Bharatiya Vidya Bhavan Library, Mumbai
Girdhari Ji Maharaj
Front matter
२ समकाशः। पदाम्बुजत्वोक्त्या भक्तिमवर्तकत्वं, भक्तिमतां सन्तापहारकत्वं, भक्तरूपमधुपसेवितत्वं च ध्वनितम् । प्रेमपूरभरितमानसेपु पादु- भीवो भवतीत्यपि ध्वन्यते । यदोः पुष्टिभक्तत्वेन तन्नाथत्वाद पुष्टिभक्तानामिष्टफलदातृत्वं सूचितम् । श्रीमगिरिधरचरणा:श्री- मभुचरणतनयश्रीयदुनाथवंशोद्भया अस्मदाराध्यचरणाः॥१॥ चरणाम्बुजेत्यादि ॥ परागसम्बन्धन, मनोमुकुरनिर्मल- तया सर्वसिद्धान्तमतिफलनं ध्वन्यते । प्रणिपातः साष्टाङ्गप्रणाम: तद् विद्धि मणिपातेन परिप्रश्नानुसेवया * उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिन इति श्रीभगवदुक्तेः। तनुते विस्तारय- ति । एतेन स्वकल्पितत्वमपास्तम् । सुधीत्वं च भगवदेकशरण- त्वम् । तेषां सिद्धान्तावलोकनेनाऽऽनन्दो भविष्यतीत्यर्थः॥२॥ एवं प्रतिज्ञायाऽद्वैतज्ञानस्य द्वैतज्ञानसापेक्षत्वेन द्वैतपदार्थ- माहुः- द्विधा ज्ञानं तु यचत् स्यान्नामरूपात्मना मुहुः ।। ईशजीवात्मना वापि कार्यकारणतोऽथवा ॥ ३ ॥ दीतं तदेव दैतं स्याद्वैतं तु ततोऽन्यथा ॥ सर्व खल्विदं ब्रह्म तजलानिति पठ्यते ॥४॥ द्विधा ज्ञानं त्वित्यादि ॥ द्विप्रकारकं ज्ञानमित्यर्थः । नामरूपे व्याकरणवाणीतिश्रुत्या नामरूपव्यवहारस्य भगवत्कृत- त्वेन भगवद्रूपत्वम् । एतेन, अस्ति भाति प्रियं रूपं नाम चे- त्यर्थपञ्चकम् * आयं त्रयं ब्रह्मरूपं मायारूपं ततः परम्, इति नामरूपयोर्मायिकत्वमिति निरस्तम् । केचित्त्वत्र, जगद्रूपं ततः परमिति पटन्ति । तत्र नामरूपयोर्जगद्दूपत्वेन जगतः कार्यत्वात् कार्यकारणयोरभेदान्नातिप्रतिकूलम् । यथा मृद्धटयोः । अत एच, ३ " शुद्धाद्वैतमार्तण्डः । नामरूपविभेदेन जगत् क्रीडति यो यतः इति श्रीमदाचार्यचरण- रुक्तम् । यदि च सधर्मत्वाभिया तयोर्माधिकत्वमुच्यते तर्हि अस्तित्वादिनापि सविशेषत्वापत्तेः । तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति । एप ह्येवानन्दयातीत्यादिश्रुति- भिः स्वतःप्रकाशकत्वं सर्वावभासकत्वं सर्वानन्ददातृत्वं यथोक्तं तथा, नामरूपेइतिश्रुत्या नामरूपप्रकाशकत्वमतो न तयोर्मायिक- त्वति दिक् । नामरूपभेदज्ञानमेवाविद्यकं, न तु ते । एव- मीशजीवभेदज्ञानं, तथा कार्यकारणभेदज्ञानमिति ॥३॥ हीतमिति ।। ये गत्यर्थकास्ते ज्ञानार्थका इति न्यायेन गत्यर्थकादिण्धातो वे ते इतमिति सिद्धी द्विधा इतं द्वीतं त- स्मात् स्वार्थेऽणि द्वैतमिति निष्पन्नम् । तस्य च द्विमकारकं ज्ञान- मित्यर्थः ॥ अन्यथा = भेदज्ञानाऽभावे ॥ न द्वैतमद्वैतमिति विग्रहः । ननु कया श्रुत्या अभेद उक्त इति तत्राहुः ॥ सर्वमि- त्यादि ॥ छान्दोग्ये शाण्डिल्यविद्यायां पञ्चमे प्रपाठके पठित. मस्ति, तज्जलानित्यस्याग्रे, शान्त उपासीतेति । अर्थस्तु- जायते लीयते अनितीति जलान् तस्मिन् जलान् तज्जलान् । इदं सर्व विश्वं खलु उत्पत्तिस्थितिलयावस्थासु तस्मिन्नतः सर्व ब्रतो- त्युपासीतेति ॥ ४॥ श्रुत्यर्थमाहुः- सर्व ब्रह्मात्मकं विश्वमिदमा बोद्ध्यते पुरः॥ सर्वशब्देन यावद्धि दृष्टश्रुतमदो जगत् ॥५॥ योध्यते तेन सर्व हि ब्रह्मरूपं सनातनम् ॥ कार्यस्य व्रह्मरूपस्य ब्रह्मैव स्यात्तु कारणम् ॥ ६॥ सर्वमित्यादि।इदमेति।। इदंशब्दस्य प्रत्यक्षवाचित्वात् ।।५।। .
सप्रकाशः। ब्रह्मणि प्रतीयत इत्यर्थः ॥ ७॥ एवं ब्रह्मणः कारणतामुपपाद्य ब्रह्मणो लक्षणमाहु:- साकारं सर्वशक्त्येकं सर्वशं सर्वकर्तृ च ॥ सचिदानन्दरूपं हि ब्रह्म तस्मादिदं जगत् ॥८ साकारमित्यादि । आनन्दाकारमित्यर्थः। विश्वतश्चक्षु- रुत विश्वतोमुखो विश्वतोवाहुरुत विश्वतस्पात् । सम्बाहुभ्यां धमति सम्पतत्रैर्यावाभूमी जनयन् देव एक इति तैत्तिरीये श्वेताश्वतरे चास्ति श्रुतिः। अत्र मुखादीनां सर्वत्र विद्यमानत्वमुक्तं सर्वेन्द्रियोपलक्षणम् । तेन साकारस्यैव व्यापकत्वम् । वाहुभ्या- मितिद्विवचनेन ब्रह्मणो द्विभुजत्वं श्रुतिसिद्धम् । चतुर्भुजत्वं तु स्मृतिप्रसिद्धम् । देव इत्यनेन लीलास्थपुरुपोचमस्यात्र ग्रहण- म् । दिबुधातोः क्रीडार्थकत्वात् । छान्दोग्ये,सर्वकामः सर्वगन्धः । सर्वरस इत्युक्तम् । रसो वै स इति तैत्तिरीये। सहस्रशीर्पा पुरुषः सहस्राक्षः सहस्रपादिति पुरुषसूक्तेऽपि साकारत्वम् । अग्रे, ततो विराडजायतेतिकथनानायं विराट् पुरुपः । सर्वतः पाणि: पादान्तं सर्वतोऽक्षिशिरोमुखमित्यादिगीतायाम् । आनन्दमात्र करपादमुखोदरादिरिति नारदपश्चरात्रे | अथवा परमात्मानं परमानन्दविग्रहमिति याज्ञवल्लयस्मृती ॥ नन्वपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुस्स शृणोत्यकर्णः । अस्थूलमनवित्यादिषु श्रुतिपु निषेधात् कथं साकारत्वमिति चेन्न। अपाणिपादत्वमुक्त्वा यजवनग्रहीतृत्वमुक्तं, तेन लौकिकपाणि- पादादिनिपेधपरम् । अनण्वित्यादिवास्येऽप्यग्रे, एतस्य प्रशासने गार्गि धावाभूमी विधृते तिष्ठत इत्युक्तम् । यथा सन्धयो वायो- ऽन्तरः कृत्स्नो रमयन एवं वारे अयमात्मा कृत्स्नः मसानधन शुद्धाद्वैतमार्तण्डः। एवेति श्रुतौ घनपदेन साकारत्वलाभात् । अर्थस्तु यथा सैन्धवः सर्वपरिदृश्यमानो रसघन एवं ब्रह्मापि यावत्तावत् सर्व प्रज्ञान- घन एवेति । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञान- बलक्रिया चेति श्रुतेः । यः सर्वज्ञः सर्वविदितिश्रुतेः । सर्वकर्ता सर्वभोक्ता चेति । सत्यं ज्ञानमानन्दं ब्रह्मेति श्रुतेरानन्दमात्रमेव । एवञ्च करादिरपि वीव ॥ इदम् ।। परिदृश्यमानम् ॥८॥ सच्चिदानन्दरूपव्रमणः सकाशाज्जगदुत्पत्तौ जडजीवा- जन्तर्यामिणां सदादिभ्य उद्गम इत्याहु:- 'जडजीवान्तःस्थितानां यथाक्रमश उद्गमः।। अग्नेर्यथा विस्फुलिङ्गास्तथा जीवोद्गमःस्फुटः॥ ९ ॥ जडेत्यादि ॥ उद्गमो निःसरणम् । जीवोद्गमे श्रुत्युक्तं दृष्टान्तमाहुः ।। अमेरिति । यथा सुदीसात् पावकाद्विस्फुलिङ्गा 'व्युचरन्ति, एवमेव तस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे जीवाः कपूयचरणा रमणीयचरणा इति मुण्डकश्रुतौ । एतेन जीव- स्योत्पत्तावनित्यत्वापत्तिरिति निरस्तम् । जीवस्य निःसरणमे- वोच्यते, न तूत्पत्तिः ननु जीवस्य विस्फुलिङ्गचनिःसरणे अंशत्वे सर्वशरीरगत- चैतन्यानुपलम्भस्तबाहुः- विसर्पिगुणचैतन्योऽणुजीवोंऽशो हरेः स्मृतः॥ जडे चिदानन्दयोस्तु चित्यानन्दस्य सर्वशः॥१०॥ चिसत्यादि । विसपि प्रसरणशीलं चैतन्यं गुणो य- स्य सः । यथा मणेः प्रभा । तथाच व्याससूत्रम् । गुणाद्वा- ऽऽलोकवत् । अर्यस्तु । जीवस्य चैतन्यं गुणस्तस्मात् सर्वशरीर- व्यापी । वत्र दृष्टान्तः । आलोकवत् । सूर्यमण्यादिनमा यथा सप्रकाशः। सनातनमिति ।। सदा वर्तमानं नित्यमिति यावत् । स- न्मूला सौम्येमाः मजाः सदायतनाः सत्पतिष्ठाना इति,कथमसतः सज्जायेत, तत्सत्यं, यदिदं किञ्च तत्सत्यमित्याचक्षत इत्यादि श्रुतेः । असत्यत्वेन ज्ञानं त्वासुराणामेव । तथाच गीतायाम् असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरमिति । ननु जगतो नित्यत्वे द्वैतापत्तिरित्याशङ्कायामाहुः ॥ कार्यस्येति ॥ विश्वस्य नित्य- स्वेऽपि मृद्धटयोरिव कार्यकारणयोरैक्यान द्वैतापचिरिति भावः। सर्वं खल्विदं ब्रह्मेत्यादिना वोधितब्रह्मरूपस्य ब्रह्मैवेत्येवकारेण मायादिकारणं निरस्तम् ॥ ६॥ ब्रह्मणः कारणत्वे मानमाहुः- जन्माद्यस्येत्यादिसूत्रैासपादैनिरूपितम् ॥ यतो वेत्यादिवाक्येषु वेदे स्पष्टं प्रतीयते ॥७॥ जन्माघस्येत्यादीति । अत्राधिकरणचतुष्टयेन ब्रह्मणः कारणत्वं विचारितम् । तत्र, जन्माद्यस्य यतः शास्त्रयोनित्वादिति सूत्रे, यतो वा इत्यादिवाक्यं विषयोकत्य, किं ब्रह्म कर्तृ उता- ऽकर्तृ इति संशये, ब्रह्मविदामोति परमितिश्रुत्या ब्रह्मविदः पर- प्राप्ति प्रतिज्ञाय सत्यं ज्ञानमनन्तं ब्रह्मति श्रुत्या स्वरूपलक्षणमु- का परस्य सर्वान्तररूपत्ववोधनायाकाशाद्वायुरित्यादिसष्टिरुक्ता। तत्र प्रकृतिगतं कर्तृत्वं ब्रह्मणि आरोप्यते । एवं भृगुवै वाणि- रित्यत्रापि गौणमेव कर्तृत्वम् अनूयत इति पूर्वपले, अस्पेति प्रत्यक्षस्य जगतो जन्मादि जन्मस्थितिप्रलया यतो यस्मात् तत् फर्तृ । कुतः । शास्त्रयोनित्वात् । शास्त्रे योनिः शास्त्रयोनिस्तस्य भारः शास्त्रयोनित्वं तस्माच्छास्त्रोक्तकारणत्वादित्यर्थः । पूर्वो- सरकाण्डसृष्टिवाक्यानां सहाथ सामान्यग्रहणम् । स्वरूपलक्षण- शुद्धाद्वैतमार्तण्डः । , वाक्यशेपे कर्तृत्वनिपेधाकथनात् । प्रत्युत कारणत्वस्य कथना- दुपनिपदन्तरेऽस्थलादिवाक्ये धर्मनिपेधनिरूपणेऽपि विरुद्धधर्मा- श्रयत्वेन माकृतधर्मनिपेधपरत्वेनोपपत्तौ लक्षणापादकस्यारोपस्य दुष्टत्वात् । किञ्च प्रकृती कर्तृत्वस्य निपियमानत्वेन जीवस्य स्वातन्त्र्याभावेन च कर्तृत्वाभावाद् ब्रह्मण्यारोपासम्भवः । त. स्मात् सकलजगत्कारणं ब्रह्म ।। अत्र, जन्माद्यस्य यतः - शास्त्रयोनित्वादिति योगविभागः सर्वेषां मते । तन्न । अग्रिमसूत्रेषु साध्यहेतुनिर्देशपूर्वकमेव दर्श- नेनानापि तथैव युक्तत्वात् । ये तु जन्मायधिकरणं, शास्त्रयोनि- वाधिकरणं भिन्नमगीकुर्वन्ति, तत्र हि प्रथमसूत्रे हेतोरभावाद् द्वितीये साध्याभावान वाक्यार्थसिद्धिरित्यादिदोप इति श्री. पुरुपोत्तमचरण प्यमकाशे बहुशः खण्डितो योगविभागः ॥ द्वितीयेऽधिकरणे, तत्तु समन्वयादितिसूत्रे,ब्रह्म समवायि? उत नेति संशये समवायित्वे विकारित्वापत्तिरिति न ताश इति पूर्वपक्षे, तत् समवायि कारणं ब्रह्म । कुतः । समन्वयात् सम्यगनुवृत्तत्वाद् अनारोपितानागन्तुकरूपेणान्वयात् । घटे मृद इवास्तिभातिप्रियाणाञ्जगत्यनुत्तत्वादित्यर्थः । तादात्म्यसम्ब- न्धेन यदाश्रयं कार्यं भवति तत् समवायिकारणम्।अस्यैवावस्था- विशेप उपादानम् । तल्लक्षणं च स्वसमानसत्ताककार्याकारण यदाविर्भवति तदुपादानम् । तृतीयेऽधिकरणे चिद्रूपेण कारण- त्वम् । आनन्दमयाधिकरणे आनन्दरूपेण कारणत्वं व्यासपादै- बिचारितमित्यर्थः ॥ यतो वेत्यादीति ।। भृगु वारुणिवरुण पितरमुपससार । अधीहि भगवो ब्रह्मेति, त होवाच यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यच् प्रयन्त्य- भिसंविशन्ति तद् ब्रह्मति तद्विजिज्ञासस्येति स्पष्टमेव कारणलं , सकारा घहुदेशं व्यामोति तद्वदित्यर्थः । अग्रे, व्यतिरेको गन्धवत् । अर्थ- स्तु । व्यतिरेकः । अधिकदेशवर्ती चैतन्यं गुणः । गन्धवत् । यथा चम्पकादेर्गन्धश्वम्पकाधिकदेशस्थले उपलभ्यते तद्वदित्य- ऽर्थः । नच चम्पकातद्वयवानां निस्सरणे गन्धोपलब्धिरिति वाच्यम् । निस्सरणे न्यूनत्वापत्तेः। भोग्यादृष्टत्वेन तदवयवपूरण- कल्पनायां गौरवात् । किञ्चोग्रगन्धादेः स्पर्श मुहुर्मुहुः क्षालनेन सुगन्धानपगमादनकचर्मपुटवेष्टितस्य मृगमदस्य सुगन्धोपलब्धे- वातोऽवयवकल्पना निरस्तेति दिक् ॥ किश्च तृतीयोऽपि दृष्टान्तः। अविरोधश्चन्दनवत् । अर्थ- स्तु । यथा चन्दनमेकदेशस्थितं सर्वशरीरे मुखं शैत्यं च जनय- ति तद्वदणुत्वेऽपि सर्वशरीरचैतन्योपलब्धिमित्यर्थः । एपोऽणु- रात्मा चेतसा वेदितव्य इतिश्रुतेः । नित्यः सर्वगतस्थाऽणुरिति स्मृतेश्च । सर्वगतेन ब्रह्मणा सह तिष्ठतीति सर्वगतस्थः । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिपस्वजाते इति श्रुतेः। स चासावणुश्चेति तदर्थः । यदि यथाश्रुतार्थः स्यात् । तर्हि स्थावचलपदयोः पर्यायत्वापत्तौ पौनरुक्त्यं स्यात् । अंशो नाना व्यपदेशादिति व्याससूत्राद् अंशः । अर्थस्तु । जीवो ब्रह्मणः अंशः । कुतः । नानाव्यपदेशात् । कचिद् ब्रह्मत्वेन कचिदज्ञत्वेन कचिदीशितव्यत्वेनाऽणुत्वेन व्यापकत्वेन निरूपणादेकस्यैव विरुद्धधर्माश्रयत्वं ब्रह्मातिरिक्तस्य न सम्भवति । अतो जीवो ब्रह्मांश इति ॥हरेरिति॥ममैवांशो जीवलोके जीवभूतःसनातनः इति गीतावाक्यतः । ननु सर्वस्य ब्रह्मात्मकत्वेन कयं विध्यम- त आहुः, जडे चिदानन्दयोरित्यादिना ॥ आनन्दतिरोभावेन भेद इति भावः ॥ १० ॥ तिरोधानं हरीच्छातो नियन्धादिषु वर्णितम् ॥
. शुद्धाद्वैतमार्तण्डः। आविर्भावे तु सर्व हि ब्रह्मैवेति न संशयः॥११॥ तिरोधानमिति ।। एकोऽहं बहु स्यामितिश्रुतिसिद्धेच्छा- त इत्यर्थः । ननु तर्हि भेदापत्तिरत्राहुः ॥ आविर्भावे लित्या- दि । आनन्दाविर्भावो जीवे, चिदानन्दयोर्जडे ॥ ११ ।। ननु जीवादिभावे किं प्रयोजनमत आहुः- रमणार्थमिदं सर्व ब्रह्मैव स्वेच्छयाऽभवत् । यथा सर्पः स्वेच्छया हि कुण्डलाकारतां गतः॥१२॥ रमणामिति ॥ एकाकी न रमते स द्वितीयमैच्छन् , तदात्मान५ स्वयमकुरुतेत्यादि श्रुतेः । ननु तर्हि विकारित्वापत्ति- स्तत्राहुः ॥ यथेति ॥ १२ ॥ न विकारि तथा ब्रह्म व्यासः सून्ने निरूपितम् ।। सुवर्णस्याविकारित्वं कामधेनोर्मणेरपि ॥ १३ ॥ सूत्रे इति ।। उभयव्यपदेशावहिकुण्डलवदिति सूत्रे इत्य- अर्थः । अर्थस्तु, उभयोविरुद्धधर्मयोर्व्यपदेशस्तस्मात् । निर्गुणत्वेन अनन्तगुणत्वेन परिणामित्वेनाविकारित्वेन विरुद्धधर्मरूपेण व्यपदेशाच्छतौ कथनात् सर्वाकारं ब्रह्मेत्यर्थः । तथाच श्रुतिपु, साक्षी चेता कैवलो निर्गुणश्चेत्युक्त्वा, एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोति, ततो यदुत्तरं तदरूपमनामय- मित्यग्ने सर्वाऽऽननशिरोग्रीव इति श्वेताश्वतरे । तैत्तरीये- यदेकमव्यक्तमनन्तरूपं, विश्वतश्चक्षुरुत विश्वतोमुख इत्यादि चो- क्तम् । तथानन्दवल्ल्यां, तदात्मान५ स्वयमकुरुत, यद्वैतत्सुकृतमि- ति । अविनाशी वा अरेऽयमात्मेत्यादिकं चान्यत्रोक्तमेवं विरुद्ध- धर्माश्रयस्वेन बहुशो व्यपदेशादित्यर्थः । तहिं कथमेकमनेकवेति तबाह । अहिंकुण्डलवत् । यथा सर्पः सरलः कुण्डलाकारश्च भ- २ 'सप्रकाशः।.. चति । तद्वत् ब्रह्म सर्वाकारं भवति । न हि सर्पस्य कुण्डलाकारे कोऽपि विकारः । भाष्ये तु, सर्वाणि तैजसान्यविकृतानीत्युक्त- म् । एवञ्च सुवर्णस्यानेकाकारत्वेऽपि न सुवर्णस्यान्यथाभावः । सुबोधिन्यां तु, कामधेनुकल्पद्रुमचिन्तामणेश्च जायमानाः पदार्था दृश्यन्ते,तेन न कामधेन्वादीनां विकृतत्वमित्युक्तमितिदिक्॥१३॥ ननु सर्वस्य घटादेरुत्पत्तिनाशदर्शनेनानित्यत्वात् कथं भगवद्रूपत्वं कार्यस्येत्याशङ्कामपनयन्ति- आविर्भावतिरोभावी पदार्थानां यतस्ततः॥ नानित्यता तु विज्ञेया शास्त्रविद्भिर्विचक्षणः ॥ १४ ॥ आविर्भावेत्यादि । घटपटादिसर्वाऽऽकारस्वरूपेण या भगवत आविर्भावेच्छा तया आविर्भवति । तथाच श्रीमदाचार्य- चरणैर्निवन्धे- मृदादि भगवद्रूपं घटायाकारसंयुतम् । मूलेच्छातस्तथा तस्मिन् प्रादुर्भावो हरेस्तदा, इति । व्याख्यातं च तैरेव-मृदि घटादयो यावन्तो भविष्यन्ति ते सर्वे कारणत्वेन वर्तन्त इत्यङ्गीकर्तव्यम् । अन्यथा ततः प्रादु- र्भावो नोपपद्यते । ततः सामर्थ्य भगवत्त्वेन सङ्गच्छते । अतो मृदादिभगवद्रूपं घटादिकार्य च भगवद्रूपं तत्रैव तिष्ठति । मुले- च्छातः पुरुपोत्तमेच्छात इति ।। तदेतदक्षयं नित्यं जगन्मुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पवद्, इति विष्णुपुराणे मयमेंऽशे । वस्तुतो नित्यं, किन्त्वाविर्भावतिरोभावजन्मनाशवि- फल्पचत् । आविर्भावश्च तिरोभावश्च आविर्भावविरोभायौ तावेव जन्मनाशविकल्पों तदित्यर्थः । आविर्भावतिरोभावी शक्ती शुद्धाद्वैतमार्तण्डः। ११ मुरवैरिणइति वाक्यं श्रीमदाचार्यचरणैरुक्तम्।भगवच्छक्तित्वादेव वीर्यादिपरिणामानां देहादिभावः। परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानवलक्रिया च, इति श्रुतेः । अनन्तशक्तिवाद् भगवतः ॥१४॥ आविः प्रकटं भावयति कारणान्तःस्थं कार्य बहिः प्रकटी- करोति या शक्तिनिमित्तगतोपादानगता च सा आविर्भाव- शक्तिः । कार्य कारणे तिरोभावयति सा शक्तिस्तिरोभावशब्द- वाच्येत्यभिप्रेत्याहु:- तिरोभावे तु कार्य हि वर्तते कारणात्मना । आविर्भावे तु कार्य हि यथा मृदि घटायः ॥१५॥ तिरोभावे त्वित्यादि ॥ अत्रैवं ज्ञेयम् । तन्तुतुरीयेमा- दिभ्यः पटोत्पत्त्या, मृदण्डचक्रादिभ्यश्च घटोत्पत्त्या तस्य तस्य पटघटजनने शक्तिरिति निश्चीयते । सा च न स्वभावो, नापि स्वरूपम् । तथा सति तस्य सार्वदिकत्वाच्छीणेभ्योऽपि तन्त्वा- दिभ्यः पटाद्युत्पत्तिः स्यात् । भर्जिताद् वीजादप्यड्डुरोत्पत्तिः स्यात् । प्रतिवन्धकमणिसमवधानेऽपि वढेस्तृणादिकं दह्येत । स्वभावस्यानपायात् । स्वरूपस्य च सत्वात् । अतः शीर्ण- तन्त्वादिषु कालेन, भर्जितेषु भर्जनेन च नाश्या, अग्नमणिस- निधाने प्रतिवध्या च काचित् स्वभावात् स्वरूपाचातिरिक्तव शन्किरहीकार्या( ननु नन्लादीनामविशीर्णल्देन, बीकानामप्य- ऽभर्जितत्वेन रूपेणैव कार्यजननदर्शनात्तेनैव रूपेण कारणतेति नातिरिक्तशक्तिकल्पनं गुरुभूतम् । वह्निस्थलेपि मतिबन्धकमण्य- भावेन निर्वाहाचेति चेन्न । दावदग्धवेत्रवीजेभ्यः कदलीकाण्ड- जननस्य भामत्यां प्रदर्शितत्वात् काचिच्छक्तिर्भनेन नाश्यते,
१२
समकाशः।
अपरा आधीयत इति मन्तव्यम् । बहिस्थले प्रतिवन्धकमणि-
समवधाने उत्तेजकेन मणिना दाहदर्शनादुत्तेजकाभावविशिष्ट-
मण्यभावविशिष्टवरेव कारणत्वेऽतिगौरवम् । तथाहि । मण्य-
भावत्वेन प्रवेशे नानाकार्यकारणभावफल्पनात्यन्तमेव गुर्वी ।
मन्त्रौपधादिनापि दाहाभावात् । एवमुत्चेजकानामपि नानात्वा-
त्तवत्स्वरूपेण प्रवेशे ततोऽप्यत्यन्तगौरवम् । यत्किञ्चित्त्वेन मवेशे
यावत्तदभावविशिष्टपण्यभावविशिष्टस्याग्नेर्दाहं प्रत्यकारणत्वा-
ततो दाहाभावापत्तिः । यावत्वेन प्रवेशे यत्किश्चिद्वैशिष्ट्ये
दाहाभावापत्तिः यथाकथञ्चित्वेनप्रवेशेऽपिताशकार्यकारणभाव-
ज्ञानस्योत्तेजकतदभावतद्वैशिष्ट्यज्ञानाधीनतया तादृशगुरुशरीर-
कारणतास्वरूपज्ञानस्यैव दौर्घट्यमिति तदपेक्षया शक्तिकल्पनमेव
ज्याय इति सर्वनिर्णयावरणभङ्गे श्रीपुरुषोत्तमचरणौविस्तरशो
निरूपितमिति ततोऽवधेयम् । तस्मादाविर्भावतिरोभावयोः
शक्तित्वम् । सा शक्तिमति भगवद्रूपे घटे तिष्ठति । अत एव घटो
भवतीति कर्तरि प्रयोगः। स्वमते सर्वेपां भगवद्रूपत्वात् । इच्छा-
सहकारेण नित्ययोरप्याविर्भावतिरोभावयोर्न सदैवोदयः ।
विशेषस्तु विद्वन्मण्डने श्रीमत्प्रभुचरणैरुक्तम् ॥ १५ ॥
आविर्भावतिरोभावलक्षणमाहु:-
यदाऽनुभवयोग्यत्वं वर्तमानस्य वस्तुनः॥
आविर्भावः स विज्ञेयस्तिरोभावस्ततोऽन्यथा ॥१६॥
यदेत्यादि ॥ योग्यतानिवेशेन दरीविवराङ्कुरेप्वपूर्वे च ना-
ऽन्याप्तिः । शाशृङ्गादौ च नातिव्याप्तिः। दृद्धिविपरिणामादिप्व-
ऽपि पूर्वरूपतिरोभावेन द्वितीयस्याविर्भावः। परिणामे रूपान्तरस्या
क्षये तु तिरोभावः ।। अन्यथेति ।। तदयोग्यत्वमित्यर्थः॥१६॥
शुद्धाद्वैतमार्तण्डः। नन्वनयोरङ्गीकारे मागभावादिसत्त्वे चातिगौरवमत आहुः- प्रागभावादयो नाङ्गीकार्या आभ्यां यतोऽखिलम्॥ तद्विस्तरभिया नात्र लिख्यतेऽन्यत्र दृश्यताम्॥१७॥ प्रागभावादय इति।।प्रागभावःमध्वंसाभावोऽत्यन्ताभावो- ऽन्योन्याभावश्चत्येते नाङ्गीकार्याः। यत आभ्यामाविर्भावतिरो- भावाभ्याम् । कया रीत्या सिद्धिस्तत्राहुः॥तदित्यादि। अन्यत्र प्रागभावखण्डनसर्वनिर्णयनिवन्याचरणभङ्गादिषु । तत्र प्रागभावः कारणावस्थातो नातिरिच्यते । तस्य भिन्नकारणत्वकल्पनायां प्रमाणाभावात् । अग्रिमजननज्ञानेनैव तस्यानुभव इति श्रीमदा- चार्यचरणैरुक्तं निवन्धे । नचेह कपाले घटो नास्तीति प्रवीति- स्तत्र मानम् । तस्या घटत्वावच्छिन्नमतियोगिताकाभावविपय. तया सामान्यत्वेन प्रागभावाख्यविशेपानवगाहित्वात् । एवं ध्वंसेऽपि दण्डादिस्वरूपमेव । तिरोभावशक्त्यतिरिक्तस्य ध्वंसस्य निरूपयितुमशक्यत्वात् । तेन रूपान्तरं पश्यन् पूर्वस्य तिरो- भावमेव मन्यते,ध्वस्त इति श्रीमदाचार्यचरणैस्तत्रैव विनिरूपितम्। तिरोऽप्रकट भावयति, तिरोभवनं वा तिरोभावः । उभयथापि निमित्तोपादानान्यवरस्वरूपातिरिक्तोध्वंसो न निरूपयितुं शक्यः। तदतिरिक्तस्यादर्शनात् । तथाच कार्यप्रतिकूला कारणावस्थैव ध्वंसइतितदर्थः प्रागभावादिप्रयोगाश्च, घटस्यानन्यथासिद्धनियत- पश्चाद्धावित्वं दण्डस्य ताइशपूर्वेभावित्वं चापेक्ष्य । यथा घटदण्ड- यो कार्यकारणप्रयोगस्तथा घटादेरग्रिमजननमाकारान्तरं चापक्ष्य कारण एव प्रागभावध्वंसपदमयोगः । घटः पटो नेत्यन्योन्या- भावप्रतीतावपि घटे मूलेच्छया पटादीनां तिरोभावः । एवं पटे- घटादीनाम्। यद्यपि सर्वेषां पढार्थानां ब्रह्मरूपत्वेन सर्वधर्मवणे,
सप्रकाशः।
तथापि मत्स्यावतारवज्जलाहरणकार्याथमेव घटब्रह्मण आवि-
र्भावः । एवमावरणकार्यार्थमेव पटरूपब्रह्मणः । एतेनान्योन्या-
भावानङ्गीकारे घटेन पटकार्य स्यादित्यादि निरस्तम् । भगवत-
स्तथेच्छातः सर्वमनवद्यम् । एवमत्यन्ताभावोऽपि तिरोभावेनैव
गतार्थ इति दिक् ॥
अमावस्याधिकरणरूपत्वमित्यन्यत्र विस्तरः ।। १७ ॥
एवं प्रपञ्चस्य सत्यत्वमुपपाद्य तत्पसङ्गेनाविर्भावतिरोभावौ
निरूप्य प्रस्तुतं कार्यस्य कारणस्य अधिकरणस्य करणस्य
अपादानस्य सम्बन्धस्य संम्पदानस्य कर्मणः कर्तुः प्रकारस्य
ब्रह्मरूपत्वमेवेति श्रीभागवतपद्येनाहुः-
यत्र येन यतो यस्य यस्मै यद्यद्यथा यदा ।।
स्पादिदं भगवान् साक्षात् प्रधानपुरुपेश्वरः ।।१८।।
इति भागवते पद्ये सर्वस्य ब्रह्मता श्रुता ॥
श्रुतिसूत्रैः स्मृतिगणैदृष्टिः स्वर्णार्थिनो यथा ॥१९॥
यत्रेत्यादि।यदेति॥कालार्थक-दा-प्रत्ययेन कालस्यापि
ब्रह्मत्वमुक्तम् । अत एव,कालोऽस्मीति श्रीभगवद्वाक्यम् । एतेन
अस्मन्मते न द्वैतलेशः । एतेनोपादानत्वे निमित्त्वानुपपत्ति-
स्तत्त्वे चोपादानस्येति परास्तम् । सर्वभवनसमर्थत्वाद् ब्रह्मणः ।
विरुद्धधर्माश्रयत्वस्य ब्रह्मणो लक्षणत्वात् । तच्च मागेव निरूपित-
म्॥१८॥
इतीत्यादि । श्रुतयः, सर्व खल्विदं ब्रह्मेत्यादयः । एव.
श्रात्माका पित्यादिसूत्राणि । भूतानि विष्णुर्मुवनानि विष्णु-
रिति विष्णुपुराणे । वासुदेवः सर्वमिति स महात्मा मुदुर्लभ
इति गीतायाम् ॥ १९॥
१५ शुद्धाद्वैतमार्तण्डः। दृष्टान्तमुपपादयन्ति- सुवर्णस्य च ये खण्डाः कटका मुद्रिकादयः ।। सुवर्णत्वेन गृह्णाति तथा ब्रह्मविदो मतिः ॥ २० ॥ सुर्वणस्येत्यादि ॥ यया हिरण्यं बहुधा समीयते नृभिः क्रियाभिर्व्यवहारवर्मसु * एवं वचोभिर्भगवानपोक्षजो व्या- ख्यायते लौकिकवैदिकैजनैरिति श्रीभागवताष्टमस्कन्धवाक्या- 'त् । यथा सुवर्ण सुकृतं पुरस्तात् पश्चाच सर्वस्य हिरण्मयस्य * तदेव मध्ये व्यवहार्यमाणं नानापदेशैरहमस्य तद्वद्, इति तस्यैव एकादशस्कन्धवाक्याचेति भावः ॥ २० ॥ तत्र श्रुति प्रमाणयन्ति- यथा सौम्येत्यादिश्रुतौ स्पष्टमेव निरूपितम् ।। तथा तत्त्वमसीत्यत्राभेदोंऽशांशिविचारतः ॥ २१ ॥ यथेत्यादि । यथा सौम्य एकेन मृत्पिण्डेन सर्वे मृण्मयं विज्ञातं भवतीत्यादिश्रुतौ यथा मृत्तवयवयोरभेदस्तथा तत्त्व- मसीत्यत्राभेदोंऽशांशिनोरभेदादित्यर्थः ।। अत्र सर्वेपां मतसङ्ग्रहश्लोकः- केचित्तत्त्वमसीतिवाक्यविपये तत्त्वम्पदे लक्षणां केचित्तत्र उसो लुकं विदधते भाष्यं तु कचिजगुः॥ केचिचिद्विपयादभेदमपरे छिन्दन्त्यतत्वं पदं सिद्धान्ते तु सुवर्णवजगदिदं ब्रह्मैव जीवस्तथा ॥१॥ अस्यार्थस्तु- केचिच्छङ्कराचार्याः, तच्छब्देन सर्वज्ञत्वादि- विशिष्टं ब्रह्म, त्वंशन्देनाल्पज्ञत्वादिविशिष्टो जीवस्तयोरभेदो न सम्भवतीति भागयोः सर्वज्ञत्वाल्पज्ञत्वयोस्त्यागे केवलचिदंश- मात्रग्रहणेनाभेदः । सोऽयं देवदत्त इतिवन्नागत्यागलक्षणां , . विदधते । केचिद् रामानुजमाध्वशैवाः,तत्त्वमित्यत्र, सुपां सुलुक्- पूर्वसवर्णाच्छेयाडाड्यायाजाले इति सूत्रेण डसो लुकं विदधते । तस्य त्वमसि. तत्सम्बन्ध्यसि । सम्बन्धश्च सेव्यसेवकभावः । केचिद् रामानुजादिमतव्याख्यातारो भाष्यं व्याकरणभाष्यं प्रातिपदिकनिर्देशे यां यां विभाक्तिं बुद्धिरुपजायते सा सा आ- श्रयितव्येत्यचः परस्मिन्नितिसूत्रे । तदिति मातिपदिकम् । तेन पष्ठीविभक्तेराश्रयणम् । अर्थः पूर्ववत् । केचिनिम्बार्काचिद्विपया- ञ्चित्त्वसाधाद् अभेदः । केचिन्माध्यैकदेशिनः, अतत्त्वमसीति पदं छिन्दन्ति । तत्रार्थस्तु, तद् ब्रह्म त्वं नासि, किं तर्हि, जीवो- ऽसीत्यर्थः । सिद्धान्ते ब्रह्मवादिसिद्धान्ते । सुवर्णस्यांशाः सुर्वणरूपास्तथा ब्रह्मांशं जगद् ब्रह्मैव, तथा जीवोऽपि चिदंशो ब्रह्मानेन वाक्येन वोध्यत इत्यर्थः॥१॥ एवमुक्तानां खण्डनसङ्ग्रहश्लोकः- तत्रोपक्रमसङ्गतिर्बहुविधा भग्ना प्रतिज्ञाश्रुति- भक्तिः स्याद्यदि, न त्वमेव कथयेनेदे च नो तुल्यता ।। साधर्म्यऽपि तु भेद एव रसितश्छेदो न सम्यग्यतः सिद्धान्तः श्रुतिसंमतो विलसति माविचार्य मुहुः ॥२॥ एतदर्थस्तु- शङ्कराचार्यादिव्याख्यानेषु उपक्रमस्य सङ्गति- पहुप्रकारेण भग्ना स्यात् । तथाहि । तत्त्वमसीतिवाक्यं श्वेत- केतूपाख्यानेऽस्ति । तत्रोपक्रमे, अपि वा तमादेशममाक्षो येना- ऽश्रुतं श्रुतं भवत्यमतं मतं भवत्यविज्ञातं विज्ञातं भवतीत्यादिना एकाविज्ञाने सविज्ञानं प्रतिज्ञातम् । तदेकमेव चेत् सर्वं भर्वत् तदोप- पद्यते । यया सुवर्णकार्य सुवर्णखण्डाः सर्व सुवर्णमिति सुवर्ण- ज्ञानेन तज्ज्ञानम्भवति। तदर्थ, सदेव सौम्येत्यारभ्य निरूपितम्।
१७ शुद्धाऽदैतमार्तण्डः। ततो जडस्य सर्वस्यापि सदात्मकत्वार्थम्, ऐतदात्म्यमिदं सर्वमित्युक्तम् । तर्हि जडगताऽसत्यत्वादिदोपस्तत्परिहारार्थ- माह । तत्सत्यमिति । तेनाविर्भावतिरोभावौ पदार्थानां यौ। पूर्वोत्तरयोर्जडजीवयोः सदात्मकत्वे हेतुमाह । स आत्मेति । एवं जडस्य ब्रह्मात्मकत्वमुक्त्वा जीवस्याप्याह । तत्त्वमसीति । उपदेशश्वाऽयम् । आत्तिरसदुपदेशादिति ब्रह्मसूत्रात् । अतः सम्पूर्णमहावाक्यमुपदेशः । तत्र यथा ऐतदात्म्यामिति सदंशे न भागत्यागलक्षणा, तथोत्तरत्रापि चिदंशे न भागत्यागलक्षणा । नापि श्वेतकेतुरवतारः, पूर्व स्तब्धत्वादिदोपकीर्तनात् । अतो ब्रह्मवाक्यत्वात्तदेकदेशस्तत्त्वमसीति केवलं जीवब्रह्मणोरक्यं न बोधयति, वाक्यभेदप्रसङ्गाद् उपक्रमविरोधाचेति सर्व श्रीमदा- चार्यचरणैरुक्तम् । एवञ्च, उपक्रमोपसंहारे योऽर्थस्तु प्रतिपद्यते । स एवोत्तरपक्षः स्यात् पूर्वपक्षस्ततोऽन्यथा, इत्याभियुक्तो- तरुपक्रमविरोधेन लक्षणा नाङ्गीकार्येत्यर्थः । भेदयादिनां मरो सर्वविज्ञानप्रतिज्ञाभङ्गो, जगतो भिन्नत्वात् । न हि सुवर्णज्ञाने मृद्विकारा ज्ञापन्ते । किन्तु सुवर्णविकारा एवावास्तविकभेदाभेद- वादिनां मते भेदज्ञानस्य वास्तवत्वेन तेपां भेदवादिवदुपक्रम- विरोधः, प्रतिज्ञाहानिश्च । किञ्च भक्तिर्लक्षणा यदि स्यात् तर्हि वंशब्दवाच्यस्य पिण्डस्य ब्रह्मत्वमिष्टं न स्यात्तर्हि, न त्वमसी- त्येव श्रूयात् । त्वमल्पगुणोपाधिको ब्रह्म नासीत्यर्थः । कथयति स्वेवं, तस्माल्लक्षणा नाभिमता । भेदे च, तस्य त्वमसीति व्या- ख्याने भेद एव स्थितः । तथाच जीवस्य भिन्नत्वात् कस्यचित् मुखं कस्यचिद् दुःखमिति ब्रमणि चैपम्यमित्यर्थः । एतचाग्रे वक्ष्यन्ति । भेदाभेदवादिमते चिचसाधयेणाभेदस्तथाच भेद , ३ सप्रकाशः। एव, रसितः पर्यवसित इत्यर्थः । एवञ्च भेदवादिवत्तेपामपि मते दोपः । अतत्त्वमसीतिच्छेदस्तु न वैदिकसंमत इति श्रीमदाचार्य- चरणोक्तर्न सम्यक् । तस्मिन् पक्षे, अतत् ब्रह्म त्वं नासीत्यर्थे, जीवोऽसीति पर्यवसिते जीवस्य स्वतः सिद्धत्वेन ब्रह्मत्वस्या- ऽमाप्त्या च तादृशपदच्छेदो न सम्यगित्यर्थः । अतः पूर्वश्लोके, छिन्दन्त्यतत्त्वं पदमित्युक्तम् । तत्रातत्त्वम् । अवैदिकसंमतं पदं छिन्दन्तीत्यपि श्लोकार्थः । सिद्धान्तः शुद्धाद्वैतसिद्धान्तः । श्रुतिसंमत उपक्रमोपसंहारश्रुतिसमत इति माहः पण्डितैर्विचार्य- मित्यर्थः ॥ २१ ॥ एवमदैतपदार्थ निरूप्य शुद्धपदव्यावर्त्यमाहुः- अत्रैव शाङ्कराः प्राहुर्मायिकं नश्वरं जगत् ।। मायासम्यन्धतो ब्रह्म कारणं नान्यथैव हि ॥२२॥ अत्रैवेत्यादि । कार्यकारणविचारे । शङ्करा एव शाङ्कराः। स्वार्थेऽण् । ईदृशं घटपटाद्यात्मकं जगन्मायिकमतो नश्वरं नाश- शालि । एपो मते प्रपञ्चस्य मायिकत्वेन तस्य कारणेन तादृशेनैव भवितव्यम् । कारणसजातीयत्वात् कार्यस्य । तचाज्ञानमेव कारणम् । ब्रह्मणस्तु निष्कलं निष्क्रिय शान्तं निरवयं निरअन- म् । अथात आदेशो नेति नेतीत्यादिश्रुतिभ्यः । इन्द्रो माया- भिः पुरुरूप ईयते, यद्वाचानभ्युदितं येन वागभ्युद्यते तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासत इत्यादिश्रुतिभ्यो निराकारत्व- मकर्तृत्वमुपास्यस्याब्रह्मत्वम् । किञ्च यद्यत् कर्तृ तत्तत् सधर्म- कम् । यद्यत् साकृति तत्तन्नश्वरमित्यनुमानत आकारस्य नश्वर• त्वेन च ब्रह्मणो निराकारत्वसिद्धिः । अज्ञानं चाहमज्ञ इ- त्यनुभवसिद्धम् । तस्य नामान्तरं माया चाविद्येति । सा वि- शुद्धाद्वैतमार्तण्डः । १९ चित्रपरिणामशीला । तया विचित्र जगत् प्रतीयते । शुद्धसत्व- प्रधाना माया । मलिनसत्त्वमाधानाऽविद्येति भेदः । तत्र यथा जलदर्पणादिपु सूर्यादिप्रतिविम्बस्तद्वन्मायाविद्यादिब्रह्मप्रतिबिम्ब- तयेशजीवव्यवहारः। यथावाऽऽकाशस्य रक्षवनादिना परिच्छेद- प्रतीतौ वृक्षवनाऽऽकाशादिव्यवहारस्तथा अविद्यामायासम्बन्धेन जीवेशादिव्यवहारः । यथा वाङ्गुलिसम्पर्कादिना विचन्द्रादिमती- तिस्तथा मायासम्बन्धतो जीवेशादिमतीतिः । अत एव, आभास एव चेति सूत्रेण व्यासजीवस्याभासत्वमुक्तम् । यथा रजौ साभासस्तथा ब्रह्मणि जीवाभास इति । अत एव, वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमिति श्रुतौ वाचैवारभ्यते विकारो घटादिर्नवस्तुतः सदित्यर्थः।यदिदं मनसा वाचा चक्षुभ्यां श्रवणादिभिः * नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् इति श्रीभगवद्वाक्येनापि मायिकत्वेन नश्वरत्वसिद्धरतो भ्रान्त्यय जगत्पतीतिरतो ब्रह्मण्यपि कर्तृत्वादिकं भ्रान्तिरेव ॥ ननु विश्वतश्चक्षुः, सहस्रशीर्षा, सम्वाहुभ्यां धमति, प्र- भानधनः, विश्वस्य कर्त्ता भुवनस्य गोप्ता, जन्माघस्य यत्तः, कर्चा कारयिता इरिः, अहं सर्वस्य प्रभव इत्यादिश्रुतिसूचस्मृति- भिः साकारत्वं कर्तृत्वं च सिद्धत्वादिति चेन्न । शुद्धब्रह्मणो दुर्जेयत्वेन शाखारुन्धतीन्यायेनोपासनार्थ सधर्मकत्वं ब्रह्मण्यारोप्य पथानिषेधकतया कर्तृत्वावपेतं ब्रह्म बोधयति । उपासनया हि चित्तशुद्धी सत्यामद्वैतस्फूर्त्या विद्यानिवृत्त्या ब्रह्मैव भवतीति तेषां मतम् । तन्न । यदिदं किन्न तत् सत्यमित्याचक्षते । त- त्सत्यम् । सर्वं खलित्यादि । तदेतदक्षयं नित्यं जगन्मुनियरा- खिलमित्यादिवाक्यादुक्तवाक्यैश्च जगतःसत्यत्वं ब्रह्मत्वं चोक्त मिति जगतो मायिकत्वे मानाभावात् । प्रत्यक्षकादशशाखामु च , .
'सप्रकाशः। . मिध्यात्वकथनाभावात् । कार्यकारणयोः साजात्या ब्रह्मणः कर्तृत्वं यतो वेत्यादि, जन्माद्यस्येत्यादिवाक्यैः प्रतिपादितम् । असतोऽज्ञानस्य कारणत्वाभावात् । नचासतः स्वमस्य शुभा• शुभफलसूचकत्वेन कारणत्वमिति वाच्यम् । जागरितदशायां दृष्टश्रुतस्य मननसम्बन्धेन स्वमदर्शनादतः सत एव कारणत्वम् । अन्यथा स्वाग्निकभोजनाद् वास्तविकी तृप्तिः स्यात् । निष्कल- मित्यादिश्रुतौ लौकिकक्रियाकलासत्त्वादिगुणजन्यशरीरविकारी- न्द्रियजडधर्मनिपेधपरत्वेन कथनात् । सामान्यनिषेधे तु एतस्यैवा- नन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीतिकलाया, असीनो दूरं बजतीत्यादी क्रियाया, एको देवः सर्वभूतेषु गूढ इत्यादि- गुणानाम् , अपाणिपादो जवनो ग्रहीतेति, उताऽमृतत्वस्येशान इत्युत्का. सर्वतः पाणिपादकथनादन्यथा शरीरस्याविकारीन्द्रिया- णाम् , अणोरणीयान् महतो महीयानित्यादावणुत्वादिवोधकानां विरोधापत्तेः अथात इत्यत्रेतिशब्दः प्रकारवाची । तेन लौकिक- प्रकारकं न भवतीत्यर्थः । व्यासचरणैः, प्रकृततावत्वं हि प्रतिषेधति ततो ब्रवीति च भूय इति सूत्रं पठितम् । तत्र निषेध- चाक्येरेतावत्वस्थूलत्वादिकं प्रकृतं लौकिकं प्रतिपेधति, न तु ब्रह्मधर्मान् । ततो ब्रवीति च भूय इति । यत्र वाक्ये प्रकरणे वा निषेधति तत्रैव पुनस्तद्धर्ममाह श्रुतिः । अस्थूलात्का, एतस्यैवाऽक्षरस्य प्रशासने गार्गि द्यावाभूमी विधृते तिष्ठत इती- स्पर्धः । पदीदं सूत्रं भू मूर्त्तनिपेधपरं तर्हि प्रकृतैतावत्पदयो- रन्यतरवैयापातः । अथवा प्रकृने ब्रह्मणि यदेतायत्त्वं, तत् प्रतिपेधतीति । इन्द्रो मायाभिरिति तु- रूपं रूपं प्रतिरूपो बभूव यत्तस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते इति मन्त्रः । तन माया ज्ञानं शुद्धाद्वैतमार्तण्डः । २१ प्रति करणं, न तु ब्रह्मणो वहुस्वरूपत्वे । अन्यथा पूर्वार्द एव मायाभिः पुरुरूपो बभूवेति वदेत् ।। यद् वाचेत्यस्यार्थस्तु, यद् वागाद्यगम्यं तत् मेरयित् ब्रह्म विद्धि, नेदं वागादि । तर्हि कथं तस्य ज्ञानम् ? । तत्राह । यदिदं श्रुतिप्रसिद्धम् उपासते, वैदिका इति शेपः । यद्युपास्यस्य अब्रह्मत्वमभिप्रेयात् पुनरिदकारं न ब्रूयात् । नेदं यदुपासत इत्येतावतैव सिद्धः । यद्यत् साकृति तत्तनश्वरमित्यनुमाने तु जन्पत्वात् माकृतत्वादेति हेतौरवश्यं वाच्यत्वेनेश्वरे तदभावात् । अज्ञानं चेत्यादिकथनं त्वपेशलम् । तदज्ञानं ब्रह्मणि जीवे वा । आये ब्रह्मण आधारत्वापत्तौ सविशेपत्वापत्तिः । अज्ञानित्वा- पत्तिश्च । जीवस्य त्वज्ञानरूपत्वमेवेति । न द्वितीयः । जलादौ स्वच्छाधारे रूपवत्मतिविम्बदर्शनेन मायाया मालिनत्वेन मिथ्या- त्वेन ब्रह्मणश्चारूपत्वेन प्रतिविम्बासम्भवः । अन्यथा वायोरपि काठे स्यादित्यादि विद्वन्मण्डने बहुशो निरूपितम् । आकाशस्य तु न प्रतिविम्बः, किन्तु प्रभामण्डलस्य । किञ्च, पञ्चीकरण- प्रक्रिययाकाशे पृथिव्यंशसत्त्वेन रूपवत्तया प्रतिविम्वत्वोपपत्तेः । वायौ त्वनुद्भूतरूपवत्त्वेन रूपवत्त्वाप्रतीतेः । एकथा बहुधा चैव दृश्यते जलचन्द्रवदिति दृष्टान्त एकस्य नानात्वे, न तु पति- बिम्बत्वे । किञ्च । प्रतिविम्वपक्षे ब्रह्मणो विम्वत्वापत्तौ सविशेष- त्वापत्तेः । "आभास एव चैति सूत्रं त्वनाचारिब्राह्मणे यथा ब्राह्मणाभासस्तथा तिरोहितानन्दांशे ब्रह्माभास इतियोधकम् । रजुसर्पदृष्टान्तोऽपि न सम्भवति । अन्यत्र वास्तविकदृष्टसर्पस्य दृश्ये रज्जी तृतीयस्य द्रष्टुःसाभासः। अत्र जगतो वास्तविक- स्याभावाद् ब्रह्मणश्चादृश्यत्वेन द्रष्टुश्चाभावेन वैपम्यात् । किञ्च, घटपटाद्यात्मनाभासे यथा रज्जो नाऽश्वाकाराभासः, किन्तु .
२२ समकाशः। साभास एव तत्सादृश्यात् । एवं ब्रह्मण्यपि तादृशत्वापत्ती साकारत्वापत्तिः। गन्धर्वनगरादिष्वपि वायुसम्बन्धेन जायमान- त्वेनानान्यस्याभावानात्र दृष्टान्तसम्भवः । वाचारम्भणवाक्यं तु ब्रह्माभिन्नत्ववोधकमित्यग्रे वक्ष्यते । यदिदमिति इलोके तु चक्षुराभिर्नश्वरं गृह्यमाणं यत् तन्मायामनोमयं विद्धीत्यन्वयेन स्वामिकस्यैव नश्वरत्वेन तस्यैव मायिकत्वात् । अत एव, मायामात्रं तु कास्न्येनानभिव्यक्तस्वरूपत्वादिति व्यासपादैः स्वामिकमपञ्चस्य मायिकत्वमुक्तम् । अत एव च, वैधाच्च न स्वमादिवदित्यनेन जगतः स्वमादिवत्त्वनिषेधेन जगतो मायिक- त्वाभाव उक्तः।। श्रीमभुचरणैस्तु, यदिदं यादवकुलं चक्षुरादिभिखमाणं तन्मायिकं नश्वरं विद्धि । विपशापः कथमभूद् वृष्णीनामिति प्रश्नोत्तरप्रकरणे निरूपितत्वादित्युक्तम् । अतो न केनाऽपि वाक्येन मायिकत्वम् । किश्च, मायिकत्वं पुराणेषु वैराग्यार्थमुदीर्यत इति श्रीमदाचार्य- चरणैरुक्तम् । उपासनार्य धर्मारोप इत्यादिकमप्ययौक्तिकम्। नहि शाखावत् मत्यक्षब्रह्म,यस्मिन्नरुन्धतीव धर्मा आरोप्यन्ते। किञ्चोप- हितस्य त्याज्यत्वेन पुत्रादिवत् तत्यागापत्तिः । किञ्च, न मिथ्या- झानेन चित्तशुद्धिः । अन्यया मापनिकज्ञानेनाऽपि चित्तशुद्धिः स्यात् । किञ्च, जीवन्मुक्त्युच्छेदापत्तिः । ज्ञानोदयेऽविद्याशरीर- • निवृत्तिः किन, प्रवेशानुपपत्तिः । जीवहानिरेव मोक्षः । जीवस्य मायिकत्वेन मायानाशे तन्नाश इति दिक् ॥ २२ ॥ मायामूलत्वमस्य मतस्यातो मायाजन्याजन्यत्वे पृष्ट्वोभयं दुपयन्ति- फिश जन्या त्वजन्या या मायाऽऽधे जनको हिकः ॥ .
- शुद्धाद्वैतमार्तण्डः। २३ अन्याभावात्तु ब्रह्मैव सविशेषत्वमागतम् ।। २३ ।। द्वितीये त्वद्वैतभङ्गः कादाचित्कं त्वसगतम् ॥ आत्मैवेदमन आसीदित्यादिश्रुतियाधतः ॥ २४ ॥ किश्चेत्यादि । आये जन्यति पक्षे ॥ ब्रह्मैव जनक इति चेत् तईि भद्र, सविशेषत्वं ब्रह्मण्यागतमित्यर्थः ॥ २३ ॥ २४॥ अनादित्वे तु सान्तत्वमिति पक्षोऽप्यसङ्गतः ।। अनादित्वे त्वनन्तत्वं मायायाइति निश्चयात् ॥२५॥ यद्यदनादि तत्तदनन्तम् । यथा ब्रह्मेत्यनुमानेन मायाया अप्यनन्तत्वापत्तेः । अथानादिः सान्तः प्रागभाव इति, नायं नियम इति चेन्न । प्रागभावखण्डनस्योपपादितत्वेन न व्यभि- चारः ॥ २५ ॥ एवं तन्मतं खण्डयित्वा प्रकृतमाहुः- एतन्मते सुनिष्पन्नं सायं कार्यकारणे ॥ तन्निवृत्त्यर्थमाचार्यः पदं शुद्धं विशेपितम् ॥२६॥ एतन्मत इति॥ शङ्कराचार्यमत इत्यर्थः । अविद्यावच्छिन्नं चैतन्यं कार्य, मायावच्छिन्नं चैतन्यं कारणमिति सार्यमित्य- ऽर्थः। तमित्यर्थ साङ्कर्यनिवृत्त्यर्थम् । अद्वैतपदे विशेष्ये विशेषण- तयान्वितमित्यर्थः ॥ २६ ॥ एवं शुद्धपदप्रयोजनमुक्त्वा समासमाहुः- शुद्धादैतपदे ज्ञेयः समासः कर्मधारयः॥ अद्वैत शुद्धयोः माहुः पष्ठीतत्पुरुषं वुधाः ॥ २७ ॥ शुद्धाद्वैतपद इत्यादि।।कर्मधारय इति।।शुद्धं च तदद्वैतमिति विग्रहः । नचाद्वैते सति साङ्कर्याभावः स्पष्ट एवेति शुद्धपदमपा- ऽयमिति वाच्यम् । परेपो मते पूर्व साङ्कर्य, ततोऽद्वैतम् । अस्म- , सप्रकाशः। न्मते तु सदैव शुद्धत्वमिति ज्ञेयम् । अत एव स्पष्टतया वोधाय पष्ठीतत्पुरुपमाहुः अत्र शुद्ध कारणे कार्यस्याद्वैतमिति पक्षे कार्ये अशुद्धत्वम् । अयं दोपः, शुद्धेन ब्रह्मणा अद्वैतमिति तृतीया- तत्पुरुषेऽपि । शुद्धाभ्यामद्वैतमिति पक्षे तातीयोऽपेक्षितः। शुद्धाभ्यां नामरूपाभ्यामिति समासे कारणेऽशुद्धत्वम् । एवं शुद्धस्य कार्य- स्येति पक्षे कारणेऽशुद्धत्व प्राप्तम् । एवं शुद्धानां पदार्थानाम- द्वैतमित्यत्रापि ।। २७॥ मायासम्पन्धरहितं शुद्धमित्युच्यते वुधैः । कार्यकारणरूपं हि शुद्धं ब्रह्म न मायिकम् ॥ २८ ॥ मायासम्बन्धरहितमिति ॥ नचाहन्ताममताऽध्यासस्य मायाकृतत्वेन मायासम्बन्धस्य स्वमतेऽपि सम्भव इति वाच्यम् । स्वमते मायाया अपि, मम मायेति वाक्याद् भगवच्छक्तित्वेन तस्याश्चाभिन्नत्वेन न परमतवन्मायासम्बन्धः । किञ्चाध्यास एव मायिको, न जीवः । जीवस्य मायिकत्वं तु पूर्व निरस्तम्॥२८॥ इति ब्रह्मविदां हाई शुद्धाद्वैतं श्रुतेर्मतम् ।। तत्रोत्तमा मध्यमाश्च कनिष्ठा ह्यधिकारिणः॥२९॥ इतीति ।। श्रुतेरिति जातावेकवचनम् | नृसिंहतापिन्यां, योनितं ब्रह्मणः समर्थयित्वा, सर्व सर्वमयं सर्वे जीवाः सर्व- मयाः सर्वावस्थासु तथाऽप्यल्पा इत्युक्तम् । तथापि सर्वरूपत्वे- ऽप्यल्पा अणुपरिमाणाः । अग्रे चेश्वरः सर्वभूलादीनि सृष्टा भविश्यास्त इति निरूप्याग्रे, सन्मानो नित्यः शुद्धो युद्धः सत्यो मुक्तो निरजनो विभुरद्वय आनन्दः परः प्रत्यगेकरसः प्रमाणे- रेतैरवगत इति वाक्यं पठितम् । अनेन परमात्मनः शुद्धत्वम् उदितम् । अग्रे च जगतोऽविधायाश्च सद्रूपत्वेन ब्रह्माभेदो, ब्रह्म- .
शुद्धाऽदैतमार्तण्डः। ण्यऽविद्याभावो निरूपितः । उपसंहारे, विष्णुरीशानो ब्रह्मान्य. दपि सर्वं सर्वगमिति वाक्यं पठितम् । यत् सर्वगं कारणभूतं ब्रह्म तदेव विष्ण्वादिरूपं घटादिरूपं चेतनाचेतनाऽऽत्मकमित्य- ऽर्थः । एतदने सर्वस्य जगतः शुद्धात्मत्वाय वाक्यं पठितम् । सर्वगत एव, शुद्धोऽवाध्यस्वरूपो, बुद्धः सुखरूप आत्मेति । एवञ्च श्रुतिषु सर्वस्य शुद्धाद्वयत्वं स्पष्टमतः श्रुतेर्मतमित्यर्थः ॥ २९ ॥ तेपा प्रतीतिः प्रथमस्कन्धे तु श्रीहुताशनैः ।। इदं हि विश्वमित्यत्र सुयोधिन्यां निरूपिता ॥३०॥ तेषामिति॥ अधिकारिणामित्यर्थः। श्रीहुताशनैःश्रीमदा- चार्यचरणैः॥ इदं हि विश्वामित्यत्रेति॥ इदं हि विश्वं भगवानिवे- तरो यस्मिअगत्स्याननिरोधसम्भवाः * तद्धि स्वयं वेद भयाँ- स्तथापि वै मादेशमात्रं भवतः प्रदर्शितम् इति श्लोके इत्यर्थः। अत्रेदं विश्न भगवानित्युत्तमस्य प्रतीतिः । इदं विश्वं भगवा- निवेति मध्यमस्य । तत्र यथा भगवान् सच्चिदानन्दरूपस्तथा जगदिति । इदं विश्वं, भगवान् इतरो जगत्कारणत्वादिति कनिष्ठस्येति श्लोकार्थः॥३०॥ सर्व ब्रह्मैव तत्राये द्वितीये भगवान् यथा ॥ तथा विश्वमिदं सर्व ब्रह्मकार्य निजेच्छया ॥३१॥ कार्यरूपेण भेदो हि न भेदः कारणात्मना । भेदसह्यस्त्वभेदोन तादात्म्यं परिकीर्तितम् ॥ ३२॥ तृतीये भगवान् भिन्नो जगतः कर्तृतः स्फुटः ।। इति द्वैतप्रतीतिस्तु श्रुतियाधान्न गृह्यते ॥ ३३ ॥ तत्रेति । अधिकारिष्पित्यर्थः॥ आये उत्तमाधिकारिणि ।। सर्व भगवानेवेति सर्वत्र भगवत्स्फतिः सदेत्युत्तमाधिकारिणः- ४ समकाशः। प्रतीतिः ॥ द्वितीये मध्यमेऽधिकारिणि ॥ ३१ ॥ ३२ ॥ तृतीये कनिष्ठेऽधिकारिणि । यथा घटोत्पादकः कुलालो घटतो भिन्नस्तथा भगवाअगतो भिन्न इत्यर्थः ॥ श्रुतिवाधादिति॥ सर्वं खल्विदं ब्रह्म,ऐतदात्म्यमिदं सर्वम् । आत्मैवेदं सर्वम् । पुरुष .एवेदं सर्वं यद् भृतं यच्च भाव्यम् । द्वितीयादै भयं भवति । य एत- स्मिन्नुदरमन्तरं कुरुतेऽय तस्य भयं भवति, योऽन्यां देवता- मुपास्तेऽन्योऽसावन्योऽहमस्मि न स वेद यथा पशुरित्यादि- श्रुतिवाधादित्यर्थः ॥ ३३॥ शुद्धादतविदां या हि प्रतीतिः सोत्तमा मता।। भेदाभेदप्रतीतिस्तु मध्यमानां प्रकीर्तिता ॥३४॥ शुद्धाद्वैतविदामिति॥सर्वत्र भगवत्स्फूर्त्या विषयान्तरानु- सन्धानानुदयादिति भावः ॥ भेदाभेदमतीतिरिति ॥ कार्यरूपेण भेदः कारणात्मनाऽभेद इति प्रतीतिरित्यर्थः ।।मध्यमानामिति ॥ अधिकारिणामित्यर्थः ॥ ३४ ॥ अतो हि मध्यमः पक्षः शुद्धादैतानुरोधतः ॥ बोधाय बहु सन्दर्भे गोस्वामिपुरुषोत्तमैः ॥ ३५ ॥ शुद्धाद्वैतानुरोधत इति ॥ कार्यत्वेन कारणत्वेन भेदेऽपि ब्रह्मत्वं न व्यभिचरतीति शुद्धाद्वैतानुरोधस्तस्मादित्यर्थः । स- न्दर्भ इति ॥ ग्रन्थ इत्यर्थः । वाक्यसन्दर्भो ग्रन्थ इति लक्षणा- त् ॥ ३५ ॥ श्रीमदाचार्यचरणैर्यत्र कुत्रापि दर्शितः ॥ निम्बार्कभास्कराचार्यों भेदाभेदनिरूपकौ ॥३६॥ श्रीमदाचार्यचरणैरिति । मुबोधिन्यादिषु यत्रकुत्रापि दर्शित इत्यर्थः । ननु भेदाभेदपक्षस्तु निम्बार्कभास्कराणामिति • * शुद्धाऽद्वैतमार्तण्डः। २७ शङ्कायां स्वस्माद्भिन्नत्वं समर्थयन्ति ॥ निम्बार्केत्यादि ॥ ३६ ।। तत्राद्यानां वास्तवः स भास्कराणामुपाधितः ॥ तत्राद्ये वास्तवो भेदो माध्वाचार्यचदेव हि ॥ ३७॥ तत्रेति ॥ उभयोर्मध्य इत्यर्थः ।। आद्यानां निम्बार्काणा- म् । स भेदाभेदः ।। उपाधित इति ।। उपाधिकृत इत्यर्थः । तवेति ॥ भेदाभेदपक्ष इत्यर्थः।।आये निम्बार्कभेदाभेदे ।। तत्रा- ऽभेदो भेदश्चेति कोटिद्वये भेदो वास्तवः ॥ माध्वाचार्यवदिति दृष्टान्तेन माध्वाचार्यस्य मतमनूदितम् ॥ ३७॥ विभिन्नांशाः सदा जीवा न स्वांशा इति निश्चयः ॥ अभेदश्चित्त्वसाधादेवं तेषां मतस्थितिः ॥ ८॥ माध्वाचार्याणां मते अंशा द्विविधाः । करचरणादिवत् स्वांशाः । पुत्रादिवद् विभिन्नांशाः । तत्र स्वांशा मत्स्यादयः । विभिन्नांशा जीवाः । अंशत्वं नाम राश्येकदेशत्वम् । माध्यानु- यायिवनवमालिदासस्तु, तद्भिन्नत्वे सति तत्सदृशत्वमंशत्वम् । यथा चन्द्रमण्डलाच्छतांशो गुरुमण्डलः । तथाऽशो नानाव्यप- देशादित्यादिष्वित्याह । तेन जीवेषु न कदापि ब्रह्मत्वमिति । तद्वनिम्बार्काचार्याणाम् । तर्हि कथं भेदाभेदस्तबाहुः ॥ अभेद इति ॥ चित्त्वसाधादिति ॥ यथा मुखं चन्द्र इत्यत्राहादक- त्वादिधर्मसाम्यान्मुखे चन्द्रत्वारोपान्मुखं चन्द्र इति व्यवहार- स्तथाचित्त्वसाधाजीवो ब्रह्मेति व्यवहार इति भावः ॥ तेषां निर्वाकाणाम् ॥ ३८॥ कनिष्ठा सा प्रतीतिस्तु नास्मन्मतमवेक्षते ॥ अभेदो वास्तवः स्वांशा जीवाइनि निजे मते॥३९॥ कनिष्टाधिकारिप्रतीतिरतः कनिष्ठेत्यर्थः । निम्बार्कमैदा- २८ सप्रकाराः। ऽभेदमतीतिस्त्वित्यर्थः । अस्मन्मतं शुद्धातमतम् । एवं निम्बा- कोणां भेदाभेदं निरूप्य स्वमते प्रतीयमानं भेदाभेदं निरूपय- न्ति ॥ अभेदो वास्तव इति ॥ स्वांशा ब्रह्मांशाः । तेनांशांशिनो- रभेदः । स च वास्तव इत्यर्थः ॥ ३९ ॥ भेदः कार्यतया जातः क्रीडा तु हरीच्छया । पश्चाल्लये कारणे हि स्थितिष्टा यथा मृदि ॥४०॥ क्रीडार्थमित्यादि । एकाकी न रमते स द्वितीयमैच्छन्, एकोऽहं बहु स्यामित्यादिश्रुतेः । क्रीडार्थमात्मन इदं त्रिजगत् कृतं ते स्वाम्यं तु तत्र कुधियः पर ईश कुर्युरिति वाक्या, क्रीडाभाण्डमिदं विश्वमिति वाक्याच ॥ लय इति ॥ तिरोभावे । कारणे कार्यस्येति शेपः । त्वय्यग्र आसीत्वयि मध्य आसी- त्वय्यन्त आसीदिदमात्मतन्त्रे * त्वमादिरन्तो जगतोऽस्य मध्यं घटस्य मृत्स्नेव परः परस्माद् इत्यष्टमस्कन्धे अमृतमन्थने ब्रह्म- वाक्यात् । तदेव दृष्टान्तमुपपादयन्ति ॥ यथा मृदीति ॥ ४० ॥ पूर्वावस्था तु मृद्पा घटावस्था ततोऽभवत् ॥ घटोऽपि मृत्तिकारूपो लये पश्चाच मृत्तिका ॥४१॥ पूर्वावस्थेति ॥ कारणावस्थेत्यर्थः । ततः कारणरूपा- न्मृदः। ननु घटावस्थायां कथमद्वैतं तत्राहुः ।। घटोऽपीति ।। एव- श्च तिसृष्वप्यवस्थासु मृदेवैवं जगद् ब्रह्मैवेति न द्वैतसञ्चारः । अनेन, वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमिति श्रुत्युक्तं संगृहीतम् । श्रुत्यर्थस्तु- यो विकारः पृथुवुनोदरादिः स वाचारम्भणं, वाचिकक्रियात्मको न तु कारणाद् व्यक्ति भेदापादकः। यथा सुप्त उस्थिते उपविष्टे च पुरुपेऽवयवविन्यास- भेदो न पुरुपभेदः । अतो नामधेयङ्कारणस्यैव नामधेयं, कारण- मेव हि तत्तदर्थक्रियानिप्पत्त्यर्थ घटशरावादिनाम्ना व्यवाहियत इति , शुद्धाद्वैतमार्तण्डः। २९ कारणादभिन्न कार्यम् । तदाह,मृत्तिकेत्येव सत्यम् । कारणरूपेण, सत्यं न तु मिथ्या अन्यथा कार्याभावेन ब्रह्म कस्य कारणं भवेत्। कारणाभावे कारणप्रतिपादिकाः,यतो वेत्यादिश्रुतयो विरुद्धयेर- न् । यदि विकारे वाङ्मावतामभिप्रेयाद् वाचारम्भणं विकारो मृत्तिकैव सत्यमिति वदेत् । तावतैव कार्यस्य मिथ्यात्वसिद्धेः। वदति तु नामधेयमितिपदाभ्यां घटितम् । तेन कारणादभिन्न कार्यमित्यभिप्रायादुक्त एवार्थः । किञ्च, वाचारम्भणमिति वाक्यमुपक्रम्याग्रे, कथमसतः सज्जायतेति, सदेव सौम्येदमग्र- आसीदिति पठितम् । अत एव सूत्रकार इमामेव श्रुतिं विपयी- कृत्य,तदनन्यत्वमारम्भणशब्दादिभ्य इत्यवदत् । अर्थस्तु- वाचा. रम्भणमित्यादिशब्देभ्यस्तदनन्यत्वं कारणादभिन्नत्वं बोध्यत इति । अत्राऽऽदिपदेनेतिशब्दो, नामधेयपदं, सदेवेत्यादीनि वाक्यानि संगृह्यन्ते ॥४१॥ तदाहुः- कार्यकारणयोरक्यं स्वमते न परे मते ॥ नैम्वा नेशो मार्ग इति घोद्धव्यमञ्जसा ॥ ४२ ॥ कार्यकारणयोरित्यादि । परे स्वमताद्भिन्ने । शारा- चार्यास्तावत् कार्यकारणयोरनन्यत्वं कार्यस्य मिथ्यात्वाश्रयेण कथयन्ति । तेषां कार्यकारणयोरनन्यत्वं न सिद्ध्यति । सत्य- मिथ्ययोरभेदानुपपत्तेः । अत्र सर्वमतोपन्यासः, खण्डनं च विस्तरभिया नोच्यते ॥ नम्बार्के झते ॥ निम्बार्कस्येदं नम्बार्क मतं, तस्मिन्मत इत्यर्थः ॥ ईदृशः जगद्ब्रह्मणोरक्यवोधको मार्गः ॥ ४२ ॥ भास्कराचार्यमतमाहुः- सोपाधिको भास्करे हि स्वस्माद्भिन्नस्तु सर्वथा।
सप्रकाशः। भेदपक्षे तु जीवानां सुखदुःखादिंदानतः॥४३॥ वैषम्यनघण्यसंज्ञे दूपणे दे परे स्थिते ॥ अनादिकर्म चाश्रित्य समाधाने त्वनीशता ॥४४॥ सोपाधिक इति ॥ तदनन्यत्याधिकरणे । वाचारम्भण- वाक्यव्याख्याने कारणमेव हि कार्यात्मनाऽवतिष्ठते । मृत्समन्वितं हि त्रिवपि कालेपु कार्य, नाश्वमहिपवद्देशतः कालतो वा व्यतिरिक्तमुपलभ्यते । कारणस्यावस्थामात्र व्यतिरिक्ताऽव्य- तिरिक्तम् । शुक्तिरजतबदागमापायधर्मत्वात् । अनृतमनित्यमिति च व्यपदिश्यते । तदर्थमेव मृत्तिकेत्येव सत्यमित्युक्तम् । भेद- स्त्वौपाधिक इति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः आकाशाद्वायुः वायोरग्निरग्नेराप इत्यादिक्रमण । जीवस्यो- त्पत्तेरनुक्तत्वाद्, अजो नित्यः शाश्वतोऽयं पुराणः, अविनाशी. वा अरेऽयमात्मेत्यादिश्रुतीनामन्यथा कर्तुमशक्यत्वेन चोपाधि- कृतभेदाभिप्रायेण विस्फुलिङ्गश्रुतिविपरिणेयेत्यङ्गीकृत्याणुत्वं संसारदशायां लिङ्गशरीराभिप्रायेण मनसो लिङ्गस्य चाणुत्वाद्, वस्तुतो व्यापक इति चाङ्गीकृत्य जीवस्यांशत्वम् उपाध्यवच्छिन्न- त्वेनाङ्गीकृतम् । तथाच ब्रह्मणो निरवयवत्वमिति । यथागेरिति. श्रुतौ दृष्टान्तकयनेन यथाऽऽकाशस्य पार्थिवाधिष्ठानावच्छिन्न कर्णच्छिदं तथा.जीचोऽपि ब्रह्मणो भिन्नाभिन्नस्वरूपम् । अत- स्तस्य भिन्नरूपमौपाधिकमभिन्नरूपं तु स्वाभाविकमित्यादिपति- पादितं भास्कराचार्यैरतस्तेपांमते सोपाधिको भेदाभेद इत्यर्थः ।। स्वमतादतिरेकमाहुः ॥ स्वस्मादिति ॥ स्वमते जीवस्याणु- त्वं वास्तवम् । एपोऽणुरात्मा चेतसा चेदितव्य इति श्रुतेः। लिङ्गशरीराभिप्रायकथनेन लक्षणाङ्गीकार गौरवाज्जीवाभावाच ।
, शुद्धाऽद्वैतमार्तण्डः। एप,महानन आत्मेत्यादिव्यापकश्रुतीनां ब्रह्माकरणस्थत्वात् । अत एव, नाऽणुरतच्छ्रुतेरिति चेन्नेतराधिकाराद् इति तत्त्वसूत्रं सङ्गतं भवति । सूत्रार्थस्तु, जीवोऽणुन । अतच्छ्रुतेः । अणुत्वा- भावस्य महत्त्वस्य श्रुतेः, एप महानित्यादिनेति चेन्नेतराधिका- रात् । इयं श्रुतिर्ब्रह्माधिकारे पठिता तस्मादित्यर्थः । विस्फुलिङ्ग- श्रुत्या जीवस्पोद्गम एवोच्यते, नोत्पत्तिरिति सिद्धान्तादतो नानित्यतेति नाप्यजो नित्य इत्यादिश्रुतिविरोधः । आकाशादि- सृष्टौ तु क्रमेणोत्पत्तिः । तत्राप्यन्नात् पुरुपः, स वा एप पुरुपो- ऽन्नरसमय इत्युक्तेर्जीवस्य मादुर्भावोक्तेः । तच्छन्देनोपादानाद विस्फुलिङ्गन्यायेन तु सर्वस्योत्पत्तिरेकरीत्या । उपाधिकल्पनायां प्रमाणाभावः । व्यापकत्वं तु ब्रह्मत्वेनोत जीवत्वेन ? । आये शङ्करमतप्रवेशः । द्वितीये नैयायिकमतप्रवेशेनौपाधिकभेदस्य नि- रासेन स्वमतमच्युतिः । किञ्च व्यापकत्वे देवदत्तेनाम्ने भक्षिते यज्ञदत्तस्यापि तद्रसानुभवापतिः । आत्ममनःसंयोगकारणस्य तत्रापि सत्त्वात् । किञ्च जीवब्रह्मणोापकत्वे नियम्यनियामक- श्रुतिविरोध इति दिक् ॥ नचाणुत्वे सकलशरीरचैतन्यानुपलम्भः । प्रभावदुपपत्तेरि- स्यादि पूर्वमुदितम् । स्वमते भेदस्तु सुवर्णखण्डवदंशांशिभावेन स्पष्ट एवेति पूर्वापरावलोकनेन महद्वैलक्षण्यमत आहुः॥ सर्वथेति।। एवं भास्करमतं दुपयित्वा बास्तविकभेदे दूपणमाहुनाभेद- पक्षे विति ॥ भेदपक्षे तावदपि वा तमादेशममाक्षो येनाथुतं श्रुतं भवत्यविज्ञातं विज्ञातं भवति सौम्य यथैकेन मृत्पिण्डेन सर्व मृण्मयं विज्ञातमित्यादिषु श्रुतिषु सर्वविज्ञानमतिज्ञा मृत्पिण्डदृष्टा- न्तश्च विरुद्ध्यते ॥ ४३॥ किच, कस्यचित् सुखं कस्यचिद् दुःखमिति वैषम्यम् । , ३२ समकाशः। परक्लेशाभावकरणसामर्थ्यवत्त्वे तदकरणं नैपुण्यम्॥परे ब्रह्मणि।। ननु स्वार्जितकर्मणा माप्तं सुखं दुःखं भुज्यते । उत्तरोत्तरकर्मणः पूर्व पूर्व कर्म निमित्तम् । कर्मणवानादित्वानेश्वरे दोपप्रसक्ति- रतआहुः॥ अनादिकर्मेति ।। कर्मण एव फलदातृत्वे ईश्वरस्या- अयोजनतयाऽनीश्वरवादापत्तिः । कर्मणो जडत्वेन तदनुसारेण फलभोक्तृत्वमीश्वरेऽङ्गीक्रियते तहीश्वरस्य कर्माधीनत्वेन स्वा- १. तन्त्र्याभावात् कर्तृत्वानुपपत्तावीशत्वासिद्धिः । यत्र तु कर्मानु- सारेण फलभोक्तृत्वमुक्तं तत्रापि कर्मकारयितृत्वमीश्वरस्यैव । तथाह श्रुतिः । तमेव साधु कर्म कारयति यमेभ्यो लोकेभ्य ऊर्ध्वमुनिनीपति । तमेवासाधु कर्म कारयति यमेभ्यो लोकेभ्यो- ऽधोनिनीपतीति । एतेन साधुकारी साधुर्भवति । पापकारी पापो भवतीतिश्रुतौ भगवत्प्रेरणया साधुपापकर्तृत्वं वोध्यम् । तमेवेतिश्रुत्युनुरोधात् । अत एव, कर्ता शास्त्रार्थवत्त्वादितिसूत्रेण विध्यादिवोधितकर्मकर्तृत्वं जीवस्य । विध्यादिशास्वार्थो जीवो- देशेन प्रवृत्त इति कर्तृत्वं जीवस्योक्त्वा, स्वतो वा भगवत्प्रेरणया चेति संशये, परात्तु तच्छुतेरितिसूत्रेण परादीश्वरात् तस्य कर्तृत्वस्य श्रुतेरिति समाधानं सङ्गच्छते । तस्मात् कर्माश्रयत्वेन समाधाने त्वनीशत्वापत्तिः॥४४॥ अत्र सर्वेषां मतस्य दुष्टत्वेन तेपां नामान्याहुः- अत्रापि शाङ्कराः शैवा माध्या रामानुजादयः ।। निम्बार्का भास्करा भिक्षुर्येऽन्ये ते दोपसंश्रिताः॥४५॥ अनापीति ॥ कर्माश्रयत्वेन परिहारेऽपि ॥ शबलस्य ब्रह्मणो दोपपरिहाराय कर्माश्रयेण समाधानं शङ्कराचार्यैः कृतम्। शैवो रामानुजमततस्करो विशिष्टाद्वैतवादी । तस्य मतं त्वग्रे शुद्धाऽभ्रूतमार्तण्डः। ३ विवेच्यम् । भिक्षुमतमप्यग्रे ॥दोपसंश्रिता इति।। ईश्वरेऽनीश्वरा- पत्तिरूपदोपविशिष्टा इत्यर्थः ॥ ४५ ॥ ननु तर्हि सिद्धान्तेऽपीमौ दोपौ स्थितौ १, नेत्याहुः- आत्मसृष्टेर्न वैपम्यं नैण्यं चापि विद्यते ॥ श्रीमदाचार्यचरपौर्निवन्ध इदमीरितम् ॥ ४६ ॥ श्रीमत्मभुवरैर्विद्वन्मण्डनेऽपि निरूपितम् ।। रमणार्थमिदं विश्वमुच्चनीचादिभावतः ॥ ४७ ।। आत्मरूप चकाराऽतो हरिर्यस्मान्न दूपणम् ॥ शक्तिशक्तिमतोभदाभेदो यःसन बाधकः ॥४८॥ तत्र भेदो न चैवास्ति शक्तमत्वनिश्चयात् ॥ भिन्नत्वे तु जडत्वं स्याद् भेदोयो बोधनाय सः ॥४९॥ धर्ममिविचारेऽपि ज्ञेयमेवं विचक्षणैः ॥ प्रकाशाश्रयदृष्टान्तेऽप्यभेदो बोध्यते किल ।। ५० ॥ आत्मसृष्टेरिति ॥ तदात्मान स्वयमकुरुततिश्रुत्या ब्रह्मैव जगदाकारेण स्वेच्छयैव रमणार्थमुच्चनीचादिभावेन जातमिति बोधितमतो भिन्नत्वान्न वैपम्यं, नापि नघण्यमित्यर्थः ॥ निवन्धे शास्त्रार्थे ॥ ४६॥ विद्धन्मण्डने इति।। तत्र हि पूर्व जीवानामानन्दादितिरो- धाने मिथ्याज्ञानादिप्रसक्तावुपस्थितहान्यकृताभ्यागमदोपपरि. हाराय स्वेच्छाया एव हेतुत्वमुक्त्वाऽन्यथा जगत्स्थितिसंहारेऽपि इमी दोषी प्रसज्ज्येयातामित्युक्त्वैतत्साधकयुक्तीविस्तरशो निरू- प्य,कृतमयत्रापेक्षस्तु विहितपतिपिद्धावैयर्थ्यादिभ्य इति सूत्रमुप- न्यस्य, एकोऽहं बहु स्यामिति प्रपञ्चे रमणेच्छया हि भगवान् क्रीडार्थ कृतः प्रयत्नो विविधमर्यादादिरूपस्तदपेक्षः। जन्मकाला.
समकाशः। - दारभ्याऽऽमोक्षं विचारितवान्।तदा हि क्रीडव मुख्याऽन्यत् सर्व मुपसर्जनीभूतम् । तथाच तदपेक्षो भगवांस्तदनुसारेणव कारय- ति । यतो विहितस्य यागादेः, प्रतिपिद्धस्य विपहननादेरवैयर्थ्य- मेवं भवेत् । मर्यादाभावे त्वीश्वरस्यैव स्वर्गनरकादिदातृत्वेन विधिनिषेधयर्थं भवेदित्युक्तम्। अतः कृताहानिरकृताभ्यागम- चैपम्यनैपुण्यादिरूपपणे नेत्यर्थः ॥ ४ ॥ एवं प्रासङ्गिक वैपम्यादिदोपं परिहत्य शक्तिशक्तिमतोर्मेंदा- उभेदं परिहरन्ति-शक्तिशक्तिमतोरिति ॥ ४८ ॥ तत्रेति ॥ ब्रह्मणीत्यर्थः ॥ ४९ ॥ ननु, प्रकाशाश्रयवदा तेजस्त्वादितिन्यायेन प्रकाशनकाशा- श्रययोर्भेदाभेद इतिचेत्तत्राहुः- प्रकाशाश्रयेत्यादि।सूत्रार्थस्तु, ब्रह्मधर्मा भिन्ना,उताभिना इतिसंशये धर्माणां नित्यत्वेन भिन्ना इतिमाप्ते, आह । प्रकाशेत्यादि। वाशब्दः पूर्वपक्षनिरासार्थः।यथा प्रकाशाश्रयाः सूर्यादयः प्रकाश तो न भिन्ना एवं ब्रह्मधर्मा ब्रह्माऽभिन्नाः । कुतः । तेजस्त्वात् । यथा तेजः सूर्यश्च तेज एव । सैन्धवघनोऽनन्तरोऽवाह्यो रसघन एवं वारेऽयमात्मा प्रज्ञानधन एवेति श्रुत्या एकरूपत्वकथना- दत्रापि तेजस्त्वदृष्टान्तेन सर्व ब्रह्मैवेति धर्मिधर्माऽभेद एवेति चो- ध्यते ॥ ५० ॥ धर्माणां ब्रह्मत्वे द्वितीयं सूत्रं प्रमाणमाहुः- अरूपवत्सूत्रवाक्ये धर्माणामपि ब्रह्मता ॥ निरूपिता प्रभुवरैः श्रीविद्धन्मण्डने स्फुटम् ।।५।। अरूपवदित्यादि ॥ सूत्रं तु,अरूपवदेव हि तत्प्रधानत्वा- दिति । तत्र सूत्र इत्यर्थः । अर्थस्तु, रूप्यते व्यवहियत इति रूपं शुद्धाद्वैतमार्तण्डः। सर्वव्यवहारविपयत्वम् । तद्वादश्वम् । तद्विलक्षणं ब्रह्मेत्यर्थः । अथवा रूप्यते व्यवहियतेऽनेनेति रूपं कराधुच्यते । यथा लोके करादि भिन्नं तदभिमानी रूपवद्भिन्नः। एवं ब्रह्म न निरूप्यते, किन्तु ब्रह्मव निरूप्यत इति रूपवदित्यर्थः । तत्राह । तत्मधान- त्वात् । सर्वेषां वेदान्तानां ब्रह्मैव प्रतिपाद्यं, यतः करादीनाम- पि ब्रह्मत्वेनैव निरूपणम् । अन्यथा तेपामब्रह्मत्वे, सर्वे वेदा यत्पदमामनन्ति, वेदैश्च सर्वैरहमेव वेद्य इति नियमव्याहतिरतः करादिनिरूपकाः साक्षाद् ब्रह्मप्रतिपादका एवेति । हि युक्तो- ऽयमर्थः । यथा सैन्धवधन इति, सत्यं विज्ञानमानन्दं ब्रह्मेति, आनन्दमात्रकरपादमुखोदरादिरिति, आनन्दमयोऽभ्यासादिति श्रुतिस्मृतिन्यायकवाक्यतया सच्चिदानन्दरूपत्वं करादीना- मवधेयम् । अत एव, आह च तन्मात्रमिति सूत्रकारो जगाद । अर्थस्तु, तन्मात्रम् आनन्दमानं करादीनां श्रुतिः स्मृतिश्चाहेति श्रीविद्वन्मण्डने धर्माणां ब्रह्मता स्फुटं निरूपितेत्यर्थः । योगि- याज्ञवल्क्यस्मृतावपि, अथवा परमात्मानं परमानन्दविग्रहमि- त्युक्तम् ।। ५१ ॥ अतः परं रामानुजाचार्यपतमेकदेशीति सूचयितुं स्वमतं त- न्मते प्रविष्टमित्याशट्य स्वमतस्य तस्मादतिरेकं साधयन्ति- अथ श्रीमन्निजाचार्निवन्ध इदमीरितम् ॥ यः सर्वत्रैव संतिष्ठन्नन्तर संस्पृशेन्न तत् ।। शरीरं तं न देत्थं योऽनुचिश्य प्रकाशते ॥ ५२।। इति तेन शरीरं तु हरेहि चिदचित् स्मृतम् ॥ जडजीवान्तःस्थितानां भेदेन सुनिरूपणैः ॥५३॥ अथेत्यारभ्य, विचक्षणैरित्यन्तम् ॥ निवन्ध इति ॥ .
सप्रकाशः। शास्त्रार्थ इत्यर्थः ॥ यः सर्वत्रेति।। सर्वत्र पृथिव्यादिषु । अन्तरो मध्यः । तत् पृथिव्यादि न संस्पृशेल्लोकवत् तद्गतसुखदुःखांदि- भाङ् न भवतीत्यर्थः । शरीरं पृथिव्यादि कर्तृ, तम् ईश्वरं न जानाति । यः पृथिव्यादिपु प्रवेशं कृत्वा प्रकाशत इत्यर्थः । त- थाच श्रुतिः । यः पृथिव्यां तिष्ठन् पृथिवीमन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति।य आत्मनि तिष्ठन्नात्मानमन्तरो यमात्मा न वेद यस्यात्माशरीरंय आत्मान- मन्तरो यमयतीत्यादि ॥५२॥ इतीति।। निवन्धे यनिरूपितं तेन निरूपेणेनेति योजना ॥५३॥ तत्वत्रयं समायाति विशिष्टाद्वैतवादिनाम् ।। रामानुजानामिति चेन्न दोपोऽस्मन्मते. शृणु ॥ ५४॥ तत्त्वत्रयामिति ॥ विशिष्टाद्वैतवादिनां तत्वत्रयं समा- याति, स्वमत इति शेपः । विशिष्टाद्वैतमित्यस्य विशिष्टं च वि- शिष्टं च विशिष्टे, विशिष्टयोरद्वैतं विशिष्टाद्वैतमिति समासः। सूक्ष्मचिदचिद्विशिष्टं कारणम् । स्थूलचिदचिद्विशिष्टं कार्यम् । तयोरदैतमित्यर्थः ॥ ५४॥ जडजीवान्तरात्मान इति कार्य भिदा श्रिता ।। यहु स्यां तु प्रजायेयेत्यादिश्रुतिपु वर्णनात् ॥५५॥ न कारणे भिदा ज्ञेया तत्रैकोऽहं निरूपणात् ।। आत्मैवेदमन आसीदित्यादिपु च दर्शनात् ॥५६॥ कार्य भिदेति ॥ भेदोऽपि न घटपटवत्, किन्तु मृद्घट- शरायवत् । रामानुजाचार्याणां तु वस्तुतो भेदः ।। ५५ ।। तत्र फारणावस्थायाम् ॥ आत्मैवेत्येवकारेणाऽचितो निषेधात् ॥ इत्यादिषु - श्रुतिषु ।। ५६ ॥
शुद्धाद्वैतमार्तण्डः। तत्रैकाकी न रमते दितीयेच्छा निरूपिता॥ श्रुतिविद्भिरतो ज्ञेयं ब्रह्मकं नान्यदेव हि ॥ ५७ ।। अन्यस्य च स्थिती तत्र द्वितीयस्य च सम्भवात् ॥ रमणार्थ द्वितीयेच्छा श्रुत्युक्ता भग्नतामियात् ॥ ५८ ॥ एकोऽहमित्यपि मुधा तस्माच्छुतिविरोधतः ।। तत्त्वत्रयं कारणे हि त्याज्यमेव विचक्षणः ॥१९॥ नान्यदिति ॥ ब्रह्मातिरिक्तं नान्यदित्यर्थः ॥ ५७ ।। ५८॥ त्याज्यं नाङ्गीकर्तव्यमित्यर्थः ॥ ५९ ॥ यत्र येनेति पद्ये तु निवन्धे सुनिरूपितम् ॥ प्रकृतिः पुरुपश्चैव कालश्च हरिरेव हि ॥ ६०॥ यन्त्र येनेतीति ॥ पद्ये- पद्यव्याख्याने ॥ निवन्धे- शास्त्रार्थे ।। सुनिरूपितमिति ॥ श्रीमदाचार्यचरणैरिति शेपः । इदं पूर्व निरूपितं पद्यं श्रीभागवतस्थं श्रीमदाचार्यचरणैर्निवन्धे स्थापितम् ।। ६०॥ एकमेवाद्वितीयं तु ब्रह्म सर्वत्र रूप्यते ॥ यः सर्वत्रैवेति पये गोस्वामिपुरुषोत्तमैः ॥ ६१॥ सृष्टिकाले भगवतः शरीरं चिदचित् स्मृतम् ।। अन्तर्यामिण एतेन विशिष्टाद्वैतमेव यत् ॥ ६२॥ तदेकदेशि विज्ञेयमित्युक्तं तैर्विचक्षणैः ॥ शैयोऽप्येतेन विध्यस्तो यतस्तचोर एव हि ॥१३॥ यः सर्वत्रैवेति पद्य इति ॥ निवन्धटीकाव्याख्याने आवरणभङ्ग इत्यर्थः ॥ ६१ ॥ ६२ ॥ विचक्षणैरिति । एतन्मतस्यैकदेशित्वनिरूपणेन बुद्धि- मत्त्वरूपाकासाया उत्थितत्वान्न समाप्तपुनरात्तदोपः । एवं रामा- समकाशः। अनुजाचार्यमतं दुपयित्वा तत्तस्करमतखण्डनमाहुःशिवाऽपीति॥ शैवस्तावद्विशिष्टाद्वैतमेवाङ्गीकृत्य, मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् * तस्यावयवभूतेन च्याप्तं सर्वमिदं जगदिति- श्वेताश्वतरश्रुतिम् , आत्मा तस्याप्टमी मूर्तिरिति स्मृति चोदाहत्य ब्रह्मावयवत्वेन विशिष्टांशं जीवस्य प्रकृतेचाह । सर्वत्र शिवपर- त्वेन श्रुतिस्मृतीराह च । स तु, एलम -विशिष्टाद्वैतखण्डनेन । मायां वित्यात्मेति श्रुतिस्मृती कार्याभिमाये इति न दोपः । शिवपरत्वादिखण्डनं च श्रीपुरुपोत्तमचरण प्यमकाशे प्रहस्ता- ऽऽपे पण्डित्तकरिभिन्दिपालापे च वादे निरूपितम्। ततोऽव- लोकनीयम् ॥ तचोर इति ॥ रामानुजमतचोरः। कचिन्मध्वमत- स्यापि । तदेवोक्तं श्रीपुरुषोत्तमचरणीप्यमकाशे, रामानुजस्यैव चोरो मध्वमतस्य च कचित्कचिचद्विरुद्धां शेवश्चतिमुदाहरन् भिन्नप्रस्थानं मन्यत इति ॥ ६३ ॥ एवं शैवमतं दूपयित्वा विज्ञानेन्द्रभिक्षुमतखण्डनमाहुः- मायोपाधिककर्तृत्वं भैक्षवे दृश्यते तु यत् ॥ तन्मायिवाद्ध्वंसेन ध्वस्तप्राय विशेषतः।। ६४॥ मायोपाधिककर्तृत्वमिति ।। भिक्षोरिदं भैक्षवं तस्मिन् भैक्षवें मत इत्यर्थः । स हि, ब्रह्म न समवायी, नाऽसमवायी, नापि निमित्तम् । किन्त्वधिष्ठानकारणम् । तल्लक्षणं च, यत्रा- ऽविभक्तं येनोपष्टब्धं च सदुपादानकारण कार्याकारेण परिणमते तदधिष्ठानकारणम् । एतल्लक्षणसमावेशस्तु, यत्र ब्रह्मणि अधि- भक्तं विभागरहितं, येन ब्रह्मणा उपष्टब्धं च सत् साक्षिता- मात्रेणाङ्गीकृतं च सदुपादानकारणं प्रकृतिरूपं कार्याकारेण जग- द्रूपेण परिणमते तद् ब्रह्म अधिष्ठानकारणमित्यर्थः । ब्रह्मणश्च -- शुद्धाद्वैतमार्तण्डः। कर्तृत्वं सोपाधिमायौपाधिकम् । परिणामित्वरूपोपादानत्वं च प्रकृतितत्कार्याद्यौपाधिकमिति जगाद । तदसङ्गतम् | आत्मैवेद- मग्र आसीदित्यादिश्रुतिषु प्रत्यक्षस्य जगतः पूर्वमात्मत्वादि- कथनेनेतरस्याभावादविभागाख्यस्वरूपसम्बन्धस्य तदानीं वक्तु- मशक्यत्वेनाधिष्ठानलक्षणेनातिव्याः । एकोऽहमिति श्रुति- विरोधाच्च । ब्रह्म ह वा इदमग्र आसीत्, आत्मैवेदं सर्वम् , तदा- ऽऽत्मान५ स्वयमकुरुत, बहु स्यां मजायेयेत्यादिश्रुतिषु ब्रह्मण उपादानत्वकथनान्न प्रकृतेरुपादानत्वसिद्धिः । मायौपाधिक कर्तृत्त्वं प्रकृतितत्कापौंपाधिकं परिणाम्बुपादानत्वमप्यसङ्गतम् । आनन्दरूपममृतं यद् विभाति,सच्चिदानन्दरूपाय कृष्णायेत्यादि- श्रुतिभिरानन्दमात्रकरपादमुखोदरादिरित्यादिस्मृतिभिश्च ब्रह्मण आनन्दाकारत्वे सिद्धे मूलरूपस्य उपाधिकल्पनायां वीजा- भावात् । विकारित्वपरिहारायौपाधिकत्वमुच्यते, तन्निरस्तं प्राक्॥ किश्चौपाधिकपक्षस्य मायावादानुसारित्वात् तत्खण्डनेनैत- स्पापि खण्डितमायत्वाचेत्याहुः ॥ तन्मायिवादध्वंसेन ध्वस्त- मायमिति ॥ प्रायपदात् सर्वांशतो न ध्वस्तमतस्तन्मतमनूद्य खण्डयते । तथाहि । यज्जीवानां नित्यभिन्नत्वं व्यापकत्वं चाङ्गी- कृत्य अविभागलक्षणमभेदं चागीकृत्य, सजातीयत्वे सत्य- विभागमतियोगित्वमंशत्वं,तदनुयोगित्वं चांशित्वम्।विभागश्च, सति सम्पद्य न विदुः सति सम्पद्यामह इत्यादिश्रुत्या, प्रकृतिः पुरुषश्चोभी लीयेते परमात्मनि इत्यादिस्मृत्या वोधितः । लीङ् श्लेपणे, पदं गतावित्याद्यनुशासनेन लयसम्पत्त्यव्ययशब्दानाम- विभागार्थकत्वात् । एवञ्च यथा शरीरकेशादिरंशो, राशेचैक- देशः,पितुश्च पुत्र इति दृष्टान्तत्रयमुक्त्वा सर्वे जीवाः पितरि पुत्र- चेतना इच चिन्मात्रे ब्रह्मणि नित्यसर्वावभासफे विपयभासनरूपं + सप्रकाशः। स्वलक्षणं विहाय प्रलये लक्षणानन्यलं गच्छन्ति । सर्गकाले च तत एव लब्धचैतन्यफलोपधाना आविर्भवन्ति । पितुरिव पुत्रः। अतो जीवा ब्रह्मांशा भवन्ति । आत्मैव जायते पुत्र इत्यादि- श्रुत्या पुत्रे पितुरविभागलक्षणाऽभेदवज्जीवब्रह्मणोरविभाग: लक्षणाऽभेदस्य, बहु स्यां प्रजायेयेत्यादिश्रुत्या सिद्धेरिति । अतो जीवा ब्रह्मांशा मुख्या एव भवन्तीत्याह । तदप्यरमणीय- म् । नित्यभेदे सर्वविज्ञानप्रतिज्ञाभङ्गो, वैपम्यादिदोपप्रसक्ति- श्व । व्यापकत्वे, एपोऽणुरात्मा चेतसा वेदितव्य इति श्रुति- विरोधः। ब्रह्मणो व्यापकत्वे जीवस्यापि व्यापकत्वे लयकथन- स्य, नद्यः प्रविष्टा इव नामरूपे इति श्रुत्या, विशते तदनन्तर- मिति स्मृत्या च प्रवेशकथनस्यासङ्गतत्वं स्यात् । देहमात्रव्यापक- ताङ्गीकारे हस्तिकायव्याप्तजीवस्य पिपीलिकाकाये प्रवेशो- ऽनुपपन्नः । अविभागेन स्थितिरपि न सम्भवति । ब्रह्मैव सन् ब्रह्माप्येतीति, ब्रह्म वेद ब्रह्मव भवतीति श्रुतिविरोधात् । एवकारेण ब्रह्मातिरिक्तस्थितिनिपेधात् । दृष्टान्तत्रयमपि स्वमता. ऽननुगुणम् । तथाहि । केशादिकं शरीरस्य विकारः । एवं ब्रह्मणो विकारो जीव इति विकारित्वं ब्रह्मण्यागतम् । प्रकृतेः परिणामित्वाङ्गीकारे शरीरस्थानापन्ना प्रकृतिः केशादिस्थानापन्नो जीव इति प्रकृत्यंशत्वं, न ब्रह्मांशत्वं स्यात् । एवं दृष्टान्तद्वयेऽपि वोध्यम् । वहु स्यामिति श्रुत्या ब्रह्मण एव सर्वभवनसियां उपाधिकल्पनाया असङ्गतत्वात् स्वमतभङ्ग इति दिक ।। ६४ ॥ एवं भिक्षुमतं खण्डयित्वा शक्तिमतमुपन्यस्यन्ति- शाक्तानां तु मते ब्रह्म विश्वोपादानमेव हि। निमित्तकारणं शक्तिर्विकारित्वभयादतः।। ६५॥
शुद्धाद्वैतमार्तण्डः। ४१ तत्रात्मनो चिकारित्वं श्रुतिशास्त्रविरोधि हि ॥ प्रकृतिर्यस्योपादानमाधारः पुरुषः परः ॥ ६६ ॥ सतोऽभिव्यञ्जकः कालों ब्रह्म तत्त्रितयं त्वहम् ।। इति भागवते पये उपादांनत्वमीरितम् ।। तद् विरुद्ध्येत मम तु ब्रह्मतो न पृथक् च सा ॥२७॥ शाक्तानां त्वित्यादि।।६५|| तपयन्ति।तत्रेत्यादि॥६६॥६७।। शङ्कराचार्यरचितसौन्दर्यलहरीश्लोकविरोधमाहुः- मरुत्त्वमिति पंद्ये हि शङ्कराणां च शाम्भवी ॥ परिणामं तु सम्प्राप्तेत्युक्तेर्वाधः प्रसज्ज्यते ।। ६८ ॥ मरुत्त्वमिति ॥ पद्यं तु- मरुत्वं व्योम त्वं मरुदसि मरुत्सारथिरसि त्वमापस्त्वं भूमिस्त्वयि परिणतापां न हि परम् ॥ त्वमेव स्वात्मानं परिणमयितुं विश्ववपुपा । चिदानन्दाकारं शिवयुवतिभावेन विभृपे, इति ॥ ६८ ॥ पवनमयि पावकमाथि क्षोणीमयि गगनमपि कृपीटमयि ॥ रविमयि शशिमयि दिङ्मयि समयमयि प्राणमयि शिवे पाहि ॥ ६९ ॥ इति दुर्वाससा प्रोक्तं सर्वात्मत्वं विरुद्ध्यते ।। सर्वोपनिपदो या हि ब्रह्मतत्त्वनिरूपिकाः ॥७॥ नास्ति शक्तर्वणनं हि कारणत्वं तु दूरतः ॥ च्यासैस्तु प्रकृतेः सर्वकारणत्वं तिरस्कृतम् ।। ७१ ।। दुर्वाससेति ॥ ललितास्तवरत्न इति शेपः ।। ७० ॥ नास्तीति ॥ यत्र वर्णनमेव नास्ति, तत्र कारणत्वस्य , ६ ४२ समकाशः। सम्भावनापि नास्तीत्यर्थः । ननु केपाश्चिमछाक्तानां मते शक्ति- रेव ब्रह्म । सैव समवायिकारणम् । किञ्च, साथमतेऽपि म. कृतेरपि तत्त्वमिति चेत् । तत्राहुः ॥ व्यासैरिति ॥ सांख्यमत- खण्डनेन सर्वकारणत्वं समवायिनिमित्तकारणत्वं तिरस्कृतं ब्रह्म- सूत्ररित्यर्थः ।। ७१॥ तर्हि समवायिनिमित्तकारणं किं ब्रह्मेतिचेल्लोके समवायि- निमित्तकारणयोर्भेदात् कथमुभयं ब्रह्म । यथा समवायिकारणं मृनिमित्तकारणं कुलालदण्डचक्रचीवरादीत्यांशङ्कामपहरन्ति- ब्रह्मणः समवायित्वनिमित्तत्वे निरूपिते ।। ऋग्वेदे तु यतो देवीसूक्तमस्ति तु तत्र हि ॥७२॥ अहमेव स्वयं वदामि जुष्टं देवेभिरुत मानुषेभिः॥ यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषि तं सुमेधाम् ।। अहं सुवे पितरमस्य मूर्द्धन् मम योनिरप्स्वन्तःसमुद्रे ॥ ७३ ॥ ब्रह्मण इति ॥ निरूपिते इति ॥व्यासैरिति शेपः प्रकृति- श्च प्रतिज्ञादृष्टान्तानुपरोधाद्, योनिश्च हि गीयते इत्यादिना । अनयोरर्थस्तु, पूर्व समचायिकारणं प्रकृतिरेवेति प्राप्ते आह । प्रकृतिश्चेति । मृत्मकृतिर्घटः, तन्तुमकृतिः पट इत्यादौ प्रकृति- शब्दः समवायिनमाह । एवञ्च ब्रह्म समवायिकारणम् । चकारानिमित्तकारणम् । कुतः ? । प्रतिज्ञादृष्टान्तानुपरोधात् । अपि वा तमादेशमप्राक्षो येनाश्रुतं श्रुतं भवत्यमतं मतं भवत्य- ऽविज्ञातं विज्ञातं भवतीति प्रतिज्ञा । दृष्टान्तो, यथा, सौम्यै- केन मृत्पिण्डेन मृण्मयं विज्ञातं भवतीति । अनयोरनुपरोधाद् . . शुद्धाद्वैतमार्तण्डः। अबाधनादित्यर्थः। द्वितीये, जडानां ब्रह्मैव कारणं चेतनेषु तु योनिवीजयोः समवायित्वदर्शनादित्याशङ्कां परिहरति । योनिश्चेति । योनिश्च ब्रह्मव । शक्तिवादनिराकरणाय चकारः। किञ्च, तदात्मान५ स्वयमकुरुत । यतो वेत्यादि । जन्मायस्य यतः शास्त्रयोनित्वात् । तत्तु समन्वयात् । कर्ता कारयिता हरिः। जन्मायस्य यतोऽन्वयादितरतश्चेत्यादिश्रुतिस्मृतिश्रीभागवतादिपु ब्रह्मण एव समवायिनिमित्तत्वयोः सिद्धिः । तत्राऽन्वयात् सम- वायिकारणात् । इतरतो निमित्तकारणादिति श्रीमदाचार्यचरणः सुबोधिन्यामुदितम् । तत्तु समन्वयादित्यस्यार्यस्तु, तद् ब्रह्म समवायिकारणम् । कुतः । समन्वयात् । सम्यगन्वयो यथा मृदो घटे, तथा ब्रह्मणो जगतीति । विशेषतस्तु भाष्यकारैर्बहुशो नि- रूपितं, ततोऽवधेयम् ॥ ननु ब्रह्मरुद्रादिकारणत्वं देच्या उदितं, तबाहुः– ऋग्वेद इति ।। ७२ ।। देवीसूक्तेऽपि विष्णुरेव देव्याः कारणामितिवोधाय देवीसूक्त- मन्त्रमाहुः-- अहमेवेत्यादि । देवेभिर्देवैः । मानुपेभिर्मानुपः जुष्टं सेवितम् ॥ यं जीवं कामये इच्छामि तं तं जीवमुग्रं रुद्र कृणोमि करोमीत्यर्थः ।। ७३ ॥ एवं श्रुतौ तु देव्या हि स्वकारणतयोदितः ।। पयोऽधिशायीयो विष्णुःसउक्तोऽतोन सा परा॥७॥ उग्रः कपी श्रीकण्ठ इति कोशाच्छिवः स्मृतः ॥ अस्यति रुद्रो निर्दिष्टोऽहं रुद्रायेति वाक्यतः ॥७५ ।। एचमित्यादि । एवंरीत्येत्यर्थः ॥ सेति ॥ देवीत्यर्थः । एवञ्च परत्वं सर्वजगत्कारणत्वं विष्णोरेवेति सिद्धम् ॥ ७४ ।।
सप्रकाशः। . कोशाद् अमरकोशात् ॥ वाक्यत इति ॥ अहं रुद्राय धनु- रातनोमीति तत्रत्यश्रुतिवाक्यत इत्यर्थः । ७५ ॥ . प्रक्रान्तत्वात् पिता ब्रह्मा तद्योनिः शक्तिरत्र हि ॥ तस्यास्तु जनको विष्णुः सिन्धुशायी निरूपितः ॥७६।। प्रफ्रान्तत्वादिति ॥ प्रक्रममाप्तत्वादित्यर्थः॥ पितेति ।। रुद्रः पिता निर्दिष्ट इति पूर्वेणान्वयः । एवं शक्तिंपदेऽपि ॥ त- योनिरिति । तस्य ब्रह्मणो योनिः कारणम् । अत्र हि देवी- सूक्ते मन्त्रे मूर्द्धनित्यस्य मुख्यमित्यर्थः । मुपां मुलुगिति सूत्रेण सुब्लोपः । तर्हि शक्तेः किं कारणं तबाहुः ॥ तस्यास्त्विति ।। मम योनिरस्वन्तः समुद्रे इति मन्त्रेण निरूपित इत्यर्थः । मम शक्तः, योनिः कारणं समुद्रे अप्सु अन्तः । अस्तीति शेपः । समुद्रशायित्वं विष्णोरेवेति विष्णुः कारणमित्यर्थः ॥७६ ॥ अस्माकं व्यासचरणैर्यदुक्तं न ततोऽन्यथा । अथाऽतो ब्रह्मजिज्ञासेत्युक्त्वा तल्लक्षणेन हि ॥७॥ जन्माद्यस्येत्यादिसूत्रैः कारणं ब्रह्म कीर्तितम् ।। तन्त्रशास्त्रेण चेद् ब्रूपे तवैदिकसंमतम् ।। ७८ ॥ अस्माकर्मिति ॥ मत इति शेपः ॥ व्यासचरणैरिति । तदेव ग्राह्यमिति शेषः । अन्यथा = व्यासोक्तिविरुद्धम् ॥ ननु व्यासचरणैः कस्य कारणत्वमुक्तं तत्राहुः ।। अधात इत्यादि । इदं चोत्तरतन्त्रादिमं सूत्रम् । ब्रह्मणः ब्रह्मसम्बन्धी । जिज्ञासा विचारः । अथशब्दस्तावदारम्भार्थकः। आरभ्यत इत्यर्थः । यतः कर्मादिभ्यो ब्रह्मज्ञानं पुरुषार्थसाधकमतस्तज्ज्ञानाय विचार इत्यतः-शब्दार्थः ॥ ७॥ ब्रह्म किंलक्षणकमिति शङ्कायां, जन्मायस्य यतःशास्त्रयोनि- शुद्धाद्वैतमार्तण्डः। ४५ वादित्युक्तम् । अर्थस्त्वधस्तात् मतिपादितः॥ असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यत, इति मतिज्ञाय, अहं सर्वस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत् किश्चिदस्ति धनजय ॥ वीजं मां सर्वभूतानां विद्धि पार्थ सनातनमिति गीतायां पुरुषोत्तमवाक्यात् । अग्रेऽपि तत्रैव- परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुपं शाश्वतं दिव्यमादिदेवमजं विभुम् ।। आहुस्त्वामृपयः सर्वे देवपि रदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीपि मे इत्यर्जुनवच- नात् ॥ अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्त्तत इति पुरुषोत्तम- वाक्याच जगत्कारणत्वं श्रीकृष्णस्यैव, न देव्याः। नन्वनेकेपु तन्त्रेषु तस्याः कारणत्वोक्तिरित्यत आहुः ॥ तन्त्रशास्त्रेणेति ।। श्रीतार्चनं तु विप्राणां विशेपेण भवेत् सदा । श्रीतागमार्चनं क्षत्रे वैश्ये केवलमागममिति वाक्यात् ॥ तन्त्रेषु दीक्षितो मयों वैदिकं न स्पृशेत् सदा । वैदिकश्चापि तन्वेपुदीक्षितं न स्पृशेत् सदेतिवाशिष्ठलैड्रोक्तः।। कचित् तन्त्रानुरोधेन धर्म पौराणिका अपि । वदन्ति तादृशोऽशस्तु ग्राह्यस्तन्त्रावलम्बिनेति पराशरोक्तः। पराशरीयपुराणे- मत्यक्षवेदसिद्धार्थः संग्राह्यः सर्वचेतनः। अप्रत्यक्ष श्रुतेरथै स्मरन्ति मुनिसत्तमाः ।। स्मृतयश्च पुराणानि भारतप्रमुखान्यपि । कचित् कदाचित् तन्त्रार्थकटाक्षेण मुनीश्वराः ।।
१६
समकाशः।
अधिकारविशेपाणां मवदन्त्यर्थमास्तिकाः।
ब्राह्मणः क्षत्रियो वाऽन्यो निःशई तत् परित्यजेत् ।।
वर्णाश्रमपरिभ्रष्टः मायश्चित्तेप्वनुन्मुखः।
चेदेतरागमं गत्वा पापी तद्धर्ममाचरेत् ।।
वेदवाबरताः सक्ता बहवो नरकं गता इति । फौर्मपुराणे-
ऽपि ब्राह्मणानां गौतमशापेन प्रयीवाह्यत्वे जाते तः स्तुती शिव-
केशवावित्युपक्रम्य ।
चकार मोहशास्त्राणि केशवः स शिवस्तथा।
कापालं लाकुलं वामं भैरवं पूर्वपश्चिमम् ॥ .
पाश्चरात्रं पाशुपतं तथान्यानि सहस्रशः।
कचित् कचित् पुराणादौ वेदमूलेऽपि सर्वथा ॥
सन्ति निर्मूलतन्त्रांशास्ते तु ग्राह्या न वैदिकैरित्यादि-
चाक्यानि सप्तशतीटीकायां नागोजीभट्टेन, भट्ठोजिदीक्षितादिभि-
रप्युपनिवद्धानि। अत एवाऽऽश्वलायनगृह्यपरिशिष्टे सन्ध्याप्रकरणे
सावित्र्या ऋपिदैवतच्छन्दांस्यऽनुस्मृत्य तामेतां चतुरक्षरेण
विभक्तां मन्त्रयोजितैः पभिवागममन्त्रैर्यथाभागमात्मनि विन्य-
स्य भावयदित्युक्त्वा हृदयादिपडङ्गन्यासमुक्त्वा, एनमप्येके
नेच्छन्ति, स हि विधिरवैदिक इति निरूपितं सङ्गतं भवतीति
दिङ्मात्रमुदितम् । तदेवाहुः। तदवैदिकसंमतमिति॥ अवैदिकानां
संमतमित्यर्थः । वेदविरुद्धार्थस्य तन्त्रत्वेन व्यवहारः सर्व-
निर्णयनिवन्धे श्रीमदाचार्यचरणैः, छलयोगस्तथा सांख्य शाक्तो-
मार्गोऽभिधीयते, इति ॥
सांख्ययोगी मिलिती धर्ममार्गविरोधेनाऽमेध्यभक्षणमुरा-
पानादिपोपिती । शाक्तो मार्गस्तत्र सप्तभेदा उक्ताः-
वैदिकाः ॥१॥ वैष्णवाः॥२॥ शैवाः ॥३॥ शाक्ताः ॥४॥
४७ शुद्धाऽद्वैतमार्तण्डः। वामाः॥५॥ सिद्धान्ताः ॥ ६॥ कौलाः॥७॥ लोके व्यामोहक शास्त्रं सप्तानां बोधकः शिवः। कलौ जनिष्यमाणानामसुराणां क्षयाय हि ॥ सर्वेषां नरके वास इत्युक्तम् । एतट्टीकायां त्याज्यत्वे हेतु- रुको महापातकिसंसर्गेऽपि महापातकित्वश्रवणादिति । तत्र कर्मासक्तास्तु ये तत्र वैदिकाः समुदाहृताः । लोके संमाननार्य कर्मासक्ताः । सिद्धान्तानां त्वासुरसिद्धान्तः सर्व मिथ्येति । कर्म सर्वथा त्यक्तव्यं वाधकमिति, तथा भक्तिरपि। केवलं वाच पेशे- मोहयन्ति ये ते सिद्धान्ताः । तेपां लोकसङ्ग्रहो नियामकः । कौलानां तु न लोकापेक्षेति भेदः । पत्रीत्वे दीक्षया रण्डाबण्डा अपि भजन्ति हि । दिगम्बराचर्मचिह्नाः सुरामांसपरायणाः॥ पापरूपा दुराचारास्ते कौला परिकीर्तिताः ।। तेपामनुग्रहनिग्रहादिकं दृष्ट फलं, तन्मार्गसेवितया दुष्टतामस- शक्त्यासिद्धान्तस्य लोके संमाननं फलम् । ततो व्यामोहो लोकस्य भवतीत्युक्तम् । वैष्णवास्तु गोपालनृसिंहसंयुक्तां शक्ति- मुपासते । ते यथा गोपालसुन्दरीनृसिंहसुन्दर्याविति । एव- मेव शिवयुक्तां तामुपासते, ते शैवाः । केवलशक्त्युपासकाः शाक्ताः । वामाश्च वामाचारेण सुरासम्बन्धादिना तामुपासते ।। अत्र तन्त्र उक्तम्- पञ्चमेतासनारूढां परब्रह्मस्वरूपिणीम् । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ एते पञ्च महाप्रेताः पादमूले व्यवस्थिता, इति । श्रीमदाचार्यचरणैस्तु तत्रैवैतनिर्णयः कृतः । तत्र त्रिपुर- सुन्दर्यादिशक्तयः सेव्या योगश्च साध्य इति घुद्धिः । तत्रानधि .४८ : समकाशः। कारे शैववैष्णवी तस्याः शक्तेः पादत्वेन पञ्चमेतमध्ये निरूपिती। न शब्दमात्रेण किश्चिद् दुष्यति, पदार्थस्त्वन्य. एवातो भूतादि- रेव विष्णुशिवादिनाम धृत्वा तथोपास्त इति । तत्रोभयश्लोके- ऽपि मेतमहामेतत्वेनोक्ताः। एवञ्च तन्त्रशास्त्रस्य वैदिकानामुपेक्ष- णीयत्वमतश्चतुःपष्टितन्त्राणां प्रतिपाद्यार्थसहितानां नामानि लिख्यन्ते । तत्र, महामायाशम्बरतन्त्रम् । अन्यस्मिन् पदार्थ अन्यथा . प्रतिभासनरूपमायामपञ्चरचनोपायप्रतिपादककर्मेन्द्र- जालविद्यारूपम् १॥ योगिनीजालशम्बरतन्त्रं,योगिनीजालपति- पादकम् २॥ तत्त्वशम्बरतन्त्रमिन्द्रजालविद्याविशेपः पृथिव्यादि- तत्त्वानामन्यत्रान्यवोधोपायमतिपादकम् ३ ॥ सिद्धिभैरवतन्त्र- म् ४॥ मायिकभैरवतन्त्रम् ५॥ कङ्कालभैरवतन्त्रम् ६॥ काला- ऽग्निभैरवतन्त्रम् शाशक्तिभैरवतन्त्रम् ८॥योगिनीभैरवतन्त्रम् ९।। महाभैरवतन्त्रम् १० ॥ भैरवनाथतन्त्रमिति भैरवाष्टकमिदं का- पालिकमतप्रतिपादकम् ११ ॥ ब्राह्मीतन्त्रम् १२ ॥ माहेश्वरी- तन्त्रम् १३ ॥ कौमारीतन्त्रम् १४ ॥ वैष्णवीतन्त्रम् १५ ॥ वाराहीतन्त्रम् १६॥ इन्द्राणीतन्त्रम् १७॥ चामुण्डातन्त्रम् १८॥ शिवदतीतन्त्रम् ॥ ब्राह्मयष्टकमिदं तचदेवतामतिपादकम् ॥१९॥ रुद्रयामलम् २०॥ भैरवयामलम् २१॥ शिवयामलम् २२ ।। विष्णुयामलम् २३ ॥ स्कन्दयामलम् २४ ॥ ब्रह्मयामल- म् २५ ॥ देवीयामलम् २६ ॥ यामलमिति रुद्रयामलान्य. ऽष्टौ सिद्धाम्बाप्रतिपादकानि । चतुपष्टितन्त्राणामपि यामलत्वेन व्यवहारः २७ ॥ चन्द्रज्ञानतन्त्रम् । कामैश्वर्यादिपोडशनित्या- प्रतिपादकम् । तिथिनामधेयं नित्येति २८ ॥ मालिनीतन्त्रम् । समुद्रयानोपायप्रतिपादकम् २९ ॥ महासंमोहनतन्त्रम् , जाग्रता- मपि निद्रोपायप्रतिपादकम् ३० ॥ वामसेवितं वामकेश्वर- .
शुद्धाद्वैतमार्तण्डः। ४९ तन्त्र, चतुःशतीत्यपि कथ्यते ३१ ॥ महादेवतन्त्रं, घटुकादि- सिद्धकुलाचारमतिपादकम् ३२ ॥ वातुलम् ३३ ॥ वातुलो- त्तरम् ३४ ॥ कामिकञ्च इति त्रीण्येतानि तन्त्राणि क्षेत्रा- कर्षणादिविधिमतिपादकानि ॥ ३५ ।। हृद्भेदतन्त्रं, कापालिका- चारमदर्शकम् ३६ ॥ तन्त्रभेदगुह्यतन्त्रयोः प्रकाशं रहस्यं वा परकृतमन्त्रतन्त्रमयोगाणां परावृत्त्युपायाः प्रदर्शिताः३७॥ ३८॥ कलावाद, कामशास्त्रं वात्स्यायनादिमतम् ३१ ॥ कलासारम्, पादिवृद्धथुपायमतिपादकम् ४० ॥ कुण्डिकामतं, गुटिका- सिद्धिमदर्शकम् । गुटिका पानपात्रम् ४१ ॥ मत्तोत्तरतन्त्रम् रससिदिमकाशकम् ४२॥ वीणातन्त्र, वीणा नाम योगिनी सम्भोगपक्षिणीत्यस्या नामान्तरं, तस्याः साधनोपायनिरूपक- म् ४३॥ त्रोतलतन्त्र, गुटिकाअनपादुकासिद्धिप्रदर्शकम् ४४ ॥ बोतलतन्त्रोत्तरतन्त्रं, चतुपष्टिसहस्रयोगिनीनां दर्शनोपाय- निरूपकम् ४५ ॥ पश्चाऽमृततन्त्र, पृथिव्यादिपञ्चभूतानां साधनेन मरणाभावमतिपादकं कापालिकतन्त्रम् ४६ ॥ रूपभेदादि- पञ्चतन्त्राण्युच्चाटनादिप्रतिपादकानि ५१ ॥ सर्वज्ञानादितन्त्र- पञ्चकं कापालिकसिद्धान्तैकदेशिदिगम्बरमताचारपदर्शकम् ५६॥ पूर्वतन्वादिदेवीमतपर्यन्तं तन्त्राटकं दिगम्बरैकदेशिक्षपणमताचार- प्रदर्शकम् ॥ ६४॥ एवमेतानि तन्त्राणि मोहकानि त्याज्यानि वैदिकैरिति बोधाय लिखितानि ।। ७८ ॥ तन्त्रशास्त्रस्याप्रामाण्यं प्रतिपाद्य चतुष्टयं प्रमाणमित्याहु:- वेदाः श्रीकृष्णवाक्यानि व्याससूत्राणि चैव हि ॥ समाधिभापा व्यासस्य प्रमाणं तचतुष्टयम् ॥ ७९ ॥ - ७
५०
'संप्रकाशः।
वेदा इति ॥ वेदाः पूर्वोत्तरकाण्डस्थिता अर्थवादादिरूपा
अपि । यथा वृहस्पतिः स्यां वपामुदखिददित्यत्र वपोत्सेदे बह-
स्पतेर्जीवनं न स्यादत इदं वाक्यं यज्ञप्राशस्त्याधायकम् । एवं,
ग्रावाणः प्लवन्ते इत्यपि । यत्रैते प्लवन्ते तत्रान्यप्लवने कः स-
न्देह इति नाश्मनां प्लबने तात्पर्यमिति केचित् । तन्न । आधे
बृहस्पवेदेवत्वेन वपोखेदने न जीवत्वदानिरिति । द्वितीये तु
सेतुबन्धनसामयिकव्यवस्थानुवादिकेयम् ऋगित्यादि ज्ञेयम् ।
विशेषतस्त्वन्यतोऽवधेयम् ॥ श्रीकृष्णवाक्यानि गीतायां, चका-
राद् व्याससूत्राविरुद्धानि जैमिनिस्त्राणि ॥एवं मन्वादिस्मृती-
नां व्यासाविरुद्धत्वेन प्रामाण्यम् । समाधिभाषा श्रीमद्भागवत-
म् ॥ ७९ ॥
श्रीमदाचार्यचरणैरत एव निरूपितम् ।।
शाक्तास्तांश्चेत्ततोयुस्ते सन्मार्गाद् वहिष्कृताः।।८०॥
श्रीमदाचार्यचरणैरिति ॥ अणुभाप्य इति शेषः ॥
सन्मार्गाद्, वैदिकमार्गात् ॥ ८ ॥
इति सर्वेपु मागेपु दोपाः सन्ति ततो हरिम् ॥
शुद्धाद्वैतावलम्वेन भजेत सुविनिश्चितम् ॥ ८१ ॥
शुद्धाद्वैतावलम्येनेति ॥ अखण्डाद्वैतभाने हि सर्वं ब्रह्मैव
नान्यथेति । सर्वत्र भगवदृष्टया विषयान्तराभावः फलमिति
भावः ॥ सुविनिश्चितमिति ॥ श्रुतिस्मृत्यादिष्वित्यर्थः ॥ ८१ ॥
भजधातोः सेवार्थकत्वेन सेवालक्षणं श्रीमदाचार्यचरणोक्त-
चेतस्तत्प्रवणं सेवा फलरूपा तु मानसी ॥
तत्सिद्ध्यर्थ देहवित्तजनिः कार्या ततो भवेत् ॥ ८२॥
शुद्धाद्वैतमार्तण्डः। ५१ 'संसारदुःखनाशो हि ब्रह्मात्मत्वावबोधनम् ।। ब्रह्मज्ञस्य परप्राप्तिरानन्दव्रततौ स्फुटा ॥ ८३ ॥ चेतस्तत्प्रवणं सेवेति ॥ इदं च सिद्धान्तमुक्तावल्ल्या- मुदितम् । तत्र हि कृष्णसेवा सदा कार्येति पूर्वमुक्तत्वासन्छब्देन श्रीकृष्णस्य ग्रहणम् । अत्रापि, हरिमित्युक्तत्वात् तद्रहणम् ॥ फलरूपा त्विति ॥ सा व्रजागनासु । ता नाऽविदन्मयनुपग- बदधियः स्वमात्मानमर्दस्तथेदामिति श्रीभागवतवचनात् । इयं सर्वात्मभावकाष्ठा तृतीयाध्याये भाप्ये स्फुटा । तसिद्ध्यर्थम् ॥ सर्वात्मभावरूपमानसीसेवासिद्ध्यर्थम् । तनुवित्ताभ्याजन्यते या सा तनुवित्तजानिः । उभयोः साधकत्वं, नैकस्या इति वोधनाय समस्तपदम् ॥ ८२ ॥ संसारेत्यादि । संसारोऽहन्ताममतारूपः ॥ ब्रह्मात्मत्वा- ऽवयोधनमिति ॥ ऐतदात्म्यमिदं सर्वे, सर्वं खल्विदं ब्रलेत्यादि- श्रुतिसिद्धं,वासुदेवः सर्वमिति स महात्मा सुदुर्लभ इत्यादिस्मृति- सिद्धं सर्वस्य जगतो ब्रह्मत्वम् । तस्यावबोधनं याथार्यज्ञानमित्य- यः । ताई ब्रह्मज्ञानस्य किंफलमित्याहुः ॥ ब्रह्मज्ञस्येत्यादि । श्रीमदाचार्यचरणैर्भाप्ये ब्रह्मज्ञानेनाविद्यानिवृत्या प्राकृतधर्म- राहित्येन शुद्धत्वसम्पादनेन पुरुषोत्तमप्राप्तौ स्वरूपयोग्यता सं- पद्यते । तादृशे जीवे स्त्रीयत्वेन वरणे भक्तिभावात् सहकारि- योग्यतासम्पत्या पुरुपोत्तममाप्तिर्भवतीति निर्णीयत इत्युक्तम् । नन्वत्र कि मानमत आहुः ॥ आनन्दव्रतताविति ॥ आनन्द- वल्ल्यामित्यर्थः । वल्ली तु व्रततिर्लतेत्यमरात् । तस्यां हि ब्रह्म- विदामोति परम्, तदेपाभ्युक्ता, सत्यं ज्ञानमनन्तं ब्रह्म, यो घेद निहितं गुहायां परमे व्योमन् सोऽउनुते सर्वान् कामान सह
५२
मप्रकाशः।
।
ब्रह्मणा विपश्चितेति । अर्थस्तु । ब्रह्मविद् परं ब्रह्मणः सकाशा-
दुत्कृष्टं पुरुषोत्तम प्रामोतीत्यर्थः । परशब्देनात्र ब्रह्मैवोच्यते तर्ह
ब्रह्ममार्ज्ञानात्मकत्वेन ब्रह्ममाप्तो ब्रह्म प्राप्नोतीत्यर्थः स त्वसङ्ग-
तः। साध्यसाधनव्याघातात् । तस्मात् परशब्दस्योत्कृष्टवाचित्वेन
उत्कर्षस्य सांनिध्याद् ब्रह्मणः सकाशात् परं पुरुषोत्तममित्ये-
वार्थः। विशेपतस्तद्विवक्ष्यमाणानुभवैकगम्योऽयमानन्दो,न मनो-
वाविषय इति सूचयितुमाह । तदेपेत्यादि । तदित्यव्ययम् ।
तद् ब्रह्मविदः परमाप्तिलक्षणमर्थं विशदतया प्रतिपाद्यत्वेनाभि-
मुखीकृत्य ऋगेपा विदितपरब्रह्मकैरुक्ता । पूर्ववाक्यविवरण-
मनया क्रियत इत्यर्थः । तामेवाह। सत्यमित्यादि। गुहायां हृदया-
काशे, परमे व्योमन् परमव्योम्नीत्यर्थः । अक्षरब्रह्मात्मके
व्यापिवैकुण्ठे, निहितं स्थापितमिव यो वेद स भक्तो ब्रह्मणा
विपश्चिता । विविधभोगचतुरेणेत्यर्थः । अत्र विविधं पश्यञ्चित्त्वं
विपश्चित्वं पृपोदरादित्वाद् यच्छब्दलोपः । तेन सह सर्वान्
फामानश्नुते भुत इत्यर्थः । अत्र तृतीयया ब्रह्मणो गौणत्वं,भक्त-
स्य भोगे मुख्यत्वं वोध्यते । अहं भक्तपराधीनो, वशे कुर्वन्ति
मां भक्त्या सत्त्रियः सत्पतिं ययेत्यादिवाक्यादिदमनुग्रहैकलभ्य-
मित्यर्थः । विशेपतो भाप्यादवधेयम् ।। ८३ ॥
नन्वविद्यायाः प्रतिबन्धकत्वे कयं परमाप्तिरित्याशङ्कायां,
विद्याविद्ये मम तनू विद्धयुद्धव शरीरिणाम् * मोक्षबन्धकरी
आधे मायया मे विनिर्मिते, इति श्रीभागवतवाक्येन मायानिर्मि-
तत्वादविद्यायाः । अतो मायापगमे तस्या अपि नाशो भविष्य
तीत्यभिप्रायेण गीतावाक्यमाहुः-
मामय ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥
इतिवाक्यात्तु भक्तानामविद्याविनिवृत्तितः ॥ ८४ ॥
शुद्धाद्वैतमार्तण्डः।
मामेवेत्यादि । एवकारेणाऽन्यप्रपत्तिर्न मायातरणकारि-
का । अहं सर्वस्य जगतः प्रभवः प्रलयस्तथा * मत्तः परतरं
किचिनान्यदस्ति धनञ्जय इत्यादिश्रीमुखवाक्यात् पुरुषोत्तमस्य
सर्वोत्कृष्टज्ञाने प्रपत्तिर्भवति । एतादृशज्ञानस्य फलं तु, असंशयं
समग्रं मां यथा ज्ञास्यसि तच्छृणु * यज्ज्ञात्वा नेह भूयोऽन्य-
ज्ञातव्यमवशिष्यते इति वाक्यादक्षरज्ञानादिकं सर्व सुलभमतो
भक्तानां तु श्रीकृष्णमपत्यैवाविद्यानिवृत्तिरिति भावः ॥ ८४ ॥
ततः किमत आहुः-
अलौकिकारसिद्ध्यै प्रवेशो हरिणोदितः॥
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ॥८५॥
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥
इति वाक्येन भगवद्गृहं ब्रह्म प्रकीर्तितम् ॥ ८६ ।।
अलौकिकारसिया इति ॥ सिद्ध्यर्थमित्यर्थः ॥ प्रवेश
इति॥ यथा सैन्धवखिल्य उदकेपास्त उदकमेवानुविलीयते, नद्यः
प्रविष्टा इव नामरूपे इत्यादिश्रुतिसिद्धप्रवेश इत्यर्थः ॥ हरिणेति ॥
श्रीकृष्णेनेत्यर्थः। गीतायामिति शेपः । विशते तदनन्तरम्, ज्ञातुं
द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तपेत्यादिश्लोकैरित्यर्थः। ननु
अक्षरे लये कथं पुरुपोचममाप्तिरित्याशङ्कायां तस्य पुरुषोत्तमगृह-
रूपत्वात् तत्र प्रवेशे प्राप्तिर्भवतीति तत्पुरुपोचमगृहे गीताप्रमाण-
माहुः ।। अव्यक्त इत्यादि । अक्षरब्रह्मणोऽव्यक्त इति नाम ।
एतेनाऽव्यक्तशब्दो मायावाचक इत्यपास्तम् । अव्यक्तादीनी-
त्यत्राव्यक्तशब्देनाक्षरब्रह्मैव ज्ञेयम् । एतेन जगतो मायिकत्वं
निरस्तम् ॥ परमां * सर्वोत्कृष्टां गतिं मोक्षरूपाम् आहुः । तत्व-
विद इति शेपः ॥ ८५ ॥
सप्रकाशः। न निवर्तन्त इति ॥ न स पुनरावर्त्तत इति श्रुतेः । मम क्षराक्षरातीतपुरुषांचमस्य धाम गृहमित्यर्थः । अत्र भक्तानां त्वक्षरं ब्रह्म पुरुपोत्तमगृहरूपत्वेन, ज्ञानिनां ब्रह्मत्वेन, पुरुषोत्तम- स्येव, मल्लानामशनिरित्यादिस्वभावानुसारेण । यद्यढ़िया त उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सदनुग्रहाय, इति श्रीभागवतात् ॥ ८६ ॥ तपक्षरब्रह्मैव परं प्राप्यस्थानमिति चेत्, तत्राहुः-- पुरुपः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।। इत्यग्रिमेण वाक्येन गेहाधीशो निरूपितः ॥ ८७ ॥ पुरुष इत्यादि ।। यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च मर्थितः पुरुषोत्तम इति वाक्यात् । परः पुरुषः पुरुपोत्तमः श्रीकृष्ण इत्यर्थः । अत्र सिद्धान्ते जन्ममरणाधुपाधित्तया क्षरो जीवः । अक्षरोऽन्तर्यामी । अक्षरा- ऽतीतः पुरुषोत्तमः । द्वाविमौ पुरुपौ लोक इत्यादिगीतावाक्या । अयं विचारः श्रुतिरहस्यप्रकाशे निपुणतया निरूपितो मयेति नेह तन्यते ॥ ८७॥ पुरुषोत्तमलाभः कथं, नत्राहुः- भक्त्या लामो हि निर्दिष्टो भक्तिश्चाचार्यसंश्रयात् ॥ श्रीमदाचार्यचरणमजनादेव नान्यथा ॥ ८८ ॥ भक्त्येति श्रीमदाचार्यचरणेत्यादिभित्र क्रमस्तु,पूर्व भगवत्कृपा-- ऽङ्करस्पस्वतःसंस्कारेण भगवन्मार्गीयसङ्गादिनावा उद्बोधे मार्ग- ऽस्मिन् रुचिः । ततोऽस्मिन् प्रवेशेच्छा । तत्राप्यङ्करस्य हतत्त्वे- ऽस्मिन्मार्गे सर्वोत्तमत्वभानम्।मपेशव द्वारभूतश्रीमदाचार्यकुलगुरु- द्वारा शरणागतिः । ततः शुद्धः कृष्णं भजेदितिसिद्धान्तात् सेवायामधिकारः । ततः सतां, द्वारभूतश्रीगुरोर्वा सङ्गेन शिक्षया शुद्धाद्वैतमार्तण्डः । सपरिकरस्य स्वस्य च शुद्धिरपेक्षिता । सा लोके दुर्घटाऽतो, दारान सुतान् गृहान् माणान् यत् परस्मै निवेदनमिति विधिपूर्वकं सिद्धं समर्पणम् । तेन च, ब्रह्मसम्बन्धकरणादित्यादिवाक्येन सर्वदोषनिरासोक्तः समर्पणोत्तरं सर्वत्र दोपाभावात् प्रतीयमाना- ना चाभासमात्रत्वाद् गङ्गाजलन्यायेन दोपाणां गौणभावाच वा, श्रीमदाचार्यचरणेषु भगवदभेदबुद्धिः। सर्वोत्तमस्तोत्रादिभि- स्तनजनम्।तत एतन्मार्गीयसङ्गेन भगवद्भजनस्वीयग्रन्थावलोकन- श्रवणादिना प्रतिवन्धनिवृत्तौ दोपनिवृत्तिः। सेवोपयोगिगुणद्धि- था ततः सेवानरन्तर्ये सकुटुम्बस्य भगवत्माप्तिरिति॥अन्यथेति॥ श्रीमदाचार्यचरणशरणं विनेत्यर्थः । अत एव श्रीहरिराया आहु:- नाश्रितो वल्लभाधीशो, न च दृष्टा सुबोधिनी । नाराधि राधिकानाथो वृथा तज्जन्म भूतले, इति ।। वृधेत्यस्य निष्फलमित्यर्थः ।। ८८ ।। श्रीमदाचार्यचरणद्वाराऽङ्गीकृतस्य लीलाधिकारिणो यत् करोति भगवाँस्तदाहुः- ब्रह्मभावं तु सम्पाद्य परमानुग्रहाद् विभुः ॥ गृहस्थितं स्वीयजीवं समुद्धरति यत्नतः ॥ ८९ ॥ ब्रह्मभावमित्यादि ॥ यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुबिलीयत इत्यादिश्रुत्या, नयः प्रविष्टा इव नामरूपे इत्यादिश्रुत्या, विशते तदनन्तरमिति स्मृत्या निरूपिते ब्रह्मणि लयो ब्रह्मभावसम्पत्तिः । तादृशं कृत्वेत्यर्थः ॥ परमानुग्रहात् ।। स्वीयत्वेनागीकाराद् । यमेवैप वृणुते तेन लभ्य इति श्रुतेः ।
सप्रकाशः। मुक्तिदानं तु सर्वेभ्यः । भक्तिं तु परमानुगृहीतस्यैव । मुक्ति ददाति कर्हिचित् स्म न भक्तियोगमिति श्रीभागवतोक्तेः । अक्षरं ब्रह्म पुरुषोत्तमस्य गृहम् । तत्र ब्रह्मैक्यतया स्थितं स्वयं समुद्धर- ति । तस्मात् पृथक् करोतीत्यर्थः ॥ यत्नत इत्यनेन तस्योपरि स्नेहभरेण तद्वियोगाऽसहिष्णुस्तस्योद्धरणे इच्छां करोतीति सिद्धम् । अत्र प्रमाणं तु व्याससूत्रं,सम्पद्याविर्भावःस्वेन शब्दा- दिति । ब्रह्मभावं सम्पाद्य स्वेन पुरुषोत्तमेनाविर्भावः क्रियते । एवं कथमुच्यते, तबाह । शब्दादिति । यो वेद निहितं गुहायां परमे व्योमन् , सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते- तिशब्दात् । अत्र पुरुषोत्तमसाहित्येन सर्वकामोपभोगो जीवस्य निरूपितः । स लीनस्योद्धरणं विना न सम्भवत्यस्मादुद्धरती त्यर्थः । तथाच । श्रीभागवते- ते तु ब्रह्महदं नीता मग्नाः कृष्णेन चोद्धृताः । ददृशुर्ब्रह्मणो लोकमिति ॥ श्रीमदाचार्यचरणैरपि फल- प्रकरणमारम्भे- ब्रह्मानन्दात् समुद्धृत्य भजनानन्दयोजने । लीलाया युज्यते सम्यक् सा तुर्ये विनिरूप्यते, इति ।। शुद्धपुष्टिलीलास्थजीवानां तु न ब्रह्मणि सायुज्यमुद्धरणं च अत एव गोपानामेव मग्नत्वमुद्धृतत्वमुक्तं, न ब्रजसुन्दरीणा. म् । अत एव दामोदरदासादिषु लीलानुभवः स्पष्टः सङ्गच्छ- ते। नन्वलौकिकदेहाप्ती देहस्यानित्यत्वमायातम् । तद्विषयिण्या लीलाया अपीति चेन्न । पुरुपोत्तमस्य लीलाया नित्यत्वं श्रुति- स्मृतिन्यायादिसिद्धम् । उपपादितं चास्मत्मभुचरणविद्वन्मण्डने । भक्तविपयिण्या लीलाया अपि नित्यत्वं, ध्रुवासोऽस्य कीरय इति श्रृंतिसिद्धम् । यथाऽक्षरब्रह्मणः सर्वत्र च्यापफत्यमेवं भगवद्भक्त- शुद्धाद्वैतमार्तण्डः। स्यालौकिकाकारस्य व्यापकत्वेन प्राकृतशरीरेऽपि तिरोहित- तया वर्तमानमानन्दाऽऽकाररूपम् । अत एव, निराकारास्त- दिच्छयेत्युक्तं श्रीमदाचार्यचरणः । आनन्दस्यैवाकारत्वेन त- तिरोधाने निराकारत्वम् । तत्मादुर्भावे साकारत्वमेवं तद्विषयिण्या लीलायास्तदैवाविर्भावः । अतो नानित्यत्वमिति दिक ॥ येषां तु सायुज्यं, तेपामलौकिकारमादुर्भावार्थमेव लयः । पर्यादायास्तथात्वात् । येषां च न, तेषां तच्छरीर एवालौकिका- कारस्याविर्भावात् । ननु लीलानुभवार्थमाविर्भावे पुरुपोत्तमेन सह भेदो जीवस्यायात इति चेत्, सत्यम् । अत्र लीलास्थानां अमरूपत्वेन न भेद इति । वस्तुतस्तु जीवस्याभेदोऽक्षरब्रह्मणा सह । अभेदवोधकाच श्रुत्यादयोऽक्षरब्रह्माऽभेदं वोधयन्ति, न पुरुषोत्तमाऽभेदम्। तथाच श्रीमदाचार्यचरणाः,पुरुषोत्तमे लयेन लीलाननुभवे नाश एव स इति । अत एव श्रीमत्मभुचरणपौत्र- देवकीनन्दनैः, अक्षरेण सहैक्यं हि जीवस्य श्रुतयो जगुरित्यु- तम् । अत एव, परेणाऽभेदवोधको मार्गस्तामसानामिति पाने उत्तरखण्ड उक्तं शिवेन- शृणु देवि प्रवक्ष्यामि तामसानि यथाक्रमम् * येपां स्मरण- मात्रेण पातित्यं ज्ञानिनामपीति प्रतिज्ञाय, शैवपाशुपतवैशेपिक- न्यायसांख्यचार्वाकबौद्धशास्त्राणि तामसानीत्युक्त्वा- मायावादमसच्छास्त्रं प्रच्छन्नं वौद्धमुच्यते । मयैव कथितं देवि कलौ ब्राह्मणरूपिणा ॥ अपार्थ श्रुतिवाक्यानां दर्शयल्लोकगर्हितम् । कर्मस्वरूपत्याज्यत्वमत्रैव प्रतिपाद्यते ॥ सर्वकर्मपरिभ्रष्टं विकर्मत्वं तदुच्यते । परेशाजीवयोरैक्यं मयाऽत्र प्रतिपायते ॥ - सप्रकाशः। ब्रह्मणस्तु परं रूपं निर्गुणं वक्ष्यते मया । सर्वस्य जगतोऽप्यत्र मोहनार्थ कली युगे ।। वेदार्थवन्महच्छास्त्रं मायावादमवैदिकम् । मयैव कथितं देवि जगतां नाशकारणाद् इति ।। नागोजीभस्तु मार्कण्डेयान्तर्गतदेवीमाहात्म्पटीकायां,माया- वादमितिश्लोके चरणत्रयं यथास्थितं पठित्वा, जगतां नाश- कारणादिति पपाठेति, तत्तु प्राचीनार्वाचीनसन्दर्भावलोकनेन ब्राह्मणरूपिणेति प्रतिभातीति 'तुच्छमेवेति । अत . एव सायुज्यं लयः। सह युनक्तीति सहयुक्, सहयुजो भावः सायुज्यमित्यर्थ- द्वयं ब्रह्मपरब्रह्मविपयत्वेन सङ्गतं भवतीति दिङ्मात्रमुक्तम् ।।८९॥ ननूद्धारानन्तरं तस्य कथं स्थितिस्तत्राहु:-.. उधृतौ परमक्लेशो विरहाऽनलसम्भवः ।। यदा देहादिनाशाय समर्थो जायते तदा ॥९॥ निजं श्रीमत्कृष्णचन्द्रः स्वाधिकारानुसारतः॥ परमानन्दलीला तामनुभावयति प्रभुः॥ ११ ॥ उद्धृताविति।।भक्तस्य ब्रह्मानन्दादुद्धृतौ । विरहानला- द्वियोगानेः सकाशात् सम्भव उत्पत्तिर्यस्य, एतादृशो यो परम- लेशो देहादिनाशाय समर्थो जायते, तदेत्यन्वयः । यद्वा परमक्लेशो विरहानलसम्भवस्ताप इति शेपः ॥ तदा तस्मिन् काले ॥१०॥ निजं जीवं परमकारुणिकः श्रीमत्कृष्णचन्द्रो यथाधिकार परमानन्दलीलामनुभावयतीत्यर्थः । गणितानन्दव्याहत्यर्थ पर- मेत्यानन्दस्य विशेषणम् ॥ ताम् अनुग्रहैकलभ्याम् ॥ प्रभुः समर्थः॥अनुभवे भक्तस्य प्राधान्यं तदुदितं प्राक्.। रसो यै सः, यदा शुद्धाद्वैतमार्तण्डः। रस होवायं लब्ध्वानन्दी भवति, को ह्येवान्यात् कः प्राण्याद् यदेष आकाश आनन्दो न स्यात्, एप होवानन्दयाति इति श्रुतिः । अत्र रसात्मकभगवत्स्वरूपलाभे सत्यानन्दी भवती- त्यानन्दवत्वमुक्त्वा जीवनहेतुत्वं परमानन्दहेतुत्वं चोच्यते । मरणहेतूपस्थित्यभावे जीवनहेतुं न बदेव । अतो रसस्य संयोग- वियोगभावत्वेन पूर्णतया विरहतापस्योपमईकत्वेन प्राणस्थिति- रपि न स्याद् यद्यपः स्फुरदूपः, आनन्दः आकाशो भगवान् न स्यात् को वा जीवयेन्न कोऽपीत्यर्थः । एतादृशापन्निवारणं भगवतः एवेति ज्ञापनाय श्रुतौ हि-शब्दः । तादृशस्य जीवन- मावश्यकमिति ज्ञापनायैवकारः । तापात्मकस्यानन्दरूपत्वा- यानन्दपदम् । तदनन्तरं प्रगटीभूय तदन्यः को वा दर्शनस्पर्शा- श्लेपणभाषणादिभिः स्वरूपानन्ददानेनाऽन्यात् पूर्वतापनिवृत्ति- पूर्वकमानन्दपूर्ण कुर्यादित्यर्थः । अन्यथाऽन्यात् पाण्यादिन्युभयत्र अनितेः सत्त्वात् पौनरुत्यं स्यादिति । श्रीमद्भाष्यकारचरणैः, स्पष्टो ोकेपामिति सूत्रे, एकेषां शाखिनां भगवत्स्वरूपलाभा- ऽनन्तरं दुःखतन्निवर्तनलक्षणोऽर्थः स्पष्टः पठ्यत इत्युक्तमिति विस्तरावलोकनेछुभिस्ततोऽवधेयम्।दुःखस्य परमफलरूपत्वं तु भाप्यविद्वन्मण्डनादी निरूपितम् । मयाऽपि श्रुतिरहस्यप्रकाशे प्राकाशि ॥११॥ एतत्माती मुख्य कारणमाहुः-- इति श्रीवल्लभाचार्यचरणाजकृपाभरात् ॥ प्राप्यते नान्यथा चैतद् ब्रह्मादीनां सुदुर्लभम् ॥१२॥ इति श्रीवल्लभाचार्येत्यादि । आचार्यवान् पुरुपो बेदे- ति श्रुतेः । कृष्णाऽमृताऽधरास्वादसिद्धिरन न संशयः, इति. , - सप्रकाशः। वाक्यात् । सान्निध्यमात्रदत्तश्रीकृष्णप्रेमा विमुक्तिदः * रास- लीलैकतात्पर्यः कृपयैतत्कथामद इति वाक्याच ॥ ब्रह्मादीनां सुदुर्लभामिति ॥ न स्त्रियो व्रजसुन्दर्यः पुत्र ताः श्रुतयः किल । नाहं शिवश्च शेपश्च श्रीश्च ताभिः समाः कचित् ।। पष्टिवर्पसहस्राणि मया तप्तं तपः पुरा । तथापि न मया प्राप्तास्तासां वै पादरेणव इति बृहदामन- पुराणवाक्याल्लीलाप्रधानभक्तचरणरेणुरपिदुर्लभस्तदा श्रीकृष्णा- ऽधराऽमृतास्वादनाद्यतिदुर्लभतरमिति भावः ।। ९२ ।। ज्ञानिनां मुक्तिमादु:- ये तु ज्ञानैकसन्निष्ठास्तेषां य लय एव हि ॥ भक्तानामेव भवति लीलास्वादोऽतिदुर्लभः ।।.९३ ॥ ये त्विति ॥ ते ज्ञानान्न मुक्तिः। ज्ञानादेव च कैवल्य- मिति ॥ लय एव हीति ॥ न स पुनरावर्तत इति श्रुतेः । ननु सिद्धान्तेऽक्षरब्रह्मणा सट्टैक्ये भगवतोद्धारः क्रियत इति, न स इति श्रुतिविरोध इति चेन्न । अनया संसारावर्त्तनं निपिझ्यते, न तु ब्रह्मातीतपुरुषोत्तममाप्तिः ।। आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते, इति भगवद्वाक्या- व । विशंपतो निरूपणं तु भाप्यविन्मण्डनादौ । यत्राक्षरमाप्ता- वपि न पुनरावर्तते, तत्र तदतीतमाप्ती तत्सम्भावनापि नेति ।। भक्तानामेवेति ॥ मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा फोटिप्वपि महामुने, इति भागवत.
शुद्धाद्वैतमार्तण्टः।
वाक्यानारायणभक्तस्यातिदौर्लभ्यम् ॥
नारायणादिरूपाणि ज्ञातान्यस्माभिरच्युत ॥
सगुणं ब्रह्म सर्वेदं वस्तुबुदिर्न तेषु नः ।।
ब्रह्मति पठ्यतेऽस्माभिर्यद्रूपं निर्गुणं परम् ।
वाइमनोगोचरातीतं ततो न ज्ञायते तु तदित्याद्युक्त्वा ।।
आनन्दमात्रमिति यद् वदन्तीह पुराविदः ।
तद्रूपं दर्शयाऽस्माकं यदि देयो वरो हि नः, इत्यादिबृहद्-
वामनपुराणे श्रुतिमार्थनावाक्यात्तत्परस्य पुरुषोत्तमस्य भक्तानां
श्रेष्ठये किमु वाच्यम् । तत्र ताभिः स्तुतो भगवान् अक्षरब्रह्मस्थं
श्रीवृन्दावनश्रीयमुनाश्रीगिरिगोवर्द्धनादिलोकं, तत्र स्थितश्री-
गोपिकाफदम्बस्थितस्वस्वरूपं दयित्वा भगवानाह, यूत किं
करवाणि व इति । ततः श्रुतयो नित्यसिद्धगोपिकावन्मनोरथं
याचितवत्यः । ततः,
दुर्लभो दुर्घटवैव युष्माकं सुमनोरथः ।
मयाऽनुमोदितः सम्यक् सत्यो भवितुमर्हतीत्याहेति लीला-
स्वादोऽनुग्रहैकलभ्योऽतोऽतिदुर्लभो लीलास्वादो भक्तानामेव
भवतीत्यर्थः । तत्रैव पुराणे,
स्त्रियो वा पुरुषा वाऽपि भक्तिभावेन फेशवम् ।
हृदि कृत्वा गतिं यान्ति श्रुतीनां नात्र संशयः, इति-
वाक्यात् । एतत्पुराणवाक्यानि विद्वन्मण्दने प्रभुचरणैर्निरूपि-
तानि ॥ ९३ ॥
एवं निरूप्य समाप्ति मतिजानते-
इति श्रीश्रीमदाचार्यचरणाजप्रसादतः ।।
प्रोक्तं गिरिधरेणेदं पश्यन्तु हरिभाबुकाः ॥ ९४ ॥
६२ सप्रकाशः। इति श्रीश्रीमदाचार्येत्यादि । अत्र श्रीद्वयोपादानमुभय- भागस्थितस्वामिनीवाचकम् । तेन लीलास्थपुरुषोचमत्वमत एपां चरणाब्जप्रसादेऽयं रसःसदास्वाद्यो भवतीति वोद्धयते ।।९४ ॥ एतद्ग्रन्थावलोकनकर्तृणां फलमाहुः- सूर्योदये शीतमपति सर्व मार्गावलोको जलजप्रकाशः॥ तमोनिवृत्तिर्दिजकर्मवृत्ति- स्तथैव मार्तण्डनिवन्धबोधे ॥ ९५॥ इति श्रीमन्मुकुन्दरायसहज़माधुरीपरमानिर्वचनीय- सरसवदनतामरससुधाहदावगाहिश्रीमदाचार्यकृपा- पारसारश्रीमत्प्रभुचरणाऽऽत्मजमहाराजश्रीयदुनाथ- कुलोद्भवगोस्वामिश्रीगोपालजनुपाश्रीगिरिधरेण वि- रचितः शुद्धाद्वैतमार्तण्डः समाप्तिमफाणीत् ॥ सूर्योदय इत्यादि । तथैवेति ॥ शीतस्य जाड्यरूपत्वेन जाड्यं गच्छति । निजाचार्यप्रगटितमार्गज्ञानम् । भक्तहृदयाब्ज- प्रकाशः । तमोऽज्ञानं तस्य निवृत्तिः। द्विजस्य ब्राह्मणादेः सूर्यो- दये सन्ध्यावन्दनादिकर्मसु यथा दृत्तिः प्रवृत्तिः, स्तथा ब्रह्म- सम्बन्धिनः,कर्माप्येकं तस्य देवस्य सेवेति वचनाद् भगवत्सेवा- रूपकर्मणि प्रवृत्तिः । आत्मनिवेदिनामेव भगवत्सेवायामधि- कारः । आत्मनिवेदिनो हि भगवत्सेवाहर्हाः, नेतरे। गायत्र्युप- देशजसंस्कारवदिति श्रीमभुचरणाः । तथाच गायत्र्युपदेशेन द्विजत्वमेवमात्मनिवेदनेनात्र भगवत्सेवाधिकारत्वसम्पादकदिन- त्वम् । यथा जन्म ब्राह्मणकुले, तदनुगायत्र्युपदेशे कर्माधिकार एवं शरणमन्त्रोपदेशे वैष्णवत्वं, तदन्यात्मनिवेदने सेवाऽधिकार- 4 शुद्धाद्वैतमार्तण्डः। इति भावः ॥ निवन्धो ग्रन्थः ॥१५॥ इति श्रीयदुनाथानां कुलचूडामणेर्गुरोः॥ श्रीमगिरिधरस्याघ्रिसरोरुहपरागलिट् ॥१॥ रामकृष्णः स्वयोधाय व्यरचत् तत्कृपालवात् ॥ शुद्धाद्वैताख्यसिद्धान्तमार्तण्डस्य प्रकाशकम् ॥ २॥ यदिदं सदसदापि प्रोक्तं धाष्टोन्मयात्र हि ॥ तत्र श्रीवल्लभाचार्याः कृपयन्तु निजेश्वराः ॥३॥ इति श्रीमदखण्डपण्डिताऽऽडम्बरखण्डनप्रचण्डवचनमरीचि- श्रीमदाचार्याऽऽत्मजश्रीमत्मभुचरणात्मजश्रीमहाराजश्रीयदुनाथ- कुलकमलप्रकाशकरश्रीमद्गोपालात्मजश्रीश्रीमगिरिधरचरणकमल- मकरन्दमधुपायमाननेतोपनामकरामकृष्णभट्टविरचितः शुद्धाऽद्वैत- मार्तण्डप्रकाशः समाप्तिमगमत् ॥
श्रीगिरिधारी तनोतु मालानि । प्रमेयरत्नार्णवः । श्रीबालकृष्णभट्टविरचितः गोपीनूतनरूपयौवनमहामाधुर्यलाभोन्मदं वृन्दाकानननिर्मितोज्ज्वलमयस्वच्छन्दरासोत्सवम् ॥ श्रीमद्वल्लभविठ्ठलप्रकटितप्रेमाख्यभक्तिप्रियं चेदान्तोक्तरसात्मकं प्रभुमहं गोवर्द्धनेशं भजे ॥१॥ नन्दागनालालितवक्त्रचन्द्रो विधीशदुपापपदारविन्दः॥ विराजतां मूर्द्धनि भक्तिगम्यः श्रीयालकृष्णः कुलदैवतं मे ॥२॥ आनन्दमूर्ति श्रुतिमूद्धसिद्धं श्रीकृष्णमप्राकृतधर्मयुक्तम् ॥ यः प्रापयदेवजनान् स्वपुष्टया श्रीवल्लभं तं प्रभुमाश्रयामि ॥३॥ घेदान्तसिद्ध पुरुषोत्तमस्य स्फुटीरुतं येन रसात्मकत्मकत्वम् ॥ गोपाहानाप्रेमानिमग्नचित्तं श्रीविठ्ठलं तं प्रणमामि भजौ ॥४॥ अथ सुबोधिनीनिवन्धमाप्यविद्वन्मण्डनादिषु स्थितानि प्रमे- यानि रत्नानीव सञ्चिनोमि । तत्र भगवद्भजनोपयोगितया प्रपञ्चस्व. रूपशानस्य नियन्धोक्तरीत्या प्रथम तदेव विविच्यते । स आत्मानर स्वयमकुरुत, स हैतावानास, स वै सर्वमिदं जगत्, इदं सर्वं यदय मात्मा, आत्मवेदं सर्व, स सर्वे भवति, पुरुष एवंदः सर्वमित्यादि- श्रुतिभिब्रह्मात्मकः प्रपञ्चो ग्रहकार्य इति सिद्धान्तः । अविकृतपरि- २ प्रमेयरनार्णवे णामवादस्वीकारात् । तथोपपादितं भाष्यकारैः, आत्मकृतेः परि- णामादित्यत्र । अतो न मायिको, न वा भगवद्भिन्नः, किं तु सत्य- स्वादाविर्भावतिरोभावशाली, नोत्पत्तिविनाशवान् । नासतो विद्यते भावो नाभायो विद्यते सतइतिवाक्यात् । एवञ्च प्रागभावादिचतुष्टय- मपि नाति शेयम् । ननु प्रपञ्चस्य ब्रह्माभिन्नत्वेऽपि प्रापचिकघट- पटादीनां घटः पटो.नेत्यादिप्रतीतिसिद्धोऽन्योन्याभावो दुर्निवारः। अन्यथा घटेनावरणरूपं पटकार्य स्यादिति चेन्ना यहु स्यामितिश्रुति- सिद्धयेच्छया घटे पटत्वादीनां सर्वेषामेव तिरोभावात् । एकस्य घट- त्वस्यैव घटे आविर्भावान कार्यान्तरसङ्करः । एवं सति सर्वत्र सर्वे ब्रह्मधर्माः सन्तोऽपि तत्तव्यक्ती तत्तत्कार्यकर्तृत्वस्य भगवता निय- मितत्वान्न कार्यान्तरं कहुँ समर्था भवन्ति । अतः प्रमाणसिद्धाभ्या- माविर्भावतिरोभावाभ्यां सर्वकार्यसिद्धौ, नाऽन्योन्याभावोऽङ्गीकर्त- व्यः । सर्व सर्वमयमिति तापनीयश्रुतेः । अत एव, तद्वैतत् पश्य- . न्नृपिर्धामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्चेत्यादावुक्तः सर्वभावो युज्यते ॥ पवमन्योऽन्याभावे निराकृते पदार्थमात्रस्य सर्वरूपत्वेनात्य- न्ताभावोऽपि दूरीकृतो शेयः । तथाहि भूतले घटो नास्तीत्यत्र हि घटानुपलम्भेऽपि तद्भुतले वस्त्वन्तरस्य तृणादेराकाशस्य वा विद्यमानत्वात् तृणादिना आकाशेन या घटस्यापि सत्वान्नात्यन्ता- भावः । अत. सर्वस्य सर्वरूपत्वात् सर्वस्य सर्व विद्यमानत्वाच सर्यस्य ब्रह्मत्वमिति शुद्धो ब्रह्मवादः। फारणरूपस्य ब्रह्मणः कार्यरूपेण आविर्भावात् तत्प्रयुक्तं निखिलप्रपञ्चे, आत्मकृतेः परि- णामात,पटयथेति सूत्राभ्याम्। एतदुक्तं निवन्धीयसर्वनिर्णयप्रकरणे, प्रपञ्चभावो भगवत्येव लीनः प्रकटीभवतीति । अवान्तरकार्येषु घटपटादिषु त्वयं प्रकारः। भगयदिच्छया कारणरूपायां मृदि विद्य- मानस्य भगवद्पघटस्यापि यः । एवं सति यस्मिन् भगवद्पे रूपान्तरस्याविर्भावस्तत्कारणम् । यथा मृत् । यस्य प्राकट्यं तत् फार्य, यथा घट रति कार्यकारणभ्ययस्था योग्या। तथोकं नियन्धे, मृदादि भगवद्पं घटायाकारसंयुतमिति । अतः सर्व थल्विदं प्रीति शुन्युक्तं मापात्मकर निरायाधमेय । मनसा यचसा रएया गाते- परपोन्द्रियः * अहमेय न मत्तोऽन्यदिति गुमध्यमअसा, इति प्रपञ्चविवेकः । . भागवतोपबृंहणाथ । परन्तु व्यामोहिका माया जीवं व्यामोहयित्या सदीयवुद्धौ प्रापश्चिफसद्वस्तुसदृशं मायिकं पदार्थमुत्पाध पुर स्थित- विपये प्रक्षिपति । तदा पदार्थग्रहणं तस्यापि प्रहणात् तद्विशिष्टशानं भ्रमात्मकं भवति । तथा सति वस्तुग्रहे मायिकधर्माणामपि ग्रह- णाद्, यदिदं मनसा वावा चक्षुभ्यो श्रवणादिभिः * नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् ॥ देहं मनोमात्रमिमं गृहीत्वा, त्वय्युद्धवा- sऽश्रयति यत्रिविधो विकारो मायान्तराऽऽपतति नाद्यपवर्गयोर्य- व,स्वमाभमस्तधिषणं पुरुदुःखदुःखमित्यादिवाक्यानि सावकाशानि भवन्ति । इमानि ताफ्मतीतिमूलकानि प्रमाणान्यवलम्ब्य विवादिवादानां प्रवृत्तिः। पुराणादौ तादृशवादमूलमायिकत्वोक्ति- बैराग्यार्थमुपयुज्यत इति व्यवस्थापितं तत्त्वदीपे । अतः प्रतीतिरेव मुग्धानां मायिकी, न वस्तुनि कश्चिद्दोपः स्वाभाविकः । अत एवं ब्रह्माणं प्रति भगवतोक्तम्- ऋतेऽर्थ यत् प्रतीयेत न प्रतीयेत चात्मनि * तद्विद्यादात्मनो मायां यथा भासो यथा तमः, इति । एतद्- व्याख्याने सुबोधिन्यामुक्तं, तया व्यामोहिता बुद्धिः पदार्थानन्यथा मन्यते, न तु पदार्था अन्यथा भवन्तीति। अप्रे चोक्तंप्रमाणभूतो घेदः सर्व खल्विदं ब्रह्मेत्याह । ब्रह्मविदां प्रतीतिरपि तथा ।म्रान्तप्रतीतेस्तु नार्थनियामकत्वम् । अन्यथा भ्रमदृष्ट्या गृहीतं जगद् भ्रमरूपमेव स्यात् । अतो विषयता काचित् स्वीकर्तव्या । यया दृष्टिनिर्विषया स्यादिति । एवमुपपाद्य स्पष्टीकर्तु पुनः फलितमुक्त, विषयता माया- जन्या, विषयो भगवानिति । एवं सति अब्रह्मविदां विपये विपयता चप्रतीयते इत्युक्तं भवति । यथा भ्राम्यतः पुरुषस्य, घटो भ्राम्यती- ति प्रत्यक्षे घटगताऽकृत्यादिर्घस्तुभूता प्रतीयते। भ्रमणं तु विपयता- रूपम्।विषयरूपं भगवदात्मक वस्तुभूतम् । यत् पुनस्तत्रैवोत्पत्ति- विनाशकुत्सितत्वान्योन्याभावादि प्रतीयते तद्विषयतारूपं भ्रमणव- मायिक भासते । तथा घटपटादिरूपं जगत् प्रतीयते, न तु मायिफ योध्यम्। इदमेव विविच्य सुबोधिन्याम्,ऋतेऽर्थ यत्प्रतीयतेत्यस्यैव व्याख्याने उक्तम् । अतो विषयताजनितं ज्ञान प्रान्तम् । विपयजनितं प्रमेतीति । विषयता च द्विधा सुबोधिन्यां विवृता। सा च विषयता विधा-आच्छादिकैका । अन्यथाप्रतीतिहेतुश्चापरत्यारभ्य तस्माद् दर्पणे मुखजननपतेजोऽभावन्धिकारजननयन्मायामोहितपुरुषबुद्धा. ।
४ प्रमेयरवार्णवे बपि विपयताद्वयं जनयतीत्यर्थ इत्यन्तेन ग्रन्थेन । विषयताद्वयं कर्म- भूतं माया जनयतीति फक्किकार्थः । पुनर्विपयताद्वयस्यापि स्व- रूपं निगमयितुमने भणितम् । तत्रैका ब्रह्मरूपतां न प्रकाशयति । एका तु जगदपा विपयतेति । इह ब्रहरूपता ने प्रकाशयतीत्युक्त्या, ऋतेऽर्थ यत् प्रतीयेत न प्रतीयत चात्मनीत्यत्र, अर्थो न प्रतीयत इति यदुक्तं तदुपपादितम् । एका तु जगद्रूपा विषयतेत्युक्त्या, अर्थम् ऋते यत् प्रतीयतेति पूर्व यदुक्तं तत् समर्थितम् । जगद्पा विषय. ता जगदिव सत्यमिय रूपं यस्याः सा जगदूपति समासो शेयः । एतदेव, यथा भासो यथा तम इति दृष्टान्तेन मूले विवेचितम् । नच जगद्रूपा विषयतेत्युक्त्या रश्यमानस्य जगतो विपयतात्वं स्वीक्रिय- तामिति वाच्यम् । विषयो भगवान् विषयता मायाजन्येत्यनेन विषय- रूपस्य जगतो विपयतायाः पृथक्त्वस्वीकारात् । अन्यथा ब्रह्मणो विषयत्वस्य धक्तुमशक्यत्वाजगतश्च विपयतारूपत्वाहीकाराद्विपयो भगवानित्युक्तिरेव बाधिता स्यात् । अतो जगदुरूपा विषयतेत्य- स्याऽस्मदुक्त एवार्थो शेयः । प्रापञ्चिकनीलवस्तुसदृशं विषयता- रूपं नीलं तमः प्रतीयते । इयमेव जगद्रूपा विषयता। इदं तु विशिष्य शेयम् । माया हि कुत्रचिद्विषयतारूपधर्म सृज- ति । कुत्रचिद्धर्मिणं विषयतारूपम् । भ्रमरिकादृष्टया गृहीते घटे भ्रमणं विषयतारूपम् । तेजोऽभावे तु धर्मी विषयतारूपोऽन्धकारः । एवमुभयविधा विपयता जगत्समानाकारा । अत एव जगद्रूपेत्यु- च्यते । एवञ्च विषयतया पदार्थानामन्यथाभानं, न तु पदार्था अन्य- थेति निष्कर्षः । यतो विषयताद्वयमाच्छादकाऽन्यथाप्रतीतिहेतुरूपं ब्रह्मशानेन नाश्यते । तदुक्तं सुबोधिन्यामत्रैव । तदुभयव्यावृत्त्यर्थ प्रमाणानीति भाव इति ॥ अयं प्रपञ्चोऽधिकारभेदेन त्रिधा भासते । तब ब्रह्मभूतानां ब्रह्मात्मक एच शुद्धो भासते। यथा यस्मिन् क्षणे स एव शुक्लो गृह्य- ते । तद्वत् । शास्त्रोत्पन्नशानिनां तु ब्रह्मधर्ममायाधर्मयुक्तस्तत्तद्धर्म- सत्यत्वमिथ्यात्वविवेकपूर्वकं भासते। यथा पटस्वरूपोपाधिकहरित- त्वयुक्तपदे गृहीतेऽपि पटगताऽऽकृत्यादीनां सत्यत्वं,हरितताया मायि. फत्वं युद्धात तद्वत् । अविवेकिनां तुब्रह्मधर्ममायाधर्मयुक्तस्तत्तद्धा. णामेकरूपज्ञानपुरःसरं भासते । यथा हरितकाचोपनेत्रयुतचक्षुपा प्रपश्चविवेकः । चालेन गृहीतः पटस्तद्गताऽऽकृत्यादेरौपाधिकहरितत्वादेश्य सत्यत्वा. ध्वयोधपूर्वकं भासते तथा । एवं सति भान एवं भेदो, न स्वरूपे । अतः प्रपञ्चस्य ब्रह्माभिन्नत्वात् सत्यत्वमङ्गीकार्य श्रुतिशरणैः । ये पुनरुत्पत्तिविनाशकुत्सितत्वभेदादयो धर्माः प्रतीयन्ते, ते मायिका इति सुधीभिराकलनीयम् ॥ भगवन्मादौ तु भिन्नः प्रकारः। तथाहि । भगवन्मूर्ति पश्यतो भक्तिरहितस्य बुद्धौ माया विषयतां सृजति, न तु भगवन्मूर्ती विपयत प्रक्षिपति । तत्र भगवद्गुणानामभिव्यक्ततया माया- याः प्रक्षेपसामर्थ्याभावात् । किन्तु ताटगद्रष्टुवुद्धावावरणस्य विद्य- मानत्वाद्भगवन्मूर्तावन्यथा भानम् । वस्तुतस्तु तत्र भगवत्त्वं निर्दुष्ट- मेवाअत एव, विष्णोर्वा वैष्णवानां कलिमलमथने पादतीर्थेऽम्बुवुद्धि- रित्यादिवाफ्यैरन्यथाबुद्धेनिन्दितत्वं धूयते । शिलावुद्धिर्न कार्या व तत्र नारद कर्हि चित् । शानानन्दात्मको विष्णुर्यत्र तिष्ठत्यचिन्त्य- कृद्, इत्यादिवचोभिस्तत्र भगवदावेशकथनात् प्रपञ्चवैलक्षण्यमङ्गी- कार्यम् । मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनमित्येकादशवाक्यात् । पूजन प्रतिमायां तु उत्तमं परिकीर्तितमिति कालनिर्णयदीपिकास्थ- विष्णुधर्मवाक्याश्च । नियन्धे च- तदभावे स्वयं वापि मूर्ति कृत्वा हरेः क्वचित् * परिचर्या सदा कुर्यात् तद्रूपं तत्र च स्थितम्, इत्यस्य व्याख्याने, वस्तुविचारे सर्वस्यापि भगवद्रूपत्वाविशेष- स्त्वयम् । एनम् उद्धरिष्यामीति, तदा मृदादेः प्रादुर्भूत इत्यादिना प्रपञ्चवलक्षण्यस्य उपपादितत्वाश्च । अत एव महता प्रवन्धेन मूर्तिपूजनं श्रीमद्भागवतैकादशस्कन्धे भगवता श्रीमदुद्धवं प्रत्युक्त- मिति दिक् ॥ एवमेव यमुनागङ्गादिजलेषु तुलसीगोपीचन्दनादिषु तादृश- भक्तेषु साधारणवस्तुवैशिष्ट्यमाप्तवाक्य्यलेनैवादरणीयम् । तत्त- सेवकैस्तत्र तत्रोधृत्युपयोगिधर्माणामुपलभ्यमानत्वात् । अत एव भगवन्मूादिसम्बन्धाद् यहूनां भगवत्प्राप्तिः पुराणादौ स्मर्यते । वाचनिके शास्त्रे वाचनिक्येच व्यवस्थेति, न शुष्कत:भ्रमितव्यमि- त्यलं लेखेन ॥ ननु सर्वस्य ब्रह्मात्मकत्वे सर्वान्तःपातिनो देहस्यापि तथात्वेन तर जायमानाया आस्मयुद्धेः प्रमात्वापातः । नचेष्टापत्तिः । देहात्म-
प्रमेयरबार्णवे.
बुद्धः श्रीमद्भागवतादौ निन्दितत्वादिति चेत् । सत्यम् । अजातब्रह्म-
शानस्य देहं विकारवत्वेन पश्यतो मायामोहवशाजाताया देहात्म-
बुद्धेरेव सर्वशास्त्रेषु निन्दा । सर्वत्र ब्रह्मत्वेन पश्यतः स्वदेहेऽपि
तथा भानाद्भवन्ती आत्मबुद्धिः प्रमारूपैव । तथाह भगवान् भाष्य-
कारः, आत्मकृतरित्यत्र, देहात्मबुद्धिस्तु सत्यां विकारवुद्धी दोष
इति ॥
ननु, त्वय्यद्वितीये भगवनयं भ्रम इत्यादिवाक्यानां का गतिरि-
तिचेत्।अहन्ताममतात्मकस्य संसारस्य मिथ्याभूतस्यैतादृशवाक्य:
विषयत्वमिति योद्धव्यम् । तथाच प्रपञ्चो ब्रह्मात्मकः । संसारस्तु
अहन्ताममतात्मको मिथ्याभूत पर । एतच सुष्ट्रपपादितं निवन्धा-
दिविति विशेपजिशासायां ततोऽवधेयमिति दिक् ।
इति श्रीमद्गोवर्द्धनधरश्रीवल्लभाचार्यश्रीविठ्ठलेश्वरचरणानु-
चरसेवकेन लालूभट्टोपनामबालकृष्णेन कृते प्रमेय
रत्नार्णवे प्रपञ्चविवेकः सम्पूर्णः ॥ १॥
७ जीवस्वरूपनिरूपणम् । अथ जीवस्वरूपं विचार्यते । तत्र तत्वमसि श्वेतकेतो, पपोऽणु- रात्मा चेतसा वेदितव्यः, ममैवांऽशो जीवलोके, नाणुरततेरि- ति चेनेतराधिकारात्, न नौ पश्यन्ति कवयश्छिद्रं जातु मनागपीति श्रुतिगीतान्याससूत्रसमाधिभापावाक्यम्रह्माभिन्नोऽधुम्रह्मांशो जीव इति राधान्तः । तस्य चावस्थात्रयम् । शुद्धसंसारिमुक्तभेदात् । त- थाहि कारणभूतादक्षरब्रह्मणः सकाशाद्ययाग्नेः क्षुद्रा विस्फुलिङ्गा घ्युथरन्तीतिश्रुतेः सच्चिदानन्दात्मकोऽणुरंशो निःसरति । व्युधरणा- ऽनन्तरं कारणरूपाऽक्षरगतस्य,विशुद्धसत्त्वं तव धाम शान्तमित्यादि- प्रमाणसिद्धस्य भगवद्धर्मात्मकस्य विशुद्धसत्त्वस्यांशभूतेन तादृक्- सत्वेन भगवदिच्छया प्रवलीकृतेनानन्दांशस्तिरोभवति । तदा निरु- पाधिकोऽणुरूपोऽक्षरांशश्चित्प्रधानस्तिरोहितानन्दो जीवशन्दवाच्यो भवति । तदुक्तं वेदस्तुतिसुयोधिन्यां, स्वकृतपुरेग्वमीवित्यत्र, जीवो नाम भगवतश्चिदंश इति । स्फुटीकृतं च भाप्ये, आनन्दांश- स्तु पूर्वमेव तिरोहितो येन जीवभाव इति । अन पूर्वमेवेत्यस्य भगषदैश्वर्याचंशभूतैश्चर्यादितिरोभावात् पूर्वमित्यर्थः । निवन्धे च, ततः साकारा भगवद्पा अपि उच्चनीचभावेच्छया निर्गता इति निराकारा जाता इत्युक्तम् । इह आकारशब्देनानन्दाफार उच्यते । आनन्दो ब्रह्मवादे आकारसमर्पक इति तत्र निर्णयात् ।। ननु व्यापकाद् ब्रह्मणो व्युश्चरणं न सम्भवतीतिचेन्न । व्यापक- त्वेऽपि विरुद्धधर्माश्रयतया, व्युश्चरन्तीतिश्रुतिसिद्धस्य व्युचरण- स्याङ्गीकारात् । एवं सति व्युचरणोपादानभूताद् ब्रह्मणो व्युचरतो ग्रलभूतस्य ब्रह्मभूते प्रदेशे ग्राह्मभूतं व्युचरणमित्युक्ते न कश्चिदोपः । सर्व खल्विदं ब्रह्मति श्रुतेः । तथैवोक्तं भगवता, यत्र येन यतो यस्य यस्मै यद्यद्यथा यदा * स्यादिदं भगवान् साक्षात् प्रधानपुरुपेश्वरः इति । अतो व्युचरणे सत्यानन्दांशतिरोधानाजीवत्वम् । व्युचरणो- तरम्, आनन्दांशतिरोधाने सत्यविद्यासम्बन्धात् पूर्ववर्तिन्यामय- स्थायां शुद्धजीव इति व्यवहारः । शुद्धसत्त्वव्यवस्थितिरिति लक्ष्मी- तन्त्रात् । जीवे शुद्धत्वं त्वविद्यासम्बन्धराहित्यम् । ततोऽस्मिञ्जीव- रूपेभगवदशेभगवदैश्वर्यादिषड्गुणांशभूतानामैश्वर्यादीनां हरीच्छया तिरोभावः । पराभिध्यानात्तु तिरोहितं, ततो हास्य बन्धविपर्य- यावितितत्त्वसूत्रात् । तदा तेषां मध्ये केपुचिजीयेषु रमणेच्छया 6 प्रमेयरत्नार्णवे विचारितस्य बहुत्वभवनस्य सिद्धये उयभावेच्छाविषयीभूतं मुक्त्य- ऽधिकाररूपं सूक्ष्मसद्वासनाविशिष्टं देवत्वं सम्पादयति भगवान् । तदैव जीधा मुक्तियोग्या भवन्ति । देवी सम्पद्विमोक्षायेति भगवछा- फ्यात् । ततो हविद्यासम्बन्धाद वन्धः। बन्धोऽस्याऽविद्ययानादि- रिति वाफ्यात् । अनादिन्यं तु कार्यान्तरापेक्षया |अमरेप्चमरत्वचत्। तदुपपादितं विद्वन्मण्डने । ततो देहेन्द्रियान्तःकरणाभ्यासाः स्वरूप- विस्मृतिश्चेत्यविद्यायाः पञ्चपर्वाणि । तैपद्धो दुःखितः । अस्य जीप- संसार उच्यत इति नियन्धात्। उच्यते, न तु जायते।अभिमत्यात्मक- स्वात् । ततः सूक्ष्मस्थूलदेहसम्बन्धात् संसारिधर्माजन्ममरणादीन् अनुभवन् भगवत्कृपया सत्सङ्गादि लब्ध्वा पञ्चपर्वात्मिका विद्यां प्राप्य परमानन्दलक्षणां मुक्तिं लभते ॥ वैराग्य सांख्ययोगौ च तपो भक्तिश्च केशवे ॥ पञ्चपति विद्येयं यया विद्वान् हरि विशेदितिवाफ्यात् । तत्र यावत् पञ्चपर्वात्मिकां विद्यां प्राप्नुयात् । तावत् संसारीति व्यवहा- । तदग्ने मुक्त इति शास्त्रीयो व्यवहार ।। स च मुक्तजीवो द्विविधः । जीवन्मुक्तो मुक्तश्चेति । तत्र सनकादयो गताविद्यास्ते जीवन्मुक्ता उच्यन्ते । ये तु व्यापिवैकुण्ठेतरभगव- लोकवासिनस्ते मुक्ता इत्युच्यन्ते । ततः परमकृपया परममुक्ति- स्तत्र तु शुद्धब्रह्मत्वमेवेति निर्णयः । केविदुत्तमा दैवास्तु सत्सङ्गादि प्राप्य मार्गचिजन्यश्रवणादिसमुद्भूतस्वतन्त्रमत्त्या फलरूपया नित्य: लीलायां प्रविशन्ति । स तेषां मोक्षः । ये तु देवजीवेभ्यो व्यतिरि- तास्तेषां पड्गुणतिरोधानानन्तरम्, अविद्यासम्बन्धे नीचभावेच्छा. विषयीभूतं मुक्तिप्रतिवन्धकमसद्वासनाविशिष्टमासुरत्वं सम्पादयति भगवान् । तदा ते आसुरजीचा उच्यन्ते । ते ह्यसद्वासनावशात्तादृशं स्थूलदेहं प्राप्य निन्दितकर्मनिरताः सन्तो नीचयोनिगा भवन्ति । ते सर्वदा संसारिण एव । क्षिपाम्यजम्नमशुभानासुरीष्वेव योनिषु । आसुरी योनिमापन्ना मूढा जन्मनि जन्मनि * माममाप्यैव कौन्तेय ततो यान्त्यधमां गतिमिति वाक्यात् । तेषां तु तदेवा. ऽविद्याकार्यनाशो यदा भगवानात्मरतीच्छुर्भवति तदा भगवानविद्या- कार्य संसारं सर्वत्र स्थितं स्वयमेव जीवकृतसाधनानपेक्षो नाशयति। तदा तेपामासुराणां सर्वदोषाणां नाशात् पुनः शुद्धजीवत्वं भवति ।
जीवस्वरूपनिरूपणम् । तत्र सर्वत्र जडजीवात्मकमपञ्चे तिरोधानकृतवैजात्यनाशार्थ चिदा- नन्दो प्रकटयति तदा पूर्वोक्तजोवेप्यप्यंशद्वयप्राकट्यम् । ततः प्रपञ्चो भगवति लीयते । तदैक एव भगवान् । अक्षरस्यापि पुरुपोत्तमाभिन्न- तया स्थितिः । यो विशिष्येत सोऽस्म्यहमिति भगवद्वाक्यात् । भवानेकः शिष्यते शेपसंश इति श्रीदेवीवाक्याश्च । सुयोधिन्यां तथैव व्याख्यातत्याय । अत एव, कृष्णस्यात्मरतो त्वस्य लयः सर्व- सुखावह इति निवन्धे उक्तम् । इदमत्र क्षेयम् । जीवा द्विविधाः-देवाः, आसुराध । तत्र देवा अपि द्विविधाः- मयांदामार्गायाः, पुष्टिमार्गीयाश्च । तस्माजीयाः पुष्टिमार्गे भिन्ना एव न संशय इति पुष्टिप्रवाहमर्यादानिरूपण- ग्रन्थात् । भेदकस्तु वीजरूपो निरुपाधिको भावः । स च भगवता अविद्यासम्बन्धात् पूर्व दैवत्वसम्पादनानन्तरं मर्यादामार्गीयजीवेभ्यो भेतुं विशेषानुग्रहेच्छया पुष्टिमार्गीयफलं प्रापयिप्यत्येवम् । स तु उत्तरवाधिकारविवेके विवेचयिष्यते। मर्यादामार्गीया जीवास्तु शान- भक्तिकर्मयोगादिभिः सच्छास्त्रप्रतिपादितैयथायथं मिलिता घहु- विधा शेयाः। तेऽपि मुक्तापधिकारिणः । अतो मुक्तिः पुष्टिमार्गी- याणां मर्यादामार्गीयाणां च । अत एवेतरौ मिनो सान्ती मोक्ष- प्रवेशत इत्याचार्यवाक्यात् । परंतु मुक्तो यो भेदः स उत्तरत्र प्रपञ्चयिप्यते। नन्विदं सर्व जीवस्याणुत्वे सम्भवेत् । तत्तु सर्वदेहव्यापित चैतन्योपलब्ध्यन्यथानुपपत्तिसिद्धेन व्यापकत्वेन बाधितमिति चेन्न । आविरोधश्चन्दनवदिति तत्त्वसूत्रे चन्दनदृष्टान्तेनाणुत्वेऽपि सर्व- शरीरव्यापिचैतन्योपलब्धेः साधितत्वात् । ननु चन्दनस्यैकदेश- पतित्वं प्रत्यक्षेण गृहीत्वा तच्छैत्यं सकलशरीरे लभमानस्तद्वलेन एकदेशस्थस्यापि चन्दनस्य ताइक् सामर्थ्य कल्पयति । जीवे तु शरीरैकदेशवर्तित्यस्य प्रत्यक्षेणानिर्धासद् शान्तवैपम्येण तादृश- सामर्थ्यसियभायान्न पूक्तिसमाहितिरिति चेन्न । प्रमाणवर्याभ्यः, कतम आत्मा योऽयं विज्ञानमयः प्राणेषु, हृद्यन्तज्योतिः पुरुषः स या एप आत्मा, हृद्येप आत्मेत्यादिश्रुतिभ्य एकदेशस्थायित्वस्य निश्चयात् । एतदाह सूत्रकार:- अवस्थितिवैशेप्यादिति चे. नाऽभ्युपगमादधृदि होति । किञ्च । यथा वृक्षस्य संपुष्पितस्य ૨
१०
प्रमेयरनार्णवे
दूरागन्धो वात्येवं पुण्यस्य कर्मणो दूराद्गन्धो वातीतिश्रुतेर्गन्धस्य
न्याधिकदेशचर्तित्यमेवं चैतन्यगुणोऽप्यधिकदेशवर्ती । जीवस्य
शरीरैकदेशहृदयस्थायित्वेऽपि सर्वदेहे चैतन्योपलम्भो भवत्येव ।
तदाह सूत्रकृत् । व्यतिरेको गन्धवदिति । नच चम्पकाद्यवयवा-
नां सूक्ष्माणां दूरदेशे प्रसृतत्वात् तत्र गन्धोपलब्धिः सुवचेति
वाच्यम् । हिन्वादेरनेकचर्मपुटादिवेष्टितत्वेनावयवनिर्गमनाभावे-
ऽपि गन्धग्रहणात् । लशुनस्पृशि करादी बहुधा क्षालनेनावयवा.
ऽभावेऽपि गन्धानपायाच्च । एतच्च सुप्ठूपपादितं प्रभुचरणैर्विद्व-
न्मण्डने । न च, स वा एप महानज आत्मेति श्रुतेापकत्वमिति
वाच्यम्। नाणुरतच्छतेरितिचेन्नेतराधिकारादिति तत्वसूत्रेण ब्रह्म
अधिकृत्येयं श्रुतिः प्रवृत्तेति प्रदाणुत्वस्यैव साधितत्वात् ॥
ननु नित्यः सर्वगतः स्थाणुरचलोऽयं सनातन इति भगवद्वा-
क्याद् व्यापकत्वमिति चेन्न । ब्रह्म वेद ब्रह्मैव भवतीति श्रुतेर्ब्रह्म-
भावे सति भगवद्धर्मावेशे जायमानस्य व्यापकत्वस्य भगद्वाक्यवि-
पयत्वात् । तदुक्तं निवन्धे, व्यापकत्वश्रुतिस्त्वस्य भगवत्त्वेन युज्यत
इति । तर्हि व्यापकतायामणुत्वस्य निवृत्तेरवास्तवमणुत्वमितिचेन्न ।
ब्रह्मणो विरुद्धधर्माश्रयत्वेन अणुरूपेऽपि व्यापकताया अदोपात् ।
एतदुपपादितं नियन्धे । अण्वपि ब्रह्म व्यापकं भवति । यथा कृष्णो
यशोदाक्रोडे स्थितोऽपि सर्वजगदाधारो भवतीत्यन्तेन । अतो
जीवोऽणुरेव । तस्य चैतन्याख्यो गुणः सर्वदेहं व्यामोति । तदुक्तं
नारदपञ्चरात्रे लक्ष्मीतन्त्रे प्रयोदशाध्याये-
चैतन्यमस्य धर्मो हि प्रभा भानोरिवामला ।
तया स्फुरति जीवोऽसौ स्वत एवानुरूपयेति । यथाग्नेः क्षुद्रा
विस्फुलिङ्गा न्युच्चरन्तीति श्रुतिः स्पष्टमेवांशत्त्वं ब्रूते। सूत्रकारो-
ऽप्यंशो नानाव्यपदेशादन्यथाचापि दाशकितवादित्वमीयत एके,
इत्यनेनांशतां स्फुटं निरणयदिति पूर्वोक्तमखिलमनवद्यम् ।
इति श्रीगोपर्धनधरश्रीवल्लभाचार्यश्रीविठ्ठलेश्वरचरणानु-
चरसेवकेन लालूभट्टोपनामयालकृष्णभट्टेन कृते प्रमेय-
रतार्णवे जीवविवेकः समाप्तिमगात् ॥२॥
मूलस्वरूपनिरूपणम् । ११ अथ मूलरूपं विचार्यते । तत्र, कृषिभूवाचकः प्रोक्तो णश्च निदृतियाचकः । तयोरेफ्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥ ॐ तत् सत् परं ब्रह्म कृष्णात्मको नित्यानन्दैकस्यरूपः सोहमों तद्ोपाल एव परं सत्यमयाधितमिति । परं ब्रह्मैतद् यो ध्यायति रसति भजतीत्यादिश्रुतेर्मत्तः परतरं नान्यत् किश्चिदस्ति धनअय, अक्षरादपि चोत्तम इति भगवद्वाक्याच श्रीकृष्णः परं ब्रह्मेति नि. ष्कर्षः । अत एव, परं ब्रह्म तु कृष्णो हीति मुक्तावल्ल्यां श्रीमदाचार्य- रुक्तम् । स चापाणिपादो जवनो ग्रहीता, अप्राणो हमनाः शुन्न इत्यादिश्रुतेः प्राकृतपाणिपादादिरहितः सच्चिदानन्दविग्रहः । आनन्दं ब्रह्मणो रूपं, सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकर्मणे * नमो चेदान्त- वेद्याय गुरवे बुद्धिसाक्षिणे, सर्वतःपाणिपादं तद् इत्यादिश्रुते- रानन्दमूर्तिमजहादतिदीर्घतापम्, आनन्दमात्रफरपादमुखोदरादि- रित्यादिपुराणतन्त्राभ्यामानन्दात्मककरणादिरूपो, निष्कलं निष्क्रिय शान्त, सर्वकामः सर्वगन्धः, परास्य शक्तिर्विविधैय श्रूयते इत्यादि- श्रुतिभिरपाकृतधर्माधारः । तदुकं निबन्धे- सर्वाधारं वभ्यमायमानन्दाकारमुत्तमम् । प्रापञ्चिकपदार्थानां सर्वेषां तद् विलक्षणम्, इति ॥ तथाच निपे- धकश्रुतीनां प्रातीतिकप्राकृतधर्मविपयत्वं, धर्मविधायकोपनिषदां त्वप्राकृतनित्यश्रीतधर्मविषयत्वमिति व्यवस्थया त्वविरोधोऽस्म- सिद्धान्ते । यदाह भगवान् भाष्यकारः। प्रतीतं च निषेध्य, नाप्रतीतं, न श्रुतिप्रतीतमिति । स च परमकाष्ठापन्नः पुरुषोत्तमशब्दवाच्यः कृष्णः सदा प्रकटालौकिकसर्वधर्मा नित्यसर्वलीलः । दशमस्य वि. शुद्ध्यर्थ नवानामिह लक्षणमितिशुकवाक्यात् । यस्य लीला नव- विधाः स शुद्धः पुरुषोत्तम इति निबन्धात् । श्रीकृष्णं परमानन्द दशलीलायुतं सदेति स्पष्टमेव श्रीभागवतप्रकरणारम्भे निरूपित- त्वाच॥ स हि द्विभुजचतुर्भुजादिरूपैर्वृहद्वनवृन्दावनव्यापिवैकुण्ठादिषु तत्तद्भक्तैः सह रममाणः सर्वदा विजयते ॥ परिपूर्णतमः कृष्णो चैकुण्ठे गोकुले स्वयम् । चतुर्भुजश्च वैकुण्ठे गोकुले द्विभुजः स्वयम्, इति ब्रह्मवैवर्तात् ।
ममेयरनार्णवे त्वेन तदुद्भव अत एव परमानन्दः । रसो वै सः । एतमानन्दमयमात्मानमुपसंमा- मतीत्यादिश्रुतेः । आनन्दमयोऽभ्यासात् । पुरुषयिधोऽन्ययोऽत्र चरमोऽग्नमयादिषु य इति तस्यसूपश्रीभागवतीयक्षुतिस्तुतिभ्यां च । एतश्च भाग्यसुबोधिन्योः स्फुटम् । अत एव भात्मानन्दसमुद्रस्थं कृष्णमेय विचिन्तयेदिति मुक्तावल्यामुक्तम् ॥ तस्यैव, यहु स्यां प्रजायेयेति श्रुत्युक्तयेच्छया सफलकारण- कारणभूतं रूपान्तरमाविर्भवति । तस्मिन् रूपे भगवद्धर्मात्मकसत्वेन आनन्दांशस्तिरोहित 'इव भवति । तदा तद्रूपमक्षरब्रह्मशब्दयाच्यं भवति । तदक्षरं ब्रह्म अधिकारिभेदेन द्विधा स्फुरति । तत्र भक्ता- नां पुरुषोत्तमधामट्यापिधैकुण्ठाद्यात्मकत्यादिधर्मवत् प्रतीयते । अध्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्, यं प्राप्य न निवर्तन्ते तद्धाम परमं ममेति गीतावाफ्यात् । दर्शयामास लोकं स्वं गोपा. नां तमसः परम् । सत्यं शानमनन्तं यदू ब्रह्म ज्योतिः सनातानमिति श्रीभागवताय । अत एवोकं निवन्धे । प्रभुत्येन हरेः स्फूर्ती लोक- इत्यादि । भक्तप्रत्यक्षविषयीभूतेऽस्मिन्नक्षररूपे केपाञ्चिद् गुणानां प्राकट्यमन्येषां भगवद्गुणानां तिरोधानमे- चेति शेयम् । नच तिरोभावस्याज्ञानमूलकतया न ब्रह्मणि स इति पाच्यम् । आविर्भावतिरोभावी शक्ती चै मुरवैरिण इति वाक्याद् भगवच्छक्तित्वात् । ननु विद्यमानस्य प्रतीत्यविषयता तिरोभावः । तथा सति सर्वशे ब्रह्मणि न सम्भवस्तस्य । तदानीं जीवस्याभावात् तबुद्ध्यभिप्रायेणापि न वक्तुं शक्य इति चेन्न । सतः पदार्थस्य स्वकार्याकारित्वं तिरोभाव इति लक्षणात् । अत पय ब्रह्मनिष्ठस्य प्रलयकर्तृत्वादेः प्रपञ्चस्थित्यवसरे स्वकार्याकारित्वरूप एव तिरो- भावोऽङ्गीफियते । एवं सर्वत्र बोध्यम् । सद्विपयकप्रतीत्यभावरूपस्तु तिरोभावो मायाकृतो यद्धजीवधर्म एतद्भिन्न इति दिक्॥ प्रकृतं घदामः । ज्ञानिनां तु सच्चिदानन्दत्वदेशकालापरिच्छिन्न- स्वस्वयम्प्रकाशत्वगुणातीतत्यादिस्वरूपं भासते। व्यतिरेकस्तद्भाव- भावित्वान्न तूपलब्धिवदित्यत्र भाष्येऽक्षरस्य द्वेधा स्फूर्तिनिरूपणा, त् । अतो ज्ञानिनां प्रकाशमानेऽक्षरे ब्रह्मणि सर्वेषां धर्माणां तिरो- भावादेकस्यास्तिरोधानशकेरेव प्राकट्यान्निर्द्धर्मकमिति व्यवहियते। संसुप्तवच्छ्न्यवदप्रतयं तन्मूलभूतं पदमामनन्ति * । शब्दो न मूलस्वरूपनिरूपणम् । यत्र पुरुकारकवान् क्रियार्थो माया परत्यभिमुखे च विलजमाना * तद्वै पदं भगवतः परमस्य पुंसो ब्रह्मति यद्विदुरजनसुखं विशोकम्, इत्यादिवाक्यात् । न तु श्रुत्युक्तधर्मशून्यम् । तथा सत्यसतः सत्ता स्यात् । विश्यतश्चक्षुरत विश्वतोमुख इत्यादिश्रुत्युक्तधर्मस्वीकारे औपाधिकपक्षो वा स्यात् । अतो वेदोक्तधर्माणां तिरोभायः एव, न त्वभावः । अभावास्त्वस्मन्मते तिरोभावातिरिक्ता न भवन्तीति द्वि- तीयस्कन्धसुबोधिन्याम् । नचैवं ब्रह्मणि दुःखं नास्तीत्युक्तेर्दुःखतिरो- भावस्वीकाराद् दुःखसत्तापत्तिरिति घाच्यम् । दुःखस्य मायिकत्वेन मिथ्यात्यात्तभावस्यापि मिथ्यात्वस्वीकारात् । अत एव कैश्विनि- द्धर्मवादिभिः स्थूलत्वाद्यभावानां मिथ्यात्वमङ्गीकृतम् । अन्यथा घ- भावनिरूपितं द्वैतं स्यादिति । अतो मायिकधर्माणां भ्रान्तप्रतीति- मात्रसिद्धानां दुःखादीनां मिथ्यात्वेन तदभावस्यापि मिथ्यात्वं वन्ध्या- सुततदभाववत् । श्रुत्युक्तधर्मप्रतियोगिका अभावास्तु तिरोभाया- ऽऽस्मका इति विवेकः । अतस्तिरोभावस्वीकारे न कश्चिदोपः। तदेवं तिरोहितसर्वशक्तिकं सर्वव्यवहारातीतमेकं ब्रह्मणो रूपम् । ये त्व- ऽक्षरमनिर्देश्यमव्यक्तं पर्युपासते * सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्, इतिगीतावाक्ये एतदेव स्वरूपमुक्तम् । तथाच पुरुषोत्तम- शब्दयाच्यं श्रीकृष्णस्वरूपमेकम् । अक्षरं द्वितीयम्। तच पूर्वोक्तरीत्या द्विविधमिति ब्रह्मणो रूपवयं दर्शितम् । पुरुषोत्तमस्य तस्यैव सर्व- नियमनादिकार्यसिद्धर्थ सूर्यमण्डलादौ पृथिव्या अधिदैवादिपु स्थित यद् रूपं तदन्तर्यामिशब्दवाच्यम् । य आदित्ये तिष्ठधादित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरोयमयत्येप त आत्मा अन्तर्याम्यमृत इति श्रुतेः । भेदव्यपदेशाच्चान्य इति सूत्राश्च । य इमं च लोकं परं च लोकं सर्वाणि भूतान्यन्तरो यमयतीत्युपक्रम्य यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न घेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येप त आत्मा अन्तर्याम्यमृत इति श्रुतेः । अन्तर्याम्यधिदेवादिषु तद्धर्मव्यपदेशादिति सूत्राश्च । अयं पुरुषशब्देनोच्यते। विष्णोस्तु त्रीणि रूपाणि पुरुपाख्यान्यथो विदुः प्रथमं महतः नष्ट द्वितीयं त्वण्डसंस्थितम् । तृतीयं सर्वभूतस्थं तानि ज्ञात्वा विमुच्यत इति वाक्यात् ।
ममेयरनार्णवे अयं हि सर्वेपां लीलावताराणां मत्स्यादीनां मूलम् । लीलाव. तारान् पुरुषस्य भूम्न इति द्वितीयस्कन्धात् । ते च पुनरवताराः क- स्येत्यपेक्षायां, यस्तु भूमा पुरुषो ब्रह्माण्डादधिफोऽन्तर्यामिरूपो द्वि- तीयध्यान उक्तस्तस्यावतारा इति सुयोधिन्यां व्याख्यातत्याच्च । द्वि- तीयध्यानं तु, फेचित् स्वदेहान्तर्हदयावकाशे प्रादेशमा पुरुपं च- सन्तमित्यत्रोक्तम् । एतद्व्याख्याने पुरुपादातरिक रूपमतिरेकार्थे भजन्ते । अतिरिक्तमपि पुरुषाकारं वसन्तं तृतीयपुरुषमिति सुबोधि- न्यामुक्तम् । एवं सति तृतीयं सर्वभूतस्थमित्यत्रोतमन्तर्यामिरूपमिति सूचितम् । अत पवायत्रोद्यतःक्षितितलोद्धरणाय विभ्रदित्यस्यामासे, अन्तर्यामिस्वरूपे, प्रादेशमात्रं पुरुपं घसन्तमित्यादिपदैर्यनिरूपितं भगवत्स्वरूपं तस्यात्र दशावतारा उच्यन्ते इति सुबोधिन्यामुक्तम् । पते चांशफलाः पुंसः कृष्णस्तु भगवान् स्वयमित्यत्र एप एवान्तर्यामी पुंशब्देनोक्तः । सो नारायणस्य ब्रह्माण्डमूर्तेरंशाः कलाश्चेति व्या- ख्यातत्वात् । अत एव, य आदित्ये तिष्ठन्नित्यारभ्यं, स त आत्मा- अन्तर्याम्यमृतइत्यत्रोक्तस्यान्तर्यामिणो नारायणत्वं स्मर्यते,ध्येयासदा सवितृमण्डलमध्यवर्ती नारायणःसरसिजासनसनिविष्टः * केयूरवा- न मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धतशङ्खचक्र इति । अतः पुरुषोत्तमस्य रूपान्तरमन्तर्यामिसंज्ञकमेकम् । सर्वे तस्यावता- राः। एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयमिति वाक्यात् । अक्षरान्निर्गमनं येषामन्तर्यामिणामुक्तं तेत्येतस्य मुख्यान्तर्यामिणोऽशा योध्याः। ते ह्यानन्दप्रधानां जीववत् प्रतिशरीरं भिन्ना नियतनियाम- कत्वधर्माणस्तत्तजीवमात्रनियामकां । जडजीवान्तर्यामिष्वेकैकांश- प्राकट्यादिति । तत्तु समन्वयादिति सूत्रभाष्ये एत एवोकाः । अतः परं लीलावताराणां गुणावताराणां च स्वरूपं विविच्यते । तत्र, विशुद्धसत्त्वं तव धाम शान्तं, सत्त्वं यस्य प्रिया मूर्तिः, सत्त्वं विशुद्धं श्रपत्ते भवान् स्थित्तापित्यादिचाक्येभ्यः प्राकृतसत्त्वादितर भगवद्धात्मकंसत्त्वमस्ति, एवं प्राकृतरजस्तमोभ्यामितरे भगवद्धर्मा- ऽऽत्मके रजस्तमसी अपि स्ताविशुद्धसत्त्वं तव धाम शान्तमित्यस्य सुबोधिन्या, त्रयाणामप्यप्राकृतत्वनिरूपणात् । सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयइत्यत्र भगवद्गुणत्वेन त्रयाणामुक्त, सुबोधिन्यां तथा व्याख्यातत्याच्च । तत्र अप्राकृतसत्त्वं स्वचिकीर्पितमत्स्या-
मूलस्वरूपनिरूपणम् ।
द्यायति विधाय तमायापिण्डे पहिरिवाविर्भूय तत्तत्कार्याणि करो-
ति । अस्मिन् विशुद्धसत्त्वात्मके विग्रहे जगत्स्थितिकार्यचिकीर्पया
घययोगोलकन्यायेनाविश्य विष्णुसंशां भजते । स गुणावतारो
विष्णुः । अप्राकृते रजसि विग्रहभूते वह्नययोगोलकन्यायेन प्रविश्य
ब्रह्मसंज्ञां भजते । अप्राकृते तमसि विग्रहभूते यययोगोलकन्यायेन
प्रविष्टः शिवशब्दवाच्यो भवति । एते त्रयो गुणावतारा अपारतदेहा
अपि प्राकृतसत्त्वरजस्तमसा, सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः
परः पुरुष इत्यादिप्रमाणसिद्धानां पूर्वोक्तभगवद्धर्मसत्त्वादिभ्यो
भिन्नानां नियामकतया सगुणा उच्यन्ते । अत एवैते पुराणादिषु
परब्रह्मधर्मवत्त्वेन स्तूयन्ते । अंशिना कृष्णेनाभेदात् । अत्रेतावान
विशेषाप्रयाणां गुणावतारत्वेऽपि विष्णौ चतुर्भुजाद्याकाराणां पीता.
ऽम्बरबनमालादीनां पुरुषोत्तमधर्माणां बहूनां प्रकटत्येन ब्रह्मशिवा-
ऽपेक्षया उत्कृष्टत्वं शेयम् । अत एव, श्रेयांसि तत्र खलु सत्त्वतनोतॄणां
स्युरिति श्रीभागवते उक्तम् ।।
एतावता ग्रन्थेन सिद्धमेतत् । मूलरूपस्य चत्वारि रूपाणि ।
तत्रैक पुरुपोत्तमस्वरूपं श्रीकृष्णशब्दवाच्यम् । एकम् अक्षरं
स्वरूपम् । तञ्च पूर्वोक्तरीत्या द्विविधम् । एकमन्तर्यामिरूपम् ।
एवं चातुर्विध्यं ज्ञेयम् । इदमलौकिक प्रमेयं वेदान्तप्रतिपाचं
भगवत्कृपैकलभ्यं यथावुद्धि मया निरूपितम् । विशेषजिशासायां
तु भाष्यसुबोधिनीनियन्धविद्वन्मण्डनादयो ग्रन्था अवलोकनीया
इत्यलं लेखेन ॥
इति श्रीमद्गोवर्द्धनधरश्रीवल्लभाचार्यश्रीविठ्ठलेश्वरचरणानु-
चरसेवकेन लालूभट्टोपनामवालकृष्णेन कृते प्रमेय-
रत्नार्णवे मूलरूपविवेकः सम्पूर्णः ॥३॥
प्रमेयरनार्णवे अथेदं विचार्यते । का पुष्टिः, कश्च पुष्टिमार्ग इति ॥.. तत्र, पोपणं तदनुग्रह इति शुकवाक्यात्, कृष्णानुप्रहरूपा हि पुष्टिः कालादिवाधिकेति नियन्धोक्तत्वाश्चानुनहरूपो भगवधर्मः पुष्टिः । सा च पिलक्षणा लौकिकालौकिकफलसाधिका । अतोऽधि- कारिविशेष निःसाधने श्लाघ्यफलं जनयन्ती तेनैवानुमीयते । तदुक्तं नियन्धे, अनुग्रहो लोकसिद्धो गूढभावान्निरूपित इति । अर्थस्तु गूढ- भावादनुग्रहस्य गूढत्वालोकसिद्धो लोके उत्तमफलजननेन प्रकटी भूतोऽनुग्रहो निरूपितः पष्ठस्कन्धे वर्णितः । तत्कार्य विवेचितम् अजामिलादिपु । यतो निन्दितकर्मनिरतः सङ्केतितभगवन्नाना मोचितः । विश्वरूपदधीचित्राणां कर्मिशानिभक्तानां हन्ताऽनिए. फलभोगयोग्यः शक्रोऽपि पुष्टया रक्षितः । दितिगर्भो वज्रहतोऽपि न मृतः।प्रत्युत बहुत्वं सम्पन्नम् । अत एवोक्तम्, एवमिन्द्रे महापुष्टिः सर्ववाधा निरूपिता। सर्वबाधकरूपा हि दैत्ये पुष्टिरथोच्यत, इति ॥ महापुष्टित्वं तु- बलवत्प्रतियन्धनिवृत्तिपूर्वकस्वपादापाप्ति- साधकत्वम् । सर्वबाधेत्यत्र सर्वशब्देन कालकर्मस्वभावा ग्राहाः । तदिह कुत्सितकर्मणामनिष्टफलाजनकत्वेन तद्वाध इन्द्रे स्पष्टः । दितिगर्भप्रसझे वज्रप्रहारस्य प्राणवियोगसाधकत्वस्वभावबाधो शेयः । न ममार दितेर्गर्भः श्रीनिवासानुकम्पया * बहुधा कुलिशक्षु- पणो द्रोण्यस्त्रेण यथा भवान् इतिवाक्यात् । एवमन्यत्रापि योध्यम् ॥ इयं च पुष्टिश्चतुर्विधपुमर्थान् साधयति । अत एव सुयो. धिन्यामुक्तम्, सहस्रार्जुनो भगवदंशः पुष्टया राजा बभूवेति । निबन्धे देवहूतिमुक्तिश्च पुटिकारणिका निरूपिता । योगादीनां तु व्यापारत्वमुक्कमेव, अजामिलादिषु नामादीनामिव । तदुक्तं निबन्धे-नामाध्यानार्थनादिकं, पुरस्कृत्य हरेर्वीर्य नामादिपु निरूप्य- त इति । इदं सामान्यानुग्रहस्वरूपम् । पुष्टिविशेषस्तु केवलं भगव: स्वरूपफलिकां भक्ति साधयति । अतस्तजन्या भक्तिः पुष्टिभक्तिरि- त्युच्यते । तदुक्तं सिद्धान्तमुक्तावल्याम् । अनुग्रहः पुष्टिमार्गे नियाम- क इति स्थितिरिति । पुष्टिमार्गे पुष्टिभक्तिमार्गे इत्यर्थः । तदनु- प्रहैकलभ्यां भक्तिं च नुमस्तदीयांश्चेति भक्तिहेतुनिर्णयेऽपि । अत एव, भक्त्या कार्यरूपया पुष्धिविशेषोऽनुमीयते । तदुक्तं पुष्टिप्रवाह- पुष्टिविवेकः । १७ मर्यादानिरूपणे । भक्तिमार्गस्य कथनात् पुष्टिरस्तीति निश्चय इति । अयमर्थः । मनोगतिरपिच्छिन्ना यथा गङ्गाम्भसोऽम्बुधावित्यारभ्य, स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः * इत्यन्तं, अन्यादी भागवते भक्तिमार्गस्य निर्गुणस्य निरूपणा' भक्तिसत्तायां सिद्धायां ताशा भक्त्या तत्कारणीभूता पुष्टिरनुग्रहरूपा भगवत्यस्ति इति निश्चय इत्यर्थः । सापीशानुकथाशब्देन नवमस्कन्धे व्यवहियते । ईशस्य अनुगामिनां कथा भगवच्छ्रवणादिरूपं चरित्रमित्यर्थः ॥ तश्च द्विविधं- मर्यादाभक्तिरूपं, पुष्टिभक्तिरूपं च । तत्र वि. शेषानुग्रहजन्या या भक्तिः सा पुष्टिभक्तिः । तलक्षणं तु भगव- त्स्वरूपातिरिक्तफलाकाहारहितत्वे सति भगवत्स्वरूपात्मकफला- काक्षावत्त्वम् । अत एव, अक्षण्वतां फलमित्यत्र स्वरूपस्यैव फलत्वं निरणायि । अतः पुष्टिमार्गीया न तदरिक्तं कामयन्ते । न योगसिद्धी- रपुनर्भवं वा मय्यर्पितात्मेच्छति मद्विनाऽन्यादिति भगवद्वाक्यात् । पतघ, वीक्ष्यालकावृतमुखं तव कुण्डलश्रीति पुष्टिभक्तवजसुन्दरी- वाक्ये स्पष्टम् । भक्तिहंसे च निरूपितं, भक्ती च न स्वरूपातिरिक्त- फलकत्वमित्यनेन ॥ सा पुष्टिभक्तिचतुर्धा- प्रवाहपुष्टिभक्तिमयर्यादापुष्टिभक्तिपुष्टिपुष्टि- भक्तिशुद्धपुटिभक्तिभेदात् । पुष्टया विमिश्राः सर्वशाः प्रवाण क्रियारताः * मर्यादया गुणशास्ते शुद्धाः प्रेम्णाऽतिदुर्लभा इति वाक्यात् । पुष्टयेत्यादि। ये पुष्टिभक्ताः पुनः पुष्टया विमिश्रा अनुग्रहा- ऽन्तरेण भजनोपयोगिज्ञानजनकेन युक्तास्ते सर्वज्ञा भवन्ति । सर्व- शब्देन प्रभुतल्लीलातत्परिकरप्रपञ्चस्वरूपादि ग्राह्यम् । सर्ववस्तूनां यथोक्तस्वरूपं विदित्वा ये भजन्ते ते पुटिभक्ता इत्यर्थः । प्र- चाहेणेति । प्रवाहस्याहन्ताममतात्मकसंसारप्रधानत्वात् तद्धर्मेण केवलं कर्मरुचयः, पुष्टिभक्तत्वाञ्च भगवदुपयोगिक्रियायां प्रवर्त्तन्ते प्रवाहपुष्टिभक्ताः । मर्यादयेति । मर्यादा हि जीवस्य रागतो विषयप्रवृति निराकृत्य निवृत्तिमार्गीयधर्मेषु योजयति । अतोम- दिया मिश्रणाद्विपयासक्तिमविभाव्य भगवत्कथाश्रवणादौ ये प्र. वर्तन्ते ते मर्यादापुष्टिभक्ताः । शुद्धाः प्रेम्णेति । केवलं प्रेम- प्रधानाः परिचर्यागुणगानादिकं स्नेहेनैव कुर्वन्ति तेऽत्यन्तं दुर्लभाः सर्वोत्कृष्टा इत्यर्थः । स्नेहोत्पत्त्यनन्तरं स्वव्यसनतः क्रियमाणः १८ , प्रमेयरजार्णवे श्रवणादिसत्तमः पुष्टिमक्तिरिति भक्तिहंसे तेपामेव भक्त स्वरूप मुक्तम् । न तु सामान्यतः पुष्टिमक्तिस्वरूपम् । स्नेहानन्तर्यकथना. दुत्तमपदप्रयोगाश्च ।। इदमत्र शेयम् ॥ जीवैः पुष्टिपुष्टिभक्त्यर्थ यतनीयम् । भगवद्- भक्त्युपयोगिशानं सम्पाद्य भगवान् भजनीयः । चतुर्थी शुद्धपुष्टि- भक्तिस्तु भगवदत्ता प्राप्यते । भक्तिः शुद्धा स्वतन्त्रा च दुर्लभेति न सोच्यत इति निवन्धात् । नचानुग्रहे पैलक्षण्याभावात् तजन्यभक्ती कथं नानात्वमिति शयम् । नेमें विरच्यो न भवो न श्रीरप्यङ्गसं- श्रया * प्रसादं लेभिरे गोपी यत्तत् प्राप विमुक्तिदात्॥नायं थियोऽङ्ग उनितान्तरतेःप्रसादः स्वयोपिता नलिनगन्धरुचांकुतोऽन्या:* रासो. त्सवेऽस्य भुजदण्डगृहीतकण्ठलब्धाशिपां य उदगाद् व्रजवल्लवीना- म्, इत्यादिवाक्यैस्तथाऽवधारणात् । अतोऽनुग्रहविशेषेण पुष्टिभाक्ति- लभ्यते । तया भगवांस्तद्धीनो भवति । वशे कुर्वन्ति मां भक्त्येत्या- दिवाक्यैः कृष्णाधीना तु मर्यादा स्वाधीना पुष्टिरुच्यते * इति निव- न्धोक्तश्च । इह पुष्टिशब्देन पुष्टिभक्तिः। यत्र च भक्तस्य स्वातन्त्र्यं तदिच्छानुसारेण भगवत्कृतिर्यथा दामोदरलीलायां सा पुष्टिरिति व्याख्यास्वारस्यात् । पुष्टिः स्वार्था परार्थातु भत्तिःसा नवमी मतेत्या दिवाक्येषु पुष्टिशब्देनानुग्रह एव ग्राह्यो, न पुष्टिभक्तिः। तथैव ग्रन्था- ऽर्थसिद्धेः । तदेवं सुवोधिनीनियन्धादिपु पुष्टिशब्देन क्वचिदनुग्रहः, कचित् तजन्या भक्तिरुच्यते । स एव च पुष्टिमार्ग इति सहृदयै- विभावनायेंम् ॥नच भगवत्स्वरूपातिरिक्तफलाकाहारहितत्वं प्रवाह पुंधिभक्त्यादावव्याप्तं, तादग्भावस्य शुद्धपुष्टिभक्तवेव प्रसिद्धेरिति वाच्यम्।शुद्धपुष्टिभक्तेतरपुष्टिभक्तेष्वपि मोक्षान्तफलाकाहाविरहस्य सिद्धत्वात् । नारायणपरा लोके न फुतश्चन विभ्यति । स्वर्गापवर्ग- नरकेप्यपि तुल्यार्थदर्शिन इति वाक्यात् ।,इदं वाक्यं नशुद्धपुष्ट्रिभक्त- परम् । एतादृशस्तु पुरुषः कोटिम्वपि सुदुर्लभ इत्यस्य व्याख्याने नियन्धे शानमिश्रनिर्णयात् । न योगसिद्धीरपुनर्भवं वा समअस त्वा विरहय्य काझ इति वृत्रवाफ्यात् । वृत्रस्य शुद्धपुष्टित्वाभावात् । अतो लक्षणं सुस्थम् ॥ श्रीहरिरायैस्तु गुमपुरिभक्तरेय स्वरूपं कारिकाभिहितम् ।
-
पुष्टिविवेकः।
न तु पुष्टिर्लक्षिता । विचारे क्रियमाणे तथैवार्थस्फूर्तः । अन्यथा
सर्वसाधनराहित्यादिधर्माणां प्रवाहपुष्टिभक्तायव्याप्तेश्च । अतो
नेदमसाधारणं लक्षणं, किन्तु शुद्धपुष्टिभक्तर्धर्माणां निरूपणमिति
शेयम् । तथाहि-
सर्वसाधनराहित्यं फलाप्तौ यत्र साधनम् ॥
फलं वा साधनं यत्र पुष्टिमार्गः स कथ्यते ॥ १॥
सर्वेत्यादि ॥ यत्र फलस्य भगवत आती सर्वसाधनाभावो
हेतुः स शुद्धपुष्टिभक्तिमार्गः कथ्यत इत्यर्थः । तामसप्रकरणीय-
फलप्रकरणेऽन्वेषणगुणगानादिसाधनानि त्यक्त्वा रोदनेन दैन्ये
प्रकटोरते मजवधूनां भगवदाप्तिकथनात् । एवं सति साधना-
भावस्यापि साधनतायां, न निःसाधनफलत्वं प्रभो सिद्धतीत्य-
ऽरुच्या पक्षान्तरमाहुः ॥ फलं वेत्यादिना ॥ फलरूपो भगवानेव
स्वरूपात्मकफलाप्ती साधनमित्यर्थः । अत एव श्रीमदाचार्यरुक्तम् ।
ततो भगवान् ब्रह्मा विष्णू रुद्रश्च भूत्वा पुनः कृष्ण एव जात
इत्याहेति ॥१॥
अनुग्रहेणैव सिद्धिलौकिकी यत्र वैदिकी ।
न यतादन्यथा विघ्नः पुष्टिमार्गः स कथ्यते ॥ २ ॥
अनुग्रहेणेत्यादि ॥ साधनान्तरनिरपेक्षेणानुग्रहेण यत्र लौकिक-
वैदिकसिद्धिःस शुद्धपुष्टिभक्तिमार्गः । अत एव मजस्थानां तथैव
वैकुण्ठप्राप्तिः । अयावृतं निशि शयानमतिश्रमेण लोकं विकुण्ठ-
मुपनेप्यति गोकुलं स्म * इति ब्रह्मवाक्यात् । यत्ने कृते तु विन एव
भवेत् । एतच श्रीनन्दादीनामम्बिकावनयात्राप्रसङ्गे स्पष्टम् ॥ २॥
यत्राङ्गीकरणे नैव योग्यतादिविचारणम् ॥
अविलम्बः प्रभुकृतः पुष्टिमार्गः स कय्यते ॥३॥
पत्रेत्यादि ॥ प्रभुर्जीवयोग्यताविचारमकृत्वैव यत्र शीघ्रमङ्गी-
फरोति स शुद्धपुधिभाक्तेमार्गः । केवलेन हि भावेन गोप्यो गावः
खगा मृगा इति याफ्यात् । स्वरूपविचारे तुशास्त्रस्य पुरुषाधिकारक-
त्वेन पश्चादीनां मोक्षसम्भावनैव नास्तीति शेयम् ॥३॥
स्वरूपमात्रपरता तात्पर्यज्ञानपूर्वकम् ।
धर्मनिष्ठा यत्र नैव पुष्टिमार्गः स कथ्यते ॥ ४ ॥
प्रमेयरत्नार्णवे 1 • स्वरूपेत्यादि ॥ यत्र धर्मविधायकवाक्यानां भगवत्सम्बन्धे तात्पर्यमवगत्य फलाप्त्यवसरे तत्प्रतिवन्धकधर्मान् हित्वा धर्मिपरत. या स्थीयते, स शुद्धपुष्टिभक्तिमार्गः। अत एव श्रवणादर्शनाद् ध्याना- न्मयि भाव इतिवाक्यतात्पर्यमवगत्य स्वरूपपरतयैव स्थितं, न तु तद्विरुद्धं गृहगमनमाचरितम् ॥ ४ ॥ यत्र प्रभुकृती नैव गुणदोपविचारणम् ॥ तत्कृतावुत्तमत्वक्षा पुष्टिमार्गः स कथ्यते ॥५॥ यत्रेत्यादि ॥ यत्र रोदनचौर्यादिरूपे चरित्रे हीनत्ववुद्धा ना. ऽनुपादेयत्वरूपदोपद्दष्टिः । न वा कालीयदमनादावाग्निमोक्षणादिषु माहात्म्ययोधनादिपु चरित्रान्तरेभ्यो वैशिष्टपबुद्धिः। किन्तु भगव- स्कृतिमात्र उत्तमत्वज्ञानं सर्वत्र स पुष्टिमार्गः ॥५॥ न वेदलोकसापेक्ष्यं सर्वथा यत्र वर्तते ।। सापेक्षता स्वामिसुखे पुष्टिमार्गः स कथ्यते ॥६॥ न लोकेत्यादि ॥ यत्र तु स्वामिसुखार्थमेवाखिलचेष्टितं, नैहिक- पारलौकिकयत्नः स शुद्धपुष्टिभक्तिमार्गः । दिष्टया पुत्रान् पतीन् देहान् स्वजनान् भवनानि च * हित्वा वृणीत यूयं यत् कृष्णाख्यं पुरुषं परमिति वाक्यात् ॥ ६॥. धरणे दृश्यते यत्र हेतुर्नाणुरपि स्वतः॥ वरणं च निजेच्छातः पुष्टिमार्गः स कथ्यते ॥ ७ ॥ वरणेत्यादि । स्वीयत्वेनाङ्गीकृतौ जीवकर्तृकस नानां यत्र न फारणता, स शुद्धपुष्टिमार्गः । यतः साधनसम्पन्नेष्वपि न तत्फलं, यदत्यन्तायोग्येपु पुलिन्द्यादिषु दीयते । यमेवैप वृणुते तेन लभ्य इति श्रुतिरत्राप्यनुसन्धेया ।। ७॥ यत्र स्वतन्त्रता भक्तेराविर्भावानपेक्षणात् ॥ पूर्वानुभवरूपत्वं पुष्टिमार्गः स कथ्यते ॥ ८ ॥ यति ॥ यत्र वियोगायस्थायां गुणगानादिरूपाया भक्तरेय स्वरूपानन्दात्मकफलदाने स्वतन्त्रता, न स्वरूपाविर्भावस्य संयोग- रससम्बन्धिन आकाला । प्रेमभरेण जायमानस्य श्रवणकीर्चनादेरेव सर्वसुखानुभवरूपत्वं, स गुद्धपुष्टिमार्गः ॥ ८॥ ।
पुष्टिविवेकः।
लोकदमयाभावो यत्र भावातिरेकतः ॥
सर्यवाधकतास्फूर्तिः पुष्टिमार्गः स कथ्यते ॥९॥
लोकवेदेत्यादि ।। यत्र भाषातिरेकतो भगवद्भावाधिक्यात पति.
पुत्रादिभयं पारलौकिकभयं च नास्ति। भगवद्भावे सर्वस्य कालकर्म-
स्वभावादेर्वाधकोऽयमिति स्फूर्तिः स शुद्धपुष्टिभक्तिमार्ग इत्यर्थः ।
अत एव, अस्वय॑मयशस्यं चेत्यादिवाफ्यैवेदभयं, विचिन्वन्ति
हपश्यन्त इत्यादिभिर्लोकभयं च नोत्पन्नम् ॥९॥
सम्बन्धः साधनं यत्र फलं सम्बन्ध एव हि ॥
सोऽपि रुष्णेच्छया जातः पुष्टिमार्गः स कथ्यते ॥१०॥
सम्बन्ध इत्यादि ॥ यत्र जीवानां भगवता सह देहजभावजा-
ऽन्यतरसम्बन्धः फले साधनं, यत्रच सम्बन्धः सर्वेन्द्रियाणां प्रभुणा
सङ्गमः स एव फलं स शुद्धपुष्टिमार्गः । भगवता सह संलापो दर्शनं
मिलितस्य चेत्यादिवाक्यात् । किञ्च, सम्यन्धोऽपि या कृष्णेच्छया
कृष्णस्य भक्तविषयिण्येच्छया जातः स तथा । मदन्यत् ते न जान-
न्ति, नाहं तेभ्यो मनागपीति वाश्यात् ॥ १० ॥
तत्सम्बन्धिपु तद्भावस्तद्भिन्नेषु विरोधिता ॥
उदासीनेपु समता पुष्टिमार्गः स कथ्यते ॥ ११ ॥
तत्सम्बन्धिविति। यत्र प्रभुसम्बन्धिषु भगवबुद्धिर्भिन्नोदासीन-
योर्विरोधिसमत्वबुद्धिः स पुष्टिमार्गः । अत एवोद्धवदर्शने परमो.
त्साहः। इति स्म सर्वाः परिवगुरुत्सुकास्तमुत्तमश्लोकपदाम्बुजाश्रय-
मिति वाक्यात् ॥ ११॥
विद्यमानस्य देहादेन स्वीयत्वेन भावनम् ।।
परोक्षेऽपि तदर्थित्वं पुष्टिमार्गः स कथ्यते ॥ १२ ॥
विद्यमानस्येति ॥ यत्र देहादेर्न स्वीयत्वयुद्या रक्षणादिकमपि तु
भगवदीयत्वबुद्ध्या, स पुष्टिमार्गः । किञ्च, परोक्षेऽपि विरहायस्थाया-
मपि भगवदुपयोग भाविनमालोच्य शरीरादिरक्षा स तथा । त्वयि
। धृताऽसवस्त्यां विचिन्वत इतिवाफ्यात्।त्यदर्थमेव प्राणानां धारण-
मिति व्याख्यानात् ।। १२ ॥
भजने यत्र सेव्यस्य नोपकारकृतिः कचित् ॥
पोषणं भावमात्रस्य पुष्टिमार्गः स.कथ्यते ॥ १३ ॥
२२
ममेयरवार्णवे
भजने यत्रेत्यादि । यत्र सेव्यस्य उपकारकृतिरपेक्ष्यत्वेन नास्ति,
यत्र च सेव्यकर्तृकं सेवकाधिकरणकं भावपोपणे स शुद्धपुष्टिमार्गः ।
अत एव गोवर्द्धनमखप्रसङ्गे अन्यभजनानिवृत्य स्वभजनयोजनेन
भाववृद्धिं कृतवान् प्रभुरिति शेयम् ॥ १३॥
भजनस्यापवादो न क्रियते फलदानतः॥
प्रभुणा यत्र तद्भावात् पुष्टिमार्गः स कथ्यते ॥ १४ ॥
मजनस्यापवाद इत्यादि ॥ यत्र प्रभुणा भजनस्य फलदानेन अप-
वादोन क्रियते स शुद्धपुष्टिमार्गः । अयमर्थः । पिरहानुभवाथै भगव.
ता पियोगे सम्पादिते गोपिकास्तजन्यं तापं भूयांसं प्राप्नुवत्यः ।
यदि तदवस्थायां गुणगानादिनाअन्तरेव प्रकटीभूय सुखं दद्याशान-
मुत्पाद्य शानिनामिय या सुखं दधात्, तदा पूर्णतापाऽनुभवाभावेन
उत्तरदलादानमेव स्यात् । अतो भगवान् न तथा करोति, प्रत्युत
तापमेव पर्द्धयति । कृष्णाघेशात्मविश्लचमिति धाक्यात् । इहागतो.
ऽहं विरहातुरात्मति प्राप्तोपदेशोद्धवयाक्याच्च ॥ १४ ॥
यत्र वा सुखसम्बन्धो वियोगे सङ्गमादपि।
सर्वलीलाऽनुभवतः पुष्टिमार्गः स कथ्यते ॥ १५॥
यत्रेत्यादि ॥ यत्र वियोगावस्थायां संयोगावस्थातोऽप्यधिक
सुखम् । क्षणे क्षणे एवान्तर्लीलान्तरप्राकट्यात् । कस्याश्चिलीलाया
भावनेन प्रकटीभूताया अनुभवे पुनरन्यस्या लीलाया दिदृक्षया त.
माप्तिसौकर्यात् । अत एव सुबोधिन्यामुक्तम् । आन्तरं तु परं फलं
भावमिति ॥ १५ ॥
फले च साधने चैव सर्वत्र विपरीतता ।।
फलं भाषः साधनं स पुष्टिमार्गः स कथ्यते ॥ १६ ॥
फले चेत्यादि ॥ यत्रं साधनफलयोधुपरीत्वं स शुद्धपुष्टिमक्ति-
मार्गः। तमेव स्पष्टयन्ति ॥ फलमित्यादिना ॥ यत्र मायो निरुपधिः
स्नेहः फलं प्राप्तव्यमित्यर्थः । स्वरूपानन्दप्राप्तिसाधनस्थापि भावस्य
पूर्वप्रार्थनीयत्वेन फलत्वात् । स च भावो भगवहत्त पत्र प्राप्यत
इति स फलरूपो भगवानेव तत्र साधनमिति स्फुटमेव साधनफल-
योपरीत्यमिति भावः ॥ १६ ॥
पुष्टिविवेकः। २३ पश्चात्तापः सदा यत्र तत्सम्बन्धितापपि ।। दैन्योद्योधाय सततं पुष्टिमार्गः स फथ्यते ॥ १७ ॥ पश्चात्ताप इत्यादि॥ यत्र भगवत्सम्यधिकृतौ भगवलीलायामनु- भूयमानायामपि पश्चातापः स शुद्धपुष्टिमार्गः । अयमर्थः । भगवतो मजागमनादौ या प्रजभक्तानुगुणा कृतिस्तदानन्दमनुभवन्त्यो धन- कृतलीलान्तराननुभवजन्य पश्चात्तापं कुर्यन्ति, तेनच दैन्यमाविर्भय- ति, न तु मानादि । अयं चैको विलक्षणोऽनुभवः, पीत्वा मुकुन्देत्य- स्य व्याख्याने स्पष्टः ॥ १७ ॥ आविर्भावे नसापेक्षं दैन्यं यत्र हि साधनम् ।। फलं वियोगजं दैन्यं पुष्टिमार्गः स कथ्यते ॥ १८ ॥ आविर्भाव इत्यादि ॥ यत्र जीवाधिकरणकं दैन्यमन्यनिरपेक्षं भगवदाविर्भावे कारणं स शुद्धपुष्टिमार्गः । वियोगे मिलना] तद- ऽसम्भवजं यहेन्यं तद्यत्र; फलं प्रार्थनीयमवान्तरफलम् । विरहो हि दैन्यमुत्पादयति । संयोगो मानमिव । तद्दन्यं च भगवन्तमाविर्भावय- ति । अतः प्रार्थनीयत्वात् फलत्वम् । अत एव श्रीगोकुलनाथैरुक्तं, तां कृपां कुरु राधेश यया तद्दन्यमाप्नुयामिति ॥ १८ ॥ समस्तविपयत्यागः सर्वभावेन यत्र हि ।। समर्पणं च देहादेः पुष्टिमार्गः स कथ्यते ॥ १९ ॥ समस्तेत्यादि ॥ यत्र सफललौकिकविषयाणां त्यागः सानुराग- ग्रहणाभावः स शुद्धपुष्टिमार्गः । सर्वभावेन सर्वात्मना देहादेयंत्र समर्पणम् । अत एव ब्रजवरवधूभिरुक्तं, सन्त्यज्य सर्वविषयांस्तव पादमूलं प्राप्ता इति ॥ १९ ॥ विपयत्येन तत्त्यागः स्वस्मिन् विपयता स्मृतेः॥ यत्र वै सर्वभावेन पुष्टिमार्गः स कथ्यते ॥ २०॥ विषयत्वेनेत्यादि ॥ यत्र विषयत्वेन विषयाणां त्यागो ममता- विरहो, भगवदीयत्वेन ग्रहणं स पृष्टिमार्गः । कृतात्मनिवेदनानां तापदंशस्यैव त्याज्यत्वात् । क्रीडार्थमात्मन इदं त्रिजगत् कृतं ते स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्युरिति वाफ्यात् पदार्थमात्रस्य भगवदीयत्वेन उत्तमत्वम् । तथा सति ममतामात्रस्यैव संसारत्येन
ममेयरत्नार्णवे
-
अनादरणीयत्वम् । किञ्च, स्वस्मिन्नित्यादि ॥ यत्र सर्वभावेन
सर्वात्मना स्यस्मिाये भगवत्स्मृतेविषयता स शुद्धपुष्टिभक्तिमार्गः।
अयमर्थः । भको हि यदि भगवत्कर्तृकस्मृतिविपयो भवति तदा
भक्केः साफल्यम् । यदनुस्मयते काले स्वबुद्ध्याऽभद्ररन्धनति प्रचेतो.
वाक्यात् । पतञ्च, नामभिर्दूरगान् पशून्, कचिदाह्वयति प्रीत्येत्यस्य
व्याख्याने स्पष्टम् ॥ २०॥
पवमुल्लोपसंहरान्ति-
पर्वविधैविशेषण प्रकारैस्तु सदाश्रितैः ॥
हृदि कृत्वा निजाचार्यान् पुष्टिमार्गो हि बुध्यताम् ॥ २१ ॥
एवमित्यादिना ॥२१॥
पवमन्यैरपि पुटिमागीयः शुद्धपुष्टी थद्धाधिक्यात् माय-
स्तत्स्वरूपमेयोच्यते, न तु सामान्यतः पुष्टिभक्तिरूपम् । सामान्य
लक्षणं तु पूर्वोक्तमेव निबन्धादिसिद्धमिति कोविदा एव विदा-
कुर्वन्नु ॥
इति श्रीगोवर्द्धनधरश्रीवल्लभाधीशश्रीविठ्ठलेश्वरचरणानु-
चरसेवकेन लालूभट्टोपनामवालकृष्णेन कृते प्रमेय-
रत्नार्णवे पुष्टिविवेकः समाप्तिमगमत् ॥ ४॥
अधिकारनिर्णयः। अथ पुटिभक्तिमार्गाधिकारो विमृश्यते । तत्र, नायमात्मा प्र. घचनेन लभ्यो न मेधया न बहुना श्रुतेन * यमेवैप वृणुते तेन लभ्य इति श्रुतेर्यस्मिन् भगवत्कृपा सोऽधिकारी । तत्र कृपाया अप्रत्यक्ष- त्वात् तत्कार्यरूपपुष्टिमार्गरुच्या साऽनुमीयते । यतः कृपां विना पुष्टिमार्गे रुचिर्नोदेति । तदुक्तं निवन्धे, कृपायुक्तस्य तु यथा सियेत् कारणमुच्यते इति । व्याख्याने, रूपापरिक्षानं च मार्गरच्या निश्चीयत इति । एवञ्च पुष्टिमार्गीयफलदित्सासमुद्भूतभगव- कृपाजन्यपुष्टिमार्गविपयकराचिमान् अधिकारीति शेयम् । तादृश- रुच्युत्पत्ती प्रकार उच्यते । तथाहि । दैवजीवेषु यं जीयं पुष्टिमार्गे अगोकर्तुं हारवाञ्छति, तस्य प्रभुकृपया सत्सङ्गे सति तत्कृपया परिचर्यादिना तत्प्रसाद्यथासम्भवं श्रवणतनुजसेवनादिरूपभजना. ऽनुभवादेतन्मार्ग रुचिराविर्भवति । एवं प्रवृत्तस्य विशुद्धचेतस- स्तधर्म एवात्मरुचिः प्रजायते * इति वाक्यात् । एतारशरचिमान् अधिकारी पुष्टिमार्गे । ततो मार्गरच्या क्रियमाणे श्रवणादौ चित्ते भगवदावेशः । ततश्चित्तशुद्धिः । ततः श्रवणाद्यनुवृत्तिः। तदुकं द्वितीयस्कन्धे, प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम् * धुनोति शमलं कृष्णः सलिलस्य यथा शरत् ।। धौतात्मा पुरुपः कृष्णपाद- मूलं न मुञ्चति, इति । एवं श्रवणाद्यावृत्तौ भगवति रुचिरुत्पद्य- ते । ताःश्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्यङ्गममाभवद्रुचिरि- ति चास्यात् । इयमननुभूतविपया परोक्षरचिरित्युच्यते । इयं हि श्रवणादिना सत्पुरुषाऽऽदरदर्शनादिना रचिराविर्भवति इति प्रथम- कक्षापन्ना शेया । यदनुध्यासिना युक्ता इतिश्लोकव्याख्याने सर्वत्रा- ऽलौकिकेपु पदार्थेपु माहात्म्यश्रवणाद् रुचिरुत्पद्यत इति सुयोधि- न्यामियमेव रुचिरक्तति योध्यम् ॥ सा भक्तिरेव ॥ रुचिः श्रवणादिः प्रेम चेति भक्तिस्त्रिविधेति प्रथमस्कन्धसुबोधिन्यामुक्तेः । ततोऽननुभूतविषयया भगवदुच्या श्रवणादिरूपे भजने भक्तिवर्द्धिनीप्रकरणोक्तदिशा बीजरूपो भावः सूक्ष्मभक्तिवृद्धि प्राप्नोति । स भावो भगवता पूर्वमेव जीवत्वस- म्पादनोत्तरं पुष्टिमार्गीयत्वसिद्धये सूक्ष्मरूपः स्थापित इति शेयम् । स चीजभाव इत्युच्यते । स एप भावः परोक्षरुच्या श्रवणादिसह- कृतोऽन्तर्भगवत्स्फूर्ति करोति । श्रवणादिना तु स्वाभाषिका शब्दयाच्यातितो मध्यमावस्था आसक्ति परिपाफावस्था व्यसन- ममेयरवार्णवे भगवानाविर्भवतीति द्वितीयस्कन्धनिबन्धात् । तथा सत्यन्तर्भगव. त्स्फूर्ती यत्किञ्चिदनुभवाद् रुचिविशेष उत्पद्यते । स च अपरोक्ष-. रुचिरित्युच्यते । तया स एव भावो बीजरूपः श्रवणादिसाधनैर्वृद्धः सन् प्रेमरूपो भवति । स च स्नेहो हरीतरविपयफरागनिवर्तकः । स्नेहाद्रागविनाशः स्यादिति भक्तिवर्द्धिनीग्रन्थात् । भगवद्भिनराग- निवर्तको भगवद्भावः स्नेह इति कार्यलक्षणात् । ततः सेवाश्रवणा- ऽऽवृत्त्या धर्द्धमानः स एवाऽऽसक्तिरूपो भवति । स तु भगवत्स- म्वन्धरहितपदार्थपु वाधकत्वं भासयति । आसक्त्या स्याद् गृहा- रुचिरिति भक्तिवर्द्धिनीप्रकरणात् । अरुचिर्न रुच्यभावः, किन्तु रुचिविरुद्धो भावः। विरोधाथै नमः स्मरणात् । गृहस्थानां बाधक- त्वमनात्मत्वं च भासत इति तत्रैच विवरणात् । तथाच भगवदितर- विपययाधफरवस्फूर्तिसम्पादको भाव आसक्तिरिति लक्षणम् । ततः स एवोत्तरोत्तरं वृद्धो व्यसनत्वं प्राप्नोति । विशेषेण अस्यन्ते क्षिप्य- न्ते दैहिका धर्मा अनेनेति व्यसनम् । सा व्यसनं भावं प्राप्ता भक्ति- मानसी सेवेत्युच्यते । सा परानुरक्तिरीश्वर इति भक्तिसूत्रात् । यदा स्याद् व्यसनं कृष्णे कृतार्थः स्यात् तदैव हीति भक्तिवर्द्धिन्याम् । चेतस्तत्प्रवणं सेवा तत्सिधै तनुवित्तजेति मुक्तावलीप्रकरणे तदर्थ-. स्यैव स्फुटीकरणात् ।मुक्तावलीप्रकाशे एतद्विवृतौ, ता नाविदन्मय्य- ऽनुपङ्गवधियः स्वमात्मानमदस्तथेदमित्येकादशवाफ्योपन्यासा.. च । मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ। लक्षणं भक्तियोग- स्य निर्गुणस्य ह्युदाहृतम् इति तृतीयस्कन्धे तादृग्भक्तेर्लक्षितत्वाच्च । अत एवैतद्व्याख्याने, यथा कायिकगतिगोपिकानामित्यनेन मुख्यभक्ता एवोदाहृताः।अतोव्यसनपर्यन्तं साधनाचरणम् । अत पच सुयोधिनी- निवन्धयोः प्रमाणप्रमेयसाधनाख्यैत्रिभिः प्रकरणैः प्रेमासक्तिव्यस- नानि निरूप्याने फलं निरूपितम् । अतः श्रीमद्भागवतादौ श्रीमदा- चार्याक्तौ श्रीमद्विट्टलेशोक्तौ च यत्र यत्र साधनानां प्रेमावधिकत्वं दृश्यते तत्र तत्र प्रेमव्यसनयोरभेदमादायोक्तमिति शेयम् । प्रेमसेवा- उत एच स्याद्विशिष्टव्यक्तिरुत्तमेत्यादावपि प्रेमसेवाशब्देन मानसी सेवा व्यसनशब्दवाच्या झेया । एवं सति भगवदुरुच्युत्पत्त्यनन्तरं फ्रियमाणैः श्रवणादिभिः साध्यायाः प्रेमभक्तेः प्रथमावस्था प्रेम अधिकारनिर्णयः। २७ - शब्दवाच्येत्येवमभेदात् कुत्रचित् प्रेमशब्देनासक्तिः, कुत्रचिद् व्यसन- ममिधीयत इत्यर्थः स्वारस्याद् बोध्यः । मुख्यफलं तु व्यसनोत्तर. मेव । यदा स्यायसनं कृष्णे कृतार्थः स्यात्तदेय होत्यम एयकारेण अन्ययोगव्यवच्छेदात् । इयं व्यसनात्मिकैच भक्तिभगवता देवहूति प्रत्यात्यन्तिकोत्वेनोका- अहैतुझ्यव्ययहिता या भक्तिः पुरुषोत्तमे । सालोक्यसासिामीप्यसारूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति बिना मत्सेवनं जनाः । स एव भक्तियोगास्य आत्यन्तिक उदाहृत इति तृतीयस्कन्धात्। व्याख्यातं चाऽऽचार्यः । अत्यन्तप्रेमोत्पत्तावेवं भवतीति । अतःप्रेम- परिपाकावस्था व्यसनम् । ततो व्यसनवशात् सर्वत्र पुरुषोत्तमवुद्धी सर्वत्रैवोत्कटस्नेहो भवति । स सर्वात्मभावशब्दवाच्यः । तत्सिद्धौ पुरुषोत्तमाविर्भावो याह्याभ्यन्तरभेदेन निरन्तरं सिद्ध्यति ततः फलावसरे सेवाफलप्रकरणोक्तरीत्या हलौकिकसामर्थ्य फलं भविष्य- तीत्यलं विस्तरेण ॥ एवमनेन प्रकारेण शुद्धपुष्टिभक्तानामधिकारः फलसहितो निरूपितः।। फलं तु नित्यलीलान्तःप्रवेशलक्षणम् । तदेव सेवाफलविवरणे अलौकिकसामर्थ्यशब्देनोच्यते । आनन्दमयाधिकरणभाप्ये भगवता सह कामाशनाख्यं यत् फलमुक्तं जीवस्यात्यनुगृहीतस्य तदिदम् । पुष्टिप्रवाहमर्यादानिरूपणग्रन्थे, भगवानेच हि फलमित्यनेन स्वरूप- स्यैव फलत्यमुक्तं तदपि नित्यलीलान्तःप्रवेशरूपम्। तश्च बहुप्रकारक शेयम् । नित्यलीलायां हि फेचन भक्तरूपेण गोपशुपक्षिवृक्षादिरूपेण नद्यादिरूपेण पुरुषोत्तमात्मकं फलं निरवध्यानन्दात्मकम् , आनन्द- मयाधिकरणभाप्योक्तरीत्या तादृशमलौकिक देहं प्राध्य देहेन्द्रिय- प्राणान्तःकरणजीवेषु भगवदानन्दमाकट्यात् तादृशा भूत्वाऽनुभव. न्ति । अत एव, अहो अमी देववराऽमरार्चितमित्यादिभिर्भगवता स्वलीलापरिकरस्वरूपं तादृशमेव निरूपितम् । पुष्टिमार्गीयो जीवस्तु फलदशायां तत्परिकरमध्येऽन्यतमः कश्चिद्भविष्यति । तत्र भगव- दिच्छा नियामिका ॥ पुष्टिभक्तिश्चतुर्विधा शुद्धपुष्टिपुष्टिपुष्टिमर्यादापुष्टिप्रवाहपुष्टिभेदा. - २८ प्रमेयरनार्णवे त् । तत्र पुष्टिभक्तित्वेन रूपेणैक्येऽपि प्रकारभेदानेदः । एवमेतत्फल- स्यापि नित्यलीलान्तःप्रवेशत्वेनैक्येऽपि प्रकारभेदो भतगोपशुवृक्षा. दिरूपेण योध्यः । एतदेव तारतम्यं च । तथा सति सर्वपां प्रवाहा- दिभेदभिन्नानां पुष्टिस्थानामेकमेवालौकिकसामर्थ्यरूपं फलं नित्य- लीलान्तःपातित्वशब्दवाच्यम् । तदाऽपीतेः संसारव्यपदेशादिति तत्त्वसूत्रे, तदा नित्यलीलान्तःपातलक्षणपुष्टिमार्गीयमुक्तिदशायामि-' ति भाष्योक्तेः । नित्यलीलाश्च शुद्धपुटिस्था ब्रजसम्बन्धिन्यो शेयाः। तादृशनित्यलीलान्तःपाते सति पुनः प्रकारविशेषस्त्विष्ट एव।आसा- महो चरणरेणुजुषामहं स्यां वृन्दावने किमपि गुल्मलतीपधीनामिति वाक्यात् । अत आधिदैविके बृहद्वृन्दावनादौ भक्तरूपेण गोपादि- रूपेण या स्थित्वा रसानुभवः। आधुनिकानामपि पुष्टिमार्गस्थितानां तादग्भगवत्कृपया पर्यवसाने फलरूपभावोत्पत्ती नित्यलीला- न्तःपातो भविष्यति । तत्र ये आधुनिका हीनाधिकारिणः पुष्टि- मार्गीयास्तेषां चरमजन्माभावाद् बहुभिर्जन्मभिस्तादृशभावोत्पत्ती नित्यलीलाप्रवेशो भावीतियोध्यम् । तृतीयस्कन्धे, देवानां गुणलिङ्गा- नामित्यत्र सुघोधिन्याम्, अन्येषां तु यथाकथञ्चित् क्रियमाणा भगवति खण्डशो वृत्तिरक्षयत्वाद् बहुभिर्जन्मभिः पुष्टिङ्गता अन्तिम- जन्मनि भक्तिरूपां वृत्ति जनयिप्यतीति न काप्यनुपपत्तिरित्युक्तेः । निवन्धे सेवाप्रकरणे भक्तिमार्गे मुख्यानां फलमाहेत्युक्त्वा,ये व्याख्या- तास्ते सर्वे मर्यादाभक्तिमार्गीया एव । अधुना वित्यारभ्य, सायुज्य कृष्णदेवेनेत्यन्तेन गौणमुख्यभेदेन 'मर्यादाभक्तानां फलं सायुज्या- ऽवाध निरूपितम् । अत एच, मर्यादाभक्तिमार्गस्य काष्ठा गङ्गा परा स्मृतेति निबन्धाद् गङ्गाया मर्यादाभक्तिरूपायाः सेवनात् सायुज्यं भवतीति । सायुज्यं धान्यथा तस्मिन् गङ्गातीरे न संशय इति नवम- नियन्धे उक्तम् । सायुज्यं च एकत्वरूपं भगवन्प्रवेशशब्दवाच्यम् । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरमित्यादिवाक्यसिद्धम् । भने, तदभावे स्वयं वापि मूर्ति कृत्येत्यारभ्य, गृहस्थस्य प्रकीर्तित- मित्यन्तेन पुष्टिभक्तिमार्गीयप्रकार उक्तः । विवरणे तु, एवं कुर्वन् स- कुटुम्बो भगवत्सायुज्यमश्नुत इत्यत्र सायुज्यशब्देन अलौकिकसाम. र्थ्यमेव । अत एव, आदिमूर्तिः कृष्ण एच सेव्यः सायुज्यकाम्ययेत्य. स्य व्याख्याने, ब्रह्मविदाप्नोति परमित्यत्र यत् सायुज्यं मुख्यतया अधिकारनिर्णयः। २९ निरूपितं तत्कामनायां कृष्ण एच सेव्य इत्यनेन मर्यादामार्गीयसा. युज्यानेदं निरूप्यालौकिकसामर्थ्यरूपतैय प्रदर्शिता । एतयानन्दमया ऽधिकरणभाप्ये स्पष्टतममुपलभ्यत इति ततोऽवधेयम् । सेवाफल- अन्धव्याख्याने, अलौकिकसामर्थ्य सायुज्यं सेवोपयोगिदेहो वैकुण्ठा. दियित्यनेन यत् फलत्रयमुक्तं, तत्रालौकिकसामर्थ्य पुष्टिमागीयाणां फलम् । शिष्टं फलद्वयं तु मर्यादाभक्तानामिति शेयम् । मूलेऽपि, यादशी सेवना प्रोतत्यत्र सेवनाशब्देन मर्यादासेवा पुष्टिसेवा चो- ति योद्धव्यम् । विवृती फलश्रयं सेवाद्वयस्योक्तम् । तत्र प्रथम पुष्टिसेवायाः, शिष्टं फलवयं मर्यादासेवाया इति विवेकः । अत एय सायुज्यं सेवोपयोगिदेहप्राप्तिश्चान्यत्रापि मर्यादाभक्तस्योक्ता । देह- भावे रढे तु स्याद् भक्कानां कृष्णदासता * सायुज्यं वान्यथा तस्मिन् गङ्गातीरे न संशयः, इति नवमस्कन्धनिवन्धे । तदविरोधादत्रापि तत्फलद्वयं मर्यादाभक्तस्यैवेति निश्चयः ।। विद्यायाः पञ्चपर्वमध्ये या भक्तिरुक्ता सा मार्यादिक्येवेति । यया विद्वान् हरि विशेदितिनिबन्धात् । कचिन्मार्यादिश्यां भक्तो प्रेम- शब्दव्यवहारो दृश्यते, तत्र भगवति मोचकत्ववुज्या प्रेमास्तीति तत् सोपाधि प्रेम, न तु पुरिमार्गीयाणामिव निरुपाधिकम् । तदुक्तं तृतीयाध्याये, गतेरर्थवत्त्वमुभयथान्यथा हि चिरोध इति तत्त्वसूत्रीय- भाष्ये । मर्यादापुष्टिभेदेनागीकारे चैलक्षण्यादाद्यायामङ्गीकृतानां मुमुक्षयैव श्रवणादौ प्रवृत्तिस्तदातृत्वेनैव भगवति प्रेमाऽपि, न तु निरुपाधिरिति । आसन् यस्य हरेर्वापि सेवयेत्यस्य व्याख्याने, सा युज्यब्राह्मभायौ हरिसेवयैव भवतो, नान्यसेवयेत्यत्रापि सेवा मा. योदिकीति ज्ञेयम् । अत एव मर्यादास्थानामेव सायुज्यं फलम् । पुष्टिस्थास्तु दीयमानं न गृह्णन्ति विना मत्सेवनं जना इत्यादि. वाक्येभ्यो, नाद्रियन्ते सायुज्यान्तमुक्तिम् । एतच्च, वीक्ष्याऽलकावृत. मुखमित्यस्य सुबोधिन्यां स्पष्टम् । तत्र हि प्रथम सारूप्यं सालोक्यं सामीप्यं सायुज्यमिति मोक्षभेदा इत्युक्त्वाग्रेऽलकादिस्वरूपं त. त्फलं च व्याख्याय, हसितावलोकमित्यस्य व्याख्याने, ब्रह्मानन्दे प्रविष्टानां न भक्तिविलास इत्यारभ्य, अनुभवरसो हि भिन्नतया स्थिती भवतीत्यन्तेन सायुज्यं नाकाशितमित्युपपादितम् । अतः सायुज्यं प्राप्तानां, सायुज्ये तु रसाधिक्यं भेदेनानुभवात् सदति प्रमेयरवाणेव वाक्याद्यन्नपि परमानन्दानुभवः स्वस्वरूपेणैव, न त्वलौकिकसाम- थ्य प्राप्तानामिव सर्वेन्द्रियरात्मना च । ब्रह्मानन्दे प्रविष्टानामात्मनैव सुखप्रमेतिनिबन्धात् । अतः सायुज्यं स्वरूपान्तःपातः, स नापेक्षितः पुष्टिभक्तानां, किन्तु नित्यलीलान्तःपात एवेति सुधीभिर्विभाव- 'नीयम् ॥ एतद्भक्त्यधिकारी विशेषानुग्रहसाध्यः । यदा यस्यानुगृह्णाति भगवानात्मभावितः * स जहाति मति लोके वेदे च परिनिष्ठिताम् इति वाफ्यात् ।। पतद्भक्तिप्रवर्तका ब्रजभक्ता एव । भगवत्युत्तमश्लोके भवती- भिरनुत्तमा । भक्तिः प्रवर्तिता दिष्ट्या मुनीनामपि दुर्लभेति वाक्या- त् । व्याख्यातं च श्रीमदाचार्यैः । एतेन शास्त्रप्रसिद्धायां भक्तो दानादिसाधनानि श्रूयन्ते । अस्यां तु प्रसिद्ध्यभावात् साधनमपि न पश्याम इति भावः सूचित इति। अतः सर्वोत्तमेयं पुष्टिभक्तिरिति भाग्यवद्भिज्ञेयम् ॥ - इति श्रीमद्रोवर्धनधरश्रीवल्लभाचार्यश्रीविठ्ठलेश्वरचरणानुचर- सेवकेन लालूभट्टोपनामबालकृष्णेन कृते प्रमेयरत्नार्णवे पुष्टिभक्त्यधिकारविवेकः समाप्तिमगमत् ॥ ५ ॥ ।
सर्वात्मभावनिरूपणम् । पुरुषोत्तमलाने यो मुख्यहेतुतयोदितः ॥ तस्य सर्वात्मभावस्य स्वरूपमिह वर्ण्यते ॥१॥ भगवतिपयको निरुपधिस्नेहो भक्तिविशेषः सर्यात्मभावः । त- थाहि । भावो नाम रतिः । रतिर्देवादिविपया भाव इत्यभिधीयत इति वाक्यात् । आत्मनो भाव आत्मभावः । यथा आत्मन्यात्मनो भावो निरुपधिरेव । न वा रे पुत्राणां कामाय पुत्राः प्रिया भवन्ती- त्यादिश्रुतेः । नृप स्यात्मैव बल्लभ इत्यादिवाक्याच । अतो यथात्मनि शुद्धः स्नेहस्तथा भगवति फर्त्तव्य इति श्रुतितात्पर्याऽर्थः। अत एच, स त आत्मान्तर्याम्यऽमृत इत्यादिना आत्मत्वं बोधयति । तत्वमसीत्यत्रापि तथैवाशयः । एतच तत्त्वदीपे शास्त्रार्थप्रकरणे उपपादितम् । भगवता ब्रह्माणं प्रतीदमेवाभाणि । अहमात्माऽऽत्मनां धातः ! प्रेष्ठः सन् प्रेयसामपि * अतो मयि रति कुर्याद् देहादिर्यत्कृ- ते प्रियः, इति । अनेन भगवद्वाक्येन श्रुतावप्यात्मत्यकथनं स्नेहार्थ- मेवेति निर्णीयते । अतो मयि रतिं कुर्यादितिहेतुकथनपूर्वकोपदेशा- त् । निर्णीतं च विधिना तदुक्तं द्वितीयस्कन्धे । भगवान् ब्रह्म कात्स्न्येन निरन्वीक्ष्य मनीपया * तदध्यवस्यत्कटस्थो रतिरात्मन्य. इतो भवेदिति । अत आत्मनो भावो भगवद्विषयोऽत्यादरेण सम्पाद- नीयः । तस्य सिद्धौ तिरोधाननाशे सर्वत्र पदार्थमात्रे पस्तुतोऽपि भगवद्रूपे परमानन्दरूपस्य पुरुषोत्तमस्य स्फूर्ती सर्वत्रात्मभावो भ- वति । तथाच सर्वस्मिनात्मभावः सर्वात्मभाव इति फलितम् । तय परि ये चरन्ति इत्यस्य सुबोधिन्यां तवेति षष्ठया त्वत्सम्बन्धिनं पदार्थ य कञ्चन परिचरन्ति, परं सर्वात्मभावोऽपेक्ष्यते । मृत्योः स मृत्युमामोति य इह नाना पश्यतीति भेददर्शन एव मृत्युपराक्रम- श्रवणादित्युक्तम् । एतेन सर्वात्मभावपदे सप्तमीतत्पुरुपो भगव- त्स्फूतिरभेदेनेयाहतेत्यध्यवसीयते । आत्मपदेन भगवत्प्रीतिरभेदा- ऽवगाहिनी, न त्वधिष्ठानभेदसंसृष्टा तन्त्रान्तरवत् । यत आत्मनि जायमानो भायो शानमप्यभेदेनैव वस्तुमहिम्नोत्पद्यते। भावपदेन च चिन्तयानो हृषीकेशमपश्यत् तन्मयं जगदिति याक्योक्ते तादृग्- भगवत्स्फुरणे नातिप्रसक्तिः । द्वेषप्रयुक्ततया भावत्वाभावात् । तदे- चोक्तं श्रीधरस्वामिभिः, सर्यात्ममाव एकान्तभक्तिरिति । एकान्त. भक्तिगोविन्द यत् सर्वत्र तदीक्षणामितितल्लक्षणादस्मदुक्त्या सहैक्यं प्रमेयरवार्णवे ... शेयम् । तथा सति सर्वस्मिन्नात्मभावः सर्वात्मभाव इति निष्कर्पः ॥ स च मर्यादापुष्टिभेदेन द्विविधः । तत्राद्यो नवमस्कन्धेऽम्बरीप- स्योकः । सर्वात्मभावं विदधन्महीमिमां तनिष्ठविप्राऽभिहितः शशास ह, इति । द्वितीयस्तु शुद्धपुष्टिभक्तिमार्गीयाणां ग्रजसुन्दरीणां दशमे निरूपितः । विप्रयोगदशायां विगाढभावेन सर्वत्र भगवत्- स्फूर्ती सर्वात्मभावः सिद्ध्यति । एतावान् विशेषः पूर्वस्मात् । एतासां श्रीकृष्णेशृङ्गाररससम्बन्धिभावानां यहूनां सम्भवात्तत्तद्भावसमाना- ऽधिकरणः सर्वात्मभावो भजनानन्दानुभावनेऽत्यन्तं निपुण इति शुद्धपुष्टिमार्गीयस्तोष्ट्य्यते । तदाह भगवान् भाप्यकारः, लिङ्गभूय- स्त्यात् तद्धि यलीयस्तदपीति सूत्रे । एतेन सर्वात्मभावस्वरूपमेव विवृतं भवति। तत्र विरहभावे अतिविगाढभावेन सर्वत्र तदेव स्फुर- तीति, स एयाधस्तादित्यादिनोक्त्वा कदाचित् स्वस्मिन्नेव भगव- त्स्फूर्तिरपि ' भवतीत्यथाहद्वारादेश इत्यादिना तामुक्त्वा एतेषां व्यभिचारिभावत्वेनानियतत्वं ज्ञापयितुं पुनः सर्वत्र भगवत्स्फूर्ति- माहाथात आत्मादेश इत्यादिनेत्यादि । अयं पुष्टिमार्गीयः सर्वात्मभावः शृङ्गाररसमध्यपाती। एतत्प्राप्ती शुद्धपुष्टिभक्तानामेवाधिकारः । भाष्ये त्वयमेव विशिप्य विवृतः। मर्यादामार्गीयस्तु श्रुतिस्तुतिसुवाधिन्युक्तदिशा अम्वरीपादिभक्त- गम्यः । उभयविधोऽप्युभयत्र परमकाष्ठापन्नभक्तिरूप इति कोविदा विदाकुर्वन्तु ॥ नच भ्रमरगीतीयस्य, सर्वात्मभायोऽधिगतो भवतीनामधोक्षज इति श्लोकस्य विवृतो, सर्वोऽप्यात्मनो भाव इति विवृतत्वान्न पूर्वोकं लक्षणमिति वाच्यम् । उद्धवोक्तौ पूर्वोक्तसर्वात्मभावस्याभावात् । किन्तु सर्वोऽप्यात्मनोऽन्तःकरणस्य भावो भवतीनांमम ज्ञानविषयो- भूदित्यर्थात् । यद्यप्येताः पूर्वोक्तपुष्टिमार्गीयसर्वात्मभाववत्यस्तथा- ऽप्युद्धवैः स न ज्ञातः, किन्तु तदुक्तशृङ्गाररससम्यन्धिभावमा बुद्धमिति शेयम् । मधुप कितवयन्धो मा स्पृशा सपल्या इत्यादिवाग्विलासै|पभूपणसीमन्तिनीभिस्तदतिरिक्तस्यैव स्फुटी- फरणात् । नच मामेकमेव शरणमात्मानं सर्वदेहिनाम् * याहि . सात्मभावेन यास्यसे हाकुतोभयम, इत्यत्र सर्वात्मभायेन मां शरणं
सर्वात्मभावनिरूपणम् ।
याहीरयुक्तत्वाच्छरणसाधनीभूतस्य सर्वात्मभावस्य न पूर्वोत्तरूप-
तेतिवाच्यम्। सर्वदेहिनामात्मानं शरणं शरणभूतं मां सर्वात्मभावेन
याहीत्यभिप्रायात् । सूयमाप्ये,अथवेति पक्षान्तरेण यस्यैवाऽर्थस्य
आहतत्वात् । एवं सर्वात्मभावस्य पूर्वोक्त एव महिमा, लक्षणं च
पूर्वोतमेवेत्यलं विस्तरेण ॥
इति श्रीमदोवर्द्धनधरश्रीवल्लभाचार्यश्रीविठ्ठलेश्वरचरणा-
ऽनुचरसेवकेन लालूभट्टोपनामयालयम्णेन एते प्रमेय-
रत्नार्णवे सर्वात्मभावविवेकः समाप्तः॥६॥
प्रमेयरवार्णवे. अथ पुष्टिमार्गीयाणां फलं विचार्यते । तत्र पथम, भगवत्युत्तमः 'लोके भवतीभिरनुत्तमा * भक्तिः प्रवर्तिता दिष्टया मुनीनामपि दुर्लभा, इत्युञ्जयवाक्यान्मार्गप्रवर्तकत्वेन मुख्यत्वात्तेषां व्रजभक्तानां फलप्रकारो लिख्यते । तत्र, निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिरिति द्वितीयस्कन्धीयशुकवाक्याच्छक्तिभिः सहितस्य भगव- तः प्रपञ्चे क्रीडा निरोधः । आत्मशब्दस्य भगवद्वाचित्वात् । अनु- शयनशब्देन तत्तल्लीलानुरूपा स्थितिरुच्यते, नतु निद्रा। पुरुपशब्दे पुरि शयनं पुरुषस्योच्यते, पुरि शेते इति व्युत्पत्त्या । तत्र स्थितिरेव शोधातोरों, न तु निद्रा । एवमिहापि । अत एव सुबोधिन्यां निबन्धे च, निरोधोऽस्यानुशयनं प्रपञ्चे क्रीडनं हरेः * शक्तिभि- टुर्विभाव्याभिः कृष्णस्येति हि लक्षणम, इत्युक्तम् ॥ सा भगवतो निरोधरूपा लीला त्रिविधा । निरोध्यभक्तानां तामसराजससात्त्विकभेदेन त्रिविधत्वात् तत्सन्मनोरोधकतायै क्रिय- माणा लोकानुसारिणी त्रिविधा भवति।स्वभावस्यान्यथा भावो न घे शक्यः कथञ्चन * अतस्त्रिविधजीयेषु विविधा भगवत्कृतिरितिसुयो- धिन्याम् । तया विविधलीलया क्रियमाणा भक्तानां प्रपञ्चविस्मृति- पूर्विका भगवदासक्तिः।सापि निरोधशब्दवाच्या । नितरां रोधो नि- रोध इति व्युत्पत्तेः । रोधः फस्येत्यपेक्षायां भक्तानामिति पूर्वस्कन्ध- सङ्गत्या लभ्यते । अपादानापेक्षायां प्रपञ्चो ग्राह्यः । तथा सति प्रप- चाद्रोध इति सिद्धम् । भक्ताः पूर्वत्र निर्दिष्टास्ते रोद्धव्या विमुक्तये, इति नियन्धात् । हरिणा ये विनिर्मुक्तास्ते मग्ना भवसागरे * ये निरुद्धास्त एयान मोदमायान्त्यहर्निशम्, इति निरोधलक्षण- प्रन्याश्च । प्रपञ्चाद्रोधेऽपि, कर्मेन्द्रियाणि संयम्य य भास्ते मनसा स्मरन् * इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यत, इति न्यायेन प्रपञ्चस्मरणं चेन्न भगवल्लीलानुभवे मुख्योऽधिकार स्यादतः प्रपञ्चविस्मरणमपेक्षितम् । तदुपसर्गेण लभ्यते । नितरां रोधो नि- रोध इति, प्रपञ्चास्फूर्तिरिति यायत् । कस्मिन् निरोध इत्यपेक्षायां भगवति निरोध इति । कृष्णे निराद्धकरणाभक्ता मुक्ता भवन्ति हीति निबन्धात् । स हि परमव्युत्पादफलीलाजन्यत्येन परमसुखरूप- स्वादासतिरूपः । अन्यथा निग्रहमा स्यात् । तत्तु न सुखकरम् । मनोनिग्रहकर्पिता इति याश्यात् । प्रपञ्चविस्मृतायेव भगवत्पुसा. ।
फलविवेकः । ऽनुभवादासक्तिरूपत्वं सियात निरोधस्य । अतः प्रपञ्चविस्मृति- पूर्विका भगवदासक्तिनिरोधपदवाच्यति। इति नन्दादयो गोपाः कृष्ण- रामकथां मुदा । कुर्वन्तो रममाणाध नाविन्दन् भववेदनाम् ॥ शय्यासनाटनालापस्नानक्रीडाशनादिपु * न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतस इत्यादी तथैव निरूपितत्वात् । तथाय प्रपञ्च- विस्मृतिपूर्वफभगवदासक्तिसम्पादिका प्रपञ्चाधिकरणिका भगव- ल्लीला निरोधपद्याच्या । सेयं भगघधर्मः । तादृशलीलाजन्या प्रपञ्चविस्मृतिपूर्विका भगवदासक्तिर्निरोधपदवाच्या, सा जीवंधमः।। तदुभयं दशमस्कन्धे प्रतिपाद्यते । समुदायो जन्मवावी फ्रीडा- युक्तस्य चै हरेः * प्रपञ्चविस्मृतिः सक्तिभक्तानां चाऽपि योगत इति निबन्धात् । तत्र प्रथमं तामसप्रकरणम् । ब्रजस्थानां तामसत्वं त्रिविधम्- अविहितभक्तिरसानुभयसाधनरूपं पारिभाषिकमेकम् १ । धर्मविशेषरूपं द्वितीयम् २ । भगवन्मायाकृतं तृतीयं ३ च ॥ तत्राद्यं तु-स्वमनोरथानुकूललोकसहशभगवलीलारूचिमत्व- पाहादर्शनकाभिलापयत्त्वस्ववियोसहिष्णुत्वादिरूपम् । तामसा हि हठप्रधानास्तेषां यत्राग्रहः पतति स न गच्छति, ज्ञानरहिता मुग्धाश्च भवन्ति । ज्ञानराहित्यादेव लोकवेदोलनं कुर्वन्ति । वजस्था अपि भगवति परमानहवन्तो लीलानुपयुक्तज्ञानशून्याः। एवं मदर्थोज्झित- लोकवेदस्वानामिति * वाक्याद्भगवदर्थ लोकवेदोलनशीलाश्चेत्ये- तायद्धर्मसाम्येन तामसत्वमुच्यते, परोक्षवादाय । परोक्षप्रिया इव हि देवा इतिश्रुतेः । परोक्षं मम च प्रियमिति भगवद्वाक्याच । इदं तामसत्वं तामसप्रकरणे सर्वेषु भक्तेष्वनुगतम् । द्वितीयं तु यन योद्गच्छति तत्र तत्र तादृशकार्य करोति । यथा शरदुदाशये साधुजातसत्सरसिजोदरश्रीमुपा दशा* सुरतनाथ ते शुल्कदासिका घरद निघ्नतो नेह किं वधः, इत्यादिवाक्यानि । इदं तामसत्वं भाव- विशेषरूपम् । एवं राजसत्वसात्त्विकत्ये अपि भावविशेषरूपे एव । अत एव तामसप्रकरणस्थाया एव कस्याश्चिद्राजसीत्वम्, अन्यस्याः सात्विकोत्वं कस्याश्चिनिर्गुणात्वमुच्यते । अतो शायते इदं तामस- स्वादिकं भावविशेष एव । अत एव मधुप फिराववन्धो इत्यादी एतस्य तामसत्वस्यानुवृत्ती राजसप्रकरणेऽपि दृश्यते । तृतीयं तु ३६ प्रमेयरत्नार्णवे भगवन्मायाकार्यम् । मायात्र लीलासृष्टिस्थजीयसम्बन्धिनी श्रेया । न ववाथेऽपवर्ग में मोहितौ मम मायया * इत्यत्र, इयं विशेष- मायेत्यादिना सुबोधिन्यामंतिरिक्तायाः प्रदर्शितत्वात् । वैष्णवीं व्य- तनोन्मायामित्यत्र मूले वैष्णवीपदाच। अतः सा पशुपुत्रगृहाद्यासक्तिं जनयति। तत्कार्य ब्रजस्थेषु प्रतीयते । अहयापृतं निशि शयान मतिश्रमेणेति * वाक्यात् । कचिद् भगवद्विस्मृतिं जनयति । नैवा: ऽशृणोद्वै रुदितं सुतस्य सेतिवाफ्याताअतृप्तमुत्सृज्य जवेन सा यया वितिवाक्याच । कचिन्मायिकधर्माणां भगवति प्रतीति, मेहनादीनि घास्तावित्यत्र निरूपिता । यत् सम्परेतः पुनरेव वालक इत्यादि- वाक्यान्यपि अज्ञानमूलानि विशेषमायाकार्यभूतेन तामसत्वेन । अत एतस्य दोपरूपत्वम् । इदं मायाकार्यरूपं तामसत्वं भगवान् क्रमेण लीलाभिर्नाशयति।अग्ने निवर्तनीयस्यापि पूर्वेस्थापनं त्वत्यन्तविरुद्ध- साधनवत्स्वपि ब्रह्मादिदुरापफलदानेन पुष्टिमार्गीयभगवन्महिम- स्थापनार्थमिति शेयम् । तामसप्रकरणीयलीलासमाप्तौ इदं माया- कार्य तामसत्वे विवृतम् । एवं तामसानां निरोधे जातेऽग्रिमकार्या: ऽर्थचिकीर्पितलीलाप्रतिवन्धकीभूतस्य आघतामसत्यस्य वियोगा- ऽसहिष्णुत्वलोकवेदोलङ्घनशीलत्वादिरूपस्य निवारणम् । अत पव निवारयामः समुपेत्य माधवं किं नोऽकरिप्यन् कुलवृद्धयान्धवा : त्युक्त्वापि न कृतवत्यः। तामसभावस्य परिहतत्वात् । ततो राजस: भावः । स च, विकुर्वन क्रियया चाधिरनिवृत्तिब्ध चेतसः गात्रा- ऽस्वाथ्यं मनोमान्तरज एतैर्निशामय इति वाक्यान्मनोविक्षेपकर्ता। अत एघ,भवतीनां वियोगो मे न हि सर्वात्मना कचित् आत्मत्वाद भक्तपश्यत्यात् सत्यवाफ्त्वात् स्थभावतः, इत्यादिसन्देशोपदिष्टात्म- ज्ञानम् पतासां जातम् । तेन, नास्माकं भगवद्वियोग इति वुद्धम् । ततस्ताः कृष्णसन्देशैर्व्यपेतपिरहज्वराः * उद्धषं पूजयाञ्चमात्या- त्मानमधोक्षजमितिघाफ्यात् । पयमात्मत्वेन शानानन्तरमपि, दृष्ट्वैय- मादिगोपीनां कृष्णावेशात्मविपलवमितियाफ्यादुपदिएकानं तिरो. भवति । रजोगुणेन विक्षेपकरणात् । तथा सति भगवहिरहोस्तीति शानात् पुनः खेद एव । यावदाजसमावस्तायदुपदिष्टस्फूर्ती विरहा. भापशानात् सुपम् । उपदिष्टविस्मृतौ विरहशानाद दुःखमित्युभयं पर्तत इति शेयम् ॥
फलविवेकः। ३७ ततो राजसमावस्याऽपि निवृत्ती सत्त्वम् उर्वरितम् । तदा सात्त्विका उच्यन्ते । तत्र हि, सत्त्वात् सआयते शानमितिवाक्याद् उद्धवद्वारोपदिष्टं शानं स्थिरमभूत् । अत एव कुरक्षेत्रप्रसङ्गे गेह: म्जुपामपि मनस्युदियात् सदा नः * इत्येव प्रार्थितम् । अन्यथा पुरः- स्थिते भगवति बजे भगवदागमनं प्रार्थयेयुः । अतो भगवच्छात्र- प्रकारेण भगवन्मेलनं समीचीनं सादिकं चेति ताभिर्बुद्धमित्य- ऽध्यवसीयते । ततः सत्त्वनिवृत्ती निर्गुणावस्था। ततो भगवद्रूपतायां नित्यलीलाप्रवेशो मुक्तिः । मुक्तिर्हित्याऽन्यथारूपं स्वरूपेण व्यव. स्थितिरिति । ततो रमणादिकमपि सर्व पुरुषोत्तमात्मकमित्याभय- प्राप्तिरिति भगवदीयैर्विभावनीयम् । अथाधुनिकानां पुष्टिमार्गीयाणां फलं लिख्यते ॥ तत्र श्रीम- भागवते द्विधा योघोऽस्तीति शेयम् । तत्रैको वाचनिको द्वितीय आर्थिक आध्यात्मिकशब्दवाच्यः । तत्र वाचनिको हि शान्दयोध- मर्यादया जायते। द्वितीयस्तु लीलातात्पर्यादिशानानन्तरं शानविशेपा. जन्यते । तमाद्यो यथा। अहं भनपराधीन इति नवमस्कन्धे भगव- द्वाक्यश्रवणादू भगवान् भक्ताधीन इत्यवगत्यात्मकः । द्वितीयस्तु गोपीभिः स्तोभितोऽनृत्यद्गगवानिति वाक्यात् तादृशलीलाया- स्तात्पर्यज्ञानानन्तरं पुष्ट्रिभक्तिपरवशत्वं भगवतो निर्धार्यते।तत्र शेयः। यथावा । योपित्सगाद्यथा पुंस इति वाचनिकः । याचं दुहितरं तन्वी स्वयम्भूहरतीं मन इत्यत्राधिकाएवं सर्वत्रोह्यम् । सोऽयं सुबोधिनी- निबन्धादावाध्यात्मिकः पक्षस्तत्तल्लीलाप्रसङ्गे साधितोऽस्ति । एवं सति आधुनिकपुष्टिस्थानां कथं प्राप्तिरिति जिशासायाम् , एवं धर्मेमनुष्याणामुद्धवात्मनिवेदिनाम्, इत्यादिभिः प्रकारलाभेऽपि, मां च योऽन्यभिचारेण भक्तियोगेन सेवते * स गुणान् समतीत्यैतान ब्रह्मभूयाय कल्पत इत्यादिवाक्यै र्गुण्यावस्थानन्तरं फलप्राप्तिरित्या धाकारकसिद्धान्तसिद्धावपि नैर्गुण्यानन्तरं फलमित्यार्थिकोऽपि सिद्धान्तः सम्पद्यते ॥ सोऽयं भागवतमूलकयोः सुबोधिनीनिबन्धयोर्वर्त्तत इतिाततो वोध- सोकर्यायोद्धृत्य लिख्यते । तन येषु जीवेषु भगवता पारमार्थिक- फलविशेषसाधनार्थमलौकिकाऽनुग्रहविशेपेण पुष्टिभक्ति/जरूपा प्रमेयरनार्णवे स्थापितास्ति ते पुष्टिमार्गीयाः । तेषां साधनैः फलं 'भविष्यतीति प्रकारो निर्धार्यते । तत्र, त्रैगुण्यं सर्व एव हीति भगवद्वाक्यात् ते मायाकार्यतामसादिगुणैाप्ताः सन्ति । यद्यपि सर्वेषु प्रयो गुणाः सन्ति, तथापि, प्राधान्येन व्यपदेशा भवन्तीति न्यायेन यस्मिन् यस्य गुणस्याऽधिक्यं स तेन गुणेन व्यपदिश्यते । तत्र सात्त्विकानां सेवाश्रवणादिसाधनैः शीघ्रं प्रेमोत्पत्तिः । अत एवोक्तं निवन्धे । सात्त्विका भगवद्भक्ता ये मुक्तावधिकारिणः * इति । निवन्धीयसेवा- प्रकरणे, सात्त्विकानुपदिशतीति च । अतस्ते प्रथमाधिकारिणः । शिष्टौ मध्यमहीनौ । अत एव भक्तिस्कन्धीयभक्तपु हीनमध्यमोत्तमाः सर्वेऽपि कथिताः । पुंसामीशकथाः प्रोक्ता हरेश्वास्यानुवर्तिनाम् * इत्यनेन सामान्यतः सर्वेषां भक्तत्वं सूचितम् । अधुना तु कलिकाल- दोपान्मोहलोभादियुतास्तामसा राजसा बहवः सन्ति । ते हि पूर्व- स्थापितस्य पुष्टिभक्तिवीजस्य अनश्वरत्वेन सत्त्वाद् भगवत्परि- चर्याश्रवणादि कुर्वाणा अपि दोपप्रावल्याद् न प्रेमलक्षणां भक्तिं लभन्ते । प्रतियन्धकाभावस्य सर्वत्र कारणत्वात् । तेपाम्, आदरः परिचर्यायामित्यादिभगवदुक्तसेवाश्रवणादिसाधनैर्वीजदार्ये सति सेवयैव क्रमेण तमोरजःसत्त्वानि निवर्तन्ते । मां च योऽव्यभि- चारेण भक्तियोगेन सेवते इत्यादिवाफ्यात् । तदेतद् गोकुलस्थानां प्रसङ्गे सूचितं च । यतस्तेषां पूर्व तमो निवृत्तम् । पश्चाद्रजासत्त्वे । तदुक्तं नियन्धे । इतोऽपि चेद्धरिगच्छेन्नीत्वा सर्वस्य तामसम् * राजसास्ते भविष्यन्ति गोकुलस्था न संशयः॥ उभये च ततस्त्वग्ने सात्त्विकास्त्वगुणास्ततः * प्रयोऽपि सम्भविष्यन्ति मुक्ती तेषां नि- रूपणमिति ॥ इतोऽपिचेदित्यादि। ननु तामसप्रकरणीयलीलासमाप्ति- पर्यन्तंगोकुलस्थानांतामसत्वं स्थितमेव पश्चाद्भगवन्मथुरागमना- ऽनन्तरं लीलानां याह्यतस्तिरोभावाच्छास्त्रीयसाधनानांच गोकुलस्थे भावात् कवं तामसभावनिवृत्तिरित्याशय तमित्तिप्रकारमाहुः । इतोऽपिचेदित्यादिनााअयमर्थायद्यपीहभक्तिशास्त्रीयमयार्दाविचारे ॥ तामसत्यनिवृत्ती न किञ्चित् कारणम् । कारणाभायेऽपि यदि फार्योत्पतिस्तदा सर्यमर्यादोच्छेदः स्यात् । तथापि हरिश्धेत्तामसत्वं स्वयं गृहीत्या गच्छेत् तदा शास्त्रीयमर्यादाया दुर्यलत्वात् वामसत्वं गच्छरपेय । अतः प्रमेययलस्यैष मुप्यत्यं, न प्रमाणपलस्पेति प्रमेय- फलविवेकः। बलेन राजसास्ते भाविष्यन्ति । अस्मिन्नर्थे संशयो नास्ति । अतोन म कश्चिद्विरोधः।नचा मर्यादामहः । प्रमाणवलविचार तथात्वेऽपि प्रमेययलविचारेण समाधानादिति कारिकार्थः फलितः । यद्यपि लीलासृष्टिस्थभक्तास्तु, यो नन्दः परमानन्दो यशोदा मुक्तिरूपिणी* गोप्यो गाव ऋचस्तस्य, इत्यादिभिः कृष्णोपनिपत्स्वतिदलाधितस्व- रूपाः प्रापचिकविलक्षणास्तथाऽप्यंशविशेपे दृष्टान्तीकरणान दोपः। नच पुष्टिभत्तोर्निगुणत्वात्तद्वतो राजसत्वं तामसत्वं च न सम्भव- सीति वाच्यम् । वृने तामसत्वदर्शनात् । रजस्तमःस्वभावस्य ब्रह्मन् वृत्रस्य पाप्मन इति चाफ्यात् । अजातपक्षा इव मातरं सगा इत्यादिवाक्यैर्वृत्रस्य पुष्टिभक्तत्वनिर्धारात् । अतो भनिगुणत्वे: ऽपि भक्तानां सगुणत्वमस्त्येव । अभिसन्धाय यद्धिंसामित्यादि- घाक्यैस्ताहक्कामजन्याया एव भक्तः सगुणत्वं, न त्वस्याः। अत इयं भक्तिर्निर्गुणैव । भक्तानां तु त्रैविध्यं वर्तत एव ।। मत आधुनिकानां पुष्टिभक्तानां साधनसापेक्षत्वादादित आरभ्य सेवाश्रवणादिप्रकारस्तामसादिगुणनिवृत्तिप्रकार आध्यात्मिक- रीत्या निरूप्यते । तथाहि । यथा लीलासृष्टौ तामसप्रकरणारम्भ प्रथमाध्याये भगवदाधिर्भावोत्सवस्तथेहापि साधकस्य श्रीमूर्तरावि- भर्भायोत्सवः । अत एव निवन्धे सेयाप्रकरणे, एनमुरिष्यामीति तदा मृदादेः प्रादुर्भूत इत्युक्तम् । मूर्तिरूपेण प्रभोराविर्भाव एव अङ्गीकृतस्तथा यत्रायथा, नेह स्थेयं बहुतिथं सन्त्युत्पाताच गोकुल इत्यनेन प्रादुर्भूतभगवत्सुखानुभयप्रतिवन्धकशाने वसुदेवस्य कारण- ता पवमत्रापि गुरोः सकाशाद् भक्तिमार्गप्रतियन्धकज्ञानम् । ततः पूतनामरणं, सा चाऽविद्यारूपा । अविद्या पूतना नष्टा इति वाफ्या- त् । नच पूतनावकादीनामविद्यादम्माविरूपत्वे मानाभाव इति धा. च्यम् ! लोभकोधादयो दैत्या इति कृष्णोपनिपत्सु सर्वेषां दैत्यानां परिदृश्यमानस्वरूपातिरिक्तलोभादिरूपत्वेन प्रतिपादनात् । लोभ- कोषादयो दैत्या इत्यत्रादिशब्देन सर्वेषां संग्रहात् । एतदुपनिप- न्मूलिफैव धेनुकादौ देहाध्यासत्वायुक्तिः सुबोधिन्यामिति झेयम् । एवं सति तन अविद्यारूपा पूतना नाशिता तथेहापि भगवद्वहि- मुंसत्वसम्पादिका अविद्या सेव्यमानेन प्रभुणा नाश्यते । सरुदिष्ट्वा- ऽऽदिपुरुषमिति वाक्यात् । तत्र यथा वसुदेवमुखादुस्पातश्रवणे, ४० अमेयरनार्णवे तभिवृत्यर्थे श्रीनन्देन, हरि जगाम शरणमिति वाफ्याच्छरणागमनं कृतं तथेह साधकेन गुरुद्वारा भक्तिमार्गप्रतिवन्धकानि श्रुत्या तनि. वृत्तये हरिशरणागमन कार्यम् । तदुक्तं नियन्धे- आये तु भगवन्मार्गे चाधकानि पहनि हि। द्वितीये तदभावो हि हरिणैव भवेदिति ॥ तत्र यथा पूर्व सञ्चितस्वासक्तिविषयीभूतभगवदनुपयुक्तगृहरूप- शकटस्य भक्तिरूपचरणेन उत्क्षेपणमेवं साधकस्याऽपि भगवद- नुपयुक्तवस्तुसम्बन्धो निवर्तते । तृणावर्तो भगवत्साक्षात्कारप्रति- धन्धरूपो रजोगुणात्मा हतः । एवमस्यापि भजनप्रतिवन्धरूपो रजो गुणो नश्यति । ततो यथा श्रीयशोदाया विश्वरूपदर्शनेन महिम- ज्ञापनं, तथेहापि साधकस्य सेव्यस्वरूपे स्वमादिद्वारा कश्चिदनु- भावो शाप्यते । ततो गर्गेण एकान्ते भगवन्नामान्युक्तानि । तत्र रूपगुणलीलावैशिष्टयं निरूपितम् । बहूनि सन्ति नामानि रूपाणि च सुतस्य ते * गुणकर्मानुरूपाणि तान्यहं वेद नो जना इत्यनेन सन्तीति प्रयोगेण तेषां नामरूपगुणकर्मणां नित्यत्वं घोधितम् ॥ तथाच सिद्धमेतत् । साधकेन भगवदीयमुखाद् गुणली ला- विशिष्टानां नाम्नां दुःसङ्गवर्जनपूर्वकं स्वरूपं श्रुत्वा तत्तल्लीलासंयुत स्वरूपगुणस्मरणपूर्वकं तन्नाम ग्राह्यम् । यथा गोवर्द्धनोद्धरणधीर इति नामग्रहणे गोवर्द्धनोद्धरणात्मकलीलाविशिष्टं वामकरकमल- धृतगोवर्द्धनं श्रीकृष्णस्वरूपं हृद्यानेयमिति । एतच नामकरणप्रसङ्ग- सुबोधिन्यां विस्तृतं श्रीमदाचार्यचरणैः ।। ततो जानुरिङ्गणलीलायां, द्वे जानुनी सुतलं विश्यमूर्तेरिति चाफ्याजानुनोः सुतलाधिदैविकत्वात् । तत्र च दैत्यानां निवासा. जानुभ्यां गमनेन गुप्ततयैवालौकिकप्रकारेण दैत्यमर्दनमाचरित- म् । तथेहापि सेव्यमानो भगवान् अनेकधा स्थितान् अज्ञातानपि बहूनासुरभावान् दूरीकरोति । चौर्यादिप्रसङ्गे मजसुन्दरीभिर्भगव- तो दोपेषु निवेदितेषु महिमशानाभावेऽपि केवलस्नेहाद मातृचरणैः नं दोपा गृहीताः । न छुपालन्धुमैच्छदिति वाक्यात् । एवमेव भगवदीयो ज्ञानरहितोऽपि भजनस्वभावान भगवति दोपं गृह्णा- ति। ततो मुझक्षणप्रसहे नाहं भक्षितवानम्वेत्यादिना सर्वसाधारण- फलविवेकः। रोत्या प्रतीतोऽशनरूपो धर्मो माये नास्ति । क्षुत् खलु चै मनुष्यस्य भ्रातृव्य इति श्रुतेर्भक्षणकारणीभूतक्षुधो मनुष्याऽसाधारणधर्मत्वेन मय्यभावादित्युक्तं हरिणा । तथाच क्षुधितः सन्नानाति, भक्ति पूर्वकं भक्तेन दत्तमश्नात्येव । पत्रं पुप्पं फलं तोयं यो मे भक्त्या प्र- यच्छति*तदहं भक्त्युपहृतमन्नामि प्रयतात्मन इति वाक्यात्।अशनं चात्र भोगो, न तु भक्षणमात्रम् । पुप्पादीनां संग्रहात् । तथाच सर्वमेय वासोभूपणनगादि भक्त्या दत्त, स्वीकरोति । अत इमं प्र. कारं वुद्ध्वा नैवेद्यादि भक्त्यैव समर्पणीयमिति लभ्यते स्म । एत- तु मृद्भक्षणप्रसङ्गटिप्पण्यां स्फुटम् । श्रीमातृचरणानां साधारण- रीत्याऽशनधर्मे प्रतीते मुखं व्यादाय विश्वरूपं प्रदऱ्या सर्वसाधारण- निखिलधर्माऽभायो योधितः । अग्रे तु, यन्माययेत्थं कुमतिः स मे गतिरिति वाक्यात् स्नेहस्य सर्वथा तिरोधाने, वैष्णवी .व्यतनो- मायामिति चाक्याल्लीलास्थजीवनियामिकया वैष्णव्या मायया मोहयित्वा स्नेहं वर्द्धितवान् । एवमस्यापि सेव्यस्वरूपे लौकिक- भावस्फूतौ तन्निराकृतये भागवताधर्थविशेषस्फुरणेन महिमानं वोध- यति । तत्राप्यत्यन्तमहिमस्फूत्तौ स्नेहोपचारशैथिल्ये स्नोहि भक्त- सङ्गादिना स्नेहोपचारश्रद्धां द्रढयति भगवान् । ततो, द्रोणो वसूनां प्रवर इत्यादिप्रश्नोत्तराभ्यां श्रीनन्दयशोदयोर्भसी महापुरुष- कृपैव कारणमिति सिद्धान्तितम् । एवमिहापि श्रीमदाचार्यचरण- श्रीविठ्ठलेश्वरकृपातो भक्तिर्भवतीति शेयम् । ततो मातृचरणानां दधिमन्थनावसरे भगवद्गुणगानं, दधिनिर्मन्थने काले स्मरन्ती तान्यगायतेति वाफ्यात् । एवं साधकेनापि गुणगानादि फुर्वतैव व्यावृत्तिः कार्या। ततो दधिमण्डभाजनभेदः । शिक्यस्थनवनीतस्य मर्कटेभ्यो दानम् । तदुभाभ्यामिदं सिध्यति-- भगवदावेशाभावदशायां भगवदितरभोगोपयोगबुद्ध्या सम्पादितान् पदार्थानाङ्गीकरोति भगवान् । एवं सति समर्पणीयस्य वस्तुनः संपादनदशामारभ्य भगवदुपयोगसमयावधि चित्तस्य कृष्णक- परतव रक्षणीयेति योद्धव्यं साधकेन । ततः श्रीयशोदा दाम्ना वधु प्रवृत्ता । तथा न बद्धः । यदा खेदं दृष्टवान् भगवाँस्तदा कृपया भक्तवश्यतां सूचयन् बद्धोऽभूत्.! तथा साधकोऽप्यने संभृतसपर्यया न पुरुषोत्तमं वशीकर्तुं शक्मोत्यपि तु भक्त्यैव । ततो ६ ४२ प्रमेयरत्नार्णवे यमलार्जुनप्रसङ्गे. भगवदीयनारदसमागमेन श्रीमदरूपमहादोपजन्यः स्त्रीसङ्गादिनिवृत्तौ बजे वृक्षदेहं प्राप्य स्थिती नलकूबरमणिनीवौ हरिमोचितवान् । तत्रापि, तत्तथा साधयिष्यामि यद्गीतं तन्महा- ऽऽत्मनेति भक्तानुगृहीती मोचयिष्यामीत्युक्तवान् प्रभुः । अतो भक्तानां सङ्गमः सकलपुमर्थसाधक इति सिद्धम् । ततो गोपीभिः स्तोभितोऽनृत्यदित्यत्र भक्तिवश्यत्वं स्फुटमेव । ततो वृन्दावन- क्रीडा । तत्र,चारयामासतुर्वत्सान्नानाक्रीडापरिच्छदावितिवाक्याद्, भ्रमरचक्रसूक्ष्मदण्डकाष्ठखण्डकृत्रिमरथवादिनाकर्पणादीनि क्रीडा- परिच्छदानि गृहीत्वा क्रीडति हरिः । एवं सति सेवायामपि तानि स्थापनीयानि । एवं तो लोकसिद्धाभिः क्रीडाभिश्चेरतुर्वने इति पञ्चदशाध्याये वक्ष्यमाणत्वाश्च । यद्यदिटतमं लोके यञ्चातिप्रिय- मात्मनः * तत्तनिवेदयेन्मह्यं तदानन्याय कल्पत इति भगव. द्वाक्याश्च । विस्तृतं चैतत् सेवाकौमुद्याम् । ततो वत्सासुरवधः । स हि वत्सचारणसामग्रीरूपाणां वत्सानां दोपरूपः । तस्य निवार- न वत्सा निर्दोषाः कृताः । एवमिहापि सेवोपयोगिसामग्री प्रभुणा शोध्यते । तत्र यथा वयस्यानां भक्तानां दोषरूपो लोभाऽनृत- सहितदम्भात्मको नाशितस्तथेहापि. लोभा नृतसहितो दम्भादि- दोपः सेवया नभ्यति । तत्र यथा, इति नन्दादयो गोपा इति वाक्याद् गुणगानं प्रेम च सूचितं, तथा भगवदीयादिरूपगुणगानम् । एवं प्रमाणप्रकरणसमाप्तौ यथा तेषां प्रेमपूर्णत्वं सिद्धं तथात्र साधकस्य पतावत्साधनसम्पत्तो प्रेम पूर्णमुत्पद्यते । तत्र यथा देहाध्यासरूपो धेनुको नाशितस्तथा सेवाकर्तुर्देहस्य स्वकीयत्वाध्यासो गच्छति। यथा कालीयशिरांसि विषयसंरटेन्द्रियरूपाणि चरणारविन्देन भक्ति- रूपेण विमर्थ शोधितानि । अनुग्रहोऽयं भवता तो हि न इति चाफ्यात् । तथेहापि चिपयोन्मुखानीन्द्रियाणि भजनेन संशोभ्यः भगवत्पराणि क्रियन्ते । यथा इन्द्रियदोपाभिमानिनो दावाग्नेः सका- शात् सर्वेपारक्षा, तथेहापीन्द्रियदोपनियामकादासुरभावाद् भक्तस्य रक्षा । यथा अन्तकरणदोपात्मप्रलम्यो हत एवमिहापि सेवां कुर्व- तोऽन्तःकरणदोपा निवर्तन्ते । यथा अज्ञानात्मा आत्मदोपो द्विती- यो दायाग्निस्तनिवृत्तिः कृता, तहदत्रापि स्वरूपाशाननिवृत्तिभवति। यथा गवानां भावविशेषेण गानम् अष्टादशाध्याय निरुपितं, तथा' फलविवेकः। ४३ इहापि सेवाया अनवसरे भगवतः कीर्तनादिरूपं गानम् । तत इन्द्र यागभङ्गं कृत्वा स्वयागः कारितः । तत्र शकतोपद्रये गोयर्सनोद्धर. णेन प्रजो रक्षितः। तथा सति साधकैरन्याश्रयो न कर्तव्यः॥ एवं सति केवलभगघदाथये यदि कश्चिदुपद्रवो भवेत्, तदा भगवान् पालयिष्यतीति विश्वासो रक्षणीयः । एवं भगवदुक्क- वर्णाश्रमधर्माचरणेन परोपकारादिधर्माचरणेन च वैष्णवानभक्षणेन अन्याश्रयत्यागेन भगवान् सेव्यः। ततः कुमारिकायतप्रसने यज्ञपनी- प्रतप्रसने यथाऽऽध्यात्मिकः पक्षः सिद्धः। तदुक्तं निवन्धे- कृष्णवाक्यं सदा कार्य मायामोहं निवार्य हि । वृक्षयतु स्थितिः कार्या शुद्धानेन च वर्त्तयेद्, इति ।। अयमर्थः- प्रतप्रसङ्गे अग्निकुमारैलजां परित्यज्य सर्व कृतम् । तेन भगवत्प्रसादोऽभूत्। अतो भगवद्वाक्यं सर्वथा कर्तव्यम् । तदन श्रुतिस्मृत्यादिरूपं कर्त्तव्यमिति फलितम् । मायामोहं निवार्य वृक्षवत्त स्थितिः कार्यति । मायया जातो यो मोहो ममेदमित्यशाना- आत्मकस्तं दूरीकृत्य वृक्षवत् फेवलपरोपकारतयास्थेयम् । अहो पंपां घरं जन्म इत्यारभ्य, तोक्मः कामान् वितन्वत इत्यनेन परोपकृतेः प्रभुणोपदिष्टत्वात् । शुद्धानेन च वर्तयेदिति । 'एषा वै बाधते धुन' इति गोपविज्ञापितो, मां शापयत पत्नीभ्य इत्युका यशपत्नीसनिधी प्रेपयित्वा ताभिरानीतेन अनेन गोपानां तृप्तिः सम्पादिता । ता हि भगवदीया. भगवत्युत्तमश्लोके दीर्घश्रुतधृताशया इति वाक्यात् । अत इदमत्र लब्धम्- वैष्णवानामेवान्नं पाह्यम् । तत उक्तम्, शुद्धानेन च वर्तयेदिति । ततः, एवंविधा भगवतो या वृन्दावन- चारिणः * वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयतां ययुरिति वाक्या- नायथा तासामासक्तिरेय साधकस्याप्येतावत्साधनसम्पत्तावासक्तिः सिद्ध्यति । प्रतिवन्धकपापनाशे भगवत्प्रसादे च क्रियमाणायाः श्रवणादिरूपायाः पोपो वीजभावदायव्यसनभावरूपो भगवति भवति । ततो वृद्धौ क्रमेण गुणानां नाशः । लोलासृष्टिस्थानां यथा, दर्शयामास लोकं स्वं गोपानां तमसः परम्*सत्यं शानमनन्तं यद् ब्रह्म- ज्योतिः सनातनमिति वाक्याद् व्यापिवैकुण्ठात्मकाऽक्षरब्रह्मानुभव- स्तथा पूर्वोक्तरीत्या सेघया व्यसनसिद्धौ गुणनाशे ब्रह्मभावः । स एव भक्तियोगात्य आत्यन्तिक उदाहृतः * येनातिवज्य त्रिगणं
४४
प्रमेयरवार्णवे
मद्भापायोपपद्यते, इति वाफ्यात् । ततः फलप्रकरणे यथा सवात्म
भाववतीनां तासां भजनानन्दानुभवस्तयेह साधकस्यापि सर्वात्म-
भावोत्पत्तौ सदैव पुरुषोत्तमाविर्भावात् सेवायां भजनानन्दानुभव
फलति । ततो,भोगेन,त्वितरे क्षपयित्याथ सम्पद्यतेइतिसूत्रभाष्योक्त-
रोत्या स्थूलालगशरीरयोनांशे भगवल्लीलोपयोगिदेहं प्राप्य नित्यः
लीलायां प्रविशति । स एव मुक्तिपदार्थः । मुक्तिहित्यान्यथारूपं
स्वरूपेण व्यवस्थितिरिति लक्षणात् । तत्र च, सोऽश्नुतेसवान् कामा
न सह ब्रह्मणा विपश्चिततिश्रुत्युक्तरीत्या पुरुषोत्तमेन सह पुरुषोत्त
मात्मकानां पुरुषोत्तमात्मकभोगाशनमाश्रयप्राप्तिरिति निष्कर्षः ॥ .
निरोधलीलामुक्त्वाथ मुक्तिस्तदनुवण्यते ।
मुक्तानामश्रयः कृष्णो नान्येपामिति शास्त्रतः, इति सुबोधिन्याः ।।
इति श्रीमद्रोवर्द्धनधरधीवल्लभाचार्यश्रीविठ्ठलेश्वरचरणानुचर-
सेवकेन लालूभट्टोपनामबालकृष्णेन कृते प्रमेय-
. रत्नार्णवे पुष्टिमार्गीयफलविवेकः
समाप्तिमफाणीत ॥ ७॥