Library

Kramadiipikaa

Bhat't'a Keshava · 2005-11-19

PDF Proofread

Front matter

UNIVERSAL
LIBRARY
OU_184029
LIBRARY
UNIVERSAL

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

OL'P-68-11-1-68-2,000.
P.
Call No. 5294.5
OSMANIA UNIVERSITY LIBRARY
Accession No. S1461
КАК
Author 221997
Title Hotel Di Fasculus- |
1917.
This book should be returned on or betore the date
last marked below.

२ सटीकक्रमदीपिकायाः शरीरसम्बन्धेऽपि न स्वरूपानुसन्धानप्रच्युतिरावरणशक्तेरप्रामा- ण्यादिति भावः। अथ वा कल बन्धने, तथा च बन्धनात्मकसंसारप्र- घर्तनार्थ स्वीकृतमायालेशात्मकजलतत्त्वात्मनाकीकृतमूर्तिरिति तो. येन जीवान् विससर्ज भूम्यामिति । अथ वा समोहनमन्त्ररूपक- कामबीजं सकलगोपालमन्त्राणां बीजमुद्धरति कलेति, कश्च लश्च कलौ ताभ्यामात्ती गृहीतो सम्बद्धौ मायालवको चतुर्थस्वरान- स्वारौ ताभ्यामात्ता स्वीकृता बीजरूपा मूर्तियेन सः तथोक्तः कल इत्यत्राकारउच्चारणार्थः । पुनः कीरशः कलमव्यक्तं मधुरं यथा स्यात्तथा कणन् शब्दायमानः वेणुवंशः कलक्कणंश्चासौ वेणुश्चेति कलकणद्वेणुः तस्य निनादेन रम्यः सर्वसुखप्रद इत्यर्थः । पुनः कीदृशः हृदि श्रितः हृत्पङ्कजे स्थितः हृदि ध्येय इत्यर्थः । यहा सर्वप्राणिनां हृदयेऽन्तर्यामिरूपेण स्थित इत्यर्थः । किं कुर्वन् प्रयाणां लोकानां समाहारस्त्रिलोकी प्रैलोक्यं व्याकुलयन् कर्तव्येषु विचारशून्यं कुर्वन् मायया मोहयनित्यर्थः । तदुक्तं गीतायाम्- ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि माययति ॥ अत्र लघुदीपिकाकारः “कलात्तमायेत्यादिना गोपीजनवल्लभ इत्य- नेन च बीजसहितोऽत्र दशाक्षरः सूचितः, कलक्कणदित्यादिना ध्यानं. सूचितं, त्रिलोकी व्याकुलयन्नित्यनेन च वश्यादिप्रयोगाः सूचिता" इत्याह ॥१॥ गुरुनमस्कारपूर्वकं कर्तव्यं प्रतिजानीते- गुरुचरणेति। गुरुचरणसरोरुहद्वयोत्थान माहितरजःकणकान्प्रणम्य मुनी। गदितमिह विविच्य नारदाच- जनविधिं कथयामि शाईपाणः ॥२॥ इह ग्रन्थे शाक्रपाणेः श्रीकृष्णस्य यजनविधिं पूजाहोमा. दिकरणप्रकारं विविच्य विवेचनं कृत्वा कथयामि आसमाते- पर्तमानत्वात्, तथा च प्राचीनग्रन्थेभ्यः स्वग्रन्थस्योपादेयता दार्श- - प्रथमपटलः । ३ सा कीडशं नारदगौतमप्रभृतिभिर्गदितम् एतेन स्वोक्तेः स्वातन्त्र्यं. निराकृतमिति भावः । किं कृत्वा मूर्धा मस्तकेन महिताः पूजिता ये रजःकणका धूलिलेशास्तान् प्रणम्य कीरशान् गुरुचरणद्वयमेष पद्मद्वयं तदुत्थान् तदुद्भवान्, एतेन गुरुभक्त्यतिशयः सूचितः तथा गुरुध्यानं शिरसि कर्तव्यमित्यपि सूचितम् ॥ २ ॥ मन्त्रान्तरेभ्यो गोपालमन्त्रस्यातिशयितं वक्तुंभूमिका रचयति- क्षितीति । नितिसुरनपवितुरीयजानां. मुनिवनवासिगृहस्थवर्णिनां च । जपहुतयजनादिभिर्मनून- फलति हि कन्चन कस्य चित्कथं चित् ॥३॥ हि यतः मनूनां गोपालमन्त्रव्यातरिक्तानां मध्ये कश्चन मन्त्रो. राश्यादिना शोधितः क्षितिसुरप्रभृतीनां वर्णानां मध्ये मुनिवनवा- सिप्रभृतीनामाश्रमाणां चकारात् स्त्रीणां मध्ये कस्य चित्कथं चिज- जनस्य भाग्यवशाजपहोमादिभिः आदिशब्देन तर्पणादेः परिग्रहः फलति फलं ददातीति योजना, हि शब्दोऽत्रावधारण इति कश्चित् क्षितिसुरो ब्राह्मणः, नृपःक्षत्रियः, विट् वैश्यः, तुरीयःशूदः, मुनियतिः वनवासी वानप्रस्थः, गृहस्थः कृतदारपरिग्रहः, वर्णी ब्रह्मचारी ॥३॥ अधुना गोपालमन्त्रस्य सर्वेषु सिद्धत्वमाह- सर्वेष्विति । सर्वेषु वर्णेषु तथाऽऽश्रमेषु नारीषु नानायजन्मभेषु । दाता फलानामभिवाञ्छितानां- द्रागेव गोपालकमन्त्र एषः ॥ ४ ॥ सिद्धादिगणनानिरपेक्ष एवैष प्रथमोपस्थितो वक्ष्यमाणदशाक्ष- गोपालमन्त्रो न तु गोपालविषयको मन्त्रगणोऽतिप्रसङ्गात् स्वाहाप्रणवसंयुक्तं मन्त्रं शूद्रे ददद् द्विजः । शद्रो निरयगामी स्याद् द्विजशद्रोऽभिजायते ॥

४ सटीकक्रमदीपिकायाः इत्यागमविरोधात् , लक्षणापत्तेश्च, वाञ्छितानां स्वाभिमतानां- फलानां द्रागेव झटित्येव दाता केषु सर्वेषु वर्णेषु ब्राह्मणादिषु सर्वा. श्रमेषु ब्रह्मचारिप्रभृतिषु नारीषु नानाह्वयजन्मभेषु नानाप्रकारना. मसु तथा नानाप्रकारजन्मनक्षत्रेषु सत्स्वपीत्यर्थः ॥ ४॥ एवं सत्यपि गुरुचरणशूथषापरोपस्थिताय मन्त्री देय- इति व्यनक्तिः नूनमिति। नूनमच्युतकटाक्षपातने कारणं भवति भक्तिरसा। तच्चतुष्टयफलाप्तये ततो- भक्तिमानधिकृतो हरौ गुरौ ॥ ५ ॥ यस्मान्नूनं निश्चितम् अच्युतकटाक्षपातने श्रीकृष्णकृपावलो कने भक्तिरञ्जसा तत्त्वतः कारणं ततस्तस्मात्कारणात् तश्चतु. एयफलाप्तये प्रसिद्धधर्मादिपुरुषार्थचतुष्टयरूपफलप्राप्त्यर्थ हरौ वि- ष्णौ गुरौ मन्त्रदातरि च भक्तियुक्तपुरुषो दीक्षादावधिकृतोऽधि- कारी भवतीत्यर्थः । एतेन गुरुदेवतयोरभेदेन ध्यानं कर्तव्यमिति सूचितम् ॥ ५॥ अधुना पूजाक्रममाह- स्नात इत्यादिना। स्नातो निर्मलशुद्धसूक्ष्मवसनो धौताधिपाण्याननः स्वाचान्तस्सपवित्रमुद्रितकरः श्वेतोर्द्धपुण्ड्रोज्ज्वलः । प्राचीदिग्वदनो नियय सुदृढं पद्मासनं स्वस्तिकं. वाऽऽसीनःस्वगुरून् गणाधिपमथो बन्देत बडाञ्जलिः॥६॥ स्नातः स्वगृह्योक्तविधिना आगमोक्तविधिनाऽपीति के चित् , निर्मले विशदे प्रक्षालिते सूक्ष्मे वस्ले यस्य तथोक्तः, धौतेति प्रक्षालितपाणिपादवदनः, स्वाचान्तः स्मृत्युक्तवि- धिना कृताचमनः, सपवित्रेति पवित्रसहितः मुद्रायुक्तहस्तः, सुप- विप्रेतिपाठे अतिशोभनपवित्रेण मुद्रितः मुद्रासम्बद्धो हस्तो यस्ये- - स.

प्रथमपटलः । ति, श्वेतेति श्वेतश्चासौ ऊर्वश्चेति श्वेतोः एवम्भूतातलकेनो. ज्ज्वलः, प्राचीदिग्वदनः पूर्वाभिमुखः अत्र प्राग्वदनस्य कण्ठोक्तत्वात् प्राग्वदनं मुख्यं तदसम्भवे तूदङ्मुखत्वं रात्रौ तु सर्वपूजास्ववोदक मुखत्वं पुराणे च तथवाभिधानात्, अनन्तरं सुदृढं यथा स्यात्तथा पद्मासनं स्वस्तिकं वा कृत्वा, तत्र पद्मासनं प्रसिद्धं, स्वस्तिक लक्षणं तु- जानूऊरन्तरे सम्यक् कृत्वा पादतले उभे । ऋजुकापसमासीनं स्वस्तिकं तत्प्रचक्षते ।। आसीन उपविष्टः स्वगुरून् गणेशं च वन्देत, अथोशब्दश्चार्थेs- नुक्तसमुचये तेनाग्रे दुर्गा पृष्ठे क्षेत्रपालं च धन्देत, तदुक्तं- गौतमीये- वामे गुरुं दक्षिणतो गणेशं दुर्गा पुरः क्षेत्रपतिं च पश्चात् । इति । प्रयोगश्च गु गुरुभ्यो नमः, गं गणपतये नमः, दुं दुर्गायै न- मः, क्षे क्षेत्रपालाय नमः, बद्धाञ्जलिः कृताञ्जलिपुटः सन्नित्यर्थः अत्र शारदातिलकोतक्रमेणैतद् बोद्धव्यं दक्षिणे पूजाद्रव्यस्थापनं वामे जलकुम्भस्थापनं पृष्ठे करप्रक्षालनपात्रस्थापनं पुरतो दीपचामराधु- पकरणस्थापनामिति ॥ ६ ॥ भूतशुद्धः पूर्वे कृत्यमाह- ततोऽस्त्रमन्त्रेणेति । ततोऽस्त्रमन्त्रेण विशोध्य पाणी त्रितालदिग्बन्धहुताशशालान् । विधाय भूतात्मकमेतदङ्गं- विशोधयेच्छुद्धमतिः क्रमेण ॥ ७ ॥ ततस्तदनन्तरं भूतात्मकं पृथिव्यादिपञ्चमहाभूतमयमेतदनं. शरीरं शुद्धमतिः विशदमतिः विशोधयेद् देवताऽऽत्मकं कुर्यादित्यर्थः नादेवो देवमर्चयेदिति वचनात्, क्रमेण वक्ष्यमाणप्रकारेण, किं कृत्वा; अस्त्रमन्त्रेणैव अस्त्राय फडित्यनेन तन्मन्त्राशास्त्रमन्त्रेणैव वा गन्धपुष्पाभ्यां हस्ती संशोध्य करन्यासं कृत्वाऽस्त्रमन्त्रेणैवोध्यो- ६ सटीकक्रपदीपिकायाः छन्तालत्रयं कुर्यात्, तदुक्तं शारदायाम्- करन्यासं समासाद्य कुर्यात्तालत्रयं तत इति । अनन्तरमस्त्रमन्त्रेणैव छोटिकया दशदिग्बन्धनम् , अस्त्रमन्त्रेणैव पहिप्राकारं जलेनात्मनः परिवेष्टनरूपं विधाय कृत्वा; अत्र सम्प्रदाय हृत्पनकर्णिकास्थं दीपशिखानिभं जीवात्मानं हंस इति मन्त्रेण सु. षुम्णावर्त्मना मस्तकोपरि सहस्रदलकमलावस्थितपरमात्मनि संयोज्य पृथिव्यादिपञ्चविंशतितत्त्वानि तत्र विलीनानि विभा व्य भूतशुद्धिं कुर्यात् ॥ ७ ॥ भूतशुद्धिमाह- इडावक्र इति । इडावत धून सततगतिबीजं सलवकं. स्मरेत् पूर्व मन्त्री सकलभुवनोच्छोषणकरम् ।। स्वकं देहं तेन प्रततवपुषाऽऽपूर्य सकल- विशोष्य व्यामुञ्चत्पवनमथ मार्गेण खमणेः ॥ ८॥ इडावके वामनासापुटे सलवकं बिन्दुसाहितं सततगतिबीज- घायुबीजं यमितिरूपं पूर्व प्रथमं मन्त्री साधकः स्मरेत् । किम्भूतं धूम्र कृष्णवर्ण, पुनः किम्भूतं सकलेति पञ्चभूतमय- देहशोषकं तथा च वामनास सापुटेन वायुमाकर्षन् षोडशवारं वा- युबीजं जपेदिति भावः । अनन्तरं सकलं सर्व स्वकीयं शरीरं तेन बीजमयेन वायुना प्रततवपुषा विस्तीर्णशरीरेणापूर्य पूरयित्वा दे. हस्थवायोर्बाह्यनैक्यं विचिन्त्य विशोषं नीत्वा चतुःषष्टिवारं वायु- बोज कुम्भकेन जप्त्वा खमणेः सूर्यस्य मार्गेण पिकलया दक्षिणना- सापुटेन रेचनेनैव धायुबीजं द्वात्रिंशद्वारं जपन् वायुं व्यामुञ्चेत् त्यजेदित्यर्थः॥ ८॥ तेनेति । तेनैव मार्गेण विलीनमारुतं- बीज विचिन्स्यारुणमाशुशक्षणेः ।

प्रथमपटलः । आपूर्ण देहं परिदह्य वामतो- मुश्चेत्समीरं सह भस्मना बहिः ॥९॥ तेनैव खमणेः सूर्यस्य मार्गेण दक्षिणनासापुटेन विलीन: सम्बद्धो मारुतो वायुर्यत्र तद् आशुशुक्षणेवन्हे/जं रमिति अरुण- मरुणवर्ण विचिन्त्य वायुनाऽऽपूर्य तदोजस्य षोडशवारजपेन पूरकं- कृत्वाऽनन्तरं कुम्भकेन चतुर्गुणं रंबीजं जपन् देहं परिदह्य तदूर्व- रमिति द्वात्रिंशद्वारं जपन् वामत इडामार्गेण वामनासापुटेन भस्मना सह बहिः समीरं पायुं मुश्चदित्यर्थः ॥९॥ उत्पत्तिं दर्शयति- टपरमिति। टपरमतीव शुद्धममृतांशुपथेन विधु- नयतु ललाटचन्द्रममुतस्सकलार्णमयीम् । लपरजपानिपात्य रचयेच तया सकलं- वपुरमृतौघवृष्टिमथ वकराङ्गमिदम् ॥ १० ॥ ठकारस्तमतीव शुद्धं श्वेतं विधुं च- न्द्रबीजरूपम् अमृतांशुग्थेन वामनासापुटेन षोडशवारजपेन ललाटचन्द्रं ब्रह्मरन्ध्रस्थवन्द्र नयतु प्रापयतु, ननु सर्वशरी- रस्य दग्धत्वात् कथममृतांशुपथेन चन्द्रबीजनयनमिति चेन, पूर्वोक्तस्य भावनाऽऽत्मकत्वात्, अथानन्तरम् अमुतः अमृतांशोल- लाटचन्द्राब्रह्मरन्ध्रस्थशशाङ्कात् सकलार्णमयी मातृकामयीम् अ. मृतसमूहवाष्टिं लपरो वकारः वरुणबीजमिति यावत् तज्जपेन कुम्भकेन चतुःषष्टिवारजपेन निपात्य उत्पाद्य तया मातृकामय्या वृष्टया इदं सकलं शरीरं रचयेदारचयेत्, कीदृशं वपुर्वकराज- वक्रं च करश्च अङ्गम् अवयवरूपं यत्र तत्तथा वकराव्यमिति पाठे पक्रात्यं कराव्यं चेत्यर्थः, अनन्तरं दक्षिणनासापुटेन वायुं रेचये- त् लमिति पृथ्वीबीजं पीतवर्ण द्वात्रिंशद्वारं जपन् तत् शरीरं. सुदृष्टं चिन्तयेत् तदनु सोऽहमित्यात्ममन्त्रेण ब्रह्मरन्ध्राजीवं ह. दयाम्भोजमानयेदिति सम्प्रदायः ॥ १० ॥ टस्य परष्टपरः ८ व सटीकक्रमदीपिकाया: अधुना मातृकान्यासं दर्शयति- शिरोवदनति । शिरोवदनवृत्तदृक्श्रवणघोणगण्डोष्ठदद्- छये च सशिरोमुखेऽच इति च क्रमादिन्यसेत् । हलश्च करपादसन्धिषु तदग्रकेष्वादरात् सपार्श्वयुगपृष्ठनाभ्युदरकेषु याद्यानथ ॥ ११ ।। अत्र शिरःशब्दो ललाटस्योपलक्षकः ललाटमुखमावृते ति शारदादर्शनात्, एकत्राक्षरद्वयस्यापि न्यासापाताच, दनवृत्तं मुखमण्डलं दृक्श्रवणघोणगण्डौष्ठदन्तानां द्वयमिति स मासः द्वयामिति हगादावपि सर्वत्र सम्बध्यते घोणा नासिका, दद्य ये दन्तपतिदये, इत्युक्तेषु स्थानेषु अचः पोडश स्वरान् क्रमेणैका क्षरक्रमेण विन्यसेत् तथा हलश्च कादीनि व्यञ्जनानि च तत्र कादी नि विंशत्यक्षराणि आदरात् आदरपूर्वकं करपादसन्धिषु तदन केषु च विन्यसे अनन्तरं यकारादीनि पञ्चाक्षराणि सपार्श्वयुग पृष्ठनाभ्युदरकेषु पार्श्वयुगेन सह वर्तते यत् पृष्ठनाभ्युदरन्तत्र वि न्यसेत् तथाऽनन्तरमनेन वक्ष्यमाणमार्गेण याद्यान् वर्णान् हृदय दिस्थानगतान् अत्रापि करपद्युगयोरुदरवक्त्रयोश्च हृदयपूर्व र था स्यासथा अन्वहं प्रतिदिनं न्यसतु करपागादीनां पूर्वैः पदैः स मस्तानामपि हृदयपूर्वमिति क्रियाविशेषणेन सह सम्बन्धः सापे क्षत्वादत्रासमास इति तु तुल्यप्रधानसापेक्षविषयं द्रष्टव्यं, किमर्थ शुद्धकलेवरसिद्धये शुद्धशरीरसम्पादनार्थमित्यर्थः ॥ ११ ॥ इत्यारचय्येति। हृदयकक्षककुत्करमूलदोः- पदयुगोदरवक्रगतान् बुधः । हृदयपूर्वमनेन पथाऽन्वहं- न्यसतु शुद्धकलेवरसिद्धये ॥ १२ ॥ इत्युक्तप्रकारेण वपुः शरीरम् अर्णशतार्द्धकेन पञ्चाश मैं: आरचय्य रचयित्वा अनन्तरं तैरेव पक्षाशद्वणः साई

प्रथमपटलः।
इत्यारचय्य वपुरणशताईकेन
सार्द्धक्षपेशसविसर्गकसोभयस्तैः ।
विन्यस्य केशवपुरस्सरमूर्तियुक्तः
कीादिशक्तिसाहितन्यसतु क्रमेण ॥ १३ ॥
अथ कथयाम्यर्णानां मूर्तीःशक्तीः समस्तभुवनमयीः ।
केशवकीर्ती नारायणकान्ती माधवस्तथा तुष्टिः ॥१४॥
क्षपेशसविसर्गकसोभयैः अर्द्धक्षपशेन सह वर्तन्त इति साद्धक्षपेशाः
अर्द्धचन्द्रसहिताः तैः सानुस्वारित्यर्थः सविसर्गकैः विसर्गसहितैः
सोभयैरनुस्वारविसर्गसहितैः विन्यस्य तथा आदौ शरीरसम्पा-
दनार्थ शुद्धमातृकाऽक्षरैर्विन्यस्य तदनन्तरं तेष्वेव ललाटादिषु
मातृकास्थानेषु अं नम इत्यादीन् क्षं नमइत्यन्तान् तथा अः नम
इत्यादीन् क्षः नम इत्यन्तान् तथा अंः नम इत्यादीन् क्षः नम इत्य.
न्तान् वर्णान् विन्यस्येदित्यर्थः, एवं चतुर्विधो मातृकान्यासउक्तः ।
ननु कथमर्णशतार्द्धकेनेत्युक्तं वर्णानामेकपञ्चाशत्त्वादित्युच्यते क्षका-
रणाक्षरद्धयस्यैकीकरणात लत्वेन लकारद्वयस्यकीकरणाद्वा लोक-
प्रसिद्धर्वा प्रकरणनेकपञ्चाशत्संख्यायास्तात्पर्येऽधिगते पश्चाशद्वर्ण
पवैकपश्चाशत्संख्यापर इति प्रपञ्चसारविवरणे श्रीप्रेमानन्दभहा-
चार्यशिरोमणयः । वस्तुतस्तु अर्णशतार्द्ध च कं चार्णशत्तार्द्ध कं-
तेनाक्षराणामेकपञ्चाशत्त्वमायातम् । असमविभागे वा अर्द्धशब्दः ।
केशवन्यासमाह विन्यस्य केशवेति, केशवः पुरःसरः प्रथमो-
यासां मूर्तीनां ताः तथा च केशवादिमूर्तिसहितैः कीर्त्यादि.
शक्तियुक्तैश्च मातृकाक्षरैर्ललाटादिषूक्तस्थानेषु यथाक्रमं न्यासः
कार्यः ॥ १३ ॥ १४॥
गोविन्दः पुष्टियुतो विष्णुधृती सूदनश्च मध्वान्यः ।
शान्तिस्त्रिविक्रमश्च क्रियायुतो वामनो दया-
युक्तः ॥ १५ ॥
सूदनश्च मध्वाधः मधुसूदन इत्यर्थः ॥ १५ ॥

१०
सटीकक्रमदीपिकाया:
श्रीधरयुता व मेधा हृषीकनाथश्व हर्षया युक्तः।
अम्बुजनामवेदामोदरसंयुता तथा लज्जा ॥१६॥
हषीकनाथो हषीकेश इत्यर्थः, अम्बुजनाथः पदमनाथः॥ १६ ॥
लक्ष्मीः सवासुदेवा
संकर्षणकः सरस्वतीयुक्तः।
प्रायो घुम्नः प्रीतिसमेतोड-
निरुडूको तिरिमाः स्वरोपेताः॥ १७ ॥
प्रायो घुम्नः प्रद्युम्नः ॥ १७ ॥
चक्रिजये गदिदुर्गे
शाम प्रभयाऽन्वितस्तथा खड्गी ।
सत्या शङ्कीचण्डा
हलिषाण्यो मुसलियुग्विलासिनिका ॥१८॥
शूली विजया पाशी विरजा विश्वान्वितोऽम्बुशीभूयः।
विमदा मुकुन्दयुक्ता नन्दजसुनन्दे स्मृतिश्च नन्दियुता१९
नरऋद्धी नरकजिता
समृदिरथ शुद्धियुग्धरिः कृष्णः ।
बुद्धियुतः सत्ययुतभुक्ति-
मतियुक्तः स्यात्ततः शौरिः ॥ २० ॥
॥ १८ ॥ १९॥२०॥
क्षमया शूरो रमया जनाईनो मेचभूधरः क्लेदी ।
विश्वायमूर्तियुक्ता लिन्ना वैकुण्ठयुक्तथा वसुदा॥२१॥
क्लेदी क्लोदिनीत्यर्थः छन्दोमनभयात्तथोक्तः । विश्वादिमूर्तिरिति
विश्वमूर्तिरित्यर्थः ॥२१॥
पुरुषोत्तमश्च वसुधा पलिना च वरा बलानुजोपेता।
भूयः परायणारूपा बाल सक्षमा वृषन्त्रसंध्ये च ॥ २२॥
॥ २२॥

प्रथमपटलः । ११ सपा प्रज्ञा हंसःप्रभा वराहो निशाचविमलोऽमोचा। नरसिंहविद्युते च प्रणिगदिता मूर्तयो हलां शक्तियुताः२३ अमोघेतिच्छेदः ॥२३॥ पूर्वोक्तकेशवादिमूर्तिकीर्त्यादिशक्तिन्यासप्रकारं दर्शयति- वर्णानुक्त्वा सार्धचन्द्रान पुरस्तान्- मूर्ती शक्तीऽवसाना नाति च । उका न्यस्येत् यादिभिः सप्तधातून प्राणं जीवं क्रोधमप्यात्मनेऽन्तान् ॥ २४ ॥ पुरस्तात् प्रथमं वर्णान् अकारादिक्षकारान्तान् उक्त्वा कथं- भूतान वर्णान् सार्धचन्द्रान् सबिन्दून् अनन्तरं मर्तीः केशवाद्याः शक्तीः कांद्याः ऽवसानाः इत्युभयेन सम्बध्यते तन्न हदय. प्राहि प्रत्यासत्तेः लाघवाच अंकेशवाय कीत्र्यै नम इति प्रयोगे केश. बायेस्यत्र नमःपदस्य योगाभावाश्चतुर्थ्यनुपपतिः न हि विष्ण- घे सूर्याय नम इति भवति, भवति च विष्णवे नम सूर्याय नमः इति तथा च केशवाय नमः कीत्यै नम इति प्रयोगापत्तिः उभयत्र वा चकारो देयः समुच्चयख्यापनार्थः, स श्रिये चामृताय घेति पत् तथा मातृकाक्षराणामपि उभयसम्बन्धाथै द्विःप्रयोगापत्तिः, मं- केशवकीर्तिभ्यां नम इति प्रयोगे तु नैते दोषाः पतन्ति तत्र द्वन्द्वस- मासवशात् सहितावस्थितयोरेवोपस्थिती चतुर्थ्यान्वयसम्भवा- स् वर्णान्वयसम्भवाच अग्नीषोमयोरिव सहितावस्थितयोर्देवतात्वं, कथं तर्हि यादिषु त्वगादिप्रयोगः कार्य इत्युच्यते यं त्वगात्मने पुरुषोत्तमवसुधाभ्यां नमः रं असृगात्मने बलिपराभ्यां नम इत्येवं- रूप इति, मन्त्रमुक्तावलिकारेण तथैवाभिधानात्, मात्मने इत्यस्य सुबन्तप्रतिरूपकनिपातत्वेनादोषादिति तु प्रपञ्चसारविषरणे प. रमानन्दभट्टाचार्याः तथा च अंकेशवकीर्तिभ्यां नमः इति प्रयो- गः मन्त्रमुक्तावलीकारलघुदीपिकाकारत्रिपाठिरुद्रोपाध्यायविद्याप राचार्यपरमानन्दभट्टाचार्यसंमत, केशवाय कीत्यै नम इति प्रयोगः पदमपादाचार्यप्रभृतीनों संमत इति, हात्वा वथागुरुसम्प्रदाय- १२ सटीकक्रमदीपिकायाः - व्यवहर्तव्यमिति । अत्रैव म्यासविशेषमाह-यादिभिरिति यकाराद्यैर्द. शभिरक्षरैः सह सप्त धातून् त्वगसृङ्मासमेदोऽस्थिमजशुक्राख्यान आत्मनेऽन्तान् आत्मने इतिशब्दः अन्ते येषान्ते तथा प्राणं जीवं क्रोधं- च आत्मनेऽन्तं हृदयादिषु यथास्थानेषु विन्यस्येदित्यर्थः, प्राणं- शक्तिमित्यपि पाठान्तरम् ॥ २४॥ केशवादिन्यासे ध्यानमाह- उद्यदिति । उद्यत्प्रयोतनशतरुचिं तप्तहेमावदातं- पार्श्वबन्ने जलधिसुतया विश्वधाव्या च जुष्टम् । नानारतोल्लसितविविधाकल्पमापीतवस्त्र- विष्णुं बन्दे दरकमलकौमोदकीचक्रपाणिम् ॥२५॥ अहं विष्णुं बन्दे कीदृशम् उद्यन्नुदयं गच्छन् प्रद्योतनः सूर्यः तस्य यच्छतं तस्येव रुचिंदीप्तिर्यस्य तं. पुनः तप्तेति-वह्रिम- ध्यनिक्षिप्तकाञ्चनवद्गौरं, पुनः कीदृशं पार्श्वद्वन्द्व इति-दक्षिणवा- मपार्श्वद्वये जलधिसुतया लक्ष्म्या तथा विश्वधाच्या पृथिव्या जुएं- सेवितं, पुनः किम्भूतं नानाविधरत्नेन शोभितो नाना बहुप्रकार आकल्पो भूषणं यस्य, पुनः कीदृशम् आपीतेति-आसम्यक् प्रका- रेण पीते वस्त्रे यस्य तं, पुनः कीदृशन्दरः शङ्खः पमं कमलं कौमो. दकी गदा चक्रम् एतानि पाणौ यस्य तम्, अत्र ऊर्ध्वाधाक्रमण वाम- भागे शङ्खपभे दक्षिणभागे गदाचक्रे इति बोध्यम् ॥ २५ ॥ ध्यानन्यासयोः : फलमाह- ध्यात्वैवामिति । ध्यात्वैवं परमपुमांसमक्षरैर्यो- विन्यस्येदिनमनु केशवादियुक्तः । मेधाऽऽयुःस्मृतिधृतिकीर्तिकान्तिलक्ष्मी- सौभाग्यैश्चिरमुपबृंहितो भवेत्सः ॥ २६ ॥ एवमुक्तप्रकारं परमपुमांसं विष्णुं ध्यात्वा योऽनुदिनं प्रत्यहं- केशवादिसहितैर्मातृकार्विन्यस्येत् स पुरुषः मेधादिमिश्चिरं बहु- प्रथमपटलः । १३ - कालम् उपबृंहितउपचितो भवति मेधा धारणावती बुद्धिः आ- युर्जीवनं स्मृतिः स्मरणं घृतिधैर्य कीर्तिरुत्कृष्टकर्मकथा कान्ति:- सौन्दर्य लक्ष्मीरैश्वर्य सौभाग्यं सर्वप्रियत्वम् ॥ २६ ॥ न्यासविशेषमाह- अमुमिति । अमुमेव रमापुरःसरं प्रभजेद्यो मनुजो विधिं बुधः । समुपेत्य रमा प्रथीयसी पुनरन्ते हरितां व्रजत्यसौ॥२७॥ यः पण्डितो मनुष्यः अमुमेव विधि केशवादिन्यासप्रकार- रमापुरःसरं श्रीबीजमादौ दत्वा प्रभजेत् करोति असौ पुमान् इह लोके प्रथीयसी महती रमा लक्ष्मी समुपेत्य प्राप्य पुनरन्ते अवसाने हरितां विष्णुत्वं व्रजति प्राप्नोतीत्यर्थः ॥ २७ ॥ तत्वन्यासं दर्शयति- इत्यच्युतीत्यादि । इत्यच्युतीकृततनुर्विदधीत तत्व- न्यासं मपूर्वकपराक्षरनत्युपेतम् । भूयः पराय च तदायमात्मने च नत्यन्तमुद्धरतु तत्त्वमनून् क्रमेण ।। २८ ॥ इति पूर्वोक्तप्रकारेण अच्युतीकृततनुः सम्पादितविष्णुशरी- रः तत्त्वन्यासं वक्ष्यमाणप्रकारं विदधीत कुर्यात्, प्रकारं दर्शय- ति-मः पूर्वो यस्य स मपूर्वः कः परो यस्य सः कपरः नत्युः पेतं नमःशब्दसहितं तथा च मकारादिव्युत्क्रमेण ककारपर्यन्तमे- कैकाक्षरं नमःपदसहितं कृत्वा भूयोऽनन्तरं परायेतिपदं दत्वा अ- नन्तरं तदाह्वयं तेषां तवानामावयं वक्ष्यमाणं नाम दत्वा अनन्तरम् आत्मने इतिपदं दत्वा अनन्तरं नत्यन्तं नमःपदमन्ते दत्वा क्रमेण तत्त्वमनून् तत्वमन्त्रानुद्धरतु ॥ २८ ॥ अधुना तत्त्वानां नामानि न्यासं स्थानं च दर्शयति- सकलषपुषि जीवं प्राणमायोज्य मध्ये न्यसतु मतिमहङ्कारं मनश्चेति मन्त्री।

सटीकक्रमदीपिकायाः कमुखहृदयगुयाधिष्वथोशब्दपूर्व- गुणगणमथ कर्णादिस्थितं श्रोत्रपूर्वम् ॥ २९ ॥ सकलवपुषि सर्वाङ्गव्यापके जीवं प्राणं च मन्त्र आयोज्य तेन न्यस्यतु तथाच मं नमः परायजीवात्मने नमःभ नमः पराय प्राणात्मने नमः इति वयं सर्वशरीरे विन्यस्येदित्यर्थः इति, तत्त्वपदं दत्वा मं- नमः पराय जीवतत्त्वात्मने नमः इति के चित्तत्प्रयोगान्कुर्वन्ति तत्र प्रमाणाभावात् मूर्तिपअरन्यासेऽपि मूर्तिपदप्रयोगापत्तेः, अत्र मका- रादीनां बिन्दुसाहित्यं सम्प्रदायावगतं बोद्धव्यं, मध्ये हदये मतिम् अहङ्कारं मनश्च मन्त्रे आयोज्य तेन मन्त्री न्यस्यतु त. था बं नमः पराय मत्यात्मने नमः ६ नमः पराय अहंकारा. त्मने नमः पं नमः पराय मनआत्मने नमः इति त्रयं हदि विन्य. स्येदित्यर्थः । अथोऽनन्तरं कमुखहृदयगुह्याधिषु पञ्चसु स्थानेषु शब्दपूर्व गुणसमुदाय शब्दस्पर्शरूपरसगन्धात्मक मन्त्रे आयोज्य तेन न्यस्यतुं तथा च नं नमः पराय शब्दात्मने नमः इति शिरसि, धं नमः पराय स्पर्शात्मने नमः इति मुखे, दं नमः पराय रूपात्मने नम इति हृदये, थं नमः पराय रसात्मने नमः इति गुह्ये, तं नमः पराय ग- न्धात्मने नमः पादयोः विन्यस्यदित्यर्थः । अथानन्तरं श्रोत्रत्वग्डक्- जिह्वाघ्राणात्मकं कर्णादिस्थितं कर्णत्वक्हजिलाघ्राणेषु स्थितं यथा स्यात्तथा न्यस्यतु तथा च णं नमः पराय श्रोत्रात्मने नमः इति श्रोत्रयोः, ढं नमः पराय त्वगात्मने नमः इति त्वचि, डं नमः पराय रंगात्मने नमः इति नेत्रयोः, ठनमः पराय जिहात्मने नमः इति जिहा- यां, टे नमः पराय वाणात्मने नमः इतिघ्राणयोरिति विन्यस्येत् ॥२९॥ घागादीति । पागादीन्द्रियवर्गमात्मनिलयेष्वाकाशपूर्व गण- मूास्ये हृदये शिवे चरणयोर्हत्पुण्डरीके हृदि । बिम्बानि विषडष्टयुग्दशकलाव्याप्तानि सूर्योडुराइ. वन्हीनां च यतस्तु भूतवसुमुन्यक्ष्यक्षरैर्मन्त्रवित् ॥३०॥ पागादीन्द्रियवर्ग वाक्पाणिपादपायूपस्थात्मकं कर्मेन्द्रियपञ्चकं- मम्ने आयोज्य आत्मनिलयेषु मुखपाणिपादपायूपस्थेषु न्यस्यतु तथा

प्रथमपटलः ।
१५
धनं नमः पराय वागात्मने नमः इति मुखे,सं नमः पराय पाण्यात्मने
ममः इति पाण्यो,जं नमःपराय पादात्मने नमः पादयोः, छं नमः पराय
पाय्वात्मने नमः इति पायौ, चं नमः पराय उपस्थात्मने नमः इत्यु-
पस्थे विन्यस्यदित्यर्थः, आकाशपूर्व गणमाकाशवाय्वाग्निजलपृथि-
व्यात्मकं मन्त्रे आयोज्य मूर्धन्यास्ये हदये शिवे लि) चरणयो-
न्य॑स्यतु तथा च ऊं नमः पराय आकाशात्मने नम इति
शिरसि, धं नमः पराय घाय्वात्मने नमः इति मुखे, गं नमः
परायाग्न्यात्मने नम इति हृदये, खं नमः पराय जलात्मने नम इति
लिने, कं नमः पराय पृथिव्यात्मने नमः इति पादयोन्यस्येदित्यर्थः ।
इत्पुण्डरीकमित्यादरवमर्थः हत्पुण्डरीकं तथा सोडराबमहीनां वि.
म्बानि सूर्यचन्द्राग्नीनां मण्डलानि त्रीणि द्विषडष्टयुग्दशकलाव्याप्तानि
द्वादशषोडशदशकलायुक्तानि यतस्तु भूतवसुमुन्यत्यक्षरैः यतो य-
काराद् यो भूतवर्णः पञ्चमवर्णः शकारः वसुवर्णोऽष्टमार्णो हकारः मु.
निवर्ण सप्तमः सकारः अक्षिवर्णो द्वितीयवर्णो रेफः एतैश्च साहितानि
मन्त्रे आयोज्य हृदि न्यस्यतु तथा च शं नमः पराय हृत्पुण्डरीकात्म-
ने नमः हं नमः पराय द्वादशकलाव्याप्तसूर्यमण्डनात्मने नमः सं नमः
पराय षोडशकलाव्याप्तचन्द्रमण्डलात्मने नमः २ नमः पराय दश-
कलाव्याप्तवन्हिमण्डलात्मने नमः इति चतुष्टयं हृदये न्यस्यतु ॥३०॥
अथ परमेष्टिपुमांसौविश्वानिवृत्ती च सर्वइत्युपनिषदः ।
न्यस्येदाकाशादिस्थाने षोपरवलाणैः सलवकैः ॥ ३१ ॥
अथानन्तरं परमेष्ठिपुमांसौ विश्वनिवृती सर्वइत्युपनिषदो रह-
स्यान् षोपरवलाणैरिति षकारः रेफस्य उप समीपं तेन रेफसमीप.
पसिनो यकारलकारी लक्ष्येते वकारो लकारश्च एतैः सलवकै
बिन्दुसाहितैः सहितान् आकाशादिस्थाने न्यस्येद् आकाशादि
न्यासस्थानेषु मूास्ये हदये लिग चरणयोन्य॑स्येत् ॥ ३१ ॥
अत्रैव विशेषमाह--
वासुदेवाति ।
वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः ।
नारायणच क्रमशः परमेष्ट्यादिभिर्युताः ॥ ३२ ॥

१६ सटीकक्रमदीपिकायाः क्रमशः क्रमेण परमेष्ठयादिभिः सहिता वासुदेवादयो म्य- जनीया तथा च षं नमः पराय वासुदेवाय परमेष्ठयात्मने [मः इति शिरसि, यं नमः पराय संकर्षणाय पुरुषात्मने नमः ति मुखे, लं नमः पराय प्रद्युम्नाय विश्वात्मने नम इति हृदये, 4. [मः पराय अनिरुद्धाय निवृत्यात्मने नमः इति लिने, लं नमः पराय रायणाय सर्वात्मने नमः इति हृदये, विन्यस्येदित्यर्थः, कं चित्तु पर- ष्ठयादेरनन्तरं वासुदेवादेः प्रयोगं कुर्वन्ति ॥ ३२ ॥ ततः कोपतत्त्वं चरौषिन्दुयुक्त- नृसिंहं न्यसेत्सर्वगात्रेषु तज्ज्ञः । क्रमेणेति तस्वात्मको न्यास उक्त: स्वसानिध्यकृविश्वमूर्त्यादिषु द्राक् ॥ ३३ ॥ ततस्तदनन्तरं क्रमेण गुरूपदेशक्रमेण तज्ज्ञः नृसिंहबीजशः क्षरौ काररफऔकारइतिमिलितस्वरूपं बिन्दुयुकं तथा कोपतत्त्वं नृसिंह- मन्त्रे आयोज्य सर्वगात्रेषु न्यस्येत् तथा च ौं नमः पराय नृसिं- हाय कोपात्मने नमः इति सर्वगात्रेषु न्यस्येदित्यर्थः तत्वन्यासमुपसंह- ति इत्युक्तप्रकारेण तत्त्वात्मको न्यासः कथितो भवति कीदृशः विश्व. वादिषु स्वसांनिध्यकृत्कृष्णसांनिध्यकृत् बिम्बादिष्विति के चित् बेम्बं प्रतिमा मूर्तिः शरीरम् आदिपदेन मणिमन्त्रादिसकलस्य परिग्रहः एतेषु हरेः सान्निध्यं करोतीत्यर्थः, क चिन्मादिष्विति पाठः ॥३३॥ एतन्न्यासप्रयोजनमाह- इति कृत इति । इति कृतेऽधिकृतो भवति ध्रुवं. सकलवैष्णवमन्त्रजपादिषु । पवनसंयमनं त्वमुना चर• द्यमिह जप्तुमसौ मनुमिच्छति ॥ ३४ ॥ तत्वन्यासे कृते ध्रुवं निश्चितमधिकृतो भवति न केवलं गोपा. विषयमन्त्रकथनादत्रैव अपि तु सकलवैष्णवमन्त्रजपादिप्वपौत्यर्थः, प्रथमपटल: १७ मधुना प्राणायामप्रकारमाह-पवनसंयमनमिति, असौ साधकः यं. मनुम् इह व्यवहारभूमौ जप्तुमिच्छति अमुना मन्त्रण पवनसंयमन. प्राणायाम चरतु कुर्यादित्यर्थः ॥ ३४ ॥ अत्रैव प्रकारान्तरमाह- अथ वेति। अथ वाऽखिलेषु हरिमन्त्र. जपविधिषु मूलमन्त्रतः । संयमनममलधार्मरुतो- विधिनाऽभ्यसंश्वरतु तस्वसंख्यया ॥ ३५ ॥ मूलमन्त्रतो मूलमन्त्रेण, वक्ष्यमाणदशाक्षरणेति के चिद्, पस्तु. स्तु सप्ताक्षरगोपालवल्लभमन्त्रेण तस्यैव मूलमन्त्रत्वेनाभिधानात्त- चनस्य प्रयोजनान्तराभावात् तस्वसत्ययाऽशाविंशतिवारं चतु. बैंशतिवारमिति के चित् ॥ ३५ ॥ पुरतो जपस्य परतोऽपि विहितमथ तत्त्रयं बुधैः । षोडश य इह समाचरेदिनशः परिपूयते स खलु मासतोंऽहसः ॥ ३६ ॥ पुरतो जपादौ पश्चाच तस्त्रयं बुधैर्विहितं प्राणायामत्रयं, चकादित्रयमिति के चिद्, एतेन जपाङ्गत्वास तत्राधन्तेऽयं. इर्शितः ॥ ३६॥ अत्रैव प्रकारान्तरमाह- अथ वेति। अथ वाऽजन्ममनुना सुसंयमं. सफलेषु कृष्णमनुजापकर्मसु ।

१८ सटीकक्रमदीपिकायाः सहितैकसप्तकृतिवारमभ्यसं. स्तनुयात्समस्तदुरितापहारिणा ॥ ३७॥ कृतीति कृतिच्छन्दसो विंशत्यक्षरत्वात् सहितमेकं यत्र ताश. सप्तकृतिवारं अथ वा सहितानि मिलितानि एक सप्तकृतयः उभय- प्राष्टाविंशतिधारमित्यर्थः सर्वेषु कृष्णमनुजापर्कर्मसु अङ्गजन्म- मनुना कामबीजेन प्राणायाममभ्यसंस्तनुयात् प्रथममेकं ततः सप्त ततो विंशति ततोऽभ्यासपाटवेऽष्टाविंशतिवारमित्यर्थः, कश्चितु प्रथमं सप्त ततो विंशतिस्ततएकं ततोऽष्टाविंशतिवारमभ्यासक्रमेणेति तात्पर्यमाह तत्र प्रमाणं स एव प्रष्टव्यः ॥ ३७ ।। मन्त्रविशेषप्राणायामप्रकारमाह- अधाविशतीति। अष्टाविंशतिसंख्यमिष्टफलदं मन्त्रं दशार्ण जप- सायच्छेत्पवनं सुसंशितमतिस्त्वष्टादशाणेनचेत् । अभ्यस्थन् रविवारमन्यमनुभिर्वर्णानुरूपं जपन् कुर्याद्रेचकपूर्वकर्मनिपुणः प्राणप्रयोगं नरः ॥ ३८ ॥ सुसंशितमतिः विमलबुद्धिः अष्टाविंशतिसंख्यं दशार्ण दशा- शरमन्त्रं जपन् प्रायच्छेत्प्राणायाम कुर्यात्कीरशं दशार्णम् इष्ट- फलदं स्वाभिमतफलदं तत्र दशाक्षरमन्त्रस्य वारचतुष्टयं जपेन रेच. कम् अष्टवारजपेन पूरकं षोडशवारजपेन कुम्भकं कुर्यादिति गुरुस- प्रदायः अष्टादशाणे चेत्प्राणायामः क्रियत इति शेषः तदा रवि- वारं द्वादशवारमभ्यस्यन् प्राणायाम कुर्यादिति गुरुसंप्रदायः, अन्य. मनुभिरन्यमन्त्रैश्चेत्प्राणायामः क्रियते तदा वर्णानुरूपं मन्त्रवर्णानां- तारतम्येन जपं कुर्वन् कुर्यात्, अत्र स्वल्पाक्षरैर्मन्त्रैर्बहुवारम् अनल्पा- शरैर्मन्त्रैः स्वल्पवारं जपेदित्यर्थः कीदृशः साधकः रेचकपूरककुम्भ- काख्यकमकुशलइत्यर्थः, रेचकस्य त्यागस्य पूर्वकर्मणी पूरककुम्भके तत्र निपुण इति रुद्रधरः, तश्चिन्त्यम् एवमपि रेचके नैपुण्यालाभात् प्रपञ्चसारानुसारिणोऽस्य प्रन्थस्य शारदाप्रन्थानुयायित्वाच ॥३८॥ अधुना प्राणायामप्रकारं दर्शयति- प्रथमपटलः। ११ रेचयेन्मारुतमिति। - रेचयेन्मारुतं दक्षया दक्षिणः पूरयेदामया मध्यनाड्या पुनः । धारयेदीरितं रेचकादित्रयं. स्यात्कलादन्तविद्याख्यमात्रात्मकम् ॥ ३९ ॥ दक्षिणो विचक्षणः पुरुषः दक्षया दक्षिणनाज्या मारुतं- घायुं रेचयेत् त्यजेत् तथा वामया वामनाड्या त्यक्तवायु पूर- येद् मध्यया सुषुम्णया नाड्या मारुतं वायुं धारयेद् इत्यु. क्तप्रकारेण रेचकादित्रयं रेचकपूरककुम्भकाख्यत्रितयम् इरितं. कथितं रेचकादिष्ववाधिकालमाह-कलादन्तेति, कलाः षो. डश, दन्ता द्वात्रिंशद्, विद्याः चतुःषष्टिरूपाः एतत्संख्याकमा- प्रात्मकमित्यर्थः, अत्र भैरवत्रिपाठिनः यत्र मन्त्रगणनया प्राणा- यामः तत्र कुम्भककाल एवोक्तः श्वासाभ्यासक्रमेण प्राणायाम- संख्यया मन्त्रजपः कार्यों निर्गमप्राणायामे तु रेचकादिगणना का. येत्याहुः, मात्रशब्देन च वामाङ्गुष्ठे कनिष्ठाद्यङ्गुलीनां प्रत्येकं पर्व प्रयस्पर्शकालः कथ्यते वामहस्तेन वामजानुमण्डलस्य प्रादक्षिण्ये. न स्पर्शकालश्च, यदत्र रुद्रोपाध्यायैरुक्तं यद्यप्यत्र रेचकं प्रथममुक्तं तद नन्तरं पूरकं तथाऽपि प्रथमं पूरकमनन्तरं कुम्भकं झेयं यतो गृहीत- धृतस्य त्यागो भवति यत्पुनर्व्यत्यासेन कथनं तद्गोपनाय एवं कलाद- न्तेत्याद्यपि व्यत्यासेन बोद्धव्यम् , इडयोत्कर्षयेद्वायुमित्यादिशारदाद- शनाद् एवं च गृहीतचतुर्गुणेन धारणे तदईन त्याग इत्यपि दर्शितं- भवतीति,तन्न,प्रपञ्चसारानुसारिणो ग्रन्थस्यास्य शारदानुयायित्वात् प्रपञ्चसारे रेचकादित्वस्यैवोक्तत्वात् पूरकादित्वस्याष्टाङ्गयोगान्तर्भूत- प्राणायामविषयत्वाद् यदुक्तं गृहीतस्य त्यागो भवति तत्रोच्यते स्वा- भाविकवायुधारणस्यात्रापि सत्त्वादन्यथा शरीरपातापत्तेः यदुक्तं- व्यत्यासेन गोपनार्थ कथनमिति तदयुक्तं मन्त्रभिन्नस्यानुष्ठानभागस्य ऋजुमार्गेणैव वक्तुं युक्तत्वाद् यदुक्तं गृहीतचतुर्गुणेनैव धारणं तद. धेन त्याग इति तदप्ययुक्तं प्रमाणाभावाद् दक्षिणामूर्तिसंहितायाम् अङ्गुलीनियमोऽपि प्राणायामे कथितो यथा- २० सटीकमदीपिकायाः कनिष्ठाऽमामिकाङ्गष्टैर्यासापुटधारणम् । प्राणायामः स विशेयस्तर्जनीमध्यमे विनेति ॥ ३९ ॥ प्रकृतमुपसंहरमात्मयागाथै देहे पीठकल्पनां दर्शयति- प्राणायामामित्यादिना। प्राणायाम विधायेत्यथ निजवपुषा कल्पयेद्यागपीठं- न्यस्येदाधारशक्तिप्रकृतिकमठशे- षक्षमाक्षीरसिन्धून् । श्वेतद्वीपं च रत्नोज्ज्वलमहितमहा- मण्डपं कल्पवृक्ष- हृदशेशद्वयोरुद्वयवदनकटी- पाययुग्मेषु भूयः॥ ४०॥ धर्मायधर्मादि च पादगात्र- चतुष्टयं हृद्यथ शेषमन्जम् । सूर्येन्दुषन्हीन्प्रणवांशयुक्तान् स्वाक्षरैः सत्त्वरजस्तमांसि ॥ ४१ ॥ इति पूर्वोक्तप्रकारेण प्राणायाम विधाय कृत्वा नन्तरं निजवपुषा निजशरीरेण यागपीठं पूजापीठङ्कल्पयेत् कल्पनाप्रकारमाह-न्यस्यदिति हृद्देशे हदि आधारशक्त्यादि- कल्पवृक्षान्तं न्यसेत् कूर्मः शेषोऽनन्तः क्षीरासि. न्धुः क्षीरसमुद्रः रत्नेन उज्ज्वलः महितो यः महामण्डपः रत्नमप- ण्डपः इति यावत् तथा चाधारशक्तये नमः प्रकृत्यै नम- इति नवकं न्यसेद् हदीत्यर्थः, भूयोऽनन्तरम् अंसद्वयोरुद्वयव- इनकटीपार्श्वयुग्मेषु धर्माद्यधर्मादिपादगात्रचतुष्टयं विन्यस्येत् पा- दगात्रयोश्चतुष्टयं पादगात्रचतुष्टयमित्युभयत्र सम्बध्यते पादचतुः श्यं गात्रचतुष्टयं धर्मादि धर्मशानवैराग्यश्वर्यरूपपादचतुष्टयम् अंस- योरवये च धर्माय नमः दक्षिणांसे, ज्ञानाय नमः घामांसे, वैराग्या- अथा- कमठः प्रथमपटलः । २१ य नमः वामोरी, ऐश्वर्याय नमः दक्षिणोरी, इत्येवं प्रादक्षिण्यक्रमे ण विन्यसेत् शारदायां प्रादक्षिण्येनेत्यभिधानात् तत्रानुष्ठानक्रमक थनाच्च अन्यथा शारदायाम् अंसोरुयुग्मयोरित्यत्रांसोरुयुगेत्यने. नैव क्रमप्राप्तः प्रादक्षिण्येत्यस्य वैयर्थ्यं स्यात् , तथाऽधर्मादि अध. मांझानावैराग्यानैश्वर्यरूपं गात्रचतुष्टयं वदनकटीपार्श्वयुग्मेषु अ. धर्माय नमः मुखे, अज्ञानाय नमः वामपाश्चे, अवैराग्यायनमः कट्या- स्वाधिष्ठानप्रदेशे, अनैश्वर्याय नमः दक्षिणपाश्र्धे इत्येवं क्रमेण न्यसेत् शारदायां मुखपार्श्वनाभिपाचष्विति क्रमदर्शनात्, एतच्च भैरव- त्रिपाठिनोऽपि संमतम, पतेषु यथाश्रुतक्रमेणैवेति विद्याधराचार्याः, अथानन्तरं शेषमनन्तम् अब्जं पद्म सूर्यन्दुवह्नीन् सूर्यसोमाग्निमण्ड- लानि कीदृशान् तान् प्रणवांशयुक्तान् प्रणवस्योङ्कारस्यांशाः अवय- या अकारोकारमकारास्तैर्युक्तान्साहतान् तत्रादौ सबिन्दुप्रणवां- शादिसाहित्यं सम्प्रदायतो बोद्धव्यं, स्वाद्यक्षरैः सबिन्दुस्वीयस्वीय- प्रथमाक्षरैः सहितानि सत्त्वरजस्तमांसि तथा च हत्पने अनन्ता- य नमः पद्माय नमः अं द्वादशकलाव्याप्तसूर्यमण्डलात्मने नमः उं. षोडशकलाव्याप्तचन्द्रमण्डलात्मने नमः में दशकलाव्याप्तवह्निमण्ड- लात्मने नमः सं सत्त्वाय नमः रं रजसे नमः तं तमसे नमः॥४०॥४१॥ आत्मादित्रयमादिबीजसहितं व्योमाग्निमायालवै- र्ज्ञानात्मानमथाष्टदिक्षु परितो मध्ये च शक्तीनव । न्यस्येत् पीठमनुं च तत्र विधिवत्तकर्णिकामध्यगं- नित्यानन्दचितिप्रकाशममृतं संचिन्तयेद्धाम तत्॥४२॥ आत्मादित्रयम् आत्माऽन्तरात्मा परमात्मेति लक्ष्यं कीदृशम् आ. दिबीजसहितं सबिन्दुं स्वीयस्वीयप्रथमाक्षर रूपबीजसहितमिति वि- धाधराचार्याः,आदिः प्रणवस्तत्सहितमिति त्रिपाठिनः,व्योम हकारः, अग्निरेफः,माया दीर्घई,लवो बिन्दुः एतैः सह ज्ञानात्मानं भुवनेश्वरी- बीजसहितं हृत्पद्मे न्यसेदिति पूर्वेणान्वयः तथा च आं आत्मने नमः, अं अन्तरात्मने नमः, पं परमात्मने नमः, ही ज्ञानात्मने नमः, इति- हदि विन्यसेत् , अथानन्तरम् अष्टदिक्षु परितः प्रादक्षिण्येन मध्ये च कर्णिकायां नवशक्तीविमलोत्कर्षिण्याद्या म्यस्येत्पनस्य पूर्वादिके- २२ सटीकक्रमदीपिकायाः - सरेषु प्रादक्षिण्येन विमलायै नमः, उत्कर्षिण्यै नमः, मानायै नमः क्रियायै नमः, योगायै नमः, प्रयै नमः, सत्यायै नमः, ईशानायै नमः, कर्णिकायां अनुग्रहायै नमः, इति न्यसेत्, पाठमन्त्रं च तत्र न्यस्य; एतः स्योपरि वक्ष्यमाणं पाठमन्त्रं ॐ नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोगयोगपद्मपीठात्मने नम इति मन्त्रंन्यसेत् तत उक्तरूपे पीठे विधिवद् गुरूपदिष्टमार्गेण तत् सर्वोपनिषत्प्रसिद्धम् धाम ब्रह्मचैतन्यं चिन्तयेत् कीदृशं तत्कर्णिकामध्यगं हृत्पनकर्णि- कामध्यस्थमित्यर्थः, एतद् ध्यानोपयोगि रूपमुक्तं स्वाभाविकरूपमा. ह कीदृशं नित्यति अविनाशिचैतन्यं स्वतःप्रकाशस्वरूपं पुनः कीरशम् अमृतं शुद्धस्वरूपमित्यर्थः, तत्राधारशक्त्यादयः सर्वे मन्त्राः प्रणवादिचतुर्थीनमोऽन्ताः सम्प्रदायतो बोद्धव्याः॥ ४२ ॥ पाठशक्तीदर्शयति- विमलोत्कर्षिणी ज्ञाना क्रिया योगेति शक्तयः। प्रही सत्या तथेशानाऽनुग्रहा नवमी स्मृता ॥४३॥ विमलेति ॥४३॥ पाठमन्त्रमुद्धरति- तारमित्यादिना। तारं हृदयं भगवान् विष्णुः सर्वान्वितश्च भूतात्मा। ऽन्ताः सवासुदेवाः सर्वात्मयुतश्च संयोगः ॥४४॥ योगावधौ च पनं पीठात्मा डेयुतो नतिश्चान्ते । पीठमहामनुरुक्तः पर्याप्तोऽयं सपर्यासु ॥ ४५ ॥ तारः प्रणवः, हृदयं नमः, भगवानिति च विष्णुारेति च सर्वा- न्वितः सर्वपदसहितः भूतात्मा सर्वभूतात्मेति, एते त्रयः सवासुदेवाः वासुदेवेन सह चत्वारःप्रत्येकं ऽन्ताश्चतुर्थ्यन्ताः कार्याः सर्वात्मयु. तश्च संयोगः सर्वात्मसंयोगइति स्वरूपं योगावधौ योगशब्दान्ते पन. पति स्वरूपं ड्युतः पीठात्मा चतुर्थ्यन्तः पीठात्मा एतस्यान्ते नतिनमःशब्दः, उपसंहरति पीठेति अयं पाठमहामनुरुक्तः कथितः कीरशः सपर्यासु पूजासु पर्याप्तः समर्थः ॥४४॥ ४५ ॥ - .

प्रथमपटलः ।
२३
करशोधनं दर्शयति-
करयोरित्यादिना।
करयोयुगलं विधाय मन्त्रा-
स्मकमाभ्यामभिधास्यमानमार्गात् ।
सकलं विद्धति मन्त्रवण:
परमं ज्योतिरनुत्तमं हरेस्तत् ॥ ४६ ।।
इति श्रीकेशवाचार्यविरचितायां-
क्रमदीपिकायां प्रथमः पटलः ॥
करयोर्युगलम् अभिधास्यमानमार्गाद्, व्यापप्येत्यारभ्य,
विधिः समीरितः करे इत्यन्तं वक्ष्यमाणप्रकारेण मन्त्रवर्णमन्त्रात्मकं-
मन्त्रस्वरूपं विधाय कृत्वा आभ्यां कराभ्यां सकलं पूर्वोक्तं वक्ष्य-
माणं च न्यासपूजादिकं विदधीत कुर्याद् मन्त्रवर्णकरणककरशो-
धने हेतुमाह परममित्यादिना यस्मात्तन्मन्त्रवर्ण हरे कृष्णस्य परम-
तेजःस्वरूपमित्यर्थः, कीदृशं पुनः अनुत्तमं नास्त्युत्तमं यस्मात्तथे-
त्यर्थः, सकलं विदधीतेति परत्रापि काकाक्षिगोलकन्यायेन योजनीयं.
तथा च तद् हृदयपङ्कजस्थं हरेरनुत्तमं ज्योतिस्तेजः सकलं विदधीत
षडङ्गन्यासेन सावयवं कुर्यादिति लघुदीपिकाकारः ॥ ४६ ॥
इतिश्रीविद्याविनोदगोविन्दभट्टाचार्यविरचिते क्रमदीपिका-
या विवरणे प्रथमः पटलः ॥१॥

४
सटीकक्रमदीपिकायाः
करयोयुगलं विधायेत्यादिना सूचितं मन्त्रमुद्धर्तुमादौ गोपाल.
मन्त्रेष्वपि मौलीभूतौ दशाक्षराष्टादशाक्षरौ प्रथम संस्तौति-
पक्ष्ये मनुमिति ।
वक्ष्ये मनु त्रिभुवनप्रथितानुभाव.
मक्षीणपुण्यनिचयैर्मुनिभिर्विमृग्यम् ।
पक्षीन्द्रकेतुविषयं वसुधर्मकाम-
मोक्षप्रदं सकलकार्मणकर्मदक्षम् ॥ १॥
मन्त्रं पश्ये उद्धरिष्यामि कीदृशं त्रिभुवनेति त्रिभुवने त्रैलो-
क्ये प्रथितः ख्यातोऽनुभावः प्रभावो यस्य तथा तं पुनः कीदृशं मुनि-
भिर्मुमुक्षुभिर्विमृग्यम् अन्वेषणीयं किंभूतैर्मुनिभिः अक्षीणेति अक्षी-
णः संपूर्णः पुण्यनिचयः सुकृतसमूहो येषां तथा तैः पुनः कीदृशं-
पक्षीति पक्षीन्द्रो गरुडः स एव केतुः चिन्हं यस्य सः पक्षीद्रकेतुः
श्रीकृष्णः तद्विषयं तत्प्रतिपादकं पुनः कीदृशं घस्विति वसु धनन्तथा
च पुरुषार्थचतुष्टयप्रदमित्यर्थः पुनः कीदृशं सकलेति अशेषवश्य-
कर्मकुशलम् ॥ १॥
अतिगुत्थमबोधतूलराशि-
ज्वलनं वागधिपत्यदं नराणाम् ।
दुरितापहरं विषापमृत्यु
ग्रहरोगादिनिवारणैकहेतुम् ॥ २ ॥
पुनः कीदृशम् अतिगुह्यं पुनः कीरशम् अबोधेति अबोधो मिथ्या.
झानरूपः स एव तूलप्रचयः तत्र ज्वलनो वहिरिव तं समस्ताशानना.
शकमित्यर्थः पुन कीदृशं नराणां साधकानां धागधिपत्यदं वाग-
श्वर्यप्रदं पुनः कीदृशं दुरितापहरं दुःखप्रापकानिष्टनिवारकं पुनः
कीशं विषं स्थावरं जङ्गमं च अपमृत्युरकालमरणं ग्रहो नवग्रहज-
नितानिष्ट रोगो पातपित्तादिजनितशरीरदौस्थ्यम् एवमादीनामशु-
भादीनां निवारणे एकोऽद्वितीयो हेतुः कारणम् ॥२॥

मथमपटलः । २५ पुनः कीरशम्- जयदं प्रधनेऽभयदं विपिने सलिलप्लवने सुखतारणदम् । नरसाप्तरथद्विपवृद्धिकरं- सुतगोधरणीधनधान्यकरम् ॥ ३ ॥ प्रधने संग्रामे जयद, विपिनेऽभयदं भयहरं, सलिलप्लषने तोयसन्तरणे सुखसन्तरणदातारं, सप्तिहयः तथा च मनुष्याणां- हयरथद्विपादीनामुपचयकरं, तथा सुतादिनम् ॥ ३ ॥ पुनः कीरशम्- बलवीर्यशौर्यनिचयप्रतिभा. स्वरवर्णकान्तिसुभगस्वकरम् । क्षुभिताण्डकोटिमणिमादिगुणा- ष्टकदं किमत्र बहुनाऽखिल दम् ॥ ४ ॥ बलं शरीरसामर्थ्य, वीर्य शुक्र प्रभावो वा, शौर्य पाभिभावक- तेजः, एतेषां निचयः समूहः, प्रतिभा बुद्धिः स्फूर्तिरूपा स्वरो- ध्वनिः, वर्णो गौरत्वादिः, कान्तिीप्तिः प्रतिभास्वरवर्णकान्तिरि- त्येकपदं तथा च प्रतिभास्वरवर्णकान्तिर्देदीप्यमानवर्णशोभेति क श्चित् सुभगत्वं समस्तलोकादरकत्वम् एतेषां कर्तारन्दातारमित्यर्थः पुनः क्षुभिता संमोहिताऽण्डकोटिब्रह्माण्डकोटिर्येन तथा तं संसार- मोहकमित्यर्थः, पुनः अणिमादिगुणाष्टकदम अणिमलधिमगरिम- महिमशित्ववशित्वप्राकाम्यप्राप्त्याख्यगुणाष्टकप्रदमित्यर्थः, पुनः किं. बहुना, अत्र जगति, अखिलदं समस्ताभीष्टप्रदमित्यर्थः ॥ ४ ॥ अथ दशाक्षरमन्त्रराजमुद्धरति- शामत्यादिना। शाीं सोत्तरदन्तः शूरो वामाक्षियुग्वितीयोऽर्णः ।

२६ सटीकक्रमदीपिकायाः शूली शौरिबोलो- बलानुजबयमयाक्षरचतुष्कम् ॥ ५ ॥ शूरतूरीयः सानन- वृत्तः स्यात्सप्तमोऽष्टमोऽग्निसखः । तहपिताऽक्षरयुग्मं- तदुपरिगं स्वेवमुद्धरेन्मन्त्रम् ॥ ६ ॥ शार्स गकारः कीरशोऽयं सोत्तरदन्त उत्तरदन्तपकी व्यस्यमा म. उत्सरदन्त आकारस्तेन सहित एतेन प्रथमाक्षरमुद्धृतं, शूरः पकारः कीरशोऽयं वामाक्षियुक् वामाक्षि चतुर्थस्वरः तेन सहित- पतेन द्वितीयाक्षरमुद्धृतम् अक्षरचतुष्क क्रमेण पुनः कथ्यते शूली जकारः शौरिनकारः बालो वकारः बलानुजद्वयं संयुक्तलकार. इयं लइतिस्वरूपमित्यक्षरचतुष्कमुद्धृतं शूरतुरीयः शूरस्य पका- रस्य चतुर्थः कीदृशोऽयं साननवृत्तः आननवृत्तेनाकारेण स. घर्तत इति साननवृत्तः अयं च सप्तमः स्याद् मन्त्रस्य सप्तमो. भवतीत्यर्थः अष्टमोऽग्निसखो वायुः यकारइति यावत् तथा च म. त्रस्याष्टमो वर्णों य इति बोद्धव्यः तदुपरिगं पूर्वोक्तवर्णानन्तर्यविशि- एम्तहयिताऽक्षरयुगलं स्वाहेति स्वरूपमित्यक्षरतयमुघृतम् ॥५॥६॥ प्रकाशितइति- प्रकाशितो दशाक्षरो. मनुस्वयं मधुविषः। विशेषतः पदारवि. न्दयुग्मभक्तिवर्धनः ॥ ७॥ मधुद्विषः श्रीगोपालकृष्णस्यायं दशाक्षरो मन्त्र उद्धृतः कीदृशो- विशेषतो विशेषेण पदारविन्दयुग्मभक्तिवर्धनः श्रीगोपालकृष्णचरणा- जयुगले या भक्तिराराध्यत्वेन शानं तत्समृद्धिकारक इत्यर्थः ॥ ७ ॥ मन्त्रस्य ऋष्यादिकं दर्शयति- नारदाति । -- प्रथमपटलः । नारदो मुनिरमुष्य कीर्तितः छन्दउक्तमृषिभिर्विराडिति । देवता सकललोकमङ्गलो- नन्दगोपतनयासमीरितः ॥ ८॥ अमुष्य पूर्वोक्तमन्त्रस्य मुनिः ऋषिर्नारदः कीर्तितः कथितः- षिभिर्गौतमादिभिर्विराट्छन्द उक्तं देवता नन्दगोपतनयः श्रीगोपाल- कृष्ण उक्तः कीदृशः सकललोकमङ्गलः सर्वजनकल्याणहेतुः एतेन ऋष्यादीनां शिरसि रसनायां हृदि क्रमेण न्यासः कार्यइति सूचितं. प्रपञ्चसारे तथा विधानात्, प्रयोगश्च दशाक्षरगोपालमन्त्रस्य नारद- ऋषये नमः शिरसि, विराट्छन्दसे नमो मुखे श्रीगोपालकृष्णाय दे. तायै नमः हदि इत्येवम्भूतः । अस्य मन्त्रस्य नारवऋषिः, एवं छन्दो- देवतयोरपि योज्यमिति के चित् ॥ ८ ॥ अधुनाऽस्य मन्त्रस्य पञ्चाङ्गानि वर्शयति- अगलीत्यादिना- अङ्गानि पञ्च हुतभुग्दयितासमेते. श्वरमुष्य मुखवृत्तधिसूपपनैः । त्रैलोक्यरक्षणयुजाऽप्यसुरान्तकाख्य. पूर्वेण चेह कथितानि विभक्तियुक्तैः ॥ ९ ॥ हृदये नतिः शिरसि पावकप्रिया सवषट् शिखा हुमपि वर्मणि स्थितम् । सफडस्त्रमित्युदितमङ्गपश्चक- सचतुर्थि धौषडुदितं दृशोर्यदि ॥ १० ॥ अमुष्य इह शास्त्रे अङ्गानि पञ्च कथितानि कानि तानि तत्राह हृदये नतिरिति हृदये नतिर्नमापदं शिरसि पावकप्रिया स्वा- हेति सवषट् वषट्पदसदिता शिखेत्यर्थः हुमपि वर्मणि स्थितं व- मणि कवचे दुमपि पदं स्थितमित्यर्थः सफडखें फट्पदसहित- मनमित्यर्थः, इत्यनेन प्रकारेण सचतुर्थि यथा स्यात्तथैवमङ्गपश्चक-

२८
सटीकक्रमदीपिकायाः
.
मुदितं कथितं चतुर्थ्यां च हृदयादीनां योगः कार्य्यः कैः सह च-
कैश्चकशब्दैः कीदृशैः मुखवृत्तविस्पपनैर्मुखवृत्तमाकारः वि इति
सु इति स्वरूपमेतैः प्रत्येकमुपपनैः सम्बद्धैः त्रैलोक्यरक्षणयु.
जाऽपि त्रैलोक्यरक्षणं युनतीति तयुग् एतादृशेन चक्रेण भपि-
शब्दाचरिति विभिद्यान्वयः कार्यः तथा च चक्रेणेति असुरान्त-
काख्यपूर्वण चक्रेणेत्यर्थः चः समुच्चये पुनः कीदृशैः विभक्तियुक्तैः
चतुर्थीयुक्तः तस्या एव प्रकृतत्वात् एतस्यापि पदस्य विभिद्या-
न्वयः कार्यः इशोर्यदि इति यदि क चिम्मन्त्रे दृशोासोऽस्ति तदा
तत्र वौषडिति उदितं कथितम् अत्र ज्वालाचकायेत्यपि योज्यमिति
लघुदीपिकाकारः।प्रयोगश्च आचक्राय स्वाहा हृदयाय नमः विचक्राय
स्वाहा शिरसे स्वाहा सुचक्राय स्वाहा शिखायै वषट् त्रैलोक्यरक्षण-
चक्राय स्वाहा कवचाय हुं ज्वालाचक्राय स्वाहा नेत्रद्वयाय वौषट् अ
सुरान्तकचक्राय स्वाहा अस्त्राय फडिति अङ्गुलीवङ्गमन्त्रन्यासे तु त-
तदङ्गमन्त्रान्ते अङ्गुष्ठाभ्यां नमः तर्जनीभ्यां स्वाहा इत्यादि यो-
ज्यम् आगमान्तरे ही अङ्गुष्ठाभ्यानमः ही तर्जनीभ्यां स्वाहा तत-
इत्यादिदर्शनात् तेनाङ्गुष्ठादिषु हृदयाय नमः इत्यादिप्रयोगाश्चिन्त्याः
असमवेतार्थकत्वाद् मानाभावाति के चित् । अन्ये तु यथाश्रुतान-
मन्त्रस्यैव न्यासैरङ्गुलीष्वतिदेशानाहुराचार्याः ॥ ९॥ १० ॥
दशाङ्गानि दर्शयति-
मन्त्राणर्दशभिरुपेतमिन्द्रखण्डै-
रङ्गानान्दशकमुदीरितन्नमोऽन्तम् ।
हृतशीर्ष
तदनु शिखा तनुत्रमस्त्रं.
पार्श्वबन्दं सकटिपृष्ठमूईयुक्तम् ॥ ११ ॥
मन्त्राणमन्त्राक्षरैर्नमोऽन्तं यथा स्यादेवम् अङ्गानां दशकमुदीरितं-
कथितं कीहशः उपेतचन्द्रखण्डैः सानुस्वारैः स्थानान्याहुः हदयं-
शीर्ष मस्तकं तत्पश्चात् शिखा प्रसिद्धा तनु कवचम् अखं दश-
दिक्षु पार्श्वयुगलकटिपृष्ठमूर्द्धसहितं पूर्वोक्तमित्यर्थः कटि भेरध-
इति त्रिपाठिनः । प्रयोगस्तु गो हृदयाय नम इति पी शिरसे स्वा.
हा इत्यादि ॥११॥

प्रथमपटलः । २९ मधुनाऽस्य मन्त्रस्य बीजशक्त्यधिष्ठातृदेवताप्रतिषिनियो- गान् दर्शयति- वस्यइत्यादिना। वक्ष्ये मन्त्रस्यास्य बीजं सशक्ति चक्री शक्री वामनेत्रप्रदीप्तः । सप्रद्युम्नो बीजमेतत्प्रदिष्टं- मन्त्रप्रायुम्नो जगन्मोहनोऽयम् ॥ १२ ॥ अस्य मन्त्रस्य पूर्वोक्तस्य सशक्ति शत्यादिसहितं बीजं वस्ये बीजमाह चक्रीति ककारः कीरशोऽयं शक्री शको लकारः तद्युक्तः पुनः कीरशः वामनेत्रप्रदीप्तः वामनेत्रं चतुर्थस्वरस्तत्सहितः पुनः कीदृशः सप्रधुम्नः प्रधुम्नो बिन्दुः तत्सहितः तथा चक्रीमिति सिद्धम्भवति एतदस्य बीजं प्रदिष्टं कथितम् अयमेव प्राधुनो मन्त्र- इत्यर्थः किम्भूतः जगन्मोहनो विश्ववश्यकरः ॥ १२ ॥ शक्तिमाह- इंसइति । हंसो मेदोषवृत्ताभ्युपेतः पोत्री नेत्राद्यन्वितोऽसौ युगार्णा । प्रोक्ता शक्तिः सर्वगीर्वाणवृन्दै- वन्यस्याग्नेर्वल्लभा कामदेयम् ॥ १३ ॥ हंसः सकारः किम्भूतः मेदो धकारः पत्रवृत्तमाकारः आभ्या- मुपेतः सम्बद्धः तथाः पोत्री हकारः किम्भूतः नेत्रादिराकारस्तेना. न्वितः तथा च स्वाहेति सिद्धमसौ युगाों वर्णद्वयात्मिका शक्तिः प्रोक्ता तथेयं वहर्वल्लभा किम्भूता कामदा आकारितप्रदा कथं- भूतस्य बहेगीर्वाणवृन्दैर्वन्धस्य सर्वदेवसमूहैः पूज्यस्य ॥१३॥ विनियोगमाह- १० सटीकक्रमंदापिकायाः विनियोग इति । विनियोगोऽस्य मन्त्रस्य- पुरुषार्थचतुष्टये। कृष्णः प्रकृतिरित्युक्तो- दुर्गाऽधिष्ठातृदेवता ॥१४॥ अस्य मन्त्रस्य पुरुषार्थचतुष्टयसाधनाय विनियोग इत्यर्थः, प्रक- तेर्मूलकारणं मन्त्रोत्पादकः मन्त्रस्वरूपइत्यर्थः, अधिष्ठातृदेवतामाह दुर्गाऽधिष्ठातृदेवतति ॥ १४ ॥ मन्त्रार्थमाह- गोपायतीत्यादिना। गोपायति सकलमिदं. गोपयति परं पुमांसमिति गोपी प्रकृतिः । तस्या जातं जन इति महदादिकं पृथिव्यन्तम् ॥ १५॥ इदं सकलं नामरूपाभ्यां व्याकृतं जगद् गोपायति रक्षति त- कारणत्वात् स्वार्थे आयः, तथा परं पुमासं नित्यशुद्धबुद्धमुक्ता- मन्दाऽद्वयात्मकं ब्रह्मस्वरूपं गोपायति गुप गोपनकुत्सनयोः शातत्वेन विषयीकरोतीतिव्युत्पत्त्या गोपी प्रकृतिरविद्येति याव- ( तस्याः प्रकृतेर्जातमिति व्युत्पत्त्या महदादि पृथिव्यन्तं महत्त- पादि पृथिवीपर्यन्तं सकलङ्कार्यजातं जनउच्यते ॥ १५ ॥ अनयोगोपीजनयोः समीरणादाश्रयत्वतो व्याप्त्या । घल्लभ इत्युपदिष्टं सान्द्रानन्दे निरञ्जनं ज्योतिः॥१६॥ स्वाहेति स्वात्मानं गमयामीति स्वतेजसे तस्मै । या कार्यकारणेशः परमात्मत्यच्युतकताऽस्य भवेत्॥१७॥ अनयोः गोपीजनयोरविद्यातत्कार्ययोः समीरणादन्तर्यामि- प्रथमपटलः । ३१ स्वेन स्वस्य कार्ये प्रेरणाद् नियमनादिति यावद् माश्रयत्वतो अ. धिष्ठातृत्वेन व्याप्त्या ध्यापकत्वेन वल्लभः स्वामीत्युपदिष्टं कथितं. परं ज्योतिर्ब्रह्मचैतन्यङ्कीदृशं ज्योतिः सान्द्रानन्दं निरतिशयान. दैकस्वरूपं पुनः कीदृशं निरअनं मायाकालुण्यरहितं स्वाहेति तस्मै स्वतेजसे स्वप्रकाशचिद्रपाय परमात्मने स्वात्मानं जीवै- कस्वरूपं गमयामि समर्पयामि तदात्मकता प्रापयामीति स्वा हाशब्दार्थः, प्रथम इतिशब्दः स्वाहाशब्दोपस्थापकः द्वितीयस्तु प्रकारप्रदर्शकः तस्मै कस्मै तत्राह य इति यः कार्यकारणयोर्जन- प्रकृत्योरीशः स्वामी अधिष्ठाता तथा परमात्मा निरुपाधिचैतन्य स्वाञ्चेत्यनेन प्रकारेणास्योपासकस्याच्युतैकताऽच्युतेन सहाभिः भता भवति ॥१७॥ प्रकारान्तरेणार्थमाह- अथ घेति। अथ वा गोपीजन इति समस्तजगदवनशक्तिसमुदायः । तस्य स्वानन्यस्य स्वामी बल्लभ इतिह निर्दिष्टः ॥१८॥ अथ घा गोपीजन इतिशब्देन सकलविश्वरक्षणशक्तिसमुदायः कथ्यते तत्र गोपीपदेन शक्तिरुच्यते जनपदेन तस्याः समूहः तस्य शक्तिसमूहस्य स्वानन्यस्य स्वाभिन्नस्थ शक्तिशक्तिमतोरभेदवि. वक्षया स्वामी नियन्ता आश्रयो पल्लभ इति हस्य स्फुटं निर्दिष्टउ. दितइत्यर्थः, स्वाहाशब्दार्थस्तु पूर्वोक्त एव बोद्धव्यः । लघुदीपिका- कारस्तु अवनशक्तिसमुदायः अवनं स्थितिः तत्र कारणभूतानां श. तीनां समूदायः समूहः जगत्पालिन्यादिगणः उक्तं च महद्भिः जग- त्पालिनीत्याद्याः प्रोक्तास्ता:स्थितये कला इति तस्य स्वामी नायक. इत्यर्थः ॥ १८॥ प्रकारान्तरेणार्थमाह- अथ ति। अथ वा व्रजयुपतीनां- दयिताय जुहोमि मां मदीयमपि ।

३२ सटीकक्रमदीपिकाया: .. इत्यर्पयेत्समस्त. ब्रमणि सगुणे समस्तसंपत्यै ॥ १९ ॥ गोपीजनो गोपालनाजनस्तस्य वल्लभो निरतिशयप्रेमविषयः तस्मै व्रजयुवतीनां गोपरमणीनां दयिताय दयानन्ददायिने स्वाहा होमि कि मां स्वात्मानं मदीयमपि आत्मीयसुहदादिकमपि इत्यनेन प्रकारेण सगुणे ब्रह्मणि संसारप्रवर्तके परमेश्वरेश्वरे सर्व समर्पयेत् किमर्थं समस्तसंपत्त्यै सर्वैश्वर्याय ॥ १९ ॥ अष्टादशाक्षरमन्त्रोद्धाराय तदन्तर्भूतौ कृष्णगोविन्दशन्दै प्रथ- पतो विविच्य दर्शयति- कष्शब्दहति । कृष्शब्दः सत्ताऽर्थों णश्चानन्दात्मकस्ततः कृष्णः। भक्ताकर्षणादपि तवर्णत्वाच मन्त्रमयवपुषः ।।२०।। गोशब्दवाचकत्वाज ज्ञानं तेनोपलभ्यते गोविन्दः । वेत्तीति शब्दराशि- गोविन्दो गोविचारणादपि च ॥ २१ ।। कृष्शब्दः सत्ताऽर्थः तत्र शक्तः, कृष् सत्तायामित्यत्र किवन्तः सत्ता. चक इति कश्चित्, कृट् णश्च णकारश्च आनन्दात्मक आनन्दवाची, न्दि आनन्द इति धातोरेकदेशग्रहणादिति कश्चित्, ततो द्वन्द्वे कृते. बार्श आधचि कृते च कृष्णः सदानन्द इत्यर्थः प्रकारान्तरेण कृष्ण शब्दं व्युत्पादयति भक्तेति भक्तानामधकर्षणात् पापपरिमार्जनात् क. णइत्यर्थः, भक्तादिकर्षणादिति पाठे आविशब्देनाभक्तग्रहणं भक्तस्य हर्षणं स्वस्थाननयनम् अभक्तस्य कर्षणं नरकनयनमित्यर्थः।प्रकारा. तरेण व्युत्पत्तिमाह तद्वर्णेति कृष्णवर्णशरीरत्वात् कृष्णः मन्त्रमयश. तिरस्य वाच्यवाचकयोरभेदेन विवक्षया।गोहत्यादि-गौनिं गोशब्द. त्य वाचकत्वात् सानवाचकत्वात् तेन ज्ञानेनोपलभ्यते प्राप्यते ज्ञाय. से इति गोविन्दः, विदूल लामे इत्यस्य धातोः, प्रकारान्तरमाह द्वितीयपटलम् । ३३ - वेत्तीति गोशब्दः शब्दवाची विद शाने धातुः, गांशब्दराशि शब्दस- मुदाय मातृकां घेत्तीति गोविन्दः । प्रकारान्तरमाह-गोविचारणादपि चेति, गोशब्दो गोशब्दवाचक एव विद विचारणे धातुः गोविचा. रणादू गोशब्दविचारणाद् गोविन्दः, अथवा गाव इन्द्रियाणि तेषां. विचारणा विशेषेषु प्रतिनियतविषयेषु प्रवर्तनागोविन्दः, अथ वा गावः पशुविशेषा इति तथाच श्रुतिः"पशवो द्विपादश्चतुष्पादचे" ति तेषां विशेषेषु पुण्यपापेषु चारणात् प्रवर्तनाद् गोविन्दः मथ वा गावः पशुविशेषाः तेषां रक्षणाद् गोविन्दः,अपि शब्दः चार्थे।॥२०॥२२॥ इदानी मन्त्रमुद्धरत- एते अभिख्ये अनुक्रमत- स्तुर्यविभक्त्या मन्त्रात् पूर्व मन्मथवीजादथ पश्चात् । स्यातां चेदष्टादशाों- मनुर्यो गुह्याद्रुह्यो वाञ्छितचिन्तामणिरेषः ॥२२॥ पते अभिष्ये नामनी कृष्णगोविन्दास्ये अनुक्रमेण तु- विभत्स्था प्रत्येकं चतुर्थीविभक्त्या सह मन्त्रात् पूर्वो- क्तदशाक्षरगोपालमन्त्राद् आदौ मन्मथबीजात पश्चात् कामबी. जानन्तरम् अथ चेद् यदि स्यातां भवतः तदा एषोऽष्टाद- शार्णो मन्त्रश्रेष्ठो भवति एतस्य बलादेव दशाक्षरेऽपि कामबीजसा. हित्यं के चिदिच्छन्ति, कीदृशः गुह्याद् गुह्यः गुह्यादपि गुह्यः पुनः कीदृशः वाञ्छितस्य चिन्तामात्रेणाभीष्टप्रदइत्यर्थः ।। २२ ॥ ऋष्यादिकमप्याह- ति। पूर्वप्रदिष्टे मुनिदेवतेऽस्य छन्दस्तु गायत्रमुशन्ति सन्तः । अङ्गानि मन्त्रार्णचतुश्चतुष्क- चर्मावसानामि युगार्णमस्त्रम् ॥ २३ ॥ अस्व मन्त्रस्य पूर्वपदिष्टे प्रथममन्त्रसंबन्धितयाकथिते मुनिदेवते - ३४ सटीकक्रमदीपिकायाः बोदव्ये पुनःसन्तो गायत्रं छन्द उशान्ति, वदन्ति मनानीति मन्त्रार्ण- चतुचतुष्कै मन्त्रसंबन्धिवर्णानां चतुर्भिश्चतुर्मिरक्षरैः छत्वा षोडशा- क्षरैर्वावसानानि कवचान्तानि चत्वार्याङ्गानि भवन्ति अवशिष्ई- युगाणे वर्णद्वयम अनास्यमकं भवति प्रयोगश्च क्लीं कृष्णाय दयाय नमः, गोविन्दाय शिरसे स्वाहा, गोपीजन शिखायै वषद्, पलमाय कवचाय हुं स्वाहा अस्त्राय फट् ॥ २३ ॥ बीजादिकमाह- बीजमिति । बीज शक्तिः प्रकृति- विनियोगश्चापि पूर्ववदमुष्य । पूर्वतरस्य मनोरथ कथयामि न्यासमखिलसिद्धिकरम् ॥ २४ ॥ अमुप्यास्य मन्त्रस्व बीजं शक्तिःप्रकृतिर्विनियोगः पूर्वमन्त्रे या- नि बीजादीनि कथितानि तान्यत्रापि सातव्यानीत्यर्थः, पूर्वतरस्येति अथानन्तरं पूर्वतरस्य मनोदशाक्षरगोपालमन्त्रस्याखिलसिद्धिकरं- समस्तसिद्धिदायकं न्यासं कथयामीति प्रतिज्ञा ॥२४॥ अधुना न्यासक्रम दशार्णस्य कथयति- व्यापथ्यति। व्यापय्याथो हस्तयोर्मन्त्रमन्त- धे पार्वे ताररुद्धं बुधेन । न्यासो वर्णैस्तारयुग्मान्तरस्थै- बिन्दत्तंसैदिहधैर्विधेयः ॥ २५ ॥ भयोऽनन्तरं बुधेन पण्डितेन वर्णैर्मूलमन्त्राक्षरयासो विधेया कार्यः किं कृत्वा मूलमन्त्रं हस्तयोरन्तर्मध्ये तथा हस्तयोरेव वाटे पृष्ठे तथा हस्तयोरेव पार्वे व्यापय्य व्यापकतया विन्यस्येत्यर्थः की- शं मन्त्रं ताररुचं प्रणवपुटितं कीरशैर्वणः तारयुग्मान्तरस्थैः प्रण- पदयमध्यगतैः पुनः कीडशः विन्दूसंसैः बिन्दुः शिरोऽलंकारो येषां.

द्वितीयपटलम् । ते तथा सानुस्वाररित्यर्थः पुनाकीडशैहोईः हार्दन नमापदेनाच. मनोरः सहितैरित्यर्थः प्रयोगध ॐगोंॐ नमः दक्षाअष्ठपर्वत्रये ॐपी ॐनमः तर्जन्याम् इत्यादि ॐलं ॐ नमो वामकनिष्ठिकाया- मित्यादि ॥२५॥ उक्तवर्णन्यासस्थानमाह- शाखास्वित्यादिना। शाखासु त्रीणि पर्वाण्यधि दशसु पृथग्दक्षिणाङ्गुष्ठपूर्व- धामाङ्गुष्ठावसानं न्यसतु विमलधीः सृष्टिरुक्ता करस्था।. अङ्गुष्ठबन्छ पूर्वा स्थितिरुभयकरे संहृतिर्वामपूर्वा दचाङ्गुष्ठान्तिकैतत्त्रयमपिसृजतिस्थित्युपेतंचकार्यम् २६॥ दशसु शाखासु अङ्गुलीषु पृथक्कृत्वैकं त्रीणि पर्वाणि अधि पर्वश्रयं व्याप्य, त्रिपाठिनस्तु त्रीणि पर्वाणि इति पर्वषये अधीति उपरि अमुल्यप्रे च पृथग् एकैकशः तथा च प्रथमपर्वणि अद्वितीय तृतीये ॐअगुल्यो नमः इति एवमन्यत्रापीत्याहुः । द- क्षिणाकुष्ठपूर्व प्रथमन्यासादौ यथा स्यात्तथा वामागुष्ठावसानं वा. मानुष्ठोऽवसाने न्यासान्ते यथा स्यादेवं विशदधीर्विमलबुधिय- सतु एवं च करस्था सृष्टिरुका करे सृष्टिन्यासप्रकार उक्त इत्यर्थः, अङ्गुष्ठद्वन्द्वपूर्वा स्थितिरुभयकरे हस्तबये, दक्षिणकरेऽङ्गुष्ठादि- कनिष्ठासु विन्यस्य वामकरेऽप्यपृष्ठादिकनिष्ठास्वगुलिषु न्यसेदयं- स्थितिन्यास उक्तः संहतिर्वामपूर्वा दक्षेति संहतिः संहारः धामाङ्गुष्ठपूर्वा दाक्षिणाङ्गुष्ठावसाना अयं च संहारन्यासउक्तः एत. प्रयमपि सृष्ठिस्थितिसंहारात्मकं त्रयमपि सजतिस्थित्युपेतं कार्य- पतन्यासकरणानन्तरमपि पुनरपरं सृष्टिस्थितिन्यासयं कार्य च सरचादिन्यासपञ्चकं कार्यमित्यर्थः ॥२६॥ ततः स्थितिक्रमादू बुधो दशाङ्गकानि विन्यसेत् । तदङ्गपञ्चकं तथा विधिः समीरितः करे ॥२७॥ तत इति। ततस्तदनन्तरं स्थितिक्रमात् स्थितिन्यासक्रमेण करा- सटीकक्रमदीपिकाया: स्वालीषु बुधः पण्डितः शाहकानि पूर्वोक्तमन्त्रदशाहानि विन्यसेत तदापञ्चकं तथेति तथा तेन प्रकारेण स्थितिक्रमेण तदङ्गपञ्चकं पू. धोक्तपञ्चकं पूर्वोक्ताङ्गपञ्चकं दशसु अङ्गुलीषु विन्यसेत् करन्यासजा तमुपसंहरति विधिरिति एवं चायं विधिः प्रकारः करे हस्तद्वये स. मीरितः कथित इत्यर्थः ॥२७॥ मातृकान्यासविशेषं दर्शयन् तत्त्वन्यासं च क्रमेणाह- पुटितैरिति । पुटितैर्मनुनाथ मातृकाण रभिविन्यस्य सविन्दुभिः पुरोवत् । अनुसंहृतिमृष्टिमार्गभेदा- दशतत्वानि च मन्त्रवर्णभाञ्जि ॥ २८ ॥ अथानन्तरमनुना दशाणेन पुटितैर्मातृकाक्षरैः सबिन्दुभिः सा. नुस्वारः पुरोवत् पूर्ववद्यथा पूर्व ललाटादिषु न्यास एवमभिः विन्यस्य अनु पश्चान्मातृकान्यासविशेषकरणानन्तरं वक्ष्यमाणानि दशतरवानि विन्यसेत् कीदृशानि मन्त्रवर्णभाजि मन्त्राक्षरयुक्तानि कथं वशतत्त्वानि विन्यसेत्तत्राह संहतिसृष्टिमार्गभेदात् प्रथम सं. हारक्रमेण तदनन्तरं सृष्टिक्रमेणेत्यर्थ ॥२८॥ संहारसृष्टिप्रकारं दर्शयति- संहताविति। संहृतावनुगतो मनुवर्यः मुष्टिवर्त्मनि भवेत्प्रतियातः । उद्धृतिः खलु पुरोक्तवदेषां- न्यासकर्म कथयाम्यधुनाऽहम् ॥ २९ ॥ असौ मनुषर्यः मनुश्रेष्ठः संहतो संहारन्यासे अनुगतो यथै घास्ति तथैव सृष्टिमार्गे सृष्टिकरन्यासे प्रतियातो भवेत् तद्धि परीतो भवेदू, उद्धारप्रकारमाह उधृतिरिति एषां तवाना बलु - द्वितीयपटलम् । निश्चयेन उद्धृतिरुद्धारः पूर्वोक्तवद् यथा पूर्षमुक्ततस्वन्यासे "नायुपे- तं भूयः पराय च तदायमात्मने च नत्यन्तमुद्धरतु तरक्षमनून क्रमे- णे"त्येवंप्रकारणेत्यर्थः, अधुना न्यासं कथयामीति सांप्रतं न्याससंब न्धितत्त्वनामकथनं तत्स्थानकथनं च करोमीत्यर्थः ॥ २९ ॥ तत्वनामान्याह- महीति । महीसलिलपावकानिलधियन्ति गर्यो महान पुनः प्रकृतिपूरुषौ पर इमानि तत्वान्यथ । पदान्धुहृदयास्यकान्यधि तु पञ्च मध्ये व्यं- त्रयं सकलगं ततो न्यसतु तद्विपर्यासतः ॥ ३० ॥ मही पृथिवी, सलिलं जलं, पावकः तेजः, अनिलो वायु,वि. यदाकाशः, गर्वोऽहङ्कारः, महान् महत्तत्त्वं, प्रकृतिः, पुरुषः, परश्व इमा. नि पृथिव्यादीनि तत्त्वानि तत्त्वपदपाच्यानि, न्यासस्थानमाह-अ- थेति, अथानन्तरं पञ्च तत्वानि पृथिव्यादीनि न्यसतु कुत्र पदान्धु: हृदयास्यकान्यधि, पादयोः, अन्धौ लिङ्गे, हृदये, आस्ये मुखे, के शि. सि, अधि सप्तम्यर्थे मध्ये हृदये तत्वद्वयं, अयं सकलगं, सकलाङ्ग- व्यापकं ततस्तदनन्तरं तद्विपर्यासतः उक्तसंहारविपरीतरीत्या न्य. सतु प्रयोगश्च ओङ्गो नमः पराय पृथिव्यात्मने नमः इति पावद्वये इत्यारभ्य ओं हां नमः पराय परमात्मने नमः इत्यन्तः संहारः, ॐ हां नमः पराय परमात्मने नमः इत्यारभ्य ॐ गों नमः पराय पृथिव्यात्मने नमः पादद्वये इति सृष्टिन्यासः । सृष्टिन्यासे त्रयं सर्व- शरीरे, महदहङ्कारी हृदि, आकाशः शिरसि, वाय्वग्निसलिलमह्यः मुखहृदयलिङ्गपादद्वयेषु, शेयाः । के चित्तु तत्त्वपदा-तर्भावेण न्यास- मिच्छन्ति तश्चिन्त्यम् ॥ ३० ॥ गुप्ततमोऽयं न्यासः संप्रोक्तस्तत्त्वदशकपरिक्लप्तः । कार्योऽन्येष्वपि सद्भि- गोपालमनुषु झटिति फलसिद्ध्यै ॥ ३१ ॥ गुप्ततमोऽयमिति । अयं प्रोक्तः कथितो म्यासः सद्भिः पण्डित .

३८ सटीकक्रमदीपिकायाः अन्येष्वपि गोपालमन्त्रेषु उद्धृतदशाक्षरव्यतिरिकेष्वपि कार्य: कीडशः गुह्यतमः अतिशयेन गुप्तः पुनः कीरशः तस्वयशकपरि. क्लप्तः तत्स्वानां दशकं तस्वदशकं तेन परिक्लप्तः उद्घाटित इत्यर्थः किमर्थ झटिति फलसिथै शीघ्रफलप्राप्त्यै ॥ ३१ ॥ न्यासान्तरमाह आकेशादिति। आकेशादापादन्दो- ध्रुवपुटितमथ मनुवरं न्यसेवपुषि। त्रिशो मूर्धन्यक्ष्णोः श्रुत्योाणे मुखहृदयजठरशिवजानुपत्सु तथाऽक्षराणि ॥३२॥ अथानन्तरं दोया हस्ताभ्यां ध्रुवपुटितं प्रणवपुटितं म. नुवरं मन्त्रश्रेष्ठं दशाक्षरं गोपालमन्त्रम् आकेशादापादं केशा- दिपादपर्यन्तं त्रिशः त्रिवारं वपुषि देहे न्यसेत्, पादादारभ्य केशपर्यन्तं त्रिशः स्वदेहे विन्यसेदिति विद्याधराचार्यत्रिपाठिप्र- भृतयः एतेषां मत आकेशादापादादिति पाठः । अधुना सृष्टिस्थि. तिसंहारक्रमेण मन्त्राक्षरन्यासमाह-मूर्द्धनीत्यादि-तथा दशाक्ष. राणि प्रणवपुटितानि मूर्खादिवश्यमाणस्थानेषु विन्यसेत् म्यास- स्थानान्याह-मूर्खनीति मूनि चक्षुषोः उभयनेत्रे एकमेवाक्षरं श्रु- तयोः कर्णयोः अत्राप्येकमेव प्राणे नासायुग्मे तत्राप्येकमेव मुखं, दयं, जठरं, शिवं लिक, जानुद्वये एकम्, पादद्वये एकम्, एतेषु दशसु स्थानेषु दशाक्षराणि विन्यसेदित्यर्थः ॥ ३२ ॥ उक्ता सृष्टिः शिष्टैरेषा स्थितिरपि मुनिभिरभिहिता हृदादिमुखान्तिका । संहारोऽध्यादिमुर्दान्तनितयमिति- विरचयेच सृष्टिमनु स्थितिम् ॥ ३३ ॥ शिष्टः भागमसः एषा सुष्टिरुतत्वर्थः, स्थितिरपि स्थितिया- द्वितीयपटलम्। ३९ सोऽपि मुनिभिर्नारदादिमिईदयाविमुखान्तिका अभिहिता दय. मारभ्य मुखपर्यन्तं कथिता, तत्र क्रमःदयजठरलिङ्गजानुपादमू- दाक्षिश्रवणघ्राणमुखानीति संहारोन्यादिमुन्तिः कार्यः तत्र मन्त्राक्षराणि प्रतिलोमेम देयानीतीदन्त्रितयं घिरचयतु अनु पश्चा- देतत्रितयकरणानन्तरं पुनः सृष्टिं स्थितिं च विरययतु तथा च पश्च बासाः कार्या इत्यर्थः, प्रयोगस्तु गों नमः पी नमः इत्यादि ॥ ३३॥ येषामाश्रमिणां यदन्तो न्यासस्तदर्शयति- न्यास इति। न्यासः संहारान्तो मस्करिवैखानसेषु विहितोऽयम् । स्थित्यन्तो गृहमेधिषु मृष्टयन्तो धर्णिनामिति प्राहुः॥३४॥ अयं न्यासः मस्करिवैखानसेषु संहारान्तो विहितः मस्क- री सन्यासी, वैखानसो वानप्रस्थः, तथा ताभ्यां न्यासत्रयं- कार्यमित्यर्थः । गृहमेधिषु गृहस्थेषु अवं न्यासः स्थित्यन्तो विहितः तथा गृहस्थैः पञ्च न्यासाः कार्या इत्यर्थः। वर्णिनां ब्रह्मचारिणामयं. न्यासः सष्टयन्तो विहितः तथा च ब्रह्मचारिभिासवतुष्टयं- कार्यमित्यर्थः इति पूर्वोक्तमर्थजातं प्राहुः प्राचीना आगमक्षा इति शेषः॥३४॥ वैराग्येति । वैराग्ययुजि गृहस्थे संहारं के चिदाहुराचार्याः । सहजानौ वनवासिनि स्थितिंच विद्यार्थिनां सृष्टिम्॥३५॥ के चिदाचार्याः वैराग्ययुक्तगृहस्थे संहारान्तं न्यासमाहुः, किं- च सहजानौ वनवासिनि सपत्नीके वानप्रस्थे स्थिति स्थित्वन्तं- न्यासमाहुः, तथा ब्रह्मचारिभिन्नानां विद्यार्थिनामपि सृष्टि सृष्टयन्तं. न्यासमाहुरित्यर्थः ॥ ३५॥ उक्ताक्षरन्यासाङ्गुलिनियमं दर्शयति- शिरसीत्यादिना। शिरसि विहितामध्या सेवाक्षिणतर्जनिकाऽन्विता अवसि रहिताङ्गुष्ठा ज्येष्ठाऽन्वितोपकनिष्ठिका। - सटीकक्रमदीपिकायाः नासि च पदने सर्वाः सज्यायसी हृदि तर्जनी प्रथमजयुता मध्या नाभौ श्रवोविहिता शिवे॥३६॥ ताएषाङ्गुलयो जान्वोः साङ्गुष्ठास्तु पदव्ये स्थानार्णयोर्विनिमयो भवेशास्त्यङ्गुलिस्थानयोः ॥३७॥ मध्या मध्यमाहुलिः शिरसि मूर्ध्नि विहिता न्यासकरणत्वेन तथा च मध्यमाङ्गुल्या न्यासः शिरसि कार्य इत्यर्थः, सैव मध्या तर्जनिका. ऽन्विताऽणि नयनयुगले विहिता तथा च मध्यमातर्जनीभ्यामक्ष्णो- यासः कार्यः, श्रवसि श्रोत्रयुगले रहिताङ्गुष्ठा अङ्गुष्ठरहिता सर्वाङ्गु- लयो विहिताः, नसि नासायुगले ज्येष्ठाऽन्विता अङ्गुष्ठयुक्ता उपकनि- ष्ठिका अनामिका विहिता, वदने सर्वाङ्गुलयो विहिताः, हृदि सज्या- यसी ज्येष्ठासहिता साङ्गुष्टतर्जनी विहिता, नाभौ जठरे नाभिपदेन अठरमुपलक्षितमिति विद्याधरः । नाभिपदस्य मुख्य एवार्थ इति ल. घुदीपिकाप्रभृतयः । प्रथमजयुता अङ्गुष्ठयुक्ता मध्यमा विहिता, शि- घे लिङ्गे तथा विहिता यथा जठरे साङ्गुष्टा मध्या तथेत्यर्थ इति के चित् । श्रवोविहिता शिव इति पाठे श्रोत्रयुगले या अङ्गुष्ठरहि- सास्ताः शिवे विहिता इत्यर्थः, Iजान्वोस्ता एवाङ्गुलयःअङ्गुष्ठेन रहि- ताः सर्वाङ्गुलय इत्यर्थः, पदद्वये साङ्गुष्ठाः सर्वाङ्गुलयो विहिताः । स्थानार्णयोरित्यादिनास्थानाक्षरयोर्विनिमयो विपर्ययो भवति यथा गौ सृष्टी मूर्ध्नि, स्थिती दये, संहृतौ पादयोस इति एवमङ्गुलीस्था- नयोर्विपर्ययो नास्ति, किं तु सृष्टी स्थितौ संहृतौ वा यत्र स्थाने यार- लिर्विहिता तयैवाङ्गल्या तत्र स्थाने न्यासः कार्य इत्यर्थः॥३६॥३७॥ इदानी विभूतिपञ्जरन्यासमाह- वन्मीति। वच्म्यपरं न्यासवरं- भूत्यभिधं भूतिकरम् । मन्त्रदशावृत्तिमपं. गुप्ततम मन्त्रिवरैः॥ ३८॥ : अपरं भूत्यभिधं भूतिरिति नाम यस्य तं भूतिनामकं वच्मि कथ- द्वितीयपटलम् । ४१ यामि कीदृशं न्यासवरं न्यासश्रेष्ठमित्यर्थः पुनः भूतिकरम् ऐश्वर्य- करं पुनः मन्त्रदशावृत्तिमयं मन्त्रस्य दशावरणघटितं पुनः मन्त्रिपर साधकश्रेष्ठैर्गुप्ततममतिगुह्यम् ॥ ३८ ॥ न्यासस्थानमाह- आधारेत्यादिना। आधारध्वजनाभिहृद्गलमुखांसोरुखये कन्धरा- नाभ्योः कुक्षिहृदोररोजयुगले पापिरोणिषु । कास्याक्षिश्रुतिनःकपोलकरपत्सन्ध्यग्रशाखामु के तत्प्राच्यादिदिशासु मूर्ध्नि सकले दोष्णोश्च सनी. स्तथा ॥ ३९ ॥ शिरोऽक्ष्यास्यकण्ठाख्यहत्तुन्दकन्दा- न्धुजानुप्रपत्स्वित्थमन्मनूत्थान् । न्यसेच्छ्रोत्रगण्डांसवक्षोजपाव- स्फिगूरुस्थलीजानुजङ्घाघ्रियुक्षु ॥ ४० ॥ आधारोवृषणस्याधस्त्रिकोणं मूलाधारस्थानं, ध्वजो लिङ्गं, नाभिः, हृदयं, गलः, मुखम् , अंसोरुद्वयम्, एतेष्वेकावृत्तिः कन्धरा घाटा, कं- धरा कण्ठ इति लघुदीपिकाकारः, नाभिकुक्षिहृदयम् उरोजयुगलं स्त- नद्वयं, पार्वेति पार्श्वयुगम्, अपरं पृष्ठदेशः, श्रोणिर्जघनदेशः, श्रोणिः कटिः, अपरं श्रोण्याः अपरभाग, इति त्रिपाठिनः, पतेषु द्वितीयावृत्तिः कं शिरः, आस्यं मुखम्, अक्षिणी नेत्रयुगलं, श्नुती श्रवणद्वयं, नाति नासिकाद्वयम्, कपोलद्वयमेतेषु तृतीयावृत्तिः, करपदेति करपदयोः प्रत्येकं सन्धिचतुष्टयं सन्धिष्वङ्गुल्यग्रेषु अङ्गुलीषु च, अत्र दक्षिणकरे चतुर्थावृत्तिः, एवं वामकरे पश्चमावृत्तिः, इति पक्षद्वयं च, विद्याधरस्तु करयोरेकावृत्तिः पादयोरेकावृत्तिरित्याह,तश्चिन्त्यं,मूलग्रन्थात्तथान. तीतेः पादयोःसन्धिष्वङ्गुल्यप्रेष्वङ्गुलीषु च, अत्रापि दक्षिणपादे षष्ठा- वृत्तिः, वामपादे सप्तमावृत्तिः, अत एव हस्तपादयोासचतुष्टयमिति त्रिपाठिनः, के मस्तकमध्ये तत्प्राच्यादिदिशास्नु मस्तकपूर्वादिच. तुर्दिनु सकले मूर्ध्नि सकले मस्तके प्रादक्षिण्येन व्यापकतया दोष्णो- सटीकमदीपिकायाः - श्वबाहुयुगे तथा सक्थ्नोरुरुमूलस्याधिष्ठानयोर्मध्यप्रदेशयोः एतेव- ष्टमावृत्तिः, मस्तकस्य पूर्वादिदिशास्वेकावृत्तिा,एकावृत्तिमूर्खादिग्वि- ति विद्याधराचार्य्याः, तच्चिन्त्य, तथापदस्वरसात् शिरःप्रभृतिब्वे- कावृत्तिप्रतीतेः। शिरोमस्तकम, अक्षीति नेत्रयुगलम, आस्यं मुखं, क. ण्ठं, हदयं, तुन्दमुदरं, कन्दो मूलाधारः, स्वाधिष्ठानमिति त्रिपाठिनः, अन्धु लिकं, जानु, प्रपदिति पादयुगलं तेषु, पतेषु नवमावृत्तिः थोत्र- युगले गण्डयुगले, अंसयुगले, स्तनयुगले, पार्श्वयुगले, स्फिग्युगले नितम्बयुगले, एवमूरुजानुजङ्घाऽघ्रियुगले, पतेषु वशमावृत्तिः इत्थ- मनेन प्रकारेण मनुत्थान् मन्त्रसम्बन्धिनो वर्णान् न्यसेत, प्रयोगश्च गों नमः मूलाधारे, पी नमः लिङ्गे, जं नमः नाभी, इत्यादि ॥३९॥४०॥ न्यासफलमाह इतीति । इति कथितं विभूतिपञ्जरं सकलसुखार्थधर्ममोचदम् । नरतरुणीमनोऽनुरञ्जनं हरिचरणाजभक्तिवर्द्धनम्॥४१ अनेन प्रकारेण विभूतिपक्षरं कथितं कीडशं सकलसुखार्थधर्म- मोक्षदं पुरुषार्थचतुष्टयप्रदं पुनः नरतरुणीमनोरञ्जन पुरुषनारीचित्ता. हादकं न केवलं सर्वानुरञ्जनम्, अपि तु हरिचरणाब्जे भक्तिवर्द्ध- नम् ॥४१॥ मूर्तिपञ्जरवासमाह- स्फूर्तय इति । स्फूर्तयेऽथास्य मन्त्रस्य कीयते मूर्तिपञ्जरम् । आतिग्रहविषारिनं कीर्तिश्रीकान्तिपुष्टिदम् ॥ ४२ ॥ अथानन्तरम् अस्य दशाक्षरमन्त्रस्य स्फूर्तये उद्दीपनाय मूर्सिपाः रंकीय॑ते किम्भूतम् आर्तिः पीडा, ग्रहो प्रहजनितमशुभं, विषं. स्थावरं जगमंच, अरिः शत्रुः, तान् हन्तीत्यर्थः पुनः कीदृशङ्कीना दिदं कीर्तिः प्रख्यातिः, श्री सम्पत्तिः, सौन्दर्य, पुष्टि, बलं प्रददाती ति तथा ॥४२॥ मधुना म्यासमुखरति- द्वितीयपरकम् । केशवादीति । केशवादियुगषट्कमूर्तिभिः र्धातृपूर्वमिहिरान्नमोऽन्तकान् । बादशाक्षरभवाचः स्वरैः क्लीषवर्णरहितः क्रमानन्यसेत् ॥ ४३ ॥ केशवादिभिः पूर्वोक्तयुगषट्कमूर्तिभिः सह धातृपूर्वमिहिरान् धाता पूर्व आदौ येषु मिहिरेषु आदित्येषु वक्ष्यमाणेषु ते धातृपूर्वमिहिरा- स्तान् क्रमेण न्यसतु कीदृशान् नमोऽन्तकान् नमःपदान्तान् पुनः कैः सह द्वादशाक्षरभवाक्षरैर्वस्यमाणद्वादशाक्षरमन्त्रसम्बन्धिभिर्वाद- शाक्षरैः सह, तथा क्लीबवर्णरहितैः ऋलएतत्रयरहितैः स्वरैरका- रादिभिः सह, एतदुक्तं भवति आदौ स्वराः ततो द्वादशाक्षरभवा- क्षराणि ततः केशवादिमूर्तयः ततः धातृप्रभृतयः ततो नमःपद- मिति, प्रयोगस्तु जो अंडो केशवधातृभ्यां नमः, डॉ अंजो केशवधा- त्रे नम इति त्रिपाठिनः ॥ ४३ ॥ अथ मूर्तिपअरन्यासे न्यासस्थानमाह- भालोदरेति । भालोदरहृद्गलकूपतले पामेतरपार्षभुजान्तगले। चामत्रयपृष्ठककुत्सु तथा मूर्धन्यनु षड्युगवर्णमनुम्॥४४॥ भाले ललाटे, उदरे हृदये, गलकूपतले कण्ठे, वामेतरेति वामा- दितरद् दक्षिणं दक्षिणपार्वे भुजान्ते गले चेति, वामत्रये वामपाचे बामभुजान्ते गले च, पृष्ठे ककुदि, अथानन्तरम्, अन्वितिपाठे ऽप्य. यमेव बोद्धव्यः तथा तेन प्रकारेण मूर्ध्नि षड्युगवर्णमनुं द्वादशा- क्षरमन्त्रंन्यसेदित्यर्थः ॥ ४४ ॥ मस्तके सम्पूर्णमन्त्रन्यासस्य प्रयोजनमाह- चैतन्येति । चैतन्यामृतवपुरकोटितेजा- मूईस्थो षपुरखिलं सवासुदेवः ।

सटीकक्रमदीपिकायाः औधस्यं सुविमलपायसीव सिक्तं- व्यामोति प्रकटितमन्त्रवर्णकीर्णम् ॥ ४५ ॥ स प्रसिद्धो घासुदेवो मूर्द्धस्थो मस्तकस्थः सन् अखिलं- समस्तं वपुः शरीरं व्याप्नोति स्वतेजसेत्यर्थः, किम्भूतो वासु. देवः चैतन्यामृतं तदेव वपुर्यस्य स तथा, यद्वा चैतन्यं स्वप्रकाशम् अमृतं सुखं तथा च स्वप्रकाशानन्दरूपइत्यर्थः, अथ वा चैतन्य ज्ञान- तेन वदमृतं मोक्षस्तदेव वपुर्यस्य स तथा, पुनः कीदृशः अर्कको. टिरिव तेजो यस्य सः तथा, वपुः किम्भूतं प्रकटितमन्त्रवर्णकीर्ण- प्रकटिता ये मन्त्रवर्णा द्वादशाक्षरोद्गताः तैराकीर्ण व्याप्तं, किमिव सुविमलपाथसि सुनिर्मले जले सिक्तं निक्षिप्तमौधस्यं दुग्धमिव ॥४५॥ शरीरन्यासजातमुपसंहरति- सृष्टिस्थिती इति । सृष्टिस्थिती दशपश्चाङ्गयुग्म- मुन्यादिकत्रितयं कास्पहृत्सु। विन्यस्यतु ग्रथयित्वा च मुद्रा- भूयो दिशां दशकं बन्धनीयम् ॥ ४६ ॥ मूर्तिपारस्य पूर्वकृत्वन्दर्शयति सृष्टिस्थिती इत्यादि इति रुद्रधरः, तश्चिन्त्यं, तत्र प्रमाणाभावात्, मूर्धन्यक्ष्णोरित्यादिना पूर्वमुक्ते सृष्टिस्थिती पुनः स्वदेहे विन्यस्य तथा दशप शाङ्गयुग्मं दशाङ्गं पञ्चाङ्गं च विन्यस्य; ऋष्यादित्रितयं कास्यहृत्सु विन्यसेदित्यर्थः, वक्ष्यमाणमुद्रां ग्रथयित्वा बद्ध्वा भूयः पुनरपि दिशां दशकं बन्धनीयम् ॐ सुदर्शनायास्त्राय फट् इत्यनेन वश्य- माणेन मन्त्रेणेत्यर्थः ॥ ४६ ॥ द्वादशाक्षरमन्त्रोद्धारमाह- तारमित्यादिना। तारं हार्द विश्वमूर्तिश्च शाही मांसान्तस्ते वायमध्ये सुदेवाः।

द्वितीयपटलम् । ४५ षड्वन्दामन्त्रवर्यः स उक्तः साक्षाद्वारं मोक्षपुर्याः सुगम्यम् ॥४७॥ तारं प्रणवं, हाई हृदयं नमः इति यावदू, विश्वमूर्तिकार: शाम गकारः, मांसान्ते मांसो लकारः तस्यान्तो वकार इति, ते इति स्वरूपं, पा इति स्वरूपं, य इति स्वरूपं, तयोर्वाययोमध्ये सुदेवाः सुदेवेत्यक्षरत्रयं, तथा च डों नमो भगवते वासुदेवायोति प्रसिद्धः षड्वन्द्वानॊ मन्त्रवर्यः द्वादशाक्षरो मन्त्रश्रेष्ठ उक्तः कथितः कीदृशः मोक्षपुर्याः साक्षाव्यवधानेन सुगम्यं द्वारं सुगम उपाय- इत्यर्थः ॥ ४७॥ द्वादशाक्षरादित्यान् दर्शयति- धात्रयमेत्यादिना। धात्रयममित्राख्या. वरुणांशुभगा विवश्वदिन्द्रयुताः। पूषायपर्जन्यौ त्वष्टा विष्णुश्च भानवः प्रोक्ताः॥४८॥ धाता अर्यमा मित्रः वरुणः अंशुः भगः विवश्वान् इन्द्रः पूषा न्यः त्वष्टा विष्णुरेते द्वादश भानवः प्रोक्ताः कथिताः॥४८॥ अधुनाऽष्टादशाक्षरमन्त्रन्यासमाह- अथ तु युगेत्यादि । अथ तु युगरन्धार्णस्याहं मनोयसनं ब्रुवे रचयतु करबन्छे पञ्चाङ्गमङ्गलिपञ्चके । तनुमनुमनुं व्यापय्याथ त्रिशः प्रणवं सकृन्- मनुजलिपयोन्यास्था भूयः पदानि च सादरम्॥४९॥ अनन्तरं पुनर्युगरन्ध्रार्णस्य युगरन्ध्र राजदन्तत्वाद् रन्ध- शब्दस्य परनिपातः, युगरन्ध्रम् अक्षराणां यत्र स युगरन्ध्राणः नव, तथा चाष्टादशाक्षरस्य मनोर्मन्त्रस्याहं न्य. सनं न्यासं वे कथयामीति प्रतिज्ञा, करद्वये अङ्गुलीपञ्चके पञ्चा- पूर्वोक्तं मन्त्राक्षरैः परिक्लप्तं करन्यासं कुर्यात् कनिष्ठायाम् अनन्या- सो द्रष्टव्यः, अथानन्तरं तनुम् अनु अनुलक्षीकृत्य त्रिशः भिवारं. तस्य, रन्धं , सटीकक्रमदीपिकायाः मन्त्रं व्यापय्य व्यापकतया विन्यस्व पुनःप्रणवं सकृदेकवारं विन्यस्य अनन्तरं मनुजलिपयो न्यास्या मन्त्राक्षराणि न्यसतु भूयोऽनन्तरं सादरं यथा स्यादेवं पदानि पञ्च पदानि न्यास्यानि ॥ ४९ ॥ मन्त्राक्षरन्यासस्थानमाह- कचभुवीति । कचभुवि ललाटे भ्रूयुग्मान्तरे श्रवणाक्षिणो. युगलवदन ग्रीवाहनाभिकटयुभयान्धुषु । न्यसतु शितधीर्जान्वछ्योरक्षरान् शिरसि ध्रुवं- नयनमुखहृदूगुह्यान्निष्पर्पयेत् पदपञ्चकम् ॥ ५० ॥ कचस्य केशस्य भूरुत्पत्तिस्थानं शिरः तत्र, ललाटे, भ्रूयुः ग्मान्तरे भरूमध्ये, श्रवणाक्ष्णोर्युगले, नो नासिकायुगले च, पदने, ग्रीवायां, हदि, नाभौ, कटयुभये, वामकटिदक्षिणकटिश्च, अ- न्धौ लिङ्गे, पतेषु तथा जान्वछ्योश्च शितधिनिर्मलमतिः अक्षराणि मन्त्रसम्बन्धीनि न्यसतु अत्र जान्वोरेकमक्षरं न्यसेत्, अध्रधोरेक मक्षरं न्यसेत, तथा शिरसि मस्तके ध्रुवं न्यसेत्, पदपञ्चकन्यास स्थानान्याह- नयनेति, नयनयुगलं मुखं हृदयं गुह्यमनिश्च एतेषु मन्त्रसम्बन्धि पदपञ्चकं क्लीमित्येकम्, अन्यानि स्पष्टानि अर्पये न्यसेत् ॥ ५० ॥ पञ्चाक्षानीति। पश्चाङ्गानि न्यस्येद् भुयो- मुन्यादीनप्यन्यत्सर्वम् । तुल्यं पूर्वेणाथो वक्ष्ये मुद्रा बन्ध्या मन्वोर्याः स्युः ॥५१॥ पञ्चाङ्गानि भूयः पुनरपि शरीरे न्यसेत्, तथा मुन्यादीन ऋष्यादीन् , अन्यत्सर्व केशवादिजातं पूर्वेण तुल्यं समानमेव, भत्र क्यतत्वादिन्यालेषु मन्त्रस्य हिरावृत्तिविशेष इति लघुदीपिकाकार द्वितीयपटलम् । अथोऽनन्तरं मन्वोदशाक्षराष्टावसाक्षरयोयो मुद्रा बनया बन्धनी. पाः स्युभवेयुस्ता मुद्रा वक्ष्ये कथयामि ॥ ५१ ॥ हृदयाघङ्गन्यासमुद्राः प्रदर्शयति- मनङ्गुष्ठा इत्यादि। अनङ्गुष्ठा ऋजवो हस्तशाखा- भवेन्मुद्रा हृदये शीर्षके च । अधोऽङ्गुष्ठा खलु मुष्टिः शिखायो- करबन्द्राङ्गुलयो वर्माण स्युः ॥ ५२ ।। नाराचमुष्टयुद्गतबाहुयुग्म काङ्गुष्ठतर्जन्युदितो ध्वनिस्तु । विष्वग्विषतः कथिताऽस्त्रमुद्रा पत्राषिणी तर्जनीमध्यमे तु ।। ५३ ॥ अनङ्गुष्ठा अङ्गुष्ठरहिता ऋजयोऽवक्रा हस्तशास्त्राः हस्ताङ्गुलयः हृदये मुद्रा भवेत् , शीर्षकेच शिरसिता एव मुद्रा क्षेयाः, खलु निश्चये अधो- ऽङ्गुष्ठा मुष्टिः अधोऽङ्गुष्ठो यस्यां मुष्टौ एवं कृता मुष्टिः शिवाय मुद्र भवेद,वर्मणि कवचे करद्वन्द्वाङ्गुलयः स्युः मुद्रापवाच्या भवन्ति । ध्व- निःशब्दोऽस्त्रमुद्रा कथिता किंभूतो ध्वनिः नाराचवद्वाणवद् मुष्टयो- खतो यो बाहुस्तस्य युग्मकं वयं तस्याङ्गुष्ठतर्जनीभ्यां करणाभ्यामु. दितः पुनः कीदृशः विष्वग् दशदिक्षु विषक्ता विस्तीर्णः यत्र मन्त्रे क्षिणी भवतः नेत्राङ्गमस्ति तत्र तर्जनीमध्यमे मिलिते मुद्रा ॥५२॥५३॥ घेणुमुद्रामाह- ओष्ठ इति । ओष्ठे वामकराङ्गुष्ठो लग्नस्तस्य कनिष्ठिका । दक्षिणाङ्गुष्ठसंयुक्ता तत्कनिष्ठा प्रसारिता ॥५४॥ तर्जनीमध्यमाऽनामाः किश्चित्संकुच्य चालिताः । वेणुमुद्रेह कपिता सुगुप्ता प्रेयसी हरेः॥ ५५ ॥ बामहस्ताष्ठोऽधरे लग्न इति संबन्धः कार्य,स्तस्य वामह सटीकक्रमदीपिकायाः अत एव स्तस्य या कनिष्ठिका पञ्चमी अङ्गुली सा दक्षिणाङ्गुष्ठसंयुक्ता द- क्षिणहस्ताङ्गष्ठे संबद्धा कार्या, तस्कनिष्ठिका दक्षिणहस्तकनिष्ठिका प्रसारिता अकुटिला कार्या उभयहस्ततर्जनीमध्यमाऽनामिकाः किं- चित्संकुच्य चालिताश्चालनीया, इत्थमिह शास्त्रे वेणुमुद्रा कथिता सुगुप्ता प्रन्थान्तरे ऽत्यन्तगुप्ता यतो हरेः परमेश्वरस्य श्रीकृष्णस्य प्रेयसी वल्लभा ॥ ५४ ॥ ५५ ॥ नोच्यन्त इति । मोच्यन्तेऽत्र प्रसिद्धत्वा- न्मालाश्रीवत्सकौस्तुभाः। उच्यतेऽच्युतमुद्राणां- मुद्रा बिल्वफलाकृतिः ॥ ५६ ॥ मालाश्रीवत्सकौस्तुभमुद्राः प्रसिद्धत्त्वान्नोच्यन्ते मया प्र- मथक प्रसिद्धमिह प्रकाश्यत इति शेषः, गले धनमालाऽभिनयनं वनमालामुद्रा, उत्तानितवामतर्जनीकान- ठोपरि अधोमुखदक्षिणकरकनिष्ठिकातर्जनीके संयोज्य दक्षि- णकरानामिकामध्यमामुग्लीद्वयं वामकराङ्गुष्ठोपरि कृत्वा वामकरम- ध्यमोपकनिष्ठिके दक्षिणहस्ताङ्गुष्ठस्याधः कुर्यादेषा श्रीवत्समुद्रा, वा- मकनिष्ठिकया दक्षिणकनिष्ठिकां निष्पीड्य घामानामिकया दक्षि- णतर्जनी निष्पीड्य शिष्टवामाङ्गुलीत्रयम् उपरि कृत्वा वामतर्जनीस- हितदक्षिणहस्ताङ्गुलित्रयमुखमेकत्र योजयेदेषा कौस्तुभमुद्रा ॥५६॥ बिल्वमुद्रामाह अङ्गुष्ठमिति । अङ्गुष्ठं वाममुद्दण्डितमितरकराङ्गुष्ठ केनाथ पध्वा तस्याग्रं पीडयित्वाऽङ्गुलिभिरपि तथा वामहस्ताङ्गुलीभिः। षध्वा गाढं हृदि स्थापयतु विमलधीाहरन्मारबीजं. बिल्वाख्या मुद्रिकैषा स्फुटमिह कथिता गोपनीया विधिज्ञैः ॥ ५७॥ बामाङ्गुष्ठम् उदण्डितं दण्डाकारम् ऊई कृत्वाग्धः कर्तव्यं तथाऽ - द्वितीयपटलम्। ४९ - प्रान्तम् इतरकरामुछेन बड़ा तस्य व पीछे दक्षिणकगयस्विीर कार्य इत्यर्थः तस्यानं दक्षिणकराङ्गुष्ठाप्रमङ्गुलिभिः पीडवित्वा त्या ता अपि दक्षिणकराडलयोऽपि वामहस्ताङ्गुलीभिर्गाद यथा स्यादेवं पता विमलधीः शुद्धबुद्धिः हृदि हृदये स्थापयेत् मारवीजं कामवीज व्याहरन् उच्चारयन् इत्थं विल्वाख्या एषा स्फुटं व्यक्तं यथास्यादेव मिह शास्त्रे कथिता विधिः प्रकारर्गोपनीया ॥ ५७ ॥ एतस्याः फलमाह- मन इति । मनोवाणीदेहैर्यदिह च पुरा वाऽपि विहितं. स्वमत्या मत्या वा तदखिलमसौ दुष्कृतिचयम् । इमां मुद्रा जानन् क्षपयति नरस्तं सुरगणा- नमन्त्यस्याधीना भवति सततं सर्वजनता ॥२८॥ अलौ नरः मनुष्यः इमां मुद्रा जानन् तदखिलं संपूर्ण दुष्कृति चयं पापराशि क्षपयति दूरीकरोति यन्मनसा वाचा देहेनाऽमत्या ऽज्ञानेन मत्या ज्ञानेन वा दिवारात्रिविहितं दिवसे रात्री वा कृतं "यदिह च पुरा वापि विहित"मिति पाठे इह जन्मनि जन्मान्तरे वा विहितमित्यर्थः न केवलं पापं दूरीकरोति अपि तु सुरगणा देवा नमन्ति तथा अस्य मुद्राकर्तुः सततं सर्वदा सर्वजनसमूहो वश्यो भवतीत्यर्थः ॥ ५८॥ अनमन्त्रमाह- प्रणवेति। प्रणवहृदोरवसाने सचतुर्थि सुदर्शनं तथाऽत्रपदं च । उक्त्या फडन्तममुना कलपेन्मनुनाऽसमुद्रया दशह- रिता ॥ ५९॥ प्रबर डकार हत् नमः पतयोरखसानेमन्ते सचतुर्थिसुदर्शन चतुर्थीविभकिसहितं सुदर्शनमिति पदम् एतस्यान्ते तथाऽपवं बहुगेम्समापदं पुनः की फडन्तम् फट्शबान्तमुक्त्वाऽमुना Mra ५० सटीकक्रमदीपिकायाः मनुना अनेन मन्त्रेण अस्त्रमुद्रया दश हारतः कल्पयत् दशादग्बन्धनं कुर्यादित्यर्थः ॥ ५९॥ प्राक्कृतं न्यासजातमुपसंहरन् अग्रिमपटले वक्ष्यमाणं ध्यानं सू- चयति- इतीति। इति विधाय समस्तविधि जग- जनिर्विनाशविधानविशारदम् । श्रुतिविमृग्यमजं मनुविग्रहं- स्मरतु गोपवधूजनवल्लभम् ॥ ६॥ इति श्रीकेशवाचार्यविरचितायां क्रमदीपिकायां द्वितीयः पटलः ॥२॥ इत्यनेन प्रकारेण समस्तविधि पूर्वोक्तमखिलन्यासादिकं वि- धाय निर्वर्त्य गोपवधूजनवल्लभं कृष्णं स्मरतु चिन्तयतु कीरशं कृष्णं जगदुत्पतिस्थितिविनाशकरणदक्षं पुनः कीदृशं श्रुतिविमृग्यमुपनि- षद्गम्यं पुनः कीदृशं अजम उत्पत्तिरहितम् पुनः कीदृशं मनुविग्रहं मनुशरीरमित्यर्थः ॥ ६०॥ इति क्रमदीपिकायां द्वितीयः पटलः ॥२॥ इदानी मन्त्रद्वयसाधारणं देवताध्यानमाह- अथेति । अथ प्रकटसौरभोद्गलितसन्मधूत्फुल्लस. त्प्रसूननवपल्लवप्रकरनम्रशाखैर्दुमैः । प्रफुल्लनवमञ्जरीललितवल्लरीचेष्टितः स्मरेच्छिशिरितं शिवं शितमतिस्तु बृन्दावनम् ॥१॥ अथानन्तरं शितमतिर्निर्मलमतिः वृन्दावनं स्मरेचिन्तयेत् कि- म्भूतं द्रुमैः शिशिरितं शीतलीकृतं दुमैः कीरशैः प्रकटेति उद्भटसौरभम् । अथ च उगलितो माध्वीको मधु यस्मिन् तत् अथ द्वितीयपटलम् । ५१ च उत्फुल्ल प्रफुल्लं अथ च सद्देदीप्यमानमेताशं प्रसून पुष्पं तथा नवपल्लवः अनयोर्यः प्रकरः समूहस्तेन नम्राः शाखा येषां ते तथा तक, प्रकटसौरभाकुलितमत्तभृक्षोल्लसत्प्रसूनेति पाठे प्रकटसौरभेणाकु- लितं सर्वतो व्याप्तम् अथ च मत्तभृतोल्लसन्मत्तभ्रमरेण.शोभमानमे- तादृशं यत्प्रसूनमित्यर्थः पुनः कीदृशैः प्रफुल्ला विकसिता या नवम- अरी तया ललिता मनोहरा या वल्लरी लताप्रशाखातस्याश्चेष्टितं चलनं येषु तैः पुनः कीरशं शिवं कल्याणप्रदम् ॥ १॥ विकाशीति- विकासिसुमनोरसास्वदनमञ्जुलैः सञ्चर- च्छिलीमुखमुखोद्गतैर्मुखरितान्तरं झङ्कृतैः । कपोतशुकसारिकापरभृतादिभिः पत्रिभि- विराणितमितस्ततो भुजगशत्रुनृत्याकुलम् ॥ २ ॥ पुनःकीरशं वृन्दावनं सङ्कतैः शब्दविशेषैर्मुखरितान्त- रं शब्दायमानाभ्यन्तरं कीदृशैः झङ्कृतैः विकाशिन्याः प्रफुल्ला- याः सुमनसः पुष्पस्य यो रसः मधु तस्य यदास्वादनम् अवलेहनं तेन मञ्जुलैर्मनोहरैः पुनःकीरशैः सञ्चरोति सञ्चरन्तो भ्रमन्तो ये शिलीमुखा भ्रमरास्तेषां मुखेभ्य उद्गतैः समुत्थितैः पुनः कीदृशं वृन्दावनं कपोतेति पारावतशुकशारिकाकोकिलप्रभृतिभिः पक्षि- भिरितस्ततो विराणितं शब्दायितं पुनःकीदृशं भुजगशत्रुर्मयूर- स्तम्य नृत्येनाकुलं व्याप्तम् ॥ २॥ कलिन्देति- कलिन्ददुहितुश्चलल्लहरिविपुषां वाहिभि. विनिद्रसरसीरुहोदररजश्चयोडूसरैः। प्रदीपितमनोभव व्रजविलासिनीवासस । विलोलनपर्निषेवितमनारतं मारुतैः॥ ३ ॥ पुनः कीरशं मारुतैर्वायुभिः अनारतं सर्वदा निषेवितं कीरशैर्मा- रुतैः कलिन्दति कलिन्ददुहितुर्यमुनायाः चलन्त्यो या लहर्या तासां सटीकक्रमदीपिकाया मा विषो जलविदया ताला वाहिमिः एतेन पायोः शत्यमुक्तं पुनः कीरशैः विनिद्रति विनिद्रं प्रफुल्ल यत्सरसीबई पर तस्व यदुदरम् अभ्यन्तरं तब यो रजभयो धूकीसमूहः तेन उधूलरैः पतेन सौरज्यमुक्तं पुनःकीरशैः प्रदीपितेति प्रदीपितोप्रतिशयितो मनोमव: कामो वासा बजविलासिनीनाझोपसुन्दरीणां तासां यानि वालांसि वस्त्राणि तेषां विलोलनपरैः चालनाशकै एतेन मान्ध- मुक्तम् ॥३॥ प्रवालेति-- प्रवालमवपल्लवं मरकतच्छदं धनमौ- क्तिकप्रकरकोरकं कमलरागनानाफलम् । स्थविष्ठमखिलतुभिः सततसेवितं कामद- तदन्तरपि कल्पकाधिपमुदश्चितं चिन्तयेत् ॥४॥ तदन्तरपि वृन्दावनमध्ये कल्पकाधिपमपि चिन्तयेत् कीदृशं उदश्चितम् उछ्रितं पुनः कीदशं स्थविष्ठं स्थूलतरं पुनःकीदृशं प्रवा- लोविनुमः स एव नवपल्लवः किसलयं यस्य तं पुनः कीदृशं मरक- तो यो मणिविशेषः स एव छदं पत्रं यस्य तं पुनः कीदृशं वजं हीरक मौक्तिक मुक्ता- भनयोर्यः प्रकरः समूहः स एव कोरकः पुष्पकलिका यत्र तं पुनः कीरशंकमलरागः पनरागमणिः स एव नाना बहुविधं फलं यत्र तं पुनः कीहशम् अखिलैक्रतुभिः षड्भिरपि ऋनुभिः सततं सेवितं सदापरि- गृहीतम् एतेन सर्वपुष्पान्वितत्वं दर्शितं पुनःकीरशं कामदम् आका- हितप्रदम् ॥ ४॥ सुहेमेति। सुहेमशिखराचलेऽप्युदितमानुवास्वरा- मधोऽस्थ कनकस्थलीममृतशीकरासारिणः। प्रदीप्तमणिकुष्टिमा कुसुमरेणुपुञ्जोज्ज्वला- स्मरेत्पुनरतन्द्रितो विमतपदतरजां बुधः ॥ ५॥ बुधः पण्डितः अतन्द्रितः निरालस्यः मालस्थरहितः सम् - द्वितीयपटलम् । ५३ - स्य कल्पवृक्षस्याधस्तात् कनकस्थली सुवर्णमयीं भूमि पुनः स्मरेत् चिन्तयेत् किम्भूतां सुहेमेति शोभमाना सुवर्णशङ्गपंक्तिर्यस्य । तथा तस्मादुदयाचलादुदितभानुषत् प्रकटितसूर्यवत मास्थर दे. दीप्यमानां सुहेमशिखराचलेप्युदितेति पाठे शोभनं हेमशनं यत्र - चले पर्वते तस्मिन् अपिशब्दो भिभक्रमः कनकस्थलीमित्यस्यानन्तरं द्रष्टव्यम् अस्य कीडशस्य अमृतति अमृतस्य यः शीकरा कणस्तस्या- सारो यः समूहःपतनं तच्छालि यथा स्यात्तथा तस्यामृतकणसमूह- संघर्षिणः कीरशी प्रदीप्तैः दीप्यमानमणिभिः पनरागादिभिः पद्ध- भूमि पुनः कीदृशीं कुसुमेति कुसुमरेणुपुजैरुज्ज्वला पुनः कीरशी विगतेति विगता दूरीभूता षट्तरका कामक्रोधादयः अशनायापि- पासाशोकमोहजरामृत्यवो वा यस्यास्तां ॥ ५ ॥ तद्रनेति । तद्रत्नकुहिमनिविष्टमहिष्ठयोग- पीठेऽष्टपत्रमरुणं कमलं विचिन्त्य । उद्यविरोचनसरोचिरमुष्य मध्ये सश्चिन्तयेत्सुखनिविष्टमयो मुकुन्दम् ॥ ६ ॥ तस्याः कनकस्थल्याः यद्रनकुहिम रतवद्धभूभागः तत्र निविष्टं- स्थितं महिष्ठं महद्योगपीठं तत्राष्टपत्रम् अष्टौ. पत्राणि यत्र तत्तथाऽरुणं लोहितम् अत एवोधतादित्यसन्निभम् एवंभूतं पानं विचिन्त्य अथा- नन्तरम् अमुष्यारुणवर्णाष्टदलकमलस्य मध्ये मुकुन्दं कृष्णं चिन्तयेत कीरशं सुखनिविष्टं सुखासीनम् आदिकुलकमत आरभ्य ॥६॥ सुत्रामेति- सुवामरबदलिताञ्जनमेघपुञ्ज- प्रत्यप्रनीलजलजन्मसमानभासम् । सुस्निग्धनीलघनकुश्चितकेशजालं- राजन्मनोज्ञशितिकण्ठशिखण्डचूडम् ॥ ७ ॥ पुनः कीरशं सुत्रामरत्नम् इन्द्रनीलमाणिः दलितानं मिशाजन ५४ सटीकक्रमदीपिकायाः घृष्टकजलमिति मेघपुखो मेघसमूहः प्रत्यग्रनीलजलजन्म नवीननील- पणम् एषां समाना भा दीप्तिर्यस्य तं पुनः कीदृशं सुस्निग्धेति सु. स्निग्धाः सुचिक्कणाः नीलाः श्यामा घना निविडाः कुश्चिताः कुटिलाः ये केशास्तेषां जालं समूहो यत्र तं पुनः कीरशं राजनिति राजत् शोभमानं मनोशं मनोहरं यच्छितिकण्ठशिखण्डं मयूरपिच्छं तदेव चूडायां यस्यतम् ॥ ७ ॥ रोलम्बलालितसुरद्रुमसूनकल्पि- तोत्तंसमुत्कचनवोत्पलकर्णपूरम् । लोलालकस्फुरितभालतलप्रदीप्त गोरोचनातिलकमुञ्चलचिल्लिमालम् ॥ ८ ॥ पुनः कीदृशं रोलम्बेति रोलम्बो भ्रमरस्तेन लालितं प्रीत्या से- वितं यत् सुरतुमप्रसूनं पारिजातपुष्पं तेन कल्पितः रचित उत्तंसः शिरोभूषणं येन स तथा तं पुनःकीरशमुत्कचं विकसितं यन्न. वोत्पलं तदेव कर्णाभरणं यस्य स तथा तं पुनः कीदृशं लोलाचश्च. लाः अलकाः केशविशेषास्तैः स्फुरितं शोभमानं यद्भालतलं ललाट. तलं तत्र प्रदीप्तं गोरोचनातिलकं यस्य स तथा तं पुनः कीदृशं उच्चलचिील्लमालश्चञ्चलभरूलताकम् ॥ ८ ॥ आपूर्णेति-- आपूर्णशारदगताङ्कशशाङ्कबिम्ब- कान्ताननं कमलपत्रविशालनेत्रम् । रत्नस्फुरन्मकरकुण्डलरश्मिदीप्त. गण्डस्थलीमुकुरमुन्नतचारुनासम् ॥ ९ ॥ पुनः कीरशम् आपूर्णः सम्पूर्णःशारदः शरत्सम्बन्धी गताः कल- करहितः एवम्भूतो यः शशाङ्कविम्वश्चन्द्रमण्डलस्तद्वत् कान्तं मनोहरम् आननं मुखं यस्य तथा तं पुनःकीरशं कमलपत्रवाहिशाले विस्तीर्णे नेत्रे यस्य स तथा तं पुनःकीडशं रत्नेति रत्नैः स्फुरच्छो. भमानं यन्मकरकुण्डलं मकराकारकुण्डलं तस्य ये रश्मयः तै प्रदीप्ता शोभमाना गण्डस्थली स एव मुकुरो दर्पणो यस्य तथा तं

द्वितीयपटलम् ।
५५
पुनः कीदृशं उन्नतेति उन्नता मनोहरा नासा यस्य स तथा तम् ॥९॥
सिन्दूरेति--
सिन्दूरसुन्दरतराधरमिन्दुकुन्द-
मन्दारमन्दहसितद्युतिदीपिताशम् ।
वन्यप्रबालकुसुमप्रचयावक्लप्त-
प्रैवेयकोज्ज्वलमनोहरकम्बुकण्ठम् ॥ १० ॥
पुनः कीदृशं सिन्दूरवन्मनोहरो अधरो यस्य स तथा तं पुनः की.
रशम् इन्दुकुन्देति इन्दुश्च कुन्दकुन्दपुष्पं मन्दारः शुक्लमन्दारःअर्कपुष्पं
वा तद्वन्मन्दहसितम् ईषद्धास्यं तस्य द्युति र्दीप्तिः तया दीपिता शो
भिता आशा दिशो येन स तथा तं पुनः कीदृशं वन्यति वन्यं वनो.
द्भवं यत्प्रवालकुसुमं नवपल्लवपुष्पं तस्य यः समूहस्तेनावक्लन
सम्पादितं यदू प्रैवेयकं कण्ठाभरणं तेन उज्ज्वलो देदीप्यमानो म.
नोहरः कम्बुकण्ठः त्रिरेखाङ्कितः कण्ठो यस्य स तथा तम् ॥ १० ॥
मत्तेति--
मत्तभ्रमभ्रमरजुष्टविलम्बमान-
सन्तानकप्रसवदामपरिष्कृतांसम् ।
हारावलीभगणराजितपीवरोरो-
व्योमस्थलीलसितकौस्तुभभानुमन्तम् ॥ ११ ॥
पुनः कीदृशं मत्ताः कृतमधुपाना भ्रमन्तश्चरन्तो ये भ्रमरास्तैः जुष्टं
सेवितम् अथ च विलम्बमानम् एवभूतं यत्सन्तानकप्रसवदाम कल्पवृः
क्षपुष्पदाम तेन दाम्ना परिष्कृतःस्वलंकृतो अंसो यस्य स तथातम
पुनः कीदृशं हारावल्येव भगणो नक्षत्रसमूहः तेन राजितं शोभित
पावरं मांसलं यदुरो हदयं तदेव व्योमस्थल, आकाशभूमिः तया
लसितः शोभितः कौस्तुभ एव भानुः सूर्यस्तेन युक्तम् अत्र रूपका-
लङ्कार एव नोपमालङ्कारः नक्षत्रगण सूर्ययोरसम्वन्धत्वात् एवं च
सत्येककाले यो शोभा लभ्यत इति भावः ॥ ११ ॥

५६
सटीक क्रमदीपिकायाः
श्रीवत्सेति--
श्रीवत्सलक्षणसुलक्षितमुन्नतांस.
माजानुपीनपरिवृत्तसुजातवाहुम् ।
आवन्धुरोदरमुदारगभीरनाभिं-
भृङ्गाङ्गनानिकरमजुलरोमराजिम् ॥ १२ ॥
पुनः कीरशं श्रीवत्ससंशं यल्लक्षणं चिहं तेन सुलक्षितः प्रव्य.
तः तम् पुनः कीरशम् उन्नतौ ऊद्धौं अंसी स्कन्धौ यस्य स तथा तं
पुनः कीरशम आजान्विति जानुव्यापिनी पीनौ मांसलौ परिवृत्तौ क्रम-
बलिती सुजातौ दोषरहिती पाहू यस्य स तथा तम् पु० कीदृशम्
आवन्धुरोदरं निम्नोगतोवरम् आ इषन्मुष्टिग्राह्यं बन्धुरं रम्यमुदरं
यस्य तमितिवा पुनःकीदृशं उदारा विख्याता गम्भीरा नाभिर्यस्य स
तथा तं पुनः कीरशं भृताङ्गना भ्रमरस्त्री तस्याः यः समूहः तद्वन्म.
म्जुला मनोहरारोमराजी रोमपतिर्यस्य स तथा तं मालेतिक चित्
पाठः माला शुभदात्रीत तथा तम् ॥ १२ ॥
नानति-
नानामणिप्रघटितागदकङ्कणोमि-
प्रैवेयसारसननूपुरतुन्दवन्धम् ।
दिव्याङ्गरागपरिपिञ्जरिताङ्गाष्टि
मापीतवस्त्रपरिवीतनितम्घविम्बम् ॥ १३ ॥
पुनःकीरशं नानामणिभिरिन्द्रनीलादिभिर्घटिताः सम्बद्धाः अङ्ग
दा. बाहुघलया:स्तथा कङ्कणाः उर्मिर्मुद्रिका प्रैवेयं प्रीवालङ्कारःरसनया
क्षुद्रघण्टिकया सह आसमन्तात् वर्तेते यौनूपुरौ तुन्दबन्धःउदरबन्ध-
नार्थम् सुपर्णडोरकम् एते अलङ्कारा यस्य स तथातम् पुनः कीरशं
दिव्या परमोत्कृष्टो योगरागः सुगन्धिपूर्ण तेन पिञ्जरिता नानावर्णा
अजयष्टिरकालता यस्य स तथा तं पुनः कोहशम् आपीतम् अतिशयेन
पीतं यत्र तेन परितो वीतो घेष्टितो नितम्बविम्चो येन स तथा
धम पद्यपि स्लीकट्यां नितम्बपदप्रयोगः कोशे रयते तथापि
ताम्मनोहरतया पुस्कट्यामपि प्रयोगो न विरुवः ॥ १३ ॥

द्वितीयपटलम् । ६७ चाहरजान्विति- चारूरुजानुमनुवृत्तमनोज्ञजक- कान्तोन्नतप्रपदनिन्दितकूर्मकान्तिम् । माणिक्यदर्पणलसन्नखराजिराज- द्रक्ताङ्गलिच्छदनमुन्दरपादपद्मम् ॥ १४ ॥ पुनः कीदृशं कान्तौ कमनीयौ उन्नती उचौ यो प्रपदी पादानी ताभ्यां निन्दिता तिरस्कृता कूर्मस्य कच्छपस्य कान्तिः दीप्तिर्येन स तथा तं पुनः कीदृशं माणिक्यघटितो यो दर्पणस्तबलसन्ती शोभ माना नखपतिः तया राजन्त्यः शोभमाना या रक्तालयस्ता एव छ. दनानि पत्राणि तैः सुन्दरं पादपत्रं यस्य स तथा तम् ॥ १४ ॥ मत्स्येति- मत्स्याङ्कशारिदरकेतुय वाजवन- संलक्षितारुणतराधितलाभिरामम् । लावण्यसारसमुदायविनिर्मिताङ्ग- सौन्दर्यनिर्जितमनोभवदेहकान्तिम् ॥ १५ ॥ पुनः कीदृशं मत्स्यो मानः अडशो अनविशेषः अरिश्वकं दरः शः केतुर्वजः यवः प्रसिद्धः अब्ज पनं बजः कुलिशाकारत्रिकोण: एतैः सुलक्षितं सम्यक विहितं यदरुणतराधितलं लोहिततरचरण- तलं तेनाभिरामः सर्वजनप्रियस्तं पुनःकीरशं लावण्यस्य सौन्दर्य- स्य यः सारसमुदायः उत्कृष्टभागसमुदायः तेन विनिर्मितं घटितं यदङ्गसौन्दर्य तेन निन्दिता तिरस्कृता मनोभवस्य कामदेवस्यका. न्तिः शरीरशोभा येन स तथोक्तम् ॥ १५॥ आस्येति । आस्यारविन्दपरिपूरितवेणुरन्ध्र- लोलस्कराङ्गुलिसमोरितदिव्यरागैः ।

५८ सटीकक्रमदीपिकायाः शश्वद् द्रवीकृतविकृष्टसमस्तजन्तु. सन्तानसन्ततिमनन्तसुखाम्बुराशिम् ॥ १६ ॥ पुनः कीदृशं शश्वमित्यं द्रवीकृता ऽनायतीकृता विकृष्टा आकृष्टा- समस्तजन्तोः प्राणिनः सन्तानसन्ततिः सन्तानपरम्परा येन स तथा तं कैः आस्यमेवारविन्दं पनं तेन परिपूरितं यद्वेणुरम्, वंशी- रन्ध्रम् अत्र लोलन्ती चञ्चला या कराङ्गुलिस्तया समीरिताः समु. त्पादिता ये दिव्या उत्कृष्टा रागा ध्वनयः स्वरास्तैरित्यर्थः पुनः कीद- शम् । अनन्तेति अपरिमितानन्दसमुद्रम् ॥ १६ ॥ गोभिरिति । गोभि मुखाम्बुजविलीनविलोचनाभि- रूधोभरस्खलितमन्थरमन्दगाभिः । दन्ताग्रदृष्टपरिशिष्टतृणाङ्कुराभि- रालम्बिवालधिलताभिरथाऽभिवीतम् ॥ १७ ॥ पुनः कीदृशम् । अथानन्तरं गोभिरभिवीतं सर्वतोवेष्टितं किम्भू- ताभिः मुखाम्बुजे परमेश्वरमुखपने विलीने सम्बद्ध लोचने यासा- तास्तथाताभिः पुनः किम्भूताभिः ऊधोभरति स्तनगौरवस्खलन सालसा ल्पगमनशीलाभिः पुनः किंभूताभिः दन्ताग्रेण दष्टः परिशिष्ट- तृणाङ्करो भक्षणावशिष्टतृणाङ्कुरोयाभिस्ताः तथा ताभिः पुनः किम्भूः ताभिः आलम्वीति आलम्विनी लम्बमाना वालधिलता पुच्छलता यासा तास्तथा ताभिः॥१७॥ सप्रस्रवस्तनविचूषणपूर्णनिश्च- लास्यावटक्षरितफेनिलदुग्धमुग्धैः- वेणुप्रवर्तितमनोहरमन्दगीति. दत्तोच्चकर्णयुगलैरपि तर्णकैश्च ॥ १८ ॥ पुनः कीदृशम् । तर्णकैश्चैकवार्षिकैश्चाभिवीतमिति पूर्वेणान्धयः की दशैःप्रस्रवेन क्षरवूदुग्धेन सहवर्तते यत् स्तनावचूषणं दन्तोष्ठेन स्तना द्वितीयपटलम् । ५९ कर्षणं तेन परिपूर्णो निश्चलः स्थिरश्च य आस्याषटः मुखविधरं - तः क्षरितङ्गलितं यत् फेनिलं सफेनं दुग्धं तेन मुग्धैर्मनोहरैः पु. नाकीडशैः वेण्विति वेणुर्वशी तेन प्रवर्तिता चालिता मनोह- रा आहादकारिणी मन्द्राऽनल्पा या गीतिनं तत्र दत्तम् उचं कर्ण युगलं यैः तथा तैः ॥ १८ ॥ प्रत्यग्रेति । प्रत्यग्रशृङ्गमृदुमस्तकसम्प्रहार- संरम्भवल्गनविलोलखुराप्रपातैः । आमेदुरैर्वहुलसास्नगलैरुदन- पुच्छै श्ववत्सतरवत्सतरीनिकायैः ॥ १९ ॥ पुनः कीदृशं घत्सतरः त्रैवार्षिको' पलीवर्दः वत्सतरी त्रैवा- र्षिकी गौः एतयोः निकायैः समुहै। प्रत्यनं नवीनं शुक्र यस्मिन्ने- घम्भूतं यत् मृदु मस्तकं तत्र यः संप्रहारः अभिघातः अन्यवत्स- तरस्य युध्यतः तेन यः संरम्भः क्रोधातिशयस्तेन यदलानमि- तस्ततोविचलनं तेन विलोलः अनवस्थितः खुराप्रपातो येषां ते तथा तैः पुनःकीदृशैः आमदुरैः सुस्निग्धैः पुष्टैरिति वा पुनः कीदृशैः बहुलातिशयिता सास्नायत्र स एवम्भूतो गलो येषां ते तथा तैः सास्ना च गलकम्वलः पुनः कीदृशैः उग्रपुच्छैः ॥ १९ ॥ म्वारवेति । हम्बारवक्षुभितदिग्वलयैर्महद्भि- रप्युक्षभिःपृथुककुदरभारखिन्नः । उत्तम्भितश्रुतिपुटीपरिपीतवंश. ध्वानामृतोद्धृतविकाशिविशालघोणैः ॥ २० ॥ पुन:कीदृशं महाद्भिरुक्षभिर्वलीवरप्यभिधीतं कीदृशैः हम्वार- वेण स्वरविशेषेण क्षुभितः क्षोभं प्रापितोदिग्वलयो दिक्समूहो यैस्ते तथा तैः पुनः कीरशैः पृथुरतिशयितो यः ककुद्भरः अपरग लभरः स एव भारस्तेन खिन्नः अलसैः पुनःकीदृशैः उत्सम्भितेति- ऊदूर्व स्तम्भिता उत्थापिता या श्रुतिपुटी तया परिपीतमातिशयेन श्रुतं यवंशस्य ध्वानामुतं शब्दरूपामृतं तेनोवृत्ता पूर्व प्राप्रिया ६० सटीकक्रमदीपिकायाः नासा येषी ते विकाशिनी प्रस्फुटा विशाला दीर्घा घोणा तथा तैः ॥ २०॥ . गोपैरिति । गोपैः समानगुणशीलवयोविलास- शैश्च मूर्छितकलस्वरवेणुवीणैः ॥ मन्द्रोच्चतानपटुगानपरैर्विलोल- दोल्लरीललितलास्थविधानदक्षैः ॥ २१॥ पुनः कीदृशं गोपैश्चाभिवीतं कीदृशैः समानेति गुणउदयादिः शीलं धैर्यादि वयो बाल्यादि विलासः क्रीडनं वेशः संस्थानविशे- षः समानाः तुल्या गुणशीलादयो येषां ते तथा तैः पुनः कीड- शैः मूी प्रापितः कलो ऽव्यक्तमधुरः स्वरोरागोयत्र वेणुश्च घेणा च घेणुवीणे मूर्छितकलस्वरे वेणुवीणे येषां तैः तथा, तदुक्तं- स्वरः संमूर्छितो यत्र रागां प्रतिपद्यते । मूर्छनामितितां प्राहुः कवयो प्रामसम्भवाम् । सप्त स्वरासयो प्रामा मुर्छनास्त्वकविंशतिः। पुनः कीरशैः मन्द्रोति मन्द्रं नाचैः उद्यमतिशयितं तारो- यतिविशेषस्तेन पटु स्पष्टं यत्रानं तत्परैस्तदासक्तैः पुनः कीडशैः पिलोलेति विलोला या दोर्वल्लरी वाहुलता तया यल्ललितं म- नोहरं लास्यं नृत्यन्तस्य विधानं करणं तत्र दक्षैः कुशलैः ॥२१॥ जङ्गान्तेति । जङ्घान्तपीवरकटीरतटीनिवद्ध- व्यालोलकिङ्किणिघटारटितैरटद्भिः। मुग्धेस्तरक्षुनखकल्पितकण्ठभूषै- रव्यक्तमजुवचनैः : पृथुकैः परीतम् ॥ २२ ॥ पुनःकीदृशं पृथुकैर्वालकैः परीतंवेष्टितं कीदृशैः जबासमी पीवरा मांसला या कटीरतटी कटीस्थली तस्यां निवखा व्यालो- द्वितीयपटलम् । ६१ ला चञ्चला या किङ्किणिघटा काश्चीसमूहः तस्य रटितैः श- ब्दैरटद्भिः सञ्चरद्भिः पुनः कीदृशैः मुग्धैमनोहरैः पुनःकिम्भूतैः तरानखेन व्याघ्रनखेन कल्पिता सम्पादिता कण्ठभूषा कण्ठा- लंकारोयैः ते तथा तैलिकानां रक्षार्थ कण्ठेव्याघ्रनखबन्धनं क्रि. यते यतः । पुनःकीदृशैः अव्यक्तमस्पष्टम् अथ च मम्जुलं मनोहरम् एवंभूतं वचनं येषान्ते तथा तैः ॥ २२ ॥ अथेति । अथ सुललितगोपसुन्दरीणां । पृथुनिविरीसनितम्बमन्धराणाम् ॥ गुरुकुचभरभङ्गुरावलग्न- त्रिवलिविजृम्भितरोमराजिभाजाम् ॥ २३ ॥ पुनः कीदृशम् अथा ऽनन्तरं मनोहरगोपस्त्रीणामालिभिः पति- भिः समन्तात्सर्वतः सततं नित्यं सेवितमित्यष्टमश्लोकेनान्वयः । किम्भूतानाम् पृथु हन्निविरीसोनिविडो यो नितम्वः कटिप- वाद्भागः तेन मन्थराणां गमनाशक्तानां पुनः किम्भूतानां गुरुरति. शायतो यः कुचभरः स्तनगौरवं तेन भङ्गुरषिन्ननं यत् अवलग्नं मध्यप्रदेशः तत्र यद्वलित्रयं तत्र विजृम्भिता वितता रोमपडिया सान्तासाम्॥ २३ ॥ .. तदिति । तदतिमधुरचारवेणुवाद्या- मृतरसपल्लविताङ्गजा िपाणाम् । मुकुलविसररम्यरुढरोमो- इमसमलंकृतगात्रवल्लरीणाम् ॥ २४ ॥ पुनःकीरशीनां तस्य श्रीकृष्णस्यातिमधुरम् अतिप्रीतिदायक चार मनोहरं यद्वेणुवाद्यं वंशीरवः स एवामृतरसः अमृतरूपजलं तेन पल्लवितो वृद्ध्युन्मुखः अङ्गजाधिपः कामवृक्षो यासा तास्तथा तासाम् अङ्गजाधिपस्यति पाठः पुनः किंभूतानां मुकुलविसरःक- ६२ सटीकक्रमदीपिकायाः लिकासमूहः तद्वदम्यो मनोहरो यो रूढ उपचितो रोमोदमो रोमो. स्थानं तेन समलता गात्रवल्लरी देहलता यासा तास्तथा तासाम् ॥ २४॥ तदिति । तदतिरुचिरमन्दहासचन्द्रा- तपपरिजृम्भितरागवारिराशेः । तरलतरतरङ्गावारिविप्नुद प्रकरसमश्रमविन्दुसंततानाम् ॥ २५ ॥ पुनः किंभूतानां तस्य कृष्णस्यातिमनोहरो यः ईषद्धासः स एष चन्द्ररश्मिस्तेन परिजृम्भित उच्छलितो यो रागसमुद्रस्त- स्यातिचञ्चलो यस्तरङ्गः कल्लोलः तदीया ये जलकणाः तेषां यः समूहस्तेन समस्तुल्यो यः श्रमविन्दुधर्मजलविन्दुः तेन सन्तताना व्याप्तानाम् ॥ २५ ॥ तदतीति । तदतिलसितमन्दचिल्लिचाप- च्युतनिशितेक्षणमारवाणवृष्ट्या ॥ दलितसकलमर्मविह्वलाङ्गः प्रविसृतदुःसहवेपथुव्यथानाम् ॥ २६ ॥ पुनः किंभूतानां तस्य कृष्णस्यातिमनोहरः मन्दः अनतिदी? यश्चिल्लिचापो धूलता सैव धनुस्तस्मादुगतन्तीक्ष्णं यदीक्षणं कटाक्षः सएव कामवाणस्तस्य वृष्ट्याऽत्यन्तपातेन दलितं चूर्णितं यत्सकलं मर्म तेनानायत्तं यदङ्गं तत्र प्रस्ता व्याप्ता दुःसहा कम्पवेदना यासा तास्तथा तासाम् ॥ २६ ॥ तदतीति । तदतिरुचिरकर्मरूपशोभा- मृतरसपानविधानलालसाभ्याम् ।

द्वितीयपटलम् । ६३ प्रणयसलिलपूरवाहिनीना- मलसविलोलविलोचनाम्वुजाभ्याम् ॥ २७ ॥ पुनः किम्भूतानां प्रणयेनैव प्रेम्णैव यो जलप्रवाहस्तं वहन्ति या. स्तथा तासां काभ्यां लज्जादिनाऽर्धनिमीलितपद्मलोचनाभ्यां सवि. लासचञ्चलितनेत्रपद्माभ्या मित्यपिपाठः किंभूताभ्यां तस्य परमेश्व. रस्यातिरुचिरं यत्कर्म शृङ्गारचेष्टाविशेषः रूपशोभा कामिनीमनो- नुरूञ्जिका कान्तिः ते एवामृतरसौ तयोर्यत्पानम् अत्यन्तचक्षुा- पारस्तत्करणे साकालाभ्यां सुभगकनेति पाठान्तरं सुभगः सुन्दरः कनः कमनीयः सुभगकमनीययोरेकपर्याययोर्ग्रहणम् अद्भुतत्वाद्रू- पस्यति त्रिपाठिनः ॥ २७ ॥ विश्रंसदिति । वि_सत्कवरीकलापविगलत्फुल्लप्रसूनश्रवत्- माध्वीलम्पटचश्चरीकघटया संसेवितानां मुहुः ॥ मारोन्मादमदस्खलन्मृदुगिरामालोलकाञ्च्युच्छ्स बीवीविश्लथमानचीनसिचयान्ताविनितम्वत्विषाम् २८ पुनः किम्भूतानां विधंसन् स्खलन् यः केशपाशस्तस्मात्प्रनं. श्यद्यविकसितं पुष्पं तस्मावलन्ती या माध्वी पुष्परसः तत्रात्यन्तास तो यश्चञ्चरीको भ्रमरस्तस्य समूहेन मुहुर्वारं वारं संसवितानाम् । पुनः किम्भूतानां मारेति । कामकृतोन्मादेन या मत्तता तया स्खलन्ती अस्पष्टा मृद्वी कोम- ला मनोहरा गीर्वाणी यासा तास्तथा तासाम् उन्मादमदौ शृङ्गार- विशेषौ, तदुक्तं शृङ्गारतिलके- श्वासप्ररोदनोत्कम्पैर्वदुधालोकनैरपि । व्यापारो जायते यत्र स उन्मादः स्मृतो यथा। एवं मदस्यापिलक्षणं बोद्धव्यमिति के चित् पुनःकीहशीनाम् आलोला चञ्चला या काञ्चीरसना तया उच्छ्रसन्ती दृढा भवन्ती या नीवी वस्त्रग्रन्थिः "नीवी स्त्रीवसनग्रन्था"विति कोषात् तया वि- श्लथमानं चीनसिचयं चीनदेशोत्पन्नं सूक्ष्मवलं तस्यान्ते मध्ये आधि:

६४ सटीकक्रमदीपिकायाः - प्रकटा नितम्वत्विट् नितम्वकान्तिर्यासां तास्तथा तासाम् ॥ २८ ॥ स्खलितेति। स्खलितललितपादाम्भोजमन्दाभिघात कणितमणितुलाकोव्याऽकुलाशामुखानाम् ।। चलदधरसुधानां कुड्मलत्पश्मलाक्षि- द्वयसरसिरहाणामुल्लसत्कुण्डलानाम् ॥ २९ ॥ पुनःकिंभूतानां स्खलितमनायत्तं ललितं मनोहरं यत्पादपनं त- स्य यो मन्द ईषदभिघातः पतनं तत्कृतशब्दयुक्तेन मणिमयनूपुरे- णाकुलं शब्दायमानं दिगन्तरं याभिस्तातथातासां पुनः किम्भूता- नां चलत् स्फुरत् अधरदलमोष्टपत्रं यासां तास्तथा तासां पुनः किम्भूतानां कुड्मलत् मुकुलीभवत् पश्मलम् उत्कृष्ट पश्मयुक्तं य. दशिवयं तदेव पनं यासां पुनः किम्भूतानाम् देदीप्यमाने कुण्डले यासा तास्तथा तासाम् ॥ २९ ॥ द्राघिष्ठेति- द्राधिष्ठश्वसनसमीरणाभिताप- प्रम्लानीभवदरुणोष्ठपल्लघानाम् ।। नानोपायनविलसत्कराम्बुजाना मालीभिः सततनिषेवितं समन्तात् ॥ ३० ॥ पुनः किम्भूतानां दी? यः श्वासवायुस्तेनयोऽभितापः तेन प्र. म्लानीभवन् रक्तौष्ठपल्लवो यासां तास्तथा तासां पुनः किंभूतानां विविधोपायनेन शोभमानानि हस्तकमलानि यासान्तास्तथा- तासाम् ॥ ३० ॥ तासामिति- तासामायतलोलनीलनयनव्याकोश नीलाम्वुज- नाग्भिः संपरिपूजिताखिलतनुं नानाविलासास्पदम्॥ तन्मुग्धाननपङ्कजप्रविगलन्माध्वीरसास्वादनीं। विभ्राणं प्रेणयोन्मदाक्षिमधुकृन्मालां मनोहारिणीम् ३१ तृतीयपटलम् । ६५ पुनः कीदृशं मुकुन्दं तासां गोपसुन्दरीणाम् आयतं दीर्घ लोलश्च ज्वलं नीलं श्याम यन्नयनं तदेव व्याकोशं नीलोत्पलं प्रफुल्लं नीला- म्वुजं तेषां सम्भिर्मालाभिः सम् परिपूजिता अधिकतरमर्चिता सक- ला तनुर्यस्य स तथा तं पुनः कीदृशं विविधविलासस्थानं पुनः कीदृशं तन्मुग्धाननेति तासां यन्मनोहरं मुखं तदेव पनसमूहस्त- स्मात् विगलन् स्रवन् यो माध्वीरसो मकरन्दः तमास्वादयितुं शीलं यस्याःतां प्रणयेन प्रीत्या उद्गतमदं यदक्षियुगलं सैव भ्रमर- माला पङ्किः ता मनोहारिणीं विभ्राणम् ॥ ३१ ॥ अधुना परमेश्वरध्यानानन्तरमुपासकामरप्रभृतीनां ध्यानमाह ॥ गोपीगोपति- गोपीगोपपशुनां वहिः स्मरेदग्रतोऽस्य गीर्वाणघटाम्।। वित्तार्थिनी विरचित्रिनयनशतमन्युपूर्विकां स्तोम्रप- राम् ॥ ३२॥ अस्य परमेश्वरस्याऽग्रतो गोपीगोपशूनां बहिर्गीर्वाणघट- देवसमूह स्मरेत् यद्यपि वहिः शब्दयोगे पञ्चमी ज्ञापिता तथा- पि झापकसिद्धं न सर्वत्रेति षष्ठीप्रयोगे ऽपि न दोषः किं भूतां वित्तार्थिनी ज्ञानार्थिनी वा धनार्थिनीं यद्वा परमेश्वरचित्तापहरणपरी यद्वा धर्मकाममोक्षार्थिनीम्-पुनःकिम्भूताम्-विरञ्चिब्रह्मा ईशः शक्रःतत्प्रमुखां पुनाकिम्भूतां स्तवनपराम् ॥ ३२ ॥ तदक्षिणत इति । तहक्षिणतो मुनिनिकरं दृढधर्मवाञ्छमानायपरम् । योगीन्द्रानथ पृष्ठे मुमुक्षमाणान्समाधिना सनकाद्यान३३ तस्य परमेश्वरस्य दक्षिणतो दक्षिणभागे तद्वदि- ति पाठे तेनैव प्रकारेण मुनिनिकरं मुनिसमूहं स्मरेत । को. दृशमाम्नायपरं वेदाध्ययनपरं पुनः कीदृशं निश्चला धर्मवा- ज्छा यस्य तं यत्तु मननान् मुनिरित्यभिधानात् एषां धर्मवान्छा- न युक्ता तेन मुनिशब्दोऽत्रऋष्युपलक्षक इति तन्न धर्मशब्देना. त्राऽऽत्मज्ञानाभिधानात् ।

सटीकक्रमदीपिकायाः तदुक्तं याज्ञवल्क्येन । अयं तु परमो धर्मोयद्योगेनात्मदर्शनमिति । अथानन्तरं परमेश्वरस्य पश्चाद्भागेसनकाद्यान् योगेश्वरान् स्म- रेत् किम्भूतन् मोक्षकपरान् पुनः किंभूतान् समाधिनोपविष्टान् ॥३३॥ सव्यइति- सव्ये सकान्तानथ यक्षसिद्ध- गन्धर्वविद्याधरचारणांश्च । सकिन्नरानप्सरसश्च मुख्या: कामाथिनो नर्तनगीतवाद्यैः ॥ ३४ ॥ अथानन्तरं देववामभागे सस्त्रीकान् यक्षादीन् स्मरेत् किंभू- तान् किंनरसहितान् पुनः किम्भूतान् सर्वनर्तनगीतवाद्यैः करण- भूतैर्वाञ्छितार्थिनः । तथा प्रधानभूता अप्सरसः उर्वशीमुख्याः स्मरेत् ॥ ३४॥ शङ्केन्द्विति- शवेन्दुकुन्दधवलं सकलागमज्ञं सौदामनीततिपिशङ्गजटाकलापम् । तत्पादपङ्कजगतामचलाश्च भक्ति- वाञ्छन्तमुज्झिततरान्यसमस्तसङ्गम् ॥ ३५ ॥ नभसि आकाशे धातृसुतं ब्रह्मपुत्रं स्मरेत् कथंभूतं शङ्खादिव- त् श्वेतं निर्मलं पुनः कीदृशं संपूर्णागमवेत्तारं पुनः कीदृशं- सौदामनी विद्युत्तस्यास्ततिः दीप्तिस्तद्वत् पिशङ्गा कपिला या- जटा तस्याः कलापः समुदायो यत्र तं पुनः कीदृशं भक्तिमिच्छ- न्तं किम्भूतां स्थिरी पुनः कीदृशम् अत्यन्तपरित्यक्तपरमेश्वरभिन्न सकलसंवन्धम् ॥ ३५ ॥ नानेति । नानाविधश्रुतिगणान्वितसप्तराग ग्रामत्रयीगतमनोहरमूर्च्छनाभिः ।

तृतीयपटलम् । ॥ : संप्रीणयन्तमुदिताभिरमुं महत्या सञ्चिन्तयेत्रभसि धातृसुतं मुनीन्द्रम् ॥ ३६ ।। पुनः कीदृशम् अमुं नानाप्रकारः षट्त्रिंशद्भेदात्मको यः श्रुतिगणः नादसमूहस्तेनान्विता ये सप्त रागाः निषादर्षभगान्धा- रषड्जमध्यमधैवतपञ्चमाख्याः स्वराः तत्र प्रयाणां प्रामाणां समा- हारो ग्रामत्रयी तत्र प्रामत्रय्यां गताः प्राप्ताः या मूर्छनाः मनोह- रा एकविंशतिप्रकाराः ताभिः सम्प्रीणयन्तम । सप्तस्वरास्त्रयो ग्रामा मूर्छनास्त्वेकविंशतिः। संमूर्छितः स्वरो यत्र रागतां प्रतिपद्यते । मूर्छनामिति तो प्राहुः कवयो ग्रामसम्भवाम् । किंभूताभिः महत्या सप्ततन्त्रीयुक्तया नारदवीणया उदिताभि- रुद्रताभिः ॥ ३६॥ अधुना प्रकृतमुपसंहरन् आत्मपूजाक्रममाह- इतीत्यादिना। इति ध्यात्वाऽऽत्मानं पटुविशदधीनन्दतनयं- पुरो बुद्ध्यैवाऽर्घ्यप्रभृतिभिरनिन्द्योपहृतिभिः । यजेद्भूयो भक्त्या स्ववपुषि वहिष्टैश्चविभवै. विधानं तब्रूमो वयमतुलसांनिध्यकृदथ ॥ ३७ ॥ इति पूर्वोक्तध्यानप्रकारेण पटुविशदधीः समर्था विचार- क्षमा अथ च निर्मला एवंभूता बुद्धिर्यस्य स तथा त्मानं नन्दतनयं गोपालकृष्णरूपं ध्यात्वा आत्मनन्दतनययोरभेदं चिन्तयित्वा पुरः प्रथमतो बुद्यैव मनसैवा ऽयप्रभृतिभिः अयंपा. धादिभिरुपहतिभिरानिन्दितोपचारः यथोपदेशं पूजयेत् । त्रिपाठिनस्तु अभिनन्द्येतिपाठे धृत्वा पूजयेदित्यर्थमाहुः । भूयः पुनरपि स्वशरीरे साक्षाद्वाह्योपचारैरादिभिः येत अथानन्तरं तद्विधानं वहिष्ठविभवार्चनप्रकारं वयं ब्रूमः । कीशं परमेश्वरात्यन्तसान्निध्यदातारम् ॥ ३७ ॥ शङ्खपूरणविधिं दर्शयति- आ- पूज-

६८
सटीकक्रमदीपिकायाः
रचय्येति-
आरचय्य भुवि गोमयाम्भसा।
स्थण्डिलं निजममुत्र विष्टरम् ।
न्यस्य तत्र विहितास्पदोऽम्भसा.
शङ्खमस्त्रमनुना
विशोधयेत् ॥ ३८॥
भुवि पृथिव्यां स्थाण्डलं पूजास्थलं गोमयसहितेन जलना-
ऽऽरचय्य उपालप्य अमुत्र स्थण्डिले निजं स्वीयं विष्टरमासनं वस्त्र-
कम्वलादिकं न्यस्य संस्थाप्य तत्र विष्टरे विहितास्पदः कृतासनो
जलेन शमस्त्रमनुना मूलमन्त्रास्त्रमन्त्रेण अस्त्रायफडितिमन्त्रेण
वा प्रलेपयेत् ॥ ३८॥
तति-
तत्र गन्धसुमनोक्षतानथो।
निक्षिपेधृदयमन्त्रमुच्चरन् ।
पूरयबिमलपाथसा सुधी-
रक्षः प्रतिगतैः शिरोन्तकैः ॥ ३९ ॥
वामभागकतवह्निमण्डलाधारके शङ्ख सुधीः सुबुद्धिसाधक:
हृदयमन्त्रं मूलमन्त्रमेव वृदयमन्त्रं केवलं हृदयाय नमः इति वा
उच्चार्य गन्धपुष्पयवतण्डुलाशिक्षिपेत् तथा विमलपाथसा निर्म
लजलेन पूरयेत् मन्त्रमाह प्रतिगतैरिति प्रतिलोमगतैः प्रतिलोम-
पठितैर्मातृकाक्षरैः क्षकाराचैरकारान्तैः शिरोन्तकैः सविन्दुकैः
विन्द्वन्तकैरिति लघुदीपिकाकारः स्वाहान्तैरिति विद्याधराचार्यः
विक्रायम्वाहेत्त्यन्तरिति त्रिपाठिनः ॥ ३९ ॥
पोठेति।
पीठशङ्खसलिलेषु मन्त्रविद् ।
वहिवासरनिशाकृतां क्रमात् ।
मण्डलानि विषकश्रवोक्षरै-
रर्चयेद्वदनपूर्वदीपितैः ॥ ४०॥

तृतीयपटलम् । पीठे शङ्ख सलिले च यथाक्रमं वह्निसूर्यचन्द्राणां मण्डलानि विषं मकारः कंशिरस्तत्र न्यस्यमानोऽकारः श्रवाश्रोत्रं तत्र न्यस्यमान- उकार एभिरक्षरैर्मन्त्रविदुपासकः क्रमेण पूजयेत् कीदृशैः वदनपू. वंदीपितः बदनपूर्वे शिरसि न्यस्यमानम् अंविन्दुरिति यावत् तेन दीपितैः सानुस्वारैरित्यर्थः । प्रयोगस्तु में वहिमण्डलाय दशक- लात्मने नमः अं अर्कमण्डलाय द्वादशकलात्मने नमः उं सोमम- ण्डलायषोडशकलात्मने नमः॥४०॥ तत्र तीर्थति- तत्र तीर्थमनुना ऽभिवाहयेत् । तीर्थमुष्णरुचिमण्डलात्ततः । स्वीयहत्कमलतो हरिं तथा- गालिनी च शिखया प्रदर्शयेत् ॥ ४१ ॥ तत्र शङ्खजले वक्ष्यमाणतीर्थमन्त्रेण सूर्यमण्डलतीर्थमावाहयेत् तथा ततः स्वीयहत्पनात् कृष्णमायाहयेत् अनन्तरं शिखाम- न्त्रेण वक्ष्यमाणां गालिनी मुद्रां प्रदर्शयेत् चकारात् धेनुमुद्रां च (वामहस्ततले दक्षिणतर्जन्या ताडनं प्रबोधनम् ) ॥ ४१ ॥ तज्जलमिति- तज्जलं नयनमन्त्रवीक्षितं । वर्मणा समवगुण्ठ्य दोर्युजा ॥ मूलमन्त्रसकलीकृतं न्यसे. दङ्गकैश्च कलयदिशोऽस्त्रतः ॥ ४२ ॥ तजलं शङ्खजलं वौषडिति नयनमन्त्रेण धीक्षितं यत्र नयनमन्त्रः सम्भवति तत्रैव नयनमन्त्रेण वीक्षणमिति त्रिपाठिनः धर्मणा हुमिति कवचमन्त्रणा ऽवगुण्ठ्य मूलमन्त्रसकलाकृतं मूलमन्त्रागसम्बद्ध म् । एतस्यैव विवरणं न्यसेदिति । देवताले षडाना न्यासः स्यात् सकलीकृतिरिति रुद्रधरः । यद्वा मूलमन्त्रध्यानेन सदैवतमिति त्रिपाठिनः अङ्गकैश्चन्यसे- ७० सटीकक्रमदीपिकायाः दिति मूलमन्त्रस्य षडङ्गन्यासकुर्यादित्यर्थः अनन्तरं शङ्खस्य दश दिशः अस्त्रमन्त्रेण छोटिकया पनीयात् ॥ ४२ ॥ अक्षइत्यादि । अक्षतादियुतमच्युतीकृतम् । संस्पृशन् जपतु मन्त्रमष्टशः । किं च न क्षिपतु वर्द्धनीजले. मोक्षयेन्निजतनुं ततोऽम्युना ॥ ४३ ॥ तजलम् अभग्नतण्डुलचन्दनपुष्पसहितं विष्णुस्वरूपतां नीतं स्पृशन् मूलमन्त्रमष्टकृत्वो जपेत् अनन्तरम् अर्धजलस्य किञ्चित् स्वदक्षिणभागस्थापितवर्द्धनीजले प्रोक्षणीयपात्रजले निक्षिपेत्, तदुक्तम्- दक्षिणे प्रोक्षणीपात्रमादायाऽद्भिः प्रपूजयेत् । किञ्चिदाम्वु संगृह्य प्रोक्षण्यम्भसि योजयेदिति ॥ ततस्तदनन्तरम् अर्घपात्रजलेन वारत्रयं निजशरीरं प्रोक्षयेत् । वर्द्धनीघटजलेनेति विद्याधराचार्याः ॥ ४३॥ त्रिरिति । त्रिः करेण मनुनाऽखिलं तथा- साधनं कुसुमचन्दनादिकम् । शङ्खपूरणविधिः समीरितो- गुप्त एष यजनाग्रणीरिह ॥ ४४ ॥ तथा मूलमन्त्रेण दक्षहस्तेन पुष्पचन्दनादिकं पूजोपकरणद्रव्यं वारत्रयं प्रोक्षयेत् । उपसंहरति शर्केति । एष शङ्खपूरणप्रकारः समीरितः उक्तः । कीरशः इह आगम- शास्त्रे यजनाप्रणीः प्रथमविधाने यः श्रेष्ठतरः॥४४॥ अधुना तीर्थमन्त्रं दर्शयति ।

तृतीयपटलम् । ७१ गलेचेति- गङ्गे च यमुने चैव गोदावरि सरस्वति नर्मदे सिन्धुकावेरि जलेऽस्मिन्सन्निधिं कुरु ॥४५॥ एष तीर्थमनुप्रोक्तो दुरितौघनिवारणः कनिष्ठागुष्ठको सक्ती करयोरितरेतरम् ॥ ४६ ।। तर्जनीमध्यमानामाः संहता भुग्नसञ्जिताः। मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता॥४७॥ एषतीर्थावाहनमन्त्रः कथितः दुरितेति पापसमूहविनाशकः । अधुना गालिनी मुद्राया लक्षणमाह- कनिष्ठत्यादिना। हस्तयोरन्योन्यकनिष्ठाङ्गष्टको सम्बन्धौ तथा तर्जनीमध्य- मानामिकाः संहताः कृत्वा भुग्नाः किञ्चिदाकुञ्चिताः परस्परसंस- ताः कार्या इत्यर्थः एवं च सति एषा गालिनी मुद्रा प्रोक्ताशङ्खयो परि चालिता सती देवताप्रति सम्पादयतीत्यर्थः॥४५॥ ४६॥४७॥ अधुना स्वदेहे पीठपूजाक्रममाह- अथेत्यादि- अथ मूर्द्धनि मूलचक्रमध्ये । निजनाथान् गणनायकं समर्थे । न्यसनक्रमतश्च पीठमन्त्रै- जलगन्धाक्षतपुष्पधूपदीपैः ॥ ४८ ॥ अथानन्तरं मूर्धनि स्वकीयशिरसि मूलेचक्रमध्ये मूलाधार- चक्रे यथाक्रमं स्वनाथान् स्वगुरुन् गणपति च पूजयित्वा पूर्वो- तन्यासक्रमेण पीठमन्त्रराधारशक्तिमारभ्य पीठमन्त्रान्तं तत्तन्मात्रै जलगन्धाक्षतपुष्पधूपदीपैः स्वशरीरे पाठपूजनं कुर्यात् ॥ ४८ ॥ प्रयजेदथमूलमन्त्रतेजो निजमूले हृदये भ्रुवोश्च मध्ये।

७२ सटीकक्रमदीपिकायाः त्रितयं स्मरतः स्मरेत्तदेकी- कृतमानन्दघनं तडिल्लताभम् ॥ ४९ ॥ अथानन्तरं तन्मूलाधारहृदयभूमध्यगततेजस्त्रितयं मूलमन्त्रा. त्मकं परं ज्योतिः स्मरतः कामवीजन क्लीमित्यनेनैकीभूतं चिन्त- येत् कीदृशम् आनन्दघनं चिदानन्दम् पुनः कीदृशम् विद्युत्प्रभम्॥४९॥ तत्तेजोङ्गैरिति- तत्तेजोङ्गैः सावयवीकृत्यविभुत्या- द्यङ्गान्तं विन्यस्य यजेदासनपूर्वैः । भूषान्तैर्भूयो जलगन्धादिभिरी कुर्याद् भूत्याद्यङ्गविधानावधि मन्त्री ॥ ५० ।। तदेकीकृतं तेजः पञ्चाङ्गैः सावयवीकृत्य शरीरयुक्तं सम्पाद्य तत्र विभूत्याद्यान्तं विभूतिपञ्जरमारभ्यालन्यासपर्यन्तं स्वशरीरे विन्यस्य आसनादिभूषान्तरुपचारैर्देवपूजयेत् भूयः पु. नरपि जलगन्धादिभिर्विभूतिपञ्जरमूर्तिपञ्जरकरस्थसृष्टिस्थितिदश- पञ्चाङ्गम्यासस्थानेषु न्यासक्रमेणैव तन्मन्त्रैरेव पूजयेत् ॥ ५० ॥ भूयइति- भूयो वेणुं वदनस्थं वक्षोदेशे वनमालाम् । वक्षोजोर्ड प्रयजेच्च श्रीवत्सं कौस्तुभरत्नम्॥५१॥ भूयः पुनरपि मुखस्थं वेणुं पूजयेत् हृदये च वनमालां कण्ठ- मारभ्य पादद्वयमवलम्विनी पत्रपुष्पमयीं मालाम् । तदुक्तं- कण्ठमारभ्य या तिष्ठेत् पादद्वयविलाम्वनी । पत्रपुष्पमयी माला वनमालाप्रकीर्तितेति । स्तनस्योपरि श्रीवत्सं कौस्तुभं च पूजयेत् ॥ ५१ ॥ श्रीखण्डनिःस्यन्दर्विचर्चिताङ्गो. मूलेन भालादिषु चित्रकानि ।

तृतीयपटलम् । लिख्यादयो पञ्जरमूर्तिमन्त्र. रनामया दीपशिखाकृतीनि ॥५२॥ अथानन्तरं मूलमन्त्रेण चन्दनपङ्कलिप्तानः पूजक एवं लला. टादिषु मूर्तिपञ्जरन्यासस्थानेषु चित्रकाणितिलकानि दीपशिखा- काराणि अनामिकया मूर्तिपअरमन्त्रैः * ॐ केशवधातृभ्यां नम इत्यादिना द्वादशमूर्तिभिर्लिख्यात्कुर्यादित्यर्थः ॥ ५२ ॥ अधुना पुष्पाञ्जलिविधिं दर्शयति- पुष्पाञ्जलिमिति। पुष्पाञ्जलिं वितनुयादथ पञ्चकृत्वो- मूलन पादयुगले तुलसीदपेन । मध्ये हयारियुगलेन च मूर्ध्नि पद्म बन्देन षड्भिरपि सर्वतनौ च सर्वैः ॥ ५३ ।। अथानन्तरं पश्चकृत्वः पञ्चवारान् मूलमन्त्रेण पुष्पाञ्जलिं वि. तनुयात् तुलसीडयेन श्वेतकष्णतुलसीद्वयेन पादयुगले क्रमेण- दक्षिणवामपादयोरित्यञ्जलिद्वयं मध्ये हृदि हयारियुगलेन श्वेतरक्त- करवीराभ्यामित्येकोअलिः मूर्तीिपभद्वयेन श्वेतरक्तपद्माभ्याम् इत्य- परोऽञ्जलिः सर्वतनी सर्वेश्च षड्भिरपि तुलसीवयकरवीरवयपत्र द्वयैधाञ्जलिं तनुयादिति पञ्चमोऽञ्जलिः॥ ५३॥ अधुना श्वेतकृष्णतुलस्यादीनां प्रदानविभागं दर्शयति श्वेतानीति । श्वेतानि दक्षभागे सितचन्दनपङ्किलानि कुसुमानि. रक्तानि वामभागे ऽरुणचन्दनपङ्कसिक्तानि ॥ ५४ ॥ श्वेतानि तुलस्यादीनि पुष्पाणि श्वेतचन्दनपङ्कयुक्तानि दक्षि. पविभागे देयानि रक्तानि तुलस्यादीनि रक्तचन्दनपयुक्तानि- घामविभागे देयानि ॥५४॥ उपचारं दर्शयति- १० सटीकक्रमदीपिकायाः तदिति। तबच्च धूपदीपौ समर्प्य धिनुयात्सुधारसैःकृष्णम् मुखवासायं दत्वा समर्चयेत्साधुगन्धायैः ॥ ५५॥ धूपदीपौ समर्प्य सुधारसैब्रह्मरन्ध्रस्थितशशाङ्कविम्वगलितामू. तद्रवैधिनुयात् प्रीणयेत् सुधारसमन्त्रकृतजलैरिति रुद्रधरः । श्रीकृष्णं प्राणयेत् अनन्तरं मुखवासाद्यं गन्धवाटिकां दत्वा गन्धपु. प्पैः पूजयेत् ॥ ५५ ॥ ताम्बूलेति। ताम्बूलगीतनर्तनवाचैः सन्तोष्य चुलुकसलिलेन॥ ब्रह्मार्पणाख्यमनुना कुर्यात्स्वात्मार्पणं मन्त्री ॥५६॥ ततस्तदनन्तरं मन्त्री साधकः उपासकः ताम्बूलगीतादिभिः श्रीकृष्णं परितोष्य चुलुकोदकेन ब्रह्मापर्णमन्त्रेण वस्यमाणस्वा- स्मसर्पणकुर्यादित्यर्थः ॥ १६॥ अथाशक्तं प्रत्याह- अथ वेति। अथ वा संकुचितधियामयं विधित्तिपञ्जरारब्धः ।। यद्यष्टादशलिपिनासार्णपदाङ्गैश्च वेणुपूर्वैः प्रोक्तः॥५॥ अथ वा मन्दमतीनां पूजकानां पूजाप्रकारो मूर्तिपारादिभिः रुक्त इयं दशाक्षरण पूजा, अष्टादशाक्षरपूजामाह यद्यष्टादशाक्षर- मन्त्रेण पूजा तदा कचभुविललाटादिस्थानेषु मन्त्राक्षरम्यासपद पश्चान्यासैवेवादिभिश्च प्रोक्तः ॥ ५७ ॥ जपविधि दर्शयति- सुप्रसन्नेति। सुप्रसन्नमथ नन्दतनूज भावयन् जपतु मन्त्रमनन्यः॥

-
तृतीयपटलम् ।
सार्थसंस्मृतियथाविधिसंख्या-
पूरणेऽसुयमनं विदधीत ॥ ५८ ॥
अथानन्तरं मन्त्रार्थस्मरणपूर्वकं मूलमन्त्रं जपतु किकुर्वन् सु.
प्रसन्नं पूर्वोक्तरूपम् आत्मभिन्नं कृष्णं हृदि भावयन् पुनः किम्भू.
तः अनन्यस्तत्परः यथोक्तजपसंख्यापूरणे सति असुयमनं प्राणाया
में कुर्यात् जपारम्भे चात्रविद्याधराचार्यः वाह्यपूजाशक्ती आत्म-
पूजानन्तरं जपं कुर्यात् शक्तौ तु पूजानन्तरमित्याह ॥ ५८ ॥
प्रयोगपूर्वकृत्यमाह-
प्रणवति।
प्रणवपुटितं वीजञ्जप्रवाशतं सहिताष्टकं
निजगुरुमुखादात्तान् योगान्युनक्तु महामतिः ॥
सदमृतचिदानन्दात्माऽथोजपश्च समापये.
दितिजपविधिः सम्यक् प्रोक्तो मनुदितयाश्रितः॥१९॥
कामवीजं प्रणवपुटितं सहिताष्टकं शतमष्टोत्तरशतं जप्त्वा नि-
जगुरुमुखात्प्राप्तान्योगान् आत्मपरदेवतासमावेशलक्षणान् अष्टम.
पटले वक्ष्यमाणान्महामतिर्युनक्तु करोतु
प्रकृतमुपसंहरति-
अनन्तरं सदमृतचिदानन्दात्माऽमुंजपं समापेयत् इत्यनेन प्रका-
रेण मनुद्वितयाश्रितः दशाक्षराष्टादशाक्षराश्रितः पूजाप्रकार स.
सम्यक् प्रकारेणोक्तः ।। ५९ ॥
य इति।
य इमं भजते विधि नरो
भविताऽसौ दयितःशरीरिणाम् ।।
अपिवाकमलैकमन्दिर
परमं ते समुपैति तन्महः ॥ ६ ॥
इति श्रीकेशवभट्टाचार्यविरचितायां-
कमदीपिकायान्तृतीयः पटलः ॥३॥

1७६
सटीकक्रमदीपिकायाः
यो नरो मनुष्य इमं पूजाप्रकारं सेवतेऽसौ शरीरिणां व
लभो भविष्यति तदा सरस्वतीलक्ष्म्योरावालो भविता अन्ते दे.
हपातानन्तरं तेजः समुपैति तद्रूपो भवतीत्यर्थः॥६०॥
इति श्रीकेशवकाश्मीर्याचार्यप्रवरविरचितक्रमदीपिकाविवरण:
तृतीयः पटलः॥३॥
अथ मन्त्रजपादौ दीक्षितस्यैवाधिकारः तदुक्तमागमान्तरे-
द्विजानामनुपेताना स्वकर्माध्ययनादिषु ।
यथाधिकारो नास्तीह स्यालोपनयनादनु ॥
सथात्रादीक्षितानां तु मन्त्रे देवार्चनादिषु ।
ना ऽधिकारोस्त्यतः कुर्यादात्मानं शिवसंस्कृतम् ॥
इत्यतो मन्त्रजपप्रधानामभूतां दीक्षांकथयामीत्याह।
कथ्यत इति ।
कथ्यते सपदि मन्त्रवर्ययो:-
साधनं सकलसिद्धिसाधनम् ।
यविधाय मुनयो महीयसी
सिद्धिमीयुरिह नारदादयः ॥ १॥
सपदि सांप्रतं मनुवर्ययोः दशाक्षराष्टादशाक्षरयोः साध्यते
वाञ्छितमनेनेति साधनं दीक्षणकथ्यते कीदृशं सकलफलसाधनं
यत् कृत्वा नारदादयो मुनयः महतीं सिद्धिम् इह जगति
प्राप्तवन्तः॥ १॥
दक्षिाया गुरुसाध्यत्वादादौ गुरुलक्षणमाह-
विप्रमिति।
वित्रं प्रध्वस्तकामप्रभृतिरिपुघटानिर्मलाङ्गं गरिष्ठां
भक्तिं कृष्णाधिपःरुहयुगलरजोरागिणीमुबहन्ता
घेत्तारम्बेदशास्त्रागमविमलपथां सम्मतं सत्सुदान्तं
विणं यः संविवित्सुःप्रणततनुमनादेशिक संश्रयेता॥२॥

चतुर्थपटलम् ७७ योविद्यां संविषित्सुमन्त्रं सम्यक् सातुमिच्छति स पता. शं देशिकं गुरुं संश्रयेत् सेवेत कीदृशं विप्रं ब्राह्मणजातं उप- देशे क्षत्रियादेरनधिकारात् पुनः कीरशं प्रकर्षेण दूरीभूता कामा. धरिषड्वर्गघटा तया पूतं शरीरं यस्य तथा तं कामक्रोधी लोभ मोही मदमत्सरौ पते रिपवः कामादयः लोभाधुपहतचित्तस्य निर म्तरं प्रत्यवायोत्पत्त्या सेव्यत्वाभावात् पुनः कीरशं श्रीकृष्णचरण कमलयुगले य द्रजस्तारागयुक्ताम् अतिशयितां भक्तिं धारयन्तम अभक्तस्य पुरुषार्थानवाप्तेः पुनः कीदृशं वेदशास्त्रागमसम्बन्धिविम- लमार्गाणां मातारम् अन्यथा आगमशास्त्रविचारानुपपत्तेःपुनः कीदृशं सत्सुजनेषु मध्ये सम्मतं सज्जनत्वेन प्रसिद्धम् अन्यथा खलत्वात् शुश्रूषानहत्वात्सच्छब्दार्थ एवनस्यात् पुनः किम्भून्तं दान्तं वशी- कृतेन्द्रियम् अवशीकृतेन्द्रियस्य देवतापराङ्मुखत्वात् कीडशः प्रण- तानम्रा विनीतातनुः कायोमनो हृदयम् च यस्य स तथा अत्रा- ऽधिकं मतकतशारदातिलकेश्वगन्तव्यम् ॥२॥ गुरुसेवाप्रकारमाह- सन्तोषयेदिति । सन्तोषयेदकुटिलार्द्रतरान्तरात्मा- तं स्वैर्धनैश्च वपुषाप्यनुकूलवाण्या ॥ अन्दत्रयङ्कमलनाभधियाऽतिधीर स्तुष्टे विवक्षतु गुरावथमन्त्रदीक्षाम् ॥ ३ । अथानन्तरम् उक्तलक्षणं गुरुं वत्सरत्रयं पद्मनाभबुद्धा सन्तोषयेत् कैः स्वीयद्यैः तथा शरीरेण तथा प्रियवचनेन कीडशः सुधीरः पण्डितः पुनः कीदृशः अवक्रोऽतिस्निग्धो अन्त- रात्मा अन्तःकरणं यस्य स तथा अथानन्तरं तुष्टे गुरौ मन्त्रदीक्षा विवक्षतु वक्तुमिच्छतु शिष्यएव यत्त्वन्यत्रोक्तम् । एकाब्देन भवेद्विप्रोभवेदन्दद्वयान्नृपः । भवेदव्दत्रयैर्वैश्यः शद्रो वर्षचतुष्टयैः ।। इति।

सटीकक्रमदीपिकायाः सदस्यन्तपरिशीलितविषयम् । अन्यथातु। त्रिषु वर्षेषु विप्रस्य षड्वर्षेषु नृपस्य च । विशोनवसुवर्षेषु परीक्षेतेतिशस्यते । समास्वपिद्वादशसुतेषां यवृषलादयः । इति बोद्धव्यं । विहितनक्षत्रादिकं मत्कृत्शारदातिलकोद्योते बोद्धव्यम् ॥३॥ कलावत्यादिभेदेन दीक्षाया बहुविधत्वात् मया पुनरत्रप्रपश्च सारोक्ता क्रियावती दक्षिष सोपेण प्रदर्श्यते इत्याह- प्रपञ्चसारेति। प्रपञ्चसारप्रार्थिता तु दीक्षा संस्मार्यते संप्रतिसर्वसिद्ध्यै ।। ऋते यया सन्ततजापिनोऽपि सिद्धिं न वै दास्पति मन्त्रपूगः ॥ ४ ॥ सम्प्रति दीक्षा क्रियावती संस्मार्यते तस्याः स्मरणमात्र क्रि. पते नतु सम्यगभिधीयते अत्र हेतुः यतः प्रपञ्चसारे विधिच्यो- का, किमर्थमभिधीयते सर्वेषां फलानां प्राप्त्यै यया दीक्षया विना सर्वदाजपकर्तुः पुरुषस्य मन्त्रसमूहः फलं यस्मानददाति । यदाहुः। मन्त्रवर्गानुसारेण साक्षात्कृत्येष्टदेवताम् गुरुश्चेदूबोधयच्छिष्यं मन्त्रदीक्षेति सोच्यत । इति ॥४॥ अथ शोधितशालादिस्थाने मण्डपपूर्ववत्यं वास्तुबलिमाह- अथेति। अथ पुरोविदधीत भुवः स्थली माधि यथाविधि वास्तुवलिंबुधः ॥

तु मण्डप चतुर्यपटलम् । ७९ अचलदोमितमत्र ममृणवेदिकमारचयेत्ततः ॥५॥ अथानन्तरं प्रथमं भुवः स्थलीमधि पृथिव्यामुपरि यथावि- धि यथोक्तप्रकारेण वास्तुवलिं बुधो दद्यात् अत्र बलिदानादि विधिश्च मत्कृतशारदातिलकोद्योते बोद्धव्यः ततस्तदन्तरम् अत्र संस्कृतभूमौ मण्डपं कुर्यात् कीरशम् अचलदोर्मितं सप्तहस्तपरिमितं तु शब्दो अनुक्तसमुच्चयार्थः । तेन पञ्चहस्तपरिमितं नवहस्त- मितं चेति बोसव्यं पुनः कीदृशं मसृणवेदिकं चिकणवेदिकम् उत्क- एवेदिकमित्यर्थः ॥५॥ त्रिगुणेति । त्रिगुणतन्तुयुजा कुशमालया परिवृतंप्रकृतिध्वजभूषितं ॥ मुखचतुष्कपयस्तरुतोरणं सितवितानविराजितमुज्ज्वलम् ॥ ६ ॥ पुनः कीदृशं कुशमालयावष्टितं किम्भूतया श्वेतरक्तश्यामवर्णत. न्तुयुक्तया यहा त्रिगुणीकृतसूत्रयुक्तया पुनः कीरशम् अष्टभिध्वजैः शोभितं प्रकृतिरष्टसंख्या पुनःकीदृशं मुखचतुके द्वारचतुष्टये पयस्तरुभिः क्षीरवृक्षः तोरणं वहिारं यत्र तादृशं क्षीरवृक्षास्तु अश्वत्थादुम्बरप्लक्षन्यग्रोधाख्याः ( पुनः कीदृशं शुभ्र चन्द्रातपेनशो. भितं) पुनः कीरशमुज्ज्वलंनिर्मलम् ॥६॥ कुण्डविधिमाह- बस्विति । वसुत्रिगुणिताङ्गुलपमितखाततारायतं वसोईसुपतेरथो ककुभिधिष्ण्यमस्मिन् बुधः करोतुवसुमेखलंवसुगणार्द्धको प्रती च्यवस्थितगजाधरप्रतिमयोनिसंलक्षितम् ॥७॥ अथानन्तरम् अस्मिन् मण्डपेबुधः बसोवर्धिष्ण्वं कुण्ड - ८० सटीकक्रमदीपिकायाः करोतु कीरशं वसुरष्टसंख्या अष्टौवसवः इति प्रसिद्धः तेषां व. सूनां त्रिगुणानि चतुर्विंशाङ्गुलानि तैः प्रमितं तत्प्रमाणं. खातस्यगर्सस्य उश्चत्वंविस्तारश्च यत्र तादृशं कुत्र वसुपतेः कुवेरस्य ककुभिदिशि उत्तरस्यां पुनः कीदृशं वसुमेखलम् अत्र वसुशब्देन अग्निरुच्यते सचगार्हपत्याहवनीयेत्यादित्रिविधः पुनः कीरशं वसुग. णाईकोणं चतुष्कोणं पुनः कीदृशं पश्चिमदिश्यवस्थितं गजोड- सहशद्वादशाङ्गुलायामा या योनिस्तया भूषितं न्तदुक्तं- द्वादशाङ्गुालरूपत्वाद्योनिः स्यादवादशाङ्गुलिरिति । अपरोऽविशेषः शारदातिलकतोऽवगन्तव्यः ॥ ७ ॥ अधुनाराशिमण्डलविधिदर्शयति । तत इति । ततोमण्डपेगव्यगन्धाम्बुसिक्के लिखेन्मण्डलं सम्यगष्टच्छदाब्जम् ॥ सवृत्तत्रयंराशिपीठाघ्रिङ्वीथि चतुरिशोभोपशोभास्रयुक्तम् ॥ ८ ॥ ततोमण्डपानन्तरम् अस्मिन् मण्डपेसम्यक्यथोकप्रकारे णमण्डलंलिखेत् कीडशे गव्यैः पञ्चगव्यैः शारदाति- लकोक्तवैष्णवगन्धाष्टकजलेनप्रोक्षिते कीरशम् अष्टदलपनसहितं पुनः कीदृशं वृत्तत्रयसहितं पुनः राशयोमेषादयः पीठंक लसस्थापनस्थानंतस्याज्रिपाठपात्रचतुष्टयं चतम्रोवीथयः त्वारिद्वाराणिशोभाउपशाभा अनंकोणम् पतैर्युक्तम् अयमर्थः सा. र्द्धहस्तद्वयप्रमाणनसमचतुरस्रम्भूभागंपरिष्कृत्यतत्र पूर्वापरायतानि- सप्तदशसूत्राणिपातयेत् एवंसतिषट्पञ्चाशदुत्तरं द्विशतकोष्ठानां भवति कोष्ठविभागोमध्येषोडशभिः कोष्ठत्तत्रयान्वितं पनंलिखेत् । तत्रवपद्मोपरिशिष्टपीठंतदनंचलिखेत् ) तद्वहि- रष्टाधिकचत्वारिंशताद्वादशराशीन् लिखेत् तद्वाहिः षटत्रिशता. पीठं पीठानचलिखते ( तद्वहिरशीतिभिः पदैलिखेत् ) अत्रेदं बो. द्धव्यं पन्नस्यदलाप्रस्थंवृसंपीठशक्तिश्चएतयोर्मध्ये पूर्वदक्षिणपश्चि- मोतरंसूत्रचतुष्टयंदद्यात् अनन्तरंद्वादशाधिकैः शतपदैरशोभोप- तत्र चतुर्थपटलम् । ८१ शोभाकोणानिविलिखेत् तत्रसर्वस्यादिशिवारंषट्पदं । (तत्रप्रका. २. वाह्यपङ्किगतमध्यकोष्ठत्यन्तदन्तर्गतपङ्किगतमध्यकोष्ठद्वयमिति- द्वारस्यकस्मिन्भागेकोष्ठचतुष्टयेनकाशोभाभवति तत्रबायपाक्टिग. समेकोष्ठंतदन्तर्गतपतिगतकोष्ठत्रयमितिएवंकोष्ठचतुष्टयनैकोपशो- भाभवति अत्रवाहपबिगतकोष्ठत्रयन्तदन्तर्गतपडिगतमेकंकोष्ठमि- तितथाकोष्ठषट्केन कोणमिति एवमपरस्मिन्भागेऽपिशोभोपशो. भाकोणानिबोद्धव्यानि एवंदिक्चतुष्टयेऽपिमिलित्वा द्वादशा. धिकंशतभवतीति अत्रानुक्तंशारदातिलकेबोध्यम् ॥ ८ ॥ ततो देशिकः स्नानपूर्व विधानं । विधायाऽऽत्मपूजावसानं विधिज्ञः ॥ स्ववामाग्रतः शङ्खमप्यर्घ्यपाद्या- चमायानि पात्राणि सम्पूरितानि ॥ ९ ॥ विधायाऽन्यतः पुष्पगन्धाक्षताद्यं । करक्षालनं पृष्ठतश्चापि पात्रम् ।। प्रदीपावलीदीपिते सर्वमन्यत् । स्वदृग्गोचरे साधनं चाऽऽददीत ॥ १० ॥ तदनन्तरं विधिज्ञः आगमोक्तप्रकारज्ञः देशिको गुरुः स्नानपूर्वक विधानं स्वगृह्योक्तादिनानविधिम् आत्मपूजापर्यन्तं समाप्य स्वषा- माग्रे शशाध्यपाद्याचमनीयपात्राणि जलादिस्वच्छद्रव्यैः सम्पूरि- तानि कृत्वा यथोत्तरं स्थापयित्वा ऽन्यतो दक्षिणभागे पुष्पाणि पूजा द्रव्याणि निधाय करप्रक्षालनपात्रमेकं पृष्टदेशे निधाय सर्वमन्यत् साधनम् उपकरणं स्वदृग्गोचरे चक्षुर्गोचरे प्रदीपश्रेणिविराजिते स्थापयेत् अत्राऽपरो विशेषः श्रीपरमानन्दभट्टाचार्यकृते प्रपञ्चसार- विवरणे द्रष्टव्यः ॥९॥१०॥ वायव्येति- वायव्याशादीशपर्यन्तमर्य- पीठस्योदग्गौरवी पतिरादौ ॥

८२ सटीकक्रमदीपिकाया: पूज्योऽन्यत्राऽप्याम्विकेयः कराजः। पाशं दन्तं शृण्यभीती दधानः ॥ ११ ॥ पीठस्य राशिपीठस्य उदक उत्तरभागे वायव्यकोणादीशानकोण पर्यन्तं गुरुसम्बन्धिनी पङ्किरादी प्रथमतः पूज्या प्रयोगस्तु ॐगुरु- भ्योनमः इति अन्यत्र दक्षिणभागे आम्विकेयो गणपतिः पूज्यः की- शः हस्तपः स्वदन्तं शूणिम् अडशम् अभयं दधानः ॥ ११ ॥ अधुनाकलशस्थापनप्रकारंदर्शयति यतोदेशिक इत्यादिना आराध्यति । आराध्याऽऽधारशक्त्यायमरचरणपावध्यथो मध्यभागे। धर्मादीन् बहिरक्षःपवनशिवगतान् दिक्ष्वधर्मादिकांच॥ मध्ये शेषाजविम्वत्रितयगुणगणात्मादिकं केशराणां। बहेमध्ये च शक्तीनवसमभियजेत्पीठमन्त्रेण भूयः॥१२॥ अथानन्तरं मण्डलमध्यभागे आधारशक्तिमारभ्य कल्पवृक्ष. पर्यन्तमाराध्य पूजयित्वा पीठन्यासक्रमेण वन्हीति अग्न्यादि- कोणगतान् धर्मादीन् पूर्वादिचतुर्दिक्षु अधर्मादीन् तथा मध्ये शेषं पद्मं तथा सूर्यसोमवह्नीनां विम्बत्रयं द्वादशषोडशदशकला- व्याप्तं मण्डलत्रयं तथा सत्व त्वादिगुणत्रयं तथा ऽऽत्मादिचतुष्टयं पूजयेत् अथ केशराणां मध्ये कर्णिकायां च विमलाद्या नव शक्तीः पूर्वादिक्रमेण पूजयेत् भूयः पुनरपि पूर्वोक्तेन पीठमन्त्रेण पीठं पूजये. दित्यर्थः ॥ १२॥ तत इति। ततः शालीन् मध्येकमलममलास्तण्डुलवरा- नपि न्यस्येहीस्तदुपरि च कूर्चाक्षतयुतान् ।। न्यसेत्पादक्षिण्यात्तदुपरि कृशानोर्दश कला- यकारावर्णाचा यजतु च सुगन्धादिभिरिमा॥१॥ तदनन्तरं मध्येकमलं कमलमध्ये शालीन् आढकपरिमि- चतुर्थपटलम् । तान् तथा शुम्रान् शाल्यष्टभागपरिमितान् तणलान् श्रेष्ठान- न्यस्येत् स्थापयेत् । तदुक्तं । शालीनवैकर्णिकायांचनिक्षिप्याढकसंमितान् । तण्डलांश्चतदष्टांशान्दर्भः कूतैः प्रविन्यसेदिति । तदुपरि तण्डलोपरि कूर्चाक्षतयुक्तान् दर्भान् विन्यसेत्, कुशत्रयघटितो ब्रह्मप्रन्थिः पूर्वशब्देनोच्यते, कुर्चः कुशमुष्टिरि- तित्रिपाठिनः, तदुपरि !परि कृशानोवर्दश कला यकारादयो दशवर्णा यासान्ताः प्रादक्षिण्येन न्यसेत् तदनन्तरं इमा दश कला गन्धादिभिःपूजयेत् । आद्या: प्रथमा ताश्व- धूम्राचिरूमाज्वलिनीज्वालिनीविस्फुलिङ्गिनी । सुश्री सुरूपा कपिलाहव्यवहाकव्यवहति । प्रयोगस्तु धूम्राविषेनम इति ॥ १३ ॥ न्यसेदिति । न्यसंस्कुम्भं तत्र त्रिगुणितलसत्सन्तुकलितं । जस्तारं धूपैः सुपरिमलितं जोङ्कटमयैः । कभागः कुम्भेऽस्मिन् ठडवसितिभिर्वर्णयुगलैः। तथा न्यस्याऽभ्यास्तदनु खमणे दश कलाः॥१४॥ तत्र दशकलामये कुर्वे तारमोंकारमुचरन् कुम्भं न्यसेत् कुम्भ- स्तु सुवर्णादिनिर्मितः। तदुक्तं । सौवर्ण राजतं वापि मृन्मयं वा यथोदितम् । क्षाणयेदनमन्त्रेण कुम्भं सम्यक् सुरेश्वरीति । कीडशं प्रीवायां त्रिगुणिता लसन्तः शोभमाना ये तन्तकः कन्याकर्तितकाससूत्राणि तैः कलितम् अनमन्त्रेणवेष्टितम् पुनः कीरशं जोकटमयैः कृष्णागुरुप्रधानधूपैः सुधूपितं तदनन्तरं ..

८४. सटीकक्रमदीपिकायाः समणेः सूर्यस्य द्वादशकला अस्मिन्कुम्भे न्यस्य अनन्तरं पू: ज्याः कैः वर्णयुगलैः कीदृशैः कभाद्यैः ककारभकाराद्यैः पुनः कीर- शैः ठडवसितिभिः ठकारडकारावसानैः अयमर्थः अनुलोमपटि- तककाराधेकैकमक्षरं प्रतिलोमपठितभकाराधेकैकमक्षरेणसहितं त- पिन्यादिषु द्वादशकलासु संयोज्य न्यासादिकं कार्य । ताच- तपिनीतापिनीधूम्रामरीचि ालिनीरुचिः । सुषुम्णाभोगदावश्वावेधिनीधारिणीक्षमेति । प्रयोगस्तु कभंतपिन्यैनमः खं वं तापिन्यैनम इत्यादिकार्यम् ॥१४॥ एवमित्यादि- एवं संकल्प्याऽग्निमाधाररूपं । भानुं तत्कुम्भरूपं विधिज्ञः ॥ न्यस्येत्तस्मिन्नक्षतायैः समतं । कूर्च स्वर्णरत्नवर्यैः प्रदीप्तम् ॥ १५ ॥ एवमनेन प्रकारेणाऽधाररूपमग्निं संकल्प्य तत्कुम्भरूपंभानुं विचित्य तस्मिन्कुम्भे विधिज्ञ आगमोक्तप्रकाराभिशः मूलमन्त्रे- णाऽक्षताद्यैः सहितं च पूर्वोक्तलक्षणैः सुवर्णरत्नवनवरत्नैः शो- मितं न्यसेत् । तदुक्तंभैरवेण। एतान् नयित्वा तन्मध्येशुक्लपुष्पंसिताक्षतम् । मवरत्नंचकूचंचमूलेनैवविनिक्षिपेदिति ॥ १५ ॥ अथेति- अथ काथतोयैः चकारादिवणे रकारावसानैः : समापूरयेत्तम् ॥ स्वमन्त्रात्रजापावसानं पयोभि. गवां पञ्चगव्यर्जलैः केवलैी ॥ १६ चतुर्थपटलम् । ८५ अथाऽनन्तरं पीठकुम्भयोरैक्यं विचिन्त्य पश्चाशद्वगैरोष- धितोयैः पलाशत्वग्जलैः क्षीरदुमत्वक्काथजलैर्वा सर्वौषधिजलै- गवां पयोभिर्वा पञ्चगव्यवी केवलजलैः कर्पूरादिजला तीर्थ जला क्षकारादिवफ्रकाराबसानैर्विलोममातृकाभिः स्वमन्त्रत्रि- जपावसानं मूलमन्त्रवारत्रयजपान्तं यथा स्यादेवं पूरयेत् ॥ १६ ॥ कलश जले इति- कलशजलेस्मिन् वसुयुगसंख्याः । स्वरगणपूर्वा न्यसतु तथैव ॥ उडुपकलास्ताः सलिलसुगन्धा- क्षतसुमनोभिस्तद्नु यजंत ॥ १७ ॥ तस्मिन् कलशजले उडुपकलाश्चन्द्रकलाः वसुयुगसंख्याः षोडशसंख्याः स्वरगणपूर्वा अकारादिवर्णपूर्वा न्यसतुं तदनु तद. नन्तरं ताश्चन्द्रकलास्तथैव तेनैव क्रमेण पुष्पाअलिभिः पूजयेत् । ताश्व- अमृतामानदापूषातुष्टिः पुष्टी रतिधृतिः। शशिनीचन्द्रिका कान्तिोत्स्नाश्रीः प्रतिरङ्गदाः। पूर्णापूर्णामृतेति ॥ १७ ॥ अधुना वैष्णवगन्धाष्टकमाह- उदीच्यकुष्टकुडमाम्बुलोहसजटामुरैः ॥ सशीतमित्युदीरितं हरेः प्रियाष्टगन्धकम् ॥ १८ ॥ उदीच्यम उशीरं कुष्टं कुङ्कुमं कम्वुवाला नेत्रवाला लोहः कृष्ण- गुरुः जटया सह मुरा जटामांसो मुरा मांसी चं एतैः सह शीतं चन्दनमिति हरेः प्रियकारिगन्धाष्टकमुक्तम् ॥ १८ ॥ शङ्कपूरणमाह- सटीकक्रमदीपिकायाः - काथेति। कायतोयपरिपूरितोदरे सविलोख्य विधिनाऽष्टगन्धकम् ॥ सोमसूर्यशिखिनां पृथक्कलाः । सेचकर्म विनियोजयेत्रमात् ॥ १९॥ दरे शङ्ख विधिनाऽऽगमोक्तप्रकारेण मूलमन्त्रेण पूर्वोक्तकाथ. जलेन परिपूरिते गन्धाष्टकं नमोमन्त्रेण संविलोज्य दत्वा सोम- सूर्यवह्नीनां कलाः पृथक् समावाह्य सेचकर्म प्राणप्रतिष्ठाकर्म क्रमेण विनियोजयेत् कुर्यात् ॥ १९ ॥ तद्वदिति- तबदाक्षरभवास्तु कादिभि- धादिभिः पुनरुकारजाः कलाः ।। पादिभिर्मलिपिजास्तु विन्दुजाः । षादिभिः स्वरगणेन नादजाः॥ २० ॥ पूर्वोक्तप्रकारेण आक्षरभवा अकाराक्षरभवा दश कलाः का. दिभिः ककारादिभिर्दशभिरक्षरैः सहिताः पुनरुकारजा उकाराक्षर भवा दश कलाः यादिभिर्दशभिरक्षरैः सहिताः तथा मालपिजा मकाराक्षरभवा दश कलाः पादिभिर्दशभिरक्षरैः सहिताः तथा वि. दुजा विन्दुप्रभवाः चतस्त्रः कलाः षादिभिश्चतुरक्षरैः साहिताः तथा नादजा नावप्रभवाः षोडश कलाः स्वरसमूहेन षोडशभिः स्वरैः सहिताः शसलिले न्यस्याः। सृष्टिधृतिः स्मृतिर्मेधाकान्तिर्लक्ष्मीर्युतिः स्थिरा। स्थितिः सिद्धिरकारोत्थाः कला दश समीरिताः। यवा व पालिनी शान्तिरेश्वरी रतिकामिके। परदा हादिनी प्रीतिदीर्घा उकारजाः कलाः ॥

चतुर्थपटलम् । ७ तीक्ष्णा रौद्रो भया निद्रा तन्द्रा क्षुत्रदिनी क्रिया। उत्कारी चैव मृत्युश्च मकाराक्षरजाः कलाः । विन्दोरपि चतन्नः स्युः पीता श्वेताऽरुणाऽसिता ॥ निवृत्तिः सुप्रतिष्ठा व विद्या शान्तिस्तथैवच । ईरिका दीपिका चैव रेचिका मोचिका परा॥ सूक्ष्मा सूक्ष्ममता शाना ऽमृता चाऽऽप्यायनी तथा। व्यापिनी व्योमरूपा च अनन्ता नादसम्भवा इति ॥ प्रयोगश्च कं सष्टयैनम इत्यादि ॥२०॥ समावाहनान्ते इत्यादि । समावाहनान्तेऽसुसंस्थापनात्प्राक् । ऋचस्तत्र तत्राऽभिजप्या बुधेन ॥ समभ्यय॑ तास्ताः पृथक् तच्च पाथोऽ- पयेन्मूलमन्त्रेण कुम्भे यथावत् ॥ २१ ॥ समावाहनस्याऽन्ते ऽसुसंस्थापनास्प्राक् प्राणप्रतिष्ठायाः पूर्व पत्र तत्र स्थाने पण्डितेन धा-श्चाऽभिजप्याः पठनीयाः अयमर्थः राजले ऽकारप्रभवककारादिकलावाहनानन्तरं प्राणप्रतिष्ठायाः पूर्व 'हंसः शुचिष"दिति अचं पठेत् उकारप्रभवटादिकलावाहनानन्तरं 'प्रतद्विष्णु"रिति ऋचम्पठेत् मकारादिप्रभवपकारादिकलावाहना- नन्तरं “तत्सवितु"रित्यादि ऋचं पठेत् नादप्रभवतकारादिकला. राहनानन्तरं "विष्णोर्योनि"रित्यादिऋवं पठेत् अनन्तरं मूलमन्त्रं राजले बिलोमेन जपेत् तारकलाः पृथगेकैकशः यथावत् ग्थाविधि सम्पूज्य तच पाथः तच्छहोदकं मूलमन्त्रं पठित्वा कुम्भे विनिक्षिपेत् ॥ २१ ॥ सहेति- सहकारवोधिपनसस्तवकैः । शतमन्युवल्लिकलितः कलशम् ॥

"८८ सटीकक्रमदीपिकायाः पिदधातु पुष्पफलतण्डुलकै- राभिपूर्णयाऽपि शुभचक्रिकया ॥ २२ ॥ सहकार आम्रः बोधिरश्वत्थः पनसः कण्टकिफलवृक्षः एतेषां स्तवकैः पल्लवैः शतमन्युवल्लिकलितैरिन्द्रवल्लीवद्धैः कलशं कलश- मुखं सुरद्रुमधिया पिदधातु समाच्छादयतु तथा पुष्पादिभिः परिपूर्णया शुभचक्रिकया शोभमानशरावेण तदुपरि पिदधातु ॥२२॥ अभीति । अभिवेष्टयेत्तदनु कुम्भमुखं । नवनिर्मलांशुकयुगेन युधः ।। समलंकृतेऽत्र कुसुमादिभिर- प्याभिवाहयेत्परतरञ्च महः ॥ २३ ॥ तदनु तदनन्तरं नूतनमलरहितवस्त्रद्वयेन परितः कुम्भ- मुखमभिवेष्टयेत् अनन्तरं कुम्भ पुष्पादिभिरलंकृते परमोत्कृष्टं महस्तेजः पूज्यदेवतास्वरूपमावाहयेत् आवाहनादिकं कुर्यात् यथा श्रीकृष्णहा ऽऽगच्छेह तिष्ठ इह संनिधेहि ॥ २३ ॥ सकलीति- सकलीविधाय कलशस्थममुं । हरिमर्णतत्त्वमनुविन्यसनैः ॥ परिपूजयेद् गुरुरथाऽवहितः । परिवारयुक्तमुपचारगणैः ॥ २४ ॥ अमुं कलशस्थं हरिं सकलीकृत्य देवताले षडङ्गानां न्यासः स्यात् सकलीकृतिरिति । उत्तमा विधाय वर्णतत्वमन्विति अक्षरमयतरष.

चतुर्थपटलम् । ८९ मन्त्रन्यासैः सहेति रुद्रधरः अर्ण इति सृष्टिसंहारभेदेन अंगुल्या- रोपणभेदेन च मन्त्रवर्णविन्यासोऽर्णन्यासः तस्वेति सृष्टिसं. हारभेदेन मन्त्राक्षरान्वितदशतत्वन्यासः तथा मूलमन्त्रन्यासो मनुन्यासः मनुपुटितमातृकान्यास इत्यर्थः इत्यादिन्यासैस्तत्ते- जोरूपधरं सकलं सगुणं शरीरं कुर्यादिति भैरवत्रिपाठिनः वि. विद्याधरोऽप्येवमाह पीठन्यासकरन्यासौ विनाऽपि प्रथमद्वितीयपटल प्रोक्तन्यासादिजातैरिति केचित् अष्टादशाक्षरे पक्षे तत्वन्यास- स्थाने मन्त्राक्षरन्यासो द्रष्टव्यः अथाऽनन्तरम् अवहितः सावधानो गुरुः सपरिवारम् आवरणसमेतम् उपचारगणैः षोडशदशपश्चो- पचारान्यतमोपचारेण पूजयेत् ॥ २४ ॥ पूजाक्रममाह- दत्वति । दत्वाऽऽसनं स्वागतमित्युदीर्य । तथाऽयंपायाचमनीयकानि ॥ देयानि पूर्व मधुपर्कयूञ्जि । नन्दात्मजायाऽऽचमनान्तकानि ॥ २५ ॥ स्थानं च वासश्च विभूषणानि । साङ्गाय तस्मै विनियोज्य मन्त्री ॥ गाने पवित्ररथ गन्धपुष्पैः । पूर्व यजेन्न्यासविधानतोऽस्य ।। २६ ।। तस्मै साङ्गाय नन्दात्मजाय कृष्णाय वासनं पनादिकुसुम- रूपं दत्वा स्वागतमित्युदीर्य स्वागतमिति शब्दमुच्चार्य अनन्तरं पूर्व प्रथमतः अर्घ्यपाद्याचमनीयकानि मधुपर्कसहितानि देयानि आचमनान्तकानि मधुपर्क दत्वा पुनराचमनीयं देयं स्नानं गन्ध जलादिभिः कार्य वासो वस्त्रयुगलं शरीरे देयं विभूषणानि कु- ण्डलादीनि यथास्थानं विनियोज्यानि अथाऽनन्तरम् अस्य परमे- श्वरस्य गात्रे शरीरे पूर्व प्रथमतः पवित्रैः शुद्धैः गन्धपुष्पैन्यासप्र- कारण यजेत् पूजयेत् ॥ २५ ॥ २६ ॥ - पूजाप्रकारमेवाह- ..

सटीकक्रमदीपिकायाः सष्टिस्थितीति। सृष्टिस्थिती स्वाङ्गयुगं च घेणुं । मालामभिज्ञानवराश्ममुख्यो । मूलेन चाऽऽत्मार्चनवत्प्रपूज्य । समर्चयेदावरणानि भूयः ॥ २७ ।। वर्णन्यासमन्त्रैर्यथाक्रमं पूजयेत् ॐ गों ॐ नमः इत्यादि सृष्टिस्थिती पूर्वोक्तं स्वागयुगं पश्चाशदशाङ्गन्यासौ घेणुं माला- धनमालाम् अभिशानधरं श्रीवत्सलाञ्छनमिति अश्ममुख्यः को- स्तुभः एतानि सम्पूज्य मूलेन चाऽऽत्मार्चनवत् यथाऽऽत्मनि परमे- श्वरपूजा मूलमन्त्रेण पञ्चकत्वः तुलस्यादिपुष्पाञ्जलिभिः पद. हयादिषु कृता तथा कुम्भस्थमपि सम्पूज्य भूयः पुनरपि आवर. णानि वक्ष्यमाणानि पूजयेत् अष्टादशार्णपक्षे सृष्टवादिस्थानेषु वर्णन्यासपदन्यासाना पूजा कार्येति वोद्धव्यम् ॥ २७ ॥ आवरणपूजाक्रममाह- दिश्चिति। दिश्वथ दामसुदामौ घसुदामः किङ्किणी च संपूज्याः ॥ तेजोरूपास्तबाहिरङ्गानि च केशरेषु समभियजेत्॥२८॥ अथाऽनन्तरं कर्णिकायां देवस्य पूर्वादिचतुर्दिक्षु दामादय. चत्वारः पूज्याः कीदृशाः तेजोरूपाः देदीप्यमानाः प्रयोगस्तु ॐदा- मायनम इत्यादि द्वितीयावरणमाह तद्वहिरिति कर्णिकाकोणषु अङ्गानि समभियजेत् ॥ २८ ॥ पूजाविधानमाह- हुतवहनितिसमीरणशिवति । हुतवहनिर्ऋतिसमारशिवदिक्षु हृदादिधर्मपर्यन्तम् ॥ पूर्वादिदिश्वयाऽस्त्रं क्रमेण गन्धादिभिः सुशुखमनाः॥२९॥ भग्न्यादिकोणचतुष्टयेषु दयादिकवचान्तानि चत्वार्यानि अ.

चतुर्थपटलम्। ९१ थाऽनन्तरं पूर्वादिचतुर्दिक्षु अनमहं पूजयेत् ॥ २९ ॥ अगदेवताध्यानमाह- मुक्तेति। मुक्केन्दुकान्तकुवलंयहरिनीलहुताशसभाः प्रमदाः । अभयवरस्फुरितकराःप्रसन्नमुख्योऽङ्गदेवतास्मर्याः॥३०॥ अङ्गदेवता ध्येयाः किम्भूताः प्रमदाः स्त्रीस्वभावाः पुनः किम्भूताः मुक्ताः इन्दुकान्तश्चन्द्रकान्तमाणिः कुवलयं नीलपनं ह. रिनीलः इन्द्रनीलमणिः हुताशो वह्निश्च एतेषां समानाऽऽभा प्रभा वर्णो यासान्तास्तथा पुनः किम्भूता अभयेन वरेण च शोभिताः करा यासान्ताः पुनः किम्भूताः प्रसन्नवदनाः ॥ ३० ॥ तृतीयमावरणमाह- रुक्मिण्यति। रुक्मिण्याद्या महिषीरष्टौ. सम्पूजयेद्दलेषु ततः ॥ दक्षिणकरघृतकमला बसुभरि तसुपात्रमुद्रितान्यकराः ॥ ३१ ॥ ततस्तदनन्तरं दलेषु पूर्वादिपत्रेषु रुक्मिण्याद्याः अष्टौ महिषीर्मुख्या महादेवीः सम्पूजयेत् किम्भूताः दक्षिणकरैधृता- नि कमलानि थाभित्ताः तथा पुनः किम्भूताः वसुपूरितपात्रैर्मुद्रि- ताः पूरिता अन्ये वामकरा यासां तास्तथा ॥ ३१ ॥ अष्टौ वर्णयति- रुक्मिण्येति । रुक्मिण्याख्यासत्या सनाग्निजित्याहया सुनन्दा च ।। भूयश्च मित्रविन्दा सुलक्ष्मणाऋक्षजा सुशीलाच॥१२॥ ऋक्षजा जाम्बवती ॥ ३२॥ तासांरूपाणि दर्शयति- -

१२
सटीकक्रमदीपिकायाः
तपनीयेति ।
तपनीयमरकतामाः सुसितः
विचित्राम्बरा विशस्त्वेताः ।।
पृथुकुचभरालसाझ्या विविध
मणिप्रकरविलसिताभरणाः ॥ ३३ ॥
एता रुक्मिण्याद्या द्विशः युग्मशः क्रमेण काञ्चनमरकतयो-
रिधा ऽऽभा दीप्तिर्यासा तास्तथा पुनः किंभूताः शोभमानानि
शुक्लानि नानाप्रकाराणि वस्त्राणि यासान्तास्तथा पुनः किंभूता
अचला ये कुचास्तेषां गौरवेण अलसानि निष्क्रियाणि अङ्गानि
यासान्तास्तथा पुनःकिंभूता नानाप्रकारो मणिप्रकर इन्द्रनीला-
दिसमूहस्तेषु विशेषेण शोभितानि आभरणानि यासाम् ॥ ३३ ॥
चतुर्थावरणमाह-
तत इति।
ततो यजेहलाग्रेषु वसुदेवं च देवकीम् ।।
नन्दगोपं यशोदां च वलंभद्रं सुभद्रिकोम् ।।
गोपान गोपीश्च गोविन्दविलीनमतिलोचनान्॥३४॥
ततस्तदनन्तरं दलानेषु पूर्वादिक्रमेण वसुदेवादीन् संपूज-
येत् किशा गोविन्दे विलीना संवद्धा मतिर्लोचनं येषान्ते
तथा॥ ३४॥
पतेषामायुधानिदर्शयति-
ज्ञानेति ।
ज्ञानमुद्राभयकरौ पितरौ पीतपाण्डरौ ।
दिव्यमाल्याम्बरालेपभूषणे मातरौ पुनः ॥ ३५ ॥
ज्ञानमुद्रा अभयं च करेषु ययोस्तौ पितरौ वसुदेवनन्दगोपौ
कीरशी हरिद्राभश्वेतौ मातरौ देवकीयशोदे कीदृश्यो दिव्या.
नि देवााणि माल्याम्बरभूषणानि ययोस्तादृश्यौ ॥ ३५ ॥

चतुर्थपटलम् । ९३ धारयन्त्यौ च वरदं पायसापूर्णपात्रकम् । अरुणाश्यामले हारमणिकुण्डलमण्डिते ॥ ३६ ॥ वरदं वरदानं मुद्राविशेषं पायसापूर्णपात्रं च धारयन्त्यौ पुनः किम्भूते अरुणाश्यामले पुनः किश्यौ हारकुण्डलाभ्यां शोभिते॥३६॥ घलः शङ्खन्दुधवलो मुसलं लागलन्दधत् ॥ हालालाला नीलवासा हेलावानेककुण्डलः ॥३७॥ चलो बलभद्रः शलेन्दुधवलः श्वेतः लागलं मुसलं वि. भ्राणः पुनः कीदृशः हाला माध्वी तस्याः पाने चञ्चलः अमृष्यकारी पुनः कीदृशः नीलवासाः पुनः कीदृशः हेलावान् लीलावान् पुन: कीडश एककुण्डलधारी ॥ ३७ ॥ कलायश्यामला भद्रा सुभद्रा भद्रभूषणा ।। वराभययुता पीतवसना रूढयौवना ॥ ३८ ॥ सुभद्रा कलायश्यामला भद्रा समीचीना भद्रभूषणा शोभमा- नाभरणा पुनः किम्भूता वराभययुता पुनः किम्भूता पीतषसना पुनः किम्भूता प्रौढयौवना ॥ ३८ ॥ वेपिवति- वेणुवीणावेत्रयष्टिशङ्खशृङ्गादिपाणयः ॥ गोपा गोप्यश्च विविधप्रभृतात्तकराम्बुजाः ॥ मन्दारादींश्च तहाथे पूजयेत्कल्पपादपान् ॥३९॥ • वेणुवंशी वीणातन्त्री वेत्रं यष्टिः शङ्खः शृङ्गादि मानावस्तु पाणी करे येषां एवंविशिष्टा गोपाः गोप्यः पुनर्नानाप्रकारं यत्प्राभृतमुप- ढोकनं तेनात्तमायत्तं वशीकृतं कराजं यासान्ताः पश्चमावरणमाह- मन्दारादीनिति । तवाद्ये सदनन्तरं मन्दारादीन् अग्रे वक्ष्य- माणान् कल्पवृक्षान् पूजयेत् ॥ ३९ ॥ मन्दारसन्तानकपारिजात । कल्पद्रुमाख्यान हरिचन्दनं च ॥

९४ सटीकक्रमदीपिकायाः .. मध्ये चतुर्दिष्वपिवाञ्छितार्थ- दानकदक्षान् फलनम्रशाखान् ॥ ४० ॥ तानेवाह मन्दारेति कः पूजनीयः तत्राह मध्ये इति मध्ये कर्णिकायां प्रथमपरित्यागे मानाभावात् प्रथमनि- दिष्टवत् पूजा चतुर्दिक्षु पूर्वादिचतुर्दिक्षु एतादृशान् घाञ्छिता आकालिता ये अर्थास्तेषां दाने एके अद्वितीया दक्षाः तान् तथा फलैः ननाशाखायेषु तान् यद्वा आकालितदाने अद्विर्तायसमर्थान् तथा फलै नम्राः शाखा येषु तान् ॥ ४० ॥ षष्ठावरणमाह- हरीति- हरिहव्यवादतरणिजक्षपाचरा. ऽप्पतिवायुसोमशिव शेषपद्मजान् । प्रयजेत् स्वादिश्वमलधीः स्वजात्यधी. इवरहेतिपत्रपरिवारसंयुतान् ॥ ४१ ।। हरिरिन्द्रः हव्यवाडग्निः तरणिजो यमः क्षपाचरो निशा. चरो नितिः अप्पतिर्वरुणः वायुः सोमः ईशः शेषोऽनन्तः पनजो ब्रह्मा पतास्वदिक्षु पूर्वादिदिक्षु निर्मलमतिः पूजयेत् अत्र नि तिवरुणयोर्मध्येऽनन्तं सोमेशानयोर्मध्ये ब्रह्माणे स्वदिश्विति- कथनात् अन्यत्र कल्पितपूर्वादिदिक्षु पूजाऽधगम्यते । तदुक्तमागमान्तरे। देवाप्रेस्वस्यवाप्यग्रे प्राची प्रोक्ता च देशिकैः । प्राची प्राच्येव विशेया मुक्तयेदेवतार्चनमिति ॥ कीदृशान् स्वजातिः इन्द्रत्वादिः अधीश्वरोऽधिपतिः हेतिः शस्त्रं पत्रं पाहनं परिवारो गणः एतैः संयुक्तान् एतेषां च बीजानि उचारयितव्यानि प्रयोगस्तु लं इन्द्राय सर्वसुराधिपतये सायुधाय सवाहनाय सपरिवाराय नम एवमन्यत्राप्यूहनीयः ॥४१॥ इदानींवर्णमाह- :

चतुर्थपटलम् । ९५ कपिशेति। कपिशकपिलनीलश्यामलश्वेतधूम्रा. मलसितशुचिरक्ता वर्णतो वासवाद्याः॥ करकमलविराजत्स्वायुधा दिव्यवेशा- विविधमणिगणोस्रप्रस्फुरदुभूषणाढ्याः ॥ ४२ ॥ कपिशः कनकवर्णः कपिलस्ताम्रवर्णाभः श्यामल: कृष्णः श्वेतः शुक्लः धूम्रोऽसितभेदः अमलसितः श्वेतः शुचिरपि श्वेत एव रक्तो लोहित एते वासवाद्याः वर्णतो वर्णेन यथाक्रम पूर्वोक्त क्रमतः पुनः कीदृशाः हस्तपने शोभमानानि आयुधानि येषां ते पुनः उत्कृष्टवेशा नानाप्रकारमणिसमूहानां पद्मरागादीनाम् उत्रे- ण किरणेन प्रस्फुरदेदीप्यमानं यद्भूषणं तेनाल्या उपचिताः शो- भमाना इत्यर्थः ॥४२॥ सप्तमावरणमाह- दम्भोलीति । दम्भोलिशत्यभिधदण्डकृपाणाश- चण्डाङ्कुशाह्वयगदात्रिशिखारिपनाः ।। अा वहिर्निजसुलक्षितमौलियुक्ताः- स्वीयायुधामयसमुद्यतपाणिपमाः ॥ ४३ ।। दम्भोलिर्वजं शक्त्यभिधं शक्तिनामकमस्त्रं दण्डः कृपाणः खड्गः चण्डाङ्कशाह्वयः उग्राङ्कुशाख्यः गदा त्रिशिखं त्रिशू. लम् अरि चक्रं पनं च एतानि वाह्नवासवादितो वहिः सम्पूज्या- नि दम्भोलिप्रभृतयः कीदृशाः निजसुलक्षितमौलियुक्ताः वज्रा- दिलामिछतमुकुटाः पुनः स्वस्वायुधैरौरभयेन च समुद्यतं सुलक्षितं हस्तपनं येषां ते तथा ॥ ४३ ॥ वज्रादीनांबर्णमाह- कनकेति। कनकरजततोयदाभ्रचम्पा- रुणहिमनीलजवाप्रवालभासः।

सटीकक्रमदापिकायाः क्रमत इति रुचा तु वज्रपूर्वा- रुचिरविलेपनवस्त्रमाल्यभूषाः ॥ ४४ ॥ वज्रपूर्वाः वज्राद्याः रुचा वर्णेन क्रमतोऽनुक्रमेणवंरूपा क्षेयाः पुनः कीरशाः काञ्चनं रौप्यं तोयदो मेधः अभ्रं मेघः चम्पकपुष्पम अरुणो रक्तः हिमं श्वेतः नीलः श्यामलःजवा औण्डू पुष्पं प्रबालो नवपल्लवः एवंभूता दीप्तिर्येषान्ते तथा पुनः कीदृशाः रुचिरं मनो हरं विलेपनं चदनादि वस्त्रं माल्यं भूषणं च येषान्ते तथा ॥४४॥ पूर्वोक्तमुपसंहरति- कथितमिति । कथितमातिसप्तकमच्युता- चनविधाविति सर्वसुखावहम् । प्रयजनादथवाऽङ्गपुरन्दरा शनिमुखस्त्रितयावरणं त्विदम् ॥ ४५ ॥ इति पूर्वोक्तप्रकारेण विष्णुपूजाविधौ आवरणसप्तकं कथितं कीदृशं सकलसुखार्थदायकम् अशक्तं प्रत्याह प्रयजतादिति पूर्वोक्ताशक्तः त्रितयावरणम् आवरणत्रयसहितं प्रयजेत्कैः अङ्गम् इन्द्रवनं पतन्मुखैरेतत्प्रधानैरित्यर्थः ॥ ४५ ॥ प्रकृतमुपसंहरन्पूजान्तरमाह । इत्यर्थयित्वति । इत्यर्चयित्वा जलगन्धपुष्पैः। कृष्णाष्टकेनाऽप्यथ कृष्णपूजाम् ॥ कुर्याद् बुधस्तानि समाहृयानि । वक्ष्यामि तारादिनमोन्तकानि ॥ ४६ ॥ इति पूर्वोक्तप्रकारेण जलगन्धपुष्पैः पूजयित्वा अथानन्तरं कृष्णाष्टकेन धक्ष्यमाणेन बुधः पण्डितः कृष्णपूजां कुर्यात् तानि समाहृयानि नामानि प्रणबादिनमोन्तकानि वक्ष्यमाणानि ॐ चतुर्थपटलम् । ९७ कृष्णायनम इत्यादीनि ॥ ४६॥ तान्येव दर्शयति- श्रीकृष्णइत्यादि। श्रीकृष्णो वासुदेवश्च नारायणसमायः । देवकीनन्दनो यदुश्रेष्ठो वार्ष्णेय इत्यपि ॥ ४७ ॥ असुरान्तकशब्दान्ते भारहारीति सप्तमः। धर्मसंस्थापकश्चाऽष्टौ चतुर्थ्यन्ताः क्रमादिमे ॥४८॥ असुरान्तकशब्दान्ते भारहारीत्यर्थः इमे कृष्णादयः शब्दाः क्रमादेकैकशः प्रणवाद्याश्चतुर्थ्यन्ता नमोन्तकाश्च विशेयाः ॥४७॥४८॥ अत्यन्ताशक्तं प्रत्याह- एभिरिति । एभिरेवाऽथवा पूजा कर्तव्या कंसवैरिणः ॥ संसारसागरोतीत्यै सर्वकामाप्तये धुधैः॥ ४९ ॥ अथवा एभिरेव कृष्णादिभिः शब्दैः कंसवैरिणः श्रीकृष्णस्य पूजा बुधैः पण्डितैः कर्तव्या किमर्थ संसार एव सागरः तस्य उतीत्य उत्तरणाय पुनः किमर्थ सकलमनोरथप्राप्त्यर्थम् ।। ४९ ॥ धूपदानविधि दर्शयति- साराङ्गारे इति । साराङ्गारे घृतविलुलितैर्जर्जरैः संविकीर्ण । गुग्गुल्वाथै घनपरिमलै धूपमापाद्य मन्त्री ॥ दद्यान्नीचै दनुजमथनाया ऽपरेणा ऽथ दोषणा। घण्टां गन्धाक्षतकुसुमकैरचितां वादयानः ॥५०॥ साराङ्गारे दृढकाष्ठाङ्गारे खादिराङ्गारे इति त्रिपा- ठिनः संविकीर्णैः क्षिप्तैः गुग्गुल्वायैः गुग्गुलुशर्करामधुचन्दनागु- सशीरैः घृतविलुलितैघृतप्लुतैः जर्जरैः कुट्टनेन चूर्णितैर्घनपरिम- लैर्निविडसौरभशालिभिः धूपमापाद्य कृत्वा मन्त्री उपासकः नीचै- १३ .

- सटीकक्रमदीपिकायाः नाभिप्रदेशे दनुजमथनाय गोपालकृष्णाय दद्यात् किङ्कर्वन् अथा ऽनन्तरम् अपरेण वामेन दोषणा हस्तेन गजध्वनिमन्त्रमातः स्वाहेति घण्टाम्बादयन् किम्भूतां गन्धाक्षतपुष्पैः पूजिताम् ॥ ५० ॥ दीपदाने विधि दर्शयति- तद्वदिति । तबद्दीपं सुरभिघृतसंसिक्तपुरवा । दीप्तं दृष्टयाद्यतिविशदधीः पद्मपर्यन्तमुच्चैः ।। दत्वा पुष्पाञ्जलिमपि विधायाऽर्पयित्वा च पायं. साचामं कल्पयतु विपुलस्वर्णपात्रे निवेद्य ॥ ५१ ॥ तद्वदापाद्य दीपं कुर्यात् कया सुराभि सुगन्धि यद्धृतं तेन सिक्ता उक्षिता कर्पूरसहिता वर्तिः तया कीदृशं दृष्टया दीप्तं दष्टिमनोहरमि- ति रुद्रधरः पद्मपर्यन्तं मस्तकपर्यन्तमुश्चैरुपरि दत्वा दृष्टयादीति दाक्षिणावर्तेन पद्मपर्यन्तं चरणकमलपर्यन्तमिति त्रिपाठिनः पाद. पर्यन्तमिति क्वचित्पाठः अनन्तरं पुष्पाञ्जलिमपि शिरसि दत्वा- पाद्याचमनीये च दत्वा विपुलस्वर्णपात्रे वृहत्कनकभाजने नैवे. घङ्कल्पयतु सम्पादयतु साचामम् आचमनसहितं प्रथमं वदनेत्यादि. भिराचमनन्दत्वा अनन्तरं नैवेद्यन्ददात्वित्यर्थः ॥ ५१ ॥ नैवेद्यस्वरूपं दर्शयति- सुरभीति । सुरभितरेण दुग्धहविषा सुशृतेन सिता. ससमुपदंशकैरुचिरहृद्यविचित्ररसैः ॥ दधिनवनीतनूतनसितोपलपूपपुलि- घृतगुडनारिकेलकदलीफलपुष्परसैः ॥ ५२ ॥ अतिसुरभिणा दुग्धानेन सुशृतेन सुपक्केन सितासमुपदंशकै शर्कराव्यञ्जनैः सह शर्करयासहउपदंशकैर्व्यञ्जनैरितित्रिपाठिन: अस्मिन्पक्षे शुचितेन सितासमुपदंशकैरितिपाठः रुचिर इच्छाकरः हद्यः सुस्वादः विचित्रो मधुरादिरसो येषु तैः नूतनं श्रेष्ठं .

चतुर्थपटलम् ।
९९
सितोपलं खण्डादिप्रसिद्धं पुष्परसो मधु एतैर्द्रव्यैनैवेद्यं कल्पयतु॥५२॥
किविशिष्टं नैवेद्यं कल्पयतु तत्राह-
अनोक्षितामति ।
अस्त्रोचितं तदरिमुद्रिकयाऽभिरक्ष्य ।
वायव्यतोयपरिशोषितमग्निदोषणा ॥
संदह्य वामकरसौधरसाभिपूर्ण ।
मन्त्रामृतीकृतमथाऽभिमृषन्प्रजयात् ॥ ५३ ।।
मनुमष्टशः सुरभिमुद्रिकया ।
परिपूर्णमर्चयतुगन्धमुखैः ॥
हरिमर्चयेदथ कृतप्रसवा-
अलिरास्यतोऽस्थ प्रसरच्च महः ॥ ५४ ।।
मुलमन्त्रास्त्रमन्त्रेणास्त्रायफडित्यनेन वा उक्षितं सितं
चक्रमुद्रयाऽभिरक्ष्य वायव्योत वायुवीजजप्तोदकप्रोक्षणपरि-
शोषितदोषम् अग्निदोष्णा संदति रमितिवह्निबीजाभिज-
प्रदक्षिणकरेण स्पृष्ठा दोषान् दग्ध्वा वामकरसौधरसाभि-
पूरणमिति वामहस्तेन पिधाय ववीजजपेनाऽमृतरसाभिपूर्ण
विचिन्त्य मूलमन्त्रेणाऽमृतरूपं विचिन्त्याऽथाऽनन्तरं तदेतादृशं नै.
वेद्यम् अभिमृशन् स्पृष्ट्वा मनुं मन्त्रम् अष्टशः अष्टवारं प्रजपतु सुर-
भिमुद्रिकया धेनुमुद्रिकया परिपूर्ण नैवेद्यं विचिन्त्य गन्धमुखैः च.
न्दनायैः पूजयतु दानप्रकारं दर्शयति हरिमित्यादिना कृतप्रसवा
अलिहरि प्रत्यर्च येत् नैवेद्यग्रहणायाऽऽस्यतस्तजा निःसरत्वितिप्रार्थ-
येत् अथानन्तरम् अस्य हरेरास्यतो मुखतस्तेजो निः सरेत् प्रस-
रत्विति चिन्तयेत् नैवेद्ये संयोजयेदिति त्रिपाठिनः ॥ ५३ ।। ५४ ॥
वीतिहोत्रदयितान्तमुच्चरन् ।
मूलमन्त्रमथनिक्षिपेजलम् ॥
अर्पयेत्तदमृतात्मकं हवि-
दोर्युजा सकुसुमं समुबरन् ॥ ५५ ॥

सटीकक्रमदीपिकायाः - अथानन्तरं वातिहोत्रदयितान्तं स्वाहाकारान्तं मूलमन्त्रमुच्चरन् किञ्चिजलन्तदुपरि क्षिपेत् प्रोक्षयेत् अत्र स्वाहान्तेपि मन्त्रे पुनः स्वाहापदप्रयोगः कार्यः एतद्वलादेव अनन्तरन्दोर्युजा हस्तद्वयन स- कुसुमं सपुष्पं समुधरन् उत्तोलयन् तदमृतात्मकं हविःसमर्पयेत्॥१५॥ नैवेद्यार्पणमन्त्रमाह- निवेदयामीति । निवेदयामि भगवते जुषाणेदं हविहरे । निवेद्यार्पणमन्त्रोऽयं सर्वाासु निजाख्यया॥५६॥ अयं मन्त्रः सर्वासु देवानां पूजासु निजाख्ययेति हरे इत्यस्मिन् स्थाने यस्मै देवाय दीयते तन्नामग्रहणं कर्तव्यामिति निजाख्याशब्दार्थः निवेद्याख्ययेति केचित् ॥ ५६ ॥ भोजनोपयोगिमुद्राविशेष दर्शयति- ग्रासेति । ग्राममुद्रां वामदोष्णा विकचोत्पलसन्निभाम् । प्रदर्शयेद्दक्षिणेन प्राणादीनां च दर्शयेत् ॥ ५७ ॥ घामदोषणा ग्रासमुद्रां दर्शयेत् किम्भूतां प्रफुल्लोत्पलसदृशीम् । अनन्तरं दक्षिणहस्तेन प्राणादीनां वक्ष्यमाणां मुद्रां दर्शयदिति ॥५७॥ प्राणादीनां मुद्रां दर्शयति- स्पृशोदिति । स्पृशेत्कनिष्ठोपकनिष्ठिके हे। अङ्गुष्ठमूर्ती प्रथमेह मुद्रा । तथा ऽपरा तर्जनिमध्यमे स्या। दनामिकामध्यमिके च मध्या ॥५८॥ अनामिकातर्जनिमध्यमाः स्या। त्तबचतुर्थी सकनिष्ठिकास्ताः ॥

११ २ ar (१५) शिवस्तोपापली । उत्पलदेषविरचिता । पीपरत्नाणपण श्रीक्षेमराजविरचित्तवृतिसमेता(बेदान्तः)२ (१९) भनुमानचिन्तामणियाख्यायाः शिरोम- (१९) मीमांसावालप्रकाशः जेमिनीयद्वादशा णिकृतदीधित्या जागदीशी टीका। १५ ऽध्यायार्थसंग्रहः श्रीभट्टनारायणात्मज- (१०) वीरमित्रोदयः । महामहोपाध्यायश्रीमित्र- भदृशङ्करविरचितः । (मीमांसा) २ मिश्रविरचितः परिभाषा-संस्कारप्रका- - (१०) प्रकरणपश्चिका प्रभाकरमतानुसारि-मी- शात्मकः । सापिण्यदीपकश्च मासादर्शनम् । महामहोपाध्यायधीशालि- (३१) वीरमित्रोदयः । महामहोपाध्यायश्री- कनाथमिश्रविरचितम् श्रीशङ्करभट्टकृतो मित्रमिअविरचितः आहिकप्रकाशः । मीमांसासारसंग्रहश्च सम्पूर्णः (मीमांसा) ३ । (३२) स्मृतिसारोद्धारः विद्वदूरविश्वम्भरत्रिपा- (१८) अदैतसिद्धिसिद्धान्तसारः । पण्डितप्रवर- ठिसंकलितः। श्रीसदानन्दव्यासप्रणीतस्तत्कृतव्याख्यास- (३३) वेदान्तरनमजूषा । श्रीभगवत्पुरुषो- मलङ्कृतः। (वेदान्तः) तमाचार्यकृता। (१९) कात्यायनश्रौतसूत्रम् । महामहोपाध्याय- (३४) प्रस्थानरत्नाकरः । गोस्वामिश्रीपुरुषो- श्रीकर्काचार्यविरचितभाष्यसहितम् । १३ त्तमजीमहाराजविरचितः... (२०) नमसूत्रभाष्यम् । श्रीभास्कराचार्यविर- (३५) वेदान्तपारिजातसौरभं नाम ब्रह्ममीमांसा चितं संपूर्णम् (वेदान्तः) भाष्यं श्रीनिम्बार्काचार्यविरचितम् । १ (२१) श्रीहर्षप्रणीतं खण्डनखण्डखायम् । आ- (३६) योगदर्शनम् । परमहंसपरिव्राजकाचार्य- नन्दपूर्णविरचितया खण्डनफसिकावि- नारायणतीर्थविरचित-योगसिद्धान्त चन्द्रि- कासमाख्यया व्याख्यया संवलितम् । २ भजनाख्यया व्याख्यया विद्यासागरीति (३०) वेदान्तदर्शनम् । परमहंसपरिव्राजकाचार्य- प्रसिद्धया समेतम्। (वेदान्तः) श्रीरामानन्दसरस्वतीस्वामिकृतब्रह्माऽमृत- (२२) आख्यातचन्द्रिका श्रीभट्टमविरचिता १ वर्षिणीसमाख्यव्याख्यासंवलितम् । (२३) श्रीलक्ष्मीसहस्रम्-~बालबोधिनीव्याख्य- (३८) विश्वप्रकाशः । कोश । विद्वदूरश्रीम- याऽवतरणिकया च सहितम् । हेश्वरसूरिविरचितः। (२४) ब्रह्मसूत्रवृत्तिः मरीचिका श्रीजनाथ- (३९) श्रीसुबोधिनी । श्रीवल्लभाचार्यविनिर्मिता भट्टकृता (वेदान्तः) श्रीमद्भागवतव्याख्या गोस्वामी श्रीविठ्ठल- (२५) क्रोडपत्रसंग्रहः । अत्र श्रीकालीशङ्कर- नाथदीक्षितविरचितटिप्पणीसहिता।श्रीम- सिद्धान्तवागीशविरचितानि अनुमानजा- हागवतदशमस्कन्धजन्मप्रकर्ण श्रीसुबो- गदीश्याः प्रत्यक्षानुमानगादाधर्याः प्रत्य- धिनीटिप्पण्योः-प्रकाशः गोस्वामि श्रीश्री क्षानुमान माथुर्या व्युत्पत्तिवादस्य शक्ति- पुरुषोत्तमजीमहाराज विरचित धादस्य मुक्तिवादस्य शब्दशक्तिप्रकाशि- (१०) वीरमित्रोदयः । महामहोपाध्यायश्रीमि- कायाः कुसुमाञ्जलेश्च क्रोडपत्राणि २ मिश्राधिरचितः पूजाप्रकाशः । ... (२६) ब्रह्मसूत्रम् , द्वैताद्वैतदर्शनम् । श्रीसुन्दरभ- (४१) वेदान्तसिद्धान्तसंग्रहः । श्रुतिसिद्धा- हरचितसिद्धान्तसेतुकाऽभिधटीकासहित- म्तापरनामकः । श्रीब्रह्मचारिवनमालि- श्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवीयुतम् २ मिविरचितः | वेदान्तकारिकावली (२०) षड्दर्शनसमुच्चयः । बौद्धनेयायिकका- श्रीपुरुषोत्तमप्रसाद. शर्मकृता अध्यात्म- पिलजैनवैशेषिकजमिनीयदर्शनसंक्षेपः । सुधातरङ्गिण्याख्य टीकया सहिता। ३ मणिभद्रकृतटीकया सहितः । हरिभद्- (४२) स्वानुभवादर्शः । श्रीमत्परमहंसपरिबाज- मरिकृतः । काचार्यनारायणाश्रमशिष्यमाधवाश्रमविर (१८) शुद्धाद्वैतमार्तण्डःप्रकाशष्याख्यासहितः चितः । स्वकृतटीकाविभूषितश्च । . ८ ... २ २ ३ : १ ५ (१५) याज्ञवल्कस्मृतिः। बालम्भट्टीसमाख्याया• | (१८) विरमित्रोदयः । लक्षणप्रकाशः। महामहो- ख्यासमलरकृतमिताक्षरासहिता । म्य पाध्यायत्रीमित्रमिविरचितः। वहाराध्यायः ११ (४९) बृहदारण्यकवार्तिकसार श्रीमद्वियारण्यस्वा- (४४) गादाधरी । श्रीगदाधरभट्टाचार्यचक्रव मिविरचितः। महेश्वरतीर्थकृतयालघुसं- र्तिकृता । श्रीगङ्गे शोपाध्यायविरचित- ग्रहाख्यया टीकयासमलंकृतः। तत्त्वचिन्तामण्या श्रीरघुनाथताक.शिरो- (५०) विरमित्रोदयः । राजनीतिप्रकाशः । महा- मणिविरचितदीधित्या च गर्भिता। महोपाध्यायश्रीमित्रमिश्रविरचितः। (५५) शमदी दिक' | श्रीपार्थसारथिमिश्र प्रणि- (५१) पूर्वमीमांसा अधिकरणकौमुदी। श्रीमन्म- ता। रामकृष्णविरचितयुक्तिस्नेहप्रपुरण्या हामहोपाध्याय पं० रामकृष्णभट्टाचार्य- ख्यव्याख्यया सहिता तर्कपादः । विरचिता परिशिष्टाधिकरणनिरूपणपूर्व- (१६) वैयाकरणसिद्धान्तलघुमञ्जूषा महामहो के टिप्पण्या परिष्कृत पाध्याय-श्रीनागेशभट्टविरचिता । (५२) प्रसस्तपादभाष्यटीकासंग्रहः । तत्र क- श्रीमदुर्बलाचार्य-बालम्भट्टाभ्यां विर णादरहस्यम् । श्रीशंकरमिश्रविरचितम् । चितकुञ्जिकाकलाहटीकाद्वयसंवलिता। ८ (५३) क्रमदीपिका । श्रीमन्महामहोपाध्याय (४७) व्याकरणसिद्धान्तसुधानिधीः । काश्मीरिककेशवभट्टविरचिता । विद्या- पर्वतीय विश्वेश्वरसूरिविरचितः । विनोदश्रीगोविन्दभट्टाचार्यकृतविवणोपेत ? ५ १ ६ पत्रादिप्रेषणस्थानम् हरिदासगुप्ता, चौखम्बा बनारस सिटी

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Kramadiipikaa

Author
Bhat't'a Keshava
Title
Kramadiipikaa
File name
Kramadiipikaa
Text
OCR done
Citation
1917
Published
2005-11-19
Publisher
Jai Krxshhnd-a Daasa Guptaa
Language
Sanskrit
Pages
114
Classification
Religion. Theology
DLI number
369214
Barcode
2030020016032.00
Scanning centre
RMSC, IIIT-H
Digital publisher
Digital Library Of India
Rights
OUT_OF_COPYRIGHT
VMLT id
nvAx29cDdIJ
Download PDF

Kramadiipikaa