S.P College, Srinagar
The Amrtodaya
Front matter
No text on this page.
use
ver
TO THE READER.
INDIV
this book
carcfull It the book is disfigured
or marked on written on while in pour
Pusses20
the book will have
be
replaced by a new copy or paid for In
case the book be
be a volume of set of
which single volumes are not available the
price of the whole set will be realized.
0, 29,
PRATAR
en
COLLEG
Class No.......
...
LIBRARY
8917865....
G. 61. AS.....
106 SO.........
Book No...
Acc. No........
No text on this page.
काव्यमाला ५९.
SRI PRATAP COLLEGE Liisi
GINAGAR
श्रीमद्गोकुलनाथोपाध्यायकृतम्
अमृतोदयम् ।
मूल्यं ८ आणकाः
No text on this page.
KĀVYAMĀLĀ 59.
THE
AMRTODAYA
SAI PRATAT POLLEGE LIST
GOKUWASATHA.
EDITED BY
MAHĀMAHOPĀDHYAYA PANDIT S'IVADATTA
Head Paņdit and Superintendent, Sanskrit Department,
Oriental College, Lahore,
AND
KÁS'INĀTH PANDURANG PARAB
&
VĀSUDEV LAXMAN SĀSTRĪ PANSĪKAR.
Second Revised Edition.
PUBLISHED BY
PĀNDURANG JAWAJĪ,
PROPRIETOR OF THE ‘NIRŅAYA SĀGAR' PRESS,
BOMBAY
1935.
Price 8 Annas.
106 so
( All rights reserved by the publisher. ]
Publisher:-Pandurang Jawaji, ‘Nirnaya-sagar' Press,
Printer:-Ramchandra Yesu Shedge, S 26-28, Kolbhat Lane, Bombay.
काव्यमाला. ५०.. श्रीमद्गोकुलनाथोपाध्यायकृतं अमृतोदयम् । जयपुरमहाराजाश्रितमहामहोपाध्योपण्डितशिवदत्त. शर्मणा, मुम्बापुरवासिपरबोपाहपाण्डुरङ्गा- त्मजकाशीनाथशर्मणा, पणशीकरोपाह्व- लक्ष्मणात्मजवासुदेवशर्मणा च संशोधितम् । द्वितीयावृत्तिः। तच्च मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः स्वीये निर्णयसागराख्ययन्त्रालये मुद्रापयित्वा प्रकाशितम् । १९३५ मूल्यं ८ आणकाः।
No text on this page.
काव्यमाला। श्रीमद्गोकुलनाथोपाध्यायकृतम् अमृतोदयम् । REG प्रथमोऽङ्कः। ब्रह्माण्डबिन्दुगणवर्षणवारिवाह वज्रं च मुश्चसि निषिञ्चसि जीवनं च । सृष्टं त्वया स्वपरदृष्टिविलोपकष्टं निर्माष्टुमर्हति तवैव विवेकविद्युत् ॥ १ ॥ अपि च। असकृदुपरमद्भिरतभेदै- नेटगणनिष्क्रमणाद्विविक्तरङ्गः । [अत्र प्रस्तावनया साधनचतुष्टयसंपन्नोऽधिकारी सूच्यते । साधनानि तु- नित्यानित्यवस्तुविवेकः, इहामुत्रफलभोगविरागः, शमदमादिसंपत् , मुमुक्षा चेति चत्वारि । तत्र ब्रह्म नियमन्यदनित्यमित्यौपनिषदाः । फलेषु मोक्षो नित्यः खर्गा- द्यनित्यमित्यान्वीक्षकाः । तत्र वेदान्तपक्षे नित्यमानन्दमयमात्मानमुद्दिश्य, न्याय- मते तु निर्वाणनामानमपवर्गमुद्दिश्येदं वचनमात्मौपाधिकमितरेषां प्रियत्वमात्मैक- त्वतः प्रिय इति ब्रह्मविद्या अपवर्ग एव न विशेषो भवितुमर्हति, सुखादि तु दुःखान्तर्भूतमित्यान्वीक्षकाः.] १. जलम्, जीवाच. २. अत्र संसारो नाटकत्वेनाध्यवसीयते । तत्र सृष्टिव्यापारोश इति, प्रलयं तदुपरम इति, जीवा नटा इति, जगद्रास्थलमिति निगीर्याध्यवसीयते । तत्रप्रलयरूपाछपरमे जीवनटानां वृत्तिनिरोधो निष्कम इति ।
अविदितसुखसंधिरामुखान्तो निगमकवेस्तव नाटकप्रबन्धः ॥२॥ किंच। न दहति संगरान्वयान्न पादा- प्रभवति नाप्यलिकादुदेति चक्षुः । न च किमपि शृणोति नेत्रवर्गों मम कथमस्तु तव स्तवेऽधिकारः ॥ ३ ॥ (नान्द्यन्ते ।) सूत्रधारः- निर्वर्तित एप प्रत्याहरणादिभिरकैरुपबृंहितः पूर्वरङ्गः। सांप्रतमवसरो गुरोगोकुलनाथस्य गिरां प्रबन्धमभिनेतुम् । उपनतश्चासौ प्रशान्तपरितापोपप्लवः शिशिरमासः । इह हि नोद्वेजयन्ति जनतामभिनयकर्मणि न खेदयन्ति नटान् । आयामिनः सुखीमा व्यायामसहा निशायामाः ॥ ४ ॥ अतिमात्रमत्र च स्वदते मधुरातपस्तपस्यदिवसः । यत्र खलु निभृतनिलीनां नलिनी विचिन्वतः पयसि रुचिपतेः पतितः । चिरविरहतनुतरेभ्यः करेभ्य इव तीव्रतावलयः ॥ ५ ॥ अन्यत्र नाटके इतिवृत्तसूचनमामुखमादौ, ततो बीजोपक्षेपकार्यारम्भाभ्यां मुखसं- धिर्विद्यत इति स्थितिः । संसारनाटके तु समाधिपरिपाके भवसार्वज्ञस्वरूपी भूतोते प्रस्तावनान्तेन च परिचीयते बीजोपक्षेपसमयः संसारस्यानादित्वादिति व्यतिरेकः. १. अत्र नाहं कपिलो न गोतमो न विरूपाक्षो नापि चक्षुःश्रवसांपतिः शेष इति पर्यायान्तरेणाभिधीयत इति. २. प्रत्याहारोऽवतारो दिक्पालपूजेत्यादिपूर्व- रङ्गस्याद्वाविंशतिरक्षानि नाट्यविद्यायां प्रसिद्धानि । तानि च नटस्यैव कर्माणि । रणद्वारमा[रभ्य तु क ]विव्यापारः । सूचनापक्षे तु प्रत्याहरणं. प्रायणम् । अवतरणं भवः । तेन प्रेत्यभावपरम्परैव पूर्वरा इत्यध्यवसीयते । तस्य निर्वर्तनं चरमशरीरपरिग्रहात्. ३. शीतलाः. ४. माघफाल्गुनदिनम् .
१ अङ्कः] अमृतोदयम् । ३ (सनिवेदम् । आकाशे।)अरे निसर्गसुन्दर,निरवसानसौभग, श्लाघनीयोऽसि । प्रसरति विषयेषु येषु रागः परिणमते विरतेषु तेषु शोकः । त्वयि रुचिरुचिता नितान्तकान्ते शुचिपरिपाक शुचामगोचरोऽसि ॥ ६ ॥ (परिक्रम्य ।) अयमहं भोः क्षेत्रज्ञनगरवासी मूलमस्मि सर्वस्यारम्भस्य रागो नाम कामरूपो नटः । तस्य ममामृतोदयं नाम नाटकमभिनिनी- षतः पूर्वपरिगृहीतभोगभूमिकापरिहारेण विविक्तवेषपरिग्रहमूरीकुर्वन्तु भावमिश्राः । (आकाशे ) किमात्थ 'अरे लम्पट पुराणनट, किमद्यापि नटसि । पश्य तावदेकधात्रिधैकविंशतिधाशतसहस्रधान्यूहितविग्रहण कशगणेन प्रथममथपरमवैरिणा विरागेणाक्रान्तास्तव विषयाः' इति । (मभयमाकाशे ।) हन्त । मम कांदिशीकस्य कं देशमुपदिशसि । न १. अप्रविष्टपात्रोद्देश्यकवचनमाकाशभाषितम् . २. अयमहमित्यारभ्य शोभत इत्यन्तप्रवन्धेन अन्यत्र सर्वत्र विरागो मोक्षे राग इति मुमुक्षारूपसाधनं प्रस्तूयते तत्र । नाटकपक्षे सर्वस्य वाग्वुद्धिशरीरारम्भस्य प्रवृत्तिस्वरूपस्य रागो मूलम् । स एव मिथुनधर्मगोचरः काम इत्युच्यते । नाटके भोगभूमिवनितादिवेषः । विविक्त- वेपेत्यादिभूमिकासूचनाया एकविंशतिदुःखान्तर्भूतमुखादिविषयना, विविक्तवेषो दुःखानुपनि वस्तुगोचरता. ३. भावा विद्वांसः, मिश्रा अधिकरणविदः. ४. किमात्थेत्यादिना वैराग्यं प्रपच्चितम् । तत्र दुःखत्वजात्यभिप्रायेणैकधेति । आध्यात्मिकाधिभौतिकाधिदैविकमेदमादाय विधेति । घ्राणरसनचक्षुस्वक्टोत्राणि मञ्च, गन्धरसरूपस्पर्शशब्दास्तद्विषयाः पञ्च, मन एकं तद्विषयो द्वेषेच्छाप्रयन- स्वरूप एक एव, पड्विधा प्रात्यक्षिकी बुद्धिः, शरीरं सुखं दुःखं चेति एकविंश- तिधा दुःखं भाष्य सिद्धम् । शतसहस्रधेत्यान्तर्गणिकमेदेन, ५. सभयमित्यादि तु शरीरमुखे विरागेणाक्रान्ते सति, शरीरसंबन्धिषु कुटुम्बादिषु सुतरां विराम इति प्रपञ्चनाय. ६. 'कांदिशीको भयद्वतः' इत्यमरः.
खलु ममेदानी कुटुम्बमवलम्बनाय । तथा हि । न खलु विघटिताः पुनर्घटन्ते न च घटिताः स्थिरसंगतं श्रयन्ते पिपतिषु सवशं रुजन्ति वश्या- स्तरुतटमाप इवोपगागणस्य ॥ ७ ॥ अपि च । भीषयति विद्रुतमनुद्रवति मामेष कूटकर्मन्दी कालः । पश्य । प्रतिगृहमतिथिर्गृहीतैदण्डो धृतजगदण्डकमण्डलुप्रकाण्डः । भुवनभरणपात्रमात्रशेष मसृणमिदं जगदत्ति कालभिक्षुः ॥ ८ ॥ (प्रविश्य ।) नटः-भाव, क्षेत्रज्ञनगरचरमसीमनि क्षणानुभवरमणीयो विवि- कविशदोऽयमाश्रमः । शममाश्रित्येह बधान धृतिमुपजापदुःस्थिते देवे महामोहे । विरागाक्रान्तेषु भोगविषयेषु निभृतनिवास एव भावस्य शोभते । सूत्रधारः-आः, किमबद्धं प्रलपसि । नाथापि श्रुतिगोचरः स विषयो यस्मिन्नमुष्य प्रभो- रादेशः प्रतिहन्यते न स जनो यस्तस्य नास्ते वशे । १. आपगा नदी. २. कपटसंन्यासी. ३. यद्यपि नैयायिकानां भुवनभरण- पात्रेभ्यः कालदिग्भगवयो भित्रो जीवादिरपि न कालादनीयस्तथापि चैतन्य. विशिष्टस्य सत्त्वस्यात्यन्ताभाव एव कालभक्ष्यत्वं भगवद्भिन्नस्य सर्वस्यापीति. ४. क्षेत्रज्ञस्य आत्मनश्चरमसीमा सेव यत आरभ्य शरीरपरिग्रहः वर्तमानो मुक्ति- रचिरमनुभूयते इति निबन्धकारमतमाश्रित्य क्षणानुभवरमणीयत्वमुक्तम् । विविको विशेषगुणरसंभिन्नः । विशदः शुचिः. ५. श्रुतिगोचरः कर्णगोचरः वेदजन्यप्रमि- तिगोचरो वा । तेन भगवद्गोचरं श्रवणमेवाधुना निष्पनम् , दूरे साक्षात्कार इति.
१ अङ्कः] अमृतोदयम् । ५ आसंसारमखण्डयौवनतनोरंक्षीणपक्षस्य च क्षेत्रज्ञक्षितिनायकस्य रिपवः कुत्रोपजापः कुतः ॥ ९॥ नट:-भाव, एवमान्वीक्षकाः कथयन्ति विप्रकारे प्रविश्यात्र क्षेत्रज्ञनगरे श्रुतिः । सहान्वयं महामोहमुन्मूलयितुमिच्छति ॥ १० ॥ सूत्रधारः–मारिष, किमुन्मूलितेन महामोहेन प्रयोजनमुपपद्यते श्रुतेः। नटः-भाव, नूनमद्वैतसाम्राज्ये श्रुतिरपवर्गमभिषेक्तुमीहते । सूत्रधारः-युज्यते साम्राज्यमपवर्गस्य यदि प्रजा रज्यन्ति । न च रोचते करणचक्रविप्रियः पुरुषायापवर्गः । नटः—भाव, दमेन निगृहीतानि करणचक्राणि । पुरुषोऽपि श्रुति- प्रभया प्रमित्या संगतस्तया विहितमनुतिष्ठति । प्रतिषिद्धं च वर्जयती- त्यजयत्यपवर्गमार्गसंबलसंपदम् । सूत्रधारः-मारिष, प्रभवति विधेयेषु सह दुहित्रा प्रमित्या भग- वती श्रुतिः । (सबहुमानमाकाशे ।) भगवति भुवनभावुकभाविनि विश्व- निःश्रेयसशरण्ये श्रेयसि श्रुते, जननि तव पुमर्था एव पादाः प्रथन्ते प्रथमचरणबद्धो निर्भरं रौमि वत्सः । चरमचरणमूलप्रस्नुतां स्तन्यधारा- ममरगवि कदा ते मुक्तबन्धः पिबेयम् ॥ ११ ॥ १. अक्षीणपक्षस्य अखण्डितरागद्वेषमोहनैराश्यस्य. २. परिगृहीतब्राह्मणशरीरे, विगतप्राकारे वा. ३. युज्यत इत्यादिना संवलसंपदमित्यन्तेन शमदमसंपत्तिप्रपश्च- नम् । करणचक्रविप्रियत्वमपवर्गस्य बाह्यानामान्तराणां चेन्द्रियाणां चाफ्लात् प्रति- पितसेवनात् नित्यवर्जनाद्वा भवेत् । तत्र दमेन बाह्यानि शमेनान्तरमिन्द्रियं कर्मणा च पापं निगृहीतमिति वदत एवापवर्ग इति समुदायार्थः. ४. कामः. ५. मोक्षः, ur काव्यमाला। (नेपथ्ये ।) हन्त भोः सुगतशासनाध्वनीनाः, पर्यवष्टभ्यतामिदं क्षेत्रज्ञनगरम् । अपहरन्तु परेषां विज्ञानमपि मध्यममार्गेण संचरमाणाः । विलुम्पन्तु बहिर्विषयमाकारपराक्रमकुशलाः परपरिभवाय योगैमाचरन्तः । परो- क्षमर्थतिमिरमुष्णत्विष इव मुप्णन्तु लोकायतव्यवहारिणः । स्वार्थदर्श- नमपि परेषामपलपन्तु सूत्रान्तसंस्कृतबुद्धयः । विकल्पगोचरादर्थमपन- यन्तु स्वलक्षणममी विभाषाभाषणप्रवीणाः । निखिलमपि प्रपञ्चमात्म- सात्कुर्वन्तु पैञ्चस्कन्धाः । क्षणमात्रमतिमात्रसूक्ष्मः प्राणितु भवतां दृष्टि- मार्गेऽपवर्गः । संभावनावशे पततु श्रुतेर्दुहिता प्रमिति म । नटः-भाव, एष महामोहसाधनाग्रणीः सुगतागमः श्रुतिदुहितर प्रमितिमपहर्तुमारभते । तदपसरावस्तावत् । सूत्रधारः-मारिष, स्वपरविवेकविकलस्य पूर्वापरभूविभागविबोध- १. ऐहिकामुष्मिकभोगेषु विरागोऽधुना प्रपञ्चनीयः । स च विरागो द्वेषो नामगुणौ, न तु रागाभावस्तस्य शास्त्राधिकरणदशायामप्रवृत्तेः। भोगेषु द्वेषस्तु दुरन्तत्वज्ञानाधीनः । दुरैन्तत्वं त्वप्रमाणदर्शनसिद्धपुरुषार्थाभाससंबन्धात् । अतः पाखण्डदर्शनविवेचनान्तरमेतन्मतानुबन्धमैहिकादिभोगानामुपपादयति-नेपथ्य इत्यादिना. २. माध्यमिकास्तावन केवलमर्थान् किंतु विज्ञानमपि शून्यं मन्यन्ते. ३. योगाचारास्तु विज्ञानमेव परमार्थसत् ज्ञानभिन्नमसदिति मन्यन्ते । स्वीकु- र्वन्ति च ज्ञानस्यैव नीलपीताद्याकारम्. ४. लोकायतशास्त्रविदश्चार्वाकाः नाप्रत्यक्षं वस्तु विद्यत इति वदन्ति.. ५. सौत्रान्तिका नाम सौगतास्तु ज्ञानाकारानुमेयो विषयो नालोचनस्यापि गोचरः, किंतु ज्ञामाकार निष्पादक इति मन्यन्ते. ६. स्खलक्षणं नाम वस्तु आलोचनप्रत्यक्षगोचरो न तु विकल्पकस्येति वैभाषिकाः. संज्ञास्कन्धो रूपस्कन्धो ज्ञानस्कन्धो वेदनास्कन्धः संस्कारस्कन्धश्चेति पञ्च- स्कन्धाः क्षणिकपरमाणुपुत्रात्मकं [शरीरं] सदिति सर्वसौगतमतम् , तथा च शब्दो न प्रमाणं, अपि तु संभावनामात्रोत्थापक इत्यपि । नाटकपक्षे तु सर्वेषा- मेतेषां विविधसेनापतिपरत्वं स्पष्टमेव.
१ अङ्कः] अमृतोदयम् । विधुरस्य मे का संसरणचर्चा । (अनुध्याय । सहर्षम् । आकाशे।) भगवन् अद्वि- तीयवैभवं पुरुषोत्तम, कुतो मम प्रतिभटाः । कुतस्तरां त्रासः । तथा हि । रिपुरपकुरुते निहन्ति हन्ता भवति भयं च पृथग्दृशो द्वितीयात् । त्वयि भुवनमये निविष्टबुद्धे- न मम रिपुर्न भयं न च द्वितीयः ॥ १२ ॥ अपि च । नित्ये विभौ मयि निसर्गशुचौ शरीर- तादात्म्यवन्धमवरोपितवांस्त्वमासीः । द्वैतोज्झिते त्वयि परापरवस्त्वभेद- मारोप्य निर्वृतिमुपैमि चिरादिदानीम् ॥ १३ ॥ नट:-भाव, क एष पुरुषोत्तमो यमाक्रोशसि । सूत्रधारः-नन्वेष वाड्मनसयोरगोचरोऽपि ब्रह्माण्डबिन्दुतिलजालवहो विहीनः सर्वेन्द्रियैर्विकलकर्मशरीरबन्धः । हृद्धेश्म मे प्रविशति श्रुतिदेशितेन मार्गेण कोऽपि जगतीप्रपितामहोऽसौ ॥ १४ ॥ नटः-ननु भाव, वचसामगोचरं वस्तु वचसैव श्लाघमानो व्याहतिमपि न चेतयसे । सूत्रधारः-अयमसाविह व्याहतिपरिहारः । १., प्रसङ्गादद्वैतभावनैव भयसामान्यविनाशाय नत्वपसरणादिरिति सूचयग्नेव पताकास्थानकेन भाविनं ब्रह्माद्वैतवोधं सूचयति-परापरेत्यादि. २. 'योगः' इति पाठः. namna TATOOLLEGE LIUR . काव्यमाला। , साकाङ्क्षास्तत्वरास्तं प्रियमपि मनसा साकमप्राप्य मार्गा- द्वाचो बाढं निवृत्ताः कुलगुरुषु गिरा वारयत्खागमेषु । किंतु स्वेनैव कामादभिसरति परः पूरुषो वाचमेनां सन्नासन्नासु सीमखपि निगमगणस्तं हि न द्रष्टुमीष्टे ॥१५॥ (नेपथ्ये ।) अरे वाचाट नटबटो, हताशया श्रुत्या विप्रलब्धः किमलीकमालपसि । तथा हि सिद्धः पुरुषोऽपि पैञ्च- स्कन्धान्विना नात्र शरीरकोशे । मानद्वयागोचरवस्तु नस्तु सिद्धिर्विदूरे पुरुषोत्तमस्य ॥ १६ ॥ सूत्रधारः-अये, कुपित इव सुगतागमः शब्दायते । तदपहाय महामोहपरिवारपाखण्डगणाधिष्ठानदुर्विपाकामैहिकभोगभूमिमाश्रयाम्यद्वै- तनिवृत्तां निर्वाणकाष्ठाम् । १. आकाढातात्पर्यवतीनां वाचां भगवन्तमप्राप्य निवृत्ती वीजमागमे- ारणमेव । तथा चागमः—'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति । वस्तुतोऽभिमते साक्षात्कारात्मके ब्रह्मबोधे शब्दस्यासामर्थ्यमानं श्रुत्या बोध्यते । भगवदनुग्रहवशात् भगवद्विषयिण्यो लौकिकवाचोऽपि संभवन्ति, किं पुनरलो- किकगिर इति हृदयम्. २. यथा तमभिसरन्तीं वाचमागमो वारयति, तथा वागभिसारिणं पुरुषोत्तममागमो वारयितुं न प्रभवति । पुरुषोत्तमदर्शने निगमा- नामसामर्थ्यादिति काव्यरीत्या परिहारः. ३. रूपरसगन्धस्पर्शशब्दाः रूपस्कन्धः, निर्विकल्पकं ज्ञानं विज्ञानस्कन्धः, सविकल्पकं ज्ञानं संज्ञास्कन्धः, समनन्तरप्रत्ययः संस्कारस्कन्धः, सुखदुःखे वेदनास्कन्धः इति पक्ष स्कन्धाः । स एव आत्मेति सौगताः. ४. तदेवं लौकिकभोगा एवाखण्डैः पुरुषार्था इत्युच्यन्ते, ते च बन्ध- जनकतया हेया इति तत्र विरागमुपपादयति-तदपहायेत्यादि.
९ १ अङ्कः] अमृतोदयम् । नटः-भांव, रागकर्मप्रसादितदेवतोपनीताः पौरुषातिशयसाधिता वा क्लेशलेशास्पृष्टाः परत्र भोगभूमय एव सेव्यन्ताम् , किमपसृत्य शून्या- श्रयणेन । सूत्रधारः-मारिष, विमर्शविरसो विषयतर्षापकर्षाय न क्षमते देवतप्रसादोपनतो भोगः । तथा हि याज्यराज्यमुपाकृतं शिखिमुखेनास्वाध तनिष्क्रय क्षीराब्धेनवनीतविन्दुममरा यच्छन्ति कालान्तरे । तं पीत्वा जननीपयोघरघटात्पुत्रस्य वा तर्जनी- मूलप्रस्रवणात्पयांसि तृषितः पातुं जनो धावति ॥ १७ ॥ अपि च । मुहुमिहिरतप्तेन सोमपात्रेण संभृतम् । न लिप्से राहुमार्जारपीतोच्छिष्टां सुधामपि ॥ १८ ॥ नट तथाप्यपरिचितचरी निर्वाणकाष्ठेति कथमेनामाश्रयितु- मीहसे । १. ननु वैदिकपुरुषार्थत्वादानुश्रविको भोगो न हेय इत्याक्षिपति । पारली- किकफले जननीये देवताप्रीतिरेव यज्ञव्यापार इति वेदान्तविदादयः । पुरुपनि- टोऽतिशयो धर्मस्वरूपं तथेति मीमांसकादयः । शन्यस्य सुखदुःखसंमेदविरहितम्य निर्वाणस्याश्रयणं रागस्य न युज्यते तुल्यामयत्वात् किंतु दुःखासंभिन्नस्य सुखमयस्य स्वर्गस्येत्याक्षेपार्थः. २. मन्त्रवद्दर्भसंस्कृतम् । अग्नि देवतानां मुखम्. ३. अमृतबिन्दुम्. ४. आनुश्रविको भोगः क्षयी-'तद्यथेह कर्मजितो लोकः क्षीयते एवमेवामुत्र पुण्यजितो लोकः क्षीयते' इति श्रुतेः । प्रेत्यभावपरम्परा- परिणामस्याविरामाच्च स्वर्गों हेयः। तत्र जननीपयोधरपयःपानेन जन्मोपलक्ष्यते, पुत्रतर्जनीमूलोदकपानेन च प्रायणम्. ५. 'दुःखाभावोऽपि नावेद्य पुरुषार्थ- तयेप्यते । नहि मूर्धाद्यवस्थार्थ प्रवृत्तो दृश्यते सुधीः॥' इत्याक्षिपति-तथापीति. ..
१० काव्यमाला। सूत्रधारः-श्रृंतिवर्णितमस्या रामणीयकं क्षणमनुभूय पारमा- प्स्यामि दुरन्तसमुद्रस्य । (नेपथ्ये ।) अरे भरतवंशदुर्भग, का नाम श्रुतिः । अयमहमस्या हताशाया हरामि दुष्टदारिकां प्रमितिम् । सूत्रधारः-(ससंभ्रमम् ।) हन्त, हृता श्रुतेः प्रमितिः सुगतागमेन । (नेपथ्ये ।) हा नाथ, कथमुपेक्षसे । किं वा प्रभवति मतये पदप्रबन्धो न तव निरत्ययनित्यचेतनस्य । नै भजसि करुणामतो सुरारे मम कृपणैः परिदेवितप्रपञ्चैः ॥ १९ ॥ अयमथ वा भवन्तं प्रति वाचोयुक्त्या अभिलषितमथानुचिन्तितं यो हृदयगुहानिहितः शृणोत्यकर्णः । न (?) ममुमवचनं च वाग्मिनं च प्रभवति मन्त्रयितुं त्रयीमुजङ्गम् ।। ॥२०॥ १. वेदनं परोक्षमपरोक्षं वापेक्षितम् । आद्य विद्यत एव श्रीतो मोक्षबोधः अन्त्ये वर्तमानापि मुक्तिरचिरं मुक्तैरनुभूयत एवेति समाधत्ते-श्रुतीति. २. निरत्ययोऽविनाशी, अत एव नित्या त्रैलोक्यव्यापिनी चेतना यस्य. ३. परिदेवितेन करुणा वाक्यार्थबुद्धिजननद्वारेव जन्यते । तव तु बुद्धिरजन्या न वचनसाध्येति. ४. अनुचिन्तितस्याप्यर्थस्य श्रवणहेतुः हृदयगुहाशयननं, भुज- अपदसूचनीयम् , त्रय्याः पन्नगोपमानमुपपादयितुमकर्ण इति । यः पुनरवचनेनापि मत्रयितुं शक्यते तं प्रति किं वाचोयुक्तयेत्युपपत्तिः.
१ अङ्कः] अमृतोदयम् । ११ सूत्रधारः-इयमसौ परैरपहियमाणप्राणा प्रमितिरशरणशरण्य- चरणं पुरुषाणामुत्तमं त्रातारमाक्रोशति । (नेपथ्ये ।) अचिन्तनीयानि तव स्वन्तदुरन्तसर्गप्रलयविलसितानि । निगमवनवनस्पते प्रसूपे कति जगदण्डमयान्युदुम्बराणि । दधति बहलजन्तुजालमन्तः पुनरपि तानि लयं त्वयि प्रयान्ति ॥ २१ ।। सूत्रधारः—इयमसावगणितदुहितृव्यसनशोकवैशसा श्रुतिरुपश्लो- कयति लोकोत्तरपुरुषम् । (नेपथ्ये।) अरेरे प्रमाणमानिनि, तदियं तावन्न भवसि । सूत्रधारः-अयं तावदनृतव्याघातपुनरुक्तनामा सुगतागमाग्रणीर- प्रमाणधर्मगणः श्रुतिमभिधावति । (नेपथ्ये ।) गृहीत तर्काः प्राणग्राहममीषामागमद्रुहां गणम् । सूत्रधारः-इयमान्वीक्षकी तर्कैः : सह परनिग्रहायावतरति,यामुपजीव- न्ति निजनिजनिःश्रेयससाधनायेतरास्तिस्रो वार्तात्रयीदण्डनीतयो विद्याः। १. अनृतं पुत्रेष्ट्यादिविधी फल विसंवादः । व्याघातः विहिते उदितहोमे 'श्यावोऽस्याहुतिमभ्यवहरति' इति निन्दार्थवादवशात् । पुनरुक्तम् 'त्रिः प्रथमामन्वाह त्रिरत्तमाम्' इत्यत्रैकस्यार्थस्य द्विरभिधानात् । एतेप्रमाणधर्माः श्रुतेः प्रामाण्यं हन्तुमारभन्ते तत्समाधानतर्कास्तु 'कर्मकर्तृसाधनवैगुण्यात्' इत्यादिना द्वितीयाध्याये विवृताः. २. वार्ताविद्याया निःश्रेयसं कृष्यादिसंपत् , अय्यास्तु स्वर्गः, दण्डनीतेः सप्ताङ्गा राजसंपत् । तया तया विद्यया यथा खस्वनिः श्रेयसे जनयितव्ये आन्वीक्षक्या उपयोगस्तथा टीकायां व्याख्यानं व्यक्तम्.
१२ काव्यमाला। अपवर्गः पुमर्थानां प्रमाणं तत्त्वसंपदाम् । आन्वीक्षकी च विद्यानां चतुर्वर्गशिरोमणिः ॥ २२ ॥ तावदेव पुरुषो विधिनियोगवशंवदो यावदेनामान्वीक्षकी नोपास्ते । मिलति नयनमक्षपादपाद- प्रणिपतनेन ललाटसीम्नि यस्य । विधिरपि पुरुषस्य तस्य भाले लिखितुमदृष्टलिपिं कुतः क्षमेत ॥ २३ ॥ (नेपथ्ये ।) अरेरे परिचारविद्याः, सर्वा अपि यूयमनुयात प्रसभमभ्यमित्रीणा- मायुष्मती वत्सामान्वीक्षकीम् । सूत्रधारः-श्रुतिनिदेशसमनन्तरममूरभ्यमित्रं परापतन्ति तर्कना- सीरा विद्याः । तदितः साधयावः । (इति निष्कान्तौ ।) इति साधनचतुष्टयसंपत्तिर्नाम प्रस्तावना । १. अर्थो धर्मः कामो मोक्ष इति पुरुषार्थचतुर्वगों भारतादी, प्रमाणं प्रमाता प्रमितिः प्रमेयमिति तत्त्वसंपत् चतुर्वर्गः, न्यायभाष्यवार्तिकयोः आन्वीक्षकी त्रयी वार्ता दण्डनीतिरिति । विद्याचतुर्वर्गो भाष्ये प्रसिद्धः । तत्रान्वीक्षकी प्रमाणादि- पदार्थान् , त्रयी यज्ञम् , वार्ता हलशकटादिव्यवहारम्, दण्डनीतिर्नुपधर्मान् बोधयति. २. ललाटमिलितेन चक्षुषा दृश्यमाना ललाटलिपिरदृष्टत्वमेव जहातीति ध्वनिः. ३. अमित्रमभिप्रस्थिताम् .
१ अङ्कः] अमृतोदयम् । १३ (ततः प्रविशति श्रुतिरान्वीक्षकी च ।) आन्वीक्षकी-भगवति, दिल्या वर्धसे द्विषन्निग्रहेण दुहितृप्रत्या- हरणेन च । श्रुतिः-वत्से, कथमुत्सितविक्रमाः परे परिभूताः, कथमभ्यु- पपाद्यत वत्सा प्रमितिः । आन्वीक्षकी-भगवति, मन्निसृष्टन तर्कगणेन वाध्यमानेष्वनृत- व्याघातपुनरुक्तेषु, भवदवयवावनव्यासक्तासु परिवारविद्यासु, परेषां नृशंसप्रहारेभ्यश्चानेन जनेन परिपाल्यमाने निरिन्द्रियविकलतनौ तव पितरि पुरुष, कुतोऽप्यतर्कितोपनता मिथ्यादृष्टेरात्मसंभवासंभावना नाम । विकटदंष्ट्राकोटिद्वयसंकटेन करतालसंकलितालीकाट्टहास- धूमायितधूसरिताकाशेन तरलेतरतडित्काण्डकडारलोचनार्चिरर्चितस्फु- लिङ्गितदिगङ्गनेनाननेन ग्रसितुमारेभे प्रमितिम् । श्रुतिः-वत्से, तदात्वे वर्तमाना किमभाषत वत्सा । आन्वीक्षकी—तदा पुनः प्रकर्षापकर्षपिशुनेन वचनेनाधिचिक्षेप पुरुषोत्तममेव प्रमितिः । तथा हि विषमनिगमकाननान्तशाखा- ततिषु निलीय परान्निरीक्षमाणः । १. अथ साधनचतुष्टयसंपन्नोऽधिकारी। गुरुमुपसीदन्नन्वीक्षासंस्कृतया श्रुत्या परमात्मानं प्रमिमीते । 'श्रोतव्यः श्रुतिवाक्येभ्यः' इति श्रवणात् । तत्र च सौगतमतप्रसिद्धकुतर्कनिरासद्वारेणान्वीक्षक्या उपयोग इति नाटकेतिवृत्तव्याजेन [विशदयति]. २. अभ्युपपत्तिर्विपदुद्धारः. ३. एतेन शिक्षाव्याकरणादीनां श्रवणोपयोगो दर्शितः. ४. अनादिरलीकार्थविषयिणी वासनासंततिर्मिध्यादृष्टि- स्तत्प्रभवा असंख्योनयस्तास्वेकोभयकोटिगोचरा संभावनान्तर्भवति । सैव शन्द- प्रमितिकर्तव्यं व्यवहारं जनयतीति सौगतमतम्. ५. कोटिद्वयं संभावनाया विरुद्धौ प्रकारो. ६. अचेतनानां संभावनादीनामाननादीन्युत्प्रेक्षाकल्पितान्येव.
काव्यमाला। परिणतिविदलज्जगत्कपित्थ- असनकपे सुचिरान्निरूपितोऽसि ॥ २४ ॥ अपि च । द्रुहिणभवनपद्मबीजमाला- मणिपरिवर्तनतत्परात्मनस्ते । ग्रसितुमखिलमेव जन्तुजातं विजनयतो विदिता विडालवृत्तिः ॥ २५॥ श्रुतिः-ततः। आन्वीक्षकी-ततोऽस्माकं नासीरपरिसरे पूरयन्निव रोदसोर्विव- रमुत्पतितपतितनक्षत्रलाजविकिरणाकुलदिकुमारीकदम्बकिर्मीरिताम्बरा- जिरो जर्जरितमूलकुलाचलकुलकन्दुककीडनाकुलया मुहुरवनंतोन्नतया प्रतिपदमवनिवनितया वितायमानधूलिपाटीपटवासपटलो निर्भरभय- चकितदिकुजरत्यक्तगुरुतरभूगोलभारभुमभोगिमल्लभोगाभोगभङ्गुरभुवनः ससंभ्रमभ्रश्यदैरावतबंहितोपबृंहितो दध्वान सेनासनहनदुन्दुभिः । येन स्म जनितविस्मयेन जनतास्मयघस्मरेण करणहारकेण कोणाभिघातमू- छितमरुदुद्भूयमानविमानाध्वनीनेन विध्वनता मायमाने प्रेसभनिविशमानकालसर्प- प्रतिहतनिर्गमणे खगोलनीले । . बहुविधगतयो विविक्तजाया- सुतजननीतनवः खगा भ्रमन्ति ॥ २६ ॥ १. 'सेनामुखं तु नासीरम्'. २. येन ध्मायमाने खगोलनीले खगा भ्रमन्ति स्मेति संबन्धः. ३. चन्द्रमसो जाया नक्षत्राणि, रविचन्द्रयोस्तनयो शनिबुधौ, कुजस्य जननी भूमिः-एते परस्परविभक्ताः । राहुकेत्वोस्तु तनुरेवान्योन्यविभक्तेति । खगा प्रहाः । कृष्णसर्पोपरुद्धनीहमध्ये विकलभ्रमत्पतगतादात्म्येनाध्यवसीयन्ते.
१ अङ्कः] अमृतोदयम् । १५ अपि च तदानी कोणाहतिध्वनितदुन्दुभिभिद्यमान- ब्रह्माण्डखण्डयुगझर्झरतालजालैः । जृम्भालकालललनालपनाट्टहास- मित्रै नर्त जगदन्तसटः कृतान्तः ॥ २७ ॥ श्रुतिः-ततः किमारभन्त परे । आन्वीक्षकी-ततः सर्वे चार्वाकसौत्रान्तिकवैभाषिकवैनाशिकयो- गाचारमाध्यमिकप्रभृतयः सुगतागमसेनापतयः ‘इतः कीर्तिः, · इतो ज्ञानश्रीः, ततो दिङ्गागः' इति समन्तादस्मद्दलं परिवेष्टयांवभूवुः । श्रुतिः-हन्त, दुर्वारवला वैरिणः । आन्वीक्षकी-अथ सेनाकोणादन्तिकमागत्य काणादीसंहिता माममन्त्रयत्-‘सखि गौतमि, शाम्यतु सुगतागमेन सह वैरम् , परित्यज्य- तामियं श्रौती प्रमितिः, अस्तु भगवत्याः श्रुतेरपत्यकृतिका पक्षतापरा- मर्पयोरपत्यमनुमितिर्नाम' इति । ततो मया मन्त्रितम्- 'असमञ्जसमि- दमुदाहरसि । प्रथमं योग्यतैवात्र न श्रुतेरवधार्यते । नाकाङ्क्षति पराप- त्यग्रहणं तादृशो जनः । अपि चैवमस्माभिरुपेक्षिते श्रुतेरपत्यव्यसने जितकाशिभिः परैः परिक्षतप्रसवा पाक्षतेयी दारिकापि न जायेत, जातापि वा विलुप्येत' इति । १. धर्मकीर्तिज्ञानश्रीप्रमृतयो सांगताचार्याः. २. अनुमान विधयैव शब्दस्य प्रामाण्यम्, न खातध्येणेति वैशेषिकाः. ३. प्रथमं वाक्यार्थगर्भयोग्यताया लिङ्ग विशेषणस्यानिर्णयान्न तलिङ्गकमनुमानम् । पदान्तरव्यतिरेकप्रयुक्तान्वयाननु- भावकत्वरूपा चाकासाशब्दस्य पृथक्प्रामाण्ये सत्येव घटत इति गूढोऽभिसंधिः. ४. शब्दस्यानुमानान्तर्भावेऽनुमानमप्यलौकिकप्रत्यक्षान्तर्भूतं स्यादित्य भिसंधिः.
w काव्यमाला। श्रुतिः-नूनमल्पप्रमाणतया बिभेति परेभ्यो वत्सा काश्यपी । आन्वीक्षकी-ततः कोपकपिलकपोला कापिली प्रमितिमभ्युपप- द्यमाना मध्येमार्गमवरुध्य परैः पराभूता न कंचन प्रतिकर्तारं पुरुषम- लभत, प्रत्युत विकारमभजत प्रकृतैः । श्रुतिः-वत्से आङ्गिरसि, त्वया प्रतिपालितः प्राणिति प्रकृतिदु- बलो विद्यागणः । आन्वीक्षकी-भगवति, त्वदुपजीवनधनाः परपरिमर्दनाय प्रग- ल्भन्ते परिवारविद्याः । जडवपुषि शुचित्वमादधाति प्रतिफलितो मयि ते प्रमाणभावः । दलयति तिमिरं निशासु भानो- स्तुहिनकरप्रतिविम्बितः प्रकाशः ॥ २८ ॥ श्रुतिः-ततः किमासीत् । आन्वीक्षकी-ततः प्रबलतर्कप्रभाकरकरसंपर्ककर्कशाकर्मतन्त्रमन्त्र- णमांसला मीमांसा प्रममाथ संभावनाम् , प्रमितिं च परकरादाच्छिद्या- त्मसादकरोत् , अधिकरणप्रसाधनैश्च संचस्कार । श्रुतिः–साधु । परपुरुषविद्वेषिणी सतीनामग्रणीरेषा दुहिता जैमिनेः । १. काश्यपी काणादीसंहिता (वैशेषिकविद्या) द्विप्रमाणा क्षुद्रत्वेनाध्यवसीयते. २. तथा च भाष्यम्-'सेयमान्वीक्षकी-प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् । आधारः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता ॥' इति. ३. 'षड्नहाः षडवप्रहाः' इति श्रुतिप्रमाणमूलकमान्वीक्षकीप्रामाण्यमिति भावः. ४. प्रभाकरो गुरुः, सूर्यो वा. ५. नाटकपक्षे-करणानि नेत्रादीन्यधिकृत्य प्रसाधनम् । तत्त्वपमे- अधिकरणानि न्यायाः. ६. जारः, परमात्मा वा.
-- १ अङ्कः] अमृतोदयम् । १७ आन्वीक्षकी—संस्कुर्वती प्रमितिमसौ मीमांसा कार्यानुबन्ध- विधुरानस्याः प्रतीकानुपच्छेत्तुमारेभे। तामवारयद्वादरायणी विद्या. भयचकितलोचनानि च पुराणानि परिपालयांबभूव । श्रुतिः-अथ धर्मसंहिताः किमारभन्त । आन्वीक्षकी-ताः खलु 'नित्यपुनरुक्तवचनाभिर्युप्माभिः किमिव प्रयोजनम्' इति मीमांसया निर्भत्सिताः, 'भवन्ति भवत्योऽपि प्रमा- णम्' इति मयाश्वासिता धृतिमलभन्त । HATAY QOLLEGI ! श्रुतिः–ततस्ततः । SRINAGAR आन्वीक्षकी-अथ पर्यवष्टभ्य माम् , अमी सुगतागमसेनापतयो निरन्तरमखिलदिमुखेभ्यो निरन्तराभिः शस्त्रवृष्टिभिरनवकाशबद्धमण्डला व्यवाकिरन् । ततश्च अन्योन्यव्यतिघट्टनानलकणाकृराः करेभ्यो द्विषां संहत्यैकपदे पतन्ति परितो याः स्मायुधश्रेणयः । वाणैस्तास्त्रसरेणुपुञ्जपदवीमानीय सोऽयं जनो रक्षामण्डलमात्मनो व्यरचयन्भूमण्डले पांसुभिः ॥ २९॥ श्रुतिः-ततस्ततः । अन्वीक्षकी-ततः प्रावर्तत तुमुलमायोधनम् । केऽपि तातगो- तमप्रयुक्तसूत्रपाशबद्धाः, केचन वत्सवात्स्यायनभाषणतर्जिताः, केचि- दुद्योतकरवचोविवरणत्रस्ताः, कतिचन वाचस्पतिना प्रसह्य पराभूताः, १. कार्यार्थकलिडादिरहितानां सिद्धार्थानां न प्रामाण्यमिति प्राभाकराः. २. ब्रह्मविद्या हि सिद्धार्थानामुपनिषदां प्रामाण्यं मन्यते. ३. स्मृत्यनुमितेन नित्य प्रच्छन्नेन वेदेन वोधितमष्टकादिविषयक कार्य स्मृतयोऽनुवदन्तीति प्राभा- कराः । स्मृतिभिर्वाक्यायें बोधिते तदाश्वासायोच्छिन्नं वेदानुमानमिति नैयायिकाः, ४. न्यायवार्तिक. ५ न्यायवार्तिकतात्पर्यटीकाकारेण. २ अमृ.
१८ काव्यमाला। परे परितः पलायन्त समरभूमेः उन्मोचिता चाखण्डकलेवरा प्रमितिः । इतः परमादिशतु भवती किमनेन जनेनोपपादनीयमिति । श्रुतिः–प्रतिपादय प्रमितिं पुरुषाय । आन्वीक्षकी-बाढं प्रतिपादिता, न पुनरेनां श्रद्दधाति पुरुषः । श्रुतिः-(खगतम् ।) कथं न श्रद्दधाति । भवतु तावदेवम् । (प्रकाशम् ।) वत्से गौतमि, न्यायतनयः : परामर्षों यथा युज्यते तया पक्षतया तथा कथा प्रस्तूयताम् । (नेपथ्ये ।) होउ जणाणं हरिसो लहउ पिअं पक्खअं परामरिसो। फिट्टउ मणे अमरिसो पुरिसो ओवग्गसंपअं सहउ ॥३०॥(क) आन्वीक्षकी--इदं वादकथायाः पक्षतापरामर्षसंगमप्रतिज्ञावच- नमनुवदन्ति व्योमचराणि भूतानि । श्रुतिः-बाढम् । अनुमन्यामहे । शचीव शक्रं गिरिजेव शंकरं निशेव चन्द्रं कमलेव माधवम् । सरस्वतीव त्रिजगत्पितामहं पतिं परामर्षमुपैतु पक्षता ॥ ३१ ॥ ( इति निष्क्रान्ताः सर्वे ।) इति श्रवणसंपत्तिर्नाम प्रथमोऽङ्कः । (क) भवतु जनानां हों लभतां प्रियां पक्षतां परामर्षः । अपैतु मनस्यमर्षः पुरुषोऽपवर्गसंपदं सहतु ॥ १. अत्र श्रुतिव्यापारो बीजम्, आन्वीक्षकीव्यापार आरम्भः, ताभ्यां प्रथमो मुखसंधिः । स प्रथमेन प्रमितिपुरुषसंगमरूपेण फलेन परिपूर्णः । अथ बिन्दु- प्रयत्नाभ्यां प्रतिमुखसंधिरारभ्यते । तत्र 'अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम्' इति लक्षितः श्रुतेरश्रद्धामलक्षालनायानुमितिपुरुषसंगमानुकूलो व्यापारः । तमवतार यति 'न्यायतनयः' इत्यादिना। प्रयनस्तु आन्वीक्षकीप्रेरितकथाव्यापार इति ध्येयम्.
२ अङ्कः] अमृतोदयम् । १९ द्वितीयोऽङ्कः। (ततः प्रविशति कनुकी।) कञ्चकी-जराजर्जरितकलेवरस्य किमीदृशस्य जनस्य जीवितेन । निधार्तेः पलितेन यद्यपि मुखे कालक्रमात्कालिमा मोहान्धस्य तथापि मे मसिमसौ लोभः पुनर्लिम्पति । आनाभेरपवर्जितेन चिबुकं यष्टौ श्रमान्यस्यता कुलेन त्रिपदः पशुः शिशुजनत्रासाय सृष्टो मया ॥ ३२ ॥ (परिक्रम्य ।) भोः, कथयत केदानी कुमारः परामर्षः । (प्रविश्य ।) चेटी-अज्ज पतिवन्ध, वन्दामि । (क) कञ्चुकी-भवति साधनसिद्धे, परिपन्थिभिरप्रधृप्या भव । कथय केदानी कुमारः । चेटी-केण कारणेण ढुण्ढिजइ कुमारो । (ख) कञ्चकी-भवति, आदिष्टोऽस्मि देवेन न्यायेन-यथा त्वरन्ते ममावयवाः कुमारपरामर्षपरिमाय । तन्निरूपय साधनसदनभूमिकासु कतमामधितिष्ठतीति । चेटी-मये क्खु पट्टमभूमिआअठविदो विअ भूमिआरोहणे तुम पडीच्छद कुमारो । (ग) (क) आर्य प्रतिबन्ध, वन्दे । (ख) केन कारणेनान्विष्यते कुमारः । (ग) मया खलु प्रथमभूमिकास्थापित (?) इव भूमिकारोहणे त्वां प्रती- च्छति कुमारः। १. न्यायस्य पञ्चभिरवयवैः परामर्षों जन्यत इत्यान्वीक्षासमयः । हेतुभूमिफा- स्तिस्रः-लिङ्गदर्शनम् , व्याप्तिस्मरणम् , तृतीयलिङ्गपरामर्ष इति.
२०' काव्यमाला। कनकी-ननु त्वमिदानी क प्रस्थितासि । चेटी-अज्ज, उक्कण्ठादूमिअस्स कुमारस्स कदे भिसिणीदलाई मुणालिआओ आहरेउम् । (क) कञ्चकी-भवति, किमुत्कण्ठाकारणमायुष्मतः कुमारस्य । चेटी - या किर पक्खदा णाम दिव्वदारिआ कुमारस्स पुरदो कहाहिं पत्थुआ आसि, सा एव्व अस्स उक्कण्ठाणिबन्धणम् । (ख) कञ्चकी—परामर्षपरिग्रहाय बलवदुत्कण्ठमाना पक्षतापि पक्षद्वारेण प्रविश्य साधनसदनस्य तृतीयां भूमिकामधितिष्ठतीति मम प्रथमा कथा कथयति स्म । चेटी–अज्ज, एरिसे परोप्परणिभराणुराए केरिसो पक्खदापरा- मरिसाणं समागमविलम्बो । (ग) कञ्चकी भवति, साधनसदनस्य तृतीयभूमिकामारोहतः परा- मर्षस्य करावलम्बाय त्वमहं च मिलितौ प्रभवावः । न च परामर्षस- विधे तव मम च मेलकं सहन्ते साधनाभासाः । पश्य । मदभिमुख- मभिधावत्युपाधिपुरःसरः सव्यभिचारविरुद्धगणः । हन्तुमीहन्ते त्वाममूरसिद्धयः । परामर्षमेष कुण्ठयितुमुत्कण्ठते प्रकरणसमः । (क) आर्य, उत्कण्ठादूनस्य कुमारस्य कृते बिसिनीदलानि मृणालीश्चा- हर्तुम् । (ख) या किल पक्षता नाम दिव्यदारिका कुमारस्य पुरतः कथाभिः प्रस्तुतासीत् , सैवास्योत्कण्ठानिबन्धनम् । (ग) आर्य, ईदृशे परस्परनिर्भरानुरागे कीदृशः पक्षतापरामर्षयोः समा- गमविलम्बः । १. कथा हि प्रतिपत्तिमुखेन पक्षतामुपपादयति. २. तृतीयलिज़परामर्षे व्याप्तिविशिष्टे पक्षधर्मता भासत इति भावः.
२ अङ्कः] अमृतोदयम् । २१ सिद्धिरेषा तिरोधित्सति पक्षताम् । पक्षतागर्भवाधनाय बाधगणो निर्भरमवतिष्ठते । चेटी–ता अम्हे अमिलिदा जेव साहेम भत्तुणो कजम् । किं क्खु मिलिदेहिं अम्हेहिं । (क) कञ्चकी-ननु मीमांसया मत्र्यमाणोऽप्यर्थः प्रतिषिद्धोऽयमा- न्वीक्षक्या भगवत्या । संघटितपरिवारार्पितभरा हि प्रभवो लघुना शरीरेण प्रभवन्ति कृत्येषु, नतु विघटमानपरिजनदुर्गृहीतभारगौरवग्र- स्तद्विधाकृतात्मान इति । चेटी-जत्थ साहणघरुद्देसे तुमं वट्टसि, तत्थ णत्थि मे ओआ- सो ति दुल्लहो तुम्हाण मेलओ । (ख) कञ्चकी-घटयिष्यत्यावामेकत्र प्रदेशे सामान्यलक्षणा नाम दूर- दर्शिनी । सर्वथा स्वस्ति नः करिप्यन्त्यान्वीक्षकीप्रेरितास्ताः । इत्येहि। साघयावः । (इति निष्क्रान्ती ।) इति मिश्रविष्कम्भकः। (क) ततो वयममिलिता एव साधयामो भर्तुः कार्यम् । किं खलु मिलिताभ्यामावाभ्याम् । (ख) यत्र साधनगृहोद्देशे त्वं वर्तसे, तत्र नास्ति मेऽवकाश इति दुर्लमो युष्माकं मेलकः । १. सिद्धिराश्रयासिद्धावन्तर्भवतीति प्राचीनमतेनेदम्. २. अन्यत्र हेती पक्षधर्मता, अन्यत्र च व्याप्तेर्सानमनुमितिहेतुः, ज्ञानद्वयसाधारणी च परामर्षस्य कारणतेति मीमांसकाः. ३. विशिष्टपरामर्षस्य कारणत्वे शरीरलाघवम् , इतरथा शानद्वयस्य कारणत्वे गौरवमिति सूच्यते. ४. मेलक एकत्र वर्तमानता.
२२ काव्यमाला। (ततः प्रविशति कथा पक्षता च ।) कथा-अयि, कमपि तवान्तरं प्रकारमुपलक्षयामि । बाष्पायितस्तिमितलोचनमायतैक- भूदाम चिन्तयसि किंचन काञ्चनाङ्गि । खेदोदकावपुषस्तव रोमहर्षः शंसत्यसावविरताङ्कुरितान्विकारान् ॥ २ ॥ पक्षता--भभवइ, तुह पुरओ च्चिअ तह तेण विप्पलम्भएण जणेण अविणअं पाविआ वञ्चिआ अ । किं भणदु मन्दभाइणी। असेसदो ण्णादवुत्तन्ता वि किं पुच्छसि । (क) कथा-अयि सरले, स्तोकमपि न स्मरामि केनाविनीतेन कथं वञ्चितासि । पक्षता-अलाहि भअवइ, ण तुए मन्तिस्सम् । तइआ क्खु तं अविणअव्ववसाइणं जणं बलामोडिअ वम्महव्ववहारेसु व्वावारेसि । एहिं भणसि ण संभवामि को सो जणो त्ति । (ख) (क) भगवति, तव पुरत एव तथा तेन विप्रलम्भकेन जनेनाविनयं प्रापिता वञ्चिता च । किं भणतु मन्दभागिनी । अशेषतो ज्ञातवृत्तान्तापि किं पृच्छसि । (ख) अलाहि भगवति, न त्वया मब्रयिष्ये । तदा खलु तमविनयव्य- वसायिनं जनं बलात्कृत्य मन्मथव्यवहारेषु व्यापारयसि । इदानीं भणसि न संभवामि कः स जन इति । १. तदेवमनेन विष्कम्भकेण व्याप्तिपक्षधर्मतयोरैकाधिकरण्यग्रहे सत्यपि पक्षता संभवति. सामान्यलक्षणया सर्वोपसंहारेण व्याप्तिग्रहेऽपि पक्षे साध्यसंवन्धाग्रह- संभवादिति व्युत्पादितम्. इदानीं कथाव्यापारेणोत्पन्ने तृतीयलिङ्गपरामर्षे पक्षता संघटत इत्यकेन व्युत्पाद्यते. २. अलाहिः निवारणार्थः प्राकृतो निपातः:
२ अङ्कः]
अमृतोदयम् ।
२३
कथा-अयि, शपामि यदि कोऽपि मया दुर्विनये व्यापारितः ।
नूनमसि संकल्पेन स्वप्नेन वा कमपि वृत्तान्तव्यतिकरमनुभाविता ।
पक्षता—(चिरमनुध्याय ।) ता होज्ज । एसो सविणए विणअहरो
वुत्तन्तो । (क)
कथा-कथय वत्से, कीदृशः ।
पक्षता-अज सिविणन्तरे प्पमअवणणलिणीकूललआहरप्पाव्भारे
तुह पासे किंपि मन्तअन्तो एसो जणो तुए दिण्णसण्णेण णिहुअमे-
न्तेण केणवि तकालमणहरेण जणेण बलामोडिअ वित्थरन्तेहिं
बाइहिं गहिओ परिच्चन्तो अ । (ख)
कथा-नूनमनेन मया बहुशः प्रस्तुतेन न्यायतनयेनान्ववायविशु-
द्धन परामर्पण स्वप्ने संगतासि । स्थाने युवयोरनुरागः ।
पक्षता-भअवइ, विशमाइ दशाइ वट्टामि ।
जइ ठाइ देइ विअणं जइ टुटुइ झत्ति कट्टए जीअम् ।
सहविसमगाढगेण्ठी कण्ठे वडिओ पणअपासो ॥ ३ ॥ (ग)
कथा-चिरं धारय जीवितम् । अनुभविष्यसि प्रियसमागमम् ।
(क) तद्भवेत् । एष स्वप्ने विनयहरो वृत्तान्तः ।
(ख) अद्य स्वमान्तरे प्रमदवननलिनीकूललतागृहप्राग्भारे तव पार्श्व
किमपि मत्रयमाण एष जनस्त्वया दत्तसंज्ञेन निभृतमात्रेण केनापि तत्का-
लमनोहरेण जनेन बलात्कृत्य विस्तरयां वाहुभ्यां गृहीतः परित्यक्तश्च ।
(ग) भगवति, विषमायां दशायां वर्त ।
यदि तिष्ठति ददाति वेदनां यदि त्रुटयति झटिति कर्षति जीवम् ।
समविषमगाढग्रन्धिः कण्ठे पतितः प्रणयपाशः॥
१. एतेन वाप्रिकदर्शनस्यानुरागप्रकर्षावहत्वेन दृढभूमित्वमेतावता प्रबन्धेन
सूचितम्.
२४ काव्यमाला। पक्षता-(संस्कृतमाश्रित्य ।) भगवति, सुचिरविरहबाधादुर्दिने प्रिय- संगमसुखाऽचिरद्युतयोऽपि न रोचन्ते । पश्य ज्वलति सुलभं चित्रा चन्द्रातपे शलमायितं दहति सुभगो देहः प्रौढे पुरोपवनानिले । किसलयशिलातल्पे शक्यं विपोथयितुं वपुः दयितविरहव्याधेर्बाधां चिरं सहते जनः ॥ ४ ॥ कथा—ननु चिरकालिकोऽपि प्रियसंगमश्चिरमपत्योत्पत्तिसुखेन परमाभ्युदयाय कल्पते । (ततः प्रविशति परामर्षों विदूषकश्च ।) विदूषकः--एसा सा साहणप्पासाअस्स तइआ भूमिआ । णं आरोहउ पिअवअस्सो । (क) परामर्षः—वयस्य, रमणीयतमोऽयमुद्देशः । इह हि ऐक्यं गतासु नभसा स्फटिकाश्मखण्ड- सोपानपतिषु विलोचनवञ्चिकासु । व्योनि व्रजाम्यहमधोमुखलम्बमान- च्छायामनुष्यचरणेषु पदानि दत्वा ॥ ५॥ अपि च । अग्रे चलत्यभिमुखं सहचारिपाचे पश्चात्पराङ्मुखमधश्च विलम्बमानम् । एकस्य मे मणिमयीषु निशान्तसौघ- सोपानभित्तिषु वपुर्बहुतामुपैति ॥ ६ ॥ (क) एषा सा साधनप्रासादस्य तृतीया भूमिका । नन्वारोहतु प्रिय- वयस्यः ।
२५ २ अङ्कः] अमृतोदयम् । पक्षता—भअवइ, संवदइ सिविणए सुदस्स सदम्स सरसंयोओ। ता जाणे सो व्विअ भअवइ, पत्थुओ जणो इमं देसमनुसरइ । ता अम्हे कुड्डन्तरिआ ठामो । (क) (इति तथा कुरुतः।) विदूपकः-णं आसणपरिग्गहं काउण पत्थुअकहासेसं वण्णेदु वअम्सो । (ख) (इत्युभौ तथा कुरुतः ।) विदूषकः—तदो का पउत्ती । (ग) परामर्षः–ततस्तदर्शनक्षणमारभ्य, टोत्कीर्णा त्वचि, विलिखिता नेत्रपत्रे, निषिक्ता खान्ते, स्यूता वचसि, निचिता पार्श्वतः पृष्ठतश्च । धारारूढा हरति पुरतः काचस व काचि- नानाभूत्वा वरतनुरिह प्रायशः प्राविशन्माम् ॥ ७ ॥ पक्षता--(अपवार्थ । सासूयम् ।) भअवइ, कए वि गहिअहिअओ एसो जणो । (घ) विदूषकः-वअस्स, तदो तदो । (ङ) (क) भगवति, संवदति स्वप्ने श्रुतस्य शब्दस्य स्वरसंयोगः । तजाने स एव भगवति, प्रस्तुतो जन इमं देशमनुसरति । तदावां कुड्यान्तरिते तिष्ठावः। (ख) नन्वासनपरिग्रहं कृत्वा प्रस्तुतकथाशेष वर्णयतु वयस्यः । (ग) ततः का प्रवृत्तिः । (घ) भगवति, कयापि गृहीतहृदय एष जनः । (ङ) वयस्य, ततस्ततः।
२६ काव्यमाला। परामर्षः प्रथमं निपपात या समग्रा मयि दृष्टिवलदम्बुजायताक्ष्याः । न चचाल कथंचिदप्यमुष्याः स्मरवाणरिव कीलितस्त्रिभागः ॥ ८ ॥ पक्षता—(अपवार्य ।) एव्वं परकलत्तप्पसत्तहिअए अस्सि जणे तुअ वअणेण णिहितचिन्ताए मम णवरं मरणं जेव्व परिणअम् । (क) कथा-अविदितकथाशेषा किमुत्ताम्यसि । विदूषकः-वअस्स, तस्सि अवसरे तए किं पि किअं भणिों वा । (ख) परामर्षः-वयस्य, स्तम्भेन कर्मणि तनोः स्थगितेऽपि काम- काष्ठां परामधिरोहतरां वरोरुः । गीर्गद्गदेन यदपि ग्लपिता तथापि वाचामगोचरमवोचत लोचनान्तः ॥९॥ पक्षता—(अपवार्य ।) भअवइ, पणिवडामि तुह पाआणम् । एरि- सदुव्विणीअजणगहिअहि अआ क्खणं पि ण जीविउं महेमि । अणुमण्णख मम् । परिच्चइस्सं दाव इदं सरीरम् । दुल्लहो क्खु इमस्सि जम्मस्सि परकलत्तप्पसत्तहिअओ जणो । (ग) (क) एवं परकलत्रप्रसक्तहृदयेऽस्मिञ्जने तव वचनेन निहितचिन्तायां मम केवलं मरणमेव परिणतम् । (ख) वयस्य, तस्मिन्नवसरे तया किमपि कृतं भणितं वा । (ग) भगवति, प्रणिपतामि तव पादयोः । ईदृशदुर्विनीतजनगृहीतहृदया क्षणमपि न जीवितुमिच्छामि । अनुमन्यख माम् । परित्यक्ष्यामि तावदेत- च्छरीरम् । दुर्लभः खल्वस्मिञ्जन्मनि परकलत्रप्रसक्तहृदयो जनः ।
२ अङ्कः] अमृतोदयम् । २७ विदूषकः-तदो । (क) परामर्षः-ततश्च कथाकथितरूपानुरूपामेनां विलोकयन् । प्रभातमङ्गलध्वानैधिग्जनोऽयमजागरीत् ॥ १० ॥ कथा—अयि चपले, शृणु तावत्त्वामाश्रित्य निशाखप्नवृत्तान्तमु- दाहरत्यायुप्मान्परामर्षः। पक्षता—(अपवार्य 1) भअवइ, एण्हि विपरिणओ मे संसारो। येहिं सुव्वन्तेहिं आसिं दद्धा हिमेण भिसिणि व्व निव्वावअन्ति ते व्विअ पिअवअणा मं संभविजन्ता । (ख) परामर्पः-वयस्य, अवलम्बस्व माम् । तिरयति चेतनां प्रियजन- कथाप्रसङ्गोत्थितो मोहः । (इति मूर्च्छति ।) कथा—संप्रति सांप्रतं तवोपसर्तुम् । (इति पक्षतामाकर्षति ।) पक्षता (उपमय परामर्षस्य ललाटे हस्तं दत्वा ।) बुज्झख महाभाअ, ण जुज्जदि ते मोहो । (ग) परामर्पः-(संज्ञां लब्ध्या ।) भगवति, नमस्ते । स्वागतमस्मै नूत- नातिथये जनाय । कथा—अद्य भगवतीभ्यां श्रुत्यान्वीक्षकीभ्यामादिष्टया मया सकल- वाङ्मयसाम्राज्यसुभगस्य स्वीकृतप्रमाणसमवायस्य न्यायस्य प्रथमपुत्राय यैः (क) ततः। (ख) भगवति, इदानीं विपरिणतो मे संसारः । श्रूयमाणैरासन्दग्धा हिमेन विसिनीव निर्वापयन्ति तान्येव प्रियवचनानि मां मर्यमाणानि । (ग) बुध्यस्व महामाग, न युज्यते ते मोहः ।
२८ काव्यमाला । गोतमगोत्राय तुभ्यमयोनिजन्मा संशयानुमित्सयोरपत्यकृतिका पक्षता नाम कन्यका प्रतिपाद्यते । परामर्षः-स्वस्ति । प्रतिगृहीतोऽयमार्याप्रसादः । विदूषकः-कथं वम्हणो इमो न परमण्णं भोजिओ ण सोत्थि- वाअणं पडिवादिओ। (क) (सर्वे स्मयन्ते ।) (नेपथ्ये कलकलः ।) विदूषकः-कीस एसो कप्पन्तघडन्तघणघडाघोरणिग्घोसघग्घर- भीसणो धरणिभारुद्धरणुदुरमहाबराहघोणाघुरीघुग्घुराइअगहिओ बहि- रिअसअलजीअलोओ लोआलोअन्तमहिवेढणभइरओ दुन्दुही ताडी- अदि । (ख) कथा—ननु समासन्नमिदमुदग्रसर्वाङ्गदुर्वारतरं चार्वाकबलम् । पश्य । माद्यद्दान्धगन्धद्विपघटितघटाबन्धमास्कन्द्य बन्ध- प्रेतत्पर्याणपर्याकुलतुरगवलक्रुष्टहेषाविशेषम् । एतत्सूतप्रतोदाहतहयचलितस्यन्दनोद्धातधाटी- धावत्पादातपादक्षुभितगति समभ्येति पारक्यचक्रम् ॥११॥ (क) कथं ब्राह्मणोऽयं न परमान्नं भोजितो न स्वस्तिवादनं प्रतिपादितः । (ख) किमित्येष कल्पान्तघटमानघनघटाघोरनिर्घोषघर्घरभीषणः धरणि- भारोद्धरणोद्धरमहावराहघोणाघुरीघुघुरायितगभीरो बधिरितसकलजीवलोको लोकालोकान्तमहीवेष्टनभरितभैरवो दुन्दुभिस्ताड्यते । १. सर्वाणि प्रमाणानि छायया महावाक्ये समवयन्तीति भाष्ये स्थितम्.
२ अङ्कः] अमृतोदयम् । २९ परामर्षः-(निरूप्य । सहर्षम् ।) तथा निमित्तानि सूचयन्ति यद- चिरेण नश्यत्यसौ सेनेति । पश्य । ऊवं धावन्ति मूर्धस्खलितभटशिरस्त्राणनिष्पिष्टशस्त्र- श्रेणीसंसर्गदूरज्वलदहनकणप्लुप्यमाणाः पताकाः । उत्पातोल्कानिपातव्यतिकरवशतो विप्वगावर्तमाना निर्मान्ति प्रान्तियोगादपरमिव रवेरम्बरे बिम्बवर्गम् ॥१२॥ पक्षता—को क्खु एसो सरअचन्दचन्दिआसोहणसरीरेण तुरएण परवलाहिमुहं पअट्टो । (क) कथा-नूनमसौ न्यायनिवन्धप्रणेता विद्वानुदयनो निर्दयं परेषु प्रहर्तुमभिधावति । (निरूप्य ।) अहो न्यायविद्वदुदयनाधिष्ठितस्य शीत- करश्वेतस्याश्वस्य प्लुतगतिपाटवम् । क्ष्मापृष्ठे क्षुरलक्षणेन पदवीमालक्ष्य शिक्षा गतेः कासन्तोऽनुसरन्ति धूलिमलिना दूरादमी वायवः । तस्माल्लोचनवञ्चनोऽयमवनौ पादं न दत्ते प्लुतै- बिम्बार्धाङ्कपरम्परामिव लिखत्याकाशभित्तौ हयः ॥ १३ ॥ अपि च । काष्ठान्तसंघटितदूरविलम्बमान- मार्तण्डरश्मिवलयानवलम्बमानः । गामस्पृशन्नपि दधन्नतिमुन्नतिं च हिन्दोलयेव तुरगो रमते प्लुतेषु ॥ १४ ॥ परामर्षः-अहो धावितलाघवमुदयनहयस्य । (क) कः खल्वेष शरच्चन्द्रचन्द्रिकाशोभनशरीरेण तुरगेण परबलाभिमुखं प्रवृत्तः।
३० काव्यमाला। विच्छिन्नाममुनैव यावदवनौ भानुः प्रभां पातये- त्प्रायस्तावदयं रयेण तुरगो गव्यूतिमुल्लङ्घते । ग्रामीणा जनता नितान्तचकिता दूराञ्चिते चक्षुषी निक्षिप्य क्षणमीक्षते पथि हयच्छायामयी विद्युतम् ॥१५॥ अपि चायमुदयनः अमुना हयवेगेन क्षणोत्तीर्णाध्वविस्तरः । समभिव्याहृतं वेत्ति नानाजनपदाक्षरम् ॥ १६ ॥ आश्चर्यम् । यो वेगतो गतो दूरमध्वानमुदलङ्घत । पश्चादनुसरत्येषा हेषा तस्यैव वाजिनः ॥ १७ ॥ कथा-कथमगणयित्वा शस्त्रवृष्टिमेपः उदयनतुषारधामा लोकं सहजं निजं परित्यज्य । प्रविशति परचक्ररविं प्रतिपदमनुवृद्धये कलाराशेः ॥ १८ ॥ परामर्षः-परितः पतदस्त्रवर्षमिषुधारया वारयन्नयमुदयनो हयरय- वशात्तथा भ्रमणिकामातनोति यथा । भूमौ तुरङ्गममयं गगने मुखेन्दु- ज्योत्स्नामयं नतधनुर्मयमन्तराले । आशासु सायकमयं तदिति क्रमेण चत्वारि चक्षुषि चकासति मण्डलानि ॥ १९ ॥ कथा-इमौ किल कुमारिलप्रभाकरौ पराम्पराभवन्तमुदयनमनु- सृत्य मन्त्रयेते—'भ्रातरुदयन, किमात्मानमायासयसि । हरन्तु पक्षतां १. वेगेन. २. 'शेषः' इति पाठः. ३. ज्ञानद्वयमनुमितिजनकम्, न तु पक्षतेति मीमांसकमतम्.
२ अङ्कः] अमृतोदयम् । ३१ किल खण्डयन्तु परे परामर्षम् । ननु द्विधाविभक्ततनुरप्यसौ पक्षतया धर्मदोरविनापि प्रभवति ननयितुमयोनिजां निजामनुमितिम्' इति । पक्षता-अहो कुडिलत्तणमिमाणम् । (क) विदूषकः-भअवइ, भिआमि इमासुं । तदो पक्खदं कत्थ अवा- हिए त्थले ठवेमि । (ख) (इति पक्षतया सह निष्क्रान्तः ।) परामर्षः–इमौ कुमारिलप्रभाकरौ स्मितपूर्वमुदयनेनावधीरिती कोपकपिलाननौ भूत्वा मां सदारं शपतः- 'गर्भ धत्तां परामर्पसंनिकर्षेण पक्षता । अपत्ये जातमात्रे तु दम्पती नभविष्यतः ॥ २० ॥ कथा—अहो दुराचारयोरनयोर्दारुणानि दुरन्तवचनानि । परामर्षः-भगवति, तथाविधापत्यवदनदर्शनकृतार्थयोरावयोः क्षणमात्रमपि प्राणनं परमनिःश्रेयसाय । (नेपथ्ये कलकलः ।) कथा—हा, किमेतत् । जगदवसानदिवसोदित्वरदिवाकरप्रकरकर- चक्रनिक्कथनकदर्थितमिव युगविगमवर्धमानवडवावीतिहोत्रहेतिलिह्यमा- नमिव धूर्जटिललाटलोचनपुटपच्यमानमिव जनजातमकाण्डचण्डिमाप- नशुप्मोप्मणा कृच्छ् प्राणिति । (प्रणिधाय ।) नूनमुदयनेन परेषां क्षुद्रा- णामुपद्रवमसहमानेनोदीरितमिदमामेयमस्त्रम् । परामर्पः-अहो, दहनक्रियालाघवमुदयनोदीरितानेयशस्त्रानलस्य । (क) अहो कुटिलत्वमनयोः । (ख) भगवति, विभेम्याभ्याम् । ततः पक्षतां क्वचिदप्यबाधिते स्थले स्थापयामि । १. अनुमिती जातायां सियभावस्वरूपा पक्षता तिरोभवति, ततः परामर्षों नश्यतीति भावः.
३२ काव्यमाला। तथ हि। सेनेति धूमपटलीति हुताशवीथी- त्यङ्गारराजिरिति भस्मपरम्परेति । दृष्टिविचित्रमतिमादधती विहाय वस्तुक्रमं युगपदुल्लिखति प्रकारान् ॥ २१ ॥ (नेपथ्ये ।) अरे दुरात्मन् , अयं न भवसि । कथा-अयमसावुदयनेन दग्धे सकलबले समरमवतरन्नेक एव चार्वाकाणां सार्वभौमः समग्रा- मुर्वी क्रामन्नर्वता कवुरेण । सर्वन्धैर्विक्रमैरिवर्ग खर्वीकुर्वन्नेति दुर्वारंगवः ॥ २२ ॥ परामर्षः :–हा, कथमापतन्नेव चार्वाकवीरोऽयमुदयनकरनुन्नशर- भिन्नवर्मा प्राणानपहाय पतितः । खलः पाटचरी वृत्तिमवसानेऽपि नोज्झति । असावसूनां व्रजतामादत्ते पञ्चताधनम् ॥ २३ ॥ कथा-श्लाघनीयोऽयमीदृशः शूरस्य प्रतिशूरशरशीर्णस्य शरीर- क्षयः । तथा हि उंच्चैरुद्धयमाने क्षरदसूगुदके पक्षपालीजलार्द्रा- स्तोमे स्तोमावदातद्युतिभृति यशसा तायमाने विताने । चार्वाकोर्वीभुजङ्गा समरभुवमसौ संविभक्तानुरागा- मङ्गेनालिङ्गय निद्रां निरवधिमधुना सेवते वीरतल्पे ॥२४॥ १. 'मम' इति पाठः. २. 'गृधेः' इति पाठः.
२ अङ्कः अमृतोदयम् । ३३ परामर्षः-भगवति, जानामि चार्वाकमपहाय सांप्रतमुदयनमसौ विश्वंभरा कामयते । कथा-एवंविधप्रकृतिरेव कुलपांसुला काश्यपी कस्य परिचयं प्रमाणयति । पश्यैषा नरकप्रसूर्वसुमती गर्जद्गजग्रामणी- पर्जन्यच्युतदानवारिसमरप्रावृण्णिशीथे पुनः । वद्धाश्लेषमपास्य वीरशयने निद्रान्तमेकं पति को जानात्वभिसृत्य गच्छति कया गत्या परं कामुकम् ॥२५॥ परामर्प:-क एष नाम न्यायाचार्यमुदयनं मूलराज्येऽभिषिञ्चति । कथा-एष परिशिष्टप्रकाशकवयिता बुधो वर्धमानः । तं किल चार्वाकस्य बन्धुरतिनृशंसः सोमसिद्धान्तः समरायाहयते । परामर्षः-हन्त, आहूतकुपितो वर्धमानो मण्डलायमुद्यम्य सोम- सिद्धान्तमभिधावति । कथा-वत्स, पश्य स्कन्धे व्यापारयन्नस्य कृपाणमुपवीतवत् । वर्धमानो द्विजवरः संस्करोतीव वैरिणम् ॥२६॥ परामर्षः-नूनमसावस्य पाखण्डाखण्डलस्य कण्ठे गृहाति, वक्षो विमृशति, वलते पार्श्वतो, मध्यभागे श्लिप्यत्यूरुं रुणद्धि, प्रणिपतति पदे वर्धमानासिवल्ली । इत्यं व्यक्तानुरागाप्यनुनयविमुखे सोमतन्त्रस्य पत्या- वुत्पत्य खर्वधूटी प्रणयिनि धरणौ लजया मज्जतीयम् ॥ २७ ।। १, कुसुमाअलिप्रकाशः.: २. बौदाधिकारटीकायां वादिविनोदे च शंकर- मिश्रचरणैरुक्तम्-'सोमसिद्धान्तोऽपि चार्वाकरीत्या संगमनीयः' इति. अमृ०३ ३४ काव्यमाला। अपि च । प्रौढच्छेदोच्छलितो व्योमगतः सोमतन्त्रकायाः । रूढकवाहुराहुभ्रान्त्या मिहिरं विभीषयति ॥ २८ ॥ कथा-दृढासिप्रहारपतिते सोमसिद्धान्ते कापालिकनीललोहित- महाभैरवभूतडामरोमामहेश्वरादयो रणादपक्रान्ताः । वत्स परामर्ष, जातं निष्कण्टकम् । एते च (?) प्रतिबन्धसाधनसिद्धिभ्यां प्रतिसंस्कृताः कार्यायोजनधृतिसंहृतिपदप्रत्ययप्रभृतयः साधनप्रासादप्रदेशाः । तेषु पक्षतया सह विहरमाणो जनयिष्यसि भगवतीमनुमितिम् । अनया च संघटितः पुरुषः प्राप्स्यति सिद्धिमिति । प्रवर्तते चेयमुत्तमचामीक- रद्रवनिकरैरिवाम्बरपरभागमापूरयन्ती पितृप्रसूः । यदपि सृजति पूर्ववन्न तापं समयवशेन विलीनपश्चिमार्घः । अवतमसमलीमसं तथापि त्यजति न रागसमागमं पतङ्गः ॥ २९ ॥ (इति निष्कान्ताः सर्वे ।) इति मननसिद्धिर्नाम द्वितीयोऽङ्कः। 1. एते सोमसिद्धान्ताचार्याः. २. प्रतिवन्धो व्याप्तिः, साधनसिद्धिः पक्षध- मता, कार्यायोजनं धृतिरित्यादीनि भगवत्साधकानि लिङ्गानि कुसुमाजलौ प्रसिद्धानि. ३. पताकास्थानके श्लेषः समासोक्तिः साधारणधर्मोपन्यासवेति त्रयः प्रकाराः. तत्र यदपीत्यादिसमासोक्त्या पतङ्गपदोपात्तस्य तीर(१)स्य श्रवणमननसिद्धावपि परोक्षानुभवेन परोक्षस्यैव दोषत्रैराश्यस्य हानिः, तत्प्रयुक्ता कियतां क्लेशानां हानिः सिध्यति, तदप्यपरोक्षमोहजनितो रागादिर्न रिमतीति साक्षात्कारसिद्धये तृतीयाकायचतार इति बिन्दुरपि सूचितः.
३ अङ्कः] अमृतोदयम् । ३५ तृतीयोऽङ्कः। (ततः प्रविशति श्रद्धा निवदश्च ।) निवेदः--हन्त हन्त, विभ्रति विश्वमदभ्रवैभवे भगवति विश्वंभरे कमन्यमाश्रयाम्यगाधगंधगदगृहीतः । तेन हि । जहिहि तरलां लक्ष्मीमेतां त्यजामरपादपा- न्हृदयहतया किं ते चिन्तामणेरपि चिन्तया । जटरदहनज्वालाशान्त्यै यदि म्युरमी तदा स्वपितुरुदधेरौवं निर्वापयेयुरुपर्वधः ॥ १ ॥ श्रद्धा-वत्स, ज्वलितं जंगज्जीवितमनेन तृप्णाज्वरैर्जनं जरयता दुर्जातेन जठरजातवेदसा । न जातु कोऽपि जन्तुरनेनानभिजातेनागो- चरीकृतो जीवति । पश्य । मैत्री समं हुतभुजो भौमस्य यद्वायुना स्पृष्टः प्रज्वलति प्रतीपवलनां धत्ते च वैश्वानरः । तथ्यं प्राणसमीरकोष्ठशिखिनोः सख्यं यतस्ताविमौ विश्वेषामुदरं सहैव विशतः काले सहोत्क्रामतः ॥ २ ॥ का मरुता १. श्रवणमननाभ्यां संसारविषयकालं प्रत्ययरूपस्य आत्मावमानरूपस्य वा निवेदम्य दृढभूमिकता स एव विवेकः. विवेकिनस्त्वायतिमालोच यन्तः संसार सुख- मपि कुपितफणि फणामण्डलच्छायप्रतिममित्यपजहतीति टीकादर्शनात् निर्वेददृढ- भूमिके सति श्रद्धा विविदिषां साक्षाच्चिकीर्षा प्रसूते. 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिपन्ति यज्ञेन दानेन तपसाऽनाशकेन' इति श्रुतेः. विविदिषाव्यापारित- पुरुषो निदिध्यासनादा प्रवर्तते. सेयं निदिध्यासनपूर्वारम्भा विष्कम्भकेण प्रस्तूयते. २. ग| नाम विषयबुभुक्षा । सा द्विधा-तृष्णा काम इति । तत्राप्यगर्धाग्निर्वि- द्यते-'तेन हि' इत्यादि. ३. जीवता ग? न परिहर्तुं शक्यते. स हि सर्वजनस्य जठरानलसाध्यः, स चाजीवनमनुवर्तते इति श्रद्धया आक्षेपः.
३६ काव्यमाला। किंच महदनादरवीजमिदम् , यदकिंचनता नाम, यया गृहीतो धनोपा- यमनुसरन्नवगृह्यते जनः । पश्य कन्यारत्नं हयपरिवृढं नागराज मणीनां श्रेष्ठं दत्वा विबुधपरिषत्तोषिता सागरेण । धिग्दारिद्यं परिभवपदं यस्य दोषात्पुरारे- मूर्ध्नि क्षिप्तो विबुंधविघसनासपिण्डस्य खण्डः ॥ ३ ॥ निर्वेदः-जैननि, गर्ध एव गर्हामूलममुष्य, न पुनरकिंचनता । तथा हि। जाति विहाय कनके रमते पशूनां भर्ता विभर्ति शिरसा कृपणः कपर्दम् । राजेति वक्रशशिनं तिलकीकरोति तस्मादसौ परिभवास्पदमीश्वरोऽपि ॥ ४ ॥ श्रद्धा-वत्स, न तथा किमपीतरद्वस्तुगर्धगोचरो यथा स्त्रियो नाम । निर्वेदः-शान्तम् । अविषयो विदुषार्मभिलाषस्य मानुषगणः । विशेषतस्तु- अशुचिवपुषामेषां मध्येऽप्यमेध्यतमाः स्त्रियः कचिदपि न हि श्रौते कर्मण्यमूरधिकुर्वते । विगलदसृजःपूयग्रन्थिप्ररूढदुरुद्धर- द्विपदकृमयो नित्यं यासां गलन्त्यधरव्रणाः ॥ ५॥ १. तव दारिद्यदुःखपरिहाराय धनगर्धापि न परिहर्तुं शक्यते इति भावः, २. चन्द्रस्य. ३. प्राणयात्रामात्रगोचरो ग? यावज्जीवमवतिष्ठत इति वाढम्. तथाप्यधिकधनगर्धः सुपरिहरः, स एव च परिभवायेत्याह-जननि इति. ४. उन्मत्तकुसुमे मालतीं विहाय मोदते; पक्षे-जातिव्यवहारमुल्लच्यापि सुवर्णार्जने यतते. कपदं जटाजूटं वराटकं वा. राजेति चन्द्रमसो नाम. ५. कामं निन्दितुं प्रस्तौति. ६. 'अनुरागस्य' इति पाठः.
aid ३ अङ्कः] अमृतोदयम् । ३७ श्रद्धा-वत्स, प्रबलयोरनयोर्गधकामयोर्विरामाय किमपि यतते श्रुतिः । निर्वेदः—मातः, तदभिसंधाय दुहितरं प्रमितिमर्पयति स्म पुरुषाय । श्रद्धा वत्स निर्वेद, जानासि पुरुषमाश्रित्य वर्तते श्रौती प्रमितिः निर्वेदः—परैः प्रसह्यापहृतामपि प्रमितिमात्वीक्षिकी प्रत्याहृत्य पुरुष- सादकरोत् । परं तु- परबलपरिमर्दायासतान्तां नितान्तं पुरुषमुपगतान्तां कापि शङ्का पिशाची । अविशदवशमस्या येन सर्व शरीरं प्रभवति न कथंचित्कर्मणः साधनाय ॥ पिशाचावेशविवशां प्रमिति तनयां श्रुतेः । न श्रद्दधाति पुरुषः प्रमाणयतु तां कुतः ॥ ७ ॥ पठति चायमतिमात्रप्रवृद्धमहामोहः पुरुषो दुरक्षराणि । 'अपरिचिततातजन्मा श्रुतिरभिजातिं न चेद्भजते । कथमनभिजातवंश्यां प्रमिति पुरुषः प्रमाणयतु ॥ ८ ॥' इति । श्रद्धा -ततस्ततः । निर्वेदः-ततो भगवती श्रुतिरान्वीक्षकीमादिष्टवती-'घटय पक्षतया परामर्षम् । प्रभवति हि दुर्घटघटने त्वदनुशिष्टानां कथानां प्रथमा' इति । श्रद्धा-तत्किं घटितः पक्षतया परामर्षः । निर्वेदः—न केवलं घटितो, यावदनुमितिं नाम कन्यकामजनयत् । तामिमां दारिकाम् , अन्तःकरणाय बादरायणी, बुद्धिसत्त्वाय कापिली, १. 'तान्तं' इति पाठः २. अनुमितिरन्तःकरणस्य वृत्तिरित्यौपनिषदाः. प्रकृति- परिणामस्य बुद्धिसत्त्वस्य महतो नामेति सांख्ययोगौ. प्रवृत्तिविज्ञानसंततावन्तर्भूते- यमालयविज्ञानसंतती समवतीति सौगताः. पुरुषाणामेवासौ गुण इति नैयायिकादयः. r ३८ काव्यमाला। चिदालयसंतानाय सौगतीसंहिता दातुमारमते । गौतमी काणादी जैमि- नीया च पुरुषसात्कर्तुमीहन्ते । श्रद्धा-अपि नाम सिद्धये संपद्येत पुरुषानुमित्योः संगतम् । प्रविश्य ।) विविदिपा-भगवति श्रद्धे, पुरुपस्त्वां द्रष्टुमिच्छति । श्रद्धा-पुरुषः प्रथमं तथाभजमानामपि मां निराकरोत् । अधुना मम केन हेतुना वदनालोकनमीहते शठः । विविदिषा-भगवति, सांप्रतमनुमित्या सह संगतः पुरुषस्तस्या जल्पितेन बोधितः श्रौती प्रमितिं भवती च बहु मन्यते । शशाम किलानुमितिजल्पितेन श्रौतप्रमितेः पिशाचावेशः, पुरुषस्य च श्रुता- वनभिजातभ्रमः । श्रद्धा-कथय कीदृशमनुमितिजल्पितम् । विविदिषा-एवमाह पुरुषसंगतानुमितिः- 'भुवनघटनभनौ निर्मिमाणस्य यस्य प्रभवति परमाणुप्रेरणाय प्रयत्नः । परिणतिहितहेतौ विश्ववृत्तिं विधत्ते विधिवचनविधातुस्तस्य पुंसो नियोगः ॥ ९॥ अपि च । यस्य त्रैगुण्यशक्तिद्रढिमभरवतः सिद्धिलिङ्गानि कार्य वाक्यं संख्याविशेषश्रुतिपदधृतयः प्रत्ययायोजने च । १. यज्ञादौ विश्वस्य प्रवृत्तिम्.. २. ज्ञानेच्छाप्रयत्नाः. ३. कार्य जन्यभावः संख्याविशेषः, सर्गाद्यकालपरमाण्वादिसंख्यापदं व्यवहारः, धृतिर्ब्रह्माण्डादेः प्रलय आश्वासः, आयोजनं परमाण्वादिषु आरम्भजनकं सर्गाद्यकालीनं कर्म । अथ वा कार्य विधिराप्ताभिप्रायः । विधिरेव ताबद्दर्भ इव श्रुतिकुमार्याः पुंयोगे प्रमाणमिति सर्व कुसुमाजलावनुसंधेयम्.
३ अङ्कः] अमृतोदयम् । ३९ कर्ता कार्यस्य धर्ता भुवननिगमयोः संप्रदायप्रवक्ता विश्वस्याश्वासमूलं स जयति पुरुषश्चेतनाराशिरेकः ॥१०॥ श्रद्धा-घटितः प्रमित्यानुमित्या च पुरुषः । सांप्रतमवसरोऽस्य सिद्धिसंगमाय । निर्वेदः-भगवति, भगवान्पतञ्जलिः संयमदुहितुः सिद्धेः पुरुष- संगमाय व्यवस्यति । विविदिपा-भगवति श्रद्धे, सखे निर्वेद, सर्वे वयमुपसीम पुरुषम् । (इति निष्कान्ताः सर्वे ।) इति विष्कम्भकः। (ततः प्रविशति पतञ्जलिः ।) पतञ्जलिः-प्रसादयति बुद्धिवृद्धिमसौ चतुर्दशो निशामुहूर्तः । परिणतनिशाकेशस्तोमे प्रभापलितोन्मुखे भजति तमसश्चके चक्रीवदङ्गपिशङ्गताम् । अपगतगुणद्वन्द्वासत्त्वे स्थिता समयक्रमा- न्मलिनविषयाकारस्पर्श विमुञ्चति चेतना ॥ ११ ॥ (निरूप्य ।) नूनमवसानदशायां वर्तते विभावरीतुरीययामः । निर्वान्त्यः पुनरुद्भवन्ति भवने प्रातःप्रदीपत्विषः प्रान्तेभ्यो मुहुरन्तरं विविशते निर्याति चान्धंतमः । औदर्यानलमान्द्यदोषशमनीमासेवमानः क्रियां सौधो धूममिव प्रणालनलकैः पीत्वायमुन्मुञ्चति ॥ १२ ॥ १. उपनायकः पुरुषः । तदिति वृत्तं प्रासङ्गिकं व्यापकं च पताकेत्युच्यते । पताकप्राप्त्याशायोगादर्भसंधिः । प्राप्त्याशा तु मुहुर्विनैः प्रतिहन्यमानः फलानुकूलो व्यापारः प्रादेशिकमितिवृत्तम् । प्रकरो यथा रामचरिते श्रावणवृत्तान्तः । तथेह पतञ्जलिव्यापारः । स चेह नियताप्तिसंवलितो विमर्शसंधिरित्यादि यथायथ- मनुसंधेयम्.
४ काव्यमाला। अपि च । सौधस्य प्रतिफलितं निकुञ्जगभें- प्वभ्यर्णोन्मिषितकपोतनादपुष्टम् । एकस्याप्यनुगुणने कृतोद्यमस्य स्वाध्यायध्वनितमनेकधा विभाति ॥ १३ ॥ (नेपथ्ये ।) नाथ, कथमुपेक्षसे । के जगति कतमाह्निकस्य हेतो- रहमिह बद्ध इति त्वमेव वेत्थ । स्वमपि यदि न चेतये न च त्वां मम करुणामय तत्र कोऽपराधः ॥ १४ ॥ पतञ्जलिः-अहह, करुणानि चिरात्प्राप्तचेतनस्य पुरुषस्य पुरु- षोत्तम प्रति परिदेवितवचनानि । (पुनर्नेपथ्ये।) हन्त भोः, अविदितगतिना प्रमादनिद्रा- मुषितमतिः कितव त्वयास्मि बद्धः । १. अन्योऽपि हि कारागारप्रसूतो दस्युदारकादिर्बन्धकर्तारमात्मानं च न परिचिनोति, न चायमपराध्यति पित्रोरपराधादिनेति मोचयितुमेवोचितः. २. अविदितेति । गतिर्विचेष्टितम्, पदसंचारो वा । तथा च निमृतपदमागत्य तस्करेण निद्रादशायां बद्धस्य जाप्रद्दशायामभिमुखागतप्रतिभटनिवारणपटोः पथि- कस्य वृत्तान्तो ध्वननगम्यो भगवद्वद्धपुरुषवृत्तान्ते तादात्म्येनाध्यारोपितः-इति गुणीभूतव्यङ्ग्यतावृत्तान्तयोः उपमाष्वनिर्वा. ३. दृश्यन्ते हि तव निवर्तनाभि- प्रायेण प्रवर्तनादयः कूटव्यवहाराः.
३ अङ्कः] अमृतोदयम्। कथमिव मम दृष्टिवर्मवर्ती भवपथतस्कर बन्धने प्रभुः स्याः ॥ १५ ॥ पतञ्जलिः-हन्त, पुरुषस्य परमात्मानं दिदृक्षमाणस्य भगवन्तं प्रति वलवदेतान्युपालम्भाक्षराणि । (नेपथ्ये ।) अये, आयतुमाय (?) किमायासयसि दीनजनम् । किंतव तव वशे ममेन्द्रियाणि श्रुतिविषयावधिवर्तमानदृष्टेः । मुखमसि जगतो न वेद्मि दृष्टौ त्वमवतरिष्यसि केन दर्पणेन ॥ १६ ॥ पतञ्जलिः-नूनमसौ विविदिषया गाढमुपगूढः पुरुषो निर्विद्य परमात्मदर्शनोपायमनुसरति । (नेपथ्ये।) हन्त, सांप्रतमायासनिःसहोऽस्मि । बहुविध भवभूमिकाभिराभि- नेटयसि नाथ यथा तथा नटामि । १. न हि त्वदर्शनात् परतो भवाध्वनिकोऽपि संसर्तु क्षमते. २. त्वद्दर्शिनां त्वद्यापारेणापि बन्धो न संभवतीति भावः. ३. तव सन्निहितप्रपञ्चतया कित- वत्वम् । जगदपक्रमकारणत्वाच मुखत्वम् । जगतो मुखमसि चेत् सुतरां ममेति । तव हृषीकेशस्य वशे सर्वेन्द्रियाणि त्वदधिष्ठितान्येव प्रवर्तन्ते । मुखे च घ्राणरसन- चक्षुःश्रोत्राण्यन्तर्भवन्ति । तव दृष्टिवैदैकविषयधर्माधर्मपर्यन्तं प्रवर्तते । मुखस्यापि दीर्घा दृष्टिः श्रवणदेशावधि तिष्ठति । स्वमुखं च स्वयं दर्पणं विना न दृश्यते, त्वमपि निर्विकल्पसमाधिमुकुरप्रतिफलितो दृष्टिपथमवतरिष्यसि । तदुपायोऽधुना जिज्ञा- सित इति समुदायार्थः. ४. अत्र नृत्तावसानपारितोषिकार्पणमीत्या नाटकं परिस- मापयतावान्तरप्रसादयाचनभयादन्तर्धाय निरीक्षमाणेन कुतुकिना कृपणेन प्रभु- नाचिरमनेकभूमिकाभिर्निदेशमात्रेण नर्तितस्य निर्विष्णनटस्य वृत्तान्तः पुरुषवृत्तान्ते गुणीकृत्याध्यारोपितः । अत एव पुरुषे निर्वेदभावो व्यञ्जनापथमवतरति । अप्रस्तुतप्रशंसास्वीकारे तु नटमालम्ब्यैव निर्वेदः सामाजिकाय खदेत.
४२ काव्यमाला। कृपण गमयिता भवानविद्या- जवनिकयान्तरितः कियन्त्यहानि ॥ १७ ॥ पतञ्जलिः--हन्त, द्रवयन्ति मम चित्तवृत्तिमेतानि विविदिषतः पुरुषस्य निर्वेदोपबृंहितानि परिदेवितानि । तत्संघटयामि सिद्धिममुना । तया सह पश्यतु परमात्मानम् । कः कोऽत्र भोः । (प्रविश्य ।) वटुः-उपाध्याय, शाण्डिल्यो जाबालिरभिवादये। पतञ्जलिः-वत्स, स्फुरति ते परं चापरं च ब्रह्म । आयुष्मन् , निरुध्यन्तामन्तरायभूताश्चित्तवृत्तयः । पुरुषसंगमाय सिद्धिमभिसारयतु महाव्रतनामा मम कञ्चुकी । (प्रविश्य ।) महाव्रतकापालिकः-एशे म्हि अहके । कीश आणुवेदु भावे । (क) जावालिः-(सभयम् ।) क एष नरकपालमालया भीषणकलेवरः सुरा- चषकास्वादकपायलोचनः समुचित इव नरकराशिरुपाध्यायमनुधावति । पतञ्जलिः--वत्स, पाषण्डमहाव्रतसिद्धान्तोऽयम् । अलमनेन । महाव्रतकापालिकः--ममं पि तुए णत्थि पओअणम् । (ख) (इति निष्क्रान्ताः ।) (क) एषोऽस्म्यहम् । किमाज्ञापयति भावः । (ख) ममापि त्वया नास्ति प्रयोजनम् । १. सिद्धिर्योगजो धर्मः, स एव भगवत्साक्षात्कारहेतुरिति कुसुमाञ्जली स्थितम्, २. 'योगश्चित्तवृत्तिनिरोधः' इति पातञ्जलं सूत्रम्. ३. कापालिका हि ‘रुदो ह वै महाव्रतं चकार स नरशिरःकपालं दधार' इति श्रुतेर्भगवतो भैरवस्य कपालधा- रणाच तदेव महाव्रतमिति मन्यन्ते, ३ अङ्कः] अमृतोदयम् । ४३ पतञ्जलिः-वत्स महाव्रत, सार्वभौमः साधयतु पुरुषम् । अभि- सारयतु च सिद्धिम् । यस्य खलु जात्यादेशेन कालेन व्यवस्थाभिरविप्लुतम् । हिंसारत्यनृतस्तेयपरिग्रहविवर्जनम् ॥ १८ ॥ (नेपथ्ये ।) अयमसौ वध्नाति पञ्चप्रकारं परिकरं पुरुषप्रसाधनाय सार्वभौमो महावतानाम् । न पुनर्दवीयसी सिद्धिरनेनाभिसारयितुं शक्यते । पतञ्जलिः -वत्स जावाले, नियमगणो यमानामग्रतो भूत्वा सिद्धिमाहरतु । (प्रविश्य ।) निर्जरः—एशे म्हि अलिहन्तशासणशलाहणिजे णिज्जलेणाम णि- यमे । (क) पतञ्जलिः—(विलोक्य ।) वत्स, निर्याप्यतामयमार्यजनगर्हणीयः पुद्गलाधमः, योऽयमस्नानमौनमलपङ्कधारणतिष्ठद्भोजनतप्तशिलाधिरोहण- केशोल्लुचनादिना जीर्यति जीवाजीवसीवनहेतुः संवर इति मन्यते । निर्जरः-हदाशा, तुमंपि शावआह पलिहलिदव्वदंशणेत्ति श जेच्च शाहमि । (इति निष्क्रान्तः ।) (ख) (क) एषोऽस्म्यहमर्हच्छासनश्लाघनीयो निर्जरनामा नियमः । (ख) हताश, त्वमपि श्रावकस्य परिहरणीयदर्शन इति स्वयमेव साधयामि। १. 'ब्राह्मणो न हन्तव्यः' इति जात्या, 'तीर्थे पर्वणि यज्ञं विना कोऽपि न हन्तव्यः' इति कालदेशव्यवस्थाभिनियमिता हिंसा । एवमस्तेयम् , सत्यम् , ब्रह्म- चर्यम् , अपरिग्रहश्च कालजातिदेशव्यवस्थानियमितश्चेत् तदा यम इत्युच्यते । स एव 'कोऽपि कदापि कुत्रापि कथमपि न वध्यः' इत्यादिरूपो महाव्रतमित्यु- च्यते. २. दिगम्बरा हि सप्त मलान्मन्यन्ते । जीवो विहाप्रकृतिः, अजीवो देहादिः, यस्य मलेन निर्मलस्यात्मनो भोगः, आस्रवा इन्द्रियाणि, संवरो जीवा- जीवतादात्म्याभिमानः, मोक्षो निरावरणता. - निर्जरस्तपः, बन्धोऽज्ञानम्, ४४ काव्यमाला। जावालिः–भगवन् उपाध्याय, नियमगणो निवेदयति-'अन्य- दपि दवीयसी सिद्धिः । अतः पुरुष एवास्माभिस्तपसा खाध्यायेनेश्वर- प्रणिधानेन च पावनीयः' इति । पतञ्जलिः–बाढम् । अर्पयतु कर्माणि विश्वनिर्मातरि पुरुषोत्तमे प्रणिहितः पुरुषः । (नेपथ्ये।) अरे करुणामहार्णव, खरसमपि वरं न भोक्तुमीहे हर मम संवलसंचयं गृहाण । उपदिश कतरद्विदूरयात्रा- श्रमशमनं भववर्मनोऽवसानम् ॥ १९ ॥ पतञ्जलिः–श्लाघ्यमिदं वैराग्यमुमुक्षयोरनुरूपं पुरुषस्य वचनम् । (पुनर्नेपथ्ये ।) संकलमपि मया स्वकर्मबीजं त्वयि वृषवाह समर्पयांबभूवे । १. 'तपःस्वाध्यायेश्वरप्रणिधानानि नियमाः' इति पातअलम् । तत्र तपश्चा- न्द्रायणादि, स्वाध्यायः प्रणवजपः, प्रणिधानं कर्मार्पणम्. २. स्वरसं स्वर्गादि- फलकम् । अत्र पथविरामविश्राममात्रकामुकस्य संवलोपभोगविरकस्य दूरपथिकस्य वृत्तान्तः संसारसुखविमुखस्येश्वरे कर्माण्यर्पयतो मुमुक्षोवृत्तान्ते तादात्म्येनाघ्या- रोपितः पुरुषमालम्ब्य श्रमविषादनिर्वेदानुल्लासयति, खादयति प्रेयांसं नाम भक्ति- रसम्. [संवलः पाथेयं प्रतिवसति भोग्यत्वात्.] ३. अन्यो बीजखामी स्वयीजानि हलवृषवाहके समर्प्य स्वयं निर्दोषो भवति । सस्यानुत्पत्तौ हलवाहको दैवं वापरा- ध्यति । मया तु त्वयि धर्माधिष्ठातरि वृषभवाहने कर्माण्यर्पितानि, तानि च निर्दोष- तया मयि निष्कामतया फलं न प्रसुवते, मम तु दोषा रागद्वेषमोहा न विरम- न्तीति व्यतिरेकन्यजनमुखेन दोषक्षयाभिलाषभावमुखासयति.
अमृतोदयम् । ३ अङ्कः] ४५ तव मम च न चेत्फलं प्रसूते कथमधुनाप्यहमेव दोषभूमिः ॥ २० ॥ पतञ्जलिः खदोषक्षयाशंसनपिशुनोऽयमस्य पुरुषोत्तमं प्रत्युपालम्भः। (नेपथ्ये ।) अये नित्यप्रबुद्ध, मम भवपथिकस्य कर्म भोग्यं प्रलयनिशि त्वमपालयः शयालोः । इति सकलमकिंचनो बुभूषुः प्रहरकवेतनमेतदर्पयामि ॥ २१ ॥ पतञ्जलिः साधु, तावदिदं व्यपदेशेन भगवति सर्वकर्मणामर्पणम् । (नेपथ्ये।) भगवन् , अवतर नयनवर्मनीत्येवाशास्महे । न खलु त्वया नेदी- यसोप्ताः फलन्ति क्षेत्रज्ञक्षेत्रे कर्माशयाः । पश्य । यदि विरहितभोगभोग्य दूरा- द्वयसि वृषाङ्क तदा फलानि सूते । १. प्रलये निरुद्धवृत्तेः भवपथिकस्य पुरुषस्य कर्मणामवेक्षणं पुरुषोत्तमकर्तृकम् । निशियामिकेन पथिकोपभोग्यसंवलपालनत्वेनाध्यवसीयते । तच्च सकलोपभोग्य- कर्मणां ब्रह्मणि पुरुषकर्तृकमर्पणम् । प्रतीतिशब्देन हेतुरित्युच्यते। कर्मार्पणे प्रहरकवेतनत्वेनाध्यवसिते संवलपालनाभेदेनाध्यवसितकर्मावेक्षणस्य हेतुताध्यव- सायसंभवत्वात् । वरमेतावतेतिशब्दोपात्तहेतुतोपपादकतया व्यन्यार्थस्य गुणीभूत- व्यङ्ग्यत्वमनुमन्यते. २. सकलमपीत्यादिना दोषक्षयाशंसा व्यञ्जिता । अधुना तु दोषक्षयोऽपि कर्मफलानुत्पत्त्यर्थमपेक्ष्यते । सा च त्वद्दर्शनान्तरीयकफलत्वात् पृथक्तया नाशास्यत इत्याह-'भगवन्' इति एतेन कर्मार्पणमपि त्वदर्शने चरितार्थमित्युक्तं भवति विरहितभोगभोग्येतिपरिकरेण दुर्भगहालिकोपमा वृषा एस्य व्यज्यते। वृषाङ्कपदयोगार्थस्तु साधारणो धर्मः. ३. फलपर्यन्तमाशेरते- इत्याशया अदृष्टानि.
काव्यमाला। खपदमुपदधासि यत्र तस्मि- न्भवति कंडङ्गरमेव कर्मवीजम् ॥ २२ ॥ पतञ्जलिः-वत्स जाबाले, सत्यमाह पुरुषः । भगवति परात्परे दृष्टे स्वत एव क्षीयन्ते कर्माणि । तदस्मै सूनृतमधुरवचसे तावदासन- मुपनीयताम् । जावालिः - इदमर्हदनुशासनावशिष्टं वीरासनमुपतिष्ठते । पतञ्जलिः—नहि नहि । मृदु स्थिरं सुखमासनमुपनीयताम् । स्थिरसुखवृषीनिषण्णः प्राणानायास्य दीर्घपथदूनान् । प्रत्याहृतेन्द्रियगणो विश्राम्यतु निर्भरं पुरुषः ।। २३ ।। (नेपथ्ये ।) प्रत्याहृतानि विषयेभ्यः करणानि । वहति करणमान्तरं खवृत्तौ बत विलयं बहिरिन्द्रियव्रजस्य । कमठ इव कठोरपृष्ठकुक्षौ चरणचतुष्टयकन्धरामिकोचम् ॥ २४ ॥ पतञ्जलिः–तदधुना ध्यायते धारयते समादधते पुरुषाय संयमो दुहितरं प्रयच्छतु सिद्धिम् । जावालिः-आचार्य, किमेतत् । पश्य तावद्दिवापि दीप्यमाने दिवाकरे । १. तुच्छसस्यम्. २. एतावता यमनियमासनप्राणायामप्रत्याहाराणां संपत्तिः सूचिता । तत्र प्रत्याहारो यहित्तिनिरोधेनान्तःकरणमात्रस्य वृत्तिप्रसरः. ३. विषयान्तरोपरक्त ब्रह्मणि प्रत्याहृतचित्तस्य निवेशनं धारणा, तत्परम्परैव ध्यानम् , विषयान्तरपरिहारेण ब्रह्मध्यानं समाधिरिति त्रयाणां समुदिताना संयम इति संज्ञा । स एव दृढभूमिः सिद्धिं नाम योगजधर्म जनयति. 3 ४७ ३ अङ्कः] अमृतोदयम् । कपूरैः परिपूरिता इव बिसच्छेदैविकीर्णा इव प्रालेयोपलसंचिता इव सुधासिन्धौ निममा इव । कस्मात्कैरवकाननस्मितरुचा संबन्धिनां कौमुदी- मुद्रीवप्रचरच्चकोरतरुणी पीतां दिशो विभ्रते ॥ २५ ।। पतञ्जलिः-वत्स, इयमसौ पुरुषमभिसरन्त्याः सिद्धेः शरीरज्योत्स्ना कृत्स्नमपि जगदुद्द्योतयति । जावालिः-आचार्य, क एष कतिपयपुरुषपरिवारितो रुचिविजि- तराजपट्टो राजलक्ष्मीलाञ्छितो विद्रुत्य वने निलीयते । पतञ्जलिः-वत्स, क्षेत्रज्ञनगरनरपतिरसौ तामसप्रकृतिर्महामोहः सि- द्धिकौमुदीवृद्धिमसहमानो रिद्र(?)वनकुमाराभ्यां द्वेषरागाभ्यामनुगम्यते । जावालिः-कथमिदमाचार्येण राजविद्विष्टमनुष्ठितं कर्म, यदसौ सिद्धिः पुरुषप्राप्त्या परमप्रगल्भतां नीता । पतञ्जलिः-श्रुतिनिदेशवशंवदा वयमस्वतन्त्रास्तया प्रेरिताः प्रव- मिहे । जाबालिः–ननु महामोहपरिवारप्वेवान्तर्भूतेयमिति विश्वजनी- नवृत्तिरतिनृशंसमनुतिष्ठति भगवती । तथा हि । इयतो दिवसानसौ श्रुतिस्तनयो मोहपतेरलालयत् । चरमे वयसि स्थिता कथं बत विश्वस्तवधं विधित्सते ।। २६॥ पतञ्जलिः-वत्स, निसर्गसुन्दरस्यापवर्गस्य साम्राज्यमभिसंधाय सर्वमचेष्टत भगवती श्रुतिः । सर्वा एव रागद्वेषलालनविधिव्यासेध- प्रवृत्तयो निवृत्तिपराः । निवृत्तिः सान्वयमहामोहोन्मूलनपरेति । जावालिः–एवमनया सिद्ध्या नगरविषयान्निर्वासितोऽपि सूक्ष्म- १. सिद्धिसंपदा स्थूलाभिमानो नश्यति, न तु सूक्ष्माणामन्तःकरणलिश- रीरादिवस्तूनामभेदभ्रमः सिद्ध्या विरमति, किंतु विवेकात्.
४८ काव्यमाला। विषयवननिलीनो महामोहः केन व्यापारेण प्रापणीयः परं लोकमिति । पतञ्जलिः- पूर्व प्रमित्या परतोऽनुमित्या सिद्ध्या ततोऽस्मिन्पुरुषे प्रसक्ते । संगच्छमाने पुरुषोत्तमेन मोहः स्वयं प्राप्स्यति नाशमेषः ॥ २७ ॥ (नेपथ्ये।) अरे पुरुष, किमितस्ततो धृतिमलभमानः किमपि वस्तु मृगयसे । शब्दाः श्रोत्रसुखाः पदार्थगुरवो रूपाणि चित्राणि च स्पर्शाः पक्ष्मलकोमलाः सुरभयो गन्धा रसाः स्वादवः । लोका भोगमया गुणाः प्रगुणतां प्राप्ताः खतन्त्रा गतिः सिध्या सार्धममीषु वत्स विहरञ्जीव्याः सहस्रं समाः॥२८॥ पतञ्जलिः–इयमसौ मधुमती महामोहप्रेरिता पुरुषोत्तमदर्शन- विरोधिषु विषयभोगोपसर्गेषु पुरुषं व्यापारयति । (नेपथ्ये ।) भगवति नियते विदूरयात्रासहचरि संसरणाध्वनोऽयमन्तः । जरति विरम निःसहासि संविनगरमतः परमद्वयोपभोग्यम् ॥२९॥ पतञ्जलिः–साधु वत्स, नियतिरपि त्वयावधीरिता, का नाम मधु- मती । तदचिरादेव संयमदुहितृसिद्धिधर्मव्यापारेण पुरुषोत्तममासाद- १. समाधिसाक्षात्कृतव्यवहितविप्रकृष्टवस्तुसमुत्यो भोगो मधुमती. २. 'न, कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः' इति श्रुत्या कर्मनिरपेक्षज्ञान- साध्ये फले केवलं साभिलाषतामभिव्यञ्जयती मधुमती भोगे समाधिधर्मसाध्ये सुतरामनभिलाषं व्यअयति-भगवतीत्यादि । विरम खव्यापारमुपसंहर । संवि- नगरे आत्मनिर्विकल्पके । मोक्षहेतावद्वितीयस्य मम प्रवेशो विद्यते विषयतया, तव तु सहकारितयापि तत्र प्रवेशो नास्तीति हृदयम्.
३ अङ्कः] अमृतोदयम् । ४९ यिष्यसि । वत्स शाण्डिल्य, सिद्धमस्मत्साधनीयम् । अधुना चामुना ज्यापारेण न चेतितं परिणतमहः । तथा हि पश्यामि ध्रुवधामतोरणशिलादारुम्खलत्केतना. दस्मात्सौधनिकेतनाञ्जलनिधेः संध्यापिशङ्गीरपः । विक्षिप्तान्परितो हरित्सु युगपत्संक्षिप्य पादानसौ यासां कुक्षिविले मिमङ्गति जगत्कासारकूमों रविः ॥ ३०॥ अपि च । पौरस्त्येतरसिन्धुनायकपयःपूराजिरे चुम्बित- द्रांघीयः प्रतिबिम्बमम्बरतटव्यालम्बि विम्ब स्वेः । संध्यानाटकरङ्गवाटविषये शक्रध्वज हाटक- स्तम्भोत्तम्भितशातकुम्भकलशोपेतं समाधित्सति ॥ ३१ ॥ जाबालिः-भगवन् उपाध्याय, दर्शनीयमिदमग्रतः । पश्य ममा| वरुणालयाम्बुनिधमद्भुमोद्गमो लक्ष्यते 'गोकर्णायतरश्मिसूचिजटिलः पृष्ठावशिष्टो रविः । वासश्वभ्रमभिप्रवेष्टुसवनीमर्माविधः श्वाविधो व्याधास्रव्यधशोणिताक्तशललीशालीव पश्चाद्वपुः ॥ ३२ ॥ पतञ्जलि:-(निरूप्य।) कथमयमामूलोत्खातमयूखजालविवरावलि- १. तोरणं द्वारम् । शिल्पदारु अधःस्थितदारु । केतनात् पताकायाः। 'तोर- णोऽस्त्री बहिारम्' इति, 'अधःस्वाहारुणि शिला' इति चामरः । तथा च- 'स्तम्भाधारभूतमस्थनि शिला' इत्यमरटीकायां क्षीरखामी. २. मनुमिच्छति, मननं कर्तुमिच्छवीत्यर्थः. ३. पूर्वेतरे पश्चिमे. ४. जलोपरिगते रवी दीर्घः प्रतिविम्बः खम्मत्वेन, रविः कनककलशत्वेन, समुद्रः शक्रप्वजनिखननरम- वाटत्वेनाध्यवसीयते. ५. उपतपत् तेजसो जलसंबन्धादुद्गतो धूमो धूम्रशल्य- कमावर्यसंपादकः. ६. अहटानामिकयोः प्रसारितयोरन्तरालपरिमाणं गोकर्ण:. अमृ०४ ५ काव्यमाला। जर्जरो गगननागरङ्गफलनिस्तलस्तुलितसंध्यामिषेकसहस्रधारताम्रकलशः सशिखमुण्डितरुणमुण्डपिण्डायमानमण्डलो भगवान्मार्तण्डो. वारुणवर णालयेनिमग्न एव:। पश्य । धूमायते सिमसिमायितमातनोति फेनायते विवृतबुहुदधारमम्भः । [ OF मनोऽपि पश्चिमसरखति दूरमाभि- निर्धूयते न रविरच्छतराभिरद्भिः ॥ ३३ ॥ किं च । : : अद्भिः करप्रकरनिर्गमरन्ध्रमार्ग- निःशूषिताभिरतिभारगुरूदरोऽर्कः । 1 : निर्वाति लश्चितकदम्बतुलामुपैति PF : : क्षिप्रं निमज्जति च पश्चिमसिन्धुपूरेः ॥ ३४॥ इति निष्कान्ताः सर्वे) : :इति निदिध्यासनधर्मसंपन्नाम तृतीयोऽङ्कः म.,,.. चतुर्थोऽङ्कः। (ततः प्रविशति पुरुषः पुरुषः-हन्त हन्त, प्रसन्नं में भगवता समाधिधर्मसिद्धिमुत्पाद- यता संयमेन । यतः- 1.: - कर्मभ्यः परमैक्षिपाणिचरणेश्रोत्रोज्झितं चेतना मात्रोपेतमितस्ततश्च फलितब्रह्माण्डलिक्षाचयम् । - १. 'परं कर्मभ्योऽमृतत्वमानशुः इति श्रुतेः २., अपाणिपादोजवनो प्रहीता पश्यत्यचक्षुः स ऋणोत्वकर्णः इति श्रुतेः३. चेतनापदेन ज्ञानेच्छाप्रयत्ना उच्यन्ते, मात्रपदेन शरीरेन्द्रियाणि ज्यवच्छियन्ते..? ... TEET - ४ अङ्कः] अमृतोदयम्। गर आम्नायान्तनिकेतकोणशयितं पश्यामि मायाजर- कन्थाग्रन्थिविदारणेन विवृतं वृद्धं परं पूरुषम् ॥ १॥ (प्रणम्यं ।) भगवन् आपन्नकरुणानिधे, विषमनिगमकाननान्तशाखाव्यतिकरवेष्टितमूर्तये नमोऽस्तु । बहुतरजगदण्डबीजपूरप्रसवफलेग्रहिपादपाय तुभ्यम् ॥ २॥ (प्रविश्य पटावृतः पुरुषोत्तमः ।) पुरुषोत्तमः-अरे पुरुष, कच्चित्त्वया दृष्टमात्मनः खरूपम् । पुरुषः--भगवन् अनादिनिधनचिदानन्दनिधे, जगदिदमुपजीवयत्यविद्यातिमिररिपो त्वयि न खमप्यवैमि । प्रतपति तपनातपेऽऽतपातों भजति यदान्ध्यमसावुलुकलोकः ।। ३ ।। पुरुषोत्तमः-अपि त्वया विदितो मम महिमा । पुरुषः-अपारमहिमन् अनन्त, बहुतरजगदण्डभारभर्तुर्नहि महिमानमहं तवावयामि । मशक इव शलाटुगर्भजन्मा विटपबृहत्त्वमुदुम्बरद्रुमस्य ॥ ४ ॥ पुरुषोत्तमः-एवमप्यनन्यशरणः कथं मामाश्रितवानसि । पुरुषा–भो भूतभावन, भवभिमतमेव सेवमानो हितमहितं च वृथा त्वयास्मि बद्धः । तदपि कतममाश्रये शरण्यं बत परवानितरः पतिस्त्वमेकः ॥ ५॥-- पुरुषोत्तमः कथमात्थ मदीहितमिदं वृथेति । पुरुषः-नाथ, विमृशन्नपि नेदमवधारयामि किमत्राभिसंहित भग- वतः । यतः- नव इव वशगो भवामि यांसामहमपहस्तितसर्वभूतपूर्वः १. प्रथमं वहिराकृत एव आत्मा प्रकाशत इति: आमफलं शलाट १२ काव्यमाला। अंकृतिचरितनाट्यसूत्रधार अमयसि मामियतीषु भूमिकासु ॥ ६ ॥ पुरुषोत्तमःननु नटा इव भूमिकाभिः पुरुषा अध्यारोपिताभिः शरीरपरम्पराभिर्हासयन्तीति तावत्प्रथमं मम संसारप्रवर्तने निमित्तम् । पुरुषः- हन्त भोः, अद्यापि मामनुकम्पख । वरमुपहसनीयवर्णिकोऽहं विविधविकारविडम्बितस्वरूपः । तदपि कृतकहासमात्रहेतोर्विरम निवारय निःसहोऽस्मि मायाम् ॥७॥ पुरुषोत्तमः-केन हेतुना मयानुकम्पनीयोऽसि । पुरुषः-ननु ममानन्यशरणतया त्वदायत्तता प्रथमो हेतुः । पश्य भवदभिरुचितासु मे कियासु व्यवहरतोऽनुदिनं हिताहितासु । जनननिधनबन्धमोचनेषु प्रभुरसि भूतपते तवास्मि दासः ॥ ८ ॥ पुरुषोत्तमः-कथमनन्यशरणोऽसि । स्मरसि नाम मामचिन्तयन्नेव चिरतरममीषु विविधप्रकारेषु कलेवरेषु विहरमाणो गमयसि म समयम्। पुनः--एक्मेतत् । पुरि पुरि विहरामहे अमन्तः पुरहर पश्यसि भोगवधितोऽस्मान् । किमिति न विहरेम नाथवन्तो वयमितरेखमनाथ एक एव ॥९॥ पुरुषोत्तमः यदि मया नाथवानसि कुतो मामियन्ति दिनानि नादाक्षीः। पुरुषः सखिद्विषदुदासीनेषु समवृत्तेस्तवायमकिंचनताविलासः। १. प्रकृतिः माया । अन्यत्र नटभूमिकायां नरः । सोऽहमपि तु नट इति स. र्यत एव, न र पूर्ववृत्तमनुपस्थितं भवति । अत्र तु भूमिकायां नव(र) हर वशी- भवन स्मरति भूतपूर्वमिति व्यतिरेकः. २. कृतक एव तक हासः, न हि विकृत- वस्तुदर्शनजन्मा हों हासहेतुस्तव विद्यते.
४ अङ्कः] अमृतोदयम् । ५३, खपिषि न परकर्मसु प्रसक्तः परमुपभोजयतस्तव क भोगः । परचरितमवैषि निर्निमेषः प्रकृतिदरिद्र न कोऽपि पश्यति त्वाम् ॥ १० ॥ पुरुषोत्तमः— कथमकिंचनोऽस्मि । तुभ्यमधुना समर्पयामि नूत- नातिथिसमुचिताभोगान् । पुरुषः-गतः स भोगसमयः । संप्रति तु श्रुतिजनक रटत्यसौ कुमारी तव दुहिता वहिरेत्य नेति नेति । व्यवहितनिकटस्थितोऽसि यस्मा- त्वयि मिलितेऽपि ममातियः क भोगः ॥ ११ ॥ पुरुषोत्तमः-हहो पुरुष, प्रभवतो मेमापकर्ष सूचयता वचसा कुतो नापत्रपसे । पुरुषः-प्रभुतोपकरणेषु परिजनेषु तथा तथा निष्कारणवन्धपीड- नान्याचरतस्तवापि कागादपत्रपा घृणा च । स्मरसि कथमनन्यसाक्षिवृत्तां प्रभवकथाविधुरां निजामवस्थाम् । १. 'न दृष्टेविपरिलोपो विद्यते' इति श्रुतेः. २. 'म द्रष्टुः' इत्यादिश्रुवे। ३. न तव कुत्रापि वस्तुनि परिग्रहः संभवति, लाभदायादीनां वित्तागमानाममा- वात्. ४. श्रुतिजनक नहि जनकान्यस्य पुंसः श्रुती खाम्यम् । बहिरेत्य करणा गोचरतामागल । नेति नेति 'अथात आदेशो नेति नेति' इति श्रुतिः । व्यवहित इति व्यापकोअपि पश्यते । त्वयि इति तैस्तैरुपायरन्विष्य साक्षात्कृतेऽपिक भोगः, 'अशरीर पाव सन्तं प्रियाप्रिये न स्पृशतः' इति श्रुतेः. ५. अनया व्या. जस्तुत्या कार्यवाहितराइमेधितादात्म्येनाहमध्यवसितः. ६. "एको ह वै मारा- यण. आदावासीत्' इति श्रुत्या त्वदन्यस्य सर्गदी चैतन्याभावे त्वत्तमन्यो. नाज्ञासीत् , न हि संसारिणी तदा प्रसवः शरीरपरिग्रहः, काव्यमाला। पुनरपि न चिराजनार्दन त्वां न परिचरिष्यति चेतनो द्वितीयः॥१२॥ पुरुषोत्तमः----अक्षीणचेतनाकोषस्य मम न परिजनायत्ता प्रभुता । पुरुषः–तव चैतन्यधनागमेऽपि विमर्शनीयमेतत् । मतिधनमितरे सुदीर्घनिद्राप्रवणधियस्त्वयि निक्षिपन्त्यतन्द्रे । तदपहरणसंचितो न जातु व्ययमुपगच्छति चेतनानिधिस्ते ॥१३॥ पुरुषोत्तमः-ननु कर्मानुरूपफलदाय मह्यमसमञ्जसमसूयसि । कुरु तथा कर्माणि, प्राप्स्यसि सोमरसमबलिहन्नमरलोकम् । पुरुषः -किमद्यापि मां विप्रलम्भसे । व्यरमदवसरः स यत्र कर्मप्रकरमकार्षममर्त्यलेहलोभात् । न पुनरपि पिबामि सोमपात्रामृतदधि राहुविडाललीढशेषम् ॥१४॥ पुरुषोत्तमः- एवमतिकलहायमानेन त्वया मया सह विग्रहः कि- मारब्धः । पुरुषः-परविग्रहरचनव्यसनितया तवैव कोषः क्षीयते । मम तु भवदुपरचितकोषनिकायखीकारलब्धात्मनो भोगाय विग्रहवत्ता । पश्य क्षितिविलपिहितं जरायुपेशीस्थगितमथाण्डसमुद्के निगूढम् । त्वयि रचयति विग्रहान्प्रसह्य दुहिण तवापहरामि धातुकोषम् ॥१५॥ जनानामर्दनकतति परिकरेण क्रोधनप्रभुचरितमभिव्यज्यते. २. परनिक्षे- पापहरणसंचितधनस्य वसुव्ययमसहमानस्य कृपणस्य तादात्म्यमध्यारोप्य प्रथमतो महर्हा ततोऽपवर्गनिद्राप्राकालिकक्षणविनश्वरसाक्षात्कारविषयस्य भगवतचैतन्यघन- स्थाक्षयतया तदालम्बितो भक्तिभावः स्वदते. ३. सर्वमुक्तो जीवचैतन्याभावात्. ४. सोमस्थितामृतविरक्तस्य तल्लाभोपायभूते सोमलतारसे सुतरां विराग इति. भावः.. ५. तवायं सकलोऽपि धातुकोषस्त्वनिर्मितत्वात् , स त्वया क्षितिविवरे नरायुपेश्यामण्डे च. निगूढः शरीरस्योद्भिजजरायुजाण्डजमेदात् । तं चाहमात्म- साक्षात्करोमि । तदेतद्विग्रहवचनायास्तव फलम् । शरीरघटना हि युद्धवचनत्वे- नाध्यवसीयते. ६. घातूनां रसादिशुक्रानानां संचयः कोषः शरीरम, स कनकादि- धातुकोषत्वेनाध्यवसीयते..
४ अङ्कः] अमृतोदयम् । ५५ . अपि च । परेषां वधवन्धार्थमुत्पादयसि विग्रहान् । अविग्रहः स्वयं तूष्णीं ताटस्थ्यमयलम्बसे ॥ १६ ॥ पुरुषोत्तमः कथं मम निसर्गनिर्मत्सरस्य खलताकलङ्कमुपन्यस्यसि । पुरुषः-कः खलु खलो भवन्तमतिशेते। अचिरपरिचितो हरेः समूलं हरसि विशेषगुणव्रज परस्य । प्रथयसि खलतामिमामपूर्वा कथयेसि यद्विगुणत्वमात्मनोऽपि ॥१७॥ "पुरुषोत्तमः—निरस्तसमस्तविभ्रमस्य खलु कुतः खलत्वस्यावकाशः । पुरुषः- ननु भवतोऽप्यन्यथावस्तूल्लिखन्ति विभ्रमाः । मयि फलकतया त्वया कियन्त्यः प्रतिकृतयो लिखितास्तथा विलुप्ताः । रजसि विगलिते विभूतियोगा- अमृज मलं मम पय दैर्पणोऽस्मि ॥ १८ ॥ पुरुषोत्तमः—नित्यप्रबोधविधूतविधुरस्य मम न संभाव्यते भ्रमः . पुरुषः—हन्त भोः, विविधविकारमूलमायाविलाससाक्षिणो दुष्टदु- विपाकमप्रतिघ्नतस्तव प्रवोधो न कस्यापि निःश्रेयसाय । १. समूलविशेषणगुणसामान्योच्छेदो मोक्षः, स त्वद्दर्शनसमनन्तरं भावी क्षण- परिचितखलतिरोहितपरगुणामेदेनाध्यवसीयते । अन्यः खलः परगुणांस्तिरोदधदपि खगुणानाविष्करीत्येव । त्वं तूपनिषद्वाक्यैः स्वस्यापि नैगुण्यमेव प्रकाशयसि । ततः खलान्तरव्यतिरेकः सूचितः । खलतापदोपात्तावगणनं लताफलतः परमेश्वरनर्गुण्ये विशेषणम् , तेनासदेव तव नैगुण्यमपि सूच्यते. २. मोहम्. ३. त्वमपि हि मयि प्रतिविम्बित इव दृश्यसे. ४. तव प्रबोधो न तव निःश्रेयसं साधयति, तव नित्यमुकत्वात् , नाप्यस्माकं निःश्रेयसाय, त्वयि प्रवुद्धेऽप्यस्मद्वन्धदर्शनात ५६ काव्यमाला। अलमवगलितेन्द्रियप्रवृत्तेस्तव जरतः पुरुषस्य जागरेण । प्रभवति दमनाय दोषदस्योः सपदि मनागपि माशांप्रमोघः ॥१९॥ अपि च कलत्रदुश्चरितमर्षस्येयाकषायमुषितमनसस्तव किमनेन प्रबोधेन। विगतविपरितोपदृष्टि पश्यन्वैशयसि यं पुरुषप्रकाण्ड मायाम् । प्रकृतिचपलया तया विकारैर्वहुविधवर्णिकया वशीकृताः स्म ॥२०॥ किं च। प्रकृतिरिममनश्चरस्वभावा सृजति महान्तमसौ यतो विकारम् । अविकतमभिपश्यतः सतस्ते सह रमते बनया संखा त्वदीयः ॥२१॥ पुरुषोत्तमः-नन्वेवमपि मामबहुमन्यमानः कथमाश्रयितुमीहसे । पुरुषः -~-न त्वामाश्रित्यानाश्रित्य वा सुखमासे । कैचिदपि विषये त्वया वियुज्य स्थितिमनवाप्य चिराय संसरामि । भवगिरिम(१)विदमि चित्समुद्र खमपि जहामि तदा लमे यदि त्वाम् ॥ २२ ॥ N १, न खल जरापुरुषो जाप्रदपि दुष्टनिग्रहाय प्रभवति, करणपाटवाभावात्. २. 'न द्रष्टुदृष्टेविपरिलोपो विद्यते' इति श्रुतेः. ३. स ईशो यद माया स जीवो यस्तया जितः' इति. ४. 'अजामेकां लोहितशुक्राणाम्' इति श्रुतेः. ५. "प्रकृतेर्षिकारो महाम्' इति. १. 'इमी सुपर्णी सहजी सखायो' इति.श्रुतेः. ७. भगवता मषता सह वियुक्तस्य मम कापि विषये लोकन्येऽपि चिरा स्थानं न घटते, त्वामे त्वामहानमेव । तथा हि-विज्ञानधन एवैतेभ्यो भवेन्या समुत्थाय तान्येषानुविनश्यति' इति श्रूयते । तत्र विनाशो मूलक्षय इति सौगता विलय इति मिदण्डिना । निर्मनस्कत्वश्रुत्या विमनो विरहान्मुक्तस्य न खवेदनम् । मात्मानुमापकप्रपनायभावाच न परेण वेद्यत. इत्यवेयत्वमेव मुकात्मनो विनाक इति नैयायिकादया.
४ अङ्कः] अमृतोदयम्। पुरुषोत्तमः-नन्वेवमपि मयि वान्यत्र वा कचित्संयम्य बघान धृतिम् । पुरुषः–नेदानी मनसः क्वापि त्वामपहाय समाधानमुपपद्यते । अभिसरति परम्परं पुरारे विषयमनेकमपास्य पूर्वपूर्वम् । वरुणनिलयमापगेव यावद्भजति भवन्तमसौ न चित्तवृत्तिः ॥२३॥ अपि च । परिमितविभवं कषायपाकं विषमतर विषयान्तरं विहाय । निरवधिषितुधे समे समन्तात्त्वयि पुरुषोत्तम चित्तविभ्रमोऽस्तु २४ पुरुषोत्तमः—एंवमपि मयि लीनचित्तवृत्तिः किमस्मदपकर्षपिशुनां वाचमुदाहरसि । पुरुषः-नाथ, गुणमपि तव निर्गुणत्वपक्षे गमयति दोषकुलाकुलः प्रवन्धः । मलिनयतुनवेन्दुसुन्दराणि स्फटिकशिलाशकलानि काचसङ्गः २५ किं चेदमपि ममाभिप्रेतम् । अपगतपदपाटवोऽपि गर्भादुपनिषदामधुनोद्गतः प्रबन्धः । जनयतु तव कौतुकं कलेन प्रतिपदविस्खलितेन जल्पितेन ॥२६॥ अपि चैतदाशासे पृच्छामि च । अपदुभिरभिधिस्सितार्थबुद्धावनभिमतानपि बोधयद्विरान् । पुरमथम पराहतैरमीभिः कथय कदा विहसिष्यसि प्रलापैः ॥२७॥ पुरुषोत्तमः-ननु मनसा सह वाचो न मामासारयन्तीत्यामायते। पुरुषः-हन्स नाथ, १. स्तोत्रादिखरूपोपासनासमपबगोपयोगमाक्षिपति.
५८ काव्यमाला। यदि सह मनसा तवाभिसारात्कुलगुरुभिर्निगमर्निवारितासौ । - खयमभिसर तर्हि वाचमेनां परपुरुषं निगमो न पश्यति त्वाम् ।।२८॥ तेन हि लीलापरिगृहीतगिरिशविग्रहराजखण्डचूडामणे • मम वचनजलानि कर्णशुक्तो तव पतितानि गतानि मौक्तिकत्वम् । विगुणविलुठितानि लाजबुद्ध्या वसयतु कुण्डलकुण्डलिप्रकाण्डम् ॥ २९ ॥ ५. पुरुषोत्तमः—प्रसादय वत्स, बन्धविध्वंसिनीमनादिमादिप्रकृतिम् । पुरुषः—(आकाशे ।) हेरम्बकुमारयोरम्ब, न तव पुरि शिलादपुत्रवेत्र- व्रततिनिरुद्धतया लभे प्रवेशम् । . गिरिशगृहिणि गौरि गोपुरेभ्यो बहिरुपविश्य शपामि नौमि च त्वाम् ॥ ३० ।। पुरुषोत्तमः-अपि पश्यसि माम् । . पुरुष पुरहर परदृष्टिदोषशान्त्ये कति जगदण्डकगण्डकान्बिमर्षि । स्वदुपरि सहजप्रमोहदुष्टां कथमिव नाथ निपातयामि दृष्टिम् ॥३१॥ १. एतावता प्रवन्धेन भवदभिनिवेष्टवुद्धेर्वाचिकादिबाह्योपासनायाः प्रकृति- पुरुषादिगोचराया यथाकथंचिदुपयोगो दर्शितः । तथाविधोपासनासमवहितसमाधि- वशाद्भगवत्स्वरूपसाक्षात्कारप्रकरणमिदानीमारभ्यते । साधितं हि भगवतोऽपि साक्षात्कारविषयत्वं न्यायकुसुमाञ्जली । पुरहरेत्यादि-बालादयो रक्षागण्डकधा- रिणो न डाकिन्यादिदृष्टिदोषैरभिभूयन्ते । त्वमपि नूनं जगदण्डगण्डकगणाभरण- त्वादेव नास्मादृशां दुष्टदृष्टिपथमवतरसीत्युत्प्रेक्षया निर्दोषस्य मनसः समाधि- धर्मसहकारेण त्वत्साक्षात्कारकारणत्वमिति सूच्यते.
१९ ४ अङ्कः] अमृतोदयम् । पुरुषोत्तमः-वत्स, सूनृतवचनोऽसि । प्रसन्नोऽस्मि ते । प्रयच्छामि संयमवशोपनतमप्रतिहतभौतिकं चक्षुः । पश्य मे स्वरूपम् । (इत्यावरण- मपसारयति ।) पुरुषः-- (निरूप्य ।) अहो नु खलु भोः, इह बृहतामपि बृहत्तमे निःसीममहिमभूमनि चिदकूपारे प्लवन्ते च मज्जन्ति चोन्मज्जन्ति च जगदलाबूनि । कुत्राप्युद्भियते जलात्कचिदपां गर्भे चिरादुप्यते कापि भ्राम्यति कुत्रचिद्विदलति द्वेधा नखब्रह्मणः । कुत्रापि ज्वलति क्वचिद्भसितसाद्भूतं समुद्भूयते तेजोभिः कचन क्वचिच्च तिमिरैर्ब्रह्माण्डमापूर्यते ॥ ३२ ॥ अपि च । ' ब्रह्माण्डानि हिरण्यगर्भगुरुभिर्गभैरपां संप्लवे निर्ममानि समुद्धरन्ति कतिचिन्नीलत्विषः पूरुषाः । संवर्तानलहेतिभिर्भसितसाद्भूतानि यान्यन्यत- स्तैरुद्धृलनमाचरन्ति विकटभ्राम्यज्जटाग्रा नटाः ॥ ३२ ॥ किंचेदमत्र परिपच्यमानोदरममरितोपरितनपुटे विघटमानध्रुवबुध्नबन्धने गगनगोले किमपि कौतुकमालोक्यते । आविर्भवन्ति विदलज्जगदण्डगर्भा- दश्वामुखानलशिखाः प्रलयप्रगल्भाः। वीजानि कालपरिपाकवशाद्विदीर्य- माणस्य दाडिमफलस्य यथोच्छ्सन्ति ॥ ३४ ॥ १. अपरिमितस्य प्रथमतः संयमवशाहिरकारोपरको भगवान् भासते, स एव हि विराडिति महता संदर्भण विवियते-निरूप्येत्यादिना.
काव्यमाला। पुरुषोत्तमः-वत्स, संयमवशेन प्रथमतो दृश्यमाने विराड्दैभवे किमपरं पश्यसि । पुरुषः—एतावत्पश्यामि । अविरतपरिवृत्तदण्डकाष्ठाकुलमतुलव्यतिवर्तमानवेगम् । भ्रमयसि जगदण्डगोलमालाकलशकलापकुलालकालचक्रम् ॥३५॥ इदं चापरं च तर्कयामि- अपरिमितविभामभूमिरेकस्त्वमसि ततो जगदण्डविन्दुरासीत् । तदिति वसविधा दिशामधीश त्वदधतरागणितक्रमेण सिद्धाः॥३६॥ पुरुषोत्तमः-किमपरं ते प्रतिभाति । पुरुषः-भगवन्ननन्त, ग्रहगृहसरसीरुहाणि राहुभ्रमरविमर्दसहार्ककर्णिकानि ।। नियतिपवनवेगघट्टितानि त्ववि करुणाकममकरे अमन्ति ॥ ३७॥ पुरुषोत्तमः-कथय एवंविधं मम खरूपमवलोक्य कीडशि चित्त- वृत्तौ वर्तसे। पुरुषः-अरे दिगम्बर, प्रकृतिमलिनसक्षलक्षलिक्षाचयचितमम्बरचीवरं वसानम् । प्रकटितवृहदण्डमत्रपं त्वां पुरुषमुदीक्ष्य हसामि चोलसामि ॥ ३८॥ पुरुषोत्तमः-वत्स, प्रणिधेहि तावदन्तर्मुखेन संयतचेतसा मम संहरणलीलाम् । पुरुषः—(प्रणिदधन् ।) इदं पश्यामि । १. दण्डः काम च कालवयवी (प) दण्डकाव्यम्. २. बहिविषयसंकलित भगवन्तमुपासीनस्यापि न विलीयन्ते चित्तविकारा इति भावः.. ३. सष्टिलीला- नुध्यानापेक्षया संहारलीलानुष्यानं पैराग्यप्रकर्षकत्वादन्त सचित्तवेद्यमित्याशये. नाह-'वत्सा, प्रणिहित्यादिना.
४ अङ्कः] अमृतोदयम् । किरति सकलभूतवञ्चनाय त्वदुपरि पिष्टपसर्षपानविद्या । तदपि निमिषमात्रनिर्गतोऽपि प्रविशति भूतगणो भवन्तमेव ॥३९॥ अपि च । परपुरमभिविश्य सर्वलोकं भ्रमयति सर्वदिनेषु भूतवर्गः । भवपितृवनवाटबोधिवृक्षप्रलयनिशासु निलीय सेवते त्वाम् ।।४०॥ पुरुषोत्तमः-अपि नाम पश्यसि संवर्तसमये मदीहितम् । पुरुषः-कथं न पश्यामि । प्रकृतिचटुलसूक्ष्मभूतिशेषप्रकृतिविकारनिकोचभाजि काले । अविरतपरिवृत्तिखेदखिन्ने स्वपति जने प्रतिबुध्यसे त्वमेकः॥४१॥ अपि च । विलयमुपजगाम चेदखण्डस्त्वयि जरठो जगदण्डगुल्मपिण्डः । क्षपयसि तदपि क्षपासनिद्रः कतिभिरसौ हि बुभूषति प्ररोहैः ॥४२॥ १. भूतापसारणक्रियायो सिद्ध्यर्थप्रक्षेपोऽभिचारतत्रे विधीयते । तदमेदेन भूतानां प्राणिनामाविद्यकप्रपश्चाध्यासस्वरूपं वचनमध्यवसीयते । पञ्चानां भूताना- माविर्भावविलयौ निर्गमप्रवेशत्वाभ्यामध्यवसीयते। निमिषादिपलादिमिश्च सृष्टि- कालापेक्षया महाप्रलयसमयस्य दैर्घ्यमभिव्यज्यते । एतेन च 'यतो वा इमानि भूतानि जायन्ते' इत्यायाः श्रुतयो व्याख्याताः. २. भूता नाम देवयोनयः पस्य पुरं प्रविश्य लोकानां भ्रमं जनयन्तो दिवसमविवाहयन्ति । निशासु श्मशानपिप्पलादिममधिरय तिष्ठन्ति । तदृत्तान्तो व्यञ्जनपथावतीर्णः प्रकृतमहा- भूतवृत्तान्ते गुणीभूतः प्रतिभासते. ३. दोधूयमानपरमाणुशेषे प्रकृतेर्मायाया विकाराणां जन्यद्रव्याणां निकोचमवसानं भजमाने काले त्वमेव चेतनावान्, इतरस्तु निरुद्धकरणवृत्तिस्वादचेतन इत्यर्थः । परिवृत्तिः प्रेत्यभावपरम्परा. ४. विलयमिति । अस्फुटितस्य गुल्मव्याधेहिर्विलयेऽपि व्यथा न गच्छति, प्रत्युत बहुधा गुल्मानामुद्भव इति वस्तुस्थितिर्गुणीभूता वन्यते.
६२ काव्यमाला। पुरुषोत्तमः-वत्स, पश्य क्षयसमयदग्धजगदण्डगणावशिष्यमाणस्य रुद्रगणस्य व्यवसितम् । पुरुषः-नाथ, पश्यामि । ब्रह्मस्तम्बकदम्बडिम्बफलिते दग्धे जगत्कानने येषां नैष ललाटकोटरगतो निर्वाति कालानलः । ते वकेन्दुबकाधिवासविकृतोत्तंसभ्रमत्पन्नगाः शिष्यन्ते जलवेगजर्जरजटाजालाविलाः स्थाणवः ॥ ४३ ।। अये विश्वभर, किमपि पृच्छामि । खपुटपटलमभ्युदीर्यदाशावृतिरदलन्निरवादविप्रदीपः । विल्यमवनिवास्त्वगात्तथापि क जगदगारगृहस्थ निश्यवात्सीः ४४ कथं च प्रकृतिचपलपीलुवीजवर्ग दलितखगोलकुसूलविप्रकीर्णम् । अघटितमितरेतरेण कल्पप्रशमदिने समचीकलस्त्वमेकः ॥ ४५ ॥ पुरुषोत्तमः-वत्स, विश्वाधारस्य किमधिकरणम् । ऐश्वर्यसहायस्य किमुपकरणमन्विष्यसि । परिभावय तावत्सर्गलीलाम् । पुरुषः-भूतभावन, भावयन्पश्यामि । प्रलयदहनदग्धशेषपीलप्रकरशिलोञ्छपवित्रवृत्तिरादौ । घटयसि भुवनानि तेषु जीवप्रकृतिचलैः परमाणुभिः शरीरम् ॥४६॥ पुरुषोत्तमः—ननु किमनेन सर्गादिशरीरेण प्रयोजनमुपपद्यते । पुरुषः- जनशरण शरीरिणां प्रवृत्तैः करणगणैरुपलब्धचेतनानाम् । १. काननदाहे कोटरादिषु ज्वालाशालिनः सर्पवकाद्यधिवासभूताः नदीतटस्था, णव एवावशिष्यन्ते, तदमेदेन कालरुद्राणामध्यवसायः. २. जीवादृष्टप्रेरणया कर्मवद्भिः.
४ अङ्कः] अमृतोदयम् । ६३ , कतिचनजनुरन्तरानुभूतिप्रसृमरवासनया स्मृतीः प्रसूपे ॥ ४७ ॥ अथ शयितविबुद्धवत्पुराणः स्मरति मुनिर्निगमं हिरण्यगर्भः । गगनपवनसंनिपातकर्ता कथयसि वा करुणानपेक्ष एव ।। ४८ ॥ : पुरुषोत्तमः आः, किमनेन मदीयाम्नायेनाप्रतिपन्नसमयस्य सर्गा- दिजनस्योपकृतं भवति । . पुरुषः ननु कृतककलेवरद्वयेन व्यवहरता च निदेशदायिना च । अवगमितपदप्रवृत्तिमादौ कवयसि लोकहिताय संप्रदायम् ॥ १९ ॥ , , पुरुषोत्तमःः किमिव लोकहितं मम वचो जनयति । पुरुषः प्रभवति परमाप्तयो दुरन्तादपसरणाय हिते प्रवर्तनाय । सहचरति चतुर्भिरर्थवादैनिगमकवे स तवैव सूक्तसारः ॥ ५० ॥ }! पुरुषोत्तमः-ननु खतःप्रमाणमसौ चोदनाविधिनिषेधौ बोधयन्ती प्रवर्तयति निवर्तयति च मदीयमिदं वचनमिति कुतो निरचायि । पुरुषः-अये निवृत्तिधर्मोपदेशगुरो, भैवतु विधिरपूर्वकार्यतत्त्वाशयहितसाधनताभिदासु कश्चित् । 19.तथा च शरीरं स्मरणाय, स्मरणं हिरण्यगर्भादेरागमोच्चारापानादिरेवासा- वाम्रायः । प्रतिकल्पं हिरण्यगर्भादयः प्रणष्टमनुस्मरन्तीत्येकः कल्पः। वर्णोच्चारणे ऋण्टादीनां कण्ठत्वादिस्वरूपेणव नापेक्षणीयत्वम् , किंतु विलक्षणपवनव्योमसंयोगाय, स पुनरशरीरशरीरस्यापि तव प्रयनेन संभवतीति किमानायप्रवर्तने शरीरेणोप- कर्तव्यमित्यपरः कल्पः. २. स्तुतिः-निन्दा-परकृतिः-पुराकल्प इत्यर्थवादाः. ३. अपूर्व संकल्पो वा विधिरित्येकदेशिनः । कार्य वैदिकलिडां मुख्योऽर्थ इति प्राभाकराः । कार्यतायां लिडो निरूढलक्षणेति त एव । आशय आप्ताभिप्रायो लड़- र्थ इत्याचार्याः । इष्टसाधनता तथेति मण्डनः । अभिधाविधिरिति भट्टाः । तदपि विधेराप्ताभिप्रायकत्वाभावेऽपि संप्रदायप्रामाण्यार्य मूलभूते त्वत्प्रत्यक्षप्रामाण्यमपे, क्षणीयमित्यर्थः.
काव्यमाला। तदपि मुषितदोषमन्तरा त्वां न भवितुमर्हति चोदना प्रमाणम् ५१ पुरुषोत्तमः-प्रवर्तनामप्युपदिशतो मम निवृत्त्युपदेशमेव कुतः महापसे। पुरुषः-नन्वधुना विज्ञातं नास्ति तव वचसि प्रवृत्तिपरतेति । हितविधिकपटान्निसर्गमूढप्रकृतिरसाविह तानिवर्तनीयः । इति विषमतमेऽपि संविधाने गणयतु कस्तव नाथ 'कौशलानि ५२ संसार इव श्रुतिरपि त्वत्परैव । तथा हि विकिरति परितो घनावलीव श्रुतिरमृतानि तवाशयादुदस्य । विलयमयमुपैति चित्समुद्र त्वयि जगतो निर्गमस्य च प्रवाहः ॥५३॥ पुरुषोत्तमः-ननु यज्ञेषु श्रुतिर्विश्राम्यति । पुरुषः-हन्त, यज्ञा अपि त्वत्परा एव । जिन(मु)शलवेदिशूर्पशय्यां दृषदुपलस्य हविःकपालपूपैः । अथ मुख्यजमानहोतृगातृप्रभृतिभिरध्वरकर्मसु त्वमिज्यः ।। ५४ ।। पुरुषोत्तमः-ननु पालनलीलासु मम प्रवेशय मनः । पुरुषः-इदमिदमवलोक्यते तवावनविलसितम् । प्रथमसमयसंगमाय नैतज्जगदुपजीवति केवलं भवन्तम् । भवतु सततसन्तमन्तरा त्वां कथमनिदंप्रथमापि वस्तुसत्ता ॥ ५५॥ १. उपनिषद्भागास्तावदर्थवादान्तरवन्न विधिशेषीभूताः, तेषां परमपुरुषार्य- सापनीभूतार्थज्ञानफलकत्वेन स्वाध्यायविषयतासंभवेन विघ्यन्तरनिराकाङ्गत्वात् । किंतूपनिषदामेव सर्वे विषय इतिकर्तव्यतापूरकत्वेनोपयुज्यन्ते। यागादीनां च बहाने आशयशुद्धिद्वारैवोपयोगः। सा च वैधेतरहिंसानिवृत्यादेरेव। संभवतीति। में 'यजेत' इत्यादिवाक्याना यागविधौ तात्पर्यम्, किंतु हिंसाविशेषपरिसंख्यायाम् । विधानं तु गुडजिहिकान्यायेन प्ररोचनामात्रमिति तव कौशलम्. २. वेदान्तेषु गीयसे । परिणामे च त्वमेवावशिष्यस इति भावः. ३. यथा प्रथमक्षणसंबन्धाय हवं कारणत्वेनापेक्ष्यसे तथा द्वितीयादिक्षणावच्छिनायो सत्तायां त्वमधिष्ठानत्वेना- पेक्षणीयः। त्वदीयसत्त्वौपाधिकमेव हि सर्वेषां सत्त्वमित्योपनिषदमलामिप्रायेणेतत.
४ अङ्कः] अमृतोदयम् । ६५ -- पुरुषधौरेय, स्वस्ति तव धारणशक्तये । नं धरणिरुपरि प्रयाति नाधः पतति न च प्लवते न वम्भ्रमीति । न च दिवि वसति वशक्तियोगा- दपि च भवानचलास्थिरत्वहेतुः ॥ ५६ ।। अपि च । प्रवहपवनवेगघट्टितोऽपि स्खलति न यज्जगदण्डपिण्डभारः । लघुगुरुतुलनातुलाप्रकाण्डद्रढिमगुणः स भवद्गुणत्रयस्य ॥ ५७ ।। इयमपि तव जगदवनलीलैव । यत्किल प्रेमयति नवधा खमण्डलानि द्रढयति सप्तपुटानि भूतधाच्याः । उपदिशति च षद्गतीर्घहाणां ध्रुवमवति ध्रुवयोरपि ध्रुवत्वम् ॥५८॥ इदमपि जनावस्थानमुखाय तवावनिघटनम् । १. ग्रहनक्षत्रादिभिरुदाकृष्यमाणा भूमिरनारतमुपरि गच्छति । वृक्षाद्विभत्तं पत्रमूर्ध्व धावन्त्या भुवा संसृज्यते न तु पततीति क्षपणकाः । तक्ष । ग्रहादिभिः सह भुवः संनिकपप्रसङ्गात् । गुरुत्वादनारतमधो गच्छतीति त एव । तदप्यसत् । वियति विक्षिप्तानां शराणां कदापि भूपृष्ठाप्राप्तिप्रसन्नात् । रिक्तगर्भो भूगोलो महत्यर्णवतोये तुम्बिकावत्तरतीति यवनाः। तन्मन्दम् । 'सलिले विलयो मृदो भवेदिति गोरम न युज्यते स्थितिः' इत्यादिना लटेन दूषितत्वात् । भूचकस्यैवा- भिमुखं भ्रमणं न तु ग्रहगोलादेः प्रत्यगभिमुखमिति दिगम्बराः । तदपि हेयम् । 'पूर्वाभिमुखे भ्रमे भुवः खकुलायं कथमाप्नुयुः खगाः' इत्यादिना लश्टेन निरस्त- त्वात् । स्वशत्या वियति स्थिरमवतिष्ठते भूगोल इति सिद्धान्तविदः। तत्र स्वशक्तिपदार्थों भगवदधिष्ठानमेवेति भावः, २. अन्यत्रापि तुलाप्रकाण्डे सूत्रत- यावलम्बितफलकारोपितो भारो न स्खलति । तुल्या च लघुगुरुणी परीक्ष्यते इति ध्वनिः. ३. चन्द्रादीनां ग्रहाणां सप्तनक्षत्राणामेकं कान्तिपातस्याधिकरणं नवमं समण्डलम् । सप्तपृथिवीपुटानि, तान्येव पाताललोकाः प्राक्प्रत्यग्दक्षिणोत्तराधरो- वाः पातयः, सर्वग्रहाणां दक्षिणोत्तरी ध्रुवाविति ज्यौतिषसिदान्तः. ५अमृ.
६६ काव्यमाला। अविषमचतुरस्रषडिभागां न सृजसि कन्दुकनिस्तलां न मूषे । घटयसि पृथिवीमिमां भचक्रभ्रमणकुलालविशालदर्पणाभम् ॥५९ ।। पुरुषोत्तमः--अपि मम प्रलयसर्गावसानसमर्थ शरीरमपि पश्यसि । पुरुषः- नहि नहि । अपरिमितकृतेनिराशयस्य भ्रमरहितस्य निरस्तचेष्टितस्य । दृषदुदरदरीषु दर्दुराणां घटनपटोस्तव कीदृशं शरीरम् ॥ ६० ॥ पुरुषोत्तमः-किमिमामाकस्मिकी प्राकृतिकी वा सृष्टिमभिमन्यसे। पुरुषः- न जगदिदमहेतुतो न शून्यादवधिमतां कथमुद्भवोऽस्त्वकस्मात् । प्रकृतिरियमधर्मधर्मरूपा पुरुषगुणः कथमारभेत विश्वम् ॥ ६१ ।। पुरुषोत्तमः-ननु मामुपादानं निमित्तं वा जगतोऽनुमन्यसे । पुरुषः विशकलितमनुव्रजन्विचित्य स्थपतिरिव त्वमजीघटः षडङ्गम् । १. द्वौ चन्द्रौ द्वौ सूर्यावित्यादिक्रमेणाशदशग्रहाः । चतुःपञ्चाशन्नक्षत्राणि भुवः समचतुरस्राः पार्श्वचतुष्टयो_धरभागाः । एकत्र भागे एकः सूर्यः, ततस्तृतीयभागे द्वितीयः । परिशिष्प्राक्प्रत्यग्भागयोस्तु त्रिरिति दिगम्बरः । ते च 'किं गण्यं तव वैगुण्यं द्वैगुण्यं यो वृथा कृथाः । मार्गेन्दूनां विलोक्याला ध्रुवमन्ये परिभ्रमम् ॥' इत्यादिना भास्करेण निरस्ताः । कन्दुकवर्तुला भूमिरिति ज्योतिषिकाः, तंऽपि मया भूमाद्यसाधनप्रकरणे निराकृता इति भावः. २. अहेतोर्भवतीत्यर्थकमकस्माद्भव- तीति वाक्यम् । शून्योपादानकः संसार इति माध्यमिकाः । प्रकृत्युपादानक इति संचष्काणका नाम सांख्येकान्तवादिनः कापिलाः । ब्रह्मोपादानका इत्यपरे सांख्यै- कान्तवादिनो बादरायणाः । तान् निरस्य भगवत्कर्तृकत्वम् , 'विश्वस्य कर्ता' इति श्रुतिसिद्धमिह व्यवस्थापितम्.
४ अङ्कः] अमृतोदयम् । ६५ विभुरसि च न युज्यसे विकारै- स्त्वयि समवैतु कथं स भूतवर्गः ॥ ६२ ॥ पुरुषोत्तमः—हन्त, तर्हि प्रपञ्चमसन्तं प्रतिपद्यसे । पुरुषः न खलु न खलु । त्वमखिलजगदीश षड्भिरङ्गैरुपचितवेदमजीजनः षडङ्गम् । कथय कथमसावुपैत्वसत्तां सततसतो भवतः स्वतः प्रपञ्चः ॥ ६३ ॥ पुरुषोत्तमः--वत्स, किमनेनासता सता वा प्रपञ्चेन । विहायैन- मान्तरान्विषयान्परिशीलय । पुरुषः-इदं तावदन्तः प्रणिधाय पश्यामि । आलोचनविकल्पा- भिमानव्यवसायवृत्तिमतीन्द्रियमनोऽहंकारबुद्धीस्त्रिगुणमेकं प्रसूते, तद- परमविकारि पश्यतीति । पुरुषोत्तमः--वत्स, कपिलकल्पितभेदमपहाय कर्तृचेतनयोरभेद- मनुशीलय। पुरुषः-एवमनुध्यायमाने कर्तृचेतनयोरभेदे तव मम च मध्ये जडं प्रतिभाति प्रधानन्यवधानम् । पुरुषोत्तमः-तेन किं मामावृतं पश्यसि । पुरुषः नहि नहि। शिव तव मम चान्तरालभूमौ विविधविधिं व्यवधां व्यधात्प्रधानम् । १. मर्वज्ञतातृप्त्यनादिबोधस्व तत्र नित्या लुप्तशतिः अनन्तशक्तयः षडीश्वरा- शानि, शिक्षादयः पद वेदानानि । तथा च त्वया षडलेन षडङ्गो वेद इव सत * सन्नेव प्रपत्रो जन्यत इति भावः. २. 'अजामेकां लोहितशुककृष्णाम्' इति श्रुति सिद्धा काचिदकवाविश। 'इन्द्रो मायाभिः पुरुरूप ईयते' इति श्रुतिसिद्धास्तु तद्विपरिणामभूता नानाविद्याः, तवच्छिन्नं चतन्यं जीवपदेनोच्यते, मूलभूता;
६८ काव्यमाला । .. तदपि हि पिहितोऽहमेव भित्ति- र्भवति वृतिः सदनस्य नाजिरस्य ॥ ६४ ॥ किंतु विकारमलिनप्रधानान्तरितेन चक्षुषा त्वामनुशीलयन्निदं पश्यामि । किमपि निविशति प्रकाशराशौ त्वयि यमुनेव रवौ विधाविवाङ्कः । असिततनुचतुर्भुजं स्वरूपं यदवतराहृदयं हरन्ति रामाः ॥ ६५॥ पुरुषोत्तमः-वत्स, त्रैगुण्यमयप्रधानव्यवधानमपहाय मां निपुणं निरूपयन्नाकलयिष्यसि तत्त्वम् । पुरुषः-हन्त भोः, निपुणनिरूप्यमाणे त्वयि विच्छिद्यत एव द्वैतम् । त्वममृतविषयप्रवेशभूमौ भवसि दृशोः पथि यस्य स द्वितीयम् । जगति न परिपश्यतीति जिह्मा स्मरहर दृष्टिविषाधिका गतिस्ते॥६६॥ पुरुषोत्तमः-एवमेव विषयान्तरप्रकाशदोषमोषनिरस्तद्वैतमद्वितीय- तया दलितमहाभयमपवर्गगोपानसीचरमसोपानभूतमस्मद्दर्शनम् । पुरुषः-हा, किमेतत् । विद्यावच्छिन्नमीश्वरपदेन, अत एव मूलप्रकृतेः सर्वप्रपञ्चोपादानत्वात्तवृत्ती प्रतिमितं चैतन्यं सर्वज्ञपदेन व्यवहियते । अत एव न केनचिदज्ञानेनावृतोऽसौ, किंतु अय- मुपासकानां चतुर्भुजादिशरीरोपेत इवापाततः परिस्फुरतीत्यभिप्रायेणोपनिषदमत- सिद्धब्रह्मामेदविज्ञानप्रकरणमिदानीमारभ्यते. १. उपासकैः परमे ब्रह्मण्यध्यस्तः कालीविग्रहः कृष्णविग्रहो वा ध्येय इत्युप- देशोऽयम् । रामाः भार्गवादयः त्रियो वा तदवतरा भवन्तीति उपासकैयेयमिति. २. अमृतनिधानस्थानस्य द्वारि दृष्टिविषो नाम सर्पः, स यं पश्यति तं द्वितीयो जनो न पश्यतीति तस्य भस्मीभूतत्वात् । त्वां तु मोक्षद्वारि वर्तमानं यः पश्यति स द्वितीयं न पश्यति। अतः कुटिलगतित्वेन सधर्मणो दृष्टिविषात् त्वमतिरिच्यस इति भावः.
अमृतोदयम् । ६२ ४ अङ्कः] उडुनि मयि रवे प्रकाशलेशं व्यवधिवशादपरीक्षितो व्यतारीः । तदपहरसि संनिकर्षमेत्य त्वदुपरि तर्हि निजं वपुस्त्यजामि॥६७॥ पुरुषोत्तमः—न केवलं बहिर्विषयप्रकाशमेव मुष्णाम्यात्मदर्शिनाम् , अपि त्वशेषामेव विशेषगुणसंपदम् । पुरुषः-का पुनरत्र प्रतिक्रिया । अथवा जानामि त्वयि कृतप्र- तिकृतिम् । भवपथपथिकोऽस्मि वाटपाटच्चर मिलितोऽसि विलुण्ठ संपदो मे । अहमपि भवदन्तरं प्रविश्य ध्रुवमचिरेण हरामि ते विभूतीः ॥६८॥ पुरुषोत्तमः-मन्ये ममापहरिष्यसे विभूतिम् । आकलय तावदस्ति मयि किंचित् , आहोविद किंचनोऽस्मि । पुरुषः-हन्त, प्रपञ्चप्रसारणाकुञ्चनैन्द्रजालिकस्य तव नाधुना कमपि प्रकारमुपलक्षयामि । गुणगणमपनीय' चित्तकूपे मम निगमैः सहसा निपातितोऽसि । अमृतकलश तिष्ठ तिष्ठ नातः परमपि जीवनमुद्धरिष्यसे नः ॥६९॥ १. अविद्यावशादपरीक्षितस्त्वम् । प्रकाशलेशमन्तःकरणवृत्त्यवच्छिनं चैतन्य पूर्व वितीर्णवानसि । संप्रति तु संनिकृष्ट त्वयि विषयाकारान्तःकरणवृत्तरभावात्तद- पहार इति त्वयि मत्स्वरूपस्य विलयः त्रिदण्डिसिद्धः प्राप्त इति प्रस्तुतोऽर्थः अप्र- स्तुवेनोडुरविवृत्तान्तेन प्रतीयते । वलवतापहृतधनः क्षुद्रः शरीरं त्यजतीति लोक- सिद्धो वृत्तान्तश्चात्र गुणीभूय भासते । नैयायिकमते तु नित्यचैतन्यस्त्वमनित्यं मयि व्यतारीः, इदानीमनुध्यानसाक्षात्कृतः, तदपि जिहीर्षसि चेत्त्वदुपरि त्वामुद्दिश्येव निजं वपुरपुनर्भवाय त्यजामीति योज्यम्. २. अनेन भेदापगमावस्थालक्षणो मोक्ष उपलक्ष्यते. ३. प्रहासे पुरुषव्यत्ययः. ४. निर्गुणं ब्रह्म उपनिषदा हृदि प्रवेशित जीवनोद्धरणलक्षणां प्रेत्यभावपरम्परा निराकरोति । यथा त्रुटितगुणः कलशः कूपे प्रविष्टः स्थिरमवतिष्ठते, न तु जलमुद्धरतीति ध्वनिः.
७० काव्यमाला। । पुरुषोत्तमः-वत्स, औपनिषदैरदृश्यमानोऽपि मम गुणगणो न प्राकृतपुरुषवत्परमार्थतो विलीयते । पश्य । सपदि गुणगणोऽयमूर्णनाभे- विलयमुपैति वितायते च भूयः । जनजडिमभिदा पटुः पटस्तु क्षणमपि न क्षमते क्षयं गुणानाम् ॥ ७० ॥ पुरुषः-अधुना प्रबोध्यमानोऽप्यात्मानमपि गुणवन्तं नावधार- यामि, कुतो भवन्तम् । .. मुंबनभवनमासनप्रदीप न्यपतदसौ त्वयि चेतनापतङ्गी । क्षणमधिकमदीप्यत ज्वलन्ती पुनरजहात्प्रथमामपि स्वसत्ताम् ॥१॥ पुरुषोत्तमः-तत्त्वतो ज्ञाते मयि तत्त्वविदामात्मा प्रतिभाति । तत्कथय कीदृशं स्वमवधारयसि । पुरुषः-देव, पश्यामि। न धरणिसलिला न चापि वायुर्न खमत एव न खानि नापि वर्म । न समयककुभौ न चिन्न चित्तं पुरुषपुरंदर पूरुषस्तवास्मि ॥ ७२ ।। पुरुषोत्तमः—मया नाथवन्तमात्मानमनुध्यायतस्तव स्फुरन्निवोपल- क्ष्यते मयि स्वतादा म्यारोपैः । पुरुषः-एवमेतत् । १. त्वयि निशिता चेतना कर्तृत्वादिप्रकारानुलिखन्ती सार्वश्यरूपेण प्रथम परिणनाम । ततः वर्तृत्वादिप्रकारानपहाय निर्धर्मकं त्वामवल[लम्बे । अथ स्वरूपेणापि निर्वात । यथा पतकी प्रदीपे पतिता क्षणं ज्वलति ततो भस्मभूता स्वशरीरं त्यजतीति गम्यते. २. स हि तत्त्वतो ज्ञातः खात्मसाक्षात्कारस्योपकरो- तीति टीकादर्शनात्. ३. प्रथममितरत्वेनात्मसाक्षात्कारः, स एव संसारवीज- कसनामूलं करस्थं सहकारिणमासाद्योपनिषद्वाक्यार्थबोधसहकृतेन मनसा जीव- परमात्मनोरमेदः साक्षाक्रियते.
अमृतोदयम् । ४ अङ्कः] ७ असकृदनटदस्मिता नटी मे विहितपदा मशके मतङ्गजेन । ध्रुवमपरि तवाधिरोहतीयं भव महतोऽपि महानणोरणीयान् ॥७३॥ हा, किमेतत् । विगलदवयवं विकारमात्रारहितमनिन्द्रियमक्रियं पुराणम् । त्वमसि तदिति चेतनामयं मामुपनिषदोऽपि बत प्रमोहयन्ति ॥७४॥ जगज्जनक, जानामि गतमिदानीं मम संचरचर्चया । दिगपदिशविपर्ययोऽपि पुंसाम- भिमतसंसरण क्रियां रुणद्धि । मम तु भवकदध्वगस्य कोऽपि त्वमहमिति प्रथितो महान्प्रमोहः ॥ ७५ ।। किं वा कृते प्रतिकृतमेवैतत् । मयि परमविभौ विशुद्धसत्त्वे यदिह शरीरतदात्मतामधास्त्वम् । निगमपुरुष तत्प्रतिक्रियायै त्वयि निदधामि समस्तवस्त्वभेदम् ।। ७६ ।। पुरुषोत्तमः-वत्स, सेयमपवर्गनगरगोपुरायमाणा दशा भवतु मोहमयी न पुनरेनामवधीरयिष्यसि । १. नटी स्थूलसूक्ष्मे पु वस्तुपु विहितारोहणाभ्यासा सूक्ष्मतरं सूत्रादा स्थूलतरे प्राकारादावारोहणे क्षमते । इयमस्मिता तु मशकमताजशरीरपरिग्रहदशायां सूक्ष्म- स्थूलवस्त्वारोहणे कृताभ्य सा स्थूलतरं सूक्ष्मतरत्वात् त्वामारोढुमर्हति । त्वं तु श्रुत्या द्वेधापि प्रतिपाद्यस इति भावः. २. तत्त्वमसीत्याद्याः श्रुतयोऽमुमेव जीवन्मोक्ष- मात्मनोरभेदारोपमुत्पाद्य कृतार्था भवन्ति । स चारोपः स्वात्मसाक्षात्कारे उपयु- ज्यते । स निर्वाणनामनि निश्रेयसेन खल्वेता उपनिषदः कुत्रापि विधौ शेषीभूताः परम्परया परमपुरुषार्थसंवन्धादेव स्वाध्यायविधिविषयत्वोपपत्तरिति भावः.
७२ काव्यमाला। पुरुषः-एवमेतत् शमितजडतदात्मताप्रमोहो विमलयति त्वदभेदविभ्रमो माम् । प्रकृतिमुपनयन्ति वारिधानी कतकरजांसि रजोऽन्तरापकर्षात् ॥ ७७ ।। पुरुषोत्तमः-पुरुष, कथय कमर्थमिदानीमर्थयसे । पुरुषः-पुराणपुरुष, व्यवधिरुपरराम भूर्विविक्ता प्रभवसि गूढगतिर्न मां प्रहर्तुम् । तदिह भवतु तावदेकशेषापरविलयावधिरावयोर्विमर्दः ॥ ७८ ॥ पुरुषोत्तमः-ने संभवति नित्ययोरावयोरेकतरस्यापि विलयः । तन्मया सह भेदाभेदताटस्थ्येन निखिलेतरविषयपरिहारेण च खमा- त्मानमनुशीलय । अहमपि हि तत्त्वतो ज्ञातः खात्मसाक्षत्कारस्योप- करोमि पुरुषाणामिति । पुरुषः-(सकरुणम् ।) अरे अनारतप्रबोधमहिमन् अभंगुरगुणनिधे, सुभगपरिचयं जहाति चेत्त्वामतिचपला मम चित्तचेतनेयम् । परिणतिजडिमप्रकर्षदुःस्थे भिदुरगुणे मयि सा कथं रमेत ॥ ७९ ॥ तथापि भवदादेशतः पश्यामि केवलमात्मानम् । १. व्यवधिरित्यादित्रिदण्डिमतसिद्धः परमात्मनि जीवात्मविलयो नाम मोक्षः प्रस्तूयते। सच पूर्व दुर्गादिनिगूढस्य प्रच्छन्नं प्रहरता पश्चादुद्घाटितव्यवधेर्विविक्तभु- वमागत्य विमर्दमाचरत एक' विनाशफलको वृत्तान्त इवेति ध्वन्यते. २. विलयो न ध्वंसो न वा भेदध्वंसः, तयोर्नित्यत्वादिति भावः. ३. अमेदसाक्षात्कारानन्तरे केवलात्मालोचनम् । तदाहत्यैवानारब्धव्यापारकाणि कर्माणि क्षिणोति, तदिदानी प्रस्तूयते तन्मयेत्यादिना.
अमृतोदयम् । ७३ ४ अङ्कः] (नेपथ्ये ।) हंहो पुरिसाणं उत्तम, अणुप्पण्णप्पसवा अम्हे । ण जुज्जइ अम्हाकं मूलुच्छेदो । (क पुरुषोत्तमः—सोऽयमनारब्धव्यापारकः कर्मगणो विलीयते। पुरुषः–त्यक्ता मया तर्हि संसारकान्तारमरुषु संसरणचर्चा । स्तनकलशमुखेन वा जनन्यास्तनयकराङ्गुलिमध्यकुल्यया वा । मुहुरहमपिवं पयांसि यस्मात्तदिदमशुप्यत जालमाशयानाम् ॥ ८० ॥ (नेपथ्ये ।) हा आवुअ, सिसिरभिसिणीसण्डो ब्व तुमं विलीनो मा जाण क्वणंपि अम्हे जीआमो त्ति । हा वच्छे पउत्ति, तुअंपि अणाहा असरणा विपजिहसि । (ख) पुरुषोत्तमः-पश्य पुरुष, तव विवेकप्रदीपे पतङ्गवृत्तिमाश्रित्य विलीने महामोहे कुमारौ रागद्वेषावपि प्रवृत्तिविलयाय विरमतः । पुरुषः-हन्त विरतेषु चिरंतनप्रियसुहृत्सु दोषेषु विरंतजन्मफलो विदलद्विनश्यदाशयग्रन्थिर्मुहूर्त क्वचिद्विश्रमितुमिच्छामि । (क) हंहो पुरुषाणामुत्तम, अनुत्पन्नप्रसवा वयम् । न युज्यतेऽस्माक मृलोच्छेदः। (ख) हा आवुक, शिशिरबिसिनीखण्ड इव त्वं विलीनो मा ज्ञासीः क्ष- णमपि वयं जीवाम इति । हा वत्से प्रवृत्ति, त्वमप्यनाथाऽशरणा विपत्स्यसे । १. प्रेत्यभावप्रयोजनकः कर्माशयगणो जलाशयाभेदेनाध्यवसीयते. २. यद्यपि बाह्यविषयाभेदभ्रममूलवासनास्वरूपो महामोहः प्रागेव विलीनः, तथापि जीवपर- मात्मामेदभ्रममूलं(ला)वासना सांप्रतमेव लीयते । तेनेदानी महामोह विलयोऽ- नुशोचितः. ३. मोहविलयाद्रागद्वेषयोर्विलयः, तद्विलयात्प्रवृत्तविलयो जन्मन- स्ततः- इति जन्मविलयान्तो जीवन्मोक्ष इह प्रस्तुतः । तदेतत्सूचयति-विरत- जन्मफल इति । एतेन 'दुःखजन्मप्रवृत्तिमिथ्याज्ञानानामुत्तरोत्तरापायेन तदन- न्तरापायादपवर्गः' इति पारमर्ष सूत्रं व्याख्यातम्.
७४ काव्यमाला। पुरुषोत्तमः-वत्स, तदिदमग्रतः कायारण्यम् । इह विश्राम्य तावद- चिरमिह परिचरिप्यन्तस्त्वां प्रतिपालयन्ति फलवन्तः कर्माशयतरवः । पुरुषः-नाथ, मुक्तानि कायारण्ये कर्मतरुफलानि । विलीनं सपाद- पमरण्यम् । अयं पुनः को नाम । नोवं धावन्नवनिवलयान्नाम्बराल्लम्बमानो दिग्भ्यस्तियङ् न च विचलितो नान्तरैव प्रसूतः । आनन्दाब्धेरपगततटद्वीपवेलाविभागः पूरः पारे वचनमचिराद्विश्वमेकीकरोति ॥ ८१ ॥ पुरुषोत्तमः-अयमानन्दसमुद्रोऽनुषङ्गलभ्यो हेय एव दृष्टानुश्र- विकानन्दवदपवर्गपान्थानाम् । सुखकामः परानन्दमप्राप्यहिकमिच्छति । अभाव मत्तकाशिन्या दृष्टा तिर्यक्षु कामिता ॥ ८२ ॥ तदिमामानन्दकक्षामतिक्रम्य कैवल्यभूमौ निर्वाणं नामापवरकमाश्रित्य विश्राम्यतु भवान् । पुरुषः-इदं तावत्प्रागपि सुषुपता मयाऽध्यासितमासीदिति प्रेत्य- भिज्ञायते। इदमपवरकं तदेव यस्मिन्नसकृदहं निरगां निशि प्रविश्य । विगलितवरणाबहिर्विहीनात्कथमधुना सदनादितो निरीयाम् ८३ १. निर्वाणनाम्नोऽपवर्गस्य प्राकाले कायारण्यद्वारारब्धव्यापारकर्मफल नामशेषतो भोगः । ततो ज्ञानफलमानन्दभोगः 'आनन्दं ब्रह्मणो रूपं तच मोक्षे प्रतिष्टितम्' इति श्रुति सिद्धः। तं प्रस्तौति-अयं पुनरित्यादिना. २. दृष्टो वैषयिक आनुश्रविको वैदिक आनन्दो यथा न कमनीयः वैज्ञानिकोऽपि । तस्याकाम्यत्वे न्यायमाह- सुखकाम इति. ३. दुःखानामत्यन्तविलयो निर्वाणम्. ४. सुषुप्यवस्थासजातीयमेव निर्वाणम्- 'अहरहरस्माल्लोकादमुं लोकमपि यान्ति' इति श्रुतेः-इते प्रकरणार्थः.
७५
४ अङ्कः]
अमृतोदयम ।
पुरुषोत्तमः-विद्यते मवदध्यासिताध्यासयिप्यमाणयोनिवृत्त्यपव-
रकयोः सूक्ष्मो भेदः । तदधुना विरमति भवदिवसे प्रकाशराशिरयमपि
तिरोभवति । तदसौ सुदृष्टः क्रियताम् ।
पुरुषः-(नाव्येनार्ग्यविधि निवर्त्य ।) भगवन् अशेषभुवनभावनत्रयीपुरुष,
ध्रुवमियमपवर्गरात्रिसंध्या भवति यतस्त्वयि निर्भरोऽनुरागः ।
रुचिमयचरमोऽयमञ्जलिस्ते ननु न चिराद्भविता भवानदृश्यः ॥८४॥
(इति निष्क्रान्ताः सर्वे ।)
इति तुरीयोऽयमात्मदर्शनं नामाऽङ्कः ।
पञ्चमोऽङ्कः।
(ततः प्रविशति श्रुतिगन्वीक्षकी च ।)
श्रुतिः- ततस्ततः ।
आन्वीक्षकी-ततश्च प्रमित्यनुमितिसिद्धिभिः सहचरिद्धर्मणः पुरु-
पस्य प्रादुर्वभूव विलीने च सान्वये महामोहे कैवल्यभुवमागते पुरुषे
तिरोबभूव पुरुषोत्तमः ।
(नेपथ्ये।)
भगवन् अनिमित्तमैत्रीमयचरित्र निष्कारणकरुणारत्नाकर शंकर,
त्यक्ताध्वन्यसुहृज्जनस्य तरतः कान्तारमेकाकिनः
प्रच्छन्नेन सखे त्वया वसतयो भोगाय मे निर्मिताः ।
संसाराध्वविरामसीमनि मनागेकात्मवत्संगते
विश्लिष्टे त्वयि केवलस्य गलितः सर्वः प्रकारो मम ॥१॥
विगलितगुणसामान्यं केवलमात्मानमालोच्य ।
पुरुषोऽननुभूतचरं चरमतरं दुःखमनुभवति ॥ २ ॥
७६ काव्यमाला। श्रुतिः-वत्से, एतदवसानानि पुरुषस्य व्यवसितानि । असावेव चास्य दुःखानामत्यन्तविमोक्षाय यदपवर्गप्रतिष्ठा नाम । प्रतिष्ठिते च प्रशान्तिसामैकधने राजन्यपवर्ग पुरुषस्यास्य नगरे न भेदो न च विग्रहः । भेदविग्रहमूलस्तु दुःखदण्डः पतेत्कुतः ॥ ३ ॥ तदभिषिच्यतामपवर्गः क्षेत्रज्ञनगराधिपत्ये । (प्रविश्य ।) बुद्धमार्गः-नमो भगवते तथागताय । क्षणिकाणुसंचयमये त्रिविष्टपे स्थिरता कथं भवतु चेतनात्मनः । चितिसंततिर्गलितवासनावलिविषयोपरागरहिता निरुध्यते ॥ ४ ॥ स एष ममापत्यं क्षीणवासनो विलीनक्लेशत्रयनिरुद्धो विषयोपराग- रहितो वा चेतनासंतानो नामापवर्गः साम्राज्येऽभिषिच्यताम् । आन्वीक्षकी-भद्र श्रवणकमार्ग, कस्ते विषयः । मार्गः-नैरात्म्यं क्षणिकता च । मया गृहीतो हि पुरुषो न दवीयः फलं कामयते, न प्रवर्तते, न कर्मसंस्कारस्कन्धेन सीव्यते, न संसरतीति। आन्वीक्षकी-दुर्दर्शनकथामपि मादृशेन जनेन नार्हसि, यस्ताव- दात्मानमेव न चेतयसे । मार्गः-स्त्रीत्यवज्ञाता प्राणिहि । न हि त्यजाम्यहिंसाधर्मम् । (इति निष्कान्तः ।) श्रुतिः-अरे विद्याः, प्रवेशयतापवर्गम् । १. पुरुषस्य लिङ्गशरीरावच्छिन्नस्य जीवक्षेत्रज्ञनगरे शरीरोपाधिप्रयुक्त एव मेदः । विग्रहशून्यतायां च न भेदसंभव इति वृत्तान्तः सामाधुपायचतुष्टयवृत्तान्ता- भेदेनाध्यवसीयते. २. क्षीणवासनाचित्तसंततिरपवर्ग इति योगाचाराः । रागद्वेष- मोहात्मकक्लेशत्रयविलयस्वरूपनिरोधवती सा तथेति सौत्रान्तिकाः । विषयोपरागर- हिता चित्तसंततिरसाविति वैभाषिकाः.
५ अङ्कः] अमृतोदयम् । ७७ DI PRATAPOOLEGE LI" AR विश्य अर्हत्सिद्धान्तः—णमो अलिहन्ताणम् । णिज्जरजज्जलसंवलविहुडिअगलिअट्टविधवन्धा । अच्छिण्णघणाणन्दा मुत्तप्पाणो जअन्ति जिणा ॥ ५ ॥ एसे मह पुड्डे पडे अवले अ ओवग्गे। (क) आन्वीक्षकी-मद्र भदन्तसिद्धान्त, कस्ते विषयः । कोऽयमपर: परस्तवापवर्गः। सिद्धान्तः–णिम्मले विण्णाणमए सलीलपरिणामे अप्पा मह विसए णिलावलणाह जीअविहङ्गाह अबाहआ सुहदसा ठिई णाम अबले ओवम्गे । उद्धगइ माम पलममोक्खे । (ख) आन्वीक्षकी--(सक्रोधम् ।) अरे दौवारिकदर्शनानि, निरुध्यन्ता- ममी पाखण्डाः । सिद्धान्तः, कडुअभासिणि, अजेव्व शाहेमि । (ग) (इति निष्क्रान्तः।) (ततः प्रविशतः सिद्धान्ती पाशुपतो वैष्णवश्च ।) पाशुपतसिद्धान्तः-अये, लोकविरुद्धैः सर्पदहनधारणगरप्राश- (क) नमो अईयः। निर्जरजर्जरसंवरविघटितगलिताष्टविधबन्धाः । अच्छिन्नघनानन्दा मुक्तात्मानो जयन्ति जिनाः ॥ एष मम पुत्रः परश्चापरश्चापवर्गः । (ख) निर्मलो विज्ञानमयः शरीरपरिणाम आत्मा मम विषयो निरा- वरणस्य जीवविहङ्गस्याव्याहता सुखदशा स्थिति मापरोऽपवर्गः । ऊर्ध्व- गति म परममोक्षः। (ग) कटुभाषिणि, अद्यैव साधयामि ।
७८ काव्यमाला। नादिभिर्वेदविरुद्धैर्ब्रह्ममूर्धत्रश्चनदारुवनद्विजविध्वंसनादिभिरपि निलेपस्य स्वतन्त्रतया वशीकृतसिद्धेर्न केवलं पशूनामेव किंतु पशुपाशवन्धमोक्षा- णामपि प्रभवतो दुरवगाहा विभूतयः । विधिवशमिलितो भवाध्वयात्रां हरसि जगत्तिलपेषतैलिकोऽसि । न तव पशुपते विदन्ति पाशं पिहितदृशः पशवः परिभ्रमन्ति ॥६॥ अपि च । दुर्दम्भजम्भरिपुर्षितधर्मदार- रूपानुरूपवचसो वत गोतमस्य । कः श्रद्दधीत गिरि किंतु भवच्छरीर- सारूप्यलब्धविभवं वपुरेव मोक्षः ॥ ७ ॥ स एव विरूपाक्षसारूप्यं नामापवर्गोऽभिषिच्यताम् । वैष्णवसिद्धान्तः- दहनमभिविशन्तु कर्मतन्त्राण्युपनिषदा सह दह्यतां विवेकः । मम तु भवतु भूतिभाजि भक्तिर्भगवति वारिदभासि वासुदेवे॥८॥ अपि च । वरं वृन्दावने रम्ये शृगालोऽपि भवाम्यहम् । गोतमोक्तां पुनर्मुक्तिं गोतमः प्रतिपद्यताम् ॥ ९ ॥ स एष साम्राज्यमर्हति वैकुण्ठसालोक्यं नामापवर्गः । आन्वीक्षकी-अरे, स्वर्गपभेदेष्वपवर्गाभिमानिनोरुपासनाभक्तिश्च निःश्रेयसोपाय इत्यापाततो भ्राम्यतोर्भवतोभविष्यति काले विज्ञाना- धिकारः । (प्रविश्य ।) कर्मकाण्डः-अरे आङ्गिरसि, किं नाम विज्ञानम् , कसै प्रयो- ५ अङ्कः] अमृतोदयम् । - जनाय कल्पते । नित्यनैमित्तिकानुष्ठाननिषिद्धाननुष्ठानाभ्यां पापस्य काम्यकर्मसंन्यसनात्पुण्यस्यानुत्पत्ती प्रागुत्पन्नयोस्तयोर्भागात्प्रक्षय इति प्रत्रज्याकमैव निःश्रेयसं साधयति । कर्मणैव हि संसिद्धिमास्थिता जन- कादयः श्रूयन्ते । आन्वीक्षकी- अरे निरीश्वरतया स्वतन्त्र, कथमेकेन जनुषा विना समाधिमनुत्पन्नकायारण्यो जन्मसहस्रोपभोम्यानि सुकृतदुप्कृतानि भुञ्जीत, भुञ्जानो वा कर्माशयः कथं न सीव्येतासति विज्ञाने(s)सं- न्यासिजनः । भाव, भावयतु भवानन्यः को नाम समाधेरगस्त्य इव समुद्रमाचामति, स इव दण्डकारण्यं सृजतीति । पाशुपतवैष्णवसिद्धान्तकर्मकाण्डाः नास्त्यवकाशोऽस्माकमिह। (इति निष्क्रान्ताः ।) (ततः प्रविशति सेश्वरमीमांसाद्वयम् ।) प्रथमा सोऽयं विज्ञानसमुच्चितस्य कर्मणोऽपत्यमानन्दभोगो नामापवर्गः । आनन्दोऽयमखण्डसुन्दरवपुर्मूढस्य संसारिणः प्रच्छन्नो वसति स्म तेन हि नृणां नासीदसौ गोचरः । संन्यासेन कृताकृते प्रशमिते ज्ञानेन मोहे हते धन्योऽनन्यधनो निरन्तरममुं मोक्षं जनो भोक्ष्यते ॥१०॥ द्वितीया सखि, साधु मन्त्रयसे । स्वरूपलाभ एवायं पुरुषस्य यदानन्दाभिव्यक्तिर्नाम । निस्तीर्ण. सरिति पुरा गिरा परेपामात्मानं दशममजीगणन्त भौताः। आनन्दस्थगितनिजस्वरूपलाभः पुंसोऽभूदुपनिषदा प्रबोषितस्य ११ श्रुतिः-पुत्रि धर्ममीमांसे, वत्से ब्रह्मविद्ये, शरीरपरतत्रो युवयो- काव्यमाला। ८० ये नाम रानन्दभोगः, न ह्यशरीरं प्रियाप्रिये स्पृशतः । तदयं जीवन्मोक्षोऽपव- र्गस्य द्वारि तिष्ठतु । [वत्से बादरायणि,] त्वमेनमेकं दण्डं गृहीत्वा प्रतिपालय । ब्रह्मविद्या-भगवति, किमेकेन दण्डेन । मयास्य प्रतिपालनाय गृहीतास्त्रयो दण्डाः । अयं पुनरानन्दमये परमात्मनि जीवस्य जीवभे- दस्य वा लयो नामापवर्गः परमपदेऽभिषिच्यताम् । श्रुतिः-अयि सरले, सहजौ सखायाविमौ सुपर्णों परापरे ब्रह्मणी तयोरेकतरस्यान्यत्र न युज्यते विलयः । भेदस्तु पाषाण इव पयसि पातितः प्रयत्नशतेनापि न विलीयते । ब्रह्मविद्या-तदयमानायविशुद्धो निरन्तरप्रेत्यभावनिदानस्य लिङ्ग- शरीरस्य विलयो भवत्याः प्रसादमर्हति । आन्वीक्षकी-भगवति श्रुते, को दोषः । सदा तिष्ठत्वयमग्रतो निर्वाणस्य । श्रुतिः—बाढम् । ब्रह्मविद्या-महानयमनुग्रहो भगवत्याः । (प्रविश्य :) सांख्ययोगौ-भगवति, बुद्धिवृत्तिनिगमादपगतविषयोपरागविप्ल- वायाश्चित्ति(ति)शक्तेः स्वरूपावस्थानं नाम विवेकख्यातिपुत्रोऽयमपवर्ग- पदेऽभिषिच्यताम् । :: श्रुतिः-नन्वयं केवलस्यात्मनो निष्प्राकारकमालोचनं नाम ब्रह्म- वोधोऽपवर्गस्य पितापि चपलप्राणतया नाभिषिच्यते । आन्वीक्षकी-आयुष्मन् निर्वाणनामन् अपवर्ग, इत इतः ।
५ अङ्कः] अमृतोदयम् । ८१ (ततः प्रविशत्यपवर्गः ।) अपवर्गः-भगवति श्रुते, कनिष्ठे भगवत्यान्वीक्षकि, भगवत्यः प्रमाणविद्याः, विवेकपुत्रो निषेधगोत्रोऽहमपवर्गनामाभिवादये । सर्वाः-वत्स, दीर्घतमेनायुषा वर्धस्व । मीमांसा-वत्स, प्रभाकरालोकेन प्रत्यभिज्ञातोऽसि । सत्यमनि निषेधगोत्रः, विवेकेन तु पालितः केवलमभून पुनः कस्याप्यपत्यं भवसि । अपवर्गः—मातः, अहमधुनैव जातः । श्रुतिः-वत्स अपवर्ग, इह सिंहासने तावदुपविश । त्वामभिषे- क्ष्यामः क्षेत्रज्ञनगराधिराज्ये । (अपवर्ग उपविशति ।) सर्वाः-(रनकलशैरभिपिच्य निरूप्य ।) यत्सत्यमेवंविधमखिलविष- यातिशायिनमपवर्गस्य सुभगभावमवलोक्य जानीमः । बुद्धिः शरीरं विषयेन्द्रियाणि सुखं च दुःखैकनिकेतनानि । विवेकिने केवलमात्मविद्याविद्योतितात्मा स्वदतेऽपवर्गः ॥१२॥ श्रुतिः-वत्स अपवर्ग, अभिषिक्तः क्षणं दृष्टोऽसि । द्रक्ष्यमाण: प्रीणयस्यास्मान् । इच्छामि तव प्रतिष्ठेतिवृत्तस्य केनापि कविना प्रणीतं सारस्वतं प्रवन्धम् । मीमांसा-प्रत्यक्षपरिकलितेऽर्थे किं कविप्रबन्धेन । आन्वीक्षकी-मा मैवम् । संकेतकेतनोन्मुखदयिताकरतर्जनीव कविसूक्तिः । दृष्टमपि दर्शयन्ती रमयति चेतांसि चतुराणाम् ॥ १३ ॥ (श्रुतिः सरस्वतीमनुभ्यायति ।) ६ अमृ० ८२ काव्यमाला। (ततः प्रविशति सरस्वती।) सरस्वती–साधु रे नवनवसारखतसंसारनिर्माणनूतनप्रजापतयो वात्स्यायनवंशवर्धनाः कवयः, न स्पृष्टाः कुशकर्कशैस्त्रिभुवनस्रष्टुः करैरष्टभिः श्रीभतुन कदर्थिताः करुणया कोपेन वा धूर्जटेः । ते स्वप्नेऽपि मया पदैन मृदिताः सत्यं रसेभ्यः शपे युप्माभिर्विषयेषु येवभिनवः पन्था ममोन्मीलितः ॥१४॥ (निरूप्य ।) इयमपूर्वा कापि पद्धतिः । कथमेकतः शशधराश्मकर्कशा क्षरति क्षपाकृदुदयादिवामृतम् । परतः पयोरुहपलाशपेलवा परिवाहिणं रसमसौ निषिञ्चति ॥१५॥ तन्नूनममीषामपारसारस्वतसंसारसरणिपरिकर्मनिर्माणमर्मविदां विदुषां वात्स्यायनवत्सानामेकतमस्य प्रातिभोऽयं पन्थाः । ते हि माध्यंदिनमू- धन्याः सुभाषितेर्ष्याकलुषसुलोचनविषानलैः । फणं दहन्ति शेषस्य ततः फणदहा मताः ।। १६ ।। श्रुतिः-वत्से आन्वीक्षकि, सत्यमाह गिरां देवी । भवन्त्येवंविधा एव फणदह द्विजाः । पश्य । निगमसरसोमाने दण्डाः प्रमत्तसरखती- स्खलनपतनारम्भे हस्तावलम्बनयष्टयः । सुकृतसदनोपादानं ते भवन्ति भजन्ति ये रुचिपतिकवेवंशस्तम्बप्ररोहकरीरताम् ॥ १७ ॥ १. 'फन्नावार' इत्याधुनिकमैथिलपजीप्रचरितः. अद्याप्येतद्वंशजा द्विजा भूष- यन्ति मिथिलास्थमारोनीनामम्.
५ अङ्कः] अमृतोदयम् । ८३ सरस्वती—(उपमृत्य ।) नमोऽस्तु तुभ्यं पाठ्यगीताभिनयरसानामु- त्पत्तये गृहीत ऋक्सामयजुरथर्वमूर्तये भगवत्यै श्रुतये । श्रुतिः-स्वदन्तां सामाजिकजनाय तव भावा रसाश्च । सरस्वती-भगवति निखिलवाङ्मयलतासंतानमूलशलाके, कथम- नुध्यानेन पावितोऽयं जनः । श्रुतिः-वत्से, प्रतिष्ठितमपवर्ग सरसेन वाक्प्रबन्धेनोपश्लोकयितु- मादिश कापि देशे कमपि कवयितारम् । सरस्वती-नान्यत्र निमिजनपदादीदृशाः कार्कश्यकोमलताकर- म्बितप्रबन्धकवयः संभवन्ति । पश्य । गाढोपगूढदयितापुलकाङ्किताओं निष्टप्ततैलपरिमृष्टतदन्यभागः । सीरध्वजो नरपतिः प्रबभूव येषां ते तादृशान्प्रसुवते विदुषो विदेहाः ॥१८॥ तेषामपि मध्ये माध्यंदिनचरणगुरवो वत्सवंशवर्धनाः फणदहद्विजा एव जानते समाधिजमथ च ध्वनिजन्मानमानन्दमेकपदेऽनुभावयितुम् । श्रुतिः :-तत्र वंशे विद्यत एव विद्यानिधिः पीताम्बरो नाम, यः किल प्रकृतिगहने तन्ने वैशेषिके विवृतिं व्यधा- दकुरुत चतुर्वर्गव्याख्यामृतानि च भारते । भरतवचसा तत्त्वख्यात्यै निबन्धमभाषत व्यतनुत तथा तिस्रो वाणीविलासकविः कथाः ॥ १९ ।। सरस्वती-(सांस्रम् ।) देवि, मुषितो वयमनुना मध्यमं भुवनमपज- हता वत्सेन वंशवंशवर्धनेन विद्यानिधिना ।
८४ काव्यमाला। अशरणमभूद्रामं वर्ची निरिन्धनमैधत ज्वर इव भुवो देव्या दुःसंवरः कलिसंज्वरः । अभजत कथाशेषो धर्मः परैरुपहास्यता- मकुरुत यदा विद्वान्विद्यानिधिर्द्विगुरुं दिवम् ॥ २० ॥ आन्वीक्षकी-भगवति, सत्यमेषा मुषिता तपखिनी । पश्य । अवितथवचोवन्धे चिन्तावशंवदवाङ्मये विदति निखिला विद्या विद्यानिधौ दिवमीयुषि । इयमशरणा वाचां देवी लभेत कमाश्रयं विदितमथवा कृष्णद्वैपायनो भुवि जीवति ॥ २१ ॥ श्रुतिः-सत्यमेष न विशिप्यते वादरायणो विद्यानिधेः पीताम्ब- रात् । तथा हि तस्य न धुतसमया न ग्राम्या न च्युतक्रमसंस्कृति- न रसरहिता नाश्लीला न प्रसिद्धिविरोधिनी । न जनितपरोद्वेगा न स्तोकमप्यनृते स्थिता प्रकृतिगदिताप्यासीद्विद्यानिधेर्विबुधस्य वाक् ॥ २२ ॥ सरस्वती-भगवति, न केवलमहमेव निःशरणतया सीदामि । यावदसौ सर्वोऽपि गुणगण एकं समुदायस्थानमलभमानो विप्रकीर्णो यतःकुतश्चिदवतिष्ठते । किं च । श्रुतमविनयः शौचं दम्भो दमं मतिविभ्रमः शममलसता दानं गर्वः कुलं प्रबलो मदः । इति दिवमितः प्राप्त विद्यानिधौ समुदायतो बत विघटितं धर्म पाप्मा निहन्ति पदे पदे ॥ २३ ।।
८५ ५ अङ्कः] अमृतोदयम् । श्रुतिः-वत्से, कथय कस्येदानीममृतोदयप्रबन्धघटनभारमारोप- यिष्यसि । सरस्वती-भगवति, अस्ति तस्य परापरब्रह्ममीमांसनमांसलविज्ञान- वासनस्य सकलसारस्वतसंसारसरणिविभागविदो विद्यानिधेः पीताम्बरस्य चतुर्णा पुत्राणामेकतमो गोकुलनाथो नाम । यो जन्मतश्च गुणतश्च मतः कनिष्ठः श्रीमत्रिलोचनकवेश्च धनंजयाच्च । स श्रीजगद्धरधरातिलकाग्रजन्मा निर्मास्यति प्रगुणतत्त्वरसं प्रबन्धम् ॥ २४ ॥ यस्य खल्वियं वाचोयुक्तिः- अधिगतमुपाध्यायाद्विद्यानिधेरनुचिन्तितं विरलविषयग्राहिण्यापि स्वया जडया धिया । बहुलमथवा स्तोकं यद्यन्मया श्रुतमर्जितं परिणतिरियं तस्य प्रीतस्तयास्तु परः पुमान् ॥ २५ ॥ श्रुतिः-वत्स, प्रतिहतास्ते परिपन्थिनः । क्षेत्रज्ञनगराधिराज्याभि- षिक्तः कविभिरुपश्लोक्यसे । किं ते भूयः प्रियमुपकरोमि । अपवर्गः—मातः, अहं पूर्णोऽस्मि । तदापीदमस्तु संसारात्प्राप्य निर्वेदं सर्वे निर्वाणलिप्सया। श्रवणान्मननाध्यानात्पश्यन्तु पुरुषोत्तमम् ॥ २६ ॥ इति ॥ (निष्क्रान्ताः सर्वे ।) इत्यपवर्गप्रतिष्ठा नाम पञ्चमोऽङ्कः। समाप्तमिदं श्रीगोकुलनाथोपाध्यायकृतममृतोदयं नाम नाटकम् ।
काव्यमाला मासिकांत छापलेले ग्रंथ. १ १ ८ . २ . १ ० ... २ . ८ ८ . . २ २ ८ . किं. रु. आ.ट.रु. आ. १ आर्यासप्तशती-गोवर्धनाचार्यविरचित.... २ काव्यालंकार-रुद्रटकृत,नमिसाधुकृत टीकासहित. ३ श्रीकण्ठचरितकाव्यम्-श्रीमल कविकृत. कर्पूरमअरीसट्टक-राजशेखरकृत. ५ अनर्घराघवनाटक-मुरारिकृत. कर्णसुन्दरीनाटिका-महाकविश्रीविठणकृत. धर्मशर्माभ्युदयका काव्य-महाकविश्रीहरिचन्द्रविरचित. १ १० समयमातृकाकाव्य-क्षेमेन्द्रविरचित. ० १० ११ कादम्बरीकथासारकाव्य-श्रीमदभिनन्दकृत. १० १२ रसगङ्गाधर-महाकविश्रीजगन्नाथपण्डितरायविरचित. ३ १३ साम्बपञ्चाशिका--साम्बकविप्रणीत. १ १४ पारिजातहरणचम्पू-शेषकृष्णविरचित. १५ काव्यालंकारसूत्राणि-वामनवि चित. १६ मुकुन्दानन्दभाण-श्रीकाशीपतिविरचित. १७ उन्मत्तराघवप्रेक्षाणक-भास्करकविविरचित. १८ अमरुशतक-अमरुककविविरचित. १९ सूर्यशतक-मयूरकविविरचित. . २० लटकमेलकप्रहसन-शंखधरविरचित. २१ गाथाशप्तशती-हालोपनामकसातवाहनसंकलित. २४ काव्यप्रदीप-महामहोपाध्यायश्रीगोविन्दविरचित. २५ ध्वन्यालोक-आनंदवर्धनाचार्यविरचित. २६ दशावतारचरितकाव्य-क्षेमेन्द्रविरचित. २७ जीवानन्दनाटक. २८ दूतागर्दछायामाटक-श्रीसुभटकविविरचित. ० १२ ३ ३ १ १२ :: १ १ . ५ १२ ३ २ . ६ . . १ ४ ३ १ . 'AM R . २॥ . १ १ . . १० १ ३ . १० १४ ० . ३ . १ २ १ . . ९ ० १ ७ २ ० १ . १ किं. रु. आ. ट.रु. आ. २९ भर्तृहरिनिर्वेदनाटक-श्रीहरिहरोपाध्यायकृत. १० चन्द्रप्रभचरित-महाकवि वीरनन्दिविरचित. २१ विष्णुभक्तिकल्पलता-पुरुषोत्तमविरचित. १२ सहृदयानन्दकाव्य-कृष्णानंदविरचित. ३३ थीनिवासविलासचम्पू-वेटेशकविप्रणीत. ३६ वृत्तिवार्तिक-श्रीमदप्पय्यदीक्षितप्रणीत. ३७ रससदनभाण-युवराजक विविरचित. ३८ चित्रमीमांसा-श्रीमदप्पयदीक्षितप्रणीत. ३९ विद्यापरिणय-आनन्दरायमखिविरचित. ४० रुक्मिणीपरिणय-श्रीरामवर्मवञ्चियुवराजविरचित. ४३ काव्यानुशासन-श्रीमद्वाग्भटविरचित.... शृङ्गारतिलकभाण-श्रीरामभद्रदीक्षितविरचित. ४६ वृषभानुजानाटिका-श्रीमथुरादासविरचित. ४८ वाग्भटालंकार-श्रीवाग्भटप्रणीत. ५० अलंकारशेखर-श्रीकेशवमिश्रकृत. ५१ पतअलिचरित-श्रीरामभद्रदीक्षितप्रणीत. ५२ मन्दारमरन्दचम्पू-कृष्णकविविरचित. ५३ वाणीभूपण-श्रीदामोदरमिश्रविरचित.... ५४ धनंजयविजय-श्रीकाञ्चनाचार्यविरचित. ५५ अद्भुतदर्पणनाटक-महादेवविरचित. ५५ राघवनैषधीयकाव्य-हरदत्तसूरिकृत. ५८ शृङ्गारभूषणभाण-वामनभवाणविरचित. ५९ अमृतोदयनाटक-गोकुलनाथकृत. ६० युधिष्टिरविजय-महाकवि श्रीवासुदेवविरचित. ६१ हरचरितचिन्तामणिकाव्य-राजानकजयरथकृत. ६५ भारतमञ्जरीकाव्य-महाकविश्रीक्षेमेन्द्रविरचित. . १२ ६६ अलंकारकौस्तुम-श्रीविश्वेश्वरपण्डितविरचित. ३ ६७ हीरसौभाग्य-श्रीदेवविमलगणिविरचित. • १२ ८ . २ :: १२ ० १० २ ८ . ... ... १ ० . १ ३ . १ १२ . १० . :: १ १ ३ . ८ . १२ . १ १२ ५ . . ८ س m ८ ... . ३ १२ २ ४ . ८ ० १२ २ . १४ ३ १ ४ १ . . ० . २ . . २ . १० २ AN १ १ २ . किं. रु. आ. ट.रु.आ. ६८ रावणार्जुनीयकाव्य-काश्मीरी श्रीभभीमविरचित. १ ६९ वृहत्कथामञ्जरी-श्रीक्षेमेन्द्रविरचित... ७० यशस्तिलक-श्रीसोमदेवसूरिविरचित.... ७१ काव्यानुशासन-आचार्यहेमचन्द्रविरचित. ७२ कथाकौतुक-पण्डितश्रीवरविरचित. ७३ सुरथोत्सव-श्रीसोमेश्वरदेवविरचित. ७४ सौगन्धिकाहरण-विश्वनाथकृत टिप्पणीयुक्त. ७५ जयन्तविजय-श्रीमदभयदेवविरचित.... ७६ गङ्गावतरण-श्रीनीलकण्ठदीक्षितविरचित. ७७ देलरामाकथासार-राजानकभट्टाहादकविविरचित. ७८ शृङ्गारसर्वस्वभाण-श्रीनल्लाकविविरचित. ७९ कर्णभूषण-श्रीगङ्गानन्दकविराजप्रणीत. ८० प्राचीनलेखमाला-( तृतीय भाग.)... ८१ विदग्धमाधव-श्रीरूपगोस्वामिप्रणीत ( सटीक.) ८२ सुभाषितरत्नसंदोह -श्रीमदमितगतिविरचित. ८३ रामायणमञ्जरी-क्षेमेन्द्रविरचित. ८४ स्तवमाला-श्रीरूपदेवविरचित. ८६ हरिहरसुभाषित-श्रीहरिहरप्रणीत. चैतन्यचन्द्रोदयनाटक-श्रीकविकर्णपूरविरचित. ९१ छन्दःशास्त्र-पिङ्गलाचार्यविरचित. ९४ सरस्वतीकण्ठाभरण. ९५ उज्वलनीलमणि-श्रीमद्रूपगोस्वामिप्रणीत. पांडुरंग जावजी, निर्णयसागर छापखान्याचे मालक, २६-२८, कोलभाट लेन, मुंबई नं० २ PEATAY COLLEGEI GINAGAR . १२ २ ad . :: २ . १ . ४ १ १२ १ السيد
No text on this page.