Sanmati Library
Suktratnawali
Front matter
Published by Vallabhadas Tritharandas Gaarlbi,
Secretary, Jaina Atmanand Sabha, Bharanagar.
Printed by R. Y. Shedge, at the "Sirpaga-sagar" Prene,
23, Kolbhat Lane, Bombay.
प्रस्तावना। . एतत्सूक्तरत्नावलीप्रणेतृणां श्रीमदकव्वरपातसाहि-समर्पितजगद्गु- रुविरुद-श्रीहीरविजयसूरिपट्ट-गगनाङ्गणगभस्तिमालिनां निष्प्रतिम- प्रतिभाशालिनां वाचंयमचूडामणीनां श्रीविजयसेनसूरीणां सत्तास- मयस्तु अस्यैव ग्रन्थस्य पञ्चशततमेन- "वर्षे मुँनियुंगरपति-मिते तपागच्छजलधिशशिसदृशैः । श्रीविजयसेनसूरि-द्विरदैनिरमायि निर्मायैः ॥" इत्येतेन पद्येन विक्रमार्कीयसप्तदशशताब्दीरूपे एतद्न्थनिर्माण- काले सिद्धे स्फुटतया सिद्ध एव । एतेषामभिजनादिविशेषवृत्तान्तस्तु विजयप्रशस्तिमहाकाव्यादितो- ऽवगन्तव्यः । विजयप्रशस्तिकाव्यवृत्तिप्रशतिगतस्य त्रिपञ्चाशत्तमपद्यस्यावलो- कनेन तु 'श्रीहेमविजयगणिः सूक्तरत्नावल्याः कर्ता' इत्यधि- गम्यते । परमत्र हेमविजयनान्नोऽनधिगमात् सा सूक्तरत्नावली एतदन्यैव स्यादिति प्रतिभात्यस्माकम् । अन्यच्च, यदेकमेवास्याः पुस्तकं न्यायाम्भोनिधिश्रीविजयानन्दसूरिशिष्य-पूज्यपादप्रवर्तकश्री- मत्कान्तिविजयमुनीनां सकाशादुपलब्धम् , तदवसानगतेन- "इति श्रीतपागच्छाधिराजभट्टारकसार्वभौमभट्टारकरीहीरविजय- सूरीश्वरपट्टालंकारश्रीविजयसेनसूरिविरचिता सूक्तरत्नावली संपूर्णा ।। लिखिता श्रीसूरतिवन्दिरे ॥ संवद्विपाशुगमुनीन्दु (१७५८) प्रमिते संवत्सरे ॥"
२
--
दि. ९.
इत्येतेनोल्लेखेनाऽपि श्रीविजयसेनसूरीणामेव कृतिरियं सूक्तरला
वलीति विशदमेव । तत्त्वं पुनस्तद्विदो वेद्यमिति विरमामः ।
खदेशगमनास्रवर्तित्वेनाऽस्य जनस्य, ..की
य्यप्रदानेन महान्त धन्यवादमर्हन्ति प्रवर्तकपादपा जरी येत
चेतसश्चतुरविजयाभिधाना मुनिप्रवरा इत्यपि न सूचनानहम् ।
पूर्वोक्तस्य एकस्यैव पुस्तकस्यालम्बनेन यथामति संशोति.
प्कृतेऽप्यत्र निवन्धे या काचनाऽक्षिदोषादक्षरये नकद ।
कृता जाता वा भवेत् तां शोधयिष्यन्ति सदयहृदयाः ८हृद.
इत्याशास्ते-
विद्वज्जनकृपाभिलाषी
नित्यानन्दशर्मा।
समाति ॥ अहम् ॥ तपागच्छाचार्यश्रीविजयसेनेसूरिपूर्णता सूक्तरत्नावली HAIPUR विबुधानन्दजननी, गुरोर्वाचमुपासहे । या रसेव रसै रम्या, मङ्गलोत्सवकारिणी ॥१॥ वचोभिनीतिनिस्यन्दकन्दकादम्बिनीनिभैः। दो व्याख्याजुषां शिक्षा, मुखाम्भोजरवित्विषम् ॥२॥ भावसारस्पयुक्तानि, सूक्तानि प्रतिकुर्महे । रविपादैरिवाम्भोज, यैः सभोल्लासभाग् भवेत् ॥ ३॥ विनेन्दुनेव रजनी, वाणी श्रवणहारिणी। दृष्टान्तेन विना खान्ते, विसयं वितनोति न ॥४॥ दृश्यते सदसद्वस्तु, यैर्भास्करकरैरिव । दृष्टान्तास्तुष्टये सन्तु, काव्यालङ्कारकारिणः ॥५॥ अतश्चित्तचमत्कारमकराकरचन्द्रिकाम् । भावयुक्तेषु, सूक्तेषु, ब्रूमो दृष्टान्तपद्धतिम् ॥६॥ भवेत्तुङ्गात्मनां संपद, विपद्यपि पटीयसी। पत्रपाते पलाशानां, किं न स्यात् कुसुमोद्गमः ॥७॥ गुणदोषकृते स्थानास्थाने तेजस्विता स्थिता। दर्पणे मुखवीक्षायै, खङ्गे प्राणप्रणाशकृत् ॥८॥ १; सरसस्य भावः सारस्यं, भावश्च सारस्यं च.ताभ्यां युक्तानि ॥
२ सूक्तरलावली । पदे पदेऽधिगम्यन्ते, पापभाजो न चेतरे। भूयांसो वायसाः सन्ति, स्तोका यच्चापपक्षिणः ॥९॥ अपि तेजखिनं दौस्थ्ये, त्यजन्ति निजका अपि । न भानुर्भानुभिर्मुक्तः, किमस्तसमये सखे ! ॥१०॥ ज्योतिष्मानपि सच्छिद्रैः, सङ्गतोऽनर्थहेतवे । मञ्चकान्तरिता दीपप्रभा पुण्यप्रणाशिनी ॥ ११ ॥ मलिनोऽपि श्रियं याति, महस्तिमिलेनादलम् । सम्पर्कान्नाञ्जनं भाति, किं दृशां हरिणीदृशाम् ? ॥ १२ ॥ पराभूतोऽपि पुण्यात्मा, न स्वभावं विमुञ्चति । तोयमुष्णीकृतं काम, शीततां पुनरेति यत् ।। १३ ।।। महोत्सवे च जायन्ते, पापभाजामभूतयः । नापत्राः किं वसन्तेऽपि, करीरतरवोऽभवन् ? ॥१४॥ नीचसङ्गेऽपि तेजस्वी, नैर्मल्यं भृशमश्नुते । किमभूद्भसलिप्तेऽपि, दर्पवृद्धिर्न दर्पणे ॥१५॥ विभर्ति भृशमुल्लासं, सद्त्तः पीडितोऽपि हि । किं नाऽभून्मार्दवं भूरिवह्नौ मुक्तेऽपि पर्पटे? ॥ १६ ॥. सेव्या स्थानार्थिसार्थानां, महानपि धनबिना। सेव्यते पुष्पपूर्णोऽपि, पलाशः पट्पदैन यत् १ ॥ १७ ॥ हन्त ! हन्ति तमोवृत्तिर्माहात्म्यं महतामपि । अभवत् प्रथमः पक्षः, श्यामः शशिनि सत्यपि ॥ १८॥ सतामपि वलात्काराः, सुकृते नाच दुष्कृते । घृतं भुङ्क्ते वलादश्वस्तृणान्यत्ति स्वयं च यत् ॥ १९ ॥ १ मतान्तरेण मिलेरपि कुटादित्वाद् गुणाभावः।२ सुचरित्रः पक्षे सुवर्तुल:
विजयसेनसूरिमणीता ३ वासरास्ते तु निःसाराः, ये यान्ति मुक्तं विना । विनाई बिन्दवः किं स्युः, संख्यासौभाग्यशालिनः ॥२०॥ भवन्ति सहताः सद्धिः, कर्मशा अप्यकर्कगाः । किं चन्द्रकान्तचन्द्रांशुमंशियो न जलं जहाँ ? ।। २१ ॥ खोऽपि संजायते दीमध्ये, पराभूनेनियन्धनम् । यत्प्रदीपप्रणामाय, सहायोऽपि समीरणः ॥ २२ ॥ दोपोऽपि गुणसंपनिमश्नुने वस्तुसङ्गनः । गनिन्धमपि काठिन्यं, कुयोरजनि थिये ।। २३ ॥ दोपं विशेषतः म्यानाऽभावायाति गुणः सरसे।। न निन्या तनयोजने, नत्रताऽभिमतापि किम् ? ॥ २४ ॥ गते तजमि सौभाग्यहानियॉनिष्पनामपि । यनिर्वाणः शमीगर्भो, रक्षेयमिति कीर्त्यते ॥ २५ ॥ प्रायः पापेषु पापानां, प्रीतिपीनं भवेन्मनः । पिनुमैन्दनम्वेव, चायमानां रनिर्यनः ॥ २६ ॥ प्रायशस्तनुजन्मानोऽनुयान्ति पितरं प्रति । धुमाजाने हि जीमृते, कलिनः कालिमा न किम् ? ॥२७॥ नेशाः कर्नु वयं वाचां, गोचरं गुणगौरवम् । यत् सन्धिद्रोऽपि मृतोपः, कण्टे लुठनि यहयात् ।। २८ ।। आत्मकत्यकृते लोकनीचोऽपि यह मन्यते । धान्यानां रक्षणाद् रक्षा, यद्यतेन विधीयते ॥ २९ ॥ सतां बत्रापदः प्रायः, पापानां तत्र संपदः । मृद्रिताक्षेषु लोकेगु, यद् घृकानां रशः गिताः ॥ ३० ॥ ५ मा निम्बरक्षाः समर्माः। ४ गम्म। ... +--
४
सूक्तरलावली।
मानितोऽप्यपकाराय, स्यादवश्यं दुराशयः।
किं मूर्ध्नि स्नेहनाशाय, नारोपित()खलः खलु १ ॥३१॥
नोपैति विकृति कामं, पराभूतोऽपि सज्जनः ।
यन्मर्दितोऽपि कर्पूरो, न दोर्गन्ध्यमुपेयिवान् ॥ ३२ ॥
विपत्तावपि माहात्म्यं, महतां भृशमेधते ।
सौरभ काकतुण्डस्य, किमु दाहेऽपि नाऽभवत् १ ॥ ३३ ॥
स्तोकोऽपि गुणिसंपर्कः, श्रेयसे भूयसे भवेत् ।
लवणेन किमल्पेन, स्वादु नानमजायत? ॥३४॥
भवन्ति परसंपत्तौ, पुण्यात्मानः सदाशयाः।
नभोनमल्यमालोक्य, शरद्यम्भोऽभवच्छुभम् ।। ३५॥
पापात्मसङ्गमेऽपि स्यात्, ख्यातिरेव महात्मनाम् ।
चित्रेषु न्यस्ता शोभायै, कि रेखाऽजनि नाञ्जनी ॥३६॥
अन्यदेशगतियाय्या, महोहानौ मन(ह)खिनाम् ।
न कि द्वीपान्तरं प्राप्तस्त्विपां नाशे विपांपतिः ॥३७॥
लघीयानपि वाल्लभ्यं, समेति समये सखे।
आदेया भोजनप्रान्ते, शलाका तृणमय्यपि ॥ ३८॥
खण्डीकृतोऽपि पापात्मा, पापानैव निवर्तते ।
शिरोहीनोऽपि किं राहुर्घसते न सुधाकरम् ॥ ३९ ॥
बालं दृष्ट्वाऽपि दुष्टानां, दयोदेति हृदि ध्रुवम्
ग्रस्सते किं द्वितीयायाः, शत्रुणा राहुणा शशी ? ॥ ४०॥
अभाग्ये सत्यनाय, सतां सङ्गोऽपि जायते ।
नालिकेरजलं जज्ञे, कर्पूरमिलनाद्विषम् ॥ ४१ ॥
विजयसेनसूरिप्रणीता ५ विरोधोऽपि भवेद्भूत्यै, कलावद्भिः समं सखे । दीयते काञ्चनं चन्द्रग्रासाचमसि वीक्षिते ॥४२॥ कलावानपि जिह्मात्मा, बहुभिर्बहु मन्यते । किमु लोकैर्द्वितीयाया, नमश्चक्रे न चन्द्रमाः १ ॥४३॥ अश्व(स्त्रोकोऽपि गुणैर्गाद, स्यात्सभाजनभाजनम् । आरोप्यते नृपैर्मुनि, वनोत्पन्नोऽपि चन्दनः॥४४॥ पापधी?तमभ्येति, बहूपायैश्च धर्मधीः । वस्ने स्थात् कालिमा सद्यः, शोणिमा भूरिभिर्दिनैः॥४५॥ संपत् पापात्मनां प्रायः, पापैरेवोपभुज्यते । भोज्यं बलि जामेव, फलं निम्बतरोरभूत् ।। ४६ ॥ भोग्यं भाग्यवतामेव, संचितं तद्धनैर्धनम् । परैरादीयते नूनं, मक्षिकामेलितं मधु ॥४७॥ का क्षतिर्यदि नासेवि, तुकात्मा मलिनात्मभिः । का हानिहेमपुष्पैस्य, मुक्तस्य मधुपैरभूत् १ ॥४८॥ नीचानां वचनं चारु, प्रस्तावे जल्पतां सताम् । प्रीतिक प्रस्थितानां हि, वाम गर्दभगर्दितम् ॥ ४९ ॥ लघोरपि वचो मान्यं, समये स्याद् महात्मनाम् । प्रस्थितैर्वामदुर्गायाः, शब्दः श्रेयानुदीरितः ॥ ५० ॥ स्थानभ्रष्टोऽपि शिष्टात्मा, लभेन्मानमनर्गलम् । खानेश्युतो मणिभूमन्मूर्धानमधिरोहति ॥५१॥ १ काकानाम् । २ तदू धनं येषां ते तथाभूताः तैः, तत्तद्धनपतिभिरित्यर्थः । ३ वर्णचम्पकस्य । ४ भूमंतां राज्ञां मूर्धा शिरः तम् ॥
६ सूक्तरत्नावली। मध्ये मेधाविनां मातृमुखानां मानमर्हति । कोकिलान्तर्गताः काकाः, कोकिला एव यद्वशात् ॥५२॥ न मौनं वाग्मिनां शस्तं, वाकलाकुशलात्मनाम् अकूजन् कोकिलो लोकैः, काकोऽयमिति गीयते ॥५३॥ अल्पीयानप्यसत्सङ्गः, सादनाय भूयसे । यवनैरेकशो भुक्तः, सादाजन्मान्वयादहिः ॥ ५४ ॥ विकारं नैति जीवान्तं, कप्टमारोपितोऽपि सन् । यत्तापितमपि स्वर्ण, वर्ण धत्ते मनोरमम् ॥ ५५ ॥ न करोति नरः पापमधीताऽल्पश्रुतोऽपि सन् । यद्भणन् रामरामेति, न कीरः पलंलालसः ॥५६॥ . वसन्नपि...३..."पापो, न वेत्ति गुणिनां गुणान् । न तिष्ठन्नुदके भेको, गन्धं वेत्ति सरोरुहाम् ॥ ५७ ।। महस्तिमिलनान्मन्दा, अपि स्युर्दुःसहाः सखे । जलं ज्वलनसंपृक्तं, दुःसहं ददृशे न कैः १ ॥ ५८ ॥. परतः संपदं प्राप्य, सोत्कर्षा नीचगामिनः। लव्धतोयाः पयोवाहादुस्तराः सरितो न किम् ? ॥ ५९ ।। न पदं संपदां प्रायः, कुलोत्पन्नोऽपि दुर्मनाः । अन्तर्वक्रोऽधिसूः शङ्को, दृष्टो भिक्षाकृते भ्रमन् ।।६०॥ भवेद्वस्तुविशेषेण, सुकृते दुष्कृते च धीः । ध्यानधीरक्षमालायां, प्रहारेच्छा च कार्मुके॥६१ ॥, १ मूर्खाणाम् । २ मांसलोलुपः। ३ अवाक्षरद्वयं त्रुटितम् ; तत्र 'समं' इति भवेत् ॥
विजयसेनसूरिप्रणीता वपुःशेषोऽप्यपुण्यात्मा, खभाव न विमुश्चति । जहाति जिमतां रज्जुलितापि न जातुचित् ।। ६२ ।। सतां नोपप्लवाय स्युद्धिजिह्वा मिलिता अपि । नैषि सङ्गाद्भुजङ्गाना, 'चन्दनद्रुमः ॥६३॥ निजकार्याय दुष्टोऽपि, महद्भिर्बहु मन्यते । दाहकार्यपि सप्ताचिरिन्धनार्थ गवेष्यते ॥ ६ ॥ कुप्रसिद्धिः कुसङ्गेन, तत्क्षणान्महतामपि । महेशो विषसानिध्यात्, कण्ठेकालोऽयमीरितः॥६५॥ न सत्संस्तवसौभाग्य, गदितुं गुरुरप्यलम् । तन्तुभिः सुमनःसङ्गाल्लब्धं वाहाभुजां शिरः॥६६॥ निःसारे वस्तुनि प्रायो, भवेदाडम्बरो महान् । कुसुम्भे रक्तिमा यादृग्, घुसणे न च तादृशी ॥ ६७ ॥ क्षीयतेऽभ्युदयेऽन्येषां, तेजस्तेजस्विनामपि । नोदये पमिनीवन्धोः, किं दीपाः क्षीणदीप्तयः१॥.६८॥ पात्रे शुद्धात्मने वित्रं, दत्तं खल्पमपि श्रिये । दत्ते स्निग्धानि दुग्धानि, यद्गवां चारितं तृणम् ॥ ६९ ॥ खल्पसत्वेष्वपि स्वेषु, वृद्धिः सत्खेव निश्चितम् । उगमो यजनैदृष्टः, सतुषेष्वेव शालिषु ॥ ७० ॥ सिद्धिं सृजन्ति कार्याणां, सितास्या एव साक्षराः । लेखा उन्मुन्द्रिता एव, जायन्ते कार्यकारिणः ॥ ७१ ॥ १ अत्राक्षरत्रयं त्रुटितम् ; तच 'भृङ्गैः किं' इति संगच्छेत । २ इन्धनार्थ काष्ठाथै काष्ठप्रज्वालनार्थमित्यर्थः । रन्धनार्थे. इति पाठो लभ्येत चेत्--पाचना- थमिति सुगम एवार्थः स्यात् । ३. सुमनसां पुष्पाणां, सतामियपि ॥
सूक्तरलावली। उपकारः सतां स्थानविशेषाद्गुणदोपकृत् । लोके धुके वे सस्तेजसे 'चाऽप्यतेजसे ॥ ७२ ।। भवन्ति महतां प्रायः, संपदो न विनापदम् । पत्रपातं विना किं स्याभूरुहां पल्लवोद्गमः ॥-७३ ।। महद्भ्यः खेदितेभ्योऽपि, प्रादुर्भवति सौहृदम् । प्रादुरासीन किं सर्पिर्मथितादपि गोरसात् ? ॥ ७४ ॥ नाशं कर्तुमलं वीरा, न तजाति विना द्विपाम् । छिद्यन्ते पशुभिर्वृक्षा, न विना दारुहस्तकम् ॥ ७५ ॥ दत्ते ह्यनर्थमत्यर्थ, कुपात्रे निहितं धनम् । कि वृद्धये विपस्सासीनाऽहीनां पायितं पयः ॥७६॥ शिष्टे वस्तुनि दुष्टस्य, मतिः स्यात् पापगामिनी । कलावतीन्दी मिलिते, राहुरतुमना अभूत् ।। ७७ ॥ भवन्त्यवसरे तुङ्गा, नीरसेऽपि रसोत्तमाः । यद् ग्रीष्मत्तौ सुभीष्मेऽपि, रसाला रसशालिनः ॥ ७८ ॥ तुच्छाहारेऽपि तुच्छानां, विषयेच्छा महीयसी । दृषत्कणभुजोऽपि स्युः, कपोताः कामिनो बहु ॥ ७९ ॥ घिग नै स्व्यं यदशानार्थ, त्यजन्त्यपि मृगीदृशः। . ईशमाशाम्बरं हित्वा, जाह्नवी जलधिं ययौ ॥८॥ साधारणेऽपि सम्बन्धे, काऽपि स्थात् प्रेम मानसम् । रोहिण्या एव मर्जेन्दुन्यक्षऋक्षाधिपोऽपि यत् ।। ८१ ।। मान्यन्ते गुणभाजोऽपि, न विना विभवं सखे।। पतिताः पांशुभिः पूर्णे, पथि पर्युपिताः सजः॥८२॥ १ प्रसितुकामः । २ दारिद्यम् ।, -३ सर्वनक्षत्रपतिः ।।
.०
विजयसेनसूरिप्रणीता
रसिकेषु वसन् वेत्ति, कठोरात्मा न तद्रसम् ।
स्तनोपरि लुठन् हारस्तद्रसं नोपलब्धवान् ।। ८३ ।।
ध्रुवं स्यादुपकाराय, मानितः सरल सखे ।
प्राणानवति किं नैव, गृहीतं वदने तृणम् ॥ ८४ ॥
दुःखीकृत्याऽपि खं पापः, परेपामपकारकृत् ।
मृत्वाऽपि मक्षिकान्येषां, जायते वान्तिकारिणी ॥ ८५॥
दुःखीकृत्याप्यपापः खं, परेपामुपकारकृत् ।
झम्पां दत्वा स्वयं, वहौ, पर्पट: परपुष्टये ।। ८६ ।।
न वासोऽपि श्रिये नीचगामिना सन्निधौ सताम् ।
यत् पेतुः पादपाः कूलङ्कपाकूलभुवः स्वयम् ॥ ८७ ॥
नान्यसै खं गुणं दत्ते, रागवानपि कर्कशः।
अकारि विद्रुमेणाऽन्यद्वस्तु किं रक्तिमाङ्कितः१ ॥ ८८॥
शस्यते सर्वशास्त्रेभ्यो, रूढिरेव वलीयसी।
तदकत्वे समानेऽपि, शशीन्दुर्न मृगीति यत् ॥ ८९ ॥
दृशा दुष्टदृशां दृष्टाः, प्रभावन्तोऽपि निष्प्रभाः।
बभूवुर्भुजगैदृष्टाः, प्रदीपाः क्षीणदीप्तयः॥९० ।।
पिहितैव श्रियं धत्ते, पद्धतिः पुण्यकर्मणाम् ।
दुकूलकलितावेव, कुची कान्तौ मृगीदृशाम् ॥ ९१ ॥
महतामपि लघुता, तस्थुषां मूर्खपर्पदि ।
मन्दधामगतस्यासीनीचलं दिविषद्गुरोः ॥ ९२ ॥
मध्ये मेधाविनां तिष्ठन् , मृोऽपि मानमश्नुते ।
मन्दोऽप्युच्चैःपदं प्राप, कविकेलिगृहं गतः ॥ ९३ ॥
... १० सूक्तरलावली। दुर्दैवेऽनर्थसार्थाय, सङ्गतिधीमंतामपि । गतः कविसभा भौसां, प्रणयी प्राप नीचताम् ॥ ९४॥ न तद्दोपलवोऽपि स्यात् , खलान्तर्वसतां सताम् । तिष्ठन् मूर्धनि सर्पाणां, मणिः किं विपदोपवान् ? ॥१५॥ संगतौ गुणभाजोऽपि, स्तव्धानां न गुणः सखे।। न मुखश्यामता नष्टा, स्तनयोहारहारिणोः ॥ ९६ ।। घनोपद्रववारीणि, तृणानि मिलितानि यत् ॥ ९७ ॥. मध्ये रिक्ता हता एव, भवन्ति मधुरखराः । मृदङ्गेषु यथाऽवस्थमर्थमेनं निभालय ॥ ९८ ॥ अचेतनेन यत्कार्य, जातचिन्नेतरैश्च तत् । आप्यते यत् कपर्दैन, न तत् कीटककोटिभिः ॥ ९९ ॥ प्राप्य किंचित् परान्नीचा, स्यात् परोपप्लवप्रदः। लब्ध्वा रविरुचां लेशं, भृशं यहुस्सहं रजः॥१०० ॥ रागिभिर्लभ्यते भूरिरभिभूतिश्च नेतरैः । यत् कुसुम्भभरः पादैहन्यते न दृषद्गणः ॥ १०१॥ पुण्यवान् पापवांश्चापि, ख्यातिमन्तावुभावपि । गजारूढं खरारुढं, चाऽपि पश्यन्ति विस्मयात् ॥ १०२ ॥ लघीयानपि तोपाय, तेजोमाजोऽपि जातुचित् । किं दीप्तये दृशोरासीद्दीपधूमोऽपि नाञ्जनम् १ ॥ १०३ ।। प्रथिता याति न ख्यातिः, सन्तु मां सन्तु वा गुणाः । यन्नारी. नष्टनेत्रापि, प्रोच्यते चारुलोचना ॥१०४ ॥ १ शुक्रस्थानं, कवीनां सभांच। २ भासों कान्तीनांप्रणयी पतिः सूर्य इत्यर्थः। ।
, विजयसेनसूरिप्रणीता ११ लघीयस्वेन तेजवी, नावज्ञामात्रमर्हति । कान्धकारं भृतागारं, क दीपकलिका किल? ॥१०५॥ अरङ्गोऽपि विशुद्धात्मा, परेषां रञ्जयेन्मनः । नागवल्लीगतचूर्ण, श्वेतोऽपि मुखरङ्गकृत् ॥ १०६ ।। रागी रागिणि नीरागो, नीरागे श्रियमश्नुते । ताम्बूलमाये रक्तौष्ठे, श्यामतारेऽम्बकेऽञ्जनम् ॥ १०७ ॥ लभन्ते सुभटाः संपद्भरं व्यङ्गितविग्रहाः। विद्धयोः कर्णयोरेव, यत्स्वर्णमपि(णि)कुण्डले ॥ १०८।। गुणवद्गौरवं याति, दोषो ज्योतिष्मता सखे ।। दृशां स्फारासु तारासु, श्यामिका शस्यते न कैः ॥१०९॥ उत्तुङ्गेषु रुपं कुर्वन् , भवेत् स्वयमनर्थभाक् । शरभेण मृतिर्लेमे, कुपितेन धनोपरि ॥ ११ ॥ कचित् पिधत्ते मन्दोऽपि, प्रभाभाजामपि प्रभाम् । न किं पिदधिरे धूमयोनिना भानुभानवः ॥ १११ ॥ सखे ! श्रयति सौभाग्यमशुद्धेष्वेव रागवान् । सीमन्तिनीनां सीमन्ते, सिन्दूरं शुशुभे न किम् ॥११२॥ गुणे गतेऽपि केषाश्चिन्न यशो याति जातुचित् । न किं मुण्डितमुण्डाऽपि, वधूः सीमन्तिनी मता ॥११३॥ तुङ्गेष्वतुष्टस्तुच्छात्मा, नानर्थ कर्तुमीश्वरः। करोति शशकः किञ्चिद्भूधरेषु विरोधवान् ॥११४ ॥ किं करोति पिता श्रीमान्, यद्यभाग्यभृतः सुतः । शङ्खो भिक्षामटन् दृष्टो, रत्नाकरभवोऽपि यत् ॥ ११५॥ १ अम्बके नेत्रे । २ विद्धशरीराः। ३ मेघेन ॥ .
१२ सूक्तरलावली । प्रस्ताव पाप्मनां पापाः, प्रजायन्ते प्रकाशिनः । द्योतन्ते खलु खद्योताः, तमिस्र सति सर्वतः ॥ ११६॥ हृद्यहृद्योऽपि सर्वत्र, मान्यो मधुरवार भवेत् । वर्यस्तूर्येषु शङ्खोऽन्तश्चक्रोऽपि शुभगीरिति ।। ११७ ॥ गुणा गौरवमायान्ति, तद्विदां पुरतः सखे । काम्यन्ते कोविदैरेव, काव्यानां कठिनोक्तयः ।। ११८॥ दूरतः परिगच्छन्ति, शुद्धात्मानस्तिरस्कृताः। पातिताः प्रतिकुर्वन्ति, नोद्गमं दशनाः खलु ॥ ११९ ॥ प्रत्यर्थिनो हि हत्यन्ते, विना स्थानं महखिभिः। स्वयमचिंषि दीपस्य, पतङ्गा न पतन्ति किम् ? ॥ १२० । भाविनोऽपि प्रयच्छन्ति, गुणा गौरवमङ्गिनाम् । गुणानां बीजमिति यत् , कर्पासो मूल्यमर्हति ॥ १२१ ॥ अप्युषितः समं मूखैर्वाग्ग्मी नोज्झति वाग्मिताम् । काकांकान्तिकस्थोऽपि, कलकण्ठः कलध्वनिः ॥ १२२ । सेवा स्वार्थाय नीचानामुच्चैरौचित्यमञ्चति । वपुःपुष्टीकृते बाल्ये, द्विकसेवी न किं पिकः ॥ १२३ । न विमुञ्चति वृद्धोऽपि, पैशुन्यं पिशुनः खलु । अश्नात्येव पुरीषं यत् , प्रवया अपि वायसः ॥ १२४ ॥ नाऽमानमानमाप्नोति, वसञ्श्वशुरवेश्मनि । इन्द्रायादात्सुधामब्धिर्जामाने वाऽच्युताय न ॥ १२५ ॥ सखे ! वित्तवतां प्रायो, दुर्मोचो नीचसंस्तवः पनं मधुपैसंपर्क, श्रीवेश्माऽपि जहौ न यत् ॥ १२६ ।। १ पाकः शिशुः। २ द्विकः काकः। ३ वृद्धः। ४ मधुपाः भ्रमराः, मद्यपाश्च .
विजयसेनसूरिप्रणीता विस्तारं व्रजति स्नेहा, स्वल्पोऽपि स्वच्छचेतसि । व्यानशे तैललेशोऽपि, सरः सर्वमपि क्षणात् ॥ १२७ ॥ निर्मलानां सुवृत्तानां, सङ्गः प्रोच्चैःपदपदः । मौक्तिकर्मिलिताः स्त्रीणां, हदि तिष्ठन्ति तन्तवः ॥१२८॥ तदेव दत्ते दाताऽपि, यद्भाले लिखितं भवेत् । त्रिपश्येव पलाशेऽभूदुर्पत्यपि पयोधरे ॥ १२९ ॥ हित्वा वलं कुलं शीलं, पक्ष्मलक्ष्मीमुपासहे । फलं तरुस्थं सत्पक्षः, काकोऽत्ति न च केशरी ॥ १३०॥ वित्तं विनोपद्रवाय, स्वमित्रमपि जायते । नीरं विना विनाशाय, न कि मूरैः सरोरुहाम् ॥१३॥ सहाये सति सोकर्पा, शक्तिस्तेजखिनामपि । यदग्नेर्दीप्यते दीप्तिर्जवने पवने सति ? ॥ १३२ ॥ यत्रास्ते ननु तेजस्वी, स्थानं तदपि मान्यते । अरणो काष्ठमात्रेऽपि, लोकानां किमु नादरः १ ॥१३३ ॥ तुच्छात्मोन्झति दृढतां, सद्यः सङ्गे प्रभाभृताम् । लाक्षा साक्षाजलं जज्ञे, संपर्केण हविर्भुजः १ ॥१३४ ॥ निःशक्तयोऽपि संयुक्ता, भवन्ति वलहेतवः । गुडकाष्ठपयोयोगे, मद्यशक्तिर्महीयसी ॥ १३५ ।। किं करोति कठोरोऽपि, सङ्गते महसां निधौ ? गाहयामास लोहोऽपि, द्रवतां मिलितेऽनले ॥ १३६ ।। तेजस्तिष्ठतु सङ्गोऽपि, तद्वतां बीजमचिपाम् । पश्य पावकसंयोगाजलमप्यतिदाहकृत् ॥ १३७ ।। १ सूरः सूर्यः। २ वेगवति। ३ अग्नेः॥ ..
+ १४ सूक्तरत्नावली। गता यत्रापि तत्रापि, वाग्मिनो विश्ववल्लभाः। पुरग्रामवनोद्याने, कोकिलाः श्रुतिशर्मदाः ।। १३८ ।। सति स्वामिनि दासानां, तेजो भवति नाधिकम् । नि नि भानि जायन्तेऽत्युदिते रजनीकरे ।। १३९ ॥ दैवमेव प्रपन्नानां, पुंसामाशा फलेग्रहिः । अपित्रद्भिर्भुवस्तोयं, चातकैस्तुतुपेऽम्बुदान् ॥ १४० ॥ लभ्यते लघुता सद्भिः, परपार्श्वमुपस्थितः । सनक्षत्रा ग्रहाः सर्वेऽस्तं गताः मूर्यपार्श्वगाः ॥ १४१ ।। पदं पराभवानां स्यात्, पुमांस्तेजोभिरुज्झितः। पदप्रहारैर्न नन्ति, किं निर्वाणं हुताशनम् ? ॥ १४२ ॥ दोपे तुल्याऽवकाशेऽपि, गुणी मान्यो न चेतरः । छिद्रे सत्यपि हारोऽस्थात् , कुचयोन च नूपुरम् ॥ १४३ ॥ तुच्छात्माऽपि पराभूतः, सद्यः स्यादभिभूतये । फूत्कृतेन हतं भस्म, स्वमयं कुरुते मुखम् ॥ १४४ ॥ खं विनाश्याऽपि तुच्छात्मा, भवेदन्यविनाशकृत् । पावके पतितं पाथः, स्वस्य तस्य च हानये ॥ १४५॥ हीनानां वृद्धिरल्पाऽपि, नाही तेजोजुपामपि । भमानं भारितो वहिरसन्निव निरूप्यते ॥ १४६ ॥ विशेषाज्जडसंसर्गः, साक्षराणामनर्थकृत् । समर्थयन्त्यर्थमेनं, यल्लेखा लिखिताऽक्षराः ॥ १४७ ।। नाप्नुवन्त्यबुधास्तच, विद्वत्सु मिलितेष्वपि । किमन्धा मुखमीक्षन्ते, कृतेऽपि मुकुरे करे ? ॥१४८ ॥ १ कान्तिरहितानि (भानि नक्षत्राणि)। २ दर्पणे ॥
, विजयसेनसूरिप्रणीता १५ परात् प्राप्तप्रतापानां, बलाधिक्यं कियचिरम् । दिववोष्णवमुष्णांशुतप्तानां रजसामभूत् ॥ १४९ ॥ महान्तो मिलिताः सन्तो, यच्छन्त्याधिक्यमात्मनः। शुक्ति) संयुक्तितो मुक्ताफलख जलमापयत् ॥१५० ॥ स्वच्छात्मनि सगतेऽपि, श्यामात्मा यात्यनितिम् । कपूरेऽन्तर्निहितेऽपि, दृगश्रूणि विमुञ्चति ।। १५१ ॥ नेवास्थानस्थितं वस्तु, वस्तुतः श्रियमश्नुते । महर्यमपि काश्मीरं, रोचते न विलोचने ॥ १५२ ।। शुद्धात्मा दुःखदातापि, भवेदायतिशर्मदः। बाप्पपातेऽपि कर्पूरान्छैत्यं तदनु चक्षुपोः ॥१५३ ॥ दुर्मुखानां गुणमाप्तिःखाय जगतामपि । छिद्राऽन्वेपी परप्राणान्, हन्ति वाणो हि तादृशः ॥१५४॥ अन्तःशिष्टा अपि मुखे, दुष्टा अप्रीतिकारिणः । दुष्टाः किं नाऽहयस्तुण्डे, सविपे निर्विपा हदि ? ॥१५५॥ दोपः स्तोकोऽपि. नीचाना, जगदुद्वेगकारणम् । वृश्चिकानां विपं दुष्टमपि पुच्छाऽग्रगं विपम् ॥ १५६ ॥ सदुक्तिरपि दोपाय, कदाग्रहजुपां सखे। संनिपातवतां सर्पिष्पानं तवृद्धये न किम् ? ।। १५७ ।। भवन्ति सुमनःसगादपि क्षुद्रास्तदन्तिनः। यत्तिला मिलिताः पुष्पैर्वभूवुस्तन्मया इव ॥ १५८ ।। वाचोऽपि जडतः प्रादुर्भूताः सन्तापहेतवे । जाता जीमूततो विद्युन्न स्यात् किं दाहदायिनी ॥१५९॥ १ सर्पितम् ।।
१६ सूक्तरलावली-1 क्षुद्रात्मानोऽन्तरागत्य, सन्ति महतां क्षितिम् । मशका करिकर्णान्तः प्रविश्य नन्ति तं न किमा१६०॥ सादपि स्वल्पसवानां, भूयसी भीमहात्मनाम् । मशका यान्तु मा श्रुत्योभियेतीभश्चलश्रवाः ॥ ११ ॥ महान् सद्यः समुत्पन्नोऽप्युपकाराय भूयसे । व्यजनोद्धृतोऽपि वातः, शैत्यं धत्ते न कि हुतम् ॥१६॥ महस्त्रिनोऽप्यवश्यं स्यात्, तुच्छात्माऽनर्थकारणम् । तुणलेशेऽन्तःपतिते, बाप्पपातो न कि दृशोः ॥१६३ ।। महात्मनां विपत्तौ स्यादुत्साहः श्यामलात्मनाम् । किमस्तसमये भानोन च्छाया वृद्धिभागभून् ? ।। १६४ ।। श्यामात्मानः समायान्ति, न्यत्कृता अपि सत्वरम् । झटित्येव यदुद्यान्ति, मुण्डिता अपि मूर्धजाः ॥ १६५ ॥ महानास्तां तदभ्यर्णभाजोऽपि दृग्गरीयसी। कुञ्जराः कीटिकाकल्पाः, शैलमूर्धनि तस्थुपाम् ॥ १६६ ॥ लघोस्तेजखिताऽपि स्यान्महतोऽपि लघुत्वकृत् । संक्रान्तो मुकुरकोडे, भूधरः कर्करायते ॥ १६७ ॥ लघीयसां गतिर्यत्र, न तत्र महतां गतिः । पिपीलिकानामारोहो, यद्गजानामगोचरः॥ १६८॥ संग्रहः श्रियमिच्छद्भिः, कर्त्तव्योऽपि लघीयसाम् । संगृहीतं दृशोराशीत्, कजलं किं न कान्तये ।। १६९ ।। सत्कृतोऽपि त्यजत्येव, न खलः खलतां खलु । कटुतां नाऽत्यजनिम्बः, पायितः ससितं पयः ॥ १७० ॥ १ कुर्वन्ति। २ हानिम् । ३ तिरस्कृताः । ४ दर्पणमध्ये। ५ शर्करासहितम् ॥
विजयसेनसूरिप्रणीता वश्येषु विनयिवेवाधिरोहन्ति गुणाः सखे।। नतिमत्येव कोदण्डे, दृष्टं यद्गुणगौरवम् ॥ १७१ ॥ वासस्थानविनाशाय, भवन्ति सुकृतीतराः। काष्ठकीटा न किं दृष्टा, ईदृग्दुष्टविचेष्टिताः ॥ १७२ ।। पतितस्य निजस्थापि, न सङ्गो गुणिनां मतः । यत्संस्तुतावपि त्यक्तौ, हारेण युवतीकुचौ ॥ १७३ ।। एकेन बहुदोपोऽपि, गुणेन बलिना प्रियः। हारः सच्छिद्रमुक्ताढ्यो, मान्यो नैकगुणोऽपि किम् ॥१७॥ लघूनपि गुरूकुर्युः, स्वमहोभिर्महखिनः । पश्य दीपप्रभादीप्तं, लघु रूपं महत्तरम् ॥ १७५ ॥ सेवा तिष्ठतु शिष्टानामपि दर्शनमर्थकृत् । न स्यात् संपत्तये केपा, प्रेक्षणं चापपक्षिणाम् ? ॥१७६ ॥ अचेतनोऽप्यपुण्यात्मा, सेवितोऽनर्थसार्थकृत् । न च्छायाऽप्युपविष्टानां, कि कलेः कलिकारिणी ॥१७७॥ यत्र तत्र समेतः स्यादपुण्यः पदमापदाम् । प्राप्तो वहति पानीयं, यत्र तत्रापि कासरः ॥ १७८ ॥ अचेतनोऽपि धन्यात्मा, सेवितः संपदे सखे। चिन्तामणिः किमश्माऽपि, न सूते श्रियमीप्सिताम् ॥१७९॥ अयच्छन्तोऽपि संपत्ति, प्रीतये विपुलाशयाः। अददानोऽपि विद्युत्त्वान्न मुदे किं कलापिनाम् ? ॥१८०॥ १ वंश्येपु कुलीनेषु, वेणुजातेषु च । २ अत्र गुणशब्देन ज्या । ३ परिचिती। ४ विभीतक(यहड़ा)वृक्षस्य । ५ महिपः ॥ २ १८ सूक्तरलावली। वित्तवत्स्वेव जायेत, नृणां प्रीतिमहत्वपि । हर्पः सप्रतिमेष्वेव, चैत्येप्वप्रतिमेष्वपि ॥ १८१ ।। सदसतोरीक्षितयोः, सौहदं सति संभवेत् । घृते भवति वाल्लभ्यं, जग्धयोघृततैलयोः ।। १८२ ॥ सृजन्ति विशदात्मानो, विवेकं वस्त्ववस्तुनोः। मराला एव कुर्वन्ति, निर्णय क्षीरनीरयोः ॥ १८३ ।। आपत्प्राप्तोऽपि तेजस्वी, परसा उपकारकृत् । किमस्तं व्रजता न्यस्तं, न दीपेंशुमता महः ॥ १८४ ॥ सुखयन्ति जगद् वाग्भिलपीयांसोऽपि वाग्मिनः । किं न लघ्व्योऽपि गोस्तन्यो, रसैर्विश्वसुखावहाः? ॥१८५॥ महानपि प्रसिद्धोऽपि, दोपः काऽपि गुणायते । न जरा भाति किं दीक्षाभाजि भिपजि रानि च ॥१८६॥ आस्तां प्रभावांस्तत्प्राप्तप्रभोऽपि जनकृत्यकृत् । सूर्यादातरुचोऽप्यासन्, यद्दीपा कार्यकारिणः ॥ १८७ ।। धत्ते महखितां मृमलिनोऽपि महाधनः। भ्रमवच्छाणसंसर्गी, किमसिन विभासुरः ॥ १८८ ॥ धत्ते शोभा विशेषेण, जडोऽप्यत्युग्रसङ्गतः । मिलितं किं श्रियं याति, पानीयं नासिधारया ? ॥१८९॥ एको दुर्जनदृग्वारी, दोपो विदुपि जायते । रेखा स्थाबालभालस्थाऽऽञ्जनी हग्दोपवारिणी ।। १९० ।। पापः सतां समान्तःस्थो, रक्षिता तद्गुणश्रियाम् । न किमन्तर्गतोऽङ्गारः, पाति कर्पूरसंपदम् ? ॥ १९१ ।। १ शोभनाऽशोभनयोः । २ द्राक्षाः ॥
विजयसेनसूरिप्रणीता १९ तुङ्गानामापदं हर्तु, तुङ्गा एव भवन्त्यलम् । समर्थास्तोयदा एव, तापं हर्तुं महीभृताम् ।। १९२ ।। कलावन्तो विशिष्यन्ते, पुरतोऽपि प्रभाभृताम् । सति सूरे शशी तसिन् , सति नान्यन दृश्यते ॥ १९३ ।। एकाऽन्वयभुवोऽपि स्युः, शुद्धाः पूज्या न चेतरे । गोजातमपि मान्यं यद्गोरसं न च गोमयम् ॥ १९४ ।। रसिकैरेव बुद्ध्यन्ते, रसिकानां गिरः सखे । थ्रियन्ते वसुमत्यैव, यत्पयासि पयोमुचाम् ॥ १९५ ॥ तुल्येऽपि विषयोल्लेख, आकृतिस्तु बलीयसी। पुंसामेवाग्रहः स्त्रीपु, न तासां तेषु चाभवत् ॥ १९६ ॥ समानेऽपि हि संवन्धे, निजार्थों बलवत्तरः। पत्त्याः पुत्रे महिप्याश्च, पुत्र्यां यत् प्रेम मानसम् ॥१९७॥ मानोन्नता न मुञ्चन्ति, खं मानं प्रहृता अपि । नतौ नलिननेत्राया, न स्तनौ निहतावपि ॥ १९८ ॥ कर्णे कर्णेजपैयुक्तः, कोविदोऽपि विकारवान् । यगिरीशोऽप्यभूद्भीमो, द्विजिह्वाधिष्ठितश्रवाः ॥ १९९ ॥ विनेयास्ताडिता एव, संपद्यन्ते पदं श्रियाम् । सुवर्णमपि जायेत, हतमेव विभूपणम् ॥ २०० ॥ दोपे दोपैकग्-दृष्टिर्न गुणे प्रगुणे पुनः । खरीणां पतनेच्छा स्यात्, पांसौ न च जलेऽमले ।।२०१॥ संग्राप्तसंपदोऽपि स्युन सन्तः शीललोपिनः । किं कलाकलितोऽपीन्दुर्जही जिष्णुपदस्थितिम् ॥२०२ ।। १ गर्दभानाम् । २ जिप्णोः विष्णोः पदं, आकाशम् , विष्णुचरणाश्रयं च ॥ , २० ? सूक्तरत्नावली। तुल्येऽपि कर्मणि स्थानविशेपानरि गौरवम् । समाने भारनिर्वाहे, यद्वामे गुरुता गवि ॥ २०३ ।। महतामपि दुर्मोचा, दुष्टतान्तर्विवचिनी । किमानरमृतात्कम्रर्मुमुचेऽन्तःकठोरता? ॥२०४ ॥ स्थानके भूयसीं शोभामपि सद्वस्तु गच्छति । स्त्रीशोरञ्जनस्य श्रीर्या न सा नरचक्षुपोः ॥ २०५॥ स्थाने यच्छोभनं वस्तु, कुस्थाने स्यात्तदन्यथा । वालाः पुंसां मुखे शस्तास्तुण्डे स्त्रीणामनर्थदाः ।। २०६ ॥ श्रेयानपि स्थितः पापैर्गुणोऽन्येषां भयावहः । ऊर्णनाभे कुविन्दत्वं, मक्षिकाणामनर्थकृत् ।। २०७।। नातिशुद्धस्त्ररूपाणां, दुरिते जायते रतिः ॥ स्थीयते कलहंसः किं, वासु कलुपाम्भसि ? ॥ २०८ ॥ खलानां न स्तुतिस्ताक, प्रिया निन्दा च यादृशी। ॥ २०९॥ वहिस्तान्मञ्जवस्तुच्छा, अन्तः कठिनवृत्तयः । किमी काऽपि केनापि, नालोकि बदरीफलम्।।२१०॥ सृजन्ति तुच्छा अप्यत्ति, महती महतोऽत्यये । तिष्ठन्ति तरणेरस्ते, मुद्रितास्याः खगा अपि ।। २११ ।। प्रभावान्निष्प्रमेणापि, सङ्गतः श्रियमश्रुते । रविरुचैः पदं प्राप, गतोऽप्यनारकोकसि ॥ २१२ ॥ कलावानपि हीनत्वं, कलयेद्वेश्मगः । न नीचो दृश्चिकस्थः किं, बान्धवः कुमुदामभूत् ।।२१३॥ १ मनोहरैः । २ तन्तुवायत्वम् । ३ एतस्योत्तराद्ध त्रुटितम् ॥ .... ur विजयसेनसूरिप्रणीता २१ दोपायते गुणः कापि, दोपः काऽपि गुणायते । केशेषु शुभिमा दुष्टः, शिष्टस्तारासु कालिमा ।। २१४ ॥ तुङ्गाः कार्यविशेपाय, मान्यन्ते तद्गुणमियैः । पोप्यन्ते दन्तिनो नूनं, दुर्गध्वंसाय पार्थिवैः ॥ २१५ ॥ तुच्छोऽपि हृयवादित्वाजायते मानभाजनम् । किं कीरः कामितां भुक्ति, नाप्नोति मधुरं ब्रुवन् ? ॥२१६॥ नीचा अपि पीडितायां, स्वजातों यान्त्यनितिम् । पूत्कुर्वन्ति न कि काकाः, काके मृतिमुपेयुपि ? ॥२१७ ॥ खजातिमेव निम्नन्ति, नूनं जडनिवासिनः । आकर्णिताः सकणः किं, न मीनाः स्वकुलाशिनः ॥२१८॥ निवसन्तीं वयं विद्यः, सवित्रीनेत्रयोः सुधाम् । दुग्धपानं विना कूाः, प्राणन्त्यर्भा निभालनैः ॥२१९॥ आत्यस्तिष्ठतु तत्पार्श्वमपि तेजखि तेजसा । श्रीदग्विर्तिमूर्तिः किं, भानुमानातिदुःसहः ॥ २२० ॥ रसाढ्या मध्ये मृदवः, स्युर्वहिः कर्कशा अपि । किमीहक्काऽपि केनापि, नालोकि कदलीफलम् ।।२२१॥ ददतो नात्मनो वित्तव्ययं ध्यायन्ति दानिनः । वनाशो रम्भयाऽचिन्ति, किं फलोत्सर्जनक्षणे १॥२२२ ।। अचेतनोऽपि तुगात्मा, श्रितो दत्ते निजं गुणम् । अधस्तात्तस्थुपां शोकनाशायाशोकभूरुहः ।। २२३ ।। १ जदैः मूखैः सह निवसन्ति तथोक्का मूर्खसहचराः, जलचराश्च उलयोहै. क्यात् । २ पण्डितः । ३ मातृचक्षुषोः । ४ श्रीदः कुबेरः तस्य दिक् उत्तरा तस्यां वर्तते मूर्तिर्यस्य सः उत्तरायणगत इत्यर्थः ।।
२२ सूक्तरत्नाबली। लभन्ते वाग्मिनो मानं, दुर्दशायां स्थिता अपि । कीरः पञ्जरसंस्थोऽपि, हारिगीरिति पाठ्यते ।। २२४ ॥ आस्तां वाक् प्रीतये प्रोच्चैर्निध्यातोऽपि कलानिधिः। किमीक्षितो मुदं दत्ते, न चकोरदृशां शशी? ॥ २२५ ॥ अयुक्तमपि युक्तं तद्यच्चिरन्तनवाये। नदी व्योमनि तत्रापि, सरोजिनीति संमतम् ॥ २२६ ॥ द्विजिहाधिष्ठितः स्वामी, न क्लेशाय कलावताम् । कर्णाभ्यर्णस्थकर्णः, किमीशः शशिनो भिये ॥ २२७ ॥ असंभाव्यमपि प्रोक्तं, पूर्वः स्यादतिमूनृतम् । पार्वती प्रस्तरापत्वं, सत्यमित्यवसीयते ॥ २२८ ॥ गुणाः सौन्दर्यशोर्याद्याः, साक्षरत्वं विना वृथा । सौवण स्थादपि स्वर्ण, किं बिनाक्षरसञ्चयम् ? ॥ २२९ ।। महतां जननस्थानमुक्तिरुन्नतये भवेत् । विन्ध्यत्यजां गजानां किं, नारात्रिकं नृपाजिरे? ॥२३०॥ सर्वतः स्वाद्विनष्टोऽपि, गरीयान् गौरवास्पदम् । यदश्मा चलितस्तूर्णं, चूर्णोऽभूद्भपवल्लभः ।। २३१ ।। दोपस्तिष्ठतु तद्भाजामभ्यर्णमपि दुःखकृत् । छिद्रयुक्तवटीपार्श्वे, झल्लरी यनिहन्यते ॥ २३२ ।। गुणिनामपि संसों, दुर्मुसाणां गुणाय न । शरे शरासनासक्ते, दृष्टा काऽपि दयालुता? ॥ २३३ ।। यशम्शेपोऽपि तेजखी, भवेदाय भूयसे । न रूप्यस्वर्णयोः सिद्धि, मृतः मते मृतोऽपि किम् ॥२३४ १ वर्णः सर्पः । २ सूतः पारदः ।
विजयसेनसूरिप्रणीता २१ प्रदत्तेऽनर्थमत्यर्थ, दुर्मुखैः पक्षशालिता। -पक्षवानेव यत् पत्री, परप्राणाऽपहारकृत् ।। २३५ ॥ तुङ्गवंशभवा नार्यः, पतिं दौस्थ्ये त्यजन्ति न । मुमुचे हिमवत्पुत्र्या, ननोऽपि किमनङ्गजित् । ।। २३६ ।। महात्मानो विरोधाय, सङ्गभाजो जडात्मभिः। चन्द्रयुक्ता ग्रहाः सर्वे, विवाहेऽनर्थहेतवः ॥ २३७॥ यन्त्रणं युक्तिमजाने, स्तब्धानां चासितात्मनाम् । यत्सरोजदृशां बन्धः, कुचेषु चिकुरेषु च ।। २३८ ।। मूर्खाणामधिकत्वं स्यादुत्तमेषु प्रमादिषु । जगजातजर्ड जज्ञे, यत्सुप्ते पुरुषोत्तमे ।। २३९ ।। बुद्धिमानपि निर्बुद्धेः, सङ्गतः स्थाजगद्भिये । वर्यकार्यनिपेधी यद्गुरुः केशरिणं गतः ॥ २४० ॥ धिग् दुष्टान् यान्ति स(योत्सङ्गान्महात्मानस्तदात्मताम् । प्रययौ पापतां पापग्रहसङ्गेन यद्बुधः ॥ २४१॥ गुणः स्वल्पोऽपि संपत्त्यै, सखे। दोपजुषामपि । सर्वाङ्गर्भग्नभद्राया, भद्रायाः पुच्छमृद्धिकृत् ॥ २४२ ॥ दौस्थ्यं दोपास्पदं शश्वत्, स्यात् कलाशालिनामपि । 'कान्तोऽप्यभवत्पापः, शशाङ्कः क्षीणवैभवः ॥२४३॥ कृत्यं भवति नीचानां, यच नीचैर्न चेतरैः। कारूणामर्थसिद्धिर्या, खरैः सा च न सिन्धुरैः ॥ २४४ ॥ १ वाणः । २ जलव्याप्तम् (वर्षाहेतोः), संजातमूढं च । ३ सिंहराशिम् । ४ सप्ताक्षरेऽत्र पादे प्रथममेकमक्षरं त्रुटितं स्यात्; तच्च यत्' इति स्यात् ॥
२४ सूक्तरलावली। तुच्छानां वक्रता तुइँनिराकर्तुं न शक्यते । केशेषु पतितो ग्रन्थिा, कुञ्जरैः किं निरसते ? ॥ २४५॥ कदाचिन्नातिनीचानां, संस्कारोऽपि गुणावहः । क्षालनं कम्बलानां स्याद्यद्विनाशाय सत्वरम् ॥ २४६ ॥ न सत्सङ्गगुणारोपः, शुद्धेऽप्यधमवंशजे । किं विम्बावस्थितिः कापि, भवेत् स्वच्छेऽपि कम्बले॥२४७॥ शुद्धात्मानो विधीयन्ते, नाऽधमैः स्वसमाः समे । कम्बौ किमितरैर्वनिधीयन्ते निजा गुणाः ।। २४८ ॥ जडात्मसु स्थिता व्यर्थ, महत्यपि महखिता। व्यनक्ति खपरव्यक्तिं, नेन्दोर्भा भासुराऽपि यत् ॥२४९ जातौ सदृशि सर्वत्र, गोत्रमत्रोन्नतिप्रदम् । पशुत्वे सति सिंहयोपमा रम्या शुनश्च न ॥ २५० ।। भवेन्मान्यः कठोरोऽपि, मध्ये मधुरिमाङ्कितः। नालिकेरफले चकुर्नादरं कर्कशेऽपि के ? ॥ २५१ ।। सिद्धे कार्ये जनेपूचैर्महानपि तणायते । वध्यते मुकुटः स्तम्भे, विवाहानन्तरं न किम् ? ॥२५२ ॥ गुणस्तुल्यास्पदेऽपि सान्निर्मले न ह्यनिर्मले। यत्सर्पिः प्राप्यते लोकैर्गोरसे न च गोमये ।। २५३ ।।. दृश्यन्ते बहवः स्वल्पसवा नो सत्वशालिनः। पदे पदे पर्यटन्ति, भपणा न मृगद्विपः ॥ २५४ ।। संपदप्यल्पसत्त्वानां, सादवश्यमनर्थकृत् । कस्तूरी ननु कस्तूरी-मृगाणां मृत्युकारिणी ॥ २५५ ॥ १ सर्वे ॥
विजयसेनसूरिप्रणीता २५ इह हेतुरनर्थानामप्रस्तावे गुणज्ञता । गीतेषु रसिकैाधादवापि मरणं मृगैः ।। २५६ ॥ महिमा मूलतो याति, कुस्थानस्थितवस्तुनः । कस्तूरीतिलकं पक्षमेव पामरमूर्द्धनि ।। २५७ ॥ निर्गुणा गुणिभिः साकं, संगता यान्ति गौरवम् । न धान्यैर्मिलिता लोकैद्यन्ते किमु कर्कराः १ ॥ २५८ ॥ तेजस्वी ननु तेजखिसङ्गे राजति नाऽन्यथा । यथा भाति मणिः स्वर्णे, न तथा पुणि स्थितः ॥२५९॥ ब्रजन्नपि जडः स्थानविनाशाय ध्रुवं भवेत् । नेत्रयोनिपतन्नीरं, हानये किं न तत्विषाम् ? ।। २६० ।। अपि तुङ्गात्मनां संपद, बहिर्भूताऽभिभूतये । रदार्थमेव द्विरदा, निहन्यन्ते वनेचरैः ।। २६१ ॥ वाग्मिनः किं प्रकुर्वन्ति, मिलिते मलिनात्मनि । श्यामले कम्बले वर्णरितरैः का प्रतिक्रिया ॥२६२ ।। जन्मस्नेहः सतां खीहन्यते दुर्मुखैः क्षणात् । तन्दुलानां तुपैमैत्री, निरस्ता मुशलेन यत् ॥ २६३ ।। मन्दा भवन्ति सालस्याः, कलावन्तस्तु सोधमाः। त्रिंशन्मासान् शनिरास्ते, राशौ चेन्दुर्दिनद्वयम् ॥ २६४ ॥ कोमलानां कठोरान्तःपतितानाममङ्गलम् । धान्यानां यद्धरट्टान्तर्गतानां कियती स्थितिः ॥ २६५ ॥ सन्तः स्युः सद्गता सन्तः, श्रिये श्यामात्मनामपि । कि केशाः कलयामासुर्न शोभा संश्रिताः सुमैः १ ॥२६६॥ राँग' इति प्रसिद्ध धातुभेदे । २ पुप्पैः ।।
२६. सूक्तरतावली। प्रायो न हित एव स्यात्, कठोरात्मा रसप्रदः। यद्भग्नमेव दत्ते द्राग, नालिकेरफलं जलम् ॥ २६७ ।। तादृग् भोक्तरि नोत्कर्पो, यादृय भोग्ये प्रवर्त्तते । न वेपाडम्बरस्ताक्, पुंसां यादृग् मृगीदृशाम् ॥ २६८ ।। यद्यपां निकटं प्रायस्तत्तेषां वल्लभं भवेत् । स्तनान्तःस्थितपयसां, स्त्रीणामेव पयः प्रियम् ।। २६९ ।। न स्यात्तेजस्विनः शक्तिस्तादृग् यादृक् कलावतः । तादृग् नांशोले शुद्धं, दिनं यादृग् निशापतेः ।। २७० ॥ महिमानमक्षराणां, न वयं वक्तुमीश्महे । यत् कलिर्गालिदाने सादाशीर्वादे च सौहृदम् ॥ २७१ ।। का भवेदुन्नतिः पुंसां, स्वगुणस्तवने स्वयम् ? । रसस्य संभवः कापि, किं निजाधरचर्वणे? ॥ २७२ ॥ क्रियन्ते स्वमयाः सद्भिर्मेदवश्च न हीतरे । धीयते स्वगुणः पुष्पैस्तिलेषु नो पलेषु च ।। २७३ ।। तुच्छत्वेऽपि मृदुत्वं स्यात, परर्द्धिग्रहणक्षमम् । पुष्पगन्धस्तिलरेवादीयते न पत्कणैः ॥ २७४ ।। लघीयानपि शिष्टात्मोपकाराय महीयसाम् । अव्धेरपामपाराणां, किं वृद्धये नोदितः शशी? ॥ २७५ ।। कुपुत्रैः कुलविध्वंसो, जातमात्रैविधीयते । मूलादुन्मूलनाय सात, कदल्यां फलसंभवः ॥ २७६ ॥ धने सत्यपि तेजस्वी, नैधते मुहृदं विना । पिधानरुवातः किं, दीपः स्नेहे सुदीप्तिमान् ॥ २७७ ।। १ अंशोः सूर्यस्य ।
२७ विजयसेनसूरिप्रणीता संपत्तौ च विपत्तौ च, महान् स्यात् समवैभवः । उदयेऽस्तमने चाऽपि, स्पष्टमूर्तिस्त्विषांपतिः ।। २७८ ॥ मूर्खाणामग्रतो वाचां, विलासो वारिग्मनां मुधा । लास्यं वेपसृजां वन्ध्य, पुरतोऽन्धसभासदाम् ।। २७९ ।। सुखदुःखे समं सातां, सुहृदां सहवासिनाम् । सहेवोन्नतिपतने, स्तनयोरेकहृत्स्थयोः ॥ २८० ॥ संवन्धेऽपि दुराचारचञ्चवः स्युरपण्डिताः । का सुता का वसा काम्बा, पशूनामविवेकिनाम् ॥२८॥ प्रातिश्मिकदुःखे स्युर्मेदूनामसमाधयः । जातायां मूर्ध्नि पीडायां, किं दृशोर्न विपाम्पतिः पा२८२॥ सेवाप्रहं भवेद्विश्वं, निष्ठुरेऽपि धनाद्भुते । कीटकैः क्लप्तपीडायां, केतक्यां किमु नादरः। ॥ २८३ ॥ शुद्धात्मनि गतेऽपि स्यात्, स्थानं तद्भावभावितम् । किं विक्रीतेऽपि कर्पूरे, नास्पदं सौरभान्वितम् ॥ २८४॥ नोज्झन्ति तद्गुणाः स्थानं, गतस्याऽपि दुरात्मनः । गन्धस्त्यजति किं पात्रं, निष्काशितेऽपि रामठे ? ॥२८५॥ अतिप्रेयान् महात्माऽपि, भवेन्नावसरं विना । यत्तकोदनवेलायां, शर्करा कर्करायते ॥ २८६ ॥ अधिकारात् स्यादर्थस्य, प्रतीतिः प्रतिभान्विता । रणे राजन्ति मातङ्गा, अत्रै कुञ्जरनिर्णयः ॥ २८७ ।। १ निष्फलम् । २ हिनि 'होग' इति प्रसिद्ध । ३ अत्र मातमशब्दे । ४ कुवराणां हस्तिनां निर्णयो निश्चयः, नलधिकाराभावादत्र माताशब्दे चाण्डालनिर्णय इति भावः ।।
२८ सूक्तरत्नावली । सच्छिद्रे रसिकात्मभ्यः, कचिन्नादीयते रसः। नीरं नीराशयेभ्यः किं, चातकैः परिभुज्यते ? ॥२८८ ॥ अहो ! तेजस्विनां कापि, कला कौशलपेशला। चिन्ता चिन्तानिवृत्तिश्च, हरभ्यामेवाऽवगम्यते ।। २८९ ॥ सेवा तिष्ठतु दुष्टानां, दर्शनादपि भीतयः। प्रेक्षिता अपि कि सर्पाः, न संत्रासस्य कारणम् ? ॥२९०॥ अकीर्तिः पापसङ्गेऽपि, लघोः स्यान्न गरीयसः । विनश्येद्वायसैः पीते, तोये कुम्भश्व नो सरः ॥ २९१ ।। अपि सत्सु कलावत्सु, पूज्यते पदमर्चिपाम् । नेन्दौ सत्यपि किं प्रातर्नमस्कुर्वन्ति भास्करम् ? ॥२९२।। सत्यामप्यन्यसामग्र्यो, न स्यात् कालं विना फलम् । आविर्भूयाद् घृतं दुग्धात्, किं विना दिवसान्तरम्।।२९३॥ कर्कशेष्वपि या तस्थौ, सतां वाक् सा च नाऽन्यथा । ये वर्णा ग्रावमूत्कीर्णा, भवेत्तेषां किमत्ययः ॥ २९४ ॥ लघूनामपि वाहुल्यं, दोष्मतामप्यशर्मकृत दुःसहाः शकटोद्वाहे, धुर्याणां धूलयो न किम् ? ॥२९५।। अन्त सारे गतेऽप्युचैः, शुद्धात्मा मानमर्हति । हतेऽपि नवनीते किं, न लोकैस्तक्रमादृतम् ? ॥२९६ ॥ आत्मसात्कुरुते सिद्धिं, सर्वतः सरलः पुमान् । कूपस्तम्भो न कि लेभे, यानपात्रे प्रधानताम् ? ॥२९७॥ सरलोऽपि मुखे दुष्टस्त्रासकृञ्जगतां मतः। कदाऽपि कोऽपि न कापि, कुन्ततः कलयेद्भियम् ।।२९८॥ १ मारवाहिनां वृपभाणामित्यर्थः । २ खाधीनीकरोति ॥
विजयसेनसूरिप्रणीता २९ पापात्मानो निजार्थाय, परेपामसुखेच्छवः । घृताल्लाभाय तत्स्वामी, गवामिच्छति तुच्छताम् ।। २९९॥ गते सारे मृदूनां वांदवस्थास्पदमश्रियाम् । त्यत्तस्नेहास्तिलाः पश्य, खलता प्रतिपेदिरे ॥३०॥ अल्पीयसाऽपि पापेन, विनश्येत् सुकृतं बहु । दुग्धं काञ्जिकलेशेन, प्रस्फुटेदतिवदपि ॥ ३०१ ॥ व्यसनेऽपि विमुञ्चन्ति, स्वकीया नहि कहिंचित् । शुष्के सरसि तत्रैव, म्लानाः पङ्कजपतयः ॥ ३०२ ।। तनवः पतिताः क्लेशे, त्यजन्ति चिरसौहृदम् । जन्मस्नेहः क्षणात्यक्तो, यत्रान्तःपतितैस्तिलैः ॥ ३०३ ॥ अल्पैनियति नोपायैनवीनाऽपि तमोमतिः । यत् सद्यस्कोऽपि किं नीलीरागोऽद्भिरगमत्क्षितिम् ॥३०४॥ प्रचुरा प्रकृतिः प्रायः, प्रेक्ष्यते पापपूरिता । स्त्रीरूपो वाऽयं पुंरूपो, द्विधा दृष्टो नपुंसकः ॥ ३०५॥ अपि खच्छात्मनां नीचगामिता हन्ति कोऽपि न । वारिता केन किं कापि, सलिलानामधोगतिः१॥३०६॥ ददृशेऽपि व्यथायोगे, पुरस्तात् साहसी भवेत् । अगलाऽपि प्रहारेपु, पाण्योर्युगलमग्रतः ।। ३०७॥ अन्तःसारोऽप्यशुद्धात्मा, न कचिवल्लभो भवेत् । काम्यश्चाण्डालकूपः किं, भूयसाऽप्यम्भसा भृतः ॥३०८॥ सर्वे धर्माः पिधीयन्ते, दोपेणैकेन भूयसा । किं नाशं नेतरे वर्णाः, प्रयान्ति मलिनाम्बुना ? ॥३०९॥ १ तुच्छाः । २ नाशम् ।।
सूक्तरत्नावली ।
दुःस्पर्शपापवृत्तीनां, जडे स्थान्नेतरात्मनि ।
काकोत्सृष्टमपानीयं, पानीयं न पुनर्पतम् ॥ ३१ ॥
न स्यान्मध्यस्थता शस्ता, कुस्थाननिर्मिता सती।
यद्भवेत् प्राणवान् पण्डस्तुन्दे मध्यस्थतां दधत् ।। ३११ ॥
नासन्नेऽपि रतिः पापे, तुङ्गे दूरेऽपि चादरः ।
निष्कास्यते गृहादोतुर्वनाच्चानीयते करी ॥ ३१२ ।।
गुणिसङ्गे कृते नूनमन्याः पुण्योपलव्धयः ।
चीरे परिहितेऽन्येषां, शृङ्गाराणां परिग्रहः ॥ ३१३ ॥
विनोपायेन वैदग्ध्यं, शिक्ष्यते सन्निधौ सताम् ।
मुधैवामोदलब्धिः स्यान्न किं सौगन्धिकापणे १ ॥३१४ ॥
एकोऽपि सुमना दत्ते, यं गुणं तं न पार्थिवाः।
एकपुष्पेण सौरभ्यं, यन्त्र रत्नशतेन तत् ॥ ३१५ ॥
जातिसाम्येऽपि सर्वत्र, संपत्तिरतिरिच्यते ।
तरुत्वेऽप्यन्यवृक्षेभ्यश्चम्पको यद्विशिष्यते ॥ ३१६ ॥
गुणमुक्ताः स्वयंपापाः, परच्छिद्रगपिणः ।
वाणा बाणासनान्मुक्ता, निदर्शनमिहाऽभवत् ॥ ३१७ ॥
दौष्कर्य जायते तुङ्गाच्छ्रयतां न च मुश्चताम् ।
चिन्त्याऽत्र शैलशृङ्गेपु, क्रियारोहावरोहयोः ॥ ३१८ ॥
सर्वशक्त्याश्रितोऽनर्थहेतुः खोऽपि जडाशयः।
खादन्तःपतितानां किं, कूपः स्खोऽपि न मृत्यवे॥३१९॥
यदागमे भवेद्वद्धिस्तन्नाशे चातिरहति ।
यौवनेऽभ्युनतो तसिन्, गते च पतितौ स्तनौ ॥३२० ॥
विजयसेनसूरिप्रणीता करोति गुणवानेचोपकारं सर्वदा सखे । ग्रीष्मे प्रावृषि शीते च, त्राणकृत् पट एव यत् ॥ ३२१ ॥ ज्योतिष्मांश्छिद्रलीनोऽपि, स्यादणूनां प्रसिद्धये । यजालान्तरगे भानौ, ज्ञायन्ते रेणवोऽणवः ।। ३२२ ।। लघीयसापि सुहृदा, मिलितेन बलोनतिः। फुत्कारेण हि सप्ताचिः, प्राणपुष्टिं बिभर्ति यत् ।। ३२३ ॥ कचिदाह्रादयेद्विश्वमपि जाड्यं कलावताम् । मुदे निशि न किं ग्रीष्मे, शीता अपि विधो करा ॥३२४॥ सुखचिह्नमपि स्थानाऽभावाद्भवति कुत्सितम् । हसन् बाढवरेण स्यादपमानपदं पुमान् ॥ ३२५ ॥ कृतारेरपि विनयं, दुर्दशां गमयेत् सुधीः । यद्वेतसः सरित्पूरं, नम्रीभूयातिवाहयेत् ॥ ३२६ ॥ यजातं तदभूवैव, का कार्या तत्प्रतिक्रिया। ब्रूहि भो ! मुण्डिते मूर्ति, किं मुहूर्तावलोकनम् ॥३२७।। मुखं च दुःखमथवा, यद्भूतं मा स चिन्तय । लोकोक्तिरपि यद्विातीता वाच्यते तिथिः ॥ ३२८ ॥ कायेनैव थियां हानौ, वल्लभास्तुङ्गमूर्तयः । अपि पुष्पफलाऽभावे, शाखाभिश्चन्दना मुदे ॥ ३२९ ।। लघूनां यत्र तत्रापि, नितिमहतां न च । शशानां यत्र तत्रापि, यच्छाया न च हस्तिनाम् ॥३३०॥ नीचमध्योत्तमेषु स्यात्तुल्या दृग् विशदात्मनाम् । किं संक्रान्तिन शीतांशोः, कूटकूपपयोधिपु? ।। ३३१ ।। १प्रतिविम्वनम् ॥ .
३२ सूक्तरलावला । मयाऽस्थापीति मात्रज्ञास्पदं तेजस्विनां कृथाः। खयमुद्दीपितो दीपो, हतोऽङ्गुल्या न किं दहेत् ? ॥३३२॥ नाऽलं स्वार्थेऽपि शुद्धाः स्युः, परस्परमसङ्गताः। किं मिथो मिलनाभावे, दन्ताश्चर्वणचचवः ॥ ३३३ ।। दुष्टधीड़ितो यत्र, भवेत्तत्स्थाननाशकृत् । अग्निः प्रोद्दीपितो यत्र, तद्दाहे नास्त्यनिर्णयः ॥ ३३४ ।। इमाः स्त्रिय इतीमासु, मा स कुर्ववही(हे)लनम् । किमङ्गुलीविनाङ्गुष्ठः, कृत्यं कर्तुं किमप्यलम् ? ॥ ३३५ ॥ गतामवस्थां मा ध्याय, राज्ञि व्रतिनि योपिति । कौशेया भोजपूर्वा यत्, कृमिकर्दमलोमजाः ॥ ३३६ ॥ अपि पूर्वसुखं गच्छत्युत्सवेऽप्यमहात्मनाम् । दत्तहर्षासु वर्षासु, नाऽर्कीणां किमपत्रिता ॥ ३३७ ।। पापवान् संगतः पापैः, स्यान्महानर्थकारणम् । खरैरुत्थापितः पांशुर्विशेषात् किं न पुण्यहृत् १ ॥ ३३८ ॥ अव्यक्ता अपि हृष्यन्ति, संरावरसशीलिताः । जहाति जननीगीतेन किं रुदितमभकः ॥ ३३९ ॥ विधत्ते कृत्यमुग्राणां, तुच्छोऽपि तत्परिच्छदः। न हि फेनस्य सन्तुष्टिः, स्यात्तदीयैस्तुपैरपि । ॥ ३४० ।। कलिः कलिकृतां पार्वे, स्थितानामप्यभूतये । वंशसंघर्पभूरग्निः, किं दहेन्नाऽखिलं वनम् १ ॥ ३४१ ॥ सुखचिह्नमपि स्थाने, प्राप्तमाहादयेञ्जगत् । स्थितं किं कामकृन्नासीत्, सितं सितमुखीमुखे ॥३४२॥ १ चर्वणं चूर्णनं तेन वित्ताः। २ अर्कवृक्षाणाम् ॥
विजयसेनसूरिप्रणीता ३३ गरौ पूर्णेऽपि नियुद्धिस्तद्विद्यां लातुमक्षमः । अप्यब्धौ लेहनप्रदा, रसना रसनालिहाम् ॥ ३४३ ॥ खलैरेव महात्मानः, क्रियन्ते रसनिर्भराः । आतपरेव पच्यन्ते, यत्फलान्याम्रभूरुहाम् ।। ३४४ ।। महोत्सवाय मन्यन्ते, पापिनः पापसंस्तवम् । किं निर्भर न नृत्यन्ति, बहिणो विषवीक्षणात् ।। ३४५ ॥ समानत्वेऽपि भोगानां, विशेपः खस्खचिह्नयोः । भवेन्मैथुनतस्तृप्तिनराणां न च योपिताम् ॥ ३४६ ॥ गुणदोपसमत्वेऽपि, गुणख्यातिर्महात्मनाम् । रत्नकर्करमात्त्वे, रत्नगर्भा वसुन्धरा ॥ ३४७ ।। चित्रले समानेऽपि, लजाया बीजमाकृतिः । स्त्रीणां स्त्रीणांन लजा स्वाद, पुंसां पुसांच भूयसी ॥३४८॥ धने गतेऽपि दोर्गत्यं, न कदापि कलावताम् । प्रमीतेऽपि भुजेंद्रे किं, वैधव्यं पणसुभ्रुवाम् ? ॥३४९ ।। ऐश्वर्यमूर्जदोजोभिर्घनः परिजनन च । एकोऽप्येणेशतां सिंहो, मुझे नेणो मृगौघवान् ॥ ३५० ॥ दारप्वेवादरः पुंसां, यत्र तत्रापि दृश्यते । तुल्येऽप्यर्थे वधृधान्नि, विवोढुं यान्ति यद्वराः ॥ ३५१ ।। दोमानारिखधोयुक्तः, परिवारमपेक्षते । भतः करिषटामासीत्, कः सिंहस्य परिच्छदः१॥ ३५२ ॥ १ राणाम् । २ भातपपक्षे रलयोरक्यात् सरतीक्ष्णः । प्रस्तुते तु खलै- दुर्जनः । ३ विषं जर्स गरलं च। ४ जारे (प्रनीते मृतेऽपि)। , ३ ३४ सूकरत्नावली। प्रभुता स्थाददत्व, दोष्मतामतिशायिनी। आधिपत्यं मृगैर्दत्तं, किमु केसरिणामभूत् १ ॥ ३५३ ।। कोमलानामनाय, व्यापारः कठिनात्मनाम् । न स्यादमिर्घरट्टानां, कणानां दलनाय किम् ॥३५४ ॥ येषां संपत्तयः प्रायस्तेपामेव विपत्तयः । हयेऽधिरोहः पुंसां स्यात्, पुंसां चांहिपु शृङ्खला ।। ३५५ ।। स्थाचसिन्नेव संवन्धे, पृथक् नामाकृतेर्वशात् । यत्पितुः सोदरः काकः, वसा तस्य फैईति च ॥ ३५६ ।। प्रायः सापदमेवानुसरन्ति नरमापदः। यत्कलङ्किनमेवेन्दु, क्षीणत्वमनुधावति ॥ ३५७ ॥ अप्युत्तुङ्गा गते सारे, भवन्ति नतिकारिणः । न दृष्टा यौवने याते, नम्रता किमुरोजयोः ॥ ३५८ ॥ महतामपि केपाश्चित्, फलं नाडम्बरोचितम् । तुच्छं फलं न किं दृष्टं, सद्विस्तारोद्भटे वटे? ॥ ३५९ ।। खल्पसत्वैरपि स्त्रीणां, पराभूतिर्न सह्यते । पक्षिणोऽपि प्रकुर्वन्ति, स्वकलत्रकृते कलिम् ।। ३६० ॥ द्विजिह्वा दम्भमुज्झन्ति, निजस्थाने समागताः । विले विलेशैयाः प्राप्ताः, किं न मुञ्चन्ति जिमताम् ॥३६१ लधूनामपि केपाश्चिदात्मवि..............। कृशाऽपि किं न कूष्माण्डी, दत्चे गुरुतरं फलम् ॥३६२॥ १ पितुः सोदरो भ्राता 'काका' इति लोके कथ्यते । २ पितुर्भगिनी 'फईति लोके प्रसिद्धा। ३ सर्पाः । ४ अत्र पञ्चाक्षरी त्रुटिता ॥
विजयसेनहरिप्रणीता રૂપે . संशये संम्पदा मानोन्नता एवासिताननाः । पयोऽस्तु माऽस्तु वा तौजवं, तारुण्ये स्यादुरोजयो॥३६॥ सङ्गं श्यामात्मनां मुञ्च, पदमुचैर्यदीहसे । तलं त्यक्तखलं श्रीमन्मूख्नमधिरोहति ।। ३६४ ।। भन्नता ज्ञायते सजीभूतेऽपि शिथिलात्मनि । लाक्षासज्ञोऽपि नाज्ञायि, भनोऽयमिति किं घटः॥३६५|| धन्यात्मा भमभावोऽपि, भवति प्रीतिमान् पुनः । भूतोऽपि दलशः स्वर्णकलशः सन्धिमेति यत् ॥ ३६६ ।। गते प्रसिद्धिमृलेऽपि, गुणे सा सात् प्रभाभृताम् । सहस्रपाचिपां प्रेयान्, पादहीनोऽपि संमतः ॥ ३६७ ॥ खेदिता अपि संगुद्धाः, स्युः परस्परसगताः। मर्दिता अपि कि नोणतन्तवो मिलिता मिथः ॥३६८॥ दत्तं ज्योतिष्मते वित्त, सद्यः संपद्यते श्रिये । द्राग्दीपो निहिते स्नेहे, वस्तुनातं प्रकाशयेत् ॥ ३६९ ।। कुपात्रे निहिते शास्त्रे, नाधाराधेययोः शुभम् । कुम्भेऽप्यामे जले न्यस्ते, नाशः स्यादुभयोरपि ॥ ३७० ॥ नामोनि द्युतिमान् मानं, विना सङ्ग लघीयसाम् । बिना गुञ्जातुलां मूल्यं, कचित् काञ्चनमर्हति ॥ ३७१ ॥ अंशोऽपि दुष्टदृष्टीनामन्येपां स्थाद्विनाशकृत् । व्याघ्राणां वाललेगोऽपि, जग्धो जीवितहानये ॥ ३७२ ॥ १ उमनत्यम् । २ पादाभ्यां चरणाभ्यां हीनोऽपि विपां कान्तीनां प्रेयान पतिः सूर्यः सहन्नपात सहसपाद (किरण) विशिष्टः संनतः ॥
३६ सूक्तरत्नावली। अतिस्वच्छात्मनामन्तत्तिर्विज्ञायते सुखम् । वस्तुनः काचपात्रान्तर्गतस्यावगमो न किम् ? ॥ ३७३ ।। अन्तर्निहितसाराणां, गोपने प्रीतिरुत्तमा । यदीक्ष्यते महान् यत्नो, हस्पिधाने मृगीदृशाम् ॥ ३७४ ।। प्राप्तः परप्रियापार्श्व, कलावानपि दुर्गतः । क्षीणत्वं याति किं नेन्दुः, पूर्वदिग्भागमागतः ॥३७५ ।। कर्कशा अपि सत्पात्रसङ्गताः पारगामिनः । नाम्भोधिं यानपात्रस्था, दृपदोऽपि तरन्ति किम्॥३७६॥ दुरात्मानश्चिरायुष्काः, प्रायशः स्युन चेतरे । चिरजीवित्वसंयुक्ता, वायसा न सितच्छदाः ॥ ३७७॥ शुचयो मण्डनं जन्म, भूमिगा वा परत्रगाः। दन्ता दन्तिमुखे भूपा, करे वा हरिणीदृशाम् ।। ३७८ ॥ परिवारे प्रभूतेऽपि, दुःखं दुर्दैवदण्डिनाम् । छिद्यन्ते नहि युवूलाः, कोटिशः कण्टकेषु किम् ॥३७९॥ महापरिकराकीर्णो, लघीयानपि सत्फलः। वृहद्दलायां रम्भायां, लघ्व्यां किं नामृतं फलम् ॥३८०॥ त्वरयैव व्ययं याति, ज्योतिष्मानप्यसारभूः । तृणाजातस्य यद्देः, कियती स्यादवस्थितिः ॥ ३८१॥ फलं दत्तेऽतितुङ्गोऽपि, तुच्छं तुच्छपरिच्छदः। यगुब्बूले फलं फल्गु, गुरावप्यगुरुच्छदे ॥ ३८२ ॥ लभते हृत्सु सौहार्दै, स्थैर्य नैवास्थिरात्मनाम् । पांसूनामुपरि न्यस्तैः, स्थीयते कियदक्षरैः ॥ ३८३ ।।
विजयसेनसूरिप्रणीता
३७
सान्द्रापि न स्थैर्यवती, प्रीतिः पारिप्लवात्मनाम् ।
अदभ्रापि किमभ्राणां, छाया न क्षणनश्वरी ॥३८४ ॥
नीचानामप्यवष्टम्भः, सापदां महतां हितः।
अपि भन्नाः कार्यसूजो, जतुना संहिता घटाः ॥ ३८५ ॥
उद्धता अलमुद्धर्तमौद्धत्यं दुरितात्मनाम् ।
क्षाराणामेव सामर्थ्य, मलनाशाय वाससाम् ॥ ३८६ ॥
सद्गताः कलये नून, कठिनाः कठिनात्मभिः ।
अग्निरुत्पद्यते सद्यः, संयोगे ग्रावलोहयोः ॥ ३८७ ॥
यत्र तिष्ठेत् कटोरात्मा, तत्राऽनाय भूयसे ।
मध्येवाटं स्थिता लाला, घण्टां हन्ति समन्ततः ॥३८८॥
गुणहारिणि मन्देऽपि, नश्यते गुरुणा खधीः ।
विम्बन्यासः सुखाधेयः, पीवरेऽपि हि चीवरे ।। ३८९ ॥
मध्यस्थः प्रतिभूः लप्सः, स्याद्धिताय द्वयोरपि ।
देहल्यां निहितो दीपो, बहिर्मध्ये च तेजसे ।। ३९० ।।
गुणस्तनोति स्वल्पोऽपि, मानं श्यामात्मनामपि ।
मधुरेण स्वरेणाऽपि, काम्यन्ते किं न कोकिलाः ॥३९॥
तुनेप्वपि विना दोन गुणाः स्थैर्यधारिणः।
वालरपि विना मौलौ, पुष्पाणां किमवस्थितिः १ ॥३९२।।
प्रस्तावोचितवाक्येन, कटुवागपि मान्यते ।
अस्थितर्वामतः कूजन्, यत् काकः कीर्त्यतेऽनघः ॥३९३।।
भवेत्तेजखिनां प्रायो, गुणस्तेजस्विनिर्मितः ।
दीपे चक्षुष्मतामेव, वस्तुजातं प्रकाश्यते ॥ ३९४ ॥
३८ सूक्तरत्नावली। अनर्थ तनुते तुङ्गो, हसन् मनसि निष्ठुरः। : तेजस्तोमं वहन् वक्रे, न कुन्तः किमु मृत्यवे ? ॥३९५॥ नाग्रस्तावे वदन् वाक्य, मान्यते मञ्जुगीरपि । गर्जन्नम्भोधरथारु, रोहिण्यां श्लाध्यते न यत् ।। ३९६ ।। भक्षुर्वेरिणि वैरित्वमुचितं रुचिशालिनाम् । रवेर्धात्यं तमो हन्ति, दीपस्तल्लव्धदीधितिः ॥ ३९७ ॥ जडसङ्गोऽपि समये, तृप्तः श्रीहेतुरायतौ । स्थाने निर्मित एव स्यादन्यशृङ्गारसङ्गमः ॥ ३९८ ॥ येपामभ्युन्नतिस्तेषामेव प्रपतनं भवेत् । समुन्नतिं च पातं च, स्तना एवाप्नुवन्ति यत् ।। ३९९ ॥ गुणवत्स्वेव पश्यामः, परोपद्रवरक्षिताम् । शक्तिर्यत् खेटकेप्वेव, विविधायुधवारिणी ।। ४०० ।। उत्सवेऽपि सदा प्रोः, स्तब्धानां स्वादनुत्सवः । यदाऽऽनन्दिनि संभोगे, मुष्टिघाता उरोजयोः॥४०१॥ चपलात्मन्यपि प्रीताः, सन्तो दृग्रागमोहिताः। हित्वाम्रादितरूंस्तस्थौ, जगन्नाथो हि पिप्पले ॥४०२॥ लघीयानपि समये, महतां मानमर्हति । यद्गृह्यतेऽपि भूपालैलेंखिनी लिखनक्षणे ॥ ४०३ ॥ देशे गुणवदादेशे, गुणी गच्छति गौरवम् । जनेषु वस्त्रयुक्तेपु, यत्पटो मूल्यमर्हति ॥ ४०४ ॥ 'कर्कशानां व्यथा वही, मृदूनां च सुखोदयः । दन्तानां चर्चणाऽशर्म, जिह्वायाश्च रसागमः ॥ ४०५ ॥ १ मतान्तरेण लिखेः कुटादित्वाद् गुणाभावः ।।
३९ , विजयसेनसूरिप्रणीता आचारोज्झितमुज्झन्ति, रुचिमन्तमपि स्वकाः। ग्रहभर्ती परासक्तो, मुमुचे निचयै रुचाम् ॥ ४०६ ॥ खगुणं तनुते विष्वक, कलावानेव वीक्षितः । शुक्ल पक्षो ह्यदृष्टेन, शुक्लपतिपदिन्दुना ॥ ४०७ ॥ कलाविलासिनो नैव, भवन्त्यसरलाः खलु । भजते वक्रभावं किं, कचित् कुमुदिनीपतिः १॥ ४०८ ॥ गतिर्भवति पापस्य, विपरीता जगजनात् । किं स्वर्भानुभ्रमन् दृष्टो, न संहारेण सर्वदा॥४०९ ॥ स्नेहोऽप्यशर्मणां हेतुः, कृतः सन्तापकारिणि । अपि सपिः प्रदत्तं स्यादनाय ज्वरातुरे ॥ ४१०॥ सुखलक्ष्मीजुपामेव, विनये वपुरुत्सुकम् । शाखाफलवतामेव, शालीनां नतिशालिनी ॥४११ ॥ गुणेषु सत्स्वपि प्रीतिदोपेष्वेवासतां भवेत् । तटाकेऽम्भोजभव्येऽपि, भेकानां कर्दमः प्रियः॥ ४१२ ॥ आचारेऽपि भृशाधिक्यमपि दोपाय जायते । अमुप्यार्थः सखे ! वृद्धौ, गुणेऽपि किमु नाऽजनि? ॥४१३ सङ्कुचेत्पापमुत्कर्प, प्राप्ते तेजखितेजसि । न किमल्पीयसी छाया, भानौ मध्यमुपागते ॥ ४१४ ॥ अन्तःश्यामात्मभिर्वित्तं, दीयतेऽद्विभिराहतैः। कण्ठन्यस्तपदा एव, कूपा यच्छन्ति यजलम् ॥ ४१५॥ गुणित्वे सदृशे कीर्तिमहतां न लघीयसाम् । रत्रवत्वेऽपि यद्रताकरो वार्द्धिन रोहणः ॥ ४१६ ॥ २ अन पृद्धिगुणी व्याकरणप्रसिद्धी संज्ञाविशेषौ ॥ १ राहुः।
सूक्तरतावली। अल्पस्याप्यागमे वृद्धिः, सद्भूयोऽप्यपचीयते । निदर्शनमिह स्पष्टं, कूपोदकसरोदेके ॥ ४१७ ॥ परेपां विपदं प्रेक्ष्य, गर्वः कः संपदां सखे ।। पूर्वारघट्टघट्टयासीद्रिक्तान्यासां किमुत्सवः ॥ ४१८ ॥ न भवेत् खपरव्यक्तिः, कदाचित् क्रूरचेतसाम् । नाग्निः किं वंशजातोऽपि, सवंशारण्यदाहकृत् ॥ ४१९ ।। सयत्नाः सौवमाहात्म्यरक्षणेऽपि महाशयाः। यत्कृता खाम्बुरक्षायै, नालिकेरैत्रिधा वृतिः ॥ ४२०॥ वस्तु दत्तं भवेद्रम्यमपि तुच्छं महात्मने । क्षारमप्यम्बु मेघाय, वितीर्ण वरमधिना ॥ ४२१ ॥ या प्रवृत्तिवेदाद्या, प्रसिद्धिं समुपैति सा। कृष्णः कृष्णेतरः पक्षो, मुखे तमसि तेजसि ॥ ४२२ ॥ महोऽन्यत्र स्थितं सिद्ध्यै, मृतस्यापि महखिनः। नास्तस्यापि वर्भासः, किमालोकाय दीपकाः ॥ ४२३॥ जीवैः प्रायेण जीवद्भिर्विपत्तिरभिभूयते । क्षीणभावो निराकारि, न किं कुमुदवन्धुना ॥ ४२४ ॥ गुणाय समये क्रूरसङ्गोऽपि विशदात्मनाम् । दोपे स्थाद्धोषपात्राणां, निहितः किं हुताशनः ॥४२५॥ रागवन्तो वहिस्तुच्छा, भवन्त्यन्तश्च नीरसाः। अयमर्थः स्फुटं गुञ्जाफलेषु ददृशे न कैः ॥ ४२६ ।। वाल्लभ्यं न च कृत्येन, नावाल्लभ्यमकृत्यतः । बहुकार्येऽपि सा प्रीतिर्न लोहे या च काश्चने ॥ ४२७ ॥ १ अन जलवाचिना दकशब्देन समासो ज्ञेयः। २ आत्मीय-॥
विजयसेनसूरिप्रणीता ४१ खच्छात्माऽपि खकैस्त्यक्तो, लाघवं द्रुतमश्नुते । न कि दनः पृथग्भूतं, नवनीतं तरत्यहो ? ॥ ४२८ ।। यादृशैः सङ्गतिः संपद्दीयते ताडगेव तैः। दत्तः कजलदुग्धाभ्यां, सङ्गात् खखकुलेऽम्भसः ()|४२९ प्रवृत्तिश्च निवृत्तिश्च, स्वयमेवाऽमलात्मनाम् । अन्धेरद्भिरागमनं, यानं च कृतमात्मना ।। ४३० ।। महः करोति किं तुच्छे, वस्तुनि स्थितिमागतम् । तेजस्तोमः किमामोति, माहात्म्यं काचखण्डगम्मा४३१॥ स्थात् परादाप्तवित्तोऽपि, महखी परकृत्यकृत् । न प्रदीपः प्रकाशाय, खेचराप्तप्रभोऽपि किम् ? ॥४३२ ॥ मिलिता अपि निःसाराः, प्रजायन्ते पुनर्द्विधा । जलैद्धेषु यद्भलीमोदकेष्वेव विस्तरः ॥ ४३३ ।। ( अथ श्लेष एव) नीचो मुञ्चति नीचत्वं, वसन्नान्तः सतामपि । कलावन्मण्डपे तिष्ठन् , मृगो नौज्झत् कुरङ्गताम् ॥४३४ ॥ कुस्थाने सङ्गतिनं, व्यसनन्यापूतात्मनां । मधुपानां रजःखेव, वसतिर्ददृशे न कैः ॥ ४३५ ॥ किं करोति सतां सङ्गः, पातधर्माधिकारिणाम् ।। पश्य मुक्ताश्रिताः कान्ताकुचाः श्वेतेतराननाः ॥ ४३६ ।। यत्ते चित्ते न संवासं, विवेको जडवासिनाम् । भजत्यम्भोजिनी हंसः, पवित्रोऽपि रजखलाम् ॥ ४३७ ॥ शुभाशुभविचारोऽपि, न भवेत्पण्ढंचेतसि । १ पण्डः शिवोऽपि॥
" ४२ सूक्तरत्नावली। जगत्प्रियमपीशानः, कलाकेलिमदीदहत् ।। ४३८ ॥ कुकुलं हन्ति सद्बुद्धिं, नानीतां शुभकर्मभिः । निपेवते दिवानक्तं, गोपेन्द्रोऽपि रसाधिपम् ॥ ४३९ ।। महत्यपि भवेत्प्रायः, कुसङ्गाद्दोपसङ्गमः । कलावत्यपि जातोऽयं, कलको विपवासतः ॥ ४४०॥ परित्यागः कुसगास्य, कृतिनामपि दुष्करः। अस्ति स्थितिः सुरागारे, यतः मुमनसामपि ॥ ४४१ ।। निष्कृपा अपि............. वल्लभा वित्तशालिनः। जनाईनोऽपि यजज्ञे, श्रीपतिर्जगतां प्रियः ४४२॥ अपि प्रवयसां पुंसां, दुर्द्धरा ब्रह्मचारिता । सरोजजन्मा किं नासीत्, स्थविरोऽपि प्रजापतिः ॥४४॥ न संस्तवेऽपि पुण्यानां, पापधीर्याति पापिनाम् । नास्ता मधुपता भृङ्गः, सङ्गे मुमनसामपि ॥ ४४४ ॥ व्यापारो यादृशो यस्य, तसात्तादृक् फलागमः । न स्नेहनाशिना चक्रे, किं दीपेनासितं कुलम् ॥ ४४५ ॥ खलानां खलता याति, स (न) सत्सङ्गसृजामपि । सर्वज्ञसङ्गिभिस्त्यक्ता, न द्विजिहेर्द्विजिहता ॥ ४४६॥ सार्धं हि धार्मिकैरेव, विरोधः पापिनां महान् । विश्वेऽसिन् वहते वैर, कलावत्येव यत्तमः॥४४७ ॥ कचिद्वस्तुविशेपे गुणदोपयोः। सति दोपाकरत्वेऽपि, कलावत्त्वं न कि विधौ ॥४४८॥ धने सत्यपि तद्भोगो, नैवाभाग्यभृतां भवेत् । १ अनाक्षरत्रयं त्रुटितम् ॥ सात, सङ्गमो विजयसनसूारपणाता ४३ यद्दिगम्बर एवासीदीश्वरोऽपि महानटः ॥ ४४९ ॥ सखे!.दोषजुषां द्वेषः, खजनेऽपि प्रजायते । भक्तेऽप्यभावस्तोपस्य, न किं ज्वरभृतामभूत् ॥ ४५० ॥ भवेद्विद्यागमोऽवश्यं, छात्रे गुरोधियां निधेः । किं वाक्पतेर्विनेयानां, न वैबुध्यमजायत १॥४५१ ॥ ध्रुवं स्थान्मानतुङ्गाना, विपत्तिरपि संपदे । करपीडावतोरासीत, सौभाग्यं स्तनयोन किम् ? ॥ ४५२ ॥ मध्ये ध्वस्तधियामेव, स्थानं व्यसनवासिनाम् । क्रीडन्ति जलजातान्तर्मधुपाः प्रतिवासरम् ॥ ४५३ ।। विद्वानास्तां तदावासे, वासोऽपि विवुधत्वकृत् । द्विजागारे मुखे प्राप्ता, यद्रसज्ञा रसोप्यभूत् ॥ ४५४ ॥ प्रायः प्रवर्द्धते प्रीतिः, सखे ! सशसंपदाम् । किं राज्ञा सहसौहार्दै, वहासीन्न रसेशितः ॥४५५ ॥ ईशानां गुणनाशेऽपि, गुणख्यातिरनश्वरी । यमध्वंस्यपि विख्यातो, महादेवो महाव्रती ॥ ४५६ ॥ साक्षरैः सममारब्धमत्सराः स्युनिरक्षराः । वाग्देव्यां वहते वैरं, न कि गोविन्दगेहिनी ॥४५७ ॥ वासदोपः सखेऽवश्यं, शुद्धात्मन्यपि जायते । जाड्यं जडनिवासिवाद, द्विजराजेऽप्यभून किम् ॥४५८॥ न हृष्यन्त्यसितात्मानः, संपत्तौ सुकृतात्मनाम् । मुद्रिते काकपाकानां, द्विजराजोदये दृशौ ॥ ४५९ ॥ ! ..१ द्विजाः दन्ताः ब्राह्मणाश्च । २ जिह्वा । ३ समुद्रस्य राज्ञश्च ( राज्ञा चन्द्रेण नृपेण च)। ४ काकशिशनाम् ॥
५४ सूक्तरत्नावली । पापिनां पापिभिः साक, सङ्गः सङ्गतिमङ्गति । वयस्य ! पश्य मातङ्गैः, सङ्गतान् मधुपानिमान् ॥ ४६० ॥ अनधीतवाभयानां, वक्रा भवति पद्धतिः। यदश्रुतंय एवेह, यान्ति जिह्मा दिवानिशम् ॥ ४६१ ॥ धने स्वल्पेऽपि तुङ्गानां, धनित्वख्यातिरद्भुता। ऐश्वर्यश्रुतिरेकसिन्, वृपभे पभेशितुः॥ ४६२ ।। अचेतनेनैव प्रीतिप्रचिनिनां ध्रुवम् । किं स्थाणुना समं मैत्री, धनाधीशस्य नाऽभवत् १ ॥४६३॥ रतिर्जडजुपां नीचमिलनेऽप्यतिशायिनी । न किं गोपकराश्लेपात्, पद्मिनी प्रीतिमत्यभूत् ॥ ४६४ ॥ धचे धनवति प्रीति, सदोपेऽपि महाजनः । व्यधान्मैत्री कुबेरेऽपि, धनाधीशे महेश्वरः ॥ ४६५ ॥ अधनित्वे सति प्रायः, स्त्रीः कुरूपैति वेश्मनि । दिग्वासाः प्राणिताधीशः, काली गेहे च गेहिनी ॥४६६॥ महस्तिनां महोहान्यै, मिलितः स्यात् खलः खलु । द्विजिहदर्शनादासीत, प्रदीपे दीप्तिमन्दता ॥ ४६७ ॥ मृतिरास्तां प्रमीलाऽपि, प्रभूणां कृत्यहानये । न कि कार्यनिषेधोऽभूत्, प्रसुप्ते पुरुषोत्तमे ? ॥४६८ ॥ निर्धनोऽपि महान् प्रायो, महत्वख्यातिभाग् भवेत् । कथितोऽनेकपः किं नोदरम्भरिरपि द्विपः ॥ ४६९।। गृहस्थानोचिता पर्पत, जायते महतामपि । श्मशानवेश्मनः पार्थे, शिवा तिष्ठति सर्वदा ।। ४७० ॥ १ सर्पाः वेदानभिज्ञाश्च । २ शिवः। ३ शिवस्य, श्मशानरूपगृहस्य च । ५ पार्वती, शुगालश्च ।।
४५ विजयसेनसूरिप्रणीता वसन् मूर्खेष्वमोऽपि, पशुरेवाभिधीयते । जडजातासनो ब्रह्माऽप्य एव मतः सताम् ॥ ४७१ ॥ श्यामात्मनि विशुद्धात्मा, सङ्गतोऽनर्थसूचकः ! प्रादुर्भूतं न किं पुष्प, नयने हन्ति सौष्ठवम् ॥ ४७२ ॥ संवासिजनतुल्यं स्याद्वैदग्ध्यं महतामपि । द्विजेशोऽपि जडात्माऽभूद्यगोविन्दपदे वसन् ।। ४७३ ।। दोषमतामप्यसद्वस्तु, वस्तुतः सन्निरूप्यते । रूपं रम्यमिति प्राहुरनगस्यापि यद्भुवः॥ ४७४ ॥ संवन्धः सदृशामेव, प्रायशो दृश्यते दृढः । अभवद्भरवस्यैव, चण्डिका गृहिणी गृहे ।। ४७५ ।। शिप्या निर्व्यसना एव, भवन्ति विदुपां सखे। विनेया असुंरा एव, कवेः सन्ति सहस्रशः॥ ४७६ ॥ निरक्षरोऽपि भूयोभिर्वित्तर्गच्छति गौरवम् । गोपेन्द्रोऽप्यभवलक्ष्मीपतित्वात् पुरुषोत्तमः ॥ ४७७ ।। अथोपदेशः। शीललीलासखं रूपं, विद्या विनयवाहिनी । वित्तं वितरणाधीनं, ध्रुवं धन्यस्य कस्यचित् ॥ ४७८ ॥ संपत्तिः साहसं शीलं, सौभाग्यं संयमः शमः। सङ्गतिः सह शास्त्रज्ञैः, सकाराः सप्त दुर्लभाः ।। ४७९ ।। विवेको विनयो विद्या, वैराग्यं विभवो व्रतम् । १ ब्रह्मा छागश्च । २ 'फूला'इति प्रसिद्धो नेत्ररोगः। ३ चन्द्रोऽपि । ४ गोवि- न्दपदं आकाशमपि । ५ जगन्ति । ६ सुरा (मदिरा) पानराहित्यात्तेपां नियंस- नत्वमिति ध्वन्यते।
४६ सूक्तरत्नावली। विज्ञानं विश्ववालभ्यं, फलं सुकृतवीरुधः ॥ ४८० ॥ यद्राज्यं न्यायसम्पन्न, यच्छक्तिः शमशालिनी । यौवनं शीलरम्यं यत्तहुग्धं शर्करान्वितम् ॥ ४८१॥ यद्वक्ता धर्मशास्त्रज्ञो, यत्कविः सत्यभापकः । वल्लभो यद्विनीतात्मा, स शङ्खः क्षीरपूरितः ॥ ४८२ ।। स्थाने स्थितिमतिर्मान्या, रम्यं रूपं धनं धनम् । बलं बहुवचो वय, पुंसां पुण्यवतां भवेत् ।। ४८३ ।। सौजन्यं सङ्गतिः सद्भिः, शान्तिरिन्द्रियसंयमः। आत्मनिन्दा परश्लाघा, पन्थाः पुण्यवतामयम् ।। ४८४ । करे दानं हृदि ध्यानं, मुखे मौनं गृहे धनम् । तीर्थे यानं गिरि ज्ञानं, मण्डनं महतामिदम् ।। ४८५ ॥ धर्मे कृपा गुरौ ब्रह्म, देवे विगतरागता । मित्रे प्रीतिर्नुप नीतिः, सक्तुमध्ये लुठद्धृतम् ॥ ४८६ ॥ पूजाऽर्हतां गुरोः सेवा, सर्वज्ञवचसां श्रुतिः। पात्रे दानं सतां सङ्गः, फलं मनुजजन्मनः ॥ ४८७ ॥ विभवे सति सन्तोपः, संयमः सति यौवने । पाण्डित्ये सति नम्रत्वं, हीरोऽयं कनकोपरि ॥ ४८८ ॥ अर्हन्नतिर्गुरुप्रीतिर्विरतिनिजयोपिति । धर्मश्रुतिर्गुणासक्तिः, सद्यो यच्छति नि:तिम् ॥ ४८९ ॥ दाने शक्तिः श्रुते भक्तिगुरूपास्तिर्गुणे रतिः । • दमे मतिर्दयावृत्तिः, पडमी सुकृताङ्कुराः ॥ ४९० ॥ जैनो धर्मः कुले जन्म, शुभ्रा कीर्तिः शुभा मतिः। गुणे रागः श्रियां त्यागः, पूर्वपुण्यैरवाप्यते ॥ ४९१ ।।
४७ विजयसेनसूरिप्रणीता देवो दलितरागारिर्गुरुस्त्यक्तपरिग्रहः । धर्मः प्रगुणकारुण्यो, मुक्तिमूलमिदं मतम् ॥ ४९२ ॥ आरोग्यं दत्तसौभाग्यं, जीवितं कीर्तिपावितम् । भोगान् सुभगसंयोगान्, लभन्ते धर्मकर्मठाः ॥ ४९३ ॥ सन्ततिः शुद्धसौजन्या, विभूति गभासुरा । विद्या विनयविख्याता, फलं धर्मतरोरिदम् ॥ ४९४ ।। दानं दहति दौर्गत्यं, शीलं सृजति संपदम् । तपस्तनोति तेजांसि, भावो भवति भूतये ।। ४९५ ॥ दीर्घमायुर्यशश्चारु, शुद्धि बुद्धि शुभां श्रियम् । प्राज्यं राज्यं सुखं शश्वदचे धर्मसुरद्रुमः ।। ४९६ ॥ घटा: कामघटाः सर्वे, धेनवः कामधेनवः। वृक्षाः स्वर्गसदां वृक्षाः, सदा सुकृतशालिनाम् ।। ४९७ ॥ सुवर्णमणिराजिष्णुः, सर्वालङ्कारशोभना। सूक्तरत्नावलिरियं, नानाभावविभासुरा ।। ४९८॥ कृतिततिचित्तचमत्कृतिकारिगुणा कान्तकान्तिकमनीया । नयनिपुणवचनरचना, सुन्दरतरवृत्तभावमध्यमणिः॥४९९॥ वर्षे मुनियुगनरपतिमिते तपागच्छजलधिशशिसहशैः। श्रीविजयसेनमरिद्विरदैनिरमायि निर्मायः॥५०॥ कण्ठपीठे लुठत्येपा, यदीये गुणहारिणी। मनांसि मोहयेनूनं, स सभाहरिणीदृशाम् ॥ ५०१॥ यस्खाम्रमञ्जरीवैषा, तिष्ठत्यामोददा मुखे । कामोत्सवाय जायेत, कोकिलासे व तस्य वाक् ॥५०२॥ १ अत्र व शब्द इवार्थे। . .
४८ सूक्तरत्नावली। यदि नीतिमृगीनेत्रामात्मसात्कर्तुमीहसे । निधेहि तदिमां कण्ठे, संवननौपधीमिव ।। ५०३॥ चिरं चित्तचमत्कारिसूक्तरत्नमनोज्ञया । कण्ठस्थयाऽनया नूनं, वक्ता स्यात् सभ्यवल्लभः ॥५०॥ स्याद्विशारदवृन्दान्तः, स्थातुं वक्तुं च चेन्मनः । तदा सुकृतियोग्यपा, कण्ठपीठे निधीयताम् ।। ५०५ ।। एतस्याः सूक्तमप्येकं, नरः कण्ठे विभर्ति यः। लोकानुल्लासयेत्सोऽपि, चकोरानिव चन्द्रमाः ॥ ५०६ ॥ भूरिभावावभासैकदिनेशद्युतितुल्यया । अनया श्लिष्टकण्ठः साव, पुमर्थेपु समर्थधीः ॥ ५०७॥ अगाधरसनिस्पन्दधारिणी पापवारिणी। एपा पुनातु गङ्गेच, सवै सर्वज्ञवल्लभा ॥ ५०८॥ अलङ्करोति यत्कण्ठपीठमेपा मनोरमा । तानभ्यायान्ति सोत्कण्ठं, सर्वाः स्वयंवराः श्रियः ।।५०९॥ नानावाड्मयमाणिक्यपरीक्षणविचक्षणैः। श्रीलाभविजयाहानैरशोधि विबुधैरियम् ।। ५१०॥ यावदम्बुरुहां बन्धुर्गाहते गगनाङ्गणम् । कण्ठे स्थिता तावदसौ, चिरं सौभाग्यमश्नुताम् ॥ ५११ ।। इति श्रीतपागच्छाधिराजभट्टारकसार्वभौमभट्टारकरीहीरवि- जयसूरीश्वरपट्टालङ्कारश्रीविजयसेनसूरिविरचिता- सूक्तरनावली संपूर्णा ॥ श्रीरत्तु ॥ १ वशीकरणौपधम् ।
No text on this page.