Svi-ksri-chennai
Parashuraamacharitamuu
Front matter
K.S.R.I.
Due Date Label
This book should be returned on or
before the date last marked below
429
Il ft:
परशुरामचरितम्॥
व्याकरणशिरोमणि
देवरकोण्ड वेङ्कटेश्वरशास्त्रि-
विरचितम्
THE KUPPUSWAMI SASTRI
RESEARCH INSTITUTE,
MADRAS.
PARASURAMA CHARITAM
(Reprint from THE UDYANA PATRIKA)
BY
600080630
100033alen
Devarakonda VENKATESWARA SASTRI
Vyakarana Siromani
Sanskrit Pandit, Board High School
Parvatipuram
Printed at THE SRINIVASA PRESS
Tiruvadi.
Deu3%
532020
1934
Price]
(Annas 8
No text on this page.
शोधनिका ॥
Page
Line
For
Read
१
22
तस्य
तस्मै
तस्मिन्नेव सरसि तदेव सरः
यमधीने
मदधीने
अनयञ्च
अनमञ्च
तोर्थे
तीर्थ
No text on this page.
॥श्रीः॥ विज्ञापना॥ विदितमेव खलु तत्रभवतां सर्वेषां दशखवतारेषु भगवतो महाविष्णोरयमन्यतमः परशुरामावतार इति । अस्य चरितं पुरा- णेषु, काव्यनाटकादिषु तत्र तत्र किंचित् किंचित् दृश्यते । नत्वेकन नापि वचनभागे; अतोऽहं वचनरूपेण बालानां यथा सुबोधं तथा व्य- रचयम् । अत्रस्थान गुणान् परिगृह्य दोषान् सादरं प्रकटयन्त्विति पाठकमहाशयान् सविनयं सप्रणाममभ्यर्थयामि । अस्य ग्रन्थस्य ब्रह्माण्डपुराणम् , महाभारतम्, श्रीमद्वाल्मी- किरामायणं च मूलानि भवन्ति । तत्र तत्र केचन श्लोका महाभा- रतात् गृहीताः। अस्य ग्रन्थस्य पठने , दोषाणां प्रकथने च बद्धादरेभ्योऽस्म- प्रियमित्रेभ्यो ब्र-श्री-विद्वान के काव्येशमहाशयेभ्यो भूयांसि नमासि समर्पयामि। अस्य मुद्रणे सादरं दत्ताभयान सहृदयहृदयान् उद्यानपत्रि. कानिर्वाहकसम्पादकमहाशयान् मीमांसाणव, मीमांसाकेसरि- M.O. L. शिरोमणील्यादिविरुदाकितान् श्री D.T. ताताचार्यवर्यान् साअलिबन्धं प्रणमामि । . Board High School, Parvatipuram. Vizag Dt. 20-5-34 बुधविधेयः देवरकोण्ड वेङ्कटेश्वरशास्त्री व्याकरणशिरोमणिः संस्कृतोपाध्यायः अभिप्रायः॥ पार्वतीपुर-आङ्गलकलाशाला-संस्कृतपण्डितेन ब्रह्म-श्री D.वेङ्कटेश्वरशास्त्रिणा व्याकरणशिरोमणिना विरचितमिदं परशुरामचरितं यद् वयमुद्यानपत्रिकायां प्राचीकशाम तन न परमस्मदीयः पण्डितानां विविधग्रन्थरचनोत्साहाभिवर्धन- दृढसङ्कल्पः कारणम् , अपि तु अस्य गद्यमयस्य प्रबन्धस्य महद्रामणीयक- मपि । परमपावनभगवदवतारविशेषचरितप्रतिपादनपरत्वे एकतः स्थिते, विशुद्धप्रसन्नशैलीविशेषपरिष्कृतगद्यरूपत्वमप्यत्र श्लाघास्पदम् । विरला हि सम्प्रति लोके पण्डिताः ये गद्यमयप्रबन्धनिर्माणकुतूहलिनः । यथा भाषान्तरेषु तथा संस्कृते न भूयिष्ठा तादृशा गद्यप्रबन्धाः यान् सकुतूहलं निरन्तरमनुवाच्य विद्यार्थिनोऽस्यां माषायामावश्यकं परिचय- विशेषं सम्पादयेयुः । चिराच वयमिदमभिदधाना वीमहे यद् यथेदानीं लोके गद्यमयानां संस्कृतप्रबन्धानामावश्यकत', न तथा पद्यमयानामिति । तदेवमत्युपयुक्तमिदं परशुरामचरितं खखकलाशालायां पाठ्यग्रन्थ- तया परिकल्पयन्तः पण्डिताः अस्य शास्त्रिमहाशयस्य परिश्रमं सफलीकुर्यु- रिति , एवंविधग्रन्थान्तरलेखने अस्य उत्साहं जनयेयुरिति च प्रतीक्षामहे । - तन्त्रोद्यानम्, तिरुवादि 24..--5-34 in D. T. Tatacharya.
…………………………………………… परशुरामचरितम्॥ 'परित्राणाय साधूनां विनाशाय च दुप्कृताम् । धर्मसंस्थापनाीय सम्भवामि युगे युगे ।' इति सूत्यनुसारेण किल सृष्टिस्थितिलयकारणभूतो भगवान् रमा. पतिर्महीतले दुष्टशिक्षासाधुरक्षणार्थ प्रतियुगमवतरति । भगवतो रमापतेरवतारेषु दश मुख्यतमा दृश्यन्ते । तेष्वय परशुरामावतारः षष्ठो भवति । पुरा ऋचीकनामा भृगुपुत्रो विवाहार्थी कन्यां कामयमानः पर्य- टन् कान्यकुब्ज जगाम । तस्य विषयस्य परिपालयिता गाधिर्नाम राजाऽऽसीत् । तेन भूपतिना यथार्ह सत्कृतः स ऋचीकः 'भो राजन्यवर! गाधे ! विवाहार्थी स्वामहं सम्प्राप्तः । तन्नवयौवनेन विराजमानां रूपवती सुशीला सत्यवतीनाम्नी त्वदीयां कन्यां मां दत्वा यथाविधि परिणयं कारय' इति तं प्रार्थयामास । सोऽपि नर- पतिस्तद्वचनमाकर्ण्य तदीयं मनोरथं चावगम्य, विस्मितः सुचिरमा- लोच्यैवमवदत्--- 'महर्षिसत्तम ! त्वदीय मनोरथं निशम्य नित. रामहं तुष्टोऽस्मि । किं तु एप आचारो मदीये घंशे कुलक्रमागतः -~-यः सहस्रमश्वानां हंसपांडुराणां नीलोत्पलश्यामकर्णानां कन्य. कायै शुल्क प्रदास्यति, तस्य कन्या प्रदेया' इति । निशम्य स मुनिरपि तदीयं वचनम् , विस्मयाकुलचेताः, तादृशसहस्राश्वानां सम्पादने संशयितोऽपि 'यतेऽहमित्युक्त्वा, ततो निवृत्य पर्यटन वि. विधान् देशान् , विफलमनोरथोऽभूत् । अन्ते च जलाधिदेवतां वरुणं प्राप्य, भक्त्या नमस्कृत्य, सम्पूज्य , तस्मादश्वानां सहस्रमधि. गतवान् । ततस्तैरश्वैः सहागत्य कान्यकुब्जम्, गाधिनरपतये तान् दर्शयामास । तदा स राजा लज्जितः , प्रभावं च तपसो बुवा, . .
२ परशुरामचरितम् । . हर्षाम्बुधौ ममज । तदानीमेव शुभे मुहूर्त निजतनयायाः सत्यवत्याः यथाविधि पाणिमग्राहयत् । तत्रैवावसच कतिपयान् वत्सरान् सत्य- वतीसहितः स मुनिराट् । एवं स्थिते , कदाचित् भृगुरागत्य कान्यकुञ्जम् , स्वतनयं क- चीकं सबधू सत्यवर्ती च निरीक्ष्य, ताभ्यां प्रपूजितः सन्तुष्टोऽभवत्। सत्यवती च वारस्य सपर्याशुश्रूपणादिषु नितरामासक्ता तस्य प्रे- म्णः पात्रमासीत् । तस्याः पूज्यानुरागम् , सत्याभिमानं गृहकृत्ये. ध्वनलसत्वं शौचाचारादिसकलसद्गणनिचयं च निरीक्ष्य, स भृगुः प्रमुदितस्वान्तस्तामायावदत्- 'वधुः ! सत्यवति ! नितरां प्रहृष्टो ऽस्मि तय सौशील्येन । अतस्तुभ्यं वरं प्रयच्छामि । वाञ्छितं वरं वृ. णीव' इति । तनिशम्य सन्तुष्टा सा सत्यवती 'करुणानिधे श्व- शुर : तवानुग्रहान्मम , मम जनन्याश्च पुत्रो भवतु' इति सविनयं बरं ववे। 'तथा भवत्विति स भूगुरङ्गीकृत्याब्रवीत्- यथा 'ऋतु- स्नातया त्वया , त्यजनन्या च क्रमेणोदुम्बराश्वत्थवृक्षयोरालिङ्गने- न स्वस्वमनोरथः सफलोभविष्यति' इति । गतेषु कतिपयेपु दिवसेषु ऋतुस्नाता सा च तजननी च भृगुणोक्तं श्रममनादृत्य , तो तरू आलिलिङ्गतुः । तत् भृगुर्दिव्यन चक्षुषा विज्ञाय वधूमवदत्- 'ननु सत्यवति ! भवत्यौ मयोक्तक्रमविपर्ययेण तौ तरू आलिलिङ्गतुः । अतस्त्वं ब्रह्मकुलप्रपूज्यं पुत्रं प्रसोप्यसे । तथाऽपि सोऽतिदारुणेन क्षत्रभावेन ख्याति प्राप्स्यति । किं च त्वदीया जननी क्षत्रभावापेतं कुमारं प्रसोप्यते । स च जन्मना क्षत्रियोऽपि ब्रह्मर्पिविष्यति ।' इति । निशम्य श्वगुरवाक्यं सा वधूः सविनयं साञ्जलि: 'स्वपुत्राय क्षत्रभावी मा भूत्। स्वपौत्राय तवयिति श्वारं प्रार्थयत् । तथेति च स भृगुरङ्गीचकार । गच्छता कालेन सा च तजननी च गर्भवत्यावभवताम् । दशमे मासि शुभे दिने प्रशस्तायां वेलायां ते उभे अपि तनयो प्रासूयेताम् । सत्यवत्यास्तनयो जमदग्निनामा, तस्या अनुजश्च विश्वा. मित्राभिधेयो बभूवतुः । क्रमेण शैशनमतिचक्राम कृतवालक्रियाक परशुरामचरितम् । लापयोस्तयोः । जमदग्निर्नवयौवनाधिरूढी राज्ञः प्रसेनजितस्तनयां रेणुकां परि. णीय तया सह धर्मचारिण्या तपावने गाहस्थ्येन विधिना सुखमय- सत् । एवं वन्येन वसतस्तस्य क्रमेण पञ्च तनया बभूवुः । तेषां पञ्चमो रामः परमेश्वरस्यांशेन सञ्जातः । स च रामो जामदग्नयो भृगुणाकरीत्या क्षात्रं ब्राह्मं च तेजो धृत्या निरगलपराका विच- चार। : तत्र द्वितीयोऽध्यायः । (विद्याभ्यास:) साग्रजो रामः क्रमेणोपनोतः साङ्गान् चेदानधीत्य , धनु- विद्यायां कृतपरिचयोऽभवत् । ऋत सलील त्रिपुरासुरान् हन- बतस्त्रिलोचनात् , नान्य उपदष्टुमहतीति मनसि निश्चित्य स रामो वाल्य एव पमुपतेरादासभूतं केलासमगच्छन् । सेव्यमानं प्रमथगणैः, सहोपविष्टं पार्वत्या रत्नमये सिंहासने, भयङ्करमपि शङ्करं स्वस्सुताय सेनान्य अस्त्रविद्योपदेष्टारं ददर्श । साष्टाङ्गं तं प्रणम्य विनयविनमितगालः स रामः 'भगवन् महादेव ! महर्षेभृगाः पञ्चमस्तनयोऽहं रामाभिधः साष्टाङ्गं प्रणमामि । पुरैवाधिगतवानस्मि शरसन्धानचातुर्य प्रभावेण मदीयस्य जनकस्य । अधुनाऽहं कृत्स्नास्त्रविद्योपदेशाय भवन्त भवानीपतिं प्राप्तोऽस्मि । तन्मह्यमस्त्रविद्या प्रयोगसंहाराविभक्तमन्त्रां साङ्गामुपदिशतु भवान् इति पुनः पुनः सपणाम तं प्रार्थयामास । स जगदीश्वरः क्षात्रं ब्रा. लंच तेजो दधानं तं बाल निरीक्ष्य दिव्येन चक्षुग, तं देवांशस म्भवं च विज्ञाय , तथेत्य नुमेने । ततो महादेवोऽपि प्रत्यहं सम कुमारेण भार्गवाय तत्तदधिष्ठानदेवतोपासनपुरःसरं सप्रयोगोपसंह रं विविधमस्त्रमन्त्रजालमुपदिदेश । तावप्रमत्तौ यथोपदिष्टमस्त्रजा- लमुपदेशानुक्षण एव जगृहतुः । अबिरादेव तावभूनां विद्याविच. क्षणौ।
परशुरामचरितम् । कदाचिन्नगजाधिनाथा जिज्ञासुस्तयोरन्तरं तावाहूय परस्पर स्योपरि बाणान् विक्षप्तुमादिदेश । तथाशप्तौ शङ्करण, तौ राम. कुमारौ परस्परस्य नैपुण्यं प्रदर्शयितुमारभताम् । तत्तदननैपुण्य. मधिगतवतोस्तयोरन्योन्यजिगीषां द्रष्टुकामा दिवौकसः खेषामनि- मिषतां प्रशशंसुः। आसत च केवलं विमानषु विचेतना इवामृता- न्धसः । तोहरान्तेवासिनोरन्योन्यकौशलं पश्यन्तः केचिदानवारयः केव- लमश्वसन् । कतिचिदन्यतरस्यापजयमाशङ्कमाना अबिभयुः । न केवलं कुमार एव रामकरविनिर्मुक्तनिशितनाराचजझरितहृदयोऽवि. भेत् , किन्तु अमर्त्या अप्यविभयुः । ततस्तयो रामो निजजनकाद- धीतस्य धनुर्वेदस्य फलमद्य भवतीति मत्वा कुमारे शरवृष्टिमवर्षत् । तदा धनुर्विद्याविचक्षणः कुमारोऽपि स्वस्य वैदुष्यं प्रथयामास । तत. स्तयोःप्रवृत्तमायोधनं विलोक्य देवदानवगन्धर्वा विस्मयविषादाव- न्वभवन् । आशीविषविषवेगविषयाणां सायकानां मध्येमार्ग भञ्ज- नं विलोक्य रामः क्रुद्धः कुमारस्योपरि सकृदेवातिभयङ्करान शरान् भुमोच । तानसहमानो मूच्छीमवाप कुमारः । तदा भगवान् श. ङ्करस्तस्य भार्गवस्य समीपमागत्य , हस्तौ हस्तेन गृहीत्वा तं बहु प्र. शशंस । कुमारोऽपि तत्क्षणमेवाहमजागरमिति वदन सतीर्थ्यस्य वैदु. ध्यं स्वस्य चाशक्यमिति करेणास्य करं जग्राह । तदारभ्य महादेवा रामं सुतनिर्विशेषमीणात् । तदा प्रभृति स रामः 'पार्वतीप्रियपुत्र' इति प्रथामवाप । ततस्तदनुज्ञातः स रामः पितुराश्रमं जगाम । तृतीयोऽध्यायः। (पितृवाक्यपरिपालनम् ) अस्ति कस्मिाश्चिद्वनोद्देशे प्रपूतः कश्चिदाश्रमः । यस्मिन्, नैसर्गिक शालवमधिगता अपि धातुकाः सिंहव्याघ्राक्ष्यः परस्पर- परशुरामचरितम् । मैया सहवरा अभवन् । तथा हि केसरिणो राज्येऽभिषिक्ता राजान इव मत्तकरीन्द्रानारुह्य वनं परितः परिभ्रमन्तो मृग- राजशब्दमर्थयुक्तमकुर्वन् । शार्दूलशावका बालमृगाश्च सहोदय इव व्याघ्रीस्तन्यमपिबन् । आनंश्च । नीलकण्ठा मयूराः सर्पान कण्ठाभरणता नीत्वा सुख समचरन् । मण्डूकाः सर्पभोगेषु सुखं नि. भैर चाशेरत । वानरा अपि निजं गुणमुत्सृज्य शिष्या इव हस्ता- वलम्बनायोपयुज्यन्ते जरठतापसानाम् । तत्र याशिका निरन्तरम. ग्रीन जुह्वति । प्रपूतेनाज्यगन्धेन पुनन्ति स्म । छात्रा वेदानधीयते । शिष्या केचन देवान् स्तुवते । : एतादृशपुण्यतपोवनान्तरे भगवान् जमदग्निः कस्यचिदश्वत्थ. तरोर्मूल उपविश्य प्रत्यहं तपः करोति स्म । तस्य तनयाः समित्कु. शफलादीनि बनान्तरादानीय पितरावतोषयन् । जमदग्नेर्जाया रेणुका जलमानेतुं मृन्मयं पात्रं शिरसि वहन्ती, नातिदूरस्थं सरोव- रमयात् । जमदग्निरपि तपश्चरन्नासीत् । रेणुका शीतलोदकसमानयनाय यत्सरोवरमैत् , तस्मिन्नेव सर- सि चित्ररथो नाम गन्धर्वराजः सावरोधः सपरिच्छदो जलक्री. डार्थमागतः । प्रत्यग्रनीलोत्पलकुमुदकल्हारपुण्डरीकमनोहरे सार- सकलहंसमञ्जुकूजितसुभगे सुनिर्मले जले सावरोधः स चित्ररथः कण्ठदनमवतीर्य ताभिर्नानाविधाः क्रीडा अनुभवावर्तत । रूपा- तिशयितनलकूबरं युवानं माराभिरामं तमभिवीक्ष्य सा रेणुका निन्दितमाराऽपि मारायत्तचित्ताऽभवत् । शून्यहृदया सा तमेव ध्यायन्ती तत्रैव तस्थौ । अतिक्रान्ता च गृहगमनवेला । चित्र- रथोऽपि जलकेल्यानन्तरं सपरिवारो निर्ययौ । रेणुकाऽपि विनिन्दन्ती वकृत्यं भीतभीतेव मन्दं मन्दं जलं वहन्ती निजाश्रम प्रतस्थे। . अत्रान्तरे भगवान् जमदग्निः परिसमाप्य तपः , समिदादि. भिरागतान कुमारानिरीक्ष्य पुरस, रेणुकामपश्यन् दिव्येन चक्षुषा त.
. ६ परशुरामचरितम् । वृत्तमवगत्य रोपकषायिताक्षः निर्दवन्निव चक्षुषा तामपश्यत् । तदनुक्षणमेव सुतानाहूयादिशत् जननीवधाय । सुषेणप्रभृतयः प्र. थमे चत्वारः सुताः 'न वयमकृत्यमाचरामः' इति पितुराज्ञां प्रत्या- चख्युः । 'महापातकहेतुश्चाय मातृवधरूपपिनादेश' इति च प्र. त्यवदन् । तादृशानविनीतानतिलंघितशासनान् चतुरः सुतान् नि. रीक्ष्य 'घोरारण्ये तिर्यग्योनि प्राप्नुते'ति शप्त्वा स भृगुः पंचमं त- नयं मातृवधे नियोजितवान् । तदा रामः शापदग्धानग्रजान् , दो. षयुक्तां च मातरम् , कोपयुक्तं च पितर विलोक्य, सम्यगालोच्य प्रथमं पितरं शमयित्वा ततो मातरमग्रजान् रक्षणीयान् मत्वा, पितुः निर्देशमाचरिष्णुर्मातरमवधीत् । ततः प्रशान्तः स मुनिः पित्वाक्य. मकृत्यमप्याचरन्तं विनीतं बालं विलोक्य, वांछितं वरं वृणीष्वेति तनयमनवीत् । ततः स रामः प्राञ्जलिः प्रसन्नः पितरमवोचत्- 'यदि प्रसन्नः, मृता माता, शापदग्धा अग्रजा यथापूर्व स्वस्था भवेयु' रिति । तदेव सर्व स्वस्था बभूवुः । प्रकृतिमापन्नान् सर्वान् विलो- क्य प्रसन्नादयो जमदाग्निस्तौ साहसिकाय रामायानन्यसाधारणं भुजवलम् , अप्रतिहतां शक्तिं च ददौ । ततो रामो मातरं रेणुकां अनजान सुषेणादीन् नमस्कृत्य चिरं तत्तत्परिचर्यादिभिः सुखमय. सन् । - चतुर्थोऽध्यायः । (तपः) कदाचिद्रामः पितामहस्य ऋचीकस्याश्रमं गन्तुकामोऽभवत् । खकीयं मनोरथं पित्रोनिवेद्य तदनुज्ञातः कतिपयैरेवाहोभिः स्वपिता- महाश्रममैत् । आगतं पौत्रं विलोक्य मुदितौ सत्यवतिऋचीको तं शिरस्युपाघ्रायाश्लिष्य रेणुकाजमदग्न्योः पौत्राणां च कुशलमा. पृच्छय परममोदेताम् । कतिपयादिवसापगमे च ऋचीकः पौत्रमाहूय 'तनय, हितं व- चनमुपदिशामि अवहितः शृणु । कारुणिकं भगवन्तं देवदेवं उहि- श्य हिमालये तपः कुरु । देवता यज. । जहि कामादीनन्तर्गतान . परशुरामचरितम् शनन् । प्रसन्नो देवदेवस्तुभ्यं दास्यति दिव्यान्यस्त्राणि । आप्त- दिव्यास्त्रो देवानां मनोरथान् पूरय' इति हितमुपदिश्य, तं तपश्च- रणाय हिमाद्रिमनयत् । तत्र हिमाद्रौ स भार्गवो रामः कृताश्रमः जितेन्द्रियो विगता- शनो मूलाशी मासमेकम् , जलाशी मासमेकं तपश्चरन् क्रमात्तदपि जलपानमत्यजत् । ज्वलन् तपोमयेन तेजसा सकलकल्याणगुणगणा- लंकृतो मनसि महादेवं प्रतिष्ठाप्य, निरन्तरं ध्याननिमीलितलोचनो ऽभवत् । क्रमादुग्रं तपः कर्तुमारेभे । ग्रीष्मौ पञ्चाग्निमध्ये, वर्षाखनिकेतनो पहिरवस्थितः , हेमन्त शिशिरे चाकण्ठं जले नि- मग्नः तपश्चकार । एवं सततमात्मानमात्मन्येव पश्यन् निवर्ति- तबाहोन्द्रियव्यापारः स्वनियममन्वतिष्ठत् । तस्य तादृशीं तपःप्र- वृत्तिं कर्णाकर्णिकया श्रावंश्रावं मुनयः ऋतुजाबालिमृकण्डुप्रभृतयः स्तत्तपोवनमागत्य, तथाविधं भार्गवं विलोक्य विस्मयाकृष्टचेत- स आसन् । विज्ञाय चारैस्तस्योग्रं तपः, परात्परो महादेवः परीक्षितुं कैरा. तं वेषं स्वीकृत्येतस्ततश्चरन् तस्याश्रमपदं प्रविवेश । अपश्यञ्च तं भार्गवं मुनिम् , अगर्जच प्रलयजलदगम्भीरेण स्वरेण 'अयि सा- धो, दोषप्रवरनामाऽहं व्याधः । स्वेच्छया वृत्याऽहमस्मिन्नव कानने खैरं चरामि । शासिताऽहमतस्य वनस्य । यमधीने चान कृत्या. कृत्ये । अन्तरा च मदीयामाज्ञामेतद्वनं प्रवेष्टुं नार्हन्ति शतमन्युप्र. मुखा अपि देवाः । किमुतान्ये त्वादृशाः क्षुद्राः । कुत आयातो भवान् ? निवेदय सर्वमुदन्तमाशु' इति । श्रुत्वा च तदीयं वाक्यं, दृष्ट्वा च भयानक रूपम् , सातविस्मयः स भार्गवः स्वीयमुद- न्तजातमावेद्य, न तेन सहावस्थानं शुभोदकं भवतीति मत्वा, विहा- याश्रमपदमन्यत्र गन्तव्यमिति सविनयमभ्यधात् । श्रुत्वैतत् स व्याधः कुपितस्तमुवाच- 'अयि साधो, यदि नेच्छसि मयासम- मत्र, झटिति गच्छ त्वमेव ।' इति । ततः स भार्गवः क्रुद्धः प्रत्यु. वाच- "न भवन्ति पूजाही व्याधाः । यतो निर्दयं प्राणिनस्ते न- न्ति । उद्घोषयन्ति च शास्त्राणि 'अहिंसा परमो धर्मः' इति ।
परशुरामचरितम् । O भवांश्च पुनर्निर्हेतुकमेव प्राणिनो हन्ति खोदरपूरणाय । तद्गच्छा- न्यतः । अथ वा अहमेव गच्छामि । इत्युक्त्वा गन्तुमुदचलत् स मुनिः । तदा परमेश्वरस्तं निरुद्धय 'भवत्वहमेव गच्छामि । किन्तु भवानत्यर्थ तपश्चरति महादेवमुद्दिश्य । यः स महादेवः प्रत्यहं भि- क्षां करोति । श्मशाने वसति च । कथमादिभिक्षुः पितृसद्मगोचरः स देवस्त्वदीयं मनोरथं सफलयिष्यति । किं चोभावपि समाना- वेष । स देवो ब्रह्माणं हत्वा ब्रह्महत्त्यासमन्वितोऽभवत् । त्वं पुन मातरं हतवानसि । अतस्त्वदीयस्य मनोरथस्य तादृश एव फलप्रदाता भवत्येव । अतस्त्वं मातृवधजनितपापमपनेतुं यतख निवर्तख तपसः। वृथा कायक्लेशेनालम्' इत्युवाच । तच्छ्रत्वा स भार्गवः 'न केवलं व्या. धोऽयं किन्तु परमेश्वर एवैतादृशं रूपं गृहीत्वाऽऽत्मानं परीक्षितुमा- गत' इति निश्चित्य निजापराधक्षमार्थ पुनः पुनः प्रार्थयामास । कृपालुः स भगवान् स्वस्य निजं रूपं प्रदर्य, तस्मै परशुं दत्वाऽनु- जग्राह । परिभ्रम तीर्थानि । शुश्रूषस्व गुरून् । इत्येवमादिश्य तिरोदधे। स रामः परमेश्वराशानुसारेण संचरमाणोऽवर्तत । अत्रान्तरे दानवाः शुक्रचोदिताः स्वर्गपुरीमभितः समाक्रामन् । अतर्कितोपनत तदाक्रमणमभिवीक्ष्य, महेन्द्रः किंकर्तव्यतामूढः सुरगुरुणा समालो- च्य, सपरिच्छदः परमेश्वरं पुनः खपदप्राप्तये प्रार्थयनासीत् । दी- नाचनबद्धादरो भगवानिशम्य दीनालापान , कारुणिकः महोदर. माहूय हिमवतो दक्षिणे भागे तपश्चरन्तं भार्गवमानेतुं समादिदेश । तदा सोऽपि तदीयामाज्ञां शिरसि वहन् तं भार्गव महादेवमनयत् । सोऽपि भार्गवमादिदेश स्वर्गाक्रमिणां दानवानां समूलनाशाय । शिरसि निधाय महादेवाज्ञां सहितः सुराणामधिपेन सुरैश्च गत्वा त्रिदिवम् , समाह्वयत दानवानायोधनाय स भार्गवः । कृत्वा च परा- जितान् दानवान् युद्धे, अभिषेच्य पुनः शतमन्यु खाराज्ये, पुनरवा- प्य हिमालयं महादेवस्याशी पात्रमभवत् । देवदेवः प्रसन्नो भूत्वा निज रूपं प्रदश्य, तं वहुधा प्रशस्य, तस्मै ददावनेकानि दिव्या- स्त्राणि । .
परशुरामचरितम् । अधिगतदिव्यास्त्रः स भार्गवः पितरौ द्रष्टुकामः, प्रतिनिवृत्य हिमालयात् , गच्छन् मध्येमार्ग कस्मिंश्चिद्विप्रवालके हठान्त्रिपतन्तं व्याघ्रमालोक्य , सातदयो बाणेनैकेन तमहन् । तदनुक्षणमेव व्याघ्रः शरीरमुत्सृज्य, दिव्यं गान्धर्व रूपं धृत्वा तं भार्गवमस्तौषीत् । अकथयश्चात्मनः शापवृत्तान्तम् । तदनुमत्या स गन्धर्वः निजावा- समगच्छत् । तं च विप्रवालकं सदयमुद्धत्य स भार्गवरामोऽवणं कृत्वा तेन सह स्वपितामहस्य ऋचीकस्याश्रमपदमगात् । अन- तो पुराणदम्पती सत्यवतिऋचीको तयोराशीर्वचनानामभवच्च पात्रं स रामः। यच्च . पंचमोऽध्यायः । (कार्तवीर्यः ।) पुरा ब्रह्ममानसपुत्रो नारदः कदाचिद्वैकुण्ठं गत्वा, तन विरा. जमानं सुदर्शनमवलोक्यैवमपृच्छत्- 'भो चक्रराज! संशय्य किम- पि प्रष्टुकामोऽस्मि । कृपया मदीयं संशयं छिन्धि । ऋरान निशाय. रान् देवा रणाङ्गणे तावकेन बलेन वाघ्नन्ति ? शौरेरसाधारण- भुजवलेन वा?' इति । तदाकर्ण्य स चक्रराजः 'मदीयेन भुजपराक्रमे णैव निहन्यन्ते देवारयः। न तत्र शौरिा, तस्य भुजबलं वा कारण- म्' इति प्रत्युवाच । ततः कामचारो नारदो गत्वाऽन्तिक महावि- ष्णोः, सभक्तिकं प्रणम्य, कृताअलिभगवन्तमवदत्- 'भो दयानिधे ! भगवन् ! निर्जिता बहवो दानवा रणाजिरे । तत्र तावकं भुजबल- माहास्वित् सुदर्शनस्य वेति संशयितोऽस्मि । कृपया संशयमपनुदतु भवानिति । श्रुत्वैतत् भगवान् सातकरुणः स हरिः 'न तत्र चक्र कारणम् । मामकेनैव भुजबलेन जिता दानवाः' इति प्रत्यवदत् । ततः 'एवमेव सुदर्शनोऽप्यवदत् । भवताऽप्येवमेवोक्तम् । तत्र याथार्थ्य शातुमिच्छामी'ति पुनः पुनः सविनयमभ्यर्थ्यमानो नारदेन प्रत्युवाच स मुरारिः- 'यदि जातसंशयो भवान्, सहतां कञ्चित् कालं; प्र. दर्शयिप्यामि चक्रस्य भम च पराक्रमं भूलोके । तदा शास्यति भ. वानेयोभयारन्तरम्' इति । , 3 . १० परशुरामचरितम् । ततः स भगवान् सुदर्शनमायादिदेश तद्यत् कर्तव्यम् । तदा- क्षानुपदमेव स चक्रराजो धरातले माहिष्मतीपुराधीश्वरस्य कृतवी. यस्य पुत्रो भूत्वा स्वयं सहस्रारतया सहस्रबाहुबभूव । स कार्त- वीर्योऽतिक्रान्तशैशवस्तपासमाराधितदत्तात्रेयदत्ताणिमाधष्प्रैश्वर्यस म्पन्नः कृतप्रतिष्ठो बभूव । पर्यपालयच्चतुरर्णवोपेतामिलां धर्मेण । विधिनेवांश्च विविधैर्यवैः । अन्वरञ्जयञ्च प्रजाः स्वप्रजा इव । गच्छता कालेन स राजा सावरोधी नर्मदां प्रविश्य, सहौवा- हुभिर्जलमवरुध्य, कुर्वन् जलक्रीडामासीत् । लमयेऽस्मिन् रावणो दिग्विजययालाय प्रस्थाय, नियमाय नर्मदां प्राप्य, कृतावगाहः सैक- तं लिङ्गं पूजयन् तत्र उपाविशत् । निम्नेतरं प्रवहता जलेन पीड्य. मानस्तन कारणमन्विष्यन् कार्तवीर्यकृतं जलावरोध चारैर्विदित्वा तं समरायाहयत । पराजितस्तेन कार्तवीर्येण स रावणः काराया. मबध्यत । तथाविधोऽपि रावणः पुलस्त्यप्रार्थनयाऽत्यज्यत । कदाचिद्दहनः कार्तवीर्यान्तिकं विप्रवेपेण गत्वा क्षुधितोऽहम्, मदीयानिवृत्तये स्वाभिमतान्नं देहीति ययाचे । यथाऽभिलषितं प्राप्तवरः स विरूपोऽनलः, तस्मै राज्ञे स्वीयसुदन्तं सर्व निवेदयामा- स । अथ हव्यवाहनः तदाशया पुराणि वनानि च दहन जाचित् वलिष्टाश्रममपि दग्धुमारभत । तेन प्रकुपितो वसिष्ठः कार्तवीर्य तद्रक्षक विज्ञाय निर्निमित्तं तपोधनापद्रवकारिणं तं शशाप । शा- पदग्धः ल कार्तवीर्यो भार्गवरामात् पराभवमाशंकमानस्तूष्णी . बभूव । पष्टोऽध्याया। अथैकदा हैहयः कार्तवीर्यः सहितः परिवारेण मृगयाविनोदाय प्राविशदण्यम् । तत्र विविधान् मृगान् हत्या मध्याह्रार्कमरीचिभिः श्रान्तावयवः क्षुत्तृषाभ्यां पीड्यमानः सह परिवारेण नर्मदामवगा. ह्य, पीतजलो गच्छन् मार्गमध्ये ददर्श कस्यचिन्महर्षेराश्रमम् । प्र- विश्य तमाश्रमं पश्यन् समन्तादभिमुखागतं सशिष्यं मुनिवरमप- श्यत् । यो जमदशिनाना प्रसिद्धिं गतः । मुनिन्यानस्तं चक्रवर्ति- परशुरामचरितम् । ११ नं हैहयं विदित्वा सबहुमानं कुशलानुयोगपुरस्सरं गोष्ठीभिश्च समं परिवारण तमाश्रममनयत् । अबदच्च सविनयं 'भो महीपाल भव- दागमनेन नितरां तुष्टोऽस्मि । कञ्चित्कालमत्रैव विश्रम्य परिवा- रयुतः मदीयमातिथ्यं स्वीकृत्य, ततो गमिष्यसि' इति । नृपोऽपि मु. निवाक्यमङ्गीकृत्य तस्थौ । मुनिरपि सस्मार मनसि कामधेनुम् । सा ऽपि तदाज्ञानुपदमेव सपरिच्छदाय राज्ञे यथाकामं मृष्टान्नं सर्वभ- क्ष्योपेतं पर्यवेषयत् । तृप्तिं गताश्च सर्वे राजसेवकाः । राजा च हर्षविस्मयावनुभवन् तपःप्रभाव शंलन्, तदनुज्ञातः स्वपुरमभिप्रत- स्थे । प्रविश्य च पुरीं स्मरन् कामधेनोरद्भुतप्रभावम्, मुनिवरस्य चामानुषं तपःप्रभावम् ध्यायध्यायं तादृशमहामहिमान्वितां तां कामधेनुं देहीति मुनिवरं सम्प्रार्थ्य वा, तदीनच्छया वा तामानेतु- मभिलषन्, तन्मनोरथप्राप्त्युपाय मनसि पर्यालोचयत् । सचिवोऽपि तदीयं तादृशदिव्यमहिमानं तस्य मुनिवरस्थ तप:- प्रभावं च पुनः पुनर्वर्णयामास । प्रार्थयञ्च तां कामधेनु नेतुम् । हैहयस्य स मनोरथांकुरः सिक्तः सचिवोक्तवारिणा पल्लवितोऽभवत् । पुरोधास्तु तदतीवानुचितमिति, ब्रह्मस्वहरणं महापातकावहामिति च नृपमवोधयत् । अदर्शयञ्च प्रमाणं तत्र- 'न विषं विषमित्याहुब्रह्मखं विषमुच्यते । विषमेकाकिन हन्ति ब्रह्मखं पुत्रपौत्रकम् ॥' इति । 'तस्माभिवर्तस्वानर्थमूलादसादुद्यमात्' इति वारं वारमबोधयत् । परं तु कार्तवीर्यः पुरोधसोक्तमनादृत्य 'बुद्धिः कर्मानुसारिणीति न्या. यात् भाविविनाशहेतुकामधेनुग्रहणाभिनिवेशः सचिवमाशापया- मास । ततः सचिवस्तदाज्ञया तां धेनुमानेतुकामो निर्गत्य पुरात्, ससैन्यो मुनेराश्रममयासीत् । विलोक्य च मुनिं प्रणम्य कृताञ्ज- लिरबांचत् 'भो मुनिनाथ ! भवदन्तिके स्थिता कामधेनुर्भूमण्डले सर्वधेनुवरिष्ठा विराजते । सोऽहं हैहयाज्ञया तां दिव्यानुभावां या- चमानस्तवान्तिकमुपागतोऽस्मि । सहस्रामोघधेनुविनिमयेन तां दत्वा चक्रवर्तिनो मनोरथपरिपूरणेन मदीयागमनं सफलं कुरु' इति । निशम्यैतत् जमदाग्निरवदत्- 'भो सचिवाग्रेसर, धेनुरियं दिव्या १२ परशुरामचरितम् । कामदुधा । मत्कृतहोमानुकूला; अतोन प्रदेयेयं सहस्रधेनुशुल्केनापि' इति । तदाकर्ण्य मुनिवाक्यं तं मुहुर्मुहुः प्रार्थयत्। यदा निष्फला चाभवत् तस्य प्रार्थना , तदैव कालचोदितः सैनिकानादिदेश बला- तां ग्रहीतुम् ; उपरुन्धन्तं च तं मुनि संहर्तुम् । उपरुरोध च स मुनिस्तां धेनु वलादाकृष्यमाणां सैनिकैः । तदा सैनिकाः कोपपरी- तास्तां हठात् गृहीत्वा, रज्जुभिदृढं बध्वा, कशाघातैस्तां सन्ताड्य, तं मुनि निघ्नन्ति स्म । ततस्ते निरातङ्कास्तां सुरभिं पुरं नयन्ति स्म । तथा नीयमाना सासुरभिः 'विलोक्य विगतासु मुनिम् , को- पानलज्वालाज्वलितचक्षुपा निर्दहन्तीव तान् विलोकयन्ती स्वकीय- शरीरान्दोलनेन छिन्नपाशवन्धा विपाणविधूननेन, निशितखुरान- ताडनेन, पुच्छाग्रप्रहरणेन च तान् परितो निघ्नती, निमिपतां च सैनिकानाम् , सह वत्सेन तिरोदधे । ततः किंकर्तव्यतामूढो हतशे- पैः सैनिकैः सह लज्जावनतवदनोऽमात्यः प्राप्य कार्तवीर्य नमस्कृत्य सर्वमुदन्तमकथयत् । . सप्तमोऽध्यायः॥ (भार्गवस्य प्रतिज्ञा।) श्रुत्वैवं कार्तवीर्यो जमदग्निं विगतासुं कामधेनोरदृश्यतां च सनिकेभ्यः, निनिन्द नितरामात्मानम् । 'लोभाकृष्टेनाकृत्यमाचरितं मया । येनाहं ब्रह्महत्त्यां, सुराभपीडन च महिनाकारयम् । कथं वाऽऽत्मानं तारयामि ब्रह्महत्यायाः । किं करोमि मन्दभाग्यः' इ- त्येवं वहु निन्दन् आत्मानं तन्निवारणोपायमन्वेष्टुमारभत । तपोवनान्तरादागत्य रेणुका तथाविधं भूमौ पतितं व्यसुं निज- पति समालोक्य विचेतना छिन्नमूला लतेव पपात । यदा सा रेणुका प्रत्ययुध्यत तदा भार्गवाऽपि वनान्तरादागतः विगतातुं पितरं विलोक्य, प्रस्पुरिताधरो दिव्येन चक्षुपा सर्वमु- दन्तमवगत्य, पितुस्तस्योपरि निपत्य विलपन्या मातुरुरस्ताडना- नामेकविंशतिं निरीक्ष्येवं प्रतिक्षामकरोत् । 'अयि जननि, शृणु .
परशुरामचरितम् । १३ . मम प्रतिज्ञां, जहीहि शोकम् । एवंविधपापकारिणां मदोन्मत्तानां क्षत्रियाणां संहारं यावदुरस्ताडनम् , तावत्संख्यया चरिष्यामि ।' इति । ततः स रामः सहितो भ्रातृभिः पितुरौर्ध्वदेहिकं कर्म दहना. दि कर्तुमारभत । यदा ते पितुर्भोतिकं देहं पहनायोपनिन्युरनलम् , तदेवाशरीरिणी वाणी भर्ता सह सह गमनाय कृतोद्यमां रेणुकामुद्दि- श्यावदत्- 'ननु पतिव्रते रेणुके, मा कुरु साहसम् । प्रतीक्षस्व क- ञ्चित्कालम् । पुनस्त्वद्भर्ता जीविष्यति । अतस्तदीयं भौतिक देहमप्रमत्ता परिपालय'ति । निशम्यैतां दिव्यां वाणी ते सर्वे प्रह- ष्टाः पुनः पितुः शरीरमाश्रममनयन् । अतिक्रान्ते च मुहूर्ते काले दिष्ट्या भगवान् भृगुस्तं प्रदेशमा यासीत् । आगत्य च मृतसञ्जीविन्या विद्यया मृत पौत्रमुज्जीवया- मास । निद्राप्रबुद्धमिव प्रबुद्धं तं सचेतनमुद्रीक्ष्य, रेणुका, तत्पुत्राः तत्रत्या ऋपयश्च सन्तोषस्य परां कोटिमारूढाः। ते भृगु सविनय प्रदक्षिणीकृत्य साष्टाङ्गं प्रणम्य, विधिवदर्यपाद्यादिसपर्यया पर्यपूज- यन् । भृगुस्तभ्यः कार्तवीर्यो वसिष्ठस्य शापेनेत्थमकरोदिति, भार्गव रामकता प्रतिज्ञा सफला भविष्यतीति चोक्त्वा प्रयुज्याशिपस्तिरो- . दधे। अमोऽध्यायः। (परशुप्राप्तिः) यदा यदा मदान्धीकृतचेतसा मूढेन कार्तवीर्येण पितर्याचरित. मकृत्यमस्मरत् तदा तदा कोपाग्निरदहत् तं भार्गवं रामम् । ततो दूयमानमानसः स भार्गवः पितुः सकाशं गत्वात्माभिलषितं व्यजि. ज्ञपत् । श्रुत्वा च स तपोधनः शान्तात्मा पुत्रमेवमुपदिदेश- 'व- स, परशुराम , शृणु मदीयं वाक्यम् । मुनयो हि क्षमैकधनाः । महापराधिनेऽपि परस्मै न कुर्वन्यपकार मनसाऽपि किमुत प्रह- रणैः । स हि साधुजनः, यो हि ताड्यमानोऽपि आयुधैः, उच्यमा- नोऽप्यवाच्यवचनानि न शुभ्यति, तस्यैव सर्वसम्पदः करस्था भवन्ति । . 4 १४ परशुरामचरितम् । अतः क्षमामेवावलम्ब्य मनसाऽपि तस्यापकृति मा समाचर'-इत्ये. वमादिकं पितृवाक्यमाकर्ण्य स भार्गवः पितरमुवाच- 'युक्तमुक्तं भवद्भिः । किन्तु दुष्टा न शिक्षामन्तरेण शाम्यन्ति । पश्य, लोकेऽ वश्यं ते दण्डनीयाः । अतस्ते नापेक्ष्या भवन्ति । तस्मादनुज्ञां देहि' इति । एवमङ्गीकृतप्रार्थनः स रामः दिग्विजयाय प्रस्थातुकामः प्रथ- म सत्यलोकं गत्वा तत्र रत्नासने बद्धपद्मासनासीनाय लोकपिता- महाय कृतनमस्कृतिरस्तौषीत् । ततः प्रसन्नः परात् परः 'भोः पुत्रक, परशुधर, न युक्तमिदं यद्भवतस्तथाविधममानुषाचरणीयं प्रतिज्ञावचनम् । पाहि सृष्टमिदं जगत् । तत्रैकस्यापराधेन सर्वस्यापि राजन्यलोकस्य संहरणमनुचि- तम् । तथाऽपि जगती दुर्जननरपालावकीर्णा दृश्यते । तत् त्वया सम्यगेव प्रतिज्ञातम् । अत इतः प्राप्य महादेवस्य सदनं तस्मादधि- गताखिलदिव्यास्त्रो जयतु भवानि'त्येवमादिदेश । तदनुस भार्गवो जगत्पितरावभिवन्ध पार्वतीपरमेश्वरौ, वि- ज्ञापितप्रतिज्ञावृत्तान्तः नारायणाग्नेयादिदिव्यास्त्राणि, शक्तिशूलग- दादण्डादिप्रहरणोपयुक्तायुधानि च प्रसन्नादधिगतवान् महादेवात् । ततस्तदनुमत्या पौष्करे तीर्थ तत्तदधिगतानां दिव्यास्त्रमन्त्राणां सिद्धये शतं वत्सराणां तपसोंग्रेण व्यनीयत । अथ जातुचित् म्नानार्थ पुष्करं गत्वा प्रतिनिवृत्तेन तेन मध्ये मार्ग निहन्यमान- मृगमिथुनो व्याधो व्यलोकि । सोऽपि मृगयुरागच्छन्तं सच्छालं भार्गवं विलोक्य भयकम्पितसर्वाङ्गः किंकर्तव्यतामूढ उटजव्यव. धानमात्मानं कृत्वा तस्थौ । निर्भय चरतोम॑गयोम॒गी रामं प्रेक्ष्य, मृगं प्रोवाच- 'नाथ, पश्य रामम् । यावदयं तप आचरिष्यति तावत् सुखं स्थास्याच आवामस्मिन् वनप्रदेशे' इति । ततो मृगः 'जानाम्यहं भा. गवं रामम् । पुरा यमस्य शिष्यो व्याघ्रात् संरक्षितोऽभवत् । ततो ऽयमकृतवण इति प्रसिद्धिं गतः । तपस्सन्तुष्टादीश्वरादयं भार्गवों ऽमोघ कवचं श्रीकृष्णनामकम् , पाशुपतादिदिव्यास्त्राणि च प्राप । परं तु सिद्धिं न प्राप्तवान् शतेनापि वत्सराणां तपसा । तत्र कारण परशुरामचरितम् । १५ वदामि शृणु । भाक्तरुत्तममध्यमाधमभेदेन त्रिविधा । नाध्या- रोहदयं भक्तरुत्तमां श्रेणिम् । अगस्त्य एव तादृशोत्तमभक्तरुपदे- शायालम् । तस्योपदेशमन्तरेणायं भार्गवः कवचस्य सिद्धिं न प्रा. मोति । तदुपदेशानुपदमेव सिद्धिमान् भविष्यति' इति मृगी- मुवाच । तनिशम्य मृगभाषणं सद्यो रामः अगस्त्याश्रमं प्रवेष्टुमना बभूव । यदा शिष्येणागस्त्याश्रमं प्रतस्थे, तदैव निकुञ्जान्तर्गतं व्याधं कोऽपि केसरी निहत्य तन्मृगमिथुन ररक्ष । प्रस्थितं भार्गवमनु पवाज मृगमिथुनम् । कतिपयैरेवाहाभिः प्रविवेश मृगानुयायी भा- गवो मुनेराश्रमम् । अगस्त्योऽपि कृतनमस्कृतो भार्गवेण, कुशला- नुयोगपुरःसरमागमनप्रयोजनमपृच्छत् भार्गवम् । व्यजिज्ञपञ्च रामः स्वकीयमुदन्तम् । प्रार्थयञ्च भूयो भूयः श्रीकृष्णनामकवचोपदेशाय तं मुनिभगस्त्यम् । ततः प्रसन्नः स मुनिरुपदिदेश यथाविधि तन्मन्त्रराजम् । स भार्गवस्तदुपदिष्टमार्गेण जपन् मन्त्रराजम् कव. चस्य सिद्धिमभिलपन्नासीत् । तन्मृगमिथुनं च मृगरूपमपहाय दि. घ्यलोकमवाप । ततः साक्षात्कृतो भगवान् विष्णुः प्रसन्नो भूत्वा बहुधा संस्तू. यमानः कवचस्य प्राशस्त्यम्, स्वाभीष्टसिद्धिं च कथयित्वा 'मदीयेना- शेन जगदगृहां राज्ञां विनाशमाचर । पुनस्त्रेतायां दाशरथिर्भूत्वा स्वीयमंशं ग्रहीष्यामि' इत्युपदिश्य तिरोधे । नवमोऽध्यायः। (कार्तवीर्यविजयः दिग्विजयश्च) एवमधिगताखिलास्त्रसिद्धिदेदीप्यमानदिव्यतेजा भार्गवो रामः सशिष्यो गच्छन् नर्मदायां कृतावगाहो निर्वर्तितदैनन्दिनकर्मकला. पस्तत्रैव कृतनिकेतनः प्राहिणोत् दूतमेकं कार्तवीर्यान्तिकम् । सो ऽपि दूतः सत्वरं गत्वैवमवोचत्- 'रे दुरात्मन् , भार्गवो राम एव- मावदयाते । निष्कारणापतृहन्तारं मदान्धं हन्तुकामः सहसा युद्धा- परशुरामचरितम् । यागमिष्यति । अतः संसिद्धो भव' इति । तदा कार्तवीर्योऽप्यविदि. ततन्महिमाऽपि विमूढात्मतया केवल विनिन्दन युद्धसन्नद्धा भव. तेति सैनिकानादिशत् । तदाज्ञां शिरसि वहन्तः सर्वे सामन्ताः सह सैन्यैः समाजग्मुः। ततः स्वयमरिजनभयङ्करं रथमारुह्य सह सेनया सागरसमया विविधैरायुधैः कार्तवीर्यस्तस्यैव भार्गवस्याश्रमं नर्मदातीरस्थमभि- प्रतस्थे । अपश्यञ्च बहूनि दुनिमित्तानि । तथा हि-विकीर्णकेशपा- शा नीलाम्बरधरा विगतास्या कापि नारी दृग्गोचराऽभवत् । तां विकृताकृति विलोक्य कालरूपामागतां मन्वानी विगतोत्साहः कथं. चित् धैर्यमवलम्ब्य जगाम तदाश्रमम् । दृष्टमात्र एव स रामः सैनिकैरहन्यत । ततः स कोपानलज्वा- लाज्वलिताङ्गः परशुना सैन्यतरून समूलनाशं निनन् प्रलयकाल इवारिभयङ्करी विचचार रणाङ्गणे। दुःसहं तं भार्गवं निरीक्ष्य हता. वशिष्टाः 'जीवन् भद्राणि पश्यति' इति न्यायमनुसृत्य पलायिताः। मत्स्याधिपस्तु सर्वशास्त्रकुशलतया निर्भयं तस्थौ । तदा रामोऽ स्य ध्वजमेकेन सायकेन, चतुर्भी रथाश्वान् , द्वाभ्यां शरासनं शर चैकेन बाणेन कृतहस्ततया चिच्छेद । अच्छिनच्चैकेन शरण तस्य शिरः । कालाग्निभीकरं तं विलोकयितुमप्यशक्तास्तस्य हतावशेषा सैनिकाः पलायांबभूवुः । चारैस्तदवगम्य स राजा बृहद्रलसोमदत्तौ प्रेरयत् । तावतिवेलया सेनया सम रामेण योद्धमारभेताम् । द्वि. गुणीकृताग्रहो रामः पिनाकपाणिरिवाप्रतिहतपराक्रमो रणाङ्गणे पर- स्परजयकांक्षतया वृहद्बलप्रयुक्तं नागास्त्रं गारुडेन छित्वा सोमदत्त- प्रहितं माहेश्वरं शूलं मार्ग एव छित्वा तौ पञ्चत्वमगमयत्। अग- जञ्च सिंह इव । एवमक्षौहिणीनां विंशतिं कदलीतरूनिव सलील हत्त्वा, शौर्यणावार्येण विराजमानो विचचार। ततः स राजा सप्ताक्षौहिणीसेनासमेत सुचन्द्र नाम राजानं प्रेषयामास । सोऽप्यागत्य स्मेरमुखं परशुधरं रामं निरीक्ष्य तस्यो. परि शरवर्षमवर्षत् । तदा मनसा ध्यायन् शङ्करं स रामः सस्यानि लावित्रेणेव सैनिकानामूलं पातयन् प्रेक्षकानतापयत् । ततस्तौ परशुरामचरितम् । १७ पाहबाहवि द्वन्द्वेन युद्धेन जयमलभमानौ शस्त्राशास्त्र युद्धमारभे- ताम् । तदनु रामोऽभिमन्त्र्य नारायणास्त्रं मुमोच । तदस्त्रमभिवीक्ष्य सुचन्द्रः कर्तव्याभावेन स्यन्दनादवरुह्य, कृताञ्जलि स्तुवन् प्रणनाम । तदप्यत्रं प्रणमन्तं तमपहाय पुनःप्रपेदे प्रयोक्तारम् । ततो रथमारुरो- ह यथापूर्व सुचन्द्रः । तदनु विस्मितान्तरङ्गःस रामो गदातोमरा- युधैर्जघान सुचन्द्रम् । क्रुद्धः स राजा शूलमधिचिक्षेप । तच्च शूलं नगिव रामस्य कण्ठमलंचकार । अत्रान्तरे स रामः प्रत्यक्षमागतां भयङ्करास्यां त्रिशूलधारिणी- मधिरूढसिंहां भद्रकाली विलोक्य, सप्रणामं प्रदक्षिणीकृत्य स्तौति स्म सूतैर्वेदमयः । ततः प्रसन्नानना सा काली सुचन्द्रस्य वधोपा- यमुपदिश्य तिरोदधे । तदनुक्षणमेव यथादिष्टमाग्नेयास्त्रं प्रायुक्त स रामः । तेनास्त्रेण भस्मसात्कृतः सुचन्द्रः । अथ पितरं परासुं विलोक्य सुचन्द्रतनयः पुष्कराक्षाभिधा कोपपरीतः सेनावाहिन्या तं राम रुरोध । अवर्षश्च नाराचान् । तान्निरर्थकान् विदित्वा वारुणास्त्रं मुमोच । तशास्त्रं वारिधाराभि- निरन्तरमभिवर्षदपि रामप्रेषितवायव्यास्त्रेण पराजितमभवत् । ततो रामः परशुना सैनिकान् समूलघातं निहत्य पुष्कराक्षं पंचत्वमग- मयत् । एवं कार्तवीर्यो दैवोपहतमात्मानं जयलक्ष्मीलनाथं रामं चाभि- वीक्ष्य कथंकथंचिद्धैर्यमवलम्ब्य, स्वयं रामेण योद्धमारभत । तदा दियौकसः सर्वे तयोरन्योन्यजयाभिलपिण्णोः शरनपुण्यविलो- कनव्यनमनसो विमानारूढा नभसि संघरुः । तदा स राजा निजैः सहस्रेण वाहुभिः शरान् शरासनेषु संयोज्यैकदेव राममभ्यवर्षत् । मार्गमध्ये एव तान् चिच्छेद रामः । सृष्टिस्थितिप्रलयकर्तृत्वमात्मनः संच्छाद्य स रामः प्राकृत इव धनुपि शरं सन्धाय कार्तवीर्यस्य कर्णो चिच्छेद । विहीनः कर्णा भ्यां स राजा प्रगततेजसमात्मानं मन्यानः क्षण तूष्णीं तस्थौ ।
१८ परशुरामचरितम् । अचिन्तयश्चात्मनि 'पुरा यथा रावणं सहेलमजयम्, तथैव राममपि कृतान्तातिथिं कुर्यामिति सगर्वमासम् । इदानीमपगतस्तादृशा. वलेपः । भवितव्यं भवत्येव । नात्र संशयः । तथाऽप्याकण्ठगतमा- णः यथाशक्ति प्रदर्शयाम्यात्मनः पौरुष मिति । एवमादि तत्कालोचित विचिन्त्य, मनसा दत्तात्रेयं कुलदैवतमस्मरत् । नापगतश्च प्रत्यक्षतां स देवो यथापुरम् । तत्कारणमन्वेषयन्तं तं राजानं दैवोपहतकं रामः प्रोवाच-भोः पातकिन्, पुरा निर्हेतुकं त्वया कृतस्य जमदग्निपराभ- वस्य फलमद्यानुमोक्ष्यते। क्षत्रियः सन् भीरुरिव कि पलायसे। पहो- हि । संसिद्धो भव । ' इति । तदा काल इव ज्वलन् प्रकुपितो युद्धो- न्मुखो भूत्वा प्रचण्डविक्रमेण शूलचक्रशक्तिगदाद्यायुधजालं खण्डि- तमालोक्य गुरुदत्तेन शूलेन तं जघान। तथाऽभिहतो रामो मूछी. मघाप । अपतञ्च भूमौ । तनिरीक्ष्य सहसैवोद्विग्नमानसा दिवौकसो दिवोवतीर्य भृशं शुशुचुः । तदा भक्तिवशंवदः शङ्करः कृपया रा. मान्तिकं परैरलक्षितः सन्नागत्य मृतसञ्जीविन्या विद्यया तं सचेत- नमकारयत् । ततः प्राप्तचेतनः स जामदग्न्यो दण्डताडितोरग इव प्रकुपितस्तपसा वशंवदं श्रीकृष्णकवचं समन्त्रकमाभिमन्य धनुषि सन्धाय मुमोच । तेन दिव्यास्त्रेण निकृत्तशिराः छिन्नमूलो महा- तरुरिव भूमौ पपात स कार्तवीर्यः । विगतासु पितरं निरीक्ष्य कार्तवीर्यसुता अपि रामकोपानले शलभतां गताः । चक्रांशेन जा. तस्य तस्यात्मा भगवदंशसम्भूतं भार्गवं रामं प्रविश्यान्तर्हितोऽभव- त् । तदा ववर्षः पुष्पवृष्टिं दिवौकसः । ननृतुश्चाप्सरसः । नेदु- देवदुन्दुभयः । एवं जयलक्ष्मीसनाथो रामो जामदग्न्यः सह शिष्येणाकृतव्रणेन परमेश्वरस्य स्वविजयोदन्तं कथयितुं कैलासं जगाम ।
परशुरामचरितम् । दशमोऽध्यायः। (एकदन्तः) तत्र कैलासे समन्तात् प्रमथगणैः परिपालिते, पार्वतीपरमे श्वरयोः सन्दर्शनव्यग्रमानसो भार्गवः प्रविवेश भवनद्वारम् । तना- प्रमत्तो गजाननो गृहीतवेनः शासनं पितुः परिपालयन्नवर्तत । न्य- वारयच्च तं भार्गवम् । अवदच्छ भार्गवं विघ्नपतिः- 'भी भार्गव, भगवान्महादेवः सह पार्वत्या मिथस्सरसालापविनोदितहृदयोऽन्त:- पुरे निवसति । कथितं च लोकगुरुणा जनकेन, विना मदाशां न कोऽपि प्रवेष्टुमर्हति ।' इति । निशम्य सोऽपि रामः पितरावन्तः स्थितौ विदित्वा 'पुत्रस्य को निरोधस्तयोर्दर्शने' इत्येवमाशंकमानो निवारितोऽप्यनुजेन विनाशकेन पुनर्गन्तुमारभत । भूयोऽपि न्यषे. धत्तं गजाननः । एवं मुहुर्मुहुर्निवार्यमाणः स भार्गवस्तमाहत्य पुनःप्रायतत । अत आसीत्तयोर्वाक्कलहः। अथ क्रमेण तावन्योन्यमारभेता द्वन्द्वयुद्धाय । ततस्तयोः केशा- कोश, बाहवाहवि च जन्यमभवत् । तदनु स रामः परशुना तं गणेशमताडयत्। तत्प्रहरणेनात्यन्तं प्रकुपितः स विनायकस्तं बला- द् गृहीत्वा बहु निपीड्य कृपया मुमोच। तथाविधं पराभवमनु- भूय स भार्गवः पुनस्तस्योपरि परशुं मुमोच । स परशुरमोघतया तस्य दन्तमेकं बभञ्ज । महान्तं धरणीपतितं तं गजाननदन्तं तत्कालोत्पन्नमहोत्पातकानि च विलोक्य 'किमेतत् किमेतत्' इत्य- न्तिकोपविष्टं कुमारमपृच्छत् पार्वती । तदा स कार्तिकेयः सर्व मप्युदन्तमकथयत् । तन्निशम्य रोषारुणितनयना गिरिजा परमेश्वरमवोचत्–'प्रा- णनाथ, भवतो धनुर्वेदं समन्त्रकम्, शस्त्राणि, शत्रजयदं च कवचम- धिगम्य स रामो निर्वक्रेण पराक्रमेण सानुचरं ससामन्तं कार्तवीर्य तत्सुतांश्च संगरे निहत्य मध्यमं लोकं निःक्षत्रियं कृत्वा एवंविधां गुरुदक्षिणां भवते ददौ । तथा हि-'भवदाशापरिपालकं प्रियसुतं द्वाररक्षकं निवारयन्तं २० परशुरामचरितम् । गणेशं मदोन्मत्तः स जामदग्न्यः परशुना दन्तहीनमकरोत् । एवं प्रदर्शितपराक्रमं तं भार्गवमेव विहायास्मान् नायस्व । अहं तु पुत्र- समन्विता पैतृकं गृहं गमिष्यामि ।' इत्येवं विलपन्ती सह पुत्रा- भ्यां प्रतस्थे। तदा निवार्य पशुपतिस्तां प्रियां मनसा सस्मार महाविष्णुम् । तदनुक्षणमेव कमलासहायः प्रादुर्बभूव तदने । तत्रत्याः सर्वे वि. स्मिता अभवन् । सह पुत्राभ्यां गिरिजा सभक्तिकं ननाम महावि- ष्णुम् । स रामोऽपि पपात तस्य पादारविन्दयोः । भगवानारायणोऽपि पादपतितान् तान् सादरमुत्थाप्य पार्व- तोमवोचत्–'अयि, पार्वति, समं पुत्राभ्यां परशुधरं राममंकपीटम धिवासय । भक्ताग्रेसरोऽयं विधूतपाप्मा संरक्षणीयः' इति । ततः स महाविष्णुर्गणपतेर्नाम्नां सहस्रम् , तस्यार्थवत्वं चाभिधाय, यतोऽ यं गणाधिपः परशुना भग्नदन्तोऽभूत् , तत एतदादि एकदन्त इति प्रसिद्धिं गमिष्यतीति तामांश्वासयामास । ततः कमला तं गणा- धिपमालिंग्य , शिरस्युपाघ्राय तदीयं शरीरं पाणिना पस्पर्श। स्प- र्शमान पवाभवत्तस्य शरीरमपगतवणं दिव्यम् । स जामदग्न्यः श्रुतिशिरोवचनैरस्तौगीतौ पुराणदम्पती । ततः प्रमुदितान्तरङ्गौ तौ लक्ष्मीनारायणौ समयोजयतां तं भक्तं वि- नयविनमिताझं दिव्याभिराशीभिः । अधिगताशीः स भार्गवस्तदनुश- या निवृत्य कैलासात् पितृदर्शनाभिलापेण तदाश्रमं जगाम । एवं पार्वती तत्तनयं चाश्वास्य स्वालयमगच्छतां लक्ष्मीनारायणौ। एकादशोऽध्यायः। प्रविश्य जमदोराश्रमं स रामः कृतानतिः शिवलोकवृत्ता- न्तम्, अधिगतात्मवैराणि, मदोन्मत्तक्षत्रवर्गविदारणं, कार्तवीर्यविज- यं च व्यजिशपत् । पुत्रस्य पराक्रमं स्तुवन् जमदग्निः क्षत्रवर्गसंह- रणादधिगतपाप्मानं पुत्रं तपश्चरणायादिदेश । ततः परशुधरः पितुरोदशानुसारेणाऽऽद्वादशवत्सर तपस्तप्नुमकृतवणसहायो हिम. गिरिमवाप ।
परशुरामचरितम् । २१ गतेषु कतिपयेषु वर्षेषु, कार्तवीर्यापत्यं शूरो नाम राजा सप- रिवारो मृगयाविनोदी वनं प्रविषेश । हत्वा च बहुविधान पशू- न श्रान्तः विश्रमितुमिच्छन् , प्रच्छायशीतलतले कस्मिाश्चनर्मदा. प्रदेशे समुपाविशत् । पपौ स्वादुतरं नर्मदाजलम् । निकटवर्तिनमा- श्रमं जमदग्नस्तपोवनं विदित्वा प्रविश्य पितृविनाशहेतोर्जमदग्नेः शिर- शिछत्वा निशितनासिना ततोऽयं निरगच्छत् । व्यसुं जमदग्निं निरीक्ष्य बहु विलप्य तत्सनयाः कर्तव्याभावेन सहगमनाकांक्षिण्या रेणुकया सह पितुर्जडदेहं निरदहन् अकुर्वश्व यथाविधि पितुरोदैहिकं कर्म । ततो व्यतीतेषु द्वादशाब्देषु, व्यपोह्य क्षत्रवधजनितमहापातकं पितृदर्शनाभिलाषी भार्गव आजगाम तदाश्रमम् । श्रुत्वा व परासू पितरौ विलप्य बहु, न्यवसत्तन नीणि दिनानि सह भ्रातृ- भिः । ततः पितृवधसंस्मरणसातशौर्योदयः परशुधरो रुद्र इव रुद्र- मूर्तिः स्वप्रतिज्ञां संस्मरन् पुनस्तत्समक्षमेवं प्रतिज्ञामकरोत् । 'शृ- ण्वन्तु भवन्तो लोकपालाः मुनयः मम भ्रातरश्च । निरपराधत- पखिजनोपद्रवकारिणो राज्यमदान्धान युक्तायुक्तविचारशून्यान् नरपालापशदान् मदीयेन परशुना हत्वा तद्रुधिरेण पितृतर्पणं करि. ध्यामी'ति । ततः स रामो धनुष्टङ्कारण भुवनानि प्रतिध्वनयन् माहिष्मती जगाम । श्रुत्वा तादृशं भयानक धनुष्टङ्कारमायान्तं भार्गवं वि. दित्वा स कार्तवीर्यतनयः सह सेनया शलभ इवाग्निं तदभिमुखमाभि- ययौ । न केवलं यथात्मपौरुषं प्रयुध्यमानोऽपि स नरपतिस्तदीय- बाणानलस्याहुतिरभूत् , किन्तु माहिष्मतीनगरमपि । तावता असन्तुष्टः स रामो दिग्विजयाय प्रतस्थे । सर्वत्राप्यप्रतिहतगतिः स रामो विचरन्नात्मनो निशितकुठारानलस्याहुतीः कृत्वा राजन्यपुगवान् सानुचरान्, निःक्षत्रियां वसुधां विधाय, आत्मनो दिग्विजययात्रा परिसमाप्य महेन्द्रमासाद्य पुनस्तपश्चकार । 6 २२ परशुरामचरितम् । - ततः क्षत्रियक्षनेषु ब्राह्यणबीजोत्पादिता राजसुतास्तत्तद्विषया- धिपा अभवन् । भूयोऽपि स राम आत्मनो दिग्विजययात्रया वसु- धां निःक्षत्रियामकरोत् । एवं स्वप्रतिज्ञानुरूपं एकविंशतिसंख्यया स्वस्य दिग्विजयेन सर्वमपि सागरवलयितं महीमण्डलं निक्षत्रिय कृत्वा तद्रुधिरपूरणे कुरुक्षेत्रे पञ्च सरांसि निर्माय, तेन रुधिरेण पितृतर्पणमकरोत् । तदारभ्य तानि तीर्थानि श्यमन्तकसंशया विरा. जन्ते । स सर्वां वसुन्धरामात्मसादकरोच्च । पितरश्च सन्तृप्ता अभवन् सुगतिं च प्रापुः। संप्रति ये श्रद्दधानाः प्रभासतीर्थपञ्चके तर्पण- पिण्डदानादिना पितृन् तर्पयन्ति , तेषामुत्तमो लोक इत्युद्धोषयन्ति पौराणिकाः सन्तुष्टैः पितृभिरुपदिष्टः स प्रशान्तक्षत्रियावमर्षस्तद्वधजनित- महापातकप्रशान्तये त्रिवार भूप्रदक्षिणमारचय्य, महेन्द्राचले कृता. श्रमस्तपश्चकार । निशम्य मुनयः परशुरामं तदन्तिकमागत्य तेन कृतातिथ्याः, सकलपापराशिविनाशसाधकं हयमेधमुपदिश्य, तिरो- हिताः । अथ स रामो यथाविधि हयमेध कर्तुमारभत । तत्न कश्यपोऽ ध्वर्युतां , गौतम उद्गातृतां , होतृत्वं विश्वामित्रः, ब्रह्मत्वं मार्कण्डेयः ऋत्विक्त्वमपरे मुनयश्चाधिगम्य, शास्त्रोक्तेन विधिना परशुराम हयमेधेन याजयामासुः। कृतावभृथस्नानः स रामः पराक्रमेणार्जितां सर्वो वसुन्धरां कश्यपाय सदक्षिणां ददौ । अपरानपि मुनीन् यथाह सम्भावया. मास महार्हाभिदक्षिणाभिः । अत आरभ्येयं वसुन्धरा काश्यपीति पप्रथे । ततःस रामः सहैवाकृतव्रणेन तपश्चकार। ततः कदाचिद्विश्वामित्रस्य पुत्रः वसुर्नाम क्षत्रान्तकस्य भार्गव- स्थान्तिकमुपगत्य बहु विनिन्द्य पुनः क्षत्रवधाय तं प्रचोदयामास । ततः प्रकुपितो भार्गवः पुनः परशुं धृत्वा प्रतिक्षामकरोत् । क पालुना मया बाला वृद्धाश्च क्षत्रिया विसृष्टाः । तानद्य निःशेष हनिष्यामि इति वदन् परशुमभिमन्त्र्य सर्वराजाजनागर्भस्थान , परशुरामचरितम् । २३ शिशून जहीति ब्रवन्नत्यजत् । स्वयं च परिभ्रमन् आबालवृद्धं राज. लोकमहन् । तदा केचित् वृद्धा राजानः स्त्रीवेषधारिणो भूत्वा आ- त्मानमरक्षन् । तदा कश्यपः स्वस्थाज्ञामनवाप्य, पुनरुत्थाय प्रवृत्तं भार्गवं नि- शम्य, तस्य समक्षमुपेत्य प्रार्थयत–'महर्षिसत्तम ! भार्गव ! न युक्तं पुनस्तवेदं जगदिति । यत् समस्तक्षत्रवर्गगर्वपाटनमाचरितं पुरैव भवता , तत् शान्तिमवाप्नुहि । विरम पुनः क्षत्रवधात् । पुरा यागान्ते मह्य दत्तेयं वसुमती । अतो मदीयात्प्रदेशादपसृत्य यत्र कुत्रापि वा गच्छति। ततः प्रसन्नी भार्गवो धनुषि संहितं वाणं दक्षिणार्णवे प्रयोक्तु. मैच्छत् । तदनुक्षणमेव महोदधिः प्रदेश रामाय ददौ । तत्र भार्ग- वरामः प्रशान्ततेजाः सह शिष्येण तपः कर्तुमयतत । कश्यपोऽपि स्वायत्तीकृतसर्वमहीमण्डले राज्ञः अभ्याषिञ्चत् । ते च निरुपद्रवं राज्यं पर्यपालयन् । द्वादशोऽध्यायः। (श्रीरामपरशुरामयोः समागमः ।) कदाचित् रावणस्य पितामहो माल्यवान् महेन्द्रमासाद्य, तत्र कृततपसं समस्तक्षत्रहन्तारं भार्गवं रामं विलोक्य, पूर्ववैरिणो दा- शरथे रामस्योन्नतिमसहमानो व्यजिज्ञपत् । 'भो निर्वक्रपराक्रम- शालिन् ! भार्गव ! अस्ति कश्चिद्रामो नाम क्षत्रियकुमारः। स सीताविवाहाय त्वदीयस्य अस्त्रगुरोर्महादेवस्य चापं निमिवंशपालितं बभञ्ज । गुरुतिरस्कारिणं कथं सहते भवानिति । अथ गुरोर्महादेवस्य पराभवं तदीयधनुर्भङ्गजमसहमानो यथा- पूर्व प्रकुपितः परशुधरः प्रतस्थे । समयेऽस्मिन् दाशरथिः सह नवो. ढया सीतया , तथाविधैः भ्रातृभिः , पित्रा दशरथेन , परिवारेणा- नुगम्यमानः पथि ददृशे भार्गवण रामेण । दृष्ट्वा च दशरथो मूर्तिम- .
२५ परशुरामचरितम् । न्तं कोपमिव भयानकं भार्गव, चकितचकितं रामादीन् विलोक्य, कृताञ्जलिः सविनयं प्रणम्य स्वपुरोहितं वसिष्ठं, येन केनापि विधिना भार्गवं सान्त्वयितुं चोदयामास । नियोजयामास चाबलाजन- रक्षणाय परिमितेन सैन्येन सह भरतशत्रघ्नौ । अथ प्रलयकालजलदभीकरण खरेण प्रतिध्वनितभुवनान्तरेण 'क रामः, क दशरथः?' इति वदन् सोद्वेगं भार्गवो रामः कुठार- पाणिः समक्षमाविरासीत् । तदा वसिष्ठादिभिः निवार्यमाणोऽपि रामो दाशरथी रामस्य भार्गवस्य समक्षमागत्य 'भो आर्य, सोऽयं रामो दाशरथिः प्रणमति भार्गवरामम् । अयं च ममानुजो लक्ष्म णाभिधः' इति विनयविनमिताङ्गः प्रत्युवाच । स भार्गवो दाशरथि, तस्य रूपं, विनयं, सौजन्यं च विलोक्य दयाहृदयोऽपि भर्गचापविभङ्गजनितामर्षेण वाक्येन 'भार्गवस्यायं कुठारस्त्वदीयं कण्ठमलंकर्तुमभिलषति' इति दाशरथिमवोचत् । तदा रामो दाशरथिः 'अहो ! कुमारविजये शिष्यप्रेम्णा महेश्वरद- तोऽयं परशुः किमेष भवति? साधु साधु, परशुनानेन भगवान् भर्गः खण्डपरशुरिति, भार्गवोऽयं परशुराम इति च प्रसिद्धिं गतौ किंचानेनैवास्य यशो रोदसी व्याप्य विराजते । अपि चास्य जनको जमदग्निः । गुरुमहादेवः, दानं चतुःसमुद्रमण्डितं महीमण्डलं, तपोनुपमं च भवति । कथं वाऽस्य महिमानं वर्णयामि' इत्येवं प्रशशंस भार्गवरामम् । ततो भार्गवः 'कुमार, दाशरथे ! दर्श दर्श त्वदीयं सौजन्यमा- श्चर्यमाविर्भवति । एवं विनीतं कथं हन्मि । इति मां बाधते दया' । इति प्रत्यवदत् । तदा लक्ष्मणः सोलुण्ठमभापत 'परशुधर ! नून दयालुभवान्' इति । निशम्यतत् रोपारुणितलोचनो भार्गवः प्रत्यु- वाच लक्ष्मणम् ‘बालाविति, विनयविनमिताङ्गाविति, नवोढाविति, युवामुपेक्षितौ मया । कुतो मम दया योऽहं बाल्य एव पितुः शासनात्कृतमातृवधः, निर्दयं निःसप्तकृत्वों जगतीपतीनां संहर्ता, परशुरामचरितम् । २५ बहुवारमबलागर्भविच्छेदकः, सर्वराजन्यवधजनितरुधिरपूरितती. र्थपञ्चके भूयो भूयोऽवगाह्य कृतपितृतर्पणः। तदायाहि राम, दाश- रथे! प्रथमं मम हस्तगतं विष्णुचापमादाय तव गुणमारोपयतु भवान् । ततो बाण'मित्यादि वदनन्तिकमाजगाम स भार्गवः । अत्रान्तरे दशरथः श्रुत्वा रामयोः संवाद, भीतभीतेन चेतसा ऽभितो वसिष्ठमभिगम्य 'क्षत्रान्तको भार्गवः कुमारौ युद्धाय चोदय- ति । तावपि सन्नद्धौ भवतः । आपतितमत्याहितम् । कथं वा धारणीया एते । निवारयामि च पुत्रावहम् । निवार्यतामयं भार्गवस्त्वया' इति प्रार्थयामास । तदा वसिष्ठी विहस्याब्रवीत् 'भी राजन्, किमेवं बिभेति भवान् ? भवतस्तनयौ म केवलमानुषौ। किं तु विष्ण्वंशसम्भूतौ । त्रिषु लोकेषु न कोऽपि शक्नुयात्तौ विजेतु- म् । तस्मादेवं भीतभीतेन चेतसा किं निमित्तं मुहुर्मुहुर्विशङ्कसे पराजयम् । धैर्यमवलम्बस्व' इति। भूयो भूयः समाह्वयमानं युद्धाय भार्गवं वसिष्ठोऽब्रवीत्- 'अयि भार्गव ! यदि भवान् गुरौ भक्तिमान्, तर्हि मामपि गुरुं मत्वा मदीयं वाक्यनिचयं शृणोतु सम्यग्भवान् । एकेनाच- रितोऽपराधः । तत्फलं सर्वोऽपि राजवंशोऽन्वभवत् । तदीया. पराधं मनासि निधाय, त्वयाऽऽबालवृद्धं सर्यराजन्यकुलमहन्यत । पुनश्च तदर्थमेव यतसे । न युक्तमयुक्तमाचरितुम् । अतो निव. तख । तपसा मोक्ष प्राप्नुहि ।' इति । ततो भार्गवो हितोपदेष्टार वसिष्ठमवदत् 'महामुने ! वसिष्ठ ! त्वद्वचनातिकममहापातकविमो. चनाय चिरं तपः करिष्यामि । यथा प्रियं मम शस्त्रधारणं न तथा मोक्षेच्छा , अतो न त्यजामि शस्त्रम् ' इति । एवमादिहितोपदेशमतिकान्तं भार्गवं प्राप्य श्रीरामः 'प्रदर्शय तावकं वैष्णवं चापम् । गुणमारोपयामि' इति वदन् तस्य भार्गव. स्य कराद्वैष्णवं चापमाचकर्ष बलात् सह तदीयेन बलेन । तदा सह- सैवोदगच्छत्किमपि दिव्य तेजो भार्गवस्य शरीरात् । निमिषतां च 7 २६ परशुरामचरितम् । सर्वेषां प्राविशत्तत्तेजः श्रीरामम् । सन्दधे च धनुषि दिव्यं अमोघं शरं स दाशरथिः । वसिष्ठादिभिर्वार्यमाणो दाशरथिः 'धनुषि संहितो मदीयो बाणो न पुनरुपसंहतो भवति । त्वं चाग्रजन्मा । कुबेदानीमस्यावकाशः' इति तेजोविहीन भार्गवमवदत् । ततस्तेनो पविश्यमानमार्गो दाशरथिस्तस्य परशुरामस्य वर्गमार्गमच्छिनत् । ततो दिव्येन चक्षुषा भगवंदनावतीर्ण रामं दाशरथि विदित्वा स्मृत्वा च पुरा कथितं भगवद्वाक्यं स भार्गवो राममवदत्- 'भोः कुमार ! जानामि त्वां भगवदशेनावतीर्णम् । तत् क्षमस्व अज्ञानेनो- कानि मदीयानि वाक्यानि । तपःसम्पादितं मदीयं पुण्यलोकं जह्य- मोधेन बाणेन । गृहाणेदं धनुः । अनेन दण्डकारण्यवासिनो नि. शाचरान् समूलं निहत्य पाहि मुनीन् ।' इति । तदनुज्ञाती रामो भार्गवः तपोवन विवेश । तत्रन्याः सर्वे सन्तुष्टाश्चाभवन् । तपोवनं प्रविष्टो रामो भार्गवस्तपसे महेन्द्रमवाप । तत्र चिरं आनेतायुगान्तं तपस्तेपे स भृगुनन्दनः । त्रयोदशोऽध्यायः॥ ( अम्बायाः वयंवरः) द्वापरे युगे शान्तनवो गाङ्गेयः कौमारेऽभ्यस्तानेकशास्त्रचय- विशारदः, धनुर्विद्यावैदुष्यमभिलषन् , पर्यटन , चिरादभिययौ महेन्द्रं नाम महीध्रम् । विचरंस्तत्र तपसि स्थित भार्गवं रामं ददर्श । तत्र तस्थावानियमान्तं तस्य रामस्य स गानेयः ; परिचर्यादिभिस्तस्य प्रियोऽभवञ्च । ततस्तेन तदागमनप्रयोजन पृष्टः धनुर्विद्यामुपदिशन्त्विति स. विनयमयाचत स शान्तनवः । तथेत्यनुमेने शिष्यत्वेन तस्य परि- ग्रहणं स रामः । तत आरभ्याप्रमत्तः परिचर्यायां विद्याग्रहणे चा- भवत् । यथोपदिष्टं परिचयं कुर्वन् शास्त्रेषु, तस्य भार्गवस्य कृपायाः पात्रमभवत् स गानेयः । ततः सुचिरं तस्य परिचर्यया तमानन्दय- परशुरामचरितम् । २७ च । कृतास्त्रः स गङ्गापुत्रः तं भार्गवमापृच्छय खं निकेतनमगात् । ततो महान कालः समतिचक्राम । आतुचित् शन्तनुर्विहारार्थ गङ्गापरिसरे पर्यटन दाशराजस्य कन्यां योजनगन्धी विलोक्य, मुमोह । शन्तनोरिङ्गितं विदित्वा स दाशराजः शान्तनवस्य ब्रह्मचर्यसमयेन स्वीयां कन्यां तस्मा अदात् । तदारभ्य गाङ्गेयो भीष्म इति प्रसिद्ध गतः । क्रमेण शन्तनोद्वौं पुत्रावसूत सा सत्यवती। तौ चित्राङ्गदो विचित्रवीर्यश्च । कौमारमतीत्य युवानावभवताम् । चिरं न्यायेन प्रजाः परिपाल्य दिवमयाप शन्तनुरन्त्ये वयसि । सत्यवतः शान्तनवोऽनुजं चित्राङ्गदं राज्येऽभिषिच्य , सत्यव. तीमतोषयत् । सोऽपि कञ्चित् कालं राज्यभोगाननुभूय, विपरी- तदेवो दिष्टान्तमाप । पुनरपि सत्यवत्या मते स्थितः स सत्यप्रति. शः कनीयांसं विचित्रवीर्यमभ्यषिञ्चत् । स धर्मतः प्रजा अनुरञ्ज- यन् ज्येष्ठस्य भ्रातुरादेशकरणे बद्धादरोऽभवत् । मातुराशया सत्य. व्रतः कुलादनुरूपादनुजस्य दारक्रियां कर्तुमैच्छत् । तदाऽश्रौषीत् काशिराजस्य सुतानां स्वयंवरवृत्तान्तं गानेयः । सन्ति काशिराजस्य त्रिस्नः कन्यकाः । अम्बा अम्बिका अम्बालि- केति । समाहूताश्च सर्वे राजकुमारास्तेन काशिराजेन । प्राविश. व स्वयंवरमण्डपं सर्व नृपमण्डलम् । देवव्रतोऽप्यगात्तत्पुरीम् । तन्त्र काशिपतिना वीर्यशुल्कास्ता शात्वा , पश्यत्सु राजकुमारेषु, 'भीष्मः शान्तनवः कन्या हरतीति पुनः पुनः वदन् कन्या रथमारो- प्य, तानरपतीन् समायत समराय । तनिशम्य क्रुद्धास्ते पार्थिवाः सारथीनचोदयन् तं प्रति । पर्यधारयंश्च समन्तात्तं रथैश्चाश्वैरुदायु. धाः । तदा दानवान् देवराडिव तान् नृपानजयत् शरवर्षेण शा. न्तनवः । नित्वा च महीक्षितः स सत्यव्रतो हास्तिनं पुरं प्राप्य, ख. मात्रे सत्यवत्यै भ्रातुर्थाय समानीतास्ताः कन्यकाः प्रादर्शयत् । संतुष्टा सा मूर्युपाघ्राय, प्रयुज्याशिषः, ताभिर्विचित्रवीर्यस्य परि- गयं कारयेति तमाशापयत् । तद् ज्ञात्वा तासामम्बा नाम ज्येष्ठा २८ परशुरामचरितम् । कन्या सव्रीडा भीष्ममवदत्- 1 भीष्म त्वमसि धर्मशः सर्वशास्त्रविशारदः । श्रुत्वा मे वचनं धर्म्य न्याय्यं कर्तुमिहार्हसि ॥ 2 मया साल्वपतिः पूर्व मनसाऽभिवृतो वरः। तेन चास्मि वृता पूर्व रहस्यविदिते पितुः॥ कथं मामन्यकामां त्वं राजधर्ममधीत्य वै । यासयेथा गृहे भीष्म कौरवः सन्विशेषतः ॥ 4 एतद्रद्धया विनिश्चित्य मनसा भरतर्षभ । यक्षम ते महाबाहो तदिहारन्धुमर्हसि ॥ 5 समां प्रतीक्षते व्यक्तं साल्वराजो विशांपते । तस्मान्मां त्वं कुरुश्रेष्ठ समनुज्ञातुमर्हसि ॥ 6 कृपां कुरु महाबाहो मयि धर्मभृतां वर। त्वं हि सत्यव्रतो वीर पृथिव्यामिति नः श्रुतम् ॥ श्रुत्वा च तस्याः प्रार्थनां मनसा विमृश्य ताममुञ्चत् स भीष्मः । चतुर्दशोऽध्यायः। ( शरणागतिः) अभिप्रतस्थे च साल्वपुरं सा त्वम्बा वृद्धद्विजातिभिः धाच्या चानुगता । प्रविश्य च तन्नगरं सा, तमासाद्य राजानं, सविनय- मेवमवदत् 'भो राजन्, प्रागदं त्वां मनसा वृतवत्यस्मि । त्वया चा. प्युपमन्त्रिता । तदभिनन्द मा मिति । एवं पुनः पुनः वदन्ती तामन्य पूर्वेयमिति प्रत्याचख्यौ स साल्षपतिः । तथोभाभ्यां बन्धुभिश्च परित्यक्ता सा, विनिन्दन्ती खानि भाग्यानि, निष्कामन्ती नगरात् बहु निनिन्द वीर्यशुल्केन पण्यस्त्रीव प्रचोदयन्तं पितरम् । तदनुसा बहु विचिन्त्य, निदानमस्या आपदो देवव्रतं मत्वा प्रत्यपकर्तुमि- च्छन्ती सदुपायमचिन्तयत् । ततः सा महात्मनां तापसानामाश्र- ममगच्छत् । म्यवेदयश्च तेभ्यः सविनय स्वीयमुदन्तम् । निशम्य परशुरामचरितम् । २९ . . ते मुनिवरास्तामाश्वास्य, पलोचयन् । पितुर्निवेशनं गच्छति, नार्याः पतिरेव गतिरिति वदत्सु ताप. सेषु, तपस्तातुमभीप्सामीति वदन्त्यां तस्यां, होनवाहनो नाम तस्या मातामहस्तत्रागतः। पूजितश्च तैर्यथाविधि, श्रुत्वा चाम्बाया वृत्ता- न्तं, ज्ञात्वा च तां दुहितुर्दुहितर, स्वयमङ्कमारोप्य, तदुःखदुःखित- स्तामाश्वासयत् । यथावद्विस्तरेण निशम्य तस्या वृत्तान्तं मनसा सम्यगालांच्छ, 'वत्से ! मद्वचनाद्रामं जामदग्न्यं शरणं गच्छ । स च रामो मे सखा प्रीतियुक्तः । मयि कीर्तिते स रामस्त्वन्म- नीषितं कार्य करिष्यति' इति वदति राजर्षे होत्रवाहने, यह- च्छया तत्रागतोऽकृतव्रणो नाम भार्गवरामस्य प्रियानुचरः। तस्मा- द्विदितरामागमनास्तापसास्तेन सह कथाः कथयन्तः स्थिताः । तदा मुनिभिरम्बया च कथितकथ्यःस महातेजा अकृतवणस्तस्यास्तदुःख- स्य निदानं भीष्ममेव मत्वा, सविमर्श तस्य प्रतीकारं भार्गवण का. रयितुमैच्छत् । दिष्ट्या समागतं भार्गवं रामं निरीक्ष्य, प्रत्युद्गम्य, यथाबिधि सत्कृत्य, ते तापसाः, स च राजर्षिः होत्रवाहनः, साऽप्यम्बा प्रा. अलयः पुरतः तस्थुः । यथान्यायं पूजितस्तैः सह निषसाद । तदनु तावुभौ सादरं पूर्वव्यतीतानि कथयन्तावभूताम् । तदा राजर्षिः 'केयं तपस्विनी ति रामेण पृष्टोऽब्रवीत् । तां स्वस्य दौहित्री काशिरा- जसुतां कथयामास । ततः सा रुदती तस्य रामस्य चरणयोः पति- त्वा, शरण्यं भृगुनन्दनं शरणं प्रपेदे । तस्यास्तादृशमभिनवं रूपं, वय सौकुमार्य च दृष्ट्वा, तदुदन्तं सर्वमपि ज्ञात्वा, तद्वचनैस्तस्या व्यसनस्य भीष्म एव मूलमिति वि. दित्वा, सोऽवददम्बाम्-'राजपुत्रि, त्वामहं पुनः शान्तनवं प्रति प्रे. पयामि। सोऽपि मदन्तेवासी मदीयां वाचमङ्गीकृत्य भूयस्त्वां ग्रही. ष्यति । नो चेदहं सामात्यं धक्ष्यामि रणे तं भीष्मं शस्त्रतेजसा । अथवा यदीच्छसि पुनस्तं साल्वं नयामि' इति । तदा तया भीष्माशया साल्वगमनं , चारित्रपरिशङ्कया तेन प. . 8 ३० परशुरामचरितम् । रिस्यकमात्मानं च निवेद्य, तमेवास्य व्यसनस्य मूलमाख्याय, तद्वधम याच्यता तदनु तथैवाकृतव्रणेनापि प्रार्थितः, स रामो मुनिभिस्तया राज. पुत्र्या च सहितः कुरुक्षेत्रमगच्छत् । स्वप्रतिज्ञानुरूपं साम्नैव कार्य साधयितुमिच्छन् न्यवेदयत् स्वागमनं भीष्माय । तदा शान्तनवः खगुरोरागमनं ज्ञात्वा, जवेनाभिगच्छन् प्रीत्या तेजोनिधि तं गुरुं वि- धिना पूजयामास। पञ्चदशोऽध्यायः॥ ( भीष्मेण सह युद्धम् ।) परशुरामः-अयि भोः प्रियच्छान ! शान्तनव ! पश्येमां कन्यकाम्। सेयमन्यमनस्का प्रथमं त्वया स्वयंवरे समानीता । पुनः परि. त्यक्ता च । तथाऽपि साल्वेन चारित्रशङ्किता नाङ्गीकृतोभा- भ्यां परित्यक्तेयमनाथेव परिभ्रमन्ती मां शरणं गता। गुरोर्मम वचनादनां पुनः परिगृहाण । तदा नितरां सन्तुष्टी भविष्यामि भीष्मः-ननु गुरो ! भवदुक्तं सर्वमपि सत्यमेव । परं न मदमिय. माहृता । किन्तु मदीयस्य भ्रातुः परिग्रहत्वेनानीता। न पुनरेषा प्रथमं न्यवेदयदेतस्याश्चरितम् । तथाऽपि विझाय तदीयं तथा- विधं मनः, तदनुक्षणमेव परित्यक्ता च । न पुनः परिगृह्णामि । न तत्रापराधलेशोऽपि मम । 'न भयानाप्यनुक्रोशानार्थलो- भान काम्यया। क्षात्र धर्ममई जह्यामिति मे ब्रतमाहितम् ॥ परशु-(सकोपम्) श्रुतं मया त्वदीयं व्रतम् । शिष्यः सन् भवान् गु- रोममैतद्वचनं न चेत्करिष्यति सहामात्यं त्वामहं हनिष्यामि । सज्जो भव। भीष्मस्तं क्रोधपर्याकुलेक्षणं मृदुभिर्वचोभिः पुनः पुनः प्रार्थया- मास । तथाऽपि स भार्गवो न शशाम । तदा रामः कोपेनावदत् यदि मां गुरुं जानीषे त्वम् , तदेमां काशिराजसुतां मत्प्रियार्थ पुन- १ परशुरामचरितम् । ३१ हाण । नान्यथा शान्तिर्विद्यते मम'। इति । तदास देवव्रतक्षा- ङ्गीचकार । पुनः सविनयं तस्य पादयोः पतित्वैवं प्रार्थयति स- "गुरुत्वं त्वयि सम्प्रेक्ष्य जामदग्न्य पुरातनम् । प्रसादये त्वां भगवस्त्यक्तैषा तु पुरा मया ॥ को जातु परभावां हि नारी व्यालीमिव स्थिताम् । वासयेत गृहे जानन् स्त्रीणां दोषो महात्ययः॥ न भयाद्वासवस्यापि धर्म जहां महाव्रत । प्रसीद मा वा यद्वा ते कार्य तत्कुरु मा चिरम् ॥ अयं चापि विशुद्धात्मन् पुराणे श्रूयते विभो । मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना । 'गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथं प्रतिपन्नस्य परित्यागो विधीयते ॥ स त्वं गुरुरिति प्रेम्णा मया सम्मानितो भृशम् । गुरुवृत्ति न जानीपे तस्माद् योत्स्यामि वै त्वया ॥" (महाभारतात) इत्येवमादि वदन् स भीष्मस्तेन सह योद्धमेवाङ्गीचकार । न पुनस्तां ग्रहीतुम् । ततो रामः कुरुक्षेत्रमगात् । भीष्मोऽपि सत्यवत्या कृतखस्त्य- यनः प्रतिनन्दितः कुरुक्षेत्रं सांग्रामिण रथेन प्रस्थितः कवची सतूणीरः सर्वै राजलक्षणैरुपेतो रणक्षेत्रं कुरुक्षेत्रमुपाययौ । ततस्तो गुरुशिष्यो सङ्गतौ। ततो देवी जाह्नवी पुत्रस्य समीपमागत्य तेन विदितसर्ववृत्ता- न्ता तमेवमवदत्- कुरु विप्रेण पार्थिव । जामदग्न्येन समरे योद्धमित्येव भसयत्॥ किं न वै क्षत्रियहणो हरतुल्यपराक्रमः । विदितः : पुत्र रामस्ते यतस्त्वं योद्धमिच्छसि ॥ इति । 'मा मैवं पुत्र निर्बन्धं ३२ 'परशुरामचरितम् । जनन्यास्तानि वाक्यानि निशम्य सभीष्मः कृताञ्जलिमर्मात- रमब्रवीत् सर्वमादितः स्वयंवरवृत्तान्तम् । ततः सा भागीरथी पुत्रेण सह तं भार्गवं रामं युद्धाद्विरमेति बहुशः प्रार्थितवत्यपि तेन प्रत्या- ख्याता । पुनः पुत्रमपि निवर्तयितुमशता यथागतं गताऽभवत् । ततस्तौ धर्म्य युद्ध कर्तुमारमेताम् । दिव्यं रथमारोह स जा. मदग्न्यः । अकृतवणः सारथिरभवत् । विधिवदभिवाद्य गुरुं स भीष्मः कृताञ्जलिजयमभिकांक्षन् रथमारुह्याग्रतः स्थितः । तदनु रामः पूर्व प्राहरत्तं शान्तनवम् । शरविद्धः शान्तनवो भार्गवस्य ब्राह्ममंशं नमस्कृत्य, क्षात्रमं. शं प्रहर्तुमारभत । निशितेन भल्लेन भार्गवस्य धनुषः क्रांटिमच्छिनत् भीष्मः । स सायकैरनकै स्तं निर्दयं प्राहरश्च । तैर्विद्धः स रामः क्षतजोक्षितसर्वाङ्गो रुधिरं क्षरन् रक्ताशोक इवाबभौ । ततोऽन्यद्ध- नुरादाय क्रोधसमन्वितो रामस्तं भीष्म मर्मभेदिभिः शरैरविध्यत् । ततोऽभ्यर्दितस्तेन भीष्मेण मन्दचेता इवाभवत् स रामः। तथाविधं तं निरीक्ष्य देवव्रतो मनस्येवमचिन्तयत् । 'धिगिर्द युद्धम् ! गुरुं द्विजाति धर्मात्मानं च निर्दयो भूत्वैवं समताडयम् । इति । तदसहमान इव सहस्रांशुरपि जगामास्तम् । तदा युद्धमुपा- रमत। उदिते सूर्ये च भूयः प्रावर्तत संग्रामः। प्रथम तौ शरैरन्योन्य प्राहरताम् । तदरेवास्त्राणि खण्डितानि ज्ञात्वा तौ वायव्यं गुह्य- केन, आग्नेयं वारुणेन च प्राहरताम् । तदा परशुरामस्तस्मै भीष्माय भृशं चुकोप । तस्योरसि बलवदविध्यश्च । तेन शान्तनवः किञ्चित्प्रच- लितो रथ एव मुमोह । तत् दृष्ट्वा रामस्यानुचरा हृष्टा विचुक्रुशुः । क्रमेण लब्धसंज्ञो गाङ्गेयस्तं रामं प्रहर्तुमारभत । बाणैर्वाणान् निवारयन्नपि भीष्मस्य प्रदीप्तेन केनापि बाणेन व्याविद्धो रामः समरे मुमोह भूमावपतञ्च । अम्बायाः शीतलोपचारणाचिरालब्धसंज्ञो रामः पुनर्द्विगुणी- परशुरामचरितम् । ३३ कृतकोपः शरवर्षमयाकिरत् । तदन्तरिक्ष एव न्यवारयच्छरवर्षेण शान्तनवः । ततः शरसंघर्षण सञ्जातः पावकः सर्व भस्मसादकरी- त् । ततो रामः पश्चिमा सन्ध्यामुपासितुमगमत् । अन्येद्यस्तुमुलं युद्धमभवत्। तस्मिनायोधने रामबाणप्रपीडितः शान्तनवस्य सूतो रथादप- तत् प्राणान् प्रजहौ च । तहःखदुःखितं भीष्मं स रामः शरैर्गाहें प्रा- हरत् । तदा भीष्मो भूमावपतत्। तं निहतं मत्वाञ्चनिननाद रामः । स्वजनन्या गङ्गाया उपचारात् संशां प्राप भीष्मः । पुनर्भीममायो. धनमकरोच । एवं धर्मेण प्रयुध्यमानयोस्तयोदिनानां त्रयोविंशति- रतिचक्राम। सर्वास्त्रकोविदेन गुरुणा प्रतियोद्धमशक्को भीष्मः शयानी निशि शयने, देवान् प्रार्थयामास । तदा सन्तुष्टास्तस्य पुरतः प्रादुरभवन् देवाः स्वप्न । ते तं प्रा. बोधयन् । तस्याभयं दत्वा रामाविदितं प्रस्वापं नामास्त्रं ददुः । अनेनास्त्रेण रामोन क्षयं यास्यति किं तु वास्यति । एवमादि कथ: यित्वा देवास्तिरोहिताः। व्यतीतायां च रात्रौ, स्वस्मिन् दैवानुकूल्यं प्रखापनास्त्रप्राप्ति च बहु प्रशशंस भीष्मः। ततः प्रावर्तत समरः । बहुभिर्नाराचैर्विद्धो रामेण भीष्मः बहु विव्यथे । तो ब्राह्ममस्त्रं परस्परजिघांसया धनुष सन्दधतुः । ते उभे ब्राह्मे अस्त्रे मार्गमध्य एव संलग्ने भवतः । तयोः समागमेन व्योम्नि केवलं तेज एव प्रादुरभवन् । सर्वाणि भूतानि ऋषयो देवता- श्व परमं सन्तापं जग्मुः । चचाल च वसुन्धरा। तदनु गाङ्गेयो राम प्रति प्रस्वापनास्त्रं प्रयोक्तुकामोऽभवत् । धनुषि सन्दधे च तदस्त्रम् । तदाऽन्तरिक्ष स्थिता देवा नारदं त. निवारणे समादिशन् । ततो नारदः सहसा भीष्ममासाच, निवार्य तदुधमात् जगादैवम्- - 9 परशुरामचरितम् । 'एते वियति कौरव्य दिवि देवगणाः स्थिताः । ते त्वां निवारयन्त्यद्य प्रस्खापंमा प्रयोजय ॥ रामस्तपस्वी ब्रह्मण्यो ब्राह्मणश्च गुरुश्च ते। तस्यावमानं कौरव्य मा म कार्षीः कथंचन ॥' इति। ततो गाङ्गेयो नारदवचनात् प्रतिसंहृतवान् तन्महद- स्त्रम् । साधु साध्विति सर्वे देवगणास्तं प्रशशंसुः । तत्सर्व नि. रीक्ष्य रामः सहसा गाङ्गेयमुपसृत्य जितोऽस्मि भीष्मेणेनि प्रतिजगाद । तदा देवगणैः सम्प्रार्थितौ भीष्मो रामश्च कथंचन तस्मात् युद्धानिवृत्तावभवताम् । तदा सशिष्यो देवव्रतो गुरोर्जाम- दग्नयस्य पादयोः पतित्वा तं क्षम' भ्यर्थयामास । रामोऽपि प्रसनो भूत्वा 'युद्धेऽस्मिन् तोषितोऽहं भृशं त्वयेति वदन् तमालिलिङ्ग । तदा पुरतो दीनेन घदनेन स्थितां तामम्बां वीक्ष्य दीनया वाचा तेषां समक्षमेवमवदत्- 'काशिराजसुते ! प्रत्यक्षमेव भवत्या यथाशक्ति मया युद्धं कृतम् । पौरुषं च परं प्रादर्शयम् । न चैवमपि शक्नोमि तं जेतुम् । निर्जिती ह्यस्मि भीष्मेण महास्त्राणि प्रयुञ्जानेन । अती यथेष्टं गच्छ' इति । तदाकर्ण्य सा प्राह- 'भगवन् ! सत्यमेव यथा- शक्ति यथोत्साहं कृतं मामकं कार्यम् । अनिवार्यपराक्रमः स भीष्मः। नाहं पुनः साल्वं प्राप्स्यामि न भीष्मम् । उग्रं तपस्तप्त्वा तादृशं बलं सम्पाद्य तं स्वयमेव समरे जेष्यामि इति । तदा सन्तुष्य स रामः सह मुनिभिस्तमेव महेन्दं गिरिमाससाद । परशुरामचरितम् समाप्तम् ।
No text on this page.