Sringeri Sharada Peetham

Tpralaka Milanam

Srimad Dwijendralal Sharma · 2005/09/14

PDF Proofread

Front matter

अलका-मिलनम्
एम० ए० काव्यतीर्थेत्युपाधिधारिणाऽध्यापकेन
श्रीमद्-द्विजेन्द्रलाल-शर्म-पुरकायस्थेन
विरचितम्
जयपुरतः
मूल्यम्
सपादम् एकरुप्यकम्
(१.२५ रु०)

प्राप्ति स्थानम्-
डी०
० ११७, बापूनगर, जयपुर-४
(राजस्थान)
सर्व स्वत्वं ग्रन्थकारेण सुरक्षित
द्वितीयं संस्करणं १९७३
मुद्रक
ऐलोरा प्रिण्टर्स,
जयपुर-३

निवेदनम् प्रथम-संस्करणम्य महाकवेः कालिदासस्य पदाकानुसरणाय मन्दबुद्धिः स्वल्पशक्तिरपि महतोम् प्राकांक्षामनुसन्दधानोऽहं गुरुभ्यः सज्जनेभ्यश्च सबलं प्रेरणं प्रेत्साहनञ्च सहायमात्रमिति गृहीत्वाऽस्मिन् दुःसाध्ये कर्मणि ससंकोचमेव प्रवर्ते । मदीयेयं स्पर्द्धा साधुभिः स्वभावकृपालुभिः क्षन्तव्या स्यात्, यदहं "चापलाय प्रणोदितः” सन् इदं दुष्करं कर्म कथमपि साध- यितु समावेष्टे न तु पुनः “कवियश:' प्रार्थनयेति । “सद- सव्यक्तिहेतवो" विद्वांसः पाठका एवात्र प्रमाणम् । काव्य- कृती प्रथमेयं मे चेष्टा, अतः कचिदस्मिन् ग्रन्थे भ्रान्तिदोषा अपि स्युः । सहृदयाः पाउका शुभबुद्ध यैव यथाऽवसरं तद् विज्ञापनेनाऽनुगृह णन्तु मां तथा च ते सर्वथा कृतज्ञताभाजनं मे भवन्तु । मेघदौत्यादनन्तरमलकायां विरहार्तस्य यक्षस्य तथाविधया स्वपत्न्या यक्षिण्या च पुनर्मिलनम् एवास्य खण्ड- काव्यस्य विषयः । अत्र चापि द्वावेब सगौ स्तः । प्रथमे सर्गे यक्षिण्या विरहावशेषः संक्षेपेन प्रकटीकृत स्तथास्यैवान्त्ये श्लोके यक्षसमागमोऽपि विधीयते । अन्त्ये सर्गे उभयोमिल- नोल्लासो वण्यते तथाप्यहं तर्कयामि क्षुद्रमपि पुस्तकमिदं सज्जनैः सत्कर्मोत्साहिभिः पाठकैरादृतं भवेदिति । सहृदयास्त एवात्र प्रमाणम् । अस्मिन्नवसरे ये गुरुवों-ऽध्यापकाः डॉ० सुशीलकुमार- दे-प्रबोधचन्द्र लाहिडी-श्रीज्ञानेश्वरशास्त्रीत्यादयः सदुपदेशै मां काव्यामोदिनमकुर्वन, ये च सहृदयाः सखायो मे सदैवोत्त्सा- हमददु स्तान् सर्वान् प्रति बहुशः कृतज्ञोऽहम् । शिष्ववर- श्रीमूल चन्द्रपाठकस्यापि पाठलेखनेऽत्र सहायताऽस्ति । अलमति-विस्तरेण । विनीतस्य जयपुरम् १६५४ खू० -ग्रन्थकारस्य द्वितोय-संस्करणेऽद्य काव्यभिदं कथंचित् परिवर्तितं यथासम्भवं संस्कृतं च विधाय प्रकाशितम् । श्रीमन्तो जग- दीशाचार्य-स्वामि-सूरजनदास-डा० पी० एल० भार्गव-डा० सुधीर-गुप्त-प्रभृतयः सहृदयाश्चात्र सामयिकैः परामर्शादिभि मिनुगृहीतवन्त इति सादरं स्वीकृतम् । प्रागस्तस्य विनीतस्य ग्रन्थकारस्य त्रयोदशेऽहनि (रक्षाबन्धन-पूर्णिमायां), १९७३ खु०, जयपुरतः।

उत्सर्ग-पत्रम्
प्रियायै प्रोतिदायै मे प्रेमप्राणं पतिश्रितम् ।
अलका-मिलनं 'शान्त्यै' मयोत्सर्गीकृतं मुदे ।।
ग्रन्थकारे

* मङ्गलाचरणम् *
नमामि विघ्ननाशाय गणेशं शंकरी शिवम् ।
शुभसाफल्यभाग्यार्थ श्रियं वारणी च माधवम् ।।
धिये नमो गुरुभ्योऽस्तु श्रद्धामात्रधनस्य मे ।
भक्तिसंपज्जयानन्द-श्री-शांति-शक्ति-सिद्धये ॥
हरिदासाश्रिते धेहि सुशीलत्वं नयप्रभाम् ।
जीवनजयबोधेभ्यः सत्यज्ञानप्रफुल्लताम् ।
स्वर्गतौ स्नेहसर्वस्वी पार्थिवजन्मकारणम् ।
नमामि पितरौ भक्त्या 'दुलालाऽऽनंद'-मूर्तिकौ ॥
वाण्याः प्रेष्ठं सुतमतुलितं मिष्टभाषं रसा ब्धिं
काव्यामर्त्य भुवनविदितं मेघदूतं सृजन्तम् ।
विद्वत्सेव्यं कविकुलपति कालिदासं प्रणौमि
तत्पादांकानुसृतिविषय सम्मति सिद्धिमिच्छुः ।।

अलका-मिलनम्
आद्यः सगः
(fানুভঃ)
मेघात् प्राप्य श्रुतिसुखकरं प्रागभिज्ञानयुक्तं
सन्देशं तद्-विहितपतेर्दीघाप्रेक्ष्यमाणम् ।
सा यक्षस्त्री स्मितसुदशनोत्साहप्ताऽद्यशी-
प्याशीर्वादं विकसितदृशोरुत्ससर्जाऽथ -धाराम् ॥१॥
पत्युः संगात् सुचिरमधुना वञ्चितायां हि तस्यां
तिष्ठान्नासीत् कथमनुदिनं निई यः प्राणवायुः ।
ततृसन्देशामृतमुपगता सापि संजीवितैव
भाग्यन्त्वाशाश्रितसुविधुरा मेन आश्वातिहारि ॥२॥
भूशय्याया नयनसलिल-प्लाविताया उदित्य
सुस्नेहात्तज्जलमुचममु स्वागतं ज्ञापयन्त्याः।
क्षीणास्यश्री-रवधिरहितांगेऽथ तस्तार सद्यश्-
चित्तग्लानेः कथमपि शमः कान्तिपुष्ट्योस्तु मूलम् ॥३॥

२ ]
प्राद्यः सर्गः
"भुञ्जानस्त्वं बहुरतिसुखं जीवितञ्चातिदीर्घ
भूयो भ्राम्यन्नरुचिमनु च्छेदशून्यं विहारम् ।
आशास्थानं त्वमसि सततं योषितां प्रेक्षणीयः
सौदामिन्या चिरमनुभव प्रेमपूर्ण हि योगम् ॥४॥
स्वर्णा-'म्भोजप्रसवि सलिलं' मानसस्योपगृह्य
लोलालास्यप्रणयचरितं प्रोतिदं ते यथेच्छम् ।
कैलासे त्वं सुचर सुचिरं देवरैषा बभाषे
पत्युर्दू ते भवति कृपणा तद्विधा का वियुक्ता ॥५॥
सा साध्वीयं विरहदमिता मेघवार्ताप्तशक्ति-
रद्योत्सुक्यादचिरमिलनं स्वागतं मन्यमाना।
भूयो भूयो दिवसगणनां भ्रान्तियुक्ता चिचेष्टे
का वातवं विचलनकृती स्त्रीषु वै स्यादिहान्या ॥६॥
कञ्चित् कालं स्वबशरहिता दृष्टिपातं चकार
यत्रैवेयं प्रभुमयतया तत्र चिन्हें बभासे ।
स्वामिस्पर्शप्रणयसुदृढाबन्धनानामशेषं
नान्यत् प्रेमाज ननयनयोरगतो दृश्यते किम् ॥७॥

अलका-मिलनम्
[ ३
कक्ष भत्त: प्रतिकृतिमियं पादुकाञ्चानुपूज्य
प्रीते वृद्ध या तदुपरि चिरं भूयसा सन्निबद्धा ।
सन्तप्तानां प्रवरशरणं सान्त्वनायै भवेत्तद्
यद्यप्येते नयन कमले बाधिते नाऽश्रु पातैः ॥८॥
लीलाशालां ललितगमना संप्रवेष्टु सचेष्टा
द्वारोपान्ते कनकरचितं नूपुरञ्चिद् ददर्श ।
स्वामित्यक्तं किलं करुणया तंद् गृहीत्वा कराभ्यां
शीर्षे कृत्वा धृतपतिरजः श्लिष्यति स्मोरसा सा ॥६॥
तच्चाञ्चल्ये ह्यथ कथमपि व्याहते धैर्यभारादु
औत्सुक्यं सत् परममधुना मानसे धारयन्ती ।
प्रेमाविष्टा मदगजगतिः सा गृहन्तद् विवेश
दीर्घ कालं विलसनपदं कान्तविच्छेदरुद्धम् ॥१०॥
प्राणारामम्मिलितमधुरं स्वामीहीनं विमूढं
मालिन्येनाऽऽवृतमथ भृशं शून्यता-सम्पदद्य ।
चित्रं शिल्पं सुललितकलाऽऽलम्बनं यद्विशेषं
शोभाहोनं विकृतमपितत् संबभौ शोकपात्रम् ॥११॥

प्राद्यः सर्ग:
तत् सर्व यत् प्रणयविभवस्पर्शभाग्यञ्च काभ्यं
दास्यं पत्यु मिलनसमये धारयत् सार्थकं च ।
विच्छेदे वै तमसि पतितं व्यर्थतापूरितं सत्
क्लेशं तस्यां नृषु च करूणां वधयामास भूयः ॥१२॥
वीणां धृत्वा कुसुमसदृशं कान्तिमन्तं सुशीर्ण
हस्तं तस्यामधिगतकलावादनार्थ ररक्ष ।
नाऽऽयाताऽऽसीद् हृदि विरहिते रागिणी सुप्रयासः
सिक्ता तन्त्री विषमविभवा केवलं संरुराव ॥१३॥
'भोः कष्टं मे कृपणविधिना स्त्रीसुखासूयताया'
इत्यालोच्य श्वसितविनता मानसे संजजल्प ।
'रे वोरणे किं सकरुणतया भावसाम्यञ्च धृत्वा
विच्छिन्नायै प्रियसखिसमा सान्त्वनां मे ददासि?॥१४॥
पूर्णश्चन्द्रः पिकमधुरवः संगमः प्रेमिकानां
पुष्पं भूषा सुरभिसरसं माधवो मारुतोऽपि ।
यन्मे रम्यं मदनसुखदं कान्तयोगे प्रभूतं
तद्विच्छेदे सकलमपि तन् मन्यते तापकारि ॥१५॥

अलका-मिलनम्
[ ५
यद् वै स्थानं बहुरतियुतं नन्दयन्मां सकामां
कान्तं हित्वा तदपि भवति क्लेशभारस्य हेतुः ।
सौंदर्य चित्तदपि हितता-दुःखसौख्याकरत्वम्
अन्यायत्त नहि तु विषयस्यात्मधर्मः क्व च स्यात् ॥१६॥
दूरं याताः सुखित दिवसाः स्वामिसंगेन भोगा-
स्तेषामाविर्भवनमधुनाप्यागतं नेति कष्टम् ।
वित्तेशानामनपरवयो यौवनं सन्न भुक्तं
वैयर्थ्यं मे विहतसुरते दु:खबृद्ध यै तु याति ।।१७।।
राज्यं भोगान् गृहसुखचयान वर्ज्जयित्वा सनाथा
सीतोवासाऽऽश्रमवसतिषु क्लेशराशीनुपेक्ष्य ।
दुःखायन्ते मम खलु मुदोऽलौकिकाश्चापि सर्वाः
पत्युः संगो हि सकलसुखं विप्रलम्भस्तु दुःखम् ।।१८।।
कि प्रासादै विरहविधुरैर्वन्दिवासैरिवैव
नारीत्वेनाऽविकलवयसा किं पुनर्मे श्रियाऽपि ।
किंवा भोगैस्तरूणवपुषा जीवनेनेन्द्रियमें
सम्पद्भिर्वा मम किमधुना जीवितायास्तथापि ॥१६॥

।-
प्राद्यः सर्गः
नाहं जाने किमपि सुखदं दुःखपूर्णे भवेऽस्मिन्
मत्सत्ताया भुवि किमथवा स्यात् पुनस्त्वर्थवत्त्वम् ।
आशामात्राश्रितविरहिणी यत्नलेशच्युतोऽपि
त्वेकान्तां मां त्यजति न कथं निह तां देहभारः?॥२०॥
बद्धप्रेम-स्वपतिमिलिताऽऽस्वादवत्यास्तु भूयो
नास्त्येवान्यत् किमपि जगति प्रार्थितं तच्च्युतायाः।
शून्यावासे विरहदहनात्तापितेभ्यः
स्त्रीलोकेभ्यो न यतिसुलभा रोचते त्वात्मरामः ॥२१॥
कदापि
पत्नीनिष्ठः प्रणयजलधिः स्वाधिकाराद् वियुक्तो
दूरारण्ये विवसति महानत्र घोरान्धकारः ।
आनन्देभ्यः सुपरिरहितवालकेयं विशाला
रात्राविन्दू रविरिव दिने भाति भर्ता रमण्याम ॥२२॥
विच्छेदातँ मनसिजशरो मन्मयवैकचित्तं
भर्तारं मे प्रदहति सदा निई यो वन्धुशून्यम् ।
सन्देशोऽयं जलदविहितः स्वामिना प्रेषितो यः
स्वल्प-श्रौतो बहुमतिपदं बाधते मामशेषम् ॥२३॥

अलका-मिलनम्
[ ७
मानेनाऽहं परिहृतवती कातरं कान्तकान्तं
पादोपान्ते भुवि च पतितं मां समन्तात् स्तुवन्तम् ।
अद्य स्मृत्या हृदि समुदितं मर्मदाहं दधानं
पश्चात्तापं कथमहमतो दुस्तरं सन्तरामि ? ॥२४॥
मच्चित्तोऽसौ मयि तु निवसन् सर्वतो मत्सुनिष्ठः
स्वातन्त्र्यञ्चित् क्षणमपि सदा कल्पने चाऽसहिष्णुः ।
वर्षव्याप्यं धरति नु कथं दुःसहं विप्रयोगं
चिन्तेयं वै प्रभवति पुनस्त्वात्मदुःखाऽयुतेभ्यः' ॥२५॥
इत्यालोच्योच्छ्वसितहृदया कातरा खेदभारात्
कञ्चित् कालं कमलशयिते मस्तकं स्थापयन्ती।
चिक्षेपाथ प्रवहदमितं साऽन्तरे दह्यमाना
पूर्व सौख्यं स्मृतिगततया मन्यते दुःखमूलम् ॥२६॥
स्थैर्यप्रान्तं कथमहि पुनः क्लान्तिमत् कान्तमंग
शोकाघातान्मननविमुखं मानसं धारयन्ती ।
मेने वर्ष विरहसमयं सोत्सुका कल्पकल्पम्
आत्माधीनं त्वनुभवपदं नान्यतन्त्रं विचित्रम् ॥२७॥

८]
प्राद्यः सर्गः
तस्मात् कक्षात् बहिरभिमुखी क्लान्तगत्या जगाम
रम्योद्यानं ललितलतिकालब्धगुल्मञ्च लोलम् ।
धारायन्त्रैर्मूदुजललवानुत्सृजद्भिर्विधौतं
स्वामिक्लेशानुसरणवशाद् भूयसा शैत्ययातम् ॥२८॥
कुजे गुञ्जन्मधुकरदलः पुष्पपुजं युयोज
मध्ये मालं मणिमयतलं ग्लानिमानं प्रयातम् ।
आरामेनाऽमितरमणता प्रापिता शोकतोऽपि
शोभाबृद्ध ये किमपि न भवेन्मण्डणं स्वाकृतीनाम? ॥२६।।
अस्तं यातें खलु हि तपने शान्तचित्ता प्रतस्थे
मन्दं मन्दं पदविधरणान्मन्दिरं सोपनीता ।
प्रालेख्यं तत्-प्रियतमगुरोः स्थापितं वीथिकायां
धूपैगंन्धैरूपकृतिशत रेत्य
पूजाञ्चकार ॥३०॥
भर्त्त मि श्रवणसरसं श्रोतुकामा सुगीतं
क्रोडे नोत्वा विहितविधितः सारिकां स्नेहपात्रम् ।
भूयो भूयः सुविनतिपरा वाचयन्ती प्रभूतं
चाञ्चल्यं तद्दमयति बभौ कीर्तणे लोयमाना ॥३१॥

अलका-मिलनम्
वर्षारात्रिः प्रियविरहिता सुप्तिशून्या सुदीर्धा
क्षीणां तन्वीं पुनरतिशयं कामविद्धां चकार ।
कण्ठाश्लेष-प्रणयितपतौं योषिति स्याद् विकारो
धारापाते प्रगमितपतेः का पुनश्चित्तवृत्तिः ॥३२॥
मेघच्छेदाच्छशधरमुखं प्रेक्ष्य सम्यङ मनोज
हर्षोत्फुल्ला नव-कुमुदिनी कान्तियुक्ता सकान्ता ।
अब्जेवात्र प्रणयविमुखा सावृताक्षी बभूव
धातुर्लीला सुदुर धिगमा हेतुरेको बहूनाम् ॥३३॥
साऽविच्छिन्नाद् विरहदहनात्तापिता वर्षभोग्या-
च्छेद सुप्तौ क्षणमपि सती साग्रहं चेष्टमाना ।
संगं लेभे क्षणमिह न च स्वाप्नमेवापि पत्यु -
न्र्नैराश्येनाऽनुभवरंहिता न 'प्रबुद्धा न सुप्ता' ॥३४।।
सूर्यालोके स्मितकमलिनी गुण्ठमुक्ता विकुण्ठा
मिश्रीतैर्मु खरविहगाः कामिनो मोदयन्तः ।
आनन्दो वै मनुजमनसि प्रातरेति समृद्धों
विच्छिन्नानां किमपि ने परं क्लेशवृद्ध य भवेद्वा? ॥३५॥

१० ]
प्राद्यः सर्गः
इत्थं तापाच्चपलितमति प्रायशो भ्रान्तियुक्ताम्
आशासूत्रं कथमपि सती जीवितां तां बबन्ध ।
आविर्भाव: पुनरिति कदा स्वामिनः संविभाव्य
शेषान् मासान् पतिमयतया वाहयन्त्येब तस्थौ ।।३६।।
वर्षान्ते भूः सितजलधरश्रीयुता हैमहैा
दीप्ता शुभ्रा नवकिशलयै भूषिता भोगपूर्णा ।
सज्जीभूता प्रणयिामथुनैश्चालकेयं मयूरै-
हूं ष्टाः सर्वे सुखदशरदि स्वागतायां बभूवुः ।। ३७।।
-
कान्तप्राप्तेः क्षणमिति तदा मानसे सन्दधाना
पुण्यस्नाता शुचिधववृता चञ्चलाक्षी भवन्तो ।
प्राशामुग्धा चकितपुलका शब्दमात्रैर्बभूव
सोऽयं वेति भ्रमपरतया साग्रहं वीक्षमाणा ॥३८।।
चापल्यं चाप्यसफलमतः क्षीयमाणं लघुत्वा-
न्नैराश्येन प्रबलरभसा दूरितं तत्तु शीघ्रम् ।
दध्र देहं सपदि जडवल्लक्ष्यहोना मृगाक्षो
स्थाने वाऽस्यामनुभवहृतिः क्लेशशेषो वृथाऽभूत् ।।३६॥

अलका-मिलनम् [ ११ अद्य प्राप्ते सुखविधुनिधिः पूर्णिमा शारदीया शीतैः शुभ्रः शमयितुमलं दुःखदाहं मयूखैः । शापान्तत्वं सुखमिह पुनश्चादधानाऽऽजगाम मर्मच्छेदं क्षणमपि शुभं कालयोये सुखापम् ॥४०॥ मुख्यद्वारे स्वयमथ बभौ निश्चला चित्रितेव सा बद्धाक्षी पुलकितवपु निमग्ना वरांगी। प्राणाः प्रत्युद्गमनकृतये स्वामिनस्तं समेता- स्तत्स्पर्श स्तां पुनरपि सुखै र्जीवितामाविवेशुः ॥४१॥ अलकामिलने काव्ये विरहशेष इत्यथ । आद्यः सर्गः समाख्यातो द्विजेन्द्रलाल-शर्मणा ॥१॥ --

अलका-मिलनम्
अन्त्यः सर्गः
.
(मिलनोलासः)
हर्षोत्फुल्ला पुलकमधुरा स्वामिकण्ठाभिलग्ना
शापान्ते तद्वमिव पति-प्रेमपूर्ण हि योगम् ।
वरो सद्यः स्वपतिविभवा कान्तिमत्याप्तकान्ता
दुःखस्यान्ते सुखसमुदयो मन्यतेऽतीव रम्यः ॥१॥
प्रत्यापन्ने सुखसुसमये स्वामियोगात्तसत्ता
स्वीयं रूपं विजित-मदनं दीप्तिमत् सर्वकाम्यम् ।
आनन्दोत्थं विततमतुलं प्राप भूयः कृशांगी
क्षीराब्धे स्तु प्रमथनफलादुद्धृताऽऽद्या रमेव ॥२॥
दीर्घ कालं पतिपरतया स्वामिरूपात्मसत्त्वां
स्त्रीणामाद्यां जितरतिरमां कोमलांगी स पश्यन् ।
तामालिंग्याऽनुभवति ततः प्राणतुल्यां स्म कान्ता-
मात्माशेष-प्रणय-सुरसो मुर्तिमापैव वाऽस्याम् ॥३॥

विच्छेदान्ते पुनरुपचयप्राप्तकान्तिं प्रभान्तं
पीयूषेशं शशिनमिव स प्रेमहथि तिक्ताम् ।
मूर्तामाशां प्रणयविभवां काम्यसारं गृहीत्वा
भावावेगादधिकचपलो भावयन्
तामुवाच ॥४॥
'यस्यै चित्तं चिरमनुदिनं सत्तया मे च याति
यस्याः प्रीतेरभिनवसुखं जीवितोऽहं हि वाञ्छन् ।
चिन्तालक्ष्यं स्मृतिधनमते दु:खकालाश्रयो या
सेयं सम्पत् पुनरुपगता वर्षशेषेण मेऽद्य ॥५॥
मद्विच्छेदे विगतविभवा प्राणशून्येव शीर्णा
संयोगे मे किल पुनरसावाप्तभूतिरनन्या ।
लक्ष्मीरागं नवकमलिनी मुञ्चती धारयन्ती
प्रेमप्रारणा रवि-विरहिते तद्गते वा यथा स्यात् ॥६॥
स्वात्मानं याऽनपरशरणं मय्यशेष समय
स्वातन्त्र्यं चित् क्षणमपि न वै मानसेऽप्यादधाना ।
प्रेमानन्दा
मधुमयवधू मन्मयी रागदीप्ता
शान्ति. यायादचएलमतिः केवलं मामुपेता ॥७॥

१४ ] अन्त्यः सर्ग: दृष्ट्वाऽतुल्यामुरसि पुरतो वाष्पमुष्णं क्षिपन्तीम आद्यां सृष्टिं सकलसुषमासारमित्येव धातुः । स्त्रोरत्नं तां चिरमनुरतामद्य कण्ठे विभृत्य भाग्यं मन्ये भुवि बहुमतः सन्निधौ मे प्रियायाः ॥८॥ आत्मीयं वै प्रकृतिविहितं स्थानमादाय योग्य स्निग्धं रूपं सुखमभिनवञ्चेत्य कान्तस्वभावम् । आवामेते प्रणयरसपौ स्वस्तिमत्तां चरेव दैवं चास्यां विभु भुवि सदा दाम इत्येव जीवः ॥६॥ भार्येयं मेऽयुतगुणवती सर्वलोकै र्वरेण्या सौन्दर्येरण त्रिभुवनजिताऽसूयितार्हा श्रियाऽपि । प्रेमैश्वर्याचरममघुरा भवेदङ्गनानां पातिव्रत्ये शिवपदरताऽनन्यचारिण्युमेव ॥१०॥ सा कामक्रीडा-विधिसुचतुरा दृष्टितो मोयन्ती पादन्यासेऽतनुपथमिवाऽऽलेखयन्त्यङ्गभङ्गान् । मेधा मूर्ताऽमृतमयगिरा भारती पूर्वेयं स्त्री सुरतकुशला सर्वदा सेवनीया ।।११।। लज्जयन्त्य-

अलका-मिलनम्
लामेताञ्चाऽसुरसुरनरैः साग्रह काम्यमानां
वर्षान्तेऽहं पुनरिह सतीमद्य कामं भजामि ।
सौभाग्यं मे दयितमिलनेऽत्येति तत्सीमरेखा
प्राणारामे प्रियपतिमुखं पश्य पश्याऽत्र दासः ॥१२॥
कामार्त्त मामुरसि निविडं धारये: कामरूपे
प्रेमस्यन्दोन्मुकुलितदृथा सुस्मिता स्नापयेाम् ।
षीयूषं मां तव मुखरसं पाययन्ती पिवेमें
प्रीतिस्निग्धं वदसि न कथं मानिनि स्वामिजीवे ॥१३॥
साऽऽनन्दाश्रु प्रवहदमितं व्याकरोत् पद्मनेत्रं
सार्थक्यं तत् पतिमनुरतं प्रेक्षमाणं यदाप ।
शब्दस्पर्शाधिगतमिलनस्वामिनि प्रेमदोप्ते
प्रत्यापन्नेऽनिमिषनयना बद्धदृष्टिं ररक्ष ॥१४॥
जिघ्नन्त्येवाऽनपरसुलभं
प्राणमोदं सुगन्धं
कामार्ता सत्युपगतपतेरास्यमद्य पिपासुः ।
तञ्चालिंग्य स्तनयुगमुरो भूयसा पीडयन्ती
प्रत्यङ्गन प्रियतनुगताऽभिन्नदेहेव तस्थौ ॥१५॥

१६ ]
अन्त्यः सर्गः
कञ्चित् कालं दयितमिलिता भावलोके हि तस्थौ
प्रेमावैशात् प्रणयिहृदये कल्पनातश्चरन्ती ।
पीयूषं सा परमिव पपौ प्रेम पत्युः प्रगाढं
कण्ठाश्लेषाधृतपतिमतः प्रीणयन्त्याप्तसंज्ञा ॥१६॥
प्रेमप्रारणा प्रियधनयुता
सुन्दरीणामनन्या
सम्यक् पीत्वा पतिमुखमधूज्जीविता दीप्यमाना ।
पत्याः शुभ्र हृदि हि हृदयं मज्जयामास भूयो
विच्छेदाऽन्तेऽधिकमिह भवेत् संगतिः कामभोग्या।।१७॥
स्थानात्तस्मात् कथमपि सती स्वामिवक्षः-सहाया
मन्दं मन्दं पति परगति ीयते मोदवासे
कां वा श्रान्तिं क्षरणमतिगतं चावलङ्घऽपि किञ्चा-
नन्दोत्फुल्ला न हि तु बुबुधेऽनन्यचित्ता तदात्ता ॥१८॥
श्रुत्या प्रेमाऽमृतमयगिरं स्वामिनं पाययन्ती
धीरोदात्तं पतिहृदिगता यक्षिणीतो बभाषे ।
"नायं स्वप्नो न हि तु मम वा भ्रान्तिलेशो न माया
पत्युः संगो धनमतुलितं यात्वशेषत्वमाप्तः ॥१६॥

मलका-मिलनम्
। १७
संगच्छामि प्रियतमसखं मद्गतं मत्प्रसन्न
वक्षोरत्नं पुनरुपचितं दुःखकालावसानात् ।
धन्याऽहं वै त्वदनुशरणा प्राप्तधर्मार्थकामा
सौभाग्यं मे परममुदितं नन्दयाम्यद्य दिव्यम् ।।२०।।
प्राणाराम त्वमसि खलु मे जोवनं सत्त्वसारः
श्रीमाधुर्य किमपि यदि वा भूषणं तत्त्वमेव ।
मान्योद्देशं त्वयि मम परं प्रेम लीलायितं वै
त्वत्-संयोगे ध्र वमनुरता सम्भवाम्यात्मसत्ता ॥२०॥
दिष्ट्या लब्धं समधिकरति प्रारणकान्तं सुकान्तं
मूर्त प्रमाऽतनुमपि सदा लज्जयन्तं हृदा त्वाम् ।
सर्वस्वं मे शठ ! वृतवती गौरवं कामिनीनां
प्रेमोत्कर्षादमितसुषमं सार्थकातो भवामि ॥२२॥
सत्यं ब्रूहि प्रिय न कपटं मविहीनप्रवासे
विस्मृत्येमां खलु पतिमयोमेककान्तां हि कान्ताम् ।
दीर्घ कालं निनयिथ कथं मां विहायाऽलकायां
दुःखान्न त्वं परमभिभवं किं तथाया यथोऽहम् ? ॥२३॥

१८ ]
अन्त्यः सर्गः
?
पृच्छामि त्वां पुनरपि वदेः किञ्च तत्र त्वमेको
निर्वन्धुः सन्नुवसिथ सदा दुःखभारावसन्नः ।
किंवाऽन्योऽपि प्रियविरहितो व्यर्थकामः सखेव
त्वयुक्तस्ते सममनुभवन् सान्त्वयन क्लेशमासीत् ।।२४।।
किंवा कामं सुसहमकरोदुःसहं मद्वियोगं
सार्द्ध नार्या समहृदयया शान्तया वा कयाचित् ?।
काञ्चिद् वाऽऽप्याऽप्रमितमधुरां कामिनी कामभोग्यां
भुञ्जान स्त्वं सुखमविहतं तत्र चासीमनोज्ञाम" ?॥२५॥
ज्ञात्वाप्यात्मप्रणयसुरतञ्चैकचित्तन्तु चण्डो
तनिष्ठञ्चाऽनपररमणीसेविनं स्वामिरत्नम् ।
साऽऽस्थाऽप्येषा प्रियमनुगता श्रद्दधानाऽपि तस्मिन्
पप्रच्छवं, प्रकृतिसरला मानभूषैव नारी ॥२६॥
धीरः शृण्वन्नपि तु कपटं स्वप्रियोक्तं दुरुक्तं
नान्त:सारं कुपितगदितं तत्त्ववेत्तेति जानन् ।
सोऽयं यक्षः किल सकरुणः सादरं तामुरःस्थाम्
अन्तर्यामी सुविदितपति मानिनी प्रत्युवाच ॥२७॥

अलका-मिलनम् ।
[ १६
'जानाष्येव प्रणयनिपुणाऽनन्यचित्ता पति ते
नान्योद्देशाप्रतिहतगति-प्रेमलक्ष्यं हि मे त्वम् ।
निष्ठायां में त्वयि तु हि चिरं तत्त्वमेव प्रमाणम्
अन्तई ष्टिं जनयति जने प्रेम शुभ्रां यथार्थम् ॥२८॥
चेष्टां चिन्तामपि तु नियतां त्वामनुप्रेरयन् स्वां
प्रेमाबद्धो दृढ़मपि सदा सर्वथा निश्चितोऽहम् ।
कः प्रश्नस्ते पुनरिह कुतो विभ्रमः संशयो वा
कान्ते ! कान्ते त्वविरतरतौ स्यात् कथं मानसे ते? ॥२६॥
त्वनिष्ठेवाऽव्यवहितगतिश्चैकवमश्रिया मे
प्रोते र्धारा त्वयि सुनियताऽनन्यलक्ष्या वहन्ती
ऐकाग्र येणाविचलितमुखी पूर्तमन्दाकिनीव
शान्तिं गच्छेदतुलचरिते सार्थका त्वामवाप्य ॥३०॥
प्रेमाऽमोघं त्वयि मम परं नित्यशुद्ध त्वनादि
चासामान्यं भवदभिमुखि प्रत्यहं वर्द्ध मानम् ।
देव्यासाद्य त्वदनुमिलनं गौरवेतं च सम्यग्
उद्वेलं सद् विरतिरहितं स्यादभंग ह्यनन्तम् ॥३१॥

२० ] अन्त्यः सर्गः त्वय्यात्मा मे मुखरमकरः प्रेमसिन्धावपारे मज्जन्नेवाऽमितमविरतं राजते भोगरागैः । किंवा नित्यं लघुतिरयं सन्त रन् चित्रचारो भूयोऽप्येवं सुखमभिरतो मोदते हंस एव ।।३२॥ कल्याणी त्वं दृढरतिमते स्त्वद्गले स्त्वत्पते में त्वत्प्रीति र्वे शिरसि गणिताऽभीष्टरत्नस्वरूपा। पत्नीमात्रैकविषयमिह प्रम विद्धात्यतो मे सानन्दं तत् प्रतिचर भृशं स्वामिने तेऽद्य मह्यम्॥३३ ।। किं व्याजेन त्वमयि शृणु मां भाषया घोषयन्तं प्रेमानन्दे दयितमधुरे जीवन मेऽसि सत्त्वम् । त्वविच्छेदे चु कथमभवं प्राणवान् वा न वा सन् संयोगे ते पतिपररते जातु सञ्जीवितोऽहम् ॥३४॥ रतिसुखपरावेकलक्ष्यञ्चरन्ता- वेकात्मानौ खलु च नितरां भावनाऽभेदवन्तौ । अन्योन्यं वै सममनुभवैश्चात्मसेवां दधाना- वेकोऽप्यावां रुचिमतिकृत देहबन्धात्त भिन्नौ ॥३५॥ एकप्राणौ अलका-मिलनम् [ २१ प्रेमैवाऽर्थो मम तु चरमः स्यन्दमानन्त्वबाधं नित्यं शुभ्र तव खलु वहच्चैकनिष्ठं प्रगाढम् । यस्माच्छे यः कथमपि न मे कुत्र किञ्चित् कदा च दीनेऽधीने मयि चिरमतस्तन्महार्घ विधेहि ॥३६॥ कामन्यां स्त्री नयनविषये नाऽर्थये स्वप्नतोऽपि स्वर्लोकं वा न हि तु परमं दिव्यभोगायुतं वा । ब्रह्मानन्दं त्वपि न हि प्रियं सेव्यमेवात्र मन्ये सी- प्रेमामूल्यं त्वद्ननधि हीप्साम्यपारात् पयोधेः ॥३७॥ मन वनजनवी नान्यत् काम्यं किमपि तु मया लक्ष्यते चिन्त्यते वा प्रेम प्रेयो निखिल विषयात्ते त्वखण्डं सजीवम् । इत्येवं ते विनतमनसा प्रार्थ्यतेऽद्य प्रकामं मानं हित्वा चिरमनुगते देवि मेऽतः प्रसीद ॥३८॥ प्राशापात्रं त्वमसि नितरामेकभक्तश्चिरं मे सर्वे कामा अनपरमुखाः केवलं त्वां स्पृशन्तः । चिन्ताधारा सममविहता हि स्वतो धावति त्वा- मैकान्त्येन त्वदनुचरतो मे प्रसन्ना भव त्वम् ।।३।।

प्रेमाधार त्वमसि महती मूर्तिरेव क्षमाया आश्वासं मे वितर कृपया हास्यदीप्तः कटाक्षैः । कामात माममितकरुणे प्रापयेः स्वं पति ते फुल्लाम्भोज सर इव परं स्पन्दमानं तु वक्षः ॥४०॥ - त्वं मे वीर्य पुरुषसुलभं नित्यरूपा प्रतिष्ठा स्वाधिष्ठानं किल परमपि प्रेयसी प्राणवायोः । सत्तासारस्त्वमिति खलु मे सर्वथाऽहं त्वदीय श्चानन्दो में चिरमयि मय प्रार्थये त्वं प्रसीद ॥४१॥ किं बाहुल्यैरपि सुचरिते भाषितै में समुच्चै- रात्मासि त्वं परमशरणं देहमात्रस्य मे वै । ज्ञातास्वादस्तव परमतः प्रेमपात्रं भवेयं संप्रीता चेद् भव मयि सदा सर्वथा सार्थकोऽहम् ।।४२।। सत्यं जाने प्रियसहरि त्वं ममाऽहं तवैव धातुः सृष्टे: प्रथमसमयादद्य चागामिकाले । नित्यामोघप्रणयजडितौ सर्वदा मोदमाना- वेको ह्यावां चिरमयि कदाप्येव नो भिन्नसत्तौ ।४३।।

अलका-मिलनम्
[ २३
मानं किंवा परमपि यशो गौरवं वापि धर्म
देवत्वं वा त्रिभुवनतले नार्थयेऽहं प्रभुत्वम् ।
किं लोक र्वा शृणु पुनररे कामये नापवर्ग
निर्विच्छेदं प्रणयमतुलं धेहि ते मय्यशेषम् ॥४४॥
प्रादर्शस्त्री
स्वपतिपरमा प्रेममय्यप्यनन्या
शुश्रू पुर्यत् सुविदितमपि स्वामिनो मे चरित्रम् ।
सुस्पष्टं त्वां तदभिहितवान् प्रीतये तेऽहमद्य
वाक्प्राचुर्य स्तवनमधुरं रोचतेऽतीव नायें ।।४५।।
मत्सम्बन्धे परिहर भयं मूलहीनं समस्त-
मैकान्त्येन ध्रु वमपनये निसे संशयांशम् ।
कापट्यं वा कलितकलहं मुञ्च मानप्रमादं
स्वच्छ-प्रेम्णा भव मयि सदा न्यस्त-भारा धृतास्था॥४६।
सर्वस्वं मे परमवहिता निश्चयं मद् गृहारण
देव्याराध्या त्वमसि हि भजन श्रद्दधानोऽस्मि दासः ।
प्रीत्याकांक्षी
त्वदयनगतस्त्वत्परः केवलं वै
याचेऽहं त्वां मयि तु परमं धेह्यनन्तं प्रसादम् ॥४७॥

२४ ] अन्त्यः सर्गः ध्येयासि त्वं भुवि च परमा मत्तपोऽपि त्वमेव त्वां सिद्धिं चेत् समधिकृतवान् स्यामतः पूर्णकामः । दासोऽधीनो मननचरितै रीश्वरि प्रार्थयेऽहं हस्ताभ्यां ते चरणकमले धारयन् मे प्रसीद ॥४८॥ श्रुत्वेत्यस्य प्रियमपि सती दुर्लभं सत्यवाक्यं संतुष्टा साऽप्यधिकमनुगा हास्य शुभ्रास्यभासा । पत्युत्संग किल धृतवती नोरवा न्यस्तभारा स्वीकुर्वाणा वरमिव पतिप्रार्थितं कामभोगम् ॥४६॥ भावावेगाप्रतिहतमतिः स्पन्दहीनेव तन्वी तं कामार्ता प्रियमुखसुधापानमिच्छु श्चुचुम्ब । नन्दाधिक्यान्मदनविमुदो वाक्पटुत्वोज्झितायाः स्वांगीकारः स्फुटयति रतौ नेत्रपातैः स्म लोलैः ।।५।। वक्षः-स्फीत्या सुविकचकुचे कोमले धूयमाने नीवीबन्धच्युतिमपि परिस्रस्तमेवांगवस्त्रम् । सोष्णश्वासं लघुगतिमतो देहवल्लीं तुदन्तं प्रेमावेशावनतनयनाऽऽघाततैक्ष्ण्यञ्च धत्ते ।।५।।

अलका-मिलनम् [ २५ छन्नश्चापींगितमयवचा विभ्रमोऽस्याः प्रियेऽतो लज्जाबन्धेऽप्यभवदमितः कामपीडांगतायाः । स्पष्टं नीत्वा नयननिहितां कामिनी-मौन-भाषां जग्राहेमां प्रणयकुशलां कामचार: स कामी ॥५२॥ रागोद्दीप्तां रतिविधिपटु प्रेमपूर्णा मनोज्ञां तां संप्रीतामधिकसुखदां बाहुपाशेन बद्धाम् । ब्रीडाभूषामथ च सकलं स्वोयमंगं त्वपूर्व सम्यक् पत्या उपहृतवती मूर्त्तशान्ति स पाप ॥५३॥ प्रेमोभ्रान्ता पतिहृदिगता दत्तवक्त्रामृताऽस्मिन् एकान्त्येन प्रणयितपतौ सवमंगं समर्प्य । एकीभूता सममवयवैः कान्तकान्ताप्तकान्तिः स्वस्ति पूर्णामधिमृतवती सार्थकाऽऽसीत् समन्तात्।।५४॥ बाधोत्तीर्णा द्रुततरगति श्चञ्चला लास्यशीला सोच्छ्वासोच्चापलितमधुवाक् सागरं संवहन्ती । तत्सान्निध्यादधिकमधुरा मन्दवेगा क्रमेण धीरैवासीत् पतिगततनु लेब्धसिन्धु नदोव ॥५५।।

२६ ] अन्त्यः सर्ग: प्रात्मानं सा पुनरकृपणा तुल्यरूपाश्रयं वै सीमाऽतीतं प्रणय मतुलं यौवनं कामकाम्यम् । निःसन्देहा चिरमभिरता चैकचित्ताऽर्घ्यरूप शान्ति यान्ती सकलविभवं स्वामिने संनिवेद्य ॥५६॥ इष्टप्राप्तिं ा पजिगमिषु दत्तसर्वा मृगाक्षी तत् सर्वस्वं सतनुमतनुञ्चेव तं वित्तरत्नम् । ऐश्वर्य चाऽतनुतनुयुतं प्राणतोषं महार्ध कान्तं कान्तं चिरमनुगतं रागिरणं निश्चिचाय ॥५६॥ किंवा सम्यग् दयितपुरुषे दत्तवत्यां स्वसत्तां नूनं तस्याममितमधुरः प्रेममूत्तिः प्रसन्नः । कामातः सन्नुभयसुखदं रागचर्य दधौ वै तोषं प्रापातिशयमुभयो, रिक्तता पूर्णतायै ॥५७।। सा नारीणां समभिलषिते स्नेहशान्ते प्रशस्ते पत्युत्संगे प्रणयमधुरे सर्वशंकात्तिपारे। मज्जन्त्येव प्रियपरगता साथकैवाऽऽबभूब प्रत्यागच्छेद् ददति सकलं प्रायशः पूर्णलामः ।।५।।

अलका-मिलनम्
[ २७
रूपा त्याऽनिमिषनयने कान्तचित्त प्रियस्य
प्रेमाकान्तं हृदयमयुतैः सद्गुणैः स्वैस्तथा च ।
आत्मानञ्चाऽतुलितवसुना क्रीतवत्याबभूव
शुद्धप्रेम्णा खलु विलसतांऽगेन सा सार्थकाद्य ॥६०॥
यस्य स्तुत्या मधुकर इव प्रेमप्रात्रं प्रकूजेद्
यच्चाकर्षेन्नयनमनसी ह्यात्मशक्तेः प्रियस्य ।
प्रेमावेगः प्रियजनहृदि स्वानुकूलो यतः स्या-
त्तच्चारुत्वं समुदितफलं योषितां वित्तसारः ॥६॥
येत प्रोति स्त्वनपरगति जन्यते स्वप्रिये वै
यदुबद्धन प्रभुरिव सदा सेव्यते तुष्यते स्त्री ।
यद्वेगात्तं त्वभिनवमतः कामरागं प्रियोऽत्त
सत्तत् प्रेम प्रणयिलषितं गौरवं हि प्रियायाः ॥६२।।
यस्याः प्रेम प्रियहृदयजिच्चाप्तकामं यथार्थम्
ऐकान्त्येन स्वपतिपरमं या सतीत्वं विधत्ते ।
सर्वस्वं या प्रियमधिपतौ सत्त्वसारं दधाना
सा वै नारी रमणमधुरा शर्मदा स्वामिसेव्या ॥६३॥

२८ ]
अन्त्यः सर्ग:
वक्षोबन्धे स्खलति च बभौ जातु हेमाद्रियुग्म
स्निग्धन्त्वन्त-स्थितमधुरसैः कोमलं कृष्णचूडम् ।
आदर्श वै नयनसुखदं भूषणं कामिनीनां
रम्यस्पर्श चिरमविचलं कामदेवस्य पीठम् ।।६४।।
नूनं नेति स्तनयुगमहो किन्तु सचित्तहारि
मुक्तिस्फीतं विरहदहनै र्दीप्यमानञ्च कामम् ।
पूर्णाकारं मदनमदिरापात्रमेवापि हैमं
दृष्टौ स्पष्टं मनसि च बभौ काममुग्धप्रियस्य ॥६५॥
एकं चित्तं त्वपरमनसि प्रेमसत्ताश्रयत्वाद्
अङ्गीभूतं सुखमुपगतेऽनन्तरागै विलीनम् ।
स्व-प्रत्यंगं भजदिह भृशं चानुरूपं परांग
देहद्वार-प्रतिहतगति प्राणयुग्मं रुरोद ॥६६।।
भेदं कुर्वन्नुरस उरसि क्ष द्र एवाप्यविष्टः
चिक्षेपेऽस्याः शिरसि रभसा स्वामिना कण्ठहारः ।
निश्छेदं तन्मिलितमधुमा कान्त-कान्तोष्णवक्षः
रत्नश्रेष्ठे सुदृढ़मुरसि प्रेममय्या बभूव ॥६७॥

अलका-मिलनम् [ २६ पाहूयेयं पतिसुखमिता मन्मथेषून सहस्र ज्योत्स्नां स्वच्छामधिकमधुरां स्निग्धरागार्हमिन्दुम् । शान्तं वायु पिकरवमदं सर्वमोदास्पदं च तत् सर्व यद् विरहितुदनं कान्तयोगे सिषेवे ॥६॥ यत्रैवाथानुपमनयना कान्तदेहे निमग्ना कुर्वन्त्येवं सुखसुमधुरा सार्थका दृष्टिपातम् । मन्दं व्यर्थ विगतसमये क्लेशराशेःपदं यत् सर्व तच्चाऽप्यभिनवरतेराश्रयं प्राप सद्यः ।।६।। अन्योन्यं यत् प्रणयिमिथुनं भावयत् प्रेम दधे तच्चापारं विलसदघुना पूतमूर्ध्व बभौ वै । विच्छेदात्त प्रणयकुसुमं व्यक्तिकेन्द्र सकामं पूर्णोत्फुल्ल प्रियमतिचिरेत् संगमेपौरुषेयम् ।।७०।। मुख्यार्थे वै प्रणयविभवे प्रेमिणो भूरि भुक्ते सर्व किञ्च गुणमपि मतं भूयसा प्रोतिकारि । संयुक्ताः स्युश्चिरमथ भुवि प्रेमिणो मोदमाना भद्र शान्तिः सुखमविहतं सर्वजोवेषु सन्तु ।।७१।।

३० ]
अन्त्यः सर्गः
मिलनोल्लास इत्येव सर्गोऽन्त्यः सुधियां मुदे ।
अलकामिलनञ्चात्र चापलाय समाप्यते ।।
[ कालिदासानुदासेन मन्देनापि रसेप्सुना ।
कवित्वलेशहीनेन दर्शनमात्रसेविना ।।
कुर्वता दुष्करं तस्मात् विद्वत्-साधुक्षमाथिणा ।
उपाव-पुरकायस्थ-द्विजेन्द्रलाल-शर्मणा ।।]
मालिन्यमत्र यच्चाप्यं सर्व तद्दन्यजं मम ।
भोग्यञ्चेद् रसमाधुर्य किमप्यस्मिन् सतां हि तत् ।
* इति शम्" इति *

Tpralaka Milanam

Author
Srimad Dwijendralal Sharma
Title
Tpralaka Milanam
File name
Tpralaka Milanam
Text
OCR done
Published
2005/09/14
Publisher
Prapthi Sthanam Jaipur Rajastan
Language
Sanskrit
Pages
36
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
383046
Barcode
1990030041893.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Available
VMLT id
oa7UTluz6FY
Download PDF

Tpralaka Milanam