Scl
The Vishnu Bhakti Kalpalata Of Purushottama
Front matter
No text on this page.
No text on this page.
(All rights reserved by the publisher. )
Published by Tukaram Javaji, and Printed by Ramchandra Yesu Shodge,
at the Nirnay-sagar' Press, 23, Kolbhat Lane, Bombay.
6
काव्यमाला.३१. पुरुषोत्तमविरचिता विष्णुभक्तिकल्पलता। महीधरकृतया टीकया समेता। जयपुरमहाराजाश्रितपण्डितश्रीदुर्गाप्रसादतनयपण्डितकेदार- नाथशर्मणा तथा मुम्बापुरवासिपणशीकरोपाह्वविद्वद्वर- श्रीलक्ष्मणशर्मतनुजनुपा वासुदेवशर्मणा च संशोधिता। द्वितीयं संस्करणम् । साच मुम्बय्यां तुकाराम जावजी श्रेष्ठिभिः खीये निर्णयसागराख्यमुद्रणयन्त्रालये खायसाक्षरैर्मुद्रयित्वा प्रकाशिता । शाकः १८३९, ख्रिस्ताब्दः १९१७. (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते- रेवाधिकारः।) मूल्यं १० आणकाः ।
No text on this page.
पुरुषोत्तमः। मानी-विष्णु-संज्ञकयोर्मातापित्रोलब्धजन्मा विष्णुभक्तिकल्पलताप्रणेता पुरुषोत्तम कविः कस्मिन्काले कतमं जनपदमलंचकारेति संदिग्धप्रायम् । यदि नामलिङ्गानुशासनपरिशिष्टरूपस्य त्रिकाण्डशेषस्य निर्मातासावेव पुरुषोत्तमः स्या- त्तदैते विचाराः प्रादुर्भवन्ति । तथाहि-नानार्थसंग्रहभूमिकायां चतुर्दशे पृष्ठे 'अयं वाङ्गो हलायुधवंश्यः ख्रिस्ताब्दीयत्रयोदशशतकोत्तरार्धान चिरंतनः' इति श्रीमदानन्दरामो व्य- वस्थापयति । महाराष्ट्रभाषानिबद्धकविचरित्रामिधाने ग्रन्थे तु 'अयं च ओरसाक्षत्रियः कलिङ्ग- देशस्य राजा शालिवाहनशकाब्दीयचतुर्दशशतके बभूव । कटकाभिधाना चास्य राजधा- न्यासीत् । अनेन त्रिकाण्डशेषः, हारावली, एकाक्षरकोषः, इति प्रबन्धत्रयी स्वदेशीय- पाठालयोपयुक्ता व्यरचि' इत्यादि व्यवस्थापितमास्ते । 'नोटिसिस् ऑव संस्कृत म्यान्युस्क्रिप्टस्' संज्ञके सूचीपत्रे 'दशमे एकादशे वा स्त्रि- स्ताब्दशतके पुरुषोत्तम आसीत्' इति श्रीराजेन्द्रलालमित्रो निश्चिनोति । हारावलीसमाप्तौ 'श्रीधृतिसिंहजनमेजययोः समं निरूप्य श्रीधृतिसिंहवाचामाधारण हारावली निर्मिता' इति पुरुषोत्तमो वक्ति। तथा च पूर्वोक्तत्रिकाण्डशेषादिग्रन्थावसाने 'पुरुषोत्तमदेवः' इति देवशब्दान्तं नामोपलभ्यते । तेनायं कदाचित्क्षत्रियः स्यात् । विष्णुभक्तिकल्पलतायां तु कुत्रापि देवशब्दान्तं पुरुषोत्तमनाम न दृश्यत इत्यपि सं- देहावसरः । यद्यप्यत्र काव्ये 'हरिणचरणमात्रं-' इत्यादयः कतिपये श्लोकाः सहृदयहृदयान्तरे कामप्यरुचिकणिकामङ्कुरयन्ति तथापि संसारारामविहरन्मनोमृगवागुरायमाणत्वान्न कामं दोषोद्धोषकाः ॥
No text on this page.
महीधरः। एतट्टीकानिर्माता भट्टतनूभवो महीधरो बाणवेदनृप (१६४५) प्रमे विक्रमवर्षे वाराण- स्यामासीदित्यादि सर्व निम्नलिखितश्लोकेभ्यः स्पष्टं ज्ञायते । तथाहि- अहिच्छत्रे द्विजच्छत्रं वत्सगोत्रसमुद्भवः । आसीद्रत्नाकरो नाम विद्वाजातो धरातले ॥ १२१ ॥ तत्तनूजो रामभक्तः स तु भट्टामिधोऽभवत् । महीधरस्तदुत्पन्नः संसारासारतां विदन् ॥ १२२ ॥ निजं देशं परित्यज्य गतो वाराणसी पुरीम् । सेवमानो नरहरिं तत्र ग्रन्थमिमं व्यधात् ॥ १२३ ॥ विक्रमादिते वर्षे बाणवेदनृपैर्मिते । ज्येष्ठाष्टम्यां शिवस्याने पूर्णो मन्त्रमहोदधिः ॥ १३३ ।। महीधरस्य कल्याणनामा पुत्र आसीदित्यपि 'कल्याणाभिधपुत्रेण-' इति मन्त्रमहो- दधिसमाप्तिश्लोकाज्ज्ञायते । महीधरस्य सर्वस्मिन्नेव ग्रन्थे लक्ष्मीनृसिंहस्मरणरूपं मङ्गला- चरणपद्यं प्रायो वर्तते, तेन मन्त्रमहोदधिप्रणेतृमहीधराद् विष्णुभक्तिकल्पलताविवरीता कश्चिदन्य इति शङ्काङ्कुरोऽपि नोदेति । अद्यावधि ज्ञाता महीधरविरचितग्रन्थास्त्वेते- (१) विष्णुभक्तिकल्पलताविवरणम् । (२) वेददीपनामकं शुक्लयजुर्वेदभाष्यम् । (३) मन्त्रमहोदधिः । (४) नौका (मन्त्रमहोदधिव्याख्या)। (५) मन्त्रनिघण्टुः । -- अथास्याः सटीकाया विष्णुभक्तिकल्पलतायाः पुस्तकत्रयं भिन्नमातृकं नातिशुद्धं ना- तिप्राचीनं लेखनकालविकलमासादितम् । तत्र मूले कुत्रचिदेव पाठभेदो दृश्यत इति विशेषतः पाठक्षोदाय न यतितम् । टीकायां तु प्रायः प्रतिश्लोकव्याख्यं पाठभिदा समु- पलभ्यते, कुत्रचिद् विवृतिव्यत्यासोऽपि । किं बहुना विलक्षणेयं टीका । हा हन्त तत्तन्निबन्धमणिनिकरनिकषायमाणशेमुषीके महामहोपाध्यायपण्डितश्रीदुर्गा- प्रसादे देवसभासभास्तारहीरतां गते द्वित्रमासपर्यन्तममुष्य ग्रन्थस्य वैयाकरणपण्डित- श्रीशिवदत्तशर्मणा संपादनमकारीति तस्य महाशयस्याथ शोधनपत्रकर्तुः कविमल्ल श्रीहरि- वल्लभशर्मणश्चोपकारमुरीकुर्मः ॥
No text on this page.
काव्यमाला। श्रीपुरुषोत्तमकविप्रणीता विष्णुभक्तिकल्पलता। श्रीमहीधरविरचितया टीकया समेता। प्रथमः स्तबकः । नृहरि गिरिजां गिरं गणेशं गुरुपादाब्जयुगं शिवं प्रणम्य । हरिभक्तिलताभिधेऽत्र काव्ये विवृतिं वच्मि यथामतीशतुष्टयै ॥ तत्र खाभीष्टदेवतावर्णनरूपं विष्णुभक्तिलताख्यं काव्यं चिकीर्षुः प्रारिप्सितग्रन्थनि- विघ्नपरिसमाप्त्यै शिष्टाचारपरिपालनाय च पुरुषोत्तमः कविराड्विनेशस्मरणलक्षणमाशी- रूपं काव्यमुखं वदति । 'आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' इत्युक्तेः- अतिसुदृढमगातां हर्षमङ्कभावा- दधिकतममुमेशौ यं तथात्मैक्ययोगात् । तदधिकमिव यातौ यं सुतं वीक्षमाणौ सफलयतु स देवो वः क्रतुं वक्रतुण्डः ॥ १ ॥ उमेशौ भवानीशंकरावबैकभावाइहैक्यादतिसुदृशं निबिडं यं हर्ष संतोषमगातां प्रापतुः। तथा आत्म्यैक्ययोगादात्मनोरैक्यादधिकतममत्यधिकं हर्षमगाताम् । तथा तस्माद्धर्षाद्यं सुतं वीक्षमाणौ विलोकयन्तौ सन्तौ तदधिकमिव आत्मैक्ययोगहर्षादधिकं हर्ष यातौ- प्राप्तौ स वक्रतुण्डो गणेशो देवो वो युष्माकं क्रतुं संकल्पं सफलयतु सफलं करोतु । मनोरथसिद्धिं करोत्वित्यर्थः । मालिनीवृत्तम् ॥ एवं गणेशं स्मृखा भारती स्मरति- स्फटिकमणिमयाक्षसक्सुधापूर्णचञ्च- कनककलशवीणापुस्तकान्यादधाना । सकलविबुधवन्द्या वाङ्मयब्रह्ममूर्ति- मम कमलदलाक्षी देवता संनिधत्ताम् ॥ २॥ - २ काव्यमाला एवंविधा देवता भारती मम संनिधत्तां संनिधानं सामीप्यं करोतु । कीदृशी । स्फ- टिकमणिमयी या अक्षस्रक जपमाला च सुधया अमृतेन पूर्णश्चञ्चच्छोभमानः कनकक लशो हेमकुम्भश्च वीणा वल्लकी च पुस्तकं च एतान्यादधाना धारयन्ती । मालाकुम्भौ दक्षिणहस्तयोवीणापुस्तके वामहस्तयोः । तथा सकलैर्विवुधैर्देवैर्वन्द्या स्तुत्या । वाङ्मयं वाणीरूपं ब्रह्म वेदस्तन्मूर्तिः । वेदरूपेत्यर्थः । कमलदलाक्षी पुण्डरीकपत्रनेत्रा । इत्यनेन प्रसन्नत्वम् । 'प्रसन्ना देवता ध्येया सर्वाभीष्टप्रदायिनी' इत्युक्तेः ॥ एवं सरस्वतीं ध्यात्वा सन्तः स्मरति- हृदयजलजजाग्रज्योतिरुयोतितान्तः- करणकिरणरीणाशेषदोषान्धकाराः । भवदवविवशानां तन्वते येऽभिषेकं हरिचरितसुधाभिस्तेऽभिनन्दन्तु सन्तः ॥ ३ ॥ ते सन्तः सत्पुरुषा अभिनन्दन्तु आनन्दं प्राप्नुवन्तु । ते के ये हरिचरितमुधाभि- गोविन्दचरित्रामृतैर्भवदवविवशानां संसारदावानलपरितप्तानामभिषेकं तन्वते । हरिच- रित्रामृतैः संसारतापं शमयन्तीत्यर्थः । कीदृशास्ते । हृदयजलजे हृत्कमले जाग्रत्प्रका- शमानं यज्योतिब्रह्मतेजस्तेन द्योतितं प्रकाशितं निर्मलितं यदन्तःकरणं तत्किरणै रीणाः क्षीणा अशेषदोषाः कामादय एवान्धकारो येषां ते तादृशाः ॥ एवं मङ्गलं विधाय कर्तव्यं प्रतिजानीते- अधिजगति जनानामेक एवास्त्युपायो विषमतमभवाब्धि तूर्णमेतं तरीतुम् । श्रवणमननपूर्व विष्णुपादारविन्द- स्मरणमिति तदेतत्प्रोच्यते भक्तिलोभात् ॥ ४ ॥ जगत्यामधि इत्यधिजगति पृथिव्याम् । 'जगती विष्टपे मह्यां वास्तुच्छन्दोविशेपयोः' इति विश्वः । विभक्त्यर्थेऽव्ययीभावः । विषमतमभवाब्धिमतिदुःसहं संसारसमुदं तूर्ण शीघ्रं तरीतुं नराणामेक एवोपायोऽस्ति । को वा तमाह-श्रवणमननपूर्व विष्णुचरणा- म्बुजस्मरणमिति । सर्ववेदान्तवाक्यानामद्वैते वस्तुनि तात्पर्यावधारणं श्रवणम् । युक्ति- भिस्तस्यैवानुचिन्तनं मननम् । ते द्वे विधाय हरिस्मरणमिति तदेतद्भकिलोभात्प्रो. च्यते कथ्यते ॥ विमलयतु मनो मे दूषितं दोषसंधै- रहरहरिह रम्या रामचन्द्रस्य भक्तिः । सगरतनयभूतिप्रेषितं भूमिभागं सुरसरिदिव दोषप्लोषविख्यातशक्तिः ॥५॥ - १ स्तबकः ] विष्णुभक्तिकल्पलता। अहरहः प्रतिदिनं रम्या मनोहरा रामचन्द्रस्य भक्तिर्दोषसंधैः कामादिसमूहैदूषितं मम मनो विमलयतु निर्मलं करोतु । तत्र दृष्टान्तमाह--सगरस्य राज्ञः पुत्राणां कपिलकोपा- ग्निदग्धानां भूत्या भस्मना प्रेषितं दूषितं भूमिभागं सुरसरिद्ङ्गेव । दोषाणां पापानां लोषे दाहे विख्याता शक्तिर्यस्याः सेत्युभयोर्विशेषणम् ॥ उपनिपदपि लेभे नैव साक्षाघदन्तं न च वचनमनोभिर्योगिनो जग्मिवांसः । शिथिलितभवबन्धा जन्तवो यस्य नाम्ना हृदि तमभिनिबद्धं राधयाराधयामः ॥ ६॥ उपनिषद्वेदान्तोऽपि साक्षाद्यदन्तं यस्य विष्णोनिर्णयं न लेने न पाता । योगिनः सनकादयोऽपि वाग्भिमनोभिश्च यदन्तं न जग्मिवांसो न गताः । गमेः कमः । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति श्रुतेः । यस्य नाम्ना रामकृष्णेयाधुच्चारितेन प्राणिनः शिथिलितभवबन्धाः शिथिलीकृतसंसारजनककर्माणो भवन्ति । राधया गोप्या यद्वा राध्यते आराध्यते अनयेति राधा भक्तिराराधना तया हृदि अभिनिबद्धं मनस्या- यातं तं हरिं वयमाराधयामः ॥ श्रवणविवरमाप्ता सज्जनानां प्रसङ्गा- दनयदनयवृत्तीनप्यनेकान्दिवं या । हृदयविहितवासा मुक्तये कस्य नासा- वधिभुवनसमर्था जानकीजानिकीर्तिः ॥ ७ ॥ असौ जानकीजानिकीर्तिः । जानकी जाया यस्य सः । जायाया निङ् । रामकीर्तिः हृदयविहितवासा हृदये विहितः कृतो वासो यस्याः सा हृदये स्थापिता सती कस्य मुक्तये न, अपि तु सर्वस्यापि मुक्तये भवेत् । अधिभुवनं त्रिलोकेषु समर्था । मुक्ति दातुमिति शेषः । या रामकीर्तिः सज्जनानां साधूनां प्रसङ्गात् श्रवणविवरं कर्णमार्गमाप्ता श्रुता सती अनयवृत्तीनन्यायाचाराननेकानप्यजामिलादीन् दिवं द्योतमानं वैकुण्ठलोकमनयत्प्रापयत् ॥ अधिहृदयमयं चेद्भाति भर्ता रमाया विषमभवसमुद्रे साधुसेतुः सतां यः । उपनिषदमुदग्रां यष्टिमादाय हस्ते कलयतु क इवात्रागाधतां तद्भवाब्धेः ॥ ८॥ चेद्यदि रमायाः श्रियो भर्ता हरिरधिहृदयं हृदये भाति प्रकाशते । सत्सङ्गादिति शेषः । यो विषमे भवसमुद्रे सतां भक्तानां साधुः समीचीनः सेतुः । तत्तर्हि उपनिषल्लक्षणामु- १. 'अनी' ख.
काव्यमाला । - दयां यष्टिं हस्ते गृहीला भवाब्धेरगाधतां गम्भीरतां क इव कलयतु जानातु । न कोऽपि । उपनिषदर्थे विचारिते ब्रह्मणि साक्षात्कृते को वा संसाराब्धिरित्यर्थः । यद्वा संसारसमुद्रे श्रीहरिर्यदा सेतुर्जातस्तदोपनिषद्यष्टेः किं प्रयोजनं न किंचिदिति ॥ ननु श्रुतयो वहुधर्मप्रमाणकाः सन्ति कथं हरिरेव साधुसेव्यत्वेनाश्रयणीय इत्यत आह- श्रुतिभिरतिभिदोक्तौ कौतुकं कुर्वतीभि- हृदय यदयमेवाश्रीयते श्रीनृसिंहः । तदिह भवभयस्याभावभव्यं भज त्वं चरणकमलमस्यापास्य नोपास्यमन्यत् ॥ ९ ॥ हे हृदय, यद्यस्माच्छ्रुतिभिर्वेदैरयमेव श्रीनृसिंह आश्रीयते प्रतिपाद्यते । ननु ताभिः संसारभेदः प्रतिपाद्यते कुतो नृसिंहस्तत्राह-अतिभिदोक्तौ मेदव्याख्याने कौतुकं कुर्व- तीभिः । भेदव्याख्यानं कौतुकेन वास्तवं तु हरिप्रतिपादनं श्रुतेः। तत्तस्मादिह संसारेऽस्य हरेश्चरणकमलं त्वं भज सेवख । कीदृशम् । भवभयस्य संसारभीतेरभावे नाशे भव्यं कुशलम् । यत एतदपास्य विहायान्यन्नोपास्यं न सेव्यम् ॥ हृदि न यदि नराणां विष्णुपादारविन्द- स्मरणवशसमुत्थः स्नेहयोगातिरेकः । तदितरपरिचर्या जायतेऽर्थाय कस्मै कतरगुणकृदद्रौ नीरसे नीरसेकः ॥ १० ॥ यदि नराणां हृदि विष्णुपादारविन्दस्मरणवशेनोत्थो यः स्नेहयोगस्तस्यातिरेक आधिक्यं न तत्तर्हि इतरपरिचर्या अन्यसेवा कस्मै अर्थाय जायते । भगवद्भक्तिं विनान्यसेवा अकिंचित्करेत्यर्थः । तत्र दृष्टान्तः-नीरसे शुष्केऽद्रौ नीरसेकः कतरगुणं करोति । न कमपीत्यर्थः ॥ अहो वया प्रतिजन्म हर्यनाश्रयणेन दुःखं प्राप्तं तथापि कथं क्षणमात्रमपि स्थिरचि- तेन मुरारिं न स्मरसीयाह- अनुजनुरनुभूयाप्यत्र दुःखं दुरात्म- न्क्षणमपि हृदि रुद्धः शुद्धचित्तेन साक्षात् । जलजदलजयश्रीमण्डितोदारनेत्रो न बत नवतमालश्यामवर्णों मुरारिः॥ ११ ॥ हे दुरात्मन् , अत्र संसारे अनुजनुः प्रतिजन्म दुःखमाधिव्याधिलक्षणमनुभूयापि क्ष- णमपि शुद्धचित्तेन निष्कपटमनसा कृला मुरारिहृदि बत न रुद्धः । कीदृशः । जलज- दलजयिन्या कमलपत्रजयिन्या श्रिया मण्डिते उदारे नेत्रे यस्य । तथा नूतनतमाल इव श्यामो वर्णो यस्य स तथा। बतेति खेदे ॥ .
१ स्तबकः ] विष्णुभक्तिकल्पलता। ५ - ननु संसारभयत्रासेन विह्वलतया कथं हर्याश्रयणं भवति तत्राह- भवपवनवयस्यानल्पसंकल्पकीला- विलसितकृततापप्रौढिमानं निरीक्ष्य । त्यज हृदय विषादं मा गमः कातरत्वं तव नवजलदश्री रक्षिता रामचन्द्रः ॥ १२ ॥ भवः संसार एव पवनवयस्यो वायुसखोऽग्निस्तस्यानल्पा वहवः संकल्पाः कामा एव कीला ज्वालाः । 'वढेद्वयोवालकीलौ' इत्यमरः । तासां विलसितेन प्रसरणेन कृतो य- स्तापस्तस्य प्रौटिमानं भूयस्त्वं निरीक्ष्योत्पन्नं विषादं हे हृदय, त्यज । कातरलमधैर्य च मा गमः । यतो नवजलदश्रीनूतनमेघश्यामो रामचन्द्रस्तव रक्षितास्ति । तमाश्रयेत्यर्थः ।। नन्वन्तकाले नरकत्रासः कथं गच्छतीति चेत्तत्राह- मनसि यदि मुकुन्दः कं दरं मन्द रम्ये- तरनरकततेस्तच्चिन्तयस्यन्तकाले । हरिचरणसरोजे जाग्रती याप्रतीर्थ कलिकलुषमशेषं स्वर्धनी ते धुनीते ॥ १३ ॥ हे मन्द मूर्ख, यदि ते मनसि मुकुन्दो हरिरस्ति तत्तर्हि रम्येतरनरकततेरतिदुःखदा. यिनिरयौपादन्तकाले कं दरं त्रासं चिन्तयसि । कमपि मा चिन्तयेत्यर्थः । कुतस्तत्राह- हरिचरणाम्बुजे जाग्रती शोभमाना अप्रतीर्थ सकलतीर्थमुख्यभूता या खर्धनी गङ्गा ते तवाशेषं सकलं कलिकलुषं पापं धुनीते नाशयति । पापोऽपि पापानिवृत्तो मुकुन्दं स्म- रनरकं नैतीत्यर्थः ॥ ननु प्रायश्चित्तं विना कथं पापक्षयस्तत्राह- चिरममरतरङ्गिण्यादिसत्तीर्थसेवा- व्रतनियमजपा वा ये च दत्तप्रभावाः । न च सकलसमृद्ध्या साधिता बाधितारः स्मरणसुकृतलक्ष्मीमध्वरा मध्वरातेः ॥ १४ ॥ चिरकालं गङ्गादि सतां तीर्थानां सेवा व्रतानि प्रायश्चित्तानि नियमाः स्नानसंध्यादयः जपा मन्त्रादीनां सकलसमृद्धया बहुधनेन साधिताः संपादिता अध्वरा यज्ञा एते दत्त- प्रभावाः दत्तः प्रभावः फलं यैस्ते ईदृशा अपि मध्वरातेमधुसूदनस्य स्मरणसुकृतलक्ष्मी स्मरणोत्थपुण्यशोभा न बाधितारो न जेतारः । हरिस्मरणतुल्यं पुण्यं नास्तीत्यर्थः । यस्मादेवं तस्मात्सर्वस्मरणं विहाय हरिमेव सेवस्वेत्याह- श्रय हृदय रमायाः कान्तमन्यत्र मा या न धनतनयजायाः श्रेयसां संप्रदायाः - - w काव्यमाला। व्यवहृतिमदुपायाः सर्वशस्तेऽन्तरायाः शमनशयगतं को रक्षिता त्वामपायात् ॥ १५ ॥ हे हृदय, रमाया लक्ष्म्याः कान्तं हरिं श्रय सेवख । अन्यत्र मा याः मा गच्छेः । यातेलुङ् । ननु धनादयः कथं त्याज्यास्तत्राह-धनपुत्रकलत्राणि श्रेयसां कल्याणानां संप्रदाया मार्गा न भवन्ति । दुःखालयभूतानीत्यर्थः । ननु तर्हि व्यवहारः कथं त्याज्य- स्तत्राह-व्यवहृतिमति व्यवहारयुक्त संसारे तस्य वा ये उपायास्ते सर्वशः सर्वप्रका- रैरन्तराया विघ्ना एव । ननु एते सर्वे केन दोषेण त्याज्या इत्याह-शमनशयगतमिति। 'शमनो यमराज्यमः' इत्यमरः । शयो हस्तः। यमहस्तगतं वामपायानरकदुःखात्को रक्षिता। न कोऽपि हरिं विनेत्यर्थः ॥ शिथिलय भवजालं चिन्तयानन्तयालं श्रय हृदय दयालु केवलं नन्दबालम् । न विधिविदितपारं संहृतक्षोणिभारं निखिलनिगमसारं ब्रह्म यन्निर्विकारम् ॥ १६ ॥ हे हृदय, भवजालं संसारवन्धं शिथिलय श्लथं कुरु । अनन्तया बह्वया चिन्तया अलम् । चिन्ता न कर्तव्येत्यर्थः । केवलं नन्दबालं श्रय आश्रय । कीदृशम् । दयालु दया- वन्तम् । न विधिना ब्रह्मणा विदितः पारो यस्य तम् । संहृतो भूभारो येन तम् । नि- खिलनिगमसारं सर्ववेदान्तोपनिषत्प्रतिपाद्यम् । यनिर्विकारं मायातीतं ब्रह्मैव तं श्रय ॥ वसतिरसति विष्णुध्यानयोगे नराणा- मपि सुकृतपराणामस्ति गर्ने जनन्याः । हृदि भज तदजस्रं निर्मले कर्मलेप- व्यपनयननिमित्तं तं पतंगेन्द्रकेतुम् ॥ १७ ॥ सुकृतपराणां पुण्यवतामपि नराणां विष्णुध्यानयोगे हरिस्मरणे असत्यविद्यमाने सति जनन्या गर्भे वसतिर्निवासोऽस्ति । तत्तस्मात् हे नर, निर्मले हृदि तं पतंगेन्द्रकेतुं गरु- डध्वजमजलं निरन्तरं त्वं भज । कर्मलेपस्य कर्मसंबन्धस्य व्यपनयने निराकरणे निमित्तं हेतुभूतम् ॥ त्रिचतुरदिवसान्तर्धानवानेव मृत्यु- 'नरकभयविमुक्तो विद्यते कोऽत्र जन्तुः । हृदि तदिह न किं स मर्यते कंसशत्रुः स्मरणमपि यदीयं योगयागातिगामि ॥ १८॥ १. 'निरय' क.
१ स्तबकः] विष्णुभक्तिकल्पलता। त्रयश्चलारो वा त्रिचतुराः । अचतुरेत्यादिना निपातः। दिवसा अन्तर्धानं यस्यास्तीति त्रिचतुरदिवसान्तर्धानवान् अल्पदिवसानन्तरमेवागामी मृत्युः । तर्हि का क्षतिस्तत्राह- अत्र संसारे नरकभयहीनः को जन्तुः । न कोऽपि विद्यते । तत्तस्मादिह संसारे स कंसशत्रुहरिहृदि किं न मर्यते । किं तत्स्मरणेन तत्राह-यदीयं स्मरणं योगोऽष्टाङ्गो यागोऽश्वमेधादि तावतिगच्छति । योगयागाभ्यामुत्कृष्टफलमित्यर्थः ।। रसवदपि समस्तं. पश्य संसारवृक्षा- फलमविरलदोषं यच्च भूतं भविष्यत् । ब्रजति परिमलायोत्कण्ठिता कं प्रमोद मितिमलितरुण्या पद्ममासाद्य नासा ॥ १९ ॥ भवफणिमणिनारीनेत्रनिध्यानमूर्छ- जनमनसि न सिद्धिर्यस्य सेवां विहाय । अयि स हृदि न कस्मात्पन्नगारातिकेतु- भवजलनिधिसेतुः स्मर्यते मुक्तिहेतुः ॥ २० ॥ (युग्मम् ) संसारवृक्षाद्यद्भूतं जातं भविष्यच्च फलं कान्ताकनकादिकं तत्समस्तं रसवत्वादुतर- मपि अविरलदोषं बहुदोषयुक्तं पश्य विचारय । तत्र दृष्टान्तः–नासा नासिका परिम- लाय गन्धग्रहणायोत्कण्ठिता सती अलितरुण्या भ्रमर्या मिलितं पद्मं प्राप्य कं प्रमोदं हर्ष व्रजति प्राप्नोति । न कमपि । पुनर्धमर्या दष्टा दुःखमेवाप्नोति । तथा संसारसुखासक्तिरिति भावः ॥ भवः संसार एव फणी सर्पस्तस्य मणिस्थानीया नारी तस्या नेत्रनिध्यानं चक्षु- रवलोकनं तेन मूर्छन्मुह्यजनमनो नरान्तःकरणं तत्र यस्य हरेः सेवां विहाय सिद्धिर्नास्ति । अयीति कोमलामन्त्रणे । हे जीव, हृदि गरुडध्वजो भवाब्धितारको मुक्तिकारणं स हरिः कस्मान स्मर्यते ॥ हरिणचरणमात्रं कामिनीनां प्रतीकं कमपि कलयतस्ते कोटयोऽगुर्युगानाम् । परिणतिरसवत्ता तत्र नैवानुभूता प्रथमपदमितस्तद्धेहि मुक्त्वा णमाद्यम् ॥ २१ ॥ मृगपदप्रमाणं नारीणां प्रतीकं 'अझं प्रतीकोऽवयवोऽपघनः' इत्यमरोक्तेः । अङ्गं यो- न्याख्यं कमप्यनिर्वाच्यं कलयतो ध्यायतस्ते तव युगानां कोटयोऽगुर्गताः । युगकोटि- मितकालानुभवेनापि तत्राओं परिणतिरसवत्ता परिपाकखादुता नानुभूता । नालंबुद्धिर्जा- तेत्यर्थः । तत्तस्मादितोऽस्मिश्लोके आद्यं णं णकारं हरिणचरणेति णकारद्वयमध्ये प्रथम णं मुक्ता प्रथमं पदं श्लोकस्याद्यं पदं हरिचरणमात्रं पदं धेहि चित्ते धारय । दधाते.टि. 'ध्वसोरेद्धावभ्यासलोपश्च' इत्यभ्यासलोप एकारश्च ॥
काव्यमाला। शमयति भवतन्द्रामस्य नामामृतं द्रा- गपि न रसनसक्तं कस्य नोद्दामशक्ति । किमु न कमनमेनं मानसे तद्रमायाः श्रयसि पयसि सुप्तं लीलया दुग्धसिन्धोः ॥ २२ ॥ अस्य हरेनामामृतं द्रागपि मनागपि । ईषदपीति यावत् । रसनसक्तं जिह्वालग्नं स. कस्य भवतन्द्रां संसारनिद्रां न शमयति । यत उद्दामशक्ति दृढसामर्थ्यम् । तस्माद्दुग्ध- सिन्धोः पयसि लीलया सुप्तमेनं रमायाः कमनं कान्तं मानसे किमु न श्रयसि किमिति न सेवसे । अपि तु सेवस्वेत्यर्थः ॥ दधति मुदमुदारां नाकिवृन्दे नभःस्थे निखिलनृपनृशंसे कम्पमाने च कंसे । सह सबलभुजैस्तैर्दानवै रङ्गवाटे रमितममितशक्तर्यस्य वक्तुं न शक्यम् ॥ २३ ॥ तमिह किमु रमाया वल्लभं मल्लभङ्गो- त्सवभवदवलेपोत्पत्तिजेतारमन्तः । स्मरसि न विनयानुस्यूतसूक्तामृतौघैः स्तुतमतुलयशोभिः शोभिवृन्दैः सुराणाम् ॥२४॥(युग्मम् ) अमितशक्तेर्वहुसामर्थ्यस्य यस्य हरेः सकलभुजैवलवद्वाहुभिस्तैः प्रसिद्धैश्चाणूरादिभि- दानवैः सह रङ्गवाटे मल्लरङ्गे रमितं क्रीडितं वक्तुं न शक्यम् । व सति, नभःस्थे आका- शगते नाकिवृन्दे देवसमूहे उदारां महतीं मुदं हर्ष दधति सति । तथा निखिलनृपनृशंसे सकलराजघातुके कंसे कम्पमाने सति ॥ इह संसारे तं रमाया वल्लभमन्तश्चित्ते किं न स्मरसि । कीदृशम् । मल्लानां भङ्गेनोत्सवस्तस्माद्भवन्ती यावलेपोत्पत्तिर्गर्वोत्पत्तिस्तस्या जेतारम् । मल्लभङ्गेनापि गर्वहीनम् । तथा अतुलयशोभिर्निरुपमयशोन्वितैः सुराणां वृन्दैः शोभमानसमूहैः कर्तृभिर्विनयेनानुस्यूताः संबद्धा ये सूक्तामृतौघाः सुवचनमुधा- समूहास्तैः स्तुतम् ॥ सुकृतमकृत किं किं चित्रमासर्गकाला- दहह सपरिवारो नन्दगोपश्च नैनः । इति विहितहितथि प्रत्तमुक्त्यच्युत त्वां फलमलभत यस्माद्वन्धुरं बन्धुरत्नम् ॥ २५ ॥ अह हेत्याश्चर्ये । सपरिवारो नन्दगोप आसर्गकालात्सृष्टिकालमारभ्य चित्रमाश्चर्यकारि ..
.. १ स्तबकः] विष्णुभक्तिकल्पलता। किं किं सुकृतं पुण्यमकृत । एनः पापं च नाकृत । हे अच्युत, विहिते हितश्रियौ येन तत् हितकारि संपदातृ । प्रत्ता दत्ता अर्थाद्भक्तानां मुक्तिर्यन तन्मुक्तिदम् । वन्धुरं मनो- हरं वां बन्धुरत्नं वलक्षणं वान्धवश्रेष्ठं फलं यतोऽलभत प्राप । पुण्यं विना हरिपितृत्वं नन्दस्य कथं स्यादिति नानाजन्मगतं पुण्यं नन्दस्यानुमीयत इत्यर्थः ।। विधिरतनुत मान्मुक्तिमार्गोपरोधो- झुरतररजसादौ तेन मे राजसीयम् । स्फुरदमरसरित्त्वत्पादपद्मावगाहा- द्भवतु हृदयवृत्तिर्नीरजा नीरजाक्ष ॥ २६॥ विधिब्रह्मा मान्मनुष्यान्मुक्तिमार्गस्योपरोधे प्रतिवन्धे उद्धुरतरं समर्थतरं यद्रजो रजोगुणस्तेन मृष्टयादावतनुतासृजत् । तेन रजोगुणसृष्टत्वेन राजसी रजोगुणप्रधाना मम हृदयवृत्तिहे नीरजाक्ष कमलनेत्र, स्फुरन्ती अमरसरिगङ्गा यस्मिन्नेवंविधस्य उत्पादप- अस्यावगाहानीरजा निर्मला भवतु । रजखलं जलावगाहानिर्मलं भवति तथा खच्चरणा- व्ववगाहानिर्मला भवतु ॥ यदहमदहमुक्त्यानिष्टया हृजनानां चकर च करपातं यत्परखे प्रमत्तः । श्रुतिपथपथिको यन्नाभवं तन्मुरारे मम समभिसहस्वादीनवं दीनबन्धो ॥ २७ ॥ अनिष्टयोक्त्या अप्रियवचनेन जनानां हृच्चित्तमहं यददहं दग्धवानस्मि । यच प्रमत्तो- ऽनवहितोऽहं परस्वे परधने करपातं हस्तसंचारं चकर कृतवानस्मि । 'णलुत्तमो वा' इति वृद्ध्यभावे गुणः । यच्च श्रुतिपथपथिको वेदमार्गचारी नाभवं न भूतः हे मुरारे दीनवन्धो, मम तमादीनवं दोषं समभिसहस्व क्षमस्व । दोप आदीनवो मतः ।। भवजलनिधिमध्ये हर्षसंघर्षतर्ष- प्रमुषि विषमवीचिव्याकुलं वीक्ष्य विष्णो। चरणकमलनावं भावगम्यां मुनीन्द्र- रपि सदयतया मे यच्छ यच्छ प्रसीद ॥२८॥ संसारसमुद्रमध्ये हर्षः संतोषः संघर्षः स्पर्धा तर्षस्तृष्णा तत्प्रमुखास्तदादयो या विषमा वीचय ऊर्मयस्तैर्व्याकुलं मां विक्ष्य हे विष्णो, मुनीन्द्रैरपि भावगम्यां चरणकमललक्षणां नावं सदयतया मे यच्छ यच्छ देहि । प्रसीद । समुद्रे मज्जतो नौरेव तारिका ॥ स्फुरितसरितमातन्वानमानन्दमुच्चैः सपदि सुपदपमं प्राप्य कृष्ण त्वदीयम् ।
१० काव्यमाला । दुरितभरितमेतन्मामकं देव चेतो विमलितमलमस्तु प्रस्तुतत्वत्सपर्यम् ॥ २९ ॥ स्फुरिता सरिद्गङ्गा यस्मिंस्तम् । उच्चैरतिशयेनानन्दमातन्वानं विस्तारयन्तम् ! हे कृष्ण हे देव, त्वदीयं शोभनं पादपद्मं प्राप्य सपद्येतन्मामकं दुरितभरितं पापाक्रान्तं चेतः प्रस्तुता उपक्रान्ता प्रारब्धा इति यावत् । वत्सपर्या तव पूजा येन तादृशं सद्विमलितमस्तु निर्मलं भवतु ॥ दमय मम यतीन्द्रध्येय चेतः प्रभूता- पदमपि यदवेत्य प्रेत्य दुर्गत्यवस्थाम् । सरभसमसदुच्चैराचरन्नति भीति तदव यदवलम्बः संसृतौ न त्वदन्यः ॥ ३०॥ हे यतीन्द्रध्येय सनकायैश्चिन्तनीय, मम चेतो दमय । यद्यस्मादमद् दुष्टमाचरनपि; नरः प्रेत्य मृखा प्रभूतापदं बहुविपद्युक्तामपि दुर्गत्यवस्था नरकयातनामप्यवेत्य ज्ञावापि भीतिं न प्राप्नोति । दुष्टाचारो नरकभयं श्रुषा न बिभेतीत्यर्थः । तत्तस्मादव रक्ष । यतः संसृतौ संसारे बदन्योऽवलम्ब आश्रयो नास्ति । त्वदपि भुवनमध्ये को वदान्यो वदान्यो नहि परपरिलभ्यं देव विश्वभरत्वम् । इदमहम भियाचे तद्विहाय त्वदची कचन चरतु चेतो मामकं मा मुकुन्द ॥ ३१ ॥ हे मुकुन्द, भुवनमध्ये त्रिलोक्यां खत् अन्यो वदान्यः कः त्वं वद । वाक्यार्थस्य कर्म- खम् । 'प्रियवाग्दानशीलश्च वदान्यः परिकीर्तितः' । हे देव, विश्वंभरत्वं परपरिलभ्यम- न्यप्राप्यं नहि । तत्तस्मादहमिदममियाचे मामकं चेतस्त्वदनी विहाय वचन मा चरतु मा यातु। अपि तु बच्चरणयोरेव यात्वित्यर्थः ।। शमय मम यमस्य त्रासमत्रासमाना- पदि सपदि हृदि त्वं कृष्ण तिष्ठन्निमेषम् । जगति न गतिरन्या त्वां विना क्वापि धन्या प्रभवति भवतिग्माभीलनिर्मीलनाय ॥ ३२ ॥ हे कृष्ण, असमानापदि अनुपमपीडेऽत्रास्मिन्मम हृदि सपदि निमेषं तिष्ठन् यमस्य त्रासं शमय । यतो जगति भवतिग्माभीलनिर्मीलनाय संसारस्य तीव्रभयोन्मूलनाय खां विना अन्या धन्या श्रेष्ठा गतिरुपायो न प्रभवति न समर्थो भवति । प्रभवनशीलो न भवतीत्यर्थः॥
१ स्तबकः]] विष्णुभक्तिकल्पलता। ११ अव भवदवदौःस्थ्यादिन्दिरालोचनेन्दी- वरमधुरतरश्रीसङ्गरगट्टगंशम् । मयि सदय निधायानन्त यद्योगजान- न्मुदतिशयवशात्मा न स्मराम्येव किंचित् ॥ ३३ ॥ हे सदय, हे अनन्त, इन्दिराया लक्ष्म्या लोचनेन्दीवरस्य नेत्रकमलस्य मधुरतरा रम्या या श्रीः शोभा तस्याः सङ्गेन रङ्गन् क्रीडन् यो दृगंशः कटाक्षस्तं मयि निधाय भवदवदाः- स्थ्यात्संसारदावानलदुःखादव रक्ष । यद्यतोऽवनेन योगेन यद्वा दृगंशेन जाग्रत्स्फुरन्यो मुदतिशयो हर्षवेगस्तद्वशात्मा सन् किंचिन स्मराम्येव ।। सततमहितहेतुं हन्तु हन्तुमधोवः सकलसुकृतसारः पादपद्मोपचारः । भवति हृदयशुध्या मानवो यद्विधाना- दलितदुरितभारः प्राप्तसंसारपारः ।। ३४ ॥ सकलसुकृतानां मध्ये सारभूतो मधोर्हन्तुर्मुरारेः पादपद्मोपचारश्चरणाजसेवनं सततं वो युष्माकमहितहेतुं दुःखकारणीभूतं पापं हन्तु नाशयतु। चित्तशुद्ध्या यद्विधानाद्यस्य पाद- पद्मोपचारस्य विधानान्मानवो दलितदुरितभारो नष्टपापपुञ्जः सन्प्राप्तसंसारपारो भवति ॥ मधुरिपुपदलग्नं चित्तमायस्य हर्तु कथमपि न समर्था दस्यवो दर्पकाद्याः । सुमतिबलिविमुक्तं शक्नुवन्ति प्रमाष्टुं किमु हरिकरमध्याद्दानवा दानवारि ॥ ३५ ॥ दर्पकाद्याः कामाद्या दस्यवो वैरिण आर्यस्य पुण्यवतो मधुरिपुपदलग्नं हरिपदसतं चित्तं हर्तु कथमपि न समर्थाः । 'कंदर्पो दर्पकोऽनङ्गः' इत्यमरः । तत्र दृष्टान्तमाह-शोभन- मतिर्यो बलिस्तेन विमुक्तं दानवारि दानोदकं हरिकरमध्याद्दानवाः किं प्रमाष्टुं निराकर्तुं शक्नुवन्ति । स्मेति शेषः। वामनहस्ताद्दानोदकं बलिदत्तं यथा दैत्या नापहर्तुं शक्ता इत्यर्थः॥ दशशतदलपनं यस्य तच्छत्रमुच्चै- वरचमरमहेला पिङ्गलेला च पुण्या । अनपरपरिमुक्तं भाति भद्रासनं स- बृदयकमलमेकं सार्वभौमः स जीयात् ॥ ३६ ॥ तत्प्रसिद्ध द्वादशान्तःस्थं सहस्रदलपनं यस्योच्चैश्छन्नम् । पुण्या पवित्रा इला पिङ्गला च नाडी वरचमरमहेला चामरधारिणी स्त्री। 'अबला महेला ललना' इति कोषः । अनन्य- १२ काव्यमाला । भुक्तं सच्छेष्ठं हृदयकमलमेकं यस्य सिंहासनं भाति स सार्वभौमश्चक्रवर्ती जीयात् सर्वो- स्कर्पण वर्तताम् ॥ सुरभिखुरभिदाभृद्भूतलोद्भूतधूली- धरममरमहेलामोहबाहुल्यहेतुम् । अमृतकरमुखीनां वल्लभो वल्लवीनां दधदवतु वपुर्वः कायभाजामपूर्वः ॥ ३७ ॥ सुरभीणां धेनूनां खुर्भिदां बिभर्ति एतादृशं यद्भूतलं तस्मादुद्धता या धूली तद्धारकम् । अमरमहेलानां वर्गस्त्रीणां मोहवाहुल्ये हेतुभूतं वपुर्दधत् । अमृतकरमुखीनां चन्द्रवदनानां वल्लवीनां गोपीनां वल्लभः । कायभाजां शरीरिणामपूर्वो मुख्यो हरिर्वो युप्मानव्याद्रक्षतु ।। नयनकमलयुग्मच्छत्रभृद्यत्र नासा करनखरमरीचिप्रस्फुरच्चामरश्रीः । अधरमधुरतायाः सार्वभौमो मुरारे- जगति जयति वंशो विश्वविश्वकवन्द्यः ॥ ३८ ॥ यत्र वंशे नासादण्डो नयनकमलयुग्ममेव च्छत्रं बिभर्ति तादृशः । हस्तनखानां मरी- चयः किरणा एवं प्रस्फुरन्ती चामरश्रीर्यस्य स विश्वं सर्व यद्विश्वं जगत्तस्यैकवन्योऽसाधा- रणस्तुत्योऽधरमधुरताया ओष्ठमाधुर्यस्य सार्वभौमो राजा माधुर्यग्राहको मुरारेवंशो जगति भूतले जयति सर्वोत्कर्षण वर्तते ॥ चरणकमललीला बालगोपालमूर्ते- जयति रुचिभिरिभ्या निर्भराभ्यासलभ्या । शकटतनुमनूनं वज्रतः कर्कशत्वा- च्छतशकलमकार्षीया सुमृद्वी सुरारिम् ॥ ३९ ॥ इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां भक्त्युद्भावनो नाम प्रथमः स्तबकः । बालगोपालमूर्तेः पादपद्मलीला अत्यन्ताभ्यासप्राप्या कान्तिभिरिभ्या आख्या जयति सर्वोत्कर्षेण वर्तते सुतरां मृद्वी कोमला । या कर्कशखात्काठिन्येन वज्रतो वज्रादनूनं व- जसदृशं शकटतनुं शकटशरीरं सुरारि दैत्यं शतशकलं शतखण्डमकार्षीत्कृतवती । करो- तेलुङि रूपम् । 'शकटासुरभञ्जनः' इति पुराणात् ॥ इति श्रीमहीधरविरचिते विष्णुभक्तिकल्पलताविवरणे भक्त्युद्भवो नाम प्रथमः स्तबकः। द्वितीयः स्तबकः । अव्यादवाङ्मनसगोचररूपशीला लीलावती यतिहृदम्बुजराजहंसी ।
२ स्तबकः] विष्णुभक्तिकल्पलता। १३ एषा ललाटफलकार्पितचन्द्रलेखा शेषाहिशायिभगिनी दुरितादशेषात् ॥ १ ॥ वाक्च मनश्च तयोरगोचरम विषयं रूपं स्वरूपं शीलयति धारयति तादशी । ली- लायुक्ता । यतीनां हृत्कमले राजहंसी । ललाटतटेऽर्पिता चन्द्रलेखा यया सा । शेष- नागशायिनो हरेभगिनी दुर्गा अशेषात्समग्रादुरितात्पातकादव्याद्रक्षतु । 'नन्दगोपकुले जाता' इति मार्कण्डेयो केः । वसन्ततिलकावृत्तम् ॥ यन्निमेषमपि रे वृषं विना वर्तसे मिथुनभावतोपितः । कर्कशत्वमिदमात्मनि स्फुटं पश्य सिंहमिव मृत्युमुद्धतम् ॥ २ ॥ रे जन्तो, निमेषमपि मिथुनभावेन स्त्रीसंयोगेन तोषितः सन्यदृषं विना धर्महीनो व. तसे इदं धर्महीनलमात्मनि स्वस्मिन्कर्कशत्वं वस्यैव दुःखदायित्वं स्फुटम् । यत उद्धतं सिंहमिव मृत्यु पश्य । रथोद्धतावृत्तम् । 'रानराविह रथोद्धता लगौ' इत्युक्तेः ॥ कन्यकावसुतुलादिदानतो यद्यसह्यभववृश्चिकव्यथा । नैव शाम्यति ततो बलिष्ठया रामनामसुधयास्व सुस्थितः ॥ ३ ॥ यदि यतः कन्याकनकतुलादिदानेनाप्यसह्या संसाररूपवृश्चिकपीडा नैव शाम्यति ततो बलवत्या रामनामरूपया सुधया सुस्थितः सुखी आख तिष्ठ । आस्तेर्लोटि मध्य- मैकवचनम् ॥ रामनामधनुषा भवाभिधं भिन्द्धि रे मकरमन्यथात्मकम् । कुम्भमध्यगतमीनवदशामेति कामिह न हाग्रहाकुलः ॥ ४ ॥ रे जन्तो, अन्यथात्मकं मिथ्यास्वरूपं स्वप्नप्रायं भवामिधं संसाररूपं मकरं ग्राहं रामनामरूपेण धनुषा मिन्द्धि विदारय । ह स्फुटं इहाग्रहेण संसाराग्रहेणासक्तया आकुलो व्यग्रः कुम्भमध्यगतमीनतुल्यां कां दशामवस्था नैति न प्राप्नोति । दुःखमेवानुभवतीत्यर्थः॥ अस्तमेति दिवसात्यये रविश्चन्द्रमा अपि विशेषतः क्षयी । मङ्गलोपरि मनः कयाशया तत्करोति जगतीतले बुधः ॥५॥ रविर्दिवसान्तेऽस्तं याति । चन्द्रोऽपि विशेषतः क्षयवान् । चन्द्रसूर्ययोरपि विपदं दृष्ट्वा वुधो ज्ञानी जगतीतले मङ्गलोपरि कल्याणाप्तौ कया तृष्णया मनः करोति । न किं- चिदपि साध्यमित्यर्थः ॥ जीव पीवरमथेतरद्वपुः शुक्रशोणितसमुद्भवं सदा । प्राप्यमेव हि परं शनैश्चरभ्रातृदूतभयभेषजं भज ॥ ६ ॥ हे जीव जन्तो, पीवरं स्थूलं हस्त्यादिकमथेतरत्सूक्ष्मं मशकादिकं वपुः शुक्रशोणित- जातं सदा प्राप्यमेव । हि यतः । अतः परं केवलं शनैश्चरभ्रातुर्यमस्य दूतेभ्यो यद्भयं तस्य भेषजं निवर्तकं हरिं भज सेवख ॥
40
काव्यमाला ।
.
राहुणेव यदि रोहिणीपतिर्गृह्यसे नहि लुलायकेतुना ।
तावदेव कुरु यत्नमच्युताराधने धनधियं धिगन्ध ते ॥ ७ ॥
राहुणा चन्द्र इव लुलायकेतुना महिषध्वजेन यमेन यावन्न गृह्यसे । 'ग्रस्यसे' इति वा
पाठः । तावदेवाच्युताराधने हरिभजने यत्नं कुरु । हे अन्ध, ते तव धनधियं धनबुद्धिं
धिक् । तां मा कार्षीरित्यर्थः ॥
अष्टमी भव तनुर्महेशितुः कैटभारियजनाय यत्नतः !
यौवनेऽसि नवमीनकेतनः किं त्वमत्र दशमी करिष्यसि ॥ ८ ॥
हे जन्तो, यत्नतः कैटभारेहरेर्यजनाय महेशितुः शिवस्याष्टमी तनुर्दीक्षितो भव ।
'पञ्चभूतानि सोमाकौं यज्वेत्यष्टाजमूर्तयः' इत्युक्तेः । 'भूतेन्दुसूर्य यज्वानः शंकरस्याष्ट-
मूर्तयः' इति च । यौवने नवो नूतनो मीनकेतनः कामो यस्येदृशोऽसि । अत्र संसारे
दशी वृद्धः सन्कि करिष्यसि । 'वर्षीयान्दशमी ज्यायान्' इत्यमरः । दशमोऽवस्था-
विशेषो यस्येति क्षीरखामी । जरायां शरीरासामर्थ्यान्न किमपि कर्तुं शक्यतेऽतस्तत्पू.
वमेव हरिभजने यत्नं कुर्वित्यर्थः ।
अय्यनेकविधवेदनाकुले मातृकुक्षिकुहरे कृतौकसः ।
आमनस्यमपि ते मनस्यहो न प्रकाशमुपयाति किं नु तत् ॥ ९॥
अयीति संबोधने । हे जन्तो, अनेकविधाभिर्वेदनामिराकुले व्याप्ते मातृकुक्षिकुहरे ज-
ननीजठरविवरे कृतौकसो विहितनिवास स्यापि ते तव मनस्यामनस्यं प्रसवजनितं दुःखं
प्रकाशं नोपयाति न स्फुरति । अहो आश्चर्य किं नु तत् । 'आमनस्यं प्रसूतिजम्'
इत्यमरः।
बुद्धिरस्ति यदि विष्णुयोगिनी तद्भयं किमिह कालपाशतः ।
मेरुमौलिरमरापगाप्लवो दह्यते किमु दवेन वहिना ॥ १० ॥
यदि बुद्धिर्विष्णुयोगिनी हरियुक्तास्ति तत्तर्हि इह संसारे कालपाशतो भयं यमयातना-
भीतिः किम् । न किमपीत्यर्थः । दृष्टान्तमाह-अमरापगाया गङ्गाया आप्लवः प्रवाहो
यस्मिन्नीदृशो मेरुमौलिर्दवेन वह्निना दावानलेन किमु दह्यते । नेत्यर्थः ॥
सिद्धिरस्ति सुकृतानुसारतः सारतर्कसुहृदेष निर्णयः ।
अर्जितव्यमनिशं यशोधनं शोधनं यदखिलापराधतः ॥ ११ ॥
सुकृतस्य पुण्यस्यानुसारेण सिद्धिरस्तीत्येष निर्णयः सिद्धान्तः सारतर्कसुहृत्समीचीनस्य
तर्कस्य सहायः । अनुसारीत्यर्थः । तत्खरूपमाह-यत्समग्राणामपराधानां शोधनं नाशनं
तद्यशोलक्षणं धनमनिशं निरन्तरभर्जितव्यम् । सुकृतेनैव यशो भवतीत्यर्थः ॥
अर्जुनीयति यदर्जने जनो वर्जनीयजनसेवनादिभिः ।
मङ्गु नश्यति चिराय संचिता वञ्चिता जगति के न संपदा ॥ १२ ॥
१ स्तबकः विष्णुभक्तिकल्पलता। १५ यदर्जने यस्याः संपदोऽजने वर्जनीयानां कुत्सितानां जनानां सेवनादिमिर्जनोऽर्जुनीयति तृणतुल्यो भवति । कुत्सितानुसरणेन लाघवं यातीत्यर्थः । 'अर्जुनं च तृणे नेत्ररोगे पार्थ च हैहये । द्रुमे केकिनि च' इति कोषः । अर्जुनमिवाचरति । 'उपमानादाचारे' इति क्यच् । 'क्यचि च' इतीत्त्वम् । चिराय संचिता शीघ्रं या नश्यति तया संपदा जगति के नरा न वञ्चिताः । सर्वेऽपि तदासक्ता वञ्चिता इत्यर्थः ।। भा रतीशितुरिवास्तु विग्रहे भारती भवतु वाक्पतेरिव । भारतीह सकलोऽपि तद्गुणो यस्य भक्तिरचला न माधवे ॥ १३ ॥ विग्रहे शरीरे रतीशितुः कामस्येव भा कान्तिरस्तु । वाक्पतेगुरोरिव भारती वाग्भवतु॥ परंतु यस्य माधवे निर्मला भक्तिनास्ति तस्य सकलोऽपि कान्ति पाण्डित्यादिगुणो भारति भार इवाचरति । 'सर्वप्रातिपदिकेभ्यः क्विबाचारे' इति विप् ॥ जीवितव्यमतिमात्रचञ्चलं यादृशं कमलिनीदले जलम् । तद्विधाय हृदयं सुनिश्चलं चिन्तयख हरिमेव केवलम् ॥ १४ ॥ पद्मिनीपत्रे याहग्जलं चञ्चलं ताहग्जीवितव्यमतिचञ्चलं तत्ततो हृदयं मुनिश्चलं कृला केवलं हरिमेव चिन्तयख ॥ योनियन्त्रणविधा न वेद ना लीलयेन्द्रियचयस्य खेलतः । योनियन्त्रणविधानवेदना का न काः स सहते हतेप्सितः ॥ १५ ॥ लीलया स्वेच्छया खेलतः प्रचरत इन्द्रियचयस्य नियन्त्रणविधाः नियमनप्रकारान् योना पुरुषो न वेद न जानाति स नरो हतेप्सितो नष्टमनोरथः सन् काः का योनौ यन्त्रणविधानं वन्धनं तजनिता वेदनाः पीडा न सहते । अपि तु सर्वयोनिवासव्यथाः सहत इत्यर्थः॥ तं धिगन्धमिह यस्य रामतो रा मतोऽधिककदर्थनावहः । एकवारमपि यस्य नामतो धाम तोषकरमेति तत्परम् ॥ १६ ॥ इह संसारे तं अन्धं पुरुषं धिक् यस्य रामतो हरेः सकाशादधिकां कदर्थनां दुःखमा- वहति प्रापयति तादृशो राः धनं मतो मान्यः । 'अभिसर्वतसोः-' इति द्वितीया । 'राः वर्णे जलदे धने' इत्यमरः । रामस्य गुणमाह-एकवारमपि यस्य नान्ना तत्प्रसिद्ध परं केवलं तोपकर संतोषप्रदं धाम ब्रह्मपदमेति ॥ क्लेशवारणसमर्थता भवे केशवादपि परस्य किं भवेत् । यं नमन्नपि सुरेषु गौरवं याति पातकिजनो न रौरवम् ॥ १७ ॥ भवे संसारे केशवात्परस्याप्यन्यस्यापि देवतान्तरस्य क्लेशस्य वारणे निराकरणे सामर्थ्य किं भवेत् । न भवेदेव । पातकिजनोऽपि यं केशवं नमन सुरेषु गौरवं पूजां याति प्राप्नोति न तु रौरवं नरकम् ॥
१६ काव्यमाला। यस्य चेतसि न जातु कंसहा कं सहायमयमेति मानवः । कालकिंकरकरान्तरं गतो रङ्गतो गलितयौवनः स्त्रियाः ॥ १८ ॥ यस्य चेतसि जातु कदाचित्कंसहा कृष्णो न अयं मानव इह लोके स्त्रिया रङ्गतः क्री. ज्या गलितयौवनोऽमुत्र यमदूतहस्तमध्यं प्राप्तः सन् कं सहायमेति । न कमपीत्यर्थः ॥ रामनाममहिमा महोत्सवं यस्य चेतसि तनोति न श्रुतः । तस्य जीवितमिवावकेशिनो भूमिभारकरणाय केवलम् ॥ १९ ॥ रामनानो महिमा श्रुतः सन्यस्य चेतसि महोत्सवं न तनोति तस्य जीवितं केवलं अ. वकेशिनो निष्फलवृक्षस्येव । 'वन्ध्योऽफलोऽवकेशी च' इत्यमरः । भूमिभारकरणाय भूभाराय भवति ॥ न क्रिया समभिहारविक्रियाजातपातकमपोहितुं प्रभुः । वासुदेववरिवस्यया विना या विनाशयति सर्वमप्यघम् ॥ २० ॥ क्रिया ज्योतिष्टोमादिवासुदेववरिवस्यया हरिपूजया विना समभिहारेण पौनःपुन्येन या विक्रिया क्रोधकामादिस्तज्जातं पातकमपोहितुं निराकर्तुं न विभुन समर्था । या वासुदेव- वरिवस्या सर्वमप्यघं पापं विनाशयति ॥ मन्द रे भव कदापि मायया मा यियासुरिह मातृकुक्षिषु । प्राप को न भवकाननं गतोऽनङ्गतो मृगपतेः पराभवम् ॥ २१ ॥ रे मन्द, इह संसारे मायया कृत्वा कदापि मातृकुक्षिषु जननीजठरेषु यियामुर्गन्तु- मिच्छुर्मा भव । संसारेच्छापि न कर्तव्येत्यर्थः । तत्र हेतुमाह-भवकाननं संसारवनं गतः को नरोऽनङ्गतो मृगपतेः कामसिंहात्पराभवं न प्राप । अपि तु सर्वोऽपि कामेन पराभूत इत्यर्थः ॥ दुर्लभं जनुरवाप्य मानुषं मानुषङ्गमिहि कालतो मृषा । रामचन्द्रचरणारविन्दयोविन्द योगिजनजीवनं युगम् ॥ २२ ॥ हे जन्तो, दुर्लभं मानुषं मनुष्यसंबन्धि जन्म प्राप्य मृषा मिथ्या कालतः कालेनानु- पङ्गं संवन्धं मा इहि मा गच्छ । मृत्युसंवन्धं मा प्राप्मुहीत्यर्थः । ततः किं विधेयमत आह- रामचन्द्रचरणकमलयोर्युग्मं योगिजनानां जीवनमाधारभूतं विन्द लभख । 'विदु लाभे'। 'शेमुचादीनाम्' इति नुम् ॥ रामचन्द्रचरणौ सुकोमलौ को मलौघमिलिताशयोऽपि सन् । न स्मरन्विमलतामुपागतो यागतोऽधिकनमस्क्रियौ हि यौ ॥ २३ ॥ मलौघेन पापसमूहेन मिलितः संबद्ध आशयश्चित्तं यस्य स तादृशो महापापोऽपि स- न्सुतरां कोमलौ रामचन्द्रचरणौ सरन्कः पुमान्विमलतां निष्पापत्वं नोपागतः। अपि तु २ स्तबकः विष्णुभक्तिकल्पलता। सर्वोऽपि निष्पापो जातः । हि यतो हेतोय? पादौ यागतोऽश्वमेधादेरधिकनमस्क्रिया अधिका यागाधिकफलदात्री नमस्क्रिया ययोस्ती । तदुक्तम्---‘एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथैरतुल्यः' इति ॥ सेवितैव भुवि तर्हि गोमती गोमती यदि मुकुन्दमाश्रिते । यस्य सेवनमपास्य सारवं सारवन्न जलमप्यघापहम् ॥ २४ ॥ यदि गोमती वाग्वुद्धी मुकुन्दं हरिमाश्रिते तर्हि भुवि गोमती नदी सेवितैव । हरिभजनं विना तीर्थ व्यर्थमिति भावः। तदेवाह-यस्य हरेः सेवनमपास्य यक्ला सारवत्सारयुक्तम्। श्रेष्टमित्यर्थः । सारवं सरयूनदीसंबन्धि जलमपि नाघापहं न पापहृत् । सरय्वा इदं सार- वम् । 'दाण्डिनायन-' इत्यादिना निपातः ॥ तत्कथं मधुरिपोरनाविलं नाविलम्बमवलम्बसे पदम् । यत्समेत्य किल काञ्चनापदं नाप दम्भमतिरप्यहो जनः ॥ २५ ॥ तत्तस्मादनाविलं निर्मलं मधुरिपोः पदमविलम्वं यथा तथा कथं नावलम्बसे नाथ- यसि । अहो आश्चर्ये । दम्भमतिर्दाम्भिकोऽपि जनो यद्धरिपदं समेत्य प्राप्य काञ्चनापदं किमपि दुःखं न प्राप । किलेति श्रुतौ ॥ किं गतेन कुरुतापसे वने सेवने कुरु मतिं मधुद्विषः । आत्मसान्न कुरुते हि कं सवं कंसवंशवधकृन्नतेनरः ॥ २६ ॥ गुरवः श्रेष्ठास्तापसा यस्मिन्वने तत्र गतेन गमनेन किम् । न किमपि । मधुद्विषो हरेः सेवने मतिं कुरु। हि यतः कंसवंशवधकृनतेः कंसान्वयनाशकस्य हरेनतेनमस्का- राद्धेतोर्नरः कं सवं यज्ञमात्मसादात्माधीनं न कुरुते । सकलयज्ञफलं प्राप्नोतीत्यर्थः । हरिनत्यैवाश्वमेधादिफलप्राप्तेः किं वनगमनेनेत्यर्थः॥ अस्ति कामविषयेऽथवा मतिस्तत्परोऽयमुपदेश उच्यते । पद्मनाभपरिचर्यया परं तं निशम्य हृदये स्थिरं कुरु ॥ २७ ॥ अथवा ते कामविषये मतिरस्ति तर्हि तत्परः कामविषयोऽयमुपदेशः कथ्यते । तमु- पदेशं परमुत्कृष्टं मोक्षविषयं निशम्य श्रुत्वा वेदान्तश्रवणेनावधार्य पद्मनाभपरिचर्यया हरिसेवया हृदये स्थिरं कुरु । मोक्षातिरिकं कामं मा कार्षीरित्यर्थः ।। केवलं कलय नन्दनन्दनं नन्द नन्दनगतश्चिराय च । सेवितो विबुधवल्लभाजनैर्भाजनैः सपदि सर्वसंपदाम् ॥ २८ ॥ केवलं नन्दनन्दनं हरिं कलय ध्यायख। प्रामुहीत्यर्थः । 'कल संख्याने गतौ च' इति धातुरदन्तश्चुरादिः । ततः सर्वसंपदा भाजनैः पात्रभूतैर्विबुधवल्लभाजनैर्देवस्त्रीसमूहरुर्व- श्यादिभिः सेवितो नन्दने. देवोद्याने गतः प्राप्तश्चिराय नन्द क्रीड । ३ ..
काव्यमाला । चक्रपाणिचरणार्चनादरो ना दरोज्झितमना यमादपि । विष्टपे भवति दुष्टशासिता भासिताखिलदिगन्तरः श्रिया ॥ २९ ॥ चक्रपाणिचरणार्चने हरिपादपूजने आदरो यस्य स ना पुमानीदृशो भवति । विशेषणैः सेवनफलमाह-यमादपि दरेण त्रासेनोज्झितं त्यक्तं मनो यस्य । विष्टपे लोके दुष्टानां शासिता नियन्ता। तथा श्रिया भासितान्यखिलानि दिगन्तराणि येन । जगद्यापिकीर्ति- भवतीत्यर्थः ॥ वासरे मधुरिपोरुपोषिताः कामिनो दिवि वसन्ति भूषिताः । उर्वशीप्रमुखदेवयोषितामालिभिर्ललितभावतोषिताः ॥ ३० ॥ मधुरिपोर्वासरे एकादश्यामुपोषिता उपवासवन्तः कामिनः सकामा नरा भूषिता भूषणालंकृताः सन्तो दिवि स्वर्गे वसन्ति उर्वश्यादिस्वर्गनारीणां पतिभिर्मनोहरैर्भावैविला- मस्तोषिता हर्षिताश्च भवन्ति । जाग्रतो हरिपदाम्बुजाग्रतो यस्य याति सकला विभावरी । तत्कलेवरविभा वरीयसी खः सदैव रविभावदुल्लसेत् ॥ ३१ ॥ हरिचरणाने जाग्रतो निद्रामकुर्वतो यस्य पुंसः सकला विभावरी रात्रिर्याति तस्य कले. वरभा वरीयसी श्रेष्ठा स्वः खर्गे सदैव रविभावत्सूर्यकान्तिवदुल्लसेच्छोभते ॥ रामनामभणितिं सुधाविधां मा मनागपि मुखाम्बुज त्यज । यामनातवति प्रतीयते कामना नरि न दूरदूषणा ॥ ३२ ॥ सुधाविधाममृततुल्यां रामनामभणिति हरिनामोक्तिं मुखकमलान्मनाक् स्तोकमपि मा यज । शश्वद्धरिनामानि जपेत्यर्थः । यां रामनामोक्तिमनादृतवत्यसेवमाने नरि पुंसि दूरदूषणा दूरे दूषणं यस्यास्तादृशी दूषणहीना कामनाभिलाषो न प्रतीयते । हर्यभक्तस्या- भीष्टालाभात् ॥ यादृशेन मनसा जनार्दनं सेवते सकलदेवतातनुम् । तादृशं फलमुपैति मानवः स्वर्गसौख्यमथ मुक्तिमुत्तमाम् ॥ ३३ ॥ मानवो नरः सर्वदेवखरूपं हरिं यादृशेन सकामनिष्कामेन मनसा सेवते तादृशं फलं स्वर्गसौख्यमुत्तमा मुक्ति चोपैति । निष्कामसकामभेदेन ॥ मानसं यदि करोषि रामसात्कामसाध्यतमसंपदं ततः । मन्यसे यदुपचारचातुरी धातुरीड्यतरतां न कं नयेत् ॥ ३४ ॥ यदि मानसं चित्तं रामसाद्रामाधीनं करोषि ततस्तर्हि कामसाध्यसंपदं मन्यसे । तदा सर्वापि संपत्साध्यैव । यदुपचारचातुरी यस्य हरेः सेवनचातुर्य के नरं : धातुब्रह्मणोऽपी- ज्यतरतां स्तुत्यतमत्वं न नयेत् । हरिसेवी धातुस्पीड्यो भवतीत्यर्थः ।.
२ स्तबकः] विष्णुभक्तिकल्पलता। क्लेशमूलमखिलं वसुप्रजापौरुषादि सुलभं शरीरिणाम् । दुर्लभा जगति मुक्तिकारणं रामचन्द्रचरणार्चने रतिः ॥ ३५ ॥ क्लेशानां रागादीनां मूलं कारणं वसुप्रजापौरुषादि धनसंतानपराक्रमादि सकलं शरी- रिणां सुलभं परंतु जगति भूतले मुक्तेः कारणभूता हरिपादपूजाप्रीतिर्दुर्लभा ॥ विष्णुभक्तिजितवासनाशया नाशया तरलयन्ति मानसम् । मालतीमधुनि लब्धकेलयः केलयः कुरबकेषु सस्पृहाः ॥ ३६ ॥ हरिभक्त्या जिता नाशिता वासना दुष्टप्रीतयो यस्मादीदृश आशयश्चित्तं येषां तादृशा नरा आशया तृष्णया मानसं न तरलयन्ति चञ्चलं न कुर्वन्ति । तत्र दृष्टान्तः-मालती- कुसुमरसे लब्धा केलिः क्रीडा येस्तादृशाः के अलयो भ्रमराः कुरबकेषु करीरेषु सस्पृहाः सतृष्णा भवन्ति । न केऽपीत्यर्थः ॥ तावका क्यमनन्त शावका नावकाशमिह किं निरीक्षितुम् । तद्ददासि बत बालवत्सलो विश्वबीज जनको न को भवेत् ॥ ३७॥ हे अनन्त, यदि वयं तावकास्त्वत्संबन्धिनः शावकाः शिशवः । 'पृथुकः शावकः शिशुः' इत्यमरः । तत्तर्हि इह संसारे निरीक्षितुमस्मान्द्रष्टुभवकाशं किं न ददासि । कुत्रापि समयेऽस्मानवलोकयेत्यर्थः । बतेति हर्षे । हे विश्वबीज जगत्कारण, को जनकः पिता बालवत्सलो बालप्रियो न भवेत् । पिता पुत्रप्रियो भवेदेवेत्यर्थः । भक्तिरस्ति यदि कृष्ण तावकी तत्किमेति भवसंभवं भयम् । अन्धकारगरिमा करोति किं भास्करे नयनमार्गमागते ॥ ३८ ॥ हे कृष्ण, यदि तावकी भक्तिरस्ति तत्तर्हि भवसंभवं संसारोत्थं भयं किमति प्राप्नोति । न प्राप्नोतीत्यर्थः । तत्र दृष्टान्तः--भास्करे रवौ नयनमार्गमागते चक्षुर्विषयमागते सत्यन्धकारगरिमा तमोबाहुल्यं किं करोति । न किमपीत्यर्थः ॥ श्रीनृसिंह तव पादयोर्द्वयं नित्यमत्ययभयादयादयम् । मन्मनोणुरणुभिर्विना भयं रंरमीतु सुरसिन्धुसंभवैः ॥ ३९ ॥ हे श्रीनृसिंह, अयं मन्मन एवाणुः परमाणुरत्ययभयान्मृत्युभीतेर्हेतोस्तव पादद्वयं नित्य- मयात् सर्वदा प्राप्तः । अतः सुरसिन्धुसंभवैः पदद्वयगतगङ्गोद्भवैरणुभिर्जलबिन्दुभिः सह भयं विना मृत्युभयं विहाय ररमीतु अत्यन्तं रमताम् । रमतेर्यङ्लुकि लोटि रूपम् ।। इन्द्रियं विषयसाधनप्रियं विग्रहः सपदि दत्तनिग्रहः । मानसं मिषति का न संपदः केवलं तु मम ते बलं हरे ॥ ४०॥ हे हरे, ममेन्द्रियं चक्षुरादि विषयाणां साधनं संपादनं प्रियं यस्येदृशम् । विग्रहः शरीरं २० काव्यमाला। दत्तो निग्रहः पराजयो येन तादृशः । मानसं काः संपदो न मिषति स्पृयति । सर्वा अ- पीत्यर्थः । एवमिन्द्रियदेहमनःसु मां पराभवत्सु मम केवलं ते तव बलम् । त्वं रक्षक इत्यर्थः।। रामचन्द्र तव भक्तियोगतो यो गतो जनिभृतामपि क्षणः । तेन तन्नरकसंघसाध्वसं साध्वसंभवमशेषतो व्रजेत् ॥ ४१ ॥ हे रामचन्द्र, जनिभृतां प्राणिनां तव भक्तियोगाद्यः क्षणः कालो गतस्तेन नरकसमू- हाज्जातं साध्वसं भयमशेषतः समग्रं साधु यथा तथा असंभवं नाशं व्रजेत् । क्षणमात्र- कृतया तव भक्त्या यदि पापनाशस्तहि जन्मावधि कृतया किमु वक्तव्यमित्यर्थः ॥ पद्मनाभ तव पादपद्मयोः पद्मयोनिरुपचारचातुरीम् । शीलयन्भुवनकर्तृतामगात्तामगाधमहिमश्रियं च सः ॥ ४२ ॥ हे पद्मनाभ, पद्मयोनिर्ब्रह्मा तवाभिकमलयोः सेवनचातुर्यमभ्यसन् लोककर्तृत्वं प्राप । तां प्रसिद्धामगाधो महिमा कीर्तिर्यस्यास्तादृशीं श्रियं च सोऽगादिति संवन्धः ॥ रामचन्द्र तव पादसेवया देव याति न किमीहितं नरः । तन्न रक्षसि कथं दयानिधे तानि धेहि चरितानि ते मयि ॥ ४३ ॥ हे रामचन्द्र हे देव, तव पादसेवया चरणकमलसेवया नरः किमीहितं कममिलाषं न याति न प्राप्नोति । सर्वामिलाषदायिनी तव भक्तिरित्यर्थः । हे दयानिधे, तत्तर्हि कथं न रक्षसि । मामिति शेषः । तानि प्रसिद्धानि ते तव चरितानि गोवर्धनोद्धरणादीनि मयि धेहि धारय । तव चरितविस्मरणं मास्त्वित्यर्थः ॥ चन्द्रदीधितिचयान्प्रभावतो भावतोऽपि हि जयन्ति याः प्रभो । कीर्तयो हृदि लसन्तु मे घना मेघनादवधबन्धुरास्तव ॥ ४४ ॥ हे प्रभो, मेघनादो रावणात्मजस्तस्य वधेन वन्धुरा मनोहरा घना निबिडास्तव ताः कीर्तयो मे मम हृदि लसन्तु स्फुरन्तु । ताः काः । याः प्रभावतः प्रभावेण महिन्ना भावतः कान्तिमतश्चन्द्रदीधितिचयान् शशिरश्मिसमूहान् जयन्ति । ततोऽप्युज्वलाः॥ ये भजन्ति तव पादपङ्कजं पङ्कजं न भयमामुवन्ति ते । यस्य पादकमलार्चनेहया नेह याति भवितां जनः पुनः ॥ ४५ ॥ हे हरे, ये तव पादपङ्कजं भजन्ति ते पङ्कजं पापजातं भयं न प्राप्नुवन्ति । यस्य पाद- पद्मपूजालक्षणया ईहया चेष्टया जनः पुनरिह लोके भवितां जन्मवत्त्वं न याति न प्राप्नोति ।। पीतचीवरधरं रमापति नीलनीरजदलोपमद्युतिम् । मालया तुलसिमञ्जरीभुवा भूषितं भुवनभूषणं भजे ॥ ४६ ॥ पीतं चीवरमंशुकं धरति तं रमायाः कान्तं नीलं यन्नीरजदलं पद्मपत्रं तत्तुल्या द्युति- २ स्तबकः] विष्णुभक्तिकल्पलता। २१ चस्य तं श्यामं तुलसिमञ्जरीजातया मालया भूषितं लोकाभरणं हरिं भजे । तुलस्या नजरीति समासेऽपि इकारौ स्त्रीकृतौ ह्रखौ क्वचित् इति हखः ॥ मन्महे किमपि मन्महेशितुर्धाम नित्यरमणीयमव्ययम् । यद्विदन्ति नहि सूरयो जना वेदवाचि कृतयुक्तियोजनाः ॥ ४७॥ नित्यं रमणीयं सुन्दरमव्ययमपक्षयशून्यं किमपि लोकोत्तरं नहेशितुर्हरेस्तद्धाम खरूपं वयं मन्महे चिन्तयामः । वेदवाचि वेदवाण्यां कृता युक्त्या योजना यस्ते । वेदार्थज्ञा अपि सूरयो बुधा यद्धाम न विदन्ति न जानन्ति ॥ रागिणां सुरतरङ्गिणीक्षणात्स्वर्वधूसुरतरङ्गिणी तनुः । अस्तु किं पुनरियं विरागिणां देहमात्रमपि यन्न सासहिः ।। ४८ ॥ रागिणां सकामानां तनुः शरीरं सुरतरङ्गिणीक्षणाद्गङ्गादर्शनात्स्वर्वधूसुरतरङ्गिणी अप्स- रोमैथुनरागवती अस्तु । सकामानां गङ्गादर्शनात्वर्गाप्तिर्भवतु नाम । इयं गङ्गा पुनर्वि- रागिणां निष्कामानां देहमात्रमपि यन्न सासहिः न सहते तन्किम् । सकामानां स्वर्ग ददातु निष्कामानां देहमपि कथं न सहते । तेभ्यो मुक्तिं ददातीत्यर्थः॥ ईदृशं निजरसान्निरन्तरं कुर्वती हसितवारिजानना । गर्जति त्रिभुवने निरर्गलं तत्फलं हरिपदाश्रयादलम् ॥ ४९ ।। निजरसात्वरागानिरन्तरमीदृशं पूर्वश्लोकोक्तं सकामनिष्कामेम्यो द्युभोगमुक्तिरूपं फलदानं कुर्वती हसितवारिजानना विकसितकमलमेव मुखं यस्या ईदृशी त्रिभुवने निरर्गलं गर्जति तदुभयविधं फलं हरिपदाश्रयादलं समर्थम् । हरिचरणोत्पन्नखादेवेशं सामर्थ्यमित्यर्थः ॥ या मुकुन्दपदपङ्कजालया लीलया हरति सर्वपातकम् । दूषणानि तव हन्तु सा धुनी साधुनीरजविराजितोदका ॥ ५० ॥ या हरिपदपद्मालया सती लीलया सर्वपातकं हरति साधूनि नीरजानि पद्मानि तैर्भू- षितजला सा धुनी नदी गङ्गा तव दूषणानि पापानि हन्तु नाशयतु । राजन्यव्याजराजदितिदनुतनुजोदामदोर्दण्डदर्प- प्राग्भारस्फारकृत्येतरभरतरले भूतलेऽम्भोजजन्मा । अस्तौषीदस्तदोषस्तवनिवहमहोत्साहवत्या गिरा यं तं षड्भ्यो दर्शनेभ्यः कमपि समधिकं चेतसाराधयामः ॥ ५१ ।। इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां रागिविरागिफलविवेको नाम द्वितीयः स्तबकः ।
२२
काव्यमाला।
राजन्यानां नृपाणां व्याजेन मिषेण राजन्तो ये दितिदनुतनुजा दैत्या दानवाश्च तेषा-
नुद्दामा उत्कटा ये दोर्दण्डाभुजास्तेषां दर्पप्राग्भारेण गर्वोत्कर्षण स्फारं महत् यत्कृत्येतर-
दकृत्यं तस्य भरोऽतिशयस्तेन तरले चञ्चले भूतले अम्भोजजन्मा ब्रह्मा अस्तदोषो दो-
परहितो यः स्तवनिवहः स्तुतिसमूहः स एव महोत्साहो यस्यां तया गिरा यमस्तोषीत्
तुष्टाव षड्भ्यो दर्शनेभ्यो मीमांसादिभ्यः समधिकं सर्वोत्कृष्टं तं कमपि ब्रह्मस्वरूपं चेतमा
आराधयामः । स्रग्धरा छन्दः ॥
इति श्रीमहीधरविरचिते विष्णुभक्तिकल्पलताविवरणे रागिविरागिफलविवेको नान
द्वितीयः स्तवकः।
.
तृतीयः स्तवकः ।
षष्ठी मङ्गलवारदास्ति हृदये येषां व्यतीपाततो
न त्रासः श्रवणेऽपि विष्टिरनिशं तेषां न वा तद्गरम् ।
अन्ये तु व्यतिपातविष्टिविवशा दर्शन्दुदीनानना
दृश्यन्ते भरणीशभृत्यभयतो भीता भुवो मण्डले ॥ १॥
'तिथिौर्याः स्मृता षष्टी' इति कोषात् 'षष्ठी तु षण्णां पूरण्यां कात्यायन्यानपी-
चते' इति विश्वोक्तेः षष्ठी गौरी मङ्गलवारदा मङ्गलसमूहदात्री । 'समूहनिकरबात-
वारसंघातसंचयाः' इत्यमरः। सा येषां हृदयेऽस्ति तेषां गौरीस्मरणलीनानां व्यतीपाता-
दुत्पाताबासो न भवति । 'व्यतीपातो महोत्पाते योगभेदावपातयोः' इति विश्वोक्तेः ।
तथा तेषां श्रवणे कर्णेऽप्यनिशं निरन्तरं विष्टिन द्रविणमन्तरेण परकर्मकारित्वं न। 'विष्टिः
कर्मकरे भद्रे प्रेषणे चेतनेऽपि च' इति विश्वः। न वा तेषां गरं विषम् । विषकृतपरा-
भवोऽपि नास्ति । व्याधिर्वा नास्ति । 'गरो व्याधावुपविषे विषे च करणे गरम्' इति
विश्वः । अन्ये गौर्या अभक्तास्तु व्यतिपातविष्टिभ्यां महोत्पातपरसेवकवाभ्यां व्याकुलाः
सन्तो दर्शन्दुदीनानना अमावास्याचन्द्रतुल्यवदना भरणीशो भरणीनक्षत्रखामी यमस्तस्य
भृत्या यमदूतास्तेभ्यो यद्भयं ततो भीता भुवो मण्डले दृश्यन्ते । शार्दूलविक्रीडितं छन्दः ।
'सूर्याश्वैर्मसजास्तथा सगुरवः शार्दूलविक्रीडितम्' इति लक्षणात् ॥
अनुजनुः क नु मानुषयोनिषु भ्रमसि जिह्म हितं महितं शृणु ।
श्रय जगत्रितयप्रियमच्युतं विमलमङ्गलमङ्गलसच्छ्रियम् ॥ २ ॥
हे जिह्म, अनुजनुः प्रतिजन्म मानुषयोनिषु क भ्रमसि कुतो भ्रमणं करोषि । महितं
यूजितं हितं वाक्यं शृणु जगत्रितयप्रियं त्रैलोक्यवल्लभं निर्मलमङ्गलयुतं अङ्गे लसन्ती
शोभमाना श्रीर्यस्य तमच्युतं हरिं श्रय सेवख । द्रुतविलम्बितं छन्दः ॥
अलस मानस मानसमा न ते वचन केऽपि विरोधविधायिनः ।
जड यदीयसमागमसंभवावतरहेतुरहो तव कर्तृता ॥ ३ ॥
३ स्तबकः] विष्णुभक्तिकल्पलता। २३ . : हे अलस आलस्ययुक्त, हे मानस चित्त, ते तव मानसमा अभिमानतुल्याः केऽपि वि- रोधविधायिनः शत्रवः क्वचन कापि न सन्ति । हे जड मूर्ख, यदीयसमागमसंभवा अभिमानसङ्गाज्जाता अनेकावतारकारणभूता तव कर्तृता कर्तृलम् । वास्तवं कर्तृत्वं तव नास्ति आभिमानिकमेवेत्यर्थः ॥ यदि नरा दिनरात्रिषु केशवे जपरताः परतापनिवारिणि । अपि न मोहतमोहतचेतसस्तदपि कष्टकथापि कुतो भवेत् ॥ ४ ॥ नरा यदि दिनरात्रिष्वहोरात्रं परतापनिवारिणि आध्यात्मिकादिनिवर्तके केशवे जप- रताः स्युस्तदपि तदा मोहतमसा अविवेकान्धकारेण हतं चेतो येशमीशा न भवन्ति नहि कष्टकथा दुःखवातापि कुतो भवेत् । न भवेदेवेत्यर्थः ॥ पिब मुकुन्दकथा भवतोऽन्यथा भवपथाघटिता विविधव्यथाः । क इव वारयिता दयिताद्युपद्रवजवप्रचुरोपचयस्थिराः ॥ ५ ॥ हे जन्तो, मुकुन्दकथाः पिव आदरेण शृणु । अन्यथा हरिकथापानमन्तरेण दयिता- दीनां कलत्रपुत्रगृह वित्तपश्वादीनां य उपद्रवजवः पराभववेगस्तस्य प्रचुरोऽधिको य उप- चयो वृद्धिस्तेन स्थिराः यावजीवानुवर्तिनीः भवपथे संसारमार्गे आ समन्तात् घटिता रचिता भवतस्तव विविधव्यथा नानापीडाः क इव वारयिता । न कोऽपि निवारक इत्यर्थः ॥ हृदयतोयजतो यज तोषितं भृशमनन्तमनन्तरया श्रिया । किमितरैभितरैर्विमुखैर्मनिखिलदोषदृशेक्षितुमीहितैः ॥ ६॥ अनन्तरया निकटवर्तिन्या श्रिया भृशमत्यन्तं तोषितं सेवितमनन्तं हरि हृदयतोय- जतो हृत्कमले । सार्वविभक्तिकस्तसिल् । यज पूजय । मितं खल्पं रान्ति ददति ते मितरास्तैरल्पखादिफलदैरत एव हरेर्विमुखैर्निखिला ये दोषास्तपां दृष्टया इक्षितु- सवलोकथितुमीहितैः सदोषैरितरैर्हरिभजनादन्यैमखैयॊतिष्टोमादिमिः किम् । न कि- मपीत्यर्थः ॥ चरणतामरसं मुरवैरिणः सर चिरं रुचिरं रुचिरङ्ग चेत् । भवति तोयनिधिं तव जन्मवन्न सुतरं तरितुं त्वरितुं भवम् ॥ ७ ॥ अङ्गेति संबुद्धौ । हे जन्मवन् जन्तो, चेद्यदि असुतरं सुखेन तरितुमशक्यं भवं तोय- निधि संसाराब्धि सरितं तूर्ण तरितुममिक्रमितुं तव रुचिर्भवति तर्हि रुचिरं कान्तं मु- रवैरिणो हरेश्वरणतामरसं पदपनं चिरं स्मर ॥ मनसिकृत्य कृतार्थय जीवितं त्वमधुना मधुनाशनमादरात् । भवति धर्मविधौ न पटीयसी दशमिता शमिता तनुरङ्गिताम् ॥ ८॥ अधुनैव मधुनाशनं हरिं आदरान्मनसिकृत्य विषयान्तरपरित्यागेन संचित्य जीवितं २४ काव्यमाला। कृतार्थय । 'कणेमनसी श्रद्धाप्रतीघाते' इति गतिसंज्ञेन मनसिशब्देन समासे सति 'समा- सेऽनपूर्वे क्वो ल्यप्' इति त्वाप्रत्ययस्य ल्यबादेशः । अधुनेति कथमत्याग्रह इत्याह- दशमोऽवस्थाविशेषोऽस्यास्तीति दशमी वृद्धः । 'वर्षीयान्दशमी ज्यायान्' इत्यमरः । तस्य भावो दशमिता तया शमिता जराजर्जरिता अङ्गिनां देहिनां तनुः शरीरं धर्म- विधौ धर्मानुष्टाने पटीयसी पटुतरा समर्था न भवति । वार्द्धके हरिभजनाशक्तेरिदानीमेव हरिं भजेत्यर्थः ॥ निजनिजव्यवहारविधिक्षमो भवति यावदयं खचयस्तव । हरिपदप्रणतौ क्रियतां त्वरा तव पुरा वपुराश्रयते जरा ॥ ९ ॥ 'खमिन्द्रिये सुखे स्वर्गे शून्ये बिन्दौ विहायसि' इति, 'चयः समूहे प्राकारमूलवन्धे समाहृतो' इति च विश्वोक्तेः खाना मिन्द्रियाणां चयः समूहोऽयं श्रोत्रादिस्तव तावको यावन्निजनिजव्यवहारविधौ श्रवणस्पर्शनादिकर्तव्ये क्षमः शक्तो भवति तावद्धरिपदप्रणतो नारायणचरणनमस्कारे खरा वेगः क्रियताम् । यतो जरा तव वपुः पुरा आश्रयते आ- श्रयिष्यते 'यावत्पुरानिपातयोलट्' इति लुडथै लट् । वार्द्धके जराग्रस्तन्द्रियाणामसामर्थ्य हरिभजनाशक्तेरिदानी भजेत्यर्थः ।। अभिमतं लभते तपसा जनस्तदपि सौख्यकरं न भवेत्पुनः । इदमनित्यमिति व्यथते मनस्तदुचितं हरिसेवनमेव नः ॥ १० ॥ जनस्तपसा यद्यप्यभीष्टं प्राप्नोति तदपि पुनः मुखकारि न भवेत् । यतोऽनित्यमिद- मिति मनो व्यथते व्याकुलीभवति । तत्तस्मानोऽस्माकं हरिसेवनमेवोचितं योग्यं नित्य- खादित्यर्थः॥ दनुजतर्जनतो जनतोषकृद्धनसमानवपुर्नवपुष्टिभूः । वसतु हृत्कमले कमलेश्वरश्चिरमयं रमयन्मम मानसम् ॥ ११ ।। दनुजानां दानवानां तर्जनेन तिरस्कारेण जनानां संतोषकारी मेघश्यामो नवाया नू- तनायाः पुष्टेः पोषणस्य भूः स्थानम् । जगत्पोषणकृदित्यर्थः । कमलेश्वरो रमापतिरयं ह- रिश्चिरं मम मानसं रमयन्नानन्दयन्मे हृत्कमले वसतु ॥ अतिभयंकरसंसृतिसागरे रतिपतिप्रमुखैः कलितं झषैः । त्वमव माधव मां तुलसीदलैर्ललितमाल तमालदलद्युते ॥ १२ ॥ हे तुलसीदलैः कृत्वा ललितमाल मनोहरमालायुक्त, हे तमालपत्रश्याम, हे माधव, अत्यन्तं भयंकरे संसारसमुद्रे रतिपतिप्रमुखैः कामक्रोधाद्यैर्मत्स्यैः कलितं भक्षितं मां लमव रक्ष ॥ तव दृगन्तसुधालहरी मयि त्रिविधतापवति क्षणमापतेत् । नरहरे बहवोऽपि यदुद्धृताः शुभवता भवता भवतापिताः ॥ १३ ।।
३ स्तबकः ] विष्णुभक्तिकल्पलता। २५ हे नरहरे, त्रिविधतापवति आध्यात्मिकाधिभौतिकाधिदैवतदुःखयुक्ते मयि तव दृ- गन्तः कटाक्ष एव सुधालहरी अमृतोर्मिः क्षणमापतेदापततु । “विधिनिमन्त्रणामन्त्रणा- धीष्टसंप्रश्नप्रार्थनेषु लिङ्' । इति प्रार्थने लिङ् । यद्यतः शुभवता कल्याणयुक्तेन भवता खया भवतापिताः संसारदुःखपीडिता बहवोऽप्युद्धृताः ॥ विविधपातकजातकदर्थनाकुलितजन्तुशरण्यशिरोमणे । मम मनो विदधातु पदाम्बुजात्तव रमावर मा वरमाश्रयम् ॥ १४ ॥ नानाविधं यत्पातकजातं पापौघस्तेन या कदर्थना दुःखं तया आकुलिताः पीडिता ये जन्तवस्तेषां शरण्याः शरणे साधवो रक्षकास्तेषां शिरोमणे मुकुटभूत हे रमावर ल. क्ष्मीपते, मम मनसस्तव पदाम्बुजादवरमन्यमाश्रयं मा विदधातु मा कुरुताम् । मन्मन- स्वत्पदाम्बुज एव तिष्ठत्वित्यर्थः ॥ सततसंसरणाध्वनि धावतो भवतु मे भवदशिषु विश्रमः । प्रकटयन्खमपाकुरु मे तमः कपटवामन वा मनसि क्षणम् ॥ १५ ॥ नित्यं संसारमार्गे गच्छतो मे बच्चरणे विश्रान्तिर्भवतु । हे कपटवामन मायाखर्व वमपि क्षणं क्षणमात्रं मे मनसि खरूपं प्रकाशयन् तमोऽज्ञानं नाशय ॥ अधिभवाटवि मन्मथवात्यया कलुषितात्मतया निजदिङ्मुखम् । अज न वेनि तदत्र दयां कुरु भ्रमति मे मतिमेदुर मानसम् ॥१६॥ हे अज हे हरे, अधिभवाटवि संसारवने मन्मथ एव वाल्या वातस्य मण्डली तया कामरूपिण्या वात्यया कलुषित आत्मा चित्तं यस्य तस्य भावस्तत्ता तया कामव्याकुल- त्वेन निजदिङ्मुखं वदीयदिशोमुखं न वेद्मि यस्यां दिशि वमसि तां न जानामि । त- त्तस्मादत्र मयि दयां कुरु । हे मतिमेदुर, मत्या मेदुरो व्याप्तः । हे बहुवुद्धे, मे मानसं भ्रमति चित्तभ्रामकमज्ञानं निवर्त्य वत्स्वरूपं दर्शयेत्यर्थः ।। विविधदानवराजिविराजितोर्जितदिगन्तचरिष्णुयशोजनिः । तव करोतु करोऽतुलविक्रमोऽतिसुख (ष)मः सुखमच्युत सर्वदा ॥ ७॥ विविधा या दानवराजिदैत्यश्रेणिस्तया विराजिताः शोभिता अत एवोर्जिता उत्कृष्टा ये दिगन्ता दिक्प्रदेशास्तत्र चरिष्णु गमनशीलं यद्यशो दैत्यमारणोत्था कीर्तिस्तस्या ज- निरुत्पत्तिर्यस्मादीदृशः अत एवातुलविक्रमोऽनुपमपराक्रमोऽतिसुषमोऽत्यन्तं शोभमानः । 'सुषमा परमा शोभा' । हे अच्युत, ईशस्तव करो हस्तः सर्वदा मुखं करोतु ॥ ध्रुवमयुर्लयमप्यभियातयो महसि ते ह सितेतरतेजसि । तदपराधपरा धरणीभरोद्धर नराः किमु ते स्मरणे रताः ॥ १८ ॥ हे धरणीभरोद्धर धरण्याः पृथ्व्या भरमुद्धरतीति पृथ्वीभारहर, अपरापरा आगस्कृ- २६ काव्यमाला। तोऽभियातयः शत्रवः शिशुपालादयोऽपि । 'अभियातिपराराति-' इत्यमरः । ह स्फुटं सितेतरतेजसि श्यामसुन्दरे ते तव महसि स्वरूपे ध्रुवं लयमयुः प्रापुर्लीनाः । तर्हि ते तव स्मरणे रता नरास्त्वयि लीयन्ते तत्र किमु वक्तव्यमित्यर्थः ॥ पतति पन्नगराजधृता धरा तिमिरमेति गतिं रविमण्डले । तदपि कृष्ण कदापि भवत्पदार्चनपरे न परेतपतेर्दरः ॥ १९ ॥ पन्नगराजेन शेषेण धृतापि धरा भूः पतति । रविमण्डलेऽपि तिमिरं तमो गतिमेति । सूर्योऽपि नश्यतीत्यर्थः । हे कृष्ण, तदपि प्रलयकालेऽपि भवत्पदार्चनपरे खत्पूजके नरे कदापि परेतपतेर्यमस्य दरस्त्रासो न । प्रलयेऽपि वद्भक्ता न नश्यन्तीत्यर्थः । 'परामुप्रा- प्तपञ्चलपरेतप्रेतसंज्ञकाः (संस्थिताः)' इत्यमरः । परेतानां मृतानां पतिर्यमः ॥ न भवतो भवतोयनिधौ नृणां शरणमस्ति परं प्रणिमज्जताम् । जलजनेत्र जनेऽत्र दधद्दयां भवभयादव यादव तेन माम् ॥ २० ॥ हे जलजनेत्र पुण्डरीकाक्ष, भवतोयनिधौ संसाराब्धौ प्रणिमजतां नृणां भवतस्वत्तः परमन्यच्छरणं नास्ति । हे यादव, तेन कारणेन वदन्यशरणाभावलक्षणेनात्र मयि जने दयां दधद्धारयन्भवभयात्संसारभीतेामव रक्ष ॥ वसतिरेव सती वसतीश्वरो हृदि निरामय राम यदा भवान् । जनमनोहर नोऽहरपि क्षपा न रमसेऽरमसेचनकेऽत्र चेत् ॥ २१ ॥ हे निरामय निर्दोष हे राम, यदा ईश्वरः समर्थों भवान् हृदि चित्ते वसति तदा वस- तिरेव रात्रिरपि सती समीचीना । 'वसती रात्रि वेश्मनोः' । हे जनमनोहर लोकानन्द- दायिन् , अरमत्यर्थ असेचनके अतृप्तिमति । दुःखदायिनीति यावत् । 'तदासेचनकं तृप्ते- नास्त्यन्तो यस्य दर्शनात्' इत्यमरः । अत्र चित्ते चेत्त्वं न रमसे तर्हि तदा नोऽस्माकमह- रपि दिवसोऽपि क्षपा रात्रितुल्यः । वयि चित्तागते सर्वदा प्रकाशोऽन्यथा तिमिरमित्यर्थः ।। मम मनश्चरितार्थयतु क्षणं तव सुसंहननं हननं भियाम् । अमरशेखर शेषरमाप्रियं सजलतोयदतो यदतिद्युति ॥ २२ ॥ हे अमरशेखर सुरमुकुटभूत, यत्सजलतोयदतः सनीरमेघादतिद्युति अधिककान्ति- युक्तं शेषरमाप्रियं नागेन्द्रलक्ष्म्योवश्लभं मियां भयानां हननं नाशकं तव मुटु संहननं शो- भनं शरीरं तन्मम मनः क्षणं चरितार्थयतु कृतार्थ करोतु । 'तनुस्तनूः संहननं शरीरम्' इति हलायुधः । क्षणं त्वां ध्याला कृती भवेयमिति भावः ॥ भवविडम्बनया रहितोऽनया क समये समयेष्टविपक्षयोः । तव रमेश रमे शरणं गतः प्रतिपदातिपदाश्रितया तव ॥ २३ ॥ हे रमेश श्रीपते, अनया भवविडम्बनया संसारदुःखेन रहितस्तवात्यन्तं पदाश्रितया प्रतिपदा चेतनया ज्ञानेन । 'प्रतिपज्ज्ञप्तिचेतनाः' । तव शरणं गतः सन् व समये कस्मि- ३ स्तबकः] विष्णुभक्तिकल्पलता। काले रमे क्रीडामि । किंभूतया प्रतिपदा । इष्टविपक्षयोर्मित्रामित्रयोः समया तुल्यया । -रागद्वेषहीनः कदा भवच्छरणं यामीत्यर्थः ॥ शमितसंसृतिसंतमसं महः श्रुतिगिरा रममाणमहो रहः । प्रकटयन्प्रकृतेः परमात्मनो मभ रमख रमावर मानसे ॥ २४ ॥ हे रमावर श्रीपते, शमितं नाशितं संमृतिः संसार एव संतमसं गाढं तमो येन तथा रहः श्रुतिगिरा वेदवाण्या सह रममाणं प्रकृतेर्मायायाः परं मायातीतमात्मनः स्वस्य मह- स्तेजो मम मानसे प्रकटयन्प्रकटं कुर्वन् रमख ॥ दिवि भवा विभवा विभवात्मनो वशमिताः शमितामितहृदुजः । प्रथमपुण्यचयव्ययहेतवस्तव तु भक्तिरचिन्त्यफलायतौ ॥ २५ ॥ हे विभो, दिविभवाः खर्गस्था विभवा भोगा आत्मनो वशमिताः प्राप्ताः शमिता अ. मिता बहवो हृद्रुज आधयो यैरीदृशा भवन्ति । परंतु प्रथमं पूर्व संचितो यः पुण्यचयः सुकृतौघस्तस्य व्यये नाशे हेतवः कारणभूताः । तु पुनस्तव भक्तिरायतावुत्तरकाले अचि- न्त्यफला बहुफलयुक्ता । तव भक्तिफलव्ययो नास्तीत्यर्थः ॥ अतिदयालु मनः कमनच्छविस्तनुरकण्टकराज्यमिलातले । तव परीष्टिलतादलतां गता गजवरा जवराजितविग्रहाः ॥ २६ ॥ अत्यन्तं दयायुक्तं मनः, कमना कमनीया छविः कान्तिर्यस्येदृशी तनुः शरीरम् , इलातले भूमण्डलेऽकण्टकं.रिपुहीनं राज्यम् । 'कण्टकः क्षुद्रवरिणि । वेणौ द्रुमाङ्गे रो- नाचे' इति कोषः। तथा जवेन वेगेन राजिताः शोभिता विग्रहाः शरीराणि येषामीशा गजवरा दन्तिश्रेष्ठा एते पदार्थास्तव परीष्टिलतायाः सेवालक्षणवल्ल्या दलतां पत्रभावं गताः । तव सेवया एते सहजेन भवन्तीत्यर्थः ॥ विदधतु ऋतुकोटिमहोत्सवाः कमलया मलयापनमीश्वराः । तव पदस्मृतिरेव पुनातु मां यदसि देव दयालुरकिंचने ॥ २७ ॥ क्रतुकोटय एव महोत्सवा येषां ते ईश्वरा धनिनः कमलया धनेन मलयापनं पाप- नाशनं विदधतु कुर्वन्तु । मां तु तव पदस्मृतिरेव पुनातु शोधयतु । यद्यस्मात् हे देव, अकिंचने निर्धने त्वं दयालुरसि ।। दहति दारुणदुःखपरम्परा सदय यादव या दववद्वपुः । प्रथमजन्मसु सम्यगुपार्जिता शमय तामयतात्मतया मया ॥ २८ ॥ अयतात्मतया अजितेन्द्रियत्वेन मया पूर्वजन्मसु सम्यगुपार्जिता या दारुणानां दुः- खानां परम्परा दववद्दावानलवद्वपुर्दहति । हे यादव यदुवंशरत्न, हे सदय दयालो, तां दुःखश्रेणीं शमय निवर्तय ॥
२८
काव्यमाला।
खरकुलं तरसा विनिपात्य तत्सतृणराजवनं जवनं मृधे ।
सुखयति स्म दयालुतया भवान्विजितधेनुक धेनुकदम्बकम् ॥ २९ ॥
हे विजितधेनुक विशेषेण जितः पराजितो धेनुको दानवो येन तादृश, तृणराजानां
तालानां वनेन सहितं मृधे युद्धे जवनं वेगवत् तत्प्रसिद्धं खरकुलं रासभदेहधारिदानवा-
न्वयं तरसा वेगेन निपात्य धेनुकदम्बकं गोसमूहं दयालुत्वेन भवान्सुखयति स्म सुख-
युक्तमकार्षीत् ॥
परवधूकिलकिञ्चितचिन्तया मलिनमीश मनः शमनः क्रुधः ।
न परिचिन्त्य बिभेति ततोऽव मां मदनतात नतातनुतोषकृत् ॥३०॥
परस्त्रीणां किलकिञ्चितं विलासस्तस्य स्मरणेन मलिनमपि मे मनः शमनक्रुधो यम-
क्रोधान्परिचिन्त्य न बिभेति । हे ईश, हे मदनतात कामपितः, हे नतातनुतोषकृत् प्र-
णतानां बह्वानन्दकारिन् ततो हेतोर्मामव रक्ष । त्वचरणलग्नं मच्चेतो यमं न ग-
णयतीत्यर्थः ॥
जननकोटिकृतं दुरितं नरस्तरति नामनि ते मनिते मनाक् ।
तदपि माधव मां किमुपेक्षसे भवदवे वद वेदनयानया ॥ ३१ ॥
हे माधव, नरस्तव नामानि मनाकू स्तोकमपि मनिते पूजिते ध्याते सति । 'मनअ-
चने' क्तान्तः । जननानां जन्मनां कोट्या कृतं दुरितं पापं तरति । तदपि भवदवे सं-
सारदावानले अनया वेदनया पीडया उपलक्षितं मां किमुपेक्षसे तद्वद । वाक्यार्थस्य
कर्मलम् । मदुपेक्षां हित्वा मां पालयेत्यर्थः । 'वेदना ज्ञानपीडयोः' ॥
निखिलविष्टपकष्टनिवारणं परशुरामवपुर्दधदेव यत् ।
पुनरभूद्रधुवंशविभूषणं जनहिते नहि ते शिथिलादरः ॥ ३२ ।।
हे हरे, निखिलानां विष्टपानां जगतां कष्टस्य निवारकं परशुरामस्य वपुर्दधदेव धा-
रयत्नेव यत्त्वं (भवान् ) पुना रघुवंशस्य विभूषणभूतो रामो दाशरथिरभूदेतद्युक्तमिति
शेषः । हि यतो जनानां हिते तव शिथिलादरो नास्ति ।
समममर्त्यवधूनिवहैर्मधौ कुसुमपूरितभूरितरूत्तरे ।
मम भवत्स्मृतिसौख्यशतांशदा न यदुनन्दन नन्दनकेलयः ॥ ३३ ॥
कुसुमैः पूरिता भूरयो बहवस्तरवो वृक्षा उत्तरा अधिका यस्मिन्नीदृशे मधौ वसन्ते
अमर्त्यवधूनां देवाङ्गनानां निवहैः समूहैः समं सह नन्दनवनकेलयो वासवोद्यानक्रीडा
हे यदुनन्दन हरे, भवस्मृत्या यत्सुखं तस्य शतांशदात्र्यो न भवन्ति ॥
मधुरवेणुरवेण विमोहितव्रजवधूजवधूतभवार्तयः ।
स्मरणमात्रमिताः शमयन्त्यघं तव न के वनकेलिमहोत्सवाः ॥ ३४ ॥
३ स्तबकः]
विष्णुभक्तिकल्पलता।
२९
मधुरो यो वेणुरवस्तेन विमोहिता या व्रजवध्वो गोप्यस्तासां जवेन तरसा धूता निव-
तिता भवार्तयः संसारव्याधयो यैरीदृशाः हे हरे, तव के वनकेलय एव महोत्सवाः स्मर-
गमान मिताः प्राप्ताः सन्तोऽघं पापं न शमयन्ति । अपि तु शमयन्त्येव ।।
मनसि तेजसि तेऽज सितद्युतिधुमणिवृन्दसमे हि समेयुषि ।
अपि सुधर्मतया मतया सतां किमु शचीशतया शतयागतः ॥ ३५ ॥
हे अज, सितद्युतयः श्वेता ये धुमणयो दिव्यरत्नानि तेषां वृन्दैः समूहैः समे तुल्ये
ते तव तेजसि मनसि समेयुषि समागते सति सतां मतया मान्यया सुधर्मतया शोभ-
नाचरणत्वेनापि किमु शतयागतोऽश्वमेधशतेन कृत्वा शचीशतया इन्द्रत्वेनापि किमु । न
किमपीत्यर्थः । यदि हरितेजो मनस्यायातं तदा सर्वे धर्माः कृता इत्यर्थः ॥
भवति यत्र भवैकभयापहं भवदनुस्मरणं समये क्वचित् ।
अखिलपर्वसु चारुकराङ्गुलीकलितपर्वत पर्व तदेव मे ॥ ३६ ॥
चारुभिः कराङ्गुलीभिः कलितो धृतः पर्वतो गोवर्धनो येन तत्संबुद्धौ हे हरे, अखिल-
पर्वसु सर्वेषूत्सवेषु मे मम तदेव पर्व उत्सवः तत्किम् । यत्र क्वचित्समये भवैकभयापहं
संसारसाधारणभीतिनिवर्तकं भवदनुस्मरणं भवति । वत्स्मृतिरेवोत्सव इत्यर्थः । 'पर्व
प्रस्तावोत्सवयोर्ग्रन्थौ विषुवदादिषु' इति कोषः ॥
अनरिचक्रकथाप्रथितार्थया वसुधया सुधयाप्यथ किं तया ।
हरिपदस्मृतिरेव हि केवला हृदि वसेदिवसे दिवसे यदि ॥ ३७ ॥
यदि दिवसे दिवसे प्रत्यहं हरिपदस्मृतिरेव केवला हृदि वसेत् तर्हि नास्ति अरिच-
क्रस्य रिपुसमूहस्य कथा यत्र । प्रथितो विपुलोऽर्थों धनं यत्र । ततः कर्मधारयः। तया च
वसुधया किम् । तथा तया प्रसिद्धया सुधया अमृतेनापि किम् । हरिस्मृतौ सत्यामिहा-
मुत्र भोगैः किमित्यर्थः ॥
अयि वराह वराहवनिर्जितेऽमितबले तव लेखकुलद्विषि ।
कनकचक्षुषि का स्तुतिरम्भसो धृतवतो धरणीमपि दंष्ट्रया ॥ ३८ ॥
अयीति संबोधने । हे वराह, अमितबले बहुशक्तौ लेखकुलस्य देवसमूहस्य द्विषि
शत्रौ कनकचक्षुषि हिरण्याक्षे वराहवे श्रेष्ठयुद्धे निर्जिते सति अम्भसः प्रलयजलाइंष्ट्रया
धरणीमुद्धृतवतस्तव का स्तुतिः ॥
यतो ननं नैव प्रणमति परं कंचन शिरः
करौ कस्याप्यो न जगति युतो यत्र च युतौ ।
वपुः पन्नं नाधः पतति कृतिनां माधव पुन-
मुंदेऽनन्तायै नः प्रणतिरियमस्तु त्वयि कृता ॥ ३९ ॥
३० काव्यमाला। .. : हे माधव, यतस्त्वयि नम्र शिरः परमन्यं कंचन नरं न प्रणमति । यत्र खयि युता. वजलीकृतौ करो जगति कस्याप्यने न युतः न युक्तौ भवतः । 'यु मिश्रणे' लट् । यत्र लयि पन्नं पतितं वपुः कृतिनां पुण्यवतामधो नरके न पतति । तस्मिंस्त्वयि कृतेयं प्रण- तिर्नोऽस्माकमनन्तायै मुदे पूर्णसंतोषायास्तु ॥ स एवाहं पापी कृतदुरितकोटीपरिणति- प्रभूतापत्तापत्रयरयशयस्त्वच्छरणधीः । स एव त्वं सत्त्वं भजसि भजदाति शमयितुं गुणातीतं ब्रह्माच्युत वितर तस्मान्मयि दयाम् ॥ ४० ॥ कृता या दुरितकोटी पापौघस्तत्परिणतेः परिपाकात्प्रभूता उत्पन्ना यद्वा परिणति- भूता या आपत्कष्टं तापत्रयमाध्यात्मिकादि च तयो रये जवे शेते तथाविधः । अत एव बच्छरणधीस्वदेकशरणवुद्धिः पापी स एवाहम् । हे अच्युत, गुणातीतं ब्रह्म भज- तामाति पीडां शमयितुं सत्त्वं सत्त्वगुणेनावतारं रामकृष्णादिकं भजसि । तस्मान्मयि दयां वितर देहि ॥ अपीदं चेतो मे हरिचरितपीयूषलहरी- परीरम्भाभोगप्रसृमरमहानन्दसुभगम् । अपीयं जिह्वा मे नरकरिपुनामव्यसनिनी भवेदद्धा बद्धाञ्जलि शयसरोजद्वयमिदम् ॥ ४१ ॥ हरेश्चरितमेव पीयूषलहरी अमृतोर्मिस्तत्परीरम्भाभोगेनाखादाधिक्येन प्रस्मरः प्रसर- णशीलो यो महानन्दस्तेन सुभगं भाग्यवदिदं मे चेतो भवेद्भवतु । मे जिह्वापि नरक- रिपोर्हरेनीमव्यसनिनी नामोच्चारणपरास्तु । इदं शयसरोजद्वयं पाणिपद्मयुगलं अद्धा सा- क्षाद्वद्धाञ्जलि कृताञ्जलि भवेत् ॥ शिवः स वः सवभुवः पावनावनवद्धवः । अवत्ववभवत्पीवभावलावण्यविच्छवः ॥ ४२ ॥ इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां स्वाभिप्रायप्रकाशनो नाम तृतीयः स्तबकः। स शिवो वो युष्मानवतु । किंभूतान्वः । सबभुवः । 'घू प्रसवे' । 'ऋदो रपू' । सवं जन्म भवन्ते प्राप्नुवन्ति ते सवभुवः । 'भू प्राप्तौ' आत्मनेपदी । अस्मात्विप। शिवः की- दृशः। पावनं शुद्धिः, अवनं रक्षणं, ते विद्यते यत्र स पावनावनवान ईदृशो हवो यजनं यस्य । यस्य यजने शुद्धिः शत्रुभ्यो रक्षा च भवतीत्यर्थः । 'हवस्तु सप्ततन्तौ स्यानिदेशाद्वानयोरपि' इति कोषः। तथा अवभवतां (2) नम्रीभवतां पीवा स्थौल्यं यस्मात्सोऽवभवत्पीवा यं नमतां
३ स्तबकः]
विष्णुभक्तिकल्पलता।
३१
महत्त्वं भवतीत्यर्थः । भावस्याभिप्रायस्य लावण्यं सौन्दर्य विद्यते येषां ते भावलावण्यवन्तः
शुद्धाभिप्रायास्तेभ्यः शं सुखं वाति ददाति गमयति वा स तथा । ततः कर्मधारयः॥
इति श्रीमहीधरविरचिते विष्णुभक्तिकल्पलताविवरणे स्वाभिप्रायप्रकाशनो नाम
तृतीयः स्तबकः ।
चतुर्थः स्तबकः।
रक्षन्तु वो हरिभुजाः प्रतिबिम्बभाजो
वक्षःस्थलस्थिरमणीरमणीयभासि ।
क्षीराम्बुधावभिनवा इव पारिजाता
जाताः समस्तजगतामभिलाषपूत्यै ॥ १ ॥
वक्षःस्थले स्थिरा या मणिः कौस्तुभः । 'रत्नं मणियोः' इत्यमरः । तस्या रमणीया
मनोहरा या भाः कान्तिस्तस्यां प्रतिबिम्बभाजः प्रतिफलिता अत एव समस्तजगतां त्रि.
लोकानाममिलाषपूरणाय क्षीरसमुद्रे जाता अभिनवाः पारिजाता इवेत्युत्प्रेक्षा । हरिभुजा
वो युष्मान् रक्षन्तु । कौस्तुभस्य सितलात्क्षीराम्बुध्युपमानम् ॥
पादारविन्दं पुरुषोत्तमस्य तमस्यगाधेऽभिनिमजतां नः ।
नखप्रभानिर्जितसोमशोभमशोभनं सर्वमपाकरोतु ॥ २ ॥
नखकान्त्या जिता चन्द्रप्रभा येन ईदृशं हरेः पादपद्ममगाधेऽपारे तमसि संसाराज्ञा-
नेऽमितो निमज्जतामस्माकं सर्वमशोभनं पापमपाकरोतु निवर्तयतु ॥
भावाभिधायां निशि येन मोहदुःस्वप्नदौःस्थ्यात्सपदि प्रबोधः ।
संपद्यते कोऽपि स चित्तरङ्गः श्रीरामचन्द्रे यदि चित्तरङ्गः ॥ ३ ॥
श्रीरामचन्द्रे यदि चित्तरङ्गो मनःप्रीतिः स्यात् , तदा स प्रसिद्धः कोऽप्यवर्णनीयश्चितो
ज्ञानस्य तरङ्ग ऊर्मिः संपद्यते । येन ज्ञानोर्मिणा संसाररूपरात्रौ मोह एव दुःस्वप्नस्तेन
यद्दौःस्थ्यं दुःखं तस्मात्सपदि प्रबोधो भवति । संसारान्निवर्तत इत्यर्थः ॥
मन्दारमालाभरसादरं यन्नाशं निजायुर्निखिलं नयन्ति ।
मन्दारमालाभस्सादरं तन्न चन्द्रचूडं परितोषयन्ति ॥ ४ ॥
यद्यपि मन्दा मूर्खा रमालाभरसाधनलाभलोभेन सर्व निजमायुररमत्यर्थ नाशं नयन्ति
व्यर्थमायुर्व्ययं कुर्वन्ति । तत्तदपि मन्दारकुसुममालानां भरेऽतिशये सादरं सप्रीति
चन्द्रचूडं शिवं न परितोषयन्ति न भजन्ति ॥
अगोचरो यत्तु मनोरथानां तुष्टे शिवे वस्तु तदप्यवाप्यम् ।
यदर्शनाय स्पृहयन्ति देवाः सोऽभूत्प्रभुर्भूतलभूतलभ्यः ॥ ५॥
३२ काव्यमाला। यद्वस्तु मनोरथानामगोचरोऽविषयः, यस्य च वस्तुनो दर्शनाय देवाः कामयन्ते, त. दपि वस्तु शिवे हरे तुष्टेऽवाप्यम् । स प्रभुभूतलस्य भूतैर्नरैर्लभ्योऽभूत् । इत्याश्चर्यमित्यर्थः॥ जीवा यदूत्तमपदानि यदृच्छयैव यन्तो रजोभिरमलैः परिरब्धदेहाः । नेहामुवन्नवतरं बत कीटकाद्याः पाद्यार्घ्यदानविधिना विधिनार्चितास्ते ॥ ६ ॥ वतेति हर्षे । कीटकाद्याः क्रिम्याद्या जीवा यदृच्छयैव यदूत्तमस्य कृष्णस्य पदानि पा- दन्यासस्थलानि यन्तो गच्छन्तोऽतुलैरनुपमै रजोमिः पादपांसुमिः परिरब्धदेहा व्या- प्ताङ्गाः सन्त इह संसारेऽवतरं जन्म नाप्नुवन् न प्रापुः ते जीवा विधिना ब्रह्मणा पाद्या- ययोर्दानविधानेन पूजिताः । विधिपूजायोग्यतां प्राप्ता इत्यर्थः ॥ तीर्थाधिके सति सदा सुलभे समन्ता- चेतोहरे हरिचरित्रसुधासमुद्रे । लोकं मिमङ्गुमपि पावयति प्रसिद्ध का भीतिरन्तकभवा भुवि मुक्तिभाजाम् ॥ ७ ॥ तीर्थेभ्यो गङ्गादिभ्योऽधिकपावने मिमहुं मजन्तमपि लोकं पावयति तारयति सदा सुलभे चेतोहरे मनोहारिणि हरिचरित्रमेवामृतं तत्समुद्रे सति भुवि मुक्तिभाजामन्तक. भवा यमप्रकृतिका का भीतिः । न कापीत्यर्थः ॥ गोविन्दपादार्चनचातुरीयं सद्यः पदं यच्छति तत्तुरीयम् । तदत्र चेतो भव सावधानं भवामयेऽग्यौषधमप्रधानम् ॥ ८ ॥ हरिपादपूजायां चातुर्य तत्प्रसिद्धं तुरीयं पदं ब्रह्मपदं यच्छति । तत्तस्मात् हे चेतः, अत्र हरिपादार्चने सावधानं तत्परं भव । यतो भवामये संसाररोगेऽन्यत् हर्यर्चनं विना औषधमप्रधानं मुख्यं न भवति ॥ यो गीयते जगति दुर्दमयातुकालः श्रीरामनाम जपतो मम यातु कालः । शीतांशुचारुवदनां रिपुरोधमाप्तां सीतां शुचा विरहितामिह यश्चकार ॥ ९॥ यो रामो जगति दुर्दमानां दुष्टानां यातूनां यातुधानानां रक्षसां कालो नाशको गी- यते जनैः तस्य रामस्य नाम जपतः सतो मम कालः समयो यातु गच्छतु । 'काल: पुनः कृष्णवर्णे महाकालकृतान्तयोः : । सरणानेहसोः' इति कोषः । यश्चन्द्ररम्यास्यां राव- गगृहे रोधं प्राप्तां सीतां शुचा शोकेन विरहितां हीनां चकार ॥
४ स्तबकः] विष्णुभक्तिकल्पलता। उच्चैस्तरां सारजनित्वकर्ती संपत्स्यते सा रजनिः कदा नु । यस्यां जपन्तो नरसिंहनाम पापं जनुः कोटिकृतं हनाम ॥ १० ॥ उच्चस्तरामतिशयेन सारा श्रेष्ठा जनिर्जन्म येषां ते सारजनयः उत्तमजन्मानस्तद्भाव- की सा रजनी रात्रिः कदा नु संपत्स्यते भविष्यति यस्यां रात्री हरिनाम जपन्तो वयं जनुषां जन्मनां कोटिभिरपि कृतं पापं हनाम निवर्तयाम । हन्तेर्लोट् ॥ त्वत्प्रेरितेन मयका कृतमद्य याव- त्किंचिच्छुभाशुभमथापि तथा करोमि । मजन्मनः सफलतां कुरुषे न कस्मा- न्मजन्मनः सरिति विष्णुपदस्थितायाम् ॥ ११ ॥ हे मनः, वत्प्रेरितेन मयका मया । 'अव्ययसर्वनाम्नामकच् प्राक् टेः' इत्यकच् । अ- व्यावदेतद्दिनपर्यन्तं किंचिच्छुभाशुभं पुण्यपापं कृतम् अथ तथा तद्वत्करोम्यपि । अतो विष्णुपदस्थितायां सरिति गङ्गायां मन्जत् मज्जनं कुर्वत्सत् मजन्मनो मम जनेः सफलतां साफल्यं कस्मान्न कुरुषे । हरिपदे स्थिला मजन्म सफलं कुबित्यर्थः ।। यत्प्रेर्यमाणमनिशं जनिशङ्कितेन रे दुष्टमानस मया समया मुकुन्दन् । नैव प्रयासि कतमो बत मोक्षमार्गों दृष्टो विहाय तमतर्कितमद्वितीयम् ॥ १२ ॥ रे दुष्टमानस, जनेः सकाशाजन्मपरम्परायाः शङ्कितेन भीतेन मया अनिशं निरन्तरं प्रेर्यमाणमपि त्वं मुकुन्दं समया मुकुन्दस्य समीपे न प्रयासि नैव गच्छसि यतः अतो वतेति खेदे अद्वितीयं सजातीयखगतभेदरहितमतर्कितं तं विहाय कतमो मोक्षमार्गस्त्वया दृष्टः ॥ बद्धे भवत्यसुमतामतिमात्रबन्धो मुक्ते तु मुक्तिरिति चित्त तवातिशक्तिः । बन्धे तु ते व्यसनिता न तथास्ति मुक्तौ तबद्धमेव भव केशवकेलिषु त्वम् ॥ १३ ॥ हे चित्त, भवति खयि बद्धे सति असुमतां प्राणिनामतिमात्रमत्यन्तं बन्धः वयि मुक्त तु तेषां मुक्तिः । इति तवातिशक्तिरत्यन्तं सामर्थ्य यस्मात्ते तव तु यथा व्यसनिता सक्तिरति तथा मुक्तौ न । तत्तस्मात् केशवकेलिषु हरिलीलासु बद्धमेव भव ॥ एक क्षणं हृदय तिष्ठसि चेदनन्ते तदुस्तरोऽपि भवनीरनिधिर्न किंचित् ।
काव्यमाला ॥ नोचेदनेकविधदुःसहदुःखकोटी- कल्लोललचितमुपैषि दशामशुभ्राम् ॥ १४ ॥ हे हृदय, चेदेकं क्षणमनन्ते तिष्ठसि तत्तर्हि दुस्तरोऽपि भवनीरनिधिः संसारसागरो न किंचित्कर इत्यर्थः । नो चेद्धारस्मरणाभावेऽनेकविधानां दुःसहानां दुःखानां कोट- योऽसंख्या ये कल्लोलास्तैलचितमाक्रान्तं सदशुभ्रां दुष्टां दशामुपैषि प्राप्नोषि ॥ गोविन्दपादोदकबिन्दुरिन्दुः किं दुर्निवार्य न तमो निहन्ति । निपीय पीयूषरसोत्तमं तमन्तर्महः पश्य महत्तमं तत् ॥ १५ ॥ गोविन्दचरणोदकबिन्दुरूपश्चन्द्रो दुर्निवार्य किं तमो न निहन्ति सर्वं हन्त्येव । अमृत- रसादप्युत्तमं तं पादोदकबिन्दुं पीला तत्प्रसिद्धं महत्तमं महस्तेजोऽन्तर्विलोकय ॥ श्रीवासुदेवं हृदयं नयन्ति न यन्ति ते गर्भभुवं जनन्याः । पदं तमेकं भज केशवस्य शिवस्य नान्यो निधिरस्ति लोके ॥ १६ ॥ ये नरा हरिं हृदयं नयन्ति प्रापयन्ति स्मरन्ति ते मातुर्गर्भभूमि न यन्ति न गच्छन्ति। तत्तस्मादेकं शिवस्य कल्याणकारिणः केशवस्य पदं भज । लोकेऽन्यो निधिर्नास्ति । 'विधिः' इति पाठे शिवस्य कल्याणस्यान्यो हरिपादभजनव्यतिरिक्तो विधिः प्रकारो नास्ति । हरिसेवयैव कल्याणाप्तिरिति भावः ॥ अन्ते विमुञ्चत खवर्गविधेयताशां न्याय्यो नृसिंहकृपयैव किलापवर्गः । मुञ्चालमित्यवगहो न हरीति शब्द वक्षःस्थलस्पृशि बकी शिवकीर्तनेऽपि ॥ १७ ॥ हे जन्तवः, अन्तकाले खवर्गविधेयताशामिन्द्रियवश्यवामिलाषं मुञ्चत । विषयाभि- लाषं त्यजतेत्यर्थः । यतो नृसिंहकृपयैवापवर्गो न्याय्यः । किल यतो वकी पूतना शिव. कीर्तने कल्याणरूपं कीर्तनं यस्य तस्मिन्हरौ वक्षःस्थलस्पृशि हृदयस्थेऽपि सति अलं मु. चेत्सवक् उवाच । उक्तेलुंङि रूपम् । हरीति शब्दं नोवाच । तस्मादन्ते इन्द्रियवश्यवा- भावादिदानीमारभ्य हरिः स्मर्तव्यः ॥ यो देवकीमिव बकीमपि विश्वयोनिः खीयं निनाय पदमुज्वलयैव मत्या । सर्वापराधशमनं कमलालयायाः को न श्रयेत कमनं कमनन्तमिच्छन् ॥ १८ ॥ यो हरिदेवकीमिव पूतनामपि उज्वलया बुद्ध्या स्वीयं पदं निन्नय तं सर्वापराधनि- वर्तकं रमायाः कमनं कान्तमनन्तं कं सुखादिपदार्थमिच्छन्को न श्रयेत न सेवेत ॥
४ स्तबकः]] विष्णुभक्तिकल्पलता। ३५ . नायं नयो नयन यन्न यदूत्तमस्य नित्यं निभालयसि निर्मलमझियुग्मम् । किं वीक्षितैरवरवस्तुभिरप्रशस्तो- दर्मनोहरतरैरपि भाविभङ्गैः ॥ १९ ॥ हे नयन नेत्र, हरेर्निर्मलं पदयुग्मं न निभालयसि न विलोकयसि न श्रयसि अयं नयो नीतिन भवति । अवरवस्तुमिरीक्षितैः किं न किमपि । कीदृशैः । अप्रशस्त उदर्क उत्तरकालो येषां तैः । तथा मनोरपि भावी भङ्गो येषां तैः ॥ गोविन्दमेव स्तुहि वस्तु हित्वा समस्तमन्यद्रसने स नेड्यः । लोकत्रये कस्य पदस्य दास्यं पुरंदरत्वादपि सुप्रशम्यम् ॥ २० ॥ हे रसने, अन्यत् समस्तं वस्तु त्यक्त्वा गोविन्दमेव स्तुहि स्तुतिं कुरु । यद्यस्माल्लोक- त्रये स कस्य नेत्यः न तुत्यः । अस्य हरेर्दास्यं पुरंदरवादिन्द्रपदादपि सुप्रशस्यं प्रशस्त- तरमतस्तं स्तुहि ॥ त्वमन्यशब्दग्रहतां विहाय श्रवः शृणु श्रीपतिशीलशव्दम् । श्रतीति शब्दस्त्वयि चागमे च समत्वमभ्येति यतो गुणौधैः ॥ २१ ॥ हे श्रवः कर्ण, अन्यशब्दग्राहित्वं त्यक्त्वा श्रीपतिं शीलयत्यभ्यस्यति तादृशं हरिवा- चकं शब्दं शृणु । यतः श्रुतिरिति शब्दस्वयि वेदे च गुणौघैस्तुल्यतामेति ॥ दुःखाकरोषि यदरे यदुवंशरत्न- सेवारतानविरतं विधितामुपेत्य । दुष्कर्म किं न विदितस्तव कैटभारि- यन्नाम जन्मशतसंचितपापहारि ॥ २२ ॥ अरे हीनसंबोधने । हे दुष्कर्म, हरिभक्तिपरायणान् विधितां दैवलमुपेत्य प्राप्य य. हुःखाकरोषि पीडयसि । दुःखात्प्रातिलोम्ये डान्प्रत्ययः । तव किं कैटभारिहरिन विदितो न ज्ञातः । यस्य नाम जन्मनां शतेन संचितं पापं हरतीत्येवंशीलम् ॥ मिथ्यामनोरथपथि प्रथितानुभाव रे मोह को हरिपरेऽपि तव प्रसङ्गः । बालातपे तिमिरमिच्छति खेलितुं चे- सौख्यं लभेत कतरच्छ्रितरत्नवेदि ॥ २३ ॥ मिथ्यैव मनोरथमार्गे प्रथितः ख्यातोऽनुभावो महिमा यस्य तादृश हे मोह, हरिपरे विष्णुभक्तेऽपि तव कः प्रसङ्गः का प्रसक्तिः । किं सुखं यास्यसीत्यर्थः । अर्थान्तरमाह- काव्यमाला। चेयदि वालातपेऽन्धकार क्रीडितुमिच्छति तर्हि किं सौख्यं लभेत । न किमपीत्यर्थः । किंभूतं सौख्यम् । श्रिता रत्नवेदिर्येन तादृशम् ॥ एकं मुकुन्दं हृदये स्मरामि स्मरामितेनालमितः श्रमेण । न द्योततेऽजस्रकृतेऽपि यने खद्योततेजस्तरणेः पुरस्तात् ।। २४ ।। एकं मुकुन्दं हृदये स्मरामि अतो हे स्मर काम, इतो मयि अमितेन वहुलेन श्रमेणालं पूर्यताम् । दृष्टान्तमाह-तरणे रवेः पुरस्तात् खद्योततेजो निरन्तरं यत्ने कृतेऽपि न द्योतते॥ संकल्पकल्लोलमगम्यसीमं जायादियादोभिरतीव भीमम् । कर्मोदकं त्वां न तृणाय मन्ये चतुर्भुजे चित्तमिते भवाब्धे ॥ २५ ॥ हे भवाब्धे संसारसमुद्र, चतुर्भुजे चित्तमिते प्राप्ते खां तृणाय न मन्ये तृणतुल्यं न गणयामि । 'मन्यकर्मण्यनादरे' इति चतुर्थी । कीदृशं लाम् । संकल्पा एव कल्लोलास्त- रङ्गा यस्य तम् । अगम्या दुष्प्रापा सीमा मर्यादा यस्य तम् । जाया स्त्री तदादय एव यादांसि जलजन्तवस्तैः कृत्वा अतिभयंकरम् । कर्माण्येवोदकानि यत्र तम् ॥ संसारसत्रे षडमी अमित्रा मदादयो मामदया लुठन्ति । आशा तवैवास्ति चराचराणामाधार राधावर धाव रक्ष ॥ २६ ॥ यतः संसारवने अमी मदादयः षडमित्राः शत्रवो निर्दयाः सन्तो मां लुठन्ति । 'लुट चौर्ये' । 'कामक्रोधौ लोभमोहौ तत्परं मदमत्सरौ। षडमी रिपवो ज्ञेयाः संसाराब्धौ निमः जताम् ॥' इति शारदोक्तेः । अतो हे स्थावरजङ्गमानामाधार, हे राधावर, तवैव आ. शास्ति अतस्त्वं धाव मां रक्ष ॥ संपापसंकल्पमलीमसेऽपि मनस्यनन्त स्मृतिमेषि मे खामी दयालुर्भवता समः कः को वापराधी मम साम्यमेति ॥ २७ ।। सम्यग्यः पापसंकल्पस्तेन मलिने मनसि हे अनन्त, चेत्त्वं स्मृतिमेषि प्राप्नोषि तर्हि तवोचितमिति शेषः । यतो भवता समः को दयालुः खामी । अपराधी को वा मम साम्यमेति । अतोऽहं त्वयैवानुकम्प्य इति भावः ॥ कृष्ण त्वदीयं चरणारविन्दं चेतोहरं चेतसि चिन्तयन्तः । सन्तः पदं तत्समवाप्नुवन्ति ब्रह्मादयोऽपि स्पृहयन्ति यस्मै ।। २८ ॥ हे कृष्ण, सन्तः साधवश्चेतोहरं मनोहरं वदीयं पादाब्जं चित्ते चिन्तयन्तः सन्तस्त- त्पदं प्राप्नुवन्ति यस्मै पदाय ब्रह्मादयोऽपि स्पृहयन्ति । 'स्पृहेरीप्सितः' इति संप्रदान- वाचतुर्थी ॥ येषां न माता न पिता न बन्धुर्न सोदरो नापि धनं न विद्या । न ते गुणा नापि शरीरशक्तिस्तेषां त्वमेवाच्युत सर्वमेव ॥ २९ ॥ । यत् ।
४ स्तबकः ] विष्णुभक्तिकल्पलता। ३७ येषां जनानां मातृपितृबन्धुसहोदरधनविद्याः न, ते प्रसिद्धा विनयादयोऽपि गुणा न, नापि देहसामर्थ्य । हे अच्युत, तेषां सर्व खमेव ॥ केऽयू रमावर नराश्चरणप्रणत्या न ब्रह्मणः पदमदभ्रदयावतस्ते । केयूरभूषितकरेण कृताभयस्य कृत्वापि पातकमतर्कितशक्तिभाजः ॥ ३० ॥ हे रमावर श्रीपते, के नरा जनास्तव चरणनमनेन पातकं कृलापि ब्रह्मपदं नायुन प्रापुः । यातेलङि रूपम् । किंभूतस्य ते । अदभ्रदयावतो बहुदयायुक्तस्य । 'अदनं ब- हुलं बहु' इत्यमरः । केयूरेणाङ्गदेन भूषितो यः करस्तेन कृताभयदानस्य । तथा अत- किंतां शक्तिं भजतीति तस्य । अत्यन्त बिहलमिदं विषयाङ्कौर्य- दाकृष्यते भृशमुदप्रभवान्तकेन । गोपीमनोहर मनोहरहर्मदीयं त्वत्पादपङ्कजपरागसरागमस्तु ॥ ३१ ॥ हे गोपीमनोहर, मदीयं मन उदग्रो यो भवान्तकः संसाररूपोऽन्तकस्तेन विषया. कुशैः शब्दादिरूपसृणिभिरहरहः प्रत्यहमाकृष्यते ततोऽत्यन्तविह्वलमिदं तव चरणकमल- परागे सप्रेमास्तु । ततो दुःखाभाव इत्यर्थः ॥ लक्ष्मीनिवास जनजीवन दीनबन्धो बन्धोऽयमुत्कटतमो भवसंभवो मे । त्वन्मन्त्रनामजपतोऽस्तु तदस्य नाशो नाशोचिता त्रिभुवने त्वयि केन कर्तुम् ॥ ३२ ।। हे राधावर, हे जनानां जीवन, हे दीनबन्धो, मे मम भवसंभवः संसारोत्थ उत्कट- स्तमस्तीव्रतरोऽयं बन्धोऽस्ति तत्तस्मात्त्वन्मन्त्रान्नामानि च जपतो ममास्य बन्धस्य ना- शोऽस्तु । मन्त्राश्च नामानि च तेषां समाहारो मन्त्रनाम । त्रिभुवने बयि केन पुंसा आशा कर्तुं नोचिता ॥ गोविन्द गङ्गातुलसीतरङ्गत्तरङ्गमालामिलितं मदीयम् । मनस्त्वदीये चरणारविन्दे तापत्रयत्रासविमुक्तमस्तु ॥ ३३ ॥ हे गोविन्द, मदीयं मनस्त्वदीये पादपद्मे वर्तमानमत एव गङ्गायास्तुलस्या सह तर जन्ती चञ्चला या तरङ्गमाला तया मिलितमतस्तापत्रयादाध्यात्मिकादेर्यस्त्रासस्ततो विमु तमस्तु॥
३८ काव्यमाला। गोपालबाल बलवत्तरकालकोप- लोपाय कोऽपि नहि कायवतामुपायः । एकं विहाय महनीयमुदग्रदुःख- संघातघातचतुरं चरणाम्बुजं ते ॥ ३४ ॥ हे गोपालबाल नन्दशिशो, महनीयं पूज्यमुत्कृष्टदुःखसंघातानां घाते नाशे चतुरमेकं ते चरणाम्बुजं विहाय कायवतां प्राणिनां बलवत्तरस्यातिशक्तस्य कालकोपस्य लोपाय ना. शाय कोऽप्युपायो नास्ति ॥ पादाम्बुजन्म भजतामज तावकीनं दीनार्तिभञ्जनशुभं जनदुःखहन्नः । आयान्तु यान्तु दिवसा भवसागरोऽपि यस्मिन्परागति परा गतिरस्त्यवश्यम् ॥ ३५ ॥ हे अज, तावकीनं पादाम्बुजन्म पादपद्मं भजतां नोऽस्माकं दिवसा आयान्तु यान्तु । कीदृशम् , दीनानामार्तिभञ्जने दुःखनाशे शुभं समर्थम् । जनानां दुःखं हरतीति । यस्मि- पादपद्मभजने भवसागरोऽपि पराग इवाचरति जलकणवद्भवति । परागात्विम् । यत- स्वमवश्यं निश्चितं परा गतिरसि ॥ कर्मानुरूपजनियुक्ततया न यामि त्वत्पादसेवनसुधालहरी विहारम् । यस्मिन्ननेहसि विना स्मरणेन तत्र दीने मयि स्मयमनन्त दया विधेया ॥ ३६॥ है अनन्त, यस्मिन्ननेहसि समये । 'कालो दिष्टोऽप्यनेहापि' इत्यमरः । कर्मानुरूपज- नियुक्ततया दैवयोग्यजन्मवत्त्वेन खत्पादसेवनमेव या सुधालहरी अमृतोर्मिस्तत्र विहार क्रीडां न यामि । वां न सेव इत्यर्थः । तत्र तस्मिन्काले वत्स्मरणेन विना वर्तमाने मयि स्वयं खया दया विधेया कार्या ॥ कुरु मे परमेश्वर प्रियं हृदये संनिवसन्सुनिश्चलम् । हर पातकवृत्रमत्रसत्प्रभयाप्यन्य )भुवा यदत्र सत् ॥ ३७ ॥ हे परमेश्वर, मे हृदये सुनिश्चलं संनिवसन् प्रियं कुरु । किं प्रियमत आह-यदन्य- (क) भुवा रव्युत्थया प्रभया अत्रसदभीतं तत्पातकवृत्रं पापान्धकारम् । 'वृत्रो दैत्येऽन्ध- कारे च' इति कोषः । अत्र हृदि सद्वर्तमानं हर नाशय ॥ मयि पापिनि कापि निष्कृतिर्न तव ध्यानमृते रमापते । किम कर्दमलेपितं वपुर्विमलं वारि विनापि जायते ॥ ३८ ४ स्तबकः] विष्णुभक्तिकल्पलता। हे रमापते, पापिनि मयि तव ध्यानमृते विना कापि निष्कृतिः प्रायश्चित्तं नास्ति । नत्र दृष्टान्तः-कर्दमेन लेपितं वपुर्जलं विना विमलं जायते किमु । न जायत इत्यर्थः ।। अयि मानसमच्युत क्षणं कुरु कारुण्यगुणानुगुम्फितम् । सदया हि भवन्ति साधवः कलयन्तः किल दीनवेदनाः ॥ ३९ ॥ अयीति संबोधने । हे अच्युत, मे मानसं चित्तं कारुण्यगुणानुगुम्फितं दयायुक्त क्षणं कुरु । कारुण्यमेव गुणस्तेन गुम्फितं ग्रथितम् । हि यतः साधवो दीनानां वेदनाः कल- यन्तो जानन्तः सन्तः सदया भवन्ति किल ॥ खयं भवाब्धिः स्वयमेव नेता स्वयं सता तारयिता नृसिंहः । खयं च सौहार्दनिधिः स्वयं नौः सर्वात्मना तेन तमेव सेवे ॥ ४० ॥ हे नृसिंह, त्वं खयमेव भवाब्धिः संसाररूपः समुद्रः । नेता संसारप्रसारकोऽपि स्व- यम् । तस्मात्तारयितापि स्वयम् । सौहार्दस्य दयाया निधिः खयम् । नौरूपः स्वयम् । तेन हेतुना सर्वात्मना सर्वभावेन तं खामेव सेवे ॥ हे लक्ष्मीवर हेलयो लयमयुर्मायाविनो दानवाः कुर्वन्तस्त्वयि वैरमेव विरता वेदोदिताद्वर्त्मनः । जीवा ये तु निरन्तरं नवनवानन्दास्तवैव स्तवै- स्तेषां दर्शनमात्रमप्यनुचितं किं देव तन्मादृशाम् ॥ ४१ ॥ हे लक्ष्मीपते, वेदप्रोक्ताद्वर्त्मनो मार्गाद्विरता निवृत्तास्वयि वैरमेव कुर्वन्तो दानवा मायाविनो हेलया अनायासेन लयि लयमयुः प्रापुः । 'हे दयालय ययुः' इति पाठे ल- यमिति शेषः । तर्हि ये तु जीवास्तव स्तवैः स्तोत्रैर्निरन्तरं नवनवानन्दा अत्यन्तानन्द- युक्तास्तेषां मादृशां दर्शनमात्रमप्यनुचितं किम् ॥ सेवे देव तवैव पादकमलं कल्याणकोटीकुलं श्रीमद्रक्ततलं परीष्टिपरतो लक्ष्मीकरात्कोमलम् । यद्दीव्यत्तुलसीदलं सुरसरित्कल्लोलकौतूहलं कैवल्यैकफलं नखावलिविभाविध्वस्तमायाबलम् ॥ ४२ ॥ इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां भक्त्युपद्रवनिराकरणो नाम चतुर्थः स्तबकः । १. अस्मात्प्राक् 'दुरवस्थतरं दयानिधे किमु नालोकयसे नृसिंह माम् । भवदीयपदा म्बुजद्वयीस्मरणालम्बनमात्रजीवनम् ॥' इदं पद्यं पुस्तकान्तरेऽधिकमस्ति. २. 'हे दया- गृह ययु' इति च पाठः. ३. अस्मादनन्तरम् 'भवदावानलज्वालविह्वलस्वत्पदाम्बुजे । लभतां भन्मनोभृङ्गः स्वर्धनीमधुनि स्थितिम् ॥' इति पचं पुस्तकान्तरेऽधिकमस्ति.
काव्यमाला। .. हे देव, ईदृशं यत्तव पादपद्मं तदहं सेवे भजे । कीदृशम् । कल्याणकोट्याः कुलं गृहम् । श्रीमत् शोभायुक्तं रक्तं तलं स्वरूपं यस्य । परीष्टिः सेवा तत्परात्तदासक्ताल्ल. क्ष्मीकरादपि कोमलम् । दीव्यन्ति शोभमानानि तुलसीदलानि यत्र । सुरसरितो ग- ङ्गायाः कल्लोलैः कौतूहलमुत्सवो यत्र । कैवल्यं मुक्तिरेवैकं फलं यत्र । नखावलिविभया नखपतिशोभया विध्वस्तं मायावलं येन ॥ इति श्रीमहीधरविरचिते विष्णुभक्तिकल्पलताविवरणे भक्त्युपद्रवनिराकरणो नाम चतुर्थः स्तवकः । पञ्चमः स्तवकः । लक्ष्मीलावण्यलीलारसविसरसरः साधु पेपीयमानं दृग्भ्यां साक्षान्मुरारेर्दिनकररजनीकामुकाभ्यां करौधैः । कृष्णत्वं यद्विपाकादलभत सितमप्यस्य वर्म प्रभाम्भो धाराभिर्निर्यदेतद्भवतु भवदवज्वालजालप्रशान्त्यै ॥ १ ॥ प्रभालक्षणामिरम्भोधाराभिर्निर्यत्प्रसरणशीलम् । तथा दिनकररजनीकामुकाभ्यां सूर्य- चन्द्रलक्षणाभ्यां दृग्भ्यां मुरारेर्नेत्राभ्यां करौघैः किरणसमूहैः साधु यथा तथा साक्षात् पेपीयमानमत्यन्तं दृश्यमानम् । ईदृशमेतत् लक्ष्म्या माया लावण्यलीलयोः सौन्दर्यक्रीडयो राजसतामसरूपयोर्यो रसविसरः प्रेमप्रसरः स एव सरस्तटाको भव एव दवाग्निस्तस्य ज्वालाजालं ज्वालासमूहस्तस्य प्रशान्त्यै नाशाय भवतु संसारतापं शमयतु । एतत्किम् । यद्विपाकाद्यत्परिणामेन । यत्संसर्गादिति यावत् । सितं शुद्धसत्त्वात्मकमपि अस्य हरेर्वम शरीरं कृष्णत्वं श्यामतामलभत प्राप ॥ नीत्वा नाकनितम्बिनीनयनयोः पीयूषपानायते मत्वा मङ्गलमातनोति मरुतामास्थाय सुत्रामताम् । जानीते जगदीशितुर्यदतुलं जन्तु पित्वा पदं तन्नारायणनाम कामभिमतां सिद्धिं न दत्ते सताम् ॥ २ ॥ तत् हरेर्नाम सतां कामिष्टां सिद्धिं न दत्ते । सर्वामपि दत्त इत्यर्थः । तत्किम् । जन्तु- बनाम नीला प्राप्य । श्रुत्वेत्यर्थः । नाकनितम्बिनीनयनयोरप्सरोनेत्रयोः पीयूषपानायते अमृतपानवदाचरति । अप्सरसां भोगयोग्यो भवति । यन्नाम मला ज्ञाला मननं कृत्वा सुत्रामतामिन्द्रवमास्थाय मरुतां देवानां मङ्गलं विस्तारयति । यन्नाम जपित्वा निदिध्या- सनं कृत्वा जगदीशितुर्हरेरतुलं पदं ब्रह्मस्वरूपं जानीते । साक्षात्कारो भवतीत्यर्थः ॥ यदूरीकुरुते भवान्धतमसं यस्य प्रकाशोऽक्षरं तझैव परं यदत्र ददते लिप्साधिकं लीलया ।
.. ५ स्तबकः ] विष्णुभक्तिकल्पलता। ४१ यस्यानेकगुणानलं न नलिनोद्भूतोऽपि वक्तुं विभु- स्तत्कि पामर रामरत्नमनिशं हृद्येव न स्थाप्यते ॥ ३ ॥ हे पामर अधम, तद्रामरत्नमनिशं निरन्तरं हृद्येव किं न स्थाप्यते । तत्किम् । यद्रा- मरत्नं भवान्धतमसं संसारगाढध्वान्तं दूरीकुरुते निवर्तयति । 'ध्वान्ते गाढेऽन्धतमसम्' इत्यमरः । अक्षरमविनाशि तत्प्रसिद्ध परं ब्रह्मैव यस्य रामरत्नस्य प्रकाशः किरणौधः । अत्र संसारे यद्रामरत्नं लीलया अनायासेनैव लिप्साधिकं वाञ्छाधिकं ददते । 'दद दाने' विभुः प्रभुरपि नलिनोद्भूतः कमलजो ब्रह्मापि यस्यानेकगुणान्वक्तुं नालं न समर्थः ।। यज्ञस्तम्भवती कृता वसुमती तेनाखिला संयुगे सुप्तं तेन सपत्नदर्पदलनोद्दामप्रतिष्ठावता । वित्तं वेदविदे व्यतारि विधिवद्ब्रह्मार्पणन्यायतः कंसध्वंसकृतः कृतः कृतधिया येन प्रणामः सकृत् ॥ ४ ॥ तेन प्राणिना अखिला वसुमती भूर्युपयुक्ता कृता । सपत्नानां शत्रूणां दर्पदलने गर्मा- यहारे उद्दामा बढी प्रतिष्ठा यस्येदृशेन तेन संयुगे रणे सुप्तम् । तेन च ब्रह्मार्पणन्यायेन वेदविदे विधिवद्वित्तं व्यतारि दत्तम् । येन कृतधिया कुशलेन सकृदेकवारमपि कंसध्वंस- कृतो हरेः प्रणामः कृतः ॥ धन्या धर्मधुरंधरेण धरणी तेनोललोकाधिका माता तस्य कृतार्थतामुपगता वीतापदः पूर्वजाः । तस्मॅिल्लोचनमार्गमागतवति प्रायेण पापक्षयो यस्योदारमतेनरस्य रमते चित्ते मुरस्य द्विषन् ॥ ५॥ तेन पुंसा धर्मधुरंधरेण धर्मभारवोढ़ा ऊर्ध्वलोकाधिका खर्गलोकाधिका धरणी धन्या । अमुष्य पुंसो माता कृतार्थतां प्राप्ता । पूर्वजाश्च तस्य वीतापदो गतदुःखाः । तस्मिन्प्रा- येण लोचनमार्गमागतवति दृष्टे पापक्षयो भवति । उदारमतेर्महाबुद्धेर्यस्य नरस्य चित्ते मुरस्य द्विषन् हरी रमते ॥ चेतो यस्य जनार्दने जनमनःपीयूषपानाधिक- ध्यानानन्दपदे निरस्तनिखिलद्वैतप्रतिष्ठास्पदे । किं तस्यारिभिरुद्धतैः किमथवा विनैः कुलैर्वापदां किं पापेन किमन्तकेन बलिना देवेन वा तस्य किम् ॥ ६ ॥ जनमनसाममृतपानादधिको यो ध्यानानन्दस्तस्य पदे स्थानभूते । तथा निरस्तं निखिलं द्वैतप्रतिष्ठाया आस्पदं येन तादृशे जनार्दने यस्य चेतस्तस्योद्धतैररिमिः किम् ।
४२ काव्यमाला। अथवा विनैः किम् । आपदां कुलैवी किम् । किं पापेन । किमन्तकेन यमेन । बलवता दैवेनापि वा किम् । न किमपीत्यर्थः ॥ यस्य वान्तमनन्ततो न चलितं लीलावतीलोचनै- रुच्चैः सूचितनिश्चलप्रियतया बालस्य वालिङ्गनैः । स्मारस्फारतयाथवातिबलवद्दारिद्यदावानल- ज्वालाभी रिपुभीतिभिश्च पुरुषो धन्यः स एव क्षितौ ॥ ७ ॥ एतैः पदार्थैर्यस्य वान्तं मनोऽनन्ततो हरेः सकाशान चलितं क्षितौ धरायां स एव धन्यः पुमान् । कैरित्यत आह-लीलावतीकटाक्षरुच्चैः प्रकाशं सूचिता कथिता या निश्चलप्रियता स्थिरप्रियवाक्यं आ जन्मावधि तव लक्षहेममुद्राः अनेन दातुं प्रतिश्रुते- त्यादि तेनापि । तथा पुत्रालिङ्गनैः । तथा स्मार उपतापः । 'स्मृ शब्दोपतापयोः' । घञ्प्रत्ययः। तस्य स्फारतया वाहुल्येन । 'स्फारस्तु करकादीनां बुदुदे विपुलेऽपि च' इति कोषः। तथातिबलवान्यो दारिद्यदावानलस्तस्य ज्वालाभिः । तथा शत्रुभीतिभि- रपि । एतैर्हरौ स्थिरमना धन्यः ॥ पीयूषं परिहाय हायमधमस्तृष्णाभिभूतो जनः कूपं काङ्क्षति पङ्कसंकुलमलं दैवेन निर्वञ्चितः । हित्वा हृद्तमेव देवमतुलानन्दप्रदं केशवं भूतेप्वात्महिताय ताम्यति मतित्यक्तो हि संसारिषु ॥ ८ ॥ हा इति खेदे । अयं तृष्णाभिभूतोऽधमो जनोऽमृतं त्यक्ता पङ्कव्याप्तं कूपं वाञ्छति । यतो देवेन वञ्चितः । कथं तदाह-अतुलानन्ददायिनं हृदयस्थं केशवं देवं त्यक्त्वा मति- त्यतो निवुद्धिः सन् संसारिषु भूतेष्वात्महिताय ताम्यति ग्लायति ॥ तावदैन्य मदन्यतो न भवतो गन्तव्यमव्याहता- नन्दं नन्द दरिद्र दुःसहतरं दुःखं च तावद्ददत् । तावद्गर्जतु दुर्जनो मम विपद्वृद्ध्या रणत्कारक- द्यावन्मामवलोकते न कृपया कृष्णः कृतायां स्तुतौ ॥ ९ ॥ स्तुतौ कृतायां कृष्णो मां यावन्नावलोकते हे दैन्य, तावद्भवतस्त्वया मदन्यतो न गन्तव्यम् । 'कृत्यानां कर्तरि वा' इति भवत इति कर्तरि षष्ठी। हे दरिद्र, लमपि तावद्दुः- सहतरं दुःखं ददत्सत् अव्याहतानन्दं यथा तथा नन्द । किंच दुर्जनो मम विपदृद्ध्या रणत्कारकृत् हसन् गर्जतु । हरिणा मय्यवलोकिते दैन्यादयोऽकिंचित्करा इति भावः॥ मातर्मेदिनि देवकीतनयतामासाद्य देवो दया- सिन्धुः सिन्धुरलीलया त्वयि पदबातानतानीत्तु यान् ।
५ स्तबकः] विष्णुभक्तिकल्पलता। एकं तच्चरणारविन्दमधुनो वाल्ल पलभ्याल्लवं दत्त्वा मुक्तिदमाशु मह्यमनिशं मद्भारमुक्ता भव ॥ १० ॥ हे मातर्मेदिनि, दयार्णवो देवो हरिदेवकीपुत्रत्वं प्राप्य वयि विषये यान्पदबातान्पा- दन्याससमूहानतानीद्विस्तारयामास गजलीलया वालभ्यलभ्यात्नेहप्राप्यात्तच्चरणारविन्द- मधुनस्तत्पादाब्जपरागादेकं मुक्तिदं लवं दत्त्वा मद्भाररहिता । भव तस्मिन्दत्तेऽहं मुक्तः स्याम् ततस्ते मद्भारहीनतेति भावः ॥ यद्भीमावरजो रजोधिकमनाः संन्यासिवेषं दध- कन्यामेकतमः समस्तसुभटश्रेणीशिरःशेखरे । गर्जत्येव बलेऽवलेपविधुरो हृत्वा सुभद्रामगा- नागोऽनन्तवशंगतो जयति सा नारायणखामिता ।। ११ ।। रजोगुणव्याप्तमना भीमानुजोऽर्जुनो यतिवेषं धारयनेक एवावलेपविधुरं गर्वहीनं यथा तथा निर्गर्व एव सन् समस्तसुभटश्रेण्याः शिरः शेखरीभूते बलभद्रे गर्जत्येव सति अनन्तस्य हरेर्वशंगतः सन्सुभद्रा हृला अगात् आगोऽपराधं तु नागान प्राप । सा हरि. स्वामिता जयति । हरेभक्तखादिति भावः ॥ कारागारगता हृतामरमुदो भौमस्य यद्भीरवो भर्तारं भगवन्तमन्तकभयातकापहं लेभिरे । हद्वृत्तिश्चतुराननस्य नितरां यद्दास्यमेवेहते. ऽप्येकाग्र्यं कलितस्मृतेर्विजयते सोऽयं प्रसादः प्रभोः ॥ १२ ॥ हृता अमराणां मुदो येन ईदृशस्य भौमस्य नरकासुरस्य कारागृहस्था भीरवो नार्यः । 'नारी भीरु मिनी कामिनी च' इति हलायुधः । अन्तकोत्पन्नमातई भयमपहन्ति तं नरकभीतिहारं हरिं भर्तारं यल्लेमिरे प्रापुः । ऐकाम्यं यथा तथा कलिता स्मृतिर्येन तस्य निरन्तरस्मरणशीलस्य चतुर्मुखस्य मनोवृत्तिर्यदास्यमेवेहते चेष्टते सोऽयं प्रभोः प्रसादो विजयते ॥ कंसः किं सुकृतं चकार भगिनी कारागृहे योऽरुण- जामेयानपि जन्निवान्पितुरभूत्सौराज्यसर्वंकषः । अन्यत्तस्य किमुच्यते तदपि मामेष क्षयं नेष्यती- त्यत्यन्तस्मृतकेशवः शिवतमं तस्याश्रमं जग्मिवान् ॥ १३ ॥ कंसः किं पुण्यं चकार, न किमपि। यतो भगिनी देवकी कारागृहे योऽरुणदुरोध, जामेयान् “जामिः खस्कुलस्त्रियोः' तदपत्यानि जामेयास्तान् जघान, पितुरुग्रसेनस्य सौराज्यं सर्व कषति वलाद्गृह्णाति तादृशोऽभूत् । 'करीषकूलसर्वाभ्रेषु कषः' इति खश्प्र.
काव्यमाला। त्ययः । तस्य कंसस्यान्यत्पापं किमुच्यते । यद्यप्येतादृशः, तदप्येष कृष्णो मां क्षयं नाशं नेष्यति मारयिष्यतीति भयेनात्यन्तं स्मृतः केशवो येन सः कंसः शिवतमं यद्धाम ब्रह्माख्यं तज्जग्मिवान् प्राप । ईदृशो हरिस्मरणप्रभाव इत्यर्थः ॥ ना रायः स्मरणं करोति हि यथा नारायणस्य प्रभो- रेवं चेत्कुरुते कलामपि तदा दारिद्यदारि द्रुतम् । प्राप्य श्रीकरुणाकटाक्षकलनाकल्याणमक्षुद्रया संपत्त्यैलविलं विलक्ष्य विलसत्याचन्द्रतारं सुखी ॥ १४ ॥ ना पुमान् यथा रायो धनस्य स्मरणं करोति तथा कलां लेशमपि यदि नारायणस्य हरेः स्मृतिं करोति तदा श्रीयुक्तो यः करुणाकटाक्षस्तत्कलनया दारिद्र्यनाशकं कल्याणं मङ्गलं प्राप्याक्षुद्रया महत्या संपत्त्या ऐलविलं कुबेरम् । 'यक्षकपिझैलविलश्रीदपुण्यजने- श्वराः' इत्यमरः । अतिक्रम्य आचन्द्रतारं कल्पान्तपर्यन्तं सुखी विलसति ॥ गङ्गे संनिहितासि संततमपि श्रीकृष्णपादाम्बुजे लक्ष्मि त्वं ललनाललाम लभसे लावण्यमस्योरसि । प्रेमा तस्य च मातरस्ति तुलसि त्वय्युत्तरस्तत्कथं विज्ञप्तिन विधीयते करुणया मदुःखविध्वंसिनी ॥ १५ ॥ हे गङ्गे, त्वं हरिचरणे निरन्तरं निकटासि । हे लक्ष्मि, ललनानां नारीणां ललाम स्त्रीरत्नभूता त्वमस्य हरेरुरसि लावण्यं शोभां लभसे । हे तुलसि मातः, तस्य हरेः प्रेमा खय्यधिकोऽस्ति । तत्तर्हि करुणया कृखा मम दुःखनाशिनी विज्ञप्तिर्भवतीभिः किं न क्रियते । सर्वथा मम दुःखनाशाय हरिविज्ञपनीय इति भावः । 'ललामवल्ललामश्च शृङ्गे चिह्नपताकयोः । रम्ये प्रधाने भूषायां पुण्ड्रे पृच्छप्रभावयोः ॥ अन्तश्चिन्तयतामनन्तमनिशं श्वासा निवासाः श्रियो जन्तूनां यति यन्ति यागयुगलैस्ते तुल्यतां तन्वते । स्पर्धन्ते मृडमौलिमण्डननदीवीचीभिरुच्चैः पुनः पावित्र्येण भवाम्बुदव्युदसनोद्दामैकदेशौजसः ॥ १६ ॥ नित्यं चित्ते हरिं स्मरतां प्राणिनां श्रियः शोभाया निवासा आधारभूता यति या- वन्तः श्वासा यन्ति गच्छन्ति ते यागयुग्मैः सादृश्यं कुर्वते । हरिं स्मरतां प्रतिश्वास यागद्वयफलमित्यर्थः । किंच ते श्वासाः शिवस्य मौलेमण्डनभूता या नदी गङ्गा तद्वी- चीमिः सह पावित्र्येण स्पर्धन्ते । कीदृशाः-भवाम्बुदस्य संसारमेघस्य व्युदसने नाशे १. 'मे दुःख' ख.
५ स्तबकः]] विष्णुभक्तिकल्पलता। 'उद्दाममुत्कटमेकदेशौज एकभागस्थं तेजो येषाम् । येषामेकदेशस्थं तेजः संसारमेघ शमयति ॥ मुक्त्वा माधवसेवनं मतिमता मन्तव्यमन्तव्यथाः किंचिद्वारयितुं समर्थमपरं पुण्यं न लोकत्रये । संतप्ते तपतीव्रतापतपनप्रद्योततो भूतले तापं हर्तुमलं विना जलधरं दृष्टः कुतः केन कः ॥ १७ ॥ लोकत्रये एकं हरिसेवनं मुक्वान्ते मरणे या व्यथास्ता वारयितुं समर्थमपरं किंचि- त्पुण्यं मतिमताम् । कर्तरि षष्टी । पुंसां न मन्तव्यम् ॥ तत्र दृष्टान्तः-तपे ग्रीष्मे ती- व्रस्तापो यस्य तपनस्य भानोः प्रद्योततः प्रद्योतेनातपेन संतप्ते भूतले मेधं विना ताप हर्तु केन कः कुतो दृष्टः । न केनापि न कोऽपीत्यर्थः । तथा हरिसेवां विनान्तपीडाना. शकं किमपि नास्तीति भावः ॥ धातुप्रत्यययोगतो रचयितुं रूपाणि लोकत्रये विद्वांसो विविधा विधातुरधिकं धीकौतुकं तु प्रभोः । संख्यालोपसमासकालपदभिल्लिङ्गादिभावान्वितं रूपं प्रत्यययोजनाविरहितैर्निर्माति यो धातुभिः ॥ १८ ॥ धातुर्भूवादिः, प्रत्ययस्तिबादिः, तयोर्योगाद्रूपाणि भवत्यादीनि रचयितुं लोकत्रये वि- द्वांसो वुधा विविधा वर्तन्ते । परं तु विधातुः कर्तुः प्रभोरीशस्य हरेस्तु धीकौतुकं बुद्धि- विख्यातिरधिकम् । तदेवाह यो विधाता प्रत्यययोजनाविरहितैर्ज्ञानसंबन्धशून्यैरचे- तनैः । जडैरिति यावत् । धातुभिर्महाभूतैः संख्यैकवादिः, लोपो नाशः, समासः समर्थ- नम् , कालः समयोऽवस्थादिकः, पदभिद्वस्तुभेदः, लिङ्गादि स्त्रीलादि, भावो जन्म, एतै- युक्तं रूपं मनुष्यपश्वादि निर्माति करोति ॥ 'धातू रसादौ श्लेष्मादौ भ्वादौ ग्रावविका- रयोः । महाभूतेषु लोकेषु शब्दादाविन्द्रियेऽस्थानि ॥' इति कोषः । 'कौतुकं नर्मणी- च्छायामुत्सवे कुतुके मुदि । पारम्पर्यागते ख्याते मङ्गलोद्वाहसूत्रयोः ॥' इति च । 'कालः कृष्णे महाकाले कृतान्ते समये मृतौ।' 'पदं स्थाने विभक्त्यन्ते शब्दे वाक्येऽङ्क- वस्तुनोः ।' 'भेदो विदारणे वेधे उपजापविशेषयोः।' 'लिङ्गं पुंस्त्वादिचिह्नयोः । शिवमू- तीवनुमाने सांख्योक्तप्रकृतावपि' इति च । 'भावोऽभिप्रायवस्तुनोः । खभावजन्मसत्ता- त्मक्रियालीलाविभूतिषु । चेष्टायोन्योर्बुधे जन्तौ शृङ्गारादेश्व कारणे । शब्दवृत्तिहेतौ च ।' 'समासः स्यादैकपद्ये संक्षेपे च समर्थने ॥ तस्मिन्नस्मितयाभिभूतहृदया रूपे कृतप्रत्यया मन्दाः केऽपि तदाशयैकशरणा दम्भादयो दस्यवः । - काव्यमाला। । बाधन्ते बुधबोधबन्धुरविधिव्याषेधिमेधाविनो लोकं कोकमिवानिवार्यविपदं यामा निशामाश्रिताः ॥ १९ ॥ तस्मिन्देहे स्मितयाहंभावेनाभिभूतं पराभूतं हृदयं यैस्तै रूपे आकारे नरादिके एव कृतः प्रत्ययो विश्वासो यैस्ते, मन्दा दुष्टास्तेषां जन्तूनामाशयश्चित्तमेकं शरणं येषां ते, तथा वुधानां ज्ञानिनां बोधाय ज्ञानप्राप्तये समीचीनो यो विधिः प्रकारः श्रवणादिस्तद्याषे- धिनी ज्ञानप्रकारनिवर्तिका मेधा वुद्धिर्येषां ते कामदम्भादयो दस्यवश्चौरा अनिवार्यविप- दमसाध्यकष्टयुक्तं लोकं बाधन्ते पीडयन्ति ॥ अत्र दृष्टान्तः यथा निशामाश्रिता यामा रात्रिमहराः कोकं चक्रवाकं वाधन्ते । तद्वद्देहमाश्रिताः सन्तो ज्ञानं बाधन्त इत्याशयः ॥ मज्जन्तु प्रवलप्रतापनिहतानेकैनसि न्यायतो निर्णीते निगमैनरा भवपराभूताः सुतीर्थान्तरे । मज्जन्तुस्तु मधुद्विषः पदनखप्रेङ्क्षप्रभामण्डली- पूरस्फारतरङ्गसंगमचमत्कारोत्सवं गाहते ॥ २० ॥ संसारपीडिता नराः शास्त्रैनिणीते प्रवलप्रतापेन निहतान्यनेकान्येनांसि पापानि येन तादृशे तीर्थान्तरे प्रयागादौ मजन्तु स्नान्तु । मजन्तुरहमेव जन्तुस्तु मधुद्विषो हरेः पद- नखानां प्रेवन्ती या प्रभामण्डली कान्तिपटली तस्याः पूरस्य स्फारा वृद्धा ये तरङ्गास्तेषां संगम एव चमत्कारोत्सवस्तं गाहते हरिचरणभक्तिमेव गाहते ॥ लक्ष्मीभर्तरि भक्तिमेव भजतां यजायते जन्मिनां मानैश्वर्यमरातिभीतिरकुलस्फीतिः प्रतिष्ठाच्युतिः । नासीरः स समग्रसंपदुदधेहेर्यथा सूचको धूमः स्यात्प्रथमो यथोपनिषदः पूर्वैव भूमिर्भिदाम् ॥ २१ ॥ हरौ भक्ति भजतां जन्मिनां प्राणिनां यदानैश्वर्यमसामर्थ्यम् , अरातिभीतिः शत्रुभ- यम् , अकुलस्फीतिः कुलवृद्धेरभावः, प्रतिष्ठानाशः, इत्यादि दुःखं जायते, स समस्तसं- पदुदधेः सर्वहर्षस्योत्पत्ते सीरः सेनामुखम् । हरिभक्तौ क्रियमाणायां दुःखाविर्भावः मुखप्रागभावतया ज्ञेय इत्यर्थः। तत्र दृष्टान्तः-वह्वेस्तेजसो यथा प्रथमो धूमो जायते। यथा चोपनिषदोऽद्वैतप्रतिष्ठापिकायाः पूर्वा आदौ पूर्वपक्षत्वेन मिदां भूमिर्भेदप्रतिपादनम् ॥ गङ्गासागरसंगमः सुमहितं काशीतलं शीतलं दाहाय प्रबलैनसो न सरितः शेषा विशेषार्थदाः । यस्य ध्यानमृते तमच्युतमहं हृत्कुञ्जकण्ठीरवं कुर्वे यत्पदवीक्षणेन पदवी दृश्यैव मुक्त्यद्भुता ॥ २२ ।। गङ्गासमुद्रसंगमः, शीतलं सुमहितं पूज्यं काशीतलम् , विशेषार्थप्रदाः शेषाः सरितो ५ स्तवकः] विष्णुभक्तिकल्पलता । ४७ यमुनाद्याः, एते यस्य हरेनिं विना प्रवलपातकनाशाय न भवन्ति, तं हरिं हृदयलक्ष- गकुञ्ज कण्टीरवं सिंहं कुर्वे हृदि स्थापयामि । यत्पददर्शनेन मुक्ला कृत्वाद्भुता या पदवी मुक्तिपदं दृश्यैव भवति । यस्य चरणभजनेन साक्षात्कारो भवतीत्यर्थः ॥ द्रव्येणापि विना भवन्ति सुलभान्यम्भांसि भूमीतले प्राप्याः पादपपल्लवाः प्रभुरपि प्रौढप्रतापोऽच्युतः । स्यादेवार्चितयार्चयार्चिततरस्तस्मिन्भवेदचिते मोक्षो मङ्गु मुमुक्षितस्य नियतं तत्र प्रमाणं श्रुतिः ॥ २३ ॥ द्रव्यं विना भूतले जलानि सुलभानि, वृक्षपल्लवाः पूजार्थं प्राप्याः, प्रभुहरिरपि प्रौढ- प्रतापः, अर्चया प्रतिमया पूजितयाप्यच्युतोऽर्चिततरोऽत्यन्तं पूज्यः स्यात् । तस्मिन्हरौ पूजिते मुमुक्षितस्य मोक्षेच्छोमङ्गु शीघ्रं मोक्षो भवेत् । नियतं निश्चितं तत्र श्रुतिर्वेद एव प्रमाणम् ॥ मार त्वं मृदुमानसानपि मुनीन्मृगासि यन्मार्गणै- स्तेन त्वज्जनकोऽपि कोपितमनास्त्वद्वृत्ततो वर्तते । यद्याता यमयातनां तनुभृतस्त्वामाश्रितास्त्वत्त्यजो नीता लोकमशोकमत्रभवता नारायणेन ध्रुवम् ॥ २४ ॥ हे मार काम, त्वं कोमलचेतसोऽपि मुनीन्बाणैर्यत्पीडयसि, तेन हेतुना लद्वृत्ततस्व- दाचरणेन वत्पिता हरिः क्रुद्धचित्तो वर्तते । मयि हरेः कोपः कथं ज्ञातः, तत्राहयत- स्वामाश्रिताः कामरता जना यमपीडां प्राप्ताः । लत्त्यजो निष्कामा जना अत्रभवता पूज्येन हरिणाशोकं मोक्षं प्रापिताः । अतो ध्रुवं ज्ञायते हरिस्त्वयि कुपितः ॥ लक्ष्मि त्वं यदपीपलः पलभुजः पौलस्त्यपूर्वानमू- नक्षीणैर्विभवैरशूशुष ऋषीनप्यन्नतृप्तिं विना । मातुस्तेऽनुचितं समस्तजगतामेतच्चिरं चिन्तय- ल्लङ्कायां पुरि शासनं तव धवश्चके भवन्राघवः ॥ २५ ।। हे लक्ष्मि पौलस्त्यपूर्वानमून्रावणादीन्पलभुजो राक्षसान्पूर्णेविभवैः समृद्धिभिस्त्वं यदपीपलः पालितवत्यसि । ऋपीन्विश्वामित्रादीनन्नतृप्तिं विना शूशुषःशोषितवत्यति । सर्वजगतां मातुस्तवैतद्रक्षःपालनमृषिशोपणं चानुचितम् । एतच्चिरं चिन्तयंस्तव धवस्तव भर्ता रामो भवल्लङ्कायां तव शासनं शिक्षणं चक्रे ॥ तत्र युक्तिमाह- नोचेदेष दशास्यतामनुभवन्यादो भवाम्भोनिधे- लेकेशः क गिरामगोचरतरस्त्वद्वल्लभो वा कुतः । ..
काव्यमाला। तस्येच्छामपहाय कस्त्रिभुवने हर्तुं जनस्त्वामलं तन्मातः कथमीदृशं पुनरपि प्रारभ्यते प्रस्तुतम् ॥ २६ ॥ चेद्ययेवं न स्यात्तर्हि दशास्यतां रावणभावमनुभवन्संसारसमुद्रस्य यादो जलजीवभूतो लकेशो रावणः क्व, गिरां वाचामगोचरतरोऽत्यन्तमविषयस्तव भर्ता रामः क्व । महदन्त- रमनयोः। तस्य रामस्येच्छां विना त्रैलोक्ये खां हतु हे मातः को वा समर्थो न कोऽपी- त्यर्थः । तत्तस्मादीदृशं प्रस्तुतमुपक्रान्तं पुनरपि कथं प्रारभ्यते । पापिपालनं धर्मिशोषणं चन कर्तव्यमित्यर्थः॥ त्वं मूलप्रकृतिः पुराणपुरुषो नारायणोऽयं विधु- र्वह्निस्त्वं स च बिन्दुरिन्दुवदने नादात्मकं ते वपुः । मातः किं बहुना चराचरमिदं जातं युवाभ्यां यत- स्तस्मादौदरपुत्रवन्निजतया पोप्यं विभेदं विना ॥ २७ ॥ हे मातरिन्दुवदने चन्द्रमुखि, त्वं मूलप्रकृतिरादिमाया, अयं नारायणः पुराणपुरुषः, अयं विधुश्चन्द्रस्त्वम् , अग्निहरिः, बिन्दुस्तव वपुर्नादात्मकं नादरूपम् । किं बहुना । इदं स्थावरजङ्गमं युवाभ्यां लक्ष्मीनारायणाभ्यां जातम् । तस्माद्भेदं त्यक्त्वौरसपुत्रवन्निजतया खीयत्वेन विश्वं पोष्यं पोषणीयम् ॥ तत्त्वं मातरनन्तमन्तरनिशं निध्यायतामायता- वालोक्य स्थितिमेनमेव समया देवं दयासागरम् । अप्येतन्न विचिन्तयस्यधिजगत्येते दरिद्रार्दिता दत्त्वा पर्यनुयोगमच्युतपरा मां हेपयिप्यन्ति यत् ।। २८ ॥ हे मातः, तस्मात्त्वामन्तश्चित्तेऽनन्तं नितरां ध्यायतां स्मरतामायतावुत्तरकाले दयास- मुद्रमेनं देवं हरिं समया हरिसमीपे स्थितिमालोक्य तन्न चिन्तयसि । किं तश्चिन्तनीयम् , अत आह-दारिद्रार्दिता एते हरेरणे पर्यनुयोगमुपालम्भनं दत्त्वा मां हेपयिष्यन्ति । तस्माद्भक्तेभ्यो दारिद्र्यं दूरीकार्यमित्यर्थः ॥ मातर्मङ्गलदेवते मधुरया दृष्ट्या मनुप्या मुदा वीक्ष्यन्ते भवदीक्षिताः शतमखीभावाय ते दीक्षिताः । दोषस्तेषु गुणायते रिपुरपि प्रायेण मित्रायते व्यालो रजवति क्षितिस्त्रिदिवति क्षोणीपतिर्दासति ॥२९॥ हे कल्याणदेवते मातः, ये मनुष्या मधुरया कृपायुक्तया दृष्ट्या मुदा खया वीक्ष्यन्ते ते भवसंसारे दीक्षिताः संसारिणः संसरणदीक्षां प्राप्ताः सन्तः शतमखीभावायेन्द्रलभवनाय १. दरिदेति भावप्रधानो निर्देशः.
५ स्तबकः] विष्णुभक्तिकल्पलता। ४९ दीक्षिता भवन्ति । तेषु च दोषोऽपि गुणायते, रिपुरपि वाहुल्येन मित्रवदाचरति, व्यालः सो रजवति रज्जुवदाचरति, क्षितिः पृथ्वी त्रिदिवति वर्गवदाचरति, क्षोणीपती राजा दासवदाचरति । गुणायते, मित्रायते इत्यत्र क्यङ् । रज्जवतीत्यादौ विपू ॥ अप्येकक्षणमेधि रे मधुकरः श्रीमन्मधुद्वेषिणः पादाम्भोजयुगे धिंगेव कमलाकाङ्क्षावशः क्लिश्यसि । यद्भूताभ्युदयाय भूरिविभवैराविर्भवेद्भार्गवी भक्त्या भर्तु"रसाधुभिरभिप्रायैः परैः पूर्यताम् ॥ ३० ॥ रे जन्तो, एकक्षणमपि श्रीमतो मधुसूदनस्य पादाब्जयुग्मे मधुकरो भ्रमर एघि भव । तव कमलाया लक्ष्म्या आकाङ्क्षया यदाकुलत्वं तद्धिगस्तु । यतो सा भार्गवी भृगुपुत्री लक्ष्मीर्भतुर्हरेभक्त्यैव भूतानामभ्युदयायाविः प्रकटा भवेत् । अतः परैरन्यैरसाधुभिर. मित्रायैः पूर्यताम् , अन्येऽभिप्राया न कार्या इति भावः ॥ दूरं याहि देरिद्र दीर्णहृदयं दौर्भाग्य भङ्गं भज व्याधे लावणसैन्धवीषु लहरीप्वापद्यतां निहवः । शेषं भ्रंशमुपैतु युष्मदुपमं नारायणाराधने वैयग्र्यं व्यपहाय लममनसो जाता वयं सर्वथा ॥ ३१ ॥ हे दरिद्र, दीर्ण स्फुटितं हृदयं यस्येदृशं सत्त्वं दूरं याहि । हे दौर्भाग्य नाशं प्राप्नुहि । हे व्याधे रोग, खया लवणसिन्धोरिमा लावणसैन्धव्यः । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्युभयपदवृद्धिः । क्षाराब्धिसंबन्धिनीषु लहरीषु निहवो लय आपद्यतां प्राप्यताम् । रोगेण क्षाराब्धौ पतितव्यमित्यर्थः । शेषमनुक्तं युष्मदुपमं भवत्सदृशं दुःखभयादिकं भ्रंशं नाशमुपैतु । यतो वयं वैयम्यं व्यग्रत्वं त्यक्त्वा सर्वांशेन कृष्णाराधने लग्नचित्ता जाताः, अतो दरिद्रादिमिर्मयि न स्थेयमिति भावः ॥ दयालुर्देव त्वं क इव हृदयालुस्त्वदपरो रमा यस्यादेशोत्सवभवनवानन्दलहरी । अधर्मो यन्नाम्ना विलयमयते माधव सदा तदप्येतत्सीदत्यहह भुवनं त्वत्कपितृकम् ॥ ३२ ॥ हे देव माधव, त्वं दयालुः । त्वदन्यो हृदयालुः कृपावान्क इव, न कोऽपीत्यर्थः । रमा ल. क्ष्मीर्यस्य तवादेश आजैवोत्सवस्तदुत्पन्ना नवा आनन्दलहरी हर्षपरम्परा यस्याः सा। लक्ष्मी- यस्याज्ञाकारिणीत्यर्थः । यस्य तव नाम्ना अधर्मों नाशमाप्नोति । तदप्येवं सत्यपि त्वं पिता य- स्येदृशं भुवनमहह इत्याश्चर्ये सीदति दुःखं प्राप्नोति । खयि नाथे दुःखं न घटत इत्यर्थः ॥ १. 'किमेव' क. २. दरिदेति भावप्रधानो निर्देशः. ३. 'व्यवहाय' क.
काव्यमाला
प्रमोदाय प्रायः प्रभवतु वधूनेत्रनलिनो-
ल्लसल्लक्ष्मीलीलाकमलमधुपश्रेणिसुभगः ।
कटाक्षः केषांचित्कृतसुकृतसंघातवशतो
हरिध्यानं हित्वा मम किमपि नायाति हृदये ॥ ३३ ॥
वध्वा नेत्रपद्म उल्लसन्ती शोभमाना या लक्ष्मीस्तस्या यल्लीलाकमलं तत्र या मधुप-
णिभ्रमरपतिस्तद्वत्सुभग एवंविधः कटाक्षः सुकृतसंघातः पुण्यसमूहस्तद्वशात्प्रायः केषां-
चित्प्रमोदाय सुखाय प्रभवतु । नायं कटाक्षः, किंतु पद्मालया रमा वधूनेने पद्म निव-
सति, तद्धस्ते लीलाकमलमस्ति, तत्र भ्रमरपतिः सैवेयमिति भावः । एवं केचित्स्त्रियाः
सुखमनुभवन्तु । मम तु हृदये हरिध्यानं त्यक्त्वा किमपि नायाति ॥
मुरारातिर्भाति श्रुतिमुकुटमाणिक्यकिरणा-
वलीभिर्व्याश्लिप्यच्चरणनखचन्द्रद्युतिचयैः ।
भजज्जन्तुस्खान्तोत्कटकुहरतो मोहतिमिरं
निरस्यन्नीरन्धैर्हदि यदि तदिष्टं किमितरत् ॥ ३४ ॥
श्रुतेर्मुकुटभूतोपनिषत्तदेव माणिक्यं रत्नं तस्य किरणपतिभिर्व्याश्लिष्यन्तः संवनन्त
उपनिषत्प्रतिपाद्या ये चरणनखास्त एव चन्द्रास्तेषां नीरन्धैर्निबिडैद्युतिचयैः कान्तिपुजैः
कृला भजतां जन्तूनां स्वान्तं चित्तमेवोत्कटं कुहरं गत तस्मान्मोहान्धकारं निरस्यन्निव-
तयन्मुरारियदि हृदि भाति तत्तर्हि इतरदन्यदिष्टं किम् , न किमपि । हरिध्यानाधिक
सुखं नास्तीत्यर्थः । अज्ञाननाशके हरौ हृदि भाति सति कृतार्था भवन्तीति भावः ॥
यच्छक्यं नैव वाचंयमविमलमनः संपरित्यज्य बढे
नैर्गुण्यादेव बन्धं व्रजति पुनरहो न प्रसङ्गाद्गुणानाम् ।
यस्मिन्बद्धे विमुक्तिर्भवति तनुभृतां यत्रिलोक्याममूल्यं
कौशल्यागर्भरत्नं मम हरतु तमःस्तोममत्यद्भुतथि ॥ ३५ ॥
यद्रामरत्नं वाचंयमानां मुनीनां विमलं मनस्त्यक्त्वा बटुं नैव शक्यम् । यच्च मनसो
नैर्गुण्यादेव संबन्धं याति, न तु गुणानां विषयाणां प्रसङ्गात्सेवया । यस्मिन्बद्ध प्राणिनां
मुक्तिर्भवति । यच्च त्रिलोक्याममूल्यमत्यन्तमाश्चर्यकारिणी श्रीर्यस्य तन्निर्मूल्यं कौशल्या
गर्भरत्नं रामरत्नं मम तमःस्तोममन्धकारसमूहं हरतु । अज्ञाननिवृत्तिं करोलित्यर्थः ॥
ये जन्मान्तरपर्युदश्चनवशादायान्ति जायादितां
जीवास्तेष्वपि मातृशासितमिदं चेतो ममत्वाकुलम् ।
सर्वेषां हि न तत्कथं तनुभृतां चौरेष्वपीग्रसं
तेऽप्येवं भवितार एव घिगिमां चेष्टां विवेकोज्झिताम् ॥ ३९ ॥
६ स्तबकः ] विष्णुभक्तिकल्पलता। ५१ ये प्राणिनो जन्मान्तरेऽन्यजन्मनि यत्पर्युदश्चनमृणम् । 'ऋणं स्यात्पर्युदञ्चनम्' इति कोषः। तद्वशाज्जायादितां स्त्रीपुत्रपौत्रादिभावमायान्ति । मातृशासितं मूर्खम् । 'मूर्खः स्या- न्मातृशासितः' । इदं चेतस्तेष्वपीग्रसं पुत्रादिसमस्नेहाकुलं ममतया व्यग्रम् । तथा सर्वेषां तनुभृतां तच्चित्तं चौरेष्वपीढग्रसं पुत्रादिसमस्नेहं कथं न भवति । यतः, ते चौ- रादयोऽप्येवं भवितारो जायादिभावं यास्यन्ति । अत एवेमां विवेकहीनां चेष्टां धिक् ।। नित्यं हृत्कमलं कृतार्थयतु मे देवो भवानीपति- यस्मिन्मार्गगते मतेविरमति द्रागेव माया यया । हर्तुं बोधधनं निबध्य बहुधा पाशैः प्रमादादिभि- र्मोहाब्धौ विषयैर्विलोभ्य विवशं व्याक्षिप्यते विष्टपम् ॥ ३७ ॥ भवानीपतिर्देवः शिवो नित्यं मम हृत्पनं कृतार्थयतु । यस्मिञ्शिवे मार्गमिते द्राक् शीघ्रं मतेर्माया विरमति निवर्तते । तिष्ठतु माया, तत्राह-यया मायया ज्ञानं धनं हर्तु प्रमादादिभिः पाशैर्वहुधा बवा विषयैः स्रगादिभिर्विलोभ्य विवशं बढवा भुवनं मो- हसागरे क्षिप्यते ॥ पूर्वो हख इतश्च दीर्घ इतरो नैव क्वचिद्विद्यते कस्यानेन समानता त्रिभुवने को वा समानोऽमुना । अन्तःस्थायिनि घोषवत्यविरतं लोकोपचारात्मनः संज्ञासंधिसमाप्तये प्रतिजनुः किं नात्र तत्स्थीयते ॥ ३८॥ इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां भक्तिगौरवदर्शनं नाम पञ्चमः स्तवकः । हे मनः, प्रतिजनुर्जन्मनिजन्मनि संज्ञा देवदत्तादिका नरपश्वादिका वा तस्याः संधिः संवन्धस्तत्समाप्तये जन्मनिवृत्त्यै अत्र हरौ किं न स्थीयते । यस्मादितो हरेः पूर्व आदि- नास्ति, अनादिखात् । इत इतरो हखो रिपुरपि नास्ति, इतो दीर्घोऽपि क्वचिन्न विद्य- ते, त्रैलोक्येऽनेन हरिणा समानता सादृश्यं कस्या अमुना समानो वा कः, न कोऽपी- त्यर्थः :। किंभूतेऽत्र । अन्तःस्थायिनि चित्तस्थे । अन्तर्यामिणीत्यर्थः । लोकोपचाराल्लोक- व्यवहारतोऽविरतं नित्यं घोषवति शब्दवति घोषो वेदशब्दः प्रतिपादकत्वेनास्तीति । वस्तुतो वाग्गोचरे । तदासक्तिः कथं न क्रियते इत्यर्थः ॥ इति महीधरविरचिते विष्णुभक्तिकल्पलताविवरणे भक्तिगौरवदर्शनं पञ्चमः स्तवकः । षष्ठः स्तबकः । ये संसारतमिस्रतीव्रतपना ये मुक्तिलक्ष्मीलस- न्मुक्ताहारकणाः प्रणामनिपुणप्राणिप्रसादोन्मुखाः ।
५२ काव्यमाला। अद्वैतागमवाक्यदीपकदशानिर्माणसूत्राणि ये ते गोविन्दगुणाः प्रमोदमतुलं कुर्वन्तु वः सर्वदा ॥ १ ॥ ते हरिगुणा वो युष्माकं अतुलं प्रमोदं हर्प कुर्वन्तु । ते के । ये संसाररूपान्धकारस्य तीव्रसूर्यप्रायाः । संसारनिवर्तका इत्यर्थः । ये मुक्तिरूपा या लक्ष्मीस्तस्या लसन्तो मु. ताहारस्य कणा मणयः । ये च नमस्कारकुशला ये प्राणिनस्तेषां प्रसादं प्रत्युन्मुखाः । प्रसादकरा इत्यर्थः । ये च । अद्वैतागमवाक्यानि वेदान्तशास्त्रवचांसि त एव दीपका- स्तेषां दशानिर्माणाय वर्तिरचनाय सूत्रभूताः ॥ कृष्ण त्वत्करुणाकटाक्षलहरीलीलालवाय स्पृहां कुर्वन्तः कमलासनप्रभृतयो देवाः स्तवं तन्वते । एकस्तत्तव पादपद्मरजसां गङ्गाम्बुना मिश्रितो वातोद्भूतकणः कृतार्थयतु मां कोऽपि प्रणामानतम् ॥ २ ॥ हे कृष्ण, ब्रह्मादयो देवास्तव कृपाकटाक्षला या लीला तस्या लेशायैकदेशप्राप्तये इच्छां कुर्वन्तः सन्तस्तव स्तवान्स्तोत्राणि कुर्वते । तत्तस्मात्तव चरणधूलीनामेको वातो. द्धतः कोऽपि कणो लेशो नत्या नम्रीभूतं मां कृतार्थयतु । किंभूतः । गोदकयुक्तः ॥ त्वं राजा भुवनेष्वतो भुवि तवावात्सं कुटुम्बीभव- न्दुप्पूरोदरपूरणाय वृषलः क्षेत्री खलेषु स्थितः । निष्पन्नं भवतो निवेदितवतो मे कर्मवीजैरपि क्षीणं तत्तव सेवनव्यसनिनं मामच्युताङ्गीकुरु ॥ ३ ॥ यतस्त्वं भुवनेषु राजा अतः कुटुम्बीभवनहं तव गृहे अवात्समुषितवानस्मि । वसते- लुड्युत्तमैकवचने रूपम् । किमर्थम् । दुष्पूरस्य जठरस्य पूरणाय । कीदृशोऽहम् । वृषलः वृषं धर्म लुनातीति धर्मविमुखः । क्षेत्री शरीरवान् । खलेषु पापेषु स्थितः । क्षेत्रे निष्प- नमुपार्जितं शुभाशुभं भवतस्तव निवेदितवतो मम कर्मरूपबीजैः क्षीणं कृष्णार्पणबुद्ध्या कर्म कुर्वतः कर्मक्षयादिति भावः । 'यत्करोषि-' इति गीतोक्तेः । तस्मात्तव सेवास मां हे अच्युत, अङ्गीकुरु ॥ न्यायोऽयं निरणायि नैकनिगमैनारायणानश्वरः कर्तारं तदुपैति कर्म कलितं यद्येन यादृग्यथा । त्वामेव स्मरतो ममेह क्गितोऽनेहा महानप्यहो मच्चिन्ता निमिषार्धमेकमपि किं तत्तन्यते न त्वया ॥ ४ ॥ हे नारायण, अनेकशास्त्रैरनश्वरो निश्चलोऽयं न्यायो निरणायि निर्णीतः।क इत्याह-येन प्राणिना यथा येन प्रकारेण याकू शुभमशुभं वा कर्म कलितं कृतं तत्कारमुपैति । ..
६ स्तबकः] विष्णुभक्तिकल्पलता। मम तु खामेव स्मरतः सतो महाननेहा दीर्घकालो गतः। तत्तर्हि निमिषार्धमपि मच्चिन्ता खया किमिति न तन्यते । मच्चिन्ता विधेयेति भावः ॥ श्रीविष्णो जगदेकजीवन धनानन्दैकदीक्षागुरो मूर्छन्मोहमहान्धकारतरणे कारुण्यरत्नाकर । ग्राहव्याहतचेष्टितद्विपविपद्विच्छेददक्ष प्रभो कस्याग्रे भवसंभवः परिभवस्त्वामन्तरेणोच्यते ॥ ५॥ हे श्रिया युक्त विष्णो, हे जगतामेकजीवन, हे निबिडानन्दैकदीक्षायामानन्ददाने गुरो, हे मूर्च्छतां मूढानां मोह एव महान्धकारस्तस्य तरणे रवे मोहनाशक, कारुण्य- रत्नाकर दयाब्धे, ग्राहेण व्याहता चेष्टा यस्येदृशो द्विपो गजेन्द्रस्तस्य विपन्नाशे चतुर, हे प्रभो, संसारोत्थः पराभवस्त्वां विना कस्याग्रे कथ्यते ॥ सध्रीचीवुःखवीचीरतिशयविषमा विक्षिपन्व्याकुलत्वं गच्छन्न च्छन्दतः स्वादधिभवजलधि त्वां मधुद्वेषणैषः । स्मर्तुं शक्नोमि वेला मयि तव तदियं देव दातुं दयार्द्र- दृष्टेरंशं प्रभूणां त्रिजगति करुणादानपात्रं यदार्तः ॥ ६ ॥ हे मधुद्वेषण मधुसूदन । 'रिपौ वैरिसपत्नारिद्विषद्वेषणदुहृदः' इत्यमरः । एषोऽहं त्वां स्मर्तुं न शक्नोमि । किं कुर्वन् । अधिभवजलधि संसाराब्धी अत्यन्तं विषमाः सध्रीचीः सहाश्चनशीलाः सर्वत्र प्रसारिणीःखलहरी विक्षिपन्प्रेरयन् । अत एव खात् निजातू छन्दतोऽभिप्रायात् स्वामिप्रायेण खक्शेनैव वा व्याकुलत्वं गच्छन् । 'छन्दो वशेऽभिप्राये च' इति कोषः । तत्तस्मात् हे देव, तव दयादृष्टेरंशं मयि दातुमियं वेला एघ समयः। 'कालसमयवेलासु तुमुन् । यद्यस्मादातॊ दुखितः । त्रैलोक्ये प्रभूणां दयादानस्य पात्रम् । प्रभुभिर्दीनेषु दया कार्येति भावः ॥ देव श्रीवासुदेव ध्रुवमवति तवोदारलीलाकला य- द्विश्वं शश्वन्निकारोद्यतदनुतनुजव्याकुलीभूतमेतत् । तत्रैकान्तेऽनुकम्पानिगमनिगदिता न्यायदृष्ट्या निदानं तत्त्वं विश्वोपकारवत वितर मयि प्राप्तदौःस्थ्ये गंशम् ॥ ७ ॥ हे श्रीवासुदेव, देव दीप्यमान, तवोदारा महती या लीला तत्कला लेशोऽप्येतद्विश्वं ध्रुवमवति रक्षति । कीदृशम् । शश्वनिकारे पराभवे उद्यता ये दनुतनुजा दानवास्तै- याकुलीभूतम् । तत्र तासु लीलासु एकान्ते अनुकम्पा निगमैर्वेदैः कथिता । या न्यायह- ष्टिस्तत्त्वज्ञानं तस्य निदानं कारणम् । तत्तस्माद्धे विश्वोपकारबत सर्वेषामुपकार एव व्रतं यस्य तादृश, प्राप्तदौःस्थ्ये दुःखिते मयि दृगंशं कृपाकटाक्षं वितर देहि ॥ ६ काव्यमाला। एतन्मेऽव मुकुन्द देव हृदयं व्याप्तं विपद्वारिधे- वींचीभिर्विरलेतराभिरभितो रम्भेव दीव्यद्दलैः । विज्ञप्तिर्वरदायिनी त्वयि कृतापि स्यान्न चेप्राणिनां शब्दब्रह्मणि तच्छ्रमो मतिमतामाकाशकण्डूयनम् ॥ ८ ॥ हे मुकुन्द देव एतन्मे हृदयमव रक्ष । कीदृशम् । विपद्वारिधेर्दुःखाब्धेविरलेतराभि- ध्नाभिर्वीचीभिर्व्याप्तमत्यन्तदुःखितम् । तत्र दृष्टान्तः-दीव्यद्भिर्दलैः पत्रैर्यथा रम्भा कदली व्याप्ता हे नाथ, खयि कृतापि विज्ञप्तिर्यदि प्राणिनां वरदायिनी इष्टदात्री न चेत् तर्ह मतिमतां सुवुद्धीनां शब्दब्रह्मणि वेदे श्रमो नभःकण्डूयनतुल्यः। हरिसेवयैवेष्टप्राप्ति रिति वेदार्थः । स चेन्मिथ्या तर्हि वेदोक्त कर्मणि श्रमो नभःखर्जनवन्मिथ्येत्यर्थः । यन्मे पातकमस्ति माधव तव ध्यानान्तरायीभव- तक्किं देव निवार्यते न भवता भक्तानुकम्पावता । दासे दुःसहवेदनां गतवति स्वामी समर्थोऽपि चे- दौदासीन्यमुरीकरोति तदहो खखामिधर्मः कुतः ॥ ९॥ हे माधव, तव ध्यानेऽन्तरायीभवद्विघ्नभूतं पातकं यन्मेऽस्ति । हे देव, भक्तेषु कृपा- लुना त्वया तत्पातकं किं न निवार्यते । अर्थान्तरेण द्रढयति-दुःसहपीडायुक्त दासे सति दुःखनिरसनसमर्थोऽपि खामी चेदुदासीनतामुपेक्षां कुरुते, तर्हि स्वामिसेवकधर्मः कुतः। न कुतोऽपीत्यर्थः ॥ यस्मिन्नः स्मृतिमेषि मेऽखिलगुरो गोविन्द तस्मिन्क्षणे मा जीवन्निति नीतिनिर्मलमतिर्मापैतु मचेतसः । जन्तुर्यत्तव सेवया विरहितो जीवत्यवश्यं न त- सारं सौरभसंपदामविषयो यद्वस्मितं कौसुमम् ।। १० ॥ हे सर्वगुरो, हे गोविन्द, यस्मिन्क्षणे त्वं स्मृतिं नैषि चित्तं नायासि तस्मिन्कालेऽयं जनो मा जीवनश्यतु । 'माझ्याक्रोशे' इति शतृप्रत्ययः । इत्येतादृशी नीत्या निर्मला मति- मच्चित्तान्मा गच्छतु । यस्माजन्तुस्तव सेवां विना यज्जीवति अवश्यं न तत्सारम् । तत्र दृष्टान्तः-यथा कौसुमं स्मितं पुष्पविकासः सौरभसंपदां गन्धसमृद्धीनामविषयो न सा- रम् । अगन्धं पुष्पं निषिद्धमित्यर्थः ॥ तावन्मे मन्तुमत्त्वं मधुमथन महद्यामि यावन्न यत्ना- द्योगाभ्यासप्रवीणैरपि कपिलमनुव्यासपूर्वैः स्मृतं ते । .. १. 'दायिनि ख.
६ स्तबकः] विष्णुभक्तिकल्पलता। पादाम्भोज शरण्यावधि शरणमधिष्ठानमेकं शुभानां पश्चान्मे कैव चिन्ता तव भुवनविभो रक्षणीयस्य धर्मात् ॥ ११ ।। हे मधुमथन, तावन्मम महन्मन्तुमत्त्वं सापराधता यावद्यत्नाद्योगाभ्यासकुशलैः क. पिलादिभिः स्मृतं तव पादाम्वुजं शरण्यानामवधिभूतं शुभानां कल्याणानामेकं स्थान शरणं न यामि । पश्चान्मम कैव चिन्ता, न कापीत्यर्थः । कीदृशस्य मे। हे भुवनविभो, बया धर्माद्रक्षणीयस्य खच्छरणागतस्य । मे मम वयैव रक्षा कार्येति भावः ॥ गोभिः शोभि तवानुवादनिबिडानन्दाभिरुद्यद्वृषं रामोदारचरित्रचारु दलितारिष्टं प्रभूतद्युति । त्यक्तत्रासमघादपि प्रबलतस्त्वत्पादपद्माश्रयं त्याज्यं गोकुलवद्गदाग्रज कदाप्येतन्नमे तन्मनः ॥ १२ ॥ हे गदाग्रज, मम मनो गोकुलवत्कदापि खया न त्याज्यम् । कीदृशं गोकुलं मनश्च । तवानुवादेन निबिड आनन्दो यासां तादृशीभिर्गोभिर्धेनुभिरिन्द्रियश्च शोभि राजितम् । उद्यन् वृषोऽसुरो धर्मश्च यत्र । रामस्योदारचरितेन चारु, रामाणां स्त्रीणां चरित्रेण चारु । दलितोऽरिष्टो वृषभासुरो विघ्नश्च यस्मात् । प्रकृष्टकान्तीति समानम् । प्रबलादघासुरात्पा- पाच त्यक्तत्रासं निर्भयम् । 'दु.खैनोव्यसनेष्वघम्' इत्यमरः। तव चरणपद्ममाश्रयो यस्येति समानम् ॥ संप्राप्तं भुवनत्रयेऽपि सुयशः सोमावदानं मया लब्ध्वानेकसुखानुभूतिसुभगा सुत्रामलक्ष्मीरपि । मन्ये तीर्णमशेषदुःखविषमं संसारवारांनिधि यद्यायाति दशास्यशात्रव तव ध्यानामृतं मे हृदि ॥ १३ ॥ हे दशास्यशात्रव रावणारे, तव ध्यानलक्षणममृतं यदि मम चित्ते आयाति, तदा मया त्रैलोक्ये चन्द्रनिर्मलं यशः प्राप्तं नानासुखानुभवेन सुभगेन्द्र लक्ष्मीरपि प्राप्ता । 'सुत्रामा गोत्रभिद्वजी' इत्यमरः । नानादुःखैर्विषमं संसारसमुद्रं तीर्णं मन्ये ॥ चेतो मे चरितार्थयाच्युत चिरं त्वद्ध्यानवुद्ध्यान्वितं रूपेण प्रकटीभवन्नवभिदाभक्तिप्रतीतात्मनाम् । येन त्वं बहुलाकुलं बहुलया वृष्ट्याकुलं गोकुले रक्षिप्यन्बिभरांबभूविथ गिरि गोवर्धनं लीलया ॥ १४ ॥ १. 'बहुगोकुलं' क. २. 'कुलव्याकुलम्' क; 'कुलं गोकुलम्' ख.
५६ काव्यमाला। हे अच्युत, तव ध्यानेन या वुद्धिस्तद्युक्तं मे चित्तं चरितार्थय कृतार्थ कुरु । कीदृश- स्वम् । नव भिदा भेदाः श्रवणकीर्तनादयो यस्याः सा नवभिदा सा चासौ भक्तिश्च । भक्तिशब्दस्य प्रियादित्वाद्भिदाशब्दस्य पुंवद्भावाभावः । तया प्रतीतस्तुष्ट आत्मा चित्तं येषां तेषां प्रकटीभवन् । येन हेतुना त्वं । किलेति प्रसिद्धौ । गोकुले बहुलया घनया वृष्ट्या व्याकुलं बहुलाकुलं गोकुलं रक्षिष्यन् रक्षितुम् । तुमर्थे लद । गोवर्धनं गिरि लीलया विभबिभूविथ धृतवानसि । 'बहुलः कृष्णपक्षेऽनौ शितौ च बहुला गवि' ॥ कारुण्यामृतपूरिताक्षियुगलव्यालोलनकाति- स्पर्शोद्देशदलहुरन्तदुरितं दामोदरैनं तव । तावत्पाहि कृपाहितैकनिलय त्वत्पादपद्मस्मृते- रन्तर्यामिणि यामि निर्मलतया त्वय्येव यावल्लयम् ॥ १५ ॥ हे कृपाहितैकनिलय दयाहितयोरेकाश्रयभूत, हे दामोदर, तवाशिस्मरणान्निर्मलत्वे- नान्तयामिणि लय यावदहं लयं यामि लीनो भवामि तावदेनं मां त्वं पाहि रक्ष । कीदृशं माम् । तव कारुण्यामृतेन पूरितं यन्नेत्रयुग्मं तस्य व्यालोलाः प्रसरन्त्यो या नैका- तयो विविधकान्तयस्तासां स्पर्शोद्देशेन स्पर्शलेशेनैव दलदुरन्तं दुःसहं दुरितं पापं यस्य तम् ॥ ये लक्ष्मीपतिपादपङ्कजमिलन्मन्दाकिनीमज्जनो- दामानन्दभरेण भान्ति भविनां ते वासराः सार्थकाः । सद्यःपण्डकखण्डिताधरवधूवैक्लव्यवद्ब्रह्मवि- कर्मन्दिक्रियमाणकर्मवदहो शेषं जनुर्नार्थवत् ॥ १६ ॥ हरिपादपद्मे मिलन्ती या गङ्गा तत्र मन्जनेन हरिपादस्मरणेनोद्दामो बहुलो य आन. न्दभरः मुखोघस्तेनोपलक्षिता दिवसा ये प्राणिनां यान्ति ते सार्थकाः । शेषं हरिपदस्मृ- तिहीनं जन्म नार्थवनिरर्थकम् । तत्र दृष्टान्तः -सद्यः पण्डकेन नपुंसकेन खण्डित ओष्ठो यस्या ईदृश्या वध्वा वैक्लव्यं दुःखं तद्वत् । तद्यथा निरर्थकम् । किं च ब्रह्मविदा कर्म- न्दिना तापसेन क्रियमाणं यत्कर्म तद्वत् । 'कर्मन्दी तापसो यतिः' । 'तदधिगम उत्तर- पूर्वाधयोरश्लेषविनाशौ-' (४।१।१३) इति व्याससूत्रात् ॥ श्रीमञ्चूतकुणेऽतिसौरभचणे कीरः कुलस्त्री धव- ध्याने मनुसरोजराजिषु यथा पुप्पंधयश्रेणयः । वातान्दोलितवारिवाहविगलद्वारीव सारङ्गव- लक्ष्मीलालनलोल लालसमिदं त्वत्सेवने मेऽस्तु हृत् ॥ १७ ॥ हे रमालालनलोल लक्ष्मीविलासने सतृष्ण । 'लोलश्चलसतृष्णयोः' इत्यमरः । इदं मम हृदयं तव सेवने लालसं सामिलापमस्तु । तत्र दृष्टान्तचतुष्टयमाह-अतिसौरभेन - ६ स्तबकः ] विष्णुभक्तिकल्पलता। वित्ते विख्याते श्रीमति चूतकुणे पक्काने कीरः शुको यथा साभिलाषः स्यात् । 'तेन वित्त- थुप्चणपौ' इति सौरभशब्दाचणप्प्रत्ययः। पक्वथूतचूतकुणः । तस्य पाकमूले पील्वादि- कर्णादिभ्यः कुणब्जाहचौ' इति कुणप्प्रत्ययः । यथा भर्तुयाने कुलनारी लोला । यथा च मनोहरपद्मश्रेणीषु भ्रमरपतयः । यथा वातेन कम्पितो यो मेघस्तस्माद्विगलति वारिणि जले सारङ्गश्चातक इव । एतेषां तेष्विव मे त्वयि प्रेमास्विति भावः ॥ साक्षाद्यस्य मनोमयी तव भवेदर्चा स संत्यज्यते संसाराभिधया भयंकररुजा तैस्तैः सपर्यामृतैः । स्नातं सर्वसुखावहैर्मुनिवराः कल्याणगीर्भिः सुराः कल्पद्रुप्रसवैः प्रभूतमहसं संपूजयन्ति प्रभो ॥ १८ ॥ हे प्रभो, यस्य पुंसः साक्षान्मनोमयी भवदर्चा भवेत् मानसी तव पूजा प्रतिमाध्यानं वा भवेत् स पुमान् संसाररोगेण भयंकरेण त्यज्यते । सुखावहैः पूजामृतैः स्नातं तं मु- निवराः शुभवाणीमिः 'चिरं जीव' इत्यादिभिरर्चन्ति । मुराः कल्पवृक्षपुष्पैश्च । कीदृशं तम् । प्रभूतमहसं बहुलतेजसम् ॥ सेवा ते वासुदेवानिशमशनिरसौ प्रौढपापाचलानां चिन्तारतं च साक्षाजगति जनमनःकामनापूरणाय । स्फूर्जदुःखौघवीचीविषमतमभवाम्भोधिपारावनीयं तद्ब्रह्माद्वैततेजोमृतमयमनयैवाप्ययोगादवाप्यम् ॥ १९ ॥ हे वासुदेव, तव सततं सेवा प्रौढा ये पापपर्वतास्तेषामशनिः । वज्रप्राया नाशिके. त्यर्थः । जनमनसामिच्छापूरणाय सच्चिन्तामणितुल्या इष्टप्रदा । स्फूर्जन्त्यो या दुःखोर्म- यस्तैर्विषमतमो यः संसाराधिस्तस्य पारावनी परपार तीरभूमिः । संसारतारिकेत्यर्थः । तत्तस्मादयोगादपि योगाभ्यासं विनापि अमृतमयं ब्रह्माद्वैतं तेज आत्मसाक्षात्काररूपं मयानया सेवयैवावाप्यं प्राप्यम् ॥ विष्णो कामितकामितानि ददते लोकत्रये देवता सा चेदस्ति तदा तदर्पितहृतौ कालः किमालस्यकृत् । त्वद्भक्त्या फलितं तु कालकलितं न क्षीयते जन्मिना- मिष्टं माति मनोरथस्य महिमोद्रेकान्न मार्गेऽपि च ॥ २० ॥ हे विष्णो, त्रैलोक्ये का देवता अमितकामितानि बहूनीष्टानि ददते । 'दद दाने' । सा चेदिष्टदात्री देवतास्ति तदा तद्दत्तापहारे कालः किमालस्यं करोति । न करोतीत्यर्थः । सद्भक्त्या प्राप्तं तु कालग्रस्तं न नश्यति । किं च भक्तिफलं च प्राणिनां मनोरथमार्गेऽपि महिमाधिक्यान माति । मनोरथाधिकं सेवाफल मिति भावः ॥ ..
काव्यमाला। लक्ष्मीकान्त कृतान्तपत्तनमनभ्यर्ण किमु प्राणिनां यावज्जीवमपि प्रपीडितहृदस्तिष्ठन्ति लोभादिभिः । तन्नस्त्वचरणारविन्दशरणादन्यां मनःकामनां मा निर्मातु कदाचिदेव करुणाकल्लोलिनीकामुक ॥ २१ ॥ हे रमापते, हे करुणाकल्लोलिनीकामुक, कल्लोला ऊर्मयो यासु ताः कल्लोलिन्यो नद्य- स्तासां कामुको भर्ता समुद्रः हे दयासमुद्र, तत्तस्मान्नोऽस्माकं मनः कदाचिदपि खत्पाद- पद्मशरणादन्यामिच्छां मा करोतु । यतः प्राणिनां कृतान्तपत्तनं यमनगरं किमु अनभ्यर्ण दूरम् । अपि तु निकटमेव । तथापि लोभादिभिर्यावजीवं पीडितचित्ता जनास्तिष्ठन्ति ॥ विष्वक्सेन किमेनमेनसि कृताशंसं नृशंसं जनं कृत्वा कालमुखे क्षिपस्युपदिशन्कर्मानुरूपां मयि । बुद्धिं विष्टपकष्टभञ्जन जनुर्जीवातुरेको नृणां कारुण्यामृतवारिधिस्त्वमुचितं किं तत्तवापीदृशम् ॥ २२ ॥ हे विष्वक्सेन व्यापकसैन्य, हे विष्टपकष्टभजन लोकदुःखनिवर्तक, जनुषि जन्मनि जीवातुजीवनौषधभूतो दयामृतसमुद्रस्त्वं कर्मानुरूपामपि बुद्धिमुपदिशनेनसि कृताशंसं पापे कृताभिलाषं अत एव नृशंसं क्रूरमेनं जनं कृखा कालवदने किं क्षिपसि तवापि ईदृशं प्राणिनां नरकपातादिदुःखदानं किमुचितम् । अनुचितमित्यर्थः ॥ भेदाभावतया भवेदिह भवद्भक्तिर्न विष्णो मया मायासंतमसावसानकलितब्रह्मप्रकाशश्रिया । भेदस्तु भ्रममातनोति परमं तत्त्वं किमित्याशया तत्ते भक्तिसुधातरङ्गततये चेतः करोति स्पृहाम् ॥ २३ ॥ मायैव संतमसं गाढान्धकारं तस्यावसाने नाशे कलिता प्राप्ता ब्रह्मप्रकाशश्रीः परमा. नन्दसाक्षात्कारो येनेदृशेन मया भेदाभावत्वेन हे विष्णो, तव भक्तिन भवेत् । भेदस्तु परमं तत्त्वं किमिति चित्ते भ्रमं विस्तारयति । तत्तस्मात्ते तव भक्तिलक्षणामृतोर्मिपतथै चित्तमिच्छां करोति ॥ दत्त्वा चन्दनमात्रमत्रभवते भावान्विता भामिनी भूत्वा भाग्यवती व्यतीत्य विबुधानुच्चैरगात्कुजिका । मालाकारमनस्तुतोष न कया पुष्पप्रदानाच्छूिया भक्तिः स्वल्पतरापि ते वितनुते कामं न कं श्रीपते ॥ २४ ॥ अत्रभवते पूज्याय तुभ्यं कुब्जा भामिनी भावान्विता श्रद्धायुक्ता सती चन्दनमात्रं ..
६ स्तबकः]] विष्णुभक्तिकल्पलता । ५९ दत्त्वा भाग्यवती भूला देवानतिक्रम्योच्चैहरिलोकं ययौ । पुष्पप्रदानादेव मालाकार- मनोऽपि कया समृद्ध्या न तुतोष । अपि तु सर्वसमृद्ध्या तुष्टमभूत् । हे श्रीपते, स्वल्प- तरापि ते भक्तिः कं कामं न तनुते । सर्वेष्टमपि प्रयच्छतीत्यर्थः ॥ दत्तं पूतनया दयार्णव तव द्वेषं दधत्या विषं निःशेषं तदपि व्युदस्य सदसद्याता परं त्वत्पदम् तस्यानौपयिक मुकुन्द तव किं देयं यदङ्ग्रिस्थिता त्रिस्रोतास्तरसा रसादपि कृतं कर्म क्षिणोति क्षणम् ॥ २५ ॥ हे दयासमुद्र, द्वेषं धारयन्त्या पूतनया तव विषं दत्तं तदपि सर्व सदसच्छुभाशुभं व्युदस्य त्यक्त्वा बत्पदं ब्रह्मपदं प्राप्ता । हे मुकुन्द, तस्य तव किं देयं दातव्यम् । अनौ- पयिकमनुपयोगि सर्व देयम् । तवोपयोगीत्यर्थः । यत्पादस्थिता गङ्गा स्नेहादपि कृतं तरसा बलेन क्षणात्तत्क्षणं क्षिणोति नाशयति ॥ केशी केशव लेशमप्युपकृतेः कस्यापि नैव व्यधा- द्वेधा निष्ठुरकर्मकर्मठतमं चक्रे यमन्धं गदात् । यत्त्वं तं विरजीचकर्थ हृदयग्रन्थि मृदित्वात्मनो हस्तेनान्तरगेन तस्य वपुषः खान्तं दया तव ॥ २६ ॥ हे केशव, केशी दैत्यः कस्याप्युपकारस्य लेशमपि नैवाकृत । ब्रह्मा मदान्धं यं निष्ठ- रकर्मसु अतिकर्मठं प्रवीणतमं चके । कर्मणे घटते, 'कर्मणि घटोऽठचू' । आत्मनः खस्य हस्तेन तत्तच्छरीरान्तर्गतेन हृदयग्रन्थिमहंकारमज्ञानं मृदित्वा विनाश्य यस्मात्त्वं केशिनं विरजीचकर्थ रजोहीनं कृतवान् । तस्मात्तव स्वान्तं चिन्तं दयाम् । पापिनोऽप्यु- पकारादिति भावः॥ दृष्ट्वा कालियनागदूषितपयःपानेन पन्नं यमी- तीरे तर्णकपालबालककुलं कस्योपकारस्त्वया । क्लृप्तो नेह दयायाच्युत धिया यद्वैनतेयादभू- द्भोगी भन्नभयो धुनी गततरा रम्याश्च दम्यादयः ॥ २७ ॥ हे अच्युत, तर्णका वत्साः पाला बालका गोपकुमारास्तत्समूहं कालियनागेन दूषित विषप्रायं कृतं यत्पयो जलं तत्पानेन यमुनातीरे पत्नं मृतं दृष्ट्वा करुणाईया दृष्ट्या वया कस्योपकारो न कृतः। सर्वस्यापि कृत इत्यर्थः । तमेवाह-यस्माद्भोगी कालियो गरु- डाद्भीतिरहितोऽभूत् । धुनी यमुना गतगरा निर्विषा अभूत् । दम्यादयो वत्सा बालाश्च रम्याः सजीवा अभूवन् । इति विपरिणामः ॥
६०
काव्यमाला।
:
पन्थानं प्रथमं पिधाय वपुषा पीतेन वकं पुन-
ादायाजगरः परश्शतपशूनभैः समं जग्रसे ।
त्वं तस्यापि तदात्तजीवनविधिव्याजेन विष्णो व्यधाः
सद्यः संसृतिपाशनाशनमतस्त्वामीशमाशास्महे ।। २८ ॥
अजगरोऽघासुरः स्थूलेन वपुषा प्रथमं मार्गमाच्छाद्य पुनर्मुखं व्यादाय विशालं कृत्वा
अभैलैिः सह परशताञ्शताधिकान्पशूजनसे । तेनात्ता भक्षिता गोपादयस्तेषां जीवन-
विधिमिषेण तस्याप्यघासुरस्य सद्यः संसारपाशनाशं हे विष्णो, त्वं कृतवान् । अतो हेतो-
रीशं संसारपाशनाशनक्षमं वां वयमाशास्महे वाञ्छामः ॥
देव श्रीवर पीवरः कवलयंस्तत्त्वार्थबुद्ध्यङ्कुरा-
हृत्कासारदयापथः कलुषयन्मोहो भवत्यप्ययम् ।
अन्तर्यामिणि साभ्यसूयहृदयं धत्ते महाकासरः
तत्किं तेन महाहवः सुमनसां संतुष्टये नेष्यते ॥ २९ ॥
हे देव, हे श्रीपते, पीवरः स्थूलो मोह एव महाकासरो महामहिषः । 'कासरो म.
हिषः स्मृतः'। अन्तर्यामिणि भवति त्वय्यपि असूयामहि चितं धत्ते । किं कुर्वन् । तत्त्वार्थ-
बुध्यङ्कुरान् तत्त्वज्ञानलेशान कवलयन्प्रसमानः । तथा हृदयमेव कासारः सरस्तस्य
दयारूपं जलं कलुषं कुर्वन् । 'कासारः सरसी सरः' । तत्तस्मात्तेन मोहेन महद्युद्धं सुम-
नसां साधूनां संतोषाय किं नेष्यते ॥
विश्वाधार हरेऽहरेकमपि मे हृद्वृत्तिरप्युद्धस-
त्वयानो रदुग्धसिन्धुलहरीलीलामरालीयताम् ।
येनाहाय समस्तजन्म सफलं संजायतेऽहा यथा
वर्णेनादिभवेन देव सफला वैयञ्जनीयं जनिः ॥ ३० ॥
हे विश्वस्याधार, हे हरे, मम चित्तवृत्तिरेकदिनमपि उत्फुल्लं विकसच्छेष्टं यत्तव ध्यानं
स एवो रो महान्दुग्धसागरस्तस्य लहरीषु लीलाहंसवदाचरतु । येन हरिध्यानाब्धिह-
सत्वेन अह्ना एकदिनेन सकलजन्म सफलं जायते । तत्र दृष्टान्तः यथादिभवेन वर्ण-
नाकारेण सर्वा व्यञ्जनाया इयं वैयजनी जनिः कादिव्यजनसृष्टिः सफला जायते तेन
विनोच्चारयितुमशतः ॥
श्रीदामोदर सीदतामपि सतां त्वत्तः परं याचितुं
तो नेच्छति वेदगोरसलसद्धेयंगवीनात्मनः ।
कः कल्पद्रुममूलनिर्मलमणीनिष्पन्नवेदीतलं
हित्वा काङ्क्षति तीरभूरुहभवच्छायामपायास्पदम् ॥ ३१ ॥
६ स्तबकः] विष्णुभक्तिकल्पलता। हे श्रीदामोदर, सीदतां दुःखितानामपि सतां चेतस्त्वत्तोऽन्यं याचितुं नेच्छति । की- दृशात्त्वत्तः । वेद एव गोरसो दधि तस्य लसद्यद्धयंगवीनं नवनीतमुपनिषद्वेदानां सार- खात् स एवात्मा स्वरूपं यस्य । उपनिषत्प्रतिपाद्यस्येत्यर्थः। तत्र दृष्टान्तमाह-कल्प- वृक्षमूले निर्मलरत्ननिर्मितं यद्वेदीतलं तत्त्यक्त्वापायानां विनानामास्पदभूतां नदीतीरवृक्ष- च्छायां को वाञ्छति ॥ देव श्रीवत्सलक्ष्मन्नव कवलयतः कालहस्ताद्विहस्ता- नेतानेकोऽपि लोको निधिरधिकतरश्रीरनुक्रोशवाराम् । या दैन्यं दुःखभाजां शमयति न दया किं तया साध्यमन्य- तन्नः किं न प्रपन्नानपि विनयवृतो वीक्षसेऽपि क्षणार्धम् ॥३२॥ हे देव, हे श्रीवत्सलाञ्छन, कवलयतो प्रासं कुर्वतः कालहस्ताद्यमकराधाकुलानेता- नस्मांस्त्वमव रक्ष । यतोऽधिकशोभायुक्तोऽनुक्रोशवारां दयोदकानां निधिों के वमसि । अर्थान्तरमाह-या दया दुःखिनां दीनत्वं न नाशयति तया दययान्यत्किं साध्यमस्ति । तत्तस्मात्प्रपन्नाशरणागतान्विनययुक्तानोऽस्मान्क्षणार्धमपि किं न पश्यसि ।। लक्ष्मीजाने न जाने प्रतिजनिजनितानल्पसंकल्पसूत्र- रारब्धे मोहजाले नवनिबिडरुचिग्रन्थिगुप्तात्मकत्वात् । ध्यानं धर्मेषु धुर्य धुतदुरितमथो पादयोरर्चनं ते चारित्रं चातिचित्रं कलयितुमपि तद्रक्ष कारुण्यवत्त्वात् ॥३३॥ हे लक्ष्मीपते, धर्मेषु धुर्य मुख्यं धुतदुरितं निवर्तितपापं ध्यानं तव पादयोः पूजनम्, अतिचित्रं चारित्रं च कलयितुं मनसि धर्तुं न जाने न वेद्मि दयावत्त्वात्ततो रक्ष । ध्याना. द्यज्ञाने हेतुमाह-प्रतिजन्म नानावतारेषु जनिता ये अनल्पा बहुलाः संकल्पास्त एव सूत्राणि तैः कृते मोहजाले संसारे नवा प्रत्यहं नूतना या निबिडा घना रुचिः प्रीतिः सैव ग्रन्थिस्तत्र गुप्तोऽनुस्यूत आत्मा चित्तं यस्य तस्य भावस्तत्त्वं तस्मात् संसारासक्तला. ध्यानाद्यज्ञानमिति भावः ॥ मायामेया ममेयं तव नयनतिरोधानभूतास्ति विष्णो न त्वां पश्यामि तस्मादपि हृदयसरोजन्मरोलम्बमेकम् । संसारव्याधिवैद्यो यदसि तु तदियत्प्रार्थये खात्मदाना- द्वीक्षे त्वत्सादमात्रं कुरु किमपि तथा सिद्धभैवज्यदानात् ॥ ३४॥ हे विष्णो, अमेया अपरिमिता 'दैवी ह्येषा गुगमयी मम माया दुरत्यया' इति वच. नात् । इयं तव माया मम नेत्राच्छादनरूपास्ति । तस्माद्धृत्कमले भ्रमरभूतमपि खां न पश्यामि । 'उभावानन्दरोलम्बौ भ्रमरे परिकीर्तितौ' इति कोशः । यद्यस्मात्त्वं संसाररू.
काव्यमाला। परोगस्य वैद्योऽसि तत्तस्मादात्मदानादात्मसमर्पणेनेय देतावद्याचे सिद्धौषधदानात्तथा कि- मपि कुरु यथा तव चरणमात्रमपि पश्यामि ॥ देव श्रीरामचन्द्र द्रुतममृतवतः कुर्वतः कायभाजो व्याजव्याहारतोऽपि व्यसनशतहतखीयमार्गानुरोधात् । त्वन्नाम्नः शक्यते कैस्त्रिजगति महिमा वक्तुमप्युक्ततत्त्वै- स्तन्नाम त्वत्प्रसादान्मम रसनकृतावासमभ्यासतः स्तात् ॥३५॥ हे देव श्रीरामभद्र, त्रैलोक्ये लन्नान्नो महिमा उक्ततत्त्वैस्तत्त्वज्ञैरपि कैर्वक्तुं शक्यते। न कैरपीत्यर्थः । कीदृशस्य खन्नाम्नः । व्यसनशतेन परदारासक्त्यादिना हतो नष्टः स्वीय. मार्गस्य खाचारानुष्ठानस्यानुरोधोऽनुवृत्तिर्येषां तानाचारबहिर्मुखानपि कायभाजः प्राणिनो व्याजव्याहारतः सांकेयादि मिषेणोच्चारणादप्यमृतवतो मोक्षभाजः कुर्वतः। तस्मात्त्वत्प्र- सादात्तव नामाभ्यासवशान्मम जिह्वायां कृतवासं स्तात् भवतु । अस्तेस्तातड्ढादेशे रूपम् । 'सांकेत्यं पारिहास्यं वा स्तोमं हेलनमेव वा । वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥ इति शुकोक्तेः ॥ गुणग्रामं वक्तुं तव न वयमुद्दाममतयो दयोदन्वन्नखाखपि तदपि कोणं दिश दृशः । यतो लब्धे बोधे तव चरितपीयूषजलधौ मरालानां स्यामाच्युत कतरसंज्ञाभृत इमे ॥ ३६॥ हे दयोदन्वन् दयासमुद्र, वयं तव गुणौघं वक्तुं नोद्यतबुद्धयः, तथाप्यस्मासु नेत्रस्य कोणं कटाक्षं दिश देहि । यतो दृग्दानाज्ज्ञाने प्राप्ते सति हे अच्युत, तव चरित्रामृताब्धी ये मराला हंसभूता ज्ञानिनस्तन्मध्ये कतरसंज्ञाभृतः किचिन्नामधारका इमे वयं स्याम खद्दासमध्ये गण्यामहे । शिखरिणी वृत्तम् ॥ श्रीरामस्य नमस्यमस्यदशुभान्य द्वियं तद्वयं चित्तं चित्तमपेतपातकभरा भूरादिलोके कदा । द्रक्ष्यामोऽखिलमेव जन्तुमतुलश्रीकं तुलस्युत्तर- स्रग्भाजं गरुडध्वजं परिलसत्पीताम्बरं शाङ्गिणम् ॥ ३७ ॥ अशुभानि पापान्यस्यनिराकुर्वत् नमस्यं नमनीयं श्रीरामस्य पादद्वयं चित्तं चित्तं वि. चिन्त्य विचिन्त्यापेतपातकभरा निष्पाताः सन्तस्त्रैलोक्ये सर्वजन्तुमीदृशं वयं कदा दक्ष्यामः । कीदृशम् । सर्वश्रीयुक्तं तुलस्या अधिकमालायुक्तं गरुडकेतुं शोभमानपीत. वस्त्रं शार्ङ्गधनुर्धारिणम् । खत्पादस्मरणेन बत्स्वरूपं विश्वं कदा द्रक्ष्यामः इत्यर्थः ॥ , ।
७ स्तबकः ] विष्णुभक्तिकल्पलता। ६३ देव श्रीनरसिंह संहर ममाज्ञानं यदाघ्रातह- नालस्यं तरसा त्यजामि शिरसा नन्तुं त्वदशिवयम् । लग्नं यत्र मनो मनोहरतरास्ताराधिपास्याः स्त्रियो- ऽपास्य वर्गसहामुदारमयते मायाविहीनं महः ॥ ३८ ॥ हे देव श्रीनृहरे, ममाज्ञानं संहर नाशय । येनाज्ञानेनाघ्रातं प्रस्तं हृद्यस्याज्ञानग्रस्तोऽहं शिरसा तव पादद्वयं नमस्कर्तुमालस्यं तरसा वलेनापि न त्यजामि । यत्र पदद्वये लत्रं मनो मायातीतमुदारं महो ब्रह्मखरूपमयते प्राप्नोति । किं कृत्वा । अतिसुन्दरीश्चन्द्रमुखी- देवानां स्त्रियोऽप्सरसोऽपास्य त्यक्त्वा । यत्कारुण्यकटाक्षलेशवशतो लब्धा दिवः खामिता यस्याज्ञामपहन्तुमन्तकशिरश्छेत्तापि नालं मृडः । संपत्तिक्षमया सदैव रमया यद्दास्यमभ्यस्यते भक्ते सीदति यः प्रसीदति विभुः सेव्यः स एवाच्युतः॥३९॥ इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां विष्णुविज्ञप्तिनीम षष्ठः स्तबकः । स एवाच्युतः सेव्यो नान्यः । यत्कृपाकटाक्षलेशवशाद्दिवः स्वामिता वगैश्वर्यमि- न्द्रत्वं लभ्यम् । यमशिरसश्छेत्ता मृडः शिवोऽपि यस्याज्ञा हातुं न समर्थः । संपत्तिदाच्या लक्ष्म्या यद्दास्यमेवाभ्यस्यते । भक्त सीदति यो हरिः प्रसन्नो मवति । एतादृशो हरिः सेव्यो नान्यः ॥ इति महीधरविरचिते विष्णुभक्तिकल्पलताविवरणे विष्णुविज्ञप्ति म षष्टः स्तबकः । - सप्तमः स्तबकः । संसारं तिरस्कर्तुं मङ्गलं करोति- केयं कौस्तुभकान्तिपूरलहरीलीलाविहारातुला- नन्दा नन्दति नन्दनन्दन घनश्यामे त्वदीयोरसि । हृद्येवासि ममेति मां यदवदस्तत्केत्यसूयाकुलां छाया सुश्रु तवेयमित्यवतु वः श्लिष्यन्मुरारिः श्रियम् ॥ १ ॥ कौस्तुभकान्तिपूरलहरीषु लीलाविहारेऽतुलो निबिड आनन्दो यस्या ईदृशी मेघाने खदुरसि हे नन्दसूनो का नन्दति । 'त्वं मम हृदय एवासि' इति यदुक्तवान् , तर्हि 'इयं का' इत्यसूयाव्याप्तां लक्ष्मी प्रति 'हे सुश्रु तवायं प्रतिविम्बः' इत्युक्वालिङ्गनं कुर्वन् मुरारिवों युष्मानवतु पातु ॥ विश्वासो वनितासु मन्दमतिभिमैत्री मृषा भाषणं भेदी भर्गमधुद्विषोः करुणया मुक्ता क्रिया वा वरम् ।
काव्यमाला। .. अत्तं हालहलं कलङ्ककलना कष्टं कलिर्वोत्तमै- ये गोविन्दपदारविन्दविमुखाः संभाषणं तैर्न तु ॥ २ ॥ वरमेतानि कार्याणि, परं हरिपदविमुखैः सह संभाषणं न तु तानि कानि कार्याणी- त्याह-स्त्रीषु विश्वासः, मन्दबुद्धिभिनरे मैत्री, मिथ्यावचनम् , हरिहरयोर्भेदः, दयाहीना क्रिया निर्दयं कर्म, हालहलं विषमत्तं भक्षितम् , कलकार्पणमन्यस्य, उत्तमैः सार्ध कलहः। एतेभ्योऽपि हरिविमुखसंभाषणमधर्ममित्यर्थः ।। या वेला याति जन्तोर्जगति जलधरश्याम लोकाभिराम श्रीराम ध्यानपूजाप्रणतिनुतिमहामङ्गलश्रीभिरिभ्या । आयुः सा सर्वकामैरभिमतमतुलं स्वर्गसौख्यं च सैव ब्रह्म त्वं सा तदन्या मृतिनरकततिप्राप्तिगर्भातिहेतुः ॥ ३ ॥ हे मेघश्याम, लोकानन्दकर श्रीराम, सा ध्यानपूजानतिस्तुतिरूपमहामङ्गलशोभाभि- रिभ्या आढ्या या वेला जन्तोर्याति । 'इभ्य आब्यो धनी स्वामी' इत्यमरः । सैवायु - वनम् , सर्वाभीष्टयुतं खर्गसुखमपि सैव वेला, ब्रह्मत्वं सैव, तदन्या हरिध्यानादिशुन्या वेला मरणनरकश्रेणीपातगर्भदुःखानां हेतुः कारणम् ॥ श्रीरामाय नमो नमो नम इति व्याहृत्य हत्यायुता- न्मुच्यन्ते मनुजा न जातु जठरं मातुर्विशन्ति क्वचित् । मन्त्रोऽयं मधुराक्षरः स्फुरतु मे जिह्वाञ्चले निश्चलो येनामी निगडा गलन्ति सहसा संसारसंबन्धिनः ॥ ४ ॥ मनुष्याः 'श्रीरामाय नमः' इत्युच्चार्य ब्रह्महत्यादिपापौघान्मुच्यन्ते, जननीजठरं च कदाचिन्न विशन्ति । मधुरवर्गोऽयं मन्त्रो मे जिह्वाञ्चले स्थितः स्फुरतु । येन मन्त्रेणामा सवलाः सहसा गलन्ति निवर्तन्ते ॥ सानन्दं सुन्दरीभिः समममरपुरोपान्तकान्तारवेल्ल- न्मल्लीवल्लीमतल्लीप्रचुरपरिमलप्रीयमाणालिवृन्दैः । उद्गीतस्फीतशीतद्युतिसदृशयशा यच्चिरं भाति यज्ञैः कैतत्कानन्तसेवाफलमहह कुतः कल्पवृक्षः क तालः ॥ ५॥ एतादृशो नरो यज्ञैरश्वमेधादिमिः कृत्वा सुन्दरीभिः सार्ध सानन्दं यचिरं शोभते एतत्व । हरिसेवाफलं मोक्षाख्यं क । द्वौ महदन्तरे । मोक्षापेक्षया स्वर्गफलं तुच्छमि- त्यर्थः । कीदृशः । अमरपुरं वर्गस्तत्समीपे कान्तारं वनं तत्र वेल्लन्त्यः प्रसरन्यो या मल्लि- वल्लीमतल्लयः मल्लिकालताश्रेष्ठाः। 'मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजी' इत्यमरः । तासां १. जग्वादेशस्य वैकल्पिकलाभावात् 'अत्तम्' इति कस्य रूपमिति चिन्तनीयम्. .
७ स्तबकः] विष्णुभक्तिकल्पलता। प्रचुरो यः परिमलस्तेन प्रीयमाणानि यान्यलिवृन्दानि भ्रमरसमूहास्तैरुद्गीतं स्फीतं चन्द्रसदृशं यशो यस्येतादृशः सन् । दृष्टान्तमाह-पारिजातः कल्पवृक्षः । कुतः । तालश्च क्व । यथा पारिजाततालयोरन्तरम् , तादृशं मोक्षस्वर्गयोरित्यर्थः ॥ जन्तो दीन भवाध्वनीन बहुना भारेण किं कर्मणां खिन्नः किं न करोषि कर्णकुहरे किंचिद्वरेण्यं वचः । विश्रामं कुरु रामचन्द्रचरणच्छायाखनायासतो यत्रत्या भविनो विनोदवशतो विन्दन्ति वाञ्छाधिकम् ॥ ६ ॥ हे भवाध्वनीन । अध्वनि गच्छतीति 'अध्वनो यत्खौ' इति खः । हे संसारपान्थ । हे दीनजन्तो, कर्मणां नित्यनैमित्तिककाम्यानां भारेण किं खिन्नः श्रान्तोऽसि । किं- चिच्छ्रेष्ठं वचनं कर्णविवरे किं न करोषि। किं वच इत्याह-हरिपदच्छायासु विश्रान्ति कुरु । यत्रत्या हरिचरणस्था जन्तवो विनोदवशेनैवायासं विना वाञ्छाधिकं लभन्ते ॥ हर्ष चेत्कुरुषे सखे तदविता विष्णुर्ममेति ध्रुवं कुर्वीथा यदि रोषमेष तदरिः संसार एकस्तव । लोभश्चेतसि चेत्तदर्पय धनं सत्पात्रभूते द्विजे- ऽहंकारस्तु तवायमेव घटते यत्सर्वमेवास्म्यहम् ॥ ७ ॥ कामादयो यद्यपि निषिद्धाः, तथापि तव कर्तव्याश्चेत्, तर्हि तेषां करणे स्थान- माह-हे सखे, चेद्धर्ष कामं कुरुषे तर्हि 'हरिर्मम रक्षिता' इति कामं कुरु । यदि रोषं कुरुषे चेत्, तर्हि एक एष संसारस्तवारिः, तत्रैव कार्यः। तव चित्ते लोभश्चेत्, तर्हि सत्पात्रभूते विद्याचारयुते विप्रे धनं देहि । तवाहंकारस्वयमेव घटते यत्सर्व- महमेवास्मि । 'सर्वं खल्विदं ब्रह्म' इति श्रुतेः ।। ये वर्णा व्यवहारमार्गविविधव्यापारवन्तः सदा किं तैः संसृतिजालविस्तृतिकृते तन्तुत्वमभ्यागतैः । जिह्वे जल्प निरन्तरं भगवते नारायणायों नमो याताः पातकिनोऽपि यैः परपदं यत्तद्गुणागोचरम् ॥ ८ ॥ संसारमार्गे नानाव्यवहारोपयोगीनि यान्यक्षराणि संसाररूपजालस्य विस्तारार्थ तन्तुत्वं प्राप्तैस्तैरक्षरैस्तव किम् । मिथ्यावर्णोच्चारो न कार्य इति भावः । हे जिह्वे, नित्यं 'ॐ नमो भगवते नारायणाय' इति वर्णानित्यं वद । यैर्नारायणनामवणः पातकवन्तोऽपि जना यद्गुणातीतं परपदं ब्रह्मपदं तद्याताः प्राप्ताः ॥ यावत्संसारदावानलबहुलबलोत्तालकीलाकराल- प्राग्भारस्फारतापातदनुतरभवद्वेदनाभेदनाभिः ।
काव्यमाला । निमेषमिषेणाभ्यासं करोति । जनं भयंकरमधोदेशं नरकरूपं प्रापयन्मारः कामो वर्धते । ततो वद हरेः पूजां विना जीवितं किं सारम् । हरिपूजनमेवेत्यर्थः ॥ कंसारातिसुरातिसेवितपदध्यानप्रमोदक्षणं हित्वाराधकबाधकव्यधविधौ लोकत्रये दक्षिणम् । कः सारामितरः करिष्यति विशामाशाभृशावर्तव- संसाराब्धिसमर्थमारमकरग्रासीकृतानामिह ॥ १६ ॥ कंसशत्रोहरेः सुरैर्देवैरत्यन्तं सेवितं यत्पदं तस्य ध्यानेन यः प्रमोदोत्सवस्तं त्यक्त्वा- न्यः को विशां नृणां सारां समाधानं संभालनं करिष्यति । न कोऽपि । कीदृशानां विशाम् । आशा तृष्णैव भृशोऽत्यर्थ आवर्ती जलभ्रमो यत्रेदृशो यः संसारसमुद्रस्तत्र समर्थो यो मारः काम एव मकरस्तेन ग्रासीकृतानां भक्षितानाम् । कामाकुला- नामित्यर्थः । ध्यानप्रमोदक्षणं कीदृशम् । त्रैलोक्ये आराधकानां सेवकानां ये बाधकाः कामादयस्तेषां व्यधो नाशस्तद्विधा नाशकरणे दक्षिणं कुशलम् । समर्थमित्यर्थः । हरि- ध्यानमेव कामादिशमकमिति भावः ॥ भूयाद्भूधर भक्तिरेव भवतः पादाम्बुजे भूयसी यामाश्रित्य यमं न मन्दमतिरप्यालोकते कुत्रचित् । दीव्यत्संमृतिदावपावकपयोवाहप्रवर्षत्ततिः पीयूषादपि पेयपावनरसा लभ्या सदभ्यासतः ॥ १७ ॥ है भूधर, तव पादाब्जे भूयसी बही भक्तिर्मे भूयात् । मन्दबुद्धिरपि यां भक्ति- माश्रित्य कदापि यमं न पश्यति। कीदृशी भक्तिः । दीव्यन्प्रसरन्यः संसार एव दावा- निस्तत्र मेघस्य प्रवर्षन्ती ततिः श्रेणी। तन्नाशिकेत्यर्थः । अमृतादपि पातुं योग्यः पावनः पवित्रो रसो यस्याः। अमृतादपि खादीयसीत्यर्थः। तथा सता श्रेष्ठेनाभ्यासेन प्राप्या ॥ संसाराहृयदावपावकलसल्लोभादिकीलावली. दाहव्याहतदेहिदौःस्थ्यदलने यज्जायु वीर्योत्तरम् । पीयूषादतिरिच्यतां मम मुखव्याकोशपद्माशये तद्गङ्गादिगरिष्ठतीर्थगुरु ते गोविन्द पादोदकम् ॥ १८ ॥ हे गोविन्द, तत्ते तव चरणोदकं मम मुखलक्षणे विकसितकमलमध्ये अमृतादप्यति- रिच्यताम् । अमृतादपि खादुतरमस्तु । तत्किम् । यत्पादोदकं संसाररूपदवानेलसन्त्यो या लोभादिलक्षणा ज्वालापतयस्तज्जनितदाहेन व्याहताः पीडिता ये देहिनस्तेषां दौःस्थ्यं दुःखं तद्दलने तनाशे वीर्योत्तरं बलवज्जायु औषधम् । संसारदावानलशमकमित्यर्थः ॥ ..
७ स्तबकः] विष्णुभक्तिकल्पलता। संसृत्याह्वयवागुरैकविषये व्याधो हि कालाभिधो मायाजालवशं विधाय बलवानहाय मामक्षिपत् .। तत्रत्यातुलजन्तुजातिकलनोद्दामापदं मां दया- सिन्धो माधव मोचयामितभयादीनं धृताशं त्वयि ॥ १९ ॥ संसारलक्षणवागुराया मृगबन्धन्या एको विषयो देशः तत्र कालनामा बलवान व्याधोऽह्नाय शीघ्रं मायालक्षणजालवशवर्तिनं मां कृत्वा अक्षिपत् क्षिप्तवान् । तत्रत्याः संसारवागुराविषयस्था अतुला वहवो या जन्तुजातयस्तासां कलनेन ग्रसनेन उद्दामा उत्कृष्टा आपत्पीडा यस्य तम् । अत एव दीनं वयि धृताशं कृतामिलापं मां हे दयाब्धे माधव, अमितादसंख्याद्भयान्मोचय । संसृतिपथं निवर्तयेत्यर्थः । मायाजालमिदं विचित्रमतुलं यस्मात्समुत्पद्यते सूत्रं प्रत्युत संसृतिप्रसृतये यत्र स्थिता जन्तवः । नित्यं निर्व्यथनैर्निवारितदृशो यन्मध्यगैश्यते विश्वाकारतया तदेव परमं ब्रह्म प्रकाशात्मकम् ॥ २० ॥ इदं मायाजालं विचित्रमाश्चर्यकारि । अतुलभनुपमं च । तदेवाह-यस्मान्माया- जालात् प्रत्युत वैपरीत्येन संसारप्रसाराय सूत्रं महत्तत्त्वमुत्पद्यते । 'प्रकृतेर्महान्' इत्यादिश्रुतेः । सूत्राज्जालं जायते । अत्र पुनर्जालात्सूत्रमिति वैपरीत्यम् । यत्र माया- जाले स्थिता जन्तवो निय॑थनैनितरां पीडनैर्निवारितदृशो नष्टज्ञाना वर्तन्ते । अथ 'रन्ध्र निर्व्यथनं रोकम्' इत्यमरोक्तेर्निर्व्यथनं छिदं तेन वारितनेत्रा जना इत्याश्चर्यम् । छिद्रे तु पश्यन्ति । किंच, यन्मध्यगैर्यत्र मायाजाले स्थितैर्जनैः प्रकाशरूपं तद्ब्रह्म विश्वाकारतया संसाररूपत्वेन दृश्यते 'सर्व खल्विदं ब्रह्म' इत्युक्तेः॥ मा दामोदर दाः कदाचन चिदानन्दानुभावोत्सवा- दन्यं मे समयं भयंकरभवव्याधिप्रधानौषधात् । कस्ते पादसरोजसेवनसुधासुखादसंतुष्टह- सौख्ये संसृतिसंभवे सुमतिमान्संजायते सस्पृहः ॥ २१ ॥ हे दामोदर, कदाचिदपि चिदानन्दस्य योऽनुभावस्तजनितादुत्सवादन्यं समयं क्षणं मे मह्यं मा दाः मा देहि । किंभूतात् । भीतिप्रदो यो भवव्याधिः संसाररोगस्तस्य प्रधान श्रेष्ठमौषधं तद्रूपात् । अर्थान्तरमाह-ते तव पादपद्मसेवनमेव सुधा अमृतं तस्य शो- भनखादेन संतुष्टं हृत् हृदयं यस्य एतादृशः को वा सुमतिमान् संसारोत्थसुखे सामि- लाषो जायते ॥
काव्यमाला ।
..
सर्वाशासु समुन्नते जितवति प्रायेण तापत्रयं
श्रीरामे भवदावपावकघने निप्पङ्कजन्मस्थितौ ।
अव्यक्ताक्षरमेव गर्जति भवेद्यासारमुक्तिस्तया
मा सीदन्तु सबीजयोगमरुतः सत्क्षेत्रिणोऽयं नयः ॥ २२ ॥
संसारदावानलस्य घने मेघे संसारतापशमके श्रीरामे अस्पष्टाक्षरं गूढं यथा तथा
गर्जति या सारा श्रेष्ठा मुक्तिर्भवेत् , तया सन्तः क्षेत्रिणो देहिनो मा सीदन्तु । अयं नयो
नीतिः । कीदृशे रामे । सर्वदिक्षु समुन्नते प्रसिद्ध । आध्यात्मिकादितापत्रयं प्रायेण जित-
वति तापनाशके । निष्पकं निष्पापं जन्म येषां तत्र स्थितिर्यस्य तस्मिन् । अर्थान्तर-
ध्वनिः--सर्वदिक्षुनते तापनाशके निश्चिता पङ्कस्य जन्म स्थितिश्च यत्र । गूढं गर्जति
मेघे या आसारस्य वेगवृष्टेभुक्तिर्भवेत् , तया क्षेत्रवन्तो न सीदन्ति । कीदृशा देहिनः
क्षेत्रिणश्च । सवीजयोगमरुतः । साकारध्यानयुक्तो योगः सबीजयोगः, तत्र मरुत् प्राणा-
यामो येषां ते । बीजं व्रीह्यादि तद्योगेन मस्ता अनुकूलवायुना च सह वर्तमानाः ।
'पकोऽघे कर्दमेऽपि च ।' 'बीजं तु रेतसि । स्यादाधाने च तत्त्वे च हेतावडरकारणे ॥'
[इति हैमः ।] 'क्षेत्रं भरतादौ भगाङ्कयोः । केदारे सिद्धभूपत्न्योः' इति कोषः ॥
चित्रं त्वेतदलब्धवीजविवशा योगेन हीनाः सदा
येषां साधयितुं समीहितमभून्नैवानुकूलोऽनिलः ।
क्षेत्रं वीतवृषोदयं बहुतृणं संप्राप्य संकर्षणाः
साम्यं ते समवाप्नुवन्ति फलतः श्रीरामनामग्रहात् ॥ २३ ॥
एवंविधा अपि नराः श्रीरामनामग्रहणमात्रेण सम्यकर्षणं शरीरशोषणं कृषिश्च येषां
ते फलतः फलेन सादृश्यं यान्तीत्येतचित्रम् । कीदृशाः । अलब्धं यद्वीजं सबीजयोग-
ध्यानं च तेन विह्वलाः। योगेन योगाङ्गेन यमादिना उपायेन, हलादिसामग्र्या च हीनाः ।
किंच, येषां समीहितमिष्टं साधयितुमनुकूलो वायुः प्राणायामो वाह्यवायुश्च नाभूत् । किं
कृत्वा । वीतो नष्टो वृषोदयो धर्मोदयो वृष्टयुदयश्च यस्मात् । बहुतृगं तृणादप्यूनं
तुच्छम् । तृणात् (विभाषा बहुच्) परस्तात्तु' इति बहुच् । बहूनि तृणानि यत्र ईदृशं
क्षेत्रं स्थानं च प्राप्य ॥
रे संसारपयोद पुण्यतरणिं प्रच्छाद्य पङ्कोत्तरा
वृष्टिवैषयिकै रसैरविरतं सन्मार्गरोधाय ते ।
किं च स्त्रैणकटाक्षलक्षणतडिझंकारतः केशवा-
सक्तान्भीषयसे श्रुतस्तव न किं तत्तार्क्ष्यपक्षानिलः ॥ २४ ॥
७ स्तबकः] विष्णुभक्तिकल्पलता। १ : रे संसारमेघ, पुण्यतरणिं धर्मलक्षणं सूर्य प्रच्छाद्य वैषयिकैर्विषयसंवन्धिभी रसैर्विषया- खादैः पङ्गं पापमुत्तरमधिकं यस्याः सा । तव वृष्टिः सन्मार्गस्य रोधाय वारणाय भवति । किंच स्त्रीसंवन्धी कटाक्षरूपो विद्युतो झांकारस्तेन विष्णुभक्तान् यत्त्वं भीषयसे भयमुत्पा- दयसि, तत्किं तव तस्य हरेस्ताक्ष्यों गरुडस्तत्पक्षवातो न श्रुतः । स खां निर्मूलं करिष्य- तीत्यर्थः । वातस्य मेघनिराकरणक्षमत्वं प्रसिद्धम् ॥ तृष्णावल्लभ दम्भदोर्बल महामोहप्रविष्टास्पद- क्रोधालस्यवयस्य लोभविभव भ्रान्तिवतैकादर । संकल्पात्मक मर्म तेऽस्ति विदितं संसार किंचित्परं यन्नारायणनाममात्रचकितो भूयो न भावी भवान् ॥ २५ ॥ तृष्णा वल्लभा यस्य । दम्भ एव वाहुवलं यस्य । महामोहस्थितावास्पदं यस्य । को- पालस्ये मित्रे यस्य । लोभ एव विभवः समृद्धिर्यस्य । भ्रान्तिव्रतरूप एक आदरो यस्य । संकल्प एव आत्मा स्वरूपं यस्य । हे संसार, तव किंचित्परमुत्कृष्टं मर्म विदितमस्ति । यद्धरिनाममात्रभीतो भवान पुनर्भविष्यति । लोलत्वं न जहाति हन्त कमला कौमारमुख्यं वयो विद्युद्दर्शनकल्पमल्पदिवसा नैव स्थितिः खैः सह । या जागर्ति विदन्निदं न मनुजः संकल्पशय्यां गतः संसारावयवैरिणो विलसितं सर्वं तदेतद्भुवम् ॥ २६ ॥ हन्तेति खेदे । लक्ष्मीश्वाञ्चल्यं न त्यजति । बाल्यादिवयस्तु विद्युद्दर्शनतुल्यम् । अति. चञ्चलमित्यर्थः । वन्धुमिः सहावस्थानं खल्पकालावस्थायि । मनुष्य इदं लक्ष्म्यादिचा- चल्यं जाननपि यन्न जागर्ति । मनोरथरूपशय्यां गतः सन् पारलौकिकं न करोति । निश्चितमेतत्सर्वं संसारलक्षणशत्रोविलसितम् । संसारप्रताप इत्यर्थः ॥ रे संसारसमुद्र मुद्रय मुखं मा गर्ज लोलै लै- गण्डूषपहिलो ग्रहीष्यति मुनिस्त्वां कुम्भकात्संभवन् । ब्रह्मण्यः स यमी घनाम्बुगरलप्रायः प्रवीणः प्रभु- स्ताराकारधरः समस्तजगतामानन्दहेतूदयः ॥ २७ ॥ रे संसारार्णव, मुखं मुद्रय, चञ्चलै लैर्मा गर्न । ब्रह्मण्यो ब्रह्मप्रतिपादकः । यमी नियमयुक्तः । [घनाम्बु] मेघजलं निबिडपानीयं तदेव विषं तन्नाशचतुरः । तारस्य प्रण- वस्य आकारधारी, बिन्दुरूपो वा । सर्वलोकानामानन्दकारणीभूत उदयो यस्येतादृशः । कुम्भकात्प्राणायामभेदादुत्पन्नः । मुनिर्मननशीलः । ज्ञानरूपो हे ग्रहिल आग्रहास्तां ग्रहीष्यति यास्यति ।।
७२
काव्यमाला।
प्रायो यत्परिचर्ययैति विलयं दोषोऽखिलः संचितः
सर्वोपद्रवशान्तिरस्ति चरिते यस्य श्रुते विश्रुते ।
यन्नामैव महौषधं त्रिभुवने पथ्यं पयः पादयोः
संसारामय रामचन्द्रचरणप्रहे भवेत्किं व्यथा ॥ २८ ॥
हे संसाररोग, हरिपादनने नरे तव किं भवेत् । तमेव हरिं वर्णयति-यत्सेवया
संचितः सर्वो दोषः प्रायो नाशमाप्नोति । विश्रुते यस्य चरिते रावणवधादिके श्रुते सति
सर्वेषामुपद्रवाणां नाशोऽस्ति भवति । त्रैलोक्ये यन्नामैव रामेत्यादिकं रोगौषधम् । यत्पा-
दोदकं पथ्यं हितम् । ईदृशे रामभक्त लमत्किंचित्करः ॥
सारं सर्वगिरां सदा दिशति यज्जन्तोरसव्यश्रुतौ
काश्यां कालजिघृक्षितस्य करुणाकल्लोलमाली मृडः ।
पीतं पुण्यवशाद्दशाननरिपो रामेति नामामृतं
येनासावमृती भयंकरभवाम्भोधेर्भयं तस्य किम् ॥ २९ ॥
रावणशत्रो रामेतिनामरूपममृतं येन पुण्यवशात्पीतम् , असौ अमृती मोक्षाधिकारी ।
तस्य भयंकरात्संसारसमुद्रात्किं भयम् । न किमपीत्यर्थः । तदेवाह-दयासमुद्रो हरः
काश्यां कालेन गृहीतुमिष्टस्य मुमूषोर्जनस्य दक्षिणकर्णे सर्ववाणीनां सारभूतं सदा यद्राम-
नामोपदिशति ॥
रोष त्वं दोषपोषोन्मुख विषयजुषो यन्निगृह्णासि तद्व-
न्मैव श्रीवत्सलक्ष्मोपचरणचतुराञ्जीगणो जातु जन्तून् ।
क्षेमं रामं नमन्तः कति तु कृतिविदामुत्तमं मन्तुमन्तो
धाम व्याधामपाणिप्रमुखमखभुजां भेजुरुद्भासिताशाः ॥ ३० ॥
हे रोष, हे दोषस्य वृद्धावुन्मुख, विषयसेवापरांस्त्वं यद्वत्पीडसि, तद्वद्धरेरुपचरणं सेवा
तत्परानरान्माजीगणः मा गणय । गणयतेलुङि मध्यमपुरुषैकवचनम् । 'नाग्लोपिशा-
स्वृदिताम्' इत्यस्य गणयतेर्विकल्पितत्वाच्चकार्यम् । मन्तुमन्तः सापराधा अपि जनाः
कृतज्ञानां श्रेष्टमिमं हरिं नमन्तः कतीन्द्रादिदेवलोकान प्राप्ताः । कीदृशाः । उद्भासिता
दिशो यैः । व्याधाम वजं पाणौ यस्य व्याधामपाणिरिन्द्रः । 'व्याधामोऽपि' इति वज्र.
नामसु क्षीरखामी ॥
दानं नानन्दहेतुर्भवति महदहो दत्तमप्युत्तमेभ्यो
यागो वा गोहयादिलितफलतया नर्म निर्माति नोचैः ।
धर्मः शमैकभूमिर्न विलयमयते कोऽत्र यस्य प्रसङ्गा-
दम्भो दम्भोलिकल्पः स्पृशति कथमिवाधोक्षजध्यानधन्यान् ॥३१॥
७ स्तबकः] विष्णुभक्तिकल्पलता। दानमिति । पात्रेभ्यो दत्तं महदपि तुलापुरुषादिकं दानं सुखकारणं न भवति । गोमे- धादिमार्गोऽपि अधिकसुखं न करोति । कुतः । गलितफलतया क्षीणफलत्वेन । दान- यागादिफलं भुक्तं क्षीयत इत्यर्थः । यस्य हरेः प्रसङ्गाद्धरिसेवातः शर्मणः सुखस्य एका असाधारणी भूमिः स्थानभूतो धर्मों न नाशं प्राप्नोति । तस्य हरेाने एकनिष्ठा- न्ध्यापरान्को दम्भाद्यधर्मसंवन्धः कथमभिभवति । नाभिभवतीत्यर्थः ॥ भवतिमिर किमेतन्मेदुरं ते दुरन्तं प्रसरति परितोऽङ्गं पीडयत्साधुलोकान् । हरितरणिरुदेति ग्रस्तमायातमिस्रो रचयति न पुरा त्वां किं कथाशेषमेषः ॥ ३२ ॥ हे संसाररूपान्धकार, मेदुरं बहुलं दुरन्तं दुष्टावसानं साधुजनान्पीडयते तवैतदङ्गं किं प्रसरति । न प्रसारणीयमित्यर्थः । यतो हरिरेव सूर्य उदयं याति । प्रस्तं मायारूपं तमो येन । एष हरिमिहिरः । 'मिहिरारुणपूषणः' इति कोषः । खां कथैव शेषो यस्य तादृशं किं न पुरा रचयति । न रचयिष्यतीत्यर्थः । भवभुजग जगन्ति व्याकुलीकृत्य दर्पा- दयि दशसि दशास्यारातिसेवारतान्यत् । विषयविषयुताशीःखण्डनेऽतिप्रचण्डा- किमु पतगपतेस्ते कोऽपि गोपायितास्ते ॥ ३३ ॥ हे संसारसर्प, गर्वाज्जगन्ति व्याकुलानि कृला यद्दशास्यो दशमुखस्तदराती रामस्त- सेवापरायणांस्त्वं दशसि प्रससे । तत्किं पतगानां पक्षिणां पत्युर्गरुडाद्गोपायिता रक्षिता कोऽपि तव वर्तते। कीदृशात् । विषया एव विषं तद्युक्ता आशीर्दष्ट्रा तत्खण्डनेऽति समर्थात्॥ भवदव तव दग्धुं नौचिती विष्णुभक्तां- श्वरितमतुलमेतत्किं न याति स्मृतिं ते । यदयमपिबदग्निं गोकुलग्रासगृघ्नु भवति सह महद्भिः श्रेयसे किं विरोधः ॥ ३४ ॥ हे संसारदावाने, हरिभक्तान्दग्धुं तवौचिती योग्यता नास्ति । एतदतुलं हरेश्वरितं किं तव स्मरणं नाप्नोति । यदयं हरिर्गोकुलदाहे सामिलापं दवाग्निं अपिबत् । अशमय- दिति भावः ॥ आसीत्स्यमन्तकमणेहलहेतिचेतः कृष्णेऽतिकोपकठिनं कुहनाविहीने । १. श्लोकोऽयं कुत्रचित्प्रकृतस्तबकावसाने दृश्यते. 4.
काव्यमाला। सीतापि भर्तुरभवद्धनदुःखहेतुः संसारसागररसा गरलोपमानाः ॥ ३५॥ हलं हेतिरायुधं यस्य तस्य बलभद्रस्य चित्तं निष्कपटेऽपि कृष्णे स्यमन्तकमणेहेतोः कोपेन कठिनमभूत् । कथंभूते कृष्णे । कुहनाविहीने छलरहिते । "शतधन्वा मणिं गृ. हीखा पलायित इति श्रुला तं हन्तुं गतौ बलकृष्णौ ततो हयं पतितं विलोक्य बलमवस्थाप्य गतेन हरिणा तं हवा 'मणिर्नास्ति तत्र' इत्युक्ते मणिः कृष्णेन निद्भुत इति मला बलः क्रुद्धोऽभूत्" इति कथा । सीतापि रामस्य निबिडदुःखदायिन्यभूत् । अत एव संसारा. ब्धिरसाः केचन कामिनीरूपा विषतुल्याः । यैहरयेऽपि दुःखमदायीति भावः ॥ भाति श्रीतुलसि प्रसिद्धमहिमा तेऽयं विधेयं विधे- यत्वीयं न करोषि दासमसकृत्कर्तारमप्यंहसाम् । यत्पत्रे पुरुषोत्तमप्रभृतयो देवा निवासोत्सवा- स्तस्यायुक्तमिदं तदम्ब नय मां पारं भवाम्भोनिधेः ॥ ३६ ॥ तुलसी प्रार्थयते-हे श्रीतुलसि, अयं तव प्रसिद्धो महिमा भाति । कः । अस- कृत् अनेकवारं पापानां कर्तारमपि स्वीयं निजं दासं यद्विधेर्दैवस्य विधेयं वशं न करोषि । पापोऽपि बद्भक्तस्त्वयोभियत इति प्रसिद्धा कीर्तिरित्यर्थः । यस्यास्तव पत्रे हर्यादयो देवा निवासनिरताः तस्यास्तवेदमेव युक्तम् । तत्तस्माद् हे अम्ब, मामपि संसाराम्बुधेः पार नय प्रापय ॥ चक्षुर्मैव दिदृक्षु भूः परवधूवक्षोजपद्मप्रभा कर्णाकर्णय कौतुकादपि वचो मावर्णवादात्मकम् । जिह्वे जल्प यथातथं विरमयाप्यक्षं परं पातका- न्मच्चित्तेऽखिलदुष्टदर्पदलनो दामोदरो दीव्यति ॥ ३७ ॥ इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां संसारतिरस्करणो नाम सप्तमः स्तवकः॥ हे चक्षुर्नेत्र, परस्त्रीस्तनपद्मकान्ति द्रष्टुमिच्छु मैव भूः मा पश्य । हे कर्ण, अवर्णवादात्म. कम् , अपवादवचनरूपं वा कौतुकादपि मा शृणु । हे जिहे, सत्यं वद। परमप्यक्षमिन्द्रिय घ्राणकरादिकं पापानिवर्तय । यतः सर्वेषां दुष्टानां दर्पनाशको हरिर्मम मनसि क्रीडति ॥ इति श्रीमहीधरविरचिते विष्णुभक्तिकल्पलताविवरणे संसारतिरस्कारो नाम सप्तमः स्तबकः॥ - अष्टमः स्तबकः । संप्रति ध्यानं वक्तुं मङ्गलमाचरति- गोप्यः कोऽप्ययमद्भुतः सुतपसो नन्दस्य सूनुः वयं शंभुर्वा कमलासनः सुरशिरोरत्नं रमेशोऽपि वा ।
८ स्तबकः] विष्णुभक्तिकल्पलता। संलापामृतपूर्णकर्णकुहरामेवं व्रजस्त्रीजनै- र्गाढानन्दमयीं पयोऽर्थमवतु श्लिप्यन्यशोदां हरिः ॥ १ ॥ हे गोप्यः, शोभनतपोयुक्तस्य नन्दस्यायं पुत्रः कोऽप्यद्भुतः शिवो ब्रह्मा देवशिरोमणि- हरिर्वा, एवं गोपीजनैः संलापामृतेन पूरितं कर्णविवरं यस्यास्ताम् । अत एव निबिडह- 4व्याप्तां यशोदां स्तनपानार्थमालिङ्गन्हरिवः पातु ।। पात्रं हृत्कमलं मुरारिचरणद्वन्द्वैकसेवामृतं स्नेहोऽनन्तनितान्तनिर्मलगुणैरुद्दामशोभा दशा । अन्तर्यामितया प्रतीतममलं ज्योतिः किमप्यद्भुतं मायाकजलरेख एष भवताद्दीपो भवध्वान्तभित् ॥ २॥ एष परम रूपो दीपो वो युष्माकं संसारान्धकारभिद्भवतु । दीपसामग्रीमाह- हृत्पद्मं पात्रम् । हरिचरणयुगलभक्तिलक्षणममृतं स्नेहस्थानीयम् । हरेरत्यन्तनिर्मला ये गुणा ऐश्वर्यादयस्तैरुत्कृष्टशोभायुक्ता दशा वर्तिः । अन्तर्यामिस्वरूपेण प्रसिद्धं निर्मलाश्चर्य- कारि ज्योतिर्दीपप्रभास्थानीयम् । किंभूतो दीपः । मायैव अञ्जनरेखा यस्य ॥ आयुनरिमिदं निमेषमिषतः कालेन पेपीयते पश्य प्राश्य जगन्ति विश्वविरमेऽविच्छिन्नतृप्णावता । प्राणस्तद्भयविह्वलः प्रियतया देहस्य चायं पुन- र्यातायातपरस्तदत्र कतरत्कृष्णादुपायान्तरम् ॥ ३ ॥ जगन्ति प्राश्य विश्वं संहृत्य विश्वनाशेऽपि अविच्छिन्नतृष्णायुक्तेन कालेन निमेषमिषा- दायुर्लक्षणं जलं पेपीयते । पातेर्यङ् । तस्मात्कालाद्भयेन व्याकुलः प्राणोऽयं देहस्य वल्ल- भतया यातायातपरो गमनागमनपरोऽस्ति । तत्तस्मादत्र संसारे कृष्णादन्यदुपायान्तरं सुखसाधनं कतरत् किमस्ति । हरि विनान्य उपायो नास्तीत्यर्थः ॥ यत्ते चित्ते विधत्ते हरिपरिचरणोपायमस्तव्यपायं शास्त्रं साक्षात्समत्वप्रमदसमुदयप्राप्तये तद्धि विद्धि । लीलाकैलासशैलाश्रयविबुधवरप्राज्ञतायास्तु शेष संसारस्थित्यपेक्षापलपितपरमानन्दमर्थान्तराढ्यम् ॥ ४ ॥ 'समः शत्रौ च मित्रे च तथा मानापमानयोः' इत्यादिना गीतोक्तं यत्समत्वं तेन यःप्रम- दसमुदय आनन्दोदयस्तत्प्राप्तये शास्त्रं गीतोपनिषदादिवेदान्तशास्त्रं यत्ते यत्नवति । यती प्रयत्ने । चित्ते हरिसेवालक्षणमुपायम्, अस्तो व्यपायो विघ्नो यत्र निर्विघ्नं यथा तथा विधत्ते करोति, इति विद्धि जानीहि । आदौ मनोजयः, ततो हरिसेवा, ततः समवाप्तिः, काव्यमाला । ततो ब्रह्मानन्द इति क्रमः । ततो लीलया कैलासः शैल आश्रयो यस्येदृशो यो विबुध- वरो देवश्रेष्ठः शंकरस्तस्य, प्रज्ञास्यास्तीति प्राज्ञः, प्रज्ञ एव प्राज्ञ इति वा तस्य भावः प्रा- ज्ञता ज्ञानं तस्याः शेषं तदन्यप्रतिपादकमर्थान्तरयुक्तं यच्छास्त्रं तत् । संसारस्थित्यपेक्षया अपलपित आच्छादितः परमानन्दो येनेदृशं बोध्यम् । हर्यन्यप्रतिपादकं शास्त्रं संसारप्रा- पकमित्यर्थः॥ येनानेना विना स्यान्न विहितदुरितस्तीर्णचान्द्रायणादिः प्रायश्चित्तोऽप्यथान्यो विविधवृषवशाद्वासवावासवासम् । संप्राप्य स्निग्धमुग्धाधरमधुररसास्वादसौहित्यहीनो दीनो विभ्रंशमेति श्रयत तदनिशं दास्यमेवाच्युतस्य ॥ ५ ॥ द्विविधो जनः, पापी पुण्यवांश्च । तयोरपि हरिरेव शरणमित्याह-विहितं दुरितं गो- वधादिपापं येन सः । कृतचान्द्रायणादिप्रायश्चित्तोऽपि येन हरिं विना अनेना निष्पापो न स्यात् । अन्यथा अन्यः पुण्यवान् विधिधर्मवशाद्वासवावासे खर्गे संस्थितिं प्राप्य स्निग्धः प्रीतिविषयो मुग्धः सुन्दरो योऽधरस्तस्य यो मधुररसस्तस्याखादेन यत्सौहित्यं तृप्तिस्तद्रहितोऽप्सरोभोगेन तृप्त एव दीनः सन् पुण्यक्षये भ्रंशं पातं प्राप्नोति । तत्त- स्मानिरन्तरं हरेर्दास्यमेवाश्रयत । हरिसेवां विनात्यन्तिकसुखाभावात् ॥ स्फूर्जद्भूर्जटिमौलिशालिनलिनीकल्लोलवल्लोलता- लीलाकौतुकमन्वभावि भवता साकं निजैरिन्द्रियैः । भूत्वा केवलमेव धाम्नि तदहो शुद्धे सुषुम्णान्तरे मध्येहृत्कमलं सुखाय सुचिरं रे चित्त विश्रम्यताम् ॥ ६ ॥ रे चित्त, स्फूर्जति शोभमाने धूर्जटिमौलौ शिरसि शालिनी नलिनी गङ्गा तस्याः क- श्लोलवद्गङ्गोर्मितुल्यं लोलतालीलाकौतुकं चाञ्चल्यक्रीडोत्सवो निजैरिन्द्रियैः सह भवता खया अन्वभावि अनुभूतम् । इन्द्रियाणि त्वं चातिचञ्चलमिति चयैवानुभूतम् । तत्त- स्मात्केवल मिन्द्रियरहितो भूखा सुषुम्णानाडीमध्यवर्तमाने हृत्पद्ममध्ये शुद्ध धानि ब्रह्मख- रूपे चिरकालं सुखाय सुखं प्रातुं विश्रमः क्रियताम् ॥ धुन्या धर्मधुरीणयाध्वरभुजां बन्धूरया धारया द्वारं तां दशमी प्रविश्य वियतः प्रक्षाल्यमानं महत् । सर्वखं यदशेषतः श्रुतिगिरां ध्येयं यदेकं सतां तध्यात्वा सुमनस्तयार्चय चिरं चेतोऽच्युताख्यं महः ॥ ७ ॥ हे चेतः, तदच्युतरूपं महस्तेजः सुमनस्तया शोभनमनस्कत्वेन ध्यात्वा पूजय । चिरं सर्वदा । किं कृला । दशमी द्वारं ब्रह्मरन्ध्राख्यां सुषुम्णालक्षणां वा प्रविश्य । कीदृशं ८ स्तबकः] विष्णुभक्तिकल्पलता। ७७ महः । धर्मधुरं वहतीति धर्मधुरीणा, तया धर्मोत्पादिकया अध्वरभुजा देवानां धुन्या गङ्गा हरिचरणवर्तमानया वियतो ब्रह्मरन्ध्रसकाशाद् वन्धुरया मनोज्ञया धारया प्रवाहेण प्रक्षाल्यमानं महल्लोकोत्तरं यच्छ्रुतिगिरामुपनिपद्वाचामशेषतः सर्वांशेन सर्वखम् । यच्च सतां सनकादीनामेकं ध्येयम् ॥ भूत्वा केवलमेव मानस लसन्मोहाद्यसत्सङ्गतो मध्येहृत्कमलं प्रविश्य विमलं वैकुण्ठमाराधय । यस्यालोकनमात्रतोऽत्र तरसा निःशेषकर्मक्षयः क्षीणे कर्मणि कोऽप्यगोचरतरो वाचामलभ्यः पुनः ॥ ८ ॥ हे मानस, लसन्तः प्रसरन्तो ये मोहादयोऽसन्तो दुष्टास्तेषां सङ्गात्केवलमेकं भूखा हृत्पः प्रविश्य निर्मलं हरिं पश्य । यस्य दर्शनमात्रेण सहसा सर्वकर्मनाशः स्यात् । नष्टे च कर्मणि वाचामविषयः कोऽप्यलभ्योऽप्राप्यः । अपि तु प्राप्यैव कर्मणां क्षय एव ब्रह्मान- न्दोदयो भवति । तानि कर्माणि हरिध्यानेनैव क्षीयन्त इति भावः ॥ सामर्थ्य सुमनःसु नास्ति नियतं बन्धं निरोद्धं निज तत्र खान्तमधुव्रत स्थितिरियं बन्धाय गन्धाशया । मुक्तिश्रीमुखपद्मसौरभमपि प्राप्यं यदीयाश्रया- देकं तद्भवपाशनाशकुशलं कृष्णात्रिपद्मं भज ॥ ९ ॥ नियतं निश्चितं सुमनःसु देवेषु कुसुमेषु च निजं बन्धं कर्मबन्धनं निरोद्धं वारयितुं सा- मर्थ्य नास्ति । हे स्वान्तमधुव्रत चित्तभ्रमर, तत्र देवेषु गन्धाशया वासनया इयं स्थि- तिबन्धायैव । संसारवन्धोच्छेदेच्छया अन्यदेव भजनमकिंचित्करमित्यर्थः । तत्तस्मात्सं- सारपाशनाशे समर्थमेकं हरिपादपद्मं सेवख । यत्पादाश्रयान्मुक्तिलक्ष्मीमुखपद्मस्यापि सौरभं प्राप्यमेव ॥ चेतः प्रेतपतिस्थितिश्रुतिरिति त्रासाय संसारिणां तदृष्टिः परमापदामनुभवो नानाविधा वेदना । श्रीमद्रामकथा जनश्रुतिपथा नाहन्ति सर्वव्यथा नासन्पूर्णमनोरथाः कति जनास्तत्रादरं तत्कुरु ॥ १० ॥ हे चेतः, प्रेतपतेर्यमस्य स्थितिश्रवणं पुराणादौ प्राणिनामतिभयाय । यमस्थितिदर्शनं तु आपदां कष्टानां स्थानम् । अनुभवो नरकभोगस्तु नानाविधवेदनारूपः । जनानां श्रु- तयः कर्णाः पन्थानो मार्गा यस्या ईदृशी, जनैः कर्णश्रुता सती रामकथा ता नरकोत्थाः सर्वव्यथा हन्ति निवारयति । तथा रामकथया कति पूर्णमनोरथा नाभूवन । अनेके पूर्ण- कामा जाता इत्यर्थः । तत्तस्मात्तत्र रामकथायामादरं कुरु । तामेव नित्यं शृण्वित्यर्थः ॥
काव्यमाला। मा गा रागवशाद्विहाय विमलं विष्णोः पदाजं क्वचि- च्चेतः सेवितमेतदेव मुनीभिर्मत्वा महिष्ठं महः । मद्वाचं मनुषे न चेदिह ततो हन्तास्मि तेऽहं यतो नो भूतानि न खानि नापि विषया नामी गुणा नो महान् ॥ ११ ॥ हे चेतः, निर्मलं विष्णोश्चरणकमलं त्यक्त्वा स्नेहवशात्कचिन्मा गच्छ । मुनिभिनीर- दादिभिरेतदेव महिष्टं श्रेष्ठं महस्तेजो ज्ञात्वा सेवितम् । मद्वाणी चेन मन्यसे नाङ्गीकुरुषे ततस्तर्हि ते वां हन्तास्मि । कर्मणि षष्ठी । चित्तं नाशयिष्यामि । उन्मना भविष्यामी- त्यर्थः । यत उन्मन्यवस्थायां भूतानि भूम्यादीनि नो, खानि इन्द्रियाणि न, विषया रूपादयोऽपि न, अमी गुणाः सत्त्वादयोऽपि नो, महान्महत्तत्वमपि न । ब्रह्मीभूतो भविष्यामीत्यर्थः ।। यत्तापत्रयसंभवन्नवनवज्वालावलीव्याकुलं जाड्यं नैव जहासि हासि कठिनं चेतस्त्वमुच्चैस्ततः । गङ्गाख्यं गरुडध्वजाङ्गियुगले जागर्ति जायुः स्फुट तध्यानद्रवभावमेत्य तरसानेनैकतां तद्रज ॥ १२ ॥ हे चेतः, यद्यस्मात्तापत्रयादाध्यात्मिकादेः संभवन्ती जायमाना या नवनवा ज्वालाव- लिस्तया व्याकुलं सज्जाड्यं मौख्यं न जहासि न त्यजसि । ततो हेतोरुच्चैरत्यन्तं हा खेदे कठिनमसि । तस्माद्धरिपदयुग्मे गङ्गालक्षणं जायुरसविशेषोऽस्ति, तस्य ध्यानेन स्फुटं द्रवत्वं प्राप्य तरसा वेगेन तेन गङ्गाजायुना एकत्वं प्रामुहि । हरिपदसक्तं भवेत्यर्थः ।। चेतः के तव हेतवः स्तवमवज्ञाय श्रियः प्रेयसः प्रायः पातकजातघातकुतुकं यद्वर्तसे खेच्छया । आश्वेत्ते स्मृतिमेति मातुरुदरे वासव्यथा तत्कथं कण्ठाश्लिष्टवरिष्ठरिष्टनिकराबोधो न कष्टापदि ॥ १३ ॥ पापसमूहस्य घाते नाशे कुतुकमुत्सवो यस्येदृशं श्रियः प्रेयसो रमाकान्तस्य स्तवं स्तुतिमवज्ञाय हे चित्त, त्वं प्रायो बाहुल्येन स्वेच्छया प्रवर्तसे तत्र के तव हेतवः किं प्रयोजनम् । आः इति विस्मये । ते तव मातुरुदरे वासेन या व्यथा सा चेत्स्मृतिमेति, तद्दुःखं स्मर्यते चेत्तर्हि कष्टयुक्तायामापदि कण्ठे आश्लिष्टो लग्नो वरिष्ठः श्रेष्ठो यो रिष्टनिकरोऽशुभसमूहस्तस्मादपि कथं वोधो न जायते । संसारदुःखक्लान्तस्यापि कथं न बोध इत्याश्चर्यम् ॥ अक्षाणामनिशं करोषि यदरे चेतस्त्वमन्वासनं तद्भोग्ये विषये सलालसमसि खामित्वमात्रभ्रमात् ।
८ स्तबकः] विष्णुभक्तिकल्पलता। . - हित्वासन्नमहो महामृतमयं वेदान्तवेद्यं परं किं लजापि न जायते शिवशिव व्यध्वेन ते गच्छतः ॥१४॥ हे चेतः, यनिरन्तरमक्षाणामिन्द्रियाणामवासनमनुवर्तनं त्वं करोषि, इन्द्रियान्यनुव- तसे । तद्भोग्ये इन्द्रिययोग्ये विषये रूपादौ सलालसं सतृष्णं वासि । खामित्वमात्रभ्रमेण अहमिन्द्रियेशमिति भ्रमात् । 'स्वामिलमात्रे भ्रमद्' इति पाटे विशेषणम् । किंच आसनं निकटवर्ति वेदान्तप्रतिपाद्यममृतरूपं महो ब्रह्मवरूपं हित्वा व्यध्वेन, विगतोऽध्वा व्यध्वः । तेन उन्मार्गेण गच्छतस्तव किं परं केवलं लजापि न जायते। शिवशिवेति दुःखावेदकः शब्दः 'हरिहरि हतादरतया' इतिवत् ॥ अत्यन्तानुचितेऽपि कर्मणि मनः प्राप्य प्रवृत्तिं पुनः खेदं यासि किमुच्चकैः कुरु मतिं कृष्णे कृपाकोमले। लोके तहुरितं किमस्ति मधुजिन्नत्या न यत्क्षीयते को वा दावविभावसोरपि रसोऽशोप्यस्तृणानां वने ॥ १५ ॥ हे मनः, अत्यन्तमयोग्येऽपि कर्मणि प्रवृत्तिं प्राप्य पुनः खेदं किं यासि । कृपायुक्त कृष्णे मतिं कुरु । लोके तत्पापं किमस्ति यद्धरिनमस्कारेण न नश्यति । दृष्टान्तमाह- वने वर्तमानानां तृणानां को वा रसो दावामेरशोष्यः । अपि तु सर्वः शोष्य एव । तथा हरिनत्या पापमिति ॥ निर्माय खयमेष शेषशयनः खामी समग्रं जग- तयापारभरं चकार गुणिनि त्वय्येव चेतः परम् । त्वं तद्दर्शनमप्यनिच्छु मनुषे कर्तृत्वमप्यात्मनि स्पष्टादीनव जीवितं क्षममतस्तदर्शनान्तं तव ॥ १६ ॥ हे चेतः, शेषशायी स्वामी हरिरेष सर्व जगत्स्वयं कृत्वा जगत्संवन्धिव्यापारसमूहं परं केवलं गुणयुक्ते सत्त्वादियुक्ते वयि कृतवान् । त्वं तु हरिदर्शनमनिच्छु सद् आत्मनि क. र्तृत्वं मन्यसे । स्पष्ट आदीनवो दोषो यस्य तत्स्पष्टदोष, कृतघ्न, अतो हेतोः हर्यभक्तिकार- णात्तव जीवितं हरिदर्शनान्तं क्षमम् । दर्शनमन्तो नाशो यस्य तत् । हरिदर्शनानिम- नस्को भविष्यामीत्यर्थः ॥ भाति श्रीपरमेश्वरः खयमयं हृत्पुण्डरीके यवा- कारः कारणमेकमेव जगतामाधारभूतः प्रभुः । सत्यस्मिन्नपि बम्भ्रमीषि किमरे चेतो दुराशावशा- देकं तिष्ठ मुहूर्तमत्र नियतं यातुं निरातङ्कताम् ।। १७ ।। ..
काव्यमाला। - अयं श्रीपरमेश्वरः स्वयं साक्षाद् हृत्पद्मे भाति । कीदृशः। यवसदृशः । जगतामेक- मेव कारणम् , आधारश्च । प्रभुः कर्तुमकर्तुमन्यथाकर्तुं समर्थः । अरे हीनसंबोधने । हे चेतः, अस्मिन्हृत्पद्मे वर्तमानेऽपि दुस्तृष्णावशात्किं त्वं, भ्रमसि । भ्रमतेर्यलुगन्तं रूपम् । निश्चितं निरातङ्कतां निर्भयतां प्राप्तुमेकं मुहूर्तमत्र हृत्स्थे हरौ तिष्ठ ॥ हरिध्यानं हित्वा चरसि रसिको मोहमदिरां निपीय प्रेयस्या सह कुहनया संशयसखः । कृतान्तव्यापारं कलयसि न कस्मादकुशलं कियत्कालं केलिं विषयवनमध्येऽनुभवसि ॥ १८ ॥ हे जन्तो, त्वं मोहरूपां मदिरां पीला संशयस्य सखा सर्वदा संदिहानः सन् हरि- ध्यानं हित्वा त्यक्त्वा कपटयुक्तया नार्या सह रसिक आसक्तः क्रीडामनुभवसि । परंतु अ. कुशलं नरकादिदुःखप्रदं यमव्यापारं कस्मान्न कलयसि न जानासि । शिखरिणीछन्दः ॥ एवं चित्तमुपालभ्येदानी करमुपालभते- पत्रालंकृतपुष्पशालितुलसीवृक्षोल्लसद्वल्लरी- वृन्दैरिन्दिरया समं स भगवान्नारायणो नार्चितः । पाणे दीनजनावनव्यसनिता नासादिता सीदते किंचिन्नोपकृतं कृतं किमहह प्रक्षीयते जीवितम् ॥ १९ ॥ हे पाणे, पत्रैरलंकृतैः पुष्पैः शालते शोभत ईदृशो यस्तुलसीवृक्षस्तस्योल्लसन्ति शोभ- मानानि वल्लरीवृन्दानि मञ्जरीसमूहास्तैः कृत्वा लक्ष्म्या सह हरिस्त्रया न पूजितः । दीनजनानां रक्षणे व्यसनिता सकामत्वमपि नाश्रिता । सीदते क्षुधादिपीडिताय प्राणिने कश्चिदुपकारो न कृतः । अहहेति दुःखे । किं कृतं जीवितं प्रत्यहं क्षयं याति ॥ देवः श्रीललनानुरागकलनालीलोमिलोलीभव- त्वान्तः खां तनुते दृशं त्वयि न चेत्सेव्यस्तदाप्यादरात् । यस्मात्तच्चरितामृताब्धिलहरीलाभानुभावा जनाः स्तूयन्ते यतिभिः पवित्रमतिभिः संसारपारंगतैः ॥ २० ॥ श्रीरेव ललना स्त्री तस्या अनुरागकलना प्रेमधारणं तस्य लीलोमिषु लोलीभवत्स्वान्तं चित्तं यस्येदृशः । रमाक्रीडासक्त इत्यर्थः । देवो हरिश्चेत्वां दृशं खयि त तनुते, व्यग्र- खात्त्वां न पश्यति, तथाप्यादरपूर्व स एव सेव्यः । यस्माद्धरिचरितरूपो योऽमृतार्णव- स्तदूर्मिलाभमनुभवन्ति ये हरिचरितसक्ता जनाः ते संसारपरप्राप्तः शुद्धमतिमिरपि यतिमिः स्तूयन्ते । हरिभक्ता यतिस्तुत्या भवन्तीत्यर्थः ।।
८ स्तबकः] विष्णुभक्तिकल्पलता। ८१ जायायौवनजीवनादिजनितं जोषं जगत्यस्ति य- त्तद्भोगाय भवत्यवश्यमखिलं मातङ्गजातेरपि । . सेवासाधुसुधासु धेहि धिषणां हित्वेतराध्येषणां गोविन्दस्य यदिच्छवः सवभुजो नाद्यापि निद्रालवः ॥ २१ ॥ स्त्रीभोगादिजनितं यत्सुखं लोकेऽस्ति तद्धस्तिजातेः सर्वमवश्यं भोगाय भवति । 'शर्म जोषं वशं सुखम्' इति कोषः । तस्मादितरस्याध्येषणां सेवां त्यक्त्वा गोविन्दस्य सेवा . एव साध्व्यो याः सुधा अमृतानि तासु धिषणां वुद्धिं धेहि धारय । यदिच्छवो यत्सेवा- मृतकामुकाः सवभुजो यज्ञभुजो यज्ञभोक्तारो देवा अद्यापि निद्रालवो न भवन्ति । अ- लसा न सेवन्त एवेत्यर्थः ।। एकस्मिन्नेव जन्मन्यहह तनुभृतां नैकजन्मप्रकाशः संलक्ष्ये भूतवर्गे विह सह सकले सर्वसाधारणेऽक्षैः । विष्णुध्यानकताने मनसि मुनिरनुक्रोशदानाद्युपेते देवो मोहाभिभूते नर इतरजनिर्जातपके स एव ॥ २२ ॥ अहहेत्याश्चर्ये । अक्षरिन्द्रियैः सह सकले भूतवृन्दे पञ्चभूतवृन्दे सर्वसाधारणे पश्चिा]. दिसमाने संलक्ष्ये सम्यग्दृश्येऽपि सति प्राणिनामेकस्मिन्नेवावतारे अनेकजन्मप्रकाशो भ- वति । तदेवाह-हरिध्यानतत्परे चित्ते जनो मुनिरित्युच्यते । दयादानादियुक्ते देव इति । मूढे चित्ते नर इति । जातपापे चित्ते इतरजनिश्चण्डालादिः स एवोच्यते ।। किं पुष्पं तुलसीसमं त्रिभुवने दानं किमम्भोनिभं गीतायास्तुलनामुपैति कतरच्छास्त्रं पवित्रं परम् । को देवो भजतां नितान्तहितकृन्नारायणादप्यहो का भक्तिः स्मरणाधिका किमितरच्चेतःसमं साधनम् ॥ २३ ॥ त्रैलोक्ये तलसीसमं किं पुष्पम् । जलसमं दानं किम् । कतमदन्यच्छास्त्रं गीतासम- मिति । हरेरन्यः को वा भजतामत्यन्तं हितकारी । स्मरणादधिका का भक्तिः । मनसा तुल्यं साधनं च किम् । एतैस्तुल्यमन्यन्नास्ति । एवं सुलभेऽपि साधने हरिभक्तिपरा- मुखा भाग्यहीना इत्यर्थः॥ एवं साधनमभिधाय त्रिमिः श्लोकैानमाह- तन्मध्ये रविमण्डलं मधुजितं देवं लसत्कुण्डलं नेत्रश्रीजितमञ्जुनीरजदलोदारप्रभासौभगम् ।
। ." ८२ काव्यमाला। भासद्भालतमालपत्ररचनारोचिप्णुवक्राम्बुजं भ्रूलेखाजितपुप्पधन्वजनुषः सौन्दर्यगर्वाङ्कुरम् ॥ २४ ॥ यतो हरि विना गतिर्नास्ति तत्तस्मान्मध्येरविमण्डलं सूर्यमण्डलमध्यवर्तिनम् । 'ध्येयः सदा सवितृमण्डलमध्यवर्ती' इति वचनात् । मधुजितं देवं हरिमन्तश्चित्ते भजे सेवे इति तृतीयश्लोकेनान्वयः॥ मूर्धारोपितम मौलिवलभीसंदर्भितात्यद्भुत- ज्योतिर्दिव्यमणीमरीचिरमणीरङ्गीभवद्दयोतलम् । ग्लानिं चन्द्रमसः कपोलफलकश्रीभिः सृजन्तं सदा यं ब्रह्मेति वदन्ति वेदविवृतौ विख्यातशिक्षाभृतः ॥ २५ ॥ मूर्ध्नि आरोपितो यो रम्यो मुकुटस्तत्प्रदेशे खचिता अत्सद्भुतरोचिषो रम्यकान्तयो दिव्यमण्यः । मणीशब्दः स्त्रीलिङ्गः । तासां रदमय एव नार्यस्तासां रङ्गीभवन्नृत्यस्थानभूतं द्योतलं नभो यस्य तम् । 'रङ्गः स्यानर्तनालये' । 'द्योदिवा द्वे स्त्रियाम्' । मुकुटमणिकि- रणाः खे भ्रमन्तो नृत्यन्त इव दृश्यन्त इत्यर्थः। कपोलतलशोभाभिश्चन्द्रस्य ग्लानिं परा- जयं कुर्वन्तम् । किं च वेदविवृतौ श्रुतिव्याख्याने विख्यातां शिक्षा बिभ्रति ते उपनिष. तात्पर्यज्ञाः सदा यं हरिं ब्रह्मेति वदन्ति ॥ अत्यन्तोत्तमनासिकाविवरयोः श्वासप्रसङ्गोत्सवैः कुर्वाणं कमलामुरःस्थिरतरां निप्पारिजातादराम् । आरक्ताधरधर्मिणो धुरि मधोः प्रादुर्भवत्पल्लवं माकन्दं मदमार्गसार्गलहृदं कुर्वन्तमन्तर्भजे ॥ २६ ॥ अत्यन्तमुत्तमे ये नासाछिद्रे तयोः श्वासप्रसङ्गा एवोत्सवास्तैर्वक्षस्यत्यन्तस्थिरां रमां निर्गतः पारिजातकुसुमेष्वादरो यस्यास्तादृशीं कुर्वाणम् । श्वाससौगन्ध्यस्य कल्पतरुपु- पसमगन्धवादित्यर्थः । अधरस्थितेन रक्तत्वेन कृत्वा मधोधुरि वसन्तप्रारम्भे प्रादुर्भ- वन्तः पल्लवा यस्येदृशं माकन्दं निर्गवं कुर्वन्तम् । ततोऽप्यधिकारुण्यादिति भावः । मदस्य गर्वस्य मार्गे सार्गलं सप्रतिवन्धं हृद्यस्य तम् ॥ पुनः श्लोकत्रयेण ध्यानमाह- दीव्यद्दन्तमयूखसंचयपयःपूरेण दुग्धोदधे- रुत्कण्ठां शमयन्तमात्महृदयस्थायिश्रियो हास्यतः । नित्यं प्रत्युरसप्रसक्तसुमणिस्फूर्जद्धृणिश्रेणिभिः प्रत्याख्यातषडूमिनिर्मलमनोजाग्रत्रिलोकीहितम् ।। २७ ।। एवंविधं हरिं चित्त एव कुर्वे इति तृतीयेनान्वयः । कीदृशं तदाह-हास्यतः दी. - ८ स्तबकः ] विष्णुभक्तिकल्पलता। ८३ व्यन्तः प्रसरन्तो ये दन्तकिरणसमूहास्त एव दुग्धपूरस्तेन स्ववक्षःस्थिताया लक्ष्म्याः क्षीरसागरस्योत्कण्ठां शमयन्तम् । हास्यप्रसरद्दन्तरश्मिभिः श्रियाः क्षीराब्धिभ्रमो भवती- त्यर्थः । उरसीति प्रत्युरसम् । सप्तम्यर्थेऽव्ययीभावः । 'प्रतेरुरसः सप्तमीस्थात्' इत्यच्च- लयः । नित्यं वक्षसि संसक्तो यः शोभनो मणिः कौस्तुभस्तस्य स्फूर्जन्तो ये रश्मिसमू. हास्तैः प्रत्याख्यातास्तिरस्कृताः षडूमयः क्षुधादयो यस्मात् । अत एव निर्मलं यन्मन- स्तत्र जाग्रत् सदास्थितं त्रैलोक्यादिहितं यस्य तम् । 'प्राणस्य क्षुत्पिपासे द्वे शोकमोहो तु चेतसः । जरामृत्यू शरीरस्य षडूमिरहितः शिवः ॥' इति वचनात् ॥ निःशकं जगदर्तिवर्तितमनोवृत्तिप्रतीतासुर- स्कन्धस्थायिमदव्यपायचपलं चक्रं च कौमोदकीम् । हस्तानां तु चतुष्टये सधनुषं शङ्ख तुषारद्युते- बिम्बेनातिसक्षमक्षयजयोदने दधानं प्रभुम् ॥ २८ ॥ अक्षयोऽविनाशी यो जयस्तेनोत्कृष्टे हस्तचतुष्टये चक्र गदा सरसिज पद्मं शङ्ख च दधानं बिभ्राणम् । कीदृशं चक्रम् । निःशकं जगत्पीडायां वर्तितया मनोवृत्त्या प्रतीता हृष्टा येऽसुरास्तेपां स्कन्धस्थो यो गर्वस्तन्नाशे चञ्चलम् । दैत्यानाशयन्तमित्यर्थः । की- दृशं शङ्खम् । तुषारद्युतेश्चन्द्रस्य बिम्बेनातिसदृशम् । प्रभुम् । समर्थमित्यर्थः ॥ कण्ठस्थापितदामदुर्लभतमामोदेन मत्तालिनां व्याषेधव्रतपाणिपद्मरमया विभाजितोरःस्थलम् । नाभीनीरजसद्मपद्मजनुषा सिद्धान्तसंभावित- स्तोत्रार्थामृतपूर्णकर्णकुहरं हृद्येव कुर्वे हरिम् ॥ २९ ।। कण्ठे स्थापितमालया अत्यन्तं दुर्लभो यः परिमलस्तेन मत्तानां भ्रमराणां व्याषेधे निवारणे व्रतं यस्येदृशं पाणिपद्मं यस्याः, तया रमया शोभितमुरःस्थलं यस्य तम् । ना- भीपद्मं सद्म गृहं यस्येदृशेन पद्मजनुषा विधिना सिद्धान्ततया संभावितानि यानि स्तोत्राणि तदर्था एवामृतानि तैः पूरितं कर्णविवरं यस्य तम् ॥ कर्पूरामृतदीधितिप्रतिमया कायश्रिया शोभितं धौतं सत्कलधौतजातसदृशच्छायं च यस्योत्तरम् । सेवाकारिसुपर्वराशिमुकुटप्राप्तप्रतिष्ठेर्मणि- श्रेष्ठर्जुष्टपदारविन्दयुगलं ध्यायामि दामोदरम् ॥ ३० ॥ कर्पूरचन्द्रतुल्यया देहश्रिया शोभितं विष्णुम् । 'शारदकोटिचन्द्रसदृशम्' इति शार- दोक्तेः । धौतं शुद्धम् । सत् शुद्धं यत्कलधौतं हेम तत्समूहतुल्या कान्तिर्यस्य वासः । सेवाकारिणो ये सुपर्वराशयो देवसमूहाः। 'सुपर्वाणः सुमनसः' इत्यमरः 'शाली' इति १४ काव्यमाला। पाठे देवेषु शालन्ते शोभन्ते ये मुकुटास्तत्र प्राप्ता प्रतिष्ठा स्थितियर्मुकुटखचितै रत्नश्रेष्ठैः सेवितं पादपद्मयुग्मं यस्य तम् ॥ भवाटव्यामव्याहतगतिरयं मारमृगयुः पुमेणानेणाक्षीनयनमयपाशरशिथिलैः । दृढं बवाश्वत्थच्छदसदृशकारां नयति तां यतो मूढं विश्वं तदव निकृतेः कृष्ण कृपया ॥ ३१ ॥ संसारवनस्खलितगतिरयं कामव्याधः पुंस एवैणा मृगास्तान्मृगाक्षीनेत्ररूपपाशैदृदृढं बद्धा पिप्पलपत्रसदृशीं कारां बन्धनागारं नयति । नानायोनीः प्रापयतीत्यर्थः । यतो ज- नेविश्वं मूढं भवति तत्तस्मात् हे कृष्ण, कृपया निकृतेः संसारपराभूतेः सकाशादव रक्ष । 'तदवनकृते' इति पाठे तस्माद्रक्षणाय कृपां कुरु ॥ मच्चेतो मधुसूदनाङ्ग्रिकमले मन्दाकिनीकेलिमत् क्लिन्नं भक्तिरसेन तीर्णमभितः संसारवारांनिधिम् । मोहं मित्रमनेकजन्मसु मुदात्रैवाममज्जत्कचि- तद्वैरेण न विश्वसन्ति कथमप्यस्मिन्विषादादयः ॥ ३२ ॥ मम मनो हरिपदपद्मे गङ्गायां क्रीडायुक्तं भक्तिरसेना सरसममितः संसाराब्धितीर्ण सदनेकेषु जन्मसु सहायं मोहमत्रैव संसारे मजयामास । तद्वरेण विषादमदलोभादयो. ऽप्यस्मिंश्चित्ते कथमपि न विश्वासं कुर्वन्ति मज्जनभयेन ॥ आम्नायाभ्यसनैः कृतं फलमिदं त्रेताकृताराधना- संतुष्टा मम यन्मतिर्भगवती श्रीरामचन्द्रेऽभवत् । यस्याराधनमन्तरेण तनुभृत्तापाय न द्वापरो न स्यात्तत्किमिवोच्यते कलिकृतामत्रापदां चेष्टितम् ॥ ३३ ॥ वेदाभ्यासैरिदं फलं कृतम् । 'अग्नित्रयमिदं त्रेता' इत्यमरः । गार्हपत्यादीनां कृता प्रजा तया संतुष्टा यद्यतो मम हरौ बुद्धिरभूत् । यस्य सेवां विना द्वापरः संदेहो जन्तूनां तापाय न अपि तु तापायैवेति काकुः । कलिकृतां निबिडापदां चेष्टितं चेष्टा किमुच्यते । तास्तु वर्तन्त एव हरिभक्तिं विना ॥ हरौ हृदयमायाते माया ते किं करिष्यति । यदच्युतध्यानपरा न पराभवमागताः ॥ ३४ ॥ हरौ मनः प्राप्ते माया ते किं करिष्यति । अकिंचित्करेत्यर्थः । यतो हरिध्यानपरा- यणाः पराभवं न गताः ॥ :
८ स्तबकः ] विष्णुभक्तिकल्पलता। भेदाभावेऽपि गोविन्द त्वद्दया मम जीवनम् । न वल्ली विद्यते कापि खातिश्रवणरोहिणी ॥ ३५ ॥ है हरे, आवयोरभेदेऽपि तव दया मम जीवने हेतुः । दृष्टान्तमाह-स्वातिश्रवणरो- हिणी खस्वरूपस्य कारणस्यातिश्रवणेनातिक्रमणेन रोहति जायते, ईदृशी वल्ली कापि न विद्यते। बीजं मुक्त्वा यथा वल्ली न जायते तथा लां विनाहं नास्मि । कार्यकारणयोरभेदात् ॥ यदा नायाति हृदये तदा मे मृत्युतोऽधिकम् । आयाते हृदि गोविन्दे मृत्युमङ्गलमङ्गलम् ॥ ३६ ॥ यदा हृदि हरिनीयाति तदा जीवनमपि मे मृत्युतोऽधिकम् । हरौ हृयायाते मृत्युः परममङ्गलम् । मुक्तिहेतुत्वात् ॥ सेवे त्वत्पादकमलं कमलाकान्त केवलम् । विलम्बं तद्विधत्से किं देव हर्तुं महापदम् ॥ ३७ ।। हे रमाप्रिय, केवलं त्वत्पादपद्मं सेवे । तर्हि हे देव, मम कष्टं हर्नु कथं विलम्वं कुरुषे । मम दुःखाहरणे विलम्बो न कार्यः ॥ तावल्लोभः प्रभुत्वं भजतु निजभुजस्फूर्जदूर्जातिरेकः प्रच्छन्नं तावदेनो विरचितमतुलां चित्तपीडां करोतु । रोषद्वेषाभिमानानयनिरयभियः स्फूर्तिमायान्तु ताव- द्यावन्नायाति मायातिमिरदिनकरश्चित्तमध्ये मुरारिः ॥ ३८ ॥ लोभस्तावदैश्वर्यं करोतु । कीदृशः । निजहस्तयोः स्फूर्जन्बलातिशयो यस्य । प्रच्छन्नं रहःकृतमेनः पापं तावदतुलां मनःपीडां करोतु । क्रोधद्वेषाभिमानानयनरकभियस्ताव- बृद्धिं यान्तु । मायान्धकारसूर्यो हरियर्यावच्चित्ते नायाति । तस्मिन्हृदि आयाते लोभादयः खयमेव नझ्यन्तीत्यर्थः ॥ आयाते हृदये हरौ विगलितं विघ्नैर्गतं पातकैः कोपेनोपरतं शुचाशु चकितं वीतं विरोधादिभिः । वित्रस्तं विषयैर्बिभाय बहुधा भेदोऽपि वेदोदितो दीर्ण दुःखहृदानुदारचरितो मोहः समाप्तिं गतः ॥ ३९ ॥ हरौं हृद्यायाते विघ्नैरनाशि पापैरपि गतम् । कोपेनोपरतम् । शोकेन आशु शीघ्रं भीतम् । विरोधादिमिभ्रष्टम् । विषथैरत्रासि । बहुधा वेदोक्तो भेदो भीतः । दुःखस्य हृ- दयेन स्फुटितम् । दुष्टचेष्टो मोहो नष्टः ॥ मच्चेतोवृत्तिलक्ष्मी रहसि विकसिते हृत्सरोजे सुजाग्र- द्विष्वक्सेनप्रसङ्गोत्सवमवगणितोपायसर्वान्तरायम् ।
४६ काव्यमाला। संप्राप प्रेमपाथोनिधिलहरिपरिव्याकुलाश्लिप्य बाट खामिव्यामिश्रभावं समलभत सुखं यत्र वाचां विरामः ॥ ४० ॥ मनमनोरूपा लक्ष्मीः रहसि विकसिते हृत्पद्मे सुतरां जाग्रद्यो हरिः तत्सङ्गोत्सवम् । गणितापाया निःसारा सर्वेऽन्तगया यत्रेदशं तं प्राप्य प्रेमसमुद्रोर्मिव्याकुला सती सुखे परमानन्दे गाढमालिकल स्वामिना सह व्यामिश्रतां प्राप । ब्रह्मकतां प्राप्तेत्यर्थः । यत्र वाचा मिन्द्रियाणां विरामः । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति श्रुतिः । 'मनसवानुद्रष्टव्यं' 'यन्मनो न मनुते' इति च ॥ इदानी ग्रन्थान्ते मातापित्रो मकथनपूर्वकं वनाम निगमयति- मानी माता पिता विष्णुर्यस्याख्या पुरुषोत्तमः । विष्णुभक्तिलतां चक्रे सतां चक्रे कृताञ्जलिः ॥ ४१ ॥ इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां चित्तप्रवोधो नामाष्टमः स्तवकः ॥ यस्य मानीनाम्नी [माता] । विष्णुनामा पिता । यस्याभिधानं पुरुषोत्तमः स इमां वि- पशुभक्तिकल्पलतां चके कृतवान् । कीदृशः । सतां साधूनां चक्रे समूहे कृतोऽञ्जलिर्थेन । साधुनमनकृदित्यर्थः ॥ । इति श्रीमहीधरविरचिते विष्णुभक्तिकल्पलताविवरणे चित्तप्रबोधो नामाष्टमः स्तवकः ॥ समाप्तश्चायं ग्रन्थः । .
140croor दृ. प. शुद्ध पाठः। ४- ५ मिदोक्तो ९-१२ लचरणाजा ९-२८ मज्जतो १२-१० ऋद्यत्र १९-२४ मृत्युभीतेः २३-३० रङ्किनाम् २६-२५ संहननम् २७-१५ लतादलतां २८- ७ शमनधः २९-२६ मुद्धृतवतः ३३-२० खेदे ४१- ८ स्तम्भवती ४१-२८ ध्यानानन्दः ४४- ८ घनस्य ४४-१७ हे ४५- ३ मतिमतां ४५-१९ धातुभिः ४५-२४ विभक्त्यन्ते ४६-१५ तेपां ट. प. शुद्धपाठः । ४६-२१ यदनैश्वर्य ४८-१२ प्रकृति ४८-२८ दृष्ट्या ४९-७ रखाव ४९- ९ यतोऽसी ५१-२२ कस्य ५५-१७ सोमावदातं ५५-१८ लब्धा ६४- ४ स्त्रीषु ६४- ५सन्यस्य ६४-२० शृङ्खलाः ६४-२७ को ६७-३० दैर्ध्यमिच्छन्ती ६८-२८ पतयः ६९-२७ मौषधं ७०-१४ भारतादौ ७२- ८ मकिंचित्करः ७२-१५ ग्रहीतु ७२-२१ पीडयसि
No text on this page.
No text on this page.
No text on this page.
No text on this page.
विक्रय्यसंस्कृतग्रन्था योगवासिष्ठः। वासिष्ठमहारामायणतात्पर्यप्रकाशव्याख्यासहित । इह संसारमहारण्ये मोमुद्यमानं विवेकान्धं प्रबोधोपायदौर्लभ्यात्समुद्रीक्ष्य शास्त्र- भानूदयेन तत्प्रबोधनाय प्रवर्तमानः परमकारुणिको भगवान्वाल्मीकिः श्रीराम- चन्द्रमहोदयपवित्रचारित्रपूर्ण पूर्वरामायणं, आत्मानात्मविवेचनपूर्वकब्रह्मसाक्षात्कारग- भमुत्तररामायणमिति निवन्धद्वयरूपं महानिबन्धं रचयांबभूव । तत्रेदमुत्तररामायणं योगवासिष्ठसंज्ञया वासिष्ठमहारामायणाख्यया च जगति वरीवति । ललितचरित्र- मिषेणाप्यस्मिन्परिशीलितेऽनायासेनाद्वैतवेदान्तसिद्धान्तज्ञानं भूयादित्यहो प्रणेतृच। तुरी। परमादरणीयोऽप्ययं महानिवन्धः २४ चतुर्विंशतिमुद्राभिरेव लभ्योऽस्य लाल सायामप्युदासते तनुद्रविणभाज इति सर्वेषां सौलभ्यायास्माभिः सुव्यवस्थया सचिक्का- णपत्रेषु सुंदरायसाक्षरैरानंक्यापि केवलं मूल्य १४ रू., मार्गव्ययः १॥ रू. भाषापरिच्छेदः। कारिकावल्या अन्वितार्थदीपिकाव्याख्यासहितः । अस्यामभिनवव्याख्यायां पदान्वयेन साधं वाक्ययोजनेत्थं निबद्धास्त्रि यस्याः सूक्ष्म- दृशालोचनमात्रेणैव सुकुमारमतीनामध्येहवालानां श्लोकार्थोऽनायासेन वुद्ध्यारूढः स्यात् । अनया कारिकावल्येव सुबोधा स्यादिति न किंतु पुनःपुननध्ययनेपि दुरूहमु- क्तावली खल्पायासेनैव सुगमा स्यात् । अथ चास्याः प्रनुराचारेण विद्यार्थिवर्ग: काशी-कलिकाता-पंजाबादिषु प्रथम-प्रांत-मध्यमा-दिपरोक्षासूत्तीर्णः स्यादित्यत्र- धार्य मुद्रितास्ति । मूल्यं १० आ., मार्ग. ३ आ. छन्द शास्त्रम् । (नाम पिङ्गलछन्दः।) छन्दोवृत्तहलायुधविवृतिसनाथीकृतम् । छन्दःप्रतिपादकानामखिलग्रन्थानामिदमेव निदानभूतं इत एव च छन्दोभिज्ञाश्छ- न्दोग्रन्थप्रणयनादौ प्रववृतिरे इति निर्विवादमयं श्रेष्ठथेन ववर्ति । अइनसमये चात्रा- खिलवृत्तानां सौलभ्येन चिख्यापयिषया तत्र तत्र गुरुलघुगणविन्यसनपूर्वकं दुर्बोधस्थ- लानां प्रतिपत्तये टिप्पण्यां विशदीकरणं कृत्वा चारंभेऽप्युपोद्धातरूपेणातीव विस्तृत ग्रन्थबहिर्भूतं छंदोवेद्यं अथितमस्ति । मूल्यं ॥ रू., मार्ग. ४ आ. पाण्डुरङ्ग जावजी, निर्णयसागरामुद्रणयन्त्रालयाध्यक्षः,
No text on this page.
No text on this page.
No text on this page.