Rajareshi Chennai
Nagesasaya Nirnaya Part I
Front matter
w
THE
Sabdikadarsa Series
॥ नागेशाशयनिर्णयः॥
Nagesasaya Nirnayas
No. 2
Part I.
MEDHASRI PANDITA KAVISEKHARA
2
OF RADHAMANGALAM
Senior Protessor of Vyakarana, Sanskrit College, 7'rvadı
SRIRANGAM
RI VANI ILAS PRESS
1913
Copyright Registered
(Prico As 6 Postage extra
NOTICE. Nagesasaya Nirnaya. It is with great pleasure that we announce the publication of a new work on V yaka ana called NAGESASAYA NIRNAYA by Medhasu Pandit Kavisekhara Pandit R. Narayana Sastrigal, Semor Protessor of Vyaharana, Sanskut College, Tuvadi It goes without saying that Vyakarana is the most important and the most popular of all the Vedangas and among the Valous works on Vyakaraua the Paribhashendusekhara ot Nagon Bhatta takes a foremost place There are several commentaries on the Paribhashendustkhara but all of them are more or less adverse Cuti- CISDis of the text Hence a learned and at the same time an appreciative commentary on this great work -Was, up to now, an essential desideratum To supply tiris real want is the object of this venture. That Pandit R Narayana Sastrigal is eminently fitted for the task he has umdertaken is ampiy testified to by Mahamalopadhyaya Pandit Subbarayachariai and others who, as is well known, are thoroughly competent to pronounce an opinion on the subject Thus commentary is mtended not only to expound faithfully the beliefs of Nagesa Bhatta as explained in his Paribhaphendusekhara but also to critically evamme the various mterpretations given by different other commentators A perusal of the specimen pages will surely all readers of the usefulness of this commentary. To keep it within the reach of all it is resolved to issue it m monthly parts of not less than 32 pages Royal Octavo for ANNAS 6 only per part. (As. 8 per V. P P.). As only a limited number of copies are punted, intending subscribers should apply at once to the undesigned. THE MANAGER, NAGESASAYA NIRNAY, Su Vani Vila Press. Srirangam, Madias Presidency, India convince
THE
Sabdikadarsa Series
॥ नागेशाशयनिर्णयः॥
Nagesasaya Nirnayan
No. 1.
Part I.
MEDHASRI PANDITA KAVISEKHARA
Pandit NARAYANA SASTRIGAL
OF RADHAMANGALAM,
$211207 kroje se lyalarana, Smshi at Collene, Travadı
ta!
SRIRANGAM
SRT VANI SUAS PRESS
1913
I
Copyright Registered]
(Price As. 6. Postage extra
NOTICE It is with greit please that we announce the publication of a new work on Vyakarana (alled NAGESASAYA NIRNAYA by Hechasi l'audit havisekhara l'undit R. Narayana Sastrigal, Senior l'rutessor of Vyakaran, Sanshut College, Trivadi. It goes without saying that Vyakarana is the most important and the most popular of all the Vedangas and among the various works on liharuna the Parıbhashendusehhara of Nagoji Bhatta takes a foremost place There are several commentaries on the Paribhashendusekhara but all of them are more or less adverse criticisms of the text Hence a leaned and at the same tine an appreciative commentary on this great worh was, up to now an essential desideratum To supply this real want is the plopeet of this ventue That Pandit R. Narayana Nastrigal is evnently fitted for the task he has undertaken is imply testitied to by Mahamahopadhyaya Pandit Subbarayachariar and others uho, as is well known), are thoroughly competent to pronounce an opmion on the subject This coinmentary is intended not only to expound faithfully the beliefs of Nagesa Bhatta as toplamed in his l'arıbhashendusekhara but also to eritically examine the various interpretations given by different other commentators A perusal of this part will surelv convince all readers of the 19efulness of this commentary. to keep it within the reach of all it is resolved to issue it in monthly parts of not less than 32 pages Royal Octavo for ANNAS 6 only per part pei 1 PP.) As only a limited number of copies arspunted, intendmg subscribers should apply at once to (As. 8 TITE MANAGER, SAGES ISAYA NIRVAYA, Sri Vani Vilas Piens, Srirangam. Madras Presidency, Tudia शान्दिकादशे प्रथमो बिम्बः ॥ ॥ श्री॥ ॥ नागेशाशयनिर्णयः॥ पदवाक्यप्रमाणपारावारपारीणपश्चनदपरिसरविराजमानपुवप्रहारप्रामाभि- जननवसालनगरीराजस्थानधर्माधिकारि, विविधग्रन्थनिर्माणचातुरीधुरीण श्रीगोपालपण्डितप्रकाण्डपादारविन्दसेवासमुद्गलितपदब्रह्मविलास- समुन्मेषेण वाग्वादिनीवीक्षणविलासव्यवस्थितसरसकविता- साम्राज्यसार्वभौमेन, वासुदेवकरुणावतारप्रथमतीर्थेन मद्रमहीशमश्रिमणि वी. कृष्णस्वाम्यार्यमहाशय- विभुराजसंकल्पितसज्जीविकेन, पचनदस्थराजकीय संस्कृतमहाकलाशालाव्याकरणप्रधानाध्यापकेन चोलमण्डलमण्डलायमानराधामङ्गलप्रामाभिजनेन बासुदेवोपनामकेन 'मेधाश्रीपण्डितकविशेखर' विरुदभूषितेन 'नारायणशास्त्रिणा' प्रणीतः। श्रीरजस्थ श्रीवाणीविलासमुद्रायनालये संमुद्रितः । १९१३.
No text on this page.
॥ श्री॥ ॥ विज्ञापनम् ॥ अनुगृहन्तु सुमनसः सादरमस्मदीयविज्ञापनाकर्णनावधानदानविहरणेन । यत्पुनरिदं विदितमेव तत्र भवद्भूनः विशिष्योपकारकं वेदाङ्गेषु व्याकरणम् , तत्रापि प्रधानं पाणिनीयमिति । गच्छता च कालेन प्रबन्धेवनेकेष्ववतीर्णेषु पाणिनीयसिद्धान्तप्रतिपादनप्रवणेषु समुल्लसितं सिद्धान्तपद्धतिपरिशीलनेन, सं. कुलं स्वारसिकयुक्तिमुक्ताकलापेन, समुज्ज्वलं स्वयमुल्लेखसहस्रेण, निबिडितं नव- नवशवासमाधानसंदोहेन, निरन्तरं नैयायिकरीतिवितानेन, महनीयं महा- भाष्यमर्मयोजनेन, कञ्चकितं कैयटभाववर्णनेन, तुन्दिलं तत्तदर्थपरिष्कारनि- कर्षेण, परिशुद्धं प्राचीनमतपेषणेन, विशेषितं विषयविशेषविवेचनेन, रसनीयं रहस्यार्थप्रकाशनेन, रजितं व्यसनया, अतिशयितमाशयेन, सलिप्तमक्षरेण, सुप्रसिद्ध इतो माकी वर्षद्विशत्यामुत्पन्नेन, अखिलेष्वपि तन्त्रेषु अप्रतिबद्धप्रस. रमसाधारणमामूलचतुरमन्यादृशमासादितेन निर्वर्णनीयं नैपुणम् , फणिपतिफ- णितिपयःपयोनिधि प्रकर्षेण प्रतिभापर्यायेण मनता निर्विकल्पकल्पनाशिल्पेन निरतिशयमहिममहितेन महामहोपाध्यायबिरुदभूषितेन नागेशभट्टाचार्येण सर्वेषामपि स्वोपज्ञानां सुदृढविषयविचारचारतरविलसितानां स्मृतिपथाधिरो. हणसौकर्याय परिभाषेन्दुशेखरादिकं प्रणीय प्रबन्धरत्नं बहूपकृतं पण्डितमण्ड- लस्येति न खलु विशिष्य विज्ञापनीयमभिज्ञसार्वभौमेषु । तत्र च परिभाषे. न्दुशेखरः परं सन्दर्भानुगुणं तत्तत्परिभाषासंयोजनेन संमोदमादधाति सुमे- घसाम् । तस्मिंश्च व्याख्यातेऽपि पण्डितप्रकाण्डैरनेकैरसाधारणमेधामहितः, न ते विषयविमर्शसरणी, कोटिमाटीकने, प्रमाणोपष्टम्भप्रकाशने, दुरूहोले- खशिक्षणे, दुर्वादिमुखमुद्रणे, क्रमाधिगतवादकोलाहले चेशत इति । अनाह- सोपाध्यायसूक्तिसंभूषितसंप्रदाय, अनभिज्ञातरासिक्यवैभवं, मनाकलितवा- क्यार्थविचारं, अवधूतमहाभाष्यार्थमर्मविवेचनं, अपगतनवीनसंप्रदाय, दुरा- (२) प्रहदूषणकलुषितं, दन्तुरयति चिन्तासहस्त्रैरान्तरं व्याख्यानमखिलं तदीयं वैयाकरणशिखामणीनाम् । अतश्च अविभिन्ननवीनसमयसेतुकं, नागेशभट्टोपा- ध्यायनिबन्धनिचयमर्मनिर्मोचनचणमधिगतभूषणप्रस्थानं, अपाकतान्तरालिक- कलई, विदारितविमतमतभेदं, परिशीलितपदार्थविवेचनं, प्रसभरमणीयं, परि- भाषेन्दुशेखरार्थप्रकाशनचणं, नागेशाशयनिर्णयाभिधानं नारायणशास्त्रिणा मेधाश्रीपण्डितकविशेखरबिरुदभूषितेन पञ्चनदस्थराजकीयसंस्कृतमहापाठशा- लाव्याकरणप्रधानाध्यापकेन निर्मितं निबन्धरत्नमासाद्य असाधारणमस्य समु- त्कर्ष सुदृढमाकलय्य तन्मुद्रणे प्ररूढः परितोषो वरीयानुद्यमश्च । अतिमह- वेदमन्तरा प्राहकजनानुग्रहं न चिरेणापि निर्वोढुं पार्यते । अतश्च सौकर्यमे- कमेव प्राहकमहाशयानां समालोच्य एकैकस्याः सश्चिकाया माणकषटकं परिकल्प्य मूल्यं महामहिम्नां प्रसादः परमाशास्यते ॥
॥ श्रीः ॥
॥ नागेशाशयनिर्णयः
%3D
<-
प्रपन्नार्तिपरीहारकलापारीणवीक्षणम् ।
विशिष्टजनसर्वस्वं वासुदेवमुपास्महे ।। १ ।।
कुलगिरिराजकुमारीकुचभरपरिरम्भसंभ्रमारम्भम् ।
कैरविणीविटमकुटं कण्ठेकालं भजामहे कमपि ॥ २ ॥
व्याकरणतन्त्रमूलं मुनित्रयं नौमि पाणिनिप्रमुखम् ।
अस्य समष्टिमपीडे गोपालाख्यं गुणान्यमाचार्यम् ॥ ३ ॥
गोपालसूरीन्द्रगुरूद्वहानां
पादारविन्दद्वयमाश्रयामि ।
नागेशभट्टाशयवर्णनेषु
यत्सूक्तिरेका जगति प्रशस्ता ॥ ४ ॥
गोपालपण्डिताधीशप्रसाद प्राप्तसन्मतिः ।
नारायणकविर्भूते नागेशाशयनिर्णयम् ॥ ५ ॥
श्रीमान्कृष्णस्वामिनामा द्विजन्मा श्रेयस्तोमप्राप्तिसंख्ढकीर्तिः ।
येनेवाभूत्कल्पिता जीविका मे कर्मण्यस्मिन् मां न्ययुत प्रभुः सः ।।
तदहं तदीयवचसः स्मरन्सुमेधःसहस्रसंसेव्याम् ।
पदवी प्रयातुकाम: साहाय्यं तत्र सुमनस: कुरुत ॥ ७ ॥
पण्डितेन्द्रैः प्रसीदद्भिः परिभाषेन्दुशेखरे ।
निष्कृष्टोऽर्थों गृहीतव्यो नागेशाशयनिर्णयात् ॥ ८॥
२ नागेशाशयनिर्णये [नाम- नत्वा साम्बं शिवं ब्रह्म नागेशः कुरुते सुधीः । बालानां सुखबोधाय परिभाषेन्दुशेखरम् ॥ नागेशवानिकरवारिधिपारवीक्षा. संपादनप्रवणसव्यवसायशीलः । गोपालदेशिकगश्चलकर्णधारः साहाय्यमाकलयतां मम सर्वदापि ॥ ९ ॥ अवधीरणामहर्निशमाविष्कुर्वन्रटत्वसाधुजनः । गृहन्तो गुणमेव प्रसिद्धयशसोऽपि सन्ति खलु सन्तः ॥ १० ॥ मूलमन्थे दूषणं दातुकामा: व्याकुर्वन्तु स्वेच्छया पण्डितेन्द्रा. । व्यावृण्वानो प्रन्थकाराभिसंधि दोषोद्धारे सर्वथा कश्चिदीष्टे ॥ ११ ॥ नागेशगूढाशयवर्णनेषु व्याख्यातृभिः कैरपि न प्रविष्टम् । आचार्यवानुगृहीतमेव पन्थानमाश्रित्य विवेचयामः ॥ १२ ॥ परमेश्वरप्रसादलब्धचतुर्दशसूत्रीमूलकत्वाच्छन्दशास्त्रस्य तत्तत्वावगतेश्च तत्प्रसादैकसमधिगम्यत्वेन तदनुग्रहसंपादनलम्पटं तत्प्रणामात्मकं मङ्गलमाचा. र्याध्यतृणामनुषङ्गतो मङ्गलाय च तदुपनिबध्नंश्चिकीर्षितं प्रतिजानीते-नत्वे. त्यादिना ।। स्वापकर्षबोधानुकूलो व्यापारो नतिः । तादृशापकर्षबोधे अपक- र्षावधित्वेन विषयत्वाद्ब्रह्मणः कर्मत्वम् । 'सन्तोषातिशयकाले प्रार्थना झटिति स्वाभीष्टघटनापटीयसी' इति न्यायाश्रयणेन साम्बत्वेन शिवो विशेषितः । साम्बम् , शिवम् , ब्रह्म, इति पदत्रयमुपादीयमानं अम्बयति जगदुत्पादयतीति म्युत्पत्या सर्वजगत्स्स्रष्टत्वस्य, ब्रह्मयति जगद्वर्धयतीति व्युत्पत्या सर्वजगत्पा- लकत्वस्य, शेते जगद्यस्मिमिति व्युत्पत्या सर्वजगल्लयाधिकरणत्वस्य च बोध.
साधुत्वम्] शास्त्रत्वप्रापकोद्देशः । ३ . . नात्सृष्टिस्थितिसंहारकर्तृत्वेन जगजन्मादिकारणं 'यतो वा इमानि भूतानि जायन्ते' इति श्रुतिप्रतिपादितं परं ब्रह्म प्रतिपादयति । 'साम्बं शिवम्' इति पदद्वयमुपाददानेन सतीदेवीसमेतस्यापि पितुः शिवभट्टस्य प्रणामकर्मतावग. म्यते अभिप्रेतेति । नागेश इति । नागानामीशो नागेश इति द्वितीयान्तम् 'अहरहर्नयमानो गामश्वं पुरुषं पशुम्' इत्यत्रेव अत्रापि विनापि चं समुच्चयः स्वीक्रियते । व्याकरणशास्त्रप्रणेतृत्वेन प्रसिद्धान् पत जलींश्च नत्वेति केचित् , तदापाततः । ' नागेशभट्टो नागेशभाषितार्थविचक्षण.' नत्वा फणीशं नागे. श' इत्याद्युद्योतशेखरादिषु स्वनामग्रहणाचारेण प्रकृतेऽपि तथैव वक्तुमौचि- त्यात् । न हि निषेधो विषयीकरोति ‘आत्मनाम-' इति स्वनामग्रहणम् । उच्चारणरूपमेवोच्यते ग्रहणं तत्र प्रहधातुनेति स्वनामोच्चारणमेव प्रतिषेद्धं प्रय- तमानो निषेधः कथं वा विषयीकरोतु प्रकृते लेखनम् । न हि लेखनेऽपि मानसमुच्चारणं नान्तरीयकम् इति प्रतिषेधः शक्यते प्रवर्तयितुम् । विप्र- तिषिद्धं खल्वेतत् । यदुच्चारणं ताल्वोष्ठपुटव्यापाररूपं तन्मानसमिति । यदि- तराग्राह्यं बौद्धसत्तासमाविष्टं तदेव चाङ्गीकुर्मो मानसमिति कथं वा निवार- याम: प्रकृते निषेधम् । नाग: पतञ्जलि: ईश: प्रवर्तको यस्येत्यन्तर्यामितया साक्षात्पतञ्जलिनैवायं प्रन्थः क्रियते न मया इत्यहंकारनिवृत्यर्थ यौगिकत्वाश्र यणेन योगजशक्तिमत्तया व्यावहारिकत्वेन ‘आत्मनाम-' इति वचनबो- धितस्य निषेधस्य प्रवृत्तियोग्यतामनवेक्षमाणा: 'नामान्तरसत्वे प्रमाणाभावाधि- न्त्यमिदम्' इति वदतो विश्वनाथभट्टस्य वदनकुहरं 'नागोजिभट्टः' इति नामा. न्तरोपलम्भेन पिधातुं प्रभवामः । एकादशेऽहनि पितृकृतनाम्रो गुप्तत्वेन अभि. वादनीयत्वेन च तेनाव्यवहार इत्येव समीचीनः पन्थाः । यदि पुनरिदमेव साक्षादुच्यते नाग ईश: प्रवर्तको यस्येति व्युत्पत्याश्रयणे जातिप्रवृत्तिनिमित्त- कद्रव्यविशेषवाचकनागशब्दसमभिव्याहृतस्य ईशशब्दस्य पूर्वनिपातापत्तिरिति तं प्रतिब्रुवीत नेदं वाक्यार्थचन्द्रिकोक्तं क्षोदक्षमम् । यतो 'विशेषणं विशेष्येण बहुलं' इति सूत्रे विशेषणविशेष्यपदद्वयमुपादत्ते पाणिनिः, तत एवं विज्ञायते कर्मधारयविषये जातिप्रवृत्तिनिमित्तकस्यैव तद्भिमप्रवृत्तिनिमित्तकशब्दसममि. व्याहारे विशेष्यत्वमित्येव नियम इति । अतश्च 'सप्तमीविशेषणे बहुब्रीहौ' इत्यत्र उभयमनुपलभमाना बहुव्रीहिविषये ताहशस्योत्पश्यामोऽभावं नियमस्येति ४ नागेशाशयनिर्णये [मात्मनेपद- जातिप्रवृत्तिनिमित्तकनागशब्दस्यैव विवक्ष्यते विशेषणता । अतो नागेश इत्यत्र न नागपदे ' सप्तमीविशेषणे बहुब्रीहौ' इति पूर्वनिपातप्रवृत्तिः शक्यते प्रतिह- न्तुम् । अत एव 'जानकीजानिः' इत्यादि सिध्यति । अन्यथा जानकीजानि- रित्यादौ गोत्रं च चरणैः सह' इति जातिकार्यातिदेशाजायाशब्दस्य जाति. भिन्नप्रवृत्तिनिमित्तकत्वेन तद्विशेषणत्वात्पूर्वनिपातापत्तिर्दुर्वारा । यदि च जान- कीशब्दो नैयायिकाभिमतजातिभिन्नप्रवृत्तिनिमित्तक एवेत्युच्येत, तर्हि स वक्तव्यो भुजगशयन:, कमलासनः, नरवाहनः, स्त्रीप्रमाण इत्यादौ पूर्वनिपात- मापाद्यमानमपवारयितुमन्विष्यतामुपायान्तरमिति । न हि पीताम्बर इत्याद्य- सिद्धिः । ‘कृत्तद्धितसमासास्त्वभिधानलक्षणाः' इति भाष्यमेव प्रमाणीकुर्व- न्तः पीतशब्दस्योत्तरपदार्थभूताम्बरपदार्थनिष्ठविशेष्यतानिरूपितस्य व्यावर्तक- त्वरूपविशेषणत्वस्य विवक्षया पीतशब्दस्यैवाभ्युपगच्छाम. पूर्वनिपातम । अ. नुकूलश्चास्माकं 'उत्तरपदार्थविशेषणस्यैव पूर्वनिपातार्थ विशेषणग्रहणम्' इति 'सप्तमीविशेषणे बहुव्रीहौ' इति सूत्रस्थः समासशेखरः । किं च नील इति सामान्योपक्रमे उत्पलस्यापि व्यावर्तकत्वरूपं विशेषणत्वमस्तीति तस्याव्यावर्त- कत्तया 'विशेषणं विशेष्येण बहुलम्' इति सूत्रे विषयताविशेषरूपविशेषण- स्वस्य ग्रहणेऽपि 'सप्तमीविशेषणे बहुव्रीहौ' इत्यत्र व्यावर्तकत्वरूपस्यैव विशे- षणत्वस्य ग्रहणेन नागेश इत्यत्र ईशत्वस्य विधेयत्वेन पूर्वमज्ञातत्वाव्यावर्तक- त्वाभावेन विशेषणत्वाभावान ईशशब्दे ‘सप्तमीविशेषणे-' इति पूर्वनिपा- तस्य प्रसक्तिरिति तमापादयन् वाक्यार्थचन्द्रिकाकारः स्थूलदृश्वेति स्पष्टं सुमे. धसाम् । मानसोचारणस्य श्रेयोविरोधित्वाभावेन श्रेयाविरोधिन एवोच्चारणस्य परस्य स्वनामप्रतिपत्तिजनकस्य निषेध. श्रेयस्कामो न गृहीयादिति वाक्य- शेषेणावगम्यत इति लेखने निषेधस्य न प्रसक्तिरित्येव युक्तः पन्थाः ॥ कुरुत इति । अनायासबोधजन्यसुकृतस्य तज्जन्ययशसो वा आत्मगामित्वेऽपि सुखबोधरूपफलोद्देशनैव प्रन्थकरणप्रवृत्तेः 'बालानां सुखबोधाय' इत्यनेन बोधनात्सुखबोधरूपफलस्य च परगामितया ऋत्विजो यजन्ति' 'देवदत्त: पचति' इत्यादाविव स्वान्यविषयकेच्छानधीनेच्छाविषयत्वरूपक्रियाजन्यमुख्य- फलत्वाभावेन 'स्वरितनित:-' इति सूत्रेणामनेपदाप्राप्तावपि 'गन्धनाव- क्षेपण-' इति सूत्रेण प्रकथने आत्मनेपदसिद्धिः । प्रकथनं च प्रकाशनं सिद्धिः] शास्त्रत्वप्रापकोद्देशः। ५ . . , व्याख्यानमिति यावत् । 'यजमानो यजते' इत्यादौ दक्षिणारूपफलस्य पर- गामित्वेऽपि मुख्ययजनजन्यफलस्य स्वर्गरूपस्य यजमाननिष्ठत्वेन आत्मनेप- दम् । तथा सुखबोधरूपपरोपकृतिजन्यस्वर्गरूपस्य फलस्य यशोरूपफलस्य वा आत्मगामित्वादात्मनेपदम्' इति यागेश्वरायुक्तं न युक्तम् । ' लोकतो वेदतो वा यदुदंशेन क्रियाप्रवृत्तिरवगता तदेव न दक्षिणादिरूपम् , तच्च पच्यादौ भोजना- दि लोकतोऽवगतम्, यज्यादौ स्वर्गादि श्रुत्या अवगतम्' इति ' स्वरितमित---' इति सूत्रस्थतिङन्तशेखरपर्यालोचनया 'यजमानो यजते' इत्यादावात्मनेप- दस्य ऋत्विजो यजन्ति' इत्यादौ परस्मैपदस्य च सिद्धी प्रकृते बालानामना- यासबोधरूपफलोदशेनैव व्याख्यानप्रवृत्तलॊकतोऽवगमेन सुखबोधस्य च बा- लनिष्ठत्वेन कर्तृगामित्वाभावात् आत्मनेपदप्रतिपादनस्य व्याहतत्वात् । 'सि- द्धान्तकौमुदीव्याख्यां कुर्मः प्रौढमनोरमाम्' इत्यादौ तु व्याख्यापदसमभिव्या- हारेण ‘स कीचकैर्मारुतपूर्णरन्धैः' इत्यादाविव 'विशिष्टवाचकानां पदानां सति विशेषणान्तरसमवधाने विशेष्यमात्रपरत्वम्' इति न्यायेन कृञ्धातो- रुत्पादनमेव तत्रार्थ इति नात्मनेपदप्रसक्तिं पश्यामः । न हि 'नाविस्तीर्ण न वि. स्तीर्ण मध्यानामपि बोधकृत् । भाष्यप्रदीपव्याख्यानं कुर्वेऽहं तु यथामति' इत्युद्योतारंभश्लोके न प्रसज्यत एवात्मनेपदम् । यतो व्याख्यानपदसमभिव्य- हारेण तत्र कृब्धातोः न प्रकथनमर्थः । गन्धनावक्षेपण-' इति सूत्रेण उपयोगे आत्मनेपदविधानेन तत्सिद्धेः । उपयोगश्च 'धर्मादिप्रयोजनो विनि- ' इति स्पष्ट वृत्त्यादौ । नचैवं 'कुर्मः प्रौढमनोरमां' इत्यत्राप्युपयोगे तङस्त्विति शङ्कयम् , उद्योतारंभे 'मध्यानामपि बोधकृत्' इत्युक्ते: बोधजनन- प्रयोजनविनियोगरूपस्य उपयोगस्य लाभेनात्मनेपदसिद्धौ ‘कुर्मः प्रौढमनोरमां' इत्यादावुपयोगलाभप्रकारानुपलंभेन तदापादनं भवति दूरापास्तमेव । एतेन 'यशसः शिष्याणामनायासज्ञानजन्यसुकृतस्य च आत्मगामित्वादात्मनेपदम्' इति सर्वमङ्गलाद्युक्तमनादरणीयमेव | तद्रीत्या यशःस्वर्गलाभायुद्देशेन प्रन्थ- करणप्रवृत्तेर्यशोरूपादिफलस्य चात्मगामित्वेन 'कुर्मः प्रौढमनोरमाम्' इत्या. दावामनेपदय दुर्वारत्वात् ।। सुधीरिति ।। विद्वान् कल्पक इत्यर्थः । सदसद्वि. वेचनैकधुरीण इति फलितम् । 'वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च' इति स्मरणात् 'अद्य रामस्य राम- नागेशाशयनिर्णये [व्याख्येयपरि- प्राचीनवैयाकरणतन्त्रे वाचनिकान्यत्र पाणिनीयतन्त्रे ज्ञापक- त्वं पश्यन्तु हरियूथपाः' इत्यादिकमनुसन्दधानः स्वस्य ऊहापोहादिकौशलेन प्रशस्तबुद्धिमत्वादनितरसाधारणमनेन प्रौढप्रबन्धनिर्माणचातुर्य सूचयति । सीरदेवप्रणीतपरिभाषावृत्ते: परिभाषार्थनिर्णयो न संभवत्येवेति निर्णयेनाह- बालानामिति । बालत्वं चात्र लक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगिविधि- शास्त्रीयबोधप्रयोजकपरिभाषानिष्कृष्टार्थजिज्ञासुत्वम् ॥ सुखबोधायेति ॥ सुखमनायासः, प्रयोजकत्वं चतुर्थ्यर्थः ॥ परिभाषेन्दुशेखरमिति ॥ परिभाषा- मधिकृत्य कृतो ग्रन्थ: परिभाषा । 'लुबाख्यायिकाभ्य' इति बहुवचननिर्देशेन आख्यायिकासदृशेभ्योपि तद्भिन्नेभ्यो लुप्सिध्यति । परिभाषा इन्दुशेखर इवे- त्युपमितसमास: । सादृश्यमभीष्ठार्थप्रकाशकत्वेन । यद्वा परिभाषैव इन्दुः परि- भाषेन्दुः मयूरव्यंसकादित्वात्समासः स शेखरो यस्येति व्युत्पत्या प्रसिद्धचन्द्र- शेखरापेक्षया विलक्षणोऽयं ग्रन्थश्चन्द्रशेखर: तत्कार्यकारित्वात् । तथा च वि. धिशास्त्रीयबोधप्रयोजकपरिभाषार्थनिष्कर्षप्रतिपादकग्रन्थविशेषमिति फलितम् । लौकिकवैदिकव्यवहारसाधुत्वासाधुत्वनिर्वहणधुरीणस्य सूत्रात्मकस्याष्टकस्यास्य पाणिनिप्रणीतस्य कृत्स्नस्य व्याकरणशास्त्रस्य परिभाषार्थनिष्कर्षानुदये लक्ष्य- धर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधानुदय इति परिभाषानिष्कृष्टार्थज्ञानमा- वश्यकमेवेति सूचितम् । प्रन्थाध्ययनविषयकप्रवृत्तिप्रयोजकज्ञानविषयत्वरूपानु- बन्धचतुष्टयमुत्तरार्द्धन सूचितम् । परिभाषैकवाक्यतापनविधिवाक्यार्थबोध- जन्यसाधुत्वज्ञान प्रयोजनम् । परिभाषावाक्यार्थों विषयः । बालोऽधिकारी- त्याधनुसन्धेयम् ॥ अथ किमिदं परिभाषात्वम् । न तावत्सकेतप्राहकभिन्मत्वे सति विध्य. पेक्षितार्थसमर्पकत्वम् , अधिकारादावतिव्याप्तेः । नाप्यनियमे नियमकारि. त्वम् , अव्याख्याताष्टाध्यायीपठितपरिभाषास्वतिव्याप्तः । न वा लिङ्गवत्वे सति सन्दिग्धार्थनिर्णायकत्वम् , अत्रत्यवाचनिकीष्वव्याप्तः । अष्टाध्यायीपठित- परिभाषास्वतिव्याप्तेश्चेत्यत: परिभाषाखरूपमन्यादृशं निरूपयति-प्राचीने- त्यादिना ।। प्राचीनवैयाकरणानामिन्द्रादीनाम् । तवे-शास्त्र इत्यर्थः ।। वाच- निकानीति ॥ वचनमेव प्रयोजनं कारणं येषामिति वाचनिकानि 'प्रयोजनम्' खरूपनिरूपणम्] शास्त्रत्वप्रापकोद्देशः । न्यायसिद्धानि भाष्यवार्तिकयोरुपनिबद्धानि यानि परिभाषारूपाणि तानि व्याख्यायन्ते ॥ . इति ठम् । वचनेनैव वाचैव साधितानीत्यर्थः ।। ज्ञापकन्यायसिद्धानीति ।। ज्ञापकं चैतच्छास्त्रीयं लिङ्गम् । तच्चान्यथानुपपत्या कल्प्यमानस्य कस्य चिदंशस्य साधकम् । अन्यथानुपपत्तिश्च आनर्थक्येनास्कन्दितस्यैव । एवं च वैयर्थेनैव ज्ञापनम् । यत्र वैयर्थ्य तत्र स्वांशे चारितार्थ्यमुपपादनी- यम् । यत्रानौचित्यं तत्र स्वांशे औचित्यमप्युपपादनीयम् । एवमन्यत्र फलद. निमपि । न्यायश्च एतच्छास्त्रलोकतन्त्रान्तरप्रसिद्धयुक्तिः । न्यायस्य लौकि- कत्वेन तदपेक्षया शास्त्रीयत्वेन शास्त्रस्य च ऋषिप्रणीतत्वेन स्मृतित्वात्स्मृत्यनु- गृहीतत्वेन ज्ञापकसिद्धस्याभ्यर्हितत्वात् ज्ञापकशब्दस्य द्वन्द्वे पूर्वनिपातः । ज्ञा- पकसहितो न्यायः इत्यपि समासः । तेन ज्ञापकसिद्धानि, न्यायसिद्धानि चेति लब्धम् । झापकं च द्विविधम् । सूत्रस्थं भाष्यस्थं चेति । तेन भाष्यध्वनित. परिभाषाणाम् कार्यमनुभवन्-' इत्यादीनां भाष्यस्थज्ञापकसिद्धत्वान्नि- रूपणमुपपद्यते । सूत्रस्थज्ञापकसिद्धानि 'नानुबन्धकृतमनेकाल्त्वम्' इत्या- दीनि । भाष्यस्थज्ञापकसिद्धानि 'लुग्विकरणालुग्विकरणयो:-' इत्या- दीनि । न्यायसिद्धानि 'सन्निपातलक्षणो विधिरनिमित्तम्- 'यथोहे- शम्-' इत्यादीनि । उभयसिद्धानि अनेकान्ताः' एकान्ताः इत्या- दीनि ॥ भाष्यवार्तिकयोरुपनिबद्धानीति ॥ भाष्यवार्तिकयोः वचनरू- पेण पठितानीत्यर्थः । ज्ञापकन्यायौ विना ताभ्या प्रतिपादितानीति यावत् । तेन भाष्योपनिबद्धानि वार्तिकोपनिबद्धानि चेति लब्धम् । तानि च झापक- न्यायासिद्धानीति तेषां पृथगुपादानम् । भाष्योपनिबद्धानि 'निर्दिश्यमा- नस्य-' इत्यादीनि । वार्तिकोपनिबद्धानि 'स्त्रीप्रत्यये च-' इत्यादीनि । एवं च भाष्यवार्तिकोपनिबद्धानि इत्येका कोटिरिति केषां चिव्याख्यानं नाद- रणीयम् । यत्तु- सर्वमङ्गलाकारः । सूत्रपाठानवगतत्वे सति भाष्यवा- तिकावगतत्वं भाष्यवार्तिकनिबद्धत्वम्' इति निरवोचत् तदसङ्गतम् । 'निर्दि- श्यमानस्यादेशा भवन्ति' इत्यस्य सूत्रपाठावगतत्वेनाव्याख्येयतापत्तेः ।। परि- भाषारूपाणीति ॥ प्रशंसायां रूपम् । 'कचित्स्वार्थिकाः' इति नपुंसकत्वम् ।
८ नागेशाशयनिर्णये। ['व्याख्यानतः-' आगम- प्रशस्ता: परिभाषा इत्यर्थः । प्राशस्त्यं च बहुप्रयोजनवत्वम् । तेन । शास्त्रमनित्यम्' 'संज्ञापूर्वको विधिरनित्यः' इत्यादीनां बहुप्रयोजनववाभावा- भाव्याख्यानं दोषः । तेषां निरूपणं तु खण्डनायैवेति बोध्यम् । एवं च भाष्य. वार्तिकयोरुपनिबद्धानीत्यस्य 'भाष्यवार्तिकसम्मतानीत्यर्थः' इति विश्वनाथभट्टा. युक्ति तीवादर्तव्या । एवं सिद्धादिशब्दस्य अर्श आधजन्तत्वकल्पनया वाच- निकत्वसंग्रहो भीमाचार्यादिभिराश्रितः काकदन्तपरीक्षातुल्ययोगक्षेमः । परि- भाषा च ज्ञापकसिद्धा, न्यायसिद्धा, उभयसिद्धा, भाष्योपनिबद्धा, वार्तिको- पनिबद्धा चेति तत्र तत्र वक्ष्यते । न च भाष्यवार्तिकयोरुपनिबद्धानि परिभा- षारुपाणीतीयतैवालम् । भाष्यवार्तिकयोरुपनिबद्धत्वं च भाष्यवार्तिकमात्रावग- तत्वम्। तच्च पाणिनीयसूत्रपाठानवगतत्वे सति भाष्यवार्तिकावगतत्वम् । एवं च सर्वेषामपि संग्रह इति शङ्कथम् , निर्दिश्यमानपरिभाषायाः सूत्रस्थज्ञापकसिद्धा. नां च पाणिनीयसूत्रपाठावगतत्वेनासंग्रहापत्तेः । व्याख्येयपरिभाषात्वंच 'प. रितो व्यापृतां भाषां परिभाषां प्रचक्षते' इत्यभियुक्तोक्तेः परितः सर्वतः शास्त्रेषु असन्दिग्धानाहार्याप्रामाण्यज्ञानानास्कन्दितलक्ष्यर्मिकसाधुत्वप्रकार- कज्ञानोपयोगिबोधप्रयोजकत्वरूपव्यापारवती भाषा वचनरूपा इत्यर्थावगमात् पाणिन्युश्चरितभिन्नत्वे सति असन्दिग्धानाहार्याप्रामाण्यज्ञानानास्कन्दितलक्ष्य धर्मिकसाधुत्वप्रकारकज्ञानोपयोगिविधिशास्त्रीयबोधप्रयोजकत्वप्रकारकतात्पर्य विषयत्वमिति बोध्यम् । 'भाष्यवार्तिकसम्मतत्वे सति ज्ञापकन्यायसिद्ध- त्वं व्याख्येयपरिभाषात्वम्' इति विश्वनाथभट्टोकं तु न युक्तम् । ज्ञापक- न्यायासिद्धानां 'स्त्रीप्रत्यये चानुपसर्जने न' इत्यादीनामसंग्रहापत्तेः । न हि ज्ञापकन्यायासिद्धानि व्याख्येयपरिभाषारूपाणि नैव सन्तीति वक्तुं श- क्यते 'यस्मिन्विधि: इत्यादौ ‘वाचनिक्येषा' इत्याद्युल्लेखेन तेषां ज्ञापकन्यायसिद्धत्वाभावबोधनात् । नहि भाष्ये ज्ञापकन्यायौ नोपन्यस्ता- वित्येव तदर्थ इति वक्तुं युज्यते । तत्र भाष्यानुग्रहगन्धाभावे तदभावः सुत. रामित्यलम् ॥ - अथ शास्त्रत्वसंपत्तिमन्तरा बाधचिन्ताया अनुदयाच्छास्त्रत्वप्रापिकाणां 'एकदेशविकृतम्-' इत्यन्तानां परिभाषाणां पूर्व व्याख्यानमुपक्रममाणो परिभाषा] शास्त्रत्वप्रापकोदेशः। or ननु लण्अइउणसूत्रयोर्णकारस्यैवोपादानेनाणिग्रहणेषु सन्देहाद- निर्णयोऽत आह-- ज्ञापकसिद्धस्यैवादी व्याख्येयत्वेन ज्ञापकत्वस्य च व्याख्यानैकसमधिगम्यत्वेन व्याख्यानस्य च शास्त्रार्थनिर्णायकत्वेन पाणिनिसूखमूलभूतचतुर्दशसूत्रान्तर्गत- लणसूत्रीयणकारानुबन्धमूलकत्वादभ्यर्हितत्वेन च 'सिद्धे शब्दार्थ-' इत्यत्र भाध्ये प्रथममुदाहृतत्वेन च पतञ्जलिकृतव्याख्यानस्य यथोत्तरं प्रामाण्यं महे- श्वरेणाप्यातमिति बोधयन् सर्वोपयोगिनी पूर्व व्याख्यानविषयां परिभाषामव- तारयति- - नन्विति ॥ अणिण्पदघटितसूत्रेषु तद्धटकेऽणादिपदे लण्सूत्रीयण. कारघटितं वा अण्पदम् , अइउणसूत्रीयणकारघटितं वा अण्पदमिति पदशक्तिमन्देहात्पदार्थसन्देहेन वाक्यार्थसन्देहः । तन्मात्रेण च अप्रामाण्यं अननुष्ठापकत्वलक्षणमापद्यते । ततश्च शास्त्रत्वमसन्दिग्धानाहार्याप्रामाण्यज्ञाना- नास्कन्दितलक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधजनकत्वरूपं न संपद्यत इति अनर्थकं भवत्यणादिपदघटितमशेषमपि शास्त्रम् । ततश्चाननुष्ठापकत्वलक्ष- णमप्रामाण्यमास्कन्दि न हि निश्चित बोधमुपजनयतीति प्रामाण्यानुपयोगि, का. कदन्तपरीक्षणवदवा स्यात् ' अणुदित्मवर्णस्य चाप्रत्ययः' इत्यादिकं शास्त्रम् । न हि केनापि दुरपलपं तस्मिन्वैयर्थ्यम् । यच्च ‘वर्णेनाप्यनर्थकेन न भवितव्यम। किं पुनरियता सूत्रेण' इति वृद्धिसूत्रस्थेन भाष्येण बोधितं फलमाक्षिपदलं भवंति व्याख्यानपरिभाषाज्ञापने, ज्ञापनं च संपादयत् 'अणुदित्सवर्णस्य. चाप्रत्ययः' इत्यादिशास्त्रमहो भवति चरितार्थमात्मांशे निर्णीयमानं व्याख्या- नाधीनया संशयनिवृत्या । एवं च सन्दहमुपजनयितुमासज्यमानो णकारो न प्रत्याहारादिकं प्रवर्तते फलं प्रतिपादयितुम् , येन ‘हयवरलट्' इति न्यासान्तरमपि 'इको यणचि' इत्यादावनुबन्धान्तरासंजनेन यडादिकं प्रत्याहारं निर्वोदुमीष्टे ।। अथाश्रिते यडादिप्रत्याहारे स्यादेव लकारग्रहणमापदितमन्प्रत्याहार इत्युच्यते, तथा सति 'रषाभ्या-' इति सूत्रे 'रोरि' इति लोपितं द्विरेफनिर्देशन प्र. श्लिष्टमुत्तरसूत्रीयाविशेषणार्थकं को हि नाम न विजानाति । विशेषिते च पूर्व- . N. 2 नागेशाशयनिर्णये ['व्याख्यानत:- - - - रेफे रेफावधिकैरटप्रत्याहारबोध्यवर्णैर्व्यवायेऽपीत्यर्थमाश्रयताम् । यश्च प्रागापा. दितं दोषमाक्षेप्नुमीष्टे । न हि प्रश्लेषेण गौरवं शक्यते वक्तुम् , यतः णकारानुच्चा- रणं पृथक्सूत्राकरणं असन्देहश्च संपद्यत इति महदेव फलमुपलभ्यते ॥ यदि पुनरिदमेव साक्षादुच्यते, 'विभाषेटः' इत्यादौ 'इण: पीध्वम-' इत्यादिष्वि- डेव वक्तव्य: पूर्वस्मिन्निट्पदे विप्रतिपद्येत इति । तत्रेयं महती वाचोयुक्तिः । षीध्वमादिः खलु विशेषितो भवत्यङ्गेन । क्लप्तं हि तत् । क्लापरित्यागे प्रति. पादनीयं हि प्रमाणं बलवत् । अपि च बाधितमव्यवहितोत्तरत्वं षीध्वमादेरि- डागमाव्यवहितोत्तरेटप्रत्याहारबोध्यवर्णापेक्षया । अवयवत्वावच्छिन्नविधेयताश्र- यत्वं खलु निर्णीतमागमत्वस्वरूपतया । अवयवत्वं हि तत्र सनिरूपकम । नि- रूपकश्च प्रत्यासत्या इप्रत्याहारबोध्यवर्ण इत्येवावश्यमङ्गीकर्तव्यः । 'दीधी- वेवीटाम् ' ' इट ईटि' इत्यादौ च न दोषविशेषावगति. । आदौ इडागम- भिन्ना: न प्राप्नुवन्ति खलु गुणम् । दीधीवेवीग्रहणमप्यनुकूलमागमत्वे । अ- न्ते साहचर्य हि प्रत्याहारं प्रतिहन्ति । एवं 'आर्धधातुकस्येडुलादे.' इत्यत्रापि न प्रत्याहारग्रहणप्रसक्तिः । प्रत्याहारशक्तिप्राहकसूत्रे अविधीयमान इत्यर्थका- प्रत्ययपदानुवृत्यैव तद्वारणात् । न चैतावता 'किं पुनर्वर्णोत्सत्ताविवायं णकारो द्विरनुबध्यते' इति लणसूत्रस्थभाष्यस्वारस्यभङ्गः ॥ यत्तावदभिहितं वर्णो- च्छेदे कर्तव्ये इति । तत्रेदमुच्यते-- 'हयवरलट्' इति न्यासान्तरमाश्रित्य लणसूत्रीयणकारस्य छेदे कर्तव्ये इत्येवार्थ इति । अन्यथा वर्णोत्सत्तौ- इति न ब्रूयात् । 'इवायं णकारो द्विरनुबध्यते' इति तदुत्तरभाष्यमपि एव- मेव योजनीयम् । अइउणसूत्रीयणकार इवायं लणसूत्रस्थो णकार: उप- दिष्टः । कुतो द्विरनुबध्यते महेश्वरेणेति । 'वर्णान्तरमनुबन्धः किं न क्रियते' इति कैयटोऽपि णकारं छित्वा हयवरलट्' इति न्यासेन टोऽनुबन्धः कुतो न क्रियते इत्याशयक इति न तद्विरोधः । उद्योते तावत् " तत्र लाघवाद्वर्णा- न्तरमेव किं नानुबध्यते' इत्याशयेनाह- भाष्ये 'किं पुनरिति" इत्युक्तम् । अत्र ब्रूमः । यथाश्रुते ‘हयवरट्' इति सूत्रे श्रावणप्रत्यक्षगोचरं टकारमुपलभ- मानस्य यष्टकारः पूर्वमुपदिष्टः स एव 'हयवरलट्' इति न्यासाश्रयणेन किं नानुबध्यते इति नूनमाशङ्का जायत एवेति भाष्याशय इति उद्योतकारेणाभि- प्रेतमिति । कथमन्यथा पकाररूपानुबन्धान्तरासंजने, 'हण्' 'यवरलट्' इति - परिभाषा] शास्त्रत्वप्रापकोद्देशः । न्यासकरणे वा लाघवमनवेक्षमाणो वक्तुमेवं प्रवर्तेत । ईदृशी हि तस्य प्रवृत्तिः लाघवावगतिपूर्विकैव भवितव्या । यतः वर्णान्तरमेव' इत्युत्तरत्र एवकार. मुपादत्ते । तत्र लाघवायेत्यस्य युज्यते न प्रतिपत्तिलाघवायेति व्याकर्तुम् । यतो भवति निष्फलमुत्तरत्रैवकारग्रहणम् । अणादिपदेषु प्रयासेन महता न कर्तव्यः परिहारः संशयस्येति बोधनायैव प्रतिपत्तिगौरवमिति पूर्वमुक्तम् । इदमेव च विवृण्वानो भगवान् भाष्यकार: ‘णकारो द्विरनुबध्यते पूर्वश्चैव परश्च, तत्रा- ग्रहणेषु सन्देहो भवति पूर्वेण वा स्यु परेण वा' इति लणसूत्रारम्भे स्पष्टम- भिधत्ते ।। यो हि 'अइउण्' 'लण्' सूत्रयो. णकारद्वयमुपलभमानः तस्यानर्थ- त्वं जानाति, स तावत् ततो मन्यते यथाश्रुतन्यासे यष्टकारः पूर्वः ‘हयवरलट्' इति न्यासान्तरकरणेऽपि स एव न वर्णान्तरमिति लाघवं सन्देहाभावं च ॥ यो वा मोहाल्लणसूत्रेऽपि अइउणसूत्रीयणकारात्परं णकारमुपदिष्टमुपलभमानः तस्यानर्थत्वं न जानाति, स एव खलु सन्दिहानो भवति अणग्रहणेषु दृष्टेषु अ- ण्पदघटितसूत्रेषु । संशेते हि पूर्वभूतअइउण्सूवघटकणकारेण वा घटितमणप- दम , परभूतलणसूत्रघटकणकारेण वेति । एवमिण्ग्रहणेषु दृष्टेषु इण्पदघटितसू. त्रेषु । कथमन्यथा ब्रूयात् 'पूर्वश्व परश्च वा' इति । वक्तव्यं खलु स्यात् पूर्वत्र परत्र चेति । ‘णकारो द्विरनुबध्यते' इति हि ब्रुवाण: पूर्वत्र परत्र च तदुपल- ब्धुमीष्टे । ‘णकारो द्विरनुबध्यते' इति ब्रुवता पूर्वत्र परत्र च तदुपलभमानेन स्पष्टमुच्यते 'पूर्वेण वा परेण वा' इति । तदुभयसूत्रानुगतं संशयमात्रोत्पत्या. लम्बनमाचरितं णकारोच्चारण लणसूत्रे ललाटलोचनेन । इदमेव व्याकुर्वा. णेन भगवता विचारितं लण्सूखे । कथमन्यथा स्वतन्त्रोऽपि 'हयवरट' इत्यत्र हकारमिवोपलभमानो न पूर्वत्र अइउणसूत्रे प्रवर्तेत विचारयितुम् । एवमेव लणसूत्रीयणकारस्य संशयमात्रोत्पादनं फलमाशयानेन 'सन्दिग्धोचा. रणरूपाचार्यव्यवहारेण' इति अग्रे मूलकारेण वक्ष्यते ॥ इदमन तत्वम्- यदुत्पादयति गकारः संशयमात्रं तद्धटितपदघटितं शास्त्रमास्कन्दितमप्रामाण्येन अननुष्ठापकत्वलक्षणेन अनर्थकत्वमात्मनो मुक्तकण्ठमाविष्करोतीति परिभाषा- भवति पर्याप्तमिति पतञ्जलिवचनमेव प्रबलमिति बोधयनपूर्व 'यथो- त्तरं मुनीनां प्रामाण्यम्' इति एतदीष्टे स्पष्टं प्रतिपादयितुमिति महेशगूढाकू- तम् । इदमेव च व्याघृण्वानो मूलकार‘सन्दिग्धोचारणरूपाचार्यव्यवहारेण - । - ज्ञापने १२ नागेशाशयनिर्णये ['व्याख्यानतः- , ख्यानतः- - सन्देहनिवृत्तेाख्यानातिरिक्तनिमित्तानपेक्षत्वं बोध्यत इति यावत्' इति स्पष्ट- मुपरिष्टादुपपादयिष्यते । आशयानश्चामुमेवार्थ 'तसिद्ध एवायमर्थः णकारानु- बन्धरूपस्वव्यवहारेण बोध्यते' इत्यभिदधानो मूलकारः स्वाशयं प्रकाशयत्युद्यो- तेन । तस्माण्णकारो लणसूत्रीय: सन्देहमात्रमुपजनयितुमुपात्तः प्रमथपतिनैति 'अणुदित्- ' 'इको यणचि' इत्यादावाश्रयमाणोऽनुबन्धं णकारमेव प्रवर्तते प्रत्याहरणे । यतो महेश्वरोऽपि णकारमनुबध्नन न्यासमपर 'हयवरलट्' इत्या. श्रित्य, 'अणुदित्-' इत्यादौ न प्रत्याहरेत् अडादिकमिति बोधयन् सशय- मेव प्रयतमान संपादयति । संशयश्च परमास्कन्दितमात्मना, असन्दिग्धत्व- मपनन् लक्ष्यधर्मिकं साधुत्वप्रकारक च ज्ञानमुपयोजयितुमुद्भुरं शास्त्रस्य प्र- तिहन्ति बोधम् । बोधमात्रं तादृशमधिकृत्य प्रणीयमानं प्रयोजनप्रतिमुक्त न हि न भवति निरर्थकं शास्त्रम् । प्रयासेन महता प्रणीतं पाणिनिनेदं शास्त्र- मानर्थक्यमात्मनोऽभिसन्दधानं प्रयोजनं पर्यन्विष्यत् कल्पयितुमलं 'व्या- इति परिभाषाम। न हि गकारः साक्षादीष्ट कल्पयि- तुम । यदेतद्वयावृण्वानो मूलकार: शिद्रहणादिकमिव णकारममन्वानो वैयर्थ्य- मनापादयन्नेव णकारोपदेशस्य ‘णकारस्यैवोपादानेनाणिप्रहणेषु सन्देहाद- निर्णयः' इति स्पष्टमवतारयति । तत्सकलमिदमभिप्रत्याभिधत्ते- लण्अइ. उणसूत्रयोरित्यादिना ॥ णकारस्यैवोपादानेनेति । एवकारोऽत्र भिन्नक्रमः । 'लणसूत्रे' इति शेषः । पृथक्प्रणीय लणसूत्रं णकारस्योपादानेनैवेत्यर्थः । कथ- मन्यथा 'लअइउणसूत्रयोः' इति द्विवचनमनुसंधानो णकारयोरिति नोपक्र- मेत वक्तुम् । ‘णकार' इति भाष्यमपि लणसूत्र एव विचारेण तत्परमेवेति युज्यते वक्तुम । अभिदधानश्च ‘णकारस्यैवोपादानेन' इति मूलकारः सूचयति पूर्वमविचारयत: अइउणसूत्रे भगवतो भाष्य कारस्याभिमतामाशङ्कां 'हयवर. लट्' इति न्यासान्तरमाशयानस्यैव । न हि णकारस्येत्येतदन्वतुं लण्अइउणसूत्र- योरित्यत्र युज्यते । ब्रूयात्खलु तथा सति ‘अइउण्लणसूत्रयोः' इति । यदि हि पूर्वनिपातः स्यादल्पाच्वनिमित्तकः, तथा सत्यापतति प्राथम्येनाहितत्वाद- इउणसूत्रस्यैव पूर्वनिपतनीयता । मम तु मते लणसूत्रीयो णकार: संशयमा- त्रोत्पादनफलकः परमेश्वरेणोपविष्ट इति बाधमानः कपिजलाधिकरणन्याय- मुत्पद्यते लणसूत्रीयणकारघटितप्रत्याहारविषयक एव संशयः पूर्वमिति 'लम- ॥ । ।
परिभाषा] शास्त्रत्वप्रापकोद्देशः। १३ इउणसूत्रयोः' इति ब्रुवाणो मूलकारः परमनुकूलः । द्विकोटिकोऽपि न हि सं. शयस्तथात्वे अइउणसूत्रीयणकारघटितप्रत्याहारविषयकोऽपि भवति । भातोऽपि णकारघटितत्वाभावो न पूर्वमइउणसूत्रीयणकारघटितत्वमवगमयति । पार्मिकं हि तत् । यदि हि स्यादाश्रितं ' हयवरलट्' इति न्यासान्तरम् , तथा सति न भवेदुपात्तो णकार इति लाघवं संशयाभावश्चेति अनास्कन्दितमप्रामाण्येनान- नुष्ठापकत्वलक्षणेन शास्त्र प्रयोजनवदेवावगम्यत इति सर्वेष्टसिद्धिः ॥ अणिण्- ग्रहणेष्विति ।। अणिणौ गृह्यते एष्विति व्युत्पत्या अणिणन्यतरपदघटितसूत्रे- वित्यर्थः फलितः। आधेयत्वं सप्तम्यर्थ.। तद्बटकाणादिपदेष्विति यावत् ॥ स. न्देहादिति ॥ अत्रैव लण्अइउणसूत्रयोरित्यस्य संबन्धः । अणादिपदं लण्सूत्रवृ. त्तिणकारन्तसमुदाये शक्तं वा, अइउणसूत्रवृत्तिणकारान्तसमुदाये शक्तं वा, इति पदशक्तिसन्देहादित्यर्थः । यदि च संशयस्य परिपन्थिनी प्रत्यासत्ति:, बाधिता खलु सा भवति णकारमनुबनता लणसूत्रे महेश्वरेण । न हि तावता णकारस्य शक्तिः प्रतिहन्यते सशयस्योपजनने । प्राग्रीश्वरान्निपाता:' इति रेफवि. शिष्टग्रहणं कुर्वाण: पाणिनिरेवाचार्यः प्रत्याययति प्रत्यासत्यपेक्षया व्याप्तेर्बल- वत्तामिति प्रत्यासत्तिव्याप्ती परस्परं विप्रतिषिद्धे प्रकृते न हि निर्वोढुं शक्नुत इति न खलु विहन्यते संशीतिः । यदोपेक्षितं त्रयाणामिति पदग्रहणमाचा- येण 'निजां त्रयाणाम्-' इति सूत्रे, तदा स्यादस्मिन्नपि शास्त्रे निष्प्रति. बद्धप्रसरः कपिजलाधिकरणन्यायः ॥ अथ अण्पदत्वं शक्ततावच्छेदकं, श- क्यतावच्छेदकं च अकारादिणकारान्तसमुदायघटकत्वम् , अथवा अकारादि- णकारान्तसमुदायघटकबोध्यत्वमित्युभयमेकमेव भवति । अतो न खलु संशेतां यश्च स्यादेकाधिकरणावृत्तयः ये अनेके धर्माः तत्संबन्धनिष्ठविषयतानिरूपकः तत्रैव खलु संशयानो भवतीति चेत् , यो हि 'आदिरन्त्येन-' इति सूत्रेण अणादिपदानां शक्तिं अइउ एतदन्यमत्वावच्छिन्ने, अ, इ, उ, ऋ, ल, ए, ऐ, औ, ह, य, व, र, ल, एतदन्यतमत्वावच्छिन्ने च गृह्णाति, स एकः परं भवति सन्दिहानः पूर्वेण वा परेण वेति । न तत् अ इ उ एतदन्यतमत्वं अका- रभिन्नत्वे सति य: इकारभिन्न: तद्भिन्नत्वे सति यः उकारभिन्नः तद्भिन्नत्वम् । एवं अकारभिन्नत्वे सति यः उकारभिन्नः तद्भिग्नत्वे सति यः इकारभिन्नः त. दिनत्वम् । एवं इकारभिन्नत्वे सति यः उकारभिन्नः तद्भिनत्वे सति योऽकार- - । . . , - नागेशाशयनिर्णये। ['व्याख्यानतः भिन्नः तद्भिमत्वम् । एवं इकारभिन्नत्वे सति य: अकारभिन्नः तद्विमित्वे सति यः उकारभिन्नः तद्भिन्नत्वम् । एवं उकारभिन्नत्वे सति योऽकारभिन्नः तद्भिनत्वं सति य: इकारभिन्नः तद्भिन्नत्वम् । एवं उकारभिन्नत्वे सति यः इकारभिन्नः त. द्भिन्नत्वे सति योऽकारभिन्नः तद्भिन्नत्वमिति विनिगमनाविरहेण विशेषणविशेष्य- भावे नानाशक्यतावच्छेदकापत्तिरेकविषय एव स्यात् । अतो भेदाना 'एकत्र द्वयम्' इति रीत्या त्रित्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन विशेषणमभाव एवेति नान्वयः परस्परमिति अकारभेद-इकारभेद-उकारभेद-एतत्त्रितयात्यन्ता- भाववत्वमेवावश्यमङ्गीकर्तव्यं भवति अ इ-उ-एतदन्यतमत्वम् ॥ अनिर्णय इति ॥ निर्णयोऽस्मान्न भवतीत्यनिर्णयः । अल्पाक्षरमसन्दिग्धम्-~-' इति स्मरन् सन्दिग्धार्थकत्वेन सूत्रत्वं निराकुर्वाण: प्रमाजनकत्वरूपस्योपलभ्य प्रामा- ण्यस्याभावमसन्दिग्धमनाहार्यमनास्कन्दितमप्रामाण्यज्ञानेन लक्ष्यर्मिकं साधु- त्वप्रकारकं च ज्ञानमुपयोजयितुमुद्यतस्य बोधस्योपजनने असमर्थस्य आन- र्थक्यं शास्त्रस्योपजानानो वैयर्थ्यमेव तस्य दृढीकरोतीति भावः । व्यर्थीभूत- मेव शिद्रहणादिकं यथा वाऽलं भवति ज्ञापने परिभाषाणामिति प्रतिपादयिष्यते, तथेहापि वैयर्थेन कञ्चुकितं 'अणुदित्सवर्णस्य-' इत्यादिकं शास्त्रं प्रकृत- परिभाषां ज्ञापयितुमुछ्रमेव भवति, न णकार इति सूचयत्यनेन । न हि शिव- हणादिक इव नापादितं भवति वैयर्य शास्त्र इति नूनमाशङ्का जायते । वैय- र्यमापादयितुं 'अणुदित्सवर्णस्य--' इत्यादिशास्त्रस्य निदानभूतमसन्दिग्ध- मनाहार्यमनास्कन्दितमप्रामाण्यज्ञानेन लक्ष्यधर्मिकं साधुत्वप्रकारकं च ज्ञान- मुपयोजयितुमुपरचितस्यैव शास्त्रस्यापाद्यमानमानर्थक्यमेव निश्चिन्वानः प्रव- वृते प्रतिपादयितुकामो वैयर्थ्यम् । अत एव न विभावयामः शङ्काया अव- काशम् ॥ अत आहेति ॥ ल्यब्लोपे पश्चमी चेयम् । शास्त्रमेव नेष्टे जनयितुं निश्चितबोधमिति तदभावे जायमानमानर्थक्यमादिभूतमाकलय्योत्पद्यमानमा- शड्डय वैयर्थं ब्रवीति तत्परिहारमित्यर्थः ।। , - . व्याख्यानत इति ॥ हेतुपञ्चम्यन्तादाचादित्वात्सार्वविभक्तिकस्तसिः; न तु पञ्चभ्यास्तसिल् । तत्र 'किंसर्वनामबहुभ्यः' इत्यनुवृत्तेः । महेश्वरप्रसा- दलब्धैः सूबसमुदायैः एकवाक्यतामापनेन सूत्रेण संवलितस्य कृत्स्नस्य व्या.
परिभाषा] शास्त्रत्वप्रापकोद्देशः। १५ व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्दे- हादलक्षणम् ॥१॥ करणशास्त्रस्य सर्वस्वभूतमर्थविशेष प्रकाशयितुं प्रवृत्तस्य भगवत: पतजले- वचनादित्यर्थः ॥ विशेषप्रतिपत्तिरिति ॥ प्रतिपत्तिकर्तुर्गम्यत्वेऽपि तस्य प्रयो- गाभावात् , 'उभयप्राप्ती कर्मणि' इति नियमं प्रवर्तयितुमाशङ्कमानैः ‘कर्मणि च' इति निषेधस्याविषयतया समासप्रवृत्तिः । अकाकारव्यतिरिक्तस्त्रीप्रत्यये 'शेषे विभाषा' इति वचनात् ' कर्तृकर्मणो:-' इति षष्ठीप्रवृत्त्या कर्मणः शेष- त्वविवक्षया वा तत्प्रवृत्तिरभ्युपगम्यते । अन्यतराद्यर्थविशेषविषयकनिश्चयज्ञा- नमित्यर्थः। संपादनीयमिति शेषः । न हि सन्देहादलक्षणमिति ॥ तच्छब्दः शास्त्रमिति चाध्याहार्यम् । हिशब्दो लोकप्रसिद्धहेतौ । नबर्थनिषेधेऽयं हेतुः। सन्देहादिति त्वलक्षणत्वे । अलक्षणं चाननुष्ठापकम् । तच लक्ष्यधर्मिकसाधु- त्वप्रकारकज्ञानोपयोगिबोधजनकत्वाभावरूपम् । तथा च यस्मादन्यतराद्यर्थ- विशेषविषयकनिश्चयज्ञानाच्छाखं सन्देहेन प्रयोज्यं लक्ष्यधर्मिकस्य च साधुत्व- प्रकारकस्य ज्ञानस्योपजनने असमर्थमेव बोधमुपजनयतीति लक्ष्यधर्मिकसा. धुत्वप्रकारकज्ञानोपयोगिबोधजनकत्वाभावरूपेणाननुष्ठापकत्वलक्षणेनाप्रामाण्ये- न जन्यमानेनानर्थक्येनावस्कन्द्यमानं नैव भवति वैयर्थ्यवदिति सा विशेषप्र- तिपत्तिर्महेश्वरसूत्रैकवाक्यतापनसूत्रघटितशास्त्रार्थरहस्यप्रकाशकपत लिवचना- देव सम्पादनीया नान्यत इति नियमः । विशिष्टमाख्यानं हि व्याख्यानम् । वैशिष्टयं च प्रकृते महेश्वरप्रसादलब्धसूत्रैकवाक्यतापमसूत्रघटितशास्त्रार्थरहस्य- प्रकाशकपतञ्जलिकर्तृकत्वमेव । एतच्च लणसूत्रे णकारमनुबध्नतैव परमेश्वरेण ध्वनितम् । अन्यथा आचार्यपरम्परावगतेन प्रकरणादिरूपेणोपदेशेन व्याख्यातृ- वचसा व्याख्येयवचनार्थनिर्णायकत्वं लोकसिद्धमेवेति तस्यानाप्याश्रयणे परम- लेखशब्दे परेऽपि हृदादेशप्रवृत्तये लेखग्रहणस्यावश्यकत्वेन तस्य ‘उत्तरपदा- धिकारे--' इति परिभाषाज्ञापकत्वं न संगच्छेत इति 'वैशिष्ट्यमाचार्यपरम्परा. वगतत्वम् । एवं च ' अभियुक्तकृतविवरणरूपाब्याख्यानादित्यर्थः' इति सर्वम- गालोकम् , व्याख्यातृवचसा व्याख्येयवचनार्थतात्पर्यनिर्णायकत्वस्यौत्सर्गिक- १६ नागेशाशयनिर्णय 'व्याख्यानतः--] . स्वेन तदर्थ परिभाषारम्भः तज्ज्ञापकं च विफलम् । न हि 'झुन्निवृत्तये भोजनं कार्य' इति वचनमाचार्येण निरमायि' इति रामकृष्णोक्तं च न क्षोदक्षममिति विभावयन्तु विद्वांसः । अनया तु परिभाषया बोधिते संशयनिवर्तने व्याख्या- नाधीने अणुदित्सवर्णस्य-' इत्यादौ परेणैवाण्ग्रहणम् , अन्यत्र तु पूर्वेण, इत्या- दि निश्चिन्वाना: निवृत्तसंशया: लक्ष्यर्मिकं साधुत्वप्रकारकं चानास्कन्दितम- प्रामाण्येनाहार्येण संशयेन च ज्ञानमुपयोजयितुमुडुरं बोधमुपजनयत्सु ' अणु- दित्सवर्णस्य-' इत्यादिषु शास्त्रेष्वननुष्ठापकत्वलक्षणेनाप्रामाण्येनोद्भावितस्या- नर्थक्यस्य निर्विषयतां निरूपयन्तः संपादयन्ति स्वांशे चारितार्थ्यम् । व्याख्यानाधीना संशयनिवृत्तिः । व्याख्यानस्य च संशयनिवर्तकत्वमेतत्परिभा. षाधीनम् । एषा च परिभाषा व्याख्यानसाध्येति यागे कालान्तरभाविस्वर्ग: साधनत्वान्यथानुपपत्या तदुपपादकस्यापूर्वस्य कल्पनवदत्रापि व्याख्याने सं. शयनिवर्तकत्वान्यथानुपपत्या तदुपपादकस्य व्याख्यानत: -' इति परिभा- पावचनस्य कल्पनमिति याग इव व्याख्यानं कारणम् , स्वर्ग इव संशयनिवृत्तिः पलम् , अपूर्व इव परिभाषा व्यापारः। एवं च परिभाषाया: व्याख्यानजन्यत्वे सति व्याख्यानजन्यसंशयनिवृत्तिजनकत्वेन तज्जन्यत्वे सति तज्जन्यजनकत्व. रूपव्यापारत्वं सिध्यत्येवेति पिरिभाषायां तज्जन्यत्वाभावेन तजन्यजनकत्वा. भावेन चाव्यापारत्वात् तेन तत्कल्पनं न संभवति' इत्याशय 'तुल्यन्यायेन तत् ज्ञाप्यत्वे सति तत् ज्ञाप्यज्ञापकस्यापि' इति परिष्कुर्वाणः सर्वमङ्गलाकार: प्रत्युक्तः । परिभाषान्तरेष्वपि शिद्रहणं कारणम् , सर्वादेशत्वसंपत्तिः फलम् , 'नानुबन्धकृतमनेकाल्त्वम्' इति परिभाषा व्यापार: इत्यादि सम्भवतीति अपूर्व इव परिभाषास्वपि तजन्यत्वे सति तज्जन्यजनकत्वरूपव्यापारत्वस्य सूप- पादत्वात् । व्याख्यातृवचसा प्रकरणादिना व्याख्येयवचनतात्पर्धिनिर्णायकत्वं लोकसिद्धमपूर्वमेव भवतीति परिभाषयाऽनया शास्त्रेऽस्मिन् संशयास्कन्दित. स्थले अन्यतराद्यर्थविशेषविषयकनिश्चयज्ञानं पतञ्जलिवचनादेव संपादनीयम् , नान्यस्मात्प्रकरणादेरिति नियमो बोध्यते । फलं च नियमबोधने लेख- प्रहणम् 'उत्तरपदाधिकारे-' इति परिभाषां शापयितुमलमिति ; अ. न्यथा घबन्तलेखग्रहणेनापि सार्थक्यसंभवः । ब्रीहीनवहन्ति' इत्यादी दर्शपूर्णमासयोरानेयादियागानामुत्पत्तौ पुरोडाशद्रव्यं विहितम् ; ब्रीहयस्तु उ- परिभाषा शास्त्रत्वप्रापकोद्देशः । १७ - त्पन्ने यागे यागानुवादेन विहिता:; ततश्च उत्पन्न शिष्टानां ब्रीहीणामुत्पत्तिशि- ष्टपुरोडाशावरुद्धे यागे साक्षात्साधनत्वायोगात्पुरोडाशप्रकृतिद्रव्यत्वेन यागसा- धनत्वं सिध्यति । पुरोडाशप्रकृतित्वं च ब्रीहीणां तण्डुलनिष्पत्तिद्वारकम् । तण्डुलनिष्पत्तिश्च ब्रीहीणां स्वकारणमाक्षिपति । तण्डुलनिष्पत्तौ च कारणमवह- ननं निश्चितमिति विधित्सितावहननस्य वितुषीकरणसाधनत्वेन नखवि. दलनाश्मकुट्टनयोरिव लोकावगतकारणत्वाविशेषा संभवति यथा प्राप्तिः पा. क्षिकी, लेखान्ते उत्तरपदेऽपि हृदादेशसिद्धये, घमन्ते च तत्सिद्धये अ. णन्ते चेति व्याख्यानस्यापि तथा प्राप्तिः पाक्षिकीति तदंशेऽप्राप्तांशपरिपू. रणफलको विधिरयमिति तात्पर्यविषयतावच्छेदकतापर्याप्त्यधिकरणीभूताभावा. भाववत्वमस्य स्पष्टम् । 'ज्य:' इत्यत्र जिप्रत्ययस्य, प्रत्ययस्य च, प्रसको प्रतिपदोक्तत्वमूलकाद्वयाख्यानात प्रत्ययस्यैव प्रहणमिति नियमः। 'इजादेः सनुमः' 'अट्कुप्वाक्-' इत्यत्र नुम्पदस्य नकारो वाच्यार्थी केव. लानुस्वारो लक्ष्यार्थो वा, नुम्स्थानिकानुस्वारो लक्ष्यार्थो वा, इति त्रयाणां पाक्षिक्यां प्राप्तावनुस्वारस्यैव ग्रहणमिति व्याख्यानादेव नियमः; 'नुवि. सर्जनीय-' इत्यत्रापि नुमस्थानिकानुस्वारस्यैवेति नियमः ; एवं ' तस्मादि. त्युत्तरस्य' इत्यत्र तस्मादिति पञ्चम्यन्तानामेव ग्रहणम् , न स्वरूपस्येति नि. एवमेव 'तस्मिन् इत्यत्रापि । 'अत:हकमि कंस: ; न तु कंसेरिति नियमः, हत्वर्थकं हिशब्दं प्रयुखानस्यानुमानप्रयोगो. प्यत्राभिमत इति प्रतिभाति । तथाहि-यच 'सर्वनाम्नः स्मै' 'जसःशी इत्यादिकं शास्त्रजातं तदसन्दिग्धमनाहार्यमनास्कन्दितमप्रामाण्यज्ञानेन लक्ष्य. धर्मिकं साधुत्वप्रकारकं ज्ञानमुपयोजयितुमुद्धरमेव बोधमुपजनयतीति तत्र शास्त्रत्वसंपत्तिमुपलभमानमपि सन्दिग्धार्थकम् 'अणुदित्सवर्णस्य-' इत्या- दिकं शाखं तमीष्टे नोपजनयितुं बोधमिति शास्रमप्यशेषमिदं पाणिनी. यमसन्दिग्धमनाहार्यमनास्कन्दितमप्रामाण्यज्ञानेन लक्ष्यधर्मिकं साधुत्वप्र- कारकं च ज्ञानमुपयोजयन्तमुपजनयति न वेति बोधम् , सन्दिहानो भ- वति । सन्दिहानश्चापदार्थसन्देहमेव निदानमाकलयति । हन्त न्ततो अण्पदार्थसन्देहस्य च मूलहेतुं महेश्वरोचरितं लणसूत्रीयं णकारमेव निश्चिनोति । ततश्च असन्दिग्धमुपयोजयितुमकुशलस्य सानमादिहेतुर्बोधस्य . यमः। इत्यत्र कमेः N.3 १८ नागेशाशयनिर्णये ['व्याख्यानतः -- अण्पदार्थसन्देह एवेति मन्वानः मूलभूतं तस्यापि जानाति णकारोपादानमेव । संशयप्रदर्शनं चावतरणग्रन्थे सूत्रेष्वणिणन्यतरपदघटितेषु न घनास्कन्धमानं सन्देहेन साधुत्वप्रकारकं लक्ष्यधर्मिकं च ज्ञानमुपयोजयन्नुपजायते बोध इति तेषु सन्देहानास्कन्दितलक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधजनकत्वमनुप- लभमानः तदन्येषु तदुपलभमानश्च शास्त्रमुक्तबोधजनकं वा, न वा इति सन्दि. हानः, सन्देहहेतुमुक्तबोधजनकत्वाभावमेव जानानः, तस्याणिण्पदार्थसशयमेव साधकं समीक्षमाणः तश्चोचारणेन णकारस्य लणसूत्रीयस्य प्रयुक्तमिति परं जानाति । मन्यते च ' अनिर्णयः' इत्युक्तिमुक्तबोधजनकत्वसंशयफलप्रदर्शनप. राम् । प्रयुद्धमहे चानुमानम्-'शास्त्रम् , असन्दिग्धानाहार्याप्रामाण्यज्ञानाना- स्कन्दितलक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधजनकम् , पतञ्जलिवचनप्र. तिपाद्यनिश्चितार्थबोधकत्वात्' इति । असन्दिग्धानाहार्याप्रामाण्यज्ञानानास्क- न्दितलक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधजनकत्वव्याप्यपतञ्जलिवचनप्र. तिपाद्यनिश्चितार्थबोधकत्ववच्छात्रमित्याकारकपरामर्शन शास्त्रमसन्दिग्धानाहा- र्याप्रामाण्यज्ञानानास्कन्दितलक्ष्यर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधजनकत्व वत् इत्यनुमितिर्जायते । तद्विषयतया च शाने असन्दिग्धानाहार्याप्रामाण्यज्ञाना. नास्कन्दितलक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधजनकत्वं सिध्यति । यद्य- स्पतलिवचनप्रतिपाद्यनिश्चितार्थबोधकत्ववत् , तत्तदसंदिग्धानाहार्याप्रामाण्य ज्ञानानास्कन्दितलक्ष्यर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधजनकत्ववत् इति व्याप्तिः । प्रत्याख्यातशास्त्राणां प्रत्याख्यानस्य सूत्रार्थवर्णनतत्फलप्रदर्शनपुरस्कृत. त्वेन पतञ्जलिवचनप्रतिपाद्यनिश्चितार्थबोधकत्वमस्त्येवेति न दोषः । फलभेदे प्रत्याख्यानायोगात्फलप्रदर्शनपुरःसरमेव तत्संभवेन तस्याप्यसन्दिग्धानाहार्या- प्रामाण्यज्ञानानास्कन्दितलक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधजनकत्वस द्भावेन प्रत्याख्यानस्य पतजलिवचनप्रतिपाद्यनिश्चितार्थबांधकत्वेऽपि न व्यभि- धारः। 'न बहुव्रीहौ' इत्यस्य तु त्वत्कपितृक इति लक्ष्यधर्मिकसाधुत्वप्रकारक. ज्ञानोपयोगिबोधजनकत्वम् प्रत्याख्यानस्य च तत्सूत्रार्थवर्णनपूर्तकत्वेन पतन. लिवचनप्रतिपाद्यनिश्चितार्थबोधकत्वं च वर्तत इति न दोषः । एतेन हि यतः इति यस्माद्धेतोरित्यर्थः । वस्तुतस्तु इदं व्याख्यानमनुचितम् । यद्यल्लक्षणं तत्त. दनुष्ठापकमिति ज्याप्तेः। न बहुव्रीही' इत्यादिप्रत्याख्यावलक्षणानां त्वत्कपितृक . ।
परिभाषा शास्त्रत्वप्रापकोद्देशः । इत्यादिलक्ष्याननुष्ठापकत्वेन व्यभिचारेणासंभवात्' इति विश्वनाथभट्टोक्तमपा- स्तम् । लक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधजनकत्वस्यैवानुष्ठापकत्वस्व- रूपतया अङ्गीकारेण यथोत्तरं मुनीनां प्रामाण्येन प्रत्याख्यानस्य स्वकपितृक इति लक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधजनकत्वेऽपि 'न बहुव्रीहौ' इत्यादिषु प्रत्याख्यातशास्त्रेषु प्रत्याख्यानात्पूर्व त्वत्कपितृक इति लक्ष्यधर्मिकसाधुत्वप्रकार. कज्ञानोपयोगिबोधजनकत्वेनानुष्ठापकत्वस्य दुरपलपत्वेन व्यभिचाराभावात् । प्रत्याख्यानानन्तरमपि तच्छास्त्राणां लक्ष्यर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबो- धजनकत्वस्य सत्वेनानुष्ठापकत्वस्याव्याघाताच्च । न हि प्रत्याख्यानेन तेषु निषि- ध्यते लक्ष्यधर्मिकसाधुत्वप्रकारक ज्ञानोपयोगिबोधजनकत्वम् । अपि तर्हि तत्फ- लखान्यथासिद्धत्वमननुमतत्वं च बोध्यते । न चैतावता लक्ष्यधर्मिकसाधुत्वप्रका. रकज्ञानोपयोगिबोधजनकत्वं भज्यते । त्वत्कपितृक इति लक्ष्यस्य भाष्याननुमत- त्वेऽपि कथम् 'न बहुव्रीहौ' इति शास्त्रस्य तल्लक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानो. पयोगिबोधजनकत्व विहन्यताम् ? न हि प्रवर्तकत्वमनुष्ठापकत्वमित्येतावता व्या. प्तिर्भज्यते । प्रवर्तकत्वं च प्रवृत्त्यनुकूलत्वम् । प्रवृत्तिश्च प्रकृते लक्ष्यधर्मिकसा. धुत्वप्रकारकज्ञानोपयोग्युपस्थितिरूपा । अनुकूलत्वं च तज्जनकत्वम् । तथा च लक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधजनकत्वमेव संगृहीतमक्षरस्वार- स्येनेति प्रत्याख्यातशालेष्वपि तत्सूपपादमिति न व्याप्तेरनवकाशलेश: । साध. नानन्तरं च शास्त्राणा असन्दिग्धानाहार्याप्रामाण्यज्ञानानास्कन्दितलक्ष्यर्मिक- साधुत्वप्रकारकज्ञानोपयोगिबोधजनकत्वनिश्चयेन न सन्देहहेतुकाप्रामाण्यहेतुकं शास्त्रवैयर्थ्यम् । सन्देहेनैव खलु शास्त्रवैयर्थ्यम् , न प्रत्याख्यानादिना । दृष्टफल- कत्वाभावस्यैव प्रत्याख्यानपदार्थत्वात् । तत्र बोध्यार्थराहित्यरूपमानर्थक्यमिति न निष्प्रयोजनत्वरूपानर्थक्यहेतुकं शास्त्रवैयर्थ्यम् । सन्देहे तु तत्प्रयोज्यलक्ष्यध- मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधजनकत्वाभावरूपाननुष्ठापकत्वलक्षणाप्रामा- ण्यहेतुकनिष्प्रयोजनत्वमूलकं वैयर्थ्य शास्त्रस्य दुरपलपम् । अथानानामपि पारायणे धर्ममुपशृण्वन् संशयास्कन्दितेष्वपि 'अणुदित्सवर्णस्य-' इत्या दिषु न निष्प्रयोजनत्वरूपमानर्थक्यं मन्यते । स एव खलु अननुष्ठापक- त्वलक्षणाप्रामाण्ये वैदिकशब्दधर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधजनकत्वा- भावेन निश्चिनोत्येव धर्मार्थत्वाभावम् । यदि प्रत्याख्यातशाषाणां बो.
नागेशाशयनिर्णये [व्याख्यानतः- विशेषस्य अन्यतरापर्थरूपस्य व्याख्यानात् शिष्टकृतात् प्रतिपत्तिः निश्चयः । हि यतः, सन्देहात् शास्त्रम् अलक्षणम् अन- ध्यार्थराहित्येनाननुष्ठापकत्वलक्षणाप्रामाण्यानिष्प्रयोजनत्वरूपमानर्थक्यमापति. तमेवेत्युच्यते ; तहि बोध्यजन्यफलप्रतियोगिकाभावाश्रयत्वं बोध्यार्थराहित्यमि. त्याश्रित्य तेषामुक्तबोधजनकत्वं प्रतिपाद्य अनुष्ठापकत्वादप्रामाण्याभाव मुपवर्ण्य निष्प्रयोजनत्वरूपानर्थक्यस्य अभावमेव निश्चिन्वीत । तच्छानबोध्यजन्यफला- नां अन्यथासिद्धत्वेन बोध्यजन्यफलप्रतियोगिकाभावाश्रयत्वं सूपपादम् । निष्प्रयोजनत्वं तु न तेषाम , धर्मश्रवणेन सप्रयोजनत्वात् । 'न बहुव्रीही' इत्यत्र तदोधितफलस्यानन्यथासिद्धत्वेऽपि भाष्याननुगृहीतत्वेन बोध्यजन्यफलप्रतियो- गिकाभावाश्रयत्वमुपपद्यत एवेति प्रत्याख्यातेषु लक्ष्यधर्मिकसाधुत्वप्रकारकज्ञा. नोपयोगिबोधजनकत्वसम्भवेनानुष्ठापकत्वादप्रामाण्याभावेन निष्प्रयोजनत्वा- भावः । संशयास्फन्दितानां तु निर्णयं प्रति सन्देहस्य प्रतिबन्धकत्वेन पदार्थ- सन्देहेन वाक्यार्थसन्देहात् वाक्यार्थबोधस्यैवानुदय इति तद्वोध्यस्यैवाभावेन तज्जन्यफलप्रतियोगिकाभावाश्रयत्वं न संभवत्येवेति द्रढीयाननुबन्धः । एतेन 'हिस्त्वर्थे, तथा सति सन्देहमात्रेण लक्षणमलक्षणं न भवति, प्रत्याख्यानादिना लक्षणमलक्षणं भवदपि सन्देहमात्रेण लक्षणमलक्षणं न भवतीत्यर्थः' इति वदन् विश्वनाथभट्टः प्रत्युक्तः । तद्रीत्या न हि सन्देहादलक्षणम्' इत्यं- शस्य परिभाषायामानर्थक्यापत्तेः; उक्तरीत्या सन्देहमात्रेणैव लक्षणेष्वलक्षण- त्वस्य दुरपलपत्वाच ; प्रत्याख्यानेनैव अलक्षणत्वानापत्तेश्च ; तद्रीत्या प्रत्या. ख्यातानामलक्षणत्वेनाप्रवर्तकत्वात् पारायणे धर्मश्रवणेन प्रवृत्यनापत्तेश्च । हेतु- साधकमप्यत्र सूचितमनुमानान्तरम् । तथा हि- 'पत अलिवचनं संशयनि- वर्तकम , अन्यतराद्यर्थविशेषविषयकनिश्चयज्ञानसंपादकत्वात्' । संशयनिवर्तक- स्वव्याप्यान्यतराद्यर्थविशेषविषयकनिश्चयज्ञानमंपादकत्ववत्पतलिवचनमित्या. कारकपरामर्शेन व्याख्यानं संशयनिवर्तकं' इत्यनुमितिर्जायते । तद्विषयत. या च व्याख्याने संशयनिवर्तकत्वं सिध्यति । तदेतत्सकलमभिप्रेत्याह हि यत इति ।। यस्माद्धेतोरित्यर्थः । अनेन 'न तु लक्षणाभावः' इति सीरदेवोक्तं न युक्तमिति ध्वनितम् ।। सन्देहादिति ॥ बहुकोटिक-द्विकोटिक-एतदन्यतरप. - - परिभाषा] शामत्वमापकोद्देशः । २१ नुष्ठापकम् , तथा न । शास्त्रस्य निर्णयजनकत्वौचित्यात् इत्यर्थः । अस- न्दिग्धानुष्ठानसिध्यर्थेऽत्र शास्त्रे सन्दिग्धोच्चारणरूपाचार्यव्यवहारेण सन्दे- दार्थसन्देहादित्यर्थः । अत एव पूर्व विशेषस्यान्यतराद्यर्थरूपस्य' इति व्याख्यात- म् । तत्र आदिपदं बहुकोटिकसंशयेऽन्यतमपरिग्रहायेति बोध्यम् । शास्त्रमिति ॥ इदमध्याहारलभ्यम् , प्रस्तुतत्वात् ॥ ननु सैन्धवमानयेति वाक्य इव प्रामाण्यरू- पलक्षणत्वस्य पाणिनिप्रणीतेऽस्मिन् शाखे निषेधासंभवादलक्षणपदार्थो दुर्वच इत्यत आह- अननुष्ठापकमिति ॥ लक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगि- बोधजनकत्वरूपलक्षणशब्देन अभावार्थकनत्रः समासः । तथा च अननुष्ठाप- कत्वं लक्ष्यर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधजनकत्वाभावरूपमिति फलि- तम् । यत्तु सर्वमङ्गलाकारेण 'प्रमाणार्थकलक्षणशब्देनाप्रशस्तार्थकनवः समासः; अप्रशस्तत्वं च अनुष्ठानप्रतिबन्धकीभूतसन्देहविषयार्थबोधकत्वेनेति शास्त्रस्या- ननुष्ठापकत्वं फलति' इत्युक्तम् , तन्न विचारसहम् । प्रमाणत्वस्य यथार्थनिर्णय. जनकत्वरूपत्वेन तत्राननुष्ठापकत्वस्य बाधात् ; लक्षणत्वेनाभिमतमित्यर्थेऽपि भ- ननुष्ठापकत्वस्यानन्वयापत्तेश्च ; लक्षणत्वेनाभिमतमप्रशस्तं नेत्यर्थस्य शब्दमर्याद- याऽलाभाच; तदुक्तस्य शास्त्रपदाध्याहारस्य वैयापाताच ॥ तथा नेति ।। शास्त्रं लक्ष्यर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधजनकत्वरूपानुष्ठापकत्वाभा. ववन्नत्यर्थः ॥ अथ पाणिनिप्रणीतस्यास्य शास्त्रस्य संशयमात्रेण कथमननुष्ठाप- कत्वलक्षणाप्रामाण्यहेतुकानर्थक्यमूलकं स्याद्वैयर्थ्यम् । 'वर्णेनाप्यनर्थकेन न भ. वितव्यम् , किं पुनरियता सूत्रेण' इति वृद्धिसूत्रस्थभाष्यविरोधादित्यत आह- शास्त्रस्य निर्णयजनकत्वौचित्यादिति ॥ अनुष्ठानप्रतिबन्धकसन्देहविषया. र्थकत्वेन 'अल्पाक्षरमसन्दिग्धम्-' इति स्मरणात् असन्दिग्धानाहार्याप्रामा- ण्यज्ञानानास्कन्दितलक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधजनकस्वाभावा- दननुष्ठापकत्वलक्षणेनाप्रामाण्येन जनितेनोत्पद्यमानमानर्थक्येन वैयर्थ्य दुर्वारं शास्त्रस्येति भावः ।। अथ ' हयवरलट्' इति न्यासानुरोधेन अडादिप्रत्याहारमेवा. श्रयताम् , सन्देहस्तु नैवोत्पद्यते, 'लण्' इति पृथक्सूत्रं च न कर्तव्यम् , मास्तु. वा गकारोबारणम् । न च ज्ञाप्यतामेषा परिभाषा, तत्र तत्र सापकाश्रयणेनैव प्रकरणादिना तात्पर्यनिर्णयस्य बाधे भवत्येवेष्टसिद्धिरित्यत माह- असन्दि- २२ नागेशाशयनिर्णये ["व्याख्यानतः- हनिवृत्तेर्व्याख्यानातिरिक्तनिमित्तानपेक्षत्वं बोध्यत इति यावत् । तेन ग्धेति ॥ अनुष्ठानं लक्ष्यर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधः सन्देहनिव: तन एव तत्संभवात् सन्देहानास्कन्दितलक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगि- बोधजनकत्वसिद्धिफलकेऽस्मिन् पाणिनिशास्त्रे इत्यर्थः । सन्दिग्धं सन्देहः, भावे क्तः । न विद्यते सन्दिग्धं सन्देहो यस्मिन्नित्यर्थः ।। सन्दिग्धोचारणेति ।। भावक्तान्तप्रकृतिकााद्यजन्तं सन्देहजनकोचारणमित्यर्थः । आचार्यव्य- वहारेणेति ॥ अत्र आचार्यपदेन महेश्वरः । महेश्वरकृतेन सन्देहोत्पादनफलकेन लणसूत्रीयणकारोबारणेनेत्यर्थः । व्याख्यानातिरिक्तनिमित्तानपेक्षत्वमिति ।। व्याख्यानं पतञ्जलिवचनम् , तदतिरिक्तनिमित्ते पाणिनिकात्यायनवचने तदनपे- क्षत्वमित्यर्थः । तच्च तदभावप्रयोज्याभावप्रतियोगित्वाभावरूपम् । महेश्वरोच्चारि- तेन लणसूत्रीयणकारेण पाणिनिकात्यायनवचनापेक्षया पतञ्जलिवचनस्यैव प्राब- ल्यं बोध्यत इति यावत् । अत एव 'व्याख्याननिमित्तापेक्षत्वम्' इत्येव नोक्तम् । हयवरलट्' इति न्यासेनैव निर्वाहे सन्देहोत्पादनफलकेन लणसूत्रीयण- कारोचारणेन । यथोत्तरं मुनीनां प्रामाण्यम्' इत्येतद्वोध्यते । एवं चा. स्मिन् शास्ने सन्देहास्कन्दितस्थले सन्देहनिवृत्तिः पतलिवचनातिरिक्त- पाणिनिकात्यायनवचनाभावप्रयोज्याभवप्रतियोगिनी नेति फलितम् । तत्फलं तु 'त्वकपितृको मकपितृकः' इति लक्ष्यसिद्धिः । अन्यथा पाणिनिवचनानुरो- धेन त्वत्कपितृको मत्कपितृकः' इत्यस्यैव साधुत्वं स्यात् । त्रयाणामपि - षित्वाविशेषात् कस्य वचनं प्रमाणं कस्याप्रमाणं इति निर्णयो न स्यादिति भावः ॥ बोध्यत इति ॥ असन्देहाय लाघवानुरोधेन च 'हयवरलट्' इति न्यासान्तरे करणीये सन्देहजनकणकारोच्चारणसार्थक्यान्यथानुपपत्या तदुपपादकं प्रत्याहारातिरिक्तं यथोत्तरं मुनीनां प्रामाण्यम्' इत्येतद्वचनं बोध्यत इत्यर्थः ॥ यत्तु- 'नान्यदेव ज्ञापकता भग. वाभिप्रेता इति सूचितम्' इति यागेश्वरादिभिरुक्तम् , तत्तुच्छम् । उक्तरीत्या अण्पदघटितशास्त्राणामेव खल्वङ्गीक्रियते ज्ञापकता। न हि णकारद्विरुपदेशस्य । येन स्वांशे चारितार्थ्याभावो दुर्निवारः । अत एव भगवता' किमिदं वर्णोत्सत्तावि- वायं णकारो द्विरनुषध्यते, एतत् सापयत्याचार्यः, भवत्येषा परिभाषा, व्याख्या- बोध्यत इत्युक्त्या - परिभाषा शास्त्रत्वप्रापकोद्देशः । २३ नतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्' इति' इत्युक्तम् । तत्र ज्ञापयतीत्यस्य बोधयतीत्यर्थकत्वं न युक्तम् । अक्षरस्वारस्यभङ्गापत्तेः । अत एव सीरदेवोऽपि इमां परिभाषां लण् इत्यत्र भाष्यकारेण ज्ञापितामुद्दष्यति ॥ यत्तु-'यत्र अनन्य- थासिद्धलक्ष्यनिर्वाहकतया ज्ञापकेन वचनकल्पना; तत्र आवश्यक स्वांशे चारि- तार्थ्यकल्पनानुसरणम् । अन्यथा विपरीतकल्पनाया अपि प्रसक्तेः । यत्र च प्रमाणान्तरेण लक्ष्यनिर्वाहेऽपि कथंचित् शास्त्रवैयर्थ्यपरिहारायान्यथासिद्धप्रयो- जनस्यैव वचनस्य ज्ञापनं लाघवादाश्रीयते, न तत्र स्वांशे चारितार्थ्यापेक्षा । प्र. माणान्तरविरोधादेव तत्र विपरीतकल्पनाया असंभवात् । अत एव अणुदित्सूत्र. स्थस्याप्रत्ययमहणस्य भाव्यमानपरिभाषाज्ञापकतापरभाष्यसङ्गतिः । अन्यथा ज्ञापितायां परिभाषायां स्वांशे चारितार्थ्याभावात्तदसङ्गतिः स्पष्टैव' इति वा- क्यार्थचन्दिकोक्तम् , तदविचारितरमणीयम् । अस्याः परिभाषायाः 'कुमारी. ब्राह्मणिरूपा, कुमारीगौरितरा, गौरीब्राह्मणितरा' इत्याधनन्यथासिद्धलक्ष्यनि- वाहकतया आवश्यकत्वेन स्वांशे चारितार्थ्यस्य तद्रीत्याप्यवश्यमनुसर्तव्यत्वात् । नात्र प्रमाणान्तरेण लक्ष्यनिर्वाह इति वक्तुं शक्यते । लेखान्ते उत्त- रपदे, घबन्ते वा हृदादेशसिद्धये लेखग्रहणस्यावश्यकत्वेन कदापि उक्त- लक्ष्यनिर्वाहाभावात् । न हि घबन्तलेखादिग्रहणे प्रमाणान्तरविरोधं प. श्यामः । 'ज्याद ईयसः' इत्येव दीर्घ सिद्धे ज्यादात्' इति दीर्घोच्चारणस्यैव भाव्यमानपरिभाषाज्ञापकताया उपाध्यायाभिप्रेतत्वेन न तत्र स्वाशे चारितार्थ्य. हानिः। भाव्यमानपरिभाषाज्ञापकत्वोपपादनपरं अणुदित्सूत्रस्थं भाष्यमपि न प्रकृतविरोधीत्यन्यदेतत् ।। यच्च- परिभाषाघटक न हि सन्देहादलक्ष- णम्' इत्यंशादेव सन्देहात्मकपरिभाषोपस्थापकलिङ्गलाभेऽपि तदंशस्य प्रकृता- नुबन्धद्वयोच्चारणरूपयत्नत एव सिद्धौ लाघवाचारितार्थ्यमपि सुस्थम् । तस्मात् निरुक्तानुबन्धद्वयोच्चारणं साक्षादेव परिभाषायां ज्ञापकं भवितुमईतीति वृथै- वायं मूलकृत्प्रयासः' इति वाक्यार्थचन्द्रिकोक्तं तदप्यज्ञानविजृम्भितम् । झाप. नोत्तरं पकाराधनुबन्धान्तरोच्चारणेन सन्देहात्मकपरिभाषोपस्थापकलिङ्गाभावे स्वांशे चरितार्थ्यस्य वर्षसहस्रगाप्युपपादयितुमशक्यत्वात् । एवं च प्रकृतप. रिभाषायां ज्ञापकं अणादिपदघटितशास्त्रमेवेति न प्रागुक्तं विस्मर्तव्यम् । स्वांशे चारितार्थ्यमपि उपपादितमेव सम्यक् । अनन्यथासिद्धेन गौरीब्राह्मणितरा . .
२४ नागेशाशयनिर्णये [व्याख्यानतः- - इत्यादिलक्ष्यनिर्वहणेन प्रयोजनवती चेयम् । ज्ञापकाश्रयणेन प्रायः न्देहवारणसंभवेऽपि कचिन तेन तत्संभवत्येव । तदियमवश्यमङ्गीकर्तव्यैव परिभाषा ॥ यत्तु-- परिभाषाभावे यथा 'ओर्गुणः' इत्यादौ गुणादिपदं व्यर्थ तथा 'उर्ऋत्' इत्यादावपि तपरकरणं स्पष्टार्थ स्यात् , अत: परिभाषाकरणम् । कृतायां तु 'यत्र भाष्यकृता व्याख्यानं कृतं सूत्रतोऽप्यायाति तदेव प्रमाणं न स्वन्यथा' इति बोधनार्थ परिभाषारम्भः' इति गोविन्दोक्तम् , तन्न हृदयंगमम् । 'उत्तरपदाधिकारे-' इति परिभाषायाः व्याख्यानाभावे सूत्रस्थज्ञापक. सिद्धत्वाभावेन सूत्रतोऽप्यायातीत्युक्ते: व्याहतत्वात् । प्रत्युत लेख' इति घष. न्तस्यैव सूत्रतो ग्रहणमापतति । त्वकपितृक इत्यादिसिद्धिः सूत्रतोऽप्यायातीति तेन शक्यते न चिरेणापि प्रतिपादयितुम् । 'यथोत्तरं मुनीनां प्रामाण्यम्' इत्ये. तदपि प्रकृतपरिभाषयैव सिध्यतीति खलु तेनाङ्गीकृतम् । ततश्च कथं प्रमा णीकुर्यात् 'त्वकपितृकः' इत्यादिलक्ष्यसिद्धौ इष्टसिद्धिं भगवतः पतजले:! एवं च लणसूत्रीयणकारोच्चारणेन 'यथोत्तरं मुनीनां प्रामाण्यम्' इत्येतदपूर्व बोध्यते । अणादिपदघटितशास्त्रेण तु व्याख्यानपरिभाषा ज्ञाप्यते इति परैरप. रिशीलितः पन्थाः । न हि ‘धिन्विकण्योर च' इत्यकारविधानस्य ' यथोत्तरं मुनीनां प्रामाण्यम्' इत्येतदर्थज्ञापकतोपपादनपरेण · एतच्च ‘धिन्विकृण्व्योर च' इति सूत्रे ध्वनितम्' इति सुबन्तशेखरेण विरुध्यते। ‘धिन्विकृण्व्योर च' प्रक्रियालाघवेन लोपे कर्तव्ये अकारविधानं न धातुलोपसूत्रप्रत्याख्यानं भाष्य. कृत्कृतं ज्याय इति ज्ञापयतीति एकदेशानुमस्या सिद्धमिदम् । अत एव 'चजोः कुपिण्यतोः' इत्यत्र ‘निष्ठायामनिटः' इति वार्तिकप्राबल्यात् ग्लुस्वादेः णिति कुत्वमेवेति सिद्धम् । अन्यथा 'न कादेः' इति कुत्वनिषेधापत्ति: । एवं च धि. विकृण्व्योरकारविधानबापितस्य 'यथोत्तरं मुनीनां प्रामाण्यम्' इत्यस्य भाष्य. कारादिभिः यत्रार्थे तात्पर्य बोधितम् , सोऽर्थो मदुक्तिविरुद्धोऽपि महेश्वरोचरित. णकारबोधितप्राबल्यविशिष्टो ममाप्यभिप्रेत इति तस्य पाणिनिसम्मतिप्रदर्शनप रत्वेनाविरोधात् । एतेन 'यत्तु शेखरकृतोक्तं ‘धिन्विकृण्व्योर च' इत्यकारवि- धानमेतत् ज्ञापकमिति, तन्न ; स्वस्य स्वप्रामाण्यबोधकत्वानौचित्यात्' इति राम. कृष्णोक्तमपास्तम् । भाष्यकारादिभिः मदचसः यत्रार्थे तात्पर्य बोधितम् , सो. ऽर्थो ममाभिप्रेत इति यथोत्तरमित्यत्र पाणिनिना 'पिन्विकण्ठयोर च' इति इत्यत्र परिभाषा शास्त्रत्वप्रापकोद्देशः । २५ ''अणुदित्सवर्णस्य- (१।१।६९ ।) इत्येतत्परिहाय पूर्वेण अण्ण- सूत्रस्थाकारेण स्वसम्मतिरुक्तेति तदुत्तरप्रन्थविरोधात् ॥ तेनेति ॥ व्या- रूयानादेवेति नियमाङ्गीकारेणेत्यर्थः । अणुदित्सवर्णस्येत्येतत्परिहायेति ।। अ इ उ एतदन्यतमत्वावच्छिन्ने अ इ उ ल ए ओ ऐ ओ ह य व र ल एतदन्यतमत्वावच्छिन्ने च शक्तिस्वीकारेणाण्पदबोध्यत्वस्य भेदेन पाक्षिकी प्राप्ति. सुलभा । यदि अ इ उ र ल ए ओ ऐ औ ह य व र ल एतद. न्यतमत्वावच्छिन्ने शक्ति स्वीकुर्वाण: अ इ उ एषां प्राप्तत्वात्कथं पाक्षिकी- मप्रातिं तेषूपलभेत इत्युच्यते तर्हि अन्यतमत्वस्य तद्भिन्नभिन्नत्वरूपेण अ । उ ल ए ओ ऐ औ ह य व र ल एतदन्यतमत्वस्य तद्भिनत्वेन घटभे. दबुद्धौ पटस्येव तस्यापि तद्भेदबुद्धौ तस्याप्राप्तिरेवेति पाक्षिकाप्राप्तिसंभवात् 'परेणैवेण्प्रहा: मर्वे पूर्वेणैवाणग्रहा मताः । ऋतेऽणुदित्सवर्णस्येत्येतदेकं परेण तु।' इति नियमः व्याख्यानैकसाध्यः । व्याख्यानं च 'अणुदित्सवर्णस्य-' इत्यत्र परेण णकारेण प्रत्याहारे ' उऋत्' इति तपरकरणमूलकं । तपरकरणं हि तत्र ‘कृतसंशब्दने' इति धातो: चौरादिकाल्लुङि ' अचीकृतत्' इत्यत्र दीर्घस्थाने हस्व एव यथा स्यादित्येवमर्थम् । यदि पूर्वेणाणप्रहणं तर्हि कारस्यानण्वात् प्राहकशास्त्राप्रवृत्त्या दीर्घस्याग्रहणेनास्थानित्वात्तपरकरणवैययं स्पष्टमेव ॥ न च तपरसूत्रेण लकारग्रहणार्थ तपरकरणं, तपरसूत्रेऽणग्रहणानुवृत्तेरिति शक्यम् ; स्थानेन्तरतमपरिभाषया प्रकारस्य स्थाने आन्तर्यत: ऋकार एवेति तद्वारणेन लग्रहणे फलाभावात् ।। अथ उरित्यनेन सावात् लवर्णस्यापि ग्रहणात् अ. न्तरतमपरिभाषया कारस्य लकारविधानेन तपरकरणं सार्थकमित्युच्यते तदापि सावर्यसत्त्वेऽपि पूर्वेण ग्रहणे अणुदित्सूत्राप्रवृत्त्या ऋकारेण लका. राहणायोगः । तपरसूत्रे समानकालासवर्णनिवृत्तये सवर्णपदानुवृत्तेरावश्यक- स्वात् । सूत्रकृन्मते अकारलकारयोः सावाभावेन विधेयसमर्पकेण ऋका- रेण लकारग्रहणाप्रसक्तिश्च ।। न हि ' उपसर्गादति-' इत्यनेन सूत्रकारमतेऽपि अलवर्णयोः सवर्णसंज्ञा ज्ञाप्यत इति वक्तुं शक्यते ; उपेन्द्र इत्यादी गुणप्रकृ. - 1. काशीयभाष्यपुस्तके अस्मदीयतालपत्रलिखितभाष्यपुस्तके च 'अणदित्सवर्णमेक परिहाय पूर्वेणाण्ग्रहणम् , परेणेणग्रहणम्' इति पाठो दृश्यते । N. 4 नागेशाशयनिर्णये ['व्याख्यानतः- तिज्ञापनेन तचारितार्थ्यात् ।। न हि तदपि ज्ञापनं ऋलवर्णयोः सवर्णसंज्ञाज्ञाप- नद्वारेति युज्यते वक्तुम् । अस्यामवस्थायां पूर्वेण प्रहणात अनुवाद्यसमर्पकेण ऋकारेण लकारग्रहणायोगात् स्थानेन्तरतमपरिभाषया वारणेन फलाभावाच ।। न च असंजातविरोधन्यायेनेनान्तरतमपरिभाषाबाधः । तन्न्यायस्य वैयाकरणे. रनङ्गीकार्यत्वात् । अत एव उत्सर्गस्य अपवादविषये अप्रवृत्ति: 'अकृत- इति परिभाषोदाहरणं च संगच्छते ॥ न पणपदमर्थद्वयतात्पर्येणोच्चरितमित्यनु. वाचसमर्पकेण लकारग्रहणसंभवः । सुन्दोपसुन्दन्यायेन कस्याप्यर्थस्य बोधा. नापत्त्या तत्कल्पनस्याप्रामाणिकत्वात् ।। यदि ऋलवर्णयोः सावर्ण्यमित्यनेन समानजातित्वमेवातिदिश्यत इति पूर्वेण प्रत्याहारेऽपि अनुवाद्यसमर्पकेण ल. कारग्रहणं संभवतीति लकारग्रहणार्थत्वेनापि तपरकरणं सार्थकमित्युच्यते सदा जातिपक्षे भणप्रहणप्रत्याख्यानेनाण्महणाभावादण्पदार्थनिर्णयज्ञापकत्वया- साङ्गत्यापत्तिः । सूत्रकाराभिमतत्वेऽपि जातिपक्षस्य व्यक्तिपक्षाभिप्रायेणैव कृ. तमणग्रहणम् । तत्पक्षे पूर्वेणाणग्रहणे लकारग्रहणाप्रवृत्या तपरकरणवैयात् ॥ न चैवं भाव्यमानत्वात्सवर्णप्रहणाप्रसक्तेस्तद्वैयर्थ्यम् । तपरकरणाभावे स्थान्या- देशयोः समत्वेन आदेशभूतस्य विधेयत्वाभावेनासमस्येवादेशस्य विधेयत्वमिति सिद्धान्तादत्राविधीयमान इति निषेधाप्रवृत्तौ ऋकारस्यापि ग्रहणे अचीकृतत् इति रुपासिद्धेः ॥ न चाणुदित्सूत्रप्रवृत्ती उद्देश्यवाचकपदेन हस्वदीर्घयोः प्रह- णेऽपि विधेयवाचकपदे प्रकल्प्य-' इति न्यायेन तदप्रवृत्त्या सवर्णग्रहणस्य दोलभ्येन सवर्णग्रहणानन्तरं सवर्णानामुपस्थितावन्तरतमपरिभाषया इस्वस्य इस्वो दीर्घस्य दीर्घ इति आदेशान्तरनिवृत्त्यर्थकतया स्वरूपाभ्यनुज्ञार्थवाद- पूर्वबोध्यत्वाभावेन विधेयत्वं दुरुपपादमिति स्थानिस्वरूपविजातीयरूपनि. पादकत्वेन भाव्यमानत्वात्सवर्णग्रहणाप्रसक्तिर्दुर्वारेति शक्यम् ; अणुदित्सूत्र- प्रवृत्यभावे अपूर्वबोध्यत्वेन भाव्यमानता। भाव्यमानत्वज्ञानोत्तरं चाणुदित्सूत्र- प्रवृत्यभावः इति अन्योन्याश्रयेण तत्र भाव्यमानत्वस्यैव दुर्जेयतया निषेधायो. गासवर्णग्रहणसंभवेन विधेयवाचकपदेऽपि हवदीर्घयोहणेनान्तरतम्यात् खस्य हस्खो दीर्घस्य दीर्घ इति आदेशान्तरनिवर्तकतया स्वरूपाभ्यनुज्ञार्थवा. दपूर्वबोध्यत्वामावेनाविधेयस्वात् । सपरकरणे कृते तु अतत्कालव्यावृत्या पण्णामेव प्रहणाद्विषमत्वमादेशस्येति विधेयत्वं सुलभम् ॥ यदि सरकारलकारयोः परिभाषा] शास्वत्वप्रापकोद्देशः । २७ . समाहारद्वन्द्व एकत्वेन नपुंसकहस्वत्वेन च 'उत्' इति निर्देशे दीर्घस्यापि स्थानित्वम् । नुमागमाभावस्तु सौत्रत्वात् इति दीर्घकारस्थाने इस्व- कारविधाने विषमत्वादादेशस्यापूर्वबोध्यत्वेन विधेयत्वमिति भाव्यमानत्वेन सवर्णप्रहणाप्रसक्तेः तद्वैयर्य दुर्वारमिति वक्तुमाशंमेत, तर्हि स समाहार द्वन्द्वं नपुंसकस्य दीर्घयोः प्राप्तयो: निमित्तानपेक्षत्वेनान्तरङ्गत्वात्प्रथमं नपुंसक इस्वे प्रवृत्ते ततः सवर्णदीर्घ रूपासिद्धे ॥ न च इस्वोपधेषु अन्तरत- मपरिभाषया दीर्घाप्राप्या दीर्घोपधेष्वन्तरङ्गत्वादित्वेनास्यैव बाधनादिस्वप्रा- प्या तव्यावृत्त्यसंभवः; बाध्यसामान्यचिन्तया दीर्घोपधेष्वपि इत्वबाधेनास्य प्रवृत्त्या आन्तरतम्यादीर्घस्य दीर्घप्राप्त्या तद्वारणाय तस्य चारितार्थ्यात् ॥ न हि बाध्यसामन्यस्यपि ज्ञापितव्याख्यानाधीनत्वेन तदङ्गीकारेण ज्ञापितत्वापे. क्षया अणुदित्सूत्र एव व्याख्यानेन निर्वाहे केशायोगः । तपरकरणस्यैव 'या- वता विना-' इति न्यायेन बाध्यसामान्येऽपि मानत्वादित्यलं पल्लवितेन ।। परेणाणग्रहणे, पितॄणां ऋषभः पितृषभः, पितॄणां ऋद्धिः पितृद्धिः, भवित्री, गम्ले- त्यादौ 'गुरो:-' इति प्लुत: ‘झरो झार-' इति लोप: मनाचे च' इति द्वित्वनिषेधादि च न । ऋलक्सूत्रे लकारग्रहणेन अलवर्णयोः पृथगनुबन्ध- करणेन च रेफवता लकारवता च सवर्णग्रहणस्य कचिदभावबोधनात् । अत एव क्ल३प्तशिखेत्यत्र 'अनृत' इति निषेधो न। अत एव च ऋदित्वलदि. स्वप्रयुक्तकार्ययोर्न साकर्यम् । रलयोस्तद्वत्त्वं च व्यपदेशिवदावेन । अत एव 'नाज्झलौ' इत्यस्य प्रत्याख्यानेऽपि न फलभेद इति बोध्यम् ।। अत्रायमनु- मानप्रयोगः-- अणुदित्सूत्रम् , लणसूत्रीयणकारघटिताण्पद घटितम् , 'उत्' सूत्रविधेयऋकारसवर्णव्यावृत्तिफलकतपरकरणव्यावर्त्यदीर्घग्राहकत्वात् , यन्नैवं तत्रैवम् । लणसूत्रीयणकारघटिताण्पदघटितत्वव्याप्य उत्सूत्रविधेयत्रकार- सवर्णव्यावृत्तिफलकतपरकरणव्यावृत्त्यदीर्घग्राहकत्ववदणुदित्सूत्रमित्याकारकप- रामर्शेन अणुदित्सूत्रं लणसूत्रीयणकारघटिताण्पदघटितमित्यनुमिति - तद्विषयतया च लणसूत्रे लणसूत्रीयणकारघटिताण्पदघटितत्वं सिध्यति । एवमन्यत्राप्यूह्यम् ॥ 'उपसर्गादति' इति तपरकरणं न तु सापर्फ, लकारग्रहणेन चारितार्थ्यात् ।। न च परेणाणप्रहणमिति बोधने- माणुवित्सूत्रप्रवृत्तेः प्रसोऽष्टादशानां प्रहणे तपरसूत्रप्रवृत्या तहाधकल्पनेन यते ।
नागेशाशयनिर्णये ["व्याख्यानतः- हणं परेण इण्ग्रहणम्' इति लणसूत्रे भाष्ये स्पष्टम् ॥ १॥ तपरकरणस्यापि ज्ञापकत्वं सूपपादमिति शक्यम्; विधायकत्वपक्षे अण्ण- हणाननुवृत्तस्तपरसूत्रे सिद्धान्तितत्वेन पूर्वेण प्रत्याहारेऽपि लकारग्रहणार्थत्वेन तपरकरणस्य चारितार्थ्यात् । विधायकत्वमेव युक्तं व्यक्तिपक्षे । विधिनियम- संभवे विधेरेव ज्यायस्त्वात् ।। यदि तपरस्य 'अतः' इत्यादेः सवर्णसमकालप्रसि- ध्या दोषवारणाय व्यक्तिपक्षेऽपि अण्ग्रहणानुवृत्तिरावश्यकी। अनुवृत्तौ तु तपरः स्वघटकाण्सवर्णसमकालप्राहक इत्यर्थेनादोष इति पूर्वेण प्रत्याहारे ऋकार. स्याणवाभावात् तेन लकारग्रहणं संभवतीति 'उपसर्गादृति-' इति तपर- करणस्य परेण प्रत्याहारे ज्ञापकत्वं सुस्थमेवेत्युच्येत, तदा ‘वृद्धिरादैच्' अदङ्गणः' इत्यादौ तपरकरणम् एओसूत्रस्थं भाष्यं च प्रमाणीकुर्वाणः तप- रशब्दबोध्यो वर्णः स्वसमकालग्राहक इत्यर्थमाश्रित्याणग्रहणाननुवृत्तौ दोषा- भावात् ऋकारेण लकारग्रहणं संभवतीति सार्थक्यं तपरकरणस्य जानाति ।। नापीदं उच्चरितस्यैव प्रत्यायकत्वादसंगतम् , तपरशब्दः स्वबोध्यसमकालग्राहको भवतीत्यर्थकरणेनादोषात् ॥ न चैवमपि तपरैच्छब्दबोध्यत्वस्य प्लुतेऽपि सत्वा- त्तत्समकालग्रहणं दुर्वारामिति शङ्कयम् ; तपरशब्दः स्वबोध्यसवर्णो य: तपर. वर्णसमकालो वर्ण: तस्य ग्राहक इत्यर्थेन प्लुतस्य तपरशब्दबोध्यत्वेऽपि तपरै. कारवर्णसमकालत्वाभावेन न तत्सवर्णप्रहणमित्यविरोधात् । अधिकमम्मत्कृत. शब्देन्दुशेखरव्याख्यायां शब्देन्दुमरीचिमालायां प्रपश्चितम् ॥ पूर्वेणेति ।। 'उरणपरः' इत्यत्र अण् पूर्वेणैव, अण्ग्रहणसामर्थ्यात् । अन्यथा 'उरच्' इत्येव ब्रूयात् ।। न हि रादिसंग्रहार्थमणग्रहणम् । फलं तु 'इको यण्- इति स्थाने रस्य रपरत्वे धात्रंश इत्यत्र रद्वयश्रवणमिति वक्तुं युज्यते ; 'रोरि' इति लोपे तत्र एकस्यैव श्रवणेन फलाभावात् । लद्वयं तु लाकृतिरित्यत्र न भवति । संयोगान्तलोपात् । गम्लादेस्त्वभिधाने भाष्यान. नुग्रह एव । 'अणोऽप्रगृह्यस्य-' इत्यत्रापि अप्रगृह्यस्येति पर्युदासेन अच एव कार्यसिद्धौ सामर्थ्यात्पूर्वेणैवेति सिध्यति । अनुनासिकयोग्यहलां तु अनभि- धानमुक्त शेखरे । 'केऽणः' इत्यात्रापि परेणाणमहणे हलो इस्वासंभवेन परिभाषा] शास्त्रत्वपापकोद्देशः । २९ 'अचश्च' इत्यनेनैवाक्षु सिद्धेः सामाात्पूर्वेणैवेति निश्चीयते ॥ न हि 'अ- चश्च' इत्यस्य बाधेन हलोऽपि इस्व: ; तत्फल तु श्वलिट्कः, मधुलिट्कः, इत्यत्र हस्वसिद्धिरिति वक्तुं युज्यते । यद्येतत्प्रयोजनं स्यात्तदा हयवरटष्टकारेण प्र- त्याहरेत् ‘केऽट:' इति । तस्मात् यदण्प्रहणं कृतं ततो विज्ञायते पूर्वेणैव ण. कारेण प्रत्याहार इति । एवं ' ठूलोपे पूर्वस्य--' इत्यत्रापि पूर्वेणैव, परणाणप्र. हणे हलो दीर्घासंभवेन 'अचश्च' इति परिभाषयैवाक्षु सिद्धया व्यर्थ सत् पूर्वेण प्रत्याहार इति बोधयति ॥ अथेदमुच्यते-- 'अचश्च' इति परिभाषा- बाधेनानचोऽप्यणो हलो दीर्घः स्यादित्यण्ग्रहणम् , फलं तु वृहूधातोः तृधि तुमुन्प्रत्यये चेडागमाभावे वर्दी वर्दुमित्यादौ दीर्घप्रवृत्तिरिति । तत्र ब्रूम:- दीर्घोत्तरमाद्गुणे रपरत्वे च वढी वर्दुमित्येव रूपमिति ॥ न हि परेण प्रत्याहर- णादेव आद्गुणबाध: कल्प्यत इति वक्तुं युज्यते । ढत्वादेरसिद्धत्वेन वार्णपरिभाष. या गुणात्पूर्व ' उपधायाश्च' इतीत्वापत्तेः । न चाणमहणेन निस्तारः ; गर्दधातो: बल्हधातोश्च यड्लुकि जागल्ढि बावल्ढि इत्यत्र लस्थाने दीर्घार्थमणप्रहण- स्यावश्यकत्वात् । यङ्लुकः छान्दसत्वेऽपि उक्तधातुभ्यां क्तिनि तितुत्र-' इति इनिषेधे गल्ढिः बल्ढिः इत्यत्र दीर्घसंपादनाय च आवश्यकमण्मणम् ।। यदाहात्र सर्वमङ्गलाकारः 'तत्राप्याद्गुणेनादोषात्' इति; स परं प्रष्टव्यः गल्दिः वल्दिरित्यत्र दीपों भवन् ऋकार एव स्यात् , न तु ईषत्स्पृष्टः । तस्य इस्वऋकारलकारयोः स्थान एव साधुत्वस्य शेखरोक्तत्वात् । अत एव गम- नित्यत्र ऋकारो दीर्घः । एवं च तत्राद्गुणे रपरत्वमेव स्यादिति रूपासिद्धिर्दोषः केन वा वार्यतामिति ॥ वयं तु ब्रूम:- अण्ाहणसामर्थ्यात् 'अचश्च इति परिभाषाबायो वा पूर्वेण प्रत्याहारो वेति संशये 'अबाधेन' इति न्यायेन पूर्वेण प्रत्याहार इत्येव सरणिया॑यसी, इति दिक् ॥ परेणेणग्रहणमिति ।। अत एव 'अचिश्नु-' इति सूत्रे ' य्वोः' इत्युक्तम् । अन्यथा इण इत्येव ब्रूयात् ।। न हि प्रत्याहारफलं वर्णद्वयमेवोपलभमान: पृथगुपादान एव लापवं मन्यते । भत एव ‘कृचानुप्रयुज्यते-' इत्यत्र कृन् इति प्रत्याहारे सामर्थ्यमाश्रयम् अस्ते भावाभावं पश्यति । ततश्च ‘वोः' इति कथं भवतु सापकमिति युज्यते वक्तुम् । 'कृश्चानुप्रयुज्यते-' इत्यत्र व्यवहितसूत्रान्तरस्थवर्णेन प्रत्याहारः कमोऽनुप्रयोगस्येति झापकाश्रयणमनेकेषां तन्मध्यपतितानां प. .
नागेशाशयनिर्णये ['यथोरेश्वम्- - तत्र संज्ञापरिभाषाविषये पक्षद्वयमित्याह- . रित्यागः संपदेर्धातुत्वेऽपि अनुगुणार्थत्वाभावानग्रहणमित्यादिशेन प्रत्या. हाराश्रयणे सामर्थ्य मुपपद्यते । नैवमेतत् । अत एव 'वृद्धिरादैच' 'अदे- हुगः' इत्यादौ वर्णद्वयबोधका: एंजादिप्रत्याहारा: उपपद्यन्त इति बोध्यम् ॥ भाष्ये स्पष्टमिति ।। अनेन अस्या ज्ञापकसिद्धत्वम् एतत्ज्ञापपत्याचार्यो भव. येषा परिभाषा' इति भाष्येणैव प्रतिपादितमित्यवगन्तव्यमिति सर्वमवदातम् ।। 34 पूर्वपरिभाषाया: संशयास्कन्दिताणादिपदघटितशास्त्रार्थनिर्णायक- स्वेन अण्पदघटितस्याणुदित्सूत्रस्य शक्तिप्राहकत्वेन संज्ञाशास्त्रम्योपस्थितौ तस्य च कार्यकालपक्षे 'अ अ' इति सूत्रे निष्कम्पं प्रवृत्त्या 'मालाति" इत्यादौ आकारस्य इस्वावर्णापत्तिरिति तद्वारणाय यथोद्देशपक्षस्यावश्याश्रयणीयत्वेन प्रसङ्गसा. त्योपस्थितं 'ज्ञापकन्यायसिद्धानि' इति प्रतिज्ञानुरोधेन ज्ञापकसिद्धपरिभाषानि- रूपणानन्तरं न्यायसिद्धत्वेन निरूपयितुं प्रस्तुतं सर्वपरिभाषासाधारण्येन पक्ष- द्वयबोधकत्वाध्यापकं च यथोद्देशकार्यकालपरिभाषाद्वयं क्रमेण व्याख्यातुमुपक्रम माणः प्रतिसंज्ञापरिभाष पक्षद्वयं प्राप्नोतीति शङ्कामपाकुर्वाणस्तत्र प्रथमं यथोदेश- परिभाषां व्याचष्टे- तत्रेति ।। शास्त्र इत्यर्थः; पूर्वमलक्षणमित्यनेनोपस्थितत्वात् । शाखं च प्रकृतं व्याकरणमेव । एवं चैतद्वन्थीयव्याख्यास्यमानपरिभाषाविषय एष पक्षद्वयम्, न तु 'तस्मिन्निति निर्दिष्टे पूर्वस्य' इत्यादाविति संभावनाया नावकाश इति बोध्यम् । अत्र च सप्तम्या: वृत्तिमत्वमर्थः । पक्षद्वयमित्यनेन तस्यान्वयः ।। किंविषये पक्षद्वयमित्याह संज्ञापरिभाषाविषय इति ॥ सं. ज्ञापरिभाषयोर्विषय इति इतरेतरयोगः । न हि जातिरप्राणिनाम्' इत्यस्य प्रवृत्तिः, जातिप्राधान्ये खलु तत्प्रवर्तते ; इह तु व्यक्तिप्राधान्यमित्यदोषात् । संज्ञापरिभाषाप्रयोज्यविध्युपकारविषय इत्यर्थः ।। पक्षद्वयमिति ॥ पक्षद्वय. बोधकमित्यर्थः ॥ इतिः हेतौ; यतः संज्ञापरिभाषाप्रयोज्यविध्युपकारविषये व्याकरणशास्त्रवृत्तिपक्षद्वयबोधकं परिभाषाद्वयं ततस्तदाहेति फलितोऽर्थः । त. 1. 'अ अ' इति सूत्रस्थ भाष्य तु, एकदेश्युतिः । अद इति न्यासस्याकरणात् , एकशेषसूत्रस्य प्रत्याख्यानाच, व्यवस्थितेनैव यथोदेशपक्षेण निर्वाहे उपायान्तरानुभावनस्या- नावश्यकत्वाचा .
परिभाषा] शास्त्रत्वमापकोद्देशः । यथोद्देशं संज्ञापरिभाषम् ॥ २ ॥ तश्च शाखस्वावच्छेदेन पक्षद्वयस्वीकारात् कचित् यथोद्देश', कचित् कार्यकालः, इति सिद्धम् ॥ यत्तु-कचिदुभयमिति गोविन्दादयः, सन्न विचारसहम् ; अ- न्यतरपक्षेणैव निर्वाहे पक्षद्वयाश्रयणस्यानावश्यकत्वात् ; 'पक्षान्तरैरपि परिहारा भवन्ति' इति लक्सूत्रस्थभाष्यसिद्धान्तव्याकोपापत्तेश्च । 'न हि व्यव. स्थितयोः पक्षयोः अन्यतरेण लक्ष्ये सिद्ध पक्षान्तरेण शकाऽप्युचितेत्यर्थस्य प्रगृ. संज्ञाप्रकरणे भाष्ये ध्वनितत्वात्' इति अर्थवत्सूत्रस्थशब्दरत्नविरोधाच्च ; एक- त्रोभयस्मिन् लक्ष्यसाधनरूपस्य प्रयोजनस्य कुवाप्यसंभवाच्च । प्रगृह्यसंज्ञाविषये सत्यपि शास्त्रभेदे संज्ञाभेदाभावात्कार्यकालपक्ष: केवलमाश्रयणीयः । अन्यथा 'पुतः प्रगृह्या अचि-' इत्यत्र 'ईदूदेत्-' इति संज्ञाशास्त्रविषये यथोदेश- पक्षाश्रयणात् प्रगृह्यपदशक्तिप्रहेण पदपदार्थोपस्थित्या वाक्यार्थबोधस्य सुलभ- सया 'अदसो मात्' इति शास्त्रस्य कार्यकालपक्षाश्रयणे विधिसूत्रस्थप्रगृह्यपदस्य स्वशक्तिमाहकशास्त्राकाडाभावेन विधिना संज्ञाशाकवाक्यतैव न स्यात् ; एवं 'अणोऽप्रगृह्यस्य-' इत्यत्रापि कार्यकालपक्षे तत्तद्विधिलक्ष्यासिद्धिारा स्यात् । तस्मात् एकसंज्ञाविषये शास्त्रभेदेऽपि संज्ञाभेदाभावात् एक एव पक्ष- आश्रयणीय इति 'ईदूदेत्' इति शास्त्रस्यापि 'अदसो मात्' इति शास्त्र- यत् कार्यकालत्वमेवानीकर्तव्यम् । 'ईदूदेत्-' इत्यस्य कार्यकालपक्षाङ्गीकारे प्लुतस्य प्रगृह्यत्वसिद्धये एव 'प्लुतात्पूर्व दीर्घोऽपि प्रश्लिष्यते' इत्यभिहितम् । भत एव 'अदसो मात्' इत्यत्रापि ईदून्सूत्रवत् यथोद्देशपक्षाश्रयणे ‘अदसो न' इति न्यासेन समाधानान्तरमुक्तं भाष्ये । स्पष्टं चेदमस्मदाचार्यपादप्रणीते परिभाषेन्दुशेखरभूषणे । एवं च सति व्यवस्थितयोः पक्षयोरनयोरन्य. तरपक्षेण लक्ष्यनिर्वाहे पक्षद्वयाश्रयणं विफलम् । अतोऽनुचितमिति क. चिचोभयपक्षः' इत्युक्तिः यागेश्वरादीनामज्ञानविजम्भितैवेति विभावयन्तु विद्वांसः॥ संज्ञापरिभाषमिति समाहारद्वन्दः । शक्तिमाहक शाखं संज्ञाशास्त्रम् । पक्षप्राप्तार्थानुवादकत्वे सति लिविहितं अर्थान्तरनिवृत्यर्थकं परिभाषाशा. सम् । ते च अष्टाध्यायीस्थानुपूर्वीपटकपौर्वापर्यव्यवहारप्रयोजकस्वठितस.
नागेशाशयनिर्णये [' यथोद्देशम्-' उद्देशमनतिक्रम्य यथोद्देशम् । उद्देशः उपदेशदेशः। अधि. निवेशघटकावकाशातिक्रमविरहविशिष्टे अन्यत्र सर्वत्र शाने स्ववाक्यार्थ- बोधस्मरणेन लभ्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगितत्तच्छास्त्रीयवाक्यार्थबोधं जनयतः । 'पाणिनीयं महाशास्त्रं पदसाधुत्वलक्षणं । सर्वोपकारकं प्राचं कृत्स्नं त्याज्यं न किंचन' इति पराशरोपपुराणपर्यालोचनया 'वर्णेनाप्यनर्थकेन न भवितव्यं कि पुनरियता सूत्रेण' इति वृद्धिसूत्रस्थभाष्यबोधितशास्त्रवैयर्थ्य- निराकरणेन च शास्त्रत्वेन प्रयोजनवत्वं निर्णीय प्रयोजनविशेषानिर्णयेऽपि यथाश्रुतग्राहिणः परितोष इति स्थितिः ॥ ननु अव्युत्पन्नस्य यथाशब्दस्य वीप्साबोधकत्वेन उदेशपदस्य उपदेशपर्यायत्वेन च करणे घना प्रतिशास्त्रं संज्ञापरिभाषमित्यर्थे ' कार्यकालं संज्ञापरिभाषम्' इति द्वितीयपरिभाषानुत्थि- तिरेवेत्यत आह- उद्देशमनतिक्रम्येति ॥ अविहायेत्यर्थः । विधिवाक्यार्थ- बोधं जनयतीति शेषः, एवं च क्त्वोपपन्नः ॥ यत्तु- 'स्वार्थ बोधयति इति शेषः' इति सर्वमङ्गलाकारः, तदसत्; स्वदेशानतिक्रमणस्य स्वार्थबोधं प्रति हेतुत्वप्रतिपादनस्य शशविषाणपर्यायत्वात् , पदपदार्थोपस्थिती वाक्यार्थबोधे प्रतिबन्धकाभावेन स्वदेशातिकमात्पूर्व स्वार्थबोधने बाधकाभावेन तदर्थ प. रिभाषारम्भस्य काकदन्तपरीक्षाकुक्षिप्रवेशापत्तेश्च ॥ यदपि- 'स्वदेशसम्ब. न्धध्वंसप्रागभावकालिकः स्वार्थबोधः' इति तस्यैव प्रलपनम् , तदप्यस- तम् ; यथोडेशपक्षे स्वदेशसंबन्धध्वंसस्य सिद्धान्तविरुद्धत्वात् , यदा भवति वंसः तत्पूर्वक्षण एव खलु प्रतिपादनीयस्तत्प्रागभावः ॥ यत्तु- वर्तत इति शेषः' इति गोविन्दादयः, तदविचारितरमणीयम् ; स्वदेशातिक्रम- विरहेण वर्तनस्य प्रतिपादनाय परिभाषारम्भस्य वैयर्थ्यात् , स्वदेशसंब. न्धध्वंसविरहेणैव वर्तनसिद्धया तक्रियाध्याहारस्थानौचित्याच, स्वदेशसंबन्धध्वं- सविरहेण विधिवाक्यार्थबोधजनकत्वस्य एतावताऽप्यनापत्तेश्च ॥ परावरयोगे च' इति क्त्वा, परावरत्वं च बौद्धम् । 'समानकर्तृकयो: इत्यस्य तु न प्राप्तिः, पूर्वकालिकत्वाभावात् । 'यथा सादृश्ये' इत्यव्ययीभावः । उपदेश- देशातिक्रमविरह विशिष्टमिति यावत् ॥ ननु भावघषन्तयोरुपदेशोदेशपदयोः स्वावच्छिन्नविधेयताकशाबोधानुकूलत्वस्वप्रकारकप्रत्यक्षानुकूलत्वोमयसंबन्धेन - - ki. Fuswan Set AE Prutassut of Sanskrit & Lompat ative Philo ogy, Presidency Collage, Madras – I have nei ured some portion (O ha mulis NAVIGASAYA NIRNAYA irrhoea fumy R Naray jaetong of the Tulungili Sinsent College TI 19 work 18 & lea red co mentry on the fanion treating called Paribhashendusekbara hy Vag(98 Bhatta The author propogen to critically examine in this conmunta v the va 10u- inlorpretations given by other comidoptators on Paribbrush adusekhi 1 yea that this conumentary has already met will the r probabil, of some oppimnt Isakaranas liko Mabamabopadhyaya Suble you? Prow the portions I have seen, I can confidently sav' that ir Sostruts roulant wheu pitablished will hold a promi. amet ulau in Warsaw love or in otining relating to tbo Vyakarana Sastra M. So w'a qualsithe di Hu Tu Jogurs encouragement NEW PUBLICATIONS * Sastra Darpana by Sri Amalananda, the author o kalpotu Thilo. Waterlı trestube on the Brabmasutras consisting of plurebond laccuses on each Adlikurane. Crown plopp 360. Ulth Gill Rs. 2-8-0. Taittiriyopanishad Bhashya with the commentar collie Vanamala hov Sri Achyuta Krishnananda Tutha 'l tus pre 2006 Conmental is quite invaluable to a right understanding of the Bhalata of Sri Sankara Roval &vo pp. 27. Pire Rs. 3. Bhagavad Gita with the comuentary called Brahmanandagiri by su lenhat muthu An excellent Advaitic ('oinmentari la Slipler ir in fery respect to all others published hitherto I'ie uthus sprends to have been very learned with his critical faru lles fully developeri Crown 8vo. pp. 614. Price Rs. 3. TIE VAN IGER, Buoksolling Depatment, SRI VINI VILIS PRESS SRIRANGAM, (Madras Presideney, $ India.)
OPINIONS - The Honorable Mr. V. Krishnaswamy Iyer. C. S. I.-- Brahma Sree R. Narayana Sastrial is a pundit of rare abil ‘y. He has a profound knowledge of Vyakarana His powers of versification are high and his co opositions are singularly frie from the defects of modern pundits. His character is very god. In my opinion he deserves the patronage of all lovers of Sans rit. तिरुविशनलर महामहोपाध्याय श्रीरामसुब्रह्मण्यशाषिणः-- भाष्य पातचले यन्मतिरातमनता नम्बरे ग्रन्थवये काव्यालङ्कारवगे बहुविधरचना यस्य सम्यक प्रसिद्धा । द्राक्षापाको यदाये वर्चास मुगधुगे नन्दनीय कवीन्द्रः मोऽय नारायणाख्या मा मुदमत नोद्रामसुब्बोर्वचोभिः ।। नागेशाशयनिर्णयममा यस्तन, निर्मिता ग्रन्थः । दृष्टोऽयमेक एव भवति नगशाहदानीता ।। पश्चनदक्षेत्रवास्तव्यवयाकरणत्रय महामहोपाध्याय श्रीमुष्णसुब्बरायाचा- र्याः-चोलमण्डलमण्डलायमानराधाम ङ्कलनमामि जनेन मरसकविताचतुरण वैयाकरण- श्रेष्ठेन नारायणशास्त्रिणा प्रणात नागभाभयनिणयाभिधान परिभांपन्दुशेश्वरल्याख्यानमव- लोक्य एव मन्ये ऽहम् । यद्यपि पण्टियः प्रणीतानि परिभाषन्दुशेखरव्याख्यानानि सन्ति, तथापि अत्र उल्लिविता के नवीना विषयाः तेषु नोपलभ्यन्त । किं च प्रायो व्याख्यानानि मूलखण्डनपरण्येव १५५. । इद तु तत्खण्डनस्य अलमकता प्रदर्य मूलाशयवर्णनेन मूलार्थस्य दाढ्यं स्पारयति । ए.वमाद यो बहवा गुणा उपलभ्यन्ते । तस्मादवश्यमुपादेयमिति ।। पुदुक्कोट्टै राजस्थानदानाधिकारिणः पुदग्रहारं श्रीगोपालशास्त्रिण:- नागेगाशर्यानणय भूषितभूषणविगांजतो जयति । खण्डितदाषक लामो भुवि परिमाणे दुशेखगे नाम ।। मन्निकटाचिरकाल गृहीतविद्य कवीश्वर. प्रयते । नागेशाशयनिर्णयविधिना नागयणामधः शाखी ॥ मत्कृतभूषणविवरणनागेशाशयविनिर्णय वीक्ष्य । नानाखण्डनविकृतीजाँता वेलेति निन्दितु मन्ये ।। नवसालपुराधीशश्रीमन्मार्ताण्डभूपतेः । दानाधिकारी गोपालाशास्त्रीत्थ बहमन्यत ।।
परिमाषा] शास्त्रत्वप्रापकोद्देशः। करणसाधनश्वायम् । यत्र देशे उपदिश्यते तद्देशे एव वाक्यार्थबोधेन गृहीत. धर्मविशिष्टव्यापाररूपं प्रत्यक्षमाख्यानमुपदेशः । यथा लोके यत्र कर्ण गृहीत्वा अयं गौरिति बोधयति, तत्र कर्णप्रहणरूपव्यापारे उक्तोभयसंबन्धेन गोत्व- वैशिष्टयस्य सत्वात् तत्र प्रत्यक्षमाख्यानमिति, उपदिष्टो मे गौरिति व्यवहारः। यत्र तु सानादिमान् गौः इत्युचार्य गां बोधयति, तत्र उचारणव्यापारस्य गो. त्वावच्छिन्नविधेयताकशाब्दबोधानुकूलत्वेऽपि तत्प्रकारकप्रत्यक्षाननुकूलत्वाम तत्रोपदेशपदव्यवहारः, किंतु प्रत्यक्षविषयतावच्छेदकधर्मपुरस्कारेण बोधनरूपं गुणैः प्रमाणमिति उद्देशस्यैव व्यवहार इति भेदेनोपादानदर्शनात् , ' उद्देशश्च प्रातिपदिकानां नोपदेशः' इति वार्तिकस्वारस्याच, उद्देशोपदेशयोः भेद एवेति कथमिष्टार्थसिद्धिरित्यत आह- उद्देशश्चोपदेशेति ॥ ननु भावघबन्तत्वात् उपदेशपदस्य इष्टार्थासिद्धिरेवेत्यत आह- देश इति । तर्हि कस्मिन्नर्थे घ. बित्यत आह- अधिकरणसाधनश्चायमिति ॥ साध्यते साधुत्वेन प्रतिपाद्यते प्रकृतिप्रत्ययादिः अस्मिन्निति साधनमर्थः । अर्थविशेषावलम्बनेनैव साधुत्वनि- र्णयात् । अधिकरणं साधनं यस्येति व्युत्पत्त्या अधिकरणार्थक इत्यर्थः । अधिक- रणार्थ ज्ञात्वैव घब् प्रयुज्यत इति भावः । अत एव · अचः परस्मिन्-' इति सूत्रे भाष्ये 'भावसाधनः' इत्युक्तम् । 'साधनं कृता' इत्यादौ च अगत्या सा- धनशब्दः कारकपरोऽपीत्यन्यदेतत् । बाहुलकादत्र अधिकरणे धनिति बोध्यम् ।। अयमिति ।। उद्देशशब्द इत्यर्थः । उत् , उप, इत्युपसर्गभेदेऽपि 'इषेत्वकमधी- व' इति गुरुणा कथिते 'उहिष्टो मेऽनुवाकः' इति शिष्येण प्रतिवचनदानादु. पूर्वकदिशिः उच्चारणार्थकः प्रयुज्यत इति उद्दिश्यते उच्चार्यते अस्मिन्निति उच्चार- णाधिकरणामत्यर्थः फलतीति भावः । ननु देशभेदेन गुणप्रधानशास्त्रयोः वाक्या- र्थबोधे कथं उपकार्योपकारकभावप्रसक्तिः इत्यत आह-योति । यच्छब्दस्य देशत्वेन कालबोधकत्वेऽपि कालत्वेन कालबोधकत्वाभावामदाप्रत्ययः । अत एव 'यत्र काले त्वनावृत्तिः' इत्यादिप्रयोगः संगच्छते । अष्टाध्यायीस्थानुपूर्वापिंट- कपौर्वापर्यव्यवहारप्रयोजकसंनिवेशघटकावकाश इत्यर्थः । तद्देश एवेति ॥ पठितानां पाठदेशे ज्ञापितानां ज्ञापकदेशे चेत्यर्थः; एवेन विधिदेशव्यावृतिः ।। वाक्यार्यबोधेनेति। अस्स गृहीतशक्या गृहीतपरिभाषाएँन इत्युभयत्राप्यन्वयः ।। N.5 नागेशाशयनिर्णये [यथोद्देशम्-' शच्या गृहीतपरिभाषार्थेन च सर्वत्र शास्त्रे व्यवहारः। देशश्च उच्चारण- . गृहीतशक्त्येति । कर्मधारयसमासोऽत्र बोध्यः । इदं संज्ञास्थले । स्मरणं प्र- त्यनुभवस्य कारणत्वोपपत्तये मध्ये व्यापारः संस्काराख्य आत्मन्यङ्गीक्रियते, तस्य च आत्मनि सर्वदा सत्त्वात्सर्वदा स्मरणवारणाय उद्बुद्धसंस्कारस्यैव स्मरणं प्रति कारणत्वमिति परमङ्गीकर्तव्यम् । तदुक्तं तत्त्वबिन्दौ वाचस्पतिमित्रैः । 'पद- भ्यासादरप्रत्ययाहिता हि भावना प्रबोधवती स्मृतिहेतुः' इति । उद्बुद्धसंस्कारः स्मृतिहेतुः इति तदर्थः । उद्बोधकं च एकसंबन्धिज्ञानादिकम् । उद्बोधकैकसंब- न्धिज्ञानादिसत्त्वेऽपि कुत्रचित्स्मरणादर्शनात् दृढतरसंस्कारस्य स्मरणं प्रति कार- णत्वमित्यङ्गीकर्तव्यम् । दृढतरसरकारात्पेत्तिं प्रतिच अपेक्षाबुद्धेः कारणत्वम् । अपेक्षात्मकश्च प्रत्ययः, पटुः, अभ्यासः, आदरश्चेति नैयायिकत्रिधा विभज्यते । आयो यथा- अनवहितचित्तस्याप्यद्भुतादिदर्शने । द्वितीयो यथा- खण्डि- काध्ययनादौ । तृतीयो यथा अवहितचित्तस्य क्षुद्रवस्तुवीक्षणे । तथा च वृद्धिरादैच्' इत्यादौ वृद्धिपदस्य आदेचा सह तादात्म्यदर्शनात् वृद्धिपदस्य आदैजूपोऽर्थः, अतस्तत्र शक्तिर्गृह्यत इति संज्ञाशास्त्रजन्यवाक्यार्थबोधरूप- शक्त्यनुभवोपोदलितेन आदरात्मकेन संस्काराधायकेन प्रत्ययेनैव 'वृद्धि- रेचि' इत्यादौ वृद्धिपदश्रवणे 'एकसंबन्धिज्ञान-' इति विधया तत्तत्साके. तिकविधिशास्त्रघटकपदानुभवोद्बुद्धेनोपस्थितिशाब्दबोधयोर्निर्वाहे ‘यन्नदुःखेन' इत्यनेन स्व:पदशक्तिप्रहे वृत्ते 'स्वाराज्यकामो यजेत' इत्यादावर्थोपस्थितिवत् 'वृद्धिरेचि' इत्यादी आदेचामुपस्थितिर्भवतीति विधिदेशे पुनरेतत्प्रतिसंधानस्य नोपयोग इति भावः ॥ गृहीतपरिभाषार्थेनेति ॥ अत्रापि कर्मधारयः । इदं परिभाषास्थले । 'तस्मिन्निति निदिष्टे पूर्वस्य' इत्यादौ परिभाषाशाले वाक्यार्थ- बोधोत्तरं सप्तमीनिर्देशादिलिङ्गेन 'इको यणचि' इत्यादी स्मरणेन परि- भाषार्थो गृह्यते, स एव गृहीतपरिभाषार्थः तेनेत्यर्थः ॥ सर्वत्र शास्त्रे इति । सर्वविधिशास्त्रेष्वित्यर्थः ॥ व्यवहार इति । उपकारकत्वव्यवहार इत्यर्थः । अवच्छेदकावच्छेदेन संज्ञाशास्त्रेषु शक्तिमह इति ‘वृद्धिरादेच्' इत्यादीनां 'आदैचो वृद्धिपदवाच्याः' इति वाक्यार्थबोधानन्तरं भाविफलानुसंधानात्सार्थ- क्यबुद्ध्या स्वदेश एव दृढतरसंस्कारोत्पत्तौ एकसंबन्धिवृद्धपादिपदश्रवणे संज्ञा. .
परिभाषा] शास्त्रत्वप्रापकोद्देशः । काल एव अत्र शास्त्रे व्यवाहियते । तत्र वाक्यार्थबोधे जाते 'भविष्यति किंचिदनेन प्रयोजनमिति ज्ञानमात्रेण संतुष्यद्यथाश्रुतग्राहिमतिपत्रपेक्षो. - भिः गृहीतशक्तिस्मरणेन सर्वविधिशास्त्रोपकारः । एवमौपश्लेषिकाधिकरणबोधक- सप्तम्यन्तार्थोपश्लिष्टस्य कार्यमव्यवहित पूर्वसंबन्धि बोध्यम् इति वाक्यार्थबोधे जाते 'इको यणचि' इत्यादावौपश्लेषिकाधिकरणबोधकसप्तम्यन्तरूपलिङ्गश्रवणेन एकसंबन्धिज्ञानविधया परिभाषार्थस्योदोधात् विधिनियमयोरेकवाक्यताम- न्तरा अचि पर इत्यर्थबोध इति गृहीतनियमस्मरणेन परिभाषाभिः प्रदीपवदे- कदेशस्थिताभिः सकलविधिशास्रोपकार इति भावः। ननु कोऽसौ देश: ? यत्र वाक्यार्थबोध: प्रसिद्धः कुरुपाञ्चालादिस्तत्र न संभवतीत्यत आह- देशश्चेति । चस्त्वर्थे, वैयाकरणानां सांख्ययोगानुयायित्वेन 'दिक्कालावाका- शादिभ्यः' इति दिक्कालयोराकाशस्य च तत्त्वान्तरत्वानभ्युपगमादिदम् । अष्टा- ध्यायीस्थानुपूर्वीघटकपौर्वापर्यव्यवहारप्रयोजकसंनिवेशघटकावकाश इत्यर्थः फ- लितः । ननु संज्ञापरिभाषाणां कार्यार्थत्वात्कार्यज्ञानस्य च विधिशास्त्राधीन. स्वात्तत्तद्विध्याकाङ्क्षायाः जागरूकतया तदीयवाक्यार्थकाले वाक्यैकवाक्यताया आवश्यकत्वेन प्रधानदेश एव जल्लिङ्गानुसारेण गुणशाखाकर्षणस्य न्याय्य- तया वाक्यार्थे परस्परैकवाक्यतया स्वीक्रियमाणे कार्यकालपक्ष एव सदा संभ. बतीत्यसंभवदुक्तिकोऽयं यथोद्देशः । किं च स्वदेशे स्वार्थ प्रायतां संज्ञाप- रिभाषाशास्त्राणां पुरुषसंस्कारद्वारा विधिदेशीयत्वग्राहकमहावाक्यार्थमन्तरैव विधिशास्रोपकारकत्वमित्येवंरूपो यथोद्देशपक्षोऽत्र नायितुं युज्यते । स्वदेशे स्वार्थबोधोत्तरम् अस्य किं फलमिति फलाकाङ्काया अनिवार्यत्वेन विधिवाक्या. र्थाभावेन फलाभावात्संज्ञापरिभाषयोरपि वाक्यार्थाभावप्रसक्तिरिति यथोहे- शपक्षस्यैवासंगतिरित्यत आह-- तत्रेति । संज्ञापरिभाषाशास्त्रेष्वित्यर्थः । अनेनेति । संज्ञासु शक्तिस्मरणेन परिभाषासु नियमस्मरणेनेत्यर्थः । ज्ञान- मात्रेणेति । मात्रपदेन विशेषज्ञानव्यावृत्तिः । 'वर्णेनाप्यनर्थकेन न भवि. तव्यं किं पुनरियता सूत्रेण' इति ' वृद्धिरादेच्' इति सूत्रस्थभाष्यप्रा- 1. तत्तदित्यपि पाठः, काशीयहैमवतीसवलितपरिभाषन्दुशेखरपुस्तके तत्रेत्येव पाठो दृश्यते । तत्र इत्येव पाठमझकित्य व्याख्यात यागेश्वरेण ।
नागेशाशयनिर्णये ['ययोरेशम्- ऽयं पक्षः' इति ईदूत्सूत्रे कैयटः । माण्येन संज्ञापरिभाषादेशे वाक्यार्थबोधनानन्तरं यद्यपीदानी फलं न ह- श्यते, तथापीदं आप्तमहर्षिप्रणीतत्वादनर्थकं न भवति । किं तु 'भविष्यत्य- नेन किंचित्प्रयोजनम्' इति भाविफलानुसंधानेन प्रयोजनविशेषमनपेक्षमाणानां फलविशेषजिज्ञासानुदयाच्छास्त्रस्य सर्वाधिकारिकत्वेनाचार्यप्रणीतत्वात्सामान्य- ज्ञानेनैव संतोषः; न तु फलविशेषजिज्ञासयेति भावः । वृद्धिसूत्रस्थभाष्यबो- धितप्रयोजनविशेषानाकलनेन जिज्ञासन्ते ये च फलविशेषं तदनुरोधी नायमि- त्याह- यथाश्रुतग्राहीति ॥ यथाश्रुतं गृहातीति यथाश्रुतग्राही, यथाश्रुतमाही चासौ प्रतिपत्ता च यथाश्रुतग्राहिप्रतिपत्ता, संतुष्यन्यो यथाश्रुतग्राहिप्रतिपत्ता च संतुष्यद्यथाश्रुतग्राहिप्रतिपत्ता, तस्य अपेक्षा अपेक्षाबुद्धिः यस्मिन्पले स संतुष्यद्यथाश्रुतप्राहिप्रतिपत्रपेक्षः, प्रतिपत्ता निश्चयवान् || अयं पक्ष इति । यथोदेशपक्ष इत्यर्थः । तथा च संज्ञापरिभाषाणां वाक्यार्थबोधे भाविफलानु- संधानेन सार्थक्यबुद्ध्या स्वदेश एव दृढतरसंस्कारोत्पत्तेः तद्धेतुभूतया अपे. झाबुद्ध्या तदुत्तरं विधिप्रदेशे एकसंबन्धिज्ञानविधया स्मरणेन लक्ष्यसं. स्कार इति अपेक्षाबुद्ध्या यथोद्देशपक्षः सिद्धः । अत एव अपेक्षापद मुपात्तमिति भावः ॥ ईदूरसूत्रे कैयट इति ॥ तत्र हि तपरकरणेन भनी३ इत्यत्र कार्यकालपक्षे 'अणोऽप्रगृह्यस्य--' इत्यत्र 'ईदूदेत्-' इत्यस्योपस्थिती तदृष्टया प्लुतस्य सिद्धतया ईकारस्य त्रिमात्रिकत्वेनाल्विधित्वेन स्थानिवद्भा- वाभावाच प्रगृह्यसंज्ञाया अप्रवृत्त्या अनुनासिकत्वापत्तिमाशङ्कय यथोदेशपक्ष- माश्रित्य प्रगृह्यसंज्ञा प्रति प्लुतस्यासिद्धतया जातस्यापि प्लुतस्यासिद्धत्वेन पुनः संज्ञायां नानुनासिकत्वम् ; संज्ञाप्रवृत्तौ कार्यस्यैव नियामकत्वात् , यदा यदा कार्य तदा तदा तत्प्रवृत्त्यभ्युपगमात् , ' लक्ष्ये लक्षणम्- 'समः सुटि' इति ज्ञापकसिद्धस्य धर्मिग्राहकमानेन संज्ञातिरिक्तविषयकत्वाचेत्या- शयकमुक्तमित्यर्थः ॥ भत्र पक्षे- संज्ञापरिभाषाणां विधिशाकवाक्यतां विनैव स्वदे. शे वाक्यार्थबोध इति तत्र जावशकिस्मरणेन जातनियमस्मरणेन च पदार्थ- ' इति न्यायस्य - परिभाषा] शाखस्वप्रापकोद्देशः। निर्णायकत्वाद्वाक्यार्थनिर्णायकत्वाच विध्युपकारकत्वम् । तत्र संज्ञाशा परमुप- जीव्यत्वेन तदन्तरा त्रैपादिकविधीनां तद्धटकपदशक्तिप्रहानुदयेन वाक्यार्थयो- भासंभवादत्याकाडया गृहीतशक्त्या सापादिकत्रैपादिकसकलविध्युपकारकं भ. वति, परिभाषाशासं तु नियामकं भवतीति नियामकत्वे शब्दतो अर्थतो वा निषेधपरम् अत: परिभाषाविधेयार्थस्मरणेन निषेधे कर्तव्ये 'पूर्वत्रासिद्धम्' इत्यनेन त्रिपाद्या असिद्धत्वात् त्रैपादिकातिरिक्तसापादिकविधिमात्रोपकारकम् । न च गृहीतपरिभाषार्थेन त्रैपादिककार्यसंस्काराभावे त्रैपादिकविधीनां लक्ष्य. संस्कारकबोधाभावादसंदिग्धानाहार्याप्रामाण्यज्ञानानास्कन्दितलक्ष्यर्मिकसाधु. त्वप्रकारकज्ञानोपयोगिबोधजनकत्वस्यैवासंभवाच्छास्त्रत्वमुपजीव्यासिद्धत्वबोध. केन 'पूर्वत्रासिद्धम्' इत्यनेनासिद्धत्वबोधनस्याशक्यत्वात्संज्ञाशाखाणामिव परिभाषाशास्त्राणामपि त्रैपादिकविध्युपकारकत्वमव्याहतमेवेति शक्यम् , गुण. शास्त्रार्थग्रहात्पूर्व त्रैपादिकविधीनां लक्ष्यसंस्कारकबोधाजनकत्वेऽपि अप्रामाण्य. मानानास्कन्दितयत्किंचिलक्ष्यसंस्कारककार्यज्ञानोत्तरम् 'पूर्वत्रासिद्धम्' इत्यने- नासिद्धत्वस्य सुवचत्वेन परिभाषाविधेयार्थस्मरणेन निषेधे कर्तव्ये त्रिपायाः असिद्धत्वस्य दुर्वारत्वेन त्रैपदिकातिरिक्सापादिकविधिमात्रोपकारकत्वस्य परि- भाषाशास्नेष्ववश्याश्रयणीयत्वात् । अथ 'पूर्वत्रासिद्धम्' इति शाने प्रधानभू- तानां त्रैपादिकशास्त्राणां यद्भवति सजातीयं तदेव पूर्वग्रहणेन गृह्यते । अतश्च न परिभाषाशास्त्रं गुणभूतं पूर्वग्रहणेन प्रहीतुं युज्यत इति परिभाषाशाखस्य पादिकविध्युपकारत्वं दुर्वारमेवेति चेत्, अत्रोच्यते- 'नलोपःसुप्स्वर- इति सूत्रे संज्ञापदमुपाददानः पाणिनिराचार्य: पूर्वग्रहणेन गुणशास्त्रस्यापि प्रहणमिति बोधयतीति कथं वा निवार्यताम् 'पूर्वत्रासिद्धम्' इत्यनेनासिद्ध- त्वम् । यस्तु 'संज्ञापरिभाषाणामत्यन्तपारार्थ्यान्न स्वातन्त्र्येण कार्यावगमहेतुत्वं केवलमाचार्येण लाघवायानकप्रधानाङ्गभावप्रतिपत्तये पृथगुपदेशः कृतः । ततश्च 'तस्मिमिति निर्दिष्टे-' इत्यनेन न किंचित्कार्य क्रियते, नापि 'झलो झलि' इत्यनेन, किं तर्हि संहत्य कार्य क्रियते । ततो झल्यनन्तरे पूर्वस्य सकारस्य झलः परस्येति वाक्यार्थ इति एकवाक्यतायां पौर्वापर्याभावादसिद्धत्वाभाव इति कैयटे स्पष्टमुक्कत्वात्कथं परिभाषादृष्टया त्रिपाचा असिद्धत्वमिति वक्तुमाशंखेत; म तर्हि वक्तव्य: 'ययपीदं तत्रासिलं तत्त्विह सिमिति 'पूर्वत्रासिवं' इति ३८ नागेशाशयनिर्णये [यथोदेशम्-' सूत्रस्थभाष्यप्रामाण्येन संस्कार्यदृष्टया संस्कारकस्य सिद्धत्वेऽपि संस्कारकपरि- भाषादृष्टया संस्कार्यस्यासिद्धत्वेन संस्कारासंभव इति परिभाषाविधेयार्थस्मर- णेन संस्कारत्रिपाद्यां दुर्वचः । किंच स्वस्वदेशे परिभाषाविध्योर्वाक्यार्थ- बोधे पश्चात्परिभाषादृष्टया त्रिपाद्या असिद्धत्वेनैकवाक्यतैव दुर्लभा । तथा च तयोरेकवाक्यतायां पौर्वापर्याभावादसिद्धत्वाभावः । तस्मिश्च सति त. योरेकवाक्यतेत्यसिद्धत्वाभावापादनमन्योन्याश्रयदूषितम् । अपि च कार्यका- लपक्षपरतया कैयटो नेय इति । स्यादेतत्; संज्ञापरिभाषाणां पदा- र्थनिर्णायकत्वेन वाक्यार्थनिर्णायकत्वेन च विध्युपकारकत्वे 'कश्चिदेकदे. शस्थः सर्व शास्त्रमभिज्वलयति, यथा प्रदीप: सुप्रज्वलित: सर्व वेश्माभिज्व- लयति' इति प्रदीपदृष्टान्तप्रदर्शनपर 'षष्ठीस्थान-' इति सूत्रस्थभाष्यासंग. ति: इति चेत् , अत्रोच्यते- यथोडेशे स्वदेशे वाक्यार्थस्य सत्त्वेन तत्तदर्थो- पस्थित्यैव सर्वप्रकाशकत्वं संज्ञापरिभाषासाधारणं संस्कारमात्रस्यैव ज्वलनश- ब्दार्थत्वे बाधकाभावः । संस्कार्यविधीनामनेकत्वेन युगपच्छ्रोतबुद्धपनारोहे स्वदेशे गृहीतवाक्यार्थबोधस्य तत्र विधौ स्मृतिमात्रेण तत्तत्संस्काराभिप्रायेण 'एकदेशस्थः' इत्युक्तिरुपपद्यते । दीपो यथा प्रभाद्वारा सर्वप्रहप्रकाशकः, एष. मेतत्संज्ञापरिभाषाशास्त्रं लिङ्गन गृहीतस्वार्थस्मृतिद्वारा सर्वशास्त्रोपकारकमिति प्रदीपदृष्टान्तसंगतिः । 'कश्चित्परिभाषारूप' इति कैयटोऽपि संज्ञापरिभाषो- भयसाधारण्येन पारार्थ्यस्योपलक्षणतया योजनीय इति बोध्यम् ।। इयान्परं विशेष:- यथोडेशे संज्ञाशास्त्रं परिभाषाशानं च खदेशे जनितस्य वाक्यार्थबोधस्यान्यत्र स्मरणेन पदार्थनिर्णयं वाक्यार्थनिर्णयं चोप- जनयतीति प्रकरणविशेषानुपक्रमेण पठितानां तेषां अनारभ्याधीतेन 'यस्य पर्णमयीर्जुहूः' इत्यादिवाक्येन विहितायाः पर्णतायाः सर्वप्रकरणशेषत्वेन सर्व- प्रकृतिगामित्वमिव अशोकवनिकान्यायेन सकलप्रकरणशेषत्वात्सकलशास्त्रोपका- रकत्वमित्यवश्यमङ्गीकर्तव्यम् , अस्मिंश्च पक्षे संज्ञाविध्योः विधिपरिभाषयोश्च भिन्नोद्देश्यविधेयविषयकत्वेन एकबोधीयविषयतासमर्पकत्वरूपाया एकवाक्य- ताया: प्रतिपादयितुमशक्यत्वाद्वाक्यभेदेनैव विध्युपकारकत्वम् । भाकाला- धीनमिममिनसंसर्गप्रतिपादकवाक्यद्वयजन्यशाब्दबोधविषयीभूतमहावाक्यार्थ- परिभाषा] शास्त्रत्वपापकोद्देशः । ३९ . त्वरूपा वाक्यैकवाक्यतापि न स्वीकर्तुं शक्या; युगपदोधाभावेन तस्याः दुरुप- पादत्वात् , अवान्तरवाक्यार्थबोधानङ्गीकारेण तस्या व्याघाताच कार्यकालपक्षे विधिप्रदेशे संज्ञाशास्त्रार्थवोधेन तद्वोधानन्तर्यसंभवेऽपि यथोडेशे उपजीव्यो- पजीवकभावापन्नस्यापि बोधस्यानन्तर्याभावाब, प्रथमं संज्ञाशास्त्रीयो वाक्या. र्थबोधः, अनन्तरं शक्तिग्रहः, परस्ताव स्मरणम् , ततश्च विधिघटकपदार्थनि- र्णयः एवं परिभाषाशास्त्रीयः पूर्व वाक्यार्थबोधः, अनन्तरं च स्मरणम् , स्माच्च विधिवाक्यार्थनिर्णयः इति न स्वार्थः तदर्थान्वितः न वा स्वजन्यशा- ब्दबोधविषयः इति स्वजन्यशाब्दबोधविषयीभूतविध्यान्वितस्वार्थत्वस्य दुर्व. चत्वाष, वाक्यार्थबोधस्मरणेन विधिघटकपदार्थनिर्णयस्य विधिवाक्यार्थनिर्णः यस्य च संज्ञापरिभाषाशाखैकसाध्यत्वेऽपि विभिन्नक्रियासंबन्धेन निष्पन्नस्य तद्वाक्यार्थस्य विधिवाक्यार्थेन सह संबन्धाभावाच, 'समिधो यजति-' इत्यादिवाक्यानां 'स्वार्थबोधे समाप्तानामङ्गाङ्गित्वव्यपेक्षया । वाक्यानामे. कवाक्यत्वं पुनः संहत्य जायते' इति दर्शपौर्णमासविध्येकवाक्यत्वं यथा, न प्रकृते तथेति भेदस्य स्पष्टत्वाच । न हि अवान्तरवाक्यार्थबोधानङ्गीकारे परस्परमुपकार्योपकारकभावज्ञानानुदयेनाङ्गाङ्गिभावज्ञानानुदयः, प्रकरणविशे. पानारम्भेण सर्वप्रधानशास्त्राङ्गत्वस्याशोकवनिकान्यायेनोपपत्तेः, प्रथमपठि- तानां सापादिकानां गुणशास्त्राणां पूर्व वाक्यार्थबोधे अनन्तरं वृद्धयादिपदश्र- वणे एकसंबन्धिज्ञानविधया विधिदेशे गुणशास्त्रार्थस्मरणेन गुणशास्त्रेषु वि- ध्युपकारकत्वसिद्धावसाङ्गिभावस्य सूपपादत्वाच । स्यादेतत् ; औपश्लेषिकाधि- करणबोधकसप्तम्यन्तत्वादिरूपलिजशानाय पूर्वमवान्तरबोधः आवश्यक एवेति 'स्वार्थबोधे समाप्तानाम्-' इति परिभाषाशास्त्रवि इति परिभाषाशास्त्रविधिशास्त्रयोः वाक्यैकवाक्यता सूपपादेति चेत्, भैवम् ; वृद्धयादिपदश्रवणवत्सप्तम्यन्तादिपदश्रवणेऽपि एक- संबन्धिज्ञानविधया स्मरणस्य सुवचत्वेनावान्तरवाक्यार्थबोधस्यानावश्यक. त्वात् । न चैवमवान्तरवाक्यार्थबोधानीकारे सामान्यतो जायमानमा- दाय कार्यशानं प्रवर्तमानमसिद्धत्वं दुर्निरूपमिति शङ्कयम्, शब्दतोऽर्थतो वा निषेधपरमतो नियामकं भवति परिभाषाशास्त्रम् । अतश्च तद्विधेयार्थस्मरणेन निषेधे कर्तव्ये निषेधस्य पूर्वपरिभाषार्थकार्यस्य 'पूर्वत्र' इत्यनेन प्रहणेनासि- द्वत्वस्य सूपपादत्वात् । न हि 'पूर्वत्रासिद्धम्' इत्यनेन शावत्वेन रूपेणासिद्ध- नागेशाशयनिर्णये [ययोद्देशम्- त्वं बोध्यते, नस्वन्येन रूपेण । अन्यथा सापादिकशास्त्राणां त्रिपाद्यामप्र- वृत्तौ तत्रत्यपदानामसाधुत्वं स्यात् । शास्त्रत्वेन रूपेणासिद्धत्वे तु सापादि- कविधिशास्त्रीयोद्देश्यतावच्छेदकरूपेणासिद्धत्वाबोधनात्तत्तद्विधिशास्त्राणि त्रि- पादीघटकपदेषु प्रवर्तन्त एव । शास्त्रत्वं च, साक्षात्परंपरया वा असंदिग्धाना- हार्याप्रामाण्यज्ञानानास्कन्दितलक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधजनक- त्वम् । तथा च त्रैपादिकविधिशास्त्राणां शास्वत्वप्रापकपरिभाषाशास्त्रप्रवृत्ते: पूर्वमप्रामाण्यज्ञानानास्कन्दितलक्ष्यधार्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधाजन : कत्वेऽपि अप्रामाण्यज्ञानानास्कन्दितयत्किंचिल्लक्ष्यसंस्कारककार्यज्ञानमादाय जायमानमसिद्धत्वं दुर्वचम् , त्वद्रीत्यावान्तरवाक्यार्थबोधानङ्गीकारात् , इति श. क्यते वक्तुम् । वैपादिकविधिशास्त्रेषु सापादिकपरिभाषार्थस्मरणाभावेऽपि अ- प्रामाण्यज्ञानानास्कन्दितयत्किंचिल्लक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधज- नकत्वसंभावनया शास्त्रत्वसंपादनेऽवान्तरवाक्यार्थबोधस्यानावश्यकत्वात् । न च संभावनापि तादृशी अवान्तरवाक्यार्थबोधोत्तरमेवेति शश्यम् , परिभाषा शास्त्रीयार्थस्मरणाभावेऽपि पदपदार्थोपस्थिती वाक्यार्थबोधे प्रतिबन्धकाभावा- पादिकविधित्वावच्छेदेन यत्किंचिल्लक्ष्यसंस्कारकं कार्यज्ञानं जायत एवेत्युक्त- संभावनाया अवान्तरवाक्यार्थप्रहात्पूर्व सुवचत्वात् । अवान्तरवाक्यार्थबोधस्तु भसिद्धत्वप्रवृत्तः परं सापादिकपरिभाषार्थस्मरणाभावे संभवत्येव । एवं च प- रिभाषावाक्यार्थग्रहकाले तत्स्मरणसमये वा ततःपरमप्यसिद्धत्वप्रवृत्तेः पूर्वमवा- न्तरबोधानङ्गीकारेण वाक्यैकवाक्यता दुर्वचा। आर्थिकनिषेधस्य परिभाषा- मूलकत्वात्तत्स्मरणेऽपि तस्य वाक्यार्थबोधरूपत्वासंभवेन वर्षसहस्रेणापि सा दुरुपपादा। किंच तस्या उपजीव्योपजीवकभावापन्नबोधप्रयोजकत्वस्वाभाव्येन परिभाषाशास्त्रीयस्य बोधस्य विधिवाक्यार्थबोधोपजीव्यत्वं न संभवत्येवेति दुनिरूपैव सा। संज्ञाशास्त्रविधिशास्त्रयोस्तत्संभवेऽपि यथोद्देशे गृहीतैव शक्तिः प्रदेशे स्मर्यत इति तस्य वाक्यार्थबोधरूपत्वासंभवेन योगपद्यासंभवात् नैव शक्यते सा प्रतिपादयितुम् । किं च विध्यर्यान्वितस्वार्थबोधकत्वरूपं विध्यैक- वाक्यत्वं स्मरणेनवेष्टसिद्धिरेवंफलके यथोडेशे संज्ञाशास्त्रविधिशास्त्रयोः को हि नाम शक्रोत्युपपादयितुम् , यदि स्मरणमेव वाक्यार्थसंबन्ध इत्याग्रहः तर्हि शाकिमहात्पूर्व विधिवाक्यार्थबोधानुदयेन विमिप्रक्रियासंबन्धेन निष्पनेन वा- परिभाषा] शास्त्रत्वप्रापकोदेशः । ४१ क्यार्थेन संबन्धाभावः सुतराम् इति, 'यत्र तु विभिन्नक्रियासंबन्धेन निष्प. नयोर्वाक्यार्थयोराकासावशात्परस्परसंबन्धः तत्र सा वाक्यैकवाक्यता' इति उक्तलक्षणलक्षिता सा दुरुपपादा । अपि च ' यन्नदुःखेन-' इत्यनेन स्व:पद- शक्तिमहे 'स्वाराज्यकामो यजेत' इत्यादौ तदर्थोपस्थितिवत् ‘वृद्धिरादैच् ' इत्यादिना वृद्धयादिपदशक्तिप्रहे 'वृद्धिरेचि' इत्यादी आदैजादीनामुपस्थिति. रिति विधिदेशे पुनस्तत्प्रतिसंधानस्य नोपयोगः, पक्षवैलक्षण्यं च सापादिक- कार्यसंबन्धे यथोदेशः, त्रैपादिकतत्संबन्धे तु कार्यकालः, इत्येतावतैवेति वक्त. व्यम् । संगृहीतमेवेदं यथोहेशं कार्यकालमित्यक्षरस्वारस्येन परिभाषायाम् । यथो- देशपदस्य उपदेशदेशातिक्रमणाभावार्थकत्वेन उपदेशदेशश्च संज्ञापरिभाषाणां सा- पादिकदेश एवेति सापादिकदेशभिन्नदेशसंक्रमामावस्यैव परिभाषाबोध्यत्वेन सिद्धमेव यथोडेशे सापादिकविधिमात्रोपकारकत्वम् , अन्यथा अचेतनस्य सं. ज्ञापरिभाषस्य स्वदेशभिन्न देशसंक्रमासंभवेन परिभाषया तनिषेधस्य काकदन्त- परीक्षापर्यायता स्यात् । कार्याणां काल एव कालो यस्येति विग्रहेण संज्ञापरि- भाषस्य कार्यदेशस्थत्वं प्रतिपाद्यते । यथोद्देशपक्षाश्रयणेनैव सापादिकत्रैपादिकवि- ध्युपकारे तदर्थ परिभाषान्तरमनावश्यकमिति सामर्थ्यापादिककार्यदेशस्थ- त्वमेवाश्रीयत इति संज्ञापरिभाषाणां कार्यकाले त्रैपादिकविधिमात्रोपकारकत्वमि- त्यङ्गीकर्तव्यम् , अत एव 'इकोगुण--' इति सूत्रे कैयटे यथोडेशे एव परिभा- षयोः पौर्वापर्यम् , न तु कार्यकालतायामित्युक्तम् । कार्यकालपक्षे परिभाषाणां त्रैपादिककार्यदेशस्थत्वेन तत्र परस्परं पूर्वत्वपरत्वाभ्यां बाध्यबाधकभावो दुनि- रूप इति तदाशयः। एवम् ‘कार्यार्थत्वाद्गुणानां कार्यस्य च प्रधानत्वात् प्रधानदेशत्वस्य न्याय्यत्वात्' इति ईदूत्सूत्रे कैयटः । तथा च संज्ञापरिभा- षाणां कार्यैकवाक्यतामन्तरा स्वदेशे स्वार्थमात्रबोधे तत्स्मरणेन कार्यप्रदेशो- पकार इति यथोहेशः, कार्यैकवाक्यतायां तु कार्यकालपक्ष इति पक्षयोर्विशेषः । कार्येण एकवाक्यता च त्रैपादिकेनैव कार्यकाले । न हि संज्ञाशास्त्रा र्थप्रवृत्तिमन्तरा शक्तिमहासंभवेन विधिशास्त्रीयस्यैव बोधस्याजननात् नि- रुतशास्त्रत्वासंपत्त्या संज्ञाशास्त्रदृष्टया नासिद्धत्वं त्रिपाद्या इति त्रिपायां तदुपकारसंपत्तये संज्ञाविषये कार्यकालपक्षाश्रयणमनावश्यकमिति शश्यम् , कार्यदेशस्थत्वसंपत्तये तदावश्यकत्वात् , एक संज्ञाविषये अन्यतरेणापि सङ्कट- N.6 १२ नागेशाशयनिर्णये ['यथोद्देशम्- कपदशकिनिर्णये उपजीव्यत्वासंभवेन तदृष्ट्या त्रैपादिकासिद्धत्वतावस्थ्याच । एतेन ‘एवं पात्र पक्षे संज्ञापरिभाषाणां वाक्यैकवाक्यतया पदार्थनि- र्णायकत्वेन वाक्यार्थनिर्णायकत्वेन च विध्युपकारकत्वम्' इति प्राचीनम- तवर्णनाय प्रवृत्तो वाक्यार्थचन्द्रिकाकारः प्रत्युक्तः । उक्तरीत्या वाक्यैकवाक्य- तायाः दुनिरूपत्वात् , वाक्यैकवाक्यतयान्वये 'भुक्तवन्तम्--' इति न्यायेन जातस्य यणादेः निवृत्त्ययोगाच । अथेदमुच्यते, स्वदेशे शास्त्रश्रवणे व्युत्पन्नस्य पुरुषस्य तत्रैव स्यादर्थबोधः, न त्वन्यत्रेति सर्वत्र स्वदेश एव वाक्यार्थबोध: संभवति । अतो यथोद्देशपक्षाश्रयणं विफलमिति चेत् , अत्र बेम:--- यदि स्यामाश्रितो यथोद्देशपक्षः, तर्हि ' कार्यकालं संज्ञापरिभाषम् ' इति संज्ञापरिभाषाणां कार्यकालत्वमव्याहतमेव स्यादिति कथं वा सिध्यतु यथो- देशपक्षाभिमतं फलम् । अचेतनमपि संज्ञापरिभाषाशाखं स्वदेशसंबन्धध्वंसवि- रहमनुभवत्स्वदेशे स्वार्थबोधनद्वारा वाक्यभेदेनापि विधिसंस्कारकं भवतीत्येव तात्पर्येण स्वीकृतोऽयं पक्षो यथोद्देशः । अस्मिंश्च पक्षे संज्ञापरिभाषाशास्त्राणां स्वदेशे वाक्यार्थबोधोत्तरं वृद्धिसूत्रस्थभाष्यप्रामाण्येन 'भविष्यति किंचिदनेन प्रयोजनम्' इति भाविफलानुसंधानादपेक्षाबुद्धया दृढतरसंस्कारेण विधिप्रदे- शेषु एकसंबन्धिज्ञानविधया संस्कारोद्धोधे लक्ष्यसंस्कारः । एवं च कैयटमत- मप्युत्तमाधिकारिपरतयैव योजयितुं शक्यते । उत्तमाधिकारिणामेव वृद्धिसूत्र- स्थभाज्याभिमतार्थानुसरणावश्यकत्वात् , मन्दानां फलजिज्ञासाया एवानु- दयात् , यदा संभवति फलजिज्ञासा तदा तेषामपि विधिविशेषज्ञानेन संतोष बाधकामावाच, उत्तमाधिकारिणामपि वृद्धिसूत्रस्थंभाष्याभिमतमर्थमनुसरतां फलसामान्यजिज्ञासया संतोषस्य सूपपादत्वाच, अपश्यतामपीदानी फलविशेष तेषामुत्तमाधिकारिणामाप्तमहर्षिप्रणीतत्वान्नानर्थकमिदं भवति शास्त्रजातम् । अपितर्हि 'भविष्यति किंचिदनेन प्रयोजनम्' इति सार्थक्यबुद्ध्या स्वदेश एक दृढतरसंस्कारोत्पत्तौ तेनैव संशापरिभाषादेशे अपेक्षाबुद्धिर्जायते । तत एवायं यथोडेशपध इति विशेषः । एतदेवाभिप्रेत्य — यथाश्रुतमाहिप्रतिपत्रपेक्षो. ऽयं पक्ष:-' इत्युक्तम् । तत्र यथाश्रुतग्राहीत्यस्य न मन्दाधिकारीत्यर्थः, अपि तु संजापरिभाषाशास्त्रे यथाभुतं गुरूपदेशावगतम् 'भविष्यति किंचिदनेन प्रयोजनम्' इति भाष्यप्रामाण्यासार्थक्यबुद्धावुत्पमढवरसंस्कार एवापेक्ष परिभाषा] शासत्वपापकोद्देशः। बुझ्या गृहातीति यथाश्रुतपाही, प्रतिपत्ता ज्ञानवान् , न तु जरः। तस्य वृद्धि- सूत्रस्थभाष्यप्रामाण्यपरिज्ञानानुदयात् । तथा च कैयटमतमुत्तमाधिकारिपरमे- वेति स्पष्टमेव विज्ञायते । एवं साध्वनुशासनेऽस्मिन् शास्त्रे सङ्केतग्रहस्यानुप- योगात् 'वृद्धिरादैच्' इत्यादौ आईचो वृद्धिपदवाच्या इति शक्तिप्रहे जातेऽपि तदानीं फलादर्शनेन अनुपयुक्तमिदं शास्त्रमनर्थकम् इत्यानर्थक्यज्ञानेनो- पेक्षाबुद्धौ दृढतरसंस्कारानुत्पत्त्या 'वृद्धिरादेच्' इत्यादौ एकसंबन्धिवृद्धिपदसा- नेऽपि संस्कारस्यानुद्वोधादादैचामनुपस्थितौ वृद्धिपदार्थजिज्ञासायाम् 'वृद्धिरा. देच्' इति सूत्रमुपतिष्ठत इति संज्ञापरिभाषादेशे दृढतरसंस्काराभावानापेक्षाबु- द्विरित्युपेक्षाबुद्धया कार्यकालपक्षोत्थानसंभवः । तथाचापेक्षाबुद्धयुपेक्षाबुद्धी यथोदेशकार्यकालहेतुभूते । एवं च बुद्धिभेदेन पक्षभेद इति कैयटमतम् , न त्वधिकारिभेदेनेत्युपाध्यायगूढाकूतम् । फलं चास्य अरंतुद इत्यक्ष 'पूर्वत्रासिद्ध- म् , इत्यनेन 'असिद्धं बहिरङ्गमन्तरङ्गे' इति पूर्वस्मिन् परिभाषाकार्ये कर्तव्ये परस्य संयोगान्तलोपस्यासिद्धत्वम् । तेनान्तरङ्गाभावात् 'असिद्धं बहिरङ्गमन्त- रङ्गे' इति न प्रवर्तते । ततश्च संयोगान्तलोप: सिद्धो भवति । एवं राज्ञ इत्यादौ श्चुत्वसिद्धिः, दत इत्यादौ भसंज्ञाप्रवृत्त्या जश्त्वाभावश्च सिध्यति, अन्यथा ज- श्त्वविध्यकवाक्यतापमपदसंज्ञाया निःशव प्रवृत्ती जश्त्वापत्तिर्दुारा स्यात् इति बोध्यम् ॥ इयं च परिभाषा न्यायसिद्धा । दीपो यथा प्रभाद्वारा सर्वग्रहप्रका. शकः, एवमेतत्संज्ञापरिभाषाशाखं लिङ्गन गृहीतस्वार्थस्मृतिद्वारा सर्वशास्रो- पकारकम् , इति प्रदीपन्यायेन एकदेशस्थस्यापि संज्ञापरिभाषाशास्त्रस्य सर्वशा- खाभिज्वलकत्वं सिध्यतीत्यभिप्रेत्य 'कश्चिदेकदेशस्थः सर्व शास्त्रमभिज्वलय. ति' इति भाष्ये उक्तमिति सर्वमाजस्येनोपपद्यत इति प्राचीनसिद्धान्तपद्धतिः ॥ अथेदमसंगतम्-- संभवत्येकवाक्यत्वे वाक्यभेदो न न्याय्यः, सत्यपि वाक्यभेदे नियमार्थत्वे त्रैदोव्यापातः । संज्ञाविषये वृद्धिपदत्वावच्छेदेनादैज्वा- चकत्वबोधनाजिज्ञासा न भवतीति तत्र संभवति नैरर्थक्यझानादुपेक्षाबुद्धिः कार्यकालपक्षे । परिभाषाविषये तु औपश्लेषिकाधिकरणबोधकसप्तम्यन्तघटिते शाले निर्दिष्टे पूर्वस्य इत्युपतिष्ठते, इत्यौपश्लेषिकाधिकरणबोधकसप्तम्यन्तार्थोप. लिष्टस्य कार्यमव्यवहितपूर्वसंबन्धि बोध्यम्, इति वाक्यार्थबोधे जाते भोपलेषि.
नागेशाशयनिर्णये ['यथोरेशम्- केचित्तु परिभाषाविषये 'तस्मिन्-' इत्यादिवाक्यार्यबोधे सप्त- , काधिकरणबोधकसप्तम्यन्तघटितं शास्त्रं किम् ! इत्युत्थितायामाकालायामुपेक्षा- बुद्धिः नैव सार्थक्यज्ञानाच्छात्रस्य संभवति इति कार्यकालपक्षे नोपेक्षाबुद्धि:- जम् इति परिभाषाविषये वक्तुं शक्यते, इति प्राचीनमतमस्वरसप्रस्तमुत्पश्यन् स्वसिद्धान्तमुपवर्णयितुमारभते- केचित्विति । महाभाष्यगूढाशयविद इत्यर्थः । केचित्तुशब्दोऽत्र परेतुपर्यायः , अत एव स्वसिद्धान्तप्रतिपादनावसरे शेखरादिषु परेतुपर्यायः केचित्तुशब्दः प्रयुज्यते । 'इति केचित्' इत्यन्ते यत्र केचिच्छब्दो भवति प्रयुक्तः तत्रैव सोऽरुचिबोधकः, नत्वन्यत्रेति एतद्वन्थ- कारशैलीति विवेकः । एतेन 'अत एवैतावदंशस्य दुष्टत्वेन तत्रारुचिसूचनाय केचिदित्युक्तम् , अन्यथा एतदन्तस्य सर्वस्य सिद्धान्तत्वेन परेत्विति वक्तुमुचि- तम्-' इति केषाश्चिदुक्तिः परास्ता । उद्योते विप्रतिषेधसूत्रे केचित्तु न हि व्यक्तिपक्षे सर्व शाखं व्याप्नोति, न तु जातिपक्ष इत्यत्र मानमस्ति-'इत्यारभ्य विप्रतिषेधाप्रसक्तरिति वदन्ति' इत्यन्तेन प्रतिपादितस्यैवार्थस्य सकृद्गतिन्याय- निरूपणावसरे प्रकृतग्रन्थे सिद्धान्ततया स्वीकारस्य सर्वसंमतत्वात् । 'अदसो मात्' इत्यत्र उद्योतविरोधं तु परस्तात्परिहरिष्यामः ॥ परिभाषाविषय इति ।। परिभाषाप्रयोज्यविध्युपकारविषय इत्यर्थः । यथोद्देशे इति शेषः ॥ तस्मि- मित्यादिवाक्यार्थबोधे इति ॥ ' तस्मिन्निति निर्दिष्टे-' इत्यादीनामौपश्ले. षिकाधिकरणबोधकसप्तम्यन्तार्थोपश्लिष्टस्य कार्य विधीयमानमव्यवहितपूर्वसं- बन्धि बोध्यमिति वाक्यार्थबोधे जाते, विधीनां च वाक्यार्थबोधे जाते इत्यर्थः । अन्यथा परस्परमुपकार्योपकारकभावज्ञानानुदयात्परिभाषासु उपकारकत्व. बुद्धिरेव न स्यादिति भावः । सप्तमीनिर्देशादि केति पर्यालोचनायामिति ॥ औपश्लेषिकाधिकरणबोधकसप्तम्यन्तादिघटितं शाखं किमिति जिज्ञासायामुदि. तायामित्यर्थः ।। सकलतत्तद्विध्युपस्थिताविति ॥ तस्य विधिः तद्विधिः, तस्य तद्विधिः तत्तद्विधिः, सकलश्चासौ तत्तद्विधिश्चेति कर्मधारयः । उपकार्योपका- रकभावः प्रथमषष्टयर्थः अवयवावयविभावः द्वितीयषष्ठयर्थः । प्रथमतत्पदेन परिभाषाशास्त्रस्य ग्रहणम् , द्वितीयतत्पदेनौपश्लेषिकाधिकरणबोधकसप्तम्यन्ता- दिपदस्य प्रहणम् , तथा च परिभाषाशास्रोपकार्योपश्लेषिकाधिकरणबोधकस- परिभाषा] शास्त्रत्वमापकोद्देशः । मीनिर्देशादि केति पर्यालोचनायां सकलतत्तद्विध्युपस्थितौ सफलतत्त- संस्काराय गुणभेदं परिकल्प्य एकवाक्यतयैव नियमः । कार्यकालपक्षे सम्यन्तादिपदघटितसकलविधिशास्त्रोपस्थितावित्यर्थः । न हि कतिपयविध्युप- स्थितौ शान्तैव जिज्ञासा इति सकलविध्युपस्थितिरप्रसक्तैवेति युज्यते वक्तुम् , अशोकवनिकान्यायेन कस्योपस्थितिः कस्यवानुपस्थितिः इत्यत्र विनिगम- काभावेन सर्वेषामप्युपस्थितौ बाधकाभावात् । त्रैपादिकविध्युपकाराय कार्य- कालपक्ष: परमवश्यमाश्रयणीय इति न तस्य निरालम्बनत्वमापादयितुं शक्यते सकलेत्येतदपि त्रैपादिकातिरिक्तस्वोपकार्यसापादिकविधिसाकल्यबोधकमिति न तस्यासांगत्यम् , एवमुत्तरत्रापि । अनेन 'अत्र सकलेत्यसंगतं यथोडेशे परि- भाषादेशे सकलविध्युपस्थिती मानाभावात्कार्यकालपक्षस्य निरालम्बनत्वापत्तेः, कतिपयविध्युपस्थित्या जिज्ञासायाः शान्तत्वेन सकलविध्युपस्थितेरनुपयोगाच' इति वदन् विश्वनाथभट्टः समाहितः ।। सकलतत्तत्संस्कारायेति ॥ परिभा- षाशास्त्रोपकार्योपश्लेषिकाधिकरणबोधकसप्तम्यन्तादिपदघटितसापादिकसकलवि धिशास्त्रीयलक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगिनिश्चितवाक्यार्थबोधसंपादना. येत्यर्थः ॥ गुणभेदामिति ॥ ‘दशापवित्रेण प्रहं समा!ि' इत्यनेन प्रहसंमार्जनविधाने एकत्वविवक्षया एको प्रहः संमार्जनीय इत्याशय प्रहं प्रति गुणः संमार्ग इति प्रतिप्रधान गुण आवर्तते' इति न्यायेन यावन्तो प्रहास्ते सर्वेऽपि संमार्जनीया इति यथा कल्प्यते, तद्वदिहापि 'त. स्मिन्निति निर्दिष्टे-' इत्यादीनां वाक्यार्थबोधे जाते वाक्यभेदादिपरिहा- राय 'इको यणचि' इत्यादावार्थकनिषेधपरपरस्मिन्निति विशेषणदलोपस्थितिः । ततश्च इक: स्थाने यण् भवति अचि परे इति विधिवाक्यार्थः परि- ष्क्रियते । तादृशदलनिवेशात्प्राग्व्यवहिते चाचि प्रसक्तस्य यणः आर्थि- कनिषेधपरः संपद्यते परिष्कार इति तस्यार्थिकनिषेधपरविशेषणदलनिवेशे तात्पर्य कल्पयित्वा पदोपस्थितिर्विधीयते । तथा च गुणशास्रोपस्थितार्थि. कनिषेधपरपरस्मिनित्यादिविशेषणदलावृत्तिमित्यर्थः ॥ एकवाक्यतयैवेति ॥ स्वोपस्थाप्यार्थनिष्टविषयतानिरूपितविषयताप्रयोजकपदघटितत्वरूपवाक्याथैक. वाक्यतया स्वघटकपदप्रयोज्यविषयतानिरूपितविषयताप्रयोजकपद्घटितत्वरूप- नागेशाशयनिये ['ययोदेचम्- - पदैकवाक्यतया वेत्यर्थः । यत्र विधेर्वाक्यार्थबोधानन्तरं परिभाषायाच तद्वोधा. नन्तरं अन्यतराकाहृया परिभाषानियमविधिबललभ्यपदेनैकवाक्यता, तत्र वा- क्याथै कवाक्यता। यत्र च विधेर्वाक्यार्थबोधे परिभाषोपस्थापितेन परिभाषाघ- टकपदेन एकवाक्यता, तत्र पदैकवाक्यता इति सिद्धान्तः । वस्तुतस्तु श्रौतपदैक. वाक्यता, आर्थपदैकवाक्यता चेति द्विविधा पदैकवाक्यता । तत्र आर्थपदैक- वाक्यताया एव वाक्याथैकवाक्यतेति व्यवहारः । मीमांसकास्तु वाक्येकवा. क्यता, पदैकवाक्यता चेति द्विविधामेव यद्यप्येकवाक्यतां मन्यन्ते, तथापि पदैकवाक्यतापरपर्यायामवान्तरभित्रामपि पदैकवाक्यताया नातिविभिन्नां वा. क्याथैकवाक्यतामन्यां कामप्येकवाक्यता नव्याः पुनर्वैयाकरणा व्याचक्षते ।। एवं च पक्षद्वयेऽपि परिभाषाणामेकदेशस्थत्वं भाष्योक्तं संगच्छते, अन्यथा 'परिभाषाणां कार्यकालपक्षे व्यवहर्तृन्यायेन विधिदेशीयत्वाभावेऽपि वि. घिदेशस्थत्वस्य सुतरामपलपितुमशक्यत्वेनैकदेशस्थत्वं न संभवेदेव' इति एकदेशस्थत्वप्रतिपादनपरभाष्यसिद्धान्तव्याकोपापत्तिः । एतेन शंकरभट्टीयम- नुरुन्धानो 'व्यवहर्तृणां तहेशगमने तद्देशीयत्वव्यवहाराभावेऽपि तदेशस्थत्व- व्यवहारोऽक्षत एव' इति सर्वमङ्गलाकार: प्रत्युक्तः । परिभाषाणां वाक्याथै- कवाक्यतया पदैकवाक्यतया वा विध्युपकारकत्वम् , इत्यङ्गीकारेण विधिप्रदेशे सर्वत्र परिभाषाविधेयपदोपस्थितावपि नैतावता परिभाषाणां विधिदेशे गमनं संभवतीति तदुक्तेाहतत्वात् । परिभाषाकाङ्कया विध्याकाङ्क्षा चात्र पक्षे गुणभूतशिष्यापेक्षया प्रधानभूतस्यापि गुरोः कांस्यभोजनप्रवृत्तिवदुपपद्यत एवेति भावः ॥ नियम इति ॥ 'ब्रीहीनवहन्ति' इत्यादाविव पक्षप्राप्तार्थानु- वादेनार्थान्तरनिवृत्तिरित्यर्थः । क्रियत इति शेषः, एवं च क्त्वोपपन्नः । नीलमुत्पलमित्यादौ विशेषणाकाङ्क्षयेव परिभाषाकाया विध्याकाङ्क्षामुत्थाप्य आर्थिकनिषेधपरविशेषणदलनिवेशात्कल्पितया वाक्यार्थंकवाक्यतया पदेकवा. क्यतया वा नियमः संपादनीयः । ततश्च प्राचीनरङ्गीकृतो न वाक्यभेदो दोषः संभवति । अथात्र पक्षे एकस्य विधिशाखस्य तत्तत्परिभाषया एकवाक्यता- यां परिभाषाभेदेन एकवाक्यताभेदात्पुनर्वाक्यभेदो यद्यपि दोषाय, विधि- शास्त्रेण अनेकपरिभाषाणां युगपदेकवाक्यत्वे बाधकाभावेन वाक्यभेदः सु- परिहर एवेत्यदोषः । एवेन 'संज्ञाविषये किमल प्रयोजनमित्याकाणामाः परिभाषा] शास्त्रत्वप्रापकोद्देशः। पूर्वोक्तरीत्या भविष्यति शास्ने कचित्प्रयोजनमिति सामान्यज्ञानेन शा- न्तिकल्पनवत् 'भविष्यति कचित्सप्तमीनिर्देशः' इति सामान्यज्ञानमा- त्रेण शान्तिसंभवे गुणभूतपरिभाषादेशे प्रधानविधीनामुपस्थितिकल्पनस्या- न्याय्यत्वात्' इति परिभाषाभास्करानुरोधी सर्वमङ्गलाकारः परास्तः । संभव. त्येकवाक्यत्वे वाक्यभेदस्यान्याय्यत्वात् , सत्यपि नियमार्थत्वे त्रैदोष्यापाताच । नहि विधिभेदेन परिभाषाणामावृत्तिवत् गुणभूतानेकपरिभाषानुरोधेन प्रधान- शास्त्राणामावृत्तिकल्पनम्' इति सर्वमङ्गलोक्तो दोषो दुरुद्धरो भवति । 'प्रति- प्रधानं गुण आवर्तते' इति न्यायेन परिभाषानियमविधिबललभ्यार्थिकनिषेधप- रपरस्मिन्नित्यादेः परिभाषोपस्थापितस्य परिभाषाघटकस्य इक इत्यादेर्वा पदस्य आवृत्तिकल्पनाङ्गीकारेऽपि प्रधानावृत्तिकल्पनाया अनावश्यकत्वेनाप्रामाणिक- त्वात् । यदि सर्वपरिभाषासंस्कृतय एकस्य महावाक्यार्थस्य काप्यसंभवेन क. स्यापि लक्ष्यसंस्कारकत्वानापत्तिरित्युच्येत, तर्हि तं प्रतिब्रुवीत- नेदं सर्वम. अलोक्तं मोदक्षमम् , यतः स्ववृत्तिलिङ्गचिह्नितपरिभाषाशास्त्रविधेयपरस्मिन्नित्या. दिविशेषणदलनिवेशेन वाक्याथै कवाक्यतया परिभाषोपस्थापिततद्धटकेगादिप. दनिवेशेन पदैकवाक्यतया वा विधिशास्त्रेषु लक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोप- योगिनिश्चितवाक्यार्थबोध इत्यङ्गीकुर्वतामस्माकं न दोषलेशावकाश इति । अथे. दमुच्यते 'अलोऽन्त्यस्य' इत्यस्योपस्थितिकाले 'आदेः परस्य' इत्यस्योपस्थित्य- संभवेनोत्सर्गापवादयोरखमकालप्राप्त्या अपवादेनोत्सर्गबाधानापत्तिरिति, तत्रैवं समाधास्यामः-तत्तत्परिभाषाविषयभूतेषु तत्तदाकाङ्क्षयोरुभयोरपि प्रत्येकं जा. यमानतया युगपदेकस्य विधेरुभयत्रोपस्थितेविरोधेन परत्वापवादत्वादिप्राबल्य. सहकृतपरिभाषाकायैव तत्तद्विध्याकाङ्केति सिद्धान्तेन नापवादभूतस्योत्सर्ग- बाधकत्वं व्याहन्यताम् , अत एव उभयनिर्देशस्थले परपरिभाषाकायैव वि. ध्याकाङ्क्षा सिध्यति । तस्मिनिति निर्दिष्टे पूर्वस्य' इति परपरिभाषाकाङ्क्षया पूर्व इको यणचि' इत्यादिविध्याकालायामपि विरोधाभावात्पुनःप्रसङ्गविज्ञानेन 'षष्ठी स्थाने-' इति परिभाषाकाडया विध्याकाङ्क्षा चोपपद्यत एव । परमाचार्यास्तु- प्रथमं परिभाषार्थे जाते 'भादेः परस्य' इत्यत्रोपस्थितविधेः 'अलोऽन्त्यस्य इत्यत्रोपस्थितविधि प्रत्यपवादत्वम् , एवं च 'आमि सर्वनाम:--' इत्यादौ न पूर्वपरयोः मुट् प्रसज्यताम् , उभयनिर्देशन्यायेन परपरिभाषार्थस्यैव लक्ष्यसं- , ४८ नागेशाशयनिर्णये [यथोद्देशम्-' स्कारकत्वात् । पूर्वपरिभाषायां तु न तदुपस्थिति: ‘मो इस्यात् -' इत्यादी अच इत्यर्थलाभश्चात एव सिद्धो भवति । विधिभेदेन गुणावृत्तिस्तु प्रतिप्रधान गुण आवर्तते' इति न्यायसिद्धा इत्याहुः ।। यत्तु- 'लोके भृत्याः सेवार्थ राजदेशमेव गच्छन्ति, न तु भृत्यदेशं राजेति गुणभूतपरिभाषादेशे प्रधान- शास्त्राणामुपस्थितिकल्पनमन्याय्यम्' इति सर्वमङ्गलाकारः तन्नविचारसहम् । राज्ञो भृत्यदेशे गमनाभावेऽपि अप्रधानस्य भृत्यादेः राजविषयकज्ञानं प्रति प्रति- बन्धकत्वं वर्षसहस्रेणापि न शक्यमायुष्मता प्रतिपादयितुम् , अतश्च परिभाषा- देशे विधिसूत्रबुद्धौ बाधकत्वं को वा कुशलमतिरभ्युपैतु । अत एव 'न हि तत्प- क्षेऽप्यचेतनस्य शास्त्रस्य स्वदेशं विहाय तद्देशगमनं संभवति-' इति वक्ष्यते । एतेन ' न हि प्रयाजादिवाक्यैः दर्शपूर्णमासादिवाक्यमाकृष्यत इति परिभाषाशा- नेण कथं विधिशास्त्रमाकृष्येत' इति राघवेन्द्राचार्योक्तमपास्तम् , उभयाकाड्डा- रूपप्रकरणात्मकचतुर्थप्रमाणेन प्रयाजादिवाक्यार्थे निर्णीते भाव्याकाड्डायां तत्र दर्शपूर्णमासप्रधानवाक्योपस्थित्यैव तयोरङ्गाङ्गिभावस्य सर्वसंमतत्वात् , उपहो- मन्यायेन गुणाकाङ्या प्रधानाकालायाः सुवचत्वाच, प्रधानभूतस्यापि राज्ञः अप्रधानभूतया बिया आकर्षणस्य लोकदृष्टत्वाच । यस्तु संज्ञाविषयेऽपि विध्याकाङ्क्षया एकवाक्यताया आवश्यकत्वेन संज्ञापरिभाषाणामकरूप्ये वैरूप्यकल्पनमयुक्तमेवेति प्रत्यवतिष्ठते, स एवं प्रत्युच्यते-- प्रथमं शक्ति. प्रहे वृद्धधादिपद्घटितविधिविषयकाकाङ्काया उत्थाप्यतया तदेकवाक्यतायाः अनावश्यकत्वात् । न चैवं संज्ञाविषयेऽपि यत्र वृद्धिपदं तत्रादेजित्यु- पतिष्ठत इति पदेकवाक्यतायाः संभवेन वृद्धयादिपघटितविध्याकाङ्काया उत्थिततया विध्याकासया तदेकवाक्यता आवश्यकीति युज्यते वक्तुम् । समानविभक्तिकत्वरूपकारणसंपत्तिवैकल्येन संज्ञासंज्ञिभावस्य दौर्लभ्यापत्तेः, मृजेर्वृद्धिः' इत्यादिसूवस्थवृद्धपादिपदानां तदुपस्थितिसंपत्त्या चारितार्थे- न उपस्थितपदार्थे अन्वये मानाभावात् इपरिभाषायां तदुपस्थित्यनाप. तेश्च, 'यचि भम्' इत्यादौ तथाविधपदोपस्थितेर्वक्तुमशक्यत्वाच ॥ ननु यथोदेशकार्यकालयोरुभयोरपि वाक्याथैकवाक्यतया पदैकवाक्यतया वा लक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगिनिश्चितवाक्यार्थबोधे वैलक्षण्याभावात्प. .
परिभाषा] शास्त्रत्वपापकोदेशः। तु त्रिपायामप्युपस्थितिरिति विशेषः । एतदेवाभिमेत्य ' अधिकारो नाम , क्षद्वयाश्रयणं विफलमेवेत्यत आह-- त्रिपाद्यामप्युपस्थितिरिति विशेषः इति ॥ कार्यकालपक्षेऽपि वाक्यभेदादिपरिहाराय विध्येकवाक्यता परि- भाषाणामवश्यमङ्गीकर्तव्या, सा च विध्याकाङ्ख्या परिभाषाकासामुत्थाप्य कल्प्यते । 'पूर्वत्रासिद्धम् ' इत्यनेन परिभाषादृष्टया त्रैपादिकविधेरसिद्धत्वेऽपि विध्याकाङ्क्षयैव गुणाकाङ्कोत्थापनाद्विधिदेशे आकर्षणतुल्या परिभाषोपस्थितिः स्वीक्रियते । अदृष्टपिशाचेन स्वादर्शिपुरुषाकर्षणवत् ।। अथेदमुच्यते- सा- मान्यवाक्यार्थबोधमन्तरा सप्तमीनिर्देशादिकं केति पर्यालोचनाया अनुदयेन पदपदार्थोपस्थितौ वाक्यार्थबोधे प्रतिबन्धकाभावात्परिभाषादेशे ताशबोधान- न्तरमेव विध्याकाला यथा अङ्गीक्रियते, तथा विधिदेशेऽपि सामान्यवाक्यार्थबो- धानन्तरमेव औपश्लेषिकाधिकरणबोधकसप्तम्यन्तत्वादिनिश्चयसम्भवात् अप्रा. माण्यज्ञानानास्कन्दितयत्किचिल्लक्ष्यसंस्कारककार्यज्ञानोत्तरं 'पूर्वत्रासिखम्' इ. त्यनेन पादिकानामसिद्धत्वं यथा वा यथोडेशे, तथा कार्यकालेऽपि अप्रामा- ण्यज्ञानानास्कन्दितयत्किंचिल्लक्ष्यसंस्कारकं कार्यज्ञानं त्रैपादिकासिदत्वप्रयोजक- मस्त्विति निपायामुपस्थितिर्न संभवत्येवेति । अत्रेयं महती वाचोयुक्तिः, विध्याकाडया परिभाषाकासामुत्थाप्य कल्पितस्यार्थिकनिषेधरूपकार्यस्य कार्य- कालपक्षे त्रैपादिकविधिशास्त्रप्रयोज्यत्वेन पूर्वशास्त्रीय कार्य परशासकर्तृकमित्युप- जीव्यत्वात्रपादिकशास्त्रस्य उपजीव्यविरोधस्यान्याय्यत्वेन परिभाषादृष्टया त्रैपा- दिकासिद्धत्वस्य दुर्वचत्वात् इति।' यदि यथोदेशेऽपि 'औपश्लेषिकाधिकरणबो- धकसप्तम्यन्तत्वादिरूपलिङ्गज्ञानाय प्रथमं सामान्यतो वाक्यार्थस्यावश्यकतया तदोधोत्तरं त्रैपादिकानामसिद्धत्वेऽप्यसिद्धत्वग्रहाय प्रथमं विधेरेवोपस्थितत्वेन तत्रैव परिभाषाकालाया दुरित्वात्कार्यकालपक्षप्रवेशापत्त्या यथोदेशपक्षस्यैव शास्त्रेऽसंभवापति:-' इति संरभेत सर्वमङ्गलाकारः, तर्हि स वक्तव्यो यथोदेशे परिभाषाकावया विध्याकाढत्यङ्गीकारेण प्रथमपठितानां सापादिकानां परि- भाषाशास्त्राणामेव पूर्वमुपस्थित्या उपकारकत्वनिर्णयाय तेषामेव पूर्व वाक्या. बोधे अनन्तरं आयमानमोपलेषिकाधिकरणबोधकसप्तम्यन्तत्वादिलिगमानज. नकं कार्यज्ञानमादायासिद्धत्वं प्रवर्तत इति प्रथमं परिभाषाणामेवोपखितत्वेन N.7 नागेशाशयनिर्णये ['यबोदेशम्- कार्यकालपक्षप्रवेशो भवति दुरुपपाद इति । अत्रेदं बोध्यम्- यथोद्देशपक्षे परिभाषाणां सापादिकविधिमात्रोप- कारकत्वम् , कार्यकालपक्षे तु त्रैपादिकविधिमात्रोपकारकत्वमिति प्रागुक्तं न विस्मर्तव्यम् । 'कार्यकालपक्षे तु त्रिपाद्यामप्युपस्थितिः' इति मूलं तु यथो- देशे यासां परिभाषाणां सापादिकविध्युपकारकत्वं तासामेव परिभाषाणां कार्यकालपक्षाश्रयणेन त्रैपादिकविध्युपकारकत्वमपीति बोधनपरम् । यदि वि. श्वनाथभट्टोत्तरीत्या 'विरामोऽवसानम्' इति ज्ञापकात्संस्कारकदृष्ट्या संस्का- यस्य नासिद्धत्वं कल्प्यत इति तस्मिन्निति निर्दिष्टे-' इत्यादीना यथोडेशे- ऽपित्रैपादिकविध्युपकारकत्वं सूपपादमित्युच्यते, तर्हि ‘विरामोऽवसानम्' इति पदशक्तिप्राहकशास्त्रप्रवृत्तिमन्तरा तदुपकार्यत्रैपादिकविधिघटकपदशक्तिमहासं- भवेन शाब्दबोधस्यैवाजननात् असंदिग्धानाहार्याप्रामाण्यज्ञानानास्कन्दितल. क्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधजनकत्वरूपशास्त्रत्वासंपत्त्या असिद्ध- स्वाभावेन 'विरामोऽवसानम्' इत्यस्य त्रिपाद्यां निष्कम्पं प्रवृत्तिर्भवत्येवेति तद्वै. याभावेन झापकत्वं दुरुपपादमिति को हि नाम न विजानतु । अथेदमुच्य- ते-पादिकविधिशास्त्राणां तस्मिमित्यादिगुणशास्त्रविधेयविशेषणदलोपस्थिते: पूर्वम् अप्रामाण्यज्ञानानास्कन्दितलक्ष्य(मकसाधुत्वप्रकारकज्ञानोपयोगियोधज- नकत्वरूपशास्त्रत्वस्यैवासंभवात् शास्त्रत्वमुपजीव्यासिद्धत्वबोधकेन ‘पूर्वत्रासि. द्धम्' इति शास्त्रेणासिद्धत्वबोधनं तेषां दुःशकमिति विश्वनाथभट्टोक्तमेव युक्तमिति तत्रैवं प्रतिवच्म:- कोऽयमहेतुकः परिकरबन्धः, त्रैपादिकविधीनां वस्मिन्नि- त्यादिगुणशास्त्रविधेयार्थिकनिषेधबोधकविशेषणदलोपस्थिते: इक इत्यादिपदोप- स्थितेर्वा पूर्वमप्रामाण्यज्ञानानास्कन्दितयत्किचिल्लक्ष्यधार्मकसाधुत्वप्रकारका. नोपयोगियोधजनकत्वं नैव शक्यते निहोतुमिति संपद्यमानमुपजीव्य शाखत्वम. सिद्धत्वबोधकेन 'पूर्वत्रासिद्धम्' इत्यनेनासिद्धत्वबोधनं भवति सूपपादम् । अतश्च तेषामसिद्धत्वेन विना कार्यकालपक्षाश्रयणमुपायसहस्रैरपि त्रैपादिक- विध्युपकारकत्वं दुनिरूपमेव स्यात् । ततश्च सापादिकविधिमात्रोपकारिकाणां परिभाषाणां यथोदेशपक्षाश्रयणेन परं त्रैपादिकविध्युपकारः सम्पत्यत इति कार्यकालपक्षस्य दचजलालितति कोऽयमकाण्डे ताण्डवाडम्बरः । अतश्च परिभाषा] शास्त्रत्वप्रापकोदेशः। , त्रैपादिकविध्युपकारकत्वसम्पत्तये कार्यकालपक्षाश्रयणमावश्यकमेवेति स्पष्टमेव विज्ञायते सुमेधसाम् । एवं च 'यानि शास्त्राणि त्रिपाद्यां पदैकवाक्यताम् , पदार्थकवाक्यताम् , वा प्राप्नुवन्ति, तेषां निरुक्कदिशा असिद्धत्वाप्रसक्त्या त्रिपायां प्रवृत्तिर्भवत्येव' इति विश्वनाथभट्टोक्तिरमानविजृम्भितैवेति विदांकुर्व- न्तु विद्वांसः ॥ अप्रामाण्यज्ञानानास्कन्दितयत्किचिल्लक्ष्यधर्मिकसाधुत्वप्रकारक- ज्ञानोपयोगिबोधजनकत्वमादायैव शास्त्रत्वसम्पत्त्या शास्त्रत्वमुपजीव्यासिद्धत्व- बोधकेन 'पूर्वत्रासिद्धम्' इत्यनेनासिद्धत्वबोधनात् 'हलि च' इत्यस्यासिद्ध- त्वाग्निवय॑त्वायोगेन दीर्घप्रवृत्तौ घर्तीत्यादि सिध्यति, अन्यथा उत्परमात इत्यादौ तपरकरणसामर्थ्यात्तपरस्येको दीर्घो न भवतीति वचनं कल्प्यते, तस्य चार्थिकनिषेधपरविशेषणदलनिवेशे तात्पर्य कल्पयित्वा रेफवकारान्तधा- तोरुपधाभूतस्म तपरभिन्नस्येको दीर्घो भवतीति 'हलि च' इति विधिवाक्यार्थ- परिष्कारः सम्पद्यते। एतादृशपरिष्कारात्पूर्व जातस्य विधिवाक्यार्थग्रहस्य तपर- करणाद्वाधकमस्तीति संभावनया तज्ज्ञानं प्रमा वा, न वेति संदेहेनासंदिग्धा- नाहार्याप्रामाण्यज्ञानानास्कन्दितलक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबोधज- नकत्वरूपशाबत्वासंपत्या 'पूर्वत्रासिद्धम्' इत्यनेन 'हलि च' इत्यस्यासिद्धत्व- प्रसक्त्यभावात्तपरत्वनिवर्त्यत्वायोगेन दीर्घाप्रवृत्तौ चञ्चूर्तीत्याद्यसिद्धिर्दुारा । प्रदर्शितश्चैष पन्थाः पण्डितप्रकाण्डैरस्मदाचार्यचरणैः परिभाषेन्दुशेखरभूषणे । न चैवं 'नाझलौ' इत्येतद्वाक्यार्थबोधे सति निर्णीतैतद्विषयपरिहारेण सव. संज्ञाबोध्यनिश्चयेऽणुदित्सूत्रेण तावतां प्रहणं बोधनीयम् , अन्यथा बाधक- सम्भावनया तुल्यास्यसूत्रजशक्तिपहेऽप्रामाण्यसंदेहेनाणुदिच्छानजबोधानापत्तिः इति संज्ञाशेखरविरोधः । उक्तरीत्या तत्रापि प्रत्येकमचा हलां च तुल्यास्यसू. जन्यशक्तिप्रहेण सवर्णसंज्ञायां तद्विषये बाधकसंभावनाभावेन तुल्यास्यसूत्रज. बोधेऽप्रामाण्यज्ञानानास्कन्दितत्वसिद्धया अणुदिच्छाबजबोधस्य सूपपादत्वा- दिति वाच्यम् , निषेधवाक्यार्थग्रहात्पूर्व विधिनिषेधयोः पर्युदासन्यायेनैकवा- क्यत्वासंभवेऽपि निषेधवाक्यार्थग्रहात्पूर्व जाता विधिवाक्यार्थग्रहस्य बाधकम- स्तीति ज्ञानेन तज्ज्ञानं प्रमा न वेति च सन्देहो जायेत इत्यप्रामाण्यज्ञानानास्क. न्दितसवर्णपदशक्तिमहाभावस्तत्र वक्तुं शक्यते खलु, तदानीं तक्षानं प्रमान बेति सन्देहे सन्देहस्य द्विकोटिकत्वेनाप्रामाण्यास्कन्दितत्वस्येव मप्रामाण्यानास्क- ५२ नागेशासायनिर्णये [ययोदेशम्- न्दितत्वस्यापि प्रतीत्या यत्किचिद्विषयेऽप्रामाण्यज्ञानानास्कन्दितस्त्वं शेखराभि- प्रेतमित्याविरोधात् । न हि 'तुल्यास्यसूत्रशक्ति हे अप्रामाण्यसन्देहेन' इति शे- सरविरोधस्तदवस्थ एवेति वाच्यम् , प्रत्येकमविषये हल्विषये च तुल्यास्य सूत्र- जशक्तिहस्साप्रामाण्यानास्कन्दितत्वेऽपि मझलोः सवर्णसंज्ञाबोधने नाम- लो' इति निषेधदर्शनाद्वाधकमस्तीति सम्भावनया तुल्यास्यसूत्रजशक्तिमहस्या- प्रामाण्यानास्कन्दितत्वमिति सवर्णपदशक्तिमहस्याप्रामाण्यशाकलकितत्वम् । भत सवर्णपदशक्तिनिर्णयाभावेन सवर्णपदघटितस्य 'अणुदित्सवर्णस्य चाप्र. त्ययः' इत्यस्य वाक्यार्थबोधानुदय इत्याशयेनाविरोध इति यत्किचिद्विषयेऽप्रामा. ण्यज्ञानाना स्कन्दितत्वं मूलकाराभिप्रेतमेवेति स्पष्टमेव विज्ञायते । अत एवाणु. दिच्छानजबोधानापत्तिः इत्युक्तं शेखरे ॥ अथेदमुच्यते-कार्यकालपक्षाश्रयणे- नैव परिभाषाणां सापादिकत्रैपादिकसलकविध्युपकारकत्वसम्भवे यथोदेशपक्षा- भयणं विफलमिति । अत्रैवं प्रत्युच्यते-नेदं वाक्यार्थचन्द्रिको क्षोदक्षमम् , यतः 'अग्रिमीले तमीशाना स: ' इत्यादौ 'उदात्तादनुदात्तस्य-' इति विधीयमानस्वरितमादाय शेषनिघाताप्रवृत्तये ' अनुदासं पदमेकवर्जम्' इत्यस्य त्रिपाचामप्रवृत्तये यथोदेशपक्षाश्रयणमावश्यकं भवति । न हिसन्निपात परिभाषा- याः प्रवृत्या शेषनिघाताभावसिद्धिरिति यथोदेशपक्षाश्रयणवैयर्यतावस्थ्यम् । सभिपातनिमित्तकविधित्वरूपलिनेनोपतिष्ठमानाया: सन्निपातपरिभाषायाः त- चच्छास्त्रीयविशिष्टवाक्यार्थबोधोत्तरं स्वनिमित्तभूतसभिपातविघातकनिमित्तवि. धि प्रति इदं निमित्तं न भवतीत्येवं विघातकविधेः निमित्तत्वाभावस्य बोधनीयतया परिभाषादृष्टया समिपातविघातकविधेरसिद्धत्वेन लिङ्गपरिज्ञानाभावात्सन्निपात- परिभाषायाः त्रिपाद्यामप्रवृत्तेः, प्रवृत्तावपि सन्निपातपरिभाषया वाक्यान्तरेण निमित्तत्वाभाववोधनात्प्रागेव सन्निपातनिमित्तकविध्येकवाक्यतापमपूर्वत्रासि- दशास्त्रेणासिद्धत्वप्रतिपादने पश्चात्सभिपातनिमित्तकविधित्वस्य दुर्जेयतया तद्वि- पातकविध्यन्तरनिरूपितनिमित्ततासमर्पकत्वाभावस्य तदूतस्य प्रतिपादयितुम- शक्यत्वाच । न चैवं सन्निपातपरिभाषाया उपजीव्यविरोधन्यायमूलकत्वेन न्यायसिद्धतया सूत्रपाठगतसभिवेशापेक्षपूर्वत्वोपहितशास्त्रसमर्पकेण तत्तच्छा- कवाक्यतापमपूर्वत्रासिद्धशासपटकपूर्वग्रहणेन प्रहीतुमशक्यतया समिपातपरि. भाषादृष्टया लिपापा भसिद्धत्तं दुर्वचमिति शायम् , पुरुषारम्भसहायेनैव परिभाषा] शासत्वमापकोदेशः। ५३ . भगवता भाष्यकारेण तत्र तत्र लोकन्यायानां शाबव्यवस्थापकत्वोपवर्णनेन शाबविषयतासम्पत्तये धर्मिप्राहकसाजात्यविशेषविषयतालाभार्थ च ज्ञापका. पेक्षाया आवश्यकत्वेन त्रिमृणां पतमृणामित्यत्र भदन्तलक्षणकीपि दीर्घ- मानुपेयोगेन 'न तिसूचतमृ' इति निषेधस्य समिपातपरिभाषाज्ञापकत्वम् , ज्ञापनानन्तरं च विभक्त्यानन्तर्यनिमित्तकस्य तिसृचतसृभावस्य सन्निपातवि. घातकसीबुत्पत्ति प्रति निमित्तस्वायोगाहकारान्तयोस्तयोर्दीवारणाय निषेध सार्थक्यमिति परिभाषाया ज्ञापकसिद्धत्वेनासिद्धत्वस्य सुवचत्वात् । न च बहिरङ्गत्वेन तिमायादेशस्य डीप्यसिद्धत्वाडीपोऽप्राप्तौ निषेधश्चरितार्थ इति न तस्य ज्ञापकत्वमिति शङ्कपम् , 'वाचि हस्वश्च' इति वक्तव्ये 'वामि' इति पृथग्योगकरणस्य सन्निपातपरिभाषाज्ञापकत्वात् । न च 'वाचि इखश्च इति न्यासेऽपि श्रुतनिमित्तनिमित्तिसन्निपातविघातवत् 'वामि' इति न्या. सेऽपि तद्विघातस्य तुल्यत्वाद्वर्णविषयेऽपि यदागमन्यायप्रवृत्या अजादित्व- विघाताभावेन सापकत्वस्य दुरुपपादत्वात् 'ङिति इस्वश्च' इत्यत्र नित्यत्री- स्वसंबन्धः, 'वामि' इत्यत्र च अतिश्रियाम् , अतिश्रिणाम् , ब्राह्मणानामित्या. दिसिद्यर्थ तदसंबन्ध इति भाष्यसिद्धान्तव्याकोपापत्त्या तथाविधैकयोगस्य कर्तुमशक्यत्वाच सभिपातपरिभाषाया ज्ञापकसिद्धत्वाभावे उपजीव्यविरोधन्या- यमूलकत्वेन सर्वत्र प्रवृत्तौ निर्बाधत्वादसिद्धत्वाभावेन त्रिपाद्या प्रवृत्तावपि अन्तो- दात्तादुत्तरपदादन्यतरस्याम् ‘इस्वनुड्भ्यां मतुप्' इत्यन्तोदात्तोदात्तादिखरे कृते परमवाचा अमिमानित्यादौ शेषनिघातो न स्यादिति सन्निपातपरिभाषाया खरविधावप्रवृत्तेः शेखरादावुक्तत्वेन 'अनुदात्तं पदम् इत्यस्य त्रिपाद्यामप्र. वृत्तये यथोडेशपक्षाश्रयणस्यावश्यकत्वात् । न च वाक्यार्थचन्द्रिकोक्तरीत्या 'अनुदात्तं पदमेकवर्जम्' इत्यस्य विधित्वाभ्युपगमेन त्रिपाद्यामप्रकृत्या 'अग्नि- मीले' इत्यादौ शेषनिघातो नेति न दोष इति शक्यम्, 'अनुदात्तं पदमेकव- जम्' इत्यस्य विधित्वाङ्गीकारे क एको वर्जनीय इत्याकालायां सकलसूत्र- विहितोदात्तस्वरितवर्जनापत्तो 'आमलकीज' इत्यादावुदात्तचतुष्टयं श्रूयते, तत्र हि जातिलक्षणङीष्प्रत्ययस्वरेणोदात्त: आमलक्या जात इति विग्रहे 'सप्तम्यां जनेर्डः' इति सूत्रविधीयमानडप्रत्ययस्य 'गतिकारक-' इति विधी- यमानः कस्वरः दीर्घकाशनुषभ्राष्ट्रवट जे' इति पूर्वपदान्तोदात्तत्वम् 'मन्मा- .
५४ नागेशाशयनिर्णये ['ययोद्देशम्-' त्पूर्व वाच:--' इति लकाराकारस्योदात्तत्वमिति विरोधाभावायुगपदुदात्त- चतुष्टयं स्यात् 'अनुदात्तम्पदम्-' इत्यस्य तु मकारादकारे अवकाशः स्यादिति विधित्वाङ्गीकारस्य दुष्टत्वात् । स्पष्टं चेदं सर्व स्वरशेखरे 'अनुदात्तम्पदमे- कवर्जम्' इत्यत्र पाष्ठप्रथमषष्ठाहिके च कैयटे । नचैवं 'यथोरेशत्वं स्वस्था न युक्तम् , अत्रैतत्सूबे कार्यकालं संज्ञापरिभाषमिति भाष्यविरोधात् , इति स्वरशेखरसिद्धान्तव्याकोप इति शवयम् , यथोदेशमात्रपरतानीकर्तृप्राचीनम- तखण्डनपरत्वेन प्रवृत्तस्य तस्य प्रन्थस्य यथोद्देशमात्रत्वं न युक्तमित्यङ्गीकारेणादा- पात् । अत एव तत्र पूर्वमनुवादप्रन्थे 'यत्तु- यथोहेशैवेयम्' इत्युक्तम् , 'अनुदात्तं पदम्-' इत्यस्य कार्यकालपक्षाश्रयणफलं तु तत्रैव स्वरशेखरे प्रदर्शितम् । यदि गोविन्दमतमनुसन्धान: पूर्व प्रति परासिद्धत्वेन विरो- धाभावादेव त्रिपाद्यां न प्रवर्तत इति विप्रतिषेधपरिमाषाविषये यथोदेश- पक्षाश्रयणं विफलमिति वक्तुमारभेत, स एवं वक्तव्यः, विप्रतिषेधे पर- मेवेति नियमेन पूर्वशास्त्राप्रवृत्तेः पूर्वशास्त्रविषयरूपनिमित्तविरहेण पूर्वत्रेत्य- स्याप्रवृत्तेः । न हि विप्रतिषेधाभावसम्पादनद्वारा 'पूर्वत्रासिद्धम्' इत्यस्य विप्रतिषेधशास्त्रप्रतिबन्धकत्वम् , उत पूर्वशास्त्राप्रवृत्तिसंपादनद्वारा विप्रति- षेधसूत्रस्य 'पूर्वनासिद्धम्' इत्येतत्प्रतिबन्धकत्वमित्यत्र विनिगमनाविरहेणोभ- योरपि श्रुतत्वेन विध्यङ्गत्वेन च समबलत्वादन्यतरेणान्यतरबाधायोगादुभयोरपि सावाकाशत्वेन पर्यायवाभावेन च परस्परविरोधाइयोरप्रवृत्यापत्तौ तदनन्तरं पूर्वपरशास्त्रयोर्मध्ये केन प्रवर्तितव्यमिति संशये प्रथमोपस्थितत्वात्पूर्व प्रवृत्तिः पूर्वशास्त्रस्येत्येवंपरतया 'पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य' इति सिद्धान्तात् मनोरथ इत्यादावुत्वसिद्धया विप्रतिषेधशास्त्रविषये यथोरेशपक्षा. श्रयणं विफलमिति वक्तुं शक्यते । परस्यासिद्धत्वे विप्रतिषेधशास्त्रस्य सिद्धत्वात् परिभाषान्तराणामिवास्यापि कार्यकालपक्षे तेनाकर्षणापत्तौ त्रिपायामुपस्थितेन पूर्वत्रासिद्धम्' इत्यनेन सह विरोधज्ञानानन्तरं परस्परं विरुद्धपरिभाषाद्वय- मध्ये भन्यतरस्य प्रवर्तकं विनिगमकं किम् ! इति जिज्ञासायां वाक्यार्थबोध- निश्चयानन्तरं तदुरेशेनासिद्धताबोधनाय प्रवर्तमानपूर्वत्रासिद्धमित्येतदपेक्षया परशास्त्रातिरिक्तविषयकत्वेन पूर्वशाखवाक्यार्थबोधनिर्णायकविप्रतिषेधशास्त्र- स्यान्तरणतया तेन प्रथमत एव परशाखातिरिकविषयकत्वेनैव पूर्वशासवा- परिभाषा] शानवप्रापकोद्देशः। क्यार्थबोधस्य जनितत्वेन 'पूर्ववासिद्धम्' इत्यस्य निमित्ताभावेन स्वत एवाप्रवृत्तौ विप्रतिषेधशास्त्रस्य व्यवस्थापकत्वापत्त्या मनोरथ इत्यादावु- त्याचप्रसङ्गात् । न च 'पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य इत्यनेन विप्रतिषेधशास्त्रस्य त्रिपाद्यामप्रवृत्तिबोधनादेव न दोष इति शङ्यम् , तेन तस्य यथोद्देशत्वस्यैव बोधनादिति शेखरेणैव समाहितत्वात् । न च पूर्वत्रासिद्धम्' इति सूत्रारम्भसामर्थ्यादेव मनोरथादौ न दोष इति विप्रति. धशास्त्रस्य यथोद्देशपक्षाश्रयणं व्यर्थमेवेति वाच्यम् , सापादिकदृष्ट्या पा- दिकस्यासिद्धत्वबोधनेनैव पूर्वत्रासिद्धसामर्थ्यस्योपक्षयात् । न च विप्रति- षेधे परं कार्यम्' इत्यनेन 'पूर्वत्रासिद्धम्' इत्यस्यैव प्राबल्यबोधनात्कथं वि. प्रतिषेधशास्त्रेण पूर्वत्रासिद्धशास्त्रस्य बाधः इति शङ्कयम्, पूर्वत्रासिद्धशास्त्रवि- धेयस्य कस्यापि कार्यस्याभावेन तद्वाधासंभवात् । न चैवं परमेवेति निय- मेन पूर्वशास्त्राप्रवृत्तौ पूर्वशास्त्रविषयरूपनिमित्तविरहेण पूर्वत्रासिद्धशास्त्रस्याप्र- वृत्तौ असिद्धत्वाभावेन विप्रतिषेधशास्त्रस्य त्रिपाद्यां प्रवृत्तिर्दुर्वारेति शक्यम् , कार्यकालपक्षे त्रिपाद्यां प्रवृत्तावपि यथोद्देशपक्षे त्रिपाद्यामप्रवृत्तेः । यदि यथो- देशपक्षे त्रिपाद्यां प्रवृत्तिर्द्वारा इत्युच्येत, तर्हि पूर्वत्रासिद्धशास्त्रस्य वैयर्थ्य स्थादुरपलपम् । न हि सापादिकदृष्ट्या त्रैपादिकासिद्धत्वसम्पादनेन तत्सार्थ- क्यमिति युज्यते वक्तुम् , विप्रतिषेधशास्त्रप्राबल्ये कथं वा भवेत्सापा. दिकदृष्टया त्रैपादिकासिद्धत्वम् । यद्यारम्भसामर्थ्यमाश्रित्य तत्समयंते, तर्हि कार्यकालपक्षपर्यन्तानुधावनेनैव तत्समर्थ्यताम् । न चैवं विप्रतिषेधशास्त्र- स्व विधायकत्वाङ्गीकारेण त्रिपाघामप्रवृत्तिः सूपपादा । शास्त्रयोर्लक्ष्यार्थयोः कचिल्लक्ष्ये योगपद्येन प्रवृत्तिसंभवादप्रतिपत्ती प्राप्तायामिदं परविध्यर्थम् , तत्र कृते यदि पूर्वप्राप्तिस्तार्ह तदपि भवत्येवेति पुनःप्रसङ्गविज्ञानसि- द्विः, इति सिद्धान्तात्परशास्त्रविहितकार्यस्य प्राबल्यबोधनपरतया विप्रतिषेध. शालप्रवृत्तेः सर्वसम्मतत्वात्परशास्त्रप्रवृत्युपयोगितया परशास्त्रोपकारकत्वेन परशास्त्रानमेवेति विध्यङ्गत्वस्यैव वक्तव्यतया अङ्गित्वरूपस्योपकार्यापरपर्या- यस विधित्वस्य दुर्वचत्वात् , साक्षालक्ष्यसंस्कारकत्वाभावेन परिभाषात्वस्यैव खीकर्तुमौचित्याच, 'द्वयोस्तुल्यबलयोरेक:प्रेष्यो भवति स तयोः पर्यायेण कार्य करोति' इति भाष्यबोधितरष्टान्तबलेन प्रेष्यवृचिधर्मस्याप्राधान्यस्येव नागेशाशयनिर्णये ["यथोरेशम्- विप्रतिषेधशासविषये स्पष्टप्रतीतेश्च, स्वतन्त्रविधायकत्वे कदाचिदपूर्व विधायक कदाचिनियामकमिति वक्तुमशक्यत्वेन सद्गतिन्यायपुनःप्रसङ्गविज्ञानासिद्धि- प्रसङ्गाय । परिभाषात्वे तु अपूर्व विधायकं नियामकं भवतीत्यपूर्व विधायकत्वे पुनःप्रसङ्गविज्ञानसिद्धिः, नियामकत्वे सकृद्गतिन्यायसिद्धिः, इति स्पष्टमेवा. भीष्टं सिध्यति । विधायकत्वे तु यदा नियामकत्वं तदा न विधायकत्वप्राप्ति- रिति न सिध्यदेव निर्दिष्टंन्यायद्वयम् । अपि च स्वतन्त्रविधित्वे विप्रतिषेध- शास्त्रस्य पूर्वत्रासिद्धशास्त्रारम्भसार्थक्यान्यथानुपपत्या त्रिपाद्यां पूर्व प्रति परा. सिद्धत्वेऽपि विप्रतिषेधविधिबलात्सापादिकशाखदृष्टया त्रैपादिकासिद्धत्वस्य दुर्वचत्वापत्तिः । यदि 'पूर्वत्रासिद्धम्' इति शास्त्रस्यापि विधायकत्वमेवाभ्यु- पगम्य समीहितसिद्धिरित्युच्यते, तर्हि सापादिकदृष्ट्या त्रैपादिकस्यासिद्धत्व- सिद्धावपि 'भबाधेन--' इतिन्यायेन--प्रतिषेधविधेः विपाद्यां प्रवृत्ते१रतया त्रैपादिकेषु पूर्व प्रति परासिद्धत्वस्य वर्षसहस्रेणापि वक्तुमशक्यता । यदि हि 'पूर्ववासिद्धम्' इति शास्त्रस्यापि पूर्वत्वावच्छिन्नशास्त्रत्वमेव लिङ्ग भ- विष्यतीति लिङ्गेनोपतिष्ठमानतया परिभाषात्वमेवाङ्गीकुर्वन् त्रैपादिकेष्वपि तस्य प्रवृत्तिः निराबाधेति वक्तुमाशंसेत, स प्रतिवक्तव्यः ; सापादिके. ध्वपि पूर्व प्रति परासिद्धत्वमुपहन्तुमुपाय: परमन्वेषणीय इति । यदि मध्ये पाठस्य विप्रतिषेधसूबारम्भस्य च सामर्थ्यमुपजानान: सापादिकेषु परस्परम- सिद्धत्वमपहन्ति, तर्हि विनिगमनाविरहात्रिपाद्यामपि कचिदप्रवृत्यापत्तिः । किंच 'दादे:--' इत्याद्यपवादसूत्रैकवाक्यतापन्नपूर्वपदार्थे पूर्वस्वोपलक्षितधर्मा- बच्छिने 'होढः' इत्याद्युत्सर्गातिरिक्तत्वेन यथा संकोचः, न तथा वक्तुमौचि. त्यं परिभाषात्वे । किंच 'पूर्वत्रासिद्धम्' इति शास्त्रस्य परिभाषात्वे 'कार्यकालं संज्ञापरिभाषम्' इति परिभाषाविषये कार्यकालपक्षोपपादकस्य परिभाषान्त. रारम्भस्यानुस्थितिरेव स्यात्। अत एव विप्रतिषेधे-' इत्येषा यथोदेशैव' इति सन्धिशेखरे स्पष्टम् । एवं समर्थपरिभाषायाः त्रिपाद्यामप्रवृत्तिरपि यथोदेश- पक्षाश्रयणफलम् । 'ऋते च तृतीयासमासे' इति वार्तिकस्थं समासग्रहणमपि एकादेशरूपवार्णकार्येषु समर्थपरिभाषा न प्रवर्तते इत्येव बोधनपरम् । अत एव 'पदान्ताद्वा' इत्यत्रत्यमन्तग्रहणं सार्थकम् , अन्यथा सामान्यतो वर्णकार्येषु समर्थपरिभाषायाः प्रवृत्तिरेव नास्तीत्यङ्गीकारे तिष्ठतु कुमारी छत्र हर' इत्यादी परिभाषा] शास्त्रत्वपापकोद्देशः । . तेनैव तुकः सिद्धिरित्यन्तग्रहणमनर्थकं स्यात् । मम तु, एकादेशरूपे वार्णकार्ये समासग्रहणेन समर्थपरिभाषाप्रवृत्यभावबोधनेऽपि अनेकादेशे तुकि समर्थपरि- भाषायाः निष्कम्पं प्रवृत्तिः स्यादिति पदान्तविधित्वमस्य, न पदविधित्वमिति बोधनद्वारा समर्थपरिभाषाप्रवृत्तिं प्रतिहन्तीति सर्वथा तत्सार्थकम् । समासे. ऽङ्गुले: सङ्गः' इत्यत्रत्यं समासग्रहणं तु यत्र तु भावकार्यस्य विधेयत्वं तत्रैव प्रवर्तते समर्थपरिभाषेति ज्ञापनपरमिति न तस्यानर्थक्यम् । 'न पदान्ताट्टो- रनाम्' इत्यत्रत्यमन्तग्रहणं तु पदत्वेन हेतुत्वेऽप्युद्देश्यताविरहादनामिति झा- पकाच भावकार्यस्य विधेयत्वाभावाच न प्रवर्तते समर्थपरिभाषेति स्पष्टार्थमेव भवत्यन्तग्रहणम् , स्पष्टश्चायमर्थः सन्धिशेखरे । 'असति बाधके प्रमाणानां सामान्ये पक्षपातः' इति न्यायेन समासग्रहणस्य वार्णकार्येषु समर्थपरिभाषा- प्रवृत्त्यभावज्ञापकत्वं न युक्तं वक्तुम् , अन्तग्रहणानर्थक्यसंभवरूपेण बाधकेन वार्णकार्यसामान्ये न प्रवर्तते समर्थपरिभाषेति वक्तुं व्याघातात् । मम तु एकादेशरूपे वार्णकार्ये न प्रवर्तते इत्येवमर्थ समासग्रहणं ज्ञापयतीति नान्तप्र- हणस्यानर्थक्यं प्रसज्यते इति न दोषः । न हि वार्तिकस्थेन समासग्रहणेन सौत्र. स्यान्तग्रहणस्य प्रत्याख्यानं युज्यते, अबाधेनैवोपपत्ती बाधकल्पनस्यान्याय्यत्वात् । एवमन्तरङ्गपरिभाषायाः त्रिपाद्यामप्रवृत्तये यथोहेशपक्षाश्रयणम् , त्रैपादिकाना- मसिद्धत्वेनान्तरङ्गशास्त्रत्वरूपलिङ्गपरिज्ञानासम्भवात्रिपाद्या प्रवृत्ते१र्वचत्वात् । तत्फलं तु राज्ञ इत्यादौ श्चुत्वसिद्धिः । अधिकं त्वन्तरङ्गपरिभाषाव्याख्याना- वसरे निरूपयिष्यामः ॥ अलोन्त्यपरिभाषा तु यथोडेशे सापादिकोपकारिका, कार्यकाले तु त्रैपादिकोपकारिका, इति निष्कर्षः । यतो वाक्याथैकवाक्यत. यैव नियामिकेत्यङ्गीक्रियते । ततश्च तदुपकारत: पूर्व ‘पूर्वत्रासिद्धम्' इत्यनेन बाधायोगेन त्रैपादिकविधिना आकर्षणं भवति दुर्वारम् । परिभाषान्तराणा- मिव तस्याश्चाकर्षणं दुर्वारम् । एतेन ‘हलोऽनन्तरा: संयोगः' इत्यादीनां ज्ञापकत्वमुपवर्णयन् वाक्यार्थचन्द्रिकाकारः प्रत्युक्तः । सयोगे गुरु' इत्यादी सापादिके संयोगपदशक्तिप्राहकत्वेन चारितायें ज्ञापकत्वायोगात् । न च वाक्यैकवाक्यतयान्वयवती बहिरङ्गा सा-' इति शब्दरत्नेन न्त्यस्य' इत्यस्य वाक्येकवाक्यतैव स्वीकृतेति शङ्कयम् , रमस्य कौस्तुभानुयायित्वेनाविरोधात् । 'सार्वधातुकार्धधातुकयोः' इत्या- . ~ 'अलो- तत्रत्यशब्द- N.8 ५८ नागेशाशयनिर्णये [यबोद्देशम्-' - . . दौ 'अजस्य' इत्यादिसम्बन्धविशेषानिर्णयेन स्थानेपदोपस्थितौ गुणपदा- वच्छिविधेयताप्रयोजकगुणपदघटितत्वेनेक्पदोपस्थितौ स्थानेपदप्रयोज्यनिव. यनिवर्तकभावसम्बन्धप्रतियोगिषष्ठचन्तघटितत्वेनान्याल्पदोपस्थितौ विशेषण- विशेष्यभावेन इयूपस्यान्त्याल: स्थाने गुणो भवतीति वाक्यार्थः परिष्कृतो भवति । एवं 'आद्यन्तौ टकितौ' इत्येतस्यापि टित्किदेतदन्यतरनिष्ठविधेय. तानिरूपितोदेश्यताप्रयोजकपदघटितशास्त्रेण विधीयमानं कार्य भाद्यवयवत्वा- न्यावयवत्वैतदन्यतरधर्मावच्छिन्नविधेयतास्कन्दितमेव भवति, इत्यर्थेनार्थिकनिषे- धपराद्यावयवान्त्यावयवैतदन्यतरदलोपस्थितिरिति वाक्याथै कवाक्यतया विध्यु- पकारकत्वम् । अत एव 'प्रत्ययपरत्वं तु परत्वादमुं बाधते' इति शेखरः संग- च्छते, अन्यथा 'प्रत्ययः' 'परश्च' इत्यनयोर्वाक्यैकवाक्यतया अन्वयस्य वक्ष्यमाणत्वेन वाक्यार्थबोधात्पूर्वमेव प्रवृत्तेः 'आद्यन्तौ-' इत्यस्य वाक्यैक- वाक्यतयान्वये वाक्यार्थबोधोत्तरमेव प्रवृत्तेरुभयोर्योगपद्याभावादसंगत: स्यात् । अनेन 'अयुक्तमिदम्' इति शेखरखण्डने प्रवृत्तो राघवेन्द्राचार्यः प्रत्युक्तः । 'मिदचोऽन्त्यात्परः' इत्यस्यापि विधीयमानो मित् मिदुरेश्यभूतसमुदायघट- कचरमवर्णावधिकपरत्ववानेव मिदुद्देश्यभूतसमुदायचरमावयव एव भवति, इत्यर्थेन अन्त्याचः पर इति आर्थिकनिषेधपरपदोपस्थितिरिति वाक्यार्थंकवा- क्यतया विध्युपकारकत्वम् । एवं 'षष्ठी स्थाने योगा' इत्यस्यापि संबन्धवि- शेषविषयकबोधजनकत्वप्रकारकतात्पर्यविशेष्यत्वप्रकारकसन्देहविशेष्या षष्ठी स्थानेपदप्रयोज्यसंबन्धार्थविषयकबोधजनकत्वप्रकारकतात्पर्यविशेष्यत्वप्रकारक- निश्चयविशेष्यैव भवति, इत्यर्थेन स्थानेपदप्रयोज्यसंबन्धान्यसम्बन्धाभावबो- धकस्थानेपदोपस्थितिरिति वाक्याथैकवाक्यतया विध्युपकारकत्वम् , स्थाने- पदार्थविचारस्तु अस्मदीये शब्देन्दुशेखरव्याख्याने मरीचिमालाभिधाने द्रष्ट- व्यः ॥ 'आदेः परस्य' इत्यस्यापि परबोधकशब्देन परस्य स्थाने विधीयमानं कार्यमादेरल एव बोध्यमिति, इत्यर्थेनार्थिकनिषेधपरपदोपस्थितिरिति वाक्याथैक- वाक्यतया विध्युपकारकत्वम् । एवं अनेकाल् शित्सर्वस्य' इत्यस्यादेशविधायक- सूत्रोपात्तानेकाल्पृत्तिधर्मावच्छिन्नानुपूर्व्यवच्छिन्नविधेयताश्रयः शित्वावच्छिम- विधेयताश्रयश्च सर्वस्यैव स्थाने भवति, इत्यर्थेनार्थिकनिषेधपरसर्वस्येति विशेषण- दळोपस्थित्या जराशब्दान्तानावयवस्य सर्वस्य स्थाने जरसादेशो भवतीति परिभाषा]] शास्त्रत्वप्रापकोद्देशः। . रीत्या वाक्याथैकवाक्यतयैव विध्युपकारकत्वम् । ' तस्मिमिति निर्दिष्टे पूर्वस्य इत्यस्यौपश्लेषिकाधिकरणबोधकसप्तम्यन्तघटितशास्त्रेण विधीयमानं कार्यमव्य- वहितपूर्वसम्बन्ध्येव भवति, इत्यर्थेनार्थिकनिषेधपरपरस्मिन्निति विशेषणदलोप- स्थित्या इक: स्थाने यण् स्यादचि परे इत्येवंरीत्या वाक्याथैकवाक्यतयैव विध्यु- पकारकत्वम् । एवं 'तस्मादित्युत्तरस्य' इत्यस्यापि आर्थिकनिषेधपरपरस्येति. पदोपस्थितिरिति वक्याथैकवाक्यतयैव विध्युपकारकत्वम् । 'इको गुणवृद्धी' इत्यत्र तु गुणवृध्द्यन्यतरपदघटितशास्त्रेण विधीयते यत्र गुणवृद्धी तत्र इक इति पदमुपतिष्ठते, इत्यर्थेन इक्पदोपस्थितिरिति पदैकवाक्यतया विध्युपकारक- त्वम् । एवं 'अचश्च' इत्यस्यापि इस्वदीर्घप्लुतान्यतमपदावच्छिन्नविधेयताप्रयो- जकहस्वदीर्घप्लुतान्यतमपदघटितशास्त्रेण विधीयते यत्र कार्य तत्र अच इति पद- मुपतिष्ठते, इत्यर्थेनाच्पदोपस्थितिरिति पदैकवाक्यतया विध्युपकारकत्वम्। एवं समर्थः पदविधिः' इति परिभाषा, यत्र पदविधिः तत्र समर्थ इत्युपतिष्ठते, इति पदैकवाक्यतया विध्युपकारिका । 'उरण रपरः' इत्यस्यापि अवर्णवृत्तिप्रा- योगिकश्रावणप्रत्यक्षविषयताप्रतिबन्धकोऽण् रपर एव भवति, इत्यर्थेन रपर इति पदोपस्थितिरिति पदेकवाक्यतया विध्युपकारकत्वम् । एवमन्यवाप्यूह्यम् ॥ परे तु- 'इको गुणवृद्धी' इत्यादीनामपि इक एव भवति, इत्याद्यर्थेनार्थिक- निषेधपर इक इत्यादिविशेषणदलोपस्थितिरिति वाक्याथैकवाक्यतया विध्युप- कारकत्वम् । एवमेव 'अनुदात्तं पदमेकवर्जम्' 'विप्रतिषेधे परं कार्यम्' 'वा सरूपो खियाम्' इत्यादीनामित्याहुः । ननु संज्ञाशास्त्रेण च नावच्छेदकाव. च्छिन्ने शक्तिग्रहः संभवति व्यक्तिपक्षे, अपितर्हि शब्दस्वरूपविशेष एव, इति संज्ञा- सूत्रस्थसंज्ञापदेन लौकिक्या शक्त्या शब्दस्वरूपे उपस्थापिते, शब्दस्वरूपव्यक्तिः केति जिज्ञासोदयात्संज्ञाविषयेऽपि यथोद्देशपक्षे गुणाकाङ्क्षया प्रधानाकाङ्कोपप- यते । एवं कार्यकालेऽपि विधिप्रदेशे विधिगतपदेनापेक्षिते स्वशक्तिमाहकशाने संज्ञाशास्रोपस्थितौ तत्पदशक्तिमह इति प्रधानाकाझ्या गुणाकाखेत्याकासनभेदेन पक्षभेद इति वक्तुं शक्यते । कार्यकालपक्षे संज्ञाशास्त्रस्यापि पदपदार्थोपस्थिती वाक्यार्थबोधे प्रतिबन्धकाभावात्स्वदेशे पूर्व वाक्यार्थबोधे प्रदेशे उपस्थापकतया चारितार्थेन वृध्द्यादिपदानर्थक्याभावाद्विधिभिः सहकवाक्यता संभवति । यथो- रेशकार्यकालयोरुभयोरपि एकदेशस्थत्वं संज्ञाशामाणामेव भवति । प.
नागेशाशयनिर्णये ["यबोदेशम्- रिभाषाविषये कार्यकालपक्षे उपेक्षाबुद्ध्या परिभाषादेशजनितसंस्कारस्य लोपाद्विधिदेश एव पुनर्वाक्यार्थबोध इति विधिदेशस्थत्वेनासिद्धत्वस्याप्रसक्तिः, इत्यभिप्रायकपूर्वत्रासिद्धमिति सूत्रस्थभाष्यप्रामाण्येनोपेक्षाबुद्धिः संभवतीति कार्यकालपक्षे विधिदेशस्थत्वमेव परिभाषाणाम् , न स्वदेशस्थत्वमित्येकदेश- स्थत्वव्याहतिरिति परिभाषाविषय इत्युक्तेन्यूनतैवेत्यत आह- एतदेवेति ॥ परिभाषाशास्त्रमेवेत्यर्थः । एवेन संज्ञाशास्त्रव्यावृत्तिः । यत्तु- एतदेवेति प्रतीकमुपादाय ‘पक्षद्वयेप्येकवाक्यतासत्त्वादेव' इति भैरवमिश्रो व्याचकार, तत्तुच्छम् । अभिप्रेत्यन्वीयमानकर्मतासमर्पकपदान्तराध्याहारप्रसङ्गात् , पक्षद्वये- ऽप्येकवाक्यतैव भाष्याभिमतेति एकवाक्यतासमर्थनायैवैतदेवेत्यादिग्रन्थप्रवृत्तेः 'पक्षद्वयेऽपि प्रदेशैकवाक्यताया इतः प्रतीते:' इत्यग्रिमप्रन्थेन बोधनादेक- वाक्यतासमर्थकवाक्ये एकवाक्यतासत्वादेवेति एकवाक्यतासत्वहेतुत्वप्रतिपाद- नस्य मौढ्यावलीढत्वाच, यच- एतदेवेति प्रतीकमुपादाय 'यथोद्देशेप्ये- कवाक्यत्वमित्यर्थः' इति, तदपि रभसात् । परिभाषाशास्त्रेष्वेवैकवाक्य- तासमर्थनाय प्रन्थप्रवृत्तः कश्चित्परिभाषारूप इति कैयटः' इत्युत्तरपन्थेन बोधनेन तस्य व्याघातात् , व्याघातात् , यथोद्देशेपीत्यर्थलाभप्रकारस्य वर्षसहस्रेणापि प्रतिपादयितुमशक्यत्वाच्च । यत्तु- परिभाषादेश एव विध्येकवाक्यत्वमि- त्यर्थः' इति सर्वमङ्गलाकारः तदप्यज्ञाननिबन्धनम् , कार्यकालपक्षे संज्ञा- शास्त्रस्यापि विध्येकवाक्यत्वमित्यङ्गीकारेण एवकारख्यावाभावात् , परि. भाषादेशे वा विधिदेशे वेति वैलक्षण्यस्य ग्रन्थकारानभिमतत्वेन परिभा- पादेश एवेत्युक्ताहतत्वाब, तद्रीत्या कार्यकाले विधिदेशे विध्येकवाक्य- त्वस्यैव दृष्टत्वात्परिभाषादेश एवेत्युक्तेस्तद्विरोधापत्तेश्च, परिभाषादेश एव विध्येकवाक्यत्वे यथोदेशपक्ष एव पर्यवसानेन एतच पक्षद्वयसाधारणं भाष्यम्' इत्यप्रिमग्रन्थविरोधापत्तेश्च, 'तत्त्विह सिद्धम्' इति 'पूर्वत्रा- सिद्धम्' इति सूत्रस्थभाष्यसिद्धान्तव्याकोपापत्तेश्च । यत्तु- एतदेवेत्यस्य 'पक्षद्वयेऽपि पदैकवाक्यतयैव नियमः इत्येतदेवेत्यर्थः' इति तन्न विचा- रचारतरम् । अन्यतरपक्षे पदैकवाक्यतया नियमस्य एवकारव्यावर्यत्वे संज्ञाशाखव्यावृत्तिप्रदर्शनपर 'कश्चित्परिभाषारूप इति कैयट:' इति प्रन्थस्वारस्याभावप्रसङ्गात् , 'एतब पक्षद्वयसाधारणं भाष्यं पक्षद्वयेऽपि परिभाषा]] शास्त्रस्वप्रापकोद्देशः। त्रिप्रकार:- कश्चिदेकदेशस्थः सर्व शास्त्रमभिज्वलयति, यथा प्रदीपः सुप्रज्वलितः सर्व वेश्माभिज्वलयति-' इति 'षष्ठी स्थाने--' [१-१-४९ ] इति सूत्रे भाष्ये उक्तम् । 'अधिकारशब्देन पारार्थ्या- त्परिभाषाप्युच्यते । कश्चित्परिभाषारूप:-' इति कैयटः । दीपो यथा प्रदेशैकवाक्यताया इतः प्रतीतेः' इत्यग्रिमग्रन्थानवकाशापत्तेश्च ॥ अधिकारो नाम त्रिप्रकार इति ।। नामेति प्रसिद्धौ, अधिकारत्वेन प्रसिद्धस्त्रिप्रकार इत्यर्थः । तत्रैकः कश्चिदेकदेशस्थ:-' इत्यादिना मूल एवोक्तः । द्वितीयस्तु, यथा रज्वायसा वा बद्धं काष्ठमनुकृष्यते तद्वदनुकृष्यते चकारेणेति 'ग्रन्थान्ता- धिके च' इत्यादौ चकारेणानुकृष्टः ‘सहस्य स:' इत्यादिरूपः । तृतीयस्तु, चकारमन्तरेणापि 'योगे योगे उपतिष्ठत, इति 'अङ्गस्य' इत्यादिरूप इति विवेकः ॥ कश्चिदेकदेशस्थः सर्व शास्त्रमभिज्वलयतीति ॥ पक्ष- द्वयेऽपि परिभाषाशास्त्रं स्वदेशे वर्तमान सत्- पाणिनिसूत्रसमुदायरूपे शास्त्रे सर्व प्रदेशतुल्यं सापादिकं त्रैपादिकं च योग्यं विधिशास्त्रं प्रज्वलयति, एकवा- क्यतया निष्पादयतीत्यर्थः ॥ यथा प्रदीपः सुप्रज्वलितः सर्व वेश्माभिज्वल- यतीति ॥ स्वदेशस्थ एव दीप: स्वाश्रये गृहे योग्यं सर्व प्रदेशं यथा प्रकाशयति तथेत्यर्थः । आर्थिकनिषेधपरस्वविधेयविशेषणदलोपस्थित्या स्वविधेयपदोप. स्थित्या वा विधिशास्त्रीयलक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगिवाक्यार्थबोध- प्रयोजकस्य परिभाषाशास्त्रस्य पक्षद्वयेप्युपकार्योपकारकभावज्ञानाय स्वदेशे वाक्यार्थबोध इत्यङ्गीकारात्परिभाषाविषय एव पठितदेशस्थेन परिभाषाशा- स्त्रेण तत्र तत्र लक्ष्यधर्मिकसाधुत्वप्रकारकज्ञानोपयोगिबुद्धिजननमित्येकदेश- स्थत्वसंभव इति भाष्याशय इति भावः ॥ ननु संज्ञाशास्त्राणां स्वदेशे वाक्यार्थबोधाविशेषादेकदेशस्थत्वं संभवतीति तद्विषय एव प्रकृतभाष्यं लाप- यितुं शक्यम् , विनिगमनाविरहात् इत्यत आह- अधिकारशब्देनेति ।। 'अधिकारो नाम' इति भाष्यस्थेनाधिकारशब्देनेत्यर्थः ॥ पारार्थ्यादिति ॥ लक्ष्यसंस्कारोपयोगिविधिशास्त्रीयवाक्यार्थबोधप्रयोजकत्वादित्यर्थः ॥ परिभा- पाप्युच्यत इति ॥ अपिशब्दश्वात्रोक्तस्योभयस्यैव समुचायकः ॥ कश्चित्परि- नागेशाशयनिर्णये ['यबोदेशम्- । - , . भाषारूप इति ।। 'कश्चिदेकदेशस्थः' इति भाष्यस्थकश्चित्पदेन परिभाषाशा- खाणामेव प्रहणम् , न तु संज्ञाशास्त्राणामित्यर्थः । येन कैयटेन गृहीतपरिभा. षार्थेन व्यवहार इत्यभिप्रेतं तेनैव 'षष्ठीस्थाने-' इति सूत्रभाष्यव्याख्याना- वसरे दत इत्यादौ जश्त्वादिप्रतिबन्धरूपाशास्त्रीयकार्येऽपि भत्वादिसिद्धये संज्ञा- शास्त्रविषये विध्येकवाक्यताया वक्तुमशक्यत्वात् ' मृजेर्वृद्धिः' इत्यादिसूत्रस्थ- वृद्धयादिपदानामुपस्थापकतया चारितार्थेनोपस्थितपदार्थेऽन्वये मानाभावादि- परिभाषायाः तत्रोपस्थित्यनापत्तो कार्यकालपक्षे पदैकवाक्यताया वक्तमश- क्यत्वाच, यथोद्देशपक्षे संज्ञाशास्त्रस्य स्वदेशे वृद्धिपदेनावच्छेदकावच्छिन्नं श- ब्दस्वरूपं वृद्धिपदादिकं गृहीत्वा सकलविधिसूत्रस्थवृद्धिपदशक्तिसंभवाद्विधिसूत्र- स्थवृद्धयादिपदैः तंतमर्थमुपस्थाप्य तत्तद्विधिवाक्यार्थबोध इति भाष्यसिद्धान्ति- तजातिपक्षाश्रयणेनैव संज्ञाशानेष्ववच्छेदकावच्छेदेन शक्तिमहः इति 'वृद्धिरा. दैच्' इत्यादीनां — आदेचो वृद्धिपदवाच्या' इति वाक्यार्थबोधानन्तरं भावि- फलानुसन्धानात्सार्थक्यबुद्धया स्वदेश एव दृढतरसंस्कारोत्पत्तौ ' वृद्धिरादैच्' इत्यादौ वृद्धिपदश्रवणे एकसम्बन्धिज्ञानविधया आदेचामुपस्थितिर्भवतीति वा संशाविषये गुणाकाङ्ख्या प्रधानाकाजोत्थापनासंभवाच, व्यक्तिपक्षेऽपि वृद्धयादि- पदानामादैजादिषु शक्तिरिति ज्ञाते वृद्धयादिपदघटितविधिविषयकाकालाया उत्थाप्यतया उत्थापितगुणाकाया प्रधानाकालोत्थापनस्यानौचित्याच्च, संज्ञा- शाखाणां कार्यकालपक्षे स्वदेशे वाक्यार्थबोधे तदेशस्थत्वसम्पत्या अष्टाध्यायी- पाठकृतमेव पूर्वत्वं परत्वं चाश्रयितुं शक्यत इति विधिदेशस्थत्वानापत्या स्मरणे- नैव सर्वत्र निर्वाहे कार्यकालपक्षाश्रयणस्यानावश्यकतया परिभाषायां कार्यकालं संज्ञापरिभाषम्' इति संज्ञापदग्रहणानर्थक्यापत्तेश्च, स्वदेशे वाक्यार्थबोधे अ. यादीनां परत्वस्य दुर्वारतया प्रगृह्यसंज्ञाया: अष्टाध्यायीपाठकृतं पूर्वत्वमेव स्या- दिति अयादिभ्यः पैरव प्रगृह्यसंज्ञा, इति 'अदसो मात्' इति सूत्रस्थभष्यासंगते. श्व । संज्ञाशास्त्रविषये एकदेशस्थत्वं नोपपद्यते इति परिभाषाशास्त्रविषय एव पूर्वो- कवाक्यभेदमनङ्गीकृत्य वाक्याथै कवाक्यतया पदेकवाक्यतया वा विध्युपकार: सम्पद्यत इति पठितदेशस्थत्वेनैकदेशस्थत्वमुपपन्नं भवतीत्यभिप्रेतमिति भावः ।। ननु 'परिभाषाप्युच्यते' इति कैयटे अपिशब्देन पाराय॑स्य संबाविषयेऽपि तुल्यतया संज्ञाशास्त्रस्याप्यधिकारशब्देन प्रहणमिति बोधनाचथोरेशे स्वदेशे परिभाषा] शास्त्रत्वप्रापकोद्देशः। प्रभाद्वारा सर्वगृहप्रकाशकः, एवमेतत्वबुद्धिजननद्वारा सर्वशास्त्रोपकारक - - वाक्यार्थस्य सत्वात्तदर्थोपस्थित्यैव सर्वप्रकाशकत्वस्य संज्ञाशास्त्रेषु सुवचत्वेन संस्कार्यविधीनामनेकत्वात् युगपच्छ्रोतबुद्ध्यनारोहे स्वदेशे गृहीतस्य वाक्यार्थ- बोधस्य विधौ स्मरणमात्रेण संस्कार इत्यभिप्रायेणैकदेशस्थः इत्युक्तरुपपत्या स्वार्थस्मृतिद्वारा सर्वशास्त्रोपकारकमिति प्रदीपदृष्टान्तसङ्गतेश्च संज्ञापरिभाषा- साधारण्येन प्रकृतभाष्यं लापयितुं शक्यत इति भाष्यस्य परिभाषामात्रविषय- कत्वकल्पनमयुक्तमिति 'एतदेव' इति पूर्वग्रन्थोऽसङ्गत एवेत्यत आह दीपो यथा प्रभाद्वारेति ॥ प्रभाप्रसरणद्वारेत्यर्थः । सर्वगृहप्रकाशक इति ॥ गृह- पदं गृहस्थप्रदेशपरम् । स्वाश्रयेत्यादिः, स्वाश्रयगृहस्थितयोग्यसर्वप्रदेशप्रकाशक इत्यर्थः ॥ एवमिति ॥ दीपः स्वजन्यप्रभाजन्यप्रसरणद्वारा यथा स्वाश्रयगृह- स्थितयोग्यसर्वप्रदेशप्रकाशकस्तथेत्यर्थः । एतदिति ।। परिभाषाशास्त्रमित्यर्थः ।। खवुद्धिजननद्वारेति ॥ स्वं = परिभाषाशास्त्रम् , तस्य बुद्धिः वाक्यार्थबोध:, जन्यते येनेति जननं करणे ल्युट् , उत्पत्तिसाधनमित्यर्थः । तथाच परिभाषा. शास्त्रजन्यवाक्यार्थबोध: उत्पत्तिसाधनं यस्येपि व्युत्पत्त्या स्वजन्यवाक्यार्थबो. धजन्यार्थिकनिषेदपरविशेषणदलोपस्थितिद्वारा स्वजन्यवाक्यार्थबोधजन्यपदो- पस्थितिद्वारा वा, इति फलितोऽर्थः । एवं च प्राचीनोक्तयथोद्देशपक्षस्य नाव- काशलेशोऽपीति बोध्यम् ॥ सर्बशास्त्रोपकारकमिति ॥ पाणिनीयसूत्रसमु- दायरूपशास्त्रस्थयोग्यसापादिकत्रैपादिकविध्युपकारकमित्यर्थः । एवं च दीप. स्थानीयं परिभाषाशास्त्रं प्रभास्थानीयो वाक्यार्थबोधः प्रसरणस्थानीया विशे- षणदलोपस्थितिः स्वघटकपदोपस्थितिर्वेति फलितम् ॥ यत्तु- 'स्वबुद्धीति- प्रतीकमुपादाय स्वबुद्धिजन्याकाङ्क्षामूलकोपस्थितिविषयविध्येकवाक्यताद्वारेति भावः' इति सर्वमङ्गलाकारः, तन्मरुमरीचिकाप्रमाणविचारपर्यायमिति परि- परिकत्थनं पारेपातालं पात्यते । स्वबुद्धिजन्याकाङ्क्षामूलकोपस्थितिविषयविध्ये- कवाक्यताद्वारेति पण्डितभाषितेन गुणाकाङ्क्षया विध्याकालाया एव स्पष्टं प्रती- ते: यथोदेशपक्ष एव स्वीकृत: न पुनः कार्यकालः अतश्च ‘एतच पक्षद्वयसाधा. रणं भाष्यम्' इत्युत्तरप्रन्थानभिज्ञाविद्वगोष्ठीमात्रामिनन्धं स्यादिति । अपि च एकवाक्यतामन्तरापि सकलशास्त्रोपकारकत्वमभिप्रयतां प्राचीनानां प्रत्यव- नागेशाशयनिर्णये [ययोद्देशम्- मिति तत्तात्पर्यम् । स्थाने पण्डितं मन्यस्य शपथमात्रमथ मूकीभावो वा स्यात्प्रत्युत्तरमिति नेद. मुक्तमर्थवर्णनं वैयाकरणहृदयमधिशेताम् ।। यत्त- 'स्वस्यात्मीयस्याव्यवहितस्य पूर्वस्येत्याचंशस्य या विशिष्टत्रिध्यर्थघटकतया बुद्धिः तज्जननद्वारेत्यर्थः, पदक- वाक्यतया वाक्यार्थबोधसम्पादनद्वारेति यावत्' इति वाक्यार्थचन्द्रिकाकार: एकवाक्यतामन्तराप्यव्यवाहितस्येत्याग्रंशस्य विधिप्रदेशे स्मरणेन विशिष्टवि. ध्यर्थघटकत्वं नापलपितुं शक्यम् , इति मशककदम्बकमिव मदकलं कलभं प्रा. चीनकुलमुपरुन्धानमफलोद्यमम् , इति तदश्रद्धेयमेवेत्यास्ताम् ॥ तत्तात्पर्यः मिति ॥ षष्ठीस्थान-' इति सूत्रभाष्यस्थ · अधिकारो नाम--' इत्यादि- भाष्यव्याख्यानपरकैयटतात्पर्यमित्यर्थः । संज्ञाशास्त्रेषु प्रथमं वाक्यार्थबोधः, अनन्तरं शतिग्रहः, तदनन्तरं संस्कारः, ततः स्मरणम् , इति दीपप्रभाप्रसर- णात्मकत्रितयापेक्षया आधिक्येन दृष्टान्तवैषम्यात् न तेषां कश्चित्पदोपादेयता सम्भवति, परिभाषाशास्त्रेषु पुन: स्व, स्ववाक्यार्थबोधविधेवोपस्थित्यात्मकत्रि- तयमादाय दृष्टान्तसाम्यात् कश्चित्पदोपादेयत्वं सूपपादम् । कथंचिदेकदे- शस्थेत्यादिभाष्यस्य संज्ञापरिभाषासाधारण्यकल्पनामहे तु प्रकारचतुष्टयं स्या- दिति त्रिप्रकारत्वप्रतिपादनपर अधिकारो नाम त्रिप्रकार:--' इति भा. ध्यस्वारस्यभङ्गः । संज्ञामात्रविषयत्वकल्पने तु 'परिभाषा पुनरेस्थासती कृ- नं शास्त्रमभिज्वलयति प्रदीपवत्' इति समर्थसूत्रभाष्यसिद्धान्नव्याकोपः । एतेन ‘कश्चिदेकदेशस्थ-' इत्यादिभाष्यमपिसंज्ञापरिभाषोभयसाधारणमिति वक्तुं शक्यम्, 'परिभाषारूप:' इति कैयटस्तु उपलक्षणतया योज्यः । 'पारार्थ्यस्योभयसाधारणतया संकोचे मानाभावात्' इति यद्वाक्यार्थचन्द्रिका- यामुक्तं तद्लहस्तितम् । चकारेणानुकृष्यमाणस्यस्वरितत्वेनाधिक्रियमाणस्य च विध्येकवाक्यतयार्थबोधकत्वात्कश्चित्पदोपादेयस्यापि विध्येकवाक्यतयैवार्थबो- धकत्वमिति परमवश्यमङ्गीकर्तव्यम् , तच्च परिभाषाशास्त्रष्वेव सम्भवति, न तु संझाशास्त्रेष्विति 'षष्ठीस्थान-' इति सूत्रस्थं भाष्यं परिभाषाशास्त्रमात्र- विषयकमित्येव कल्पयितुमौचिन्यात्, आस्तामिदमपि, 'मृजेर्वृद्धि' इत्यादि- सूत्रस्थवृद्धयादिपदानामुपस्थापकतया चारितार्योऽपि उपस्थितपदार्थेऽन्वये प्र- . .
- 2 S Kuppuswami Sastrigal, M. A., Ag. Professor of Sanskrit & Compirative Philology, Presidency College, Madras ---- I bave perused surne portions of the work called Nagesasaya Nirnaya by Brahma-Sai R Nayanasastual of the Tiravadı Sanskrit College This work is leanne commentary on the famous treatise called Paribhashenusekliala by Nai esa Bhatta The author proposes to critically examine this comm, ntary the various interpretations given by other commentators on Parıbl shendusekbara I see that this commentary bas already met with the approbation of some eminent Vyakaranas like Mahamabopadhya. ya Sulbarayachariar From the portions I have seen, I can confidently say thit Mr Sastriar's commentary, when published, will bold a piominent pace in the dialectic literature relating to the Vyakarana Sastra Mr Sistriar's work in this direction deserves encouragement NEW PUBLICATIONS. Sastra Darpana by Sri Amalananda, the author of Kalpataru This is a masterly treatise on the Brahmasutras consisting of splendid lectures on each Adhikarana. (rown 8vo. pp. 369 Cloth Gilt. Rs. 2-8-0. Taittiriyopanishad Bhashya with the commentary called Vanamala by Sri Achyuta Krishnananda Tirtha This precious commentary is quite invaluable to a right understanding of the Bhashya of Sri Sankara Royal 8vo. pp. 270, Price Rs. 3. Bhagavad Gita with the commentary called Brahmanandagiri by Sri Venkatanatha An excellent Advaitic Commentary far superior in every respect to all others published butherto The author seems to have been very learned with his critical faculties fully developed Crown 8vo. pp. 614. Price Rs. 3. THE MANAGER, Bookselling Department.' SRI LANI VILAS PRLSS, SRIRANGAM, (Madras Presideney. 8 Iraia ) OPINIONS. - The Honorable Mr. V. Krishnaswamy Iyer. C. S I.-. Brahma Sree R. Narayana Sastrial is a pundit of rare ability He has a profound knowledge of Vyakarana His powers of versification are high and his compositions are singularly free from the defects of modern pundits. His character is very good In my opinion he deserves the patronage of all lovers of Sanskrit तिरुविशनलर् महामहोपाध्याय श्रीरामसुब्रह्मण्यशास्त्रिण:- भाष्ये पातञ्जले यन्मतिरतिवितता गेम्वरे ग्रन्थवर्ये काव्यालङ्कारवर्गे बहुविधरचना यस्य सम्यक् प्रसिद्धा । द्राक्षापाको यदीये वचसि सुमधुरो नन्दनीयः कवीन्द्रः सोऽय नारायणाख्यो मम मुदमतनोद्रामसुब्बोर्वचोभिः ।। नागेशाशयनिर्णयसमाहयस्तेन निर्मितो ग्रन्थः । दृष्टोऽयमेक एव प्रभवति नागेशहृदयनिर्णीतौ ।। पञ्चनदक्षेत्रवास्तव्यवैयाकरणवर्य महामहोपाध्याय श्रीमुष्णसुब्बरायाचा- र्याः- चोलमण्डलमण्डलायमानराधामङ्गलग्रामाभिजनेन सरसकविताचतुरेण वैयाकरण- श्रेष्ठेन नारायणशास्त्रिणा प्रणीत नागेशाशयनिर्णयाभिधान परिभापेन्दुशेखरव्याख्यानमव. लोक्य एव मन्येऽहम् । यद्यपि पण्डितवर्यैः प्रणीतानि परिभाषेन्दुशेखरव्याख्यानानि सन्ति, तथापि अत्र उल्लिखिता अनेक नवीना विषया. तेषु नोपलभ्यन्ते । कि च प्रायो व्याख्यानानि मूलखण्डनपराण्येव दृश्यन्त । इद तु तत्खण्डनस्य अलमकता प्रदय मूलाशयवर्णनेन मूलार्थस्य दाळ स्फोरयति । एवमादयो बहवो गुणा उपलभ्यन्ते । ला? यमुपादेयमिति ।। पुदुक्कोट्टै राजस्थानदानाधिकारिणः पुदग्रहारं श्रीगोपालशास्त्रिणः नागेशाशयनिर्णयभूषितभूषणविराजितो जयति । खण्डितदोषकलापो भुवि परिभाषेन्दुशेखरो नाम || मन्निकटाचिरकाल गृहीतविद्यः कवीश्वरः प्रथते । नागेशाशयनिर्णयविधिना नारायणाभिधः शास्त्री ॥ मत्कृतभूषणविवरणनागेशाशयविनिर्णय वीक्ष्य । नानाखण्डनविहती॥ता वेलेति निन्दितु मन्ये ।। नवसालपुराधीशश्रीमन्मार्ताण्डभूपतेः । दानाधिकारी गोपाळपोस्वीत्थ बहमन्यत ।। -