम् ।। ५० ॥ बालेति । लोकव्यवहारज्ञानस्य काव्यहेतुत्वमित्याह-बालायाः कटाक्षेण सूत्रि- तम् । सूचितमित्यर्थः। एवं च लज्जावत्त्वेन प्राकट्यसंपादनायोग्यत्वम् । अत्र बाला- पदेनाल्पवयस्काभिधीयते। न खीयाभेदरूपा । असतीत्यावर्थविरोधात् । सख्या असतीत्वेऽपि नायिकायाः स्वीयत्वाक्षतिरित्यपि केचित् । असत्या नेत्रत्रिभागेण बहुलनेत्रव्यापारेण कृतभाष्यम् । कृतकिंचित्प्राकट्यम् । दूतीव्याख्यातम् । दूत्या वचनवृत्त्याभिहितम् । भावमभिप्रायम् । कविमाणवकाः कवयो माणवका इव । एवं चाज्ञत्वं द्योत्यते। अधीयते । एवं चातितीक्ष्णमतिभिः सूत्रेण ततोऽल्पमतिभिर्व्या- ख्यानेन यथावबुध्यते ग्रन्थादि तथा तीक्ष्णमतिभिः कैश्चित्कविभिः खल्पव्यवहार- ज्ञानेन ततोऽल्पमतिभिरधिकतरज्ञानेन काव्यं क्रियत इति व्यवहारज्ञानं न कुत्रापि व्यभिचरतीति ध्वन्यते । यद्वान्यप्रमेयहरणशीलान्कवीन्निन्दति । दूतीव्याख्यात- मित्यनेनैतस्मात्पदादयमर्थो बोध्य इति नियमसहायशक्तिविषयमिति व्यज्यते । शक्तरतिस्थूलमतिविषयत्वात् । असतीनेत्रत्रिभागकृतभाष्यमित्यनेन जघन्यलक्षणा- वृत्तिविषयमिति द्योत्यते । लक्षणावृत्तः किंचित्स्थूलमतिविषयत्वात् । बालाकटाक्ष- सूत्रितमित्यनेन व्यजनावृत्तिविषयमिति व्यज्यते । व्यञ्जनावृत्तरतिसूक्ष्ममतिविष- यत्वात् । भावमर्थम् । अर्थादन्यकविनिबद्धम् । येऽधीयते स्वकाव्यविषयीकुर्वन्ति न ते कवयः । किं तु तेषु ते बालाः । मूर्खा इत्यर्थः । एवं च परकाव्यस्पृष्टवाच्यल- क्ष्यव्यङ्ग्यास्पिर्शित्वं स्वकाव्यस्य ध्वन्यते । यद्वा बालाकटाक्षसूचनादिव्यापारप्रकट- नार्थस्य कविमाणवककाव्यविषयत्वं कवीनां त्वत्यन्तनिगूढार्थोऽपि काव्यविषय इति खग्रन्थेऽपि निगूढार्थविषयत्वं ध्वन्यते । अथवा कवयः सर्वे बालका इव । एवं च बालाकटाक्षसूत्रितमित्यादिना नायिकया खेच्छया प्रकटीकृतभावस्याभिज्ञत्वं कवीनाम्। न तु तदन्तर्गताभिप्रायज्ञानवत्त्वमिति नायिकाधिक्यवर्णनेन तद्विषयशृङ्गारवर्णनं सर्वरसवर्णनापेक्षया कठिनतरमिति व्यज्यते । तद्वत्त्वेन खग्रन्थाधिक्यं च । अत एव 'शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धनस्पर्धी कोऽपि न विश्रुतः' इत्यभाणि जयदेवेन ॥ ।
२२ काव्यमाला। ontent । खकीर्त्यनुवृत्तये खनाम दर्शयन्नेवेतरार्यावलक्षण्यं वार्यावाह- मसृणपदरीतिगतयः सज्जनहृदयाभिसारिकाः सुरसाः । मदनाद्वयोपनिषदो विशदा गोवर्धनस्यार्याः ॥ ५१ ॥ मसृणेति । मसृणानां स्निग्धानाम् । कोमलानामिति यावत् । पदानां विभ- क्त्यन्तानां रीतिदादिस्तस्या गतिः प्राप्तिासु ताः । तद्वत्य इत्यर्थः । पक्षे कोम- लचरणविन्यासशालिगतयः । मन्थरगतय इत्यर्थः । सज्जनहृदयमनुसरन्ति । एवं च सहृदयहृदयसमधिगम्यार्था इति भावः। एवं च दुहृदयानामत्र नाधिकार इति ध्वन्यते । पक्षे सज्जनस्य हृदयमभिसारयन्ति । स्वाधीनताभाजनं कुर्वन्ति ताः । सुष्टु रसः शृङ्गारादिर्यासु ताः । पक्षे आसक्तिविशेषवत्यः । मदनाद्वैतोपनिषदः । उपनिषद इत्यनेन मदनोद्दीपकतातिशयशालित्वमावेद्यते । पक्षे संनिधिमदनस- त्त्वोक्त्या तस्मिन्नाज्ञाकारित्वं ध्वन्यते । विशदाः प्रसादरूपगुणवत्यः । पक्ष उज्ज्व. लवेषाः । आर्याः । आर्या इति च्छन्दोनाम । पक्षे श्रेष्ठाः । गोवर्धनस्य । गोवर्धन इति कविनाम ॥ वाणी प्राकृतसमुचितरसा बलेनैव संस्कृतं नीता । निम्नानुरूपनीरा कलिन्दकन्येव गगनतलम् ॥ ५२ ॥ वाणीति । वाणी । प्राकृतकाव्ये सम्यगुचितो रसो यस्याः । एतादृश्येव बलेन बलात्कारेण । पक्षे बलरामेण । एवकारोऽत्रैवान्वेति । संस्कृतं नीता। निम्नानुगा- मिस्वभावजला कालिन्दी गगनतलमिव । एवं च प्राकृतकाव्ये सुरसतासंपादन सुगमतरम् , संस्कृतकाव्ये तत्कठिनतरमिति द्योत्यते। तेन स्वयं तत्संपादनेन खस्मिन्नाधिक्यमावेद्यते । यद्वा वाण्याः स्वभाव एवायं यत्प्राकृतकाव्ये सरसतामा- मोतीति प्राकृतकाव्यकरणादर एव समुचितः, तथापि संस्कृतकाव्य एवादरो मया विहितस्तत्र कदाचिद्यदि तथाविधसुरसताभावो भविष्यति स च तत्रभवद्भिः क्षन्तव्य इति ध्वन्यते । अथवा प्राकृतकाव्यसमुचितरसा वाणी प्राकृतसमुचित- रसैव । प्राकृतानां साधारणजनानां समुचितः । सुखावह इत्यर्थः । रसो यस्याः । अतो बलेन प्राकृतसप्तशत्यादितिरस्कारेण संस्कृतं नीता । यद्वा प्राकृते साधारणजने सम्यगुचितः । अत्यन्त इत्यर्थः । रसः प्रीतिर्यस्याः एतादृश्यपि बलात्कारेण १. हालापरनाम्ना सातवाहनकविना प्रणीतां प्राकृतगाथासप्तशतीमालोक्येयं सा- शती श्रीगोवर्धनाचार्येण प्रणीतेति वाणीत्याचार्यया सूचितम्, ।
आर्यासप्तशती। २३ । संस्कृतं साधुरूपं प्रापिता । एवं च नीचाभिलाषिण्याः सद्वृत्ततासंपादनं पुरुषार्थ इति भावः । निम्नानुरूपनीरा कलिन्दकन्येव । एवं च विवेकशून्यत्वं ध्वन्यते। तेन नीचानुगामि रसशालितायोग्यत्वम् । गगनतलमत्युच्चदेशं नीता। एवं च प्राकृ- तसंस्कृतयोर्भूतलगगनतलतुल्यताप्रतिपादनेन प्राकृतात्संकृतेऽत्यन्ताधिक्यमावेद्यते॥ आर्यासप्तशतीयं प्रगल्भमनसामनाहता येषाम् । दूतीरहिता इव ते न कामिनीमनसि निविशन्ते ॥ ५३ ॥ आयेति । इयमार्याणां सप्तशती येषां प्रगल्भमनसाम् । यैः प्रगल्भमनोभिरि- त्यर्थः । एवं चाप्रगल्भमनोभिरादरेऽनादरे वा कृते न किंचित्फलमिति भावः । दूतीरहिता इव ते न कामिनीमनसि निविशन्ते । एवं चेतोऽन्यन्न किंचिच्चातुर्यजन- कमिति व्यज्यते ॥ रतरीतिवीतवसना प्रियेव शुद्धापि वाङ्मुदे सरसा। अरसा सालंकृतिरपि न रोचते शालभञ्जीव ॥ ५४ ॥ रतरीतीति । रतरीतौ वीतं वसनं यस्याः सा । रसाविर्भावादिति भावः । एवं चालंकारभ्रंशादेः का वार्तेति भावः । प्रियेव शुद्धापि । अनुप्रासोपमायलंकारर- हितापि । वाणी संतोषाय । अत्र हेतुमाह-सरसा शृङ्गारादिमती। पक्षे शृङ्गाररस- वती । रसशून्यालंकृतियुतापि । पक्षे कटककुण्डलयुतापि । शालभञ्जीव प्रतिमेव । न रोचते। एवं च रसस्य प्राणरूपत्वं ध्वन्यते। एवं च निरलंकारस्यापि काव्यत्वमिति मिश्ररुचिनाथमतेन । अत एव ताभ्यां 'मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः । येनैकचुलके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ ॥' इति निरलंकारोदाहरणमभ्यधायि । वस्तुतस्त्वेतदुभयोदाहृतपद्येऽपि सर्वालंकारमौलिमणिरूपातिशयोक्तर्विद्यमानत्वात् । उक्तिवैचित्र्यरूपालंकारविरहे काव्यत्वस्यासंभवात् । 'काव्यं ग्राह्यमलंकारात्' इत्यलं. कारस्य काव्यव्यवहारप्रयोजकत्वाभिधानाच्च । रसवति काव्ये स्फुटालंकारराहि- येऽपि न चमत्कारहानिरिति रसवत्त्वस्याधिक्यप्रतिपादनमात्रे तात्पर्यम् । 'अक- लित-' इत्यादि पद्ये शृङ्गारोत्कर्षमात्रस्य प्राधान्यमित्यर्थः । अत्र तु रसमात्रस्य तदिति भावः ॥ इति श्रीमद्गोदावरीपरिसरालंकृतपुण्यस्तम्भस्थितिविराजमाननीलकण्ठपण्डिततनू. जबालोपण्डितात्मजतिमाजीपण्डिताङ्गजानन्तपण्डितविरचितगोवर्धन- सप्तशतीव्यङ्ग्यार्थदीपने ग्रन्थारम्भोचितव्रज्याव्याख्या समाता । ।
काव्यमाला। अकारव्रज्या। - । । । कश्चिद्यौवनभराक्रान्तां प्रपापालिकामालोक्य तां प्रत्याह- अवधिदिनावधिजीवाः प्रसीद जीवन्तु पथिकजनजायाः। दुर्लञ्चयवमशैलौ स्तनौ पिधेहि प्रपापालि ॥ १॥ अवधीति । प्रपा जलदानस्थानं तद्रक्षणकत्रि । एवं च धार्मिकत्वं व्यज्यते । तेन च पथिकजनजाया न हन्तव्येत्युपदेशदानयोग्यत्वम् । जीवनरक्षणका जीवनविनाशकर्तृत्वमनुचितमिति वा व्यज्यते । प्रसीद । एवं च बलात्कारानहत्वं ध्वन्यते । किं प्रसन्नतायाः फलमित्यत आह-स्तनौ पिधेहि । मार्गान्तरेणानेनैव वा मार्गेण झटिति कुतो न गम्यत इत्यत्र हेतुगर्भ विशेषणमाह-दुर्लयौ च तो वमशैलौ च । एवं च मार्गान्तराभावादुल्लङ्घयितुमशक्यत्वाचैतत्पिधानमावश्यक- मिति द्योत्यते । किं पिधानफलमत आह-अवधिदिनावधि जीवो जीवनं यासांताः पथिकजनजाया जीवन्तु । एवं च त्वत्कुचकनकमहीधरदर्शनलुब्धैः पथिकैरत्रैव कालातिवाहने कृतेऽवधिदिनातिकमे तत्कामिनीजनस्य मरणमेव भविष्यतीति भावः॥ कृतपरिणयान्तरं नायकमसूयमानां नायिका काचिदुपदिशति- अतिवत्सला सुशीला सेवाचतुरा मनोऽनुकूला च । अजनि विनीता गृहिणी सपदि सपत्नीस्तनोद्भेदे ॥ २ ॥ अतीति । गृहिणी प्रथमस्त्री । सपत्नीस्तनप्रादुर्भावे सपदि । एवं च किंचिद्वि- लम्बे को वेद किं भविष्यतीति भीतिशालित्वं ध्वन्यते । अतिस्नेहवती। समीची- नखभावा । सेवानिपुणा । नायकमनोगतकारिणी नम्रा च । जाता । एवं च पूर्व सपत्नीसंपादनदुःखवत्तया न्यूनस्नेहम्, सपत्नीतर्जनादिना दुःशीलताम् , इयमेव सेवां करिष्यतीति सेवामौढ्यम् , अत एव मनःप्रातिकूल्यम् , किं करिष्यत्ययमतः परं ममेत्यविनीततामकरोत् । सपत्नीतारुण्योद्गमसमय एवायमस्यामत्यन्तासक्तः स्यादिति भियातिवात्सल्यादीति भावः । एवं च त्वयाप्येवं विधेयमतोऽधुनासूयादिकरणमनर्थ- कमिति द्योत्यते।यद्वा नायिकाक्लेशशालिनं कंचन कश्चिद्विवाहान्तरकरणमुपदिशति । एवं च सपत्नयां जातायामियमवश्यमत्यन्तानुकूल्यमाचरिष्यतीति ध्वन्यते । काचि- स्कस्याश्चिद्वृत्तं वक्तीति ऋजवः ॥
आर्यासप्तशती। २५ .. Dasena कश्चिद्व्योन्मादवतीं निजकुलद्वेषिणीमन्योक्त्या वक्ति- अयि कूलनिचुलमूलोच्छेदनदुःशीलवीचिवाचाले । बकविघसपङ्कसारा न चिरात्कावेरि भवितासि ॥ ३ ॥ अयीति। अयि । कूलनिचुलस्तीरवृक्षः । यद्वा 'निचुलो हिजलोऽम्बुजः' इत्य- मरावृक्षविशेषः । एवं च तत्प्रतिपालनमुचितमित्यावेद्यते । तस्य यन्मूलोच्छेदनम्। एवं चासयत्वं ध्वन्यते। तत्र दुःशीलास्तत्कारिण्यो लहर्यस्ताभिः कुत्सितबहुभाषिणि । कावेरि । बकस्य । न तु हंसादेः । विघसो भोजनशेषो यः पङ्कः । क्षुद्रमत्स्यादेव- कभुक्तत्वादिति भावः । स एव सारो यस्याः । न चिरात् शीघ्रमेव । भवितासि । एवं च परोपकारकारकस्य खकुलप्रभवस्योन्मादवशान्मम दुःखं ददासि तत्ते दुष्टभोजनावशेषद्रव्यं शीघ्रमेव गमिष्यतीति ध्वन्यते ॥ काचिन्नायिका परपुरुषसंगमाय प्रलोभकारिणी दूतीं प्रत्याह- अयि विविधवचनरचने ददासि चन्द्रं करे समानीय । व्यसनदिवसेषु दूति क पुनस्त्वं दर्शनीयासि ॥ ४ ॥ अयीति । हे दूति । एवं च खकार्यमानसंपादकत्वम् , न त्वन्यदीयाग्रिमाका- यविचारकारित्वमिति द्योत्यते । नानाप्रकारशालिवचनरचने। एवं च प्रलोभनकारि- त्वम् , वञ्चनानिपुणत्वम् , विश्वासानहत्वम् , उत्तरप्रत्युत्तरकरणानर्हत्वं च ध्वन्यते । चन्द्रं समानीय करे ददासि करगोचरं करोषि । असंभाविनमप्यर्थ जातप्रायं कृत्वा प्रदर्शयसीति भावः । व्यसनमपकीर्त्यादि । तत्काले त्वं कुत्र दर्शनीयासि । एवं च त्वया घटनामात्रं कर्तुं शक्यम्, न त्वपकीादिनिवारणमिति भावः । यद्वा भावि- वियोगमीता नायिका संघटनमात्रकारिणी दूती प्रत्याह । विविधवचनरचने इत्यनेन दुष्प्रापोऽपि नायकस्त्वया समानेतुं शक्य इति द्योत्यते । चन्द्रमित्यनेना- हादजनकतयावश्यस्पृहणीयत्वमावेद्यते । व्यसनम् । वियोगदुःखदत्वादिति भावः। त्वं कुत्र दर्शनीयासि । एवं चाग्रे यथा वियोगो न भविष्यति तथा यदि त्वया कर्तु शक्यं तर्हि त्वदुदीरितं संपादयामीति द्योत्यते ॥ अपकीर्त्यादिना वपरित्यागं संभावयन्ती नायिकां दूती समाधत्ते- अस्तु म्लानिलोंको लाञ्छनमपदिशतु हीयतामोजः । तदपि न मुञ्चति स त्वां वसुधाछायामिव सुधांशुः ॥ ५ ॥ अस्त्विति । म्लानिनिस्तेजस्कत्वमस्तु । जनो लाञ्छनमपवादम्। पक्षे - ।
काव्यमाला। कलकं वदतु । ओजः । यद्वशात्सर्वेऽपि बिभ्यति । पक्षे प्रसादविशेषः । हीय- ताम् । तदपि स नायकः । सुधांशुर्भूछायामिव । एवं च त्यागानहत्वं ध्वन्यते। पक्षे सुधांशुतुल्यः । एवं च स्पृहणीयत्वमावेद्यते । त्वां न मुञ्चति त्यक्ष्यति। यद्वा पूर्वोत्तरमेतत् ॥ मामियं दुर्वचनैर्दुःखयतीति वादिनं नायकं प्रति नायिकासखी तवैवायमपराधो न त्वस्या इति वक्ति- अतिचापलं वितन्वन्नन्तर्निविशन्निकामकाठिन्यः । मुखरयसि खयमेतां सद्वृत्तां शङ्कुरिव घण्टाम् ॥ ६ ॥ अतीति । अन्तर्निविशन्हृदयमध्ये प्रविशन् । तया खान्ते धृतोऽपीत्यर्थः । यद्वा प्रथमतः साधुत्वं प्रदर्य हृदयं प्रविश्यैतादृशाचरणं करोषीत्यत्यन्तानुचितका- रित्वं तवेत्यर्थः । पक्षेऽन्तमध्ये । अतिचापलमन्यनायिकासंभोगादिरूपम् । पक्षे निरन्तरसंयोगविभागरूपं विस्तारयन् । एवं चाज्ञानक्षमानहत्वं द्योत्यते । निकाम- मत्यन्तं काठिन्यं कठिनत्वं यस्य सः । एवं च चापल्यसंपादनेऽपि नम्रत्वं न करोषीति दुःखदस्त्वमसीति द्योत्यते । पक्षे काठिन्यमवयवसंनिवेशविशेषः । यद्वान्तः सदनमध्ये । एवं बहिःस्थितौ चापल्यं करोषि, सदनमध्ये तु कार्कश्यमित्युभय- तोऽपि दुःखदस्त्वमिति द्योत्यते । स्वयं त्वमेव । सद्वृत्तां सच्चरिताम् । एवं च तवासच्चरितं विलोक्यावश्यमेतस्या दुःखं भवतीति भावः । पक्षे समीचीनवर्तुला लोहकीलो घण्टामिवैनां मुखरयसि । एवं च तवैवायमपराधो न तस्या इति भावः ॥ क्वचिद्यूनोः संकेतनिकेतनाभावादेव न संगम इति कश्चित्कंचिद्वति- अङ्गेषु जीर्यति परं खञ्जनयूनोमनोभवप्रसरः। न पुनरनन्तर्मितनिधिनि धरामण्डले केलिः ॥ ७ ॥ अङ्गेष्विति । खञ्जनयूनोः परमुत्कृष्टं मनोभवस्य । एवं च सर्वत्र बाधाकारित्वं ध्वन्यते। प्रसर आधिक्यमङ्गेषु जीर्यति समाप्तं भवति । यद्वा परं केवलं जीर्य- तीति योजना । परं तु नान्तर्गर्भितो निधिर्यत्रैतादृशे धरामण्डले केलिन । निधि- मत्प्रदेश एव खञ्जनयोः संभोग इति प्रसिद्धिः। यद्वा सख्यत्यन्तगुप्तसंकेतं विना नैव कार्य कार्यमिति नायिकामुपदिशति । खञ्जनयूनोरित्यादिना तिर्यग्जातिमत्तया १. 'तसिन्निधिर्भवति मैथुनमेति यस्मिन्' इति बृहत्संहिता ( ४५।१२). 'यत्रा- वनौ खञ्जनको विधत्ते रतं भवेत्तत्र महानिधानम्' इति वसन्तराजः (१०१२५). Moun आर्यासप्तशती। . विवेकशून्यत्वेऽपि प्रचुरतरमन्मथविकारवत्त्वेऽप्यत्यन्तगुप्तस्थलप्राप्तिं विना खञ्जन- योरपि न रतिस्तत्र किमु वाच्यं भवादृश्याः । समीचीनपरीक्षितसंकेतस्थलं विना रति!चितेति ध्वन्यते । यद्वा मन्मथविकलतया सद्यः संभोगमपेक्षमाणं नायक नायिका वत्तीत्यपि प्रतिभाति । कश्चित्कंचिदुपदिशति- अन्धत्वमन्धसमये बधिरत्वं बधिरकाल आलम्ब्य । श्रीकेशवयोः प्रणयी प्रजापति भिवास्तव्यः॥८॥ अन्धत्वमिति । अन्धसमये क्रीडाकाले । अवलोकनानर्हत्वादिति भावः । अन्धभावम् । बधिरकाले क्रीडाकालीनब्रीडाकरवाक्यकाले । 'यथैः पदैः पिशुन- येच रहस्यवस्तु' इत्यादिना रतारम्भकालेऽश्लीलपदाभिधानस्य कामशास्त्रेऽभिधा- नात् । बधिरभावमालम्ब्य । प्रजानां पतिः । एवं च महद्भिरप्येतादृशरीत्या स्थीयते तत्र का वार्तान्यस्येति भावः । श्रीकेशवयोः । एवं चैतादृशसंनिधिः स्नेहश्च दुष्प्राप इति ध्वन्यते । प्रणयी प्रीतिमान् । नाभिर्मध्यस्तत्र वसतिमान् । केशव- नाभिवसतिमत्त्वाच्छीकेशवयोः सुरतसमयेऽपि ब्रह्मणो मध्यवर्तित्वमिति भावः । यद्वा नाभौ सविधे वास्तव्यं यस्य । एवं चातिनैकट्यं ध्वन्यते । अथवा नाभिव- सतिमान् । उभयोः प्रणयी जात इत्यर्थः । यद्वोभयोर्नित्यसांनिध्यात्प्रजापतावुभय- सांनिध्यम् । एतेन नाभिरवयवविशेष इत्यर्थे केशवसंबन्धवत्त्वेऽपि श्रीसंबन्धाभाव इत्यपास्तम् । एवं च निकटवसतिमात्रं न पुरुषार्थः, किं तु प्रीतिविशिष्टनिकटव- सतिरिति भावः । एवं च प्रभ्वादिसविधे प्रभ्वादिप्रीतिविशिष्टनिकटवसतिकामस्त्व- मसि, त_नयैव रीत्या तिष्ठेति ध्वन्यते ॥ मूर्खसविधकृतपाण्डित्यमनवाप्ततत्फलतया खिन्नं कश्चिदन्योक्त्या समाधत्ते-- अयि कोषकार कुरुषे वनेचराणां पुरो गुणोद्वारम् । यन्न विदार्य विचारितजठरस्त्वं स खलु ते लाभः ॥ ९ ॥ अयीति । कोषकारः कीटविशेषः । वनेचराणाम् । एवं च कार्याकार्यविवेक- विधुरत्वं ध्वन्यते । पुरः । गुणानां तन्तूनामुद्गिरणं कुरुषे । यद्विदार्य । एवं च पश्चात्प्रतीकारानहत्वं व्यज्यते । विचारितमुदरं यस्य सः । कुत एते गुणा निःसर- न्तीति विचारणायेति भावः । त्वं नासि खलु स ते लाभः । एवं च मूर्खाणामग्रे गुणप्रकटनं न केवलमप्राप्तिकरम् , अपि त्वनर्थकरमिति ध्वन्यते ।। । ।
काव्यमाला। । - दूती नायिकाप्रेमातिशयं नायके वक्ति- अगणितमहिमा लञ्चितगुरुरधनेहः स्तनंधयविरोधी । इष्टाकीर्तिस्तस्यास्त्वयि रागः प्राणनिरपेक्षः ॥ १० ॥ अगणितेति । अगणितो महिमा कुलप्रतिष्ठा येन । महिमपदेनावश्यस्पृहणी- यत्वं व्यज्यते । लङ्घितो गुरुः श्वशुरादिन । तन्निषेधतिरस्कारादिति भावः। न विद्यते धनेच्छा यस्य । स्तनंधयोऽत्यन्तबालः । एवं चातिनेहार्द्रत्वं ध्वन्यते तद्विरोधी। प्रसवोत्तरमचिरात्संभोगे स्तन्यहानिर्भवतीति लौकिकम् । इटेच्छावि- षयीभूताकीर्तिर्यस्य । एवं चाकीर्तिभीतिशून्यत्वं ध्वन्यते । एतादृक्तस्यास्त्वयि रागः । प्राणनिरपेक्षः प्राणापेक्षाशून्यः । एवं चातिशयशालित्वं व्यज्यते॥ कृतापराधं समाधानायारब्धकपटं नायक नायिका वक्ति- अपराधादधिकं मां व्यथयति तव कपटवचनरचनेयन् । शस्त्राघातो न तथा सूचीव्यधवेदना यादृक् ॥ ११ ॥ अपराधादिति । अपराधादन्याङ्गनासंगमरूपात् । त्वद्वेषणार्थमेव तत्र गतमित्यादिकपटवचनरचना मामधिकं व्यथयति । एवं च सत्यभाषित्वेऽपराधोऽपि क्षन्तुमर्ह इत्यावेद्यते । महतोऽपराधस्य नात्यन्तदुःखदत्वम् , अल्पायाः कपटवचनर- चनायाः कथमत्यन्तदुःखदत्वमित्यत्र दृष्टान्तमाह-शस्त्राघातः।आघातपदेनासह्यत्वं व्यज्यते । न तथा व्यथयति यथा सूच्या व्यधः सीवनं तदुःखम् । एवं च सूचीकृतत्वेन नाल्पत्वमाशयमिति भावः । यद्वा साधारण्येनोक्तिरियम् ॥ कयोश्चिद्गच्छतोरसतीकटाक्षितमेकं दृष्ट्वा परेण 'ज्ञातं सर्वमिदं मया' इत्युदी- रिते 'न किंचित्त्वया ज्ञातुं शक्यम्' इत्यपरस्तं प्रत्याह- असतीलोचनमुकुरे किमपि प्रतिफलति यन्मनोवर्ति । सारखतमपि चक्षुः सतिमिरमिव तन्न लक्षयति ॥ १२ ॥ असतीति । असत्या लोचयति तल्लोचनम् । एवं चेतस्ततः प्रसरणशीलत्वं ध्वन्यते । तद्रूपमुकुरे । मुकुरपदेन मङ्गलस्वेनावश्यदर्शनीयत्वं व्यज्यते । क्रिमप्य- निर्वचनीयम् । मनोवति । असत्या एवेति भावः। यद्वा किमपि न लक्षयतीति योजना । मनोवर्तीत्यनेनातिसूक्ष्मत्वम् । तेन च बहिः स्फुटीभावानर्हत्वं द्योयते । यत्प्रतिफलति तत्सारखतमपि चक्षुः । सरखतीयत्वेनातीतायतवस्तुग्रहणयोग्यत्वं । । .
आर्यासप्तशती। , ध्वन्यते । सतिमिरमिव तिमिराख्यदोषदूषितमिव । न लक्षयति । सप्रकारं न वेत्तीति किं वाच्यमिति भावः । एवं च सारखतचक्षुषोऽप्येतादृशी गतिः, तत्र का वार्ता तवेति भावः । एवं चासतीलोचनव्यक्तीकृतमपि न ज्ञातुं शक्यम्, तत्र का वार्ता तच्चित्तगतमिति ध्वन्यते । यद्वा केवलं पण्डितं कटाक्षयन्तीमसतीमा- लोक्य तं प्रति काचिदन्या वक्ति । सारखतं ज्ञानरूपं चक्षुस्तं न लक्षयत्यपि । एवं च याथातथ्येन खरूपपरिचितिर्दूरापास्तेति भावः । एवं च कटाक्षितमपि न खया ज्ञायते । इत्यन्तर्जडत्वेन सर्वमपि त्वदीयाध्ययनमसत्कल्पमिति ध्वन्यते ॥ नायकदुर्वादकुपितां नायिका सखी समाधत्ते- अन्यमुखे दुर्वादो यः प्रियवदने स एव परिहासः । इतरेन्धनजन्मा यो धूमः सोऽगुरुभवो धूपः ॥ १३ ॥ अन्येति । अन्यस्याप्रियस्य मुखे यो दुर्वादो दुर्वचनम् । प्रियस्य दयितस्य मुखे स एव दुर्वाद एव । स एवेत्यनेनान्यूनानतिरिक्तत्वं ध्वन्यते । परिहासः सनिन्दरञ्जकं वाक्यम् । अत्र दृष्टान्तमाह-अगुरुभिन्नेन्धनजन्मा यो धूमः स रूपान्तरापन्नोऽगुरुसंभवो धूपः । एवं चायं न दौष्ट्येन वदति, किं तु कुतुकेन । नातः कोपो विधेयस्त्वयेति ध्वन्यते । यद्वा साधारणोक्तिरियम् । अत्रैव विपरी- तयोजनयाप्रियवदनविनिःसृतवचनं समीचीनमप्यसमीचीनमेवेति व्यज्यते । एवं च प्रेम्णो मुख्यत्वमावेद्यते । कथमेतदीयैतादृशवचनमाकर्ण्य तूष्णीं स्थीयते त्वयेति वादिनीं सखी नायिका समाधत्त इति वार्थः ॥ दुष्टखभावं नायक नायिकासखी वक्ति- अयि सुभग कुतुकतरला विचरन्ती सौरभानुसारेण । त्वयि मोहाय वराकी पतिता मधुपीव विषकुसुमे ॥ १४ ॥ अयोति । सुष्टु भाग्यं यस्य तत्संबुद्धिः । कथमन्यथैतादृशी नायिका त्वय्या- सक्तेति भावः । कुतुकार्थम् । न तु लोभार्थमिति भावः । तरला । सुभगस्य कुतु- केन तरला । सौरभं समधिकगुणवानिति कीर्तिः । तदनुसारेण विचरन्ती। एवं च त्वत्वभावस्य न तात्त्विकं ज्ञानं तस्या इति भावः । यद्वा सौरभानुसारेण स्वकी- तिसंरक्षणपुरःसरं विचरन्ती । पक्षे स.गन्ध्यानुसारेण । विषकुसुमे । कुसुमपदे- नावश्यफलजनकतायोग्यत्वं ध्वन्यते । मधुपीव । एवं च ज्ञानशून्यत्वं व्यज्यते । त्वयि वराकी । एवं च सरलत्वं ध्वन्यते । मोहाय दुःखाय । एवं चान्यफलाभावो । RA । ।
३० काव्यमाला। । योत्यते । पक्षे वैचित्त्याय । पतिता । एवं च दैववशादेतादृशं कार्य तया कृतम्, त्वं चैतादृशाचरणशालीति दुःखातिशयो वन्यते॥ कस्याश्चित्सविधे कस्यचित्तरुणमहाजनस्य गामनसंभावनयान्यतरुणविरतावप्याति- जरद्वयोभिः सा भुज्यत इति कश्चित्कंचित्प्रत्याह- अयि मुग्धगन्धसिन्धुरशङ्कामात्रेण दन्तिनो दलिताः । उपभुञ्जते करेणूः केवलमिह मत्कुणाः करिणः ॥ १५ ॥ अयोति । अयि । मुग्धः सुन्दरो यो गन्धगजः । यद्गन्धमात्रादेव गजाः पलायन्ते स गन्धगजः तच्छङ्कामात्रेण । न तु दर्शनादिनेति भावः । दन्तयुक्ता गजा दलिता भन्नाः । पलायिता इत्यर्थः । मत्कुणा दन्तरहिताः करिणः केवलं करेणूहस्तिनीरुपभुञ्जते ॥ बहिः कृत्रिमातिशयलज्जावत्त्वेऽप्यत्यन्तदुष्टेयमिति काचित्कांचित्प्रति वक्ति-- अतिविनयवामनतनुर्विलङ्घते गेहदेहलीं न वधूः । अस्याः पुनरारभटी कुसुम्भवाटी विजानाति ॥ १६ ॥ अतीति । अत्यन्तविनयेन वामनवत्तनुर्यस्याः। एवं च त्रिविक्रमावतारकर्म- करणसामर्थ्यमभिव्यज्यते । वधूर्गेहदेहली न लवते । एवं च लजातिशयः सूच्यते । अस्याः पुनरारभटीं प्रौढिविशेषं कुसुम्भवाटी विजानाति । तत्रैतस्या निर्लज्जत्वं द्रष्टव्यमिति भावः । एवं च सदन एवं विनयं प्रदर्श्व गुर्वा दिवञ्चनेन कुसुम्भवाय्यां कं कं न परपुरुषमुपभुत इति ध्वन्यते । यद्वा न केवलमेतस्या लज्जावत्त्वदर्शनमात्रेण भवद्भिर्विश्वसितव्यमिति ध्वन्यते ॥ पररञ्जकगुणानामेव गुणत्वम् , न त्वरजकानामित्याह- अन्तर्गतैर्गुणैः किं द्वित्रा अपि यत्र साक्षिणो विरलाः । स गुणो गीतेर्यदसौ वनेचरं हरिणमपि हरति ॥ १७ ॥ अन्तरिति । येषु द्वित्रा अपि साक्षिणो विरलाः । एवं च बहुसाक्षित्वेऽत्य- न्तप्राशस्त्यमिति भावः । तैरन्तर्गतै रञ्जनासमथैर्गुणैः किम् । न किंचित्फलमिति भावः । गीतेः स गुणः । एवं च गुणे गुणानङ्गीकारेऽपि पररञ्जकतया गीतेरपि गुणवत्ताव्यवहार इति भावः । यदसौ वनेचरम् । एवं च ग्रामसंबन्धाभावेन मधु- रशब्दरसानभिज्ञत्वं ध्वन्यते । हरिणमपि । एवं च मनुष्याणां का वार्तेति भावः । हरति खाधीनताभाजनं करोति । यद्वा वनेचरमपि । एवं च नागरिकस्य का HTRA MARRIANTARIES आर्यासप्तशती। ३ । । वार्तेति भावः । अथ च प्रकटीकृतगुणानामेव सार्थक्यम्, न त्वन्तर्गतानामिति भावः । यद्वा दूती नायकान्तरसंयोजनाय नायिका वक्ति। अन्तर्गतानेककामक- लाभिः । त्वदीयाभिरिति भावः । यत्र येषु गुणेषु द्वित्रा अपि । एवं च बहूनां का वातेति भावः । साक्षिणो विरलाः । गीतिरिव गीतिस्त्वत्प्रतिवेशिनी । तस्याः स गुणो यदसौ वनेचरं हरिणमपि हरति । एवं च तस्या एव कलाकलापः सार्थकः । याज्ञमपि रजयति । एवं च त्वया स्वगुणाः परपुरुषसंगतिमन्तरानर्थका न विधेया इति ध्वन्यते॥ नायिकासखी सपत्नीसखीं प्रति वक्ति- अलुलितसकलविभूषां प्रातर्बालां विलोक्य मुदितं प्राक् । प्रियशिरसि वीक्ष्य यावकमथ निःश्वसितं सपत्नीभिः ॥१८॥ अलुलितेति । यथास्थितसकलभूषणम् । एवं च संभोगेऽवश्यं कस्यचिद्भूषण- स्योपमर्दः संजात एव स्यात्, तस्मान्न सुरतं संजातमिति भावः । बालाम् । एवं च यौवनशालित्वेन द्वेषयोग्यत्वं प्रियस्य प्रीतियोग्यत्वं च ध्वन्यते । प्रातः । एवं च सुर- ताभावनिर्णययोग्यत्वं ध्वन्यते । विलोक्य । एवं च सम्यक्तया संभोगराहित्यनिर्णय- वत्ता ध्वन्यते । सपत्नीभिः । एवं च द्वेषशालित्वं व्यज्यते। बहुवचनेन सर्वासामैक- मत्ये नायिकायामुत्कर्षातिशयो ध्वन्यते । प्राङ् मुदितम् । संभोगविरहेण प्रियप्रे- मराहित्यनिर्णयेनेति भावः । अथानन्तरं प्रियमस्तके यावकमलक्तकं वीक्ष्य निःश्व- सितम् । प्रियप्रणामादिनापि नानया मानः परित्यक्त इति महत्सौभाग्यमस्या इत्य- सूयया दुःखोद्रेकादिति भावः ॥ रात्रौ रतिसदने गमनेऽतिलज्जा नाटयन्ती नायिकां सखी प्रातर्वक्ति- अयि लज्जावति निर्भरनिशीथरतनिःसहाङ्गि सुखसुप्ते । लोचनकोकनदच्छदमुन्मीलय सुप्रभातं ते ॥ १९ ॥ अयीति । अयि लज्जावति । विपरीतलक्षणया लज्जाशून्ये । अत एव निर्भर मतिशयशालि निशीथे मध्यरात्रे । एवं च प्रातर्निद्राजननयोग्यत्वं द्योत्यते । यद्तं तेन सालसाङ्गि सुखसुप्ते । एवं च क्लेशेन निद्रितं मयेति प्रतारणं कर्तुमशक्यमिति ध्वन्यते । लोचनकोकनदच्छदम् । जागरशोणत्वात्कोकनदत्वेन निरूपणम् । अत्र च्छदपदमनुचितमित्याभाति, विकसनस्योत्पलधर्मत्वात् । वस्तुतस्तु गोलके कोकन- दत्वारोपः । पक्ष्मयुक्तप्रदेशयोदलत्वारोपः । उन्मीलनं च विश्लेष इति न किंचिह्न- । । ।
३२ काव्यमाला। । - । षणम् । 'रक्तोत्पलं कोकनदम्' इत्यमरः । उन्मीलय । ते सुप्रभातं भवतु । एवं च सुरात्रस्य जातत्वादेतावन्मात्रमाशास्यमिति भावः । एवं च यया रीत्या रात्रि- रतिवाहिता तयैव रीत्या दिनमप्यतिवाहनीयमिति परिहासो व्यज्यते ॥ कश्चिदसमय एव रतमर्थयमानः कयाचिन्नायिकया रतचिह्नोत्पत्तिभिया तदीय- प्रेमहठाभ्यां केवलमालिङ्गितस्तद्वृत्तान्तं स्ववयस्यं प्रत्याह- अमिलितवदनमपीडितवक्षोरुहमति विदूरजघनोरु । शपथशतेन भुजाभ्यां केवलमालिङ्गितोऽस्मि तया ॥२०॥ अमिलितेति । असंयुक्तवदनम् । ताम्बूलरागापगमभीयेति भावः । अपी- डितवक्षोरुहम् । चन्दनप्रच्यवभीत्येति भावः । अपीडितमित्यनेन किंचित्कुच- संबन्धो वृत्त इति व्यज्यते । तेन कुचयोरत्यन्तोन्नतत्वम् । अतिविदूरजघनोरु । काझ्यादिविन्यासान्यथाभावसंभावनयति भावः । एतानि क्रियाविशेषणानि । तया केवलं शपथशतेन । एवं च केवलपदेनालिङ्गनेऽन्यप्रबलहेत्वभावो द्योत्यते । शप- थपदेनापरिहार्यत्वम् । शतपदेन स्वाग्रहवाहुल्यम् । यत्तु केवलमालिङ्गितोऽस्मीति व्याख्यानं तदमिलितवदनमित्यादिनैव चुम्बनायभावप्रतीतो केवलपदानतिप्रयोजन- त्वसंपादकतया केवलमकिंचित्करमाभाति । अत एव केवलं भुजाभ्यामित्यपास्तम् । भुजाभ्यामालिङ्गितोऽस्मि । यद्वा कश्चित्किंचिद्भग्नमानवत्या वृत्तं वक्ति । यदि मया- पराधः कृतः स्यात्तदायमयं शपथ इति शपथशतेन । अथवा विस्तब्धनवोढावृत्तं कश्चिद्वक्ति ॥ कश्चित्कांचिद्वक्ति- अतिपूजिततारेयं दृष्टिः श्रुतिलङ्घनक्षमा सुतनु । जिनसिद्धान्तस्थितिरिव सवासना कं न मोहयति ॥ २१ ॥ अतीति । हे सुतनु । अतिपूजिता । श्रेष्टेति यावत् । तारा नेत्रकनीनिका । पक्षेऽत्यन्तपूजिता ताराख्या देवता यत्र । श्रुतेः कर्णस्योल्लङ्घनसमर्था । अत्यन्तवि- शालत्वादिति भावः । पक्षे वेदोदीरितार्थाननुष्ठानकारिणीत्यर्थः । सवासनाभिप्राय- विशेषशालिनी । कजलादिसंस्कारवतीति केचित् । पक्षे तन्मतसिद्धक्षणिकपदाथै- करूपकुबुद्धथुत्पादकहेतुमती। जिनसिद्धान्तस्थितिरिव कं न मोहयति । अपि तु सर्वमपीति भावः । यद्वा सखीवचनमेतत् ॥ । WINNAMONE . ।
आर्यासप्तशती। । । Sameertant कृतरतिलज्जासाध्वसां नवोढा नायिका प्रलोभयितुं कस्याश्चिद्वार्ता संखी वक्ति- अलमविषयमयलज्जावञ्चितमात्मानमियमियत्समयम् । नवपरिचितदयितगुणा शोचति नालपति शयनसखीः ॥२२॥ अलमिति । नवपरिचितदयितगुणा । नूतनविज्ञातदयितरतिसुखेत्यर्थः । इयं त्वत्प्रतिवेशिन्येतावत्कालमस्थानलजाभयाभ्यां वञ्चितम् । एवं चात्र न लज्जा न वा भीतिरिति भावः । आत्मानमलमत्यर्थ शोचति । यद्वालमिति वञ्चितमित्यत्रान्वेति । एतावत्कालं वृथा स्थितमिति धियेति भावः । शयनसखी लपति । अतिनिकटव- तिनीभिरेताभिः कथं नाहमीदृशं सुखमस्त्यति बलादवबोधितेति क्रोधादिति भावः । यद्वाग्रेऽपि कदाचिदेताभिर्यानविधानं शिक्षणीयमिति भावः। एवं च तवाप्यग्र एवमेव भविष्यतीत्यतोऽधुनास्मद्वचनेन लज्जाभयादि परित्यज्य प्रिय- संनिधौ गच्छेति ध्वन्यते ॥ नायकं प्रति नायिकाविरहं सखी वक्ति- अनुरागवर्तिना तव विरहेणोग्रेण सा गृहीताङ्गी । त्रिपुररिपुणेव गौरी वरतनुरर्धावशिष्टैव ॥ २३ ॥ अनुरागेति । अनुरागाधीनेन । एवं चानुरागाधिक्ये विरहाधिक्यमिति ध्वन्यते । पक्षेऽनुरागेण प्रीत्या वर्तते । एवं च सर्वदा प्रीतिजनककार्यकारित्वं ध्वन्यते । उग्रेण । एवं चासह्यत्वं ध्वन्यते। पक्ष उग्रनाम्ना । तव विरहेण गृहीतानी व्याप्ताङ्गी। पक्षे खस्वरूपकृताङ्गी । त्रिपुररिपुणा महादेवेन । पक्षे स्वर्गमृत्युपातालवै- रिणा । एवं च तव विरहे क्वापि न तस्याः सुखमिति व्यज्यते । गौरी पार्वतीव । पक्षे विरहपाण्डुरवर्णवती । वरतनुर्नायिका । एवं चावश्यग्राह्यदर्शनयोग्यत्वं व्यज्यते । अर्धावशिष्टैव । विरहक्षीणत्वादिति भावः । पक्षेऽर्धनारीश्वरत्वादिति भावः । एवं च त्वत्संगमविलम्बे तस्याः प्राणविश्लेष एव भविष्यतीति चोयते ॥ काचिन्नायिका स्वात्यन्तासचनायकेच्छावदन्यनायिका उपहसति- अन्यप्रवणे प्रेयसि विपरीते स्रोतसीव विहितास्थाः । तगतिमिच्छन्त्यः सखि भवन्ति विफलश्रमा हास्याः ॥ २४ ॥ अन्येति । विपरीते निम्नानुगामिनि । स्रोतसीव प्रवाह इव । अन्यप्रवणेऽन्या- सक्के नायके विहितास्थाः कृतासक्तयः तद्वति तदासक्तिम् । खस्मिन्निति भावः । ३आ० स० । । ।
काव्यमाला। । RA पक्षे सा विपरीता या गतिर्गमनं तामिच्छन्त्यः । विफलश्रमाः । स्वनिष्ठतदासक्ते- •रीकर्तुमशक्यत्वादिति भावः । पक्षे प्रतिलोमजलागमनाभावादिति भावः । हास्या निन्दायोग्याः । पक्ष उपहासयोग्याः । न केवलं निरर्थकम् । अपि तु दुरर्थकत्व- मिति भावः । एवं च निम्नानुरूपगतिखभावस्य प्रवाहस्य विपरीतगतिरिवान्यनायि- कासक्तनायकस्यान्यत्रासक्तिरसंभाविनीति द्योत्यते । नायिका चेयं गर्विता । यद्वा खीया परकीयां निन्दति । एवं च स्वकान्तासक्तिः खाभाविकीति भावः । अथवा- न्यनायिकासक्तं स्वनायकं कथं न स्वाधीनताभाजनं करोषीति वादिनी सखीं काचिद्वक्ति । एवं च यथा नीचानुगामिनः प्रवाहस्य परावृत्तिरशक्या तद्वत्पराङ्गना- लम्पटनायकस्येति ध्वन्यते॥ नायिकाविरहातिशयं सखी नायकं वक्ति- अधिकः सर्वेभ्यो यः प्रियः प्रियेभ्यो हृदि स्थितः सततम् । स लुठति विरहे जीवः कण्ठेऽस्यास्त्वमिव संभोगे ॥ २५ ॥ अधिक इति । सर्वेभ्य एकादशेन्द्रियेभ्यः पञ्चप्राणेभ्यः पञ्चभूतेभ्यश्च योऽधिकः । संघातरूपत्वेनेति भावः । वस्तुतस्त्वेतदतिरिक्त इत्यर्थः । प्रियेभ्यो रूपादिविषयेभ्यः प्रियः । निरुपाधिकप्रेमास्पदत्वादिति भावः । पक्षे सर्वेभ्यः सुहृ- योऽधिकः । यद्वा सर्वेभ्यः प्रियेभ्योऽधिकः प्रिय इति योजना । सततं हृदि स्थितः । हृदयस्थानत्वाजीवस्येति भावः। पक्षे सर्वदा चिन्तनीयत्वेनेति भावः । संभोगे त्वमिव त्वद्विरहे स जीवः । अस्या इति प्रत्यक्षवनिर्देशः खसंनिधिवर्तित्वेन स्वाधीनत्वं व्यनक्ति । कण्ठे कुठति । एवं च त्वद्दर्शनविरहेऽस्याः प्राणप्रयाणमचि- रादेव भविष्यतीति द्योत्यते । यद्वा पुनदर्शने मा विलम्ब कृथा इति नायिकासखी नायकं वक्ति । यथैतत्कालीनसंभोगे त्वमेतस्याः कण्ठे लुठसि तथा त्वद्विरहे जाते सति जीवो लुठति । लुठिष्यतीति भावः । एवं च यथा न त्वद्विरहोऽस्या भविता तथा विधेयमिति प्रार्थना ध्वन्यते ॥ सर्वदा पराङ्गनासक्तमप्येनं मावमानय, यत इतोऽयं गमिष्यतीति वादिनी सखीं काचिन्नायिका वक्ति- अनयनपथे प्रिये न व्यथा यथा दृश्य एव दुष्प्रापे । म्लानैव केवलं निशि तपनशिला वासरे ज्वलति ॥ २६ ॥ अनयनेति । प्रिये कान्तेऽनयनपथे। विदेशस्थ इत्यर्थः । तथा न व्यथा यथा ।
आर्यासप्तशती। - Ans दृश्य एव दुष्प्रापे । एवं चैतद्विदेशगमने न तथा दुःखं यथैतदन्नत्यान्यादृशाचरणे- नेति भावः । यद्वा कांचित्कथमियन्ति विरहदिनान्यतिवाहितानि, अधुनैवागतमेन- मवलोक्य विकलैव जातासीति वादिनी सखीं वक्ति । प्रिये, न तु पतिमाने। न तथा व्यथा । एवं चानयनपथेऽपि दुःखमस्तीति भावः । एवं च निकटवर्तिनाय- काप्राप्तौ नायकीयविदेशगमनादपि दुःखातिशयो ध्वन्यते । अत्र दृष्टान्तमाह- निशि तपनशिला केवलं म्लानैव वासरे ज्वलति ॥ सखी नायिका शिक्षयति- अविभाव्यो मित्रेऽपि स्थितिमात्रेणैव नन्दयन्दयितः । रहसि व्यपदेशादयमर्थ इवाराजके भोग्यः ॥ २७ ॥ अविभाव्य इति । मित्रेऽपि। किमु वाच्यं शत्राविति भावः । यद्वा सूर्ये । विभावना)ऽपि न। एवं च रात्रावेव द्रष्टव्य इति भावः। स्थितिमात्रेणैव नन्द- यन् । एवं चोपभोगाद्यभावो व्यज्यते। दयितो नायकः । पक्षे प्रीतिविषयः । रहसि । एवं च जनसंचारायोग्यत्वेनात्यन्तनिगूहनीयत्वं द्योत्यते । व्यपदेशाध्या- जात् । अर्थ इव द्रव्यमिव । अराजके। एवं च नायकस्य धनाढ्यत्वं ध्वन्यते । पक्षे लुण्ठनभीतिरावेद्यते । भोग्यः । नायिका चेयं परकीया ॥ बह्वपराद्धं त्वयति नायिका वक्तीति सखीवचनमाकर्ण्य खयमेव कश्चिन्नायिका वक्ति- अश्रौषीरपराधान्मम तथ्यं कथय मन्मुखं वीक्ष्य । अभिधीयते न कि यदि न मानचौराननः कितवः ॥ २८॥ अश्रौषीरिति । ममापराधानश्रौषीः। एवं चापराधेषु चाक्षुषविषयत्वाभावो व्यज्यते। तेन नियतमपराद्धमनेनेति निश्चयकरणमनुचितमिति । इदं तथ्यमिति सोल्लुण्ठवचनम् । मन्मुखं वीक्ष्य कथय । एवं च मुखदर्शनोत्तरमनया न किंचि- द्वक्तुं शक्यमिति भावः। यद्वा सत्यं कथयेति योजना । एवं च बहवोऽपराधास्त्वया श्रुतास्तन्मध्ये यः सत्यत्वेन निर्णीतस्तमेव मत्समक्षं वदेत्यर्थः । मदीयापराधास्त्वया श्रुताः, इदं मत्समक्षं तथ्यं वदेति वार्थः । नायिका वक्ति। यदि कितवो धूर्तस्त्वम् । एवं च चौरसाहचर्य नियतमिति द्योत्यते। मानस्य चौररूपमाननं यस्य स न स्यात्तदा किं नाभिधीयते । एवं च त्वद्दर्शने न मया किमपि वक्तुं शक्यमिति ध्वन्यते । यद्वाभिधीयते न किमित्यादि सखीवचनम् ॥ । । - काव्यमाला। N कयोश्चिदनुरागं कश्चिद्वक्ति- अन्योन्यमनु स्रोतसमन्यदथान्यत्तटाचटं भजतोः । उदितेऽर्केऽपि न माघस्नानं प्रसमाप्यते यूनोः ॥ २९ ॥ अन्योन्यमिति । प्रशस्त स्रोतोऽम्बुसरणं यस्मिंस्तत्स्रोतसम् । अर्शआदि. त्वात्प्रशंसायामच । एतादृशं तटादन्यत्तटम् , अथान्यत्तटमनुलक्ष्यीकृत्य परस्पर भजतोः। एवं चैतत्तटापेक्षयान्यत्तटं प्रशस्तप्रवाहवृदिति व्याजेन परस्परनिमृत. संभाषणादीच्छावतोरिति भावः । एवं च जनदर्शनशङ्कया नैकत्रावस्थितिरिति ध्वन्यते। यूनोः। एवं चैतादृशावस्थायोग्यत्वं द्योलते। अर्के सूर्य उदितेऽपि माघस्नानं न प्रसमाप्यते । एवं च माघस्नानस्य सूर्योदयकालीनत्वेन तदननुसंधान- त्वेनात्यन्तासक्तिरावेद्यते॥ कश्चिद्यौवनशालिनी नायिकामन्योक्त्या दुर्जनसंगतिशालिनी त्वमस्माकमनुपयु- तेति वक्ति- अयि चूतवल्लि फलभरनतानि विष्वग्विकासिसौरभ्ये । श्वपचघटकर्पराका त्वं किल फलितापि विफलैव ॥ ३० ॥ अयीति । अयि चूतवल्लि फलभरैर्नमिताङ्गि । पक्षे स्तनभरनताङ्गि । विष्व- क्सर्वतो विसार सौरभं सौगन्ध्यं यस्याः । पक्षे सौरभ्यं कीर्तिः । एवं च नाहमी. दृशीति न वक्तव्यमिति भावः । श्वपचाश्चाण्डालास्तेषां घटसंबन्धिकपराणामङ्कश्चिह यस्याः । सूक्ष्मस्यापि रसालस्यैतद्दोहदेनाचिरादेव फलोत्पत्तिर्भवतीति दोहदवित्त- सिद्धिः । एवं च चाण्डालसंबन्धादनुपयुक्तत्वमावेद्यते । पक्षे दुर्जनसङ्गशालित्वम् । फलितापि निश्चितं विफलैब । समीचीनजनोपभोगानहत्वादिति भावः ॥ प्रतिष्ठापुरःसरं खल्पमपि जीवनं समीचीनमिति कश्चिद्वक्ति- अञ्जलिरकारि लोकैानिमनास्त्वैव रञ्जिता जगती। संध्याया इव क्सतिः खल्पापि सखे सुखायैव ॥ ३१ ।। अञ्जलिरिति । लोकैरञ्जलिरकारि । अर्घदानार्थमिति भावः । पक्षेऽञ्जलि- करणेन लोक आज्ञाकारित्वं ध्वन्यते । म्लानिनिस्तेजस्कत्वम् । पक्षेऽसामर्थ्यम् । जगती रञ्जितारक्तता नीता । पक्षेऽनुरागवती कृता । एवं च लोकस्यानुद्वेगदायित्वं ध्वन्यते । संघ्याया इव खल्पापि वसतिरवस्थितिः सुखायैव । न दुःखायेत्यर्थः । संध्यासमयस्थितेरचिरावस्थायित्वादिति भावः । एवं चैतद्विलक्षणजीवनान्मरणमेव वरमिति द्योत्यते ॥ । - ।
आर्यासप्तशती। - MISHRA नायिका नायकं वक्ति- अगृहीतानुनयां मामुपेक्ष्य सख्यो गता बतैकाहम् । प्रसभं करोषि मयि चेत्त्वदुपरि वपुरद्य मोक्ष्यामि ॥ ३२ ॥ अगृहीतेति । अनङ्गीकृतानुनयां मामुपेक्ष्य । मानस्यासाध्यत्वबुयेति भावः । एवं च तासामेतादृक्करणमनुचितमिति व्यज्यते। सख्यः। सुखदुःखनिरूपणाऱ्या इति भावाः । गतः। एवं च परावृत्त्यनहत्वं व्यज्यते । बत खेदे हर्षे च । अहमे- काकिनी । चेद्यदि मयि प्रसभं बलात्कारं करोषि तर्जाद्याधुनैव । एवं चोत्कण्ठितत्वं ध्वन्यते । त्वदुपरि शरीरं पातयिष्ये । एवं च सखीकृतानुनयस्य मयोपेक्षितत्वा- त्त्वयावश्यं बलात्कारः प्रदर्शनीयः । ततश्च यथेच्छं मयापि विपरीतरतादिना क्रीडितव्यमिति व्यज्यते । अथ च मत्सख्योऽत्र न सन्तीति मत्वा यदि बलात्कार करोषि तहिं प्राणान्परित्यज इति व्यज्यते ॥ सखी कंचन नायकं खनायिकाधीनं कर्तुं तस्या गुणशालित्वं भङ्गयन्तरेण वक्ति- अस्थिररागः कितवो मानी चपलो विदूषकस्त्वमसि । मम सख्याः पतसि करे पश्यामि यथा ऋजुर्भवसि ॥ ३३ ॥ अस्थिरेति । यद्वान्यनायिकासु खनायिकायाश्चातुरीं प्रकटयन्ती सखी वक्ति । चञ्चलानुरागः । धूर्तः । अभिमानी। चाञ्चल्यशाली । विदूषकः । 'विकृताङ्गवचो- वेषैर्हास्यकारी विदूषकः । त्वमसि । अस्थिरराग इत्यनेन मैत्र्यनहत्वम् , कितव इत्यनेन प्रतारणानिपुणत्वम् , मानीत्यनेन गर्वशालित्वेन प्रतिक्षणसमाधेयत्वम्, विदूषक इत्यनेनानेकचेष्टाशालित्वं ध्वन्यते । मम सख्याः करे पतसि यथर्जुर्भवसि तथा पश्यामि । एवं च मत्सखीगुणासक्तेन त्वया सर्वमपीदं परित्याज्यमिति भावः। यद्वैतादृशी मत्सखी यदेतादृशं नायकं स्वाधीनताभाजनं कर्तुं विजानातीति भवतीभ्यो मत्सखी समधिकतरेति भावः ॥ नायिकासखी कचिद्गच्छन्तं नायकं प्रति नायिकासक्तिं वक्ति- अकरुण कातरमनसो दर्शितनीरा निरन्तरालेयम् । वामनु धावति विमुखं गङ्गेव भगीरथं दृष्टिः ॥ ३१ ॥ अकरुणेति । यद्वा क्रुधा गच्छन्तं नायकं ना कासखी वक्ति। अकरुणा करुणाशून्य । यत ईदृशीमप्येनां परित्यज्य गच्छसीति भावः। कातरं मनो यस्याः। कातरपदेन कदायमागमिष्यतीति चिन्तातिशयो द्योत्सते । दर्शितं नीरमश्रु यया ।
काव्यमाला। दर्शितमित्यनेन विनसूचनामिति कश्चित् । प्रकटमित्यर्थो ज्यायान् । पक्षे प्रकटित- जला । निरन्तराला निर्गतावकाशा । सर्वत्र विद्यमानेत्यर्थः । एवं च विशाललं द्योत्यते । तेन च शोभातिशयो द्योत्यते । यद्वा कश्चिद्रक्ष्यतीति भियतस्ततोऽवलो- कनशालित्वम् । यद्वा निर्गतावकाशा । अविच्छिन्नेत्यर्थः । एवं च लोकभीतिशून्य- त्वेनात्यन्तासक्तिरावेद्यते। पक्षे निर्गताकाशा । आकाशाद्भुवि गङ्गागमनादिति भावः । इयं दृष्टिर्भगीरथं गङ्गेच विमुखं पश्चादनवलोकनकारिणम् । अज्ञानात्कोधा- द्वेति भावः । पक्षेऽग्रगमनकारित्वादिति भावः । एवं च तापापनोदिकायास्तापकरण- मनुचितं तवेति ध्वन्यते । यद्वा नायकविदेशागमनकालीननायिकासखीवाक्यमेतत् । नायिकेयं परकीया ॥ अप्रकटितमानां नायिका नायको वक्ति- अन्तःकलुषस्तम्भितरसया भृङ्गारनालयेव मम । अप्युन्मुखस्य विहिता वरवर्णिनि न त्वया तृप्तिः ॥ ३५ ॥ अन्तरिति । अन्तःकलुषेणान्तरक्रोधादिना स्तम्भितोऽप्रकटितो रसः शृङ्गा- रादिर्यया। एवं च बाह्यक्रोधापेक्षयान्तरक्रोधस्यातिदुष्टत्वं द्योत्यते । पक्ष आभ्यन्त- रपङ्कादिना स्तम्भितो निर्गमनायोग्यो रसो जलं यस्याः। भृङ्गारनालयेव । 'भृङ्गारः कनकालुका' । त्वया वरवर्णिनि । एवं चैतादृक्कार्यकरणमनुचितं तवेति ध्वन्यते । पक्षे शोभनवर्णा । उन्मुखस्यापि । पक्ष ऊर्ध्वमुखस्यापि मम तृप्तिन विहिता । एवं च त्वं मम जीवनदाननिदानरूपेति ध्वन्यते ॥ कथमनेन नायकन ममास्ति संगतिरिति लोके प्रसिद्धिरिति वादिनी नायिका- मन्योक्त्या सखी वक्ति- अयि सरले सरलतरोर्मदमुदितद्विपकपोलपालेश्च । अन्योन्यमुग्धगन्धव्यतिहारः कषणमाचष्टे ॥ ३६ ॥ अयोति । अयि सरले । एवं चैतादृशसंदेहवत्ता तव युक्तैवेति ध्वन्यते । सरलतरोः । सरलपदेन कषणयोग्यत्वं धूर्तताशून्यत्वं च द्योत्यते । मदेन दानेन मन्मथेन च मुदितो यो द्वाभ्यां पिबतीति द्विपो गजस्तस्य कपोलपालेश्च । मदमु. दित इत्यनेन जनभीतिशून्यत्वं ध्वन्यते । अन्योन्यं मुग्धस्य सुन्दरस्य गन्धस्य । पक्षे वासनायाः अनुरागस्येत्यर्थः । व्यतिहारो विनिमयः । कषणम् । पक्षे योगम् । आचष्टे । एवं च परस्परानुराग एव परस्परसंबन्धं वक्तीति भावः ।। । ।
आर्यासप्तशती। कयाचन विलोकितः कश्चित्तस्या विलोकनसुखं स्वस्य संखायं वक्ति- अस्याः कररुहखण्डितकाण्डपटप्रकटनिर्गता दृष्टिः । पटविगलितनिष्कलुषा खदते पीयूषधारेव ॥ ३७ ।। अस्या इति । अस्या नखसच्छिद्रीकृतकाण्डपटस्पष्टनिर्गता दृष्टिः । वसनविग- लितात एव कालुष्यरहिता पीयूषधारेव खदते । एवं च दृशि न केवलं संतांपा. पनोदकत्वम् , अपि तु प्राणप्रदत्वमिति ध्वन्यते ॥ पतिगृहगमनाा कांचित्काचित्कस्याश्चिद्वार्तापुरःसरं वक्ति- अस्याः पतिगृहगमने करोति मातानुपिच्छिलां पदवीम् । गुणगर्विता पुनरसौ हसति शनैः शुष्करुदितमुखी ॥ ३८ ॥ अस्या इति । अस्याः पतिगृहगमने। गमनं प्राथमिकम् । माता। एवं च वात्सल्यं व्यज्यते । अश्रुभिः पिच्छिला पदवीं करोति । पिच्छिलामित्यनेनाश्रु- बाहुल्यं द्योलते। गुणगर्विता पुनरसौ शुष्करुदितमुखी । अश्रूणामभावादिति भावः । शनैर्हसति । एवं च यथेयं गच्छति तथैव त्वया गन्तव्यमिति द्योत्यते । कस्याश्चिद्वार्ता काचिद्वक्तीति वा ॥ अङ्के निवेश्य कूणितदृशः शनैरकरुणेति शंसन्त्याः । मोक्ष्यामि वेणिबन्धं कदा नखैर्गन्धतैलाक्तैः ॥ ३९ ॥ इति । अङ्के निवेश्य कूणिता संकोचिता दृश्यया । चिरबद्धवेणीवन्ध- विसंसनजन्यदुःखवशात्कूणितत्वम् । अत एव अकरुण, शनैरिति शंसन्त्याः । यद्वा चिरप्रवासित्वेन अकरुणेति संबुद्धिः । अकरुण इति शनैः शंसन्त्या इति वा । नायक प्रवासिनि न केशसंस्कार इति सतीसंप्रदायः। गन्धतैलाक्तैनखैः कदा वेणीबन्धं मोक्ष्यामि । पथिकाशंसनमेतत् ॥ कथमकृतभूषणाहमागमिष्यामीति वादिनी दूती वक्ति- अलमनलंकृतिसुभगे भूषणमुपहासविषयमितरासाम् । कुरुषे वनस्पतिलता प्रसूनमिव वन्ध्यवल्लीनाम् ॥ १० ॥ अलमिति । यद्वा सर्वासामन्यासां भूषणम्, न मह्यमिति खिन्नां संखी १. तिरस्करिणी. 'कनात' इति भाषा.
१. काव्यमाला। । समाधत्ते । अलमत्यर्थमलंकाराभावेन सौभाग्यशालिनि । इतरासां भूषणम् । वन्ध्य- वल्लीनां पुष्पवत्त्वेऽपि फलाजनकानां प्रसूनमिव वनस्पतिलता पुष्पं विना फलज- निका । 'वानस्पत्यः फलैः पुष्पात्तैरपुष्पावनस्पतिः' । त्वं निन्दाविषयं कुरुषे । एवं च नालंकरणमात्रं सौभाग्यसंपादकम् , अपि तु दयितवश्यतासंपादनसामर्थ्यम् । तच्च तवैवास्तीति विभूषणकरणाय विलम्बो न विधेयः । खेदो वा न मह्यमस्ति विभूषणमिति ध्वन्यते॥ कश्चित्कांश्चिन्निन्दति- अबुधा अजङ्गमा अपि कयापि गत्या परं पदमवाप्ताः । मन्त्रिण इति कीर्त्यन्ते नयबलगुटिका इव जनेन ॥ ११ ॥ अबुधा इति । अबुधा ज्ञानशून्याः पण्डितभिन्ना वा । अचेतनत्वादिति भावः। अजङ्गमा गतिशून्याः । पक्ष इतस्ततः प्रेषणानहर्हाः । कयापि गत्या चालनविशेषेण । पक्षे दैववशादित्यर्थः । परं पदमाद्यपङ्किगृहम् । पक्ष उत्कृष्टस्थानम् । अवाप्ताः । नयबलस्य बुद्धिबलस्य गुटिका इव जनेन । एवं च वास्तवज्ञानशून्यत्वं ध्वन्यते। मन्त्रिण इति कीर्त्यन्ते । एवं च यथा पदातिसंज्ञकगुटिका राजपतिसदनमासाद्या- मात्यव्यवहारभागिनी भवति, तद्वदेतेऽकिंचित्करा अपि पदविशेषावाप्त्यामात्यपद- वीभागिन इति व्यज्यते ॥ अत्यन्ताभिमानशालिनी मत्सखीति वादिनी सपत्नीसखी नायिकासखी वक्ति- अतिशीलशीतलतया लोकेषु सखी मृदुप्रतापा नः । क्षणवाम्यदह्यमानः प्रतापमस्याः प्रियो वेद ॥ ४२ ॥ अतीति । लोकेऽत्यन्तशीलस्य स्वभावस्य शीतलतया । सौम्यतयेत्यर्थः । नः सखी मृदुप्रतापा । एवं च लोके प्रतापदर्शनमनर्थकमिति भावः । यद्वा मृदुप्रतापेति खरविशेषरूपकाक्का न मृदुप्रतापेत्यर्थः । एतदेवाह-अस्या मत्सख्याः क्षणवाम्येन क्षणिककौटिल्येन । एवं च चिरकालीनवाम्यमसंभवतीति ध्वन्यते । यद्वा क्षणं उत्सवे यद्वाम्यम् । प्रणयकोप इति यावत् । तेन । एवं च वास्तवमहाकोपे को वेद किं भावीति व्यज्यते । दह्यमानः प्रियः प्रतापं तेजोविशेषम्, अथ च प्रकृष्ट- संतापं जानाति । एवं च यत्र यद्विधानमुपयुक्तं तत्र तदेवेयं विदधातीति द्योत्यते । यद्वा त्वत्सखी मृदुप्रतापेति वादिनी काचिद्वक्ति । एवं च नः सखी लोके मृदुप्रतापा नायकं प्रत्यभिमानशालिनी, त्वत्सखी तु नायकं प्रत्यकिंचित्करा लोके तु कोपनेति द्योत्यते । तेन स्वसख्यामाधिक्यम् । यद्वा पूर्वोत्तरार्धाभ्यामुभयोक्ती ॥ । ।
आर्यासप्तशती। । यदीयमुत्कृष्टगुणा तातदीयनायकः कथमन्यानुरक्त इति वादिनी कांचिन्नायिका- सखी वक्ति- अन्यावपि गृहिणीति ध्यायन्नभिलषितमाप्नोति । पश्यन्पाषाणमयीः प्रतिमा इव देवतात्वेन ॥ १३ ॥ अन्यास्विति। अन्यास्वप्यन्याङ्गनाखपि स्वगृहिणीति ध्यायन्नेव । खना- यिकाभावनां कुर्वन्नेवेत्यर्थः। एवं च खीयाङ्गनाभावनानविप्यन्याङ्गनासु तद्भावना- संपादनप्रतिपादनान्नायिकायां रूपादिगुणशालित्वमावेद्यते । अभिलषितमानन्दम् । पक्ष इच्छाविषयीभूतमर्थम् । आप्नोति । पाषाणमयीः प्रस्तरविकाररूपाः प्रतिमा देवतात्वेन पश्यन्निव । एवं च यथा पाषाणप्रतिमासु देवताभावनया जनस्याभिलषि- तावाप्तिस्तथैवान्यासु नायिकासु स्वनायिकाभावनयैवाभिलषितावाप्तिरिति भावः । एवं च पराङ्गनासु जडत्वं ध्वन्यते । यद्वा देवतायां देवताध्यानाकरणं जडप्रतिमासु च देवताध्यानकरणमिति यथा जनस्य खभावस्तथा नायकस्याप्यन्याङ्गनाखासक्ति- संपादनमिति स्वभाव इति ध्वन्यते। तेन च नैतस्यां गुणराहित्यमाशङ्कनीय- मिति । 'आप्नोमि' इति पाठेऽन्यायनासक्तितवानुचितेति वादिनी नायिकासखीं नायको वक्ति । गर्वशालिनं नायकं नायिकासख्युपदिशति- अनुपेत्य नीचभावं बालक परितो गभीरमधुरस्य । अस्याः प्रेम्णः पात्रं न भवसि सरितो रसस्येव ॥ १४ ॥ अन्विति । बालक अपरिपक्कबुद्धे । नीचभावं गर्वशून्यत्वमनुपेत्याकृत्वा सम- न्ताद्गभीरं बहुपरिमाणं मधुरं सुखदम् । पक्षेऽगाधं मधुररसवत् । परित इत्यनेन सर्वत्र गाम्भीर्यमाधुर्यशालित्वं तेन चैतादृशस्य प्रेम्णो दुर्लभत्वं द्योत्यते । अस्याः प्रेम्णः पात्रममत्रम् । पक्षे तीरयोरन्तरम् । सरितो रसस्येव जलस्येव न भवसि । एवं च गर्व विहायैवास्याः प्रेम्णो भाजनं भवान्भवत्विति व्यज्यते । रसस्येवेत्यनेन प्रेम्णि रससंमृतत्वमावेद्यते ॥ -सखी नायिकामन्योक्त्या स्तौति- अधिवासनमाधेयं गुणमार्गमपेक्षते न च ग्रथनाम् । कलयति युवजनमौलिं केतककलिका खरूपेण ॥ १५ ॥ अधीति । अधिवासनं संस्कारम् । यथा पुष्पादिभिस्तैलादेः। आधेयमौपा- SUNDmahen ४२ काव्यमाला । । धिक गुणमार्गम् । यथा मुक्ताफलादे रन्ध्रादि । अथनाम् । यथा मालादेः । न चापेक्षते । पक्षे खतः पद्मिनीत्वेन न सौगन्ध्यादिसंस्कारापेक्षा । खाभाविकगुणव- त्त्वाचौपाधिकगुणगवेषणापेक्षा । मार्गणं मार्ग इति व्युत्पत्तेः । खतो नायकवशीकर- णसामर्थ्यान्न दूत्यादिघटनापेक्षा । केतककलिका खरूपमात्रेण युवजनमौलिं कल- यति । मौलिभूषणरूपा भवतीति भावः। पक्षे सर्वयुवभिः प्रणतिपुरःसरं प्रार्थ्यत इति भावः । एवं चात्र खकीयपरकीयादिनाधिकाधिक्यं नायिकायामावेद्यते ।। नायिका खनायकसङ्गविद्वेषकारिणी वृत्तेति प्रतिपादनेन नायकात्यन्तासक्ति तस्यामुत्पादयितुं नायिकासखी नायकं वक्ति- अपनीतनिखिलतापां सुभग खकरेण विनिहितां भवता । पतिशयनवारपालिज्वरौषधं वहति सा मालाम् ॥ ४६॥ अपनीतेति । दूरीकृतसकलदुःखाम् । पक्षे तापो नानाविधज्वरः। सुभग भवता खकरेण, न तु दूत्यादिद्वारा । विनिहितां मालाम् । पतिः, न तु प्रियः। तच्छयनरूपो यो वारपालिज्वरश्चातुर्थिकादिस्तदौषधरूपां वहति । केवलं त्वद्दत्तमा- लयैव तद्दिवसीयत्वद्विरहदुःखनिरासस्तस्या इति भावः । एवं चैतादृशनायिकानुरागः सुदुर्लभोऽपि ते सुलभ इति धन्यस्त्वमसीति द्योत्यते॥ नायिकासक्ति नायक नायिकासखी वक्ति- अगणितगुणेन सुन्दर कृत्वा चारित्रमप्युदासीनम् । भवतानन्यगतिः सा विहितावर्तेन तरणिरिव ॥ १७ ॥ अगणितेति । हे सुन्दर, एवं च कामिनीस्पृहणीयत्वं ध्वन्यते । असंख्या- तचातुर्यादिगुणेन । एवं च युक्तमेव ते नायिकावशीकरणसामर्थ्यमिति द्योत्यते । पक्षेऽनाइतो गुणो बन्धनरजुर्येन । भवता चरित्रमेव चारित्रं पातिव्रत्यं तदप्युदासीनं कृत्वा तिरस्कृत्य । अपिना तिरस्कारानहत्वं ध्वन्यते। पक्षे चकारबहिर्भावेनारित्रं केनिपातनम् । आवर्तन तरणिरिव सानन्यगतिः। नास्त्यन्या, त्वदतिरिक्तेत्यर्थः, गतिर्यस्याः। पक्षेऽन्यत्र गमनाभाववती । विहिता। एवं चानुग्राह्या सेति व्यज्यते ॥ पराङ्गनास्थापितोत्तरीयतया वसनान्तरहीनतया सलजं कंचन कश्चिद्वक्ति- अनुरक्तरामया पुनरागतये स्थापितोत्तरीयस्य । अप्येकवाससस्तव सर्वयुवभ्योऽधिका शोभा ॥ १८ ॥ अनुरक्वेति । अनुरक्ताङ्गनया पुनरागमनाय स्थापितोत्तरीयवसनस्यैकवास- । । 13 आर्यासप्तशती। ४३ । । । । सोऽपि । दारियादिति भावः । तव सकलभाग्यशालितरुणेभ्यः शोभाधिका। एवं चैतादृशदयितानुरागे दारिद्यदुःखमकिंचित्करम् । तदननुरागे च यौवनसंपत्ती अकिंचित्करे इति व्यज्यते ॥ कश्चित्खस्य सखायं वकि- अर्थः प्राणित्येको मृत इतरो मे विधुतुदस्येव । सुधयेव प्रियया पथि संगत्यालिङ्गितार्धस्य ॥ १९ ॥ अर्ध इति । पथि मार्ग संगत्या प्राचीनसंबन्धेन । यद्वा मार्गविषयकसंबन्धेन। एवं च दैववशसंपन्नमेतदिति ध्वन्यते। प्रिययालिङ्गितार्धस्य । प्रियासंबन्धवदर्ध- स्येत्यर्थः। आलिङ्गनपदेनैकाङ्गसंपर्केऽपि सर्वाङ्गीणानन्दतुल्यानन्दः संवृत्त इति व्यज्यते । मे सुधया विधुतुदस्येवैकोऽ| विषमांशः । 'पुंस्यर्थोऽध समेंऽशके' इत्यमरः । एवं च राहोरसमांशमुण्डरूपस्योपमानता संगच्छते । प्राणिति । इतरो मृत एव । एवं च नान्यथा शङ्कनीयमिति भावः। एवं च प्राप्ताया अपि सुधाया दुर्दैवान्न संभोगो राहोस्तथा प्रियाया ममेति ध्वन्यते । तेन च नायिकाङ्गसंबन्धानु- भववत एवाङ्गस्य सार्थक्यम् , नापराणामझानामिति । तेन च नायिकाङ्गस्पर्शसुखा- नुभवस्तजीवनमत्यन्तानर्थकमिति॥ कठिनहृदयापि कोमलहृदया मनायिकेति कश्चिद्वक्ति- अवधीरितोऽपि निद्रामिषेण माहात्म्यमसृणया प्रियया । अवबोधितोऽस्मि चपलो बाष्पस्तिमितेन तल्पेन ॥ ५० ॥ अवधीरितोऽपीति । निद्राव्याजेनावज्ञातोऽपि । मानवशादिति भावः । एवं च ममाप्यवबोधने भीतिरित्यावेद्यते। अत एव माहात्म्येन प्रशस्तान्तःकरण- तया स्निग्धया प्रियया। चपलः। एवं च खस्मिन्सापराधत्वमावेद्यते। बाष्पैः स्तिमितेनाट्टैण तल्पनावबोधितोऽस्मिः। मानं ज्ञापितोऽस्मि । एवं च भीत्या मम तूष्णींभावं विज्ञाय मानज्ञापनकरणेन कोमलहृदयत्वमावेधते ॥ कस्याश्चित्किंचित्संगतिशालिनं कंचन काचिदन्योक्त्या वक्ति- अयि शब्दमात्रसाम्यादाखादितशर्करस्य तव पथिक । खल्पो रसनाच्छेदः पुरतो जनहास्यता महती ॥ ५१ ॥ अयीति । अयिः पथिक, एवं चात्र चिरानवस्थित्यां यथार्थज्ञानशून्यत्वं 88 काव्यमाला। NAAD ध्वन्यते । शब्दमात्रसाम्यात् । शर्करेति । पक्षे नायिकेति । शब्दमात्रेसनेनार्थ- दृष्टिविधुरत्वं व्यज्यते । आस्वादिता, न तूपभुक्ता शर्करा सिकता येन तस्य । एवं चाधुनापि विचार्य चरितव्यमिति ध्वन्यते। रसनाछेदः खल्पः पुरतोऽग्रे। 'इयं च तेऽन्या पुरतो विडम्बना' इति वदत्र समाधिः। महती। एवं चासात्वं व्यज्यते । जनस्य । एवं च निवारणानहत्वम् । हास्यता भवित्री। एवं च तस्याः कठिनतया न संगतिश्विरावस्थायिनीति नैतावन्मात्रम्, अपि तु कथमत्यन्तानभिज्ञ इति लोकोपहासो भावीति व्यज्यते । यद्वा खनामैक्यादन्याङ्गनागृहीतदर्शनं काचिद्वक्ति । शब्दमात्रसाम्यम् । न मनिष्टगुणादेरिति भावः । रसनाच्छेद आखा- दविच्छेदः । नीरसेति यावत् । भाविगुणशून्यत्वज्ञानेनेति भावः। एतावन्मानं न, किंतु जनहास्यता । एवं च तस्याः पुंश्चलीत्वेन प्रसिद्धिः, न ममेति व्यज्यते ॥ सपत्नीदुःखसंतप्तां काचित्समाधत्ते- अभिनवयौवनदुर्जयविपक्षजनहन्यमानमानापि । सूनोः पितृप्रियत्वाद्विभर्ति सुभगामदं गृहिणी ॥ ५२ ।। अभिनवेति । अभिनवयौवनेन । अभिनवत्वमप्रसूतत्वादिति भावः । दुःखेन जेतुमशक्यः । यौवनसंपादनस्य दुष्करत्वादिति भावः । यो विपक्षजनः । विपक्ष- पदेन दुःखजननखभाववत्त्वं जनपदेन समुदायवत्तया प्रतीकारानहत्वं ध्वन्यते । तेन हन्यमानः। एवं च प्रात्यहिकेनासह्यत्वं द्योत्यते । मानो यस्याः सापि । एवं च यत्र प्रतिष्ठामात्रमपि गतं तत्र का वार्ता रतादीनामिति भावः । गृहिणी प्रथमस्त्री पुत्रस्य पितृप्रियत्वात्सौभाग्यशालिनीनां गर्व बिभर्ति । एवं च सकलसद- नाधिपतिप्रायपुत्रवत्तया त्वया न किंचिदपि सपन्यवमाननं गणनीयमिति व्यज्यते॥ कश्चित्स्नानोद्यतकामिनीकुचकलशमवलोक्य व्यञ्जनया त्वत्संगमकामोऽहमिति चक्ति- अपमानितमिव संप्रति गुरुणा ग्रीष्मेण दुर्बलं शैत्यम् । स्वानोत्सुकतरुणीस्तनकलशनिबद्धं पयो विशति ॥ ५३ ॥ अपमानितमिति । गुरुणा प्रबलेन ग्रीष्मेणापमानितं तिरस्कृतम् । एवं च जलप्रवेशकरणमुचितमिति व्यज्यते। दुर्बलम् । एवं च प्रतीकारासामर्थ्य ध्वन्यते। स्नानोत्सुका या तरुणी तस्याः स्तनरूपकलशसंबन्धवत् । एवं च प्रीष्मे तरुणीस्त- नयोरतिशीतलत्वमावेद्यते। अत्र निबद्धमित्यनेन प्रबलग्रीष्मक्लेशितशैल्यस्य यथा ।
आर्यासप्तशती। । दुःखनिवारणसाहाय्यकारकं स्तनमण्डलं तथा मदनानलकदर्थितस्य ममापीदं भव- त्विति ध्वन्यते । एवं च त्वदालिङ्गनोत्तरं मरणमपि सुखदं ममेति ध्वन्यते । तेन च राजादिभीतिशून्यत्वम् । अन्योऽपि केनचित्तिरस्कृतः प्रतीकारासमर्थः कलशादि जले देहं त्यजतीति लौकिकम् । यद्वा ग्रीष्मनिर्जितस्य शैत्यस्य यथा त्वत्कुच- कलंश एव शरणं तथा मन्मथनिर्जितस्य ममापीति भावः ॥ कथमतिचिरकालेऽपि संवृत्ते शयनागारान्न निर्गच्छसीति वादिनी सखीं ना- यिका वक्ति- अलसयति गात्रमखिलं क्लेशं मोचयति लोचनं हरति । खाप इव प्रेयान्मम मोक्तुं न ददाति शयनीयम् ॥ ५४ ॥ अलसयतीति । गानं शरीरमलसयत्युत्थानादिव्यापारासमर्थ करोति । नाना- विधसुरतेनेति भावः । पक्षे जृम्भादिजननेन विषयव्यापारासमर्थ करोति । अखिलं दुःखम् । पक्षे गृहव्यापारजन्यं श्रमम् । मोचयति। लोचनं हरति स्वाधीनतां नयति । खदर्शनमात्रप्रवणं करोतीति भावः। एवं च नायके सौन्दर्योत्कर्षशालित्वं ध्वन्यते । पक्षे पदार्थज्ञानशून्यत्वं करोति । खाप इव प्रेयान् । एवं च निवारणान- हवं व्यज्यते । पक्षे दुःखाभावसंपादकत्वेन प्रीतिविषयत्वम् । मम शयनीयं परि- सक्तुं न ददाति । एवं चैतावत्कालं नायकनैकट्यादेव विलम्बो बहिरागम इति न ममापराध इति भावः । प्रेयानिव खाप इति योजना वा । एवं च नायककार्यकारि- तया प्रेमविषयत्वं खापे द्योत्यते । तेन चालस्यादि स्वापकार्यमेवेति संगुप्तरतिकत्वम् ॥ कश्चित्कांचिद्वक्ति- अंसावलम्बिकरधृतकचमभिषेकाधवलनखरेखम् । धौताधरनयनं वपुरस्त्रमनङ्गस्य तव निशितम् ॥ ५५ ॥ असेति । स्कन्धावलम्बितकरेण धृताः । जलविमोचनार्थमिति भावः । कचा यस्मिन् । स्नानेनार्दाः । धवलाः। लौहित्यापगमादिति भावः । नखरेखा नखक्षतानि यस्मिन् । धौताधरनयनम् । ताम्बूलरागापगमादिति भावः। कामशास्त्रे नेत्रचु- म्बनस्य विधानात् । पक्षे निराकृतमालिन्यावयवम् । तव वपुरनङ्गस्य तीक्ष्णं शस्त्रम् । एवं चैकोपभोगजन्यजाड्यनिरसनेनान्यसंभोगसामर्थ्यवत्ता जातेति ध्वन्यते । वपुषि निशितानङ्गास्त्रतुल्यताप्रतिपादनेन त्वत्सङ्गासंपादनेन मत्प्राणहरणजन्यपापभागित्वं भविष्यति तवेति ध्वन्यते ॥
काव्यमाला। वेश्यासक्तं कंचन काचिदुपदिशति- अविनिहितं विनिहितमिव युवसु खच्छेषु वारवामशः । उपदर्शयन्ति हृदयं दर्पणबिम्वेषु वदनमिव ॥ ५६ ॥ अविहितमिति । वारवामदृशो वेश्याः । एवं च नैकत्र स्थिरप्रेमशालित्वमि- त्यावेद्यते । खच्छेषु निर्मलान्तःकरणेषु । एवं च प्रतिबिम्बभवनाहत्वं ध्वन्यते। युवखविनिहितं हृदयम् । प्रेमेत्यर्थः । विनिहितमिवोपदर्शयन्ति । दर्पणखरूपेषु वदनमिव । एवं चैतासां प्रेमभ्रमेण ये समासक्ता भवन्ति तेऽत्यन्तमूढा इति द्योत्यते । अत्र बिम्बपदं न तथा सप्रयोजनमित्याभाति ॥ अहमस्मिन्नासक्तेति कथं लोकप्रसिद्धिरिति वादिनी नायिका सखी वक्ति- अतिलज्जया त्वयैव प्रकटः प्रेयानकारि निभृतोऽपि । प्रासादमौलिरुपरि प्रसरत्या वैजयन्त्येव ।। ५७ ।। अतीति । अतिलज्जया द्रुततरगतेनेति भावः। यत्र यत्र तदीयकटाक्षस्ततोऽप- सरणादिति भावः । त्वयैव । एवं च नान्यस्यापराध इति भावः । निभृतोऽपि केनचिदनधिगतोऽपि प्रेयान्प्रकट: ख्यातोऽयमस्यामासक्त इत्यकारि । यदियमेनं दृष्ट्वातिलजां नाटयति, तयमस्यामासक्त इति लोकैरधिगतम् , अतस्तवैवापराध इति भावः । उपरि प्रसरन्त्या । एवं च दर्शनयोग्यत्वं द्योत्यते । पताकयेव । प्रसादस्य देवताद्यायतनस्य मूर्धा। यद्वा तथाविधभोगाद्यभावेऽपि कथं लोकेऽस्मत्सं- गतिरभिव्यक्ता जातेति वादिनी सखी वक्ति। त्वयातिलज्जयैवान तथाविधात्यन्तसं- घटनेनेति भावः । उपरि प्रसरन्येत्यनेनान्तःप्रविष्टत्वाभावप्रदर्शनेन रताद्यपरिचित्या- नन्दराहित्यं नायिकायामावेद्यते । एवं च बहिस्तथा प्रदर्शनीयं यथा न केनापि नायकीयपरिचितिलेशोऽपि ज्ञातुं शक्य इति भावः ॥ मध्यस्थावलम्बनेन संघटितवाग्भिः खलजयोऽपि सुशक इति कश्चिद्वति- अन्योन्यग्रथनागुणयोगाद्भावः पदार्पणैर्बहुभिः । खलमपि तुदन्ति मेढीभूतं मध्यस्थमालम्ब्य ।। ५८ ॥ अन्योन्येति । अन्योन्यप्रथनागुणः परस्पराविरोधिघटनारूपो गुणः । पक्षे परस्परबन्धनरज्जुः । तद्योगात् । गावो वाचः । पक्षे वृषभाः। पदार्पणैर्व्यवहार- पंददर्शनैः । पक्षे चरणविन्यासः । मेढीभूतमाधाररूपत्वान्मध्यस्थम् । पक्षपातविर- हेण विवादनिर्णायकम् । पक्षे मध्यभूमिस्थितं मेढीभूतम् । 'पुंसि मेढिः खले दारू । ।
AISHNAVARANAPANELAVN. आर्यासप्तशती। । न्यस्तं यत्पशुबन्धने' इत्यमरः । अर्थात्काष्ठमालम्ब्य दुर्जनमपि । अपिना दुर्जयत्वं व्यज्यते । पक्षे धान्यमर्दनस्थानम् । व्यथयन्ति ॥ दुर्जनवाक्यमतिदुःसहमिति कश्चिद्वक्ति- अननुग्रहेण न तथा व्यथयति कटुकूजितैर्यथा पिशुनः । रुधिरादानादधिकं दुनोति कर्णे क्वणन्मशकः ॥ ५९ ॥ अनन्विति । अननुग्रहेण निरोधेन । एवं च द्रव्याद्यपहारादिद्वारा दुःखदत्वं ध्वन्यते । 'अर्थग्रहेण' इत्यपि पाठः। पिशुनः खलः । न तथा व्यथयति । तथाविधदुःखजनको नेत्यर्थः । यथा कटुकूजितैर्दुष्टवचनैः पीडयति । अत्र दृष्टा- न्तमाह-मशको रक्तग्रहणादधिकं कर्णे शब्दं कुर्वन्दुनोति । 'मणितं रतिकूजितम्' इत्युक्त्या कूजितशब्दः शब्दसामान्याभिधायकः ॥ प्रथमं संजातलाघवस्योत्तरकालीनगौरववत्त्वेऽपि न तदपगच्छतीति कश्चि- द्धक्ति- अग्रे लघिमा पश्चान्महतापि पिधीयते नहि महिना । वामन इति त्रिविक्रममंभिदधति दशावतारविदः ।। ६० ॥ अग्र इति । अग्रे प्रथमतो लघिमा लाघवम् । पक्षे हखत्वम् । पश्चादनन्तरं महतापि महिन्ना गौरवेण । पक्षे दैयेण । नाच्छाद्यते । एवं च नवीनातिशयित- प्रतिष्टयापि न प्राक्तनाप्रतिष्ठा निराकर्तुं शक्येति भावः । अत्र दृष्टान्तमाह-दशा- वतारविदः । एवं चोत्तरोत्तरप्रतिष्ठाज्ञानवत्त्वमावेद्यते । त्रिविक्रमत्वादतिदीर्घत्वमा- वेद्यते । वामन इति हख इत्यभिदधति । एवं च परमेश्वरस्याप्येतादृशी गतिस्तत्र का वार्ता मनुजस्येति भावः । एवं च तथा कर्म कर्तव्यं यथारम्भ एव प्रतिष्ठा भवतीति ध्वन्यते॥ काचिनवीनसपत्नीशङ्कितां समाधत्ते- अङ्के स्तनधयस्तव चरणे परिचारिकाप्रियः पृष्ठे । अस्ति किमु लभ्यमधिकं गृहिणि यदाशङ्कसे बालाम् ॥ ६१॥ . अङ्क इति । अङ्के स्तनंधयो बालकः, चरणे परिचारिका दासी, पृष्ठे प्रियः । आज्ञाकारीत्यर्थः । पक्षपाती वा । अतोऽधिकं किमु लभ्यमस्ति । 'अलब्धम् इत्यपि पाठः । यद्वाधिक किमाशङ्कस इति योजना । गृहिणि । एवं च सर्वाधिका- ।
४८ काव्यमाला। । । । रवत्वं द्योयते । बालाम् । एवं च तथाविधज्ञानराहित्यं व्यज्यते। आशङ्कसे। एवं च सर्वसुखसत्त्वान्न बालाभीतिः कर्तव्यति ध्वन्यते । कयोश्चिदासक्तिं कश्चिद्वक्ति- अधर उदस्तः कूजितमामीलितमक्षि लोलितो मौलिः आसादितमिव चुम्बनसुखमस्पर्शेऽपि तरुणाभ्याम् ॥ ६२ ॥ अधर इति । अधर उदस्त उच्चतां नीतः। चुम्बनार्थमिति भावः । कूजि. तम् । पीडाव्यञ्जकः स्वरः कृत इत्यर्थः। अक्ष्यामीलितम् । सुखाविर्भावादिति भावः । लोलितो मौलिः । परित्यजेति ज्ञापनार्थमिति भावः । नायकव्यापारपूर्वकमेते पर्यायेण व्यापाराः । इति तरुणाभ्याम् । एवं च परस्परानुरागातिशयो व्यज्यते। अस्पर्शेऽपि स्पर्शाभावेऽपि । रजोदर्शनेऽपीति वा । चुम्बनसुखमासादितमिव एवं चैतादृशरीत्या संतोषसंपादनेनासक्तिविशेषो ध्वन्यते । नायिका परकीया ॥ कश्चित्कस्यचिदवस्थां कंचित्प्रति वक्ति- अतिरभसेन भुजोऽयं वृतिविवरेण प्रवेशितः सदनम् । दयितास्पर्शोल्लसितो नागच्छति वर्त्मना तेन ॥ ६३ ॥ अतीति । अत्युत्कण्ठया। एवं च पुरोवर्तित्वेन दर्शनयोग्यत्वं ध्वन्यते। वृतिविवरेण भित्तिच्छिद्रेण । एवं च सूक्ष्मत्वं व्यज्यते । सदनम् । नायिकाधिष्ठि- तमिति भावः। प्रवेशितो भुजो दयितास्पर्शेनोल्लसितः पुष्टिमापन्नस्तेन मार्गेण नागच्छति । यद्वातिसरलतया गुप्तव्यवहारेण नायिकासदनं प्रापितः । एवं च खस्य श्रमबाहुल्यं व्यज्यते । तत्सुखोल्लसितः । एवं च तदासक्तिविशेषो ध्वन्यते। तेन मार्गेण नागच्छति । एवं च महता श्रमेण नायिका प्रापितोऽयं तदासक्त्या माम- गणयित्वैव नायाति । परंतु नैतदुचितमिति व्यज्यते। इति दूती वक्ति । यद्वात्यु- स्कण्ठया। एवं चाग्रे किं भविष्यतीति विचारशून्यत्वं ध्वन्यते। वृतिविवरेण चौरा- दिमार्गेणापि सदनं प्रवेशितः । एवं च स्वतस्तथाविधधूतताविहीन इति व्यज्यते । दयितास्पर्शोल्लासित इत्यनेन तत्र चिरकालावस्थायित्वं द्योत्सते । अयं भुजो हस्त- रूपः । एवं च परप्रेरणया कार्यकारित्वमावेद्यते । तेन मार्गेण नागमिष्यति । एवं चातिविलम्बकरणेन येन मार्गेणायमागतस्तेन मार्गेण गन्तुमधुना प्रतिबन्धकवशान पार्यते । अलस्त्वमेनं कयापि गल्या निःसारयेति नायिकासखीं नायकसखी वक्ति। । ।
MANISHNARISMANANHIDABANDARATI आर्यासप्तशती। ४ नायको नायिका प्रति वक्ति- अम्बरमध्यनिविष्टं तवेदमतिचपलमलघु जघनतटम् । चातक इव नवमभ्रं निरीक्षमाणो न तृप्यामि ॥ ६ ॥ अम्बरेति । अम्बरमाकाशं वसनं वा । 'अंशुके व्योनि चाम्बरम्' इत्यमरः । तन्मध्यवर्ति । अतिचपलं रतव्यापारविशेषत्वात् । पक्षे खभावात् । अलघु महत् । तवेदं जघनतटं नवमभ्रं मेघं चातक इव निरीक्षमाणो न तृप्यामि । एवं च चिरतरपिपासाव्याकुलस्य चातकस्य नूतनमेघदर्शनेन तृप्तिस्तथातिविरहखिन्नस्य मम तव जघनदर्शनेन तृप्तिरिति व्यज्यते। तेन चात्यन्तस्पृहावानहमस्मीति व्यज्यते ॥ अयमन्धकारसिन्धुरभाराकान्तावनीभराक्रान्तः । उन्नतपूर्वाद्रिमुखः कूर्मः संध्यासमुद्रुमति ॥ ६५ ॥ अयमिति । अन्धकाररूपा ये सिन्धुरा गजास्तद्भारेणाक्रान्ता या मही तस्या भरेणाकान्तः । उन्नतं पूर्वाचलरूपं मुखं यस्य सः पृष्ठे भारातिशयेन मुखौन्नत्यमिति भावः । कूर्मः संध्यारूपं रुविरमुद्वमति । अन्यस्याप्यत्यन्तभारवत्तया मुखाल्लोहितं निःसरतीति लौकिकम् । एवं च प्रातःकालो वृत्तः, उपपतिनिःसार्यतामिति सखी नायिका वक्ति । यद्वा कूर्मोऽयं संध्यारूपं रुधिरं वमतीत्युक्त्या संध्योदयापलापो द्योत्यते । नायिका चेयं रतिप्रीतिमती तस्या एवोक्तिर्नायकं प्रति । प्रातःकालीनर- तावसरे नायिका नायकचित्तं व्याक्षिपतीति ऋजवः ॥ मूर्खेष्वेव मूर्खसमावेशः, न पण्डितेष्विति कश्चिद्वक्ति- अन्तर्भूतो निवसति जडे जडः शिशिरमहसि हरिण इव । अजडे शशीव तपने स तु प्रविष्टोऽपि निःसरति ॥ ६६ ।। अन्तर्भूत इति । जडे । मूर्खत्वात् । पक्षे जलरूपत्वात् । जडो मूर्खः । पक्षे पशुत्वात् । अन्तर्भूतः। परैर्विशिष्याज्ञायमान इत्यर्थः । निवसति । शिशिर- महसि चन्द्रे हरिण इव । अजडे पण्डिते । स तु मूर्खस्तु । पक्षेऽजडे तेजोरूप- त्वादिति भावः । तपने शशीच प्रविष्टोऽपि कुहूदिने चन्द्रमण्डलस्य सूर्यान्तर्हित- त्वमिति ज्योतिर्वित्प्रसिद्धिः । निःसरति दूरीभवति । शीघ्रमेवेति भावः ॥ ४ आ०स० । ।
त्र ror । । Healine मुकयोः । अत्र 'अल्पाच्तरम्' इत्यनेन ज्याशब्दस्य पूर्वनिपातः कश्चिज्यारूपो काव्यमाला। दूती 'नायिका त्वय्यासक्ता' इति वैद्यं वक्ति- अगणितजनापवादा त्वत्पाणिस्पर्शहर्षतरलेयम् । आयास्यतो वराकी ज्वरस्य तल्पं प्रकल्पयति ।। ६७ ॥ अगणितेति। न गणिता जननिन्दा यया । एवं च वैद्यस्य तथाविधत्वेन । प्रसिद्धिरित्यावेद्यते । त्वत्पाणिना स्पर्शः। नाडीप्रदर्शनार्थमिति भावः । तेन यो । हर्षस्तदर्थ चञ्चला । एवं च संभोगसुखार्थ किं करिष्यतीति न विद्म इति ध्वन्यते। : आयास्यतो ज्वरस्यागामिज्वरस्य चातुर्थिकादेतल्पं वराकी। एवं च कृपार्हत्व व्यज्यते । प्रकल्पयति । एवं चोत्साहविशेषवत्ता द्योत्यते। नाडीविलोकनार्थ त्वदा. गमननिर्णयेन ज्वरागमनदुः :खमपि न तया गण्यत इत्यासक्तिविशेषो ध्वन्यते ॥ एकवंशजन्यत्वेऽपि धनवत्तयैव प्रभुतेति कश्चिद्वक्ति । यद्वैकवंशजन्यत्वेऽपि कस्यचित्समृद्धिः कस्यचिन्न कश्चित्प्रधानं कश्चिद्गुणीभूत इति विधातुः सृष्टिविचि. त्रेति नात्र क्लेशादि विधेयमिति कंचन कश्चित्समाधत्ते- अप्येकवंशजनुषोः पश्यत पूर्णत्वतुच्छताभाजोः । ज्याकार्मुकयोः कश्चिद्गुणभूतः कश्चिदपि भर्ता ॥ ६८॥ अप्येकेति । एकवंशजयोरपि । वंशो वेणुः । पक्षे कुलम् । 'कुलत्वक्सारी वंशौ' इत्यभिधानात् । एकपदेन कारणैक्याद्वैलक्षण्यानहत्वं ध्वन्यते । स्थूलावयव- वत्त्वम् । पक्षे समृद्धत्वम् । तुच्छत्वं सूक्ष्मत्वम् । पक्षे निर्धनत्वम् । तद्वतोाका- गुणभूतः । कश्चित्कार्मुकरूपो भर्ता । 'ज्याप्रधानौ गुणौ', 'धातृपोष्टारौ भर्तारौ' इत्यभिधानात् । इदं पश्यत। एवं चैकवंशजत्वेऽपि यस्मिन्पूर्णत्वं स एव भर्ता, नान्य इति व्यज्यते । यद्वैकवंशजन्यत्वेऽपि दैवाधीनतया कस्यचित्समृद्धिप्रभुत्वे कस्यचि- दसमृद्धत्वाप्रधानत्वे इति नात्र खेद उचित इति ध्वन्यते । अथवाचेतनेऽपि गुणप्राधान्येनैव लक्षाप्तिः । अतो भवद्भिरप्यनयैव रील्या स्थेयम् । न तु सर्वप्रा- धान्येनेति परस्पराहंकारशालिनां समाधानमिदम् ॥ नायिकासहचरी नायकं वक्ति- अभिनवकेलिक्लान्ता कलयति बाला क्रमेण धर्माम्भः । ज्यामर्पयितुं नमिता कुसुमास्त्रधनुर्लतेव मधु ॥ ६९ ॥ अभिनवेति । अद्भुतसुरतश्रान्ता बाला । एवं च कोमलाङ्गीत्वमावेद्यते । - ।
आर्यासप्तशती। । । - मेण । कपोलाद्यङ्गक्रमेणेत्यर्थः। धर्माम्भः कलयति ।ज्यां मौर्वीमर्पयितुम् । सज्या कर्तुमित्यर्थः । नमिता कुसुमास्त्रस्य मदनस्य धनुर्लता मकरन्दमिव । एवं च यथा यथा सुरतविशेषारम्भस्तथैतस्याः श्रमातिशयः । अतो मध्ये मध्ये विश्रान्तिदेयेति वन्यते। तेन च किंचित्कालं तूष्णीमवस्थित्या पुनः पूर्ववदाय ते भावीति योत्यते । यद्वा ज्यामर्पयितुमित्यादिदृष्टान्तव्याजेन सुखादिदानप्रवृत्तेन त्वया नैतस्याः श्रमो गणनीय इति व्यज्यते । अथवा मदनधनुर्लताया यथा नमनकाले मधुबि- न्दूविरणं स्वाभाविकं तथैतस्याः सुरतकालीनखेदाम्भः खाभाविकम् । अतो ने मनसि त्वयैतस्याः श्रमवत्ता संभावनीयेति घोत्यते ॥ कश्चन विरही वक्ति- असती कुलजा धीरा प्रौढा प्रतिवेशिनी यदासक्तिम् । कुरुते सरसा च तदा ब्रह्मानन्दं तृणं मन्ये ॥ ७० ॥ असतीति ।असती । इत्यनेन खनिष्टप्रेमशालित्वमावेद्यते । कुलजा वंशजा । इत्यनेन स्थिरप्रेमवत्त्वमावेद्यते । धैर्यवती धीरा । इत्यनेन स्थिरखभाववत्त्वम् । तेनापि तदेव । प्रौढा । इत्यनेन खतन्त्रत्वं तेन च संकेतकरणसमर्थत्वम् । प्रतिवे- शिनी । इत्यनेन तदेव । रसशालिन्यासक्तिं यदा कुरुते तदा ब्रह्मानन्दं तृणं मन्ये । एवं चैतादृशनायिका ब्रह्मानन्दवदप्राप्यर्थः ॥ चिरविरहखिन्नां नायिका नायको वक्ति- अविरलपतिताश्रु वपुः पाण्डु स्निग्धं तवोपनीतमिदम् । शतधौतमाज्यमिव मे स्मरशरदाहव्यथां हरति ॥ ७१ ॥ अविरलेति । अविरलपतिताश्रु । चिरकालीनदर्शनादिति भावः । पक्षे जल- संबन्धादिति भावः । पाण्डु । विरहादिति भावः । पक्ष उज्ज्वलरूपम् । स्निग्धं स्नेहशालि । पक्षे खाभाव्यादिति भावः । उपनीतं समीपदेशे प्रापितं वपुः शतधौ- ताज्यमिव मे स्मरशरदाहव्यथां हरति । एवं च यथा जीर्णज्वरादेर्नाशकं शतवा- रक्षालितं घृतं तथा त्वद्वपुर्मम चिरकालीनसंतापापनोदकम् । अतः समालिङ्गय मामिति ध्वन्यते ॥ एतस्याः संभोगस्थानं केदार एवेति कश्चिद्वक्ति- अन्तर्निपतितगुञ्जागुणरमणीयश्चकास्ति केदारः । निजगोपीविनयव्ययखेदेन विदीर्णहृदय इव ॥ ७२ ॥ अन्तरिति । अन्तर्निपतिता गुञ्जाश्च गुणश्च तै रमणीयः सुन्दरः। यता काव्यमाला। - . गुञ्जारूपो यो गुणः । शोभोत्कर्षजनकत्वादिति भावः । संभोगादिना गुञ्जाहारत्रुट- नादिति भावः । केदारश्चकास्ति । निजा या गोपनकीं। एवं च खेदौचित्वं बोलते । तस्या विनयविनाशेन यदुःखं तेन विदीर्णहृदय इव । निपतितगुञ्जाना- मारतत्वादिति भावः। यथा खपालकस्य मुख्यवस्तुविनाशे सेवकस्य दुःखं भवति. तथा विनयस्यातिमुख्यत्वेन तन्नाशे केदारस्यातिदुःखमिति भावः । यद्वा नायिका- न्यादृशचरणविज्ञानेऽप्यखिन्नां सखीमपरसखी वक्ति । अन्तरिति । गोपीपदेन नीचत्वं तेन च विनयव्ययेऽपि न तथा खेदार्हत्वमित्यावेद्यते । केदार इत्यनेनाचे- तनस्यापि खामिनीविनयव्ययेन दुःखवत्ता । तव तु सचेतनाया नेति महदनुचित- मित्यावेद्यते । अत एव गुणपदम् । सहृदयमित्यर्थः ।। परपुरुषरतानामनिवार्य दौष्ट्यामित्याह कश्चित्- अमुना हतमिदमिदमिति रुदती प्रतिवेशिनेऽङ्गमङ्गमियम् । रोषमिषदलितलज्जा गृहिणी दर्शयति पतिपुरतः ॥७३॥ अमुनेति । रुदती । अत एव कोपकपटेन । न वास्तवमित्यर्थः । दलिता विनाशिता लज्जा यया । अमुना नायकेनेदमिदमङ्गं हतमित्यङ्गमङ्गम् । वक्षःस्थला- दिकमित्यर्थः । पतिसमक्षम् । पतिपदं रक्षणकर्तृत्वेनाप्रियत्वं ध्वनयति । प्रतिवेशिने जारभूताय । प्रतिवेशिपदं निकटवर्तितया खदुःखनिवेदनयोग्यत्वं ध्वनयति । गृहिणी । एवं च गृहकर्मव्यापृताया अप्येतादृशी गतिस्तत्रान्यवार्ता केति भावः । दर्शयति । पतिपुरतोऽप्येतादृशकर्तव्यतानिपुणाः स्त्रियो भवन्तीति सर्वथा न विश्वा- सस्तासां विधेय इति ध्वन्यते ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेताकारव्रज्या। । आकारनज्या क्वचिदन्यत्र विहितकोल 'कथं न मय्यनुरागं दर्शयसि' इति वादिनं नायक नायिका वक्ति- आन्तरमपि बहिरिव हि व्यञ्जयितुं रसमशेषतः सततम् । असती सत्कविसूक्तिः काचघटीति त्रयं वेद ॥ ७४ ॥ आन्तरमिति । आन्तरमपि । इत्यपिना बहिर्व्यञ्जनेऽतिकाठिन्यमावेद्यते। रसं रागम्, शृङ्गारादिकम् , द्रवद्रव्यं च । 'शृङ्गारादौ विषे वीर्ये गुणे रागे के आर्यासप्तशती। - । । रसः' इत्यभिधानात् । हि इति निश्चयेन । अशेषतो बहिरिव । व्यजयितुं प्रकटी- कर्तुम् । असती पुंश्चली, सत्कवेः सूक्तिः, काचघटी, इति त्रयं सततं वेद । एवं व नास्माकं बहिरङ्गरागप्रकटनज्ञानमित्यावेद्यते । तेन च यत्रैव बहिरङ्गानुरागज्ञाप- नसामथ्र्य तत्रैव गच्छति । प्रसादरूपगुणवत्त्वादेव सत्काव्यमिति वतीति कश्चित् ।। कश्चिनायिका वक्ति- आलोक एव विमुखी क्वचिदपि दिवसे न दक्षिणा भवसि । छायेव तदपि तापं त्वमेव मे हरसि मानवति ।। ७५॥ आलोक एवेति । आलोक एव दर्शन एव । पक्षे प्रकाश एव विमुखी । एवं चालिङ्गनादौ किं करिष्यसीति न विद्म इति भावः । कचिदपि कस्मिंश्चिदपि दिवसे दक्षिणानुकूलगामिनी । मानवति मानिनि । पक्षे परिमाणवति । तदपि त्वमेव मे छायेव तापं संतापम् । पक्ष आतपम् हरसि । एवं च त्वदतिरिक्ता न मम गतिरित्यवगत्याहमनुग्राह्य इति व्यज्यते ॥ कश्चित्कंचित्प्रति वक्ति- आज्ञा काकुर्याच्माक्षेपों हसितं च शुष्करुदितं च । इति निधुवनपाण्डित्यं ध्यायंस्तस्या न तृप्यामि ॥ ७६ ॥ आज्ञेति । आजैवं कुर्विति, काकुर्दीनवचनम् । येनोद्दीपनादि भवतीति भावः । याच्यामुकं मह्यं देहीति, आक्षेपः कथमिदं कृतमिति, हसितम् । आनन्दाविर्भावा- दिति भावः। शुष्करुदितम् । खस्मिन्नसामर्थ्यव्यञ्जनायेति भावः । इति तस्या निधुवनं सुरतं तत्संबन्धि पाण्डित्यं ध्यायन तृप्यामि। एवं चैतादृशकेलिकलाप्रा- वीण्यमन्यत्र नास्तीति व्यज्यते । तेन चैतादृशनायिकासुरतध्यानं समुचितमिति ॥ कांचिन्मानिनी सखी समाधत्ते- आज्ञापयिष्यसि पदं दास्यसि दयितस्य शिरसि किं त्वरसे । असमयमानिनि मुग्धे मा कुरु भगाङ्कुरं प्रेम ॥ ७७ ।। आज्ञापयिष्यसीति । आज्ञां करिष्यसि । एवं च नायके स्वाधीनता भवि- नीति ध्वन्यते । न केवलमाज्ञाकारित्वम्, अपितु प्रणिपातप्रवणता तस्य भविष्यती- त्याह-दयितशिरसि पदं दास्यसि किंवरसे। एवं चैतत्क्रमेण विधेयमिति भावः । मुग्धे अत एवासमयमानिनि, प्रेम भनाङ्कुर मा कुरु। एवं च दृढे प्रेम्णि सर्वमेता- ।
काव्यमाला। । दग्विधानं युक्तमिति प्रीत्या स्वाधीनता नीत्वा पश्चात्कोपकरणमुचितमिति व्यज्यते। अथादौ दासभावं विधाय पश्चाचरणताडनं विधेयमिति लौकिकोक्तिरपि । नायकः खस्य सखायं वक्ति- आसाद्य भङ्गमनया द्यूते विहिताभिरुचितकेलिपणे । निःसारयताक्षानिति कपटरुषोत्सारिताः सख्यः ॥ ७८ ॥ आसाद्येति । विहिता अभिरुचिता खेच्छाविषयीभूता या केलिस्तद्रूपः पणो यस्मिन् । यस्य पराजयस्तेन जयशालिरुचिविषयीभूतसुरतं देयमेवंरूपपणवतीति भावः । द्यूते भङ्गं पराजयं प्राप्यानया नायिकयाक्षान्पाशान्निःसारयतेति कपटरुषा मिथ्याकोपेन सख्य उत्सारिता दूरीकृताः। एवं चेदृशक्रीडनं न कदाप्यस्तु । अप- सारयन्तु पाशानिति मिषेण सख्याधुत्सार्य प्रतिज्ञातकेलिं कुरुष्वेति मां प्रत्यभिव्य- ञ्जितमिति व्यज्यते । तेन चैतादृशी नान्या चतुरेति भावः ॥ सखी नायिकामुपदिशति- आदरणीयगुणा सखि महता निहितासि तेन शिरसि त्वम् । तव लाघवदोषोऽयं सौधपताकेव यच्चलसि ॥ ७९ ॥ आदरणीयेति । आदरणीया गुणाः. सौन्दर्यादयो यस्याः। पक्षे गुणास्त- न्तवः । महता भान्येन । पक्ष उन्नतेन । तेन नायकेन । पक्षे सौधेन । शिरसि । पक्षेऽग्रभागे । निहितासि । एवं च नायकस्तवाज्ञां सर्वदा करोतीति न तस्यापराध इति भावः । तवायं लाघवदोषः । दोषपदेन लाघवे परित्याज्यत्वं द्योत्यते । सौध- प्रताकेव यच्चलस्यस्थिरचित्ता भवसि । पक्षे चलनं कम्पः । एवं चैतादृशनायकं प्रति क्रोधादिना चाञ्चल्यकरणमनुचितं तवेति ध्वन्यते ॥ 'एतादृशत्वदीयदर्शनेन ममासक्तिस्त्वय्यत्यन्तं समुदेति' इति कश्चिकांचिद्वक्ति । यद्वा त्वया तिरस्कृतस्त्वदर्थमेवाहं तपः करोमि' इति कांचित्कश्चिदाह- आर्द्रमपि स्तनजघनान्निरस्य सुतनु त्वयैतदुन्मुक्तम् । खस्थमवाप्तुमिव त्वां तपनांशूनंशुकं पिबति ॥ ८० ॥ आमिति । आर्द्रमपि । सजलत्वादिति भावः । पक्षे प्रेमवत्त्वादिति भावः। एवं च त्यागानहत्वं ध्वन्यते । स्तनजघनान्निरस्य । पक्ष आलिङ्गनाद्यदत्त्वेत्यर्थः । सुतनु । एवं च स्पृहणीयत्वमावेद्यते । त्वयोन्मुक्तमेतदंशुकं वस्त्रम् । पक्षेऽशुक- - । । ।
आर्यासप्तशती। ५५ मिव । सूक्ष्मत्वादिति भावः। एवं च विरहातिशय आवेद्यते। खस्थमन्तरिक्षस्थम् । पक्षे निरवलम्बनम् । एवं च त्वमेव ममावलम्बनमिति व्यज्यते । त्वामवाप्तुमिव सूर्यकिरणान्पिवति । एवं चाचेतनस्याप्यंशुकस्यैतादृशीं त्वामवलोक्यैतादृशी स्पृहा । किमु वाच्यं मादृशस्येति भावः । अथवा अचेतनांशुकमपि त्वत्समागमाय तपस्तपति तंत्र का वार्ता सचेतनस्य ममेति भावः। अन्योऽप्यन्तरालावस्थितस्तपनकरपानमा- श्रेणेव तपस्तपतीति लौकिकम् ॥ कश्चित्कस्याश्चिच्चेष्टां वक्ति- आरोपिता शिलायामश्मेव त्वं स्थिरा भवेति मन्त्रेण । मनापि परिणयापदि जारमुखं वीक्ष्य हसितैव ॥ ८१ ॥ आरोपितेति । 'अश्मेव त्वं स्थिरा भव' इति मन्त्रेण शिलायामारोपिता स्थापितचरणा। परिणयो विवाहस्तद्रूपापत् । दुःखदत्वादिति भावः । आपत्पदं दुःसहत्वमावेदयति । तया मनापि जारमुखं वीक्ष्य हसितैव। एवं चैते मूर्खाः, यत्प्रथमतो मद्विवाहः कृतस्तत्रापि स्थिरत्वप्रार्थना क्रियते, नैतावता त्वया भेतव्य- मिति ध्वन्यते । यद्वा परमविपत्तौ पतितापि बहुभिः 'स्थिरा भव' इति प्रार्थितापि जारमुखमवलोक्य हसनेन स्वस्य चिन्ताविहीनत्वं प्रदर्शयति । सा त्वं त्वद्याप्यपरि- णीता किमर्थ विमेषीति काचित्कांचिद्वक्ति ॥ अन्याङ्गनागमनखिन्नां नायिका नायकः समाधत्त- आयाति याति खेदं करोति मधु हरति मधुकरीवान्या । अधिदेवता त्वमेव श्रीरिव कमलस्य मम मनसः ॥ ८२ ॥ आयातीति । मधुकरीवान्यायात्यागच्छति, याति गच्छति, खेदं करोति । चाञ्चल्यखभावादिति भावः। एवं च तदागमने न मम सुखमिति द्योत्यते । मधु मकरन्दं हरति । उन्मादकत्वसंबन्धेन मधुपदेन द्रव्यं लक्ष्यते । एवं च न वास्तवं प्रेम तस्यामिति ध्वन्यते। मम मनसोऽधिदेवता त्वमेव । कमलस्य श्रीरिव । एवं च मन्मनसि सर्वदा त्वमेव वससि । सा तु कादाचित्कागमनवतीति न त्वया मयि विधेयः खेद इति द्योत्यते ॥ सखी नायिकामुपदिशति- आसाद्य दक्षिणां दिशमविलम्ब त्यजति चोत्तरां तरणिः । पुरुषं हरन्ति कान्ताः प्रायेण हि दक्षिणा एव ॥ ८३ ।। आसाद्येति । दक्षिणां याम्यां दिशमासाद्याविलम्ब शीघ्रं तरणिरुत्तरां दिशं काव्यमाला। । । त्यजति । प्रकृतं वक्ति । दक्षिणा एव चतुरा एव कान्ताः प्रायेण बाहुल्येन । एवं वैका चतुरापि न हरति । तथा परक्षान्तिरिति भावः । पुरुष हरन्ति । एवं च त्वया खचातुर्येणैव नायकः खाधीनताभाजनं विधेय इति व्यज्यते । पक्षे। कर्क- टादिषड्राशिसंचरणरूपदक्षिणायने तरणेः क्रमेण सप्तपञ्चाशदष्टपञ्चाशदेकोनषष्टिष- थ्येकषष्टिचतुर्विंशतिविकलासहितैकषष्टिकला इत्येवं द्रुतगतिः । मकरादिषड्राशिसंच- रणरूपोत्तरायणे क्रमेण चतुर्विंशतिविकलासहितैकषष्टिषष्टयेकोनषष्ट्यष्टपञ्चाशत्सप्तप- चाशत्कला इत्येवं मन्दगतिरिति ज्योतिर्वित्प्रक्रिया ॥ कश्चिदन्योक्त्या नायिका स्तौति- आदानपानलेपैः काश्चिद्दरलोपतापहारिण्यः । सदसि स्थितैव सिद्धौषधिवल्ली कापि जीवयति ॥ ८४ ॥ आदानेति । काश्चिदौषध्य आदानं मन्त्रपूर्वकं ग्रहणम् , पानं गलाधःकरणम् , लेपः सर्वाङ्गसंयोगः, एतैर्गरलस्योपतापहरणसमर्थाः। काप्यनिर्वचनीया सिद्धौष- विवल्ली जीवयति । एवं च दूरतोऽपि त्वया दर्शनमवश्यं देयमिति ध्वन्यते। यद्वा- न्याङ्गनाश्चैलाञ्चलाकर्षणाधरपानसर्वाङ्गीणालिङ्गनैः संतापापनोदनसमर्थाः। त्वं केव- लमवलोकिता विरहविगतासोरसुप्रदा भवसीति ध्वन्यते । तेन चान्याङ्गनाभ्योऽ- धिका त्वमिति स्तुतिय॑ज्यते। यद्वा तस्या दर्शनमात्रेणैवाह जीवामीति नायिका- सखी प्रत्युक्ति यकस्य ॥ नायिकासखी नायकं वक्ति- आन्दोललोलकेशी चलकाञ्चीकिङ्किणीगणक्कणिताम् । सरसि पुरुषायितां तां सरचामरचियष्टिमिव ॥ ८५ ॥ आन्दोलेति । आन्दोलनमान्दोलस्तेन चञ्चलालकाम् , चपलमेखलाक्षुद्रघण्टि- कासमूहस्य क्वणितं शब्दो यस्यास्ताम् , एतादृशीं पुरुषायितां विपरीतरतकारिणीं तां प्रसिद्धगुणां स्मरसीति । काक्का न स्सरसीत्यर्थः । एवं चैतादृशगुणशालिन्यास्तस्या यदि तवानुसंधानं भवेत्तर्हि कथमन्यत्रासक्तिसंभावनेति भावः। स्मरस्य चामरचिह्नस्य यष्टिमिव । एवं च यथा चामरादिराजचिह्नः सर्वैरयं राजेति ज्ञायते तथानया मद- नोऽयमिति । मदनप्रसिद्धिसंपादकत्वेनातिसौन्दर्यादिगुणवत्ता नायिकायामावैद्यते ॥ - आयांसप्तशती। ५७ नायको नायिका वक्ति-- आक्षिपसि कर्णमक्ष्णा बलिरपि बद्धस्त्वया त्रिधा मध्ये । इति जितसकलवदान्ये तनुदाने लज्जसे सुतनु ॥ ८६ ।। आक्षिपसीति । हे सुतनु, अक्ष्णा नेत्रेण कर्ण श्रवणम्, राधेयं च । आक्षि- पसि स्पृशसि, तिरस्करोषि च । त्वया बलिरपि त्रिवली । ववयोक्यात् दैत्यश्च । मन्ये त्रिधा बद्धः । नित्यनेनात्यन्तं निर्जितत्वं द्योत्यते । त्रिवलीवाचकस्य वलि- शब्दस्य पुंस्त्वं श्लेषानुरोधान्निरङ्कुशत्वाद्वा । इत्यमुना प्रकारेण जिताः सकला वदान्याः प्रदातारो यया तत्संबुद्धिः। तनुदाने शरीरदाने, स्वल्पदाने च । लज्जसे। एवं चात्यन्तौदार्यशालितया तव तनुदानमपि तनुदानमेवेति ध्वन्यते। तेन चैतद्दाने विलम्बो न विधेय इति भावः ।। कस्यचिदत्यन्तनायिकासक्तिं कश्चिद्वक्ति- आक्षेपचरणलङ्घनकेशग्रहकेलिकुतुकतरलेन । स्त्रीणां पतिरपि गुरुरिति धर्म न श्राविता सुतनुः ॥ ८७ ॥ आक्षेपेति । आक्षेपस्तिरस्कारः, चरणलङ्घनं चरणाहतिः, केशग्रहः, एतेषां यत्केलिकुतुकं तत्र तरलेन समासक्तेन स्त्रीणां पतिगुरुरिति धर्म श्रावितापि न । एवं च साहजिकधर्मचर्यायामपि नैतदुदीरितं तत्र नोपदिष्टमिति किम वाच्यमिति भावः। एवं चैतच्छ्रवण आक्षेपादि न विधेयं त्वयेति भीतिव॑न्यते। तेन चात्यन्तकेलिल- म्पटत्वम् । श्वशुरादिसमुच्चायको यथास्थित एवापिशब्द इति ऋजवः ॥ नायिका नायकाकस्मिकसङ्गं सखी वक्ति- आगच्छतानवेक्षितपृष्ठेनार्थी वराटकेनेव । मुषितास्मि तेन जघनांशुकमपि वोढुं नशक्तेन ।। ८८ ॥ आगच्छतेति । हे सखि, अनवेक्षितं वीक्षणाभाववद्यत्पृष्ठं तेनागच्छतागम- नवता । एवं च संमुखागमनाभावेन दर्शनाभावो व्यज्यते । पक्षेऽनवेक्षितं पृष्ठं यस्य । आगच्छतेति । हे सखि, अनवेक्षितं वीक्षणतामप्राप्तेन नायकेन जघनस्य यदंशुकं वासस्तदपि वोढुं मुषितास्म्यसमर्था जातास्मि । एवं चोत्तरीयवसनग्रहणं दूरापास्तमिति भावः । नन्वागमनसमय एव न कुतो गतं त्वयेत्यत आह-न विद्यते शक्तो यस्मात्तेन । समर्थनेत्यर्थः । एवं च ततोऽपसरणमशक्यमिति भावः । यद्वा काव्यमाला। । काका न मुषितासि । अपि तु मुषितास्मि । पङ्गेऽशुरेवांशुकस्तं किरणमपि वोढुं नशक्तेनासमर्थेन । दृष्टान्तमाह-वराटकेन कपर्दैनार्थीव याचक इव । एवं च पश्चा- द्भागीयकिरणशून्येन सच्छिद्रेण कपर्दैन यथा याचको मुषितो भवति तथाकस्मि- कपश्चादागमनशालिना स्नानावसानसमये जघनांशुकग्रहणेऽपि हतचित्ता जातेति भावः । गौडदेशे पृष्ठभागच्छिद्रवता कपर्देन व्यवहरन्ति तदभिप्रायेणेदम् । यद्वान- वेक्षितपृष्ठेन खपश्चाद्भागानवलोकनेन । एवं च भीतिशून्यत्वेन विह्वलत्वं व्यज्यते जघनांशुकमपि वोढुं नशक्तेन । एवं च विरहक्षीणतया वाससि रूपत्वं ध्वन्यते एतादृशेन मुषितास्मि । एवं च तथाविधतदीयासक्तिमालोच्याहमपि तन्निमग्नमनस्का जातास्मीति नायिका वक्तीत्यर्थः । अन्योऽपि चोरः पृष्ठतः समागत्य लुण्ठनं करोति यथा जघनांशुकमपि न भवतीति लौकिकम् । नशतेनेति वचनात्तथा मुषितारिस यथा जघनांशुकमपि वोढुमसमथैवेत्यवधारणार्थक इवशब्दः ॥ प्रणयकोपमवलम्ब्य सुप्तां नायिकां प्रति सखी वक्ति- आकुञ्चितैकजचं दरावृतोवोरु गोपिता|रु । सुतनोः श्वसितक्रमनमदुदरस्फुटनाभि शयनमिदम् ॥ ८९ ॥ आकुञ्चितेति । आकुञ्चितैका जङ्घा यस्मिन् , दरमीषदावृत ऊर्ध्वमूर्यत्र, गोपितोऽत्यन्तमाच्छादितो|ऽयंत्र, श्वसितक्रमेण नमद्यदुदरं तेन स्फुटा नाभिर्यत्र । क्रियाविशेषणान्येतानि । सुतनोरिदं शयनम् । 'स्यान्निद्रा शयनम्' इत्यमरः । एवं च त्वमेवैनां प्रसादयेति व्यज्यते। यद्वा सुरतश्रान्तशयनजातिवर्णनमेतत् ॥ सखी नायकं प्रति नायिकासक्तिविशेषमाह- आदाय धनमनल्पं ददानया सुभग तावकं वासः । मुग्धा रजकगृहिण्या कृता दिनैः कतिपयैर्निःस्खा ॥ ९० ॥ आदायेति । अनल्पं बहु द्रव्यमादाय गृहीत्वा तावकं वासो वस्त्रं ददानया रजकगृहिण्या। एवं च संसारनिर्वाहकत्वं तस्या इति भावः । मुग्धा सुन्दरी, मूढा च। कतिपयैर्दिनैनिःस्खा विगतद्रव्या कृता । एवं च वसनदर्शनमात्रेण धनव्ययमपि न गणयति, तत्र का वार्ता त्वदङ्गसङ्ग इति व्यज्यते ॥ कस्यचिद्दुष्टस्याधिकारदापनाय प्रयत्नशालिनं प्रति कश्चिदन्योन्या वक्ति- आस्तां वरमवकेशी मा दोहदमस्य रचय पूगतरोः । एतस्मात्फलितादपि केवलमुद्वेगमधिगच्छ ॥ ९१ ॥ आस्तामिति । अस्य पूगतरोर्दोहदम् । फलजननार्थमिति भावः । मा रचय। । na आर्यासप्तशती। । अवकेशी निष्फलः । 'वन्ध्योऽफलोऽवकेशी च' इत्यमरः । आस्तामिदं वरम् । अत्र हेतुमाह-एतस्मात्फलितात्केवलम् । एवं चान्यफलाभाव इति भावः । उद्वेगमधैर्यादि फलम् । क्रमुक इत्युपक्रम्य 'अस्य तु । फलमुद्वेगम्' इत्यमरः । अधिगच्छ जानीहि । एवं चैतस्याधिकारे संपादिते तवोद्वेग एव भविष्यतीति ।। दुष्टावलम्बनपुरःसरारब्धकार्यस्यावश्यमनर्थजनकत्वमिति कश्चिदन्योक्त्या वति- आरब्धमब्धिमथनं खहस्तयित्वा द्विजिह्वममरैर्यत् । उचितस्तत्परिणामो विषमं विषमेव यज्जातम् ॥ ९२ ॥ आरब्धमिति । अमरैर्देवैः । एवं चैतादृशोद्योगशालित्वं युक्तमित्यावेद्यते । यदिजिह्व सर्पम् । पक्षे तात्कालिकान्यथावादिनम् । स्वहस्तयित्वा स्वकरे विधाय । पक्षे खाधीनीकृत्य । अब्धिमथनमारब्धं तस्य परिणाम उचित एव यद्विषमम् । दाहकत्वादिति भावः । विषं जातमुत्पन्नम् । एवं च यथा द्विजिह्वावलम्बनेन समुद्र- मथने विषमभवत्तथा दुष्टावलम्बनेनारब्धकार्यपरिणामेऽसम्यगेव फलं भावीति व्यज्यते । यथास्थितैवकारयोजनं त्वन्यफलोत्पत्तिश्रवणादसमञ्जसम् । यद्वामराणा- मप्येतादृशावलम्बनपुरःसरारब्धकार्य एतादृशमभवत्तत्र का वार्तान्यस्येति व्यज्यते॥ आवर्जितालकालि श्वासोत्कम्पस्तनार्पितैकभुजम् । शयनं रतिविवशतनोः स्मरामि शिथिलांशुकं तस्याः ॥ ९३ ॥ आवर्जितेति । आवर्जिता संयमिता केशपतियंत्र, श्वासैरुत्कम्पौ यौ स्तनौ तयोरर्पित एको भुजो यत्र, शिथिलमंशुकं यत्र, रत्या विवशा खानधीना तनुर्य- स्यास्तस्याः। एवं च निःसहाङ्गत्वं ध्वन्यते । शयनं स्मरामि । सुरतश्रान्तनायिका- खापवर्णनमेतत् ॥ नायको नायिका वक्ति- आम्राङ्कुरोऽयमरुणश्यामलरुचिरस्थिनिर्गतः सुतनु । नवकमठकपरपुटान्मूर्धेवोवं गतः स्फुरति ॥ ९४ ॥ आनेति । चूताङ्कुरोऽरुणश्यामला रुचिदीप्तिर्यस्य । अस्थि कर्कशोपरिभागः । ततो निःसृतः । हे सुतनु स्फुरति । नवो नूतनो यः कमठस्तस्य यत्कर्परपुटं पृष्ठास्थि तस्मादूर्ध्व निःसृतो मूर्धेव । एवं चाम्राङ्कुरोत्पत्तिकथनेन, कमठार्भकस्मार- णेन, प्रावृट्कालागमनोपन्यासेन, नेदानीं ते मानविधानमुचितमिति व्यज्यते । याम्राङ्कुरोऽयमित्यादिना प्रावृट्प्रादुर्भावशंसनेनावश्यं पतिस्ते समायास्यतीति सखी ।
६० काव्यमाला। - । चिरविरहखिन्नां नायिकां समाधत्त इत्यर्थः । केचितु ब्रीडाकरसंस्थानसादृश्यावधा- रणेन सामान्यवनितामुपहसति कश्चिदित्याहुः । यत्तु नायिकाचित्तव्याक्षेपपरमिद- मिति तत्केनापि नायिकाचित्तव्याक्षेपासंपादनाद्वात्स्यायनादिमिरकथनाचानुचितमित्या- भाति । एवं 'दरफुडिअ' इत्यादिप्राकृतगाथापि योज्या ।। कश्चित्कंचित्प्रति वक्ति- आभङ्गुराग्रबहुगुणदीर्घाखादप्रदा प्रियादृष्टिः । कर्षति मनो मदीयं हृदमीनं बडिशरज्जुरिव ॥ ९५ ॥ आभङ्गुरेति । आभडरामा कुटिलकटाक्षा, बहुगुणा वशीकरणतादिशालिनी। यद्वार्जुनकृष्णरक्तरूपशालिनी । दीर्घा कर्णान्ते प्रसरणशीला, आखादप्रदा सुखदा, प्रियादृष्टिः। पक्षे कुटिलाग्रा, बहुतरसूत्रैमहत्तरा । यद्वा बहुतन्तुमयी। लम्बायमाना, मधुरवस्तुदात्री । एवं च मोचनायोग्यत्वम् , दृढत्वम् , दूरतोऽपि कार्यसंपादकत्वम्, अवश्यं जनलोभनीयत्वं च क्रमेणोभयत्र ध्वन्यते । मदीयं मनः कर्षति । एवं च न ममापराध इति भावः । ह्रदमत्स्यम् । हृदपदेन खस्मिन्गाम्भीर्यमावेद्यते । बांडेशर जरिव । 'बडिशं मत्स्यवेधनम्' इत्यमरः । एवं च यथा बडिशरज्ज्वाकृष्ट- मत्स्यस्य हृदावस्थितिरसंभाविनी तथा प्रियादृष्ट्याकृष्टस्य मन्चेतसोऽप्यवस्थितिरिति व्यज्यते । तेन च ज्ञानशून्यत्वं तेनापि त्वदुपदेशापात्रमहमिति ॥ नायिकासखी नायकं वक्ति-- आलप यथा यथेच्छसि युक्तं तव कितव किमपवारयसि । स्त्रीजातिलाञ्छनमसौ जीवितरका सखी सुभग ॥ ९६ ॥ आलपेति । यथा यथेच्छसि तथालप त्वन्मनसि यदायाति तद्यथेष्टं वद। वाच्यावाच्यविचारं मा कृथा इति भावः । इदं युक्तं तव । न ममेति भावः। यद्वा नान्यस्य समीचीनस्य । कितव धूर्त । एवं चैतादृशवक्तृतायोग्यत्वं तवेति भावः । किमपवारयसि गोपयसि । दुष्टो नेति वदसीति भावः । यद्वा यथा समाधातु शक्यं यथा वचनरचनां कुरु । एवं च तत्र नास्माकमास्थेति भावः । एवं च गोपनेन किं सर्वमेवास्मामिस्त्वद्वृत्तं ज्ञायत इति व्यज्यते। स्त्रीमात्रकलङ्कभूतेयं मत्सखी। एवं चान्याभि वंविधं सोढुं शक्यमिति भावः । जीवितार्थ रङ्का दीना। एवं च त्वदनालोकनेन तस्या मरणमेव भावीति भावः । सुभग । कथमन्यदृश- प्रियात्राप्तिरिति भावः । एवं चेयं जीवितमात्राभिलाषिणी त्वदीयमेतादृशदुश्चेष्टितं - आर्यासप्तशती। सहते, नान्ययैवं सह्यमिति खसख्यासक्तिर्नायके तस्य चेतरनायकाधिक्यं व्यज्यते। तेन तथाविधायां तस्यां तवैतादृशाचरणमनुचितमिति ॥ काचिन्नायिका नायकं प्रत्यन्योक्त्या वक्ति- आखादितोऽसि मोहात विदिता वदनमाधुरी भवतः । मधुलिप्तक्षुर रसनाच्छेदाय परं विजानासि ॥ ९७ ॥ आस्वादितोऽसीति । मधुलिप्तपदेनोपरितना माधुर्यवत्ता व्यज्यते । क्षुरप- देन क्षतजननयोग्यत्वं वन्यते। मोहाड्रमादाखादितोऽसि । भवतो वदनस्य माधुरी विदिता । बत खेदे। एतदेवाह-रसनाच्छेदाय परं विजानासि । एवं च केवलं वदनमाधुर्यमात्रेण परकीयं वाक्प्रसरं खण्डयित्वान्तदौष्ट्यं करोषीति व्यज्यते । यद्वा प्रीत्यारम्भ एवैतादृशं त्वया कृतम् , अतोऽग्रे त्वत्संगतिरत्यन्तदुःखदेव भावि- नीति नातस्त्वत्संगतिमहं विधास्य इति व्यज्यते ॥ अनासादितनायकरसां सामान्यवनितां सखी वक्ति- आकृष्टिभग्नकटकं केन तव प्रकृतिकोमलं सुभगे। घन्येन भुजमृणालं ग्राह्यं मदनस्य राज्यमिव ॥ ९८॥ आकृष्टिरिति । आकृष्ट्या । अवलम्बनेनेत्यर्थः । पक्षे विमर्दैन । भन्नं कटकं वलयम् । पक्षे सैन्यम् । यस्याः । एवं चावलम्बनमात्रेण भञ्जनाहत्वप्रतिपादनेन, वलयेऽतितनीयस्त्वद्योतनेन, कामिन्यामतिकोमलाङ्गीत्वं द्योत्यते । प्रकृत्या खभावेन । पक्षे प्रजाभिः । कोमलं मृदु । पक्षे सौम्यम् । सुभगे सौभाग्यशालिनि. तव भुजमृणालम् । खभावकोमलत्वेऽपि मृणालरूपत्वप्रतिपादनेनातिकोमलत्वं ध्वन्यते । यद्वा संतापनोदकत्वमात्रमत्र केन धन्येन ग्राह्यम् । मदनस्य राज्य- मिव । एवं च यस्य तव पाणिस्पर्शी भविता स मदनमहीपतिरेवेति व्यज्यते । तेन च त्वं रतिरूपति । यद्वा बलादाकृष्टकरां सामान्यवनितामवलोक्य तत्सखी वक्ति । भग्नकटकमित्यनेन वलयार्थमेतस्माद्वसु ग्राह्यमिति व्यज्यते । धन्येन धनव- तेत्यर्थः। केन सुखेन ग्राह्यम् । एवं चान्येन न ग्रहीतुं शक्यमिति भाव इत्यर्थः । अविवाहितां कांचित्काचिद्वक्तीत्यपि ॥ कश्चित्कांचिद्वक्ति- आरुह्य दूरमगणितरौद्रक्लेशा प्रकाशयन्ती खम् । वातप्रतीच्छनपटी वहिनमिव हरसि मां सुतनु ।। ९९ ॥. आरोति । दूरमारुह्य । प्रासादशिखरमिति भावः । अगणितो. रौदो काव्यमाला। । । दुःसहः । पक्षे धर्मसंबन्धी क्लेशो यया। स्वमात्मानं प्रकाशयन्ती मां सुतनु हरसि खाधीनतां नयसि । वातप्रतीच्छनपटी वातानुकूलगमनजनकं वस्त्रं वहिनमिव नावमिव । वहित्रपदेन सहनशीलत्वमावेद्यते । एवं च त्वद्दर्शनेनाहमितः सत्वर- मागत एवेत्यवेहीति व्यज्यते ॥ केषांचिदाश्रयेण कंचिदपकर्तुमुद्यतं कश्चिदन्योक्त्या वक्ति- आयासः परहिंसा वैतंसिकसारमेय तव सारः। त्वामपसार्य विभाज्यः कुरङ्ग एषोऽधुनैवान्यैः ॥ १०॥ आयास इति । हे वैतंसिकस्य मासिकस्य । एवं चैतस्य मांसदानमशक्य- मिति व्यज्यते । 'वैतंसिकः कौटिकश्च मांसिकश्च समं त्रयम्' इत्यमरः] । सारमेय कुकुर । आयासः श्रमः, परस्य हिंसा प्राणनिर्गमफलको व्यापारः, तव सारः सारभूतम् । नान्यदिति भावः । एतदेवाह-वामपसार्य दूरीकृत्य । बलात्का- रादिति भावः । एष कुरङ्गो हरिणः । एवं च कृपाहत्वं ध्वन्यते । अधुनैव । एवं च पश्चात्प्रतीकाराभावो व्यज्यते। अन्यैर्मासिकानुयायिभिर्विभाज्यः । विभज्य ग्राह्य इत्यर्थः । एवं चैतादृशानुचितकार्यकरणे तव न किंचित्फलम् , प्रत्युत दुःखादीती- दृशं न विधेयमिति व्यज्यते ॥ कश्चन कस्यचिदग्ने कस्यचिद्दौत्यमन्योक्त्या वक्ति- आनयति पथिकतरुणं हरिण इह प्रापयन्निवात्मानम् । उपकलमगोपि कोमलकलमावलिकवलनोत्तरलः ॥ १०१॥ आनयतीति । कोमला ये कलमास्तेषामावलयस्तासां कवलन उत्तरल उत्क- ण्ठितो हरिण आत्मानं प्रापयन्निव । न वास्तवमित्यर्थः । एवं च धूर्तत्वं व्यज्यते । पथिकतरुणम् । पथिकपदेन विरहखिन्नत्वं द्योत्यते। तरुणपदेन कलमगोपिकास्पृहणी- यत्वं व्यज्यते । कलमाः शालिविशेषास्तद्रक्षणकाः सविधे आनयति प्रापयति । एवं च कलमगोपिकायाः पथिकतरुणासक्तौ स्वयं कलमभक्षणं सुखेन करिष्यामीति धियेति भावः । एवं च खार्थप्रवणतयानेनैतस्या दौत्यं क्रियत इति व्यज्यते । यद्वा मृगोऽपि खार्थमेतादृशं कर्म कर्तुं जानाति, तत्र किं वाच्यं मनुष्यरूपायातवेति । नाहमिदं कर्म जानामीति वादिनीं कांचन प्रलोभनपुरःसरं काचिद्वति । यद्वा यस्या एव खार्थेच्छा सैव मदीयं दौत्यं करिष्यतीति काचित्कांचि दूतीं वक्ति । अथवैतमे. तस्या दर्शयित्वासक्तिमुत्पाद्यतस्या धनमनेन भुज्यत इति कश्चित्कांचिद्वक्ति । यद्वा मृगेणापि गोपिकाकलमभक्षणेन तरुणसंगमरूपोपकारस्तस्याः क्रियते, त्वया तु न ।
REhsany आर्यासप्तशती। तथेति काचितीमुपालभते । अथवा खार्थपुरःसरतयैतादृशं कर्तुं शक्यमिति कां- चिदन्योक्त्या वदति ॥ किं त्वयैतादृशमकारि येनायमधुनान्यादृशं वत्तीति वादिनी सखीं नायिका वक्ति- आसीदेव यदाः किमपि तदा किमयमाहतोऽप्याह । निष्ठुरभावादधुना कटूनि सखि रटति पटह इव ॥ १०२ ॥ आसीदिति । अयं नायको यदा एव मद्विषयकरसवानेवासीत्तदाहतोऽपि किमपि किमाहावादीत् । नेत्यर्थः । अयमेवेति योजना वा । एवं च सर्वमेतत्तवैव प्रत्यक्षमिति व्यज्यते । 'एषः' इत्यपि पाठः। सखि, अधुना निष्ठुरभावात्प्रेमाभा- वात् । पक्षे शुष्कत्वात् । कटूनि रटति पटह इव । 'आनकः पटहोऽस्त्री' इत्यमरः । एवं च न ममापराधः, किं त्वयमेव निष्ठुरत्वादेतादृशं वक्तीति ध्वन्यते। पटहोऽ- प्यास्ताडितो न शब्दं जनयति, शुष्कस्तु जनयति तद्वदिति भावः ।। त्वचेष्टितमिदमाकर्ण्य नायिका त्वां किं किं न करिष्यतीति वादिनी नायिका- सखीं नायको वक्ति- आज्ञाकरश्च ताडनपरिभवसहनश्च सत्यमहमस्याः । न तु शीलशीतलेयं प्रियेतरद्वक्तुमपि वेद ॥ १०३ ॥ आशाकर इति । यद्वा यदि त्वमेतस्याः सर्वदाज्ञाकार्यसि तीयं कथं मुखरा भविष्यतीति वादिनी नायको वक्ति। आज्ञां करोयेतादृशः । ताडनम्, परिभव- स्तिरस्कारः। ताडनापेक्षया तिरस्कारे दुःसहत्वं ध्वन्यते। यद्वा ताडनजन्यपरा- भवः । एवं च वचनजन्यपराभवस्याकिंचित्करत्वं व्यज्यते । एतत्सहनः । अस्या नायिकायाः । दूरस्थत्वेऽपि प्रत्यक्षवनिर्देशेन सर्वदा तद्तमनस्कत्वं तेनान्यादृशा- चरणाभावो व्यज्यते। अहमस्मि । शीलेन स्वभावेन शीतला सौम्या । एवं च खभावस्य दूरीकर्तुमशक्यत्वेन मदपराधनिवेदकस्य वृथा श्रमवत्तति व्यज्यते। तेन त्वया तत्र न किमपि वाच्यमिति । इयं प्रियेतरदप्रियं वक्तुमपि । एवं च कर्तु नेति किमु वाच्यमिति भावः । न वेद ॥ एतस्मादिदं भविष्यति न वेत्यविचार्य कार्यकारिणमन्योक्त्या कश्चिद्वक्ति- आधाय दुग्धकलशे मन्थानं श्रान्तदोलता गोपी । अप्राप्तपारिजाता देवे दोषं निवेशयति ।। १०४ ॥ आधायेति । दुग्धस्य कलशे पाने मन्थानमाधाय श्रान्ता दोलता यस्याः सा ।
काव्यमाला। । गोपी गोपस्य स्त्री । एवं च विवेकविधुरत्वं ध्वन्यते । एवमपि न प्राप्तः पारिजात- वृक्षो यया सा दैवे दोषं निवेशयति स्थापयति । एवं च यथा देवैः क्षीरसमुद्रमथ- नेन पारिजातो लब्धः स च कृष्णेन सत्यभामाया दत्तस्तर्हि मयापि क्षीरं निर्मथ्य तं संप्राप्य सत्यभामाधिकया भवितव्यमिति कृते भाण्डक्षीरमथने तदप्राप्त्या दैवं निन्दति, न खमौयमिति भावः । एवं च यतो यद्भविष्यतीति निर्णयस्तत्रैव तदर्थ प्रवृत्तिरुचितेति ध्वन्यते । यद्वैतस्मान्मम सुखं भविष्यति न वेत्यनवार्य कसिंश्चिदासक्तिं विधाय तदप्राप्त्या दैवविनिन्दिका काचिदन्योक्त्या वक्ति। यत्नु पारिजातं नवनीतमित्याह तत्तथा कोषाधश्रवणादसम्यक् ॥ कश्चिन्नायिकासाधुत्वं खस्य सखायं वक्ति-- आस्तां मानः कथनं सखीषु वा मयि निवेद्य दुर्विनये । शिथिलितरतिगुणगर्वा ममापि सा लज्जिता सुतनुः ॥१०५॥ आस्तामिति । निवेदितुं योग्यो दुर्विनयो यस्तैतादृशेऽपि मयि सति । एवं चावश्यकथनीयत्वमपराधे 'ध्वन्यते। मान आस्ताम् । न कृत इत्यर्थः । न केवलं मानासंपादनम् । अपि तु सखीषु । सखीपदं कथनाहतां द्योतयति । कथनं वा। मदपराधस्येति भावः । न कृतमित्यर्थः । शिथिलितो रतिसंबन्धिगुणानां गर्यो यया सा सुतनुर्मम लज्जिता । एवं च यदि मयि गुणाः स्युस्तदानेनान्यत्रासक्तिः कथं कर्तुं शक्येति धिया संजातलज्जा मां प्रत्यभूत् , अतो न मानमकरोत् , न वा सखी- प्वकथयदिति भावः । अथवा सापराधत्वेन मम लज्जायोग्यत्वेऽपि सैव खस्मिन्गु- णाभावशङ्कया सलज्जा न मानादिकमकरोदिति भावः । अथवा ममापीति यथास्थित एवापिः । एवं चान्यं प्रति लज्जाकरणादीति किमपूर्वमिति भावः । यद्वा निवेदयितुं योग्यो मय्येव मदीयो दुनियः । सोऽपि लजया मां प्रत्यपि नोकस्तत्र का वार्ता- न्यकथनादेरिति भावः ॥ काचित्प्रियागमनोत्सवनैमित्तिक तण्डुलाधुज्वलपिष्टद्रवलिप्तकरतलादिना चित्र- करणमङ्गलगानरूपमातृतर्पणविधानमन्यजनभीत्या स्नानावसर एवावर्तादिच्छाना करोतीति काचित्कांचिद्वक्ति आवर्तेरातर्पणशोभां डिण्डीरपाण्डुरैर्दधती । गायति मुखरितसलिला प्रियसंगममङ्गलं सुरसा ॥ १०६ ॥ m आवतैरिति । डिण्डीरपाण्डुरैः फेनश्वेतैः । डिण्डीरोऽब्धिकफः फेनः' media REGNENHEMANTRANCE ASHAMSUMEnel Avinal आर्यासप्तशती। ६५ मरः । एवं च तण्डुलादि द्रवसाजायं ध्वन्यते। आवतैः । 'स्यादावर्तोऽम्भसां भ्रमः' इत्यमरः। एवं च करतलकृतचित्रसाजात्यं व्यज्यते। आतर्पणस्य शोभा दधती कुर्वती । मुखरितं सशब्दं कृतं सलिलं जलं यया। एवं चैतद्भुनिना खगा- नकरणतिरोधानमावेद्यते । यद्वा सलिलध्वनिमेव गानत्वेन संपादयतीत्यत्यन्तजन- भीतिमत्त्वमावेद्यते । तच्चात्यन्तचातुरीम् । सुरसा। एवं च रसातिशयवत्त्वादेवैता- दृशाचरणप्रवणत्वमिति द्योत्सते। प्रियसंगमहेतुकं मङ्गलं गायति । नायिका चेयं परकीया ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेताकारव्रज्या । इकारवज्या। रात्रिसुरतश्रमसुप्तां नायिका सखी शिक्षयितुं वक्ति- इयमुद्रति हरन्ती नेत्रनिकोचं च विदधती पुरतः । न विजानीमः किं तव वदति सपत्नीव दिननिद्रा॥ १०७॥ इयमिति । इयं तव दिननिद्रा सपत्नीवोद्गतिं गमनम् । पक्षे उत्कृष्टताम् । हरन्ती । नेत्रनिकोचं नयनसंकोचम् । आलस्यादिति भावः । पंक्षे नेत्रविकारम् । द्वेषादिति भावः । विदधती पुरतः । तवेति भावः । एवं च त्वदीतिशून्यत्वं द्योत्यते । किं वदतीति न विजानीमः । एवं च यथा संपत्नी दुश्चरितवत्तामारोपयितुं समर्था तथेयं तव दिननिद्रा, इत्यतो मुञ्चनामिति ध्वन्यते । यद्वा नेत्रसंकोचम् , अर्थात्तव, कुर्वती । सपत्न्याः प्रौढिवशाद्भयेनेति भावः । तव, दिननिद्रा पुरतोऽग्रे किं वदति वदिष्यति । तन्न विद्म इत्यर्थः । एवं चेदानी यथातथा समाधातुं शक्य- मग्रे त्वनिष्टमेवानया भावीति ध्वन्यते । नायिका चेयं परकीया ॥ इदमुभयभित्तिसंततहारगुणान्तर्गतैककुचमुकुलम् । गुटिकाधनुरिव बालावपुः स्मरः श्रयति कुतुकेन ॥ १०८ ॥ इदमिति । इदमुभयमित्तावुभयपाधै संततहारगुणस्तदन्तर्गत एककुचमुकुलो यस्मिंस्तद्वालाया मुग्धाया वपुर्णटिकाधनुरिव गुटिकास्त्रमिक स्मरः श्रयति कुतुकेन । वैकक्षिकमालान्तर्गतकुचमुकुलत्वादिति भावः ॥ । ५आ० स० काव्यमाला। । Panta व्यवायस्थैर्याय कान्तचित्तं व्याक्षेप्तुं नायिका वक्ति- इह शिखरिशिखरावलम्बिनि विनोददरतरलवपुषि तरहरिणे । पश्याभिलपति पतितुं विहगी निजनीडमोहेन ॥ १०९॥ इहेति । इह शिखरी वृक्षः । 'तरुशैलौ शिखरिणौ' इत्यमरः । तच्छिखराव- लम्बिनि । क्वचित् "शिखा' इति पाठः । विनोदेन दरमीषत्तरलं चञ्चलं वपुर्यस्य तस्मिंस्तरहरिणे शाखामृगे। अत्रोभयपदयोः परिवृत्तिसहत्वम् । विहगी निज यन्नीडं स्थानम् । 'कुलायो नीडमस्त्रियाम्' इत्यमरः । तद्रमेण पतितुमभिलषति । इदं पश्य । एवं च व्यवायस्थैर्यायैतादृग्ध्यानं विधेयमिति व्यज्यते । उक्तं च- 'वानरं चपलं ध्यायेदृक्षशाखावलम्बिनम्' इति । अन्यत्रापि-शाखामृगमति- चपलं क्षितिरुहनिहितं विचिन्तयेत्प्राज्ञः । अपिः मणिमुखपर्यन्तप्राप्तं बीजं हि नो गलति ॥ इति ॥ अन्याङ्गनाविलोकनजन्यमानवती नायिकां नायको यथासिद्धकुतूहलेन प्रसा- दयति- इक्षुर्नदीप्रवाहो द्यूतं मानग्रहश्च हे सुतनुः । भ्रूलतिका च तवेयं भङ्गे रसमधिकमावहति ॥ ११ ॥ इक्षुरिति । हे सुतनु, इक्षुः, नदीप्रवाहः, द्यूतम्, मानग्रहश्च,, तवेयं धूल- तिका च, भङ्गेऽधिकं रसमावहति । अत्र भङ्गरसशब्दो क्रमेण दन्तचर्वणीयत्वाति- शयसेत्वादिबन्धनपराजयपरित्यागवक्रतामृष्टतातिशयजलाधिक्यकीडनाधिकोत्साह- कषायितवस्त्रानुरागातिशयतुल्यप्रीत्यतिशयचमत्कारविशेषार्थको । एवं च त्वदीयकु- टिलश्रुकुटिदर्शनेन ममाधिकं सुखमुत्पद्यत इति व्यज्यते । यद्वा तव मानग्रहः, भ्रूलतिका च । एवं च मानभङ्गे मिथ्या भ्रूकुटिलता सुखावहा, न बास्तवकोपेन विहि- तेति ध्वन्यते । 'हे' इति पदस्थाने 'ते' इति पाठे सुतनु, इक्षुः, नदीप्रवाहः, च, भङ्गेऽधिकं रसमावहति । अत्रामुकस्येति विशेषानुपादानात्सर्वस्वेत्यर्थो लभ्यते। भङ्गरसशब्दावत्र प्रागुक्ताौँ । ते मानग्रहो भ्रूलतिका च भङ्गे । तरङ्गवाचिना भङ्गपदेनाधिक्यं लक्ष्यते । तेन चौद्धत्यं व्यज्यते । एवं चाधिक्ये कौटिल्य इत्युभ- यत्रार्थः । अधिकं रसं शोभोत्कर्ष तवावहति । एवं चैतादृशातिशयितमानकुटिल - कुटिकरणं च तवोचितं नान्यासामिति व्यज्यत इति सनिन्दं नायकसखी मानिनी वतीत्यर्थः । ग्रहपदेन चावश्यप्रतीकारकरणयोग्यत्वं ध्वन्यते - ।
आर्यासप्तशती। HD काचिन्नायिका वक्ति- इन्दोरिवास्य पुरतो यद्विमुखी सापवारणा भ्रमसि । तत्कथय किं नु दुरितं सखि त्वया छाययेव कृतम् ॥१११॥ इन्दोरिति । इन्दोरिव । एवं च संतापापनोदकत्वम् , तेन चालिङ्गनाईत्वं ध्वन्यते । अस्य नायकस्य पुरतोऽग्रे यद्येन विमुखी परिवर्तितवदना। पक्षे परा- मुखी । सापवारणा कृतावरणा । पक्षेऽन्तर्धिसहिता । चन्द्रान्तर्गतत्वादिति भावः । भ्रमसीतस्ततो गच्छसि । पक्षे चन्द्रचलनादिति भावः। त्वया छाययेव किं नु दुरितं कृतं तत्कथय । एवं च सर्वाङ्गीणसंतापापनोदकसंमुखनायकपुरतो वैमुख्यच- लनव्यवधानसंपादनादि प्राक्तनपापजनितमिति भावः । एवं चैतत्सर्वं परित्यज्य विगतभी यकमालिङ्गयेति व्यज्यते ॥ कांचित्कंचिन्निग्रहीतुमुद्यतामावलोक्य तं प्रति कश्चिदन्योक्त्या वदति- इह कपटकुतुकतरलितदृशि विश्वासं कुरङ्ग किं कुरुषे । तव रभसतरलितेयं व्याधवधूलिधौ वलते ॥ ११२ ॥ इहेति । कपटजन्यकुतुकेन तरलिता चञ्चलतां प्रापिता । अन्यत्र स्थापिते- त्यर्थः । एवं च न कथितपदत्वम् । दृग्ययैतादृश्याम् । इहैतस्याम् । एवं च विश्वा- सानहत्वं ध्वन्यते । हे कुरङ्ग हरिण। एवं च ज्ञानानहत्वं ध्वन्यते। विश्वासम् । इयं कुतुकासक्तगिति धियेति भावः । किं कुरुषे । तव रभसेन सरलतया तरलतां चञ्चलतां प्राप्ता । एवं च त्वत्सरलतैव तव बाधिकेति भावः । इयं व्याधवधूः । एवं च हिंसकत्वातिशयो द्योत्यते। वालधौ पुच्छे वलते संनिहिता भवति । एवं चेयमधुनैव त्वां निग्रहीष्यतीति नैतस्यां विश्वासो विधेय इति व्यज्यते ॥ काचिन्महत्तरनायकसमगर्वभाषिणीं कांचिदुद्दिश्यान्योक्त्या कांचित्प्रति वक्ति- इह वहति बहुमहोदधिविभूषणा मानगर्वमियमुर्वी । देवस्य कमठमूर्तेर्न पृष्ठमपि निखिलमानोति ॥ ११३ ॥ इह वहतीति । बढत्यन्तं महोदधिरूपं विभूषणं यस्याः सा। पक्षे बहुमह- त्तरो यो मह उत्सवस्तदुदधिर्विभूषणं यस्याः सा। यद्वा बह्री महोदधेर्विभूषणरूपा। लक्ष्मीरिति यावत् । इयमुर्वी पृथ्वी। पक्षे श्रेष्ठा। मानस्य परिमाणस्य । पक्षे सर्वो- स्कृष्टताभिमानस्य । गर्वम् । इह भवत्समक्षम् । न मत्समक्षमिति भावः । पक्ष इह । । - ६८ काव्यमाला। लोके । वहति । कमठमूतैर्देवस्य कच्छपरूपभगवतो निखिलं समग्रं पृष्ठमपि ना- नोति । एवं च सर्वशरीरव्यापनं क्वेति भावः । एवं चैतस्यास्तत्पृष्टावलोकनमपि दुर्लभम्, तत्र किमु वाच्यं तत्संगमादिरिति व्यज्यते। तेन चेयं भवत्सविधे मिथ्यागर्वमुद्हतीति ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेतकारव्रज्या। ईकारव्रज्या। कश्चित्सखायं वक्ति- ईर्ष्यारोषज्वलितो निजपतिसङ्गं विचिन्तयंस्तस्याः । च्युतवसनजघनभावनसान्द्रानन्देन निर्वामि ॥ ११४ ॥ ईष्यति । तस्या निजपतिसङ्गं विचिन्तयन्नीर्घ्ययाक्षान्त्या यो रोषस्तेन ज्वलितः संतप्तश्श्युतवसनं जघनं तचिन्तनेन यः सान्द्रानन्दस्तेन निर्वामि संतोषं प्राप्नोमि । एवं च तदीयतथाविधजघनध्यानादेतादृशानन्दः, तत्र किमु वाच्यस्तत्प्राप्ताविति भावः ॥ काचित् 'महत्परिगृहीतेयम्, अतस्त्वयैतस्यामासक्तिन कार्या' इत्यन्योक्त्या कंचिद्वक्ति- ईश्वरपरिग्रहोचितमोहोऽस्यां मधुप किं मुधा पतसि । कनकाभिधानसारा वीतरसा कितवकलिकेयम् ॥ ११५॥ ईश्वरेति । महादेवकृताङ्गीकारेणोचितो मोहो श्रमो यस्यैतादृशस्त्वम् । महा- देवस्य धत्तूरपुष्पं प्रियमिति पुराणादौ प्रसिद्धम् । पक्ष ईश्वरो महांस्तदङ्गीकारेणो- चितो मोह आसक्तिर्यस्य । एवं च महत्परिग्रहादेवास्यां समीचीनत्वभ्रमेणासक्तिः, न वास्तविकगुणवत्त्वेनेति भावः । अस्यां कलिकायाम् । मधुप। एवं च सारग्राह- कत्वेन याथातथ्येन गुणमार्गणमुचितं तवेति द्योत्यते। यद्वा भ्रान्तत्वम् । मुधा किमिति पतसि । यत इयं कनकाभिधानमेव सारो यस्याः । एवं चार्थशून्यत्वं व्यज्यते । वीतरसाविद्यमानमकरन्दा कितवस्य कलिका । उन्मत्तः कितवो धूर्ती धत्तूरः कनका यः' इत्यमरः । यद्वा कितव धूर्त। एवं चैतादृशाचरणमनुचितमि- त्यावेद्यते कलिका । एवं च महत्तरस्यानुरागवशादेवास्थामुन्मादमात्रजनिकायां नायिकायामासतिर्न विधेया, किं तु गुणाद्यालोकनेनेति व्यज्यते ॥ - ASSISTETWEE आर्यासप्तशती। - वापीसविधे कियद्भिः परिवृतां कांचन दृष्ट्वा कश्चिद्वक्ति- ईषदवशिष्टजडिमा शिशिरे गतमात्र एव चिरमङ्गैः । नवयौवनेव तन्वी निषेव्यते निर्भरं वापी ॥ ११६ ॥ ईषदिति । ईषदवशिष्टो जडिमा शैत्यम् । पक्षे जडत्वम् । यस्याः । शिशि- रतौं समाप्तमात्र एव । वसन्तादावित्यर्थः । अझैरवयवैः । पक्षे गुणभूतैश्चिरं निर्भ- रमत्यन्तं नवयौवना तन्वीव वापी निषेव्यते । एवं चैतादृशा गुणभूता अपि समी- चीना इति व्यज्यते॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेतेकारत्रज्या। । । उकारवज्या सखी नायिका स्तौति- उल्लसितव्रधनुषा तव पृथुना लोचनेन रुचिरानि । अचला अपि न महान्तः के चञ्चलभावमानीताः ॥ ११७ ॥ उल्लसितेति । उल्लसितं भ्रूरूपं धनुः । पक्षे भ्रूसदृशं धनुर्यस्य । पृथुना । आकर्णान्तेनेत्यर्थः । पक्षे पृथुनान्ना राज्ञा । लोचनेन नेत्रेण । पक्ष आलोचनेन, कथमन्यथा जनावस्थितिरिति विचारेण । रुचिराशि । महान्तः श्रेष्ठाः । पक्षे महा- परिमाणशालिनः । अचला अपि चापलशून्या अपि । धीरा इत्यर्थः । पक्षे पर्वताः । के न चञ्चलभावमानीताः प्रापिताः। एवं च त्वत्कटाक्षविक्षेपमात्रेण के के न धैर्य परित्यज्य विह्वला जाता इति भावः । पक्षे महीधरव्याप्तां महीमालोक्य पृथुराज्ञेत- स्ततः पर्वताः : कृता इति भावः ॥ मत्प्रसादादेवैते धनिनः संवृत्ता इति काचिद्वक्ति- उपनीय यन्नितम्बे भुजंगमुच्चैरलम्बि विबुधैः श्रीः । एकः स मन्दरगिरिः सखि गरिमाणं समुबहतु ॥ ११८ ॥ उपनीयेति । यस्य नितम्बे कटके । पक्षे यश्चासौ नितम्बश्च तस्मिन् । भुजंग सर्पम् । पक्षे विटम् । उपनीय प्रापय्य विबुधैर्देवैः । पक्षे विशेषज्ञानवद्भिः । उच्चः श्रीरलम्बि स मन्दरगिरिः पर्वतः । पक्षे मन्दरगिरिरिव । एकः। एवं चान्ये निरर्थका इति भावः । गरिमाणं गौरवं समुद्बहतु । एवं च मनितम्बप्रसादेनेते, ७० काव्यमाला। श्रीमन्त इति व्यज्यते । यद्वा कस्याश्चिन्निदर्शनं प्रदर्य कश्चित्कांचिद्वक्ति । एवं च सैव गर्व करोतु, तव तु तत्करणमनर्थकमिति व्यज्यते ॥ नेष समयो जारसविधे गन्तुमिति काचित्कांचिद्वति- उल्लसितलाञ्छनोऽयं ज्योत्स्लावर्षी सुधाकरः स्फुरति । आसक्तकृष्णचरणः शकट इव प्रकटितक्षीरः ॥ ११९॥ उल्लसितेति । उल्लसितं लाञ्छनं यस्य, ज्योत्स्ना कौमुदी वर्षति, असौ सुधाकरश्चन्द्रः स्फुरति । आसक्तः कृष्णचरणो यस्मिन् । कृष्णत्वेन लाञ्छनवत्ता- सादृश्यम् । प्रकटितं क्षीरं येन । क्षीरपदेन ज्योत्स्नावत्त्वसादृश्यम् । शकट इवासुर- विशेष इव । एवं चैतत्समये गमने लाञ्छनमवश्यं भविष्यतीति व्यज्यते॥ खमनोरथं काचित्कांचिद्वक्ति- उपचारानुनयास्ते कितवस्योपेक्षिताः सखीवचसा । अधुना निष्ठुरमपि यदि स वदति कलिकैतवाद्यामि ॥ १२०॥ उपचारेति । कितवस्य धूर्तस्य, ते पूर्वप्रसिद्धा, उपचारेण अनुनयाः प्रसाद- नानि । एवं च न वास्तवा इति भावः । यद्वोपचारा अनुनयाश्च सख्याः । एवं च तद्वचनादरकरणयोग्यत्वं व्यज्यते । वचनेन, एवमेव मानस्त्वया संस्थाप्यः क्षणो- त्तरमयमवश्यमेस्य ते वश्यो भविष्यतीत्येवंरूपेण, उपेक्षिता अगणिताः । एवं च खस्यापराधशून्यत्वं ध्वन्यते । अधुना स निष्ठुरमपि परुषमपि । एवं च समीचीन- भाषणं दुरापास्तमिति भावः । यदि वदति तर्हि कलिकैतवात्कलहकपटाद्यामि गच्छामि । अर्थात्तं द्रष्टुमिति भावः। एवं चाधुना तेन तथौदासीन्यमालम्बितं यथा न निष्ठुरमपि वक्ति । येन किमिति तादृशं वदसीति वक्तुमहं गमिष्यामीति भावः । एवं चाधुना कोऽप्युपायस्तद्दर्शन इति चिन्तातिशयो द्योत्यते ॥ सखी नायिका वक्ति- उषसि परिवर्तयन्त्या मुक्तादामोपवीतता नीतम् । पुरुषायितवैदग्ध्यं ब्रीडावति कैर्न कलितं ते ॥ १२१ ॥ उषसीति । ब्रीडावति, उपवीततां नीतम् । उपवीतरूपं कृतमित्यर्थः । मुक्का- दाम परिवर्तयन्याः सजीकुर्वन्त्या उषसि पुरुषायितस्य वैदग्ध्यं कैर्न कलितम् । अपि तु सर्वैरिति भावः । एवं चेदानी मत्समक्षं लज्जा नाटयसि, परंतु त्वदीयत- त्कालीनलज्जारान्यत्वं तथाविधमुक्तादामपरिवर्तनमेव सर्वेषां कथयतीति भावः ॥ ।
आर्यासप्तशती। नायिकां प्रति वक्ति- उड्डीनानामेषां प्रासादातरुणि पक्षिणां पतिः । विस्फुरति वैजयन्ती पवनच्छिन्नापविद्धेव ॥ १२२ ॥ उड्डीनेति । प्रासादादुड्डीनानामेकगतिविशेषशालिनाम् । हे तरुणि, पक्षिणां पतिः पवनेन च्छिन्ना चासावपविद्धा वैजयन्ती मालेव विशेषेण स्फुरति त्वं पश्य । एवं च नायकः प्रासादमायातस्त्वमपि प्रयाहीति ध्वन्यते । यद्वा संकेतस्थलमिद- मिति व्यज्यते ॥ अतितीक्ष्णमतिभिः संरक्ष्यमाणां कांचित्कश्चिदन्योक्त्या वक्ति उज्जागरितभ्रामितदन्तुरदलरुद्धमधुकरप्रकरे। काञ्चनकेतकि मा तव विकसतु सौरभ्यसंभारः ॥ १२३ ॥ उजागरितेति । काञ्चनकेतकि, उज्जागरितः, भ्रामितः, उच्चावचपत्रनिरुद्धः, मधुकराणां प्रकरो यया तत्संबुद्धिः । तव सौरभ्यसंभारो मा विकसतु । एवं च यद्दर्शनेन येषां यूनामितस्ततस्त्वद्दर्शनाय भ्रमणरात्रिजागरणादि भवति तेषां दुष्टा- दिभिर्निवारणे क्रियमाणे त्वद्यौवनं निष्फलमिति व्यज्यते ॥ सखी नायिका वक्ति- उल्लसितभूः किमतिक्रान्तं चिन्तयसि निस्तरङ्गाक्षि । क्षुद्रापचारविरसः पाकः प्रेम्णो गुडस्येव ॥ १२४ ॥ उल्लसितभूरिति । निस्तरङ्गे अक्षिणी यस्यास्तत्संबुद्धिः, निश्चलेक्षणे । एवं च चिन्तावत्त्वमभिव्यज्यते। उल्लसितभूः सती त्वमतिकान्तं निवृत्तं किं चिन्तयसि । एवं च निवृत्तचिन्तनमनर्थकमिति भावः । यतो गुडस्यैव प्रेम्णः पाकः परिपाक: क्षुद्रस्य नीचस्य । पक्षे क्षुद्राया मक्षिकाया अपचारः संबन्धस्तेन विरसों भवति । एवं च नीचमाध्यस्थ्ये प्रेम्णो न निर्वाह इति भावः। एवं च नीचमाध्यस्थं प्रथमतो विधाय पश्चाञ्चिन्ताविधानमनुचितमिति द्योत्यते। क्षुद्रासक्त्युत्तरं कथमधुना विधेय- मिति सचिन्तां सखी वक्ति । एवं च क्षुद्रसंबन्धेऽवश्यं प्रेमवरस्यमिति ध्वन्यते । तेन च तत्परित्याग एवोचित इति कश्चित् ॥ ।
७२ काव्यमाला। - कस्याश्चिद्रतौत्सुक्यं काचित्कांचिद्वक्ति- उद्दिश्य निःसरन्ती सखीमियं कपटकोपकुटिलभूः । एवमवतंसमाक्षिपदाहतदीपो यथा पतति ॥ १२५ ॥ उद्दिश्येति । उद्दिश्येदं विधेयमस्तीति निःसरन्तीम् । अर्थात्केलिसदनात् । सखीमियं नायिका कपटकोपेन । न वास्तवेनेति भावः । कुटिले ध्रुवौ यस्याः। अवतंसं यथाहतो दीपो यस्मिन्कर्मणि पतत्येवमाक्षिपत् । सख्या उपरि त्यजति स्म । एवं च दीपनाशनेन रतौत्कण्ठ्यं व्यज्यते ॥ खल्पबलेऽपि शान्तिशालिनि प्रबलस्य न तथा तेजोऽधिकं भवतीति कश्चिद- न्योक्त्या कंचन वक्ति- उदितोऽपि तुहिनगहने गगनप्रान्ते न दीप्यते तपनः । कठिनघृतपूरपूर्णे शरावशिरसि प्रदीप इव ॥ १२६ ॥ उदितोऽपीति । उदितोऽपि । एवं च क्षीणत्वाभावो व्यज्यते। तुहिनस्य हिमस्य गहनं यस्मिन् । अथवा तुहिनेन गहने निबिड आकाशप्रान्ते । तापयतीति तपनः सूर्यो न दीप्यते नात्यन्तं प्रदीप्तो भवति । कठिनघृतपूरेण पूर्णे शरावस्य मृद्भाज- नविशेषस्य शिरसि प्रदीप इव । एवं च शीलशीतले न कस्यचित्क्रोधानेराधिक्य- मिति व्यज्यते । तेन शान्तिप्रवणत्वमुचितमिति । यद्वा सौम्यसमुदाये क्रूरेण न किंचित्कर्तुं शक्यमिति कश्चिदन्योक्त्या वक्ति । दीपसादृश्यार्थ प्रान्तपदम् । अथवा हीनबलसमुदायाकान्तप्रबलस्य शनैर्बलं भवत्येवेत्यन्योक्त्या वक्ति। उदितः। 'अपिः' 'तुहिनगहने इत्यत्रान्वेति । नेति काकुः । अथवा बहुतरशान्तिमति हृदयाकाशे न कामक्रोधादेस्तथा प्रसर इति कश्चित्कंचिद्वक्ति ॥ उद्गमनादि व्यापारालसा त्वं किमितीति वादिनी सखी नायिका वक्ति- उद्गमनोपनिवेशनशयनपरावृत्तिवलनचलनेषु । अनिशं स मोहयति मां हृल्लमः श्वास इव दयितः ॥१२७॥ उद्गमनेति । स दृष्टपूर्वः, अनिशं निरन्तरम् , हृल्लमो हृदयमधिष्ठितः । यद्वा- निशं मोहयतीति योजना । दयितः, उद्गमन उत्थाने, उपनिवेशने स्थिती, शयन- परावृत्तौ, पार्श्वपरिवर्तने, वलने वक्राङ्गकरणे, वचनव्यापारे च मोहयति. श्रान्ति जनयति । तत्तयापारासमर्थां करोतीति भावः । एवं च तथाविधनायकाप्राप्त्या HARTRAINRI Avi आर्यासप्तशती। ७३ भमैतादृशं दुःखं भवतीति व्यज्यते। तेन च तदानयनाथ यतखेति । हृल्लमः श्वास इव । हृच्छासरोगेणापि गमनोपवेशनादि व्यापारेष्वत्यन्तं दुःखं भवति । कयोश्चित्कटाक्षमात्रेणैव योगः संवृत्त इति काचिद्वक्ति । यद्वान दूत्यादेरुपयोगः, किंतु कटाक्षमात्रेणैत्र कार्य कर्तुं शक्यमिति काचित्कांचिद्वक्ति- उज्झितसौभाग्यमदस्फुटयाच्चानङ्गभीतयोयूनोः । अकलितमनसोरेका दृष्टि ती निसृष्टार्था ॥ १२८ ॥ उज्झितेति । उज्झितस्त्याजितः सौभाग्यस्य मदो ययैतादृशी या प्रकटयाजा, अनङ्गश्च । एतद्भीतयोः । स्फुटप्रार्थनायां सौभाग्यमदभङ्गः, अप्रार्थनायां मदन- बाधेत्युभयत्रापि भीतिरिति भावः । 'भङ्ग' इति पाठे, सौभाग्यमदभङ्गं सोवापि यात्रायां कृतायां तत्फलाभावे भीतिरित्यर्थः । अकलितं मनो याभ्यां तयोः अविज्ञा- तपरस्पराभिप्राययोरित्यर्थः । यूनोरेका दृष्टिः परस्परावलोकनं निसृष्टार्था दूती । 'उभयोर्भावमुन्नीय खयं वदति चोत्तरम् । सूत्कृष्टं कुरुते कार्य निसृष्टार्था तु सा स्मृता ॥ एवं च कटाक्षमात्रेणैव संयोगः संवृत्तः कर्तुं शक्य इति ध्वन्यते ॥ यद्यपीयं. बहुभिर्भुज्यते तथाप्येकस्मिन्नेव जारेऽत्यन्तमासक्तेति काचि- कांचिद्वक्ति- उत्तमभुजंगसंगमनिस्पन्दनितम्बचापलस्तस्याः । मन्दरगिरिरिव विबुधैरितस्ततः कृष्यते कायः ॥ १२९ ।। उत्तमेति । उत्तमो यो भुजंगः सर्पः । उत्तमपदेन चित्तस्थिरीकरणयोग्यत्वं व्यज्यते पक्षे पिङ्गः तत्संगमेन बन्धनेन । पक्षे संभोगेनेति भावः । चपलत्वे हेतुः । निस्पन्दस्य निश्चलस्य । पूर्वमिति भावः । नितम्बस्य कटकस्य । पक्षे कटिप्रदेशस्य । चापलं यस्मिन् । यद्वोत्तमभुजंगसंगमेन निश्चलनितम्बो यस्मिन्ने तादृशं चापलं यस्य । एवं च बाह्यरतवत्तान्येषां नान्तररतवत्तेति भावः । तस्याः कायो देहो मन्दराचल इव विबुधैर्ज्ञानवद्भिः । पक्षे देवैः । इतस्ततः कृष्यते । एवं चान्यैर्भुज्यमानापि न मनो निवेशयति तेषु, किं तु तथाविधजारसंभोगतृप्त्या तस्मिन्नेवासति ध्वन्यते॥ एतस्याः पतिरत्यन्तजडोऽस्ति, अतस्त्वया न भेतव्यमिति काचित्कंचिद्वक्ति उपनीय कलमकुडवं कथयति समयश्चिकित्सके हलिकः । शोणं सोमानिमं वधूस्तने च्याधिमुपजातम् ॥ १३०॥ उपनीयोति । कलमानी शालिविशेषाणां कुडवं पलालनिर्मितं पात्रमुपनीय । ।
७४ काव्यमाला। समीपे संस्थाप्य सभयः । कथमियं जीविष्यतीति धियेति भावः । हलिकः । एवं च मूर्खत्वं व्यज्यते । चिकित्सके वैद्ये, वधूस्तने, शोणमारक्तम् , अर्धचन्द्राकारम् , उप समीपे जातम् , व्याधि रोगं कथयति । एवं चैतस्यैतन्नखक्षतज्ञानं नास्तीति व्यज्यते। तेन त्वया यथेष्टमागन्तव्यं चेति । कुडवशब्दः परिमाणविशेषवाचीति केचित् ॥ कांचिदनि ज्वालयन्ती जारातिसक्त्या मानसतत्संभोगं कुर्वती धूर्तनिजदयिते- नालोच्यमानां सनिह्नवं सखी निवारयति- उन्मुकुलिताधरपुटे भूतिकणत्रासमीलितार्धाक्षि । धूमोऽपि नेह विरम भ्रमरोऽयं श्वसितमनुसरति ॥ १३१ ॥ उन्मुकुलितेति । उत्कृष्टमुकुलवदाचरितमधरपुटं यया तत्संबुद्धिः । वह्निप्रज्व- लनाय फूत्कारविधानादिति भावः । भूतेभस्मनः कणानां त्रासेन नेत्रान्ते भस्म- संबन्धभयेन मीलिते अर्धमक्षिणी यया तत्संबुद्धिः । एवं च विशिष्य भ्रमराज्ञाना- झूमभ्रमवत्त्वौचित्यं व्यज्यते। धूमोऽपीह न । अपिना व्यक्तिव्यवच्छेदः । विरम फूत्कारकरणादिति भावः । ननु धूमलेखा दृश्यते, तत्कथम् 'नेह धूमः' इति वदसी- त्याह-ते श्वसितं भ्रमरोऽयमनुसरति । एवं च त्वद्वदनामोदवशाभमरः परिभ्रमति, परंतु न वास्तवो धूमः । अतोऽनर्थकैतव्यापाराद्विरमेति भावः । इति निह्नवपुरःसर- मधरोन्मुकुलननयनानिमीलने फूत्कारभस्मसंबन्धभयेन समाधातुं शक्ये, परंतु कथमपि श्वसितं न समाहितुं शक्यम् । अयं च ते भ्रमर इव भ्रमरः । यद्वा भ्रमं राति । एवं च यथार्थवार्ताग्राहकस्यास्य यथार्थवार्ताग्रहणे न कोऽपि विलम्बः। दयितश्च श्वसितमिदमवश्यं ज्ञास्यत्येव । तव त्वधरोन्मुकुलनयनानिमीलनश्वसि- तानि मानससंभोगजन्यान्येव । अतो न विधेयमेतदिति व्यज्यते । यद्वा वह्निप्रज्वा- लनार्थमादिष्टां तत्समय एव जारांय चुम्बनं प्रयच्छन्ती नायिकामवलोक्य तत्सखी तदुत्साहवर्धनाय वक्ति-हे भूतिकणत्रासमीलितार्धाक्षि, इति । सोल्लुण्ठनवचनमेतत् । एवं च न भूतिकणत्रासेन तवार्धाक्षिनिमीलनम् , अपि तु जारचुम्बनसुखोदयेनेतिं व्यज्यते । उन्मुकुलितम् । चुम्बनार्थमिति भावः। अधरपुटं येन तस्मिन् । इह जारो न विरमति । चुम्बनदानार्थमिति भावः । दन्तक्षतभीति स्वयमाशच्या परिहरति-अपिरवधारणे । नकारोऽप्यत्रान्वेति । अयं धूमो न, किंतु भ्रमर एव श्वसितम् । अर्थात्तव । अनुसरति । एवं च न धूमलेखा, अपि तु फूत्कार- कालीनत्वद्वदनसमीरणसौरभ्यलुभ्युन्मधुकरश्रेणिरत एतदंशमिषेणैव दन्तक्षतसमा- ।
SANA आर्यासप्तशती। HOMNSH Don धेर्विधातुं शक्यत्वेन दन्तक्षतभयमपास्यास्य यथेच्छं चुम्बनं देहीति ध्वन्यते अथवा नायकदूत्युक्तिरियम् । भूतिकणवासमीलितार्धाक्षीत्यनेन चुम्बनप्राप्त्यौत्क- ठ्येनैतदीयाधरोन्मुकुलनमपि न मयावधारितमिति व्यज्यते । इतरत्समम् ॥ कान्तसविधे तथाविधबालायातायातमवलोक्य कुपितां गृहिणी नायकः समाधत्ते- उपरि परिप्लवते मम बालेयं गृहिणि हंसमालेव । सरस इव नलिननाला त्वमाशयं प्राप्य वससि पुनः ॥१३२॥ उपरीति । हे गृहिणि । एवं च गृहभारस्य त्वदधीनत्वेन त्वमेव मुख्यति व्यज्यते। यथा सरसः सरोवरस्योपरि हंसमाला भ्रमति, नलिननाला त्वभ्यन्तरे वसति, तथेयं बाला ममोपरि । नान्तःकरण इत्यर्थः। परिप्लवते भ्रमति। त्वं त्वन्तःकरणं प्राप्य वससि । एवं चैतस्या मच्चेतसि नाधिष्टानं तव तु वर्तत इति व्यज्यते । पुनस्त्वर्थे । 'नाला नालम्' इतिपाठान्नालाशब्द आबन्तः । कश्चन कस्याश्चिद्यौवनलुब्धस्तदप्राप्तिखिन्नस्तां प्रति वक्ति- उत्कम्पधर्मपिच्छिलदोःसाधिकहस्तविच्युतश्चौरः । शिवमाशास्ते सुतनु स्तनयोस्तव चञ्चलाञ्चलयोः ॥ १३३ ॥ उत्कम्पेति । हे सुतनु । एवं च कामुकेच्छायोग्यत्वं व्यज्यते । उत्कृष्टः कम्पो यस्य, धर्मेण पिच्छिलश्च, यो दो साधिकस्य यामिकस्य हस्तस्तस्माद्विच्युतः। उत्कम्पपिच्छिलपदाभ्यां च्यवनाहत्वं व्यज्यते । चोरस्तव चञ्चलाञ्चलयोः। एवं च दर्शनयोग्यत्वं व्यज्यते। स्तनयोः शिवं कल्याणमाशास्ते । एवं च त्वत्कुचकुम्भ- दर्शनसंजातसात्विकभावकम्पखेदयामिकशिथिलकरबन्धविच्युतचोरस्यैव सुखदत्वेन तदाशास्यशिवभाजनमस्मदादीनां त्वत्यन्तदुःखदत्वेन शापभाजनमेव भविष्यति त्वत्कुच इति व्यज्यते । यद्वा दुष्टवृत्त्युपजीविन एवायं ते स्तनमण्डलः सुखयिता नान्येषां समीचीनानामिति कश्चिद्वक्ति । अथवा त्वत्कुचकुम्भदर्शनादेव तथा भ्रा- तिरुदेति यथाग्रे खमरणमपि न विज्ञायत इति वक्ति। यामिकस्य केवलतस्कर धारणमेव वृत्तिः । एवं च तद्धस्तात्तस्करापगमनेन भाविप्रभुकोपफलाज्ञानवदेषामपि न तदनुसंधानमिति व्यज्यते । यद्वा त्वया रात्रावभिसरणं कृतमिति कश्चिदति ॥ ।
७६ काव्यमाला। । । कयाचन नायिकया कृष्यमाणाञ्चलं नायकं प्रत्यन्योक्त्या तत्सखी वक्ति- उत्क्षिप्तबाहुदर्शितभुजमूलं चूतमुकुल मम सख्या । आकृष्यमाण राजति भवतः परमुच्चपदलामः ॥१३४ ॥ उत्क्षिप्तेति । उत्क्षिप्तो यो बाहुस्तेन दर्शितं भुजमूलं यत्र क्रियायाम् । हे ! चूतमुकुल। मुकुलपदं भ्रमराद्यभुक्तप्रतिपादनेनाङ्गनासंगतिशून्यत्वं नायके ध्वन- यति । तचात्यन्तस्पृहणीयत्वम् । मम सख्याकृष्यमाण, भवतः परमुत्कृष्टमुच्चतरप- दलाभो राजति । एवं च मत्सखीकराकर्षणेन तवोत्कृष्ट स्थानप्राप्तिर्जातेति व्यज्यते। तेन चैतत्कराकर्षणं स्वर्गसुखरूपमिति । पल्लवादेराकर्षणोत्तरमोचनादूर्ध्वगमनमिति लौकिकम् ॥ त्वद्धारदर्शनेन सर्वोऽपि त्वद्विहारमाकाइतीति सखी नायिका वक्ति- उच्चकुचकुम्भनिहितो हृदयं चालयति जघनलमायः । अतिनिम्नमध्यसंक्रमदारुनिभस्तरुणि तव हारः ॥ १३५ ॥ उच्चेति । उच्चौ यौ कुचकुम्भौ। कुम्भपदमाधारकाठिन्यद्योतनाय । तत्र निहितः । जघने कट्याः पुरोभागे। "क्लीबे तु जघनं पुरः' इत्यमरः । लग्नमय यस्य । अत्यन्तं निम्नो नीचो यो मध्यस्तत्संक्रमाय यद्दारु तत्तुल्यः । निन्नदेश उल्लङ्घनाय यत्काष्टं दीयते तत्संक्रमदारु । तरुणि, तव हारो हृदयम् । द्रष्टुरिति यावत् । चालयति चञ्चलं करोति । अन्योऽपि संक्रमदारुमार्गेण गच्छंश्चञ्चलता- भाजनं भवतीति लौकिकम् ॥ रतश्रान्तेयमिति सखी नायकं वक्ति- उल्लसितशीतदीधितिकलोपकण्ठे स्फुरन्ति तारौघाः । कुसुमायुधविधृतधनुर्निर्गतमकरन्दबिन्दुनिभाः ॥ १३६ ॥ उल्लसितेति । उल्लसितः । सुरतसुखादिति भावः । शीतदीधितिर्मुखचन्द्र- खस्य मनोज्ञोपकण्ठे कुसुमायुधेन विधृतं यद्धनुस्तन्निर्गता ये मकरन्दबिन्दवस्तत्स- दृशास्तारौघाः प्रखेदबिन्दवः स्फुरन्ति । एवं च कुसुमसमसुकुमारताशालिनीयं रतश्रान्तेति व्यज्यते। यद्वा जातोऽयमभिसारसमय इति सखी नायिका वक्ति । उल्लसितः प्रादुर्भूतः शीतदीधितिश्चन्द्रस्तत्समीपदेशे तारौघा नक्षत्रौघा मदनधनुर्म- करन्दतुल्याः स्फुरन्ति । अर्धचन्द्रत्वेन धनुस्तुल्यता । एवं चैतादृशसुधाकरसाहा- य्यसंपन्नः कुसुमधन्वा सज्जः संवृत्तः । अतो द्रुततरमभिसरखेति वन्यते ॥
आर्यासप्तशती। son काचिन्नायिका नायकीयविलम्बागमनजन्यं मानमासाद्य स्वल्पावशिष्टयामिन्या नायकेन दूरीकृताभिमाना रात्रिः खल्पावशिष्टेति विज्ञायानुशोचति- उपनीय प्रियमसमयविदं च मे दग्धमानमपनीय । नर्मोपक्रम एव क्षणदे दूतीव चलितासि ॥ १३७ ॥ उपनीयेति। हे क्षणदे रात्रि। 'त्रियामा क्षणदा क्षपा' इत्यमरः । अथ चोत्सवदे । एवं चोत्सवदायास्तदभावसंपादनमनुचितमिति व्यज्यते । असमयविदं समयज्ञानशून्यम् । एवं च पूर्वरात्रावागमनमुचितमिति व्यज्यते। प्रियम् । एवं च दुर्लभत्वं द्योत्यते। उपनीय प्रापय्य । असमयविदं रात्रैरल्पावशिष्टत्वेन करणानहम् । अत एव दग्धं मे मानं च । किमर्थ विलम्बितमिति हेतोः संजातमित्यर्थः । दूरी- कृत्य क्रीडोपक्रम एव दूतीव । दूतीपदं संगतिसंपादनमात्रकर्तृत्वं द्योतयति । चलितासि । दूत्यपि नायकमानीय मानमपनीय क्रीडारम्भ एव निर्गच्छतीति लौकिकम् । नायिका चेयं परकीया ॥ त्वत्करस्पर्शनादेवास्मत्सखी विगतधैर्या सती त्वामनुसरतीति नायिकासक्तिं सखी वक्ति- उत्तमवनितैकगतिः करीव सरसीपयःसखीधैर्यम् । आस्कन्दितोरुणा त्वं हस्तेनैव स्पृशन्हरसि ॥ १३८ ॥ उत्तमेति । उत्तमवनितानामेकगतिरूपः । एवं च स्वानुरूपान्यनायकाभावेन नायिकासक्तिस्त्वयि युक्ततरेति व्यज्यते । पक्ष उत्तमवनितावदेका मुख्या गतिर्यस्य आस्कन्दितावूरू जो येन तेन । पक्षे संस्पृष्टखजवेन । हस्तेनैव । पक्षे शुण्डा. दण्डेनैव स्पृशन्करी सरसीपय इव सख्या धैर्य हरसि । एवकारेणालिङ्गनादौ किं किं हरिष्यसीति न विद्म इति व्यज्यते ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेतोकारव्रज्या । ऊकारव्रज्या । कांचिज्जरठविवाहितां तदीयप्रेमराहित्यखिन्नां सख्यन्योक्त्या वक्ति- ऊढामुनातिवाहय पृष्ठे लनापि कालमचलापि । सर्वसहे कठोरत्वचः किमङ्केन कमठस्य ॥ १३९ ।। ऊढेति । हे सर्वसहे वसुमति । एवं चैतदीयापराधसहने तव न किंचित्कठि- ७८ काव्यमाला। । । नमिति व्यज्यते । अमुना कमठेनोढा सती पृष्ठे लनापि । अपिरवधारणे। लग्ने- वेत्यर्थः । अन्चलापि । एवं च स्वतो निश्चलाशश्वाञ्चल्याभावोपदेशः पिष्टपेषणतुल्य इति व्यज्यते । कालमतिवाहय । 'असि' इति पाठे यतो निश्चलासि, अत एव कालमतिवाहयेति योजना । कठोरत्वचः । एवं च जरठत्वं ध्वन्यते । कमठस्याङ्केन किम् । एवं चैतज्जरठपाणिग्रहणशालिन्या चाञ्चलशून्यया त्वया कर्कशतद्वेच्छाम- पहाय सर्वमेतत्तदीयापराधजातमपि सोदावस्थेय मिति ध्वन्यते ॥ इत्यनन्तपण्डितगोवर्धनसप्तशतीव्यङ्ग्यार्थदीफ्नया समेतोकारवज्या। । kahanina ऋकारवज्या। नेदं वकटाक्षविक्षेपादिचातुर्यप्रदर्शनस्थलम् । अतोऽतिसरलतयैवात्रावस्थिति- चितेति काचित्कांचिच्छिक्षयति- ऋजुना निधेहि चरणौ परिहर सखि निखिलनागराचारम् । इह डाकिनीति पल्लीपतिः कटाक्षेऽपि दण्डयति ॥ १४० ॥ ऋजुनेति । ऋजुना सरलेन, अर्थान्मार्गेण चरणौ निधेहि स्थापय । समयां नागररीतिं त्यज । इह स्थले पल्लीपतिर्घोषाधिपः । एवं चानभिज्ञत्वं ध्वन्यते कटाक्षसंपादनेऽप्येवं चान्यकर्तव्यता दूरापास्तेति भावः । डाकिनीति बुद्ध्या दण्डयति ॥ शास्त्रचर्चात्र भवतीति विज्ञायागतस्तत्र ग्रामीणचर्चामालोक्य कश्चिद्वक्ति- ऋषभोऽत्र गीयत इति श्रुत्वा खरपारगा वयं प्राप्ताः । को वेद गोष्ठमेतद्गोशान्तौ विहितबहुमानम् ॥ १४१ ॥ ऋषभ इति । ऋषभः खरविशेषः, वृषभश्च । 'ऋषभो वृषभो वृषः' इत्य- मरः । अत्र गीयत इति ज्ञात्वा खरज्ञानवन्तो वयं समागताः । एतत्स्थलं गोशान्तौ बिहितो बहुमानो यत्रेति गोष्ठं गोस्थानकमिति को वेद । दीपोत्सवादावाभीरा गवामलंकरणं विधाय गानं कुर्वन्तीति देशाचारः । एवं च नाममात्रादेवास्माकं गानसमानत्वबुद्धिरुदभवदिति भावः ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्याथार्थदीपनया समेता ऋकारव्रज्या।
आर्यासप्तशती। tanewale - एकारवज्या। नायकोऽधरं स्तौति- एको हरः प्रियाधरगुणवेदी दिविषदोऽपरे मूढाः । विषममृतं वा सममिति यः पश्यन्गरलमेव पपौ ॥ १४२ ॥ एक इति । प्रियाधरगुणान्वेत्ति । एवं च विशिष्य वक्तुमशक्यत्वं गुणेषु व्यज्यते । एको हरः। एवं च विरक्तवेषवत्तया नान्यथाभाव आशङ्कनीय इति भावः । अन्ये देवा मूढाः । उभयत्र हेतुमाह-यो हरो विषममृतं वा सममिति विचारयन्गरलमेव पपौ। एवं च प्रियाधरं विनामृतमपि विषतुल्यमिति व्यज्यते। दिविषदस्तु कमलाधरार्थं यत्नमकुर्वाणा अमृतार्थ च कुर्वाणास्ततस्तदधिकमिति मन्वाना मूढा इति भावः । यद्वा एको हरः प्रियाधरगुणज्ञानवान् , नान्ये देवाः । किं पुनर्मानुषा इति भावः । यतो यो विषमप्यमृततुल्यं विज्ञाय तदेव पपौ। एवं च प्रियाधरपानसंबन्धिनिवेदने विषमप्यमृतं भवतीति भावः । एवं च प्रियाध- रेऽधिकत्वं सुधातो द्योत्यते । अत्रोभयत्र विषगरलपदान्यतरस्यैवोपादानमुचित- मित्याभाति ।। काचिदुष्या प्रियगमनावसरेऽपुनरावृत्त्यर्थममङ्गलं कुर्वाणा तदमङ्गलभीत्यावस्थित नायकमवलोक्यान्यथाचिन्तितस्यान्यथाभवनं देवाधीनमिति सखी वकि- एष्यति मा पुनस्यमिति गमने यदमङ्गलं मयाकारि । अधुना तदेव कारणमवस्थितौ दग्धगेहपतेः ॥ १४३ ॥ एष्यतीति । अयं पुनर्मा एतु, एतदर्थ ख्दमङ्गलं गमनकालेऽकारि तेनैव कारणेन ज्वलितगृहपतेरवस्थितिः संवृत्तेत्यर्थः ॥ त्वय्येवासक्तास्ति सेति सखी नायकं वक्ति- एकैकशो युवजनं विलङ्घमानाक्षनिकरमिव तरला । विश्राम्यति सुभग त्वामङ्गुलिरासाद्य मेरुमिव ।। १४४ ॥ एकैकश इति । प्रत्येकमित्यर्थः । 'एकैकशो दत्त्वा, एकैकशो ददाति' इति भाष्यकारप्रयोगद्वयवच्छस् । 'इहेदानीमेकैकशो वैधर्म्यमुच्यते, एकैकशस्तावव- लोक्य येऽन्यत्रैकैकशो दुर्लभाः' इति प्रशस्तपादभाष्य-स्वयंवरप्रस्तावीयवासवदत्ता- समाप्तकल्पदशकुमारप्रयोगाश्चेत्यलमत्र विचारेण । युवजनम् । युवपदेन स्पृहणी- ।
SHAMANE ................ in.. काव्यमाला। । MNSAR यत्वं व्यज्यते । अक्षाणां मालामणीनां समुदायमिव विलङ्घमानावगणयन्ती। पक्ष उल्लङ्घयन्ती। अङ्गुलिरिव तरला मेरुमिव मालाप्रान्तमणिमिव त्वां प्राप्य सुभग। एवं चैतादृशनायिकासक्तिन भाग्यं विनेति व्यज्यते । विश्राम्यति । मेरोरुल्लङ्घनं न कार्यमिति जापकसंप्रदायः ।। कश्चिद्याच्जाखेदखिन्नो वक्ति- एकः स एव जीवति खहृदयशून्योऽपि सहृदयो राहुः । यः सकललघिमकारणमुदरं न बिभर्ति दुष्पूरम् ॥ १४५ ॥ एक इति । सकललघुताकारणम् , दुःखेन पूरयितुमशक्यम् । दुष्पूरत्वं लघु. ताकारणे हेतुः । उदरं यो न बिभर्ति स वहृदयविहीनोऽपि । खपदमनर्थकामवा- भाति । सहृदयो हृदयेन सहितो राहुरेवैको जीवति । एवं च ये खोदरदरीपूरणाय याच्यां कुर्वन्ति त एव मृता इति व्यज्यते ॥ कश्चिद्विदेशस्थो मनोरथं करोति- एकेन चूर्णकुन्तलमपरेण करेण चिबुकमुन्नमयन् । पश्यामि बाष्पधौतश्रुति नगरद्वारि तद्वदनम् ॥ १४६ ॥ एकेनेति । एकेन करेण चूर्णकुन्तलम् । 'अलकाचूर्णकुन्तलाः' इत्यमरः। अपरेण चिबुकमुन्नमयनगरद्वारदेशे। प्रेमातिशयेन तावडूरागमनमिति भावः । बाष्पैः । चिरकालदर्शनादिति भावः । धौता श्रुतिर्यत्र । तिर्यक्चिबुकोन्नमनादिति भावः। तस्या वदनं पश्यामि, इति काका एवं जगदीश, कदा करिष्यसीति व्य- ज्यते । 'विगलद्वारि' इति पाठे कुन्तलविशेषणम् ॥ नायिकासखी नायकं वक्ति- एकं जीवनमूलं चञ्चलमपि तापयन्तमपि सततम् । अन्तर्वहति वराकी सा त्वां नासेव निःश्वासम् ॥ १४७ ॥ एकमिति । एकम् । नान्यदित्यर्थः । जीवनकारणम् । एवं च त्यागानहत्वं ध्वन्यते । चञ्चलखभावमपि । एवं चान्यत्र त्वदीयानुबन्धादिश्रवणेऽपि तस्यास्त्व- य्यनुराग इति दुर्लभतरेयमेतादृशी नायिकेति व्यज्यते । तेन च त्वया न चाञ्चल्यं विधेयमिति । । निरन्तरं तापयन्तम् । चञ्चलखाभाव्यादिति भावः। नासेव सा चराकी । एवं च दीनत्वं व्यज्यते। निःश्वासतुल्यं त्वामन्तर्वहति । एवं च बहिस्त- थाविधकृत्रिमचाटुवचनविज्ञानशून्यत्वेऽप्यन्तःप्रेमशालित्वमिति व्यज्यते ॥ । ।
आर्यासप्तशती। नायकप्रेषितदूती नायिका वक्ति- एकं वदति मनो मम यामि न यामीति हृदयमपरं मे । हृदयद्वयमुचितं तव सुन्दरि हृतकान्तचित्तायाः ॥ १४८ ॥ एकमिति । हे दूति, एकं मम मनो यामीति वदति, न यामीत्यपरं हृदयं वदति । एवं च गन्तव्यं वा न गन्तव्यमिति संशयशालिन्यहमिति व्यज्यते। नायिकागमने संशयं श्रुत्वा सखी वक्ति-हे सुन्दरि । एवं च नायिकासक्तिस्त्व- व्युचितैवेति ध्वन्यते । हृतं खाधीनीकृतं कान्तस्य चित्तं यया तस्यास्तव हृदयद्वय- मुचितम् । एवं च नायकचित्तस्य त्वयि निमग्नत्वेन तवैतादृशमौदासीन्यं तच्च तस्यान्यत्रानुरागित्वेऽवश्यं त्वया द्रुततरं तत्रागन्तव्यमिति व्यज्यते। अत्र सर्वत्र चित्तार्थकयत्किंचिदेकपदस्यैवादानमुचितमित्याभाति ॥ कश्चिद्धूलिकवधूसङ्गं स्तौति- एरण्डपत्रशयना जनयन्ती खेदमलघुजघनतटा । धूलिपुटीव मिलन्ती स्मरज्वरं हरति हलिकवधूः ॥ १४९ ॥ एरण्डेति । एरण्डपत्राणां शयनं यस्याः । खेदम् । अर्थान्नायकस्य । सुरता- तिशयेनेत्यर्थः । जनयन्ती । महजघनतटा, मिलन्ती, हलिकस्य वधूवूल्याः पुटीव स्परसंबन्धिज्वरं हरति । एरण्डपत्रान्तरिता, खेदमुत्पादयन्ती, स्थूलपुरो- भागा, अङ्गसङ्गशालिनी, धूलिपोटली मदनज्वरशान्तिजनिकेति वैद्यकप्रसिद्धिः ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गवार्थदीपनया समेतैकारव्रज्या । RE - ककारव्रज्या। इयं प्रतिवेश्यासक्नेति कश्चिद्वक्ति- केलिनिलयं सखीमिव नयति नवोढां स्वयं न मां भजते । इत्थं गृहिणीमये स्तुवति प्रतिवेशिना हसितम् ॥ १५० ॥: केलीति । केलिसदनं नवोढाम् । एवं चेयमवश्यमनेन भोक्तव्येति ज्ञानवत्वं ध्वन्यते । सखीमिव । एवं च द्वेषशून्यत्वं व्यज्यते। प्रापयति खयं मां न भजते। इत्थं च गृहिणीमर्ये वैश्ये । 'अर्यः खामिवैश्ययोः' इत्यमरः । स्तुवति सति प्रति- वेशिना हसितम् । इयं च मदासक्त्या सपत्नीमेतस्मिन्संयोज्यात्रायातीति नानेन मूर्खण ज्ञायत इति धियेति भावः ।। ६ आ० स० ।
८२ काव्यमाला। किंचित्कालोत्तरमियं प्राप्तयौवनास्माकमुपयुक्ता भविष्यतीत्याशंसाकारिणं कश्चि- दन्योक्त्या वक्ति- कालक्रमकमनीयकोडेयं केतकीति काशंसा । वृद्धिर्यथा यथास्यास्तथा तथा कण्टकोत्कर्षः ॥ १५१ ॥ कालेति । कालक्रमेण कमनीयः क्रोडः समीपदेशः । पक्षे भुजाभ्यन्तरम् । इयं केतकीति काशंसा । न कापीत्यर्थः । अत्रोपष्टम्भकमाह-यथा यथास्या वृद्धि- स्तथा तथा कण्टकोत्कर्षों भविता । एवं चैतस्या यौवनेऽनेकदुष्टप्रचारो भवितेति व्यज्यते । तेन च न तवोपयोग इति । कण्टकोत्कर्षभवनरूपक्रियान्वयस्यैकदा तत्पदार्थे भवितुमर्हत्वात् 'संचारिणी-' इत्यादिपद्यवदन तच्छब्दे वीप्सा समुचि- तेत्याभाति ॥ बहुतरसमाधानसमाहितामपि समाधानमप्राप्तां मानिनीमवलोक्य निर्विण्णहृदय- तया सुप्तं नायकम् 'सुप्तोऽयम् । अतःपरं किं विधेयम्' इति विह्वला नायिका वक्ति- कृतकखाप मदीयश्वासध्वनिदत्तकर्ण किं तीत्रैः। विध्यसि मां निःश्वासः स्मरः शरैः शब्दवेधीव ।। १५२ ।। कृतकेति । कृत्रिमखाप । एवं च 'न शयानं बोधयेत्' इति निषेधोल्लङ्घनदो- षानर्हत्वं ध्वन्यते । मदीयश्वासध्वनिषु दत्तः कर्णो येन । एवं च त्वदीयावगणना- कारिण्या मम सम्यगिदं संतापजश्वासजातं जातमिति भावः । मां तीर्दीधैः। एवं च स्वापे कृतकत्वमावेद्यते। पक्षे तीक्ष्णैः। निःश्वासैः शब्दवेधी स्मर इव शरैः किं किमिति विध्यसि । एवं च मद्विहितावगणनासंजातसंतापजत्वदीयश्वासैः कथम- यमवगणित इति मम दुःखमुत्पद्यते । श्वासेषु स्मरशरसमताप्रतिपादनेन समुत्पन्न- मन्मथतीव्रवेदना विगलिताभिमानाहं संवृत्तास्मीति च व्यज्यते । यद्वा सपत्नी- सविधे गन्तुकामं नायकं विज्ञाय नायिका वक्ति-मिथ्यासुप्त । मदीयश्वासध्वनि- दत्तकर्ण । यदैवेयं स्वापं करिष्यति तदैव मया तत्र गन्तव्यमिति धियेति भावः । निःश्वासैरित्यनेन मदीयनिद्रां विज्ञाय न मया सुप्तव्यमिति धीमत्त्वं ध्वन्यते । किमिति विध्यसि । एवं च छलेन किमर्थ गन्तुमुद्यतोऽसि, एवमेव गच्छ, न मया निवार्यस इति खदुःखं व्यञ्जयति । निःश्वासेषु स्मरशरसमताप्रतिपादनेन बहि:- क्षतजनकत्वाभावेऽप्यन्तःक्षतविशेषजनकत्वमित्यावेद्यते । अथवा सपत्नीमुपभुज्यान -- FORMATHURNATHSHES आयर्यासप्तशती। । भावः। ma .. गतं मिथ्यासुप्तं नायक नायिका वक्ति-हे मिथ्यावाप। मदीयश्वासध्वनिदत्त- कर्ण। किमियं जागर्ति न वेति ज्ञातुमिति भावः । निःश्वासैः। संभोगजन्यैरिति मां किमिति विध्यसि । दुःखं ददासीत्यर्थः । श्वासेषु स्मरशरसमताप्रति- पादनेन केवलखसाक्षिकवेदनाजनकत्वं वन्यते ।। कश्चित्षिणविशेषसंचारनिरुद्धान्यसंचारां तद्मनोत्तरं सामान्यवनितामन्योक्त्या वक्ति- क स निर्मोकदुकूलः कालंकरणाय फणिमणिश्रेणी । कालियभुजंगगमनाद्यमुने विश्वस्य गम्यासि ॥ १५३ ॥ केति। स प्रसिद्धो निर्मोक एव सर्पकञ्चक एव दुकूलः क्व । अलंकरणाय फणिमणिश्रेणिः क्व । कालियनामा यो भुजंगः सर्पः । पक्षे तत्तुल्यो विटः । तद्गम- नाद्विश्वस्य यमुने नदि । पक्षे यमुनेति नाम । गम्यासि । एवं च तथाविधदुष्टविट- संपर्कसंजातान्योपभुक्तवसनादि सर्व विहाय तदभावात्सकलजनसंसर्गादधुनान्याह- शमेव सर्व संवृत्तमिति व्यज्यते । यद्वा केनचिन्महत्तरविटेन पूर्व पालितां तदपग- मोत्तरं सर्वसुलभां सामान्यवनितामन्योक्त्या तत्प्रशंसनपुरःसरं वक्ति। एवं च तद्विटगमनोत्तरं तथाविधोज्ज्वलदुकूलबहुमूल्यमणिमयभूषणाद्यभावेऽपि सकलज- नोल्लङ्घनीयत्वं तव वृत्तमिति व्यज्यते ॥ कश्चिन्नायिकाप्रसादनवृत्तान्तं वयस्यं प्रति वक्ति- किंचिन्न बालयोक्तं न सप्रसादा निवेशिता दृष्टिः । मयि पदपतिते केवलमकारि शुकपञ्जरो विमुखः ॥ १५४॥ किंचिदिति। मयि पदपतिते कृतप्रणामे । मानापनोदनार्थमिति भावः। बा- लया किंचिन्नोक्तम् । सम्यगसम्यग्वेति भावः। न केवलं वचनाभावमात्रम्, अपि तु प्रसादसहिता दृष्टिर्न निवेशिता। किंतु केवलं शुकपञ्जरोऽन्यदिङ्मुखोऽकारि । एवं च शुकपञ्जरवैमुख्यसंपादनरूपरहःसंपादनेन रत्यनुमतिरेव दत्तेति व्यज्यते ॥ साधारणवनिताचेष्टां कश्चिद्वक्ति- कृतहसितहस्ततालं मन्मथतरलैर्विलोकितां युवमिः। क्षिप्तः क्षिप्तो निपतन्नने नर्तयति भृङ्गस्ताम् ।। १५५ ॥ कृतेति । कृतो हसितेन हस्ततालो यत्र । परस्परमिति भावः। मन्मथच- क्वलैः । एवं च लज्जाविरहो व्यज्यते। युवमिविलोकितां नायिकां क्षिप्तः क्षिप्तः । Samad काव्यमाला। । वारं वारं दूरीकृत इति भावः । अङ्गेषु शरीरावयवेषु निपतन्मृङ्ग इव भृङ्गः। एवं च रसलम्पटत्वं व्यज्यते । नर्तयति । मृङ्गोऽपि चपलकिसलयचाञ्चल्यदूरीकृतोऽपि पुनस्तामेव लतामालम्बत इति मृङ्गपदेन नायिकायां लतात्वारोपणेनावयवेषु पल्लव- त्वारोपणेन कोमलत्वमावेद्यते । एवं चेयं विटेन वारं वारं तत्करनिवारणमवगणय्यः लोकदृष्टिं लजां च कुचादौ स्पृश्यत इति कौतुकं त्वं पश्येति व्यज्यते। अन्ये तु यथाश्रुतमेवाहुः ॥ निरोधदुःखितां नायिका काचिच्छिक्षयति- कमलमुखि सर्वतोमुखनिवारणं विदधदेव भूषयति रोधोऽरुद्धखरसास्तरङ्गिणीस्तरलनयनाश्च ॥ १५६ ॥ कमलेति । हे कमलमुखि, सर्वतोमुखस्य जलस्य निवारणं बन्धनेन प्रवाह- विच्छेदनं सर्वस्मान्मुखस्याप्रदर्शनं च । लजयेति भावः । विदधदेव तीरं रोधनं. च । अरुद्धः खस्य रसो जलम् , इच्छा च याभिस्ता नदीः, नायिकाश्च भूषयति । एवं चावश्यस्पृहणीयत्वं रोधने द्योत्यते। तरङ्गिणीतरलनयनपदाभ्यां चाञ्चल्यम- भिव्यज्यते । एवं चावश्यं निरोधवत्त्वेन भवितव्यमिति ध्वन्यते ॥ किमर्थं न सा समायातीति वादिनं नायकं दूती वक्ति- कितव प्रपञ्चिता सा भवता मन्दाक्षमन्दसंचारा । बहुदायैरपि संप्रति पाशकसारीव नायाति ।। १५७ ।। कितवेति । हे कितव । एवं चागमभीतिरावेद्यते। भवता अपञ्चिता प्राकट्यं नीता चालिता च । मन्दाक्षेण लज्जया । पक्षे मन्दपाशकैः । खल्पसंख्यावद्भिरि- सर्थः । मन्दः खल्पः संचारो गृहाद्गृहान्तरगमनं यस्याः । बहुद्रव्यैरपि । पक्षे बहुदायरित्यर्थः । वारंवारपातनैरिति यावत् । अपिनोपायान्तरशून्यत्वं ध्वन्यते । संप्रति । कालान्तरे को वेद किं भविष्यतीति न जान इति व्यज्यते। पाशकसारीव पाशक्रीडनगुटिकेव नायाति । एवं च तवैवापराधो न तस्या इति द्योत्यते ।। साधारणवनिताप्रतिवेशी कंचित्प्रति वक्ति-- कः श्लाघनीयजन्मा माघनिशीथेऽपि यस्य सौभाग्यम् । प्रालेयानिलदीर्घः कथयति काञ्चीनिनादोऽयम् ॥ १५८ ।। क इति । यस्य माघार्धरात्रेऽपि सौभाग्य प्रालेयानिलेन दीर्घः । प्रालेयानिलस्य श्रमापनोदकतया सुरतातिशयसंपादनेन काञ्चीनिनाददैर्व्यसंपादकत्वमिति भावः ।
Paytita NEARTIME आर्यासप्तशती। ८५ काञ्चीनिनादः कथयति । अत एव श्लाघाहं जन्म यस्य । धनिकत्वादिति भावः । अयं कः। एवं चैतादृशशीतातिशयशालिसमयेऽपि नायिकेयमत्यन्तोल्लासेन विपरी- तरतं विदधाति तस्मादयमर्थविशेषशालीति ज्ञातम्, परं तु का वास्याभिवेति न ज्ञायत इति भावः। यद्वा कः श्लाघनीयजन्मेति प्रश्न उत्तरं वक्ति-प्रालेयानिल- दीर्घः। एवं च संतापापनोदकत्वं ध्वन्यते । अयमित्यत्यन्तानुसंधीयमानत्वेन प्रत्यक्षवन्निर्देशः । काञ्चीनिनादो माघनिशीथेऽपि । अपिनेतरकालसमुच्चयः । एवं च माधरात्रेरतिदीर्घत्वं तत्राप्यतिचिरकालीनं रतमितोऽन्यकाले किमु वाच्यमिति व्यज्यते । यस्य सौभाग्यं कथयति । एवं च यस्यैवातिसुप्रेमसुरतनिपुणतरुणीसंत- तसङ्गवत्ता स एव श्लाघनीयजन्मेति भाव इत्यर्थः ॥ किमशकनीयं प्रेम्णः फणिनः कथयापि या बिभेति स । सा गिरिशभुजभुजंगमफणोपधानाद्य निद्राति ।। १५९ ।। किमिति । प्रेम्णः किमपि नाशक्यं यतो या सर्पवार्तयापि बिभेति स्म सा हरभुजसर्पफणारूपमुपधानं यस्या एतादृशी । अद्य । विवाहोत्तरदिन इत्यर्थः । निद्राति । एवं च प्रेम्णा किं किं न संभवतीति व्यज्यते। पार्वतीसखीवाक्यमेतत् । यद्वा प्रेमवत्त्वेऽपि तत्रागमने मम भीतिरुत्पद्यत इति वादिनी नायिका नायकदूती दृष्टान्तेन वक्ति-अब । अधुनेत्यर्थः । एवं च यदि ते प्रेम तर्हि ते नास्त्येव भीतिः, अन्यथा न प्रेम इत्युभयतोऽपि काठिन्यम् , अतः प्रयाहीति ध्वन्यते । यद्वा तद्रसास्वादोत्तरं न स्थास्यति भीतिरिति ध्वन्यते ॥ सामान्यवनितासंगतिरनुचितेति कश्चित्कंचिच्छिक्षयति- कृत्रिमकनकेनेव प्रेम्णा मुषितस्य वारवनिताभिः । लघुरिव वित्तविनाशक्लेशो जनहास्यता महती ॥ १६० ।। कृत्रिमेति । कृत्रिम धातुवादादिभिर्मिथ्या विधीयमानं यत्कनकं तेनेव प्रेम्णा वारवनिताभिमुषितस्य वित्तविनाशक्लेशो लघुः। परं तु जनहास्यता महती। एवं च सामान्यवनितासंगमो न विधेय इति व्यज्यते ॥ सखी नायिका वक्ति- किं पर्वदिवसमार्जितदन्तोष्ठि निजं वपुर्न मण्डयसि । स त्वां त्यजति न पर्वखपि मधुरामिक्षुयष्टिमिव ॥ १६१ ।। किमिति । पर्वदिवसे मार्जितौ दन्तोष्टौ यया तत्संबुद्धिः । ब्रह्मचर्यस्थिति- काव्यमाला। - धियेति भावः । निजं वपुः किमिति न मण्डयसि । स त्वां मधुराम् । एवं च निषे- धवचनकारिणी न त्वमिति व्यज्यते । इक्षुयष्टिमिव पर्वस्वपि पर्वकालेऽपि । पक्षे अन्थिध्वपि । 'ग्रन्धिर्ना पर्वपरुषी' इत्यमरः । न त्यजति । एवं च मिथ्यतत्त्वं दर्शयसि, तेन तु त्वं यथेच्छमुपभोग्येति ध्वन्यते ॥ । - । केनचिनायकेन सह संयोजयितुं नायिका दूती वक्ति- कष्टं साहसकारिणि तव नयनार्धन सोऽध्वनि स्पृष्टः । उपवीतादपि विदितो न द्विजदेहस्तपखी ते ॥ १६२ ।। कष्टमिति । हे साहसकारिणि । अनुचितकारिणीत्यर्थः । एवं च मया तवो- चितमेवोपदिश्यत इति व्यज्यते । तव । एवं च साक्षादनपराधत्वेऽपि स्वीयत्वेन तदपराधस्य त्वय्येवागमनमिति व्यज्यते । तेन च तत्परिहारकर्तव्यता तवैवेति । नयनार्धेन स नायकोऽध्वनि स्पृष्टः । त्वत्कटाक्षविषयीभूत इत्यर्थः । इदं कष्टम् । महदनुचितमित्यर्थः । एवं च त्वत्कटाक्षविशिखहतस्य तस्य त्वद्दर्शनं विना प्राण- वियोग एव भवितेति व्यज्यते । किमेतावता इत्यत आह-तपखी । एवं च करुणाईत्वं व्यज्यते । ब्राह्मणदेह उपवीतादपि । एवं च प्रत्यक्षपरिदृश्यमानत्वेन न स ब्राह्मण इति वक्तुमशक्यमिति भावः । तेन च विदितः । एवं चान्यजातीयस्य यथातथास्ताम् , अयं तु ब्राह्मणोऽवश्यं त्वया गत्वा जीवनीय इति द्योत्यते ॥ श्रमातिशयप्राप्तयानया ते किं मुखमिति वादिनं कश्चिद्वक्ति- क्लेशेऽपि तन्यमाने मिलितेयं मां प्रमोदयत्येव । रौद्रेऽनभ्रेऽपि नभःसुरापगावारिवृष्टिरिव ॥ १६३ ॥ क्लेशेऽपीति । क्लेशेऽपि विस्तार्यमाणे मिलितेयं मां प्रमोदयत्येव । एवं चान्यस्यैतादृशी मोदयति न वेति.को वेदेति भावः । अभ्राभावेऽपि धर्मे नभसः सुरापगाया वारिवृष्टिरिव । एवं चानाभावे धर्मे खिन्नस्य यथा वृष्टिरत्यन्तसुखदा तथैतस्याः संगतिरिति व्यज्यते । मेघाभावेऽम्यातपे ये जलबिन्दवः पतन्ति ते सुरापगाया इति लोकप्रथा ॥ ।
आर्यासप्तशती। ८७ Jameway गुणाभिज्ञभीरुकुलजनायिकानामेवान्यानवलोकनीयतासंपादकपटावगुण्ठनमुचि. "तम्, न त्वन्यासामपीति कश्चिद्वक्ति- कूपप्रभवाणां परमुचितमपां पट्टबन्धनं मन्ये । याः शक्यन्ते लब्धं न पार्थिवेनापि विगुणेन ॥ १६४ ॥ कृपेति । या विगुणेन रज्जुशून्येन । पक्षे गुणरहितेन । पार्थिवेनापि पृथिवी- विकारकलशादिनापि । पक्षे राज्ञापि । एवं च धनादिलोभशून्यत्वं नायिकासु व्य. ज्यते । प्राप्तुं न शक्यन्ते तासां कूपप्रभवाणाम् । एवं च गम्भीरत्वं तेन च दुष्प्रा. पत्वं ध्वन्यते । अपां जलानाम् , पट्टस्य सारिण्या बन्धनम् । पक्षे सर्वाङ्गीणाच्छाद- कवस्त्ररचनं परमुचितं मन्ये । यद्वात्यन्तलज्जावत्तयाच्छादनादिकारिणीं कश्चिद्वक्ति- एवं चेतस्ततो द्रव्यादिलोमेन गमनादिशालिन्याः किं तव गोपनमिति व्यज्यते ॥ खण्डिता नायिका नायकं वक्ति- कररुहशिखानिखात भ्रान्त्वा विश्रान्त रजनिदुरवाप । रविरिव यत्रोल्लिखितः कृशोऽपि लोकस्य हरसि दृशम् ।।१६५॥ करेति । नखाग्रनिखात बहुतरनखक्षतशालिन् , भ्रान्त्वा। इतस्ततो गत्वे. त्यर्थः । पक्षे मेरं प्रदक्षिणीकृत्य । विश्रान्त । क्षणमात्रमिति भावः। रजन्यां दुरवाप । अन्यत्रासचत्वादिति भावः । पक्षे मेरोरुत्तरगमनात् । यत्रोल्लिखितो रविरिव कृशोऽपि । अपिना निस्तेजस्कत्वसमुच्चयः । लोकस्य । न ममेति भावः । लोकपदमनभिज्ञत्वं ध्वनयति । दृशं हरसि । एवं चैतादृशस्वरूपस्त्वमन्याभ्य एव रोचसे न मयमिति व्यज्यते। सूर्योऽपि तेजोबाहुल्येन वीक्षितुमशक्यस्त्वष्ट्रा यन्त्रो- ल्लिखितोऽल्पतेजस्कतया लोकदग्विषय इति भावः ॥ किमिति स्वस्वामिनं न सुखयसीति वादिनी कांचित्काचिद्वक्ति- किं करवाणि दिवानिशमपि लग्ना सहजशीतलप्रकृतिः । हन्त सुखयामि न प्रियमात्मानमिवात्मनश्छाया ॥ १६६ ॥ किसिति । सह बाल्यतः । पक्ष उत्पत्तित इत्यर्थः । जाता, शीतला शान्ता । पक्षे यथाश्रुतम् । प्रकृतिः स्वभावो यस्याः सा । एवं च सर्वदा मधुरवचनशालित्वं व्यज्यते । दिवानिशमपि लग्ना । सेवार्थमिति भावः । अहमात्मनः खस्य छायात्मा- नमिव प्रियं हन्त खेदे न सुखयामि । किं करवाणि । एवं च यथा सर्वदा निकट- ।
HASTRALIMIRENAGRALEEPANCHAN काव्यमाला । . वर्तिनी शीतलापि खच्छाया न सुखजनिका तथाहं संवृत्तेत्यत्र न मद्दोषः, अपितु ईश्वरेच्छैवात्र नियामिकेति व्यज्यते । यद्वा सततसेवाकारित्वसौम्यत्वस्वीयत्वादि- दोषवत्त्वादहं न सुखजनिकेति द्योत्यते । तेन चैतदभाववत्येवैतत्तोषजनिकेति ॥ नायकसंगमे श्रमो भवतीति वादिनी सखी वक्ति- केशैः शिरसो गरिमा मरणं पीयूषकुण्डपातेन । दयितवहनेन वक्षसि यदि भारस्तदिदमचिकित्स्यम् ॥१६॥ केशैरिति । स्फुटार्थमेतत् ॥ नायको मानिनी वक्ति- किंचित्कर्कशतामनु रसं प्रदास्यन्निसर्गमधुरं मे । इक्षोरिव ते सुन्दरि मानस्य ग्रन्थिरपि काम्यः ॥ १६८॥ किंचिदिति। हे सुन्दरि, किंचित्कार्कश्योत्तरम् । एवं चातिकार्कश्याभावो व्यज्यते । खभावसृष्टं रसं रतिम् । पक्षे द्रवम् । प्रदास्यन् । ते मानस्य, इक्षोरिव अन्थिरपि । दुरपनेयाग्रह इति यावत् । किमु बाच्यं मृद्वाभिमान इत्यपिना द्योत्यते। काम्यः। एवं च मानग्रन्थावपि सुखम् , किमुत तदपगम इति व्यज्यते। तेन चैतादृशावगणनमनुचितमिति द्योत्यते । 'मधुरः' इति पाठे अन्थिविशेषणम् ॥ कश्चिदतिप्रवीणो वक्ति- केन गिरिशस्य दत्ता बुद्धिर्भुजगं जटावनेऽर्पयितुम् । येन रतिरभसकान्ताकरचिकुराकर्षणं मुषितम् ॥ १६९ ॥ केनेति । गिरौ शेते तस्य । एवं च नागरिकव्यवहारशून्यत्वं व्यज्यते । तेन यस्यकस्यचिदूचनविश्वासकारित्वम् । भुजगं जटावने । एवं च खतो भीषणत्वेऽपि भुजगार्पणेनातिभीषणत्वं ध्वन्यते । अर्पयितुम् । अर्पितपदेन संस्थापनाभावप्रति- पादनेनेतस्ततो जटासंचारित्वं भुजगे व्यज्यते। तेन चैकदेशस्यापि करस्पर्शायो- ग्यत्वम् । केन बुद्धिर्दत्ता। यद्वा जटानामवनं रक्षणं तत्र । तन्निमित्तमित्यर्थः । एवं च संरक्षणेऽन्ये बहवोऽभ्युपायाः सन्ति, एवं सत्येतादृशायुक्तविचारकथनमप्रामा- णिककृत्यमिति व्यज्यते । यद्वा गिरिशपदेन भुजगसंस्थापनाईकंदरादिज्ञानवत्त्वं द्योत्यते। जटाभिरवने । अवननिमित्तमित्यर्थः । अर्थाद्धजगस्य । एवं च भुजगे भूषणत्वं ध्वन्यते । एवं च वनपदस्य विपिनार्थकत्वे सर्पस्यावनयोग्यत्वे न तत्कर- णेनानौचित्यमायातीति दूषणमपास्तम् । येन यया बुद्ध्या रतिवेगेन यत्कान्तया करेण: । । ।
आर्यासप्तशती। चिकुराकर्षणं मुषितम् । भुजगभयादिति भावः । एवं च रतिकालीननायिकाविधी- यमानकेशाकर्षणमत्यन्तसुखदमिति व्यज्यते । “चिकुराकर्षरसमुषितः' इति पाठे येन रसमुषितो हरो जात इत्यर्थः ॥ को वा नायिकाप्रणयशालीति वादिनं कश्चिद्वक्ति- करचरणकाञ्चिहारप्रहारमविचिन्त्य बलगृहीतकचः। प्रणयी चुम्बति दयितावदनं स्फुरदधरमरुणाक्षम् ॥ १७० ।। करेति । करादिप्रहारमविचिन्त्य । नायिकाकृतमित्यर्थः । बलेन । एवं च पीडा भविष्यतीति ज्ञानविधुरत्वं तेन चात्यन्तरतिनिर्भरत्वं व्यज्यते। गृहीतकचः स्फुरदधरम् । निष्ठुरं वक्तुमिति भावः। अरुणाक्षम् । कोपोद्रेकादिति भावः । दयितावदनं यचुम्बति । एवं च भीतिशून्यत्वं व्यज्यते। स प्रणयी नायिकानि- रूपितप्रेमवान् । अन्यथा कोपाद्यवगणय्य बलाचुम्बनकरणमसंभवीति भावः । 'नायिकाविषयकप्रेमवान् । एवं च प्रहारदुःखमवगणय्य यस्तथा करोति स एव तथेति भावः' इति ऋजवः । वस्तुतस्तु रागोद्रेकशालीत्यर्थः । यद्वैतादृशो यस्त- थाविधं नायिकावदनं चुम्बति स एव धन्य इत्यर्थः । यद्वा मया कोपः प्रदर्शनीयः त्वया तु प्रियो मयि बलात्काराय प्रेरणीय इति शिक्षिता सखी नायकं वक्ति । एवं च कोपवल्यामपि नायिकायां प्रीतिशालिना नायकेन तत्कृतकरतर्जनाद्यवगणय्य बलात्कारः क्रियत एव, अतस्त्वया भीतिमुत्सृज्य खेच्छाचारो विधेय इति वन्यत इत्यर्थः ॥ नायकचाञ्चल्यखिन्नां नायिकां सखी समाधत्ते- कुरुतां चापलमधुना कलयतु सुरसासि यादृशी तदपि । सुन्दरि हरीतकीमनु परिपीता वारिधारेव ।। १७१ ॥ कुरुतामिति । हे सुन्दरि, अधुना नायकश्चाफ्लमितस्ततो विलोकनादि कुरुताम् । न निवारणीय इति भावः । यतो यत्प्रकारिका त्वं सुरसासि तदपि जानातु । केव । हरीतकीमनु परिपीता जलधारेव । एवं च यथा तिक्तकटुकादिर. सशालिहरीतकीखादोत्तरं जलधारा मृष्टतमा भवति, तथा त्वमन्यगुणहीननायिका- रसास्वादोत्तरमत्यन्तसुखदा भविष्यसीति व्यज्यते । अत एवासम्यग्वस्तुदर्शनोत्तरं सम्यग्वस्तुदर्शनेन सुखम्, न तेन विना तथेति लोकप्रसिद्धिः ॥ ।
काव्यमाला । । शृङ्गाररचनार्थ कृताभ्यङ्गां साधारणवनितां सखी वक्ति- कज्जलतिलककलङ्कितमुखचन्द्रे गलितसलिलकणकेशि । नवविरहदहनतूलो जीवयितव्यस्त्वया कतमः ॥ १७२ ॥ कजलेति । हे कजलतिलकेन । दृग्दोषनिवारणार्थ कृतेनेति भावः । कल- ङ्कितो मुखचन्द्रो यस्यास्तत्संबुद्धिः । गलितसलिलकणाः केशा यस्यास्तत्संबुद्धिः । नूतनो यो विरहवह्निस्तस्य तूलरूपस्त्वया कतमो जीवयितव्यः । 'दूनः' इत्यपि पाठः । एवं चैतादृशत्वदीयदर्शनेन सर्वेऽपि तात्कालिकविरहवह्निवृतदह्यमाना भविष्यन्ति, तेषु कस्त्वयानुग्राह्य इति सुभगत्वं ध्वन्यते ॥ खस्य दारिद्येऽपि महान्तो न दानं परित्यजन्तीति कश्चिद्वक्ति- कृच्छ्रानुवृत्तयोऽपि हि परोपकारं त्यजन्ति न महान्तः । तृणमात्रजीवना अपि करिणो दानद्रवाकराः॥१७३ ।। कृच्छेति । कृच्छ्रानुवृत्तयोऽपि कष्टजीवना अपि महान्तः । एवं च नीचाना- मन्यादृशी गतिरिति भावः । परोपकारम् । दानरूपमित्यर्थः । न त्यजन्ति । तृणमात्रेण जीवनं येषां तेऽपि करिणो गजाः, दानं मदः, दानोदकं च तेनाः करः शुण्डादण्डश्च येषाम् ॥ कांचन गोपिकामालिङ्गय तिष्ठन्तं कृष्णमवलोक्य विस्मयेन समागतान्बालकान्गो- पीसखी वक्ति- किं हसथ किं प्रधावथ किं जनमाह्वयथ बालका विफलम् । तदयं दर्शयति यथा रिष्टः कण्ठेऽमुना जगृहे ।। १७४ ॥ किमिति । रिष्टो दैत्यः । एवं च भूतार्थाभिनयोऽयं न त्वन्यदपूर्व किंचि- दिति व्यज्यते ॥ कातरताकेकरितस्सरलज्जारोषमसृणमधुराक्षी। मोक्तुं न मोक्तुमथवा बलतेऽसावर्थलब्धरतिः ॥ १७५ ॥ कातरतेति । कातरता भीतिस्तया केकरिते वक्रीकृते स्मरलज्जारोषैर्मसृणम. धुरे स्निग्धसुन्दरे अक्षिणी यस्याः । मोक्तुमथवा न मोक्तुम् । नायकमिति भावः । अर्ध लब्धा रती रतं ग्रयासौ वलत उद्युक्ता भवति । जातिवर्णनमेतत् ।। - आर्यासप्तशती। ९१ -- । - - केचिदूरादागताः, परं तु नात्र तेषां तत्फलमिति कश्चिदन्योक्त्या वक्ति- केतकगर्भे गन्धादरेण दूरादमी द्रुतमुपेताः । मदनस्यन्दनवाजिन इव मधुपा धूलिमाददते ॥ १७६ ॥ केतकेति । केतकपुष्पस्य मध्ये गन्धस्यादरेण लोभेन द्रुतं दूरात् । एवं च श्रमातिशयो व्यज्यते । उपेताः । गन्धस्यादरो यस्य तेन । वायुनेत्यर्थः । द्रुतं दूरादुपेता मदनरथाश्वा इव । एवं च भारवहनसमर्थत्वं व्यज्यते । तेन चोपमेये- ऽतिश्रेष्ठत्वम् । मधुपाः । एवं च तदेकजीवनोपायशालित्वं ध्वन्यते। धूलिमाददते। एवं चैतादृशानां कीर्तिश्रवणादागतानामत्रतादृशी गतिरित्यनुचितमिति व्यज्यते । पक्षे रथोद्धतरजःसंबन्धाद्धूलिमत्तेति भावः । यद्वा सामान्यवनितां सखी वक्ति- हे केतकगर्भे । अतिगौराङ्गीत्यर्थः । कीर्त्यादरेण दूराच्छीघ्रमागताः । एवं चात्र- त्यानां कालान्तरेऽपि समाधातुं शक्यत्वमावेद्यते । मदनरथाश्वा इव । एवं व मदनोऽपि सौन्दर्याद्यनेकगुणवतामेतेषामेव बलेन जगज्जयं करोतीति व्यज्यते । तेन चैतादृशदुर्लभा इति । मधुपा मद्यपाः । एवं चोन्मादवत्तया द्रव्यव्ययक्लेशशू- न्यत्वं ध्वन्यते। धूलिम् । अर्थात्त्वचरणसंबन्धिनीम् । आदते । एवं चैतेन नायका अवश्यमनुग्राह्या इति ध्वन्यते ॥ मूर्खनिबद्धान्तःकरणत्वान्नैताश्चातुर्यादिगुणभाजनमिति कश्चिदन्योक्त्या वक्ति- को वक्रिमा गुणाः के का कान्तिः शिशिरकिरणलेखानाम् । अन्तः प्रविश्य यासामाक्रान्तं पशुविशेषेण ।। १७७ ॥ क इति । वक्रिमा वक्रत्वं कः, गुणाः के, कान्तिः का, चन्द्रलेखानाम् । शिशिरकिरणपदेन तदधिपमान्द्यमावेद्यते । प्रविश्य यासामन्तरभ्यन्तरं पशुविशे- षेण । अतिजडेनेति भावः । आक्रान्तम् । एवं चैतासां चातुर्यादि सर्व मिथ्यैवेति व्यज्यते ॥ बलादियं कन्या मया परिणेयेति वादिनं कश्चिदृष्टान्तव्याजेन वारयति- कृतविविधमथनयत्नः पराभवाय प्रभुः सुरासुरयोः । इच्छति सौभाग्यमदास्वयंवरेण श्रियं विष्णुः ॥ १७८ ॥ कृतेति । कृतो विविधमथने यत्नो येन सः । मथनमर्थात्समुद्रस्य । विविध- S काव्यमाला। maa । पदेन बुद्धिविशेषशालित्वं व्यज्यते । देवदानवयोः पराजयाय प्रभुः समर्थो विष्णु सौभाग्यस्य मदादभिमानात्वयंवरेण श्रियम् । एवं चात्यन्तस्पृहणीयत्वं व्यज्यते इच्छति । एवं च शारीरबुद्धिबलसत्त्वेऽपि विष्णुना लक्ष्मीपाणिग्रहणाय न बला कारः कृतः। अतस्त्वया नैतादृक्कर्म कर्तव्यमिति ध्वन्यते। यद्वा त्वयि सुभग त्वेऽवश्यं सा त्वामेव वरिष्यति, अन्यथा बलाद्धतेति न तत्त्रीतिरिति ध्वन्यते ॥ एतेषु वैदेशिकेषु स्थायि भ्रमेण विहिता त्वया संगतिः, तव सा न सुखदेर काचित्कांचित्प्रति वक्ति- किं पुत्रि गण्डशैलश्रमेण नवनीरदेषु निद्रासि । अनुभव चपलाविलसितगर्जितदेशान्तरभ्रान्तीः ॥ १७९॥ किमिति । हे पुत्रि । एवं चोपदेशार्हत्वं ध्वन्यते । गण्डशैलानां भ्रमेण । 'गण्डशैलास्तु च्युताः स्थूलोपला गिरेः' इत्यमरः । नूतनमेघेषु । नीरदपदेनेदं देयमिदं देयमिति संकल्पमानकारित्वं व्यज्यते । तेन च न ततोऽर्थप्राप्तिरपीति । निद्रासि । एवं चातिविश्वस्तत्वं व्यज्यते । चपलायास्तडितो विलसितानि, गर्जि- तानि च, देशान्तरभ्रमणानि चानुभव । एवं चैतत्संगल्या सपत्नीवैभवतर्जनदिगन्तु गमनादिदुःखमवश्यं भावीति व्यज्यते ॥ नायिकासखी नायकसखी वक्ति- कान्तः पदेन हत इति सरलामपराध्य किं प्रसादयथ । सोऽप्येवमेव सुलभः पदप्रहारः प्रसादः किम् ॥ १८० ॥ कान्त इति । कान्तश्चरणेन हत इति सरलाम् । एवं च भवच्छाठ्यानभि- ज्ञेयत्वमिति ध्वन्यते । अपराध्य । सापराधां विधायेत्यर्थः । किं प्रसादयथ । सोऽपि प्रहाररूपः प्रसादः, एवमेव किं सुलभः । एवं च मानिन्यानया क्रोधात्पा. दाहते नायके भवतीभीरियमनुचितकार्यकारिणी त्वमिति त्रासयित्वा प्रसादना क्रियते । परं त्वेतत्पदप्रहारोऽप्येतस्यातिदुर्लभ इति नायिकाधिक्यं द्योत्यते ॥ किमिति नायको नानीयते भवतीभिरिति दूतीषु वादिनी नायिकां सखी द्धाभ्यां वक्ति- कर्णगतेयममोघा दृष्टिस्तव शक्तिरिन्द्रदत्ता च । सा नासादितविजया क्वचिदपि नापार्थपतितेयम् ॥ १८१ ॥ कर्णगतेयमिति । या कर्णविशाला, कर्णहस्तगता च । सफला । पक्षेऽमो- wune - न। एवं च यस्त्वत्कटाक्षमात्रेण न वश्यः स पुरुष एव नेति द्योयते ॥ आर्यासप्तशती। घेति शक्तिनाम । इन्द्रेण परमेश्वरेण । पक्षे पुरंदरेण । दत्ता। आसादितो विशि- शानां जयो यया। न विद्यत आसादितविजयो यस्याः सकाशात् । एवं चेयमेव विशिष्टजयकत्रीत्यर्थः । पक्षेऽप्राप्तार्जुना। यद्वासादितो विजयो यस्याः। एतज्जय- कारिणी नान्येति भावः। इयं तव दृष्टिः शक्तिश्च कचिदप्यपगतोऽर्थों यस्याः । घण्ढेत्यर्थः । पतिता नेति न इति काकुः । पक्षेऽर्जुनभिन्ने घटोत्कचे पतिता नेति क्लेशयसि किमिति दूतीर्यदशक्यं सुमुखि तव कटाक्षेण कामोऽपि तत्र सायकमकीर्तिशङ्की न संधत्ते ॥ १८२ ॥ क्लेशयसीति । दूतीरिति बहुवचनेन न कापि तत्र युक्तिश्चलतीति व्यज्यते। अकीर्तिशती। घण्ढत्वादिति भावः । एवं च कामबाणापेक्षया कटाक्षेऽतिशयो व्यज्यते ॥ कश्चिदधरं स्तौतिः को वेद मूल्यमक्षद्यूते प्रभुणा पणीकृतस्य विधोः । 'प्रतिविजये यत्प्रतिपणमधरं धरनन्दिनी विदधे ॥ १८३ ।। को वेदेति । प्रभुणेश्वरेण । एवं चानर्धवस्तुसत्त्वं द्योत्यते । अक्षयूते पणी- कृतस्य चन्द्रस्य मूल्यं को वेद । यस्माद्धरति महीमिति धरः । 'धरपर्वताः' इत्य- मरः । तत्तनया। एवं च चातुर्यविशेषवत्त्वं ध्वन्यते । प्रतिविजये प्रतिपणमधरं विदधे । एवं चाधरसमताप्रदर्शनेन चन्द्रेऽधिकत्वं न वास्तवमित्यधरामृतेऽधिकत्वं ध्वन्यते॥ 'मुञ्च माम् , नो चेत्ताडयामि चरणेन' इति वादिनी कुपितनायिका नायको वक्ति- कुपितां चरणप्रहरणभयेन मुञ्चामि न खलु चण्डि त्वाम् । अलिरनिलचपलकिसलयताडनसहनो लतां भजते ॥ १८४ ॥ कुपितामिति । हे निरर्थककोपने, चरणप्रहरणभयेन कुपितां त्वां न मुञ्चामि । यतो वायुचपलपल्लवताडनसहोऽलिलतां भजते । अलिरिति खस्मिन्नलि- तुल्यत्वप्रतिपादनेनानन्यगतिकत्वं द्योत्यते । कोपेऽनिलतुल्यत्वप्रतिपादनेन चञ्चल- त्वमावेद्यते। चरणे किसलयतुल्यत्वप्रतिपादनेन कोमलत्वं तेन च दुःखाजनकत्वं ।
काव्यमाला। ध्वन्यते। यद्वा मन्मथशस्त्ररूपत्वं तेन च तत्संबन्धेनोन्मत्ततया वेदनानभिज्ञत्वं खस्मिन्व्यज्यते ॥ कथमनेन विलम्बितमिति कुपितां नायकेन च वापराधक्षमापनाय विहितप्र- सादा नायिका सखी वक्ति- कोपाकृष्टभ्रूस्मरशरासने संवृणु प्रिये पततः । छिन्नज्यामधुपानिव कज्जलमलिनाश्रुजलबिन्दून् ॥ १८५॥ कोपेति । प्रिये नायकविषये कोपेनाकृष्टम् । एवं च ज्याभङ्गो युक्त इति व्यज्यते । भूरूपं स्मरशरासनं यया तत्संबुद्धिः । छिन्ना या ज्या तन्मधुपानिव सरधनुर्ध्या भ्रमररूपेति प्रसिद्धिः । पततः कजलमलिनाश्रुजलबिन्दून्संवृणु । एवं च नायकप्रणत्युत्तरकालं कोपविधानमनुचितमिति व्यज्यते। यद्वा संवृण्वित्यनेन कोपप्रदर्शनाव्यवहितमेव तत्परित्यागोऽनुचित इत्यावेद्यते । यद्वा छिन्नज्यात्वनिरू- पणेन यद्यधुनापि कोपं करिष्यसि तर्हि कुपितो नायकः केनापि समाहितुमशक्य इति भीतिरावेद्यते । अत्र जलपदमाधिक्यं द्योतयति ॥ बालवनिताचित्तं खकरे कर्तुं कृतयत्नवैकल्यखिन्नः कश्चिद्वक्ति- कामेनापि न भेत्तुं किमु हृदयमपारि बालवनितानाम् । मूढविशिखप्रहारोच्छूनमिवाभाति यद्वक्षः ॥ १८६ ॥ कामेनेति । बालवनितानां हृदयं कामेनापि । एवं चान्यस्य का वार्तेति भावः। भेत्तुम् । किमु वितर्के । नापारि मूढस्य । यद्वा मूढो मन्दो यो बाणप्रहारस्तेनोच्छू- नमिव वक्ष आभाति । अन्यस्यापि धन्विनो मन्दशरप्रहारे लक्ष्यशरीर उच्छून- तामात्रमेव भवति । एवं च मदीययत्नेनैतासां हृदयं न भिद्यत इति न चित्रमि- त्यावेद्यते॥ कश्चिन्नायिका वक्ति- किं परजीवैर्दीव्यसि विस्सयमधुराक्षि गच्छ सखि दूरम् । अहिमधिचत्वरमुरगग्राही खेलयतु निर्विघ्नः ॥ १८७ ।। किमिति । हे सखि, विस्मयेन । सर्पदर्शनकौतुकजन्येनेत्यर्थः । सुन्दराक्षि । विस्फारितत्वादिति भावः । परस्यान्यस्य प्राणैः किमिति क्रीडसि । दूरं गच्छ । बृत्वरमधिकृत्याहितुण्डिको विघ्नहीनोऽहिं खेलयतु । एवं च निखिलजनेषु त्वद्वदन- TEST neries आर्यासप्तशती। विलोकनासक्तेष्वाहितुण्डिकश्रमो निरर्थक एव भवितेति व्यज्यते। यद्वा चत्वरप- देन सर्वजनसमाजयोग्यत्वं ध्वन्यते । दूर बहुकालं खेलयतु । परस्य संकेतितना- यकस्य प्राणैः किमिति क्रीडसि । अतो गच्छ । एवं चान्यस्य निर्विघ्नतासंपादने खस्यापि तद्भवतीति नियमेनान सकलदुष्टासक्या निर्विघ्नतया संकेतितनायकस- विधे गन्तव्यम् । विलम्बे तु मदनानलसंतप्तस्य तस्य प्राणा एवं गमिष्यन्तीति दूती नायिका वक्ति ॥ कुपितनायिकाचरणप्रहारखिन्नं नायक नायिकासखी समाधत्ते- करचरणेन प्रहरति यथा यथाङ्गेषु कोपतरलाक्षी । रोषयति परुषवचनैस्तथा तथा प्रेयसी रसिकः ॥ १८८ ॥ करेति । कोपचञ्चलाक्षी करौ च चरणौ च करचरणं तेनाङ्गेषु यथा यथा प्रहरति तथा तथा क्रोधजनकवाक्यैः प्रेयसीं यः कोपयति स एव रसिकः । एवं च यदि त्वं रसिकस्तबैतादृशेऽथै कोपविधानमनुचितं तवेति व्यज्यते। अत्र द्विती- यतच्छब्दः 'संचारिणी दीपशिखा-' इत्यादि पंद्यवदुचितः ॥ निन्दसि त्वं नायिकामिति वादिनी नायिकासखी नायको वक्ति- कस्तां निन्दति लुम्पति कः सरफलकस्य वर्णकं मुग्धः । को भवति रत्नकण्टकममृते कस्यारुचिरुदेति ॥ १८९ ।। कस्तामिति । तां को निन्दति । न कोऽपीत्यर्थः । मदनपटस्य चित्ररूपाम् । 'वर्णकः' इति पाठे मदनपटचित्रमित्यर्थः । को मूों लुम्पति । रत्नकण्टको रत्न- निन्दकः । 'कण्टकानीकसरकमोदकचषकमस्तकपुस्तकतडाकहाटकनिष्कशुष्कवर्च- स्कपिनाकभाण्डककटकदण्डकपिटकतालकफलककल्कपुलाकानि नपुंसके च' इति पाणिनिलिङ्गानुशासनात्कण्टकशब्दो नपुंसकः । को भवति । सुधायामरुचिः कस्यो- देति । न कस्यापीत्यर्थः । एवं चैतादृश्याः कथं मया निन्दा विधेयेति व्यज्यते ॥ संकेते गत्वा तत्र नायिकामप्राप्य गतं मया तत्रेति ज्ञापनाय चूताङ्कुरमादाय नायिकाहग्विषयं नायकं प्रति नायिकासखी वक्ति- कोपवति पाणिलीलाचञ्चलचूताङ्कुरे त्वयि भ्रमति । करकम्पितकरवाले स्सर इव सा मूच्छिता सुतनुः ॥ १९० ।। कोपवतीति । कोपवति । कथं न समागतेयमिति धियेति भावः । स्मरवि- शेषणमप्येतत् । पापी लीलया विलासेन । एवं च लोकान्यथाबुद्धिनिरासकत्वं HARIRANGI काव्यमाला। mama बन्यते । चञ्चल आम्राङ्कुरो यस्मिन् । करे कम्पितः । मारणोद्यमादिति भावः । खड्नो येन तस्मिन्स्मर इव त्वयि भ्रमति सति । ज्ञापनार्थमिति भावः । सा सुतनुः। एवं चोपेक्षानहत्वं ध्वन्यते। मूञ्छिता । एवं चैतस्या अतिदुःखं जातमिति व्यज्यते। तेन चायमपराधः क्षन्तव्य इति ॥ कुलवत्याः सुरते गोत्रस्खलनमनुचितं तवेति वादिनी सखीं नायको वक्ति- कौलीन्यादलमेनां भजामि न कुलं स्मरः प्रमाणयति । तद्भावनेन भजतो मम गोत्रस्खलनमनिवार्यम् ॥ १९१ ॥ कौलीन्यादिति । अलमत्यर्थं कोलीन्यात्कुलीनत्वात् । 'कौलीनात्' इति पाठे कौलीनालोकवादात् । स्यात्कौलीनं लोकवादे' इत्यमरः । एनां भजामि । एतस्याः परित्यागेऽत्यन्तलोकनिन्दाभीतिरिति भावः । स्मरः कुलं न प्रमाणयति । एवं च सगुणत्वमपेक्षितमिति भावः । तस्या भावनया सेयमिति बुद्ध्या भजतः। एनामिति भावः । मम नामस्खलनम् । 'गोत्रं नानि कुलेऽपि च' इति विश्वः । निवारयितुमशक्यम् । कस्याश्चिन्नायिकायाः पतिमवलोक्य भीतं कंचन नायकं दूती वक्ति- कुत इह कुरङ्गशावक केदारे कलममञ्जरीं त्यजसि । तृणबाणस्तृणधन्वा तृणघटितः कपटपुरुषोऽयम् ॥ १९२ ।। कुत इति । हे कुरङ्गशावक । शावकपदेनाज्ञत्वं व्यज्यते । तेन च भीति. योग्यत्वम् । इह केदारे शालिमञ्जरी कुतस्त्यजसि । नन्वत्रास्ति रक्षक इत्यत्राह- तृणरूपो बाणो यस्य, तृणरूपधनुष्मान् , तृणविहितो मिथ्यापुरुषः । एवं चाक्षमा- दस्माद्भीतिमपहाय यथेच्छं त्वमत्रागच्छेति द्योत्यते । यद्वा नायं पुरुषः किं तु तद्वेषधारीति भयमपास्य त्वमत्रागच्छेति ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्यार्थदीपनया समेता ककारव्रज्या । । खकारव्रज्या। सन्मैत्री स्तौति- खलसख्यं प्राङ्मधुरं वयोऽन्तराले निदाघदिनमन्ते । एकादिमध्यपरिणतिरमणीया साधुजनमैत्री ॥ १९३ ।। खलसख्यमिति । प्राक्प्रथमतः । अन्तराले मध्ये वयः। तारुण्यमित्यर्थः ।
आर्यासप्तशती। अन्ते सायं ग्रीष्मदिनम् । मधुरं मनोहारि । एका । नान्यदेतत्सममिति भावः एवं च सत्संगतिरेव विधेयेति ध्वन्यते ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता खकारव्रज्या । MANOR गकारवज्या। केनचिद्गुणवता दरिद्रेण संयोजयितुं काचित्कांचिद्वक्ति- गुणमधिगतमपि धनवान्न चिरान्नाशयति रक्षति दरिद्रः । मज्जयति रज्जुमम्भसि पूर्णः कुम्भः सखि न तुच्छः ॥१९॥ गुणमिति । हे सखि, प्राप्तमपि । एवं चाधिकार्जनं दूरापास्तमिति भावः दरिद्रो रक्षत्यपि । एवं च नवीनमर्जयतीति भावः । तुच्छोऽपरिपूर्णः। एवं च दारिद्येऽपि गुणवत्त्वादेतत्संगतिरेवोचितेति व्यज्यते । यद्वा साधारणोक्तिरियम् ॥ महदङ्गीकारेणैव महत्सविधे गमनमुचितम् , अन्यथा नेति कश्चित्कंचिदुपदिशति- गुरुरपि लघूपनीतो न निमज्जति नियतमाशये महतः । वानरकरोपनीतः शैलो मकरालयस्येव ॥ १९५ ॥ गुरुरिति । आशयेऽन्तःकरणे, मध्ये च । मकरालयपदेन स्वल्पस्याप्यन्तर्वस- तियोग्यत्वमिति व्यज्यते । एवं चैतादृशेऽप्यत्यन्तमहतो लघ्वङ्गीकरणान्नात्यन्तपरि- चितिरिति व्यज्यते ॥ कदापि कस्याप्यवाच्यं न वाच्यमिति कश्चित्कंचिदुपदिशति- गौरीपतेर्गरीयो गरलं गत्वा गले जीर्णम् । जीर्यति कर्णे महतां दुर्वादो नाल्पमपि विशति ॥ १९६ ॥ गौरीपतेरिति । महत्तरं गरलं गत्वा। एवं च तद्हणे नोद्यमो गौरीपतेरिति भावः । एवं च महद्भिः परदोषश्रवणे नोद्यमः क्रियत इति किं वक्तव्यम् । तज्जातं तदैव नश्यतीति व्यज्यते। जगदीश्वरस्य कण्ठे जीर्णम् । एवं च बहिनिःसरणा- नहत्वं व्यज्यते । महतां कर्णे दुर्वादो जीर्यति । अल्पमपि न प्रविशति । एवं च श्रवणसमसमयमेव दुर्वादो नश्यति, न सतां खल्पमपि हृदयमवतरतीति भावः । अल्पं नीचपुरुषं विशत्यपि, न जीर्यतीति किमु वाच्यमिति भावः । एवं च मह- न्मुखान्न कस्यचिद्रूषणं निःसरसि, क्षुद्रस्य मुखाबहिरेव निःसरतीति व्यज्यत इति - ७ आ० स० काव्यमाला। ANAMERIALHD वार्थः । एवं च यदि ते महत्त्वापेक्षा तर्हि न कदापि कस्यापि निन्दा विधेयेति योयते । दुर्वादे गरलसमताप्रतिपादनेन दाहकत्वातिशयो द्योत्यते ॥ कस्याश्चिद्वार्ता काचिद्वक्ति गृहपतिपुरतो जारं कपटकथाकथितमन्मथावस्थम् । प्रीणयति पीडयति च बाला निःश्वस्य निःश्वस्य ॥ १९७॥ गृहपतीति । गृहपतिपदेन गृहव्यासङ्गप्रवणत्वेन प्रतारणाहत्वं ध्वन्यते तत्पुरतः । 'धनविशेषाप्राप्त्या मनसिजसंतापकदर्थितोऽहं भवद्विधद्विजराजदर्शनमपि गृहीतुं नोत्सहे, केवलं गरलगिलनमेवाश्रित्येदानीं संसारविरतिं विधास्ये' इत्यादि कपटवार्ताभिः कथितखमन्मथावस्थं जारम् । बाला षोडशवार्षिकी । एवं चोन्माद- वत्त्वं ध्वन्यते । पतिपुरत इदमप्यत्रान्वेति । निःश्वस्य । तथाविधदारिधश्रवणानु- कम्पयेति भावः । अथ च 'तावत्पर्यन्तं सुरतरङ्ग विधास्ये, यावत्ते श्रमातिशया- च्वासोच्छ्वासातिशयो भावी' इति कथनेन, अथवा 'श्वासपरित्यागेन विरहेण तव आणापगमे ममापि प्राणा गमिष्यन्ति' इति प्रेमातिशयदर्शनेन प्रीणयति । तथावि- धचेष्टासञ्जितरतातिशयानुस्मारणेन पीडयति च । एवं च स्त्रीधूर्तत्वं केनापि विज्ञा- तुमशक्यमिति ध्वन्यते ॥ रतप्रावीण्यविहीनं पुंस्त्वाभिमानशालिनं काचिदन्योक्त्या वक्ति- गतिगञ्जितवरयुवतिः करी कपोलौ करोतु मदमलिनौ । मुखबन्धमात्रसिन्धुर लम्बोदर किं मदं वहसि ॥ १९८ ॥ गतीति । गत्या गमनविशेषेण गजिता तिरस्कृता । पक्षे ज्ञानेन । रतिनैपु- ण्येनेत्यर्थः । गञ्जिता रतिविजयेन खाधीनीकृता । वरा गतिविशेषशालितया । पक्षे कामकेलिकोविदात्वेन । युवतिर्थेन । मुखबन्धमात्रेण । एवं च करिकार्यसत्त्वाभावो व्यज्यते । सिन्धुर गज । लम्बोदर। एवं च गतिविशेषशून्यत्वं व्यज्यते। पक्षे लम्बोदरपदेनोत्थानासामर्थ्यमभिव्यज्यते। किं मदं वहसि । एवं च पुरुषचिह्नस- त्वमात्रेण न गवस्त्वया विधेय इति द्योत्यते । यद्वान्यकामुकसमताकारिणं कंचन काचिदन्योक्त्या वक्ति । एवं च तत्तुल्यं त्वयि न सामर्थ्यमिति व्यज्यते ॥ काचित्कस्याश्चिद्वार्ता वक्ति- गेहिन्याः शृण्वन्ती गोत्रस्खलितापराधतो मानम् । स्निग्धां प्रिये सगळ सखीषु बाला दृशं दिशति ॥ १९९ ।। मोहिन्या इति । श्रेष्ठपन्या नामस्खलनरूपापराधजन्यं मानं शृण्वन्ती । अत्र TERTAIMUSAIPLPADAMEHEARTDeras ARTERTAINMENT आर्यासप्तशती। । । नुमागमश्चिन्त्यः । बाला । प्रिये स्निग्धाम् । खासक्तिज्ञानजनितप्रेमवत्तयेति भावः । सखीषु सगर्वाम् । ईदृश्यहं गुणशालिनीति धियेति भावः । यद्वैतासां प्रिया नैता- खेतादृशासक्तिमन्त इति धियेति भावः ॥ केलिवने गन्तव्यमिति कश्चित्कांचिद्वक्ति- ग्रीष्ममये समयेऽस्मिन्विनिर्मितं कलय केलिवनमूले । अलमालवालवलयच्छलेन कुण्डलितमिव शैत्यम् ॥ २०० ।। ग्रीष्मेति । संतापप्रचुरेऽस्मिन्समये विनिर्मितम् । वृक्षसंजीवनार्थमिति भावः । क्रीडावृक्षसमूहमूले । वनपदेन सर्वत्र तत्र शैत्यमित्यावेद्यते। अत्यर्थं शैत्यमाल- वालवलयमिषेण । वलयपदं कुण्डलितत्वदाक्य । कुण्डलितमिव निर्बन्धवत्तां प्रापितमिव त्वं कलय। एवं चैतत्समये क्रीडा तत्रैवोचितेति भावः । यद्वा ग्रीष्म- खरूपे समये क्रीडावृक्षसमूहमूले विशेषेण निर्मितम्। कलशसेचनादिनेति भावः । अस्मिन्समये । वर्षाकाल इत्यर्थः । आलवालवलयमिषेणालमत्यर्थ कुण्डलितमिव निरर्थकीकृतमिव कलय । मेघोदकेन तन्निर्वाहादिति भावः । अन्यदपि निरर्थक कुण्डलितं कृतमिति लौकिकम् । एवं च वर्षासमयः संवृत्तः अतस्ते प्रियः समा- यास्यतीति सखी नायिकां समाश्वासयतीत्यर्थः । अथवा नायको नायिका वक्ति- अत्र संबुद्धिपदानुपादानं मदनबाधातिशयं व्यनक्ति । ग्रीष्मखरूपे समये केलिवन- मूले विनिर्मितं शैत्यमस्मिन् । पुरोवर्तिनि त्वत्कुचमण्डले सतीत्यर्थः । आलवाल- वलयमिषेणेवात्यन्तं कुण्डलितम् । एवं चैतादृशग्रीष्मसमये त्वत्कुचमण्डलसमं नान्यदस्ति शीतलतरमिति ध्वन्यते । तेन चातिमनोजानलसंतप्तस्य ममेदमेव शरणमिति॥ मदीयगुणनिबद्धोऽयमिति बुद्ध्या नायं नायकस्त्वया विश्वसनीय इत्यन्योक्त्या काचित्कांचिदुपदिशति- गुणबद्धचरण इति मा लीलाविहगं विमुञ्च सखि मुग्धे । अस्मिन्वलयितशाखे क्षणेन गुणयन्त्रणं त्रुटति ॥ २०१ ।। गुणबद्धति । हे सखि । एवं चोपदेशार्हत्वं व्यज्यते । मुग्धे । इत्यनेनाज्ञत्वं बोत्यते । गुणैः सूत्रः । पक्षे चातुर्यादिभिः । बद्धचरणः । पक्षे बद्धाचरणः । बद्धव्यवहार इति यावत् । इति हेतोर्लीलाविहगं मा विमुञ्च । निबद्धचरणत्वात्वानेन गन्तव्यमिति धियेति भावः । यतोऽस्मिन्वलयितशाखे वृक्षे गुणैर्यन्त्रण बन्धनम् । said १०० काव्यमाला। । पक्षे खाधीनतासंपादनम् । क्षणेन त्रुटति । एवं चात्यन्तसावधानतया स्थेयमित्या- वैद्यते । लीलाविहगमित्यनेन सर्वस्पृहणीयत्वं ध्वन्यते । तेन चातिसंरक्षणीयत्वम् । विहगपदेनेतस्ततो गमनखाभाव्यं द्योत्यते । वलयितशाख इत्यनेन गुणत्रुटनयोग्य- त्वम् । पक्षे नायिकासमूहशालित्वं व्यज्यते ॥ मदनवेदनासोति काचिद्वक्ति- गुरुगर्जिसान्द्रविद्युद्भयमुद्रितकर्णचक्षुषां पुरतः । बाला चुम्बति जारं वज्रादधिको हि मदनेषुः ॥ २०२ ।। गुर्विति । गुरुगर्जिश्च निबिडविद्युच्चानयोर्यद्भयं तेनाच्छादितश्रोत्रनेत्राणां पुरतो बाला । एवं च भीतियोग्यत्वम् । जारं चुम्बति । हि यस्मान्मदनबाणो वज्रादधिकः। एवं च मेघगर्जितविद्युद्भयस्य क्षणिकत्वेनातिशीघ्रनेत्रोन्मीलने द्रष्टव्यमेतैरिति विवे- कविधुरत्वं ध्वन्यते । यद्वा बहूनामपि भयजनके गर्जितादौ स्वयमेका न भीतेति साहसवत्त्वमावेद्यते॥ मानसंपादनप्रधानशीलां नायिका सखी वक्ति- गृहिणीगुणेषु गणिता विनयः सेवा विधेयतेति गुणाः । मानः प्रभुता वाम्यं विभूषणं वामनयनानाम् ॥ २०३ ॥ गृहिणीति । गृहिणी गृहाधिपत्यशालिनी । तद्गुणेषु विनयादित्रितयं गुणः। वामनयनानां दुःशीलानां मानादि विभूषणम् । एवं च यदि गृहाधिपत्यप्रतिष्ठादि- कामा त्वमसि तर्हि मानाद्यपहाय विनयायेव कुर्विति ध्वन्यते । यद्वा तव नायिका- त्यन्तं प्रभुताकारिणीति वादिनं कश्चिद्वक्ति-वामनयनानाम् । त्रिविधानामिति भावः। मध्ये गृहिणीगुणेषु खीयागुणेषु नम्रता, सेवा, आज्ञाकारित्वमिति गुणाः प्रधानभूता गणिताः । एवं चैतद्गुणवतीनामेव खीयात्वमिति व्यज्यते । तेन चैतद्वत्त्वं सर्व- खीयाविति तद्वत्त्वेन न कापि श्लाघ्यतेति । वामनयनानां मध्ये गृहिणीष्वेते गुणा गणिता इत्येव वक्तव्ये गुणेष्विति पदोपादानम् , अन्येऽपि गुणाः सन्ति परं तु तेऽप्रधानभूता इति द्योतयितुम् । मानः, प्रभुता, वाम्यमिदं विभूषणम् । एवं चैतन्त्रितयं कस्यचिदेव भाग्यवतोऽङ्गनायां भवतीति व्यज्यते । एवं च विनयादेः सर्वगृहिणीगुणत्वेन विद्यमानत्वेऽपि मानादिविभूषणसत्त्वेन खाङ्गनायामाधिक्यं व्यज्यते । यद्वा गृहिण्या गृहकर्मव्यापृतायाः। किंचिद्तयौवनाया इति भावः। विनयादयो गुणा मुख्यत्वेन गणिताः । एवं चैतेषामेव तद्भूषणत्वं व्यज्यते। वाम- । ।
आर्यासप्तशती। १०१ नयनानाम् । यौवनातिशयशालिनीनामिति भावः। मानादयो विभूषणामित्यर्थः । अथवा सर्वदा नायकस्य विनयसेवादिकमेव करोषि न कदापि किमिति :प्रभुतां नाटयसीति वादिनी काचिद्वक्ति-गृहिण्या विनयादयो विभूषणम् , कुटिलनयनानां तु मानादयो विभूषणम् । एवं च खस्मिन्नत्यन्तसाधुत्वमावेद्यत इत्यर्थः । यद्वा खीयागुणेषु विनयादयो मुख्या गणिता वामनयनानां परकीयादीनां वाम्यादि विभू- षणम् । एवं च स्खीयाया एवैतत्करणमनुचितमिति भावः। विभूषणपदेन वाम्यादौ गुणव्यवहाराभावो द्योत्यते । अथवा स्त्रीषु मध्ये गृहिणीनां विनयादयो गुणाः । गुणपदेन नैसर्गिकत्वं व्यज्यते । भूषणपदेन वाम्यादावचिरावस्थायित्वं ध्वन्यते। एवं च न मया वाम्यादि बहुकालं स्थाप्यम् , अपि तु विनयादि विधेयमिति 'बहु- कालं मानः कर्तव्यः' इति वादिनी काचिद्वक्ति ॥ भर्तृकृतातिशयलालनेऽपि कथं त्वं दुःखितैवासीति वादिनी काचिद्वक्ति- गुणमान्तरमगुणं वा लक्ष्मीगङ्गा च वेद हरिहरयोः । एका पदेऽपि रमते न वसति निहिता शिरस्यपरा ॥ २०४ ॥ गुणमिति। हरिहरयोरान्तरम् । एवं च बहिर्दर्शनायोग्यत्वं ध्वन्यते। गुणं दोषं वा लक्ष्मीगङ्गा च वेद । यत एका लक्ष्मीः पदेऽपि । एवं च बाह्यादराभावो द्योत्यते। रमते । अपरा गङ्गा शिरसि निहितापि । एवं च बाह्यादरो द्योत्यते । न तिष्ठति । एवं च या यत्संगतिशालिनी सैव तद्गुणदोषं विजानाति, नान्या कापीति ध्वन्यते ॥ चिरप्रत्यागतं पुनर्विदेशं गन्तुकामं नायकं काचिद्वक्ति- गत्वा जीवितसंशयमभ्यस्तः सोढुमतिचिराद्विरहः ।। अकरुण पुनरपि दित्ससि सुरतदुरभ्यासमस्माकम् ॥२०५ ॥ गत्वेति । जावितसंदेहं प्राप्यातिचिरकालेन विरहः सोढुमभ्यस्तः । हे अकरुण करुणाशून्य । एवं च पूर्वमपि करुणाभाको द्योत्यते । अस्माकं सुरतस्य दुरभ्यास पुनरपि दित्ससि दातुमिच्छसि । एवं चातःपरं त्वद्विदेशगमनेऽस्माकं प्राणपरित्याग एव भविष्यतीति व्यज्यते ॥ कश्चित्कस्याश्चिद्वार्ता वक्ति- गोत्रस्खलितप्रश्नेऽप्युत्तरमतिशीलशीतलं दत्त्वा । निःखस्य मोघरूपे खवपुषि निहितं तया चक्षुः ॥ २०६ ॥, गोत्रेति । गोत्रस्खलितेन प्रश्नस्तस्मिन्नपि । एवं चावश्यक्रोधजननयोग्यत्वं ।
१०२ काव्यमाला। N । - - । द्योत्यते । अत्यन्तखभावशीतलमुत्तरं दत्त्वा । निष्फलं रूपं यस्य तस्मिन् । कान्त- चित्तवश्यतासंपादनसामर्थ्याभावादिति भावः । स्वीयदेहे निःश्वस्य दुःखोद्रेकादिति भावः । तया नेत्रं निहितम् । विद्यमानमपीदं रूपादि किमिति न नायकवश्यतासं- पादकमिति धियेति भावः ॥ काचित्कांचिदन्योक्त्या वक्ति- गन्धग्राहिणि शालोन्मीलितनिर्यासनिहितनिखिलागि। उपभुक्तमुक्तभूरुहशतेऽधुना भ्रमरि न भ्रमसि ॥ २०७॥ गन्धेति । आमोदग्राहिणि । एवं च लोलुपत्वचाञ्चल्ये व्यज्यते । शालस्य वृक्षविशेषस्योन्मीलन्यो निर्यासस्तन निहितसर्वाङ्गि । उन्मीलत्पदेन नवीनदर्शनना- यकदर्शितातिशयितप्रेमशालिनी त्वमिति द्योत्यते । उपभुक्तमुक्तं वृक्षशतं यया तत्संबुद्धिः । एवं चैकस्यापि न संगतिस्त्वया निर्वाहितेति ध्वन्यते । भूरुहपदेना- ल्पवयस्कसंगतिशालित्वम् , तेन चातिनीचगुणवत्त्वं ध्वन्यते। भ्रमरि, अधुना न भ्रमसि । एवं च त्वमेतादृशीति विज्ञाय सर्वैरुपेक्षितेति व्यज्यते ॥ केनचिदूनसमतामापादितः कश्चिदन्योक्त्या वक्ति- गुरुषु मिलितेषु शिरसा प्रणमसि लघुषून्नता समेषु समा। उचितज्ञासि तुले किं तुलयसि गुञ्जाफलैः कनकम् ॥२०८॥ गुरुष्विति । गुरुताशालिषु । पक्षे श्रेष्ठेषु । मिलितेषु संयुक्तेषु । पक्षे समा- गतेषु । शिरसाग्रभागेन । पक्षे मस्तकेन । प्रकर्षेण नमस्यवनता भवति । पक्षे नमस्करोषि । लघुषु न्यूनपरिमाणशालिषु । पक्षे नीचेषु । उन्नतोच्चा । पक्षे साभिमाना । समेषु समा । अत एव तुले उचितज्ञासि । कनकं गुजाफलैस्तुलय- सीदं किम् । एवं चात्रैव तवोचितज्ञता कुत्र गतेति व्यज्यते ॥ कश्चिद्गहिनीसखी वक्ति- गेहिन्या हियमाणं निरुध्यमानं नवोढया पुरतः । मम नौकाद्वितयार्पितगुण इव हृदयं द्विधा भवति ॥ २०९ ॥ गेहिन्येति । गेहिन्या प्रौढया ह्रियमाणम् । न तु हृतमिति भावः । नवो- ढया पुरतो निरुध्यमानम् । न तु निरुद्धम् । मम नौकाद्वितयं विपरीतगामि तत्सं- बन्धिगुण इव हृदयं द्विप्रकारं भवति । नौकासमताप्रतिपादनेनोभयत्र रससंब- । BAD आर्यासप्तशती। १०३ धित्वं ध्वन्यते । एवं चोभयत्र समप्रीतिरहमस्मीति व्यज्यते । ‘पद इव' इति वचित्पाठः ॥ एकत्रैव गुणे दृढा परिचितिरुचिता, न तु सर्वत्र यथाकथंचिदिति कश्चिद्वक्ति- गुण आकर्षणयोग्यो धनुष इवैकोऽपि लक्षलाभाय । लूतातन्तुभिरिव किं गुणैर्विमर्दासहैबहुभिः ॥ २१० ॥ गुण इति । आकर्षणाय योग्यः। विचारक्षम इत्यर्थः । पक्षे यथाश्रुतम् । एवं च दृढत्वं ध्वन्यते । गुणो धनुष इवैकोऽपि लक्षसंख्याकधनलाभाय । पक्षे वेध्य- लाभाय । विमर्दासहैविचारासहैः । पक्ष आकर्षणासहैः । लूता कीटविशेषस्तत्तन्तु- भिरिव बहुभिर्गुणैः किम् । न किंचित्फलमित्यर्थः ॥ नायिकासक्ति नायके दूती वक्ति- गायति गीते शंसति वंशे वादयति सा विपञ्चीषु । पाठयति पारशुकांस्तव संवादाक्षरं बाला ॥ २११ ॥ गायतीति । विपञ्चीषु, पञ्जरशुकानिति च बहुवचनम् । वादितस्य पुनर्वाद- नेन पाठितस्य पुनः पाठनेन संवादाक्षरे प्रेमातिशयो द्योत्यते । एवं च त्वत्संवादै- काक्षरमपि तस्याः प्राणप्रियमित्यासक्तिविशेषो व्यज्यते ॥ अत्र क्षुद्रस्यापि प्राप्तिः सौम्यतया, न गर्वेण महत इति कश्चिदन्योक्त्या वक्ति- गणयति न मधुव्ययमयमविरतमापिबतु मधुकरः कुमुदम् । सौभाग्यमानवान्परमसूयति धुमणये चन्द्रः ॥ २१२ ॥ गणयतीति । मधुकरः कुमुदमापिबतु । सौभाग्यमानवानयं चन्द्रो मधुव्ययं न गणयति । परं द्युमणये सूर्यायासूयति । एवं च महतः सूर्यस्य न कुमुदोपभोग- स्तत्र चन्द्रस्य न कार्पण्यं हेतुर्यतो मधुकरस्योपभोगः । किं तु सूर्यगर्व एव यथा तथात्र न गर्वण प्राप्तिरिति ध्वन्यते ॥ सखी नायिका वक्ति- गुणविधृता सखि तिष्ठसि तथैव देहेन किं तु हृदयं ते । हृतममुना मालायाः समीरणेनेव सौरभ्यम् ॥ २१३ ॥ गुणेति । सखि, गुणैर्लोकवादभीत्यादिमिर्विधृता । पक्षे दोरकैः । देहेन तथैव यथापूर्वैव तिष्ठसि । किं तु समीरणेन मालायाः सौरभ्यमिवामुना नायकेन ते हृदयं ।
काव्यमाला। । । हृतम् । एवं च न तवापराध इति भावः । एवं च नास्मल्लज्जा कार्येति द्योत्यते एवं च यद्यपि त्वं यथास्थिता दृश्यसे तथापि त्वचित्तं मान्मथावस्थादुस्थं वृत्तमित्या- वेद्यते । तेन चास्माकं प्रति गोपनमनर्थकमिति । यद्वा बलाद्देहेन कृतापि धृतिरन- र्थकैव, अतो यतख तन्मिलनायेति व्यज्यते ॥ कश्चित्सखायं वक्ति- गुरुसदने नेदीयसि चरणगते मयि च मूकयापि तया । नूपुरमपास्य पदयोः किं न प्रियमीरितं प्रियया ॥ २१४ ॥ गुर्विति । नेदीयसि निकटे सति । मयि चरणगते प्रणमति सति । एवं च नायिकायां मानवत्त्वं द्योलते । मूकयापि । गुरुभीत्येति भावः । तया चरणयोः। नूपुरमित्येकत्वमविवक्षितम् । अपास्य प्रियया । एवं चैतादृशविधानमुचितमेवेति ध्वन्यते । किं न प्रियमीरितम् । अपि तु सर्वमीरितम् । एवं च शब्दजनकनूपुर- त्यागेन रत्यनुमतिर्दत्तेति द्योत्यते । यद्वा निःशब्दपदसंचारेण त्वयात्र रात्रावागन्त. व्यमिति ध्वन्यते । अथवा निष्ठुरवचनमूलभूतो मानः परित्यक्त्तो मयेति व्यज्यते। प्रस्थितैवाहं त्वमग्रे गच्छेति वा । किमिति दरिद्रेऽनुरक्तासीति वादिनी काचिद्वक्ति- ग्रन्थिलतया किमिक्षो किमपभ्रंशेन भवति गीतस्य । किमनार्जवेन शशिनः किं दारिद्येण दयितस्य ॥ २१५॥ ग्रन्थिलतयेति । अनार्जवेन कौटिल्येन । एवं च रसनाश्रवणनयनाद्येकैक- सुखप्रदातृतयेक्ष्वादीनां प्रन्थिलत्वादयो दोषा न गण्यन्ते। किं पुनः सर्वाङ्गीणान- न्दप्रदस्य दयितस्य दारियैकदोषो न गण्यत इति । तद्गणनाकारिण्योऽतिभ्रान्ता इति ध्वन्यते। यद्वा ग्रन्थ्यादिसत्त्वेऽपीक्ष्वादे रसप्रदत्वं नापति यथा तथा दारि- धेऽपि न सुखप्रदत्वमपैतीति व्यज्यते कश्चित्सखायं वक्ति- गेहिन्या चिकुरग्रहसमयससीत्कारमीलितदृशापि । बालाकपोलपुलकं विलोक्य निहतोऽसि शिरसि पदा ॥२१६॥ गहिन्येति । केशग्रहस्य । चुम्बनार्थमिति भावः । समये ससीत्कारं मीलित- दृशापि गहिन्या बालायाः कपोलसंबन्धि पुलकम् । चुम्बनजन्यमिति भावः। । । ।
आर्यासप्तशती। १०५ to विलोक्य शिरसि चरणेन निहतोऽस्मि । कथमीदृशावसरेऽप्येतादृशमकारि त्वयति दोषख्यापनेनेति भावः ॥ नायकान्तरातिशयितरतातिवाहितयामिनी प्रातस्तद्दत्तनखक्षतावलोकनकृतकोधां नायिकां सखी वक्ति- गुरुपक्ष्म जागरारुणपूर्णत्तारं कथंचिदपि वलते । नयनमिदं स्फुटनखपदनिवेशकृतकोपकुटिलच ॥ २१७ ॥ गुर्विति । स्फुटनखपदनिवेशनेन । नायकदत्तेनेति भावः । कृतो यः कोपः। लोकज्ञानभिया। तेन कुटिल कुटि । गुरुपक्ष्म । सालसत्वादिति भावः । जागरणेन रक्तं तेनैव धूर्णत्तारमिदं तव नेत्रं महता क्लेशेनापि वलते परिवर्तते । नखपदनिवेश इति भावः । एवं चैकनखक्षतविलोकनेन क्रुध्यसि, परमन्यानि नखक्षतानि नाव- लोकयसि । रात्रिजागरबाहुल्यालसनेत्रतयेति भावः। एवं च तदानीं न कापि भीतिः कृता, इदानीं तत्करणमनर्थकमिति व्यज्यते। यद्वा प्रकटनखक्षतदर्शनेन कोपः क्रियते। अप्रकटानि च बहूनि सन्ति । तद्दर्शनं च ते सालसनेत्रतया न भावीति द्योत्यते। 'निवेशने' इति पाठे स्फुटनखपदस्य निवेशने दाने कोपेन कुटिलत्रु । स्फुटपदेन दृढत्वमावेद्यते । क्वचित् 'दृढ' इत्येव पाठः। गुरुपक्ष्म । सालसत्वादिति भावः । जागरारुणघूर्णत्तारमिदं नयनम् । 'तव' इति पदानुपादानं नयने नायिकाविधेयत्वं ध्वन्यते । कथंचिद्वलते। एवं च गमनकालीननखक्षतदा- नेऽपि केवलं भ्रुकुटिकौटिल्यमेव करोषि, परं तु रात्र्यतिशयितरतनिःसहतया नेत्र- व्यापारमपि कर्तुं न शक्नोषि । तत्र का वार्तोत्थाय करग्रहादेरिति भाव इति नायिकासखीवाक्यमिदम् । केचित् 'स्वनायकेन सह क्रीडातिवाहितरजनी स्फुटत- रनखक्षतदर्शनजातलज्जावशादुत्पन्नक्रोधां नायिका सखी बक्ति' इत्याहुः ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्यार्थदीपनया समेता गकारव्रज्या। घकारव्रज्या। नायिकासखी नायकं वक्ति- घटितजघनं निपीडितपीनोरु न्यस्तनिखिलकुचभारम् । आलिङ्गन्त्यपि बाला वदत्यसौ मुश्च मुञ्चेति ॥ २१८॥ घटितेति । घटितजघनमित्यादिना रतेच्छावत्त्वमावेद्यते। आलिङ्गनकारिण्य- काव्यमाला। । ध्वन्यत प्यसौ बाला तरुणी मुञ्च मुञ्चेति वक्ति। एवं चैतस्या मुञ्च मुञ्चेति वचनं मिथ्येति विज्ञाय वर्तितव्यं त्वयेति द्योत्यते । 'आलिङ्गति' इति पाठ आलिङ्गति वदत्यपीति योजनायां वचनसमय आलिङ्गनसत्त्वेन विरुद्धकार्यकारितया रतिनिर्भरत्वं इत्यर्थः । नायकवचनं वा वयस्यं प्रति ॥ अदृष्टवशादेव लक्ष्मीः स्थिरा भवति, न यत्नेनेति कश्चिद्वक्ति- घटितपलाशकपाटं निशि निशि सुखिनो हि शेरते पद्माः । उज्जागरेण कैरव कति शक्या रक्षितुं लक्ष्मीः ।। २१९॥ घटितेति । घटितं पत्ररूपं कपाटं यत्र । 'पत्रं पलांशं छदनम्' इत्यमरः । निशि निशि । एवं च सर्वदोद्यमशून्यत्वम् । सुखवन्तः पद्माः । 'वा पुंसि पद्मम्' इत्यमरः । स्वपन्ति । पद्मानां सूर्यविकासित्वाद्रात्रौ संकोच इति भावः । हे कैरव, उत्कृष्टजागरेण लक्ष्मीः कियद्रक्षितुं शक्या। चन्द्रविकासित्वाकैरवाणामिति भावः। एवं च निरुद्यमानामपि लक्ष्मीर्जायते, सोद्यमानामपि नश्यतीति दैवमेव संपद्रक्षणे क्षममिति ध्वन्यते । यद्वा या ह्यङ्गनान्यत्र गन्तुकामा सा न केनापि रक्षितुं शक्येति कश्चिद्वक्ति। पलाशवत्कपाटम् । एवं च दूरीकरणाहत्वं व्यज्यते । पद्माः । उजाग- रेण। उत्कृष्टरक्षणेनेति यावत् । लक्ष्मीपदेन चञ्चलखाभाव्यमभिव्यज्यत इत्यर्थः ॥ कश्चित्प्रातःकालं वर्णयति- पूर्णन्ति विप्रलब्धाः स्नेहापायात्प्रदीपकलिकाश्च । प्रातः प्रस्थितपान्थस्त्रीहृदयं स्फुटति कमलं च ॥ २२० ॥ घूर्णन्तीति । विप्रलब्धा वियोगिन्यः । यद्वा संकेतनिकेतने प्रियतमप्राप्ति- समाकुलहृदया विप्रलब्धाः। प्रदीपकलिकाश्च । स्नेहस्य प्रीतेस्तैलस्य च नाशाद्भूर्णन्ति । मनोरथादिभिरधुना समायास्यतीति धिया च संपूर्णयामिनीजागरादिति भावः। विनश्वरा भवन्ति च । प्रस्थितो न तु गतो यो पान्थस्तत्कान्ताहृदयं कमलं च प्रातः स्फुटति द्वेधा भवति । दुःखोद्रेकादिति भावः । विकसति च। यद्वा जातोऽयं प्रातः- कालः, अत इतोऽपसरणं सम्यगिति सखी नायकं वक्तीत्यर्थः ।। इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता घकारव्रज्या ।
Mara आर्यासप्तशती। । चकारव्रज्या। काचित्कांचिद्वक्ति- चपलस्य पलितलाञ्छितचिकुरं दयितस्य मौलिमवलोक्य । खेदोचितेऽपि समये संमदमेवाददे गृहिणी ॥ २२१ ॥ चपलस्येति । चपलस्य । एवं च पराङ्गनालम्पटत्वं व्यज्यते। दयितस्य । एवं च प्रीतियोग्यत्वं ध्वन्यते । मौलिं जराचिह्नितकेशमवलोक्य खेदाहेऽपि । खस्याप्यसमीचीनत्वादिति भावः । समय आनन्दमेव गृह्णाति । खस्याप्यकार्य- संतोषेण नायके सामान्याञ्जनालम्पटत्वेन द्वेषातिशयो व्यज्यते ॥ नायिका नायको वक्ति- चण्डि प्रसारितेन स्पृशन्भुजेनापि कोपनां भवतीम् । तृप्यामि पङ्किलामिव पिबन्नदी नलिननालेन ॥ २२२ ।। चण्डीति । हे चण्डि, प्रसारितेन । एवं च निकटवर्तित्वाभावो व्यज्यते । भुजेनापि । नीरसेनेति भावः । कोपनां भवतीं स्पृशन् । यद्वा अपिरत्रान्वेति । एवं च तृप्त्यजनकत्वं ध्वन्यते । तृप्तिं प्राप्नोमि । पङ्किला नदी नलिननालेन पिब- निव । नलिननालेन पाने खच्छजलागमनात्तृप्तिः । एवं च मम दुःखाजनकत्वेन त्वन्मानधारणमनर्थकम् , अतस्त्यज मानमिति द्योत्यते । भुजे नालसमताप्रतिपादनेन कोमलत्वपाण्डुरत्वसूक्ष्मत्वशीतलत्वानि व्यज्यन्ते । तैश्वाशेयस्पर्शत्वविरहक्षीणत्व- संतप्तत्वसुखदत्वानि ॥ खण्डिता नायकं प्रातस्तनसमीरणामेदेन वक्ति- चपलभुजंगीभुक्तोज्झित शीतलगन्धवह निशि भ्रान्त । अपराशां पूरयितुं प्रत्यूषसदागते गच्छ ॥ २२३ ॥ चपलेति । प्रातःकालीन वायो।अथवा प्रातःकाले सदा निरन्तरमागतिरागमन यस्य एतादृश । एवं च कियन्मया सोढव्यमिति व्यज्यते। चपला या भुजंग्यः सर्पि- 'ग्यस्ताभिर्भुक्त्वोज्झित । एवं च सविषत्वेन स्पर्शानर्हत्वं व्यज्यते । अथ च चपलाः। एवं च सर्वजनवेद्यचाञ्चल्यानां तव तदज्ञानेन मूर्खस्त्वमसीति व्यज्यते । भुजंग्यो वेश्यास्ताभिर्भुक्तोज्झित । एवं चोच्छिष्टरूपत्वेनास्पृश्यत्वं ध्वन्यते । शीतलसमीरण । अथ च शीतलं गन्धम् । भोगार्थ परिगृहीतमिति भावः । वहतीति । निशि रात्रौ भ्रमणशील । अथ च रात्रिभ्रान्तिमन् । एवं च रात्रौ तव पैशाच्यमेव जायत ।
१०८ काव्यमाला। इति व्यज्यते । अपरदिशम् । अथ चान्यस्या आशाम् । इच्छामित्यर्थः । पूरयितुं पूर्ण कर्तुम् । अथ च सफलां कर्तुम् । गच्छ । एवं चैतादृशस्य तव न ममाशेति व्यज्यते ॥ काचित्कस्याश्चिदवस्थां वक्ति- चिरपथिकदाधिममिलदलकलताशैवलावलिग्रथिता । करतोयेव मृगांक्ष्या दृष्टिरिदानी सदानीरा ॥ २२४ ।। चिरपथिकेति । चिरकालीनो यः पथिकस्तस्य दैर्येण । अतिविलम्बेनेति यावत् । मिलन्त्यः। संस्काराभावादिति भावः । याः केशरूपलतास्तद्रूपा या शैवल. पतिस्तया। पक्षेऽलकलतावदित्यर्थः । ग्रथिता युक्तेति यावत् । अत्र लतापदं पर- स्परसंलग्नतामावेदयति । करतोयेव नदीविशेष इव मृगाक्ष्या दृष्टिरिदानीम् । एवं च पूर्वसमयापेक्षया दुःखवत्त्वातिशयो ध्वन्यते । सदानीरा निरन्तराश्रुपूर्णा । पर्छ सदानीरेति करतोयानाम । 'करतोया सदानीरा' इत्यमरः । यद्वा नायिकासखी नायकं वक्ति । चिरपथिकेति संबुद्धिः। द्राघिम्णा दैर्येण मिलन्त्यः संबन्धवत्यः । अलकलता इत्यादि प्राग्वत् ॥ नायको नायिका वक्ति- चण्डि दरचपलचेलव्यक्तोरुविलोकनैकरसिकेन । धूलिभयादपि न मया चरणहतौ कुञ्चितं चक्षुः ॥ २२५ ॥ चण्डीति । हे चण्डि । एवं च खस्यानपराधित्वं ध्वन्यते। ईषच्चञ्चलचेलेन प्रकटोवार्विलोकनं तदेकरसिकेन मया त्वत्कृतचरणहनने रेणुत्रासादपि । एवं च न ताड़नत्रास इति भावः । चक्षुर्न संकोचितम् । एवं चाहं त्वय्यत्यन्तासत्तः, अतो मानं परित्यज्य सुखयितव्योऽहमिति ध्वन्यते ॥ कश्चित्कंचिद्वक्ति- चलकुण्डलचलदलकस्खलदुरसिजवसनसज्जदूरुयुगम् । जघनभरक्लमकूणितनयनमिदं हरति गतमस्याः ॥ २२६॥ चलेति । चलकुण्डलम्, चलदलकम् , किंचिदूरीभूतस्तनवसनम् ,संघट्टवदूरुयु- ग्मम् , जघनभारश्रमसंकुचितनेत्रमस्या इदं गतं गमनं हरति । मन्मन इति भावः। जातिवर्णनमेतत् । 'जातिरप्राणिनाम्' इत्यनेन चलकुण्डलेत्यादावेकवद्भावः । अस्या इदम् । सर्वमित्यर्थः । गतं गमनम् । ममेति भावः । हरति । इत्यपि योजना ॥
आर्यासप्तशती। - - । भाग्यवत्संनिहितानुपकारिजनसेवाकारिणं कश्चिदन्योक्त्या वक्ति- चरणैः परागसैकतमफलमिदं लिखसि मधुप केतक्याः । इह वसति कान्तिसारे नान्तःसलिलापि मधुसिन्धुः ॥२२७॥ चरणैरिति । हे मधुप । एवं च विवेकविधुरत्वं व्यज्यते । पदैः । बहुवचने- नोद्योगशालित्वं ध्वन्यते । केतकया इदं परागरूपसैकतम् । सैकतपदेन सलिलाशा- योग्यत्वं व्यज्यते । व्यर्थ लिखसि । व्यर्थत्वमेवाह-कान्तिरेव सारो यत्र । इह परागसैकते नान्तःसलिलापि । अपिना बहिःसलिलव्यवच्छेदः । मकरन्दनदी तिष्ठति । एवं च स्वरूपमात्रशालिष्वेतेषु न दयालेशः, अतोऽत्र नाशा त्वया विधे- येति वन्यते । यद्वा कस्याश्चिन्नायिकायाः संगमाशया तत्संनिहितप्रदेशे यातायात- कारिणं काचिदन्योक्त्या वक्ति । एवं चैतस्याः खान्तरेऽपि न मद इति व्यज्यते । तेन चेयं सतीति । तेनात्र तवानर्थकः श्रम इति ॥ नायिकाङ्गीननखक्षतकिणदर्शनसंजातसंशयं नायक नायिकासखी वक्ति- चिरकालपथिक शङ्कातरजिताक्षः किमीक्षसे मुग्ध । त्वन्निस्त्रिंशाश्लेषव्रणकिणराजीयमेतस्याः ॥ २२८ ॥ चिरेति । हे चिरकालीनपथिक । एवं च विरहातिशयादुन्मादान्निस्त्रिंशालिङ्ग- नकारित्वौचित्यं ध्वन्यते । मुग्ध सुन्दर । अथ च मूढ। संशयेन। व्रणाः किंजन्या एवंरूपेण । तरङ्गितं कृतं दूरव्यापारवत्कृतमक्षि येन सः। किमीक्षसे । एतस्यास्त्व- दीयो यास्त्रिंशदङ्गुल्यधिकः खड्गस्तदालिङ्गनव्रणकिणपङ्किरियम् । एवं च क्षतादि- वेदनामविचार्याप्यनया त्वदीयत्वेन प्रीतिपात्रत्वत्खशालिङ्गनेन समतिवाहितोऽति- तरां समयः । अतो नैतस्यामन्यथा संभावनीयं बहुतरदिवसपरदेशावस्थितिरूपाप- राधशालिना त्वयेति ध्वन्यते । एवं चैतस्या यथा त्वयि प्रेमातिशयस्तथा न कस्याश्चित्कस्मिंश्चिदिति व्यज्यते ॥ खाविवेकाचाचल्यदोषशालिनी निजनायिका ताडयन्तं कंचन तत्प्रतिवेशी तद- हुनालम्पटतया तं प्रति कलहं कर्तुमुद्यतोऽपि निरुद्ध इति काचिदन्योक्त्या वक्ति- चपलां यथा मदान्धश्छायामयमात्मनः करी हन्ति । आस्फालयति कर प्रतिगजस्तथायं पुरो रुद्धः ॥ २२९ ॥ . चपलामिति । मदान्धः । एवं चानुचितकारित्वं व्यज्यते । अयं करी।
११० काव्यमाला। आत्मनश्चपलां छायां यथा हन्ति, तथा रुद्धः प्रतिगजः करमास्फालयति । एवं च जनलजयैव न किंचिद्वक्तीति व्यज्यते ॥ कश्चित्सखायं वक्ति- चुम्बनलोलुपमदधरहृतकाश्मीरं स्मरन्न तृप्यामि । हृदयद्विरदालानस्तम्भं तस्यास्तदूरुयुगम् ॥ २३० ॥ चुम्बनेति । चुम्बनसतृष्णस्य ममाधरेण हृतं केसरं यस्याः । कामशास्त्रे तत्रापि चुम्बनविधानात् । चुम्बनलोलुपो यो मदधारीति गजपक्षेऽपि योज्यम् । हृदयरूपगजबन्धनस्तम्भम् । एवं च चित्तं ततोऽन्यत्र न गच्छतीति भावः । तस्यास्तदूरुयुगं स्मरन्न तृप्यामि ॥ काचित्कांचिद्वक्ति- चिकुरविसारणतिर्यङ्गतकण्ठी विमुखवृत्तिरपि बाला । त्वामियमङ्गुलिकल्पितकचावकाशा विलोकयति ॥ २३१॥ चिकुरेति । चिकुराणां विसारणं परिष्करणं तेन तिर्यङ्गतः कण्ठो यस्याः । विमुखवृत्तिरपीयं बालाङ्गुलीभिः कृतः केशावकाशो यया त्वां विलोकयति । एवं च त्वयापीयं विलोकनादिनानुग्राह्येति योयते ॥ सखी नायिका वक्ति- चुम्बनहृताञ्जना स्फुटजागररागमीक्षणं क्षिपसि । किमुषसि वियोगकातरमसमेषुरिवार्घनाराचम् ॥ २३२ ॥ चुम्बनेति । चुम्बनेन हृतमञ्जनाधं यस्याः । कामशास्त्रे नेत्रप्रान्तचुम्बनवि- धानादिति भावः । प्रकटो जागरेण रागो यस्य तत् । वियोगाय । भाविन इति भावः । भीतमीक्षणं प्रातः किमिति क्षिपसि । एवं च भीरतातिशयो व्यज्यते । मदनोऽर्धनाराचमिव । एवं च निःसारणानहत्वेन नायके गमनसामर्थ्याभावो द्योत्यते । एवं च नायके नायिकासक्तिविशेषो ध्वन्यते ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता चकारव्रज्या।
आर्यासप्तशती। छकारवज्या। सखी कुपितनायिका वक्ति- छायाग्राही चन्द्रः कूटत्वं सततमम्बुज ब्रजति । हित्वोभयं सभायां स्तौति तवैवाननं लोकः ॥ २३३ ॥ छायाग्राहीति । चन्द्रस्य सकलङ्कतया कमलस्य नित्यसंकोचितयोभयपरि- त्यागेन नित्यनिरतिशयोल्लासवत्कलङ्कहीनतया लोके त्वदाननस्तुतिरिति भावः । एवं च निरुपमानं त्वदाननमिति व्यज्यते। तेन च कोपादिमालिन्यं न विधेयमिति । अत्र कूटत्वमवसादः । संकोच इति यावत् । अथवा प्रमोदाभाव एव कूटत्वम् । 'कूट अप्रमोदावसादनयोः' इति चुरादिः । 'कूटं कुप्रदाप्रमुदोः' इति कल्पद्रुमः । यद्वा कूटत्वं परितापभावम् । संकोचमिति यावत् । 'कूट परितापे । नायिका सखी वक्ति- छायामात्रं पश्यन्नधोमुखोऽप्युद्गतेन धैर्येण । तुदति मम हृदयमिषुणा राधाचक्र किरीटीव ॥ १३४ ॥ छायामात्रमिति । छायामात्रं पश्यन् । एवं च लोकभीतिरावेद्यते। अधो- मुखोऽपि । एवं च तरलत्वाभावो व्यज्यते। उद्गतेन धैर्येण मम हृदयं तुदति। अर्जुनो बाणेन राधाचक्रमिव । पाञ्चालीवयंवरेऽर्जुनेनाधस्तनध्वजाग्रस्थितचपलमी- नच्छायामात्रमालोकयता मीननयनं बाणेन हतमिति पुराणप्रसिद्धिः । एवं च गुरु- समक्षं छायामात्रमालोकयन्मल्लज्जारक्षणमकरोदित्यासक्तिविशेषो ध्वन्यते । अथवा यद्यप्ययं न साक्षादवलोकयति तथापि मन्मनोपहृतमनेनेति व्यज्यते॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता छकारब्रज्या । जकारवज्या । प्रस्थानावसरे नायको नायिका वक्ति- जलबिन्दवः कतिपये नयनाद्मनोद्यमे तव स्खलिताः । कान्ते मम गन्तव्या भूरेतैरेव पिच्छिलिता ॥ २३५ ॥ जलेति । गमनोद्यमे। ममेति भावः । तव नयनात्किंचित्संख्याका जलबिन्दवः स्खलिताः, न तु निर्गताः। मङ्गलाभावशङ्कयेति भावः । एवं च निबिडपक्ष्मशा- लित्वं नेत्रे द्योत्यते। कान्ते मनोज्ञे ममैतैरेवाश्रुबिन्दुभिरेव पिच्छिला। एवं च ARE ११२ काव्यमाला। । mind - चरणावस्थित्यनहत्वं द्योत्यते । भूर्गन्तव्या। गन्तव्येत्यनेनावश्यकत्वं ध्वन्यते । एवं च त्वदपेक्षया ममातिशयितदुःखमित्यावेद्यते ॥ नायको वयस्यं वक्ति- जृम्भोत्तम्भितदोर्युगयन्त्रितताटङ्कपीडितकपोलम् । तस्याः स्मरामि जलकणललिताञ्जनमलसदृष्टि मुखम् ॥२३६|| जुम्भेति । जृम्भयोध्वींकृतहस्तद्वयसंघट्टितताटङ्कपीडितकपोलम् । जलकणैः । नेत्रसंबन्धिभिरिति भावः । लुलितं विस्तृतमञ्जनं यस्य । अलसा दृष्टियस्य तस्या मुखं स्मरामि । जातिवर्णनमेतत् ॥ काचित्कांचिद्वति- जागरयित्वा पुरुषं परं वने सर्वतो मुखं हरसि । अयि शरदनुरूपं तव शीलमिदं जातिशालिन्याः ॥ २३७ ॥ जागरेति । वने कानने । पक्षे जले। शयितमिति भावः । परमन्यम् । पक्ष उत्कृष्टम् । पुरुषं जागरयित्वा सर्वतो मुखं वदनं हरसि । कमपि लज्जया न संमु- खमवलोकयसीत्यर्थः । पक्षे जलं हरसि । वर्षासमयस्य समाप्तत्वादिति भावः। अयि शरतुल्यं शीलं जातिशालिन्या इति साकूतोक्तिः । पक्षे मालतीशालिन्याः। तवेदं शीलम् । एवं च किमर्थमत्र मिथ्या लज्जा नाटयसीति व्यज्यते । यद्वान्योक्त्या काचिद्वक्ति । अयि शरजातिशालिन्या इदं शीलं तवानुरूपं नान्यस्या इति भावः । तदेवाह-जागरयित्वेत्यादि । कश्चित्सखायं वक्ति- जीवामि लचितावधिदिनेति लज्जावशेन गेहिन्या। मयि नि तोऽपि बाष्पैरसंवरैर्व्यञ्जितो मानः ॥ २३८ ॥ जीवामीति । लजितमवधिदिनं यया जीवामीति लजावशेन । वशपदेन खातच्याभावो व्यज्यते । गेहिन्या गोपितोऽपि मानः संवर्तुमशक्यैर्बाष्पैापितः। एवं च मानसंगोपनमसंभवीति व्यज्यते ॥ काचित्कंचिदन्योक्त्या वक्ति- जाल्मो गुरुः सुधृष्टो वामेतरचरणभेद उपदेशः । ख्यातिर्गुणधवल इति भ्रमसि सुखं वृषभ रथ्यासु ॥ २३९ ।। जाल्म इति । सुधृष्टो. जाल्मः । 'सुघृष्टः' इति पाठ उपदेश विशेषणमेतत् ।। । ।
आर्यासप्तशती। । । असमीक्ष्यकारी गुरुरुपदेष्टा । एवं च तवोपदेशकोऽपि न समीचीन इति व्यज्यते। वाम सव्यम् । 'वामं शरीरं सव्यं स्यात्' इत्यमरः । इतरो दक्षिणखयोर्भेदः, अयं वामोऽयं दक्षिण इति स एवोपदेशो ज्ञानम् । नान्यदिति भावः। यद्वा दक्षिणेन ताडनं तदेव तवोपदेशकमित्यर्थः । वृषभ रथ्यासु सुखं भ्रमसि । एवं च यथा शिक्षितवृषभो रथ्यासु भ्रमति तथा त्वमिति व्यज्यते। तेन च नास्मट्टहागमन- योग्यस्त्वमसीति द्योलते ॥ वैद्यासक्ता काचिद्वक्ति- ज्वर वीतौषधबाधस्तिष्ठ सुखं दत्तमङ्गमखिलं ते । असुलभलोकाकर्षणपाषाण सखे न मोक्ष्यसि माम् ॥२४॥ ज्वरेति । हे ज्वर, वीतापगतौषधिबाधा यस्यैतादृशस्त्वं सुखं तिष्ठ । समग्रमङ्गं तव दत्तम् । सर्वाङ्गममिव्याप्य तिष्ठेति भावः । दुर्लभो यो वैद्यरूपो लोकस्तस्याक- पणपाषाण । 'चुम्बकः' इति लोके प्रसिद्धिः । एवं च नायके स्वत आगमनशून्य- त्वमावेद्यते। सखे, मां न मोक्ष्यसि । मा मुञ्चेत्यर्थः। एवं च त्वयि विद्यमाने तदागमनं नान्यथेति द्योत्यते ॥ एतत्संगत्या स्खनिर्वाहो मया विधेय इति बुद्ध्या कृतनायकसनां नायिकामप्रतिष्ठा- दिभीत्या परित्यक्तुमुद्यतं नायकं सखा समुपदिशति- जीवनहेतोर्मिलिता मुञ्चति करकर्षणेन न खलु त्वाम् । नौरिव निम्नं सुन्दर मुग्धा तद्विरसतां मा गाः ॥ २४१ ।। जीवनहेतोरिति । जीविकार्थ मिलिता करकर्षणेन परित्यागेन खलु त्वां न मुञ्चति । निनं नौरिव तद्विरसता मा गाः । एवं च त्वयैतत्त्यागे क्रियमाणेऽपि नेयं त्वां त्यक्ष्यति परं त्वेतत्करणे लौकिकमात्रं भावीति व्यज्यते । यद्वा नायिकासखी नायकं वक्ति-जीवनेति । जीवनाद्धेतोमिलिता जीवनार्थमागता । पक्षे जलहेतुना समागता । मुग्धा सुन्दरी । एवं च स्पृहणीयत्वं व्यज्यते करस्य हस्तस्याकर्षणेन । पक्षे करेण कर्षणं तेन । त्वां न खलु मुञ्चति । नौरिव निन्नम् । पक्षे नीचम् अत एव मूढार्थकं मुग्धेति पदमर्थवत् । हे सुन्दर तरिस्यम् । पक्षे जलाभाववत्त्वं -मा गाः। एवं च नीचमपि त्वामियं विरहमीता न त्यजतीति ध्वन्यते ॥ ८ आ० स० । । । ।
काव्यमाला। । काचित्कंचिदकि- जघनेन चापलं तव वितन्वतेयं तनूकृतापि तनुः । शाणेनेव क्षीणा मरासिपुत्री मनो विशति ॥ २४२ ॥ जघनेनेति । चाञ्चल्यं विस्तारयता जघनेन । अर्थादन्याङ्गनानाम् । क्षीणी- कृतापि तव तनुः । शाणेन क्षीणा । एवं च तीक्ष्णत्वं ध्वन्यते। स्मरस्य च्छुरि- केव मनो विशति । एवं च विपरीतसुरतातिशयक्षीणमपि तव शरीरं मन्मनोमोह- जनकमिति व्यज्यते । एवं चैतादृशं दृष्ट्वापि न मया मानः क्रियत इति खस्मिन्सा- धुत्वमावेदयति ॥ कश्चित्कांचिद्वक्ति- ज्योत्लाभिसारसमुचितवेषे व्याकोशमल्लिकोत्तंसे । विशसि मनो निशितेव स्मरस्य कुमुदत्सरुच्छुरिका ॥२४३॥ ज्योत्स्नेति । ज्योत्स्नाभिसारे समुचितो वेषो यस्यास्तत्संबुद्धिः । अत एव विकसितमल्लिकोत्तंसे । निशिता स्मरस्य कुमुदरूपा त्सरुर्मुष्टिर्यस्याः । 'त्सरुः खड्गा- दिमुष्टौ स्यात्' इत्यमरः । एतादृशी छुरिकेव मनो विशति । एवं चैतादृशवेषशा- लिनी त्वं मन्मनोमोहजनिकेति द्योत्यते ॥ कश्चित्कंचिदुपदिशति- जड सुखयसि परतरुणी गृहिणीं कारयसि केवलं सेवाम् । आलिङ्गति दिशमिन्दुः खां तु शिलां वारि वाहयति ॥२४४॥ जडेति । जड । एवं च कार्याकार्यविवेकवैधुर्य ध्वन्यते । पक्षे जलमयत्वाज- उत्वम् । परयुवतिम् । तरुणीपदेन साहजिकरूपशालिवाभावो व्यज्यते। सुखयसि। खाङ्गनां केवलं सेवां कारयसि । अत्र दृष्टान्तमाह-चन्द्रो दिशम् । अन्यखामि- कामिति भावः । आलिङ्गाति । वशिलां जलं वाहयति । चन्द्रोदये चन्द्रोपलानां स्रवणं भवतीति लोकप्रसिद्धिः । एवं चैतादृशकार्यकरणेन कलङ्कादिभूषणमेव भावीति द्योत्यते । तेन नैतादृक्कर्तव्यमिति । यद्वा सिद्धानुवादोत्तरमुत्तरार्धम् । अत्र 'वह प्रापणे' इत्यस्य गत्यर्थकत्वेन प्राप्तद्विकर्मकत्वस्य 'नीवह्योन' इति निषेधाच्छि- लयेत्यपेक्षितम् ॥ ।
आर्यासप्तशती। ११५ कश्चित्कांचित्संकेतं वक्ति- ज्योत्लागर्मितसैकतमध्यगतः स्फुरति यामुनः पूरः। दुग्धनिधौ नागाधिपतल्पतले सुप्त इव कृष्णः ॥ २४५ ॥ ज्योत्स्नेति । चन्द्रिकायां गर्भितम् । चन्द्रिकागर्भमध्ये स्थितमिति भावः । क्वचित् 'गर्वित' इति पाठः । यत्सैकतं तन्मध्यगतः । एवं च शरत्कालीनत्वं व्यज्यते । तेन च निश्चलत्वम् । यमुनासंबन्धी पूरः स्फुरति । अत्र दृष्टान्तमाह- दुग्धसमुद्रे शेषरूपतल्पे । तल्पपदेन समत्वमावेद्यते। सुप्तः कृष्ण इव। सर्वतो विद्यमानतयोज्ज्वलतया चन्द्रिकायां दुग्धोदधेः, लम्बतया श्वैत्याच सैकते शेषस्य, श्यामतया निश्चलतया च पूरे सुप्तकृष्णस्योपमानता। एवं च यमुनासैकततुल्यं नान्यस्थलमिति व्यज्यते॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता जकारव्रज्या । । झकारवज्या। Demon नायको नायिका वक्ति- झंकृतकङ्कणपाणिक्षेपैः स्तम्भावलम्बनौनः । शोभयसि शुष्करुदितैरपि सुन्दरि मन्दिरद्वारम् ॥ २४६ ॥ झंकृतेति । एवं चैतादृश्यवस्थितिरपि नवोढाया नायकसुखदेति व्यज्यते ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता झकारव्रज्या । ढकारव्रज्या। नायकीयोन्माददौःशील्यमाकलय्य स्वयमपि दौःशील्यं विधातुकामां नायकां सखी वक्ति- ढक्कामाहत्य मदं वितन्वते करिण इव चिरं पुरुषाः । स्त्रीणां करिणीनामिव मदः पुनः खकुलनाशाय ॥ २४७ ॥ ढक्कामिति । ढक्कां यशःपटहम् । 'स्याद्यशःपटहो ढक्का' इत्यमरः । आहत्य वादयित्वा करिण इव पुरुषा बहुकालं मदं वितन्वते । करिणीनामिव स्त्रीणां मदः काव्यमाला। खकुलनाशाय । एवं च पुरुषाणां मदो यशसे, स्त्रीणां कुलकलङ्कायेति व्यज्यते। तेन च त्वयैतादृङ्मनसि न विधेयमिति ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता ढकारव्रज्या। - तकारवज्या। नायिकासखी नायकं वक्ति- तां तापयन्ति मन्मथबाणास्त्वां प्रीणयन्ति बत सुभग। तपनकरास्तपनशिलां ज्वलयन्ति विधुं मधुरयन्ति ॥ २४८॥ तामिति । मदनबाणास्तां नायिकां तापयन्ति । त एव बाणा हे सुभग। दुःखदबाणानामपि सुखदत्वादिति भावः । त्वां तोषयन्ति । एवं च कथमन्यथै- तादृशविलम्बकरणमिति व्यज्यते । नन्विदमसंभवीत्यत्र दृष्टान्तमाह-तपनकि- रणास्तपनशिलां ज्वलयन्ति । तपनशिलासाम्येन खीयात्वप्रतिपादनेन तत्तुल्यत्वं नायिकायामावेद्यते । विधुं चन्द्रम् । एवं च चन्द्रसाम्येन संतापापनोदकत्वेन नायिकास्पृहणीयत्वं नायके द्योत्यते । यद्वा मदनतुल्यरूपशालित्वेन मदनविरोधित्वं नायके द्योत्यते । तेन च पीडाकरणौचित्येऽपि तदकरणेनाज्ञत्वं मदने व्यज्यते मधुरयन्ति । पुष्टिदत्वादिति भावः । यद्वा तपनखिन्नानामेव चन्द्रमसः सुखदत्वा- दिति भावः। कश्चित्कांचिद्वक्ति- तव सुतनु सानुमत्या बहुधातुजनितनितम्बरागायाः । गिरिवरभुव इव लाभेनाप्नोमि ब्यङ्गुलेन दिवम् ॥ २४९॥ तवेति । हे सुतनु । एवं च स्पृहणीयत्वं ध्वन्यते । यद्वदसि तद्विधेयं मयेत्यनुमतिसहितायाः । पक्षे शिखरवत्याः । तु इति निश्चयेन बहुप्रकारमुत्पादितो नितम्बे रागः प्रीतिर्यया तस्याः । पक्षे बहुप्रकारगैरिकादिधातुभिर्जनितो नितम्बे कटके । 'कटकोऽस्त्री नितम्बोऽद्रेः' इत्यमरः । रागो लौहित्यादिर्यस्याः । हिमाल- यवसुधाया इव तव लाभेन घ्यङ्गुलेन स्वर्ग प्राप्नोमि । लामे इति छेदे नजि काकुः । 'आप्नोति' इति पाठे मल्लक्षण इति शेषः । एवं च तव प्राप्तिहर्षोत्कर्षेणाहं वर्गमपि शकुलान्तरितं मन्य इति भावः । एवं च त्वत्प्राप्त्या स्वर्गसुखमपि ममात्यन्तनि- कटामिति व्यज्यते ॥
आर्यासप्तशती। । m काचिन्नायिका सखीं वक्ति- त्यक्तो मुञ्चति जीवनमुज्झति नानुग्रहेऽपि लोलत्वम् । किं प्रावृषेव पद्माकरस्य करणीयमस्य मया ॥ २५० ।। त्यक्त इति । त्यक्तो जीवनं प्राणनम् । पक्षे जलम् । त्यजति । अनुग्रहेऽपि लोलत्वं चाञ्चल्यम् । पक्ष उच्छलद्वीचिकत्वम् । नोज्झति । प्रावृषा पद्माकरस्येव तडागस्येव मयास्य किं करणीयम् । एवं चोभयतोऽपि काठिन्यं ममेति ध्वन्यते॥ नायिकात्यन्तं त्वद्विरहक्षीणेति सखी नायकं वक्ति- त्वद्विरहापदि पाण्डुस्तन्वङ्गी छाययैव केवलया। हंसीव ज्योत्स्नायां सा सुभग प्रत्यभिज्ञेया ॥२५१ ॥ त्वद्विरहेति । सा तन्वनी त्वद्विरहापदि पाण्डुः केवलया छाययैव कान्यैव । पक्षे यथाश्रुतम् । ज्योत्स्नायां हंसीव । सुभग । यत एतादृश्यपि नायिका त्वद्वि- रहेण खिद्यत इति भावः । प्रत्यभिज्ञेया ज्ञातुं शक्या । एवं चातिक्षीणत्वमावेद्यते। अत्र केवलपदैवकारान्यतरदनर्थकमाभाति ॥ कथमितो गतेयमिति वादिनं नायक नायिकासखी वक्ति- त्वयि विनिवेशितचित्ता सुभग गता केवलेन कायेन । घनजालरुद्धमीना नदीव सा नीरमात्रेण ॥ २५२ ।। त्वयीति । हे सुभग । नायिकासक्तिमत्त्वादिति भावः । त्वयि विनिवेशितम्। बुद्धिपुरःसरं स्थापितमिति भावः । चित्तं यया । केवलशरीरेण गता । अत्र दृष्टान्तमाह-निबिडं यजालं तद्रुद्धमत्स्या जलमात्रेण गता नदीव । चेतसश्वाञ्च- ल्यान्मत्स्यसाम्यम् । एवं च पुनरधुनैवायास्यतीति व्यज्यते ॥ त्वय्यासक्तिवशादत्यन्तदुःखभागिनी कामिनी संजातेति सखी नायकं वक्ति- त्वयि संसक्तं तस्याः कठोरतर हृदयमसमशरतरलम् । मारुतचलमञ्चलमिव कण्टकसंपर्कतः स्फुटितम् ॥ २५३ ॥ त्वयीति। हे कठोरतर । कथमन्यथैतादृशमौदासीन्यं कृतवानिति भावः । त्वयि संसक्तम् । आसक्तिमदिति भावः । 'संपदेन निःसारणानहत्वं व्यज्यते । मदनचपलं तस्या हृदयं वायुचञ्चलं कण्टकसंलग्नमञ्चलमिव विदीर्णम् । मारुतच- लकण्टकसंपर्कार्थान्वययोग्यतावशादञ्चलपदेन चेलाञ्चल एव प्रतीयते । अत्र काव्यमाला। । Muses कण्टकसाम्येन नायिकाचित्तवेधक्षमत्वं नायके द्योत्यते । अञ्चलसाम्येन नायिका- चित्ते सूक्ष्मत्वं ध्वन्यते । मारुतसाम्येन सर्वगततया निवारणानहत्वं वन्यते ॥ यद्यपि त्वया भूयसी लज्जा क्रियते तथापि बहवस्त्वय्यासक्ता इति सखी नायिकामन्योक्त्या वक्ति- त्वमसूर्यपश्या सखि पदमपि न विनापवारणं भ्रमसि । छाये किमिह विधेयं मुञ्चन्ति न मूर्तिमन्तस्त्वाम् ॥ २५४ ॥ त्वमिति । हे छायारूपे सखि, त्वं सूर्यदर्शनं न करोषि । छायाया अधो- मुखत्वान्न सूर्यदर्शनम् । अपवारणमन्तधि विना पदमपि न भ्रमसि छायाप्यन्त विना न भवति । मूर्तिमन्तः । सर्वेऽपीत्यर्थः । पक्ष इयत्तावच्छिन्नपरिमाण- शालिनः । त्वां न मुञ्चन्ति । इह किं विधेयम् । एवं चात्र न ममापि प्रतीकार- स्फुरणमिति भावः । एवं चैतादृशलज्जाकरणमनर्थकमिति द्योत्यते ॥ नायिकाविरहदुःखातिशयं सखी नायकं वकि- तव विरहे विस्तारितरजनौ जनितेन्दुचन्दनद्वेषे । बिसिनीव माघमासे विना हुताशेन सा दग्धा ॥ २५५ ॥ तवेति । विस्तारिता रात्रिर्यन तस्मिन् । निद्राविरहादिति भावः । पक्षे रात्रि- मानस्याधिक्यादिति भावः । जनितश्चन्द्रचन्दनद्वेषो येन तस्मिन् । उद्दीपकत्वादिति भावः । पक्षे शीतलत्वादिति भावः । तव विरहे माघमासे बिसिनीव सा हुताशे- नाग्निं विना दग्धा । हिमेन बिसिनीविनाशनमिति लोकप्रसिद्धिः। एवं चैतादृशैत- त्कालीननायिकावस्थास्ति, अतोऽवश्यं भवतानुग्राह्या सेति व्यज्यते ॥ सखी नायिका वक्ति-- तरुणि त्वच्चरणाहतिकुसुमितककेल्लिकोरकप्रकरम् । कुटिलचरिता सपत्नी न पिबति बत शोकविकलापि ॥२५६॥ तरुणीति । हे तरुणि । एवं च नायकासक्तियोग्यत्वं ध्वन्यते । त्वचरणह- ननजातकुसुमाशोककलिकासमूहम् । 'कलिका कोरकः पुमान्' इत्यमरः । कुटिला- चरणा सपत्नी शोकविकलापि न पिबति । अशोककलिकारसपानेन शोकहानिर्भ- वतीति लौकिकम् । एवं च शोककालेऽप्येतादृशद्वेषवत्त्वेन' समीचीनकाले किं किं तया न विधेयम्, अतस्त्वया सर्वप्रकारेण मानाद्यपहाय नायकोऽनुरजनीय इति व्यज्यते ॥
TREN आर्यासप्तशती। कश्चिन्नायिका स्तौति- तल्पे प्रभुरिव गुरुरिव मनसिजतन्ने श्रमे भुजिष्येव । गेहे श्रीरिव गुरुजनपुरतो मूर्तेव सा ब्रीडा ॥ २५७ ॥ तल्प इति । प्रभुरिव । प्रौढिमत्त्वादिति भावः । तन्त्रं शास्त्रम् । गुरुरिव । मन्मथकलाकलापोपदेशकत्वादिति भावः । भुजिष्या दासी । एवं चैतादृशी नायिका नान्यति ध्वन्यते। तेन च तद्वत्तया खाधिक्यम् ॥ नायकः पुष्पितां नायिका वक्ति- त्वमलभ्या मम तावन्मोक्तुमशक्तस्य संमुखं व्रजतः । छायेवापसरन्ती भित्त्या न निवार्यसे यावत् ॥ २५८ ॥ त्वमिति । संमुखं व्रजतः । चुम्बनार्थमिति भावः । मोक्तुमशक्तस्य । आस- क्तिविशेषादिति भावः । ममापसरन्ती । स्पर्शानहत्वादिति भावः । भित्त्या कुड्या- दिना यावन्न निवार्यसेऽपसरणप्रतिवन्धवती न क्रियसे तावत्वं छायेवालभ्या । एवं व भित्तिप्रतिबद्धापसरणां त्वां विना चुम्बनदानं न विमोचयामीति व्यज्यते ॥ वसन्ते मदनवेदनासोति कश्चिद्वक्ति- तपसा क्लेशित एष प्रौढबलो न खलु फाल्गुनेऽप्यासीत् । मधुना प्रमत्तमधुना को मदनं मिहिरमिव सहते ॥ २५९ ॥ तपसेति । तपसा तपश्चर्यया। पक्षे माघमासेन । क्लेशिते । कार्य गमित इत्यर्थः । पक्षे क्लेशिते । निस्तेजस्कत्वादिति भावः । फाल्गुनेऽर्जुने । पक्षे मासि । एष मदनो मिहिरश्च । खलु निश्चयेन प्रौढबलोऽपि । अपिना प्रौढबलफलजनक- वाभावो द्योत्यते । नासीत् । तपस्याविभेदायेन्द्रप्रहितोर्वश्याचप्सरोऽवगणनादिति भावः । पक्ष उत्तरायणारम्भात्प्रौढतेजसोऽभावादिति भावः । अधुना मधुना वस- न्तेन । पक्षे चैत्रेण । मधुपदमुन्मादजनकतां व्यञ्जयति । उत्कृष्टोन्मादशालिनं मदनं सूर्यमिव कः सहते। न कोऽपीत्यर्थः । एवं च वसन्तकालीनमदनवेदनात्य- न्तमसह्यति ध्वन्यते॥ सखी नायिकाविरहं नायकं प्रति वक्ति- त्वद्गमनदिवसगणनावलक्षरेखाभिरङ्किता सुभग । गण्डस्थलीव तस्याः पाण्डुरिता भवनभित्तिरपि ॥ २६० ॥ स्वगमनेति । हे सुभग । एतादृशनायिकाप्रेमसत्त्वादिति भावः । त्वद्गमनदि- १२० काव्यमाला। । - । Andent वसानां गणना तया वलक्षा अर्जुनाः। 'वलक्षो धवलोऽर्जुनः' इत्यमरः। या रेखा. ताभिश्चिह्निता । इयन्ति दिनानि जातानीति ज्ञानार्थमिति भावः । तस्या गेहनि- त्तिरपि । एवं च तद्नेहभुवः का वार्तेति व्यज्यते । गण्डस्थलीव पाण्डुरिता । एवं चातःपरं विलम्बो न विधेय इति ध्वन्यते ॥ कथमन्यत्रानुरागं बनासीति वादिनीं सखी प्रति नायिका वक्ति- तस्याग्राम्यस्याहं सखि वक्रस्निग्धमधुरया दृष्ट्या । विद्धा तदेकनेया पोत्रिण इव दंष्ट्रया धरणी ॥ २६१॥ तस्येति । हे सखि । एवं च रहस्यकथनार्हत्वं ध्वन्यते। तस्याग्राम्यस्य । नागरिकस्येत्यर्थः । एवं चासक्तियोग्यत्वं ध्वन्यते । पक्षे वन्यस्य । वक्रप्रेमाईसुन्द- रया । 'तीव्र' इति पाठे वेधजननयोग्यत्वं ध्वन्यते । दृष्ट्या विद्धा । विद्धापदमन्य- जगमनानहत्वं ध्वनयति । पोत्रिणो वराहस्य दंष्ट्रया धरणीवाहं तदेकनेया। एवं चान्यत्र न ममानुराग इति द्योत्यते ॥ बहुतरवसुसत्त्वेऽपि कुग्रामे वसतो केवलं तव चण्डालानुग्रहादेवाभयं नान्यत इति कश्चित्कंचिदन्योक्त्या वक्ति- त्वयि कुग्रामवद्रुम वैश्रवणो वसतु वसतु वा लक्ष्मीः । पामरकुठारपातात्कासरशिरसैव ते रक्षा ।। २६२ ॥ त्वयीति । हे कुग्रामवद्रुम । कुग्रामपदेनः निवासानहत्वं द्योत्यते। वैश्रवणः कुबेरः। 'किंनरेशो वैश्रवणः' इत्यमरः । वसतु । अथवा लक्ष्मीर्वसतु। पामरस्य मूर्खस्य। एवं च कुबेरादिवसत्या छेदानहत्वज्ञानविधुरत्वमिति व्यज्यते। कुठार- पातात्ते रक्षणं कासरस्य महिषस्य मस्तकेनैव । चण्डालसदनस्थत्वादिति भावः ।। नायिकासखी नायकं वक्ति- तव मुखर वदनदोषं सहमाना मोक्तमक्षमा सुतनुः । सा वहति विट भवन्तं घुणमन्तः शालभञ्जीव ॥ २६३ ॥ तवेति । हे मुखर, तव वदनदोषम् । असमीचीनभाषणमिति भावः। यद्वा मुखरं यद्वदनं तद्दोषम् । सहमाना मोक्तुम् । त्वामिति भावः । असमर्था । प्रेमव- शादिति भावः । यद्वा कुलीनत्वादिति भावः । सा सुतनुः । विट । न केवलं मौख-- यम् , अपि तु वेश्यासक्तिरिति भावः। एवं चोपदेशानहत्वं ध्वन्यते । भवन्तं आर्यासप्तशती। १२१ - - शालभञ्जी काष्टपुत्तलिका कीटमिवान्तः स्वान्तेभ्यन्तरे च वहति । एवं चैतादृशा न्तर्दुःखशुष्काया अपि तस्यास्तवासक्तिरिति व्यज्यते ॥ निरपराधिन कमपि कैश्चित्पीज्यमानं कश्चिदन्योक्त्या वक्ति- तृणमुखमपि न खलु त्वां त्यजन्त्यमी हरिण वैरिणः शबराः । यशसैव जीवितमिदं त्यज योजितशृङ्गसङ्ग्रामः ॥ २६४ ॥ तृणेति । हे हरिण । तृणमुखमपि । एवं च निरपराधित्वं ध्वन्यते । शरणा- गतत्वं वा । त्वाममी वैरिणः शबरा मिल्लाः खलु न त्यजन्ति । योजितविषाणयुद्धः कीलैवेदं जीवितं त्यज । एवं च प्रबलदुष्टशत्रुसंबन्धे युद्धेन मरणमेव वरम् , न पुनः पलायनं न वा शरणगमनमिति व्यज्यते ॥ कश्चिन्मानिनीचरणकृतसप्तकं तया च केशाकर्षणेन दूरीकृतमात्मानं विज्ञाय तां वक्ति- त्रिपुररिपोरिव गङ्गा मम मानिनि जनितमदनदाहस्य । जीवनमर्पितशिरसो ददासि चिकुरग्रहेणैव ॥ २६५ ॥ त्रिपुरेति । हे मानिनि । जनितो मदनेन दाहो यस्य । पक्षे जनितो मदनस्य दाहो येन । तस्य । अर्पितमस्तकस्य । चरणयोः प्रणामार्थम् । पक्षे गङ्गाप्रवाहग्रह- णार्थमिति भावः । मम त्वं महादेवस्य गङ्गेव चिकुरग्रहेणैव जीवनं जीवितम् । पक्षे जलम् । ददासि । एवं च त्वत्कोपेन जीवननिरपेक्षस्यापि मम क्रोधादपि त्वत्कर- स्पर्शेन संतापनिवृत्त्या जीवनं किमु प्रसन्नया त्वया कृतकरस्पर्शेन जीवनमिति ध्वन्यते। गौतमप्रार्थितगङ्गाप्रवाहसहनाय शिवेन शिरोऽग्रे कृतमिति पुराणप्रसिद्धिः।। सर्वसखीगोपनपुरःसरं केनचित्सह संयोगं विधाय स्थितां नायिकां काचित्सखी त्वया तेन सह रतं कृतम्' इति वक्ति- त्वत्संकथासु मुखरः सनिन्दसानन्दसावहित्थ इव । स खलु सखीनां निभृतं त्वया कृतार्थीकृतः सुभगः ॥२६६॥ त्वदिति । स सुभगो नायकः । सुभगत्वं च सकलसखीगोपनपुरःसरं नायि- कया कृतार्थीकरणात् । खलु निश्चयेन सखीनां निमृतं यथा स्यात्तथा । सखीनामिति बहुवचनेन सर्वप्रतारणकरणसमर्थायास्तव मत्प्रतारणमतिसुकरमित्यावेद्यते । त्वया कृतार्थीकृतः । यतस्त्वदीयसद्वार्तासु । क्वचिन्जायमानाखिति भावः । सनिन्द इव । - - १२२ काव्यमाला। । । ॥ कथमधन्यैरस्मत्सदृशैः सा द्रष्टुं शक्येति लोकगोपनार्थमिति भावः । सानन्द इव । तदानीं त्वत्सांनिध्याभावेऽपि त्वत्संनिधानजनितानन्द इव । सावहित्य इव । केनाप्यानन्दचिहं न विज्ञेयमिति धियाकारगोपनवानिव । एवं चाकारगोपनस्याश- क्यत्वं द्योत्यते । मुखरः । वारंवार त्वत्कथासूत्तरप्रत्युत्तरकारी । एवं च यदि न तव तेन सह संगतिस्तहीरव्यवहारस्तस्मिन्कथं भवेत् । अतस्त्वयास्मान्प्रतार्य तेन सह संगतिः कृतेति ध्वन्यते। 'पुरतः' इति पाठे सखीनामस्मद्विधानां पुरतस्त्वद्वदनविनिःसृतमद्गोष्ठीषु सनिन्दसानन्दसावहित्य इव मुखरो वक्तुं प्रौढः । अतः खलु त्वया कृतार्थीकृतः । एवं च त्वया सहैतत्संगतिरस्ति । कथमन्यथा त्वद्वदनविनिःसृतविचित्रवार्ताविज्ञोऽयमिति ध्वन्यते । यद्वा सखीनां पुरतः सनि. न्दसानन्दसावहित्थ इव त्वद्विषयकवार्तासु मुखरः । सुभगः । एवं च संगति- योग्यत्वं ध्वन्यते । कृतार्थीकृत इति काका प्रश्नः। एवं चैतादृशोऽहर्निशमस्मत्स- मक्षं त्वदेकवार्ताविधानप्रवणः सुभगः कथमद्यापि नानुगृह्यते । अपि तु झटित्यनु- ग्राह्य इति द्योत्यते। नायिकासखी नायकं वक्ति- त्वयि सर्पति पथि दृष्टिः सुन्दर वृतिविवरनिर्गता तस्याः । दरतरलभिन्नशैवलजाला शफरीव विस्फुरति ॥ २६७ ॥ त्वयीति । हे सुन्दर । एवं च स्पृहणीयत्वं ध्वन्यते । त्वयि मार्गे चलति सति वृतिरावरणं तद्न्ध्रनिर्गता तस्या दृष्टिः शैवालप्राबल्यादीषच्चञ्चला चासो भिन्नशैवलजाला च शफरीव विस्फुरति । एवं च त्वय्यासक्ता सेति व्यज्यते ॥ नायको नायिका वक्ति- सुतनु शून्यहृदया ये शङ्ख शून्यहृदयमभिदधति । अङ्गीकृतकरपत्रो यस्तव हस्तग्रहं कुरुते ॥ २६८ ॥ त इति । हे सुतनु, ये शङ्ख हृदयविहीनम् । यद्वा शून्यं बिन्दुरूपमवकाशरूपं वा हृदयं यस्य । एवं च प्राणशून्यत्वं व्यज्यते । वदन्ति ते हृदयशून्याः । मूर्खा इत्यर्थः । यः शङ्खोऽङ्गीकृतक्रकचस्तव करग्रहं कुरुते । एवं च यद्ययं हृदयशून्यः स्यात्तर्हि त्वत्करग्रहाय करपत्रविदारणं कथं कुर्यादिति भावः । एवं च प्रयागे कर- पत्रकर्तनादिना येन शरीरं त्यज्यते तेनैव त्वं प्राप्येति व्यज्यते ॥ ते , आर्यासप्तशती। १२३ wam कंचन महान्तं गुणिनं सीदन्तं कश्चिदन्योक्त्या वक्ति- ते श्रेष्ठिनः क संप्रति शक्रध्वज यैः कृतस्तवोच्छ्रायः । ईषां वा मेदि वाधुनातनास्त्वां विधित्सन्ति ॥ २६९ ॥ ते श्रेष्टिन इति । हे शक्रध्वज, यैस्तवोच्छ्रायः कृतस्ते श्रेष्ठिनो वणिजः संप्रति क्व । न सन्तीति भावः । अधुनातनास्त्वामीषां लागलपद्धति मेडिं स्तम्भ वा करिष्यन्ति । एवं चाधुनातनेषु मूर्खत्वं व्यज्यते । एवं च प्राक्तनगुणज्ञसद्वृत्त- लोकाभावात्तवैतादृशाः क्लेशा इति व्यज्यते । यद्वा प्राक्तनलोकाभावान्न तव तथा- विधप्रतिष्ठादीति कश्चित्कंचिदन्योक्त्या वक्ति ॥ प्रेम्णो भङ्गे पुनः संधानं न तथेति काचित्कांचिद्वक्ति- तानवमेत्य च्छिन्नः परोपहितरागमदनसंघटितः । कर्ण इव कामिनीनां न शोभते निर्भरः प्रेमा ॥ २७०॥ तानवमिति । तानवं खल्पत्वम् । पक्षे कार्यम् । प्राप्य च्छिन्नः। परेणा- न्येनोपहितः कृतो रागोऽनुरागो यस्य स चासौ मन्मथसंघटितश्च । कस्यचिद्वच- नेन मन्मथविकारेण च पुनः कृत इति भावः । पक्षे परेणान्येन द्रव्येणोपहितो रागो रञ्जनं यस्यैतादृमदनेन मधूच्छिष्टेन संधानं नीतः कामिनीनां प्रेमा कर्ण इव निर्भर आधिक्यशून्यः। पक्षे भरासहः । न शोभते । 'विराजते' इति पाठे काकुः । एवं च त्वया तथा न विधेयं यथा प्रेमभङ्गो भवेदिति ध्वन्यते ॥ 'तथाविधगुणाभाववति महनामकरणं विडम्बनमात्रफलकम्' इति कश्चित्कं- चिक्ति- तस्मिन्गताभावे वीतरसे शुण्ठिशकल इव पुरुषे । अपि भूतिभाजि मलिने नागरशब्दो विडम्बाय ॥ २७१ ॥ तस्मिन्निति । तस्मिन्गत आर्द्रभावः करुणा । पक्षे आर्द्रत्वम् । तस्मिन्नपि । अपिरग्रेऽप्यन्वेति । वीतो रसः शृङ्गारादिः । पक्षे पुराणत्वाद्गततिक्तादिरसे । 'गता- भावे इत्यस्य विवरणं वीतरसे' इति ऋजवः । भूतिरैश्वर्यम् । पक्षे भस्मादि । तद्वति । मलिने पापवति । पक्ष उज्वलत्वाभाववति । पुरुषे शुण्ठिशकल इव । शकलपदेनानुपयुक्तत्वं ध्वन्यते । नागरशब्दो विडम्बनाय । नगरे भवो नागरः । पक्षे 'अथ शुण्ठी महौषधम् । स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् ॥' इत्यमरः॥ - ।
१२४ काव्यमाला। । । ॥ कश्चिद्विपत्तौ कंचिदुद्दिश्य गतः, तेन च संभाषणादिविषयतामप्यनीतः कंचि- दन्योक्त्या वक्ति- तमसि घने विषमे पथि जम्बुकमुल्कामुखं प्रपन्नाः सः। किं कुर्मः सोऽपि सखे स्थितो मुखं मुद्रयित्वैव ॥ २७२ ॥ तमसीति । निबिडेऽन्धकारे, कठिनतरे पथि, उल्का मुखे यस्य तं जम्बुक प्रपन्नाः स्मः। एतन्मुखप्रकाशेनायं मार्गों विलङ्घनीय इति धियेति भावः । हे सखे । एवं च दुःखकथनाहत्वं द्योत्यते । सोऽपि मुखं मुद्रयित्वैव स्थितः। किमत्र कुर्मः। एवं चास्माकं दुर्दैववशानीचावलम्बनमपि कर्तुमुद्यतानां न तत्र शब्दमा- त्रावलम्बनं किमुतान्यदिति ध्वन्यते कश्चित्कांचिदङ्गनां प्रति वक्ति- त्वामभिलषतो मानिनि मम गरिमगुणोऽपि दोषतां यातः । पङ्किलकूलां तटिनी पिपासतः सिन्धुरस्येव ॥ २७३ ॥ त्वामिति । हे मानिनि । मानः प्रतिष्ठा । त्वदभिलाषवतो मम पङ्किलतीरां नदीं गन्तुमिच्छतो गजस्येव गौरवगुणोऽपि दोषत्वं प्राप्तः। एवं च त्वत्सदने ममा- गमनस्यौचित्येऽपि दुष्टप्रतिवेशिभयात्प्रतिष्ठावतोऽन्यत्खल्पजनवदागमनमसंभवीति खमहत्त्वं महद्दोषत्वेन गणयामि, अतस्त्वयैव मत्सदने समागन्तव्यमिति प्रार्थया- मीति ध्वन्यते । यद्वा पराङ्गनां मानिनी प्रति कश्चित्संदेशं प्रेषयति। एवं च मम वारंवारागमने दुष्टत्वत्प्रतिवेशिजनैरवश्यं ज्ञातव्यम् । अतो मानं त्यक्त्वा त्वयाग- न्तव्यमिति व्यज्यते ॥ परपुरुषसंयोगाभिलाषिणीं काचिद्वक्ति- तिमिरेऽपि दूरदृश्या कठिनाश्लेषे च रहसि मुखरा च । शङ्खमयवलयराजी गृहपतिशिरसा सह स्फुटतु ॥ २७४ ।। तिमिर इति । अन्धकारेऽपि दूरतो दृश्या। श्वैत्यादिति भावः। आलिङ्गने कठिना। एकान्ते मुखरा। शङ्कविकारकङ्कणपतिः। गृहपतेर्न तु प्रियस्य । मस्तकेन सह स्फुटतु । एवं च पतिमरणोत्तरं सुखेन मया खेच्छाविहारो विधेय इति व्यज्यते ॥
आर्यासप्तशती। १२५ सखी नायिका वक्ति- तव वृत्तेन गुणेन च समुचितसंपन्नकण्ठलुठनायाः । हारस्रज इव सुन्दरि कृतः पुनर्नायकस्तरलः ॥ २७५ ॥ तवेति । हे सुन्दरि । एवं चासक्तियोग्यत्वं व्यज्यते । समुचितप्राप्तालिङ्ग- नायाः। पक्षे समुचितं धनिनः कण्ठलुठनं यस्याः । हाराज इव मुक्तमालाया इव तव वृत्तेन शीलेन । पक्षे वर्तुलेन । चातुर्यादिगुणेन । पक्षे सूत्रेण । नायकः कान्तः । पक्षे मुख्यमणिः। तरलश्चञ्चलः । पक्षे हारमध्यगः। पुनर्वारंवार कृतः। एवं च त्वच्छीलगुणेष्वासक्त्या स्वधैर्य परित्यज्य नायकस्त्वामेवानुचि- न्तयन्नास्त इति व्यज्यते। इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता तकारव्रज्या दकारव्रज्या नायकोऽधुना गृहिणीमानापनोदनाय प्रणामादि करिष्यतीति दुःखितां सपत्नी तत्सखी वक्ति- दर्शनविनीतमाना गृहिणी हर्षोल्लसत्कपोलतलम् । चुम्बननिषेधमिषतो वदनं पिदधाति पाणिभ्याम् ॥ २७६ ॥ दर्शनेति । दर्शनविनीतमाना। एवं च गुणोत्कर्षशून्यत्वं ध्वन्यते । गृहिणी। हर्षेणोल्लसत्कपोलतलं मुखम् । खस्येति भावः। चुम्बननिषेधव्याजाद्धस्ताभ्यामा- च्छादयति । एवं च त्वां विहायागतं नायकमवलोक्य चिरकालीनबहपेक्षितदर्शन- संजातहर्षसमुदितपुलकगोपनेन खस्य सौभाग्याविष्करणायैवमकरोन वास्तवमान- दाय तस्यामिति घोत्यते। तेन च नायकप्रणामादीति ॥ सखी नायिका वक्ति- देहस्तम्भः स्खलनं शैथिल्यं वेपथुः प्रियध्यानम् । पथि पथि गगनाश्लेषः कामिनि कस्तेऽभिसारगुणः ।। २७७ ॥ देहेति । हे कामिनि, गतिनिरोधस्खलनशैथिल्यकम्पप्रियतमचिन्तनाशालि. झनानि मार्गे मार्गे, अतस्तेऽभिसारगुणः कः । एवं चाभिसारे सर्वमेतद्विघ्नरूपम्, अतस्त्वयैतन्न विधेयमिति ध्वन्यते तेन चात्यन्तासक्तिर्नायके तवास्तीति ॥ ।
१२६ काव्यमाला। । । नायिकासखी नायकं वक्ति- द्राघयता दिवसानि त्वदीयविरहेण तीव्रतापेन । ग्रीष्मेणेव नलिन्या जीवनमल्पीकृतं तस्याः ।। २७८ ॥ द्राघयतेति । दिवसानि । 'वा तु क्लीबे दिवसवारौ' इत्यमरः । महत्कुर्वता दुःखोद्रेकात् । तद्दिनमानमाहात्म्यादलसत्वादिति भावः । तीव्रस्तापः संतापो यस्य तेन । पक्षे तापो धर्मः । तस्यास्त्वदीयविरहेण नलिन्या ग्रीष्मेणेव जीवनमायुः । पक्षे जलम् । अल्पीकृतम् , न तु नाशितम् । एवं च यथातथैतत्समयोऽतिवाहित- स्तया परं तु वर्षासु प्राणाः परित्याज्या इत्यवगत्य त्वयानुग्राह्या सेति व्यज्यते ॥ दुष्टसंसर्गादपि साधोः साधुत्वं नापैतीति कश्चिद्वक्ति- दुर्जनसहवासादपि शीलोत्कर्ष न सज्जनस्त्यजति । प्रतिपर्वतपनवासी निःसृतमात्रः शशी शीतः ।। २७९ ॥ दुर्जनेति । पर्वामावस्या । अमायां चन्द्रस्य सूर्यान्तर्गतत्वमिति ज्योति- वित्प्रवादः ॥ सखी नायिका वक्ति- दयितप्रहितां दूतीमालम्ब्य करेण तमसि गच्छन्ती । खेदच्युतमृगनाभिदूरागोराङ्गि दृश्यासि ॥ २८० ॥ दयितेति । प्रियप्रेषितां दूतीं करेणालम्ब्यान्धकारे गच्छन्ती खेदगलित- कस्तूरिका त्वं गौराङ्गि दूरादृश्यासि । दयितदूतीत्वेनातिप्रियतया तत्करस्पर्शमात्रा- देव संजातसात्विकभावखेदपूरदूरीभूतान्धकाराभिसरणानुकूलमृगमदवत्तया गौरश- रीरतया दूरादपि दृश्यासीति भावः । एवं च नायकविषयासक्तिविशेषो ध्वन्यते ।। काचित्कांचिद्वक्ति- दयितागुणः प्रकाशं नीतः खस्यैव वदनदोषेण । प्रतिदिन विदलितवाटीवृतिघटनैः खिद्यसे किमिति ॥२८१॥ दयितागुण इति । खस्यैव मुखदोषेण नायिकागुणः प्रकटीकृतः । प्रतिदिनं विघटितगृहावरणसंपादनैः किमिति खेदं प्राप्नोषि । एवं च त्वदुक्तनायिकागुण- श्रवणेनासक्त्या लोकेनैव रात्रौ वृतिघटनं विधीयत इति व्यज्यते । तेन च. त्वदीय एवायमपराध इति । तेन च कदापि नायिकागुणवर्णनं विधेयमिति ॥ - ।
आर्यासप्तशती। १२७ । चातुर्यवशात्साधुतामवलम्बमानं मैनमवगणयन्त्वित्यन्योक्त्या कश्चिदुपदिशति- दाक्षिण्यान्म्रदिमानं दधतं मा भानुमेनमवमंस्थाः । रौद्रीमुपागतेऽस्मिन्कः क्षमते दृष्टिमपि दातुम् ॥ २८२ ।। दाक्षिण्यादिति । दाक्षिण्याद्दक्षिणदिक्संबन्धादित्यर्थः । पक्षे चातुर्यात् । मृदुत्वमसंतापकत्वम् । पक्षे साधुत्वम् । भजन्तमेनं भानुम् । पक्षे सूर्यतुल्यतेज- खिनमित्यर्थः । मावगणयेथाः । अस्मिन्रौद्रीमीशानी दिशम् । पक्षे रोषमित्यर्थः । प्राप्ते दृष्टिमपि दातुं कः क्षमते । न कोऽपीत्यर्थः । एवं चातिसंतापकत्वं द्योत्यते। यदा रौद्री मध्याह्नवेला॥ कश्चित्पथिकः पथि व्याधबाणाहतिगच्छत्प्राणां हरिणीमालोक्य सखायं वक्ति- दृष्टयैव विरहकातरतारकया प्रियमुखे समर्पितया । यान्ति मृगवल्लभायाः पुलिन्दबाणार्दिताः प्राणाः ॥ २८३ ॥ दृष्ट्यैवेति । भिल्लशरपीडिताया हरिण्या वियोगभीतनेत्रकनीनिकया । एवं च मरणभील्यभावो द्योत्यते । अत एव प्रियवदनस्थापितया दृष्टयैव न मुखादि- द्वारा प्राणाः प्रयान्ति । एवं च पश्वङ्गनाया अपि मरणकारणबाणव्यथातोऽपि विरहव्यथा दुःसहा । किमु मनुष्याङ्गनाया इति व्यज्यते । तेन च यो हि नायिकां विहाय परदेशे गच्छति स मृगतुल्यः पशुरिति । यद्वा नायकादपि नायिकाया विरहभीतिरिति व्यज्यते ॥ खलसंगतिन विधेयेति कश्चिदुपदिशति- दूरस्थापितहृदयो गूढरहस्यो निकाममाशङ्कः । आश्लेषो बालानां भवति खलानां च संभेदः ॥ २८४ ॥ दूरेति । दूरे स्थापितं हृदयं वक्षःस्थलम् । पक्षेऽन्तःकरणम् । येन सः। गूढं रहस्यमन्तःकरणविषयीभूतम् । पक्षे मत्रादि । यस्य सः । निकाममत्यन्तमा- शङ्का भीतिः । पक्षे विश्वासाभावः। यस्य सः। क्वचित् 'गूढरहस्यं निकामसाशङ्कः' इति पाठः । गूढरहस्यमत्यन्तरहस्यम् । बालानां मुग्धाङ्गनानामाश्लेष आलिङ्गनं खलानां च संभेदः सङ्गो भवति । एवं चोभयोः साम्यं व्यज्यते ॥ ।
१२८ काव्यमाला। । । असमयरताभिलाषिणं नायक नायिका वक्ति- द्वारे गुरवः कोणे शुकः सकाशे शिशुहे सख्यः । कालासह क्षमस्य प्रिय प्रसीद प्रयातमहः ।। २८५ ।। द्वार इति । द्वारे गुरवः। एवं च बहिर्गमनानहत्वं दर्शनानहत्वं च व्यज्यते। कोणे शुकः । एवं च वचनरचनाशीलशुकाधिष्टानेन कोणदेशेऽपि रतानहलं ध्वन्यते। सकाशे शिशुः । एवं च बालकापसारण एतत्कोलाहलादिना निकटवर्तिगुरु- जनागमनसंभावनया नैतदपि स्थलं रतयोग्यमिति द्योत्यते । गेहे सख्यः । एवं च तासामपि तव लज्जाकरणौचित्येन गृहमपि रतानहमिति व्यज्यते । कालासह । सुरतोत्सुकेत्यर्थः । प्रिय । एवं च त्वदाज्ञालङ्घनानऱ्याहमित्यावेद्यते । प्रसीद । तत्फ- लमाह-क्षमख । समयाभावादिति भावः । ननु कदा समयो भावीत्यत्राह-अहः प्रयातं गतमेव । एवं चागतप्राया निशैव सुरतयोग्यति ध्वन्यते ॥ सखी नायिकामुपदिशति- दधिकणमुक्ताभरणश्वासोत्तुङ्गस्तनार्पणमनोज्ञम् । प्रियमालिङ्गति गोपी मन्थश्रममन्थरैरङ्गैः ॥ २८६ ॥ दधीति । दधिकणरूपमुक्ताफलानामलंकरणं ययोः । श्वासेन । श्रमजन्येनेति भावः । उच्चौ यो स्तनौ तत्समर्पणाभिरामं यथा स्यात्तथा गोपी दधिमथनश्रमनि- चलाङ्गैः प्रियमालिङ्गति । एवं च शृङ्गारादिरचनां विनापि श्रममगणयित्वैव तथा- विधज्ञानविधुरापि गोपाङ्गना स्वयं प्रियमालिङ्गति, त्वं त्वत्यन्तचतुरापि प्रियालिङ्गने विलम्बमावहसीति भ्रान्ता त्वमिति व्यज्यते । तेन च नैवं विधेयमिति । यद्वा यथैककार्यनियुक्तापि गोपी तत्समयेऽपि प्रियालिङ्गनं करोति तथा त्वयापि विधे- यमिति व्यज्यते ॥ नायिका सखीं वक्ति- दलितोद्वेगेन सखि प्रियेण लग्नेन रागमावहता। मोहयता शयनीयं ताम्बूलेनेव नीतास्मि ॥ २८७ ॥ दलितेति । हे सखि, भजितक्लेशेन । पक्षे चूर्णीकृतपूगवता । कण्ठलग्नेन रागं प्रीतिम् । पक्षे लौहित्यम् । आवहता। मोहयता विषयान्तरज्ञानामावं कुर्वता । पक्षे भ्रान्ति जनयता । प्रियेण ताम्बूलेनेव शयनं नीतास्मि । एवं च प्रियसझे मम न किमप्यन्यविषयकं ज्ञानमिति व्यज्यते ॥ ।
MOHAMIRE आर्यासप्तशती। १२९ कश्चित्कंचिद्वक्ति- दृष्टमदृष्टप्राय दयितं कृत्वा प्रकाशितस्तनया। हृदयं करेण ताडितमथ मिथ्या व्यन्त्रितत्रपया ॥ २८८ ॥ दृष्टमिति । अथेत्यनन्तरं हृदयं करेण ताडितम् । अनुचितं मया कृतमिति प्रदर्शनार्थमिति भावः । जातिवर्णनमेतत् ॥ सखी नायिका वक्ति- दर्शितयमुनोच्छ्राये भ्रूविभ्रमभाजि वलति तव नयने । क्षिप्तहले हलधर इव सर्व पुरमर्जितं सुतनु ॥ २८९ ॥ दर्शितेति । हे सुतनु, दर्शितो यमुनात उच्छ्राय आधिक्यं यस्य तस्मिन् । श्यामत्वादिति भावः। पक्षे दर्शितयमुनाधिक्ये । मथुरामण्डले रामहलेन प्रवाहस्य विपरीतकरणेन जलाधिक्यादिति भावः । कटाक्षशालिनि । पक्षे कोपवशात्कुटिल- भृकुटिमति । तव नयने क्षिप्तहले हलधर इव बलदेव इव वलति सति समग्रं नगरमर्जितं खाधीनीकृतम्। पक्षे युधिष्ठिरं प्रति कोपाद्धस्तिनापुरस्य हलेन विप- रीतकरणोद्यमादिति भावः। एवं च तव कटाक्षमात्राधीनाः सर्वेऽपि युवान इति नायिकाधिक्यकथनेनान्यनायिकानिन्दा द्योत्यते ॥ विरहिणी सखी वक्ति- दयितप्रार्थितदुर्लभमुखमदिरासारसेकसुकुमारः । व्यथयति विरहे बकुलः क परिचयः प्रकृतिकठिनानाम् २९० दयितेति । दयितेन प्रार्थितोऽपि दुर्लभो मुखासवकणसेकत्तेन सुकुमारः संजातपल्लवादिः । शोकं जहाति बकुलो मुखसीधुसिक्तः' इति प्रसिद्धिः । प्रकृति- कठिनानाम् । काष्ठत्वादिति भावः। यद्वा 'नायकप्रार्थनाचगणनापुरःसरमदिरागण्डू- पसंपादितपल्लवादिरयं बकुलो विरहे मां कथं व्यथयति' इति नायिकाप्रश्ने क्वेत्या- द्युत्तरं सख्याः॥ सखी नायिका वक्ति द्वित्रैरेष्यामि दिनैरिति किं तद्वचसि सखि तवाश्वासः । कथयति चिरपथिकं तं दूरनिखातो नखाङ्कस्ते ॥ २९१ ॥ द्विवैरिति । द्वित्रिसंख्याकैदिवसैरहमागमिष्यामीति तस्य नायकस्य ववसि । ६ आ० स० PARASHARM काव्यमाला। SACHINE आमा तस्येत्यनेन नायकेऽन्यथाभाषित्वं द्योत्यते । कस्तव समाश्वासः । दूरनिखातो नखाङ्कः । दूरप्रवासे गम्भीरनखक्षतस्य कामशास्त्रे विहितत्वादिति भावः। तं नायक चिरप्रवासिनं कथयति । एवं च सत्वरमयमायास्यतीति ज्ञानेनान्यनायकसंगतिम- कुर्वाणा प्रान्तासि त्वमिति व्यज्यते ॥ सखी नायिका वक्ति- दयितस्पर्शोन्मीलितधर्मजलस्खलितचरणनखलाक्षे । गर्वभरमुखरिते सखि तच्चिकुरान्किमपराधयसि ॥ २९२ ।। दयितेति । प्रियस्पर्शप्रसृतखेदजलविचलितचरणनखलाक्षे गर्वभरेण मुखरी- कृते सखि नायकशिरोरुहान्किमित्यपराधयसि त्वत्सात्त्विकभावरूपखेदेनैव चरणन- खलाक्षापगमे प्रियप्रणतिसंलग्नशिरोरुहैाक्षापगतेति मिथ्या तमपराधयसीति भावः। एवं च तवैवायमपराध इति व्यज्यते ॥ कश्चिद्दुष्टपुत्रदुःखितो गेहिनी वक्ति- दुष्टग्रहेण गेहिनि तेन कुपुत्रेण किं प्रजातेन । भौमेनेव निजं कुलमङ्गारकवत्कृतं येन ॥ २९३ ।। दुष्टेति । हे गेहिनि, तेन । दुष्टो ग्रह आग्रहो यस्य तेन । पक्षे दुष्टश्चासौ अहश्च तेन । प्रजातनोत्पन्नेन । अत्रोपसर्गस्तथा नोपयोगीत्याभाति । कुत्सित- पुत्रेण । पक्षे कुः पृथ्वी । किम् । न किंचित्फलमित्यर्थः । येन मङ्गलेनेव वीर्य कुलमङ्गारकवत्कृतम् । प्रज्वालितमिति भावः । पक्षे 'अङ्गारकः कुजो भौमः' इत्यमरः । एवं च दुष्टपुत्रवत्त्वापेक्षयाऽपुत्रतैव सम्यगिति व्यज्यते ॥ आपद्यपि शूराणां न नीचकार्यकारित्वमिति कश्चिद्वक्ति- दर्शितचापोच्छायैस्तेजोवद्भिः सुगोत्रसंजातैः । हीरैरप्खपि वीरैरापत्खपि गम्यते नाधः ॥ २९४ ॥ दर्शितेति । प्रकटीकृत इन्द्रधनुर्वदुच्छ्रायः कान्त्याधिक्यं धनुष औनलं च । 'ताप' इति पाठे कान्तिः प्रतापश्च। तेजः प्रकाशकत्वं सामर्थ्य च । गोत्रः पर्व- तोऽन्वयश्च । हीरैर्वनैः । अप्खपि । 'अप्विव' इति क्वचित्पाठः। वीरैरापत्खपि जाधो गम्यते । जलसाम्यदर्शनेनापदि मान्द्यसंपादकत्वमावेद्यते । हीरसमताप्रदर्श- - ।
RECENTRANCE आर्यासप्तशती। । । नेन वीरेष्वतिकाठिन्यं द्योत्यते । तेन चान्यजन्यभङ्गानहत्वम् । जले हीरका न मज्जन्तीति हीरकपरीक्षा॥ अतिसलज्जतया छन्नतनुवैभवादन्यदालोकयन्ती तन्मध्य एव किंचित्कटाक्षविक्षे. पेण नायकमप्यवलोकयन्ती नायको वक्ति- दरनिद्राणस्यापि सरस्य शिल्पेन निर्गतासून्मे । मुग्धे तव दृष्टिरसावर्जुनयन्त्रेषुरिव हन्ति ॥ २९५ ॥ दरेति । हे मुग्धे, दरेण भयेन । मुग्धाखभावसुलभेनेति भावः । निद्राण- स्यापि । निलीनस्यापीत्यर्थः । निद्राणपदं निलीनत्वं लक्षयदसमर्थत्वं पराज्ञेयत्वं निभृतकार्यकारित्वं च व्यनक्ति । स्मरस्य कलाकौशलेन निर्गतासौ तव दृष्टिरर्जुनय- अबाण इव मे प्राणान्हन्ति । अपिनैतादृशमदनकौशलनिर्गतदृष्टेरेतादृशकार्यका- रित्वं तत्र किमु वाच्यमनिद्रमदनकौशलनिर्गतदृष्टेः कार्यकारित्वमित्यावेद्यते । यद्वा 'अपिः' निर्गतेत्यत्रान्वेति । एवं च निर्गतमात्रया दृष्ट्या प्राणापहरणं क्रियते तत्र का वार्ता प्राप्तया क्रियमाणस्येति व्यज्यते । अथवासूनपीति योजनया देहादि- समुच्चयः । पक्षे 'पत्री रोप इषुयोः' इत्यभिधानादिषुशब्दस्य स्त्रीलिङ्गतया कौशलेन निर्गतेतीषुविशेषणम् । एवं चैतादृशत्वदीयावलोकनेनाहमतिविकलः, अतो मामालिङ्गनादिना जीवयेति ध्वन्यते । अर्जुनोऽप्यन्यत्र विलोकयन्नन्यलक्ष्य- माजघानेति पुराणप्रसिद्धिः । 'शून्यम्' इति पाठे शून्यमभिसंधिरहितं निर्गता। पक्षे आकाशम् ॥ दारिद्यमतिदुःखदमिति कश्चिद्वक्ति- दुर्गतगृहिणी तनये करुणार्दा प्रियतमे च रागमयी। मुग्धा रताभियोगं न मन्यते न प्रतिक्षिपति ॥ २९६ ॥ दुर्गतेति । दरिद्रकामिनी । दुर्गतपदेन धात्र्यादिकरणसामर्थ्याभावो व्यज्यते। तनये । एवं चातिवात्सल्यमावेद्यते । करुणाशालिनी । नायकसङ्गे स्तन्यहान्या तनयस्य दुःखं भविष्यतीति धियेति भावः । मुग्धा किं विधेयमिति निश्चयशून्या ॥ । - । १. 'सर्वद्रव्याभेद्यं लध्वम्भसि तरति रश्मिवत्निग्धम् । तडिदनलशकचापोपमं च वजं हितायोक्तम् ॥' इति बृहत्संहिता (८०।१४).
RARMSANE १३२ काव्यमाला। त्वं गेह एव जारोपभोगं मुखेन करोषि नास्माकं स इत्यन्योक्त्या काचि. कांचिद्वक्ति- दुर्गतगेहिनि जर्जरमन्दिरसुप्तैव वन्दसे चन्द्रम् । वयमिन्दुवञ्चितदृशो निचुलितदोलाविहारिण्यः ॥ २९७ ।। दुर्गतगेहिनीति । दरिद्रकामिनि । दुर्गतपदेनोदरदरीभरणायेतस्ततः सर्वदा संचरणशीलत्वं व्यज्यते । तेन च जारानयनसौकर्यम् । जर्जरम् । एवं च काम- कागमनयोग्यत्वं व्यज्यते । यन्मन्दिरं तत्र निद्रितैव । एवं चायासाभावो व्यज्यते । चन्द्रम् । एवं च संतापोपशामकत्वं ध्वन्यते । तेन चावश्यदर्शनीय- त्वम् । वञ्चितपदेनातिपश्चात्तापवत्त्वमावेद्यते । निचुलिताच्छादिता या दोला तया यो विहारस्तच्छालिन्यः । विहारिण्य इत्यनेन बहिर्गमनेऽप्यस्माकं निर्बन्ध इति वन्यते । एवं चैतादृशास्मदीयभाग्यात्तव तादृशदारियमेव सम्यगिति । तेन चास्माकमेतद्भाग्यं न सुखदमिति व्यज्यते ॥ त्वं न तथा चतुरेति वादिनी काचित्कांचिद्वक्ति- दीपदशा कुलयुवतिर्वैदग्ध्येनैव मलिनतामेति । दोषा अपि भूषायै गणिकायाः शशिकलायाश्च ।। २९८ ॥ दीषेति । दीपदशा वर्तिः कुलाङ्गना च । विशेषदग्धभावेन चातुर्येण च । मलिनतां कज्जलादिमत्त्वं पापवत्त्वं च । दोषा अनुचितकारित्वादयः, दोषा रात्रिः । सखी नायिका वक्ति- दीर्घगवाक्षमुखान्तनिपातिनस्तरणिरश्मयः शोणाः। नृहरिनखा इव दानववक्षः प्रविशन्ति सौधतलम् ॥ २९९ ॥ दीर्घति । दीर्घपदेन प्रकाशसंपादकत्वं ध्वन्यते । गवाक्षो वातायनं तन्मुख- निःसृताः शोणाः । प्रातःकालीनत्वादिति भावः । सूर्यकिरणा नृसिंहनखा हिरण्य- कशिपुवक्षःस्थलमिव सौधतलं प्रविशन्ति । नृहरिनखतुल्यताप्रतिपादनेन प्राणा- पहारसमदुःखदत्वं ध्वन्यते । एवं च सूर्योदयः संवृत्तः, अत इतो निःसारणीयः प्रिय इति व्यज्यते । अत्र नृहरिपदसांनिध्याद्दानवपदं हिरण्यकशिपुं प्रतिपादयति ॥ - आर्यासप्तशती। Maina । सखी नायिका स्तौति- दरतरलेऽक्षणि वक्षसि दरोन्नते तव मुखे च दरहसिते। आस्तां कुसुमं वीरः सरोऽधुना चित्रधनुषापि ॥ ३०० ॥ दरेति । अक्षणि नेत्रे ईषच्चञ्चले सति, तवेषदुन्नमिते वक्षसि, मुखे च किंचि- सितवति सति । एवं चाङ्कुरितयौवनात्वेन मुग्धात्वं द्योत्सते । कुसुमं पुष्पमा- स्ताम् । न किंचिदित्यर्थः । किं तु स्मरो वीरश्चित्रधनुषापि । अपिना शरसंग्रह आस्ताम् । एवं च कुसुमादेरनर्थकत्वेऽपि त्वदीयदरतरलनेत्रादिभिरेव चित्रधनु- मानस्तु स्मर इति व्यज्यते । 'दरतरलेक्षिणि' इति पाठे संबुद्धिः । अथवा हे चञ्चलेक्षिणि, तव वक्षसीषदुन्नमिते, वदने चेषद्धसितशालिनि सति पुष्पमास्तां चित्रधनुषाप्यालेख्यगतधनुषापि स्मरोऽधुना तवैतादृशयौवनकाले वीरः । एवं च कुसुमस्य कार्याक्षमत्वेन तद्रूपधनुषा स्मरस्य वीरत्वे न किंचिद्दायमधुना त्वाले- ख्यागतधनुषापि स्मरस्य जगज्जयः सुकर इति भाव इत्यर्थः । यद्वा वीरोऽपि स्मरश्चित्ररूपधनुषाप्यास्ताम् । एवं चैतादृशरूपवत्या भवत्यैव मदनेन विजयः कर्तु शक्यः । अतो मदनप्राक्तनधनुर्बाणाश्चित्रन्यस्ता इवानर्थकाः सन्त्विति ध्वन्यते। अथवा कुसुमं रजः । 'अपिः' अवधारणार्थकोऽधुनेत्यत्रान्वेति । एवं च त्वदीयै- तादृशयौवनप्रादुर्भाव एव विजयातिशयसाधनभूतया त्वया मदनधतुरनर्थकं जातम् , किमु वाच्यं पुष्पोद्गमोत्तरमिति द्योत्यते ॥ नायकसखी नायकं वक्ति- दुष्टसखीसहितेयं पूर्णेन्दुमुखी सुखाय नेदानीम् । राकेव विष्टियुक्ता भवतोऽभिमताय निशि भवतु ॥ ३०१ ।। दुष्टसखीति । पूर्णेन्दुवन्मुखं यस्याः । पक्षे पूर्णेन्दुरेव वदनं यस्याः । दुष्ट- सखीसहितेयं नायिका भद्रायुतपौर्णमासीवाधुना । दिन इत्यर्थः । तवाभिप्रायविष- यीभूताय सुखाय निशि भवतु । यथा दिन एव भद्राया अतिक्रान्तत्वात्पूर्णिमा निशि कार्याा तथा सख्या अन्यत्र रात्रावासक्ततयैतत्सांनिध्याभावेनावश्यं रात्री त्वदुपयोगायेयं भविष्यतीति द्योत्यते ॥ काचित्कांचिद्वक्ति- दलिते पलालपुळे वृषभं परिभवति गृहपतौ कुपिते । निभृतनिमालितवदनौ हलिकवधूदेवरौ हसतः ॥ ३०२ ॥ दलित इति । दलित इतस्ततः कृते सति कोपवति गृहपती हलिके वृषभ १३४ काव्यमाला। - ताडयति सति । अनेनैव पलालं नाशितमिति धियेति भावः । गुप्तपरस्परकृतावलो- कनौ । निभृतपदमन्यज्ञानभीतिमावेदयति । हलिकाङ्गनादेवरौ । देवरो भर्तुः कनिष्ठनाता । देवरशब्दस्य ससंबन्धिकतया तदीयत्वं लभ्यते । एवं चैताहकार्य- करणानहत्वं ध्वन्यते । हसतः । अस्मत्सुरतविमर्दवशात्पलालपुजस्यैतादृश्यवस्था- मविज्ञाय निरपराधिन वृषभमयं ताडयतीति धियेति भावः । 'पथिकवधू-' इति पाठे देवरेण तन्मातृगृहानयनावसर इदं कृतमिति काचित्कंचिदक्ति । एवं चैता- दृशाह्वानमनुचितमिति व्यज्यते ॥ महद्भिरेव खप्रतापः प्रदर्शनीयः, न लघुभिरिति कश्चिद्वक्ति- दीप्यन्तां ये दीत्यै घटिता मणयश्च वीरपुरुषाश्च । तेजः खविनाशाय तु नृणां तृणानामिव लघुनाम ॥ ३०३ ॥ दीप्यन्तामिति । घटिता विधातृनिष्पादिताः ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता दकारव्रज्या । धकारवज्या। कस्याश्चित्सखी कंचिदन्योक्त्या वक्ति- धूमैरश्रु निपातय दह शिखया दहन मलिनयागारैः । जागरयिष्यति दुर्गतगृहिणी त्वां तदपि शिशिरनिशि ॥३०॥ धूमैरिति । हे दहन । अनागमनादिना संतापकत्वात्सामर्थ्यविशेषवत्त्वाद्वेति भावः । दुर्गतगृहिणीत्यनेन सुरतसौख्याभावो द्योत्यते । शिशिरनिशीत्यनेन यथे- च्छसुरतयोग्यत्वं निशि ध्वन्यते । एवं च त्वदीयदुष्टव्यवहारेणाश्रुसंतापमालिन्य- जननेऽपि त्वां सा न त्यक्ष्यतीति ध्वन्यते ॥ सखी नायिकामुपदिशति- धैर्य निधेहि गच्छतु रजनी सोऽप्यस्तु सुमुखि सोत्कण्ठः । प्रविश हृदि तस्य दूरं क्षणधृतमुक्ता स्मरेषुरिव ॥ ३०५ ॥ धैर्यमिति । निधेहि कुरु । तस्य हृदि दूरं प्रविश । एवंप्रकारेण सोऽप्यत्य- न्तासत्तो भावीति ध्वन्यते । क्षणधृतमुक्तात्वेनातिभेदकत्वं द्योत्यते । 'इषुर्द्वयोः' इत्यमरः ।।
आर्यासप्तशती। १३५ । धवलनखलक्ष्म दुर्बलमकलितनेपथ्यमलकपिहिताक्ष्याः । द्रक्ष्यामि मदवलोकद्विगुणाश्रु वपुः पुरद्वारि ॥ ३०६ ॥ धवलेति । श्वतनखचिह्नम् । पुराणत्वादिति भावः । दुर्बलम् । विरहक्षीण- त्वादिति भावः । अकलितभूषणम् । असामर्थ्यादिति भावः । चूर्णकुन्तलाच्छादि- तनयनायाः संस्काराभावादिति भावः । वपुर्मद्विलोकनेन द्विगुणाश्रु । प्रेमभरादिति भावः । पुरद्वारि । अत्यन्तविरहेण धैर्याभावादिति भावः । द्रक्ष्यामीति काकुः । वैदेशिकाशंसनमेतत् ॥ असतां धर्मारम्भोऽप्यनर्थहेतुरिति कश्चिद्वक्ति- धर्मारम्भेऽप्यसतां परहिंसैव प्रयोजिका भवति । काकानामभिषेकेऽकारणतां वृष्टिरनुभवति ॥ ३०७ ॥ धर्मेति । असाधूनां धर्मारम्भेऽपि । अपिनाधर्मारम्भकालीनवार्ता कि वक्तव्येति व्यज्यते । परहिंसैव प्रयोजिका भवति । परहिंसामुद्दिश्यैवासतां धर्मारम्भ इति भावः । अत्र दृष्टान्तमाह-काकानां स्नाने वृष्टिरकारणतां कारणा- भावत्वं प्राप्नोति । काकैः स्नाने कृते वृष्टिर्न भवतीति वृद्धव्यवहारः ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता धकारव्रज्या। नकारव्रज्या। कश्चित्कांचित्संकेतं वक्ति- नीरावतरणदन्तुरसैकतसंभेदमेदुरैः शिशिरे । राजन्ति तूलराशिस्थूलपटैरिव तटैः सरितः ॥ ३०८ ॥ : नीरेति । नद्यो जलन्यूनतयोच्चावचं यत्सैकतं तत्संघटनमांसलैः । तूलस्य कार्पासस्य पतयो येषु तादृशस्थूलपटैरिव तीरैः शिशिरे राजन्ति । एवं च शिशिरे शीतबाहुल्येनान्यजनागमनशङ्काभावेनोचावचसैकतवत्तयान्यानवलोकनी- यत्वेन वायुनिवारकतया खस्य शीतबाधाजनकत्वेन च तूलयुतस्थूलपटोत्प्रेक्षया मृदुलस्पर्शवत्ताप्रतिपादनेन खतःसिद्धशय्यासत्त्वेन च सरित्तीरमेव संकेतस्थल- मिति व्यज्यते ॥
काव्यमाला। कश्चित्कांचिदन्योक्त्या वक्ति- निजकायच्छायायां विश्रम्य निदाघविपदमपनेतुम् । बत विविधास्तनुभङ्गीर्मुग्धकुरङ्गीयमाचरति ॥ ३०९ ।। निजेति । स्वशरीरच्छायायां विश्रान्तिमासाद्य धर्मविपत्तिं दूरीकर्तुम् । बतेति। खेदे । इयं मुग्धकुरङ्गी विविधशरीरचेष्टाः करोति । परं तु न तापोपशमनं भावीति भावः । एवं च खदेहच्छायारूपस्वाधीननायकमात्रावलम्बनेन मदनसंतापनिवारणाय विविधचेष्टाकरणेऽपि मूढनायिकायास्तव न तन्निवारणम्, अतोऽन्यन्नायकावलम्ब. नमेव मदनसंतापनिवारकमिति द्योत्यते । यद्वा सख्युपदेशोऽयम् । जातिवर्णन- मेतदित्य॒जवः ॥ कार्येणैव कारणप्रतिष्ठेति काचित्कांचिद्वक्ति- न हसन्ति जरठ इति यहल्लववनिता नमन्ति नन्दमपि । सखि स यशोदातनयो नित्यं कन्दलितकंदर्पः ॥ ३१० ॥ न हसन्तीति । यद्यसात्कारणात्स प्रसिद्धो यशोदातनयः कृष्णो नित्यमभि- वर्षमानमदनः, अतो हे सखि, बल्लववनिता नन्दं जरठ इति न हसन्ति । न केवलं हास्याभावः, अपि तु प्रणमन्ति । एवं च कृष्णस्य कंदर्पशालित्वावममेन नन्देऽपि जरठाभावनिर्णयो मूढस्त्रीणामपि तत्र किमु वाच्यं चतुराङ्गनानां कार्येण कारणस्वरूपज्ञानमिति व्यज्यते । यद्वा खकार्यमेव साधनीयमिति कांचित्काचिदुपदि- शति । एवं च हास्याऽपि हास्याकरणेन प्रत्युत प्रणामादिना नन्दं परितोष्य मदना- तिशयशालिश्रीकृष्णाद्यनुसरणं बल्लववनिता अपि कुर्वन्ति । त्वं त्वत्यन्तचतुरात एवमेव खकार्य साधयेति व्यज्यते । अथवा नायकार्थ श्वशुरादिसमाधानं त्वया विधेयमिति सखी श्वशुरादिदुःखवती नायिकामन्यनिदर्शनव्याजेनोपदिशति । एवं च परपुरुषीयरतिकलाप्रावीण्यमालक्ष्यैवमाचरन्त्यन्यास्तत्र स्वीयनायकपरितोषाय किं किं न विधेयमिति व्यज्यते ॥ सर्वात्मना स्त्रियः संरक्षणीया इति कश्चिद्वक्ति- नीता खभावमर्पितवपुरपि वाम्यं न कामिनी त्यजति । हरदेहार्धग्रथिता निदर्शनं पार्वती तत्र ॥ ३११ ॥ नीतेति । खसदृशीकृतापि दत्तखशरीरापि । एवं चालंकरणादिदानमेतदने- ऽकिंचित्करमिति भावः । कामिनी वाम्यं कौटिल्यं वामशरीरभागित्वं च न ब्रजति ।
माध्यINNER HaRINATION आर्यासप्तशती। १३७ - । MARWARD अन्न दृष्टान्तमाह-हरेत्यादि । ग्रथितपदेन निःसारणानहत्वं ध्वन्यते । एवम न्यासां का वातेति ध्वन्यते ॥ काचित्कंचिद्वक्ति- नागरभोगानुमितखवधूसौन्दर्यगर्वतरलस्य । निपतति पदं न भूमौ ज्ञातिपुरस्तन्तुवायस्य ॥ ३१२ नागरेति । नगरसंबन्धी । एवं च चातुर्यवत्त्वं ध्वन्यते। तेन च सुरूपाङ्ग- नासङ्गकारित्वम् । तरलस्य चञ्चलस्य कुविन्दस्य स्वकीयज्ञात्यने भूमौ पदं न निप- तति । गर्ववशादिति भावः । एवं चातिमूर्खत्वं व्यज्यते । एवं चैतादृशजातीयानां चतुरपुरुषेण खाङ्गनाभोगे क्रियमाणे नेा संजायते, अतस्त्वया सुखेनात्रागन्त- व्यमिति ध्वन्यते॥ एतादृशेन सह संगतिर्न कार्येति सखी वक्ति- निपतति चरणे कोणे प्रविश्य निशि यन्निरीक्षते कस्तत् । सखि स खलु लोकपुरतः खलः खगरिमाणमुगिरति ॥३१३॥ निपततीति । कोणे प्रविश्य । एवं चागणनीयत्वं व्यज्यते । रात्रौ चरणे प्रणमति तत्को निरीक्षते । न कोऽपीति भावः । खगरिमाणमहमेतादृशो गुण- 'वान्यदियमत्यन्तासक्ता मयीत्यादि । यद्वा नायिकोक्तिरियम् ॥ समीचीनस्य कोपो न भवति । भवति चेत्तदानावह एव स इति कश्चिद्वक्ति- न विमोचयितुं शक्यः क्षमा महान्मोचितो यदि कथंचित् । मन्दरगिरिरिव गरलं निवर्तते ननु समुत्थाप्य ॥ ३१४ ॥ नेति । महाञ्श्रेष्ठः । पक्षे महापरिमाणशाली । क्षमा शान्ति भूमिं च । ननु निश्चितम् । 'न तु' इति पाठे नजि काकुः । एवं च महतः कोपो नोत्पादनीय इति व्यज्यते ॥ किंचित्समीचीनावलम्बने दुष्प्रभुसेवा न विधेयेति कश्चिदुपदिशति- नियतैः पदैनिषेव्यं स्खलितेऽनर्थावहं समाश्रयति । संभवदन्यगतिः कः संक्रमकाष्ठं दुरीशं च ॥ ३१५ ॥ नियतैरिति । नियतैः पदैर्व्यवहारमार्गश्चरणविन्यासैश्च । स्खलिते भ्रमे चर- मच्युतौ वा । गतिराश्रयो गमनं च । संक्रमकाष्ठं नद्यादौ पारगमनायोभयतीरो- पर्येकदारु स्थाप्यते तत् ॥ । - । । १३८ काव्यमाला। समीचीनजनं विना कवीनां न शोभा भवतीति कश्चिद्वक्ति- निजपदगतिगुणरञ्जितजगतां करिणां च सत्कवीनां च । वहतामपि महिमानं शोभायै सज्जना एव ॥ ३१६ ॥ निजपदेति । चरणगतिः सुप्तिङन्तज्ञानं च। तद्रूपो यो गुणः । महिमानं महत्परिमाणं प्रतिष्ठां च । सज्जना भूषणसंपादनाः । 'कल्पनासज्जने समे' इत्यमरः। पक्षे समीचीनजनाः॥ काचित्कस्यचित्प्रेमाणं स्तौति- नोत्तपते न स्नेहं हरति न निर्वाति न मलिनो भवति । तस्योज्वलो निशि निशि प्रेमा रत्नप्रदीप इव ।। ३१७ ॥ नोत्तपत इति । नोत्तपते नाधिकः । सम एवेत्यर्थः । पक्षे न दाहकः । न प्रीतिनाशकः । पक्षे न तैलनाशकश्च । न नश्यति । न मलिनम् । दुःखसंपादक मित्यर्थः । पक्षे न कज्जलं वमति । उज्ज्वलो मालिन्यशून्यः । अत्र मालिन्यजनक त्वाभावप्रतिपादनेनैव वैमल्यार्थसिद्धावेतत्कथनं न तथोचितमित्याभाति । निशीत्ये- तावता दिवा स्नेहाप्रदर्शनेन लोकगोपनादिचातुर्यवत्तया चिरकालीनसंगतिनिर्वाह- कत्वं व्यज्यते॥ काचित्कस्मिंश्चित्स्वासक्ति कांचिद्वक्ति- निहितान्निहितानुज्झति नियतं मम पार्थिवानपि प्रेम । भ्रामं भ्रामं तिष्ठति तत्रैव कुलालचक्रमिव ।। ३१८ ॥ निहितानिति । निहितान्सख्यादिप्ररोचनया प्रेमारूढान्पार्थिवानपि भूपती. नपि । एवं चासक्त्यहत्वं व्यज्यते। पक्षे पृथ्वीविकारान्घटादीन् । मम प्रेम नियतम् । एवं च नान्यथाभाव आशङ्कनीय इति भावः । त्यजति । भ्रान्त्वा कुला- लचक्रमिव तस्मिन्नेव तिष्ठति ॥ कश्चिन्नायिकासखी वक्ति- निर्भरमपि संभुक्तं दृष्टया प्रातः पिबन्न तृप्यामि । जघनमनंशुकमस्याः कोक इवाशिशिरकरबिम्बम् ॥ ३१९ ।। निर्भरमिति । अत्यन्तं संभुक्तमपि विगतवसनमस्या जघनं सूर्यबिम्बं कोक इव दृष्ट्या प्रातः। एवं च तथाविधरतविरतावप्येवं गतिस्तत्र दिनक्षणवृद्धौ का वाच्येति व्यज्यते । सादरावलोकनं कुर्वन तृप्यामि ॥ Si .
आर्यासप्तशती। amme कश्चिद्वयस्यं वक्ति- निबिडघटितोरुयुगलां श्वासोत्तब्धस्तनार्पितव्यजनाम् । तां स्निग्धकुपितदृष्टिं स्मरामि रतनिःसहां सुतनुम् ॥ ३२० ।। निबिडेति । अत्यन्तसंघटितोरुद्वयाम् । सुरतक्लेशादिति भावः । निःश्वासस्त- ब्धस्तनदत्तव्यजनाम् । खेदापनोदार्थ गृहीतव्यजनस्य चालनासामर्थ्यादिति भावः। स्निग्धत्वं च सौख्यात्कुपितत्वं च क्लेशवशादिति भावः। यद्वा रतनिःसहाङ्गत्वाद- सनाग्रहादूरुघटनं प्रथमगृहीतव्यजनेन स्तनपिधानमिति भावः ॥ गुणेष्वत्यन्तं यत्नो विधेय इति कश्चित्कंचिदुपदिशति- निर्गुण इति मृत इति च द्वावेकार्थाभिधायिनौ विद्धि । पश्य धनुर्गुणशून्यं निर्जीवं तदिह शंसन्ति ।। ३२१॥ निर्गुण इति । गुणाश्चातुर्यादयः । एकार्थप्रतिपादकौ। अमुमेवार्थमर्थान्तर- न्यासेन द्रढयति-गुणशून्यम् । 'मौर्वी ज्या शिञ्जिनी गुणः'। निर्जीवं निर्गता जीवा यस्मात्तम् । 'जीवा ज्या शिञ्जिनीयपि' इत्यभिधानात् । यस्माद्वदन्ति । एवं च निर्गुणजीवनापेक्षया मरणमेव सम्यगिति द्योत्यते ॥ नायिका नायकचित्तं व्याक्षिपति- निजसूक्ष्मसूत्रलम्बी विलोचनं तरुण ते क्षणं हरतु । अयमुद्गृहीतबडिशः कर्कट इव मर्कटः पुरतः ॥ ३२२ ॥ निजेति । तरुणेत्यनेन खतो दृढत्वेऽप्येतादृशचित्तव्याक्षेपेणातिदाय भावीति व्यज्यते। 'बडिशं मत्स्यवेधनम्' इत्यमरः। कर्कटः । 'स्यात्कुलीरः कर्कटकः' इत्यमरः । मर्कटो लूता । 'लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः' इत्यमरः। यद्वात्रागतं स्थितं मयेति वादिनं नायकं नायिका वक्ति । एवं च सूक्ष्मत्वेन त्रुटना- हत्वेऽपि तदभावान्न त्वत्संचरणमिति व्यज्यते । अथवा केनाप्यत्र नागम्यत इति संकेतस्थलमिदमिति ध्वन्यते ॥ ग्रामीणवसतिशालितयेयं न तथा गुणशालिनीति विभावयन्तं कंचन नायिका- सखी वक्ति- नागर गीतिरिवासौ ग्रामस्थित्यापि भूषिता सुतनुः । कस्तूरी न मृगोदरवासवशाद्विस्रतामेति ॥ ३२३ ॥ नागरेति । हे नागर, असौ सुतनुर्गीतिरिव । ग्रामो नगरादिभिभिन्नः । पक्षे काव्यमाला। 'ग्रामः खरसमूहः स्यान्मूर्च्छनादेः समाश्रयः' इति लक्षणलक्षितः । तत्र स्थित्यापि। विस्रतां दौर्गन्ध्यम् । एवं चेयमत्यन्तलक्षणशालिनी, अतस्त्वमस्या- मासक्ति कुर्विति व्यज्यते॥ कुरबककुसुमशय्यायां सुरतं विधायागतां नायिका सखी वक्ति- नखलिखितस्तनि कुरबकमयपृष्ठे भूमिललितविरसाङ्गि। हृदयविदारणनिःसृतकुसुमास्त्रशरेव हरसि मनः ॥ ३२४ ॥ नखेति । कुरबकप्रचुरपृष्टे । भूमौ लुलितानि विरसान्यङ्गानि यस्यास्तत्संबुद्धिः। निःसृताः। पृष्ठमार्गेणेति भावः। नैतानि पृष्ठलग्नानि कुरबककुसुमानि, किंतु हृदयलग्नाः पृष्ठविनिर्गता मन्मथबाणा इति भावः । एवं च मां प्रत्येतद्गोपनमनु- चितमिति द्योत्यते॥ सर्वभार्यासु समयता वर्तितव्यमिति कश्चित्कंचिदुपदिशति- नीता लघिमानमियं तस्यां गरिमाणमधिकमर्पयसि। भार इव विषमभार्यः सुदुर्वहो भवति गृहवासः ।। ३२५ ॥ नीतेति । इयं लघुतां प्रापिता तस्यामधिकं गौरवं करोषि । विषमस्त्रीको विषमे परस्परविरुद्ध स्त्रियौ यत्र । विषमवृतश्च भार इव । गृहवासः सुदुर्वहः सुतरां दुर्वहः । 'अर्पयति' इति पाठे लाघवं नीतेयं तस्यामतिगौरवं करोति। एवं च सा लघिमानं नीततस्यां गरिमाणमर्पयति । एवमेका गरिमाणं नीतान्यस्यां लाघवमापादयतीति भार इव सुदुर्वहो विषमभार्यो गृहवास इति कश्चित्सखायं वक्ति । एवं च समतासंपादनमशक्यमिति भावः ॥ अकस्मादेवानेनागत्य कथमिदमकारीति वादिनी नायिकां सखी वक्ति- न च दूती न च याच्या न चाञ्जलिर्न च कटाक्षविक्षेपः । सौभाग्यमानिनां सखि कचग्रहः प्रथममभियोगः ॥ ३२६ ॥ न चेति । सुभगाभिमानशालिनायकानां नायिकास्वाधीनतायां न दूतीप्रेष- गाद्यपेक्षितम् , किं तु केशग्रह एव प्रथमं वश्यतासंपादनोपाय इति कश्चिद्वक्ति- मन्मथावस्थायां न किंचित्परिस्फुरतीति कश्चिद्वक्ति- निशि विषमकुसुमविशिखप्रेरितयोर्मोनलब्धरतिरसयोः । मानस्तथैव विलसति दंपत्योरशिथिलग्रन्थिः ॥ ३२७ ॥ निशीति । विषमत्वेन दुःसहत्वं ध्वन्यते ॥ ...
TREAMUTANEmavasaicenwRDASTERMINAJRANAAD आर्यासप्तशती। । - वारवनितासंगतिरनुचितेति कश्चित्कंचिदुपदिशति- निजगात्रनिर्विशेषस्थापितमपि सारमखिलमादाय । निर्मोकं च भुजंगी मुञ्चति पुरुषं च वारवधूः ॥३२८ ॥ निजेति । खशरीरसमतया स्थापितम् । एवं चातिप्रियत्वमावेद्यते । समय सारभूतं वस्तु गृहीत्वा कञ्चुकं सर्पिणीव पुरुषं वाराङ्गना त्यजति । कञ्चकवनिःसा- रतां विधाय त्यजति वेश्या, अतो न तत्संगतिरुचितेति व्यज्यते ।। सखी नायिका वक्ति- नृत्यश्रमधर्मा मुञ्चसि कृच्छ्रेण कञ्चकं सुतनु । मकरन्दोदकजुष्टं मदनधनुर्वल्लिरिव चोलम् ॥ ३२९ ।। नृत्येति । नर्तनश्रमेण यः खेदस्तेनार्दै कचुकं क्लेशेन यजसि । पुष्परसप्रा- दुर्भावाकान्तं चोलं मदनधनुर्वल्लिरिव । एवं च सुरतश्रमे किं त्वया विधेयमिति परिहासो व्यज्यते ॥ नायिकादुश्चरितं विज्ञाय सखी वक्ति- नाहं वदामि सुतनु त्वमशीला वा प्रचण्डचरिता वा। प्रेमखभावसुलभं भयमुदयति मम तु हृदयस्य ।। ३३०॥ नाहमिति । हे सुतनु, त्वं शीलशून्या प्रचण्डचरिता वेति नाहं वदामि । तु पुनर्मम हृदयस्य प्रीतिखभावसुलभं भयमुदेति । एवं च कदाचित्केनचिदितीदं ज्ञातं चेत्तदा कथं भविष्यतीति त्वद्विषयकप्रीतिमत्तया मम तु भयमुत्पद्यत इति भावः । एवं च प्रीत्यभावेऽन्यस्य जाताप्यसमीचीनता न दुःखदेति ध्वन्यते । तेन चैवं न विधेयमिति॥ दूती कयाचन संगमयितुं कंचन नायकं वक्ति- न निरूपितोऽसि सख्या नियतं नेत्रत्रिभागमात्रेण । हारयति येन कुसुमं विमुखे त्वयि कण्ठ इव देवे ॥ ३३१॥ नेति । सख्या नायिकया नेत्रत्रिभागमात्रेण कटाक्षमात्रेण न निरूपितोऽसि न विलोकितोऽसि । एवं चान्तःकरणेन सा त्वय्यत्यन्तमनुरागभागिनी संवृत्तति ध्वन्यते । तेन च देवादवलोकितोऽहं तयेति त्वया सर्वात्मना न मन्तव्यमिति तदनुरागमेव विवृणोति । येन कारणेन देव इव त्वयि विमुखे कृतपरावृत्तौ सहो- प्रमेयम् । एवं च त्वद्वैमुख्य देववैमुख्यं जातमिति भावः । एवं च त्वद्वैमुख्यसंपा- tos ।
काव्यमाला। । me । । दनद्वार देवप्रातिकूल्यमिति देवाधिकस्त्वं तस्या इति ध्वन्यते । कण्ठे । स्थितमिति भावः । कुसुमं हारयति दूरीकारयति । एवं च त्वत्पराङ्मुखताविचारसमयसंजात- विरहवशात्परित्यक्तहारस्य दैवादवस्थितैककुसुमस्य न खतो दूरीकरणमसामर्थ्यात् अतोऽतिविरहक्षीणतातिशयवत्तयातिदूयमाना नोपेक्षणीयेयं त्वयेति ध्वन्यते । एक च मुखपरावृत्तिमात्रादेवमवस्था तस्याः का वाच्या दिवसपरिकलनायामिति कुसुर कण्ठे हारत्वेन करोति । एवं च त्वत्परावृत्तिसमयमेवं कार्य तस्याः संवृत्तमित्या वेद्यत इत्यप्याहुः॥ कथमनया त्वं ताडित इति वादिनं कश्चित्समाधत्ते- नखदशनमुष्टिपातैरदयैरालिङ्गनैश्च सुभगस्य । अपराधं शंसन्त्यः शान्ति रचयन्ति रागिण्यः ॥ ३३२ ॥ नखेति । अत्र पातशब्देन संयोगो लक्ष्यते । एवं च दन्तनखक्षताभिपार्ट रित्यर्थः । अदयैः । गाढेरित्यर्थः । आलिङ्गनैः । सुभगस्य, न त्वभाग्यस्य । अपर धम् । एवं चैकापराध एतादृशम् , किं पुनर्बह्वपराध इति भावः । शंसन्त्यः एवं च न वास्तवापरावस्थापनमिति भावः । अनुरागवत्यः । एवं चान्यासामन्य दृशी रीतिरिति भावः । शान्ति क्रोधोपशमं रचयन्ति । एवं च नायककर्तृकको परिहारापेक्षापि नेति भावः । एवं च यस्यैवात्यन्तमासक्ता नायिका तस्यैवैताद रीतिः, नान्यस्येति व्यज्यते॥ कस्यचिदासक्त्या गर्वितां कांचिकाचिदन्योक्त्या वक्ति- न गुणे न लक्षणेऽपि च वयसि च रूपे च नादरो विहितः त्वयि सौरभेयि घण्टा कपिलापुत्रीति बद्धेयम् ॥ ३३३ ॥ नेति । गुणे बहुदोग्धृत्वादी कलाकौशले च । लक्षणे सामुद्रिकोक्ताद तारुण्ये । रूपे शुक्लादो सौन्दर्ये च । आदरो न विहितः । सौरमेयि, त्वयि का लायाः पुत्रीति हेतोरियं घण्टा निबद्धा । एवं च त्वन्मातुर्गुणवत्त्वादिना प्रसि तज्जन्यत्वमात्रेणैवं वृत्तमिति किं गर्वमावहसीति व्यज्यते ॥ निष्कारणमेव कलहादिकं भवति भवद्गहे किमिदमिति वादिनं कश्चिद्वक्ति- निष्कारणापराधं निष्कारणकलहरोषपरितोषम् । सामान्यमरणजीवनसुखदुःखं जयति दांपत्यम् ॥ ३३४ ॥ निरिति । कारणं विनवापराधो यस्य । कारणं विनैव कलहक्रोधसंतोषा यस । MPER आर्यासप्तशती। १४३ । । । न साधारणं मरणं जीवनं सुखं दुःखं वा यस्य । जायापतिभावो दांपत्यं सर्वोत्कर्षण वर्तते । एवं चैतादृग्यन्न भवति दांपत्यं तदपकृष्टमिति व्यज्यते । तेन च खस्मि- नाधिक्यम् । एवं चातिशयितप्रेमवत्तया क्षणक्षण एवापराधसंभावना तद्विलयश्चेति वन्यते । सामान्यमित्यादिनैकात्म्यमभिव्यज्यते ॥ कश्चिदेकदा प्राप्तसङ्गां तदुत्तरं च किंचिनिमित्तविच्युतसङ्गां कांचिद्वक्ति- न प्राप्यसे कराभ्यां हृदयान्नापैषि वितनुषे बाधाम् । त्वं मम भग्नावस्थितकुसुमायुधविशिखफलिकेव ॥ ३३५॥ नेति । भन्ना सत्यवस्थिता या मदनशराबलोहशलाका तद्वत्त्वं हस्तगता न भवसि । हृदयान्न निःसरसि । पीडां च विस्तारयसि । भग्नावस्थितेत्यनेन करग्रहो- द्यमे भीतिरावेद्यते । कुसुमायुधपदेन कोमलाङ्गीत्वं तेन चासक्तियोग्यत्वं ध्वन्यते विशिखफलिकेत्यनेन तीक्ष्णप्रतापशालित्वं व्यज्यते । एवं च त्वदप्राप्त्याहमतिदुः- खित इति ध्वन्यते ॥ ममाज्ञाकारी मन्नायक इति वादिनी कांचित्काचिद्वक्ति- नाथेति परुषमुचितं प्रियेति दासेत्यनुग्रहो यत्र । बी तदांपत्यमितोऽन्यन्नारी रज्जुः पशुः पुरुषः ॥ ३३६ ।। नाथेति । यत्र नाथेति संबोधनमतिनिष्ठुरम् । प्रियेत्युचितम् । यथा कस्य- चिदागतस्य किञ्चिदुचितं क्रियते तथा प्रियेति संबोधनमुचितमित्यर्थः । दासेत्यनु. ग्रहः । आत्मत्वेनाङ्गीकार इत्यर्थः । एवं चाभिन्नप्रायतया नोपचारादिर्यत्रेति भावः । तद्दांपत्यं जायापतिभावः । इतोऽन्यन्नारी रज्जुः । एवं चाकर्षणयोग्यत्वं ध्वन्यते। पुरुषः पशुः । एवं च रसानभिज्ञत्वं ध्वन्यते । यद्वा नायकस्येयमुक्तिः ॥ पूर्वनायिकासखी प्रति नायको वक्ति- निहितायामस्यामपि सैवैका मनसि मे स्फुरति । रेखान्तरोपधानात्पत्राक्षरराजिरिव दयिता ॥ ३३७ ॥ निहितायामिति । अस्यां पुरोवर्तिन्यां मनसि निहितायामपि सैव त्वन्नायि-- कैवैका दयिता मे मनसि स्फुरति । एवं च तस्यामेव ममासक्तिरिति व्यज्यते। 1 रेखान्तरविधानात्पत्ररूपाक्षरपतिरिव । एवं च स्थिरत्वं ध्वन्यते ॥ + । पे- द्या काव्यमाला। कयाचन किंचिदवलोकितः कश्चित्तां सपरिहासं वक्ति- निधिनिक्षेपस्थानस्योपरि चिह्नार्थमिव लता निहिता। लोभयति तव तनूदरि जघनतटादुपरि रोमाली ॥ ३३८ ॥ निधीति । निधेः । 'निधिर्ना शेवधिर्भेदाः' इत्यमरः । निक्षेपस्थानं तदुपरि चिह्नार्थम् । विस्मरणाभावायेति भावः । निहिता लतेव । हे तनूदर । एवं च निधिनिक्षेपयोग्यत्वं ध्वन्यते । तव जघनस्य तटात्प्रान्तात् । तटपदेन लतारोपण- योग्यत्वं ध्वन्यते । रोमराजिलीभयति। निधिस्थानस्थिताया लोभजनकत्वौचित्यमिति भावः । एवं च जघनाधो निधिनिक्षेपस्थानमस्तीति परिहासो व्यज्यते । यद्वा सगर्भासीति । यत्र हि निधिः स्थाप्यते तच्चिह्नार्थ लतादि क्रियत इति लौकिकम् ॥ तस्याः सखी तं वक्ति- निहितार्थलोचनायास्त्वं तस्या हरसि हृदयपर्यन्तम् । न सुभग समुचितमीदृशमङ्गुलिदाने भुजं गिलसि ॥ ३३९ ॥ निहितेति । निहितार्धलोचनायास्त्वयि किंचित्कटाक्षं कुर्वाणायास्तस्यास्त्वं हृदयपर्यन्तं हरसि । कथमन्यथैतादृशं वचनमिति भावः । सुभग । एवं चान्या- दृशवचनानौचित्यं व्यज्यते । ईदृशं समुचितं न । यदङ्गुलिदाने भुजं गिलसि ॥ बहवस्तरुणा ममापेक्षां कुर्वन्तीति गर्वशालिनी कांचित्काचिद्वक्ति- नीत्वागारं रजनीजागरमेकं च सादरं दत्त्वा । अचिरेण कैर्न तरुणैर्दुर्गापत्रीव मुक्तासि ॥ ३४० ॥ नीत्वेति । अगारं गृहं नीत्वा । एवं चान्यगृहगमनेन लघुत्वमावेद्यते । आदरसहितमेकं न बहुरात्रिजागरम् । दत्वा तरुणैर्दुर्गापन्नीव शीघ्रं कैन मुक्तासि । एवं चैकदिनोत्तरमेव सर्वेषां न तवासक्तिरिति व्यज्यते । तेन च त्वं गुणरहितैव । एवं चैकमात्रासक्तिमत्येव समीचीनेति ध्वन्यते । नवरात्रे बिल्वशाखामष्टम्या. मानीय रात्रौ संपूज्य जागरादि विधाय नवम्यां परित्यज्यत इति देशविशेषरीतिः॥ यत्र यत्र यद्यत्सामर्थ्य तत्र तत्र तवैवेत्यन्योक्त्या कश्चित्कंचिद्वक्ति- नक्षत्रेऽनाविन्दावुदरे कनके मणौ दृशि समुद्रे । यत्खलु तेजस्तदखिलमोजायितमजमित्रस्य ॥ ३४१ ॥ नक्षत्र इति । अनावग्न्याश्रये । उदरे । अन्चादिपाकतेजसः सत्त्वादिति । MAnure आर्यासप्तशती। १४५ भावः । कनके । तैजसत्वादिति भावः । मणौ । प्रकाशकत्वादिति भावः । समुद्रे । अडवानलस्य सत्त्वादिति भावः । यत्तेजस्तदखिलमजमित्रस्य । एवं च येन सह विरोधस्तेनैव सह तत्करणमुचितं न त्वन्येनापि सह तत्करणमुचितमिति ज्ञानवि- शेषशालित्वं ध्वन्यते । ओजायितम् । सामर्थ्यमित्यर्थः ।। नायिकादूती नायकं वक्ति- न सवर्णों न च रूपं न संस्क्रिया कापि नैव सा प्रकृतिः। बाला त्वद्विरहापदि जातापभ्रंशभाषेव ॥ ३४२ ॥ न सवर्ण इति । स पूर्वानुभूतो वर्णः कान्तिः । पक्षे सवर्णकार्यम् । न । न केवलं पूर्वकान्तिहानिः, अपि तु न तत्स्वरूपमपीत्याह-न च रूपम् । पक्षे प्रकृतिप्रत्ययनिष्पाद्यशब्दखरूपम् । ननूद्वर्तनादिसंस्कारेण कान्तिर्भविष्यतीत्य- बाह-संस्क्रिया न । पक्षे साधुत्वम् । ननु संस्क्रिया कार्येत्युपदिश्यते न कुतो भवत्येत्यत आह-सा पूर्वानुभूता कापि खल्पापि प्रकृतिः खभावो नैव । एवं चोपदेशकरणे भीतिरावेद्यते । पक्षे प्रातिपदिकम् । बाला । एवं चाज्ञत्वं तेन च नायके शठत्वं द्योत्यते । त्वत्संबन्धिवियोगविपत्तौ । एवं च विपन्नस्य पूर्वकान्त्या- उपगच्छतीति भावः । अपभ्रंशभाषाऽसाधुवाक्यम् । यद्वा इक्शब्दोऽवधारणार्थकः । अपगतो भ्रंशोऽसमीचीनत्वं यस्या एतादृशी भाषा यस्यास्तादृश्येव संवृत्ता । एवं च त्वद्विरहजनितदुःखेन पूर्वकान्याद्यपगमेऽपि त्वद्विषये न कदाप्यसम्यग्वद- तीति न तादृशी काप्यन्या सहनशीलेति व्यज्यते । तेन चैतादृश्यामौदासीन्य- मत्यन्तानुचितमिति ॥ अलंकारादिकरणेन विलम्बकारिणी नायिका संकेतं प्रति सत्वरनिर्गमनाय सखी वक्ति-- न विभूषणे तवास्था वपुर्गुणेनैव जयसि सखि यूनः । अवधीरितास्त्रशस्त्रा कुसुमेषोर्मल्लविद्येव ॥ ३४३ ॥ नेति । हे सखि । एवं च यथार्हवादार्हत्वं ध्वन्यते । तव । एवं चान्यादृशी गतिरन्यासामिति भावः । एवं चान्याभिर्यद्विधीयते तत्वयमपि विधेयमिति मनसि न विधेयमिति व्यज्यते । विशिष्टभूषणे । एवं च सामान्यतो भूषणानि सन्त्येवेति भावः । 'न च' इति तु युक्तः पाठः । आस्थासक्तिः । न । उचितेति शेषः । तत्कार्यस्य नायकवशत्वसंपादनादेः साहजिकवपुर्गुणेनैव संपादनादिति भावः । इद- १० आ० स० काव्यमाला। मेव द्रढयति-वपुःकान्यैव तरुणान्वाधीनीकरोषि । अत्र दृष्टान्तमाह-मद- नस्य तिरस्कृतास्त्रशस्त्रा मल्लविद्येव । सापि शारीरकर्तव्यतैव जयकत्रीति भावः एवं च मा विलम्बं कुर्विति व्यज्यते ॥ काचिन्नायिका सखी प्रत्याह- नेत्राकृष्टो भ्रामं भ्रामं प्रेयान्यथा यथास्ति तथा । सखि मन्थयति मनो मम दधिभाण्डं मन्थदण्ड इव ॥३४॥ नेत्रेति । नेत्रेण चक्षुषाकृष्टः । पक्षे गुणेन । नेत्रमणि गुणेऽपि च' इत्य- भिधानात् । भ्रान्त्वा भ्रान्त्वा प्रेयान् । एवं च मनःसंलग्नतायोग्यत्वं व्यज्यते यथा यथास्ति तथा मन्थदण्डो दधिपात्रमिव मम मनो मन्थयति । एवं च मया कटाक्षित इतस्ततो मत्सविधभ्रममाणस्त्वया सत्वरं संगमनीयो येन मनोदुःख दूरीभविष्यतीति व्यज्यते ॥ दूती नायकं प्रत्याह- नानावर्णकरूपं प्रकल्पयन्ती मनोहरं तन्वी । चित्रकरतूलिकेव त्वां सा प्रतिभित्ति भावयति ॥ ३४५ ॥ नानेति । चित्रलेखकहस्तगतलेखनीवत्सा तन्वी कृशाङ्गी सूक्ष्मा च मित्त भित्तौ मनोज्ञं नानाप्रतिमारूपम् । पक्षे नानावर्णा एव नानावर्णकानि तैः कृत्या रूपं यस्यैतादृशं चित्रं प्रकल्पयन्ती भावयन्ती । एवं च चित्रविलोकनव्याजेन त्वामेव भावयतीति भावः ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता नकारव्रज्या। पकारव्रज्या। कस्याश्चिद्वचनमात्रादेव भीतान्प्रति कश्चिदन्योक्त्या वक्ति- पथिकासक्ता किंचिन्न वेद धनकलमगोपिता गोपी । केलिकलाहुंकारैः कीरावलि मोघमपसरसि ॥ ३४६ ॥ पथिकेति । पथिके आसक्ता । घनाः कलमाः श्वेतशालयस्तैर्गोपिता । धन- पदेन किंचिद्भक्षणेऽपि ज्ञानायोग्यत्वं व्यज्यते। गोपीत्यनेन खतो मौख्यं द्योत्यते। अतः केलिकलासंबन्धिहुंकारैः । एवं च न भवन्निवारणार्थमेते शब्दा इति भावः कीरावलीत्यनेन वचनपटुत्वं व्यज्यते । वृथापसरसि । एवं च भवद्भिः कलम- RAND आर्यासप्तशती। १४७ अक्षणं विधेयमिति भावः । एवं चैतस्याः प्रचुरधनवत्याः सापराधत्वाच्च वचनमान- भीतिमुत्सृज्य किंचिदेतस्याः सकाशाद्राह्यमिति व्यज्यते ॥ नायिकासखी दूतीं प्रत्याह- प्रणमति पश्यति चुम्बति संश्लिष्यति पुलकमुकुलितैरङ्गैः । प्रियसङ्गाय स्फुरितां वियोगिनी वामबाहुलताम् ।। ३४७ ।। प्रणमतीति । प्रियसंगमसूचकस्फुरणशालिनी वामबाहुलतां वियोगिनी प्रणमतीत्यादि योजना । एवं च यत्र प्रियसंगमसूचकस्फुरणवदचेतनवामबाहुल- तायाः किं किं न क्रियते विरहवत्या तत्र किमु वाच्यं सद्यः प्रियसमागमकारिण्या दूत्या इति भावः । अत एव प्रणामानहत्वव्यञ्जकं वामपदमर्थवत् ॥ काचन कंचित्प्रति वक्ति- प्रविशसि न च निर्गन्तुं जानासि व्याकुलत्वमातनुषे । बालक चेतसि तस्याश्चक्रव्यूहेऽभिमन्युरिव ॥ ३४८ ॥ प्रविशसीति । हे बालक । एवं च ज्ञानशून्यत्वं व्यज्यते । चक्रव्यूहेऽमि- मन्युरिव तस्याश्चेतसि त्वं प्रविशसि। व्याकुलत्वं पीडामातनुषे । निर्गन्तुं न च जानासि । एवं च सा त्वय्यत्यन्तमासक्ता त्वमेवाज्ञत्वमाचरसीति व्यज्यते । यद्वा त्वं व्याकुलतां कुरुषे । एवं चैतस्या हस्तात्तव न निर्गम इत्यावेद्यते ॥ समीचीनानां समीचीनोऽसमीचीनानामसमीचीन एवाश्रय इति कश्चिदन्योक्त्या वक्ति- पश्यानुरूपमिन्दिन्दिरेण माकन्दशेखरो मुखरः । अपि च पिचुमन्दमुकुले मौकुलिकुलमाकुलं मिलति ॥३४९॥ पश्येति । हे सखि, इन्दिन्दिरेण भ्रमरेण । एकत्वमविवक्षितम् । माक- न्दस्य । 'माकन्दः सहकारोऽस्त्री' इत्यनुशासनाचूतस्य मस्तको मुखरः। अन्यच पिचुमन्दस्य । "पिचुमन्दश्च निम्बः' इत्यमरः । तन्मुकुले मौकुलीनाम् । 'एकह- ष्टिश्चिरंजीवी मौकुलिर्द्विक इत्यपि' इति क्षीरस्वामी। काकानां समूहः। आकुलमिति क्रियाविशेषणम् । मिलति । इदमनुरूपं त्वं पश्य। एवं च यथायोग्य एवाश्रयो भवतीति भावः । यद्वा समीचीनानामन्यादृशरीयार्जनमसमीचीनानामन्यादृशरीत्या भवतीति कश्चिदन्योक्त्या वक्ति। माकन्दत्वेन परिमलबहुलत्वं तेन च गमनयो- ग्यत्वं ध्वन्यते । शेखरो मुखर इत्यनेन संनिधिसंस्थित्या पाण्डित्यप्रदर्शनद्वारार्जन- काव्यमाला। HAIRMAND । कारित्वमावेद्यते। यद्वा शिखरस्थितिप्रतिपादनेन प्रतिष्ठावत्त्वं द्योत्यते। मुकुल इत्येकवचनेनातिखल्पत्वमाकुल इत्यनेनाधैर्यवत्त्वप्रतिपादनेन प्रतिष्ठावैधुर्यवत्त्वं च. न्यते। एवं च यथा भ्रमरकाकयोरर्जने भेदस्तथा समीचीनासमीचीनयोरिति ध्वन्यते । अथवा समुदायसंपादनपुरःसरातिलौल्येऽपि न किंचित्फलं नीचानामे- कस्य समीचीनस्यापि फलं भवतीत्यन्योक्त्या कश्चिद्वति॥ सखी नायकसमक्ष नायिका कयाचन भङ्गया स्तौति- प्रतिबिम्बसंभृताननमादर्श सुमुख मम सखीहस्तात् । आदातुमिच्छसि मुधा किं लीलाकमलमोहेन ॥ ३५०॥ प्रतीति । हे सुमुख, प्रतिबिम्बेन संभृतं व्याप्तमाननं यस्मिंस्तमादर्शम् । एवं च प्रतिबिम्बभवनयोग्यत्वं ध्वन्यते। लीलाकमलभ्रान्त्या मम सखीकरादृथा लीलाकमलाभावादिति भावः । ग्रहीतुं किमितीच्छसि । सुमुखेत्यनेन बुद्धिशालिव- मावेद्यते । एवं च बुद्धिविशेषवतोऽपि तव यत्र मत्सखीकरतलाकलितललितप्रति- बिम्बितवदनारविन्दादर्शे लीलाकमलभ्रमः, तत्रास्मद्विधानामीदृशभ्रमवत्तायां किम पूर्वमिति व्यज्यते । तेन च नायिकासौन्दर्यम् । अत्र च नायिकावदनप्रतिबिम्ब भारतत्वादादर्श एव लीलाकमलभ्रमः। 'सुमुखि' इति पाठे नायको नायिकां वक्ति। सुमुखीत्यनेन कमलभ्रान्तिजनकत्वमावेद्यते ॥ सखी मानवती नायिका वक्ति- प्राचीनाचलमौलेर्यथा शशी गगनमध्यमधिवसति । त्वां सखि पश्यामि तथा छायामिव संकुचन्मानाम् ॥ ३५१॥ प्राचीनेति । हे सखि, प्राक्प्राच्यां भवो योऽचलः । पूर्वाचल इत्यर्थः तन्मस्तकाद्यथा चन्द्रो गगनमध्यमधिवसति तथा छायामिव त्वाम् । संकुचन्मानः प्रियापराधजन्यचेष्टारूपः । पक्षे परिमाणं यस्या एतादृशीम् । पश्यामि । अत्रोमः। यत्र वीप्सा युक्तेत्याभाति । एवं च यथा यथा चन्द्रप्रकाशातिशयस्तथा तथोद्दीपना, तिशयेन मानक्षीणता भवतीत्यत इदानीं तव समयो गतः पुनर्नायास्यतीत्यत इदा नीमेव त्वं तं परित्यज्य यथेच्छं नायकेन सह रमखेति व्यज्यते । यथा यथा शशी गगनमध्यमधिवसति करोति तथा तथा छायापि संकुचिता भवति ।
आर्यासप्तशती। १४९ - कथमागतेन तेन सह संगतिः स्थलाभावान वृत्तेति वादिनीं सखी प्रति नायिका वक्ति- प्राङ्गणकोणेऽपि निशापतिः स तापं सुधामयो हरति । यदि मां रजनिज्वर इव सखि स न निरुणद्धि गेहपतिः३५२ प्राङ्गणेति । हे सखि, प्रकृष्टमङ्गणं तत्कोणेऽपि । एवं च स्थलसत्त्वमावेद्यते। स तद्वारकसंकेतशाली। सुधामृतं तत्प्रचुरः। संतापापनोदकत्वादिति भावः । निशापतिश्चन्द्रः । अथ च निशायां पतिः। उपपतिरित्यर्थः । तापं हरति । यदि मां रात्रिज्वर इव स दुष्टत्वेन प्रसिद्धो गेहपतिः, न तु प्रियः। न निरुणद्धि । एवं च यदि न तेन रात्रौ निरोधः कृतः स्यात्तदा क्वचिदङ्गणकोणेऽपि मया तेन सह रतं कृतं स्यादित्यावेद्यते। एवं च ममापराध इति । तेन चैतत्क्षन्तव्यमिति प्रार्थना । ज्वर इवेत्युपमया नायकं प्रति खस्यासामर्थ्य व्यज्यते । ज्वरवतो बहि- निःसरणं निशि निषिद्धमिति वैद्यकम् । यद्वा गेहपतिरित्यनेन गेहस्थितवस्तुसंरक्ष- णकर्तृत्वं न मद्रक्षणकर्तृत्वम् । अतो दैवादद्य गृहवस्तुसंरक्षणप्रवृत्तेन द्रुतमेव गृह- कपाटादिदानेन ममापि रक्षणं जातम् । अतः श्वस्तथा यतिष्ये यथावश्यं तेन सह संगमो भविष्यतीति ध्वन्यते । 'साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिराम- ताधिके' इतिवदुत्तरवाक्यान्तर्गतस्य यच्छब्दस्य तच्छब्दापेक्षेति बोध्यमत्र ॥ सखी नायकं प्रति नायिकाप्रेमाधिक्यं वक्ति- पतिपुलकदूनगात्री स्वच्छायावीक्षणेऽपि या सभया । अभिसरति सुभग सा त्वां विदलन्ती कण्टकं तमसि ॥३५३ पतीति । पतिः, न तु प्रियः । तत्पुलकैः प्रेमजन्यसात्त्विकभावरूपैः खिन्नानि गात्राणि यस्याः सा । एवं चातिकोमलाङ्गीत्वं व्यज्यते । स्वस्य छायाया वीक्षणे सभयापि या। अपिः प्रागप्यन्वेति । सा कण्टकं दलयन्ती । कण्टकमित्येकत्वम- विवक्षितम् । अन्धकारे त्वामभिसरति । हे सुभग । एतादृशनायिकाया एताह- शाभिसरणवत्त्वादिति भावः । खच्छायेत्यनेन परसंसर्गराहित्येनातिप्रामाणिकत्वं चोत्यते । तेन वैतादृश्यपि त्वय्यासक्तेत्यतस्त्वया न कदापीयं परित्याज्येति ॥ अक्षक्रीडनं विधेयमधुनेति वादिनी नायिका नायको वक्ति- प्रतिभूः शुको विपक्षे दण्डः शृङ्गारसंकथा गुरुषु । पुरुषायितं पणस्तहाले परिभाव्यतां दायः ॥ ३५४ ॥ प्रतिभूरिति । शुकः । एवं चान्यथाकरणशीलाभावो व्यज्यते । प्रतिभू- - १५० काव्यमाला। mousala लग्नकः । गुरुषु शृङ्गारस्य कथनमेव विपक्षे उक्ताकरणेऽयमेव दण्डः । पुरुषायिते विपरीतरतं पणः पराजये देयं वस्तु । तत्तर्हि बाले दायः पाशपातनं परिभाव्यता क्रियताम् । एवं चाक्षक्रीडने यदि तवास्ति रतिस्तयनया रीत्या अक्षक्रीडनं विधेय- मिति भावः । एवं च रत्युत्कण्ठा ध्वन्यते । अत्र बालापदेन मुग्धा न विवक्षिता तस्यास्त्वेवंविधप्रागल्भ्याभावात् ॥ कयाचन विलोकितः कश्चित्तां प्रत्याह- परमोहनाय मुक्तो निष्करुणे तरुणि तव कटाक्षोऽयम् । विशिख इव कलितकर्णः प्रविशति हृदयं न निःसरति ।।३५५॥ परेति । उत्कृष्टसुरताय । 'मोहनं नारभेत्तावत्' इत्यादि कामतन्त्रे मोहन- शब्दस्य सुरतार्थकत्वेन कथनात् । यद्वोत्कृष्टभ्रान्त्यै । अथवान्यस्य वश्यतासंपादः नाय । पक्षे शत्रुमूर्छायै मरणायेति वा । मुक्तः । कलितः कर्णो येन । आकणे. शाल इत्यर्थः । पक्षे कर्णान्ताकृष्ट इत्यर्थः । तव कटाक्षो बाण इव हृदयं प्रविशति। न निःसरति । हे तरुणि, एवं च बलवत्प्रेरितत्वेन दुःसहत्वं ध्वन्यते । अत एव निर्गतकरुणे । कलितकर्ण इत्यनेन संपूर्णाकर्षणेन भेदविशेषकर्तृत्वं द्योत्यते । एवं चाहं त्वदायत्त इति व्यज्यते ॥ सखी नायकं प्रति वक्ति- प्रपदालम्बितभूमिश्चुम्बन्ती प्रीतिभीतिमधुराक्षी। प्राचीराग्रनिवेशितचिबुकतया न पतिता सुतनुः ॥ ३५६ ॥ प्रपदेति । पदाग्रावलम्बितभूमिः । प्रीतिभयाभ्यां मनोज्ञनयना । त्वां चुम्बन्ती सुतनुः । एवं च सङ्गयोग्यत्वं ध्वन्यते । वृत्यग्रस्थापितचिवुकभावेन न पतिता । एवं च साहसकारित्वमावेद्यते ॥ नायिका सखी वक्ति- प्रातरुपागत्य मृषा वदतः सखि नास्य विद्यते ब्रीडा। मुखलग्नयापि योऽयं न लज्जते दग्धकालिकया ॥ ३५७ ॥ प्रातरिति । प्रातः समीपमागत्य मृषाभाषिणः । नाहमन्यत्र गत इति । अस्य । प्रियस्येत्यनुपादानादत्यन्तदुःखवत्त्वं ध्वन्यते । लज्जा न विद्यते । ननु वास्तवं न गत एव भविष्यतीत्यत आह-योऽयं वदनलग्नया दग्धकालिकया wamanand m आर्यासप्तशती। । नयनचुम्बनजन्ययेति भावः । दग्धपदेन तस्या द्वेषविशेषवत्तावेद्यते । न लज्जते । एवं च प्रात्यक्षिकरतचिह्नवत्त्वान्मिथ्याभाषित्वं दृढीक्रियते । अथ च श्याममुख- वेऽपि परिहारकारकतया निर्लज्जत्वं द्योत्यते॥ सखी नायिका वक्ति- पश्योत्तरस्तनूदार फाल्गुनमासाद्य निर्जितविपक्षः । वैराटिरिव पतङ्गः प्रत्यानयनं करोति गवाम् ।। ३५८ ।। पश्येति । हे कृशोदरि, उत्तरा दिगस्त्यस्य । अर्शआदित्वादच् । उत्तरदि- क्संबन्धी । पक्ष उत्तर इति तन्नाम । निर्जितहिमादिविपक्षः। पक्षे विपक्षः सुयो- धनादिः । पतङ्गः सूर्यः । फाल्गुनं मासम् । पक्षेऽर्जुनम् । प्राप्य विराटापत्यमिव गवां किरणानाम् । पक्षे धेनूनाम् । परावृत्तिं करोति । हेमन्तापगमात्तेजोविशेष- शालितया किरणप्रत्यायनोक्तिः । एवं च हेमन्ते गतेऽपि वसन्तादाववश्यं मदनम- हत्तरशरसंत्रस्तस्तव प्रियः समायास्यतीति व्यज्यते । यद्वा यथा फाल्गुनसाहाय्येन वैराटिना गावः परावृत्त्यानीताः पतङ्गेन किरणाः, तथा त्वमपीदानींतनैतादृशसमय- साहाय्येन नायकचित्तस्याङ्गनातः परावृत्ति विधेहीति ध्वन्यते । श्लेषमानमत्रेति ऋजवः । केनचित्कस्यचित्साहाय्येन स्वकीयं गतं वस्त्वानीयत इत्यन्योक्तिरपि ॥ नायको नायिका वक्ति- प्रमदवनं तव च स्तनशैलं मूलं गभीरसरसां च । जगति निदाघनिरस्तं शैत्यं दुर्गत्रयं श्रयति ॥ ३५९ ।। प्रमदेति । अन्तःपुरसमीपवनं प्रकृष्टमदकारि वनं वा । त्वदीयस्तनशैलम् , गभीरसरसां मूलमिति दुर्गत्रयं निदाघेन ग्रीष्मेण जगति निरस्तं शैयं श्रयति । एवं च नितरां दाघो यस्मादिति व्युत्पत्त्या मदनसंतापसंतप्तस्य मम त्वत्कुचावेव शरणाविति व्यज्यते । तेन च त्वं मदङ्गीकार कुर्विति । अन्योऽपि केनचित्परा- भूतो वनशैलजलदुर्गाश्रयेण जीवतीति लौकिकम् । अत्र किं किं दुर्गमिति विशेष- कर्माकाङ्क्षायां प्रमदेत्यादि । एवं च निदाघकाले शैत्यं स्थलत्रयेऽधिवसतीति भावः॥ नायिकासखी नायकं वक्ति- प्रोञ्छति तवापरा मानं मर्दयति निवृतिं हरति । खकृतान्निहन्ति शपथाञ्जागरदीर्घा निशा सुभग ॥ ३६० ।। प्रोछतीति । त्वत्कृतापराधम् । एकलमविवक्षितम् । प्रोञ्छति । एवं च ।
- । १५२ काव्यमाला। निःशेषतो दूरीकरोति । मानम् । नायिकया कृतमिति भावः । मर्दयति । निति हरति । दुःखं जनयतीत्यर्थः । नायिकाया एवेति भावः । नायिकाकृताञ्शपथान् । यद्यहमधुनानेन सह संभाषणमपि करिष्ये तर्हि विरचितातनुचरणपरिचरणं विफली- करिष्य इत्येवमादीन् । निहन्ति । उपसर्गेण खकृतशपथस्मृतिबीजसंस्काराभावो व्यज्यते । जागरेण दीर्घा रात्रिः । हे सुभग। अचेतनयापि निशयानुकूल्यसंपा- दनादिति भावः । जागरेण दीर्घा निशा यस्या इति वा ।। सखी नायिकावृत्तमपरसखीं वक्ति- प्रिय आयाते दूरादभूत इव संगमोऽभवत्पूर्वः । मानरुदितप्रसादाः पुनरासन्नपरसुरतादौ ॥ ३६१ ॥ प्रिय इति । प्रिये, न तु पत्यौ । दूरादायाते । एवं च विरहवत्त्वमावेद्यते। प्रथमः सङ्गोऽसंजातप्राय इवाभवत् । द्वितीयसुरतारम्भे मानरुदितप्रसादाः । पुनस्त्वर्थे । अभवत् । एवं च संगमस्याप्यज्ञानादत्यन्तमन्मथविकारशालित्वमावे- यते । स्वभाववर्णनमेतत् ॥ सखी नायिका वक्ति- पूर्वमहीधरशिखरे तमः समासन्नमिहिरकरकलितम् । शूलपोतं सरुधिरमिदमन्धकवपुरिवाभाति ।। ३६२ ॥ पूर्वेति । उदयाचलमस्तके निकटवर्त्यरुणकिरणकवलितमिदं तमः शुलाग्रप्रो- तसरुधिरान्धकनामकदैत्यशरीरमिव शोभते। एवं च प्रातःकालः संवृत्तः, अत उपपतिनिःसार्यतामिति द्योत्यते । नायकसहचरवचनमिदं वा । एवं चाधुना निर्ग- न्तव्यमिति भीतिप्रदर्शनपुरःसरं व्यज्यते। अथवा नायिकायाः पद्मिनीत्वात्सूर्यो- दयोत्तरं सुरतविधानस्यौचित्येन सूर्योदयः सत्वरमेव भविष्यतीति ज्ञापकमिदं नायि- कासहचरीवाक्यम् । यद्वा नायको नायिका वक्ति । अक्षरच्युतकालंकारवदक्षरपूर्व- कस्यापि युक्तितौल्यादलंकारतया पूर्वमहीधरशिखर इत्यस्याभिनवस्तनाग्र इत्यर्थः । संलग्नकाश्मीरदीप्तिकलितमिदं केशजातं शूलाग्रप्रोतरुधिराकान्धकासुरवपुरिव । तस्य श्यामत्वादिति भावः । आभाति । एवं च विपरीतरतसमग्रसंजातमुक्तिमुख- चुम्बननमनकुचशिखरनिपतितकेशकलापवत्तयातिशयितशोभास्ति, अत एवमेव केशकलापावस्थितिरास्तामिति व्यज्यते । तेन च विपरीतरतान विरतिर्विधेयेति । ननु शृङ्गारबीभत्सयोर्विरोधात्कथमनोभयनिबन्धनमिति चेत् 'सर्यमाणो विरु- MINORINKER आर्यासप्तशती। । द्धोऽपि साम्येनाथ विवक्षितः । अङ्गिन्यङ्गत्वमाप्तौ यौ तौ न दुष्टौ परस्परम् ॥ इत्युक्त्या यथा तथाविधान्धकवपुश्चमत्करोति तथैवंविधकेशकलाप इति साम्यप्रति- मादनेन दोषाभावात् ॥ सखी नायिका शिक्षयति- परिवृत्तनाभि लुप्तत्रिवलि श्यामस्तनाग्रमलसाक्षि । बहुधवलजघनरेखं वपुर्न पुरुषायितं सहते ॥ ३६३ ॥ परीति । हे अलसाक्षि । गर्भभरालसत्वादिति भावः । परिवृत्तनाभिः । लुप्त- त्रिवलि । श्यामचूचुकम् । बढ्यो धवला जघने नखरेखा यस्मिंस्तत् । गर्भे जघने कण्डूतेर्जायमानत्वादिति भावः। सर्वमेतत्परिपक्वगर्भचिह्नम् । ते एवंविधं शरीरं युरुषायितं विपरीतरतम् । तत्करणसमर्थं न । एवं चाधुना प्राग्वद्विपरीतरतं न विधेयमिति व्यज्यते॥ सखी नायकोत्साहवर्धनाय नायिका वक्ति- प्रारब्धनिधुवनैव खेदजलं कोमलागि किं वहसि । ज्यामर्पयितुं नमिता कुसुमास्त्रधनुर्लतेव मधु ॥ ३६४ ॥ प्रारब्धेति । आरब्धसुरतैव । अत्रोपसर्गोऽनुचितः । हे कोमलाङ्गि, खेदज- लम् । जलपदमाधिक्यं द्योतयति । वहसि । इदं तत्किम् । नोचितमित्यर्थः । सज्जीकर्तुं नमिता कुसुमात्रस्य मदनस्य धनुर्लतेव मधु । एवं च सुरतारम्भ एवैता- इशः श्रमः, तत्राने कथं भविष्यतीति नायिकायां सौकुमार्यमावेद्यते । तेन चैतादृशी नायिका दुर्लभतरेति । मदनधनुर्लतासमताप्रतिपादनेनानयैव मदनस्य जगज्जय इति प्रतिपादनेनेतरनायिकाव्यतिरेको ध्वन्यते। यद्वारब्धनिधुवनैवेत्यनेनैतस्या अयं खभावो यत्सुरतादावेव श्रमो नोत्तरकालमिति ज्ञापनेन यथेच्छं भीतिमपहाय सुरत- संगमो विधेय इति नायकं प्रति व्यज्यते । नायकोक्तिरियं वा ॥ जायाजितोऽयमित्यपकीर्तिभाषिसर्वलोकावगणनां विधायापि मया त्वदधीनतयैव स्थीयत इति ज्ञापयितुं भझ्यन्तरेण नायको नायिका वक्ति- पुंसां दर्शय सुन्दरि मुखेन्दुमीषत्रपामपाकृत्य । जायाजित इति रूढा जनश्रुति, यशो भवतु ॥ ३६५ ॥ पुंसामिति । हे सुन्दारे, लजां दूरीकृत्य स्खमुखचन्द्रमितरनायकानामीषद्द- शेय। एवं च लज्जापरित्यागस्यैतत्कलं यदीषन्मुखदर्शनमित्यत्यन्तलज्जावत्त्वमावे- - 2ERRADEBAAR १५४ काव्यमाला। - यते । ईषत्रपामपाकृत्येत्यपि योजना। चन्द्रपदेन दर्शनीयत्वमावेद्यते । तत्फल- माह-जायया जित इति ख्यातो जनवादो मे यशो भवतु । एवं च त्वदीयता- दृशसौन्दर्योत्कर्ष दृष्ट्वैतादृशनायिकाजितत्वमत्यन्तपुण्योद्रेकलभ्यमिति यशसे भव- विति भावः । एवं च त्वमेतादृशसौन्दर्यशालिनीति ध्वन्यते । एवं चैतादृशे मयि कोपकरणमनुचितमित्यावेद्यते ॥ यद्यपि घटनाविधाननिपुणा दूती, संतापापनोदको नायकश्च वर्वति, तथापि निर्बन्धशालितयास्माकं न किंचिदपि फलमिति काचिद्वक्ति- प्रसरतु शरत्रियामा जगन्ति धवलयतु धाम तुहिनांशोः । पञ्जरचकोरिकाणां कणिकाकल्पोऽपि न विशेषः ॥ ३६६ ॥ प्रसरत्विति । शरत्कालीना रात्रिः प्रसरतु । तुहिनांशोर्धाम जगन्ति धवल यतु । संतापजन्यमालिन्यनिवारकतयेति भावः पञ्जरस्थचकोरिकाणाम् । चकोरी- पदेन तदेकाधीनजीवनवत्त्वमावेद्यते । कणिकातो न्यूनोऽपि न विशेषः । कथमनयातिविलम्बितमिति वादिनं नायक नायिकासखी समाधत्ते- प्रथमागत सोत्कण्ठा चिरचलितेयं विलम्बदोषे तु । वक्ष्यन्ति साङ्गरागाः पथि तरवस्तव समाधानम् ॥ ३६७ ॥ प्रथमेति । हे प्रथमागत । एवं च कोपौचित्यमिति व्यज्यते । उत्कण्ठासहि- तेयम् । अत एव चिरकालं चलिता । स्वसदनादिति भावः । ननु विलम्बः किमित्यत आह-विलम्बदोषे तु । दोषपदेन करणानहवं ध्वन्यते । समाधान सहाङ्गरागेण वर्तन्त एतादृशा मार्गस्थतरवो वक्ष्यन्ति । एवं च किमर्थमन्त्रास्माभिः समाधानं विधेयमिति भावः । पथिपदमवश्यंभाविदर्शनवत्तामावेदयति । एवं च त्वद्विरहाद्भान्तिक्शात्त्वद्भमेण प्रतिपदपद्धतिपादपालिङ्गनेन विलम्बः संवृत्त इति व्यज्यते । तेन च क्षणमपि त्वद्विरहमसहमानेयमिति । "विलम्बदोषेण' इति पाठे संकेते बहुकालं नायकं प्रतीक्ष्य खगृहं प्रति गतायां नायिकायां समागतना- यकं प्रति प्रथममागता नायिकासखी वक्ति । यतः सोत्कण्ठेयं नायिका । विल- म्बदोषेण । तवेति भावः । पथि । खगृहस्येति भावः । अचिरम् । अधुनेत्यर्थः । चलिता । ननु मिथ्यैव त्वं वदसीत्यत्राह-तव समाधानं साङ्गरागाः । स्वगमन- ज्ञानाय चिह्नवन्तः कृता इत्यर्थः । तरवो वक्ष्यन्ति । एवं च न तस्या अपराध इति भावः । नकारपाठे पदच्छेदेन काका व्याख्येयमाद्यव्याख्यावत् ॥ - SSAINA BENERSHANTARIETNMOSALMAIRMNTAINITINENERAMANEESTIONARY ASTARTHATIMES आर्यासप्तशती। - पतितेंऽशुके स्तनार्पितहस्तां तां निबिडजघनपिहितोरुम् । रदपदविकलितफूत्कृतिशतधुतदीपां मनः स्मरति ॥ ३६८ ॥ पतितेति । अंशुके पतिते सति स्तनस्थापितहस्ताम् । अत्यन्तं जघनाच्छा- दितोरुम् । ओष्ठयोर्विकलतामाप्ता या फूत्कृतिः । अत एव तच्छतेन कम्पितः, न तु निर्वापितः, दीपो यया ताम् । लज्जाभयवशादिति भावः । तां पूर्वानुभूतां नायिकां मनः स्मरति । एवमेव किमिति स्थितोऽसीति वादिनं कंचित्प्रति कस्य- चिदुक्तिरियम् ॥ संकेतितक्रीडाचलमौलिकुञ्ज नायकः समधिवसतीत्यतस्त्वरया तत्र गन्तव्य- मिति ज्ञापयितुमन्येषां च गमने भीतिमुपदर्शयन्ती दूती नायिका वक्ति- परितः स्फुरितमहौषधिमणिनिकरे केलितल्प इव शैले । काञ्चीगुण इव पतितः स्थितैकरत्नः फणी स्फुरति ॥ ३६९ ॥ परित इति । हे सखि, केलिशयनीय इव समन्तात्सप्रकाशौषधिमणिसमूह- वति शैले। पक्षे महौषधितुल्यमणिसमूहवतीत्यर्थः । काञ्चीसूत्रमिव पतितश्चासौ स्थितेकरत्नश्च फणी स्फुरति । एवं च दीपादिस्थानाभिषिक्तौषधिसप्रकाशे विवि- धपल्लवादिमृदुशय्याशालिनि क्रीडाशैले निरन्तरजघनसङ्गयोग्यश्चिरागमनतया त्वदनागमनेन सालस इव सकलनायकशिरोरत्नरूपः प्रबलतरतयान्यजननिर्भयः खिड्गविद्याविशारदो नायकः समधिवसतीत्यतस्त्वरख गमनायेति ध्वन्यते । महत्तरसर्पाक्रान्ततया शैलस्य गमनानहत्वमन्येषामावेद्यते । केलितल्पसादृश्येन नायिकायाः सुखगमनयोग्यत्वं ध्वन्यते । काञ्चीगुणसादृश्येन निरन्तरजघनसंगति- शालित्वप्रतिपादनेनातिमदनशालित्वं व्यज्यते । पतित इत्यनेन दैववशालब्ध इति ध्वन्यते । यद्वा सखी नायिका वक्ति-समन्तान्महौषधिमणिसमुदायवति । पक्षे प्रकाशातिशयशालिमाणिनिकरवति । निर्भरतातिशयविधानान्मणिमुक्तादिग्रीवाद्याभ- रणभ्रंशादिति भावः । शैल इव केलितल्पे । शैलसमताप्रतिपादनेनातिदृढत्वं तल्प आवेद्यते । तेन चैतादृशरतविमर्दसहनयोग्यत्वम् । पतितः । प्रसुप्त इति यावत् । स्थितमेकरत्नं यस्मिन्सः । फणायामिति भावः । पक्षे पतितः । त्रुटितत्वादिति । - । । १. पतितेत्याचार्या केषुचित्पुस्तकेषु नास्ति.
१५६ काव्यमाला। AADHAAR - भावः । स्थितं मुख्यं रत्नं यस्मिन्सः फणीव काचीगुणः स्फुरति । तवेति भावः । फणिपदेन स्पर्शायोग्यत्वं ध्वन्यते । एवं च तथाशयितरतसंविधानजन्यालसतया निकटस्थकाञ्चीगुणोऽपि स्पष्टुं न शक्यते त्वयेत्यतो मामाज्ञापयसि तदानयनार्थ- मित्यावेद्यते ॥ अन्याङ्गनासक्त्येतस्ततः परिभ्रमन्तं नायक नायिकान्योक्त्या वक्ति- प्रावृषि शैलश्रेणीनितम्बमुज्झन्दिगन्तरे भ्रमसि । चपलान्तर घन किं तव वचनीयं पवनवश्योऽसि ॥ ३७० ॥ प्रावृषीति । वर्षासमये । एवं च बहिर्गमनानहत्वं व्यज्यते । पर्वतश्रेणीनि- तम्बम् । “नितम्बः कटकोऽस्त्रियाम्' । अथ च स्खनितम्बिनीस्तननितम्बम् । उज्झस्त्यजन् । दिगन्तरे । इतस्तत इत्यर्थः । श्रमसि । चपला विद्युत्सान्तरे मध्ये यस्य । अथ च चपलेतस्ततो गमनखभावा पराङ्गनान्तरे चित्ते यस्य । यदा चञ्चलखभाव चलचित्त । धन तव किं वचनीयम् । वाच्यामित्यर्थः । यतः पवन- वश्योऽसि वाय्वधीनोऽसि । अथ च वातूलोऽसि । पिशाच इति यावत् । एवं च यतो यतो वायुना नीयसे तत्र तत्र गच्छसीति न तवापराध इति व्यजते । एवं व सुन्दरी नवयौवनलालसां माहशीं विहायतस्ततो व्यभिचरणशीलामन्तःकरणे विधाय पिशाचवदितस्ततो भ्रमसि तत्र न तवापराधः किं तु मौव्यस्येति व्यज्यते॥ सर्वदा मानवत्तयैव त्वया स्थीयत इदमनुचितमिति भजयन्तरेण सखी नायिका चक्ति- प्रतिदिवसक्षीणदशस्तवैष वसनाञ्चलोऽतिकरकृष्टः । निजनायकमतिकृपणं कथयति कुग्राम इव विरलः ॥३७१॥ प्रतीति । प्रतिदिनं क्षीणा दशा प्रान्तभागो यस्य । पक्षे क्षीणावस्थः । अत्यन्तं करेण हस्तेनाकृष्टः । पक्षेऽत्यन्तराजदण्डपीडितः । विरलः शिथिलतन्तु- संयोगवान् । पक्षे खल्पजनवसतिः । तव एष वसनाञ्चलो निजखामिनं कुग्राम इव कृपणम् । वसनान्तरग्रहणासामर्थ्यादिति भावः । पक्षे द्रव्यलोभकरणेनेति भावः । कथयति । एवं चैतादृशमानसंपादनेन नायकस्य वारं वारं प्रार्थनादिसंपाद- नावगणनेन नायं नायिकासुखप्रदो यतः सर्वदेयं क्लेशवत्येव लक्ष्यत इत्ययशस्त- दीयं भवति । तदियं खस्यैवानौचितीमाविष्करोति, अतो नैतादृशं विधेय- मित्यावेद्यते ॥ - आर्यासप्तशती। १५७ - wmain काचित्पथिकं वक्ति- पथिक कथं चपलोज्वलमम्बुदजलबिन्दुनिवहमविषयम् । मयपुरकनकद्रवमिव शिवशरशिखिभावितं सहसे ॥ ३७२ ।। पथिकेति । हे पथिक । एवं च वसत्यभाववत्त्वमावेद्यते । चपलाभिर्विद्यु- द्भिरज्वलम् । पक्षे चपलावदुज्वलम् । अविषह्यम् । उद्दीपकत्वादिति भावः । पक्ष उष्णत्वादिति भावः । मेघजलसमुदायबिन्दुसमुदायम् । न तु कतिपयजलबिन्दवः। शंकरबाणानलसंतापितम् । अत्र शिवपदं प्रकृताननुगुणम् । मयनामकदैत्यनगर- कनकद्रवमिव कथं सहसे । एवं च कथं वृष्टिमध्य एव स्थीयते कुतो नागम्यते वृष्टिबाधोपशमनस्थल इति भावः । एवं चैतादृशोद्दीपनविभाववति समये कथमेका- कितया स्थातुं शक्यम् , अतो मत्सविधमागत्यैनं समयमतिवाहयेति व्यज्यते ॥ काचित्कांचिद्वदति- पथिकं श्रमेण सुप्तं दरतरला तरुणि सुमधुरच्छाया । व्यालम्बमानवेणिः सुखयसि शाखेव सारोहा ॥ ३७३ ॥ पथिकमिति । हे तरुणि । ईषच्चञ्चला । सुष्टु मधुरा छाया यस्याः । व्याल- म्बमाना वेणियस्याः । विपरीतरतसंविधानादिति भावः । सारोहा सशिफा । 'शाखा शिफावरोहः स्यात्' इत्यमरः । पक्ष आरोहणमारोहः । शाखेव सुखयसि । मदनानलतापनिवारकत्वादिति भावः । श्रमेण सुप्तं पथिकम् । पथिकपदेन सुखसंपा- दनयोग्यत्वं ध्वन्यते । शाखापि किंचिच्चञ्चला शीतलच्छाया लम्बमानजटा श्रम- सुप्तपथिकसुखहेतुर्भवति । एवं चानेन सह त्वया विपरीतरतं विहितमिति ध्वन्यते यद्वा पथिकं सुखयसीति सुखयिष्यसीति प्रश्नः । पथिकमित्यनेनातिकामुकत्वं तत्सुखदानेन पुण्यवत्त्वमन्यापरिचेयत्वं च व्यज्यते ॥ निगूढमन्याङ्गनासक्तचित्तं नायक नायिकासखी वक्ति- प्रददाति नापरासां प्रवेशमपि पीनतुङ्गजघनोरूः । या लुप्तकीलभावं याता हृदि बहिरदृश्यापि ॥ ३७४ ॥ प्रददातीति । या तव हृदि बहिरदृश्यापि लुप्तकीलधर्म याता सा तुङ्गपीन- जघनोरूरपरासां प्रवेशमपि न प्रददाति । लुप्तकीलभावे बहिरदृश्यत्वं हेतुः । अन्यासां प्रवेशाप्रदाने तुङ्गपीनजघनोरुत्वं हेतुः । अपिनावस्थितिव्यवच्छेदः। ।
काव्यमाला। एवं च काचित्तवान्तःकरणेऽस्ति ययान्यत्र चित्तं न ददासीति व्यज्यते । भूमा- वन्तर एकस्मिन्कीले सत्यन्यकीलस्य न तत्र प्रवेश इति लौकिकम् । यद्वा कथम- न्याङ्गनालम्पटस्त्वमसीति वादिनी नायिकासखीं नायको वक्ति । तुङ्गेत्यादिनान्याङ्ग- व्यतिरेको ध्वन्यते । एवं च यद्यपि न मया मुखतस्तथा चाटुवचनादि विधीयते परंतु मम हृदयमियमेवाधिवसति न काचिदन्या हृदयविषयापीति व्यज्यते। अथवा नायिकोक्तिरियम् ॥ कथमस्मासु श्वश्रून स्निह्यतीति वादिनमनभिज्ञनायकं नायिकासखी वक्ति- प्रातर्निद्राति यथा यथात्मा लुलितनिःसहैरङ्गैः । जामातरि मुदितमनास्तथा तथा सादरा श्वश्रूः ।। ३७५ ।। प्रातरिति । यथा यथा । लुलितानि ग्लानान्यत एव निःसहानि । सालस्या- नीत्यर्थः । एवंविधैरङ्गैः प्रातरात्मजा निद्राति, मुदितमनाः श्वश्रूर्जामातरि तथा तथा सादरा भवति । लुलितनिःसहेरित्यनेन रतातिशयशालित्वमावेद्यते । आत्म- जेत्यनेन तत्सुखवत्त्वेन तस्याः सुखवत्त्वमिति ध्वन्यते । एवं च त्वयाद्य रात्री तथा रतातिशयो विधेयो यथेयं मत्सखी प्रातरत्यन्तनिःसहायतया खापं करिष्य- तीति व्यजते॥ नायिका सखी वक्ति- प्रणयचलितोऽपि सकपटकोपकटाक्षर्मयाहितस्तम्भः। त्रासतरलो गृहीतः सहासरमसं प्रियः कण्ठे ॥ ३७६ ॥ प्रणयेति । हे सखि, प्रणयात्प्रीतेश्चलितोऽपि, प्रणयेन वा चलितः । सक- पटा ये कोपकटाक्षास्तैराहितस्तम्भः संपादितस्थैर्यः । त्रासेन तरलः । मत्कृत- कोपकटाक्षादिति भावः । प्रियो मया सहासरभसं कण्ठे कृतः । एवं च नायकेs. तिसरलत्वमावेद्यते॥ काचिन्नायका कस्मिंश्चिदासक्ता तदीयान्याङ्गनासक्ति विज्ञायासन्तदुःखिता स्वहः दयं प्रति वक्ति- प्रियदुर्नयेन हृदय स्फुटसि यदि स्फुटनमपि तव श्लाघ्यम् । तत्केलिसमरतल्पीकृतस्य वसनाञ्चलस्येव ।। ३७७ ॥ प्रियेति । हे हृदय । एवं चोपदेशयोग्यत्वं ध्वन्यते । प्रियस्य दुर्नयेन । एवं चातिदुःखवत्त्वमावेद्यते । यदि स्फुटसि विदीर्णतामाप्नोषि तर्हि तव स्फुटनमपि जाप ।
आर्यासप्तशती। श्लाघ्यम् । तस्य केलिरूपसङ्ग्रामे तल्पीकृतवस्त्रप्रान्तस्येव । समरपदेनातिदुःसहत्वं आवेद्यते । एवं च शय्यादिविरहवत्यपि देशेऽत्यन्तसाहसेन चिरतरसुरतसुख- संपादनेन यः प्रियत्वात्परितोषितस्तदीयैतादृशदुश्चेष्टितस्यातिदुःसहतया "विरमति कथनं विना न खेदः' इत्यादिवचनात्कस्यचित्कथनानहत्वेऽपि खस्यैवैतादृशाविचारित- कार्यकारितयातिमावहतया कथनीयत्वेन तद्भराद्विदीर्णतापि समुचिता न पुन- रन्यत्र तत्कथनमिति ध्वन्यते । तेन चैतादृशप्रियानुचिताचरणस्य कथने खस्यैव लज्जाजनकत्वमिति । यद्वा येनैतादृशसंभोगसुखमुत्पादितं तदीयैतादृशौदासीन्ये मरणमेव वरं न पूनर्दूत्यादिप्रेषणं मानादिधारणं वेति व्यज्यते । अपिरवधार- णार्थः । 'प्रियदुनयेनात्यन्तं दुःखं भवतीति भावः' इति ऋजवः ॥ कश्चिदन्योक्त्या कस्यचित्कर्तव्यतामालोक्य खयमपि तथा कर्तुमुद्यतं कंचन वक्ति- पवनोपनीतसौरभदूरोदकपूरपद्मिनीलुब्धः । अपरीक्षितवपक्षो गन्ता हन्तापदं मधुपः ॥ ३७८ ॥ पवनेति । समीरणाहृतसौरभा, उदकपूरवर्तिनी या पद्मिनी तस्यामासक्तोऽवि- चारितवपक्षबलो मधुपः । हन्त इति खेदे । आपदं गन्ता । पवनपदेन चञ्चलख- भावेन केनचिदेतस्याः कीर्तिः कृतेति व्यज्यते । दूरोदकपूरेत्यनेन प्राप्तावपि काठि- न्यमावेद्यते। अपरीक्षितेत्यनेन यथाकथंचित्खसहायवचनमात्रादेव नोद्योगः कर्तव्य इति ध्वन्यते । आपदमित्येकत्वमविवक्षितम् । मधुप इत्यनेनाविवेकित्वं ध्वन्यते। एवं यथाकथंचित्कस्यचिन्मुखान्नायिकागुणश्रवणमात्रेण दुष्प्रापायां तस्यामासक्तिर्यद्य- नेन क्रियते तद्यनेनावश्यं क्लेशाः प्राप्या एवेति भावः। एवं च त्वयैतादृगनुचितं नाचरणीयमिति व्यज्यते ॥ प्रेमवशानायके लघुतामङ्गीकुर्वत्यपि स्वयं नावगणना विधेयेति सखी नायिका भड्यन्तरेण शिक्षयति- प्रेमलघूकृतकेशववक्षोभरविपुलपुलककुचकलशा । गोवर्धनगिरिगुरुतां मुग्धवधूनिभृतमुपहसति ॥ ३७९ ।। प्रेमलघूकृतेति । प्रेम्णा । नायिकाविषयकेणेत्यर्थः । लघूकृतः। वास्तवतया तस्य चतुर्दशभुवनाधारतयातिगुरुत्वादिति भावः । एवं च प्रियाप्रणयात्कि किं न क्रियत इति ध्वन्यते। यः केशवस्तस्य वक्षसि धारणे विपुलपुलको कुचकलशौ .. । - HavangeeeMIN ALL MANESABAIKLEARNAMASHAASALALKINNARENEMIESSES १६० काव्यमाला। । । यस्या एतादृशी मुग्धा सुन्दरी । अथ च मूढा । वधूः । यद्वा मुग्धस्य वधूः । एवं च प्रियस्य चातुर्यवत्त्वे नायिकाया अपि तद्वत्त्वं भवतीति ध्वन्यते । गोवर्धननाम- धेयमहीधरस्य गुरुतां गुप्तं हसति । येन गोवर्धनोद्धारणं कृतं सोऽपि मया लघुतया वक्षसि धृत इति न किंचिगौरवमिति धियेति भावः। एवं च केशवस्याप्युपहासो व्यज्यते । एवं चैतादृशमौख्यं न कदापि विधेयं त्वयति ध्वन्यते ॥ प्रियप्रीतौ सत्यां न केनापि किमपि कर्तुं शक्यमिति काचित्कांचिद्वक्ति- प्रियविरहनिःसहायाः सहजविवक्षाभिरपि सपत्नीभिः । रक्ष्यन्ते हरिणाक्ष्याः प्राणा गृहभङ्गभीताभिः ॥ ३८० ॥ प्रियेति । दयितविरहक्षीणायाः। एवं च प्रकारान्तरमरणे समाधेः सत्त्वा. दिति भावः। सहजशत्रुभूताभिरपि । एवं चावश्यापकारकरणयोग्यत्वं द्योत्यते। अपिनान्येषां का वातति व्यज्यते। गृहभाभीताभिः। एतस्या मरणे प्रियमरण- स्थावश्यं भावित्वादिति भावः । एवं च प्रियानुरागातिशयवत्त्वमावेद्यते। मृगाक्ष्याः प्राणा रक्ष्यन्ते । एवं च यथा नायकः स्निह्यति तथावश्यं विधेयं त्वयेति ध्वन्यते ॥ नायिका दूती वक्ति- प्रकटयति रागमधिकं लपनमिदं वक्रिमाणमावहति । प्रीणयति च प्रतिपदं दूति शुकस्येव दयितस्य ॥ ३८१ ॥ प्रकटयतीति । हे दूति । एवं च तद्योगसंपादनं त्वदधीनमित्यावेद्यते। शुक्रस्येव दयितस्य लपनं संभाषणम् । पक्षे वदनम् । अधिकं रागं प्रीतिम् । पक्षे लौहित्यम् । प्रकटयति । वक्रिमाणं वक्रोक्तिमत्त्वम् । पक्षे वक्रत्वम् । आवहति । आङा नैकमपि वक्रोक्तिरहितं पदं तत्रेत्यावेद्यते। तेन च नायके चातुर्यातिशय- शालित्वम् । प्रतिपदं प्रतिशब्दम् । पक्षे प्रतिक्षणम् । प्रीणयति च । यच्चाधिक- रागशालि न तद्वकतामावहति । यच्च वक्रतामावहति न तत्प्रीतिजनकम् । इदं चैकमेतत्रितयजनकमित्याश्चर्यमिति भावः । केचित्तूभयत्रापि लपनं मुखमेवेत्याहुः। एवं चैतादृशनायकं सपदि संयोजय मया सहेति ध्वन्यते ॥ खकटाक्षविक्षेपादिना नायकः स्वाधीनताभाजनं विधेय इति काचित्कांचिच्छि- क्षयति-- प्रविशन्त्याः प्रियहृदयं बालायाः प्रबलयौवतव्याप्तम् । नवनिशितदरतरङ्गितनयनमयेनासिना पन्थाः ॥ ३८२ ॥ प्रविशन्त्या. इति । प्रबला रूपादिसंपत्तिशालिन्यः । प्रबलपदमन्यne HATHRVAAHURIMINATRAPAHARA आर्यासप्तशती। mpto स्याजेयत्वमावेदयति । या युवत्यस्तत्समुदायव्याप्तम् । एवं च खस्थित्यर्थमवकाशा- भावो व्यज्यते । प्रियहृदयम् । एवं चावश्यप्रवेशसंपादनौचित्यं ध्वन्यते । प्रविशन्त्या बालायाः। नूतनस्तीक्ष्णः । दरमीषत् । किंचिल्लज्जावत्त्वादिति भावः । तरङ्गितमुत्तरोत्तराधिक्यं तच्छालि यः कटाक्षस्तद्रूपेणासिना खड्ड्रेन पन्था मार्गः । एवं च त्वयैतादृशकटाक्षेण विलोकितेऽवश्यं नायकस्ता अपहत्य त्वथ्यासक्तो भवि- ध्यतीति ध्वन्यते । अन्योऽपि प्रबलव्याप्तस्थलादौ केवलं खड्गसहायेन प्रवेश करोतीति लौकिकम् ॥ नायिकासखी नायकं वक्ति- प्रणयापराधरोषप्रसादविश्वासकेलिपाण्डित्यैः । रूढप्रेमा हियते किं बालाकुतुकमात्रेण ॥ ३८३ ॥ प्रणयेति । प्रणयापराधेन रोषः, प्रसादः, विश्वासः, क्रीडाविषयकपाण्डित्य- मेत रूढं प्रेम यस्या एतादृशी नायिका । यद्वा प्रवृद्धप्रेमा । अर्थान्नायिकायाः । एवं च भाविसुखसंभावनया खतःसिद्धसुखपरिहारकर्तव्यता नोचितेति ध्वन्यते । तेन च भवतामीदृशकर्तव्यतया नायिका खिन्ना भवतीत्यावेद्यते । यद्वा नायको नायि- कासखीं वक्ति । रूढप्रेमा अर्थान्नायिकया सह बालायाः कुतुकमात्रेण किं हियते । काचा न हियत इत्यर्थः । एवं च बालायाः कौतूहलमात्रमेतत् । वास्तवानुरागो सम तस्यामेवेति ध्वन्यते ॥ काचिदन्योक्त्या पूर्व स्वस्मिन्सतं वार्धक्यात्सुरतादावुपेक्षितमन्यविटद्वेषिण कंचन वक्ति- पूर्वैरेव चरित्रैश्चरितैर्जरतोऽपि पूज्यता भवतः । मुञ्च मदमस्य गन्धाधुवभिर्गज गञ्जनीयोऽसि ॥ ३८१ ॥ पूर्वैरिति । हे गज, मदं मुञ्च । नन्वेतत्त्यागे किमित्यत आह-प्राक्तनैरेवाद्भुतै- राचरितैर्चरतोऽपि वृद्धस्यापि । 'जीनो जीर्णो जरन्' इत्यमरः । भवतः । पूज्यता। एवं च मदाभावेऽपि पूज्यतायाः सत्त्वान्मदकरणमनर्थकमिति भावः । न केवलं मदकरणमनर्थकम् , अपि तु दुरर्थकमित्याह-अस्य मदस्य गन्धाधुवभिर्गजनी- योऽसि । एवं च पूर्ववत्सामर्थ्याभावादस्मत्कृतमानवत्त्वेऽपि विधीयमाने मदो युक्- भिर्न सोढव्य इति ध्वन्यते । तेन च मीतिः ॥ ११ आ० स० काव्यमाला। यावत्पर्यन्तं नायकाङ्गसुखं नानुभूतं तावदेव गमने नकारः क्रियते, तदुत्तरं तु खयमत्यन्तासक्ता नायके भविष्यसीत्यत इदानी मद्वाक्यं न तिरस्कुर्विति काचि, कांचिदक्ति- प्रथम प्रवेशिता या वासागारं कथंचन सखीभिः । न शृणोतीव प्रातः सा निर्गमनस्य संकेतम् ॥ ३८५।। प्रथममिति । प्रथमतः सखीभिः । न तु सख्या । महता क्लेशेन शयनसदन या प्रवेशिता सा प्रातः । एवं च चिरपरिचयाभावो व्यज्यते । निर्गमसंकेतन शृणोतीव । एवं च न निर्गच्छतीति किमु वाच्यमिति भावः । एवं च तथैव त्वमपि करिष्यसीति व्यज्यते । 'प्रसभम्' इत्यपि कचित्पाठः ॥ मन्त्रवत्त्वमावश्यकमिति कश्चिद्वक्ति- पूजा विना प्रतिष्ठां नास्ति न मन्त्रं विना प्रतिष्ठा च । तदुभयविप्रतिपन्नः पश्यतु गीर्वाणपाषाणम् ॥ ३८६ ॥ पूजेति । प्रतिष्टां विना पूजा नास्ति । मन्त्रं विना प्रतिष्टा नास्ति । तदुभय- विप्रतिपन्नः । मन्त्रं विनापि प्रतिष्ठा, प्रतिष्ठां विना पूजेतिवादीत्यर्थः । देवतायाः पाषाणं प्रतिमां पश्यतु । एवं च देवताप्रतिमायामेवैतन्निर्णय इति भावः । यद्वा केनचित्कस्यचित्पूजायां क्रियमाणायामीावशात् 'किमस्य ज्ञान का वास्य प्रतिष्टा येनेदृशी पूजेयमस्य विधीयते' इति वादिनं कश्चिद्भझ्यन्तरेण वक्ति-प्रतिष्ठा देवतासंनिधिरूपां विना पूजा नास्ति । 'प्रतिष्ठितं पूजयेत्' इति वचनात् । पर्छ प्रतिष्ठा विख्यातिः । मन्त्र उत्तमपुरुषामन्त्रणास्यजत्वं तत्त्वम् (१) । मन्त्रप्रसिद्ध्यन्य- तमवन्तम् । पक्षे विचारं विना प्रतिष्ठा च नास्ति । मत्रसाध्यत्वात्प्रतिष्ठायाः। प्रतिष्ठामन्त्रोभयाप्रामाण्यवादी । पक्षे प्रतिष्ठामन्त्रोभयाभाववादी । देवतापाषाणं पश्यतु । एवं च वेदाप्रामाण्यवादिना नास्तिककक्षाधिरूढेन केनचिद्विष्ण्वादि- प्रतिमादौ विष्ण्वादि]प्रस्तरबुद्धौ कृतायां न किंचित्समीचीनस्य दुःखमिति भावः। एवं च नास्तिककल्पेन भवता मात्सर्यात्पाण्डित्यप्रतिष्टादिकमेतेषां नास्तीत्युक्तं चेत्तावता न काचित्क्षतिरिति ध्वन्यते ॥ नायिकासखी नायिकायां मानाद्युपचारप्रदर्शकं नायकं वक्ति- पूर्वाधिको गृहिण्यां बहुमानः प्रेमनर्मविश्वासः । भीरधिकेयं कथयति रागं बालाविभक्तमिव ॥ ३८७ ॥ पूर्वाधिक इति । गृहिण्यां पूर्वापेक्षयाधिकः । बहनेकप्रकारः । इदं च लिङ्ग । । आर्यासप्तशती। १६३ विपरिणामादग्रेऽप्यन्वेति । मानः । प्रेम । नर्म क्रीडा । विश्वासः । इयमधिका भीः। एवं च भीतेः पूर्वमभावो ध्वन्यते । रागं बालाविभक्तमिव कथयति । एवं च यावत्पर्यन्तं तस्यामेवानुरागः स्थितस्तावत्पर्यन्तं नैतादृशमानादिकं न भीतिः । तद्धत्वभावात् । इदानीं तु मानादिनैतत्समाधानेनेयं मां न पीडयिष्यतीति धियै- तादृशाचरणं तवेति भावः । एवं च यत्रासाधारणं प्रेम न तत्र किमपि मानादि बायोपचारकरणमपेक्षितमिति ध्वन्यते ॥ खपीडाभयेन खप्रभोरप्यनिष्टं चिन्त्यत एवेति कश्चित् 'कथं खप्रभोरनुचि- ताशंसनं करोषि' इति वादिनं वक्ति- पुलकितकठोरपीवरकुचकलशाश्लेषवेदनाभिज्ञः । शंभोरुपवीतफणी वाञ्छति मानग्रहं देव्याः ॥ ३८८ ॥ पुलकितेति । संजातपुलको । नायकस्पर्शजसुखाविर्भावादिति भावः। यौ कठोरपीवरकुचकलशौ तदाश्लेषपीडाभिज्ञः शंभोरुपवीतरूपफणी पार्वत्या मानग्रहं वाञ्छति । एवं चालिङ्गनाद्यभावेन खपीडानुत्पत्तिर्भविष्यतीति धियेति भावः । कठोरेत्यनेन वेदनायामाधिक्यं ध्वन्यते । एवं च शंभोरित्यनेन सुखजनकत्वप्रति- पादनादुपवीतपदेनातिनिकटतयातिप्रेमवत्त्वव्यञ्जनात्फणीत्यनेन भारसहनसामर्थ्य- योतनादीदृशस्यापि क्लेशविशेषासहिष्णुत्वं किमुतान्यस्येति द्योत्यते। यद्वा यो हि खयं दुःखाभिज्ञः स एव परस्य दुःखनिवृत्तिं वाञ्छतीति कश्चित्कंचिद्वक्ति। एवं व फणेदनाभिज्ञत्वेन शंभोः कठोरकुचवेदना मा भवत्विति बुद्धिरुदेतीति ध्वन्यते। अथवात्यन्तमानवती सा नायातीति दुष्टदूतीवचनाच्छिथिलयत्नं नायकं नायिकासखी वक्ति । फणीत्यनेन दुष्टत्वं द्योत्यते । यद्वा नायकं प्रति खयातायातभयान्नायिका- दुःखभावेति कथयन्तीं नायकसखीं ज्ञात्वा नायिकासखी नायकं प्रति वति । एवं चेयं त्वदीयदुष्टसखी खयातायातादिपीडाभयेन तस्या एतादृशखभावशालिवं त्वय्या- वेदयति, न वास्तवं सा तथेति ध्वन्यते । तेन च त्वरख तद्दर्शनयत्न इति ॥ काचित्कांचित्कस्याश्चिद्वाता वक्ति- प्रिय आयातो दूरादिति या प्रीतिर्बभूव गेहिन्याः । पथिकेभ्यः पूर्वागत इति गर्वात्सापि शतशिखरा ॥ ३८९ ॥ प्रिय इति । दूरादायात इति हेतोर्गेहिन्या या प्रीतिर्बभूव सा पथिकेभ्योऽपि JHETANIBANRAIPUR काव्यमाला। MARA । पूर्वमागत इति गर्वादत्यधिका जाता । अन्येषां न तथा खप्रियासु प्रीतियथा मतित्र यस्येति धियेति भावः । प्रियपदमागमनेन प्रीतिजनकत्वमावेदयति । दूरादित्यनेन चिरविरहशालित्वं द्योत्यते । गहिनीपदेन गृहव्यासङ्गप्रवणाया अप्येतादृशावस्थावत्त्वं तत्रेतरस्याः किं वक्तव्यमिति ध्वन्यते। पथिकपदं प्रियात्पूर्व प्रचलितत्वं व्यञ्जयति। बहुवचनेन सर्वेषामपि पश्चात्परित्यागेनोत्कण्ठातिशयशालित्वं नायके व्यज्यते । एवं चान्येषां त्वरयानागमनेन खप्रियस्यागमनेन नायिकायां गुणातिशयो द्योत्यते । तेन चेतरनायिकाव्यतिरेको ध्वन्यते । शिखरस्य पर्वतसंबन्धित्वात्प्रीती चात्युत्कटत्वं लक्ष्यते। प्रयोजनं चेतरंगर्वव्यतिरेकः ॥ नायिकासखी नायकमन्योक्त्या नायिकाप्रेम वक्ति- पृष्ठं प्रयच्छ मा स्पृश दूरादपसर्प विहितवैमुख्य । त्वामनुधावति तरणिस्तदपि गुणाकर्षतरलेयम् ॥ ३९० ॥ पृष्टमिति । हे विहितवैमुख्य । पक्षे कृतौदासीन्य । वैमुख्यकार्यमाह-पृष्ठ प्रयच्छ । तीरस्थिततरणे: पृष्ठेनैव गभीरजलनिरसनमिति कैवर्तकसंप्रदायः । यद्वा गुणाकर्षकस्य नौकासांमुख्याभावादिति भावः । अत एव मा स्पृश । करेणेति भावः । पक्षे विलोकनाभावं कुरु, आलिङ्गनं च मा कुरु । दूरादपसर्प । पक्षे निकटवर्तित्वा- भावं कुरु । तथापि गुणैस्तृणरचितैः । पक्षे चातुर्यादिभिः । आकर्षणं तेन चञ्चलेय तरणिस्त्वामनुधावति। एवं च यद्यपि त्वमुदासीनस्तथापि त्वदीयचातुर्यादिगुणलुब्धः त्वामेवानुसरतीति ध्वन्यते । तेन च नैतागाचरणमुचितं तवेति । नौरपि पृष्टप्रदा- नादिकारिणमनुलक्षीकृत्य निषादकर्तृकगुणकरणकाकर्षणेनागच्छतीति भावः ।। नायकः सखायं वक्ति- प्रियया कुङ्कुमपिञ्जरपाणिद्वययोजनाङ्कितं वासः । प्रहितं मां याच्याञ्जलिसहस्रकरणाय शिक्षयति ॥ ३९१ ॥ प्रिययेति । प्रियया, न तु नायिकया। कुङ्कुमेन पिजरं यत्करयुगलं तद्विधा- नचिह्नितं प्रेषितं वासोऽनेकप्रार्थनाञ्जलिसंपादनाय मां शिक्षयति । कुङ्कुमपिजरत्वे नारक्तत्वम्, तेन च कोपवत्त्वं द्योत्यते । पाणिद्वययोजनाङ्कितमित्यनेन मत्प्रणतिरा; वेद्यते । एवं च प्रणामोऽयं भवतामास्तामत्रागमनं भवतामिति द्योत्यते। तेन कुपितत्वे ज्ञातेऽनेकप्रार्थनाञ्जलिकरणं मम प्राप्तमिति ध्वन्यते । यद्वा प्रियकप्रणाम- ग्रहणजन्यौद्धत्यनिवारणकारणानेकप्रणामकरणं मम प्राप्तमिति ध्वन्यते । तेन च । ।
आर्यासप्तशती। । । नायिकायामाधिक्यम् । यद्वा यथा मया त्वत्प्राप्त्यर्थमञ्जलिः क्रियते तथा त्वया मदर्थ मदीयगुरुष्वञ्जलयो विधेया इति शिक्षा । माङ्गलिकत्वेन कुङ्कुमसंबन्धः । अथवाई रजःशालिनीत्यतः क्षन्तव्यो मदनागमनापराध इति ज्ञापनायैकाञ्जलिकरणे मयाज- लिसहस्रकरणेनेदानीमेव रतमभ्यर्थनीयमिति भावः ॥ दूती कस्याश्चित्साहसकथनेन नायिकायाः साहसकर्तृत्वमुपदिशति- प्राचीरान्तरितेयं प्रियस्य वदनेऽधरं समर्पयति । प्राग्गिरिपिहिता रात्रिः संध्यारागं दिनस्येव ।। ३९२ ॥ प्राचीरेति । इयं तव प्रतिवेशिनी प्राचीरेण व्यवहिता । 'प्राचीरं प्रान्ततो पतिः' इत्यमरः । प्रियस्य वदनेऽधरं समर्पयति । प्राचीनाचलाच्छादिता रात्रिः संध्यारागं दिवसस्येव वदने । प्रागिरिसमताप्रतिपादनेन प्राचीरेऽतितुङ्गत्वं ध्वन्यते। तेन चोल्लङ्घनानहत्वम् । रात्रिसमताप्रतिपादनेन तमःप्रधानतयान्यजनावलोकनभी- तिशून्यत्वं नायिकायामावेद्यते । तेन चायन्तानुरागवत्त्वम् । संध्यारागमित्यनेनात्य- न्तलौहित्यवत्त्वमधरे व्यज्यते । दिनस्येत्यनेन बहिर्वर्तितया नायके लोकदृश्यत्वं वन्यते। समर्पयतीत्यनेन स्वयं चुम्बनविरामासंपादनेन रागोद्धरत्वं नायिकायां बोलते । एवं च त्वयापि भीतिमुत्सृज्यैवंविधाचरणमाचरणीयमिति ध्वन्यते ॥ नायिका नायकं वक्ति- परपतिनिर्दयकुलटाशोषित शठ नेjया न कोपेन । दग्धममतोपतप्ता रोदिमि तव तानवं वीक्ष्य ॥ ३९३ ॥ परेति । परस्याः पत्यौ निर्दया या अनेकगामिन्यस्ताभिर्हतशरीरसार । सर्व- खपरत्वेन कादाचित्कलाभवत्त्वम् , तेन चात्यन्तसुरतसंपादनाहत्वं ध्वन्यते । शठ। एवं च विश्वासाभाववत्वमन्यवचनप्रामाण्यानभ्युपगन्तृत्वं च व्यज्यते । नेप्रा॒या । तासामिति भावः । न कोपेन । किमिति तत्र गम्यत इति हेतोरिति भावः । दग्ध- ममतोपतप्ताहं तव काय वीक्ष्य रोदिमि । दग्धपदेन ममताया निवारणानहतया- त्यन्तदुःखदत्वं ध्वन्यते । एवं चैतादृशेऽपि त्वयि मम ममतेति खस्मिन्नाधिक्य- मावेद्यते । अन्योऽपि संतप्तो रोदितीति लौकिकम् ॥ प्राङ्गण एव कदा मां श्लिष्यन्ती मन्युकम्पिकुचकलशा । अंसनिषण्णमुखी सा स्वपयति बाप्पेण मम पृष्ठम् ॥ ३९४ ॥ प्राङ्गण इति । प्राङ्गण एव । एवं च प्रेमाधिक्यमावेद्यते। मां श्लिष्यन्ती। - ।
ITERARIANRAINLARKHANTERALAMNNERALACH काव्यमाला। । म कोपेन । कथामियन्ति दिनान्यतिवाहितानि विदेश इति थियेति भावः । कम्पित- स्तनकलशा। स्कन्धस्थितवदना सा पूर्वानुभूता बाष्पेण' मम पृष्ठं कदा नपयति । स्नपयिष्यतीत्यर्थः । पथिकाशंसनमेतत् ॥ कथमीदृशभयानकावसरे प्रियसविधे समभिसरणमिति वादिनी नायिका दूती कस्याश्चिद्वत्तकथनव्याजेन' सति प्रेम्णि न कस्यापि भीतिरिति वक्ति- प्रेतैः प्रशस्तसत्त्वा साश्रु वृकैर्वीक्षिता स्खलद्धासैः । चुम्बति मृतस्य वदनं भूतमुखोल्केक्षितं बाला ॥ ३९५ ॥ प्रेतैरिति । प्रेतैः स्तुतसामा । स्खलदासः । विस्मयादिति भावः । साश्रु । क्रियाविशेषणमेतत् । कथमीदृश्या अपि प्रियः प्रपेदे पञ्चत्वमिति शोकोद्रेकादिति भावः। वीक्षिता बाला। एवं च भीतियोग्यत्वं ध्वन्यते। भूतमुखसंबन्धिनी योल्का तयेक्षितम् । एवं चान्धकारबाहुल्यं ध्वन्यते। मृतस्य । अर्थात्स्वप्रियस्य । वदनं चुम्बति । एवं चैतादृशसमयेऽपि भीत्यनुदयेन जुगुप्साद्यभावेन च प्रेम्णि दृढत्वमावेद्यते । अत्र प्रेतैः प्रशस्तसत्त्वेत्यादिकथनं भयानकाङ्गमपि शृङ्गारपरिपोष- कत्वादथवा बाध्यत्वेनोक्तत्वाद्वा ‘स्मर्यमाणो विरुद्धोऽपि' इत्युक्तदिशा 'अयं स रशनोत्कर्षी' इत्यादाविव 'संचार्यादेविरुद्धस्य वाध्यस्योक्तिर्गुणावहा' इत्युक्तदिशा 'क्वाकार्य शशलक्ष्मणः' इत्यादाविव भयानकशृङ्गारयोरविरोधानासमञ्जसम् ॥ कश्चित्कंचिदुपदिशति- पिशुनः खलु सुजनानां खलमेव पुरो विधाय जेतव्यः । कृत्वा ज्वरमात्मीयं जिगाय बाणं रणे विष्णुः ॥ ३९६ ॥ पिशुन इति । सुजनानां यदि पिशुनो जेतव्यः । एवं च सतां पिशुनजयेन न कापि श्लाध्यतेति भावः । तदा निश्चयेन खलमेव पुरो विधाय। एवकारेण खातिरिक्तसुजनस्य निरासः। अमुमेवार्थ द्रढयितुमितिहासमाह-विष्णुः । एवं च स्वतः सामर्थ्यसत्त्वमावेद्यते। ज्वरं खीयत्वेन संपाद्य । एवं च दुष्टे यद्यपि खीयत्वसंपादनमनुचितं तथापि खकार्यकाल एव तत्र तद्विधेयमिति ध्वन्यते। सङ्ग्रामे बाणासुरं जितवान् । एवं च स्वस्य सामर्थेऽपि न दुष्टनिबर्हणं खयं विधे- यमिति धन्यते। तेन च क्लेशेऽपि दुष्टसंभाषणमनुचितमिति ॥ ।
आर्यासप्तशती। नायिकेयमत्यन्तमप्रगल्भेत्यतः शनैरेव किंचिदुपभोग्येति सखी-नायकमन्योक्त्या वक्ति- पिब मधुप बकुलकलिकां दूरे रसनाप्रमात्रमांधाय । अधरविलेपसमाप्ये मधुनि मुधा वदनमर्पयसि ॥ ३९७ ॥ पिबेति। हे मधुप । एवं च रसलम्पटत्वमावेद्यते । तेन च तूष्णीमवस्थित्य- बर्हत्वम् । दूरे जिह्वाग्रमात्रं संस्थाप्य . बकुलकलिकां पिव । अधरस्य विलेपेन समाप्तियोग्ये । अत्र लेपनेत्येव युक्तम् । मकरन्दे वृथा वदनमर्पयसि । एवं च बकुलकलिकाया अतिसूक्ष्मत्वात्तन्मधुनोऽतिखल्पतया वदनसंपर्के समाप्तिरेव भवि- ध्यतीत्यतो रसनाग्रेणैव तद्राह्यमिति भावः। एवं च नेयमत्यन्तसुरतविमर्दसहेति ध्वन्यते॥ कश्चित्कंचिद्वक्ति- प्रायेणैव हि मलिना मलिनानामाश्रयत्वमुपयान्ति । कालिन्दीपुटभेदः कालियपुटभेदनं भवति ॥ ३९८ ॥ प्रायेणेति । बाहुल्येन मलिनानामाश्रयत्वं प्राप्नुवन्ति । अर्थान्तरन्यासेनामु- मेवार्थ द्रढयति-यमुनायाः पुटभेदश्चक्राणि । 'चक्राणि पुटभेदाः स्युः' इत्यमरः। कालियनामसर्पस्य पुटभेदनं पत्तनम् । 'पत्तनं पुटभेदनम्' इत्यमरः। भवति । एवं चामलिनामिर्गङ्गादिभिर्न कालियस्याश्रयो दत्तः, किंतु कलिन्दतनययैवेति भावः । एवं च सद्भिरसतामाश्रयो न देय इति ध्वन्यते ॥ प्रियप्रीतिनिमित्तं सपत्नीसंमाननमपि विधेयमिति काचित्कांचिच्छिक्षयति- पश्य प्रियतनुविघटनभयेन शशिमौलिदेहसंलग्ना । सुभगैकदैवतमुमा शिरसा भागीरथीं वहति ॥ ३९९ ।। पश्येति । चन्द्रशेखरशरीरसंलग्ना उमा पार्वती । उमापदेन 'उमेति मात्रा तपसे निषिद्धा' इत्यादि कालिदासोक्तरीत्या प्रियप्रीतिस्तपोरूपक्लेशविशेषलभ्येति ध्वन्यते। प्रियशरीरविश्लेषभीत्या भागीरथीम् । भगीरथक्षत्रियसंबन्धोत्कीर्तनेन तीक्ष्णप्रतापतयातिदुःसहत्वं व्यज्यते। शिरसा वहति । इदं त्वं पश्य । एवं च त्वयाप्यनयैव रीत्या स्थेयमिति भावः । एवं च यत्र भगवत्या पार्वत्याप्येवंरीत्याव- स्थीयते तत्र का वार्तान्यासामिति भावः ॥ 4UMAR womantipuri काव्यमाला। । काचिद्वक्ति- पथिकवधूजनलोचननीरनदीमातृकप्रदेशेषु । धनमण्डलमाखण्डलधनुषा कुण्डलितमिव विधिना ॥ १० ॥ पथिकेति । पथिकाझ्नानयनवाष्पैर्नदीमातृका नद्यम्बुपालिताः प्रदेशास्तेषु वेधसा कर्तृभूतेनेन्द्रधनुषा करणभूतेन मेघमण्डलं कुण्डलितमिव । पथिकाङ्गनाश्रु- भिरेव सस्योत्पत्तेर्मेघमण्डलस्यानर्थक्यादिति भावः। एवं च पथिकाइनानयननी- राधिक्यप्रतिपादनेन तासामत्यन्तदुःखमावेद्यते ॥ काचित्कस्याश्चिद्वृत्तं वक्ति- प्रतिवेशिमित्रबन्धुषु दूरास्कृच्छ्रागतोऽपि गेहिन्या । अतिकेलिलम्पटतया दिनमेकमगोपि गेहपतिः ॥ १०१ ॥ प्रतिवेशीति । गेहिन्या। एवं च सर्वसामर्थ्यमावेद्यते। क्लेशागतोऽपि । एवं च झटिति सर्वग्राह्यदर्शनयोग्यत्वं ध्वन्यते । गेहपतिः । एवं च बहुतरदिनो- त्तरागमनतया सर्वकार्यस्य स्खमात्रकर्तृकतया सर्वदर्शनयोग्यत्वं व्यज्यते । अत्यन्तं या क्रीडासक्तिस्तया प्रतिवेशिमित्रबन्धुषु । एवं च गोपनानहत्वमावेद्यते । एक दिनमगोपि । यद्वा गेहिन्या अप्येतादृशी गतिस्तत्र का वार्तान्यस्या इति काचित 'कथमीदृशक्रीडालम्पटा त्वम्' इति वादिनी प्रति वक्ति ॥ नायिका नायकं प्रति वक्ति- परपट इव रजकीभिर्मलिनो भुक्त्वापि निर्दयं ताभिः । अर्थग्रहणेन विना जघन्य मुक्तोऽसि कुलटाभिः ॥ ४०२ ॥ परेति । हे निन्द्य । निन्धकार्यकारित्वादिति भावः । रजकीभिः परपट इव तामिः प्रसिद्धाभिः कुलटाभिः मलिनस्त्वं निर्दयं भुक्त्वा । परकीयत्वादिति भावः। द्रव्यग्रहणेन विना परित्यक्तोऽसि । एवं च कुलटात्वेन बहुनायकविषयरतिमत्तया । तद्रतेराभासतया 'अर्थादोषधवरकामः' इत्युक्तदिशा च तत्र न रस इति ध्वन्यते अत्रान्यद्विचारजातमस्मत्कृतरसमञ्जरीटिप्पणे द्रष्टव्यम् ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता पकारव्रज्या ।
आर्यासप्तशती। १६९ बकारवज्या। काचित्कस्याश्चिद्वृत्तं वक्ति- बहुयोषिति लाक्षारुणशिरसि वयस्येन दयित उपहसिते । तत्कालकलितलज्जा पिशुनयति सखीषु सौभाग्यम् ॥ ४०३ ॥ बह्विति । बहुतरनायिकाशालिनि लाक्षयारुणमस्तके प्रियतमे वयस्येनोपह- सिते। कथं स्त्रीप्रणाममकरोदिति । तत्कालकृतलज्जा नायिका सखीषु सौभाग्य सूचयति । बहुतराङ्गनाजातमपहाय मय्येवासक्त्या मच्चरणप्रणतिजन्यैवेयमरुणतैत- च्छिरसीति द्योतनेनेति भावः । यद्वा यद्यपि नायको न तथा प्रेमादि विदधाति तथापि सख्यादिषु तु मय्येव प्रेमवानिति प्रदर्शनेन स्वगौरवं रक्षणीयमिति तत्प्रद- निप्रकार काचित्कांचिदुपदिशति । बहुयोषितीत्यनेनानेकनायिकाचिन्तया किमीय- श्वरणालक्तक इति संदेहयोग्यत्वं ध्वन्यते । तत्कालं वयस्योपहासेककालम् । अझी- कृतलज्जैव सखीषु सौभाग्यं सूचयति । एवं चैतादृशसमयेऽनया रीत्या खसौभाग्य- प्रदर्शन विधेयमित्यावेद्यते । तेन चैतादृशेऽपि समये न मनसि खेदो विधेयः, किं तु हर्ष एवाविष्करणीय इति ॥ कश्चिन्नायिकाकेशकलापं स्तौति- बन्धनमाजोऽमुष्याश्चिकुरकलापस्य मुक्तमानस्य । सिन्दूरितसीमन्तच्छलेन हृदयं विदीर्णमिव ॥ १०४ ॥ बन्धनेति । बन्धनवतः। गतपरिमाणस्य । अतिदीर्घस्येत्यर्थः । पक्षे गता- भिमानस्य । अस्याः केशकलापस्य सिन्दूरयुक्तो यः सीमन्तस्तन्मिषेण हृदयं विदी- मिव । बन्धनवतो गताभिमानस्यापि विदीर्णहृदयता भवतीति लौकिकम् ॥ कान्चित्कंचिद्वक्ति- बलमपि वसति मयीति श्रेष्ठिनि गुरुगर्वगद्दं वदति तज्जायया जनानां मुखमीक्षितमावृतस्मितया ॥ ४०५ ॥ बलमिति । सामर्थ्यमपि । अपिना गुणादिसमुच्चयः । मयि वसति । वसती- त्यनेन यो हि यदधिकं स्थलं जानाति तत्रैव वसतीत्यतोऽन्यनायकव्यतिरेकः खस्मि- बावेद्यते । इत्यतिगर्वगद्गदं यथा स्यात्तथा वदति सति संकुचितस्मितया । एवं च किंचित्सलज्जत्वमावेद्यते । तदङ्गनया लोकानाम् । तद्वार्तादत्तावधानानामिति भावः।
Doman AreakingNACHANALHASAMILYHANELEPHANNEL artment-90my friyanka काव्यमाला। वदनमीक्षितम् । मत्समाधानलेशमपि कर्तुं न शक्नोति वदति त्वेतादृशमपीति विस्मयेनेति भावः । एवं च वणिजः पुंस्त्वहीनतया-तदङ्गनायाश्च समृद्धमन्मथत्वेन तत्र त्वदमनेन तस्या आसक्तिस्त्वयि भविष्यतीति ध्वन्यते ॥ कस्याश्चिद्गुणादिकं कस्यचिद्वदनादाकर्ण्य कश्चित्तस्यामासक्त इति मधुपनलिनीव- त्तान्तव्याजेन काचिद्वक्ति- बलवदनिलोपनीतस्फुटितनवाम्भोजसौरभो मधुपः । आकृष्यते नलिन्या नासानिक्षिप्तबडिशरज्जुरिव ॥ ४०६ ॥ बलवदिति । बलवान्यो वायुस्तेन समीपानीतं विकसितनवकमलसौगन्ध्यं यस्य स मधुपो भ्रमरः कमलिन्या नासायां निक्षिप्ता बडिशस्य मत्स्यवेधनस्य । 'बडिशं मत्स्यवेधनम्' इत्यमरः । रजुर्यस्यैतादृश इवाकृष्यते। क्वचिद्वडिशपद- रहितः पाठः॥ गुणमात्राहकत्वं सुजनत्वम् , दोषमात्रग्राहकत्वं पिशुनत्वमिति कश्चित्कंचि- द्रक्ति- बाणं हरिरिव कुरुते सुजनो बहुदोषमप्यदोषमिव । यावदोषं जाग्रति मलिम्लुचा इव पुनः पिशुनाः ॥ ४०७ ॥ बाणमिति । हरिर्विष्णुर्वाणासुरमिव सुजनो बहुदोषमपि । गुणभिन्नो दोषः। पक्षे बहुतरबाहुशालिनम् । दोषशून्यमिव । पक्षे बाहुरहितम् । कुरुते। मलि- म्लुचा इव तस्करा इव पिशुनाः। पुनःशब्दोऽन्यदित्यर्थे । यावद्दोषम् । समग्रदोष- मित्यर्थः । पक्षे यावद्रात्रिम् । जाग्रति। तद्विषयकगवेषणावन्तो भवन्तीत्यर्थः । पक्षे निद्राभाववन्त इत्यर्थः । परखापहरणार्थमिति भावः। एवं च सुजनान भीतिः, किं तु दुर्जनादेवेत्यतस्त्वं ततः सावधानतया तिष्ठेति ध्वन्यते ॥ नायिकादूती नायकं वक्ति- बौद्धस्येव क्षणिको यद्यपि बहुवल्लभस्य तव भावः । भमा भमा बेरिव न तु तस्या विघटते मैत्री ॥ ४०८ ॥ बौद्धस्येति । बौद्धस्येव बढयो वल्लभा नायिका यस्य । पक्षे बहूनां वल्लभस्य भक्तिविषयस्य । तव यद्यपि भावश्चित्ताभिप्रायः, प्रेम वा। पक्षे पदार्थः। क्षणि- कोऽस्थिरः । बौद्धमतें तु. पदार्थस्य क्षणिकत्वादस्थिरत्वम् । तथापि भमा भन्ना आर्यासप्तशती। १७१ अरिव तस्या मैत्री न तु विघटते । एवं च भग्नभ्रुवोर्यथा चमत्काराधायकत्वं तथा तदीयकलहस्य प्रीतिजन्यतया तत्त्वमित्यवेहीति ध्वन्यते ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता बकारव्रज्या। -- । भकारव्रज्या। कश्चन दैन्यकारिणं महाकायमन्योक्त्या निन्दति- भ्रमसि प्रकटयसि रदं करं प्रसारयसि तृणमपि श्रयसि । धिड्यानं तव कुञ्जर जीवं न जुहोषि जठरामौ ॥ ४०९।। भ्रमसीति । हे कुञ्जर, भ्रमसि । दन्तं प्रकटयसि । रदमित्येकत्वमविवक्षि- नम् । करं शुण्डां हस्तं च प्रसारयसि । तृणमपि। अपिनानाश्रयणीयत्वमावेद्यते। आश्रयसि । अतस्तव मानं महापरिमाणं धिक् । उदरानले जीवं न जुहोषि। एवं बोदरपूर्त्यर्थमेताइक्करणमत्यन्तानुचितमिति व्यज्यते । अन्योऽप्युदरपूरणार्थ नीच. त्वमुपगत इतस्ततो भ्रमणादि करोतीति लौकिकम् ॥ लघोझटिल्लपकारः कर्तुं शक्योऽनेन न गौरववत इति कश्चित्कंचिद्वक्ति- भूतिमयं कुरुतेऽग्निस्तृणमपि संलग्नमेनमपि भजतः । सैव सुवर्ण दशा ते शङ्के गरिमोपरोधेन ।। ४१० ॥ भूतीति । संलग्नमपि । एवं च न चिरकालस्तद्विनाश इति भावः। तृणम- निर्भस्मरूपं कुरुते । विनाशयतीत्यर्थः । हे सुवर्ण, एनं भजतोऽपि चिरसंबन्धव- तोऽपि ते सैव दशा गुरुत्वानुरोधेनेति तर्कयामि । एवं चायमपकारकारक एव परं तु त्वं स्वगौरवबलादेव यथावस्थितोऽतिष्ठस्यतो नैनं सेवेयेति ध्वन्यते । यद्वौद्धत्य- विहीनैतत्सेवाकरणेऽत्यन्तमर्थावाप्तिरिति कश्चिदन्योक्त्या वक्ति । तृणमित्यनेन दीन- मित्यावेद्यते । अत्र समित्युपसर्गो नोचितः । ऐश्वर्यप्रचुरं कुरुते । सुवर्ण, एनं भजतस्ते गुरुत्ववत्त्वात्सैव दशा। एवं च त्वयौद्धत्येन नैतस्मात्किंचिदवाप्तमित्यावेद्यते॥ कश्चित्कांचित्प्रति संकेतं वक्ति- भवति निदाघे दीर्घ यथेह यमुनेव यामिनी तन्वी । द्वीपा इव दिवसा अपि तथा क्रमेण प्रथीयांसः ॥ ४११ ॥ भवतीति । इहैतस्मिन्निदाघे महत्तरे सति । दीर्घाः इति: पाठे पूर्वकाला- TOSADHANE WHAILEANLINKERALATARAKHARAJELCASHES काव्यमाला। - भिप्रायेण यामिनीविशेषणम् । यमुनेव रात्रिः स्वल्पा भवति । तथा क्रमेण द्वीपा इव । 'द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्' इत्यमरः । दिवसा महत्तरा भवन्ति। यमुनायास्तन्वीत्वकथनेन चरणसंचरणयोग्यत्वं व्यज्यते। द्वीपानां प्रथीयस्त्वकय- नेनानेककुजवत्त्वम् , तेन च तत्र क्रीडाविशेषसंपादनयोग्यत्वं ध्वन्यते। एवं चन रात्रेरतितनीयस्तया रतविशेषानर्हत्वेन, दिवसानामतिदीर्घतया दिवैव यमुनाद्वीप एव संकेतयोग्यस्तन्निश्चय एव विधेय इति द्योल्यते ॥ नायिकासखी नायकं वक्ति- भवता महति स्नेहानलेऽर्पिता पथिक हेमगुटिकेव । तन्वी हस्तेनापि स्पष्टुमशुद्धर्न सा शक्या ॥ ४१२ ॥ भवतेति । भवता महति प्रीतिरूपवह्नौ । एवं च त्वत्प्रीतेदुःखदत्वं ध्वन्यते। पक्षे तैलसंबन्धिवह्नौ यार्पिता सुवर्णगुटिकेव । एवं च नायिकायां गौराङ्गीत्वमा- वेद्यते। सा तन्वी हे पथिक प्रवासशालिन् । एवं चान्यथावुद्धियोग्यत्वं द्योत्यते । अशुद्धहस्तेन स्प्रष्टुमपि । एवं च हस्ते स्थापयितुं न शक्येति किं वक्तव्यामिति भावः। न शक्या । एवं चेयं त्वदासक्त्या नान्यं कमपि चित्तपथे करोतीति ध्वन्यते। तप्ततैले प्रक्षिप्ता. सुवर्णादिगुटिका सदोषैन स्प्रष्टुं शक्येति दिव्यादिव्यवहारः॥ कश्चित्सखायं वक्ति- भूमिलुलितैककुण्डलमुत्तसितकाण्डपटमियं मुग्धा । पश्यन्ती निःश्वासैः क्षिपति मनोरेणुपूरमपि ॥ ११३ ॥ भूमीति । भूमौ लुलितं संलग्नमेकं कुण्डलं यत्र । उत्तंसीकृतः काण्डपटो यत्र। पश्यन्तीयं मुग्धा निःश्वासैः । क्लेशजन्यैरिति भावः । मनोरेणुसमूहमपि क्षिपति। एवं चैतस्या एतादृशावलोकनेन मम मनोऽवतिष्ठते मयीति ध्वन्यते ॥ मूर्खाङ्गनाभिलाषिणं कंचन काचिदन्योक्त्या वदति- भवतालिङ्गि भुजंगी जातः किल भोगिचक्रवर्ती त्वम् । कञ्चुक वनेचरीस्तनमभिलषतः स्फुरति लधिमा ते ॥ ४१४ ॥ भवतेति । हे कञ्चुकं, येन भवता भुजंगी उरगी। पक्षे वेश्या । आलिङ्गिता, यस्त्वं निश्चयेन भोगिनामुरगाणाम् । पक्षे भोगोपचारशालिनाम् । समूहवर्ती, यद्वा तेषु राजा जातः । तस्य ते वनेचरी भिल्लकान्ता । पक्षे वनेचरीत्वेन मूर्खताशालित्वं m । DNIDIARRIA आर्यासप्तशती। १७३ ध्वन्यते । स्तन मित्येकत्वमविवक्षितम् । इच्छतो लाघवं स्फुरति । एवं च चतुरायाः संगतिं परित्यज्याचतुरासंगतीच्छा लाघवकारिणीति ध्वन्यते ॥ केनचित्कस्याश्चित्संकेतः कृत इति कश्चित्कंचिद्वक्ति- भैक्षभुजा पल्लीपतिरिति स्तुतस्तद्वधूसुदृष्टेन । रक्षक जयसि यदेकः शून्ये सुरसदसि सुखमस्मि ।। ४१५॥ भैक्षति । तस्य पल्लीपतेर्वध्वा सुदृष्टेन । सकामदृष्ट्यावलोकितेनेत्यर्थः । भिक्षा- संबन्ध्यन्नभोजनवता । एवं च प्रयासशून्यत्वेन पुष्टत्वाद्यभिव्यज्यते । पल्लीपतिः । एवं च चातुर्यविशेषाशालित्वं ध्वन्यते । इति स्तुतः स्तुतिविषयीकृतः। तामेवाह- रक्षक, सर्वोत्कर्षेण तिष्ठसि । यस्मादेक इतरशून्यः शून्ये मदतिरिक्तजनरहिते देवालये सुखमस्मि । एवं च त्वद्रक्षणसामर्थ्यान क्वापि कस्यापि भीतिरिति भावः । एवं च देवालये मयैकाकिना स्थीयते तत्र त्वयागन्तव्यमिति ध्वन्यते ॥ वृद्धेन स्त्रीसंग्रहो वसुसंग्रहो वा न विधेय इति कश्चित्कंचिद्वक्ति- भोगाक्षमस्य रक्षां दृङ्मात्रेणैव कुर्वतोऽनभिमुखस्य । वृद्धस्य प्रमदापि श्रीरपि भृत्यस्य भोगाय ॥ ११६ ॥ भोगेति । भोगो रतम् , स्रक्चन्दनादिकं च। तत्रासमर्थस्य । दृष्टिमात्रेण रक्षणं कुर्वतः । मात्रपदेन शरीरसामर्थ्याभावो ध्वन्यते । 'वामात्रेण' इत्यपि पाठः । अनभिमुखस्य, असामर्थ्यात्तत्कटाक्षनिरीक्षणासमर्थस्य, अर्थिपराङ्मुखस्य च । वृद्धस्य प्रकृष्टमदशालिनी नायिकापि लक्ष्मीरपि सेवकस्य भोगाय । एवं चैतदुभय- संग्रहोऽनर्थक एव तस्येति द्योत्यते ॥ भवितासि रजनि यस्यामध्वश्रमशान्तये पदं दधतीम् । स बलाद्वलयितजङ्घाबद्धां मामुरसि पातयति ॥ ४१७ ॥ भवितेति । हे रजनि, यस्यां त्वयि श्रमापनोदाय पदं दधतीम् । वलयिता या जङ्घा तया बद्धां मामुरसि पातयिष्यति, एतादृशी त्वं भवितासि । श्रमापनोद- नाय श्रान्तस्य चरणाद्युपरि चरणदानादि विधीयत इति लौकिकम् । पथिकाङ्गना- शंसनमेतत् ॥
काव्यमाला। किमित्यस्य गौरवादि न विधीयते त्वयेति वादिनी सखी नायिका वक्ति- भूषणतां भजतः सखि कषणविशुद्धस्य जातरूपस्य । पुरुषस्य च कनकस्य च युक्तो गरिमा. सरागस्य ॥ ४१८॥ भूषणतामिति । हे सखि, भूषणतां सर्वोत्कृष्टतां कटकादिरूपतां च भजतः। कषणेन चिरकालीनसंगल्या निकषोपलेन च विशुद्धस्य विज्ञातसकलस्वभावस्य विज्ञातशुद्धेश्च जातरूपस्य सुरूपस्य । यद्वा यतो रूपादिकमित्यर्थः । पक्षे सुवर्णस्य । 'चामीकरं जातरूपम्' इत्यमरः । सरागस्य प्रीतिमतः । पक्षे रागो लौहित्यम् । पुरुषस्य च, कनकस्य च, गरिमा गौरवम् । पक्षे परिमाणम् । युक्तम् । एवं चैतादृशस्यैव गौरवमुचितम्, अन्यादृशस्य नेति भावः ॥ खगुणैः प्रियवश्यताविधानदक्षाम् 'कार्मणेनानया पतिः खाधीनतामानीतः' इति सपत्नीभिः प्रोच्यमानां नायिका काचिदन्योक्त्या वक्ति- भसपरुषेऽपि गिरिशे नेहमयी स्वमुचितेन सुभगासि । मोघस्त्वयि जनवादो यदोषधिप्रस्थदुहितेति ॥ ४१९ ।। भस्मेति । भस्ममलिनेऽपि गिरिशे। एवमपि काठिन्यमावेद्यतेऽज्ञत्वं वा । तेन दुराराध्यत्वम् । स्नेहः प्रीतिस्तत्स्वरूपा, न तु प्रीतिकनी । प्रीतिप्रचुरेति कश्चित् । इत्युचितेन सुभगासि । परं तु यत्, ओषधीनां प्रस्थानि सानूनि यस्मिंस्तस्य दुहितेति । 'नुः प्रस्थः सानुरस्त्रियाम्' इत्यमरः । एवं चानया कार्मणबलेन पतिवै- श्यतामानीत इति जनवादः । जनपदमनिवारणीयतां ध्वनयति । मोघोऽलीकः एवं च त्वया नायकः खगुणैरेव स्वाधीनतां नीतः, न तु कार्मणबलेनेति व्यज्यते तेन च लोकस्य भ्रान्तत्वम् । तेन च तद्वचनस्याप्रामाण्यम् ॥ निकटस्थाया अपि नवोढाया उपभोगो दुःसाध्य इति कश्चिद्वक्ति- भयपिहितं बालायाः पीवरमूरुद्वयं मरोन्निद्रः । निद्रायां प्रेमाः पश्यति निःश्वस्य निःश्वस्य ॥ ४२० ॥ भयेति । बालाया भयेन । नवोढावभावसुलभेनेति भावः । आच्छादितं. पीवरं जङ्घाद्वयं प्रेमाः । प्रेमयुक्त इति यावत् । मदनोद्गतनिद्रो नायको निद्रायाम् । नायिकाया इति भावः । निःश्वस्य निःश्वस्य । संभोगाभावादिति भावः । पश्यति । यद्वा यस्य यत्र मनस्तदेव तेन निद्रायामपि दृश्यत इति कश्चित्कंचिद्वक्ति । निद्रायां । - आर्यासप्तशती । खस्येति भावः । एवं च जाग्रदृशायां यादृग्दृष्टं बालाया ऊरुद्वयं तागेव निद्रायां पश्यतीति भावः ॥ नायिकासखी नायकं वक्ति- भ्रमरीव कोषगर्भे गन्धहृता कुसुममनुसरन्ती त्वाम् । अव्यक्तं कूजन्ती संकेतं तमसि सा भ्रमति ॥ ४२१॥ भ्रमरीति । गन्धेन परिमलेन वाधीनीकृतचित्ता कुसुममनुसरन्ती कोषगर्भ भ्रमरीव त्वामनुसरन्ती । अव्यक्तम् । लोकभयादिति भावः । पक्षे कोषैराच्छादि- तत्वात् । कूजन्ती सा तमसि संकेतं भ्रमति । नायिकाया भ्रमरीसाम्येन नायके च कुसुमसाम्येन यथा कुसुमानुसरणं विना न गतिधमर्यास्तथा त्वदनुसरणं विना न गतिर्नायिकाया इति द्योत्यते॥ एतस्या मय्यनुरागश्चिरं स्थास्यति न वेति संशयानं नायकं नायिकासखी वक्ति- प्रामं भ्रामं स्थितया खेहे तव पयसि तत्र तत्रैव । आवर्तपतितनौकायितमनया विनयमपनीय ॥ ४२२ ॥ भ्राममिति । तत्र तत्र तद्विधानशालिनि । लोकोत्तर इति यावत् । तव स्नेहरूपे पयसि । पयःपदेन माधुर्याद्यभिव्यज्यते । पक्षे स्नेहयुक्ते जले । भ्रान्त्वा भ्रान्त्वा स्थितयानया विनयं नम्रतां विशिष्टनीति वा । पक्षे विशिष्टनयनम् । अपनीय । आवर्तेऽम्भसां भ्रमे पतिता या नौका तद्वदाचरितमेव । एवं च नान्यथा शङ्कनीय- मिति भावः । एवं च यथा जले स्थिता नौकावर्तपतिता ततोऽन्यत्र न गच्छति, तथेयं तव स्नेहे स्थिता नान्यत्र चित्तं करिष्यतीति व्यज्यते । तेन च सर्वथैवे. यमनुग्राह्येति ॥ काचित्कांचिद्वक्ति- भ्रमयसि गुणमयि कण्ठायोग्यानात्ममन्दिरोपान्ते । हालिकनन्दिनि तरुणान्ककुद्मिनो मेढिरज्जुरिव ॥ ४२३ ।।. १. अस्या आर्यायाः पुस्तकान्तरे तु व्याख्याभेदो यथा-'काचिदन्योक्त्या हलि- कवर्धू प्रत्याह-भ्रमयसीति । सौन्दर्यशालिनि । पक्षे तन्तुप्रचुरे । कण्ठग्रहयोग्याना. लिङ्गनयोग्यान् । पक्षे ताडनयोग्यान् । स्वगृहसमीपे नूतनान् । पक्षे यूनः । उच्चा- सान् । पक्षे बलीवर्दान् । मेढिरज्जुरिवेतस्ततः संचारयसि । सुरतस्थलाप्रात्येति भावः । 'गुणमय-' इति पाठे गुणप्रचुराश्च ते कण्ठग्रहयोग्याश्च तानित्यर्थः ॥' । । - १७६ काव्यमाला। . भ्रमयसीति । हे हालिकनन्दिनि । हालिकपदेन जातिशून्यत्वम् , तेन च कामुकागमनसौकर्यम् , विवाहयोग्येयं जातेति ज्ञानवैधुर्येण कंचित्कालं यथेच्छपर, पुरुषभोगसंपादनयोग्यत्वं ध्वन्यते । गुणाः सौन्दर्यादयः । पक्षे तन्तवः । स्वसद- ननिकटे कण्ठाहयोग्यानालिङ्गनयोग्यान् । पक्षे कण्ठबन्धनयोग्यान् । तरुणान् । मेढिरजुः । 'पुंसि मेढिः खले दारु न्यस्तं यत्पशुबन्धने' इत्यमरः । वृषभानिव भ्रमयसि । एवं चैते गृहमध्य एव कुतो नानीयन्ते भीतेरभावादिति भावः । 'गुणमय-' इति पाठे गुणप्रचुराश्च ते कण्ठग्रहयोग्याश्च तानित्यर्थः ॥ कश्चित्कंचित्प्रत्यन्योक्त्या वक्ति- भालनयनेऽग्निरिन्दुर्गौली गात्रे भुजंगमणिदीपाः । तदपि तमोमय एव त्वमीश कः प्रकृतिमतिशेते ॥ ४२ ॥ भालेति । हे ईश । एवं चोक्तदोषदानानहत्वं ध्वन्यते । यद्यपि तव ललाट- नेत्रे वह्निः, मस्तके चन्द्रः, शरीरे सर्पमणिरूपा दीपास्तथापि त्वं तमोमय एव । एनमर्थमर्थान्तरोपन्यासेन द्रढयति । स्वभावं कोऽतिकमते। न कोऽपीत्यर्थः अकाशकवस्तुबाहुल्येऽप्यन्धकारप्रचुरत्वमिति विरोधः । तदभावस्तु तमःपदस्य गुणविशेषवाचित्वात् । एवं च यद्यपि समीचीनसात्त्विकसंगतिस्तवास्ति, तथापि त्वदीयं खाभाविकं तमोगुणप्रकृतित्वं नापगच्छतीति व्यज्यते ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता भकारव्रज्या। । Pun मकारव्रज्या। आसक्तचित्तेनाङ्गनौद्धत्यमपि न गण्यत इति काचित्कंचिद्वक्ति- मधुमदवीतव्रीडा यथा यथा लपति संमुखं बाला । तन्मुखमजाततृप्तिस्तथा तथा वल्लभः पिबति ॥ ४२५ ॥ मध्विति । मद्यमदा । अत एव गतलज्जेति विग्रहः । मधुमदेन वीतव्रीडेति १. अत्रापि पुस्तकान्तरे व्याख्याभेदो यथा-'कश्चन भक्तः शिवं प्रति वक्ति- भालेति । एतादृशप्रकाशकसामग्रीसत्त्वेऽपि तमोरूपगुणमय एव । अमुमेवार्थ द्रढयति- कः स्वभावमतिशेते। त्यजतीत्यर्थः । एवं चाज्ञेयोऽसीति व्यज्यते । अथवा नायकीय- पराङ्गनासङ्गज्ञानोत्तरं विमनस्कां नायिकां सखी दृष्टान्तद्वारा समाधत्ते-तथा च यत्रे श्वरास्याप्येतादृश्यवस्था तत्र का वार्ता वाच्या त्वदीयनायकस्येति भावः ॥'
। Mummar आर्यासप्तशती। १७७ करणे मदपदमधिकमिवाभाति । बाला एवं च लजौचित्यमावेद्यते । यथा व्यथा संमुखम् । अर्थान्नायकस्य । वक्ति । वल्लभोऽजाततृप्तिः सन्बालामुखं तथा तथा सादरमवलोकयति। एवं च रसिकानां नायिकौद्धत्यकृतवचनरचनादिकं न दुःखदम्, अतस्त्वयैतादृशैतद्वचनादिना कोपो न विधेय इति ध्वन्यते ॥ सखी नायिका वक्ति- मित्रैरालोच्य समं गुरु कृत्वा कदनमपि समारब्धः। अर्थः सतामिव हतो मुखवैलक्ष्येण मानोऽयम् ॥ ४२६ ।। मित्रैरिति । मित्रैः समं विचार्य, महत्तरं कलहमपि कृत्वा, सम्यक् । आटो- पुपुरःसरमिति भावः । प्रारब्धः । अर्थ इव सतां सभ्यानां मुखवैलक्ष्येण । अस- म्यगिदमिति धियेति भावः । अयं मानस्तव मुखवैलक्ष्येण । प्रसादजन्येनेति भावः । हतः । एवं च यथा मित्रः समं विचार्य महत्तरकलहं विधायारब्धोऽर्थः सतां मुखवैलक्ष्यमात्रकरणेन विनष्टो भवति, तथा ते मानः प्रसादजन्यमुखवैलक्षण्य- तया विनष्टः। एवं च प्रसादचिह्न कंचित्कालं गोपयेति ध्वन्यते । यद्वा यथा विचार्य कलहादिकं च विधायारब्धः समीचीनानामर्थो मुखवैलक्ष्येण । स्वतः कृत्रिमत्वेन ज्ञानादिति भावः । अत एव सतामिति पदमुपयोगि । हतो भवति । लोकैर्मुखवै- लक्ष्येणान्यथानिर्णयादिति भावः । तथा ते मानः कथं समाधेयो दयितः' इत्यादि- चिन्ताजन्यमुखमालिन्येन हत इत्यर्थः । अथवा मित्रः समं मित्रतुल्यतया विचार्य । उपकारकत्वादिति भावः । मुखवैलक्ष्येणादैन्यादिवशादिति भावः । गुरु महत्तरं कदनं क्लेशादि कृत्वा सम्यगर्जितोऽप्यर्थो द्रव्यं सतां विवेकिनां दुःखदत्वादनादर- णीयो भवति । तथा मित्रत्वेन विभाव्यैवं चास्माकमनादरकरणं न तवोचितमिति व्यज्यते । मुखवैलक्षण्येन महत्तरं कलहं कृत्वा । एवं चान्यासां दुर्वचनादिरूपः कलहः, तव तु मुखवैलक्षण्यकरणमात्ररूप इत्यन्यनायिकाव्यतिरेकः सूच्यते । कृतोऽपि तवायं मानो हतो भवति दुःखदत्वादनादरणीयो भवति । एवं चैतादृश- मानविधानं तवानुचितमिति द्योत्यते ॥ कश्चिल्लज्जावशात्खकटाक्षविक्षेपसमयेऽन्यप्रदेशाभिमुखीं कांचिद्वक्ति- मम रागिणो मनस्विनि करमर्पयतो ददासि पृष्ठमपि । यदि तदपि कमलबन्धोरिव मन्ये खस्य सौभाग्यम् ॥ ४२७ ॥ ममेति । हे मनस्विनि प्रशस्तान्तःकरणे । एवं च कौटिल्याभावो व्यज्यते । १२ आ० स० ।
१७८ काव्यमाला। meanine रागिणोऽनुरागवतः । पक्षे लौहित्यवतः । करं हस्तम् । पक्षे किरणम् । समर्पयतो मम पृष्ठमपि यदि ददासि । लज्जावशान्मुखपरावर्तनादिति भावः। पक्षे 'पृष्ठतः सेवये. दम्' इत्युक्तत्वादिति भावः । तदपि कमलबन्धोरिव स्वस्याहं सौभाग्यं मन्ये। एवं चैतावताप्यहमात्मानं कृतार्थ मन्ये, किमु संमुखावलोकन इति भावः । एवं यथाकथं- चित्कुचस्पर्शार्थ करमर्पयतो मम पृष्ठदाने कूर्पासप्रन्थिमोचनानुमितिदानेनात्यन्ता- नुकूल्यं विहितं त्वयेति व्यज्यते ॥ पुष्पवतीवृत्तं कश्चित्सखायं वक्ति- मा स्पृश मामिति सकुपितमिव भणितं व्यञ्जिता न च ब्रीडा। आलिङ्गितया सस्मितमुक्तमनाचार किं कुरुषे ॥ ४२८ ॥ मेति । मा मां स्पृशेति सकुपितमिव । न वास्तवमिति भावः । भणितम् । लज्जा न च व्यजिता । पुष्पवत्त्वे ज्ञाते स्पर्शमयं न करिष्यतीति भावः। आलिङ्गि- तया । औत्कण्ट्यादिति भावः । आचारहीन, किं कुरुषे इति सस्मितम् । सुखो- द्रेकादिति भावः । उक्तम् । एवं च कामिनीनां सुरते सर्वदा सौख्यमिति ध्वन्यते । कश्चित्कांचिदन्योक्त्या वक्ति- मूलानि च निचुलानां हृदयानि च कूलवसतिकुलटानाम् । मुदिरमदिरा प्रमत्ता गोदावरि कि विदारयसि ॥ ४२९ ।। मृलेति । हे गोदावरि, मेघरूपा या मदिरा तयोत्कृष्टमदवती । एवं च कर्त- व्याकर्तव्यविवेकविधुरत्वं ध्वन्यते । वृक्षाणाम् । निकटस्थानामिति भावः । मूलानि च, तीरवसतिशालिकुलटानां हृदयानि च विदारयसि । वीचीभिः शिथिलकरणेन संकेतिततरून्मूलनेनेति भावः । कूलवसतिपदेन कुलटानामनन्यगतिकत्वं तद्धृदय- विदारकत्वानौचित्यं च ध्वन्यते । इदं किं नूचितमिति भावः । एवं चास्थिरद्रव्या- युन्मादवशात्परोपकारप्रवणानां निकटवसतिमात्रशालिनामितस्ततः समानीतानोप- जीविनां दुःखदानमनुचितं तवेति ध्वन्यते ॥ पाण्डित्यादिगुणशालित्वेऽपि जडाचाराभिरतं कश्चिदुपदिशति- मलयद्रुमसाराणामिव धीराणां गुणप्रकर्षोऽपि । जडसमयनिपतितानामनादरायैव न गुणाय ॥ ४३० ॥ मलयेति । मूर्खाचारपतितानाम् । 'समयाः शपथाचार-' इत्यमरः । पक्षे - Notes LATENANIYAMAHEREINE आर्यासप्तशती। १७९ शीतकालप्राप्तानाम् । चन्दनसाराणामिव धीराणां गुणानां पाण्डिसादीनाम् । पक्षे सौगन्ध्यादीनाम् । आधिक्यमपि । अपिरनादरानहत्वं गमयति । अनादरायैव न गुणाय । एवं च समीचीनस्याप्यसमीचीनाचारप्रविष्टस्य गुणाद्यपि निन्दाकरमेवे- त्यतस्त्वया नैवमाचरितव्यमिति व्यज्यते कस्याश्चिन्नायिकायाः साम्यं खस्मिन्कुर्वाणां कांचित्काचिदन्योक्त्या वक्ति- मधुमथनमौलिमाले सखि तुलयसि तुलसि किं मुधा राधाम् । यत्तव पदमदसीयं सुरभयितुं सौरभोद्भेदः ॥ ४३१ ॥ मध्विति । मधुमथनस्य श्रीकृष्णस्य मौलिसंबन्धशालिनि माले सखि । एवं च यथार्थवादाहत्वं ध्वन्यते । राधां वृथा किमिति तुलयसि स्वसमानां मन्यसे । अद्यस्मात्तव परिमलोद्रेकोऽदसीयं पदं राधासंबन्धिचरणं सुरभीकर्तुम् । श्रीकृष्णेन सर्वदा राधाचरणप्रणामकरणादिति भावः । एवं यथा तस्यां गौरवम्, न तथा वयीति ध्वन्यते । सौरभोद्भेद इत्यस्य प्राक्तवेति पदमुचितम् ॥ कश्चित्सखायं वक्ति- मयि यास्यति कृत्वावधिदिनसंख्यं चुम्बनं तथाश्लेषम् । प्रिययानुशोचिता सा तावत्सुरताक्षमा रजनी ॥ ४३२ ॥ मयीति । गन्तुकामे मय्यवधिदिनसमसंख्यं चुम्बनं तथालिङ्गनं कृत्वा प्रियया तावत्संख्याकसुरतसंपादनासमर्था रात्रिरनुशोचिता । एवं च स्त्रीणां रतेऽत्यन्त प्रीतिरिति भावः ॥ कश्चिद्वेश्यां स्तौति- मृगमदनिदानमटवी कुङ्कुममपि कृषकवाटिका वहति । हट्टविलासिनि भवती परमेका पौरसर्वखम् ॥ ४३३ ।। मृगेति । अटवी कस्तूरिकोत्पत्तिस्थानम् । कुङ्कुममपि कृषकवाटिका वहति । एवं च मृगमदकेसरयोर्वनवासशालितया न नागरिकज़नसुखदत्वमिति भावः । हे वाराङ्गने, एका भवती उत्कृष्टं पुरसंबन्धिलोकसर्वखम् । सुखविशेषप्रदत्वादिति भावः । यद्वा कस्तूरीकुङ्कुमयोरन्यत्रापि सत्त्वेन साधारणतया, वारविलासिन्यास्तु नगरमात्रवसतिशालितयाऽसाधारण्येन नागरिकात्यन्तस्पृहणीयत्वमिति भावः ॥ Namonal विशेषशालिन्यः । अमूल्या उत्कृष्टाः । पक्ष बहुतरद्रव्यलम्याः मम हृद-- १८० काव्यमाला। वसन्तसमयेषूद्दीपनोद्रेकातूष्णीमवस्थातुं न शक्यत इति काचित्कांचिद्वक्ति- मधुदिवसेषु भ्राम्यन्यथा यथा विशति मानसं अमरः । सखि लोहकण्टकनिभस्तथा तथा मदनविशिखोऽपि ॥४३४॥ मध्विति । हे सखि, वसन्तसमयेषु भ्राम्यन्सन् । मधुपदेन दुष्परिहरत्वं ध्वन्यते । यथा यथा चित्तं लोहकण्टकसदृशो भ्रमरो विशति तथा तथा मदन- बाणोऽपि । एवं च केनचित्सह मां योजयति ध्वन्यते । यद्वेतस्ततो मदर्थमेव परिभ्रमन्भ्रमर इव भ्रमरः । सारग्राहकत्वेनातिचतुरत्वादिति भावः । नायको यथा यथा मनसि समायाति तथा तथा लोहकण्टकसदृशः । एवं च व्यथकत्वम् । मद- नबाणोऽपि हृदयं प्रविशति । एवं चैतद्दर्शनेनाहं मदनशरविद्धा तद्योगं विनाव- स्थातुं न शक्नोमीति तेन सह मां योजयति ध्वन्यते ॥ नायको नायिका वक्ति- मयि चलिते तव मुक्ता दृशः स्वभावाप्रिये सपानीयाः । सत्यममूल्याः सद्यः प्रयान्ति मम हृदयहारत्वम् ॥ ४३५ ॥ मयीति । हे प्रिये, मयि प्रस्थिते मुक्ताः परित्यक्ताः । पक्षे मुक्ताफलानि । खभावात्स्त्रीखभावात् । पक्षे साहसिकतया । सपानीया अश्रुजलवत्यः । पक्षे तेजो- यस्य चेतसः । पक्षे वक्षसः । हारत्वमपहारकत्वम् । पक्षे हारभावं प्रयान्ति । इदं सत्यम् । एवं चैतादृशत्वद्विलोकनेनाहं गमनपराङ्मुखः संवृत्तोऽस्मीति व्यज्यते ॥ अहमत्यन्तमदनबाधाकान्तः संवृत्त इति कश्चित्कांचिदाह- मुग्धे मम मनसि शराः स्मरस्य पञ्चापि संततं लग्नाः । शके स्तनगुटिकाद्वयमर्पितमेतेन तव हृदये ॥ ४३६ ॥ मुग्ध इति । हे मुग्धे, स्मरस्य पञ्चापि बाणाः । अपिनान्यसत्त्वाभावो व्यज्यते । मम मनसि निरन्तरम् । एवं च सर्वमपि मनो विद्धमिति भावः । लमाः, न तु निर्गताः । अत एतेन मदनेन तव हृदये स्तनरूपगुटिकाद्वयमर्पित मित्यहं संभावयामि । शराभावादिति भावः । एवं च गुटिकावेदनायाः खल्पतया धैर्यम्, मयि नेति ध्वन्यते ॥ comin ।
आर्यासप्तशती। १८१ । - कश्चित्कांचिद्वक्ति- मधुमथनवदनविनिहितवंशीसुषिरानुसारिणो रागाः । हन्त हरन्ति मनो मम नलिकाविशिखाः स्मरस्येव ॥ १३७॥ मध्विति । श्रीकृष्णवदनविनिहिता या वंशी तद्रन्ध्रानुसारिणः शब्दा मदनस्य नलिकाबाणा इव मम मनः । हन्त खेदे । हरन्ति । एवं च वेणुध्वनिं श्रुत्वावस्थातुं न शक्यते, अतो द्रुतं प्रयाहीति ध्वन्यते॥ कयोश्चिन्मित्रयोरन्यतरं संगमयितुं दूती नायिका वक्ति- महतोः सुवृत्तयोः सखि हृदयग्रहयोग्ययोः समुच्छ्रितयोः । सज्जनयोः स्तनयोरिव निरन्तरं संगतं भवति ॥ ४३८ ॥ महतोरिति । श्रेष्ठयोः । एवं च परच्छिद्रप्रेक्षणानहत्वं ध्वन्यते । पक्षे महा- परिमाणशालिनोः । समीचीनाचरणयोः । एवं च लौकिकदुष्टशङ्काशून्यत्वमावेद्यते। पक्षे समीचीनवर्तुलयोः। हे सखि, हृदयग्रहयोग्ययोः चित्ते स्थापयितुं योग्ययोः। एवं चातित्रियत्वमावेद्यते । यद्वालिङ्गनयोग्ययोरित्यर्थः । पक्षे वक्षःस्थितिशालिनोः । समुच्छ्रितयोः। एवं च नवीनयौवनभाग्योदयादिशालित्वं द्योत्यते। पक्षे नवीनोदय- वत्त्वम् । सज्जनयोः स्तनयोरिव संगतं निरन्तरं भवति । एवं चोभयोरपि समानगु- णशीलतया न्यूनाधिकभावविरहेणोभयोर्मध्ये यं प्रत्यनुरागः स एवानुगृह्यतामिति ध्वन्यते । यद्वा कयोश्चित्सहचरयोर्मध्येऽन्यतरभीत्यान्यतरावलोकनमसम्यगिति मन्वानां नायिकां दूती वक्ति-एतयोरतितरां धीमत्त्वेन परस्परानन्दसंवर्धकतया नान्यतराशङ्का त्वया विधेयेत्यावेद्यते । स्तनयोरिवेत्यनेनैतत्संगतिविघटनमसंभवीति ध्वन्यते । कथमेतयोरतितरां संगतिरिति वादिनी कांचित्काचिद्वक्ति । समानगुण- शीलत्वादिति भाव इति वा । अथवा समानगुणशीलादिशालिनोः साहजिकी संगतिरिति कांचित्काचिद्वक्ति । कश्चित् 'एतादृशं नाचरणीयम्' इत्युपदेशकर्तारं सखायं वक्ति- मम वारितस्य बहुभिर्भूयो भूयः वयं च भावयतः । जातो दिशीव तस्यां सखे न विनिवर्तते मोहः ॥ ४३९ ॥ ममेति । बहुभिः । विवेकिभिरिति भावः । सुहृद्भिरिति वा । निवारितस्य । नैवं विधेयमिति भावः । खयं च मुहुर्मुहुर्विचारयतो मम दिशीव तस्यां जालो ।
काव्यमाला। CHO - मोहः प्रीतिभ्रमश्च हे सखे, नापगच्छति । एवं च यथा संजातदिग्भ्रमस्य न केनापि निवृत्तिः कर्तुं शक्या, तथैतस्यां ममोत्पन्नानुरागस्य । अतस्त्वदुपदेशोऽनर्थकः । अत एतत्करणाद्विरमेति ध्वन्यते ॥ पराङ्गनातिलम्पटतयापकी. स्वजनपरित्यक्त कंचन कश्चिदन्योक्त्या वक्ति- मनोऽसि नर्मदाया रसे हृतो वीचिलोचनक्षेपैः । यधुच्यसे तरुवर भ्रष्टो भ्रंशोऽपि ते श्लाघ्यः ॥ ४४० ॥ मनोऽसीति । हे तरुश्रेष्ठ । एवं च नीचस्यैतादृशाचरणे न किंचिदसम्यगिति ध्वन्यते । नर्मदाया नद्याः। नर्म ददातीति व्युत्पत्त्या कलाकलापवत्त्वमावेद्यते नायिकायाम् । तरङ्गरूपकटाक्षः, अथ च वीचीतुल्या ये लोचनक्षेपास्तैहतो रसे जले शृङ्गारादौ च मनोऽसि । एवं चानन्दनिमनमानसतया लोकनिन्दाज्ञानवैधुर्य- मावेद्यते । भ्रष्ट इति यद्युच्यसे । लोकैरित्यर्थः । अत्र कनुपादानेन सर्वेऽपि त्वां निन्दन्तीति व्यञ्जनेन न न्यूनपदत्वमाशङ्कनीयम् । तर्हि ते भ्रंशोऽपि श्लाघाहः नायिकाया लोकोत्तरसौन्दर्यादिगुणशालितयति भावः । एवं चैतादृशं निन्धकर्मापि चेत्कर्तव्यं तातादृशनायिकया सहेति ध्वन्यते ॥ पाणिग्रहणसमयसंजातसात्त्विकभावोदयं कंचन कश्चिद्वक्ति- मेनामुल्लासयति स्मेरयति हरि गिरि च विमुखयति । कृतकरबन्धविलम्बः परिणयने गिरिशकरकम्पः ॥ ४११ ॥ मेनामिति । विवाहकाले संपादितपाणिग्रहणविलम्बो गिरिशस्य हस्तकम्पो मेनां पार्वतीमातरमुल्लासयति स्मेत्यर्थः । एवमुत्तरत्र । कामोद्रिक्तजामातृलाभादिति भावः । विष्णुं स्मेरयति । अत्यन्तप्रकटितवैराग्यस्याप्यस्यैतादृश्यवस्थेति कुतुकादिति भावः । हिमालयं च विमुखयति । लज्जावशादित्यर्थः । एवं चैतादृश्यवस्थावश्यं मह- तामपि भवतीति न त्वया कापि लज्जा विधेयेति ध्वन्यते ॥ मधुगन्धि धर्मतिम्यत्तिलकं स्खलदुक्ति पूर्णदरुणाक्षम् । .. तस्याः कदाधरामृतमाननमवधूय पास्यामि ॥ ४४२ ॥ मध्विति । मद्यगन्धवत् , अस्खेदाईतिलकम् , स्खलदुक्ति । सोन्मादत्वादिति भावः। घूर्णदरुणनयनम् , तस्या बुद्धिस्थनायिकाया मुखमवधूयं तिरस्कृत्य । अचुम्बयित्नेति भावः । अधरामृतम् । इत्तरोष्ठपाननिषेधादिति भावी पास्यामि। ।
आर्यासप्तशती । pes OPPED एवं चैतादृशवदनचुम्बनादप्यधरपानमधिकमिति व्यज्यते । यद्वा मधुगन्धादिगुण- युक्तमाननमवधूय कम्पयित्वा । स्थिताया इति शेषः । तस्या अधरामृतं पास्यामीति योजना । पथिकाशंसनमेतत् ॥ काचिकांचिद्वक्ति- मेदिन्यां तव निपतति न पदं बहुवल्लभेति गर्वेण । आश्लिष्य कैन तरुणैस्तुरीव वसनैर्विमुक्तासि ॥ ४४३ ।। मेदिन्यामिति । अहं बहूनां वल्लभेति गर्वेण तव पदं भूमौ न निपतति । कैस्तरुणैरालिङ्गय वस्त्रैस्तुरीव न विमुक्तासि । उपसर्गेण पुनः कदापि न संबन्ध इत्यावेद्यते । उत्तरोत्तरनायकवल्लभात्वे पूर्वपूर्वनायकवल्लभात्वाभावस्य हेतुतया तस्य च गुणशून्यत्वज्ञानाधीनतया न तवानेकवल्लभात्वेन गर्वकरणमुचितम्, अपितु यस्यामेव कलाकलापाकृष्टो नायको निमनमानसस्तस्या एव गर्वकरणमुचितमिति ध्वन्यते ॥ परपुरुषेष्वभिरतिमुत्पादयितुं दूती नायिका वक्ति- मूले निसर्गमधुरं समर्पयन्तो रसं पुरो विरसाः । इक्षव इव परपुरुषा विविधेषु रसेषु विनिधेयाः ॥ ४४४ ॥ मूल इति । मूले । आनन्दनिदशने रहसीति यावत् । पक्षे यथाश्रुतम् । खभावमधुरम् । एवं चौपाधिकमधुररसदातारोऽन्य इति भावः । रसे रत्यादिकम् । पक्ष इक्षुविकारम् । सम्यगपर्यन्तः । एवं चान्यत्र समर्पणेऽपि न सामीचीन्यमिति भावः । एवं च परपुरुषातिरिक्तपुरुषाणां रतं. न खतो मधुरम् , न वा ते तत्कलासु कुशला इत्यावेद्यते । पुरो जनसमक्षम् । पक्षेऽप्रभागे। विस्साः । लोकभीतेरिति भावः । एवं च लोकवञ्चनानिपुणत्वेनातिविज्ञत्वमावेद्यते । परपुरुषा इक्षव इवानेक- रसेषु विविधरतादौ । पक्षेऽनेकविधमधुरप्रकारादौ । विशेषेण स्थाप्याः । एवं च परपुरुषेष्वभिरुचिरतितरामुचितेति ध्वन्यते। यद्वा काचित्परपुरुषाभिरतिं निन्दति । विविधरसेषु स्थापयितुं योग्याः परपुरुषा इक्षव इव मूले प्रथमतः खभावेन मधुरं रसं प्रीत्यादि समर्पयन्तोऽग्रे विरसा भवन्ति । एवं च 'प्राशास्तत्कर्म कुर्वन्ति येनान्ते सुखमेधते' इत्युक्तत्वात्प्रान्ते परपुरुषसंगतेरनिवार्यदुःखदत्वेन तत्करणम- नुचितमिति द्योत्यते । यद्वा प्रथमतः सरसाः प्रश्चान्नीरसाः परपुरुषा विविधरसेषु विनिधेया इति काका नेत्यर्थः ।।
काव्यमाला। । काचित् 'नायक किमर्थमवगणयसि' इति वादिनी सखीं वक्ति- महति स्नेहे निहितः कुसुमं बहु दत्तमर्चितो बहुशः । वक्रस्तदपि शनैश्चर इव सखि दुष्टाहो दयितः ॥ १४५ ॥ महतीति । यद्यपि महति बहुतरे स्नेहे प्रेम्णि । पक्षे तैले । निहितः । तस्मि- न्प्रेम बहुतरं संपादितमिति भावः । पक्षे लोहमयी शनैश्चरप्रतिमा बहुतरतैले स्थाप्यत इति भावः । कुसुमम् । एकत्वमविवक्षितम् । बहुवारं दत्तम् । यद्वा बहु कुसुममित्यन्वयः । बहुप्रकारं पूजितस्तदपि दुष्टो ग्रह आग्रहो यस्य । पक्षे दुष्ट- श्वासौ ग्रहश्चेति विग्रहः । वक्रः ऋजुर्न । पक्षे वक्रोऽन्यराशिस्थितोऽन्यराशिसंचर- गवान् । शनैश्चर इव । एवं चैतादृशशनेः पूजादिनापि नानुकूल्यं यथा तथास्य नायकस्य । अतो न ममापराध इति ध्वन्यते ॥ कांचिन्नीचजनसेवितां यौवनगर्वितां काचिदन्योक्त्या वक्ति- मा शबरतरुणि पीवरवक्षोरुहयोभरेण भज गर्वम् । निर्मोकैरपि शोभा ययोर्भुजंगीमिरुन्मुक्तैः ॥ ४४६ ॥ मा शबरेति । शबरस्य तरुणि । एवं च खतो गुणाभावेऽपि नायकस्यापि निर्गुणतया तत्संगतिलभ्यगुणवत्ताभावो व्यज्यते । मांसलतनयोभरेण गर्व मा भज । भुजंगीभिरुरगीभिरथ च वेश्याभिः परित्यक्तैरपि । एवं चानादरो द्योत्यते। निर्मोकैर्ययोः शोभा । एवं च कदर्यजनसेवितत्वेन न त्वया गर्वः कार्य इति व्यज्यते ॥ 'कथं त्वया मानः परित्यक्तः' इति वादिनी सखीं नायिका वक्ति- मम कुपितायाश्छायां भूमावालिङ्गय सखि मिलत्पुलकः । स्नेहमयत्वमनुज्झन्करोति किं नैष मामरुषम् ॥ ४१७ ॥ ममेति । हे सखि, कोपवत्या मम च्छायां भूमावालिङ्ग्य संजातरोमाञ्चः प्रीतिप्रचुरत्वमपरित्यजन्नेष मां क्रोधरहितां किं न करोति । अपि तु करोति । एवं वैतादृशैतदृत्तमवलोक्य मानः परित्यक्तो मयेति व्यज्यते । यद्वा शिथिलितकोपा नायिका सखी वक्ति-कुपिताया मम च्छायां भूमावालिङ्गय संजातरोमाञ्चः प्रीति- प्रचुरत्वमपरित्यजन्मामपगतरोषां हे सखि, किं न करोति, किं न करिष्यतीति प्रश्नः । वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यत्सपि लट् । एवं च हे सखि, - FASHTRAMANANARASIYA आर्यासप्तशती। and- वं तथा कुरु यथायं मम च्छायायाः प्रणिपातादिना मामनुयातीति वन्यते । कचित् 'मापरुषम्' इति पाठः । नायिका चेयं परकीया ।। कश्चित्सखायं वक्ति- मुषित इव क्षणविरहे रिपुरिव कुसुमेषुकेलिसङ्ग्रामे । दास इव श्रमसमये भजन्नताङ्गी न तृप्यामि ॥ ४४८ ॥ मुषित इति । क्षणमात्रसंजातविरहे मुषित इवाविद्यमान इव । मन्मथकला- युद्धे शत्रुरिव । श्रमकाले सेवक इव नताङ्गी भजन्न तृप्यामि । विरहासहिष्णुत्वप्र- चण्डरतकलाशालित्वतदाज्ञानुवर्तित्वानि क्रमेण मुषित इवेत्यादित्रयेण व्यज्यन्ते । एवं चैतादृशी नायिका नान्येति ध्वन्यते ॥ अनुनयानेकप्रकारकरणेऽप्यधिककोपशालिनी नायिकामवलोक्यानुनयनिर्विण्ण- हृदयं नायकं सखी समुपदिशति- मुञ्चसि किं मानवती व्यवसायाद्विगुणमन्युवेगेति । स्नेहभवः पयसामिः सान्त्वेन च रोष उन्मिषति ॥ ४४९ ॥ मुश्चसीति । व्यवसायात्सान्त्वनप्रकाराद्विगुणकोपवेगेति हेतोर्मानवतीं मुञ्चसि,! इदं किम् । नोचितमिति भावः । अत्रोपष्टम्भकमाह-लेहभवः प्रीतिजन्यः । पक्षे तैलजन्यः । कोपोऽनुनयेन, अग्निर्जलेनोन्मिषति । अधिको भवतीत्यर्थः । एवं चैतस्याः कोपः प्रीतिपूर्वक एव, अतो त्वमेतस्याः समाधानाद्विरमेति ध्वन्यते ।। इतरसंतापात्कामसंताप एवाधिक इति कश्चित्कंचिद्वक्ति- मलयजमपसार्य धनं वीजनविघ्नं विधाय बाहुभ्याम् । स्मरसंतापादगणितनिदाघमालिङ्गते मिथुनम् ॥ ४५० ॥ मलयजमिति । भुजाभ्यां चन्दनं दूरीकृत्य, घनमत्यन्तं वीजनस्य विनं विधाय, मदनसंतापक्शादनादृतधर्मकालीननिदाघम्, स्त्रीपुंसद्वन्द्वमालिङ्गते । 'विहाय' इति पाठे वीजनामिन्नं विघ्नमित्यर्थः । निदाघकालीनसंतापदुःखमगण- यित्वा सद्यः प्रयाहि दयितासविधे इति द्योत्यते ॥ कश्चित्कंचिच्छरणागतस्तेन चारक्षितस्तं वक्ति- महतोऽपि हि विश्वासान्महाशया दधति नाल्पमपि लघवः । संवृणुतेऽद्रीनुदधिनिदाघनद्यो न भेकमपि ॥ ४५१ ।। महत इति । महाशयाः श्रेष्ठाः । पक्षे गभीराः। विश्वासाद्विनिश्चितं महतोऽपि m काव्यमाला। । श्रेष्ठांनपि । एवं चैतद्रक्षणे क्लेशवत्त्वेऽपि न तं महान्तः परिगणयन्तीति द्योत्यते । पक्षे महापरिमाणान् । एवं च गोपने क्लेशवत्ता ध्वन्यते। दधति स्थापयन्ति । लघवो नीचाः । पक्षे स्वल्पपरिमाणशालिनः । अल्पमपि । एवं च संरक्षणे सुकर- त्वमावेद्यते । न दधति । अर्थान्तरन्यासेनामुमेवार्थ द्रढयति-समुद्रोऽद्रीन्गोपयति। अद्रीनित्यनेन खदुःखदमन्दरसजातीयतया द्वेषवत्त्वेऽपि, इन्द्ररूपशत्रुसत्त्वेन भीति- करणौचित्येऽपि च तदगणनेन महत्तरत्वमावेद्यते। निदाघकालीननद्यो मण्डूकमपि न गोपयन्ति । मेकपदेन खजीवनाधीनजीवनतया तथाविधशत्रुशून्यतया च रक्षणौ- चित्यमावेद्यते । एवं च महान्तएव महत्तरशत्रुमवधूयापि शरणागतं पालयन्ति न क्षुद्रा इति ध्वन्यते ॥ आरब्धमानां नायिका नायको वक्ति- मधुधारेव न मुञ्चसि मानिनि रूक्षापि माधुरी सहजाम् । कृतमुखभङ्गापि रसं ददासि मम सरिदिवाम्भोधेः ॥ ४५२ ॥ मध्विति । हे मानिनि । एवं च रूक्षत्वादिकरणौचित्यमावेद्यते । माक्षिक- धारेव रूक्षापि स्नेहाभाववत्यपि खाभाविकी माधुरी न त्यजसि । सहजामित्यनेन तत्परित्यागस्य कर्तुमशक्यत्वमावेद्यते । वक्रीकृतवदनापि त्वं जलधेर्नदीव मम रसं प्रीतिम् । पक्षे जलम् । प्रयच्छसि । मानश्वायं लघुः ॥ वीणावादनकारिणी नायिका सुरतोत्कण्ठितो नायकस्तन्निरसनाय वक्ति- मदनाकृष्टधनुर्व्याघातैरिव गृहिणि पथिकतरुणानाम् । वीणातन्त्रीकाणैः केषां न विकम्पते चेतः ॥ ४५३ ।। मदनेति । हे गृहिणि । एवं च दयावत्त्वौचित्यमावेद्यते । मन्मथांकृष्टचाप- ज्याघातैरिव वीणातन्त्रीशब्दैः केषां पथिकतरुणानां चेतो न विकम्पते। अपि सर्वेषाम् । एवं चैतादृशत्वदीयवीणावादनश्रवणेन पथिकप्राणाः प्रयास्यन्ति, अतो विरम वीणावादनादिति द्योत्यते । न विकल्पते' इति पाठे जीवनं भविष्यति न वेति संदेहवद्भवतीत्यर्थः ॥ नायकः सखायं वक्ति- ! : मम भयमस्याः कोपो निवेदोऽस्या ममापि मन्दाक्षम् ।। जातं क चान्तरिक्षे स्मितसंवृतिनमितकंघरयोः ॥ १५४ ॥ भिमेति । क्व चान्तरिक्ष क्वचिन्मार्गमध्ये स्मितगोपनार्थ नमितग्रीवयोः ।रान्य- आर्यासप्तशती। १८७ - नुभूतविलासस्मरणजन्यदर्शनसमसमयस्मितस्य परकीयाविषयकत्वेन. गोपनमावश्य- कामिति भावः । आवयोर्मध्ये मम भयम् । किमिति मया जनस्य प्रेमावेदकमिदं स्मितं कृतमिति धियेति भावः । अस्या इति परोक्षायामपि नायिकायामपरोक्षवनिर्दे- शोऽत्यन्ततदेकतापन्नत्वमावेदयति । नायके कोपः । किमित्यहितं. विहितं स्मित- मादावनेनेति धियेति भावः । अस्या निर्वेदः खावमानना । किमेतादृशेऽतिस्निग्धे विदग्धे कोपमकरवमिति धियेति भावः । अपिश्चार्थः। मम च मन्दाक्षं लज्जा । कथमविदग्धः कोपमीदृश्या अप्यकरवमिति धियेति भावः । जातमिति सर्वान्वयि एवं चैतादृशगुणविशेषशालि पराङ्गनासंगतं भवतीति व्यज्यते ॥ नायकः 'अत्यन्तासक्तायां तस्यां न तवासक्तिः, एतस्यां सात्यन्तं किमिदम्' इति वादिनं सखायं वक्ति- मुक्ताम्बरैव धावतु निपततु सहसा त्रिमार्गगा वास्तु। इयमेव नर्मदा मम वंशप्रभवानुरूपरसा ॥ ४५५ ।। मुक्तेति । हे सखे, सा मुक्तमम्बरं वासो यया। पक्षेऽम्बरमाकाशम् । धावतु । पततु । चरण इति भावः । पक्षे भूमाविति भावः । त्रिमार्गगा वास्तु । यत्किचि- तस्या भवत्विति भावः । पक्षे स्वर्गमृत्युपातालगा । मम समीचीनवंशजन्या चासा- वनुकूलरतिमती । पक्षे वंशो वेणुः । नर्मदायास्तत उत्पत्तेः । रसो जलम् । इयमेव नर्मदा सुखदात्री । पक्षे नदीनाम । एवं चेयमेव मह्यं रोचते, न सेति ध्वन्यते । यद्वा यद्यप्यासक्ति प्रदर्शयति तथाप्यनेकमार्गगामिन्यतोऽस्तु । तिष्ठत्वित्यर्थः । सद्वंशप्रभवत्वेनेयमनेकमार्गगामित्वाभावान्मम सुखदा । एवं च तस्या अनेकगामि- तया प्रेमप्रदर्शनं कृत्रिममिति भावः ।। दूती नायिका वक्ति- मृगमदलेपनमेनं नीलनिचोलैव निशि निषेव त्वम् । कालिन्यामिन्दीवरमिन्दिन्दिरसुन्दरीव सखी ॥ ४५६ ॥ । मृगेति । हे सखि, कस्तूरीलेपवन्तमेनं नायकं नीलवस्त्रैव रात्रौ सेवय । एवं च कृष्णाभिसारिकात्वमेव तवोचितमिति भावः । कालिन्धी नीलकमलं भ्रमरसुन्द- रीव । एवं च त्रयाणामप्येकरूपत्वान केनापि-किमपि ज्ञातुं शक्यमिति ध्वन्यते ॥ ।
१८८ काव्यमाला। । सखी कंचन नायक खनायिकाचातुरी वक्ति- मम सख्या नयनपथे मिलितः शक्तो न कश्चिदपि चलितुम् । पतितोऽसि पथिक विषमे घट्टकुटीयं कुसुमकेतोः ॥ ४५७ ॥ ममेति । हे पथिक । एवं चान्यमार्गानभिज्ञत्वेन चिरविरहशालितया तूष्णीमत्रावस्थितिरुचितेति ध्वन्यते । मम सख्याः कटाक्षविषयीभूतः कश्चिदपि । एवं च तव का वार्तेति भावः । गन्तुं न शक्तः । एवं चैतत्सौन्दर्याद्यालोकनेन के नासक्ता जाता इति भावः । अतस्त्वं विषमे पतितोऽसि । यतः 'कस्य ब्रह्मणोऽपि दुर्गमे पथि' इति पदच्छेदेन योज्यम् । इयं विषमशरस्य मदनराजस्य घट्टकुटी । एवं च त्वयात्रावस्थेयमित्यावेद्यते ॥ सखी नायकं वक्ति- महता प्रियेण निर्मितमप्रियमपि सह्यतां याति । सुतसंभवेन यौवनविनाशनं न खलु खेदाय ॥ ४५८ ॥ महतेति । अत्यन्तप्रेमवता कृतमप्रियमपि सुभग सह्यतां याति न दुःखद- मित्यर्थः । अपिना सह्यत्वमावेद्यते । अर्थान्तरन्यासमाह---पुत्रोत्पत्त्या तारुण्य- नाशनं दुःखाय नेति निश्चितम् । एवं च नान्यथा शङ्कतीयमिति भावः । एवं चं प्रियानिर्मिताप्रियेण खेदकरणमनुचितमिति ध्वन्यते । यद्वा खापराधजन्यातिभीत्या नायिकादर्शनोदासीनं नायक नायिकासखी वक्ति-सुभग । एवं च तवापराधेऽपि सा वामपेक्षते, अतस्त्वमत्यन्तं धन्योऽसीति चोयते । एवं चात्यन्तप्रेमवती सा स्वयि, अतस्त्वत्कृतापराधान गणयति, अतस्त्वं भीतिमुत्सृज्य तस्याः सविधे प्रयाहीति वन्यते ॥ नायको नायिकासखीं वक्ति- मानग्रहगुरुकोपादनु दयितात्येव रोचते मह्यम् । काञ्चनमयी विभूषा दाहाञ्चितशुद्धभावेव ॥ १५९ ।। मानेति । मानाङ्गीकारेण महान्यः क्रोधस्तदनन्तरं दयिता मह्यमत्येव रोचते। दाहेन प्रकटितशुद्धरूपा सुवर्णविकारविशिष्टभूषेव । एवं च यथा दाहादिना सुवर्ण- भूषणस्य नैर्मल्यं तथा मानापगमोत्तरं नायिकाया नैर्मल्यम् । अतो न त्वत्कृतमाना- विशयेन मम दुःखम् । अपि तु सुखमेवेति ध्वन्यते। तेन च मानस्यास्थिरत्वम् । इत्खनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता मकारवज्या । indian TMER आर्यासप्तशती। १८९ me - sip यकारवज्या। दूती नायके नायिकासक्त्यतिशयं वक्ति- यूनः कण्टकविटपानिवाञ्चलग्राहिणस्त्यजन्ती सा । वन इव पुरेऽपि विचरति पुरुषं त्वामेव जानन्ती ॥ ४६०॥ यून इति । सा नायिका कण्टकवृक्षानिव चेलाञ्चलग्राहकांस्तरुणांस्त्यजन्ती खामेव पुरुषं जानाना वन इव नगरेऽपि विचरति । यून इत्यनेन स्पृहणीयत्वम् , कण्टकविटपानिवेत्यनेन स्वाभाविकबलात्कारित्वेऽपि तदगणनेनातिसतीत्वमावेद्यते । वन इवेत्यनेन यूनां बाहुल्यम् , सभीतिसंचरणशालित्वं च नायिकायामावेद्यते। पुर इत्यनेनावश्यसंचरणानहत्वं द्योत्यते । अपिनान्यसंग्रहः । पुरुषमित्यनेन मन्मथ- कलाकलापकुशलत्वम् , अथवान्ये स्त्रीतुल्या इत्यत्यन्तानादरोऽन्ययुवस्विति व्यज्यते। एवं च सर्वत्र सर्वेऽपि तस्यामत्यन्तासक्ताः सा तु त्वय्येवेति ध्वन्यते ॥ कश्चिद्गुणी दरिद्रः कस्मिंश्चित्समुदाये गतस्तत्र वसतिमलभमानस्तान्वक्ति युष्मासूपगताः स्मो विबुधा वाङ्मात्रपाटवेन वयम् । अन्तर्भवति भवत्खपि नाभक्तस्तन्न विज्ञातम् ॥ ४६१ ॥ युष्माखिति । भोः पण्डिताः, वाङ्मात्रपाटवेन पाण्डित्यमात्रबलेन वयं भव- त्सविधे समागताः स्मः । 'विद्वानेव विजानाति विद्वज्जनपरिश्रमम्' इति धियेति भावः । भवन्मध्येऽभक्तोऽन्नरहितः । दरिद्र इति यावत् । नान्तर्भवतीति विज्ञात- मपि न । अपिनानुभूतमिति किं वक्तव्यमिति व्यज्यते । अत्रोपसर्गस्य न तथा प्रयोजनम् । यद्वा यथास्थित एवापिः । एवं चान्तर्भवनयोग्यत्वमावेद्यते । एवं च न पाण्डित्यग्राहिणो भवन्तः, किं तु द्रव्यलुब्धा इति द्योत्यते । एवं च द्रव्येणैव सर्वत्र प्रतिष्ठा, न पाण्डित्यमात्रेणेति । यद्वा भक्तिरहित इत्यर्थः। एवं च यो भवदीय- सेवां करोति स एव भवत्सु समावेशमाप्नोति, न तु पाण्डित्यमात्रशालीति भावः ॥ नायको वक्ति- यत्र न दूती यत्र स्निग्धा न दृशोऽपि निपुणया निहिताः । न गिरोऽद्यापि व्यक्तीकृतः स भावोऽनुरागेण ॥ ४६२ ॥ यत्रेति । यत्र न दूती प्रेषितेति भावः । प्रेमाः कटाक्षा अपि न कृताः। गिरोऽपि न । स भावोऽभिप्रायो निपुणया । सकलजनवञ्चकत्वादिति भावः ।
काव्यमाला। । अनुरागेण व्यक्तीकृतः । एवं चातिनिगूढनिजकार्यसाधकतयानया सदृशी न काप्य- न्येति ध्वन्यते । यत्र भावे दूती न प्रकटनसमर्थति भावः । यत्र निहिताः प्रेरिताः प्रेमार्दा दृशोऽपि न । स्निग्धा वाचोऽपि न प्राकट्यसंपादिका इति भावः । स भावो रसानुकूलविकारो निपुणया । समयज्ञत्वादिति भावः । प्रीत्या प्रकटीकृतः । एवं च योऽनुभावो मत्प्रेषितदूतीप्रेषणादिव्यापारैर्न प्रकटीकृतः, स भावोऽद्य स्वयं समयविशेषमासाद्य व्यक्तीकृत इति लोकोत्तरचातुर्यशालित्वमावेद्यत इति वार्थः 'स भावोऽनुगमनेन' इति पाठे तन्मरणोत्तरं तत्प्राणपरित्यागेनेयमस्मिन्नास- तेति ज्ञातमित्यर्थः । क्वचित् ‘स जारोऽनुमरणेन' इति पाठः ॥ सपत्न्यधीनत्वादिकमसम्यगिति काचित्कांचिद्वक्ति- या नीयते सपल्या प्रविश्य यावर्जिता भुजंगेन । यमुनाया इव तस्याः सखि मलिनं जीवनं मन्ये ॥ ४६३ ॥ या नीयत इति । सपत्या पतिप्रियान्तरया । पक्षे गङ्गया। नीयते । पति- सविध इति भावः । यक्षे समुद्रसविधे । भुजंगेन । पक्षे सर्पण । प्रविश्य यावर्जिता खाधीनीकृता । यमुनाया इव तस्या जीवनं जीवितम् । पक्षे जलम् । सखि, मलिनं निन्द्यम् । पक्षे श्यामम् । मन्ये । एवं चैतादृशतया स्थेयं नायिकया येनोपायेन गृहे सर्वाधिकतयावस्थानं भवतीति ध्वन्यते । यमुनाजलं श्याममिति कविसंप्रदायः ॥ दूती नायिका केनचिन्नायकेन सह संगमयितुं वक्ति- यस्मिन्नयशोऽपि यशो हीर्विघ्नो मान एव दौःशील्यम् । लघुता गुणज्ञता किं नवो युवा सखि न ते दुष्टः ॥ ४६४ ॥ यस्मिन्निति । यस्मिन्यद्विषये तेऽकीर्तिरपि कीर्तिः । लज्जा विघ्नः । मानकर- णमेव दुःशीलता । एवकारेण तत्कार्यविरुद्धवचनादेः का वार्तेति भावः । लाघवं गुणप्रवणता । एतादृशो नूतनः। एवं चावश्यकग्राह्यदर्शनयोग्यत्वं व्यज्यते । तरुणः। एवं च स्पृहणीयत्वमावेद्यते । हे सखि । एवं च हितकथनाहत्वं द्योत्यते । किं न दृष्टः । त्वयेति शेषः । एवं चैतादृशो गुणरूपयौवनादिसंपन्नो नान्योऽस्ति नायकः।। अत एतद्दर्शनाय त्वरस्वेति ध्वन्यते । अथवा त्वत्संबन्धी युवासाभिः किं न दृष्टः । अपि तु दृष्टः । एवं च सम्यक्त्वया संपादितं यदेतादृश आसक्तिः संपा- दिनेति: ध्वन्यते । इति सखीवाक्यम् ॥ ।
आर्यासप्तशती। । खलानां माहात्म्यदर्शनेनापि न विश्वासो विधेय इति कश्चिद्वक्ति- यद्वीक्ष्यते खलानां माहात्म्यं वापि दैवयोगेन । काकानामिव शौक्लयं तदपि हि नचिरादनाय ॥ ४६५॥ यदिति । अदृष्टवशात्वचिद्दुष्टानां यन्महत्त्वं दृश्यते तदपि काकानां शौक्लय- मिव नचिराच्छीघ्रमनाय । एवं च दुष्टस्वभावानामदुष्टखभावप्रदर्शनमकार्योद्देशे- नैवेति व्यज्यते॥ खला एव प्रेमविघटितार इति काचित्कांचिद्वक्ति- यत्खलु खलमुखहुतवहविनिहितमपि शुद्धिमेव परमेति । तदनलशौचमिवांशुकमिह लोके दुर्लभं प्रेम ॥ ४६६ ॥ यदिति । यत्खलवदनरूपो यो वह्निस्तत्र क्षिप्तमपि शुद्धिमेव । एवकारेण विनाशव्यवच्छेदः । एति प्राप्नोति । तत्परमुत्कृष्टं प्रेम । अनले शौचं शुद्धिर्यस्यै- तादृशवसनमिव खलु निश्चितमिह लोके दुर्लभम् । एवं च को वेद स्वर्गदौ भवि- ध्यति न वेति ध्वन्यते । एवं च यथा वसनस्यानलप्रक्षेपणे विनाश एव, तथा खलविज्ञातप्रेम्णोऽवश्यं विनाश एवेति ध्वन्यते । तेन च यथा खलैन विज्ञेयमेतत्प्रेम तथा कुर्विति । अथवा यत्खलैरपि विघटयितुमशक्यं तदेव प्रेम सम्यमिति काचि- द्वक्ति । वहेरनलशौचं वस्त्रद्वयमस्तीति पुराणप्रसिद्धिः । अथवा यत्खलैरपि सम्य- गिदमुभयोः प्रेमेत्युच्यते तदेव निश्चयेन परमुत्कृष्टम् । अत एव दुर्लभम् । एवं च तथाविधेनैव सह प्रीतिर्विधेया या खलैरपि स्तूयते, न तु साधारणेन सहेति ध्वन्यते । इति काचित्कांचित्प्रति वक्तीत्यर्थः । अत्र खल्विति दुर्लभमित्यस्य संनिधावुचितम् । 'शुद्धमेव' इति पाठ एति निर्गच्छतीत्यर्थः ॥ नायकः सखायं वक्ति- यन्नावधिमर्थयते पाथेयार्थ ददाति सर्वखम् तेनानयातिदारुणशङ्कामारोपितं चेतः ॥ ४६७ ॥ यदिति । येनेयमवधिं कदा समागन्तव्यमिति नार्थयते । न वदतीत्यर्थः । मार्गव्ययार्थ सर्वखं यच्छति । तेनानया महत्तराशङ्कां चित्तं प्रापितम् । एवं चाव- धेरप्रार्थनेन व्ययाय सर्वखदानेन चेयं मद्गमनोत्तरमवश्यं प्राणांस्त्यक्ष्यतीति भावः। एवं च न मया प्रस्थीयत इति ध्वन्यते। यद्वा कश्चित्कंचिद्वक्ति-अवधिप्रार्थना- काव्यमाला। । भावेन पाथेयार्थ सर्वखदानेन चानया चेतो नायकस्य दारुणशङ्कामन्यथासंभावनां प्रापितमिति भावः॥ नायको नायिका वक्ति- यूनामीवैिरं वितन्वता तरुणि चक्ररुचिरेण । तव जघनेनाकुलिता निखिला पल्ली खलेनेव ॥ ४६८ ।। यूनामिति । हे तरुणि, तरुणानामीावरम् । एकामिषत्वादित्युभयत्र भावः। विस्तारयता । चक्रवत्सुन्दरेण । वर्तुलत्वादिति भावः । खलेनेव धान्यमर्दनस्थानेनेव तव जघनेन समग्रा पल्ली व्याकुलीकृता । एवं च सर्वेऽपि त्वय्यासक्ताः संजाता इति भावः । खलेनेव दुष्टेनेवेति व्याख्याकरणे चक्र समुदायस्तेन रुचिर इत्यर्थः ॥ कयोश्चिदत्यन्तमैत्री दृष्ट्वा कश्चिद्वक्ति- यावज्जीवनभावी तुल्याशययोनितान्तनिर्भेदः । नदयोरिवैष युवयोः सङ्गो रसमधिकमावहतु ॥ ४६९ ।। यावदिति । यावदायुःस्थितिशाली । पक्षे यावदुदकस्थितिर्भावी । अत्यन्तनि- र्गतभेदः तुल्यान्तःकरणयोः । पक्षे समानगम्भीरताशालिनोः। तरुणयोर्नदयोरिव सङ्गः संगतिः। मैत्रीति यावत् । पक्षे संबन्धः। अधिकं रसं प्रीतिम् । पक्षे जलम् । आवहतु । एवं चैतादृश्येवेयमेतयोमैत्री उत्तरोत्तरवृद्धिशालिन्यस्त्विति ध्वन्यते ॥ नायकः सखायं वक्ति- यन्निहितां शेखरयसि मालां सा यातु शठ भवन्तमिति । प्रहरन्तीं शिरसि पदा स्मरामि तां गर्वगुरुकोपाम् ॥ ४७० ॥ यदिति । यया निहितां दत्तां मालां शेखरयसि शिरोभूषणत्वेन कुरुषे सा हे शठ, भवन्तं यात्विति । उक्त्वेति शेषः । मस्तके चरणेन प्रहरन्तीम् । अभिमान- बहुतरं कोपवतीम् । स्मरामि । एवं च तत्कालकृतताडनेन कोपपरिमार्जनेन सुर- तानन्ददायितया न तत्तुल्यान्येति तस्यामेव ममासक्तिरिति ध्वन्यते ॥ कश्चित्कंचिद्वक्ति- यौवनगुप्ति पत्यौ बन्धुषु मुग्धत्वमार्जवं गुरुषु । कुर्वाणा हलिकवधूः प्रशस्यते व्याजतो युवभिः ॥ ४७१ ॥ यौवनेति।पत्यौ नायके तारुण्यगोपनं कुर्वाणा। इदमऽप्यन्वेति । रक्षणकर्तृ- mat । ।
आर्यासप्तशती। तया यौवनज्ञानोत्तरं न बहिर्गन्तुं दास्यतीति धियेति भावः । बन्धुषु मुग्धत्वमझ- लम् । मुग्धत्वज्ञानेनैतैर्यथेच्छविहारः कर्तुं देयः। अथवा पतिसविधे न प्रेषणीये- यमिति धियेति भावः । श्वश्वादिष्वार्जवमृजुत्वम् । सरलत्वे ज्ञाते नैतैः कौटिल्यं यमिति धियेति भावः। हलिकस्त्री। एवं चाज्ञस्त्रीत्वेन मौर्यवत्त्वौचित्येऽपि चातुर्यशालितया स्तुतिकरणयोग्यत्वमित्यावेद्यते । तरुणैर्मिषात् । लोकगोपनार्थ- मिति भावः । प्रशस्यते स्तूयते ॥ काचित्कांचिद्वक्ति- यो न गुरुभिर्न मित्रैर्न विवेकेनापि नैव रिपुहसितैः । नियमितपूर्वः सुन्दरि स विनीतत्वं त्वया नीतः ॥ ४७२ ।। य इति । यो गुरुभिर्मित्रैर्विवेकेन शत्रुहसितैः पूर्व न नियन्त्रितः सः हे सुन्दरि, त्वया विनीतत्वं प्रापितः। एवं च गुरुवचनस्यानुल्लङ्घनीयत्वेऽपि मित्रोप- देशस्यातिप्रियत्वेऽपि विवेकस्य दुर्व्यसनादिपरित्यागसंपादनखाभाव्येऽपि वैरिहसि- तानामतिदुःखदत्वेऽपि तदगणनेनातिदुष्टस्यातिविनीतत्वसंपादनेन गुणगणशालित्वं नायिकायामावेद्यते॥ । कस्यचिदाश्रयेण संपत्तिशालिनं कश्चिदन्योक्त्या वक्ति- यन्मूलमामुदकैः कुसुमं प्रतिपर्व पलभरः परितः । द्रुम तन्माद्यसि वीचीपरिचयपरिणाममविचिन्त्य ॥ ४७३ ॥ यन्मूलमिति । यद्यस्माजलैर्मूलमार्द्रम् । प्रतिकाण्डं कुसुमानि । समन्तात्फ- लातिशयः । तत्तस्मात् हे वृक्ष, उन्मादं प्राप्नोषि तरङ्गसंपर्कपरिपाकमविचार्य। एवं च यद्यपीदानी संपत्तिसंभारादुन्मत्तस्त्वमसि, तथाप्यने कतिपयैर्दिवसैनिर्मूल एवं भविष्यसीति द्योत्यते। यद्वा कासांचित्संगत्यावाप्तवसुतोन्मादशालिनं कश्चि- इति । एवं चैतासां संगल्या तवानिष्टमवश्यंभावीति ध्वन्यते ॥ काचित्कंचित्प्रत्याह- यस्याः स्मरसंगरविश्रान्तिप्राञ्जला सखी खपिति । स वहतु गुणाभिमानं मदनधनुर्वल्लिचोल इव ॥ १७ ॥ यस्याङ्क इति । मदनयुद्धविरामे प्रसन्ना । पक्षे सरला । नायिका यस्य नाय- फैल्याङ्के निद्राति स गुणानां कामकलाभिज्ञतादीनाम् । पक्षे तन्तूनाम् । अभितः १३ आ० स० AMMAR काव्यमाला। । । । परिमाणं मदनधनुर्लताच्छादनपट इवाङ्गीकरोतु । एवं च यः सुरतेनानन्दसंवर्धको नायिकायाः स एव धन्यो गुणवान्नान्य इति ध्वन्यते। तेन चैतादृशगुणे यतखेति॥ कश्चित्कामकलाभिज्ञताभिमानी कांचिद्वति- यदि दानगन्धमात्राद्वसन्ति सप्तच्छदेऽपि दन्तिन्यः । किमिति मदपङ्कमलिनां करी कपोलस्थली वहति ॥ ४७५ ॥ यदीति । यदि मदोदकपरिमलसजातीयपरिमलमात्रात् । मात्रपदात्तदितरगुण- व्यवच्छेदः । सप्तच्छदेऽपि । अपिना साधारणत्वमावेद्यते । करिण्यो वसन्ति तदा गजो मदपङ्केन मलिनाम् । मालिन्यस्योपमासाधकस्य सत्त्वान्नात्र रूपकम् । कपो- लस्थली किमिति वहति । एवं च पुरुषार्थोऽवश्यमपेक्षित इति वन्यते॥ कस्याश्चिद्वृत्तं कश्चिद्वक्ति- यदवधि विवृद्धमात्रा विकसितकुसुमोत्करा शणश्रेणी । पीतांशुकप्रियेयं तदवधि पल्लीपतेः पुत्री ॥ ४७६ ॥ यदवधीति । यत्प्रभृति शणपतिर्विकसितकुसुमसमूहा संजातमात्रा तत्प्रमृति पल्लीपतेस्तनया पीतं यद्वस्त्रं तत्रियं यस्या एतादृशी संजाता। एवं च शणश्रेणिपी. तकुसुमसमूहे पीतवसनतयान्यैरज्ञेयतया यथेच्छं विहर्तुकामेयं संवृत्तेति ध्वन्यते ॥ सखी नायिका वक्ति- यमुनातरङ्गतरलं न कुवलयं कुसुमलावि तव सुलभम् । यदि सौरभानुसारी झंकारी भ्रमति न भ्रमरः ॥ ४७७॥ यमुनेति । हे कुसुमावचयकारिणि, यमुनायास्तरङ्गैश्चञ्चलं कुवलयं तव न सुलभम् । यदि सौगन्ध्यानुसारी झंकारकारी भ्रमरो न भ्रमति । एवं च चपलतर- त्वदीयनयनप्रतिबिम्बबाहुल्याद्विशिष्य कुवलयज्ञानाभावे न तद्गुणं तव वृत्तमिति भावः । एवं च नायिकायां सौन्दर्यातिशयो द्योत्यते ॥ एषामत्यन्तलालनं खयं क्रियते, परं तु ये न खसुखदुःखज्ञातारस्तेऽत्यन्तं जडा इति कश्चित्कंचिद्वक्ति- ये शिरसि विनिहिता अपि भवन्ति न सखे समानसुखदुःखाः । चिकुरा इव ते बाला एव जडाः पाण्डुभावेऽपि ॥ ४७८ ॥ ये शिरसीति । हे सखे, मस्तके निहिता अपि ये समानसुखदुःखा । OmE आर्यासप्तशती । meani भवन्ति, ते पुरुषाः केशा इव जडाः पाण्डुरभावेऽपि वार्धकेऽपि बालका एव । एवं च येऽत्यन्तं लालितास्ते अदि न खसुखदुःखाभिज्ञास्तदा तेऽत्यन्तं मूढा एवः । अतो न तदसत्कर्तव्यतया दुःखं मन्तव्यमिति व्यज्यते ॥ एतत्कार्यायोग्यस्याप्यस्य प्रभुणैतत्कार्य दत्तमिति कश्चित्कंचिद्वक्ति- यन्नियतनिर्गुणं यन्न वंशजं यच्च नित्यनिर्वाणम् । किं कुर्मस्तन्निहितं धनुःपदे देवराजेन ॥ ४७९ ॥ यन्नियतेति । यन्नियतं गुणेन भौा । पक्षे चातुर्यादिना । शून्यम् । यन वंशजम् । वंशो वेणुः। पक्षेऽन्वयः। यच्चेत्यपरं नित्यविनाशि। पक्षे नियं निर्वाणं विनाशो यस्मात् । तद्देवराजेनेन्द्रेण । देवराजपदेनानिवारणीयत्वमावेद्यते। कोदण्डस्थाने स्थापितम् । तत्र वयं किं कुर्मः । एवं चैतादृशस्याधिकारदानानौचि- सेऽपि प्रभुणा खमत्या कृतत्वान्नास्माकमपराध इति ध्वन्यते ॥ एकस्यामासक्तमन्यस्यामनासक्तं नायकं काचिद्वक्ति- या दक्षिणा त्वमस्यामदक्षिणो दक्षिणस्त्वमितरस्याम् । जलधिरिव मध्यसंस्थो न वेलयोः सदृशमाचरसि ॥ १८०॥ या दक्षिणेति । या दक्षिणानुकूला । त्वयीति भावः । अस्यां त्वमदक्षिणोऽन- नुकूलः । पक्षे दक्षिणदिक्संस्थायां दक्षिणदिक्संस्थो नेत्यर्थः । तदितरस्यां दक्षि- णोऽनुकूलः । पक्ष उत्तरदिक्संस्थायामित्यर्थः । किमेतावतेत्यत आह-मध्यसंस्थः सनुभयत्र समानपक्षपाती । पक्षे मध्यदेशस्थः । वेलयोर्जलधिरिव सदृशं ना- चरसि । इलयोरेक्याज्जडधिरिवेत्यनेन तादृशविषमाचरणमज्ञस्योचितं न तव विज्ञ- स्पेति ध्वन्यते। 'योऽविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं. भवद्वपुः । आत्म- पक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥' इत्यत्रेवात्रेदंशब्दस्य तच्छ- ब्दार्थकता ॥ नायं नायकस्त्वामुपभोगं विना त्यक्ष्यतीति काचित्कांचिद्वति- युगपज्जघनोरःस्तनपिधानमधुरे त्रपास्मितामुखि । लोलाक्षि नैष पवनो विरमति तव वसनपरिवर्ती ॥ १८१ ॥ युगपदिति । एककालं जघनोरःस्तनस्य यदाच्छादनं तेन मधुरे सुन्दरे। लज्जास्मिताभ्यां स्निग्धवदने । आईपदेन स्मिते सुधारूपत्वमावेद्यते । लोलाक्षि, ..
काव्यमाला । तव वस्त्र परिवर्तनकारी एष पवनो न विरमति । एवं च जघनाद्याच्छादनाद्यनर्थ कम् । अतस्तत्यक्त्वा यथेच्छमनेन सह रमखेति ध्वन्यते। "विधुरे' इति पाठे रहित इत्यर्थः । यथाश्रुतमेवेदमिति ऋजवः ।। अपकारकाणामपि सति समये शरणमयमेवेति कश्चित्कंचिदन्योक्त्या वक्ति- यद्यपि बद्धः शैलैयद्यपि गिरिमथनमुषितसर्वखः । तदपि परभीतभूधररक्षायां दीक्षितो जलधिः ।। ४८२ ॥ यद्यपीति । यद्यपि पर्वतैर्बद्धः । यद्यपि पर्वतकरणकमन्थनेनापहृतसर्वस्वः । तथापि पर इन्द्रस्ततो भीता ये पर्वतास्तद्रक्षणे जलधिर्दीक्षितः । कृतनियम इत्यर्थः । जलधिरित्यनेन निकटवर्तिसमीचीनाभावेऽपि स्वत एवैतादृशाचरणकारि- तयातिमहत्तरत्वमावेद्यते । अत्रानवीकरणमनुचितमित्याभाति ।। यत्र यादृशेन तेन त्वं दृष्टासि तत्र तादृशेनैव तेनाद्यापि स्थीयत इति दूती नायिकां वक्ति- यस्यां दिशि यस्य तरोर्यामेत्य शिखां यथोन्नतग्रीवम् । दृष्टा सुधांशुलेखा निशां चकोरस्तथा नयति ।। ४८३ ।। यस्यामिति । यस्यां दिशि यस्य वृक्षस्य यां शिखामागत्योन्नतग्रीवं यथा चन्द्र- लेखा दृष्टा तथा तेनैव प्रकारेण चकोरो निशामतिवायति । सुधांशुलेखेत्यनेनाहा- दकत्वमावेद्यते । चकोर इत्यनेन तदेकाधीनजीवनवत्त्वं द्योत्यते । एवं चैतादृशस्या- स्योपेक्षाकरणमनुचितं तवेति ध्वन्यते ॥ सरलतया न स्थेयमिति कश्चित्कंचिद्वक्ति- यत्रार्जवेन लघुता गरिमाणं यत्र वक्रता तनुते । छन्दःशास्त्र इवासिंल्लोके सरलः सखे किमसि ॥ १८४ ॥ योति । यत्र यस्मिन्नार्जवेन सरलतया लघिमा लाघवं तन्यते । यत्र वक्रता गुरुत्वं तनुते । छन्दःशास्त्र इवास्मिंल्लोके हे सखे, सरलः किमसि । छन्दःशास्त्रे लघुलेखाकारो गुरुर्वक्राकारो लिख्यत इति संप्रदायः ।। कश्चित्कस्यचिदधिकारपदं निन्दति- यन्नोपकारकं यन्न भूषणं यत्प्रकोपमातनुते । गुरुणापि तेन कार्य पदेन किं श्लीपदेनेव ॥ ४८५ ॥ यन्नेति । यदुपकारकारकं न । यद्भूषणं न । यत्प्रकृष्टकोपं विस्तारयति । गुरु- आर्यासप्तशती। १९७ । गापि पदेनाधिकारेण श्लीपदेनेव रोगविशेषवचरणेनेव किं कार्यम् । न किंचित्फ- लमिति भावः । एवं च तदेवाधिकारपदं यदुपकारादिसंपादकमिति भावः ॥ कश्चित्कंचिदन्योक्त्या वक्ति- यूथपते तव कश्चिन्न हि मानस्यानुरूप इह विटपी । प्रेरय दिनं निदाघद्राधीयः क खलु ते छाया ॥ ४८६ ॥ यूथेति । हे यूथपते । एवं चान्येषां पालकस्त्वमसीति द्योत्यते । तव हि निश्चित मानस्य परिमागविशेषस्य । पक्षे प्रतिष्ठायाः । अनुरूपो योग्यः । कश्चि. विटपी वृक्षो न । निदाघेनातिदीर्घ दिनं गमय । निश्चयेन तव छाया क । एवं च कुटुम्बपोषकस्य भवतो न कचिदाश्रयः । समयोऽयं कठिनतरः । सोऽयं यथा- तथातिवाहनीय इति द्योत्सते ।। दैवात्संपद्विहीनोऽप्ययमन्येषामुपकारक इति कश्चित्कंचिदन्योक्त्या वक्ति- यद्यपि चन्दनविटपी फलपुष्पविवर्जितः कृतो विधिना । निजवपुषैव तथापि हि स हरति संतापमपरेषाम् ॥ १८७ ॥ यद्यपीति । यद्यपि चन्दनशाखी देवेन ब्रह्मणा वा फलपुष्परहितः कृतस्त- थापि खशरीरमात्रेणान्येषां संतापं दूरं करोति । एवं चतादृशो नं कश्चिदन्य इति ध्वन्यते । अत्र पूर्वत्र च यद्यपिरपीति पदातिरिक्तपददानमुचितमित्याभाति ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता यकारव्रज्या। along । रकारवज्या। नायकगुणोत्कर्षेण नायिकाया अत्यन्तमुत्कर्ष इति काचित्कांचिद्वक्ति- राज्याभिषेकसलिलक्षालितमौलेः कथासु कृष्णस्य । गर्वभरमन्थराक्षी पश्यति पदपङ्कजं राधा ॥ ४८८ ॥ राज्येति । राज्याभिषेकजलक्षालितमस्तकस्य कृष्णस्य वार्तासु सकलोत्कृष्टगु- गवानित्यादिकासु । सतीष्विति शेषः। गर्वाधिकतानिश्चलनेत्रा राधा चरणकमलम् । खीयमिति भावः । पश्यति । एतादृशोऽप्ययं सर्वदा मत्प्रणतिप्रवण एवात इति घियेति भावः ॥ । ।
काव्यमाला। MANDAL नायिका निनावस्थितिन सुखदेति कश्चिद्वक्ति- रतिकलहकुपितकान्ताकरचिकुराकर्षमुदितगृहनाथम् । भवति भवनं तदन्यत्प्राग्वंशः पर्णशाला वा॥ ४८९ ॥ रतीति । रतिकलहे कुपिता कान्ता तया कराभ्यां यत्केशात्कर्षणं तेन संतुष्टो गृहनाथो यत्र । यद्वा कान्ताहस्तारकेशाकर्षणं यत्र । तद्वनादिकमपि भवनम् । तद्भिन्नम् । महत्तरप्रासादादिकमित्यर्थः । प्राग्वंशः पत्नीशाला । 'प्राग्वंशः प्राग्घ. विगैहात्' इत्यमरः । पर्णशाला वा । 'पर्णशालोटजोऽस्त्रियाम्' इत्यमरः ॥ नायिका वैद्यं वक्ति- रोगी राजायत इति जनवादं सत्यमद्य कलयामि। आरोग्यपूर्वकं त्वयि तल्पप्रान्तागते सुभग ॥ ४९० ।। रोगीति । हे सुभग, त्वयि शयनीयसविधागमनवति सति रोगवान्राजवदा- चरसीति राजायत इति लोकप्रवादमारोग्यपूर्वकं सत्यं मिथ्यात्वशून्यमद्य कलयामि । एवं चातिमहत्तरभाग्यशालिन्यहं त्वदर्शनेनाद्य संवृत्तेति भावः । एवं च मन्मथ- दुःखरूपरोग दूरीकृत्यानन्दविशेषभागिन्यहं त्वया विधेयेति द्योत्स्यते ॥ नायिकां प्रति कश्चिद्वक्ति- रुद्धखरसप्रसरस्यालिभिरने नतं प्रियं प्रति मे । स्रोतस इव निम्नं प्रति रागस्य द्विगुण आवेगः ॥ १९१ ॥ रुद्धति । सखीभिः प्रतिषिद्धः खरसस्य खाच्छन्द्यस्य प्रसरो यस्य । पक्षे रसो जलम् । मम प्रीतेः । अग्रे नतम् । प्रणिपातार्थमिति भावः । प्रियं प्रति निम्नं प्रति नीचदेशं प्रति स्रोतस इव। 'स्रोतोऽम्बुसरणं खतः' इत्यमरः। द्विगुण आवेग आधिक्यम् । पक्षे आ समन्ताद्वेगः । एवं च निरुद्धस्य जलस्य यथाधिकं प्रवाहः प्रचलति तथा सखीभिर्निषिद्धाया मम प्रियं प्रति प्रेमाधिक्यं जायत इति भावः । एवं च प्रियं प्रति प्रेमनिरोधो मम दुर्घट इति ध्वन्यते। तेन च सख्युपदेशोल्लङ्घने न ममापराध इति ॥ काचित्कांचिद्वक्ति- रूपमिदं कान्तिरसावयमुत्कर्षः सुवर्णरचनेयम् । दुर्गतमिलिता ललिते भ्रमसि प्रतिमन्दिरद्वारम् ॥ ४९२ ॥ रूपमिति । हे ललिते सुन्दरि, इदं रूपम् । असौ कान्तिः । अयमुत्कर्षः ।
आर्यासप्तशती। इयं सुष्टु वर्णरचना । एवं सति दरिद्रसहचारिणी। अतः प्रतिगृहद्वारं भ्रमसि । एवं चैतादृशरूपशालित्वे दरिद्रसंगतिसंपादनमनुचितम् । उचितं भाग्यवत्संगति- संपादनमिति ध्वन्यते । यद्वा भिक्षुहस्तगतप्रतिमोद्देशव्याजेन काचित्कांचिद्वति ॥ कश्चित्कंचिद्वक्ति- रचिते निकुञ्जपत्रैर्भिक्षुकपात्रे ददाति सावज्ञम् । पर्युषितमपि सुतीक्ष्णश्वासकदुष्णं वधूरन्नम् ॥ ४९३ ॥ रचित इति । निकुञ्जसंबन्धिपत्रैः संपादिते भिक्षुकस्य पात्रेऽवज्ञासहितं यथा स्यात्तथा वधूः पर्युषितमप्यन्नमत्यन्ततीक्ष्णा ये श्वासास्तरीषदुष्णं ददाति । संकेत- निकेतनिकुञ्जपत्रच्छेदनेन संकेतस्थानविघटकतया द्वेषवत्त्वादवज्ञा । भिक्षुकत्वाद- नदानम् । स्थान विघटनदुःखवशाच्छासेषूष्णता । यद्वा संकेते मया गत्वा परावृत्त- मिति ज्ञापनायानीतनिकुञ्जपत्रपात्रमवलोक्य दुःखवशाच्छ्वासेपूष्णता । लोकगोपनाय चावज्ञाकरणं पर्युषितान्नदानं च ॥ सखी नायिका वक्ति- रक्षति न खलु निजस्थितिमलघुः स्थापयति नायकः स यथा । तिष्ठति तथैव तद्गुणविद्धेयं हारयष्टिरिव ॥ ४९४ ॥ रक्षतीति । हे सखि, योऽलधुः श्रेष्ठः। पक्षे महान् । निजस्थिति न रक्षति । चाञ्चल्यं न त्यजतीत्यर्थः । स नायकः कान्तः । पक्षे हारमध्यमणिः । यथा स्थाप- यति तथैव तस्या गुणैश्चातुर्यादिभिः। पक्षे गुणः सूत्रम् । तैर्विद्धा तत्कृतासक्ति- मती । पक्षे यथाश्रुतम् । इयं त्वत्प्रतिवेशिनी हारयष्टिरिव तिष्ठति । एवं च स न खकीयचाञ्चल्यादिदुःशीलं परित्यजति । इयं तु तचातुर्याद्यासक्ता तन्मनस्कतयैष कालमविवाहयतीति भावः । एवं चैतादृशावस्थितिस्तव नोचितेति नायिकां प्रत्या- वेद्यते। यद्वा यथा हारमध्यमणेश्वाञ्चल्येऽपि तद्गुणविद्धेयं हारलता न चाञ्चल्यं विधत्ते तथा त्वया तद्गुणमात्रावलोकनादिना तच्चाञ्चल्यमगणयित्वा निश्चलतया स्थेयमिति व्यज्यत इत्यर्थः । यद्वा सखी सखी वक्ति-हे सखि, अलघुः श्रेष्ठेयं नायिका निजस्थितिं न रक्षति स्वमर्यादां न विचारयति । यथा नायकः स्थापयति तथैव तच्चातुर्यागुणविद्धा हारयष्टिरिव तिष्ठति । एवं च खोम्वितव्यवहारमियं परि- लज्य केवलं तदधीना जातेति भावः ॥
२०० काव्यमाला। ANUSA । । । MARRIANS - सखी नायिका वक्ति राजसि कृशानि मङ्गलकलशी सहकारपल्लवेनेव । तेनैव चुम्बितमुखी प्रथमाविर्भूतरागेण ॥ ४९५ ॥ राजसीति । हे कृशाङ्गि, प्रथमं कौमारप्रभृति संजातप्रीतिमता । पक्षे रागों लौहित्यम् । तेनैव । नायकेनेति भावः । चुम्बितवदना रसालपल्लवेन मङ्गलकल- शीव राजसि । एवं च नान्यत्र मनो बन्धनीयमिति ध्वन्यते । यद्वा तेनैव । निक- टस्थितेनैवानेनेति भावः । राजसि राजिष्यसि । चिरकालीनैतत्संगतिौचिता। किं तु नवीनानुरागवत्संगतिरत्यन्तोचितेति व्यज्यत इति वा दूती नायिका वक्ति ॥ गुणवत्संगतिकरणमेवोचितमिति सखी नायिका वक्ति- रूपगुणहीनहार्या भवति लघुडुलिरनिलचपलेव । प्रथयति पृथुगुणनेया तरुणी तरणिरिव गरिमाणम् ।। १९६॥ रूपेति । रूपं च गुणाश्च तैहीनेन हार्या तत्संगतिमती। पक्षे रूपरूपो यो गुणस्तदभाववता हर्तुं योग्या। तरुणी । वायुचञ्चला धूलिरिव लघुर्भवति । पृथको गुणा यस्य तेन नेया। पक्षे महत्तरगुणैः । नौकेव गौरवं प्रथयति । एवं चाचेत- नेऽप्येवं गतिस्तत्र का वाच्या सचेतन इति भावः ।। सखी नायक वक्ति-- रागे नवे विजृम्भति विरहक्रममन्दमन्दमन्दाक्षे । सस्मितसलजमीक्षितमिदमिष्टं सिद्धमाचष्टे ॥ ४९७ ॥ रागेति । विरहक्रमेण मन्दमन्दं मन्दाक्षं हीर्यत्र । एतादृशे नवे रागे। 'विजृम्भित-' इति पाठे विरहविशेषणम् । स्मितहसितलज्जासहितं विलोकनमिष्टं सिद्धं कथयति । एवं चाचिरमेवानया सह सहस्तव भावीति ध्वन्यते ॥ कुपितनायिका दूती वक्ति- रोषोऽपि रसवतीनां न कर्कशो वा चिरानुबन्धी वा । वर्षाणामुपलोऽपि हि सुस्निग्धः क्षणिककल्पश्च ॥ ४९८ ॥ रोषोऽपीति । रसः शृङ्गारादिः । पक्षे जलम् । तद्वतीनाम् । एवं चान्या, सामन्यादृशी गतिरिति भावः । रोषोऽपि । अपिना कर्कशत्वाद्यौचित्यमावेद्यते।
आर्यासप्तशती। २०१ कठिनो वा न । चिरकालावस्थायी वा न । अर्थान्तरन्यासमाह-वर्षाणां पाषाणो- ऽपि । करकेति यावत् । अत्यन्तकोमलः स्वल्पकालावस्थायी च । एवं चैतादृशातिशयि- तकोपकरणे रसवत्ताहानिरेव भवित्रीति ध्वन्यते । तेन चैनं परिहत्य प्रसन्ना भवेति ॥ 'येनैतादृशक्लेशादिकं भवति तदपेक्षाकरणमनुचितम्' इति वादिनी सखीं नायिका वक्ति- रोदनमेतद्धन्यं सखि किं बहु मृत्युरपि ममानः । खप्नेनेव हि विहितो नयनमनोहारिणा तेन ॥ ४९९ ॥ रोदनमिति । हे सखि, एतद्रोदनं सम्यक् । किं बहु । वक्तव्यमित्यर्थः । मरणमपि मम समीचीनम् । नयनमनःखाधीनतासंपादकेन । पक्षे नयनमनो-- व्यापाराभावसंपादकेन । खप्नेनेव तेन नायकेन विहितः। लिङ्गविपरिणामेन रोद. नेऽप्येतदन्वेति । रोदनादिकं स्वप्ने सम्यगिति स्वप्नविवेचकाः । खप्ने केवलमनो- व्यापारस्य सत्त्वेऽपि नयनव्यापारविशिष्टस्य तस्याभावानात्र दोषः ॥ नायिका सखी वक्ति- रोषेणैव मया सखि कक्रोऽपि प्रन्थिलोऽपि कठिनोऽपि । ऋजुतामनीयतायं सद्यः खेदेन वंश इव ॥ ५०० ॥ रोषेणेति । हे सखि, वक्रोऽपि ग्रन्थिलोऽपि कठिनोऽप्ययं नायको मया क्रोधेनैव सद्यः ऋजुतां खेदेन वेणुरिव प्रापितः । खेदेन वेणोर्वक्रताद्यपगच्छतीति काष्ठर्जुतासंपादनविदः॥ सखी नायिका वक्ति- रजनीमियमुपनेतुं पितृप्रसूः प्रथममुपतस्थे । रञ्जयति खयमिन्दु कुनायकं दुष्टदूतीव ॥ ५०१ ॥ रजनीमिति । इयं पितृप्रसूः सायंसंध्या रात्रिमुपनेतुं चन्द्रसमीपं नेतुमा- दावुपतस्थे । खयं चन्द्रं दुष्टदूती दुष्टनायकमिव रञ्जयति । रकरूपवन्तम् । पक्षेऽ- नुरागवन्तम् । करोति । एवं च संध्यात्वेन जगद्वन्द्यत्वेऽप्येतादृशानुचितकार्यका- रित्वम्, तत्र का वार्तान्यासाम् । अतः खयमेव नायकानुनयो विधेय इति ध्वन्यते ।। इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता रकारव्रज्या ।
काव्यमाला। २०२ an लकारव्रज्या। अत्यन्तपराजनालम्पटास्थिरमतिनायकासक्ता नायिका काचिदन्योक्त्या वक्ति- लगासि कृष्णवर्त्मनि सुलिग्धे वर्ति हन्त दग्धासि । अयमखिलनयनसुभगो न भुक्तमुक्तां पुनः स्पृशति ॥ ५०२॥ लग्नासीति । हे सुस्निग्धे । स्नेहवशादिति भाव उभयत्र । वर्ति, कृष्णवत्मनि वहौ । अथ च दुष्टमार्गशालिनि नायके लग्नासि तत्संबन्धभागिनी संवृत्ताति । हन्त खेदे । दग्धासि । एवं च न विलम्ब इति भावः । अथ च दुःखभागिनी संवृत्तासि । यतोऽयं सकलनयनस्पृहणीयः । प्रकाशवत्त्वात् । अथ च सौन्दर्या- दिगुणशालित्वात् । एवं च नायिकासौलभ्यमस्येति ध्वन्यते । भोगोत्तरपरित्यवां पुनर्न स्पृशति । एवं चैतत्संगतिरनुचितेति ध्वन्यते ॥ संपत्त्या गुणवत्ता दारिद्यात्तदभाववत्तेति कश्चिद्वक्ति- लक्ष्मीः शिक्षयति गुणानमून्पुनर्दुर्गतिविघूनयति । पूर्णो भवति सुवृत्तस्तुषाररुचिरपचये वक्रः ॥ ५०३ ॥ लक्ष्मीरिति । श्रीगुणानुपदिशति । अमून्पुनदीर्भाग्यं दूरीकरोति । अत्रार्था- न्तरन्यासमाह-पूर्णमण्डलश्चन्द्रः सुवृत्तः समीचीनवर्तुलः । अथ च समीचीना- चरणवान् । अपचये कलाविनाशे कुटिलः । एवं च संपत्त्यर्जनमत्यन्तावश्यकम् । तदविरोधेन गुणार्जनं विधेयमिति द्योत्यते ॥ नायिका सखी वक्ति- लूतातन्तुनिरुद्धद्वारः शून्यालयः पतत्पतगः । पथिके तस्मिन्नञ्चलपिहितमुखो रोदितीव सखि ॥ ५० ॥ लूतेति । हे सखि, ऊर्णनाभितन्तुपिहितद्वारः। पतन्तः पक्षिणो यत्र शून्यालयः । तस्मिन्नायके पथिके देशान्तरस्थे सति वस्त्रपिहितवदनो रोदितीव । एवं चैतादृशैतद्रोदननिवारणं पुण्यजनकतयावश्यं विधेयं त्वयेति द्योत्यते । तेन तद्गमनोत्तरकालमारभ्य न केनाप्यत्र सङ्गः संवृत्तः । अत इदानीमन्यनायकमान येति ध्वन्यते ॥ ।
ante आर्यासप्तशती। २०३ नायकः सखायं वक्ति- लग्नं जघने तस्याः सुविशाले कलितकरिकरक्रीडे । वप्रे सक्तं द्विपमिव शृङ्गारस्त्वां विभूषयति ॥ ५०५ ।। लग्नमिति । समीचीनविस्तीर्णे कलिताङ्गीकृता 'तर्जन्यनामिके युक्त मध्यमा स्याद्वहिष्कृता । करिहस्तः समुद्दिष्टः कामशास्त्रविशारदैः ॥' इत्येतल्लक्षणलक्षितस्य करिकरस्य केलियेन तस्मिन् । पक्षेऽङ्गीकृतगजशुण्डाकेलौ । तस्या जघने लग्नं त्वां शृङ्गारो वषे सक्तं गजमिव विशेषेण भूषयति । एवं चैतादृशमेव सर्वदा कुर्विति ध्वन्यते । “यथैः पदैः पिशुनयेच रहस्यवस्तु' इति कामशास्त्रादत्र सुरतारम्भगो- धीवत्कलितकरिकरक्रीड इत्यर्थस्य यद्रीडादायित्वेनाश्लीलत्वं तन दूषणम् ॥ यथा न कस्यापि विज्ञानं भवति तथानेनेयं भुक्तति काचित्कांचिदन्योक्त्या वक्ति- लिप्तं न मुखं नाङ्गं न पक्षती न चरणाः परागेण । अस्पृशतेव नलिन्या विदग्धमधुपेन मधु पीतम् ॥ ५०६ ॥ लिप्तमिति । परागेण वदनं न लिप्तम् । इदमग्रेऽप्यन्वेति लिङ्गवचनविपरि- गामेन । अङ्गं न । पक्षती न । चरणा न स्पर्शमकुर्वतेव चतुरमधुपेन । मधुपदेनो- न्मादशालित्वमावेद्यते । नलिन्या मधु पीतम् । नलिन्या इत्यनेन नायिकायां पद्मिनीत्वमावेद्यते । तेन च दुर्लभत्वम् । एवं चैतस्याः सजोऽपि गुप्ततयैव लब्धं शक्य इति व्यज्यते॥ नायको दूती वति- लयं जघने तस्याः शुष्यति नखलक्ष्म मानसं च मम । भुक्तमविशदमवेदनमिदमधिकसरागसाबाधम् ॥ ५०७ ॥ लग्नमिति । तस्या जघने लग्नं नखचिह्न मम मानसं च शुष्यति । मानसप- देन शुष्कीभावानर्हत्वेऽपि तद्भवनेन विरहे वडवानलतुल्यत्वमावेद्यते । तेन च दुःसहत्वम् । शुष्कीभावेषूभयो_लक्षण्यमाह-मुक्तं वृद्धिशून्यम् । अविशदमप्रक- उम् । यद्वा न विद्यते विशदं यस्मात् । चिरकालीनतया लौहित्यापगमेन श्वेतमि- त्यर्थः । अवेदनं वेदनारहितम् । इदम् । मम मानसमित्यर्थः । अधिकं वृद्धिमत् । जघनेऽत्यन्तासक्तमिति भावः । सरागं प्रीतिमत् । साबाधं पीडासहितम् । एवं च यथा सत्वरं सङ्गो भवेत्तथा यतखेति वन्यते ॥ - २०४ काव्यमाला। says । बहानालम्पटनायिकामेवं त्वया नायको वाच्य इति सखी समुपदिशति- लज्जयितुमखिलगोपीनिपीतमनसं मधुद्विषं राधा । अज्ञेव पृच्छति कथां शंभोर्दयितातुिष्टस्य ॥ ५०८ ॥ लजयितुमिति । समग्रगोपीनां नितरां पीतं खाधीनीकृतं मनो येन तम्। नितरामिलनेन गोपीमनसोऽन्यविषयसंबन्धाभावो व्यज्यते । मधुद्विषम् । चोन्मा- दशून्यत्वं ध्वन्यते । लजयितुं लज्जां प्रापयितुम् । राधा अज्ञेव दयितार्धेन तुष्टस्य शंभोः सुखजनकस्य कथां पृच्छति । एवं च सर्वदा कामबाधाशालिनः कामिनीसुख. संपादकस्य महादेवस्य नायिकाधैन तुष्टिः, तव तु न तथेति निर्लज्जस्त्वमसीति द्योत्सते । एवं च यथा राधयान्यवार्तया श्रीकृष्णं प्रत्यनुचितं त्वया विधीयत इत्युक्त तथा त्वया खनायकं प्रति वाच्यमिति ध्वन्यते । यद्वा लज्जयितुम् । अर्थानोपीस- मूहम् । निखिलगोपीभिर्मिलिताभिर्निपीतं खीकृतं मनो यस्य तं मधुद्विषं दयिता- तुष्टस्य शंभोः कथां पृच्छति । एवं च यत्र दयितार्धमेव नायिकस्य सुखसंपादकतया तन्मनोवशीकरणसमर्थम् , तत्र किमु वाच्यं नायिकाजातमिति भावः । अथवा निपीतं मनो यासाम् । न तु ताभिरित्यर्थः । एवंच गुणविशेषशालितया हरनिरूपितप्रेम- वत्तया शिवया खस्यार्धेनापि नायकः संतोष्य स्वाधीनतां नीतः, भवतीभिश्च सर्वा. भिर्न मधुद्विद खाधीनीकृत इति भवत्यो गुणविहीनतया न तत्र निरूपितप्रेमवत्य इति व्यज्यते । एवं च गोपीपदमपि चातुर्याभावप्रतिपादनेनार्थवत् ॥ सपत्नीत्वमत्यन्तासह्यमिति काचित्काचिद्वक्ति- लक्ष्मीनिःश्वासानलपिण्डीकृतदुग्धजलधिसारभुजः । क्षीरनिधितीरसुदृशो यशांसि गायन्ति राधायाः ॥ ५०९ ॥ लक्ष्मीति । लक्ष्म्या निःश्वासानलैः । परमेश्वरस्य राधातिसक्येय॑योष्णैरिति भावः । गाढीकृतदुग्धजलधिसारभोजनवत्यः क्षीरनिधितीरवसतिशालिन्यो नायिका राधाया यशांसि गायन्ति । यत्प्रसादादेवमस्माभिर्भुज्यत इति धियेति भावः । एवं च यत्र लक्ष्म्या अप्येवं सपत्नीदुःखम् , तत्र किमु वाच्यमन्यासामिति व्यज्यते ॥ कश्चित्कंचिद्वक्ति- लीलागारस्य बहिः सखीषु चरणातिथौ मयि प्रियया । प्रकटीकृतः प्रसादो दत्त्वा वातायने व्यजनम् ॥ ५१० ॥ लीलेति । केलिसदनस्य बहिः सखीषु सतीषु । मयि चरणातिथौ प्रणति आर्यासप्तशती। कारिणि । चरणातिथावित्यनेन प्रसादपात्रत्वं ध्वन्यते । प्रियया गवाक्षे व्यजनं दत्वा प्रसादः प्रकटीकृतः । व्यजनपरित्यागेन संतापनिवृत्तिप्रदर्शनेन प्रसादः प्रकटीकृत इति भावः । यद्वा गवाक्षे व्यजनस्थापनेनान्यानवलोकनीयत्वप्रदर्शनेन यथेच्छं सुरतविघ्नाभावद्योतनात्प्रसादप्रकटनमिति भावः । यद्वा केलिसदनस्य बहिः सखी- विषये प्रणतिकारिणि मयि प्रियया वातायने व्यजनं दत्त्वा प्रसादः प्रकटीकृतः। कुपितेयं कदाचिद्गवाक्षद्वारा तर्जयिष्यतीति भीतः सखीप्रसादनां विहाय यदि गतस्तदा ताभिर्मत्प्रार्थनाया अकरणे मानापरित्यागेन नायकक्लेशो भवितेति यथे- मयं सखीप्रसादनां करोतु, ताश्च मदीयप्रसादनामिति प्रसादाविष्करणमिति भावः । अथवा गवाक्षे व्यजनसंस्थापनेन समीरणजनकस्यापि समीरणनिवारकत्वं यथा तथा दुःखजनकस्यापि तव दुःखनिवारकत्वमिति प्रदर्शनेन प्रसादाविष्कार इति भावः । एवं चैतस्या यथा चातुर्य न तथान्यासामिति ध्वन्यते॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता लकारवज्या। " वकारतज्या। सर्वगोपनपुरःसरमनेनेयं भुक्तति व्यखं काचित्कांचित्प्रकारान्तरेण वक्ति- वर्णहृतिर्न ललाटे न ललितमङ्गं न चाघरे दंशः। उत्पलमहारि वारि च न स्पृष्टमुपायचतुरेण ॥ ५११ ।। वर्णेति । ललाटे वर्णस्य मकरिकादेर्हतिर्न । अङ्गमपि न म्लानम् । अधरे देशोऽपि न । अर्थान्नायिकायाः । उपायनिपुणेनोत्पलं हृतं जलं च न स्पृष्टम् । एवं च सहचरीभिरपि न ज्ञातमिति भावः । नायिकायाः परकीयात्वात्संभोगचि- झानुत्पादनपुरःसरं भुक्तेयमनेनेति भावः । एवं यद्येतादृशचातुर्य तव तर्हि परकी- याभिरतिर्विधेयेति ध्वन्यते॥ दूती पान्थं प्रति वक्ति- व्यालम्बि चूर्णकुन्तलचुम्बितनयनाञ्चले मुखे तस्याः । बाष्पजलबिन्दवोऽलकमुक्ता इव पान्थ निपतन्ति ॥ ५१२ ॥ व्यालम्बीति । हे पान्थ, तस्या वदने विशेषेणालम्बिनो ये चूर्णकुन्तलास्तै धुम्बितनयनप्रान्ते सति, अलकसंबन्धिमुक्ताफलानीव बाष्पोदकबिन्दवः । जल- पदेनाधिक्यं व्यज्यते।निपतन्ति । एवं च त्वरया त्वया सभागन्तव्यमिति ध्वन्यते॥ - २०६ काव्यमाला। सखी नायकं वक्ति- विनयविनता दिनेऽसौ निशि मदनकलाविलासलसदनी। निर्वाणज्वलितौषधिरिव निपुण प्रत्यभिज्ञेया ॥ ५१३ ॥ विनयेति । हे निपुण । एवं च यथाकथंचिद्दर्शनेन कलाविहीनत्वमेव तस्यां स्वया नाशङ्कनीयमिति व्यज्यते । असौ नायिका दिवसे विनयनम्रा, रात्रौ मदन कलाविलासै सदङ्गी निर्वाणज्वलितौषधिरिव प्रत्यभिज्ञेया । एवं च यथा काचि. दोषधी दिवा सौम्या रात्री प्रज्वलति तथेयं दिवसेऽतिसौम्या रात्रौ तु मदनकला, कुशला, अतो नैतत्कालीनैतस्याः सौम्यत्वमाशक्य विरतिर्विधेयेति ध्वन्यते । यद्वेय- मत्यन्तविनयशालिनीति न परपुरुषाभिलाषिणीति मन्यमानं वयस्यो वक्ति-निपुणैः प्रत्यभिज्ञेया। एवं च मूर्खाणामियं सौम्येति ज्ञानम्, न निपुणानामिति भावः ॥ - सखी नायकं वक्ति- विहितबहुमानमौना सखीप्रबोधैर्यदलमातनुते । रागार्तिकाकुयाच्जालधुरीक्षा रहसि पुनरेषा ॥ ५१४ ॥ विहितेति । विहितं बहुमानेन मौनं यया । सखीनां प्रबोधनैर्यदलमश्रु आत- नुते। एषा पुनरेकान्ते रागे यार्तिीनवचनं प्रार्थना एतैर्लघुवीक्षा । एवं चाधुनेय- मेतादृशमानशालिनी दृश्यते परंतु रहसि रागजनितपीडादिभिः स्वयमेव खहस्त- गतावश्यं भविष्यतीति ध्वन्यते । 'लधुरीक्ष्या' इति पाठे रागाादिभिर्लघुरेषेक्ष्येति योजना॥ खनायिकायामनासक्तं काचिद्वक्ति- विषमशरविशिखभिन्ना पल्ली शरणं यमेकमभिलषति । तस्य तव च्छायेव खीया जायापि भयभूमिः॥ ५१५॥ विषमेति । मदनबाणमिन्ना पल्ली यमेकं शरणं रक्षणकर्तारं वाञ्छति तस्य तव च्छायेव खगतापि भयस्थानम् । विषमशरेत्यनेन दुःसहत्वं ध्वन्यते । पल्ली यमेकमित्यनेन मदनातिशयशालित्वमावेद्यते। छायवेत्यनेन सर्वदा सेवाप्रवणत्वं नायिकायामावेद्यते । एवं चैतादृशाचरणमनुचितमिति व्यज्यते । यद्वा दूती खना- यिकासंकोचशालिनं नायकं वक्ति-विषमेति। एवं च खाधीनायाः खनायिका यास्तव का भीतिः, अतश्चल संकेतं प्रतीति व्यज्यते ॥ ।
आर्यासप्तशती। MAHARI पराक्रमशालिनि नायक नायिकात्यन्तमासक्का भवतीति काचित्कंचिद्वक्ति- विविधायुधवणार्बुदविषमे वक्षःस्थले प्रियतमस्य । श्रीरपि वीरवधूरपि गर्वोत्पुलका सुखं खपिति ॥ ५१६ ॥ विविधेति । नानाप्रकारकायुधानां ये व्रणास्तेषामर्बुदैमासकीलैः । 'अर्बुदो मांसकीले स्यात्संख्याभेदे च कीर्तितः' । कठिने नायकस्य वक्षःस्थले गर्वोत्कृष्ट- पुलका लक्ष्मीवीरस्त्री च सुखं निद्राति ॥ कृतनायकान्तरोपभोगं निभृतं पृष्ठतः सुप्तं नायक नायिका वक्ति- वैमुख्येऽपि विमुक्ताः शरा इवान्याययोधिनो वितनोः । मिन्दन्ति पृष्ठपतिताः प्रिय हृदयं मम तव श्वासाः॥५१७॥ वैमुख्येऽपीति । हे प्रिय । एवं चैतादृशकर्तव्यतयातिदुःखदत्वमित्यावेद्यते । अन्याययुद्धकारिणो मदनस्य वैमुख्येऽपि परावृत्तावपि विशेषेण मुक्ताः । उपसर्गे- गातिभेदकत्वं ध्वन्यते । बाणा इव पृष्ठसंलग्नास्तव श्वासा मम हृदयं भिन्दन्ति । बितनोरियनेन सुरतातिशयेन क्षीणशक्तिकत्वं नायके ध्वन्यते । एवं कृतापराघस्य तवात्र खापो मम न सुखद इति ध्वन्यते । यद्वा कृतकनिद्रया नायिकां वञ्चयि- लान्यत्र गन्तुकाम नायकं नायिका वक्ति -वैमुख्येऽपि । त्वदीयदौःशील्यज्ञा- नादिति भावः । एवं च श्वासमत्वापज्ञानोत्तरमियं खप्स्यति ततो मयान्यत्र. गन्त- व्यमिति किमर्थ कापट्यं रचयसि, यथेच्छं गच्छेति ध्वन्यते ॥ कश्चित्कांचिद्वति- व्यक्तमधुना समेतः खण्डो मदिराक्षि दशनवसने ते। यन्नवसुधैकसारं लोभिनि तत्किमपि नाद्राक्षम् ॥ ५१८ ॥ व्यक्तमिति । हे मदिराक्षि । एवं च कटाक्षविक्षेपमात्रेणोन्मादजनकत्वं व्य- ज्यते । तव दशनवसन ओष्ठे समेतो लग्नः खण्ड इत्यधुना व्यक्तं प्रकटीभूतम् । एवं च किमपि नोक्तवती, अधुना तु मधुरवचनमभिधत्स इति भावः। यद्वा व्यक्तं खच्छम् । 'व्यक्तं स्फुटे च खच्छे च'। यन्मधु माक्षिकं तत्समेतः खण्डः। अस्तीत्यध्याहारः । एवं चातिमाधुर्यमधरेऽत्तीति व्यज्यते । हे लोभिनि । एवं च सर्वसंग्रहकारित्वं ध्वन्यते । नूतनसुधैकसारं यत्तत्किमपि नाद्राक्षं न दृष्टवान् । अथ च द्राक्षाशून्यं न। एवं च केवलं मधुरं वदसि, कटाक्षयसि च, न पुनथुम्बना- ।
२०८ काव्यमाला। । दिना मां जीवयसीति ध्वन्यते । यद्वा हे मदिराक्षि, तवाधरै समेतो लमः खण्ड इदमधुना व्यक्तम् । निश्चितमित्यर्थः । यद्वसुधैकसारं न। अपि तु त्रिभुवनसार- मित्यर्थः । तत्किमपि लोमिनि नापश्यम् । एवं चेदानींतनाधरचुम्बनेनाधरमाधुर्य विज्ञातं परं तु त्रिभुवनसारभूतसुरतेन किं मां न सुखयसीति व्यज्यते। अथ च त्वत्सुधैकसारं किमपि तन्न नाद्राक्षम् । अपि तु सर्व दृष्टवानस्मीत्यर्थः । एवं च मदिरामाक्षिकशर्करासुधाद्राक्षामधुरवस्तूनां त्वयि सत्त्वेऽपि लोभवशात्किंचिद्ददाति किंचिन्न ददासीत्यनुचितमित्यावेद्यते ॥ नायकः सखायं वक्ति- बालाविलासबन्धानप्रभवन्मनसि चिन्तयन्पूर्वम् । संमानवर्जितां तां गृहिणीमेवानुशोचामि ॥ ५१९ ॥ बालेति। हे वयस्य, अप्रभवन्नसमर्थः । प्राथमिककान्ताधीनत्वादिति भावः । बालाया विलासबन्धान्पूर्व चिन्तयन्स्थितः। प्राथमिककान्ताधीनेन मया कथमियं विलासविशेषशालिनी भोक्तव्येति चिन्तावान्संजात इति भावः । अधुना तु संमान- रहिताम् । द्वितीयकामिन्याः प्राबल्यादिति भावः । गृहिणीमेवानुशोचामि । गृहि- यीमित्यनेन मानार्हत्वेऽपि तदकरणेनानौचिती द्योत्यते। एवं च यस्या भयेन पूर्व किमपि कर्तुमशकस्तस्या इदानीमेतादृशी गतिः संवृत्तेति धियेति भावः । एवं च पूर्वमिदानीमपि न मां चिन्ता परित्यजतीति ध्वन्यते । यद्वा बालाया अप्रगल्मे मनसि विलासबन्धांश्चिन्तयन्नहं पूर्व प्रतिष्ठावर्जितां गृहिणीमेवानुशोचामि। एवं चाप्रगल्भवयस्यनयतादृशविलासहृतचित्तः संवृत्तः, किं पुनरग्रेऽनया विधेयमिति भावः । पूर्व गृहिणीमेवानुशोचामीत्यनेन बालाविलासासक्तचिन्तनया खात्मनः पर- तन्त्रतया शोच्यत्वेऽपि मदीयैतादृशावस्थामालोक्य गृहिण्याः समधिकदुःखोद्रेको भवितेति तद्विषय एवानुशोचनं मह्यमापतितमिति व्यज्यते । मन्मथव्यथातोऽन्यद्यथाजातं नातिदुःखदमिति कश्चिद्वक्ति- वीजयतोरन्योन्यं यूनोवियुतानि सकलगात्राणि । सन्मैत्रीव श्रोणी परं निदाघेऽपि न विघटिता ॥ ५२० ॥ वीजयतोरिति । परस्परं बीजयतोवूनोः समग्रावयवा विभागवन्तः संवृत्ताः परं केवलं श्रोणी सन्मैत्रीव निदाघकालेऽपि । अपिनावश्यविघटनाईत्वं द्योत्यते । न वियुक्ता। निदाघदुःखागणनादिति भावः ॥ - ।
आर्यासप्तशती। २०९ उपपतिरपसार्यतामिति दूती कांचिद्भशयन्तरेण वक्ति- व्यारोष मानिन्यास्तमो दिवः कासरं कलमभूमेः । बद्धमलिं च नलिन्याः प्रभातसंध्यापसारयति ॥ ५२१ ॥ व्यारोषमिति । मानवल्या विशिष्टकोपम्, दिवोऽन्धकारम्, कलमभूमेः कासरं महिषम्, नलिन्या निरुद्ध अमरं च प्रातःकालीनसंध्यापसारयति । एवं च प्रातःकालः संवृत्तः, अतो यया रीत्यानीतोऽयं तयैव रीत्या नेय इति ध्वन्यते। संध्यापदेन यथा योगसंपादनसामर्थ्य तथापसारणसामर्थ्यमप्यपेक्षितमिति ध्वन्यते ॥ नायिकासखी नायकं वक्ति- वक्षसि विजृम्भमाणे स्तनभिन्नं त्रुटति कञ्चकं तस्याः। पूर्वदयितानुरागस्तव हृदि न मनागपि त्रुटति ॥ ५२२ ।। वक्षसीति । वक्षसि विजृम्भमाणे स्तनोन्नत्यशालिनि स्तनमिन्नं कूसिकं तस्याटति । तव हृदि प्रथमप्रियाप्रीतिरीषदपि न त्रुटतीति । एवं चैतस्यास्तारु- श्योद्रेकेऽपि तव नासक्तिः, अतस्त्वत्सदृशो न कोऽपि जंड इति ध्वन्यते ॥ नायिकासखी नायकं वकि- व्यक्तिमवेक्ष्य तदन्यां तस्यामेवेति विदितमधुना तु । हर्म्यहरिमुखमिव त्वामुभयोः साधारणं वेनि ॥ ५२३ ।। व्यक्तिमिति । तदन्यां नायिकामिना व्यक्तिमवेक्ष्य । तस्यामेव त्वमासक इति शेषः । इति ज्ञातम् । एवं च पूर्व सापीयमपि मया दृष्टैव तदानीं तवैतस्याम- नादरादिना तस्यामेव प्रीतिरभूदिति विज्ञातमिति भावः । अधुना तु गृहद्वारसंबन्धि सिंहमुखमिव त्वामुभयोः साधारणं जानामि । एवं चेदानीं त्वमुभयत्र समबुद्धिरि- अस्थिरप्रकृतिकत्वं नायके ध्वन्यते। "अवीक्ष्य' इति पाठे तदन्यां प्रथमामिना नायिकामवीक्ष्य । तस्यामेवासक्त इति शेषः । विदितम् । अधुना तु हर्म्यहरिमुख- मिवोभयोः साधारणं वेधि। एवं यावत्पर्यन्तमुभयोर्न दर्शनं संवृत्तं तावदन्याशी बुद्धिः स्थितेति भावः ॥ नायिकासखी नायकं वक्ति- व्यजनस्येव समीपे गतागतैस्तापहारिणो भवतः । अञ्चलमिव चञ्चलतां मम संख्या प्रापितं चेतः ॥ ५२४ ॥ ज्यजनस्येति । व्यजनस्व संतापापनोदकस्य भवतः समीपे । अर्थान्नायि- । । १४ आ० स० काव्यमाला। - कायाः। गमनागमनर्वस्त्रप्रान्तमिव मम सख्याश्चित्तं चाञ्चल्यं प्रापितम् । एवं च त्वयैव प्रथमासचिमुत्पाझेदानीमुदासीनवच्छैथिल्यं क्रियत इत्ययुकं तवेत्यतस्त्वरख तद्दर्शनायेति ध्वन्यते। यद्वा व्यजनस्यैव तापहारिणः समीपे । नायिकाया इति भावः । भवतो गतागतैः। एवं च लोकभीत्या कटाक्षवीक्षणाभावो व्यज्यते सख्या अञ्चलमिव मम चेतश्चञ्चलतां प्रापितम् । एवं च मान्मथव्यथापनोदकभवदी- यसविधगतागतसंजातानुरागजनितहेलावशात्कम्परूपसात्त्विकभावोदयवशाद्वा यथा सख्याश्चैलाञ्चले चञ्चलता तथा मन्मनसि कया रीत्या कुत्र वाऽनयोः संगमः संपाद- नीय इति चाञ्चल्यमुज्जम्भत इति भावः ॥ नायको नायिका वक्ति-- वितरन्ती रसमन्तर्ममार्द्रभावं तनोषि तनुगात्रि । अन्तःसलिला सरिदिव यन्निवससि बहिरदृश्यापि ॥ ५२५॥ वितरन्तीति । हे कृशाङ्गि, अन्तः रसं प्रीतिं वितरन्ती ममार्द्रभावं तनोषि । यद्यस्मादन्तर्जला नदीव बहिरदृश्यापि निवससि । मम हृदीति भावः । एवं च बहि- स्त्वद्विषयकप्रेमाभावेऽप्यान्तरं प्रेम ममातितरामस्ति त्वद्विषयकमित्यावेद्यते ॥ चिरतरकृतचाटुवचनादिरचनेऽप्यवधीरणात्कृतकखापं नायकमनुतापवशादानेतुं प्रेषिता दूती नायिका वक्ति- विहितविविधानुबन्धो मानोन्नतयावधीरितो मानी। लभते कुतः प्रबोधं स जागरित्वैव निद्राणः ॥ ५२६ ॥ विहितेति । कृतानेकसान्त्वनोऽपि मानोन्नतया त्वयावगणितोऽभिमानशाली। एवं च प्रसादनासंपादनाविरामौचित्यमावेद्यते। जाग्रदेव निद्रावान्प्रबोधं कुतो लभते । न कुतोऽपीत्यर्थः । एवं चैतादृशनायकावधीरणकरणमनुचितमिति ध्वन्यते॥ काचित्कांचिद्वक्ति ब्रीडाविमुखीं वीतखेहामाशङ्कय काकुवाङ्मधुरे । प्रेमासापराधां दिशति दृशं वल्लभे बाला ॥ ५२७ ॥ वीडेति । लज्जया परावृत्तवदनाम् । अर्थान्नायिकाम् । गतस्नेहामाशा चाटु- वचनमधुरे नायके बाला । एवं चाशत्वं व्यज्यते । प्रेम्णाऱ्यामपराधेन सहितां दृष्टिं करोति । एवं स्त्रीणामेतादृशी गतिरिति भावः ॥ HOM आर्यासप्तशती। । । कश्चित्कंचिद्वक्ति- बाष्पाकुलं प्रलपतोहिणि निवर्तख कान्त गच्छेति । यातं दंपत्योदिनमनुगमनावधि सरस्तीरे ॥ ५२८ ॥ बाष्पेति । बाष्पव्याकुलं यथा भवति तथा 'गेहिनि, निवर्तख', 'कान्त, गच्छ इति प्रकृष्टालापवतोः। यद्वा परावृत्त्याद्यकरणेनानर्थकतया वृथा वदतोरित्यर्थः । 'प्रलापोऽनर्थकं वचः' इत्यभिधानात् । दंपत्योरनुगमनस्यावधिभूतसरस्तीरे दिन यातं व्यतीतम् । एवं च प्रेम्णि सति न किंचिदपरं स्फुरतीति ध्वन्यते ॥ प्रतिज्ञापुरःसरविपरीतरतकारिणी नायिका नायको वक्ति- वक्षःप्रणयिनि सान्द्रश्वासे वाङ्मात्रसुभटि धनधर्मे । सुतनु ललाटनिवेशितललाटिके तिष्ठ विजितासि ॥ ५२९ ॥ वक्ष इति । वक्षसि । अर्थात्स्वस्य । प्रणयः प्रीतिर्यस्याः। खापार्थमिति भावः दीर्घश्वासशालिनि । श्रमवशादिति भावः । वचनमात्रशूरे । मात्रपदेन सामर्थ्याभा- वोऽभिव्यज्यते । बहुतरप्रखेदवति, शोभनगात्रि, ललाटे । अर्थान्मम । संस्थापित- ललाटिके, तिष्ट तूष्णीं भव । यतो विजितासि । सर्वैः संबोधनपदैनिःसहत्वप्रतिपा- दनाद्विजयस्य व्यङ्ग्यत्वेऽपि विजितासीति पदोपादानं न चमत्कारकारीत्याभाति ॥ राधा कृष्णेऽत्यन्तमासक्ता जातेति प्रचित्कांचिद्वक्ति- विचरति परितः कृष्णे राधायां रागचपलनयनायाम् । दशदिग्वेधविशुद्धं विशिखं विदधाति विषमेषुः ॥ ५३० ॥ विचरतीति। कृष्णे समन्ताद्विचरति सति, अनुरागचञ्चलनेत्रायां राधायां दशदिक्षु यो वेधस्तत्र विशुद्धम् । दशदिश्वपि लक्ष्यवेधकारिणमित्यर्थः । बाणं मदनो विदधाति । एवं च सर्वत्र राधाकटाक्षविषयः श्रीकृष्णोऽभूदिति ध्वन्यते ॥ काचित्कांचिद्वति- वीक्ष्यैव वेत्ति पथिकः पीवरबहुवायसं निजावासम् । सौन्दर्येकनिधेरपि दयितायाश्चरितमविचलितम् ॥ ५३१ ॥ वीक्ष्यैवेति । पथिकः पुष्टबहुकाकम् । नायकागमनशकुनदर्शनार्थ दत्तदथ्यो- १. पवर्गीयबकारव्रज्योचितेयमार्या प्रमादेन दन्त्योष्ठयवकारव्रज्यायामादर्शपुस्तकेषु. लिखितेति भाति. । mmer काव्यमाला। बनादिनेति भावः । खसदनं दृष्ट्वैव । न वचनादिनेत्यर्थः । सौन्दर्यकस्थानभूतीयाः। एवं चावश्यचरितव्यसनयोग्यत्वमावेयते । प्रियाया अविचलितमाचरणं जानाति । यदीयमन्यत्रासका स्यात्तदा किमिति मदर्थमेतादृशशकुनायवेक्षणं कुर्यादिति भावः। यद्वानया रीत्या नायकः प्रतारयितुं शक्यः, अतो यथेच्छ परपुरुषे विचरेति दूती 'त्ववचनकरणे नायको मत्पातिव्रत्यभङ्गं विज्ञास्यति तेन चानुचितमिदम्' इति बादिनी नायिका वति॥ विपनिममस्योद्धारः केनचिदेव कर्तुं शक्यो न सर्वैरिति कश्चिदन्योक्त्या कंचन KARE विमुखे चतुर्मुखेऽपि श्रितवति चानीशभावमीशेऽपि । मममहीनिस्तारे हरिः परं स्तब्धरोमाभूत् ॥ ५३२ ।। विमुख इति । चतुर्मुखे विधातर्यपि विमुखे उद्योगशून्ये । यद्वानीकारका- रिणि । ईशेऽप्यनीशभावमसमर्थभावं श्रितवति सति। मनधरोद्धारे परं केवलं हरित विष्णुः सन्धरोमा वराहः । अथ च रोमाञ्चितः। धरोद्धारोत्साहवशादिति भावः। अभूत् । चतुर्मुखेशपदाभ्यामनयोः सांनिध्यात्सामर्थ्यशालित्वं ध्वन्यते । तेन च तत्करणोत्साहाभावेन धरोद्धारकरणेऽतिकाठिन्यमावेशते । एवं च विष्णुतुल्येनैवा- पदुद्धारः कर्तुं शक्यो नान्येनेति व्यज्यते ॥ कश्चित्कंचिदन्योक्त्या वकि- वापीकच्छे वासः कण्टकवृतयः सजागरा अमराः । केतकविटप किमेतैर्ननु वारय मञ्जरीगन्धम् ॥ ५३३ ।। वापीति। हे केतकवृक्ष, वापीजलप्रायदेशे वसतिः । कण्टकावरणानि । निद्रान शून्या श्रमराः । एतैः किम् । न किंचिदित्यर्थः । ननु निश्चितं मञ्जरीगन्धं वारय । एवं चैतादृशी नायिका यावत्तव समीपेऽस्ति, तावद्यत्र यत्र येन येन प्रकारेणावतिष्ठसि तत्रावश्यमन्यनायकोपसर्गो नापगमिष्यतीखेतत्करणमनुचितमिति द्योत्यते ॥ नायको नायिका वक्ति विचलसि मुग्धे विधृता यथा तथा विशसि हृदयमदये में। शक्तिः प्रसूनधनुषः प्रकम्पलक्ष्यं स्पृशन्तीव ॥ ५३४ ॥ विचलसीति । हे मुग्धे सुन्दरि दयाशून्ये । एवं च गमनौचिल्समावेयते ।
आर्यासप्तशती। विधृता । अञ्चलादाविति भावः । यथा विचलसि गच्छसि तथा मे हृदयं विशति । प्रकम्पलक्ष्यं स्पृशन्ती मदनस्य शक्तिरित । एवं च त्वद्गमने मत्प्राणा एव गमि- घ्यन्तीति व्यज्यते ॥ सखी नायिका वक्ति- विहितासमशरसमरो जितगाङ्गेयच्छविः कृताटोपः। पुरुषायिते विराजति देहस्तव सखि शिखण्डीव ॥ ५३५ ।। विहितेति । हे सखि, विहितः कृतः । विशेषेण हित इति वा । असमशर- समरो मदनयुद्धम् । सुरतमिति यावत् । येन । यस्येति वा । अत एव विपरीतर- तोद्योगः । पक्षे कृतोऽनुपमबाणैः सङ्ग्रामो येन सः । जिता गाङ्गेयस्य सुवर्णस्य । पक्षे भीष्मस्य । दीप्तिर्येन सः। संपादिताडम्बरः । तव देहो विपरीतरते शिख- बडीव विराजति । एवं च त्वया बहुधा विपरीतरतमेव विधेयमिति वन्यते ।। चौर्यरतादि न सम्यगिति वादिनं कश्चिद्वक्ति- वृतिविवरनिर्गतस्य प्रमदाबिम्बाधरस्य मधु पिबते । अवधीरितपीयूषः स्पृहयति देवाधिराजोऽपि ॥ ५३६ ॥ वृतीति । आवरणच्छिद्रनिर्गतस्य प्रकृष्टमदशालिन्या बिम्बतुल्याधरस्य मधु पिबते । 'क्रुधद्रुह-' इत्यादिना चतुर्थी । अवगणितामृत इन्द्रोऽपि स्पृहयति । मद्रूपतावाप्त्यर्थमित्यर्थः । एवं चेन्द्रपदसुखाद्यपेक्षयापि चौर्यरतसुखसधिकमित्या- वेद्यते ॥ पुरुषविशेष समासक्तायाः संगतिमपेक्षमाणं कंचन दूती वक्ति- वासितमधुनि वधूनामवतंसे मौलिमण्डने यूनाम् । विलसति सा पुरकुसुमे मधुपीव वनप्रसूनेषु ॥ ५३७ ।। वासितेति । वासितमुत्कृष्टताशालिकृतं मधु येन तस्मिन् । एवं चैतत्समवधाने मद्यस्य मादकत्वमित्यावेद्यते । पक्षे मधुनः सौगन्ध्यार्थ पुष्पादिकं प्रक्षिप्यत इति • भावः। नायिकानामवतंसे श्रुतिभूषणरूपे।एवं च सर्वा अपि कामिन्यस्तदीयगुणश्रवणं सर्वदादरातिशयेन कुर्वन्तीति भावः । तरुणानां मस्तकभूषणरूपे । वन्दनीय इत्यर्थः । नगरस्य कुसुमे । सर्वजगत्स्पृहणीयत्वादिति भावः । नायके । विशेषपाम- हिना विशेष्यलाभः । सा विलसति शोभते । एवं च त्वं न तस्याः शोभाधायक २१४ काव्यमाला। HIN इति भावः । वनकुसुमे मधुपीव । एवं चैतादृशनायकविशेषे समासता न कथमपि स्वयि संयोजयितुं शक्येति भावः ॥ नायिकासखी नायकं वक्ति- श्रीडाप्रसरः प्रथमं तदनु च रसभावपुष्टचेष्टेयम् । जवनीविनिर्गमादनु नटीव दयिता मनो हरति ।। ५३८ ॥ वीडेति । आदौ लज्जाप्रसरः । तदनन्तरं रसः शृङ्गारादिः, भावश्चित्ताभि- प्रायः, आभ्यां पुष्टा चेष्टा । जवनीविनिर्गमादनु नर्तकीवेयं दयिता मनो हरति । एवं च यथा जवनिकाविनिर्गमानन्तरं नटी प्रथमतो लज्जातिशयं प्रदर्य ततो रसाभिनयपुष्टचेष्टां प्रदर्शयति, ततो रसाविर्भावात्सामाजिकमनांसि हरति, तथेयं दयिता यथा जवन्यपसरति तथा प्रथमं लज्जाविशेषं विधाय ततः सरसाभिप्राय- विलासं प्रदर्य ततो निर्भररतानन्दवत्तया नायकीयमनसोऽनन्यप्रवणतामापाद- यतीति भावः । इयमित्यनेनान्यासां प्रथमतो निर्लज्जतया किंचिन्मनोहारकत्वेऽपि न तासु नायकीयचित्तहारकत्वमिति वस्त्वावेद्यते। तेन च व्यतिरेकालंकारः ॥ दूती नायकं वक्ति- वाससि हरिद्रयेव त्वयि गौराजथा निवेशितो रागः । पिशुनेन सोऽपनीतः सहसा पतता जलेनेव ॥ ५३९ ॥ वाससीति । वस्त्रे हरिद्रयेव गौराझ्या नायिकया त्वयि रागोऽनुरागः । पक्षे पीतिमा । संपादितः । गौरागयेति हरिद्राविशेषणमपि । स रागः सहसा । अप्रत- यमिति यावत् । पतता प्रविष्टेन । पक्षे संबन्धवता । जलेनेव पिशुनेन सूचकेन दूरीकृतः । एवं च न तस्या अपराध इति भावः ।। एतादृशनायिकासाहचर्य तव सर्वत्र कामुककृतपीडा स्यादिति कश्चित्कंचिद- न्योक्त्या वक्ति- विष्वग्विकासिसौरभरागान्धव्याधबाधनीयस्य । क्वचिदपि कुरङ्ग भवतो नाभीमादाय न स्थानम् ॥ ५४० ॥ विष्वगिति । हे कुरङ्ग, सर्वतो विसारिसौगन्ध्येन योऽभिलाषस्तेनान्धा ये व्याधास्तैः पीडनीयस्य । विष्वगित्यादिना गोपनमशक्यमित्यावेद्यते । रागान्धपदेन कर्तव्याकर्तव्यविवेकवैधुर्यमावेद्यते। व्याधपदेन हिंस्रत्वं द्योत्यते। भवतो नाभीमादाय amous ।
आर्यासप्तशती। २१५ क्वापि स्थलं नास्ति । एवं चैतस्याः समस्तगुणैविख्यातायास्तव गोपनाशक्यतया सर्वतः पीडा स्यात् , अत एतत्सङ्गस्त्याज्य इति ध्वन्यते ॥ एकजातसजातीयगुणवत्त्वेऽपि कचित्कश्चिदस्ति विशेष इति कंचिदन्योक्त्या बति- वटकुटजशालशाल्मलिरसालबहुवारसिन्धुवाराणाम् । अस्ति भिदा मलयाचलसंभवसौरभ्यसाम्येऽपि ॥ ५४१ ॥ वटेति । वटादिसिन्धुवारान्तवृक्षाणां मलयाद्रिजन्यसौगन्ध्यसाजायेऽपि भेदो- ऽस्ति । एवं च चतुरैरेव तद्वैजायं ज्ञातुं शक्यं नान्यैरिति भावः ॥ सामान्यवनितां काचिदन्योक्त्या समुपहसति- विनिहितकपर्दकोटिं चापलदोषेण शंकरं त्यक्त्वा । वटमेकमनुसरन्ती जाह्रवि लुठसि प्रयागतटे ॥ ५४२ ।। विनिहितेति । विनिहिता समर्पिता कपर्दस्य जटाजूटस्य कोटिः प्रान्तभागो येन तम् । पक्षे कोटिसंख्याककपर्ददातारम् । शंकरं शिवम् । पक्षे सुखसंपादकम् । चाञ्चल्यदोषेण त्यक्त्वा । दोषपदमनौचिती व्यनक्ति । हे जाह्रवि जहुतनये। एवं चैतादृशाचरणमनुचितं तवेति ध्वन्यते । एकं वटवृक्षम् । पक्षे वराटकम् । अपे- क्षमाणा प्रयागतटे । पक्षे मध्यमपदलोपिसमासात्प्रलुप्तयागस्य पापीयसः समीप इत्यर्थः । लुठसि । एवं च चाञ्चल्यकरणमनुचितं तवेति भावः ॥ 'किमिति विरहदुःखं त्वया मत्सख्या दत्तम्' इति वादिनी नायिकासखीं नायको वक्ति- वेद चतुर्णा क्षणदा प्रहराणां संगमं वियोगं च । चरणानामिव कूर्मी संकोचमपि प्रसारमपि ॥ ५४३ ॥ वेदेति । चतुःप्रहरसंबन्धिसंयोगं चतुःप्रहरसंबन्धिवियोगं च क्षणदा। क्षणदेव क्षणदा । नायिकेत्यर्थः । वेद । कर्तुमिति भावः । एवं च यदि प्रसन्ना' नायिका तदा सैव प्रहरचतुष्टयसंबन्धि रतसुखं करोति, सैव चाप्रसन्ना प्रहरचतुष्टयसंबन्धि विरहदुःखं करोतीति भावः । अत एव क्षणमुत्सवं ददाति यति चेति व्युत्पत्तिरपि संगच्छते । अथ च प्रहरचतुष्टयसंबन्धि सङ्गसुखस्य तथाविधविरहं रात्रिरेव वेद ।
काव्यमाला। रात्रीयाहरचतुष्टयसंबन्धिविरहवेदनायाश्च की सैवेत्यर्थः । दिवसीयविरहस्यामि रात्रावेवातिदुःखदत्वादिति भावः । चरणानां संकोचं प्रसारमपि यथा कुर्मी विजा- जाति, एवं च यथा चरणसंकोचप्रसरणसंपादन कूर्म्यधीन तथा संगमविरहसंपा- दनं नायिकाधीनमिति भावः । एवं च न ममापराध इति ध्वन्यते। यद्वा विरहिणी सखी वक्ति-हे सखि, चतुर्णा प्रहराणां संगम वियोगं च क्षणदा रात्रिर्वेद । चन्द्रायुद्दीपनादिप्राबल्याधुन्मादाद्यवस्थया नायकसमागमासमागमाभ्यां मत्सुखदुःख- साक्षिणी रात्रिरेवेति भावः । एवं च तादृश्यापि सख्या मत्सुखदुःखविचारणान क्रियत इति सख्युपालम्भो व्यज्यते । अथवा चतुर्णा प्रहराणां क्षणदा । समग्रा रानिरिति यावत् । सुखदुःखे वेद । मदीये इति भावः । एवं च क्षणमपि न रात्री विश्रान्तिवृत्तेति भावः । यद्वा सामान्यवनितां तदीयधात्री वक्ति-कूमीव क्षणदा चतुर्णा प्रहराणां सङ्गं वियोगं च वेद । त्वं किमिति न वेति । एवं च त्वयापि केऽप्यानेयाः केऽपि विनिःसारणीया इति भावः । अथवा सखी नायिकामुपदि- शति-या मुत्सवदा कामिनी सा खदर्शनादिदानेन दिवसीयप्रहरचतुष्टयविरह- संपादनेनोत्कण्ठितं नायकं विधाय रात्रौ प्रहरचतुष्टयमपि रमयतीति भावः ॥ नायिकासखी नायकं वक्ति- वृतिविवरेण विशन्ती सुभग त्वामीक्षितुं सखी दृष्टिः । हरति युवहृदयपञ्जरमध्यस्था मन्मथेषुरिव ।। ५४४ ॥ वृतीति । हे सुभग । एतादृशनायिकानुरागशालित्वादिति भावः। भित्ति सुषिरेण त्वामवलोकयितुं विशन्ती यूनां हृदयरूपो यः पारो वंशकरण्डिका तन्मध्यस्था । एवं च धारानुपघातो ध्वन्यते। मन्मथेषुरिव सख्याः । ममेति भावः । दृष्टिहरति । अर्थात्वामेव । एवं च पूर्व त्वगुणश्रवणादिना त्वय्यासक्ता, इदानींतनत्वद्विषयकविलोकनेन मन्मथवशान किंचिदपि मम सखी जानातीति त्वय्य यन्तमासक्तेयमिति ध्वन्यते । यद्वा युवहृदयपजरमध्यस्थेति दृष्टिविशेषणम् । पञ्जरपदेन निःसारणानहलं ध्वन्यते । एवं च त्वामवलोकयितुं प्रवृत्ताया मत्सख्या उदासीनवस्तुतुल्यतया नयनविषयीभूता अन्ये युवानस्तस्याः कटाक्षकतानतापना- खामेव भावयन्तीति भावः । एवं च सर्वयुवस्पृहणीया या त्वामेव स्पृहयतीति सा वयावश्यमनुप्राह्यति ध्वन्यते ॥ - । । REGRAMIN - आर्यासप्तशती। २१७ याथातथ्यज्ञानवानयमेवेति कश्चित्कंचिदन्योक्त्या वलिः- विपणितुलासामान्ये मा गणयैनं निरूपणे निपुण । धर्मघटोऽसावधरीकरोति लघुमुपरि नयति गुरुम् ॥ ५४५ ॥ विपणीति । हे निरूपणे निपुण । एवं चैतस्यान्यैः समताकरणे तवैवानुचित- मिति व्यज्यते । रथ्यातुलासामान्ये एनं मा गणय । असौ धर्मघटो लघुमधरीक- रोति गुरुमुपरि नयति । कचित् 'एनां दिव्यतुला सा' इति पाठः । तत्र नायिका- पक्षे योज्यम् ॥ सतां मनसः सकाशान किंचिन्महत्तरमिति कश्चिद्वक्ति, बासरगम्यमनूरोरम्बरमवनी च वामनैकपदम् । जलधिरपि पोतलवयः सतां मनः केन तुलयामः ॥ ५४६ ॥ वासरेति । ऊरुरहितस्य । अरुणस्येत्यर्थः । अम्बरं दिवसोल्लङ्यम् । वसुधा च वामनस्यैकपदम् । एकपदेनोल येत्यर्थः । समुद्रोऽपि पोतेन लक्ष्यः । सतां मनः केन तुलयामः । एवं च महत्तरतयाभिमतस्याकाशस्याल्पसमयेन चरणहीनोल्लङ्घनी- । यतया, तथा वसुधाया अपि ह्रखपदलङ्घनीयतया, तथा जलघेरपि पोत इव पोत इत्युपमितेन स्वल्पेनाप्युल्लङ्घनीयतया, एतन्त्रयातिरिकवस्तुनोऽभावात्सतां मनो निरुपममित्यर्थः ॥ दूती नायिका वत्ति- वितततमोमषिलेखालक्ष्मोत्सङ्गस्फुटाः कुरझाक्षि । पत्राक्षरनिकरा इव तारा नभसि प्रकाशन्ते ॥ ५४७ ॥ विततेति । हे कुरङ्गनेत्रे, विततं यत्तमस्तद्रूपा या मषी तस्या या रेखास्तद्- पचिह्नवदुत्सङ्गो यस्य तादृशा ये ताराः पत्ररूपाक्षरसमूहा इव प्रकाशन्ते । एवं व त्वद्विरहखिन्नस्य नायकस्य त्वद्विज्ञापनापत्रमिवेदमाकाशमालोक्य त्वया तश्या प्रस्थे. यमिति व्यज्यते । यद्वा मदनदेवस्येदं चन्द्रमुद्रामुद्रितं शासनपत्रं यन्मानवतीनां निःशकं भवद्भिर्दुःखं देयमिति शारदादिनिजजनस्येत्यवगत्य मानमपहाय नायकम- नुरजयेति सखीवाक्यमेतत् ॥ विविधाङ्गभनिषु गुरुर्नूतनशिष्यां मनोमवाचार्यः । वेत्रलतयेव बालां तल्पे नर्तयति रतरीत्या ॥ ५४८ ॥ विविधेति । अनेकाङ्गभगिषु गुरुर्मनोभवरूपाचार्यों नवीनान्तेवासिरूपां बालो KI स्थापितमित्यर्थः । उक्तमर्थमर्थान्तरन्यासेन द्रढयति-काणादा २१८ काव्यमाला। वेत्रलतयेव रतरीला तल्यै नर्तयति । एवं चेयमप्रेऽत्यन्तरतकलाप्रवीणा भविष्य- तीति भावः॥ नायको नायिका वक्ति विपरीतमपि रतं ते स्रोतो नद्या इवानुकूलमिदम् । तटतरुमिव मम हृदयं समूलमपि वेगतो हरति ॥ ५४९ ॥ विपरीतमिति । हे सुतनु, अनुकूलमिच्छाविषयीभूतम् । पक्षे कूलं रोधः। इदं ते विपरीतमपि रतम् । अपिना विपरीतरतेतररतसंग्रहः । यद्वापिरवधारणा- र्थकः । नद्या इव स्रोतो मम हृदयं तटतरुमिव वेगतः । वेगविशेषादित्यर्थः । आ. मूलं हरति । एवं च रतसामान्यस्याधिक्येऽपि विपरीतरतस्याधिक्यमित्यावेद्यते ॥ कश्चित्कंचिद्वक्ति वैभवमाजां दूषणमपि भूषणपक्ष एव निक्षिप्तम् । गुणमात्मनामधर्म द्वेषं च गृणन्ति काणादाः ॥ ५५० ॥ वैभवेति । दूषणमपि । अपिना हेयत्वमावेद्यते। भाग्यशालिनाम् । पक्ष वैभवं व्यापकत्वम् । भूषणपक्ष एव । एवकारेण दूषणपक्षव्यवच्छेदः । निक्षिप्तम् । तका अधर्म द्वेषं चात्मनां गुणं गृणन्ति । चतुर्विंशतिगुणेष्वेतयोर्गणनादिति भावः। एवं चाधर्मद्वेषयोर्दूषणपक्षनिक्षेपयोग्यत्वेऽप्यात्मनि विद्यमानतया गुणत्वं मुनिभिर- भिहितं तत्र का वार्तान्येषामिति भावः । एवं च दरिद्रस्यैव दोषं दोषत्वेन गणयन्ति सर्व इति दारिद्यमसम्यगिति व्यज्यते ॥ वक्राः कपटस्निग्धा मलिनाः कर्णान्तिके प्रसज्जन्तः । कं वञ्चयन्ति न सखे खलाश्च गणिकाकटाक्षाश्च ।। ५५१ ॥ वक्रेति । वक्राः कुटिलाः । कापट्येन स्नेहवन्तः । मलिनाः । पापकारित्वा- त्साहजिकश्यामताशालित्वादित्युभयत्रेति भावः । कर्णान्तिके प्रसज्जन्तः । परापका- रार्थं विशालत्वादित्युभयत्र भावः । हे सखे, खला वेश्याकटाक्षाश्च कं न वञ्चयन्ति । अपि तु सर्वमेव । एवं चोभयसंसर्गस्तव नोचित इति व्यज्यते ॥ । WERAUN आर्यासप्तशती। ॥ HOME पाकोद्यमशालिनी नायिका रतार्थी नायको वक्ति- विधुज्वालावलयितजलधरपिठरोदराद्विनिर्यान्ति । विशदौदनद्युतिमुषः प्रेयसि पयसा समं करकाः ।। ५५२ ॥ विद्युदिति । हे प्रेयसि, विद्युज्वालाभिर्व्याप्तं यन्मेघरूपपात्रम् , अथ च जलाधारभूतं यत्पिठरं तन्मध्यात्स्वच्छौदनकान्तिहारकाः करकाः पयसा जलेन । पक्षे दुग्धेन । सह विनियन्ति । एवं चैतादृशकाले क्षुत्क्षामस्य दुग्धौदनभोजन- दानवन्मम सुरतदानं जीवननिदानमित्यवगसेतरव्यासङ्गं परिहाय मत्सविध एहीति ध्वन्यते । यद्वा वर्षांपलसहितैतादृशवृष्टौ कथं मया संकेते समागन्तव्यमिति वादिनी काचिद्वक्ति-विद्युदिति । एवं चैतादृशकालीनसुरतं दुग्धौदनभोजनादपि मधुरमि- त्यवगत्य संकेतं प्रयाहीति ध्वन्यते ॥ अत्यन्तरतोत्कण्ठाशाली नायको. नायिका वक्ति- व्यजनादिभिरुपचारैः किं मरुपथिकस्य गृहिणि विहितैौ । तापस्त्वदूरकदलीद्वयमध्ये शान्तिमयमेति ॥ ५५३ ॥ 1 व्यजनेति । हे गृहिणि । एवं च सेवासंपादनौचित्यमावेद्यते। मरुपथिकस्य मे संपादितैय॑जनप्रभृतिभिरुपचारैः किम् । न किमपीत्यर्थः । एवं च मरुदेशा- दागतस्य भूयसी संतापवत्तति भावः। किं तर्हि विधेयमित्यत आह-त्वदूरुरूप- कदलीद्वयान्तरालेऽयं मदेकवेद्यस्तापः शान्तिमेतिः। एवं चान्यव्यासङ्गं विहाय रहसि सत्वरं प्रचलेति ध्वन्यते ॥ क्षुद्रेण यत्कर्म कर्तव्यं तद्विगुणं न विधेयमिति कश्चित्कमप्युपदिशति- वैगुण्येऽपि हि महता विनिर्मितं भवति कर्म शोभायै । दुर्वहनितम्बमन्थरमपि हरति नितम्बिनीनृत्यम् ॥ ५५४ ॥ . वैगुण्येऽपीति । महता श्रेष्ठेन संपादितं कर्म विगुणत्वेऽपि शोभायै भवति । अर्थान्तरन्यासमाह-दुर्वहः । महत्त्वादिति भावः । यो नितम्बस्तेन निश्चलमपि नितम्बिनीनृत्यं हरति । चित्तमिति भावः काचिदत्यन्तं सा पतिव्रतेति वादिनी कांचिद्वक्ति- वीक्ष्य सतीनां गणने रेखामेकां तया खनामाङ्काम् । सन्तु युवानो हसितुं खयमेवापारि नावरितुम् ॥ ५५५ ।। वीक्ष्येति । साध्वीनां गणने स्वनामचिह्नरूपामेकां रेखां दृष्ट्वा युवानः । तदु- P । । १२. काव्यमाला। पभोकार इति भावः । हसितुं सन्तु । खयमेवावरितुं निरोद्धम् । हासमिति भावः । नापारि । एवं च तदीयसतीगणनारेखां दृष्ट्वा युवभिहसितमिति किं वक्त व्यम्, तयैव कथमयं लोको प्रान्त इति हास्यं कृतमिति भावः । एवं चैतादृश्याः क सतीत्वमित्यावेद्यते ॥ इतः किमिति नापसरसीति वादिनी कांचित्कश्चिद्वक्ति- विन्ध्याचल इव देहस्तव विविधावर्तनर्मदनितम्बः । स्थगयति गति मुनेरपि संभावितरविरथस्तम्भः ॥ ५५६ ॥ विन्ध्येति । अत्र संबुद्धिपदानुपादानं लोकमीतिमावेदयति । विविधोऽनेकप्र- कारक आवर्त आवर्तनं चालनविशेषो यस्य स चासौ क्रीडाप्रदो नितम्बो यस्य।पक्षे विविधा आवर्ता अम्भोभ्रमणानि यस्यां तादृशी नर्मदा नदी यस्मिंस्तादृशकटकवान् । अत एव संभावितः सूर्यरथस्य स्खम्भो येन । खैकदेशनितम्बेन तच्चक्रविनिर्जया- दिति भावः । यद्वा संभावितो रविरथस्य लक्षणया तच्चक्रस्य खम्भो येन । ततो. ऽप्यधिकपरिमाणशालिनितम्बवत्त्वादिति भावः । पक्षे रविरथस्य स्तम्भो गतिवि- च्छेदः । अत्युच्चत्वादिति भावः। तव देहो विन्ध्यागिरिव मुनेरपि मननशीलस्यापि । पशेडगस्त्यस्य । गतिं श्लथयति । एवं च मननशीलस्यापि तवैतादृशदेहमवलोक्य गतिनिरोधो जायते, किं पुनर्मादृशस्य रसलम्पटस्येति भावः । यद्वा विपरीतस्त- निर्जितो नायको नायिकां वक्ति-विविधावर्तोऽनेकप्रकारकभवनम् । चलनविशेषा- दिति भावः । तेन क्रीडाप्रदो नितम्बो यस्य । संभावितो रविरथस्य स्तम्भः । पराभव इत्यर्थः । ततोऽप्यधिकतरगतिमनितम्बवत्त्वादिति भावः । पक्षे पावत् । मुनेरपि वानरं चपलं ध्यायेत्' इत्यादिकामतन्त्रोक्तचिन्तनवतोऽपि मतिं सामर्थ्य स्थगयति । एवं च त्वदासक्तचित्तस्य मम पराजयस्तव सुकर इति वन्यते ॥ काचित्कंचिदन्योक्त्या वक्ति- वृतिभञ्जन गञ्जनसह निकाममुद्दाम दुर्नयाराम । परवाटीशतलम्पट दुष्टवृष स्मरसि गेहमपि ॥ ५५७ ॥ वृतीति । आवरणभञ्जक, तिरस्कारसह, अत्यर्थ परमदुर्नयस्याराम । एवं च दुर्नयस्य त्वमेव स्थानमिति भावः । परकीयोपवनशतलम्पट, दुष्टवृष, गेहमपि स्मरसि । अपिना निजजनसंग्रहः। एवं च खनायिकाविस्मरणं तव नोचितमिति व्यज्यते॥ - आर्यासप्तशती। महावंशजन्यत्वेऽप्यनेकगुणवत्वेऽपि खलस्य विश्वासो न विधेय इति कवि त्कंचिद्वक्ति- वंशावलम्बनं यद्यो विस्तारो गुणस्य यावनतिः । तज्जालस्य खलस्य च निजाइसुप्तप्रणाशाय ॥ ५५८ ॥ वंशेति । यद्वंशस्यान्वयस्य, अथ च वेणोरवलम्बनं जन्यत्वमाश्रितत्वं च । गुणस्य पाण्डित्यशौर्यादेस्तन्तोश्च यो विस्तार आधिक्यं दैर्ध्य च। या च नमता तत्खलस्य जालस्य च निजाकसुप्तनाशाय । विश्वस्तनाशायेत्यर्थः ।। वर्षासमये प्रस्थातुमुद्यतं नायकं नायिकासखी वारयति- विन्ध्यमहीधरशिखरे मुदिरश्रेणीकृपाणमयमनिलः । उद्यद्विद्युज्योतिः पथिकवधायैव शातयति ॥ ५५९ ॥ विन्ध्येति । विन्ध्याचलसानौ मेघपतिरूपकरवालं स्फुरचपलारूपस्फुलिङ्गो- योतशाली असौ समीरणः पान्थविधातायैव तीक्ष्णीकरोति । विन्ध्यमहीधरप्रिखर इत्यनेन स्फुटदर्शनयोग्यत्वम् , तेन च मद्वचसि न मिथ्यात्वमाशामिति घोत्यते।। मुदिरश्रेणीकृपाणमित्यनेनानिवारणीयत्त्वम् , तेन च खसदनावस्थानमेव शरणमि- यावेद्यते । अनिल इत्यनेन सर्वत्र संचरणयोग्यत्वम्, तेन च प्रतीकारानहत्वं व्यज्यते । पथिकवधायैवेत्यनेन कार्यान्तराभावः, तेन च कथंचिदपि त्वया न गन्तव्यमित्यावेधते ॥ कश्चित्सखायं वक्ति- व्यालम्बमानवेणीधुतधूलि प्रथममश्रुमिधर्बोतम् । आयातस्य पदं मम गेहिन्या तदनु सलिलेन ॥ ५६० ॥ व्यालम्बेति । विशेषेणालम्बमाना या वेणी तया दूरीकृतधूलि । आयातस्य । परदेशादिति भावः । मम पदं गेहिन्या प्रथमतोऽश्रुभिः क्षालितं पश्चाजलेन । एवं चचिरप्रवासकरणान्मयि कोपमियं करिष्यतीति भीतिवतोऽपि ममानयां चरणप्र- गामादिना साध्वसमपाकृतम् । एतादृशी सरलतरा मम प्रियतमेति वन्यते ॥ विपरीतरतान्तविश्रान्तां नितान्तश्रान्तां कान्तां नायको वक्ति- वक्षःस्थलसुते मम मुखमुपधातुं न मौलिमालमसे । पीनोत्तुङ्गस्तनभरदूरीभूतं रतश्रान्तौ ॥ ५६१ ॥ वक्षःस्थलेति । रतविरतौ रतिश्रमे वा वक्षःस्थलपरिचयकारिणि मम वद. ।
२२२ काव्यमाला। नमुपधातुमुपधानीकर्तुं नालभसे न नम्रीकरोषि, न धारयसीति वा । तत्र हेतु- माह-पीनोचकुचभरदूरीभूतम् । एवं च त्वन्मौलौ वदनोपधानभवनाभावे न मन्मुखस्यापराधः, किं तु पीनोञ्चत्वत्कुचयोरेवेति भावः । यद्वा मम मुखमुपधानी- कर्तु मस्तकम् । ममेति भावः । नालभसे न स्पृशसि । स्प्रष्टुं न शक्नोषीत्यर्थः । न प्राप्नोषीति वा । तत्र हेतुः पीनोत्तुङ्गेत्यादि । अथवा मुखं स्वस्येति भावः । स्थाप- यितुं मम मौलिं न स्पृशसि । किं तु स्पृशेति भावः । यतस्त्वदीयपीनोच्चकुचान्त- रितम् । एवं च कराभ्यां मम मौलिमुन्नमय्य खवदनं स्थापयेति भावः । एवं च चुम्बनौत्कण्ठ्यं खस्य च पीनोच्चकुचभारतया मौलेरुनमनासामर्थ्य द्योत्यते ॥ कश्चिती वक्ति- वदनव्यापारान्तर्भावादनुरक्तमानयन्ती त्वम् । दूति सतीनाशार्थं तस्य भुजंगस्य दंष्ट्रासि ॥ ५६२ ।। वदनेति । हे दूति, वदनव्यापारेण वचनरचनया योऽन्तर्भावः परहृदय- प्रवेशस्तस्मात् , अनुरक्तमनुरागवन्तम् । पक्षे मुखसंबन्धेन यदन्तःप्रवेशनं तस्मात्, अनु पश्चाद्रकं रुधिरम् । सतीसमुदायमानयन्ती त्वं तस्य खिड्गस्य सर्पस्य च दंष्ट्रासि । एवं च वचनरचनया तया तथा हृदयं प्रविश्य पातिव्रत्यभङ्गं विधाय तेन खिनेन सह कामिनीसमूहं योजयसीति भावः । वदनव्यापारपदेन द्रव्यव्ययाद्य- भावो द्योत्यते । सार्थपदेन सामर्थ्यातिशयो व्यज्यते । दंष्ट्रापदेन त्वां विना सोऽकिंचित्कर इति ध्वन्यते ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता वकारव्रज्या । शकारनज्या। कस्यचिन्नायकस्येतरनायकसाधारण्यमसहमाना काचित्कांचिदन्योक्त्या वक्ति- श्रीरपि भुजंगभोगे मोहनविज्ञेन शीलिता येन । सोऽपि हरिः पुरुषो यदि पुरुषा इतरेऽपि किं कुर्मः॥५६३ ।। श्रीरपीति । येन सुरतविज्ञेन श्रीरपि । अपिना यदर्थ जगदखिलं यत्नमा- चरतीति ध्वन्यते । सर्पशरीरे शीलिता भुक्ता । भुजंगपदेन भयजनकत्वेऽपि तदभवनेनासक्त्यतिशयो द्योत्यते । यदि स हरिरपि पुरुषः, इतरेऽपि पुरुषास्तदा किं कुर्मः । एवं चैतादृशस्यान्यैः सामान्यैः सह साम्यकरणमनुचितमिति व्यज्यते आर्यासप्तशती। २२३ यद्वान्योक्त्या कश्चित्कंचन निन्दति । श्रीरपि लक्ष्मीखरूपापि येन खिड्गेन संभोग- विषये । मोहनविज्ञेनेति विपरीतलक्षणया सुरतानभिज्ञेन. शीलिता कृता इतरेऽपि यदि पुरुषाः सोऽपि हरिरिव हरिः पशुतुल्यः पुरुषस्तदा किं कुर्मः । एवं चैतादृशस्य पुरुषेषु गणना न युक्तेति भावः ॥ मानवती सामान्यवनितां सखी वक्ति- शके या स्थैर्यमयी श्लथयति बाहू मनोभवस्यापि । दर्पशिलामिव भवती कतरस्तरुणो विचालयति ॥ ५६४ ।। शङ्क इति । संबुद्धिपदानुपादानं क्रोधमावेदयति। या स्थैर्यप्रचुरा बाहू अपि। अपिना चाटुवचनादिसमुच्चयः । श्लथयति । चालयितुमशक्यत्वादिति भावः । एवं च करकर्षणादिनापि नेतश्चलतीति क्रोधातिशयवत्तां द्योतयति। मनोभवस्य दर्पशिलामिव । मनोभवपदेनाकुण्ठितत्वं ध्वन्यते । भवतीं कतरस्तरुणो विचाल- यति । न कोऽपीत्यर्थः । इति शङ्के । एवं चैतादृशकोपकरणे कस्त्वामनुरजयिष्य- तीति ध्वन्यते । यद्वा मनोभवस्येति बाहू इत्यत्रान्वेति ॥ नायिकासखी नायकमन्योक्त्या वक्ति- शार्दूलनखरभङ्गुर कठोरतरजातरूपरचनोऽपि । बालानामपि बाला सा यस्यास्त्वमपि हृदि वससि ॥ ५६५॥ शार्दूलति । हे व्याघ्रनखकुटिल, अथ च शार्दूलनखवत्कुटिल । तथाविधान वरणवत्त्वादिति भावः । कठिनतरजातरूपस्य सुवर्णस्य रचना यस्मिन् । अथ च जाता रूपस्य रचना यस्य । सौन्दर्यशालिन्यपि । त्वमपि । अपेरितरभूषण- समुच्चयो निन्द्यत्वं चार्थः । यस्या हृदि वससि । भूषणरूपतयेति भावः । अथ च तस्यास्त्वदासक्तत्वादिति भावः । सा बालानामपि मध्ये बाला । अतिबालिका । अत्यन्तमुग्धेति भावः । सुवर्णयुतव्याघ्रनखं बालहृदि भूषणं भवतीति भावः। एवं चैतादृशे कौटिल्यादिशालिनि सौन्दर्यवत्त्वेऽप्यासक्तिसंपादने कथमिव मौर्य न भवतीति भावः । यद्वा जाता रूपस्य रचना यस्याः । एतादृश्यपि, तारुण्यशा- लिन्यपि सात्यन्तबालिकैवेत्यर्थः । इतरत्पूर्ववत् ॥ नायिकासखी नायक वक्ति- श्रुत एव श्रुतिहारिणि रागोत्कर्षेण कण्ठमधिवसति । गीत इव त्वयि मधुरे करोति नार्थग्रहं सुतनुः ॥ ५६६ ॥ श्रुत एवेति । श्रवणसमय एव कर्णसुखजनके । पक्षे श्रुतिमिमनोहारिणीति २२४ काव्यमालो। ।। प्रीत्युत्कर्षण । पक्षे श्रीरागांधुत्कर्षेण । कण्ठमधिवसति । वनात्रैव सर्वत्र सल्यादिवपि सा व्यवहरतीति भावः । पक्षे व्यक्तीभवतीत्यर्थः । मधुरे सुन्दरे । पक्षे माधुर्यशालिनि । गीत इव । द्रव्यग्रहम् । पक्षेऽभिप्रायगृहम् । सुतनुः । एदों चस्पृहणीयत्वमावेद्यते। न करोति । एवं च नायिका न द्रव्यादिना त्वय्यंगुरका, *तु त्वदीयसौन्दर्यादिगुणोत्कर्षेणेति भावः ।। समीचीनसमताझीकारे सम्यगेव फलं भवतीति कश्चित्कंचिद्वति श्रीः श्रीफलेन राज्यं तृणराजेनाल्पसाम्यतो लब्धम् । कुचयोः सम्यक्साम्यागतो घटश्चक्रवर्तित्वम् ॥ ५६७ ॥ श्रीरिति । कुचयोरल्पसाम्याच्छीफलेन बिल्वफलेन श्रीलब्धा । तृणराजेन तालेन रोज्यं लब्धम् । सम्यक्साम्याटश्चक्रवर्तित्वं चक्रसंबन्धित्वं सार्वभौमत्व गतः प्राप्तः । एवं च नीचानुकरणमनुचितमिति ध्वन्यते ॥ काचित्सखी वक्ति- श्रोणी भूमावके प्रियो भयं मनसि पतिमुजे मौलिः । गूढधासो वदने सुरतमिदं चेतृणं त्रिदिवम् ॥ ५६८ ॥ श्रोणीति । भूतले नितम्बः। चलनज्ञानाभावार्थमिति भावः । चित्ते भीतिः। कदाचित्पतिना ज्ञेयमिति धियेति भावः । उत्सङ्गे प्रियः । जार इत्यर्थः । पतिभुजे मौलिः । पातीति व्युत्पत्त्या रक्षणमात्रकारित्वखभावेनान्धकारेऽपि करादिव्यापा- देण ज्ञास्यतीति धियेति भावः । मुखे गुप्तः श्वासः। पतिश्रवणमियेति भावः । इदम् । एतादृशामित्यर्थः । चेद्यदि सुरतम् । लभ्यत इति भावः । सुशब्देनान्या इशरतेऽसमीचीनत्वंमावेद्यते । तदा त्रिदिवं खर्गस्तृणतुल्यः । अगणनीय इत्यर्थः। एवं चैतादृशंसुरतवत्यों यास्ताः पुण्यातिशयशालितया धन्याः, तदभावादहमा न्येति वन्यते । तेन चैतादृशरतार्थ यतखेति ॥ नायकः सखायं वक्ति- श्लिष्यन्निव चुम्बन्निव पश्यन्निव चोल्लिखनिवातृप्तः । दधादिव हृदयस्यान्तः स्मरामि तस्या मुहुर्जधनम् ॥ ५६९ ॥ सिष्यन्निति। आलिङ्गन्नित्यादयः स्मृतिप्रकाराः । अतृप्तत्वं स्मृतौ हेतुः ॥
आर्यासप्तशती। २२५ . । ॥ । । कुपितां नायिका नायकसखी वक्ति- शिरसि चरणप्रहारं प्रदाय निःसार्यतां सते तदपि । चक्राङ्कितो भुजंगः कालिय इव सुमुखि कालिन्द्याः ॥५७०॥ शिरसीति । हे सुमुखि । एवं च परुषभाषित्वाभावो व्यज्यते । मस्तके पादप्रहारं दत्त्वा त्वया दूरीक्रियताम् । कालिन्द्याः कालिय इव । तथापि चक्रेण त्वच्चरणसंबन्धिनेत्यर्थः । चिह्नितः । पक्षे सुदर्शनचक्रेणाङ्कितः। यमुनातो निःसार्य सागरावस्थितौ गरुडभयनिवारणार्थ कालियस्य चक्रचिह्न कृतमिति पौराणिकाः । स भुजंगः खिड्गः । पक्षे सर्पः । ते। तवैवेत्यर्थः । एवं च त्वया कोपे कृतेऽपि स न कुपितो भवतीति व्यज्यते । यद्वा सखी नायिकामुपदिशति । हे सुमुखि । एवं चोपदेशाहत्वमावेद्यते । यद्यपि चक्रेण जनसंरक्षणेन चिह्नितः । 'जनावने समूहे व दम्भे मेदरथाङ्गयोः । शस्त्रभेदे च सेनायां चक्र चापि विहंगके ॥' इत्यभिधा- नात् । खिड्गस्तथापि त्वया शिरसि पादप्रहारं दत्त्वा सते सदर्थ निःसार्यताम् । एवं च यद्यप्यनेन बहु दीयते तथाप्यपकीर्तिर्भूयसी भवतीत्यतस्त्वं सामीचीन्या- र्थमेनं सनिकारं दूरीकुरुष्वेति भावः ॥ नायिकासखी नायकं वक्ति- शोच्यैव सा कृशाङ्गी भूतिमयी भवतु गुणमयी वापि । स्नेहैकवश्य भवता त्यक्ता दीपेन वर्तिरिव ॥ ५७१ ॥ शोच्यैवेति । हे नेहेन प्रीत्या न तु गुणैर्मुख्यवश्य। एवं च बहुतरतदीय- गुणेषु दृष्टिमदत्त्वा स्नेहमात्रमपेक्षस इत्यनुचितं तवेति ध्वन्यते । पक्षे तैलेन। दीपेन वर्तिरिव त्वया परित्यक्ता सा कृशाशी। एवं च सौन्दर्यवत्त्वमावेद्यते । कृशाङ्गीति वर्तिविशेषणमपि । भूतिरैश्वर्यम् । पक्षे भस्म । तत्प्रचुरा । गुणाः सौन्दर्यादयः। पक्षे तन्तवः। तत्प्रचुरा वा भवतु। परं तु शोच्यैव। एवं चत्वया तस्यां परित्यक्ता- यामैश्वर्य गुणादिकं च तस्याः सर्वमकिंचित्करमेवेति व्यज्यते । तेन च तदीयगुणा- दिमात्रमवेक्ष्य त्वया तदीयानुरञ्जनं विधेयमिति । यद्वैश्वर्यगुणाद्युत्कर्षवशानायक प्रत्यप्रीतिकारिणी नायिकामालोक्य नायकसखी नायकं वक्ति-हे स्नेहैकवश्य । एवं व तव नान्यापेक्षेति व्यज्यते । भवता परित्यक्ता सा ऐश्वर्यसौन्दर्ययुक्तापि शोच्यैव । एवं च तस्याः संपत्तिसौन्दर्यादिमत्तया मत्परित्यागेऽपि न किंचिद्दुःखं भविष्यतीति १५ आ० स० । । - २२६ काव्यमाला। । मनसि न विधेयं त्वयेति ध्वन्यते । तेन च किंचित्कालं त्वया परित्यक्ता सा स्वय- मेव त्वामनुनेष्यतीति ॥ कश्चित्सखायं वक्ति- शुक इव दारुशलाकापिञ्जरमनुदिवसवर्धमानो मे । कृन्तति दयिताहृदयं शोकः स्मरविशिखतीक्ष्णमुखः ॥९७२॥ शुक इति । प्रतिदिवसं वृद्धिमान् , कंदर्पबाणैर्निशितः । दुःखद इति यावत् । मुखमारम्भो यस्य सः । पक्षे मदनविशिखीभूतकिंशुकवत्तीक्ष्णवदनः । मे शोकः प्रियतमाहृदयं काष्ठशलाकापिञ्जरं शुक इव । दारुपदेन च्छेदनार्हत्वं द्योत्यते । छेद- यति । एवं च न मया परदेशे स्थेयमिति वन्यते ॥ काचित्कांचिद्वक्ति- श्रुत्वाकस्मिकमरणं शुकसूनोः सकलकौतुकैकनिधेः । ज्ञातो गृहिणीविनयव्यय आगत्यैव पथिकेन ॥ ५७३ ॥ श्रुत्वेति । पथिकेन निखिलकौतुकस्थानस्य शुकरूपो यः सूनुस्तस्य । एवं चातिस्नेहपात्रत्वं द्योत्यते। तेन च मारणानहत्वम् । तत्वेऽपि तत्करणेऽत्यन्तानु- चितकार्यकर्तृत्वं नायिकायामभिव्यज्यते । आकस्मिकं यन्मरणम् । एवं च रोगाद्य- नुत्पत्त्यानया मारित इति ध्वन्यते । श्रुत्वा । गृहिण्याः । एवं चान्यानिवारणीयत्वा- रक्षणीयत्वादि व्यज्यते । विनयनाशः । अकार्यकरणमित्यर्थः । आगमनोत्तरमेव । एवकारेण दास्याद्यकथितत्वं विनयव्यये व्यज्यते । ज्ञातः । एवं च किमकार्य प्रम- दानामिति ध्वन्यते । केचित्तु शुकसूनुरित्यस्य शुकबालक इत्यर्थमाहुः ॥ दूती नायिका वक्ति- शीलितभुजंगभोगा क्रोडेनाभ्युद्धृतापि कृष्णेन । अचलैव कीर्त्यते भूः किमशक्यं नाम वसुमत्याः ॥ ५७४ ॥ शीलितेति । अङ्गीकृतसर्पशरीरा। आधारतयेति भावः । अथ च कृतखिड्ग- संभोगा । कृष्णेन परमेश्वरेण कोडेन वराहरूपेण निष्कासितापि। अथ च दुष्टेन भु- जाभ्यन्तरेणालिङ्गितापि । भूः पृथ्वी । अथ च भवन्त्यपराधा बहवो यस्याः सका- शात्सा। अचलैव । अथ च चाञ्चल्याभाववत्येव कीर्त्यते । अत्र हेतुमाह--नामेति निश्चयेन । वसुमत्याः । अथ च संपत्तिशालिन्याः। किमशक्यम् । न किमपीत्यर्थः। । - ।
AAMANANEERINT आर्यासप्तशती। २२७ HIKARAN - .. । एवं च धनवत्यास्तव न किमप्ययशः संभवीत्यतो मदुक्तनायकेन संगतिं कुरुष्वेति ध्वन्यते॥ पूर्वनायिकासखी नायकं वक्ति- श्यामा विलोचनहरी बालेयं मनसि हन्त सज्जन्ती । लुम्पति पूर्वकलत्रं धूमलता भित्तिचित्रमिव ॥ ५७५ ॥ श्यामेति । श्यामा षोडशवार्षिकी । पक्षे श्यामरूपा । विलोचनहरी लोच- नयोः स्वस्मिन्नासक्तिसंपादिका । तारुण्यवत्त्वादिति भावः । एवं चैतस्यास्तारुण्यव- शादेव सौन्दर्य न खाभाविक्रमिति व्यज्यते । पक्षेऽश्रुसंपादकतया नेत्रहरत्वम् । मनसि लग्मा । अत्र तवेति पदानुपादानं सखीगतदुःखोद्रेकं व्यञ्जयति । इयं बाला। धूमपरम्परा । लतापदं मालिन्यातिशयजनकतामावेदयति । भित्तिस्थचित्रमिव पूर्व- कलत्रं लुम्पति । हन्तेति खेदे । एवं चैतादृशानुचितमन्यत्रेति भावः । पूर्वकलत्रस्य चित्रोपमानतया स्वाभाविकसौन्दर्यवत्त्वं बहुभाषित्वाभावश्च द्योत्यते । बालायाश्च धूमलतोपमानतया मालिन्यसंपादकताप्रदर्शनेनासतीकार्यकरणत्वमावेद्यते । आर्थिक- मित्त्युपमानतया मनसिजदुःखं ध्वन्यते । तेन वास्तवसमीचीनज्ञानविधुरत्वम् । लुम्पतीत्यत्र काका सखीप्रश्न इत्यपि भाति । अथवा काका न लुम्पतीत्यर्थः । पूर्व- कलत्रलेहस्यातिदृढत्वादिति भावः ।। प्रस्थितस्त्वं किमिति स्थितोऽसीति पृष्टः कश्चित्सखायं वक्ति- शतशो गतिरावृत्तिः शतशः कण्ठावलम्बनं शतशः । शतशो यामीति वचः स्मरामि तस्याः प्रवास दिने ॥ ५७६॥ शतश इति । अनेकवारं गमनमनेकवारं परावृत्तिश्च । सर्वथा गमने नायिका मद्विरहदहनदग्धा सती प्राणानेव त्यक्ष्यतीति धियेति भावः । अत एव वारंवार गाढालिङ्गनम् । अचिरेणैवागमिष्यामि दुःखं मा कुरुष्वेत्यनुनयार्थमिति भावः । तथानेकवारं गच्छामीति वचनम् । त्वदाज्ञा चेद्गच्छामि, नो चेन्न गच्छामीत्येवंवि- धम् । एवं च नायके नायिकाज्ञावशवर्तित्वं तेन चात्यन्तासक्तिमत्त्वं तेन च प्रणय- भङ्गभीरुत्वमावेद्यते। प्रस्थानकाले इदं सर्व तस्याः। तां प्रति वकृतमित्यर्थः । स्मरामि । एवं च तत्कालीनावस्थास्मरणसंजातवैकल्यविवशहृदयोऽहं गन्तुं न शन्नोमीति भावः । यद्वा प्रवासदिवसे तस्या नायिकाया अनेकगमनादिकं स्मरामि । wana ।
२२८ काव्यमाला। एवं च तदीयतत्कालीनतादृशावस्थास्मरणेन न मयात्र स्थातुं शक्यमिति नायकः सखायं वक्ति । नायिकायास्तावदनुनयेऽपि समधिकतरमानभवनमवलोक्याभिमानितयोदासीनं नायकमवलोक्य प्रशिथिलमानां कया रील्यानुनेतव्योऽयमिति विचारयन्ती नायिकां सखी वक्ति- श्रुतपरपुष्टरवाभिः पृष्टो गोपीभिरभिमतं कृष्णः। शंसति वंशस्तनितैः स्तनविनिहितलोचनोऽनुमतम् ।।५७७॥ श्रुतेति । श्रुतकोकिलरुताभिर्गोपीभिरीप्सितं पृष्टः कृष्णो वंशीरवः कुचविनि- हितनयनः स्वाभिमतम् । आलिङ्गनरूपमिति भावः । कथयति । गोपीपदमज्ञत्वं ध्वनयति कृष्णपदं कर्षति चित्तमिति व्युत्पत्त्या खचित्तस्य पराधीनताभावकर्तृत्वमा- वेदयति । एवं च चातुर्याभाववत्यो गोपाङ्गना अप्यनासक्तं परमेश्वरमेवरील्या स्वय- मेव स्ववशतां नयन्तीति भावः । एवं चैतादृशवसन्तसमये चतुरया त्वया विषय- रसलम्पटो नायकः कयाचन रीत्या कथं न स्वाधीनतां नेतुं शक्य इति व्यज्यते । कोकिलायाः प्रथमं रवश्रवणे मित्रस्य यदभीष्टं तत्पृष्ट्वा प्रदेयमेवेति लौकिकम् । यद्वा वसन्तसमये परदेशगमनमनुचितमिति कश्चित्कंचिद्वक्ति-परपुष्टा इव पर- पुष्टा दूतीसदृशाः कोकिला इत्यर्थः । तच्छब्दश्रवणाद्गोपीभिरविदग्धाभिरभिमतम् । खस्येति भावः । कृष्णः । एवं च मलिनत्वं ध्वन्यते । पृष्टः स च वंशीरवः । एवं च गोपनमभिव्यज्यते । तेन च पुरुषे धैर्यमङ्गनास्वधैर्यमिति । कुचदत्तनेत्रोऽनुमतं पृष्टेऽर्थे संमतं वक्ति । एवं च वसन्ते मौढ्यशालिन्योऽप्यङ्गनाः प्रमत्ततया समी- चीनपुरुषविवेकमपास्यान्यथाचरणप्रवणा भवन्ति, किं पुनः सकलविज्ञा इति भावः ॥ नायकप्रेमातिशयशालिन्यहमित्यभिमानशालिनी नायिकामन्योक्त्या परनायिका- सखी वक्ति- शंकरशिरसि निवेशितपदेति मा गर्वमुद्रहेन्दुकले । फलमेतस्य भविष्यति तव चण्डीचरणरेणुमृजा ॥ ५७८ ॥ शंकरेति । हे इन्दुकले, शंभुशिरसि स्थापितचरणे ते हेतोरभिमानं मा उद्वह । किमितीत्यत आह-तवैतस्य । गर्वस्येत्यर्थः । चण्डीचरणधूलिभिर्मार्जन- रूपं फलं भविष्यति । एवं च चण्डी मानवतीमालोक्य शंकरेण चरणप्रणामे क्रिय ।
EPHAiRamawon आर्यासप्तशती। २२९ । माणे चरणरेणुमार्जनं भवतीति भावः । एवं च कुपिता मत्सखी त्वां ताडयिष्य- तीत्यत ईदृशगर्व मा विधेहीति ध्वन्यते ॥ कथं मयानया सह सबाधकेऽस्मिन्नेव स्थले स्थयमिति चिन्ताव्याकुलं नायक तत्रैव स्थापयितुं नायिकादूती कयापि भझ्या वक्ति- शाखिशिखरे समीरणदोलायितनीडनिवृतं वसति । कर्मैकशरणमगणितभयमशिथिलकेलि खगमिथुनम् ॥ ५७९॥ शाखीति । वृक्षशिरसि । शाखिपदं घनतरच्छायावत्त्व ध्वनयति । तच्चा- नेकजनाकीर्णत्वम् । शिखरपदं पतनार्हत्वं गमयति । समीरणचलकुलायसुखितम् । समीरणपदमनिवारणीयतां द्योतयति। दोलायितपदं पतनभीतिमावेदयति । कमैक- शरणम् । एवं च दृष्टोपायविचार विधुरत्वं ध्वन्यते । अगणितभयम् । एवं च भयवत्त्वेऽपि तदगणनेनातिसाहसवत्त्वं द्योत्यते । अशिथिलकेलि । एवं च सर्वथा चिन्ताशून्यत्वं व्यज्यते । खगमिथुनम् । खे गच्छतीति व्युत्पत्त्यान्यत्र गमन- सामर्थेऽप्यगमनेन निजवसतावतिशयितप्रेमवत्त्वं ध्वन्यते । तेन चापरित्याज्य- त्वम् । एवं चान्यत्र गन्तु समर्थः खगोऽपि प्राक्तनकर्मभोगस्यापरिहार्यत्वमाकलय्य विवसतिं बाधकवत्त्वेऽप्यपरित्यजन्क्रीडापरवशतयैव कालमतिवाहयति कथं पुन- भवान्विवेकवान्महावीरोऽत्रत्यभीत्या स्थलं परित्यक्तुं विचारयतीत्यनुचितं तवेत्यतः सुखेनानया सहात्र सुरतसुखमनुभवंस्तिष्टेति ध्वन्यते । नायिका नायकचितं व्याक्षिपतीति ऋजवः॥ प्रतिबन्धवशात्संकेतानागमनेन कुपितं खकुटुम्बकान्तिकवर्तिनं नायकम- न्योक्त्या वापराधक्षमापनपुरःसरं संकेतं वक्ति- शुक सुरतसमरनारद हृदयरहस्यैकसार सर्वज्ञ । गुरुजनसमक्षमूक प्रसीद जम्बूफलं दलय ॥ ५८० ॥ शुकेति । हे शुक । एवं च वचनरचनानिपुणत्वं ध्वन्यते । सुरतरूपसङ्ग्रामे नारद तद्वर्धक । सङ्ग्रामपदेन निर्दयत्वं द्योत्यते । एवं च कामतन्त्राभिज्ञत्वमावेद्यते। यद्वात्यन्तरता भलाषित्वमावेद्यते । हृदये । ममेति भावः । यानि गोप्यवस्तूनि तेषु सार मुख्यभूत । एव च त्वदेकतानतापन्नाहमिति व्यज्यते । इदं त्वयापि विज्ञायत एवेत्याह-सर्वज्ञ । एवं च मदीयप्रेमातिशयाज्ञाने सर्वज्ञत्वं व्याहन्यतेति भावः । यद्वा 'सुरतसमरनारदहृदय' इत्येकं पदम् । एवं च सर्वदा सुरतप्रकार- ।
२३० काव्यमाला। चिन्तनकारित्वमावेद्यते । अथवा नारदपदस्य शरीरावच्छिन्नात्मनि शक्त्या कदाचि- च्छरीरस्य तूष्णींभावभवनाहतया हृदयस्य तु तदभाववत्तयातिशयितसुरतसामर्थ्यव- त्वमावेद्यते । रहस्यरूपः सन् मुख्यसाररूप । एवं च त्वदतिरिक्तं ममान्यन्न रहस्य- मिति भावः । यद्वा सर्वज्ञान्तमेकं पदम् । तथा च हृदूतरहस्यजातप्रधानभूतस्या- तिगोप्यत्वेऽपि तव तज्ज्ञानवत्त्वे संकेतस्थलं प्रति मदनागमनहेतुभूतश्वश्वादिनि- भर्त्सननिवारणरूपस्य ज्ञानवत्त्वं सुकरमिति ध्वन्यते । गुरुजनसमक्षे मूक । एवं च सर्वदा संनिहितत्वेऽपि श्लेषकाक्वादिनापि श्वशुरादिसंनिधौ वार्ताद्यकरणेन धैर्यवत्त्वमावेद्यते । यद्वा गुरुजडः । रहस्यकारणानभिज्ञ इति यावत् । यो जनः । अर्थात्वीयो मदीयो वा । तत्समक्षमूक । एवं च स्वीयत्वेऽपि रहस्यकथनानह- ताविचारकारितयातिशयितविवेकित्वमावेद्यते । प्रसीद । जम्बूफलं दलय। एवं च प्राक्तनमदीयसंकेतभङ्गापराधमवगणय्येदानी जम्बूवृक्षाधस्त्वया स्थयम् , मयाप्या- गम्यत एव झटिति तोति ध्वन्यते। एवं च फलमित्येकवचनं सहृदयम् । यद्वा संकेत- गमनजनितविलम्बवशात्समये भक्ष्याप्राप्त्या क्षुधितं शुकमवलोक्य ममाविनयमयं गुरुजनाय निवेदयिष्यतीति भीता नायिका तं प्रसादयितुं वक्ति-शुकेति । कीर- पदं विहाय शुकपदोपादानेन व्यासात्मजशुकाभेदबोधनेन क्रोधाभावौचित्यमावेद्यते। सुरतसङ्ग्रामनारद । एवं च यथा तव सुरतसङ्ग्राम एव प्रियो न तथा भोजनमिति ज्ञानवशान्मया गतमिति भावः । एवं च त्वदीयवचनरूपोद्दीपनवशादेव मया संकेते गतम्, अतो नायं ममापराध इति व्यज्यते। यद्वा त्वदीयप्रियसंपादनाय गतायां मयि क्रोधकरणमनुचितं तवेति व्यज्यते । एवं च नारदर्घ्यभेदप्रतिपादनेनापि कोपकरणानौचित्यं ध्वन्यते । हृदयरहस्यैकसारसर्वज्ञ । एवं च मदीयमनोजपीडा- ज्ञानवत्त्वेऽपि तत्प्रतीकाराय गतायां मयि कोपकरणं तव कथं नामौचितीमावहतीति भावः । सर्वज्ञपदेन बुद्धाभेदप्रतिपादनेन हिंसामात्रस्याधर्मसाधनत्वसमर्थनप्रवणस्य तव कोपकरणेन मन्मरणमेव भविष्यतीत्यतस्तदकरणमेव तवोचितमित्यावेद्यते। यद्वा सर्वज्ञपदेन परमेश्वराभेदप्रतिपादनेन मम वदतिरिक्त नान्यदुपास्यमस्तीति ध्वन्यते । तेन च मत्कृतापराधक्षमार्हत्वम् । यद्वान्तर्यामित्वेन मदीयमन्मथवेदना- ज्ञानवत्त्वं तवेति द्योत्यते । गुरुजनसमक्षमूकेल्यनेन गुरुजनसमक्षं वचनसामान्या- भाववत्तया मत्कृतापराधकथनस्यासंभाव्यतया कोपफलाकरणेन निरर्थकतत्करण- मनुचितमिति ध्वन्यते । अतः प्रसीद जम्बूफलं दलय । एवं च न केवलं मया खार्थ एव कृतः, परं त्वदर्थोऽपि संपादित इति व्यज्यते ॥ ।
SatrENNAINARTHAIL आर्यासप्तशती। २३१ - बहुतरपरिग्रहाभावेऽप्यतितृष्णाशालिनं कंचन कश्चिदन्योक्त्या वक्ति-- शिरसा वहसि कपर्दै रुद्र रुदित्वापि रजतमर्जयसि । अस्याप्युदरस्याध भजतस्तव वेत्ति कस्तत्त्वम् ।। ५८१ ॥ शिरसेति । हे रुद्र, शिरसा कप जटाजूटमथ च वराटिकां वहसि । रोदनं कृत्वापि रजतमर्जयसि । 'सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम्' इत्याद्यर्थवादाद्रुद्ररो- दनाद्रजतोत्पत्तिरिति । यद्यपि 'अग्नौ वामं वसु च संदधत' इत्यग्निरोदनाद्रजतो- त्पत्तिस्तथाप्यष्टमूर्तितयाग्निरूपो रुद्र इत्यर्थः । अस्य । एवं चापलापानहत्वं ध्वन्यते । उदरस्याध समांशकम् । 'अर्ध समेंऽशके' इत्यमरः । एवं च विभागकाले किंचि- दधिकाग्रहणेनातिकृपणत्वं ध्वन्यते । भजतोऽपि तत्त्वं को वेत्ति । न कोऽपीत्यर्थः । एवं च परिग्रहभावेऽतिदैन्यादिना द्रव्यार्जनकरणमनुचितमिति व्यज्यते ॥ कश्चित्कांचित्सामान्यवनितामन्योक्त्या वक्ति- श्रोतव्यैव सुधेव श्वेतांशुकलेव दूरदृश्यैव । दुष्टभुजंगपरीते त्वं केतकि न खलु नः स्पृश्या ॥ ५८२ ॥ श्रोतव्यैवेति । हे केतकि, दुष्टसर्पव्याप्ते, नोऽस्माकं त्वं निश्चयेन स्पृश्या न। किं तु सुधेव श्रोतव्यैव । न तु ग्रहीतुं शक्येत्यर्थः । तत्रापि भुजंगसंरक्षणस्य सत्त्वादिति भावः । सुधाश्वेतांशुकलयोः केतक्युपमानत्वे गौरत्वं समानो धर्मः । एवं च सर्वथा स्पृहणीयत्वेऽपि विटनैकट्येन दुर्घटा त्वत्संगतिरस्माकमिति व्यज्यते। यद्वा सुधेव श्रोतव्यैवेति काका नेत्यर्थः। किं तु दृश्यादृश्यत्वेऽपि चन्द्ररेखेव दूरह- श्यैवेति काका नेत्यर्थः । किं तु निकटदृश्या। एवं चेन्न कुतः संगति संपादयसीत्य- वाह-दुष्टसर्पव्याप्ते केतकि, त्वं नो न स्पृश्या । एवं च जीवनदाननिदानतापाप- नोदनखरूपायास्तव नकट्येऽपि खिड्गभिया नास्माकमागमनं भवतीति व्यज्यते ॥ नायको नायिकादूतीं वक्ति- श्रवणोपनीतगुणया समर्पयन्त्या प्रणम्य कुसुमानि । मदनधनुर्लतयेव त्वया वशं दूति नीतोऽस्मि ॥ ५८३ ॥ श्रवणेति । गुणः सौन्दर्यादिः । अर्थान्नायिकायाः । ज्या च । नमस्कृत्य । नमनं प्राप्य च । पुष्पाणि । अर्थान्नायिकाप्रेषितानीति भावः । मदनबाणानां पुष्पमयत्वाच्च । समर्पयन्या मदनधनुर्लतयेव हे दूति, त्वया स्वाधीनतां प्रापि- तोऽस्मि । एवं च मयावश्यमागम्यत एवेति व्यज्यते ॥ - ।
काव्यमाला। ki । - । कश्चित्कंचिदन्योक्त्या वक्ति- शाखोटकशाखोटजवैखानसकरटपूज्य रट सुचिरम् । नादरपदमिह गणकाः प्रमाणपुरुषो भवानेकः ॥ ५८४ ॥ शाखोटकेति । शाखोटकस्य वृक्षविशेषस्य शाखायामुटजं पर्णशाला तत्सं- बन्धिनो ये मुनयः काकास्तेषु पूज्य । काकश्रेष्टेति यावत् । यद्वा संबुद्धित्रयम् । चिरकालं रट । यत इह दैवज्ञा आदरस्थानं न । भवानेव प्रमाणपुरुषः । शुभाशुभ- निर्णयार्थमिति भावः । एवं च त्वादृशमूर्खाधिष्ठितैतादृशस्थले. नास्मादृशां विदुषं वचसामवकाश इति ध्वन्यते ॥ कस्यचिद्रूती कांचिद्वक्ति- शशिरेखोपमकान्तेस्तवान्यपाणिग्रहं प्रयातायाः । मदनासिपुत्रिकाया इवाङ्गशोमां कदर्थयति ॥ ५८५ ॥ शशीति । चन्द्रकलोपमेयशोभायाः । यद्वा चन्द्राङ्गश्रीसदृशशोभायाः। एवं च निष्कलङ्कतया तदुपमानत्वं युक्तमित्यावेद्यते । 'अङ्गश्रीः कथ्यते रेखा' इत्यभि- धानात् । अन्यस्य पाणिग्रहं प्राप्तायास्तव मदनच्छुरिकाया इवावयवशोभां कदर्थ-- यति कदयिष्यति । अन्यो नायक इति शेषः । एवं च मदुक्तनायकस्यैव त्वया संगतिः कर्तव्या नान्यस्येति व्यज्यते । तेन च तस्मिन्सौन्दर्यातिशयः । वापि च्छुरिका भवतीति चन्द्ररेखोपमानता । द्वितीयव्याख्यायां न कश्चिद्दोषः ॥ समीचीनवृत्तैरेव खामिकार्यार्थमाग्रहः क्रियते नान्यैरिति कश्चित्कंचिद्वक्ति- शैथिल्येन भृता अपि भर्तुः कार्यं त्यजन्ति न सुवृत्ताः । बलिनाकृष्टे बाहौ वलयाः कूजन्ति धावन्तिः ॥ ५८६ ॥ शैथिल्येनेति । मान्द्यव्याप्ता अपि। अथ च श्लथत्ववन्तोऽपिः । समीचीन- त्तशालिनः । अथ च वर्तुलाः। पोषकस्य । अथ च धारकस्य । कृत्यं न त्यजन्ति । अर्थान्तरन्यासमाह-बलवता । एवं च निवारणानहत्वं ध्वन्यते। हस्त आकृष्टे कङ्कणानि धावन्ति शब्दं कुर्वन्ति च । एवं च सुवृत्तत्वादचेतना वलया अप्येवमा- चरन्ति तत्र का वार्ता सचेतसामिति भावः ।। इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता शकारव्रज्या । ।
आर्यासप्तशती। २३३ षकारखज्या। BRAININ नायको नायिका वक्ति- षट्चरणकीटजुष्टं परागधुणपूर्णमायुधं त्यक्त्वा । त्वां मुष्टिमेयमध्यामधुना शक्तिं मरो वहति ॥ ५८७ ॥ षट्चरणेति । भ्रमररूपकीटसेवितम् । मदनधनुर्मीळ मधुकररूपत्वादिति भावः। परागः पुष्परजस्तद्रूपकाष्ठचूर्णपूर्णम् । मदनधनुषः पुष्परूपत्वादिति भावः । आयुधम् । शरासनमित्यर्थः । त्यक्त्वा । स्मरोऽधुना मुष्टिना मेयो मध्यो यस्यास्ताम् । कृशत्वादिति भावः । त्वां शक्तिं त्वद्रूपां शक्तिं वहति । एवं च त्वामासाद्याधुना मदनवीरोऽतिप्रबलः संवृत्त इति ध्वन्यते । वदतु' इति पाठे जातयौवनां त्वामा- साद्य कंदर्प इदानीं जगज्जयं करिष्यतीति ध्वन्यते ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता षकारव्रज्या । . सकारवज्या। सपत्नीदुःखदुःखितां नायिकां नायकसखी वक्ति- सा दिवसयोग्यकृत्यव्यपदेशा केवलं गृहिणी । द्वितिथेर्दिवसस्य परा तिथिरिव सेव्या निशि त्वमसि ।। ५८८ ।। सेति । सा नायिका दिनयोग्यकार्यकरणात्तस्य केवलं गृहिणी । तिथिद्वयवतो दिवसस्य संबन्धिनी द्वितीयतिथिरिव रात्रौ त्वं सेव्यासि । गृहकार्यार्थमेव केवलं सा, त्वं तु सुरतसुखार्थमिति भावः । एवं च तस्यामीा न विधेयेति ध्वन्यते ॥ सखी नायिका वक्ति- स्तननूतननखलेखालम्बी तव धर्मबिन्दुसंदोहः । आभाति पट्टसूत्रे प्रविशन्निव मौक्तिकप्रसरः ॥ ५८९ ॥ स्तनेति । त्वदीयस्तनसंबन्धितात्कालिकनखरेखालम्बी खेदबिन्दुसमूहः पट्ट- सूत्रे प्रविशन्मौक्तिकप्रकृष्टसर इव शोभते। नूतनपदेन नखरेखायामारक्तत्वं ध्वन्यते । एवं चेदानींतनसुरतेन तवातिशयशालिशोभा संवृत्तेति ध्वन्यते । एवं चैतादृश- प्रत्यक्षरतचिह्नदर्शनेऽपि न मया किंचित्कृतमिति वदसीत्यतस्त्वत्तुल्या नान्या प्रता रिकेति ध्वन्यते॥
काव्यमाला । IWAND सखी सामान्यवनितामुपदिशति- सौभाग्यगर्वमेका करोतु यूथस्य भूषणं करिणी । अत्यायामवतोर्या मदान्धयोर्मध्यमधिवसति ॥ ५९० ॥ सौभाग्येति । यूथस्य करिसमूहस्य भूषणं करिणी एका सौभाग्यस्य गर्व करोतु । अत्युच्चयोर्मदशालिनोयो मध्यमधिवसति । एवं च सर्वनायकसमाधान त्वया विधेयमिति ध्वन्यते ॥ पतिमवमत्य तत्सखीवचनादिकमप्युपेक्ष्य पश्चात्परितप्ता सती स्वयमेव प्रियस- विधमागता सखीपरिवृतं तमालोक्य तासु खलघुतागोपनाय नायिका नायकं वक्ति- स्वचरणपीडानुमितत्वन्मौलिरुजाविनीतमात्सर्या । अपराद्धा सुभग त्वां खयमहमनुनेतुमायाता ॥ ५९१ ॥ खचरणेति । खचरणपीडयानुमिता या त्वन्मस्तकपीडा तया विशेषेणाप तमात्सर्या । स्वयं कृतापराधा । पतिविहितप्रणतावपि कोपकरणादिति भावः । सुभग । विना प्रयत्नं मदागमनादिति भावः । त्वामनुनेतुमहमायाता । एवं चानेन प्रियतमेन बहुतरप्रणामादिना-मदनुनयः कृतोऽस्तीति व्यज्यते । यद्वा स्वयमेवो- स्कण्ठिता नायिका नायकसविध आगता, तत्र च तत्संख्यादिकमवलोक्यानाकारिता- गमनसंभाव्यमानलाघवपरिहाराय मृषैव वक्ति-खचरणेति ॥ अनुरक्तजनक्लेशकर्तुः सेनादिकं न सम्यक्, किं तु प्रबलविपक्षविद्रावकस्येति कश्चिदक्ति- स्नेहमयान्पीडयतः किं चक्रेणापि तैलकारस्य । चालयति पार्थिवानपि यः स कुलालः परं चक्री ॥ ५९२ ॥ स्नेहमयानिति । तैलप्रचुरान् । अथ च प्रीतिप्रचुरान् । पीडयतस्तैलकारस्य चक्रेणापि यन्त्रविशेषेणापि । अथ च सेनयापि 'शस्त्रभेदे च सेनायां चक्रम्' इत्य- भिधानात् । अपिना कोषादिसंग्रहः । यः पार्थिवान्पृथिवीविकारान्घटादीन् । अथ च महीपतीन् । चालयति भ्रामयति । अथ च स्वस्थानभ्रष्टान्करोति । स कुला- लोऽपि । अपिना निन्द्यत्वमावेद्यते । परमुत्कृष्टं चक्रवान्य विशेषवान् । अथ च सेनावान् । यद्वा यथास्थित एवापिः । एवं च सामर्थ्य विशेषवत्त्वमावेद्यते । एवं च सेनादिसत्त्वमात्रेण न प्रतिष्ठा, किं तु स्वानुरक्तसंरक्षणपरविद्रावणरूपकार्यकारित- येति व्यज्यते ॥
आर्यासप्तशती। २३५ सखी नायिका वक्ति- सरले न वेद भवती बहुभङ्गा बहुरसा बहुविवर्ता । गतिरसतीनेत्राणां प्रेम्णां स्रोतखतीनां च ॥ ५९३ ॥ सरल इति । हे सरले, बहुभङ्गा भङ्गो वक्रता विच्छेदस्तरङ्गश्च । बहुरसा वहुविषयकप्रेमवती । यद्वा शृङ्गारादिमती । बहुहर्षवती बहुजलवती च । बहुवि- वर्ता बहुकापट्यवती अनेकप्रकारवती बहुजलभ्रमणवती च । असतीनयनानां प्रेम्णां नदीनां च गतिः कटाक्षादिः स्थितिर्गमनं चेति भवती न वेद । एवं च प्रेम्णि भङ्गादिकं नियतमस्तीत्यत एतत्संरक्षणं दुष्करम् , अतोऽत्यन्ताभिमानं परित्यज्य नायकसमाधानं कुर्विति ध्वन्यते । नायिका सखी वक्ति- सखि मध्याहृद्विगुणधुमणिकरश्रेणिपीडिता छाया । मजितुमिवालवाले परितस्तरुमूलमाश्रयति ॥ ५९४ ॥ सखीति । हे सखि । एवं च रहस्यकथनार्हत्वं व्यज्यते । मध्याह्ने द्विगुणी- भूता या सूर्यकिरणश्रेणिस्तया पीडिता छाया आलवाले मन्जितुमिव समन्तादृक्षमूल- माश्रयति । एवं चैतादृशनिदाघकाले न कोऽपि स्वगेहाद्गच्छतीत्युपवने नायकं नय, अहमप्यधुना तत्रागतप्रायेति ध्वन्यते । यद्वा सखी नायिका वक्ति । एवं च यत्र प्रखररविकरनिकरखिन्ना प्राणानपि त्यक्तुकामा जडापि छायां खाश्रयं न परित्य- जति, तत्र किमु वाच्यं त्वया पतिपदारविन्दं विहाय क्षणमपि खेदवत्त्वेऽपि दूरे स्थेयमिति द्योत्यते॥ 'मप्रियो मय्यतिशयितानुरागवान्' इति वादिनी कांचित्काचिद्वक्ति- सखि शृणु मम प्रियोऽयं गेहं येनैव वर्मनायातः । तन्नगरग्रामनदीः पृच्छति सममागतानन्यान् ॥ ५९५ ।। सखीति । हे सखि, शृणु । शृण्वित्यनेन त्वदुक्तिरकिंचित्करेति ध्वन्यते । अयं मम प्रियः । परोक्षेऽप्यपरोक्षवनिर्देशो नायके निरन्तरसंगतिशालित्वमावेद- यति । गृहं येनेव मार्गेणागतस्तत्संबन्धिनगरग्रामनदीः स्वसहागतानन्यान्पृच्छति । एवकारेणादृष्टमार्गीयनगरादिप्रश्नकरणमुचितमिति ध्वन्यते । एवं च मन्नायको । - २३६ काव्यमाला । मथ्येतादृशानुरागवान्यच्चिरकालीनमार्गेणागतोऽप्यवश्यविशेयपत्तनादिज्ञानाभाववा- निति मन्नायकतुल्यो न बनायको न वा मत्तुल्या त्वमिति ध्वन्यते । यद्वा प्रिये मानादिकं त्वया विधेयमिति वादिनी सखी नायिका वक्ति-सखीति । शृण्वित्यस्या- नुपादानेऽपि श्रवणक्रियाप्रतीतेरनुपयुक्तार्थतया शृण्विति पदमवधारणं लक्षयति । एवं च मदुक्तौ नाप्रामाण्यमाशङ्यमिति वन्यते । एवं च मन्निमग्नचित्ततया प्रिय- तमः खयमुल्लचितवमस्थितानेककौतुकनिधाननगरादिज्ञानाभाववान् , अत एतादृशे मानादिविधानेन दुःखजननमनुचितमिति द्योत्यते ॥ वियोगिन्याः सायंतनसमयोऽत्यन्तदुःखद इति नायिका सखी वक्ति- सायं रविरनलमसौ मदनशरं स च वियोगिनीचेतः । इदमपि तमःसमूहं सोऽपि नभो निर्भरं विशति ॥ ५९६ ॥ सायमिति । अत्र सखीति पदानुपादानं तावद्वर्णोच्चारणेऽपि कालातिपातो भवतीति भाविसायंतनसमयस्यातिदुःखदत्वमित्यावेदयति । सायंतनसमये सूर्योऽनलं विशति । असावनलो मन्मथशरं विशति । स च मन्मथशरो विरहिणीचेतो विशति। इदमपि विरहिणीचेतोऽपि तमःसमुदायम् । तमःशब्देनाज्ञानं ध्वान्तं च । सोऽपि तमःसमूहोऽप्यतिशयेन नभो विशति । अनलेल्यादि पञ्चपदद्वितीयया कर्मत्वप्रति- पादनादीप्सिततमत्वेन खेच्छया तत्र तत्र तस्य तस्य कृतप्रवेशस्य निवारणानह- त्वमावेद्यते । एवं च यथा यथा रात्रिर्गमिष्यति तथा तथा मन्चेतसः शून्यरूपता भवित्रीति धरित्रीतले त्वदृते नान्यां मम प्राणप्रदां मन्य इत्यतस्त्वरसाधुनैव प्रिय- तमानयनार्थमिति ध्वन्यते ॥ काचित्कंचित्संकेतं वक्ति- स्मरसमरसमयपूरितकम्बुनिभो द्विगुणपीनगलनालः । शीर्णप्रासादोपरि जिगीषुरिव कलरवः क्वणति ॥ ५९७ ॥ स्मरेति । मदनयुद्धसमये । 'मदनवीरसमर' इत्यपि पाठः । पूरितो यः शङ्ख- स्तत्तुल्यद्विगुणितपुष्टकण्ठनालः कपोतो जयेच्छावानिव जर्जरप्रासादोपरि कूजति । शीर्णपदेनान्यानारोहणीयत्वं ध्वन्यते । प्रासादपदेन श्रमापनोदकसमीरणवत्तया निर्भररतसंपादनयोग्यत्वं व्यज्यते । उपरिपदमन्यानवलोकनीयत्वमावेदयति । कल- रवपदेनोद्दीपकत्वं द्योत्यत्ते ॥ ।
AdSHATRAPARIHARAMITS । । आर्यासप्तशती। २३७ फूत्कृत्य रुदतीं सुदती सखी शिक्षयति- स्फुरदधरमविरताश्रु ध्वनिरोधोत्कम्पकुचमिदं रुदितम् । जानूपनिहितहस्तन्यस्तमुखं दक्षिणप्रकृतेः ॥ ५९८ ॥ स्कटकम्पवन्तौ कुचौ यस्मिन् । जानुस्थापित हस्तन्यस्त वदनम् । इदमेतादृशा- कारशालि रुदितं सरलप्रकृतेः । एवं चैतदन्यथाचरणं तवानुचितमिति ध्वन्यते । 'स्फुरदधरश्वासम्' इत्यपि पाठः । यद्वैतादृशरोदने कस्यापि ज्ञानं न भविष्यतीति फूत्कृत्य रोदनं तवोचितमिति सखी नायिका वक्ति- काचित्सामान्यवनिता कांचित्सामान्यवनितां भङ्ग्यन्तरेण वक्ति- खयमुपनीतैरशनैः पुष्णन्ती नीडनिवृतं दयितम् । सहजप्रेमरसज्ञा सुभगागवं बकी वहतु ।। ५९९ ॥ स्वयमिति । स्वयमाहृतैर्भक्ष्यैः कुलायसुखितं दयितं पुष्णन्ती, अकृत्रिम- प्रेमरसाभिज्ञा बलाका सौभाग्यशालिनी गवं वहतु । सुभगेति भिन्नं पदं वा । एवं च यया स्वद्रव्येण नायकपोषणं क्रियते सैव रसाभिज्ञा सौभाग्यवतीनां गर्वमुद्वहतु नापरस्यास्तद्वहनमुचितमिति ध्वन्यते ॥ दुष्टप्रभुणा कोषाधिकारे दत्तेऽपि प्रभुरयं मय्यतीव विश्वस्त इति धिया तत्सेव- नमुचितं नैति कश्चित्कंचिद्वक्ति- खरसेन बध्नतां करमादाने कण्टकोत्करैस्तुदताम् । पिशुनानां पनसानां कोषाभोगोऽप्यविश्वास्यः ॥ ६०० ॥ खरसेनेति । खेच्छया कर दण्डं बनतां कुर्वताम् । आदाने अर्थात्करा- दाने कण्टकसमूहैस्तुदताम् । स्वरसेनेत्यनेन कियदनेन भुक्तं कियन्नेति शोधशून्य- त्वमावेद्यते । कण्टकोत्करैस्तुदतामित्यनेन खेच्छया कृतमपि दण्डं शनैः शनैर्न गृह्णन्तीति ध्वन्यते । अथ च खस्य रसेन द्रवेण करं हस्तं बध्नताम् । पनसरसस्य चिक्कणत्वादिति भावः । कण्टकोत्करैस्तुदताम्। पनसस्य कण्टकबाहुल्यादिति भावः । पिशुनानां पनसानां च कोषस्य भाण्डागारस्याभोगः संपर्कः । तद्विषयकाधिकार- वृत्त्वादिति भावः । अथ च कोषपरिपूर्णता । सोऽपि । अपिर्विश्वासास्पदत्वमावेद- यति । अथ च वृक्षसर्वदेशस्यापि कठिनत्वादिदोषसत्त्वात्समुच्चायकः। अविश्वास्यः । mane ।
२३८ काव्यमाला। । । । एवं च कोषोऽप्येभिरस्मासु विनिहित इति धिया न सुधिया पिशुनाः सेव्या इति व्यज्यते ॥ सरलतया मानाद्यविधायिनी भामिनी सखी समुपदिशति- सौभाग्यं दाक्षिण्यान्नेत्युपदिष्टं हरेण तरुणीनाम् । वामार्धमेव देव्याः खवपु शिल्पे निवेशयता ॥ ३०१ ।। सौभाग्यमिति । खशरीरस्य चित्रे । शिल्प इत्यनेन कार्याक्षमेऽपि वपुषि वामार्थस्येवादरः, तत्र का वार्ता कार्यक्षमे वपुषीति व्यज्यते । देव्या वामार्धमेव सव्यसमांशकमेव । देवीदक्षिणशरीरभागस्य शिवरूपत्वादिति भावः । अर्धमित्यनेन दक्षिणैकदेशस्याप्यनिवेशनेन तत्र न केवलमौदासीन्यन, अपि तु द्वेषवत्तेति ध्वन्यते । स्थापयता हरेण तरुणीनां दाक्षिण्यात्सरलत्वात्सौभाग्यं नेत्युपदिष्टम् । हरपदेन हरति सर्वस्य दुःखमिति व्युत्पत्त्या करुणावतापि भगवतानकीकारेण करु. शारहितस्यान्यसर्वनायकस्य दाक्षिण्यं न प्रीति विषय इति व्यज्यते। यद्वोपदेशदा- नाईत्वमथवोपदेशे याथातथ्यम् । एवं च श्लिष्टाभ्यां वामदक्षिणपदाभ्यां कौटिल्यान देव तरुणीनां सौभाग्यं न सरलतयति ध्वन्यते । तरुणीनामित्यनेनान्ये वयसि दाक्षिण्यमुचितमित्यावेद्यते । उपदिष्टमित्यनेनान्यथासंभावनमनुचितमिति ध्वन्यते । एवं च सरलतां विहाय मानाद्यवश्यं त्वया विधेयमिति ध्वन्यते । यद्वा कौटि- ल्यशालिनं नायक नायिकासखी वक्ति-स्खवपुःशिल्पे देव्या वामार्धमेव निवेश- यता हरेण दाक्षिण्यात्सौभाग्यं नेति तरुणीनामुपदिष्टम् । न तु पुंसाम् । एवं च स्त्रीणामेव वाम्यकरणमुचितम्, न तु पुंसामिति ध्वन्यते । यद्वा तरुणीनामेवेति योजना॥ नायिकासखी नायकं वक्ति- सुभग खभवनभित्तौ भवता संमद्य पीडिता सुतनुः । सा पीडयैव जीवति दधती वैद्येषु विद्वेषम् ॥ ६०२ ॥ सुभगेति । हे सुभग, स्वसदनभित्तो सम्यङ् मर्दयित्वा पीडिता सुतनु- वैद्येषु विशेषद्वेषं दधती सा पीडयैव जीवति । एवं च त्वत्कृतपीडा यत्र तस्या जीवननिदानं तत्र किं वाच्यं त्वत्सङ्ग इति व्यज्यते । उत्सववशात्त्वद्भवनमागतां बलादबलां त्वया दृढालिङ्गनादिना संपीड्यानुरागातिशयशालिनी विधायेदानीमुदा सीनवत्स्थीयत इस्तदनुचिततरं तवेति भावः । सुभगत्वं चाकस्मिकैतादृशनायिका ।
SHAHIRAINITABHARA आर्यासप्तशती। २३९ संपर्कवत्त्वादिति भावः । खपदेन भीतिशून्यत्वं नायके, नायिकायां सख्यादिराहि- खेन सहायशून्यत्वमावेद्यते । भित्तावित्यनेन निर्गमाभाववत्त्वं द्योत्यते । भवतेत्य- नेन बलात्कारो व्यज्यते ॥ नायिकासखी नायकं वक्ति- सा गुणमयी खभावखच्छा सुतनुः करग्रहायत्ता । भ्रमिता बहुमन्त्रविदा भवता काश्मीरमालेव ॥ ६०३ ॥ सेति । गुणाः सौन्दर्यादयः । पक्षे गुणः सूत्रम् । स्वभावेन सहजतया शुद्धा- न्तःकरणा । पक्षे स्वभावोज्ज्वला । करग्रहेण पाणिग्रहेण स्वाधीना। एवं च पाति- व्रत्यमावेद्यते । पक्षे हस्तेन यदङ्गीकरणं तेनायत्ता । काश्मीरमालेव सुतनुः । एवं स्पृहणीयत्वं द्योत्यते । बहुविचारवता। अत्यन्तकलाकुशलेनेत्यर्थः । पक्षे बहुतराग- मोक्तमन्त्रज्ञेन । एवं च बहुतरजपशालित्वं द्योत्यते । भवता भ्रमिता। एवं च त्वत्सं- गत्या कदापि नैतस्या विश्रान्तिरिति व्यज्यते । यद्वा सामान्यवनितासखी नायकं वक्ति-करग्रहेण खाधीना । न तु द्रव्यादिलोभेनेति भावः । खभावखच्छेत्यनेन सरलत्वं व्यज्यते । बहुमन्त्रविदानेकप्रकारकविचारवता । एवं च कापट्यशालित्वं द्योत्यते । भ्रमं प्रापिता । एवं चेयं भ्रान्ता त्वामस्थिरप्रकृतिकं भजते, त्वं तु न किमपि वसु ददासीति व्यज्यते । अन्योऽपि मन्त्रवेत्ता कंचिजनं भ्रान्तं विधाय तदीयसर्वखापहारं करोतीति लौकिकम् ॥ नायको नायिकां वक्ति- सब्रीडस्मितसुभगे स्पृष्टास्पृष्टेव किंचिदपयान्ती। अपसरसि सुन्दरि यथा यथा तथा स्पृशसि मम हृदयम् ६०४ सवीडेति । हे ब्रीडासहितस्मितसुभगे, किंचित्स्पृष्टा किंचिदस्पृष्टा । एता- दृश्येव । मयेति भावः । आकस्मिकसंजातसंघटनेऽपि लोकभीतिवशादिति भावः । अत एव व्रीडास्मितवत्ता नायिकायाः । अपसरन्ती त्वं यथा तथा सुन्दरि, अपस- रसि तथा मम हृदयं स्पृशसि । एवं चेदानीमहं नानुग्राह्यस्वया चेत्तदा न में प्राणाः स्थास्यन्तीति व्यज्यते । यद्वा स्पृष्टाप्यस्पृष्टैवाहमित्यपसरन्ती यथा यथाफ- सरसि तथा मम हृदयं स्पृशति । एवं च नाहं त्वया स्पृष्टेति वादिन्यपसरसि हृदयं च स्पृशसीत्यपसरणानर्थक्यम् , अत एह्यालिङ्गख मामिति व्यज्यते । 'स्पष्टीभू- वेव किंचिदपयान्ती' इत्यपि पाठः । 'षष्ठी संपूज्य' इति पाठेऽपि प्रसवनिमित्तक एव ब्रीडास्सिते किंचित्षष्ठी संपूज्य । यथाकथंचित्षष्ठी पूजयित्वेत्यर्थः । यथा यथा- । ।
२४० काव्यमाला । MAHINDI । यसरसि तथा सुन्दार, मम हृदयं स्पृशसि । 'षष्टी पूज्येव' इति पाठे पूज्या षष्टीव त्वं यथा यथापसरसि तथा सुन्दार, मम हृदयं स्पृशति । एवं च यथा षष्टी यं स्पृशति स न जीवति, तथा कृतषष्ठीपूजया त्वया स्पृष्टं मम हृदयं न स्थिति प्राप्नोतीति व्यज्यते । तेन च ममालिङ्गनचुम्बनादि देहीति ।। निजदयित एव रतिविधेया नान्यति वादिनी सखी नायिका वक्ति- सखि सुखयत्यवकाशप्राप्तः प्रेयान्यथा तथा न गृही। वातादवारितादपि भवति गवाक्षानिलः शीतः ॥ ६.५॥ सखीति । हे सखि । एवं च वास्तवाभिप्रायकथनार्हत्वमावेद्यते । अवकाश- प्राप्तः । संकेतवशात्समयविशेष समागत इत्यर्थः । प्रेयान्यथा मुखमुत्पादयति तथा निजः प्रेयान्न । अमुमेवार्थमर्थान्तरन्यासेन द्रढयति-अवारितात् । महत इति भावः । वाताद्वातायनसंबन्ध्यनिलः शीतस्तापापनोदकः । एवं चान्यनायकमवश्य- मानयति ध्वन्यते । यद्वा निजदयितानुरक्तां नायिकामन्यदयितेन संयोजयितुं दूती वक्ति-गृहीत्यनेनावारितादित्यनेन च 'अर्थादौषधवत्कामः प्रभुत्वात्केवलं श्रमः । करवस्वेषु दारेषु त्रयादन्यत्र मन्मथः ॥ इतिवत्तुल्यन्यायतया नायिकाया अप्य- थिकानुरागशालिपरपुरुषरतौ सुखातिशय इति द्योत्यते । अथवा गृहीत्यनेन निरः न्तरसदनावस्थितिशालितया स्वनायकः परपुरुषाप्राप्तिसमयेऽपि भोक्तुं शक्य इति व्यज्यते । तेन चाधुना तमहमानयामीति ॥ निरन्तरं नितान्तकुपितां नायिकां सखी वक्ति- सततमरुणितमुखे सखि निगिरन्ती गरलमिव गिरां गुम्फम् । अवगणितौषधिमन्त्रा भुजंगि रक्तं विरञ्जयसि ॥ ६०६॥ सततमिति । भुजंगीव भुजंगी तत्संबुद्धिः । एवं च तवान्तिकागमनेऽपि भीतिरुत्पद्यत इत्यावेद्यते । निरन्तररक्तीकृतवदने । कोपवशादिति भावः । पक्ष स्वभावत एवारक्तवदनत्वम् । सखि, विषभिव वाचां गुम्फ गिरन्ती पक्षे गरलं गिरन्ती । अवगणितोषधिमत्रा अवगणितौषधितुल्यविचारा । एवं यथौषधिः पीडाहारकतया सुखकारिणी तथा सविचारा मदुक्तिस्ते हितकारिणी, अहो एनामपि न गणयसीत्यनुचितं तवेति ध्वन्यते । पक्षे औषधमन्त्रादेरपि न यत्र सामर्थ्यमिति भावः । रक्तं जनं विरजयसि विरक्तं करोषि । पक्षे रुधिरवन्तं रुधिर- रहितं करोषि । एवं चैतादृशकोपवत्तया त्वया यत्रानुरक्तोऽपि जनोऽनुरागशून्यः क्रियते तत्राननुरक्तानुरञ्जनं तव दूरापास्तमिति व्यज्यते ॥ Howloateams - आर्यासप्तशती। २४१ maunia कपटभावेनैवानयाश्वासनं क्रियते न वास्तवसात्त्विकतयेति कश्चित्कंचिदन्योक्त्या वृक्ति- स्थलकमलमुग्धवपुषा सातङ्काङ्कस्थितैकचरणेन । आश्वासयति विसिन्याः कूले बिसकण्ठिका शफरम् ॥६०७॥ स्थलेति । कमलिन्याः समीपे बलाका सत्रासं कोडे स्थित एकश्चरणो यस्य तेन स्थलकमलवत्सुन्दरशरीरेण मत्स्यं विश्वासयति । एवं च मत्स्यस्य कमलभ्रमण समीपमागमनं भविष्यति ततश्चैतद्भोजनं विधेयमिति धिया तूष्णीमवतिष्ठत इति भावः । एवं चेयं दुष्टा, अत एतद्विश्वासो न विधेय इति व्यज्यते ॥ कश्चित्कामी दुष्प्रापां नायिकामवलोक्य समीरमुद्दिश्य वक्ति- सनखपदमधिकगौरं नाभीमूलं निरंशुकं कृत्वा । अनया सेवित पवन त्वं किं कृतमलयभृगुपातः ॥ ६०८ ॥ सनखेति । नखक्षतसहितमत्यन्तगौरं नाभीमूलमंशुकरहितं कृत्वानया सेवित पवन, त्वं कृतो मलयाचलकटकात्पातो येन, एतादृशः किमिति वितर्कः । एवं च यदि त्वया मृगुपातो न कृतः स्यात्तर्हि कथमनया विगलितलज्जया सेवितः स्यात्, अतस्तवैव तपस्याधिक्यमिति व्यज्यते। तेन च त्वमेव धन्य इति । यद्वैतदपेक्षया किमधिकतरफलमस्ति यल्लिप्सया मलयमृगुपातस्त्वया कृत इति प्रश्नः । एवं चैता- दृशसुखादन्यन्न पुरुषार्थरूपमिति व्यज्यते । रतोत्तरमपि समधिककामाविर्भावाद- तार्थं पुनः प्रवृत्तां कान्तामालोक्याली नायकं वक्तीति वा ॥ अदृष्टवता श्रीस्तावदप्रयत्नेनापि लभ्यत इति क्वचिद्वक्ति- सर्वाङ्गमर्पयन्ती लोला सुप्तं श्रमेण शय्यायाम् । अलसमपि भाग्यवन्तं भजते पुरुषायितेव श्रीः ॥ ६०९ ॥ सर्वाङ्गमिति । निखिलाङ्गं समर्पयन्ती चञ्चला । अथ च लोलेति श्रीनाम । श्रीविपरीतरतविधायिनीव शव्यायां श्रमेण सुप्तम् । एवं च शय्यादिरचनामात्रोद्यो- गशालिवं व्यज्यते । उद्योगरहितमपि । अपिः प्रागप्यन्वेति । यद्वा लोलेल्यत्रा- न्वेति । अदृष्टशालिनं भजते । पक्षे सुगमम् ॥ सुदिनं तदेव यत्र सारं सारं वियोगदुःखानि । आलिङ्गति सा गाढं पुनः पुनर्यामिनीप्रथमे ॥ ६१०॥ सुदिनमिति । तदेव समीचीनं दिनं यस्मिन्विरहदुःखानि स्मृत्वा स्मृत्वा १६ आ० स० ।
२४२ काव्यमाला। । । RANDMINE । रात्र्याः प्रथमे प्रहर इति भावः। वारं वारं दृढं सालिङ्गति। आलिङ्गयिष्यतीत्यर्थः त्रियामेति विहाय यामिनीपदोपादानेन निखिलजने जागरूकेऽपि सायंतनसमय एव चालिङ्गनादिविधानेन विगलितलजात्वं व्यज्यते । पथिकाशंसनमेतत् ॥ काचित्कांचिद्वक्ति- सान्तयं भुजिष्या यथा यथाचरति समधिको सेवाम् । साशङ्कर्ण्यसभया तथा तथा गेहिनी तस्य ॥ ६११ ॥ सान्तर्भयसिति । भुजिष्या दासी तस्य नायकस्यान्तर्भयसहितम् । खामिनी ज्ञास्यतीति धियेति भावः । यथा यथा सम्बगधिकाम् । संमतानुरागवत्वादिति भावः । सेवामाचरति तथा तथा गेहिनी । एवं च गृहकर्मव्यापृततयैतादृशानुचि- ताचरणज्ञानवैधुर्य व्यज्यते । साशङ्कानर्थप्रतिभासहिता । किमिदानीमियं समधिको सेवां करोतीति धियेति भावः । सेा समत्सरा । प्रायेणेयमस्मिन्रतिमतीति धियेति भावः । सभया । लोकापवादादिति भावः । अत एव गेहिनीति पदमर्थ- वत् । एवं च सर्वदा खामिचरणपरिचरणं स्वयमेव विधेयम्, न तु गृहव्यापारव- शादास्यादिनेति ध्वन्यते । 'तस्याः' इति पाठे नायिकायाः । सान्तर्भयम् । न ज्ञात- व्योऽनया नायकीयमत्सङ्ग इति धियेति भावः । इतरत्सुगमम् ॥ नायको नायिका वक्ति- सुन्दरि दर्शयति यथा भवद्विपक्षस्य तत्सखी कान्तिम् । पतति तथा समदृष्टिस्त्वदेकदासस्य सासूया ॥ ६१२ ॥ सुन्दरीति । हे सुन्दरि, तस्यास्त्वत्सपत्न्याः सखी भवद्विपक्षस्य त्वत्सपन्याः कान्ति यथा दर्शयति तथा वन्मात्रदासस्य मम । एवं च त्वदतिरिक्तायाः शोभा- कथनं कथं मया सोढुं शक्यमिति व्यज्यते। सद्वेषा दृष्टिः पतति । अर्थात्त्वद्विपक्षे। एवं च न मयानुरागवशात्त्वद्विपक्षावलोकनं कृतं किं तु क्रोधवशादिति भावः ।। सपत्नीदुःखितां कान्तां नायकसखी वक्ति- खाधीनरधरव्रणनखाङ्कपत्रावलोपदिनशयनैः । सुभगा सुभगेत्यनया सखि निखिला मुखरिता पल्ली ॥६१३॥ खाधीनैरिति । हे सखि, स्वयं कर्तुं शक्यैर्दन्तक्षतनखक्षतपत्रवल्लीप्रोञ्छन- दिवाखापैः सुभगेल्यनया। त्वत्सपत्न्येत्यर्थः । समग्रापि पल्ली वाचालीकृता । पली- । ।
MANTRAVATMARATERIAL आर्यासप्तशती। २४३ पदेन जाज्यं तेन च यथार्थज्ञानशून्यत्वं तेन चैतद्वचनमप्रमाणमिति व्यज्यते । निवारणानर्हत्वं वा । मुखरितेत्यनेन वचस्युपेक्षणीयत्व व्यज्यते । एवं च नायको नैतस्यामनुरक्तो न वा तत्कृतानि दन्तक्षतादीनि, किं तु मिथ्यैव लोके खसौभाग्य- प्रकटनायानया खयमेव संपादितानीति विज्ञाय नायके मानादिकरणमनुचितं तवेति ध्वन्यते ॥ काचित्कांचिद्वक्ति- सरित इव यस्य गेहे शुष्यन्ति विशालगोत्रजा नार्यः । क्षाराखेव स तृप्यति जलनिधिलहरीषु जलद इव ॥ ६१४ ॥ सरित इति । यस्य सदने सरित इव श्रेष्ठान्वयजाताः । पक्षे महत्तराद्रि- जन्याः । नार्यः शुष्यन्ति । दुःखोद्रेकवशादिति भावः । स क्षारास्वेव । नीरसाखे- वेत्यर्थः । समुद्रलहरीषु मेघ इव तृप्यति । एवं च यः कुलीनखनायिकासु नाभिन- न्दति तस्य नीरसनायिकावाप्तिरेव भवतीति व्यज्यते । यद्वा पराङ्गनालम्पटं नायक नायिका वक्ति-जलनिधिपदेन नीचजन्यत्वमन्याङ्गनासु ध्वन्यते । जलदपदेन नायके मालिन्यं व्यज्यते ॥ नायकदूती नायिका वक्ति- सकलकटकैकमण्डिनि कठिनीभूताशये शिखरदन्ति । गिरिभुव इव तव मन्ये मनः शिला समभवच्चण्डि ॥ ६१५॥ सकलेति।हे निखिलकटकमुख्यभूषणे । पक्षे कटकोऽद्रिनितम्बः। कठोरहृदये। पक्षे कठिनी खटिका । पद्मरागरूपरदे । पक्षे शिखरं शृङ्गम् । हे कोपने, पर्वतभू- मेरिव तव मनः पाषाणः । पक्षे मनःशिला धातुविशेषः । संजात इति तर्कयामि । एवं च भवदेकशरण उचितमात्राचरणप्रवणे निजरमणे नैवंविधं नैष्ठुर्य तव कर्तु समुचितमिति ध्वन्यते । तेन चावश्यं तमनुसरेति ॥ सखी नायिका वक्ति- सखि दुरवगाहगहनो विदधानो विप्रियं प्रियजनेऽपि । खल इव दुर्लक्ष्यस्तव विनतमुखस्योपरि स्थितः कोपः ॥६१६॥ सखीति । हे सखि, दुरवगाहः केनाप्युपायेन निवारयितुमशक्यः स चासौ - । ।
२४४ काव्यमाला। । गहनः । बहुतर इत्यर्थः । पक्षे केनाप्युपायेनाकलयितुमशक्यः कुटिलाशयश्चेत्यर्थः । प्रियजनेऽपि नायकेऽपि । अपिः करणानहत्वमावेदयति । पक्षे खेप्सितजनेऽपि । एवं च किमुतान्यत्रेति भावः । विप्रियं दुःखं विदधानः । विनतं यन्मुखं तस्योपरि स्थितः। पक्षे साधोरुपरि स्थितः । साधोः क्लेशद इत्यर्थः । एवं च दुष्टस्य दुष्टा- द्भीतिः साधुतो नेत्यर्थः । दुष्ट इव तव कोपो दुर्लक्ष्यो ज्ञातुमशक्यः । पक्षे द्रष्टु- मशक्यः । एवं चैतादृशकोपकरणमनुचितं तवेति ध्वन्यते । “विनयमुखोपस्थितः इति पाठे विनयो मुखेऽप्रतो यस्यैतादृश उपस्थितः । जात इत्यर्थः । एवं चेतादृश- विनयप्रदर्शनमप्यन्यादृशमेव मे भातीति व्यज्यते । पक्षे विनयो मुखे यस्य । न तु हृदय इति भावः । दुर्लक्ष्यः । विनयमुखत्वादेवेत्युभयत्र भावः । दुरवगाहेत्यादेः प्राग्वदेव । प्रियजनेऽपि विप्रियं विदधानः । प्रिये विनयप्रदर्शनस्योदासीनत्वादिति भावः । पक्षे प्राग्वत् । हे सखि, खल इव तव कोपः । एवं चैतादृशकोपकरणम- नुचितं तवेति भाव इत्यर्थः॥ कथमियमुपरिविवाहोत्सवं नावलोकयतीति वादिनं विदिततद्वृत्तान्तः कश्चिद्वक्ति-- खेदसचेलखाता सप्तपदी सप्त मण्डलीर्यान्ती। समदनदहनविकारा मनोहरा ब्रीडिता नमति ॥ ६१७ ॥ खेदेति । खेदेन । त्वदर्शनजेनेति भावः । सवसननानशालिनी । सप्तपद- समाहाररूपा सप्त मण्डलीरतिक्रामन्ती । मदनरूपो यो दहनस्तस्य यो विकारस्वत्स- हिता । चित्तहारिणी । लजिता नम्रीभवति । एवं चानया त्वच्चित्तमपहृतम् , अत एवाग्निदिव्ये खेदरूपजले सवसनप्लुता सप्तपदीरूपसप्तमण्डलातिक्रमकारिणी मदन- रूपाग्निदाहशालिनी संजाताशुद्धिमत्तया लज्जावशानोवमीक्षत इति भावः । एवं च त्वद्विषयकलजावशादेवमुन्नीयते यदियं विहितेऽपि विवाहे न त्वां त्यक्ष्यतीति व्यज्यते । अन्योऽपि तस्करः संजातदिव्यदूषणः किमिदानीं वक्तव्यं मयेति विगलितधिषणोऽधस्तादेव विलोकयन्नास्त इति लौकिकम् । यद्वा नायको नायि- कासखी वक्ति-एवं चेयं मन्मनोरूपवस्तु हृतवती वैवाहिकच्छद्मदिव्येऽपि शुद्ध्यभाववती समपहृतवस्त्वददती मयेयं भुजपाशेन बद्धा निर्दयं मर्दयित्वा मुष्ट्य- भिघातैरुरसि ताडयित्वा दन्तनखक्षतैश्च क्लेशभागिनी विधेया तत्रभवत्या नैतत्प्- क्षरक्षणं क्षणमपि विधेयमिति व्यज्यते । तेन च कृतविवाहामप्येनां न मुञ्चामीति । यद्वा मनोहरा सुन्दरी लजिता नमति । स्वेदेत्यादिविशेषप्रास्य सप्तपदीत्यादिविशे. धणं हेतुगर्भम् । एवं च नितम्बादिप्राशस्त्यमावेद्यते । लजायां तु खेदादिना ।
आर्यासप्तशती। २४५ । । । - मदीयमदनविकार एभिमत इति धीर्हेतुः । एवं चैतादृशप्रौढापरिणय एव सम्य- गिति व्यज्यत इति कश्चित्कंचिद्वतीत्यप्यर्थः ।। समीचीनानामप्यसमीचीनसंसर्गादन्यथाभावो भवतीति कश्चित्कंचिद्वक्ति- सुरसप्रवर्तमानः संघातोऽयं समानवृत्तानाम् । एत्यैव भिन्नवृत्तैर्भङ्गुरितः काव्यसर्ग इव ॥ ६१८॥ सुरसेति । समीचीनरसैः प्रकर्षेण वर्तमानः । पक्षे समीचीनरसवान् । समानाचरणवताम् । पक्षे एकजातीयच्छन्दसाम् । अयं समुदायः काव्यस्य सर्ग इवान्यादृशाचरणप्रवणैः । पक्षे विजातीयच्छन्दोभिः। एत्यैव । एवकारेण बहु- कालावस्थितौ कि भविष्यतीति न विद्म इति व्यज्यते । भडरितः कुटिलीकृतः । पक्षे समापितः। एवं चासत्संगतिरनुचितेति ध्वन्यते । यद्वा सर्वेऽप्येते समीचीना मत्सहायपक्ष एव स्थिताः, परमधुनैव कश्चिद्दुष्टैरागल्यान्यथाभावं नीता इति कश्चि- स्कंचिद्वक्ति ॥ कश्चित्सखायं वक्ति- सर्वासामेव सखे पय इव सुरतं मनोहारि । तस्या एव पुनः पुनरावृत्तौ दुग्धमिव मधुरम् ।। ६१९ ॥ सर्वासामिति । हे सखे, सर्वासामेव । स्त्रीत्वसाधारणधर्मवत्तयेति भावः । सुरतं पय इव दुग्धमिव समीचीनम् । आवर्तितं दुग्धमिव तस्य एव पुनः पुनरा- वृत्तौ सुरतं मधुरम् । एवं च सर्वकामिनीनां सुरतं सममेव परमिदमधिकं तस्या यदुत्तरोत्तरसुरते माधुर्यमिति भावः । एवं चान्यासां प्रथमत एव माधुर्य न पुनरुत्तरोत्तरत इति व्यज्यते । तेन च तत्तुल्या नान्या नायिकेति । यद्वा सर्वा- सामेव पुनः पुनरावृत्तौ सुरतं जलमिव मनोहारि पुनः पुनरावृत्तौ तस्या एव सुरतं दुग्धमिव मधुरम् । एवं च यथा जलदुग्धयोर्महदन्तरं तथान्यासां तस्याश्चोत्तरो- त्तरसुरत इति व्यज्यते । प्रथमव्याख्याने पयःपदस्थाने दुग्धपदं दुग्धपदस्थाने पयःपदं वेत्युभयत्रैकपददानमुचितम् ॥ कश्चित्कंचिद्वक्ति- खमेऽपि यां न मुञ्चसि या तेऽनुग्राहिणी हृदिस्थापि । दुष्टां न बुद्धिमिव तां गूढव्यभिचारिणीं वेत्सि ॥ ६२० ॥ स्वप्नेऽपीति । यां स्वप्नेऽपि । अपिनेतरकालसंग्रहः । एवं चासक्त्यतिशयो । - काव्यमाला। । । । । । - Lon- द्योत्यते । पक्षे खप्नेऽपि बुद्धेः सत्वाद्यथाश्रुतम् । या हृदिस्थापि । तवेति भावः । तेऽनु पश्चाद्राहिणी । परपुरुषमिति भावः । एवं च यां त्वं सर्वदा ध्यायसि सा त्वयि कचित्क्षणमपि गते परपुरुषमभिलषतीति भावः । अथवा त्वदिस्थापि पर- पुरुषानुग्रहवतीत्यर्थः । एवं च त्वद्धृदिस्थितिकालेऽपि परपुरुषे मनः कुरुते या सा त्वत्पश्चात्कं करिष्यतीति तन्न विद्म इति व्यज्यते । यद्वा या तवानुग्रहकारिणीत्वे- नाभिमता । एवं च वास्तवं तस्यास्त्वय्यनुग्रहो नास्तीत्यर्थः । पक्षे या ते । अवि- बमानेऽपि वस्तुनीति भावः । अनुप्राहिणी । अविद्यमानवस्तुविषयिणीत्यर्थः । अपिः पूर्वसमुञ्चायकः । तां दुष्टां बुद्धिमिव गुप्तव्यभिचारकारिणीम् । पक्ष झटित्यज्ञेयभ्रमत्ववतीम् । न जानासि । एवं चैतादृशदुष्टायामासक्तिसंपादनं तवा- नुचितमिति व्यज्यते॥ कश्चित्कांचिद्वक्ति- सपरावृत्ति चरन्ती वात्येव तृणं मनोऽनवद्याङ्गि । हरसि क्षिपसि तरलयसि भ्रमयसि तोलयसि पातयसि ॥६२१॥ सपरावृत्तीति । हे अनवद्याङ्गि । एवं च स्पृहणीयत्वमावेद्यते। परावृत्तिसहितं चलन्ती । पुनः पुनः पश्चानिरीक्षमाणा चलन्तीत्यर्थः । त्वमित्यस्यानुपादानं लोक- भीतिमावेदयति । पक्षे परिभ्रमणवती । मनः । ममेतिपदानुपादानेन यदीदं मनो मदीयं स्यात्तर्हि त्वत्कृतैतादृशैतदवस्था कथं मया द्रष्टुं शक्येति व्यज्यते । यद्वा मदीयत्वेन ज्ञाते मनसीतोऽप्यधिकतरपीडानया विधेयेति भीतिरावेद्यते । वाल्या तृणमिव हरसि, अवलोकनेन वाधीनं करोषि । त्वय्यासक्तं भवतीति भावः क्षिपसि । अनवलोकनेऽहमनया नानुगृहीत इति दुःखभाकरोषीति भावः । तरल. यसि । पुनरवलोकने मय्यनुग्रहवतीति धियेयं मयाञ्चले झटिति धर्तव्येति चाञ्चल्य- भाकरोषीति भावः । भ्रमयसि । पुनरनवलोकनेऽज्ञानशालिनं करोषि । सर्वथा किंकर्तव्यतामूढं संजातमिति भावः । तोलयसि । पुनरवलोकनेन किमस्मिन्किचि- द्धैर्यमस्ति न वेति ज्ञापकयथावस्थितिशालिवाभाववत्करोषीति भावः । एवं क्षण धैर्यशालि क्षणमधैर्यशालि संवृत्तमिति भावः। पातयसि मूच्छितं करोषि । पुनरव- लोकनादिति भावः । एवं च त्वत्कटाक्षरूपसायकैरसमसायकेन भूयो भूयो जर्जरी- कृतं सन्निष्प्राणमिव संजातमिति भावः । अन्योऽपि कश्चिद्वीरः पुनः पुनर्हन्यमानो माछतो भवतीति लौकिकम् । एवं च निरपराधिनो ममैतादृशदुःखविधाने कथं नापराध्यति भवतीति व्यज्यते ॥ ।
आर्यासप्तशती। २४७ कितव तव तुल्यम् । नायिकासखी नायकं वक्ति- सा बहुलक्षणभावा स्त्रीमात्रं वेति कोटिर्वराटिका वा द्यूतविधेः सर्व एव पणः ॥ ६२२ ।। सेति । हे कितव । एवं च तवैतादृशबुद्धिशालित्वमुचितमिति व्यज्यते। तव बहूनि यानि लक्षणान्यस्थूलाधरत्वादीनि तेषां भावः सत्ता यस्यां सा। यद्वा बहुला ये क्षणा उत्सवास्ते येभ्य एतादृशा भावा विलासा यस्यां सा । एवं चेतर- नायिकातोऽधिकत्वमावेद्यते । पक्षे बहूनां समग्राणां लक्षणानां भाव आलोकन चित्ताभिप्रायो वा यस्यां सा । एतादृशी सा नायिका स्त्रीमानं वेति तव । एवं चान्यस्य नैतादृशी मतिरिति भावः । तुल्यम् । मात्रपदेन लक्षणादिसत्त्वविरह आवेद्यते । अमुमेवार्थमर्थान्तरन्यासेन द्रढयति-द्यूतविधिसंबन्धिकोटिः कोटि- संख्याकं वस्तु कपर्दिका वा सर्व एव पणः । यद्वा द्यूतं विधिः कर्तव्यार्थो यस्य स तस्य । विधिपदमवश्यकर्तव्यत्वमावेदयति । एवं च यथा यूतसक्तस्य कोटिसं- ख्याकं वसु समधिकं वराटिका न्यूनेति ज्ञानशून्यत्वं तथा धूर्तस्य तव विशेष. ज्ञानशून्यत्वमिति भावः । एवं च गुणानभिज्ञतया त्वया तां मत्सखीं विहायान्यत्रा. सक्तिः क्रियत इति व्यज्यते ॥ सखी नायकं वक्ति- सा विरहदहनदूना मृत्वा मृत्वापि जीवति वराकी । शारीव कितव भवतानुकूलिता पातिताक्षेण ॥ ६२३ ॥ सेति । हे कितव, पातिताक्षेण कृतकटाक्षेण । पक्षेऽक्षः पाशः । भवतानुकू- लिता खाधीनीकृता । पक्षे संचरणक्षमा कृता । विरहानलखिन्ना सा वराकी । एवं च सरलत्वमावेद्यते । चतुरङ्गगुटिकेव मृत्वा मृत्वापि जीवति । एवं च तस्यास्त्व- कटाक्षमात्रेण जीवनम् , अन्यथा मरणमेवेति भावः । एवं च या हि खदर्शना- दिनानोपायैः ववशतामानीता तस्यां पुनरीदृशौदासीन्यसंपादनं कथमनौचिती ते नावहतीति व्यज्यते । तेन च सा त्वयानुग्राह्येति । पक्षे मरणं क्रीडाक्षमत्वम् । जीवनं तत्क्षमत्वम् ॥ नायिका सखी वक्ति- स्पर्शादेव खेदं जनयति न च मे ददाति निद्रातुम् । प्रिय इव जघनांशुकमपि न निदाघः क्षणमपि क्षमते॥६२४॥ स्पर्शादिति । निदाघः प्रिय इव । एवं च निवारणानहवं ध्वन्यते । स्पर्श- - -- । नव- काव्यमाला। मात्रात् । एवं च किंचित्कालोत्तरं किमनेन विधेयमिति न विद्म इति व्यज्यते। पक्षे रतादिजन्यावस्था वक्तुं न शक्येति व्यज्यते । खेदं करोति । निद्रां कर्तुं च सनसत्त्वमावश्यकं तदभावे का वार्तालंकरणादीनां का च वार्ता घण्टिकादीनामिति भावः । एवं च प्रतिक्षणदृढतररतकारी मत्प्रिय इति व्यज्यते । एवं चैता- दृशनिदाघकाले प्रियतममन्तरा नावस्थातुं शक्यम्, अतस्त्वरख तदानयनार्थ- मिति ध्वन्यते ॥ दूती नायकं वक्ति- सा भवतो भावनया समयविरुद्धं मनोभवं बाला । नूतनलतेव सुन्दर दोहदशक्त्या फलं वहति ॥ ६२५ ।। सेति । हे सुन्दर । एवं चासक्तियोग्यत्वं व्यज्यते । यद्वैतद्दोहदविशेषणम् । नूतनलता । नूतनपदेन चिरभाविफलयोग्यत्वं द्योल्यते । दोहदस्य शक्त्या फल- मिव सा बाला भवतो निरन्तरचिन्तनेन समयविरुद्धम् । बाल्ये हि मनोभवोद्रे- कवत्त्वं विरुद्धमिति भावः । फलविशेषणमप्येतत् । मन्मथं वहति । एवं च सा मदनकलाकलापानभिज्ञेति न मन्तव्यं त्वयति व्यज्यते । तेन चाभुक्तभोगान्नाधिकं किमपि सुखम्, अतस्त्वरख तदर्शनायेति ॥ नायकं नायिकासखी वक्ति- स्पृश्यति नखैन च विलिखति सिचयं गृह्णाति न च विमोचयति । न च मुञ्चति न च मदयति नयति निशां सा न निद्राति ॥६२६॥ स्पृशतीति । सा नखैः स्पृशति न च विलिखति । नखाग्रस्पर्शसंपादनेन मदनवत्त्वं नखक्षताद्यकरणेन लज्जावत्त्वमावेद्यते । सिचयम् । तत्करकलितमिति भावः । गृह्णाति न च विमोचयति । गृह्णातीत्यनेन लज्जावत्वं न विमोचयतीत्यनेन मदनवत्त्वं ध्वन्यते । न च मुञ्चति । गन्तुं न प्रयच्छति न वा गच्छतीत्यर्थः । न च मदयति । न मदयतीत्यनेन मान्मथस्पष्टचेष्टाधकरणेन लज्जावत्त्वं व्यज्यते। निशामतिवाहयति न निद्राति । तूष्णीं निशातिवाहनेन लज्जावत्त्वं निद्राद्यविधानेन मन्मथवत्त्वं द्योत्यते । एवं च मध्याखभावादियमेतादृशी न तु कोपादिमतीत्यतो भीतिमुत्सृज्यैनां निगृह्य खाभिलषितं संपादयेति ध्वन्यते ॥ । NAA आर्यासप्तशती। २४९ diseamle -- नायकः सखायं वक्ति- स्तनजघनद्वयमस्या लडितमध्यः सखे मम कटाक्षः । नोज्झति रोधखत्यास्तटद्वयं तीर्थकाक इव ॥ ६२७ ।। स्तनेति । हे सखे, तीर्थसंबन्धिकाको नद्यास्तटद्वयमिव लवितो मध्यः कटि- यन । सूक्ष्मत्वादिति भावः । पक्षे लचितप्रवाहः । मम कटाक्षस्तस्या उन्नतम् । तटद्वयविशेषणमप्येतत् । स्तनजघनम् । प्राण्यङ्गत्वादेकवद्भावः । नोज्झति । तीर्थ- काक इत्यनेन कटाक्षे काकोपमेयतया नायिकायां तीर्थरूपत्वप्रतिपादनेन प्राक्तनकृत- सुकृतसमूहैकलभ्यत्वं नायिकायामावेद्यते । लच्चितमध्य इत्यनेन मध्यपाते जीवन- मेवासंभवीति व्यज्यते । तस्याः स्तने कदाचिजघने वा दृष्टिर्ममावतिष्ठते नान्यत्रेति भावः । एवं च तस्यामासक्तिस्त्वया न विधेयेति नाहमुपदेष्टव्य इति व्यज्यते ॥ नायकः सखायं वक्ति- सनीडस्मितमन्दश्वसितं मां मा स्पृशेति शंसन्त्या । आकोपमेत्य वातायनं पिधाय स्थितं प्रियया ॥ ६२८ ॥ सवीडेति । आ ईषत्कोपमेत्य लज्जास्मितकिंचिच्छसितसहितम् । सख्यादि- विलोकनाहज्जा। कथमयमकस्मादेव पश्यन्तीषु सखीषु तागाचरणप्रवृत्त इति स्मयेन स्मितम् । मन्मथाविर्भावाच मन्दश्वसितम् । मां मा स्पृशेति कथयन्या प्रियया वातायनं पिधाय स्थितम् । एवं च सख्यादिदृगविषयतासंपादनेन यथेच्छ- रत्यनुमतिर्दत्तेति ध्वन्यते। तेन चैतादृशी नान्या चतुरेति ॥ नायकः सखायं वक्ति- सकरग्रहं सरुदितं साक्षेपं सनखमुष्टि सजिगीषम् । तस्याः सुरतं सुरतं प्राजापत्यक्रतुरतोऽन्यः ॥ ६२९ ॥ सकरेति । करग्रहणसहितम् । निषेधार्थमित्यर्थः । सरुदितम् । असह्यत्वज्ञा- पनायेति भावः । साक्षेपम् । ईदृशे कर्तव्ये कथमनीदृशं विधीयत इत्याक्षेपसहित- मित्यर्थः । नखमुष्टिसहितम् । जेतुमिच्छा जिगीषा तत्सहितम् । सकरग्रहं सरुदित- मित्यनेन नायककामसंदीपननिपुणत्वमथवा कोमलासीत्वम्, साक्षेपमित्यनेन कामत- त्रनिपुणत्वम् , सनखमुष्टि सजिगीषमित्यनेन रसनिमग्नमानसत्वं नायिकायामा- २५० काव्यमाला। । । वेद्यते। तस्याः सुरतं सुरतम् । द्वितीयं सुरतपदम् 'यस्य मित्राणि मित्राणि' इत्यादिव- त्सुखातिशयजनकमित्यर्थान्तरसंक्रमितवाच्यम् । अत एव तत्सुरतादन्यः प्राजापत्य- ऋतुः । ऋतुपदेन कालान्तरभावि फलत्वं व्यज्यते । तेन चैतदतिरिक्तपत्नीसुरतं पुत्रादिजननोत्तरं सुखदं न तदानीमेवेत्यनेनापीयमेव ममातिशयप्रेमवतीति । दुर्जननिन्दाभिया परपुरुषे मानसमकुर्वाणां नायिकां दूती वक्ति- सखि न खलु निर्मलानां विदधत्यभिधानमपि मुखे मलिनाः । केनाश्रावि पिकानां कुहूं विहायेतरः शब्दः ॥ ६३० ॥ सखीति । हे सखि । एवं च हितोपदेशकथनार्हत्वं द्योत्यते । मलिना निर्म- लानामभिधानमपि । अपिना संगत्यादेर्युदासः । निश्चयेन मुखेन विदधति । अमु- मेवार्थमर्थान्तरन्यासेन द्रढयति-पिकानां कुहूं विहायान्यः शब्दः केनाश्रावि । न. केनापीत्यर्थः । एवं च मलिनोक्तदुरुक्तेः किंचिन्न मनसि दुःखं विधेयमित्यावेद्यते। तेन च दुर्जनभीतिमुत्सृज्य स्वाभिलषितं यथेच्छं साधयेति ॥ कचिल्लघुतापि समीचीनफलदेति कश्चित्कंचिद्वक्ति- खल्पा इति रामबलैयें न्यस्ता नाशये पयोराशेः । ते शैलाः स्थितिमन्तो हन्त लघिम्नैव बहुमानः ॥ ६३१ ।। स्वल्पा इति । ये रघुपतिसैन्यैः स्वल्पा इति हेतोः समुद्रस्यान्तर्न निःक्षिप्तास्ते शैलाः स्थितिमन्तः। भुवीति भावः । जाताः । अतो लाघवेनैव बहुमानः । मह- त्परिमाणस्थितिशालित्वादिति भावः ॥ नायिकासखी नायकं वक्ति- सा श्यामा तन्वङ्गी दहता शीतोपचारतीत्रेण । विरहेण पाण्डिमानं नीता तुहिनेन दूर्वेव ॥ ६३२ ॥ सेति । अत्र संबुद्धिपदानुपादानं नायकविषयकक्रोधवत्तामावेदयति । श्यामा षोडशवार्षिकी । पक्षे श्यामवर्णा । कृशाङ्गी। पक्षे स्थूलेतरा । सा नायिका दहता शीतोपचारेण तीव्रः । अधिक इत्यर्थः । तेन । विरहेण दूर्वा हिमेनेव पाण्डुतां नीता। एवं च त्वद्विरहखिन्ना सा त्वयानुग्राह्येति व्यज्यते ॥ .. ।
आर्यासप्तशती। २५१ । । 'सा पतिमात्रानुरागिणी कथं त्वया सह मया संगमनीया' इति वादिनी सखीं नायको वक्ति- सुनिरीक्षितनिश्चलकरवल्लभधाराजलोक्षिता न तथा । सोत्कम्पेन मया सखि दृष्टा सा माद्यति स यथा ॥ ६३३ ।। सुनिरीक्षितेति । हे सखि । सा उत्कृष्टकम्पसहितेन । एतस्याः पतिर्द्रक्ष्य- तीति धियेति भावः । सोत्कम्पेनेत्यनेन सेके चमत्कारपूर्वकत्वाभावो व्यज्यते । मया सिक्ता । जलेनेति भावः । यादृग्घृष्यति स्म, मत्ता बभूवेति वा, ताइक्सुष्टु समीचीनविलोकनकारी निश्चलहस्तो यः प्रियतमस्तेन धाराजलसिक्ता न माद्यति स्म । सुनिरीक्षितेत्यादिना सेके चमत्कारपूर्वकत्वमावेद्यते । एवं च सा मय्यनुरक्तेति विज्ञायते । अतः सा त्वया मया सह संगमनीयेति व्यज्यते ॥ दूती नायिका वक्ति- सखि मोघीकृतमदने पतिव्रते कस्तवादरं कुरुते । नाश्रौषीभगवानपि स कामविद्धो हरः पूज्यः ॥ ६३४ ॥ सखीति । हे सखि । एवं च हितोपदेशार्हत्वं ध्वन्यते । निष्फलीकृतमन्मथे, पतिमात्रानुरागिणि, तवादरं कः कुरुते । न कोऽपीत्यर्थः । अमुमेवार्थमर्थान्तरन्या- सेन द्रढयति-भगवानपि स हरः शिवश्चतुर्दशी कामस्त्रयोदशी तद्वेधवान्पूज्यः । एवं च केवलस्य पूजानहत्वेऽपि तदभावेन कामविद्धतयैव पूजार्हता हरस्य तत्र का वार्तान्यस्येति भावः । एवं च यत्राचेतनरूपस्य शिवचतुर्दशीदिवसस्यापि कामाभि- थानत्रयोदशीविद्धतयैव पूज्यताभिधानं धर्मशास्त्रे तत्र का वार्ता सचेतनस्य लोक इति व्यज्यते ॥ नायको नायिका वक्ति- सा मयि न दासबुद्धिर्न रतिर्नापि त्रपा न विश्वासः । हन्त निरीक्ष्य नवोढां मन्ये वयमप्रिया जाताः ॥ ६३५ ॥ सेति । हन्त खेदे । नवोढां दृष्ट्वा वयमप्रिया जाता इत्यहं मन्ये । यतो मयि । इदमग्रेऽप्यन्वेति । सा दासबुद्धिर्न । पूर्वं यथा मय्यनुग्रहस्तथा नाधुने- त्यर्थः । सा रतिः प्रीतिर्न । पूर्ववत्प्रीतिर्नेत्यर्थः । सा । मन्मथविकारजेति भावः । लज्जा न । पूर्व प्रियतमोऽयमिति बुद्ध्यान्यसमक्षं लज्जां कुर्वती स्थितेदानीं तद्बुद्ध्य- भावात्तदभाववती वृत्तेति भावः । क्वचित् 'नापत्रपा' इति पाठः । स विश्वासो न । ।
૨૧૨ काव्यमाला। यद्वा नायिका सखी वक्ति-हे सखि, सा दासबुद्धिर्मयि न । यथा पूर्व दासव- दाज्ञां कुर्वन्स्थितस्तथा नाधुनेत्यर्थः । न प्रीतिः । नान्यतो लज्जा । पूर्व मयि स्थितायामनेन कदाचिदस्या दुःखं भविष्यतीति धियान्यस्याः परिहासोऽपि न कृतः, इदानीं मामगणयित्वा निर्लजतया व्यवहरतीति भावः । न विश्वासः । किंचिद्व- स्त्वायपि मद्धस्ते नार्पयतीति भावः । अतो नवोढां वीक्ष्य वयमप्रिया जाता इत्यह मन्ये । निरीक्ष्येत्यनेन संगमे किमनेन विधेयं तन्न विज्ञायते मयति वन्यते । एवं च सपत्नीसत्त्वमात्रमप्येतादृशदुःखदं किं पुनस्तत्प्राधान्यमिति व्यज्यते काचित्कांचिद्वक्ति- सुचिरायाते गृहिणी निशि भुक्ता दिनमुखे विदग्धेयम् । धवलनखाकं निजवपुरकुङ्कुमा न दर्शयति ॥ ६३६ ॥ सुचिरेति । निशि भुक्ता चतुरेयं गृहिणी अत्यन्तचिरकालेनागते । प्रिय इति भावः । प्रातःकाले श्वेतनखचिह्न खशरीरं कुङ्कुमाईताभाववन्न दर्शयति । कुङ्कुमामेव दर्शयतीत्यर्थः । सुचिरायात इत्यनेन नायिकायामन्यत्रासक्तिसंपादन- योग्यत्वं नायके च मन्मथविह्वलतया सम्यकिरीक्षणाभावेऽपि रतकारित्वमावेद्यते । गृहिणीत्यनेन खातन्त्र्यं तेन चान्यकर्तृकनिवारणानहत्वं व्यज्यते । निशीत्यनेन दर्श- नानहत्वं नखक्षतेषु ध्वन्यते । दिनमुख इत्यनेन नखक्षतेषु दर्शनयोग्यत्वं द्योत्यते। विदग्धपदेन वञ्चनानिपुणत्वं व्यज्यते । धवलपदेन नखक्षतेषु प्राचीनत्वं धवलन- खाङ्कमित्यनेन यथास्थितशरीरस्य दर्शनायोग्यत्वं ध्वन्यते । अकुङ्कुमाई न दर्शयती- त्यनेन प्राचीननखक्षतेष्वपि नवीनत्वभ्रमोदयेन प्राकृतानुचिताचरणगोपनमभिव्य- ज्यते । एवं चैवंविधचतुरयैवैतादृशाचरणं कर्तव्यं नान्ययेति ध्वन्यते । तेन च न त्वयेति । यद्वैतादृशरीत्यापि नायकः प्रतारयितुं शक्यः, अतो नखक्षतादिभीति- मुत्सृज्य मदुक्तमङ्गीकुर्विति दूती नायिका वक्ति- नायिका नायकं वक्ति- स्तनजघनोरुप्रणयी गाढं लग्नो निवेशितस्नेहः । प्रिय कालपरिणतिरियं विरज्यसे यन्नखाङ्क इव ।। ६३७ ॥ स्तनेति । हे प्रिय, स्तनजघनोरुप्रीतिमान् । पक्षे कामतन्त्रे एतत्स्थानेषु नख- सतदानाद्यमिधानात् । अत्यर्थ लग्नः । हठालिङ्गनप्रवण इत्यर्थः । पक्षेऽत्यन्तं निखात इत्यर्थः । निवेशितस्नेहः कृतप्रीतिः । पक्षे दत्ततैलः । पीडोपशमार्थमिति । ।
आर्यासप्तशती। भावः । एतादृशस्त्वं नखाङ्क इव यद्विरज्यसे विरक्तो भवसि । पक्षे रुधिरशून्यः ।। इयं कालपरिणतिः । एवं चेदानींतनकालस्यैवायमपराधो न तवेति भावः । नखा- कोऽपि बहुकालेन शुष्को भवति । यद्वा यद्विरज्यसे इयं कालपरिण तिरिति काका चिरकालसंगतेरिदं फलमित्यर्थः । एवं च यथा यथा चिरकालीनसंगतिस्तथा तथा सतां प्रीत्युत्कर्षः खलानां पुनरन्यथाभाव इति भावः ॥ नायिकादूती नायकं वक्ति- सा विच्छाया निशि निशि सुतनुर्बहुतुहिनशीतले तल्पे । ज्वलति त्वदीयविरहादौषधिरिव हिमवतः पृष्ठे ॥ ६३८ ॥ सेति । विच्छायान्यादृशाङ्गकान्तिमती । पक्षे छायाशून्या । प्रकाशशालित्वा- दिति भावः । त्वद्विरहात्सा सुतनू रात्रौ रात्रौ बहुहिमतुल्यशैत्यशालिनि । पक्षे बहुतुहिनेन । शीतले । तल्पे हिमालयस्य पृष्ठे औषधिरिव ज्वलति । एवं च दिवा लोकभीत्या संगुप्ता तदीयवेदना न ज्ञायतेऽस्माभिर्यामिन्यां तु तदीयवेदना विज्ञायत इति व्यज्यते । हिमवत्पृष्ठोपमानेन तस्याः कोमलतल्पोऽपि कार्कश्यमा- विष्करोतीति व्यज्यते ॥ नायिकासखी नायकं वक्ति- सा नीरसे तव हृदि प्रविशति निर्याति न लभते स्थैर्यम् । सुन्दर सखी दिवसकरबिम्बे तुहिनांशुरेखेव ॥ ६३९ ॥ सेति । हे सुन्दर । एवं चासक्तियोग्यत्वं ध्वन्यते । यद्वा सुन्दरसखीयेकं । नीरसे । रसः प्रीतिः । पक्षे तेजोमयत्वान्नीरसत्वम् । तव हृदि सा सुन्दरी सूर्य- बिम्बे चन्द्ररेखेव प्रविशति, निर्याति, स्थैर्य न लभते । एवं चास्थिरप्रकृतिस्त्व- मेवासीति व्यज्यते ॥ काचित्कांचिदन्योक्त्या वक्ति- सुकुमारत्वं कान्तिनितान्तसरसत्वमान्तराश्च गुणाः । किं नाम नेन्दुलेखे शशग्रहेणैव तव कश्रितम् ॥ ६४० ॥ सुकुमारत्वमिति । हे चन्द्ररेखे, सौकुमार्य शोभात्यन्तसरसत्वमाभ्यन्तराश्च गुणा इति ते शशाङ्गीकारेणैव । अथ च शशजातीयपुरुषासक्त्या नाम निश्चयेन किं न कथितम् । अपि तु सर्व ऋथितमित्यर्थः । एवं च यदि त्वयि सौकुमार्यादयो गुणाः स्युस्तदा कथमीदृशे पुरुष समासक्तिः कृता. स्यात्, अतस्त्वयि गुणा न whatment काव्यमाला। - । सन्तीति व्यज्यते । अथवा शशग्रहेण । एवं चैतादृशपुरुषसंवन्धात्तव सर्वं गुणा- दिकमनर्थकमेव संवृत्तमिति द्योत्यते । यद्वा सौकुमार्यादिगुणवत्तया पद्मिनीत्वमा- वेद्यते । पद्मिनिनायिकायाः शशजातीयपुरुषयोग एव समुचित इति कामशास्त्रम् ॥ इतरगुणापेक्षया सद्वृत्तमेवाधिकतरमिति कश्चित्कंचिद्भङ्गयन्तरेण वक्ति- सौरभ्यमात्रमनसामास्तां मलयद्रुमस्य न विशेषः । धर्मार्थिनां तथापि स मृग्यः पूजार्थमश्वत्थः ॥ ६४१ ॥ सौरभ्येति । सौगन्ध्यमानेच्छावता मलयाचलवृक्षेषु । एवं च सर्वत्र सौग- मध्यसत्त्वमिति भावः । न विशेषः । खेप्सितसौगन्ध्यस्य सर्वत्र सत्त्वादिति भावः। धर्मेच्छावतां तथापि सौगन्ध्यरूपसाधारणधर्मवत्त्वेऽपि पूजार्थमश्वत्थो गवेष्यः। एवं च पाण्डित्यादिगुणस्य सर्वत्रैकरूपसत्त्वेऽपि सद्भिः सद्वृत्तवत एवादरः क्रियत इति व्यज्यते ॥ कश्चित्कंचिद्वक्ति- संवाहयति शयानं यथोपवीजयति गृहपतिं गृहिणी । गृहवृतिविवरनिवेशितदृशस्तथाश्वासनं यूनः ॥ ६४२॥ संवाहयतीति । गृहिणी । एवं च साधीनत्वमावेद्यते । शयानं गृहपतिम् , न तु प्रियं यथा संवाहयति उपवीजयति च। उपसर्गेण समीरणे मन्दत्वमावेद्यते । तेन च खापे सत्वरभवनयोग्यत्वम् । सदनभित्तिरन्ध्रे निवेशिता दृग्येन तस्य यूनः । एवं च स्पृहणीयत्वमावेद्यते। तथाश्वासनं भवति । एवं चैतादृशोपायनि- बन्धनैस्तत्वापसंपादनं मत्सविधागमनहेतुभूतमिति ज्ञानादिति भावः । एवं च स्त्रीणां विश्वासः केनापि न कार्य इति व्यज्यते ॥ 'कथामियं ममानादरं कुरुते' इति वादिनं कंचन वारवनितासखी वक्ति- सत्यं खल्पगुणेषु स्तब्धा सदृशे पुनर्भुजंगे सा । अर्पितकोटिः प्रणमति सुन्दर हरचापयष्टिरिव ॥ ६४३ ।। सत्यमिति । हे सुन्दर । एवं चेतरगुणवत्ताभावो 'व्यज्यते । खल्पगुणेषु सा स्तब्धा । न नम्रत्यर्थः । इदं सत्यम् । पक्षेऽल्पमौामित्यर्थः । सदृशे तु। खगुणैरिति भावः । पक्षे महत्तरत्वादिति भावः । भुजंगे खिो । पक्षे सपै । अर्पितकोटिः । दत्तकोटिसंख्याकवसुरित्यर्थः । पक्षे दत्ताग्रभागा । हरचापयष्टिरिव आर्यासप्तशती। २५५ प्रणमति नमस्करोति । पक्षेऽत्यन्तं नम्रीभवति । एवं च सामान्यवनितात्वेन द्रव्य- मात्रेच्छयेयं स्वासदृशं नायकं न भजतीति भावः । एवं च द्रव्यवत्तामात्रेण त्वया गर्वो न विधेय इति व्यज्यते ॥ नायिकासखी नायकं वक्ति- सर्वसहां महीमिव विधाय तां बाष्पवारिभिः पूर्णाम् । भवनान्तरमयमधुना संक्रान्तस्ते गुरुः प्रेमा ॥ ६४४ ॥ सर्वसहामिति । अत्र संबुद्धिपदानुपादानं क्रोधवत्तामावेदयति । सर्वस- हाम् । त्वत्कृतसर्वापराधसहनशीलामित्यर्थः । पक्षे तदभिधानाम् । बाष्पजलपरि- पूर्णाम् । पक्षे जलपूर्णाम् । महीमिव तां विधाय तेऽयं गुरुः श्रेष्ठः । पक्षे बृह- स्पतिः । प्रेमाधुना भवनान्तरम् । नायिकान्तरमित्यर्थः । पक्षे राश्यन्तरमित्यर्थः । संक्रान्तः । एवं च त्वदीयसर्वापराधसहनशीलां रुदतीमेतामतिसरलां विहायान्यत्रा- सक्किं करोषीति त्वादृशोऽन्यो न दुष्टतर इति व्यज्यते । तेन च त्वयेत्थं न विधेयमिति । बृहस्पतिचलने चातिवृष्टिर्भवतीति ज्योतिःशास्त्रसिद्धान्तः ॥ कश्चित्कंचिद्वक्ति- संभवति न खलु रक्षा सरसानां प्रकृतिचपलचरितानाम् । अनुभवति हरशिरस्यपि भुजंगपरिशीलनं गङ्गा ॥ ६४५ ॥ संभवतीति । सरसानां शृङ्गाररसवतीनाम् । पक्षे रसो जलम् । खभाव- चञ्चलाचरणानाम् । पक्षे चरितं वर्म । रक्षणं न संभवति । कुत इत्यत आह- हरशिरस्यपि । किमुतान्यत्रेति भावः । गङ्गा । एवं चैतादृशाकर्तव्यता नोचितेति व्यज्यते । भुजंगपरिशीलनम् । अथ च खिड्गसंभोगम् । अनुभवति । एवं चातिरक्षणादेः सत्त्वादेतस्याः सङ्गः कथं भविष्यतीति मनसि न कापि चिन्ता त्वया विधेयेति व्यज्यते ॥ बहुनायकावल्लभं खयं वाञ्छन्ती कांचित्काचिद्भङ्ग्यन्तरेण वक्ति- सुलभेषु कमलकेसरकेतकमाकन्दकुन्दकुसुमेषु । वाञ्छति मनोरथान्धा मधुपी स्मरधनुषि गुणाभावम् ॥ ६४६॥ सुलभेग्विति । कमलप्रभृतीनि यानि कुसुमानि तेष्वनायासलभ्येषु सत्सु मनोरथेनान्धा मधुपी मदनधनुषि मौर्वीभावम् । अथ चाप्रधानभावम् । वाञ्छति। कुसुमपदेन परिमले बहुलत्वं व्यज्यते । मधुपीपदेनाज्ञत्वं द्योत्यते। मदनधनुषी- ।
काव्यमाला त्यनेन मदनस्याप्येतत्करणक एव जगजय इति प्रतिपादनेन लावण्यपुरुषार्थातिश- यशालित्वं नायके व्यज्यते । तेन चानेककामिनीवल्लभत्वं घोल्यते । एवं च सुलभ- समीचीनपुरुषान्विहाय तादृशपुरुष समासक्तौ क्रियमाणायामेतस्यातिगुणवत्कामिनीना बाहुल्यात्तन्मध्ये एतस्या अप्रधानभाव एव स्यादिति व्यज्यते ॥ काचित्कांचिद्वक्ति- सा लजिता सपत्नी कुपिता भीतः प्रियः सखी सुखिता। बालायाः पीडायां निदानिते जागरे वैद्यैः ॥ ६४७॥ सेति । वैद्यैर्बालायाः पीडायां जागरे निदानिते । एतस्याः पीडायां जागरण- मेव निदानमित्यगदंकारैर्निश्चित्योक्त इत्यर्थः । सा वाला लज्जिता । सुरतादिक्रीडा- ज्ञानादिति भावः । सपत्नी कुपिता । कथं प्रियतमोऽस्यामेतादृशासक्तिमान्संवृत्त इति धियेति भावः । प्रियो भीतः । मत्कृतापराधज्ञानं गृहिण्या जातमिति धियेति भावः । सखी । अर्थाद्वालायाः । सुखिता । खसखीसौभाग्यप्राकट्यादिति भावः । एवं च भर्तृसमीपगमने सम्यगेव भवतीति व्यज्यते ॥ विदेशादागते प्रेयसि मानकारिणी नायिका सखी समुपदिशति-- सुचिरागतस्य संवाहनच्छलेनाङ्गमङ्गमालिङ्गय । पुष्यति चमानचर्चा गृहिणी सफलयति चोत्कलिकाम् ॥६४८॥ सुचिरेति । गृहिणी अत्यन्तचिरकालगतस्य । दयितस्येति भावः । संवाहन- मिषेणाङ्गमङ्गमालिङ्ग्य मानम् । अवधिदिवसानागमनसंजातमिति भावः । पुष्यति च । 'मानगर्वम्' इति पाठे सर्वो द्वन्द्वो विभाषेकवद्भवतीत्येकवद्भावः। गर्व खोत्कर्षाभिमानं पुष्यति च। उत्कण्ठां च सफलयति । सुचिरागतस्येत्यनेन संवाह- नौत्कण्ट्यौचित्यमावेद्यते । गृहिणीपदेनान्यासामीदृशी रीतिरिति व्यज्यते । एवं च या गृहिणी भवति तस्यास्त्वेतादृशी रीतिरत एतादृशानाचरणे तव गृहिणीत्वमेव न स्यादतो नायकसेवापुरःसरमेव मानादिकं विधेयमिति व्यज्यते । तेन च संवाहन नच्छलेन मानसंगोपनमपि कर्तुं शक्यं सरलत्वसंरक्षणं चेति ॥ नायिकादूती नायकं वक्ति- सा सर्वथैव रक्ता रागं गुञ्जेव न तु मुखे वहति । वचनपटोस्तव रागः केवलमास्ये शुकस्येव ।। ६४९ ।। सेति । अत्र संबुद्धिपदानुपादानं दूतीगतकोधमावेदयति । स च नायका - PARK आर्यासप्तशती। २५७ । aure पराधम् । सा मत्सखी सर्वप्रकारेणैव रक्तानुरक्ता । त्वयीति भावः । एवकारेण सर्वथान्यथा नाशङ्कनीयमिति व्यज्यते । पक्षे सर्वतो रक्तरूपवती। रागं प्रीतिम् । लोहियं गुजेव मुखे न वहति । वचनकुशलस्य। एवं च परप्रतारणनिपुणत्व- मावेद्यते । पक्षे शब्दोच्चारणनिपुणस्य तव शुकस्येवास्ये केवलं रागः प्रीतिः । पक्षे लौहित्यम् । एवं च सा सर्वात्मना त्वय्यनुरागवती परंतु केवलं न मुखेनानुराग- प्रकटनं करोतीति तादृशी न काचिदन्या सरला । त्वं तु केवलं मुखेनैव प्रोतिमा- 'विष्करोषि, अतस्तु शठ इति व्यज्यते । तेन च कथं त्वद्वचनं मया विश्वसि- तव्यमिति ॥ काचित्कांचिच्छिक्षयति- सायं कान्तभुजान्तरपतिता रतिनीतसकलरजनीका । उपसि ददती प्रदीपं सखीभिरुपहस्यते बाला ।। ६५० ॥ सायमिति । सायं संध्यासमये कान्तस्य भुजयोर्मध्ये पतिता । मध्यपदेन निःसारणानहत्वं व्यज्यते । पतितेत्यनेन तस्या नापराध इति ध्वन्यते । रत्या नीता निखिला रात्रिर्यया । एवं च कान्तभुजान्तरपतने रतेर्निवारणाशक्यतया तस्या नापराध इति भावः । प्रातः प्रदीपं ददती । रात्र्यपगमाज्ञानादिति भावः । उपसर्गेण बहलतैलादिदानेनेदानीमेव सायंतनसमयः संवृत्त इति ज्ञानवत्त्वमावेद्यते । सा बाला सखीभिरुपहस्यते । एवं च गृहकृयं यामिनीप्रथमयाम एव विधाय पश्चात्कान्तसदनं प्रविशति ध्वन्यते ॥ नायको दूती वक्ति- सा तीक्ष्णमानदहना महतः स्नेहस्य दुर्लभः पाकः । त्वां दर्वीमिव दूति प्रयासयन्नस्मि विश्वस्तः ॥ ६५१ ॥ सेति । हे दूति, स तीक्ष्णो मानरूपो वह्निर्यस्या एतादृशी बहुलस्य स्नेहस्य प्रीतेः । अथ च तैलस्य । पाकः परिपाको दुर्लभो भवति । दीमिव त्वां प्रयासय- नगमनागमनव्यापारशालिनी कुर्वन् । पक्षे आलोडयन् । विश्वासं प्राप्तोऽस्मि । अत्यन्तमानशालिन्यास्तस्याः स्नेहावस्थितिर्दुलभा परंतु त्वदीयपरिश्रमेण सा भवि- 'नीति भावः । एवं च त्वदेकसाध्या तत्प्रीत्यवस्थितिरिति व्यज्यते । तीक्ष्णानो बहुतरस्नेहपरिपाकोऽपि दींचालनं विना दुर्लभो भवति ॥ । १७ आ० स० २५८ काव्यमाला। । काचित्काचिदन्योक्त्या वक्ति- खेहक्षतिर्जिगीषा समरः प्राणव्ययावधिः करिणाम् । न वितनुते कमनर्थ दन्तिनि तव यौवनोद्भेदः ॥ ६५२ ।। लेहेति । हे दन्तिनि, तव तारुण्योद्गमः प्रीतिनाशः, जेतुमिच्छा, प्राणना- शावधिः सङ्ग्रामः, इति कमनर्थ गजानां न वितनुते । अपि तु सर्वम् । एवं च त्वन्निमित्तं तरुणानां परस्परं स्नेहनाशादि भवतीति व्यज्यते । तेन च त्वमत्य. न्तसुभगेति ॥ काचित्कांचिद्वक्ति- सदनादपैति दयितो हसति सखी विशति धरणिमिव बाला । ज्वलति सपत्नी कीरे जल्पति मुग्धे प्रसीदेति ॥ ६५३ ॥ सदनादिति । मुग्धे, प्रसीदेति शुके जल्पति सति प्रियो गृहाद्गच्छति । गृहिणीक्रोधभयादिति भावः । सखी हसति । कथामिदानी मत्सख्यधीनतामापन इति धियेति भावः । तोषादिति वा भावः । बाला। एवं च लज्जायोग्यत्वं व्यज्यते। धरणिमिव विशति । लज्जावशादिति भावः । सपत्नी ज्वलति । द्वेषवशान्मानवशा- द्वेति भावः । एवं चैतादृशाचरणमत्यन्तं सम्यगिति व्यज्यते ॥ नायको वक्ति- संकुचिताझी द्विगुणांशुकां मनोमात्रविस्फुरन्मदनाम् । दयितां भजामि मुग्धामिव तुहिन तव प्रसादेन ॥ ६५४ ॥ संकुचितेति । हे हिम, तव प्रसादेन संकुचिताहीं द्विगुणवस्त्रां चित्तमात्रे विस्फुरन्मदनो यस्यास्तां दयितां मुग्धामिव भजामि । एवं च यद्वशात्प्रोढापि नवोढेव भवतीति व्यज्यते । तेन च त्वत्तुल्यो नान्यः कश्चिन्मदुपकर्तेति । नवो. दाप्यनसंकोचादिमती भवति ॥ दूती नायिका वक्ति- सखि लग्नैव वसन्ती सदाशये महति रसमये तस्य । वाडवशिखेव सिन्धोर्न मनागप्यातां भजसि ॥ ६५५ ॥ सखीति । हे सखि । एवं च हितोपदेशाहत्वं ध्वन्यते । तस्य महति प्रशस्ते । एवं चान्यकृतापराधसंगोपनकारित्वं द्योत्यते । पक्षे गभीरे । रसमये । । ।
आर्यासप्तशती। २५९ । - प्रीतिप्रचुरे । पक्षे रसो जलम् । आशयेऽन्तःकरणे । पक्षेऽभ्यन्तरे । सिन्धोराशये वडवार्चिरिव निरन्तरं लग्नैव वसन्ती मनागप्याईतां स्निग्धताम् । पक्षे सजलतां न भजसि । एवं च स तु त्वय्यत्यन्तमासक्तः, त्वं तु रूक्षतामेव भजसीत्यनुचितं तवेदमिति ध्वन्यते ॥ नायिका दूती वक्ति- सखि मिहिरोद्गमनादिप्रमोदमपिधाय सोऽयमवसाने । वन्ध्योऽवधिवासर इव तुषारदिवसः कदर्थयति ॥ ६५६ ॥ सखीति । हे सखि । एवं चैतादृशसंबुद्ध्या तुष्टा झटिति कार्य करिष्यतीत्यती दूतीपदानुपादानम् । सूर्योद्मनप्रभृति सुखमाच्छाद्य । 'मिहिरोदयसमयप्रमोदम्' इति क्वचित्पाठः । वन्ध्यो निष्फलः । नायकागमनाभावात् । अवधिवासर इव सोऽयं हिमदिवसः समाप्तौ कदर्थयति । यथावधिदिवसे प्रातरयायास्यति दयित इत्यानन्दः सायं च प्रियतमानागमे प्रातःकालीनसुखोपमर्दैनात्यन्तं दुःखं भवति तथा हिमदिवसे प्रातः सूर्यरश्मिभिः संजातं सुखं दूरीकृत्य सायंतनसमये शीत- दुःखमत्यन्तं भवतीति भावः । एवं च रात्रिरियमत्यन्तदीर्घा नैकाकितयातिवाहयितुं शक्येत्यतः संयोजयान्यनायकेन मामिति ध्वन्यते । यद्वा तुषारदिवस इवावधिदि- वसोऽवसाने कदर्थयति । एवं चैतावत्कालं मया प्राणा निरुध्य स्थापिताः, इदानीं दयितानागमननिर्णये नैते मया निरोढुं शक्या अत एतद्रक्षणं यथा भवति तथा यतखेति सखी प्रत्युक्तिः । एवं चाप्रेऽन्यादृशाचरणे नाहं भवत्या निषेधनी- येति व्यज्यते ॥ दूती नायिकां वक्ति- सुरभवने तरुणाभ्यां परस्पराकृष्टदृष्टिहृदयाभ्याम् । देवार्चनार्थमुद्यतमन्योन्यस्यार्पितं कुसुमम् ॥ ६५७ ।। सुरेति । परस्पराकृष्टदृष्टिचित्ताभ्याम् । 'चक्षुरागः प्रथमं तदनु चित्तासङ्गः' इत्युक्तत्वात्प्रथमं दृष्ट्युपादानम् । तरुणाभ्यां देवालये देवपूजार्थमुद्यतं कुसुमं परस्परस्यार्पितम् । सुरभवन इत्यनेनावश्यकधर्माधर्मविवेककरणौचित्यमावेद्यते । जनसंमर्दो वा । तेन च तदगणनेन साहसातिशयः । देवार्चनार्थमुद्यतमित्यनेन मनुष्यादेर्दातुमयुक्तमित्यावेद्यते । तेन च परलोकभ्रंशभीतिशून्यत्वम् । कुसुममित्ये- कवचनेन बहूनां कुसुमानां सत्त्वेऽन्येनापि देवार्चनस्य संपादयितुं शक्यतया न २६० काव्यमाला। -- tie । तथा दोषः, तदभावे चैतादृशाचरणेऽल्यन्तमज्ञत्वं व्यज्यते । तेन च प्रीत्यतिशयः। एकवचनमाविवक्षितमिति ऋजवः । एवं चैतादृशी रीतिः, अतस्त्वयापि भीति- मुत्सृज्य यथेष्टाचरणं विधेयमिति ध्वन्यते ॥ संजातोऽयं संकेतकाल इति काचित्कांचिद्वक्ति- सायं कुशेशयान्तर्मधुपानां निर्यतां नादः । मित्रव्यसनविषण्णैः कमलराक्रन्द इव मुक्तः ॥ ६५८ ॥ सायमिति । सायं निर्गच्छताम् । भावकमलसंकोचभियेति भावः । मधु- पानाम् । एवं चोन्मत्तत्वं ध्वन्यते । कमलान्तर्नादो मित्रस्य सूर्यस्य । विकासक- त्वान्मित्रत्वम् । व्यसनमतस्तेन खिन्नैः कमलैराकन्द इव मुक्तः । एवं च नायकः संकेतोत्सवेन वयस्यैः सह मधु पीत्वा कामबाधाव्यसनमनुप्राप्त आस्ते, इदं तु मित्रदुःखदुःखितैस्तद्वयस्यैरेवाभिहितम्, अतस्त्वरय संकेतकाल एव झटिति तत्र गन्तुमिति व्यज्यते ॥ नायको वक्ति- सुमहति मन्युनिमित्ते मयैव विहितेऽपि वेपमानोरुः । न सखीनामपि रुदती ममैव वक्षःस्थले पतिता ।। ६५९ ॥ सुमहतीति । मयैव । एवं च नान्यस्यापराध इति व्यज्यते । अत्यन्तमहत्तरे भन्युकारणे विहितेऽपि कम्पमानोरू रुदती ममैव हृदयस्थले । स्थलपदं विशालतां गमयति । यद्वा कृत्रिममपि समाधानं न कृतं मयेति व्यज्यते । सुप्ता । न सखी. नामपि । सखीपदं वक्षःस्थलखापयोग्यतां गमयति । अपिस्तस्मिन्नावश्यकतामावेद- यति । यद्वा न सखीनामपि । सपत्नीनामित्यर्थः । समक्षमित्यध्याहारः । मयैव मन्युनिमित्ते विहितेऽपीत्यादि प्राग्वत् । एवं च सपत्नीसमक्षकृतापरावस्यातिदु:- खदत्वमिति भावः । अथवा सखीनामपि । अपिर्नायिकां समुच्चिनोति । मन्यु. निमित्ते मयैव विहिते मम वक्षःस्थल एव न पतितेति काकुः। स्थल एवेत्यनेना- त्यन्तसरलत्वं व्यज्यत इत्यर्थः । एवं च मदमनातुल्या नान्याशनेति ध्वन्यते ॥ काचित्कांचिद्वक्ति- सुभग व्यजनविचालनशिथिलभुजाभूदियं वयस्यापि । उद्वर्तनं न सख्याः समाप्यते किंचिदपगच्छ ॥ ६६० ॥ सुभगेति । हे सुभग । एतादृशाङ्गनासमासक्तिमत्त्वादिति भावः । इयं वय- आर्यासप्तशती। २६१ - - स्यापि । एवं च दास्यादे! का वार्तेति भावः । व्यजनस्य विशेषचालने शिथिलह- स्ताभूत् । एवं च शनैर्व्यजनचालने न किमपि भवतीति भावः । सख्या उद्वर्तनं न समाप्यते । सात्त्विकभावरूपखेदातिशयादिति भावः । किंचिदितोऽपसर । किंचिदित्यनेन दूरगमने दुःखं सख्या भविष्यतीति ध्वन्यते। एवं चेयमत्यन्तं त्वय्यासक्तेति ॥ नायिकासखी नायकं वक्ति- सब्रीडा नखरदनार्पणेषु कुपिता प्रगाढमचिरोढा । बहुयाच्याचरणग्रहसाध्या रोषेण जातेयम् ॥ ६६१॥ सवीडेति । सलज्जा प्रगाढं नखक्षतदन्तक्षतेषु । कृतेष्वित्यर्थः । कुपितेयं नवोढा । एवं च नखक्षतादिना कोपौचित्यं ध्वन्यते। रोषेण । त्वदीयेनेत्यर्थः । बहुचाटुवचनप्रणिपातसमाधेया जाता । एवं च नवोढात्वेन दन्तक्षताद्यसहनेन कुपितायां नायिकायां तव क्रोधकरणमनुचितमिति भावः । एवं चेदानी चाटुवच- नादिनास्याः कोपमपनय त्वमिति व्यज्यते । तेन च तवैवायमपराध इति ॥ कश्चित्कंचिद्वति- सुगृहीतमलिनपक्षा लघवः परभेदिनः परं तीक्ष्णाः । पुरुषा अपि विशिखा अपि गुणच्युताः कस्य न भयाय ॥६६२॥ सुगृहीतेति । सम्यग्गृहीतो दुष्टानां पक्षोऽङ्गीकारो यैः । खित्यनेन त्यागान- हत्वं व्यज्यते । तेन चोपदेशानर्हत्वम् । पक्षे झटिति निष्कासनानहेश्यामपक्षवन्त इत्यर्थः । लघवो नीचाः । पक्षेऽल्पपरिमाणवन्त इत्यर्थः । परान्भेदयन्ति ते । अन्येषां परस्परभेदजननेन कलहप्रवर्तका इत्यर्थः । पक्षे इतरच्छेदकारकाः । तीक्ष्णाः । क्रूरकर्माण इत्यर्थः । पक्षे यथाश्रुतम् । पुरुषा अपि बाणा अपि गुण- च्युताः साधुत्वादिगुणहीनाः । पक्षे गुणो ज्या। कस्य न भयाय । अपि तु सर्वस्य भयायेति भावः । एवं चैतादृशपुरुषसंगतिकरणमनुचितमिति व्यज्यते ॥ दुष्टस्य किमपि कर्म न सम्यक्फलायेति कश्चिद्वक्ति- खकपोलेन प्रकटीकृतं प्रमत्तत्वकारणं किमपि । द्विरदस्य दुर्जनस्य च मदं चकारैव दानमपि ॥ ६६३ ॥ खेति । खस्य कपोलेन प्रकटीकृतम् । दानस्य ततोऽप्युत्पत्तरिति भावः * ।
MERE । २६२ काव्यमाला। अथ च स्वमुखेनाभिहितं मया दानं कृतमिति । किमप्यनिर्वचनीयं प्रकृष्टमत्तत्व- कारणम् । दानमपि । अपिनान्यकर्मणः का वार्तेति भावः । गजस्य खलस्य च मदमेव चकार । एवं च खलसंगतिरनुचितेति व्यज्यते ॥ नायकस्य मौन्यादियमपि मूडैवेति मन्वानमुपपतिं दूती वक्ति- सत्यं पतिरविदग्धः सा तु खधियैव निधुवने निपुणा । मार्तिकमाधाय गुरुं धनुरधिगतमेकलव्येन ॥ ६६४ ॥ सत्यमिति । पतिरचतुर इदं सत्यम् । अत एव पतिपदं साभिप्रायम् । सा तु स्वबुद्ध्यैव सुरते निपुणा । एनमेवार्थमर्थान्तरन्यासेन द्रढयति-मृत्स्वरूपं गुरु संस्थाप्यैकलव्यनाम्ना निषादेन धनुरधिगतम् । एवं च 'उपदेशक्रमो राम व्यवस्था- मात्रपालनम् । ज्ञप्तेस्तु कारणं तात शिष्यप्रज्ञेव केवलम् ॥' इति वसिष्ठवचनात् । मार्तिकं द्रोणाचार्य विधायैकलव्येन धनुर्विद्याभ्यस्तेति भारते । एवं च तस्यामचातुर्य नाशङ्कनीयं त्वयेति धन्यते ॥ नायकदूती नायिका वक्ति- सौभाग्यमानवान्स त्वयावधीर्यापमानमानीतः। खं विरहपाण्डिमानं भस्मस्नानोपमं तनुते ॥ ६६५ ।। सौभाग्येति । सौभाग्यामिमानवान्स त्वयावगणय्यापमानं प्रापितः । भस्म- नानसदृशं स्खं स्वकीयं विरहपाण्डिमानम् । क्वचित् । 'तव' इति पाठः । तनुते । यथा कश्चिदभिमानी अवगणितः सर्वाङ्गे भस्म संप्लाव्य सर्व परित्यज्य दुःखवशा- त्तिष्ठति तथायं त्वद्विरहरूपभस्मनानं करोति, अत एनं प्रसन्नीभूयाङ्गीकुर्विति व्यज्यते ॥ काचित्कांचिद्वक्ति- सखि मम करञ्जतैलं बहुसंदेशं प्रहेष्यसीत्युदिता । श्वशुरगृहगमनमिलितं बाष्पजलं संवृणोत्यसती ॥ ६६६ ॥ सखीति । हे सखि । एवं चोपदेशार्हत्वं व्यज्यते । बहूनां संदेशो यत्र । बहुतररोगिप्रार्थ्यमानमित्यर्थः । एवं चावश्ययाचनीयत्वप्रेषणीयत्वे व्यज्यते । अथ च बहुतरकामुकसंकेतविषयमित्यर्थः। एवंविधं करजतैलं प्रहेष्यसीत्युक्ता श्वशुरस- दनगमनावसरसंजातबाष्पजलमसतीति संवृणोति । एवं च तत्रापि मया करजवृक्ष- । - आर्यासप्तशती। २६३ संकेतं विधाय कामुकस्त्वदर्थ प्रेषणीय इति न कापि त्वया चिन्ता विधेयेति ध्वन्यते। एवं च गृहपदं सार्थकम् । बहूनां सम्यादेशरूपमित्यनेन निगूढतया यथेच्छसुरत- योग्यत्वं ध्वन्यते ॥ कथं मयैतादृशसमये समागन्तुं शक्यमित्याशङ्कय दूती नायिका वक्ति- संदर्शयन्ति सुन्दरि कुलटानां तमसि विततमषिकल्पे । मौलिमणिदीपकलिका वर्तिनिभा भोगिनोऽध्वानम् ॥ ६६७॥ संदर्शयन्तीति । हे सुन्दरि, विततमषीतुल्ये तमसि मस्तकमणय एव दीप- कलिका येषां ते वर्तितुल्या भोगिनः सर्पाः कामुकाश्च मार्ग सम्यग्दर्शयन्ति । एवं च सर्पफणामणिसंजातप्रकाशेनैव तवाथ्वज्ञानं भविष्यतीत्यतो मार्गज्ञानाभावशङ्का- मपास्य कार्य साधयेति ध्वन्यते । अथवा नायका एव मस्तकस्थमणिप्रकाशैार्ग- मादर्शयन्तीत्यनेन नातः परं मयात्रागन्तव्यं किं तु नायक एव त्वामागत्य संकेतं प्रापयिष्यतीति ध्वन्यते ॥ दुष्टस्योत्कर्षेऽन्येषां क्लेशवत्तैव भवतीति कश्चित्कंचिदन्योक्त्या वक्ति- सर्व वनं तृणाल्या पिहितं पीताः सितांशुरविताराः । प्रध्वस्ताः पन्थानो मलिनेनोदम्य मेघेन ॥ ६६८ ॥ सर्वमिति । मलिनेन मेघेनोद्गम्य सर्व वनं वनस्थलं तृणपतयाच्छादितम् । सितांशुरविताराः पीता आच्छादिताः । मार्गाः प्रध्वस्ताः । वनमित्यनेन विश्रान्ति- दातृत्वप्रतिपादनात्सितांशुरित्यनेन सौम्यत्वव्यञ्जनाद्रविरित्यनेन निखिलकर्मप्रवर्तक- बध्वननात्तारयन्तीति व्युत्पत्त्या तारा इत्यनेन सद्बुद्धिदातृत्वद्योतनात्पन्थान इत्य- नेनावश्यरक्षणीयत्वदर्शनादेतादृशपुरुषापकारकरणादसमीचीनत्वाविष्करणेन दुष्टपुरु- षोदयाशंसनमप्यनुचितं किं पुनस्तत्संपादन मिति व्यज्यते ॥ झटिति मन्त्रो न प्रकाश्य इति कश्चित्कंचिद्वदति- सम्यगनिष्पन्नः सन्योऽर्थस्त्वरया वयं स्फुटीक्रियते । स व्यङ्ग एव भवति प्रथमो विनतातनूज इव ॥ ६६९ ॥ सम्यगिति । सन् । समीचीनोऽपीत्यर्थः । सम्यक्संपूर्णमसंजातो योऽर्थ- स्त्वरया वयं प्रकटीक्रियते। खयमित्यनेनान्येन प्रकटीकरणे मिथ्यैवायं वक्ति।
काव्यमाला। । । नास्माभिरेवं विचारितमिति समाधातुं शक्यमित्यावेइते। आयो विनताया गरुड- जनन्यास्तनूजोऽरुणस्तद्वत्स व्यङ्गएव । एक्कारेणान्यथाबुद्धिकरणानहत्वं ध्वन्यते॥ कश्चित्कंचिद्वक्ति- सज्जन एव हि विद्या शोभायै भवति दुर्जने मोघा । न विदूरदर्शनतया कैश्चिदुपादीयते गृधः ॥ ६७० ॥ सज्जनेति । समीचीनजन एव विद्या शोभार्थ भवति । फलदा भवतीत्यर्थः । दुर्जने निष्फला । अमुमेवार्थमर्थान्तरन्यासेन द्रढयति-अत्यन्तदूरदर्शित्वेन गृध्रः कैश्चिन्नोपादीयते । एवं च विद्यावत्त्वेऽपि त्वया दुर्जनत्वं न विधेयमिति व्यज्यते । एवकारेणैव न दुर्जन इत्यर्थप्रतीतो दुर्जनेत्यादि निरर्थकमिवाभाति । यद्वा शोभायै- वेति योजना । विद्या सज्जने शोभाप्रदा न धनप्रदेत्यर्थः । दुर्जने भोघा फलत्वाव- च्छिन्नताजनिका । शोभाप्रदापि नेत्यर्थः । अथवा सजने विद्यैव शोभाय फलप्रदा न त्वविद्येत्यर्थः । दुर्जने विद्यैव मोघा निष्फला न त्वविद्येत्यर्थः ।। समीचीनखनायक एव रुचिरुचितेति वादिनी कांचित्काचिद्वक्ति- सुभगं वदति जनस्तं निजपतिरिति नैष रोचते मह्यम् । पीयूषेऽपि हि भेषजभावोपनते भवत्यरुचिः ॥ ६७१ ॥ सुभगमिति । जनः । एवं च सर्वैकवाक्यत्वमावेद्यते । तं सुभगं वदति । मां निजपतिरिति हेतोरेष पतिर्न रोचते । अमुमेवार्थमर्थान्तरन्यासेनाह-भेषज- भावापन्नेऽमृतेऽपि निश्चयेनारुचिर्भवति । एवं च निजपतित्वमेव दोष इति भावः। एवं च पतिपदमर्थवत् । अत्र न रोचते इति प्रागभिधानादग्रेऽपि सचिर्न भवती- त्येव युक्तमित्याभाति । अरुचिपदाद्वेषवत्त्वप्रतीतेः ॥ त्वत्कटाक्षविक्षेपाक्षिप्तः क्षणमपि न त्वां विना धृति लभत इति नायकदूती नायिकां वक्ति- सौधगवाक्षगतापि हि दृष्टिस्तं स्थितिकृतप्रयत्नमपि । हिमगिरिशिखरस्खलिता गङ्गेवैरावतं हरति ।। ६७२ ॥ सौधेति । सौधगवाक्षगतापि ते दृष्टिः स्थितौ । धैर्यस्येति भावः । पक्षे गति- निवृत्तौ । कृतः प्रयत्नो येन तमपि हीति निश्चयेन हिमाचलशिखरात्स्खलिता गङ्गा ।
आर्यासप्तशती। २६५ ऐरावतमिव हरति । सौधस्य हिमगिरिशिखरसाम्येनात्युच्चत्वं दुष्प्राप्यत्वं च व्यज्यते। एवं च स त्वयानुग्राह्य इति बन्यते॥ गृहिणीसत्त्वान्न त्वया सह संगतिर्मम चिरस्थायिनीति वादिनी नायिका नायको वक्ति- सहधर्मचारिणी मम परिच्छदः सुतनु नेह संदेहः । न तु सुखयति तुहिनदिनच्छत्रच्छायेव सज्जन्ती ॥ ६७३ ।। सहेति । हे सुतनु । एवं च स्पृहणीयत्वं व्यज्यते । मम सहधर्मचारिणी परिच्छदः कुटुम्बकम् । अन्नाच्छादनादिनोपकरणीयेति भावः । इह न संदेहः । तु पुनः सज्जन्ती सेवातत्परा । पक्षे सज्जीभवन्ती । शीतदिवसीयच्छन्त्रच्छायेव न सुखयति । एवं च सा केवलं कुटुम्बिनीमात्रं त्वं तु रतिसुखदेत्यतस्त्वया सह मत्संगतिश्विरमवस्थायिनीति व्यज्यते ॥ दुष्टसंपर्कात्त्वन्निकटे न केऽपि समीचीनाः समायान्तीति कश्चित्कंचिदन्योक्त्या वक्ति- सकलगुणैकनिकेतन दानववासेन धरणिरुहराज । जातोऽसि भूतले त्वं सतामनादेयफलकुसुमः ॥ ६७४ ॥ सकलेति । हे निखिलगुणैकस्थान भूरुहराज, दानववसल्या त्वं भूतले समी- चीनानां न ग्राह्याणि फलकुसुमानि यस्यैतादृशो जातोऽसि । भूतले त्वमित्यनेन नान्ये महीरुहा एतादृशाः किं तु त्वमेवेति भावः । एवं चैतादृशदुष्टसंगत्या सजा- तीयवृद्धमध्ये त्वया प्रतिष्ठान विधेयेति व्यज्यते ॥ नायको नायिका वक्ति- सुन्दरि ताटङ्कमयं चक्रमिवोद्वहति तावके कर्णे । निपतति निकामतीक्ष्णः कटाक्षबाणोऽर्जुनप्रणयी ॥ ६७५ ॥ सुन्दरीति । हे सुन्दरि, त्वदीये कर्णे ताटङ्कखरूपं चक्रमिवोद्वहति धारयति सति । पक्षे ऊर्ध्वं करोति सति । अत्यन्ततीक्ष्णोऽर्जुनप्रणयी । कृष्ण इत्यर्थः । शुष्क इति वा । पक्षे पाण्डुसुतार्जुनप्रेरित इत्यर्थः । कटाक्षरूपो बाणः । नायकचि- त्तापहरणादिति भावः । पक्षे तत्तुल्यः। एवं चाकर्णान्तविशाललोचना त्वमसीत्य- न्यथासिद्धकुतूहलेन मानापनोदनमभिव्यज्यते । सूर्याराधनसंजातकुन्तीतनयwaHANI । २६६ काव्यमाला। कर्णोऽपि यदा महीगिलितरथचक्र निष्कासितुमुपक्रान्तवास्तदार्जुनेन बाणेन ता- डितः इति पुराणम् ॥ भाग्यादिकं समीचीनमित्रस्य नास्तीति चिन्ताव्याकुलं कंचन कश्चिद्वक्ति- खाधीनैव फलर्द्धिर्जनोपजीव्यत्वमुच्छ्रयच्छाया । सत्प॑सो मरुभूरुह इव जीवनमात्रमाशास्यम् ॥ ६७६ ।। खेति । मरुभुवि रोहतीति मरुभूरुहस्तस्येव मरुदेशीयवृक्षस्येव समीचीनपुरु- षस्य फलं द्रव्यादि । पक्षे यथाश्रुतम् । तस्य समृद्धिः स्वाधीनैव । इदमग्रेऽपि लिङ्गविपरिणामेनान्वेति । जनानामुपजीव्यत्वम् । अन्नादिदातृत्वात् । पक्षे फलादि- प्रदानात् । अधिका छाया । इतरदुःखनिवारकत्वमित्यर्थः । पक्षे यथाश्रुतम् । जीव- नमायुः । पक्षे जलम् । तदेवाशास्यम् । कर्कशदेशवसतिमानेवमर्थन मरुभूरुह इत्यपि सत्पुंसो विशेषणम् । एवं चायुष्ये सर्वमपि भवत्येवेत्यतस्त्वया न कापि जीवतस्तस्य चिन्ता विधेयेति ध्वन्यते ॥ संपत्तिसंपन्नस्तव पतिः संवृत्त इति वादिनी नायिका सखी वक्ति- संतापमोहकम्पान्संपादयितुं निहन्तुमपि जन्तून् । सखि दुर्जनस्य भूतिः प्रसरति दूरं ज्वरस्येव ॥ ६७७ ॥ संतापेति । हे सखि, ज्वरस्येव दुर्जनस्य भूतिरैश्वर्यम् । पक्षे भवनं भूतिः । संतापमोहकम्पान्सम्यगुत्पादयितुं जन्तून्नितरां हन्तुमपि दूरं प्रसरत्यधिकतरा भवति । एवं चैतस्य संपत्तौ जातायां सपन्यादिसंपादनेन दुःखम् , किमस्याग्रे भविष्यतीति चिन्ताबाहुल्येन मौढ्यम् , समधिकक्रोधकरणेन कम्पम् , दण्डदानेन चास्माकं प्राणविश्लेषमेवैतदैश्वर्यं करिष्यति न परं सुखलेशमपीति व्यज्यते । ज्वरो- त्पत्तावपि संतापादिकमतितरां भवतीति चायुर्वेदे ॥ विद्यैवाभ्यसनीया त्वयेदानी न द्रव्ये मनः कर्तव्यमिति कश्चित्कंचिद्वक्ति- सुखयतितरां न रक्षति परिचयलेशं गणाङ्गनेव श्रीः । कुलकामिनीव नोज्झति वाग्देवी जन्मजन्मापि ॥ ६७८ ॥ सुखयतीति । श्रीर्वेश्येवातिशयेन सुखयति । परिचयलेशं न रक्षति । सर- खती कुलकान्तेव जन्मजन्मापि न त्यजति । एवं च विद्याभ्यास आवश्यक इति भावः ॥ ।
EditiaNP आर्यासप्तशती। २६७ Lammar नायिका सखी वक्ति- खसदननिकटे नलिनीमभिनवजातच्छदां निरीक्ष्यैव । हा गृहिणीति प्रलपंश्चिरागतः सखि पतिः पतितः ।। ६७९॥ खेति । हे सखि, स्वसदनसविधे । एवं च च्छदग्रहणयोग्यत्वं ध्वन्यते । . कमलिनी नूतनसंजातदलाम् । एवं च पूर्वपत्राभावो नायिकाविरहनिबन्धन एवेति ध्वन्यते । दृष्ट्वैव । एवं च प्रश्नाद्यकरणेनातिशयिताधैर्यमावेद्यते । तत्कालमागतः । एवं च चिरप्रवासाभावेन तथाविधविरहाद्ययोग्यत्वेऽपि तदज्ञानेनात्यन्तासतिरावे- बते । हा गृहिणि, इति प्रलपन् । संपूर्णवाक्यानभिधानं च दुःखोद्रेकमावेदयति । पतिः। प्राणेभ्योऽपि मयि स्नेहवानित्यर्थः । पतितः । मूर्च्छयेति भावः । यद्वा हे सखि, निलयनिकटे न तु निलये । एवं चातिविरहयोग्यत्वं ध्वन्यते नायिकायाम् । यद्वा निलयनिकट इत्यनेन दर्शनयोग्यत्वं तेन चावश्योच्छेदनीयत्वमावेद्यते । अमिनवानां नूतनानाम् । अर्थात्पत्राणाम् । जातः समूहो यत्र । एतादृशानि च्छदानि । अर्थात्पुराणानि यस्यां सा तां नलिनीं निरीक्ष्यैवाचिरागतः पतिर्दा गृहिणि, इति प्रलपन्पतितः । एवं च मत्प्रस्थिती नियतमेषा विरहमसहमाना जीव- नवती प्राचीननवीनदलसमृद्धिशालिनी विहन्यादेव । न चेयं व्याहता । तेन न जीवतीयमिति नलिनीदर्शनसमसमयमेव निश्चयेन मूर्च्छित इति ध्वन्यते । अचिरा- गत इत्यनेनैतादृशसंभावनानर्हत्वं तथापि तत्करणेनात्यन्तनायिकासक्तिमत्त्वं नायके व्यज्यत इत्यर्थः । एवं चैतादृशो नायकोऽन्यस्या नेति भावः । क्वचित् 'नलिनीद- लानि मलिनानि वीक्ष्यैव' इति पाठः ॥ नायकसखी नायिका वक्ति- सखि चतुराननभावाद्वैमुख्यं क्वापि नैव दर्शयति । अयमेकहृदय एव द्रुहिण इव प्रियतमस्तदपि ॥ ६८० ।। सखीति । हे सखि, एवं च सत्यवादार्हत्वं ध्वन्यते । अयम् । एवं चान्ये- षामन्याशी गतिरिति भावः । प्रियतमो विधातेव चतुराननभावात्सुमुखत्वात् । चातुर्यवत्त्वादिति यावत् । पक्षे चतुर्मुखत्वात् । क्वापि वैमुख्यम् । विरसत्वमित्यर्थः । पक्षे मुखाभाववत्त्वं नैव दर्शयति । दर्शयत्येव नेत्यपि योजना । चतुराननभावादे- वेत्यन्वयः। एवं च न चेतसः सकाशादिति भावः । तदपि तथापि एकस्याम् । त्वयीति भावः । हृदयं यस्यैतादृशः । एवं चान्यासु चातुर्यवशादासक्किं प्रदर्शयति । । । ।
२६८ काव्यमाला। - । वास्तवं तु त्वय्येवासक्तिरिति व्यज्यते । धातुरपि चतुर्मुखत्वेऽपि हृदयस्यैकत्वात् यद्वा त्वप्रियतमः सर्वसपत्नीषु समबुद्धिरिति वादिनी सखी नायिका वक्ति-एवं च मय्येवासक्तिस्तस्य नान्यति ध्वन्यते ॥ सुन्दरत्वादिगुणयुक्तः कथं न पराङ्गनासक्त इति तर्कयन्ती नायिका नायक- सखी वक्ति- सत्यं मधुरो नियतं वक्रो नूनं कलाधरो दयितः । स तु वेद न द्वितीयामकलङ्कः प्रतिपदिन्दुरिव ॥ ६८१ ॥ सत्यसिति । सः । इदभग्रेऽप्यन्वेति । मधुरः सुन्दरो मृष्टभाषी वा । इदं सत्यम् । नात्र संदेह इति भावः । एवमग्रेऽपि । एवं च स्पृहणीयत्वमावेचते । वक्रो नियतं वक्रोक्तिनिपुणः कुटिलो वा । एवं च पराङ्गनारनकत्वं वन्यते कलाधरः। नूनं निश्चितम् । एवं च पराङ्गनाचित्ताकर्षणनिपुणत्वं व्यज्यते। दयितः। तु पुनः । कलङ्कोऽपवादस्तच्छून्यः प्रतिपञ्चन्द्र इव द्वितीयामपरां न वेद । एवं च मधुरत्वादिगुणसत्त्वेऽपि न तादृगन्यः साधुरिति व्यज्यते । प्रतिपञ्चन्द्रोऽपि मधुरो वक्रः कलावानपि निष्कलको द्वितीयाभिधां तिथिं न जानाति । सलं नियतं नूनमेभिः पदैर्मधुरत्वादौ न संदेह इति प्रतिपादनेन तद्वत्त्वेऽपि तत्कार्या- भाववत्त्वेनातिसद्वृत्तत्वं व्यज्यते । न च तस्मिन्यथाकथंचिदन्याहगाचरणसंभाव- नया कोपकरणं तवोचितमिति प्रतियोगिविशेषानुपादानेन मधुरत्वादी सर्वप्रति- योगिकत्वेन सर्वाधिक्यमावेद्यते । यद्वा सौन्दर्यादिगुणयुक्तस्त्वद्दयितः कथं नाप- राङ्गनालम्पट इति वादिनी सखी नायिका वक्ति-एवं चेतादृशनायकवत्तया स्वस्मिन्नाधिक्यमावेद्यते ॥ दुर्जनस्य स्वीयपक्षरक्षणमपीति कश्चित्कंचिद्वक्ति- खस्थानादपि विचलति मजति जलधौ च नीचमपि भजते । निजपक्षरक्षणमनाः सुजनो मैनाकशैल इव ॥ ६८२ ॥ खेति । स्वाझीकृतरक्षणचित्तः सुजनो मैनाकाभिधपर्वत इव स्वस्थानादपि विचलति । अपिश्चलनानहत्वमावेदयति । परसदनं गच्छतीत्यर्थः । डलयोरेक्या- जडा मूर्खा धीयन्ते यस्मिन्निति जडसमूहस्तत्रापि मजति । तद्रूपभाग्भवतीत्यर्थः । यद्वा समुद्रपर्यन्तमपि गच्छतीत्यर्थः । एवं च क्लेशागणनमावेद्यते । क्षुद्रमपि भजत आराधयति । एवं च सुजनो यदङ्गीकारं करोति तन्निर्वाहं स्वस्थानुचितैरपि KAHANIASISAMANASI आर्यासप्तशती। २६९ नानाविधोपायैः करोति न दुष्ट इति सुजनसंनिधिरेवोचित इति ध्वन्यते । पक्षच्छे- दनप्रवृत्तेन्द्रभयान्मैनाकोऽपि पृथिवीं विहाय समुद्रे गत्वा तन्नीचदेशमप्यवलम्ब्य स्थितः-इति पुराणप्रसिद्धिः ॥ मानवती नायिकां सखी वक्ति- संवृणु बाप्पजलं सखि दृशमुपरज्याञ्जनेन वलयैनाम् । दयितः पश्यतु पल्लवपङ्कजयोयुगपदेव रुचम् ॥ ६८३ ॥ संवृण्विति । हे सखि । एवं च हितकथनार्हत्वं ध्वन्यते । तेन च मदुक्तं कुर्विति । बाष्पोदकं संवृणु । कज्जलेनोपरज्यैनां दृशं वलय । उत्तरङ्गयेत्यर्थः । दयितः। एवं चावश्यसमाधेयत्वमावेद्यते । किसलयेन्दीवरयोरेककालमेव रुचं पश्यतु । एवं च रोदनादिना रक्ततामापन्नाया दृशः कजलदानेन श्यामतासंपादनेन व्यधिकरणत्वेन प्रसिद्धयोरपि पल्लवेन्दीवरयोरैकाधिकरण्यसंपादनेन सर्वाद्भुतवस्तुप्र- दर्शनजनितानन्ददानेन नय स्वाधीनतामिति भावः। 'दृशम्' इति स्थाने 'भृशम्', “पल्लव-' इति स्थाने 'पल्वल-' इति पाठे भृशमधिरज्यैनां दृशमित्यध्याहार्य वलयेति योजना । अञ्जनदानेन पङ्कवत्तासंपादनेन पङ्कजसत्त्वयोग्यता । एवं च सरसि परुहवत्ता प्रसिद्धा । पल्वलेऽपि तद्भवनेन चमत्कारातिशयप्रदर्शनेन नाय- कचित्ताकर्षकत्वं तव सुलभमिति ध्वन्यते । 'एनम्' इति पाठे नेत्रमित्यध्याहारः । नायकं वलय विलोकयेति वा योज्यम् । मानश्चायमन्यथासिद्धकुतूहलाद्यपनेयः। 'पल्वलपङ्केरुहसासकलरुचम्' इत्यपि क्वचित्पाठः ॥ अत्यन्तं सा त्वद्विरहखिन्ना त्वदधीनैवेत्यवगत्यानुग्राह्या नायिकेति तत्सखी नायकं वक्ति- सा पाण्डुदुर्बलाङ्गी नयसि त्वं यत्र याति तत्रैव । कठिनीव कैतवविदो हस्तग्रहमात्रसाध्या ते ॥ ६८४ ॥ सेति । एषा पाण्डूनि दुर्बलान्यङ्गानि यस्या एतादृशी । त्वद्विरहवशादिति भावः । त्वं यत्र नयसि तत्रैव याति । यास्यतीत्यर्थः । एवं चान्यविषयकप्रेम- शून्यत्वमावेद्यते । कठिनीव कैतवविदः । एवं त्वदीय एवापराधो न तस्या इति भावः । यद्वा येन व्याजेन तत्र गत्वा तत्संमानं विधेयं तत्सर्वं त्वया विज्ञायते किं मयोपदेष्टव्यमिति भावः । ते हस्तग्रहमात्रसाध्या । एवं च चाटुवचनादिकं किमपि नापेक्षितमिति भावः । खटिकापि पाण्डुरवर्णा सूक्ष्मा लेखककरग्रहाधीना यत्र यत्र नीयते तत्र तत्र गच्छति ॥
२७० काव्यमाला। कस्यचिद्दती कांचन वक्ति- सखि विश्वगञ्जनीया लक्ष्मीरिव कमलमुखि कदर्यस्य । त्वं प्रवयसोऽस्य रक्षावीक्षणमात्रोपयोग्यासि ॥ ६८५ ।। सखीति । हे सखि, कदर्यस्य कृपणस्य विश्वोपमा लक्ष्मीरिव । एवं च पुरुषोत्तमसंगतियोग्यत्वं व्यज्यते । कमलवदने, त्वं प्रकृष्टं वयो यस्येत्येवंविध- स्यास्य रक्षणं रक्षा वीक्षणं च तन्मात्रे उपयोगो यस्याः। कृपणलक्ष्मीरपि भोगा- यभावात्तथाविधेति भावः। एतादृश्यसि । एवं चात्यन्तसौन्दर्यशालिनी त्वमेतस्य सुरताक्षमस्य जरठस्य नोपयोगिनी, अतः पुरुषविशेषे मनः कुर्विति व्यज्यते ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता सकारव्रज्या। । हकारव्रज्या। नायकः सखायं वक्ति- हृदयज्ञया गवाक्षे विसदृशं किमपि कूजितं सख्या । यत्कलहभिन्नतल्पा भयकपटादेति मां सुतनुः ॥ ६८६ ॥ हृदयेति । कलहभिन्नशय्या सुतनुर्भयव्याजाद्यथा मां प्रत्येति तथा हृदयज्ञया नायिकाभिप्रायज्ञानवत्या सख्या गवाक्षे किमपि वक्तुमशक्यं विसदृशं कूजितम् । विसदृक्षमित्यनेन भययोग्यत्वम् । एवं च कलहोत्तरसंजातसंतापं नायिकाया विज्ञाय तथाविधविलक्षणकूजिते सख्या कृते भयव्याजेन मन्निकटे नायिकागतेति नायिकाकलहो नातिचिरावस्थायीति व्यज्यते ।। सखी नायिका वक्ति- हरति हृदयं शलाकानिहितोऽञ्जनतन्तुरेष सखि मुग्धे । लोचनबाणमुचान्तद्र्धनुषा किण इवोल्लिखितः ॥ ६८७ ॥ हरतीति । हे सखि मुग्धे सुन्दर, शलाकया निहित एष कज्जलतन्तुः । तन्तुपदेन रेखायां तनीयस्त्वं व्यज्यते । लोचनरूपो यः शरस्तन्मोचनकर्ता भ्रूध- नुषोल्लिखितः किण इव हृदयम् । अर्थान्नायकस्य । हरति । एवं चैतादृशत्वदीयह- गनुगृहीतो निगृहीत इव संवृत्तः, अत एनमनुकम्पया द्रुतमनुगृहाणेति व्यज्यते।
आर्यासप्तशती। । । अथवा मुग्धे सुन्दरे । नायक इत्यर्थः । 'मुग्धः सुन्दरमूढयोः' इति । लोचनबाणं मुञ्चेति योजना प्राग्वत् ॥ क्रोधवशादपमानितं नायक नायिका समाधत्ते- हससि चरणप्रहारे तल्पादपसारितो भुवि खपिषि । नासदृशेऽपि कृते प्रिय मम हृदयात्वं विनिःसरसि ॥६८८॥ हससीति । चरणताडने हास्यं करोषि । शयनीयाद्दूरीकृतो भूमौ स्वाम करोषि । असदृशेऽयोग्ये कृतेऽपि हे प्रिय, मम हृदयात्त्वं न विनिःसरसि । एवं च चरणप्रहारादिरूपानुचितावमानने क्रोधात्कृतेऽपि चेतसा त्वद्विषयकानुरागभागि- न्येवाहमिति चरणताडनादिजन्यमदीयापराधमनाहत्यानुग्रहं कुर्विति व्यज्यते । यद्वा सपत्नीसांनिध्यरूपानुचिते विहितेऽपि । त्वयेति भावः । मम हृदयात्त्वं नापग- च्छसि । अत्र हेतुमाह-चरणप्रहारे हससीत्यादि । एवं च त्वदीयैतादृशसहन- शीलखरूपगुणाकृष्टचित्ततया त्वदीयैतादृशानुचिताचरणजनितक्रोधेन न मय्यवस्थि- तिर्लन्यत इति व्यज्यते । तेन चाहमधुना त्वयि प्रसन्नेति ॥ नायके नायिकासक्तिविशेषं सखी वक्ति- हसति सपत्नी श्वश्रू रोदिति वदनं च पिदधते सख्यः । खनायितेन तस्यां सुभग त्वन्नाम जल्पन्त्याम् ॥ ६८९ ॥ हसतीति । हे सुभग, तस्यां नायिकायां खप्नायितेनोत्खापेन त्वन्नाम जल्पन्त्यां सत्यां सपत्नी हसति । एतस्या असतीत्वज्ञानोत्तरं प्रियाप्रियत्वं भर्वि- ध्यतीति सुखाविर्भावादिति भावः । श्वश्रू रोदिति । इदं चेदन्यैः श्रुतं तदानर्थं एवापद्येत । अथवेयमेतादृशी संवृत्ता, कथमतः परं पुनस्तनयविवाहसंपादनमिति दुःखोद्रेकादिति भावः । सख्यश्च वदनम् । नायिकाया इति भावः । पिदधते । एवं च वर्णानामस्फुटत्वसंपादनेन पुनर्नामग्रहेऽपि सम्यग्ज्ञानमन्येषां मा भवत्विति धियेति भावः । एवं चैतस्यास्तत्रैतादृशी गतिरिति त्वमेवाधुना शरणमित्यवगत्या- नुरक्तां तामनुगृहाणेति व्यज्यते ॥ नायकः सखायं वक्ति- हृदयं मम प्रतिक्षणविहितावृत्तिः सखे प्रियाशोकः । प्रबलो विदारयिष्यति जलकलशं नीरलेखेव ॥ ६९० ॥ हृदयमिति । हे सखे, प्रबलः प्रतिक्षणं विहितावृत्तियनैतादृशः प्रियासंबन्धी २७२ काव्यमाला। । । शोकस्तरङ्गपतिर्जलसंबन्धिघटमिव मम हृदयं विदारयिष्यति । एवं च मयि प्रस्थितुं कृतोद्योगे संजातप्रियादुःखं प्रबलत्वाद्वारं वारं जायमानत्वान्मम हृदयं दुःखोद्रेकवशाद्भिन्नं करिष्यतीत्यर्थः । प्रियादुःखादप्यत्यन्तं मम दुःखं भावीति भावः। यद्वा वारंवारं जायमानःप्रबलः। एवं च प्रतीकारानहत्वमावेद्यते प्रियायाः। एवं चावश्यभवनयोग्यत्वं शोके द्योलते । विरहजः शोको मम हृदयं स्फोटयि- प्यति । एवं च प्रियविरहजन्यदुःखं मया सोडुमशक्यमिति न मया प्रस्थितिर्वि- धेयेति व्यज्यते । यद्वाननुभूतप्रियाविरहः कश्चित्सखायं पृच्छति-प्रियासंबन्धि. शोको मम हृदयं विदारयिष्यतीति । एवं च प्रियासंवन्धित्वेन शोकस्य प्रियाहृद- यविदारकत्वमुचितं नान्यहृदयविदारकत्वमिति व्यज्यते।मम हृदयमित्यनेन हृदय- विदारणेऽसह्यत्वं तन्निवारणोपायसंपादने चावश्यकर्तव्यत्वं ध्वन्यते। तरङ्गपङ्किरपि प्रतिक्षणकृतावृत्तिः प्रबला जलार्थ प्रक्षिप्तं कलशं स्फोटयति ॥ नायिका सखी वक्ति- हन्त विरहः समन्ताज्वलयति दुर्वारतीसंवेगः । अरुणस्तपनशिलामिव पुनर्न मां भस्मतां नयति ॥ ६९१ ।। हन्तेति । दुःखेन निवारयितुमशक्यस्तीब्रो दुःसहः संवेग आधिक्यं यस्य स विरहः समन्तात् । सर्वाङ्गमित्यर्थः । सर्वत्रेति वा । क्वापि विधान्तिस्थानं नास्तीति भावः । मां ज्वलयति । हन्त खेदे । अरुणस्तपनशिलामिव पुनर्न भस्मतां प्राप. यति । एवं विरहे सति जीवनान्मरणमेव वरमिति व्यज्यते ॥ .. कश्चित्कांचिदन्योक्त्या वक्ति- हृत्वा तटिनि तरङ्गभ्रमितश्चक्रेषु नाशये निहितः। फलदलवल्कलरहितस्त्वयान्तरिक्षे तरुस्त्यक्तः ॥ ६९२ ॥ हृत्वेति । हे तटिनि, एवं च निष्कामगमनयोग्यत्वं ध्वन्यते । तरहित्वा चक्रेष्वम्भसां भ्रमेषु भ्रमि प्रापितः । आशये मध्ये न स्थापितः । फलदलवल्कलै- हीनस्तरस्त्वयान्तरिक्षे त्यक्तः । एवं च तरङ्गरूपकटाक्षरेनं स्वाधीनीकृत्येतस्ततो भ्रामयित्वा खान्तःकरणेऽकृत्वा द्रव्यादिहीनत्वमासादयित्वाकस्मात्परित्यकोऽयं 'नायकः, इदमनुचितं तवेति ध्वन्यते ॥
MATHSUPER आर्यासप्तशती। २७३ amam सखी नायिका वकि- हृतकाञ्चिवल्लिबन्धोत्तरजघनादपरभोगभुक्तायाः। उल्लसति रोमराजिः स्तनशंभोगरललेखेव ॥ ६९३ ॥ हृतेति । न विद्यते परो यस्मात् । अत्युत्कट इत्यर्थः । यो भोगः सुरतं तत्रोपभुक्तायास्तव हृतकाञ्चिवल्लिबन्धेनोत्तर उच्छूनो यो जघनस्तद्धेतोः तन- शंकरस्य विषलेखेव रोमावलिरुल्लसति । एवं च काञ्चिबन्धत्रुटनो रजघनकथनेन रतातिशयवत्त्वमावेद्यते ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता हकारव्रज्या । क्षकारव्रज्या। कथं त्वयि प्रीतिमकुर्वाणेऽपि नायके त्वं विनीतेति वादिनी सखीं नायिका वक्ति- क्षीरस्य तु दयितत्वं यतोऽपि शान्तोपचारमासाधः । शैलोऽङ्गान्यानमयति प्रेम्णः शेषो ज्वरस्येव ॥ ६९४ ॥ क्षीरस्येति । क्षीरस्यापि दयितत्वं प्रीतिविषयत्वं यतः । यस्मादित्यर्थः । शान्तोपचारं समाप्तोपचारम् । आरोगिणमित्यर्थः । आसाद्य । एवं च क्षीरस्य क्षीरत्वेन सर्वस्पृहणीययोग्यत्वेऽपि रोगग्रस्तं प्रति न स्पृहणीयत्वमेवमन्याङ्गनानु- रागरूपरोगग्रस्तं प्रति नाहं स्पृहणीयेति भावः । एवं च न तस्यापराधो न वा मम काचित्क्षतिरिति व्यज्यते । तेन च कंचित्कालोत्तरमहं तत्स्पृहणीया भविष्यामीति। तु पुनः । शीलस्यायं शैलसंबन्धीत्यर्थः । पक्षे शिलानामयं शैलः । अत्यन्तगुरु- तापादक इति भावः । ज्वरस्येव प्रीतेः शेषोऽङ्गानि । ममेति भावः । आनमयति । एवं च यथा पर्वततुल्यो ज्वरशेषोऽङ्गानि बलादानयति तथा शीलसंबन्धी प्रीतेः शेषो मां विनीततां प्रापयतीति भावः । एवं च यद्यपि तथाविधप्रीतेरभावादहम- विनीततां कर्तुमिच्छामि तथापि शीलप्रीतिशेषो मां बलाद्विनीततां नयतीति व्यज्यते । तेन च न ममापराध इति । यद्वा नायिकासखी नायकं वक्ति-हे शान्त । एवं चापराधजनकत्वाभावो व्यज्यते । यतः क्षीरस्याप्युपचारम् । आव- र्तितत्वशर्करादिसंपर्कादिकमित्यर्थः। आसाद्य दयितत्वं प्रीतिविषयत्वं भवति । एवं च खतः क्षीरस्य माधुर्यवत्त्वेऽप्यावर्तनशर्करादिसंपर्कवशात्प्रीतिविषयत्वं यथा तथा १८ आ० स० - काव्यमाला। पराङ्गनालम्पटत्वादिराहिलेन त्वयि प्रीतिविषयत्वेऽपि वारंवारागमनचाटुवचनरच- नादिमत्तया प्रीतिविषयत्वं भावीति व्यज्यते । एवं चाहमपराधाभाववानिति तूष्णी- मेवावस्थितिरनुचिततरेति व्यज्यते। तु पुनः प्रेम्णः शैलः पर्वतो ज्वरस्य शेष इवा. झान्यानमयति । एवं च यथा बलाज्ज्वरशेषोऽङ्गनमनाभावमिच्छोरप्यङ्गनमनं करोत्येव तथा यदि त्वं तद्विषयकबहुतरप्रेमवानसि तर्हि तदेव त्वां बलात्प्रमाणादिशालिनं करिष्यतीति भावः । एवं च नाहमपराधीति किमिति प्रणामादिकं न करिष्यामीति वक्तुं नोचितं तवेति ध्वन्यत इत्यर्थः । कुपितनायिकां समाधातुमशक्ता दूती नायकं वक्ति । योजना प्राग्वत् । एवं च तस्यां तीव्रः कोपो न वा शीलप्रेमशेषः । अतस्त. स्यास्त्वं न दयित इति भाव इति प्रतिभाति । परं तु मानस्यासाध्यत्वप्रदर्शनेनाभास- स्वमायाति ॥ नायिका नायकं वक्ति- क्षान्तमपसारितो यच्चरणावुपधाय सुप्त एवासि । उद्घाटयसि किमूरू निःश्वासैः पुलकयन्नुष्णैः ।। ६९५ ॥ क्षान्तमिति । अत्र संवुद्धिपदानुपादानं क्रोधमावेदयति । अपसारितो दूरीकृत- श्वरणावुपधानीकृत्य सुप्त एवासि तत्क्षान्तम् । उष्णैः । संतापजत्वादिति भावः । निःश्वासैः पुलकयन्नूरू किमुद्घाटयसि । इयमेव हि त्वां प्रति मदीया क्षमा यच्चरण- सविधे सुप्त इतो न निराकृतोऽसि । त्वं पुनर्धष्ट ऊरुविघटनं करोषि महत्साहसं तवेति ध्वन्यते। तेन चैतन्न मया सोढव्यमिति । यद्वा यदपसारितश्चरणावुपधाय सुप्त एवास्यतः क्षान्तं त्वदीयानुचितमिति भावः । क्षमाफलमेवाह-उष्णैः श्वसितैः पुलकयन्नूरू किमित्युद्धाटयति । एवं च त्वदीयसहनशीलतया मया त्वदीयापराध- जदुःखं त्यक्तम् , अतो दुःखजाञ्वासान्परित्यज्याचिरमालिङ्गनचुम्बनादि विधेहीति ध्वन्यते । एवं च पुलकयन्निति सार्थकम् ॥ कश्चित्कंचिद्वक्ति- क्षुद्रोद्भवस्य कटुतां प्रकटयतो यच्छतश्च मदमुच्चैः । मधुनो लघुपुरुषस्य च गरिमा लघिमा च भेदाय ॥ ६९६ ॥ क्षुद्रेति । क्षुद्रा मधुमक्षिका । अथ च क्षुद्रो नीचः । तदुत्पन्नस्य । कटुतां रूक्षताम् । अथ च कटुभाषिताम् । प्रकटयतः । उच्चैरुत्कट मदमुन्मादम् । अथ - ।
आर्यासप्तशती। २७५ ब गर्वम् । यच्छतः कुर्वतः मधुनो माक्षिकस्याधमपुरुषस्य च गौरवं गुरुत्वं लाघवं तुच्छत्वं च भेदाय । यद्वा मधु मद्यम् , क्षुद्रा कण्टकारिकेत्यर्थः । एवं चाधमसंग- तिर्न विधेयेति ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता क्षकारव्रजा । खकृतौ गुणाढ्यादिमहाकविकृतिसमतां वक्ति- पूर्वविभिन्नवृत्तां गुणाढ्यभवभूतिबाणरघुकारैः । वाग्देवीं भजतो मम सन्तः पश्यन्तु को दोषः ॥ ६९७ ॥ पूर्वैरिति । गुणाढ्यभवभूतिबाणकालिदासः पूर्वैः प्राक्तनैविभिन्नवृत्तामपि लक्ष- णसरणिशालिनी (लक्षणया खैरिणी) वाग्देवीं भजतो मम को दोषः । न कोऽपी- त्यर्थः । इदं सन्तः पश्यन्तु । एवं च वाग्देव्या एकत्वेऽपि वैलक्षण्येन पूर्वैः सेवितत्वान्मयापि वैलक्षण्येन सा सेवितेति न मद्दोषगणनं सतामुचितमिति भावः । सन्त इत्यनेन नासतां प्रार्थना । अथ च पूर्वैर्गुणाढ्यादिभिर्विभिन्नशीलां वायूपां देवीं राज्ञी भजतो मम को दोषः । इदं सन्तः पश्यन्तु । एवं च 'यद्यदाचरति श्रेष्ठस्त- तदेवेतरो जनः' इति वचनाद्वाग्देवीभजनं न मम दोषावहामिति भावः। एवं च खस्मिन्वाक्पतित्वमावेद्यते । एवं च कारपदोपादानान्नाश्लीलता ॥ खग्रन्थस्य समीचीनत्वात्सर्वहर्षजनकत्वमिति वक्ति- सत्पात्रोपनयोचितसत्प्रतिबिम्बाभिनववस्तु । कस्य न जनयति हर्ष सत्काव्यं मधुरवचनं च ॥ ६९८ ॥ सत्पात्रेति । नवमभिनवं वस्तु सत्काव्यं मधुरवचनं च कस्य न हर्ष जन- यति । अपि तु सर्वस्येति भावः । सत्पात्रेत्यादिविशेषणत्रितयस्यार्थः क्रमेण । -- . १. बहुषु मूलपुस्तकेष्वयं समीचीनः पाठो वर्तते. टीकानुकूलपाठस्त्वयम्-'सत्पा- त्रोपनयोचितं सत्प्रतिबिम्बमभिन्नं नवं वस्तु.' असिन्पाठे स्फुट एव च्छन्दोमङ्गः. इमामार्यामग्रिमां च भङ्गां निपीयानन्तपण्डितो व्याख्यातवानिति माति. एवमेव भाकारव्रज्यायाम् 'आरोपिता शिलायाम्-(८१)इत्याद्यार्या टीकानुरोधेन च्छन्दोभङ्ग- दूषितैव मुद्रिता. मूलपुस्तकेषु तु 'आरोपिता शिलायामश्मेव त्वं स्थिरेति मन्त्रेण! इति साधीयान्पाठो दृश्यते.
२७६ काव्यमाला। । समीचीनं यत्पात्रं संपुटादि तत्रोपनयाय स्थापनायोचितम् । अत्यन्तसंरक्षणीय. मिति धियेति भावः। एवं च बहुमूल्यत्वमावेद्यते । सन्समीचीनः । परीक्षक इत्यर्थः । तस्य प्रतिबिम्बो याथातथ्यखरूपपरिचयो यस्य । क्षुद्रपरीक्षकस्य तद्गुण- यथार्थज्ञानं न भवतीति भावः । एतादृशमभिन्नं सर्वदैकरूपम् । एवं च बहुकाल- सत्त्वेऽपि दोषासंस्पर्शितया मुक्ताफलादिव्यतिरेको ध्वन्यते । तेन चावश्यस्पृह- णीयत्वम् । सत्पात्रे सहृदये पुंसि य उपनयः प्रापणं तत्रोचितम् । एवं च सहृद- यस्यैव सत्काव्यश्रवणेऽधिकार इति भावः । सत्पात्रेण सहृदयेन च य उपनयः पठनादिस्तत्रोचितम् । एवं च सत्काव्यपाठेऽपि सहृदयस्यैवाधिकार इति ध्वन्यते। सत्खनादिकाव्यवासनाव्युत्पत्तिशालिहृदयेषु प्रतिबिम्बः सम्यग्बोधो यस्य । एवं च सत्काव्यार्थबोधोऽपि सहृदयस्यैवेति भावः । अभिन्नं सर्वसहृदयान्प्रत्येकरूपम् । सत्पात्राय समीचीनायोपसमीपे नयेन विनयेनोचितम् । 'तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥' इति स्मरणात्सत्पात्रं प्रत्येतावतोऽपि स्वधर्मसंरक्षणकारित्वादिति भावः । समीचीनः प्रतिबिम्बो यस्यैतादृशो यश्चन्द्रस्ततोऽभिन्नम् । तद्रूपमित्यर्थः । एवं च मधुरवचने सुधारूपत्वप्रतिपादनान्निखिलतापापनोदकत्वं बहुतरपुण्यैकलभ्यत्वं विरलत्वं च ध्वन्यते । अथवा मधुरवचनवतो देवरूपत्वं व्यज्यते । यद्वा मधुदैवं रात्यङ्गीक- रोति । वधबलेन मुक्तिदत्वादिति भावः । तद्विषयकं यद्वचनं तदित्यर्थः । कथंभू- तम् । सत्पात्रे शमादिसंपत्तिशालिनि य उपनय उपदेशस्तनोचितम् । सतः सत्ख- रूपस्य ब्रह्मणः प्रतिबिम्बनं प्रतिबिम्बो विज्ञानं यस्मादेतादृशं तत् । अभिन्नमेकम् । यद्यपि भगवत्प्रतिपादका बहवो वेदान्तभागास्तथापि सर्वेषां वेदान्तवाक्यानां ब्रह्मणि समन्वयः' इत्युक्तत्वादेकार्थत्वादेकत्वोक्तिः । अथवा सतः समीचीनाचरणस्य पात्रम् । गुरुरित्यर्थः । तस्य समीपे नयनं नयः प्रापणम् । स्वस्येति भावः । 'समि- त्याणिराचार्य श्रोत्रियमुपगच्छेत्' इत्यनेन गुरूपसत्तेविहितत्वादिति भावः । तेनो- चितो योग्यः । प्राप्य इत्यर्थः । सत्प्रतिबिम्बनं सत्प्रतिबिम्बः समीचीनज्ञानं यस्यैतादृशम् । अभिनमखण्डितम् । केनापि नावगणितमिति भावः । यद्वा मधुना- मकदैत्याङ्गीकारकर्तुः परमेश्वरस्य वचनं वेदान्तभाग इति भावः । एवं च सत्काव्ये भगवद्वाक्यतुल्यताप्रतिपादनेनावश्यपरिशीलनीयत्वं ध्वन्यते । अनर्घमणितुल्यता- प्रतिपादनेन चार्थप्राप्तिजनकत्वं काव्ये व्यज्यते । एवं च पुरुषार्थसाधनीभूततया काव्येऽवश्यविधेयत्वं ध्वन्यते ॥
आर्यासप्तशती। २७७ - एका ध्वनिद्वितीया त्रिभुवनसारा स्फुटोक्तिचातुर्या । पञ्चेषुषट्पदहिता भूषा श्रवणस्य सप्तशती ॥ ६९९ ॥ एकेति । एका मुख्या । ध्वननं ध्वनिः । व्यञ्जनेति यावत् । सैव द्वितीया सहायभूता यस्याः । एवं चोत्तमकाव्यमयीत्वं सप्तशत्यां ध्वन्यते। त्रिभुवनसाररूपा । यद्वा त्रिभुवने सारं रसस्तद्वतीत्यर्थः । अथवा त्रिभुवनं सारं यया । एवं च त्रिभुव- नेप्येतदसत्त्वे निःसारतवासीत् , इदानीमनया सारवत्ता जातेति भावः । स्फुटमुक्ति- चातुर्य यस्याम् । यद्वा स्फुटं व्यक्तमुक्तिचातुर्य यया । पञ्चेषुर्मदनस्तद्रूपो यः षट्पदस्तस्य हिता । खकर्तव्यतासहायतयेति भावः । श्रवणस्य श्रोत्रस्य । सता- मिति भावः । भूषा भूषणरूपा । सप्तशती । सप्तशतीनामकोऽयं ग्रन्थ आस्ताम् । एवं च सद्भिरियं सप्तशती श्रोतव्येति प्रार्थना व्यज्यते । पञ्चेषुषट्पदहिता श्रव- णस्य भूषेत्यनेन सप्तशल्यां मञ्जरीत्वं व्यज्यते । यद्वा सप्तशत्यां नायिकात्वारोपणे- नावश्यस्पृहणीयत्वं व्यनक्ति । सप्तशती । सतां हृद्यास्तामित्यध्याहारेण योजना। ए होदरे । एकारस्य हयॊदरवाचकत्वमेकाक्षरनिघण्टेऽवसेयम् । अव्ययत्वा- चास्य सर्वलिङ्गसर्वविभक्तितुल्यत्वम् । कस्य सुखस्याध्वनि मार्गे द्वितीया । नानया विना गृहान्तवर्तिसुखमार्ग इति भावः । एवं च गार्हस्थ्यसुखेच्छावतेयमवश्यं सेव- नीयेति व्यज्यते । त्रिभुवने सारभूता । बहुविधव्ययायाससाध्ययागादिजन्यखर्गा- दावपि नायिकैव भोगेषु मुख्यति भावः । यद्वात्रेः सकाशाद्भवतीत्यत्रिभु चान्द्र ज्योतिस्तस्य वनं समूहस्तस्य साररूपा । एवं चेयं चन्द्रसार्निर्मितेति भावः । एवं चान्योपायासाध्यतापोपशामकत्वमावेद्यते । यद्वा त्रिभुवनं सारं यया । एवं च नायिकासांनिध्ये सारासाररूपस्यापि त्रिभुवनस्य साररूपतैव भवतीति व्यज्यते । स्फुटमुक्तिचातुर्य यस्याः । स्फुटमित्यनेन निःसंदिग्धत्वं ध्वन्यते । यद्वा स्फुटा सप्रसादोक्तिर्यस्य । प्रसन्नार्थकोक्तिशालिनि नायके चातुर्य यस्याः । एवं चानभिज्ञ- नायकं प्रति यदि न कामिनी चमत्कारकारिणी तदा न काचित्क्षतिरिति भावः । यद्वास्फुटोत्तौ वक्रोक्तौ चातुर्य यस्याः । पञ्चेषोर्मदनस्य षड्भिः संधिविग्रहयानासनद्वै- धीभावाश्रयरूपोपायैः पदाय वृद्धिरूपाय हिता। कामोऽप्येनामेवासाद्य संध्याधुपायैर्ज- गज्जयवत्तया वृद्धिभाग्भवतीति भावः । एवं च मदनस्य सर्वखभूतेयमिति व्यज्यते । पञ्चेषुपदेन स्वल्पसामग्रीवतोऽपि महत्तरकार्यनिर्वाहकतयातिमत्रनिपुण- त्वमावेद्यते । अथवा पञ्चेषोः षट्पदरूपा । ज्यारूपेत्यर्थः । अत एव च हिता।
काव्यमाला। । एवं चानया विना मदनधनुरनर्थकमेवेति भावः । यद्वा पञ्चेषुरूपभ्रमरस्य हिता। एवं च प्रसिद्धलतातिशयशालिलतात्वं नायिकायां व्यज्यते । तेन चातिकोमलाङ्गी- त्वम् । श्रवणस्य भूषणरूपा । एवं च नायिकागुणेषु सर्वदा श्रवणेच्छाविषयत्वं ध्वन्यते । यद्वा एकस्याद्वितीयस्य ब्रह्मस्वरूपरसस्य यद्वा मुख्यस्य ब्रह्मस्वरूपरसस्या- ध्वनि मार्गे द्वितीया । ब्रह्मविद्येति भावः । त्रिभुवनं सारं यया । एवं च ब्रह्मविद्य- योत्पन्नतत्त्वज्ञानस्य सर्वत्र ब्रह्मभावनारूपसारसाम्राज्यमिति भावः। अथवा त्रिभुवनं साररूपं यया । ब्रह्मात्मकत्वेन निर्णयादिति भावः । स्फुटमुक्तो चातुर्य सामर्थ्य यस्याः । वाचामगोचरस्यापि प्रतिपादनादिति भावः। यद्वा स्फुटम् । प्रकटतयेति यावत् । उक्तौ प्रतिपादने सामर्थ्य यस्याः । अतिनिगूढस्याप्यात्मरूपरसस्य स्फुट- प्रतिपादनमत्यन्तं दुष्करमिति भावः । स्फुटे प्रकटे सर्वदा स्वप्रकाशरूपे ब्रह्मण्युक्ती चातुर्य यस्याः । खप्रकाशत्वे झटिति ज्ञानयोग्यत्वेऽपि स्वापेक्षासंपादनेन चातुर्य- वत्ता । पञ्चस्य प्रपञ्चस्य वाणरूपा ये षट्संख्याकाः कामक्रोधलोभमोहमदमत्सरा- स्तेषां यत्स्थानमज्ञानं तस्याहिता नाशिका । खजन्यज्ञानद्वारेति भावः । इघुत्वेनाति- दुःसहत्वम् । एभिः कृत्वैव प्रपञ्चस्यापि दुःखदत्वम् । श्रवणस्य श्रोतव्येत्यादिविधि- विहितस्य भूषा । श्रुतिजन्यज्ञानस्यैव समीचीनत्वमिति भावः । सप्तशती सतां हृद्यास्ताम् । एवं च रसे ब्रह्मरूपताप्रतिपादनात्सप्तशयां ब्रह्मविद्यात्वप्रतिपादनेन तत्परिशीलनं सतां सर्वदा समुचितमिति ध्वन्यते । संख्याकमोऽप्यत्र । स्वग्रन्थावलोकने लोकप्रवृत्त्यर्थमाधिक्यं वक्ति- कविसमरसिंहनादः खरानुवादः सुधैकसंवादः । विद्वद्विनोदकन्दः संदर्भोऽयं मया सृष्टः ॥ ७०० ॥ कवीति । कविसङ्ग्रामे सिंहनादः । एवं चैतत्संदर्भश्रवणेऽन्यकवीनां दर्पहा. निरवश्यं भवतीति ध्वन्यते । स्वराः षड्जादय अनुवादो यस्य । एवं चैतन्माधुर्य- न्यूनमाधुर्यवत्ता षड्जादाविति भावः । सुधाया एकः संवादः साजात्यं यस्य । एत- सजातीया सुधेति भावः । यद्वा सुधारूप एकः सम्यग्वदनं वादो यस्य सः । एवं चैतत्संदर्भस्यैकदोच्चारणं सुधासमसुखावहम् । वारंवारोच्चारणपरिभावनादिकं तु ब्रह्मानन्दावादकृदिति व्यज्यते । विदुषां विनोदस्य कन्दः । एवंचेतद्न्थस्याविदुषां विनोदजनकत्वाभावे न क्षतिरिति भावः । अयं संदर्भो मया सृष्टः ॥ ।
आर्यासप्तशती। २७९ उदयनबलभद्राभ्यां सप्तशती शिष्यसोदराभ्यां मे । द्यौरिव रविचन्द्राभ्यां प्रकाशिता निर्मलीकृत्य ॥ ७०१ ॥ उदयनेति । शिष्यसोदराभ्यामुदयनबलभद्राभ्यां सप्तशती रविचन्द्राभ्यां द्यौरिव निर्मलीकृत्य संशोध्य । पक्षे ध्वान्तरहितां कृत्वा । प्रकाशिता शिष्यप्रशि- ष्यद्वारा विस्तारिता । पक्षे प्रकाशविषयीकृता । एवं च प्रथमत इयं मत्कृतिस्तत्रा- प्युदयनाचार्यबलभद्राभ्यां संशोध्य शिष्येभ्यः पाठिता । अतोऽत्र दूषणं विभाव्यो- द्भावनीयमिति व्यज्यते॥ हरिचरणाञ्जलिममलं कविवरहर्षीय बुद्धिमान्सततम् । अकृतार्यासप्तशतीमेतां गोवर्धनाचार्यः ॥ ७०२ ॥ हरीति । मतिमान्मोवर्धनाचार्यो हरिचरणयोरञ्जलिम् । प्रणाममित्यर्थः । विर- चय्येति भावः । सततं कविश्रेष्ठसंतोषाय । एवं चापकृष्टकवीनामसंतोषे न काचि- क्षतिरिति भावः । अमलं यथा भवति तथैतां सप्तशतीमकृत । अत्रापरोक्षेऽपि परोक्षवन्निर्देशेनौद्धत्याभावो व्यज्यते । यद्वा मतिमान् । एवं च सप्तशत्या भगव- दर्पणकरणं समुचितमेतस्येति भावः । गोवर्धनाचार्यः सततं कविवरहर्षाय । स्थितामिति शेषः । एतामार्यासप्तशतीममलं स्वच्छं हरिचरणयोरञ्जलिं पुष्पाञ्जलि- मकृत । एतत्पक्षेऽपि मया कृतेति वचनाभाव आचार्यस्य विनयवत्तामावेदयति । अत्र भामा सत्यभामेति वदञ्जलिः पुष्पाञ्जलिः । तात्पर्यान्यथानुपपत्त्या लक्षणेति वा। तद्भाहकं चामलपदम् ।। अर्थागमे सरणिरत्र बहुप्रकारा संदृश्यते तदपि निर्वहणक्षमेयम् । मद्दर्शिता रसवती निखिलावदातसाहित्यशालिविबुधैः परिशीलनीया ॥ ब्रह्मैवास्ति रसस्तदर्थकगिरो वेदान्तभागाः परं ज्ञात्वैवं निरमायि यन्निजधिया विस्तारहीनं मया । तद्गोवर्धनवाचि साचिरचनं व्यङ्ग्यार्थसंदीपनं सीतासंयुतरामचन्द्रचरणाम्भोजे चिरं तिष्ठतु ॥ अब्दे लोचनबिन्दुसप्तशशमृत्प्रस्तारसंलक्षिते ( १७०२) चैत्रे मासि सिते शिवस्य दिवसे मार्तण्डसद्वासरे।
२८० काव्यमाला। पुण्यस्तम्भनिवासिना सुमतिनानन्ताभिधेनादरा- काश्यां सद्विदुषामकारि कुतुकायद्यार्थसंदीपनम् ॥ कदाचित्कस्मिंश्चिद्वचसि यदि वाथै मम भवे- अमः सोऽयं सद्भिर्न खलु गणनीयो निजहृदि । भ्रमाभावं यस्मिन्निखिलनिगमोऽप्याह सततं स एवैको यस्माज्जगति जगदीशो रघुपतिः। ग्रन्थोऽयं विदुषा सृष्टः पण्डितानन्तशर्मणा । खयाश्वसमुद्राख्य (४७००) संख्यको व्यङ्ग्यदीपकः ॥ इति श्रीमहोदावरीपरिसरालंकृतपुण्यस्तम्भस्थितिविराजमाननीलकण्ठपण्डित. तनूजबालोपण्डितात्मजतिमाजीपण्डिताङ्गजानन्तपण्डितविरचित- व्यङ्ग्यार्थदीपनसमेता श्रीमद्गोवर्धनाचार्यकृता आर्यासप्तशती समाप्ता। १. अयं श्लोकः केचित्पुस्तकेषु न दृश्यते.