Central Archaeological Library, Asi
Naradiya Siksa
Front matter
GOVERNMENT OF INDIA
ARCHÆOLOGICAL SURVEY OF INDIA
ARCHÆOLOGICAL
LIBRARY
ACCESSION. NO. 4-2943
Sa4VI/ Naxlshe
CALL No.
D.G.A. 79
wwwwww
--
No text on this page.
Nagini
Plata shelhkore
Pula
4
Sea toalbi.com of the Caribisha
faringend. Dalam
श्रीनारदमुनिविरचिता सामवेदीया
नारदीया शिक्षा
ARCHAEO
TRAL
New Delhi
LIBRARY
-
भट्टशोभाकरविरचिता
'शिक्षाविवरणोपेता' टीकासहिता
-
।
Sa4VI
Nas she
प्रकाशक:-
-
श्रीपीताम्बरापीठ-संस्कृत-परिषद्
दतिया (म० प्र०)
MUNSTI: M MANOHAR LAL
Oriental
Fureign Book-Sellers,
P. H. 1165, Nai Sarak, DELHI-6.
प्रकाशक
श्रीपीताम्बरापीठ-संस्कृत-परिषद्
श्रीवनखण्डेश्वर, दतिया (म० प्र०)
अधिकार
सर्वाधिकार प्रकाशकाधीन
आवृत्ति
प्रथम-२०२१
f
मूल्य
एक रुपया पचास पैसे
।
मुद्रक
द्वारिकेश मिश्र
श्रीराम प्रेस, झाँसी
।
.
.
VENRAL BIHALOGICAL
LIBRALX, NU DELHI.
Acc. No
42943
Date
28...7..1965
Call No..
sa 47.78 stk
--- ":
No text on this page.
ति
समर्पणम्
यः कारुण्याज्जीवलोकं शिक्षयन् क्षेमवर्त्म सत् ।
सुदारुणं हरन्नास्ते सतां तस्मै कृपालवे ॥
दतिया-वनखण्डीस्थ-सिद्धपीठविहारिणे ।
सिद्धाय-सिद्धपूज्याय-सिद्धिदात्रे सुधागिरे ॥
पीताम्बरापादपद्म--मकरन्द लिहे इयम् ।
देशिकेन्द्र स्वामिपाद-भ्रमराय समर्प्यते ॥
-मीमांसाचार्यः श्रीगोपालचन्द्र मिश्रः एम.ए.
No text on this page.
प्रकाशकीयं किंचित 7 . श्रीपीताम्बरापीठसंस्थापकानां परिवाजकचत्रचूडामणीनामनन्तश्री विभूषितानां श्रीस्वामिपादानामनुग्रहेणास्मिन् वर्ष एव योगशास्त्रस्य महती निधि सटीकं "धेरण्ड संहिता" नामक ग्रन्थं तथा श्री चरणानां शोधपूर्णसाधनाया मूर्तफलं "श्री वगलारहस्यम्” महत्तन्त्रं प्रकाश्य श्री शोभाकरभट्टकृतभाष्यभूषितां श्रीनारदीयसामवेदशिक्षा प्रकाशयितुमुद्यतैषा परिषदद्य परमानन्दमनुभवति । प्रसिद्धसंस्कृतेतिहासलेखक "विन्टरनिट्ज प्रभृतिभिः पाश्चात्य विद्वद्भिः” ग्रन्थस्यास्य नाम ज्ञानेऽप्यज्ञता प्रदर्शिता । समय सागरे निमग्नस्यास्यरत्नस्य पुनरुद्धारेण भगवती गीर्वाणभारती समाराधिता भवेदित्येव नः समीहितम् । ग्रन्थोऽयं काशीस्थ हिन्दू विश्व विद्यालयस्य वेदप्राध्यापकै बैंद धर्मशास्त्र मीमांसाचार्यः M. A., उपाधि धारिभिः श्री गोपालचन्द्र मिश्रः सस्नेहं प्रकाशनाय समपि तथा च सामवेदिना श्री योगेश्वरप्रसाद मिश्रण सम्पूर्ण द्रव्यदानं सहर्ष स्वीकृतमित्थमुभयो मिश्रमहानुभावयोः प्रस्तुतप्रकाशने महत्वपूर्ण योगदानं तदर्थ ताभ्यां साभारं शतशः घन्यवादान् वितरामि संस्कृत जगति लब्धप्रतिष्ठेन श्रीसुधाकरशुक्लेन भूमिकालेखनद्वारा शिक्षायाः सरहस्यमभिप्रायः प्रदर्शितः तदर्थमाभार प्रदर्शनपूर्वकं धन्यवादं ददामि ।
( २ )
श्रीरामसेवकपाठकन तथाच श्री जगदीशशरण श्रीवास्तव्येन
भूमिकायाः पुस्तकस्य च मुद्रणाय शुद्ध प्रतिलिपिः कृता, यद्यप्येतौ परिषदः
परिवाराङ्गभूतौ परन्तु शिष्टा चारानुरोधेन धन्यवादाहविव ।
अनेन संस्कृतजगतः श्री बृद्धिस्तथा च संस्कृतज्ञानाँ परितोषोऽस्माकं
कामनाविषयः।
भाद्रपद शुक्ल चतुर्थी
संवत् २०२१ । ९-९-६४
व्रजनन्दन शास्त्री
साहित्याचार्यः
मन्त्री, श्री पीताम्बरा परिषद, दतिया
--
क
- - प्राक्कथनम् सर्वधर्मग्रन्थानामाद्या मूर्धन्या वेदा भारतीय धारणानुसारमपी- रूषेया ब्रह्मोद्भूताश्च अस्माकं संस्कृतेः धर्मस्य प्राणस्वरूपाश्च । वेदेषु भारतीयानां सर्वस्वं निहितं वर्तते । सर्वधर्माणां निधानं वेदेष्वेव । यद्वेदेनोपलभ्यते तदेवाधर्म-संज्ञकम् । ये वेदानुयायिनस्त एवास्तिकाः, वेदविरोधिनश्च नास्तिकाः । उक्तञ्च "वेदप्रणिहितो धर्मोऽधर्म- स्तद्विपर्ययः । वेदेषु सामवेदस्य स्थानमतीव महत्वपूर्ण भगवता श्री कृष्णेनापि गीतायामुक्त "वेदानांसामवेदोस्मि' । स वेदः षडङ्गाध्ययन पूर्वकमध्येयः, षडङ्गषु शिक्षायाः प्राथम्यं सर्वविदितं वर्तते । मानव शरीरे यथैव नासि- कायाः स्थानं तथैव वेदेषु शिक्षायास्तदुक्त "शिक्षाघ्राणतु वेदस्य" । इत्थं सर्वासु श्रुतिषु सामवेदस्य श्रेष्ठत्वं सर्वासु शिक्षासु च प्रस्तुत सामवेदीय शिक्षायाः। अस्या उपदेष्टा भगवान् देवार्षरिदः संगीत शास्त्रस्य प्रतीकभूतां वीणां स्वकरकमलयोर्धारयति । सप्तस्वरागां वैशिष्ट्य प्रयोगः मूर्च्छनादीनामाविष्कारः सङ्गीतशास्त्रस्य सर्वाङ्गीणोपदेशो भगवतो नारदस्याद्याचार्यत्वमुद्धोषयति । । शिक्षेयं द्वाभ्यां प्रपाठकाम्या विभक्ता, प्रत्येक प्रपाठकञ्च अष्टाभिः कण्डिकाभिविभक्तम्, सर्वे २३८ श्लोकाः सन्ति । शिक्षायाः प्रारम्भेस्वर- वर्णादीनां शुद्धिरत्यावश्यकीति प्रतिपादितम् । स्वरवर्णादिविहीनोमन्त्रः स्वार्थमववोधयितुमक्षमः, शुद्धपाठकःस्वाभीष्टान्प्राप्नोति, तद्विपरीतोऽशुद्ध- पाठकोऽनिष्टान् तथाचोक्त शिक्षायां-'मन्त्रोहीनः स्वरतोवर्णतो वा ( २ ) मिथ्याप्रयुक्तो न तमर्थ माह । सवागवज्री यजमानं हिनस्ति' । प्रथमे प्रपाठके प्रथम कण्डिकायां वेदेषु प्रयुक्ताः स्वराः सम्यड् निरूपिताः । पूर्व तावत् "सप्तस्वरास्त्रयो ग्रामा मूर्च्छनाश्चैकविंशतिः । ताना एकोन पञ्चाशदित्येतत्स्वरमण्डलम् । स रे ग म प ध नि सप्तस्वराः, षड्जग्रामो, गान्धारग्रामो, मध्यमग्रामश्चेति योग्रामास्तथा च देवर्षि पितृणां सप्त सप्त मूछना श्चैकीभूयैकविंशतिसंख्याका मूछना भवन्ति । -- -- एवं च षडज ग्रामे चतुर्दश, गान्धार ग्रामे पञ्चदश, मध्यम ग्रामे विशतिश्च संकलनयकोन पञ्चाशत्ताना: सन्ति । एतावदेव स्वरमण्डल विद्यते । 1. द्वितीयकण्डिकाया वर्ण्यविषयोऽयमेव । तृतीयायांलौकिकेषु वैदिकेषु चगीतेषु च रक्तपूर्णालङकृतादीना ङ्गणाना न्तथाच शङ कित- गीतादिचतुर्दशदोषाणां समीचीनं विवेचनमतीव शोभनकृतम् । चतुर्थी स्वराणां वर्ण विभागः। यथा-पञ्चम, मध्यमषड्जा एते ब्राह्मणवर्णाः । पञ्चम्यां कण्डिकायां नैसर्गिकेषु पशुपक्षिणां कण्ठध्वनिषु विभिन्नस्वराणा मवस्थितिस्तस्या विशदं विवेचनच, यथा 'षड्ज मयूरो वदति, गावो रम्भन्ति चर्षभम्" इत्यादि स्वराणामुत्पत्तिस्थाननिर्देशपुरःसरं नामकरणस्य सार्थक्यं प्रदर्शितन्तथा च षड्जादिस्वराः सर्वप्रथमङ्कन गीति विषयी कृता, इतिवर्णनानुसारमग्निना षड्जः ब्रह्मणा ऋषभः, सोमेन गान्धारो, विष्णुना मध्यमः स्वरः गीतः। maanind - षष्ठयाँ कण्डिकायाङ्कवलं सामगानस्य लक्षणानि प्रदर्शितानि । सप्तम्यांच क्रुष्टादि-लयस्थानानां स्थानानि प्रतिपादितानि । तथा च दीप्ता- यतामृदुमध्यमादीनां प्रकाराश्च वणिता:। अष्टम्यां कण्डिकायामाचिक स्वराणां लक्षणानि भेदाश्चोपदिष्टा महर्षिणा । इतिनिरूपेणन सह प्रथमः प्रपाठकः पूर्णतां प्राप्तः ।
। । ( ३ ) द्वितीयेप्रपाठके प्रथमायाङ कण्डिकायां साजात्यस्वराणाम्परिभाषा नियमविषयीकृता। तथा चाभिनिहित वहुस्वारादयः प्रकारा: प्रस्फुटी कृता: । द्वितीयायां स्वराणां ह्रस्व कम्पनन्दीर्घकम्पनञ्च विशदीकृतन्तथा रेफहकारादिव्यञ्जनानामुच्चारणस्य विस्तृत विवरणं चात्रोपलभ्यते । तृतीयायांकुत्रोदात्तस्यानुदात्तस्य स्वरितस्यवा प्रचयोभवति तस्य सम्यड' निरूपणं शोभनम् । तथा समासेऽवग्रहम्वरूप निर्देश पूर्वक मवग्रह- भेदाश्च प्रस्फुटी कृताः। चतुर्थीकण्डिका विवृतिनिरूपणात्प्रारब्धा तथा च १-वत्सानुसृता २-वत्सानुसारिणी ३-पाकवती ४-पिपीलिकाख्या: चतस्रः विवृतीः सप्रपंच व्याकरोति । पंचम्यां दश प्रकारकाणां पदान्तानां वलावलं तथा च व्यंजनानामुच्चारण चारुत्वं च विशेषेण विशदीकृतम् । सप्तम्यां पथ्यावृतस्य विपुलावृत्तस्य निदर्शनपुर सरं लक्षणानि लक्षि- तानि, अस्यामेव पदम्वरलक्षणानामष्टभेदा: व्याख्याताः । . अष्टम्यांकण्डिकायां सामवेदस्योद्गातुरावश्यक नियमानामुल्लेखः । नियमपालनात् सामपाठिनः सिद्धि प्राप्नुवन्ति । कायिक-वाचिक-मान- सिकेति त्रिविधाशुद्धिः सामगानस्य साफल्य-हेतुः ! आरोग्यार्थ जठराग्नेः रक्षाऽवश्यंकरणीया सदैवहितंपथ्यंच भोक्तव्यम । मानसिक-शुद्धयर्थं ब्राह्म मुहूर्ते प्रवुध्य परब्रह्म-स्मरणंकृत्वा पलाशबिल्वापामार्ग शिरीषाणां मध्ये कस्यापि दन्तधावनंचरेत् । उदरशुद्धयर्थन्त्रिफलाना सेवनं हितकरमिति विवेचनेन सह द्वितीयं प्रपाठक पूर्णतांप्राप्तम् । इत्थमियं नारदीय- सामशिक्षा दिव्यालौकिकज्ञानराशिः सामवेदाध्येतृभिरवश्यमध्येतव्या निदिध्यासितव्या च न केवलमियं शिक्षासामवेदाध्ययने महत्युपकारिणी प्रत्युत संगीतशास्त्रस्यादिमो ग्रन्थः । इयं शिक्षा मूलश्लोकमात्रं मेरठ निवासिना पण्डित श्री तुलसीराम स्वामिना प्रकाशिता । अद्यावधि कापि टीका प्रकाशिता नाभूत्, विनाभा- ष्येणच सुकुमारमतीनामध्येतृणामर्थावगतिरसम्भवा । एतदभावनिरासायेदं
( ४ )
।
श्रीशोभाकरभट्ट-भाषितं भाष्यमवश्यमेव प्रभविष्णु। इदंपरिशील्य सामगा:
सामगा भविष्यन्ति, भाष्येऽस्मिन् शिक्षाया गूढातिगूढानि रहस्यानि
विशदीकृतानि । भाष्यकतुर्विषये किमपीतिवृत्तन्नोपलभ्यते । स्वजन्मना-
कन्देशमलंचकार ? जन्म समयश्चस्कः, कश्चास्य धन्यतमो जन्मदाता ?
कुत्रशिक्षाप्राप्ता ? इति सकलंकालकोटरे सुगुप्तं विद्यते । अतस्तद्विषये
किमपि लेखनमसम्भवमेव । परत्वेतस्य प्रतिभापरिचयाय प्रस्तुतं
लघुकलेवरमिदं भाष्यमलम ।
आज्ञप्तोऽहमल्पवुद्धिः श्री स्वामिपादैर्भूमिका लेखनाय नितान्तम
समर्थोऽपि तत्कृपयैव किमप्यलिखम । आशासे ग्रन्थोऽयंभृशमुपकरिष्यति
सानातनी जनतामस्माकं संस्कृतिच ।
श्रावणी पूर्णिमा
सं० २०२१
दि०२२-८-६४
पंडित सुधाकरशुक्लः
एम० ए० शास्त्री काव्यतीर्थः
।
--
विषयानुक्रमणिका
.
प्रथमः प्रपाठकः
प्रथमा कण्डिका
&
द्वितीया कण्डिका
तृतीया कण्डिका
चतुर्थी कण्डिका
२४
पंचमी कण्डिका
२८
षष्ठी कण्डिका
सप्तमी कण्डिका
अष्टमी कण्डिका
३६
द्वितीयः प्रपाठकः
प्रथमा कण्डिका
४७
द्वितीया कण्डिका
तृतीया कण्डिका
चतुर्थी कण्डिका
पंचमी कण्डिका
षष्ठी कण्डिका
६२
सप्तमी कण्डिका
६६
अष्टमी कण्डिका
GORY नारदीया शिक्षा - ܕ * * ܒܝܕܕܟ ।। श्री गणेशायनमः नारदीया शिक्षा सटीका ਝੰਝਟਕਿਰਦਾਰੋਧੋਰ? प्रथमः प्रपाठकः प्रथमा करिडका अथातः स्वरशास्त्राणां सर्वेषां वेदनिश्चयम् । उच्चनीचविशेषाद्धि स्वरान्यत्वं प्रवर्तते ॥१॥ 卐5 卐 प्रणम्य परमात्मानमृक्-सामस्वर-विग्रहम् । मुनिना नारदेनोक्ता शिक्षा व्याख्यातुमिष्यते ॥१॥ । अथ सामसंहिताऽध्ययनादनन्तर मत इति । संहिताध्य- यनात् क्षिप्रं सर्वेषां शास्त्राणां ऋक् सामग्रतानां निश्चयं सम्यक १० नारदीया शिक्षा स्वरूप प्रतिपत्ति वेद, मयोच्यमानं जानीयादिति भगवान्नारदः सामान्येन शिष्यं प्रत्याह- सामान्यभूत ओंकारगतस्वरूपः उच्चनीचविशेषे उच्चतरे, उच्चतमे, नीचे, नीचविशेषे, नीचतरे, नीचतमे, चस्थानेऽ भिव्यज्यमान: स्वरान्यत्वं नाना स्वरतां प्रतिपद्यत इत्यर्थः । - अथवा सर्वेषां वागभिनिश्चयमितिवा पाठः, कथयामीति पूर्वपठित शिक्षामाहारयिष्यते, मंत्र-ब्राह्मण-वाक्यानि, ऋगादि स्वराणां विवेक उच्यते ॥१॥ आचिकं गाथिकं चैव सामिकं च स्वरान्तरम् । कृतान्ते स्वर शास्त्राणां प्रयोक्तव्यं विशेषतः ॥२॥ उच्च नीचं तथा स्वरान्यत्वमित्युक्त तच्च ऋग्विषये- उदात्त स्वरित श्रुतिलोपे नान्तरत्वं व्यवधानम् ॥२॥ एकान्तरः स्वरो ह वृक्ष गाथासु द्ध यन्तरः स्वरः । सामसुत्र्यन्तरं विद्यादेतावत् स्वरतोऽन्तरम् ॥३॥ तद्यथा । “तत्सवितुर्वरेण्यमित्यादिश्रुतिलोपेनमहन्मेवोचः । इत्यादि सामसत्तिः तिलोपेनान्तरंव्यवधानं जानीयात्, स्वर व्यवधानं गाथां जानीयात् । धियो यो नः प्रचोदयादि" त्यादि एतावत् स्वराणामन्तरं व्यवधानं सर्वत्र बोद्धव्यम् ।।३।। शिक्षाया अपरिज्ञाने ऋगादौ सम्यक् स्वरो न परिज्ञायत इत्याह ।
ܝܘ 7 प्रथमः प्रपाठकः ११ ऋक् सामयजुरङ्गानि ये यज्ञेषु प्रयुञ्जते । अविज्ञानाद्धि शास्त्राणां तेषां भवति विस्वरः ॥४॥ ऋक् सामयजुर्लक्षणानि यज्ञाङ्गानि याज्यास्तोत्रकरण- मंत्रादीनि तेषां सम्यक् स्वरूपाऽप्रतिपत्तिः परिभवतीति । विरुद्ध स्वरज्ञानं विस्वरः ||४|| . स्वरादि वैगुण्येन केवलं देवतायाः सांमुख्य नभवति यावद्वि- रुद्धाचरणं तावत् प्रत्यवायो भवतीत्याह । मन्त्री हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्र शत्रुः स्वरतोऽपराधात् ॥५॥ । .. मिथ्येति न शास्त्रानुसारेण प्रयुक्त: । न तमर्थमाहेति वदन्नाह-अथ वाच्यस्यासन्निधिपरां, निष्प्रयोजनमर्थाभिधानं सवाक् लक्षणो वज्रइव वज्रो यजमानंनिषिद्धाचरणाद् यजमानं हिनस्त्येव यथा इन्द्र शत्रुः स्वरस्यापराधात् प्रयोक्तारं हिनस्ति। इन्द्रशत्रुर्मेद्यउच्यते, इन्द्रः शब्दः शातयिताऽस्येति बहुव्रीहौ "प्रकृत्या पूर्वपदमित्यांद्युदात्तं” पदम्, इतरथा इन्द्रस्य शत्रु- रिति षष्ठी समासे 'समासान्त' इत्यन्तोदात्तस्यात् । इन्द्रस्य परमेश्वरस्य शत्रुर्नसंभवतीति विरुद्धार्थता, स्वरान्तरं प्रसज्यते अतः स्वराद्यवधारणेयत्नः कार्यः ।।५।।
१२ नारदीया शिक्षा । स्वरादि वैगुण्येनच न केवलं कर्मणिवैगुण्यमदृष्ट दोषश्च । यावद् दृष्टेऽनादि दोषयोग इत्याह । प्रहीणः स्वरवर्णाभ्यां योविमंत्रः प्रयुज्यते । यज्ञेषु यजमानस्य रुषत्यायुः प्रजां पशून् ॥६॥ मंत्रो यजमानस्य आयुरादीन् रुषतिविनाशयतीत्यर्थः ।।६।। स्वर रूपं त्रिषु स्थानेष्वभिव्यज्यत इत्युच्यते । उरः कण्ठः शिरश्चैव स्थानानि त्रीणिवाङ्मये । सवनान्याहुरेतानि साम वाऽप्यर्थतोन्तरम् ॥७॥ .. Firemedia नीच मध्यमोत्तरया उरसि कण्ठे शिरसि चाप्यभिव्यज्यते उरसि वक्षःस्थाने शब्दोच्चारणं प्रातःसवनमुच्यते, नीचे रुच्चारित प्रातः सवन शब्दस्येत्यर्थः । कण्ठस्थाने मध्यमेन स्व- रेणोच्चारणं माध्यंदिनं सवनं, शिरोलक्षणे स्थाने उच्चैरभि- व्यज्यमानं शब्दजातं तृतीयं सवनं, साम्नोऽपि सप्तस्वरात्म- कस्या धरोत्तर आदावेवसंभवः । स्वरसप्तकता कण्ठग्रीवा इति भेदेन निर्देशः । सामवाप्यर्थतोन्तरमिति न सम्वद्धः । ऋग्यजुः सामान्येऽपि स्थानत्रये स्थितानीत्याह ।।७।। J उरः सप्तविचारं स्यात्तथा कण्ठस्तथाशिरः । न च सप्तोरसि व्यक्तास्तथा प्रावचनोविधिः ॥८॥ सप्तानां स्वराणां विचरणं विचार इति सप्तविचारमुरः, मन्द्रातिस्वारयो रुरसि न सम्यक् अभिव्यक्तिर्यथेतरत्रेति प्रवचने प्रथमः प्रपाठकः अध्ययने भवो विधिरध्यापनकालेवगम्यते, अनभिव्यक्तावपि मानसे प्रयोगे उपांशु प्रयोगे च वर्ण स्वरयो रनाख्यानो भवत्येव, साम्नि सर्वात्मना स्वराणामवधारणं प्रवर्तते, तदनुसारेण ऋग्यजुषामुदात्तादिस्वरप्रवृत्तिरित्याह ॥८॥ कठ कालाप वृत्तषु तैत्तिरीया हरकेषुच । ऋग्वेदे सामवेदे च वक्तव्यः प्रथमः स्वरः ॥६॥ कठादि शाखासु ऋग्वेदे सामवेदे च ऋग्यजुषां सामिक- स्वरः प्रवर्तते । स्वरिते प्रथमस्वरानुसारेण पाठोऽवधार्यते । प्रथम स्वर द्वितीय स्वरौ ऋग्वेदेऽनु क्रियमाणाववधार्येते, क्रुष्टः र:समुदायानुकारश्च लौकिके व्यवहारे प्रवर्तत इत्याह । क्रुष्टः उच्च: मध्यमः प्रथमः स्वरः ॥९॥ प्रथमस्वरः ऋग्वेदस्तु द्वितीयेन तृतीयेन च वर्तते । उच्च मध्यम संघात स्वरो भवति पार्थिवः ॥१०॥ तृतीयादिषु स्वरानुसारेणाह्वरकाणां वा पाठः द्वितीयाद्यनु- कारेण तैत्तिरीयाणां साम्नितु सप्त स्वरा भवन्तीत्याह ॥१०॥ तृतीय-प्रथम-ऋष्टान् कुर्वन्त्याहरकाः स्वरान् । द्वितीयाद्यांस्तु मन्द्रान्तां स्तैत्तिरीयाश्चतुरः स्वरान् ॥११॥ द्वितीयश्च तृतीयोऽथ चतुर्थकः । मन्द्रः ऋष्टो ह्यतिस्वारः एतान् कुर्वन्ति सामगाः ॥१२॥ प्रथमश्च नारदीया शिक्षा छन्दोगानां वाजसनेयिनां च ब्राह्मणौ गायास्वरौ प्रथम- द्वितीयौ भवत इत्याह ।।१२।। द्वितीय प्रथमावेतौ तांडिभाल्लविनां स्वरौ । तथा शातपथावेतौ स्वरौ वाजसनेयिनाम् ॥१३॥ ताण्ड्यं च विशादिकं ब्राह्मणं कौथुमादयोऽधीयन्त इति ताण्डिनः, भाल्लविनः छन्दोगा एव वाजसनेयिनाम् ॥१३॥ एते विशेषतः प्रोक्ताः स्वरा वै सार्ववैदिकाः । इत्येतच्चरितं सर्व स्वराणां सार्ववैदिकमिति ॥१४॥ सर्व वेदेषु भवं चरितं स्वरितम् ॥१४॥ - ॥ इति प्रथमा कण्डिका।।
द्वितीया कण्डिका
सामवेदेतु वक्ष्यामि स्वराणां चरितं यथा ।
अल्प ग्रन्थं प्रभूतार्थं श्रव्यं वेदाङ्गमुत्तमम् ॥१॥
अथ छन्दोगानां सामगाने आच्चिकेच स्वरनिरूपणं विशेषतः
क्रियते ।
ऋक्सामलक्षणस्य निराकाङ्क्षात् प्रभूतार्थं सामस्वराणां
महता यत्नेनाधिगमात्तदुपास्यं श्राव्यम्, उत्तमं वेदाङ्ग-वेद
स्वरूप विषयत्वात् सामगतं स्वरादि निरूपणं तावत् क्रियते
सामार्थं सामर्थ्यादाच्चिकस्य ।।१।।
तान-राग-स्वर-ग्राम-मूर्च्छनानां तु लक्षणम् ।
पवित्रं पावनं पुण्यं नारदेन प्रकीर्तितम् ॥२॥
शिक्षामाहुर्द्विजातीना मृग्यजुः सामलक्षणम् ।
नारदीयमशेषेण निरुक्त मनु पूर्वशः ॥३॥
पवित्रं यावदुक्त मनुपूर्वशः । अनयोर्भाष्यं त्यक्तम्
( = स्पष्टम्) ॥२-शा
सप्तस्वरास्त्रयो ग्रामा मूर्च्छनास्त्वेक विशतिः ।
ताना एकोनपञ्चाश-दित्येतत्स्वर मण्डलम् ॥४॥
नारदीया शिक्षा स्वराणां समूहो मण्डलम्, तस्यनाम्ना निरूपणं क्रियते । श्लोकानुरोधात् कमो न विवक्षितः ॥४॥ षङ्जश्च ऋषभश्चैव गान्धारो मध्यमस्तथा । पञ्चमो धैवतश्चैव निषादः सप्तमः स्वरः ॥५॥ षड्ज-मध्यम-गान्धारा स्त्रयोग्रामाः प्रकीर्तिताः। भूलॊकाज्जायते षड्जो भुवर्लोकाच्च मध्यमः॥६॥ स्वर्गान्नान्यत्र गान्धारो नारदस्य मतं यथा । षड्जानुसारेण कदाचित् स्वरः प्रवर्तते. कदाचिन्मध्यमा- नुसारेण, कदाचित् गान्धारानुसारेण वा । अतएव ग्राम त्रयमेव, प्रधान मुखेनेतरेषामवधारणात्, एकदेशो यावदधिक देशेन यथा जनपदादेमित्वम् । गान्धारानुसारेण तु मनुष्यलोके स्वरावस्थानं न स्फुटमुप- लभ्यत इत्याह ॥६॥ स्वरराग विशेषेण ग्राम रागा इति स्मृताः ॥७॥ दीप्तायता स्वर श्रुति विशेष परैव ग्रामाणां ग्राम- । रागाः ॥७॥ रागप्रकारानवधारयन्नाह विंशतिं मध्यमग्रामे षड्जनामे चतुर्दश । तानान् पञ्चदशेच्छन्ति गान्धारग्राममाश्रितान् ।।
प्रथमः प्रपाठकः
परस्परं स्वराणां तननात्तानाः । विचित्रेण मध्यमादनन्त.
रङ्गाधारतः षड्जः ततऋषभ इत्येवं प्रकारेण स्वराणां प्रयोगे
मध्यमग्रामे विंशतिस्ताना भवन्ति तथा षड्ज ग्रामे चतुर्दश
गान्धार ग्रामे पञ्चदशेत्येवं एकोन पञ्चाश दुच्यन्ते तानाः ॥८॥
མཝ ཀ ཝིཏཧ ཨ ༣- ཙམ་ རྒྱུ རྒྱུ ར ༌ མ ཙ ང་ “ རྒྱུ་
[या च ता वला नाम अर्थताः सप्तेति सन्धयः ।]
नन्दी विशाला सुमुखी चित्रा चित्रवती सुखा ।
वला या चाथ विज्ञेया देवानां सप्त मूर्च्छनाः ॥६॥
स्वराणां समुच्छ्यणादूर्ध्व मुच्छ्यणात्प्रेरणं मूर्च्छना, प्रति
ग्राम स्वर सप्तक भावनादेकविंशति भवन्ति ।
नन्दीविशालेति ।
.
देवापेक्षया मूर्च्छनाः सप्तउक्ता नतु ग्रामाः षड्जऋषभाः,
अतश्च ग्रामत्रये देवानां सप्त, तथा पितृणां, ऋषीणां च सप्त ।
'नन्दी विशाला सुमुखी चित्रा चित्रवती सुखा वला वा इत्यर्था-
नुसारेण संज्ञा: देवतानामर्थं चेत्यागमन एवावगन्तव्यं यथा
स्वरवर्णनिर्देशः ॥९॥
आप्यायिनी विश्वभृता चन्द्रा हेमा कपद्दिनी ।
मैत्री वाहती चैव पितृणां सप्त मूर्च्छनाः ॥१०॥
षड्जे तूत्तर मन्द्रा स्यादृभे चाभिरुद्गता ।
अश्वक्रान्ता तु गान्धारे तृतीया मूर्च्छना स्मृता ॥११॥
मध्यमे खलु सौवीरा हृष्यका पञ्चमे स्वरे ।
धैवते चापि विज्ञेया मूर्च्छना तूत्तरायता ॥१२॥
। १ नारदीया शिक्षा निषादाद्रजनी विद्यादृषीणां सप्त मूर्च्छनाः । सप्त उत्तर मन्द्राभि रुद्गता-अश्वक्रान्ता सौवीराहृष्यका उत्तरायता रजनीति षड्जादि स्वरगता: सप्त ऋषिसंवन्धिन्य उक्ता: । A देव मूर्छनानां गन्धर्वा अनुयायिनः, पितृमूर्च्छनानांतु यक्षाः, ऋषि मूर्च्छनानां मनुष्या इत्याह- उपजीवन्ति गन्धर्वा देवानां सप्तमूर्च्छना ॥१३॥ पितृणां मूर्छ नाः सप्त तथा यक्षा न संशयः । ऋषीणां मूर्च्छना:सप्त यास्त्विमा लौकिका स्मृताः॥१४॥ उत्तरमन्द्रादिका या मूर्च्छना ऋषीणां सप्त ता लौकिका इति षड्जादिभिः सप्तभिः स्वरै रुच्चार्य माण वादयः परितुष्यन्तीत्याह- षड्जः प्रीणाति वै देवानृषीन् प्रोणाति चर्षभः। पितृन्त्रीणाति गान्धारो गन्धर्वान्मध्यमः स्वरः ॥१५॥ देवान्पितृऋषींश्चैव स्वरः प्रीणाति पञ्चमः । यक्षानिषादः प्रीणाति भूतग्रामं च धैवतः ॥१६॥ -इति द्वितीया कण्डिका- ५
तृतीया कण्डिका
लौकिकं च वैदिकं च गानं दशगुण युक्त तु वेदिकार्य-
मित्युच्यते ॥
गानस्यतु दशविधा गुणवृत्तिस्तद्यथा-
रक्त पूर्णमलंकृतं प्रसन्नं व्यक्त विक्रुष्टं
श्लक्ष्णं समं सुकुमारं मधुरमिति गुणाः ।
गानस्य दशगुणाः । रक्तादीनां परस्पर विवेकेन स्वरूप
निर्देशः क्रियते ।।
तत्र रक्त नाम वेणुवीणा स्वराणामेकी भावे-
रक्तमित्युच्यते॥१॥
वंशवीणा पुरुष स्वराणामभेदे सति या रंजना तद्रक्त-
गानम् ॥१॥
पूर्णनाम स्वरश्रुति-पूर्णाच्छन्दः पादाक्षर
संयोगात् पूर्णमित्युच्यते ॥२॥
स्वरो मध्यमादि-स्वर-विशेषः स्वर-श्रुत्योरनयोःकरणं
पूरणं छन्दसः पादानामक्षराणां च संयोगात्स्फुटमुच्चारणा-
त्पूर्णम् ॥२॥
२० नारदीया शिक्षा अलंकृतं नामोरसि शिरसि कण्ठयुक्तमित्यलंकृतम् ॥३॥ कण्ठ युक्त प्रथमे स्थाने यदवस्थितं तं नीचे रुरसिस्थित क्रियते शिरसिचोच्चैर्वाणी क्रियते तदलंकृतं भवति ।।३।। प्रसन्नं नामावगत गद्गद् निर्विशङ्कप्रसन्नमित्युच्यते ॥४॥ कण्ठ निष्पीडनेनोच्चारणं गद्गदमपगतं यत्र तत् । निर्गता विविधा शंका यत्र तत्प्रसन्न ॥४॥ श्लोकान्तर्गतानां पदादीनां गीत्यावधारणं सम्यगवधारणात् व्यक्त गानमित्याह । व्यक्तं नाम पद पदार्थ प्रकृति विकारागम लोपकृत्तद्धित समास धातु निपातोपसर्ग स्वरलिङ्ग वृत्ति वातिक विभक्त –यर्थ वचनानां सम्यगुप- पादने व्यक्तमित्युच्यते ॥५॥ पदस्यार्थानुसारेण प्रकृतेर्धातोः प्रातिपदिकस्य यद्- व्यवधारणा वृद्ध्यादिका विकाराः, असुगित्याद्यागमउपधादि लोपः, कृत्तद्धित प्रत्ययाः, द्वन्द्वतत्पुरुषादयः समासाः, इयं प्रकृति- श्वायं धातुरयं निपातभागोऽयमुपसर्ग-भाग इति विवेक्तव्यं, स्वर उदात्तादिः, स्त्री पुनपुंसकानि लिङ्गानि, सामान्येनावधार- णार्थं वृत्तिः, ऊहापोह--वशेनार्थावधारणं वार्तिकं, कर्तृकर्मा- द्यवधारणं विभक्त यर्थः, एक-द्वि--बहुत्वावगमो वचनं, एवं परिज्ञाने व्यक्ततावगमः ।।शा -
प्रथमः प्रपाठकः
२१
विक्रष्टं नामोच्चैरुच्चारितं व्यक्तपदाक्षर-
मिति विष्टम् ॥६॥
उच्चैरुच्चार्य माणेऽपि पदाक्षराणां स्फुटता यत्र भवति
नाव्यक्तत्वं तद्विक्रुष्टम् ।
शोभनयात्वरितादिकमावृत्यावर्त्त इति ॥६॥
श्लक्ष्णं नामाद्भुतमविलम्वितमुच्चनीच प्लुत-
समाहार हेलया
लोपन यादिभिरुपपादनादिभिः
श्लक्ष्णमित्युच्यते ॥७॥
अतश्च हृस्वमेकमात्र दीर्घद्विमात्रं दीर्घाच्च विषम्य कार्य-
मिति सामर्थ्यादुक्त भवति । हेलया सहवेलया तस्य दूतार्था-
वृत्तेरुपनयत: सम्पादनं आदि ग्रहणेन मध्यमाया विलम्विता-
याश्च ग्रहणं तच्चस्फुट वाच: पुटाच्च त्तपिता पुत्रीयेतयात्म
वृत्तयो गीतेति उच्यन्ते ॥७॥
अत्वरितं गानमद्भुतं
विशुद्धं समविलम्वितं उच्चनीच-
प्लुतानां समाहरणं यत्र नात्युच्चं नातिनीचं प्लुतंत्रिमात्रं वा ॥
समंनामावाप निर्वाप प्रदेशं प्रत्यन्तर स्थानानां
समासः सममित्युच्यते ॥८॥
स्वरस्यापूरणं प्रक्षेप आवापः, निर्वापो न्यूनता करणं
तेषामावाप निर्वाप प्रदेशानां प्रत्यन्तरेषु व्यवहित-स्थानेषु
समासनं प्रक्षेपो नव्युत्क्रमेणेति समंगानं भवति ॥८॥
२२ नारदीया शिक्षा सुकुमारं नाम मृदुपदवर्ण स्वर कुहरण युक्त सुकुमारमित्युच्यते ॥६॥ मृदुभिः पदाधुच्चारणैर्युक्त न कठिनः, कुहरणमव्यक्तानां वर्णानां कण्ठनिष्पीडने नोच्चारणम् ।।९।। मधुरंनाम स्वभावोपनीतललितपदाक्षरगुण समृद्धं मधुरमित्युच्यते ॥१०॥ ललिताः प्रहर्षिताः मुखाद् ये निसृताः पदाक्षर-गताः गुणास्तैः सुखकरं गानं उपसंहरति पूर्वोक्तम् ॥१०॥ एवमेतैर्दशभिगुणैर्युक्त गानं भवति एतद्विपरीता गीति- दोषा उच्यन्ते, भवन्ति चात्रश्लोकाः ।। शंकित भीतमुद्धष्टमव्यक्तमनुनासिकम् । काकस्वरं शिरसिगतं तथा स्थान विवज्जितम् ॥११॥ विस्वरं विरसं चैव विश्लिष्टं विषमाहतम् । व्याकुलं तालुहीनं च गीति दोषाश्चतुर्दश ॥१२॥ शङ्कितस्य च भीतस्य च गानं शङ्कितं भीतं । क्षुब्धं गानमुद्धृष्टं, अव्यक्तमस्फुटम्, नासिका स्थान प्राधान्येन गान- मनुनासिकम्, कण्ठस्थान निष्पीडनेन गानं काकस्वरं, अत्युच्चैर- परिपूर्ण गानं शिरसिगतं, एकस्थान विषयस्यानेकस्थाने योगात् :स्थान विवज्जितं, यस्मिन् पर्वणि यत् स्वरितं विहितं तस्या- -- " प्रथमः प्रपाठकः २३ - विरामाद्विस्वरं, गानमध्ये चित्तव्याक्षेपाद्विरसं, पर्वणामप्राप्त- व्यवधान-करणं च विश्लिष्टं, प्लुतस्य शीघ्र हस्व दीर्घयोश्च विलम्वितं पातनं विषमाहतं, वर्णस्वरादि वैषम्येन गानं व्याकुलं, वृत्तीनामनियमनेन प्रवृत्तं तालुहीनम् । आचार्याः सममिच्छन्ति पदच्छेदन्तु पण्डिताः । स्त्रियो मधुरमिच्छन्ति विऋष्टमितरे जनाः ॥१३॥ समपदच्छेद-मधुरोच्च-रूपं गानं चतुष्प्रकारं गानंकर्त- व्यमित्याचार्यादि मुख्येनोच्यते नतु समादीनांविकल्पः, विक्रुष्टंतु न निपातमितर ग्रहणात् ।।१३।। -इति तृतीया कण्डिका- - चतुर्थ कण्डिका पद्म पत्रप्रभः षड्जऋषभः शुकपिंजरः । कनकाभस्तु गान्धारो मध्यमः कुन्दसप्रभः ॥१॥ वर्ण स्वरच्छन्दो मंत्र समधिष्ठात्र्यो देवता भवन्ति तासां चेच्छावशेनाधिष्ठानापेक्षया शरीर ग्रहणे पद्मपत्रादि-रूपता भवतीत्यागमादवधार्यत इत्याह ।।१।। पंचमस्तु भवेत्कृष्णः पीतकं धैवतं विदुः । निषादः सर्ववर्णः स्यादित्येताः स्वर-वर्णताः ॥२॥ स्पष्टम् ॥२॥ पंचमोमध्यमः षड्ज इत्येते ब्राह्मणाः स्मृताः । ऋषभो धैवतश्चापीत्येतौहि क्षत्रियावुभौ ॥३॥ गान्धारश्च निषादश्च वैश्यावर्द्धनवैस्मृतौ । शूद्रत्वं विद्धिचाद्धेन पतितत्वान्न संशयः ॥४॥ पंचमस्योत्कर्षान्मध्यम-षड्जयोश्च ग्रामत्वाद् ब्राह्मणत्व- मुत्कर्ष-सामान्यात्, ऋषभ-धैवतयोश्च वलयोगात् क्षत्रियत्वं, गान्धारस्य मध्यमादेवारोहाद्व श्यता । निषादस्यावरोहा श्यत्वं .
प्रथमः प्रपाठकः २५ शूद्रत्वं च प्रतिपाद्यते । दुःखवाडवोस्य मध्यमस्य लक्षणमेवार्थात् क्रियते । यथा स्वरसनिवेशेन ग्रामवैचित्र्यं लौकिके गाने एवं स्वर सन्निवेशे वैचित्र्यात् सामगानमस्य लक्षणमेवमर्थः क्रियतेऽनन्तप्रभेदं भवतीति ॥३-४।। ऋषभोत्थाः षड्जहतो धैवतसहितश्च पंचमोयत्र । निपतति मध्यमरागे तनिषादं षाडवं विद्यात् ॥५॥ ऋषभादनन्तरं योऽसौ षड्जस्तेन धैवतसहितः, पंचम- सहितो यत्रगानं मध्यमरागे मध्यमस्य ग्रामे तं निषादं षाडवं जानीयात् गान्धाराभावात्, षाडवं स्वरपंचकेन गीयमानस्य मध्यमस्पोदितत्वेन लक्षणं क्रियते ॥५॥ यदि पंचमोविरमते गांधारश्चान्तरस्वरो भवति । ऋषभो निषादसहितस्तं पंचममीदृशं विद्यात् ॥६॥ मध्यमराग इत्यनुवर्तते मध्यमे पंचमस्य विरामे गान्धार: तत ऋषभस्ततो निषादः पंचम इतिक्रमः । पुनर्मध्यम-लक्षण- मुच्यते ॥६॥ गांधारस्याधिपत्येन निषादस्य गतागतैः । धैवतस्य च दौर्बल्यान्मध्यम ग्राम उच्यते ॥७॥ मध्यमप्रारम्भे गान्धारस्याधिपत्यमाधिक्यं यदा भवति निषादस्य गमनागमनं च पुन: पुनरुच्चारणाद्वैनतग्य न नोर्बल्यं
नारदीया शिक्षा
सकृदुच्चारणं षड्ज ऋषभे पंचानां सामान्येनावस्थानं तदा-
मध्यमग्रामो भवति । षड्जग्रामस्य लक्षणं क्रियते ॥७॥
ईषत् स्पष्टो निषादस्तु गान्धारश्चाधिको भवेत् ।
धैवतः कम्पितो यत्र षड्जग्रामं तु निद्दि शेत् ॥८॥
षड्जमारंभे निषादस्य लाघवेनोच्चारणं, गान्धारस्य
चाधिकेनोच्चारणं, धैवतस्य च कम्पनपातनं, स्वरान्तराणा-
मनन्तरं यथा रुचिगानमेवं षड्जग्रामोभवति। षड्जग्रामराग
लक्षणं क्रियते ॥८॥
अन्तरस्वरसंयुक्ता कालियंत्र दृश्यते ।
तंतु साधारितं विद्यात् पंचमस्थं तु कैशिकम् ॥६॥
षड्जप्रारंभे चतुःश्रुतिक एव निषादो यदा भवति तदा
पंचमस्थं परमुपर्यवस्थितं तं साधारितं सदृशं श्रुतिकैशिकसंज्ञं
गीतकं भवतीति मध्यमे ग्रामरागे लक्षणं च श्लोकद्वयेनोदा-
हरणं तथा क्रियते ॥९॥
कैशिकं भावयित्वातु स्वरैः सर्वैः समन्ततः ।
न्यासस्तस्मात्कैशिकमध्यमः ॥१०॥
यस्मात्त मध्यमे
काकर्लिदृश्यते यत्र प्राधान्यं पंचमस्यतु ।
कश्यपः कैशिकं प्राह मध्यमग्रामसंभवम् ॥११॥
प्रथमः प्रपाठकः २७ पूर्वोक्त कैशिकं यदा सवौं स्वरैर्भाष्यते योज्यते मध्यमादुप क्रम्यते मध्यमे च न्यस्यते तत्र स्थाप्यते तदा कैशिकमध्यमो ग्रामरागो भवतीति मध्यमग्रामादुत्पन्नस्य काकलि रेव श्रु तिको निषादो भवति पंचमस्य प्राधान्यं पुनः पुनरुच्चारणं शेषाणि स्वरान्तराणि सामान्येन वर्तन्ते तदा मध्यम-ग्राम-संभवं कैशिक कश्यप ऋषिराह । वीणादिसहितं हस्तांगुलिचातुर्येणाभ्यस्तं स्फुटं यदा च तद् भवति तदनुसारेण सामस्वराधिगमः सम्यग्भ- वति निर्वचनेन प्रणिगदति ।।१०-११।। गेति गेयं विदुः प्राज्ञा धेति कारुप्रवादनम् । वेति वाद्यस्य संज्ञेन गांधर्वस्य विरोचनमिति ॥१२॥ गन्धर्वेभ्य आगतं गान्धर्वं तस्याक्षरोपलक्षितार्थं प्रतिपादेन विरोचनं विशेषतो रोचनमुद्दीपनं भवति गाशब्देन गानं लक्ष्यते "धकारेण वकारेण वैणिकस्य प्रवादनं” चातुर्येण हस्ता- गुलिधारणप्रवादनपदेन कथितं वकारेण वादनं लक्षितम् ॥१२॥ -इति चतुर्थ कण्डिका- पंचमी कण्डिका लौकिके गाने स्वराणां मध्यमादिस्वरशब्दैर्व्यवहारत्रयं प्रायेण सर्वेषां सर्वस्य स्वरभावतो, वैदिकेतु पंचमनिषादानां क्वचिदेव भवेद्धस्तांगुलिनिवेशनेन च सम्यगवधारणात्प्रथमादि संज्ञा । अंगुलिनिवेशनं च स्वराणांक्रियते ॥ यः सामगानां प्रथमः स वेणोर्मध्यमः स्वरः। योद्वितीयः सगान्धारस्तृतीयस्त्वृषभः स्मृतः ॥१॥ चतुर्थः षड्ज इत्याहुः पंचमो धैवतो भवेत् । षष्ठो निषादो विज्ञेयः सप्तमः पंचमः स्मृतः ॥२॥ वेणुवंशः स्वरपरिज्ञानार्थमुच्यते ॥२॥ षड्ज वदति मयूरो गावो रंभन्ति चर्षभम् । अजाविकेतु गान्धारं क्रौंचो वदति मध्यमम् ॥३॥ पुष्पसाधारणे काले कोकिला वक्ति पंचमम् । अश्वस्तु धैवतं वक्ति निषादं वक्ति कुञ्जरः ॥४॥ रंभन्ति उच्चारयन्ति, पुष्पाणां नामजातीप्रभृतीनां साधारणो भवकालो वसन्तः तत्र वसन्ते वहून्युच्चावचानि पुष्पाणि संभवन्ति । प्राधान्येन कण्ठादिस्थानतः षड्जादीना- मित्याह ॥३-४॥
प्रथमः प्रपाठकः
२९
कण्ठादुत्तिष्ठते षड्जः शिरसस्त्वृषभः स्मृतः ।
गान्धारस्त्वनुनासिक्य उरसो मध्यमः स्वरः ॥५॥
उरसः शिरसः कण्ठादुत्थितः पंचमः स्वरः ।
ललाटाद्ध वतं विद्यानिषादं सर्वसन्धिजम् ॥६॥
मुखेनानुगता नासिकानुनासिका, अनुनासिकायां भवो
अनुनासिक्यः, उरस उत्थितः, मध्यम: स्वरः, ललाटादुत्पन्न,
सर्वेभ्यः कण्ठादिभ्यः सन्धिभ्यो जायत इति सर्वसन्धि
विद्यात् ॥५-६॥
नासां कण्ठमुरस्तालु जिह्वां दंताँश्च संश्रितः ।
षड्भिः संजायते यस्मात्तस्मात् षड्ज इति स्मृतः ॥७॥
कण्ठादिभ्यः उत्पाद्यमानाः षड्जादयोऽन्यान्यपि स्थानानि
गुणत्वेन स्पृशन्तीत्याह ॥७॥
वायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः ।
नर्दत्यृषभवद् यस्मात्तस्मादृषभ उच्यते ॥८॥
ऋषभः शिरस उत्पद्यमानः कण्ठमपि स्पृशतीत्युच्यते ॥८॥
गान्धारः शिरसो नासिका प्रदेशादुत्पन्नः कण्ठमपि-
स्पृशतीत्याह-
वायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः ।
नासागन्धावहः पुण्यो गान्धारस्तेन हेतुना ॥६॥
३०
नारदीया शिक्षा
।
शीर्षशब्देन नासिकोच्यते, नासया गन्धानावहतीति नासा
गन्धावहो नासिक्यां गान्धारो वायुस्तन्निमित्तः स्वरो गान्धारः,
पुण्यः
शोभनः उरस उत्पन्नो हृदयं नाभिंच स्पृशति मध्यम
इत्याह ॥९॥
वायुः समुत्थितो नाभेरुरो हृत्कंठशिरो हतः ।
पंचस्थानोत्थितस्यास्य पंचमत्वं विधीयते ॥१०॥
नाभेरधस्थात् उत्क्रान्तात् मध्येच स्थानादुच्चनीचमवस्था-
नाच्च मध्यमत्वं, कण्ठादिभ्य उत्पन्नो नाभिहृदयस्पर्शनात्
पंचमस्थानः पंचम इत्याह ॥१०॥
-
--
धैवतं च निषादंच वर्जयित्वा स्वरद्वयम् ।
शेषात्पंच स्वरांस्त्वन्यान् पंचस्थानोच्छितान्विदुः॥११||
निषादस्य सर्वसन्धिजत्वाद्धैवतस्य मुख्यतया ललाट
जत्वेऽपि सर्वसन्धिस्पर्शात्, षड्जस्य षड्स्थानत्वं, शेषाः स्वराः
गौणेन मुख्येन च रूपेण पंचस्थानानि स्पृशन्तीत्याह अंतो न
षड्जस्य पंचस्थानत्वमेव ॥११॥
स्वाध्यायादौ षाड्जादिस्वरगानानामग्न्यादिरूपतामात्मनि
चिन्तयेदित्युच्यते ।
पंचस्थानस्थितत्वेन सर्वस्थानानि धार्यते ।
अग्निगीतः स्वरः षड्ज ऋषभो ब्रह्मणोच्यते ॥१२॥
प्रथमः प्रपाठकः ३ सोमेन गीतो गान्धारो विष्णुना मध्यमः स्वर । पंचमस्तु स्वरो गीतो नारदेन महात्मना ॥१३॥ अग्नीत्यारभ्य अधिष्ठात्र्यो देवता उक्ताः ।।१२।।१३।। aadalathisrrid Aad དབྱེ་ནཱི་ཡེ། ཀཱ་དཔེ་ཕྱིས་ཡིཙྪ་ ' , ''ཤྩ ཝཀི ར ར པ་, པ ཁོ་གཙེ , , དབུས༌དྷ ཎ ཨུ ཨུ བ धैवतश्च निषादश्च गीतौ तुम्वुरुणा स्वरौ । आद्यस्य दैवतं ब्रह्मा षड्जस्याप्युच्यते बुधैः ॥१४॥ आद्यो मध्यम गंभीर स्वरूपंच । तीक्ष्ण दीप्तिप्रकाशत्वा- दग्निदेवतमृषभम् ॥१५॥ तीक्ष्णदीप्तिप्रकाशत्वादृषभस्य हुताशनः । गावः प्रगीते तुष्यन्ति गान्धारस्तेन हेतुना ॥१५॥ गौर्देवता गान्धारस्य, गान्धारयति सन्निहितं करोतीति गान्धारः, गान्धारोच्चारणेन च सौरभेया गाव उपतिष्ठन्ति गो देवता प्रसादात् ।।१५।। श्रुत्वा चैवोपतिष्ठन्ति सौरभेया न संशयः । सोमस्त पंचमस्यापि दैवत ब्रह्मराट् स्मृतम् ॥१६॥ ++ सोमश्चन्द्रमाः । ब्रह्मराट् ब्राह्मणानां राजा पंचमस्य दैवतं सोमस्य यथा कृष्णपक्षेनि सः शुक्लेच वृद्धिरित्येवं षड्ज मध्यमगतस्य पंचमस्थोच्चगीतित्वाद् वृद्धिः स्वरस्यासंभवात्, हानिर्हासः उत्तरस्थानवति सोमसाधर्म्य अतिसन्धीयते, यस्मादेतान् पूर्वोच्छ्तिान्स्वरान् ।।१६।।
३२ ३ नारदीया शिक्षा निर्हासो यश्चवृद्धिश्च ग्राममासाद्य सोमवत् । तस्मादस्य स्वरस्यापि धैवतत्वं विधीयते॥१७॥ निषीदन्ति स्वरा यस्मान्निषादस्तेन हेतुना । सर्वांश्चाभिभवत्येष यदादित्योऽस्य दैवतमिति ॥१८॥ मध्यमादीनां पूर्वोच्छ्रितानां पूर्वमुत्पन्नानामतिसन्धानानि चारणाद् वा, अतो धैवत: निरोधाकरणात् पिबन्तीति, यथादित्यो ग्रहनक्षत्राणि रुणद्धि एवं निषादे निषीदन्ति अन्तर्भवन्तीव स्वरास्तत्र पर्यवसानेन चाभिभवो सारणमिव क्रियते सूर्येणैव ज्योतिषां आदित्योऽस्य धैवतस्य निषादस्यदैवतमित्यर्थः । एवंलौकिके वैदिके च गानसाधा- रण्येन लक्षणमुक्तमिदानी सामविशेष उच्यते । * अप- --इति पंचमी कंडिका- ।
-
षष्ठी कण्डिका
दारवी गात्रवीणाच द्वे वीणे गानजातिषु ।
सामिकीगात्र वीणातु तस्याः श्रृणुत लक्षणम् ॥१॥
ओंकारो व्याहृतयः सावित्री च पच्छोर्द्धर्चश ऋक्श
इति साम सावित्री स्वाध्यायी वेदस्यारम्भ काले प्रयोक्त-
व्येत्युच्यते ॥१॥
गात्रवीणा तु सा प्रोक्ता यस्यां गायन्ति सामगाः ।
स्वरव्यंजनसंयुक्ता अंगुल्यंगुष्ठरंजिता ॥२॥
हस्तौ सुसंयुतौ धायौं जानुभ्यामुपरिस्थितौ ।
गुरोरनुकृतिं कुर्याद् यथा
ज्ञानमतिर्भवेत् ॥३॥
प्रणवं प्राक् प्रयुंजीत व्याहृतीस्तदनन्तरम् ।
सावित्रीं चानुवचनं ततो वृत्तान्तमारभेत् ॥४॥
व्याहृत्यनुवचनस्य पश्चादनुवचनं स्वाध्याय
वृत्तातं हस्तांगुलीषु स्वरारोपणं सम्यग् गीत्यवधारणार्थ-
कर्तव्य मित्याह ॥४॥
नारदीया शिक्षा
प्रासार्य चांगुलीः सर्वा रोपयेत् स्वरमंडलम् ।
नचांगुलिभिरंगुष्ठमंगुष्ठेनांगुलीः स्पृशेत् ॥५॥
हस्तेन चैव तन्वीरंगुली: स्पृशेत् ।।५।।
विरला नांगुलीः कुर्यान्मूले चैनान् संस्पृशेत् ।
अंगुष्ठाग्रेण तानित्थं मध्यमे पर्वणि स्पृशेत् ॥६॥
पूर्वोक्त विशिष्यते, अंगुष्ठस्याग्रेण संहतानामंगुलीनां
यन्मध्यम पर्व तत्र संस्पर्शः कार्यः ।।६।।
मात्रद्विमात्रवृद्धानां विभागार्थ विभागवित् ।
अंगुलीभिद्विमानं तु पाणेः सव्यस्य दर्शयेत् ॥७॥
त्रिरेखा यत्र दृश्येत सन्धिं तत्र विनिर्दिशेत् ।
सपर्व इति विज्ञेयः शेषमन्तरमन्तरम् ॥८॥
यवान्तरं तु सामस्त्वृक्षु कुर्यात्तिलान्तरम् ।
स्वरान्मध्यम पर्वसु "सुनिविष्टान्निवेशयेत् ॥६॥
प्रथम द्वितीयस्वरयोर्यवप्रमाणं मध्यम, साम्नि, तिलमात्र
मंगुष्ठतजन्योर्मध्यो, मृग्विषये सुनिविष्टानिति, स्वरोच्चरण
समकालमेव पर्वस्वंगुष्ठनियोजनं कार्ग, नादौ पश्चाद्वा ॥९॥
नचात्र कम्पयेत् किंचिदंगस्यावयवं वुधः ।
अधस्तनं मृदुन्यस्य हस्तमास्ते यथा क्रमम् ॥१०॥
। m प्रथमः प्रपाठकः ३५ अंगानां तदवयवानां च कंपो न कार्य:-अधो भवमधस्तनं अंगमूरूजंघादिमृदुन्यस्य, सुखेनावस्थाप्य तत्र हस्तं दक्षिणं वाम च यथाक्रमं परिपाट्या दक्षिणं गोकर्णवद् वाममुत्तानमास्ते तिष्ठतीति ॥१०॥ -- अभ्रमध्ये यथा विद्युत् दृश्यते मणि सूत्रवत् । एषच्छेदो विवृतीनां यथावालेषु कर्तरि ॥क्षेपकः ११॥ कूर्मोऽङ्गानीव संहृत्य चेष्टां दृष्टि दिशन्मनः । स्वस्थः प्रशान्तो नि तो वर्णानुच्चारयेद् बुधः ॥१२॥ यथा कूर्मोऽङ्गानि संहरति तथाङ्ग-चेष्टां चक्षुरादिदिशन् दिगवलोकनं मनो व्यापार चोपसंहृत्य सुखासनस्थश्चक्षुरादि व्याक्षेपोपसंहारात् प्रशान्तमनसो व्याकुलतानिवृत्तिः, निर्भयो वर्णाद्युच्चारणं कुर्यात्, दृष्टेनिधानं कृत्वा शिक्षा शास्त्रे दक्षिण हस्तसन्निवेशः कथ्यते ॥१२॥ नासिकायास्तु पूर्वेण हस्तं गोकर्णवद्धरेत् । विवेश्य दृष्टि हस्ताग्ने शास्त्रार्थमनुचिन्तयेत् ॥१३॥ नासिकां नासां मुख्येन दक्षिणहस्तं गोकर्णवत नोत्तानं नाप्यधोमुखं हरेत् कुर्यात्, हस्ताने दृष्टिनिधानं कृत्वा शिष्यः शिक्षाशास्त्रोक्तमर्थं चिन्तयेत् ॥१३॥ सममुच्चारयेद् वाक्यं हस्तेन च मुखेन च । यथैवोच्चारयेद् वर्णांस्तथैवैतान् समापयेत् ॥१४॥ स ३६ ३ नारदीया शिक्षा प्रथमादिस्वरोच्चारणं समकालमंगुष्ठयोजनं कार्य नादौ पश्चद्वा द्रु तादिक्रियावृत्याप्रारम्भो, यथा प्रारब्धस्तथा मंत्रः समापनीयः, नत्वेकस्मिन्नेवमंत्रे वृद्धिद्वययोजना कार्या ॥१४॥ नात्याहन्यान्न निर्हण्यान्न प्रगायन कम्पयेत् । समं सामानि गायत व्योम्नि श्येनगतिर्यथा ॥१५॥ यथाप्सु चरतां मार्गों मीनानां नोपलभ्यते । आकाशे वा विहंगानां तद्वत् स्वरगताश्रुतिः ॥१६॥ मत्स्यानां जले, आकाशे च पक्षिणां मार्गे गमनं सामान्ये- नावगम्यते नतुपादविवरण-पूर्व-कालेन, एवं गीतिमात्रं विना- प्रयत्नेनावगम्यते, न गीतिविशेषोऽवधार्यते, अभिवृत्तवदभि- योगात् गीतिविशेषावधारणमित्याह ॥१६॥ यथा दधनि सपिःस्यात् काष्ठस्थो वा यथाऽनलः । प्रयत्नेनोपलभ्येत तद्वत् स्वरगता श्रुतिः ॥१७॥ स्वरात्स्वरसंक्रमस्तु स्वरसन्धिमनुल्वणम् । अविच्छिन्न समं कुर्यात् सूक्ष्म छायाऽऽतपोपमम्॥१८॥ प्रथमस्वराद् द्वितीय-स्वरादि-स्वर-गमनं न विच्छेदेन कार्य, नाप्युल्वणं. स्वरस्थानवेगकरणमतश्च समभवति सूक्ष्मछायातप उपमा यस्य, स्वरसन्धेः, छायाया, आतपस्यच यथा प्रदेशान्तरे सूक्ष्ममविच्छिन्नं संक्रमणं तद्वदित्यर्थः ।।१७।। कर्षणे दोषषट्कं वर्जयेदित्याह ॥१८॥ १. तद्वद्धस्तगतः स्वर इति पाठान्तरम् ।
प्रथमः प्रपाठकः
J
अनागतमतिक्रान्तं विच्छिन्न विषमाहतम् ।
तन्वन्तमस्थितान्तं च वर्जयेत्कर्षणं वुधः ॥१६॥
प्रथमं स्वरं कर्षयन् द्वितीयस्वरं यदाभवति तदा अनागतं,
प्रथमत एवातिक्रान्ते च कर्षणं न कर्त्तव्यं, स्वरमध्ये कार्या-
विच्छिन्न प्रथमां मात्र विच्छिद्य कर्षणं कार्य, विषमाहतं
कंपयन्न द्वितीयस्वरं गच्छेत्, तन्वन्तमिति मात्रात्रयाति-
रेकेण विस्तारणं न कार्य, अस्थितान्तं चेति द्वितीय
स्वरे मात्रात्रययुक्ता
स्थितिः कार्या, नत्वेव द्विमात्रा
युक्तेति ॥१९॥
स्वरः स्थानाच्च्युतो यस्तु स स्थानतिवर्तते ।
विस्वरं सामगा ब्र युर्विरक्तमिति वीणिनः ॥२०॥
स्वरः स्थानाच्युतो यस्तु स. स्थानमतिवर्तते, न स्वरो
यदा च्यवतेऽन्यथात्वं गच्छति तदा विस्वरशब्देन तं स्वरं
सामगाः कथयन्ति, वीणिनो
विरक्तशब्देन
व्यवहरन्ति ॥२०॥
गायनका
अभ्यासार्थे द्रुतां वृत्ति प्रयोगार्थे तु मध्यमाम् ।
शिष्याणामुपदेशार्थे कुर्याद् वृत्ति विलम्विताम् ॥२१॥
उपदेशार्थे पाठे विलम्वितया वृत्या शिष्याणां सम्यग्ग्रहणं
भवति, गृहीतस्य ग्रन्थस्य त्वरितयावृत्या धारणं कार्य, स्वाध्या-
यादौ च प्रयोगेण मध्यमा वृत्तिरदृष्टार्थत्वेनोचिता ॥२१॥
Ji नारदीया शिक्षा गृहीतग्रन्थ एवं तु ग्रन्थोच्चारणशिक्षकान् । हस्तेनाध्यापयेच्छिष्यान् शैक्षण विधिना द्विजः ॥२२॥ एवमुक्त न वक्ष्यमाणेन च शैक्षेण विधिनागृहीतो ग्रंथ: सामगानं येन हस्तेन कारणभूतेनशिष्यानध्यापयितुं योग्यो नान्य ग्रन्थोच्चारणाय शिक्षकः ॥२२॥ -इति षष्ठी कण्डिका-
सप्तमी करिडका
.
पूर्वं क्रुष्टादीनामुत्पत्तिस्थानान्युक्तानि, इदानीमुत्पन्नाना-
मवस्थिति स्थानान्युच्यन्ते ।
क्रुष्टस्य मूर्द्धनि स्थानं ललाटे प्रथमस्य तु ।
भ्र वोर्मध्ये द्वितीयस्य तृतीयस्य तु कर्णयोः ॥१॥
कण्ठस्थानं तु तुर्यस्य मन्द्रस्योरसि तूच्यते ।
अतिस्वारस्य नीचस्य हृदि स्थानं विधीयते ॥२॥
क्रुष्ट: सप्तमपंचम इत्युक्तः, अतिस्वर्यते कनिष्ठामूलं नियत
इतिनीचस्वरः षष्ठो निषादः ॥२॥ अंगुष्ठांगुलि योजनं
स्वराणांक्रियते उच्चनीचस्वरस्थाने संरक्षणार्थम् ।
अंगुष्ठस्योत्तमे कुष्टोऽङ्गुष्ठे तु प्रथमः स्वरः ।
प्रदेशिन्यां तु गान्धार ऋषभस्तदनन्तरम् ॥३॥
अनामिकायां षड्जस्तु कनिष्ठायांच धैवतः ।
तस्याधस्ताच्च योन्यास्तु निषादं तत्र विन्यसेत् ॥४॥
अपर्वत्वादसंज्ञत्वादव्ययत्वाच्च नित्यशः ।।
मन्द्रोहि नहि भूतस्तु परिस्वार इति स्मृतः ॥५॥
।
1
नारदीया शिक्षा
--
मन्द्रात् पृथग भूतत्वादभावादपर्वत्वं, निषादस्यच अतएव
सम्यक् पृथकत्वेन ज्ञानादसंज्ञत्वं अव्ययत्वलिंगविभक्तिवचना
योगात्, अतोमन्द्रोहि यस्माद्धि नहिभूतः । हन्विति प्रेरणांप्राप्तः
परिस्वारो निषाद इत्युच्यते । षष्ठः हि गताविति लोपमध्यम-
पुरुषानुकारणेन प्रेरणं लभ्यते ॥५॥ तरतमशब्दावातिशयः,
क्रुष्टादिगीतिश्रवणेन देवादीनां परितोषो भवति, यथा मन्त्री-
च्चारणेन गौतमादीनां, मंत्र संचेतने चाग्न्यादीनामभिधेयाना-
मितिस्वाध्यायस्य सर्वोपकारताप्रतिपादनार्थमुच्यते ।
कुष्टेन देवा जीवन्ति प्रथमेन तु मानुषाः ।
पशवस्तु द्वितीयेन गन्धर्वाप्सरसस्त्वनु ॥६॥
आण्डजाः पितरश्चैव चतुर्थस्वरजीविनः ।
मन्द्र चैवोपजीवन्ति पिशाचासुरराक्षसाः ॥७॥
अतिस्वारेण नीचेन जगत्स्थावरजंगमम् ।
सर्वाणि खलु भूतानि धार्यते सामिकः स्वरैः ॥८॥
द्वितीयस्यानुपश्चात्तृतीयेन स्वरेण गन्धर्वाप्सरसोजीवन्तीति
स्थावरं जंगमंच जीवन्तीतिवर्ततेस्वरविशेषश्रुतिः प्रयोगार्थम-
वश्य मवधारयेत्यर्थः ॥६-७-८||
दीप्तायता करुणानां मृदुमध्यमयोस्तथा ।
श्रुतीनां योऽविशेषज्ञो न स आचार्य उच्यते ॥६॥
प्रथमः प्रपाठकः
अविशेषस्या चार्यस्याधिको दोषः, न केवलमज्ञत्वात्स्वयं
प्रत्यवेति अन्यानपि प्रत्यवायेन योजयतीत्याचार्य ग्रहणम् ।।९।।
दीप्ता मन्द्र द्वितीयेच प्र चतुर्थे तथैवतु ।
अतिस्वारे तृतीये च कुष्टेत करुणाश्रुतिः ॥१०॥
पंचानां स्वराणां दीप्ता श्रुतिः, प्रथमस्य मृदुभूता सप्तमस्य
.
करुणा ॥१०॥
श्रुतयोऽन्या द्वितीयस्य मृदुमध्यायताः स्मृताः ।
तासामपि त वक्ष्यामि लक्षणानि पृथक् पृथक् ॥११॥
द्वितीय स्वरस्य पूर्व दीप्ता श्रुति रुक्ता, संप्रति श्रुतित्रय-
मुपाधिवशेनोच्यते ॥११॥
आयतात्वं भवेन्नीचे मृदुत्वं तु विपर्यये ।
स्वे स्वरे मध्यमत्वं तु तत्समीक्ष्य प्रयोजयेत् ॥१२॥
नीचे तृतीये स्वरे परतः स्थितेद्वितीय स्वर स्यायता श्रुतिः
विपर्यये चतुर्थ स्वरे परे भूते मृदुभूता, स्वे स्वरे स्वरान्तरे अपर
भूते मध्यमा श्रुतिः, एवमवधार्य सामस्वर प्रयोगः कर्त्तव्यः,
सन इन्द्रः शिवः सखा, उवदभिश्रुता भयं वर्लोहा इत्युदा
हरणानि, द्वितीये दीप्ता पूर्वोक्ता कदाभवतीत्याह ॥१२।।
-
द्वितीये विरता यातु क्रुष्टस्य परतो भवेत् ।
दीप्तां तांतु विजानीयात्प्रथमे न मृदुः स्मृता ॥१३॥
४२
नारदीया शिक्षा
।
क्रुष्टे परभूते द्वितीये स्वरे या विरताऽवस्थिता श्रुतिःसा
दीप्ताह । ओ ऊ वा ॥१३॥
अत्रैव विरता यातु चतुर्थेन प्रवर्तते ।
तथा मन्द्र भवेद् दीप्ता साम्नश्चैव समापने ॥१४॥
ई ऊ इत्युदाहरणं प्रथमे स्वरे मृदुभूता यदि तत्रैव विप-
रीताऽवस्थिता चतुर्थे स्वरेऽवस्थिता मृदुभूता भवति स्वरान्त-
रानुगमने सति अन्यथा दीप्ता भवति, उग्रा ३ इति तथा मन्द्र
दीप्ता भवति, स्वरान्तर गमने सति एवं सामसमाप्तौ यत्रतत्र
स्वरेऽवस्थिता श्रुतिर्दीप्ता भवतीति औ हो ३२ वा ३ हो
३३ हो ३ वा ३ । हा ३३ इडा ३ इत्यादि विरता दीप्ता या
श्रु ति निषिध्यते ॥१४॥
ना विरते श्रुति कुर्या स्वरयो पि चान्तरे ।
नच ह्रस्वेच दीर्धे च न चापि घुट संज्ञके ॥१५॥
स्वरिते अपरि समाप्ता श्रुतिराश्रयतादिर्न कार्या, श्रुते-
रभावेऽपि तत्सदृशः स्वर कार्य इत्याह, स्वर परिसमाप्ता वप्य-
विच्छिन्ने गानेस्वरर्यानन्तिरे मध्ये न कार्या, · सेन इन्द्रः शिवः
सखाइत्युदाहरणे ह्रौस्वे दीर्घ चाक्षरे गीयमाने न कार्या, ल्पुते
एव कार्या ।।१५।। घुट संज्ञितं किमित्याह ।
।
-
*:-
द्विविधा गतिः पदान्तः स्थित सन्धिः सहोष्माभिः।
पंचस्वेतेषु स्थानेषु विज्ञेयं घुट संज्ञिकम् ॥१६॥
प्रथमः प्रपाठकः ४३ - तालव्यस्य इकारस्य आ इ भाव आ उ भावश्चेति द्वेगती, तयोः श्रुतिर्न कार्यां, तथा पदान्तीयोऽपि । त्रिविधः स्थितः सन्धिर्यस्य शष रूष्मभिः सह, अत्र दीप्तादिका श्रुतिर्न प्रवर्तते एतेषां घुट इति शब्दान्तरेण सह वर्तनात् घुट इत्युच्यते । पंचानांमध्ये यस्य श्रुतिः प्राप्ता तस्यनिषिध्यते न सर्वम् ।।१६।। स्वरान्तरा विरतानि ह्रस्वदीर्घ घुटानि च । श्रुति स्थानेष्व शेषाणि श्रुतिवत स्वरतो भवेत् ॥१७॥ स्वरे स्वरान्तरेच अविरते ह्रस्वे दीर्घ घुट संज्ञितेच श्रुतिर्न कार्या, स्वर एव श्रुति सदृशः कार्य, इति साम व्यतिरिक्त षु श्रुतिद्वयमेव वर्तत इत्याह ।।१७।। दीप्तानुदासे जानीया द्दीप्तां च स्वरिते विदुः । आनुदात्त मृदुर्जेया गन्धर्वा श्रुति सम्पदः ॥१८॥ गान्धर्वेगाने श्रुतेरभावेऽपि तत्सदृशः स्वरः कार्य इत्याह । स्वर संपद एतावद् गानादिविषये उदात्तादयस्त्रयः केनचिद्वि- शेषेण पंचत्वेनोच्यते ॥१८॥ उदात्तश्चानुदात्तश्च स्वरित प्रचिते तथा । निधातश्चेति विज्ञेया स्वर भेदस्तु पंचधा ॥१६॥ स्वरितात् पराणि स्वरितान्येव प्रचय संज्ञानि, प्रचये परत: स्थिते स्वरितस्या हननान्निघात: स्वरित एव प्रचयाभावे शुद्ध एव स्वरितोभवति ।।१९॥ -इति सप्तमी कण्डिका- अष्टमी कण्डिका एवं सामस्वरानुषंगेण किंचिदृग्यजुर्विषयं स्वरलक्षणमुक्त इदानीमाचिकस्वर निरूपणं प्राधान्येन क्रियते । अतऊर्ध्वं प्रवक्ष्याम्याचिकस्यस्वर त्रयम् । उदात्तश्चानुदात्तश्च तृतीयः स्वरितः स्वरः ॥१॥ मुख्यतां आचिकं प्रचयं निधातादयः स्वरितविशेष एव स्वरितस्य सप्त प्रकारतां प्रतिपाद्यते ॥१॥ A य एवोदात्त इत्युक्तः स एवस्वरितात्परः । प्रचयः प्रोच्यते तज्जैन चात्रान्यत् स्वरान्तरम् ॥२॥ वर्ण स्वारोऽतीत स्वारः स्वरितो द्विविधः स्मृतः । मात्रिको वर्ण एवंतु दीर्घस्तूच्चरितादनु ॥३॥ सतु सप्त विधोज्ञेयः स्वर प्रत्यय दर्शनात् । पदेनतु स विज्ञेयो भवेद् यो यत्र यादृशः ॥४॥ स्वरित उदात्तनुदात्त मध्ये उच्चार्यत इति स्वार:-स्वरित विशेषो रूद्याऽध्येतृभि रुच्यते प्रतीयते विशेषोऽवगम्यते येन स प्रत्यय स्वारः रूप प्रत्ययस्य दर्शना दवगमात्सप्तप्रकारता
प्रथमः प्रपाठकः
ज्ञायते स्वरस्यापि स्वररूप विशेषावधारणं कार्य मात्र लोपः
कार्य इत्युच्यते ॥२-३-४।।
सप्त स्वरान् प्रयुंजीत दक्षिणं श्रवणं प्रति ।
आचार्य विहितं शास्त्रं
पुत्र शिध्यहितैषिभिः ॥५॥
महता प्रबन्धेन स्वार लक्षणं पुत्रायुद्देशेनाराद्धय माचार्य
रत: श्रोत्रपथं सप्तस्वरानेतव्याः दक्षिणस्य प्राधान्यादादरार्थ-
मुपादानं उच्च नीच व्यतिरिक्त स्वरित स्वरूपं नावधार्यते
सम्यग् इति तद्विशेषस्वार परिज्ञानं कुतो भदेदिति वोच्यते ॥५॥
.
उच्चादुच्चतरं नास्ति नीचान्नीचतरं तथा ।
वैस्वयें स्वार संज्ञायां कि स्थानं स्वार उच्यते ॥६॥
वैस्वयें विशिष्ट स्वरत्वेन या स्वार संज्ञाचेद्विषये कि
स्वारस्य स्थान मुदात्तानुदात्त व्यतिरिक्तस्या भावात् अत्रोत्त-
रम् ॥६॥
उच्चनीचस्य यन्मध्ये साधारण मिति श्रुतिः ।
तं स्वारं स्वारसंज्ञायां प्रति जानन्ति शैक्षिकाः ॥७॥
उदात्तनुदात्तयोर्मध्यवति यद्पं साधारण मित्येवं रूपा
श्रुतिः पातं स्वारं स्वारसंज्ञायां विषये शिक्षाध्यायिनः प्रति-
जानन्तीति, उदात्तानुदात्तच स्वरितेऽपि षड्जाद्यनुगमो भेदेसति
स्वरितस्य भवतीत्युच्यते ॥७॥
. । नारदीया शिक्षा उदात्त निषाद गांधारावनुदात्त ऋषभ धैवतौ । स्वरित प्रभवा ह्य ते षड्ज मध्यम पंचमाः ॥८॥ जिह्वा मूलीयोपध्मानीययोरपि वर्णैक देशयोः स्वरयोगः पृथक् पृथगवगंतव्यमिति प्रतिपाद्योच्यते ।।८।। यत्र करव परा ऊष्मा जिह्वा मूल प्रयोजना। ता मथाज्ञापयेन्मात्रां प्रकृत्यैव तु सा कला ॥६॥ जिह्वामूलीयस्य प्रयोजनभूता जिह्वामूलप्रयोजना: करवौ परौ यस्यास्तां मात्रां आज्ञापयेन्मात्रत्वेनप्रतिपादयेत् यतः प्रकृत्यैव स्वेन रूपेण सा कला न वर्णान्तरस्यैकादेशभूता उप- ध्मानीयस्योपलक्षण मेतत्, नमः कपदिने, च पावमानी रित्या- द्युदाहरणानि स्वार सप्तकं नाम्ना निर्दिश्यते लक्षण भेदेन प्रतिपादनार्थम् ॥९॥ जात्यः क्षेप्रोऽभिनिहित स्तैरव्यंजन एवच । तिरोविरामः प्रश्लिष्टः पाद वृत्तश्च सप्तमः ॥१०॥ स्वराणामहमेतेषां पृथग् वक्ष्यामि लक्षणम् । उद्दिष्टानां यथा न्यायमुदाहरण मेव च ॥११॥ -इति अष्टमी कण्डिका- इति श्री भट्ट शुभाकर विरचिते शिक्षा विवरणे प्रथमः प्रपाठकः ।।
द्वितीयः प्रपाठकः - प्रथमा कण्डिका सयकारं सवं वाप्यक्षरं स्वरितं भवेत् । नचोदात्त पुरस्तस्य जात्यः स्वारः स उच्यते ॥१॥ सह यकारेण वकारेण यदक्षरं स्वरितं वर्तते अनंतरंवर्त्तते अनन्तरं चोदात्तं तस्य न भवति स स्वार: सजात्यः पद मध्य- स्थत्वात् स्वाभाविकः । सजात्येनेति स यकारं, भूर्भुवः स्वरिति सवकारम् ॥१॥ इ उ वौँ यदोदात्तावापद्येते यवौ क्वचित् । अनुदात्त प्रत्यये नित्यं विद्यात् क्षेप्रस्य लक्षणम् ॥२॥ इकार उकारो वा उदात्त: पदादिना अकारेणानुदात्तेन संहितायां यकार प्रतीत्या स्वरितो भवति सस्वार:-क्षिपणात् परस्य पूर्वस्य प्रेरणात् क्षिप्र स्वरिते भवतः । श्रृष्टी अग्ने श्रुष्ट- यग्ने, वीडु अंग वीड्वङ्ग इति ।।२।। ए ओ आभ्यामुदात्ताभ्यामकारो निहितश्च यः । अकारं यत्र लुम्पति तमभिनिहितं विदुः ॥३॥ एकारादोकारा द्वोदात्तादुत्तरयोः सवकारो यो निहितो निपातितः तं यत्र लुम्पति एकारे ओकारेवाऽनु प्रवेशयति
westindies
४८
नारदीया शिक्षा
संहितायां तमभिनिहितं पूर्वं यत्र प्रक्षिप्तं स्वार विदुः, ते
मन्वतेत्यादि ॥३॥
उदात्त पूर्वं यत्किचिच्छंदसि स्वरितं भवेत् ।
एष सर्व वहुस्वारस्तै रव्यंजन उच्यते ॥४॥
एवं विधाने स्वराणां बहुत्वात् वहुस्वार: सर्वत्रऋग्वेदे
यजुर्वेदेच भावात्
सर्व
बहुस्वारः, निरोधोगमनेन व्यंजत इति
ते रव्यंजनीयः स्वारः । वि ई तये वीतय इत्यादि ॥४॥
अवग्रहात्परं यत्र स्वरितं स्यादनन्तरम् ।
तिरो विरामं तं विद्यादुदात्तो यद्यवग्रहः ॥५॥
उपसर्गा विगृह्यन्तेतिङन्तस्य कृदन्तस्य वा पदस्य मकार
एव व्यंजनं प्रक्रियते इत्यवग्रह उदस्तः स्यात्, परं स्वरितं तिरो
विराम प्राप्तावग्रह स्वारः । विष्कभिते विस्कभिते इत्यादि ॥५॥
इकारं यत्र पश्येयु रिकारेणैव संयुतम् ।
उदात्त मनुदात्तेन प्रश्लिष्टं तं निवोधत ॥६॥
इकार उदात्त इकारेणानुदात्तेन यदासंयुक्तोभवति तदा
स्वरितः प्रश्लिष्टस्वार उच्यते। यथाहि इन्द्र अधाहीन्द्र
त्यादि ॥६॥
स्वरे चेत् स्वरितं यत्र विवृता यत्र संहिता ।
एतत् पादान्त वृत्तस्य लक्षणं शास्त्र चोदितम् ॥७॥
द्वितीयः प्रपाठकः ४९ स्वरे अक्षरे अकारादौ यत्र चेत् स्वरितसंहिता च पूर्वेण पदेन सह यदा विवृता विभक्ता भवति तदा पादान्तवृत्तः स्वरित अक्षरेऽत: स्वरः सप्तमः । क ई म कई वेदेत्यादि ॥७॥ जात्यः स्वारः सजात्येन श्रुष्ट्यग्ने क्षेत्र उच्यते । ते मन्वताभि निहितस्तै रव्यंजन ऊ त ये ॥८॥ तिरो विरामो विष्कभिते प्राश्लिष्टो हीन्द्रगिर्वणः । पाद वृत्तः कई वेद स्वाराः सप्तवमादयः ॥६॥ श्लोक द्वयोक्तान्युदाहरणानि पूर्वमेवोक्तानि ॥८-९॥ उच्चादेकाक्षरात्पूर्वात् स्वर्यते यदिहाक्षरम् । स्वाराणां जात्यवानामषा प्रकृति रुच्यते ॥१०॥ जात्यस्वारवयं मुदात्तादनन्तरं उच्चार्यमाणमक्षरस्वरितः स्वारसंज्ञं भवतीति सामान्येन लक्षणमुक्तम् ॥१०॥ चत्वारस्त्वादितः स्वाराः कंपं पुष्यन्ति शास्त्रतः। उदात्ते वैकनीचेवा जुहग्निस्तत्र दर्शनम् ॥११॥ इकारान्त उकारान्त पर उकारद्वय परौकार पर:- सन्ध्यक्षर इति चत्वारः स्वारा उदात्तेवा एकस्मिन्नीचे परत आदित आदि भागे कम्पं पुष्यन्ति प्रतिपाद्यन्ते कपिः चलद्र पः स्वारः कम्प उच्यते, उपत्वाजुहू इति सन्ध्यक्षरोदाहरणं, श्लोका. नुरोधाद् व्यवहित उपादानेनोदाहरणमुक्त उपत्वाजुह्वो ममे- त्यादि, जुह्वोग्नि स्तत्र दर्शनमिति ॥११॥ -इति प्रथमा कण्डिका- - द्वितीया कण्डिका चतुर्णा स्वराणां क्वचिद् ह्रस्वकम्पनात्क्वचिद्दीर्घ कम्पन मित्याह । इकारान्ते पदे पूर्व उकारे परतः स्थिते । ह्रस्वं कम्पं विजानीयान्मेधावी नात्र संशयः ॥१॥ . इकारान्ते पदे चैवोकारद्वय पदे परे । दीर्घ कम्पं विजानीयाच्छग्ध्यूष्विति निदर्शनम् ॥२॥ त्रयो दीर्घास्तु विज्ञेया येच सन्ध्यक्षरेषुवै । मन्या पथ्या न इन्द्राद्या शेषा ह्रस्वाः प्रकीर्तिताः ॥३॥ पात्ह्य त द्वितीययेत्युदाहरणं, उकारपरो ह्रस्वकम्पः शिष्ट- मन्यदुदाहृतम्-उदात्त सर्वस्वरितं स्वार इति प्राप्तं क्वचिन्न- भवति उदात्तमेव भवतीत्युच्यते ॥१-२-३।। अनेकाना मुदात्तानामनुदात्तः प्रत्ययो यदि । शिवकम्पं विजानीया दुदात्तं प्रत्ययो यदि ॥४॥ द्वित्रादीना मुदात्तानामनुदात्तो यदा परोभवति तदा- द्वितीयंतृतीयं चोदात्ते परतः शिवकम्पसंज्ञक आधुदात्तो भव- द्वितीयः प्रपाठकः ५१ तीतित्र्यम्बकस्त्रिनेत्रः शिवः तर्जन्यनामिकयो: संयुक्तयो- मध्यमांगुली यदाह पृष्ठेवर्तते द्वित्व-योगाच्छिव इवांगुली सन्निवेशः शिवक इत्यध्येतृ प्रसिद्धः । आदित्प्रत्लस्येत्यादौ द्वयो. रुदात्तयोः परोऽनुदात्तः । गिरा मर्मा ज्ञातेत्यादौ त्रयाणामुदात्तातां परो ऽनुदात्तः शिवक इत्युदात्त विषय संज्ञान् स्वरित विषयमिव विशेषेणोच्यते ॥४॥ यत्र द्विप्रभृतीनि स्यु रुदात्तान्यक्षराणितु । नीचं चोच्चं च परतस्तत्रोदात्तं विदुर्बुधाः ॥५॥ नीच मनुदात्तं नीचात्पूर्व मुदात्तं पूर्वस्य पूर्वयोर्वा परत इत्यर्थः । वर्णोच्चारण गत लक्षणमुच्यते ॥५॥ न रेफे वा हकारे वा द्विर्भावो जायते क्वचित् । न च वर्ग द्वितीयेषु न चतुर्थे कदाचन ॥६॥ रेफ हकारयोः ख छ ठ थ फानां घ झ ढ धभानां च केवलानां प्रयोगो भवति, न रेफ द्वित्वादि रूपेणेति कथं । चतुर्थादीनां प्रयोग सयोग इत्याह ।।६।। न चतुर्थं तृतीयेन द्वितीयं प्रथमेनतु । आद्यमन्त्यं च मध्यं च त्वक्षरेणैवी पीडयेत् ॥७॥ ककारादि युक्ताः संयोगे रवादय उच्चारणीयाः, गकारादि युक्ताश्च घादयः, प्रतिवर्ग माद्य मध्यान्त्यादि ककारादीनि वर्णानि स्वाक्षरेणैव योजनीयानीतिवा करोतीत्युदाहरणम् ।।४।। - १-स्वाक्षरे णैव इति पाठान्तरम् । 1293 ish LIBRARY ५२ नारदीया शिक्षा अनंत्यश्च भवेत्पूर्वोऽन्त्यश्च परतो यदि । तत्रमध्ये यमस्तिष्ठेत्सवर्णः पूर्व वर्णयोः ॥८॥ अनन्त्यो गकारादिः पूर्वोऽन्त्यश्च नकारादि: परतः संयोगे यदा भवति तत्र मध्ये यमो निष्पाद्यो वर्णः पूर्वस्य वर्णस्य सवर्णः सदृश उच्चारणीयः-पूर्व वर्णयोरिति द्विरुक्तत्वा पेक्षयोक्त । अग्नऽआयाहि वीतय इत्युदा हार्यम् ॥८॥ वर्गान्त्याञ्छषसः सार्द्ध मन्तस्थापि संयुतं । दृष्ट्वायमा निवर्तन्ते आदेशिक मिवाध्वगाः ॥६॥ शषस यरलवैः पूर्वैः शदिभिः सह यत्र वर्गान्त्या मकारादयो भवन्ति तत्र यमा न प्रयुज्यन्ते विष्ण व इत्यादि, अध्वगा आदेशिक देशान् वाञ्छित्वं यस्य ते संभाव्यन्ते दृष्टवा चौरं यथा मार्गानिवर्तन्ते तद्वद यमा इत्यर्थः ।।९।। . . तृतीयश्च चतुर्थश्च चतुर्थादि परं पदम् । द्वौ तृतीयौ हकारश्च हकारादि परं पदम् ॥१०॥ N संहितायां वर्गतृतीय चतुर्थों यदा संयुक्तो वौँ तदा पद- काले चतुर्थाद्युत्तर पदं भवति, ननुद्विर्वचनगते तृतीयादि एवं द्विर्वचने सति द्वौ तृतीयौ वर्णी हकारश्च संहितायां यत्र तत्र पद काले हकारादि परं पदं भवति न तृतीयादितं भवति, वा ग्ध ह ह ह ह इत्युदाहरणीयम् ।।१०।।
द्वितीयः प्रपाठकः
५३
अनुस्वारोपध्म मूलानां च क्वचित्क्रमतेपरम् ।
रह पूर्व संयुते चाप्युत्तरं क्रमतेऽक्षरम् ॥११॥
अनुस्वारस्य उपध्मानीयस्य जिह्वामूलीयस्य कश्चित् पदे
अक्षरं न क्रमते न द्विरुच्यते तं सबाधः । नमः पथे च नमः
कपदिने इत्युदाहरणानि । रेफेण संयुते सम्बद्ध पदे हकारेण च
सम्बन्धे पदे उत्तर मक्षरं क्रमते द्विरुच्यत इति, अर्को देवानां
ब्रह्मेत्युदाहरणम् ।।११॥
संयोगे स्वरितं यत्र चोद्घाते पतने यथा ।
पूर्वाङ्गमादितः कृत्वा पराङ्गादौ निवेशयेत् ॥१२॥
संयोगे यत् स्वरित मुदात्ते नीचादुपरि गमने पतनेन च
उच्चादधो गमने स्वरितस्य व्यंजनं पूर्वाङ्गमादौ नीचे उच्चत्वं
कृत्वा पराङ्गस्यादौ स्वरितं निवेशये दुच्चारयेदित्यर्थः ।
पूर्व पराङ्ग विवेकार्थमुच्यते ॥१२॥
संयोगे यत्र , दृश्येत व्यंजनं विरते पदे ।
पूर्वाङ्गतद् विजानीयाद् येनारम्भस्तत् परांगम् ॥१३॥
,
संयोगे विरते विभक्त यद् व्यंजनं उत्तरपदेनासंलग्नं
दृश्यते तत् पूर्वपदस्यांगमिव, तस्यैकदेशः येन व्यंजनेन विभक्त
संयोगे उत्तर पदस्यारंभस्तत् पराङ्गम्, भूर्भुवः स्वस्तत्सवितु
रित्युदाहरणे नीचोच्चयोः ॥१३॥
५४ नारदीया शिक्षा संयोगात्त परं स्वयं परं संयोग नायकम् । संयुक्तस्य तु वर्णस्य स्वरितं पूर्वमक्षरम् ॥१४॥ संयोगपरोभागः स्वरयुक्त: कार्य: स्वरस्य तत्रविश्रान्ति प्रधानत्वात्पूर्वं व्यंजन संयुक्तस्य पूर्वव्यंजन मस्वरं प्रयोक्तव्यं, उदाहरण द्वयमुक्तम् ॥१४॥ अनुस्वारः पदान्तश्च क्रमजः प्रत्यये स्वके । स्वरभक्तिस्तथा रेफः सर्वं पूर्वाङ्ग मुच्यते ॥१५॥ संभवतीत्यनुस्वारः पदान्तश्च ककारादि प्रत्यये स्वके सवर्णेपदे परतः क्रमजो द्विर्वचनं जातमुद्वहतीति, अथ समर्हतीति हकारे रेफरूपास्वरभक्तिः एतत् पूर्वांगम् ।।१५।। पादादौ च पदादौ च संयोगावग्रहेषु च । यः शब्द इति विज्ञेयो योऽन्यः स य इति स्मृतः॥१६॥ पादपद संयोगावग्रहेषु द्विरुक्तौ यकारः प्रयोक्तव्यः अन्यस्तु केवलः । यज्ञायज्ञादौ, त्वं यविष्ठेति, पदादौपन्य पन्यं, संयोगे अन्यः, अनूप इत्यवग्रहे, वीतय इत्यादौ लघु यकार: ।।१६।। पादादा वप्य ? विच्छेदे संयोगान्ते च तिष्ठताम् । वर्जयित्वा रहयाणा मयादेशः प्रदृश्यते ॥१७॥ स्व संयुक्तो गुरुयः सानुस्वाराग्रिमः स्फुटः । अणु शेषोध्रिगोर्वाऽपि युगलादि रविस्फुटः ॥१८॥ अनयोर्भाष्य त्यक्तम् । --इति द्वितीया कण्डिका- १-पादादावप्य इति पाठान्तरम् e- तृतीया कण्डिका यदुदात्तमुदात्तं तद् यत् स्वरितं तत्पदे भवति नीचम्। यन्नीचं नीच मेव तद् यत् प्रचयस्थं तदपि नीचम् ॥१॥ यदुदात्तं संहिता कालेऽनुदात्तंच भवति तस्यकाले अनुदात्त- मेव उदात्तमेव भवति, यत्तु स स्वरितविशेषो वा प्रचयः स नीचः पदे भवति, अग्न आयाहि वीतये इत्युदा हरणम् ॥१॥ अयमग्निः सुतो मित्र मिदं वयमथा वहाः । प्रियं दूतं घृतं चित्त मभि शब्दश्च नीचतः ॥२॥ एतानि पदानि नीचादनुदात्तादारभ्यन्ते, अग्निं वः सुतो- गवा, अयते अग्निं वः स सुतः, मित्रं हुवे इदंवमो, वयंद्याआयाते वहां । प्रिय मित्रं दूतं वः, घृतं दुहते वितमे, अभिप्रियाणि इत्युदाहरणानि ॥२॥ अक्र्केष्वेव सुतेष्वेव यज्ञषु कलशेषु च । शतेषु स पवित्रेषु नीचा दुच्चार्यते श्रुतिः ॥३॥ अर्के अर्चतु इत्यादयोऽर्वाः । सुतेषुनः, सुते सचेति सुता. दयः यज्ञाय । तस्या यज्ञा:-कलशं कलशेष्वित्यादयः, कलशा: - 1 १-सवनेष्ट सपत्नेषु इत्यापि पाठः ।
।
।
]
I
नारदीया शिक्षा
.
.
।
"
।
शतं हिमाः शतमित्यादयः, शतंसेना: शताः, पवित्रं ते पवित्रचि
इत्यादयः पवित्राः इत्यादीनां नीचादनुदात्तादुपक्रमः ॥३॥
हरि वरुण वरेण्योषुधारा पुरुषेषु च स्वरित रेफः ।
विश्वानरो नकारश्च शेषा रस्वरिता नराः ॥४॥
।
.
हरि हिन्वन्ति, वरुणोमित्रः, वरेण्य, धारा सुतस्य, सहस्त्र
शीर्षा पुरुषः, एतेषु रेफस्यैव स्वरितत्वं विश्वानरस्येति नकारस्य,
अन्यत्र नर शब्देषुरेफस्यैव स्वरितत्वम् ॥४॥
द्वौवर्णावस्वरित वदुदुत्तमत्वं वरुण ।
धाकारे चोरु धाराया मुरुधारेवदोहने ॥५॥
उदुत्तमं वरुणेति वकारस्य स्वरितत्वं नरेफस्य, उरुधारा-
मरंकृत, उरुधारेव दोहन इति धाकारस्य स्वरितत्वम् ॥५॥
मात्रिकं वा द्विमानं वा स्वयं ते यदिहाक्षरम् ।
तस्यादितोऽर्द्धमात्रा वैशेषंतु परतो भवेत ॥६॥
पूर्वाङ्गमिति वर्णापेक्षयोक्त, स्वरापेक्षयेदमुच्यते, ह्रस्वस्य
दोर्घस्य वा स्वरितस्यार्थ मात्रोदात्तानुदात्तानां पूर्वोभागः शिष्टं
स्वरितं "तस्यादित उदात्तमर्द्ध हस्वमिति" पाणिनिः ॥६॥
.
अदीर्घ दीर्घवत्कुर्यात् द्विस्वरं यत्प्रयुज्यते ।
कम्पोत्स्वरिताभिगीतं ह्रस्व कर्षण मेवच ॥७॥
द्वितीयः प्रपाठकः
कम्पादिविषये ह्रस्वकर्षणमेवच कम्पादिविषये ह्रस्वाणां
दीर्घसादृश्यं कुर्यात्, पात्युत उदूर्ज, स्वरितं नीचादुपरि स्थित-
मुत्स्वरितं भूर्भुवः उ ई वो ३३ पन्यतेत्यभिगीतं, तत्यजमिति
ह्रस्व कर्षणम् ॥७॥
निमेषकाला मात्रा स्याद्विद्युत कालेति चापरे ।
ऋक्स्वरा तुल्ययोगा वा मतिः स्यात् सोमशर्मणः ॥८॥
मात्रास्वरूपमुच्यते, अक्षिपक्षमपातं निमेष:-तत्कोला
मात्रा विद्युत्काल मात्रेति केचिदाचार्याः, सोमशर्मण आचार्यस्य
ऋकार कालः छकालः शकार तुल्योवेति द्रुतमध्य विलम्वेन
व्यवस्था कार्या ॥८॥
-
१समासेऽवग्रहंकुर्यात्पदं चात्रानुसंहितम् ।
यतोऽक्षरादिकरणं पदान्ते तस्य तं विदुः ॥६॥
समासपदमेकविषयं तत्रावग्रहे यदि विभागंकुर्यात्
समासं पदं चानुसंहितमत्र सन्धेयं, यतोऽक्षरादि करणं मध्ये
तारं कुर्वन्ति स्वरान्तं त समासपदस्य विदुः । हव्य दातयऽइति
हव्य । दातये । विश्ववेदसमिति विश्ववेदसं इत्यादि, पूर्वाचार्या-
पेक्षया इति करणान्तरा, कात्यायनस्तु हव्यदातय इति ।।९।।
सर्वत्र पुत्रमित्रसखिशब्दा अद्विशतक्रतोरवग्राह्याः ।
आदित्यविप्रजातवेदाश्च सप्तति गोपतिवृत्रहासमुद्राश्च १०
एते शब्दाः अवग्रहाः प्रवर्तन्त इति संशयो नास्ति ॥१०॥
नारदीया शिक्षा स्वर्युवो देवयुवश्चारतिन्देवतातये । चिकितिश्चुक्रु धञ्चैव नावगृह्णन्ति पण्डिताः ॥११॥ स्वयुर्वः देवयुव इतिक प्रत्ययान्तो न पदद्वयं, अरतिमिति ननत्र अन्ते नूपपर्यामि-वारणेष्विति धातोरूपं, देवताति प्रत्यये देवताभिः, चिकिति रितिचेन्नातः, चुक्रुधमिति क्रुधेद्विर्वचनं अत एकपदत्वादेतेषामवग्रहं न कुर्वन्त्याचार्याः ।।११।। . -इति तृतीया कण्डिका- - ।
चतुर्थी करिडका
विवृत्तयश्चतस्रो वै विज्ञेया इति में
अक्षराणां नियोगेन तासां नामानि में श्रृणु ॥१॥
मतम् ।
ह्रस्वादिर्वत सानुसृता वत्सानुसारिणी वाग्ने।
पाकवत्युभयो ह्रस्वा दीर्घवृद्धा पिपीलिका ॥२॥
।
.
विवेकेन
पृथग
भावेन वर्तत इति विवृत्तिः पूर्व पदे हस्वः
उत्तर पदे दीर्घ इति ह्रस्वादि वत् सा न च लघुना, गौविवृद्धा
अनुसृता, अग्न आयाहि इत्यादिका, अग्ने आदौ दीर्घ यस्य
परत्वे ह्रस्वाः सा सवत्स मिवानुसरतीति वत्सानुसारिणी, प्रेष्ठ
वो अतिथिमित्यादिका । उभयोः पदयोराद्यन्तयोः ह्रस्वो यस्याः
सा पाकवती वपुहा द्वययोगात् अग्न इत्थेतरा गिर इति यथा,
उभयत्र दीर्घाभ्यां विवृद्धा पिपीलिकेच भागगुरुत्वेन दीर्घ-
वृद्धापिपीलिकेति नि छ एवाना आयुधानीवेति यथा ॥१-२॥
चतसृणां विवृतीनामन्तरं मात्रिकं भवेत
अर्धमात्रिकमन्योषामन्येषामणुमात्रिकम् ॥३॥
शारवाभेदाभिप्रायेण मध्यविकल्पः ॥३॥
६
नारदीया शिक्षा
आपद्यते मकारो रेफोष्मसु प्रत्ययेष्वनुस्वारम् ।
यलवेषु परसवर्णं स्पर्शेषु चोत्तमापत्तिम् ॥४॥
मावां राति, तं सख्ययः, उद्वशमिव । इत्यादौ रेफोष्मसु
परतो मकारो अनुस्वारत्वं । यविष्ठ तं लोकं तंव इत्यादौ
यवलेषु परसवर्णता, समहेम विधतद्राण मित्यादौ स्पर्शेषु परतः
स्पर्शवर्ग सदृशोत्तमापत्तिर्मकारस्य भवतीत्यर्थः ॥४॥
नकारान्ते पदे पूर्व स्वरेच परतः स्थिते ।
अकारं रक्तमित्याहुनकारेण तु रज्यते ॥५॥
यकार व हकारेषु परतोऽनुरज्यते, सापना तव यजामहे
इस्वरे परे अंत्योनकारेणाकारः पूर्वोरज्यते वरामहां इत्युदा-
हरणं, नकारान्तस्य पदस्यार्द्धमात्रेण नकारेणार्द्धमात्रा आका-
रादिकस्य वर्णस्य रज्यत इत्यर्थः तान्यथाऽनुरज्यते ॥५॥
नकारान्ते पदे पूर्वे व्यंजनैश्च यवो हिषु ।
अर्धमात्रा तु पूर्वस्य रज्यते त्वणुमात्रया ॥६॥
नकारान्तस्य पदस्यार्द्धमात्रेण नकारस्यार्द्धमात्राकारादि
वर्णस्य रज्यत इत्यर्थः, नान्यथा तन्वो ऋच्छन्तान्ह्य श्मसी-
त्यादि ॥६॥
नकारः स्वरसंयुक्तश्चतुर्युक्तो विधीयते ।
रेफोरङ्गश्च लोपश्चानुस्वारोऽपि वा क्वचित् ॥७॥
द्वितीयः प्रपाठकः ६१ -- . पदान्तस्य नकारस्य पदे परतश्चत्वारिरूपाणि भवन्ति, भवाँश्चिनोतीति, नकारस्य रेफो विसर्जनीयत्वं पूर्वस्यानु नासिक इति रेफोदाहरणं, रङ्ग पूर्वमुदाहृतः महां इन्द्रः दधन्वां य इत्यादौ नकारस्य लोप: पूर्वस्यानुनासिक: "अनुनासिका- त्परोऽनु स्वारो वा” भवतीति रङ्गस्वरूप दर्शनं क्रियते ॥७॥ हृदयादुत्तिष्ठते रङ्गः कांस्येन समनिःस्वरः१ । मृदुश्चैव द्विमात्रश्च दधन्वाँ इतिदर्शनम् ॥८॥ यथा सौराष्ट्रिका नारीअराँ इत्यभिभाषते । एवं रङ्गः प्रयोक्तव्यो नारदस्य मतं यथा ॥६॥ सुराष्ट्र देशे भवास् सौराष्ट्रिकाः स्पष्टार्थमन्यत् ॥९॥ - - -- fܨ - इति चतुर्थी कण्डिका- । (१) निस्वनः इत्यपि पाठभेदः पंचमी कण्डिका -- स्वरा गडदबाश्चैव ङणनमाः सहोष्मभिः । चतुर्णा पदजातीनां पदान्ता दश कीर्तिताः ॥१॥ स्वरा: अकारादय: गडदबा ङ ण ना माश्चाष्टौउष्माणौच षकार सकारौ इति दशपदान्ता: पादैः सहभवन्तीत्यर्थः चवर्ग वर्गाज्जकारः टवर्ग वर्गाद्धर सकार: पदान्तः पादैः सह न सम्बध्यन्ते, क, च, ट, त पानां पदान्तरेण सम्बन्धो अति प्रसिद्ध- त्वान्नोच्यते, ख छ ठ थ फा घ झ ढ ध भाश्च न सम्बध्यन्ते, शकारहकारौ चोष्म मध्यान्न सम्बध्यते इति, पदान्ता दशे- त्युक्त नामाख्यातोपसर्ग निपाताश्चत्वारि पदजातानि उदा- हरणानि, अग्ने आयाहि, इम इन्द्रत्यादि स्वरा पदान्ताः, वाग् ड् ह ह ह ह, विभाङ वृहत् तदिन्द्र, त्रिष्टुविह य इति केचित्तां त्वं कवित्वं जनासो, तन्नो मित्रः, त्वं भरामसि, निष्यपीभुव: स्वरिति गादयो दश ॥१॥ स्वर उच्चः स्वरो नीचः स्वरः स्वरित एव च। व्यंजनान्यनुवर्तन्ते यत्र तिष्ठति स स्वरः ॥२॥ स्वर प्रधानं त्रैस्वर्य' माचार्याः प्रति जानते। मणिवद्वयञ्जनं विद्यात्सूत्रवच्च स्वरं विदुः ॥३॥ (१) वैस्वर्यमित्यपि पाठः .
द्वितीयः प्रपाठकः दुर्वलस्य यथा राष्ट्र हरते वलवान् नृपः । दुर्वलं व्यञ्जनं तद्वद् धरते वलवान् स्वरः ॥४॥ ओभावश्च विवृतिश्च शषसा रेफ एवच' । जिह्वामूलमुपध्माच मतिरष्टविधोष्मणः ॥५॥ स्वर प्रत्यया विवृत्तिः संहितायां तु या भवेत् । विसर्गस्तत्र मन्तव्य स्तालव्यो वाऽत्र जायते ॥६॥ सन्ध्यक्षरोपधे सन्ध्यौ प्राप्तलुप्तौ यवौ यदि । व्यंजनाख्या विवृत्तिस्तु स्वराख्या प्रकृति संहिता ॥७॥ ऊष्मान्तं विरते यत्र सन्धौवो भवते च यत् । विवृत्तिर्या भवेत्तत्र स्वराख्यान्तां विनिद्दिशेत् ॥८॥ यद्योभाव प्रसंधानमुकारादि परं पदम् । स्वरान्तं तादृशं विद्यात् यदन्यद् व्यक्तमूष्मणः ॥६॥ ओ भावः प्रसन्धानमोकारं तस्य यदा प्रसन्धानता भवति तदा उकारादि परं पदं भवति, स्वरान्तंच तादृशं सन्धानं भवति, वायो ऋ इति, क इह मित्यादि ऊष्मणः सन्धानम् ।।९।। (२) प्रति संहिता-इत्यपि पाठः ! । (१) वेत्यापि पाठः । (३) स्वराख्याती-इत्यपिपाठः । ।
६४ नारदीया शिक्षा प्रथमा उत्तमाश्चैव पदान्तेषु यदि स्थिताः । द्वितीय स्थानमापन्नाः शषस प्रत्ययोः यदि ॥१०॥ उत्तमाश्वमकारा- शषसादिषु परतः प्रथमास्तकारादयः दयो यदा पदान्तास्तदाद्वितीयं स्थानन्तंकारादिस्तपता मापन्ना- भवन्ति, तस्य विष्णु: तां समन्तत्मियादि, यदा सयुक्ता द्वितीया- निवदर्शयेत् ॥१०॥ प्रथमामूष्मसंयुक्तां द्वितीयानिच दर्शयेत् । न चैनां प्रति जानीया द्यथा मश्यः क्षुरोप्सरा ॥११॥ सकारादिषु परतस्तकारादयो द्वितीय थकारादि सदृशा उच्चारणीया नतु द्वितीया एव स्फुटमुच्चारणीयाः गायत्र्यादिच्छद्रादि स्वरूपं सामान्येन प्रतिपाद्यते ॥११॥ वृ -इति पंचमी कण्डिका -
षष्ठी कण्डिका
ऋचां तु
छन्दोमानं च वृत्तं च पादस्थानं विकारणम् ।
ऋचः स्वच्छन्द वृत्तास्तु पादास्त्वक्षर मानशः॥१॥
पादस्थाने पदान्तो मन्त्रः श्लोकश्चत्रिकारणं पदान्तं छन्दो-
गानं च वृत्तं चेतित्रीणि कारणानि, लौकिकं श्लोकादि गुरु लघु
परिज्ञानं गायत्र्यादि स्वरूपमवधार्यत, स्वाभाविक
गायत्र्यादि छन्दः गुरुलघोरक्षरं छन्दो वृत्तमक्षरगणनया मानं
छन्दो विभागावगमायावस्थितमिति नातीव छन्दो लक्षणेनेह
प्रयोजनं, स्वच्छन्दो वृत्तं च सामानीति स्वच्छन्दोवृत्तमक्षराणां
मात्रेणाक्षरमानशः ॥१॥
ऋवर्णं स्वरभक्तिच छन्दोमानेन निद्दिशेत् ।
प्रत्ययेन सहारेफ मिमीत स्वरभक्तिषु ॥२॥
ऋकारे स्वरे स्वरे यो रेफः स्वरभक्तावसौ रेफः स्वरभक्तो
च यन्मात्राधिक्येताक्षर गणनाया:, छन्दो भागेच गणनीयमक्ष-
राणां तरत्वात्-अर्षसि अर्हसीत्यादिस्वरभक्तिविषये अरेफं
अपृथग्भूतरेफंवर्णमिमीत गणयेदिति ॥२॥
ऋवणे तु पृथग्रेफः प्रत्ययस्तु पृथग्भवेत् ।
विद्याल्लघुमकारंतु यदि तूष्मणा संयुतः ॥३॥
नारदीया शिक्षा ऋवणे एकस्मिन्नेव रेफमात्रा व्यंजनरूपा प्रतीयते, तेन स्वररूपमक्षरमिति प्रत्ययो मात्रकदेशोऽवधार्यते न पृथग्वर्ण द्वयम् । प्रत्ययस्तु पृथग् भवत् विद्याल्लघु मृकारं ऊष्माण ऋवर्णो यदि असंयुतो न सम्बद्धस्तदा लघु वर्गों विज्ञायते ॥३॥ स्वराख्यो 11. ऊष्मणैव हि संयुक्त ऋकारो यत्र पीड्यते । गुरुवर्णः स विज्ञेयः स्वचं चात्रानुदर्शनम् ॥४॥ ऋकार ऊष्मणैव शकारादिना सम्बध्यमान स्वरोऽपि गुरुर्भवति न लघु स्वृच' मित्युदाहरणम् ॥४॥ ऋषभंच गृहीतं च वृहस्पति पृथिव्यां च । निऋति पञ्चमा ह्यत्र ऋकारा नात्र संशयः ॥५॥ निऋति पंचमो येषां ते ऋषभादयः ऋकारा विकारा: स्वरा विज्ञेयाः ॥५॥ शषस हरादौ रेफः स्वरभक्तिर्जायते द्विपदा सन्धौ । इ उ वर्णाभ्यां होना क्वचिदेकपदा क्रम वियुक्ता ॥६॥ श ष स हानां र आदिर्यस्य तच्छषस हरादिपरं तत्र एक- पदा स्वरभक्तिर्जायते किं भूता इत्याह । (१) स्तृचमिति पाठान्तरम् ।
द्वितीयः प्रपाठकः
६७
इ उ वर्णाभ्यां हीना अर्षसीति इकारहीनां अर्षसीति,
उ वर्ण-हीनां अर्षसीत्येवं प्रयोक्तव्येत्यर्थः । क्वचिदेक पदा
उपोह-मीयमिति एषा एक पदा
भूतपूर्वापर विभागः
क्रमयुक्ता ॥६॥
-
स्वर्भक्तिद्विविधा ऋकारो रेफ एवच |
स्वरोदा व्यञ्जनोदाच विहिताऽक्षर चिन्तकैः॥७॥
स्वरादुदेतीति स्वरोदा ऋकाराख्या व्यंजनादुदैतीति
व्यंजनोदा रेफाख्या ॥७॥
शषसेषु स्वरोदायां हकारे व्यञ्जनोदयम् |
शषसेषु विवृत्तां तु हकारे संवृतां विदुः ॥८॥
.
शषस विषये स्वरोदयां विवृतां च स्वरभक्ति विदुः,
अर्षसीत्यादि हकार विषये व्यंजनोदयांसंवृत्तां च जानन्ति
अहंसीति ॥८॥
स्वरक्ति प्रयुञ्जान स्त्रीन्दोषान्परिवर्जयेत् ।
इकारं वाप्युकारं च ग्रस्तदोषं तथैव च ॥६॥
इ उ वर्णाभ्यां हीनेति यदुक्तं तदेव सविशेषमुच्यते,
अर्षसि अर्हतीति स्थान--करण--निष्पीडनेन प्रयोक्तव्य
मित्यर्थः ॥९॥
नारदीया शिक्षा संयोगपरं छपरं विसर्जनीयं द्विमात्रिकं चैव। अवसानिकं च न लघु सानुस्वारं घुटान्तं च ॥१०॥ संयोगः परो यस्याक्षरस्य छात्परं विसर्जनीयमक्षरं, द्वेमात्रे यस्याकारादेस्तद् द्विमात्रिकं, अवसाने भवमवसानिक, सहानु- स्वारो वर्तत इति सानुस्वारं द्विधा, गतिर्यस्य ॥१०॥ -इति षष्ठी कण्डिका- सप्तमी कण्डिका वेदे श्लोकादिना वृत्तं भवतीति गुरुवर्णाः नतुपथ्यादि गाथा- वधारणं छन्दो लक्षणतः कर्त्तव्यमित्युदाहरण रूपेणोच्यते । पथ्या पादः प्रथमो द्वादश मात्रस्तथा तृतीयोऽपि । अष्टादशो द्वितीयः समापनः पंचदशमात्रः ॥१॥ . पूर्वपादः सप्ताक्षरो द्वादशमात्रो, द्वादशमात्रस्तथा तृतीयोऽपीति, एकादशाक्षरोऽष्टादशमात्रो द्वितीयः पादः, समापनोऽन्तिमश्चतुर्थो दशाक्षरः पंचदशमात्रः ॥१।। पथ्या लक्षणमुक्त या त्वन्या सा स्मृता विपुला । पूर्व लक्षणेन विपुलादिपाद विधानं, समाप्तिरूपो दशा- क्षरश्चतुर्थः पादो द्वादशमात्रः समापनः, पुन: पंचदश मात्र इति सकारादिका: पंचेतिपथ्याया यल्लक्षणं तदेव विपुलायाः, किन्तु यास्त्वन्येति पंचदश मात्र: पादे द्वितीये इति- पादव्यत्यासा भेदो यच्छेषः । . अक्षराणां लघु स्वा संयोगपरं यदि ॥२॥ तत्संयोगोत्तरं विद्याद्गुरुदीर्घाक्षराणि तु । गुर्वक्षराणां मध्ये यद् ह्रस्वं तल्लघु मद्धस्वं तल्लघु, संयोग परं दीर्घाणि चाक्षराणि गुरूणिच ।
नारदीया शिक्षा
विवृत्तिर्यत्र दृश्येत स्वारस्य वाग्रतः स्थिता ॥३॥
गुरुस्वारः स विज्ञेयः क्षेप्रस्तत्र न विद्यते ।
विवृत्तिः परभूतः स्वरोगुरुः । न क्षेत्रो न लघुरित्यर्थः ।
अष्टप्रकारं विज्ञेयं पदानां स्वर लक्षणम् ॥४॥
अन्तोदात्तमायुदात्तमुदात्तमनुदा नीच स्वरितम् ।
मध्योदात्स्वरितं द्विरुदात्तमित्येता अष्टौ पदसंज्ञा ॥५॥
प्रकाराः
संभवन्तीति
तत्रोदाहरणानि
अष्टावेव
प्रदश्यन्ते ॥५॥
अग्निः सोमः प्रवोवीर्यं हविषा स्वर्वनस्पतिः।
.
.
अग्निष्टत्रणीति अग्निरन्तोदात्तः, सोमः पवते इति सोम
आधुदात्तः, प्रवीयह्वमिति प्रउदात्तः, व इत्यनुदात्तो, वलंन्युज
वीर्यमिति वीर्यं नीच स्वरितं, हविषा मध्योदात्तं, हविषा विधेयेति
भूर्भुवः स्वरिति स्वः स्वरितं, वनस्पतिरिति वकार: स्पकारश्चद्वे
-
उदात्ते ।
अन्तर्मध्यमयोर्योनाम्युदमनुदनिपाते ॥६॥
आद्यात्त्वरितमुपसर्गे द्विीचमारद्यात इति ॥६।।
स्वरितात्पराणि यानि तानि स्युर्धार्याक्षराणितु ।
सर्वाणि प्रचयस्थान्युपोदा निहन्यते ॥७॥
द्वितीयः प्रपाठकः ७१ निहोता सत्सीति स्वरितात्त कारात्त्वक्षराणि सत्सीति धार्याएवाक्षराणि इत्यूवं मधश्चागतानि प्रचयस्थानानि स्वरितस्य प्रचितत्वात् अपोदात्तमुपोदात्तमाद्यं स्वरितं निहन्यते गान्धारगीत्योच्चर्यत इति एतदेव विशेषत उच्यते ॥७॥ प्रचयो यत्र दृश्येत तत्र हन्यात्स्वरं वुधः । स्वरितः केवलो या मृदं तत्र निपातयेत् ॥८॥ प्रचये तत्र आहननं वहिषीति प्रचयाभावे केवलस्य स्वरि तस्य मृदुत्वम् ॥८॥ पंचविधमाचार्यकं नाम मुखन्यासः करणं प्रतिज्ञोच्चारणा। अत्रोच्यते श्रेयः खलु वै सं प्रतिज्ञोच्चारणा ॥६. आचार्यकं पंचप्रकारं, नामेति हस्ताने दृष्टिनिवेशादि, मुख- न्यासोऽङ्ग, ष्ठांगुल्यादौ स्वर निवेशः, करणं शिक्षाशास्त्रं, प्रतिज्ञा गुरुपरंपरागतं मंत्ररूपावधारणं, लक्षणागमानुसारेण प्रयोग उच्चारणं, सम्यक् शास्त्रं यद्यपि न दृश्यते तथाऽप्यागमाव धारणमवश्यं कर्तव्यमितिश्रयः खलु । प्रतिज्ञानोच्चारणेति एतदेव विशेषेणोच्यते ॥९॥ - यस्य कस्यचिद्वर्णस्य करणं नोपलभ्यते । प्रतिज्ञास्तत्र वोढव्याः करणं हि तदात्मकम् ॥१०॥ - ७२ नारदीया शिक्षा वर्ण स्वरादि विषयं करणं शिक्षादिशास्त्रंन ज्ञायते तथाऽप्यागमोऽयं ततोऽवधारणीयं, प्रतिज्ञा तत्र वोढव्या करणस्यायमपूर्वकं लक्षणं साम्नां, यत्र लक्षणं लौकिकानामपि शब्दानां व्याकरणाख्यं लक्षणं प्रयोगभूतमम्युप गम्यते इति उच्यते करणंहितदात्मकमिति, लक्षणमनुसृत्य स्वस्ववर्णोच्चारणं- यत्नतः करणीयं नारदादीनामप्येतद् यत्नतोऽवधारणीय मित्याह ।।१०॥ तुम्वुरु नारदवसिष्ठ विश्वावस्वादयश्च गन्धर्वाः । सामसु निभृतं करणं ॐ स्वर सौक्षम्यात्तऽपि हिनकुर्यः।११॥ निभृतं परिपूर्णकरणलक्षणं तेऽपि हि नकुर्युः न योजयितुं शक्नुवंतीत्यर्थः ॥११॥ ।। इति सप्तमी कण्डिका ।। A अष्टमी करिडका शरीर वाङ मनोनियमनिरूपणं सम्यक् पाठसिद्धिरधि क्रियते । कौक्षयाग्नि सदा रक्षेदश्नीयादशनं हितम् । जीर्णाहारः प्रबुद्धः सन्नुषसि ब्रह्म चिन्तयेत् ॥१॥ कुक्षौभवं कौक्षेयं उदराग्नि हितपथ्याशनेन चाग्ने रक्षा परिणते चाहारे ब्रह्मणश्चिन्तनम्, बाङ मनोव्यापारेणाव. धारणं कार्यम् ॥१॥ - शरद्विषुवतोऽतीतादुषस्युत्थानमिष्यते । यावद्वासन्तिकी रात्रि मध्यमा पर्युपस्थिता ॥२॥ शरन्मध्ये यो विषुवान् तस्मादतीतात् उपसिरात्रिशेषे पाठार्थ उत्थानमिष्यते यावद्वासन्तिकी वसन्त मध्येभवा पर्युप- स्थिता प्राप्ता रात्रिस्तावदुत्थाने रात्रेमहतीत्वात् ॥२॥ आचपालाशविल्वानामपामार्ग शिरीषयोः । वाग्यतः प्रातरुत्थाय भक्षयेद्दन्तधावनम् ॥३॥ ततः सन्ध्योपासनं कार्यम् ।।३।।
७४ नारदीय शिक्षा खदिरश्च कदम्वश्च करवीरकरजयोः । सर्वे कण्ट किनः पुण्याः क्षीरिणश्च यशस्विनः ॥४॥ खदिराणामवयवाः पुण्याः कंटकिन: क्षीरिणोऽकंटका यशस्विनः ॥४॥ तेनास्य करणं सौक्ष्म्यं माधुर्य चोपजायते । वर्णाश्च कुरुते सम्यक् प्राचीनौदंवजिर्यथा ॥५॥ शाकादिना ताम्बूलभक्षणं प्रसिद्धम् तेनस्वरादिना अस्यपुंसः करणे वाचि सौक्ष्म्यं श्लेष्मनिवृत्या गुरुत्वंच निवर्तते । सूक्ष्मा मधुरा च वाक्सम्पद्यते, वर्णाश्च कंठादि स्थानेषु सम्यग्भूता- निष्पादयतीत्येवं प्राचीनौदंवजिराचार्योमन्यते ॥५॥ त्रिफलां लवणाख्येन भक्षयेच्छिष्यकः सदा । अग्निमेधाजनन्येषा स्वरवर्णकरी तथा ॥६॥ त्रिफलां लवणाख्येन संयुक्तां भोजनोत्तरकालं सायं शिष्यो भक्षयेत् । जाठरमग्नि बुद्धि त्विषा जनयति । अग्नि पात्वेन स्वरवर्ण सौष्ठवंभवतीति ॥६॥ कृत्वा चावश्यकान्धर्मान् जाठरं पर्युपास्यच । पीत्वा धूमं घृतं चैव शुचिर्भूत्वा ततो वदेत् ॥७॥ अवश्यं सदाभवतीत्यावश्यक: दन्तधावनस्नानसन्ध्योपास- नादयः, पूर्वं जठरं पर्युपास्यमूत्रपुरीषोत्सर्ग कृत्वाऽन्यच्च शुचित्वे .
द्वितीयः प्रपाठकः शब्दस्पर्शादौ धूमं घृतप्राशनं कृत्वा स्नानादिना शुचिर्भूत्वा ततोवदेत् मंत्राध्ययनं कुर्यात् ॥७॥ मन्द्र णोपक्रमेत्पूर्वं सर्वशाखास्वयं विधिः । सप्तमंत्रानतिक्रम्य यथेष्टां वाचमुत्सृजेत् ॥८॥ न तां समीरयेद् वाचं या प्राणमुपरोधयेत् । मन्त्रसप्तकमुपांशु पठित्वा यथेष्टां वाचं मन्द्रादि स्वरेणो- च्चारयेत् । प्राणोपरोधमुच्चैः शब्दोच्चारणं विशेषतः प्रातर्न कार्यमित्यर्थः ॥८॥ प्राणानामुपरोधेन वैस्वयं चोपजायते ॥६॥ स्वरव्यञ्जन माधुर्यं लुप्यते नात्र संशयः । वर्णानां माधुर्यंयत् स्वाभाविकं तन्निवर्तत इति । अप्रवीण- स्या सामयिकस्योपाध्यायस्य सकाशानाधिगन्तव्यं, प्रतिष्ठिता ध्ययनं कार्यमित्याह ॥९॥ कुतीर्थादागतं दग्धवमपवर्णैश्च भक्षितम् । न तस्य परिमोक्षोऽस्ति पापाहेरिवकिल्विषात् ॥१०॥ यथा कुतीर्थाद् वस्थानाज्जलौघेनानीतं विषम्, अपवणे- १जनैः दुष्कृतिभिर्भक्षितं स्यात्, पापरूपात्. सान्निर्गता- द्विषाद्यथा मुक्तिर्न भवति एवं कुतीर्थादुपाध्यायादागतमध्ययनम- पवणे मुखैक्षितमधीतं, तस्मादध्ययनात् पापिष्ठादुपाध्याया- . ।
७६ नारदीया-शिक्षा दागताय न परिमोक्षो भवति न कुसंस्कारो निवर्तत इत्यर्थः ॥१०॥ सुतीर्था दागतं जग्धं स्वास्नातं सुप्रतिष्ठितम् । सुस्वरेण सुवक्त्रेण प्रयुक्त ब्रह्मराजते ॥११॥ उपाध्यायात् सुतीर्थात् शोभनादागत मधीतं उपाध्यायस्य सम्यगाम्नातं शिष्येषुच प्रतिष्ठितमभ्यस्तं स्थितम् । अप्रति- ष्ठितेन सुस्वरेणापि प्रयुक्त न राजत इत्यर्थः ॥११॥ विकृतमुखानां पाठो न शोभत इत्याह- न करालो न लम्बोष्ठो न च२ सर्वानुनासिकः । गद्गदो वद्धजिह्वश्च प्रयोगान् वक्तुमर्हति ॥१२॥ नासाक्षिकर्णादिना विकृतः करालः । नासिकायाः प्राधा- न्येन यश्च शब्दानुच्चारयति स सर्वानुनासिकः । प्राधान्येन शब्दोच्चारणाद् गद्गदो भवति । वाक् स्तम्भेन वद्ध जिह्वः। प्रयुज्यत इति प्रयोगान् छन्दान्न वक्त महतीति ।।१२।। अदुष्टकरणः संयतचित्तः शोभनं पठतीत्याह- एकचित्तो निरुद्भ्रान्तस्तान३ गान विजितः । सतु वर्णान्प्रयुञ्जीत दन्तोष्ठं यस्य शोभनम् ॥१३॥ कण्ठ - . १-स्वाम्नाय मित्यपि पाठः । २-नाव्यक्तमिति पाठः। ३-निरन्नति स्तन्ति गान विजितः इत्यपि पाठः।
द्वितीयः प्रपाठकः स्वाध्याय विषयं चित्तं यस्य स एक चित्तः-अप्रगल्भत्वात् भ्रान्तिरहितः, अतिविलम्वित-शब्दोच्चारणाभावा तान्तगान विवजितः, अविकृत दन्तोष्ठत्वाद् रमणीयशब्द उच्चरति ॥१३॥ अहंकार रहितानां विद्याप्रवर्त्तत इत्याह । . पञ्च विद्यां न गृह्णन्ति चण्डाः स्तब्धाश्च मे नराः। अलसाः श्वास रोगाश्च येषां चाविस्तृतं मनः ॥१४॥ साहंकारः कोपगधानि नो माध्यायादीनाम न प्रवृत्ति भजते चाण्डास्तच्चातुर्येणाध्यापने अगवृत्तः स्तब्धउक्तमपि कदाऽपि तावन्तो वुध्यते अलसो मानसादि करणानामवधारणे अपाटवान् न रोगः अरोगः सर्वकाल रोगपरिदुष्टो न रोगः, विसृतं चञ्चलं मनः ॥१४॥ त्वराचाध्ययने न कर्त्तव्येत्युच्यते । शनै विद्यां शनैरा नारोहेत्पर्वतं शनैः । शनैरध्वसु वर्तेत योजनानां परं व्रजेत् ॥१५॥ अर्थार्जनमध्वगमनं पर्वतारोहणं वाऽत्वरस्य यथा सम्य- ग्भवति तथा विद्याशनैर्यथावदभिनिवर्तते ग्रहरहस्य योजनं भवति । उच्चै रुच्चार्यमाणा शब्दः बाद संवदता विच्छिद्यमानो विरम्यमानमुत्पादयतीत्याह ॥१५॥ योजनानां सहस्रं तु शनैर्याति पिपीलिका । अगच्छन्वैनतेयोऽपि पदमेकं न गच्छति ॥१६॥ १-सहस्राणि इत्यपिपाठान्तरम् ।
७८ नारदीया शिक्षा अन्न परेणासामर्थ्येन व्यापारः शोभनोनिवर्तते नच बहुवा- लताऽपि कृतं शोभनं भवतीत्याह ।।१६।। नहि पाष्णिहता वाणी प्रयोगान्वक्तुमर्हति । वधिरस्येव तल्पस्था विदग्धा वामलोचना ॥१७॥ अतएव वेति पुरुषैरति समयोचितं व्यक्त गानं कामिन्यः । यथा वेरत्वमापद्यते एवमुच्चै रुच्चार्यमाणा पश्चाद्विच्छिन्ना वाणी सर्वस्योद्वेगंजनयति । पाष्णिः पादस्य पश्चिमो भागो, वधिरस्य तल्पस्था एकस्मिन् शयने स्थिता विदग्धा सुरते काम शास्त्रे प्रवीणा वामलोचना रमणीयलोचना यथा रति प्रयो- गान् करोति एवं पश्चाद्विच्छिन्नातु प्रयोक्तव्या ॥१७।। उपांशु त्वरितं चैवविभ्रस्यतेऽवाधितं सहस्त्रकृत्वोऽपि न निर्मलता मासादयतीति तथा न गणयितव्य मित्याह । उपांशु त्वरितं चैव योऽधीतेवित्रसन्निव । अपि रूप सहस्रषु सन्देहे त्वेव वर्तते ॥१८॥ रूपं शब्दोच्चारणं तद्विषयेसन्देहेष्वास्ते ॥१८॥ प्रणवेनाचा- दिध्ययनं काय न पुस्तकादिना शुभं मन्त्रस्वरूपं भवतीत्याह । पुस्तक प्रत्ययाधीतं नाधीतं गुरु सन्निधौ । राजते न सभामध्ये जारगर्भा इव स्त्रियः ॥१६॥ । १-ज्वेव' इत्यपिपाठः । 1
द्वितीयः प्रपाठकः
जाराद्गर्भो यासां ता यथा न भ्राजते । एवं दुष्टादा-
गमादध्ययनं
॥१९॥ अप्राज्ञेनापि मंत्रपरेणाध्ययनादौ
भवितव्यमित्युच्यते ।
अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्यतु सञ्चयम् ।
अबन्ध्य दिवसं कुर्याद्दानाध्ययनकर्मसु ॥२०॥
अञ्जन पर्वतस्य ब्यये क्रियमाणोऽपिक्षयो दृश्यते, वल्मीकस्य
च पिपीलिकाभिरपि सञ्चयः क्रियते । एवं तत्वं क्रियमाणस्य ।
सञ्चितश्चित्ता पाटवः यतो नावगम्यं । अतोऽध्ययनादिभिः
शास्त्राद्यैरवंध्यमशून्य कार्यम् ॥२०॥ अबलोऽपि यत्नवानर्थं
साधयति । नतु बलवात्रहितयत्न इति पूर्वोक्तविदावर्णानुच्यते ।
यत्कीटः पांशुभिः श्लक्ष्ण वल्मीकः क्रियते महान् ।
न तत्र वलसामर्थ्य मुद्योगस्तत्र कारणम् ॥२१॥
विद्याभ्यासः सर्वदा कर्तव्यो यथाऽधीतस्यनाशो न
भवतीत्याह।
सहस्रगुणिता विद्या शतशः परिकीर्तिता।
आगमिष्यति जिह्वाग्ने स्थलान्निम्नमिवोदकम् ॥२२॥
गुणिता अभ्यस्ता परिवर्तिता । शिष्याणां परिकीर्तिता
प्रतिपादिता प्रयत्नेन सुखेन परिवर्तते आगमिष्यति जिह्वाग्रे
स्थलानिम्न मुन्नतात्प्रदेशानिम्नं स्थानं यथा जलंगच्छति॥२२॥
नारदीया-शिक्षा विद्यार्थिना प्रहरद्वय हेमन्ते प्रहरद्वय च वसन्तादौ छात्रोऽनु- शीलनीय इत्याह । हयानामिव जात्याना मर्धरात्रार्ध शायिनाम् । नहि विद्यार्थिनां निद्रा चिरं नेगेषु तिष्ठति ॥२३॥ अन्नपान नारी व्यसनं वर्जनीयम् । दूर गमने च यज्ञः श्रावणीय इत्याह । न भोजन विलम्वी स्यान्नच नाशन बन्धनः । सुदूरमपि विद्यार्थी व्रजेद्गरुडहंसवत् ॥२४॥ अहेरिव गणाभीतः सौहृद्यान्नरकादिव । राक्षसीभ्य इव स्त्रीभ्यः स विद्यामधिगच्छति ॥२५॥ न शठाः प्राप्नुवन्त्यर्थान्न क्लीवा न च मानिनः । नच लोक रबाभीता नच श्वः श्वः प्रतीक्षकाः ॥२६॥ अलसो विद्याधनादिकं न साधयति क्लीवो नपुंसकश्च पुत्रादिकं न लभते, मानी चाति तुष्टातिशीलो न विद्या भाजन: नाऽयं विद्यामासादयतीति, लोक प्रवादाभीतो न विद्यां गृह्णाति अथ प्रातः पुनः प्रातरिति काल प्रतीक्षको न विद्यामान्यो भवति ॥२६॥ यथा भूतलादुदकं महता खननेन लभ्यते एवं पौन: पुन्येन गुरू सेवनाद् संदिग्धौ पाठवोधौप्राप्येते इत्याह ।
द्वितीयः प्रपाठकः यथा खनन्खनित्रेण भूतले वारि विन्दति । एवं गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥२७॥ शुश्रूषा रहिताविद्या यद्यपि मेधा गुणैः समुपयाति । वन्ध्येव यौवनवती न तस्य विद्याफलवती भवति ॥२८॥ द्यूतं पुस्तक वाद्यं च नाटकेषु च सक्तिका । स्त्रियस्तन्द्राच निद्राच विद्याविघ्नकराणि षट् ॥२६॥ स्थान करणैरपीडयता वर्ण स्फुटमुच्चारयता स्वाध्या- यादि कर्त्तव्यं, ब्रह्मलोक प्राप्त्यर्थ मितिरूपावधारणार्थं शिक्षेति शास्त्रान्ते प्रतिपाद्यते । यथा व्याघ्री हरेत्पुत्रान् दंष्ट्राभिर्नच पीडयेत् । भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् ॥३०॥ एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडिताः। सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते ॥३१॥ १गुरु शुश्रूषया विद्या पुष्कलेन धनेन वा। अथवा विद्ययाविद्या चतुर्थं नोपलभ्यते ॥३२॥ १-इत्यधिकं पद्य क्वचिदुपलभ्यते । २-स्वाध्यायेवा ।
८२
नारदीय-शिक्षा
शुनी व्याघ्री विडाली च चिरजाता पत्यान् दन्तैरपीडयन्ती
अपत्यान्नयति यदि न सम्यग् प्रतिगृह णाति तदा पतन्ति ।
यदि वाऽति वलेन गृह्णाति तदा भेद उपघातोऽपत्यानां भवती-
त्येवं वर्णोच्चारणं कार्य म् । व्यक्ताः स्फुटा: प्रयोगास्तु जपे.
२स्वसाध्येऽध्यापने च । इति द्वितीयस्याष्टमी कण्डिका। इति.
श्री भट्टशोभाकर विरचिते नारदीय शिक्षाविवरणे द्वितीयः
प्रपाठकः समाप्तः ।
-इति शिक्षा भाष्य समाप्तम्-
-
-
New Sahi
LIBRARY
fr
11
1
phi
el
N97.74
AREALOGICAL LIBRARI
*A book that is shut is but a block
GOVT. OF INDIA
Department of Archaeology
NEW DELHI.
1
CENTRAL
Please help us to keep the book
clean and moving