Scl

Premarasayana

Visvanatha_pandita

PDF Proofread

Front matter

Printed-Published & sold by
JAI KRISHNADAS-HARIDAS GUPTA,
The Chowkhamba Sanskrit Series Office,
VIDYA VILAS PRESS,
North of Gopal Mandir,
BEVARES CITY.
Printeilly Jui Krishna Das Gupla
rut thi" Pirlya Vilces Prese. Benares,
xole
excoleggego
Agents:
1 Luzac & co, Booksellers,
LONDON
2 Otto Harrassovitz, Leipzig:
GERMANY.
3 The Oriental Book-supplying Agency,
POONA,

हरिदास संस्कृत ग्रन्थं मालास मा ख्य- काशीसंस्कृतसीरिजपुस्तकमालायाः ६३ काव्यविभाग(८)अष्टमंपुष्पम् । सव्याख्यं प्रेमरसायनम् । श्रीमद्विश्वनाथपण्डितप्रवरेण निर्मितम् । नेपालंदशीय- पण्डित श्रीविष्णुप्रसाद भण्डारिणा संशोधितम् । प्रकाशक:- A- जयकृष्णदास-हरिदासगुप्तः- चौखम्बा संस्कृत सीरिज आफिस, विद्याविलास प्रेस, गोपालमंदिर के उत्तरफाटक, बनारस सिटी। १९८५ राजशासनानुरोधेन सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः । ..

हमारे यहां हर तरहकी छपाई बजिल्दसाजकिा कार्य भी होता है।
हर तरह के संस्कृत ग्रन्थ तथा भाषा पुस्तकों के मिलने का पता-
जयकृष्णदास-हरिदास गुप्तः,
चौखम्बासंस्कृतसीरीज आफिस,
विद्याविलास प्रेस, गोपालमन्दिर लेन,
बनारस सिटी।

भूमिका। अथैष सव्याख्यः प्रेमरसायनाख्यः प्रबन्धा मुद्रयिस्वा प्रकाश- यितुमारभ्यते । अत्र च प्रेमलक्षणाभिधं प्रेमविभागाभिधमिति खण्डद्वयं वर्तते । तत्र प्रथमे खण्डे शाडिल्यभरतायुक्तप्रेमलक्षणान्यनूद्य तेषु दोषो- द्घाटनपुरस्सरं गुप्तपादाचार्यसम्मतमिच्छाविशेषः प्रेमेति प्रेम्णः सा- मान्यलक्षणमेव निर्दुष्टं व्यवस्थाप्य सिद्धान्ततथाश्रितम् । द्वितीयस्मिन् खण्डे सामान्यतोलक्षितस्य तस्यैवोप्तादिद्वादशविधाः सप्रपञ्चं विशे. षतो लक्षिताः । प्रेममूलकशृङ्गाररसादीनाश्रित्य विलक्षणप्रतिभाशालिभिः प्राचीनैर- वाचीनैश्च विद्वज्जनरुद्भावितेषु नानाविधेषु साहित्यनिबन्धेषु सत्स्वपि तेषु शृङ्गारादिरसमूलभूतस्य प्रेम्णो विशेषतो निरूपणादर्शनात् स्वातन्त्र्येण तन्निरूपकाणां भक्तिरत्नाकरादिग्रन्थानां केषांचन विद्यमानत्वेऽपि साम्प्रतं तेषां दुर्लभतया कतिपयानां च विलुप्तप्रायतया एकत्रैव सङ्क्षिप्य सन्निवे- शितानां तद्गतानां राद्धान्तानां सुखेन बोधौपयिको लघुरप्ययं प्रवन्धो बह्व- र्थप्रतिपादकतयाऽमुद्रितचरैतादृशग्रन्थतया च प्रेमतत्त्वं बुभुत्सूनां सह. दयहृदयानां सूपयोगी स्यादित्यस्य मुद्रणोपक्रमः । अत्र मूलकर्तुष्टीकाकर्तुश्च पार्थक्येन नामानुल्लेखात् तत्र तत्र च मूलेऽनुक्तानां तदपेक्षितानां विषयाणां टीकायां सन्निवेशनस्य दर्शनेन च मूलटीकयोराभन्नकर्तृकत्वमिति सम्भाव्यते । अस्य च प्रणेता पण्डितप्रवरः श्रीमान् विश्वनाथः । अयं च साहित्यदर्पणादिकर्तुश्विनाथादन्यः स्यात् । तदुपाधेः सान्धिविग्रहिक- स्वादेरनुल्लेखात् प्रमाणान्तरानुपलम्भाच्च ।

भूमिका । ग्रन्थप्रणयनसमयश्च ग्रन्थकत्रैव ग्रन्थसमाप्तौ- वाणाग्निमुनिचन्द्रोत्थवत्सरस्यादिमे दिने । एषा वितीर्णा बह्वर्था वाणी विष्णुपदे त्वभूत् ।। इति पद्येन स्वयमेवोट्टङ्कितत्वात् १७३५ पंचत्रिंशदुत्तरसप्तद. शशततमोऽब्द इति विज्ञायते । त्रिपुरहरपुरवास्तव्येत्यन्तिमलेखदर्शनेन काशीनिवास्ययमिति निश्चीयते । अन्यदेतिहासिकं वृत्तं त्वस्य विषये किमपि न लब्धमित्येतावतैव सन्तोष्टव्यमितिहासरसिकैः । अमुं च प्रबन्धं मुमुद्रयिषुणाऽमुद्रित चरनानाविधग्रन्थरत्नमुद्रण- रसिकेण श्रीमता हरिदासतनूजन्मना जयकृष्णदासगुप्तेन प्रार्थितोऽहं प्रार्वतिष्येतच्छोधनाय । जीर्णतरस्य नातिशुद्धस्यादसीयादर्शपुस्तकस्य प्रदातुः स्व. सन्निधिस्थानि निजपूर्वजैश्चक्रपाणिप्रभृतिभिर्विद्वद्वरैः सङ्ग्रहीता- न्यपराण्यपि दुर्लभप्रायाणि ग्रन्थरत्नानि यथासमयं प्रकाशनकृते दातुं प्रतिश्रुतवतो नेपालाभिजनस्य श्रीमतः पद्मनाभकेशरिवि दुषो निर्व्याजलेशमीदृशमुपकारगौरवं सबहुमानं हृदाभिनन्दन् बहु तरमन्विष्यापीतरादर्शपुस्तकमलभमानः केवलस्योक्तविद्वद्वराल्लब्धस्या- दर्शपुस्तकस्याधारेण विषयानुक्रमणिकासंयोजनादिना परिष्कृत्य सपरि श्रमं कृतसंशोधनेऽप्यत्र मानुष्यकनान्तरीयकमन्मतिदृष्टिदोषसुल भास्त्रुटीरुपेक्षिष्यन्ते ग्रन्थतत्वमात्र पहिला गुणैकपक्षपातिनो विद्वद्वरा इत्याशास्त- १९.८५ वैक्रमे ज्येष्ठ कृष्णे १० तिथौ नेपालाभिजना विद्वद्विधेयः श्रीविष्णुप्रसादभण्डारी ॥ श्रीः ॥ सव्याख्यस्य प्रेमरसायनस्य विषयानुक्रमणिका। पं० १ २ " " १४ ११ 3 .. ३ : १३ " लक्षणखण्डे टीकाया मङ्गलाचरणम् । मूलस्य मङ्गलाचरणम् । भङ्गयन्तरेण ग्रन्थप्रतिपाद्यप्रदर्शनम् । प्रेम्णोऽनुमापककथनम् । प्रेमपदार्थनिरूपणाय भूमिकात्वेन रसस्वरूपतन्नानात्वकथनम् । प्रेमपदार्थकथनम् । प्रेमोत्पत्तिकथनाय सत्त्वोद्रिक्तचेतसो दृष्ट्यादिवृत्तिचतुष्टयोद्देशः । दृष्ट्याख्यवृत्तः : स्वरूपकथनम् । परिचयाख्यवृत्तः स्वरूपकथनम् । हार्दाख्यवृत्तः स्वरूपकथनम् । हार्दसौहार्दयोरपार्थक्यकथनम् । दृष्टान्तविधया तदुपपादनम् । भोगपर्यवसन्नं हार्दमेव प्रेमपदार्थ इति कथनम् । शाण्डिल्योक्तप्रेमलक्षणम् । उक्तलक्षणे विरोधमाशय प्राचीनोदाहरणेन समाघानम् । पूर्वोक्तभोगपर्यवसायित्वलक्षणस्य दूषणम् । चित्तस्य द्रवत्वमेव प्रेमेति भरतमतकथनम् । तापकसम्बन्धाञ्चित्तद्रवीभावकथनम् । कामक्रोधादिचित्ततापकप्रदर्शनम् । चित्तस्य द्रवत्वोपपादनम् । चित्तद्रवत्वानुमापकप्रदर्शनम् । अनुमापकान्तरम् । स्वेदादेर्मोहकार्यत्वस्य खण्डनम् । २६ " २ १० " १९ " १७ ६ १९ " २३ ६ २ " २३ ६ २ सटीकस्य प्रेमरसायनस्य पं० १४ " २६ " १० १४ " २० २ " १३ १७ १० २ ९ " ११ पृ० स्वेदादेवकार्यत्वोपपादनम् । भावनासामान्यलक्षणम् । प्रेमभावनालक्षणम् । आकारावश्यकत्वोपपादनम् । विषयस्य भावनामयत्वमेव मुखादिकारणम् । विषयैक्येऽपि भावनातो भेद इतिकथनम् । मनोमयार्थमेव वाह्यापेक्षा । तापर्क विनापि चित्तस्य घटाद्याकारता । योगेऽपि वियोगोपलालनमिति शाण्डिल्योक्तप्रेमलक्षणदूषणोपक्रमः । वियोगोपलालनसाधनमेव प्रेम नोपलालनमात्रमितिकथनम् । सूत्रस्यार्थान्तरकरणेन सूत्रकृन्मतसमर्थनमप्यसमीचीनमिति प्रतिपादनम् । अत्रोपपत्तिप्रदर्शनपूर्वकं पूर्वमतोपसंहारः । सिद्धान्तभूतगुप्तपादाचार्यमतोपक्रमः । इच्छाविशेषः प्रेमेत्येतन्मते विशेषपदार्थप्रदर्शनम् । एतन्मते हार्दपदार्थनिरूपणम् । एतन्मते हादीत्सौहार्दस्य भेदकथनम् । विषयप्राप्तिनाश्येच्छारूपसौहार्दलक्षणस्य वियोगे पुनदुःखदर्शनेन पुनरु. कत्वमाशय समाघानम् । इच्छायां विषयप्राप्तिनाश्यत्वस्य सर्वत्र सत्त्वेऽपि प्रेमात्मकेच्छायां तथा नेति कथनम् । चित्तद्रवः प्रेमेतिमतनिरसनम् । १२ प्रेम्णो द्रवत्वपक्षे दोषान्तरम् । प्रेम्ण उक्तेच्छारूपत्वे कामिन्यामुत्पन्नस्य गगस्य दोषदर्शनेन विष- यलाभेन वा नाशदर्शनाद्विरोधमाशय समाधानम् । दोषदर्शनविषयलाभाभ्यामनाश्यमेव प्रेमेति निरूपणम् । १३ प्रकारान्तरेण प्रेम्णो हादसौहार्दवैलक्षण्यप्रदर्शनम् । अधिकारितोऽपि प्रेम्णि हादसौहार्दवैलक्षण्यम् । अस्य फलितकथनम् । भगवतो गोपीषु सौहार्दमेव नतु प्रेम । प्रेम्ण एकविषयत्वनियमो जीवगतप्रेम्ण्येव न परमेश्वरगते इत्ति कथनम् . १९ ४ २० " " ३ " २६ " २८ १४ ३ " २४ लक्षणखण्डीयविषयानुक्रमणिका । ३ पं० २७ २ " ३ २२ " २ १८ " ९ तन्त्र मृतकारोक्तः प्रशंसापरत्वम् । प्रेम्णो वागगोचरत्वोपपादनम् । प्रकारान्तरेण वागगोचरत्बोपपादनम् । दृष्टदोषस्य विषयस्य लाभे रागश्वेत्स न प्रेमा किन्तु सौहार्दपाकः । सौहार्दपाकस्यावस्थान्तरम् । प्रेमकलिकायां गोविन्दचक्रवर्तिप्रोक्तप्रेमलक्षणम् । प्रेमचन्द्रिकायां परमानन्दठक्कुरोक्तप्रेमलक्षणम् । १७ प्रेम्णो विषयानियतत्वकथनम् । प्रेम्णां परस्परं न भेदः उत्कर्षापकर्षों तु विषयनिबन्धनावित्युपपादनम् । १८ कृष्णकल्पद्रुमोक्तचतुर्विधप्रेमभक्तानां निरूपणम् । "नेमं विरिञ्च्य" इति भागवतश्लोके प्रसादपदस्य भगवद्विषयनित्यने मसमाधिरित्यर्थ इति प्रतिपादनम् । १९ वियोग उत्तमवस्तुविषयकप्रेम्ण उत्कर्षाधायक इति कथनम् । अनुत्तमे वस्तुनि तु वियोगो नोत्कर्षाधायकः । प्रसङ्गाल्ललितोत्तरदलितप्रेम्ण उत्पत्ती प्रेमविषयविश्लेषो जीवितान्तकरो मरणावधिकव्यवहारवैमुख्याधायको वा भवतीति कथनम् । आद्यस्योदाहरणानि । द्वितीयस्योदाहरणानि । व्यवहारवैमुख्य कारणकथनम् । पुनः प्रेमविषयमिलनेऽपि व्यहारवैमुख्यं नापयातीति कथनम् । द्वितीयवैमुख्योदाहरणानि । प्रेमविषयः प्रेमाधारविषयकप्रेमाश्रयो भवतीति न नियमो विपरीतविलो- कनादिति कथनम् । विपरीतविलोकनोदाहरणानि | प्रसङ्गात् चलिंतादिप्रेमभूमिमारूढयोः परस्परसुखदुःखज्ञानं भवतीति कथनम्। अत्र कारणकथनम् । प्रेमलक्षणोपसंहारः । इति लक्षणखण्डानुक्रमणिका । १२ २१ १६ . २९ २२ ७ १७ २१ AW . १ १४ 2.

४ सटीकस्य प्रेमरसायनस्य अथ प्रेमविभागखण्डानुक्रमणिका ! पं० पृ० २३ २४ २ " १८ " २२ " २५ ६ ३० २७ OY ३ २७ २८ " ११ उप्तादिद्वादशप्रेम्णामुद्देशः। उप्तप्रेम्णो लक्षणम् । दर्शनोत्सुकताया उदाहरणम् । उत्तप्रेमदशायाः कथनम् । कृष्णकल्पद्रुमोक्तयत्तप्रेम्णो लक्षणम् । यत्तप्रेम्णो दशाप्रदर्शनम् । ललितप्रेमनिरूपणम् । अस्य द्वितीयावस्थाप्रदर्शनम् । अव्यक्तललितलक्षणम् । व्यक्तललितलक्षणम् । कण्डूतिपल्लवकथनम् । ललितदशानामानन्त्यकथनम् । ललितस्य निष्कृष्टलक्षणकथनम् । तन्त्रान्तरोक्तस्योप्तयत्तललितानां पौर्वापर्यावस्थानस्य कथनम् । दलितप्रेम्णो लक्षणम् । ललितादलितस्य भेदकथनम् । प्रसङ्गात् दलिते भावनाश्रेणी प्रेमसमाधिश्चेति कथनम् । भावनाश्रेण्या उदाहरणम् । उप्तादौ भावनाश्रेण्यां सत्यामपि न प्रेमसमाधिरिति कथनम् । प्रेमसमाधरुदाहरणम् । मोहव्याकुलते प्रेमसमाधिश्चेति त्रयं प्रेम्णीति कथनम् । त्रितयस्योदाहरणम् । दलितावस्थाकथनम् । तत्र भ्रान्तेरुदाहरणम् । विनिद्रताया उदाहइणम् । उक्तरुदाहरणम् । स्मृतेरुदाहरणम् । अविश्वासस्योदा०। अश्रुपातस्योदा० । १७ २९ ३० . " ९ १६ " २१ , २५ ३१ ३ " २६ ३२ २ . ६ " प्रेमविभागखण्डानुक्रमणिका । पं० २० ८ " २२ ९ " १२ ९ ११ मिलितप्रेम्णो लक्षणम् । ललितान्मिलितस्य भेदप्रदर्शनम् । दलितस्य स्वेदादिपल्लवविरोधित्वेऽपि तत्कार्ये मिलिते स्वेदाादयः । ३३ कार्ये कारणतिरोधानस्य विशदीकरणम् । मिलितलक्षणोपसंहारः मिलिते पाण्डुलेखप्रदर्शनम् । उपालम्भाभिलाषाणामित्यत्रोपालम्भपदं रत्यादीनामुपलणमित्युदाहरण. च्छलेन प्रदर्शनम् कलितप्रेम्णो लक्षणम् । अत्र विवक्षितोपभोगपदार्थकथनम् । कर्मेन्द्रियाभिमुख्यत्वे उपभोगपदार्थे भोगपर्यवसायि हार्दमिति पूर्वोक्त प्रेमलक्षणे शुकादावव्याप्तिकथनस्यासङ्गतिसमाधानम् । ३५ बाह्याः कलितावस्थाः। आन्तराः कलितावस्थाः । प्रसङ्गात्प्रेमसमाघिनिरूपणम् । एतदुदाहरणम् । गोपीनां कः समाधिरित्यत्रोत्तरम् । समाधिविषयकशङ्कासमाधाने । प्रसङ्गादानन्दभरस्य कार्यान्तरमाह । अत्रैव दृष्टान्तप्रदर्शनम् । शोकस्येवानन्दभरस्यापि तापकत्वमिति कथनम् । कलितावस्थापाकात् निवेदो भवतीति कथनम् । हेत्वन्तरादपि निर्वेद इतिकथनम् । ३९ अत्र विवक्षितनिर्वेदपदार्थकथनम् । निर्वेदफलकथनम् । अत्र पाण्डुलेखविषयाणामुल्लेखः । आक्षेपस्य द्वैविध्यम् । आद्यस्योदाहरणम् । द्वितीयस्योदाहरणम् । दलितादौ प्रेमविषये तत्सुहृदोऽप्रे चाक्षेप इति कथनम् । " २० २९ . २ " ९ . " १६ Aw " " १३ " २४ " " " २९ १ सटीकस्य प्रेमरसायनस्य पं० ३ ३ ६ ११ १८ २२ " २५ " ३० " " १३ " १८ २० २१ पृ० प्रथमोदाहरणम् । द्वितीयोदाहरणम् । प्रेमविषयभिन्न प्रेमाधारस्य प्रेमाधारान्तरं प्रदश्य प्रेमविषयकाक्षेपोदाहरणम् ,, प्रेमधारकर्तृकस्य क्रिययाप्याक्षेपस्योदाहरणम् । हार्दाधारकर्तृकस्य स्वसुहृदोऽग्र आक्षेपस्योदाहरणम् । युनराक्षेपो द्विविधो मृदुः कर्कशश्चेति । द्विविधोऽपि सख्या दूत्या वोक्तौ भवति इति कथनम् । आधस्योदाहरणम् । उदाहरणान्तरम् । गृहीतवाढमानायामपि मृदोरेवाक्षेपस्योदाहरणम् । द्वितीयस्योदाहरणम् । उदाहरणान्तरम् । क्वचित्कर्कशोऽपि समाहितो मृदुत्वं भजत इति कथनम् । एतदुदाहरणम् । प्रेमाधारस्य प्रेमविषये आक्षेपो नोचितो यदि कथंचिदुचितस्तदा मृदु. रेवति हरिदासमतकथनम् । एतदुदाहरणम् । उदाहरणान्तरम् । ४२ अन्यदुदाहरणम् । अन्यस्याभियुक्तस्योदाहरणम् । उदाहरणान्तरम् । उदाहरणद्वयान्तरम् । प्रेमाधारकृतः कर्कशक्षिपोऽपि वृत्तान्तस्य परोक्षीकरणेन, स्तुतिपर्यवसा- नेन, हितोपदेष्टुत्वेन, कुनायकेनाक्षेप्यसाधारणधर्मादिना गोपायितः कथंचिदौचित्यमावहतीतिकथनम् । आद्यस्योदाहरणम् । ४३ द्वितीयस्योदाहरणम् । तृतीयस्योदाहरणम् । चतुर्थस्योदाहरणम् । पञ्चमस्योदाहरणम् । २३ २६ २ ७ ११ " १६ " १८ " २७ " " १४ २२ २८ प्रेमविभागखण्डानुक्रमणिका । पं० " " २८ r १२ १८ २५ " २ ११ १६ " २ " षष्ठस्योदाहरणम्। उदाहरणान्तरम् । सप्तमस्योदाहरणम् । प्रेमाधारस्य प्रेमविषयमित्रं प्रत्युक्तेरुदाहरणम् उदाहरणान्तरम् । सखी प्रत्युक्तेरुदाहरणम् । प्रेमाधारस्य स्वात्मानं प्रत्युक्तेरुदाहरणम् । उदासीनं प्रत्युक्तेरुदाहरणम् । प्रेमविषयं प्रत्युक्तेरुदाहरणम् । प्रेमविषयस्य प्रेमाधारं प्रत्युक्तेरुदाहरणम् प्रेमाधारस्य सख्याः प्रेमविषयं प्रत्युक्तेरुदाहरणम् । उदाहरणान्तरम् । प्रेमाधारस्य प्रेमविषय आक्षेपाभासस्योदा० । सख्याः प्रेमाधारं प्रत्युक्तेरुदा० । हादसौहार्दयोरपवादखलोक्तिसहनयोव्यर्थत्वकथनम् । प्रेम्णि न वैयमितिकथनम् । उप्तादिभूमिकालाभेऽपि न तयोर्विडम्बनेतिकथनम् । विदलितप्रेम्णो लक्षणम् । अत्र गाढप्रेमसमाधिजा भावनेतिकथनम् । इह विशेषकथनम् । लालतीयदलितापेक्षया मिलितोत्तरदलितस्यातिवैचित्र्यकथनम् । विदलितप्रेमतापोदाहरणम् । विदालतप्रेमारम्भदशोदाहरणम् । आशंसोदाह। उदाहरणान्तरम् । प्रश्नोदाहरणम् । बितर्कोदाहरणम् । चिन्तोदाहरणम् । आदिपदलब्धकृशतोदाह । हरिदासमते विदलितस्य कविकृतं तापकश्रेणिभवनक्रमेण व्यक्तीभवन चारुतामूलमितिकथनम् । AM ० ३५ ३ ४८ " ४९ १२ " " २ " १२ १५ १८ २५ " सटीकस्य प्रेमरसायनस्य प० " १४ पृ० एतदुदाहरणम् । प्रेमाधारवचनव्यक्तीकृतविदलितोदाहरणम् । ५१ सख्यादिद्वाराभिव्यक्तीकृतक्दिलितोदाहरणम् । उदाहरणान्तरम्। सख्यादिद्वारकमेवाविष्करणं चमत्कारीतिमन्यमानहरिदासदत्तोदाहरणम् । विदलितप्रेमपाकोदा। छलितप्रेम्णो लक्षणं तदवस्था च । अत्र उक्तिप्रणत्यादय. प्रेमाधारादौ भवन्तीतिकथनम् । प्रेमाधारस्योक्तेरुदाह० । २८ ५२ १४ " ४ " " १८ २२ २८ २ ५ १३ २० उदाहरणान्तरम् । अपरोदाहरणम् दूत्यादेरुक्तेरुदाहरणम् । उदाहरणान्तरम् । अपरमुदाहरणम् । प्रेमाधारस्य शपथोदाहरणम् । उदाहरणान्तरम् । वस्त्वपणस्योदाह०। छलितप्रेम्ण उदाहः । चलितप्रेम्णो लक्षणम् अस्योदाहरणम् । उप्तप्रेम्गोऽस्य भेदकथनम् । चलितस्यावस्थाकथनम्। भगवत्कलितावस्थस्यापि चलितं भवतीतिकथनम् । भवान्तरे पूर्वविषयस्याभावे निरालम्बनः प्रेमा कथमित्याशङ्काया उत्तरम् । अत्र प्राचीनोक्तविशेषकथनम् । तत्त्वोपदेशस्योदाहरणम् । अस्यैवोदाहरणान्तरम् । क्रान्तप्रेम्णो लक्षणम् । अस्यावस्थाकथनम् । ७ " . १६ २२ " १५ २१ प्रेमविभागखण्डानुक्रमाणिका । पृ० पं० ३० १९ " २३ " ३० १५ " २७ " ६१ ३ उक्तलक्षण व्यवहारेषु वैमुख्यमित्यस्यासङ्गतिमाशङ्कय समाधानम् । क्रान्तस्योदाहरणम् । विक्रान्तप्रेम्णो लक्षणम् । अस्योदाहरणम् । प्रसञ्जतः सक्रान्तप्रेम्णो लक्षणम् । चतुष्प्रकारस्य सङ्घान्तस्य प्रथमप्रकारादाहरणम् । द्वितीयप्रकारोदाहरणम् । तृतीयप्रकारोदा० । चतुर्थप्रकारोदा० । उदाहरणान्तरम् । गुणाकरोक्तसङ्कान्तप्रेम्ण उदाहरणम् । विक्रान्तसंक्रान्तयोः प्रेमविभाजककारिकायामनुक्तत्वेन न्यूनतामाशय समाधानम्। निवेदनपदार्थनिरूपणम् । निवेदनोत्तरं मानाभ वकथनम् । एतदुदाहरणम् । उदाहरणान्तरम् । अपरमुदाहरणम् । हरिदासोक्तनिवेदनपदार्थकथनम् । तदीयोदाहरणद्वयम् । उदाहरणान्तरम् । विहृतप्रेम्णो लक्षणम् । अस्यावस्थाकथनम् । विहृते विशेषकथनम् । निवेदनपाकाद्देहेप्यौदासीन्यं भवतीतिकथनम् । गलितप्रेम्णा लक्षणम् । अस्याघस्थाकथनम् । सन्तृप्तप्रेम्णो लक्षणम् । अत्र प्रमाणत्वेन विष्णुरहस्यस्थपद्योल्लेखः । अस्यानन्दात्मकं ब्रह्मैव विषय इति कथनम् । १५ २९ " २ " १९ " " ३० " " २३ . २६ २ १० सटकिस्य प्रेमरसायनस्य पृ० " १२ १५ " २४ " ३० ६५ " १४ १९ .. " २ " " १५ २१ ६७ २ अन्यविषयप्रेम्णोऽन्यत्रानुवृत्तौ दृष्टान्तप्रदर्शनम् । अत्र युक्तरुपपादनम् । अवच्छिन्नविषयेण निरवच्छिन्नस्य विषयीकरणे युक्तिकथनम् । कामिन्यादिशरीरमेव न प्रेमविषय इत्यत्र युक्तिप्रदर्शनम् । अवच्छिन्नविषयत्यागे बीजकथनम् । उक्तस्यार्थस्यानुभवेन विशदीकरणम् । आनन्दपरिशीलनमनेकविजातीयवृत्तिभिरिति कथनम् । आनन्दमात्रविषयकं प्रेम जायत इत्यत्र प्रमाणप्रदर्शनम् । अत्र कृष्णकल्पद्रुमधृतविष्णुरहस्यीयभगवद्वाक्यस्योल्लेखः । नैयायिकादिनये सन्तृप्तविषयस्य स्वरूपकथनम् । तस्यैव निष्कृष्टलक्षणम् । सन्तृप्तस्योदाहरणम् । सन्तृप्तप्रेम्णस्तत्त्वज्ञानोत्तरभाविफलभक्तित्वकथनम् । इच्छायाः स्वतः पुरुषार्थत्वकथनम् । फलीभूतसन्तृप्तप्रेम्णो मुक्तिकारणत्वप्रतिपादनम् । प्रेमद्वारा ज्ञानस्य मुक्तिहेतुत्वकथनम् । प्रेम्णो द्वारत्वोपपादनम् । सन्तृप्तप्रेम्णः परमप्रेमरत्वं ज्ञानाङ्गभक्तित्वं चेतिकथनम् । शबलब्रह्मविषयस्य प्रेम्णः परापरत्वकथनम् । ज्ञानाङ्गप्रेम्णोऽपि परापरत्वकथनम् । परापरत्वोपपादनम् । तत्त्वज्ञानोत्तरभाविनः फलत्वं परत्वं चेति कथनम् । परत्वं विशदीकुर्वत्स्वास्थ्यास्वास्थ्ये आह । स्वास्थ्योदाहरणम् । स्वास्थ्ये भेदबुद्धोविलयकथनम् । फलप्रेम्णः स्वरूपकथनम् । जीवन्मुक्तेषु प्रेम्णः फलात्मकत्वव्यवस्थापनम् । तन्त्रामृतकारमतेन प्रेम्णः फलात्मकत्वसाधनात्मकत्वकथनम् । मुखदुःखाभावभिन्नत्वेऽपि प्रेम्णः पुरुषार्थत्वोपपादनम् । लाघवादज्ञाननिवृत्युपलक्षितानन्दत्वेन प्रेम्णः पुरुषार्थतेतिकथनम् । " " " ६८ २ " १४ १९ " २९ २ ९ " " २१ " २५ " २८ ९ " प्रेमविभागखण्डानुक्रमाणिका । ११ वृ० पं० १ १० " " २४ २७ " હર ૨. ७ १० " १९ वेदेहमुक्तावपि प्रेमावस्थानमिति कथनम् । देहपातेऽपि प्रेम्णोऽवस्थानमसङ्गतमित्याशङ्काया मतान्तरोद्भावनेन प- रिहरणम् । भोक्तव्यदुःखनाशे न तत्त्वज्ञानोपयोग इति कथनम् । आत्यन्तिकत्वांशेऽपि न तदुपयोग इति कथनम् । “दुःखनात्यन्तविमुक्तश्चरति" इतिश्रुतिरपि वस्तुतत्वमात्रकथनपरेति- प्रतिपादनम् । सञ्चितक्लेशनाशस्यापि नोक्तमुक्तिरूपताऽपुरुषार्थत्वादिति कथनम् । नापि मुक्तो सञ्चितक्लेशनाशो व्यापार इति कथनम् । दुःखानुत्पाद एव मुक्तिरित्यपि न असाध्यत्वादिति कथनम् । गौणी साध्यतेत्यपि नेति कथनम् सञ्चितनाशतः प्रेम्णो धाराऽखण्डता वा विदेहमुक्तिरिति कथनम् । सञ्चितनाशे सायुज्यापत्तिशङ्काया निरसनम् । तत्त्वज्ञानस्य प्रेमाज्ञाननिवृत्तिश्चेत्युभयं कार्यमस्त्वितिपूर्वपक्षिण उक्तेनि- रसनम् । चरमप्रेम्णि श्रवणादिनवविधभक्तिसाध्यत्वं श्रूयतेऽन्यत्र तद्विपरीतमिहो. तादिप्रेमसाध्यत्वं कथमुक्तमित्याशङ्कायाः परिहरणम् । भक्तिरत्नाकरवर्णितं श्रवणादिकं फलरूपे प्रेमिण फलात्मकावस्थारूपमे- वेति कथनम् । सन्तृप्ते कथं शबलप्रेमफलात्मतादृशश्रवणादीत्याशङ्कायाः परिहरणम् । प्रेमवर्णनं व्यञ्जनयैव कर्तव्यमिति कथनम् । एतदुदाहरणम् । प्रेमाविष्करणं साक्षात्सम्बन्ध्यपेक्षया व्यवहितसम्बन्धिन्येव योग्य- मिति कथनम् । एतदुदाहरणम् । उदाहरणान्तरम् । उदाहरणान्तराणि । इदानीं प्रेमवर्णने सोपतोऽनुचितप्रकाराणां प्रदर्शनम् । प्रम्णि क्षयित्ववर्णनमनुचितम् । एतदुदाहरणम् । " " " भ " ११ . " ४ " ३ १२ सटीकस्य प्रेमरसायनस्य पं २२ " . ६ " १२ । १८ २० " AN निषध्यत्वेनापि क्षयित्वाभिधानमनुचितम् । एतदुदाहरणम् । एवं प्रेम्ण्यन्याशविषयाधारयोवर्णनमनुचितमितिकथनम् । यत्रेत्प्रेक्षासमर्थितेनार्थेन प्रेम समर्थ्यते तत्र तस्य प्रेम्णोऽन्यादृशेऽज्या. धारे वर्णनमुचितमितिकथनम् । एतदुदाहरणम् । उदाहरणान्तरम् । सामान्यतोऽनुचितार्थकपदापादानमनुचितम् । एतदुदाहरणम्। उदाहरणान्तरम् । प्रेम्ण्युचितार्थकपदोपादानं समुचितम् । . एतदुदाहरणम् । अनुचितघटनाया उदाहरणम् । तत्रैवोक्तिभङ्ग्या समुचितघटनात्वप्रदर्शनम् । प्रेमाधारण बहुतरस्यानुनयस्य प्रेमविषयवचसा प्रदर्शनमनुचितम् । एतदुदाहरणम् । उक्तिविशेषेण स्वकृतव हुतरानुनयप्रतिपादनेऽपि न दोष इत्यस्योदाहरणम्। प्रेमविषयभिन्ने तु प्रेमाधारस्य प्रेमविषयगोचरं बहुतरस्वानुनयप्रद. शनमुचितमित्यस्योदाहरणम् । सख्यादेरपि प्रेमविषयेऽन्यत्र वा प्रेमाधारस्य पृथुतरसेवाप्रदर्शनमु. चितमित्यस्योदाहरणे। कार्यमुखेन प्रेमण्याशंसितत्वस्य वर्णनमसमञ्जमित्यस्योदाहरणम् । स्वोचिताचारेणान्यगतोचिताचारेण, स्वगतानुचिताचारेण, परगता- नुचिताचारेण, दोषाणामुपेक्षणीयत्वप्रकाशनेन चेति पञ्चधा स्व. निष्ठं प्रेमाभिव्यज्यत इति कथनम् । प्रथमस्योदाहरणम्। द्वितीयस्योदाहरणम तृतीयस्योदाहरणम् । चतुर्थस्योदाहरणम् । पञ्चमस्योदाहरणम् । " ३ ६ " " १५ " -- " १४ २० .

प्रेमविभागवण्डानुक्रमणिका । १३ " ३१ ७९ १४ १८ " . ८० १२ " २१ ८१ ८ " १८ ": भश्चमे प्रकारद्वयकथनम् । द्वितीयप्रकारस्योदाहरणम् । उदयादिमुखेन प्रेमवर्णनं चारु भवतीति कधनम् । स्वरूपेण प्रेमोदयस्योदाहरणम् । उत्कर्षेण प्रेमोदयस्योदाहरणम् । गाढत्वेन प्रेनवर्णनस्योदाहरणम् । अस्योदाहरणान्तराणि । उद्बोधेन प्रेमवर्णनस्योदाहरणम् । उक्तप्रकाराविषयं प्रेम स्वरूपप्रेमेति कथ्यते । एतदुदाहरणम् । अस्य व्याख्यानम् । उदाहरणान्तरम् । प्रेमविषयेण प्रेमाधारे स्वकर्तृकप्रेमाविष्करणस्योदाहरणम् । प्रेमविषयेण स्वस्मिन् परकृतप्रेमाविष्करणस्योदाहरणम् । प्रेमाधारण प्रेमनिरूपणस्योदाहरणम् । उदाहरणान्तरम् । हरिदासादिमतेन स्वरूपमात्रप्रेम्णो लक्षणकथनम् । तत्राद्यप्रकारस्योदाहरणम् । द्वितीयप्रकारोदाहरणम् । तृतीयप्रकारोदाहरणम् । उदाहरणान्तरम् । चतुर्थप्रकारोदाहरणम् । उदाहरणान्तरद्वयम् । हरिदासादिप्रन्थीयापन्हुतप्रेमलक्षणम् । अस्योदाहरणम् । तदीयविवृतप्रेमलक्षणम् । एतदुदाहरणम् । एवमभिनेयप्रेमलक्षणम् । एतदुदाहरणम् । भाशंसितप्रेमलक्षणम् । " २७ " " २ २ . " २४ " ३० ८३ " " २० " २९ २ " १ " सटीकस्य प्रेमरसायनम्य पं0 ३ ६ " ८ १२ " " १७ " " २८ ३१ ८७ २ पृ० एतदुदाहरणम् । प्रतिरुद्धाशंसितप्रेम्णो लक्षणम् । एतदुदाहरणम् । उन्नातस्नेहोदाहरणम् । उदाहरणान्तारणि । गोपायितस्नेहोदाहरणम् । व्यक्तीकृतस्नेहोदाहरणम् । गोपायितपूर्वकव्यक्तीकृतस्नेहोदाहरणम् । अनुमोदितस्नेहोदाहरणम् । गार्ह तस्नेहोदाहरणम् । ऊजस्विप्रेमलक्षणम् । एतदुदाहरणम् । समाहितप्रेमलक्षणम् । एतदुदाहरणम् । सानुशयप्रेमलक्षणम् । एतदुदाहरणम् । व्यङ्ग्यं प्रेम प्रेमाधारविषयकत्वेन प्रेमाधारकर्तृकत्वेन परस्परकर्तृकपर- स्परविषयत्वेन च त्रिविधमितिकथम् । आद्यस्योदाहरणम् । द्वितीयस्योदाहरणम् । तृतीयस्योदाहरणम् । पुनरपि गूढस्फुटातिस्फुटभेदेन व्यङ्ग्यं प्रेम त्रिविधम् । एतेषां क्रमेणोदाहरणानि । प्रेम्णः फलवत्त्वप्रदर्शनम् । प्रेम्णो रसमात्रस्य स्फुटीकरण हेतुत्वकथनम् । उपासनानां चित्तशुद्धिद्वारोप्तादिप्रेमसाध्यत्वकथनम् । कर्मणश्चित्तशोधकस्य सत्त्वेऽपि अशक्ताद्यर्थं प्रेम्ण आवश्यकतेति कथनम् ,, प्रन्थसमाप्तिसूचनम् । ग्रन्थान्ते भगवत्प्रार्थनादिकम् । ग्रन्थकरणसमयनिर्देशः। इति प्रेमविभागखण्डस्य विषयानुक्रमणिका समामा । ११ १४ " २० " " " २४ २८ ८८ २ " ६ : " " २२ ३२ ८९ ३ ३ " १६ २५ अथप्रेमरसायनम् । श्रीगणेशाय नमः ॥ गृहीतगोवेषभुवो भविष्यत्सन्त्राणसम्प्रत्ययसाधनाय । मुदेव देवः खलु बल्लवानां गोपालनोत्फुल्लकले कुलेऽभूत् ॥ इह कश्चित् ग्रन्थारम्भे प्रेम निरूपयितुं प्रेमातिशयाभिव्यञ्जक. धर्मेण श्रीकृष्णं निर्दिशति- कीर्तिप्रतापविधुभानुसमुज्ज्वलानि धीरैः कृतानि वदनानि दिशां प्रयस्य ।। मुव्यक्तगोपवनितानयनान्तपात- पत्रिकरूपतिमिराणि मया तु तानि ॥ १ ॥ कीर्तीति । अत्र व्याजस्तुतिरलङ्कारः । यद्यपि नायं कविमदोत्क: र्षमावेदयन् ग्रन्थारम्भे निबन्धुमर्हः, तथाप्येतदुपस्कार्यस्य श्रीकृष्ण कतानतारूपस्य प्रकृतग्रन्थप्रतिपाद्यस्य प्रेम्णो रूपणोपयोगित्वात्सोऽह एव निबन्धुम् । इदानीं भङ्गयन्तरेण प्रकृतग्रन्धप्रतिपाद्यं दर्शयति- उच्छलद्भावकल्लोलशृङ्गारादिरसाकरः ।। जयत्यपारो गम्भीराश्चिरं प्रेममहार्णवः ॥ २ ॥ उच्छलदिति । उच्छलन्तोऽहमहमिकयेव व्यक्तीभवन्तो भावलक्ष. णाः कल्लोला बृहत्तरगा येषुशृङ्गारादिरसेषु तेषामाकरः। प्रेमशून्ये रसा. नामनाविर्भावात्। अत्र भावाः कल्लोलपदसामानाधिकरण्याव्यभिचारि. णोऽनुभावाश्च गृह्यन्ते । अपारः इतरचेतोवृत्तिवत्कालरोगानाश्य- त्वात् । गम्भीरः विरोधिनस्तत्समयेऽनुद्भवात् कथंचिदुद्भवेऽपि तेनानभिभवात् । एतत्तत्वमग्रे वक्ष्यते । अत्रापारगम्भीरपदाभ्यां वक्ष्यमाणं सन्तृप्तमेव प्रेमाभिहितम् । अत एव जयति । मुक्तिहेतु. ज्ञान एवास्य विश्रान्तेः।

२ प्रेमरसायनस्य लक्षणखण्डे- यथाऽयमनुमितश्चमत्कारभूस्तथा न साक्षात्कृतो न शब्दप्रमि- तः । नच व्यक्त्यभिव्यक्तिविषयस्तथेति वाच्यम् । तत्राप्युपजीव्य. तयाऽनुमानस्यापेक्षणात् । अतोऽस्थानुमापकमाह- अत्युनताभिः शाखाभिर्बहीभिरिव भूरुहः ॥ भावानुभावलीलाभिः प्रेमा दूरेऽपि लक्ष्यते ॥ ३ ॥ अत्युन्नताभिरिति । अत्र भावाः सञ्चारिणः ३३ (सङ्ख्याकाः) तेषा. मनुमापकत्वं तदभिव्यञ्जकचेष्टया ज्ञातानामेव । दुरेऽपीति । इतरात्मग. ततया अयोग्योऽपीत्यर्थः। इदानी चिरन्तनमतानुसारेण प्रेमपदार्थ निरूपयितुं भूमिकाः मारचयति-- रसो ब्रह्मेति सिद्धान्तः स्थाय्युपाधियशादयम् !! नदीतडागप्रमुवै स्थानिक विभिद्यते ॥ ४ ॥ रस इति । सिद्धान्त इति 'रसा वैस' इति श्रुतेः स्थायिनारत्या. दयः। विभिद्यत इति रत्याद्यवच्छिन्नचैतन्यानां पृथक्त्वादसो नानेत्यर्थः। प्रेम पदार्थमाह-- यमुपाधि समाश्रिय रस आद्यो निगद्यते । नमुपाधि बुधोत्तमाः ममति परिचक्षते ।। ५ ।। यमिति ! आद्य शुङ्गारः । प्रेमपतो भूमिका रचयति-- चिचाम्भाधेः समुत्पन्ना सन्चवारिविलासिनः ॥ दृष्टिः परिचयो हाई प्रेमेत्युर्मिपरम्परा ॥ ६ ॥ चित्ताम्भोधेरिति । वृत्तिरूपनानातरङ्गोपादानतया चित्तस्याम्भो, धिता । ननु क्रोधादिवृत्तीनामपि चित्ते दर्शनन कधं दृष्ट्यादिच. तुष्टयमवामित्वेन निरूप्यत इत्यत आह-सत्त्वति । तथाच सत्त्वपरित शतस्य तस्य युक्तमेव वृत्तिचतुष्टयामिति भावः । . दृष्ट्यादिपरिचयादिभावं प्राप्तं प्रमेति वक्तुमुपक्रमते चलस्येत्या- दिना । -- दृष्ट्यादिचित्ततिचंतष्यनिरूपणम् । - है ! 4 चलस्य चेतसो या स्यादुदामीनेषु(१) वस्तुषु ।। अवारणीया वृत्तिः सा दृष्टिशब्देन कथ्यते ॥५॥ चलस्येति हेतुगर्भ विशेषणम् । तथाचोपेक्षानुपेक्षात्मकज्ञानं दृष्टिशब्दार्थ इति भावः । दृष्टियथा-- असौ हरिरिति प्रौढगुरुवर्गभयान्मया । अपि सम्मुखमागच्छन्वीक्षितोऽपि न लक्षितः ।। संस्काराधायिका वृत्ति या परिचयात्मिका। संस्कारति । वृत्तिरित्यत्यतः प्राक् चेतस इत्यनुषज्यते । एव- मग्रेऽपि । तथाच सर्वांशेऽनुपेक्षात्मकं ज्ञानं परिचयशब्दार्थ इति भा. वः । परिचयो यथा- तत्कृतपरिचयमात्रादपि कृतकृत्यो यथाहमुच्चैः स्याम् । हृदय ! तथाचर किञ्चिद्यस्मितपीयूषभूमयो मुनयः ।। दोषानालोकिनी वृत्तिहर्दिमित्यभिधीयते ॥ ८ ॥ दोषानालोकिनीति । दोषानालोकिनीत्यस्य दोषत्वेन तदना- लोकिनीत्यर्थः। अत्र वृत्तौ परिचयपरिणामत्वं विवक्षणीयम् । तेन दृष्टी निर्दोषविषयकाद्यपरिचये प्रेमिण च नातिव्याप्तिः। सौहाईऽपि हार्दाभिन्नतया न तथा। तयोर्विभिन्न जात्याश्रयत्वाभावात्। न च परि चयलक्षणस्यातिव्याप्तिः । पचियत्वस्य दृष्टीतरवृत्तित्वव्यापकत्वेन क्षत्यभावात् । उपधेयसङ्करेऽप्युपाधेरसङ्करात् । हाई यथा- करुणातटिनीपूरपरिपूरितचेतसः। अपि सुव्यक्तकौटिल्यं जगदात्मसमं विदुः ।। अत्र विशेष्यानुपादानमीदृशविशेषणव्यतिरेकेण तद्विशेष्या न जात्यादिभिः परिच्छेद्या इति गमयति । सौहार्द हानि भिन्नमिति निरूपयति- हाई निजेषु बहुलं. सौहाईमभिधीयते । हाई मिति । तथाच विलक्षण स्तुविषयकत्वेन हाईमेव व्यपदे. शान्तरं भजति न तु जात्यन्तरम् । : (२) उदासीनेषु-हृदि प्रवेशनायोग्येषु ।

प्रेमरसायनस्य लक्षणखण्डे- - न एतद्देशयति-- सम्पुटे रत्नमबला भाजने वाऽपिधानके। निवेशयतु को भेदो गुप्तव्यक्ततया तु सः॥ सम्पुट इति । अत्राप्रस्तुतेन प्रस्तुतव्यक्तिः । ननु सौहाई न हाई पुत्रादिविषयकपित्रादिगतचित्तवृत्तेरपि पुत्रादिनिष्ठदोषावलोकित्वा- त् ।अन्यथा पुत्रादिशासनानुपपत्तिरिति चेत्, न । दोषानालोकिनी. त्यत्र दोषेऽपनेयत्वकामनाविषयदोषेतरत्वस्य विवक्षितत्वात् । हाई विशेष्याभावप्रयुक्तस्य सौहार्दै विशेषणाभावप्रयुक्तस्य विशि- ष्टाभावस्य सत्त्वादिति । एतदेव विदुः प्रेम भोगपर्यवसायि चेत् ॥९॥ एतदेवेति । एतदेव सौहाईव्यपदेशान्तरं प्राप्तं हाईमेक-। त्वेतत्पदं सौहाईपरम् । अस्वीयायामपि कान्तायां प्रेमोत्पत्तेः। ननु सौहाईवत्प्रेमापि न जात्यन्तरम् । एतत्पदेन हाईस्याभिधानात् । एवं च"प्रेमेत्यूमिपरम्परा" इत्यसङ्गतमित्यत आह-भोगेति । तथाच पूर्वोक्तं हार्दमेव भोगपर्यवसायित्वलक्षणपरिणामान्तरं प्राप्तं प्रेमप- दार्थः। अन्यथा हादोत्पत्त्यनन्तरमेव भोगापत्तेः। अतः कामिन्यादि. निष्ठहाईपरिपाक एव प्रेमेत्युच्यते। परिपाकश्च भोगपर्यवसायितेति। मतमेतद्भुषयितुं प्रथमं मतान्तरमाह- संयोगेऽपि पदार्थस्य यद्वियोगोपलालनम् । शाण्डिल्यः सूत्रकृत्माह तदेव प्रेमसंज्ञकम् ॥ १० ॥ संयोगेऽपीति । वियोगोपलालन-वियोगकृतावस्था । 'प्राहेति "योगे वियोगवृत्तिः प्रेमा” इति सूत्रेणेति शेषः। वृत्तिर्वतनं वियो. गवर्तनमर्थात् पुंसः। वियोगस्य वा वर्तनमवस्थितिरिति तन्त्रामृ तकारोऽत्र व्याख्यौ। ननु योगकाले वियोगोपलालनमसङ्गतं विरोधादिति शङ्कायं प्राचीनोदाहरणेनोत्तरमाह- अदृष्टे दर्शनोत्कण्ठा दृष्टे विश्लेषभीरता । नादृष्टेन न दृष्टेन भवता लभ्यते सुखम् ।।११॥ अहष्ट इति अदृष्टो यथा न भवसि वियोगभयं च नोत्पद्यते तथा कुर्या इति व्यङ्ग्यमत्रास्फुटमस्तीति कश्चिदुक्तम् । तनु वियोगभयं भरतोक्तप्रेमलक्षणम् । प्राप्ताया आक्षेपरूपेयमुक्तिर्व्यङ्ग्यं विनापि पर्यवस्यतीत्युपंक्षणीयमित्या ह भक्तिरत्नाकरे हरिदासः। तथाच विश्लेषाभावेऽपि विश्लेषभयमेव सूत्रकृता वियोगवृत्तिपदार्थोऽभिहित इति मन्तव्यम्। गुणाकरस्तु“योगे वियोगवृत्तिः प्रेम" इति सूत्रमर्थान्तरस्याप्युपलक्षकम् । तथाच यो गे वियोगवृत्तिरिव वियोगेऽपि योगवृत्तिः प्रेमेति लभ्यते । उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर- क्रोडकोकिलकाकलीकलैरुदीर्णकर्णज्वराः। नीयन्ते पथिकैः कथंकथमपि ध्यानावधानक्षण- प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः॥ इति श्रीमजयदेवकविवरवदनवनरुहविलासितवचनमकरन्दामृत. मुदाजहार। स्वमतमभिधायान्यमतं दूषयति-- न प्रेम्णः सर्वथा ज्ञेया भोगपर्यवसायिता ॥ शुकादयोऽपि श्रूयन्ते भगवत्प्रेमसङ्गताः ॥१२॥ न प्रेम्ण इति । प्रोम्ण भोग आनुषङ्गिको यदि स्यात्तदाऽऽस्ताम्। का क्षतिः। नचैतावता प्रेम भोगनियतम् । कुतातत्राह-शुकादय इति। शुकादीनामपि योगकाले वियोगोपलालनं तु सम्भवतीति भावः । एतदपि मतं दृषयितुं मतान्तरमाह- वावस्थैव चित्तस्य प्रेमेति भरतोऽवदत् ॥ १३ ॥ द्रवति । चित्तस्य-हार्दाकारेण परिणतस्य । तेन क्रोधादिसमु. स्थद्रवे नातिव्याप्तिः । द्रवहेतुमाह- जतुवकठिनं चित्तं स्वभावादथ तापकैः । योगाद्वति तत्काले करणैरग्रहो मतः॥ १४ ॥ जतुवदिति । जतुवदित्यनास्थायाम् । मधुसिक्थवत्काठिन्यस्य वक्ष्यमाणत्वात् । द्रवतीत्यग्रेतनेनान्वयो वा । अथशब्दः स्वभावादि. त्यस्य कठिनमित्यत्र सम्बन्धार्थः। तत्काले-द्रवकाले। करणैः इन्द्रि- ये। अंग्रह इति । इन्द्रियजन्यग्रहे कठिनचित्तसम्बन्धस्येन्द्रियेवपेक्ष. णात् । फलानुरोधित्वात्कल्पनायाः ।

प्रेमरसायनस्य लक्षणखण्डे - - तापकानाह- कामक्रोधभयस्नेहहर्षशोकदयादयः ॥ तापकाश्चित्तजतुनस्तच्छान्तो कठिनं हि तत् ।। १५ ।। काम इति । कामो-विषयभोगादिविषयेच्छा । स्नेहा-पुत्रादि- गतो रागः । हर्षो लाभादिजन्मा वृत्तिविशेषः । शोका=अनिष्टप्रा. प्तिसमुत्थो वृत्तिविशेषः । दया-दीनदशावलोकनजन्योऽनुकम्पति व्यपदेशयोग्यश्चित्तवृत्तिविशेषः। आदिना वक्ष्यमाणप्रेमभेदोपयो. गितापकानां परिग्रहः। तच्छान्तौ-तापकानां निवृत्तौ । ननु तार्किकादिभिश्चित्तस्य निरवयवत्वोपगमात् कथमवयव. शैथिल्यात्मा द्रव इत्यत आह- चित्तं सावयवं तेन द्रवतीति किमद्भुतम् ।। १६ ।। चित्तमिति ! तेन हेतुना। एकैकभूतसवीरेकैककरणोदयः । तैरेव मिलितैरन्तःकरणोत्पत्तिरुच्यते ॥ १७ ॥ एकैकेति ! करणोदयो-ज्ञानेन्द्रियोदयः । ननु पृथिव्यादित्रयाणामेव द्रवो गुण इति सिद्धान्तेन विरोध इत्याशय नायं गणनीय इत्यभिप्रायेण समाधत्ते- पृथिव्यादित्रयस्यैव द्रवो नान्यस्य कस्यचित् । इति मन्त्रेण बध्यन्ते वासनाभूतवासिताः ॥ १८ ॥ पृथिव्यादीति । नास्मन्मतमेतदिति भावः । ननु द्रयश्चेतसि भवतीत्यत्र किं मानमित्याशङ्ख्य कार्येणानुमी. यत इत्याह- द्रवत्ववेदनोपायानाहुः स्वेदादिकान् बुधाः ॥ १९ ॥ द्रवत्ववेदनेति । प्राचीनकारिकया तान् रूपयति- खेदः -स्तम्भोऽथ रोमाञ्चः स्वरभङ्गोऽय वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ साचिका मताः ॥ २० ॥ स्वेद इति । प्रलयो-मू । ननु स्वेदादिमिवानुमान स्वक- पोलकल्पितमिति चेत्, शृणु । - भरतोक्तप्रेमलक्षणोपपादनम् । - ::: तदश्म सारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः । न विक्रियेताथ यदा विकारो नेत्र जलं गारुहेषु हर्षः ॥ इत्यादिना तथाभिधानात् । अत्र विकारो द्रवः । क्रियान्तरेणापि द्रवोऽनुमीयत इत्यभिप्रेत्याह- मृतवत्सीयनिःसारचर्मालोकनविक्रमात । अप्यल्पदुग्धा दुह्यन्ते पशवो बालिशैरपि ॥ २१ ॥ मृतेति । विक्रमोऽत्र द्रवः । बालिशैः-दोहनप्रकारमजानद्भिः। ननु द्रवो मोह पवन त्ववयवशैथिल्यात्मातिरिक्तः। मानाभा. वात् । स्वेदादिभिरपि स एवानुमीयतामत आह- स्वेदादि मोहकार्य न मोहिनि क्वाप्यदर्शनात् ॥ २२ ॥ स्वेदादीति। ननु तापकानामेवाहत्य स्वेदादिकं कार्य भवतु किमन्तर्गडुना द्रवेणेत्यत आह- कामादिभिर्यदाकारं क्रियते तत्कथं मनः ॥ पूर्वाकारपरिखोगमन्तरेण स तु द्रवात् ॥ २३ ॥ कामादिभिरिति । सा=पूर्वाकारपरित्यागः ननु पूर्वाकारपरित्यागोऽपूर्वाकारार्थः । स एव किमर्थः । तत्र प्राचीनकारिकाभिरुत्तरमाह- तदाकारं न चेच्चित्तं तदा तद्भासकं कथम् । मूषासिक्तं द्रुतं तानं तन्निभं जायते यथा ।। २४ ।। घटादीन व्याप्नुवञ्चित्तं तन्निभं जायते तथा ।। व्यञ्जको वा यथा लोके व्यङ्गयस्याकारतामियात् ॥२५।। सर्वार्थव्यञ्जकत्वाद्धीराकारा प्रदृश्यते ॥ . आस्तामतिप्रसक्तेन प्रकृतार्थमहं वे ॥ २६ ॥ आस्तामिति । तदेवाह- .. :: द्रवीभूतेन चित्तेन यद्वस्तु परिगृह्यते । . स ग्रहो भावना नाम सद्योविश्रान्तिबीजभूः ॥. २७ ।। तापकसामान्य छैनचित्तकर्तृक ग्रहः सामान्यतो भावनापदार्थः ।

८ प्रेमरसायनस्य लक्षणखण्डे- -- भावनाविशेषपदार्थमाह- स्नेहोदितद्रवोत्पन्ना गीयते प्रेमभावना ॥ स्नेहेति । इदानीं तस्या एवावस्थान्तरतो नामान्तरमित्याह- दलिते भावनाधाराऽभिन्ना प्रेमसमाधिना ।। २८ ।। दलित इति । वक्ष्यमाणदलितावस्थायां भावनापङ्किवृत्तिरूप. सम्प्रज्ञातप्रेमसमाधिपदवाच्येत्यर्थः।व्यक्तीभविष्यति चेदमुपरिष्टात्। भावनाधास तु भावनाया बहुकालचुम्बिना, नतु व्यक्ति परम्परा । गौरवात् । ननु द्रवेणैव कृतार्थतास्तां किमाकारणेत्याह- स्वकीयविषयाकारसम्पत्त्यै जनितो द्रवः । तापकैस्तेन नो वाच्यं द्रवेणैव कृतार्थता ॥ २९ ॥. स्वकीयेति । द्रवेणैव-तापकविषयाकारमनवाप्तेनैव ।। युक्तयन्तरमाह- स्नेहोदितद्रवोत्पन्नभावनामय एच यः ॥ स एव विषयो लोके शर्मदो न बहिस्तनः ॥ ३०॥ यतोऽयमीशसृष्टोऽस्ति न दुःखसुखकारणम् । स्नेहेति । ईशकृते विषये समानेऽपि जीवकृतमेव नानात्वमिति प्राची नश्लोकेन दर्शयति-- परिवाटकामुकशुनामेकस्यां प्रमदातनौ । कुणपः कामिनी भक्ष्यमिति तिस्रो विकल्पनाः ।। परिवाडिति। लोकानुभधमपि प्रमाणयति- दुरस्थिता सनिधिगा निजाङ्कस्था मनोमयी ॥ क्रमेण लोके दृश्यन्ते कामिन्यः कामिनां प्रिया:.॥३२॥ दुरस्थितेति । ननु तर्हि मनोमयकामिन्यादिभिरेव निर्वाहसम्भवे किं. बाह्यप.

भरतोक्तप्रेमलक्षणदूषणम् । ९ - दार्थकल्पनेनेत्यत आह- मनोमयस्य सम्पत्यै बाह्यापेक्षा न तु स्वतः ॥ ३३ ॥ मनोमयस्येति । हन्त कथमस्य तापकमन्तरेण घटाद्याकारता तत्राह- मधुसिक्थकठोरेऽस्मिन्नुपमर्देन चेतसि ।। घटाद्याकारतापि स्यादन्तरेणापि तापकम् ॥ ३४ ॥ मध्विति । मधुसिक्थवत्कठोरे चेतसि विनापि तापकं विषयान्तर. सम्पर्करूपोपमर्दैन तापकविषयभिन्नविषयाकारतापि स्यात्, न तु वि. षयान्तराकारतासम्पत्त्यै तापककृतद्रवजनितकाठिन्यनिवृत्तिरपेक्षिते. त्यर्थः। अत एवोक्तमभियुक्तः-"चेतसि द्रुते भगवदाकारो भक्तिर. द्रुते तु स ज्ञानम्" इति। पूर्वमतं दूषयति- लाघवात्म वक्तव्यं वियोगस्योपलालनम् ॥ ३५ ॥ लाघवादिति । हाद्युदितवियोगकालीनवियोगोपलालनेऽतिव्याप्तिवारणाय त. थोक्तमिति चेत्, तत्राह-- येनोपलालने प्राहुर्वियोगस्य बुधोत्तमाः ।। तदेव प्रेम वक्तव्यं न वियोगोपळालनम् ॥ ३६ ॥ येनेति। यथा हार्दोदितवियोगावस्था हाईफलं न हाई तथैतदपि वाच्यमिति भावः । वियोगोपलालनफलोपधायकतां प्राप्त हाईमेव प्रेम, तामप्राप्त च शुद्धं हाईमिति केषांचिद्वियोगोपलालनमित्यत्र बहुवीहिं कृत्वा हाहाशे वियोगोपलालनोपधायकत्वलाभेन शाण्डिल्यसूत्रकृन्मतं समर्थयतां मतमनुद्य दूषयति- फलेन विप्रलम्भोपलालनेन समायुतम् ॥ हाई प्रेमेति नो वाच्यं यतो हाईफलं न तत् ॥ ३७॥ फलेनेति । २ १० प्रेमरसायनस्य लक्षणखण्ड-- कुतस्तत्राह- न जायते तदुत्पत्तिहीत्पिण्युत्तरक्षणे ।। हार्दीयपरिपाकस्य फलं तच्चेत्स एव कः ॥ ३८ ॥ न जायते इति । स एव-परिपाक एव । अतः स्वमतमुपसंहरति- अतो हाईपरीपाको वस्तत्प्रेम कथ्यते ॥ अत इति । इदमपि मतं दूषयितुं गुप्तपादाचार्यमतमाह- इच्छाविशेषः प्रेमेति गुप्तपादार्यसम्मतम् ॥ ३९ ॥ इच्छेति । इच्छाविशेषः प्रेमेत्यत्र विशेषपदार्थ दर्शयति काम्यलाभेऽपि यस्तावन्न निवर्तेत कर्हिचित् ॥ विवर्द्धते प्रत्युत स्यान्ममेतिवचनोदितः ॥ ४० ॥ काम्येति। काम्यो-विषयः । तथाच याहशेच्छा विषयलाभेऽपि न निवर्तते तादृशेच्छायां विषयलाभानिवर्त्यत्वमिच्छागतो विशेषः ! वचन-वाक्यम् । भक्तिचिन्तामणौ तु "योगे वियोगवृत्तिः" इति सूत्रस्य वियोगोपलालनहेतुभूता चित्तवृत्तिरित्यर्थ विधाय प्रागुक्त- न्छा सुत्रार्थ एवेति विवृतम् । एतन्मते हाईपदार्थ निरूपयति- दोषदर्शननाश्यस्तु स हाईमभिधीयते । दोषेति । सः इच्छाविशेषः । अयं च न केवलं विषयप्राप्तिनाश्य इत्याह- अपि तद्विषयाला नश्येदोषावलोकनात् ॥ ४१ ॥ अपीति । तदिति कर्तृ । विषयलाभे तु नश्येदेवेति सूचकोऽपि. शब्दो विषयालाभ इत्यत्र सम्बध्यते। दोषावलोकनात हाईवि. षयनिष्ठदोषाणां ज्ञानादित्यर्थः । हात्सिौहाईस्यास्मिन्पक्षे भेदमाह- दोषदृष्टया न यस्यास्ति नाशस्सौहार्दमेव तत् ॥ केवलं विषयमातिनाश्यमेतन्निगद्यते ४२ ॥

गुप्तपादाचार्योक्त क्तप्रेमलक्षणोपपादनम् । दोषेति । तथाच विषयलाभमाननाश्येच्छा सौहार्दमिति लक्षणं पर्यवसितम्। नन्वतल्लक्षणमयुक्तम् । पुनर्विप्रलम्भे पुनर्दुःखोदयादत आह-- स्वरूपे नानुरागस्य विषयप्राप्तिनाश्यता ॥ किन्तु तत्कार्यसन्दोहे विश्लेषसमयोदिते ।। ४३ ॥ स्वरूप इति । तथाच विरहावस्थोदितानामनुरागकार्याणां रो. माश्चाश्रुपातादीनां प्रतिवन्ध एव विषयप्राप्तिनाश्यत्वम् । एतन्मता. नुसारिणा गुणाकरेणापि भावचन्द्रिकायां हादसौहाईयोर्लक्षणमु- क्तम्-"दोषदर्शनापनेयश्चित्तवृत्तिविशेषो हाईमगणनीयदोषदर्शन. श्चित्तवृत्तिविशेषः सौहार्दम्" इति । तत्र सौहाई यथा- सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥ अत्र शरीरदोषदर्शनं न शरीरविषयकचित्तवृत्तिविशेषमपनयति । यथावा- प्रियं तु पृष्ठतः कृत्वा विधाय तनुविस्तृतिम् । सज्जचापस्य लुब्धस्य पुरोऽभूच्चक्रकामिनी ॥ अत्र स्वापकाररूपदोषदर्शनं न प्रियविषयकं चित्तवृत्तिविशेष रुणद्धि । नचेदं प्रेम, प्रेमात्मकचित्तवृत्तौ तादृशदोषदर्शनस्याप्यनु- चितत्वादिति सोपपत्तिकमुदाहृतम् । नात्र स्वापकाररूपदोषदर्श नमुक्तमस्तीति चिन्तनीयमेतदिति गुणाकरः । ननु सर्वत्रेच्छाया विषयलाभनिवर्त्यत्वमिति सिद्धान्तात् कथ. मेतदित्याशङ्कायां नायमनुभवं स्पृशतीति श्लोकेन दर्शयति-- बदामि कतमां तन्वीं का मदीये हृदि स्थिता ।। दृष्टेऽपि कृष्णे तृष्णेयं लोचने न विमुश्चति ॥४४॥ वदामीति । एवं चेच्छाया विषयलाभनियंत्वं प्रेमात्मकेच्छा. तिरिक्तेच्छासु, न तु सर्वत्र, युक्तेरनुभवाबाधकत्वादिति भावः । विवर्द्धत इत्यस्योदाहरणम्- यथा, सङ्कल्पैकमये सदैव सविधं कृष्ण पुरस्थायिनि ज्वालाजालनिकामदग्धहृदये कोऽयं वियोगज्वरः।

१२ प्रेमरसायनस्य लक्षणखण्डे- - तत्राप्युन्मददूतिकासु विनतिर्दाना च वाक् प्रायशः प्रेम्णः क्षारमयादुदति कथनायोग्यः पिपासाभरः ॥ यथावा-- तव दूरस्थितः पुत्रो द्रष्टव्य इति वासना । वीक्षितेऽपि पुनक्ष्यि इति मे जायते स्पृहा ॥ अत्र यशोदा प्रति गोपिकाया उक्तिः । दवः प्रेमेति मतं निषेधति द्रबहेतुरय प्रेमा न पुनवतां गतः । वेति । कुतस्तत्राह- प्रेपकार्य यथा प्रोक्तं विप्रलम्भोपलालनम् ॥ ४५ ॥ तथा द्रवोऽपि वक्तव्यो न तु प्रेममयो हि सः ।। प्रेमेति । सः द्रवः । तथाच वियोगोपलालनात्मक प्रेम भवता यथा नेप्यते तथा द्रवरूपमपि तन्नेष्टव्यम् । एवं प्रतिवन्दीमाभिधायोक्तिमपि प्रमाणयति-- बत का सास्ति मुमुखी यच्चेतः प्रेम चुम्बति ॥४६॥ शतधा नेह भिद्येत स्मरोऽप्येवं वदिष्यति ॥ बतेति । अत्र शतधाभेदो द्रवः । वदिष्यतीति काकुः। द्रवपक्षे दोषान्तरमप्याह--- प्रेम्णः सविषयत्वेन प्रसिद्धेन द्रवात्मता ॥ ४७॥. प्रेम्ण इति । एतेन प्रेम चुम्बतीतिपदे प्रेमपदस्य स्नेहरूपतापक- परत्वेन दोषोद्धारेऽपि न क्षतिः । ननु कामिन्यां दोषज्ञानात्पूर्व प्रेमोत्पन्नम्। अनन्तरं दोषदर्शनेन विषयलाभेन वा नष्टमिति लोके दृष्टम् । प्रेम्ण उक्तरूपत्वे विरुद्धमत आह-- कामिन्यामुदितो रागो नश्येहोषावलोकनात् ।। यदि स स्यात्तदा हाईसंज्ञो न प्रेमशब्दभाक् ॥ ४८ ॥ कामिनीप्राप्तिनाश्यश्चेत्मौहाईमाभिर्धायताम् ॥

हादसौहार्दयो_लक्षण्यम्। १३ - - कामिन्यामिति । हाईसौहाद्देवैलक्षण्येन प्रेम निरूपयति- तदनाश्यः प्रेमनामा दुर्लभो वागगोचरः ॥ ४९ ॥ तदनाश्य इति । ताभ्यां दोषदर्शनविषयलाभाभ्यामनाभ्यः। तत्र दोषदर्शनानाश्यत्वं तु दोषाणामनवलोकनादेव । न तु सौहाई इवा. नाहाय दोषदर्शनम् । एवं च- "मायिनस्तस्य जानामि चरितान्यखिलान्यपि । तथापि निस्पं चेतस्तं न मुञ्चति मामकम् ॥" इति राधोक्तिः, "मां लोकवादश्रवणादहासीः श्रुतस्य किं तत्सदृशं कुलस्य" इति सीतोक्तिश्चाहार्यदोषदर्शनमूलव । गणयति गुणग्रामं क्रोधं भ्रमादपि नेहते भ्रमात्-सापराधजनतादात्म्यभ्रमादपीत्यर्थः। वहति च परीतोषं दोषं विमुञ्चति दूरतः। युवतिषु चलत्तृष्णे कृष्णे विहारिणि मां विना पुनरपि मनो वामं कामः करोति करोमि किम् ।। इति पद्ये श्रीजयदेवो गोपीनां भगवति दोषदर्शनमाहार्यमेवेति स्फुटमावेदयतिस्म । अत एव कश्चित्कविवरोऽनाहार्यदोषदर्शनपरि- पन्थिनं प्रेमविषयदोषाभावदर्शन सीतोक्तिमुखेन व्यक्तीचकार । यथा- रघुकुलजनुषामयं न पन्थाः परिहरणं निरुपाधिकप्रियायाः। रघुकुलतिलके तु का कलङ्कः समजनि जन्म ममैव पापपके ॥ इत्यादौ । वागगोचर इति । इतरविषयकमितरनिष्ठं प्रेमेदमित्थतयानुमाय तत्रेदं प्रेमेतिव्यपदेशो विज्ञेनापि सर्वथैव निराबाधं कर्तुं न शक्य इति भावः । प्रकारान्तरेणापि हाईसौहाईवैलक्षण्यं दर्शयति- नादोषे पक्षपातोऽस्ति न लाभे कृतकृत्यता । नेति । प्रेम्ण इति शेषः। अधिकारितोऽपि प्रेरिण तलक्षण्यं दर्शयति-- भयं भजति यो मन्दः कल्पान्तज्वलनादपि ॥५०॥ मृणालजिन्मना नापि स हि प्रेम स्पेशत्कथम् ।।

१४ प्रेमरसायनस्य लक्षणखण्डे- - - - भयमिति । अस्य फलितमाह- प्रेम्णस्तेन कथङ्कारमनन्ते विषये स्थितिः ॥५॥ प्रेम्ण इति । स्थितिरिति आश्रयितया विषयितयेति वा। हाई स्य पूर्वविषये दोषदर्शनेन विषयान्तरेऽवस्थानम् । एवं सौहाई. स्यापि विषयलाभेनोत्कण्ठानिवृत्त्या विषयान्तरे गुणावलोकन- निबन्धनमवस्थानम् । नन्वखिलगोपीगोचरहरिनिष्ठरागस्य का दशेति शङ्कायामाह- सौहाईमेव गोपीषु लीलारब्धतनोविभोः ।। सौहाईमिति । एवकारात्कर्मपरतन्त्रजीववन्न प्रेम । अत एव- "वल्लवीवृन्दविहितप्रेम्णामव्याजजन्मनाम् । नाधमर्ण्यपरीहारश्चपले मयि कर्हि चित् ॥" इति तन्त्रामृतधृतवचने चपलविशेषणान्मयि वल्लवीनामेव वल्ल. वीषु मम न प्रेम किन्तु सौहाईमिति भगवदाशयं विशदयन् हरि. दासः प्रेम्णो विषयततिचुम्बिता नास्तीति स्वाशयमाविश्चकार । अव्याजजन्मनां फलाभिसन्धानरूपव्याजजन्यहार्दसौहाईजातीयभि भानाम् । गुणाकरोऽप्यमुमेवार्थ स्फुटमाचख्यो- "वर्णनीयं सुकविभिः प्रियप्रेमैव योषिति । तश्च नानेकविषयं रसाभासप्रसक्तितः। रसाभासोऽपि तद्रूपहानेन पृथगिष्यते ॥" इत्यनेन ग्रन्थेन । तद्रूपहाने:=प्रेमस्वरूपस्यकविषयत्वस्यानुपप. तेरित्यर्थः। पक्षान्तरमप्याह- अस्तु वा जीवगे प्रेम्णि नियमोऽयं न चेशगे॥ ५२ ।। अस्तु वेति । अयम् एकमात्रविषयचुम्बित्वरूपः। नन्वेवं "वल्लवीवृन्द" इतिश्लोकस्य का गतिस्तत्राह- तन्त्रामृतधृताक्तेस्तु प्रशंसापरतोद्यताम् ॥ तन्त्रामृतेति। स्वमात्रविषयकप्रेमशालिनीनां गोपीनां प्रशंसापर- मेतदितिभावः । - प्रेम्णो वागगोचरत्वोपपादनम् । १५ एतादृशमेव वागगोचरत्वमिहाभिमतमित्यभिसन्धायाह- प्राकृतानां मदान्धानां सुजनानां च धीमताम् । भ्रमोऽस्य कामिनीवृत्तिसौहाई तासु वृत्तिषु ॥ ५३ ॥ प्राकृतानामिति । प्राकृतानाम् इङ्गितमप्यजानताम् । मदान्धाना- म्-तजानतामपि प्रमादिनाम् । सुजनानाम्-तथाविधानामप्रमादि. नाम् । धीमतांप्रेमानुभवशालिनामपि । अस्येति विषयत्वे षष्ठी। तथा चेतरजनविषयासु कामिनीजननिष्टासु दृष्टिपरिचयहादसौ. हार्दवृत्तिषु क्रमेण प्राकृतादीनां तादात्म्यन प्रेमभ्रम इत्यर्थः । ननु धीमतामपि कथं प्रेमभ्रमस्तत्राह- सौडाईगतचिन्हानां प्रेमकाले विलोकनात् । अतो विमुह्यति प्रायः प्रेमानुभवभागपि ।। ५४ ॥ सौहार्देति । कदाचिद्विषयाबाधे सति दैवात्प्रेमानुमाने प्रामाणि. केपि नानुमा तुस्तत्कौशलं घुणाक्षरविधातृर्काटवदिति ज्ञापनाय प्राय इत्युकम् । विमुह्यति-अयमेतद्विषयकप्रेमभागिति तत्वतो न जानातीत्यर्थः । प्रकारान्तरण वागगोचरत्वं विशदयति- एतद्वितिद्वन्द्यः किं वाच्यो योऽमुना वृतः ।। ५५ ॥ एतदिति । ननु दृष्टदोषस्य विषयस्य लाभेऽपि यत्र रागो दृश्यते तत्र स रागो न हाई दोषदर्शनानाश्यत्वात् । अत एव न प्रेमा नापि सौहाई विषयलाभानिवर्त्यत्वात् । अतो रागावान्तरभेदोऽन्योऽपि स्वीकार्य इत्यत आह- दृष्टदोषेऽपि विषये लब्धेऽप्युत्सुकता यदि। तर्हि सौहाईपाकः सा यच्चिरं नावतिष्ठते ॥ ५६ ॥ दृष्टेति । यस्मात्कारणाद्विषयप्राप्ती कंचित्कालमेवोत्सुकताया दर्शनं तस्मात्सौहाईस्यैव पाकः । ननु चिरमवस्थानं यदि स्यात्तर्हि का गतिस्तत्राह-- चिरमुत्कण्ठता दोषदृष्टिश्चेति तु साहसम् ।। - १६ प्रेमरसायनस्य लक्षणखण्डे- - चिरमिति । यदि विषयप्राप्तौ चिरमुत्कण्ठायाः सत्त्वं तर्हि दोषद. र्शनमेव न सम्भवतीति भावः । एतस्यैव दशां प्राहुटुंतव्याप्ति विपश्चितः ॥ ५७ ॥ एतस्यैवेति । एतस्य-सौहाईपाकस्य। द्रुतं-शीघ्रं व्याप्तिः अर्था- त् परकीयदुःखस्य। सा व्यतिरेकमुखेन यथा-- म्लायति नाप्तमित्रः प्रत्युत संवीक्ष्य दुःखितं दृष्टः । कोके कृतबहुशोके विकसितवक्राणि कुमुदानि ॥ यथावा- क्षेमभागहितकंसविपक्षे क्षेपणक्षमभुजः सह पित्रा। बन्धुना च विजयी नव सूनुः खेदलेशमपि मुश्च यशोदे !॥ अत्र मथुरातः समागतायाः क्षेमभागितिपदस्य प्रथममुपन्या- सादनुभूतसौहार्दपाकायाः कस्याश्चिद्यशोदा प्रतीयमुक्तिः । अपरं वा- दृष्टा सा महसां राशिः स्वामिदूतकृते यया । अदायि मेदिनीमात्रे स्वनेत्रविरहःक्षणम् ॥ अत्र श्रीराम प्रति हनूमद्वाक्ये हनूमति सौहाईपाकः प्रतीयते। गोविन्दचक्रवर्तिनस्तु प्रेमकलिकायामिदमाहुः । "वाढव्यसनसाहसम्पातेऽपि निरन्तरम् । न हीयते यदीहेति साधु तत्प्रेमलक्षणम् ॥” इति ! वाढव्यसनसम्पातो विषयगतानाहार्यदोषदर्शनेनान्येन वा हेतु. नेत्यत्र नाग्रहः। “पुनरपि मनो वाम कामः करोति करोमि किम" इत्याद्यभियुक्तोः । नचात्र दोषदर्शनमाहार्यमिति वाच्यम् “युव तिषु चलत्तृष्णे' इत्यादिना दुःखोदयस्याभिधानात् । नहि दुःखोद. योऽनाहार्यदोषदर्शनं विना सम्भवति । प्रेम्णि दोषदर्शनाङ्गीकारेऽपि बाधकाभावात्। अत एव- "नार्य एव जगत्यस्मिन्विन्दन्त्यायॊचितां क्रियाम् । अपि यन्मलिनं स्नेहकृतं लोचनयोः कृतम् ॥" इत्यादि सङ्गच्छते। "कुओ नाभिगृहं कलिन्दतनया कुल्या कुले कालिमा कीर्तिः कैतवमार्यता कटुगिरश्चाटूनि कष्टं सुखम् ।

प्रेम्णोऽनियतविषयत्वकथनम् । १७ ज्योत्स्नी चापि कुहूरमन्यत कुहूज्योत्स्नी मया यत्कृते तस्यालि ! प्रतिपत्तिशालिमनसो दासीरतिः श्रूयते ॥" इत्यादिवनाहार्यमेव दोषदर्शनम् । उदाहरन्ति च- "वल्लव्याः कान्तरुद्धाया मनः कृष्णकलोलुपम् । असूनग्रेसरान् कृत्वा रासवासमशिश्रियत्॥" हन्तैवं कथमनासादितव्यसनायामीहायां प्रेमता । सत्यम् । व्य. सनसमुच्छेद्येच्छाभिन्नेच्छा प्रेमेति तनिष्कर्षात् । हाहांदिव्यपदेश स्तु तदुच्छेद्याया पवेच्छाया इति श्लोकार्थ स्वयमूचिरे । हरिदास. स्तु दोषोऽपि प्रेमाविषये द्वेषाजनक इत्यर्थः । विपद्यदोषदर्शनं दोषदर्शना. भाव एव पर्यवस्यतीति प्रेम्णि दोषदर्शनं नास्तीति वदतो गुप्तपा. दाचार्यस्य मतं नायुक्तमित्याह । परमानन्दठक्कुरास्तु प्रेमचन्द्रिका यामन्यथा प्रेमलक्षणं सम्बभाषिरे । तद्यथा--- वस्तुव्यापारविषया समीहा दाईशब्दभाक् । वस्तुमात्रावलम्बा तु प्रेमेति पदवीं गता ॥ वस्तुव्यापाराः वस्तूदयस्थितिवीक्षणग्रहणादयः । तथाच वस्तु. व्यापारविषयिणीच्छा हार्द, वस्तुमात्रगोचरा वचनानौतु प्रेम | रथा- बजमन्दिरतल्पावक्षोनयनमानसे । अपि स्थितं सुतं गोपी चित्रं कामयते मुहुः ॥ एतन्मतमतिसूक्ष्ममतिगोचरतयाचिरपरिचयचाविति प्रतिभाति ! ननु पामराणां पुवादिषु सुकृतिनां लीलाविग्रहेषु ज्ञानिनां भूमा- नन्दे प्रेमोत्पत्तिदर्शनात् कोऽस्य विषयो नियत इत्याशङ्कायामाह- नैतस्य विषयः कोऽपि नियतो हाईजन्मनः ॥ ५८॥ नैतस्यैति । एतस्य-प्रेम्णः । हाईजन्मन इति हेतुगर्भ विशेषणम् । तथाच कारणस्य हाईस्यैव यत्र विषयो न नियतः तत्र किं वाच्यं का- यरूपस्य प्रेम्णो विषयो नियतः स्यादिति । ननु पुत्रादिविषयकप्रेम्णां भगवद्विषयकप्रेम्णां च किमेकजा. तयिता उत भिन्नजातीयता । नाद्यः । स्नेहस्य तस्य धिक्कारो यो न चुम्बति के शवम् । स दग्धचरणः क्रोधो यो न स्पृशति कापथम् ॥ इत्यादौ भगवद्विषयस्नेहोत्कर्षस्य विषयस्नेहापेक्षया प्रतीतेः । न ३

प्रेमरसायनस्य लक्षणखण्डे-
द्वितीयः। कारणलक्षण्यं विना विजातीयवस्वनुत्पादात् । अत आह.
न प्रेम भिद्यतेऽन्योन्य कार्यकारणजातिभिः ।
प्रेमोत्कर्षापकर्षों तु विषयक निबन्धनौ ॥ ५९॥
न प्रेमेति । कार्येण अश्रुपातादिना । कारणेन-हाईन ।जात्या स्वरूपत
एकमेव । विषयेति । विषयोत्कर्षापकर्षाभ्यां प्रेमोत्कर्षापकर्षावित्यर्थः।
एतदेवोपपादयति-
ब्रह्मण्याविष्टचित्तानां सर्वदानन्ददर्शनम् ।
पुत्रादिसक्तचित्नानां तापश्रेणीति दृश्यते ॥ ६०॥
ब्रह्मणीति ।
ननु वियषवियोगकृत एव यदि प्रेम्ण्यपकर्षस्तदा श्रीकृष्णवियो.
गिनीनां तद्विषये प्रेमण्यपकर्षापत्तिरत आह-
गोप्यः कृष्णवियोगिन्य इति कस्तत्वतो वदेत् ।।
गोप्य इति ।
नन्वेतत्पुराणविरुद्धमित्याशङ्कां भक्तनिरूपणेन निराकरोति.
भक्तश्चतुर्दा गदितः कृष्णकल्पद्रुमादिषु ॥ ६१ ॥
भक्त इति ।
कृष्णकल्पद्रुमस्थकारिकामुखेन भक्तलक्षणोदाहरणे विभजते.
नित्यं प्रेमपरीतात्मा कदाचित्प्रेममोहितः ।
कृत्रिमप्रेमयुक्तश्च प्रेमोदारश्चतुर्थकः ॥ ६९ ॥
चत्वारः प्रेमभक्ताः स्युस्तत्रायो गोपिकागणः ।
नैतस्य विप्रलम्भोऽस्ति कृष्णप्रेमसमाधिना ॥ ६३ ॥
द्वितीयः शुकदेवादिः समाधिच्छेददर्शनात् ।
ईशप्रेम्णि हठाच्चित्तं चिरं येन निवेश्यते ॥ ६४ ॥
स स्यात्तृतीयः सोऽपि स्यात् द्विविधस्तत्र चादिमः ।
विषयस्य विरोधेनाविरोधेनापि चेतरः ॥६५॥
प्रहादादिमुखस्त्वाचा ह्यर्जुनादिस्तथा परः ।
गोपीमुखानामुक्तानां मध्ये नैकतमोऽप्यहम् ॥ ६६ ॥

चतुर्विधभक्तलक्षणांदाहरणानि । इति शोचति यो नित्यं प्रेमोदारः स उच्यते । यथा युधिष्ठिरो राजेसेवं भक्त चतुष्टयम् ।। ६७ ॥ इति । नित्यमिति । नित्यसमाधियुक्तानां गोपीनां व्यवहारनिष्पत्तिर्भ- गवतैव परमकारुणिकेन निर्वाह्यते । तासु भूतावेशन्यायेन प्रवेशो. पगमात् । न चात्र मानाभावः । "नित्यमेव निमग्नास्ताः कृष्णप्रेमसमाधिषु । न कदापि वियुज्यन्ते गोप्यो विरहभीरवः ॥" इत्यादिनारदपञ्चरात्रागमात् । ने विरिऊच्य इत्यत्र प्रसादोऽप्येष उच्यते ।। नेममिति । "नेम विरिजच्यो न भवो न श्रीरप्यङ्गसंश्रया। प्रसादं लेभिरे गोपी यत्तत्प्राप विमुक्तिदात् ॥" इतिश्लोके । एषः भगवद्विषयनित्यप्रेमसमाधिरूपः । भगवत्कर्त. कानुराग एवात्र प्रसाद इति चेत्, अस्तु नाम नित्यप्रेमसमाधिहेतुः। न त्वत्र प्रसादपदस्थासावर्थः । गोपीकर्तकस्य तस्याभिधानात् । तथाच भगवत्कर्तृकानुरागफलीभूतो गोपीकर्तृकप्रेमजन्यभगवद्धि षयकसम्प्रज्ञातो वक्ष्यमाणरीत्या तथाविधसम्प्रज्ञातफलीभूतोऽस. म्प्रज्ञातो वा समाधिः प्रसादपदस्थार्थ इति ध्येयम् । शुकादीनां नि. त्यप्रेमसमाधौ मानाभावात् भगवहुणानुवादित्वश्रवणाञ्च द्वितीय- भक्तकोटौ निवेशः। विषयस्येति । विषयभोगावसरप्राप्तौ विषयोऽयं मामनथै पातयिष्यतीति धिया विषयस्य तिरस्कारो विषयस्य वि. रोधः विषयभोगो विषयस्याविरोधः । प्रेमोदार इति । उदारताच गोप्यादिसकलभक्तजनप्रेमावस्थाकर्णनमात्रसमुद्भूतबहलरोमाञ्चा. श्रुपातादिसंशम् । स्यादेतत् । द्वितीयभक्त कोटिप्रविष्टानां गोपीतरकामिनीनां भ. गवद्विषयके प्रेमण्यपकर्षापत्तिरत आह- उत्तमे वस्तुनि प्रेमा योऽस्ति तस्यैव वृद्धये ॥ ६८ ।। वियोमो दुःखयोगस्तु नान्तरीयकतां गतः ।। उत्तम इति । तथाचोत्तमे वस्तुनि वियोग उत्तमविषयकप्रेमोत्क- २० प्रेमरसायनस्य लक्षणखण्डे- -- - र्षार्थमेव नापकर्षार्थम् । दुःखयोगस्तु नान्तरीयकतया बलवद्वेषा. विषयः। नन्वेवं पुत्रादिगतवियोगेऽपि तुल्यं तत्राह-- अनुत्तमेऽथ योगेन बहुलं प्रेम जन्यताम् ।। ६९ ॥ नैतावता तदुत्कर्षो दुःखमात्रफलं यतः ।। अनुत्तम इति। तदुत्कर्षः प्रेमोत्कर्षः। तथाचोत्कर्षो न बाहुल्यं कि. न्तु भवबन्धनाशकत्वं तव्यतिरेको दुःखै कमात्रफलकत्वं वापकर्षः प्रेमगत इति ध्येयम् । अतो वियोगे गोपीनामित्युक्तावपि का क्षतिः ॥ ७० ॥ अत इति । प्रसङ्गादाह- उत्पत्तावस्य विश्लेषो जीवानां जीवितावधिः । प्रायशो वा व्यवहृतौ वैमुख्यं मरणावधि ॥ ७१ ॥ अस्य-वक्ष्यमाणस्य ललितोत्तरस्य दलितप्रेम्णः । विश्लेष इति । प्रेमविषयविश्लेषो निरतिशयदुःखपरम्पराविधानद्वारा जीवि- तावधिन तु प्रेमावधिः । यथा- साकारमेव गुरुलोकविलोचनेभ्यो रक्षत्यसुन्न तु पुनः स्मरसायकेभ्यः॥ कार्य तनौ वितनुते न पुनस्त्रपाया- मन्तं गमिष्यति न तु प्रणयावहेलाम् ॥ प्रणयोऽत्र प्रेमा । दशरथोऽनिरुद्धो गोपी च व्यक्तमेवोदाहरणम् । यथावा- त्यजन्ति तृणवद्देहं विश्लिष्टे जीवितप्रभौ । तासामनुमृतेासश्चकार सकलां स्तुतिम् ॥ अपरं वा-- सा साधुरेव यन्नाथ ! प्रयाता तव पृष्ठगाः। अभवन्क्षेमदानाय तस्या एवासुवायवः ।। अत्र वल्लवी कामपि स्तुवन्तं तन्मृतिमजानन्तं श्रीकृष्णं प्रति गो. कुलादागतस्योद्धवस्योक्तिः । नाथपदेन स्वनिमित्तकपरप्राणापगमे. ऽपि प्रभूणां न कापि क्षतिरित्यर्थो व्यज्यते। हाईविषयविरविश्ले- - व्यवहतिवैमुख्यहेतुकथनम् । २१ - पस्तु हावधिः । यथा- तन्वङ्गि! भग्नः स स्नेहश्चिरं विरहशालिनीः । मृणालखण्डयोस्तन्तुरिव माईवभाक्तयोः ॥ यथावा- विनोमितापमकरस्नेहवारिविशोषणे । जनापवादः सुमहानभवत् कलशोद्भव !॥ इत्याधुदाहरणात् । उत्पत्तावस्यतिश्लोके विशेषमनूद्य जीवि. तावधित्वं बोध्यते । जीवितावधित्वं जीवितनाशकत्वम् । प्रायश इति जीवितावधित्वेन सम्बध्यते । विरहानलपातपाण्डुरच्छविदम्भेन विशुद्धिभागपि ॥ तदपि प्रतिसद्य जीवतीत्ययमको यमहेलयाहितः॥ इत्युदाहृतेः । पक्षान्तरमाह-वेति । अत्र व्यवहृतिमनूद्य मरणा. वधित्वविशिष्टवैमुख्यं बोध्यते। वैमुख्यं द्वेधा-सर्वदा प्रेमविषयाका- रमानसतया सर्वथा व्यवहारेघननुसन्धानमीषदनुसन्धानं च । आद्यं यथा- प्रायः कृष्णशरीरी भवति भवेऽस्मिन्भवान्तरप्रकृतिः । अमरीभूय चिरं यत्पश्यति गोपी तदध्वानम् ॥ एषा च गोकुलादागतस्योद्धवस्योक्तिः। यथावा- न सा वेत्ति सखी शश्वत्स्वदेहावनकारिणीः। हन्तोद्धव ! कथं वेत्तु त्वदागममनन्यधीः । अत्र श्रीकृष्णविश्लेषविकलवल्लवीपरिचारिकाया उक्तिः। वैमुख्यहेतुमाह- विश्लेषेण हृदि प्रेमविषयाकारसन्ततेः। सततं जनने यत्नो जन्यते तेन तद्भवेत् ।। ७२॥ विश्लेषेणेति । सन्ततमिति सन्तत्या सम्बध्यते । तेन हेतुना तत-वैमुख्यम् । ननु प्रेमविषयमिलनोत्तरं व्यवहतिवैमुख्येऽस्य का गतिस्तत्राह- पुनर्योगेऽपि नापैति तद्योगं च न वेत्यसौ । पुनरिति । पुनः-विश्लेषापगमोत्तरमपि । योगेऽपि-प्रेमविषयमिः -- २२ प्रेमरसायनस्य लक्षणखण्डे- लनेऽपि । तत् मुख्यम् । नाति-न गच्छति । चिरविश्लेषेण हृदि प्रेमविषयाकारसन्ततिजननसामातिशयाधानद्वारा बाह्यविषयक. परिचयवासनायास्तिराधानात् । बाह्यविषयकपरिचयवासनातिरो. धानं कैमुतिकन्यायेन विशदयति-योगं चेति । असौ-प्रेमाधारः । तथाच प्रेमविषयकपदार्थयोगोऽपि यदा न ज्ञायते तदा किमु वाच्य प्रेमागोचरपदार्थपरिचय इति भावः । द्वितीयवैमुख्यं यथा- नानाति नापि पाथः पिबति न शेते च भानुवंशमणिः । विधिविहितः परमेतज्जीवनबीजं हि जानकीविरहः॥ अत्र नत्रामल्पार्थकत्वम् । अन्यथा जीवनासम्भवात् । यथा वा-- अपि त्वदीयविरहे पूर्ववद्वेत्ति साखिलम् । तथापि तद्धरे! तस्या न प्रमा नापि वा भ्रमः॥ अपरं वा- भिषम्भिराप्तैरचिकित्स्यतांगता तनुः प्रियायायास्तवराधिकाया। सखीजनश्राविततावकीननामाक्षरैरोष्ण्यमुपैति सद्यः॥ प्रेमविषयः प्रेमाधारविषयकप्रेमाश्रय इति न नियम इत्याह-- यः प्रेमविषयो लोके स प्रेमाघारतां व्रजेत् । इति नैवास्ति नियमो विपरीतविलोकनात् ।। ७३ ॥ य इति । विपरीतविलोकनं यथा- अनन्यहृत्सदश्वेन तेन प्रेममहारथे। अपि स्खलन्प्रतिपदं केवलं गौर्नियोजितः ॥ अनन्यहृत्सदश्वेन-स्वहृदयाद्वितीयहृदयलक्षणसदश्वान्तररहि. तेन । एवंच प्रेमविरहिणि केवलं परिचयमात्रशालिनि प्रेमविषय. त्वदर्शनमेव विपरीतीवलोकनमिति भावः । विपरीतविलोकनान्तरं यथा-- सायुः कायः क्षीणो बिभ्रतापं सशर्म हृदयं च । तदपि प्रेम्णो विषयस्तस्मिन्प्रतिकूलमाचरति ॥ अत्र प्रेमविपरीतवरस्य विलोकनं नियम इति । अनियमत्वस्येव । तृषितां हरिणी हरिणस्तृषितं हरिणं विजानती हरिणी ।। मितमम्बु पल्वलस्थं कपटं पिबतः परस्परालो कम् ॥

उप्तादिद्वादशविधप्रेम्णामुद्देशः ।
२३
-
इत्यादिप्राचीनोदाहरणात् ।
प्रसङ्गादन्यदाह-
चलि तादिप्रेमभूमिमारूढौ दैवतो यदि ।
परस्प रस्य जानीतः सुखदुःखे परस्परम् ॥ ७४ ।।
चलितेति । इदं चलि तदलितादिक्रमोत्पन्नायां चलितादि-
प्रेमभूमौ न तु दलिताघटितक्रमोत्पन्नायां ज्ञातव्यमिति तन्त्रामृत-
कारः।
-
नन्वेतत्कुतस्तत्राह-
तत्तदाकारसम्पत्तिः कारणं चलितोदिता।
तत्तदेति । कारणं-परस्परगतसुखदुःखादिज्ञाने। चलितोदिता
चलितादुदिता । चलितदशायां भावनानिशयजनितप्रेमविषयाकार.
सम्पत्तिः प्रेमविषयगतसुखादिशाने हेतुरिति फलितोऽर्थः।
इदानीमुपसंहरति-
अलमन्यविचारेण प्रमेच्छेति स्थितं मतम् ॥ ७५ ॥
इति श्रीमत्रिपुरहरपुरवासिनानाशास्त्रविचारचारुचातुरीच-
मत्कारापारपारावारपारीणधुरीणजोजारकुलतिलक-
श्रीविश्वनाथपण्डितविरचिते प्रेमरसायने लक्षण.
खण्ड: प्रथमः समाप्तः।
श्रीजुष्टपदपद्मोऽपि गोपीलझावलम्बते ।
यतस्ततः प्रेमभेदः सोपपत्ति निरूप्यते ॥
इदानी प्रेमभेदानाह-
उप्तं यत्तं ललितं दलितं मिलितं तथा कलितम् ।
छलितं चलितं क्रान्तं विहृतं गलितं च सन्तृप्तम् ॥ १ ॥
एतद्द्वादशभेदं प्रेम निरुक्तं सपल्लवं कविभिः ।
अहमपि पूर्ववचोभिर्व्याख्या कर्तुं प्रवृत्तोऽस्मि ॥२॥

प्रेमरसायनस्य प्रेमविभागखण्डे- इदानामुप्तलक्षणमाह- दर्शनोत्सुकता चित्ते जन्यते श्रवणादिना । या सोप्तं प्रेम यद्रुत्या स्यान्ममेति विजृम्भणम् ॥ ३ ॥ दर्शनेति । श्रवणादिनेत्यत्रादिनाऽश्रुतविषयकप्रथमदृष्टिपरिग्रहात. थाच क्वचित द्वितीय दर्शनविषयकोत्सुकतैव प्रेमबीजमिति फलितम् । दर्शनोत्सुकतामात्रं लक्षणम् । तेन नानुगमः । दर्शनोत्सुकतायाः प्रेम बीजत्वं निरूपयितुमाह-यद्रुत्येति । दर्शनोत्सुकताकृतद्रुत्येत्यर्थः । तथाच दर्शनोत्सुकता प्रेमबीजं तया चित्तद्रुतिः द्रुतस्य चित्तस्य मम स्यादित्याकारो यः परिणामः स उप्तं प्रेमेति सिद्धम् । एवं च दर्शनोत्सुकतायां प्रेमसाधनत्वात्प्रमत्वव्यपदेशः । हन्तैवं द्रवजन्यस्य प्रेम्णः प्रागुक्तंद्रवजनकत्वं विरुध्येत । प्रेम्णोऽपि तापकतया प्रेमान्त. रहेतुद्रवजनकतायामविरोधात् । अथानवरतं प्रेमधारैव स्यात । स्या- देव । यदि प्रबलतरप्रारब्धकृतः शरीरयात्रानिर्वाहको विषयान्तरोप. मर्दो नापतेत् । अत एव भगवत्प्रेमधारापरिपन्थिनं विषयान्तरस. वारं वारयितुमेव योगवैराग्यसाधुसङ्गतयः सद्भिराद्रियन्त इति दिक् - दर्शनोत्सुकतां दर्शयति- कियान्परिश्रमस्तस्य बतायं वनमालिनः । श्रुतिदेशाकिमत्यन्तं दूरे मल्लोचनावनिः ॥ ४ ॥ कियानिति । स्वात्मानं प्रतीयमुक्तिः । अत्र दर्शनोत्कण्ठा व्यङ्गया। उप्तप्रेमदशामाह- तदानीं श्रवणे तैष्ण्यं लोचने पन्दगामिता। सर्वासहनमित्येवमुप्तप्रेमदशां जगुः ॥ ५ ॥ तदानीमिति । मन्दगामिता दृष्टेषु । इदानी कृष्णकल्पद्रुमोक्तं यत्तं लक्षयति- तदेव कपटप्रश्नाध्यक्तं यत्तमितीयते । कन्दलेनातिमूक्ष्मण व्युप्तं बीजमिवोल्लसत् ॥ ६ ॥ तदेवेति। तदेव-उप्तमेव । व्यक्तंसख्यादिजनस्य कथंचिादीतशेषः। अत्र दृष्टान्तः । अतिसूक्ष्मेण कन्दलेनोल्लसत् उप्तं बीजमिवेति । अत्र यत्तप्रेम्णोऽवस्था। २५ कन्दलप्रतिमः कपटप्रश्न एव । तथाच दर्शनोत्सुकता यदा कथं चिद्य. क्तीभवति तदा सैव यत्तं प्रेमेति फलितम् । अत्र किञ्चिदुप्तव्यक्तीक. करणपटुकपटप्रश्नोत्तरप्रत्युत्तरसञ्जातहर्षविद्रुतहृदयेष्ठाकारः स यत्तं प्रेमेति निष्कर्षः । एतेन प्रेमाधारकर्तृककपटप्रश्नस्य प्रेमाधारे तापक स्वाभावाद्यत्तं कथं प्रेमेति शङ्का परास्ता । यत्र तु कपटप्रश्नानन्तर- मुत्तरं नास्ति तत्रोप्तमेव व्यक्तावस्थापन्नमिति मन्तव्यम् । तन्त्रामृत. व्याख्यायाममृतसञ्जीविन्यामन्यथापि यत्तं भवतीत्युक्तम् । तेन कप टप्रश्न उपलक्षणम् । आख्याति दिक्षु हरितं हि तृणं मृगेषु भूभृद्भवेषु हरितालमसौ मृगाक्षी ॥ देवद्रुमेषु हरिचन्दनमेव शश्व- प्रायो मया विदितमालि ! मनः सुदत्याः॥ इत्याद्यनेकधोदाहृतं च । एतदवस्थामाह- छलस्य पाण्डुलेखोऽत्र चरित्रफलकाश्रितः ॥ ७ ॥ अत्र-यत्तावस्थायाम् । चरित्रेति । प्रेमाधारगतचरितरूपफलके पाट्यां छलस्य पाण्डुलेखशब्दगम्यः प्रथमारम्भ इत्यर्थः। यत्तावस्था. याः पूर्वमीहशच्छलानाचरणात् । वत्तं यथा- प्रातरवाद्य कस्येयं वार्तताभिरुदीर्यते। इत्थमालि ! कथं ब्रूषे नन्दसूनुः सुदर्शनः ॥ कृष्णवार्तेयमिति जानन्त्या एव तन्नामश्रवणोत्कण्ठया कस्या. श्चिदिह कपटेन प्रश्नः। कपटप्रश्नेनेव दर्शनोत्कण्ठातिरेकसमुदायना कपटवचसापि उत्तव्यक्तीकरणे यत्तपाक उन्नयः। 'वदालि! वनमालिन' इति पाठकल्पनया पूर्वश्लोक एवात्रोदाहृतिः। तन्त्रामृतकारास्तु वचनविद्रुतचित्तेष्टाकार एव यत्तम् । वचनमुप्तपिशुनप्रशंसासूचकः प्रश्नः, न निर्बन्धः। अतश्च- तीवा चिरादिमान् क्लेशान् श्रीरामं त्वमवाप्स्यसि । इति त्रिजटयोक्ता सा जाताऽनिमिषलोचना ॥ इत्यादावुप्तस्य हंसादिवचनद्रुतचित्ते नलाद्याकारस्य च यत्तस्य नासहः । यत्तमिष्टाकृति प्रोकं वचसा विद्रुते हृदि । - प्रेमरसायनस्य प्रेमविभागखण्डे- इति यत्तलक्षणमप्याहुः । हरिदासस्तु क्रिययाप्तव्यक्तीकरणं य. तपाक: । यथा- - धत्ते स्वकर्णे ताटङ्कमन्या पत्युश्चिरायुषे । चित्रं शैलसुता कर्णे पत्युरेवार्द्धदेहभाक् ॥ इत्याह । ललितं निरूपयति- हस्तगच्छल जालोकजलसिक्तं तदुच्यते । ललितं पाण्डुलेखोऽत्र पाष्टर्यस्य मुहुरीक्षणे ॥८॥ हस्तेति । हस्तगमर्थात्सुशिक्षितं यच्छलंतस्माजातोय पालोको- ऽवलोकनम् अर्थात्प्रेमविषयस्य तदेव जलं तेन सिक्तं यत्तमेव ललि. तमुच्यत इत्यर्थः। ललितावस्थामाह-पाण्डुलेख इति । अत्रम्ललिते। धार्यस्य पाण्डुलेखः प्रथमारम्भः । द्वितीयावस्थामाह- कण्डूतिर्जायते नेवे दृष्टमम्बाघसम्भवा । प्रथमः कन्दल इच अङ्कुरं ललिताभिधम् ॥ ९ ॥ कण्डूतिरिति । दृष्टति । दृष्टस्य अर्थात्प्रेमविषयस्य सम्बाध सं. महः। प्रथम इति । तथाच ललितेऽनवरतालोकनहेतु धाष्टथै कण्डू तिश्चेत्यङ्करद्वयं जायत इत्यर्थः। दृष्टान्तमाह-कन्दल इवेति । कन्द- लोऽत्र बीजाजातः प्रथमः काण्डविशेषः । स यथा घडरो भवति तथा ललितमित्यर्थः। ललितं यथा- अलसैममृणैर्लोलैः कुञ्चिताप्रैः पराङ्मुखैः । सम्मुखैमूंगशावाक्ष्या वीक्षणैर्लक्षितो युवा ॥ धाष्टयं यथा-- यातननान्तश्वश्रूदेवरपिशुनाग्निपञ्चकुण्डेषु । भीत्याहुतिफलरूपस्तस्यास्तन्व्यास्त्वदालोकः ॥ ललितस्य द्वितीयावस्था यथा- लावण्यदिग्धं किमपि प्रिये ! लोचनयोर्गतम् । अतस्ते युक्तमेवैतत्कण्डूतियदिहाञ्चति ॥ ललितस्य भेदान्तरमाह- अव्यक्तीतल्लळितमङ्कुरद्वयमात्रभृत् ।

व्यक्तंललितं कण्डूतिपल्लवाश्च । २७ - - अव्यक्तमिति ! अव्यक्तत्वे हेतुः अङ्कुरद्वयमात्रभृदिति । ध्यक्तं ललितं निरूपयति- स्वेदादयः पञ्च तत्र सञ्जाता धाटर्यपल्लवाः । यदा तदा तल्ललितं व्यक्तमित्यभिधीयते ॥ १० ॥ स्वेदादय इति । पञ्चेति । स्वेदस्तम्भरोमाञ्चस्वरभङ्गवेपथुरूपा इत्यर्थः। इदानी कण्डूतिपल्लवानाह- वैवयं प्रलयारुण्याश्रूणि कण्डूतिपल्लवाः । वैर्घ्यमिति । एतच तन्त्रामृतकाररीत्योक्तम् । वैवर्ण्यप्रलयौ धा- पर्खाकण्डूत्योर्नतु कण्डूतेरेव पल्लवाविति हरिदासादयः । एतेऽपि चाणवः स्थूलास्तवाया ललिते स्थिताः ॥ ११ ॥ ललिते यत्तावस्थास्मृतिसचिवे । तेन प्रत्यक्षदृष्टे प्रेमविषये कथं वैवादिपल्लवानामुदय इति शङ्का परास्ता । स्थूलास्तु दलिते । "कण्डूतिपल्लवाः स्थूला" इत्यादिनाऽने दलिते वक्ष्यमाणत्वात्। व्यक्तं ललितं यथा- स्खलति वचनं स्वेदस्तोमस्तनौ तव वेपथुः पुलकितमथ श्वासवातं मुहुर्मुहुरुज्झसि ॥ रहसि कथय क्रीडाकुओ नितान्तमनोहरे नयनविषयं यातः प्रायः प्रियो मधुसूदनः ॥ मिलनानुदयादेतद्दलितादतिदुःखदम् । मिलनेति। मिलनानुदयात्-प्रेमविषयस्य दूरतो दर्शनेऽपि हासस- म्भाषणादिपर्यवसायिस्वारसिकतन्मिलनाभावात् । एतत्-ललितम्। दलितात् वक्ष्यमाणात् । एतद्विवृतमभियुक्तैः । यथा- अनयनपथे प्रिये न व्यथा भवति दृश्य एव दुष्प्रापे । म्लानैव केवलं निशि तपनशिला वासरे ज्वलति ॥ इति । व्यक्तललितावस्थानामानन्त्यमिति दर्शयति- ललितं दृष्टिभेदानामाकरत्वेन कथ्यते । ललितमिति । दृष्टिभेदानां शृङ्गारादिदृष्टीनाम् । दृष्टिरित्युपलक्षणमित्यभिप्राय इत्याह- यथावैदग्ध्यमेतस्य दशा सञ्जायते नृणाम् ॥ १२ ॥ - २८ प्रेमरसायनस्य प्रेमविभागखण्डे- - यथेति । यथावैदग्ध्यमित्यतः पूर्वं नृणामितिसम्बन्धः। प्रेमाधा- राणां वैदग्ध्यतारतम्येन लालतदशातारतम्यमित्यर्थः । ललितलक्षणं निकृष्ट कथयति- विचित्रदृष्टिभिः प्रेम यत्तमेवातिविस्तृततम् । ललिताख्यं विजानीयादिति तत्वं समासतः ॥ १३ ॥ विचित्रेति । यत्तं गेमैव विचित्रदृष्टिभिरतिविस्तृतमिति सम्बन्धम यद्यपि विस्तृतमित्येव वक्तुमुचितम् , तथापि ललितमनन्तप्रभेद- मिति ज्ञापनाय तथोक्तम् । यत्तावस्थापन्नचित्ते दृष्टितापकद्रुते य ईदारूपः परिणामस्तल्ललितमिति परमार्थः । तन्त्रान्तरोक्तमेषामुप्तयत्तललितानामुत्तरभूमिकात्वं विशदयति. उप्तं प्रेम विजानीयातूणीरावस्थितः शरः । स एव गुणसंसर्गात् यत्तमित्यभिधीयते ॥ १४ ॥ लक्ष्यसंस्पर्शसंगद्धगतिं तु ललितं विदुः । उत्तमिति । लक्ष्येत्यनेन भित्त्वा लक्ष्यं विनिर्गताच्छरान्तराद्वैल. क्षण्यमभिहितम् । दलितं लक्षयति- केनापि हेतुना दृष्टिविच्छेदे दलितं मतम् । न विदेशगमनमा दृष्टिविच्छेदे हेतुः। किन्त्वनवसरादिकमपी. ति बोधयितुं केनापीति शब्देन निर्दिष्टम् । निमेषीष्टविच्छेदे ललितं दलितात्मकम् ॥ १५ ॥ निमेषेति । तथाच ललितलक्षणमेकमेव प्रेम निमेषप्रयुक्तदृष्टिवि. च्छेदे ललितदलितोभयात्मकमिति तन्त्रामृतकारः। हरिदासस्तु ल- लिताकारान्तःकरणकदेशस्यैव निमेषप्रयुक्तदृष्टिविच्छेदद्रुतत्वोपगमे (दलितम्।) युज्यते चेदं नान्यदित्याह । गुणाकरस्तुनिमेषप्रयुक्तीष्टः विच्छेदातिरिक्तदृष्टिविच्छेदकालिकं प्रेमविषयस्मरणमेव दलिते ता. पकम् । एवं च निमेषप्रयुक्तदृष्टिविच्छेदे दलितमित्युच्यमानं प्रेम द. लिताभास एव । उप्तादावपि कविभिर्वण्यमानं दलितमपि तथा न तु मुख्यम् । एवं मिथ्यादर्शनजनितं ललितं ललिताभास पवेत्यादिक बोध्यमित्याह ।

ललितादलितस्य भेदः । २९ - . स्वेदादिपञ्चकं दग्धं दृष्टिविच्छेदवन्हिना। कण्डूनिपल्लवाः स्थूला जातास्नेनैव हेतुना ॥ १६ ॥ स्वेदादीति । तेनैव दृष्टिविच्छेदवन्हिनैव । वन्हिना विपिने दग्धे जायन्ते नवपल्लवाः । यथैव धाष्टर्यकण्डूत्योस्तथैवेति बुधा जगुः ।। १७ ॥ कण्डूतिपल्लवाः पूर्व न व्यक्ता ललिते स्थिताः । स्वेदादयस्तु पाष्टर्यस्य न कण्डूनेरिति स्थितम् ॥१८॥ वैवादौ तु कण्डूतेरिव पाष्टर्य प्रयोजकम् । ललितात्तेन दलिते विशेषोऽस्ति महानसौ ॥१९॥ पन्हिनेति । यथैवेति पूर्वेणान्वितम् । तथैवेति। वैवादयो नव. पल्लवा जायन्त इत्यर्थः। कण्डूतिपल्लवानामणूनां ललितेऽप्युदयोऽस्ति न तु सर्वथाऽभाव इत्यत उक्तं व्यक्ता इति । अयं भावः। ललिते धाः यं कण्डूतिरिति शाखाद्वयं यत्तावस्थोदितकपटप्रश्नरूपकाण्डाश्रितः मुदितम् । तत्र धाष्टर्यशाखायां स्वेदादिलक्षणाः पञ्च पल्लवा जाताः। कण्डूतिशाखायां वैवादयः पल्लवा अणवोऽपि सर्वथैव जायन्त इति नैव वक्तुं शक्यम् । यदि जायन्त एवेति नियमस्तथाप्यणुत्वाद. जातप्राया एवेति न कतिपल्लवानां धाष्टर्घपल्लवतुल्यता । दलिते तु कण्ड्रतिनिदानका अपि वैवादिपल्लवा अनवरतविलोकनोपयो- गिधाष्टर्यप्रयोज्या अपि भवन्तीति कण्डूतरिव घाष्टर्यस्यापीति शक्यं वक्तुम् । अतो दलिते शाखाद्वयमपि पल्लवितम् । नहि स्वेदादयः क. ण्डूतिपल्लवा इति सम्भवति । येन कण्डूतिशाखापि ललिते पल्लविनी स्यादिति दलितललितयोर्महान्भेदः । तुप्यतु दुर्जन इति न्यायेनाह- स्वेदादयोऽपि कण्डूतिप्रयोज्या इति मन्यते । तर्हि तैरेव कण्डूतिशाखा पल्लविनी न किम् ॥२०॥ स्वेदादयोऽपीति । नहीति । न तावतापि ललिते क्षतिरस्तीति भावः।

. प्रेमरसायनस्य प्रेमविभागखण्डे- - - प्रसङ्गादाह- प्रायेण दलिते चेतो द्रवतीति यतो मतम् ॥ अतो हि भावनाश्रेणी याति प्रेमसमाधिताम् ॥२१॥ प्रायेणेति । प्रायेण=बाहुल्येन । भावनेति प्रेमविषयभावनेत्यर्थः । इदमुदाहरति- निसर्गरक्षात् श्रीकृष्णाद च्युतं तन्व्या निजं मनः ।। (१)कृष्णाभूमौ द्रुतं यत्तदचिरादालि ! मजति ॥२२॥ निसर्गति। ननृप्तादावपि भावनाश्रेणी सम्भवतीति कथमत्रैव प्रेमसमा- धिरुच्यते तंत्राह- उप्ते तु भावनैवास्ति यत्ते तच्छेण्यपि स्फुटम् ॥ तथापि सा व्यवहिता जायते प्रत्ययान्तरैः ॥२३॥ उत्तेति । उप्ते विशकलिता भावनैव । एषकारेण न तच्छ्रेणी। यत्ते यद्यपि तच्छृण्यस्ति तथापि विजातीयप्रत्ययव्यवधानशून्या नेति न प्रेमसमाधिशब्दभागित्यर्थः । एवं च प्रेमविषयभावनाश्रेणी ताशी प्रेमसमाधिशब्दवाच्येति फलितम् । समाधिमुदाहरति- त्वयानविस्मृताशेषानागसां सा निकेतनम् ॥ त्वं तु नायवया ताहगहमेव स्वकर्मणा ॥२४॥ त्वयानेति । ननु लोके मोहो व्याकुलता चेक्ष्यते न तु प्रेमविषयाकारः प्रेमसमाधिस्तत्राह- हाईसौहाईयोझेंये मोहव्याकुलते क्रमात् ॥ ते च प्रेमसमाधिश्च प्रेम्णीति प्रेममृद्वचः ॥२५॥ हाईति । तेम्मोहव्याकुलते । उक्तत्रयमेकत्रादाहरति- अनवाप्य हरिं कुछ मुक्ताः श्वासा यया चिरम् ॥ विलोक्य लोचने पश्चाद्योगिनीव न्यमीलयत् ॥२६॥ (१) कृष्णाकालिन्दी। - दलितावस्था। ३१ अनवाप्योति । दलितावस्थामाह। अत्र लोचनयोस्तैक्ष्ण्यं श्रवणे मन्दगामिता ॥ भ्रान्तिर्विनिद्रनोत्यादिदशा ज्ञेया विचक्षणः ॥२७॥ अत्रेति । तैक्षण्यमितरोन्द्रियापेक्षया स्वविषये शीघ्र प्रवृत्तिः। मन्द- गामितेति प्रेमविषयातिरिक्त इत्यर्थः । ननु लोचनयोरप्युक्तविषये मन्दगामिता तुल्यैव तत्कथं श्रवण इति ग्रहणं तत्राह-भ्रान्तिरि- ति । तथाच दृष्टमात्रे वस्तुनि प्रेमविषयस्य भ्रमोत्पत्त्या न प्रेमविष. यातिरिक्त विषये लोचनयोर्मन्दप्रवृत्तिर्वक्तुं शक्या । ननु वचनमाने- ऽपि प्रेमविषयोदन्तत्वभ्रमोदयेन श्रवणयोरपि न प्रेमविषयोदन्ता- तिरिक्त वचने मन्दप्रवृत्तिः सम्भवतीति चेत्, सत्यमेतत् । उप्तेऽपि श्रवणतैक्ष्ण्यस्य सत्वात् यत्तवदिहाप्यास्तां को दोष इति चेत्, अस्तु । नहि षयं दलिते सर्वथैव तन्नास्तीति ब्रूमः। किन्तु लोचना मेधण्यापेक्षया श्रवणतैष्ण्यस्य न्यूनतामेव । दर्शनमात्रोत्तरभाविनि श्लेषे दर्शनोत्कण्ठाया इव श्रवणोत्कण्ठायास्तथाऽभावात् । एवंच दर्शनोत्कण्ठायाः प्राधान्यात्प्राधान्येन व्यपदेशा भवन्तीति न्याये. नात्र लोचनयोस्तक्ष्ण्यमभिहितमिति मन्तव्यम् । दृष्टविषये प्रेमविषयतादात्म्यस्य भ्रान्तिमुदाहरति- विशेषदर्शनासह्यत्वदीयविरहव्यथा ॥ अनुरागमहादोषकोपेऽपि प्राणिति प्रिया ॥ २८ ।। विशेषेति। अत्र काचिद्गोकुलसदनशिखरमारूढा दूरतरवर्तितमा. लतरुषु श्रीकृष्णभ्रममावहन्ती पुनः सम्जातविशेषदर्शनासाविरह- व्यथानन्तरमुत्कटानुरामदोषसंलब्धतदिभ्रमजीवातुरङ्गना भ्रान्ति- स्थानोदाहरणम् । विनिद्रता यथा- विरहानलधूमीयश्रोणि कोक ! न यामिनी ॥ इमे कोकनदे मुद्रां नाश्चतः कथमन्यथा ॥ २९ ॥ विरहति कोकनदत्वेन लोचने अध्यवसित। अत्रोपवनसरसीगमस्व नत्कोकसंबोधिन्यां मिजनिकटस्थितविप्रयुक्तनायिकासख्युक्तौ निद्रा भायो व्यङ्गया।

३२ प्रेमरसायनस्य प्रेमविभागखण्डे- - - - - उक्तिर्यथा- मनसो दैवतमिन्दुः श्रुतिरिति सत्या निकामकाठिन्यात् ॥ विरहहुताशनिमग्नं भस्म न मेऽद्यापि तद्भवति ॥ ३० ॥ मनस इति । अत्रादिना स्मृत्यविश्वासाश्रुपातादि । तत्र स्मृतियथा-- तासां विलोचनजलानि मदाश्रयाणां मद्वाचिकेन ललितेन हरोद्धवेति । उक्ता हरिव्यसनवारिधिवाडवोऽपि पीनाश्रुपूर्णनयनः स्वयमप्युदीतः ॥ ३१॥ तासामिति । अत्र गोपीकृतानुनयस्मृतियङ्गया। अविश्वासं दर्शयति- आयातीति मदुक्त्या प्रत्येतु कथं तवानवद्यागी । शपथशतैरपि नान्धः स्पादन्यत्र विश्वसिति ॥ ३२ ॥ आयातीति- अश्रुपातो यथा- चित्तमुच्छलितं तेऽनु दुःखाब्धेर्यद्वहिः पयः ।। गुरुभीमकराकृष्टं तत्तस्यास्तत्र मज्जति ॥ ३३ ॥ चित्तमिति । अत्राश्रुपातमोही व्यधिकरणावुक्तौ। इदानी मिलितप्रेम लक्षयति- विश्लिष्टेष्टस्य लाभेन द्रुते चित्ते पुनर्भवेत् ।। य आकारस्तन्मिळितं ललितप्रेमसन्निभम् ॥ ३४ ॥ विश्लिष्टेति।लाभेन स्वच्छन्दवीक्षणरूपेणान तु ललित इव व्या. जावलोकनेन । दलिते व्याजावलोकने दैवात् सम्पन्ने तु ललितमेव प्रेम । चित्ते इलितात्मना स्थिते । ललितप्रेमेति । "ललितं दृष्टिभे- दानाम्" इत्यादिनाभिहिताभिललितलीलाभियुक्तमित्यर्थः । ननु तर्हि ललितादस्य को भेदस्तत्राह- स्वस्वशाखोचितास्ते ते पल्लवा व्यक्ततां गताः ।। एतस्य दलितप्रेमपरिणामस्वरूपतः ॥ ३५ ॥ - . ९.

मिलितलक्षण कार्ये कारणतिरोधानम् । । - स्वस्वेति । स्वस्वशाखोचिताः धाट्यशाखोचिताः कण्डूतिशाखोचि. ताश्चेत्यर्थः । व्यक्ततामिति । ललिते कण्डूतिशाखोचिताः पल्लवान व्य. क्ता इह तु व्यक्ता इति । कुतो हेनोः । तत्राह-एतस्येति । मिलितस्ये. त्यर्थः। तथाच कण्डूतिपल्लवानां दलिते व्यक्ततया तरकार्यरूपे मिलि. ते तयक्तत्वे किं चित्रमिति भावः। ननु दलितस्य स्वेदादिपल्लवविरोधितया तत्कायें मिलिते कथं तेषामुदयस्तत्राह- अव्यक्तं दलितं कार्ये प्रस्फुटास्तेन पल्लवाः ।। वैवयंप्रलयौ स्वल्पकालगौ नियतौ च न ॥ ३६॥ अव्यक्तमिति । स्वेदादिवन चिरस्थायिनौ वैवर्यप्रलयौ। तावपि नियमेन सर्वत्रोत्पद्यते इत्यपि न । दर्शनजन्यानन्दस्य तद्विरोधित्वात्। कार्ये कारणस्य तिरोधानाभ्युपगमेनन कार्यस्य कारणप्रतिद्वन्द्विता । कार्ये कारणतिरोधानं विशदयति- मृत्तिकोत्थघटे पुसो न तद्यवहृतिः क्वचित् । विलीने तु घटे तस्य व्यवहारो न दृश्यते ॥ ३७ ॥ कार्य तिरोहितो हेतुर्हेतौ कार्य तिरोहितम् ॥ इति । मृत्तिकोत्थेति । दन्तिनि दारुविकारे दारु तिरोभवति सोऽपि तत्रैव । जगति तथा परमात्मा परमात्मनि तत्तिरोभवति ॥ इत्यभियुक्तोके। उपसंहरति- अतोऽसौ विस्तृतः प्रोमा धाष्टर्थकण्डूतिपल्लवैः ॥ ३८ ॥ अत इति । असौ-मिलितः । मिलितो यथा- चिरदृष्टमायताक्षी पश्यति कामं यथा यथा कृष्णम् । सात्त्विकभावविलासान् गृह्णात्यखिलांस्तथा गोपी॥ - यथावा- संवीक्ष्य तं हरिमपाङ्गबलेन बाला तद्वीक्षणाकुलतया सहसा पपात ॥ दुर्दैववातविगतिः कुसुमायुधस्य बाणः किमेणदृशमेव समाससाद ॥ ५ - ४ प्रेमरसायनस्य प्रेमविभागखण्डे- । अपाङ्गबलन-नायकोहीपनसमीहया जनितेन न तु गुरुगौरवेण । अब विशेषो गुणाकरेणोक्तः मिलिते सख्युपालम्भोऽप्यव्यक्तः कान्तगोचरः । इति । सख्युपालम्भः सखीमात्रकृत एवोपालम्भः, सोऽप्यन्यापदे. शादिनेति। उदाहरणं यथा- दशैषा स्नेहभृद्दीप ! भवता परितापिता। जातप्रकाशा सर्वत्र केवलं तेऽन्तिके तमः ॥ इति । उपालम्भाभिलाषाणां दधतां कुसुमात्मताम् ॥ मिलितेऽस्मिन्समुदितः पाण्डुलेखः प्रतिक्षणम् ॥ ३९ ॥ उपालम्भेति । उपालम्भाभिलाषाणां प्रेमविषयोपालम्भविषयकाभिलाषाणाम् । उपालम्भानां तु वायूपत्वेन कलितान्तीवात्तदभिलाषपर्यन्तानुधाव. नम् । न चैवं पल्लवेषु स्वरभङ्गस्य गणना न युक्तति वाच्यम् । मिलि. तदशायां प्रेमविषयातिरिक्त एव तदुदाहरणात् । एतच्चानुपदमेव व्य. क्तीकरिष्यामः। उपालम्भाभिलाषाणामित्यत्रोपालम्भपदं रतादीनामुपलक्षण- मित्युदाहरणव्याजेन दर्शयति- रतानुनयवाकरग्रहणपादपङ्केरुह- प्रणामपरिरम्भणप्रमुखकामनासञ्चयात् ॥ विलोचनपथागतं बहिरतीव राधामनो मनोजजयशालिनी यदुपतेस्तनुं चुम्बति ॥ ४० ॥ रतति । कलितं प्रेम निरूपयति- उपभोगात् दुतं चित्तं वर्ण्यते कलितात्मकम् ॥ उदभोगादिति । चित्तं मिलितात्मना स्थितम् । ननु शुकादिनिष्ठभगवद्विषयककलितेऽव्याप्तिः उपभोगद्रुतपरि. णामत्वाभावात् । अत आह- कर्मेन्द्रियाभिमुख्यं यदुपभोगः स उच्यते ॥ ४१ ॥ कर्मेति । प्रेमाधारे कर्मेन्द्रियाणां वागादानामाभिमुख्यं स्वव्या.

कालतलक्षण उपभागनिरूपणम् । ३५ पारे फलोपधायक स इहोपभोगपदार्थो रतिसाधारणो विवक्षितः। कर्मेन्द्रियाणि च प्रेमविषयनिष्ठानि। तदाश्रितकर्मेन्द्रियाभिमुख्यस्यैव प्रेमाधारनिष्ठचित्तद्वहेतुत्वात् । तद्यथा-- संवीक्षणेन सविधागमनेन वाचा. मुच्चारणेन सुलभेतरयाचनेन । चेलाञ्चलग्रहमुखैश्चरितैः स शौरिः संसारसारसुखसीमनि तां युयोज ॥ हन्त कर्मेन्द्रियाभिमुख्यं यधुपभोगस्तर्हि भोगपर्यवसायिहाईत्वं प्रेमत्वमितिलक्षणे शुकादिगतभगवद्विषयकप्रेमण्यव्याप्तिकथनं प्रागु. क्तमसङ्गतं स्यात्तत्राह- ईदृग्भोगोऽपि चेत्प्रेमलक्षणे विनिवेश्यते । तथापि वचनानहीं भोगपर्यवसायिता ॥ ४२ ॥ ईगिति । भोगपर्यवसायिता तदवच्छेदकधर्म विना ग्रहीतुम- शक्या । स च धर्मो यदि गृहीतस्तदा स एव लक्षणमस्तु । यदि न गृहीतस्तदा लक्षणापहरणं दोषः । किञ्च भोगपर्यवसा- यितावच्छेदकधर्मोऽपि दुर्ववः । न भवदुक्तेच्छाविशेषत्वं तथा । हादपि कदाचित् भोगोदयेन व्यभिचारात् । नच हाईसाधा. रणेन येन केनापि धर्मेण हेतुता वाच्या । तथा सत्यस्य प्रेममात्र. निष्ठत्वामावेन हाऽतिव्याप्तिप्रसङ्गात् । वस्तुतस्तु भोगपर्यवसायि हाईमिति प्रेमलक्षणस्योक्तावव्याप्तिरेष दूषणं सारमिति बोध्यम् । बतैवं सत्याधुनिकाः शुकदेव इव गलितभगवत्कलितप्रेमाणः स्यु- रिति चेत् , तेष्वपि कलिताभासाङ्गीकारेण क्षत्यभावात् । अतएव- उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कर- क्रीडत्कोकिलकाकलीकलकलैरुगीर्णकर्णज्वराः॥ नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण- प्राप्तप्राणसमासमागमरसोल्लासरमी वासराः ॥ इत्यनेन पद्येन श्रीजयदेवोऽप्युदाजहार । अस्य च कलितस्या- भासरूपत्वमुदाहरणान्तरेण गुणाकरोऽपि स्पष्ठमाचष्ले- हृदयानापयातोऽसि दिक्षु सर्वासु दृश्यसे । वत्स ! राम ! गतोऽसीति सन्तापेनानुमीयते ॥ इति ।

३६ प्रेमरसायनस्य प्रमविभागखण्ड- यथावा-- त्वामायान्तमवेत्य हृष्यति पुनः कान्तान्तरालम्बिनं प्रम्लायत्यथ पादपद्मपतितं रोमाञ्चमालम्बते ॥ इत्येवं निखिलं विभाव्य विरह प्रावापि यद्राधिका जीवित्वेन न हीयंत बलवता लक्ष्मीश! तज्ज्ञायताम् ।। ननु कलितस्याबस्थाः कथयितुमशक्याः । नच कर्मेन्द्रिय व्यापाररूपास्ता इति वाच्यम् । कर्मेन्द्रियव्यापाराणां कलितहतु. द्रवनिष्पादकतया कलितावस्थात्वानुपपत्तरत आह- कर्मेन्द्रियाणां व्यापाराः प्रेमाधारात्मवर्तिनाम् ॥ ज्ञातव्याः कलितावस्था नेयत्ताऽऽसां निरूपणे ॥४३ ।। कर्मेति । प्रेमाधारगतकर्मेन्द्रियव्यापाराणां प्रेमाधारगतचित्त द्रवहेतुत्वाभावात्कलितावस्थावे न बाधकम् । नेयत्तेति । अनेक धा निरूपयितुं शक्या इति भावः । अत्र कर्मेन्द्रियव्यापारेषु का. मिनीगताः कतिपयहावपदवाच्याः। परे तु परिरम्भणपरिहासप्रवृ. त्तिकथनादयः सर्वसाधारणाः। तत्रप्रवृत्तिकथनोदाहृतिः प्राचां यथा- श्यामा वामा सरणिरसमा पन्नगाः पादघृष्टाः कल्लोलिन्धः कुपथचरिता वारिदा वारिवाहाः ॥ यत्सम्पादहमपि विसस्मार जानाति कोऽन्यः कस्ते ब्रूयादहह मथुरानाथ ! मत्साहसानि ॥ यथावा- एते मे नयने तवास्यशशिनः कामं चकोरौ पुन- भृङ्गावधिसरोजयोझषयुगं सौन्दर्यवारांनिधेः ॥ एकैकात्मतयापि यत्र विरहक्लेशो न वाग्गोचरः सह्यः किं पुनरेतयोः स युगपन्नानात्मभिर्यः पतेत् ॥ अपरं च- त्वदी वीक्षणविधौ कतरो नान्तरायकृत् ॥ देव ! लोचनयोय॑स्तो निमेषोऽप्येष तादृशः ॥ इति । बाह्यावस्थाः प्रदान्तरा दर्शयति- विपदंस्मणं दीर्घानेहसि स्वल्पतामतिः ॥ कृतार्थतायाः कलना दशा कापि विजृम्भते ॥ ४४ ॥ विपदिति ।

कलितलक्षणप्रसङ्गेन प्रेमसमाधिकथनम् । - क्रमेणोदाहरणानि- सानुजस्य लकान्तस्य सुतस्यागमनेन सा॥ तृणीचकार वैधव्यदशाक्लेशमहीधरम् ।। लक्ष्मणास्यसरोजोत्थरामोदन्तरसग्रहैः ।। सुमित्रा विगतां रात्रिं नाज्ञासीझमरीव सा । सुतसंवीक्षणालापलालनानुगमादिभिः ॥ मेने नन्दनियात्मानं ललनाशिरसां मणिम् ॥ एत एव फलायन्ते कलितप्रेमपादपे । एत इति । एते-कर्मेन्द्रियव्यापाराद्याः। प्रसङ्गादाह- आनन्त्यात् द्रवहेतूनां विषये दृष्टिगोचरे ।। अपि प्रेमसमाधिः स्यादानन्दभरवैभवात् ॥ ४५ ॥ आनन्त्यादिति । द्रवहेतूनाम् कर्मेन्द्रियव्यापाराणामाअपिरत्राश्च. र्य द्योतयति।विश्लिष्टविषयेतद्विश्लेषासादितवेरस्येषु विषयान्तरेषु प्रसाराभावादैकाग्यशालिनश्चित्तस्य प्रेमसामाधो नाश्चर्यम् । त. हि कथमसौ समाधिस्तत्राह-आनन्दति । तथाच फलानुरोधित्वा. कल्पनायाः क्वचिद्विश्लेषः क्वचिदानन्दभरः प्रेमलमाधौ हेतुरि. ति भावः। असौ प्रेमसमाधिः कस्येत्याशङ्कामुदाहरणेनापाकरोति- तदालापोदितानन्दैरनुक्षणभृतेन्दिरा ॥ अपि दृष्टिपथे विष्णौ निमिमील विलोचने ॥ ४६ ।। तदेति । समाधिमवलम्बते. कस्मिन्समाधौ गोपीनां स्थितिः साहजिकति चेत् ।। एतेन नियमेनालं नैतासामेकरूपता ॥ ४७ ।। कस्मिन्निति । दलितसमाधिः कलितसमाधिश्चेति द्विविधः प्रे- मसमाधिः । तत्र कस्मात्समाधेर्लग्नागोपीनां न व्युत्थानमिति मा शडिन्ठा कालांचिल्ललितचेतसां दलितेन कासांचित् मिलिताकलि. तहदां कलितेन सामधेः सम्भवानिकसमाधौ नियमः।न होकचित्ता गोप्य इत्याह-नेतासामिति ।

३८ ३ प्रेमरसायनस्य प्रेमविभागखण्ड- - शङ्कते- विश्लेषानन्दतो जाड्यं समाधिति चेद्वद ।। अन्यत्रापि तथैवानुभवस्तुल्योऽवलम्बनम् ॥ ४८ ॥ विश्लेषेति । विश्लेषानन्दत इत्यस्य विश्लेषादानन्दाच्चेत्यर्थः । अन्यत्रापि तथैव वदेति सम्बन्धः। अन्यत्र-प्रेमासंवलितयोगसमाधौ। एकस्मिन्विषये एतावन्तं कालं समाहितोऽहमिति प्रत्ययस्तु प्रेमासं वलितयोगसमाध्युत्तरमिव प्रेमसंवलितयोगसमाभ्युत्तरमविशिष्टः । प्रसङ्गादानन्दभरकार्यान्तरमप्याह- आनन्दोद्रेकतः कापि समाधेर्वान्तिमा दशा ॥ आनन्दोद्रेकत इति । ननु शोकस्य चरमदशाप्रदत्वं नानन्दस्येत्याशङ्कायामानन्दस्या- पि तद्भवतीति दृष्टान्तेनोपपादयति- कर्पूरातिशयोत्पन्नशैत्यादीव विजृम्भते ॥ ४९ ।। कर्पूरोति । ननु युक्तिविरुद्धमानन्दस्य तथात्वमित्याशङ्कायामाह- तापकत्वं यथा शोके तथानन्दभरेऽपि तत् ।। आनन्दादश्रुपातानां जनिः स्यादन्यथा कथम् ॥५०॥ तापकत्वमिति । तत्-तापकत्वम् । हरिदासेन तूदाहरणानुप लब्धेः पक्षोऽयं नोदाहृतः। कलितप्रेरिण विशेषमाह- विषये कलितावस्थापाको निर्वेदहेतवे ॥ सेव्यमानेऽपि विनयाद्युपायैः क्षयषिते ॥५१॥ विषय इति । निर्वेदो-हयेताबुद्धिः। विषयेसांसारिककामिन्या. दिलक्षणे । ननु किञ्चिदङ्गवैगुण्येन जायमाना कलितावस्था तापनि दायास्तामिति चेत्तत्राह-विनयादयुपायैरिति । विनयभयभजनाः दिभिरुपायैरित्यर्थः । भयं प्रेमविषयेणान्यथा न मन्तव्यमित्यनवर. तचिन्तनोत्थम् । ननु विषये दोषाणामसत्वे कथं दोषदृष्टिस्तत्राह-क्ष. येति । क्षयरूपदोषयुक्त इत्यर्थः । तथाच कलितपाकः कथमति. कमनीयोऽव्ययं विषयोऽपवयादिभागिति स्वविषये दोषदर्शनोत्पा. दनद्वारा निर्वेदहेतुर्भवतीत्यर्थः। नवैवं दोषदर्शननाश्यत्वरूपहाई.

कलितप्रम्णि पाण्डुलेखपपञ्चः । लक्षणस्यातिव्याप्तिः । यावद्विषयवतृष्ण्यानुपधायकत्वस्य दोषदर्शने विवक्षितत्वात । हाईनाशकदोषदर्शनस्य हाईविषये वैरस्योत्पाद. कत्वेऽपि न विषयमाने तदुत्पादकत्वमतो हार्दे लक्षणस्य सम्भवः । अत एव न यावत्पदवैयर्थ्यम् । हेत्वन्तरादपि निर्वेदमाह- तथा कलितपाकोत्थसंशुद्धिभृतचेतसः ।। अप्यन्यविषयादृष्टदोषानिर्वेद इष्यते ॥ ५२ ॥ तथेति । अप्यन्यविषयात कलितविषयभिन्नविषयादपि । हाईपाकजनिर्वेद इव नात्र निर्वेद इत्यभिप्रेत्याह- निर्वेदोऽत्र समस्तेषु विषयेषु वितृष्णता । निर्वेद इति । अत्र-कलित पाके। निर्वेदफलमाह- इहैव जातनिवेदः प्रतिबन्धे भवान्तरे । जाताविकारः सन्तृप्तप्रेमभागेव जायते ॥ ५३ ।। इहति । इहैव अस्मिन्नेव भव इत्यर्थः।प्रतिबन्धे आमयादिनति शेषः । अविकारो निर्वेदः । “यदहरेव विरजेत्" इत्यादिनोक्तसन्तृप्त. प्रेमभागेव न तु प्रेमान्तरभागित्यर्थः । कलितपाकशून्यस्यैव तद्भा. गित्वात् । प्रकृतमाह- पाण्डुलेखोऽत्र विश्लेषभयलालसयोः कचित् ।। आक्षेपस्यापवादस्य खलोक्तिसहनस्य च ॥ ५४॥ पाण्डुलेख इति ।अत्र-कलिते। क्वचिदित्यग्रेऽन्वेति । कामिन्याद्या. श्रिते कलिते इति तदर्थः। विश्लेषभयलालसे तु कलितमात्रसाधारणे द्रष्टव्ये । आक्षेपो द्विविधः प्रेमविषये तत्पुरोऽन्यस्मिन् । आधो यथा-- त्वयि कृष्ण ! कचिद्याते यो मां विधुरतापयत्। पश्योरीकृतकौटिल्यं तमद्यापि निजोरसि ।। द्वितीयो यथा-- मलयानिलशीतांशुकुहूण्ठकृतीः प्रिय !। न वदामि नृषावक्रीमतनुर्मा करिष्यति ॥

प्रेमरसायनस्य प्रेमविभागखण्डे - . अत्र प्रेमविषयस्य प्रियस्य पुरो मलयादीनामाक्षेपः । दलिता. दो तत्सुहृदोऽग्रे । तद्गोचरो यथा-- भविकमुद्धव ! तस्य समुद्धतं स कुशली मुशली त्वमहो ययोः। यदि न नन्दवर्जननी तयारहह का वयमालप निस्त्रपाः ॥ अत्र वियागिन्या उक्तिः । प्रेमविषये प्रेमाधारसुहृदो यथा- साधुनि रमणीपात्रे मामककरतो निवेश्य सुस्नेहम् । ज्वलयितुमेव दशां तां कुलदीप ! तवोचिता रीतिः॥ प्रेमविषयभिन्नं प्रेमाधारस्य प्रेमाधारान्तरं प्रदर्य प्रेमविषये आक्षेपः। यथा प्राचीनोदाहरणम्- प्रियसखि ! लज्जाजलधौ मजामः किं वदामोऽत्र । रज्ज्वा सेवितचरणः कुब्जा चरणौ प्रसाधयति ॥ एवं प्रेमाधारकर्तृकः क्रिययाप्याक्षेपः सम्भवति । यथा- अन्याङ्गनासङ्गमचिह्नचित्रं कान्तं समायान्तमुदीक्ष्य बाला। साततल्लोचनपातमीषत्करेण भालस्थलमाजघान ॥ हाहीधारकर्तृकस्तु स्वतुहृदोऽग्रे यथा- चतुरिमकलाकण्ठच्छेदो मनोभववञ्चनं दृषदि मधुनो लिप्सा लोके विडम्बनमात्मनः ॥ उपरि परितः सङ्कल्पानां शिलाशतपातनं सहचरि! परीतापस्थानं खले हृदयार्पणम् ॥ इति । इदानी प्रसङ्गादन्यदुच्यते । पुनराक्षेपो द्विधा मृदुः कर्कशश्च । तत्र सख्या दुत्या वोक्तौ द्विविधोऽपि सम्भवति । तत्राद्यो यथा- रागस्त्वयि तया न्यस्तः पदापि सुषमावहः । अतो मत्तोऽपि लक्ष्मीश! तद्वैदग्ध्यमलौकिकम् ॥ अत्र किमनुचितं करोषात्याक्षेपस्तद्वैदग्ध्यवर्णनव्याजेन व्यङ्ग्यत- या च किंचित्पिधानान्मृदुः। यथा वा- शोकोत्पत्तिरशोकतः सुमनसो यद्वैमनस्योदयो वैरस्यं च रसालतो विकलता तावत्कलानां निधेः। किश्चान्यनलदं भवत्यनलदं निर्णीतमेतावता वामः केवलमेक एव.न भवस्तिस्यामशेषं जगत् ॥

आक्षेपभेदानामुदाहरणानि । ४१ -- भवानिति तद्गोचरप्रेमाधार इत्यर्थः । हातबाढमानायामपि मृदुरेव । स यथा-- श्रुतिपथमुपयातानाममात्रात्तदीया- जपति न कतमो नु क्षीणशोकोऽत्र लोकः । यदतुलचरितौघैः श्रावितैरप्यजत्रं विरमति न कथं ते हन्त हृद्रन्थिरेषः ।। अत्र हृद्रन्थिपदान्माने बाढता द्योत्यते। पूर्वार्द्ध च स्वकर्तृकव्या- पारेण श्रुतिपथे तन्नामागमनोक्रानुषङ्गिकमपि तन्नाम श्रवणजपमन- लोकशोकमपाकरोतीति । उत्तरार्द्ध तु मानस्यैवास्यापगधो न तु त- वेति गम्यते। द्वितीयो यथा- राधालोचनगोचरोऽयमुादेतो गोपोऽपि वैदग्ध्यभू. रित्याकारयशोऽतिशोभनमभूद्भूमौ महीयस्तव । तत्प्राणग्रहणेन सम्प्रति हरे! सर्वात्मना भाविनी शुद्धो गोप इति प्रथामवितथामाप्तुं किमुत्कण्ठसे ॥ यथावा- कृष्ण ! वृष्णिकुलचन्द्र ! कथ्यसे भानुवद्भज न जातु मित्रताम् । स्वावलोकनविलासिपद्मिनीजीवनापहृतिबद्धविक्रमाम् ।। कचित्कर्कशोऽपि कथंचित्समाहितः कामपि मृदुतां भजते । यथा- शिलापि सा साधुगतिर्यद ः संस्पर्शमात्रेण सचेतनासीत् । राधे ! तदाराधनवैभवेन त्वं तादृशी नेति कलेःप्रसादः ॥ इति । प्रेमाधारस्य तु प्रेमविषये आक्षेप एव नोचितः । यदि कथशि. दुचितस्तदा मृदुरेवेति हरिदासः। स यथा- निवेश्य कतमं दोषं वत्स! त्वामपि मामिव । हन्त त्यजति ते बन्धुस्तं कालं कलयामि न ॥ अत्र वने श्रीराममुक्तायाः सीताया लक्ष्मणं प्रत्युक्तिः । ६ ४२ प्रेमरसायनस्य प्रेमविभागखण्डे- यथा वा- त्वत्तो मामिव तां शक्तिं धियं मन्ममतामपि । नाथापहृतवानेष यतोऽद्यापि विलम्बसे । अत्रान्तःकरणोपनीतं श्रीराम प्रति सीतोक्तिः । एषः रावण- रूपस्तस्करः। अन्यच्च रूपलावण्यवैदग्ध्यसौभाग्यैरन्वहं रमाम् । यदनाहतवव्यस्मि तत्कृष्ण ! समुपस्थितम् ॥ अत्र सम्प्रति मामपहाय परां कामयस इत्याक्षेपः । अन्यस्या- प्यभियुक्तस्य यथा- आवयोरिव भवेदनुरागो नावयोरिव विधिविपरीतः । वत्स !गच्छ मम वाचिकमेतत श्रीमदार्यचरणे कथनीयम् ॥ अत्र विधिं प्रत्युपलभ्यमानोऽप्याक्षेपस्तद्वारा श्रीरामं प्रत्येव पर्यवस्यति । यथा वा-- दिशि दिशि परिहासगुढगर्भाः पिशुनगिरो गुरुगर्जनं च गेहे । सहचरि ! हरये निवेदनीयं भवदनुरोधवशादयं विपाकः ॥ नीचोथं सुजतो विधेरपविधे(रेव लीना कचि. द्वासोऽधस्तनमप्युपेक्ष्य विहरनाक्षेपपात्रं हरः । प्राप्तश्रीरसि बुद्धिमानसि हरे! त्रातुं प्रवृत्तोऽप्यसि त्वं सन्तप्तजनावलोकनविधौ किं मुद्रयस्यक्षिणी ॥ यथावा- आयें ! प्रयासि यदि तां नगरी प्रयाहि पृच्छयः स तत्र मिलितो मम वाचिकेन । पृष्टस्य का गतिरिति स्वजनाचिदातुः किं प्रच्छके प्रविवचस्तदिदं वदेति ॥ इति अत्र मथुरां गच्छन्ती काश्चित्प्रति गोप्युक्तिः । प्रेमाधारकृतः कर्कशाक्षेपोऽपि वृत्तान्तस्य परोक्षीकरणेन स्तुतिपर्यवसानेन हि. तोपदेष्टुत्वेन कुनायकनाक्षेप्यसाधारणधर्मेणाप्रस्तुतप्रशंसयार्थान्तः आक्षेपभेदानामुदाहरणानि । ४ ३ - रचुम्बनादिना वा गोपायितः कथंचिदौचित्यमावहति । तत्र क्रमे णोदाहरणानि । आद्यं यथा पाचां- तिर्यक्त्वं व्रजतु प्रतारयतु वा धर्मक्रियाकोविदं हन्तु स्वां जननी पिवत्वपि सुरां शुद्धां वधूमुज्झतु । वेदाग्निन्दतु वा हिनस्तु जनतामन्याङ्गनाः श्लिप्यतु स्वामिन्यस्य गृहे विलासमयते लक्ष्मीः स पूजापदम् ॥ द्वितीयं च गोविन्दचक्रवर्तिन:- वृषं वेत्सि चेन्मा तमेवाधिरूढः कलङ्कीतिचेन्मूर्ध्नि धत्से तमेव । द्विजिह्व पुनश्चेत्स ते कण्ठभूषा त्वदङ्गीकृतौ शर्व! सर्वोऽपि भव्यः॥ अत्रायमयोग्य इति धिया मां यदि त्यजसि तदा भवानपि माश एवेत्याक्षेपो भक्तकृतस्तुतिपर्यवसानेन गोपायितः । तृतीयं यथा-- मत्प्रेमपात्र! यदुनायक ! काममेवं त्वद्रोचरैव मम भीः सततं चकास्ति । माभूत्वयि प्रबलपातकपालिवह्ना- घहाय देव! मदनुद्धरणात्कलङ्कः ॥ अत्र मदनुद्धरणात्तवायं कलङ्को भविष्यत्येवेत्याक्षेपो हितोप. देतृत्वेन कथंचिदाच्छादितः। चतुर्थ यथा- खलश्रेणीनिर्यद्धनवचनबाणाहतिभृतां धनालाभव्यापद्विकलसुतदारानुगधियाम् । जनानां दीनानामवनकरणप्रौढचरितः किमन्तर्मालिन्यं भजसि कमलाकान्त ! कुशलम् ॥ अत्र किमन्तर्मालिन्यं भजसीत्यनेन प्राप्तः कर्कशाक्षेपः कुशल. प्रश्नेन मृदुतां नीतः। पञ्चमं यथा प्राचाम्- कतिपयदिवसस्थायिनि मदकारिणि यौवने दुरात्मानः । विदधति तथापराधं जम्मैव यथा वृथा भवति ॥ अन्यागरामनुसरन्तप्रेमविरंसतिप्रशधारादापा । ( ? ) प्रेमरसायनस्य प्रेमविभागखण्डे- . - षष्ठं यथा- भ्रमर ! भ्रम केन वार्यसे भ्रमभागित्यपि केन भाष्यसे । भवता भजता लतागणं मम माधुर्यपि नाश्रिता क्वचित् ॥ यथा वा- रत्नाकरोऽसि हरिणापि समाहतोऽसि मैनाकनामगिरिणापि निषेवितोऽसि ॥ एकं वदामि जलधे! यदि ते न कोप- स्तत्कर्म साधय पयो वत येन पेयम् ॥ सप्तमं यथा- त्वदीयैश्चरितैरेतैः सुत ! मे मतिरागता। त्वाममुष्मिन्गृहे बद्धा स्यामहं शर्मभागिति ॥ एवमन्येऽपि प्रकारा हरिदासोक्ता अप्यनतिचमत्कृतर्मयोपेक्षि- ताः । अथ कथय कथं तर्हि- न नन्दतो जनिस्तस्येत्युदन्तः कर्णतायनः। इहास्ते तद्वद स्वस्याप्युदन्तं तत्सखासि यत् ॥ इत्यादि, वाच्यस्त्वया मद्वचनात्स राजा वह्नौ विशुद्धामपि यत्समक्षम् । मां लोकवादश्रवणादहासीः श्रुतस्य किं तत्सदृशं कुलस्य ॥ इति कर्कशाक्षेपपरमभियुक्तस्य कवेः कालिदासस्यापि पy श्रूयत इति चेदिह परवचनविश्वासजडीकृतमनोभिर्भवद्भिरेवन. तु प्रेमसरणिसञ्चरश्चित्तचणस्ताहशवर्णजनिसमसमयमेव पिहितक- विवरैरस्माभिरित्याह हरिदासः । गुणाकरमुखास्तु प्रागुक्तकर्क- शाक्षेपे रुददश्रुमार्जनेनेव रोषनाट्येन समाधानमारभन्तः प्रकटी. कृतसकलसज्जनवचनविद्वेषा इव स्पष्टमुपलभ्यन्त इत्यलमतिः विस्तरेण । मूले आक्षेपस्येत्युपलक्षणमाक्षेपातिरिक्तोक्तानाम् । तत्र प्रेमाधा. रस्य प्रेमविषयमित्रे- यथा पाचाम्- अयि मुरलि ! मुकुन्दस्मेरवकारविन्द- श्वसनरसरसक्षे! त्वां नमस्कृत्य याचे । अधरमधुरबिम्बं प्राप्तवत्यां भवत्यां रहसिं कथय कर्णे महशां नन्दसनो ॥ - आक्षेपभिन्नाक्तीनामुदाहरणानि । यथा वा- तस्याशया निजसुखं समुपेक्ष्य भद्रे ! मुंद्रे! मदन्तिकमितासि न चित्रमेतत् । मौनं किमेतदिह तद्विरहादुतैनां प्राणेशदुःखदतनुं धिगिति प्रकोपात् ॥ सखी प्रति यथा प्राचाम्- ततिक कामपि कामिनीमनुसृतः किंवा कलाकौतुकै- बद्धो बन्धुभिरन्धकारिणि वनोपान्ते किमु भ्राम्यति । कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः सङ्केतीकृतमजुवजुललताकुओषु यन्नागतः ॥ प्रेमाधारस्य स्वात्मानं प्रति यथा- कुलानुसारिसरणिर्यत्कृते दूरतः कृता । तस्मिन्पतति पादान्ते जीव ! मानं वृथा कृथाः॥ उदासीनं प्रति यथा- कोऽसि त्वं यमराजोऽस्मि किमागमनकारणम् । जीवस्य नयनं सत्यं स तु वस्त्रहता हृतः ॥ प्रेमविषयं प्रति यथा- कालेन बहुना देव ! दृष्टोऽसि मधुसूदन !। इदानीमेव किं जातः प्रायो दुरितसङ्ग्यः ॥ इत्यादि बोद्धव्यम् । अत्र कतिपयोक्तयः कलितप्रेमदशायां नोचि- ता दलितप्रेमजन्यत्वात, तथापि कलितप्रेमजन्यवानपायादिहापि प्रसङ्गादुक्ता इति ध्येयम् । कलितोत्तरदलिते जायमानोक्तिषु कलितस्यापि परम्परया जनकत्वमिति भावः।प्रेमविषयस्य प्रेमाधार. प्रसक्तिर्यथा- सहैव कर्णाभरणप्रसूनैरिहैव बालातपतापितासि । दिनान्तगम्यानि वनान्यमूनि त्वं केन वैदेहि ! विलयेथाः ॥ अत्र पतिविषयप्रेम्णा कतिपयपदानि सह तेन गत्वा समुदित. श्रमां सीतां प्रति श्रीरामस्योक्तिः । प्रेमाधारस्य सख्याः प्रेमविषयं प्रत्युक्तिर्यथा- न जाने किं पुण्यं विहितममलं जन्मनि पुरा - A ४६ ४ प्रेमरसायनस्य प्रेमविभागखण्डे- -- मुरारे ! मारारेरपि न विषयो याद्ध मनसः । यदस्या नेत्रस्यायतनमास रस्यार्थकथन. प्रवीणस्यालस्यालयबहुतपस्याथ वपुषः ॥ यथा वा- आयुःपथे महति सन्त्वरतोऽप्यमुच्या जीवस्य हन्त विरहातिकशाङ्गयष्टेः । आलम्बनाय यदुनाथ! तदाविरासी. द्यष्टिस्त्वदनिसरसीरुहवीक्षणाशा || प्रेमाधारस्य प्रेमविषय आक्षेपामासो- यथा- स्वसायुज्यं दातुं तव भवतु शम्भोऽध कतमः श्रमोऽमुष्मिन्नेता शिरसि सरितं योजयसि चेत् । लिपि ले वह्निर्गरलमपि कण्ठेऽस्ति वचनं भुजङ्गा विद्वेषाः परिजनकलापोऽपि वृषभः ॥ सख्याः प्रेमाधारं प्रत्युक्तिर्यथा- जलजामपहायैष सुराविषसहोदराम् । वैदग्ध्यमधुना ध्येतुमागतस्ते कृपा यदि ॥ अनौचिताऽस्तीति शेषः । एता उक्तयः सर्वाः प्रेमाभिव्यञ्जिका इत्यलमनल्पेन । हाईसौहाईयोरेते केवलैव विडम्बना । तदा न सा यदि प्रेम फलेते लाभभावकृती ॥ ५५ ॥ हाति। एते अपवादखलोक्तिसहने केवलेति ।सम्भोगमात्रफल. कत्वे लोभादिहेतुकसम्भोगफलकपरिचयवत्पार्यन्तिकमधुरतरप्रेम. रूपफलशून्यतया व्यर्थी विडम्बनेति भावः । अत्रापवादमाह-तदेति । साविडम्बना । यदीति। अत्र यदिशब्दग्रहणाद्धाईसौहाईयोरनन्तरं प्रेमोत्पद्यत एवेति नियमो नास्तीति सूचितम् । ननु तयोः प्रेम- फलत्वे किमायातं तत्राह-लाभभागिति । लोके लाभभाजो जनस्य चतुरस्वादिति भावः। प्रेम्णि सा न विडम्बनेति परिहरति- तृप्त्यन्तपरमप्रेमलाभोऽलभ्यफलोदयः ।

विदलितम्णः प्रतिपादनम् । तृप्त्यन्तेति । अलभ्यस्य फलस्य प्राप्तिरूपः फलोदयः । ननूप्तादिषु सा स्यादेवेत्याशङ्कायामुत्तरमाह- उप्तादिभूमिकालाभे स्यादेवोत्तरभूमिका । उप्तादीति । न झुप्तादिकमुत्तरावस्थामजनयित्वान्तराल एव नश्य- तीति सम्भवति। हठात् प्रेमा भग्नः सदसिरिव सन्धिं न लभते लभेतापि प्रायः स्खलति खलु यत्नैरपि धृतः। स्खलेन्नो चेत्साम्यं भजति न भजेद्वा व्युतिभयो भवेनोचेदेष स्मृतिमुपगतस्तु व्यथयति ॥ इत्यादौ तु प्रेमशब्दोऽनुरागसामान्यपरः । पुरा न जायते प्रेम जातं चेन्न विनश्यति । यदि नश्यति चेत्तन्न प्रेम रागो हि केवलम् ।। इतिभक्तिरनाकरोक्तेः। गतः सोऽपि तिलः स्नेही सूनं नवोपकारकम् । इदानीं केवलं स्नेहः शिरसा परिवायते ॥ इत्यादौ प्रस्तुतेन प्रस्तुतार्थपरेण हाईमेवोक्तमिति मन्तव्यम् । एतस्यानन्तरं देवाज्जायते दलितं यदि ॥५६॥ एतद्विदलितं प्राहुविश्लेषो जीवितावधिः ॥ अथवाऽऽमृति विज्ञेया व्यवहारानभिज्ञता ॥५॥ एतस्येति । एतस्य-कलितस्येत्यर्थः।विश्लेष इति। "उत्पत्तावस्य विश्ष" इत्यादि पूर्वमभिहितं विदलितप्रेमविषयमित्यर्थः नतु ललि. तविषयम् । पूर्वमनुक्तमपि मिलितोत्तरंदलितं सुसम्भवं दैवाद्भवितुमर्ह त्येवेत्यभिप्रायेण गुरुचरणैरुतम् । ललितप्रेमोत्तरमाविदलितप्रेमविष- यकं जीवितावधित्वं चास्य यथा तथा “लाकारमेव गुरुलोकविलो- चनेभ्य" इत्युदाहरणे प्राक् प्रपञ्चितम् । गुणाकरस्तु अमुमेव पक्ष मपररीतिप्रदर्शनेनोदाहरति । यथा- सीतालक्ष्मणविश्लेषयोग्यप्रतिनिधेर्विधौ वैकुण्ठगमने रामः सदेहोऽयोजि वेधसा॥

४८ प्रेमरसायनस्य प्रेमविभागखण्डे- विश्लेषयोग्यप्रतिनिधेः विश्लेषे योग्यस्य देहत्यागरूपस्य कर्म- णः प्रतिनिधेरनुकल्पस्येत्यर्थः । पक्षान्तरमाह-"अथवेति । एतच कलितानन्तरं दैवाहलिते जाते विदलितप्रेमैव जायत इति मन्य. मानस्य तन्त्रामृतकारस्य रीत्याभिहितम्। हरिदासादयस्तु एतत्त. त्रामृतकाराभिहितं सम्भवत्स्थलविशेषाभिप्रायं न तु नियमः परम् । विदलितानन्तरमपि पुनः कलितप्रेमोदयदर्शनात् । अत एव- उन्मूलितासि शबरैः शबरवधूभिस्त्वचावशिष्टासि। इन्दावुदयिनि कुमुदिनि ! तदपि स्मेरासि साधु ते प्रेम ॥ अनुपमसुखसारश्रेणियुक्ताधुनैषा व्रजतु विरहखेदागारमित्याशयेन । विदलितललितामा भाविता वेधसैव प्रसृमरकरुणेन ह्यद्य जानेऽविकम्पि ।। इत्याधुपपद्यत इत्याहुः । नचैवं हार्दोत्तरदलिते हाईस्येव ललि- तमिलितोत्तरवर्तिदलिते ललितमिलितयोः प्रेम्णो शानभ्युपगमेनै- व भेदसम्भवात् । अत एव "उन्मूलितासि शबरैः" इत्यत्र न हाहीं. त्तरदलितस्यावकाशः स्मरतानुदयप्रसङ्गात् । भावना गीयते चास्मिन् गाढप्रेमसमाधिजा ॥५॥ भावनेति । अस्मिन्निति विदलिते इत्यर्थः। गाढेति।ललितमिलि. तोत्तरवृत्तिनि दलिते समाधिर्ललितमिलितप्रेमविषयक एव । अयं तु कर्मेन्द्रियाभिमुख्यलक्षणकलितप्रेमहेतुतापकधर्मविशिष्टधर्मिवि. षयकस्तेन गाढ इत्यर्थः। चिरकालावस्थायित्वरूपा गाढता तु न वाच्येति गुप्तपादाचार्यैरेव तन्त्रामृतेऽभिहितम् । युक्तं चैतत् । दलि. तप्रेमसमाधिरचिरस्थायी विदलितप्रेमसमाधिश्चिरस्थायीत्यत्र न किश्चिन्मानमस्ति । इह विशेषमाह- विषयात्ययसञ्जातदलितस्य मुमेधसः । चलितादिमुखालोकमन्तरा गलिते स्थितिः ॥१९॥ विषयेति। आदिना क्रान्तविहृते स्थितिर्जायत इति शेषः। अस्या- यमर्थः । यत्र कलितप्रेमविषयेण सता प्रियेण विश्लेषः तत्र प्रेमा. धारस्य चलितादिमुखावलोकनपूर्वकमेव गलिते स्थितिः। यत्र तु - विदलितमतापतदारम्भदशोदाहरणानि । ४९ - t विनश्यता विश्लेषस्तत्र त्वेषा रीतिरिति । अत्र विदलितप्रेमा यथा- बत सखि ! कियदेतत्पश्य वैरं स्मरस्य प्रियीवरहशेऽस्मिन् रागिलोके तथाहि । उपवनसहकारोद्भासिभृङ्गच्छलेन प्रतिविशिखमनेनोट्टङ्कितं कालकूटम् ॥ एतत्प्रतिपाद्यप्रेमाधारसख्याः प्रेमविषये प्रसक्तिर्यथा. वियोगरोगराजेन क्षीणायाः किं महौषधम् । नाथ ! सा मृगशावाक्षी मृगाङ्केनापि ताम्यति ॥ ननु कलितोत्तरं दलितस्य यथा नामान्तरेण व्यवहारः क्रियते तथा मिलितानन्तरोत्पन्नदलितस्यापि ललितोत्तरवृत्तिदलिताद्भेदेन ज्ञानाय नामान्तरेण व्यवहारः कुतो न कृत इत्याशङ्कायामुत्तरमाह- ललितीयात्तु दलितान्मिलितोत्तरवर्तिना। दलितेनातिवैचित्र्यमतस्तद्गणना कुतः॥६०॥ ललितीयादिति। तद्गणना-मिलितोत्तरभाविदलितगणना। अयं च विदलितप्रेमारम्भदशाशंसाप्रश्नवितर्कचिन्तोपालम्भाद्यमितफल. जनक इति तन्त्रामृतादिषुबहुविधोदाहरणद्वारा प्रपञ्चितपल्लवोऽस्ती- ति मयापि कतिपयोदाहरणैः समासादाविक्रियते । तत्र विदिलितप्रेमतापो यथा न राधाविश्लेषः क्षणमपि तवाधातुमुचितो विधुर्वक्रस्यास्या नयनयुगलस्यापि कमलम् । कचानां सा रात्रिः सुहृदिति कथं वेत्सि न हरे! प्रमादे सजाते कथमिव न ते स्युस्त्वदरयः॥ विदलितप्रेमारम्भदशा यथा प्राचाम्--- अद्य स प्रवसतीति सुध्रुवः श्रोत्रसीमनि विजृम्भिते ध्वनौ । सद्य एव निजपाणिगुम्फिते पुष्पदामनि महोरगभ्रमः ।। आशंसा यथा-- जीव ! त्वमाशुगमनोत्सुककान्तदृष्टि- दृष्टे मदीयनयनद्वयवर्त्मनैव । निर्गच्छ मा पुनरसौ विमुखस्य तस्य कणे प्रयातु मम जीवनजः कलङ्कः ॥ अत्र स्वजीवं प्रत्याशंसा।

प्रेमरसायनस्य प्रेमविभागखण्डे- - यथा वा-- शच्यादिप्रमुखासु यौवनभरप्रोद्भिन्नमोदाकुर- क्रान्तासूत्कटकामतन्त्रकलिता काचित्कथा शिक्षिता। शक्रेणाद्य तवाङ्घ्रिपडून्जयुगादध्येतुमामूलत- स्तत्तन्त्रं गुरुणाप्यनाप्तविषयं भीमोद्भवे ! वाञ्छयते । पूर्वोदाहृतावाशंसा वास्तवी इह तु कल्पितेति विशेषः । दृष्टवानसि मातङ्ग! मत्तमातङ्गगामिनी । मृगितास्ति मृगीयूथ ! मृगीचपललोचना ॥ पाणिकान्तिनिरस्ताब्जवृन्दाब्ज! पथि लाक्षता। वेत्ति कोकिल! संसारसारवागभिधायिनी ॥ यथा वा- नायुषो विषये तस्य हरेानिक ! पृच्छयसे । अस्मर्पितभूयिष्ठजीवनस्योदयः परम् ।। अत्र प्रश्नः। कमलकोकवियोगिषधूजनज्वरकरोऽजनि पूर्णकलानिधिः । ननु विधेरबलाविरहानलप्रवलतापभृतो न यतोऽजनि ॥ अत्र वितर्कः। सञ्चारण करेण"रमणीहरभ्यां कृता वैरिणी मूर्त्या मूर्छितकामया वरतनोर्वद्धक्रुधो वीरुधः। पार्वे तिष्ठतु कस्य कं पुनरिय हा हन्त सम्भाषतां कस्मै वा विनिवेदयेत्परिभवं कुञ्ज स्थिता मैथिली ॥ अत्र चिन्ता । उपालम्भस्तु कलितप्रेमावसर एव दर्शित इति नेह पुनरुदाहियते । आदिपदेन कृशतादि । तद्यथा- क्षेण्येऽपि संशयस्तस्या वियोगे तव जाग्रति । योगेऽपि शिवयोव ! देहार्धमपि नेक्ष्यते ॥ अस्य च तापकश्रेणिभवनक्रमेण व्यक्तीभवनं कविना क्रियमाणं चारुताहेतुरित्याह हरिदासः । यथा- अङ्कतोऽपि शयनादपि गेहाबामतोऽपि नयनादपि दरम् । एष गच्छति हरिर्मधुपुर्या धातुरेव विषमो व्यवसायः ॥

विदलितमपाकोदाहरणम् । ५१ अत्र क्रमेणाभिधीयमाना अङ्कादिपरित्यागास्तापका बोध्याः । असौ च सख्यादिवचनव्यक्तीकृतो यथा चमत्कारितां भजते तथा न प्रेमाधारादिवचसा । तद्वचसा व्यक्तीकरणे तु व्याजाद्यपेक्षा चा- रुता मूलम्। तद्यथा- मद्वाचिकेन पथिक ! त्वया वाच्यः श्रियः पतिः। कण्ठमात्रस्थितप्राणा जननी दृश्यतामिति ।। तत्र सख्यादिद्वाराभिव्यक्तो यथा प्राचाम् । स्निग्धे यत्परुषासि यत्प्रणमति(१) स्तब्धासि यद्रागिणि द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन् प्रिये । तन्मन्ये विपरीतकारिणि तव श्रीखण्डचर्चा विष शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥ यथा वा- हारस्य स्तनसीमयाऽधररुचा हास्यस्य लास्यस्य च भ्रवल्ल्या बलयस्य बाहुलतया चिन्तामणे सया। नेत्रस्याअनरेखया समुदितो रागस्य वृन्तत्विषा तस्यास्त्वद्विरहे कया न विरहः कस्यालमासादितः ॥ अत एव सख्यादिद्वारकमेवास्याविष्करणं चमत्कारीति मन्यः मानो हरिदासः कालिदासोक्तपद्यार्थ प्रेमाधारान्तरं परिकल्प्य प. द्यान्तरेणाविष्करोति । यथा- त्वामालिख्य प्रणयकुपितां धातुरागैर्धराया- मात्मानं ते चरणपतितं संविधत्ते स यावत् । अस्तावन्मुहुरुपचितौर्लप्यते तस्य दृष्टि- र्धातुस्तस्मिन्नपि न सुसहस्तावकस्तस्य योगः॥ इत्यलं पल्लवितेन। विदलितप्रेमपाको यथा- वीणामझे कथमपि सखीप्रार्थनाभिनिधाय स्वैरं स्वैरं सरसिजशा गातुमारब्धमालि !। (१) सप्तम्यन्तमेतत् ।

५३ प्रेमरसायनस्य प्रेमविभागखण्डे- - तन्त्रीबुद्ध्या किमपि विरहक्षीणदीनाङ्गबल्लीमेना- मेव स्पृशति बहुशो मूर्छना चित्रमेतत् ॥ नचेदं मूर्जारुपफलोदाहरणमिति शङ्कयम् । प्रेमाधारकर्तृकफ- लप्राप्तिवर्णन एव फलोदाहरणतायाः प्रकृत शास्त्रे परिभाषितत्वेन प्रकृते तदभावात्। अत एव- इयं दिक्षु समस्तासु चन्द्रशेखरमीक्षते । स तु प्रमादादपि न प्रेम्णैनां कथमीक्षताम् ॥ इति श्लोकेन जटिलवेषधारिणं शिवं प्रति गौर्याः सखीद्वारण सर्वत्रेक्षणरूपं दलितं प्रेमफलं प्रदर्य क शम्भूः स इहास्तीति बहुधा बोधितामपि । तदेकगोचरा दिक्षु भ्रान्तिरेनां न मुञ्चति ॥ इति श्लोकेन तन्त्रामृतादिषु विदलितपाकः प्रदर्शित इति दिक्। इदानी लितमाह- प्रेमानुयायिरोषेण द्रुतप्रेमात्मकं भवेत् । छलितं प्रेम तत्प्रोक्तमारम्भो गर्वयाश्चयोः ॥ ११ ॥ प्रेमेति । अस्यार्थः । प्रेमाधारगतस्वेतरविषयकानुरागप्रतिपत्त्या प्रेमविषये नायकादौ जातेन प्रेमाधारविषयकप्रेमानुगतरोषजनितक. लहेन प्रेमाधारे दुतस्य चित्तस्य प्रेमविषयाकारश्छलितं प्रेमेति । यद्यपि तन्त्रामृते नायिकानायकोभयनिष्ठः सामान्यतः प्रेमरोषो निरूपितः। तथापि हरिदासेन प्रेमविषयेऽपि नायके प्रेमकलहो न वर्णनीयः। किन्तु प्रेमविषये नायिकायामेव।यदि पुनर्नायकनिष्ठत्वेनापि स कथञ्चिद्वर्ण्यते तर्हि नायिकां मानवतीमनु । तद्यथा- विधाय तो विधिः पश्चान्नाकरोन्मुकुरं विना । नापरा तादृशी तस्मान्मानं मुशान मानिनीम् ॥ इति । अत्र मानिनीमित्यनन्तरं तामिति शेषः । अत्र गृहीतानुनयां रा. धामनु स्वयमपि गृहीतमानं श्रीकृष्णं प्रति तदूतिकाया उतिः । छलितावस्थां रचयितुमाह-आरम्भ इति । गर्षयाञ्चयोः प्रेमविष. यनिष्ठयोः तथा च प्रेमविषयनिष्ठाभ्यां ताभ्यां गर्षयाच्याप्रतीकारस मर्था उक्तिप्रणतिशपथाभिनवार्पणादिक्रिया: प्रेमाधारे उलिताव- छलितावस्थायां प्रणतिशपथायुदाहरणानि । ५३ -- स्थासंयोग इत्युक्तं भवति । तत्रोक्तः प्रेमाधारस्य तदूत्यादेश्च समुः चिता, प्रणतिश्च प्रेमाधारस्य, शपथस्तु द्वयोरिति बोध्यम् । तत्र प्रेमाधारस्योक्तिर्यथा-- लोके त्वत्सरशी नेति द्रष्टुमेव मयेक्षिताः । अमाना योषितस्ता न मुग्धे ! मानपरिग्रहे । यथा वा-- अस्या गृहीतमानाया मुखेनापहृतप्रसः । अकिञ्चित्कर पवास्ति मामयं तापयन्नपि ॥ अत्र कमनीयतममहसि चन्द्रमसि कथं तेऽद्यापि मान इति ना. यिकां प्रति वादिनी तत्सखी प्रति नायकस्योक्तिः। अपरं वा-- द्वैधीकृत्य हिमांशोः कलाकलापं रदान विधिर्विदधे । अड्वेन सन्धिषन्धानधरं सुधया प्रवीणस्ते ॥ दत्यादेरुक्तिर्यथा-- कथञ्चिल्लक्षणीयोऽयं श्रुत्या सततसक्तया । त्वदीयपदलक्ष्योऽपि त्वया नीतोऽस्ति वाच्यताम्॥ यथावा- शीलसौजन्यवात्सल्यैर्मुक्तोऽयमिति निश्चितः । त्वयाध राधे! प्रागेव मयाब्धेस्तनयां त्यजन् ॥ यथावा- प्रेमभरादतिपृथुलादनुदिनसञ्जातमन्ददेहायाः। रोषमपि हन्त तस्या गुणमिति नावैषि देव ! तर्केण । अत्र प्रेमविषयं प्रति उक्तिः। अहे तन्मय एवास्मि मन्मयी सा न कहिंचित् । नाथ! सत्यं भवान्कृष्णः सातु गौरीति गीयते ॥ प्रेमाधारस्य शपथो यथा- स्वत्कणे मणिकर्णिका शिरसि ते वेणीयमुन्नीयते विश्रास्ति स्तनमण्डले तव पुनः काची नितम्बे स्थिता । त्वं गोदा मम नर्मदासि दयिते ! शोणस्तवास्तेऽधर. स्तीर्थश्रेणिमयी स्पृशामि भवती यधन्यशङ्का मयि ।।

५४ प्रेमरसायनस्य प्रेमविभागखण्डे - यथा वा- स साधुस्त्वं खलासीति जानाम्यहमुदारधीः । इत्युक्त्वा हृदयं स्वीयं पस्पर्श सहसा सखी ॥ वस्त्वर्पणं यथा- इन्दुं समीहमानाय तं विधाय सुताय सा। नन्दस्य रमणी प्रादात्तदाकारकहीरकम् ॥ इति । अपि सम्भृतसम्भारा दशापि हरिणा दिशः। हशा ददृशिरे शून्या राधां मानवतीमनु ॥ करोति सहसा राधा रोषवाधासमीहया । आकृष्य तत्सखीहस्तादाम दामोदरः स्वयम् ॥ इत्यादौ तु दैन्यसेवादेराविष्करणमिति दिक् ! उलितप्रेम यथा-- प्रेमनिधि घटयित्वा बालां तल्लोचने च तचिह्नम् । सीदति तन्मात्रधनो लोचनचिह्नान्यथाभावे ॥ अत्र नायको नायिका स्वविषयकप्रेमनिधि सम्पाद्य तत्कालीन लक्षणयुक्त नेत्रे व चिह्न विधाय तल्लोचनवैलक्षण्यरूपान्यथाभावं पश्यन् खिद्यतीत्यर्थः । तथा च तल्लोचनचिह्नान्यथाभावरूपप्रेमकल. हजनितखेदेन द्रुतं चित्तं ताशनायिकाविषयकं छलितं प्रेम भवतीत्यर्थः। चिन्तया यद्रुतं चित्तमुत्क्रान्तिसमयोत्थया । तत्प्रेमाकृति विज्ञेयं चलितं तद्भवान्तरे ।। ६२ ।। चिन्तयति । उत्क्रान्तिमरणम। यश्चित्तं प्रेमाकृति तचलितं विशे. यमिति सम्बन्धः। भवान्तरे उत्पत्तिमारभ्य वासनारूपेण स्थितं चलितं प्रेमेत्यर्थः। चलितोदाहृतियथा- उदितैव चकोरकामिनी कतिधा नेन्दुमवाप्य हृष्यति । गतजन्मजकारणे जना विवदन्ते कुधियो न पण्डिताः । अत्रायं वृत्तान्तः कामिनीवृत्तान्तात्मना स्थितः। गतजन्मजंका. रणं-पूर्वजन्मनि प्रेम।

उप्तादेश्वलितप्रेम्णो भेदकथनम् । - सन्त्यक्तभूमितनयो हि पुरैव रामो मन्ये न मद्विमुखतामपिहन्त यातः। किं वा करिष्यति हठीति विचिन्तनेन देहं जहौ न स पुनः प्रणयानुबन्धम् ॥ अत्रान्यागमननिरोधाय श्रीरामेण द्वारि स्थापितस्य लक्ष्मणस्य स्वस्वान्तं प्रतीयमुक्तिः । अत्र चलितप्रेम्णां हेतुभूतं प्रेम कलिते द. शितम् । “अन्ते मतिः सा गतिः” इति न्यायात् । प्तप्रेम्णोऽस्य वैचित्र्यमाह- एकदानेकविषयमपि स्याच्चलितादिकम् । परस्परेारहितं कान्तानामेककान्तगम् ॥ ६३ ॥ एकदेति । अपिनकविषयम् । छलितं तु एकदैकविषयमेवेति प्रागेवावदितम् । एतच्च नीचगतप्रेमाभिप्रायेण । ईशगतस्य स्ने. हस्य मायावृत्तिरूपस्यैकदाप्यनेकविषयत्वोपगमात । अतहुणबहुव्रीहिः णा चलितादावित्यर्थः । छलितस्य प्रकृतानुपयोगात् । चलितादावु: तादेवैलक्षण्यान्तरमप्याह-परस्परेतिाएककान्तगम्-एककान्तविषयम- पत्यिर्थः । हन्त कथमीशानुरागिणीषु गोपीषु क्वचित परस्पराकथ. नमुपपद्यत इति चेदुपपद्यत एव ईर्ष्यामानाद्यभिप्रायमात्रेण । अत एव. हरिनीताङ्गनारत्नचरणाङ्कितमेदिनीम् । दृष्ट्वा नमन्ति चुम्बन्ति लुठनयन्या हरिप्रियाः ॥ इत्यादि सङ्गच्छते । जीवरूपो दक्षिणनायकोऽपि चलिताधारूढा. नेकनायिकाविषयप्रेमभागव । “अन्यानाकुलकामिनीकुलप्रेमशाः ली दक्षिण" इति हरिदासेन दक्षिणलक्षणमीदशाभिप्रायेणोक्तम् । एतेनानेकनायकविषयकानुराग एकनायिकानिष्ठो रागाभास इवाने. कनायिकाविषयानुराग एकनायकनिष्ठोऽपि कथं नानुरागाभास इति शङ्का परास्ता। अनुकूलस्तु चलितादौ चलितान्ते च प्रेरिण, धृ. दृशठौ. तु हाईमात्राङ्कितावधमाविति तन्त्रामृत एवातिसुव्यक्त- मिति दिक् । चलितस्यावस्थामाह- मन्दालोपरमस्यात्र पाण्डुलेख उदाहृतः ॥ ६४ ॥ मन्देति । अत्र चलितोडादावित्यर्थः। छलित इव तथा न मन्दाक्षप्रसरा प्रेमरसायनस्य प्रेमविभागखण्डे- ननु भगवत्कलितावस्थस्य भवान्तराभावात्कथं चलितं तत्राह- भगवत्कलितावस्थाशालिनोऽप्येष सम्भवी । सन्तृप्त एव संसारविध्वंसननिदानता ॥६५॥ भगवदिति । एतच्च व्यक्तमग्रे निरूपयिष्यामः । ननु भवान्तरे पूर्वविषयस्याभावात्कथं निरालम्बनः प्रेमा स्या- त्तत्राह- प्राचीन विषयालाभतत्समानगुणाश्रये । पतत्रीव निजे भक्ष्ये तत्पतत्यन्यवस्तुनि ।। ६६ ॥ प्राचीनेति । अत्र कश्चिद्विशेषः प्राचीनैरुक्तः सोऽप्यभिधीयते । तत्वोपदेशग्रहणक्षमः स्याच्चलितादिभाक् । आधिक्याञ्चित्तसंशुद्धेर्न तथा कलितादिगम् ॥इति॥३७॥ चित्तशुद्धराधिक्याञ्चलितादिप्रेमभागिन्युपदिष्टं तत्त्वं यथा सु. स्थिर तथा न हादिकलितान्तप्रेमभागिनीत्यर्थः। तत्वोपदेशो यथा- जनिःशरपरित्यागो मरणं लक्ष्यवेधनम् । अवस्थितिर्मुक्तशरप्रयाणमिति भाव्यताम् । अत्र रूपकात् जनिमरणार्थैव नत्ववस्थानार्थेति लभ्यते । अत एव जनिरवस्थानाति मन्यमाना लोकाः प्रचुरतरशोकाकुला एव जगति लक्ष्यन्तेतमाम् । यथा वा- देयः पाशोदितो दायः सनसन्नपि संविदा। हर्षखेदो विधेयौ यद्भाव्यर्थस्तमसा वृतः ॥ एषा च पाशक्रीडारतं प्रत्युक्तिः । पाशोदितो न त्वदुदितो येन त्वमपराधी भवेरिति भावः । हर्षहेतुर्दुःखहेतुर्वा दोयस्त्वया देय एव । परं त्वेष विशेषः-संविदेति । न तु ताशहर्षेण तथाविधखे. देन वाऽन्यथा देय इति भावः । उपदेशान्तरमप्याह-हर्षखेदाविति । सति हेतावनिवारणीयोदयावपिहर्षखेदावाच्छाद्याववे । यत्-यस्मा- खेतो व्यर्थः पराजयलक्षणो जयलक्षणो वा पूर्वमक्षात एव । हर्षस्य क्रान्तावस्थाया निरूपणम् । - खेदस्य वा व्यक्तीकरणे भाविनि पराजये जये वा जनोपहासो भ. विष्यतीति भावः । इदमत्राभिहितं भवति । संसरता नरेण "अव. श्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्" इत्यनुसन्धानबलात्कर्मप्रा. पिते शुभाशुभे भोक्तव्ये एव । शेषं समानम् | अयं चोपदेशः प्रवृत्ति पथप्रवृत्तनीत्युपेदशं बाधते । स यथा- भूतमष्टनृपे भव्यं पाशके भावि वा यथा । ज्ञयं द्विराजके धीरैः संसृतौ त्रितयं तथा ॥ अष्टनृपाख्यक्रीडायामतीतं, पाशविहारे वर्तमान, द्विराजके बुद्धिबले भावि वा यथा ज्ञेयं भवति तद्वत्संसारे त्रयमेतज्ज्ञयमि- त्यर्थः। तथाचायं संसारो विहारत्रयात्मक इति भावः । इतोऽप्य. धिकं पुनराकरादावाकलनीयमिति दिक् । इदानीं पूर्वमुक्तस्य यत्तस्य चलितदशायां प्रफुल्लितीचत्तस्य प्रे. मिण क्रान्तनाम्नीमवस्थां दर्शयति- अनुक्षणं नयनयोर्मुद्रणेनेह कर्मणा। यत्मेम व्यक्ततां याति क्रान्तं तदभिधीयते ।। ६८ ॥ अनुक्षणमिति । अनुक्षणमित्यस्य मुद्रणेनेत्यनेन सम्बन्धः । पू. मुप्तस्य कपटप्रश्नेन व्यक्तता इह तु मन्दाक्षोपरमरूपावस्थ- स्य चलितस्य नयनमुद्रणेनेति । क्रान्तावस्थामाह- व्यवहारेषु वैमुख्यं प्रारब्धेष्वभिमानिता। व्यहारेष्विति । ननु यत्तमेव भवान्तरे नामान्तरेण निर्दिष्टं न तु जात्यन्तराकान्तमित्यत्राह- भवान्तरगतादेष विशेषः क्रान्तसंबके ॥ ६९ ॥ भवान्तरेति । क्रान्तभवापेक्षया यत्पूर्वभवान्तरं तद्गताद्यन्नात् एष विशेषः व्यवहारे वैमुख्यमित्यादिनाऽभिहितः । तथा च विलक्षणाव- स्थारूपकार्यानुरोधेन कारणमपि विलक्षणमङ्गीकरणीयमित्यर्थः। न च यत्ते व्यवहारवैमुख्यादि । नन्वस्यामवस्थायां प्रेमविषयगोचरस्तवनवन्दनादिनिखिलव्य- वहारदर्शनेन व्यवहारेषु वैमुख्यमित्याद्यभिधानमसङ्गतं तत्राह- इष्टहर्षफले हेतौ न ज्ञेया व्यवहारता ॥ ७० ॥ ८ प्रेमरसायनस्य प्रेमविभागखण्डे- इष्टेति । इष्टः प्रेमविषयः तदीयो हर्ष एव फलं यस्य स तथावि धस्तस्मिन् हेतौ कारण व्यवहाररूपेऽपि व्यवहारतान ज्ञेया। तथा च व्यवहारपदेन प्रेमविषयातिरिक्तगोचरविषयव्यवहार एव विवक्षित इति भावः । यद्वा अशनपिपासादिव्यवहारो यथा व्यवहारत्वेन न विवक्षितस्तथा प्रेमविषयव्यवहारोऽपि।अस्थापि शरीरस्थितिप्रयोजक- स्वाविशेषादिति । गुणाकरस्तु नयनमुद्रणस्यातापकतया क्रान्तं न प्रे. मान्तरं किन्तु चलितस्यैव कापि व्यक्ता दशेत्याह । वस्तुतस्तु उक्त रूपचलिताद्विषयवासनातिशयलक्षणादनुक्षणं विषयस्मृतिर्जायते । तदासादितविषयसमागमरसस्तत्प्रहितभासमानं वात्र चित्तस्य ताप- कः। नयनमुद्रणा त्ववश्यतुकर्तव्यरूपा न तु तपिभावस्था चलितप्रे. माभिव्यक्तीकरणप्रगल्भेति मन्तव्यम् । क्रान्तमुदाहरति- अन्त:स्थितोऽपि कमलापतिरष याया- प्रायोऽध्वना नयनयोरमुनेति मत्वा। राधा निमीलयति ते सहसानुराग- निर्मग्नमानससमस्तवधूवतंसः ॥ बत्तोत्तरभाविललितदलितमिलितकलितेभ्यश्चलितोत्तरभाविना. मतेषां नातिचारुतेति नात्र पुनरमी प्रेमाण उदाहृताः। प्राचीनच्छलितादस्य छलितस्य विशेषोऽस्तीत्येतत्पृथग्दर्शयति- एकयापि लधीयस्या मानसूचकचेष्टया । यच्चेतो द्रुततां याति विक्रान्तं तनिगद्यते ॥ ७१ ॥ एकयति । एकयापि-अपिना छलित इव न नानारूपया। तत्रापिल- घीयस्या-अचिरसमयस्थायित्वेन नातिव्यक्तया, मानसूचकचेष्टया प्रेमविषयगतमानाभिव्यञ्जकचेष्टया। मधुरयेति शेषः । नतु च्छीलत इव वढनुनयनिवर्त्यया। तथाचेदृशक्रियाद्रवीभूतं चित्तं विक्रान्तमा भिधीयत इत्यर्थः । अत्र च चतसः प्रेमविषयगतमानामिव्याकक्रि- यालेशस्याप्यसहनमुद्वेगापरपर्यायं तापकमवगन्तव्यम् । मानाभि. व्यञ्जकचेष्टा साक्षात्कृतव न तापिका किन्तु श्रुतापीत्याह गुणाकरः । विक्रान्तोदाहरणमाह- अयथापूर्वजातेन प्रियस्यागमनेन सा । दृष्टेन वेपथुमती बभूव महसा प्रिया ।। ७२ ॥

सङ्क्रान्तप्रेमनिरूपणम् । - अयथेति । अत्र प्रियविलक्षणागमनं प्रियगतगृढमानाभिव्यञ्जकं प्रियायाश्चतसस्तापकं बोध्यम् । यदाहुः पाश्च:-"पूर्वोक्तं क्रान्तमेव वि. लक्षणावस्थोपेतं सक्रान्तम्" इति । तदिदानी प्रसङ्गतः सक्रान्तं प्रेम निरूपयात- अनुक्षणपरीतापगुताञ्चित्तादथापरः ।। सङ्क्रान्तनामा प्रेमायं जन्मसाफल्यबीजभूः ॥ ७३ ॥ अनुक्षणेति।एनांच कारिकामाश्रित्य तन्त्रामृतकारेण सक्रान्तना. मकं प्रेम चतुर्द्धा निरूपितम् । तद्यथा-यत्र प्रेमधारेण प्रेमविषये मानः पश्चात्तापपर्यवसायी तत्र तादृशानुक्षणतापेन प्रेमाधारे यश्चित्तद्रव. स्तस्मात्सङ्क्रान्तम् । नच प्रेमाधारे मानवर्णनमनुचितमिति वा. च्यम्, अनुतापपूर्ववर्तिनस्तस्य वर्णनायामनौचित्याभावात्। यथा- यस्यानुक्षणमक्षिवीक्षणरसाक्षान्तो नितान्तोदितो दुर्वादः सहितोपदेशनिवहो नासेवि सर्वात्मना। तस्मिन्नण्यहह प्रिये विरचितो मानो मया नो दया कस्मादित्यनुतापदीर्घततिभिस्तब्धीभवत्यङ्गना ॥ अत्र स्तब्धताव्यङ्ग्यो द्रवः । यद्यपि छलितप्रेमण्यप्यनुतापोऽस्ति तथापि स न प्रतिक्षणम् । अत एव छलितप्रेमिण कादाचित्कादनुता- पादुच्छालतनाम प्रेमान्तरमङ्गीकरोति हरिदासः। अयं च सक्रा- तनामप्रेम्णः प्रथमप्रकारो दर्शितः। यत्र तु प्रेमाघरे प्रेमविषयवृत्तिमा. नानुतापस्य शानं कथंचिद्भत्तत्र तादृशशानरूपतापकवशात् प्रेमा. धारे चित्तद्रुतिस्तयोत्पन्नं प्रेमाधारे सक्रान्तनाम प्रेम । तदुदा- हरणम्- राधागतानुसन्तापाच्छ्रुतादाकुलमानसः ॥ स्वयविहितमानोऽपि तामेवानुययौ हरिः॥ इति । अयं च द्वितीयः प्रकारः सङ्क्रान्तनाम्नः प्रेम्णः। द्विविधोऽप्यसौ प्रेमाघारगत एवोक्तः। यत्र तु प्रेमविषये कृतमाने पश्चात्तापा, तेन च चित्तद्रुतिः, तया प्रेमाधारविषयकं प्रेम, सक्रान्तनामकं प्रेम विषयः यवृत्ति बोध्यम् । यथा-- मामेव चिन्तयति यो निखिलं विहाय मत्वावमेव सततं परिसेवते यः। .

६० प्रेमरसायनस्य प्रेमविभागखण्डे- तस्मिन्हरो प्रणतिशालिनि शुद्धचित्ते मानः कथं समजनीति बभूव खिन्ना ॥ इति । अयं च सक्रान्तप्रेम्णस्तृतीयः प्रकारो दर्शितः। यत्र तु अनुचि तक्रियां विधाय पश्चात्तादृशानौचित्यप्रतिसन्धानेन तापकेन यस्मिन् चित्तटुतिः तया यद्विषयकं प्रेमोत्पद्यते तद्विषयकं तादृशानुचितक- तरि सङ्क्रान्तनामकं प्रेम भवति । यथा- प्रतिबिम्बस्य लोकेऽस्मिन् विवेकवशवर्तिता। त्वय्येव जीवं केनेयं बिम्बवैमुख्यभागिता ॥ अत्र बिम्बवैमुख्यभागित्वप्रतिसन्धानरूपं तापकमेव लब्धं भव. ति । चित्तद्रवस्तु व्यङ्गयोऽत्र द्रष्टव्यः । एवं च प्रतिबिम्बरूपे जीवे बिल म्बवैमुख्याचरणरूपानुचितक्रियाप्रतिसन्धानात् द्रुतस्य चित्तस्य स. क्रान्तरूपप्रेमपरिणतिया। अयं च सक्रान्तप्रेम्णश्चतुर्थः प्रकारः। यथावा- आर्शयतस्ततोऽस्माकं भ्रमतां नाजनि अपा। अपि जीवनदान्याशाहीनचातकपोतकात् ।। अत्र भ्रमत्सु जीवनदेश्वरविषयकं प्रेमाभिव्यज्यते । एवमुचिताना. चरणप्रयुक्त्यनुतापेनापि सङ्क्रान्तनामानं प्रेमाणमुरीकरोति गु. णाकरः। यथा- चिरं ध्याता रामा क्षणमपि न रामप्रतिकृतिः परं पीता रामाधर इह न रामाज्रिसलिलम् । नता रुष्टा रामा यदरचि न रामाय विनति- गतं मे जन्मारन्यं न दशरथजन्मा परिचितः। एतमेव सङ्क्रान्तप्रेमप्रकारं पुरुषार्थसाधनत्वेन विशदयति-ज न्मसाफल्यबीजभूरिति । एतत्प्रेमावाप्त्यैव जन्म सफलमित्यर्थः । नच विक्रान्तसङ्क्रान्तयोः प्रेमविभागे गणनाया अदर्शनादुप्तं यत्तमिति. पये न्यूनतापत्तिरिति वाच्यम् , केनचित्प्रकारविशेषेण पृथगभिहित योरप्येतयोः छलितोच्छलिताभ्यां तथानतिरेकात् । नचैवं क्रान्तस्या. पि यत्तेऽन्तर्भावोऽस्त्विति वाच्यम्। स्वतन्त्रेच्छस्थाचार्यस्य पर्यनुः निवेदनपदार्थनिरूपणम् । योगेऽस्मदादेरसामर्थ्यात् । जन्मसाफल्यबीजभूरित्युक्तं विशदयति- एतस्यैव परीपाकदशां प्राहुनिवेदनम् ।.... एतस्यैवेति । एतस्यैव-चतुर्थप्रकाररूपस्य सङ्क्रान्तप्रेम्णः। निवे दनपदार्थ दर्शयति-एतदिति । एतदेहादिसकलं तस्योति प्रतिपत्तुः तत् । अस्यार्थः । मदितरजनैर्मदीयतयोपलभ्यमानं देहादिवस्तुजातं मत्प्रेमविषयस्यैवेति या प्रतिपत्तिः सैव निवेदनपदेनोच्यत इत्यर्थः । तथाचानाहार्यमप्रामाण्यज्ञानानास्कन्दितं तादृशं ज्ञाने निवेदनमिति फलितम् । निवेदनोत्तरभाविनमर्थ विशदयति- जाते निवेदने पश्चान्मानस्यावसरः कुतः ।। ७४ ।। जाते इति । तथा च सञ्जातसक्रान्तप्रेमपरिपाकदशारूपनिवेद. नशालिनां चित्तं नाट्यरूपेणापि मानेन न युक्तमित्युक्तं भवति । यथा- मदीयचरणाम्बुजप्रणतिरस्य नैसर्गिको गुणो रसिकनायकवजविलासवारांनिधेः। तदर्पिततनौ मयि स्थितिपदं न धत्ते क्वचि. न्मृषापि बत मानिताकणलवोऽपि तद्गोचरः ।। अत्र प्रणतं श्रीकृष्णं दृष्टा तस्मिन्मानं किमिति करोषीति तिर. स्कुर्वन्ती सखी प्रति नायिकोक्तिः । यथा वा- दूरस्थितविशिष्टेष्टविसृष्टधनवस्थिता । सरक्षणफला तस्या न सुखाय निजा तनुः ॥ अपरं वा- अस्मिन्कलेवरे तावत्तहयामनु मे दया । नैतत्स्वं बत चेत्तस्या ममास्थायाः कथं पदम् ॥ इति । अत्र श्लोकद्वये निवेदनं व्यक्त्या प्रतीयते। हरिदासस्तु सङ्का- न्तप्रेमपरिपाकरूपं निवेदनम् । तस्यैवाहं ममैवासाविति वृत्तिद्वयं क्रमात् । निवेदनमिति ज्ञेयं तत्रात्य तु सपूर्वकम् ॥ - .

६२ प्रेमरसायनस्य प्रेमविभागखण्डे- - इति श्लोकेन वृत्तिद्वयात्मकं निरूपयतिस्म । उदाहरति स्मच- सत्यपि भेदापगमे नाथ! तवाहं न मामकीनस्त्वम् । सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥ हस्तमुत्क्षिप्य यातोऽसि बलात्कृष्ण ! किमद्भुतम् । हृदयाद्यदि निर्यासि पौरुषं गणयामि ते ॥ क्वचिदपि पलायितोऽपि त्वं मदीय एवासीति भावः । यथा वा-- मुग्धे ! मुग्धतयैव नेतुमखिलः कालः किमारभ्यते मानं धत्स्व धृतिं बधान ऋजुतां दूरीकुरु प्रेयास । सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ॥ अयं मदीय एव किमत्र मानेनेति भावः। इत्यलमधिकेन । अधुना विहृतं प्रेम निरूपयति- एतच्च चलितं नाम्ना विहृतं कथितं बुधैः । एतदिति। चिन्तया यत द्रुतं चित्तमित्युक्तरीत्या चतुर्थप्रकाररूपं सक्रान्तं प्रेम भवान्तरे चलितं सद्विहननामकं प्रेम भवतीत्यर्थः। पूर्वचलितादस्य विहृतस्य भेदं वक्तुमवस्थामाह- सर्वदात्र द्रवावस्था काठिन्यं स्वल्पकालभाक् ॥ ७५ ।। तापकस्मृतिरप्यत्र विहृते तापिका मता। शून्यदृष्टेरिहारम्भो ह्यपि प्रत्यक्षवस्तुनि ॥ ७६ ।। सर्वदेति। सर्वदेत्युत्सर्गः।चेतस इत्यनुषङ्गः । तापकानां चित्तद्रव. हेतुभूतानां प्रेमविषयवृत्तिलीलानां स्मृतिःस्मरणम् । अपिना प्रेम- विषयस्मरणमपि । अत्र-विहृते, तापकं भवेत् । यथा-- अनुक्षणं निपतति प्रायोऽध्वनि समेऽपि सा। तमालतरुमुहामा त्वदमात्परिचुम्बति ॥ अत्र पतनचुम्बनहेतुभ्रमस्य कारणं विहृतं प्रेम बोध्यम् । अत्र विशेषमाह- निवेदनपरीपाकोऽप्यत्रैव समुदीर्यते । ।

गलितप्रेमनिरूपम् । निवेदनेति । अत्रैव-विहृत एव । अस्मात्पाकानिजे देहेऽप्यौदासीन्यं समुद्भवेत् ॥ ७७ ॥ अस्मादिति । विक्रीतस्य गवादोगक्षमयोरिव प्रेमविषयनिवे- दितस्य निजदेहस्य योगक्षमयोरचिन्तनमौदासीन्यपदस्यार्थः। ए. तदेव श्रीमद्भगवता दर्शितम्- अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ इति । इदानी गलितं निरूपयति- इतोऽपि चलितं प्रेम ज्ञेयं सद्गलिताभिधम् । इतोऽपीति । अस्माद्भवान्तरे विहृतं चलितं सदलिताभिधेयं प्रेम भवतीत्यर्थः। अस्यावस्थामाह- वियत्कुसुमसङ्काशमिह काठिन्यमुच्यते ॥ ७८ ।। विदिति । इह-गालते । लेशतोऽपि काठिन्यं नास्तीत्यर्थः । गलितं प्रेम यथा- कालियस्य सखा भ्राता प्रायस्त्वत्प्रेमगूढपात् । येन दृष्टा त्वदीयेति सा मनागपि नेहते ॥ एना पूर्णजडावस्थापाहुः प्रेमपथानुगाः । इह तप्तेः समारम्भो जीविकापरवर्मना ॥ ७९ ॥ एनामिति एनां गलितावस्थामित्यर्थः । जडांव्यवहाराप्रतिस. न्धानरूपामित्यर्थः। इदानीं सन्तृप्तं प्रेम निरूपयति- इतोऽपि चलितं प्रेम सन्तृप्तमिति गीयते । इतोऽपीति । इह तन्त्रामृतकारधृतं विष्णुरहस्यस्थलोकं प्रमाणत्वने दर्शयति- अनेकजन्मसंसिद्धसन्तृप्तहृदयः सुधीः । जीवन्मुक्तदशोपेतो नास्य कर्त्तव्यमिष्यते ॥ इति । अनेकेति । अत्र बहूनि प्रेममूलवचनानि तन्त्रामृतग्रन्थातशेयानि । विस्तरभयान लिख्यन्ते ।

प्रेमरसायनस्य प्रेमविभागखण्डे- - तस्य परमपुरुषार्थसाधनत्वं विशदयितुमाह- गलितान्तेषु विषयो विषयः परिकीर्तितः । इहानन्दात्मकं ब्रह्म विषयो वर्णितो बुधैः ॥ ८० ॥ गलितान्तचिति । विषयो विषय इति । विषयो ब्रह्मणि अध्यस्तो विधा भूतवर्गो मायापरिणामस्तदवच्छिन्नं ब्रह्म वा। अन्यविषयप्रेम्णोऽन्यत्रानुवृत्तौ दृष्टान्तमाह- शिखात्मना स्थितो दीपः मंलग्ने वर्तिकान्तरे । यथा याति तथा प्रेम विषयाचित्स्वरूपके ॥ ८१॥ शिखात्मनेति । शिखा अन्तिमदशायामित्यर्थः । सलग्न इति-पूर्वत्तिकायां न तिष्ठनीत्यर्थः । युक्ति चोपपादयति- आनन्द एव प्राचीनः प्रेमभिः परिशीलितः ॥ ८२ ॥ आनन्दपवेति। आनन्दो ब्रह्मैव । अवच्छिन्नविषयेण कथं निरवच्छिन्नं विषयीकृतं तत्राह-- अवच्छिन्नानवच्छिन्ने भिद्यते गगने न हि । स एव चानवच्छिन्नो भूपानन्द इतीर्यते ।। ८३ ।। अवच्छिन्नानच्छिन्ने इति। ननुकामिन्यादिशरीरमेव प्रेमविषयो. ऽस्त्वत आह- कामिन्यादिशरीरं न केवलं प्रेमगोचरः ॥ कामिन्यादीति । युक्तिमाह- कामिना क्रियते कर्म तन्नाशे पारलौकिकम् ॥ ८४ ॥ नाह शरीरमात्रविषयकप्रेमसत्त्वे पारलौकिककर्मकरणं सम्भवति अतस्तवच्छिन्नात्मैव विदुषामिव पामराणामपि प्रेमविषय इति सिद्धम् । इयान् परं विशेषो विद्वांस इव पामरा नात्मानं देहात्पृथ. ग्विवेचयितुमीशते । अवच्छिन्नविषयत्यागे बीजमाह- विषयस्य परित्यागे द्रवकाष्ठैव कारणम् ।

सन्तृप्तप्रेमनिरूपणम् । ६५ - विषयेति । एषकारान्न विषयप्रीतिः। अत एव हरिदासोऽपि समुदितशबलमायावच्छिन्नब्रह्मविषयानुरागासु गोपीषु सन्तृप्तप्रेमा- णमपि मन्यमानो द्रवतारतम्याद्विविधमपि समाधिमाह । एनमर्थमनुभवेन विशयति- अपि प्रमादगलिताञ्चित्ताल्लोके न दृश्यते ।। ८५ ॥ विषयव्यवहारोऽत्र किं वाच्यं मग्नचेतसः । अपीति । चिरकालं मनसि स्थितोऽपिविषयः कदाचित्प्रमादकृत. द्रुतिवशाम्न स्मर्यते । लोकोऽपि वक्ति किञ्चिद्वस्तु हृदय एव तिष्ठति प. रन्तु न स्मयते इति । एवं च प्रमादद्रुतचित्तस्यापि यत्र चिरपरिचित. वस्तुविस्मारकत्वं स्वभावो दृष्टस्तन किं वाच्यमानन्दौघमग्नचित्तस्य विषयविस्मारकत्वमिति भावः । यदुक्तम् ,"आनन्द एव प्राचीनःप्रेमभिः परिशीलितः।" इति। तत्पः रिशीलनमनेकविजातीयवृत्तिभिरिति विशदयति- क्रान्तान्तप्रेमजानन्देऽवस्था परिचयात्मिका ॥ ८६ ॥ विहृतस्य भवेद्धार्दै सौहाईगलितात्मना । प्रेमात्मिका तु सन्तृप्ते चिदानन्दैकचुम्बिनी ।। ८७ ।। कान्तान्तेति । उप्तमारभ्य क्रान्तपर्यन्तेत्यर्थः । नन्वानन्दमात्रविषयकं प्रेम जायत इति कुत्र निर्दिष्टं तत्राह- एतदाह यदृत्तं सो गोपीभ्यस्तद्धितेच्छया ।। ८८ ॥ एतत्-सन्तृतरूपं प्रेम । कृष्णकल्पद्रुमग्रन्थधृतं विष्णुरहस्यस्थं श्लोकमत्र दर्शयति. कुरुध्वं प्रेम महितं विषयेऽद्य मदात्मनि । आनन्दरूपे यत्रास्ते न वियोगो मनागपि ।। कुरुध्वमिति । तथा- वास्तवे मामके रूपे प्रेमाणं विनिवेशय । सोपान एव किं वासः मासादमधिरोहतः ।। नन्ववछिन्नानवछिन्नानन्दपरिभाषायास्तार्किकादिनयेऽलीकतया - ९ प्रेमरसायनस्य प्रेमविभागखण्डे- - तन्नये सन्तृप्तस्य विषयः कः स्यादिति शङ्कायामाह-- मतान्तरेऽवतारी तु सन्तृप्तविषयो मतः । गलितान्तस्य विषयोऽवतारः परिवर्ण्यते ॥ ८९ ॥ दलितादौ तु सम्प्रज्ञात एव स्यात्परो न हि। असौ वृत्यात्मको वृत्तिशून्यान्तःकरणोऽपरः।। ९० ॥ मतान्तरे इति दलितादाविति । संयोगवियोगावस्थायामिति भावः । असौ-सम्प्रज्ञातः । अपरः असम्प्रज्ञातः । अस्य निष्कृष्टं लक्षणमाह-- आनन्दाकारता वृत्ति विना स्वाभाविकी हृदः । असम्प्रज्ञातनामायं व्यक्तः पातअलोक्तिषु ॥ ९१ ॥ उत्पद्यमानो घट आकाशावच्छिन्न इव उत्पद्यमानमन्तःकरणं वृत्ति विनानन्दाकारमेवोत्पन्नं न तु विषयाकारम् । विषयाकारता तु तस्य वृत्त्येतिदिक् । सन्तृप्तं यथा- चरितादुपलक्ष्य सज्जनं प्रणयस्तत्र विधीयते यथा । परिचिन्तनयापि राधिके ! परमानन्दघनं तथाऽकृथाः ॥ अत्रोद्धवद्वारा श्रीकृष्णस्य राधिका प्रत्युक्तिः। यथोपलक्षितेन बुध्यमानः सुजनो न चरितं नापि चरितावच्छिन्नस्तथा मल्लक्षणो. पलक्षणेन बुध्यमानः परमानन्दधनः नाहं नापि मदवच्छिन्नः किन्तु केवलः शुद्धोऽतस्तत्रैव प्रेम कार्यमित्याशयः। एतदेव फलीभूतं फलभक्तिरितीर्यते । एतदेवेति । यत् शानाङ्गतयोच्यमानं सन्तृतरूपं प्रेम एतज्जा तीयमेव तत्त्वज्ञानोत्तरभाविफलीभूतं प्रेमोच्यते । यथा-- यदवधि हृदयं मे त्वत्स्वरूपैकमग्न तदवधि तव मत्या मामकीनं कुटुम्बम् । यदपि मिलितमेतत्कामभोगादिजातं तदपि मधुरमेव प्रेमपूर्तेहिताय ॥ यथा चास्य फलरूपता तथा निरूपयिष्यामः । . ।

सन्तृप्तपणा मुक्तिहेतुत्वकथनम् ! ६७ -- नन्विच्छायाः कथं स्वतः पुमर्थता तत्राह-- अलब्धलब्धरिच्छा तु पुमर्थो न यदि स्वतः ।। ९२ ।। लब्धलिप्सा पुमर्थः स्याल्लब्धव्या गुरचोऽत्र नः । अलब्धति । अत्र-अस्मिन्विषये । एतच्च परमं प्रेम मुक्तेरान्तरकारणम् ॥ ९३ ॥ एतदिति । एतत् फलीभूतं सन्तृप्तरूपं प्रेमेत्यर्थः। ननु "तमेवैकं जानथ" "तमेव विदित्वातिमृत्युमेति “यदा चर्म- वदाकाशं वेष्टयिष्यन्ति मानवाः । तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति" इत्यादिश्रुतिस्मृतिभ्यां ज्ञानस्यैव मुक्त्यङ्गत्वं प्रतीयते । तत्राह-- बोधो हेतुर्दुःखमुक्तौ प्रेमद्वारा भविष्यति । बोध इति । प्रेमद्वारा फलीभूतसन्तृप्तरूपप्रेमद्वारा। श्रुतिगतैवका. रस्तु ज्ञानातिरिक्तस्य नानविरोधिनः कर्मणो हेतुतामपाकरोति । प्रेम तु शानद्वारं द्वारिंगतहेतुतामेव समर्थयते । ननु प्रेम कथं ज्ञानस्य द्वारं तत्राह-- अबुद्धार्थो नहि प्रेमा। अबुद्धार्थ इति । तथा च बुद्धार्थविषयकप्रेमाऽर्थतत्त्वसाक्षा- कारोत्तरं केन वारणीयमिति भावः। ननु ज्ञानं न नियमेन स्ववि. षये प्रेमोत्पादकं घटज्ञानात्तदुत्पत्यापत्तेरिति चेत्, न। वस्तुविशेषज्ञा- नस्य प्रेमोत्पादकत्वात् । ननु प्रेम्णो मुक्तिसाधनत्वं क श्रुतं तत्राह-- हेतुर्मुक्कावसौ श्रुतः ॥ ९४ ॥ हेतुरिति । असौ-प्रेमा । "पुरुषः स परः पार्थ भक्त्या लभ्यस्त्व. नन्यया । भक्तिं मयि परां कृत्वा"इत्यादिवचनेभ्यः । ननु शुद्धब्रह्मविषयकं प्रेम मुक्तिहेतुः किं वा शबलसगुणब्रह्मवि. षयम् । नाथः । दुःखहानिहेत्वज्ञाननिवृत्तीनैकसाध्यत्वात् । नहि शुक्तिविषयं ज्ञानमज्ञाननिवृत्तौ शुक्तिविषयं प्रेम द्वारत्वेनापेक्षते । न द्वितीयः । शवलब्रह्मविषयप्रेम्णश्चित्तशुद्धावुपयोगेन मुक्तावहेतुत्वात् ।

६८
प्रेमरसायनस्य प्रेमविभागखण्ड-
-
शवलब्रह्मविषयकप्रेम्णस्त्वन्नये सन्तृप्तपदवाच्यत्वाभावाञ्चेत्यत आह---
अस्तु वा परमप्रेमा निदिध्यासनवर्त्मना।
ज्ञानाङ्गं भक्तिरप्येष पदार्थ इति मुस्थिरम् ॥ ९५ ।।
अस्तु वेति । "या प्रीतिरविवेकानां विषयेष्वनपायिनी ॥ त्वाम
नुस्मरतः सा मे" तथैवेति भावः । “हृदयान्मापसर्पतु' इति वचनेन
विषयमतप्रेम्णोऽपरमत्वोक्तः। निदिध्यासनेति। शुद्धविषयकनि
दिध्यासनेत्यर्थः। वर्त्म-द्वारम् । तथा च शुद्धविषयं सन्तुप्ताख्यं प्रेम
शुद्धविषयनिदिध्यासनद्वारा मुक्तिसाधनं शुद्धविषयज्ञानाङ्गमित्य-
धैः । "भक्त्या मामभिजानाति" इत्यादिवचनं परमप्रेम्णो शानाङ्गत्वे
प्रमाणम् । ननु तत्र भक्तिशब्देन निर्देशात्कथं प्रेम्णो ज्ञानाङ्गत्वं
सिद्धं तत्राह-भक्तिरपीति ।
ननु सन्तृप्तस्य परमप्रेम्णः शुद्धचिन्मात्रविषयकत्वेन शबलव
मविषयकवाभावात्तद्विषयकप्रेम्णः परत्वानापत्तिरत आह-
शबलब्रह्मविषयः प्रेमा ज्ञेयः परापरः ।
शबलेति । चिन्मात्रविषयकप्रेमापेक्षयाऽपरोऽपि कामिन्यादिवि
षयप्रेमापेक्षया परः।
ननु यस्त्वया सन्तृप्तरूपाप्रेमाभिहितः सोऽपि न परः, ज्ञानाङ्गत्वे.
न फलमात्ररूपत्वाभावादत आह--
ज्ञानाङ्गमपि यः प्रेमा सोऽपि वस्थि सेवते ॥ ९६ ॥
झानाङ्गमिति । या शुद्धविषयः । अस्य-शवलविषयप्रेम्णः । से.
वते अनुकरोतीत्यर्थः । तथाचायमपि परापर इत्यर्थः ।
अज्ञाननाशकालोत्थप्रेमदृष्ट्या परतरः।
शबलब्रह्मविषयप्रेमदृष्ट्या परोऽप्यसौ ॥ ९७ ॥
अशानेति । तत्वसाक्षात्कारेण अज्ञाननाशोत्पत्तिद्वितीयक्षणे स्व.
विषये प्रेमा जन्यते । यत्र परोक्षज्ञानस्य प्रेमोत्पादकता तत्र किमु
वाच्यमपरोक्षसाक्षात्कारस्य तदुत्पादकतायाम् । एवञ्च तादृशप्रेमा.
पेक्षया शुद्धविषयोऽपि प्रेमा परोक्षशानजन्यो ज्ञानाङ्गत्वादपरः । श.
बलब्रह्मविषयप्रेमापेक्षया तत्फलरूपत्वेन परः।
तत्वज्ञानसमुत्पन्नः पर एवं फलात्मकः ॥९८॥

सन्तृप्तमेम्णः परापरत्वसमर्थनम् । ६९ परत्वं विशदयति-- मुखैकचुम्बितारूपं स्वास्थ्यं प्रेम्णा यतोऽजनि ॥ ९८ ॥ विशिष्टमुखचुम्बित्वमस्वास्थ्यं तदभाग्यतः ॥ ९९ ॥ सुखेति । यतः कारणात् अजनि अतस्तत्परमिति वाक्य शेषः । तदभाग्यत इति पदद्वयम् । तात्पर्यमुन्नीयते । यद्यपि तत्त्वज्ञानाङ्गस्य शुद्धविषयस्य सन्तृप्तप्रेम्णो विशिष्टसुखचुम्बित्वरूपमस्वास्थ्यं नास्ति तथापि परोक्षज्ञानजन्यत्वरूपमस्वास्थ्यमस्तीति भावः । स्वास्थ्यो- दाहतिर्यथा- उपासितेन प्रेम्णैव मयि कापि कृपा कृता । स्थानस्य प्रेम सखि ! मे स्थान एव यतः स्थितम् ॥ अस्यैव विवृतियथा-- तातश्चापभृतामवाप्यचरणश्चिन्तामणिर्मातुलः साक्षात्वं च धनुर्द्धरः सुत ! कथं शेषेत्र भूमण्डले । ज्ञातं त्वन्मरणात्परोऽस्ति कृतिमान्देवः स्वतन्त्रः प्रभु- र्माया कल्पितमेव याति नतु सत्तचोत्तरेणापि सत् ॥ इत्यभिमन्यु............। स्वास्थ्य विज्ञेयरूपाणामपरमेमजन्मनाम् । तदीयोऽहं मदीयस्त्वमिति भेदधियां लयः ॥ १० ॥ स्वास्थ्य इति । ननु तत्वज्ञानात्पूर्वभाविनः सन्तृप्तप्रेम्णः साध. नरूपत्वं तदुत्तरभाविनस्तस्य फलत्वमिति को नियमस्तत्राह- स्वार्थ एव सुविश्रान्तं फलप्रेप निगद्यते । स्वार्थ एवेति । तथाचतरानङ्गफलीभूतप्रेमेत्यर्थः। ननु जीवन्मुक्तेषु सात्त्विकभावविलोकनेन सिद्धस्तत्र प्रेमा परं तु नायं फलात्मकः सात्त्विकभावहेतुत्वादत आह- जीवन्मुक्तेषु दृश्यन्ते साचिकास्तावतापि किम् ॥ १०१॥ तेऽनुद्देश्या न बाधन्ते फलतां प्रेमवर्तिनीम् । जीवन्मुक्तविति । मतान्तरमाह- गुणानुबन्धिना हेतुः साध्या गुण्यनुबन्धिनी ॥ १०२ ॥ गुणेति । गुणप्रेमप्रयुक्तं यदा गुणिनि प्रेम तदा तत्प्रेम साधन ७० प्रेमरसायनस्य प्रेमविभागखण्डे - मित्युच्यते । यदा तु गुणप्रेमपरिपाकप्रयुक्तं गुणिन्येव प्रेम विश्रान्तं न गुणेषु तदा तत्प्रेम फलावस्थमित्युच्यते । नन्वेतत्कस्य मतं तत्राह-- भक्तिरेषा द्विधेत्याह तन्त्रामृतकविः स्वयम् ॥ १०३ ॥ भक्तिरिति । एतन्नये ज्ञानात्पूर्वभाविनि सन्तृप्ते यथा न फलरूप- तापत्तिस्तथा सुधीभिः परिचिन्तनीयमित्याह हरिदास इति दिक् । ननु तथापि प्रेम्णः सुखदुःखाभावभिन्नत्वेन पुमर्थत्वं दुर्लभं तत्राह-- मुखदुःखात्ययाद्भिन्ने प्रेम्णि चेन पुमर्थता । सममज्ञाननाशेऽपि सुखे सिद्धे न साध्यता ॥ १०४ ।। सुखेति । सुखे चिद्रूपे ! तथा च प्रेम्णोऽपुरुषार्थत्वमाशङ्कमानस्य तवापि वेदान्तिनो मते पुरुषार्थपदार्थो दुर्लभ एव । नन्वज्ञाननिवृत्त्युपलक्षितमानन्दस्वरूपं पुमर्थ इति चेत्तत्राह-- अवच्छेदकता तुल्या प्रेम्ण्यज्ञानविनाशवत् । अवच्छेदकतेति । ननु प्रेमोपलक्षितानन्दत्वेन न पुमर्थता तस्य प्रागेव सिद्धेः। अज्ञा- ननिवृत्तिसमयोत्पन्नप्रेमोपलक्षितानन्दत्वेन पुमर्थतोक्ती तु लाघवाद- ज्ञाननिवृत्त्युपलक्षितानन्दत्वेन सास्त्वत आह- लाघवात्सा विजातीये प्रेम्ण्येव परमार्थता लाघवादिति । लाघवं च विजातीयत्वनिवेशापेक्षया । वैजात्यं तु प्रेमगततत्त्वज्ञानजन्यतावच्छेदकतया सिद्धमतो न गौरवम् । नत्वज्ञाननाशोत्पत्यनन्तरमेव यत्र विदेहमुक्तिस्तत्र का गतिर्वि. जातीयप्रेम्णोऽवस्थानासम्भवात्तत्राह- अज्ञाननाशकालोत्थप्रेमा पातेऽपि वर्मणः । तिष्ठेदेव विदेहाख्या मुक्तिरेवेति गीयते ॥ १०६ ॥ अज्ञानेति । वर्मणः शरीरस्य । एतेन सदेहं प्रेम जीवन्मु. क्तिरिति फलितम् । ननु देहपाते प्रेम्णोऽवस्थानमसङ्गतमित्याशङ्को मतान्तरोद्भावने नापाकरोनि । - विदेहमुक्तावपि प्रेम्णोऽवस्थानकथनम् । ज्ञानज. मुखाभिवेदनं नित्यं मुक्तिभेदोऽपि यज्जगौ । प्रेम्णो भेदो मतादस्मात् ज्ञानात्मेमाधिकं यतः ॥१०७॥ सुखेति । यथा भट्टमते नित्यसुखसाक्षात्कारस्य ज्ञानविशेषरूपस्य देहपातऽव्यवस्थान तथास्माकमपि इच्छाविशेषरुपप्रेम्णोऽवस्थान. मित्यर्थः । ननु तर्हि भट्टमतमेवादरणीयं मास्तु ते इच्छाविशेषरूप- प्रेमोक्तिरित्यत आह-प्रेम्ण इति । अधिकमिति ज्ञानस्येच्छायामङ्गभूः तत्वादिच्छायास्तु स्वविषयमात्रविश्रान्तत्वादिति भावः । न्यफलरूपत्वादिति भावः । मतान्तरमाक्षिपति-- भोक्तव्यदुःखनाशोऽपि भोगात्तत्वधिया तु किम् । भोकव्येति । अभोक्तव्ये तु दुःखे मानाभावात्तन्नाशः सुतराम लीक इति भावः। नन्वात्यन्तिकत्वविशेषणायात्मतत्वज्ञानमपेक्षितं तत्राह-- आत्यन्तिकत्वधर्माशो दुःखहेतोरभावतः॥ १०८ ॥ आत्यन्तिकत्वेति । स्वसमानाधिकरणदुःखासमानकालिकत्व- स्यात्यन्तिकत्वस्य दुःखसामग्रथभावनिबन्धनतया नात्यन्तिकत्वांशे- ऽपि तत्त्वज्ञानोपयोगः । ननु "दुःखेनात्यन्तविमुक्तश्चरति" इति श्रुतिबलाद्विशिष्टो दुःख. ध्वंसः साध्यो न केवलं विशेषणमेवेति चेत्तत्राह-- वस्तुतत्त्वं श्रुतिब्रूते जनकत्वं न जन्यताम् । वस्त्विति । ननु मास्तु प्रारब्धदुःखनाशस्तत्वज्ञानस्य फलं किन्तु सश्चित. कर्मनाशस्तत्राह-- सञ्चितक्लेशनिर्मुक्तिन मुक्तिरपुमर्थतः ॥ १०९ ॥ सञ्चितेति । अपुमर्थत इति। सुखदुःखाभावान्यतरभिन्नत्वादित्यर्थः। नन्धसौ मुक्तौ व्यापारोऽस्तु, तत्राह-- मुक्तिस्वरूपालामे तु व्यापारोऽपि कथं भवेत् । मुक्तीति ।

७२ प्रेमरसायनस्य प्रेमविभागखण्डे - ननु दुःखानुत्पादः सास्तु तत्राह-- नानुत्पादस्तु दुःखानामसाध्यो मुक्तिशब्दभाक् ॥ १० ॥ गौणी चेत्साध्यता वाच्या सम्भवे मुख्यसाध्यता । नानुत्पाद इति ! सम्भवेति । यदा तत्त्वज्ञानसत्वं तदा दुःखानु त्पादः यदा तत्त्वज्ञानाभावस्तदा दुःखमित्यन्वयव्यतिरेकोल्लेख्या साध्यासाध्यसाधारंणीत्यर्थः। सम्भवे साध्यता गौणी न वाच्या निष्पयोजना ।। १११ ॥ गौणी-योगक्षेमसाधारणी। दानी विदेहमुक्ति पक्षभेदेन दर्शयति- धारा वाऽखण्डता वापि प्रेम्णः माञ्चितनाशतः । देहग्रहणविक्षेपनिवृत्त्या सुस्थिरा हि सा ॥ ११२ ।। धारेति । सान्धाराऽखण्डता वा । ननु- पक्षद्वयं कुतस्तत्राह-सञ्चितेति । सञ्चितनाशे सायुज्यापत्तिस्तत्राह-- सायुज्यस्य प्रसक्तिस्तु जीवत्वं चित्ततो यदि । सायुज्यस्येति । चित्तत: चित्तोपाधेः। ननु तत्त्वज्ञानस्य प्रेमाशाननिवृत्तिश्चोभयं कार्यम् । तत्केयं ला. घवगौरवचिन्तेति । तत्राह- अज्ञानविलयस्तावत्तत्त्वज्ञानेन जन्यताम् ॥११३॥ तावतापि तमादाय न मुक्तिपदशक्यता । अज्ञानेति । मुक्तिपदवाच्यतावच्छेदके गौरवप्रसङ्गादितिभावः। गुणाकरस्तु। ततायसि सलिलविन्दोरिव चरमदेहपातसमये फलीभूतप्रेम्णो भस्मीभावोपगमात्तादृशप्रेमभस्मोपलक्षितमात्मस्वरूपं पुमर्थो द्वैताद्वैतमतसाधारणः । अनन्तजन्म सम्भूताराधनासाधनार्जितम् । प्रेम यस्य हरौ लीनं स मुक्तपदवीं गतः ॥

प्रेमवर्णने कतिपयप्रकाराः । ७३ - , इति नारदपञ्चरात्रादित्याह । ननु चरमप्रेम्णि श्रवणादिनवविधभक्तिसाध्यत्वं श्रूयते तत्कथ. मिह तन्नरपेक्ष्येणोप्तादिप्रेमसाध्यत्वमुच्यते तत्राह-- उप्तादिभूमिकावस्था श्रवणादिर्न भूमिका ॥ ११४ ॥ उत्तेति । तथाहि। श्रवणतण्यकारिण्युप्ते शब्दज्ञानतजन्यवाक्या. र्थज्ञानोभयरूपस्य श्रवणस्य कलितोत्तरभाविनि दलिते कीर्तनस्मर. णयोः,कलिते कीर्तनवन्दनार्चनपदसेवनप्रेमविशेषरूपसख्यानां,विहृते दासचरितस्यव प्रीतिफलकस्य कर्मणो दास्यरूपस्य, गलिते स्व. स्यार्पणेन निजयोगक्षेमचिन्तायामनभिनिवेशस्यात्मनिवेदनस्याव. स्थात्वान्न भूमिकात्वम् । भक्तिरत्नाकरग्रन्थवाणितं पारिभाषिकम् । श्रवणादि तदर्थस्तु फलम्णि फलात्मकम् ॥ ११५ ।। भक्तीति । पारिभाषिकमित्यादि । अन्यदीयवचने तस्य तदीयस्य वोक्तितादात्म्यभ्रमरूपमाद्यं फलीभूतम् , नामादिस्खलनं द्वितीयम् , प्रायशश्चित्तादनपाकरणं तृतीयम् , अनवरततदीयचरणसामीप्या. भिलाषरूपं चतुर्थम् , सेवनोत्कण्ठासातत्यं पञ्चमम् , वन्दनौत्सुक्या. दुपरमः षष्ठम् । इतरविषयेष्वनादरः सप्तमम् , प्रायस्तनायीभवन. मष्टमम् , आत्मविस्मरणं नवममिति भक्तिरत्नाकर ग्रन्थेऽभिहितमपि फलरूपे प्रेम्णि फलात्मकावस्थारूपमेवेत्यर्थः । ननु सन्तृप्ते कथं शबलप्रेमफलात्मतादृशश्रवणादीत्यत्राह- अत्रापि शबलप्रेमसंस्कारादिदमिष्यते । अत्रापीति । अत्र-सन्तृप्ते । इदंपारिभाषिक श्रवणादि । "आ. त्मारामाश्च मुनयो निन्था अप्युरुक्रमे । कुर्वन्त्यहैतुकी भक्तिमि त्थम्भूतगुणो हरिः ॥” इति स्मरणादिति भावः । इदानी प्रेमवर्णनायां कतिपयप्रकारान् दर्शयति- वाच्यत्वमपहायैव प्रेमवर्णनमिष्यते ॥ ११६ ॥ वाच्यत्वमिति । व्यक्तिवेद्यत्वमुचितमिति भावः । तत्र द्वयमपि अपि सन्निहिते रमापतेः प्रतिपत्तिं जनयन्ति नेन्द्रियाणि । त्वयि याततमेन चेतसा सममेषां न कदापि योगिता॥ अत्र श्रीकृष्णकर्तृकं प्रेम त्वदेकत्वं ब्रवीतीति सखीभी राधां प्रति प्रतिपाद्यत इति व्यङ्ग्यम् । -- यथा- प्रेमरसायनस्य प्रेमविभागखण्डे- अन्यदप्याह- प्रेमाविष्करणं कार्यमद्धा योगविवर्जिते ।। ११७ ।। साक्षाद्योगशालिनि प्रेमाविष्करणापेक्षया व्यवहितसम्बन्धे वस्तुनि प्रेमाविष्करणं न्याय्यमित्यभिप्रायः। यथा- वत्स ! राममनुगच्छ महेच्छं स्वच्छशीलमनुशीलितलीलम् । . त्वत्कृतोचितपदाब्जसपर्यः संस्मरिष्यति स मां जननीषु ॥ अत्र सुमित्रया श्रीरामानुयायिलक्ष्मणमनाइत्य श्रीरामप्रेमावि. करणं कृतम् । - यथा वा- यासि याहि सह बन्धुनामुना वार्यसे न पुनरुच्यसे मया । त्वं तथाचर चरित्रमुच्चकैर्मामयं सुतवती यथा वदेत् ॥ इति लक्ष्मणं प्रत्युक्त्वा- सौजन्यशीलभरमण्डितमौनवृत्ति- रेका परा तु परवैरधराधमैव ॥ अन्या पुनस्तु गुणहीनतयां न गण्या स्वं तात ! याहि जननारहितोऽसि येन ॥ इत्युक्त्या श्रीरामप्रेमाविष्कृतम् । यथा वा- शतधा गर्हिता तात! त्वन्मातुर्भरतप्रसूः । नवनीतमयी सूनी सैषा यममयी हृदा ॥ यथावा- स रामो विपिनं यातु कैकेयीहर्षनोदितः। त्वं वसात्रैव मा याहि नेत्रयोरसि जीवनम् ।। अत्र कौशल्यया श्रीरामे प्रेमाविष्करणमकृत्वैव लक्ष्मणे प्रेमा. विकृतिः कृता। यथा वा- निजरथपरिसर्पचक्रनामानुबन्धा- द्धटयति धनकोकानेकशोकापनोदम् । अनुदिनमुदितात्मा भानुमास्तेन जाने जगति परमचारु प्रेमभाजां चरित्रम् ॥ अत्र रविसेवानुरक्तचक्रे प्रेमाविष्करणमकृत्वैव रवेश्चक्रवाकेषु तहर्शितम् ।

प्रेमवर्णनेऽनुचितप्रकारा। इदानी प्रेमवर्णनायामनौचित्यप्रकारान्समासतो दर्शयति- येन येन प्रकारेण प्रेम्ण्यनौचित्यमापतेत् । तं प्रकारं विहायैव प्रेम वर्ण्य प्रयत्नतः ॥ ११८ ॥ प्रेमिण क्षयित्ववर्णनमनुचितम् । यथा-- यन्मया साधितं प्रेम प्रयत्नेनापि भूयसा । कालपक्केन वयसा सहसा तद्यपोहितम् ॥ अत एव- तीर्णा बाष्पपरम्परैव सरितां वृन्देषु कः सम्भ्रमः सोढा कातरदृष्टिरेव कियती वज्राभिघातव्यथा । श्वासा एव नतभ्रुवो न गणिताः के नाम झञ्झानिलाः प्रेमैवायमुपेक्षितो यदि पुनः प्राणेषु कोऽनुग्रहः ॥ इत्यभियुक्तपद्येऽयमितिपदेन प्रत्यक्षनिर्दिष्टे प्रेमिण प्रेमविषयसा. निध्यसम्पादनरूपप्रेमफलस्यानाश्रयणादुपेक्षितत्वमात्रमुक्तं न तु त्यक्तत्वमभिहितम् । अत एव प्रेमफलस्य प्रेमविषयसान्निध्यसम्पाद. नरूपस्याकरणे निन्दा श्रूयते । यथा- श्रिया गेहे मयारण्ये रामस्त्यक्तस्त्वया पथि । वद मुद्रे! पुरस्त्रीषु प्रत्ययं कः करिष्यति ॥ किं बहुना निषेध्यत्वेनापि क्षयित्वाभिधानमनुचितम् । यथा- रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्पराश्रयम् । विभक्तमप्येकसुतेन तत्तयोः परस्परस्योपरि न व्यहीयत । अत्र परस्परस्योपरि वर्द्धतेस्मेत्युचितम् । एवं प्रेम्ण्यन्यादृश. विषयाधारयोर्वणनमनुचितम् । अत एव मत्स्यकूर्मादिविषयं भक्त- सम्बन्धि प्रेम न वर्णनीयम् । यत्रोत्प्रेक्षासमर्थितेनार्थेन प्रेम सम. र्थ्यते तत्र तस्य प्रेम्णोऽन्याहशेऽप्याधारे वर्णनमुचितम् । यथा- सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुाम् । अदृश्यत त्वचरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥ अत्र नूपुरे चरणारविन्दविश्लेषदुःखात्प्रेक्षासमर्थितमौनेन ता. इशचरणारविन्दविषयकप्रेम समार्थतम् ।

प्रेमरसायनस्य प्रेमविभागखण्डे-- -- यथावा- जरया बत दुर्भगश्रिया प्रसभं मे परिशीलितात्मनः । वनितेव मनोहराकृतिः कविताप्यद्य मुखं न चुम्बति ॥ अनोत्तरार्द्धवाक्यार्थसमर्थनार्थमुत्प्रेक्षां विना विषयप्रेम जरा. यामाविष्कृतम् । सामान्यतोऽनुचितार्थकपदोपादानमप्यनुचितम् । तत्र कचित् प्रेमविषयाधारविशेषणात्मकमन्यद्वा । यथा-- अपि शूलधरो निरामयः शवमुण्डाभरणोऽपि पावनः । अपि भैक्ष्यचरो महेश्वरश्चरितं ते निखिलं विलक्षणम् ॥ यथा वा- न चेतश्चाम्पेयस्तबकमकरन्देऽपि रमते समुत्कण्ठा काचिन्न च विकचपुन्नागमुकुले । न हृद्ये मल्लीनामपि मधुनि वाञ्छ। मधुलिहः समाधाय त्यक्तो यदवधि लवङ्गीपरिमलः ॥ अत्र प्रेमविषयलवङ्गीसम्बन्धिपरिमलस्य त्यक्त इति विशेषणमनु. चितम् । समानातो देवादिति तु युक्तः पाठः । उचितार्थकपदोपादानं तु प्रेमिण समुचितम् । यथा-- कृत्वा प्रबुद्धकमलामखिलां धरित्री- मम्भोनिधेर्विशति गर्भमसाविदानीम् । अन्तःप्रसुप्तहरिनाभिसरोजबोध- कौतूहलीव भगवानरविन्दबन्धुः ॥ अत्र भगवन्नाभिसरोजविषयकप्रेमिण प्रतिपाद्यमानेऽरविन्दवन्धु रित्युचितं पदम् । एवमनुचित घटनाप्ययुक्ता । यथा-- त्वय्येव जीर्णतां यातु यत्त्वयोपकृतं हरे! नरः प्रत्युपकारार्थी विपत्तिमभिकाङ्क्षति ॥ अत्र प्रेमविषयस्य रामस्योपकारकं हनूमन्तं प्रति नरसामान्ये. नोपकारकनिष्ठविपद्वाञ्छाप्रतिपादिकोक्तिर्न युज्यते । त्वदलङ्कतिरेवास्तु यत्त्वयोपकृतं हरे !! परोपकारकर्तृणां विपदो ह्यापदं गताः ॥ इति तु घटना समुचिता । एवं “नमस्तस्मै कृती येन मुधा राहुवधूकुचौ'' इत्यत्राप्यरसिकत्वप्रतीत्या भकतनमस्काराभिव्यङ्ये -- .

प्रेमविषयेऽनुचित प्रकाराः । ७७ प्रेम्णि अनुचितत्वं पर्यवस्थति । "दैत्यार्तभूपकुलजस्त्रीकुचोल्लासिने नम" इति पाठे तु न कापि क्षतिः । एवं नायकविषयनायिकाकृतानुः नयपल्लवनमनुचितम् । एवं प्रेमाधारण वहुतरस्यानुनयस्य वचसा प्रदर्शनं प्रेमविषये न कार्यम् । यथा-- यत्कृते किं न विहितं मयाहङ्कतिमुज्झता। तथापि राधे ! नाद्यापि जातासि प्रणयोन्मुखी ।। उक्तिविशेषेण तु स्वकृतबहुतरानुनयप्रतिपादनेऽपि न दोषः । यथा- तासां मयि कथं प्रेम नेक्षिता हेलयापि याः। कृताराधनसङ्घापि राधे ! त्वं नासि रागिणी॥ प्रेमविषयभिन्ने तु प्रेमाधारस्य प्रेमविषयगोचरं बहुतरस्वानुनयः प्रदर्शनमुचितम् । यथा-- तत्कृते किं न विहितं भवत्योऽपि नता मया । तथापि दूति ! सा राधा न मनागपि तुष्यति ॥ सख्यादेरपि प्रेमविषयेऽन्यत्र वा प्रेमाधारस्य पृथुतरसेवाप्रदर्श- नमुचितम् । यथा-- त्वत्कृते विहितं घोरमनया विपिने तपः । तथापि शम्भो ! नोदेति भवतः करुणाकणः॥ यथा-- यत्कृतं भाममनया चरितं विपिने तपः । तथापि स महेशानो धातस्त्वमिव निष्ठुरः॥ एवं प्रेमाधारस्य समासादितप्रेमकलहं प्रेमविषयं परित्यज्य विपिनगमनादिकमनुचितमित्यादि बोद्धव्यम् । एवं कार्यमुखेन प्रेमण्या शंसितत्वस्य वर्णनमसमञ्जसम् । यथा-- निधेहि विपुलं प्रेम मयि स्वाघ्रिसरोरुहो। तदेव देव ! निर्वेधकामधाम भविष्यति ॥ अत एव- या लोभाद्या परद्रोहाद्यः पात्रे यः परार्थतः । मैत्री लक्ष्मी व्ययः क्लेशः सा किं सा किं स किं स किम् ॥ इत्यादि शास्त्रमुपपद्यत इत्यलं पल्लवितेन।

७८ प्रेमरसायनस्य प्रेमविभागखण्डे- स्वोचिताचारेणान्यगतोचिताचारेण स्वगतानुचिताचारेण परग- तानुचिताचारेण दोषाणामुपेक्षणीयत्वप्रकाशनेन च स्वनिष्टं प्रेमाभि- व्यज्यते । क्रमेणोदाहरणानि-- सम्प्रेषितायाः प्रभुणोर्मिकायाः शाखामृगेणादरतोऽर्पिताया। चिरं चकारावनिभूः क्रमेण शिरोऽक्षिवक्षस्थलसन्निवेशम् ॥ अनादरसमर्पणरूपोचितक्रियया स्वनिष्ठया स्वनिष्ठरामविषयक प्रेम हनुमता व्यज्यते सीतयापि तादृशसन्निवशेन । द्वितीयं यथा-- मयि सम्यकृतं वैरप्रतीकाराय पातकैः । अर्श करुणाम्भोधेस्तस्यैवालयपद्धतिः॥ अत्र पातकगतोचिताचारक्रियया पापाश्रयण स्वनिष्ठमीशविष. यकम्(१)॥ तृतीयं यथा- ऐशं शापमचेतनं न जयितां जाने तदुच्छेदना- द्यः पन्थानमरुद्ध वन्द्यचरणस्तच्छासनं कः स्तवः । यश्चापि न्यपतच्छिरोभिरवनौ लोऽपि स्वकीयानयै- मत्तो विक्रम एष एव समभूद्यजानकीमत्यजम् ।। अत्र स्वगतजानकीत्यागरूपानुचिताचारेण स्वनिष्ठंजानकीविषयम् । चतुर्थ यथा- रामराज्यविषये रुरोद यत्सा प्रतिश्रुतवरा तदौचिती। तन्मुखेक्षणविधावियं कुतो रोदितीह मम लोचनद्वयी ॥ अत्र कैकेयीगतानुचिताचारेण दशरथेन स्वनिष्टं रामविषयम् । पञ्चमं यथा-- बाल्य एव गुरुगेहमागता नाधुनापि निपुणा क्रियाविधौ । प्रार्थना भवति राम! मामकी पाल्यतामविनयापि जानकी ।। अत्रानपुण्यदोषस्योपेक्षणप्रकाशनेन जनकेन सीताविषयमात्म- निष्ठं प्रेम प्रकाश्यते । अत्र जनकोक्तौ जानकीपदगम्यो जनकः पारो. श्येण निर्दिष्टः । तत्फलं साधुत्वपक्षपाताभावप्रतिपत्तिरनौचित्यप. रिहारश्च । तत्राद्योऽत्रैव दर्शितः। अन्त्यो यथा-- येषां निमेषोन्मेषाभ्यां जगतःप्रलयोदयौ। तादृशाः पुरुषा याता मादृशां गणनेह का ॥ (१) प्रेम व्यज्यत इति शेषः। एवमधस्तनध्वपि वाक्येषु योजनायम् ।

उदितगादादिप्रेमवर्णनम् । -- अत्र श्रीमतां कियदायुःपरिमाणमिति श्रीमता रामचन्द्रेण पृष्ट. स्य वशिष्ठस्योक्तिरियम् । लीलावतारा भवतोऽपि याता इति सा. क्षात्कथ्यमानो वृत्तान्तोऽसमञ्जस इति पारोश्येण निर्दिष्टः । अप्रस्तुत. प्रशंसापि पारोक्ष्येण कथनमेव । साक्षान्निन्दास्तुत्योरनुचितयोः परिहारात् । तद्यथा-- अनेकजन्मसंसिद्धपापश्रेणिरियं किल । सखि ! बुद्धिविहानानां मानिनां यत्प्रबोधनम् । अत्र राधाविषये कृतमानं श्रीकृष्णं पुरस्कृत्य सखी प्रति दूत्या उक्तिः । शीलसौजन्यवात्सल्यवुद्धिवैदग्ध्यशालिनीम् । या मेलयत्यनायासात्तस्याः कौशल्यविद्विधिः ॥ इत्यधिकमाकरादाकलनीयम् । अन्यदप्याह- उदयादिमुखैरेतद्गदितं चारुतां ब्रजेत् । उदयादीति । एतत् प्रेमेत्यर्थः । उदयादिनेत्यत्रादिना गाढत्वोदो धादिपरिग्रहः । तत्रोदयो द्वेधा । स्वरूपेण क्वचिदुत्कर्षेण । तत्राद्यो यथा- अनन्तजन्मार्जितपुण्यरूपा वैखानसानां प्रसमीक्ष्य लीलाः । तत्पादपङ्केरुहसन्निधानस्थितौ बबन्धादरदाम रामः॥ अत्र श्रीरामे वैखानसविषयं प्रेमोदितमिति कविना वर्णितम् । उत्कर्षेण प्रेमोदयो यथा- सीताकृतैर्मधुरलोचनसन्निवेशैः सम्भाषणैदृढतरैः परिरम्भणैश्च । सञ्जातहर्षपुलकावलिराकुलः सन् देहे ममौ न दिननाथकुलावतंसः॥ अत्र चिरविप्रयुक्तसीताकृतपरिरम्भणादिना श्रीरामे सीतावि- षयकोत्कृष्टप्रेमोदयो वर्णितः। गाढत्वेन प्रेमवर्णनं यथा- तदीयं बलमालोक्य गतःप्रेयान् नियुज्य मे । कथमालोकये सख्यस्तस्य चन्द्रमसो मुखम् ॥ यथा वा प्रागुक्तमुदाहरणम्- प्रियं तु पृष्ठतः कृत्वा विधाय तनुविस्तृतिम् । सजचापस्य लुब्धस्य पुरोऽभूच्चक्रकामिनी ॥ इति । - प्रेमरसायनस्य प्रेमविभागखण्डे- .C यथा वा-- प्रियं हृदि स्थितं नातुं मारमुक्तशराद्वधूः । करोति कवचं साम्बु पद्मिनीपल्लवोत्करम् ॥ यथा वा- अस्तु म्लानिर्लोको लाञ्छनमपदिशतु हीयतामोजः । तदपि न मुञ्चति स त्वां वसुधाछायामिव सुधांशुः॥ यथा वा- त्वदन्तिकादेव समागतं सा मत्वाखिलं लोकमनन्यवृत्तिः । वार्ती मुहुः पृच्छति तावकानां श्रुत्वापि तामश्रुतवद्विधत्ते ॥ अत्र प्रेम गाढत्वेन दर्शितम् । उद्बोधेन यथा-- गलद्वाष्पश्रेणीचकितनयनालोचितककुप् शनैर्मुक्तश्वासा परिकलितमौनाकुलमनाः। प्रियं दृष्टा नानाविधयुवतिसङ्गादतिकृशं समुद्रुद्ध स्वान्ता समजनि नितान्तं कुलवधूः ॥ इत्यादि शेयम्। एतत्प्रकाराविषयं स्वरूपप्रेम गद्यते ।। ११९ ॥ एतदिति । यत्र श्लोक उक्तप्रकारातिरिक्तप्रकारेण प्रेम निरूप्यते सख्यादिभिस्तत्स्वरूपमात्रं प्रेमोच्यते । यथा- अयि वाणि! मृषा नाहं लक्ष्मीस्तस्यास्मि यस्य तु । भार्या वक्षसि किं गौरि ! मौनं ते किंनिवन्धनम् ॥ अत्र किञ्चिदाविष्कृताभिमानां सरस्वती प्रति गौरीसन्निधाने लक्ष्म्या उक्तिः। अस्यार्थः । अयि वाणि! औद्धत्यकारिण्यामपि त्वयि मृद्ववाहं ब्रवीमि इतरस्त्रीवदहं न मृषावादिनी । अर्थात् त्वमिव । का त्वमिति चेत्तत्राह-लक्ष्मीरिति । किमेतावतेति चेत् । तत्राह- तस्यास्मीति । स कस्तत्राह-यस्येति । यस्य वक्षसि भार्यास्ति तस्या. स्मि । तथाचाहमेव तस्य वक्षसि तिष्ठामीति भावः । इत्थं सरस्वती. मभिधाय स्वोक्तार्थे सम्मतये गौरी पृच्छति-किंगौरीति। तथा च त्व. यात्रसम्मतियेति भावः । शिवा ङ्गव्यापितया गृहीताभिमानां वि. ष्णूर स्थलमात्रव्यापिनी स्वमनाइत्यादत्तोत्तरां गौरी प्रत्याह-मौनं ते. किं निबन्धनमिति तथा च मया सह तव का कलहः। प्रियालिङ्गने त्वं चेत् घडलेनाधिकासि अहं वा न्यूनास्मि ततः किम् । एतदपेक्षयावयोः ।

हरिदासादिमतेन स्वरूपमात्रप्रेम्णो लक्षणम् । -- समानप्रतिपत्तिरस्तीति भावः । तथा च पत्यनादृतास्मदाश्रितगृहेषु पर्यटन्त्यस्मत्प्रसादमात्राधीनजीवना किंमषास्मत्पुरः स्वाभिमानमुर- रीकरोति । अत्र परमार्थतस्त्वमपि न मादृशी गौरीत्वादिति लक्ष्म्याः कौटल्यं व्यङ्ग्यम् । अत्र कविना लक्ष्म्यां विष्णुकर्तृकं प्रेम लक्ष्म्युक्तः धचनं पुरस्कृत्य प्रकटीकृतम्। तच्च नोदयादिप्रकारैरिति स्वरूपमा- त्रप्रमेति निगद्यते । यथा वा-- अद्यापि तन्मनसि सम्परिवर्तते में रात्रौ मयि क्षुतवति क्षितिपालपुण्या। जीवति मङ्गलवचः परिहृत्य रोषा- कर्णेऽर्पित कनकपत्रमनालपन्त्या ॥ अत्र मानसमये प्रेमस्थितेराविष्करणादिदमोप स्वरूपमात्रप्रेमेति मन्तव्यम्। एवं प्रेमविषयेण प्रेमाधारे स्वकर्तृकप्रेमाविष्करणं यथा- मद्वाचिकेन वक्तव्यः सुमित्रातनयस्त्वया । भवान्तरेऽपि गुणवान्बन्धुभवतु मे भवान् । प्रेमविषयेण स्वस्मिन् परकृतप्रेमाविष्करणं यथा- अद्य जीव ! तव सैव वैरिणी भूसुता कचिदपि स्थिता सती। यद्विचिन्ततमदीयसेवनक्षमतो.न भवतो विनिर्गमिः ॥ अत्र श्रीरामेण स्वजीवस्त्वद्विषयकप्रेमभाक्सा नेति बोध्यते । प्रेमाधारण प्रेमनिरूपणं यथा- अद्यापि नम हृद्याघ्रियुगं सुग्रीवशर्मदम् । नमग्रीवातिरेकेण सुग्रीवः कतरो भुवि ।। अत्रावाप्तसुतशोकायाःस्वामिजीवनमात्रमाकान्त्याःप्रेमाधारभू. ताया मन्दोदर्याः प्रेमविषये भर्तयुक्तिः । यथा वा- भूमौ स्खलितपादानां भूमिरेवावलम्बनम् । त्वयि जातापराधानां त्वमेवास्यवलम्बनम् ।। हरिदासादयस्तु स्वरूपमात्रप्रेम्णोऽस्य स्वरूपलक्षणमन्याश. माहुः । तथाहि । येन केनचियापारण प्रेम्णि प्राप्तस्य प्राप्तव्यस्य वर्तमानसमये भ्रमात्सम्भावितस्योदितप्रायस्य वाऽनौचित्यस्य कमपि कमनीयं व्यापारमवलम्ब्य प्रेमाधारण प्रेमविषये परिहारः क्रियते तत् शोधिताङ्कापरनामकं स्वरूपमात्रप्रेमोच्यते । - ८२ प्रेमरसायनस्य प्रेमविभागखण्डे- तत्रायो यथा- आगतोऽसि तदैताभ्यां नेत्राभ्यां नासि वीक्षितः। तत्रागो नैतयोरेते वञ्चिते गुरुलज्जया ।। प्रियानवेक्षणरूपेण व्यापारेण पूर्वजातस्य प्रेमविषयानादररूप- स्य प्रेमानौचित्यस्याधारभूतया कयापि गोप्या गुरुलज्जाकर्तृकवञ्चन. रूपं व्यापारमवलम्ब्य परिहारः प्रेमविषये कृशीकृतः। द्वितीयो यथा- अच्युतचरणतरङ्गिणि ! शशिशेखरमौलिमालतीमाले ! त्वयि तनुवितरणसमये हरता देया न मे हरिता ॥ अत्राच्युतचरणतरङ्गिणीत्वेन गम्यमानेन निजचरणब्यालुण्ठन- व्यापारण प्राप्तव्यस्य प्रेमविषयगङ्गानादररूपस्य प्रेमानौचित्यस्य गङ्गाविषयकप्रेमभाजा कनचित् हरतायाचनरूपं रमणीयव्यापारमा. साद्य प्रेमविषये गङ्गाया परिहारः कृतः। तृतीयो यथा- वीतरागं न मां विद्धि भद्रे! काषायवाससा । सम्भृतस्वान्तरागो हि बहिर्वसनमागतः ।। अत्रार्य सम्प्रति परिधृतकाषायवसनो मयि रागरहित इति त. क्र्कयन्ती कांचित्प्रति अनुरागशालिनः कस्यचित्काषायवसना- धिवासिनो यतेरियमुक्तिः । काषायवसनधारणरूपव्यापारेण प्रेमवि. षयसम्भावितस्य प्रेमक्षीणत्वस्य प्रेमानौचित्यस्य तादृशनायिकावि. षयकप्रेमशालिना यतिना रागकर्तृकवसनप्राप्तिरूपं व्यापारचमत्कृत. मादाय प्रेमविषये नायिकायां परिहारो रचितः । यथा वा- लङ्काराज्यं तत्त्वतस्तात! तस्याः कान्तो यस्याः सगरेउभेदि बाणैः। लब्ध्वा राज्यं माकृथास्तत्र हेलां सत्यामुच्चैर्मादृशः सानुबन्धाः ।। अत्र श्रीरामेण मन्दोदरीप्रेमविषये स्वानुरागाभावभ्रमेण विभी. षणकर्तृकावहेलारूपानौचित्यस्य स्वानुबन्धरूपव्यापारप्रकाशनेन प. रिहारः कृतः। चतुर्थो यथा- पझे! त्वन्नयने स्मरामि सततं भावो भवत्कुन्तले नीले मुह्यति किं करोमि महितैः क्रीतोऽस्मि ते विभ्रमैः । इत्युत्स्वप्नवचो निशम्य सहसा निर्भत्सितो राधया कृष्णस्तत्परमेव तद्यपदिशन् प्रेमाकुलः पातु नः ॥

अपन्हुतादि प्रेमलक्षणोदाहरणानि ! ८३ -- अत्रोत्स्वप्नवचोलक्षणव्यापारणोदितप्रायस्य प्रेमविषयानादररूपस्य प्रेमानौचित्यस्य प्रेमाधारेण श्रीकृष्णेनोत्स्वप्नवचोऽर्थान्तरप्रकाशनरूप. मधुरव्यापारेण प्रेमविषये राधायां परिहारो निर्मितः। यथा वा-- निजगेहे समायान्ती राधां गुरुजनाकुले । दृष्टानुनयमारेभे सूर्योपस्थानकैतवात् ॥ अत्रानुनयानाचरणरूपव्यापारणोदितप्रायस्य प्रेमविषयानादर- रूपप्रेमानौचित्यस्य परिहारः कृतः। अपरं वा- वदन्ती जारवृत्तान्तं पत्त्यौ धूर्ती सखीधिया । पति वुध्वा सखि ! ततः प्रबुद्धास्मीत्यपूरयत् ॥ अत्र जारवृत्तान्तकथनरूपेण व्यापारेणोदितप्रायस्य स्वकृता. नादररूपस्य स्वविषयकपतिनिष्ठप्रेमानौचित्यस्य प्रबुद्धास्मीति पूर- णेन परिहारः कृतः । यद्यप्यत्र प्रेमाधारकर्तृको नायं परिहारस्त. थापि प्रेमानौचित्यपरिहारमात्रस्य स्वरूपप्रमतयाऽव्याप्त्यनवका. शात् । एवं प्रकारान्तरैरपि परिहारोऽवसेयः॥ यत्र स्वगतं प्रेमान्यत्रारोप्य स्वसिमस्तदभावप्रदर्शनेन परिणामे स्वस्मिन्नेव दृढीक्रियते तदपन्हुतं प्रेमोच्यते । तद्यथा- नेत्रद्वयीं समालिङ्गय क्षणं स्थित्वा च धूमवत् । स निर्गतोऽधुना सैव वारिधारा विमुञ्चति ॥ अत्र मामपरिचितामिव विधाय मन्नेत्रद्वयीकृतालिङ्गनः क्षण. मात्रमेव तत्सविधे कृतासनो धूमवत् केन पथा क निर्गत इति न लक्षितः। इदानी नेत्रद्वय्येव रोदिति तद्विषयकप्रेम्णः फलं ब्रूते । एव. कारान्नाहं तादृशफलभाक् सम्यगेवैतद्वत्तमन्यथा ममाप्येतद्रुदितं स्यादिति कस्याश्चिन्नायिकायाः सखी प्रत्युक्तिः । अत्र परिणाम स्व. विषयकं प्रेम दत्त्वा गतः स इति स्वकर्तृकप्रेम्णो गोपनादपन्हुतं प्रेमेति ज्ञेयम् । यत्र तु सुखजनकव्यापारेण दृष्टेन श्रुतेन वान्यविषयकमन्यनिष्ट प्रेम तटस्थस्य गोचरोऽपि दुःखनिराकरणव्यापारेण नियतं व्यक्त तद्विवृतं प्रेमोच्यते । - ८४ प्रेमरसायनस्य प्रेमविभागखण्डे- उदाहरणं यथा- सहसीतेन रामेण पुरः सञ्चारिणाध्वगाः। लीलारोपितबाणेन वारिताः कण्टकादयः ॥ अत्र वनवासिनां सान्निध्येन व्यापारण सीतायां रामकर्तृकं प्रेम जानतामपि श्रीरामकर्तृककण्टकादिनिराकरणव्यापारेणातितरां विदितमभूत॥ यत्र तु गूढवाक्यार्थोऽनवगतो यावद्वाक्यं स्वबोधनक्षममपेक्षते ततः पूर्वमेव प्रवृत्तेनाभिनयरूपव्यापारेण बोधितस्तेन प्रतीयमानं प्रेमाभिनेयमित्युच्यते। यथोदाहरणम्-- प्रणयकुपितप्रियापदलाक्षासन्ध्यानुबन्धरुचिरेन्दुः । तद्वलयकनकनिकषग्रावग्रीवः शिवो जयति ॥ अस्यैव नटाभिहितवाक्यस्य पूर्वार्द्ध पुरोभवता परस्परसंयुक्तः पताकाद्वयेन प्रणामः, उत्तरार्द्ध ग्रीव इत्यन्तेन क्रोडीकृतभुजलतायुगलेन व्यापारेणालिङ्गनविशेषश्च प्रतिपाद्यते । ततोऽभिनयद्वयसहकृतेन जयतीत्यनेनोवुद्धं शिवविषयं गौरीनिष्ठप्रेमाभिनेयमित्युच्यते । न चात्र श्लोके प्रणामादिकं शब्दव्यङ्गयमवास्त्विति वाच्यम् ।शब्द. व्यङ्ग्यतापेक्षया अभिनयव्यङ्ग्यतायां माधुर्यात् । अत एवोक्तं सङ्गीतार्णवे-- वाच्यतापेक्षयार्थस्य शब्दोत्थव्यङ्ग्यतोचिता। ततोऽप्यभिनयात्तस्य सातीव हृदयङ्गमा ॥ इति । ये वनाचक्षते-योऽर्थः पूर्वशब्देन प्रतिपादितः स एवाभिनयेन पुनर्बोध्यमान अभिनेय इत्युच्यते इति । तद्परे न क्षमन्ते । बोधितस्य पुनर्बोधने फलाभावात् । अथ देशकालवयोऽवस्थागुणक्रियाजाति- कार्यकारणादिरूपस्वभावमुखेनाभिनेयार्थस्य प्रतिपत्तिरेव फल. मिति चेत्, सत्यम् । विवक्षितविवेके तादृशस्वभावस्यैवाभिनेय तायां पर्यवसानेन शब्दप्रतिपादितार्थस्याभिनेयत्वाभावादिति ॥ यत्र प्रथममाशंसितमन्यदुपलभ्यते पश्चात्तु प्रेम तदाशंसितं प्रेमेत्युच्यते । यथा- त्वदभिन्नमिति ब्रूते जीवमेनमये श्रुतिः । ममायमित्यपि वचस्त्वन्मुखात्तु न निर्गतम् ॥

आशंसितप्रेमलक्षणोदाहरणे । ८५ अत्र त्वदभेदस्य पूर्वमाकासितत्वं गम्यते परिणामे तु तत्क- र्तृकप्रेम्ण इति । यत्र बलवत्तरविरोधिना आशंसितस्नेहः प्रतिबध्यते स प्रति. रुद्धाशंसितस्नेह इत्युच्यते । यथा- रत्नाकरोऽसि हरिणापि समादृतोऽसि मैनाकनामगिरिणापि समाश्रितोऽसि । एकं ब्रवीमि जलधे ! यदि ते न कोप- स्तत्कर्म साधय पयस्तव येन पेयम् । अत्र समुद्रं प्रत्युक्तो सकलमाहितजनविहितजलापानमेव त्वति षयकस्नेहं रुणद्धीति गम्यते । उन्नीतस्नेहो यथा- गज ! पङ्कनिमग्न ! पीवर ! प्रणयी वीरतमो न कश्चन । भवदुद्धरणाय वीक्ष्यतेऽवसरो न क्षणमप्यजस्य तु ॥ अस्यार्थः । हेगज! पङ्कमग्नेन भवताभवदुद्धारः सञ्जातेदृशशोफ- शरीरतया न सम्भावितः । नापि प्रणियिना वीरभिन्नेन तस्याप्य. सामर्थ्यात् । न हन्त प्रणयशून्येन धीरेण, तस्य प्रयोजनाभावात् । न खलु प्रणयवीर्योभयशालिना जनेन, तस्य दुर्लभत्वात् । न पुनरनुक्षण- विविधविश्वनिर्माणकरसशालिना विधिना, तस्य क्षणमप्यवसरा. भावादित्यर्थकप्रकृतश्लोकात् कविनिष्ठविपत्प्रविष्टजनविषयकस्नेहः श्रोतृभिरुन्नीयते । यथा वा- सर्वस्य शोभाकरमस्ति सर्व द्वैतादिदं द्वैतमथान्यदेव । प्रशंसया जीवनमीशनाम्नो मुखारविन्दादपि नावसानम् ॥ यथा वा-- गुरूणामभ्याशे विफलबहलाभ्यासघटने. वृथा नेतुं कालं तव भवति काडलं बत मतिः । अपर्णामन्तश्चेद्भजसि धृतपर्णाशनरति- विलम्बः कः कर्णामृतवचननिर्माणविधिषु ॥ यथावा- दुर्लभौ प्रथममार्यपण्डितो तो पुनर्जडखलौ न दुर्लभौ । आर्यपण्डितजनस्तु दुर्लभो दुर्लभत्ववशतोऽल्पजीवनः ॥

८६ प्रेमरसायनस्य प्रेमविभागखण्ड- - यथा- अत्र यथा वा-- तिलस्य तस्य धन्यस्य रीतिरन्यैव लक्ष्यते । गतासुरपि यो वक्ति सद्यः सुमनसां गुणम् ॥ इत्यादौ कविनिष्ठस्तत्तद्विषयकस्नेह उन्नीयते । गोपायितव्यक्तीकृतानुमोदितगर्हितस्नेहानां क्रमेण प्राचीनोदा. हरणानि । असह्यविरहः शश्वत्लौभाग्यं चारु सूचयन् । प्रजल्पन्मत्पदे लग्नः कान्तः किं नहि नूपुरः ॥ नायिकया नूपुरनिर्देशानायकविषयकस्नेहोऽनाप्तवनितां प्रति गोपायितः। अपि तरुमूले विहितं जलमाविर्भवति पल्लवानेषु । निभृतं यदुपक्रियते तदपि महान्तो वहन्त्युच्चैः ॥ अत्र महद्भिः शिरस्युपकारवहनक्रियया स्वविषयक उपकारक- निष्ठः स्नेहः प्रकटीक्रियते । गोपायितः सन् व्यक्तीकृतो यथा-- हन्तालि ! सन्तापनिवृत्तयेऽस्याः किं तालवृन्तं तरलीकरोषि । सन्ताप एषोऽन्तरदाहहेतुर्नतभ्रवो न व्यजनापनोद्यः॥ अत्र कयापि सख्या पूर्व पद्भङ्गेन गोपायितोऽपि पश्चात्पदैक्येन व्यक्तीकृतः। यथोर्वाक्षः पिबत्यम्वु पथिको विरलाङ्गुलिः। तथा प्रपापालिकापि धारां वितनुते तनुम् ॥ अत्र प्रपापालिकया पथिककर्तृकस्वावलोकनसंसूचितः स्ववि. षयकः पथिकस्य स्नेहोऽनुमोद्यते । ये शिरसि विनिहिता अपि भवन्ति न सखे ! समानसुखदुःखाः। चिकुरा इव ते बाला एव जरापाण्डुभावेऽपि ॥ अत्र सहजरुक्षेषु स्नेहो गर्हित इति निवेद्यते । यत्र प्रेमसम्बन्धिनोऽनुष्ठेयस्य प्रेमविषयकव्यापारप्रयुक्ताननु ष्ठानेन गम्यमानं यत् प्रेम तत् ऊर्जस्वि । यथा-- पीयूषनिस्यन्दि हरे ! यदुक्तं तस्यानुरूपं न हि देयमस्ति । अधोत्सहे जीवितमेव दातुं तस्मिन् दिक्षा यदि नान्तरायः॥ अत्र हनुमतेऽवश्यानुष्ठेयस्यापि. जीवितदानस्य रामादिक्षा. -- ८७ - समाहितसानुशयप्रेमलक्षणोदाहरण । रूपव्यापारप्रयुक्ताननुष्ठानेन सीतायां श्रीरामविषयं प्रेम व्यज्यते । यत्र चान्यवृत्तिधर्मप्रयुक्तः स्वस्मिन्प्रेमानुकूल्याभावस्तत्प्रका. शनमुखेन प्रेम व्यज्यते तत्समाहितं प्रेम । यथा- तदीयविरहप्राप्तिसमयेऽपि न ये गताः । सखि तेऽद्य कथं यान्तु प्राणा मे वृत्तकीर्तनैः॥ अत्र विरहव्याकुलतया नायकविषयकवृत्तस्य कथने आरब्धे सजाताधिकदुःखं प्रति तद्वृत्तकीर्तनं मा कुर्विति सख्या उक्त वि. रहिण्या नायिकाया उक्तिः। प्राणकठोरताप्रयुक्तप्रेमानुकूल्याभाव- वत्या कयापि प्रेम व्यञ्जितम् । यत्र तु प्रेमविषयेण प्रेमाधारेऽनौचित्यप्रकाशनेन तद्विषयं प्रेम व्यज्यते तत्सानुशयम् । यथा- लोकत्रयप्रथितमामकपक्षपान- मुन्मूल्य लक्ष्मण ! सुलक्षण ! किं प्रयासि । भ्रातनिसर्गमृदुशेखरमुक्तनिद्रा त्वां बोधयिष्यति मदनिचिरानुवृत्तिः ॥ एवमेतेऽन्ये च सर्व प्रकाराः कलितचलितप्रेम्णोईशाविशेषा हरिदासग्रन्थादवसेयाः। इत्थं च व्यङ्ग्यतामापन्नं प्रेम त्रिविधम् । प्रेमाधारविषयकं प्रेमा- धारकर्तृकं परस्परकर्तृकपरस्परविषयं चेति । स्पष्टत्वाय पुनरेत. दुदाहियते । तत्राचं यथा- राधैव तावद्भवतानुनेया नाद्यापि ताक्षतमस्ति किश्चित् । पुरस्तु तत्तन्मदलिप्तदासीजनाध्रिपातैरपि नार्थसिद्धिः ॥ अत्र राधा त्वद्विषयकप्रेमभागिति व्यज्यते । द्वितीयं यथा- बोधभक्तिदयोपेतान् मुनीन्वीक्ष्य सुलक्षणान् । रामः सञ्जातपुलकश्रेणिमुग्धवपुर्बभौ ॥ भक्तिमहिमासाधिततीव्रबोधा अपि पुनः सिंहावलोकनन्यायेन साधनीभूतभक्तिनिहितदृष्टय एवम्भूताः कृतकृत्या अपि शरणागत. भवभयभञ्जनचतुरतरा इति बोधेति विशेषणाभिप्रायः। .. - - प्रेमरसायनस्य प्रेमविभागखण्डे- ८८ अत्र मनासम्बन्धः गूढः। तृतीयं यथा- एकदेहे समाविष्टौ रमोमारमणात्मकौ। नरासुरसुरासेव्यौ देवौ कावपि संस्तुमः ॥ व्यङ्ग्यमपि प्रेम पुनस्त्रिविधम् गूढ़ स्फुटमतिस्फुटं चेति । आद्यं यथा-- अनुसम्बन्धिनं याति सम्बन्धी नात्र संशयः। त्वयि याते मनो यातं प्राणास्तत्रैव मे स्थिताः॥ प्रेमात्मको द्वितीयं यथा-- किं पीडयसि निश्शङ्क तद्वत्तस्मारणेन नः। यतोऽस्ति क्लेशधारेव राधा सा व्यस्तवर्णभाक् ॥ अत्र क्लेशधाराहेतुविरहप्रतीत्य नन्तरं राधायाः कृष्णविषयं प्रेम सख्या प्रतिपाद्यते । तृतीय यथा-- त्रियामायामस्यां सुतनु ! यमुनायामिव तर- त्तरङ्गप्रोदञ्चद्विमलदलरक्तात्पलामिव । इयं दृष्टिः शोणा मयि निहितकोणा विजयते त्यज क्रोधं राधे ! मयि निरपराधे कुरु कृपाम् ॥ अत्र कृपया साक्षादेव प्रेम व्यज्यते । न चात्र प्रेमकृपयोरभेद एवेति वाच्यम् । हीनविषयकवृत्तिविशेषस्यैव कृपात्वादिति । इदानी प्रेम फलवदिति दर्शयति-- स्वेनैव जनितैः पूर्व शृङ्गारकरुणालयः । अनुभावैः स्वयं याति स प्रेमोपचयं ततः ॥ १२० ॥ स्वेनेति । अस्यार्थः। शृङ्गारकरुणरसयोर्येऽनुभावाः पूर्वमव्य. कावस्थापनेन येन प्रेम्णा जनितास्तदेव प्रेम तैरेव मिलितैः पश्चा. यक्तावस्थं क्रियत इति । तद्रसद्वयभिन्नानां रसानामनुभावास्तत्तद्र. सस्थायिभिरेव जन्यन्ते न तु प्रेम्णेति विशेषः । करुणस्य तु यः स्थायी स प्रेम्णा जनितः पुरा । तेनैव स्थायिना पश्चाध्यक्ततामेति पूर्ववत् ॥ १२१ ॥ करुणति । येन प्रेम्णा पूर्व करुणरसस्थायी यः शोको जनितस्ते. नैव शोकेन स प्रेमा पूर्वमव्यक्तावस्थापनो व्यक्तता नीयते । रसमात्रस्फुटीभावे हेतुः प्रेम निगद्यते । :

प्रेम्णः फलवत्वादिकथनम् । आह--- रसमात्रेति । प्रेमशून्येऽलौकिकस्य रसस्यानाविर्भावादिति बोध्यम् । उपास्तयोऽपि जायन्ते चित्तशुद्धिविधायिना ॥ १२२ ।। उप्तादिसंज्ञां भजता प्रेम्णेत्यत्र मतं स्थितम् । उपास्तय इति । उपास्तीनां सर्वासां चित्तशुद्धिद्वारोप्तादिसं. ज्ञकप्रेमसाध्यत्वमित्यर्थः। ननु वेदविहितं कर्म चित्तशुद्धः साधकमस्ति तक प्रेम्णेत्यन कर्मापि शोधकं सत्यमशक्ते सुलभं न नत् ॥ १२३ ॥ कर्मेति । आमयादिदोषदृषितेन पुरुषेण शरीरसामर्थ्यसाध्यस्य कर्मणोऽनुष्ठातुमशक्यत्वादशक्ते कर्म दुर्लभमित्यर्थः । इदानीं ग्रन्थान्तं सूचयन्नाह - आपातरमणीयोऽपि गलितान्तोऽयमुल्लसन् । पुमर्थसाधनीभून सन्तप्तत्वाय कल्पते ॥ २४ ॥ आपातेति। यदुत्था कक्षापि श्रुतिमनुसृतान्तदलयति । ...... हयग्रीवो वेत्ति त्वदखिलगुणं त्वन्मयतया कथञ्चिन्नाभ्युत्थोऽप्यहह गुणमन्योऽपि तदनु । तदमिध्यानोद्यत्सुकृतकणलब्धैः कतिपयैः ककाराद्यैर्वणवयमपि कथं तत्र कवयः ।। अखण्डब्रह्माण्डस्फुटघटविधानात्ययविधी त्वदीयापाङ्गस्य क्षणमपि विलम्बो न भगवन् !। भवप्रौढज्वालावलिजनितदाहाकुलधियो ममोद्धारे राधापरिवृढ ! किमर्थ परिकरः ॥ बाणाग्निमुनिचन्द्रोत्थवत्सरस्यादिमे दिने ! एषा विर्तार्णा बह्वर्था वाणी विष्णुपदे त्वभूत् ॥ समाप्तोऽयं प्रेमविभागखण्डः ॥ इति श्रीमत्रिपुरहरपुरवासिना शास्त्रविचारचातुरीचमत्कारपारा- वारपारीणधुरीणजोजारकुलतिलकायमानविश्वनाथपण्डितेन विरचितं प्रेमरसायनं समाप्तिमगमत् ।

No text on this page.

Premarasayana

Author
Visvanatha_pandita
Other authors
Ccl
Title
Premarasayana
File name
Premarasayana
Text
OCR done
Citation
1928
Publisher
Jaikrishnadas_haridas_gupta
Language
Sanskrit
Pages
109
Library
Scl
DLI number
326359
Barcode
2020010006940.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
o08cY6SpPsv
Download PDF

Premarasayana