Library
Mund-d'akopanishhata~ Grantha 9
Front matter
THE BOOK WAS DRENCHED
आनन्दाश्रमसंस्कृतग्रन्थावलिः।
.
ग्रन्थाङ्कः ९
मुण्डकोपनिषत् ।
आनन्दगिरिकती कासवलितशांकरमापसमेता ।
तथा
नारयणविरचिता मुण्डकोपनिषद्दीपिका च ।
पुस्तकद्वयमेतदाननतः संशोधितम् ।
हरि नारायन आपटे
इत्येतैः
पुण्याख्यपत्तने
आगन्दाश्रममुद्रणालये
आपसाक्षरमुदायित्वा
प्रकाशितम् ।
चतुर्थयं मुद्रणावृत्तिः।
शालिवानशकाब्दाः १८३१
प्रवेऽधिकार, राजशासनानुसार स्वागतीकृत
“मूल्यं दशाऽऽणकाः (१०)'
UNIVERSAL
LIBRARY
OU_184011
LIBRARY
UNIVERSAL
No text on this page.
No text on this page.
आनन्दाश्रमसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्कः ९
मुण्डकोपनिषत् ।
आनन्दगिरिकतटीकासंवलितशांकरभाष्यसमेता।
तथा
नारायणविरचिता मुण्डकोपनिषद्दीपिका च ।
पुस्तकद्वयमेतदानन्दाश्रमस्थपण्डितैः संशोधितम् ।
हरि नारायण आपटे
इत्येतैः
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुदायित्वा
प्रकाशितम् ।
चतुर्य मुदणावृत्तिः।
शालिवाहनशकाब्दाः १८३९
खिस्ताब्दाः १९१८
(अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः)
मूल्यं दशाऽऽणकाः (११०)।
No text on this page.
आदर्शपुस्तकोल्लेखपत्रिका । अथास्या मुण्डकोपनिषद आदर्शपुस्तकानि यैः संस्करणार्थ प्रद- त्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च प्रदर्श्यन्ते । ( क.) इति संज्ञिता-मुण्डकोपनिषत्सटीकमाष्योपेता विब्लिओथिका इण्डिकेत्याख्यग्रन्थावल्यां मुद्रिता पुण्यपत्तननि- वासिनां के० ० शा०रा०रा० देवोपहिवाल- शास्त्रिणाम् । (ख.) इति संज्ञिता-मुण्डकोपनिषत्सटीकमाष्योपेता, इन्दूरपुरनिवा- सिना किबे इत्युपाद्वानां श्रीयुतानां रा० रा० माऊसाहेब बाळासाहेब इत्येतेषाम् । (ग.) इति संज्ञिता-मुण्डकोपनिषत्सटीकमाष्योपेता काश्यां शिलामु- द्विता, आनन्दाश्रमपुस्तकसंग्रहस्था।मुद्रणकाल:- सं० १९४२ (घ.) इति संज्ञिता-मुण्डकोपनिषन्मूलमात्रा, पुग्यपत्तननिवासिना श्रीयुतानां रा० रा. भाऊसाहेब नगरकर इत्ये- तेषाम् । लेखनकाल:-शके १७०१ । (ङ.) इति संज्ञिता-मुण्डकोपनिषत्सटीकमाघ्योपेता, वटोदरनिवासिना श्रीयुतानां पटवर्धनोपाह्वानो रा०रा० कृष्णराव भीमाशंकर इत्येतेषाम् । (च.) इति संज्ञिता-मुण्डकोपनिषत्सटीमाष्योपेता उज्जयिनीक्षेत्र निवा- सिनां वे० शा० सं० रा० रा. सोरटीबुवा इत्ये. तेषाम् । (छ.) इति संज्ञिता-मुण्डकोपनिषद्भायटीका, उज्जयिनीक्षेत्रनिवा- सिना आठवले इत्युपाद्वानां वे० रा० रा. राम- चन्द्र मट्ट इत्येतेषाम् । लेखनकाल:-शके १६३२॥ (ज.) इति संहिता-मुण्डकोपनिषद्भाष्यसमेता, विंचूरपुरनिवासिना श्रीयुताना रा रा. रावसाहेब अण्णासाहेब इत्ये- तेषाम् ।
[२]
(झ.) इति संज्ञिता-मुण्डकोपनिषत्सटीकमायोपेता, वटोदरनिवासिना
श्रीयुतानां पटवर्धनोपाद्वानां रा० रा. कृष्णराव
भीमाशंकर इत्येतेषाम् ।
(ञ.) इति संज्ञिता-मुण्डकोपनिषत्सटीकमाष्योपेता नागपुरनिवासिनां
श्रीयुतानां रा०रा० अप्पासाहेब बुटी इत्येतेषाम् ।
(ट.) इति संज्ञिता-मुण्डकोपनिषत्सटीकमाष्योपेता करवीरपुरनिवा-
सिनां श्रीमतां वे० शा० सं० गुरुमहाराजानाम् ।
लेखनकाल:-संवत् १८७८ ।
(क.) इति संज्ञिता-मुण्डकोपनिषद्दीपिका मुम्बापुरनिवासिनां वे.
शा० सं० रा. जयकृष्णमहाराजानाम् ।
समाप्तेयमादर्शपुस्तकोल्लेखपत्रिका ।
ML
मुण्डकोपनिषत् । आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता । ॐ भद्रं कर्णेभिः शृणुयाम देवा मद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।। ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ ब्रह्मा देवानामित्याद्याथर्वणोपनिषत् । अस्याश्च विद्यासंप्रदाय- कर्तुपारम्पर्यलक्षणसंबन्धमादावेवाऽऽह स्वयमेव स्तुत्यर्थम् । एवं हि यदक्षरं परं ब्रह्म विद्यागम्यमितीरितम् । यस्मिज्ञाते भवेज्ज्ञातं सर्व तत्स्यामसंशयम् ॥ १ ॥ ब्रह्मोपनिषगर्भोपनिषदाद्या अथर्वणवेदस्य बह्वय उपनिषदः सन्ति । तासां शारीर- केऽनुपयोगित्वेनाव्याचिख्यासितत्वाददृश्यत्वादिगुणको धर्मोक्तरित्यायधिकरणोपयोगितया मुण्डकस्य व्याचिख्यासितस्य प्रतीकमादत्ते-ब्रह्मा देवानामित्याद्याथर्वणोपनिष. दिति । व्याचिख्यासितेति शेषः । नन्वियमुपनिषन्मत्ररूपा मन्त्राणां चेषे खेत्यादीनां कर्मसंबन्धेनैव प्रयोजनवत्त्वम् । एतेषां च मन्त्राणां कर्मसु विनियोजकप्रमाणानुपलम्भेन तत्संबन्धासंभवान्निष्प्रयोजनवायाचिख्यासितत्तं न संभवतीति शङ्कमानस्योत्तरम् । सत्यं कर्मसंबन्धाभावेऽपि ब्रह्मविद्याप्रकाशनसामर्थ्याद्विद्यया संबन्धो भविष्यति । ननु विद्यायाः पुरुषकर्तृकत्वात्त्प्रकाशकत्वेऽस्या उपनिषदोऽपि पौरुषेयत्वप्रसङ्गात्पाक्षिकपुरुषदोषजत्वश- याऽप्रामाण्याव्याचिख्यासितत्वं नोपपद्यत इत्याशङ्कयाऽऽह-अस्याश्चेति । विद्यायाः संप्रदायप्रवर्तका एव पुरुषा न तूत्प्रेक्षया निर्मातारः। संप्रदायकर्तृत्वमपि नाधुनातनं येना. नाश्वासः स्यात्। किंत्वनादिपारम्पर्यागतम् । ततोऽनादिप्रसिद्धबह्मविद्याप्रकाशनसमर्थोपनिषदः पुरुषसंबन्धः संप्रदायकर्तृत्वपारम्पर्यलक्षण एव तमादावेवाऽऽहेत्यर्थः । विद्यासंप्रदायकर्तृत्वमेव पुरुषाणाम्। यथा विद्यायाः पुरुषसंबन्धस्तथैवोपनिषदोऽपि । यदि पुरुषसंबन्धो विवक्षितः पौरुषेयत्वपरिहाराय तर्हि तथाभूतसंबन्धाभिधायकेनान्येन भवितव्यं स्वयमेव स्वसंबन्धा- भिधायकत्वे स्त्रवृत्तिप्रसङ्गादित्याशङ्कयाऽऽह-स्वयमेव स्तुत्यर्थमिति । विद्यास्तुती १०. च. छ. नव' । ३.प. झ. तव्यं न । ३ क.ख. अ.टे. त्याह । ५ ग. ब.स. धायिनाऽन्ये । ५ क. ख. °कत्म आत्माश्रया ।
२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसयता-[मु. स. १] महद्भिः परमपुरुषार्थसाधनत्वेन गुरुणाऽऽयासेन लब्धा विद्येत्ति श्रोतृ- बुद्धिमरोचनाय विद्यां महीकरोति । स्तुत्या प्रचितायां हि विद्यायां सादराः प्रवर्तेरनिति । प्रयोजनेन तु विद्यायाः सांध्यसाधनलक्षणसंबन्ध- मुत्तरत्र वक्ष्यति-"भिद्यते हृदयग्रन्थिः" इत्यादिना। अत्र चापरशब्द- वाच्यायामृग्वेदादिलक्षणायां विधिप्रतिषेधमात्रपरायां विद्यायां संसार. कारणाविद्यादिदोषनिवर्तकत्वं मास्तीति स्वयमेवोक्त्वा परापविद्याभेद- करणपूर्वकमविद्यायामन्तरे वर्तमाना इत्यादिना । तथा परप्राप्तिसाधने सर्वसाधनसाध्यविषयवैराग्यपूर्वकं गुरुप्रसादलभ्यां ब्रह्मविद्यामाह-परी- क्ष्य लोकानित्यादिना। प्रयोजनं चासकृद्वीति ब्रह्म वेद ब्रह्मैव भवतीति । तात्पर्यान्न स्ववृत्तिर्दोष इत्यर्थः । स्तुतिर्वा किमर्थेत्यत आह-श्रोतृबुद्धीति । प्रवर्तेर- निति पाठो युक्तः । वृतुधातोरात्मनेपदित्वात् । विद्याया यत्प्रयोजनं तदेवास्या उपनिषदोऽपि प्रयोजनं भविष्यतीत्यभिप्रेत्य विद्यायाः प्रयोजनसंबन्धमाह -प्रयोजनेन विति। संसार• कारणनिवृत्तिर्ब्रह्मविद्याफलं चेत्तीपरविद्ययैव तन्निवृत्तेः संभवान्न तदर्थ ब्रह्मविद्याप्रकाश- कोपनिषद्वयाख्यातव्येत्याशङ्कयाऽऽह-अत्र चेति । संसारकारणमविद्यादिदोषस्तन्निव. र्तकत्वमपरविद्यायाः कात्मिकाया न संभवत्यविरोधात् । न हि शतशोऽपि प्राणायाम कुर्वतः शुक्तिदर्शनं विना तदविद्यानिवृत्तिदृश्यते । ततोऽपरविद्यायाः संसारकारणाविद्या- निवर्तकत्वं नास्तीति स्वयमेवोक्त्वा ब्रह्मविद्यामाहेति संबन्धः । किंच परमपुरुषार्थसाधन- स्वेन ब्रह्मविद्यायाः परविद्यात्वं निकृष्टसंसारफलत्वेन च कर्मविद्याया अपरविद्यात्नम् । तत: समाख्याबलादपरविद्याया मोक्षसाधनत्वाभावोऽवगम्यत इत्यभिप्रेत्याऽऽह-परापरेति । यच्चाऽऽहुः कर्मजडाः केवलब्रह्मविद्यायाः कर्तृसंस्कारत्वेन कर्माङ्गत्वात्स्वातन्त्र्येण पुरुषार्थ- साधनत्वं नास्तीति तदनन्तरश्रुत्यैव निराकृतमित्याह–तथा परप्राप्तिसाधनमिति । ब्रह्मविद्यायाः कर्माङ्गल्वे कर्मणो निन्दा न स्यात् । न खल्वङ्गविधानाय प्रधानं विनिन्द्यते । अत्र तु सर्वसाध्यसाधननिन्दया तद्विषयवैराग्याभिधानपूर्वकं परप्राप्तिसाधनं ब्रह्मविद्या- माह । अतो ब्रह्मविद्यायाः स्वप्रधानत्वात्तत्प्रकाशकोपनिषदां न कर्तु स्तावकत्वमित्यर्थः । यद्युपनिषदां स्वतन्त्रब्रह्मविद्याप्रकाशकत्वं स्यात्तर्हि तदध्येतृणां सर्वेषामेव किमिति ब्रह्मविद्या न स्यादित्याशङ्कयाऽऽह--गुरुप्रसादलभ्यामिति । गुर्वनुग्रहादिसस्कारा- भावात्सर्वेषां यद्यपि न भविष्यति तथाऽपि विशिष्टाधिकारिणां भविष्यतीति भावः । ननु स्वतत्रा चेद्रह्मविद्या तर्हि प्रयोजनसाधनं न स्यात् । सुखदुःखप्राप्तिपरि- हारयोः प्रवृत्तिनिवृत्तिसाध्यतावगमात्तत्राऽऽह--प्रयोजनं चेति । स्मरणामात्रेग विस्मृत- १ क. ग. ङ. च. ज. झ. °र्तेयुरित । २ क. ख. साधनसाव्यल° । ३ क. 'परेति नि। ४ क. झाविद्यझै । ५ उ. च. झ. रणनि'।६ रु.च. स. तत्र ।
[ मु० ख० १ मुण्डकोपनिषत् । परामृताः परिरमुच्यन्ति सर्व इति च । ज्ञानमात्रे यद्यपि सर्वाश्रमिणाम- धिकारस्तथाऽपि संन्यासनिष्ठेव ब्रह्मविद्या मोक्षसाधनं न कर्मसहितेति भैक्ष्यचर्या चरन्तः संन्यासयोगादिति च ब्रुवन्दर्शयति । विद्याकर्मविरो- धाच । न हि ब्रह्मात्मैकत्वदर्शनेन सह कर्म स्वप्नेऽपि संपादयितुं शक्यम् । विद्यायाः कालविशेषाभावादनियतनिमित्तत्वात्कार्लेसंकोचानुपपत्तिः । यत्तु गृहस्थेषु ब्रह्मविद्यासंप्रदायकर्तृत्वादि लिङ्गंन तस्थितन्यायं बाधि- तुमुत्सहते । न हि विधिशतेनापि तमःप्रकाशयोरेकत्वसद्भावः शक्यते सुवर्णलाभे सुखप्राप्तिप्रसिद्धे रज्जुतत्त्वज्ञानमात्राच्च सर्पजन्यभयकम्पादिदुःखनिवृत्तिप्रसिद्धेश्च न प्रवृत्तिनिवृत्तिसाध्यत्वं प्रयोजनस्यैकान्तिकम् । अतो विश्रब्धं श्रुति: प्रयोजनसंबन्धं विद्याया असकृद्रवीति । तस्मात्तत्प्रकाशकोपनिषदो व्याख्येयत्वं संभवतीत्यर्थः । यच्चाऽऽहु- रेकदेशिनः स्वाध्यायाध्ययनविधेरर्थावबोधफलस्य त्रैर्णिकाधिकारवादधीतोपनिषजन्य ब्रह्म- ज्ञानेऽस्त्येव सर्वेषामधिकारः । ततः सर्वाश्रमकर्मसमुच्चितैव ब्रह्मविद्या मोक्षसाधनमिति तत्राऽऽह-ज्ञानमात्र इति । सर्वस्वत्यागात्मकसंन्यासनिष्ठेव परब्रह्मविद्या मोक्षसाध- नमिति वेदो दर्शयति । तादृशसंन्यासिनां च कर्मसाधनस्य स्वस्याभावान कर्मसंभवः । आश्रमधर्मोऽपि शमदमाद्युपबृंहितविद्याभ्यासनिष्ठत्वमेव । तेषां शौचाचमनादिरपि तत्त्वतो नाऽऽश्रमधर्मों लोकसंग्रहार्थत्वात् । ज्ञानाभ्यासेनवापावनत्वनिवृत्तेः । न हि ज्ञानेन सदृशं पवित्रमिह विद्यते " इति स्मरणात् । त्रिषवणस्नानविध्यादेरज्ञसंन्यासिविषयत्वात् । अतः कर्मनिवृत्त्यैव साहित्यं ज्ञानस्य न कर्मणेत्यर्थः । इतश्च न कर्मसमुच्चिता विद्या मोक्ष. साधनमित्याह-विद्याकर्मविरोधाच्चेति । अकर्तृ ब्रह्मैवास्मीति करोमि चेति स्फुटो व्याघात इत्यर्थः । यदा ब्रह्मात्मकत्वं विस्मरति तदोत्पन्न विद्योऽपि करिष्यति ततः समुच्चयः संभाव्यत इति न वाच्यमित्याह-विद्याया इति । ननु गृहस्थानामगिरःप्रभृतीना. विद्यासंप्रदायप्रवर्तकत्वदर्शनाद्गृहस्थाश्रमकर्मभिः समुच्चयो लिङ्गादवगम्यत इत्याशङ्कयाss. ह-यत्त्विति । लिङ्गस्य न्यायोपबंहितस्यैव गमकत्वाङ्गीकारात्समुच्चये च न्यायाभावा- प्रत्युत विरोधदर्शनान्न लिङ्गेन समुच्चयसिद्धिः । संप्रदायप्रवर्तकानां च गार्हस्थ्यस्याऽऽभा- समानत्वात्तत्वानुसंधानेन मुहुर्मुहुर्बाधात् । यस्य मे चास्ति सर्वत्र यस्य मे नास्ति किंचन । मिथिलायां प्रदीप्तायां न मे किंचन दह्यते ॥" इत्युद्गारदर्शनात्कर्माभासेन न समुच्चयः स्यात्तत्र च विधिर्न दृश्यत इति भावः । साधितं. १ क. ख. 'मृतात्परि' । २.ज. भैक्षच । ३ क. ख. लकर्मसं° । ४ क. कर संभवः। ख. कत्र सा४ का ख. 'नाया। ग. नस्य धनस्यौ । ६क. 'मणं इत्य° ७क °ब्य इ°। ८ क. ख. त्यानु। " 30 आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- (मु०१ख०१] कर्तुं किमुत लिङ्गः केवलैरिति । एवमुक्तसंबन्धप्रयोजनाया उपनिष- दोऽल्पाक्षरं ग्रन्थविवरणमारभ्यते । य इमां ब्रह्मविद्यामुपयन्त्यात्ममावेन श्रद्धामक्तिपुरःसराः सन्तस्तेषां गर्मजन्मजरारोगाद्यनर्थपूर्ण निशातयति परं वा ब्रह्म गमयत्यविद्यादिसंसारकारणं चात्यन्तमवसादयति विनाश यतीत्युपनिषत् । उपनिपूर्वस्य सदेरेवमर्थस्मरणात् । ॐ ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्ववि- याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय पाह॥१॥ ब्रह्मा परिवृढो महान्धर्मज्ञानवैराग्यश्वर्यः सर्वानन्यानतिशत इति । देवानां द्योतनवतामिन्द्रादीनां प्रथमो गुणैः प्रधानः सन्प्रथमोऽग्रे वा संवमूवामिव्यक्तः सम्यक्स्वातन्कयेणेत्यभिप्रायः । न तथा यथा धर्मा- धर्मवशासंसारिणोऽन्ये जायन्ते । “ योऽसावतीन्द्रियोऽग्राह्यः" इत्या- दिस्मृतेः । विश्वस्य सर्वस्य जगतः कर्तोत्पादयिता । भुवनस्योत्पन्नस्य गोप्ता पालयितेति विशेषणं बह्मणो विद्यास्तुतये । स एवं प्रख्यातम- हत्त्वो ब्रह्मा ब्रह्मविद्या ब्रह्मणः परमात्मनो विद्यां ब्रह्मविद्याम् 'येना- क्षरं पुरुषं वेद सत्यम् ' इति विशेषणात्परमात्मविषया हि सा । ब्रह्मणा वाऽग्रजेनोक्तेति ब्रह्मविद्या । तां सर्वविद्यापतिष्ठां सर्वविद्यामिव्यक्तिहे- तुत्वात्सर्वविद्याश्रयामित्यर्थः । व्याख्येयत्वमुपसंहरति-एवमिति । ग्रन्थे कथमुपनिषच्छब्दप्रयोग इति शङ्काया- मुपनिषच्छन्दवाच्यविद्यार्थत्वालाक्षणिक इति दर्शयितुं विद्याया उपनिषच्छब्दार्थत्वमाह- य इमामिति । आत्ममाकेनेति । प्रेमास्पदतयेत्यर्थः । अनर्थपूगं क्लेशसमूह निशा- तयति शिथिली करोत्यपरिपक्कज्ञानावित्रैर्जन्मभिर्मोक्षसंभवादित्यर्थः । " ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मश्च सह सिद्धं चतुष्टयम् ॥ इति स्मरणाद्धर्मज्ञानवैराग्यश्वर्यैः सर्वानन्यानतिक्रम्य वर्तत इति परिवढत्वं सिद्धमित्यर्थः । " योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एष स्वयमुद्बभौ ॥" १ क ज. दोऽल्पम' । २ क- वृद्धो म।३ क- 'तिशयेनेति । १ क. तिघं य । ५ क. वृद्धत्वं [मु. १ ख १] मुण्डकोपनिषत् । सर्वविद्यावेद्यं वा वस्त्वनयैव विज्ञायत इति। "येनाश्रुतं श्रुतं मवति अमतं मतमविज्ञातं विज्ञातम्" इति श्रुतेः । सर्वविद्याप्रतिष्ठामिति च स्तौति। विद्यामथर्वाय ज्येष्ठपुत्राय प्राह । ज्येष्ठश्चासौ पुत्रश्चानेकेषु ब्रह्मणः सृष्टिप्रकारेष्वन्यतमस्य सृष्टिप्रकारस्य प्रमुख पूर्वमथर्वा सृष्ट इति ज्येष्ठ- स्तस्मै ज्येष्ठपुत्राय पाहोक्तवान् ॥१॥ अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तां पुरोवाचा- गिरे ब्रह्मविद्याम् । स भारद्वाजाय सत्यवहाय माह भारद्वाजोऽङ्गिरसे परावराम् ॥ २ ॥ यामेतामथर्वणे प्रवदेतावदद्ब्रह्मविद्या ब्रह्मा तामेव ब्रह्मणः प्राप्ताम• थर्वा पुरा पूर्वमुवाचोक्तवानजिरेऽङ्गिनाम्ने ब्रह्मविद्याम् । स चाङ्गिर्मा- रद्वाजाय भरद्वाजगोत्राय सत्यवहाय सत्यवहनाम्ने प्राह प्रोक्तवान् । भारद्वाजोऽङ्गिरसे स्वशिष्याय पुत्राय वा परावरां परस्मात्परस्मादवरेण प्राप्तेति परावरा परावरसर्वविद्याविषयव्याप्तेर्वा तां परावरामङ्गिरसे माहेत्यनुषङ्गः ॥२॥ शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ । कस्मिन्नु अगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ३॥ शौनकः शुनकस्थापत्यं महाशालो महागृहस्थोऽङ्गिारसं मारद्वाज- शिष्यमाचार्य विधिवद्यथाशास्त्रमित्येतत् । उपसन्न उपगतः सन्पप्रच्छ पृष्टवान् । शौनकाङ्गिरसोः संबन्धादर्वाग्विधिवद्विशेषणादुपसदनविधेः पूर्वेषामनियम इति गम्यते । मर्यादाकरणार्थ मध्यदीपिकान्यायार्थ वा विशेषणम् । अस्मदादिष्वप्युपसदनविधेरिष्टत्वात् । किमित्याह-कस्मिन्नु मगवो विज्ञाते नु इति वितर्के मगवो हे मगवन्सवं यदिदं विज्ञेयं 'स्वयमुद्भूतः शुक्रशोणितसंयोगमन्तरेणाऽऽविर्भूतः' - इति स्मृतेः स्वातन्त्र्यं गम्यत इत्यर्थः । वाक्योत्थबुद्धिवृत्यभिव्यक्तं ब्रह्मैव ब्रह्मविद्या । तच्च ब्रह्म सर्वाभिव्यञ्जकम् । ततः सर्वविद्यानां व्यञ्जकतयाऽऽश्रीयत इति सर्वविद्याश्रयाऽथवा सर्वविद्यानां प्रतिष्ठा परिमाप्तिर्भवति यस्यामुत्पन्नायां ज्ञातव्याभावात्सा सर्वविद्याप्रतिष्ठेत्याह-सर्वविद्यावेद्यं बेति॥१॥२॥ १ क. 'त्यवाहा । २ क. ज. त्यवाहा । ३ क. 'त्यवाह° । ४ क. प. उ. च. स. रसयोः ।
६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [मु०१.१] विज्ञातं विशेषेण ज्ञातमवगतं मबतीत्येकस्मिाते सर्वविद्भवतीति शिष्टप्रवादं श्रुतवाशौनकस्तद्विशेषं विज्ञानुकामः सन्कस्मिन्निति वित. फंयन्पप्रच्छ । अथवा लोकसामान्यदृष्ट्या ज्ञात्वैव पप्रच्छ । सन्ति लोके सुवर्णादिशकलमेदोः सुवर्णत्वाद्येकत्वविज्ञानेन विज्ञायमाना लौकिकैः । तथा किंन्वस्ति सर्वस्य जगद्भेदस्यैकं कारणम् । यदेकस्मि- विज्ञाते सर्व विज्ञान भवतीति । नन्वविदिते हि कस्मिन्निति प्रश्नोऽनु- पपन्नः । किमस्ति तदिति तदा प्रश्नो युक्तः । सिद्धे यस्तित्वे कस्मि- निति स्यात् । यथा कस्मिन्निधेयमिति । न । अक्षरबाहुल्यादायासमी- रुत्वात्प्रश्नः संभवत्येव कित्वकस्मिन्विज्ञाते सर्ववित्स्यादिति ॥३॥ तस्मै स होवाच । द्वे विये वेदितव्ये इतिह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥ ४ ॥ तस्मै शौनकायाङ्गिरा आह. किलोवाच । किमित्युच्यते । द्वे विद्ये धेदितव्ये इति । एवं ह स्म किल यद्ब्रह्मविदो वेदार्थाभिज्ञाः परमार्थद- शिनो वदन्ति । के ते इत्याह । परा च परमात्मविद्या । अपरा च धर्माः धर्मसाधनतत्फलविषया। ननु कस्मिन्विदिते सर्वविद्भवतीति शौनकेन. पृष्टं तस्मिन्वक्तव्येऽपृष्टमाहाङ्गिरा द्वे विद्ये इत्यादि । नैष दोषः। क्रमा- पेक्षत्वात्प्रतिवचनस्य । अपरा हि विद्याऽविद्या सा निराकर्तव्या । तद्वि- षये हि विदिते न किंचित्तत्त्वतो विदितं स्यादिति निराकृत्य हि पूर्वपक्षं. पश्चासिद्धान्तो वक्तव्यो भवतीति न्यायात् ॥ ४ ॥ तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योति- षमिति । अथ परा यया तदक्षरमधिगम्यते ॥५॥ प्रश्नबीजमाहे-एकस्मिन्निति । उपादानात्कार्यस्य पृथक्सत्त्वाभावादुपादाने जाते तत्कार्य ततः पृथङ्नास्तीति ज्ञातं भवतीति सामान्यव्याप्तिस्तद्बलाद्वा. पप्रच्छेत्याह- अथवेति । प्रश्नाक्षराञ्जस्यमाक्षिप्य समाधत्ते-नन्वविदिते हीत्यादिना । किमस्ति तदिति प्रयोगेऽक्षरबाहुल्येनाऽऽयासः स्यात्तीरुतया कस्मिन्नित्यक्षराञ्जस्ये लाघवा- प्रश्न इत्यर्थः ॥ ३ ॥ ४ ॥ - १ क. °के सवर्णादिसक । २ क. °दाः सव । ३ क.. ख. कि त्वस्ति तद्यस्मिनेक । ४ क. चत्वं नो वि।५ क.च. 'इ-क।
७
[मु. १ ख १] मुण्डकोपनिषत् ।
तत्र काऽपरेत्युच्यते । ऋग्वेदो यजुर्वेदः सामवेदोऽर्थवेद इत्येते
चत्वारो वेदाः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमित्य.
गानि षडेषाऽपरा विद्या । अथेदानीमियं परा विद्योच्यते यया तद्वक्ष्य-
माणविशेषणमक्षरमधिगम्यते प्राप्यते । अधिपूर्वस्य गमेः प्रायशः
प्राप्त्यर्थत्वात् । न च परप्राप्तेरवगमार्थस्य मेदोऽस्ति । अविद्याया अपाय
एव हि परप्राप्ति र्थान्तरम् । ननु ऋग्वेदादिबाह्या तार्ह सा कथं परा
विद्या स्यान्मोक्षसाधनं च । या वेदबाह्याः स्मृतय इति हि स्मरन्ति ।
कुदृष्टित्वान्निष्फलत्वादनादेया स्यात् । उपनिषदां च ऋग्वेदादिबाह्यत्वं
स्यात् । ऋग्वेदादित्वे तु पृथक्करणमनर्थकम् । अथ कथं परेति । न ।
वेद्यविषयविज्ञानस्य विवक्षितत्वात् । उपनिषदेद्याक्षरविषयं हि विज्ञा-
नमिह परा विद्येति प्राधान्येन विवक्षितं नोपनिषच्छब्दराशिः। वेदशब्देन
तु सर्वत्र शब्दराशिविवक्षितः । शब्दराश्यधिगमेऽपि यत्नान्तरमन्तरेण
गुर्वभिगमनादिलक्षणं वैराग्यं च नाक्षराधिगमः संमवतीति पृथक्करणं
ब्रह्मविद्यायाः परा विद्यति कथनं चेति ॥५॥
यत्तदद्वेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तद-
पाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तद-
व्ययं यद्भूतयोनि परिपश्यन्ति धीराः ॥ ६ ॥
कल्पः सूत्रग्रन्थः । अनुष्ठेयक्रमः कल्प इत्यर्थः । अविद्याया अपगम एव परप्राप्तिरुप.
चर्यते । अविद्यापगमश्च ब्रह्मावगतिरेवेति व्याख्यातमस्माभिर्टातोऽर्थतज्ज्ञप्तिर्वाऽविद्या-
निवृत्तिरित्येतन्याख्यानावसरे । अतोऽधिगमशब्दोऽत्र प्राप्तिपर्याय एवेत्याह-न च पर•
प्राप्तारति । साङ्गानां वेदानामपरविद्यात्वेनोपन्यासात्ततः पृथक्करणाद्वेदबाह्यतया ब्रह्मवि.
द्यायाः परत्वं न संभवतीत्याक्षिपति-नन्विति ।
'या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।
सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः
इति स्मृतेः कुदृष्टित्वादनुपादेया स्यादित्यर्थः । विद्याया वेदबाह्यत्वे तदर्थानामुपनिष-
दामप्युग्वेदादिबाह्यत्वं प्रसज्येतेत्यर्थः । वेदबाह्यत्वेन पृथक्करणं न भवति । किंतु वैदिक-
स्यापि ज्ञानस्य वस्तुविषयस्य शब्दाराश्यतिरेकाभिप्रायेणेत्याह-न वेद्यविषयेति ॥५॥
१ क. ख. गम्येऽपि । २ क. न संभ'। ३ क. 'ति । वैराग्यं चेत्यत्र यत्नान्त
रमिति शेषो द्रष्टव्यः॥ ५॥
८ आनन्दगिरिकृतटीकासंवलिसांकरमाष्यसमेता- [मु. १ ख० १] पथा विधिविषये कर्नाद्यनेककारकोपसंहारद्वारेण वाक्यार्थज्ञान- कालादन्यत्रानुष्ठेयोऽर्थोऽस्त्यग्निहोत्रादिलक्षणो न तथेह परविद्यावि. षये । वाक्यार्थज्ञानसमकाल एव तु पर्यवसितो मवति । केवलशब्दप्र. काशितार्थज्ञानमात्रनिष्ठाव्यतिरिक्तामावात् । तस्मादिह परां विद्या सविशेषणेनाक्षरण विशिनष्टि-यत्तदद्रेश्यमित्यादिना । वक्ष्यमाणं बुद्धौ संहृत्य सिद्धवत्परामृश्यते-यत्तदिति । अवश्यमहश्यं सर्वेषां बुद्धी- न्द्रियाणामगम्यमित्येतत् । हशेबहिष्प्रवृत्तस्य पश्चेन्द्रियद्वारकत्वात् । अग्राह्यं कर्मेन्द्रियाविषयमित्येतत् । अगोत्रं गोत्रमन्वयो मूलमित्यनर्थान्त- रम्।अगोत्रमनन्वयमित्यर्थः। न हि तस्य मूलमस्ति येनान्वितं स्यात् । वर्ण्यन्त इति वर्णा द्रव्यधर्माः स्थूलत्वादयः शुक्लत्वादयो वा । अविद्य- माना वर्णा यस्य तदवर्णमक्षरम् । अचक्षुःश्रोत्रं चक्षुश्च श्रोत्रं च नामरू- पविषये करणे सर्वजन्तूनां ते अविद्यमाने यस्य तदचक्षुःश्रोत्रम् । यः सर्वज्ञः सर्वविदित्यादिचेतनावत्त्वविशेषणत्वात्प्राप्तं संसारिणामिव चक्षुःभोत्रादिभिः करणैरर्थसाधकत्वं तदिहाचक्षुःश्रोत्रमिति वार्यते । पश्यत्यचक्षुः स शृणोत्यकर्णः" इत्यादिदर्शनात् । किंच तदपा- णिपादं कर्मेन्द्रियरहितमित्येतत् । यत एवमग्राह्यमग्राहकं चातो नित्य- मविनाशि। विभुं विविधं ब्रह्मादिस्थावरान्तप्राणिभेदैर्भवतीति विमुम् । सर्वगतं व्यापकमाकाशवत्सुसूक्ष्मं शब्दादिस्थूलत्वकारणरहितत्वात् । शब्दादयो ह्याकाशवावादीनामुत्तरोत्तरं स्थूलत्वकारणानि तदभावात्म- सूक्ष्मम् । किंच तदव्ययमुक्तधर्मत्वादेव न व्यतीत्यव्ययम् । न ह्यनङ्गस्य स्वाङ्गापचयलक्षणो व्ययः संभवति शरीरस्येव नापि कोशापचयलक्षणो व्ययः संमवति राज्ञ इव । नापि गुणद्वारको व्ययः संभवत्यगुणत्वात्स- त्मिकत्वाच्च । यदेवलक्षणं भूतपोनिं भूतानां कारणं पृथिवीव स्थाव- रजङ्गमानां परिपश्यन्ति सर्वत आत्मभूतं सर्वस्याक्षरं पश्यन्ति धीरा धीमन्तो विवेकिनः । ईदृशमक्षरं यया विद्ययाऽधिगम्यते सा परा विद्येति समुदायार्थः ॥६॥ कर्मज्ञानाद्विलक्षणत्वाभिप्रायेण च पृथक्करणमित्याह--यथा विधिविषय इति । अप्राप्तप्रतिषेधप्रसङ्गान प्रधानपरत्वमपि शङ्कनीयमिति मत्वाऽऽह-यः सर्वज्ञ इति । अगुणत्वादिति । उपसर्जनरहितत्बादित्यर्थः । सर्वात्मकत्वाञ्चेति । हेयस्यातिरि- क्तस्याभावाचेत्यर्थः ॥ ६॥ १ क. कोषाप । २ ख... च. छ. स.अ. प्राप्ते प्र°।
[मु०१ ख० १] मुण्डकोपनिषत् । यथोर्णनाभिः सृजते गृह्यते च यथा पृथिव्या. मोषधयः संभवन्ति । यथा सतः पुरुषात्केश- लोमानि तशाऽक्षरात्संभवतीह विश्वम् ॥ ७ ॥ मूतयोन्यक्षरमित्युक्तं तत्कथं भूतयोनित्वमित्युच्यते प्रसिद्धदृष्टान्तैः । यथा लोके प्रसिद्धम् । ऊर्णनाभिर्खताकीट: किंचित्कारणान्तरमनपेक्ष्य स्वयमेव सृजते स्वशरीराव्यतिरिक्तानेव तन्तून्बहिः प्रसारयति पुनस्ता- नेव गृह्णते च गृह्णाति स्वात्ममावमेवाऽऽपादयति । यथा च पृथिव्या. मोषधयो ब्रीह्यादिस्थावरान्ता इत्यर्थः । स्वारमाव्यतिरिक्ता एवं प्रम- वन्ति । यथा च सतो विद्यमानाजीवतः पुरुषाकेशलोमानि केशाश्च लोमानि च संभवन्ति विलक्षणानि । यथैते दृष्टान्तास्तथा विलक्षणं सलक्षणं च निमित्तान्तरानपेक्षाद्यथोक्तलक्षणादक्षरात्संभवति समुत्प- द्यत इह संसारमण्डले विश्वं समस्तं जगत् । अनेकदृष्टान्तोपादानं तु मुखार्थप्रबोधनार्थम् । यद्ब्रह्मण उत्पद्यमानं विश्वं तदनेन क्रमेणोत्पद्यते न युगपद्धदरमुष्टिप्रक्षेपवदिति ॥ ७ ॥ तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्ना- पाणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ ८ ॥ क्रमनियमविवक्षार्थोऽयं मन्त्र आरभ्यते । तपसा ज्ञानेनोत्पत्तिविधि. ज्ञतया भूतयोन्यक्षरं ब्रह्म चीयत उपचीयत उत्पिपादयिषदिदं जगदक- रमिव बीजमुच्छनतां गच्छति पुत्रमिव पिता हर्षेण । एवं सर्वज्ञतया मृष्टिस्थितिसंहारशक्तिविज्ञानवत्तयोपचितात्ततो ब्रह्मणोऽन्नमद्यते भुज्यत इत्पन्नमव्याकृतं साधारणं संसारिणां व्याचिकीर्षितावस्थारूपेणाभिजा. ब्रह्म न कारणं सहायशून्यत्वात्कुलालमात्रादित्यस्यानैकान्तिकत्वमुक्तमूर्णनाभिदृष्टान्तेन । ब्रह्म जगतो नोपादानं तदभिन्नत्वात्स्वरूपस्येवेत्यनुमानान्तरस्यानैकान्तिकत्वमाह च पृथिव्यामिति । जगन्न ब्रह्मोपादानं तद्विलक्षणत्वात् । यद्यद्विलक्षणं तत्तदुपादनक न भवति । यथा घटो न तन्तूपादनक इति । अस्य व्यभिचारार्थमाह-यथा च सत इति । एकस्मिन्नपि दृष्टान्ते सर्वानुमानानामनैकान्तिकत्वं ये.जयितुं शक्यमिति शङ्कमानं प्रत्याह-अनेकदृष्टान्तेति ॥७॥ ईश्वरत्वोपाधिभूतं मायातत्त्वं महाभूतादिरूपेण सर्वजीवैरुपलभ्यत इति सर्वसाधारण्येऽपि कथं जायतेऽनादिसिद्धत्वादित्याशङ्कयाऽऽह -व्याचिकीर्षितेति। कर्मापूर्वसमवायिभूत. १ क. °न्ताः । स्वा । २ क. थैतन्दुष्टान्तस्त। ३ क. °मुच्छ्न्यता । ग. इ. च. झ.अ. मुत्सून । ४ क.रणोऽपि।
आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [म०१ख०१] थत उत्पद्यते । ततश्चाव्याकृताद्याचिकीर्षितावस्थातोऽन्नात्प्राणो हिर- ण्यगर्मो ब्रह्मणो ज्ञानक्रियाशस्यधिष्ठितजगत्सारणोऽविद्याकामकर्म- मूतसमुदायबीजारो जगदात्माऽमिजायत इत्यनुषङ्गः । तस्माञ्च प्राणा- न्मनो मनआख्यं संकल्पविकल्पसंशयनिर्णयाद्यात्मकममिजायते । ततोऽपि संकल्पाद्यात्मकान्मनसः सत्यं सत्याख्यमाकाशादिभूतपश्नक- ममिजायते । तस्मात्सत्याख्याभूतपञ्चकादण्डकमेण सप्त लोका भूरा- दयः । तेषु मनुष्यादिप्राणिवर्णाश्रमक्रमेण कर्माणि । कर्मसु च निमि- तभूतेष्वमृतं कर्मजं फलम् । यावत्कर्माणि कल्पकोटिशतैरपि न विन. श्यन्ति तावत्फलं न विनश्यतीत्यमृतम् ॥ ८॥ यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मा- देतद्ब्रह्म नाम रूपमन्नं च जायते ॥ ९ ॥ इत्यथर्ववेदीयमुण्डकोपनिषदि प्रथममुण्डके प्रथमः खण्डः ॥१॥ उक्तमेवार्थमुपसंजिहीर्षुमन्त्रो वक्ष्यमाणार्थमाह-य उक्तलक्षणोऽक्ष- राख्यः सर्वज्ञः सामान्येन सर्व जानातीति सर्वज्ञः। विशेषेण सर्व वेत्तीति सूक्ष्ममव्याकृतमिति केचित् । तन्न तस्य प्रतिजीवं भिन्नत्वादीश्वरत्वोपाधित्वासंभवात् । सामा- न्यरूपेण संभवेऽपि पृथिव्यादिसामान्यानां बहुत्वात् । प्रकृतावेकत्वश्रुतिव्याकोपापाताज्जा- डयमहामायारूपेणैव संभवेऽपि न कर्मापूर्वसमवायित्वम् । तस्याकारकत्वाद्बुद्धयादीनामेव कारकत्वाभिधानात् । कारकावयवेष्वेव क्रियासमवायाभ्युपगमात् । किंच न कार्यस्य स्वकारणप्रकृतित्वं दृष्टमिति भूतसमस्यापश्चीकृतभूतप्रकृतित्वं न स्यात् । तस्मान्महाभूतस. दिसंस्कारास्पदं गुणत्रयसाम्यं मायातत्त्वमव्याकृतादिशब्दवाच्यमिहाभ्युपगन्तव्यम् । पूर्व- स्मिन्कल्पे हिरण्यगर्भप्राप्तिनिमित्तं प्रकृष्टं ज्ञानं कर्म च येनानुष्ठितं तदनुग्रहाय मायोपाधिक ब्रह्म हिरण्यगर्भावस्थाकारेण विवर्तते । स च जीवैतदवस्थाभिमानी हिरण्यगर्भ उच्यत इत्यभिप्रेत्याऽऽह-ब्रह्मण इति। ज्ञानशक्तिभिः क्रियाशक्तिभिश्चाधिष्ठितं विशिष्टं जग. द्वयष्टिरूपं तस्य साधारणः समष्टिरूपः सूत्रसंज्ञक इत्यर्थः । मनआख्यमिति समष्टिरूपं विवक्षितम् । व्यष्टिरूपस्य लोकसृष्टयुत्तरकालत्वात् ॥ ८ ॥ वक्ष्यमाणार्थमिति । वक्ष्यमाणस्याविद्याविवरणप्रकरणस्याऽऽरम्भार्थमुक्तपरविद्यासू- त्रापिसंहार इत्यर्थः । सामान्येनेति । समष्टिरूपेण मायाख्येनोपाधिनेत्यर्थः । विशे- घेणेति व्यष्टिरूपेणाविद्याख्येनोपाधिनाऽनन्तजीवभावमापन्नः स एव सर्व स्त्रोपाधि. तत्संसृष्टं च वेत्तीत्यधिदैवमध्यात्मं च तत्त्राभेदः सूत्रितः । स्रष्टत्वं प्रजापतीनां तपसा प्रसिद्धम् । तद्वद्रमणोऽपि सृष्टत्वे तपोनुष्ठानं वक्तव्यम् । ततः संसारित्वं प्रसज्येते. १ ग. ड. अ. नस्य प° । २ क. तपश्चकप । ३ °वस्तव । ।
[मु०१ख०२] मुण्डकोपनिषत् । ११ सर्ववित् । यस्य ज्ञानमयं ज्ञानविकारमेव साश्यलक्षणं तपो नाऽऽयास- लक्षणं तस्माद्यथोक्तासर्वज्ञादेतदुक्तं कार्यलक्षणं ब्रह्म हिरण्यगर्माख्यं जायते । किंच नामासौ देवदत्तो यज्ञदत्त इत्यादिलक्षणम् । रूपमिदं शुझं नीलमित्यादि । अन्नं च वीहियवादिलक्षणं जायते । पूर्वमन्त्रो. तक्रमणेत्यविरोधो द्रष्टव्यः ॥९॥ इति मुण्डकोपनिषद्भाष्ये प्रथममुण्डके प्रथमः खण्डः ॥१॥ तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा संततानि । तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥ १ ॥ साङ्गा वेदा अपरा विद्योक्ता-ऋग्वेदो यजुर्वेद इत्यादिना । यत्तददेश्य- मित्यादिना नामरूपमन्नं च जायत इत्यन्तेन ग्रन्थेनोक्तलक्षणमक्षरं यया विद्ययाऽधिगम्यत इति परा विद्या सविशेषणोक्ता । अतः परमनयोर्वि- धयोर्विषयौ विवक्तव्यो संसारमोक्षावित्युत्तरो अन्थ आरभ्यते। तत्रापर- विद्याविषयः कादिसाधनक्रियाफलभेदरूपः संसारोऽनादिरनन्तो दुःख- स्वरूपत्वाद्धातव्यः प्रत्येकं शरीरिभिः । सामस्त्येन नदीस्रोतोवदव्यव. च्छेदरूपसंबन्धस्तदुपशमलक्षणो मोक्षः परविद्याविषयोऽनाद्यनन्तोऽज. रोऽमरोऽमृतोऽमयः शुद्धः प्रसन्नः स्वात्मप्रतिष्ठालक्षणः परमानन्दोऽद्वय इति । पूर्व तावदपरविद्याया विषयप्रदर्शनार्थमारम्मः । तदर्शने हि त्याशङ्कयाऽऽह-यस्य ज्ञानमयमिति। सत्त्वप्रधानमायाया ज्ञानाख्यो विकारस्तदुपाधिक ज्ञानविकारं सृज्यमानसर्वपदार्थाभिज्ञत्वलक्षणं तपो न तु क्लेशरूपं प्रजापतीनामिवेत्यर्थः।।९।। इति मुण्डकोपनिषद्भाष्यटीकायां प्रथममुण्डके प्रथमः खण्डः ॥ १ ॥ अनादिरुपादानरूपेणानन्तो ब्रह्मज्ञानात्यागन्तासंभवात्प्रत्येकं शरीरिभितिव्यो दुःखरू- पत्वादित्यनेन यदाहुरेकजीववादिन एकं चैतन्यमेकयैवाविद्यया बद्धं संसरति । तदेव कदा. चिन्मुच्यते नास्मदादीनां बन्धमोक्षौ स्त इति तदपास्तं भवति । श्रुतिबहिष्कृतत्वात् । सुषुप्तेऽपि क्रियाकारकफलभेदरूपस्य पहाणं भवति । बुद्धिपूर्वकप्रहाणस्य ततो विशेषमाह- सामसत्येनेति । स्वोपाध्यविद्याकार्यस्याविद्याप्रहाणेनाऽऽत्यन्तिकप्रहाणं विद्याफलमित्यर्थः। अमरोऽपक्षयरहितः । अमृतो नाशरहित. इत्यर्थः । अपरविद्यायाः परविद्यायाश्च विषयौ प्रदर्थ पूर्वमपरविद्याया विषयप्रदर्शने श्रुतेरभिप्रायमाह-पूर्व तावदिति । यदिष्टसाधन- १. च. झ. रोऽमृ । २. क. 'दस्य । ३ च. अजरो।
१२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [मु०१ख०२] तन्निदोपपत्तेः । तथाच वक्ष्यति-" परीक्ष्य लोकान्कर्मचितान इत्यादिना । न ह्यप्रदर्शिते परीक्षोपपद्यत इति तत्पदर्शयन्नाह तदेतत्स- त्यमवितथम् । किं तन्मन्त्रेष्वृग्वेदाद्याख्येषु कर्माण्यग्निहोत्रादीनि मन्त्र- रेव प्रकाशितानि कवयो मेधाविनो वसिष्ठादयो यान्यपश्यन्दृष्टवन्तः । यत्तदेतत्सत्यमेकान्तपुरुषार्थसाधनत्वात्तानि च वेदविहितान्यषिदृष्टानि कर्माणि त्रेतायां त्रयीसंयोगलक्षणायां हौत्राध्वर्यवौद्गात्रप्रकारायामधिक- रणभूतायां बहुधा बहुप्रकारं संततानि प्रवृत्तानि कर्मिभिः क्रियमाणानि त्रेतायां वा युगे प्रायशः प्रवृत्तान्यतो यूयं तान्याचरथ निवर्तयथ नियतं नित्यं सत्यकामा यथाभूतकर्मफलकामाः सन्तः । एष वो युष्माकं पन्था मार्गः सुकृतस्य स्वयं निर्वर्तितस्य कर्मणो लोके फलनिमित्तं लोक्यते दृश्यते मुज्यत इति कर्मफलं लोक उच्यते । तदर्थं तत्प्राप्तय एष मार्ग इत्यर्थः । यान्येतान्यग्निहोत्रादीनि त्रय्यां विहितानि कर्माणि तान्येष पन्था अवश्यफलप्राप्तिसाधनमित्यर्थः ॥ १॥ यदा लेलायते पर्चिः समिद्धे हव्यवाहने । तदाऽऽज्यभागावन्तरेणाऽऽहुतीः प्रतिपादयेत् ॥ २॥ तवाग्निहोत्रमेव तावत्प्रथमं प्रदर्शनार्थमुच्यते सर्वकर्मणां प्राथम्यात् । तत्कथम् । यदेवेन्धनरभ्याहितैः सम्यगिद्धे समिद्धे हव्यवाहने लेलायते चलत्यचिस्तदा तस्मिन्काले लेलायमाने चलत्यचिष्याज्यभागावाज्य- भागयोरन्तरेण मध्य आवापस्थान आहुतीः प्रतिपादयेत्पक्षिपेदेवतामु. तयाऽनिष्टसाधनतया वा वेदेन बोध्यते कर्म तस्यासति प्रतिबन्धे तत्साधनत्वाव्यभिचारः सत्यत्वं न स्वरूपाबाध्यत्वं प्लवा ह्येत इत्यादिना निन्दितत्वात्स्वरूपबाध्यत्वेऽपि चार्थक्रिया- सामध्यं स्वप्नकामिन्यामिव घटत इत्यभिप्रेत्याऽऽह-तदेतत्सत्यमिति । ऋग्वेदविहितः पदार्थों होत्रम् । यजुर्वेदविहित आध्वर्यवम् । सामवेदविहित औद्गात्रम् । तद्रूपायां त्रेता- यामित्यर्थः । सत्यकामा मोक्षकामा इति समुच्चयाभिप्रायेण व्याख्यानमयुक्तम् । ' एष वः पन्थाः सुकृतस्य लोके ' इति स्वर्गफलसाधनत्वविषयवाक्यशेषविरोधादिति ॥ १ ॥ आहवनीयस्य दक्षिणोत्तरपार्श्वयोराज्यभागाविज्येते अग्नये स्वाहा सोमाय स्वाहेति दर्श. पूर्णमासे । तयोर्मध्येऽन्ये यागा अनुष्ठीयन्ते । तन्मध्यमावापस्थानमुच्यते । अग्निहोत्राहु- यात्विं प्रसिद्धम् । सूर्याय स्वाहा प्रजापतये स्वाहेति प्रातः । अग्नये स्वाहा प्रजापतये १ ग, ङ. च, झ, निर्वृत्तानि । २ क, यानि यान्य । ३ क. 'येच्छ्रद्धया हुतम् ॥ २ ॥ ४ ख, ग, ड. च, छ. झ, ञ, ते इन्द्राय स्वाहा प्रजापतये स्वाहे । .
[मु०९ख०२] मुण्डकोपनिषत् । विश्य । अनेकाहप्रयोगापेक्षयाऽऽहुतीरिति बहुवचनम् । एष सम्यगाहु- तिप्रक्षेपादिलक्षणः कर्ममार्गो लोकप्राप्तये पन्थास्तस्य च सम्यकरणं दुष्करम् । विपत्तयस्त्वनेका मवन्ति ॥२॥ यस्याग्निहोत्रमदर्शमपौर्णमासमचातुर्मास्यमनाग्र- यणमतिथिवर्जितं च । अहुतमपैश्वदेवमवि- धिना हुतमासप्तमांस्तस्य लोकान्हिनस्ति ॥३॥ कथं यस्यानिहोत्रिणोऽग्निहोत्रमदर्श दर्शाख्येन कर्मणा वर्जितम् । अग्रिहोत्रिणोऽवश्यकर्तव्यत्वाद्दर्शस्य । अग्निहोत्रसंबन्ध्यग्निहोत्रविशेषण- मिव भवति । तदक्रियमाणमित्येतत् । तथाऽपौर्णमासमित्यादिष्वप्यनि- होत्रविशेषणत्वं द्रष्टव्यम् । अग्निहोत्राङ्गत्वस्याविशिष्टत्वादपौर्णमासं पौर्णमासकर्मवर्जितम् । अचातुर्मास्यं चातुर्मास्यकर्मवर्जितम् । अनाग्रय- णमाययणं शरदादिकर्तव्यं तच्च न क्रियते यस्य । तथाऽतिथिवर्जितं चातिथिपूजनं चाहन्यहन्यक्रियमाणं यस्य स्वयं सम्यगग्निहोत्रका. लेऽहुतम् । अदर्शादिवदवैश्वदेवं वैश्वदेवकर्मवर्जितं हूयमानमप्यवि धिना हुतं न यथाहुतमित्येतत् । एवं दुःसंपादितमसंपादितमग्निहोत्रा. झुपलक्षितं कर्म किं करोतीत्युच्यत आसप्तमानसप्तमसहितांस्तस्य कर्तु- लॊकान्हिनस्ति हिनस्तीवाऽऽयासमात्रफलत्वात् । सम्यक्क्रियमाणेषु हि कर्मसु कर्मपरिणामानुरूपेण भूरादयः सत्यान्ताः सप्त लोकाः फलं प्राप्यन्ते । ते लोका एवंभूतेनाग्निहोत्रादिकर्मणा स्वप्राप्यत्वादिस्यन्त इवाऽऽयासमात्रं त्वव्यभिचारीत्यतो हिनस्तीत्युच्यते । पिण्डदानाद्यनु. ग्रहेण वा संबध्यमानाः पितृपितामहप्रपितामहाः पुत्रपौत्रप्रपौत्राः स्वात्मोपकाराः सप्त लोका उक्तप्रकारेणाग्रिहोत्रादिना न भवन्तीति हिंस्यन्त इत्युच्यते ॥३॥ स्वाहेति सायम् । तत्कथमग्निहोत्रं प्रक्रम्याऽऽहुतीरिति बहुवचनं तत्राऽऽह-अनेकाहेति । अनेकेष्वहःसु प्रयोगानुष्ठानानि तदपेक्षयेत्यर्थः ॥ २ ॥ दर्शस्याग्निहोत्राङ्गत्वे प्रमाणाभावात्कथं तदकरणमग्निहोत्रस्य विपत्तिरित्याशङ्कय याव- जीवचोदनावशादग्निहोत्रिणोऽवश्यकर्तव्यत्वात्तदकरणं भवेद्विपत्तिरित्यभिप्रेत्य विशेषणम् । शरदादिषु नूतनान्नेन कर्तव्यमाग्रयणं कर्म । अदर्शादिवदवैश्वदेवमिति विशेषणम् । वैश्व- देवस्याग्निहोत्रानङ्गवेऽप्यावश्यकत्वादित्यर्थः । पिण्डोदकदानेन पित्रादीनां त्रयाणामुपकरोति १ क. पन्था श्रद्धया हुतं तस्य । २ ख. उ. हुतमय । ३ क. प्राप्यते। ४ क. संपूर्णमासस्या ।
१४ आनन्दगिरिकृतीकासंवलितशांकरमाध्यसमेता- [मु०१ख०२] काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥४॥ काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा। स्फुलि- गिनी विश्वरुचीच देवी लेलायमाना इति सप्त जिह्वाः। काल्याद्या विश्व- रुच्यन्ता लेलायमाना अनेर्हविराहुतिग्रसनार्था एताः सप्त जिह्वाः॥४॥ एतेषु यश्चरते भ्राजमानेषु यथाकालं चाऽऽहु- नयो ह्याददायन् । तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ॥५॥ एतेष्वग्निजिह्वामेदेषु योऽग्निहोत्री चरते कर्माऽऽचरत्यनिहोत्रादि भ्राजमानेषु दीप्यमानेषु । यथाकालं च यस्य कर्मणो यः कालस्तत्कालं यथाकालं यजमानमाददायन्नाददाना आहुतयो यजमानेन निर्वतितास्तं नयन्ति प्रापयन्त्येता आहुतयो या इमा अनेन निर्तिताः सूर्यस्य रश्मयो भूत्वा रश्मिद्वाररित्यर्थः । यत्र यस्मिन्स्वर्गे देवानां पतिरिन्द्र एकः सर्वानुपर्यधिवसतीत्यधिवासः ॥५॥ एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मि- भिर्यजमानं वहन्ति । प्रियां वाचमभिवदन्त्योड- चयन्त्य एष वः पुण्यः सुकतो ब्रह्मलोकः ॥६॥ कथं सूर्यस्य रश्मिभिर्यजमानं वहन्तीत्युच्यत एोहीत्यायन्त्यः । सुवर्चसो दीप्तिमत्यः । किंच प्रियामिष्टां वाचं स्तुत्यादिलक्षणामभिव. दन्त्य उच्चारयन्त्योऽर्चयन्त्यः पूजयन्त्यश्चैप वो युष्माकं पुण्यः सुकृतः पन्था ब्रह्मलोकः फलरूपः । एवं प्रियां वाचममिवदन्त्यो वहन्तीत्यर्थः। ब्रह्मलोकः स्वर्गः प्रकरणात् ॥६॥ यजमानः पुत्रादीनां च त्रयाणां प्रासादिदानेन । ततो मध्यवर्तिना यजमानेन संबध्यमानाः पूर्वे त्रय उत्तरे च त्रयो गृह्यन्त इत्याह-पिण्डदानादीति ॥ ३ ॥ । आहुतयो यजमानं वहन्तीति संबन्धः ॥ ६॥ १क.ख. कृतो यथा ।
१५ । [ मु०१ख०२] मुण्डकोपनिषत् । प्लवा ह्येते अढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥ ७ ॥ एतच्च ज्ञानरहितं कमैतावत्फलमविद्याकामकर्मकार्यमतोऽसारं दुःख- मूलमिति निन्द्यते। प्लवा बिनाशिन इत्यर्थः। हि यस्मादेतेऽद्वढा अस्थिरा यज्ञरूपा यज्ञस्य रूपाणि यज्ञरूपा यज्ञनिर्वर्तका अष्टादशाष्टादशसं- ख्याकाः षोडशर्विजः पत्नी यजमानश्चेत्यष्टादश । एतदाश्रयं कर्मोक्तं कथितं शास्त्रेण । येष्वष्टादशस्वधरं केवलं ज्ञानवर्जितं कर्म । अतस्तेषाम- घरकर्माश्रयाणामष्टादशानामदृढतया प्लवत्वात्लवते सह फलेन तत्साध्यं कर्म । कुण्डविनाशादिवरक्षीरध्यादीनां तत्स्थानां नाशः । यत एवमे- तत्कर्म श्रेयः श्रेयःकरणमिति येऽभिनन्दन्त्यमिहृष्यन्त्यविवेकिनो मूढा अतस्ते जरां च मृत्युं च जरामृत्युं किंचित्कालं स्वर्गे स्थित्वा पुनरेवापि यन्ति भूयोऽपि गच्छन्ति ॥ ७ ॥ अवियायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः । जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथाऽन्धाः ॥ ८॥ किंचाविद्यायामन्तरे मध्ये वर्तमाना अविवेकप्रायाः स्वयं वयमेव धीरा धीमन्तः पण्डिता विदितवेदितव्याश्चेति मन्यमाना आत्मानं संमावयन्तस्ते च जङ्घन्यमाना जरारोगाद्यनेकानर्थवातैर्हन्यमाना मृशं पीडयमानाः परियन्ति विभ्रमन्ति मूढाः । दर्शनवर्जितत्वादन्धेनैवाचक्षु. केणैव नीयमानाः प्रदर्यमानमार्गा यथा लोकेऽन्धा अक्षिरहिता गर्त. कण्टकादी पतन्ति तद्वत् ॥ ८ ॥ अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्य- भिमन्यन्ति बालाः । यत्कर्मिणो न प्रवेदयन्ति रागात्तेनाऽऽतुराः क्षीणलोकाश्च्यवन्ते ॥ ९ ॥ किंचाविद्यायां बहुधा बहुप्रकारं वर्तमाना वयमेव कृतार्थाः कृतप्रयो- जना इत्येवमभिमन्यन्त्यमिमानं कुर्वन्ति बाला अज्ञानिनः । यद्यस्मादेवं रुप्यते निरूप्यते यदाश्रयतया यज्ञस्ते यज्ञरूपाः ॥ ७ ॥ स्वयमेवेति तस्वदर्युपदेशानपेक्षतया स्वमनोरथेनैवेत्यर्थः ॥ ८ ॥ १ क. अयमेवेति ।
१६ आनन्दगिरिकृतटीकासंवलितशांकरमाष्यसमेता- [मु०१ख०२] कर्मिणो न प्रवेदयन्ति तत्त्वं न जानन्ति रागास्कर्मफलरागामिमवनि- मित्तं तेन कारणेनाऽऽतुरा दुःखार्ताः सन्तः क्षीणलोकाः क्षीणकर्मफलाः स्वर्गलोकाच्च्यवन्ते ॥९॥ इष्टापूत मन्यमाना वरिष्ठं नान्यच्छेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सकतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति ॥ १० ॥ इष्टापूर्तम् । इष्टं यागादि श्रोतं कर्म । पूर्त पापीकूपतडागादि स्मात मन्यमाना एतदेवातिशयेन पुरुषार्थसाधेनं वरिष्ठं प्रधानमिति चिन्तय. न्तोऽन्यदात्मज्ञानाख्यं श्रेयःसाधनं न वेदयन्ते न जानन्ति प्रमूढाः पुत्र- पशुचन्भ्वादिषु प्रमत्ततया मूढास्ते च नाकस्य स्वर्गस्य पृष्ठ उपरिस्थाने सुकृते मोगायतनेऽनुभूत्वाऽनुभूय कर्मफलं पुनरिमं लोकं मानुषमस्मा- द्धीनतरं वा निर्यटनरकादिलक्षणं यथाकर्मशेषं विशन्ति ॥ १० ॥ तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचयाँ चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ११ ॥ पुनस्तद्विपरीता ज्ञानयुक्ता वानप्रस्थाः संन्यासिनश्च तप:श्रद्धे हि तपः स्वाश्रमविहितं कर्म । श्रद्धा हिरण्यगर्मादिविषया विद्या ते तप:- श्रद्धे उपवसन्ति सेवन्तेऽरण्ये वर्तमानाः सन्तः । शान्ता उपरतकरण- ग्रामाः । विद्वांसो गृहस्थाश्च ज्ञानप्रधाना इत्यर्थः । मैक्ष्यचर्या चरन्तः परिग्रहामावादुपवसन्त्यरण्य इति संबन्धः । सूर्यद्वारेण सूर्योपलक्षितेनो. त्तरायणेन पथा ते विरजाविरजसःक्षीणपुण्यपापकर्माणः सन्त इत्यर्थः। प्रयान्ति प्रकर्षेण यान्ति यत्र यस्मिन्सत्यलोकादावमृतः स पुरुषः प्रथमजो हिरण्यगर्मों शव्ययात्माऽव्ययस्वमावो यावत्संसारस्थायी । एतदन्तास्तु संसारगतयोऽपरविद्यागम्याः । ननु-एतं मोक्षमिच्छन्ति ये कं सुखं न भवतीत्यकं दुःखं तन्न विद्यते यस्मिन्नसौ नाकः ॥ १० ॥ केवलकर्मिणां फलमुक्त्वा सगुणब्रह्मज्ञानसहिताश्रमकर्मिणां फलं संसारगोचरमेव दर्शयति-ये पुनस्तद्विपरीता ज्ञानयुक्ता इत्यादिना । अरण्ये स्त्रीजनासंकीर्णे देशे । मुक्तानामिहैव सर्वकामप्रविलयं सर्वात्मभावं च दर्शयन्ति श्रुतयः । ब्रह्मलोकप्राप्तिस्तु १ क. ख. धकं व।
[मु. १ ख० २] मुण्डकोपनिषत् । १७ केचिन्नेहैव सर्वे प्रविलीयन्ति कामास्ते सर्वगं सर्वतः प्राप्य धीरा युक्ता- स्मानः सर्वभेवाऽऽविशन्तीत्यादिश्रुतिभ्योऽप्रकरणाञ्च । अपरविद्याप्रक- रणे हि प्रवृत्ते न यकस्मान्मोक्षप्रसङ्गोऽस्ति विरजस्त्वं त्वापेक्षिकं सम- स्तमपरविद्याकार्य साध्यसाधनलक्षणं क्रियाकारकफलभेदमिन्नं द्वैतम् । एतावदेव यद्धिरण्यगर्मप्राप्त्यवसानम् । तथा च मनुनोक्तं स्थावरायां संसारगतिमनुकामता- ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च । उत्तमा सात्त्विकीमेत गतिमाहुर्मनीषिणः" इति ॥११॥ परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायाना- स्त्यकृतः कृतेन । तद्विज्ञानार्थ स गुरुभवाभि- गच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२ ॥ अथेदानीमस्मात्साध्यसाधनरूपात्सर्वस्मात्संसाराद्विरक्तस्य परस्यां विद्यायामधिकारप्रदर्शनार्थमिदमुच्यते-परीक्ष्य यदेतदृग्वेदाद्यपरविद्या- विषयं स्वाभाविक्पविद्याकामकर्मदोषवत्पुरुषानुष्ठेयमविद्यादिदोपवन्त- भेष पुरुषं प्रतिविहितत्वात्तदनुष्ठानकार्यमूताश्च लोका ये दक्षिणोत्तर- मार्गलक्षणाः फलमूता ये च विहिताकरणप्रतिषेधातिक्रमदोषसाध्या नरकतिर्यप्रेतलक्षणास्तानेतान्परीक्ष्य प्रत्यक्षानुमानोपमानागमैः सर्वतो याथात्म्येनावधार्य लोकान्संसारगतिभूतानव्यक्तादिस्थावरान्तान्याकृ. ताव्याकृतलक्षणान्बीजाडरवदितरेतरोत्पत्तिनिमित्ताननेकानर्थशतसहस्र- संकुलान्कदलीगर्भवदसारान्मायामरीच्युदकगन्धर्वनगराकारस्वप्नजलबु. चुदफेनसमान्प्रतिक्षणप्रध्वंसान्पृष्ठतः कृत्वाऽविद्याकामदोषप्रवर्तितक- मचितान्धर्माधर्मनिवर्तितानित्येतद्वाह्मणस्यैव विशेषतोऽधिकारः सर्वत्या. गेन ब्रह्मविद्यायामिति ब्राह्मणग्रहणम् । परीक्ष्य लोकान्किं कुर्यादित्यु- देशपरिच्छिन्नं फलं ततो न मोक्ष इत्याह-इहैवेति । ब्रह्मा चतुर्मुखः । विश्वसृजः प्रजापतयो मरीचिप्रभृतयः । धर्मो यमः । महान्सूत्रात्मा । अव्यक्तं त्रिगुणात्मिका प्रकृतिः। सात्त्विकी सत्त्वपरिणामज्ञानसहितकर्मफलभूतामित्यर्थः ॥ ११ ॥ ऐहिककर्मफलस्य पुत्रादेर्नाशविषयं प्रत्यक्षं विमतमनित्यं कृतकत्वाद्घटवदित्यनुमानमा- मुष्मिकनाशविषयम् । तद्यथेह कर्मजितो लोकः क्षीयत इत्याद्यागमस्तैरनित्यत्वेन सर्वा- त्मनाऽवधार्येत्यर्थः । " नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च । शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः" ॥ १ ख. चितो। ..
१८ आनन्दगिरिकृतठीकासंवलितशांकरमाष्यसमेता- (मु०१ख०२] च्यते-निर्वेदं नि:पू? विदिरत्र धैराग्याथै वैराग्यमायाकुर्यादित्येतत् । स वैराग्यप्रकारः प्रदर्श्यते । इह संसारे नास्ति कश्चिदप्यकृतः पदार्थः । सर्व एव हि लोकाः कर्मचिताः कर्मकृतत्वाचानित्याः । न नित्यं किंचि. दस्तीत्यभिप्रायः । सर्वं तु कमानित्यस्यैव साधनम् । यस्माचतुर्विधमेव हि सर्व कर्म कार्यमुत्पाद्यमाप्यं संस्कार्य विकार्य वा नातःपरं कर्मणो विशेषोऽस्ति अहं च नित्येनामृतेनामयेन कूटस्थेनाचलेन ध्रुवेणार्थे- नार्थी न तद्विपरीतेन । अतः किं कृतेन कर्मणाऽऽयासबहुलेनानर्थसा. धनेनेत्येवं निविण्णोऽमयं शिवमकृतं नित्यं पदं यत्तद्विज्ञानाथं विशेषे- णाधिगमार्थ स निविण्णो ब्राह्मणो गुरुमेवाऽऽचार्य शमदमदयादिसं- पन्नमभिगच्छेत् । शास्त्रज्ञोऽपि स्वातन्त्र्येण ब्रह्मज्ञानान्वेषणं न कुर्या- दित्येतद्गुरुमेवेत्यवधारणफलम् । समित्पाणिः समिद्भारगृहीतहस्तः नियमध्ययनश्रुतार्थसंपन्नं ब्रह्मनिष्ठं हित्वा सर्वकर्माणि केवलेऽये ब्रह्मणि निष्ठा यस्य सोऽयं ब्रह्मनिष्ठो जपनिष्ठस्तपोनिष्ठ इति यद्वत् । न हि कर्मिणो ब्रह्मनिष्ठता संमति कर्मात्मज्ञानयोविरोधात् । स तं गुरु विधिवदुपसन्नः प्रसाद्य पृच्छेदक्षरं पुरुष सत्यम् ॥ १२ ॥ तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ १३ ॥ इत्यथर्ववेदीयमुण्डकोपनिषदि प्रथममुण्डके द्वितीयः खण्डः ॥ २॥ इत्यथर्ववेदीयमुण्डकोपनिषदि प्रथममुण्डकं समाप्तम् ॥ १ ॥ तस्मे स विद्वान्गुरुर्ब्रह्मविदुपसमायोपगताय । सम्यग्यथाशास्त्रमित्ये- तत् । प्रशान्तचित्तायोपरतदादिदोषाय । शमान्विताय बाह्येन्द्रियोप- रमेण च युक्ताय सर्वतो बिरक्तायेत्येतत् । येन विज्ञानेन यया विद्यया परयाऽक्षरमद्रेश्यादिविशेषणं तदेवाक्षरं पुरुषशब्दवाच्यं पूर्णत्वात्पुरि शयनाच्च सत्यं तदेव परमार्थस्वाभाव्यादक्षरं चाक्षरणादक्षतत्वादक्षयत्वाञ्च इति स्मृतेर्ब्राह्मणस्यैवाधिकार इत्यर्थः । कूटस्थेन परिणामरहितेनाचलेन स्पन्दरहितेन ध्रुवेण प्रयत्नरहितेनाहमर्थी । समित्पाणिरिति विनयोपलक्षणम् ॥ १२ ॥ १ क. ख. 'मचिन । २ ख. °मणां विषयोऽस्ति ।
[ मु० २ ख० १]. मुण्डकोपनिषत् । वेद विजानाति तां ब्रह्मविद्यां तस्वतो यथावत्प्रोवाच प्रमादित्यर्थः । आचार्यस्याप्ययं नियमो यन्यायप्रातसच्छिष्यनिस्तारणमविद्यामहो. दुधेः ॥ १३॥ इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्ये प्रथममुण्डके द्वितीयः खण्डः॥२॥ इति. मुण्डकोपनिषद्भाष्ये प्रथममुण्डकं समाप्तम् ॥ १॥ तदेत्सत्यं यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः। तथाऽक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापि यन्ति ॥ १ ॥ अपरविद्यावाः सर्व कार्यमुक्तम् । स च संसारो यत्सारो यस्मान्मूला. दक्षरात्संभवति यस्मिंश्च प्रलीयते तदक्षरं पुरुषाख्यं सत्यम् । यस्मिन्वि. ज्ञाते सर्वमिदं विज्ञातं भवति तत्परस्या ब्रह्मविद्याया विषयः स वक्तव्य इत्युत्तरो ग्रन्थ आरभ्यते । यदपरविद्याविषयं कर्मफललक्षणं सत्यं तदा- पेक्षिकम् । इदं तु परविद्याविषयं परमार्थसहाणत्वात् । तदेतत्सत्यं यथाभूतं विद्याविषयम् । अविद्याविषयत्वाचानृतमितरत् । अत्यन्तप. रोक्षत्वात्कथं नाम प्रत्यक्षवत्सत्यमक्षरं प्रतिपद्यरन्निति दृष्टान्तमाह- अक्षरणादिति । अवयवान्यथाभावलक्षणपरिणामशून्यत्वात् । अक्षतत्वादिति । अक्षयत्वाचेति । अशरीरत्वाद्विकारशून्यत्वादित्यर्थः ॥ १३ ॥ इति मुण्डकोपनिषद्भाष्यटीकायां प्रथममुण्डके द्वितीयः खण्डः ॥ २ ॥ इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां प्रथममुण्डकं समाप्तम् ॥ १ ॥ द्वे विद्ये वेदितव्ये इत्युपन्यस्यापरविद्यामाद्यमुण्डकेन प्रपञ्च्य परविद्यां सूत्रितां प्रपञ्च' यितुं द्वितीयमुण्डकारम्भ इत्याह-अपरविद्याया इत्यादिना। कर्मणोऽपि प्राक्सत्यत्व. मुक्तं तद्वदिदं सत्यत्वं न मन्तव्यमित्याह-यदपरविद्याविषयमिति । विपीयते विशेष्यते विद्याऽनेनेति व्युत्पत्त्या विषयशब्दस्य वस्तुपरत्वान्नपुंसकलिङ्गत्वं परमार्थतः सल्ल.. क्षणत्वादत्यन्ताबाध्यत्वादित्यर्थः । अत्यन्तपरोक्षत्वादिति । शास्त्रैकगम्यत्वात् । अपू. वव ब्रह्मणः प्रत्यक्षत्व न संभवति साक्षात्काराधीनं च कैवल्यं ततः कथं नाम सत्यमक्षरं प्रत्यक्षवत्प्रतिपद्येरन्मुमुक्षव इत्यभिप्रेत्य जीवब्रह्मणोरेकत्वे दृष्टान्तमाह.- यथा सुदीप्ता- १ क. 'थतः स' । २ ख. क्षणात् । ३ क. छ. 'त्यक्षं न ।
२० आनन्दगिरिकृतटीकासंवलितशांकरमाप्यसमेता- [मु०२९०१) पथा मुदीप्तासुष्टु दीप्तादिद्धारपावकादग्नेविस्फुलिङ्गा अग्न्यवयवाः सहस्रशोऽनेकशः प्रभवन्ते निर्गच्छन्ति सरूपा अनिसलक्षणा एव तथो- क्तलक्षणादक्षराद्विविधा नानादेहोपाधिभेदमनुविधीयमानत्वाद्विविधा हे सोम्य मावा जीवा आकाशादिवघटादिपरिच्छिन्नाः सुषिरभेदा घटा- धुपाधिप्रभेदमनुभवन्ति । एवं नानानामरूपकृतदेहोपाधिप्रमवमनुप्रजा- यन्ते तत्र चैव तस्मिन्नेवाक्षरेऽपि यन्ति देहोपाधिविलयमनुलीयन्ते घटादिविलयमन्विव सुषिरभेदाः । यथाऽऽकाशस्य सुषिरभेदोत्पत्तिप्र. लयनिमित्तत्वं घटापाधिकृतमेव तद्वदक्षरस्यापि नामरूपकृतदेहोपा- धिनिमित्तमेव जीबोत्पत्तिप्रलयनिमित्तत्वम् ॥ १॥ दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः । अप्राणो हामनाः शुचो ह्यक्षरात्परतः परः ॥ २ ॥ नामरूपीजमूताव्याकृताख्यात्स्वविकारापेक्षया परावक्षरात्परं यत्स- ोपाधिमेदवर्जितमक्षरस्यैव स्वरूपमाकाशस्येव सर्वमूर्तिवर्जितं नेति नेतीत्यादिविशेषणं विवक्षनाह । दिव्यो द्योतनवान्स्वर्यज्योतिष्ठात् । दिवि वा स्वात्मनि भवोऽलौकिको वा । हि यस्मादमूर्तः सर्वमूर्तिक- जितः पुरुषः पूर्णः पुरिशयो वा । दिग्यो यमूर्तः पुरुषः सबाह्याभ्यन्तरः सह बाह्याभ्यन्तरेण पतंत इति । अजो न जायते कुतश्चित्स्वतोऽन्यस्य जन्मनिमित्तस्य पाभावात् । यथा जलबुबुदादेर्वाग्वादि । यथा नमःसुषिरभेदानां घटादिसर्वमावविकाराणां जनिमूलत्वात्तत्प्रतिषे. धेन सर्वे प्रतिषिद्धा भवन्ति । सबाह्याभ्यन्तरो ह्यजोऽतोऽजरोऽ. दिति । एकत्वे सति प्रत्यग्रूपस्यापरोक्षत्वाद्ब्रह्मणोऽपि प्रत्यक्षत्वं भविष्यति घटैकदेशप्रत्य. क्षत्वे घटप्रत्यक्षवदित्यर्थः । विभक्तदेशावच्छिन्नत्वेन विस्फुलिङ्गेष्ववयवत्वादिव्यवहारः स्वतः पुनरग्न्यात्मत्वमेवोष्णप्रकाशत्वाविशेषात्तथा चिद्रूपत्वाविशेषाज्जीवानां स्वतो ब्रह्मत्वमेवेत्यर्थः॥१ अक्षरस्यापि जीवोत्पत्तिप्रलयनिमित्तत्वमौपाधिकमुक्तमेकत्वसिद्धयर्थम् । तत्त्वतस्तु निमित्तनैमित्तिकभावोऽपि नास्तीत्याह-नामरूपबीजभूतादिति । देहापेक्षया यहाह्य- मान्तरं च प्रसिद्धं तेन सह तत्तादाम्येन तदधिष्ठानतया वा वर्तत इति सबा- ह्याभ्यन्तरः । अत एव सर्वात्मत्वात्तव्यतिरिक्तनिमित्ताभावादज इत्यर्थः । जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते विनश्यतीत्येवमादिभावविकाराणां निषेधे तात्पर्थमजशब्द- स्याऽऽह-सर्वभावविकाराणामिति । जीवानां प्राणादिमत्त्वात्तदात्मत्वे ब्रह्मणोऽपि १ ग, घ. उ. च. झ. 'भ्रंक्ष' । २ क, यः । यथा वि । ३ क. ज. बाह्याभ्यन्त । ४ ख. ङ, च, झ. षेधातात्प।
[मु० २ ख०१] मुण्डकोपनिषत् । २१ मृतोऽक्षरो ध्रुवोऽभय इत्यर्थः । यद्यपि देहाद्युपाधिमेददृष्टीनामविद्याव- शादेहभेदेषु सप्राणः समनाः सेन्द्रियः सविषय इव प्रत्यवमासते तलम- लादिमदिवाऽऽकाशं तथाऽपि तु स्वतः परमार्थदृष्टीनामप्राणोऽविद्यमानः क्रियाशक्तिमेदांश्चलनात्मको वायुर्यस्मिन्नसावप्राणः । तथाऽमना अने. कज्ञानशक्तिभेदवत्संकल्पाद्यात्मक मनोऽप्यविद्यमानं यस्मिन्सोऽयममना अप्राणो ह्यमनाश्चेति । प्राणादिवायुभेदाः कर्मेन्द्रियाणि तद्विषयाश्च तथा च बुद्धिमनसी बुद्धीन्द्रियाणि तद्विषयाश्च प्रतिषिद्धा वेदितव्याः । तथा श्रुत्यन्तरे-ध्यायतीव लेलायतीवेति । यस्माञ्चैवं प्रतिषिद्धोपा- धिद्वयस्तस्माच्छुभ्रः शुद्धः । अतोऽक्षरान्नामरूपबीजोपाधिलक्षितस्वरू- पात्सर्वकार्यकारणबीजत्वेनोपलक्ष्यमाणत्वात्परं तदुपाधिलक्षणमव्याकृ. ताख्यमक्षरं सर्वविकारेभ्यस्तस्मात्परतोऽक्षरात्परो निरुपाधिकः पुरुष इत्यर्थः । यस्मिंस्तदाकाशाख्यमक्षरं सव्यवहारविषयमोतं प्रोतं च । कथं पुनरप्राणादिमत्त्वं तस्येत्युच्यते । यदि हि प्राणादयः प्रागुत्पत्तेः पुरुष इव स्वेनाऽऽत्मना सन्ति तदा पुरुषस्य प्राणादिना विद्यमानेन प्राणादि- मत्वं मवेन्न तु ते प्राणादयः प्रागुत्पत्तेः पुरुष इव स्वेनाऽऽत्मना सन्ति तदा । अतोऽप्राणादिमान्परः पुरुषः । यथाऽनुत्पन्ने पुत्रेऽपुत्रो देवः दत्तः ॥ २॥ एतस्माज्जायते प्राणो मनः सन्द्रियाणि च ॥ खं वायुयोतिरापः पृथिवी विश्वस्य धारिणी ॥ ३ ॥ कथं ते न सन्ति प्राणादय इत्युच्यते । यस्मादेतस्मादेव पुरुषान्नाम- प्राणादिमत्त्वं प्राप्तं तनिवर्तयति-यद्यपीत्यादिना । स्मृतिसंशयाद्यनेकज्ञानेषु शक्तिवि- शेषोऽस्यास्तीति तथोक्तं नामरूपयो/जं ब्रह्म तस्योपाधितया लक्षितं शुद्धस्य कारणत्वानु- पपत्या गमितं स्वरूपमस्येति तथोक्तम् । तस्मादुपाधिरूपात्तद्विशिष्टरूपाच्च परतोऽक्षरात्पर इति संबन्धः । कथं मायातत्त्वस्याक्षरस्य परत्वमित्याकाङ्क्षायामाह--सर्वकार्येति । कार्य ह्यपरं प्रसिद्धम् । तत्कारणत्वेन गम्यमानत्वान्मायातत्त्वं परम् । यौक्तिकबाधादनिर्वा- च्यत्वेऽपि स्वरूपाच्छेदाभावादक्षरम् । तदुक्तं गीतायाम--" क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः" इति ॥ २॥ यदेव चैतन्यं निरुपाधिकं शुद्धमविकल्पं ब्रह्म यत्तत्त्वज्ञानाजीवानां कैवल्यं तदेव माया. प्रतिबिम्बितरूपेण कारणं भवतीत्याह-यस्मादेतस्मादेवेति । प्राणोत्पत्तेरूचं तर्हि १ क. ख. क्षयो ध्रु। २ क. ख. ज. यथा। ३ च ‘था च श्रु। ४ क. ज. संव्य' । . °२ सव्यापार । ५ ६. च. झ. तत्कर' ।
२२ आनन्दगिरिकृतटीकासंवलितशांकरमाध्यसमेता- [मु०२ख०१] रूपीजोपाधिलक्षिताज्जास्त उत्पद्यतेऽविद्याविषयविकारभूतो नामधे- योऽनृतात्मकः प्राणः “वाचारम्भणं विकारो नामधेयमनृतम्" इति श्रुत्य- न्तरात् । न हि तेनाविद्याविषयेणानृतेन प्राणेन सप्राणत्वं परस्य स्याद. पुत्रस्य स्वप्नदृष्टेनेव पुत्रेण सपुत्रत्वम् । एवं मनः सर्वाणि चेन्द्रियाणि विषयाश्चतस्मादेव जायन्ते । तस्मात्सिद्धमस्य निरुपचरितमप्राणादि- मत्त्वमित्यर्थः । यथा च प्रागुत्पत्तेः परमार्थतोऽसन्तस्तथा प्रलीनाश्चेति द्रष्टव्याः । यथा करणानि मनश्चेन्द्रियाणि तथा शरीरविषयकारणानि भूतानि खमाकाशं वायुरन्तर्वाह्य. आवहादिभेदः । ज्योतिरग्निः । आप उदकम् । पृथिवी धरित्री विश्वस्य सर्वस्य धारिणी । एतानि च शब्द- स्पर्शरूपरसगन्धोत्तरोत्तरगुणानि पूर्वपूर्वगुणसहितान्येतस्मादेव जायन्ते । संक्षेपतः परविद्याविषयमक्षरं निर्विशेषं पुरुषं सत्यं दिव्यो ह्यमूर्त इत्या- दिवा मन्त्रेणोक्त्वा पुनस्तदेव सविशेषं विस्तरेण वक्तव्यमिति प्रववृते. संक्षेपविस्तरोक्तो हि पदार्थः सुखाधिगम्यो भवति सूत्रभाष्योक्तिवः दिति ॥३॥ सप्राणत्वं परमात्मनो भविष्यतीतिशङ्कानिवृत्त्यर्थं श्रुत्यन्तरमसिद्धं प्राणस्य विशेषणमाह-- अविद्याविषय इति । नामधेय इति । वाड्यात्रो न वस्तुवृत्त इत्यर्थः । प्राणादीनां पाठक्रमोऽयमर्थक्रमेण बाध्यते । “ गताः कलाः पञ्चदश प्रतिष्ठाः” इति भूतेषु लयश्र. वणेन प्राणानां भौतिकत्वावगमाद्भतोत्पत्त्यनन्तरं प्राणोत्पत्तिर्द्रष्टव्येति । अभिमुखमागच्छ. न्वायुरावहः पुरतो गच्छन्प्रवह इत्यादिभेदः । शब्दस्पर्शरूपरसगन्धा उत्तरोत्तरस्य गुणाः येषां तानि तथोक्तानि । यथा शुक्लतन्त्ववस्थापन्नादन्वयिकारणाजायमानः पटः शुक्लगुणो. जायते तथाऽऽकाशावस्थापन्नाद्ब्रह्मणो जायमानो वायुराकाशगुणेन शब्देनान्वितो जायते । तथैव वायुभावापन्नाद्ब्रह्मणोऽग्निस्तद्गुणेनान्वितो जायत इति द्रष्टव्यम् । ननु सूक्ष्माणि भूतानि प्रथममुत्पद्यन्ते । अनन्तरं तासां त्रिवृतं. त्रिवृतभेकैकामकरोदिति पञ्चीकरणोपलक्ष- णार्थ, त्रिवृत्करणश्रुतेः पश्चात्मकत्वमवगम्यते । तत एकैकस्य भूतस्य पञ्चगुणवत्त्वं वर्णित.. मन्यत्र कथमिह पञ्चीकरणमनादृत्य प्रथमसर्ग. एवाऽऽकाशस्यैकगुणत्वं वायोर्हि द्विगुणत्वं तेजे. सस्त्रिगुणत्वमित्याद्यच्यते । सत्यम् । भूतसर्गे तात्पर्याभावद्योतनाय प्रक्रियान्तरं न बिरुध्यते । ज ह्येतत्प्रतिबद्धं किंचित्फलं श्रूयते । अत एव गुणगुणिभावोऽपि न वैशेषिकपक्षवदिह विवक्षितः । किंतु राहोः शिर इतिवन्धपदेशमात्रम् । विस्तरेण त्वन्त्यकार्यपर्यन्तं तेन. तेनाऽऽकारेण ब्रह्मैव विवर्तत इति प्रपञ्च्यते ततोऽतिरिक्तस्याणुमात्रस्यासंभवात्तस्मिन्विज्ञाते सर्वमिदं विज्ञातं भवतीति प्रदर्शनार्थमित्यर्थः ॥ ३ ॥ १ ख. ग. ङ. च. झ. याऽनु । २ ग. ड. च. झ. ञ. जसि त्रिगुः । -- ।
[मु०२ ख० १] मुण्डकोपनिषत् । २३ अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यों दिशःश्रोत्रे वाग्वि- वृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पड्यां पृथिवी ह्येष सर्वभूतान्तात्मा ॥ ४ ॥ योऽपि प्रथमजात्प्राणाद्धिरण्यगर्भाजायतेऽण्डस्यान्तविराट्स तत्त्वा- न्तरितत्वेन लक्ष्यमाणोऽप्येतस्मादेव पुरुषाज्जायत एतन्मयश्चेत्येतदर्थ माह । तं च विशिनष्टि । अग्निद्युलोकः "असो वाव लोको गौतमामिः इति श्रुतेः । मूर्धा यस्योत्तमाङ्ग शिरः । चक्षुषी चन्द्रश्च सूर्यश्चेति- चन्द्रसूर्यो यस्येति सर्वत्रानुषङ्गः कर्तव्यः । अस्येत्यस्य पदस्य वक्ष्यमा- णस्य यस्येति विपरिणामं कृत्वा दिशः श्रोत्रे यस्य । वाग्विवृता उद्घाटिताः प्रसिद्धा वेदा यस्य । वायुः प्राणो यस्य हृदयमन्तःकरणं विश्वं समस्तं जगदस्य पस्येत्येतत् । सर्व ह्यन्तःकरणविकारमेव जग- मनस्येव सुषुप्ते प्रलयदर्शनात् । जागरितेऽपि तत एवाग्निविस्फुलिङ्गाव- द्विप्रतिष्ठानात् । यस्य च पद्भया जाता पृथिवी। एष देवो विष्णुरनन्तः प्रथमशरीरी त्रैलोक्यदेहोपाधिः सर्वेषां भूतानामन्तरात्मा ॥ ४ ॥ तस्मादमिः समिधो यस्य सूर्यः सोमात्पर्जन्य ओषधयः पृथिव्याम् । पुमान्रेतः सिञ्चति योपितायां बह्वीः प्रजाः पुरुषासंप्रसूताः ॥ ५ ॥ स हि सर्वभूतेषु द्रष्टा श्रोता मन्ता विज्ञाता सर्वकारणात्मा पश्चाग्नि द्वारेण च याः संसरन्ति प्रजास्ता अपि तस्मादेव पुरुषात्प्रजायन्त इत्युच्यते । तस्मात्परस्मात्पुरुषात्मजावस्थानविशेषरूपोऽग्निः स विशि- व्यते । समिधो यस्य सूर्यः समिध इव समिधः । सूर्येण हि युलोकः समिध्यते । ततो हि ह्युलोकॉन्निष्पन्नात्सोमात्पर्जन्यो द्वितीयोऽग्निः संमवति । तस्माच्च पर्जन्यादोषधयः पृथिव्यां संमवन्ति । ओषधिभ्यः पुरुषामौ हुताभ्य उपादानमूताभ्यः पुमाननी रेतः सिञ्चति योषितायां योषिति योषामौ स्त्रियामिति। एवं क्रमेण बह्वीबह्वयः प्रजा ब्राह्मणाद्याः पुरुषात्परस्मात्संप्रसूताः समुत्पन्नाः ॥ ५॥ सर्वेषां भूतानामिति । पञ्चमहाभूतानाम् । अन्तरात्मा स्थूलपञ्चभूतशरीरो हि विरा- डित्यर्थः । पञ्चानिद्वारेण । |पर्जन्यपृथिवीपुरुपयोषिसु पश्चस्वग्निदृष्टेः श्रुयन्तरचोदित- त्वात्तवारेणेत्यर्थः ॥ ४ ॥ ५ ॥ १ ग. घ. च. झ, र्जन्यौष । २ क. ख. र्वकर' । ३ क. ज. विशेष्य । ४ क. ख. कादमिनिष्प।
२४ आनन्दगिरिकृतटीकासंवलितशांकरमाम्पसमेता- (मु०९ख०१] तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे कतवो दक्षिणाश्च । संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ६ ॥ किंच कर्मसाधनानि फलानि च तस्मादेवेत्याह । कथं तस्मात्पुरुषा- हुचो नियताक्षरपादावसाना गाययादिच्छन्दोविशिष्टा नन्त्राः। साम पाश्चमक्तिकं साप्तमक्तिकं च स्तोमादिगीतविशिष्टम् । यजूंष्यनियताक्ष- रपादावसानानि वाक्यरूपाण्येवं त्रिविधा मन्त्राः । दीक्षा मौज्यादि- लक्षणा कर्तृनियमविशेषा । यज्ञाश्च सर्वेऽग्रिहोत्रादयः। क्रतवः सयूपाः । दक्षिणाश्चैकगवाद्यपरिमितसर्वस्वान्ताः । संवत्सरश्च कालः कर्माङ्गः। यजमानश्च कर्ता । लोकास्तस्य कर्मफलमूतास्ते विशेष्यन्ते सोमो यत्र येषु लोकेषु पवते पुनाति लोकान्यत्र येषु सूर्यस्तपति च ते च दक्षिणा. पनोत्तरायणमार्गद्वयगम्या विद्वदविद्वत्कर्तृफलमूताः ॥ ६ ॥ तस्माच्च देवा बहुधा संप्रसूताः साध्या मनुष्याः पशवो वयांसि । प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्य विधिश्च ॥ ७ ॥ तस्माच पुरुषात्कर्माङ्गभूता देवा बहुधा वस्वादिगणभेदेन संप्रसूताः सम्यक्प्रसूताः । साध्या देवविशेषाः । मनुष्याः कर्माधिकृताः । पशवो ग्राम्यारण्याः। वयांसि पक्षिणः । जीवनं च मनुष्यादीनाम्। प्राणापानौ बीहियवौ हविरौँ । तपश्च कर्भाङ्ग पुरुषसंस्कारलक्षणं स्वतन्त्रं च फलसाधनम् । श्रद्धा यत्पूर्वकः सर्वपुरुषार्थसाधनप्रयोगश्चित्तप्रसाद आस्तिक्यबुद्धिस्तथा सत्यमनृतवर्जनं यथाभूतार्थवचनं चापीडाकरम् । ब्रह्मचर्य मैथुनासमाचारः। विधिश्चेतिकर्तव्यता ॥ ७ ॥ पाश्चमक्तिकमिति । हिंकारप्रस्तावोद्गीथप्रतिहारनिधनाख्याः पञ्च भक्तयोऽवयवा यस्य तत्तथोक्तम् । साप्तमक्तिकमिति । हिंकारप्रस्तावाद्युद्गीथप्रतिहारोपद्रवनिधनाख्याः सप्त भक्तयो यस्य तत्तथोक्तम् । स्तोभोऽर्थशून्यो वर्णः । विश्वजित्सर्वमेधयोः सर्वस्वदक्षिणा अत एकां गामारभ्य सर्वस्वान्ता दक्षिणा भवन्तीत्यर्थः ॥ ६ ॥ तपश्च कर्माङ्गमिति । पयोव्रतं ब्राह्मणस्य यवाग् राजन्यस्याऽऽमिक्षा वैश्यस्ये- त्यादिविहितं कृच्छ्चान्द्रायणादीत्यर्थः ॥ ७ ॥ १ क. प. क्षगक । ज. क्षणाः क । २ज. शेषाः ।। ३ च.ज.कायाप। ४ क. मङ्गिपु। ५ क. शून्या वर्णा वि । ६ क. 'दिश्रुतिवि।
[मु०२ख०१] मुण्डकोपनिषत् । २५ सप्त प्राणाः प्रभवन्ति तस्मात्सप्तार्चिषः समिधः सप्त होमाः । सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥ ८॥ किंच सप्त शीर्षण्याः प्राणास्तस्मादेव पुरुषात्प्रभवन्ति । तेषां च सप्ताषिो दीप्तयः स्थविषयावद्योतनानि । तथा सप्त समिधः सप्त विषयाः । विषयहि समिध्यन्ते प्राणाः । सप्त होमास्तद्विषयविज्ञानानि यदस्य विज्ञानं तज्जुहोति इति श्रुत्यन्तरात् । किंच सप्तेमे लोका इन्द्रियस्थानानि येषु चरन्ति संचरन्ति प्राणाः । प्राणां येषु चरन्तीति प्राणानां विशेषणमिदं प्राणापानादिनिवृत्त्यर्थम् । गुहायां शरीरे हृदये वा स्वापकाले शेरत इति गुहाशयाः । निहिताः स्थापिता धात्रा सप्त सप्त प्रतिपाणिभेदम् । यानि चाऽऽत्मवाजिनां विदुषां कर्माणि कर्मफ- लानि चाधिदुषां च कर्माणि तत्साधनानि कर्मफलानि च सर्व चैतत्पर- स्मादेव पुरुषात्सर्वज्ञापसूतमिति प्रकरणार्थः ॥ ८॥ अतः समुद्रा गिरयच सर्वेऽस्मात्स्यन्दन्ते सिन्धवः सर्वरूपाः। अतश्च सर्वा ओषधयो रसश्च येनैष भूतस्तिष्ठते ह्यन्तरात्मा ॥९॥ अतः पुरुषात्समुद्राः सर्वे क्षाराद्याः। गिरयश्च हिमवदादयोऽस्मादेव पुरुषात्सर्वे । स्यन्दन्ते सवन्ति गङ्गाद्याः सिन्धवो नद्यः सर्वरूपा बहु- रूपाः । अस्मादेव पुरुषात्सर्वा ओषधयो बीहियवाद्याः । रसच मधु. रादिः पविधो येन रसेन मूतैः पञ्चमिः स्थूलैः परिवेष्टितस्तिष्ठते तिष्ठति ह्यन्तरात्मा लिङ्गं सूक्ष्म शरीरम् । तद्धयन्तराले शरीरस्याऽऽत्मनश्चाss- त्मवद्वर्तत इत्यन्तरात्मा ॥ ९॥ पुरुष एवंदं विश्वं कर्म तपो ब्रह्म परामृतम् । एतयो वेद निहितं गुहायां सोऽविद्याग्रन्थि विकिरतीह सोम्य ॥१०॥ इत्यथर्ववेदीयमुण्डकोपनिषदि द्वितीयमुण्डके प्रथमः खण्डः ॥ १ ॥ आत्मयाजिनामिति । सकलमिदमहं च परमात्मैवेतिभावनापूर्वकं परमेश्वसराधन- बुद्धया ये यजन्ति तेषामित्यर्थः ॥ ८ ॥ १क. ख. ज. °णा इति विशेषणान्पाणा । २ क. "णि तत्साधनानि क' ।
२६ आनन्दगिरिकतटीकासंवलितांकरमाध्यसमेता- [मु०२०२] एवं पुरुषात्सर्वमिदं संप्रसूतम् । अतो वाचारम्मणं विकारो नामधे. पमनृतं पुरुष इत्येष सत्यम् । अतः पुरुष एवेदं विश्वं सर्वम् । न विश्वं नाम पुरुषादन्यत्किंचिदस्ति । अतो यदुक्तं तदेतदमिहितं कस्मिन्नु मगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति । एतस्मिन्हि परस्मिन्नात्मनि सर्वकारणे पुरुषे विज्ञाते पुरुष एवेदं विश्वं नान्यदस्तीति विज्ञातं मव- तीति । किं पुनरिदं विश्वमित्युच्यते । कर्माग्रिहोत्रादिलक्षणम् । तपो ज्ञानं तत्कृतं फलमन्यदेताबद्धीदं सर्वम् । ततद्ब्रह्मणः कार्य तस्मात्सर्व ब्रह्म परामृतं परमसतमहमेवेति यो वेद निहितं स्थितं गुहायां हृदि सर्वप्राणिनां स एवं विज्ञानादविद्याग्रन्थि ग्रन्धिमिव हढीभूतामविद्या- वासना विकिरति विक्षिपति नाशयतीह जीवन्नेष न मृतः सन्हे सोम्य प्रियदर्शन ॥१०॥ इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्ये द्वितीयमुण्डकें प्रथमः खण्डः ॥१॥ आविः संनिहितं गुहाचरं नाम महत्पदमत्रैत- समर्पितम् । एजन्माणनिमिषञ्च यदेतज्जानथ सदसद्वरेण्यं परं विज्ञानाबद्वरिष्ठं प्रजानाम् ॥ १ ॥ अरूपं सदक्षरं केन प्रकारेण विज्ञेयमित्युच्यते । आविः प्रकाशं संनि- यत्पृष्टं कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति तन्निरूपितम् । सर्वमिदं परमात्मनो जायते । अतस्तावन्मात्रं सर्व तस्मिन्विज्ञाते विज्ञातं भवतीत्यविद्याक्षयफलाभिधा- नेनोपसंहतमिति ॥ ९॥ १० ॥ इति मुण्डकोपनिषद्भाष्यटीकायां द्वितीयमुण्डके प्रथमः खण्डः ॥ १ ॥ अधुना यस्य सकृदुपदेशमात्रेणाद्वितीयं ब्रह्मास्मीतिवाक्यार्थज्ञानं न भवतीति तस्योपा- यानुष्ठानेन भक्तिव्यमित्यभिप्रेत्याऽऽह---अरूपं सदक्षरमिति । वाक्यार्थस्यैव पुनः पुनर्भावना युक्त्यनुसंधानं चोपाय इलाह-उच्यत इति। आविःशब्दो निपातः प्रकाश. वाची । ब्रह्म विश्वोपलब्ध्यात्मना प्रकाशमानमेव सदेति भावयेदित्यर्थः । अन्यैरप्युक्तम्-- "यदस्ति यद्भाति तदात्मरूपं नान्यत्ततो भाति न चान्यदस्ति । स्वभावसवित्प्रतिभाति केवलं ग्राह्यं ग्रहीतेति मुषैव कल्पना " इति । संनिहितमिति । सर्वेषां प्राणिनां हृदये स्थितं वागायुपाधिभिः शब्दादी युपलभमा- १ ख. न. वामृ । २ क. ख. 'ज्ञानमण्यत्यन्तं न ।
२७ । [मु०२ख०२] मुण्डकोपनिषत् । हितं वागाशुपाधिभिज्वलति भ्राजतीति श्रुत्यन्तराच्छब्दावीनुपलममा- नवदवमासते। दर्शनश्रवणमननविज्ञानाद्यपाधिधर्मेराविर्भूतं सलक्ष्यते हृदि सर्वप्राणिनाम् । यदेतदाविर्बह्म संनिहितं सम्यस्थितं हृदि तदू- हाचरं नाम गुहायां चरतीति दर्शनश्रवणादिप्रकारेणुहाचरमिति प्रख्या- तम् । महत्सर्वमहत्त्वात्पदं पद्यते सर्वेणेति सर्वपदार्थास्पदत्वात् । कथं तन्महत्पदमित्युच्यते । यतोऽत्रास्मिन्ब्रह्मण्येतत्सर्व समर्पितं प्रवेशितं स्थनामाविवारा एजञ्चलत्पक्ष्यादि । प्राणत्माणितीति प्राणापानादिम- न्मनुष्यपश्चादि । निमिषञ्च यनिमेषादिक्रियावयानिमिषशब्दास- मस्तमेतदव ब्रह्मणि समर्पितम् । एतादास्पदं सर्व जानथ हे शिष्या अवगच्छथ तदात्मभूतं भवतां सदसत्स्वरूपम् । सदसनोमूर्तयोः स्थूलसूक्ष्मयोस्तव्यतिरेकेणामावात् । वरेण्यं वरणीयं तदेव हि सर्वस्य. नित्यत्वात्मार्थनीयं परं व्यतिरिक्तं विज्ञानात्मजानामिति व्यवहितेन संबन्धो यल्लौकिकविज्ञानागोचरमित्यर्थः । यदरिष्ठं धरतमं सर्वपदार्थेषु वरेषु तद्धयेकं ब्रह्मातिशयेन वर सर्वदोषरहितत्वात् ॥१॥ पदमियदणुभ्योऽणु, च यस्मिल्लोका निहिता लोकिनश्च । तदेतदक्षरं ब्रह्म स प्रापस्तदु वाङ्मनः । तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ॥२॥ किंच यदर्चिमबीप्तिमवीप्त्याऽऽदित्यादि दीप्यत इति दीप्तिमब्रह्म। किंच यवणुभ्यः श्यामाकादिभ्योऽप्यणु च सूक्ष्मम् । पशब्दारस्थूले. भ्योऽप्यतिशयेन स्थूलं पृथिव्यादिभ्यः । यस्मिलीका भूरादयो निहिताः नवझैव जीवभावमाफ्नमवभासते । ततः स्वतोसरोक्षं चेनि सदा स्मरेदित्यर्थः । सर्व मिदं कार्य परिच्छिन्नं च सास्पदं कार्यत्वात्परिच्छिन्नत्वाच घटादिवत्ततः सर्वास्पदं यत्तदेव मायास्पदमात्मभूतमिति युक्त्यनुसंधानमाह, महत्पदमिति ॥ १ ॥ घटादिवदादित्यादेर्जडत्वेऽपि यद्दीप्तिमत्त्वं वैचित्र्यं तदनुपपत्त्याऽपि तत्कारणं संभावनी. यमित्याह-किंच यदर्चिमदिति । अर्चिमत्वादादित्यादिवदिन्द्रियग्राह्यत्वं प्राप्तं निषेधति- यदणुभ्य इति । परमाणुपरिमाणत्वं तर्हि स्यादिति नाऽऽशकभीयमित्याह -चशब्दा- दिति । स्थूलत्वात्तर्जन्याधारं स्यादिति नाऽऽशङ्कनीयमित्याह-यस्मिल्लोका इति । प्राणादिप्रवृत्तिश्चेतनाविष्ठान निबन्धना जडवृत्तित्वाद्रथादिप्रवृत्तिवचिद्भेदे च प्रमाणाभावादेक- ११ ख. ग. उ. प. म. °णिनां हृदये त°।२ क. विर्भूतं ब्रह्म ।
आनन्दामरिकृतीकासवाल तशाकरमाष्यसमेता- [मु०२ख०२) स्थिताः । ये च लोकिनो लोकनिवासिनो मनुष्यादयश्वेतन्याश्रया हि सर्वे प्रसिद्धास्तदेतत्सर्वाश्रयमक्षरं ब्रह्म स प्राणस्तदु वाडानो वाक्च मनश्च सर्वाणि च करणानि तद्वन्तश्चैतन्यं चैतन्याश्रयो हि प्राणेन्द्रिया- दिसर्वसंघातः " प्राणस्य प्राणम्" इति श्रुत्यन्तरात् । यत्पाणादीनाम- न्तश्चैतन्यमक्षरं तदेतत्सत्यमवितथमतोऽमृतमविनाशि तदेद्धव्यं मनसा ताडयितव्यम् । तस्मिन्मनःसमाधानं कर्तव्यमित्यर्थः । यस्मादेवं हे सोम्य विद्धयक्षरे चेतः समाधत्स्व ॥२॥ धनुर्गृहीत्वौपनिषदं महास्वं शर ह्युपासानिशितं संघवीत । आयम्य नद्भावगतेन चेतसा लक्ष्य तदेवाक्षरं सोम्य विद्धि ॥ ३ ॥ कथं वेद्धम्पमित्युच्यते । धनुरिष्वासनं गृहीत्वाऽऽदायोपनिषदमुपनि- पत्सु मवं प्रसिद्धं महास्वं मह व तदनं च महावं धनुस्तस्मिशरम् । किंविशिष्ठमिन्याह । उपासानिशितं संतताभिध्यानेन तनूकृतं संस्कृत- मित्येतत् । संधीत संधानं कुर्यात् । संधाय चाऽऽयम्याऽऽकृष्य सेन्द्रि- यमन्तःकरणं स्वविषवाद्विनिवर्त्य लक्ष्य एवाऽऽवर्जितं कृत्वेत्यर्थः । न हि हस्तेनेव धनुष आवमनमिह संमवति । तद्भावगत्वेन तस्मिन्ब्रह्मण्य- क्षरे लक्ष्ये मावना मावस्तद्वतेन चेतसा लक्ष्यं तदेव यथोक्तलक्षणमक्षर सोम्य विद्धि ॥३॥ प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन व्यं शरबत्तन्मयो भवेत् ॥ ४ ॥ यदुक्तं धनुरादितज्यते। प्रणव ओंकारो धनुः। यथेष्वासन लक्ष्ये शरस्य प्रवेशकारणं तथाऽऽत्मशरस्याक्षरे लक्ष्ये प्रवेशकारणमोंकारः । प्रणवेन ह्यभ्यस्यमानेन संस्क्रियमाणस्तदालम्बनोऽप्रतिबन्धेनाक्षरेऽवतिष्ठते यथा धनुषाऽऽस्त इषुर्लक्ष्ये। अतः प्रणवो धनुरिव धनुः । शरो छात्मोपाधिल- चैतन्यमानमस्मीति विचारयोदित्याह-तदेतत्सर्वाश्रयमिति । प्राणाद्यधिष्ठानत्वात्प्राणा- दिलक्ष्य आत्मा द्रष्टव्यः ॥ २॥ विचारासमर्थस्य प्रणवमवलम्ब्य ब्रह्मात्मैकत्वे चित्तसमाधानं क्रममुक्तिफलं दर्शयितुमुष्- क्रमते-कथं वेद्धव्यमित्यादिना । प्रणवो ब्रह्मेत्यभिध्यायत उपसंहृतकरणग्नामस्य प्रणवोपरक्तं यचैतन्यप्रतिबिम्ब स्फुरति स आत्मेत्यनुसंधानं प्रणवे शरसंधानं तस्य चिति- बिम्बस्य बिम्बैक्यानुसंधानं लक्ष्यवेधः ॥ ३ ॥ ४ ॥ १ क. ख. . . संघीयत । २ क, ख. . . संधीयत । न. र. मंदधीतेत्यधो लिखितपाठ [मु०२ ख० २] मुण्डकोपनिषत् । २९ क्षणः पर एव जले सूर्यादिवदिह प्रविष्टो देहे सर्वधौद्धप्रत्ययसाक्षित स शर:इव स्वात्मन्येवोर्पितोऽक्षरे ब्रह्मण्यतो ब्रह्म तल्लक्ष्यमुच्यते लक्ष्य इव मन:समाधिसुमिरात्ममावेन लक्ष्यमाणत्वात् । तत्रैवं सत्यप्रमत्तेन पाह्मविषयोपलब्धितृष्णाप्रमादवजितेन सर्वतो विरक्तेन जितेन्द्रियजैका- ग्रचित्तेन वेद्धव्यं ब्रह्म लक्ष्यम् । ततस्तद्वेधनाचूर्व शरबत्तन्मयो मवेत् । यथा शरस्य लक्ष्यकात्मत्वं फलं भवति । तथा देहाद्यात्मप्रत्ययतिरस्क- रणेनाक्षरैकात्मत्वं फलमापादयेदित्यर्थः ॥४॥ यस्मिन्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः। तमेवैक जानथ आत्मानमन्या वाचो विमुश्चथामृतस्यैष सेतुः ॥ ५ ॥ अक्षरस्यैव दुर्लक्ष्यत्वात्पुनः पुनर्वचनं सुलक्षणार्थम् । यस्मिन्नक्षरे पुरुषे द्यौः पृथिवी चान्तरिक्षं चोतं समर्पितं मनश्च सह प्राणैः करणैरन्यैः सर्वस्तमेव सर्वाधयमेकमद्वितीयं जानथ जानीथ हे शिष्याः । आत्मानं प्रत्यक्स्वरूपं युष्माकं सर्वप्राणिनां च ज्ञात्वा चान्या वाचोऽपरविद्यारूपा विमुश्चथ विमुञ्चत परित्यजत । तत्प्रकाश्यं च सर्व कर्म ससाधनम् । यतोऽमृतस्यैष सेतुरेतदात्मज्ञानममृतस्यामृतत्वस्य मोक्षस्य प्राप्तये सेतुरिव सेतुः संसारमहोदधेरुत्तरणहेतुत्वात्तथा च श्रुत्यन्तरम्-" तमेव विदि- त्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इति ॥५॥ अरा इव रथनाभौ संहता यत्र नाडयः स एषोऽन्तश्चरते बहुधा जायमानः । ओमि- त्येवं ध्यायथ आत्मानं स्वस्ति वः पैराय तमसः परस्तात् ॥ ६॥ किंच । अरा इव । यथा रथनामो समर्पिता अरा एवं संहताः संप्र- उत्तरग्रन्थस्य पौनरुक्त्यं परिहरति-अक्षरस्यैव दुर्लक्ष्यत्वादिति । ससाधनं सर्व कर्म परित्यज्याऽऽत्मैव ज्ञातव्य इत्यत्रैव हेतुमाह-अमृतस्येति । धनुषाऽऽयुधेन लक्ष्यत इति तल्लक्षण आत्मैकत्वसाक्षात्कार इत्यर्थः ॥ ५॥ कर्मसङ्गिजनसंगत्या कर्मश्रद्धा विषयश्रद्धा च वाक्यार्थज्ञानस्यावगमार्य प्रतिबन्धको . १ ड.प. झ... वापितेऽक्ष ज. °वास्यतेऽक्ष | २ क. हायनात्म° १.३ क. क. पाराय।४ क. ख.छ. °य गत्यन्ततायाः ।
३० आनन्दगिरिकृतटीकासंवलितज्ञांकरमाप्यसमेता- [म०२ख०२] विष्टा यत्र यस्मिन्हदये सर्वतो देहव्यापिन्यो नाड्यस्तस्मिन्हृदये बुद्धि- प्रत्ययसाक्षिमूतः स एष प्रकृत आत्माऽन्तमध्ये चरते परति वर्तते । पश्यशृण्वन्मन्वानो विजानन्बहुधाऽनेकधा कोषहर्षादिप्रस्क्यैर्जायमान इव जायमानोऽन्तःकरणोपाध्यनुविधायित्वाद्वदन्ति लौकिका हृष्टो जातः कुद्धो जात इति । तमात्मानमोमित्येवमोंकारालम्बनाः सन्तो यथोक्त- कल्पनया ध्यायथ चिन्तयत । उक्तं वक्तव्यं च शिष्येभ्य आचार्येण जानता । शिष्याश्च ब्रह्मविद्याविविदिषुत्वानिवृत्तकर्माणो मोक्षपथे प्रवृत्ताः । तेषां निर्विघ्नतया ब्रह्मप्राप्तिमाशास्त्याचार्यः । स्वस्ति निर्विघ्न- मस्तु वो युष्माकं पराय परफूलाय। परस्ताकस्मादविद्यातमसः । अवि- धारहितब्रह्मात्मस्वरूपगमनायेत्यर्थः ॥ ६ ॥ यः सर्वज्ञः सर्वविद्यस्यैष महिमा भुवि दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः । मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं संनि- धाय तद्विज्ञानेन परिपश्यन्ति धीरा आनन्द- रूपममृतं यद्विभाति ॥ ७॥ योऽसौ तमसः परस्तासंसारमहोदधि तीर्खा मन्तव्यः परविद्यावि. षय इति स कस्मिन्वर्तत इत्याह । यः सर्वज्ञः सर्वविद्याख्यातः । तं पुनर्वि- शिनष्टि । यस्यैष प्रसिद्धो महिमा विभूतिः । कोऽसौ महिमा । यस्येमे यावापृथिव्यौ शासने विधृते तिष्ठतः । सूर्याचन्द्रमसौ यस्य शासनेऽला- तचक्रवदजस्रं भ्रमतः । यस्य शासने सरितः सागराश्च स्वगोचरं नाति- कामन्ति । तथा स्थावरं जगन्मं च यस्य शासने नियतम् । तथा चर्त- वोऽयने अब्दाश्च यस्य शासनं नातिकामन्ति । तथा कर्तारः कर्माणि फलं च यच्छासनात्स्वं स्वं कालं नातिवर्तन्ते स एष महिमा । मुवि लोके यस्य स एष सर्वज्ञ एवंमहिमा देवः । दिव्ये द्योतनवति सर्वबौद्ध- प्रत्ययकृतद्योतने ब्रह्मपुरे । ब्रह्मणोऽत्र चैतन्यस्वरूपेण नित्याभिव्य- विघ्नः स मा भूदित्याशंसनम् । न तु वाक्यार्थावगतौ निष्पन्नायां फलप्राप्तर्विघ्नशङ्काऽस्ती- त्यभिप्रेत्याऽऽह-परस्तादिति । मदुपदेशादूर्ध्वमित्यर्थः ॥ ६ ॥ सर्वेश्वरत्वमनोमयत्वादिगुणविशिष्टब्रह्मणो हृदयपुण्डरीके ध्यानं च क्रममुक्तिफलं मन्दब. झविदो विधीयत इति दर्शयितुमाह-योऽसौ तमसः परस्तादित्यादिना ॥ ७ ॥ १क. ज. °दिषयो नि। २ क. ड, ज. पाराय। ३ च. ज. यकस्यादि । ४ क. ज. पियो व्याख्या। ४ [मु०२ख०२] मुण्डकोपनिषत् । ३१ तत्वाद्ब्रह्मणः पुरं हृदयपुण्डरीक तस्मिन्यद्योम तस्मिन्व्योम्याकाशे हृत्पुण्डरीकमध्यस्थे प्रतिष्ठित इवोपलभ्यते । न ह्याकाशवत्सर्वगतस्य गतिरागतिः प्रतिष्ठा वाऽन्यथा संमवति । स ह्यात्मा तत्रस्थो मनोवृत्ति- मिरेव विभाव्यत इति मनोमयो मनउपाधित्वात्प्राणशरीरनेता प्राणश्च शरीरं च प्राणशरीरं तस्यायं नेता स्थूलाच्छरीराच्छरीरान्तरं प्रति । प्रतिष्ठितोऽवस्थितोऽन्ने मुज्यमानान्नविपरिणामे प्रतिदिनमुपचीयमानेऽ- पचीयमाने च पिण्डरूपान्ने हृदयं बुद्धिं पुण्डरीकच्छिद्रे संनिधाय समवस्थाप्य । हृदयावस्थानमेव ह्यात्मनः स्थिति ह्यात्मनः स्थितिरन्ने। तदात्मतत्वं विज्ञानेन विशिष्टेन शास्त्राचार्योपदेशजनितेन ज्ञानेन शम- दमध्यानसर्वत्यागवैराग्योमूतेन परिपश्यन्ति सर्वतः पूर्ण पश्यन्त्युपल- मन्ते धीरा विवेकिनः । आनन्दरूपं सर्षानर्थदुःखायासपहीणममृतं यद्विभाति विशेषेण स्वात्मन्येव माति सर्वदा ॥ ७ ॥ भियते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ८॥ अस्य परमात्मज्ञानस्य फलमिदमभिधीयते । भिद्यते हृदयग्रन्थिर- विद्यावासनापचयो बुद्धयाश्रयः काम: कामा येऽस्य हृदि श्रिताः " इति श्रुत्यन्तरात् । हृदयाश्रयोऽसौ नाऽऽत्माश्रयः । मिद्यते भेदं विना- शमायाति । छिद्यन्ते सर्वज्ञेयविषयाः संशया लौकिकानामामरणात्तु गङ्गास्रोतोवत्प्रवृत्ता विच्छेदमायान्ति । अस्य विच्छिन्नसंशयस्य निवृत्ता. विद्यस्य यानि विज्ञानोत्पत्तेः प्राक्तनानि जन्मान्तरे चाप्रवृत्तफलानि ज्ञानोत्पत्तिसहभाषीनि च क्षीयन्ते कर्माणि । न त्वेतज्जन्मारम्मकाणि प्रवृत्तफलत्वात्तस्मिन्सर्वज्ञेऽसंसारिणि परावरे परं च कारणात्मनाऽवरं च कार्यात्मना तस्मिन्परावरे साक्षादहमस्मीति दृष्टे संसारकारणोच्छे. दान्मुच्यत इत्यर्थः ॥८॥ हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छन्नं ज्योतिषां ज्योतिस्तपदात्मविदो विदुः ॥ ९ ॥ उक्तस्यैवार्थस्य संक्षेपाभिधायका उत्तरे मन्त्रास्त्रयोऽपि हिरण्मये ज्योतिर्मये बुद्धिविज्ञानप्रकाशे परे कोशे कोश इवासेः। आत्मस्वरूपोपल- अस्य परमात्मज्ञानस्येति । जीवन्मुक्तिफलस्याद्वैतवाक्यार्थावगमस्य क्रममुक्तिफ. लस्य चोपासनस्येत्यर्थः । अविद्यावासनाप्रचयो भिद्यत इति कोऽर्थः । किं बुद्धौ विद्य- १ के. 'रं सूक्ष्मं । २ ख. च. बुद्धिपु' । ३ ग. च. 'छिद्रं ।
आनन्दगिरिकृतटीकासंचलितशांकरमाध्यसमेता- (मु०२ख०२] ब्धिस्थानत्वात्परं तत्सर्वाभ्यन्तरस्वात्तस्मिन्धिरजमविद्याद्यशेषदोपरजो- मलवर्जितं ब्रह्म सर्वमहत्त्वात्सर्वात्मत्वाच निष्कलं निर्गताः कला यस्मा. सन्निष्कलं निरवयवमित्यर्थः । यस्माद्विरजं निष्कलं चातस्तच्छु_ शुद्धं ज्योतिषां सर्वप्रकाशात्मनामग्न्यादीनामपि तज्ज्योतिरवमासकम् । अग्न्यादीनामपि ज्योतिष्टुमन्तर्गतब्रह्मात्मचैतन्यज्योतिर्निमित्तमित्यर्थः । तद्धि परं ज्योतिर्यदन्यानवमास्मात्मज्योतिस्तधदात्मविद आत्मानं स्वं शब्दादिविषयबुद्धिप्रत्ययसाक्षिणं ये विवेकिनो विदुर्विजानन्ति त आत्मविदस्तद्विदुरात्मप्रत्ययानुसारिणः । यस्मात्परं ज्योतिस्तस्मात्त एव तद्विदुर्नेतरे बाह्यार्थप्रत्ययानुसारिणः ॥९॥ मानायामविद्यादिभेदो ज्ञानफलं किंवा तन्निवृत्तौ । नाऽऽद्यः । सत्युपादाने कार्यस्यात्यन्तो. च्छेदासंभवात् । न द्वितीयः । ज्ञानस्याज्ञानेनैव साक्षाद्विरोधप्रसिद्धेः । किंच । बुद्धिरप्य- नादिः सादि । नाऽऽद्यः " एतस्माज्जायते प्राणो मनः सःन्द्रियाणि च " इतिश्रुति. विरोधात् । नान्त्यः । प्रलये अझज्ञानं विनैव बुद्धेर्नाशसंभवात्तदानर्थक्यप्रसङ्गात् । सादिवे च बुद्धरुपादानं साक्षाद्ब्रह्म चेत्तन्नाशं विनाऽत्यन्तोच्छेदो न स्यात् । माया चेत्सा द्रष्टग. तज्ञानेन नोच्छेदमर्हति । लौकिकमायाविगतमायाया द्रष्टगतज्ञानेनोच्छेदादर्शनात् । किंच। बुद्धेरुच्छेदो न तस्याः फलं स्वनाशस्याफलत्वात् । नाऽऽत्मनः । तस्य बुद्धिप्रसङ्गाभावेन तदुच्छेदस्याफलत्वात् । किंचाऽऽमनोऽविद्याद्यनाश्रयत्वाभिधानं श्रुतिविरुद्धं प्रक्रमे-अवि- द्यायामन्तरे वर्तमाना इति श्रवणादुपसंहारे च-" अनीशया शोचति मुह्यमानः इति श्रवणात् । बुद्धिगतमेवाविद्याद्यात्मन्यध्यस्यत इति चेदध्यस्यत इति कोऽर्थः । निक्षि- प्यते भ्रान्त्या दृश्यते वा । नाऽऽद्यः । अन्यधर्मस्यान्यत्र निक्षेपासंभवात् । भ्रान्त्या चेत्केन दृश्यते । न तावदात्मना तस्याविद्याश्रयत्वानङ्गीकारात् । न बुद्ध्या । बुद्धेरात्मविषयत्वासं- भवेन तद्गतदर्शनासंभवात् । तद्धान्तेश्च स्वाश्रयगतेन तत्त्वानुभवेन निवर्यत्वप्रसिद्धेबुद्धर- नुभवाश्रयत्वप्रसङ्गात् । तस्मान्नास्य भाष्यस्य सभ्यमर्थ पश्याम इति चेदुच्यते । चित्त न्त्राऽनादिरनिर्वाच्याऽविद्या चैतन्यमवच्छिद्य स्वावच्छिन्नचैतन्यस्य बुध्द्यादितादात्म्यरूपेण विवर्तते । तस्याश्च ब्रह्मात्मतासाक्षात्कारनिवर्सरूपाङ्गीकारात्तनिवृत्तौ तदुत्थहृदयग्रन्थिभेदः श्रुत्योच्यते । भाष्यकारीयं च बुद्धय श्रयत्वाभिधानमहंकारविशेषगत्वेनाविद्यादेव्यावहारिका- भिप्रायेणाऽऽस्मानाश्रयत्वाभिधानं चाऽऽत्मनो निर्विकारत्वाभिप्रायम् । बाधितानुवृत्तिश्च प्रक- टार्थे प्रादीति जीवन्मुक्तिन विरुध्यते ॥ ८ ॥ ॥ ९॥ । १ ग. ड. च. स. अ.यत्वे प्र°। २ अ. च. देबढे । ३ क. स. सम्यगर्थे । ४ ख. प्रदर्शितोत। २ मु० २ख०२] मुण्डकोपनिषत् । ३३ न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति ॥ १० ॥ कथं तज्ज्योतिषां ज्योतिरित्युच्यते।न तत्र तस्मिन्स्वात्ममूते ब्रह्मणि सर्वावमासकोऽपि सूर्यो माति । तद्ब्रह्म न प्रकाशयतीत्यर्थः । स हिं तस्यैव मासा सर्वमन्यदनात्मजातं प्रकाशयतीत्यर्थः । न तु तस्य स्वतः प्रकाशनसामर्थ्यम् । तथा न चन्द्रतारकं नेमा विद्युतो मान्ति कुतोऽय मग्निरस्मद्गोचरः । किं बहुना । यदिदं जगद्भाति तत्तमेव परमेश्वरं स्वतो मारूपत्वाद्भान्तं दीप्यमानमनुमात्यनुदीप्यते । पथा जलाल्मुकाद्यानस. योगादग्निं दहन्तमनुदहति न स्वतस्तद्वत्तस्यैव मासा दीप्त्या सर्वमिदं मर्यादिजगद्विमाति । यत एवं तदेव ब्रह्म माति च विभाति च कार्यग. तेन विविधेन भासाऽतस्तस्य ब्रह्मणो भारूपत्वं स्वतोऽवगम्यते । न हि स्वतोऽविद्यमानं मासनमन्यस्य कर्तुं शक्नोति । घटादीनामन्यावमासक- स्वादर्शनाद्भारूपाणां चाऽऽदित्यादीनां तदर्शनात् ॥१०॥ ब्रह्मवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरण । अधश्चोधं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम्॥११॥ इत्यथर्ववेदीयमुण्डकोपनिषदि द्वितीयमुण्डके द्वितीयः खण्डः ॥२॥ इत्यथर्ववेदीयमुण्डकोपनिषदि द्वितीयमुण्डकं समाप्त ॥ २॥ यत्तज्ज्योतिषां ज्योतिब्रह्म तदेव सत्यं सर्व तद्विकारं वाचारम्भणं विकारो नामधेयमात्रमनृतमितरदित्येतमर्थं विस्तरेण हेतुतः प्रतिपादितं निगमनस्थानीयेन मन्त्रेण पुनरुपसंहरति । ब्रह्मैवोक्तलक्षणमिदं यत्पुर. स्तादने ब्रह्मैवाविद्यादृष्टीनां प्रत्यवमासमानं तथा पश्चाद्ब्रह्म तथा दक्षिण- तश्च तथोत्तरेण तथैवाधस्तादूर्व च सर्वतोऽन्यदिव कार्याकारेण प्रसृतं मातीति णिजन्तार्थाध्याहारेण व्याख्यातम् । तस्य भासा सर्वमिदं विभातीत्यस्य ब्रह्मणः स्वतो भारूपत्वे तात्पर्य कथयति-पत एवं तदेव ब्रह्म माति चेति ॥ १० ॥ उपसंहारमन्त्रस्य तार्यमाह-यत्तज्ज्योतिषां ज्योतिस्तेन ब्रह्मणा विविधं क्रियत १ ग, ङ. च. °मस्था।२ क. तिराते तेन।
आनन्दगिरिकृतटीकासंवलितशांकरमाव्यसमेता- [मु०३२०१] प्रगतं नामरूपवदमासमानम् । किं बहुना ब्रह्मेवेदं विश्वं समस्तमिदं जगद्वरिष्ठं धरतमम् । अब्रह्मप्रत्ययः सर्वोऽविद्यामात्रो रज्ज्वामिव सर्प- प्रत्ययः । ब्रह्मैवैक परमार्थसत्यमिति वेदानुशासनम् ॥ ११ ॥ इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्ये द्वितीयमुण्डके द्वितीयः खण्डः ॥२॥ इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्ये द्वितीयं मुण्डकं समाप्तम् ॥२॥ द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्व- जाते । तयोरन्यः पिप्पलं स्वादत्त्यनश्नन्नन्यो अभि- चाकशीति ॥१॥ परा विद्योक्ता यया तदक्षरं पुरुषाख्यं सत्यमधिगम्यते । यदधिगमे हृदयग्रन्थ्यांदिसंसारकारणस्याऽऽत्यन्तिकविनाशः स्यात् । तदर्शनो. पायश्च योगो धनुराग्रुपादानकल्पनयोक्तः । अथेदानी तत्सहकारीणि सत्यादिसाधनानि वक्तव्यानीति तदर्थमुत्तरारम्भः । प्राधान्येन तत्त्व- निर्धारणं च प्रकारान्तरेण क्रियते । अत्यन्तदुरवगाह्यत्वात्कृतमपि तत्र सूत्रभूतो मन्त्रः परमार्थवस्त्ववधारणार्थमुपन्यस्यते द्वा द्वौ सुपर्णा सुपर्णी शोमनपतनी सुपर्णी पक्षिसामान्याद्वा सुपर्णौ सयुजा सयुजी सहैव सर्वदा युक्ती सखाया सखायो समानाख्यानो समानाभि- व्यक्तिकारणावेवंमूती सन्ती समानमविशेषमुपलब्ध्यधिष्ठानतयेकं वृक्ष वृक्षमिवोच्छेदनसामान्याच्छरीरं वृक्षं परिषस्वजाते परिष्वक्तवन्तौ । इति तद्विकारं सर्व जगत्सर्व ब्रह्मैवेति बाधायां सामानाधिकरण्यं योऽयं स्थाणुः पुमानसा- वितिवदन्वयव्यतिरेकाभावपरिहारेण तावन्मात्रत्वं बोध्यते ॥ ११ ॥ इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां द्वितीयमुण्डके द्वितीयः खण्डः ॥ २ ॥ इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां द्वितीयं मुण्डकं समाप्तम् ॥ २ ॥ प्राधान्येनेति । अपूर्वत्वेन तात्पर्यविषयतयेत्यर्थः । द्वा सुपर्णेत्यादौ द्विवचनस्याऽs. कारश्चान्दसः । जीवस्याज्ञत्वेन नियम्यत्वेन योग्यत्वादीश्वरस्य सर्वज्ञत्वेन नियामकत्व. शक्तियोगाच्छोभनमुचितम् । नियम्यनियामकभावगमनं ययोस्ती शोभनपतनौ । पक्षि. सामान्याद्वेति । वृक्षाश्रयणादिश्रवणादित्यर्थः । ऊर्ध्वमुत्कृष्टं ब्रह्म मूलमधिष्ठानमस्ये- त्यूर्ध्वमूलोऽवाञ्चः प्राणादयः शाखा इवास्येत्यवाक्शाखः । श्वः स्थान नियन्तुमस्य न १ ख. ग. उ. प. झ. °न्तदुःखगा। २ ग. ह. च. श. त्रत्वे बो।
[मु०ख०१] मुण्डकोपनिषत् । हुपर्णाविवेकं वृक्षं फलोपमोगार्थम् । अयं हि वृक्ष ऊर्ध्वमूलोऽवाक्शा- खोऽश्वत्थोऽव्यक्तमूलप्रमवः क्षेत्रसंज्ञकः सर्वप्राणिकर्मफलाश्रयस्तं परि- वक्तौ सुपर्णाविवाविद्याकामकर्मवासनाश्रयलिङ्गोपाध्यात्मेश्वरौ । तयोः परिष्वक्तयोरन्य एकः क्षेत्रज्ञो लिङ्गोपाधिवृक्षमाश्रितः पिप्पले कर्म- निष्पन्नं सुखदुःखलक्षणं फलं स्वाहनेकविचित्र वेदनास्वादरूपं स्वाद्वात्ति मक्षयत्युपभुङ्गेऽविवेकतः । अनश्नन्नन्य इतर ईश्वरो नित्यशुद्धबुद्धमुक्त. स्वभावः सर्वज्ञः सर्वसत्त्वोपाधिरीश्वरो नानाति । प्रेरयिता ह्यसावुम- योर्मोज्यमोनोनित्यसाक्षित्वसत्तामात्रेण । स त्वनननन्योऽभिचाक- शीति पश्यत्येव केवलम् । दर्शनमात्रं हि तस्य प्रेरयितृत्वं राजवत्॥१॥ समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति बीतशोकः ॥ २॥ तत्रैवं सति समाने वृक्षे यथोक्ते शरीरे पुरुषो भोक्ता जीवोऽविद्या. कामकर्मफलरागादिगुरुमाराकान्तोऽलाबुरिव सामुद्रे जले निममोनिश्च- येन देहात्मभावमापन्नोऽयमेवाहममुष्य पुत्रोऽस्य नप्ता कृशः स्थूलो गुण- पानिर्गुणः सुखी दुःखीत्येवंप्रत्ययो नास्त्यन्योऽस्मादिति जायते म्रियते संयुज्यते वियुज्यते च संबन्धिषान्धवैः । अतोऽनीशया न कस्य चित्समर्थोऽहं पुत्रो मम विनष्टो मृता मे भायां किं मे जीवितेनेत्येवं निमावोऽनीशा तया शोचति संतप्यते मुह्यमानोऽनेकैरनर्थप्रकारैरवि- वेकतया चिन्तामापद्यमानः स एवं प्रेततियङ्गनुष्यादियोनिष्वाजवं जवी- मावमापन्नः कदाचिदनेकजन्मसु शुद्धधर्मसंचितनिमित्ततः केनचित्पर. मकारुणिकेन दर्शितयोगमार्गोऽहिंसासत्यबह्मचर्यसर्वत्यागशमदमादि- शक्यमित्यश्वत्थः । अव्यक्तमव्याकृतं मूलमुपादानमन्वयि तस्मात्प्रभवतीति तथोक्तो याव- दज्ञानभावीत्यर्थः । अविद्याकामकर्मवासनानामाश्रयो लिङ्गमुपाधिर्यस्याऽऽत्मनः स जीवस्त- थोक्तः स चेश्वरश्च तावित्यर्थः । सत्वं मायाख्यमुपाधिरस्येति सत्त्वोपाधिः । ज्ञानात्मक स्यामलसत्त्वराशेरिति ह्युक्तम् ॥ १॥ आवरणं विक्षेपश्च द्वयमविद्यायाः कार्यम् । तत्रेश्वरभावाप्रतिपत्तिरनीशावरणं शोच- तीति विक्षेपस्तदुभयहेतुरनिर्वाच्यमज्ञानं मोहः । तेन विशिष्टोऽनेकैरनर्थप्रकाररैहं करो. १ ग. रु. च. झ. °लं फलं क। २ क. त्र. वेकित°1३ ग. रु. चछ. स. थोक पा। ४. च. सत्त्वमा । ५ च.न. कतथाऽम | ३६ आनन्दगिरिकृतीकासंवलितशांकरमाष्यसमेता- [म०३ख०१] संपन्नः समाहितात्मा सज्जुष्टं सेवितमनेकैोगमार्गः कमिभिश्च यदा यस्मिन्काले पश्यति ध्यायमानोऽन्यं वृक्षोपाधिलक्षणाद्विलक्षणमीशम. संसारिणमशनायापिपासाशोकमोहजरामस्वतीतमीशं सर्वस्य जगतोऽ- यमहमस्म्यात्मा सर्वस्य समः सर्वभूतस्थो नेतरोऽविद्याजनितोपाधिपरि. छिन्नो मायात्मेति विमूर्ति महिमानं च जगदूपमस्यैव मम परमेश्वर- स्येति यदैवं द्रष्टा तदा वीतशोको भवति सर्वस्माच्छोकसागराद्विप्रमु- च्यते कृतकृत्यो मवतीत्यर्थः ॥ २॥ यदा पश्यः पश्यते रुक्मवणं कर्तारमीशं पुरुष ब्रह्मयोनिम् । तदा विद्वान्पुण्यपापे विधूय निरअनः परमं साम्यमुपैति ॥ ३॥ अन्योऽपि मन्त्र इममेवार्थमाह सविस्तरम् । यदा यस्मिन्काले पश्य: पश्यतीति विद्वान्साधक इत्यर्थः । पश्यते पश्यति पूर्ववद्रुक्मवर्ण स्वयं- ज्योतिःस्वमा रुक्मस्येव वा ज्योतिरस्याविनाशि कर्तारं र्सवस्य जगत ईशं पुरुषं ब्रह्मयोनि ब्रह्म च तद्योनिश्चासौ ब्रह्मयोनिस्तं ब्रह्मयोनि ब्रह्मणो वाऽपरस्य योनि स यदा चैवं पश्यति तदास विद्वान्पश्यः पुण्य- पापे बन्धनमूते कर्मणी समूले विधूय निरस्य दग्ध्वा निरञ्जनो निलेपो विगतक्केशः परमं प्रकृष्टं निरतिशयं साम्यं समतामद्वयलक्षणं द्वैतविषा याणि साम्यान्यतोऽर्वाञ्च्येवातोऽद्वयलक्षणमेतत्परमं साम्यमुपैति प्रति- पद्यते ॥३॥ प्राणो ह्येष यः सर्वभूतैर्विभाति विजानन्विद्वान्भवते नातिवादी। आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः ॥ ४॥ किंच योऽयं प्राणस्य प्राणः पर ईश्वरो ह्येष प्रकृतः सर्वभूतैर्ब्रह्मादि- स्तम्बपर्यन्तैः । इत्थंभूतलक्षणे तृतीया । सर्वभूतस्थः सर्वात्मा सन्नित्यर्थः। विमाति विविधं दीप्यते। एवं सर्वभूतस्थं यः साक्षादात्मभावेनायमहम- मीत्यादिभिरविवेकतया तादात्म्यापनतयेत्यर्थः । आजवमनवरतं जवाभावं निकृष्टभाव लक्ष. णया लघुभावं कर्म वायुप्रेरिततया जाधीभवं झेऽयमापन्नः पूर्ववदित्यभेदेनेत्यर्थः ॥ २ ॥३॥ आत्मनि रतिरात्मरतिस्तत्पुरुषः सैव क्रियाऽस्यास्तीत्यात्मरतिक्रियावानिति मतु- १ क. गिमा । २ क. ख, ग.श.अ. कर्मभि । ३ ग. ह. च, ज, झ.. मृत्युमती । ४ अ. वेकित । ५ ख. ग. छ. च. छ. झ. न. क्षेत्रमा । ४ [मु०३ ख०१]] मुण्डकोपनिषत् । ३७ स्मीति विजानन्विद्वान्वाक्यार्थज्ञानमात्रेण स मवते मवति न मवती. त्येतत्किमतिवाद्यतीत्य सर्वानन्यान्वदितुं शीलमस्येत्यतिवादी । यस्त्वेवं साक्षादात्मानं प्राणस्य प्राणं विद्वानतिवादी स न भवतीत्यर्थः । सर्व यदात्मैव नान्यदस्तीति दृष्टं तदा किं ह्यसावतीत्य घदेत् । यस्य त्वपर• मन्यदृष्टमस्ति स तदतीत्य वदति । अयं तु विद्वानात्मनोऽन्यत्र पश्यति नान्यच्छृणोति नान्यद्विजानाति । अतो नातिवदति । किंचाss- त्मक्रीड आत्मन्येव च क्रीडा क्रीडनं यस्य नान्यत्र पुत्रदारादिषु स आत्मक्रीडः । तथाऽऽत्मरतिरात्मन्येव च रती रमणं प्रीतिर्यस्य स आत्मरतिः । क्रीडा बाह्यसाधनसापेक्षा । रतिस्तु साधननिरपेक्षा बाह्य. विषयनीतिमात्रमिति विशेषः। तथा क्रियावाज्ञानध्यानवैराग्यादिक्रिया यस्य सोऽयं क्रियावान् । समासपाठ आत्मरतिरेव क्रियाऽस्य विद्यत इति बहुव्रीहिमतुबर्थयोरन्यतरोऽतिरिच्यते । केचित्त्वग्निहोत्रादिकर्म- ब्रह्मविद्ययोः समुच्चयार्थमिच्छन्ति । तच्चैष ब्रह्मविदां वरिष्ठ इत्यनेन मुख्यार्थवचनेन विरुध्यते । न हि बाह्यक्रीड आत्मरतिश्च मवितुं शक्तः। कश्चिद्वाह्यक्रियाविनिवृत्तो ह्यात्मक्रीडो भवति बाह्यक्रियात्मक्रीडयो- विरोधात् । न हि तम:प्रकाशयोर्युगपदेकत्र स्थितिः संमवति । तस्मादस- त्पलपितमेवैतदनेन ज्ञानकर्मसमुच्चयप्रतिपादनम् । अन्या वाचो विमु- " " संन्यासयोगात्" इत्यादिश्रुतिभ्यश्च । तस्मादयभेवेह क्रिया- वान्यो ज्ञानध्यानादिक्रियावान्सोऽभिन्नार्थमर्यादः संन्यासी य एवं. लक्षणो नातिवाद्यात्मक्रीड आत्मरतिः क्रियावान्ब्रह्मनिष्ठः स ब्रह्मविदां सर्वेषां वरिष्ठः प्रधानः ॥ ४ ॥ सत्येन लत्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् । अन्तःशरीरे ज्योतिर्मयो हि शुनो यं पश्यन्ति यतयः क्षीणदोषाः ॥ ५ ॥ अधुना सत्यादीनि भिक्षोः सम्यग्ज्ञानसहकारीणि साधनानि विधी- यन्ते निवृत्तिप्रधानानि । सत्येनानृतत्यागेन मृषावदनत्यागेन लभ्यः वैवैकः प्रतीयते कथमुक्तं बहुव्रीहिमतुबर्थयोरन्यतरोऽतिरिच्यत इति । सत्यमसमासपाठे द्वयो रर्थवत्त्वमासीत्समासपाठे त्वन्यतरो मतुबतिरिच्यते विशिष्यते बाह्यक्रियानिवृत्तिलाभादि- त्यर्थः । एकदेशिव्याख्यामुद्भाव्य निराचष्टे-केचित्वित्यादिना । अनेन वचनेन ज्ञानकर्मसमुच्चयप्रतिपादनं क्रियत इत्येतदसत्प्रलपितमेवेति योजना ॥ ४ ॥ सम्यग्ज्ञानसहकारीणीति । अत्र सम्यग्ज्ञानशब्देन वस्तुविषयावगतिफलावसान दानाति । स्वथ १क, ख.
३८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [मु०३०१ प्राप्तव्यः । किंच तपसा हीन्द्रियमनएकाग्रतया " मनसश्चेन्द्रियाणां च कम्यं परमं तपः इति स्मरणात् । तद्धयनुकूलमात्मदर्शनामिमुखी. मावात्परमं साधनं तपो नेतरचान्द्रायणादि । एष आत्मा लभ्य इत्यनु- पङ्गः सर्वत्र । सम्यग्ज्ञानेन यथाभूतात्मदर्शनेन ब्रह्मचर्येण मैथुनासमा- चारेण । नित्यं सर्वदा नित्यं सत्येन नित्यं तपसा नित्यं सम्यग्ज्ञानेनेति सर्वत्र नित्यशब्दोऽन्तर्दीपिकान्यायेनानुषक्तव्यः । वक्ष्यति च-" न येषु जिह्ममनृतं न माया च " इति । कोऽसावात्मा य एतैः साधनैर्लभ्ये इत्युच्यते । अन्तःशरीरेऽन्तर्मध्ये शरीरस्य पुण्डरीकाकाशे ज्योतिर्मयो हि रुक्मवर्णः शुभ्रः शुद्धो यमात्मानं पश्यन्त्युपल मन्ते यतयो यतनशीला: संन्यासिनः क्षीणदोषाः क्षीणक्रोधादिचित्तमलाः स आत्मा नित्यं सत्यादिसाधनैः संन्यासिभिलभ्यत इत्यर्थः । न कादाचित्कैः सत्यादि मिर्लभ्यते । सत्यादिसाधनस्तुत्यर्थोऽयमर्थवादः॥५॥ सत्यमेव जयंति नानृतं सत्येन पन्था विततो देवयानः । येनाऽऽक्रमन्त्य॒षयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम् ॥ ६ ॥ सत्यमेव सत्यवानेव जयति नानृतं नानृतवादीत्यर्थः । न हि सत्यान. तयोः केवलयोः पुरुषानाभितयोर्जयः पराजयो वा संभवति । प्रसिद्ध लोके सत्यवादिनाऽनृतवाद्यभिभूयते न विपर्ययोऽतः सिद्धं सत्यस्य बल- वत्साधनत्वम् । किंच शास्त्रतोऽप्यवगम्यते सत्यस्य साधनातिशयत्वम् । कथम् । सत्येन यथाभूतवादव्यवस्थया पन्था देवयानाख्यो विततो विस्तीर्णः सातत्येन प्रवृत्तः । येन पथा ह्याक्रमन्ति क्रमन्त ऋषयो दर्श- नवन्तः कुहकमायाशाठ्याहंकारदम्मानृतवर्जिता ह्याप्तकामा विगततृष्णाः सर्वतो यत्र यस्मिंस्तत्परमार्थतत्त्वं सत्यस्योत्तमसाधनस्य संबन्धि साध्यं वाक्याज्ञानमुच्यते । भवगतिफलस्य स्वकार्येऽविद्यानिवृत्तौ सहकार्यपेक्षासंभवात् । अतोऽ. परिपकज्ञानस्य सत्यादीनां च परिपक्वविद्यालाभाय समुच्चय इष्यत एव । नैतावता भास्करा- भिमतसिद्धिः । परिपक्वविद्यायाः सहकार्यपेक्षायां मानाभावात् । ततः कर्मासंश्लेषश्रवणादे- वादीनां कर्मविहीनानां मुक्तिश्रवणाचेति ॥ ५ ॥ कुहकं परवञ्चनम् । अन्तरन्यथा गृहीत्वा बहिरन्यथा प्रकाशनं माया । शाव्यं विभ. वानुसारेणाप्रदानम् । अहंकारो मिथ्याभिमानः । दम्भो धर्मध्वजित्वम् । अनृतमयथा- १ क. ख. च. °भ्यत इ°।२ क. जयते। ३ क. जयते । ४ । ग. ह..मन्त्याक।
[मु०३ख०१] मुण्डकोपनिषत् । परमं प्रकृष्टं निधानं पुरुषार्थरूपेण निधीयत इति निधानं वर्तते । तत्र च येन पथाऽऽक्रान्ति स सत्येन वितत इति पूर्वेण संबन्धः ॥ ६ ॥ बृहच तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्म- तरं विभाति । दुरात्सुदूरे तदिहान्तिके च पश्य- स्विहैव निहितं गुहायाम् ॥ ७॥ किं तत्किंधर्मकं च तदित्युच्यते--बृहन्महञ्च तत्प्रकृतं ब्रह्म सत्या- दिसाधनं सर्वतोव्याप्तत्वात् । दिव्यं स्वयंप्रममनिन्द्रियगोचरमत एवं न चिन्तयितुं शक्यतेऽस्य रूपमित्यचिन्त्यरूपम् । सूक्ष्मादाकाशादेरपि तत्सूक्ष्मतरं निरतिशयं हि सौक्षयमस्य सर्वकारणत्वाद्विमाति विविध. मादित्यचन्द्राद्याकारेण भाति दीप्यते । किंच दूराद्विप्रकृष्टदेशात्सुदूरे विप्रकृष्टतरे देशे वर्ततेऽविदुषामत्यन्तागम्यत्वात्तब्रह्म । इह देहेऽन्तिके समीपे च विदुषामात्मत्वात् । सर्वान्तरत्वाचाऽऽकाशस्याप्यन्तरश्रुतेः । इह पश्यत्सु चेतनावस्वित्येतन्निहितं स्थितं दर्शनादिक्रियावत्त्वेन योगिभिलक्ष्यमाणम् । व गुहायां बुद्धिलक्षणायाम् । तत्र हि निगूढ़ लक्ष्यते विद्वद्भिः तथाऽप्यविद्यया संवृतं सन्न लक्ष्यते तत्रस्थमेवा- विद्वद्भिः॥ ७ ॥ न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥ ८॥ पुनरप्यसाधारणं तदुपलब्धिसाधनमुच्यते । यस्मान्न चक्षुषा गृह्यते केनचिदप्यरूपत्वान्नापि गृह्यते वाचाऽनमिधेयत्वान्न चान्यदेवरितरे- न्द्रियैः । तपसः सर्वप्राप्तिसाधनत्वेऽपि न तपसा गृह्यते । तथा वैदिकेना- ग्निहोत्रादिकर्मणा प्रसिद्धमहत्त्वेनापि न गृह्यते । किं पुनस्तस्य ग्रहणे साधनमित्याह-ज्ञानप्रसादेनाऽऽत्मावबोधनसमर्थमपि स्वभावेन सर्व- प्राणिनां ज्ञानं बाह्यविषयरागादिदोषकलुषितमप्रसन्नमशुद्धं सन्नावबो- धयति नित्यं संनिहितमप्यात्मतत्त्वं मलावनद्धमिवाऽऽदर्शम् । विलुलि. दृष्टभाषणम् । एतैर्दोषैर्जिता इत्यर्थः ॥ ६ ॥ सत्यस्य निधानं यदुक्तं तत्पुनर्विशेष्यत इत्याह-किं तत्किंधर्मकं च तदिति॥७॥ ज्ञानप्रसादेनेति । अत्र ज्ञायतेऽर्थोऽनेनेति व्युत्पत्त्या बुद्धिरुच्यते । ध्यायमानो ज्ञानप्रसादं लभते । ज्ञानप्रसादेनाऽऽत्मानं पश्यतीति क्रमो द्रष्टव्यः । संशयादिमलरहितस्य प्रमाणज्ञानस्यैव तत्वसाक्षात्कारहेतुत्वाध्द्यानक्रियायाः प्रमितिसाधनत्वाप्रसिद्धरित्यर्थः ॥८॥ १ख. . च. म. तनवस्त्वित्ये।
आनन्दगिरिकृतटीकासंवलितशांकरमाध्यसमेता- [मु०३ख०१] तमिव सलिलम् । तद्यदेन्द्रियविषयसंसर्गजनितरागादिमलकालुष्यापन थनादादर्शसलिलादिवत्मसादितं स्वच्छं शान्तमवतिष्ठते तदा ज्ञानस्य प्रसादः स्यात् । तेन ज्ञानप्रसादेन विशुद्धसत्त्वो विशुद्धान्तःकरणो योग्यो ब्रह्म द्रष्टुं यस्मात्ततस्तस्मात्तु तमात्मानं पश्यते पश्यत्युपलभते निष्कलं सर्वावयवमेदवजितं ध्यायमानः सत्यादिसाधनवानुपसंहृतकरण एकाग्रेण मनसा ध्यायमानश्चिन्तयन् ॥ ८॥ एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश। प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्विशुद्धे विभवत्येष आत्मा ॥ ९ ॥ यमात्मानमेवं पश्यत्येषोऽणुः सूक्ष्मश्चेतसा विशुद्धज्ञानेन केवलेन वेदितव्यः । क्वासौ । यस्मिशरीरे प्राणो वायुः पञ्चधा प्राणापानादि- भेदेन संविवेश सम्यक्प्रविष्टस्तस्मिन्नव शरीरे हृदये चेतसा ज्ञेय इत्यर्थः। कीहशेन चेतसा वेदितव्य इत्याह-प्राणः सहेन्द्रियश्चित्तं सर्वमन्त:- करणं प्रजानामोतं व्याप्तं येन क्षीरमिव स्नेहेन काष्ठमिवामिना । सर्व हि प्रजानामन्तःकरणं चेतनावत्प्रसिद्धं लोके । यस्मिंश्च चित्ते केशादिमल- वियुक्ते शुद्धे विभवत्येष उक्त आत्मा विशेपेण स्वेनाऽऽत्मना विगवत्या- स्मानं प्रकाशयतीत्यर्थः ॥९॥ यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं पर्चयेद्भूतिकामः ॥ १० ॥ इत्यथर्ववेदीयमुण्डकोपनिषदि तृतीयमुण्डके प्रथमः खण्डः ॥ १ ॥ बौद्धादेश्चित्तादौ चेतनत्वभ्रमदर्शनाञ्चित्तं स्वस्मिन्संसर्गिणि च चैतन्याभिव्यञ्जकत्वे स्वभा. वस एव योग्यम् । ततश्चित्ते परमात्मनोऽभिव्यक्तिसंभवाचेतसा ज्ञेयत्वमुच्यत इति संभाव- नार्थमाह-प्राणैः सहेन्द्रियश्चित्तमिति । ओतं चैतन्येन सर्वस्य तर्हि चित्ते किमिति ब्रह्म स्वत एवापरोक्षं न भवतीत्यत आह-यस्मिंश्च चित्त इति ॥९॥ १. तं तस्मि। २ क. ख. छ. स्मिन्स्वसंस।
[मु. ३ ख० २] मुण्डकोपनिषत् । यएवमुक्तलक्षणं सर्वात्मानमात्मत्वेन प्रतिपन्नस्तस्य सर्वात्मत्वादेव सर्वाधाप्तिलक्षणं फलमाह । यं यं लोकं पित्रादिलक्षणं मनसा संवि- माति संकल्पयति मामन्यस्मै वा भवेदिति विशुद्धसत्त्वः क्षीणक्लेश आत्मविनिर्मलाम्तःकरणः कामयते यांच कामान्प्रार्थयते मोगांस्तं तं लोक जयते प्राप्नोति तांश्च कामान्संकल्पितान्मोगान् । तस्माद्विदुषः सत्यसंकल्पवादात्मज्ञमात्मज्ञानेन विशुद्धान्तःकरणं ह्यर्चयेत्पूजयेत्पादप- क्षालनशुश्रूषानमस्कारादिभिर्भूतिकामो विभूतिमिच्छुः । ततः पूजा एवासौ ॥१०॥ इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्ये तृतीयमुण्डके प्रथमः खण्डः ॥१॥ स वेदैतत्परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभम् । उपासते पुरुषं ये ह्यका- मास्ते शुक्रमेतदतिवर्तन्ति धीराः ॥ १ ॥ यस्मात्स घेद जनातीत्येतद्यथोक्तलक्षणं ब्रह्म परममुत्कृष्टं धाम सर्वकामानामाश्रयमास्पदं यत्र यस्मिन्ब्रह्मणि धानि विश्वं समस्तं जगन्निहितमर्पितं यच्च स्वेन ज्योतिषा माति शुभ्रं शुद्धम् । तमप्येवमा- त्मज्ञं पुरुषं ये ह्यकामा विभूतितृष्णावर्जिता मुमुक्षवः सन्त उपासते परमिव सेवन्ते ते शुक्र नृबीजं यदेतत्प्रसिद्धं शरीरोपादानकारणमतिवर्त- न्त्यतिगच्छन्ति धीरा धीमन्तो न पुनोनिं प्रसर्पन्ति "न पुनः क्वचिद्रति करोति" इतिश्रुतेः । अतस्तं पूजयेदित्यभिप्रायः ॥१॥ कामान्यः कामयते मन्यमानः स कामभिर्जा- तत्र । पर्याप्तकामस्य कृतात्मन- स्त्विहैव सर्वे प्रविलीयन्ति कामाः ॥ २ ॥ मुमुक्षोः कामत्याग एव प्रधानं साधनमित्येतदर्शयति । कामान्यो हटाटेष्टविषयाकामयते मन्यमानस्तद्गुणांश्चिन्तयानः प्रार्थयते स तैः कामभिः कामैर्धर्माधर्मप्रवृत्तिहेतुभिर्विषयेच्छारूपैः सह जायते तत्र तत्र । यत्र यत्र विषयप्राप्तिनिमित्तं कामाः कर्मसु पुरुषं नियोजयन्ति तत्र तत्र सगुणविद्याफलेमपि निर्गुणविद्यास्तुतये प्ररोचनार्थमुच्यते-यं यमिति ॥१०॥ इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां तृतीयमुण्डके प्रथमः खण्डः ॥ १॥ ॥१॥ १ ग. ड. च. झ. °मिच्छतः । त° । त्र. ज. °मिच्छंस्ततः । २ क. 'नरतु इहैं । ३ ग. ड. च. स. 'दृष्टवि। ४ ख. ज. न्तयमानः। ५ ग. ह. च. झ. . लमिति नि । यते तत्र ६ ४२ शानन्दगिरिकृतटीकासंवलितशाकरमाव्यसमेता- [मु०३२०२] . तेषु तेषु विषयेषु तैरिव कामर्वेष्टितो जायते । यस्तु परमार्थतत्त्वविज्ञाना- पर्याप्तकाम आत्मकामत्वेन परि समन्तत आप्ताः कामा यस्य तस्य पर्याप्तकामस्य कृतात्मनोऽविद्यालक्षणादपररूपाइपनीय स्वेन घरेण रूपेण कृत आत्मा विद्यया यस्य तस्य कृतात्मनास्त्विहैव तिष्ठत्येव शरीरे सर्वे धर्माधर्मप्रवृत्तिहेतवः प्रविलीयन्ति विलयमुपयान्ति नश्यन्तीत्यर्थः । कामालजन्महेतुविनाशान्न जायन्त इत्यभिप्रायः ॥२॥ नायमात्मा प्रवचनेन लायो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लक्ष्यस्व- स्यैष आत्मा विवृणुते तनुं स्वाम् ॥ ३ ॥ यद्येवं सर्वलाभात्परम आत्मलामस्तल्लामाय प्रवचनादय उपायावाहु. ल्येन कर्तव्या इति प्राम इदमुच्यते । योऽयमात्मा व्याख्यातो यस्य लामः परः पुरुषार्थो नासौ वेदशास्त्राध्ययनबाहुल्येन प्रवचनेन लभ्यः । तथा म मेधया ग्रन्थार्थधारणशक्त्या । न बहुना श्रुतेन नापि भूयसा श्रवणेने- त्यर्थः । केन तहि लभ्य इत्युच्यत्ते । यमेव परमात्मानमेवैष विद्वान्वृ. णुते प्रातुमिच्छति तेन वरणेनैष परमात्मा लभ्यो नान्येन साधनान्त- रेण । नित्यलब्धस्वभावत्त्वात् । कीदृशोऽसौ विदुष आत्मलाम इत्युच्यते। वस्यैष आत्माऽविद्यासंछन्नां स्वां परां तनुं स्वात्मतत्त्वं स्वरूपं विवृणुते ३ परमार्थतत्त्वविज्ञानादिति । विषयेषु यथास्थितदोषदर्शनात्पर्याप्तकामः क्षीणरागो विरुद्धलक्षणयाऽऽत्मकामस्याऽऽत्मबुभुत्सयैव वशीकृतचित्तस्य विषयेभ्यः कामा निवृत्ता एव भवन्तीत्यर्थः सामर्थ्यादवगम्यते । स्वहेतुविनाशात्पुनः कामा न जायन्त इति जातानां ज्ञानं विनाऽपि क्षयसंभवादित्यर्थः ॥ २ ॥ न बहुना श्रुतेनेति । उपनिषद्विचारव्यतिरिक्तेनेत्यर्थः । तेन बरणेनेति कथं व्याख्यातं यत्तदोभिन्नार्थत्वं साधनंविवक्षायाः प्रस्तुतत्वादित्यर्थ ब्रूमः । परमात्माऽस्मी- त्यभेदानुसंधानं वरणम् । तेन वरणेनैष आ-मा लभ्यो भवति । बहिर्मुखेन (ण) तु शतशोऽपि श्रवणादौ क्रियमाणे न लभ्यते । अतः परमात्माऽस्मीत्यभेदानुसंधानं परमात्मभजनं 'पुरस्कृत्यैव श्रवणादि संपादनीयमिति भावः । अथवाऽयमेव परमात्मानं वृणुते तेन पर- मात्मना मुमुक्षुरूपव्यवस्थितेन श्रवणेनाभेदानुसंधानलक्षणेन प्रार्थनेन कृत्वा लभ्यः पर- क. ख. क. "त्मा वृ । २ क. ख. तनूं । ३ ग. ह. प. स. संछिनां । ४ क. ख. तनूं ।
मु. ३ ख. २] मुण्डकोपनिषत् । प्रकाशयति प्रकाश इव घटादिविद्यायां सत्यामाविर्भवतीत्यर्थः। तस्मा- दन्यत्यागेनाऽऽत्मलाभप्रार्थनेवाऽऽत्मलामसाधनमित्यर्थः ॥३॥ नायमात्मा बलहीनेन लायो न च प्रमादात्त- पसो वाऽप्यलिङ्गात् । एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम. ॥ ४ ॥ आत्मप्रार्थनासहायभूतान्येतानि च साधनानि बलाप्रमादतपांसि लिङ्गयुक्तानि संन्याससहितानि । यस्मादयमात्मा बलहीनेन बलपहीणे- नाऽऽत्मनिष्ठाजनितवीर्यहीनेन न लभ्यो नापि लौकिकपुत्रपश्वादिविष. यसङ्गनिमित्तप्रमादात् । तथा तपसो वाऽप्यलिङ्गालिङ्गरहितात् । तपोऽत्र. ज्ञानम् । लिङ्गं संन्यासः संन्यासरहिताज्ज्ञानान्न लभ्यत इत्यर्थः । एतैरु: पायैर्बलाप्रमादसंन्यासज्ञानैर्यतते तत्परः सन्प्रयतते यस्तु विद्वान्धिवेक्या. स्मवित्तस्य विदुष एष आत्मा विशते संप्रविशति ब्रह्मधाम ।। ४. ॥. संप्राप्यनमृषयो ज्ञानतृप्ताः कृतात्मानो वीत- रागाः प्रशान्ताः। ते सर्वगं सर्वतः प्राप्य, धीरा युक्तात्मानः सर्वमेवाऽऽविशन्ति ॥५॥ कथं ब्रह्म संविशत इत्युच्यते । संप्राप्य समवगम्यनमात्मानमृषयो दर्शनवन्तस्तेनैव ज्ञानेन तृप्ता न बाह्येन तृप्तिसाधनेन शरीरोपचयकार- णेन । कृतात्मानः परमात्मस्वरूपेणव निष्पन्नात्मानः सन्तः । वीतरागा. विगतरागादिदोषाः । प्रशान्ता उपरतेन्द्रियः । त एवंभूताः सर्वगं सर्व- व्यापिनमाकाशवत्सर्वतः सर्वत्र प्राप्य नोपाधिपरिच्छिन्नेनैकदेशेन । किं तर्हि तद्ब्रह्मैवाद्वयमात्मत्वेन प्रतिपद्य धीरा अत्यन्तविवेकिनो युक्तात्मानो नित्यसमाहितस्वमायाः सर्वमेव समस्तं शरीरपातकालेऽप्याविशन्ति मिन्ने घटे घटाकाशवदविद्याकृतोपाधिपरिच्छेदं जहति । एवं ब्रह्म विदो ब्रह्मधाम प्रविशन्ति ॥५॥ मात्मैव मुमक्षरूपव्यवस्थित इत्यभेदानुसंधानेनैव लभ्यो न कर्मणेत्यर्थः ॥ ३ ॥ वीर्यमिति [मत्र] मिथ्याज्ञानानभिभाव्यतालक्षणोऽतिशयः । अलिङ्गादिति । कथम् ।। इन्द्रजनकगार्गिप्रभृतीनामप्यात्मलाभश्रवणात् । सत्यम् । संन्यासो नाम सर्वत्यागात्मकरते. षामपि स्वत्वाभिमानाभावादस्त्येवाऽऽन्तरः संन्यासो बाह्यं तु लिङ्गमविवक्षितम् . न लिङ्ग धर्मकारणम्" इति स्मरणात् ॥ ४ ॥ ५ ॥ .
आनन्दगिरिकृतटीकासंवलितशांकरमाष्यसमेता- [मु०३ख०२
वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगा-
पतयः शुद्धसत्त्वाः ते ब्रह्मलोकेषु परान्त-
काले परामृताः परिमुच्यन्ति सर्वे ॥ ६ ॥
किंच वेदान्तजनितविज्ञानं वेदान्तविज्ञानं तस्यार्थः परमात्मा विज्ञेयः
सोऽर्थः सुनिश्चितो येषां ते वेदान्तविज्ञानसुनिश्चितार्थाः । ते च संन्या-
सयोगात्सर्वकर्मपरित्यागलक्षणयोगात्केवल ब्रह्मनिष्ठास्वरूपाद्योगाद्यतयो
यतनशीलाः शुद्धसत्वाः शुद्धं सत्वं येषां संन्यासयोगाते शुद्धसत्त्वाः ।
ते ब्रह्मलोकेषु । संसारिणां ये मरणकालास्ते परान्तास्तानपेक्ष्य मुमु.
क्षणां संसारावसाने देहपरित्यागकालः परान्तकालस्तस्मिन्परान्तकाले
साधकानां बहुत्वाद्ब्रह्मैव लोको ब्रह्मलोक एकोऽप्यनेकवदृश्यते प्राप्यते
चा । अतो बहुवचनं ब्रह्मलोकेष्विति ब्रह्मणीत्यर्थः । परामृताः परममू-
तममरणधर्मके ब्रह्माऽऽत्मभूतं येषां ते परामृता जीवन्त एव ब्रह्मभूताः
परामृताः सन्तः परिमुच्यन्ति परि समन्तात्प्रदीपनिर्वाणवद्घटाकाशवञ्च
निवृत्तिमुपयान्ति । परिमुच्यन्ति परि समन्तान्मुच्यन्ते सर्वे न देशान्तरं
गन्तव्यमपेक्षन्ते।
शकुनीनामिवाऽऽकाशे जले वारिचरस्य च ।
पदं यथा न दृश्येत तथा ज्ञानवतां गतिः"
अनध्वगा अध्वसु पारयिष्णवः” इति श्रुतिस्मृतिभ्यो देशपरि-
च्छिन्ना हि गतिः संसारविषयैव । परिच्छिन्नसाधनसाध्यत्वात् । बह्म
तु समस्तत्वान्न देशपरिच्छेदेन गन्तव्यम् । यदि हि देशपरिच्छिन्नं ब्रह्म
स्यान्मूर्तद्रव्यवदाद्यन्तवदन्याश्रितं सावयवमनित्यं कृतकं च स्यात् । न
वेषंविधं ब्रह्म मवितुमर्हति । अतस्तत्प्राप्तिश्च नैव देशपरिच्छिन्ना
भवितुं युक्ता । अपि चाविद्यादिसंसारबन्धापनयनमेव मोक्षमिच्छन्ति
ब्रह्मविदो न तु कार्यभूतम् ॥ ६ ॥
गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे
पति देवतासु । कर्माणि विज्ञानमयश्च
आत्मा परेऽव्यये सर्व एकी भवन्ति ॥७॥
नैष्कर्म्यसाहित्यं तु विवक्षितं प्रदीपस्य वर्तिकृतावच्छेदध्वंसे यथा तेजःसामान्यतापत्ति-
स्तद्वदित्याह –प्रदीपनिर्वाणवदिति । पदं पादन्यासप्रतिबिम्ब न दृश्येताभावादेवे-
त्यर्थः । अध्वस्विति । संसाराध्वनां पारयिष्णवः पारयितुं समापयितुमिच्छन्तीति समा.
प्तिकामा अनध्वगा भवन्तीत्यर्थः । तर्कतोऽपाहैव मोक्षो वक्तव्य इत्याह-देशपरिच्छि-
नाहीत्यादिना ॥ ६॥
[मु०३ ख०२] मुण्डकोपनिषत् । ४५ किंच मोक्षकाले या देहारम्मिकाः कलाः माणाद्यास्ताः स्वां स्वां प्रतिष्ठां गताः खं स्वं कारणं गता भवन्तीत्यर्थः। प्रतिष्ठा इति द्विती- याबहुवचनम् । पश्चदश पञ्चदशसंख्याका या अन्त्य प्रश्नपरिपठिताः प्रसिद्धा देवाश्च देहाश्रयाश्चक्षुरादिकरणस्थाः सर्वे प्रति देवतास्वादि- त्यादिषु गता मवन्तीत्यर्थः । यानि च मुमुक्षुणा कृतानि कर्माण्यप्रवृत्त- फलानि प्रवृत्तफलानामुपभोगेनैव क्षीयमाणत्वाद्विज्ञानमयश्चाऽऽत्माऽ. विद्याकृतबुद्धयाद्युपाधिमात्मत्वेन मत्वा जलादिषु सूर्षादिप्रतिबिम्बव. दिह प्रविष्टो देहभेदेषु कर्मणां तत्फलार्थत्वात्सह तेनैव विज्ञानमयेनाss- स्मना । अतो विज्ञानमयो विज्ञानप्रायः। त एते कर्माणि विज्ञानमय- श्वाऽऽत्मोपाध्यपनये सति परेऽव्ययेऽनन्तेऽक्षये ब्रह्मण्याकाशकल्पेऽजेऽज- रेऽमृतेऽमयेऽपूर्वेऽनपरेऽनन्तरेऽबाह्येऽद्वये शिवे शान्ते सर्व एकी भवन्त्यवि. शेषतां गच्छन्त्येकत्वमापद्यन्ते जलाद्याधारापनय इब सूर्यादिप्रतिबिम्बाः सूर्ये घटाद्यपनय इषाऽऽकाशे घटाद्याकाशाः ॥ ७ ॥ यथा नयः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपा द्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥८॥ किंच यथा नधो गङ्गाद्याः स्यन्दमाना गच्छन्त्यः समुद्रे समुद्रं प्राप्या. स्तमदर्शनमविशेषात्मभावं गच्छन्ति प्राप्नुवन्ति नाम च रूपं च नाम- रूपे विहाय हित्वा तथाऽविद्याकृतनामरूपाद्विमुक्तः सन्विद्वान्परादक्षरा- पूर्वोक्तात्परं दिव्यं पुरुषं यथोक्तलक्षणमुपैत्युपगच्छति ॥ ८॥ स्वाः प्रतिष्ठाः प्रति गता भवन्तीति भूतांशानां भौतिकानां च महाभूतेषु लयो दर्शितः । अन्त्यप्रश्नेति । ब्राह्मणग्रन्थे षष्ठमश्ने प्राणाद्या याः कलाः पठिता इत्यर्थः । मायामयमहा- भूतानामंशावष्टब्धेर्जीवाविद्यामयभूतसूक्ष्मैः प्रातिस्विकैरदृष्टसहकृतैः प्रातिस्विकाः प्राणादय आरभ्यन्ते । ते च कर्माक्षितैर्देवैः सूर्यादिभिरधिष्ठीयन्ते । कर्मणो भोगेनावसाने ते देवाः स्वस्थानं गच्छन्ति । यच्च प्रातिस्विकं स्वाविद्याकार्य तच्च सर्व ब्रह्मैव संपद्यत इत्याह- यानि चेत्यादिना ॥ ७॥ ॥ ८॥ १ ख. ग. ङ. च. ज. अ. अ. न गत्वा । .
४६ आनन्दगिरिकृतीकासंवलितशांकरमाष्यसमेता- (मु०३०२] स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति । तरति शोकं तरति पाप्मानं गुहाग्रन्थिायो विमुक्तोऽमृतो भवति ॥९॥ ननु श्रेयस्यनेके विघ्नाः प्रसिद्धा अतः केशानामन्यतमेनान्येन वा देवादिना च विनितो ब्रह्मविदप्यन्यां गतिं मृतो गच्छति न ब्रह्मैव । न । विद्ययैव सर्वप्रतिबन्धस्यापनीतत्वात् । अविद्याप्रतिबन्धमात्रो हि मोक्षो नान्यः प्रतिबन्धः । नित्यत्वादात्मभूतत्वाव । तस्मात्स या कश्चिद्ध वै लोके तत्परमं ब्रह्म वेद साक्षादहमेवास्मीति स नान्यां गति गच्छति । देवैरपि तस्य ब्रह्मप्राप्तिं प्रति विघ्नो न शक्यते कर्तुम् । आत्मा ह्येषां स भवति । तस्माद्ब्रह्म विद्वान्ब्रह्मैव भवति । किंच नास्य बिदु- षोऽब्रह्मवित्कुले मवति । किंच तरति शोकमनेकेष्टबैकल्यानिमित्तं. मानसं संतापं जीवन्नेवातिकान्तो भवति । तरति पाप्मानं धर्माधर्माख्यं गुहा- ग्रन्थियो हृदयाविद्याग्रन्थिम्यो विमुक्तः सन्नमृतो भवतीत्युक्तमेव भिद्यते हृदयग्रन्थिरित्यादि ॥९॥ तदेतदृचायुक्तम्-क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकषि श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोवतं विधिवस्तु चीर्णम् ॥ १० ॥ अथेदानी ब्रह्मविद्यासंप्रदानविध्युपप्रदर्शनेनोपसंहारः क्रियते । तदेतो विद्यासंपदानविधानमृचा मन्त्रेणाभ्युक्तमभिप्रकाशितम् । क्रियावन्तो- यथोक्तकर्मानुष्ठानयुक्ताः। श्रोत्रिया ब्रह्मनिष्ठा अपरस्मिन्ब्रह्मण्यभियुक्ताः परब्रह्म बुभुत्सवः स्वयमेकर्षि मेकर्षिनामानमनिं जुह्वते जुह्वति श्रद्धयन्तः ॥ ९॥ एतद्ग्रन्थद्वारकविद्याप्रदानेऽयं विधिराथर्वणिकानामिति प्रकृतपरामर्शकादेतच्छब्दादयग- म्यते। ग्रन्थद्वारेण विद्यायाः प्रकृतत्वसंभवान्न सर्वत्र ब्रह्मविद्यासंप्रदानमिति सूचयन्नाह- १ ग..च.म. ऋषि श्र।
[मु. ३.२] मुण्डकोपनिषत् । मद्दधानाः सन्तो ये तेषामेव संस्कृतारमनां पात्रमूतानामेतां ब्रह्मविद्या पदेत ब्रूयाच्छिरोवतं शिरस्यनिधारणलक्षणम् । यथाऽथर्वणानां व्रतं प्रसिद्धम् । यैस्तु येम तचीण विधिवद्यथाविधानं तेषामेव च ॥ १० ॥ तदेत्सत्यमपिरङ्गिराः पुरोवाच नैत- दचीर्णवतोऽधीते । नमः परमक- पियो नमः परमऋषियः॥३१॥ इति तृतीयमुण्डके द्वितीयः खण्डः ॥ २ ॥ ॐ भद्रं कर्णेभिरिति शान्तिः । इत्यथर्ववेदीया मुण्डकोपनिषत्समाप्ता ॥ तदेतदक्षरं पुरुष सत्यमृषिरङ्गिरा नाम पुरा पूर्व शौनकाय विधिव- दुपसन्नाय पृष्टवत उवाच । तद्वदन्योऽपि तथैव श्रेयोथिने मुमुक्षवे मोक्षार्थ विधिवदुपसन्नाय ब्रूयादित्यर्थः । नैतद्वन्थरूपमचीर्णवतोऽच. रितवतोऽप्यधीते न पठति। चीर्णव्रतस्य हि विद्या फलाय संस्कृता भवतीति । समाप्ता ब्रह्माविद्या सा येभ्यो ब्रह्मादिभ्यः पारम्पर्यक्रमेण संपाता तेभ्यो नमः परमऋषिभ्यः । परमं ब्रह्म साक्षादृष्टषन्तो ये ब्रह्मा. दयोऽवगतवन्तश्च ते परमर्षयस्तभ्यो भूयोऽपि नमः । द्विर्धचनमत्याद. रार्थ मुण्डकसमाप्त्यर्थ च ॥११॥ इति तृतीयमुण्डकोपनिषद्भाष्ये द्वितीयः खण्डः ॥२॥ इति श्रीमद्गोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचा- यस्य श्रीमच्छंकरभगवतः कृतावाथर्वणमुण्डको- पनिषद्भाष्यं समाप्तम् ॥ एतां ब्रह्मविद्यां वदेतेति ॥ १०॥॥११॥ इति तृतीयमुण्डके द्वितीयः खण्डः ॥ २ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदानन्दज्ञानविरचितं मुण्डकोपनि. पद्भाष्यव्याख्यानं समाप्तम् ॥ १. मत्यन्ताइ ।
No text on this page.
अथ नारायणविरचिता मुण्डकोपनिषद्दीपिका । नारायणपदद्वंद्व नारायणपरायणः ।। नरं नारायणं नत्वा नरो नारायणाह्वयः॥१॥ आथर्वणरहस्थेषु नानाशाखान्वितेपु च ।। तनुते तनुवाक्येन निगूढार्थप्रदीपिकाम् ॥ २॥ युग्मम् । चीणे शिरोवतेऽध्येयं तेन मुण्डकमुच्यते ।। खण्डषदं त्रिमुण्डं च शौनकीयं श्रुतेः शिरः ॥ ३॥ तत्रोपनिषदां तावदनुबन्धचतुष्टयम् ।। प्रेक्षावतां प्रवृत्त्यर्थं गतिं दध्मो गुरूक्तितः ॥ ४ ॥ अत्र क्षुद्रोपनिषत्स्वष्टाविंशतिरथर्वशाखीयानि । तदुक्तमथर्वपरिशिष्टे- "अटाविंशत्युपनिषदानि ब्रह्मवेदस्य । १ मुण्डाः । २ प्रश्नाः । ३ ब्रह्म- विद्या । ४ क्षुरिका । ५ चूलिका । ६ अथर्वशिरः । ७ अथर्वशिखा । ८ गर्मोपनिषत् । ९ महोपनिषत् । १० ब्रह्मोपनिषत् । ११ प्राणानि. होत्रम् । १२ नादबिन्दुः । १३ ब्रह्मबिन्दुः । १४ अमृतबिन्दुः । १५ ध्यानबिन्दुः । १६ तेजबिन्दुः । १७ योगशिखा । १८ योगतत्त्वम् । १९ नीलरुद्रः । २० कालाग्निरुद्धः। २१ तापिनी। २२ एकदण्डी। २३ संन्यासविधिः । २४ आरुणिः । २५ हंसः । २६ परमहंसः । २७ नारा. यणोपनिषदम् । २८ वैतथ्यं च" इति। उपनिषज्ज्ञानताइदिन्थोऽप्यु- पनिषदुच्यते । तस्य विषयो ब्रह्म प्रयोजनं मुक्तिः प्रयोजनेन विद्यायाः प्रकाश्यप्रकाशकलक्षणः संबन्धः । साधनचतुष्टयसंपन्नोऽधिकारी। साध. नानि यथा--इहामुत्रार्थफलभोगविरागो नित्यानित्यवस्तुविवेकः शम- दमादिसंपन्मुमुक्षुत्वं चेति । विद्यायाः सांप्रदायिकतावेदनापाऽऽख्यायि- कारूपमितिहासमाह-ब्रह्मा देवानामिति । ब्रह्मा विरश्चिः । ब्रह्मा विरश्चिद्विजयोऋत्विक्चन्द्रार्कयोगयोः । ब्रह्म प्रोक्तं तपोऽध्यात्मवेदजातिषु सूरिभिः" इति विश्वः देवा इन्द्रादयोऽध्यात्मम् । ब्रह्माऽऽत्मा । देवा वागादयः । प्रतिष्ठाss- श्रयः । सर्वविद्याभिव्यक्तिहेतुत्वात् । अथर्वशब्दोऽकारान्तो नान्तश्च । प्राह कथितवान् । छन्दसि कालानियमः ॥ १॥ प्रवदेत प्रावदत् । अगिरेऽङ्गिनाम्ने । सोऽङ्गिरा भारद्वाजाय भारद्वाज. गोत्राय सत्यवहनाने परा निर्गुण ब्रह्मप्रतिपादिका । अवरा धर्माधर्मसा:
२
नारायणविरचिता-
-
धनतत्फलगुणब्रह्मप्रतिपादिकां । तयोः कर्मधारये परावरा ताम् । यद्वा-
यस्मात्परस्मादधरेण प्राप्ता परावरा ताम् ॥ ३ ॥
विधिवदुपसन्नः समित्पाण्यादिधर्मेणोपगतः ॥ २॥
द्वे विद्ये वेदितव्ये इति यत्तद्ब्रह्मविदो वदन्तीत्यन्वयः । तत्राऽऽह-
परा चैवापरा चेति । अपराऽवरेत्यर्थः ॥४॥
स्वर्गादिफलसर्वज्ञानसाधनविषयाऽपरेत्याह-ऋग्वेद इत्यादिना ।
"पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश
इति स्मृत्युक्ताः । ब्रह्मवेदोऽथर्ववेदः । अथर्ववेद इत्येवं वा पाठः ।
इतिहासादीनि पश्चाऽऽवान व्याख्यातानि तेन प्रक्षिप्तानीति गम्यते ।
अथ परेति । परा विद्या ब्रह्मसाक्षात्कारः । न तु तद्धेतुभूतो वाक्यसंद-
र्मोऽपि परा विवक्षिता । अन्यथा ऋग्वेदादिबाह्यता न स्यात् । तया हि
ब्रह्म प्राप्यते । तदाह-ययेति ॥५॥
अदृश्यं ज्ञानेन्द्रियाविषयमग्राह्यं कर्मेन्द्रियाविषयम् । यद्वा । अदृश्य-
महश्यं चक्षुरविषयम् । 'हशिर प्रेक्षणे ' ण्यत, छान्दस कारस्य रेमावः ।
अग्राह्यमिन्द्रियान्तराविषयम् । अगोत्रममूलम् । अचक्षुःप्रोत्रं ज्ञानेन्द्रि-
यरहितम् । अपाणिपादं कर्मेन्द्रियरहितम् । नित्यमविनाशि । विमुं
विविधं भवति प्राणिमेदेन । सर्वगतं व्यापकम् । परिपश्यन्ति धीरा यया
सा परेत्यन्वयः । यदपेक्ष्य स्वामिन्नस्वमिन्नकार्यसृष्टिसंहारयोदृष्टान्ता
यथोर्णनामिरित्यादयः पृथिवीपुरुषान्तास्त्रयः ॥६॥
ऊर्णनामिताकीटः । गृह्णत उपसंहरति । ओषधयः स्वामिन्नाः
सतो जीवतः केशलोमानि विजातीयानि ॥ ७ ॥
सृष्टौ क्रमनियमार्थ मन्त्रमाह-तपसेति । तपो ज्ञानं 'यस्य ज्ञानमय
तपः' इत्युक्तेः । चीयते बहु स्यामितीक्षणवद्भवति । ब्रह्माक्षरम् ।अन्न-
मध्याकृतं सर्वप्राणिसाधारणम् । प्राणो हिरण्यगर्मः प्राणान्मनः संकल्प-
विकल्पसंशयनिर्णयाद्यात्मकम् । मनसः सत्यं भूतपञ्चकम् । ततो लोका
लोकेभ्यः कर्माणि तेषु चामृतं मोगं विनाऽनश्वरं फलं जायते ॥ ८॥
उक्तमेवार्थमुपसंहाररूपेण द्वितीयो मन्त्र आह-य इति । सर्वज्ञः सामा-
न्यतो वेत्ता । सर्वविद्विशेषतो वेत्ता। ज्ञानमयं ज्ञानविकारं तपोऽनाया-
सलक्षणम् । ब्रह्म हिरण्यगर्मः । नाम देवदत्तादि । रूपं शुक्लादि । अनं
बीह्यादि ॥९॥
इति श्रीनारायणविरचिताथर्ववेदीयमुण्डकोपनिषद्दीपिकायां प्रथम-
मुण्डके प्रथमः खण्डः ॥१॥
मुण्डकोपनिषद्दीपिका। अनयोर्विद्ययोर्विषयो संसारमोक्षाविति वक्तुमुत्तरो ग्रन्थः । तत्र निर्वदायापरविद्याविषयस्तावदुच्यते-तदेतत्सत्यमिति । सत्यमवितथं फला- विसंवादि । किं तत्सत्यमत आह-मन्त्रेष्विति । मन्त्रेषु, प्रकाशितानि कर्माण्यग्निहोत्रादीनि कवयो वसिष्ठादयोऽपश्यन्दृष्टवती यत्तदेतत्सत्य मेकान्तपुरुषार्थसाधनत्वात् । यद्वा तदेतत्सत्यमित्यस्योपसंहारः। सत्यम- बाध्यं त्रेतायामृग्यजुःसामसमूहे त्रेताख्ये युग वा । बहुधा संततानि कर्मिभिः क्रियमाणानि । अतो यूयं तानाचरथ निर्वर्तयथ नियतं नित्यं सत्यकामा यथाभूतकर्मफलकामा म.बन्तः । एष वो युष्माकं पन्था मार्गः। सुकृतस्य स्वयं निर्वर्तितस्य कर्म लोके लोक्यते दृश्यते भुज्यते स लोकः कर्मफलम् । निमित्ते सप्तमी। कर्मफलप्राप्तय एष वो मार्ग इत्यर्थः ॥१॥ कर्मप्रकारमाह-यदेति । लेलायते लोलं भवति. चलत्याज्यभागाव- न्वरेण बिनाऽग्निहोत्रे तदभावात् । अन्यत्राऽऽज्यभामयोमध्य आवा- पस्थान आहुतीः प्रतिपादयेत् । अनेकाहप्रयोगापेक्षयाऽऽहुतीरिति बहु- वचनम् । तस्य च सम्पकरणं दुष्करं विपत्तिबहुलं चेति वैराग्याय ॥२॥ यस्येति । आग्रयणं शरदि वसन्ते च कर्तव्यः कर्मविशेषः । आसप्तमां- निति । भूरादिसत्यान्तान्हिनस्ति । अप्राप्तिरेव लोकानां हिंसा । अथवा लोकाः पितृपितामहप्रपितामहाः पुत्रपौत्रप्रपौत्राश्चाऽऽत्मना सह सप्त तान्हिनस्ति संततिविच्छेदात् ।। ३ ।। विशेषविवर्षमग्रेः सप्त जिह्वा अनुबदति-कालीति ॥ ४ ॥ एतेवगिजिह्वाभेदेषु पोऽग्निहोच्याचरते कर्माऽऽचरति । आददायन, आ इत्यस्य चरतिना संवन्धः । देप शोधने शत्रन्तः । आत्मनः सत्व- शुद्धिं कुर्वन्कर्म करोतीत्यर्थः । अथवाऽनेकार्थाश्चेति दायतिरेव खण्डने वहीत हविःशकलानि कुर्वन् । आददायन्नाददाना यजमानमाहुतयो वहन्तीत्याचार्या व्यापस्युः । आहुतयस्तं नयन्ति वहन्ति सूर्यस्य रश्मयो भूत्वेति शेषः । क नपन्तीत्यवाऽऽह-यत्रेति । देवानां पतिरिन्द्रः प्रजा. पतिर्वा । आहुतीनां स्वरूपमाह-सूर्यस्येति । इत्थंभूते तृतीया । रश्मि- रूपेण रविरश्मिरूपेण रबिरश्मिरूपाः सत्यो वहन्तीत्यर्थः ॥५॥ कीदृश्यः । एोहीत्युक्त्वाऽऽहुतय आह्वयन्त्य इत्यर्थः । एवं पियां घाचमभिवदन्त्य इत्यन्वयः। अर्चयन्न्यः पूजयन्त्यः । ब्रह्मलोकः स्वर्ग: प्रकरणात् ॥ ६॥ एतत्कर्मफलनिन्दा निर्वेदायाऽऽह-प्लवा हीति । ज्ञानरहिता इति शेषः।
४ नारायणविरचिता- प्लवा नावोऽथ च प्लबको नश्यन्त्यनित्या इत्यर्थः । हि यस्मादेतेऽदृढा अबलाः । अष्टादशोक्तं षोडशविजः पत्नी यजमानश्च तेषामुक्तं तत्सा- ध्यमवरं केवलमन्ततो येषु यज्ञेषु कर्म वर्तते । यदुक्तम्-"सप्तदशावराश्चतु. विशतिपरमा ऋत्विजः" इति । यद्वा।अवरं हीनंज्ञानरहितं श्रेयः श्रेयस्का- रणं ये जना अभिनन्दन्ति मन्यन्ते । जरामृत्युं जरासहित मृत्युम् ॥ ७ ॥ अविद्यायामन्तरेऽविद्यारूप आवरणे स्वयं धीराः स्वयमेव धिय ईशाः प्रेरका गुरुनिरपेक्षा जघन्यमाना भृशं पीड्यमाना जरारोगाद्य- नेकानर्थजातैः परियन्ति परितः स्वर्गनरकादो यन्ति गच्छन्ति मूढा अज्ञा अन्धेनैवाचेतनेन प्रकृतेन कर्मणा परियन्तीत्यन्वयः । यथाऽन्धा इति दृष्टान्तस्तेषामपि विशेषणमन्धेनैव नीयमाना इति ॥ ८॥ वयमेव कृतार्था इत्यभिमानं कुर्वन्ति बाला अज्ञानिनः । यद्यस्मा. देवं कर्मिणो न प्रवेदयन्ति तत्त्वं न जानन्ति रागात्कर्मफलरागामिभव- निमित्तम् ॥९॥ इष्टापूर्तमिष्टं यागादि श्रोतं कर्म पूर्त स्मात वापीकूपतडागादि । सुकृ. तेन भूत्वा पुण्येनोत्पद्य शरीरं लब्ध्वा । अनुमूत्वेति पाठे तु सुकृते सति- कर्मफलमनुभूय । छान्दसो ल्यवभावः । इमं लोकं मनुष्यलोकं हीनतरं वा मनुष्यतोऽपि हीनं वा तिर्यनरकादिलक्षणं कर्मशेषवशेन विशन्ति ॥१०॥ वानप्रस्थसंन्यासिनोर्गृहस्थसाधूनां च विशेषमाह-तपःश्रद्धे इति । तपः स्वाश्रमविहितं कर्म । श्रद्धा हिरण्यगर्भादिविषयास्तिक्यबुद्धिपूर्षिका विद्या। ते मे ह्युपवसन्त्यरपये तप:श्रद्धे पितास्तृतीयाश्रमिणो ये च शान्ता उपरतकरणमामा विद्वांसो गृहस्थाश्च ज्ञानप्रधानाः सन्त उपव- सन्ति मोमांस्त्वजन्ति । ये च भैक्षचयाँ चरन्तो यतय उपवसन्त्यपरि- ग्रहा इत्यन्वयः। तेषां फलमाह-सूर्येति । सूर्यद्वारेणोत्तरेण पथा विरजाः क्षीणपुपयपापकर्माणाः सन्तः । रजःशब्दोऽत्राकारान्तः। ते तत्र प्रयान्ति यत्र सत्यलोकादौ स पुरुषः प्रथमजोऽव्ययात्माऽऽसंसारक्षयात् । एत. दन्ताः संसारगतयोऽपरविद्यागम्याः ॥११॥ इदानी साध्यसाधनरूपासंसाराद्विरक्तस्य परस्यां विद्यायामधिकार- प्रदर्शनार्थमाह-परीक्ष्येति । निर्वेदमायाद्वसम्यं गच्छेदिति विधिः । वैराग्ये हेतुमाह-नास्तीति । कृतेन कर्मपाऽकृतो नित्यो लोको नास्ति। तविज्ञानार्थमकृर्तनित्यबह्मज्ञानार्थ स गुरुमेवाभिगच्छेत् । अनेन स्वयं धीरा इति परिवतम् । समित्पाणिः पुनरुपनयनार्थम् । श्रोनियंश्छन्दोऽ ५ " मुण्डकोपनिषदीपिका। धीते छन्दसः श्रोत्रमावो घंश्च प्रत्ययः । वाक्यार्थे वा पदं वचनं प्रव. कारमित्यर्थः(?) । ब्रह्मनिष्ठं ब्रह्मैकाग्रचित्तमित्यर्थः ॥१२॥ उपसन्नायोपगताय सम्यग्यथाशास्त्रं शमान्विताय बाह्येन्द्रियोपरमयु. काय येन विज्ञानेनाक्षरमद्वेश्यादिविशेषणं पुरुषं पूर्ण पुरिशयं वा सत्यं परमार्थस्वमावं येन ज्ञानेन वेद विजानाति तां ब्रह्मविद्यां तत्त्वतो यथा- वत्मोवाच प्रमादित्यर्थः।आचार्यस्याप्ययं नियमो यन्यायप्राप्तशिष्यस्य निस्तारणमविद्याया इति मावः ॥ १३॥ इति मुण्डकोपनिषद्दीपिकायां प्रथममुण्डके द्वितीयः खण्डः ॥ २ ॥ इति नारायणविरचितमुण्डकोपनिषद्दीपिकायां प्रथममुण्डकं समाप्तम् ॥ १॥ परविद्याविषयब्रह्मविज्ञानार्थ उत्तरो ग्रन्थः । अत्यन्तपरोक्षत्वात्कथं नाम प्रत्यक्षवत्सत्यमक्षरं प्रपद्येरनिति दृष्टान्तमाह-यथेति । हे सोम्य सोममर्हति कोमलत्वादिति सोम्यः, सोमायः । इदं शौनकं प्रत्याङ्गि- रसोक्तं संबोधनम् । विस्फुलिङ्गा इत्यत्र 'स्फुरतिस्फुलत्योनिनिविभ्यः ' इत्यनेन वैकल्पिकत्वात्वत्वामावः । मावा जीवादयः । जीवोत्पत्तिस्तु घटाकाशस्येव महाकाशादौपाधिकी वेदितव्या ॥१॥ दिव्यो द्योतनवान्स्वयंज्योतिष्ट्वात् । दिवि स्वात्मनि मवो वा दिव्यः । अलौकिको वा दिव्यः। सह बाह्याभ्यन्तरेण वर्तते सबाह्याभ्यन्तरः । अजः सर्वमावविकाराणां जनिमूलत्वात्तत्प्रतिषेधेन सर्वे मावविकारा जाय- तऽस्ति वर्धते विपरिणमतेऽपक्षीयते नश्यति चेति यास्कोक्ताः प्रतिषिद्धाः। यद्यपि देहाङपाधिभेददृष्टीनामविद्यावशादेहभेदेषु सप्राणः समनाः सेन्द्रियः सविषय इव प्रत्यवमासते तलमलादिवाऽऽकाशं तथाऽपितु स्वतः परमार्थदृष्टीनाममाणोऽक्रियाशक्तिरमनाः संकल्पादिज्ञानशक्तिरहितः । अनेन सर्वजीवधर्मरहित इत्युक्तं भवति । अत एव शुभ्रः शुद्धः । अक्ष. रात्परतः परस्मादक्षराव्यक्तं परः अव्यक्तात्पुरुषः पुरः" इति मन्त्र. वर्णात् ॥२॥ कथं प्राणादयो न सन्तीत्यत्राऽऽह-एतस्मादिति । प्रलीयते चेत्यपि दृष्ट- व्यम् । धारिणी दधात्यवश्यम् । 'आवश्यकाधमर्ययोणिनिः' ॥३॥ न केवलं सर्बजनिहेतुरपि तु सर्वमय श्रेत्याह-अग्निरिति । अनिर्युलोकः "असौ वाव लोको गौतमाग्निः" इति श्रुतेः। मूर्धाऽस्योत्तमाङ्गम् । यस्य विवृता उद्घाटिताः प्रसिद्धा वेदा वाग्वृदयमन्तःकरणं विश्वं समस्तं जगदस्य सर्व ह्यन्तःकरणविकार एव जगत् । मनस्येव सुषुप्ते प्रलयदर्श- नात् । जागरितेऽपि तत एवामिविस्फुलिङ्गवद्धि प्रतिष्ठानादस्य च . .
६ नारायणविरचिंता- पद्भ्यां जाता पृथिवी । एष देवो विष्णुरनन्तः प्रथमः शरीरी त्रैलोक्यदे होपाधिः सर्वेषां भूतानामन्तरात्मा सर्वभूतेषु द्रष्टा श्रोता मन्ता विज्ञाता सर्वकरणात्मा ॥४॥ पश्चागिद्वारेण च याः संसरन्ति प्रजास्ता अप्यस्मादेव पुरुषात्प्रजायन्त इत्याह-तस्मादिति । तस्मात्पुरुषात्मजावस्थानविशेषरूपो धुलोकोऽग्नि- स्तस्य विशेषणं समिधो यस्य सूर्यः समिध इव समिधः । सूर्येण हि द्युलोकः समिध्यते । ततो हि द्युलोकान्निष्पन्नात्सोमात्पर्जन्यो द्विती- योऽग्निः संमवति । तस्माच्च पर्जन्यादोषधयः पृथिव्यां तृतीयानो संम- वन्ति । ओषधिभ्यः पुरुषानो हुताभ्य उपादानभूताभ्यः पुमाननी रेतः सिञ्चति योषितायां योषाग्नौ पञ्चमे स्त्रियामित्येवं क्रमेण बहीबह्वयः प्रजा ब्राह्मणाद्याः पुरुषात्परस्मात्संप्रसूताः समुत्पन्नाः ॥५॥ किंच कर्मसाधनानि फलानि च तस्मादेवेत्याह-तस्मादृच इति । निय- ताक्षरपादावसाना नियताक्षरपादा गायत्र्यादिच्छन्दोविशिष्टा मन्त्रा ऋचः। साम पाश्चमक्तिकं साप्तमक्तिकं च स्तोमादिगीतविशिष्टम् । अनियताक्षरपादावसानानि वाक्यरूपाणि यजूंषि । दीक्षा मौज्यादिल- क्षणा नियमविशेषाः । यज्ञाश्चायूपा अग्निहोत्रादयः । क्रतवः सयूपाः । अत एव शिष्टप्रयोगः क्रतुयज्ञाख्येभ्यश्चेति । दक्षिणाश्चैकगवाद्यपरिमित. सर्वस्वान्ताः । संवत्सरः कालः । यजमानः कर्ता । लोकाः फलभूताः। ते विशेष्यन्ते । सोमो यन्त्र येषु लोकेषु पवते पुनाति लोकान् । यत्र च सूर्य- स्तपति । ते च दक्षिणोत्तरमार्गद्वयगम्या विद्वदविद्वत्कर्तृफलभूताः ॥६॥ तस्मात्पुरुषादेवाः काङ्गभूता बहुधा वस्वादिगणभेदेन सम्यक्प्रसूताः साध्या देवविशेषा मनुष्याः कर्माधिकृताः पशवो ग्राम्या आरण्याश्च वयांसि पक्षिणः प्राणापानौ मनुष्यादीनां जीवनं बीहियवौ हविरों । तपश्च कर्माङ्गं पुरुषसंस्कारलक्षणं स्वतन्त्रं च फलसाधनम् । श्रद्धाऽऽ स्तिक्यबुद्धिः। सत्यमनृतवर्जनं यथाभूतार्थवचनं चापीडाकरम् । ब्रह्मच र्यमष्टाङ्गमैथुनवर्जनम् । विधिश्चेतिकर्तव्यता ॥७॥ किंच सप्त शीर्षण्याः प्राणास्तेषां च सप्ताचिषो दीप्तयः स्वविषया- वद्योतनानि ज्ञानानि तथा सप्त समिधः सप्त विषया विषयहि समिध्यन्ते प्राणाः सप्त होमास्तद्विषयविज्ञानानि “ यदस्य विज्ञानं तज्जुहोति' इति श्रुत्यन्तरात् । सप्तेमे लोका इन्द्रियस्थानानि । इमेग्रहणान्न बाह्याः । येषु चरन्ति प्राणा इति विशेषणाञ्च । किं प्राणापानादयो नेत्याह- गुहाशयाः प्राणा गुहायां शरीरे हृदये का शेरते स्वापकाल इति गुहा.
मुण्डकोपनिषद्दीपिका। शया निहिताः स्थापिता धात्रा सप्त सप्त प्रतिप्राणिमेदं शीर्षण्या: सर्वरूपा बहुरूपाः॥८॥ येन रसेन भूतैः पञ्चभिः स्थूलैः परिवेष्टितस्तिष्ठते तिष्ठति ह्यन्त. रात्मा लिजं. सूक्ष्मशरीरं स ह्यन्तराले शरीरस्याऽऽत्मनश्चाऽऽत्मवद्वर्तत इत्यन्तरात्मा ॥९॥ विश्वं सर्व न विश्वं नाम पुरुषादन्यत्किंचिदस्ति । अतो यत्पृष्टं "कस्मिन्नु मगवो विज्ञाते सर्वमिदं विज्ञातं भवति" इति तदुत्तरितम् । पुरुषे ज्ञाते पुरुष एवेदं नान्यदस्तीति विज्ञातं भवतीति विश्वस्वरूपमाह। कर्म तपः । कर्माग्रिहोत्रादि तपो ज्ञानं जडाजडात्मकं जगद्ब्रह्म परामृत- मेव ततोऽपत्कार्यस्य कारणाव्यतिरेकात् । एतज्जगदात्मक ब्रह्म सर्वप्रा- णिनां हृदि निहितमर्पित यो वेद सोऽविद्याग्रन्थिमज्ञानवासनां विकि- रति नाशयतीह जीवनेष न मृतः सन्हे सोम्य प्रियदर्शन ॥१०॥ इति मुण्डकोपनिषद्दीपिकायां द्वितीयमुण्डके प्रथमः खण्डः ॥१॥ अरूपं सदक्षरं केन प्रकारेण विज्ञेयमत आह-आविरिति । आविरा- विर्भूतप्रकाशं संनिहितवागायुपाधिभिज्वलति यतो गुहाचरं गुहायां चरति हृदि चरति दर्शनश्रवणादिप्रकारैः । महत्सर्वमहत्त्वात्। पदं पद्यते सर्वेणेति सर्वपदार्थास्पदत्वात् । कथं महत्पदमित्यत आह-अत्रैतदिति । अर्पितं संनिवेशितं रथनामाथिवाराः। एजञ्चलत्पक्ष्यादि । माणन्मनुष्य- पश्वादि निमिषनिमेषादिक्रियावत् । चकारादनिमिषञ्च यत्तदत्रेव ब्रह्मणि समर्पितमेतदास्पदं सर्वस्य जानथ हे शिष्या अवगच्छत । सदसन्मूर्तामूर्त स्थूलसूक्ष्म तद्व्यतिरेकेण तयोरमावाद्यत्मजानां विज्ञाना- देन्द्रियकज्ञानात्परं दूरे वर्तते पराश्चि खानीति श्रुतेः । वरिष्ठमतिशये. नोरु ॥१॥ यदर्चिमद्दीप्तिमत् । अचिशब्द इकारान्तः । अणुभ्योऽणु स्थूलधिया- मगम्यत्वात् । लोका भूरादयो लोकिनो मनुष्यादयः । स प्राण इत्यादि । अन्तश्चैतन्यो हि प्राणेन्द्रियसंघातः प्राणस्य प्राणमिति श्रुत्यन्तरात् । यत्प्राणादीनामन्तश्चैतन्यमक्षरं तत्सत्यमवितथं तद्वेद्धष्यं मनसा भावयि- तव्यमित्यर्थः । हे सोम्य सोमाद्यश्छन्दसि 'सोममर्हति यः' इति सूत्रेण । विद्धि विद्धं कुर्वक्षरे चेतः समाधत्स्व ॥२॥ कथं वेद्धव्यमत आह-धनुरिति । औपनिषदमुपनिषत्सु भवं ज्ञानमुपा. सानिशितं संततामिध्यानेन तनुकृतं बुद्धिलक्षणं संघयीत संधानं कुर्यात् ।
नारायणविरचिता-
आयम्याऽऽकृष्य सेद्रियमन्तःकरणं स्वविषयाद्विनिवर्त्य लक्ष्य एवाऽऽव-
जितं कृत्वेत्यर्थः ॥३॥
यदुक्तं धनुरादि तदाह-प्रणव इति। धनुर्यथा शरस्य लक्ष्ये प्रवेशकारणं
तथाऽऽस्मशरस्पाक्षरे लक्ष्य प्रवेशकारणमभ्यस्यमान ओंकारः। अयं मन्त्री
ध्यानपिन्दो चाऽऽनातः। आत्मा जलसूर्यकादिवदिह प्रविष्टो देहे सर्वबौ-
द्धप्रत्ययसाक्षी ब्रह्म पूर्वोक्तमक्षरमप्रमत्तेन बाह्यविषयोपलब्धितृष्णाप्रमा-
दवर्जितेन सर्वतो विरक्तेन जितेन्द्रियेणेकाग्रचित्तेन ब्रह्म लक्ष्यं वेद्धव्यं
वेधनादूचं शरवत्तन्मयो भवेत् । यथा शरस्य लक्ष्यकात्मलं फलं
भवति तथा देहाद्यात्मप्रत्ययतिरस्कारेणाक्षरैकात्मत्वं फलमापादयेदि-
त्यर्थः । लक्ष्यं सर्वगतं चैवेत्यादि, ऋग्धनुर्यजुर्बाणेनेत्यादि च मन्त्रद्वयं
क्वचिदार्यपाठे हश्यते न सर्वत्रेति न शिष्टैाख्यातम् ॥४॥
अक्षरस्यैव दुर्लक्ष्यत्वात्पुनः पुनर्वचनं सुलक्षणार्थमित्यभिप्रायेणाऽऽह
यस्मिन्निति । ओतं समर्पितं प्राणर्वागादिमिः करणैर्जानथ जानीत हे
शिष्या आत्मानं प्रत्यक्स्वरूपं ज्ञात्वाऽन्या वाचोऽपरविद्यारूपा विमुश्चथ
परित्यजत । यतोऽमृतस्यैष सेतुर्मोक्षस्य सेतुरिव सेतुः संसारमहोदधेरु
सरणहेतुत्वात्तमेव विदित्वेतिश्रुस्यन्तरात् ॥ ५॥
संहताः संपविष्टाः । यत्र पस्मिन्हृदये नाड्यस्तत्रेति शेषः । स एप
प्रकृत आत्मा चरते चरत्यन्तहृदयमध्ये जायमान इव जायमानोऽन्तःक-
रणोपाध्यनुविधायित्वात् । बदन्ति च लौकिका हृष्टो जातो मुग्धो जात
इति । ओमित्येवमोंकारालम्बनाः सन्तो ध्यायथ चिन्तयत पाराय पर-
कूलाय तमसः परस्तात् ॥ ६ ॥
संसारमहोदधि तीवो यो गन्तव्यः परविद्याविषयः स कस्मिन्प्रति-
छित इत्यत आह--यः सर्वज्ञ इति । सर्व विन्दति लमते सर्ववित्सामान्य-
विशेषमावेन वा वेदनम् । दिव्ये सर्वबुद्धिप्रत्ययद्योतके ब्रह्मपुरे ब्रह्मण.
चैतन्यस्य स्थाने हदयपुण्डरीके व्योम्न्याकाशे पुण्डरीकमध्यस्थे प्रति-
ठित उपलभ्यः । मनोमयो वृत्तिभिरेव विमाव्य इति । मनउपाधित्वात्मा-
शरीरनेता प्राणानां शरीरान्तरं प्रति प्रापकः । प्रतिष्ठितोऽन्ने प्रत्यहं
मुज्यमानेऽनेन विना देहत्यागात् । हृदयं बुद्धिं पुण्डरीकच्छिद्रे संनि-
धाय समवस्थाप्य हृदयावस्थानेन ह्यात्मनः स्थितिरन्ने तदात्मतत्त्वं
विशिष्टेन शास्त्राचार्योपदेशजनितेन ज्ञानेन शमदमध्यानवैराग्यसंस्कृतेन
परि सर्वतः पूर्ण पश्यन्त्युपलमन्ते धीरा विवेकिनः ॥ ७ ॥
अत्र मुण्डकोपनिषदीपिका। अस्य परमात्मज्ञानस्य फलमाह-भिद्यत इति । हृदयग्रन्थिरविद्यावा. सनापचयो बुद्धयाश्रयः " कामा येऽस्य हृदि स्थिताः" इति श्रुत्यन्त- रात् । कर्माणि प्राक्तनान्यप्रवृत्तफलानि न स्वतजन्मारम्भकारीणि प्रवृ. तफलस्वात् । परावरे परं च कारणात्मनावरं च कार्यात्मना । तस्मि. साक्षादहमस्मीति दृष्टे संसारकारणोच्छेदान्मुख्यत इत्यर्थः ॥ ८॥ उक्तस्यैवार्थस्य संक्षेपाभिधायका उत्तरे मन्त्रास्त्रयोऽपि । हिरण्मये ज्योतिर्मये बुद्धिज्ञानप्रकाशे पर उत्कृष्टे परमात्मस्वरूपोपलब्धिस्थान. स्वात् । कोशे कोशतुल्ये पुण्डरीके विरजमविद्यादोषरजोमलवर्जितं निष्कलं निरवयवमत एव शुभ्रं ज्योतिरग्न्यादीनामपि प्रकाशकमेवंविधं यत्तदात्मविदस्तादात्म्य प्रत्ययानुसारिणो नेतरे बाह्यप्रत्ययानुसारिण:- न तत्र चन्द्रार्कवपुः प्रकाशते " इति क्षेपको मन्त्रस्तस्यार्थः । प्रकाशते मासकं भवति । न वान्ति वाता व्यापारं न कुर्वन्ति । देवता न पान्ति देवानामध्यगम्यम् ॥ ९॥ यत्र स्वरूपे भूतिभावना यज्ञफलपदा तत्कथं ज्योतिषां ज्योतिरत आह--न तत्रेति । माति प्रकाशयति । तस्य स्वतःप्रकाशनसामर्थ्यामा- वात् । यथा जलोल्मुकाद्यग्निसंयोगादग्निं दहन्तमनुदहति न स्वतस्तत्त. स्यैव मासा दीप्त्या सर्वमिदं सूर्यादि जगद्विमाति । यत एवं तदेव ब्रह्म माति मासयति कार्यगतेन विविधेन मासाऽतस्तस्य ब्रह्मणो मारूपत्व- मवगम्यते । नहि स्वतोऽविद्यमानमासनमन्यस्य कर्तुं शक्नोति । घटा- दीनामन्यावमासकवादर्शनात् । मासरूपाणां त्वादित्यादीनां तद्द. र्शनात् ॥ १०॥ प्रतिपादितमक्षरं निगमनस्थानीयेन मन्त्रेण पुनरुपसंहरति-ब्रह्मैवेति । प्रसृतं प्रगतं नामरूपवदवमासमानमित्यर्थः । किं बहुना ब्रह्मैवेदं विश्व- मिदं ब्रह्म वरिष्ठमूरुतमम् । अब्रह्मप्रत्ययः सर्वोऽविद्यामात्रो रज्ज्वामिव सर्पप्रत्ययो ब्रह्मैवैकं परमार्थसत्यमिति वेदानुशासनम् ॥ ११ ॥ इति मुण्डकोपनिषद्दीपिकायां द्वितीयमुण्डके द्वितीयः खण्डः ॥ २॥ इति नारायणविरचितायां मुण्डकोपनिषद्दीपिकायां द्वितीयं मुण्डकं समाप्तम् ॥ २॥ परा विद्योक्ता यया तदक्षरं पुरुषाख्यं सत्यमधिगम्यते । यदधिगमे हृदयग्रन्थ्यादिसंसारकारणस्याऽऽस्यन्तिको विनाशः स्यात् । तदर्शनो. पायश्च योगो धनुराधुपादानकल्पनयोक्तः । अथेदानी तत्सहकारीणि सत्यादिसाधनानि वक्तव्यानीति तदर्थमुत्तरारम्मः । प्राधान्येन तस्वनि धारणं नात्यन्तदुःखग्राह्यत्वास्कृतमपि प्रकारान्तरेण क्रियते तत्र सूत्र- २ नारायणविरचिता- भूतो मन्त्रः परोऽयमुपन्यस्यते-द्वा सुपर्णेति । औविमक्तेरावं छान्दसम् । द्वौ सुपर्णी सहैव सर्वदा युक्तौ सखायी समानाख्यानो समानाभिव्यक्ति- कारणी तावेवंभूतौ समानमविशेषमुपलब्ध्यधिष्ठानतयैकं वृक्षमुच्छेदसा. मान्याच्छरीरम् । ओवश्चू छेदने । परिषस्वजाते परिष्वक्तवन्तौ सुपर्णा- विवेकवृक्षं फलोपमोगार्थम् । तयोर्मध्येऽन्य एकोऽविद्याकामकर्मवासना. अयलिङ्गोपाधिरात्मा पिप्पलं कर्मफलं स्वादु प्रियमत्त्युपमुतेऽविवेकतः । नाश्नन्ननश्नन्नन्य ईश्वरो नित्यशुद्धबुद्धमुक्तस्वभावो यः सर्वज्ञः सर्वस. वोपाधिरीश्वरो नानाति । प्रेरयिता ह्यसावुभयो(ज्यमोक्त्रोनिन्यसा. क्षित्वसत्तामात्रेण सन्नभिचाकशीति पश्यत्येव केवलम् । दर्शनमात्रं हि तस्य प्रेरयितृत्वं राजवत् ॥१॥ समाने तत्रैव वृक्षे पुरुषो भोक्ता जीवो निमनो निश्चयेन मनोडला- बुरिव सामुढे जलेऽविद्याकामकर्मफलरागादिगुरुमाराकान्तोऽनीशया दीनमावोऽनीशा तया शोचति संतप्यते मुह्यमानोऽनेकैरनर्थप्रकारैरविवे. कितया चिन्तामापद्यमानः । जुष्टं सेवितमनेकोगमार्गः कर्मभिश्च यदा यस्मिन्काले पश्यति ध्यायमानोऽन्यं वृक्षोपाधिलक्षणाद्विलक्षणमीशि- तारमस्य महिमानं जगदूपमस्यैव मम परस्यैव ममेश्वरस्येति यदेवं द्रष्टा तदा वीतशोको भवति सर्वस्माच्छोकसागराद्विमुच्यते हृष्टो मवती- त्यर्थः ॥२॥ अन्योऽपि मन्त्रः सविस्तरमिमभेवार्थमाह-यदेति । यदा यस्मिन्काले पश्यो विद्वान्साधकः पश्यते पश्यति रुक्मवणं स्वयंज्योतिःस्वमा ब्रह्म- योनि ब्रह्म च तद्योनिश्चासौ तं ब्रह्मणो वाऽपरस्य योनि साम्यमद्वयल- क्षणम् ॥३॥ सर्वभूतैः सवर्भूतब्रह्मादिस्तम्बपर्यन्तः । इत्थंभूतलक्षणे तृतीया। सर्व- भूतप्रकारः सर्वात्मा सन्नित्यर्थः । विभाति विविधं दीप्यते । एवं भूतस्थं यः साक्षादात्ममावेनायमहमस्मीति विजानन्विद्वान्वाक्यार्थज्ञानमात्रेण भवते भवति । न भवतीत्येतस्किमतिवादी, अतीत्य सर्वानन्यान्वदितुं शीलमस्येत्यतिवादी यस्त्वेवं साक्षादात्मानं प्राणस्य प्राणं विजानन्सोऽ- तिवादी न भवतीत्यर्थः । सर्वं यदाऽऽत्मैव नान्यदस्तीति दृष्टं तदा किं पुनरसावतीत्य वदेद्यस्य त्वपरमन्यवृष्टमस्ति स तदतीत्य वदति । अयं तु विद्वानात्मनोऽन्यन्न पश्यति नान्यच्छणोति नान्यद्विजानात्यतोनातीत्य वदति । किंच । आत्मक्रीडो न पुत्रकलत्रादिषु क्रीडति । आत्मरतिरा- मप्रीतिः । क्रीडा बाह्यसाधनसापेक्षा रतिस्तु साधननिरपेक्षा बाह्यविष.
'मुण्डकोपनिषदीपिका। प्रीतिमात्रमिति विशेषः । क्रियावाज्ञानध्यानवैराग्यादिक्रियायुक्तः । समासान्तपाठ आत्मरतिरेव क्रीडा तयुक्तः । एष संन्यासी बह्मविदा- मध्यात्मनिष्ठानां वरिष्ठो गरिष्ठः श्रेष्ठः ॥४॥ हदानी सत्यादीनि भिक्षोः सम्यग्ज्ञानसहकारीणि विदधाति--सत्ये. नेति । सुपाबदनत्यागेन तपसा "मनसश्चेन्द्रियाणां च अॅकाम्यं परमं तपः" इति स्मृतिः । तेन तपसा तदेवाऽऽत्मदर्शनानुकूलं न चान्द्रायणादि । सम्यग्ज्ञानेन यथाभूतात्मदर्शनेन । नित्यमिति सर्वत्र संबध्यते । क्वासा- वात्मा य एतैः साधनलभ्यतेऽत आह–अन्तःशरीर इति । शरीरमध्ये हृदयाकाश इत्यर्थः । ज्योतिर्मयो रुक्मवर्णः। शुभ्रः शुद्धः । क्षीण- दोषा रागद्वेषमोहरहिताः ॥५॥ सत्याख्यसाधनस्य स्तुतिमाह-सत्यमेवेति । सत्यवाञ्जयति नानृतं नानृतवादीत्यर्थः । सत्येन. यथाभूतवादव्यवस्थया पन्था देवयानाख्यो विततो विस्तीर्णः । येन यथाभूतसत्यवतित्वेनाऽऽक्रमन्त्याक्रमन्त ऋषयों दर्शनवन्त आप्तकामा विगततृष्णा यत्र यस्मिन्सत्यवतित्वे तत्परमार्थ तत्त्वं सत्यस्योत्तमसाधनस्य संबन्धि साध्यं परमं प्रकृष्टं निधानं पुरुषार्थ- रूपेण निधीयत इति निधानं वर्तते । नत्र च येन पथा क्रमन्ति सत्येन वितत इति पूर्वेण संबन्धः ॥ ६ ॥ किं तद्ब्रह्म किंधर्मकं चेत्यत आह-बृहच्चेति । विविधमादित्य चन्द्रा- द्याकारेण भाति दीप्यते । दूरात्सुदूरेऽविदुषामगम्यत्वात् । अन्तिके समीपे विदुषामात्मत्वात् । सर्वान्तरत्वाञ्च । पश्यत्सु चेतनावत्स्विहैव न दूरे निहितं स्थितं गुहायां बुद्धिलक्षणायाम् ॥ ७ ॥ देवैरिन्द्रियः । असाधारणमुपलब्धिसाधनमाह-ज्ञानेति । आत्माव- बोधेन विशुद्धसत्त्वो निर्मलान्तःकरणस्ततस्तस्मात्सत्त्वान्निष्कलमवयव- भेदरहितं ध्यायमानश्चिन्तयन् ॥८॥ कासौ चेतसा वेद्योऽत आह-यस्मिन्निति । यस्मिञ्शरीरे हृत्पने प्राणो वायुः पञ्चधा व्यानादिभेदेन । कीदृशेन चेतसा वेदितव्य इत्यत आह- प्राणैरिति । प्राणैः सहेन्द्रियश्चित्तं सर्वमन्तःकरणं प्रजानामोतं व्याप्तं क्षीर- मिव स्नेहेन काष्ठमिवामिना । सर्व हि प्रजानामन्तःकरणं चेतनावत्प्र. सिद्धं लोके । पस्मिंश्चित्ते विशुद्धे शोकादिमलविमुक्ते विभवति विशे- षेण स्वेनाऽऽत्मना मवत्यात्मानं प्रकाशयतीत्यर्थः ॥९॥ य एवं सर्वात्मानमात्मत्वेन प्रतिपन्नस्तस्य सर्वात्मत्वादेव सर्वावाप्ति लक्षणं फलमित्याह-यं यमिति । लोकं पित्रादिलक्षणं संविमाति संकल्प. पति । जयते प्राप्नोति । स यदि पितृलोककामो भवति संकल्पादेवास्य ।.
१२ नारायणविरचिता- पितरः समुत्तिष्ठन्त इत्यादिश्रुत्यन्तरात् । अर्चयेत्पादप्रक्षालनशुश्रूषणन मस्कारादिमिः॥१०॥ इति मुण्डकोपनिद्दीपिकायां तृतीयमुण्डके प्रथमः खण्डः ॥ १॥ सोऽर्चको वेद जानाति यथोक्तलक्षणं ब्रह्म धाम सर्वकामानामास्पदं निहितमर्पितम् । यच्च स्वेन ज्योतिषा माति शुभ्रं शुद्धं पुरुषमात्मज्ञं परमिव देवमकामा विभूतितृष्णारहिताः सन्तः शुक्र बीजं शरीरोपादा- नकारणमतिवर्तन्त्यतिगच्छन्ति धीरा धीमन्तः । अपुनर्भवमिच्छंस्तं पूजयेदिति मावः ॥ १॥ कामत्याग एवं प्रधान साधनमिति दर्शयति-कामान्य इति । मन्यमान- स्तत्तद्गुणांश्चिन्तयमानः कर्मभिः काम्यकर्मभिस्तत्र तत्र स्वर्गनरकादौ पर्याप्तकामस्याकामत्वेन परि समन्तत आप्ता: कामा येन तस्य कृतात्मनो विद्यया परेण रूपेण कृत आत्मा यस्यहैव तिष्ठत्येव शरीरे कामा जन्म- हेतवः प्रविलीयन्ति नश्यन्ति ॥२॥ यद्येवं सर्वलाभात्परम आत्मलामस्तहि तल्लामाय प्रवचनादय उपाया बाहुल्येन कर्तव्या इति प्राप्त इदमुच्यते-नायमिति । प्रवचनेन वेदशास्त्रा- ध्ययनबाहुल्येन मेधया ग्रन्थार्थधारणशक्त्या बहुना श्रुतेन भूयसा तात्प- विधारणेन । केन तहि लभ्यत इत्यत आह-यमेवेति । यं साधकमे. वाऽऽत्मा वृणुते वरं ददाति कृपयति तेन लभ्यः साधु कारयति यमसाधु निनीपति तमसाधु कारयति" इति श्रुत्य- न्तरात् । कं वृणुत इति चेत्तत्र तन्त्रेणेदमेवोत्तरम् । यं प्रसिद्धमारमान- मेष साधको वृणुते मजति । वृ संमक्ती संमक्तिः सेवा । तेन लभ्यः "स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः इति स्मृतेः। तस्मादन्यत्यागेनाऽऽत्मलामप्रार्थनैवैकाग्रतयाऽऽत्मलामसाधनमित्यर्थः विवृणुते प्रकाशयत्यविद्यावच्छिन्नां स्वां तनुम् ॥ ३॥ आत्मप्रार्थनासहायभूतानि च साधनानि बलाप्रमादतपांसि लिङ्गयु. कानि संन्याससहितानीत्याह-नायमात्मा बलहीनेनेति । बलहीनेनाऽऽत्मनि. छाजनितवीर्यहीनेन प्रमादात्पुत्रपश्वाद्यासङ्गादलिगात्संन्यासरहितात- पसो ज्ञानात् । एतैरुपायैर्बलाप्रमादसंन्यासज्ञानविद्वान्विवेक्यात्मवित्तस्य विदुष एष आत्मा जीवो ब्रह्माख्यं धाम विशते प्रविशति ॥ ४ ॥ कथं ब्रह्म प्रविशतीत्याशङ्कथैतिधेनोत्तरयति-संप्राप्येति । कृतात्मानः परमात्मरूपेणैव निष्पन्नात्मानः सन्तः । सर्वगं सर्वव्यापि सर्वतः सर्वत्र प्राप्य नोपाधिपरिच्छिन्नेनैकदेशेन युक्तात्मानो नित्यं समाहितस्वभावाः यं साधु निनीपति तं मुण्डकोपनिषदीपिका। १३ सवमेव समस्तं शरीरपातकाल आविशन्ति मिन्नघटाद्याकाशवविद्या. कृतोपाधिपरिच्छेदं जहति ॥५॥ ब्रह्मैव लोको ब्रह्मलोकः । एकोऽप्यनेकवदृश्यत इति बहुवचनम् । तेषु परान्तकालः संसारावसाने देहपरित्यागकालस्तस्मिन्काले परामृताः परममृतं ब्रह्माऽऽत्मभूतं येषां ते जीवन्मुक्ताः सन्तः परि समन्तात्प्रदीप- निर्वाणवद्घटाकाशवच्च मुच्यन्ति ब्रह्मणि निवृत्तिमुपयान्ति न देशान्तरे गमनमपेक्षन्ते। शकुनीनामिवाऽऽकाशे जले वारिचरस्य वा। पदं यथा न दृश्येत तथा ज्ञानवतां गतिः"॥६॥ किंच मोक्षकाले या देहारम्भिकाः कलाः प्राणाद्यास्ताः प्रतिष्ठाः स्वानि कारणानि गता भवन्ति । पञ्चदश पञ्चदशसंख्याकाः प्रश्नोपनि- पदि षष्ठप्रभोक्तास्ता यथा- कलाः षोडश भूतानि प्राणोऽक्षं जन्म कर्म च । श्रद्धा यज्ञास्तपो मन्त्रा मनोमानं शरीरकम्" इति ॥ पोडशं शरीरं तु पतितं तिष्ठति । देवाश्चक्षुरादिकरणाद्यधिष्ठातारः प्रतिदेवतास्वादित्यादिषु गता भवन्ति । कर्माण्यप्रवृत्तफलानि विज्ञानम- यश्चाऽऽस्माऽविद्याकृतबुद्धयाद्युपाधिमात्मत्वेन मत्त्वा जलादिषु सूर्यादि- प्रतिबिम्बवदिह प्रविष्टो देहभेदेषु कर्मणां तत्फलार्थत्वादतो विज्ञानमयो विज्ञानप्राय आत्मा तिष्ठत उपाध्यपनये सति सर्वे परेऽव्यये ब्रह्म. ण्येकी मवन्त्यविशेषत्वमापद्यन्ते जलाद्याधारापनय इव सूर्यादिप्रति. बिम्बाः सूर्यादौ । घटाद्यपनय इवाऽऽकाशो महाकाशे ॥७॥ दृष्टान्तान्तरमाह-यथेति । अस्तमदर्शनमविशेषात्ममावं गच्छन्ति प्राप्नुवन्ति परादारात्पूर्वोक्तात्परं दिव्यं पुरुषं यथोक्तलक्षणमुपैत्युपग- च्छति ॥८॥ ननु श्रेयस्यनेके विघ्नाः प्रसिद्धा अतः केशानामन्यतमेनान्येन वा देवादिना विनितो ब्रह्मविदप्यन्यां गतिं मृतो गच्छेन्न ब्रह्मैवेति चेन्न । विद्ययैव सर्वप्रतिबन्धस्यापनीतत्वादविद्यापतिबन्धमात्रो हि मोक्षो नान्यप्रतिबन्धो नित्यत्वादात्मभूतत्वाञ्चेत्यभिप्रेत्याऽऽह–स य इति । वेद साक्षादहमस्मीति विजानाति यः स ब्रह्मैव भवति । नान्यां गति गच्छति देवैरपि तस्य ब्रह्ममाप्तिं प्रति विघ्नो न शक्यते कर्तुमात्मा ह्येषां स भवति तस्माद्विद्वान्ब्रह्मैव भवति । फलान्तरमाह--नास्येति । फला- १४ नारायणविरचिता मुण्डकोपनिषदीपिका । न्तरं तरतीति, तरति जीवन्नेवातिक्रान्तो भवति गुहाग्रन्थिभ्यो हृदयावि. द्याग्रन्थिभ्यः ॥९॥ अथेदानीं ब्रह्मविद्यासंपदानविध्युपप्रदर्शनेनोपसंहारः क्रियते-तदेत: दिति । ऋचा मन्त्रान्तरेणाभ्युक्तमभिप्रकाशितं क्रियावन्तो यथोक्तकर्मा- नुष्ठानयुक्ता ब्रह्मनिष्ठा अपरस्मिन्ब्रह्मण्यमियुक्ताः परब्रह्म बुभुत्सव. स्वयमेकऋषिनामानमनिं जुह्वते जुह्वति । श्रद्धयन्तः श्रद्धां कुर्वन्त: सन्तस्तेषामेव संस्कृतात्मनां पात्रभूतानामेतां ब्रह्मविद्यां वदेत बूयाच्छि- रोक्तं शिरस्यनिधारणलक्षणं प्रसिद्धं व्रतम् ॥१०॥ तदेतदक्षरं सत्यं पुरा पूर्वमुवाच शौनकाय विधिवदुपसन्नाय पृष्टवते निगदितवान् । अन्योऽपि तथैवोपसन्नाय ब्रूयादित्यर्थः । एतद्न्यरूपम- चीर्णवतोऽवती नाधीते न पठति । चीर्णवतस्य हि संस्कृता फलाय विद्या भवतीति । समाप्ता ब्रह्मविद्या । सा येभ्यो ब्रह्मादिभ्यः पारम्प- र्यक्रमेण संप्राप्ता तेभ्यो नमः परमर्षिम्यः परमं ब्रह्म साक्षादृष्टवन्तो ये ब्रह्मादयोऽवगतवन्तश्च ते परमर्षयस्तेभ्यो भूयोऽपि नमः । द्विरु- क्तिरत्यन्तादरार्था । शिरस्पग्निधारणबतादस्य ग्रन्थस्य मुण्डकोपारुषा प्रसिद्धा ॥११॥ इति मुण्डकोपनिषदीपिकायां तृतीयमुण्डके द्वितीयः खण्डः ॥२॥ इति तृतीयमुण्डकं समाप्तम् ॥ ३ ॥ नारायणेन रचिता शंकरोक्त्युपजीविना ।। अस्पष्टपदवाक्यानां दीपिका मुण्डके शुमा ॥१॥ इति श्रीनारायणविरचिताऽथर्ववेदीयमुण्डकोपनिष- दीपिका समाप्ता ।।
अथास्या मुण्डकोपनिपदः खण्डान्तर्गतमन्त्रप्रतीकानां वर्णानुक्रमणिका । मन्त्रत्रतीकानि मं. मुं. सं. अ. २ १ ४ अभिर्पर्धा चक्षुषी अतः समुद्रा गिरयश्च अथर्वणे यां प्रवदेत पृ. मन्त्रातीकानि मुं. खं. मं. पृ. तस्मादमिः समिधः २३ २३ तस्मादृचः साम यषि २ १ ६ १४ तस्मै स विद्वानुपसन्नाय १ १८ तस्मै स होवाच ५ १ २ १ ฯ १ १ २ १ २ ६ अरा इव रथनाभौ अविद्यायामन्तरे दिव्यो ह्यमूर्तः पुरुषः २ ८ २ १ २ ९ ३४ ... २ १ १५ वा सुपर्णा स्युजा ३ ध. धनुर्गृहीत्वोपनिषदम्... २ १६ २ ३ २८ २१० १ अविद्यायां बहुधा १ आविः संनिहितम् २ इ. इष्टापूर्व मन्यमानाः ... ए. एतस्माआयते प्राणः... २ एतेषु यश्वरते ... एषोऽणुरात्मा चेतसा... ३ एह्यहीति तमाहुनयः ... १ न. ३ १ ३९ १ ३ १ २ १ २ १० २ ३ ४२ २ ४ २ ६ क. न चक्षुषा गृह्यते २१ न तत्र सूर्यो भाति २ नायमात्मा प्रवचनेन... ३ नायमात्मा बलहीनेन ३ १४ प. परीक्ष्य लोकान्कर्मचितान १ ४१ पुरुष एवेदं विश्वम् २ १४ प्लवा ह्येते अदृढाः १ प्रणवो धनुः शरो ४४ पागो ह्या यः सर्वभूतैः ३ कामान्यः कामयते २ १२ २ २ १७ काली कराली च ३ १ २५ २ २ २ ७ १ ४ २११ २ १ १ गताः कलाः पश्चदश ३ त. तवापरा भग्वेदः १ तदेतत्सत्यमृषिः ३ तदेतत्सत्यं मन्त्रेषु १ तदेतत्सत्यं यथा २ तदेतदृचाऽभ्युक्तम् ... ३ तपसा चीयते ब्रह्म ... तपःश्रद्धे ये ह्यपत्रसन्ति १ तस्माच्च देवा बहुधा... २ १ १ ब्रह्मैवेइममृतम् २ ११ ३३ १ ६ बृहञ्च तदिव्यम् ३ ४७ ब्रह्मा देवानां प्रथमः... १ २ १९ म. भिद्यते हृदयग्रन्थिः... २ ९ य. २४ यत्तदद्रेश्यमग्राह्यम् २ १० १ १ २ ८ ३१ २ ११ १ १ ७ (२) १ ८ १ ३ मन्त्रप्रतीकानि मुं. खं. मं. पृ. मन्त्रप्रतीकानि मुं. सं. मं. पृ. यथा नयः स्यन्दमानाः ३ २ ४५ श. यथोर्णनाभिः सुनते... १ शौनको ह वै महाशालः १ यदचिमवणुभ्यः . २ २ २७ स. बदा पश्यः पश्यते ... ३ ३६ यदा लेलायते चिः २ २ १२ सत्यमेव जयति ३ यं यं लोक ममता ... १ १० ४. सत्येन लभ्यस्तपसा ३ यः सबैज्ञः सर्ववियस्य १ ९ १० सप्त मागाः प्रभवन्ति यः सर्वज्ञः सर्वविद्यस्य २ ३० समाने वृक्षे पुरुषः ३ यस्मिन्यौः पृथिवी २ २ २३ स यो ह वै तत्परमम् ३ २ ९ यस्यामिहोत्रमदर्शम्... १ २ ३ २ ४१ संप्राप्यैनमृषयः ५३ १ ३ ... १ २ १ १ १ २ ३५ १३ स वै तत्परमम् ३ ३ C ८ २ व. he . वेदान्तविज्ञानसुनिश्चित तार्थाः ३ २ ६ ४४ हिरण्मये परे कोशे २ २ १ ३१ समाप्तिमगमदियं वर्णानुक्रमणिका।
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.