Sringeri Sharada Peetham

Shradhamanjari

Harinarayana Aapte · 2006/06/10

PDF Proofread

Front matter

आनन्दाश्रमसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः ५९
केळकरोपाहबापूभट्टविरचिता
श्राद्धमञ्जरी।
एतत्पुस्तक
वे० शा० रा० आगाशे इत्युपार्दत्तात्रेयशास्त्रिभिः संशोधितम् ।
तच
हरि नारायण आपटे
इत्यनेन
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुदायित्वा
प्रकाशितम् ।
शालिवाहनशकाब्दाः १८३१
ख्रिस्ताब्दाः १९०९
( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः )
मूल्यं रूपकद्वयम् । (रु०२)

१ आदर्शपुस्तकोल्लेखपत्रिका । अस्य श्राद्धमञ्जरीग्रन्थस्य पुस्तकानि यः परहितैकपरतया संस्क- रणार्थं प्रदत्तानि तेषां नामादीनि संज्ञाश्च कृतज्ञतया प्रकाश्यन्ते- (क.) इति संज्ञितम्-रत्नागिरिनिवासिनां वे० सं० रा० वाळदीक्षित पाट- णकर इत्येतेषाम् । अस्य लेखनकालः शके १७८९ (ख.) इति संज्ञितम्-रत्नागिरिनिवासिनां वे०रा० गोपाळदीक्षितपटवर्धन इत्येतेषाम् । अस्य लेखनकालः शके १८०७ (ग.) इति संज्ञितम्-पुण्यपत्तननिवासिनां वे०रा० रामभट्टगुणे इत्येतेषाम्। अस्य लेखनकालः शके १८०० समाप्तेयमादर्शपुस्तकोल्लेखपत्रिका ।

अथ श्राद्धमञ्जरीस्थविषयानुक्रमः। ... " " ... ... ... " " ६ " ... ... विषयाः पृष्ठाङ्कः विषयाः अथ मङ्गलाचरणम् १/पयः ... श्राद्धपरिभाषारम्भः निर्यासाः श्राद्धयोग्यदेशः , इक्षुविकाराः निषिद्धदेशः लवणानि परकीयगृहे श्राद्धप्रसक्ती दूषितान्नानि श्राद्धात्पूर्वं बालादीनां भोज- जलम् नादिनिषेधः पाकपात्राणि स्त्रीणां नियमाः आयसनिषेधः श्राद्धयोग्यदर्भाः आसनानि चन्दनाद्यनुलेपनानि भोजनानाणि श्राद्धयोग्यपुष्पाणि अर्घ्यपात्राणि ... निषिद्धपुष्पाणि अर्चनादिपात्राणि उक्तपत्राणि संभारनिधानार्थं कृष्णाजिनम् निषिद्धपत्राणि पाकार्थमनिः अथ धूपदीपौ , श्राद्धदिनकृत्यम् वस्त्राणि पाककारः. यज्ञोपवीतानि श्राद्धभूमौ निषिद्धपदार्थाः , श्राद्धकाले कुक्कुटादिदर्शन- निषिद्धान्नानि निषेधः अथोक्तशाकानि ३ अन्नदोषे शुद्धिः उक्तफलानि अथ बाह्मणाः निषिद्धफलानि बाह्मणपरीक्षावश्यकत्वम् मूलानि बाह्मणसंख्या कन्दाः शाखाभेदाद्यवस्था जलजानि ब्राह्मणनिमन्त्रणम् ... इक्षुदण्डः ,, विपकर्तृकजपः शुण्ठ्यादीनि ... विप्रनियमाः ... द्रवाः कर्तुनियमाः... ... ... श्राद्ध उक्तान्नानि ... ... " ... ... .. ... ८ ...

२ श्राद्धमञ्जरीस्थविषयानुक्रमः । पृष्ठाङ्कः ... ... ९ ... " ... " " " " ... " ... " :: ... विषयाः विषयाः पृष्ठाङ्क: संध्याघधिकारार्थं प्रायश्चि नामगोत्राद्युच्चारणसंकल्प- त्तम् कालः निमन्त्रितविप्रत्यागे सव्यापसव्यनिर्णयः विप्रस्यान्यत्र गमने देवकर्मधर्माः १९ श्मश्रुकर्मादि विप्राणाम् पित्र्यकर्मधर्माः श्राद्धारम्भकाल: मन्त्रादौ प्रणवादिनिषेधः बाजूकाले श्राद्धतिथ्यमावे उपचाराणां द्विस्त्रिदर्दानम् ... पार्वणश्राद्धतिथिनिर्णयः... यवोदकादि... एकोद्दिष्टतिथिनिर्णयः पदार्थप्रोक्षणादि ११ २० आमश्राद्धे हिरण्यश्राद्धे च बह्मदण्डः तिथिनिर्णयः स्वागतम् अथामावास्यानिर्णयः द्वितीयनिमन्त्रणम्... प्रसङ्गादिष्टिनिर्णयः पाद्यमण्डलम् १२ पार्वणस्थालीपाकनिर्णयः... १३ पाद्यविधिः ... पाद्यान्त आचमनम् इष्टौ चन्द्रदर्शननिषेधः २१ विप्रोपवेशनम् पिण्डपितृयज्ञेऽमावास्यानि- र्णयः दीपस्थानम् ... १४ अतिथिभोजनम् अथ श्राद्धारम्मः " नीवीबन्धः पवित्रकनिर्णयः २२ १५ तृतीयसंकल्पादि दर्भधारणकालादि पाकप्रोक्षणम् आचमनकाल: " श्राद्धभूमी गवादिध्यानम् श्राद्धसंकल्पः अथ देवार्चा पितृशब्दोचारणनिर्णयः १६ अर्यविधिः ... संबन्धादिक्रमः आवाहनम् नामोच्चारणम् देवोत्पत्तिध्यानम् नामाज्ञाने , ऊर्ध्वपुण्ड्रादिनिषेधः २४ गोत्राज्ञाने १७ काण्डानुसमयादि दर्शश्राद्धे पितरः अथ पित्रर्चा वैश्वदेवनामानि अादिविधिः विभक्तिनियमाः १८ अर्चनोत्तरकृत्यम् " ... ... " ... २३ :: ... " " 2 श्राद्धमञ्जरीस्थविषयानुक्रमः । ३ पृष्ठाङ्क: पृष्ट का ... ... ... ... ". ... ... :: :: ... -- ... ... ... " " ... .. ". ... .. " ... ... .. " .. विषयाः विषयाः भोजने मण्डलम् काकस्पर्शे न दोषः... मोजनपात्रस्थापनम् पत्न्याः पिण्डप्राशनम् भस्ममर्यादा २६ अनेकभार्यापक्षे करशुद्धिः गर्भिण्यादीनां पिण्डप्राशन- अथाग्नौकरणम् निषेधः ३८ अन्नपरिवेषणम् २८ पिण्डप्रतिपत्तिः अन्ननिवेदनम् विकिरदानम् ब्रह्मार्पणम् २९ विकिरप्रमाणम् भोजने विप्रनियमाः विकिरप्रतिपत्तिः अभिश्रवणम् ३० विग्रहस्तशुद्यादि अथ प्रायश्चित्तानि... कर्तुस्तिलकविधिः... विप्रयोमिथः स्पर्श.. उच्छिष्टपात्रचालनम् उच्छिष्टस्पर्शे. स्वस्तिवाचनादि उच्छिष्टपात्रे , दक्षिणादानम् अमेध्यस्पर्शे विशेषदक्षिणाः मार्जारादिस्पर्शे अथ स्वधावाचनादि मक्षिकाद्युपधाते उच्छिष्टोद्वासनकालः ४२ विप्रवमने होमविधिः ४३ पुनःश्राद्धावृत्तिः ३२ अथ वैश्वदेवनिर्णयः, विप्रगुदस्तावे ३३ श्राद्धाङ्ग भोजनम् विपस्य मार्जारस्पर्श उपवासप्राप्तौ मूत्रकरणे ग्रहणवेधे ४४ शूद्रादिस्पर्श अन्यश्राद्धशेषभोजने तृप्तिप्रश्नः शूद्रभोजननिषेधः उत्तरापोशनादि ३४ अथ श्राद्धाङ्गतर्पणम् हस्तधावनम् क्वचित्तर्पणनिषेधः.. पिण्डदानम्... तर्पणविधिः... पिण्डप्रमाणम् ३५ नित्यतर्पणे कचित्तिलनिषेधः ४६ नीवीविसर्जनम् ३६ जीवत्पितृकस्य ४७ पिण्डपूजनम् पितरि संन्यस्ते पिण्डोपघाते प्रायश्चित्तम् .. ३७ अथ पार्वणश्राद्धकालः ४१ ... ... .. , गृहशुद्धिः :: ... ... ... :: " :: ... " " ४ श्राद्धमञ्जरीस्थविषयानुक्रमः । पृष्ठाङ्कः ... :: .. ... " प्रतिनिधिना श्राद्धम् ... ... विषयाः विषयाः पृष्ठाङ्कः अथ दर्शश्राद्धप्रयोगः ४८ वृद्धिश्राद्धीयपरिभाषा अथ दर्शश्राद्धाङ्गतर्पणम् . ४९ अत्र वैश्वदेवनिर्णयः दर्शश्राद्धमनुपनीतोऽपि मातृकापूजननिर्णयः कुर्यात् ६२ मात्रादिजीवने निर्णयः दर्शश्राद्धाकरणे प्रायश्चित्तम् , मातृकापूजनप्रयोगः अथ गृह्यपरिशिष्टोक्तश्राद्ध नान्दीश्राद्धप्रयोगः प्रयोगः ... सूत्रोक्तो नान्दीश्राद्धप्र० ९३ सूत्रोक्तपार्वणश्राद्धप्रयोगः ६७ अथ श्राद्धानुकल्पाः व्यतिषङ्गप्रयोगः ७१ यथोक्तविपालामे अधिकारिभेदाद्यवस्था ७३ मातृश्राद्धे सुवासिन्यः केवलानौकरणप्रयोगः ७४ विप्रैकत्वे श्राद्धविधिः अथ काम्यश्राद्धम्... दर्भबटुश्राद्धम शालान्तरोक्तानि काम्यश्रा- द्धानि ७५ अथाऽऽमश्राद्धम् तिथिश्राद्धानि अथ हिरण्यश्राद्धम् १०१ वारश्राद्धानि सांकल्पविधिना श्राद्धम् नक्षत्रश्राद्धानि ७६ ब्रह्मार्पणविधिना श्राद्धम् १०३ योगश्राद्धानि संकटे होमविधिना श्राद्धम् १०४ पिण्डरहितश्राद्धानि केवलपिण्डदानम् . काम्यश्राद्धे विश्वे देवाः ७७ यथासंभवदानादि काम्यश्राद्धे पितरः गवां तृणदानादि काम्यश्राद्धानां प्रयोगः अष्टकाश्राद्धाशक्ती १०५ चतुर्दश्यामेकोद्दिष्टम ७८ अथ क्षयाहश्राद्धम् सपिण्डकसांकल्पिकथा मलमासे प्रथमाब्दिकनि- द्धानि र्णयः नक्षत्रयोगाणां ह्रासवृद्धित्वे दर्शे वार्षिकप्राप्तौ निर्णयः , क्षयाहतिथिमासयोरज्ञाने काम्यश्राद्धानां तर्पणनिर्णयः निर्णयः ... अथ वृद्धिश्राद्धं तत्कालः... ७९ मारिजोदर्शने निर्णयः अत्र विश्वे देवाः आशौचप्राप्ती ब्राह्मणसंख्या " ... ... ... : " " " " ... " ... ... ... ::: ". ग्रहणप्रसक्ती ...

श्राद्धमारीस्थविषयानुकमः। ५ पृष्ठाङ्कः विषयाः पृष्ठाङ्कः ... : :: ... ... ... विषयाः श्राद्धदिने भार्याया ऋतावे. कृत्तिकाश्राद्धम् कादशीव्रते च पार्वणैको- कपिलाषष्ठीश्राद्धम् द्दिष्टनिर्णयः माध्यावर्षश्राद्धम् पितृव्यादीनां श्राद्धनिर्णयः १०७ अन्वष्टक्यश्राद्धम् १३० जीवपितृककर्तृकभाद्धम्... नवम्यां मातुः श्राद्धम् एकोद्दिष्टश्राद्धविधिः १०८ सापत्नमातृबहुत्वे विधिः १३१ आब्दिकश्राद्धप्रयोगः , द्वादश्यां संन्यस्तपितुः मातृश्राद्धे विशेषः... १०९ श्राद्धम् . १३२ सापत्नमात्रादिश्राद्धप्रयोगः ११० मघात्रयोदशीश्राद्धम् सहगमनश्राद्धप्रयोगः १११ गजच्छायाश्राद्धम् .. .. १३३ पितामहजीवने चतुर्दश्यां शस्त्रहतश्राद्धम् १३४ अतिकान्तथाद्धप्रयोगः दौहित्रकर्तृकश्राद्धम् एकोद्दिष्टश्राद्धप्रयोगः अथ ग्रहणश्राद्धम् . १३५ संन्यासिनामाब्दिकश्रा० ११२ अर्बोदयश्राद्धम् आराधनप्रयोगः , पद्मकयोगश्राद्धम् १३६ चतुर्विधा मिक्षवः ११५ अमायां योगविशेषश्रा० विधवाकर्तृकश्राद्धम् ,, महाव्यतीपातश्राद्धम् विधवाया नित्यतर्पणम् ११७ महावारुणीश्राद्धम् विधवाया नान्दीश्राद्धप्रसक्ती व्यतीपातयोगश्राद्धम् १३७ अनुपनीतकर्तृकश्राद्धम् , भीष्माष्टमीश्राद्धम्... सकृन्महालयश्राद्धनिर्णयः.. , युगादीनां योगविशेषे श्रा. सकृन्महालयश्राद्धप्रयोगः १२० द्धम् १३८ अथ नित्यश्राद्धम्... १२३ पौर्णमासीश्राद्धानि षण्णवतिश्राद्धानि १२४ गोष्टीश्राद्धम् १३९ अथ युगादिश्राद्धम् १२५ शुद्धिश्राद्धम् अथ मन्वादिश्राद्धम् दैविकश्राद्धम् अथ संक्रान्तिश्राद्धम् औपचयिकश्राद्धम् वैधृतिव्यतीपातश्राद्धम् १२७ अथ सद्याश्राद्धम् . १४० महालयश्राद्धानि ऐच्छिकश्राद्धम् प्रोष्ठपदीश्राद्धम् १२८ नवान्नश्राद्धम् भरणीश्राद्धम् १२९ तीर्थयात्रायां घृतश्राद्धम् .. १४१ ::: ... ... ... " ... ::

श्राद्धमञ्जरीस्थविषयानुक्रमः । wr पृष्टाङ्कः ... ... ... " :: " ... ... .. " ... विषयाः विषयाः पृष्ठाङ्कः यात्रायां प्रस्थानविधिः , नदीलक्षणम्.. १५० प्रसङ्गात्तीर्थविधिः १४२ महानदीनां रजोदोषः तत्र कार्पटीवेषः "महानद्यः मार्गगमनधर्माः , गङ्गादीनां रजोदोपाभावः मार्गआशौचप्राप्तौ. सप्त नदाः रजस्वलायाम् अधिमासादौ यात्रानि० यानेषु फलतारतम्यम् तीर्थविधिप्रयोगः १५१ नावा गमने ... १४३ तत्र सर्वप्रायश्चित्तम् मार्गे कर्मनाशा नदी चेत् .. वपनविधिः... अधिकारिनिर्णयः "दन्तधावनम् १५२ अस्थिनयनेऽधिका० " महासंकल्पः अन्योद्देशेन स्नानम्... १४४ दशविधस्नानानि १५६ कुशप्रतिकृतौ स्नानम् अथ तीर्थप्रार्थनामन्त्रः प्रसङ्गेन यात्रागमने मानविधिः १५७ अन्ययात्राकरणे फलम् तर्पणप्रयोगः १५८ तीर्थादि गच्छन्परावृत्ती तीर्थश्राद्धप्रयोगः १५९ मार्गे पुण्यनदीप्राप्तौ १४५ संक्षेपतस्तीर्थश्राद्धम् तीर्थप्राप्तौ विधिः , तीर्थपूजादिप्रथमदिनकृत्यम् १६० तीर्थोपवासः , द्वितीयादिदिनकृत्यम् अथ तीर्थस्नानविधिः , प्रत्यागमनविधिः मुण्डनविधिः... १४६ घृतश्राद्धं दधिश्राद्धं वा पुनस्तीर्थप्राप्ती प्रयागयात्रायां विशेषः प्रयागे विशेषः १४७ सुवासिन्याः स्नानविधिः क्वचित्माननिषेधः वेणीदानविधिः मलमासप्राप्तौ गङ्गाप्रार्थनादिमन्त्रः १६१ आशौचप्राप्तौ , यमुनाप्रार्थनादि १६२ तर्पणनिर्णयः १४८ सरस्वतीप्रार्थनादि... तीर्थश्राद्धनिर्णयः अस्थिप्रक्षेपनिर्णयः तीर्थश्राद्धानुकल्पाः १४९ अस्थिशुद्धिप्रयोगः १६३ अविभक्तानां भ्रातॄणां नि० अस्थिवेष्टनद्रव्याणि १६४ नदीनां रजोदोषे अस्थिनयनविधिः . १६५ " ... ... ... ... ... ... ... " ... " " ... " श्राद्धमञ्जरीस्थविषयानुक्रमः । ७ पृष्ठाङ्कः विषयाः पृष्ठाङ्कः ... " १ ... ... ... : :: ... ... " : : . ... ... विषषाः अस्थिप्रक्षेपविधिः .. समुदानादौ मन्त्राः प्रयागे देहत्यागविधिः १६६ स्नानसंकल्पः तीर्थादौ प्रतिग्रहनिषेधः १६७ स्नानविधिः १७६ गर्भलक्षणम्... १६८ तर्पणप्रयोगः तीरलक्षणम्.. , समुद्रपूजाप्रयोगः १७७ क्षेत्रलक्षणम् प्रकीर्णकतीर्थधर्माः... संकटे प्रतिग्रहे " श्राद्धसंपाते निर्णयः १७८ काशीयात्रासंकल्पः श्राद्धविघ्ने निर्णयः... १८० गयायात्रासंकल्पः कर्तुराशीचमाती गयाश्राद्धमाहात्म्यम् दातृगृहे मरणादौ १८१ गयायात्राविधिः कर्तुर्भार्यारजोदर्शने गयाश्राद्धविधिः १६९ श्राद्धकाः पल्या रजोदर्शने संन्यासिनां विशेषः श्राद्धभोजने प्रायश्चित्तम् ... १८२ जीवत्पितृकाणां विशेषः प्रायश्चित्तप्रत्याम्नायाः १८३ मातृश्राद्धे विशेषः... निमन्त्रितो विप्रोऽन्यत्र मोक्तुं गोदावरीप्रार्थनादि. गच्छेत्तदा सिंहस्थे गुरौ विशेषः भोजनसमये शूद्रादिदर्शने कन्यागते गुरौ प्रायश्चित्तम् कृष्णाप्रार्थनादि श्राद्धदिने कर्तुर्दन्तधावने समुद्रयात्राविधिः १७० प्रायश्चित्तम् समुद्रस्नानकालः ऋतौ भार्यागमने प्रायश्चित्तम् क्षेत्रवासिनां विशेषः अनृतौ भार्यागमने प्रायश्चि- समुद्रदर्शनादिमहिमा त्तम् दर्शनप्रकारः... १७२ वाग्लोपे प्रायश्चित्तम् १८४ मुण्डने विशेषः अनादेशे साधारणानि प्राय- तर्पणविधिः... श्चित्तानि समुद्रपूजनादि १७३ श्राद्धाकरणे दोषः... श्राद्धविधिः... श्राद्धकर्तुः फलम् समुद्रयात्राप्रयोगः ... १७४ ग्रन्थसमाप्तिलक्षणम् समाप्तोऽयं श्राद्धमञ्जरीस्थविषयानुक्रमः । . " " ... " :: ... " ::: " ॐ तत्सद्ब्रह्मणे नमः । श्राद्धमञ्जरी केळकरोपाह्वबापूभट्टविरचिता । नत्वा गणाधिपं दुर्गा श्रीसाम्बं विमलेश्वरम् । आश्वलायनमाचार्य सद्गुरुं ब्रह्मपूरुषम् ॥ १॥ सूत्रं नारायणी वृत्ति कारिकाः परिशिष्टकम् । धर्मशास्त्रनिबन्धांश्च विलोक्य विदुषां मुदे ॥२॥ केळकरोपनाम्ना श्रीमहादेवस्य सूनुना । बापूभट्टेन विदुषा क्रियते श्राद्धमञ्जरी ॥३॥ अथातः पार्वणे श्राद्धे काम्य आभ्युदयिक इत्यादि भगवताऽऽश्वलाय- नेन गृह्यसूत्रे श्राद्धान्युक्तानि अन्यान्यपि शास्त्रान्तरोक्तानि तेषां मध्ये कतिपयानां प्रयोगोऽभिधीयते । तत्राऽऽदो प्रयोगलाघवाथं संक्षेपात्परि- भाषार्थः संगृह्यते । श्राद्धार्थं पुण्यदेशे पुण्यतीर्थे' तुलसीवनादौ वा तद्- लाभे स्वगृहे शालग्रामसंनिधौ दक्षिणाप्रवणं स्थलं परिकल्प्य परिश्रित्य तद्दोमयेनोपलेपयेत् । रूक्षकृमिहतदुष्ट गन्धयुक्तपरकीयदेशान्तरिक्षदेशा- दिनिषिद्धदेशे श्राद्धं न कार्यम् । प्रवासादो परकीयगृहे श्राद्धप्रसक्तौ तगृहस्वामिनोऽनुज्ञां गृहीत्वा श्राद्धं कार्यम् । श्राद्धदिने श्राद्धात्पूर्व बालेभ्यो भोजनदानमतिथिभ्यो भिक्षादिदानं गृहे रङ्गमालाकरणं का कण्ठे मालाधारणं गन्धाद्यलंकरणं च न कार्यम् । नियोऽपि मुक्तकेश- त्वरोदनहसनाकारणभाषणादीनि न कुर्युः । अथ श्राद्धे ग्राह्याग्राह्यपदार्थाः । तत्र दर्भाः समूलाः सकृदाच्छिन्ना वा स्निग्धाः पुष्टा निर्दोषा ग्राह्याः । हरिता अतिप्रशस्ताः । वानाह लघुहारीत:- पथि दर्भाश्चितौ दर्भा ये दर्मा यज्ञभूमिषु । स्तरणासनपिण्डेपु पटू कुशान्परिवर्जयेत् ॥ ब्रह्मयज्ञे च ये दर्भा ये दर्भाः पितृतर्पणे । हता मूत्रपुरीषाभ्यां तेषां त्यागो विधीयते ॥ इति । अथानुलेपनानि । चन्दनागरुकेशरकस्तूरिकायक्षकर्दमादीनि प्रश- स्तानि । यक्षकर्दमलक्षणं विष्णुधर्मोत्तरे- - -- १ क. ख. र्थेषु तु । २ ग. शालिग्ना। ३ क. ख. 'लंकार ।

२ केळकरोपाहबापूभट्टविरचिता- कर्पूरागरुकक्कोलदर्पकुङ्कुमचन्दनैः । यक्षकर्दम इत्युक्तो गन्धः स्वर्गेऽपि दुर्लभः ॥ इति । दर्पः कस्तूरिका । कुङ्कुम केशरम् । अथ पुष्पाणि । चम्पकागस्त्यशतपत्रिकातिलपुष्पकमलमल्लिकातग- राशोकादीनि प्रशस्तानि । वानि तु केतकी झोणकरवीरधत्तूरकिंशुक- जपारूपिकाकुरण्टेकबकुलकुन्दादीनि । उग्रगन्धानि अगन्धानि श्मशा- नवृक्षोद्भवानि रक्तवर्णानि च वर्जयेत् । कमलाने तु आरक्तान्यपि प्रशस्तानि । जातीपुष्पं निषिद्धमिति वृद्धयाज्ञवल्क्यः । प्रशस्तमिति स्कान्दे । उक्तानुक्तग्रहणाद्विकल्प इति हेमाद्रिः। निषेधः पिण्डविषय इति कमलाकरः । पत्राणि तुलसीभृङ्गराजदूर्वायवाडरादीनि प्रशस्तानि । बिल्वपत्रं निषिद्धम् । माधवीये स्मृत्यर्थसारे च तुलसी निषिद्धा । तुलसीनिषेधो निर्मूल इति हेमाद्रिः। अथ धूपः । गुग्गुलचन्दनागरुकर्पूरदेवदादिनिर्मितो घृतमधुयुक्तः प्रशस्तः । प्राण्यङ्गजो हस्तवातहत उग्रगन्धश्च निषिद्धः। दीपस्तु तिलतैलयुक्तो घृतयुक्तो वा प्रशस्तः । वसोद्भवो निषिद्धः । अथ वस्त्राणि । कौशेयक्षौमकासदुकूलादीन्यहतानि प्रशस्तानि अहतलक्षणमाह चन्द्रिकायां प्रचेता:- ईपद्धौत नरं श्वेतं सदशं यन्न धारितम् । अहतं तद्विजानीयात्सर्वकर्मसु पावनम् ॥ इति । अटहस्तं नवं श्वेत मिति ग्रन्थानारे पाठः । कृष्णवर्णमलिनोपभुक्त- सच्छिद्रदशारहितरजकधौतानि निषिद्धानि । कासवस्त्रं निषिद्ध- मिति हेमाद्रावादित्यपुराणे । कासिवननिषेधोऽन्यसंभव इति निर्णय- सिन्धौ । वस्त्राभावे यज्ञोपवीतानि । सत्यपि वने यज्ञोपवीतानि दात- व्यानीति हेमाद्रिः। अथानानि । बीहियजमुदश्यामाकनीवारप्रियजन्मापतिल चणकया- वनालवेणुयगोधूनाभिनिर्मितादन पक्कानपरमानभक्ष्यभोज्य पूरिकाकृस- रपायसादीनि प्रशस्तानि । तानि च तैलपक्कानि स्निग्धान्युष्णान्यतिप्रश- स्तानि । आडक्यराजमापमयूराकोइवनिष्पावमारिषगवेधुश्शतपुष्पारा- जसर्वपवनमुन मुलित्यादीनि वर्जयेत् । तिलमुनापातिरिक्तानि सर्वाणि १ क. ग्तु . ° । २ ग. पयावनालमु ।

श्राद्धमञ्जरी। १ कृष्णधान्यानि निषिद्धानि । यावनाला जोंधळा इति प्रसिद्धाः । राज- माषाश्चवला इति प्रसिद्धाः । निष्पावा बल्लाः । मारिषं राजगिरा इति प्रसिद्धम् । केषांचिन्मते यावनालचणकादीनि निषिद्धानि । विहि- तनिषिद्धानां विकल्प इति कमलाकरः । धाना लाजाः पृथुकाश्च शर्क- राक्षीरसंयुक्ताः प्रशस्ताः। अथ शाकानि । कालशोकतण्डलीयफल्गुवास्तुकपनसकोशातकी*- कदलबृहतीफेंउदीर्घश्वेतमूलककुस्तुम्बरीशीतकन्दल्यादीनि प्रशस्तानि । तण्डलीयं माठ इति प्रसिद्धम् । फल्गु, उदुम्बरम् । वास्तुकं चन्दनब- थुवा इति प्रसिद्धम् । शीतकन्दली रतालू इति प्रसिद्धा । फाञ्जीचूका- द्यारण्यकानि च प्रशस्तानि । वानि तु कूष्माण्डशिग्रुवंशाग्रकृष्णक- कटीपारिभद्रच्छत्राकादीनि । अलाबुपटोलपिण्डाल(लु?)कादीनां विहि- तनिषिद्धत्वाद्विकल्पः । पिण्डालके पेढरमिति प्रसिद्धम् । वृत्तालाबु निषिद्धमेवेति निर्णयसिन्धौ । श्वेतवृन्ताकै निषिद्धमिति हेमाद्रिः । तेन कृष्णस्यानिषेध इति चन्द्रिकामाधवौ । कृष्णस्यापि निषेध इति कम- लाकरः। अथ फलानि । कदलीफलाम्रफलबदरपनसामलकदाडिमखमॅरद्रा- क्षाप्रियालधीजपूर विल्बकपित्थनारिकेलादीनि प्रशस्तानि । निषिद्धानि नु करीरविडङ्गाजम्बीरजबूकरमर्दशेलतुण्डीफलकलिङ्गादीनि । प्रियालं चारमिति प्रसिद्धम् । करमदं करवन्दन् । शेलुः श्लेष्मांतको भोक- रसंज्ञः। लोमशानि फलानि च निषिद्धानि । केषांचिन्मते बिल्वकपि- त्थनालिकेरादीनि निषिद्धानि । विहितनिषिद्धत्वाद्विकल्पः । रक्तबिल्वं तु निषिद्धमेव । मूलानि त्वाईकदारहरिद्रादीनि श्वेतमूलानि च प्रशस्तानि । गाज- रादीनि रक्तमूलानि च निषिद्धानि। कन्दाः सूरणादयः प्रशस्ताः । पलाण्ड्डल शुनगृञ्जनादयो निपिद्धाः । गृञ्जनं पलाण्ड्डभेद इति सिन्धौ । लशुनभेद इति ग्रन्थान्तरे । * क. स्व. पुस्तकाया: समास दोडकी इतिटिप्पणी। T क. ख. 'फलं दी । ५ ग. १ ग. केचि ।२ क. ख. 'शाकं त° । ३ ग. वास्तूक । नालिकेरादी । ६ ग. 'मान्तको । ७ ग. केचि ४ केळकरोपाहबापूमहविरचिता- भरुण्डशृङ्गाटकादीनि जलजानि प्रशस्तानि । भरुण्डं मखाणा इति प्रसिद्धम् । शृङ्गाटकं शिघाटक इति प्रसिद्धम् । इक्षुदण्डः प्रशस्तः । शुण्ठी प्रशस्ता । पिप्पलीमरीचानि च प्रश- स्तानि । मरीचान्याणि निषिद्धानि शुष्काणि प्रशस्तानीति हेमाद्रौ । पिप्पल्यपि निषिद्धेति तत्रैव । कमलाकरस्तु पिप्पलीमरीचादेः प्रत्यक्षस्य निषेधो न त्वन्यद्रव्यमिश्रस्येत्याह । सर्षपद्रवो मधु महिषीघृतं च प्रश- स्तम् । गोरसाः सर्वे प्रशस्ताः । तत्रापि कपिलायाः प्रशस्ततरः । महि. पीक्षीरमाविकं पयश्च निषिद्धम् । लोहिता वृक्षनिर्यासा निषिद्धाः । हिडन्कर्पूरजीरकलब.लापत्रिकाहीनि प्रशस्तानि । इक्षुविकाराः शर्करा- गुडादयः प्रशस्ताः । सैन्यवं सामुद्रं च लवणं प्रशर तम् । अन्यानि निषिद्धानि । पित्रादेर्जीवतो यत्प्रियं दातुश्च यन्मनोभिलषितं प्रशस्तं चेत्तद्यलेन देयम् । प्रियमपि निषिद्धं चेन्न दातव्यमिति सिन्धौ । हेमाद्रौ ब्रह्माण्डे- आसनारूढमन्नायं पादोपहतमेव च । अमेध्यैर्जङ्गमैः स्पृष्टं शुष्कं पर्युपितं च यत् ।। द्विःस्विन्नं परिदग्धं च तथैवाग्रावलेहितम् । शर्कराकीटपाषाणैः केशैर्यच्चाप्युपद्रुतम् ॥ पिण्याक मथितं चैव तथा लवणकं च यत् । सिद्धाः कृताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः ॥ वाससा चावधूतानि वानि श्राद्धकर्मणि ॥ इति । अस्यार्थं कमलाकर आह-विःस्विन्नं यत्सकृत्पाकेन भक्ष्यमपि हिगुजीरकादिसंस्कारार्थं पुनः पच्यते तद्वय॑म् । यत्तु तिक्तशाकाम्नवि- कारादि द्विःपाकेनेव भक्षणार्ह तन्न निषिद्धम् । अग्रावलहितमास्वादि- तपूर्वम् । पर्युषितस्य सदा निषेध पि पुनर्वचनं स्नेहपक्कस्य वटकादेः पर्यु- पितस्य ग्राह्यत्वेनोक्तस्थापि निषेधार्थमिदमिति । चन्द्रिकायां शङ्ख:-बिडालोच्छिष्टमाघ्रातं श्राद्धे यत्नेन वर्जयेत् । इति। अथ प्रशस्तं जलमाह याज्ञवल्क्य:- शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम् ॥ इति । वयं जलमुक्तं ब्राह्म-दुर्गन्धि फेनिलं क्षारं पङ्किलं पल्वलोदकम् । न भवेद्यत्र गोतृप्तिनक्तं यच्चाप्युपाहृतम् ॥ १ ग, शिछाडा इ। - ५ श्राद्धमञ्जरी। यञ्च सर्वार्थमुत्सृष्टं यच्चाभोज्यनिपातजम् । तद्वज्य सलिलं तात सदैव श्राद्धकर्मणि ॥ इति । निपातो जलाशय इति कमलाकरः । नारदीये- त्यजेत्पर्युषितं पुष्पं त्यजेत्पर्युषितं जलम् । न त्यजेज्जाह्नवीतोयं तुलसीपद्मबिल्वकम् ॥ इति । पाकपात्राणि तु सुवर्णादिधातुजानि तदलामे नवान्याच्छिद्राणि सन्मयानि प्रशस्तानि । आयसपात्रादीनि निन्दितानि न ग्राह्याणि । आयसनिषेधो वायुपुराणे- न कदाचित्त्यजेदन्नमयस्थालीषु पैतृकम् । अयसो दर्शनादेव पितरो विद्रवन्ति हि ॥ कालायसं विशेषेण निन्दन्ति पितृकर्मणि ॥ इति । फलानां चैव शाकानां छेदनार्थानि यानि च । महानसेऽपि शस्त्राणि तेषामेव हि संनिधिः ॥ इष्यते नेतरस्यात्र शस्त्रमात्रस्य दर्शनम् । श्राद्धदेशेषु विदुषा पितॄणां प्रीतिमिच्छता॥ महानसोपयुक्तानामपि कार्य न दशनम् ॥ इति । आदित्यपुराणे-पक्वान्नस्थापनार्थेषु शस्यन्ते दारुजान्यपि । दादीन्यपि कार्याणि यज्ञियैरपि दारुभिः ॥ इति । अथ विप्रोपवेशनार्थान्यासनानि सौवर्णानि राजतानि ताम्रमयानि वा प्रशस्तानि । तदशक्तौ क्षौमदुकूलनेपालकम्बलादीनि । तत्राप्यशक्तौ श्रीपर्णीवारणक्षीरजम्बूकदम्बाम्रर्धकुलशमीशेलुवृक्षोद्भवानि । अत्य- शक्तौ तृणमयानि पर्णजानि कुशनिर्मिता बृसी(वृषी)विष्टरादि च प्रश- स्तानि । अयःशङ्खमयानि भग्नान्यग्निदग्धानि आयसानि च वर्जयेत् । अथ भोजनपात्राणि । तानि सौवर्णराजतकांस्यमयानि प्रशस्तानि । तदलाभे पलाशपत्रमधूकपत्रानामतानि । तद(तेषाम)यलाभे कुटजो- दुम्बरफ्लक्षचूतपनसजम्बूपुन्नागचम्पकपत्रनिर्मितानि । उक्तान्यवृक्षोद्भ- वानि ताम्रपैत्तलायससीसत्रपुजादीनि निषिद्धानि । पृथ्वीचन्द्रोद- यस्तु कांस्यपात्रं निषिद्धमित्याह । ग्राम्यकदलीपत्राण्यपि प्रशस्तानीति स्मृतिसंग्रहे । निषिद्धानीति हेमाद्रौ । उक्तानुक्तग्रहणाद्विकल्पः । विक- ल्पितानामपि पदार्थानामाचाराद्यवस्था बोध्या। १ ग. °वकल' । २ ग. प्यभावे कु ।

६ केळकरोपाह्वयाभट्टविरचिता- अथार्घ्यपात्राणि । तान्याहाऽऽचार्यः-तैजसाश्ममयसन्मयेषु त्रिषु पात्रेष्वेकद्रव्येषु वेति । अश्ममयं स्फटिकादिनिर्मितमिति कमलाकरः । मृन्मयं तु हस्तघटितमेव । कुलालचक्रनिष्पन्नमासुरं दैविकं न तत् । तदेव हस्तघटितं दैविकं मृन्मयं भवेत् ॥ इति च्छन्दोगपरिशिष्टात् । गृह्यकारिकाभाष्ये- अष्टाङ्गुन्लं भवेत्पात्रं पितॄणां राजतं शुभम् । दशाङ्गुलं तु देवानां सौवणं यच्च चोदितम् ॥ इति । हेमाद्रौ प्रजापतिः-सौवर्ण राजतं तानं खडूगं मणिमयं तथा। यज्ञियं चमसं चापि अर्ध्यार्थं पूरयेद्बुधः ॥ इति । देवे पित्र्येच ताम्रपात्राणीति बैजवापः। अलाभे यथासंभवं पलाशप- त्रपुटादीनि वा भवन्तीति कारिकाभाष्ये । खड्गपात्रमतिप्रशस्तमिति कलिकायाम् । शिलापात्रं दारुपात्रं च निषिद्धमिति सिन्धौ । अर्चना- दिपात्राणि रौप्यमयानि खड्गमयानि च प्रशस्तानि । तदलाभे ताम्र- मयानि । संभारनिधानार्थं कृष्णाजिनमतिप्रशस्तम् । तदुक्तं प्रयोगपारि- जाते नागरखण्डे- कृष्णाजिनस्य सांनिध्यात्पितॄणामक्षया गतिः । आस्तीर्य दक्षिणाग्रीवभेवमुत्तरलोमकम् ॥ सर्वाश्राद्धस्य संभारांस्तस्योपरि निवेशयेत् ॥ इति । पाकार्थमग्निस्तु यथाचारं गृह्याग्निलौकिकाशिर्वा । आश्वलायनानां तु लौकिकाग्निरेवेति बहवः । एवं श्राद्धार्हपदार्थानुपकल्प्य गोमयोदका- दिभिर्भूमिभाजनादिशौचं विधाय कर्ता श्राद्धदिने प्रातः स्नात्वा शुक्ल- वासा मौनी जितेन्द्रियः सञ्श्राद्धार्थ पाकं स्वयमेव कुर्यात् । अशक्ती पत्नी । तदभावे बान्धवाः । तदभावे सपिण्डसगोत्रसमानप्रवरमित्र- कृतोपकारिणः । तदभावे मातृपितृवंशजाः । पतिपुत्रवत्य: त्रियोऽपि । मातृपितृवंशजा अपि वन्ध्याजारिणीगर्भिणीविधवादयो वाः । श्राद्धभूमो पादुकोपानच्छ बचित्राम्बररक्ताम्बररक्तपुष्पमार्जारघण्टारवा- दीनि वर्जयेत् । श्राद्धकाले कुक्कटवराहपतिकाकवृपल वृपलीपतिरजस्व- लाषण्ढादीनां दर्शनं निषिद्धम् । कुकुटेवराहश्वकाकादिस्कृष्टमन्नं त्यजेत् । १ ग. ख. 'टवारा।

। श्राद्धमञ्जरी। रजस्वलाचण्डालादिवीक्षितमपि त्यजेत् । आपदि त्वल्पोपहतो मृद्भस्म हिरण्योदकं चान्ने प्रक्षिप्य शुद्धवतीभिः कूष्माण्डीभिः पावमानीभिस्त- रत्समन्दीभिरभिमन्त्रितजलेन दभैः प्रोक्षणाच्छुद्धिः । याज्ञिकास्तु शुद्धवत्यादिभिर्यवोदकाभिमन्त्रणं कृत्वा तेनैव पाकमोक्षणं कुर्वन्ति । अथ ब्राह्मणाः । ते च श्रुतशील वृत्तसंपन्ना ब्रह्मविदः सत्यभाषिण आहिताग्नयस्तत्सुता वाऽसमानगोत्रा असमानप्रवरा असंबन्धिनश्चो. त्तमाः। तदलाभे मातामहमातुलभागिनेयदौहित्रजामातृगुरुशिष्यविग्मि- वश्वशुरशालकबन्धुत्रयसंबन्धिनोऽन्तेवासी समानप्रवरैकगोत्राः श्रुतायु- क्तगुणयुक्ता भोज्याः । कर्तुदौहिवो गुणयुक्तश्चेदतिप्रशस्तः । द्विषद्रो- गिहीनाधिकाङ्गकृतघ्नज्योतिषवद्यवृत्तिराजभृत्यगायकवेदविक्रयिदेवलक- दारसुताग्नित्यागिकाणान्धवधिरमूकपडखल्वाटकुनखिन्टकृष्णदन्तपति- तवात्यजारकर्मनिरतशूद्रयाजकग्रामयाजकायाज्ययाजकश्मश्रुहीनजटिल- क्लीचकुष्ठि कुजवामनपुत्रहीनपरशाखोपनीतवार्धषिकसर्वविक्रयचौरकर्म- निरतादयो वर्जनीयाः । एकस्मिश्राद्धे द्वौ भ्रातरौ पितृपुत्रौ च नैव भोज्यौ । ब्राह्मणपरीक्षावश्यकत्वमुक्तं मनुना- न बाह्मणं परीक्षेत देवे कर्मणि धर्मवित् । पित्र्ये तु कर्मणि प्राप्ते परीक्षेत प्रयत्नतः ॥ देवकार्याविजातीनां पितृकार्य विशिष्यते ॥ इति । बाह्मणसंख्यामाह चन्द्रिकायां वसिष्ठः- द्वौ देवे पितृकृत्ये बीनेकैकमुभयत्र वा । भोजयेत्सुसद्धोऽपि न प्रमजेत विस्तरे ॥ इति । वैश्वदेविके दशाष्ट घट चत्वारो वेति चन्द्रिकायाम् । पित्रादीनामेकै- कस्य स्थाने त्रयः पश्च सप्त नव वेति वृत्तौ । अत्र शाखापरत्वेन शक्त्या वा व्यवस्था बोध्या । देवे न्यूनवयस्का पित्रादिषु क्रमेण वृद्धवृद्धतर- वृद्धतमा इति शौनकीये वृत्तौ च । सति संभवे पितृस्थान बवृचाः पितामहस्थाने याजुयाः प्रपितामहस्थाने सामगाः । एकश्वेच्छन्दोग एव । तदलाभे बचाः । यत्नेन भोजयेच्छाद्धे बढचं वेदपारगमिति मनूक्तेः। तदसंभवे यथालाभग्वेदाधन्यतमवेदपारगाः। अथ ब्राह्मणनि- - १ ग, कूश्माण्डी । २ ग. रिक्ली ।

केळकरोपाहबापूभट्टविरचिता- मन्त्रणम् । तच्च श्राद्धदिनात्पूर्वेयुः सायंहोमानन्तरं भुक्तवत्सु द्विजेषु श्राद्धदिने वा प्रातोमानन्तरं ब्राह्मणगृहं गत्वा कार्यम् । अशक्तौ पुत्रा- दिना । तद्विधिमाह शौनकः- गृहीत्वाऽमुकसंज्ञस्यामुकगोत्रस्य चामुके । श्राद्धे तु वैश्वदेवार्थं करणीयः क्षणस्त्वया ॥ इति । गृहीत्वेत्यत्र पादाविति शेषः । उभौ चरणौ गृहीत्वा निमन्त्रयेदिति नागरखण्डोक्तेः । देवे दक्षिणं पादं पित्र्ये सव्यमुपसंगृह्य निमन्त्रयेदिति प्रचेताः । जानु(नु) स्पृष्ट्वा निमन्त्रयेदिति वाजपेययाजिपद्धतौ । विप्र- धर्ममाह मयूखे भृगुः- आमन्त्रितो जपेद्दोग्ध्रीमासीनस्तु निषङ्गिणः । श्राद्धान्ते वामदेवीयं श्राद्धभोक्ता न दोषभाक् ॥ इति । आमन्त्रितो निमन्त्रितः । आसीन उपविष्टः । श्राद्धान्ते विसर्जनो- त्तरम् । उच्छिष्टाचमनान्त इति केचित् । दोग्धीसुपह्वये सुदुघामिति हिंकृ- भवतीमिति वा । एकवचनादेकामेवेति मयूखे । निपनिणस्तु इन्द्र दृह्य- याम कोशावाशीमन्त ऋष्टिमस इषुहस्तैः०इति तिस्त्र ऋचः । वामदे- वीयं कया नश्चित्र इति तृचम् । केचिद्वामदेव्यं सामेत्याहुः । अथर्ववेदी तु हिंकृण्वतीमित्यादिमन्त्रान्स्वशाखोक्ताञ्जपेत् । यजुर्वेदी तु आब्रह्म- बाह्मण इत्यादीनि यजूंषि दोहनपदोपेतानि जपेदिति हेमाद्रिः । स इषुहस्तैः०नमः ककुभाय नमो निषङ्गिण इति निषङ्गिण(णो) मन्त्राः । वामदेवीयं कया न इति तृचम् । सामवेदिनस्त्वाह गोभिल:- आमन्त्रितो जपेद्दोहान्नियुक्तस्त्वृषभाञ्जपेत् । अतीपांश्च तत्रैव जप्त्वाऽश्नीयाड्विजोत्तमः ॥ इति । निमन्त्रणानन्तरं ब्राह्मणानां श्राद्धकर्तुश्च ब्रह्मचर्यं भवति । तदाह जाबाल:- दन्तधावनताम्बूलं तैलाभ्यङ्गमभोजनम् । रत्यौषधपरान्नं च श्राद्धकृत्सप्त वर्जयेत् ॥ पृथ्वीचन्द्रोदये यमः-पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् । संध्याप्रतिग्रहं होमं श्राद्धभोक्ताऽष्ट वर्जयेत् ॥ संध्यानिषेधः प्रायश्चित्तात्पूर्व ज्ञेयः । तत्लायश्चित्तमाहोशना- १ क. ख. क्षिणपा।

श्राद्धमञ्जरी। दशकृत्वः पिबेदापो गायत्र्या श्राद्धभुग्द्विजः । ततः संध्यामुपासीत जपेच्च जुहुयादपि ॥ इति । होमोऽत्र स्वस्यैव । अन्यहोमेऽनधिकारदर्शनात् । निर्णयसिन्धी बृहस्पतिः- द्विनिशं ब्रह्मचारी स्याच्छ्राद्धकृद्राह्मणैः सह । पुनर्भोजनमध्वानं भारमायासमैथुनम् ॥ श्राद्धकृच्छ्राद्धभुक्चैव सर्वमेतद्विवर्जयेत् । स्वाध्यायं कलहं चैव दिवास्वापं तथैव च ॥ इति । चन्द्रिकायां प्रचेताः-श्राद्धभुक्मातरुत्थाय प्रकुर्याद्दन्तधावनम् । इति । कर्ता निमन्त्रितं विषं नैव त्यजेत् । प्रमादात्यागे तं प्रयत्नेन प्रसाद्य भोजयेत् । बुद्धिपूर्वकत्यागे चान्द्रायणप्रायश्चित्तम्। निमन्त्रितो विप्रोऽपि नान्यन्न भोक्तुं गच्छेत् । विलम्बं च न कुर्यात् । दोषश्रवणात् । श्राद्धकर्ता षण्मुहूर्तानन्तरं निमन्त्रितान्विप्रान्समाहूय प्रत्युत्थानादिना सत्कृत्य तेषां श्मश्रुकर्मतैलाभ्यङ्गामलकायुद्वर्तनपूर्वकं स्नानं कारयेत् । सूर्योदयानन्तरं प्रातरेव विप्राणां श्मश्रुकर्मादीति चन्द्रिकायाम् । अह्नः पञ्चदश मुहूर्ताः । तत्राष्टमो मुहूर्तः कुतपसंज्ञस्तस्मिश्राद्धारम्भः । कुतपादारभ्य मुहूर्तपञ्चकं श्राद्धकालः । द्वादशो मुहूर्ता रौहिणसंज्ञः । तं न लङ्वयेत् । तदुक्तं चन्द्रिकायां मात्स्ये- सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत् । राक्षसी नाम सा वेला सर्वकर्मसु गर्हिता ॥ इति । एवमुक्ते काले श्राद्धतिथेरप्रवृत्तावपि श्राद्धानुष्ठानं कार्यम् । यां तिथि समनुप्राप्य अस्तं याति दिवाकरः ॥ सा तिथिः सकला ज्ञेया पितृकर्मणि सूरिभिः । इति हेमाद्रयुदाहृतवचनात् । तिथिसमाप्तावप्येवमेव । अथ प्रसङ्गा- त्तिथिद्वैधे सामान्यतः श्राद्धतिथिनिर्णयः । त्रिपुरुषोद्देश्यकं पार्वणश्राद्धं यस्यां तिथौ विहितं सा चेदिनद्वयसंबन्धिनी तदा या संपूर्णापराह्नव्या- पिनी सा ग्राह्या । अपराह्नस्तु पञ्चधा विभक्तस्य दिनस्य चतुर्थो भागः । यदा तु दिनद्वयेऽपि संपूर्णापराह्नव्यापिनी तदा पूर्वैव । यदा दिनद्वयेऽप्यपराह्नसंबन्धो नास्ति तदाऽस्तात्पूर्वं त्रिमुहूर्ता चेत्पूर्वा । १ ग. कर्तव्यम् ।

. केळकरोपाधापूमट्टविरचिता- सदभावे तु परैव । यदा दिनद्वयेऽप्यपरालैकदेशव्यापिनी तदा यस्मि- नहन्यधिकव्यापिनी सैव ग्राह्या । दिनद्वयेऽप्यपरालैकदेशे व्याप्ती तिथिक्षये पूर्वा । तिथिवृद्धौ तिथिसाम्ये च परेति बहवः । साम्ये पूर्वेति हेमाद्रिः । अस्मिन्नर्थे दीपिकाश्लोकः- यत्राहन्यधिकाऽपराह्नसमये सा स्यात्तिथिः पार्वणे साम्येन द्यपराह्नभागयुगसौ वृद्धौ तिथेरुत्तरा । ग्राह्या हाससमत्वयोस्तु पुरतोऽथो नापराह्नं स्पृशे- : यद्वा याऽखिलमश्नुते यहगता सा सर्वदाऽऽद्या स्मृता ।। अत्र तिथिसमत्वे पूर्वेति हेमाद्रिमतेनोक्तम् । अत्र क्षयवृद्धी उत्तर- तिथिगते ग्राह्येन ग्राह्यतिथिगते । तत्र क्षयस्योदाहरणम्-त्रिंशद्ध- टिकापरिमिते दिनमाने प्रतिपद्विशतिघटिकापरिमिता। द्वितीया द्वाविं. शतिघटिका। तृतीयकविंशतिघटिका । तर द्वितीयाश्राद्धं प्रतिपदि कार्यम् । साम्योदाहरणं - यथा-प्रतिपद्वितीये यथास्थिते । तृतीया द्वाविंशतिघटिका । वृद्धयदाहरणम्-प्रतिपहितीये यथास्थिते। तृतीया त्रयोविंशतिघटिका । एतदुदाहरणद्वये द्वितीयाश्राद्धं द्वितीयायामेय । एवमन्यत्रापि बोध्यम् । केचिदिनद्वये संपूर्णापराव्यापित्वेऽपि क्षयसा- म्यवृद्धिभिनिर्णय इत्याहुः। व्रतार्के तु दिनद्वये संपूर्णापराह्नव्याप्ती पूर्वतिथिभोगापेक्षया ग्राह्यतिथिभोगस्य क्षयसाम्यवृद्धिभिनिर्णय इत्यु- कम् । तत्रत्योदाहरणानि । यदा दिनमानं षविंशति २६घटिकाप- रिमितं तदा पूर्वतिथ्यपेक्षया ग्राह्यतिथिगतक्षयोदाहरणम्-चतुर्दशी दश १० घटिका । अमावास्या सार्धपञ्चदश १५ । ३० घटिका । प्रतिपदष्टाचत्वारिंशत्पलाधिकविंशति २० । ४८ घटिका । अत्रामा- भोगः सार्धपञ्चयष्टि ६५ । ३० घटिकापरिमितः । प्रतिपद्भोगोऽष्टादश- पलाधिकपञ्चषष्टि ६५। १८ घटिकापरिमितः। एवं सति ग्राह्यायाः प्रतिपसिथेदिनद्वये संपूर्णापराह्नव्याप्तिः । पूर्वतिथ्य पेक्षया ग्राह्यप्रति- पत्तिथिगत एव च क्षयो द्वादश पलानीति क्षयोदाहरणसंभवात्तत्र प्रति- पन्निमित्तकं श्राद्धममायुक्तमतिपद्येव भवति । वृद्धयुदाहरणं यथा-चतु- दशी सप्तपलाधिकदश १० । ७ घटिका। अमा पञ्चविंशतिपलाधिक पञ्चदश १५ ॥ २५ घटिका। प्रतिपत्पञ्चपञ्चाशत्पलाधिकविंशति२०१५५ घटिकाः। अमाभोगोऽष्टादशपलाधिकपञ्चषष्टि ६५ । १८ घटिकापरि- श्राद्धमञ्जर्स। मितः। प्रतिपद्भोगः सार्धपञ्चषष्टि ६५। ३० घटिकापरिमितः । एवं सति द्वादश पलानि पूर्वतिथ्यपेक्षया ग्राह्यायाः प्रतिपत्तिथैर्वृद्धिः स्पष्टैव। साम्योदाहरणं यथा-चतुर्दशी दश १० घटिका। अमा पश्चविंशति- पलाधिकपश्चदश १५ । २५ घटिका । प्रतिपत्पञ्चाशत्पलाधिकविंशति- २० । ५० घटिका, अत्रामाप्रतिपदोः पञ्चविंशतिपलाधिकपञ्चषष्टि- ६५ । २५ घटिकापरिमितो भोग इति पूर्वतिथ्यपेक्षया ग्राह्यप्रतिपत्तिथेः साम्यमिति । इति पार्वणश्राद्धतिथिनिर्णयः । एकोद्दिष्टे तु मध्याह्नव्या- पिनी तिथिया॑ह्या। अत्र मध्याह्नशब्देन मध्याह्नकदेशः कुतपरौहिणाख्य- मुहूर्तद्वयात्मको गृह्यते । कुतपपूर्वभाग एकाऽऽरम्भः । अत्रापि तिथिद्वैधे पार्वणतिथिवनिर्णयो ज्ञेयः । दिनद्वये तुल्यैकदेशव्याप्तौ पूर्ववेति कम्य- लाकरः । आमश्राद्धे तु पूर्वाह्नव्यापिनी तिथिह्या । आमश्राद्धं तु पूर्वाह्न इति वचनात् । अत्र पूर्वाह्नशब्देन संगवकालो गृह्यते कालात्मातस्तनादूर्व त्रिमुहूर्ता तु-या तिथिः । आमश्राद्धं तत्र कुर्याद्विमुहूर्ताऽपि याँ भवेत् ॥ इति व्याघ्रपादवचनात् । हिरण्यश्राद्धस्याप्ययमेव कालः। समानधर्म त्वात् । तिथिद्वैधे तु पूर्ववन्निर्णयः। इति सामान्यश्राद्धतिथिनिर्णयः। अथ दर्शश्राद्धेऽमावस्या निर्णीयते । तत्र या पश्चधा विभक्तस्य दिनस्य चतुर्थभागरूपापराह्नव्यापिन्यमावास्या सा ग्राह्या। दिनहयेऽपराडैकदेश- व्याप्तौ यस्मिन्नहन्यधिकव्यापिनी सैव ग्राह्या। दिनद्वये तुल्यैकदेशव्याप्ती तिथिक्षय आहिताग्नीनां गृह्याग्निमां च पूर्वा। निरनिकब्रह्मचारिविधुरा- नुपनीतस्त्रीशूद्राणामुत्तरा । तिथिसाम्ये तिथिवृद्धौ च सर्वेषामुत्तरेक । दिनद्वये संपूर्णापराह्नव्याप्तौ दिनद्वयेऽपराह्नस्पर्शाभावे वाऽऽहिताग्नेगुं- ह्याग्निमतश्च पूर्वा। निरग्निकादीनामुत्तरा । हेमाद्विस्तु दिनद्वशेऽपरा- हव्याप्त्यभावे निरग्निकानां कुतपकालव्यापिन्यमावास्येत्याह । दिनद्वयेऽ- परालस्पर्शे कुतपकालव्यापिनीति माधवः । इदुभेव युक्तमिति कम- लाकरः । अपरे तु द्विधा विभक्तस्य दिनस्य कुतपोत्तरार्धादिरूपा याऽपराह्नव्यापिनी सा निरनिकैः श्राद्धे ग्राह्येति वदन्ति । दिनद्वयेऽपि कुतपकालव्याप्तौ तिथिक्षये पूर्वा । वृद्धिसाम्ययोः परा । अत्राप्यपराह्न एव श्राद्धानुष्ठाँनं युक्तम् । कुतपे प्रारब्धस्य प्रतिपदि समाप्तौ न दोषः । । १ ग. वा। २ ग. 'धे यू । ३ ग. निर्णयः । त° । ४ ग. द्वेधा । ५ क. ख. 'ये कु । ६ क. ख. 'व्य प्ता ति' । ७ ग. ठानम् ।

१२ केळकरोपाधापूभवविरचिता- इति सामान्यनिर्णयः । अथ शाखाभेदेनाऽऽहितानीनां निर्णयः । साग्निकविधये त्रेधाविभक्तदिनतृतीयांशे योऽपराह्नभागस्तद्यापिन्यमा- वास्येति कमलाकरः । प्रायः साग्निकानामिटिदिनात्पूर्व दिने यथा दर्श- श्राद्धं भवेत्तदनुकूलवाक्यार्थग्रहणेन निर्णयः कर्तव्यः । तस्मात्पूर्वेयुः पितृभ्यः क्रियत उत्तरमहर्देवान्यजन्त इति श्रुतेः । तैत्तिरीयाणां तु क्वचिदिष्टयनन्तरमपि श्राद्धप्रसक्तिरिति गम्यते । दिनद्वयेऽपराह्नसत्त्वे दिनद्वयेऽप्यपरालस्पर्शाभावे वा बहवः पूर्वाऽमावास्या ग्राह्या । तैत्ति- रीयैरुत्तरा । सामगैः पूर्वोत्तरा वा । तदाह हारीत:- त्रिमुहूर्ताऽपि कर्तव्या पूर्वा खर्वाऽपि बवृचैः । कुहूरध्वर्युभिः कार्या यथेष्टं सामगीतिभिः ॥ इति । त्रिमुहूर्ताभावे तु पूर्वा नेति कमलाकरः । अबाध्वर्युशब्दस्तैत्तिरी- यपरः । अत्रापि यदा तिथिवृद्ध्या कार्येनोभयापराह्नव्यापिन्यमा- वास्या प्रतिपद्दिन एवेष्टिस्तदा सर्वेषामुत्तरैव । एकदेशेनापराह्नव्या- सावपि प्रतिपदृद्ध्या प्रतिपदि यागस्तदा परैव सर्वेषाम् । यदा प्रति. पत्क्षयात्संधिमदिने यागस्तदा हारीतोक्त निर्णय इति । येषां बौधायन- कात्यायनादीनां चन्द्रदर्शनवप्ति प्रतिपद्दिने यागनिषेधस्तैनिर्णीतस्व. स्वान्दाधानदिने पिण्डपितृयज्ञोत्तरं दिनान्तमुहूर्तत्यागेन दर्शश्राद्धं कार्यम् । अत्र चतुर्दश्यामपि श्राद्धानुष्ठाने न दोषः । चतुर्दशी च संपूर्णा द्वितीया क्षयकारिणी। चरुरिटिरमायां स्याभूते कव्यादिका क्रिया ॥ इति माधवोदाहृतवचनात् । आश्वलायनानामप्येवमेवेति प्रतिभाति। तत्रोच्यते-आश्वलायनानामिष्टेस्तु देधाऽप्याचारो दृश्यते । केचित्- द्वितीयासहितायां प्रतिपदि चतुर्थभागेऽपि यागं कुर्वन्ति । केपांचिग- न्थकाराणामुक्तिरपि तदनुकूलैव । तद्विचारणीयम् । अन्ये तु पूर्वेयुर- पराह्नसंधावपि परदिने प्रातर्यागपर्याप्तिपरिमितप्रतिपत्तृतीयांशसत्त्व एव परदिनेऽन्यथा पूर्वत्रैव संधिमहिने यागं कुर्वन्ति । अत एव यदा पर्व. ण्यस्तमयात्पूर्व ह्रासवृद्धिवशेन सप्ताष्टघटिकापरिमितः प्रतिपत्तिथिप्र- वेशस्तस्मिन्नहनि याग: पूर्वेयुरन्वाधानमिति प्रायश्चित्तप्रदीप उक्तम् । युक्तं चैतत् । १ क. ख. मितप। २ ख. चैव त। .

श्राद्धमञ्जरी। १३ पर्वणोंऽशे द्वितीये तु कर्तव्येष्टिद्विजातिभिः । द्वितीयासहितं यस्माद्दूषयन्त्याश्वलायनाः ॥ न यष्टव्यं चतुर्थेऽशे यागैः प्रतिपदि कचित् । रक्षांसि तद्विलम्पन्ति दूषयन्त्याश्वलायनाः ॥ यस्तु न प्रारभतेष्टिमन्त्यांशे पर्वणो द्विजः । प्रतिपदश्चतुर्थांशात्याग्यश्च न समापयेत् ॥ कृतावप्यकृतैवेष्टिस्तयोः स्यान्नात्र संशयः । पुनरेवाऽऽचरेदिष्टिं शुभेऽहनि यथाविधि ॥ इति प्रयोगपारिजात आश्वलायनोक्तः । पर्वणोंऽशे द्वितीय इति द्वितीयेऽर्ध इत्यर्थः । पार्वणस्थालीपाकस्यापीत्थमेव निर्णयः । अथ पार्वणस्थालीपाकस्तस्य दर्शपूर्णमासाभ्यामुपवास इत्याश्वलायनगृह्यात् । यैर्बोधायनीयमाध्वर्यवं स्वीकृतं तेषां बौधायनमतानुसारित्वादध्वर्युप्र- त्ययं तु व्याख्यानं कामकालदेशदक्षिणानामित्याश्वलायनसूत्र आध्व- र्यवोक्तकालग्रहणाभ्यनुज्ञानाञ्चन्द्रदर्शनवति प्रतिपद्दिने यागो नैवोचित इति प्रतिभाति । अत एव प्रकृत आश्वलायनाचार्यवचनानां निरवका- शत्वात्तदुक्तकालग्रहणस्यैवोचितत्वात्पौर्णमास्यां मुहूर्तत्रयपरिमितप्रति- पत्तृतीयांशलाभ एव द्वितीयदिने यागोऽन्यथा पूर्वदिने । तथाऽमावास्या- यामपराह्नसंधौ परदिने षण्मुहूर्तप्रतिपत्तृतीयांशसत्त्व एव परदिनेऽन्यथा चतुर्दश्यामन्वाधानं कृत्वा बौधायनवत्संधिमदिन एव यागः कर्तव्य इति पुरुषार्थचिन्तामणिकारेण सिद्धान्तितम् । ननु प्रातर्यजध्वमित्यादिश्रुत्या यागस्य प्रातःकालविधानात् प्रतिपद्यप्रविष्टायां यदि चेष्टिः समाप्यते । पुनः प्रणीय कृत्स्नेष्टिः कर्तव्या यागवित्तमैः ॥ इति गार्यवचनविरोधात् कथमपराह्नसंधिमदिन इति चेत्तत्रोच्यते- अन्वाधानादिबाह्मणभोजनान्तकर्मसमुदायरूपयागस्य ब्राह्मणतर्पणरूपा- न्तिमपदार्थस्य प्रतिपदि समाप्तेि न कोऽपि विरोधः । उक्तं च काती- यपरिशिष्टे- आवर्तनेऽथवा तत्प्राग्यदि पर्व समाप्यते । तन्त्रं पूर्वाह्न एव स्यात्संधेरूध्वं द्विजाशनम् ॥ - १ ग.तात्र।

१४ केळकरोपाहबापूभट्टविरचिता- इत्यलं प्रसक्तानुप्रसक्त्या । अथ पिण्डपितृयज्ञेऽमावास्या निर्णीयते। तत्र कात्यायनानां यागदिनात्पूर्वेधुरेव पिण्डपितृयज्ञः । तन्मते यागस्य पूर्वाङ्गन्मेवासौ । कर्काचार्यव्याख्यानमपि तथैव । आपस्तम्बहिरण्यकेशी- यादीनां पर्वसंधिमदहोरात्रे मुहूर्तमात्रायामप्यमावास्यायां पिण्डपितृ- यज्ञः । तत्सूत्रस्य तथैव रुद्रदत्तरामाण्डारादिव्याख्यानात् । आश्वलाय- नानां तु यस्मिन्नहोरात्रे प्रतिपत्पञ्चदश्योः संधिस्तस्मिन्दिनेऽपरालेऽह- श्चतुर्थे भाग औपवसथ्येऽहन्यन्वाधानोत्तरं यजनीयेऽहनि यागोत्तरं वा पिण्डपितृयज्ञः । यदा त्वहोरात्रसंधौ तिथिसंधिः स्यात्तदाऽन्वाधानदिन इतिः वृत्तिकृत् । अत्र किंचिदुच्यते-अहोरात्रसंधिशब्देन सूर्योदयः । तिथिसंधिस्त्वमाप्रतिपदोः संधिः । स चाक्षरद्वयोचारणपरिमितः काल इति पुरुषार्थचिन्तामणौ । हेमाद्री तु- कुह्वेति कोकिलेनोक्ते यावान्कालः समाप्यते । तत्कालसंज्ञिता चैषा अमावास्या कुहूः स्मृता ॥ इति मात्स्यात्कोकिलशब्दमात्रः । एतादृशस्य सूक्ष्मसंधिकालस्य दुर्ल- क्ष्यत्वाद्गणितेनापि ज्ञातुमशक्यत्वाञ्च मध्ये निशाह्नोः पञ्चविंशति चेति ज्योतिःशास्त्रोक्तो मध्याह्नमध्यराँत्रकालौ तत्रापि विंशतिपलात्मकः कालो ग्राह्यः । अत एवाऽऽह हेमाद्री शौनकः- मुहूर्तस्मृगमावास्या प्रतिपद्यपि चेद्भवेत् । तहत्तमक्षयं ज्ञेयं पर्वशेषं तु पर्ववत् ॥ इति । अत्र मुहूर्तशब्देन क्षणो ग्राह्यः । ज्योतिःशास्त्रे मुहूर्तशब्दस्य क्षण- परत्वदर्शनात् । क्षणस्तु दशपलात्मकोऽमरकोशे प्रसिद्धः। एवं च सूर्यो- दयोत्तरं दशपलाधिकायाममावास्यायां सत्यां तहिनेऽपराले पिण्डपितृ- यज्ञः कर्तव्यः। तन्यूनत्वे पूर्वेद्युरिति गम्यते । कमलाकराशयस्त्वेवमेव । यदव युक्तं तद्राह्यम् । अत्रवृत्तिकृदुक्ते पञ्चधाविभक्तस्य दिनस्य चतुर्थ- भांगरूपेऽपराह्ने यथासंभवं दिनान्तत्रिमुहूर्तत्यागेन पिण्डपितृयज्ञानु. धानं कर्तव्यम् । एतन्निर्णयविधायकमूलवाक्यानि न्यायाश्च सर्वत्र प्रसिद्धा इति नात्र लिखिता इति दिक । इति श्राद्धतिथिनिर्णयः । अथ प्रकृतमनुसरामः । श्राद्धकर्ता पाकसिद्धयनन्तरं स्नात्वा विप्रानु- ज्ञातः पूर्वोक्तकाले श्राद्धारम्भं कुर्यात् । तत्रोभयोर्हस्तयोरनामिकाभ्यां -- . . - १ ग. तुर्थभा । २ ग. तिनमा । ३ क. व. रात्रिका C - १५ श्राद्धमञ्जरी। ब्रह्मगन्धिसमन्विते दर्भचतुष्टयात्मके वा पवित्रे धारयेदिति चन्द्रिका- दावुक्तम् । दर्भवयात्मक इति केचिद्वदन्ति तत्र मूलं मृग्यम् । पवित्र- धारणे पवित्रवन्तः परिवाचमासत इति मन्त्रश्चन्द्रिकायामुक्तः। पवित्रं ते विततं ब्रह्मणस्पत इति वाजपेययाजिपद्धतौ। शिखायां यज्ञोपवीते दक्षिणोत्तरयोः कटिदेशयोश्च दर्भान्धारयेत् । दर्भत्यागपुनर्ग्रहणकालश्च- त्रिकायाम्- श्राद्धारम्भेषु ये दर्भाः पादशौचे विसर्जयेत् । अर्चनादौ तु ये दर्भा उच्छिष्टान्ते विसर्जयेत् ॥ मार्जनादौ तु ये दर्भाः पिण्डोत्थाने विसर्जयेत् । उत्तानादौ तु ये दर्मा दक्षिणान्ते विसर्जयेत् ॥ प्रार्थनादौ तु ये दर्भा नमस्कारे विसर्जयेत् । इति । आचमनकालस्तत्रैव- श्राद्धारम्भेऽवसाने च पादशौचार्चनान्तयोः । विकिरे पिण्डदाने च षट्स्वाचमनमिष्यते ॥ आद्यन्तयोईिराचामेच्छेषाणि तु संकृत्सकृत् । इति । आचमनं त्वत्र स्मृत्युक्तं ग्राह्यम् । संध्यायां कर्मकाले च स्मृतेराच- मनं भवेदिति स्मरणात् । अत्र पवित्रधारणोत्तरमाचमनं कर्तव्यम् । तदाह चन्द्रिकायां मार्कण्डेय:- सपवित्रेण हस्तेन कुर्यादाचमनक्रियाम् । नोच्छिष्टं तत्पवित्रं स्याद्भुक्तोच्छिष्टं तु वर्जयेत् ॥ इति यत्तु-काशहस्तस्तु नाऽऽचामेत्कदाचिद्विधिशङ्कया। प्रायश्चित्तेन युज्यत दूर्वाहस्तस्तथैव च ॥ इति सिन्धौ शङ्खवचनं तत्पवित्राभावे केवलकाशधारणपरमुन्नेयम् । संकल्पप्रकार उक्तो नारदीये- तिथिवारादिकं स्मृत्वा संकल्प्य च यथाविधि । प्राचीनावीतिना कार्य सर्वसंकल्पनादिकम् ॥ देशकालोच्चारणं सव्येन संकल्पोऽपसव्येनेत्युत्सर्गः। संकल्पशब्देन पित्रादिनामोत्कीर्तनान्तेऽमुकश्राद्धं संदेवं सपिण्डं पार्वणेन विधि- नाऽन्नेन हविषा श्वः सद्यो वा करिष्य इति वाक्योच्चारणम् । अत्रोच्यते- - १ ग. ज्ञात्वा ।

१६ केळकरोपावबापूभट्टविरचिता- नित्यश्राद्धादौ देवराहित्यात्तद्यावृत्त्यर्थं सदैवमिति । गर्भिणीपत्यादिकर्तृके श्राद्धे पिण्डनिषेधात्सपिण्डमिति । एकोद्दिष्टविधिव्यावृत्त्यर्थं पार्वणेन विधिनेति। आमादिव्यावृत्त्यर्थमन्नेन हविषेति। यहकालतायाः सद्यस्का- लतायाश्चोक्तत्वात्तनियमार्थ श्वः करिष्ये सद्यः करिष्य इति वेति । केचि- स्सानीकरणमिति वदन्ति । तस्य प्रायो बवृचानां सपिण्डकश्राद्धे सर्व- त्राग्नीकरणसत्त्वात्सपिण्डकमित्येतावतैवोच्चारणेन चारितार्थ्यान्नोचार- णमित्यन्ये । अपि वा पित्राद्युत्कीर्तनान्तेऽमुकश्राद्धं करिष्य इत्येतोषा- नेव संकल्पः । श्राद्धपदार्थश्च सर्वक्रियाकलाप इति पौर्णमासेष्टया यक्ष्य इत्यादिवत् । सर्वत्र संकल्पादौ पित्रादिनामोच्चारणे पितुरमुकशर्मणो- ऽमुकगोत्रस्य वसुरूपस्येत्यादि तत्तद्विभक्त्यैकवचनान्तमुत्कीर्तनं कर्तव्यम्। पितरिदं तेऽयमित्यायेकवचनान्तप्रयोगदर्शनात् । अपि वाऽस्मत्पितॄणा- ममुकशर्मणाममुकगोत्राणां वसुरूपाणामित्यादि बहुवचनान्तम् । शुन्धन्तां पितर इत्यादिदर्शनात् । अत एव परिशिष्टे पितरः पितामहाः प्रपितामहा इति त्रयस्तेषां प्रत्येकमेकवद्वा बहुवद्वा निर्देशं कुर्यादित्यु- क्तम् । अत्र पृथक्पृथक्देवतात्वदर्शनात्मत्येकमित्युक्तत्वाचे दमपि ज्ञायते शास्त्रान्तरे पितृपितामहप्रपितामहानामिति समुदितोञ्चारणं दृश्यते तदत्र नैव युक्तमिति । तथात्वेऽग्नीषोमवदेकदैवत्यरूपविरोधापत्तेः । अतः सुब- तविधिगतशब्दस्यार्थस्य देवतात्वात्थितुरमुकशर्मणोऽमुकगोत्रस्य वसु. रूपस्थेत्येव पितामहप्रपितामहादीनां पृथक्पृथक्प्रयोगः कार्य इति सिद्धम् । अत्र युक्तं ज्ञात्वा कार्यमिति दिछ । संबन्धाधुच्चारणक्रम उक्तो मात्स्ये- संबन्धं प्रथमं ब्रूयान्नामंगोत्रे तथैव च । पश्चादूपं विजानीयात्क्रम एष सनातनः ॥ नामोच्चारणे शर्मान्तं बाह्मणस्येति बौधायनः । दान्तंनाम स्त्रीणामिति गोभिलः । नामाज्ञाने त्वाहाऽऽचार्यः-नामान्यविद्वांस्ततपितामहप्रपि- तामहेति । कारिकायां च-नामानि चेन्न जानीयात्ततेत्यादि वदेत्क्रमात् । ततेति संबन्धमात्रपरमिति कमलाकरः । पितृव्यादावपि तथेति गौडाः । निर्णयसिन्धौ-सकारेण तु वक्तव्यं गोत्रं सर्वत्र धीमता । यथा काश्य- पसगोत्रमिति । गोत्रसगोत्रयोः पर्यायत्वाच्छाखाभेदेन व्यवस्थेति । तत्रैव चद्रिकायाम्- , ग. 'हित्यत्वात्त। २ क. ख. तत्र। ३ क. ख, 'णकत्वा । ४ ख. 'तावतैव । ५ क. ख. त्येवं पि।६ ग. 'मगोत्रं त ।

श्राद्धमञ्जरी। गोत्रस्य वपरिज्ञाने काश्यप गोत्रमुच्यते । कलिकायाम्-वसू रुद्रस्तथाऽऽदित्यः पित्रादित्रितये क्रमात् ॥ इति । अथ दर्शश्राद्धे पितरः । ते चोक्ताः परिशिष्टे-पिता पितामहः प्रपि. तामह इति त्रय इति । पिण्डपितृयज्ञसूत्रे च पित्रे पितामहाय प्रपिता- महायेति । यद्यपि सूत्रे परिशिष्टे च पित्रादित्रय एवोक्तास्तथाऽपि पार्वणं कुरुते यस्तु केवलं पितृहेतुकम् । मातामह्यं न कुरुते पितृहा स प्रजायते ॥ इति ब्रह्मपुराणात् पितरो यत्र पूज्यन्ते तत्र मातामहा अपि । अविशेषेण कर्तव्यं विशेषान्नरकं ब्रजेत् ॥ इति धौम्यवचनाच मातामहा अपि कर्तव्याः । अत्र मातामहशब्देन मातामहादित्रयमुच्यते । मातुः पितरमारभ्य त्रयो मातामहाः स्मृता इति पुलस्त्योक्तेः । एवं षट् । ते च सपत्नीकाः कर्तव्याः। स्वेन भर्ना समं श्राद्धं माता मुझे सुधासमम् । पितामही च स्वेनैव तथैव प्रपितामही ।। इति हेमाद्रयुदाहृतवचनात् । अत्र मातृशब्दो जनन्यामेव मुख्यः । तेन सपत्नमातृभ्यो न दद्यात् । एवं पितामह्यादिशब्दैः पितृजनन्यावर्ष एवोच्यन्ते । तत्सपत्नीभ्यो न देयमिति हेमाद्रिः । कारुण्येन तु महाल- यादौ देयमिति स एवेति कमलाकरः । संकल्पादौ सपत्नीकानामुश्चा- रणं मन्त्रेषु त्वमिध्यानमात्रमिति केचित् । आश्वलायनानां तु वृत्तिस्वा- रस्यादृग्भिन्नेषु मन्त्रेषूहयोग्यपदेषु सपत्नीकानामेवोच्चारणमिति प्रति- भाति । सर्वत्रानुक्तौ दर्शश्राद्धातिदेशादेत एव पितरो ज्ञेयाः । विशे- पांस्तु तत्तत्प्रकरणे वक्ष्यामः । अथ श्राद्धविशेषे वैश्वदेविकनामानि । इष्टिश्राद्धे क्रतुदक्षौ वृद्धौ सत्यवसू स्मृतौ । नैमित्तिके कामकालौ काम्ये च धुरिलोचनौ ॥ पुरुरवावी चैव पार्वणे समुदाहृतौ । नवान्नलम्भने देवी कामकालो सदैव हि ॥ अपि कन्यागते सूर्य काम्ये च धूरिलोचनी । इति । वृषोत्सर्गे तवद्रप्सौ कुरुकुत्सौ महालय इति गोविन्दार्णवे विशेषः । सर्वत्रानुक्तौ पुरूरवाईवौ ज्ञेयौ। द्विवचनं गणाभिप्रायम् । अत्र क्वचि- १ घ. सौ वुरु ।

१८ केळकरोपावबापूमट्टविरचिता- यस्तनिर्देशेन पुरूरषसंज्ञकानामाईवसंज्ञकानामिति पृथग्देवतात्वकल्पेन प्रयोगो दृश्यते स तु शाखान्तरीयविषयः । बचानां तु समासनिर्देशन पुरूरवसंज्ञकावसंज्ञकगणद्वय . एकदेवतात्वेन पुरुरवावसंज्ञकानां विश्वेषां देवानामित्येव प्रयोगः । अत एव परिशिष्टे विप्रबहुत्वेऽप्येकमे- वार्घ्यपात्रमुक्तं तदेतदभिप्रायम् । चन्द्रिकापमृतिप्राचीनग्रन्थेष्यप्येयमेव । बृहत्पराशरमते पात्रद्वयम् । तत्पक्षेऽपि पुरूरवावसंज्ञका विश्वे देवा इदं वोऽर्ध्यमित्युभयत्रापि मन्त्रः । विभक्तिनियम उक्तो नारदीये- अक्षय्यासनयोः षष्ठी द्वितीयाऽऽवाहने तथा । अन्नदाने चतुर्थी स्याच्छेषाः संबुद्धयः स्मृताः ॥ संकल्पासनयोः षष्ठीति क्वचित्पाठः । नामगोत्रोच्चारादिनियम उक्त- श्चन्द्रिकायां शोन- आवाहनार्यसंकल्पे पिण्डदानान्नदानयोः । पिण्डाभ्यञ्जनकाले तु तथैवाञ्जनकर्मणि ॥ भक्षय्यासनपायेषु गोत्रं नाम प्रकाशयेत् । क्षणे च पिण्डदाने च गन्धधूपादिके तथा ॥ इति । आश्वलायनानामर्थ्यदाने न नामाधुञ्चारः । आचार्येण तथैवोक्त- त्वात् । श्राद्धे विप्रोपवेशनानन्तरं प्रधानसंकल्प इति परिशिष्टे । केचि- हिवारमिच्छन्ति । तत्पक्षे निमन्त्रणोत्तरं प्रथमः। विप्रोपवेशनान्ते द्वितीयः। अन्ये तु त्रिवारमाहुः । तत्पक्षे निमन्त्रणात्पूर्व प्रथमः । निमन्त्रणोत्तरं द्वितीयः। विप्रोपवेशनान्ते तृतीयः। चन्द्रिकादावपि तथैव । तत्र पूर्वोक्त- प्रकारेण प्रथमः । उपक्रान्तममुकश्राद्धं करिष्य इति द्वितीयः । प्रक्रान्तम- मुकश्राद्धं करिष्य इति तृतीय इति गृह्याग्निसागरे । अथ सध्यापसव्यनिर्णयः । निर्णयसिन्धौ जमदग्निः- सूक्तस्तोत्रजपं त्यक्त्वा पिण्डाघाणं च दक्षिणाम् । आह्वानं स्वागतं चायं विना च परिवेषणम् ॥ विसर्जनं सौमनस्यमाशिषां प्रार्थनां तथा । विषप्रदाक्षिणां चैव स्वस्तिवाचनकं विना ॥ पितृनुद्दिश्य कर्तव्यं प्राचीनावीतिना सदा । इति । बवृचानामपसव्येनैवाऽऽवाहनम् । परिशिष्टे तथैवोक्तत्वात् । अत्र श्राद्धमयूखोक्तं किंचिदुच्यते-चतुर्विधं कर्म किंचित्पित्रेकसंब- १ ग. र्थनं त।

श्राद्धमारी। न्धित्वात्पित्र्यं स्वधानिनयनादि । किंचिद्देवैकसंबन्धित्वादेवम् । यथा विश्वे देवाः प्रीयन्तामिति वाचनम् । किंचिदुभयसंबन्धादुभयात्मकम् । यथा पाकप्रोक्षणादि । किंचिच्च देवपितृसंबन्धरहितत्वाल्लौकिकमेव । यथा स्वागतप्रश्नादि । तत्र पित्र्यमुभयात्मकं च प्राचीनावीतिना कार्यम्। देवं लौकिकं च यज्ञोपवीतिनैव कार्यमिति । संकल्पवाक्यं नीवीबन्धो गायत्रीमधुवाता इत्यादिजपः शेषान्नविनियोगोऽनुवजनमेवमादीनि कर्माण्युभयात्मकानि । अन्नपरिवेषणमतिथिभोजनमापोशनार्थमुदकदा- नाद्यभिश्रवणान्तं ब्राह्मणप्रदक्षिणीकरणं दातारो नोऽभिवर्धन्तामित्या द्याशीः स्वस्तिवाचन विसर्जनमद्य मे सफलं जन्मेत्यादि उच्छिष्टोद्वार-- नमेवमादीनि लौकिकानीति संक्षेपः । सर्वत्र दैवकर्म यज्ञोपवीतिना दक्षिणजानुनिपातेन प्रदक्षिणं प्रागप- वर्गमुदगपवर्ग वा कार्यम् । अक्षतास्तु यवाः । उदककार्य यवोदकेन । पूजोपचाराणां देवतीर्थेन द्विदिनम् । गन्धदानं त्वनामिकया मध्यमा- अग्ल्या वा। पित्र्यं कर्माऽऽग्नेयीदिगभिमुखम् । आश्वलायनेन दक्षिणा - प्राची प्रस्तुत्य सर्वकर्माणि तां दिशमित्युक्तत्वात् । तच्च सव्यजानुनिपाते- नाप्रदक्षिणमाग्नेय्यपवर्ग कार्यम् । अक्षतस्थाने तिलाः । उदककार्य तिलो- सकेन । उपचाराणां विस्त्रिनिं गन्धदानं तर्जन्या विना वचनं प्राची- नावीतिना । श्राद्धे मन्त्रादौ प्रणवऋषिदेवतच्छन्दसा स्मरणं च नेक कार्यमिति प्रयोगपारिजाते । अत्र किंचिदुच्यते । दैव उपचाराणां द्विद्धि- दर्दानं पिध्ये त्रिस्त्रिरित्यत्र पाद्यादीनां सर्वेषामुपचाराणामयं नियम इति केचिदाहुस्तैचिन्त्यम् । प्रमाणाभावात् । वस्तुतस्तु गन्धमाल्यधूपदीपा- नामेवायं नियमः । परिशिष्टे देवार्चनप्रकरणे गन्धपुष्पधूपदीपानामु- मयोििर्दत्त्वेत्युक्त्वाऽनन्तरमाच्छादनं दद्यादित्युक्तम् । तेन गन्धमाल्य- धूपदीपातिरिक्तानामुपचाराणां सकृदानमिति सिद्धम् । अनेनैवाभिप्रा- येण वृत्तिकारोऽपि गन्धमाल्यादि सकृद्देयं त्रिः पञ्चकृत्वो वेत्युक्तवान् । अन्यथाऽऽसनाादीत्येवमवक्ष्यत् । अत्र ययुक्तं तत्कर्तव्यम् । संकल्पा- नन्तरं महानिबन्धेष्वनुक्तमपि. यवोदकं तिलोदकं प्रायश्चित्तमन्त्रजपं समस्तसंपदित्यादिमन्त्राह्मणानां प्रदक्षिणीकरणं च शिष्टाः कुर्वन्ति । * ख. पुस्तके समासे-आग्नेयीम् इति पाठो दर्शितः । १ क. पोशाना । २ क. स्व. देवं य°। ३ क..ख. °णवर्षिदै । क. स. णं नै । ५ ग. स्तन्मन्दम् ।

२० केळकरोपाहबापूभट्टविरचिता- दर्भपुष्पाक्षतादिपदार्थाशुद्धोदकेन संमोक्ष्य गृह्णीयात् । तदुक्तं कलि- कायाम्- नामोक्षितं स्पृशेत्किचिन्न वदेन्मानुषीं गिरम् ॥ इति । तथा-प्रायश्चित्तविशुद्धात्मा तेभ्योऽनुज्ञा प्रगृह्य च । दद्यादै ब्रह्मदण्डार्थं हिरण्यं कुशमेव च ॥ मार्कण्डेयः-स्वातः सातान्समाहूतान्स्वागतेनार्चयेत्पृथक् । पृथ्वीचन्द्रोदये नारदः- श्राद्धार्थ समनुप्राप्तान्विप्रान्भूयो निमन्त्रयेत् । इदं द्वितीयं निमन्त्रणं विधिस्तु क्षणः करणीयः । ॐ तथेति पूर्व- वत् । ततः कर्ता प्राप्नोतु भवान् । विप्रः मानवानीति वदेदिति विशेष इति शौनकः । ततः पाद्यविधिः। तत्र मण्डललक्षणमाह हेमाद्रौ शंभुः- संमाजितोपलिप्ते तु द्वारि कुर्वीत मण्डले । उदप्लवमुदीच्यं स्यादक्षिणे दक्षिणाप्लवम् ॥ द्वारि द्वारसमीपे गृहाङ्गण इति यावत् । तत्प्रमाणं कलिकायाम्- प्रादेशमानं देवानां चतुरस्रं तु मण्डलम् । त्यक्त्वा षडजुम्लं तस्माद्दक्षिणे वर्तुलं तथा ॥ तन मण्डलद्वयं गोमयोदकाभ्यां कार्यम् । गोमूत्रेणेति चन्द्रिकायाम्। अत्यन्तजीर्णदेहाया वन्ध्यायाश्च विशेषतः । आया नवलूताया न गोर्गोमयमाहरेत् ॥ इति । भृगुः-मण्डलयोरवटी वा खनेदिति कारिकाभाष्ये । व्याघ:--उत्तरेऽक्षतसंयुक्तान्पूर्वाग्रान्विन्यसेत्कुशान् । दक्षिणे दक्षिणामांस्तु सतिलान्विन्यसेत्कुशान् ॥ मात्स्ये--अक्षताभिः सपुष्पाभिस्तदभ्यापसव्यवत् । विप्राणां क्षालयेत्पादानभिवन्ध पुनः पुनः ॥ भषिध्ये-प्रक्षालयेष्टिप्रपादाशं नो देवीरितिव्यचा। एतच्चाऽऽसीनानां स्वयमप्यासीनेन प्रत्यङ्मुखेन कार्यमिति चन्द्रि. कायाम्। वृद्धवसिष्ठः-न कुशग्रन्थिहस्तस्तु पाद्यं दद्याद्विचक्षणः। धृतादिनाऽभ्यतपादयोः पाधं दद्यादिति चन्द्रिकायाम् । १ ग, प्रातः । २ गइ. 'तोयनि । ३ . 'दीच्या त्या । ४ ग.त्रण बेति ।.

.... COURS श्राद्धमञ्जरी। कलिकायाम्-ततः प्रक्षालयेत्पादौ मार्यासावितधारिणा। श्राद्धकाले यदा पत्नी वामे नीरपदा मवेत् ॥ आसुरं तद्भवेच्छाद्धं पितॄणां नोपतिष्ठते । नाधः प्रक्षालयेत्पादो कर्ता पित्रादिकर्मसु ॥ सिन्धौ लौगाक्षिः-मण्डलादुत्तरे देशे दद्यादाचमनीयकम् । तथा-विधाय क्षालनं तेषां द्विराचमनमिष्यते । स्वयमपि द्विराचामेदिति हेमाद्री। - नारदः-यत्राऽऽधमनवारीणि पादप्रक्षालनोदकैः । संगच्छन्ति जुधाः श्राद्धमासुरं तत्पचक्षते ॥ चन्द्रिकायाम्-आसनेषु सर्भेषु विविक्तेषूपवेशयेत् । विविक्तेषु परस्परमसंलमेषु । कारिकायामपि- दौ देथे प्राङ्मुखौ पिञ्ये त्रीन्विप्रानुष्गाननान् । ध्यायन्ममैते पितरं इति तानुपवेशयेत् ॥ व्यासः-सव्येनैवाऽऽसनं धृत्वा दक्षिणे दक्षिणं करम् । व्याहृतीभिः समस्ताभिरासनेषूपवेशयेत् ॥ समाध्वमिति चयोक्त्वति। प्रतिषिप्रं श्वेतसूत्रवतियुक्तमविच्छिन्नं तैलदीपं स्थापयेदिति कारि- कामाष्ये। प्रयोगपारिजाते स्मृत्यन्तरम्- तत्राऽऽसनानि देयानि तिलाश्चैव कुशैः सह । पृथक्पृथगासनेषु सिलतैलेन दीपिका ॥ इति । तत्रैव-अप्रसूताः स्मृता दर्भाः प्रसूतास्तु कुशाः स्मृताः ॥ इति । माधवीये यमः-भिक्षुका ब्रह्मचारी वा भोजनार्थमुपस्थितः । उपविष्टेष्वनुप्राप्तः कामं तमपि भोजयेत् ॥ मिक्षुकानाह चन्द्रिकायामत्रि:- ब्रह्मचारी यतिश्चैव विद्यार्थी गुरुपोषकः । अध्वगः क्षीणवृत्तिश्च षडेते भिक्षुकाः स्मृताः ॥ इति । कूर्मपुराणे-अतिथिर्यस्य नानाति न तच्छ्राद्धं प्रचक्षते । अतिथिलक्षणं विष्णुपुराणे- अज्ञातकुलनामानमन्यतः समुपागतम् । पूजयेदतिथि सम्यनैकग्रामनिवासिनम् ॥ इति । - . केळकरोपावबापूभविरचिता- नीवीबन्धप्रकारमाहाऽऽश्वलायत:- नीवीवासो दशान्तेन स्वरक्षार्थ प्रबन्धयेत् । कात्यायनोऽपि-नीवी कार्या दशागुप्ति वामकुक्षौ कुशैः सह ॥ इति । वृद्धयाज्ञवल्क्यः-दक्षिणे कटिदेशे तु तिलैः सह कुशवयम् । स्मृत्यर्थसारे तु-पितॄणां दक्षिणे पार्श्वे विपरीता तु दैविके । दैविके वृद्धिश्राद्ध इति कमलाकरः । ततः प्रान्तं श्राद्धं करिष्य इति संकल्पः। ततोऽपहता इतिमन्त्रेण प्रसव्यं सर्वतस्तिलानवकीर्योदीर- तामित्यूचं जपेदिति परिशिष्टे । तिला रक्षन्त्वसुरानितिमन्त्रेण द्वारदेशे कुशतिलान्प्रक्षिपेदिति स्कान्दे । पराशरः- तद्विष्णोरितिमन्त्रेण गायत्र्या च प्रपत्नतः । प्रोक्षयेदनजातं तु शूद्रदृष्ट्यादिशुद्धये ॥ हेमानौ ब्रह्माण्डे-श्राद्भभूमौ गयां ध्यात्वा ध्यात्वा देवं गदाधरम् । वस्वादींश्च पितॄन्ध्यात्वा ततः श्राद्धं प्रवर्तयेत् ॥ देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च। नमः स्वाहायै स्वधायै नित्यमेव नमो नमो नित्यमेव नमो नमः । आदिमध्यावसाने तु त्रिरावृत्त्या जपेद्बुधः । पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ॥ इति । अथ देवार्चनम् । तत्र प्रत्युपचारमाद्यन्तयोरपो दद्यादिति पित्र प्रक- रणे नारायणवृत्तौ । प्रचेताः- आसनेष्यासनं दद्यादेवे दद्यात्तु दक्षिणे । नागरखण्डे-ऋजुभिः साक्षतैईभैः सोदकैदक्षिणादिशि । देवानामासनं दद्यावाममागे तु पैतृके ॥ युग्मान्द निति चन्द्रिकायाम् । चतुभिर्वेति ग्रन्थान्तरे । आश्वला- यनैदेविकविप्रद्वित्वेऽपि पुरूरवाईव०नामिदमासनमित्येकस्मै दत्वा पुन- रेवमेव द्वितीयाय देयम् । सर्वत्रैवं प्रयोगः । निर्णयसिन्धौ- आसने स्वासनं ब्रूयादर्ये स्वयं द्विजोत्तमः । सुगन्धश्च सुपुष्पाणि सुमाल्यानि सुधूपकः॥ सुज्योतिश्चैव दीपे तु स्वाच्छादनमिति क्रमः। १ म. व्यन्तरें । २ ग. "कान्तश्रा । ३ ग. °न्दे । पारा । ४ ग. जनार्दनम् । ५ न. नमः । ६ ग. वार्चा । त°, श्राद्धमारी। २३ चन्द्रिकायां तु-सुगन्धोऽस्तु सुदीपोऽस्तु चेत्यादि समुदायोनिति । आसनप्रदानानन्तरमत्राऽऽस्यतामिति कर्ता वदेत् । धर्मोऽसीति विप इति स तत्रैव । ततस्तृतीयं निमन्त्रणम् । तद्विधिमाह गालवः- देवे क्षणः क्रियतां तु निरगुठं करं ततः । धृत्वेति शेषः । ॐ तथेति द्विजा बूयुस्तं प्राप्नोतु भवानिति । कर्ता ब्रूयात्ततो विप्रः प्रामवानीति वै वदेत् ॥ इति । अथार्यविधिः । तत्र वैश्वदेवस्थाने विप्रस्थैकत्वे द्वित्वे बहुत्वे वैक- मेवार्यपात्रमासाद्य स्वाहाा इति सर्वेभ्यः सकृनिवेद्य तदेवार्य विगृह्य सर्वेभ्यो दद्यादिति गृह्यपरिशिष्टे प्रयोगपारिजाते निर्णयसिन्धौ च । श्राद्धचन्द्रिकायां पात्रद्वयमप्युक्तम् । अस्मिन्नर्घ्यपात्रे दर्भद्वयात्मकं पवित्रम् । शौनकजयन्ताभ्यामयरहितस्य देवार्चनस्योक्तेराश्वलाय- नानां देवे न वाऽर्घ्यदानमिति केचित् । अर्घ्यपूरणोत्तरमावाहनम् । सत्कमः स्मृत्यन्तरे- देवार्चा इक्षिणा स्यात्पादजान्धसमूर्धनि । शिरोंसजानुपादेषु वामाङ्गादिषु पैतृके ॥ अर्चा पूजाऽऽवाहनरूपेति चन्द्रिकायाम् । विश्वे देवास आगतेत्यावाह- :. नमन्त्रः। अत्र वैश्वदेविकोत्पत्तिध्यानं केचित्कुर्वन्ति । तद्यथा- विश्वायां दक्षकन्यायां जाता धर्मान्महात्मनः। विश्वे देवा इति ख्याता देववर्या महाबलाः॥ शक्रेण सह योद्धृणां विजेतारस्तु रक्षसाम् । यन्नामस्मरणादेव प्रद्रवन्त्यसुरा भयात् ॥ वाणवाणासनधरा द्विभुजाः श्वेतवाससः । केयूरिणः कुण्डलिनः किरीटकटकान्विताः ॥ धैर्यसौन्दर्यसंयुक्ता दिव्यनगनुलेपनाः । इन्द्रस्यानुचराः सर्वे गोप्तारखिदिवस्पतेः ॥ इति । ततो विश्वे देवाः शृणुतेमं हवं म इत्यादिप्रयोगः। निर्णयसिन्धौ गमस्तिः- अयं पिण्डप्रदानं च स्वस्त्यक्षय्ये तथैव च । गन्धपुष्पादिकं सर्व हस्तेभैव तु दापयेत् ॥ . -- १. 'विप्रैक । २ ग. क्षणात् ।

केळकरोपावबापूभट्टविरचिता- कारिकामाण्ये पात्रेण तु न दापयेदिति चतुर्थचरणे पाठः । व्यास:- अपवित्रकरो गन्धैर्गन्धद्वारेति पूजयेत् । विप्राणां गन्धेन वर्तुलं पुण्ड्रमर्धचन्द्राकारं च न कार्यम् । तिर्यग्लेपणे मवत्येवेति निर्णयसिन्धौ । कलिकायां स्मृतिः- गन्धद्वारेति वै गन्धमायनेते च पुष्पकम् । धूरसीत्यमुना धूपमुद्दीप्यस्वेति दीपकम् ॥ युवं वस्त्राणि मन्त्रेण वस्त्रं दद्यात्प्रयत्नतः ॥ इति । पाददेशे धूपनिवेदनं मुखदेशे दीपनिवेदनमिति प्रयोगपारिजाते। गन्धदानादौ च पदार्थानुसमयः काण्डानुसमयो वा। केचिदैवे पिये च पदार्थानुसमयेनार्चनमित्याहुस्तच्छाखान्तरविषयम् । बचाना सूत्रे देवानुक्तेः काण्डानुसमय एवेति कमलाकरः । पराशरः- वाचयेत्परिपूर्णत्वं वासो दद्याद्विधानतः । नारदीये-देवश्च समनुज्ञातो यजेपितृगणं तथा ॥ अथ पित्रर्चा-तत्राऽऽसने दर्भाः पञ्च सप्त वेति कारिकामाध्ये। अर्घ्यपात्राणि तु पितृसंख्ययैव न तु विप्रसंख्यया । सर्वेषां स्थान एक- बाह्मणपक्षेऽपि प्रतिषतमेकैकमर्घ्यपात्रमासाद्य स्वधार्ष्या इति सकृन्म- त्रेण युगपत्सर्वाणि तस्मै निवेद्य पुनः पुनरम्या अपो दत्त्वा तस्मा एव पितरिदं तेऽयमित्यादिमन्त्रैः सर्वाण्याणि दद्यात् । एकैकस्य स्थान एकैकबाह्मणपक्ष एकैकस्मा एकैकं निवेचैकैर्केस्मा एकैकमयं दद्यात्। पितुः स्थानेऽनेकवाह्मणपक्षे तदेवाय॒पा सकृन्मन्त्रेण सर्वेभ्यो निवेद्य पितरिदं तेऽर्यमिति मन्त्रावृत्त्या सर्वेभ्यो विगृह्य देद्यात् । एवं पैताम- हादाबपि । हेमाद्रौ- तिम्रस्तिस्रः शलाकास्तु पितृपात्रेषु पार्वणे। एकोद्दिष्टे शलाकैकां निधायोदकमाहरेत् ॥ इति । या दिव्या इत्यनुमन्त्रणं प्रतिविमं सकृदेव । प्रयोगपारिजात आचार्य:- पितुः पैतामहं चाय शिष्टं पैतामहे ततः। संस्राव्य तच्च पित्र्ये तु सकूचे स्त्रावयेदथ ॥ इति । , ग. हमर्ध्वपुण्ड्रम'। २ न. 'ति सिन्धौ । काति' । ३ क. ग. °न्धारीनां च । स्व. म. न्यादीनां च प्रतिविनं। ४ ग. कम्। ५ क. ख. जुहुयात् । ६ ग. °हेन्ततः ।

१ श्राद्धमञ्जरी। २५ अर्घ्यदानान्ते पितृभ्यः स्थानमसीति प्रथममयपात्रं शुचौ देशे स्थापयेत् । सर्वविप्रोत्तरतो वा न्यसेत् । पित्र्यविप्रवामभागे था । कर्तु- मितो वेति सिन्धौ । पिण्डनिपरणस्थल इति कारिकाभाष्ये । अत्रिः-गन्धादिभिस्तदभ्यर्च्य तृतीयेन पिधापयेत् ॥ इति । तत्पात्रं न्यग्बिलं वा कुर्यात् । न्युब्जीकरणं त्वेकोद्दिष्टविषय- मिति केचित् । न्युजीकृतेऽप्यर्चनं तुल्यमिति कमलाकरः । दर्शश्रा- द्धादौ मातामहादिसंत्रवानपि पितृपात्र एव गृहीत्वा प्रयाजवत्तन्त्रेण न्युब्जी कुर्यादिति स एव । आद्यपानद्वयं न्युब्जी कुर्यादिति चन्द्रिका- याम् । आच्छादनानन्तरं सति संभवे नानालंकारादि दद्यादिति पुरा- णादायुक्तं तदन्यशाखीयपरम् । बवृचैस्तु श्राद्धान्ते प्राक्स्वधायाचना- देयम् । वृत्तिकारेण तथैव सिद्धान्तितत्वात् । आसनप्रभृतिसाङ्गपूजा- विधिस्तु सूत्रे परिशिष्टे च सभ्यगुक्तत्वादन संक्षेपेण निरूपितः। विस्त- रेण तु प्रयोगे वक्ष्यते । अर्चनानन्तरं कृत्यमुक्तं चन्द्रिकायाम्- निर्वर्त्य ब्राह्मणादेशाक्रियामेवं यथाविधि । पुनर्भूमिं च संशोध्य पक्लेरन्तरमाचरेत् ॥ भाजनानि ततो दद्याद्धस्तशौचं पुनः क्रमात् । इति । भूशोधनमर्चनप्रसङ्गात्पतितगन्धपुष्पदर्भापनयनम् । अन्तरं विच्छित्तिः। आदेशात्पात्राणि दद्यादित्यन्वयः । तेन तत्रापि प्रश्नानुज्ञे ज्ञेये इति कम- लाकरः । भोजनपात्राधस्थमण्डलनिर्माणप्रकारश्चन्द्रिकायाम्- नैती दिशमारभ्य ईशान्यन्तं समापयेत् । तामेव दिशमारभ्य दैविकस्य तदन्तिकम् ।। ईशानी दिशमारभ्य नैर्ऋत्यामप्रदक्षिणम् । लामेव दिशमारभ्य पैतृकस्य तदन्तिकम् ॥ इति । मण्डलकरणसाधनानि बाझे- मण्डलानि च कार्याणि नैवारैचूर्णकैः शुभैः । गौरमृत्तिकया वाऽपि भस्मना गोमयेन वा ॥ सिन्धी-भस्मना वारिणा वाऽपि कारयेन्मण्डलं ततः । इति । मण्डलेषु देवे सयवान्पिश्ये सतिलान्दर्भान्दद्यादिति परिशिष्टे । देवे चतुरस्रं पित्र्ये वृत्तमिति तत्रैव । भोजनपात्राणि मण्डलेषु भूमावेव निध्यान्नोपरीति कमलाकरः । श्राद्धदीपिकायां मात्स्थे- १. ख. तेऽभ्यन' । २ ख. ग. ३ आद्यं पा । ग. 'दनप्रदाना । ५ ग. 'रे। भोज २६ केळकरोपाहबापूभट्टाविरचिता- अकृत्वा भस्ममर्यादा यः कुर्यात्पाणिशोधनम् । आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते ॥ इति । मस्ममर्यादाकरणे पिशङ्गभृष्टिरक्षा णो अग्न इति मन्त्रद्वयं केचि- पठन्तीति कमलाकरः । ब्रह्माण्डे- प्रक्षाल्य हस्तपात्रादि पश्चादद्भिर्विधानवत् । प्रक्षालनजलं दर्भेस्तिलैमिनं क्षिपेच्छुचौ ॥ पाद्यमण्डलोपरीति हेमाद्रिः । संग्रहे- विसर्गश्चुलकश्चैव अक्षय्यं पतिवारणम् । करशुद्धिर(रा)पोशा(श)नं पितृपूर्वाणि कारयेत् ॥ इति । अनौकरणानन्तरं वा मण्डलकरणादि । परिशिष्टे तथैवोक्तत्वात् । अथानौकरणम् । तच्चानुपनीतब्रह्मचारिस्नातकविधवानग्निकैविप्रपा- णावेव कार्यम् । अनाहिताग्नेगुंह्याग्निमतो दर्शादौ व्यतिषङ्गोऽस्ति तत्रैव गृह्यानावग्नौकरणम् । यत्र व्यतिषङ्गो नास्ति तत्र पाणावेव । बवृचा- नामाहितानीनां सर्वाधानिनामर्धाधानिनां च विप्रपाणिष्वेव । गृह्य- परिशिष्टे- अन्वष्टक्यं च पूर्वेद्युर्मासि मास्यथ पार्वणम् । काम्यमाभ्युदयेऽष्टम्यामेकोद्दिष्टमथाष्टमम् ॥ चतुवाद्येषु सानीनां वह्नौ होमो विधीयते । पित्र्यबाह्मणहस्ते स्यादुत्तरेषु चतुर्वपि ॥ एवमेव वृत्तिकारेण सिद्धान्तितम् । सर्वाधानी दर्शश्राद्धे दक्षिणाग्नौ जुहुयादिति चन्द्रिकायाम् । अर्धाधानी गृह्यानाविति माधवादयः । अर्धाधानिनो व्यतिषङ्गपक्षे गृह्य एवेति प्रयोगपारिजाते । वृत्तिकारमते वार्षिकादौ नैव व्यतिषङ्गः। अन्यमते त्वस्ति । अत्र यथाचारमनुष्ठेयमिति कमलाकरः। चन्द्रिकाकारस्तु आश्वलानानामनुष्ठानं वृत्त्यनुसार्येवास्ती- त्याह । आश्वलायनानां गृह्याग्निमतामन्वष्टक्यादिश्राद्धचतुष्टयं विना सर्वेषु श्राद्धेषु पाणिहोम एवेति वृत्तिस्वरसः । स च पाणिहोमः पाणिष्विति बहुवचनात्सर्वविप्रपाणिषु इति वृत्तिकृत् । कारिकायां तु- एकैकामाहुति केचिद्विगृह्मैव प्रजुह्वति । चन्द्रिकायां जातूकर्य:- अग्न्यमावे तु विप्रस्य पाणौ दद्यात्तु दक्षिणे। अग्न्यभावः स्मृतस्तावद्यावद्भायां न विन्दति ॥ इति । - १ श्राद्धमञ्जरी। २७ विधुरस्य विशेषो मदनरत्ने यमेनोक्तः- अपत्नीको यदा विप्रः श्राद्धं कुर्वीत पार्वणम् । पित्र्यविप्रैरनुज्ञातो विश्वदेवेषु हूयते ॥ अत्रोपवीती स्वाहाकारेणामिपूर्वकं दैविकधर्मेण जुहुयादिति हेमाद्रिः । वायवीये- विधुरो दैविके कुर्याच्छेषं पित्र्ये निवेदयेत् ॥ इति । वैश्वदेवविप्रबहुत्वेऽपि प्रथमविप्रपाणावेव होम इति कमलाकरः । यद्वा सर्वत्र देवपित्र्यविप्रकरयोविकल्प इति हेमाद्यादयः । उपवीतित्वे दैवे होमः प्राचीनावीतित्वे पित्र्य इति कमलाकरः । पाणिहोमेऽप्य- मौकरणविधि केचित्कुर्वन्ति । तदुक्तं हेमाद्रौ यमेन- अनौकरणवत्तन्त्रं होमो विप्रकरे भवेत् । पर्युक्ष्य दर्भानास्तीर्य यतो ह्यग्निसमो द्विजः ॥ अपरार्के शौनकः-भवत्स्वेवाग्नौकरणं करिष्य इति वै वदेत् । क्रियतामिति प्रतिवचनम् । मेक्षणेन करेण वा होम इति कमलाकरः। पाणिहोमे मेक्षणप्रहरणं नेति वृत्तिकृत् । अपूर्वत्वान्नायं विधिरिति केचित् । तदुक्तं स्मृतिरत्नावल्याम्- नानुज्ञा पाणिहोमे स्यान्न स्तः पर्युहणोक्षणे। नाग्ने तमद्यादिति च न स्यातानिध्ममेक्षणे ॥ इति । अत्र केचिदिदं सोमाय पितृमत इदमनये कम्यवाहनायेति समन्त्रक- विभागकरणं कुर्वन्ति । तत्रोच्यते-यत्र नानादैवते स्थालीपाकतन्त्रे समन्त्रकनिर्वापस्तन्त्रेण श्रपणं तत्रैव समन्त्रकविभागकरणं पिण्डपि- तृयज्ञे तदभावान्निबन्धकारैरनुक्तत्वाञ्च तदुपेक्ष्यम् । तूष्णींविभागकरणं भवत्येवेति । हुतावशिष्टप्रतिपत्तिमाह यमः- पितृपाणिहुताच्छेषं पितृपात्रेषु निक्षिपेत् । अनौकरणशेषं तु न दद्याद्वैश्वदेविके ॥ एतदग्निहोमेऽपि सममिति कमलाकरः । वृद्धवसिष्ठः- पित्र्यविप्रकरे हुत्वा शेषं पात्रेषु निक्षिपेत् । पिण्डभ्यः शेषयत्किचिन्न दद्याद्वैश्वदेविके ॥ इति । १ ग. देवे वि।

ર૮ केळकरोपाहबापूभविरचिता- कमलाकरस्त्वाह-पाणौ हुतं पात्रे निधाय विप्रानाचमथ्य(चाम्य) हुतशेष पात्रेषु दद्यात् । अनैमित्तिकं चेदमाचमनं न हुतभक्षणनिमित्तम् । तेनानौकरणाभावेऽप्याचमनं भवतीति सिद्धम् । विप्राः पाणी हुतमन्नं भोजनार्थदत्तान्नेन सह भोजनकाले भुञ्जीयुः। न तु भोजनात्पूर्वमिति । बौधायनमते हवनानन्तरमेव भक्षणं तत्तच्छाखीयानामेव । अथ परिवेषणम् । तञ्च देवपूर्वमामासु पक्वमिति पात्राण्याज्येनोप- स्तीर्य पवित्रपाणिः स्वयमेव कुर्याद्धार्या वा । पात्राणि दुभैः परिस्ती. पैति रघुनाथीयपद्धतौ । अन्नादि सर्व दा पात्रेण च परिवेषयेन तु हस्तेन । अपक्कं तैलपक्कं च हस्तेनैव देयम् । भोजने तिला न देयाः। घृतादिपात्राणि भूमौ स्थापयेन्न भोजनपात्रे । परिवेषणक्रम उक्तः संग्रहे- ओदनं पायसं भक्ष्यं व्यञ्जनादि घृतं तथा । सूपमन्ते प्रदातव्यमित्येवं परिवेषयेत् ॥ इति । लवणं साक्षाद्धस्तेनं च न परिवेषणीयम् । घृतं भोजनपावादहिः परिवेषणीयम् । देवपूर्वकपरिक्षेषणनियमस्तु प्रथम एव परिवेपणे न द्वितीयादिषु । घृतं पितृपूर्वकमेव परिवेषणीयमिति केचित् । परिवेषण- काले यथा शब्दो न भवेत्तथा परिवेषणीयम् । गौडनिबन्धे- मध्वभावे गुडो देयः क्षीरस्य च तथा दधि । न लभ्यते घृतं तंत्र कुर्याघृतवतीजपम् ॥ इति । पक्यां विषमदानं नैव कार्यम् । एवमन्नानि परिविष्यान्ननिवेदनं कार्यम् । तत्प्रयोगे वक्ष्यते । तत्रान्नेऽगुठनिवेशन इदं विष्णुरिति मन्त्र उक्तः परिशिष्टे । ऋविधाने तु- इदं विष्णुरितीमाभिः पञ्चभिः श्राद्धकर्मणि। अङ्गुष्ठमन्नेऽव॑गाह्य तेन रक्षो न बाध्य(ध)ते ॥ इति । ये चेह पितर इत्युपस्थानानन्तरं पिता पितामहश्चैव तथैव प्रपितामहः। तृप्ति प्रयान्तु वै भक्त्या यदिदं श्राद्धमाहृतम् ॥ मातामहस्तृप्तिमुपैतु तस्य तथा पिता तस्य पिता ततोऽन्यः । विश्वे च देवाः परमां प्रयान्तु तृप्तिं प्रणश्यन्तु च यातुधानाः॥ १ ग. णौ दत्तम् । २ घ. °न न प' । ३ ग, यत्र ! ४ ख. वाह्य ।

श्राद्धमसरी। २९ इति मन्त्रद्वयं केचित्पठन्ति । ततोऽच्छिद्रं वाचयेदिति कमलाकरः । पारस्करः- संकल्पः पितृदेवेभ्यः सावित्रीमधुमज्जपः । श्राद्धं निवेद्याऽऽपोशा(श)नं जुषप्रैषोऽथ भोजनम् ॥ संकल्पोऽन्ननिवेदनम् । निवेद्येति ब्रह्मार्पणं कृत्वेत्यर्थः । बृहन्नार- दीये-इस हविश्च तत्कर्म विष्णवे बै समर्पयेदिप्ति । एतब्रह्मार्पणं सव्ये- नैव कार्यमिति कमलाकरः । अत्र ब्रह्मार्पणं० हरिता० चतुर्भिश्चक इति श्लोकत्रयं पठेदिति सिन्धौ । अथ विनियमाः । माधवीये- पवित्रपाणयः सर्वे तेच मौनव्रतान्विताः। उच्छिष्टोच्छिष्टसंस्पर्श वर्जयन्तः परस्परम् ॥ मनुः-यावदूष्मा भवत्यन्ने यावदश्नन्ति वाग्यताः। तावदश्नन्ति पितरो यावन्नोक्ता हविर्गुणाः ॥ याज्ञवल्क्योऽपि-भुक्षीरंस्तेऽपि वाग्यता इति । अत्राऽऽह भाद्धचन्द्रि- काकारः-वाग्यता वानियता अधिकं न बदेयुरित्यर्थः। न तु मौनिनः। अपेक्षितं याचितव्यमिति वक्ष्यमाणवचनविरोधादिति । अतोऽन्नादिया- चनं विना वानियमलोपे विष्णुस्मरणं कृत्वा पुनर्वानियमं कृत्वा भुञ्जीयादिति सिद्धम् । प्रयोगपारिजातकारस्तु अन्नपानाद्यपेक्षायां हस्त- संज्ञया याचितव्यमित्याह । अस्मिन्पक्षे सर्वत्र वानियमलोपे प्राय- श्चित्तम् । अत्रि:- असंकल्पितमन्नाधं पाणिभ्यां याप स्पृशेत् । अभोज्यं तद्भवेदन्नं पितॄणां नोपतिष्ठते ॥ अन्नं दत्तं न गृह्णीयाधावत्तोयं न संपियेत् । आपोशनं वामभागे सुरापानसमं भवेत् ॥ तथा-पुनरापूर्याऽऽपोशनं सुरापानसमं भवेत् । दत्ते वाऽप्यथवाऽदत्ते भूमौ यो निक्षिपेलिम् ॥ तदनं निष्फलं याति निराशैः पितृभिर्गतैः । शङ्क:-श्राद्धे नियुक्तान्भुञ्जानान्न पृच्छेल्लवणादिषु । उच्छिष्टाः पितरो यान्ति पृच्छतो नात्र संशयः ॥ हेमाद्रावत्रिः-हुंकारेणापि यो ब्रूयाद्धस्तेनापि गुणान्वदेत् । भूतलाचोद्धरेत्यानं मुश्चेद्धस्तेन वा पिबेत् ॥ " १. ख. 'त्वा भु' । २ ग. 'पि वदेद्गुणान् । ५।

३० केळकरोपाहबापूभट्टविरचिता- - प्रौढपादो बहिःकक्षो बहिर्जानुकरोऽपि वा। अङ्गुष्ठेन विनाऽश्नाति मुखशब्देन वा पुनः ॥ पीतावशिष्टतोयानि पुनरुद्धृत्य वा पिबेत् । खादितार्थान्पुनः खादेन्मोदकादि फलानि वा ॥ मुखेन वा धमेदन्नं निष्ठीवेद्भाजनेऽपि वा। इत्थमनन्दिजः भाद्धं हत्वा गच्छत्यधोगतिम् ॥ प्रौढपादः पादोपरि पाददातेति कमलाकरः । आसनारूढपाद इति हरदत्तः । बहिःकक्ष उत्तरवाससो बहिर्भूतकक्षद्वय इति प्रयोगपारिजा- तकारः । सिन्धौ जाबालि:- इष्टमुष्णं हविष्यं च दद्यादन्नं शनैः शनैः । अपेक्षितं याचितव्यं श्राद्धार्थमुपकल्पितम् ॥ न याचते द्विजो मूढः स भवेत्पितृघातकः। हारीतः-उर्ध्वपाणिश्च विहसन्सक्रोधो विस्मयान्वितः । भनपृष्ठस्तु यद्भुते न तत्त्रीणाति वै पितॄन् ॥ प्रचेताः-न स्पृशेद्वामहस्तेन भुञ्जानोऽन्नं कदाचन । न पादौ न शिरोव्यस्तिन पदा भाजनं स्पृशेत् ॥ उशना-भोजनं तु न निःशेषं कुर्यात्माज्ञः कथंचन । अन्यत्र दनः क्षीराद्वा क्षौद्रासक्तुभ्य एव च ॥ अन्यत्र च-सशेषं सर्वमश्नीयान्निःशेषं घृतपायसम् । इति । अत एव कारिकायाम्-अन्नं भोजनपर्याप्तं देयं किंचित्ततोऽधिकम् ॥ इति। अथाभिश्रवणम् । तद्विधिब्रह्माण्डे- कुशपाणिः कुशासीन उपवीती जपेत्ततः। मनुः-स्वाध्यायं श्रावरिपश्ये धर्मशास्त्राणि चैव हि । इति । तत्राऽऽदौ सव्याहृतिकां गायत्रीं सकृभिर्वा जपित्वा राक्षोनीः पावमा. नीरन्नवतीश्च श्रावयेत् । राक्षोनसूक्तानि कृणुष्व पाज:०इन्द्रासोमा तप- तम्रक्षोहणं वाजिन इत्यादीनि । पावमानीः स्वादिष्ठयेत्याद्याः । अन्नवतीः पितुं नु स्तोषमित्याद्याः । अन्यानि च यथाशक्ति पौरुषाप्रति रथेन्द्रसोमपितृसूक्तानि श्रावयेत् । अप्रतिरथमाशुः शिशान इति । पितृ- सूक्तमुदीरतामिति । शेषाणि प्रसिद्धानि । तथा ऋग्यजुःसामोक्तानि पुण्यानि प्रीतिकराणि त्रिसुपणं रुद्रं बाह्मणादीनि श्रावयेत् । पुराणो- १ ग. रोबस्ति।

श्राद्धमञ्जरी। ३१ तानि ब्रह्मविष्णवर्करुद्रस्तोत्राणि वा । एतदभावे गायत्रीजपं कुर्यात् । अभावे सर्वविद्यानां गायत्रीजपमाचरेदिति वचनात् । भोजनसमाप्ति- पर्यन्तं श्रावयेत् । अथ संक्षेपात्संभावितानि प्रायश्चित्तान्युच्यन्ते । पराशरीये शख:- श्राद्धपतौ तु भुनानो बाह्मणो ब्राह्मणं स्पृशेत् । तदन्नमत्यजन भुक्त्वा गायत्र्यष्टशतं जपेत् ॥ तदन्नं पात्रगतम्। स्पर्शोत्तरमन्यदन्नं न गृह्णीयादिति फलितोऽर्थ इति चन्द्रिकाकारः। उत्तरापोशनोत्तरमुच्छिष्टयोमिथः स्पर्श उभयोरपि सद्यः मानमिति प्रायश्चित्तेन्दुशेखरे । उच्छिष्टान्नस्पर्श तु- उच्छिष्टलेपसंस्पर्शे प्रक्षाल्यान्येन वारिणा। भोजनान्ते नरः सात्वा गायत्रीत्रिशतं जपेत् ॥ इति । अत्रापि भोजनं तावतोऽन्नस्यैवेति स एव । भोजनपात्रस्पर्श व्यास:- उच्छिष्टोच्छिष्टसंस्पर्शे स्पृष्टपात्रं विहत्य च । सर्वान्नं पूर्ववक्षिप्त्वा भोजयेत्तु द्विजोत्तमम् ॥ इति । अयमेव न्यायः प्रायश्चित्तान्तरप्रसक्तावप्यनुसरणीयः । यथा मोजन- समय उच्छिष्टपात्रममेध्योपहतं चेत्तत्पात्रमुद्धृत्य भूमि गोमयेनोपलि- प्यान्यपात्रं पूर्ववदासाद्य तस्मिन्सन्निं पूर्ववक्षिप्त्वा विप्रं भोजयेदिति । मार्जारकाकनकुलाखुगवादिभिरन्नााच्छिष्टे कृतेऽप्येवमेव । मक्षिकाके- शनखकीटपतङ्गपिपीलिकादिभिरल्पोपहतौ तत्संलग्नमन्नायुद्धृत्याप उप- स्पृश्य शेषान्नानि भस्मना वा मृदा वाऽम्बुना वा संस्पृश्य भोजयेत् । मार्जारादिस्पर्शेऽप्येवम् । अथ विप्रवमने प्रायश्चित्तम् । तत्र दक्षाधुक्तो होमविधिः । विप्रवमना. नन्तरं प्रायश्चित्तत्वेनेन्द्राय साम गायतेति द्वादशचं सूक्तं जपित्वा लौकि- कानिं स्थण्डिले प्रतिष्ठाप्य क्रियमाणे विप्रवमननिमित्तहोमे देवतापरि. ग्रहार्थमन्वाधानं करिष्य इति संकल्प्यास्मिन्नन्वाहितेऽनावित्यादि चक्षुषी आज्येनेत्यन्तमुक्त्वाऽत्र प्रधानं प्राणमपानं व्यानमुदानं समानमेताः पश्च देवता द्वात्रिंशद्वारं चर्वाहुतिभिः शेषेण स्विष्टकृतमित्यादि प्राणाय त्वा जुष्टं निर्वपामि अपानाय त्वा०व्यानाय त्वा उदानाय त्वा०समानाय त्वा०इत्यादिचरकल्पेन चरुं अपयित्वाऽऽज्यभागान्ते नामगोत्राचारपूर्व- १ स्व. पं वा कु। २ ग. 'टकप। ३ ग. 'दि अग्नीषोमौ च ३२ केळकरोपाहापूभवृविरचिता- कममौ पितृनावाह्य संपूज्य यथालिङ्गं त्यागपूर्वकमयदानधर्मेण चर्वाहत, र्जुहुयात् । प्राणाय स्वाहा।प्राणायेदं० । अपानाय स्वाहा। अपानायेदं। ध्यानाय स्वाहा । ध्यानायेदं० । उदानाय स्वाहा । उदानायेदं । समा- नाय स्वाहा । समानायेदं० । इति पञ्चाहुतिभिरेकाऽऽवृत्तिः । पुनः प्राणाय स्वाहेत्यादिपश्चाहुतिभिद्वितीया । एवं द्वात्रिंशत् । पञ्चभि- मन्त्रैः प्रतिमन्त्रं द्वात्रिंशत्संख्ययेत्यन्ये । एवं षष्टयधिकशतमाहुतयो भवन्ति । अपरे तु पञ्चभिर्मन्त्रैनिंशत्संख्ययाऽऽहुतीर्जुयादिति यथाश्रुतमेवार्थं वर्णयन्ति । एतन्मते द्वात्रिंशदेव । तत्र घभिरावृत्तिमि- स्त्रिंशदाहुतयः। अवशिष्टे द्वे समानाय स्वाहेत्येतस्याऽऽवृत्त्या संपादनीये। एवं हुत्वा स्विष्टकृदादिहोमशेपं समाप्य वमितं विघं घृतं प्राशयेत् । इति होमविधिः । वैश्वदेविकविप्रवमने होम एष न श्राद्धावृत्तिः। पिश्यविप्राणामुपविष्टानां पितृस्थानीयविप्रवमने तदिने तदानीमेव होमं कृत्वोपोष्य द्वितीयदिने पुनः श्राद्धं कुर्यात् । पितामहादिस्थानी- यानां यस्य कस्यचिदमने होमं कृत्वा तदिन एव पुनः पाकं विधाय पुनः श्राद्धं कुर्यात् । पितामहाविमनेऽपि परेऽहनि श्राद्धं कुर्यादिति केचित् । इदं पिण्डदानासाग्वमने पिण्डदानोत्तरं वान्तौ होम एव न श्राद्धावृत्तिः । केचिद्भोजनानन्तरं पिण्डदानात्मागपि वमने होम एव न श्राद्धावृत्तिरित्याहुः । भोजनसमये बान्तौ तु पूर्वोक्तमेव । अत्र किंचिदुच्यते । श्राद्धे पिण्डदानं प्रधानमिति कर्कः । विप्रभो- जनमिति मेधातिथिः । भोजनपिण्डवामाग्रीकरणानीति हेमाद्यादयः। शाखाभेदेन प्राधान्यमुक्तं धर्मप्रदीपे- यजुषां पिण्डदानं तु बचानां द्विजार्चनम् । श्राद्धशब्दाभिधेयं स्यादुमयं सामवेदिनाम् ॥ इति । अत एव ब्राह्मणभोजनान्ते संपन्नमिति पृट्वेति सूत्रितवानाचार्यः । एतेनाऽऽचार्यस्यापि भोजनं प्रधानमिति पक्षः संमत इत्यवगम्यते । एवं च प्रधानवैकल्ये श्राद्धावृत्तिः । अङ्गवैकल्ये प्रायश्चित्तमात्रं कर्तव्यम् । अतो बचानां बाह्मणभोजनस्य प्राधान्यादाह्मणभोजनानन्तरं विप्रव- मने होम एव न श्राद्धावृत्तिः । भोजनसमये यान्तौ पुनरावृत्तिरिति सिद्धम् । यजुषां सामवेदिनों तु पिण्डदानोत्तरं वान्तौ होम एव न श्राद्धावृत्तिः । पिण्डदानात्याग्वान्ती श्राद्धावृत्तिरेव । वैश्वदेविकविप्रय- ५ ख. तो पू। २ ग. 'नां पि' । - - श्राद्धमञ्जरी। मने सर्वेषां होम एव न श्राद्धावृत्तिः । अङ्गत्वादमौकरणहोमवैकल्ये प्रायश्चित्तमात्रं कर्तव्यं न तु श्राद्धावृत्तिः । केचिद्धोमस्यापि प्राधान्या- त्तद्वैकल्ये श्राद्धावृत्तिरित्याहुस्तञ्चिन्त्यम् । वस्तुतस्तु होमोऽङ्ग मेवेति दिक । इदं प्रत्याब्दिकश्राद्धे सपिण्डीकरणादौ मासिकश्राद्धेषु महैको- द्दिष्टादौ मघादौ सपिण्डकवृद्धिश्राद्धे च ज्ञेयम् । नित्यश्राद्धसांकल्पि- कश्राद्धादी भोजनप्राधान्यानोजनसमये वान्तावावृत्तिरेव । मोजनोत्तरं वमने होम एव नाऽऽवृत्तिः । दर्शादौ तु वान्तावामेन तदैव कार्यम् । तीर्थमहालयादौ दर्शवदिति केचित् । आरब्धं श्राद्धं समापनीयमेव । एतन्मूलवाक्यानि निर्णयसिन्धुहेमायादौ द्रष्टव्यानि । विप्रगुदनावे पृथ्वीचन्द्रोदये भरद्वाजः- भुञ्जानेषु तु विप्रेषु प्रमादात्स्रवते गुदम् । पादकृच्छं ततः कृत्वा अन्य विप्रं नियोजयेत् ॥ इति । क्षणपाद्यादि दत्त्वेति कमलाकरः । भोजनसमये विप्रस्य शूद्रादिस्प- दिना भोजनानधिकारित्वेऽप्येवमेव ज्ञेयम् । मार्जारस्पर्श स्पृष्टाङ्गं प्रक्षाल्याप उपस्पृश्य विष्णुं स्मरेत् । उच्छिष्टसमयेऽनुष्ठानसमये च मार्जारस्पर्शे स्नानमिति प्रायश्चित्तेन्दुशेखरे । तत्पक्षे स्नानप्रसक्ती भोज- नानधिकारोऽर्थसिद्धः । इदं यथाचारमनुष्ठेयम् । विप्रस्य त्वापस्तम्ब आह- भुञानस्य तु विप्रस्य कदाचित्रवते गुदम् । उच्छिष्टमशुचित्वं च प्रायश्चित्तं कथं भवेत् ॥ आदौ कृत्वा तु वै शौचं ततः पश्चादपः स्पृशेत् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ इति । मूत्रकरणेऽप्येतदेव ज्ञेयम् । शूद्रस्पर्शादावपि उपवासं पञ्चगव्य- प्राशनं च कुर्यादित्यलमतिविस्तरेण । इति प्रायश्चित्तानि । विप्रभोजनोत्तरं कृत्यमाह व्यास:- तृप्ताः स्थेति तु पृष्टास्ते बूयुस्तृप्ताः स्म इत्यथेति । आचार्य:-तृप्ता- ज्ञात्वा मधुमती: श्रावयेदान्नमीमदन्तेति चेति । अत्रापि गायत्री जपित्वा मधुमतीः श्रावयेदिति कमलाकरः । ततः श्राद्धं संपन्नमिति प्रश्नः । शौनकः- १ क. ख. 'दौ वा।

-- केळकरोपाह्वबापूभट्टविरचिता- अन्नशेषैश्च किं कार्यमिति पृच्छेत तांस्ततः । त इष्टैः सह भोक्तव्यमिति प्रत्युक्तिपूर्वकम् ॥ प्रदाः सकलं तस्मै स्वी कुर्युर्वा यथारुचि । इति । अत्रायमनुष्ठेयार्थः-भुक्तशेषात्सार्ववर्णिकमन्नं पिण्डार्थं प्रकिरणार्थं च पृथक्पृथगुद्धृत्य शेषं ब्राह्मणेभ्यो निवेदयेत् । शेषमन्नं किं क्रियतामिति प्रश्नः । यदीरैः सह भुज्यतामिति तेषां प्रत्युक्तिस्तदा तेनैवान्नेन वैश्वदे- बादि कृत्वा शेषमन्नमिष्टैः सह भुञ्जीयात् । अभ्यनुज्ञाभावे तदन्नं तेभ्यो निवेद्य पुनरन्नं निष्पाद्य तेन वैश्वदेवादि सर्वं कुर्यादिति । ततः पिण्डदानम् । तत्कालो वक्ष्यते श्राद्धचन्द्रिकायाम्- यजमानस्य दासादीनुदिश्य द्विजसत्तमः । पात्रादन्नं त्यजेद्भूमौ वामभागे तु पैतृके ॥ उत्तरापोशनार्थमुदकं पितृपूर्वकं दद्यादिति पूर्वमेवोक्तम् । शातातपः- विश्वदेवनिविष्टानां चरमं हस्तधावनम् । सिन्धौ-पवित्रग्रन्थिमुत्सृज्य मण्डले भुवि निक्षिपेत् । हस्तादीन्क्षालयेद्विद्वाशरावादौ तु कुत्रचित् ॥ व्यासः-ताम्बूलोगिरणं चैव गण्डूषोद्विरणं तथा । कांस्यपात्रे तथा ताने न कुर्वीत कदाचन ॥ उष्णोदकैर्धान्यचूर्णैः करौ श्मश्रूणि शोधयेत् ॥ इति । अथ पिण्डदानम् । तत्र सूत्रम्-भुक्तवत्स्वनाचान्तेषु पिण्डान्निपृणी- यादाचान्तेष्वेक इति । भुक्तवत्स्विति पूर्वं निषेधार्थमिति कमलाकरः । तेन भोजनात्पूर्व शास्त्रान्तरोक्तकालसत्त्वेऽप्याश्वलायनैर्भोजनोत्तरमेव कार्यमिति सिद्धम्।अनाचान्तेष्वित्यत्राऽऽचमनशब्देनोत्तरापोशनगण्डूष- करणहस्तक्षालनादिशुद्धा(या)चमनान्तं कर्म गृह्यते । गण्डूषं दत्त्वा तेष्वाचान्तेवनाचान्तेषु वेति परिशिष्टोक्तेः । तेनोत्तरापोशनात्पूर्व पिण्ड- निपरणमिति गम्यते। केचिच्छुद्धा(या)चमनात्पूर्वमित्याहुस्तश्चिन्त्यम् । तच्च पिण्डदानमग्नावग्नौकरणपक्षेऽग्निसमीपे कर्तव्यम् । पाणिहोमपक्षे वि- प्रोच्छिष्टतोऽरलित्रयपरिमिते देशे कर्तव्यमिति चन्द्रिकायाम्। व्याममात्र इति सिन्धौ । व्यामश्चतुररनिः । स्थलसंकोचादौ त्वरत्निमात्रे, अपहता इति लेखाकरणं स्फ्याभावे कुशमूलेनेति चन्द्रिकायाम् । एकेनैव दक्षिण- १ ग. "द्वकारिका । २ ग. क्षिणेन ह।

श्राद्धमञ्जरी। पक्षे हस्तेनेति वृत्तिः । सव्योत्तराभ्यां पाणिभ्यामिति केचित् । प्रतिपार्वणं लेखाकरणं बहिरास्तरणमुदकनिनयनं चाऽऽवर्तते । तत्क्रममाह कमला- करः-पितृपार्वणात्पश्चिमे मातृभ्यः पिण्डदानं तत्पश्चिमे मातामहेभ्यः, तत्पश्चिमे मातामहीभ्यः, तत्पश्चिम एकोद्दिष्टेभ्य इति । सूत्रं च-पूर्वासु पितृभ्यो दद्यादपरासु स्त्रीभ्य इति । केचिदाग्नेयीसंस्थं दक्षिणापवर्ग पिण्डदानमिति वदन्ति तन्मते पूर्वोक्तः पूर्वशब्द आग्नेयीवाचकः पश्चिम- शब्दो यथार्थदिग्वाचकः। तेनाऽऽग्नेयीसंस्थं दक्षिणापवर्ग पिण्डदानं भव- तीति । शुन्धन्तामित्युदकं निनीय शुक्लाम्बराः शुक्लगन्धाः शुक्लयज्ञोपवीतिनः । आत्मनोऽभिमुखासीना ज्ञानमुद्रा निरायुधाः ॥ वसवः पितरो ज्ञेया रुद्रास्तत्र पितामहाः । पितुः पितामहाः प्रोक्ता आदित्या बर्हिषि स्थिताः॥ इति तत्स्थापितॄन्ध्यायेदिति रघुनाथीये । पिण्डदानमन्त्रे ये च त्वामवान्विति। अत्र स्त्रीश्राद्धे याश्च त्वामवान्वित्यूह इति हेमाद्रिस्तदन्य- शाखाविषयम् । आश्वलायनानां तु यथापाठमेव । वृत्तिकारेण तथैवोक्त- स्वात् । मन्त्रस्तु एतत्त इत्युक्त्वा, असावित्यत्र संबन्धनामगोत्रविशिष्टं पित्रादिनाम संबुद्ध्यन्तमुक्त्वा तदन्ते ये च त्वामवान्विति वदेत् । गृहप- रिशिष्टे तु-ये च त्वामवान्वित्यन्ते तेभ्यश्चेति मन्त्रशेषः । वृत्तिकारेण अन्वष्टक्यप्रकरणेऽस्मत्पितरमुकशर्मन्नमुकगोत्र वसुरूपैतत्पिण्डीभूतमन्नं तुभ्यं स्वधा ये च त्वामत्रानुगच्छन्ति तेभ्यश्चेत्युक्तः । लौगाक्षिरपि-महालये गयायां च प्रेतश्राद्धे दशाहिके। पिण्डशब्दप्रयोगः स्यादन्नभैन्यत्र कीर्तयेत् ॥ इति । वायवीये-मधुसपिस्तिलयुतांस्त्रीन्पिण्डान्निर्वपेबुधः । स्मृतिसारे-माषाः श्राद्धेषु वै ग्राह्या वाश्चैवाग्निपिण्डयोः ॥ एतन्निर्मूलकमिति कमलाकरः । सर्वान्नग्रहणस्योक्तत्वात् । अथ पिण्डप्रमाणम् । प्रयोगरत्नेऽन्त्येष्टिपद्धतौ- एकोद्दिष्टे सपिण्डे च कपित्थं तु विधीयते । नालिकेरप्रमाणं तु प्रत्यब्दे मासिके तथा ॥ तीर्थे दर्शे च संप्राप्ते कुक्कुटाण्डप्रमाणतः । महालये गयाश्राद्धे कुर्यादामलकोपमम् ॥ इति । १ ग. 'क्तम् । पू । २ ख. 'स्थानापितृ । ३ क. ख. 'मत्र प्रकी' ।

३६ केळकरोपावबापूमकृविरचिता- . अनुक्तो सामान्यप्रमाणं ग्राह्यम् । तदाह हेमाद्रावङ्गिराः कपित्थबिल्वमात्रान्वा पिण्डान्दद्याद्विधानतः। कुक्कुटाण्डप्रमाणान्वाऽऽमलकैदरैः समान् ॥ इति । तत्रैव धूम्रः-कपित्थस्य प्रमाणेन पिण्डान्दद्यात्समाहितः । तत्समं विकिरं दद्यापिण्डान्तेषु घडअग्ले ॥ कलिकायामाश्वलायन:- यत्र स्युर्बहवः पिण्डास्तत्र बिल्वफलोपमाः। यत्र चैको भवेत्पिण्डस्तत्र खजूरसंनिभः ॥ इति । प्रयाणामुत्तरोत्तरं पिण्डप्रमाणाधिक्यमिति मैत्रायणीये । पिण्डप्रक्षा- नानन्तरं दर्भमूले कराषघर्षणमिति चन्द्रिकायाम् । तेषु दर्भेषु तं हस्तं निमृज्याल्लेपभागिनामिति मनूक्तेः । आचार्योऽपि स्मृतिरूपेणाऽऽह- पितुः पितामहादू, ये त्रयः पितरः स्मृताः । ते लेपान्नेन तृप्यन्ति तेषां कार्यं हि तर्पणम् ॥ इति । तदनन्तरमत्र पितर इत्यनुमन्त्रणादि । अस्मिन्प्रकरणे यद्यपि पिण्डा- नामेवानुमन्त्रणमुपस्थानं प्रवाहणं च विधीयते ताऽपि मन्त्राणां पितृ- लिङ्गत्वात्पिण्डा एव पितर इति कृत्वा पितर एवैतैर्मन्त्रैरभिधातव्या इति वृत्तिकृत् । शुन्धन्तां पितर इप्ति द्वितीयनिनयनान्ते कर्तव्यमाहाss. चार्य:- ततः सम्यग्द्विराचम्य नीवीं विस्रस्य वाग्यतः । सूत्रं तु असावभ्यक्ष्वासावक्ष्वेति पिण्डेष्वभ्यञ्जनाञ्जने वासो दद्याद्दशासूर्णास्तुकां वा पञ्चाशदर्पताया ऊवं स्वल्लोमेति कृष्णतिलतै- लेनाभ्यञ्जनम् । त्रैककुदेनाञ्जनमिति सिन्धौ। त्रिककुन्नाम पर्वतविशेषः। तत्रोद्भवमित्यर्थः । एतद् इति वासोदानं प्रतिपिण्डं मन्त्रावृत्त्येति केचित् । बहुवचनलिङ्गात्सर्वेभ्यः सकृन्मन्त्रेणेत्यन्ये । पिनादित्रिभ्यः सकृन्मन्त्रेण वासोदानमिति वृत्तिकृत् । प्रतिपार्वणं मन्त्रावृत्तिरिति कारिकाकारः । अत्र वासस्थाने दशामूर्णास्तुकां वा दद्यादित्यर्थः । दशा वस्त्रस्यान्तप्रदेशः । ऊर्णास्तुका मेषलोमनिर्मिता रज्जुः । पञ्चा- शद्वर्षो जीवन्स्वीयमेव लोम वासोथं दद्यात् । मन्त्रस्त्वयमेव सर्वेषु द्रव्येष्विति वृत्तिकृत् । व्याघ्रः-गन्धपुष्पाणि धूपं च दीपं च विनिवेदयेत् । दक्षिणां सर्वभोगांश्च प्रतिपिण्डं प्रदापयेत् ॥ १ क, ख, मात्रांश्च वि। २ क, ख. मागांश्चाऽऽम'। ३ क. व. तृप्यन्तु । ४ क. ख. तत्रापि। . -- श्राद्धमञ्जरी। शङ्खः-यत्किचित्पच्यते गेहे भक्ष्यं भोज्यमगर्हितम् । अनिवेद्य न भोक्तव्यं पिण्डमूले कथंचन ॥ एतत्सव्येनेति केचित् । युक्तं त्वपसव्येनेति कमलाकरः । अथ पिण्डोपघाते प्रायश्चित्तम् । स्मृतिदर्पणेऽत्रि:- मार्जारमूषकस्पर्शे पिण्डे च विदलीकृते । पुनः पिण्डाः प्रदातव्यास्तेन पाकेन तत्क्षणात् ॥ चन्द्रिकायां बौधायनः- श्व चाण्डालादिभिः स्पृष्टः पिण्डो यापहन्यते । प्राजापत्यं चरित्वाऽथ पुनः पिण्डं समाचरेत् ॥ पुनः स्नात्वा तदा कर्ता पिण्डं कुर्याद्यथाविधि । इति जातूकर्ण्यपाठः । काकस्पर्शे न दोष इति कमलाकरः । पिण्ड- दानप्रभृतिपिण्डप्रवाहणपर्यन्तमेतत् । प्रवाहणानन्तरं पत्न्याः प्राशनपर्य- न्तमुपधाते प्राशनस्य लोपः । अप्स्वेव प्रतिपत्तिः । अथ प्रयोगक्रमः । उपस्थानानन्तरमुपविश्य पिता पितामहश्चैव तथैव प्रपितामहः । तृप्तिमायान्तु पिण्डेन मया दत्तेन भूतले ॥ मातामहस्तत्पिता च पिता तस्यापि तृप्यतु । द्विजानां तर्पणाद्धोमात्पिण्डदानाञ्च में दिवि ॥ इति केचित्पठन्ति । ततः परेसनेति मन्त्रेणाऽऽग्नेयीं प्रति पिण्डान्प्र- वाह्य सकुटुम्बः पिडान्नमस्कृत्य वीरं मे दत्त पितर इति मन्त्रेण मध्यम पिण्डमादायाऽऽधत्त पितर इति मन्त्रेण पत्नी प्राशयेत् । पिण्डपटूके मध्यमयोर्द्वयोः प्राशनम् । तदुक्तं मनुना- पतिव्रता धर्मपत्नी पितृपूजनतत्परा । मध्यमं तु ततः पिण्डद्वयमद्यात्सुतार्थिनी ॥ आयुष्मन्तं मुतं सूते यशोमेधासमन्वितम् । धनवन्तं प्रजावन्तं सात्विकं धार्मिकं तथा ॥ इति । अनेकभार्या पक्षे छागलेयः- प्राचीनावीतिनाऽऽमन्त्रय पत्नीपिण्डो विभज्यते । प्रतिपलि तु मन्त्रस्य कर्तव्याऽऽवृत्तिरत्र तु ॥ -- १क.ख पत्न्या ।

केळकरोपाबबापूभट्टविरचिता- प्रयोगपारिजाते तु-धड्दैवतश्राद्धे पत्नीद्वित्व एकैकमेकैकस्यै दद्यात् बहुवे तु गुणवते( त्यै ?) वयतः कालतश्च समर्थाभ्यां दद्यात् । सर्वा समर्थाश्चेहतुकालानुसारेण दद्यात् । अथवैकैकस्मिश्राद्ध एकैकस्रै दद्यादिति । मध्यमपिण्डप्राशनं च केवलं काम्यमेव न नित्यमिति मयूखे । पिण्डप्राशननिषेधश्चन्द्रिकायाम्- अक्षता गुर्विणी वन्ध्या गतरक्ता रजस्वला । नाश्नीयान्मध्यमं पिण्डं जारिणी च प्रसूतिका ॥ न विद्यते क्षतं रजो यस्याः साऽक्षता । अप्राप्तरजोदर्शनेत्यर्थः पल्यामनधिकारिण्यां मध्यमपिण्डप्रतिपत्तिमाह बृहस्पतिः अन्यदेशगता पत्नी रोगिणी गर्भिणी तथा । तदा तं जीर्णवृषभश्छागो वा भोक्तुमर्हति ॥ इति । प्रयोगपारिजात आचार्य:- आपन्नायां च भार्यायां यस्यां वीर्य न रोहति । पुत्रे जाते तु षण्मासान्नारीजाते ऋतुत्रयम् ॥ ददाति मध्यमं पिण्डं जले वाऽप्यथवाऽनले ॥ इति । अवशिष्टपिण्डप्रतिपत्तिमाहाऽऽचार्य:-अप्स्वितरावतिप्रणीते वा यर वाऽऽगन्तुरन्नकाम्याभावः स प्राश्नीयान्महारोगेण वाऽभितप्तः प्राश्नीय दन्यतरां गतिं गच्छतीति । याज्ञवल्क्यस्तु- पिण्डांस्तु गोजविप्रेभ्यो दद्यादनौ जलेऽपि वा। प्रक्षिपेद्दक्षिणामीक्षन्दिशं पितृपरायणः ॥ इति । कामविशेषे पिण्डप्रतिपत्तिरुक्ता ब्रह्माण्डे- पिण्डमग्नौ सदा दद्याभोगार्थी प्रथमं नरः । पत्न्यै प्रजार्थी दद्यादै मध्यमं मन्त्रपूर्वकम् ॥ उत्तमां गतिमन्विच्छन्गोषु नित्यं प्रयच्छति । आज्ञां प्रजां यशः कीर्तिमप्सु पिण्डं प्रवेशयेत् ॥ प्रार्थयन्दीर्घमायुष्यं वायसेभ्यः प्रयच्छति । आकाशं गमयेदप्सु स्थितो वा दक्षिणामुखः ॥ इति । ततो विप्राणामुत्तरापोशनं दत्त्वा तैर्गण्डूषकरणं हस्तप्रक्षालनं (द्वय शुद्धाचमनं च कारयित्वा विकिरं दद्यात् । आचान्तेषु पिण्डदानर्माि - १ क व वे ग°। २ ग. 'तद्वय ।

श्राद्धमञ्जरी। शुद्धा(या)चमनान्ते पिण्डदानं तदन्ते विकिरदानम् । विकिरदानवि- धिमाह चन्द्रिकायां देवल:- ततः सर्वाशनं पात्रे गृहीत्वा विविधं बुधः । तेषामुच्छेषणस्थाने विकिरं भुवि निक्षिपेत् ॥ मनुरपि-सार्वणिकमन्नाद्यमानीयाऽऽप्लाव्य वारिणा । समुत्सृजेद्भुक्तवतामग्रतो विकिरन्भुवि ॥ इति । मन्नस्तु ये अग्निदग्धा हाते परिशिष्टे । दानमपि कुशेषु सकृदेव भवति । कमलाकरस्तु-असोमपाश्चेति मन्त्रेण देवेऽसंस्कृतप्रमीता इति मन्त्रेण पित्र्येऽन्नं प्रकीर्य ये अमिदग्धा इति मन्त्रेणोच्छिष्टपिण्डं कुशो- परि पृथग्दद्यादिति पक्षान्तरमाह । शिष्टाचारोऽप्येवमेव । केचित्प्रत्यु- च्छिष्टं विकिरदानमित्याहुस्तत्र मूलं मृग्यम् । कारिकामाध्ये- विकिरं ग्रासमात्रं तु न तद्दद्यात्पृथक्पृथक । उद्धृत्य सर्वमन्नं तत्पतिमूर्धनि दापयेत् ॥ इति पृथग्दाने निषेधदर्शनात् । पिण्डसंनिधौ विकिरदानमाह धूम्र:- कपित्थस्य प्रमाणेन पिण्डं दद्यात्समाहितः। तत्समं विकिरं दद्यापिण्डान्तेषु षडङ्गुन्ले ॥ इति । बाह्म-ततः प्रक्षाल्य हस्तौ च द्विराचम्य हरिं स्मरेत् । व्यासः-उच्छिष्टैरेव विकिरं तदैव प्रतिपादयेत् । भृगुः-पिण्डवत्प्रतिपत्तिः स्याद्विकिरस्येति तौल्वलिः । चन्द्रिकायाम्-यदुक्तं पिण्डदानस्य तत्कर्म विकिरस्य च । क्षिपेत्पिण्डाञ्जले वाऽनौ विकिरं तत्र निक्षिपेत् ॥ इति । विकिरणानन्तरं कर्तव्यतोक्ता परिशिष्टे-अथ ब्राह्मणहस्तेष्वपो दांश्च दत्त्वा यवास्तिलांश्चावधाय पुनरपो दद्यादेषा हस्तशुद्धिरिति । मात्स्येतेष्वाचान्तेषु चाऽऽचम्य वारि दद्यात्सकृत्सकृत् । तैलपुष्पाक्षतान्पश्चादक्षय्योदकमेव च ॥ आचान्तेष्विति यदुक्तं तच्छाखान्तराभिप्रायम् । दैवे यवानेव । अत्र देवे सव्यं पित्र्ये त्वपसव्यमिति कर्कः। उभयत्र सव्येनैवेति कमला. करः । अत्र शिवा आपः सन्त्वित्यादिप्रयोगो ज्ञेय इति स एव । १ ग. षणास्थान । २ ग. 'ध्येऽपि-वि। ३ ग. न दद्या ४ ग. रं सदै।

केळकरोपाहबापूभट्टविरचिता- मात्स्ये-अघोराः पितरः सन्तु सन्त्वित्युक्ते पुनदिजैः । गोत्रं तथा वर्धतां नस्तथेत्युक्तः स तैः पुनः॥ कारिकामाष्ये वृद्धयोगीश्वरः- ततश्च तिलकं कुर्यान्मन्त्रेणानेन भक्तितः । मन्त्रस्तु-नित्यानुष्ठानसिद्ध्यर्थं सर्वदाऽप्यात्मशुद्धये । पितृमातृपराः सन्तः सन्त्वस्मस्कुलजा नराः ॥ इति । अत्राप्यूर्वपुण्ड्रनिषेध इति कमलाकरः। चन्द्रिकायां भविष्योत्तरे- चालयेद्विप्रपात्राणि स्वयं शिष्योऽथवा सुतः । न स्त्री प्रचालयेत्तानि हीमजाति चाग्रजः ॥ अग्रजो ज्येष्ठ भ्राता । यजमानापेक्षयाऽधिकवयस्क इति हेमाद्रिः। अत्रोच्छिष्टपात्रचालनमात्रं नोहासनम् । उद्वासनस्य कालान्तरोक्त- त्वात् । पात्रचालनानन्तरं कर्तव्यमाह जातूकमे:- स्वस्तिवाच्यं ततः कुर्यादक्षय्योदकमेव च । वृद्धशातातपः-पितॄणां नामगोत्रेण करे देयं तिलोदकम् । प्रत्येकं पितृतीर्थेन अक्षय्यमिदमस्त्विति ॥ ततः पूर्वस्थापितं प्रथमार्यपात्रं चालयेत् । नागरखण्डे -उत्तानमर्यपात्रं तु कृत्वा दद्याञ्च दक्षिणाम् । हिरण्यं देवतानां च पितॄणां रजतं तथा ॥ अतिदरिद्रस्य दक्षिणोक्ता सौरपुराणे- यज्ञोपवीतमथवा शतिदारिद्यपीडितः । प्रदद्यादक्षिणार्थं वै तेन स्यात्कर्म साडणम् ॥ कलिकायामाचार्यः-दद्याद्यज्ञोपवीत्येव ताम्बूलं दक्षिणां तथा।इति । आदौ पै(पि)व्यविप्रेभ्यः पश्चादैविकविप्रेभ्य इति चन्द्रिकायाम् । दक्षिणादानं सव्येनेति वृत्तिकृत् । पित्रुद्देशेन दक्षिणादानेऽपसव्यं विप्रोद्देशे तु सव्यमिति माधवः । दक्षिणा च विप्रगुणानुरोधेन विषमाऽपि देया। एकपडूक्त्युपविष्टानां विप्राणां श्राद्धकर्मणि। भक्ष्यं भोज्यं समं देयं दक्षिणा त्वनुसारतः ॥ इति मयूरवोदाहृतवचनात् । एतस्मिन्काले सति संभवे विशेषद- क्षिणोक्ता मत्स्यपुराणे- १ ग. भश्यो।

श्राद्धमारी। ४१ गोभूहिरण्यवासांसि यानानि शयनानि च । दद्याद्यदिष्टं विप्राणामात्मनः पितुरेव च ॥ इति । अन्यान्यपि दीपिकाधूपपात्रकञ्चुकोणीषोदककमण्डलुच्छत्रोपा- नदर्पणव्यजनताम्बूलचामरसुवर्णाचलंकारशय्यासनसुगन्धहसन्तिकापत- गाहगण्डूषपात्रभोजनपात्रतदाधारादीनि प्रदेयानि । दक्षिणादानानन्तरं कर्तव्यमाह निर्णयसिन्धावत्रिः- वहेच तांस्ततो विप्रान्पित्रादिभ्यः स्वधोच्यताम् ॥ इति । ततो विश्वे देवाः प्रीयन्तां पितरः प्रीयन्तामिति वाचनमिति चन्द्रि- कायाम् । अत्र प्रतिवचनान्ते शोभनं हविरिति विप्रा ब्रूयुः । उक्तं च प्रयोगपारिजाते वसिष्ठेन- श्राद्धावसाने कर्तव्या द्विजैरन्नगुणस्तुतिः ॥ इति । दक्षिणादानोत्तरमर्यपात्रचालनमुक्तं मयूरवे । तत्रत्यवचनम्- यस्मिस्ते संत्रवाः पूर्वं पितृपात्रे निवेशिताः । पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत् ॥ इति । मात्स्ये-वाजे वाज इति जपन्कुशाग्रेण विसर्जयेत् । पितृपूर्व विसर्जयेदिति प्रचेताः । विसर्जनवाक्यमाहाऽऽचार्य:-ॐ स्वधोच्यतामिति विसृजेदस्तु स्वधेति वा पिण्डनिपरणदेशं संमृज्य तिलान्विकीर्य शान्तिरस्त्विति जलं क्षिपेदिति । चन्द्रिकायां ब्रह्मवैवर्ते आमावाजेति मन्त्रं च पठित्वा च प्रदक्षिणम् । शौनकः-बाह्मणानथ निर्यातान्परीत्य त्रिः प्रदक्षिणम् । सस्त्रीकः प्रणमेसाधं स्वजनै रचिताञ्जलिः ॥ कनिष्ठप्रथमा ज्येष्ठचरमाः स्युः प्रदक्षिणे । प्रदक्षिणादि मण्डलदेशे कार्यमिति हेमाद्रिः। ब्रह्मवैवर्ते-प्राञ्जलिश्च ततः प्राह तान्विप्रान्सत्यवादिनः । मनुः-विसृज्य ब्राह्मणांस्तांस्तु नियतो वाग्यतः शुचिः। दक्षिणां दिशमाकाङ्कन्याचेतेमान्वरान्पितून ॥ दातारो नोऽभिवर्धन्तां वेदाः संततिरेव नः । श्रद्धा च नो मा व्यगमबहुदेयं च नोऽस्त्विति । १ क. ख. णापक्रम णीषकम ।

४२ केळकरोपाह्वबापूभट्टविरचिता- बौधायन:-अनं च नो बहु भवेदतिथींश्च लभेमहि । याचितारश्च नः सन्तु मा च याचिष्य कंचन ॥ इति । अत्र दातारो वोऽभिवर्धन्तामित्याहेन विगैः प्रतिवचनं कार्यमिति सुदर्शनभाष्ये । अत्र स्वादुषंसदः० ब्राह्मणासः पितरः० इति मन्त्रद्वयं च पठेयुरिति कमलाकरः । इहैव स्तं मा वियोष्टं० आयुः प्रजां धनं विद्या स्वर्ग मोक्षं सुखानि च । प्रयच्छन्तु तथा राज्यं प्रीता नृणां पितामहाः ॥ इति च पठित्वाऽऽशिषो दारिति चन्द्रिकायाम् । ततो विप्रान्पादसं- वाहनादिभिः परितोष्य प्रणिपत्य प्रार्थयेत् । प्रार्थनामाह हेमाद्रौ बृह- स्पतिः- अद्य मे सफलं जन्म भवत्पादाब्जवन्दनात् । अध मे वंशजाः सर्वे याता वोऽनुग्रहादिवम् ॥ पत्रशाकादिदानेन क्लेशिता यूयमीदृशाः । तत्क्लेस जातं चित्ते तु विस्मृत्य क्षन्तुमर्हथ ।। यस्य स्मृत्येत्यादयश्चन्द्रिकादावुक्ताः । विष्णु:-मन्त्रहीनं क्रियाहीनं भक्तिहीनं द्विजोत्तमाः । श्राद्धं संपूर्णतां यातु प्रसादाद्भवतां मम ॥ इति । वसिष्ठासः पितृ० देवान्वसिष्ठोदान इति मन्त्रद्वयमिदं पितृभ्यो नमो अस्त्वद्येति ब्राह्मणं च पठेदिति चन्द्रिकायाम् । ततः कर्मेश्वरार्पणं कृत्वा विप्रैः सहाष्टौ पदानि सपरिवारोऽनुबज्य विसर्जयेदिति कारि- काभाष्ये । उक्तं च प्रचेतसा- विसृजेद्भक्तिसंयुक्तः सीमान्तं चाप्यनुव्रजेत् ॥ इति । विमोच्छिष्टोद्वासनकालः कूर्मपुराणे- नोद्वासयेत्तदुच्छिष्टं यावन्नास्तमितो रविः । इति । इई गृहान्तरसत्त्व इति कमलाकरः । गृहेकत्वे तु मनुः-उच्छेषणं तु तत्तिष्ठेद्यावद्विमा विसर्जिताः । तत्प्रतिपत्तिमाह जातकर्य:- द्विजभुक्तावशिष्टं तु सर्वमेकत्र संहरेत् । शुचिभूमौ प्रयत्नेन निखन्याच्छादयेबुधः ॥ इति । ब्रह्माण्डे-शूद्राय चानुपेताय श्राद्धोच्छिष्टं न दापयेत् । यो दद्यादागतो मोहान्न तद्गच्छति वै पितृन् ॥ इति । १ क. ख. ज्ञातचित्तास्तु वि'।

श्राद्धमञ्जरी। ४३ विप्रविसर्जनानन्तरं पूर्व प्रति विप्रं स्थापितदीपानिर्वासयेदिति कारि. काभाष्ये । ततोऽगारं गोमयेनोपलेपयेदिति वाजपेययाजिपद्धतौ । अथ वैश्वदेवनिर्णयः । तत्र बवृचैराहितामिमिरनाहिताग्निभिरनग्नि- कैश्च सर्वैः सर्वश्राद्धेषु श्राद्धान्ते श्राद्धशेषेण वैश्वदेवः कार्य इति वृत्ति कारप्रभृतयो बहवः। केचिदहवृचैराहिताग्निभिः सर्वेषु श्राद्धेषु श्राद्धादौ पृथक्पाकेन वैश्वदेवः कार्य इत्याहुस्तत्पक्षे दर्शे क्रममाह लौगाक्षिः- पक्षान्तं कर्म निर्वयं वैश्वदेवं च साग्निकः। पिण्डयज्ञं ततः कुर्यात्तत्तोऽन्वाहार्यकं बुधः ॥ इति । पक्षान्तं कर्मान्वाधानम् । अन्वाहार्यकं दर्शश्राद्धम् । हेमाद्रौ मार्क- ण्डेयः- ततो नित्यक्रियां कुर्याद्धोजयेच्च ततोऽतिथीन् । ततस्तदन्नं भुञ्जीत सह भृत्यादिभिर्नरः ॥ इति । ततः श्राद्धशेषात् । नित्यक्रिया नित्यश्राद्धम् । तञ्चाये वक्ष्यते । मत्स्य- पुराणे- ततश्च वैश्वदेवान्ते सभृत्यः सहबान्धवः । भुञ्जीतातिथिसंयुक्तः सर्व पितृनिषेवितम् ॥ इति । सर्व पर्वादिनिषिद्धमाषाद्यपीत्यर्थः । इदं भोजनं श्राद्धाङ्गमेव विहित न तु रागप्राप्तमिति कमलाकरः । अभोजने दोषमाह देवलः- श्राद्धं दत्त्वा तु यो विप्रो न मुक्ते चेत्कदाचन । देवा हव्यं न गृह्णन्ति कव्यानि पितरस्तथा ॥ भोजनकालमाह जातूकर्य:- अहन्येव तु भोक्तव्यं कृते श्राद्धे द्विजन्मभिः । अन्यथा ह्यासुरं श्राद्धं परपाके च सेविते ॥ उपवासप्राप्तौ यत्र कृष्णैकादश्यादावुपवासो नाऽऽवश्यकस्तत्र वैधत्वा- झुञ्जीतैव । यत्र तु शिवराव्येकादश्यादावुपवास आवश्यकस्तत्र श्राद्ध- शेषान्नस्यावघाणमेवेति कमलाकरः । व्यासोऽपि- उपवासो यदा नित्यः श्राद्धं नैमित्तिकं भवेत् । उपवासं तदा कुर्यादाघाय पितृसेवितम् ॥ इति । - , ग. पेणैव वै।

- केळकरोपाहवापूभङ्कविरचिता- काम्योपवासेऽप्यायमेव । ग्रहणवेधे तु भुञ्जीतेति कमलाकरः। हेमाद्रिस्तु यत्रोपवास आवश्यकस्तत्रैकभक्तमयाचितं वा कार्यमित्याह । अन्यश्राद्धशेषभोजने तु जाबालि:- विप्रस्त्वन्यगृहे श्राद्धशिष्टान्नं भोजनं चरेत् । प्राजापत्यं विशुद्धिः स्याज्ज्ञातिगोत्रे न दोषकृत् ॥ श्वशुरस्य गुरोर्वाऽपि मातुलस्य महात्मनः । ज्येष्ठभ्रातुश्च पुत्रस्य ब्रह्मनिष्ठस्य योगिनः ॥ एतेषां श्राद्धशेषान्नं भुक्त्वा दोषो न विद्यते । आचार्य:-न शूद्रं भोजयेत्तस्मिन्गृहे यत्नेन तद्दिने । श्राद्धशेषं न शूद्रेभ्यः प्रदद्यादखिलेष्वपि ॥ इति। अथ श्राद्धाङ्गतर्पणम् । तत्कालमाह निर्णयसिन्धौ कपिल:- मन्वादिषु युगाद्यासु दर्शसंक्रमणेषु च । पौर्णमास्यां व्यतीपाते दद्यात्पूर्वं तिलोदकम् ॥ अर्धोदये गजच्छाये षष्ठयां चैव महालये। भरण्यां च मघाश्राद्धे श्राद्धान्ते तर्पणं विदुः ॥ षष्ठयां कपिलषष्ठ्याम् । शौनकः- मातापित्रोताहे तु परेऽहनि तिलोदकम् । गर्गः-पक्षश्राद्धे हिरण्ये च अनुबज्य तिलोदकम् ॥ सकृन्महालये श्वः स्यादृष्टकोस्वन्त एव हि । वैधृतिश्राद्धे तु श्राद्धात्पूर्वमेव । तीर्थश्राद्धादौ विशेषाभावादर्शवत्पूर्व- मेव तर्पणमिति चन्द्रिकायाम् । श्राद्धाङ्गतर्पणस्य निषेधो बृहन्नारदीये- वृद्धिश्राद्धे सपिण्डे च प्रेतश्राद्धेऽनुमासिके । संवत्सरविमोके च न कुर्यात्तिलतर्पणम् ॥ श्राद्धाङ्गमित्यर्थः । यत्र दर्शश्राद्धादौ श्राद्धात्पूर्वं तर्पणं विहितं तत्र मध्याह्ने स्नात्वा मध्याह्नसंध्यां विधाय ब्रह्मयज्ञं कृत्वा तदङ्ग- तर्पणेन सह दर्शश्राद्धाङ्गतर्पणस्य तन्त्रेणानुष्ठानं प्रसङ्गसिद्धिर्वा । अन्ये तु नित्यतर्पणं मातृपितृवर्गयोभिन्नं दर्शादौ तु सपत्नीकस्य पितृवर्गस्येति देवताभेदात्तन्त्रेणानुष्ठानं न युक्तमिति बदन्ति । अस्मि- पक्षे कालान्तरे ब्रह्मयज्ञकरणपक्षे वा दर्शादिश्राद्धाङ्गं सतिलं तर्पणं कृत्वा श्राद्धारम्भः कर्तव्यः । यत्र पक्षश्राद्धादौ श्राद्धान्ते तर्पणं विहितं तत्र तर्पणं कृत्वैव वैश्वदेवः कार्यः । प्रमादात्तदकरणे वैश्व- १ ग.शिष्टान्नं । २ क. ख. कास्त्वन्त । - श्राद्धमञ्जरी। . देवान्ते कार्यम् । वैश्वदेवान्ते ब्रह्मयज्ञकरणपक्षे कामं भवतु प्रसङ्ग स्तन्त्रं वा । यत्र प्रत्याब्दिकमहालयादौ परेऽहनि तर्पणं विहितं तत्र स्नात्वा प्रातःसंध्यामुपास्य श्राद्धाअन्तर्पणं विधाय पुनः सात्वा शेषमा- ह्निकं कुर्यात् । पित्रादिवार्षिके तु नित्यतर्पणं तिलबजे कर्तव्यम् । विवा- हाद्यनन्तरं विवाहादिप्रयुक्तसतिलनित्यतर्पणनिषेधे श्राद्धात्पूर्वं श्राद्धो- त्तरं वा तत्तदुक्तकाले श्राद्धाङ्गत्वेन भिन्नमेव सतिलं तर्पणं कार्यम् । तत्र न तन्त्रप्रसङ्गने । एतत्तर्पणं येषां श्राद्धं क्रियते तेषामेव । यत्र सकृ- न्महालयादौ सर्वेषां पितॄणां श्राद्धं क्रियते तत्र सर्वेषामेव तर्पणमिति । तर्पणविधिश्चन्द्रिकायाम- स्नात्वा तीरं समागत्य उपविश्य कुशासने । अपसव्यं ततः कृत्वा सव्यं जान्वाच्य भूतले ॥ नामगोत्रस्वधाका द्वितीयान्तेन तर्पयेत् । संतर्पयेपितृनिज्यान्नात्वा वस्त्रं च धारयेत् ॥ इति । तर्पणोत्तरं नित्यनानं कृत्वेत्यर्थ इति कमलाकरः । मम तु यत्र प्रत्या- ब्दिकादौ परेऽहनि तर्पणं तत्रैवेदं स्नानविधानमिति प्रतिभाति । तच्च तर्पणं बचानां दक्षिणेनैव हस्तेन प्रतिदैवतं मन्त्रावृत्त्या त्रिवारं भवति । आचारार्के याज्ञवल्क्यः- अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु । सव्योत्तराभ्यां पाणिभ्यामथवा तर्पणं भवेत् ॥ अत्र पूर्वार्धं बचान्प्रत्युत्तरार्धमन्यान्प्रतीति बोध्यमिति । केचित्तु सूत्रे त्रिवारमनुक्तत्वात्सकृदिच्छन्ति । एवं नित्यतर्पणेऽपीति कम- लाकरः । तर्पणं जले क्रियते चेदावासा एव कुर्यात् । स्थले तु शुष्कवासा एव । आर्द्रवासा जले कुर्यात्तर्पणाचमनं जपम् । शुष्कवासाः स्थले कुर्यात्तर्पणाचमनं जपम् ॥ इति हारीतोक्तेः । तथा चोक्तम्- वसित्वा वसनं शुक्वं स्थले विस्तीर्णबर्हिषि । विधिज्ञस्तर्पणं कुर्यान्न पात्रेषु कदाचन ।। पावाद्वा जलमादाय शुभे पात्रान्तरे क्षिपेत् । जलपूर्णेऽथवा गर्ने न स्थले तु विबर्हिषि ॥ इति ।

४६ केळकरोपाहबापूभट्टविरचिता- पात्रमाह पितामहः- हैमं रौप्यमयं वाऽपि तानं कांस्यसमुद्भवम् । पितृणां तर्पणे पात्रं मृन्मयं तु परित्यजेत् ॥ इति । जलदानं पात्रेणापि कार्यमिति केचित् । उक्तं त्वाचारार्के मरीचिना- सौवर्णन तु पात्रेण ताम्ररौप्यमयेन वा। औदुम्बरेण खगेन पितॄणां दत्तमक्षयम् ॥ इति । तत्रैव योगयाज्ञवल्क्य:- याद्धृतं निषिश्चेत्तु तिलान्संमिश्रयेज्जले । अतोऽन्यथा तु सव्येन तिला ग्राह्या विचक्षणः ॥ इतिः ।। अन्यथा, अनुद्धतेन तर्पण इत्यर्थः । स्मृतिसारे- जलान्ते तिलदास्तु योऽनुष्ठानाय याचते । नानुष्ठानफलं तस्य दातुरेव हि तत्फलम् ॥ इति । अथ प्रसङ्गान्नित्यतिलतर्पणे निषिद्धकाल उच्यते । वृद्धमनुः- सतयां भानुवारे च मातापित्रोदृतेऽहनि । तिलैर्यस्तर्पणं कुर्यात्स भवपितृघातकः ॥ चन्द्रिकायां गायः- मानौ भौमे त्रयोदश्यां नन्दाभृगुमघासु च । पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम् ॥ इति । मरीचिः-सप्तम्यां रविवारे च गृहे जन्मदिने तथा। भृत्यपुत्रकलत्रार्थी न कुर्यात्तिलतर्पणम् ॥ वायुपुराणे-पक्षयोरुभयो राजन्सप्तम्यां निशि संध्ययोः । उत्तराध तथैव । स्मृत्यर्थसारे- विवाहबतचूडासु वर्षमधं तदर्धकम् । पिण्डदानं मृदा स्वानं न कुर्यात्तिलतर्पणम् ॥ इति । निर्णयसिन्धौ-वृद्धौ सत्यां च तन्मासि नेत्याहुस्तिलतर्पणम् । इति । संग्रहे-नन्दायां भार्गवदिने कृत्तिकासु मघासु च । भरण्यां भानुवारे च गज छायाह्वये तथा ॥ अयनद्वितये चैव मन्वादिषु युगादिषु । पिण्डदानं मृदा स्नानं न कुर्शत्तिलतर्पणम् ॥ इति । - -- -- बाखूमञ्जरी। अत्र तिलतर्पण निषेधश्चिन्त्य इति कमलाकरः । अत्र नित्यतर्पणे तिलमात्रनिषेधो न तु तर्पणनिषेधः । सिन्धौ गोभिल:- तिलाभावे निषिद्धाहे सुवर्णरजतान्वितम् । तदभावे निषिश्चेत्तु द मन्त्रेण वा पुनः ॥ इति । अत्र तिलतर्पणनिषेधकालेऽपि क्वचित्पतिप्रसवः पृथ्वीचन्द्रोदये- तीर्थे तिथिविशेषे च गयायां प्रेतपक्षके। निषिद्धेऽपि दिने कुर्यात्तर्पणं तिलमिश्रितम् ॥ कात्यायनः-उपरागे पितुः श्राद्ध पातेऽमायां च संक्रमे । निषिद्धेऽपि हि सर्वत्र तिलस्तर्पणमाचरेत् ॥ एतत्परेयुःश्राद्धाङ्गतर्पणविषयमिति केचित् । श्राद्धाशक्तस्य तत्स्था- नापन्नतर्पणविषयमिति कमलाकरः । श्राद्धाङ्गतर्पणं तु निषिद्धकालेऽपि तिलैः सह भवत्येव । जीवपितृकेण तु श्राद्धाङ्गतर्पणं केवलजलेन कार्यमिति केचित् । अन्ये तु शुक्लतिलरािते वदन्ति । संन्यस्ते पितरि जीवति पतिते वा तत्पुत्रेण जीवत्पितृकेणापि नित्यतर्पणं पितुः पित्रा- दीनां कर्तव्यमिति चन्द्रिकादौ तदपि केवलजलेन पितरि सृते तत्प्रभृत्ये- वेत्यलमतिविस्तरेण । अन्ये च कर्तृनिर्णयादयो विशेषा ग्रन्थान्त- रतोऽवगन्तव्याः । गौरवभयान्नेहोच्यन्ते । इति श्रीमञ्चित्तपावनकेळकरोपाभिधमहादेवात्मजयापूभट्ट- विरचितायां श्राद्धमञ्जयाँ परिभाषाप्रकरणम् । अथ सर्वेषां श्राद्धानां प्रकृतिभूतत्वादादौ पार्वणश्राद्धमुच्यते। तत्का. लमाह कारिकाकार:- कुर्वीत पार्वणश्राद्धं दर्शे तदभिधीयते । कामयोगेन चान्यस्यां तिथावित्यपरेऽब्रुवन् ॥ इति । चन्द्रिकायां भविष्ये- अमावास्यायां क्रियते तत्पार्वण सुदाहृतम् । क्रियते वा पर्वणि यत्तत्पार्वणमिति स्थितिः ॥ अत्र पर्वशब्देन कृष्णाष्टम्यादीनि गृह्यन्ते। तान्युक्तानि विष्णुपुराणे- १ ग. निषेधेऽपि।

४८ केळकरोपाहबापूभट्टविरचिता- चतुर्दश्यष्टमी कृष्णा अमावास्या च पूर्णिमा। पर्वाण्येतानि चत्वारि रविसंक्रमणं तथा ॥ इति । अथ दर्शश्राद्धप्रयोगः-श्राद्धकर्ता द्यहकालत्वपक्षे श्राद्धदिनात्पू. वैद्यः सायंहोमानन्तरं सद्यःपक्षे तु श्राद्धदिने प्रातः कृतनित्यक्रिया शुचिर्बद्धशिखो दर्भान्धारयमाणो लब्धबाह्मणानुज्ञो यज्ञोपवीती द्विरा- चम्य पवित्रं ते वि० माशत इति मन्त्रेण पवित्रे धृत्वा प्राणानायम्य देश- कालौ स्मरेत् । [*श्रीमद्भगवतो महापुरुषस्य शक्त्या भ्रियमाणे भूलॊके भूमण्डले जम्बुद्वीपे भारते वर्षे भरतखण्डे दण्डकारण्ये भूमध्यरेखायाः पश्चिमदिग्भागे गोदावर्या दक्षिणदिग्भागे कावेर्या उत्तरदिग्भागे सह्याद्रेः पश्चिमदिग्भागे पश्चिमहोदधेः पूर्वभागेऽस्मिश्रीपरशुरामनि- मिते पुण्यक्षेत्रे श्रीविष्णोराज्ञया प्रवर्तमानस्य ब्रह्मणो द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरेऽष्टाविंशतितमे महायुगेऽस्मिन्वर्तमाने कलियुगे तत्प्रथमचरणे बौद्धावतारे शालिवाहनशके शुक्लसंवत्सर उद्ग- यने हेमन्तौ पौषे मासे कृष्णपक्षेऽमावास्यायां तिथौ मन्दवासरे श्रवणे नक्षत्रे व्यतीपातयोगे चतुष्पदकरणे मकरस्थे सूर्ये मकरस्थे चन्द्रे कुम्भस्थे भौमे कुम्भस्थे सौम्ये मीनस्थे देवगुरौ मकरस्थे शुक्रे वृश्चि- कस्थे शनैश्चरे कन्यास्थे राही मीनस्थे केतावेवंगुणविशिष्टे पुण्यकाल एवं यथादेशं यथाकालं देशकालावुल्लिख्य ] प्राचीनावीत्यस्मपितु- रमुकशर्मणोऽमुकगोत्रस्य बसुरूपस्य सपत्नीकस्य, अस्मपितामहस्या- मुकशर्मणोऽमुकगोत्रस्य रुद्ररूपस्य सपत्नीकस्य, अस्मत्मपितामहस्या. मुकशर्मणोऽमुकगोत्रस्याऽऽदित्यरूपस्य सपत्नीकस्य, अस्मन्मातामह- स्या० श० गो० व० स० अस्मन्मातुः पितामहस्या० श० गो रु० स० अस्मन्मातुः प्रपिताम० श० गो० आ० सपत्नीकस्य, अथवाऽस्मपितृपितामहप्रपितामहानाममुकशर्मणाममुकगोत्राणां वसुरु- द्रादित्यस्वरूपाणां सपत्नीकानामस्मन्मातामहमातु:पितामहमातुःप्रपि- तामहानाममु० सपत्नीकानामेवमुल्लिख्य, एतेषां तृप्त्यर्थं दर्शश्राद्धं सदैवं सपिण्डं पावणेन विधिनाऽनेन हविषा श्वः सद्यो वा करिष्य इति संकल्प्य ब्राह्मणानिमन्त्रय यज्ञोपवीती प्राङ्मुखोपविष्टस्य विप्रस्य * धनुश्विद्वान्तर्गतग्रन्थः क. पुस्तके नास्ति । १ ग. पौर्णिमा ! २ ग. मन्त्रयेत् । य°।

श्राद्धमञ्जरी। दक्षिणं पादं जानुं वा स्पृष्ट्वाऽस्मत्पितृपितामहप्रपितामहानाममुकश० अस्मन्मातामहमातुःपितामह० सपत्नीकानां दर्शश्राद्धे पुरूरवाव- संज्ञकविश्वदेवार्थं त्वया क्षणः करणीय इति तं प्रति वदेत् । ॐत. थेति विप्रो यजमानं प्रति वदेत् । एवं द्वितीयस्य । इति विश्वदेवार्थ द्वौ विप्रो निमन्त्रयेत् ।अपि वाऽद्यकरिष्यमाणदर्शश्राद्धे पुरूरवार्द्रव० क्षणः करणीय इति निमन्त्रयेत् । ततः प्राचीनावीत्युदङ्मुखस्य विप्रस्य सव्यं पादं जानुं वा स्पृष्ट्वाऽयकरिष्यमाणदर्शश्राद्धेऽस्मत्पितुरमुकशर्म० सप- लीकस्य स्थाने० करणीय इति तं वदेत् । ॐ तथेति प्रतिवचनम् । एवं पितामहप्रपितामहयोर्मातामहवर्गस्य च, एवमष्टौ ब्राह्मणान्नि- मन्त्र्य यज्ञोपवीती सर्वान्प्रार्थयेत् । अक्रोधनैः०कारिणा । इति निमन्त्र- णानन्तरमृग्वेदिनो विप्रा उपह्वये सु. प्रवोचमित्यूचं पठेयुः । यजुर्वेदि- नस्तु आब्रह्मन्ब्राह्मणो० योगक्षेमो नः कल्पतामिति पठेयुः । ततः कता पाकसिद्ध्यनन्तरं निमन्त्रितान्विनांनाहूय प्रत्युत्थानादिना सत्कृत्य तेपां श्मश्रुकर्मादिस्नानान्तं कारयेत् । ततो मध्याह्ने दर्शश्राद्धाङ्गतर्पणं कुर्यात् । तद्यथा नद्यादौ स्नात्वा तीरं समागत्य वासः परिधाय दर्भासन उपवि- श्याऽऽचम्य पवित्रपाणिः प्राणानायम्य देशकालौ० प्रा० अद्यकरिष्य- माणदर्शश्राद्धाङ्गत्वेन पितृतर्पणं करिष्य इति सं० सव्यं जान्वाच्य दक्षि- णहस्ते दर्भान्निधाय सव्यहस्तेनान्वारब्धेन दक्षिणेन पाणिना पितृतीर्थे- नाग्नेय्यभिमुखः शुचिस्थले दर्भानास्तीर्य तेषु तिलमिश्रितजलेन तर्पयेत् । अस्मत्पितरं० शर्माणं० गो० वसुरूपं सपत्नीकं स्वधा नमस्तर्पयामि १ अस्मपितामहं० २ अस्मत्मपितामहं० ३ अस्मन्मातामहं० ४ अस्मन्मातुः पितामहं० ५ अस्मन्मातुः प्रपितामहं० ६ इति प्रत्येकं मन्त्रावृत्त्या त्रिस्त्रिस्तर्पयित्वाऽनेन पितृतर्पणाख्येन कर्मणां भगवान्पितरूपी परमेश्वरः प्रीयतामिति कर्मेश्वरार्पणं कृत्वा पुनः स्नानं कृत्वा वस्त्रधारणं विधाय गृहमागत्य कुतपकाले श्राद्धारम्भं कुर्यात् । द्विराचम्य पवित्रवन्तः० ध्वारभमिति पवित्रे धृत्वा देशकालौ संकीर्य प्राचीनावीत्यस्मपितुर- मुकशर्मणोऽमुकगोत्रस्य वसुरूपस्य सपत्नीकस्येत्यादि मातुःप्रपिताम- हाँन्तान्पूर्ववदुच्चार्योपक्रान्तं दर्शश्राद्धं करिष्य इति संकल्पयेत् । कुरुष्वेति प्रतिवचनम् । यज्ञोपवीत्येकस्मिन्पात्रे देवार्चनार्थमिमं मे गणे० क. ख. °णा प° । ५ ग. १ ग. तं प्रति व° । २ ग. प्रान्समाहू। ३ ग. 'लसंमि । स्नात्वा । ६ ग. हान्तं पू। ग. कल्प्य कु।

५० केळकरोपाहबापूभवविरचिता- मयेति मन्त्रेण शुद्धोदकं निक्षिप्य गन्धद्वारां० श्रियमिति गन्धम् । शरासः० लिप्सतेति दर्भमयकूर्चम् । यवोऽसि धान्य० स्मृतमिति यवान् । हिरण्यरूपः० मस्मा इति हिरण्यम् । तूष्णीं पुष्पतुलसीपत्रफलानि निक्षिपेत्तावोदकम् । ततः प्राचीनावीत्यन्यस्मिन्पाने पित्रर्चनार्थ तिलोदकं संपादयेत् । तत्र यावपनस्थाने तिलोऽसि सोमदे० नम इति मन्त्रेण तिलान्निक्षिप्य तुलसीदलैः सह भृङ्गिराजपत्राणि निक्षिपेदिति विशेषः । अन्यत्पूर्ववत् । ततो यज्ञोपवीत्यात्मशुद्ध्यर्थं गृहद्रव्यादिशु- ध्यर्थं च न तमहो० शुचीयो० सहनशीर्षा० तरत्समन्दी० इत्या- दिपवित्रमन्त्रान्बाह्मणैः सह पठित्वा शुद्धवतीभिः कूष्माण्डीभिः पायमानीभिस्तरत्समन्दीभिश्च यवोदकमभिमन्त्रयेत् । उपकल्पितान्पदा- र्थान्यवोदकेन प्रोक्षयेत् । ततो विप्राणामने ब्रह्मदण्डार्थ कुशतिलसहितं हिरण्यं निधाय समस्तसंपत्० पादपङ्कजमित्यन्तं पठित्वा प्रदक्षिणीकृत्य प्राचीना० दर्शश्राद्धं कर्तुं ममाधिकारसंपदस्त्विति भवन्तो बुवन्तु । अस्तु श्राद्धाधिकारसंपदिति प्रतिवचनम् । ततो यज्ञोपवी० विप्रान्ति- मन्त्रणक्रमेण प्रत्येकं भवतः स्वागतमिति प्रणतिपूर्वकं प्रबूयात् । सुस्वा- गतमिति विप्राः । ततः कर्ता पुनर्विप्रान्निमन्त्रयेत् । तद्यथा प्रामुखो. पविष्टस्य विप्रस्य दक्षिणं जानुं स्पृष्ट्वा दर्शश्राद्धे पुरूरवावसंज्ञकविश्वदे- वार्थं त्वया क्षणः करणीयः । ओं तथेति विप्राः । कर्ता प्राप्नोतु भवान् । विप्रः प्राप्नवानि । एवं द्विती० ततः प्राची० एवमेवोदङ्मुखानां पित्र्य- . विप्राणां सव्यजानुस्पर्शपूर्वकं निमन्त्रणं कुर्यात् । ततो यज्ञो० प्राच्या गृहाङ्गणे देवपाद्यार्थ प्रादेशमात्रमुदक्प्लवं चतुरस्त्रं गोमयोदकाभ्यां मण्ड- लमुल्लिख्य तत्र प्रागग्रान्दर्भानास्तीर्य गन्धपुष्पयवैरभ्यर्चयेत् । प्राचीना- बीती तदक्षिणत: घडडुलान्तरे पूर्ववर्तुलं दक्षिणाप्लवं मण्डलमुल्लिख्य दक्षिणायान्दर्भानास्तीर्य गन्धपुष्पतिलैरभ्यर्चयेत् । यज्ञो०देवमण्डलस- मीपे प्रत्यङ्मुख उपविश्य मण्डलात्प्रत्यग्दर्भपीठयोः प्राङ्मुखो देवद्विजा- वुपविश्य प्रथमविप्रपादौ मण्डले निधाय पुरूरवावसंज्ञ० वा इदं वः पायं स्वाहा नम इति ग्रन्थिरहितपवित्रकसहितेन पाणिना घृताक्तपा- दयोर्यवोदकं दत्त्वा शं नो देवी० तु न इति दक्षिणभागस्थितभार्या- सावितेनान्येन शुद्धोदकेन मण्डले पादौ प्रक्षाल्याभिवन्दयेत् । नाव विप्र- १ कः ख. क्षिप्य त । २ ग. वावापस्था । ३ ग, 'मिति तान्प्रद । ४ ग. क्षिणजा, ५ ग. 'देवस्थाने त्व।

५१ श्राद्धमञ्जरी। पादाधःक्षालनम् । एवं द्वितीये । ततः प्राचीनावीती दक्षिणमण्डलस. मीपे प्रारदक्षिणामुख उपविश्य मण्डलाद्दक्षिणत उदङ्मुखोपवेशितस्य पितृस्थानीयविप्रस्य पादौ मण्डले निधाय, अस्मत्पितरमुकशर्मनमुकगोत्र वसुरूप सपत्नीकेदं ते पाद्यं स्वधा नम इति पूर्ववत्तिलोदकं दत्त्वा शं नो देवीरिति पूर्ववत्प्रक्षाल्याभिवन्दयेत् । एवमितरेषामस्मपितामहेत्यादि । यज्ञोपवीती दैविकमण्डलादुत्तरतो ब्राह्मणान्द्विराचाम्य स्वयं पवित्रे त्यक्त्वा पादौ प्रक्षाल्य द्विराचम्यान्ये पवित्रे धारयेत् । आचमनोदकेन पादप्रक्षालनोदकसंसर्गो यथा न भवेत्तथाऽऽचमनं कर्तव्यम् । ततो बाह्मणैः सह श्राद्धभूमिमागत्य दैवे प्रागग्रकुशद्वयसहितकम्बलाद्यासन- द्वयमुपकल्प्य पित्र्ये दक्षिणादर्भत्रयसहितान्यासनान्युपकल्पयेत् । ततो वामहस्तेनाऽऽसनं धृत्वा दक्षिणेन ब्राह्मणदक्षिणहस्तं गृहीत्वा भूर्भुवः स्वः समाध्वमित्यासन उपवेशयेत् । एवं मन्त्रावृत्त्या प्रामुखावुदक्संस्थौ वैश्वदेविकविप्रावुपवेश्य प्राचीनावीती पूर्ववदुदङ्मुखान्माक्संस्थान्ममैते पितर इति ध्यायन्पिश्यबाह्मणानुपवेशयेत् । सुसमास्मह इति प्रतिव- चनम् । ततः प्रतिविप्रं श्वेतसूत्रवर्तियुक्तमविच्छिन्नं तैलदीपें स्थापयेत् । प्राची० अब नीवीबन्धनम् । तद्यथा। उत्तरीयवस्त्राश्चलदशान्तं कुशति- लसहितं परिहितवस्त्रदक्षिणकटिसंलग्नभागेन संवेध्यावशिष्टोत्तरीयवस्त्रेण कटिभागं वेष्टयेत् । एवं नीवीं बद्ध्वा यज्ञोप० आचभ्य देश० प्राचीना- वीत्यस्मत्पितुरमुकशर्मण इत्यादिषष्ठ्यन्तान्मातुःप्रपितामहान्तान्पूर्ववढ- चार्य प्रकान्तं दर्शश्राद्धं करिष्य इति संकल्प्य कुरुष्वेत्यभ्यनुज्ञातोऽप- हता असु०मन इति नैऋतिकोणमारभ्याप्रदक्षिणं सर्वतस्तिलानवकीर्यो- दीरता०हवेष्विति जपित्वा तिला रक्ष रक्षक इति द्वारदेशे कुशतिला- न्प्रक्षिपेत् । यज्ञोपव्यवोदकं किंचित्पावान्तरे गृहीत्वा तस्मिञ्शुद्धमृदं भस्म च प्रक्षिप्य तज्जलेन तद्विष्णो०ततम् । तत्सविण्यादिति मन्त्राभ्यां दभैरन्नानि सप्रोक्ष्य विप्रान्मति वदेत् ।पाकादीनां पवित्रताऽस्तु अस्त्विति विप्रैः प्रत्युक्तः श्राद्धभूमौ गया०प्रवर्तते । देवताभ्यः पितृभ्यःनमो नमः इति त्रिर्जपित्वा देवार्चनं कुर्यात् । वैश्वदेविकविग्रहस्तयोरपो दत्त्वा पुरूरवावदेवानामिदमासनमित्येकैकस्याऽऽसने दक्षिणतः सयवान्प्राग- ग्रॉन्दर्भानृजून्दत्त्वाऽपो दद्यात् । स्वासनमिति विप्रः । कर्ता प्रत्येकमासनं ह १ ग. 'तीयस्य । त° । २ क. ख. 'रयमाण आ° । ३ ग. नकुशत्र। ४ क. ख.युक्तावि। ५ ग. पं संस्था । ६ ग. 'तयेत् । दे° । ७ ग. ग्रानृजन्दर्भान्द ।

- . -- केळकरोपावबापूमट्टविरचिता- संस्पृश्य, अवाऽऽस्यतामिति वदेत् । धर्मोऽसीति विप्रः । अत्र यदि ऋग्वे- दिनो विप्राः स्युस्तदा, इन्द्राव्वाशीमन्त०स इषुहस्तैः इति तित्र ऋचो जपेयुः । यजुर्वेदिनस्तु स इषुहस्तैःनमः ककुभाय निषङ्गिणे स्तेनानां पतये नमः । नमो निवाङ्गिण इपुधिमते तस्कराणां पतये नमः । इति त्रीन्मन्त्राञ्जपेयुः । ततः प्रत्येकं निरगुठं द्विजेंदक्षिणहस्तं धृत्वा देवे क्षणः क्रियतामिति वदेत् । ओं तथेति विप्राः । कर्ता प्राप्नोतु भवान् । प्राप्तवानीति विप्राः । ततोऽभ्युक्षितायां भुवि प्रागग्रान्दर्भा- नास्तीर्य तेषु न्यग्विलमर्यपात्रमासाद्य प्रोक्ष्योत्तानीकृत्य तस्मिन्प्रागयं. दर्भद्वयात्मकं पवित्रं निधायाप आसिच्य शं नो देवी तु न इत्यभिमन्य : यवोऽसि धान्य स्मृतभिति यवानोप्य गन्धपुष्पतुलसीदलानि च प्रक्षिप्य देवपात्रं संपन्नमित्यभिर्मुशेत् । सुसंपन्नमिति प्रतिवचनम् । ततो यवानादाय विश्वान्देवान्भवत्स्वावाहयिष्यामीत्युक्त्वा ताम्यामावाहयेत्युक्तौ विप्र- दक्षिणजानुनि सव्यहस्तं निधाय विश्वे देवास आगतःषीदतेति विप्रद- क्षिणपादादियुग्मक्रमेण पादजान्वंसशिरःसु यवानवकीर्यैवं द्वितीय आवाह्य विश्वे देवाः शृणुते०मादयस्व । आगच्छन्तु महा०भवन्तु ते। इति सकृदुपरथाय स्वाहाळ इत्युभयोरेर्यपात्रं स कृनिवेदयेत् । सन्त्वया॑ इति प्रतिवचनम् । अथ प्रथमब्राह्मणहस्तेऽपो दत्वा पवित्रे निधाय हस्तेनैवार्यपानादय॑मादाय पुरूरवा देवा इदं वोऽर्ध्यमिति दत्त्वा स्वय॑मित्युक्ते या दिव्या आपः पृथिवी०भवन्त्विति सवन्तीरनु- मच्यापो दद्यात् । एवं द्वितीयबाह्मणहस्तेऽन्या अपो दत्त्वाऽव- शिष्टमध्यं दत्त्वाऽनुमन्य पुनरपो दद्यात् । तत उभाभ्यामपो दत्त्वा पुरू. : रव०देवा एष वो गन्धः स्वाहा नमो न मम गन्धद्वारां दुरा०श्रिय मिति वा मन्त्रण पवित्ररहितेन पाणिना प्रत्येकं द्विर्गिन्धं दत्त्वा पुनरुभाभ्या- मपो दद्यात् । एवं सर्वोपचारेष्वाद्यन्तयोरपो दद्यात् । सुगन्ध इति प्रतिः। पुरूरवा०देवा इमानि वः पुष्पाणि तुलसीदल सहितानि स्वाहा नमो न मम । आयनेत० इमे । सुपुष्पाणीति प्र० । पुरूरवा० देवा एष वो धूपः स्वाहा न०। धरसि धूर्व०धूमः । सुधूप इति प्र० । पुरूरवा०देवा एष वो दीपः स्वाहा न० । उद्दीप्यस्व जातवेदो०दिशो दिश । सुदीप० । पुरूर० इदं व आच्छादनं स्वाहा । युवं वस्त्रासचंथे इति वस्त्रद्वयम् । १ क. स. जह। २ ग. "त्यनुम । ३ ग. च क्षिप्त्वा दे | ४ क. श. मृश्य सु। २ ग. रुभव रपों।

श्राद्धमारी। स्वाच्छाद० । युवा सुवा० यन्तः । पुरूरवावदेवार्चनविधेः संपूर्णताऽस्त्विति भवन्तो ब्रुवन्त्वित्युक्त्वाऽर्चनविधेः संपूर्णताऽस्त्विति प्रत्युक्तो यस्य स्मृत्येत्युक्त्वा युष्मदनुज्ञया पिवर्चनं करिष्य इक्त्युक्त्वा कुरुष्वेति प्रत्युक्तः प्राचीना० पितृब्राह्मणहस्तेऽपो दत्त्वाऽस्मारिपुतर० श० गो० व० स० स्येदमासनमिति विप्रस्याऽऽसने वामभागे सतिलानयुग्मा- न्दक्षिणाग्रान्द्विगुणान्दर्भान्दत्त्वाऽपो दद्यात् । एवमितरेषां तत्तन्नामगो- त्राद्युच्चारपूर्वकमासनानि दद्यात् । स्वासनमिति विप्राः । ततः कर्ता प्रत्येकमासनं संस्पृशन्नत्राऽऽस्यतामित्यादि । विप्रा धर्मोऽसीत्युक्त्वेन्द्रह- ह्ययामेत्यादिस्वस्वशाखोक्तान्मन्त्रान्पूर्ववज्जपेयुः । कर्ता पित्र्ये क्षणः क्रियतां प्राप्नोतु भवानिति पूर्ववत्कुर्यात् । ततो द्विजाग्रे भुवमभ्युक्ष्य दक्षिणायान्दर्भानास्तीर्य तेषु प्रतिवर्ग त्रीणि त्रीणि न्यग्बिलान्यानेयी- संस्थान्यर्घ्यपात्राण्यासाद्य प्रोक्ष्योत्तानानि कृत्वा तेषु षट्सु प्रत्येकं दर्भ- वयात्मकमाग्नेय्यग्रकं पवित्रं निधायाप आसिच्य शं नो देवीरिति सकृ- न्मन्त्रेण पावस्था अपोऽनुमन्य तिलोऽसि सोम० नम इति प्रतिपात्रं मन्त्रावृत्त्या तिलानोप्य गन्धपुष्पादि क्षिप्त्वा पितृपात्रं संपन्नं पितामह प्रपितामह० मातामह० मातुः पितामह० मातुःप्रपितामह पन्नमिति यथालिङ्ग क्रमेणाभिमृशेत् । सुसंपन्नमिति तत्तत्स्थानीयविप्रो वदेत् । कर्ता तिलानादायास्मत्पितृपिता० नमुकश० गो० व० स० अस्मन्मा- तामह० श० गो० व० सपत्नीकान्भवत्स्वावाहरिष्यामीत्युक्त्वा तैरावा- हयेत्युक्त० उशन्तस्त्वा० अत्तवे । अस्मत्पितरम० सपत्नीकमावाहया- मीति विप्रवामाङ्गादिषु युग्मक्रमेण शिरस्यसयोर्जान्वोः पादयोश्च तिलोन्विकिरेत् । एवं पितामहादीनुशन्तस्त्वेतिमन्त्रावत्या नामगोत्रा- गुच्चारपूर्वकं तत्तद्विप्र आवाह्य, आयन्तु नः पि० स्मान् इति सकृदु- पतिष्ठेत । यज्ञोपवी० अर्घ्यपात्राणि तत्तद्राह्मणाग्रे निधाय स्वधाऽा इति मन्त्रावृत्त्या प्रत्येकं निवेदयेत् । सन्त्वया॑ इति प्र० । ततः पितृ- विप्रहस्ते तिलोदकं दत्त्वा पित्रर्घ्यपात्रात्सशेषमय॑मादाय विभहस्ते पवित्रं निधाय सत्यहस्तेनान्वारब्धेन दक्षिणेन पाणिना सपत्नीक पितरिदं तऽर्ध्यमिति विप्रहस्ते दत्त्वा स्वयमिति प्रत्युक्तः, या दिव्या आप: भवन्तु । इति विप्रहस्ताभूमौ सवन्तीरपोऽनुमन्य तिलोदकं दद्यात् । एवं पितामहादिभ्यस्तत्तदर्घ्यपात्रात्तत्तद्ब्राह्मणहस्ते दद्यात् । क. स.लानवकि।

५४ केळकरोपाहबापूभट्टविरचिता- तन मन्त्रः-सपत्नीक पितामहेदं तेऽय॑म् । सपत्नीकप्रपि० । सपत्नीक मातामहेदं० । स० मातुःपिताम० । स० मातुःप्रपितामह य॑मन्यः समानम् । ततः पितृपात्रे सर्वपित्र्यविप्रहस्तस्थितकुशान्निधाय प्रपि. तामहपात्रशेषं पितामहपात्रे निक्षिप्य तपितृपात्रे समवनीय मातुः- प्रपितामहादिपात्रसंस्रवानपि पितृपात्रे समवनीय ताभिरद्भिः पुत्रकामो मुखमनक्ति अपः स्पृष्ट्वा पित्र्यविप्रवामभागे शुचौ देशेऽर्घ्यपात्राधः स्थितांस्तिलसहितान्दर्भानास्तीर्य तेषु पितृभ्यः स्थानमसीति प्रथमम- ग्रंपात्रं निधाय गन्धादिभिस्तदभ्यर्च्य प्रपितामहपात्रेणापिध्यात् । तदक्षय्यवचनान्तं न चालयेत् । ततः प्राची० ब्राह्मणहस्तेवपो दत्त्वाऽ. स्मत्पितः० सपत्नीक एष ते गन्धः स्वधा नमो न मम । एवं पिताम- हादितत्तन्नामोच्चारपूर्वकं त्रिस्त्रिर्गन्धं दत्त्वाऽपो दद्यात् । एवं देवार्चनो क्तप्रकारेणाऽऽच्छादनान्तां पूजां समाप्येदं पितृम्य० विक्षु । इति नमः स्कृत्यार्चन विधेः संपूर्णतां वाचयित्वा यज्ञोपवीत्याचभ्य विप्राणां पुर- तोऽर्चनकाले पतितगन्धपुष्पदर्भाद्यपनीय भूमिं संमृज्य युष्मदनुज्ञया भोजनपात्राण्यासादयिष्य इत्युक्त्वाऽऽसादयेत्यनुज्ञातो भोजनस्थाने प्रतिवित्रं देवे नैर्ऋतीभारभ्य प्रदक्षिणमी(मै)शान्यन्तं पुनर्नैर्ऋत्यादी (2) शान्यन्तं पाचप्रमाणं चतुरस्त्रमण्डलं गोमयोदकाभ्यां कृत्वा प्राची० पित्र्य ई(ऐ)शानीमारभ्याप्रदक्षिणं नैर्ऋत्यन्तं पुनरैशान्यादिनैर्ऋत्यन्तं वर्तुलं मण्डलं कृत्वा देवे सयवान्पित्र्ये सतिलान्दर्भान्प्रास्य भोजनपा- वाणि संस्थाप्य प्राची० पितृपात्राणां समन्ततो भस्ममर्यादां कुर्यात् । पिशङ्गभृष्टिम० हय । यज्ञो० देवपात्रयोः परितः-रक्षा णो अग्ने धानम् । ब्रह्म च ते० च्छन् । इति भस्ममर्यादां कृत्वा प्राची० पितृवि- प्राणां हस्तशुद्धि विधाय यज्ञो० देवविप्रयोहस्तशुद्धि विधार्य भोजन- पात्राणि प्रक्षाल्य हस्तप्रक्षालनजलं जलपात्रप्रक्षालनजलं च शुचौ देशे तत्तत्पाद्यमण्डले वा क्षिपेत् । ततः पाणिहोमः । घृताक्तमन्नमादाय पितृब्राह्मणसमीप उपविश्य प्राची० बाह्मणपाणिषु प्रारदक्षिणाग्रान्द- र्भानन्तर्धाय स्वदक्षिणहस्तं सदर्भेण वामहस्तेनोपस्तीर्यान्नं देधा विभ- ज्योत्तरभागस्य मध्यात्पूर्वार्धाचावदाय पञ्चावत्ती तु तृतीयं पश्चार्धा- दवदाय पात्रस्थमवत्तं चाभिघार्य सोमाय पितृमते स्वधा नम इति पितृतीर्थन विप्रदक्षिणपाणी हुत्वा सोमाय न ममेति त्यजेत् । पुनः १ क. न. स'। २ ग. 'रनं म° 1 ३ ग. 'रभ्य प्र। ४ ग. कृत्वा । ५ ग. वामेनो, श्राद्धमञ्जरी। पूर्ववदक्षिणभागादवदायाग्नये कव्यवाहनाय स्वधा नम इति द्वितीयामा- हुति हुत्वाऽग्नये कव्य० न ममेति त्यजेत् । एवं सर्वेषु पित्र्यविप्रपाणिषु जुहुयात् । ब्राह्मणाः स्वस्वपाणिस्थमन्नं स्वस्वपात्रे संस्थाप्य बहिर्ग- त्वाऽऽचम्य यथास्थानमुपविशेयुः । ततः कर्ता यज्ञोपवी०. मूर्धानं दि० आमासु प० इति देवपूर्वं पात्राण्याज्येनोपस्तीर्य देवपूर्व- मन्नानि परिवेष्य प्राची० पाणिहुतशेषमन्नं किंचित्पिण्डार्थमवशेष्याव- शिष्टं पितृपात्रेषु तूष्णीं दत्त्वा यज्ञो० देवपात्रस्थमन्नं सावित्र्याऽभ्युक्ष्य तूष्णीं परिषिच्योपरि स्थितेन न्यङ्मुखेन दक्षिणेन पाणिनाऽधःस्थिते- नोत्तानेन च सव्यपाणिना स्वस्तिकाकृतिना पात्रमालभ्य पृथिवी ते पात्रं द्यौरपिधाने ब्रह्मणस्त्वा मुखेऽमृतेऽमृतं जुहोमि बाह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोभ्यक्षितमसिं मैषां क्षेष्ठा अमुत्रामुष्मिल्लोक इत्यभिमन्येदं विष्णु० सुर इत्यूचं पञ्चचं वोक्त्वा विष्णो हव्यं रक्ष- स्वेति न्युब्जेन स्वदक्षिणेन पाणिना ब्राह्मणपाण्यङ्गुष्ठमनखमन्ने निवेश्य सव्येन पाणिना पात्रमालभ्य दक्षिणेन यबोदकमादाय पुरूरवा० विश्वे देवा देवता इदमन्नं हविरयं ब्राह्मण आहवनीयार्थ इयं भूमिर्गयाऽयं भोक्ता गदाधर इदमन्नं ब्रह्मणे दत्तं सुवर्णपात्रस्थमक्षय्यवटच्छायेयम् । पुरूरवा०देवेभ्य इदमन्नममृतरूपं परिविष्टं परिवेक्ष्यमाणं चाऽऽ तृप्तेः स्वाहा हव्यं न ममेति पात्रवामभागे भूमावेव जल निक्षिपेत् । एवं द्वितीय- स्यान्नं निवेद्य ये देवासो० ध्वम् । इति सकृदुपतिष्ठत । ततः पितृपा- वस्थमन्नं सावित्र्याऽभ्युक्ष्य तूष्णीं परिघिय प्राची० अधस्थितेनोत्तानेन दक्षिणेन हस्तेनोपरि स्थितेनाधोमुखेन सव्येन पाणिना स्वस्तिकाकृतिना पात्रमालभ्य पृथिवी ते पात्र. अमुत्रासुष्मिलोक इत्यभिमन्य, इदं विष्णुर्विच० विष्णो कव्यं रक्षस्व इति स्वदक्षिणेन न्युब्जेन पाणिना विप्राङ्गुष्ठमनखमन्ने निवेश्य तिलोदकमादाय पिताऽमुकशर्माऽमुकगोत्रो वसुरूपः सपत्नीको देवतेदमन्नं हविरयं०दत्तं रजतपात्रस्थमक्षय्यवटच्छा- येयम् । अस्मत्पित्रे० कायेदमन्नं० आ तृप्तेः स्वधा कव्यं नमो न ममेति दक्षिणभागे जलं क्षिपेत् । एवमितरेभ्यस्तत्तदुचारपूर्वकमन्नं निवेद्य ये चेह० जुषस्व । इति सकृदुपतिष्ठेत । श्राद्धमच्छिद्रमस्त्विति भवन्तो बुवन्तु इति विप्रान्सप्रार्थ्याच्छिद्रमस्त्विति तैः प्रत्युक्तेऽन्नेषु मधु सर्पि- १ ग. नं ब्राह्म। २ ग. सि मा मैं । ३ ग. अत्रा । ग. ति स्वदक्षिणेन न्युन्जेन पा ५ ग. व्यपा। ६ क. ख. 'व्यं नमो न म । ७ ग. 'लं क्षि। ८ ग. 'क्षिणे भा।

केळकरोपावबापूभट्टविरचिता- वाऽऽसिच्य, ॐ भूर्भुवः स्वः । तत्सवितुर्व० यात् । इति सप्रणवव्याह- तिकां सावित्री जपित्वा मधु वाता ऋतायते म०॥३॥ इति मधुम- तीश्च जपित्वा मधु मधु मधु इत्युक्त्वा देवताभ्यः पितृ० नमो नमः। इति त्रिः। सप्त व्याधा दशार्णेषु मृगाः कालाञ्जने गिरौ । चक्रवाकोः शरद्वीपे हंसाः सरसि मानसे ॥ तेऽपि जाताः कुरुक्षेत्रे ब्राह्मगा वेदपारगाः । प्रस्थिता दीर्घमध्वानं यूयं तेभ्योऽब(किमत)सीदथ ॥ अमूर्तानां च मूर्तानां पितॄणां दीप्ततेजसाम् । नमस्यामि सदा तेषां ध्यायिनां योगचक्षुषाम् ।। इति पितृननुस्मृत्य, ईशानविष्णुक० ब्रह्मार्पणं ब्रह्म धिना । हरि- ता० चतुर्भिश्च० प्रसीदतु । ॐ तत्सद्ब्रह्मार्प० । एको विष्णुर्म० व्ययः । अनेन मम पित्रादीनां दर्शश्राद्धे बाह्मणभोजनेन पितृस्वरूपी जनार्दनवासुदेवः प्रियतां न ममेति । यज्ञो० पितृपूर्वकं विप्रपाणि- प्वापोशनार्थमुदकं दद्यात् । विप्राश्च नित्यभोजनवत्परिपेचनं कृत्वा बलिदानवर्जममृतोपस्तरणमसीत्यापोशनं कृत्वा प्राणाहुतीलीयुः । कर्ता च प्राणाहुतिमन्त्रान्पठेत् । श्रद्धायां प्राणे निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय प्राणाय स्वाहाँ। श्रद्धायामपाने नि० शि. अपानाय स्वाहाँ । श्रद्धायां व्याने नि० व्यानाय स्वाहा । श्रद्धायामु. दाने नि० उदानाय स्वाहा । श्रद्धाया समाने नि० समानाय स्वाहाँ। ब्रह्मणे स्वाहा । प्राणाय स्वाहा । अपानाय स्वाहेत्येवं वा । ततो विप्रा वानियमायुक्तनियमयुक्ताः सन्तो भुञ्जीरन् । कर्ता अपेक्षित० मान- सैरिति विप्रान्संप्रार्थ्य यथासुखं जुषध्वमिति भोजनायातिसृजेत् । ततः सव्याहृतिकां गायत्री जपित्वा भुञ्जानान्वैश्वदेवराक्षोन्नपित्र्यादीनि सूक्तानि श्रावयेत् । ततस्तेषु तृप्तेषु सिद्धस्य हविषो मध्ये यद्रोचते तद्या- चध्वामिति पृच्छेत् । अलमित्युक्ते पुरू० देवास्तृप्ताः स्थ प्राची. १ ग. लाजिरे गि। २ ग. काः सरोवी । ३ ग. 'ति संकल्प्य य'। ४ क. ख. 'हा। प्राणायेदं । । ५ क. ख. हा । अपानायेदं । । ६ क. स. हा । व्यानायेदं । श्री। ७क. ख. 'हा । उदानाथदं । । ४ क, ख. 'हा । समानायेदं ।। ९ क. ख. हा । ब्रह्मण इदं । अपा।

श्राद्धमतरी। पितरस्तृशाः स्थेति बढ़ेत् । तृप्ताः रम इति प्र० । पूर्ववद्वायत्री जपित्वा मधुवाता० ऋचः ३ । अक्षन्नमी० हरी । इति श्रावयित्वा श्राद्धं संपन्नमिति वदेत् । सुसंपन्नमिति विधाः । ततः कर्ता भुक्तशेषात्सार्व- वर्णिकमनं पिण्डाय प्रकिरणार्थ च पृथक्पृथगुसृत्य शेषं ब्राह्मणेभ्यो निवेद्य शेषमन्नं किं क्रियतामिति । विप्रास्तदन्नं स्वी कुर्युरिच्छा चेत् । नो चेदिष्टः सह भुञ्जीतेति बदेयुः । ततः कर्तोच्छिमागेभ्योऽन्नं दीय- तामिति बढेत् । ब्राह्मणा भुक्तावशिष्टं पानस्थमन्नं यजमानकुले० भूतल इति मन्त्रेण देवे दक्षिणभागे पिये वामभागे भूमौ त्यजेयुः । ततः कर्ता पिण्डदानं कुर्यात् । तद्यथा पितृतृप्त्यर्थं पिण्डदानं करिष्ये । कुरुष्वेति विप्रैरुक्ते यज्ञोपवीती द्विजोच्छिष्टसमीपे चतुर्हस्तान्तरे स्थल- संकोचादौ हस्तमानान्तरे वा दक्षिणेन हस्तेन स्पयन दर्भमूलेन वाऽऽने. यीसंस्था लेखामुल्लिखेत् । अपहता असुरा रक्षांसि वेदिषदः । तत्पश्चा. त्तथैव द्वितीयामुल्लिख्य क्रमेणाभ्युक्ष्य तयोः क्रमेणाऽऽलेच्यग्रकं सकृदा. च्छिन्नं बहियमास्तीर्य प्राची प्रथमलेखायई स्तीर्ण बहिषि आदि- मध्यान्तक्षेशेषु विरुदकं निनयेत् । शुन्धन्तां सपत्नीकाः पितरः ॥१॥ शुन्धन्तां सपत्नीकाः पितामहाः ॥२॥ शुन्धन्तो सपत्नीकाः प्रपिता- महाः ॥ ३॥ तथैव द्वितीयले खायाम् । शुन्धन्तां सपत्नीका माता- महाः॥ ॥ शुन्धन्तां सपत्नीका मातुःपितामहाः ॥२॥ शुन्धन्तां सपत्नीका मातुःप्रपितामहाः ॥ ३ ॥ इति । तत: पाणिहुतशेषमन्नं भुक्तशेषादुद्भुतं सावर्णिकमलं च घृतमधुतिलैः सां कृत्वा पूर्वस्यां लेखायामानेयीसंस्थान्धितृतीर्थन बीपिडान्दद्यात् । एतत्तेऽस्मत्पितरमुकशर्मनसुकगोत्र व सुरूप सपत्नीक ये च त्वामत्रानु तेभ्यश्च गयायां दत्तमस्तु । एवं पितामहप्रपितामहयोः । एवमेव पश्चि- मलेखायों मातामहादित्रयाणामपि । ततो बहिर्मूले हस्तसंलग्नं ले तूष्णीं निमृज्यात् । ततः, अत्र पितरो मादयध्वं यथाभागमायायध्वम् । इति सकृत्पिण्डाननुमन्य सव्येन पार्श्वन व्याहृत्योदङ्मुखो भूत्वा यथाशक्ति प्राणानियम्य पुनरभिपर्यावृत्यामीमदन्त पितरो यथा- भागमावृषायीषतेति पुनः पिण्डाननुमन्य यज्ञोपवीती पिण्डावशिष्टं ग्रासमात्रमन्नमादाय बहिनिष्क्रम्य तदबघाय पवित्रे त्यक्त्वाऽऽचम्यान्ये पवित्रे धृत्वा प्राचीनावीती पूर्ववत्पिण्डेषु तिलोदकं निनयेत् । शुन्धन्तां १ के. ख. 'ता श्राद्धभु' । २ ग. वेदयेत् । शे। ग. लमले । पद् पिण्डा- केळकरोपाह्वयापूमविरचिता- सपत्नीकाः पितर इत्यादि । ततो द्विराचम्य पूर्वबद्धनीवीं विनस्य प्रतिपिण्डं तैलाभ्यञ्जनं दर्भेर्दद्यात् । पितरमुकशर्मन्नमुकगोत्र वसुरूप सपत्नीकाभ्यश्व । एवमितरेषु तथैवानं दद्यात् । पितरमुकशर्मन्न सपत्नीकाक्ष्वेत्यादि । अथ पिण्डेषु एतद्वः पितरो वासो मानोतोऽन्य- पितरो युध्वमिति प्रतिपार्वणं मन्त्रावृत्त्या वासस्थाने दशामूर्णास्तुका धा पञ्चाशद्वर्षाधिकं वयश्चेत्स्वप्रकोष्ठहृदयान्यतरस्थं लोम दद्यात्पूर्वो- क्तेनैव मन्त्रेण । ततः सव्येनापसव्येन वा पिण्डान्गन्धाद्युपचारैरभ्यर्च्य प्राचीनावीती, अथैनानुपतिष्ठेत नमो वः पितर इषे० इह सन्तः स्याम । मनोन्वाहुवामहे० न्मभिः । आ त एतु मनः पुनः० दृशे । पुनर्नः पि. चेमहि । अथ पिण्डस्थापितॄन्प्रवाहयामीति ध्यायन्सकृदुत्तानेन हस्तेन पिण्डांश्चालयेत् । परेतन पितरः खो० नियच्छत । ततः सकुटुम्बः पिण्डा- नमस्कृत्य वीरं मे दत्त पितर इति मन्त्रेण मध्यमं पितामहपिण्डमादाय पुनस्वेनैव मन्त्रेण मातु:पितामहपिण्डमादाय पत्न्यै पुत्रकामायै प्रय- च्छेत् । सा च० आधत्त पितरो गर्भ कुमारं पुष्करस्रजम् । यथाऽय. मरपा असत् । इति मन्त्रं स्वयं सकृत्पठन्ती पिण्डद्वयं प्राश्नीयात् । अनेकपत्नीपक्षे तावेव पिण्डौ दभैविभज्य यथांशं मन्त्रपूर्वकं सर्वा अपि प्राश्नीयुः । पल्यामनधिकारिण्यामादानप्राशनमन्त्रयोर्लोप एव । ततः पिण्डानुदासयिष्य इत्युक्त्वा ब्राह्मणैरुद्वासयेत्यनुज्ञातोऽवशिष्टान्पिण्डा. नप्स्वनौ वा क्षिपेत् । ततो यज्ञोपवीती विप्राणां पितृपूर्वकमुत्तरापो. शनार्थमुदकं दद्यात् । विमा अमृतापिधानमसीत्युत्तरापोशनं कृत्वाऽव- शिष्टजलं बहिनिनयेयुः। रौरवे पूयनिलये पद्मार्बुदनिवासिनाम् । अर्थिनामुदकं दत्तमक्षय्यमुपतिष्ठतु ॥ ततो धृतपवित्रग्रन्थी विस्रस्योच्छिष्टमण्डले निक्षिपेयुः । कर्ता ब्राह्मणानां पितृपूर्वकं गण्डूपकरणहस्तप्रक्षालनादिशुद्धा(या)चमनान्तं कारयित्वा विकिरं दद्यात् । आचान्तेषु विप्रेषु पिण्डदानमिति पक्षे विप्राणामुत्तरापोशनादिशुद्धा(या)चमनान्तं कारयित्वा पिण्डदानं कृत्वा विकिरं दद्यात् । पक्षद्वयेऽपि पिण्डदानान्ते विकिरदानम् । तद्यथा- पूर्वोद्धृतं सघृतमन्नमादाय प्रथमवैश्वदेविकद्विजोच्छिष्टान्ते- असोमपाश्च ये देवा यज्ञभागविवर्जिताः । तेषामन्नं प्रदास्यामि विकिरं वैश्वदेविकम् ॥ - श्राद्धमञ्जरी। इति यवोदकसहितं सकृत्यकीर्य प्राचीनावीती प्रथमपित्र्यविप्रोच्छि- धान्ते- असंस्कृतप्रमीता ये त्यागिन्यो याः कुलस्त्रियः । दास्यामि तेभ्यो विकिरमन्नं ताभ्यश्च पैतृकम् ॥ इति तिलोदकसहितं सकृत्प्रकीर्य तत्समीपे दक्षिणायान्दर्भानास्तीर्य तेषु ये अग्निदग्धा० कल्पयस्व । इति शेषमन्नं प्रकीर्य तदुपरि तिलो- दकं निनयेत् । अग्निदग्धाः कुले जाता येऽप्यदग्धाः कुले मम । भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् ॥ ततो यज्ञोपवीत्याचम्य पवित्रे त्यक्त्वाऽन्ये धारयेत् । ततो वैश्वदेवि- कविग्रहस्तयोरपो दभांश्च दद्यात् । शिवा आपः सन्तु । अथ गन्धपु- प्पाणि । सौमनस्यमस्तु । अथ यवाः । यवाः पान्तु । पुनरपो दद्यात् । दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्तु । सन्तु शिवा आपः । अस्तु सौमनस्यम् । पान्तु यवाः । अस्तु दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टि- श्चेति क्रमेण प्रतिवचनानि । एवमेपसव्येन पित्र्यविप्रहस्तेषु । तत्र यव- स्थाने तिलाः, तिलाः पान्त्विति। शेष समानम् । ततः पित्र्यविप्रान्प्रति वदेत् । अघोराः पितरः सन्तु । सन्त्वघोराः पितर इति विप्राः । ततः कर्ता यज्ञोपवीती बाह्मणानभिवाय गोत्रवृद्धि याचेत । अस्मद्गोत्रं वर्धताम् । युष्मद्गोत्रं वर्धतामिति प्रतिवचनम् । ततः- नित्यानुष्ठानसिद्ध्यर्थं सर्वदाऽप्यात्मशुद्धये । पितृमातृपराः सन्तः सन्त्वस्मत्कुलजा नराः॥ इतिमन्त्रेण स्वमस्तके चन्दनादिना तिर्यक्तिलकं कृत्वा शिष्यादिना विप्रोच्छिष्टपात्राणि चालयित्वा देवविप्रहस्तयोर्हस्तेनैव यवोदकं दद्यात् । पुरुरवावसंज्ञकविश्वेभ्यो देवेभ्यः स्वतीति बूत । ततः पित्र्यविप्रहस्तेषु तिलोदकं दद्यात् । पितृपितामहप्रपितामहेभ्योऽमुकशर्मभ्यः, मातामह-४ मातुःपितामहमातुःप्रपितामहेभ्योऽमु०स्वस्तीति बूत । विप्रैः स्वस्तीति प्रत्युक्ते पुनर्देवविग्रहस्तयोर्हस्तेनैव यवोदकं दद्यात् । पुरूरवावसंज्ञकानां विश्वेषां देवानां यद्दत्तं श्राद्धं तदक्षय्यमस्त्विति बूत। [ अस्त्वक्षय्यमिति प्रतिवचनम् । ] प्राचीनावीती, अस्मत्पितृपितामहप्रपितामहानामित्यादि मातुःप्रपितामहान्तमुद्यार्य यदत्तं श्राद्धं तदक्षय्यमस्त्विति ब्रूतेति पित्र्य- । ६० केळकरोपावबापूभष्टविरचिता- विप्राणां तिलोदकं दद्यात् । अस्त्वक्षय्यमिति प्रतिवचनम् । तत आसादि- तमय॑पात्रं चालयेत् । यज्ञोपवीती बाहाणेभ्यस्ताम्बूलादि दत्वा दक्षिणां दद्यात् । अस्मपितृस्थानोपविष्टाय बाह्मणाचेदं रजतं दक्षिणात्वेन तुभ्य- महं संप्रददे । एवं पितामहादिस्थानोपविष्टेभ्यो दरवा पुरूरवाईवसंज्ञक विश्वदेवस्थानोपविष्टाय बाझपारेदं सुवर्ण दाक्षिणात्वेन तुभ्यमहं संघ दे । एवं द्वितीयाय । ततः सर्वान्मार्थयेत् । इक्षिणा: पान्त्विति भवन्तो ब्रुवन्तु । पान्तु दक्षिणा इति प्रतिवचनम् । ततः सति विभवे नानालं. कारादि दद्यात् । प्राचीनावीती स्वधा वाचयिष्य इत्युक्त्वा वाच्य- तामिति विप्रैः प्रत्युक्तः, अस्मपितृपितामहप्रपितामहेभ्योऽमुकशर्मभ्य इत्यादिमातुःप्रपितामहान्तमुच्चार्य स्वधोच्यतामिति पित्र्यविप्रान्प्रति वदेत् । अस्तु स्वधेति विप्राः । कर्ता स्वधा संपद्यतामिति भवन्तो बुवन्तु । संपद्यतां स्वधेति विप्राः । कर्ता यज्ञोपवीती विश्वे देवाः प्रीय न्तामिति भवन्तो ब्रुवन्तु । प्रीयन्तां विश्वे देवा इति प्रतिवचनम् । प्राचीनावीती पितरः प्रीयन्तामिति भवन्तो अवन्तु । प्रीयन्तां पितर इति प्रतिवचनम् । शोभनं हविरिति कर्तारं प्रति विधा वदेयुः । कर्ता यज्ञोपवीती देवताभ्यः पितृ० नम इति विरुक्त्वा वाजे वाजेदेवयानैः। उत्तिष्ठत पितरो विश्वैर्देवैः सहेति विप्रान्दर्भागः संस्पृशन् ॐ स्वधो- च्यतामिति अस्तु स्वधेति वोक्त्वा पितृपूर्वं विसृजेत् । ते च ॐ स्वधा, अस्तु स्वधेति वा बुवन्त उत्तिष्ठेयुः । ततः कया नश्चित्र इति तृचं स्वस्व- शाखोक्तं जपेयुः । कर्ता पिण्डनिपरणदेशं गोमयादिना संसृज्य तिलाक्ष- तान्यास्य शान्तिः पुष्टिस्तुष्टिश्चास्त्विति भवन्तो बुवन्तु इत्युदकधारां कुर्यात् । अस्तु शान्तिः पुष्टिस्तुष्टिश्चेति विधाः । ततः कर्ता पादप्रक्षाल- नमण्डलदेशे विधानुपधेश्य, आमाधाजस्य० गभ्यात् । इति प्रदक्षि- णीकृत्य तेषां हस्तेष्वक्षतपुष्पादि दत्त्वा नियतो वाग्यतः शुचिर्दक्षिणा. मुखः प्रालिस्तिष्ठन्वरान्याचेत । दातारो नोऽभिवर्धन्ताम् । दातारो वोऽभिवर्धन्तामिति शिप्रैः प्रतिवचनं कार्यम् । एवमुत्तरत्र । कर्ता वेदाः संततिरेव नः । विप्रा वेदाः संततिरेव वः । कर्ता श्रद्धा च नो मा व्यगमत् । विप्राः श्रद्धा च बो मा व्यगमत् । कर्ता बहु देयं च नोऽस्तु । विप्रा बहु देयं च वोऽस्तु । कर्ता, अन्नं च नो बहु भवेत् । विप्रा अन्नं च वो बहु भवेत् । कर्ता, अतिथींश्च लभेमहि । विप्राः, अतिथीं श्च लमध्वम् । कर्ता याचितारश्च नः सन्तु । विमा याचितारश्च वः सन्तु। कर्ता मा च याचिम कंचन। विप्रा मा च याचिई कंचन । स्नादुपंसदः पितरो० , श्राद्धमारी। चित्रसेना ब्राह्मणासः पूषा नः पातु० इहैवस्तं मा वि० क्रीळन्ती पु० ग्रहे। . आयुः प्रजा धनं विद्यां स्वर्ग मोक्षं सुखानि च । प्रयच्छन्तु तथा राज्यं प्रीता नृणां पितामहाः ॥ एताः सत्या आशिषः सन्तु इत्याशिषो इधुः । कर्ता विप्रदत्ताक्षतादि शिरसि धृत्वा विधानपादाभ्यङ्गादिभिः प्रियोक्तिभिश्च परितोष्य प्रणि- पत्य प्रार्थयेत् । अथ मे सफलं जन्म भवत्पादाब्जवन्दनात् । अद्य मे वंशजाः सर्वे याता वोऽनुग्रहाद्दिवम् ॥ पत्रशाकादिदानेन क्लेशिता यूयमीदृशाः । तत्क्लेशजातं चित्ते तु विस्मृत्य क्षन्तुमर्हथ ।। यस्य स्मृत्या च नामोक्त्या० च्युतम् । मन्त्रहीन क्रियाहीनं भक्तिहीनं द्विजोत्तमाः। श्राद्धं संपूर्णतां यातु प्रसादाद्भवतां मम ॥ यः कश्चिच्छाद्धयज्ञस्य प्रोक्तो मन्वादिभिर्विधिः । असौ युष्मत्प्रसादेन संपूर्णः सकलोऽस्तु मे ॥ सर्व संपूर्ण मास्त्विति विप्राः । कर्ता वसिष्ठासः पितृ० प्रीता इव ज्ञा० देवान्वसिते नो रासन्ता०सदा नः । इदं पितृभ्यो नमो अस्त्वोति नम- स्कारवतीमन्ततः शंसति तस्मादन्ततः पितृभ्यो नमस्क्रियते तदाहुा. हावं पित्र्याः शंसेत् । अव्याहावाँ इति व्याहावमेव शंसेदसंस्थितं वै पितृयज्ञस्य साध्य संस्थितं वा एष पितृयज्ञं संस्थापयति यो व्याहावं शंसति तस्माद्ध्याहावमेव शंस्तव्यमिति पठित्वा- अपच्छिदं तपश्छिई यच्छिद्रं श्राद्धकर्मणि । सर्व भवतु मेऽच्छिद्रं ब्राह्मणानां प्रसादतः ॥ इति विप्रान्सप्रार्थयेत् । सर्वमच्छिद्रमस्त्विति विप्रा वदेयुः । कर्ता, अनेन दर्शश्राद्धयज्ञेन भगवान्पितृस्वरूपी जनार्दनवासुदेवः प्रीयताम् । तत्सद्ब्रह्मार्पणमस्तु । वषट्र ते विष्ण० सदा नः । ततः प्राचीनावीती सप- रिवारो बाह्मणैः सहाष्टौ पदान्यनुबज्य यज्ञोपवीती पूर्व प्रतिबाह्मणं स्थापितदीपान्निवस्य पवित्रादीनि विसृज्य पादौ प्रक्षाल्य द्विराचामेत् । १ ग पूर्णस । २ ग. पी परमेश्वर: श्री - केष्ठकरोपावबापूभट्टविरचिता- ततो विप्रोच्छिष्टानि भूमौ शुचौ देशेऽवट खात्वा तत्र निक्षिप्य मृदा च्छादयेत् । गृहान्तरसत्त्वे सूर्यास्तादनन्तरमुच्छिष्टप्रतिपत्तिः । ततोऽगा गोमयेनोपलिप्य श्राद्धशेषेण नित्यश्राद्धं कृत्वा श्राद्धशेषेणैव वैश्वदेवा दिकं कृत्वेष्टैः सह भुञ्जीतेति । दर्शश्राद्धमनुपनीतोऽपि कुर्यादिति निर्णय सिन्धावुक्तम् । अमाश्राद्धातिक्रमे प्रायश्चित्तमुक्तमृग्विधाने- न्यूषु वाचं जपेन्मन्त्रं शतवारं तु तद्दिने । अमाश्राद्धं यदा नास्ति तदा संपूर्णमेति तत् ॥ इति । इति श्रीमञ्चित्तपावनकेळकरोपाभिधमहादेवात्मजबापूभट्टविरचिताया श्राद्धमञ्जयां सकलशिष्टवर्यपरिगृहीतः पार्वणश्राद्धप्रयोगः । अथ गृह्यपरिशिष्टोक्तो दर्शश्राद्धप्रयोगः । अत्र श्राद्धार्हदेशपदार्थो पकल्पनादि सर्व धर्माः परिभाषोक्ता एव ग्राह्याः । श्राद्धकर्ता श्राद्ध दिने वा प्रातः श्राद्धान्ब्रिाह्मणान्द्वौ दैवे पित्र्ये त्रीनेकैकं वोभयत्र शक्तश्चेदेकैकस्य स्थानेऽनेकान्वा निमन्त्रयेत् । श्वोऽद्य वा करिष्यमा णदर्शश्राद्धे पुरूरवाईवसंज्ञकविश्वदेवस्थाने त्वया क्षणः करणीयः। ॐ तथेति प्रतिवचनम् । प्राचीनावीती, अद्यकरिष्यमाणदर्शश्राद्ध स्मत्पितुरमुकशर्मणोऽमुकगोत्रस्य वसुरूपस्य सपत्नीकस्य स्थाने त्वया क्षणः करणीयः । ॐ तथा । एवं पितामहप्रपितामहयोर्मातामहादीनां च विप्रपादस्पर्शपूर्वकं निमन्त्र्य मध्याह्ने स्नात्वा पूर्वोक्तप्रकारेण दर्श- श्राद्धाङ्गं तर्पणं विधाय ब्राह्मणान्समाहूय तान्प्रति सव्येनैव स्वागतमिति प्रणतिपूर्वकं वदेत् । सुस्वागतमिति प्रतिवचनम् । ततः प्राच्यां शुचौ गृहाङ्गणे गोमयोदकाभ्यां चतुरस्र मण्डलमुल्लिख्य तद्दक्षिणतस्तथैव वर्तु- लमण्डलमुल्लिख्योत्तरे सयवान्दर्भानास्तीर्य दक्षिणे सतिलान्दर्भानास्तीय गन्धादिभिर्मण्डलद्वयमम्यर्योत्तरमण्डलस्य पश्चात्प्राङ्मुखौ दैविकविप्रा. युपवेश्य स्वयं प्रत्यङ्मुख उपविश्य विप्रपादौ मण्डले निधाय पुरूरवा. ईवसंज्ञका विश्वे देवा इदं वः पाद्यं स्वाहा नम इति यवोदकं पादयो. दत्त्वा शं नो देवी० तु नः । इति मन्त्रेण पादौ प्रक्षालयेत् । एवमुत्तरत्र ततः प्राचीनावी ती दक्षिणमण्डलसमीपे मुख्यपितृविप्रमुदङ्मुखमुपवेश्य तत्पादौ मण्डले निधाय, अस्मत्पितरमुकशर्मन्नमुकगोत्र वसुरूप सप- १ ग. रखम।

श्राद्धमारी। ६३ त्लीकेदं ते पाचं स्वधा नम इति तिलोदकं पादयोर्दत्वा शं नो देवी- रिति पादौ क्षालयेत् । एवं सर्वेषां तत्तदुच्चारपूर्वकं पाद्यं कृत्वा मण्डल- योरुत्तरतो ब्राह्मणान्द्विराचाम्य स्वयमप्याचामेत् । ततः श्राद्धस्थले कम्बलाद्यासनेषु वैश्वदेविको प्राङ्मुखौ पित्रानुदङ्मुखान्धिप्रस्तित्तद- पान्ध्यायन्नुपदेशयेत् । तत आचम्य पवित्रपाणिः प्राणानायम्य देशकालो स्मृत्वा प्राचीनावीती, अस्मत्पितृपितामहप्रपितामहानामनुकशर्मणाम- मुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानाम् । अस्मन्मातामह- मातुःपितामहमातुःप्रपितामहानाममुकशर्मणाममुकगोत्राणां वमुरुद्रा- दित्यस्वरूपाणां सपत्नीकानामेतेषां तृप्त्यर्थं दर्शश्राद्धं करिष्य इति संकल्प्य, अपहता असुरा०तं मन इत्यप्रदक्षिणं सर्वतस्तिलानवकीर्य, उदीरताव्हवेषु । इति जपित्वा दर्भोदकेनान्नान्यभ्युक्ष्य गयो जना- ईनं वस्वादिरूपापितॄश्च ध्वात्वा यज्ञोपवीती देवार्चनं कुर्यात् । तत्र दैविकविप्रहस्तयोरपो दत्त्वा पुरूरवावसंज्ञकानां विश्वेषां देवानामिद- मासनम् । इत्येकैकस्याऽऽसने दक्षिणतःप्रागग्रानृजून्युग्मान्दभन्दत्त्वाऽपो दद्यात् । अथाभ्युक्षितायां भुवि प्रागग्रान्दर्भानास्तीर्य तेषु न्यग्बिल- मेकमर्यपात्रमासाद्योत्तानीकृत्य तस्मिन्दर्भद्वयात्मकं प्रागग्रं पवित्रं निधा- याप आसिच्य शं नो देवी० तु न इत्यनुमन्य यवोऽसि धा० स्मृतम् । इति यवानोप्य गन्धपुष्पाणि क्षिप्त्वा देवपात्रं संपन्नमित्यभिमृश्य यव- हस्तो विश्वान्देवानावाहयिष्यामीत्युक्त्वा, आवाहयेति विप्राभ्यामुक्त विश्वे देवास आ० दत।इति दक्षिणाङ्गादिवामाङ्गसंस्थं पादजान्वंसशि- रःसु यवानवकीर्य, आगच्छन्तु० भवन्तु त इत्युपस्थाय स्वाहाळ इत्यर्ध्वपात्रमुभयोः सकृन्निवेद्याथ प्रथमं प्रत्येकमन्या अपो दत्त्वाऽर्थ्य- पात्रादय॑मादाय पुरूरवाईवसंज्ञका विश्वे देवा इदं वोऽर्ध्यमिति दत्त्वा या दिव्या आपः भवन्तु इति स्रवन्तीरपोऽनुमन्ध्यापो दद्यात् । एवं द्वितीयस्यावशिष्टमध्यं दद्यात् । तत उभयोः प्रत्युपचारमाद्यन्तयोर- ब्दानपूर्वकं गन्धपुष्पधूपदीपान्द्रिर्दित्त्वा सकृदाच्छादनं दत्त्वाऽर्चनविधेः संपूर्णताऽस्त्विति भवन्तो अवन्त्वित्युक्त्वा संपूर्णमस्त्विति विप्रैः प्रत्युक्ते युष्मदनुज्ञया पित्रर्चनं करिष्य इत्युक्त्वा कुरुष्वेत्यनुज्ञातः प्राचीनावीती, आग्नेय्यभिमुख उपविश्य पित्रर्चनं कुर्यात् । प्रथमविप्रहस्तेऽपो दत्त्वाऽस्म- पितुरमुकशर्मणोऽमुकगोत्रस्य वसुरूपस्य सपत्नीकस्येत्येकवदस्मत्पित- , १ ग. विप्रान्त तद।

केळकरोपाहबापूभष्टविरचिता- णाममुकशर्मणाममुकगोत्राणां वसुरूपाणां सपालीकानामिति बहुवदा निर्देश कृत्वदमासनमिति दर्भानयुग्मान्द्रिगुणभुशानासने वामभागे दत्त्वाऽपो दद्यात् । एवं सर्वत्र तत्तद्विभक्त्या पिकादीनामेकबधा बढुवा निर्देशं कुर्यात् । अस्मपितामहस्य० अल्मपितामहाशामित्यादि वा सर्वेषामासनानि दत्त्वा पितृविप्रसमीपे सुदा सुक्ष्य इक्षिणायान्दर्भा- नास्तीर्य प्रतिवर्ग त्रीणि त्रीणि पात्राणि दबिलान्ति दक्षिणापवर्गाणि निधायोत्तानानि कृत्वा तेषु दर्शवयात्मकानि पविनायसन्तर्धायाप आसिच्य शं नो देवी० तु न इति सर्वाणि समन्त्रेणानुमन्व्य तिलोऽसि सोमदे० स्वधा नमः । इति पृथयात्रावस्या तिलानोप्य गन्धपुष्पाणि क्षिप्त्वा पितृपावं संपन्नम् । पितामहपानं संपन्नम् । प्रपिता- महपात्रं मातामह । मातुःपितामहपा० । मातुःप्रपितालवणानं संपन्न- मिति यथालिङ्गं पानाण्यभिसृश्य तिलहस्तः, अपितरजनुकशाण- मित्यादिप्रपितामहान्तं द्वितीयान्तमुच्चार्याऽऽशाहवियानील्युस्त्या तैरावा- हयेत्युक्ते वामाङ्गादिदक्षिणाजसंस्थमेकैकस्मिकिशरांसजानुपादेपु, उश- न्तस्त्वा नि० अत्तवे । इति मन्त्रेण तिलानवकीर्य, आयन्तु नः पितरः० त्वस्मानित्युपस्थाय यज्ञोपवीती स्वधाा इति मन्त्रावृत्त्या तत्तदर्घ्यपानं तत्तद्विप्राग्रे निवेद्य प्रथमविप्रहस्तेऽपो उत्या सशेपम- ध्यमादाय दक्षिणेन पाणिना सव्योपगृहीतेन पितरि तेऽद्य मिति पितृतीर्थन दत्त्वा या दिव्या इत्यनुमन्त्र्यायो दयाल । एवं पिता- महादीनां दत्त्वेतरानयशेषानाद्यपात्राय॑शेषे निनीय तानिदरद्धिः पुत्र- कामो मुखमनक्ति । अप उपस्पृश्य तत्यानं शुचौ देशे पितृभ्यः स्थानम- सीति मन्त्रेण निधाय प्रपितामहार्ययात्रेणापिध्यान । न्याग्विलं वा कुर्यात् । तदक्षव्यवाचनान्तं न चालयेत् । प्राचीनाबीती, अस्म- पितरमुकशर्मन्नित्यादिसंबुद्ध्यन्तमुक्त्वाऽऽधन्तयोरब्दानपूर्वकं काण्डानु- समयेन पदार्थानुसमयेन वा सर्वेषां गन्धाद्याच्छादनान्तान्पश्चोपचारान्द- स्वाऽर्चनविधेः संपूर्णतां वाचयित्वा भोजनादिन्नादनमुद्धत्य सर्पिपाऽ- भ्यत्वा(ज्य) ब्राह्मणपाणिषु दर्भानन्तर्धाय सव्यहस्तेन दक्षिणहस्त आज्येनोपस्तीर्य भध्यात्पूर्वाधादवदाय पञ्चावत्ती तु पश्चात्तृतीयमव- दाय सव्य हस्तेन पात्रस्थमवत्तं वाभिघार्य सोमाय पितृमते स्वधा नम इति प्रथमाहुति हुत्वा सोमाय पितृमत इदं न ममेति त्यजेत् । पुनः पूर्वववदाय, अग्नये कव्यवाहनाय स्वधा नमः । अनये कव्यवाहनायेदं -- १ ग. 'यपा।

श्राद्धमञ्जरी। न ममेति द्वितीयां जुहुयात् । एवं सर्वविप्रपाणिषु दे द्वे आहुती जुहुयात् । अपि वा, एकैकामाहात विगृह्य सर्वेषु विप्रपाणिषु जुहुयात् । यज्ञोपवीती भोजनपात्रस्थापनार्थ देवे चतुरस्र मण्डले गोमथेन विधाय पित्र्ये वृत्तानि विधाय देवे सयवान्पिध्ये सतिलान्दर्भान्प्रास्य भोजन- पात्राणि निधायाऽऽज्येनोपस्तीर्यान्नानि परिवेष्य पितृपात्रान्नेषु हुतशेष तूष्णीं परिविष्य प्रथमदैविकं पात्रं तूष्णीं परिषिच्य पृथिवी ते पात्रं धौरपिधानं ब्रह्मणस्त्वा मुखेऽमृतेऽमृतं जुहोमि ब्राह्मणानां त्वा विद्या- वतां प्राणापानयोर्जुहोम्यक्षितमसि मा मे क्षेष्ठा अमुत्रामुष्मिल्लोक इति पात्रसहितमन्नमभिमलय ब्राह्मणपाण्यङ्गुष्ठम् इदं विष्णुवि० सुरे । विष्णो हव्यं रक्षस्वेत्यन्ने निवेश्य यवोदकमादाय पुरुरवावसंज्ञका विश्वे देवा देवता इदमन्नं हविरयं ब्राह्मण आहवनीयार्थ इयं भूमिर्ग- याऽयं भोक्ता गदाधर इदमन्नं ब्रह्मणे दत्तं सुवर्णपात्रस्थमक्षय्यवटच्छा- येयमित्युक्त्वा पुरूरवाईवसंज्ञकेभ्यो विश्वेभ्यो देवेभ्य इदमन्नममृत- रूपं परिविष्टं परिवेक्ष्यमाणं चाऽs तृप्तेः स्वाहेत्युत्सृज्य, एवं द्वितीये ये देवासो० जुषध्वम् । इत्युपस्थाय प्राचीनावीती पितृविप्रपात्रं तूष्णी परिषिच्य पृथिवी ते पात्रं विष्णो कव्यं रक्षस्व । तिलोदकमादाय पिताऽमुकशर्माऽमुकगोत्रो वसुरूपो देवतेदमन्नं० दत्तं रजतपात्रस्थमक्ष- व्यवटच्छायेयम् । अस्मत्पित्रेऽमुकशर्मणेऽमुकगोत्राय वसुरूपायेदमन्नम- मृतरूपं० चाऽs तृप्तेः स्वधा । एवं सर्वेषां तत्तदुच्चारपूर्वकमुत्सृज्य ये चेह पितरो ये० जुषस्वेत्युपस्थाय यज्ञोपवीती, अन्नेषु मधु सपिर्वाऽऽसिच्य सप्रणवव्याहृतिकां सावित्री जपित्वा मधु वाता ऋ० इति तिम्र ऋचश्च जपित्वा मधु मधु मधु इति विरुक्त्वा पितॄननुस्मृत्याऽऽपोशनं प्रदाय बाह्मणान्यथासुखं जुषध्वमिति भोजनायातिसृजेत् । भुञ्जानात्राक्षोन्न- पित्र्यादीनि श्रावयेत् । अथ तृप्ताज्ञात्वा मधुमतीस्ति स्रोऽक्षन्नमीमद- न्तेति चैकां श्रावयित्वा संपन्नमिति ब्राह्मणान्स्पृ(न्यू)ष्ट्वा सुसंपन्नमिति प्रत्युक्तो भुक्तशेषात्सार्ववणिकमन्नं पिण्डाथं प्रकिरणार्थं च पृथगुद्धृत्य शेषं ब्राह्मणेभ्यो निवेदयेत् । शेषमन्नं किं क्रियतामिति विप्रास्तत्स्वी कुर्युरिष्टैः सह भुज्यतामिति वा वदेयुः । ततो विप्रैरुत्तरापोशनादिशुद्धा- (या)चमनान्तं कारयित्वा पिण्डदानं कुर्यात् । उत्तरापोशनात्पूर्व वा । तद्यथा विप्रोच्छिष्टान्ते स्फ्येन दर्भमूलेन वा, अपहता असुरा रक्षांसि १ क, ख. विप्राणामुत्त ।.

६६ केळकरोपाहबापूभट्टविरचिता- वेदिपद इत्याग्नेयीसंस्थं लेखाद्वयमुल्लिख्य तत्प्रत्येकमभ्युक्ष्य बहिषाऽवस्तीर्य प्राचीनावीती प्रथमलेखायां बर्हिषि मूलमध्यान्तेषु पिण्डदेशेषु शुन्धन्तां पितरः शुन्धन्तां पितामहाः शुन्धन्तां प्रपितामहा इति पितृतीर्थेन तिलोदकं निनीय तथैव द्वितीयलेखायां शुन्धन्तां मातामहा इत्यादि। तत एतत्तेऽमुकशर्मन्ये च त्वामत्रानु तेभ्यश्चेति पित्रे पिण्डं दत्त्वा पिता- महादिभ्यस्तत्तन्नामोच्चारपूर्वकं दद्यात् । ततः, अत्र पितरो मादयध्व- मिति पिण्डान्सकृदनुमन्य सव्यावृदावृत्योदङ्मुखो भूत्वा यथाशक्त्या- यतप्राणः सन्नासित्वा प्रत्यावृत्य, अमीमदन्त पितरो० यीपत । इति पुनः सकृत्पिण्डाननुमन्य पिण्डशेषचरुमवघायाऽऽचल्य शुन्धन्तां पितर इत्यादि पिण्डेषु पूर्ववत्तिलोदकं निनीयासावभ्यक्ष्वासावक्ष्वेति यथा- लिङ्गं पिण्डेश्वभ्यञ्जनाञ्जने दत्त्वा वासःस्थाने दशामूर्णास्तुकां वा, । एतद्वः पितरो० युध्वम् । इति प्रतिवर्गं दद्यात् । उत्तरे वयसि स्वह- ल्लोम दद्यात् । अथ पिण्डान्गन्धादिभिरभ्यर्च्य प्राञ्जलिस्तिष्ठन्नुपतिष्ठत नमो वः पितर इ० चेमहि । इति चतसृभिरुपस्थाय परेतन० निय- च्छतेति पिण्डस्थान्पितन्प्रवाहयेत् । अथ पिण्डान्नमस्कृत्य वीरं मे दत्त पितर इति मध्यमं पिण्डद्वयमादाय, आधत्त पितरो गर्भ० असत् । इति पुत्रकामः पत्नी प्राशयेत् । इतरान्पिण्डानप्सु प्रक्षिपेत् । अनौ वा जुहुयात् । गवे वा बाह्मणाय वा दद्यात् । ततः प्रकिरणार्थं सार्व- वर्णिके पूर्व पृथगुद्धतमन्नमुदकेन परिप्लाव्य विमोच्छिष्टान्ते दक्षिणाया- न्दर्भानास्तीर्य तेषु ये अग्निदग्धा० कल्पयस्वेति तदन्नं प्रकीर्य अग्निदग्धाः कुले जाता नाग्निदग्धाः कुले मम । भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् ॥ इति तिलोदकं निनीयाऽऽचामेत् । अथ ब्राह्मणहस्तेवपो दर्भाश्च दत्त्वा दैवे यवान्पित्र्ये तिलांश्चावधाय पुनरपो दद्यादेषा हस्त- शुद्धिः । अथ ब्राह्मणानभिवाद्य, अस्मद्गोत्रं वर्धतामिति गोत्रवृद्धि याचेत । युष्मद्गोत्रं वर्धतामिति विप्रा वदेयुः । कर्ता विप्रोच्छिष्टानि चालयित्वा पुरूरवावसंज्ञका विश्वे देवाः स्वस्तीति बूतेति दैवि- कविप्रहस्तयोरपो दद्यात् । ताभ्यां स्वस्तीति प्रत्युक्ते प्राचीनावीती पित्रादीनां संबुद्ध्यन्तमुच्चारणं कृत्वा स्वस्तीति ब्रूतेत्यपो दद्यात् । 3 .१ ग. हृदयलो । २ क. स्व. के पृ। ३ ग. 'रिप्राप्ला।

श्राद्धमञ्जरी। ६७ स्वस्तीति प्रतिवचनम् । यज्ञोपवीती पुरुरवाव० विश्वेषां देवानां यदत्तं श्राद्धं तदक्षय्यमस्त्विति ब्रूतेति यवोदकं दत्त्वा, अक्षय्यमस्त्विति प्रत्युक्ते प्राचीनावीती पित्रादीन्षष्ठ्यन्तानुञ्चार्य यद्दत्तं श्राद्धं तदक्षय्यम- स्त्विति बूतेति तिलाम्बु दत्त्वा पूर्वस्थापितमय॑पात्रं निवृत्य यज्ञोपवीती ब्राह्मणेभ्यो मुखवासताम्बूलादि दत्त्वा दक्षिणां दत्त्वा तान्पादाभ्यङ्गन- दिभिः प्रियोक्तिभिश्च परितोष्य कर्मणः संपूर्णतां वाचयित्वा ॐ स्वधोच्यतामिति बुवन्धितृपूर्व विसृजेत् । विप्राश्चास्तु स्वधेति ब्रुवन्त उत्तिष्ठेयुः । कर्ता पिण्डनिपरणदेशं संमृज्य तत्र तिलान्प्रास्य तत्र शान्तिरस्तु पुष्टिरस्तु तुष्टिरस्तु, इत्युदकधारामासिच्य तथाऽस्त्विति विप्रैः प्रत्युक्ते दक्षिणामुखः प्राञ्जलिस्तिष्ठन्वरान्याचेत दातारो नोऽभिवर्धन्तां वेदाः संततिरेव नः। श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्तु ॥ इति । दातारो वोऽभिवर्धन्तां वेदाः संततिरेव वः। श्रद्धा च वो मा व्यगमबहु देयं च घोऽस्तु ॥ इति विप्राः प्रतिवदेयुः । कर्ता यस्य स्मृत्या च० च्युतम् । मन्त्रहीनं० मम । यः कश्चिच्छाद्ध स्तु मे । सर्वं संपूर्णमस्त्विति विप्राः । कर्ताऽ. नेन दर्शश्राद्धयज्ञेन भगवान्पितृस्वरूपी परमेश्वरः प्रीयताम् । तत्सद्ब्रह्मा- र्पणमस्तु इत्युक्त्वा विमोच्छिष्टान्युद्वास्य भूमौ निखन्याऽऽच्छाद्य गृहं गोमयेनोपलिप्य श्राद्धशेषेण वैश्वदेवादिकं कृत्वा श्राद्धशेषमिष्टैः सह भुञ्जीतेति। इति श्रीमञ्चित्तपावनकेळ० श्राद्धमञ्जयाँ केवलगृह्यपरिशिष्टोक्तो दर्श- श्राद्धप्रयोगः। अथ सूत्रोक्तः पार्वणश्राद्धप्रयोगः । स च पूर्वोक्तविस्तरेण प्रयोगक- रणाशक्तौ कर्तव्यः। बह्वल्पं वा स्वगृह्योक्तं यस्य यत्कर्म चोदितम् । तस्य तावति शास्त्रार्थे कृते सर्व कृतं भवेत् ॥ इति वचनात् । अपि वा शक्तौ सत्यामपि स्वगृह्योक्त एव कार्यों न शास्त्रान्तरदृष्टविस्तरः कार्य इति वृत्तिकृदुक्तः । अतो वृत्तिकृत्कारिका- ६८ केळकरीपाहबापूभडविरचिता- काराम्यां किंचिकिचिदर्थाक्षिप्तस्वावश्यकमन्यादिशास्त्रान्तरपरिग्रहेणा- नुष्ठेयार्थो निरूपितस्तदनुसारेणैवोच्यते । तत्र मातामहादीनामनुक्तावपि स्वाविरुद्धमन्यतो ग्राह्यमित्युक्तत्वाच्छिष्टाचाराच तत्परिग्रहेणैव प्रयो. गोऽभिधीयते । श्राद्धकर्ता श्राद्धदिनात्पूर्वेयुः सायं श्राद्धदिने वा प्रात. बाह्मणान्निमन्त्रयेत् । श्वोऽद्य वा करिष्यमाणदर्शश्राद्धे पुरूरवावसं. ज्ञकविश्वदेवस्थाने त्वया क्षणः करणीय इति वैश्वदेवार्थमेकं द्वौ वा निमलय प्राचीनापीती, अद्य करिष्यमाणदर्शश्राद्धेऽस्मत्पितुरमुकशर्म- णोऽमुकगोत्रस्य वसुरूपस्य सपत्नीकस्य स्थाने त्वया क्षणः करणीयः । ॐ तथेति प्रतिवचनम् । एवं पितामहाद्यांस्तत्तन्नामोच्चारपूर्वकं निम- त्रयेत् । अतः परं ब्राह्मणानां कर्तुश्च ब्रह्मचर्यम् । ततः श्राद्धदिने मध्याह्ने स्नात्वा दर्शश्राद्धाङ्गतर्पणं विधाय ब्राह्मणान्समाहूय तैः स्नानं कारयित्वा यज्ञोपवीती पवित्रे. धृत्वाऽऽचम्य प्राणानायम्य देशकालो स्मृत्वा प्राचीनावीती, अस्मपितुरमुकशणोऽमुकगोत्रस्य वसुरूपस्य सपत्नीकस्यास्मपितामहस्यामुकशर्मणोऽमुकगोत्रस्य रुद्ररूपस्य सपत्नी- कस्यास्मत्प्रपितामहस्यामुक० आदित्यरूपस्य सपत्नीकस्यास्मन्मातामह- स्यामु० अस्मन्मातुःपितामहस्यामु० अस्मन्मातुःप्रपितामहस्यामु० आदि- त्यरूपस्य सपत्नीकस्यैतेषां तृप्त्यर्थं दर्शश्राद्धं करिष्ये । ततस्तान्वि- प्रान्नातान्स्वयं का वा प्रक्षालितपादान्द्विराचान्तानुपवेशयेत् । तत्र द्वौ प्राङ्मुखौ देविको वैश्वदेवस्वरूपौ ध्यायन्नुपवेश्य पित्राद्यान्ममैते पितर इति ध्यायन्नुदङ्मुखानुपवेशयेत् । ततो यज्ञोपवीती देवार्चनं कुर्यात् । प्रथमवैश्वदेविकविप्रहस्तेऽपो दत्त्वा पुरूरवाईवसंज्ञकानां विश्वेषां देवानामिदमासनम् । इति दक्षिणभाग ऋजून्युग्मान्दर्भानासने दत्त्वाऽपो दद्यात् । एवं द्वितीये दैवेऽर्घ्यदानमावाहनं च कृताकृतम् । पुरूरवा० विश्वे देवा अमी वो गन्धाः स्वाहा नमो न मम । एवमाद्य- न्तयोरब्दानपूर्वकं गन्धमाल्यधूपदीपाच्छादनानि दद्यात् । प्राचीनावीती, अपो दत्त्वाऽस्मत्पितुरमुकशर्मणोऽमुकगोत्रस्य वसुरूपस्य सपत्नीकस्येद- मासनमिति वामभागे द्विगुणभुग्नान्दर्भानासने दत्त्वाऽपो दद्यात् । एवं पितामहादीनां तत्तदुचारपूर्वकमासनानि दद्यात् । ततो दर्भेषु षडर्घ्य- पानाण्यानेयीसंस्थान्यासाद्य तेषु दर्भत्रयात्मकानि पवित्राणि निधा- याप आसिच्य शं नो देवोरिति सकृदनुमन्य तिलोऽसि सोम० स्वधा -- १ ग. दि श्राद्धमारी। नम इति मन्त्रावृत्त्या प्रतिपात्रं तिलानोप्य गन्धपुष्पाणि क्षिप्त्वा यज्ञो- पवीती तत्तदर्घ्यपात्रं तत्तद्विप्राग्रे स्वधाऽर्ध्या इति मन्त्रावृत्त्या प्रत्येक निवेदयेत् । सन्त्वा इति प्रतिवचनम् । एकबाह्मणपक्षे तस्मा एव सकृन्मन्त्रेण सर्वाणि निवेदयेत् । एकस्य स्थानेऽनेकबाह्मणपक्षे तदर्थ्य- पात्रं सकृन्मन्त्रेण युगपत्सर्वेभ्यो निवेदयेत् । ततोऽन्या अपः प्रदाय दक्षिणहस्तेन सशेषमय॑मादाय सव्योपगृहीतेन सपत्नीक पितरिदं तेऽर्थ्य- मिति दत्त्वा या दिव्या आप:०भवन्तु । इति विप्रहस्तात्त्रवन्तीरपोऽनु- मच्यापो दद्यात् । एवं पितामहादीनां तत्तन्मन्त्रेणार्घ्यदानम् । एकबाह्म- णपक्षे तस्मा एव सर्वाण्याणि प्रत्येकमाद्यन्तयोरुदकदानपूर्वकं दद्यात् । अनेकबाह्मणपक्षे तदेषाध्यं विगृह्य सर्वेभ्यो दद्यात् । ततः प्रथममर्त्यपात्रं पित्र्यविप्रवामभागेऽन्यत्र धा शुचौ देशे निधाय तस्मिन्नितरार्यपात्र- स्थान्संसवान्समवनीय ताभिरद्भिः पुत्रकामश्चेन्मुखमनक्ति अपः स्पृष्ट्वा तत्पात्रं प्रपितामहपात्रेणापिधाय तदा श्राद्धसमातेर्म चालयेत् । ततः प्राचीनावीती, अस्मपितृपितामहप्रपितामहा अमुकशर्माण इत्याधुच्चार्य एष वो गन्धः स्वधा नमो न मम । एवमाद्यन्तयोरुदकदानपूर्वकं गन्ध- पुष्पधूपदीपाच्छादनानि प्रदाय भोजनपात्राण्यासाद्य भोजनार्थादन्नाद- नमादाय घृताक्तं कृत्वा प्राचीनावीती पिश्यविप्रपाणिषु मेक्षणेन हस्तेन याऽवदानधर्मेण सोमाय पितृमते स्वधा नमः । सोमाय पितृमत इदं० । अग्नये कव्यवाहनाय स्वधा नमः । अग्नये कव्यवाहनायेदं० इति प्रत्येक दे द्वे आहुती जुहुयात् । अपि वा, एकैकामाहुति विगृश्य सर्वेषु विप्र. पाणिषु जुहुयात् । विप्राः स्वस्वपाणिस्थमन्नं स्वस्वपात्रे संस्थाप्य बहिर्गत्वाऽऽचम्य यथास्थानमुपविशेयुः । कर्ता यज्ञोपवीती देवपूर्वमन्नं भोजनपर्याप्त्यधिक परिविष्य हुतशेष सर्वेषु पितृपात्रेषु दद्यात् । ततो यज्ञोपवीती देवपात्रस्थमन्नं सावित्र्याऽभ्युक्ष्य पुरूरवावसंज्ञकेभ्यो विश्वेभ्यो देवेभ्य इदमन्नममृतरूपं परिविष्टं परिवेक्ष्यमाणं चाऽऽ तृप्तेः स्वाहा हव्यं नमो न ममेति निवेद्य पितृपात्रस्थमन्नं सावित्र्याऽभ्युक्ष्य प्राचीनावीती, अस्मत्पित्रेऽमुकशर्मणेऽमुकगोत्राय वसुरूपाय सपत्नीका- येदमन्नममृतरूपं परिविष्टं परिवेक्ष्यमाणं चाऽऽ तृप्तेः स्वधा कव्यं नमो न मम । एवं पितामहादिभ्यो निवेद्याऽऽपोशनार्थमुदकं दद्यात् । विपाश्चान्नं परिषिच्य बलिदानवर्जमापोशनं कृत्वा प्राणाहुतीर्गृहीत्वोक्तनियमयुक्ता मुञ्जीरन् । कर्ता यज्ञोपवीती भुञानात्राक्षोन्नपिच्यादीनि च श्रावयेत् । तेषु तृप्तेषु मधु वाता ऋतायते म० इति तिस्रोऽक्षन्नमीमदन्तेति चैका केळकरोपावबापूभट्टविरचिता- श्रावयेत् । ततो ब्राह्मणान्पृच्छति संपन्नमिति। ते च संपन्नमिति प्रत्यूचुः। ततः कर्ता भुक्तशेषात्सार्ववणिकमन्नं पिण्डा0 प्रकिरणार्थं चोद्धृत्य शेषं ब्राह्मणेभ्यो निवेदयेत् । शेषमन्नं किं क्रियतामिति । विप्रास्तत्स्वी कुयुरिष्टैः सह मुज्यतामिति वा वदेयुः । ततः कर्ता पिण्डदानं कुर्यात् । द्विजोच्छिष्टसमीप आग्नेयीसंस्थां लेखामुल्लिखेत् । अपहता असुरा रक्षांसि वेदिषदः । तत्पश्चात्तथैवोल्लिख्य क्रमेणाभ्युक्ष्य बहिर्द्वयमास्तीर्य प्राचीना- वीती पूर्वस्यां त्रिरुदकं निनयेत् । शुन्धन्तां सपत्नीकाः पितराद्या इति षड्वारमुदकं निनयेत् । ततः षद पिण्डान्कृत्वा, एतत्तेऽस्मत्पितरमुकश- मन्नमुकगोत्र वसुरूप सपत्नीक ये च त्वामत्रानु इति पित्रे पिण्डं दत्त्वा एतत्तेऽस्मपितामहेत्यादिमातुःप्रपितामहान्तेभ्यो दद्यात् । अथ पिण्ड- स्थापितॄननुमन्त्रयेत् । अत्र पितरो० यध्वम् । सव्यावृदुदङावृत्य यथा- शक्ति प्राणान्नियम्याभिपर्यावृत्य, अमीमदन्त ० यीपत।इति पुनः पिण्डा- ननुमन्य यज्ञोपवीती चरुशेषमवघायाऽऽचम्य प्राचीनावीती पूर्ववच्छु- न्धन्तामित्यादि पिण्डेषु जलं निनयेत् । ततः पितरमुकशर्मन्नमुकगोत्र वसुरूप सपत्नीकाभ्यक्ष्वेति तैलाभ्यञ्जने दद्यादेवमितरेषु तथैवाश्वेत्य. अनम् । अथ दशामूर्णास्तुकां वा दद्यात् । पञ्चाशद्वर्षताया ऊध्र्व स्वीय- प्रकोष्ठस्थं हृत्स्थं वा लोम दद्यात् । एतद्वः० युध्वम् । इति प्रतिपार्वणं मन्त्रावृत्तिः । अथ पिण्डस्थापितनुपतिष्ठेत नमो वः पितर इषेक स्याम । मनोन्वाहुवामह इति च तिसृभिः । अथैनान्प्रवाहयेत् । परेतन० नियच्छत । ततो वीरं मे दत्त पितर इति मन्त्रावृत्त्या मध्यमं पिण्डद्वय- मादायाऽऽधत्त पितरो ग० असदिति पत्नी प्राशयेत् । अवशिष्टान्पिण्डा- नप्स्वनौ वा क्षिपेत् । ततो विप्रैरुत्तरापोशनादिशुद्धा(ध्या)चमनान्तं कारयित्वा पूर्वोद्धृतमन्नं सजलं विप्राणामग्रतस्तूष्णीं भुवि प्रकिरन्नुत्सृजेत् । ततः पूर्वासादितमर्यपात्रं चालयेत् । यज्ञोपवीती बाह्मणेभ्यो दक्षिणां यथासंभवं गोहिरण्यालंकारादि दत्त्वा ॐ स्वधोच्यतामिति अस्तु स्वधेति वोक्त्वा विसृजेत् । ते च ॐ स्वधा, अस्तु स्वधेति वा बुवन्त उत्तिष्ठेयुः । कर्ता दक्षिणामुखस्तिष्ठन्वरान्याचेत । दातारो०व नः। श्रद्धा च नोस्त्विति । विप्राः । दातारो वो०व वः । श्रद्धा च वो०- स्त्विति प्रतिवदेयुः । कर्ता यस्य स्मृत्या०च्युतम् । मन्त्रहीनं०मम । यः कश्चिच्छ्राद्धयज्ञ०स्तु मे । सर्वं संपूर्णमस्त्विति विप्राः । कर्ताऽनेन दर्श श्राद्धयज्ञेन भगवान्पितृस्वरूपी परमेश्वरः प्रीयताम् । तत्सद्ब्रह्मार्पणमस्तु ।

श्राद्धमञ्जरी। ७१ ततो विमोच्छिष्टान्युद्वास्य भूमौ निखन्याऽऽच्छाद्य गृहं गोमयेनोपलिप्य श्राद्धशेषेणैव वैश्वदेवादिकं कृत्वेटैः सह भुञ्जीतेति । इति श्रीमञ्चित्तपावनके० श्राद्धमञ्जयाँ संक्षिप्तः सूत्रोक्तः पार्वणश्राद्धप्रयोगः समाप्तः । अथ दर्शश्राद्धपिण्डपितृयज्ञयोर्व्यतिषङ्ग प्रयोगः । चतुर्दश्यां सायंहो. मानन्तरममावास्यायां वा प्रात)मानन्तरं दर्शश्राद्धार्थ ब्राह्मणान्निमन्त्र्य तान्पाकसिध्द्युत्तरं समाहूय तैः स्नानं कारयित्वा स्वयं स्नातो दर्शश्राद्धा- ङ्गतर्पणं कृत्वाऽऽचम्य धृतपवित्रः प्राणानायम्य देशकालौ संकीर्त्य प्राचीनावीती, अस्मपितृपितामहप्रपितामहानाममुकशगोव० सपत्नी- कानाम् । अस्मन्मातामह० सपत्नीकानां तृप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थं दर्शश्राद्धं पिण्डपितृयज्ञं च व्यतिषण करिष्य इति संकल्प्य यज्ञो- पवीती, औपासनाग्निं प्रज्वाल्याऽऽशेय्यभिमुखोऽग्निं ध्वात्वाऽऽग्नेयीमा- रभ्याप्रदक्षिणं सकृत्परिसमुह्याऽऽग्नेय्यग्रकैर्दभैरप्रदक्षिणं परिस्तीर्य तथैव पर्युक्ष्याझेरी(रे)शान्यां वायध्यां वाऽऽग्नेय्ययकान्दर्भानास्तीर्याभ्युक्ष्य तन्त्र चरुस्थाली शूष स्फ्यमुलूखलं मुसलं सुवं ध्रुवां कृष्णाजिनं सकृदाच्छिन्नं बर्हियमिध्मं भेक्षणं कमण्डलुमिति द्वादश पात्राणि न्यग्बिलान्ये कैकश आग्नेयीसंस्थान्यासाद्योत्तानानि कृत्वा कमण्डलुजलेन प्रोक्ष्य स्थाली शूपं चाऽऽदायाग्नेर्दक्षिणतोऽवस्थितं व्रीहिमच्छकटं दक्षिणत आरुह्य शूर्प स्थाली निधाय तां बीहिभिः पूरयित्वा यथा स्थालीमुखोपरिस्था बीहयः शूर्पे निपतन्ति तथा स्थाली निमृज्य शूर्पे पतितान्त्रीहीञ्छकटे प्रास्याग्नेः पश्चिमतो वायव्यग्रीवमूर्ध्वलोमकृष्णाजिनमास्तीर्य तबोलूखलं निधाय तस्मिन्स्थालीस्थान्त्रीहीनोप्याऽऽप्यभिमुख्या तिष्ठन्त्या प- न्याऽवहतान्सकृत्फलीकृतानविविच्य सकृत्प्रक्षालिततण्डलांश्चरुस्थाल्यां समोयानावधिश्रित्य जीवतण्डुलं चरुं अपयेत् । किंचिदपक्चश्वरुर्जी- वतण्डुलचरुरित्येकोऽर्थः । जीवतण्डुलानामित्यपरः । जीवतण्डुलक्षणं मैत्रायणीयपरिशिष्टे- पुराणा बीहयो येषां बीजमुप्तं प्ररोहति । तेषां ये तण्डुला जाता ज्ञेयास्ते जीवतण्डुलाः ॥ इति । १ ग.न्तरं द°। २ ग. स्मृत्वा । ३ ग. र्थ सदैवं दु ।

७२ केळकरोपाह्वयापूमट्टविरचिता- ततश्चरुमुहास्यैवानेरेकं प्रदीप्तमुस्मुकं गृहीत्वाऽनेराग्नेय्यां दिशि कृत- स्थण्डिले ये रूपाणि प्रतिमुश्चमाना असुराः सन्तः स्वधया चरन्ति परा पुरो निपुरो ये भरन्त्यग्निष्टाल्लोकात्प्रणुदात्वस्मात् । इति मन्त्रेण निधाय तमतिप्रणीताख्यमग्निं पूर्ववत्परिसमुह्याऽऽग्नेय्य- प्रकैः कुशैः परिस्तीर्य पर्युक्ष्याऽऽग्नेय्यभिमुख औपासनातिप्रणीतयोरन्त- राले स्फ्येन लेखामुल्लिखेत् । अपहता असुरा रक्षांसि वेदिषदः। तत्पश्चा- तथैव मन्त्रावृत्त्या द्वितीयामुल्लिख्य तल्लेखाद्वयं तूष्णीमद्भिरभ्युक्ष्य सक- दाच्छिन्नवर्हियेन लेखाद्वयमवस्तीर्याऽऽज्यं विलापितमनुत्पूतं ध्रुवाया- मासिच्यापि वा नवनीतं पात्रान्तरे गृहीत्वा लौकिकानौ विलीनमा कृत्वाऽन्यस्मिन्पात्र आनीय पवित्राभ्यां तूष्णीमुत्यूय तदाज्यकार्यार्थ भुवायामासिच्या दक्षिणतो दर्भेषु निधाय खुवं संमृज्य तेन ध्रुवास्थमा- ज्यमादाय चरुमभिघार्योदगुद्वास्यातिप्रणीतानेः पश्चाद्दर्भेष्वासाद्य तद्द- क्षिणतोऽभ्यञ्जनाञ्जनकशिपूपवहणान्यासादयेत् । एतदन्तं पिण्डपितृ- यज्ञं कृत्वा निमन्त्रितान्विप्रान्स्वागतेनाभिपूज्य पादप्रक्षालनादिभोजन- पात्राण्यासाद्य समन्ततो भस्ममर्यादां कृत्वा हस्तशुद्धि विधायेत्यन्तं पार्वणं कृत्वा पात्रान्तरे पितृयज्ञस्थालीपाकादन्नमुद्धृत्य घृतानं कृत्वा प्राचीनावीती, अनौ करिष्य इति पिवर्थद्विजान्पृष्ट्वा क्रियतामिति तैः प्रत्पभ्यनुज्ञातोऽतिप्रणीताग्नेः पश्चादुपविश्य तमर्चयित्वाऽरनिमितपञ्चद- शदारुकमिध्ममभिधारितं पितृतीर्थेन तूष्णीममावाधाय सुवेणाऽऽज्यमा- दाय मेक्षणमुपस्तीर्योद्धृतं चर्स द्वेधा विभज्योत्तरभागमध्यादङ्गुष्ठपर्वमानं मेक्षणेनावदाय पुनः पूर्वार्धादयदाय पञ्चावत्ती तु तृतीयं पश्चार्धादवदाय पात्रस्थमवत्तं चाभिधार्यातिप्रणीताग्नौ दक्षिणभागे सोमाय पितृमते स्वधा नम इति पितृतीर्थेन हुत्वा सोमाय पितृमत इदं न ममेति त्यजेत् । पुनस्त- थैव दक्षिणभागादवदायामेरुत्तरभाग अग्नये कव्यवाहनाय स्वधा नम इति पूर्ववधुत्वा, अग्नये कव्यवाहनायेदमिति त्यजेत् । ततस्तूष्णीं मेक्ष- णमनावनुपहरेत् । अपि वा यज्ञोपवीती अग्नये कव्यवाहनाय स्वाहेति प्रथमाहुतिः । सोमाय पितृमते स्वाहेति द्वितीया । अस्मिन्पक्षे मेक्षणानुपहरणमपि यज्ञोपवीतिनैव । एतावत्पिण्डपितृयज्ञं कृत्वा विप्रानाचाम्य पात्राण्युपस्तीर्यान्नानि परिविष्येत्यादिशेषमन्नं किं क्रिय- तामित्यन्तं कृत्वा श्राद्धान्नशेषात्पिण्डार्थमुद्धृतमन्नं पिण्डपितृयज्ञचरुशे- पेण संमिश्य मधु सपिस्तिलयुक्तं च कृत्वा तस्य षट् पिण्डान्कृत्वा ध्रुवा- १ क. स. 'धु वा सा श्राद्धमारी। ७३ ज्येनाभिधार्य प्राचीनावीती पूर्वास्तृतबर्हिषोः पूर्वासादितकमण्डलुजलं शुन्धन्तां पितर इत्यादिघण्मन्त्रनिनीय ततः पिण्डदानादिवासोदानान्तं पूर्ववत्कृत्वा कशिपूपबर्हणे निवेद्य पिण्डार्चनादिपिण्डप्रवाहणान्तं कृत्वा, अग्ने तमद्याश्वं० ओहैरिति मन्त्रेणौपासनाग्निं प्रत्येत्य यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिसिम । अग्निर्मा तस्मादेनसः प्रमुश्चतु करोतु मामनेनसम् ॥ इति मन्त्रं गार्हपत्यपदरहितं जपेत् । अनेन मन्त्रेणाग्निमुपतिष्ठेत वा । ततः पिण्डान्नमस्कृत्य वीरं मे दत्त पितर इत्याद्यवशिष्टान्पिण्डानप्स्वनी वा क्षिपेदित्यन्तं पूर्ववत्कृत्वा पूर्वासादितयज्ञपात्राणि द्वंद्वश उत्सृजेत् । चरुस्थाली शूपं च । स्फ्यमुलूखलं च । मुसलं सुवं च । ध्रुवां कृष्णा- जिनं च । अवशिष्टं कमण्डलुं तृणेन सहोत्सृजेत् । तत औपासनानेः परिस्तरणानि विसृज्याऽऽयतनं संसृज्यालं कुर्यात् । एवं पिण्डपितृयज्ञं समाप्य विप्रेभ्य उत्तरापोशनं दत्त्वा गण्डूषादि कारयित्वा तानाचाम्य विकिरदानादिश्राद्धशेषं समापयेत् । आचान्तेषु पिण्डदानमिति पक्षे विभैरुत्तरापोशनाविशुद्धा(या)चमनान्तं कारयित्वा पिण्डदानाद्य- ग्न्यायतनालंकरणान्तं कृत्वा विकिरदानादिश्राद्धशेष समापयेदिति । इति श्रीमञ्चित्तपावनकेळकरो० श्राद्धमञ्जयाँ पिण्डपितृयज्ञव्य- तिषक्तदर्शश्राद्धप्रयोगः। २ अथ पूर्वोक्तप्रयोगाणामधिकारिभेदाद्यवस्थोच्यते । अनाहिताग्नेगुह्या- निमत एव पिण्डपितृयज्ञदर्शश्राद्धयोर्व्यतिषङ्गो भवति । खण्डपर्वणि तु पूर्वेद्युदर्शश्राद्धमपरारपराह्ने केवलः पिण्डपितृयज्ञो भवति । केवलपि- ण्डपितृयज्ञप्रयोगस्तु प्रयोगरत्ने द्रष्टव्यः । आहिताग्निस्तु पिण्डपितृयज्ञं समाप्य ततः पूर्वोक्तपाणिहोमविधिना पार्वणं करोति । अनग्निकस्य पाणिहोम एव । यत्रानावनोकरणविधिस्तत्र स्थालीपाकादुद्धृत्य होमः। स्थालीपाकेन भुक्तशेषेण चाग्निसमीपे पिण्डनिपरणम् । पाणिहोमे तु भोजनार्थादन्नादुद्धृत्य घृताक्तं कृत्वा पाणिहोमः । ब्राह्मणसमीपे भुक्तशे- षमात्रेण पिण्डनिपरणम् । गृह्याग्निमतः खण्डपर्वणि केवलदर्शश्राद्धे पिण्ड- पितृयज्ञाभावादाहिताग्निवत्पाणिहोम एव । केचिञ्चतुधेिषु सानीनां १ क. स्त्र, 'गु । २ क खः विप्राणामुत्त ।

केळकरोपाहबापूभट्टविरचिता- वह्नौ होमो विधीयत इति वचनात्केवलमग्नौकरणमेवेत्याहुः । तत्म- योगो रघुनाथीयपद्धत्यनुसारेणोच्यते । पूर्ववत्पाणिहोमात्याक्तनं श्राद्धप्र- योगं कृत्वा भोजनार्थादन्नाद्धृताक्तमोदनं गृहीत्वा प्राचीनावीती अग्नौ करिष्य इति पित्रद्विजान्पृष्ट्वा क्रियतामिति तैरनुज्ञात औपसनसमीपमे- त्य तं प्रज्वाल्य कव्यवाहनरूपं ध्यात्वा सकृदप्रदक्षिणं परिसमुह्याऽऽग्ने- व्यग्रकैर्दभैरप्रदक्षिणं परिस्तीर्य तथैव सकृत्पर्युक्ष्य विलापितमनुत्पूतमाज्यं पात्रे गृहीत्वाऽन्नमनावधिश्रित्याभिघार्योद्वास्यानेः पश्चाद्दर्भेष्वासाद्याग्नि- मभ्यर्च्य पञ्चदशदारुकमिध्ममेकां समिधं वा तूष्णीमनावाधाय मेक्षणे वेणोपस्वीर्य चरोरुत्तरभागस्य मध्यात्पूर्वार्धाच्चाङ्गुन्ठपर्वमानं मेक्षणेनैव द्विरवदाय पञ्चावची तु पश्चार्धात्ततीयमवदाय पात्रस्थमवत्तं चाभिघार्य सोमाय पितृमते स्वधा नम इति पितृतीर्थेन दक्षिणभागे हुत्वा सोमाय । पितृमत इदं न ममेति त्यजेत् । पुनः पूर्ववदक्षिणभागचरोरवदायाग्नये कव्यवाहनाय स्वधा नम इति उत्तरभागे हुत्वा, अग्नये कव्यवाहनायेदं न ममेति त्यक्त्वा तूष्णीं मेक्षणमनुप्रहरेत् । होमे प्राचीनावीतित्वे आचीनावीतिनैव मेक्षणानुपहरणम् । यज्ञोपवीतित्वे यज्ञोपवीतिनैवेति वृत्तिकृत् । उभयत्रापि यज्ञोपवीतिनैवेति प्रयोगरत्ने चन्द्रिकायां च । अस्मिन्पक्षे पिण्डनिपरणमग्निसमीपे । इति पार्वणश्राद्धम् । अष्टकाश्राद्धमाध्यावर्षश्राद्धमासिमासिश्राद्धा- नामेकोद्दिष्टस्य च प्रयोगः प्रयोगरत्नेऽवगन्तव्यः । अथ काम्यश्राद्धम् । तच्च कृष्णपक्षे पुत्रकामेण पञ्चम्यां पार्वणश्राद्ध वत्पदैवत्यं सपिण्डं पाणिहोमविधिना कार्यम् । तत्र धूरिलोचनसंज्ञका विश्वे देवाः । अपि कन्यागते सूर्ये काम्ये च धूरिलोचनावित्युक्तत्वात् । मासिश्राद्धस्य पार्वणस्य चैककार्यत्वादन्यतरेवालम् । तत्र मासि श्राद्धं कृतवांश्चत्पर्वणि केवलं पिण्डपितृयज्ञः कार्य एव । काम्यश्राद्धं कृतं चेत्तेनैवालं न पुनर्मासिश्राद्धपार्वणश्राद्ध कार्ये इति वृत्तिकृत् । अथ शौनकोक्तं काम्यश्राद्धमुच्यते । काम्यश्राद्धमहं वक्ष्ये शौनकस्त्वृषिसत्तम इत्युपक्रम्य पावणेन विधानेन श्राद्धं कुर्यात्समाहितः । तिलार्थं तु वैः कार्य वृद्धिश्राद्धवदिष्यते ॥ पोष्ठपद्यपरे पक्षे पञ्चम्याराहरेत्सुधीः । . १ क. ख. क्षेऽपिपि । २ क. स्व. विषाणामुत्त ।

श्राद्धमञ्जरी। इत्युक्तत्वाद्भाद्रकृष्णपञ्चम्यां वृद्धिश्राद्धवद्भवति वृद्धिश्राद्धं त्वग्रे वक्ष्यामः । अथ शास्त्रान्तरोक्तानि काम्यश्राद्धान्युच्यन्ते । तत्र तिथि- श्राद्धान्याह पराशरमाधवीये मनु:- कुर्वन्प्रतिपदि श्राद्धं सुरूपान्विन्दते सुतान् । कन्यकां तु द्वितीयायां तृतीयापां तु बन्दिनः ॥ पशून्क्षुद्रांश्चतुथ्यां तु पञ्चम्यां शोभनान्सुतान् । षष्ठयां घूतं कृषि चैव सप्तम्यां लभते नरः ॥ अष्टल्यामपि वाणिज्यं लभते श्राद्धदः सदा ॥ स्यान्नवम्यामेकखुरं दशम्यां द्विखुरं बहु । एकादश्यां तथा रूपं ब्रह्मवर्चस्विनः सुतान् । द्वादश्यां जातरूपं तु रजतं रूप्यमेव च । ज्ञातिश्रेष्ठयं त्रयोदश्यां चतुर्दश्यामुरुप्रजाः॥ प्रीयन्ते पितरश्चास्य ये शस्त्रेण रणे हताः । श्राद्धदः पञ्चदश्यां तु सर्वान्कामान्समश्नुते ॥ इति । एतानि श्राद्धानि सर्वेष्वेवापरपक्षेषु प्रतिपदादितिथिषु भवन्तीति माधवः । आपस्तम्बोऽपि-सर्वेष्वेवापरपक्षस्याहःसु क्रियमाणे पितॄन्धी- णाति कर्तुस्तु कालनियमात्फलविशेष इति । अथ वारश्राद्धानि । तान्युक्तानि कूर्मपुराणे- आदित्यवारे चाऽऽरोग्यं चन्द्रे सौभाग्यमेव च । कुजे सर्वत्र विजयं सर्वान्कामान्बुधे तथा । विद्या विशिष्टां च गुरौ धनं वै भार्गवे पुनः । शनैश्चरे भवेदायुरारोग्यं च सुदुर्लभम् ॥ इति । निर्णयसिन्धौ-बवादिकरणेवेतच्छ्राद्धकृल्लभते फलमित्युक्तत्वाद्यत्सू- र्यादिवारफलं तदेव बवादिकरणश्राद्धेष्वपि योजनीयम् । एतानि श्राद्धानि सर्वेषु मासेषु शुक्लकृष्णपक्षेषु भवन्ति । आदित्यादिदिनेष्वेवं श्राद्धं कुर्वन्सदा नर इति विष्णुधर्मोत्तर उक्तत्वात् । सततमादित्येऽह्नि श्राद्धं कुर्वन्नारोग्यमानोतीति विष्णूक्तेश्च । श्राद्धे कृष्णपक्षस्य संस्तवा- दपरपक्षे पियाणीति सुदर्शनभाष्याञ्च सकृत्करणे कृष्णपक्षे कर्तव्यत्वं युक्तम् । १ क. ख. दूनं । २ . 'धवादयः । आ°। ३ ग. °रोग्यं प्राप्तो ।

७६ केळकरोपाह्वबापूभट्टविरचिता- अथ नक्षत्रश्राद्धानि । तान्याह मार्कण्डेयः- कृत्तिकासु पितृनर्चन्स्वर्गमाप्नोति मानवः । अपत्यकामो रोहिण्यां सौम्ये त्वोजस्वितां लभेत् ॥ आर्द्रायां शौर्यमाप्नोति क्षेत्रादीनि पुनर्वसौ । पुष्टिं पुष्ये पितॄनर्चन्नाश्लेषासु वरान्सुतान् ॥ मघासु स्वजनश्रेष्ठयं सौभाग्यं फल्गुनीषु च । प्रदानशीलो भवति सापत्यश्चोत्तरासु च ॥ प्राप्नोति ज्येष्ठतां सत्सु हस्ते श्राद्धप्रदो नरः। रूपवन्ति च चित्रासु तथाऽपत्यान्यवाप्नुयात् ॥ वाणिज्यलाभदा स्वाती विशाखा पुत्रकामदा । कुर्वतां चानुराधाश्च दयुश्चक्रप्रवर्तनम् ॥ ज्येष्ठास्वर्थाधिपत्यं च मूले चाऽऽरोग्यमुत्तमम् । आषाढासु यशःप्राप्तिरुत्तरासु विशोकता ॥ श्रवणे च शुभाल्लोकान्धनिष्ठासु धनं महत् । वेदश्रष्ठयं चाभिजिति भिषसिद्धि च वारुणे ॥ अजाविकं प्रोष्ठपदे विन्देदायाँ तथोत्तरे । रेवतीषु तथा रौप्यमश्विनीषु तुरंगमान् ॥ श्राद्धं कुर्वंस्तथाऽऽप्नोति भरणीष्वायुरुत्तमम् । तस्मात्काम्यानि कुर्वीत ऋक्षेवतेषु तत्त्ववित् ॥ इति । चक्रप्रवर्तनं सर्वत्राऽऽज्ञायाः प्रतिघाताभावेन प्रवर्तन मिति माधवः । मरीचिः- कृत्तिकादिषु ऋक्षेषु श्राद्धे यत्फलमीरितम् । विष्कम्भादिपु योगेषु तदेव फलमिष्यते ॥ नक्षत्रादिश्राद्धान्यपि सार्वकालिकानि । एतेषामेव तिथ्यादिश्राद्धानां फलान्तराण्यपि माधवीयादिग्रन्थेभ्यो ज्ञेयानि । अत्र पिण्डरहितानि आद्धान्युच्यन्ते रामकौतुके- नन्दाश्वकामरव्यारभृग्वग्निपितृकालभे। गण्डे वैधृतिपाते च पिण्डास्त्याज्याः सुतेप्सुभिः ॥ नन्दाः प्रतिपत्षष्ठयेकादश्यः । अश्वः सप्तमी । कामस्त्रयोदशी। - । १ ग, स्वर्ग प्रानो' ।

श्राद्धमञ्जरी। ७७. रविः सूर्यः । आरो भौमः । भृगुः शुक्रः । अग्निभं कृत्तिका। पितृभं मधा । कालभं भरणी । पौर्णमासीषु पिण्डदानं निषिद्धमिति सिन्धौ । एतेष्वेव काम्यश्राद्धेष्वयं निषेधः । तिथिवारप्रयुक्तो यो दोषो वै समुदाहृतः । स श्राद्धे तन्निमित्ते स्यान्नान्यश्राद्धे कदाचन ॥ इति विश्वरूपनिबन्धोक्तेः । पृथ्वीचन्द्रोदये नारदोऽपि- सकृन्महालये काम्ये पुनः श्राद्धेऽखिलेषु च । अतीतविषये चैव सर्वमेतद्विचिन्तयेत् ॥ इति । यत्र पिण्डदाननिषेधस्तत्र सांकल्पिकविधिः । तदाह निर्णयसिन्धों छागलेयः- पिण्डो यत्र निवर्तेत मघादिषु कथंचन । सांकल्पं तु तदा कार्य नियमाद्ब्रह्मवादिभिः ॥ इति । सांकल्पिकश्राद्धविधिस्त्वग्रे वक्ष्यते । अत्रापि सर्वेषु श्राद्धेषु धूरि- लोचनसंज्ञका विश्वे देवाः । पितरस्तु सपत्नीकाः । पित्रादयस्त्रयः सप- लीका मातामहादयश्च त्रयः । एवं षट् । संकल्पेऽस्मपितृपितामह- प्रपितामहानाममुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सप- त्नीकानामस्मन्मातामहमातुःपितामहमातुःप्रपितामहानाममुकशर्मणाम- मुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानामेतेषां तृप्त्यर्थं पुत्र. कामः प्रतिपच्छाद्धं सांकल्पिकविधिना सदैवमन्नन हविषा श्वः सद्यो वा करिष्ये । द्वितीयायां तु एतेषां तृप्त्यर्थं कन्याक मो द्वितीयाश्राद्धं सदैवं सपिण्डं पार्वणेन विधिनाऽन्नेन हविषा श्वः सद्यो वा करिष्ये । एवं तत्तच्छ्राद्धे तत्तत्कामोल्लंखः । अन्यत्सर्व दर्शश्राद्धवत् । प्रतिपषष्ठी- सप्तम्येकादशीत्रयोदशीपौर्णमासीश्राद्धानि सांकल्पविधिना कार्याणि । अन्यानि पिण्डसहितानि पार्वणवत् । चतुर्दशीश्राद्धे विशेष उच्यते । युवानः पितरो यस्य मृताः शस्त्रेण वा हताः । तेन कार्य चतुर्दश्यां तेषां तृप्तिमभीप्सुना ॥ इति मार्कण्डेयपुराणाद्येषां युवानः पितरः शस्त्रहता वा मृतास्तैरेव कर्तव्यम् । प्रतिपत्प्रभृतिध्वेका वर्जयित्वा चतुर्दशीम् । शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ॥

केळकरोपाखबापूभट्टविरचिता- इति याज्ञवल्क्योक्तेश्च । यानि तु अपमृत्युभवेद्येषामित्यादिवचनानि तानि महालयान्तर्गतचतुर्दशीश्राद्धपराणि । तत्प्रकरणे पठितत्वात् । इदं चैकोदिष्टमेव कार्यं न पार्वणम् । चतुर्दश्यां तु यच्छ्राद्धं सपिण्डीकरणात्परम् । एकोद्दिष्टविधानेन तत्कार्यं शस्त्रधातिनः। इति गार्यवचनात् । पित्रादित्रिके द्वयोः शस्त्रादितयोरेकोद्दिष्टद्वि- तयं त्रयाणामपि तथात्व एकोद्दिष्टवयं कार्यमिति चन्द्रिकायाम् । अथवा त्रयाणां शस्त्रसृतौ पार्वणमेव । पित्रादयस्त्रयो यस्य शस्त्रघातात्त्वनुक्रमात् । स भूते पार्वणं कुर्यादाब्दिकानि पृथक्पृथक् ।। इति मदनरत्ने पराशरस्मृतेः। मम तु अशस्त्रसूतानामपि कामनायां सत्या पार्वणविधिना चतुर्दशीश्राद्धं कर्तव्यमिति प्रतिभाति । चतुर्दश्यामुरुम्जा इति मनुवचसो वैयोपत्तेः । यत्तु वर्जयित्वा चतुर्दशीभितिः याज्ञवल्क्य- वचनं तत्कामाभावे योजनीयमित्यविरोध इति । एकोद्दिष्टश्राद्धविधि- स्त्वग्रे वक्ष्यते। रविभौमशुक्रवारश्राद्धानि सांकल्पिकानि अन्यानि सम्पि- ण्डकानि । नक्षत्राद्धेषु कृत्तिकामघाभरणीश्राद्धानि सांकल्पिकानि। अन्यानि सपिण्डकानि। अभिजिच्छ्राद्धं तूत्तराषाढान्तिमपादश्रवणाद्यघ- टिकाचतुष्टयात्मकस्य ज्योतिःशास्त्रप्रसिद्ध स्याभिजिन्नक्षत्रस्य यस्मिन्दि- नेऽपराले योगस्तस्मिन्दिने कार्यम् । योगेषु गण्डव्यतीपातवैधृतिश्राद्धानि सांकल्पिकान्यन्यानि सपिण्डकानि । नक्षत्रयोगाणां हासवृद्धित्वे तिथि- वनिर्णयः । करणानां तु यस्मिन्दिने यत्करणमपराह्ने संभवति तस्मि- न्दिने तत्करणश्राद्धम् । अन्यथा रात्रौ श्राद्धप्रसङ्गः स्यात् । श्राद्धसे- पातनिणय त्वग्रे वक्ष्यामः । अथैषां तर्पणनिर्णयः। मघाभरण्योः श्राद्धे श्राद्धोत्तरं तत्काल एव तिलतर्पणं कृत्या काले वैश्वदेवादि कृत्वा भुञ्जीत । अन्येषु श्राद्धात्पूर्व दर्शश्राद्धवद्विशेषवचनाभावात् । वैधृतिव्य- तीपातश्राद्धयोब्रह्मचर्यादिनियमा न सन्ति । व्यतीपातादिक श्राद्धे नियमान्परिवर्जयेदितिवचनात् । इति श्रीमञ्चित्तपावनके० श्राद्धमञ्जयाँ काम्यश्राद्ध- प्रयोगः समाप्तः। १.क. ख. मृतावको। २ ग. 'संनिपा। ३ ग. 'लमेव ।

श्राद्धमञ्जरी। अथ वृद्धिश्राद्धमुच्यते । तञ्च गर्भाधानादिषु संस्कारेषु जातकर्मा- दिष्वपत्यसंस्कारेषु श्रवणाकर्मादिषु वापीकूपतडोगादिषु देवताप्रतिष्ठायां वानप्रस्थाश्रमे संन्यासस्वीकारे तुलापुरुषादिमहादानादौ नववास्तुप्रवेशे व्रतोद्यापनादिषु राजाभिषेके महानाम्न्यादिवेदव्रतेषु प्रथमोपाकर्मोत्सर्ज- नयोः सर्वेषु शान्तिकपौष्टिकेषु अग्न्याधानादिषु श्रौतकर्मसु च कार्यम् । तञ्च पार्वणत्रयात्मकम् । आदौ मातृपार्वणम् । ततः पितृपार्वणम् । ततः सपत्नीकमातामहपार्वणम् । तत्काल:-कर्माहात्पूर्वंद्युर्मातृपार्वणश्राद्धम् । तञ्च देवरहितमेव । कर्माहे देवपूर्वकं पितृपार्वणश्राद्धम् । कर्मोत्तराहे देवपूर्वकं सपत्नीकमातामहपार्वणश्राद्धम् । अस्यासंभवे पूर्वेधुरेव पूर्वाह्ने मातृकम् । मध्याह्ने पैतृकम् । अपराह्ने मातामहानाम् । अस्याप्यसंभवे पूर्वेधुरेव पूर्वाह्ने सर्वेषां देवपूर्वकै तन्त्रेणानुष्ठानम् । अत्र पूर्वाह्नशब्दः सार्धप्रहरवाचकः । महत्सु कर्मसु पूर्वेयुरन्धेषु तु कर्माह एवेति प्रयोगरत्ने। पुत्रजन्मनि तु दिने वा रात्रौ वा पुत्रजन्मानन्तरमेव कार्यम् । आधानाङ्ग नान्दीश्राद्धं त्वपराह्न एव । आग्निकं त्वपराहत इति विष्णूक्तेः । अस्य कालैक्यत्वात्तन्त्रेणैवानुष्ठान युक्तमिति प्रतिभाति । अत्र विश्वे देवाः सत्यवसुसंज्ञकाः । इष्टिश्राद्ध कर्माङ्ग श्राद्धे च क्रतुदक्षसंज्ञकाः । इष्टि- श्राद्धलक्षणं श्राद्धचन्द्रिकायाम्-इष्टिश्राद्धमाधानसोमयागादौ क्रिय- माणं वृद्धिश्राद्धमिति । कर्माङ्गश्राद्धलक्षणमपि तत्रैव- निषेककाले सोमे च सीमन्तोन्नयने तथा । ज्ञेयं पुंसवने चैव श्राद्धं कर्माङ्गमुध्यते ॥ इति । इष्टिश्राद्धं कर्माङ्गश्राद्धमिति कौस्तुभे। आधानाङ्गश्राद्धे सत्यवसू इति केचित् । ब्राह्मणास्तु वैश्वदेवस्थाने द्वौ। मात्रादिस्थाने प्रत्येक द्वौ द्वौ । एवं विंशतिः । वैश्वदेवस्थाने चत्वार इति केचित् । अथवा वैश्वदेवस्थाने द्वौ । मात्रादिपार्वणवये प्रतिपार्वणं द्वौ द्वौ । एवमहौ। कौस्तुभे तु अत्यशक्तौ देवस्थान एकः । मात्रादिपाणत्रये त्रयः । एवं चत्वार इत्युक्तम् । विप्रचरणक्षालनकाले यद्यतिथिः समागतश्चेत्तमपि सर्वपितृस्थाने विनियोज्य स्वागतादिविधिना भोजयेत् । मातृपावणे विप्राभावे श्राद्धार्हसुवासिन्योऽपि भोज्याः सर्वं पितृकर्मापि यज्ञोपवी- तिनैव कार्यम् । न सव्यजानुनिपातनम् । प्रदक्षिणमुपचारः । तिलस्थाने यवा एव । तिलोदककार्य यबोदकेन । पूजोपचाराणां देवतीर्थन १ ग. 'डाकादि। २ ग. 'ले । अन पु।

केळकरोपाहबापूभट्टविरचिता- द्विद्धिनम् । गन्धदानं तु मध्यमाडल्याऽनामिकया वा । कर्तुः प्राङ्मु- खतोदङ्मुखता वा । कर्मणोऽपि प्रागपवर्गतोदगपवर्गता वा । स्वधाश- ब्दस्थाने स्वाहाशब्दः । न नामग्रहणम् । नास्मद्गोत्रवसुरूपादिशब्दाः। नामगोत्रादिनिषेधस्तु सपिण्डकश्राद्धे न भवतीति निर्णयसिन्धौ । संस्कारकर्माङ्गनान्दीश्राद्धे दर्भस्थाने दूर्वाः । आधानसोमाद्यङ्गभूते तु दर्भा एव । तेऽप्यमूलाः । हरितदर्भा इति केचित् । नात्र पुष्पमाला- रक्तगन्धादिनिषेधः । पुष्पाणि तु मालतीशतपत्रीमल्लिकाकुब्जकेतकीपा- टलानि प्रशस्तानि । मालाश्चैतेषामेव पुष्पाणाम् । चतुरस्राण्येव सर्वाणि मण्डलानि । सौवर्णान्येव सर्वाणि भोजनपात्राणि । अलाभे मधूकप- लाशग्राम्यकदल्याद्यन्यतमपत्राणि । अन्नानि तु मोदकमाङ्गलिकपक्का- नभक्ष्यभोज्यपायसाज्यगुडमिश्रौदनादिमधुरद्रव्यसहितानि ।आम्लकटु- कमाषान्नादिद्रव्याणि निषिद्धानि । श्राद्धदिनकृत्यमाह निर्णयसिन्धौ पराशरः- सुवेषभूषणैस्तत्र सालंकारैस्तथा नरैः। कुङ्कुमाद्यनुलिप्ताङ्गैर्भाव्यं तु बाह्मणैः सह ॥ स्त्रियोऽपि स्युस्तथाभूता गीतनृत्यादिहर्षिताः ॥ इति । वृद्धिश्राद्धे पिण्डदानं कृताकृतम् । कुलदेशाचारतो व्यवस्थेति प्रयो. गरत्ने । साग्निकस्य तु पिण्डदानं नियतमेव । अग्नौ तु विद्यमाने यो वृद्धौ पिण्डान्न निर्वपेत् । पतन्ति पितरस्तस्य नरके स तु पच्यते ॥ इति ब्रह्मपुराणात् । अस्मिन्नान्दीश्राद्धे सर्वत्र देवशब्देषु तत्तद्वि- मक्त्या नान्दीमुखपूर्वकोल्लेखः कर्तव्यः । नान्दीमुखाः सत्यवसुसंज्ञका विश्वे देवा इत्यादि । अथवा देवशब्दोत्तरं नान्दीमुखशब्दः प्रयोक्तव्यः । सत्यवसुसंज्ञका विश्वे देवा नान्दीमुखा इत्यादि । एवमेव पितृशब्देषु च। तदुक्तं श्राद्धचन्द्रिकायाम्- एकैको मन्त्रवत्पिण्डो देवस्तूष्णीमथापरः । सर्वमन्त्रेषु कर्तव्यं नान्दीमुखविशेषणम् ॥ इति । निर्णयसिन्धौ वृद्धपराशरः- नान्दीमुखेभ्यो देवेभ्यः प्रदक्षिणकुशासनम् । पितृभ्यस्तन्मुखेभ्यश्च प्रदक्षिणमिति स्थितिः ॥ : ग. 'मधुक।

श्राद्धमञ्जरी। ८१ इत्यादिवाक्येषु नान्दीमुखविशेषणपूर्वकदेवपितृशब्दोचारणदर्शनात् । नान्दीमुखपितृलक्षणं गृह्यकारिकामाध्ये-अब पूर्वोक्तमात्रादिमनुष्यपि- तृनूर्ध्वमुखदिव्यपितृविशेषणकान्कृत्वा तदभेदेनार्चयेदिति हेमाद्रिणा अपश्चितम् । तत्रत्यवचनम्-ऊर्ध्ववक्त्रास्तु ये तत्र ते नान्दीमुखसंज्ञिता इति । एते दिव्यपितरः । मात्रादयश्च मनुष्यपितरः प्राधान्येनोद्देश्याः। नान्दीमुखत्वं च तदभेदं दृष्ट्वा मात्रादीनां सिद्धम् । अतोऽत्र नान्दीमु- खानां पितृणामिदमासनमित्यादिकात्यायनीयप्रयोगवचनं सिद्धमिति। हिरण्यकेशीयसंस्काररत्नमालायामप्येवमेव प्रयोगः । अतो मन्त्रान्तर्गतेषु पितृशब्देष्वपि नान्दीमुखपूर्वकोल्लेखो युक्तः । तत्रैवं व्यवस्था मनो न्वा- हुवामह इत्यादीनामाचार्योक्तानामृचां यथार्थमेव पाठः । तस्माचं नोहेदित्युक्तत्वात् । तत्र पितृशब्दोच्चारणकाले नान्दीमुखध्यानमात्रम् । शास्त्रान्तरप्राप्तानां स्वधाशब्दपितृपदघटितानामृचा लोप एव । शास्त्रा- न्तरोक्तमन्त्रत्यागे प्रत्यवायाभावात् । स्वाविरुद्धमन्यतो ग्राह्यमिति च स्मरणात् । सौत्रमन्त्रेषु ऋग्भिन्नेषु तु भवत्येवोहः । सर्वेषु यजुर्निगदेषु प्रकृतौ समर्थनिगमेविति वचनात् । अथवा सौत्रमन्त्रा यवोऽसि सोम- देवत्य इत्यादयो ये परिशिष्टादाबूहितास्त एव तथैव पठनीयाः । अन्ये तु यथापाठमेव । पिण्डानुमन्त्रणादि पूर्ववदिति वृत्तिकृढुक्तेः । अत्र संकल्पे विशेषो निर्णयसिन्धौ- शुभार्थी प्रथमान्तेन वृद्धौ संकल्पमाचरेत् । न षठ्या यदि वा कुर्यान्महादोषोऽभिजायते ॥ इति । अयं नियमः संकल्प एव । आसनादौ तु दर्शश्राद्धयत्तत्तद्विभक्त्यो- लेखः। विप्रनिमन्त्रणे द्वौ द्वौ विप्रो युगपन्निमन्त्रयेदिति कमलाकरः । इदं द्वितीयादिनिमन्त्रणपरम् । प्रथमं तु ब्राह्मणगृहे कर्तव्यत्वेन विहितत्वााग पत्कर्तुमैशक्यत्वात्पृथगेवेति प्रतिभाति। सति संभवे युगपनिमन्त्रयेदिति । सर्वान्विप्रान्प्राङ्मुखानुपवेश्य स्वयमुदङ्मुखो भूत्वाऽचंयेत् । यदि स्थल- संकोचादिनोदङ्मुखा विप्राः स्युस्तदा स्वयं प्राङ्मुखो भूत्वाऽर्चयेत् । अब वामकटिप्रदेशे नीवीबन्ध इति प्रागेवोक्तम् । सर्वविप्रासनेषु दूर्वा दर्भा वा दक्षिणभाग ऋजवः प्रागया देयाः।आवहनमपि सर्वत्र दक्षिणाङ्गादिक्रमेण पादादिशिरोन्ताम् । सदा परिचरेद्भक्त्या पितृनध्यत्र देववदिति श्राद्धमयूखे . १ क. ख. न वोधित । २ क.. ख. 'मसंभवात् । A ८२ केळकरोपावबापूभट्ठविरचिता- कात्यायनोक्तेः । देवेऽर्यपात्रद्वयमिति शौनकः । जयन्तमत एकमेवा- यपात्रमासाद्य प्रथमविप्रकराग्रं द्वितीयविप्रकरे संस्थाप्य करायेण पवि- त्रानं तेन धारयित्वा सकृन्मन्त्रेण तन्त्रेणैवाध्यं दद्यात् । आश्वलायना. नामर्थ्यरहितस्य देवार्चनस्य केषांचिदुक्तिसत्त्वेऽपि वृद्धिश्राद्धे देवेऽ- प्यध्यं दद्यात् । देवेभ्योऽपि पृथग्दद्यादिहाय स्मृतिचोदनादिति शौन- कोक्तेः । पिये तु जयन्तमते प्रतिवर्गमेकैकमय॒पात्रं संस्थाप्यैकैकमध्य विगृह्य द्वाभ्यां द्वाभ्यां दद्यात् । मन्त्रास्तु नान्दीमुखे मातरिदं तेऽर्ध्यमिः त्यायेकवचनान्ता इति । गृह्यपरिशिष्टकारिकावृत्त्यनुसारेणार्घ्यदान- विधिस्तु प्रयोगे वक्ष्यते । विंशतिबाह्मणपक्षे प्रतिवर्गं त्रीणि त्रीणि पात्राण्यासाद्य मात्रादीनां तत्तदर्यं तत्तद्ब्राह्मणाभ्यां सकृत्सकृन्निवेद्य प्रतिबाह्मणं मन्त्रावृत्त्यैकैकमयं विगृह्य द्वाभ्यां द्वाभ्यां दद्यात् । प्रथम- विप्रकराग्रं द्वितीयविप्रकरे संस्थाप्य सकृदय॑दानमिति केचित् । अवा- य॒पात्रं नाधोमुखं कुर्यादिति सिन्धौ । अत्र विप्रपाणावेवाग्नौकरण- मिति वृत्तिकृत् । अग्नये कव्यवाहनाय स्वाहा। सोमाय पितृमते स्वाहेति होममन्त्राविति स एव । शौनकोऽपि-अत्र स्वधानमःशब्दस्थाने स्वाहेत्युदीरयेत् । कारिकायां च-अग्नये कव्यवाहादिमन्त्रेण प्रथमाहुतिः । सोमायेति द्वितीया स्यात्तथाऽन्येषां च पाणिषु । आभ्यामेव तु मन्त्राभ्यां द्वे द्वे हुत्वाऽऽहुती इह । एकैकामाहुति केचिद्विगृह्मैव प्रजुह्वति ।। निर्णयसिन्धी-अतो देवा इत्यङ्गुष्ठग्रहणम् । मधु मध्विति यस्तत्र निर्जयोऽशितुमिच्छताम् । गायत्रय नन्तरं सोऽत्र मधुमन्त्रविर्जितः ॥ न चाश्नत्सु जपेत्र कदाचित्पितृसूक्तकम् । पठेच्छकुनिसूक्तं तु स्वस्तिसूक्तं शुभं तथा ॥ पावमानीः शंवतीरेन्द्रीरप्रतिरथं च श्रावयेदिति । शौनकः-तृप्तानथ द्विजाज्ञात्वा मधु बाता ऋतायते । इत्यादिकतृचस्थान उपास्मै गायता नरः ॥ पञ्चर्चमक्षन्नित्येकासृचं चेति यथाक्रमम् । श्रावयित्वा तु संपन्नमिति घृच्छेविजानथ ॥

८३ श्राद्धमञ्जरी। तेऽपि संपन्नमित्येवं ब्रूयुस्तृप्तिसमन्विताः। प्रकीर्यान्नं तु तेष्वग्रे विप्रानाचामयेत्ततः ॥ इति । एतन्मते वृद्धिश्राद्धे पिण्डदानात्पूर्वमेव प्रकिरणम् । यत्तु-आमश्राद्धे च वृद्धौ च प्रेतश्राद्धे तथैव च । विकिरं नैव कुर्वीत मुनिः कात्यायनोऽब्रवीत् ।। इति वचनं तच्छाखान्तरविषयम् । चन्द्रिकायां वसिष्ठः-तृप्तिप्रश्ने तु संपन्नं दैवे रुचितमित्यपि । रुचिरमिति क्वचित्पाठः। सुसंपन्नमिति प्रोक्ते शेषमन्नं निवेदयेदिति सिन्धौ। क्षिप्रमुच्छिष्टमार्जनमिति ब्रह्माण्डे । कारिकायां च- संपन्नवचनादि स्वादाचान्तेषु द्विजन्मसु । अथ भुक्ताशयान्सम्यग्गोमयेनोपलेपयेत् ॥ तत्र प्रागग्रकान्दर्भानास्तृणाति ततः परम् । आदिशब्देन प्रकिरणं गृह्यते । एतस्मिन्नेव काले द्विजोच्छिष्टापनयन- विधानात्प्रकिरणस्योच्छिष्टसंबन्धादत्रैव प्रकिरणं युक्तमिति सिद्धम् । श्रावयित्वा च पृष्ट्वा च देवानां विकिर चरेदित्याश्वलायनस्मृतिवचनाच। द्विजोच्छिष्टस्थानं गोमयेनोपलिप्य तत्रैव पिण्डदान कार्यमिति कारि- कोकारस्याऽऽशयः । वृत्तिकृतोऽपि तथैव । भोजनशालाया बहिः पिण्ड- दानं न तूच्छिष्टसमीप इति मयूख उक्तं तच्छाखान्तरीयाणामेव । कारिकायाम्- पृषदाज्येन संमिश्रं भुक्तशेषोद्धृतं भवेत् । एकैकस्योक्तमन्त्रेण द्वौ द्वौ पिण्डौ तु निर्वपेत् ॥ पृषदाज्यलक्षणमपि तत्रैव-पृषदाज्यं च कुर्वीत ध्यानयति सर्पिषि। इति। ब्राह्मे-शाल्यन्नं दधिमध्वक्तं बदराणि यवांस्तथा । मिश्रीकृत्वा तु चतुरः पिण्डाश्रीफलसंनिभान् ॥ इति । चतुर्विशतिमते- दो दो चाभ्युदये पिण्डावेकैकस्मै विनिक्षिपेत् । एकं नाम्ना परं तूष्णीं दद्यात्पिण्डान्पृथक्पृथक् ॥ इति । एकैकस्मै मन्त्रावृत्त्या द्वौ द्वौ पिण्डाविति वृत्तिकृत् । मन्त्रस्तु प्राकृत एव । नान्दीमुखेभ्यः पितृभ्यः स्वाहेति वा । पिण्डानुमन्त्रणादि कृता- कृतम् । अथानमन्त्रणादि स्यात्तत्तु नेच्छन्ति केचनेति कारिकोक्तेः । १ रु. ख. काश।

८४ केळकरोपाहबापूभट्टविरचिता- ब्रह्मपुराणे-अथाक्षथ्योदकस्थाने दत्त्वा क्षीरं यवोदकम् । इति । अक्षय्यस्थाने नान्दीमुखाः पितरः प्रीयन्तामिति कमलाकरः । ब्राह्मे-द्राक्षामलकमूलानि यवांश्च विनियोजयेत् । तान्येव दक्षिणार्थं तु दद्याद्विप्रेषु सर्वदा ॥ इति । स्वधां वाचयिष्य इत्यस्य स्थाने नान्दीमुखान्पितॄन्वाचयिष्य इति कमलाकरोक्तिः। कात्यायन:-त्यमूषुवाजिनमिति विप्रांश्चैव विसर्जयेत् । ॐ स्वधोच्यतामित्यस्य स्थाने ॐ संपन्नमिति वृत्तिकृत् । ततः श्राद्धशेष समाप्य माता पितामही चैवेति श्लोकद्वयं पठेत् । तत्तत्पार्व- णाद्यजीवनवशेन यस्य कस्यचित्पार्वणस्य लोपे तत्तत्पार्वणविषयकश्लो- कैकदेशस्य लोपः । केवलमातृपार्वणश्राद्धकरणपक्ष एता भवन्त्वित्यूहः । अत्र श्राद्धाअन्तर्पणं नेति निर्णयसिन्धौ। केचित्केवल जलेनैव नान्दी- मुखां मातरं तर्पयामीत्येवं तर्पणं कार्यमित्याहुः। अस्मिश्राद्ध आदा- बन्ते वा वैश्वदेवः कर्तव्यः । आदौ करणपक्षे विप्रनिमन्त्रणानन्तरं तत्पूर्व वा भिन्नपाकेन । बचानां तु श्राद्धान्ते श्राद्धशेषेण वैश्वदेवः । साग्नेनिरग्नेश्च समानमेवेति कमलाकरः । अत्र कर्तु हुश्च ब्रह्मचर्यादि- नियमा न सन्ति । तदुक्तं धर्मप्रदीप- आमे हैमे तथा नित्ये नान्दीश्राद्ध तथैव च । व्यतीपातादिके श्राद्धे नियमान्परिवर्जयेत् ॥ इति । एतच नान्दीश्राद्धं मातृपूजा पूर्वकं कार्यम् । मातरस्तु द्विविधाः- मानुव्यो दैव्यश्च । तत्र मानुष्यो मातृपितामहीमपितामहीमातामही- मातुःपितामहीमातुःप्रपितामहीपितृष्व सृमातृध्वसार इत्यष्टौ । आसां जीवने प्रत्यक्षपूजनम् । मृतानां त्वक्षतपुजेष्विति हेमाद्रिः । दैव्यस्तु गौर्याद्याः पोडश बाहयाद्याश्च सत्येवं त्रयोविंशतिः । दुर्गा क्षेत्रपालं गणाधिपं च पूजयेत् । गौर्याद्याश्चतुर्दशति केचिद्व- दन्ति तत्पक्षे मातरो लोकमातर इति सर्वविशेषणम् । पोडशपक्षे देवतान्तरम् । कौस्तुभे तु बाहयाद्या महालक्ष्म्या सहाष्टावित्युक्तम् । प्रयोगरनादी कातीयगृवाद्यनुसारेण वसोर्धारापूजनमायुष्यसूक्तजपश्च विहितः । स तच्छाखीयानां नियतः। अन्येषां त्वनियतः । करणे त्वभ्यु- एता १ ग. °करः । का। २ ग. षणैरे।

श्राद्धमञ्जरी। ८५ दय इति कमलाकरः । कौस्तुभेऽप्येवमेव । एतेषु पक्षेषु यथाऽऽचार- स्तथा कर्तव्यम् । मातृकापूजनानन्तरं मातृकाप्रीतये युग्मान्बाह्मणान्भो. जयेत् । आमान्नानि वा दद्यात् । नान्दीश्राद्धबाह्मणभोजनेन सह वा ब्राह्मणभोजनम् । प्रयोगरत्न आमश्राद्धप्रयोगे तथैव दर्शनात् । अपि वा पूजैव कार्या। पुष्पै पैः सनैवेद्यैर्गन्धाधैर्भूषणैरपि । पूजयित्वा मातृगणं कुर्याच्छाद्धवयं युधः ।। इति कौर्मोक्तः । यत्र प्रधानकर्माङ्गत्वेन पुण्याहवाचनं नान्दीश्राद्धं च विहितं तत्र गणपतिपूजनपूर्वक पुण्याहवाचनं कृत्वा मातृकापूजन- पूर्वकं नान्दीश्राद्धं कुर्यात् । यत्र तु बौधायनेन श्रौतकाङ्गत्वेन कर्मा- हात्पूर्वेचुर्नान्दीश्राद्ध मेव विहितं तत्र नान्दीश्राद्धाङ्गत्वेन पुण्याहवाचनं कृत्वा मातृकापूजनपूर्वकं नान्दीश्राद्धं कुर्यात् । केचित्पुण्याहवाचन विनैव मातृकापूजनपूर्वकं नान्दीश्राद्धमेव कुर्वन्ति । श्राद्धत्रयकरणपक्षेऽपि सकृदादौ मातृकाः संपूज्य श्राधयान्ते विसर्जयेत् । कर्ता स्वमातरि जीवन्त्यां पित्रादित्रयाणां मातामहादिबयाणां वृद्धिश्राद्धं कुर्यात् । जीवेत्तु यदि वर्गाधस्तं वर्गं तु परित्यजेदिति वचनात् । पितरि जीवति मात्रादिबयाणां मातामहादिबयाणां कुर्यात् । उभयोर्जीवत्त्वे माताम- हवर्गस्यैव । जीवस्थिता सुतसंस्कारे मातृमातामहयोः कुर्यात्तस्यां जीवन्त्यां मातामहस्यैवेति बचपरिशिष्टात् । मातामहे जीवति मातृ- पितृवर्गयोः कुर्यानिप्वषि जीवत्सु पितुर्माबादीनामेन । पितामहे जीवति पितृप्रमिताम वृद्धप्रपितामहानां कुर्यात् । एवं पितामह्यां जीवन्त्यां मातुः पितामहे जीवति च ज्ञेयम् । केचित्पितरि जीवति पितु- मात्रादिवर्गवयस्य कुर्यादित्याहुः । कर्तृनिर्णयादिविशेषस्तु ग्रन्थान्त- रतोऽवगन्तव्यः । विस्तरभयान्नेहोच्यते । इति नान्दीश्राद्धविधिः । अथाष्टब्राह्मणपक्षमाश्रित्य पिण्डदानसहितस्तन्त्रेण नान्दीश्राद्धप्र- योगः । तत्राऽऽदो कर्ता सपत्नीकः कृतमाङ्गलिकस्नानो धौतवासाः सालंकृतः करिष्यमाणकाङ्गत्वेन गणपतिपूजनपूर्वकं पुण्याहवाचनं कृत्वा नान्दीश्राद्धाङ्गत्वेन मातृकापूजनं कुर्यात् । तञ्चेत्थम्-गोमयो- पलिप्ते रङ्गवल्यादिभिरलंकृते श्राद्धस्थले प्रतिमास्वक्षतपुञ्जेषु वा । ॐ गौर्यै नमः । गौरीमावाहयामि ॥१॥ एवं सर्वत्र । ॐ पद्मायै नमः । २ ॐ शच्यै० ३ ॐ भेधायै० ४ ॐ सावित्र्यै० ५ ॐ विजयायै०६ ॐ जयायै० ७ ॐ देवसेनायै० ८ ॐ स्वधायै० ९ ॐ स्वाहायैः ३ केळकरोपाहबापूभट्टविरचिता- १० ॐ मातृभ्यो० ११ ॐ लोकमातृभ्यो० १२ ॐ धृत्यै० १३ ॐ पुष्ट्यै० १४ ॐ तुष्टयै० १५ ॐ कुलदेवतायै० १६ ॐ बाइबै० १७ ॐ माहेश्वर्यै० १८ ॐ कौमार्यै० १९ ॐ वैष्णव्यै० २० ॐ वाराहँ० २१ ॐ इन्द्राण्यै० २२ ॐ चामुण्डायै० २३ ॐ दुर्गायै० २४ ॐ क्षेत्रपालाय. २५ ॐ गणपतये नमः । २६ इति षड्वंशतिदेवता आवाह्य षोडशोपचारैः पूजयेत् । ततो मातृकाप्रीतये युग्मान्ब्राह्मणा- भोजयेदामान्नानि वा दद्यात् । इति मातृकापूजनम् । अय नान्दीश्राद्धम् । कर्ता यज्ञोपवीती प्राङ्मुख आचम्य पवि- त्रपाणिः प्राणानायम्य देशकालौ संकीर्त्य दक्षिणं जान्वाच्य मातृ. पितामहीप्रपितामह्यः, नान्दीमुखाः पितृपितामहप्रपितामहा नान्दी. मुखाः, मातामहमातुःपितामहमातुःप्रपितामहाः सपत्नीका नान्दीमुखाः, एतानुद्दिश्य करिष्यमाणामुककर्माङ्गत्वेन विहितं सदैवं सपिण्डमन्नेन हविषा नान्दीश्राद्धमद्य करिष्य इति संकल्प्य ब्राह्मणानिमन्त्रयेत् । स्वयसुदङ्मुखः प्राङ्मुखोपविष्टस्य विप्रस्य दक्षिणं जानें स्पृष्ट्वा, अस्मिन्नान्दीश्राद्धे सत्यवसुसंज्ञकानां विश्वेषां देवानां नान्दीमुखानां स्थाने त्वया क्षण: करणीयः । ॐ तथेति विप्रः । एवं द्वितीयस्य । इति वैश्वदेवार्थ दो निमन्त्रयेत् । सर्वत्रेष्टिश्राद्ध कर्माङ्गश्राद्धे च क्रतु- दक्षसंज्ञकानां विश्वेषां देवानां नान्दीमुखानामुल्लेखः । अस्मिन्नान्दी- श्राद्धे नान्दीमुखानां मातृपितामहीप्रपितामहीनां स्थाने त्वया क्षण: करणीयः । ॐ तथेति । मातृवर्गे द्वौ निमन्त्रयेत् । अस्मिन्नान्दी- श्राद्धे नान्दीमुखानां पितृपितामहप्रपितामहानां स्थाने त्वया क्षणः करणीयः । इति पितृवर्गे द्वौ । अस्मिन्नान्दीश्राद्धे नान्दीमुखानां मातामहमातुःपितामहमातुःप्रपितामहानां सपत्नीकानां स्थाने त्वया क्ष० । इति मातामहवर्गे द्वौ निमन्त्रयेत् । एवमष्टौ ब्राह्मणानिमन्त्रयेत् । ततः काले निमन्त्रितान्विप्रान्समाहूय तेषां मङ्गलस्नानादि कारयित्वा. स्वयमाचम्य प्राणानायम्य देशकालौ संकीर्त्य मातृपितामहीप्रपितामह्यः, नान्दीमुखा इत्यादि प्रथमया विभक्त्या पूर्ववदुच्चार्य, एतानुद्दिश्यो. पक्रान्तं नान्दीश्राद्धं करिष्य इति संकल्प्य यवोदकं कृत्वा पवित्रम- न्वान्पठित्वा शुची वो हव्या इत्यादिभिर्यवोदकमभिमयोपकल्पितान्प- दार्थान्यवोदकेन प्रोक्ष्य विप्राणामग्रे बादण्डार्थं हिरण्यं निधाय सम- १ क. व. गणाधिपाय न' । २ म. दार्थ द्वौ । ३ ग. ति द्वौ पितृवर्गे । अ ।

श्राद्धमञ्जरी। तसंपदित्यादि तान्प्रदक्षिणीकृत्य नान्दीश्राद्धं कर्तुं ममाधिकारसंपद- स्त्विति भवन्तो ब्रुवन्तु । अस्तु नान्दीश्राद्धाधिकारसंपत् । ततः प्रत्येक भवतः स्वागतम् । इति ब्रूयात् । सुस्वागतमिति प्रतिवचनम् । ततः पूर्ववत्पुनर्विप्रानिमन्त्रयेत् । तत्रायं विशेष:-अस्मिन्नान्दीश्राद्धे सत्य- वसुसंज्ञकानां० नान्दीमुखानां स्थाने युवाभ्यां क्ष० यः । इति द्वौ युगप- दुक्तं प्राप्नुतां भवन्ताविति वदेत् । प्राप्तवावेति विप्रो । एवं मात्रादीनां स्थाने द्वौ युगपन्निमन्त्रयेत् । ततः पाद्यार्थं चतुरस्रं मण्डलद्वयं निर्माय तयोः प्रागग्रान्दूर्वाङ्कुरान्दर्भान्वाऽऽस्तीर्य गन्धपुष्पयवैरभ्यर्च्य प्राङ्मु- खोपविष्टयोदैविकविप्रयोः पादान्मण्डले निधाय सत्यवसुसंज्ञका विश्वे देवा नान्दीमुखा इदं वः पाद्यं स्वाहा नम इति घृताक्तपादेषु युगप- द्विर्यवोदकं दत्त्वा शं नो देवीरिति क्रमेण पादान्प्रक्षाल्याभिवन्देत । एवमेव द्वितीयमण्डले दुयोर्द्वयोर्युगपत् । मातृपितामहीप्रपितामह्यः, नान्दीमुखा इदं वः पाद्यं स्वाहा नमः । पितृपितामहप्रपितामहा नान्दी- मुखा इदं वः पाद्यं स्वाहा नमः । मातामहमा० प्रपितामहाः सपत्नीका नान्दीमुखा इदं वः पायं स्वाहा नमः । ततो मण्डलादुत्तरतो ब्राह्मणा- न्द्विराचमय्य (चाम्य) स्वयं पादौ प्रक्षाल्याऽऽचम्य पवित्रे धृत्वा बाह्मणैः सह श्राद्धभूमिमागत्याऽऽसनान्युपकल्प्य भूर्भुवः स्वः समाध्वमिति प्रत्येकं वदन्सर्वान्प्राङ्मुखानुपवेशयेत् । ततः प्रतिपात्रं घृतदीपं स्थाप- यित्वा वामकटिप्रदेशे सयवकुशसहितनीवीं बद्ध्वाऽऽचम्य देशकालो स्मृत्वा पूर्ववन्मात्रादीन्प्रथमयोल्लिख्यैतानुद्दिश्य प्रक्रान्तं नान्दीश्राद्धं करिष्ये, अपहता असुरा र० मनः । इति प्रदक्षिणं यवानवकीर्य यवा रक्षन्त्वसुरान्दर्भा० रक्षकः । इति द्वारदेशे कुशयवान्प्रक्षिप्य तद्विष्णोः परमं० ततम् । इति मन्त्रेण गायत्र्या चान्नानि संप्रोक्ष्य पाकादीनां पवित्रताऽस्तु इत्युक्त्वा तथाऽस्त्विति प्रत्युक्ते देवार्चनं कुर्यात् । देवविप्रहस्तयोरपो दत्त्वा सत्यवसुसंज्ञकानां विश्वेषां देवानां नान्दीमुखानामिदमासनमित्युक्त्वा प्रत्येकमासनं दत्त्वाऽपो दद्यात् । ततः प्रत्येकमासनं संस्पृश्यात्राऽऽस्यतामिति वदेत् । धर्मोऽसीति प्रत्युक्ते विषयोनिरअष्ठौ दक्षिणहस्ती धृत्वा नान्दीमुखदेवे क्षण :(णी?) क्रिये- तामिति सकृदुक्त्वा ॐ तथेति विप्राभ्यां युगपदुक्ते प्रामुतां भव- न्ताविति तृतीयनिमन्त्रणं कुर्यात् । प्राप्तवावेति विप्रो युगपद्वदे- १ ग. प्रति।

केळकरोपाहबापूभट्टविरचिता- ताम् । ततः प्रागग्रेषु दूर्वाङ्करेषु दर्भेषु वाऽर्यपात्रद्वयमासाद्य प्रोक्ष्योत्तानं कृत्वा पवित्रे निधायाप आसिच्य शं नो देवीरिति सकृदनुमन्य यवोs- सीति मन्त्रावृत्त्या यवानोप्य गन्धपुष्पादि क्षिप्त्वा देवपात्रे संपन्ने इत्य- भिमृश्य सुसंपन्ने इति प्रत्युक्तो यवानादाय नान्दीमुखान्विश्वान्देवाना- वाहयिष्यामि। विश्वे देवास० दत्त । इति विप्रयोः क्रमेण दक्षिणपादादि- युग्मक्रमेण पादजान्वंसशिरःसु यवानवकीर्य विश्वे देवाः शृणुते० मादय- ध्वम् । आगच्छन्तु महाभागा० तु ते । इति सकृदुपस्थाय स्वाहाऽर्ध्या इति मन्त्रावृत्त्या निवेद्य हस्तयोरपो दत्त्वा प्रथमविग्रहस्ते पवित्रं निधाय प्रथममर्यपात्राय॑मादाय सत्यवसु० विश्वे देवा नान्दीमुखा इदं वोs- यमिति दत्त्वा या दिव्या आप इति सवन्तीरनुमन्यापो दद्यात् । एवमेव द्वितीयमर्यपात्राहितीयविप्रहस्ते दद्यात् । ततः सत्यवसु० देवा नान्दी- मुखा अमी वो गन्धाः स्वाहा नमो न मम । गन्धद्वारां० आयने ते.. धूरसिउदीव्यस्व०युवं वस्त्राणि इति मन्त्रैर्गन्धपुष्पधूपदीपाच्छादनानि द्विदित्वा पुष्पमालाभिभूपयित्वा युवा सुवासा इत्युक्त्वाऽर्चनविधेः संपूर्णतां वाचयित्वा ताभ्यामनुज्ञातः पित्रची कुर्यात् । अपो दत्त्वा नान्दीमुखानां मातृपितामहीमपितामहीनामिदमासनम् । इति सकृदुक्त्वा मन्त्रावृत्त्या बोभयोःकामेण दक्षिणभागे सयवान्युग्मान्धागवानृजन्दूर्वाड- रान्दर्भान्या दत्त्वाऽपो दद्यात् । एवमुतरम नान्दीनुखानां पितृपितामहप्र- पितामहानामिदमासनम् । नान्दीमुखानां मातामहमातुःपितामहमातुः प्रपितामहानां सपत्नीकानामिदनासनभित्यूहः। ततोऽत्राऽऽस्येतामित्यादि तृतीयनिमन्त्रणान्तं द्वयोर्द्वयोर्वैश्वदेववत् । नान्दीमुखपित्र्ये क्षणः (णौ ?) क्रियेतामिति विशेषः । ततोऽभ्युक्षितायां मुवि प्रागग्रेषु दर्भेषु प्रतिवर्ग त्रीणि त्रीणि पात्राणि प्रासंस्थान्यासाद्य प्रोक्ष्योत्तानीकृत्य दर्भद्वया- त्मकानि प्रागग्राणि पवित्राणि निधायाप आसिच्य शं नो देवीरिति सकृदनुमन्य यवोऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः पुष्टया नान्दीमुखान्पितनिमाल्लोकान्प्रीणयाहि नः स्वाहा । इति मन्त्रावृत्त्या यवानोप्य गन्धपुष्पादि क्षिप्त्वाऽर्ध्वपात्राणि संप- नानीत्युक्त्वा यवानादाय नान्दीमुखान्पितूनावाहयिष्यामीत्युक्त्वाऽऽ- वाहयेति प्रत्युक्तो मातृपितामहीप्रपितामही न्दीमुखा आवाहयामीति दक्षिणाङ्गादिक्रमेण पादजान्वंसशिरःसु यवानवकिरेत् । इति द्वयोर्यु- श्राद्धमञ्जरी। गपदावृत्त्याऽऽवाहनम् । एवमुत्तरत्र । पितृपितामहप्रपितामहान्नान्दीमु. खानावाहयामि । मातामहमातुःपितामहमातुःप्रपितामहान्सपत्नीकान्ना- न्दीमुखानावाहयामि, इत्यावाह्य त्रीणि त्रीण्यय॑पात्राणि तत्तद्ब्राह्मण योर निधाय क्रमेण द्वाभ्यां द्वाभ्यां विप्राभ्यां त्रीणि त्रीणि निवेदयेत् । तत्र मन्त्राः-नान्दीमुखा मातरः प्रीयन्ताम् । नान्दीमुखाः पितामह्यः प्रीयन्ताम् । नान्दीमुखाः प्रपितामह्यः प्रीयन्ताम् । नान्दीमुखाः पितरः प्रीयन्ताम् । नान्दीमुखाः पितामहाः प्रीयन्ताम् । नान्दीमुखाः प्रपिता- महाः प्रीयन्ताम् । नान्दीमुखाः सपत्नीका मातामहाः प्रीयन्ताम् । नान्दीमुखाः सपत्नीका मातु:पितामहाः प्रीयन्ताम् । नान्दीमुखाः सप- लीका भातुःप्रपितामहाः प्रीयन्ताम् । ततो मातृवर्गविप्रहस्तयोरपो दत्त्वा प्रथमविप्रहस्ते प्रथमार्घ्यपात्रस्थं पवित्रं निधाय प्रथमपात्रादर्धमय॑मा- दाय देवतीर्थेन नान्दीमुखा मातर इदं वोऽय॑मिति दत्त्वा या दिव्या इत्यनुमन्य तत्पवित्रं द्वितीयबाह्मणहस्ते निधायावशिष्टमध्यं नान्दी- मुखा मातर इदं वोऽय॑मिति सशेषं दत्त्वा या दिव्या इत्यनुमच्योभयो- रपो दद्यात् । एवमेव द्वितीयपात्रस्थमयं नान्दीमुखाः पितामह्य इदं वोऽयमिति मन्त्रावृत्त्या ताभ्यामेव विप्राभ्यां विगृह्य दद्यात् । तथैव तृतीयं नान्दीमुखाः प्रपितामह्य इदं वोऽयमिति मन्त्रावृत्त्या ताभ्यामेव दद्यात् । ततः पितृवर्गार्थान्याणि तद्ब्राह्मणाभ्यां पूर्ववदेकैकं विगृह्य विगृह्य दद्यात् । तत्र मन्त्रा:-नान्दीमुखाः पितर इदं वोऽयम् । नान्दीमुखाः पितामहा इदं वोऽय॑म् । नान्दीमुखाः प्रपितामहा इदं वोऽयम् । तथैव मातामहवर्गार्थानि तद्ब्राह्मणाभ्यां दद्यात् । तत्र मन्त्रा:-नान्दीमुखाः सपत्नीका मातामहा इदं वोऽयम् । नान्दीमुखाः सपत्नीका मातु:पितामहा इदं वोऽय॑म् । नान्दीमुखाः सपत्नीका मातुः प्रपितामहा इदं वोऽयम् । ततः संत्रवान्समवनीय ताभिरद्भिः पुत्रकामो मुखमनक्ति । ततो नान्दीमुखेभ्यः पितृभ्यः स्थानमसीति प्रथमपात्रं निधाय तृतीयपात्रेणापिदध्यात् । ततो वैश्वदेववद्न्धायुपचारान्पुष्प- मालाश्च दत्त्वाऽर्चनविधेः संपूर्णतां वाचयित्वा भोजनपात्रस्थापनार्थं सर्वाणि चतुरस्राणि मण्डलानि कृत्वा सयवान्दर्भान्यास्य भोजनपा- वाणि संस्थाप्य परितो देववद्भस्ममर्यादां कृत्वा करशुद्धयादि विधाय घृताक्तमन्नमादाय मातृवर्गप्रथमब्राह्मणहस्ते दर्भानन्तर्धायावदानधर्मेण पाणिनाऽवदाय, अग्नये कव्यवाहनाय स्वाहा । अग्नये कव्यवाहनायेदं० इति प्रथमाहुति हुत्वा पूर्वववदाय सोमाय पितृमते स्वाही । सामाय १२ केळकरोपावबापूभट्टविरचिता- पितृमत इदं० इति द्वितीयां जुहुयात् । एवमेव द्वितीयादि सर्वेषां पाणिषु जुहुयात् । ब्राह्मणाः स्वस्वपाणिस्थमन्नं स्वस्वपात्रे संस्थाप्य बहिर्गत्वाऽऽचम्य यथास्थानमुपविशेयुः । कर्ता मूर्धानं दिवो० देवाः। आमासु० त् । इति भोजनपात्राण्याज्येनोपस्तीर्यान्नानि परिवेष्य पिये हुतशेषं च दत्त्वाऽन्ननिवेदनं कुर्यात् । देवपावस्थमन्नं सावित्र्याऽभ्युक्ष्य तूष्णीं परिषिच्येत्यादिपात्रालम्भनान्तं कृत्वा पृथिवी ते पात्रं० अत्रा- मुष्मिलोक इत्यभिमन्य, अतो देवा अवन्तु नो० धामभिः । विष्णो हव्यं रक्षस्वेति विप्राङ्गुष्ठमन्ने निवेश्य सव्यपाणिना पात्रमालभ्य दक्षि- णेन यबोदकमादाय सत्यवसुसंज्ञकेभ्यो विश्वेभ्यो देवेभ्य इदमन्नममृत- रूपं परिदिष्टं परिवेक्ष्यमाणं चाऽऽ तृप्तेः स्वाहा हव्यं नमो न ममेति जलं क्षिपेत् । एवं द्वितीस्यान्नं निबेदयेत् । अथवोभयोस्तन्त्रेण ये देवासो० जुषध्वम् । इत्युपतिष्ठेत । एवं पित्र्येऽपि देववत् । तत्र विशेष:-मातृ- पितामहीप्रपितामहीभ्यो नान्दीमुखाभ्य इदमन्नममृतरूपं० पितृपितामह- प्रपितामहेभ्यो नान्दीमुखेभ्य इदमन्न० मातामहमातुःपितामहमातुःप्रपि. तामहेभ्यः सपत्नीकेभ्यो नान्दीमुखेभ्य इदमन० इत्यन्नं निवेद्य नान्दी- मुखाः पितरः प्रीयन्तामित्युपतिछेत । ततः सप्रणवव्याहृतिकां सावित्री जपित्वा ब्रह्मार्पणं० समाधिना । हरिदाता० हरिः । चतुर्भिश्च० दतु । एको विष्णु० व्ययः । अनेन नान्दीश्राद्धे बाह्मणभोजनेन भगवान्नान्दी- मुखपितृस्वरूपी श्रीपरमेश्वरः प्रीयताम् । वृद्धिरस्तु । आपोशनार्थमुदकं दत्त्वा प्राणाहुतिमन्त्रान्पठेत् । विप्राश्च बलिदानवर्जमुक्त भोजननियम- युक्ता भुक्षीयुः । कर्ता, अपेक्षितं० मानसैः। यथासुखं जुषध्वम् । इत्युक्त्वा सव्याहृलिकां गायत्री जप्त्वा (पित्वा) भुञ्जानाशकुनिसूक्तं स्वस्ति. सूक्तं पावमानी: शंवतीरेन्द्रीरप्रति रथं च श्रावयेत् । न पितृसूक्तम् । शकुनिसूक्तं कनिकादित्यादि । स्वस्तिसूक्तं स्वस्ति नो मिमीतामित्यादि। पावमान्यः स्वादिष्ठयेत्याद्याः । शंवत्यः शं न इन्द्रानी इत्याद्याः । ऐन्धः सुरूपकृत्नुभूतय इत्याद्याः । अप्रतिस्थमाशुः शिशान इति सूक्तम् । तृप्तेषु सिद्धस्य हविषो मध्ये यगोचते तद्याचध्वम् । इत्यु- क्वाऽलमिति विरुक्त उपास्मै गायता नरः० वता मधु । ऋक् ५अक्ष- नमीमदन्त० हरी । इति षड्ऋचः श्रावयित्वा सत्यवसुसंज्ञका विश्वे देवा नान्दीमुखा रुचितमिति पृष्ट्वा सुरुचितमिति प्रत्युक्ते नान्दी- मुखाः पितरः संपन्नम् । सुसंपन्नमिति प्रत्युक्ते शेषमन्नं किं क्रियतामिति वदेत् । विप्रा इष्टैः सह भुज्यतामिति वदेयुः। स्वीकारपक्षे स्वी कुर्युः।

श्राद्धमञ्जरी। ९१ तत एतस्मिन्नेव काले पूर्वोद्धृतं सार्ववणिकमन्नं द्विजोच्छिष्टसमीपे प्रकि- रेत् । असोमपाश्चदेविकम् । इति देवे । ये कुमारा याः कुमार्यों ये च गर्भाद्विनिःसृताः । तेषामन्नमिदं प्रत्तं तृप्यन्तु च मुदन्तु च ॥ इति पित्र्ये । तत उच्छिष्टभाग्भ्योऽन्नं दीयतामित्यादि विप्रैरुत्तरापो- शनगण्डूषकरणहस्तप्रक्षालनादिशुद्ध्याचमनान्तं कारयित्वा द्विजोच्छि- टपात्राणि निष्काश्य शुद्धभूमौ निखाय भुक्ताशयान्सम्यग्गोमयेनोपलिप्य तत्र पिण्डदानं कुर्यात् । तद्यथा-अपहतादिषदः । इति मन्त्रावृत्त्या प्रागग्रा उदकसंस्थास्तिस्रो लेखा उल्लिख्याभ्युक्ष्य तासु क्रमेण प्रागणे बहित्रयमासाद्य प्रथमलेखा विरुदकेनोपनयेत् । शुन्धन्तां नान्दीमुखा मातरः । शुन्धन्तां नान्दीमुखाः पितामह्यः । शुन्धन्तां नान्दीमुखाः प्रपि- तामह्यः । ततो द्वितीयलेखायाम्-शुन्धन्तां नान्दीमुखाः पितरः । शुन्धन्तां नान्दीमुखाः पितामहाः । शुन्धन्तां नान्दीमुखाः प्रपितामहाः। ततस्तृतीयलेखायाम्-शुन्धन्तां नान्दीमुखाः सपत्नीका मातामहाः । शुन्धन्तां नान्दीमुखाः सपत्नीका मातु:पितामहाः । शुन्धन्तां नान्दी- मुखाः सपत्नीका मातुःप्रपितामहाः । ततः पृषदाज्यदधिमधुबदरयवमि- श्रितशाल्यन्नेन श्रीफलसंनिभानष्टादश पिण्डान्कुर्यात् । केवलपृषदाज्य- मिश्रितान्नेन वा । सर्पिषि ध्यानयति तत्पृषदाज्यम् । एतत्ते नान्दीमुखे मातर्ये च त्वामत्रानु तेभ्यश्चेति मन्त्रण देवतीर्थेन मात्रे पिण्डं दत्त्वा पुनर्मन्त्रावृत्त्या द्वितीयं दद्यात् । एवमग्रेऽपि । एतत्ते नान्दीमुखे पितामह ये च त्वामत्रानु तेभ्यश्च । एतत्ते नान्दीमुखे प्रपितामहि ये च त्वामत्रानु तेभ्यश्च । एतत्ते नान्दीमुख पितर्ये च त्वा०भ्यश्च । एतत्ते नान्दीमुख पिता- मह ये च त्वाम०भ्यश्च । एतत्ते नान्दीमुख प्रपितामह ये च त्वाभ्यश्च । एतत्ते नान्दीमुख सपत्नीक मातामह ये च०भ्यश्च । एतत्ते नान्दीमुख सप- लीक मातुःपितामह ये च०भ्यश्च । एतत्ते नान्दीमुख सपत्नीक मातु:- प्रपितामह ये च०भ्यश्च । एवं क्रमेण बहित्रय एकैकस्मिन्पट्र षट्र पिण्डा- न्दद्यात् । ततोऽत्र नान्दीमुखाः पितरो मादयध्वम् । यथाभागमावृषाय- ध्वमित्यनुमन्य सव्यावृदुदङ्ङावृत्त्य यथाशक्त्यप्राणन्नासित्वा, अमी- मदन्त० नान्दीमुखाः पितरो यथाभागमावृषायीषत । इति पुनरनुमन्य १ ग. दत्तं । २ ग. भागेभ्यो । ३ क. ख. विप्राणामुत्त ।

केळकरोपावबापूभट्टविरचिता- शेषमन्नमवघ्रायाऽऽचम्य पूर्ववत्पिण्डेषु यवोदकं निनयेत् । शुन्धन्तां नान्दीमुखा मातर इत्यादि । ततो नीवीं विस्रस्याभ्यञ्जनार्थे पिण्डषु घृतं दद्यात् । नान्दीमुखे मातरभ्यश्वेत्यादि । ततो नान्दीमुखे मातर- इक्ष्वेत्याद्यञ्जनम् । एतद्वो नान्दीमुखाः पितरो वासो मानोतोऽन्यन्ना- नदीमुखाः पितरो युध्वम् । इति यथावयः प्रतिवर्ग मन्त्रावृत्त्या दशा- सूर्णास्तुकां वा लोम वा दद्यात् । ततः पिण्डानभ्योपतिष्ठेत । नमो वो नान्दीमुखाः पितर इषे नमो वो नान्दीमुखाः पितर ऊर्जे नमो वो नान्दीमुखाः पितरः शुष्माय नमो वो नान्दीमुखाः पितरो घोराय नमो वो नान्दीमुखाः पितरो जीवाय नमो वो नान्दीमुखाः पितरो रसाय । स्वाहा वो नान्दीमुखाः पितरो नमो वो नान्दीमुखाः पितरो नम एता युष्माकं नान्दीमुखाः पितर इमा अस्माकं जीवा वो जीवन्त इह सन्तः स्याम । मनो न्वाहुवामहे०सोमेन पितॄणां च० । आत एतु मज्योदृशे। पुनर्नः०जीवं वातं०महि । अथैनान्प्रवाहयेत् । परेतन पितरः सोम्यासो० नियच्छत । ततः पिण्डान्नमस्कृत्य वीरं मे दत्त नान्दीमुखाः पितर इति मध्यमान्पिण्डानादाय पत्न्यै प्रयच्छेत् । सा च, आधत्त पितरो गर्भ०असत् । इति प्राश्नीयात् । ततः पिण्डानुद्वासयिष्य इत्युक्त्वोद्वास- येति प्रत्युक्तोऽवशिष्टाञ्जलादौ प्रक्षिपेत् । ततः शिवा आपः सन्तु । सौमनस्यमस्तु । यवाः पान्तु। दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्तु । इत्युभयत्र कृत्वा ब्राह्मणानभिवाद्यास्मद्गोत्रं वर्धताम् । स्वस्तीति बूते- त्युक्त्वा ब्राह्मणहस्तेषु क्षीरं यवोदकं च दत्त्वा नान्दीमुखा विश्वे देवाः प्रीयन्ताम् । नान्दीमुखाः पितरः प्रीयन्ताम् । इति वदेत् । तत आसादि- तमय॑पात्रं चालयेत् । बाह्मणेभ्यस्ताम्बूलादि दत्त्वा द्राक्षामलकमूलय- वान्तं निष्क्रयं वा दक्षिणात्वेन दद्यात् । द्राक्षामलकानि तन्निष्क्रयमेव वा । दक्षिणाः पान्त्विति भवन्तो ब्रुवन्तु । नान्दीमुखान्पितन्वाचयिष्य इत्युक्त्वा वाच्यतामिति विप्रैरुक्ते नान्दीमुखा विश्वे देवाः प्रीयन्तामिति भवन्तो बुवन्तु । नान्दीमुखाः पितरः प्रीयन्तामिति भवन्तो बुवन्तु । सर्वत्र प्रीयन्तामिति विप्राः । कर्ता मद्गृहे सततं शोभनवृद्धिरस्त्विति भवन्तो अवन्तु इति वदेत् । त्वद्गृहे सततं शोभनवृद्धिरस्तु । शोभनं हविः, इति च विप्रा वदेयुः । कर्ता त्यमूषु वाजिनं देवजूतं सहा०हुवेम । उत्तिष्ठत नान्दीमुखाः पितरो नान्दीमुखैविश्वैर्देवैः सहेति विप्रान्दर्भः संस्पृशन् , ॐ संपन्नमिति विसृजेत् । ते च ॐ संपन्नमिति ब्रुवन्त उत्तिष्ठेयुः । कर्ता शान्तिः पुष्टिस्तुष्टिश्चास्त्विति भवन्तो बुवन्तु । तथाऽ- - श्राद्धमञ्जरी। स्त्विति विप्रैरुक्ते प्राङ्गणे विमानुपवेश्य प्रदक्षिणीकृत्य तेषां हस्तेष्वक्षतपु. पादि दत्त्वा प्राञ्जलिःप्राङ्मुखस्तिष्ठन्वरान्याचेत । दातारो नोऽभि०च नोऽस्तु अन्नं च नोकंचन । विप्राः, दातारो वोऽभिवर्धन्तां वेचिट्ठ कंचन । इहैवस्तं मागृहे । आयुः प्रजां धनं०महाः । एताः सत्या आशिषः सन्तु इत्याशिषो दद्युः । कर्ता माता पितामही चैव तथैव प्रपितामही । पिता पितामहश्चैव तथैव प्रपितामहः ॥ मातामहस्तत्पिता च प्रमातामहकादयः । एते भवन्तु सुप्रीताः प्रयच्छन्तु च मङ्गलम् ॥ इति श्लोकद्वयं पठेत् । मात्रादयः सुप्रीता मङ्गलं प्रयच्छन्तु इति विप्राः । ततः कर्ता-आचारात्किचिद्रव्यं गृहीत्वा तेन संकल्पपात्रसं- घट्टनेन शब्दं कुर्यात् । इळामग्ने०त्वस्मे । शिवं शिवं शिवम् । ततो विप्रा- पादाभ्यङ्गादिभिः परितोष्य प्रणिपत्य प्रार्थयेत् । अद्य मे सफलं० पत्र- शाकादिदा० यस्य स्मृत्या० मन्त्रहीनं० नान्दीश्राद्धमच्छिद्रमस्त्विति भवन्तो ब्रुवन्तु । नान्दीश्राद्धमच्छिद्रमस्त्विति प्रतिवचनम् । नान्दी- श्राद्धफलसमृद्धिरस्त्विति भवन्तु । नान्दीश्राद्धफलसमृद्धिरस्त्विति विप्राः । कर्ता प्रजापते न त्व० रयीणाम् । अनेन नान्दीश्राद्धेन नान्दीमुखपितृस्वरूपी भगवाश्रीपरमेश्वरः प्रीयताम् । वृद्धिरस्तु ततो मातृका विसर्जयेत् । इति श्रीमञ्चित्तपावनके० श्राद्धमञ्जयां नान्दीश्राद्धप्रयोगः। अथ वृत्त्यनुसारेण संक्षिप्तः सूत्रोक्तो नान्दीश्राद्धप्रयोगः । कर्ता मङ्गलस्नात आचम्य प्राणानायम्य देशकालौ संकीर्त्य करिष्यमाणना- दीश्राद्धाङ्गत्वेन मातृकापूजनं करिष्य इति संकल्प्य पूर्वोक्तप्रकारण मातृकापूजनं कृत्वाऽऽचध्य प्राणानायम्य देशकालौ संकीर्त्य मातृपिता- महीप्रपितामह्यो नान्दीमुखाः । पितृपितामहप्रपितामहा नान्दीमुखाः । मातामहमातुःपितामहमातुःप्रपितामहाः सपत्नीका नान्दीमुखाः । एता- नुद्दिश्य करिष्यमाणामुककाङ्गत्वेन विहितं सदैवं सपिण्डमन्नेन हविषा नान्दीश्राद्धमद्य करिष्य इति संकल्प्य ब्राह्मणानिमन्त्रयेत् । अस्मिन्ना- १ ग, स्मृत्वा ।

केळकरोपावबापूभट्टविरचिता- न्दीश्राद्धे सत्यवसुसंज्ञकानां क्रतुदक्षसंज्ञकानां या विश्वेयां देवानां नान्दीमुखानां स्थाने त्वया क्षणः करणीयः। ॐ तथेति प्रतिवचनम् । इति वैश्वदेवार्थ हो निमन्त्रयेत् । अस्मिन्नान्दीश्राद्धे नान्दीमुखानां मातृपितामहीप्रपितामहीनां स्थाने त्वया क्षणः करणीय इति द्वौ मातृ- वर्गे । एवं पितृवर्गे मातामहवर्गे च द्वौ द्वौ निमन्त्रयेत् । ततः काले निमन्त्रितान्समाहूय तेषां · मङ्गलस्नानपाद्याचमनानि विधाय नान्दी- मुखसत्यवसुसंज्ञकवैश्वदेवस्वरूपाविति ध्यायन्द्वी प्राङ्मुखावुपवेश्य ममते नान्दीमुखा मात्राद्याः पितर इति ध्यायन्घटू प्राङ्मुखानुपवेशयेत् । तत आचम्य प्राणानायम्य देशकालो संकीर्त्य मातृपितामहीप्रपिता- मह्यो नान्दीमुखा इत्यादि प्रथमया विभक्त्या पूर्ववदुच्चार्यैतानुद्दिश्यो- पक्रान्तं नान्दीश्राद्धं करिष्य इति संकल्प्य कुरुष्वेति प्रत्युक्तः, तद्विष्णोः परमं०राततम् । इति मन्त्रेण गायत्र्या च पाकमोक्षणं विधाय देवार्चनं कुर्यात् । सर्वत्राऽऽसनाद्याच्छादनान्तेषूपचारेष्वाद्यन्तयोरपो दद्यात् । सत्यवसुसंज्ञकानां विश्वेषां देवानां नान्दीमुखानामिदमासनमिति दक्षि- णभाग ऋजून्दर्भानुभयोर्दत्त्वा प्रागयेषु दर्भेषु पात्रद्वयमासाद्य प्रागग्राणि दर्भद्वयात्मकानि पवित्राणि निधायाप आसिच्य शं नो देवीरिति सकृ- दनुमन्त्र्य यवोऽसि धान्यराजो वेति मन्त्रावृत्त्या यवानोप्य गन्धादि क्षिप्त्वा देवपात्रे संपन्ने इत्यभिमृश्य विश्वान्देवान्नान्दीमुखानाबाहयि- ज्यामीत्युक्त्वा विश्वे देवासदत।सत्यवसुसंज्ञकान्विश्वान्देवान्नान्दीमुखा- नावाहयामीति सकृदुक्त्वोभयोः क्रमेण दक्षिणपादादियुग्मक्रमेण पाद- जान्वंसशिरःसु यवानवकीर्य विश्वे देवाः शृणुव्यध्वम् । आगच्छन्तु महा० तु त इति सकृदुपस्थाय स्वाहाऽर्ध्या इति मन्त्रावृत्त्या निवेद्य सत्यवसुसं० नान्दीमुखा इदं वोऽर्ध्यमित्ययं दत्त्वा या दिव्या इत्यनुमन्त्रयेत् । एवं द्वितीये । ततः सत्यवसुदेवा नान्दीमुखा अमी वो गन्धाः स्वाहा नमो न मम । एवं पुष्पधूपदीपाच्छादनानि दत्त्वाऽर्चनविधेः संपूर्णतां वाच- यित्वा ताभ्यामनुज्ञातः पित्रर्चनं कुर्यात् । तत्र सर्वत्र यज्ञोपवीत्येव वैश्व- देवार्चनधर्मेण । विशेषस्तूच्यते । नान्दीमुखानां मातृपितामहीप्रपिताम- हीनामिदमासनमिति सकृदुक्त्वोभयोः क्रमेणाऽऽसनं दद्यात् । एवमुत्त- रत्र । नान्दीमुखानां पिसृपितामहप्रपिताहानामिदमासनम् । नान्दीमु- खानां मातामह०प्रपितामहानां सपत्नीकानामिदमासनमित्यूहः । ततो १ ग. वार्थे द्वौ। २ ग, 'हयिष्यामी ।

श्राद्धमञ्जरी। नवार्यपात्राण्यासाद्य पवित्राणि निधायाप आसिच्य शं नो देवीरिति सकृदनुमन्त्र्य यवोऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्लवद्धिः प्रत्तः पुष्टया नान्दीमुखान्पितृनिमाल्लोकान्त्रीणयाहि नः स्वाहेति प्रति. पात्रं मन्त्रावृत्त्या यवानोप्य गन्धादि क्षिप्त्वा पात्राणि तत्तद्विप्राग्रे निधाय द्वाभ्यां द्वाभ्यां त्रीणि निवेदयेत् । तत्र मन्त्राः-नान्दीमुखा मातरः प्रीय- न्ताम् । नान्दीमुखाः पितामहः पी० । ना०प्रपितामहः पी०।ना०पितरः पी०। नान्दीमुखाः पितामहाः प्री०।ना०प्रपितामहाः प्रीना०सपत्नीका मातामहाः प्री०। नासपत्नीका मातुःपितामहाः प्री० । ना० सपत्नीका मातुःप्रपितामहाः पीयन्ताम् । ततो मातृवर्गविप्रयोः प्रथमविप्रहस्ते प्रथमपात्रस्थमर्धमय नान्दीमुखा मातर इदं वोऽयं दत्त्वा या दिव्या इत्यनुमच्यावशिष्टमयं द्वितीयविप्रहस्ते नान्दीमुखा मातर इदं वोऽर्थ्य- मिति दत्वा या दिव्या इत्यनुमन्त्रयेत् । एवमेव द्वितीयपात्रस्थमय तृतीयपात्रस्थं च ताभ्यामेव विप्राभ्यां दद्यात् । नान्दीमुखाः पितामह्य इदं वोऽय॑म् । नान्दीमुखाः प्रपितामह्य इदं वोऽयमिति द्विर्द्विमन्त्री । ततः पितृवर्गार्थान्याणि तशाह्मणाभ्यां पूर्ववद्दद्यात् । तत्र मन्त्रा:- नान्दीमुखाः पितर इदं वोऽयम् । नान्दीमुखाः पितामहा इदं वोऽय॑म् । नान्दीमुखाः प्रपितामहा इदं वोऽयम् । तथैव मातामहवर्गार्थानि तद्ब्राह्मणाभ्यां दद्यात् । तत्र मन्त्राः-नान्दीमुखाः सपत्नीका मातामहा इदं वोऽयम् । नान्दीमुखाः सपत्नीका मातुःपितामहा इदं वोऽयम् । नान्दीमुखाः सपत्नीका मातुः प्रपितामहा इदं वोऽय॑म् । संत्रवान्समवनीय ताभिरद्धिः पुत्रकामो मुखमनक्ति । अपः स्पृष्ट्वा तत्यानं प्रपितामहपानेणाविधाय मातृपितामहीप्रपितामह्यो नान्दीमुखा इत्याधुञ्चार्य गन्धयुष्पधूपदीपाच्छादनानि प्रदायार्चन विधेः संपूर्णतां वाचयित्या मण्डलेषु भोजनपात्राण्यासाद्य घृताक्तमन्नमादाय पित्र्य- विप्रपाणिषु हस्तेनावदानधर्मेण, अग्नये कव्यवाहनाय स्वाहा । अग्नये कव्यवाहनायेदं० । सोमाय पितृमते स्वाहा । सोमाय पितृमत इदं० । इति प्रत्येकं दे दे आहुती जुहुयात् । अपि वैकैकामाहुतिं विगृह्य विगृह्य जुहुयात् । विप्राः स्वस्वपाणिस्थमन्नं स्वे स्वे पात्रे संस्थाप्य बहिर्गत्वाऽऽचम्य यथास्थानमुपविशेयुः । कर्ता देवपूर्वं भोजनपात्रा- प्रयुपस्तीर्यान्नं परिविष्य हुतशेषः पितृपात्रेषु दत्त्वा देवपात्रस्थमन्नं सावित्र्याऽभ्युक्ष्य सत्यवसुसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यो नान्दीमुखेभ्य १ ख, ग, य ह ।

or केळकरोपाहबापूभट्टविरचिता- इदमन्नममृतरूपं परिविष्टं परिवेक्ष्यमाणं चाऽऽ तृप्तेः स्वाहा हव्यं नमो न ममेत्युभयोर्युगपन्निवेद्य पितृपात्रस्थमन्नं सावित्र्याऽभ्युक्ष्य मातृपि- तामहीप्रपितामहीभ्यो नान्दीमुखाभ्य इदमन्नममृतरूपं परिविष्टं परिवे- क्ष्यमाणं चाऽऽ तृप्तेः स्वाहा हव्यं न ममेति सकृदुक्त्वोभयोनिवेदयेत् । एवमुत्तरत्र । पितृपितामहप्रपितामहेभ्यो नान्दीमुखेभ्य इदमन्नं० माता- महमातुःपितामहमातुःप्रपितामहेभ्यः सपत्नीकेभ्यो नान्दीमुखेभ्य इद- मन्नं० इति निवेद्य ब्रह्मार्पणं कृत्वाऽऽपोशनार्थमुदकं दद्यात् । विप्रा बलिदानवर्जमापोशनं कृत्वा भुञ्जीरन् । कर्ता भुञ्जानाञ्छकुनिसूक्तं स्वस्तिसूक्तं पावमानीः शंवतीरेन्द्रीरप्रतिरथं च श्रावयेत् । तृप्तेषु, उपास्मै गा० मधु । अक्षन्नमी० हरी । इति षऋचः श्रावयेत् । ततो ब्राह्मणान्पृच्छति संपन्नमिति । ते च संपन्नमिति प्रत्यूचुः । कर्ता पिण्डार्थं प्रकिरणार्थं चान्नमुद्धृत्य शेषं निवेदयेत् । शेषमन्नं किं क्रिय- ताम् । विप्रा इष्टैः सह भुज्यताम् । कर्ता प्रकिरणीयमन्नं सजलं विप्रो. च्छिष्टसमीपे भुवि तूष्णीं प्रकीर्य विप्रेभ्य उत्तरापोशनं दत्त्वा तेषां गण्डू- पकरणादिशुद्धा(ध्या)चमनान्तं कारयित्वोच्छिष्टपात्राणि निष्काश्य भुक्ताशयान्सम्यग्गोमयेनोपलेपयित्वा (प्य) तत्र, अपहता असु० पदः । इति मन्त्रावृत्त्या प्रागग्रास्तिस्रो लेखा उल्लिख्याभ्युक्ष्य बहिस्त्रयमासाद्य क्रमेणोदकं निनयेत् । शुन्धन्तां नान्दीमुखा मातर इत्यादि । ततः पृप- दाज्यमिश्रितान्नेनाष्टादश पिण्डान्कृत्वा, एतत्ते नान्दीमुखे मातयें च स्वामत्रानु तेभ्यश्चेति मन्त्रावृत्त्या मात्रे द्वौ पिण्डौ दद्यात् । एवं पिता- मह्यादिभ्यस्तत्तन्नामोच्चारपूर्वकं द्वौ द्वौ दद्यात् । अनुमन्त्रणादिपिण्ड. प्रतिपत्त्यन्तं पूर्ववत् । अन्ये त्वनुमन्त्रणादि नेच्छन्ति । ततः पूर्वासादि- तमयपात्रं चालायित्वा ब्राह्मणेभ्यस्ताम्बूलं दत्त्वा द्राक्षामलकादि तन्निप्क्रयं वा दक्षिणात्वेन दत्त्वाऽलंकारादि दत्त्वा ॐ संपन्नमित्युक्त्वा विसृजेत् । ते च ॐ संपन्नमिति ब्रुवन्त उत्तिष्ठेयुः । कर्ता प्राङ्मुखो बद्धाञ्जलिस्तिष्ठन्वरान्याचेत-दातारो नोऽभिवर्धन्ताम० बहु देयं च नोऽस्त्विति । विमा दातारो वोऽभिवर्धन्तामित्याद्याशिषो वदेयुः । कर्ता माता पितामही० । पिता पितामहश्चैव० । मातामह । एते भवन्तु सु० । कर्ता, इळामग्ने० त्वस्मे । शिवं शिवं शिवम् । इति विहिरण्येन पात्रे शब्दं कुर्यात् । अद्य मे सफलं जन्मेत्यादि विप्रान्सप्रार्थ्य प्रजा. पते. रयीणाम् । अनेन नान्दीश्राद्धेन श्रीपरमेश्वरः प्रीयताम् । ५ क. ख. विप्राणामुत्त । २ ग. ति हिर।

श्राद्धमञ्जरी।
--
ततो मातृका विसर्जयेत् । सांकल्पिकनान्दीश्राद्धप्रयोगस्तु प्रयोगरत्ना-
दाववगन्तव्यः।
इति श्रीमञ्चित्तपावनके० श्राद्धमञ्जयां सूत्रोक्तो
नान्दीश्राद्धप्रयोगः।
अथ श्राद्धानुकल्पाः। तत्र यथोक्तसर्वविप्रालाभे त्वाह हेमादौ व्यासः-
काणाः कूटाश्च कुब्जाश्च दरिद्रा व्याधितास्तथा ।
सर्वे श्राद्धे नियोक्तव्या मिश्रिता वेदपारगैः ॥
तत्रैव वसिष्ठः-अपि चेन्मन्त्रविद्युक्तः शारीरैः पतिदूषणैः ।
अदुष्यं तं यमः प्राह पतिपावन एव सः ।।
पतिदूषणकरैः कुठादिशारीरदूषणैर्युक्तोऽपि वेदपारगश्वेच्याङ्के भोज.
येदित्यर्थः । मातृश्राद्धे तु विप्रालाभे सुवासिन्योऽपि भोजनीया इत्युक्तं
निर्णयसिन्धौ । तत्रैवानेकविप्रालाभे त्वाह शङ्खः-
भोजयेदथवाऽप्येकं ब्राह्मणं पतिपावनम् ।
देवे कृत्वा तु नैवेद्यं पश्चात्तस्य तु निर्वपेत् ॥ इति ।
अशक्तावपि तथैवोक्तं ग्रन्थान्तरे-
अशक्तावेकविप्रं वा भोजयेत्यतिपावनम् ।
तेन तत्कलमाप्नोति शक्ती सत्यां न तत्फलम् ॥ इति ।
तद्विधिमाह वसिष्ठः-
यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत् ।
अन्नं पात्रे समुद्धृत्य सर्वस्य प्राकृतस्य च ॥
देवतायतने कृत्वा ततः श्राद्धं समाचरेत् ।
प्रास्येदनौ तदन्नं तु दद्याद्वा ब्रह्मचारिणे ॥ इति ।
हेमाद्रौ देवल:-एकेनापि हि विप्रेण घट्रपिण्डं श्राद्धमाचरेत् ।
षडान्दापयेत्तत्र षड्भ्यो दद्यात्तथा हविः ॥ इति ।
पाने च-सकृदभ्यचितं लिङ्गं शालग्रामशिलां च यः ।
पीठे संस्थापयित्वा तु श्राद्धं च कुरुते नरः ।
पितरस्तस्य तिष्ठन्ति कल्पकोटिशतं दिवि ॥ इति ।
१ क. नादवग । २.क. ख. र.चाने ।

९८ केळकरोपावबापूभट्टविरचिता- अस्मिन्पक्षे पीठादौ शालग्रामशिलां शिवलिङ्गं वा तदुभयं वा प्राङ- मुखं संस्थाप्य तद्दक्षिणत उदङ्मुखं पित्र्यविप्रमुपवेश्य सर्वमविकृतं श्राद्धप्रयोगं कुर्यात् । वैश्वदेविकविप्रनिमन्त्रणादीनां लोपः । परिवेषण- काले सर्वस्मादन्नात्पुरुषाहारपरिमितं पात्रान्तरे कृत्वा देवसमीपे निधा- यान्ननिवेदनकाले तदन्नं सावित्र्याऽन्युक्ष्य परिषिच्य पात्रमालभ्य विश्वे- भ्यो देवेभ्य इदमन्नममृतरूपं परिविष्टं स्वाहा हव्यं नमो न ममेति विश्व- देवोदेशेन देवाय निवेद्य पित्र्यपात्रस्थाननिवेदनादि कृत्वा देवनिवे- दितमन्नं ब्रह्मचारिणे दद्यात् । तदलाभेऽनौ दहेदिति चन्द्रिकायामेव । अथ दर्भबटुश्राद्धविधिः । सर्वथा विप्रालाभे तत्प्रतिनिधित्वेनाऽऽस- नेषु दर्भबटुं निधाय तानेव विप्रान्ध्यायन्सर्वमविकृतं श्राद्धप्रयोगं कुर्यात् । ब्राह्मणसंबन्धिमन्त्रप्रतिवचनानि स्वयमेव वदेत् । तदुक्तं चन्द्रि- कायां देवलेन- निधाय वा दर्भबटूनासनेषु समाहितः । प्रैषानुप्रैषसंयुक्तं विधानं प्रतिपादयेत् ॥ इति । दर्भबटुर्दर्भसमूहः । हेमाद्री सत्यव्रतः- निधाय दर्भनिचयमासनेषु समाहितः। प्रैषानुप्रैषसंयुक्तं सर्वं श्राद्धं प्रकल्पयेत् ॥ नात्र दर्भसंख्यानियमः । तदाह कात्यायन:- यज्ञवस्तुनि मुष्टौ च स्तम्बे दर्भबटौ तथा । दर्भ संख्या न विहिता विष्टरास्तरणेषु च ॥ इति । अत्रानौकरणं दर्शादौ गृह्याग्निमता गृह्यानो कर्तव्यम् । तदभावे लौकिकामावपि । श्राद्धे त्वौपासनानौ तु निरगिलौकिकेऽनल इति वच- नात् । मण्डनोऽपि-नष्टाग्निर्दूरभार्यश्च पार्वणे समुपस्थिते । संधायानि ततः कुर्याद्धोममनिं समुत्सृजेत् ॥ इति । यद्यप्याश्वलायनानां सूत्रे पाणिस्मार्तानी विना विधानान्तरं नोक्तं तथाऽप्येतादृशस्थले स्वाविरुद्धमन्यतो ग्राह्यमित्युक्तत्वाच्छास्त्रान्तरमपि स्वीकरणीयम् । अग्नौकरणप्रयोगस्तु पार्वणश्राद्धान्ते दर्शित एव । अन्न- निवेदनादौ यथाश्रुतं ब्राह्मणशब्दस्यैव निर्देश इदमन्नं हविरयं ब्राह्मण आहवनीयार्थ इत्यादि । सोमप्रतिनिधिपूतिकादिवत् । दक्षिणामन्यस्मै दद्यादिति कमलाकरः । संकल्पितान्नप्रतिपत्तिमाह देवलः १ क. ख. ति । अत्रं मूलं चन्द्रिकायां द्रष्टव्यम् । स ।

श्राद्धमञ्जरी। पात्राभावे क्षिपेदनौ गवे दद्यात्तथाऽप्सु वा। न तु प्राप्तस्य लोपोऽस्ति पैतृकस्य विशेषतः ॥ इति । आमहेमपक्षयोस्तु श्राद्धं निर्वयं तद्रव्यं कालान्तरे ब्राह्मणाय बाह्म- णेभ्यो वा दद्यादिति । इति दर्भबटुश्राद्धविधिः । अथ क्वचित्प्रतिनिधिनाऽपि श्राद्धं कारयेत् । तदुक्तं हेमाद्रौ वाराहे- न शक्नोति स्वयं कर्तुं यदा ह्यनवकाशतः। श्राद्धं शिष्येण पुत्रेण तदन्येनापि कारयेत् ॥ नियमानाचरेत्सोऽपि नियतांश्च वसुंधरे । यजमानोऽपि तान्सर्वानाचरेत्सुसमाहितः ॥ स्कान्देऽपि-राजकार्ये नियुक्तस्य बन्धनिग्रहवर्तिनः । व्यसनेषु च सर्वेषु श्राद्धं विप्रेण कारयेत् ॥ इति । इति प्रतिनिधिश्राद्धम् । अथाऽऽमश्राद्धम् । तन्निमित्तान्याह चन्द्रिकायां कात्यायन:- आपद्यनग्नौ तीर्थे च प्रवासे पुत्रजन्मनि । आमश्राद्धं प्रकुर्वीत भार्यारजसि संक्रमे ॥ तत्रैव मरीचिः-श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्तितस् । अमावास्यादिनियतं माससंवत्सराहते ॥ मासो मासिकम् । संवत्सरः सांवत्सरिकम् । स्मृतिदर्पणे- मृताहं च सपिण्डं च गयाश्राद्धं महालयम् । आपन्नोऽपि न कुर्वीत श्राद्धमामेन कर्हिचित् ॥ ग्रहणे तु प्रत्याब्दिकं भोक्तृसंभवे पक्वान्नेनैव कार्यम् । भोक्तुरसंभव आमेन हेम्ना वो कार्यमिति चन्द्रिकायाम् । तीर्थप्रवासादौ त्वामादिना श्राद्धं कार्यम् । पाकश्राद्धं तु न भवत्येवेति हेमाद्यादयः । सर्वत्र पाका- भाव आमादिना पाकसंभवे त्वन्नेनैवेति विज्ञानेश्वरादयः । आमं वितुष- धान्यमिति चन्द्रिकायाम् । तच्चाऽऽमं द्विजभोजनपर्याप्तादन्नाचतुर्गुणं द्विगुणं त्रिगुणं वा सोपस्करं दद्यात् । अत्यशक्तौ सममपीति स्मृत्य- र्थसारे। व्यासः-सिद्धान्ने तु विधिर्यः स्यादामश्राद्धेऽप्यसौ विधिः । हस्तेऽनौकरणं कुर्याद्ब्राह्मणस्य विधानतः ॥ १ क, ख. वाऽपि का।

१०० केळकरोपावयापूभट्टविरचिता- चन्द्रिकायाम्-आमश्राद्धं यदा कुर्यात्पिण्डदानं कथं भवेत् । गृहपाकात्समुद्धृत्य सक्तुभिः पायसेन वा ॥ पिण्डान्दद्याद्यथालाभं तिलैः सह विमत्सरः ॥ इति । अनौकरणविकिरादौ त्वाममेवेति तत्रैव । सिन्धौ-तृप्तिप्रश्नोऽवगाहश्च जुषप्रश्नो यथासुखम् । आमश्राद्धे भवेन्नैतदापोशनं च पञ्चमम् ॥ अवगाहोऽगुग्छनिवेशनम् । आमश्राद्धमनङ्गुष्ठमग्नौकरणवर्जितम् । तृप्तिप्रश्नविहीनं तु कर्तव्यं मानवैर्भुवम् । आवाहनं नैव भवेदर्घ्यदानं तथैव च ॥ इति । हेमाद्रौ भविष्ये-आवाहनं भवेत्कार्यमर्यदानं तथैव चेति । विकिरं नैव कुर्वीतेति धर्मप्रदीपे । तृप्तिप्रश्नादीनां न्यायतोऽर्थाभावाल्लोपसि- द्धेरयमनुवादः । आवाहनार्घ्यदानाग्नौकरणविकिराणां पूर्वोक्तव्यासा- दिवचनविरोधाद्विकल्प इति प्रतिभाति । शाखान्तरविषयं वाऽस्त्विति कमलाकरः । मरीचिः-आवाहने स्वधाकारे मन्त्रा ऊह्या विसर्जने । अन्यकर्मण्यनूह्याः स्युरामश्राद्धविधिः स्मृतः ॥ इति । यद्यपि तस्मादृचं नोहेदित्य॒गृहो निषिद्धस्तथाऽपि वचनाद्भवतीति कमलाकरः । आवाहने पितून्हविषे अत्तव इत्यत्र स्वीकर्तव इत्यूहः । विसर्जनमन्त्रे तृप्ता यातेत्यत्र तय॑थ यातेत्यूहः । स्वधा पित्र्यहविर्दानं तत्करणं च स्वधाकारस्तदङ्गमन्त्र इदमन्नमित्यादिस्तत्रेदमाममित्यादि- रूपेणोहः कार्य इति स्वधाकार इत्यस्यार्थ इति चन्द्रिकाकारः । स्वधा- कारे नमो वः पितर इष इत्यत्र इष इतिपदस्थान आमद्रव्यायेत्यूह इति कमलाकरः । अस्मिन्नामश्राद्धे ब्रह्मचर्यादिनियमा न सन्तीति पूर्वमे- वोक्तम् । सिन्धौ हारीत:- आमश्राद्धं तु पूर्वाह्न एकोद्दिष्टं तु मध्यतः । पार्वणं चापराहे तु प्रातर्वृद्धिनिमित्तकम् ॥ इति । अथाऽऽमश्राद्धप्रयोगः-पूर्वाह्न एव देशकालौ संकीर्त्य प्राचीनावीती षष्ठ्यन्तान्पितॄनुच्चार्येतेषां तृप्त्यर्थममुकश्राद्धं सदैवं सपिण्डं पार्वणेन विधिनाऽऽमान्नेन हविषा सद्यः करिष्य इति संकल्प्य पूर्ववद्वैश्वदेवार्थ पित्रथं च ब्राह्मणान्निमलय, अस्मत्पित्रादीन्भवत्स्वावाहयिष्यामीत्यन्त- मविकृतं सर्व पार्वणवत्कृत्वाऽऽवाहनमन्त्र ऊहः कार्यः । यथोशन्तस्त्वा श्राद्धमञ्जरी। १०१ निधीम०पितॄन्हविषे स्वीकर्तव इति विशेषः । पितॄणामाच्छादनप्रदाना- तमर्चनं विधायार्चनविधेः संपूर्णतां वाचयित्वाऽऽचम्य घृताक्तमामद्रव्य- मादाय तेन विप्रपाणिष्वनौकरणं विधाय देवपित्र्यविप्राणां पुरतः क्रमेण पात्रेष्वामानि निधाय दैविकं गायत्र्या प्रोक्ष्य तूष्णीं परिषिच्येत्यादि- पात्रालम्भनान्तं कृत्वा पृथ्वी ते पात्रमित्यादि अमुत्रामुष्मिल्लोके, इदं विष्णुर्विच०सुरे। विष्णो हव्यं रक्षस्वेत्युक्त्वा पुरूरवाईवसंज्ञका विश्वे देवा देवता, इमामं हविरयं ब्राह्मणगदाधर, इदमामं ब्रह्मणे दत्तं सुवर्ण- पात्रस्थमक्षय्यवटच्छायेयम् । पुरूरवावसंज्ञकेभ्यो विश्वेभ्यो देवेभ्य इदमामं सोपस्करममृतरूपं स्वाहा न ममेति निवेदयेत् । नात्र विप्राङ्गुष्ठ- निवेशनम् । एवं पित्रादिभ्यस्तत्तन्नामाघूहेनाऽऽमान्नानि निवेद्य ये चेह पितर इत्यादि समानम् । संकल्पेऽनेन मम पित्रादीनाममुकश्राद्धे ब्राह्म- णेभ्य आमान्नदानेन पितृस्वरूपी जनार्दनवासुदेवः प्रीयतां न ममेति संकल्प्य गायत्री जपित्वा मधु वाता इति तिस्रोऽक्षन्नमीति चैकां श्राव- यित्वा संपन्नप्रश्नं कृत्वा गृहसिद्धान्नेन पायसेन सक्तुभिर्वा पिण्डदानं कुर्यात् । तत्रोपस्थानमन्त्रे विशेषः । नमो वः पितर आमद्रव्याय नमो वः पितर ऊर्जे नमो वः पितरः शुष्मायेत्यादि । विकिराण्यामद्रव्येण । शोभनं हविरित्यस्य लोपः । विसर्जनमन्त्रे वाजे०ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तय॑थ यात पथिभिर्देवयानैः । इत्यूहः । अन्यत्सव पूर्ववत् । तत्तच्छ्राद्धधर्मेण पूर्वमन्तेऽपरेधुर्वा तर्पणम् । काले वैश्वदेवादि कृत्वा भुञ्जीत । नात्र ब्रह्मचर्यादिनियमाः । इत्यामश्राद्धप्रयोगः । अथाऽऽमाभावे हिरण्यश्राद्धम् । तत्र निमित्तानि विधिधर्मः काल: प्रयोगश्चाऽऽमश्राद्धयत् । विशेषस्तूच्यते । संकल्प आमान्नेन हविषेत्यत्र हिरण्येनेत्युल्लेखः । गृहसिद्धान्नेन पायसेन सक्तुभिर्वाऽग्नौकरणं पिण्ड- दानं प्रकिरणं च । आमद्रव्यमूल्यादष्टगुणं चतुर्गुणं द्विगुणं वाऽत्यशक्ती समं वा हिरण्यं निधाय विश्वेभ्यो देवेभ्य इदं हिरण्यममृतरूपं स्वाहा न ममेत्यादिसंकल्पः । पिण्डोपस्थानमन्त्रे नमो वः पितरो हिरण्याय नमो वः पितर ऊर्ज इत्यूहः । अत्र श्राद्धोत्तरं तत्काल एव तिलतर्पणं कृत्वों काले वैश्वदेवादि कृत्वा भुञ्जीत । अत्र पिण्डदाने विकल्पः । अकरणे सांकल्पिकप्रशेगः । इति हिरण्यश्राद्धम् । अथ सांकल्पिक- श्राद्धम् । तच्चाशक्तेन कर्तव्यम् । तदुक्तं निर्णयसिन्धौ- १ ग. पृथिवी । २ ग. त्वा वै ।

- १०२ केळकरोपाहबापूमट्टविरचिता- समयं यस्तु शक्नोति कतुं नैवेह पार्वणम् । अपि संकल्पविधिना काले तस्य विधीयते ॥ अन्यान्यपि निमित्तान्युक्तानि हेमाद्रौ-- संक्रान्तौ ग्रहणे पाते युगमन्वन्तरादिषु । भरण्यां चापि कुर्वीत श्राद्ध पिण्डं विनैव तु ॥ तत्रैव वृद्धपराशरः- युगादिषु मघायां च विषुवत्ययने तथा । भरणीषु च कुर्वीत पिण्ड निर्वपणं न हि ॥ सिन्धौ गार्य:- पौर्णमासीषु सर्वासु निषिद्धं पिण्डपातनम् । वर्जयित्वा प्रोष्ठपदी यथा दर्शस्तथैव सा ॥ इति । स्मृतिरत्नावल्याम्- पुत्रे जाते व्यतीपाते ग्रहणे चन्द्रसूर्ययोः । श्राद्धं कुर्यात्प्रयत्नेन पिण्डनिर्वपणाहते ॥ हेमाद्री ज्योतिष्पराशरः- विवाहे विहितान्मासांस्त्यजेयुदशैव हि । सपिण्डाः पिण्डनिर्वापं मौञ्जीबन्धे षडेव हि ॥ त्रिस्थलीसेतो कार्णाजिनिः- विवाहवतचूडासु वर्षमधं तदर्धकम् । पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम् ॥ सिन्धौ-वृद्धिमात्रे तथाऽन्यत्र पिण्डदाननिराक्रिया कृता गर्गादिभिर्मुख्यैर्मासमेकं तु कर्मिणाम् ।। मदनरत्ने-पिण्डान्सपिण्डा नो दधुः प्रेतपिण्डं विनाऽत्र तु । पितृयज्ञे च यज्ञे च गयायां दद्युरेव ते ॥ अस्य वचसोऽर्थमाह चन्द्रिकाकारः-पितृयज्ञे पिण्डपितृयज्ञे । यज्ञे पित्र्येष्ट्याम् । तत्र पिण्डान्दद्युरिति । सिन्धौ-मुण्डनं पिण्डदानं च प्रेतकर्म च सर्वशः । न जीवत्पितृकः कुर्यागुर्विणीपतिरेव च ॥ इति । तथा-पिण्डहीनं तु यच्छ्राद्धं संकल्पाख्यं प्रचक्षते । १ क. ख. पातयु'। २ क. रित्यर्थः । सि ।

- श्राद्धमञ्जरी। १०३ तद्विधिमाह पृथ्वीचन्द्रोदये वसिष्ठः- आवाहनं स्वधाशब्दं पिण्डागौकरणं तथा। विकिरं चार्घ्यदानं च सांकल्पे षविवर्जयेत् ॥ समन्त्रकस्याऽऽवाहनस्य निषेधः । तूष्णीं भवत्येवेति हेमायादयः । नाक्षय्यवाचनमिति सिन्धौ । चन्द्रिकायां वृद्धशातातपः- पिण्डनिर्वापरहितं यत्तु श्राद्धं विधीयते । स्वधावाचनलोपोऽत्र विकिरस्तु न लुप्यते ॥ अक्षय्यदक्षिणास्वस्तिसौमनस्यं यथास्थितम् । इति । अतो विकिराक्षय्ययोर्विकल्पः । सिन्धौ स्मृत्यन्तरम्- अङ्गानि पितृयज्ञस्य यदा कर्तुं न शक्नुयात् । स तदा वाचयेद्विप्रान्संकल्पासिद्धिरस्त्विति । अथ सांकल्पिकश्राद्धप्रयोगः। उक्तापराह्ने देशकालौ संकीर्त्य प्राची- नावीती पित्रादीनां षष्ठयन्तप्रयोगेणोत्कीर्तनं कृत्वैतेषां तृप्त्यर्थममुक- श्राद्धं सदैवं सांकल्पिकविधिनाऽन्नेनाऽऽमान्नेन वा हविषा हिरण्येन वा सद्यः करिष्य इति संकल्प्य पूर्ववद्विप्रनिमन्त्रणादिपादप्रक्षालनान्तं कृत्वा पूर्ववदुपवेश्याऽऽवाहनार्घ्यदानवर्जमासनाद्याच्छादनान्तैरुपचारैः पूजयेत् । अथ वा तूष्णीमावाहनम् । ततोऽनौकरणवर्जमापोशनदानान्तं कुर्यात् । ब्राह्मणा बलिदानवज विधिना भुञ्जीयुः। भोजनान्ते तृप्तिप्रश्नं कृत्वा मधुमतीरक्षन्नमीमदन्तेति च श्रावयित्वा संपन्नप्रश्नं कृत्वा शेषमन्नं किं क्रियतामित्यादि उच्छिष्टभागेभ्योऽन्नदापनान्तं कृत्वाऽऽचान्तेषु विप्रेषु प्रकिरणपक्षेऽन्न प्रकीर्य विप्रहस्तेषु शिवा आपः सन्तु इत्यादिभिर्जलादि दत्त्वा, अघोराः पितरः सन्त्वित्यादि पूर्ववत् । अक्षय्यवाचनपक्षे तत्कृत्वा ताम्बूलदक्षिणे दत्त्वा विश्वे देवाःप्रीयन्तामित्यादिकर्मेश्वरार्पणान्ते विप्रा- प्रति वदेत् । कृतस्यामुकश्राद्धस्य संकल्पासिद्धिरस्त्विति भवन्तो ब्रुवन्तु । विप्रास्तथाऽस्त्विति वदेयुः । कर्ता वैश्वदेवादि कृत्वा बन्धुभिः सह श्राद्धशेष भुञ्जीत । तर्पणं तु श्राद्धकालानुरोधेन सर्वेष्वपि श्राद्धा- नुकल्पेषु भवत्येव । इति सांकल्पिकश्राद्धम् । अत्यशक्तौ ब्रह्मार्पणवि- धिना श्राद्धं कुर्यात् । तदुक्तं पद्मपुराणे- ब्रह्मार्पणेन विधिना कुर्याद्वा भक्तिमान्सुतः । निमन्त्रय ब्राह्मणाशक्त्या द्वावेकं वा यथाविधि ॥

१०४ केळकरोपाहबापूभट्टविरचिता- पादप्रक्षालनं कृत्वा पीठादावुपवेश्य च । परिविष्य त्यजेदन्नं ब्रह्मार्पणविधानतः॥ गोविन्दं पुण्डरीकाक्षं गङ्गां काशीं गयां ततः। गदाधरं स्मरेद्भक्त्या श्राद्धसाद्गुण्यहेतवे ॥ इति । अथ प्रयोगः । यथाशक्ति ब्राह्मणानिमन्व्य संकल्पे पितॄनुद्दिश्य- तेषां तृप्त्यर्थममुकश्राद्धं सदैवं ब्रह्मार्पणेन विधिना सद्यः करिष्य इत्युक्त्वा विप्राणां पादप्रक्षालनं कृत्वा पीठेषूपवेश्याावाहनवर्ज देवपितृपूजां विधायानं परिविष्य सावित्र्या प्रोक्ष्य विश्वेभ्यो देवेभ्य इदमन्नममृतरूपं परिविष्टं परिवेक्ष्यमाणं चाऽऽ तृप्तेः स्वाहा हव्यं नमो न ममेत्येवं तत्त- नामाधुञ्चारपूर्वकं पितृभ्यो निवेदयेत् । कन्यं नमो न ममेति मन्त्र विशेषः । ततः, ब्रह्मार्पणं० धिना । इत्यादि पितृस्वरूपी जनार्दनवा. सुदेवः प्रीयतामित्यन्तं संकल्पवाक्यमुच्चार्य भुक्तवन्यो यथाशक्ति ताम्बूलं दक्षिणां च दत्त्वा गोविन्देति श्लोकं पठित्वा संकल्पासिद्धि. रस्त्विति भवन्तो बुवन्त्विति वाचयित्वा कर्मेश्वरार्पणं कृत्वा वैश्वदे- वादिभोजनान्तं पूर्ववदिति । इति ब्रह्मार्पणविधिना श्राद्धम् । संकटेऽन्येऽपि श्राद्धानुकल्पा उक्ता निर्णयसिन्धौ बृहन्नारदीये- द्रव्याभावे द्विजाभावे अन्नमात्रं तु पाचयेत् । पैतृकेण तु सूक्तेन होमं कुर्याद्विचक्षणः ॥ पैतृकं सूक्तमुवीरतामित्यादि। देवल:-पिण्डमा प्रदातव्यमभावे द्रव्यविप्रयोः ॥ वृद्धवरिष्ठः-किंचिद्दद्यावशक्तस्तु उदकुम्भादिकं द्विजे । किंचिदन्नं तिलान्वाऽपि दक्षिणामात्रमेव वा ॥ असमर्थोऽन्नदानस्य धान्यमाचं स्वशक्तितः । तृणानि वा गवे दद्यापिण्डान्वाऽप्यथ निर्वपेत् ॥ तिलोदकैः पितृन्वाऽपि तर्पयेत्स्नानपूर्वकम् । भविष्ये-अग्निना वा दहेकक्षं श्राद्धकाले समागते ॥ तस्मिंश्चोपवसेदाह्नि जपेद्वा श्राद्धसंहिताम् । कक्षं तृणम् । श्राद्धसंहिता सर्वमन्त्रसहितः श्राद्धकल्पः । विष्णु- पुराणे- १ ग. मनशे श्राद्धमञ्जरी। १०५ सर्वाभावे वनं गत्वा कक्षामूलप्रदर्शकः । सूर्यादिलोकपालानामिदमुच्चैः पठिष्यति ॥ न मेऽस्ति वित्तं न धनं न चान्यच्छ्राद्धोपयोगि स्वपितॄन्नतोऽस्मि । तृप्यन्तु भक्त्या पितरो मयैतौ भुजौ कृतौ वर्त्मनि मारुतस्य ॥ प्रभासखण्डे-गत्वाऽरण्यममानुष्यमूर्ध्वबाहुविरौत्यदः । निरन्नो निर्धनो देवाः पितॄणामनृणं कृथाः ॥ ग्रन्थान्तरे-कक्षं वा प्रदहेकालेऽथवा दद्यात्फलादिकम् । अथवा श्राद्धदिवसे भवेन्निरशनः स्वयम् ॥ गत्वाऽथवा महारण्ये कक्षामूलं प्रदर्शयेत् । दक्षिणास्यो रुदेदेवमूर्ध्वबाहुः समाहितः ॥ न मे धनं न चान्नं भोः पितरः सर्वसाक्षिणः । प्रापध्वमतुलां तृप्ति कक्षामूलप्रदर्शनात् ॥ अवन्ध्यं तद्दिनं नेयं येन केनापि कर्मणा। पूर्ण करोति भगवान्भक्त्या भक्तजनाश्रयः॥ ततस्तु तर्पणं कार्यं श्राद्धाङ्गं विधिचोदितम् । अन्यथा श्राद्धवैगुण्यमङ्गहानिनिमित्ततः ॥ इति । अष्टकाश्राद्धकरणाशक्तावेकस्यां वा माघकृष्णाष्टम्यामष्टमीश्राद्धं कार्यमिति सिन्धौ । तस्याप्यशक्ती शौनकः- अद्रव्योऽपि यथाशक्ति कुर्यादेवाष्टकां बुधः । योऽशक्तिक(यो ह्यशक्त!)स्तथा कर्तुं दारियेणाष्टकामिमाम् ॥ संप्रदद्यादनडुहे तृणान्यप्यथवाऽग्निना। गुल्ममेकं दहेदेवं मेऽष्टका त्विति चिन्तयन् ॥ अष्टकासमय जीवन्त्रत्वेवानष्टको भवेत् । गुल्मं तृणस्य । अप्यनडहो यवसमाहरेदाग्निना वा कक्षमुपोषेदेषा मेऽष्टकेति नत्वेवानष्टकः स्यादित्याश्वलायनः। इति श्रीमञ्चित्तपावनके० श्राद्धमञ्जयाँ श्राद्धानुकल्पाः। अथ क्षयाहश्राद्धम् । तत्स्वरूपमाह निर्णयसिन्धो व्यासः मासपक्षतिथिस्पृष्टे यो यस्मिन्नियतेऽहनि । प्रत्यब्दं तु तथाभूतं क्षयाहं तस्य तं विदुः ॥

१०६ केळकरोपाह्वबापूभट्टविरचिता- तच्चाधिमासमृतानां प्रथमाब्दिकं त्रयोदशे मासे कार्यम् । मध्ये यद्य- धिमासो भवेत्तदा च त्रयोदशे मासे कार्यम् । यद्यन्तेऽधिमासस्तदा तस्मि- नेवाधिमासे कार्यम् । द्वितीयादिवार्षिकं तु शुद्धमास एव । अधिमासमृतानां तु यदा स एव मासोऽधिकः स्यात्तदा तत्रैवाधिमासे कार्यम् । दर्शे वार्षिकं चेत्तदा पूर्व वार्षिकं कृत्वा ततः पिण्डपितृयज्ञो दर्शश्राद्धं चेति निर्णयदीपे स्मृतिसारे च क्रम उक्तः । कमलाकरेण तु पिण्डपितृयज्ञानन्तरं वार्षिक कृत्वा ततो दर्शश्राद्धं कर्तव्यमिति सिद्धान्तितम् । तत्पक्षे नात्र व्यति- पङ्गो भवति । प्रवासमरणादिना क्षयाहतिथेरज्ञाने तन्मासस्य कृष्णा. टम्यां कृष्णैकादश्याममावास्यायां शुक्लकादश्यां वा कार्यम् । यदि तिथिर्विज्ञाता मासो न विज्ञातस्तदा मार्गशीर्षे माघे भाद्रपद आषाढ़े वा तत्तिथौ कार्यम् । तिथिमासयोरविज्ञाने माघे मार्गे वाऽमावास्यायो कार्यम् । अथवा प्रस्थानमासदिवसौ ग्राह्यौ । तयोरपि तिथेरज्ञाने प्रस्थानमासदर्श कार्यम् । तिथेाने मासाज्ञाने तु मार्गशीर्षादौ । उभ- यस्याप्यविज्ञाने मृतवार्ताश्रवणकालिको तिथिमासौ ग्राह्यौ । तयोरन्य- तराज्ञाने प्रस्थानदिनमासवनिर्णयः । एतयोरप्यविज्ञाने मार्गदर्शे कार्यम् । इदं चाऽऽब्दिकं कर्तुर्भार्यायां रजस्वलायां सत्यामपि सपिण्डकमन्नेनैव कार्यम् । एवं गर्भिण्यामपि । मृतस्य भार्यायां रजस्वलायामपि तथैव । सा यद्यपुत्रकस्य भर्तुः श्राद्धकी चेत्तहा पञ्चमेऽह्नि कुर्यात् । आशौचे तु आशौचनिवृत्तौ तद्दिन एव कार्यम् । तदतिक्रमे कृष्णाष्टम्यामे- कादश्यां द्वादश्याममावास्यायां वा कार्यम् । क्षयाहे ग्रहणप्रसक्तो भोक्त- संभवे पक्वान्नेनैव कार्यम् । भोक्तुरसंभव आमेन हेम्ना वा कार्यम् । ग्रस्तोदये ग्रस्तास्ते चापि तथैव । एतन्मूलवाक्यानि निर्णयसिन्धुपरा- शरमाधवीयादौ द्रष्टव्यानि । श्राद्धदिने यहतुमत्या भार्यायाः षोडश- दिनं पतेत्तदा तत्र विशेषमाह वसिष्ठः- एकादश्यां यदा राम प्रतिसंवत्सरं दिनम् । भार्या त्वृतुमती चैव कथं धर्मः प्रवर्तते ॥ श्राद्धं कुर्याद्वतं कुर्यादाघ्राय पितृसेवितम् । ऋतुमत्या ऋतुं दद्यादर्धराबादनन्तरम् ॥ इति । १ ग. दिवसमा ।

- श्राद्धमञ्जरी। १०७ अत्र पित्रादिप्रत्याब्दिकथाद्धे पार्वणैकोटिष्टयोः समचलत्वावी हि- यववाद्विकल्पः । स चाऽऽचाराद्यवस्थित इति सर्वनिबन्धकारसंमतिः। अत एव दाक्षिणात्याः पार्वणं कुर्वते मैथिलादय एकोद्दिष्टमिति चन्द्रि- काकारः । पितृव्यादीनां श्राद्धे विशेषश्चतुर्विंशतिमते- पितृव्यभ्रातृमातृणां ज्येष्ठानां पार्वणं भवेत् । एकोद्दिष्टं कनिष्ठानां दंपत्योः पार्वणं मिथः ॥ इति । मातॄणां सपत्नमातूणाम् । दाक्षिणात्यास्त्वेवमेवाऽऽचरन्तीति चन्द्रि- काकारः । अत्र भ्रातृणामेव वयसा ज्येष्ठत्वं कनिष्ठत्वं च ज्ञेयम् । पितृ- व्यसापत्नमातॄणां तु वयसा कनिष्ठत्वेऽपि स्थानतो ज्येष्ठत्वात्पार्वणमेव । अतः पितृमृताहे पितृपितामहप्रपितामहांतीनुद्दिश्य पार्वणविधिना श्राद्धं कुर्यात् । मातृमृताहे मातृपितामहीप्रपितामहीरुद्दिश्य कुर्यात् । तथाऽपुत्रमातामहस्य तन्मृताहे तस्य तद्वर्गमात्रस्य । एवं मातामह्यास्त- न्मृताहे तद्वर्गमात्रस्य । अपुत्रायाः सापत्नमातुस्तन्मृताहे तद्वर्गमात्रस्य । तथाऽपुत्राणां पितृव्यमातुलभ्रातृणां मृताहे तत्तद्वर्गमावस्य पार्वणं कुर्यात् । कनिष्ठभ्रातृणामविवाहितानामेकोद्दिष्टमेव । केचित्सापत्नमातृ- पितृव्यमातुलज्येष्ठनातणामपुत्राणां तत्तन्मृताहे तं तमेवोद्दिश्यैकोद्दिष्ट- विधिना श्राद्धं कुर्यादित्याहुः । ज्येष्ठस्यापि जीवपितृकस्य भ्रातुरेको- द्दिष्टमेव । केचित्पार्वणमिति वदन्ति । सर्वत्र पार्वणमित्यन्ये । अत्रापि देशाचाराद्यवस्था । आचारावश्यकत्वमाह वृद्धशातातपः- देशधर्म समाश्रित्य वंशधर्म तथाऽपरम् । सूरयः श्राद्धमिच्छन्ति पार्वणं च क्षयेऽहनि ॥ इति । वृहन्नारदीयेऽपि-देशाचाराः परिग्राह्यास्तत्तद्देशीयजैर्जनैः। अन्यथा पतितो ज्ञेयः सर्वधर्मबहिष्कृतः ॥ सिन्धौ भृगुः-यस्मिन्देशे पुरे ग्रामे त्रैविद्ये नगरेऽपि वा। यो यत्र विहितो धर्मस्तं धर्म न विचारयेत् ॥ इति । मित्रबन्धुगुर्वाचार्यसपिण्डादीनामपुत्राणामपत्नीकानां यथाधिकार यथाचारं पार्वणमेकोद्दिष्टं वा कार्यमिति । विद्यमाने पितरि संन्यस्ते पतिते वा तत्कर्तृकाणि दर्शाब्दिकमहालयादीन्यावश्यकानि नित्यनैमि. त्तिकानि श्राद्धानि तत्पुत्रेण जीवत्पितृकेणापि पितुःपित्राद्युद्देशेन कार्याणि । तदुक्तं कात्यायनेन- १०८ केळकरोपाहबापूमकृविरचिता- ब्राह्मणादिहते ताते पतिते सङ्गवर्जिते । व्युत्क्रमाञ्च मृते देयं येभ्य एव ददात्यसौ ॥ सङ्गवर्जिते संन्यस्ते । व्युत्क्रमाञ्च मृत इति । व्युत्क्रममृतसपिण्डीकर- णाभावपक्षे तस्य संप्रदानत्वायोग्यत्वाधेभ्यः पिता स्वपितृजीवनेन स्वपितामहादिभ्यो ददौ तेभ्यः स्वयं पुत्रो दयादित्यर्थः । तथाऽपुत्र. काणां सापत्नमातृमातामहभ्रातृपितृव्याणां क्षयाहश्राद्धं जीवत्पितृके- णापि कर्तव्यम् । एतद्विस्तरो रामकृष्णभट्टकृते जीवपितृकनिर्णये द्रष्टव्य इत्यन्यत्र विस्तर इति दिक। अथैकोद्दिष्टश्राद्धकालः । तदाह माधवीये व्यासः- कुतपप्रथमे भाग एकोद्दिष्टमुपक्रमेत् । आवर्तनसमीपे वा तत्रैव नियतात्मवान् ॥ एकोद्दिष्टं तु मध्यत इति हारीतः । मध्यतो मध्याह्न इत्यर्थः । मध्या- हश्च पञ्चधाविभक्तदिनतृतीयाग इति माधवः । एकोद्दिष्ट इति कर्त- व्यतोक्ता याज्ञवल्क्येन- एकोद्दिष्टं दैवहीनमेकाध्यकपवित्रकम् । आवाहनानीकरणरहितं वपसव्यवत् ॥ इति । आश्वलायनानां त्वेकोद्दिष्टेऽप्यनौकरणादयः पदार्था भवन्त्येव । तनु- ह्यसूत्रे पार्वणादिचतुर्ध्वप्यग्नौकरणादीनां साम्येनोक्तेरिति चन्द्रिकाकारः। देवराहित्यादियाज्ञवल्क्योक्ता धर्मा भवन्त्येव । सूत्राविरुद्धत्वात् । अथाऽऽब्दिकश्राद्धप्रयोगः । देशकालकीर्तनान्तेऽस्मपितृपितामह- प्रपितामहानाममुकशर्मणाममुक्कगोत्राणां वसुरुद्रादित्यस्वरूपाणामेतेषां तृप्त्यर्थं प्रत्याब्दिकश्राद्धं सदैवं सपिण्डं पार्वणेन विधिनाऽन्नेन हविषा श्वः सद्यो वा करिष्य इति संकल्पपूर्वकं दर्शश्राद्धोक्तविधिना तद्वर्गमात्र स्यैव कुर्यात् । अस्मिश्राद्धदिने नित्यतर्पणं तिलरहितं कार्यम् । श्राद्धा- अतर्पणं तु परेयुः सानं प्रातःसंध्यां च कृत्वा सतिलमेव । श्राद्धज्यवर्गस्य तर्पणं कृत्वा पुनः सर्वकर्मार्थं स्नानं कृत्वाऽवशिष्टमालिकं कुर्यादिति । यदा विघ्नवशात्क्षयाहे दिवा श्राद्धं न जातं तदा रात्रावपि कार्यमिति कमलाकरः । प्रथमे संवत्सरेऽतीते क्षयाहदिने यच्छ्राद्धं तत्पथमाब्दि - १ ग. स्वस्य जीवत्पितृकत्वात्स्वपि । २ ग. पुत्राणां । ३ ग. द्दिष्टेति । ४ ख. ग. साम्यः । तोते १५ ग. °वगैब्दे (गोद्दे) शेन । ६ क. ख. दिवसे ।

श्राद्धमारी। १०९ कम् । द्वितीये वत्सरेऽतीते द्वितीयाब्दिकम् । तृतीये वत्सरेऽतीते तृतीया- ब्दिकम् । तदूर्ध्वं प्रत्याब्दिकमिति । अथ मातृश्राद्धे विशेषः । चन्द्रिकायां स्मृत्यन्तरे- भर्तुरग्रे मृता नारी सह वा तेन या मृता। तस्याः स्थाने नियुञ्जीत विप्रैः सह सुवासिनीम् ॥ इति । अथ प्रयोगः । देशकालकीर्तनान्तेऽस्मन्मातृपितामहीप्रपितामहीना- ममुकदानाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणामेतासां तृप्त्यर्थं प्रत्या- ब्दिकश्राद्धं सदैवं सपिण्डं पार्वणेन विधिनाऽनेन हविषा सद्यः करिष्य इति संकल्प्य दर्शश्राद्धोक्तविधिना तदुर्गमात्रस्यैव कुर्यात् । निमन्त्रणा- दिषु मात्रादिनामाशुल्लेखः । मात्राद्ययंपात्रेषु तिलावापे तिलोऽसि सोम. देवत्य इत्यस्मिन्मन्त्रे पितृनित्यस्य पदस्य नोहः । यथाश्रुतमेव पाठः । एवमुत्तरेष्वपि मन्त्रेषु साधारणपितृशब्दस्य नोहः । यत्रोहप्रसक्तिस्तत्प्र- दर्श्यते । पात्राभिमर्शने मातृपात्रं संपन्नम् । पितामहीपात्रं संपन्नम् । प्रपितामहीपात्रं संपन्नमित्यूहः । अस्मन्मातृपितामहीप्रपितामहीः दाः गोत्राः वसुरुद्रादित्य स्वरूपा भवत्स्वावाहयिष्यामि । इत्यावाहने । मात. रिदं तेऽयम् । पितामहीदं तेऽयछ । प्रपितामहीदं तेऽयमित्यर्घ्यदाने मन्त्राः । अर्यपाबासादने मातृभ्यः स्थानमसीतिमन्त्रः । अस्मन्मातृ- पितामहीप्रपितामह्यो लाः गोत्राः बसुरुद्रादित्यस्वरूपा एष वो गन्ध इत्याद्यर्चनम् । सति संभवे रूपवाया मातुर्पतायाः स्थाने विप्रपतौ सुवा- सिनीमुपवेश्यास्मन्मातुः, गङ्गादायाः काश्यपगोत्राया वसुरूपाया इदमा- सनम् । अस्मन्मातः, गङ्गादे काश्यपगोत्रे वसुरूप एष ते गन्ध इति सुवासिन्यै गन्धं दत्वा हरिदाकुमसिन्दूरादि इत्त्वा पुष्पधूपदीपान्स- मर्याऽऽच्छादनार्थे स्त्रीपरिधानयोग्यं नवं श्वेतं वस्त्रं कञ्चुकीसहितं दद्यात् । मातृश्राद्धेऽपि बाह्मणेभ्यो यज्ञोपवीतानि दद्यादिति हेमाद्रिः । अन्ननिवेदने पात्रालम्भनादि कृत्वा माताऽमुकदाऽमुकगोत्रा वसुरूपा देवतेदमन्नं हवि० अस्मन्मात्रेऽमुकदाये गोत्रायै वसुरूपाया इदमन्नम- मृतरूपं० पितामही अनु० देवता० पितामदै दायै० इदमन्न० प्रपितामही अमुक० देवता० प्रपितामही दायै इदमन्न० तिसृणामेकबाह्मणपक्षेऽस्म- मातृपितामहीप्रपितामह्योऽमुकदा गोत्रा रूपा देवता इदमन्नं हवि० अस्मन्मातृपितामहीप्रपितामहीभ्योऽमुकदाभ्यो गोत्राभ्यो रूपाभ्य इद- १ क, ख. थार्थ मे।

११० केळकरोपाह्वयापूभट्टाविरचिता- मन्नममृतरूपं० इति यथार्थमूहः । ततः सुवासिनीपात्रस्थमन्नं प्रोक्ष्य मात्रे दायै गोत्रायै वसुरूपाया इदमन्नममृतरूपं परिविष्टं परिवेक्ष्यमाणं चाऽऽ तृप्तेः स्वधा कव्यं नमो न ममेति निवेदयेत् । मात्रादिद्वयोः सुवा- सिन्योर्मुतौ द्वे सुवासिन्यौ भोजयेत् । तिसृणां तथात्वे तिस्त्रः। अशक्तौ सर्वासां स्थान एका वा सुवासिनीं भोजयेत् । अनेन मम मात्रादीनां प्रत्याब्दिकश्राद्धे बाह्मणसुवासिनीभोजनेन मातृस्वरूपी जनार्दनवासु- देवः प्रीयताम् । इति संकल्पः । तृप्तिप्रश्ने मातरस्तृप्ताः । स्थेत्यूहः। मातृत. प्त्यर्थं पिण्डप्रदानं करिष्य इत्यादि । उदकं निनयेत् । शुन्धन्तां मातरः शुन्धन्तां पितामह्यः शुन्धन्तां प्रपितामह्य इत्यूहः। पिण्डदान एतत्तेऽ- स्मन्मातरमुकदेऽनुकगोत्रे वसुरूपे ये च त्वामत्रानु तेभ्यश्चेति मन्त्रः। एव मुत्तरयोर्मातरमुकदे० गोत्रे रूपेऽभ्यश्वेत्याद्यभ्यसनम् । अश्वे- त्यञ्जनम् । अत्र पितरो मादयध्वम् अमीमदन्त पितरः० एतः पितरो. नमो वः पितर इषे० मनो न्वाहुवामहे० परेतन पितरः० वीरं मे दत्त पितरः। आधत्त पितरः० एषु मन्त्रेषु नोहः। यथाश्रुतमेव पाठः । अघोरा मातरः सन्तु इत्यूहः । विप्रेभ्यो दक्षिणादानान्ते सुवासिन्यै दक्षिणां दत्त्वा सति संभवे कण्ठसूत्रादिनानालंकारान्दद्यात् । मातरः प्रीयन्ता- मिति भवन्तो ब्रुवन्तु । उत्तिष्ठत मातरो विश्वदेवैः सह । अनेन मातुः प्रत्याब्दिकश्राद्धयज्ञेन भगवान्मातृस्वरूपी० इत्यूहः । अन्यत्सर्वं पितृश्रा- द्धवत् । तर्पणेऽस्मन्मातरमित्याधुहः। सधवाया मातुर्मुतायाः श्राद्धं जीवत्पितृकेणापि सपिण्डकं कार्य वचनात् । सापत्नमातुरपि तथैव । तर्पणं तु तिलरहितं केवलजलेन कार्यम् । शुक्लतिलैरिति केचित् । एवमे- वापुत्रायाः सापलमातुः श्राद्धप्रयोगः । तत्र मातृस्थाने सापत्नमातुरु- लेखः । अस्मत्सापलमातृपितामहीप्रपितामहीनामित्यादि । एवं पिता- मह्यादिश्राद्धेष्वपि । पत्नीथाद्धे तु अस्मत्पत्नीमातृपितामहीनामित्यु- बारणम् । मातामहश्राद्धेऽस्मन्मातामहमातुःपितामहमातुःप्रपितामहा- नाम् । पितृव्यश्राद्धेऽस्मपितृभ्यपितामहप्रपितामहानाम् । मातुलश्राद्धे मातुलमातामहमातुःपितामहानाम् । भ्रातृश्राद्धे भ्रातृपितृपितामहाना- मित्यादि संकल्पादौ तत्तद्विभक्त्योच्चारणम् । विधिस्तु पितृश्राद्धवत् । ऊहपदेषु पित्रादिस्थाने मातामहादिशब्दः प्रयोज्यः । मयूखे दक्षः- ज्येष्ठभ्रातृपितृज्येष्ठसपत्नीमातरस्तथा । एतेषां च मृताहे तु परेऽहनि तिलोदकम् ॥ इति । १ ग. 'पडदा । २ क. ख. थिमे ॥ ३ ग. विप्राणां द।

श्राद्धमञ्जरी। १११ अथान्वारोहणश्राद्धप्रयोगः । श्राद्धदिने पितृवाद्धार्थ मातृश्राद्धार्थ च पाकद्वयं संपाद्याऽऽपत्तावोदनभेदमात्रं कृत्वैकेनैव पाकेन वाऽपराह्ने देश- कालकथनान्तेऽस्मपितृपितामहप्रपितामहानां शर्मणां गोत्राणां वसुरु- द्रादित्यस्वरूपाणामस्मन्मातृपितामहीप्रपितामहीनाममुकदानां गोत्राणां सुरुद्रादित्यस्वरूपाणामेतेषां तृप्त्यर्थ प्रत्याब्दिकश्राद्धं सदैवं सपिण्डं पार्वणेन विधिनाऽन्नेन हविषा तन्त्रण सद्यः करिष्य इति संकल्प्य तन्त्रे- जैव वैश्वदेवविप्रनिमन्त्रणं कृत्वा पितृवर्गाथं विप्रत्रयं मातृवर्गार्थ च विप्रत्रयं प्रतिवर्गमेकैक वा निमन्त्र्य सर्व दर्शश्राद्धवत्कुर्यात् । सति संभवे विप्रपती मात्रथं सुवासिनीमुपवेश्य संपूज्य भोजयेत् । वर्गद्वयस्य दर्शवत्पृथपिडदानम् । तिथिभेदे पृथपिण्डदानम् । तिथ्येकत्वे तु द्वयोद्विवचनोहेनैकः पिण्डो देय इति केचित् । परेऽहनि वर्गद्वयस्य तिलतर्पणम् । इति सहगमनश्राद्धप्रयोगः । पितामहे जीवति पितुः श्राद्धे पितृप्रपितामहवृद्धप्रपितामहानां श्राद्धं कुर्यात् । प्रपितामहे जीवति पितृपितामहप्रवृद्धप्रपितामहानाम् । उभयोर्जीवतोः पितृवृद्धप्रपितामहप्रवृद्धप्रपितामहानाम् । एवं माताम- ह्यादीनामपि जीवत्वे ज्ञेयम् । आशौचादिना मृताहातिक्रमे देशकालकथनान्ते तद्वर्गस्य षष्ठयन्त- मुञ्चारणं कृत्वाऽतिक्रान्तमाब्दिकश्राद्धं करिष्य इति संकल्प्य सर्वं पूर्वो- क्तवत्कृत्वा श्वोभूते तिलतर्पणं कुर्यात् । इत्यतिक्रान्तश्राद्धप्रयोगः । अथैकोद्दिष्टश्राद्धप्रयोगः । मध्याह्न एव देशकालकीर्तनान्तेऽस्मत्पि- तृव्यस्या मुकशर्मणोऽमुकगोत्रस्य वसुरूपस्य तृप्त्यर्थं प्रत्याब्दिकश्राद्धं सपिण्डमेकोद्दिष्टविधिनाऽनेन हविषा सद्यः करिष्य इति संकल्प्य पितृ- व्यार्थमेव ब्राह्मणान्ब्राह्मणं वा निमन्त्र्यायपात्रासादनात्याक्तनं सर्व दर्शवत्कृत्वैकमर्घ्यपात्रं संस्थाप्यैकदर्भमयपवित्रान्तहितेऽप आसिच्ये- त्याद्यावाहनवर्जमर्घ्यदानान्तं कृत्वा तत्पात्रं शुचौ देशे पितृभ्यः स्थान- मसीति न्युजं कृत्वाऽनौकरणं च कृत्वा पिण्डदानकाल एक एव पिण्डः। अन्यत्सर्वमविकृतं दर्शश्राद्धवत् । द्वितीयेऽहनि श्राद्धाङ्गं सतिलतर्पणम् । एवं मातुलभ्रात्रादीनां तत्तच्छब्दोहेन प्रयोगो ज्ञेयः । सापत्नमातुरपि तथैव । तत्र संभवे सुवासिनी भोजयेदिति विशेषः । इत्येकोद्दिष्टश्राद्ध- प्रयोगः।

११२ केळकरोपावबापूभट्टविरचिता- अथ संन्यासिनामाब्दिकश्राद्धप्रयोगः । तत्र देशकालोत्कीर्तनान्तेऽ. स्मत्पितुरमुकशर्मणो ब्रह्मीभूतस्यामुकगोत्रस्य वसुरूपस्यास्मपितामहस्य प्रपितामहस्येत्येवं पूर्ववदुच्चार्येतेषां तृप्त्यर्थं प्रत्याब्दिकश्राद्धं सदैवं सपिण्डं पार्वणेन विधिनाऽनेन हविषा सद्यः करिष्ये । समुदितोचारण- पक्षेऽस्मद्ब्रह्मीभूतपितृपितामहप्रपितामहानाममुकामुकशर्मणामित्यादि । मन्त्रव्यतिरिक्तस्थले सर्वत्र नामोच्चारणे ब्रह्मीभूतपदोच्चारणमधिकम् । मन्त्रेषु त्वभिध्यानमात्रम् । अन्यत्सर्वं पार्वणश्राद्धवत् । पितामहपिता- महयोईयोरेकस्य वा यतित्वे तन्नामोच्चारणेऽपि ब्रह्मीभूतपदोच्चारणम् । एवमन्येष्वपि श्राद्धेषु । आब्दिकश्राद्धानन्तरं तदानीमेवापरेधुर्वा गुरोराराधनं कुर्यात् । तत्रैवं प्रयोगः । प्रात)मानन्तरं ब्रह्मीभूतस्य गुरोः समाराधाने गुर्वर्थे भवद्भिः क्षणः कर्तव्यः । ब्रह्मीभूतस्य गुरोः समाराधने परमगुर्वर्थे भवद्भिः क्षणः कर्तव्यः । ब्रह्मी० धने परमेष्ठीगुर्वर्थे भव० ब्रह्मी० धने परात्परगुर्वर्थे भव०र्तव्यः । एवं विप्रचतुष्टयं निमन्त्र्य [ *यद्वा विश्वरूपधराचार्यार्थ भवद्भिः क्षण: कर्तव्यः । तत्र गुरुत्रयमिति वा चतुरो ब्राह्मणानिमन्त्रयेत् ।। ततः शुक्लपक्षे दिवें गतस्य ब्रह्मीभूतस्य गुरोः समाराधने केशवार्थे भवद्भिः क्षणः कर्तव्यः । एवं सर्वत्र नारायणार्थे०माधवाथै० गोवि. न्दार्थे० विष्ण्वर्थे० मधुसूदनाथै० त्रिविक्रमार्थे० वामनार्थे० श्रीधरार्थे. हृषीकेशार्थे० पद्मनाभार्थे० दामोदरार्थे० । कृष्णपक्षे संकर्षणार्थे वासुदे- वार्थे० प्रद्युम्नार्थे०अनिरुद्धार्थे०पुरुषोत्तमार्थे ०अधोक्षजार्थे नारसिंहार्थे। अच्युतार्थे जनार्दनार्थे उपेन्द्रार्थहर्यर्थ कृष्णार्थे०इति केशवाद्यर्थ संकर्षणाद्यर्थे वा द्वादश । एवं षोडश विमान्यतीन्बा मिश्रितान्वा निमन्त्रय मध्याह्ने तानाहूय तेषां स्नानादि विधाय स्वयं सातः शुचि- राचभ्य पवित्रपाणिः प्राणानायथ्य देशकालो संकीर्ण श्रीनारायण- प्रीत्यर्थं ब्रह्मीभूतस्य गुरोराराधनं करिष्य इति संकल्प्य गन्धाक्षततुल- सीकर्पूरमिश्रितजलेन विप्राणां पादप्रक्षालनं कृत्वा तानाचमय्य (चाम्य) स्वयं चाऽऽचम्य विप्रान्माङ्मुखानुदङ्मुखान्वोपवेश्य पादप्रक्षालनोदकं पात्रान्तरे गृहीत्वा तत्पात्रं गन्धादिभिरलंकृत्य देवसंनिधौ स्थापयेत् । ततो विप्राणां प्रत्येकं गन्धपुष्पतुलसीदलैः पादावभ्यर्च्य * धनुचिह्नान्तर्गतो ग्रन्थो ग. पुस्तक एव । १ ग. "कालकी । २ ग. सिद्धि । ३ ग. धानान्त स्व। ४ ग. नवर्णक्रमेण वि ।

...- श्राद्धमारी। ११३ आनन्दमानन्दकरं प्रसन्नं ज्ञानस्वरूपं निजबोधरूपम् । योगीन्द्रमीयं भवरोगवैद्यं श्रीमद्गुरुं नित्यमहं नमामि ॥ इति नमस्कुर्यादिति केचित् । कुशासने प्राङ्मुखानुदङ्मुखान्यो- पवि (वे)श्य ततः पुरुषसूक्तेन प्रत्युचम् । ॐ नमो नारायणायेति मन्त्रमुक्त्वा विप्रान्काण्डानुसमयेन पदार्थानुसमयेन वाऽर्चयेत् । गन्धपुष्पधूपदीपा- च्छादनैः पञ्चोपचारैर्वा पूजयेत् । इदं विष्णुवि०गुरुभ्यो नमः । केशवा- दिभ्यो नमः । आसनादिअत्रगन्धपुष्पधूपदीपाच्छादनान्ताः सर्वे परिपूर्णा भवन्तु । अर्चनविधे० ल्यूनं वि० यस्य स्मृत्या च० मण्डलादि करिष्ये । पात्राण्यासाद्याभिधार्य ततः सर्वेषु पात्रेषु पायसादिविशिष्टमन्नं व्यक्ष- नादियुक्तं साज्यं सोपस्करं परिविष्य गायत्र्या प्रोक्ष्य गुरव इदमन्नं परि. विष्टं परिवेक्ष्यमाणं चाऽऽ तृप्तः स्वाहा । एवमुत्तरत्र । परमगुरव इदमन्नं०२ परमेष्ठिगुरव इदमन्नं०३ परात्पर गुरवे०४ केशवायेदमन्नं०५ नारायणाये०६ माधवाये ७ गोविन्दाये०८ विष्णवे०९ मधुसूदनाय० १० त्रिविक्र- माय० ११ वामनाय० १२ श्रीधराय० १३ हृषीकेशाय० १४ पाना. भाय० १५ दामोदरायेदमन्नं० १६ । कृष्णे केशवादिस्थाने संकर्षणाये- दमन्नं०५ वासुदेवाय०६ प्रद्युम्नाय० ७ अनिरुद्धाय० ८ पुरुषोत्तमाय०९ अधोक्षजाय १० नारसिंहाय० ११ अच्युताय० १२ जनार्दनाय० १३ उपेन्द्राय० १५ हरये० १५ श्रीकृष्णाय० १६ इत्यन्ननिवेदनं कृत्वा । ॐ तहह्म । ॐ तद्वायः । ॐ तदात्मा । ॐ तत्सत्यम् । ॐ तत्सर्वम् । ॐ तत्पुरोनमः । अन्तश्चरति भूतेषु गुहायां विश्वमूर्तिषु । त्वं यज्ञस्त्वं वषटकारस्त्वमिन्द्रस्त्व५ रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं प्रजापतिः। त्वं तदाप आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् । इत्यनुवाकं जपित्वा ब्रह्मा. पणं० इत्यादि ब्रह्मार्पणं कृत्वा(ऽनेन ब्रह्मीभूतस्य गुरोः समाराधनेन बाह्मणभोजनेन भगवान्नारायणः प्रीयताम् । ॐतत्सब्रह्मार्पणमस्तु । यथा- सुखं जुपध्वम् । अमृतं भुञ्जीताम् (सीत)। अमृतोपस्तरणमसि। श्रद्धायां प्राण इत्यादि । अपेक्षितं याचि०) भुानानुपनिषद्भागमन्त्राञ्श्राव- येत् । तृप्तेषु ॐतद्ब्रह्मेत्यनुवाकं जपित्वा विरुत्तरापोशनादिशुद्ध्या- चमनान्तं कारयित्वा पुनरासनेषूपवेश्य ताम्बूलदक्षिणावस्त्रालंकारादिभिः * अयं ग्रन्थों म, पुस्तक एव । Cr. -- ११४ केळकरोपाहबापूमविरचिता- परितोष्य तीर्थपूजनं कुर्यात् । तद्यथा । गुर्वागधनाजभूतं तीर्थपूजा (जन)करिष्य इति संकल्प्य चतुरचं मण्डलं गोमये नोपलिप्य 'परितो रङ्गवल्यादिभिरलंकृत्य मण्डले धान्यशशि कृत्वा तदुपरि पूर्व स्थापित- पादोदककलशं संस्थाध्य तत्र गङ्गादिसर्वतीर्थानि भावयित्वा पुरुषसूक्तेन प्रत्यूचं तीर्थराजाय नम इत्युक्त्वा षोडशोपचारैरभ्यर्च्य तत्पात्रं शिरसि धृत्वा ॐ लोकः सरस्वत्यायान्त्येष पै देवयानः पन्थास्त मेवान्वारोह- न्यानोशन्तो यान्त्यवर्तिमेवान्यस्मिन्प्रतिषज्य प्रतिष्ठां गच्छन्ति यदा दशशतं कुर्वन्यथैकमुत्थान शतायुः पुरुषः शतन्द्रिय आयुष्येवेन्द्रिये प्रतितिष्ठन्ति यदा शत५ सहवं कुर्वन्त्यथैकमुस्थान सहन समितो वा असौ लोकोऽमुमेव लोकमभिजयन्ति यदैषां प्रालीयेत यदा वा जीयेरन- थैकमुत्थानं तद्धि तीर्थम् । इत्यनुवाकशेषम् । ॐ भीमाऽस्माद्वातः पवते। भीषोदेति सूर्यः । भीषाऽस्मादग्निश्चन्द्रश्च । मृत्युवति पञ्चम इति । सैषाऽऽनन्दस्य मीमाश्सा भवति । युवा स्यात्साधु युवा ध्यायकः । आशिष्ठो दृढिष्ठो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः । स एको मनु- ध्यगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं मनुष्यग- न्धर्वाणामानन्दाः। स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकाम ते ये शतं देवगन्धर्वाणामानन्दाः । स एकः पितृणां चिरलोकलोकाना- मानन्दः । श्रोत्रियस्य चा० । ते ये शतं पितृणां चिरलोकलोकानामा. नन्दाः । स एक आजानजानां देवानामानन्दः । श्रोत्रियस्य चा० । ते ये शतमाजानजानां देवानामानन्दाः। स एकः कर्मदेवानां देवानामानन्दः। ये कर्मणा देवानपियन्ति ।श्रोत्रियस्य चाते ये शतं कर्मदेवानां देवानामा- नन्दाः । स एको देवानामानन्दः। श्रोत्रियस्य चा०।ते ये शतं देवानामा- नन्दाः । स एक इन्द्रस्याऽऽनन्दः । श्रोत्रियस्य० । ते ये शतमिन्द्रस्याऽऽ- नन्दाः। स एको बृहस्पतेरानन्दः । श्रोत्रियः। ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापतेरानन्दः । श्रोत्रियः । ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोधियः । स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । स य एवंवि । अस्माल्लोकात्मेत्य । एतमन्त्रमयमात्मानमुपसं- कामति । एतं प्राणमयमात्मानमुपसंकायति । एतं मनोमयमात्मानमुप- संज्ञामति । एतं विज्ञानमयमात्मानमुपसंकामति । एतमानन्दमयमात्मान- मुपसंकामति । तदप्येय श्लोको अवति- १ क, ख. पितं पा . - श्राद्धमतरी। ११५ यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति । एत५ ह वाव न तपति । किमह साधु नाकरवम् । किमहं पापमकरवमिति । स य एवं विद्वानेते आत्मान५ स्पृणुते । उभे ह्येवैष एते आत्मान स्घृणुते। य एवं वेद । इत्युपनिषत् । इत्यनुवाकं च जपित्वा हरिकीर्तनपुरःसरसहर्षनृत्यं कृत्वा तत्पात्रं पुनर्मण्डले संस्थाप्य चन्दनाक्षतपुष्पाणि पूजां कृत्वाऽवशिष्टानि बन्धुभिः सह स्वयं धृत्वा विप्रान्प्रदक्षणीकृत्य, आनन्इमानन्दकरं प्र० मि । गुरुब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेक(क:) परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ इत्यादिमन्त्रैविप्रांस्तीर्थराजं च नमस्कृत्य गुर्वर्थविप्रहस्ते पादोदक- कलशं दत्त्वा तेदाज्ञया तत्तीर्थ मन्त्रेण गृह्णीयात् । तत्र मन्त्रः- अविद्यामूलशमनं सर्वपापप्रणाशनम् । गुरुपादोदकं चित्रं संसारदुमनाशनम् ॥ पुत्रादिकाजलायां तु- शोषणं पापएकस्य दीपनं ज्ञानतेजसः । गुरुपादोदकं चित्रं पुत्रपौत्रप्रवर्धनम् ॥ इति मन्त्रेण गृलीयात् । तलो विप्रान्प्रणभ्यं तानन्यांश्च दक्षिणालं- कारादिभिस्तोपयित्वा सन्मानपुरःसरं ताननुबज्य कर्मेश्वरार्पणं कृत्वा सुहृद्युतो सुजीतति । इत्थं विस्तरेणाराधनकरणाशक्तौ यथाशक्ति बाह्मणानाडूय पादप्रक्षालनपूर्वक गन्धादिभिरष्टाक्षरमन्त्रेणाभ्यर्च्य ब्रह्मी- भूतगुरूदेशेन भोजवेदिति । सन्महालयश्राद्धानन्तरमप्येवमेवाऽऽरा- धनम् । इदमाराधनं चतुर्विधानामपि संन्यासिनां समानमेव । चतुर्विधा भिक्षवस्तूशाचन्द्रिकाबा- चतुर्विधा भिक्षवस्तु विख्याता ब्रह्मणो मुखात् । कुटीचको बहूदको हंसश्चैव तृतीयकः । चतुर्थः परहसव संज्ञाभेदैः प्रकीर्तिताः ॥ इति । एषां लक्षणानि तत्रैव ज्ञेयानि । इति संन्यासिनामाराधनप्रयोगः । अथ विश्वाकर्तृकश्राद्धम् । स्मृतिसमुञ्चये- १ क. ख. सरं ह । २ क. "न. गि पूजाव। ३ ग. तद्दत्तं तीर्थम । ४ क. ख. म्य द। ५ ग. 'क्तियतीन्त्रात्म। ६ क. ख. 'रभ्य । ७ ग. ति । इ°। ८ ग. रमहंसश्च ज्ञा।

११६ केळकरोपाषापूमट्टविरचिता- स्वभर्तृप्रभृतित्रिभ्यः स्वपितृभ्यस्तथैव च । विधवा कारयेच्छ्राद्धं यथाकालमतन्द्रिता ॥ इति । इदं च पड्दैवत्यं दर्शश्राद्धादिविषयमिति मयूखे चन्द्रिकायां च । तीर्थमहालयादौ तु स्मृतिसंग्रहे- चत्वारि पार्वणानीह विधवायाः सदैव हि। स्वभर्तृश्वशुरादीनां मातापित्रोस्तथैव च ॥ ततो मातामहानां च श्राद्धदानमुपक्रमेत् ॥ इति । अत्र मातामहादयः सपत्नीका ज्ञेयाः। सपन्यां मृतायाँ भादयोऽपि सपत्नीकाः । श्वश्रूजीवत्वे तु सपत्न्या भर्तृपार्वणोत्तरमेकोद्दिष्टम् । केचि- पट्रपार्वणात्मकमष्टादशदेवत्यमिति वदन्ति । श्वश्रूणां च विशेषेण मातामह्यास्तथैव चेति वचनात् । शक्तौ सत्यां स्वपितृव्यादीनामप्येको- द्दिष्टानि कर्तव्यानीति मयूखादौ । अब यथाचारं व्यवस्था । अथ प्रयोगः । श्राद्धकर्वी श्राद्धदिने देशकालौ स्मृत्वोत्तरीयवस्त्रेण प्राचीनावीतं कृत्वाऽस्मद्भर्तृतपितृतत्पितॄणाममुकशर्मणाममुकगोत्राणां वसुण्द्रादित्यस्वरूपाणामेतेषां तृप्त्यर्थं प्रत्याब्दिकश्राद्धं सदैवं सपिण्डं पार्वणेन विधिनाऽनेन हविषा सद्यः करिष्ये। दर्शादौ तु भर्तृवर्गोचारणा- नन्तरम् । अस्मपितृपितामहप्रपितामहानां शर्मणां गोत्राणां सपत्नी- कानां वसुरुद्रादित्यस्वरूपाणामित्युल्लेखः । तीर्थमहालयादौ तु अस्मद्भ- र्तृसपत्नीकतपितृतपितॄणां शर्मणां गोत्राणां वसु०पाणाम् । अस्मत्पि. तृपितामहप्रपितामहानां शर्मणां । अस्मन्मातृपितामहीप्रपितामहीनाम- मुकदानाममुकगोत्राणां सपत्नीकानां वसुरुद्रादि० पाणाम् । अस्मन्माता- महमातुःपितामहमातुःप्रपितामहानाममुकशर्मणाममुकगोत्राणां सपत्नी- कानां वसुरुद्रादित्यस्वरूपाणामेतेषां तृप्त्यर्थं०इत्युल्लेखः । अथवा भर्चा- दिवयाणामपि सपत्नीकानामुल्लेखः । मयूखे तथैव दर्शनात् । षट्पा- प्रणपक्षे भर्तृपार्वणानन्तरम् । अस्मच्छ धूतच्श्रूतच्छश्रूणाममुकदानां गोत्राणां वसु०णाम् । पितृमातृमातामहपार्वणानन्तरम् । अस्मन्माताम- हीमातु:पितामहीमातुःप्रपितामहीनाममुकदानाममुकगोत्राणां वसुपा- णाम्। अस्मिन्पक्षे भर्तृवर्गस्य सपत्नीरहितस्योल्लेखं कृत्वा, अस्मत्सपत्न्या अमुकदाया गोत्राया वसुरूपाया इत्युल्लेखः । एकोद्दिष्टानां करणपक्षे- १ क, ख. त्या श्राद्धमञ्जरी। ११७ अस्मत्पुत्रस्यास्मकन्याया अस्मपितृव्यस्यास्मन्मातुलस्यास्मद्भातुरि- त्यादि यथाधिकारमुल्लेखं कृत्वाऽमुकश्राद्धं करिष्य इति स्वयं संकल्प कृत्वा कंचिग्राह्मणमृत्विक्त्वेन परिकल्प्य ते ब्रूयात् । ममाऽऽज्ञया त्वमि- दममुकश्राद्धाख्यं कर्म कुरु इति । कर्ता करिष्यामीत्युक्त्वा सर्वमपि समन्त्रकं श्राद्धविधिं कुर्यात् । तत्र विशेषः । अनुज्ञाका भर्तुरमुक- शर्मणः०तत्पितुरमुकशर्मणः तत्पिनुरमुकशर्मणः । अनुज्ञाकाः पितु- रित्यादि तत्तद्विभक्त्यूहेन प्रयोगः । ऋत्विकर्मकाले तद्यज्ञोपवीतित्वेऽनु- ज्ञाव्याऽपि यज्ञोपवीतिता कर्तव्या। तत्माचीनावीतित्वे तया प्राचीनावी- तिता कर्तव्या। तर्पणं तु विधवाकर्तृकमेव । श्राद्धकर्तृनियमास्तु ऋत्वि- जोऽनुज्ञाकाश्च समानाः । अथवा विधवा स्वयमेव वैदिकमन्त्रवर्ज सर्व विधि कुर्यात् । मन्त्रसाध्यं कर्मापि तूष्णीं कर्तव्यमेव । ब्राह्मणद्वारा श्राद्धप्रयोगेऽपि मन्त्ररहितः प्रयोग इति बहवः । क्षयाह एकोद्दिष्टपक्षे तद्धर्मेण श्राद्धं कुर्यात् । कन्यायाः स्वपितृश्राद्धप्रसक्तावप्येवमेव विधिः। अपुत्रस्य विधवा पत्नी नित्यतर्पणमपि कुर्यात् । तर्पणं प्रत्यहं कार्य भर्तुः कुशतिलोदकैः । तत्पितुस्तपितुश्वापि नामगोचादिपूर्वकम् ॥ इति स्कान्दोक्तेः। अपुत्रा पुत्रवत्पत्नी पुत्रकर्म समाचरेत् । इति वचनात् । यदि विधवा पूर्तादौ वृद्धिश्राद्धं करोति तदा स्वभर्तृप्रभृति- त्रयाणां स्वमात्रादितिसृणां स्वपित्रादित्रयाणां स्वमातामहादित्रयाणां सपत्नीकानां स्वयं प्रतिनिधिद्वारा वा कुर्यात् । इति वाजपेययाजि. पद्धतौ । विधिस्तु पूर्वोक्तप्रकारेण । विप्राः पविशतिर्दश वा । पार्व- णाद्यजीवने द्वारलोपात्तत्पार्वणलोप एव । इति विधवाकर्तृकश्राद्धम् । अथानुपनीतकर्तृकश्राद्धम् । पित्रोदर्शाब्दिकादिश्राद्धे पुत्रान्तराभावे कृतचूडोऽकृतचूडो वाऽनुपनीतः पुत्रोऽपि श्राद्धं कुर्यात् । तत्र विधिः प्रयोगश्च विधवाकर्तृकश्राद्धोक्तवत् । अनुज्ञाकर्तुः पितुरित्यादिविशे- पोऽकृतचूडश्चेत्संकल्पमात्रं कृत्वा सर्व ब्राह्मणद्वारा कारयेत् । अत्र. मन्त्रवर्जश्राद्धप्रयोगो बहुसंमतः । इत्यनुपनीतकर्तृकश्राद्धम् । अथ सकृन्महालय श्राद्धम् । तच्च भाद्रपदकृष्णे प्रतिपदादिनिषिद्ध- दिनरहिते कार्यम् । तत्र निषिद्धानि-प्रतिपत्षष्ठीसप्तम्येकादशीत्रयो- दशीचतुर्दशीतिथयः। रविभौमभृगुवासराः। भरणीकृत्तिकारोहिणीमघा- १ ग. 'श्त्वे प । २ ग. तं प्रति ।

११८ केळकरोपाहबापूभहविरचिता- रेवतीनक्षत्राणि । स्वजन्मभं तत्पूर्वोत्तरे च नक्षत्रे इति सिन्धौ । जन्मभं ततो दशमभेकोनविशं च नक्षत्रमिति चन्द्रिकायाम् । गण्डव्य- तीपातवैधृतियोगा इति । अस्यायवादो हेमादी- अमापाते भरण्यां च द्वादश्यां पक्षमध्यके । तिथि वारं च नक्षत्रं योगं च न विचारयेत् ॥ इति । पक्षमध्यमष्टमी । पितृमृताहे निषिद्धदिनेऽपि सकृन्महालयः कार्य इत्युक्तं निर्णयसिन्धौ । कात्यायनोऽपि- अशक्तः पक्षमध्ये तु करोत्येकदिने यदा। निषिद्धेऽपि दिने कुर्यात्पिण्डदानं यथाविधि ॥ इति । तथा-या तिथिर्यस्य मासस्य मृताहे तु प्रवर्तते । सा तिथिः पितृपक्षे तु पूजनीया प्रयत्नतः ॥ तिथिच्छेदो न कर्तव्यो विनाऽशौचं यदृच्छया । पिण्डाद्धं च कर्तव्यं विच्छित्तिं नैव कारयेत् ॥ इति । दाक्षिणात्यास्त्वेवमेवाऽऽचरन्ति । अस्मिन्पक्षे पौर्णमास्यां मृतस्य सकृन्महालयश्राद्धं त्वमावास्यायां कार्यम् । केचिद्धाद्रपदपौर्णमास्यां कार्यमिति वदन्ति तन्त्र युक्तिसहम् । पौर्णमास्याः कृष्णपक्षीयत्वासंभ- वात् । पोडशमहालबधाद्धपक्षे पार्णमासीमारभ्यामावास्यापर्यन्तं षोडश- दिनसंपादनं हेमाद्रेिणा पाक्षिकमुक्तं तदपि ग्रन्धकारैरनङ्गीकृतम् । अतः शुक्लपस्या मृतस्य यथा भादपकृष्णपञ्चम्यां कुर्वन्ति तथेदमपि शुक्लपञ्चदश्यां कृतस्य कृष्णपञ्चदश्यामेव सकृन्महालय श्राद्धं युक्तमिति । यदा विधवशेन पक्षमध्ये सकृन्महालय श्राद्धं न जातं चत्तदाऽऽश्विन शुक्ल- पञ्चमीपर्यन्तं कर्तव्यमिति कौस्तुभे । आश्विन शुक्लपञ्चमीमारभ्याऽऽश्चि. नकृष्णपञ्चमीपर्यन्तं पूर्वोक्तप्रतिपदादिनिषिद्धरहिते करिमश्चिदिने कार्य- मिति कमलाकरः । तत्राध्यसंभव आश्विन कृष्णामायां कार्यम् । तत्राप्य- संभवे वृश्चिक संक्रमणप्रवेशपर्यन्तमपि कार्यम् । एतच पिलुसरणे प्रथ- माझे कृताकृतमिति सिन्धौ । केचिदाक्षिणात्या भाद्रपदकृष्णप्रतिपदि अनुच्छिष्टसंज्ञकं कुर्वन्ति । पठन्ति च- प्रथमाने प्रोपद्यां पितुः श्राद्धं कृताकृतम् । अनुच्छिष्टं तु नन्दायां प्रोष्ठपद्यां तु कारयेत् ॥ इति । तदेतन्महाग्रन्थानुपलभाञ्चिन्त्यम् । अत्र विश्वे देवा धूरिलोचनसं- ज्ञकाः । अपि कन्यागते सूर्ये काम्ये च धूरिलोचनाविति स्मरणात् ।

श्रामञ्जरी। अत्र कन्यागत इत्युपलक्षण । तेनागतेऽप्यपरपक्षश्राद्धे धूरिलोचनावेव केचित्पुरूरवावा एवेति वदन्ति । अपरे तु महालयश्राद्धस्य नित्यत्वे पुरूरवावो । काध्यत्वे धूरिलोचनावित्याहुः । अथ पितरः । तेषामनेकपक्षत्वेऽपि दाक्षिणात्याचारानुसारेणैवोच्यन्ते। तत्राऽऽदौ पितृशार्वण ततो मातृपार्वजम् । ततः सपलमातुरेकोद्दिष्टम् । तदनन्तरं मातामहपार्वणम् । ततो मातामहीपार्वणम् । ततः पत्न्या एकोद्दिष्टम् । तत उपनीतस्य पुत्रस्य । ततो विवाहिताया दुहितुः । ततः पितृव्यमातुल भ्रातृणां सपत्नीकानां समुताना प्रत्येकमेकोदिष्टानि । ततः पितृभगिनीमातृभनिन्यामभगिनीनां सभर्तृकाणा सापत्यानां प्रत्येकमे- कोष्टानि ततः श्वशुरस्य सपत्नीकस्य समुतस्यैकोद्दिष्टम् । ततः सपत्नी- कस्य गुरोः । ततः शिष्यस्य । तत आतस्य । तदनन्तरं विभवे सती- च्छ.यां च सत्यां स्वामितस्विरूपोपकाचार्थजामातृवष्यदानां सापत्न- मातुः पित्रो कोद्दिष्टानि । गुदीनां लक्षणमाह याज्ञवल्क्यः- स गुरुर्यः क्रियां कृत्वा वेदमस्मै प्रयच्छति । एकदेशनुपाध्याय ऋत्विब्याज्यकृदुच्यते ॥ इति । क्रियामुपनयनम् । अब पत्ल्यादीनां बहुत्वे तावन्ति ज्येष्ठक्रम- गैकोद्दिष्टालि । तथा सपत्नमातृणामपि । जीवन्मातृकोऽपि साप- नमातुरेकोद्दिष्टं कुर्यान्न पावणम् । केचित्पितामह्याः सपत्नीसत्त्वे तस्या अप्येकोद्दिष्टमित्याहुः । एवं प्रपितामहाः सपल्या अपि । अन्ये तु अस्सन्मातृतमपल्लीपितामहीतत्सपत्नीप्रपितामहीतत्सपत्नी- नाममुकामुकदानामित्याद्युल्लेखेन मातृपार्वण एव संनिवेशः कार्य इति वदन्ति । पितृव्यादीनां जीवत्वे तत्पल्ल्यादीनां नोल्लेखः । द्वार- लोपात् । एवं पितामहाधिवप्यूह्यम् । एते पितरो महालयश्राद्धे तीर्थश्राद्धे गयाश्राद्धे नित्यतर्पण च ज्ञयाः । अत्र पार्वणेकोदिष्टवि- धिना प्रयोगः । प्राधान्यं पार्वणस्यैव । अत एकोद्दिष्टे देवराहित्येऽपि प्राधान्यानुरोधेन दवं कर्म भवत्येव । तथैवापराहकालोऽपि । यदेको- द्दिष्टधर्मकर्म नाऽऽवाहनादि तद्यथासंभवं कर्तव्यमेव । एकोदिष्टे तूष्णी- मावाहनमिति कल्पतरुः । इदं श्राद्धमनेनैव सपिण्डकं कर्तव्यम् । एक एव पाकः । अत्र वैश्वदेवार्थं बावकं वा बाह्मणं निमन्त्र्य पित्रादीनां १ क. ख. 'ण एव ।

१२० केळकरोपावबापूभट्टविरचिता- प्रत्येकमेकै निमन्त्रयेत् । अन्ते च महाविष्ण्वर्थमेकं बाह्मणं निमय संपूज्य भोजयेदिति कौस्तुभे । अशक्तौ प्रतिपार्वणमेकैकं प्रत्येकोद्दिष्ट- मेकैकं निमन्त्रयेत् । तत्राप्यसंभवे यथालाभं निमब्य यथासंभवं समावेशः कर्तव्यः । यथा । यदा त्वष्टौ विप्रा लभ्यन्ते तदा देवस्थान एकः। पितृपार्वण एकः । मातृपार्वण एकः । सापत्नमातृस्थान एकः । मातामहपार्वण एकः । मातामहीपार्वण एकः । पत्नीस्थान एकः । पुत्रादिस्थान एकः । एवमष्टौ । सप्तपक्षे देवस्थानादिषु घण्णां समावेशः पूर्ववत् । पत्न्यादीनां सर्वेषां स्थान एक इति । षट्पक्षे देवस्थान एकः । पितृपार्वण एकः । मातृपार्वणे सापत्नमातृस्थाने चैकः । मातामहादि- पार्वणद्वये द्वौ । पल्यादिस्थाने चैक इति । पञ्चपक्षे मातामहमातामही- पार्वणयोरेकः । अन्यत्र घडविप्रपक्षवदिति । यदा तु चत्वारो विप्रास्तदा देवस्थान एकः । पितृमातृपार्वणयोः सापत्नमातृस्थाने चैकः । माता- महमातामहीपार्वणयोरेकः । पल्यादिस्थानेष्वेक इति । यदा तु बय- स्तदा देवस्थान एकः । पार्वणेषु सापलमातरि चैकः । पत्न्यादिवेकः । यदा द्वौ विप्रो लभ्येते तदा देवस्थान एकः । पितृस्थान एकः । एक- स्मिन्ब्राह्मणे सर्वानाचार्यान्तान्प्रपूजयेदिति स्मृत्यन्तरात् । यदा त्वेक एव तदा देवे कृत्वा तु नैवेद्यमित्यादि पूर्वोक्तविधिः । सापत्नमातृबहुत्वे ज्येष्ठादिक्रमेण सर्वासामुल्लेखः । सति विभवे प्रत्येकमेकैकं विषं निमन्त्र- येत् । सर्वासां स्थान एकं वा । अत्र परेधुस्तर्पणम् । सकृन्महालये श्वः स्यादिति वचनात् । एतच्च महालयश्राद्धं पितरि संन्यस्ते पतिते वा जीवति तत्पुत्रेण जीवपितृकेणापि पितुः पित्रादीनुदिश्य पिण्डरहित सांकल्पेन विधिना कार्यमिति कमलाकरः । भाद्रपदकृष्णपक्षे प्रतिपदादि पञ्चम्याधष्टम्यादि दशभ्यादि वा दर्शा- न्तमहरहर्महालयश्राद्धं कार्यम् । एवं करणाशक्तौ पितृमृताहे सकृन्म- हालयश्राद्धं कार्यम् । तत्प्रयोगः-अपराह्ने देशकालकीर्तनान्ते प्राचीना० अस्मत्पितृपितामहप्रपितामहानाममुकशर्मणाममुकगोत्राणां वसुरुद्रादि- त्यस्वरूपाणाम् । अस्मन्मातृपितामहीप्रपितामहीनाममुकदानाम० गो० वसु० णाम् । अस्मत्सापत्नमातुः० दायाः गोत्राया: वसुरूपायाः। अस्मन्मातामहमातुःपितामहमातुःप्रपितामहानां शर्मणां गोत्राणां वसु० पाणाम् । अस्मन्मातामहीमातुःपितामहीमातुःप्रपितामहीनां० दानां गो० , क. ख. दीनां पि।

पस्थायार्यपात्राणि तत्तद्ब्राह्मणाग्रे निधाय स्वधाऽा इति मन्त्रावृत्त्या श्राद्धमञ्जरी। १२१ व० णाम् । अस्मत्पल्या:० दायाः० गोत्राया वसुरूपायाः । अस्म- पुत्रस्य शर्मणो गोत्रस्य वसु० अस्मदुहितुः० दायाः० गोत्राया वसु० अस्मत्पितृव्यस्य शर्मणो गोत्रस्य सपत्नीकस्य ससुतस्य वसुरूपस्य । अस्म- मातुलस्य शर्मणो गोत्रस्य सपलीकस्य ससुतस्य वसुरूपस्य । अस्म- धातुः शर्मणो गोत्रस्य सपलीकस्य ससुतस्य वसु० । अस्मत्पितृभ- गिन्याः०दायाः० गोत्राया वसु० सभर्तृकायाः सापत्यायाः । अस्मन्मातृ- भगिन्या:०दायाः०गोत्रायाः समर्तृकायाः सापत्याया वसु० । अस्मदात्म- मगिन्या० दायाः० गो० सभर्तृकायाः सापत्याया वसु० । अस्मच्छू- शुरस्य शर्मणो गोत्रस्य सपत्नीकस्य सापत्यस्य वसु० । अस्मद्गुरोः शर्मणः गोत्रस्य सपत्नीकस्य सापत्यस्य वसु० । अस्मदाप्तस्य शर्मणो गोत्रस्य सप० साप० वसुरूपस्य । सति विभव इच्छायां च सत्यामृत्वि- गादीनामपि षष्ठयन्तमुल्लेखं कृत्यैतेषां तृप्त्यर्थं सकृन्महालयापरपक्षिकं श्राद्धं सदैवं सपिण्डं पार्वणकोद्दिष्टविधिनाऽनेन हविषा सद्यः करिष्य इति संकल्प्य विप्रनिमन्त्रणादिदर्शवदेवार्चनान्तं कुर्यात् । पित्रर्चने विशेषः-तत्राऽऽसनप्रदानादि पित्र्ये क्षणः क्रियतामित्यन्तं कृत्वाऽभ्यु- क्षितायां भुवि दर्भेषु पितृवर्गाथं पात्रअयं मातृवर्गार्थं च पात्रत्रयं दर्म- त्रयात्मकपवित्रयुक्तं संस्थाप्य सापत्नमात्रर्थमेकदर्भात्मकपवित्रयुक्तमेकं पात्रं संस्थाप्य मातामहवर्गाथं मातामहीवर्गाथं च प्रत्येकं पात्रत्रयं दर्भ- वयात्मकपवित्रयुक्तं संस्थाप्य पत्न्याद्यर्थं प्रत्येकमेकैकमेकदर्भमयपवित्र- युक्तं संस्थापयेत् । तेषु क्रमेणाप आसिच्य शं नो देवीरिति सकृदनुमन्य तिलोऽसीतिमन्त्रावृत्त्या प्रतिपात्रं तिलानोप्य गन्धपुष्पादि क्षिप्त्वा पितृपात्रं संपन्नमित्यादि यथालिङ्ग क्रमेणाभिमुशेत् । एतादृशस्थले पितृव्यादीनां मन्त्रेषु सपत्नीकशब्दस्य न वा प्रयोगः । किं त्वभि- ध्यानमात्रम् । एवमुत्तरत्रापि । तिलानादाय, अस्मत्पितृपितामहप्रपि- तामहाशर्मणो गोत्रान्वसुरूपान् । अस्मन्मातृपितामहीप्रपितामहीर्दाः, गोत्रा वसुरूपाः । अस्मन्मातामहःपान् । अस्मन्मातामही ही:० दाः, गोत्रा व० पाः । भवत्स्वावाहयिष्यामीति । अत्रैकोद्दिष्टानां नोल्लेखः । न चाऽऽवाहनम् । पित्रादिवर्गचतुष्टयमात्रस्याऽऽवाहनं कृत्वाऽऽयन्तु न इत्यु- प्रतिविप्रं निवेद्य पितरिदं तेऽयमित्यादि तत्तद्विभक्त्यूहेनार्घ्यदानं कृत्वा पितृपात्र एव सर्वपात्रस्थानपः (पां) संस्रवान्समवनीय ताभिरद्धिः पुत्र- १ ग, 'स्थान्संस। १६ १२२ केळकरोपावबापूभट्टविरचिता- कामश्चेन्मुखमक्त्वा प्रपितामहपात्रेणापिध्यात् । ततो गन्धदानादि समानम् । तत्तन्नामविभक्त्यूहः पित्रादिसर्वविप्रपाणिषु होमः । पिण्ड- दाने पितृवर्गार्थं लेखां कृत्वा तत्पश्चान्मातृवर्गार्थं तत्पश्चान्मातामहव- थि तत्पश्चान्मातामहीवर्गाथं च तत्पश्चात् सर्वेकोद्दिष्टार्थं दीर्घलेखा- मालिखेत् । अपि वाऽऽग्नेयीसंस्था दक्षिणापवर्गाः पञ्च लेखा आलिखेत् । केचित्प्रत्येकोद्दिष्टमेकैकां लेखामित्येवं पङ्क्त्याऽऽकारेण लेखा लेखनीये- त्याहुः । प्रतिलेख बहिरास्तरणं प्रतिदैवतमुदकनिनयनं चाऽऽवर्तते । सर्वपितृपिण्डानां संनिवेशो यथा भवेत्तथैकं महद्धहिरास्तीर्य तत्तदेखा. स्थबहिःप्रदेशे तत्तत्पिण्डान्दद्यादिति स्मृत्यर्थसारादौ । उदकनिनयने शुन्धन्तां पितर इत्यादिप्रपितामह्यन्तमुक्त्वा शुन्धन्तां सापत्नमातरः। शुन्धन्तां मातामहा इत्यादिमातुःप्रपितामह्यन्ते शुन्धन्तां पत्न्यः । शुन्धन्तां पुत्राः । शुन्धन्तां दुहितरः। शुन्धन्तां पितृव्याः । शुन्धन्तां मातुलाः । शुन्धन्तां भ्रातरः । शुन्धन्तां पितृभगिन्यः । शुन्धन्तां मातृ- भगिन्यः । शुन्धन्तामात्मभगिन्यः । शुन्धन्तां श्वशुराः । शुन्धन्तां गुरवः । शुन्धन्तामाता इति । पत्न्यादिबहुत्वे तु तत्तत्संख्यया तत्तन्म. न्त्रस्याऽऽवृत्तिः । ततस्तत्तन्नामाद्युञ्चारपूर्वकं पिण्डान्दत्त्वाऽऽप्तपिण्डस्य पुरस्ताच्चतुर्भिर्मन्त्रैर्मन्त्रलिङ्गोक्तान्पिढ्नुद्दिश्य चतुरः पिण्डान्दद्यात् । ते च मन्त्रा:- आ ब्रह्मणो ये पितृवंशजाता मातुस्तथा वंशभवा मदीयाः । वंशद्वयेऽस्मिन्मम दासभूता भृत्यास्तथैवाऽऽश्रितसेवकाश्च ॥ मित्राणि सख्यः पशवश्च वृक्षा दृष्टाश्च स्पृष्टाश्च कृतोपकाराः। जन्मान्तरे ये मम संगताच तेभ्यः स्वधा पिण्डमहं ददामि ॥१॥ पितृवंशे मृता ये च मातृवंशे तथैव च । गुरुश्वशुरबन्धूनां ये चान्ये बान्धवाः स्मृताः ॥ ये मे कुले लुप्तविण्डाः पुत्रदारविवर्जिताः। क्रियालोपगताश्चैव जात्यन्धाः पङ्गवस्तथा ॥ विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम । धर्मपिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठतु ॥ २॥ उच्छिन्नकुलवंशानां येषां दाता कुले न हि । धर्मपिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठतु ॥ ३ ॥ , ग. र्थ त°१२ क. ग.न्तिां पि।

श्राद्धमञ्जरी। १२३ असिपत्रवनें घोरे कुम्भीपाके च ये गताः । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ ४॥ ततः, अत्र पितरो मादयध्वमित्यादि दर्शश्राद्धवत् । पल्या वर्गचतु- टयमध्यपिण्डप्राशनमिति विशेषः। परेयुः सर्वान्पितॄस्तिलोदकेन तर्पयेत् । सकृन्महालये श्वः स्यादिति वचनात् । इति सकृन्महालयश्राद्धप्रयोगः। अथ नित्यश्राद्धम् । तदाह हेमाद्रौ व्यास:- अहन्यहनि यच्छ्राद्धं तन्नित्यमिति कीर्तितम् । मार्कण्डेयपुराणे-कुर्यादहरहः श्राद्धमन्नाद्यनोदकेन वा । पितृनुद्दिश्य विप्रांश्च भोजयेद्विप्रमेव वा॥ इदं पइदेवत्यं दैवहीनं च । नित्यश्राद्धं दैवहीनं नियमादिविवर्जितम् । दक्षिणारहितं चैव दातृभोक्तृवतोझितम् ॥ इति काशीखण्डात् । उपवेश्याऽऽसनं दत्त्वा संपूज्य कुसुमादिभिः ॥ निर्दिश्य भोजयित्वा तु किंचिद्दत्त्वा विसर्जयेत् ॥ इति प्रचेतस उक्तेर्दक्षिणायां विकल्पः । शक्ताशक्तत्वेन वा व्यवस्था बोध्या । अस्मिश्राद्धे देशकालान्ननियमा न सन्ति । उत्तमान्नसद्भावे तु जघन्यं न दद्यादिति चन्द्रिकायाम् । न कर्तृभोक्तृनियमाः । इदं दिवाऽसंभवे रात्रावपि प्रहरपर्यन्तं कार्यमिति तत्रैव । दिवाऽसंभवे लोप एवेति पृथ्वीचन्द्रः । इदं षड्दैवते श्राद्धान्तरे प्राप्ते सति प्रसङ्गसिद्धे- नित्यश्राद्धं पृथडून कार्यम् । भिन्नदेवताके वार्षिकादौ तु तच्छ्राद्धान- शेषेणैव कार्यम् । अवेतिकर्तव्यतामाह प्रचेता:- नाऽऽमन्त्रणं न होमं च नाऽऽह्वानं न विसर्जनम् । न पिण्डदानं विकिरं न दद्यादब दक्षिणाम् ॥ अत्र शक्तश्चेत्पतिदैवतमेकैकं विप्रमेवं षविप्रान्भोजयेत् । प्रतिपार्व- णमेकैकमेव द्वौ वा । अशक्तश्चेदेकं वा । एकमप्याशयेद्विप्रं षष्णामप्य- न्वहं गृहीति व्यासोक्तेः । विप्रालाभे त्वाह कात्यायन:- उत्कृष्टं नास्ति चेदन्नं भोक्ता भोज्यमथापि वा । अभ्युद्धृत्य यथाशक्ति किंचिदन्नं यथाविधि ॥ पितृभ्य इदमित्युक्त्वा स्वधाकारमुदाहरेत् । इति । १ ग, तोत्तमम् । २ ग, ते प्र। - १२४ केळकरोपाहबापूभट्टविरचिता- - तत्मतिपत्तिमाह विष्णुः-तदन्नं भिक्षवे दद्यात्तदलाभे गोम्यो दद्या- दग्नौ वा क्षिपेदिति। अथ नित्यश्राद्धप्रयोगः । आचम्य पवित्रपाणिः प्राणानायम्य देश- कालौ स्मृत्वा प्राचीनावीती, अस्मत्पितृपितामहप्रपितामहानाममुकश- मणाममुकगोत्राणां वसुरुदादित्यस्वरूपाणां सपत्नीकानाम् । अस्म- न्मातामहमानुःपितामहमातुःप्रपितामहानां शर्मणां गोत्राणां० पाणां सपत्नीकानामेतेषां तृप्त्यर्थं नित्यश्राद्धं करिष्य इति संकल्प्योदङ्मुखं विप्रमुपवेश्य, अस्मपितृ०णां सपत्नीकानाम् । अस्मन्मातामह०णां सप- लीकानाभिदमासनम् । अस्मत्पितृपितामहप्रपितामहाः शर्माणः गोत्रा वरूपाः सपत्नीकाः। अस्मन्मातामह हाः शर्माणः गोत्रा:०रूपाः सप- लीका एघ वो गन्धः स्वधा नमो न मम । एवं पुष्पाणि धूपदीपावा- च्छादनं च समर्चिनविधेः संपूर्णतां वाचयित्वा वर्तुलमण्डले भोज- नपात्रमासाद्यान्नं परिविष्य गायत्र्याऽभ्युक्ष्य, अस्मत्पितृपितामहप्रपि- तामहेभ्यः शर्मभ्यो वसुभ्यः सपत्नीकेभ्यः, अस्मन्मातामह०भ्यः, अ० श० अ० गो० वसु० सपत्नीकेभ्य इदमन्नममृतरूपं परिविष्टं परिवेक्ष्य- माणं चाऽऽ तृप्तेः स्वधा कव्यं नमो न मम । ब्रह्मार्पणं० । प्राचीना० एको विष्णु अनेन नित्यश्राद्धेन भगवान्पितृस्वरूपी जनाईनवासुदेवः प्रीयतामित्युक्त्वा ब्राह्मणान्भोजयित्वा नमस्कारेण तान्विसर्जयेत् । सति विभवे दक्षिणां दद्यात् । नाव तर्पणम् । इति नित्यश्राद्धप्रयोगः । इति श्रीमञ्चित्तपावनकेळकरोपाभिधमहादेवात्मजबापूभट्टेन विरचि. तायां श्राद्धमञ्जर्यामनुकल्पादिनित्यश्राद्धान्तप्रयोगाः। अथ षष्णवतिश्राद्धानि । तान्युक्तानि निर्णयसिन्धौ- अमायुगमनुक्कान्तिधृतिपातमहालयाः। अन्वष्टक्यं च पूर्वेयुः पण्णवत्यः(तिः) प्रकीर्तिताः (ता) । चकारादृष्टकाग्रहणम् । अमा द्वादश १२ युगादयश्चतस्रः ४ मन्वा- दयश्चतुर्दश १४ संक्रान्तयो द्वादश १२ वैधृतयस्त्रयोदश १३ व्यती- पातास्त्रयोदश १३ महालयाः घोडश १६ पूर्वेद्युः श्राद्धानि चत्वारि ४ अष्टकाश्राद्धानि ४ अन्वष्टकाश्राद्धानि ४ एवं संवत्सरेण षण्णवतिः ९६ श्राद्धानि भवन्ति नित्यानीति कमलाकरः । एषु श्राद्धेषु सर्वत्रानुक्ता- श्राद्धमञ्जरी। १२५ अपराह्नः कालः । पुरूरवावसंज्ञका विश्वे देवाः । देवतास्तु पित्राद- यस्त्रयः सपत्नीका मातामहादयस्त्रायः सपत्नीकाः । एवं षट् । श्राद्धा- पूर्व दर्शवत्तर्पणम् । प्रयोगस्तु पिण्डसहितः पार्वणवत् । विशेषस्तु तत्त- प्रकरणे वक्ष्यते । एतेषु दर्शश्राद्धं तूक्तमेव । विवाहाद्यनन्तरं दर्शश्राद्धं पिण्डरहितमेव । अथ युगादिश्राद्धम् । युगादयश्चोक्ता रत्नमालायाम्- माघे पञ्चदशी कृष्णा नमस्ये च त्रयोदशी। तृतीया माधवे शुक्ला नवम्यूर्जे युगादयः ॥ माघमास्यमावास्या । भाद्रकृष्णत्रयोदशी । वैशाखशुक्लतृतीया । कार्तिक शुक्लनवमी । एताश्चतस्रस्तिथयो युगादय इत्यर्थः । नारदः- शुक्ले पौर्वाह्निकी ग्राह्ये(ह्या) कृष्णे चैवाऽऽपराह्निकी । अत्र शुक्लपक्षयुगा- दिश्राद्धं पूर्वाह्ने कार्यमिति शूलपाणिः। निर्णयामृतादयस्तु श्राद्ध आपरा- हिक्येव ग्राह्येत्याहुः । वचनात्पूर्वाह्नव्यापिन्यामेवापराले श्राद्धं कार्य- मिति कमलाकरसिद्धान्तः । अत्र पिण्डनिषेधात्सांकल्पिकविधिः । इति युगादिश्राद्धम् । अथ मन्वादिश्राद्धम् । मन्वादय उक्ता दीपिकायाम्- तिथ्यमी न तिथिस्तिथ्याशे कृष्णेभोऽनलो ग्रहः । तिथ्यौ न शिवोऽश्वोऽमातिथी मन्वादयो मधोः ॥ अस्यार्थः । तिथिः पूर्णिमा । अग्निस्तृतीया । चैत्रे मास एते तृतीया पौर्णमासी(च) शुक्लपंक्षस्थे मन्वादी ज्ञेये । वैशाखे मन्वादिर्नास्ति । ज्येष्ठे पौ(पू)णिमा । आशा दश, आषाढे शुक्लदशमी पौर्णमासी चेति द्वे । कृष्णेमः श्रावणे कृष्णाष्टमी । भाद्र शुक्लतृतीया । आश्विने शुक्लन- वमी । कार्तिके शुक्लद्वादशी पौर्णमासी चेति द्वे । मार्गशीर्षे नास्ति । पौषे शुक्कैकादशी। माघे शुक्लसप्तमी । फाल्गुने पोर्णमास्यमावास्या चेति है। एवमेताश्चतुर्दश मन्वादयः । एताः शुक्लपक्षस्थाः पौलिक्यः कृष्णपक्षस्था आपरालिक्य इत्यादिकालनिर्णयस्तु युगादिवत् । सांक- ल्पिकविधिश्च । इति मन्वादिश्राद्धम् ॥ अथ संक्रान्तिश्राद्धम् । अत्र तत्तत्संक्रान्तिपर्वकाले श्राद्धम् । सामा- न्यतः सर्वेषां संक्रमणानां संक्रमात्पूर्व षोडश संक्रमोत्तरं षोडशेत्येवं --- . १ क, ख. एषु । २ क्र. ख. पक्षे म°।

१२६ केळकरोपाहबापूमट्टविरचिता- द्वात्रिंशद्घटिकाः पुण्यकालः सर्वग्रन्थकारैरुक्तः । विशेषस्त्वाह कम- लाकरः- प्रागूर्वा दश पूर्वतः पडवनिस्तद्वत्पराः पूर्वत- विंशत्योडश पूर्वतोऽप्यपरतः पूर्वाः पराः स्युर्दश । पूर्वाः षोडश चोत्तरा ऋतुभुवः पश्चात्खवेदाः पुनः पूर्वाः षोडश चोत्तराः पुनरथो पुण्यास्तु मेषादितः ॥ अस्यार्थः । मेषे प्रागूध्वं च दश घटिकाः पुण्यकालः । वृषे पूर्वाः षोडश । मिथुने पराः षोडश । कर्के पूर्वास्त्रिंशत् । सिंहे पूर्वाः षोडश । कन्यायां पराः षोडश । तुलायां प्रागू; दश । वृश्चिके पूर्वाः षोडश। धनुषि पराः षोडश । मकरे चत्वारिंशत्पराः । इदं च हेमाद्रिमतेनो- तम् । माधवमते त्वत्र परा विंशतिः । कुम्भे पूर्वाः षोडश । मीने पराः षोडशेति । याप्युत्तरा पुण्यतमा मयोक्ता सायं भवेत्सा यदि साऽपि पूर्वा । पूर्वा तु योक्ता यदि सा विभाते साऽप्युत्तरा रात्रिनिषेधतः स्यात् ॥ अर्वाड निशीथाद्यदि संक्रमः स्या- त्पूर्वेऽह्नि पुण्यं परतः परेऽह्नि। आसन्नयामद्वयमेव पुण्यं निशीथमध्ये तु दिनद्वयं स्यात् ।। कर्के झषेऽप्येवमिति युवाच हेमाद्रिसूरिश्च तथाऽपरार्कः। झप: प्रदोषे यदि वाऽर्धरात्रे परेऽह्नि पुण्यं त्वथ कर्कटश्चेत् ॥ प्रभातकाले यदि वा निशीथे पूर्वेऽह्नि पुण्यं त्विति माधवार्यः । इति। एवमुक्ते पुण्यकालेऽपराह्नयोगे श्राद्धं कार्यम् । अपराह्नयोगाभावे तत्तत्पर्वकालानुरोधेन दिवैव कार्यम् । गौणकालोऽप्यपराह्ने चेत्स एव ग्राह्यः। अत्र कन्यासंक्रान्तिश्राद्धे धूरिलोचनसंज्ञका विश्वे देवाः । अन्येषु पुरुरवावाः । सांकल्पिकविधिरिति विशेषः । इति संक्राति- श्राद्धम्। १ ग. के समध्येय । २ ग. ईषः ।

। - श्राद्धमञ्जरी। १२७ अथ वैधृतिव्यतीपातश्राद्धम् । वैधृतिव्यतीपातौ कुतपव्यापिनौ दिन- ये सत्त्वेऽसत्त्वे च परदिनव्यापिनौ ग्राह्यौ । अत्र पिण्डा न सन्ति । विधिस्तु सांकल्पिकः । अत्र ब्रह्मचर्यादिनियमा न सन्तीत्युक्तं प्राक् । इति वैधृतिव्यतीपातश्राद्धम् । अथ महालयश्राद्धानि । तानि च भाद्रपदकृष्णप्रतिपदमारभ्याऽऽश्वि. नशुक्प्रतिपत्पर्यन्तं प्रत्यहमेकैकमेवं षोडश भवन्ति । तिथिवृद्ध्या पक्षस्य षोडशदिनत्वेऽमावास्यापर्यन्तमेव । भाद्रपदपौर्णमासीमारभ्यामा. वास्यापर्यन्तं वा पोडशेति हेमाद्रिमतं तत्सर्वग्रन्थकारासंमतत्वादुपेक्ष्यम् । अत्र पितृपार्वणं मातृपार्वणं सपत्नीकमातामहपार्वणमिति नवदेवत्यम् । अथ वा मातामह्यादीनां पृथक्पार्वणमेवं द्वादशदेवत्यम् । अपि वा सकृन्महालयवत्पार्वणैकोद्दिष्टदेवतासमुच्चयात्मकम् । अत्राऽऽचाराच्छ- क्त्या वा व्यवस्था बोध्या । इमानि श्राद्धानि अन्नेनैव कर्तव्यानि नाऽऽमान्नादिना । नात्र नन्दादिदिने पिण्डनिषेधः । तदुक्तं पराश- रमाधवीये काष्णाजिनिना- नभस्यस्यापरे पक्षे श्राद्धं कार्य दिने दिने। नैव नन्दादि वयं स्यान्नैव निन्द्या चतुर्दशी ॥ इति । गुर्विणीपतिना तु सांकल्पिकं कार्यम् । मुण्डनं पिण्डदानं चेति दक्षोक्तेः । केचिद्गभिणीपतिनाऽपि सपिण्डकमेव कार्यमित्याहुः । गर्भि- णीपतेः पिण्डनिषेधस्तु सप्तममासादूचं भवति । तदुक्तं कौस्तुभे- वपनं मैथुनं तीर्थं वर्जयेद्दर्भिणीपतिः। श्राद्धं च सप्तमान्मासादूर्ध्वमित्याश्वलायनः॥ श्राद्धं सपिण्डम् । आब्दिकाद्यावश्यकं तु कर्तव्यमेव । विवाहाधन- न्तरमपि महालयश्राद्धानि सपिण्डानि । देवास्त्वत्र पुरूरवावसंज्ञका इति बहवः । धूरिलोचनाविति केचित् । तर्पणं तु प्रतिदिनं प्रयोगान्ते । पक्षश्राद्धे हिरण्ये च अनुबज्य तिलोदकमिति वचनात् । इति महा- लयश्राद्धानि । अष्टकाश्राद्धानां पक्षान्तरसत्त्वेऽपि आश्वलायनैर्मार्गशीर्षादिचतुर्षु मासेषु कृष्णपक्षे सप्तम्यां पूर्वेयुः श्राद्धमष्टम्यामष्टमीश्राद्धं नवम्यामन्व- टक्यश्राद्धमेवं द्वादश श्राद्धानि कार्याणि । हेमन्तशिशिरयोश्चतुर्णा- मपरपक्षाणामष्टमीष्वष्टका इत्याद्याश्वलायनोक्तेः। एतत्प्रयोगविषये श्रीम- १२८ केळकरोपाहबापूभट्टविरचिता- नारायणभट्टकृतं प्रयोगरत्नमेव जागति । विवाहाद्यनन्तरमष्टमीश्राद्धं पिण्डरहितमेव । पूर्वेयुः श्राद्धमन्वष्टकाश्राद्धं च सपिण्डमेवेति चातुर्ध- रीयषण्णवतिश्राद्धनिर्णये। तन्त्राष्टमीथाद्धे व्यतिघडामावात्पिण्डनिर्वपर्ण केचिन्नेच्छन्त्यस्मिश्चतुष्टय इति कारिकोक्तेश्च पिण्डरहितं कर्तुं शक्यते। पूर्वेधुरन्वष्टक्ययोwतिषङ्गात्सपिण्डत्वमिति तदाशयः । मलमासेऽप्यमा- युगमनुवैधृतिव्यतीपातश्राद्धानि कार्याणि। महालयाष्टकादीनि न कार्या- णीत्यन्यत्र विस्तर इति दिक। इति श्रीमचित्तपावनके० श्राद्धमञ्जयाँ षण्णवतिश्राद्धानि । अथ विविधानि विकृतिश्राद्धानि। तत्र माद्रपदपौर्णमास्यां प्रोष्ठपदी. श्राद्धमुक्तं हेमाद्री ब्रह्माण्डपुराणे- नान्दीमुखानां प्रत्यब्दं कन्याराशिगते रवौ । पौर्णमास्यां तु कर्तव्यं वराहवचनं यथा ॥ पिता पितामहश्चैव तथैव प्रपितामहः । यो ह्यश्रुमुखा ह्येते पितरः संप्रकीर्तिताः॥ तेभ्यः पूर्वे त्रयो ये तु ते तु नान्दीमुखाः स्मृताः ॥ इति । अत्रापि कन्यागत इत्युपलक्षणम् । अतो धूरिलोचनौ देवो । पित- रस्तु प्रपितामहस्य पितृपितामहप्रपितामहाः । अत्र मातामहा अपि कार्या इति कमलाकरः । वृद्धप्रपितामहादित्रय एव नात्र मातामहा इति चन्द्रिकाकारेण सिद्धान्तितम् । तत्रत्यवचनम्-तस्मात्प्रोष्ठपदी- श्राद्धे नेज्या मातामहादय इति । मयूखकारस्याप्येवमेव सिद्धान्तः । एतच्छ्राद्धं प्रतिसंवत्सरमावश्यकतया कार्यमिति सिन्धौ । पौर्णमास्यां पिण्डनिषेधेऽप्यस्मिश्राद्धे पिण्डदानं भवत्येवेति तत्रैव । एतच्चापुत्र- विधवयाऽपि कार्यमिति चन्द्रिकाकारः। श्राद्धाङ्गतर्पणं तु परेयुः कार्य: मिति स एव । गोपीनाथदीक्षितप्रयोगे तु दर्शवदादावेवोक्तम् । अत्रा- स्मन्नान्दीमुखानाममुकशर्मणामित्यादिप्रयोगक्रमो ज्ञेय इति चन्द्रिका- कारः । नात्र नान्दीमुखत्वं पितृविशेषणमिति कमलाकरसिद्धान्तः । कौस्तुभकारस्याप्येवमेव । अथ प्रयोगः । माद्रपदपौर्णमास्यामपराह्ने देशकालौ संकीर्त्यास्मत्प्र- पितामहपितृपितामहप्रपितामहानाममुकशर्मणाममुकगोत्राणां वसुरुद्रा- १ग, कृतम। २ ग, तत्र ।

श्राद्धमञ्जरी। १२९ दित्यस्वरूपाणामेतेषां तृप्त्यर्थं प्रोष्ठपदीश्राद्धं सदैवं सपिण्डं पार्वणेन विधिनाऽनेन हविषा सद्यः करिष्य इति संकल्प्य तत्तद्विभक्त्युल्लेखपूर्वकं प्रयोगः। अस्मत्प्रपितामहस्य पितरं शर्माणं गोत्रं वसुरूपमावाहयामि । अस्मत्प्रपितामहस्य पितामहं० । अस्मत्प्रपितामहस्य प्रपितामहं० इत्यादि । शुन्धन्तां प्रपितामहपितरः । शुन्धन्तां प्रपिताहपितामहाः । शुन्धन्तां प्रपितमहप्रपितामहाः । एतत्तेऽस्मत्प्रपितामहपितरमुकशर्मन्न- मुकगोत्र वसुरूप ये च त्वामत्रानु तेभ्यश्च । एतत्तेऽस्मत्प्रपितामहपि- तामह० भ्यश्च । एतत्तेऽस्मत्प्रपितामहप्रपितामह० भ्यश्चेत्यादि यथायथ- मूहः । शेषं दर्शश्राद्धवत् । इति प्रोष्ठपदीश्राद्धप्रयोगः । अथ भरणीश्राद्धम् । भाद्रपदकृष्णपक्षे यस्मिन्दिने भरणीनक्षत्रं भवति तस्मिन्दिने प्रतिसंवत्सरं दर्शवषड्दैवत्यं पिण्डरहितं सांकल्प- विधिना श्राद्धं कुर्यात् । देवी पुरूरवावी । काम्यत्वे धूरिलोचनौ । इति भरणीश्राद्धम् । । तृतीयायां कृत्तिकानक्षत्रं चेत्तत्रापि श्राद्धमेव कार्यम् । तदुक्तं पृथ्वी चन्द्रोड्ये- नभस्यापरपक्षस्य द्वितीया यदि याम्यभे। तृतीया चाग्निताराभिः सहिता प्रीतिदा पितुः ॥ इति । एतत्पक्षे पष्ठी योगविशेषेण कपिलासंज्ञा । तदुक्तं वाराहे- नभस्य कृष्णपक्षे तु रोहिणीपातभूसुतैः । युक्ता पठी पुराणज्ञैः कपिला परिकीर्तिता ॥ हस्तगतेऽर्के सति फलातिशयः । तदुक्तं पुराणसमुच्चये- भाद्रे मास्यसिते पक्षे भानौ चैव करे स्थिते । पाते कुजे च रोहिण्यां सा पष्ठी कपिला स्मृता ॥ इति । अवापि ग्रहणादिवत्पर्वनिमित्तं श्राद्धं कार्यम् । अष्टम्यांमाध्यावर्ष(?)- संज्ञकं श्राद्धमुक्तमाश्वलायनेन-एतेन माध्यावधं() प्रोष्ठपद्या अपरपक्ष इति । इदं सप्तम्यादित्रिष्वहःसु कार्यमिति वृत्तिकृत् । प्रयोगस्त्वष्टका- श्राद्धवत् । अशक्तावेकस्यां वाऽष्टम्यामेव । आषाढ्याः पञ्चमे पक्षे गया मध्याष्टमी स्मृता । त्रयोदशी गजच्छाया गयातुल्या तु पैतृक ॥ १ ग. काम्ये। १७ १३० केळकरोपाहबापूभट्टविरचिता- इति ब्राह्मात् । अत्र कामकालौ देवी । अष्टम्यां कामकालाविति वचनात् । भाद्रपदकृष्णनवम्यामन्वष्टकाश्राद्धं नवदैवत्यात्मकं कात्याय- नादिभिरुक्तम् । तच्चाऽऽश्वलायनानां माध्यावर्ष(?)श्राद्धत्रयकरणपक्षे नवम्यामन्वष्टक्यं भवत्येव । एकस्यामेवाष्टम्यां करणपक्ष इदमपि पृथ- क्वेन कार्यम् । अस्यां मातृश्राद्धमत्यावश्यकम् । तदुक्तं चन्द्रिकायां स्मृती- सर्वासामेव मातृणां श्राद्धं कन्यागते रवी। नवम्यां हि प्रदातव्यं ब्रह्मलब्धवरा यतः ॥ इति । अत्र सर्वासामित्युक्तत्वात्सापत्नमातूणामपि कार्यम् । स्वमातरि जीवन्त्यामपि सापत्नमातृभ्यो दद्यादिति कमलाकरः । इदमनुपनीतेन गर्भिणीपतिनाऽपि सपिण्डकं कार्यमिति स एव । तथा जीवत्पितृके. जाषि कार्यम् । अन्वष्टक्यां गयाप्राप्तौ सत्यां यच्च मृतेऽहनि । मातुः श्राद्धं सुतः कुर्यात्पितर्यपि च जीवति ।। इति मैत्रायणीयपरिशिष्टात् । इदं श्राद्धं भर्तृमरणोत्तर पूर्वमृतमातुन कार्यमिति केचिदाहुस्तन्निर्मूलमिति कमलाकरः । विधवाया अपीति चन्द्रिकाकारः । सिन्धौ ब्राह्मे- पितृमातृकुलोत्पन्ना याः काश्चित्तु मृताः स्त्रियः। श्राद्धार्हास्तास्तु विज्ञेयाः श्राद्धं तासां प्रदीयते ॥ इति । अत्राऽऽचाराद्यवस्था । अत्र सुवासिनीभोजनमावश्यकम् । मातुः श्राद्धे तु संप्राप्ते ब्राह्मणैः सह भोजनम् ॥ सुवासिन्यै प्रदातव्यमिति शातातपोऽबवीत् । इति मार्कण्डेयपुराणात् । विप्रालाभे सुवासिनीमपि भोजयेदिति प्रागेवोक्तम् । अत्र मातृबहुत्वेऽप्येको ब्राह्मणः पिण्डश्च । तद्विधिस्तु वृत्त्यनुसारेण प्रयोगे वक्ष्यते । अस्य श्राद्धस्यातितरावमाश्यकत्वात्संकटे पूर्वोक्तानुकल्पानामन्यतमेन कार्यम् । अथ प्रयोगः । उक्तापराह्ने जीवत्पिताऽऽप्रकोष्ठात्प्राचीनावीतं कृत्वा, अस्मन्मातृपितामहीप्रपितामहीनाममुकदानाममुकगोत्राणां वसु०पाणा- मेतासां तृप्त्यर्थं कन्यागते सवितरि भाद्रपदापरपक्षनवम्यन्वष्टक्य- १ क. ख.कालकावि । २ ग. वत्यं का ।

श्राद्धमञ्जरी। १३१ श्राद्धं सदैवं सपिण्डं पार्वणेन विधिनाऽनेन हविषा सद्यः करिष्य इति संकल्प्य पूर्वोक्तमातृश्राद्धप्रयोगवत्सर्वं कुर्यात् । नित्यत्वात्पुरूरवावावे. वात्र देवौ श्राद्धोत्तरं तदहरेव शुक्लतिलैस्तर्पणं विधाय बन्धुभिः सह भुञ्जीतेति । सापत्नमात्रेकरवे द्वित्वे बहुत्वे वा संकल्पे मातृपार्वणोत्की- तनानन्तरं सर्वासां क्रमेण षष्ठ्यन्तमुत्कीर्तनं कृत्वा पार्वणैकोद्दिष्टविधिना श्राद्धं करिष्य इति संकल्प्य विप्रनिमन्त्रणकाले वैश्वदेवार्थ द्वावेकं वा वित्रं निमलय मातृवर्गाथं त्रीनेकं वा निमन्त्र्य सापत्नमात्र) प्रत्येकमेकैकमेकं वा मात्रादिसर्वार्थमेकं वा निमन्त्र्य सकृन्महालयोक्त- प्रकारेण प्रयोगं कुर्यात् । प्रत्येकमेकैकां सर्वार्थमेकां वा सुवासिनी भोजयेदित्येकः पक्षः । अपरस्तु मात्रा सहैव सापनमातॄणामुत्कीर्तनेन पार्वणे संनिवेशः । विधिस्तु पार्वणवत् । विप्रनिमन्त्रणकाले सर्वासां मातॄणां स्थान एक पितामह्यादीनामेकैकं निमन्त्रयेत् । तत्रैवं विशेषः- सापत्नमानेकत्वेऽस्मन्मानोर्गङ्गायमुनादयोः काश्यपगोत्रयोर्वसुरूपयोः । पितामहाः०दायाः०गोत्राया रुद्ररूपायाः प्रपितामहाः दाया गोत्राया आदित्यरूपाया एवमुल्लेखः । अपि वाऽस्मन्मातृतत्सपत्नीपितामहीप्रपि- तामहीनां गङ्गायमुनासरस्वतीकृष्णादानामिति सापलमातृद्वित्वे बहुत्वे वाऽस्मन्मातॄणां गङ्गायमुनासरस्वतीदानां० गोत्राणां वमुरूपाणाम् । अस्मपितामह्या अदाया इत्यादि । एवं निमन्त्रणादिष्वप्यूहः । अस्म- न्मातरौ गङ्गायमुनादे काश्यपगोत्रे वसुरूपे। अस्मत्पितामही(हि)अमुकदे अ० गोत्रे रुद्ररूपे । अस्मत्प्रपितामही(हि) अमुक दे० इति पाद्यादिषूहः । बहुत्वे तु अस्मन्मातरः० दाः० गोत्राः वसुरूपा इत्यादि । अर्घ्यदाने मात्रर्थमेकं पात्रं सापत्नमात्रर्थं प्रत्येकमेकैकं पितामह्यर्थमेकं प्रपिताम- ह्यर्थमेकमित्यासाय मातृपात्रे संपन्ने मातृपात्राणि संपन्नानीति वोक्त्वा पितामहीपात्रं संपन्नं प्रपितामहीपात्रं संपन्नमित्यभिमृशेत् । आवा- हनेऽस्मन्मातरौ० दे गोत्रे० रूपे भवत्स्वावाहयिष्यामि द्वित्वे बहुत्वे वाऽस्मन्मातः० दाः० गोत्रा:० रूपाः । अस्मत्पितामहीं० दा० अस्म- मपितामहीं० दां० गो० अस्मन्मातरिदं तेऽर्यम् । अस्मत्सापलमा- तरिदं तेऽयमित्यादि पृथक्पृथगर्घ्यदानम् । अर्घ्यदानं पृथक्कुर्यात्पि. ण्डमेकं तु निर्वपेदिति वचनात् । प्रतिविप्रं पाणिहोमः । अन्न निवेदने पृथिवी ते पात्रमित्यादि मातरौ गङ्गायमुनादे अमुकगोत्रे वसुरूपे देवते इदमन्नं० । अस्मन्मातृभ्यां गङ्गायमुनादाभ्यां गोत्राभ्यां १ क. ख. हयामि ।

१३२ केळकरोपावबापूभट्टविरचिता- वसुरूपाभ्यामिदमन्नममृतरूपं० । द्वित्वे बहुत्वे तु मातरः० दाः० गोत्रा वसुरूपा देवता इदमन्नं हवि० । अस्मन्मातृभ्यो० दाभ्यो गोत्राभ्यो वसुरूपाभ्य इदमन्नममृतरूपं० । एवं सुवासिन्या अन्न- निवेदने च । उदकनिनयने शुन्धन्तां मातरः । शुन्धन्तां पिता- मयः । शुन्धन्तां प्रपितामह्य इत्येवं, पिण्ड प्रदान एतद्वामस्मन्मातरौ गङ्गायमुनादे गोत्रे वसुरूपे ये च युवामत्रानु तेभ्यश्चेत्यूहः । सापत्नमा- नृद्वित्वे बहुत्वे वा-एतद्वोऽस्मन्मातरः० दाः० गोत्रा० वसुरूपा ये च युष्मानत्रानु इत्यूहः । अत्र पितर इत्यत्र नोहः । अमीमदन्तेत्यत्र च नाहः । अभ्यञ्जनदाने-अस्मन्मातरौ० दे०गोत्रे वसुरूपे अभ्यञ्जाथाम् । अञ्जनदाने-अस्मन्मातरौ० वसुरूपे अञ्जाथामित्यूहो द्वित्वे बहुत्वे तु अस्मन्मातरः० दाः० गोत्रा वसुरूपा अभ्यङ्ध्वम् । इत्यभ्यञ्जने । अङ्ग- ध्वमित्यञ्जने। एतद्वः पितरो वास इत्यादिषु नोह इति विशेषः । अन्य- त्सर्वं पूर्ववत् । मृतपितृकर्तृकेऽप्येवमेव प्रयोगः। कौस्तुभे तु मृतपि- तृकेण पितुर्महालय एव मातृतृप्तेः संपादितत्वान्नैतत्कार्यमित्युक्तम् । इति नवमीश्राद्धप्रयोगः। अथ भाद्रकृष्णद्वादश्यां सन्यस्तपितुः श्राद्धप्रयोगः । उक्तापराह्ने देशकालौ संकीर्यास्मीभूतपितृपितामहप्रपितामहानाममुकशर्मणां. गोत्राणां वसु० पाणामित्यादिपार्वणैकोद्दिष्टोत्कीर्तनेन संकल्पप्रभृति सकृन्महालयवत्सर्वं कुर्यात् । मन्त्रव्यतिरिक्तस्थले सर्वत्र ब्रह्मीभूतपदो- बारणमधिकम् । मन्त्रेषु त्वभिध्यानमात्रम् । तिथ्यन्तरे मृतस्यापि संन्यासिनो द्वादश्यामेव सकृन्महालयश्राद्धं कार्यम् । पक्षश्राद्धादि- करणे तु सर्वास्वपि तिथिषु श्राद्धानि भवन्ति । इति संन्यस्तपितुः श्राद्धप्रयोगः । अथ भाद्रकृष्णपक्षे मघात्रयोदशीश्राद्धम् । तच्च केवलत्रयोदश्यां केवलमघानक्षत्रे वा कार्यम् । योोगे फलाधिक्यम् । त्रयोदशीश्राद्धं नित्यम् । मघाश्राद्धं तु काम्यम् । नित्यत्वात्रयोदश्यां पुरूरवावी देवौ । मघासु काम्यत्वाद्धरिलोचनौ । उभयोर्योगे धूरिलोचनौ । उभ- यत्रापि पिण्डदाननिषेधात्सांकल्पिकविधिः । मघाश्राद्धमविभक्तैरपि पृथक्पृथक्कार्यम् । तदुक्तं हेमाद्रौ- १ ग. पढदा । २ क. ख. त्रेऽपि का। ३ ग. 'कल्पवि ।

श्राद्धमञ्जरी। १३३ विभक्ता वाऽविभक्ता वा कुर्युः श्राद्धं पृथक्सुताः । मघासु तु ततोऽन्यत्र नाधिकारः पृथक्पृथक् ॥ इति । अत्र तुशब्दस्य ततोऽन्यत्रेत्यनन्तरमन्वयः । अविभक्तानां मघा- श्राद्धव्यतिरिक्तश्राद्धेषु पृथगधिकारो नास्तीत्यर्थः । त्रयोदशीश्राद्धं पुत्रवता नैव कार्यम् । अपुत्रवताऽपि पिण्डरहितं कार्यमिति कौस्तुभे । मघात्रयोदशीश्राद्धे मधुपायसमतिप्रशस्तम् । कलौ मधुनिषेधात्तत्स्थाने गुडो घृतं वा देयम् । एतन्मूलवाक्यानि निर्णयसिन्धौ द्रष्टव्यानि । मघात्रयोदशीयोगे श्राद्धमधिमासेऽपि कर्तव्यमिति चन्द्रिकायाम् । अत्र मघात्रयोदशीयुगादिश्राद्धानां तन्त्रता । महालयश्राद्धकरणपक्षे तु तेनैवैषां प्रसङ्गसिद्धिः । महालयश्राद्धस्यापि तन्त्रत्वोक्तिस्तु कस्यचि- न्मूर्खप्रलापत्वादुपेक्ष्यति मयूखकारः। अथ प्रयोगः । पितृवर्गस्य सपत्नीकस्य मातामहवर्गस्य सपत्नीक स्योत्कीर्तनं कृत्वैतेषां तृप्त्यर्थं त्रयोदशीश्राद्धं सदैवं सांकल्पविधिनाs- न्नेन हविषा सद्यः करिष्ये मघाश्राद्धमिति मघाश्राद्धे मघात्रयोदशी- श्राद्धमिति योगे संकल्पं कृत्वा पूर्वोक्तसांकल्पविधानेन सर्व कुर्यात् । ततः श्राद्धान्ते वर्गद्वयस्य तर्पणम् । इति मघात्रयोदशी- श्राद्धप्रयोगः। अथ गजच्छाया। सा चोक्का ग्रन्थान्तरे- प्रेतपक्षे त्रयोदश्यां मघास्विन्दुः करे रवौ । यदा तदा गजच्छाया सूर्यपर्वशताधिका ॥ इति । यदा भाद्रपदकृष्णत्रयोदश्यां हस्तनक्षत्रे सूर्यो मघानक्षत्रे चन्द्रो मवति तदा गजच्छायासंज्ञको योगविशेष इत्यर्थः । अत्रापि पूर्ववत्पि- ण्डरहितं पदेवत्यं श्राद्धं कुर्यात् । नैमित्तिकत्वात्कामकालौ देवाविति विशेषः । भाद्रकृष्णामायामपि हस्तनक्षत्रे चन्द्रसूर्यो स्यातां तदाऽपि गजच्छाया । तदुक्तं सिन्धौ यमेन- हंसे करे स्थिते या तु अमावास्या करान्विता । सा ज्ञेया कुञ्जरच्छाया इति बौधायनोऽब्रवीत् ॥ अस्यामपि पिण्डरहितं षड्देवत्यं श्राद्धं कुर्यात् । इदं च श्राद्धं गज- च्छायायां कर्तव्यम् । गजच्छायासु कुर्वीत कर्णव्यजनवीजिते, इति भारतोक्तेः । सिन्धौ च- - , १ ग. वैतेषां।

१३४ केळकरोपाहबापूभट्टविरचिता- पायसं मधुसर्पिभ्यां प्राक्छाये कुञ्जरस्य च । श्राद्धं दद्यादिति शेषः । इति गजच्छायाश्राद्धम् ॥ अथ भाद्रकृष्णचतुर्दश्यां शस्त्रहतश्राद्धम् । तच्च पित्रादेःशस्त्रहतस्यैको- द्दिष्टविधिना कार्यम् । एकोद्दिष्टे दैवनिषेधेऽपि वचनादेतच्छ्राद्धं सदैवं कार्यम् । पित्रादिद्वयोः शस्त्रमृतावेकोद्दिष्टद्वयं कार्यम् । त्रयाणामपि तथात्व एकोदिष्टवयं कार्यम् । पित्रादित्रयाणांशस्त्रमृतौ पार्वणमेव कार्यमित्यन्ये। एतच्छ्राद्धमन्यैरपि विषजलाग्निशृङ्गदष्ट्रिसर्पश्वापदपशुव्याघ्रादिदुर्मरणै - तानामात्मत्यागिनामुपसर्गमृतानामुन्धनादिमृतानां चैकोद्दिष्टं कार्यम् । यूपमृतानामपि कार्यम् । असाध्यव्याध्यभिभूतानां विधिपूर्वक भृग्वग्न्य- म्बुमृतानां नैवात्र श्राद्धम् । एतत्स्त्रीणामपि शस्त्रादिहतानां दुर्मरणमृ- तानां चैकोद्दिष्टं कार्यम् । सहगमने तु वैधत्वान्न भवति । अत्र पुरूरवा- द्रवौ देवी । कामकालाविति मयूखे । एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमि- त्तिकमुच्यत इति वचनात् । अथ प्रयोगः । मध्याह्न देशकालौ स्मृत्वाऽस्मत्पितुः० शर्मणो गोत्रस्य वसुरूपस्य शस्त्रहतस्य तृप्त्यर्थं भाद्रपदापरपक्षचतुर्दशीश्राद्धं सदैवं सपिण्डमेकोद्दिष्टविधिनाऽन्नेन हविषा सद्यः करिष्य इति संकल्प्य पुरू- रवाईवसंज्ञकवैश्वदेवार्थमेकं विषं निमन्त्र्य पिबर्थमेकं निमन्त्र्य पूर्वोक्त- कोद्दिष्टप्रयोगवत्सर्व कृत्वा तदहरेव तर्पणं कुर्यात् । पित्रादित्रयाणां शस्त्रहतानां पार्वणपक्षे पार्वणविधिनाऽपराह्ने कार्यम् । सकृन्महालयस्तु सर्वपितृतृप्त्यर्थममावास्यायामन्यस्मिन्वा दिने कर्तव्य एव । इति चतु- दशीश्राद्धप्रयोगः। आश्विन शुक्लप्रतिपदि मातामहश्राद्धम् । तदुक्तं सिन्धौ- जातमात्रोऽपि दौहित्रो विद्यमानेऽपि मातुले । कुर्यान्मातामहश्राद्ध प्रतिपद्याश्विने सिते ॥ इदं श्राद्धमनुपनीतोऽपि कुर्यादिति बहवः । इदं सपिण्डकमेव कार्य- मिति चन्द्रिकायाम् । पिण्डरहितमिति कमलाकरः । इदमेव युक्तमिति प्रतिभाति । प्रतिपत्नयुक्तश्राद्धे पिण्डदाननिषेधात् । जीवपितृकस्यापि पिण्डदाननिषेधाच । इदं च जीवरिपतृकेणैव कार्यमिति शिष्टाः । उक्तं च ग्रन्थान्तरे- १ क. ख. यूनां मृ। २ क. ख. °ति प्रतिपदि प्र ।

श्राद्धमञ्जरी। गर्भाच्च्युतो हि दौहित्रः कुर्यात्पितरि जीवति । श्राद्धं मातामहानां च पक्षान्तादपरेऽहनि ॥ इति । अत्र मातामह्यादीनां नोल्लेखः । प्रतिपद्याश्विने शुक्ले दौहित्रस्त्वेकपार्वणम् । श्राद्धं मातामहं कुर्यात्सपिता संगवे सदा ॥ इति वचनात् । केचित्सपत्नीकोल्लेखस्त्वेकपार्वणभङ्गाभावात्कर्तव्य एवेत्याहुः । इदं जीवपितृकेण पञ्चधा विभक्तस्य दिनस्य द्वितीयभागे संगवकाले कार्यम् । सपिता संगव इत्युक्तत्वात् । मृतपितृकेण त्वपराहे कार्यमिति केचित् । पार्वणविधानाजीवत्यितृकेणाच्यपराह्ने कार्यमिति कौस्तुभे। अथ प्रयोगः । देशकालौ स्वृत्वाऽस्मन्मातामहमातुःपितामहमातुःम- पितामहानां शर्मणां गोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकाना- मेतेषां तृप्त्यर्थमाश्विन शुक्लप्रतिपच्छ्राद्धं सदैवं सांकल्पविधिनाऽन्नेन हविषा सद्यः करिष्य इति संकल्प्य पुरुरवाईववैश्वदेवसहितं पूर्वोक्तसां- कल्पविधानेन सर्व कृत्वा तद्वर्गमात्रस्य सपत्नीकस्य तदहरेव श्राद्धान्ते शुक्लतिलैस्तर्पणं कृत्वा शेपमिष्टेः सह भुञ्जीतेति । इति दौहित्रप्रतिप- च्छ्राद्धप्रयोगः । अथ ग्रहणश्राद्धम् । तच्च चन्द्रसूर्ययोग्रहणे स्पर्शकाले राबाबप्याशौच- मध्येऽपि पड़देवत्यमामानेन हिरण्येन वा सांकल्पविधिना कार्यम् । नैमित्तिकत्वात्कामकालो देवो । अकरणे प्रत्यवायश्रवणान्नित्यत्वम् । अतः पुरूरवावावित्यन्थे । ग्रहणनिमित्तं श्राद्धं करिष्य इति संकल्पः । अन भोक्तसंभवे त्वन्नेनापि कार्यमित्यपरार्कः। घृतेन भोजयेद्विप्रान्घृतं भूमों समुत्सृजेदिति वायवीयोक्तेः । विज्ञानेश्वरस्तु ग्रहणश्राद्धे भोक्तु- दोषो दातुस्त्वभ्युदय इत्याह । इति ग्रहणश्राद्धम् । अथार्धोदयः । सिन्धौ महाभारते- अमापातश्रवणैर्युक्ता चेत्यौपमाघयोः। अर्धोदयः स विज्ञेयः कोटिसूर्यग्रहः समः ॥ पौषकृष्णामावास्या सूर्यवासरश्रवणनक्षत्रव्यतीपातयोगैर्युक्ता चेद?- दयसंज्ञको योगविशेषो ज्ञेय इत्यर्थः । माघामायां व्यतीपात इत्यादि- वाक्यानि तानि पौर्णमास्यन्तमासपराणि । दिवैव योगः शस्तोऽयं न तु रात्रौ कदाचनेति तत्रैव । इत्योदयः ।

१३६ केळकरोपाहबापूमट्टविरचिता- अथ पद्मकयोगः । तदाह शङ्ख:- यदा विष्टियतीपातो भानुवारस्तथैव च । पद्मकं नाम तत्मोक्तमयनाञ्च चतुर्गुणम् ॥ इति । सिन्धौ व्यास:-सिनीवाली कुहूर्वाऽपि यदि सोमदिने मवेत् । गोसहस्रफलं दद्यात्स्नानं वै मौनिना कृतम् ॥ इति । निर्णयामृते विष्णुपुराणे- अमावास्या यदा मैत्रविशाखास्वातियोगिनी । श्राद्धे पितृगणस्तृप्ति तदाऽऽमोत्यष्टवार्षिकीम् ॥ अमावास्या यदा पुष्ये रौद्रः वा पुनर्वसौ। द्वादशाब्दी तदा तृप्ति प्रयान्ति पितरोऽर्चिताः ।। इति । मैत्रमनूराधानक्षत्रम् । रौद्रमाः । हेमाद्रौ शङ्खः- अमावास्या तु सोमेन सप्तमी भानुना सह । चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी ॥ चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसंनिभाः । स्नानं दानं तथा श्राद्धं सर्वं तत्राक्षयं भवेत् ॥ अथ महाव्यतीपातसंज्ञको योगविशेषः । हेमाद्री बृहन्मनुः- श्रवणाश्विधनिष्ठा नागदैवतमस्तके । यद्यमा रविवारेण व्यतीपातः स उच्यते ॥ नागदेवतमाश्लेवा । मस्तको मृगशिरः । प्रथमपाद इत्यन्ये । स च सर्वेषामिति कमलाकरः । इति महाव्यतीपातः । चैत्रकृष्णत्रयोदश्यां महावारुणीसंज्ञो योगविशेषः । तदुक्तं निर्णय- सिन्धौ स्कान्दे- वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी। गङ्गयां यदि लभ्येत कोटिसूर्यग्रहैः समा॥ शुभयोगसमायुक्ता शनौ शतभिषा यदि । महामहेति विख्याता त्रिकोटिकुलमुद्धरेत् ॥ वारुणं शततारका । तत्रैव ब्राह्मे- मधी कृष्णत्रयोदश्यां शनौ शतभिषा युता । वारुणीति समाख्याता शुभेऽति महती स्मृता । तत्रैव ज्योतिषे- -- - १ क, ख. भे तु म ।

- श्राद्धमञ्जरी। १३७ चैत्रासिते वारुणऋक्षयुक्ता त्रयोदशी सूर्यसुतस्य वासरे। योगे शुभे सा महती महात्मा गङ्गाजलेऽग्रहकोटितुल्या ॥ इति वारुणीयोगः। वैशाखशुक्लद्वादश्यां व्यतीपातसंज्ञको योगविशेषः । हेमाद्री ज्योति:- शास्त्रे- पञ्चाननस्थौ शुरुभूमिपुत्रौ मेषे रविः स्याद्यदि शुक्लपक्षे । पाशाभिधाना करभेण युक्ता तिथिर्व्यतीपात इतीह योगः ॥ पञ्चाननः सिंहः । पाशाभिधाना तिथिर्वादशी। करभं हस्तः। एते- वर्धोदयादियोगविशेषेषु अर्धोदयनिमित्तं श्राद्धं करिष्ये पद्मकयोग- निमित्तं श्राद्धं करिष्य इति यथायथं संकल्पं कृत्वा दर्शवषड्दैवत्यं सांकल्पविधिना श्राद्धं कुर्यात् । नैमित्तिकत्वात्कामकालौ देवौ । दर्शव- च्छ्राद्धात्पूर्वं तर्पणम् । इत्यर्थोदयादिश्राद्धानि । अथ माघशुक्लाष्टमी भीष्माष्टमी । तस्यां भीष्मोद्देशेन तर्पणं श्राद्धं च कुर्यात् । तदुक्तं हेमाद्रौ पाझे- माघे मासि सिताष्टम्यां सतिलं भीष्मतर्पणम् । श्राद्धं च ये नराः कुर्युस्ते स्युः संततिभागिनः॥ इति । भारतेऽपि-शुक्लाष्टम्यां तु माघस्य दद्याद्रीष्माय यो जलम् । संवत्सरकृतं पापं तत्क्षणादेव नश्यति ॥ इति । अत्र श्राद्धं काम्यं फलश्रवणात् । तर्पणं तु नित्यम् । बाह्मणाद्याश्च ये वर्णा दाीष्माय नो जलम् । संवत्सरकृतं तेषां पुण्यं नश्यति सत्तम । इति वचनात् । एतज्जीवपितृकस्यापि भवति । जीवत्पिताऽपि कुति तर्पणं यमभीष्मयोरिति वचनात् । एतचापसव्येन कार्यमिति दिवोदासीये । श्राद्धं त्वेकोदिष्टमेव । अपुत्रा ये मृताः केचित्रियो वा पुरुषोऽपि वा। तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम् ।। इति सिन्धौ वचनात् । अथ प्रयोगः।माघशुक्लाष्टम्यां कृतनित्यक्रियो देशकालौ संकीर्त्य मम संवत्सरकृतपापनिरासपूर्वकाविच्छिन्नसंतत्यभिवृद्धिद्वारा श्रीपरमेश्वर- १ ग. सित' । २ ग, जलार्क । ३ ग. त्यभीरसिद्धिद्वा ।

- केळकरोपाह्वबापूभट्टविरचिता- प्रीत्यर्थं माघशुक्लभीष्माष्टम्यां भीष्मतर्पणं करिष्य इति संकल्प्य प्राची नावीती तिलोदकेन मन्त्रस्तर्पयेत् । ते च मन्त्राः- भीष्मः शांतनवो वीरः सत्यवादी जितेन्द्रियः । आभिरद्भिवाप्नोतु पुत्रपौत्रोचितां क्रियाम् ॥ वैयाघ्रपद्यगोत्राय सांकृत्यप्रवराय च । अपुत्राय ददाम्येतज्जलं भीष्माय वर्मणे ॥२॥ वसूनामवताराय शंतनोरात्मजाय च । अयं ददामि भीष्माय आबालब्रह्मचारिणे ॥३॥ इति विभिर्मन्त्रैस्तर्पयित्वाऽनेन तर्पणेन भीष्मस्वरूपी भगवान्परमे- श्वरः प्रीयतामिति कर्मेश्वरायार्पयेत् । इति तर्पणप्रयोगः । अथ श्राद्धप्रयोगः । मध्याह्ने देशकालौ संकीर्त्याविच्छिन्नसंतानाभि- वृद्धिकामोऽपुत्रस्य भीष्मवर्मणो वैयाघ्रपद्यगोत्रस्य वसुरूपस्य तृप्त्यर्थं भीष्माष्टमीप्रयुक्तं श्राद्धं सपिण्डमेकोद्दिष्टेन विधिनाऽनेन हविषा सद्यः करिष्य इति संकल्प्य पूर्ववदेकोद्दिष्टेन विधिना श्राद्धं कृत्वाऽपरद्युः प्रातीष्मवाणं वैयाघ्रपद्यगोत्रं वसुरूपं स्वधा नमस्तर्पयामीति तर्प- येत् । इति भीष्माष्टमीश्राद्धम् । अथ नैमित्तिकतिथिश्राद्धानि । पराशरमाधवीये देवल:- तृतीया रोहिणीयुक्ता वैशाखस्य सिता तु या। मघाभिः सहिता कृष्णा नभस्ये तु त्रयोदशी,॥ तथा शतभिषग्युक्ता कार्तिके नवमी तथा । अत्र श्राद्धं कुर्यादित्यन्वयः । अत्र वैशाखशुक्कतृतीयायां रोहिणी- योगे श्राद्धं युगादिश्राद्धवत् । नैमित्तिकत्वात्कामकालौ देवौ । भाद्रपद- कृष्णत्रयोदश्यां मघायोगे श्राद्धमुक्तमेव । कार्तिकशुक्लनवष्यां शततारका- योगे [श्राद्धं] युगादिश्राद्धवत् । अत्रापि नैमित्तिकत्वात्कामकालौ देवौ । अथ पौर्णमासीश्राद्धानि । तत्रैव यम:- आषाढ्यामथ कार्तिक्यां माध्यां जीन्पश्च वा द्विजान् । तर्पयेपितृपूर्व तु तदस्याक्षय्यमुच्यते ।। अत्र पौर्णमासीषु पिण्डदाननिषेधात्सांकल्पिकविधिना षड्दैवत श्राद्धं कुर्यात् । पुरूरवाईवौ देवौ । - १ ग, मोति पु । २ ग. 'कृ' । ३ ग. °कल्पवि ।

- श्राद्धमञ्जरी। १३९ अथ गोष्ठीश्राद्धं भविष्यपुराणे- गोष्ठयां यत्क्रियते श्राद्धं गोष्ठीश्राद्धं तदुच्यते । बहूनां विदुषां प्राप्तौ सुखार्थं पितृतृप्तये ॥ इदं गवां निवासस्थाने कर्तव्यमिति केचित् । विद्वत्सभायां श्राद्ध- कथाप्रसङ्गेनेत्यन्ये । अत्र फलश्रवणात्काम्यश्राद्धवत्प्रयोगः । [इति गोष्ठीश्राद्धम् । अथ शुद्धिश्राद्धम् । ] माधवीये प्रचेताः- क्रियते शुद्धये यत्तु ब्राह्मणानां तु भोजनम् । शुध्द्यर्थमिति तत्प्रोक्तं श्राद्धं पार्वणवत्स्मृतम् ॥ इदं शुद्धिश्राद्धं दर्शवत् । शुद्धिश्राद्धं प्रायश्चित्ताङ्गमिति मैथिलाः । इति शुद्धिश्राद्धम् । अथ दैविकं श्राद्धम् । सिन्धौ भविष्यपुराणे- देवानुदिश्य यच्छ्राद्धं तत्तु दैविकमुच्यते । हविष्येण विशेषेण सप्तम्यादिषु यत्नतः ॥ इति । तन्नित्यश्राद्धवकुर्यात् । द्वादश्यादिषु यत्नत इति पारस्करपाठः । इदं श्राद्धं त्रेधाविभक्तदिनस्य पूर्वभागे पूर्वाह्ने कार्यम् । पूर्वाह्ने दैविकं कुर्यादिति वचनात् । अत्र तिथिरपि पूर्वाह्नव्यापिनी ग्राह्या । कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथिरिति स्मरणात् । अत्रापि पूर्वाह्न- शब्देन संगवकालो गृह्यते । आमश्राद्धवत् । अत्र देवशब्देन स्वेष्टदेवा गृह्यन्ते । अपि वा विश्वे देवाः । तेषां श्राद्धविधौ संनिवेशात् । विश्वे देवाः सर्वे देवा इति श्रुतेश्च । नित्यश्राद्धवदित्युक्तत्वान्नित्यश्राद्धातिदेशः। तेनात्र निमन्त्रणावाहनानौकरणपिण्डदानविकिरविसर्जनकर्तृभोक्तृनि- यमा न सन्तीति सिद्धम् । युग्मा ब्राह्मणा दैविकत्वात् । अथ प्रयोगः । देशकालौ स्मृत्वा विश्वेषां देवानां तृप्त्यर्थं श्राद्धं करिष्य इति संकल्प्य पार्वणश्राद्धोक्तदैविकवदर्चनादिविधिना नित्यश्राद्धवत्कुर्यात् । इति दैविकश्राद्धम् । अथौपचयिकश्राद्धम् । तदुक्तं भविष्ये- शरीरोपचये श्राद्धमर्थोपचय एव च । । पुष्टचर्थमेतद्विज्ञेयमौपचायिकमुच्यते । १ ग. त्यर्थः । अ°।

- १४० केळकरोपाह्वबापूभट्टविरचिता- शरीरोपचये शरीरोपचयहेतुभूतशान्त्यादिप्रयोगवदिति चन्द्रिकाकार। उपचयो वृद्धिः । अत्रापि दर्शश्राद्धवत्प्रयोगः । काम्यत्वाद्धरिलोचनौ। अथ सद्यःश्राद्धम् । तदाह चन्द्रिकायां हारीत:- तीर्थे द्रव्योपपत्तौ च न कालमवधारयेत् । पात्रं च ब्राह्मणं प्राप्य सद्यः श्राद्धं विधीयते ॥ तीर्थे गङ्गादौ । द्रव्योपपत्तावलभ्यश्राद्धीयद्रव्यप्राप्तौ चामावास्याप- राह्लादिरूपः कालो न प्रतीक्षितव्य इत्यर्थः । सिन्धौ मार्कण्डेय:- यदा च श्रोत्रियोऽभ्येति गृहं वेदविदग्निचित् । तेनैकेनापि कर्तव्यं श्राद्धं च विधिवच्छुभम् ॥ इदं चापिण्डकं कार्यमिति हेमाद्रिः। एतज्जीवत्पितृकोऽपि कुर्यात् । उद्राहे पुत्रजनने पित्र्येष्ट्यां सौमिके मख्ने । तीर्थे ब्राह्मण आयाते षडेते जीवतः पितुः ॥ इति मैत्रायणीयपरिशिष्टोक्तेः। अथैच्छिकश्राद्धम् । तदुक्तं मार्कण्डेयपुराणे- श्राद्धार्हद्रव्यसंपत्तौ तथा दुःस्वप्नदर्शने । जन्मः ग्रहपीडासु श्राद्धं कुर्वीत स्वेच्छया ॥ इति । अनयोर्दर्शवत्प्रयोगः । अथ नवान्नश्राद्धम् । तदा च चन्द्रिकायां शातातपः- नवोदके नवान्ने च नवच्छन्ने तथा गृहे । पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च ॥ इति । नवैक्षवेषु चेहन्ते पितरो हि मघासु चेति वृद्धपराशरपाठः । नवोदके वर्षोपक्रम इति शूलपाणिः । आप्रवेश इति गौडाः । नवकूपवाप्यादा- वित्यपरे । वस्तुतस्तु नवतीर्थोदक इति युक्तमिति चन्द्रिकाकारः । नव- च्छन्ने नवागारसंपादन इति स एव । पुराणेऽपि गृहे नवाच्छादने कृत इति केचित् । नवान्नप्राशनकाल उक्तो ज्योतिःशास्त्रे- ज्येष्ठाश्लेषार्धगे सूर्ये मृगमैत्रानिलात्मके । नवान्नैर्भोजनं श्राद्धं जन्मचन्द्रतिथौ न च ॥ आश्लेषाकृत्तिकाज्येष्ठामूलाजपदभेषु च । भृगुभौमदिने रिक्ते तिथौ नाद्यान्नवोदनम् ॥ वृश्चिके शुक्लपक्षे तु नवान्नं शस्यते बुधैः । १ ग. रे । न । २ ग. तिच° श्राद्धमञ्जरी। १४१ अतः कृष्णपक्षे नेति गौडाः । इदं च श्राद्धमाग्रयणानन्तरमेव कर्त- यम् । तत्पूर्वं नवान्नप्राशनेऽनधिकारात् । श्राद्धेऽकृताग्रयणधान्यनिषे- धाच्च । अत्र कामकालौ देवौ । नवान्नलम्भने देवौ कामकालौ सदैव हीति वचनात् । अन्यत्सर्वं दर्शश्राद्धवत् । इति नवान्नश्राद्धम् । अथ तीर्थादियात्रागमनकाले घृतश्राद्धम् । तदुक्तं विष्णुपुराणे- गच्छन्देशान्तरं यस्तु श्राद्धं कुर्यात्स सर्पिषा। यात्रार्थमिति तत्प्रोक्तं प्रवेशे च न संशयः ॥ इति । देशान्तरगमनं तीर्थादियात्रारूपम् । प्रवेशश्च तत्समाप्त्यनन्तरं गृह- प्रवेशः। स्कन्दपुराणेऽपि- उपोप्य रजनीमेकां प्रातःश्राद्धं विधाय च । गणेशं ब्राह्मणान्नत्वा भुक्त्वा प्रस्थितवान्सुधीः ॥ पूर्वदिन उपोष्य द्वितीयेऽह्नि श्राद्धं कृत्वा भुक्त्वा गणेशादीन्नत्वा प्रस्थानं कुर्वीतेति चन्द्रिकाकारः । हेमाद्रिस्तु श्राद्धोत्तरदिने प्रस्थान- मित्याह । उपवासात्याग्मुण्डनं च कार्यमिति कमलाकरः । प्रायश्चित्ता- र्थयात्रायामेतदित्यन्ये । कार्पटिकयेषेण तीर्थगमैन एतदित्यपरे । इदं च श्राद्धं वक्ष्यमाणतीर्थावत्पदैवतं नवदैवतं द्वादशदेवतं वैकोद्दिष्ट- सहितं सर्वदेवतं वा कार्यम् । अत्र धृतं प्रधानम् । भक्ष्यभोज्यादिकं तु व्यञ्जनस्वेन दातव्यम् । विधिस्त्वविाहनविप्राङ्गुष्ठनिवेशनतृप्तिप्रश्नवि- किरविसर्जनवर्जनादितीर्थश्राद्धवत् । अथ प्रयोगः । यात्रां चिकीर्षुज्योतिःशास्त्रोक्तप्रकारेण प्रस्थानदिनं निश्चित्य तत्पूर्वेधुरुपोप्य श्वोभूतेऽपराह्ने देशकालौ संकीर्त्य महालयव- सर्वान्पितृनुदिश्याभुकयात्रा कर्तुमादौ तदङ्गत्वेन विहितं समस्तपितृनु- दिश्य घृतश्राद्धं करिष्य इति संकल्प्य पुरूरवावसंज्ञकवैश्वदेवार्थ द्वावेकं वा बाह्मणं निमन्त्र्य पित्राद्यर्थं सकृन्महालयवनिमन्त्र्याावाहनवर्ज परिवेषणान्तं कुर्यात् । अग्नौकरणं कृताकृतम् । करणपक्षे घृतेनैव पाणि- होमः । तस्यैव मुरव्यत्वात् । अन्ननिवेदनकाल इदमन्नमित्यत्रेदं घृतं हवि- रित्यादिप्रयोगः। अन्यत्सर्वं वक्ष्यमाणतीर्थश्राद्धवत्। तर्पणं तु श्राद्धात्पूर्व दर्शवत् । एवं धृतश्राद्धं समाप्य वैश्वदेवादिकं कृत्वा श्राद्धशेषमिष्टैः सह १ ग. कार्थम् । २ ग. 'क्तं भविष्यपु' । ३ ग, भने(नइ)त्यादित्यपुराणे । इ° ।

१४२ केळकरोपाह्वबापूभट्टविरचिता- भुञ्जीत । ततो देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थममुककामनयाऽमु- कप्रायश्चित्तार्थं वाऽमुकयात्रां करिष्य इति संकल्प्य गणेशं कुलदेवता- दीन्बाह्मणान्वृद्धान्साधूंश्च संपूज्य नत्वा पितॄश्च नमस्कृत्य विप्राज्ञया मुमहर्ते सुमुखश्चैकदन्तश्चेत्यादिमङ्गलमन्त्रान्पठन्मङ्गलशकुनदर्शनपूर्वक प्रस्थाय ग्रामं प्रदक्षिणीकुर्वन्गच्छेत् । तदिने क्रोशादर्वाग्यामान्तरं गत्वा तत्रैव वसेत् । घृतश्राद्धदिने श्राद्धानन्तरं सुमुहूर्तालाभे श्राद्धोत्तरदिने प्रस्थानं कुर्यात् । अथ प्रसङ्गात्संक्षेपेण तीर्थयात्राविधिरुच्यते। तत्र गमनकाले कार्पटी- वेषं विधाय गच्छेत् । गयायामेवैष कार्पटीवेष कार्य इति चन्द्रिका. याम् । सर्वतीर्थयात्रायामपीति त्रिस्थलीसेती भट्टाः । कार्पटीवेषस्तु काषायवस्त्रकञ्चुकादिनिर्मितः काश्यां वीवधग्राहकेषु प्रसिद्धः । वीवधः कावडीति भाषया प्रसिद्धः । गन्धमाल्यशस्त्रकञ्चुकादिपरिहारः कार्प- टीवेष इति त्रिस्थलीसेतो । ततो मार्गे प्रतिदिनं प्रातः स्नात्वा प्रातःसं- ध्यावन्दनं नित्यक्रियां च कृत्वोपोषितः शुचिब्रह्मचर्यादिनियमवान्पति- ग्रहविवर्जितश्चाण्डालस्पर्शादिरहितः सन्निवासस्थलं गत्वा तत्र माध्या- ह्निकस्नानसंध्याभोजनादिकं विधाय काले सायंसंध्यावन्दनं कृत्वा तत्रैव वसेत् । तीर्थे गच्छंश्चरेत्संध्यास्तिस्र एकत्र मानव इति भारतात् । एवं प्रतिदिनं गच्छेत् । मार्गे मूत्रपुरीपोत्सर्गे यथोक्तं शौचं कृत्वा गच्छेत् । चाण्डालरजस्वलादिस्पर्श लायात् । यत्रानेनाहं स्पृष्ट इति ज्ञानं नास्ति. तत्र न स्पर्शदोषः। देवयात्राविवाहेषु यज्ञेषु प्राकृतेषु च । उत्सवेषु च सर्वेषु स्पृष्टास्पृष्टिर्न दुष्यति ॥ इति षट्त्रिंशन्मतात् । तदाऽप्यनिवार्यस्पर्शे देवदर्शनपूजायात्रादि कार्यमेव । भोजनादौ तु मानमेवेति त्रिस्थलीसेतुसारे भट्टोजीदीक्षिताः। मार्गे त्वाशौचप्राप्तौ तत्रैव स्थित्वा शुद्धौ सत्यां गच्छेत् । मार्गवैषम्या- दिना गत्यन्तराभावे सति तीर्थयात्रायामाशौचं नास्तीति पैठीनसिः। एवमेव रजस्वला स्त्री चत्वारि दिनानि स्थित्वा पश्चमेऽहनि बजेत् । यानच्छत्रोपानत्पुन जनरहितस्तीर्थयात्रां गच्छन्पूर्णं फलं प्राप्नोति । छत्रोपानद्युक्तस्तु त्रिपादं फलं प्राप्नुयात् । नरयानसहितोऽधं फलं १ ग. थेवि । २ क. ख. तच्चाप्य । ३ म. शुचौ । ।

श्राद्धमञ्जरी। १४३ प्राप्नोति । हययाने प्रतिग्रहकरणे च निष्फलमेव । गोयानं तु सर्वथा निषिद्धमेव । गोयाने गोवधः प्रोक्त इति मात्स्यात् । इदं शक्तस्य । अशक्तस्योक्तं कौम- नरयानं चाश्वतरीहयादिसहितो रथः । तीर्थयात्रास्वशक्तानां यानं दोषकरं न हि ॥ इति । एतत्सर्वं यानेन सकलमार्गातिवाहने ज्ञेयम् । किंचिद्यानगमने तु क्रोशयोजनादिगणनया फलतारतम्यमूह्यम् । नावा गमनं च निषि- द्धम् । यत्र च मार्गप्रदेशे नद्यातिक्रमे पद्भ्यां गमनं न संभवति यत्र वा शखोद्धारगङ्गासागरादौ च तत्र नौकागमने न दोषः । अनेकदिननौ- कायानमात्रसाध्यानि यानि तीर्थानि समुद्रद्वीपनिष्ठानि तत्र द्विजैन गन्तव्यम् । यदा तु मार्गे कर्मनाशा नद्युपस्थिता तदा तज्जलस्पर्शी यथा न भवति तथा गन्तव्यम् । कर्मनाशाजलस्पर्शात्करतोयाविलङ्घनात् । गण्डकीबाहुतरणात्पुनः संस्कारमर्हति ॥ इति स्मरणात् । तथा चाङ्गवङ्गादिदेशगमनं निषिद्धं तत्रापि यात्रो- देशेन गमने न दोषः। अङ्गबङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च । तीर्थयात्रां विना यातः पुनः संस्कारमर्हति ॥ इति स्मृतेः । यात्रायां ब्रह्मचर्यत्वेऽप्यृतौ भार्यागमने न दोषः । गृहस्थस्य सपत्नीकस्यैव तीर्थयात्राधिकारः । न तु भार्यारहितस्य । पत्नीसाहित्यं च तस्या गुणवत्त्वे वेदितव्यम् । प्रायश्चित्तार्थयात्रायां भारहितस्याप्यधिकारः । विधवायास्तु पुत्रज्ञात्याद्यनुमतेनैवाधिकारः। न स्वातन्त्र्येण । सधवायास्तु भर्तृविना नैवाधिकारः । भर्ना सहैवाधि- कारः । ब्रह्मचारिणस्तु गुरुनियुक्तस्यैवाधिकारः । न तद्रहितस्य । विधुरवानप्रस्थयतिक्षत्रियवैश्यशूद्राणामप्यधिकारः । तत्रापि क्षत्रि- यस्य वैश्यस्य ब्राह्मणपुरःसरस्यैवाधिकारः । शूद्रस्य तु विप्रसेवादिना। मात्राद्यस्थि प्रक्षेप्नुकामस्य सर्वथैवाधिकारः । अस्थिनयनमपि मातृपितृ- कुलजानाम् । उक्तं च- १ ग. °स्य नृपस्य ब्रा।

- केळकरोपाहबापूभट्टविरचिता- मातुः कुलं पितुः कुलं वर्जयित्वा नराधमः। अस्थीन्यन्यकुलोत्थानि नीत्वा चान्द्रायणं चरेत् ॥ इदं च द्रव्यादिलोभविषयि(य)कम् । तदाह सिन्धावाश्वलायन:- जीवनार्थं परास्थीनि धृत्वा तीर्थ प्रयाति यः। मातापित्रोविना सोऽपि पतितः परिकीर्तितः ॥ इति । दयादिना परास्थिनयने न दोषः । नयने फलश्रवणात् । मात्रायुद्दे- शेन स्नानमुक्तं मार्कण्डेयपुराणे- मातरं पितरं जायां भ्रातरं सुहृदं गुरुम् । यमुद्दिश्य निमजेत अष्टमांशं लभेत सः ॥ पैठीनसिरपि- प्रतिकृति कुशमयीं तीर्थवारिणि मज्जयेत् । मजयेञ्च यमुद्दिश्य सोऽष्टमागं फलं लभेत् ॥ कुशप्रतिकृतिः कुशपतिमैव कार्येत्येके । वक्ष्यमाणमन्त्रलिङ्गात्तन्नाम्ना ग्रन्थिबन्धनमा प्रतिकृतिरित्यपरे । कुशप्रतिमजने मन्त्रः- कुशोऽसि कुशपुत्रोऽसि ब्रह्मणा निर्मितः स्वयम् । त्वयि स्नाते स च स्नातो यस्येदं ग्रन्थिबन्धनम् ॥ इति । इदं परार्थस्नानं प्रतिकृतिस्नपनं च जीवतामेबोद्देशेन कार्यम् । मृतानां तु तर्पणश्राद्धादिकमेव । यदि वाणिज्यराजसेवादिप्रसङ्गेन तीर्थं प्राप्नोति तदाऽपि मानं कार्यम् । तेन स्मानजं फलं प्राप्नोति । न तु तीर्थयात्री- द्भवम् । परवेतनं गृहीत्वा गच्छति चेत्षोडशांशं फलं प्राप्नोति । परा- नभुञ्जानोऽपि तथैव । तीर्थान्तरप्रसङ्गेन गच्छतो मध्ये तीर्थं प्राप्त चेदधैं फलं भवति । प्रभासखण्डे- यश्चान्यं कारयेच्छक्त्या तीर्थयात्रां तथेश्वरः। स्वकीयद्रव्ययानाभ्यां तस्य पुण्यं चतुर्गुणम् ॥ इति । तीर्थादि गच्छन्यदि दैवात्परावृत्तस्तदा विशेषो गारुडे- तीर्थं चलित्वा यः कोऽपि पुनरायाति वै गृहे । अनुज्ञातस्तु तैविप्रैः प्रायश्चित्तं समाचरेत् ॥ इति । मरणे तु तत्रैव-यस्तीर्थं संमुखो भूत्वा ब्रजननशने कृते । चेन्नियेदन्तराले तु ऋषीणां मण्डलं ब्रजेत् ॥ - १ ग. तिनिमः।

श्राद्धमञ्जरी। यस्तीर्थं वजन्नन्तराले मृतो यश्च मासोपवासादिरूपोपवासवतान्त- राले मृतस्तयोरुभयोरप्यृषिलोकस्य प्राप्तिर्भवतीत्यर्थः । मार्गे पुण्यनदी- प्राप्तौ विशेषश्चन्द्रिकायाम्- मार्गेऽन्तरा नदीमाप्तौ स्नानादिपरपारतः । अर्वागेव सरस्वत्या एष मार्गगतो विधिः ॥ इति । अत्रापि नानोपवासमुण्डनश्राद्धादि कार्यमेवेति कमलाकरः । अधं तीर्थफलं तस्येति वचनात् । वाणिज्यार्थं गते मुण्डनोपवासादि न कार्यमिति त्रिस्थलीसेतो भट्टाः । तत्कार्यमेवेति कमलाकरः । तीर्थ- प्राप्तौ विधिः प्रभासखण्डे- यानानि तु परित्यज्य भाव्यं पादचरैनरैः । लुठित्वा लोठनीं तत्र कृत्वा कार्पटिकाकृतिम् ॥ इति । यदि यानारूढः सोपानको वा गच्छेत्तदा तीर्थप्राप्तिदिने यावन्मार्गः पादचारेण गन्तुं शक्यस्तावति मार्गे यानोपानदादि परित्यज्य पादचा- रेण गत्वा यदा तीर्थं पश्येत्तदा लोठनी लुठित्वा साष्टाङ्गं प्रणम्येत्यर्थः । कृत्वा कार्पटिकाकृतिमिति गृहान्निर्गमनसमये तदकरणेऽत्र प्रवेशदिने कर्तव्येत्यर्थः । काशीखण्डे- यदह्नि तीर्थप्राप्तिः स्यात्तदह्नः पूर्ववासरे। उपवासः प्रकर्तव्यः प्राप्तेऽह्नि श्राद्धदो भवेत् ॥ इति । उपवासं ततः कुर्यात्तस्मिन्नहनि सुग्रत । इति पुराणान्तराच्च प्राप्तिदिनात्पूर्वदिने प्राप्तिदिने चोपवासोक्तर्वि- कल्प इति कमलाकरः। उपवासासमर्थस्तूपवासप्रतिनिधि नक्तं हवि- प्यान्नमित्यादिकं शक्त्यनुसारेण कुर्यात् । चन्द्रिकायां स्मृतिः- पूर्वमाप्लवनं तीर्थे मुण्डनं तदनन्तरम् । ततः स्नानादिकं कुर्यात्पश्चाच्छाद्धं समाचरेत् ॥ इति । आप्लवनं मुसलस्नानम् । मन्त्रस्नानं तु मुण्डनोत्तरमेव । प्रथमं चालयेत्तीर्थं प्रणवेन जलं शुचि । अवगाह्य ततः मायाद्यथावन्मन्त्रयोगतः ॥ चालयेत्स्पृशेत् । प्रार्थनामन्त्रस्तु- तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम । भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥ १ ग. नादिरू। २ क. ख. शक्त्या कु । - ..

१४६ केळकरोपाह्वबापूमट्टविरचिता- इमं मन्त्रं समुच्चार्य तीर्थे स्नानं समाचरेत् । अन्यथा तत्फलस्याधं तीर्थेशों हरति ध्रुवम् ॥ इति । प्रभासखण्डे-ॐ नमो देवदेवाय शितिकण्ठाय दण्डिने । रुद्राय चापहस्ताय चक्रिणे वेधसे नमः ॥ सरस्वती च गायत्री वेदमाता गरीयसी । संनिधात्री भवत्यत्र तीर्थे पापप्रणाशिनी ॥ सर्वेषामेव तीर्थानां मन्त्र एष उदाहृतः। इत्युच्चार्य नमस्कृत्वा(त्य) स्नानं कुर्याद्यथाविधि ॥ जाबालिः-प्रवाहाभिमुखो मजेद्यत्राऽऽपः प्रवहन्ति वै । स्थावरेषु च सर्वेषु आदित्याभिमुखस्तथा ॥ इति । मुण्डने तु विशेषः स्कान्दे- मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः । वर्जयित्वा कुरुक्षेत्रं विशालं विरजं गयाम् ॥ इति । सर्वतीर्थशब्दो महातीर्थपरः । विरजं लोणारं क्षेत्रं दक्षिणदेशस्थमिति कमलाकरः । उत्कलप्रदेशे यत्र धर्मराजेन गयासुरनाभौ विरजादिः स्थापितः स विरज इति त्रिस्थलीसेतुसारे । नैमिषं पुष्कलं गयामिति च क्वचित्पाठः । विशालं पुष्करं गयामिति च क्वचित् । इदं च वपनं श्मश्रुपूर्वकं केशलोमनखानां भवति । तत्राप्युदक्संस्थतायै दक्षिणश्मश्रुव- पनमादौ । उदङ्मुखः प्राङ्मुखो वोपविश्य शिखाकक्षोपस्थवर्ज कार- येत् । तीर्थे निषिद्धदिनेऽपि पत्न्यां गर्भिण्यां विवाहाद्यनन्तरमपि मुण्डनं कार्यम् । जीवत्पितृकेणापि कार्यम् । तच्च प्रयागे प्रतियात्रमन्य- तीर्थे त्वाद्ययात्रायामेवेति कमलाकरः । अकृतचूंडस्यापि प्रयागे मुण्डनं कार्यं नान्यत्रेति स एव । यतिभिस्तीर्थेऽपि ऋतुसंधि विना नैव कार्यम् । आहिताग्निना तु पर्वव्यतिरिक्तकालेऽपि तीर्थनिमित्तकं मुण्डनं कार्यम् । विधवया च कार्यम् । प्रयागे तु सधवानामपि समूलं भवतीति भट्टाः। कमलाकरस्तु- सर्वान्केशान्समुद्धृत्य च्छेदयेदमुलद्वयम् । एवमेव हि नारीणां शस्यते वपनक्रिया ॥ इति वचनादिदमेव युक्तमित्याह । इदं च मुण्डनं दशमासानन्तरं पुनस्तीर्थप्राप्तौ कर्तव्यम् । १ क. ख.ल्यां रजस्वलायां वि। २ ग. 'चूडेनापि ।

श्राद्धमञ्जरी। १४७ संवत्सरे द्विमासोने पुनस्तीर्थं बजेद्यदि । मुण्डनं चोपवासं च ततो यलेन कारयेत् ॥ इति स्मरणात् । दशमासोत्तरं प्राप्तावावश्यकं कार्यं यत्नेनेत्युक्तत्वात्। अन्तराले तु फलेच्छया भवति न तु नियमत इति । एतत्प्रयागातिरि- तसर्वतीर्थेषु । प्रयागे तु दशमासात्यागपि प्रतियात्रं मुण्डनं नियतमेव। तञ्च योजनत्रयाधिकदेशागतेन कार्यम् । न तन्यूनदेशागतेन । प्रयागे प्रतियात्रं तु योजनत्रय इष्यते । क्षौरं कृत्वा तु विधिवत्ततः मायात्सितासिते ॥ इति वचनात् । छिन्नानि केशलोमनखादीनि तीर्थतीरे गतं कृत्वा तत्र निक्षिपेत् । गङ्गायां तु यथा स्वयमेव केशादीनि गङ्गाजले पतन्ति तथा वापयेत् । अपि वा वायुनेरितानि जले यथा पतन्ति तत्र देश उपविष्टो वापयेत् । केशानां यावती संख्या छिन्नानां जाह्नवीजले । तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ इति वचनात् । नानोत्तरं तर्पणं ततस्तीर्थश्राद्धमिति चन्द्रिकायाम् । त्रिस्थलीसेतो वचनम्- प्रत्यावृद्धोदकस्नानं नद्यां वयं द्विजातिभिः ॥ इति । यत्र स्थलविशेषे नद्यां विपरीतप्रवाहादि तत्र स्नानं न कार्यमित्यर्थः। निषेधान्तरमपि तत्रैव- शाल्मलीतिन्तिणीनिम्बकराश्च हरीतकी। कोविदारकपित्थार्कबदर्येरण्डशिग्रवः ॥ शेलुश्च खदिरश्चैषां स्नानं छायासु वर्जयेत् । बदरी च बिभीतका, इति पाठान्तरम् । सिन्धौ ब्रह्मपुराणम्- अकालेऽप्यथवा काले तीर्थे श्राद्धं च तर्पणम् । अविलम्बेन कर्तव्यं नैव विघ्नं समाचरेत् ॥ यदैव दृश्यते तीर्थं तदा पर्वसहस्रकम् ॥ इति । एतच तीर्थस्नानतर्पणश्राद्धादि मलमासेऽपि कार्यम् । तथाऽऽशौचे रात्रावपि कृतभोजनोऽपि कुर्यात् । मुण्डनं तु परेयुरेव पितृमृतिवत् । ग - भि° 12 गणे । अ°।

१४८ केळकरोपाहबापूभट्टविरचिता- श्राद्धं त्वामेन हेम्ना वा न त्वन्नेन । अन्नश्राद्धं तु रात्री भोजनोत्तरं च तीर्थप्राप्तौ द्वितीयदिने । आशौचे तु तदपगम एव । इदं चाऽऽकस्मिक- तीर्थप्राप्तौ । न तु बुद्धिपूर्वकमाशौचादौ तीर्थप्राप्तिः कार्या । अत्र तर्पणं विवाहांद्यनन्तरे काले निषिद्धदिनेऽपि सतिलं कार्यम् । इदं च तर्पण- मावासा एव जले कुर्यात् । आवासा जले कुर्यात्तर्पणाचमनं जप- मिति वचनात् । ताऽऽदौ सानाङ्गतर्पणं कृत्वा पश्चात्तथैव देवर्षितर्पणं कृत्वा पितॄणामपि कार्यम् । संन्यासिना तु तीर्थेऽपि तर्पणश्राद्धादिकं न कार्यम् । स्नानादिकं तु कार्यमेव । अथ तीर्थश्राद्धम् । तच्च रात्रिसंध्ययोर्भुक्तवतश्च तीर्थप्राप्तौ द्वितीय- दिने । आशौचे तीर्थप्राप्तावाशौचान्ते । मलमासे तीर्थप्राप्तौ तदा श्राद्धं कृत्वा शुद्धमासे पुनः कार्यमिति भट्ठोजीदीक्षिताः । चन्द्रिकायां पद्म- पुराणम्- तीर्थश्राद्धं प्रकुर्वीत पक्वान्नेन विशेषतः । आमान्नेन हिरण्येन कन्दमूलफलैरपि ॥ एतत्तीर्थजलसमीपे चेदामेन हेम्ना वा गृहे त्वन्नेनैवेति केचिन्धव- स्थामाहुः। स्कन्दपुराणे-ब्राह्मणान्न परीक्षेत तीर्थक्षेत्र निवासिनः । एतच्च श्राद्धार्हब्राह्मणालाभे वेदितव्यमिति त्रिस्थलीसेतुसारे।पाति- त्याद्यत्यन्तदोषयुक्तस्तु परिहर्तव्य एवेति स्मृतिरत्नावल्याम् । देवीपुराणे-श्राद्धं च तत्र कर्तव्यमावाहनवर्जितम् । तथा-अर्घामावाहनं चैव द्विजाङ्गुष्ठनिवेशनम् । तृप्तिप्रश्नं च विकिरं तीर्थश्राद्धे विवर्जयेत् ॥ तथा-आवाहनं न दिग्बन्धो न दोषो दृष्टिसंभवः । सकारुण्यं च कर्तव्यं तीर्थश्राद्धं विचक्षणैः ॥ भविष्ये-आवाहनं विसृष्टिश्च तत्र तेषां न विद्यते ॥ इति । अनौकरणं नेति स्मृतिरत्नावल्याम् । कर्तव्यमिति बहवः । तच्च विप्रभोजने पाणावेव । यदा विप्राभावे तीर्थसमीपे कुशबटुषु श्राद्धं क्रियते तदा तीर्थजल एव होम इति गोपीनाथभट्टयाम् । तत्रैव देवल:- १ क. ख. राज्यादौ ती' । २ ग, हाद्यानन्तरका । ३ ग. 'राणे । ती ।

श्राद्धमञ्जरी। १४९ न पात्रं श्येनकाकादीन्पक्षिणः प्रतिषेधयेत् । तद्रूपाः पितरस्तत्र समायान्तीति वै श्रुतिः ॥ विष्णुधर्मोत्तरे-तीर्थश्राद्धे सदा पिण्डान्क्षिपेत्तीर्थ समाहितः। दक्षिणाभिमुखो भूत्वा पिठ्या दिक्सा प्रकीर्तिता॥ इति । तीर्थश्राद्धमन्यद्वा सपुत्रविधवा नैव कुर्यात् । सपुत्रया न कर्तव्यं भर्तुः श्राद्धं कदाचनेति निषेधात् । केचित्पुत्रव- त्याऽपि पुत्रासंनिधाने ब्राह्मणद्वारा श्राद्धं करणीयमित्याहुः । अपुत्र- विधवया तु कार्यमेव । यतिरपि न कुर्वीत । न कुर्यात्सूतकं भिक्षुः श्राद्धं पिण्डोदकक्रियामिति वचनात् । एतच्चानुपनीतेनापि कार्यमिति कमलाकरः । जीवत्पितृकेणापि कार्यम् । वृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति । येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः ॥ इति स्मरणात् । अत्र तर्पणे श्राद्धे च पितरः पूर्वोक्तसकृन्महा- लयश्राद्धवज्ज्ञेयाः । अत्र पिण्डप्रदाने सर्वपिण्डान्ते सामान्यपिण्ड । दद्यात् । ततः पिण्डमुपादाय हविषः संस्कृतस्य च । ज्ञातिवर्गस्य सर्वस्य सामान्यं पिण्डमुत्सृजेत् ॥ इति पृथ्वीचन्द्रोदयोदाहृतवचनात् । तर्पणेऽपि सामान्याञ्जलिमाबन्द्र- स्तम्बेत्यादिवायवीयोक्तश्लोकद्वयेन दद्यादिति त्रिस्थलीसेतुसारे । अत्र तर्पणश्राद्धयोः समानोपादानाच्छ्राद्धाङ्गतर्पणं पृथक्कार्यमिति केचित् । अपि वा कालैक्यात्प्रसङ्गसिद्धिरित्यन्ये । तीर्थश्राद्धे काम्यत्वे धूरि- लोचनौ । नित्यत्वे पुरूरवावावेव । केचिद्धनुर्धराविति वदन्ति । पठन्ति च-तीर्थे चैव धनुर्धराविति । तञ्चिन्त्यम् । तीर्थश्राद्धं यथोक्त- विधिना श्राद्धकरणाशक्ती पूर्वोक्तानुकल्पेनकब्राह्मणदर्भवटामहिरण्य- पिण्डदानमात्रादिविधिना कुर्यात् । अशक्तौ तर्पणमात्रम् । अविभक्ता भ्रातरो युगपत्तीर्थे गताश्चेज्ज्येष्ठेनैव कार्यम् । विभक्तास्तु पृथगेव । नदीनां रजोदोषकाले तत्र नानादि न कुर्यात् । तदुक्तं सिन्धौ- सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः। तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगाः ॥ इति । १ क. ख. श्राद्धे ययोक्तविधिना फ।

१५० केळकरोपाह्वबापूभट्टविरचिता- एकयोजमादिषड्योजनगान्ताः सवन्त्यः कुल्याः। ततो दशयोजन- गान्ता अल्पनद्यः। ततश्चतुर्विंशतियोजनगान्ता नद्यः। तदधिकयोजन- गान्ताः समुद्रगाश्च महानद्यः। यत्र च पुराणादिषु महानदीव्यपदेशस्ता अपि महानद्यः । महानदीनामपि रजोदोष उक्तो भविष्योत्तरपुराणे- आदौ तु कर्कटे देवि महानद्यो रजस्वलाः। त्रिदिनं तु चतुर्थेऽह्नि शुद्धाः स्युर्जाह्नवी यथा ॥ महानद्यश्च ब्रह्मपुराणे- गोदावरी भीमरथी तुगभद्रा च वेणिका । तापी पयोष्णी विन्ध्यस्य दक्षिणस्थाः प्रकीर्तिताः ॥ भागीरथी नर्मदा च यमुना च सरस्वती। विशोका च वितस्ता च विन्ध्यस्योत्तरतः स्थिताः॥ द्वादशैता महानद्यो देवर्षिक्षेत्रसंभवाः । इति । गङ्गादिविषये तु देवल:- गङ्गा च यमुना चैव प्लक्षजाता सरस्वती। रजसा नाभिभूयन्ते ये चान्ये नदसंज्ञकाः॥ नदाश्च-शोणसिन्धुहिरण्याख्याः कोकिलाहितघर्घराः । शतनुश्च नदाः सप्त पावनाः परिकीर्तिताः ॥ इति । अन्यत्र रजोदुष्टमपि जलं गङ्गाजलसंयुतं सददुष्टं भवति । अयं च रजोदोपस्तीरवासिनां नास्तीति योगयाज्ञवल्क्यः । वायुपुराणे- अधिमासे जन्मदिने अस्ते च गुरुशुक्रयोः । तीर्थयात्रा न कर्तव्या गयां गोदावरी विना ॥ पुराणान्तरे च- गोदावयाँ गयायां च श्रीशैले ग्रहणद्वये । सुरासुरगुरुणां च मौन्यदोषो न विद्यते ॥ वायवीये-गयायां सर्वकालेषु पिण्ड दद्याद्विधानतः। अधिमासे जन्मदिने अस्ते च गुरुशुक्रयोः॥ न त्यक्तव्यं गयाश्राद्धं सिंहस्थे च बृहस्पतौ । पद्मपुराणे-काशीमुद्दिश्य यातानां सर्वः स्यात्समयः शुभः। मङ्गलं सकलं वस्तु न किंचिद्धि विचारयेत् ॥ इति । १ ग. किलो हि।

श्राद्धमञ्जरी। १५१ तीर्थ संक्षेपतः सर्वप्रायश्चित्तमपि कुर्वन्ति शिष्टाः । अथ संक्षेपतस्तीर्थविधिप्रयोगः । तीर्थप्राप्तिदिनात्पूर्वदिने प्राप्तिदिने बोपोष्य कार्पटीवेषं विधाय पादुकायानादि परित्यज्य पादचारी तीर्थं दृष्ट्वा साष्टाङ्गं प्रणम्य तीर्थसमीपमेत्याक्षतगन्धपुष्पफलताम्बूल हिरण्या- दियुक्तमञ्जलिममुकतीर्थाय नम इति दत्त्वा तत्रस्थान्द्विजांश्च साष्टाङ्गेन प्रणम्य तदनुज्ञया शरीरमलापकर्षस्नानं तूष्णीं कृत्वाऽऽर्द्धवासा ब्रह्मदण्डार्थं यथाशक्ति हिरण्यं ब्राह्मणानामग्रे निधाय समस्तसंपदिति श्लोकचतुष्टयं पठन्बाह्मणान्प्रदक्षिणीकृत्य साष्टाङ्गं प्रणम्य प्रार्थयेत् । सर्वे धर्मविवेकतारो गोप्तारः सकला द्विजाः । मम देहस्य संशुद्धिं कुर्वन्तु द्विजसत्तमाः॥ मया कृतं महाघोरं ज्ञातमज्ञातकिल्बिषम् । प्रसादः क्रियतां मह्यं शुभानुज्ञां प्रयच्छथ ॥ पूज्यैः कृतपवित्रोऽहं भवेयं द्विजसत्तमः । मामनुगृह्णन्तु भवन्त इत्युक्त्वा विप्रानुमत्या यथाशक्ति प्रायश्चित्तं निश्चित्य देशकालौ स्मृत्वाऽमुकगोत्रस्यामुकशर्मणो मम जन्मान्तरा- भ्यासाजन्मप्रभृत्यद्ययावज्ज्ञानाज्ञानकामाकामसकृदसकृत्कृतकायिकवा- चिकमानसिकसांसर्गिकस्पृष्टास्पृष्टभुक्ताभुक्तपीतापीतसकलपातकातिपा- तकोपपातकल धुपातकसंकरीकरणमलिनीकरणापात्रीकरणजातिभ्रंशक- रप्रकीर्णकपातकानांमध्ये संभावितपातकानां निरासार्थं युष्मदनुज्ञयाऽ- मुकप्राजापत्यात्मकप्रायश्चित्तप्रत्याम्नायभूतं गोनिष्क्रयद्रव्यं ब्राह्मणेभ्यो दातुमहमुत्सृज्य इति संकल्प्य तद्व्यं ब्राह्मणेभ्यो दत्त्वाऽनेन प्रायश्चि- त्ताचरणेन सकलपापापहमहाविष्णुः प्रीयताम् । इति प्रायश्चित्तं कृत्वा पुनर्देशकालौ स्मृत्वा मम समस्तपापक्षयार्थमस्मिन्नमुकतीर्थे वपनं करिष्य इति संकल्प्य आत्मनः शुद्धिकामश्च पितॄणां तृप्तिहेतवे । वपनं कारयाम्यद्य हे गले तव संनिधौ ।। यानि कानि च पापानि ब्रह्महत्यासमानि च । केशानाश्रित्य तिष्ठन्ति तस्मात्केशान्वपाम्यहम् ॥ इति मन्त्रमुक्त्वा प्राङ्मुख उदङ्मुखो वा कक्षोपस्थवर्ज श्मश्रुके- शलोमनखानि वापयेत् । तीर्थान्तरे तु हे तीर्थ तव संनिधौ । समुद्रे हे सिन्धो तव संनिधाविति यथार्थमूहः । इदं केशवापनं शिखामारभ्या- १५२ केळकरोपाह्वबापूभट्टविरचिता- धस्तात्कार्यम् । एवं वापनं विधाय शुद्धयर्थं तूष्णीं स्नात्वा द्वादशाङ्गु- लमपामार्गादिदन्तधावनकाष्ठम्, आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्मप्रज्ञां च मेघां च त्वं नो देहि वनस्पते ॥ इति मन्त्रेणाऽऽदाय- मुखदुर्गन्धिनाशाय रदानां च विशुद्धये । ठीवनाय च गात्राणां कुर्वेऽहं दन्तधावनम् ॥ इति मन्त्रेण दन्तान्संशोध्य द्वादश गण्डूषान्कृत्वाऽऽचम्य प्राणा- नायम्य देशकालस्मरणपूर्वकं हेमाद्यायुक्तप्रकारेण स्नानसंकल्पं कुर्यात् । स यथा-अस्य श्रीमन्महाभगवतः सञ्चिदानन्दरूपस्य श्रीमदादिना- रायणस्याचिन्त्यापरिमितशक्त्या भ्रियमाणानां महाजलौघमध्ये परि- भ्रममाणानामनेककोटिब्रह्माण्डानामेकतमेऽव्यक्तमहदहंकारपृथिव्य तेजो. वाय्वाकाशाद्यावरणैरावृतेऽस्मिन्महति ब्रह्माण्डकटाहकरण्डे सकलज. गदाधारशक्तिकूर्मवराहानन्तरावतपुण्डरीकवामनकुमुदाञ्जनपुष्पदन्तसा- र्वभौमसुप्रतीकाष्टदिग्गजोपरिप्रतिष्ठितातलवितलसुतलतलातलरसातलम- हातलपातालाख्यसप्तलोकोपरिभागे भूलॊके भुवर्लोकस्वर्लोकमहर्लोक- जनोलोकतपोलोकसत्यलोकाख्यलोकषट्कस्याधोभागे महाकालायमा- नफणिराजशेषसहस्रफणामण्डलविधृते दिग्दन्तिशुण्डादण्डस्तम्भिते बहिरन्धतमसाऽऽवृतेनान्तःसूर्यप्रकाशितेन लोकालोकाचलेन वलयिते लवणेक्षुसुरासपिर्दधिक्षीरस्वादूदकारव्यमहार्णवपरिवेष्टिते जम्बुप्लक्षकुश- क्रौञ्चशाल्मलशाकपुष्कराख्यसप्तद्वीपविराजिते स्वर्णप्रस्थचन्द्रकश्वेताव- तरमणसिंहलमहारमणपारसीकपाञ्चजन्यलकाद्युपद्वीपंविराजित एवं- विधसरोरुहाकारपञ्चाशत्कोटियोजनविस्तीर्णभूमण्डले तुहिनाचलहेमकू- टनिषधनीलश्वेतशृङ्गिन्धमादनपारियात्राख्याष्टसीमाचलौर्वभक्ते सन्म- ध्यवर्तिभारतकिंपुरुषहरिवलातरम्यकहिरण्मयकुरुमद्राश्वकेतुमाला- ख्यनववर्षशोभिते जम्बुद्वीपे नानावर्णकेसराचलशिखररत्नबीजाश्चित- भूसरोरुहकणिकायमानस्य मेरोदक्षिणदिग्भागे दक्षिणोदधिहिमाचल- योर्मध्यप्रदेशे नवसहस्रयोजनविभक्त इन्द्रद्वीपकशेरुताम्रपर्णीगभस्तिना- गसौम्यगन्धर्ववारुणभारताख्यनवखण्डवत्यस्मिन्मारते वर्षे दक्षिणोदधि- १ क. ख. 'मेऽस्मिन्नव्य । २ ग, “पसहित ।

श्राद्धमञ्जरी। १५३ प्रभृतिसहस्रयोजनवति भरतखण्डे स्वाम्यवन्तिकुरुक्षेत्रादिसमभूमध्यरे- खाया अमुकदिग्भागेऽयोध्यामथुरामायाकाशीकाञ्यवन्तिद्वारवत्यादि- मुक्तिक्षेत्रवत्यामस्यां कर्मभूमौ भागीरथीविन्ध्याचलगोदावरीणां दक्षि- णदिग्मागे कावेरीमलयाचलरामसेतूनामुत्तरदिग्भागे श्रीशैलहेमकूट- किष्किन्धागरुडाचलवेङ्कटाचलारुणागिरिहस्तिगिरिप्रमृतिपुण्यशैलवति दण्डकारण्ये नानापुण्यतीर्थवत्यस्मिन्देशविशेषेऽनुकतीर्थे श्रीमदनेकको- टिब्रह्माण्डघटनायासरोमविवरस्य विराट्ररूपिणो भगवतो महापुरुषस्य शेषपर्यङ्कशायिनः श्रीविष्णोराज्ञया प्रवर्तमानस्य तन्नाभिस्थानसरोरुहा- दुत्पन्नस्य सकलवेदनिधेः सकलजगत्स्रष्टुः परार्धद्वयजीविनो ब्रह्मणः प्रथमपरार्धपञ्चाशत्यामतीतायां द्वितीयपरार्धे श्वेतवराहकल्पे प्रथमवर्षे प्रथममासे प्रथमपक्षे प्रथमदिवसेऽहनि उदयादिवयोदशघटिकास्वती- तासु स्वायंभुवस्वारोचिपोत्तमतामसरैवतचाक्षुषाख्येषु घट्सु मनुपु व्यतीतेषूपरितनघटिकायां सप्तमे वैवस्वतमन्वन्तरे सप्तविंशतिमहायुगेषु गतेषु अष्टाविंशतितमे महायुगे पुरुहूतनामेन्द्रसमये कृतत्रेताद्वापरेषु गतेषु वर्तमाने कलियुगे प्रथमपादे बौद्धावतारे शालिवाहनशके सौर- चान्द्रमाने प्रभवादिपष्टिसंवत्सरान्तर्गतप्रथमविंशत्यां वर्तमाने व्यावहा- रिके प्रमोदनामसंवत्सरे दक्षिणायने वर्षौ भाद्रपदे मासे शुक्लपक्षे दशम्यां पुण्यतिथी मन्दवासरे पूर्वाषाढानक्षत्र आयुष्मद्योगे तैतिलक- रणे सिंहस्थे सूर्ये धनुस्थे चन्द्रे सिंहस्थे भौमे कन्यास्थे बुधे वृषभस्थे देवगुरौ तूलास्थे शुके वृश्चिकस्थे शनैश्चरे कन्यास्थे राही मीनस्थे केता- वेवंगुणविशिटपुण्यकालेऽमुकगोत्रस्यामुकनक्षत्रेऽमुकराशौ जातस्यामुक- नामधेयस्य ममेह जन्मनि जन्मान्तरे च नानायोनिषु ज्ञानतोऽज्ञा- नतश्च बाल्यकौमारयौवनवार्धकेषु जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनोवाक्काय- कर्मभिः कामक्रोधलोभमोहमदमात्सर्यैस्त्वक्चक्षुःश्रोत्रजिह्वाघाणवाक्पा- णिपादपायूपस्थैः संभावितानां प्रकाशकृतब्रह्महत्यासुरापानसुवर्णस्तेय- गुरुतल्पगाख्यानां महापातकानां तत्संसर्गाद्यतिपातकानां रहस्यकृतब्रह्म- हत्यासुरापानसुवर्णस्तेयगुरुतल्पगाख्यानां महापातकानां तत्संसर्गित्वानु- ग्राहकत्वपयोजकत्वमित्रभावोपदेष्ट्रत्वानुमन्तृत्वपोरसाहकत्वादिमहापात- कप्रतिदिष्टातिपातकानां गुर्वधिक्षेपवेदनिन्दासुहद्वधाधीतनाशनादिब्रह्म- हत्यासमरूपपातकानामुत्कर्षानृतभाषणाभक्ष्यभक्षणरजस्वलामुखास्वाद- नादिसुरापानसमपातकानामश्वरलमनुष्यहरणनिक्षेपहरणदेवब्राह्मणद्रव्य. भूमिहरणधेनुहरणादिसुवर्णस्तेयसमरूपपातकानां पितृघ्वसमातृष्वसमातु- १५४ केळकरोपाहबापूभट्टविरचिता- लभार्याज्येष्ठभ्रातृपत्नीमातुःसपल्लीपितृव्यपत्नीपितृव्यपत्नीभगिनीदुहित- सखिभार्याकुमार्यज्ञातस्यन्तजस्त्रीस्नुषानृपपत्नीश्रोत्रियत्विगुपाध्याया- चार्यमित्रपत्नीरजस्वलाशरणागताहीनवर्णासयोनिजासगोत्रास्त्रीगमना- दिगुरुतल्पसमरूपपातकानां सोमयागस्थक्षत्रियवैश्यवधाविज्ञातगर्भारज- स्वलात्रिगोत्रादीक्षितस्त्रीगुर्विणीवधादिमहापातकसमरूपपातकानामुत्क- र्षणानृतभाषणकलादिनिषिद्धभक्षणरजस्वलामुखास्वादन(?) कूटसा- क्ष्यसुहृद्वन्धनादिपरिवेदनभृतकाध्ययनाध्यापनपारदार्यपारिवित्त्यवाणूंष्य- लवणविक्रयस्त्रीशूद्रविदाचियवधनिन्दितार्थोपजीवननास्तिक्यवतलोप- करणसुतविनयधान्यपशुस्तेयायाज्ययाजनपितमातृमुतादित्यागतटाका. रामविक्रयकन्याकूषणपरनिन्दकयाजनपरिवित्तिकन्यामदानकौटिल्यवत- लोपात्मार्थनियारम्भमद्यपत्रीनिषेवणस्वाध्यायामिपरित्यागेन्धनार्थद्रुम- च्छेदनस्त्रीहिंसनयन्त्रविधानव्यसनात्मविक्रयशूद्रव्यहीनसख्यहीनयोनि- निषेवणानाश्रमवासपरामपुष्टशसच्छाचाभिगमनाकराधिकारितामार्या- विक्रयाधुपपातकानामजाविसरोष्ट्रगेममीनाहिमहिपाश्ववधादिसंकरी- करणानां कृमिकीटजयोवधनधानुगतव्यभोजनफले कुसुमस्तेयादिम- लिनीकरणानां निन्दितधनधान्यकरीषजीवनासत्यभापणशूद्रसेवाद्यपा- त्रीकरणानां मद्यगन्धाधाणाह्मणपीडनसामान्यस्त्रीमथुनादिजातिभ्रंश- करणानां विहितकर्मत्यागनिषिद्धाचरणेन्द्रियानिग्रहपरमोद्घाटनसूच- कत्वाशौचनानसंध्यावन्दनजपहोमपञ्चमहायज्ञरहितभोजनदिवाद्विवार- भोजनसस्यच्छेदनतरुगुल्मलतादिच्छेदनक्लेव्यत्रीवश्यश्वपतिकीबवास्यप- रिवेत्तृपरिवित्तिशूद्रसेवकवाधुपिकनिजकर्मविहीनान्नभोजनयत्यन्नभोज- नयतिप्रेरितान्नयतिपक्वान्नयतिपात्रस्थान्नयतिस्पृष्टपतिदापितानमोजन- शूदस्पृष्टशूद्रष्टशूदानुमतशूझाधिकृतशूदयाचितान्नभोजनग्रहणमोजन- ग्रहणकालपक्वान्नभोजनपर्वकालरात्रिभोजनानिवेदितान्नभोजनहस्तद. त्तानहस्तपरिविष्टान्नादिभोजनप्रेतपिशाचोद्देश्यभोजनबलिदत्तान्ननीरा- जितान्नभोजनवटाश्वत्थादिनिषिद्धपात्रभोजनग्रामयाजकदेवलकवृषली- पतिमाहिषिकशिवद्विजशाक्तपाषण्डपाशुपतचिह्निताङ्गचिकित्सकज्यो- तिषिकाशौचिपतितान्नभोजनभिन्नकांस्यपात्रभोजनताम्रालाबुदारुपाषा- णमृत्पात्रभोजनरजस्वलाचाण्डालादिवाक्यश्रवणभोजनदग्धपुरीषपूतिग- न्धिभुक्तोच्छिष्टभोजनगणानदीक्षितान्नशूदपुरोहितान्नपर्यायानशूद्वपात्र- स्थानभोजनमहापुरुषोहिटान्नभोजनानुचितान्नभोजनशूद्रभुक्तशेषान्नग्रा- १ क. ख. कावशी।

श्राद्धमञ्जरी। १५५ भान्त्यजदत्तशेषान्नभोजनसदाभिक्षान्नदंपतीमुक्तशेषान्नभोजन नवौद्ध- चार्वाकसखबाह्मणान्नभोजनकारागृहपानभोजनखरोष्ट्राजाविमहिषीक्षी- रादिपानविवत्साविगतगर्मानिर्दशगोक्षीरादिपानस्तन्यपानवामहस्तैकह- स्तवर्षधारापरदत्तजलपानपिण्याककृसरसंयावपायसापूपमांसपुरोडाशा- दिवृथाभक्षणरेतोविण्मूत्रकेशकीटकादिमिश्रितान्नभोजनताहग्जलपान- च्हर्दितान्नभोजनवार्ताककलिङ्गगृञ्जनरक्तमूलकादिनिषिद्धभक्षणनिषि- द्धशिवनिर्माल्यादिभक्षणारनालयवतण्डुलानमक्षणगोमुखजलपानयोनि भक्षणयोन्यास्वादनदिवास्वापनदिवामैथुनदासीवेश्याकुलटावितन्तुपरा- धरुद्धभिणीसाधारणीभूतपरस्त्रीगमनतिर्यग्योनिगमनमुखमैथुनरथ्यारा- जमार्गवृक्षच्छायावृक्षदेवालयगृहाङ्गणगोष्ठवृन्दावनजलाशयादिस्थलरे- तोविण्मूत्रकरणपितृमात्राचार्यादिशुश्रूषाराहित्यदर्शमहालयसंक्रान्तिव्य- तीपाताटकालभ्ययोगगजच्छायादिश्राद्धविस्मरणग्रहणपुण्यकालादिना- नदानादिराहित्यसंध्यात्रयवनपरिवर्तनौपासनादिराहित्यसंध्याकालसं- लापताम्बूलचर्वणमोजनमैथुन निन्द्रायेकादश्यहोरात्रभोजनाशुद्धजलना- ननग्नस्त्रानामन्त्रकमानानिषिद्धदिनाभ्यजनमानसंनिहिततीर्थोल्लङ्घनती- ऑस्नानकच्छराहित्यतिकच्छकौपीनपुच्छादिकृतकच्छ कत्वस्वग्रामदेवो- त्सवादर्शनतदुत्सव जनपदयामकुलाचारोल्लङयनगुर्वाचार्यविप्रश्रोत्रिया- हितामिलपकार्योल्लबनविभत्यकारहुंकारतिरस्कारवादपराजयमापणास- हायारण्यमार्गगमनबाह्मणदण्डनमसनताडनशोणितस्त्रावणमलिनामे- ध्यनीलादिवसधारणहरिहरगुर्वाचार्यनिन्दाश्रवणब्रह्मदूषणक्षोमकरणस- वृत्तिपरित्यागक्षभियादिवृत्तिधनार्जनगोनिरोधनस्वयंधृतहलकर्षण- घिजीवनोत्कोचजीवनपीतावशिष्टोदकरमानचाण्डालकारितकृषिजीवन- चाण्डालकारितकृषिधान्यशलाटुपुष्पफलभोगचाण्डालकृतवापीकूपत. टाकोदकपानान्यकारितप्रपाजलपानकरमर्दिततक्रपानादिशिरोभ्यक्ताव- शिष्टतैलपानसाभिलाषविषयदर्शनदुर्मरणसंकल्पकरणशस्त्रधारणसाभि- लापपरस्त्रीनिरीक्षणमिथुनीभूतस्त्रीनिरीक्षणनमस्त्रीनिरीक्षणहीनवर्णाभि- वादनचार्वाकपाषण्डपूजितदेवाभिवादनपरोपतापकरणपरोपकारनाशतृ- णगुल्मलतादिनाशंगोमांसगन्धाघ्राणचाण्डालस्पर्शनदर्शनसंभाषणपाक- भेदपतिभेदकरणम्लेच्छमध्यनिवासम्लेच्छद्रव्योपभोगयाचमानदीनान्ध- कृपणक्षेपणतिलादिनानाप्रकारदुष्पतिग्रहनियमरहितवेदपुराणशास्त्राध्य- १ क. ख, 'लपक्कत। २ क. ख. शनगो । ३ क. ख. 'पणाक्षे ।

१५६ केळकरोपावबापूभट्टविरचिता- यनाध्यापनव्यवहारपक्षपातसाधारणब्राह्मणगृहसीमाकुल्यातटाककूपारा- माद्यपहरणपशुपक्षिबन्धनशीतवातातपवर्षचौराद्यापद्तदुःखानिवारणान- हासनशयनप्रदानविषमभाषणवाक्पारुष्यदण्डपारुष्याविहितकालेऽवि. हिताचरणमित्रस्वामिसुहृदाचार्येष्टमार्यादेवतावञ्चनपरमात्मस्मरणराहि- त्यादीनां प्रकीर्णकानां सकृत्कृतानामभ्यस्तानामत्यन्तचिरकालनिरन्तरा- भ्यस्तानां महापातकादीनां प्रकीर्णकान्तानां नवविधानां बहुविधानां सर्वेषां पापानामपनोदार्थमेतत्तीर्थस्नानादिकल्पोक्तफलावाप्त्यर्थं श्रीपरमे- श्वरप्रीत्यर्थं चास्मिन्नमुकतीर्थे सानमहं करिष्ये । एवं यथादेशं यथा- कालं यथाकामं देशकालोल्लेखनपूर्वकं संकल्पं कृत्वा दशविधस्नानानि कुर्यात् । तत्र भस्मगोमयमृत्तिकामानानि सर्वप्रायश्चित्तोक्तप्रकारेण कुर्यात् । यद्वा मा नस्तोक इति मन्त्रेण भस्मना प्रथमम् । गन्धद्वारा- मिति मन्त्रेण गोमयेन द्वितीयम् । स्योना पृथिवीति मृत्तिकया तृती- यम् । आपो हि ठेति मन्त्रेणोदकेन चतुर्थम् । गायच्या गोमूत्रेण पञ्च- मम् । गन्धद्वारामिति गोमयेन षष्ठम् । आप्यायस्वेति क्षीरेण सप्तमम् । दधिक्राव्ण इति दनाऽष्टमम् । घृतं मिमिक्ष इति घृतेन नवमम् । देवस्य वेति कुशोदकेन दशमम् । अत्र कुशोदकेन नामीति मन्त्रशेषः। ततः- ॐ नमामि गङ्गे तव पादपङ्कजं सुरासुरैर्वन्दितदिव्यरूपम् । मुक्तिं च मुक्ति च ददासि नित्यं भावानुसारेण सदा नराणाम् ॥ ॐ सागरस्वननिर्घोष दण्डहस्त सुरान्तक । जगत्स्रष्टर्जगन्मदिन्नमामि त्वां सुरेश्वर ॥ तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम । भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥ इत्युक्त्वा नाभिमात्रे जले नद्यां प्रवाहाभिमुखः स्थावरे तटाके च सूर्याभिमुखः स्थित्वा ॐ नमो देवदेवाय शितिकण्ठाय दण्डिने । रुद्राय चापहस्ताय चक्रिणे वेधसे नमः॥ सरस्वती च सावित्री वेदमाता गरीयसी। संनिधात्री भवत्यत्र तीर्थे पापप्रणाशिनी ॥ ॐ प्रपद्ये वरुणं देवमम्भसा पतिमूर्जितम् । याचितं देहि मे तीर्थं सर्वपापापनुत्तये ॥ १ ग, के स्नायीति ।

श्राद्धमञ्जरी। १५७ ॐ हिरण्यशृङ्गं वरुणं प्रपद्ये तीर्थं भे देहि याचितः। यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः ॥ यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् । तन्न इन्द्रो वरुणो बृहस्पतिः सविता च पुनन्तु पुनः पुनः॥ नमोऽग्नयेऽप्सुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽभ्यः । यदपां क्रूरं यदमेध्यं यदशान्तं तदपगच्छतात् । अत्याशनादतीपानाद्यञ्च उग्रात्यतिग्रहात् ॥ तन्नो वरुणो राजा पाणिना ह्यवमर्शतु । सोऽहमपापो विरजो निर्मुक्तो मुक्तकिल्बिषः॥ नाकस्य पृष्ठमारुह्य गच्छेब्रह्मसलोकताम् । यश्चाप्सु वरुणः स पुनात्वघमर्षणः ॥ इति मन्त्रानुक्त्वा बद्धशिखां पुरतः कृत्वा त्रिवारमवगाह्य शरीरं प्रक्षाल्याऽऽपो हि ठेति नवर्चसूक्तेन मार्जनं विधायाङ्गुष्ठमूलेन जलं प्रद- क्षिणमालोडयेत् । तत्र मन्त्रः-इमं मे गङ्ग इत्यस्य मेधः(धाः)सिन्धुनद्यो जगती । जलालोडने वि० । ॐ इमं मे गले०मया । इत्यालोड्य याः प्रवत इत्यस्य वसिष्ठो नद्यो जगती । तीर्थाभिमर्शने वि०। ॐ याः प्रवतो निवत०भवन्तु । इति तीर्थमभिसृश्य यथाशक्ति पवित्राब्लिङ्गम- त्रान्पठित्वा तत्तत्तीर्थमाहात्म्योक्तमन्त्रैराणि दद्यात् । सामान्यार्थ्य- दानमन्त्रास्तु- नमः कमलनाभाय नमस्ते जलशायिने । नमस्तेऽस्तु हृषीकेश गृहाणायं नमोऽस्तु ते ॥१॥ एहि सूर्य सहस्रांशो तेजोराशे जगत्पते। अनुकम्पय मां भक्त्या गृहा० ॥२॥ विष्णुपादाब्जसंभूते गङ्गे त्रिपथगामिनी(नि)। भागीरथीति विख्याते गृहा० ॥ इत्याणि दत्त्वा, ऋतं चेत्यघमर्षणं कृत्वाऽऽचम्य, ॐ नमो नारा- यणायेत्यष्टाक्षरमन्त्रम् , ॐ द्रुपदादिवेन्मुमुचानः स्विन्नः स्नात्वी मला- दिव । पूतं पवित्रेणेवाऽऽज्यमापः शुन्धन्तु मैनसः । ॐ तद्विष्णोः परमं० ततम् । इति जपित्वा विष्णुं च स्मृत्वा केशवादिदामोदरान्तैदशनाम- भिदशकृत्व आप्लुत्य गायत्र्या शरीरे जलमभिषिच्य , १ ग. वर्चेन सू । २ ग. न्धुनद्यो । ३ ग. इत्याद्या । ४ क. ख. °क्षरं म । .

१५८ केळकरोपाह्वबापूभट्टविरचिता- नन्दिनी नलिनी सीता मालती च महापगा। विष्णुपादाब्जसंभूता गङ्गा त्रिपथगामिनी । भागीरथी भोगवती जाह्नवी त्रिदशेश्वरी ॥. द्वादशैतानि नामानि यत्र यत्र जलाशये । मानयुक्तः सदा बूयात्तत्र तत्र वसाम्यहम् ॥ इति गङ्गावाक्यं पठित्वा नामिमात्रजले तिष्ठन्स्नानाङ्गतर्पणं कुर्यात् । तच्चेस्थम्-यज्ञोपवीती प्राङ्मुखः साक्षताभिरद्भिः, बह्मादयो ये देवा- स्तान्देवांस्तर्पयामि । भूर्देवांस्तर्पयामि । मुवर्देवांस्तर्पयामि । स्वर्देवां- स्तर्प० । भूर्भुवः स्वर्देवांस्तर्पयामीति पञ्चमन्त्रैरेकैकमञ्जलिं देवतीर्थेन दत्त्वा, उदङ्मुखो निवीती सयवाभिरद्धिः प्राजापत्यतीर्थेन कृष्णद्वैपा- यनादयो य ऋषयस्तानृषीस्तर्प० । भूर्ऋषींस्तर्प० । भुवर्ऋषींस्त० । स्वर्ऋषींस्तर्प० । भूर्भुवःस्वर्ऋषींस्तर्प० । इति पञ्चभिौ द्वावञ्जली दत्त्वा दक्षिणामुखः प्राचीनावीती पितृतीर्थेन सतिलाभिरद्भिः सोमः पितृमान्यमोऽनिरस्वानग्निष्वात्ता अग्निः कव्यवाहनादयो ये पितरस्ता- पितूंस्तर्प० । भूःपितूंस्तर्प० । भुवःपितॄस्तर्प० । स्वःपितूंस्त० । भूर्भुव:- स्वःपितृस्तर्पयामीति वित्रिस्तर्पयित्वा तीरमेत्य अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम । भूमौ दत्तेन तोयेन तृप्ता यान्तु परां गतिम् ।। इति मन्त्रेणाञ्जलि तटे निक्षिय ये केचास्मत्कुले जाता अपुत्रा गोत्रिणो मृताः । ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् । इति वस्त्रं तीरे निष्पीड्योपवीती यन्मया दूषितं तोयं शारीरमलसंभवात् । तदोषपरिहारार्थं यक्ष्माणं तर्पयाम्यहम् ॥ इति यक्ष्मतर्पणं कृत्वा ज्ञानतोऽज्ञानतो वाऽपि यन्मया दुष्कृतं कृतम् । तत्क्षमस्वाखिलं देवि जगन्मातर्नमोऽस्तु ते ॥ इति नदी क्षमापयेत् । इति मानविधिः। अथ तर्पणम् । तच्च जले करणपक्ष आर्द्रवासा एव जानुमात्राधिक- जले स्थित्वाऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य देवर्षिपितृतृप्ति- १ क.ग. त्ताः कल श्राद्धमञ्जरी। १५९ द्वारा श्रीपरमेश्वरप्रीत्यर्थममुकतीर्थे देवर्षिपितृतर्पणं करिष्यमाणतीर्थ- श्राद्धाङ्गतर्पणं च तन्त्रेण करिष्य इति संकल्प्य देवर्षितर्पणं प्रजापति- स्तृप्यत्वित्यादि कृत्वा प्राचीनावीती दक्षिणामुखः सतिलजलेन नित्यतर्प- णवत्पितृतर्पणं कृत्वा सर्वोद्देशेन तिलाञ्जलिं दद्यात् । तत्र मन्त्रः- देवासुरास्तथा नागा यक्षगन्धर्वराक्षसाः । पिशाचा गुह्यकाः सिद्धाः कूष्माण्डास्तरवः खगाः॥ जले चरा भूनिलया वाय्वाधाराश्च जन्तवः। तृप्तिमेतेन यान्त्वाशु मद्दत्तेनाम्बुनाऽखिलाः ॥ नरकेषु समस्तेषु यातनासु च ये स्थिताः । तेषामाप्यायनायैतद्दीयते सलिलं मया ॥ ये बान्धवाबान्धवा बा येऽन्यजन्मनि बान्धवाः । ते तृप्तिमखिला यान्तु ये चास्मत्तोऽभिकाइक्षिणः॥ यत्र क्वचनसंस्थानां क्षुतृष्णोपहतात्मनाम् । इदमक्षय्यमेवास्तु भया दत्तं तिलोदकम् ॥ आब्रह्मस्तम्ब पर्यन्तं०अतीतकुलको तिलोदकम् । इति मन्त्रैस्तर्पणं कुर्यात् । तीरे तर्पणपक्षे शुप्के वाससी परिधाय बहिरास्तीर्य तस्मिस्तर्प- येदिति तर्पणविधिः । अथ तीर्थश्राद्धप्रयोगः। देशकालोत्कीर्तनान्ते प्राचीनावीती पित्राद्या. शान्तापितन्तकृन्महालयबदुच्चार्येतेषां तृप्त्यर्थं तीर्थश्राद्धं सदैवं सपिण्डं पार्वणैकोद्दिष्टविधिनाऽनेन हविषा सद्यः करिष्य इति संकल्प्य क्षेत्रवासि- नोऽन्यानपि च ब्राह्मणान्महालयवनिमन्त्र्याावाहनविप्राङ्गुष्ठनिवेशन- तृप्तिप्रश्नविकिरविसर्जनवर्ज सकृन्महालयवत्प्रयोगः । महालयपदस्थाने तीर्थपदोच्चारणम् । इदं विष्णुरित्यादि विष्णो हव्यं रक्षस्वेत्यन्तस्यान्न- निवेदनैकदेशस्य लोपः । अत्र धूरिलोचनौ पुरूरवावौ वा देवौ। पिण्डदान आप्तपिण्डस्य पुरस्तादाब्रह्मणो ये पितृवंशजाता इत्यादि. मन्त्रैः पिण्डान्तरदानं महालयवत् । पिण्डांस्तु तीर्थजल एव क्षिपेत् । इति तीर्थश्राद्धप्रयोगः। अथ तीर्थश्राद्धानुकल्पाः । पाकाभाव आमश्राद्धं हिरण्यश्राद्धं वा कुर्यात् । तत्राप्यावाहनादीनां लोप एव । अत्राप्यशक्तौ पूर्वोक्तानु- कल्पानामन्यतमेन कार्यम् । केवलैकपिण्डात्मकमप्युक्तमत्यशक्तं प्रति विस्थलीसेतुसारे । तद्यथा-पूर्वोक्तपिण्डद्रव्याणां सक्त्वादीनामन्यत- मेनकं पिडं कृत्वा संक्षेपतीर्थश्राद्धं करिष्य इति संकल्प्य १६० केळकरोयाबबापूभट्टविरचिता-- पिता पितामहश्चैव तथैव प्रपितामहः । मातामहस्तत्पिता च प्रमातामहकादयः॥ तेषां पिण्डो मया दत्तो क्षय्यमुपतिष्ठताम् । इति मन्त्रेणैकं पिण्डं दद्यादिति । तर्पणाशक्तौ तु आब्रह्मस्तम्बपर्य- न्तमिति मन्त्रद्वयेनैव तर्पणम् । तीर्थश्राद्धानन्तरं यथाविभवं तीर्थपूजां कृत्वा तदुद्देशेन ब्राह्मणान्सुवासिनीश्च यथाशक्ति भोजयित्वा दीनाना- थादीन्परितोष्य स्वयं सुहृद्युक्तः श्राद्धशेषं भुञ्जीत । तदिन उपवासपक्षे श्राद्धशेषमवजिदिति । इति तीर्थप्राप्तिदिनकृत्यम् । द्वितीयादिदिने नित्यवत् मानतर्पणतीर्थपूजनब्राह्मण भोजनादि यथा- शक्ति कुर्यात् । विशेषं तु तत्तीर्थमाहात्म्योक्तमकारण कुर्यात् । एवं यात्रां कृत्वा प्रत्यागत्य शोभने मुहूर्ते गृहप्रवेशं कृत्वा पूर्वोक्तघृत- श्राद्धवद्धृतश्राद्धं कुर्यात् । तत्र सर्वान्पितनुञ्चार्येतेषां तृप्त्यर्थममुकती- र्थात्मत्यागमननिमित्तं धृतश्राद्धं करिष्य इति संकल्पवाक्ये विशेषः। अन्यत्समानम् । कोचिद्दधिश्राद्धं कार्यमित्याहुः । तत्पक्षे दधिश्राद्धं करिष्य इति संकल्पः । अत्र नः प्राधान्यम् । अन्यत्तु व्यञ्जनत्वेन देयमिति । इति यात्रोत्तरश्राद्धम् । इति श्रीमञ्चित्तपावनकेळकर० श्राद्धमार्यां सामान्य सर्व- तीर्थोपयोगी तीर्थविधिः । अथ प्रयागयात्रायां विशेषः । प्रयागयात्रां करिष्य इति संकल्पः । आन्तरालिकतीर्थानां प्रासङ्गिकत्वान्नैव संकल्पोल्लेखः । मुण्डननिर्णय- स्तूक्तः प्राक् । सभर्तृकाणां स्त्रीणां सर्वकेशसमुदायस्य द्यङ्गुलमात्रं छेदनमुक्तं तद्विधिन्थान्तरे । समर्तृका स्त्री शरीरमलापकर्षणस्नानं कृत्वा भत्रनुज्ञां गृहीत्वा देशकालौ स्मृत्वा मम जन्मप्रभृत्यद्ययावन्मनो- वाकायकर्मभिनितोऽज्ञानतश्च संभावितानां महापातकादीनां प्रकीर्ण- कान्तानां नवविधानां बहुविधानां सर्वेषां पापानां रहस्यकृतानां प्रकाशकृतानां सकृत्कृतानामभ्यस्तानां च तथा साभिलाषपरपुरुषनिरी- क्षणसंभाषणसंभोगादिजनितपापानां रजस्वलावस्थाजनितसंपर्कादिपा. तकानां भर्तृमनोभङ्गाज्ञोल्लङ्घादिविविधपातकानां चापनोदार्थमस्मिन्प्र. १ ग. हः । मातापितामहीश्चैव तयैव प्रपितामही । मा। २ ग, त्यदिनव' ।

श्राद्धमञ्जरी! यागे गङ्गायमुनासरस्वतीत्रिवेणीसंगमे मानमहं करिष्ये । तत्राऽऽदी भर्तु- दीर्घायुरारोग्यतासिद्ध्यर्थमखण्डितसौभाग्यावाप्त्यर्थं च त्रिवेण्या घेणी- पदानं करिष्य इति संकल्प्य गङ्गादिपूजां कृत्वा, अग्रतो धङ्गुलमात्रा घेणी का कत्रितां कुङ्कुमादिचर्चितां रत्नसुवर्णाद्यलंकृतां वैणवपाने निधाय तत्पात्रमजलौ गृहीत्वा भर्तारमवेक्षमाणा तं प्रार्थयेत् । अपराधसहस्राणि जातानि मम मोहतः । तत्सर्वं मे प्रसन्नेन मनसा क्षन्तुमर्हसि ॥ त्वत्प्रसादान्मया भोगाः सर्वे भुक्ताः सहस्रशः । आनीतोऽस्मिन्प्रयागाख्ये तीर्थे कामफलप्रदे ॥ गङ्गायमुनयोर्यत्र सरस्वत्याश्च संगमः । वेणीतिप्रथिता लोके भाग्यसौभाग्यवर्धिनी ॥ तत्र वेणीं प्रयच्छामि यद्याज्ञा स्वामिनो भवेत् । इत्युक्त्वा तथैव कुर्विति भर्तुराज्ञां गृहीत्वा घेण्यां वेणीप्रदानेन सर्व पापं प्रणश्यतु । जन्मान्तरेष्वपि सदा सौभाग्यं मम वर्धताम् ॥ इति मन्त्रेण त्रिवेणीसंगमे वेणी निक्षिपेत् । भर्ता च- सुमङ्गलीरियं वधूरिमा समेत पश्यत । सौभाग्यमस्यै दत्त्वायाथास्तं विपरेतन ॥ इति मन्त्रं पठेत् । हम मन्त्रं विप्राः पठेयुरिति कौस्तुभे । ततः स्त्री स्नात्वा त्रिवेणी पूजयित्वा तत्पीतये नानासौभाग्यद्रव्यवस्त्रकञ्चकाभ- रणादियुतं वंशपात्रं दद्यात् । तत्र मन्त्रः- वंशपात्रमिदं श्रेष्ठं वंशसौभाग्यवर्धनम् । दानानामुत्तमं दानमतः शान्ति प्रयच्छ मे ॥ ततो वेणीदानपूर्णतासिद्ध्यर्थं ब्राह्मणान्दक्षिणया सुवासिनीः सौभा. ग्यद्रव्यकञ्चुक्यादिभिस्तोपयेत् । इति वेणीदानविधिः । अथ प्रत्यहं गङ्गामार्थनामन्त्राः- महापापादिपापं च नानायोनिपु यत्कृतम् । ज्ञानतोऽज्ञानतो वाऽपि द्रव्यलोभेन यत्कृतम् ॥ * ख. पुस्तके समासे-सिन्दूर कंमं चैव ताम्बूलं च सपूगकम् । कण्ठमूत्रं ताडपत्रं हरिद्रा चैव कंचुकीम् । सौभाग्याष्टकयुक्तानि दधाच्छूपाणि षोडश । १ ग, ता सा प्रया। २ ग, मत्रः । म । -- १६२ केळकरोपाबबापूभष्टविरचिता- परद्रोहादिकं पापं सर्वदा यन्मया कृतम् । भूतं भावि वर्तमानमा शुष्कं च यत्कृतम् ॥ एते वै सर्वपापौघा नश्यन्तु मम जाह्नवि । अयमन्त्रस्तु-ब्रह्मकमण्डलूद्भुते गङ्गे त्रिपथगामिनि । त्रैलोक्यवन्दिते देवि गृहाणार्यं नमोऽस्तु ते ॥ यमुनाप्रार्थनामन्त्रः- आदित्यदुहिते दे(त)वि यमज्येष्ठे यशस्विनि । त्रैलोक्यवन्दिते पुण्ये पापं मे यमुने हर ॥ गतं पापं गतं दुःखं गतो मे पापसंचयः । निष्पापो यमुने देवि प्रसादात्तव नान्यथा ॥ यमुनाय॑मन्त्रः-आदित्यदुहिते दे(त)वि यमज्येष्ठे यशस्विनि । त्रैलोक्यवन्दिते देवि गृहा० ॥ अत्र स्नानकाले नाभिमात्रजले तिष्ठन्यमं तर्पयामीत्यादिचतुर्दशम- न्र्यमतर्पणं कुर्यादिति विशेषः । स्वरस्वतीप्रार्थनामन्त्रः- गङ्गायमुनयोर्मध्ये स्थिताऽसि त्वं सरस्वति । उद्धारार्थं तु लोकानां मामुद्धर भवार्णवात् ॥ सरस्वत्यर्थ्यमन्त्रः- गङ्गायमुनयोर्मध्ये या च गुप्ता सरस्वती। त्रैलोक्यवन्दिते देवि गृहा० ॥ इति । अथ प्रसङ्गादस्थिप्रक्षेपविधिः । यावदस्थि मनुष्याणां गङ्गातोये च तिष्ठति । तावत्स देही स्वर्गस्थः कुरुतेऽमृतभोजनम् ॥ नरकस्थो दिवं याति स्वर्गस्थो मोक्षमाप्नुयात् । अन्तर्दशाहे यस्यास्थि गङ्गातोये निमज्जति ॥ न तस्य पुनरावृत्तिर्बह्मलोकात्कथंचन । इति पुराणोक्त्या गडायामेवासौ विधिः । ब्रह्माण्डे तु तीर्थ- सामान्ये विहितः। ग्रन्थान्तरे-अस्तंगते गुरौ शुक्रे तथा मासे मलिम्लुचे । गङ्गायामस्थिनिक्षेपं न कुर्यादिति गौतमः॥ इति । १ क. ख. रार्थे तु । २ ग. °येषु ति। ३ ग. तीर्थान्तेऽपि वि ।

श्राद्धमञ्जरी। १६३ सथा-पुत्रो वाऽप्यथवा भ्राता सपिण्डः शिष्य एव वा । तीर्थप्रक्षेपणार्थाय अस्थिशुद्धि समाचरेत् ॥ सुमुहूर्ते शुभे वारे सुलग्ने विष्टिवजिते । त्रिपादं ध्रुवनक्षत्रं धनिष्ठापञ्चकं तथा ॥ गुरुभौमार्कवारांश्च त्यक्त्वा बाह्य(बाह्म)क्षसंयुते । अस्थ्युद्धारं प्रकुर्वीत यथोक्तविधिना द्विजः ॥ इति । अथास्थिशुद्धिप्रयोगः । देशकालौ संकीयांमुकगोत्रस्यामुकशर्मणोऽ- स्थाममुकतीर्थे नयनाधिकारार्थमस्थिशुद्धि करिष्य इति संकल्प्य सचैलं नात्वा यत्र तानि निखातानि भवेयुस्तां भुवं पञ्चगव्यैः प्रोक्षयेत् । तत्र मन्त्राः । गायच्या गोमूत्रेण । गन्धद्वारामिति गोमयेन । आप्यायस्वेति पयसा। दधिकाव्ण इति दना। शुक्रमसीत्याज्येन । देवस्य त्वा० हस्ताभ्यां प्रोक्षामीति कुशोदकेन । तत उपसर्पति चतसृणां शङ्खः पितरबिष्टुप् । भूप्रार्थनखननमृदुद्धरणास्थिग्रहणेषु क्रमेण वि० । उपसर्प मातरमिति मन्त्रेण भूमि प्रार्थ्य, उच्छश्चस्वेति खात्वा, उच्छश्चमानेति मृदमुद्धृत्य, उत्ते स्तम्नामीत्यस्थिग्रहणं कृत्वा जलाशयमेत्य तानि प्रक्षाल्यास्थीनि स्पृष्ट्वा विधिना सायात् । ग्रन्थान्तरे त्वस्थीनि पुनः पुनः स्पृष्ट्वैवाष्टोत्तर- शतवारं मायादित्युक्तम् । ततः स्पृष्ट्वैव पूर्वोक्तैः पञ्चगव्यमन्त्रैरस्थीनि पञ्चगव्यैः नापयेत् । तत एतोन्विन्द्रं स्तवामेति तृचेन शुद्धोदकेन प्रक्षाल्य सास्थिदशविधस्थानानि कुर्यात् । तत्र भस्मगोमयमृत्तिकास्नानानि यथोक्तविधिना कुर्यात् । अपि वा मा नस्तोक इति भस्मना गन्धद्वारा- मिति गोमयेन । स्योना पृथिवीति मृत्तिकया । ततः पञ्चगव्यमन्त्रैः पश्चगव्य स्नानानि देवस्य त्वा० हस्ताभ्यां नामीति कुशोदकेन । आपो हि छेति तृचेन शुद्धोदकमानमिति । ततो वक्ष्यमाणमन्त्रैरस्थ्नां कुशै- र्जिनं कुर्यात् । ते च मन्त्रा:-अतो देवेति ऋक् । एतोन्विन्द्रमिति तृचम् । शुची वो हव्या इति तृचम् । अथ सूक्तानि । नतमंहो न० । इति वा इति मे म०। स्वादिष्ठया० वर्ग २ । ममाग्ने वर्षो० । कबुद्रायः । इति शौनकीयादौ । ग्रन्थान्तरेऽन्येऽपि मन्त्रा उक्ताः। ते च-यदन्ति यञ्चेति द्वादश, सूक्तम् । पवमानः सुवर्जन इत्यनुवाकः । इमा रुद्राय तवसे० वर्ग २। आ ते पितर्मरुतां० वर्ग ३ । इमा रुद्राय स्थिरधन्वने० वर्ग १। इति रुद्रसूक्तानि । तमु छुहि यः । आवो राजानं० । भुवनस्य १ ग. °ट्वैवं पू । २ ग. °स्ताभ्यामिति ।

१६४ केळकरोपाहबापूभडविरचिता- पितरं० । व्यम्बकं० । इति रुद्रमन्त्रा इति । ततोऽस्थीन्यष्टगन्धेन यक्ष- कर्दमेन चानुलेपयेत् । अष्टगन्धं तु- चन्दनागरुकर्पूरकस्तूरीरोचनं तथा । उशीर केशरं चैव देवदार्विरनुक्रमात ॥ रोचन गोरोचनम् । उशीरं वालकम् । यक्षकर्दमश्च- कर्पूरमगरुश्चैव कस्तूरी चन्दनं तथा। कक्कोलं च भवेदेभिः पञ्चभिर्यक्षकर्दमः ॥ इति । ततो गृहे देवतागारे जलाशये वाऽस्थीनि संपूज्य धूपैरुधूप्य नीरा- ज्योपहारादि निवेदयेत् । ततो हिरण्यश्राद्धं कुर्यात् । तद्यथा-देशकालौ स्मृत्वाऽस्मपितुरमु- कशर्मणोऽमुकगोत्रस्यास्थ्युद्धारशुद्धिनिमित्तमस्मपितृपितामहप्रपिताम- हानाममुकशर्मणाममुकगोवाणां वसुरुद्रादित्यस्वरूपाणां पार्वणेन विधिना हिरण्यश्राद्धं करिष्य इति संकल्प्य पूर्वोक्तहिरण्यश्राद्धविधिना श्राद्धं कुर्यात् । पुरुरवावी देवौ । अनेनाऽऽमान्नेन सक्तुभिर्वा पिण्ड. दानं श्राद्धान्ते तिलतर्पणं च कुर्यात् । अकृतसपिण्डीकरणस्य तु पूर्वो. क्तप्रकारेणैकोद्दिष्टविधिना पित्रुद्देशेनैव श्राद्धं कुर्यादिति । तत आपोहि ठेत्यादिभिरलिङ्गमन्त्रैर्वारुणसूक्तैः पवमानसूक्तैः पुरुषसूक्तेन चास्थीनि मार्जयित्वा देशकालौ संकीास्थिशुद्धयङ्गं हवनं करिष्य इति संकल्प्य स्थण्डिलेऽनि प्रतिष्ठाप्योदीरतामित्यष्टर्चेन सूक्तेनाटोत्तरशतं घृताक्तति- लाहुतीर्जुहुयात् । उदीरतां शङ्खः पितरस्त्रिष्टुप् । अस्थिशुद्धयङ्गहवने विनिः । तत्र त्रयोदशावृत्तिभिः प्रतिमन्त्रं हवनेन चतुरधिकशतमाहु- तयो भवन्ति । अवशिष्टाश्चतस्र आहुतीरन्तिमेन मन्त्रेण मन्त्रावृत्त्या जुहुयात् । अपि वा सूक्तान्ते स्वाहाकारं कृत्वा सूक्तावृत्त्याऽष्टोत्तरशत- माहुतीर्जुहुयादिति । सर्वत्र पितृभ्य इदं न ममेति त्यागः । एवं होम समाप्यास्थीनि ताम्रमये संपुटे निक्षिपेत् । उक्तं च- सुवर्ण मौक्तिकं रौप्यं प्रवालं नीलकं तथा । एतानि पञ्च रत्नानि अस्थिमध्ये विनिक्षिपेत् ॥ कुशैरावृत्य सूत्रेण क्षौमेण परिवेष्टयेत् । अजिनं कम्बलं दर्भा गोकेशा भूर्जपत्रकम् ॥ शाणसूत्रं ताडपत्रं ताम्रपानं च वेष्टनम् । इति । । -- -- १ ग. रद्दीप्यं ।

श्राद्धमञ्जरी। १६५ ग्रन्थान्तरे तु पट्टवस्त्रकौशेयमाञ्जिष्ठश्वेतवस्त्रनेपालशाणपट्टशुद्धस- द्भिश्च घेष्टनमुक्तम् । एतन्मध्यस्थितास्थीनि न दुष्यन्त्यपवित्रकैः । रजस्वलादिकाकादिस्पर्शनोपहतानि वा ॥ मार्गे वाहकदोपैश्च नोपहन्युः कदाचन । इति । एवमुक्तप्रकारेण ताम्रसंपुटे प्रक्षिप्य तं वेष्टनास्थिगर्भ ताम्रसंपुटमादाय तीर्थं गच्छेत् । मार्गे विशेष:- मार्गे संपुटमुत्तार्य शौचमाचमनं चरेत् । सात्वा पाकादिकं कृत्वा भोजनादि समाचरेत् ॥ देवान्पितॄन्समभ्यर्च्य गच्छेत्तीर्थं यथाविधि । इति । काशीखण्डे च- अस्पृष्टहीनजातिः सञ्शुचिष्मानस्थण्डिलेशयः । इति । अथ तीर्थं समासाद्य पार्वणं श्राद्धमाचरेत् । पञ्चगव्यं समादाय वेष्टनान्यपहाय च । क्षालयित्वा पञ्चगव्यैः प्रागुक्तैर्मन्त्रविस्तरैः ॥ शुद्धवस्त्रे तीर्थजलैरस्थीनि क्षालयेत्पुनः । अष्टोत्तरशतावृत्त्या मन्त्रैः केशवनामभिः ।। लेपयित्वा ततोऽस्थीनि गन्धैः पुष्पैः प्रपूजयेत् । धूपैरुधूप्य नीराज्य नैवेद्यं घृतशर्कराम् ॥ दत्त्वा हिरण्यवस्त्रादि गामेकां च पयस्विनीम् । दक्षिणां स्वानुसारेण पुण्यलोकसमृद्धये ॥ स्मृतिकौस्तुभादौ तु श्राद्धगोदानादेरनुक्तत्वाद्विकल्प: । देशकाली स्मृत्वा मम पित्रादेरमुकशर्मणोऽमुकगोत्रस्य समस्तपापक्षयपूर्वकब्रह्मलो- कावाप्तये प्रयागे त्रिवेणीतीर्थेऽमुकतीर्थे वाऽस्थिप्रक्षेपमहं करिष्य इति संकल्प्य श्राद्धपक्षे पूर्ववद्धिरण्यश्राद्धमस्थिप्रक्षेपनिमित्तं कृत्वा यथा- शक्ति हिरण्यादि विप्रेभ्यो दत्त्वाऽस्थीनि शुद्धवस्त्रे पलाशपत्रपुटे वा संस्थाप्य पञ्चगव्यैः क्षालयित्वा गन्धादिभिरभ्यर्च्य हिरण्यश- कलमाल्यघृतमधुतिलैः सह मृत्पिण्डे निधाय दक्षिणां दिशमवेक्षमाणो नमोऽस्तु धर्मराजायेति वदन् । तीर्थे प्रविश्य नाभिमात्रे जले स्थित्वाऽh १ ग. 'न्मयस्थि। २ ग. गर्भतान संपुट्यादा । ३ ग. गन्धपु। । ग. 'क्षिणात्वानु ।

१६६ केळकरोपावयापूभट्टविरचिता- मुकशर्मणोऽमुकगोत्रस्यास्थीन्यस्मिन्नमुकतीर्थे प्रक्षिपामि स मे पीतो भवतु इत्युक्त्वा नम्रो भूत्वा द्वादशाक्षरेण मन्त्रेण जलेऽस्थीनि निक्षि- प्योत्थाय भास्वन्तं सूर्यमवेक्ष्य तीरमागत्य ब्राह्मणाय यथाशक्ति रजतं दक्षिणां दद्यात् । अमुकगोत्रस्यत्याद्यन्ते कृतस्यास्थिप्रक्षेपस्य सान्तासि- ध्यर्थमिदं रजतं चन्द्रदेवत्यं तुभ्यमहं संप्रदे । इति । दशाहाभ्यन्तरे तु संचयनानन्तरमेव पूर्वोक्तवेष्टनरावेष्ट्य ताम्रपुटादौ निक्षिप्य तीर्थं गत्वा तत्र नानादिविधिना पूर्वोक्तप्रकारेण प्रक्षिपेदिति विशेषः । अस्थिप्रक्षेपे फलमुक्तं पुराणान्तरे- एवमस्थीनि निक्षिप्य वैश्यस्य जनकस्य वा। पुत्रारोग्यधनैश्वर्ययुक्तो भवति नान्यथा ॥ दत्त्वा द्रव्यं वाहकाय पितॄणामनृणो भवेत् ॥ इति । स्मृतिकौस्तुमे तु पुराणवचनम्- अस्थीनि मातापितृवंशजानि नयन्ति गङ्गामपि ये कदाचित् । सद्वान्धवस्यापि दयाभिभूतास्तेषां च तीर्थानि फलप्रदानि ॥ इति । इत्यस्थिप्रक्षेपविधिः। अथ प्रयागे वेण्या देहत्यागेच्छायां देहत्यागविधिः । तत्र माघमासे देहत्यागान्मुक्तिः । तदुक्तं बाह्ये- ध्यात्वा विष्णुपदाम्भोज प्रयागे विष्णुतत्परः । तनुं त्यजति वै माघे तस्य मुक्तिन संशयः ॥ इति । कालान्तरे देहत्यागात्स्वर्गप्राप्तिरिति पद्मपुराणे । तत्र यथाशक्ति सर्वप्रायश्चित्तं कृत्वा स्वीयश्राद्धाधिकार्यभावे स्मृतिकौस्तुभादावुक्तप- कारेण जीवच्छाद्धं सपिण्डनान्तं विधाय यथाशक्ति ब्राह्मणेभ्यो गवा- दिदानानि दत्त्वा दीनानाथांश्च परितोष्य कृतोपवासः परेऽह्नि ब्राह्मणा. नुज्ञां गृहीत्वा देशकालौ स्मृत्वा यथाकामं फलमुल्लिख्य मोक्षो मे भूयादि- तीच्छा चेन्ममानेकजन्मार्जिताशेषपापक्षयपूर्वकमोक्षप्राप्तिद्वारा श्रीप- रमेश्वरप्रीत्यर्थमस्मिन्प्रयागे त्रिवेणीसंज्ञके गङ्गायमुनासरस्वतीसंगमे देहत्यागं करिष्य इति संकल्प्य विप्रादीन्नमस्कृत्य पुण्यस्तोत्राणि नाना- नं वेत्यादिपुण्यसूक्तानि द्वादशाक्षरादिमन्त्रान् , इमं मे गङ्गे यमुने सर- स्वति० सितासिते०इत्यादिमन्त्रांश्च पठित्वा मनोनिग्रहेण चित्तैकाम्यतया - १ ग. वंशस्य।

श्राद्धमञ्जरी। जीवपरमेश्वरयोरैक्यं भावयन्स्थूलसूक्ष्मकारणशरीरत्रयातीतो ब्रह्मैवाई सच्चिदानन्दस्वरूपः सर्वान्तर्यामी प्रकाशरूपोऽस्मीति दृढं भावयन्परमे- श्वरस्य महाविष्णोः सच्चिदानन्दस्वरूपस्य विरारूपस्य सर्वलोकहृदया- म्बुजमध्यगतस्य परमहंसस्य पादाम्बुजं ध्यायन्नारायणेति नामोच्चारय- अलं प्रविशेत् । एवं भावयितुमशक्तश्चेन्मन्त्रमानं जपेत् । उक्तं च वाम- नपुराणे मानसिकलाने- अच्युतोऽहमनन्तोऽहं गोविन्दोऽहमहं हरिः । आनन्दोऽहमशेषोऽहमजोऽहममृतोऽस्म्यहम् ॥ नित्योऽहं निर्विकल्पोऽहं निर्विकारोऽहमव्ययः । सच्चिदानन्दरूपोऽहं परिपूर्णोऽस्मि सर्वदा ॥ ब्रह्मैवाहं न संसारी मुक्तोऽहमिति भावयेत् । अशक्नुवन्मावयितुं वाक्यमेतत्सदाऽभ्यसेत् ॥ सतस्तस्य पुत्रादिरौर्ध्वदेहिकं कुर्यादिति संक्षेपः । इति वेण्यां देहत्यागविधिः। तीर्थ पुण्यक्षेत्रे च प्रतिग्रहनिषेधः पाने- न तीर्थे प्रतिगृह्णीयात्याणैः कण्ठगतैरपि । अपि कामातुरो जन्तुरेका रक्षति मातरम् ॥ तथैव सर्वदा विप्रस्त्यजेत्तीर्थे प्रतिग्रहम् । तीर्थे प्रतिग्रहो यस्तु तीर्थविक्रय एव सः॥ विक्रीतायां तु गङ्गायां विक्रीतः स्याजनार्दनः । जनार्दने तु विक्रीते विक्रीतं भुवनत्रयम् ॥ यस्तु लौल्याद्विजः क्षेत्रे प्रतिग्रहरुचिर्भवेत् । नैव तस्य परो लोको नायं लोको दुरात्मनः ॥ ब्रह्मपुराणे-प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् । तत्र नारायणः स्वामी नान्यः स्वामी कदाचन ॥ न तत्र प्रतिगृह्णीयात्प्राणैः कण्ठगतैरपि । अत्र प्रवाहमिति जलावध्युपलक्षणम् । अत्र प्रसिद्धनदीषु गर्ने प्रति. ग्रहनिषेधः । प्रसिद्धतरगण्डक्यादिनदीषु तीरेऽपि प्रतिग्रहनिषेधः । गङ्गायां तु क्षेत्रेऽपि । गर्भादिलक्षणमुक्तं दानधर्मे- .. १ ग, पम् । स।

१६८ केळकरोपाहबापूभट्टविरचिता- भाद्रशुक्लचतुर्दश्यां यावदाप्लवते जलम् । तावद्गर्भ विजानीयात्तदूर्व तीरमुच्यते ॥ सार्धं हस्तशतं यावद्र्भतस्तीरमुच्यते । तीराद्व्यतिमात्रं तु परितः क्षेत्रमुच्यते ॥ गव्यूतिः क्रोशद्वयम् । गङ्गाक्षेत्रं तु योजनमात्रम् । एकयोजनवि- स्तीर्णं दिक्षु सीमा तटद्वयभिति भविष्यपुराणात् । अतिसंकटे प्रतिग्रहे निष्कृतिरुक्ता पाझे- अथ चेत्यतिगृह्णीयाबाह्मणो वृत्तिकर्षितः । दशांशमर्जितं दद्यादेवं धर्मो न हीयते ॥ इति । अन्यत्र विस्तरः । प्रयागयात्रासमाप्तौ काशीयात्रां करिष्य इति संकल्पः। काश्यां गयायात्रां करिष्य इति संकल्पः। त्रिस्थलीयात्रा करिष्य इति सामान्यतः प्रयागादियात्राः करिष्य इति विशेषतो वा युगपत्संक- रूपस्त्वेकपयोगविधेरभावान्न संघटत इति भट्टोजिदीक्षिताः । गयां गन्तु. कामो घृतश्राद्धं कृत्वा यात्रासंकल्पं विधाय गणेशादीन्नत्वा श्राद्धशेषं घृतमादाय कार्पटीवेषं धृत्वा प्रस्थाय कोशादर्वाग्यामान्तरं गत्वा श्राद्धशेष भुक्त्वा तत्रैव वसेदिति विशेषः । तदुक्तं विष्णुपुराणे- उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः । विधाय कार्पटीवेपं कृत्वा ग्रामं प्रदक्षिणम् ॥ ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् । ततः प्रतिदिनं गच्छेत्सतिग्रहविवर्जितः ॥ इति । कार्पटीवेपधारणं च गमनकाल एव न तु संध्याभोजनादाविति बहवः। सदैव वेपधारणमिति केचित् । गयाश्राद्धमाहात्म्यं त्रिस्थलीसेतो- आत्मजो ह्यन्यजो वाऽपि गयाकूपे यदा तदा । यन्नाम्ना पातयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम् ॥ अत एव कौम-गयाभिगमनं कर्तुं यः शक्तोऽपिन गच्छति। शोचन्ति पितरस्तस्य वृथा चास्य परिश्रमः ॥ इति । तस्माद्याकृत्यं पुत्रस्य नित्यम् । अतो यथाशक्त्यप्यनुष्ठेयम् । तत्रापि सकृत्करणमेव नित्यम् । तावतैव शास्त्रार्थसिद्धेः। आवृत्तिबो- धकवीप्सायभावाच । चातुर्मास्यवत्पुनः करणे तु फलाधिक्यमिति त्रिस्थलीसेतुसारे। १ ग. साह।

श्राद्धमञ्जरी। महालये गयाश्राद्धे मातापित्रोदृतेऽहनि । कृतोद्वाहोऽपि कुर्वीत पिण्डनिर्वपणं सुतः ॥ अभिश्रवणनिषेधस्तु हेमाद्रौ- वृद्धिश्राद्धे गयाश्राद्धे प्रीतिश्राद्धे तथैव च । सपिण्डीकरणश्राद्धे न जपेपितृसूक्तकम् ॥ वृद्धिश्राद्धे तु पितृसूक्तस्यैव निषेधः । तत्रान्छ सूक्ताभिश्रवणविधा- नात् । संन्यासिना तु श्राद्धस्थलेषु दण्डस्य दर्शनमात्रं कार्यम् । न तु श्राद्धतर्पणादि । तदुक्तं वायवीये- गयायां मुण्डपृष्ठे च कूपे यूपे वटे तथा । दण्डं प्रदर्शयेद्भिक्षुः पितृभिः सह मुच्यते ॥ इति । जीवपितृको यदि प्रसङ्गेन गयां गच्छेत्तदा पितुः पित्रादीनां श्राद्धं कुर्यात् । जीवत्पितृको मृतमातृकश्चेन्मातृश्राद्धार्थं गयां नाभिगच्छेत् । प्रसङ्गेन गतश्चेन्मातृश्राद्धं कार्यमेवेति त्रिस्थलीसेतो । प्रयागादित्रिस्थ- लीयात्रानुष्ठानादिविशेषास्त्रिस्थलीसेतो काशीखण्डादौ च ज्ञेयाः । गौर- वभयान्नेहोच्यन्ते । अथ गोदावरीप्रार्थनामन्त्रः- नमो गझे महागड़े महादेवस्य वल्लभे। महति त्वां महादेवि गोदावरि नमोऽस्तु ते ॥ आर्यदानमन्त्रास्तु- बह्मादिशिखरोत्पन्ने विकण्टकविराजिते । गृहाणार्यमिदं गङ्गे प्रसीद परमेश्वरि ॥१॥ व्यम्बकस्य जटोद्भूते गौतमस्याघनाशिनि । गौतमप्रार्थिते देवि गृहाणायं नमोऽस्तु ते ॥२॥ सर्वपापौघशमनी (नि) सुरासुरनमस्कृते । सप्तधा सागरं यासि गृहाणा० ॥३॥ सिंहस्थे गुरौ सिंहराशिगतबृहस्पतिमहापर्वनिमित्तमिति संकल्पवा- क्योहः । कन्यागतबृहस्पतिमहापर्वनिमित्तमिति कन्यागते कृष्णायाम् । कृष्णाप्रार्थनामन्त्रः- कृष्णे कृष्णाङ्गसं भूते जन्तूनां पापहारिणि । नमस्ते सरिता श्रेष्ठे महापापं विनाशय ॥ नमः कृष्णे महादेवि महादेवस्य बल्लभे। महति त्वां महाभागे कृष्णावणि नमोऽस्तु ते ॥ - १७० केळकरोपाह्वबापूभट्टविरचिता- अर्घ्यदानमन्त्राः-सह्याद्रिशिखरोत्पन्ने श्रीशैलोत्तुङ्गागामिनि । कृष्णावेणीति विख्याते गृहाणाध्य० ॥१॥ महाबलजटोद्भूते कृष्णे ह्युभयतोमुखी(खि)। वेदेन प्रार्थिते गङ्गे गृहाणाध्य० ॥ दर्शनात्सर्वपापनि स्पर्शनान्मोक्षदायिनि । स्नानेन मुक्तिदे पुण्ये गृहाणाय० ॥ ३॥ मुण्डनं चोपवासश्च गौतम्यां सिंहगे गुरौ । कन्यागते तु कृष्णायां न तु तत्तीरवासिनाम् ॥ इत्यादयो विशेषा ग्रन्थान्तरतोऽनुसंधेयाः । सर्वत्रानुक्तौ गङ्गाप्रार्थना- र्घ्यदानमन्त्राश्चेति । अथ समुद्रयात्राविधिः। तत्मानकाल उक्तः स्कान्दे- पुनाति पर्वणि स्नानात्तर्पणैः सरितां पतिः । कदाचिदपि नैवात्र स्नानं कुर्यादपर्वणि ॥ विना मन्त्रं विना पर्व क्षुरकर्म विना नरैः । कुशाग्रेणापि तीर्थेशो न स्पष्टव्यो महोदधिः ॥ भारतेऽपि-अश्वत्थसागरौ सेव्यौ न स्पष्टव्यौ कदाचन । अश्वत्थं मन्दवारे तु सागरं पर्वणि स्पृशेत् ॥ इति । पर्वाणि तु-चतुर्दश्यष्टमी कृष्णा अमावास्या च पूर्णिमा। पर्वाण्येतानि चत्वारि रविसंक्रमणं तथा ॥ इति । एतानि नित्यानि । नैमित्तिकानि तु ग्रहणादीनि । क्वचित्स्थलविशे- षेऽपर्वण्यपि स्नानमुक्तं प्रभासखण्डे- पर्वकाले च संप्रा नदीनां च समागमे । सेतुबन्धे तथा सिन्धौ तीर्थेष्वन्येषु संयुतः ॥ एवमादिषु तीर्थेषु मेध्यो भवति वारिधिः । न कालनियमस्तत्र समुद्रे स्नानमाचरेत् ॥ देवतासमीपे सरःसरित्संगमेषु समुद्रस्नानं सदा कार्यमिति प्रायश्चित्ते- दुशेखरे । तत्रापि- भृगुभौमदिने स्नानं नित्यमेव विवर्जयेत् । [ ग्रहणे रविवारे च पुत्रेप्सु तदाचरेत् ॥] * इदमधे ग, पुस्तक एव ।

श्राद्धमञ्जरी। १७१ इति पुराणवचनाद्भौमशुक्रवासरयोः सानं निषिद्धम् । पर्षणि तु भृगुमौमदिनेऽपि स्नानं भवत्येवेति गम्यते । पर्वकाले च संप्राप्त इति पूर्वोक्तबलवत्तरवचनात् । परशुरामक्षेत्रे तु सर्वदैव मानादि कर्तव्यम् । अत्र नियामिका सह्याद्रिखण्डे परशुरामोक्तिः । सा च- मत्क्षेत्रवासिभिः सर्वैर्नान्यैर्देशान्तरागतैः । त्वं सेव्यः सर्वदा सिन्धो मानपानावगाहनैः॥ ये शापा ब्राह्मणैः पूर्वमस्पृश्याद्या महोदधे । दत्तास्ते न भविष्यन्ति चतुरशीतियोजने ॥ येऽत्र वासं करिष्यन्ति वर्णाः संकरजादयः । मुक्ता एव भविष्यन्ति मत्प्रसादान्न संशयः ॥ इति । समुद्रदर्शनादिमहिमोक्तः स्कन्दपुराणे सह्याद्रिखण्डे- हन्त्यषं दर्शनादेव यद्दिवारासंचितम् । स्पृष्टस्त्रिरात्रज सम्यक्किल्बिषं निर्दहेत्सदा ॥ सप्ताहोरात्रज हन्ति प्रोक्षणाद्भगवानधम् । पानेन पक्षजं पापं नानात्पक्षद्वयस्य च ॥ संगमे च तथाऽष्टभ्यां पर्वमानाच्च वार्षिकम् । भानावनुदिते नित्यं यः नाति लवणोदधौ ॥ पूर्वोत्तरभवास्तेन पुरुषास्तर्पितास्त्रयः । दिवसस्यान्तसमये यः नाति लवणोदधौ ॥ कपिलायाः फलं तस्य दत्तायाः श्रोत्रिये ध्रुवम् । व्यतीपाते दिनच्छिद्रे अयने विषुवे तथा ॥ युगादौ तु नरः स्नात्वा विरजः स्यान्महोदधौ। दिनच्छिद्रलक्षणमाह दानकमलाकरे- भृगुः-दिनच्छिद्रं तु कथितं तिथिकृत्योर्घटीद्वयम् । नागवेदपलोपेतं तने तत्त्वपलैर्युतम् ॥ पलैः षोडशभिर्युक्तं नाडिकात्रितयं युतेः । छेदादिसमयः प्रोक्तो दानेऽनन्तफलप्रदः ॥ इति । कृतिः करणम् । युतिर्योगः । तिथ्यादीनामादावन्ते चोक्तकालो दिनच्छिद्रमिति तत्रैव प्रपञ्चितम् । १ क. ख. "त् । तत्क्षेत्रवासिामेस्तु स । २ ग. (रन्धेर्दे ।

१७२ केळकरोपाह्वबापूभट्टविरचिता- सामुद्रेण च तोयेन यत्तु देवादितर्पणम् । क्रियते येन येषां च तेषां स्यादुत्तमा गतिः ॥ सामुद्रेण च तोयेन यत्र नाद्यं हतं पयः । तत्र सात्वा च पीत्वा च ब्रह्महत्यां व्यपोहति ।। आजन्मशतसाहस्रं यत्पापं समुपार्जितम् । भस्मी भवति तत्सर्वं क्षणात्नानान्महोदधौ॥ भक्त्या यः कर्णमाधाय शृणुयाद्घोषमुत्तमम् । सामुद्रं पितरस्तस्य मोदन्ते सुचिरं दिवि ॥ दृष्ट्वा तदुर्मिसंघातं यस्तु नुष्येन्नमेन्नरः । यत्कासारोपसलिलं(!) चन्द्रलोकमवाप्नुयात् ॥ इति । दर्शनप्रकारस्तत्रैव- आदौ दर्शनमन्विच्छन्गृह्णीयाच्छ्रीफलं मुदा । रत्नं पञ्चविधं पुष्पं ताम्बूलं च तदर्पयेत् ॥ अत्र श्रीफलशब्देन नालिकेरफलं गृह्यते । प्रार्थनादिमन्त्रांस्तु प्रयोगे वक्ष्यामः । अत्र मुण्डने विशेषः- वृषभस्तत्र दातव्यः प्रवृत्ते क्षुरकर्मणि । प्रथमं स्नाति यः सिन्धौ तस्यायमुदितो विधिः ॥ ततः परं पूर्वविधिरब्धौ स्वाने प्रकीर्तितः । पूर्वविधिः क्षुरकर्म विनेत्यर्थः । पूर्वस्यां दिशि सुग्रीवं दक्षिणस्यां नलं स्मरेत् । प्रतीच्यां च स्मरेन्मैन्दमुदीच्यां शरभं स्मरेत् ॥ रामं च सीतया मध्ये लक्ष्मगं च विभीपणम् । अङ्गन्दं च हनूमन्तं स्मृत्वा मायान्महोदधौ । अत्र तर्पणमुक्तं स्कान्दे- पिप्पलादं विकण्वं च कृतान्तं जीवकेश्वरम् । मन्युं च कालरात्रिं च निद्रां चाहर्गणेश्वरम् ॥ वशिष्ठं वामदेवं च पराशरमुमापतिम् । वाल्मीकिनं नारदं च वालखिल्यांस्तथैव च ॥ नलं नीलं गवाक्षं च गवयं गन्धमादनम् । जाम्बवन्तं हनूमन्तं सुग्रीवं चाङ्गन्दं तथा ॥ - १ ग. हतु । आ°। २ ग. °सारा।। ३ नारीकेलफ।

श्राद्धमारी। १७३ मैन्दं च शिविदं चैव वृषभं शरभं तथा । रामं च लक्ष्मणं चैव सीतां चैव यशस्विनीम् ॥ एतांस्तु तर्पयेद्विद्वाञ्जलमध्ये विशेषतः ॥ इति । एताः संतय॑ च तथा यमतर्पणमाचरेत् । यमं च धर्मराजं च मृत्यु चैवान्तकं तथा ॥ वैवस्वतं च कालं च सर्वभूतक्षयं तथा । औदुम्बरं च दनं च नीलं च परमेष्ठिनम् ॥ वृकोदरं च चित्रं च चित्रगुप्तं च तर्पयेत् ॥ इति । स्वानोत्तरं च पूजनमुक्तं सह्याद्रिखण्डे- पश्चात्तु सागरं भक्त्या त्वावाहनपुरःसरम् । पौरुषेणाथ सूक्तेन नाममन्त्रेण वा पुनः । आसनं च तथा पाद्यमय॑माचमनं तथा ॥ सानं वस्त्रं तथा यज्ञोपवीतं गन्धलेपनम् । पुष्पैश्च विविधैर्नागचम्पकाद्यैः प्रपूजयेत् ॥ धूपं दीपं च नैवेद्यं षड्रसैश्च समन्वितम् । ताम्बूलं दक्षिणादानं नीराजनमथो परम् ।। प्रदक्षिणा नमस्काराः कर्तव्या भक्तिभावतः । मन्त्रैर्वेदोद्भवया पुष्पाञ्जलिरतन्द्रितः ॥ ततस्तु बाह्मणान्सप्त पूजयेद्भक्तिसंयुतः । तेभ्यश्च दक्षिणां दद्याद्यथाविभवसारतः ॥ अन्येभ्यो दक्षिणां दद्याद्ब्राह्मणेभ्यश्च भूयसीम् । कर्मणः साधुगुण्यार्थं दोग्धीं धेनुं सवत्सकाम् ॥ स्वर्णशृङ्गी रौप्यखुरीमाचार्याय निवेदयेत् । पितॄणां तु ततः कुर्याच्छाद्धं चैव यथाविधि ॥ यथा श्राद्धं गयायां तु मोक्षदं सागरे तथा । पितॄणां मोक्षकामोऽत्र श्राद्धं कुर्यात्प्रयत्नतः ॥ यात्रायाः फलमन्विच्छन्बाह्मणान्भोजयेत्सुधीः । दद्यात्सुवासिनीभ्यश्च कञ्चुकीकुङ्कुमादिकम् ॥ तीर्थे प्राप्तस्तु यो विप्रो ब्रह्मणा सहशः किल । न परीक्षेदतो विप्रान्बाह्मणास्तीर्थदा यतः । क्रोधलोभौ त्यजेदेवं विधिस्तीर्थस्य कीर्तितः ॥ इति ।

१७४ केळकरोपावबापूभट्टविरचिता- अयं विधिस्त्रिदिनसाध्यः । तदाह तत्रैव शौनकः- प्राप्तेऽह्नि वपनं कुर्यादुपवासं च सागरम् । पूजयेत्परया प्रीत्या द्वितीये पितृतर्पणम् ॥ तृतीये तीर्थदेवानां तृप्तिदं कर्म वै चरेत् ॥ इति । तर्पणग्रहणं श्राद्धस्याप्युपलक्षणं ज्ञेयम् । अथ प्रयोगः। अत्रापि घृतश्राद्धादियात्राविधिः पूर्वोक्त एव । प्राप्ति- दिने यानादि परित्यज्य पादचारी हस्ते पञ्च रत्नानि ताम्बूलं पुष्पाणि नालिकेरफलं गुजाक्षतादि गृहीत्वा सागरं दृष्ट्वा रत्नादि समर्प्य साष्टाङ्गं प्रणमेत् । सागरः सर्वतीर्थशः सर्वदा हरिवल्लभः । सर्व हरतु मे पापं तीर्थराज नमोऽस्तु ते ॥१॥ नमस्ते विश्वगुप्ताय नमो विष्णो अपां पते । नमो जलधिरूपाय नदीनां पतये नमः ॥ २॥ नमस्ते जगदाधार शङ्खचक्रगदाधर । देव देहि ममानुज्ञां तव तीर्थनिषेवणे ॥३॥ ततो यथाशक्ति प्रायश्चित्तं वपनं दन्तधावनं च पूर्ववत्कृत्वा नानाथ पूर्ववन्महासंकल्पं कुर्यात् । तदशक्तौ संक्षेपतः कुर्यात् । यथा । अस्य श्रीमन्महाभगवतः सच्चिदानन्दरूपस्य श्रीमदादिनारायणस्याचिन्त्या- परिमितशक्त्या भ्रियमाणानां महाजलौघमध्ये परिभ्रममाणानामनेकको- टिब्रह्माण्डानामेकतमेऽस्मिन्ब्रह्माण्डकरण्डे भूलॊके भूमण्डले जम्बुद्वीपे भारते वर्षे भरतखण्डे दण्डकारण्ये भूमध्यरेखायाः पश्चिमदिग्भागे गोदा- वर्या दक्षिणदिग्भागे कावेर्या उत्तरदिग्भागे सह्याद्रेः पश्चिमदिग्भागे पश्चिममहोदधेः पूर्वतीरेऽस्मिश्रीपरशुरामनिर्मिते पुण्यक्षेत्रे लवणोदधि- संनिधौ श्रीमदनेककोटिब्रह्माण्डघटनायासरोमविवरस्य विरारूपिणो भगवतो महापुरुपस्य शेषपर्यकशायिनः श्रीविष्णोराज्ञया प्रवर्तमानस्य ब्रह्मणो द्वितीयपरार्धे श्वेतवाराहकल्पे वैवस्वतमन्वन्तरेऽष्टाविंशतितमे महायुगेऽस्मिन्वर्तमाने कलियुगे तत्प्रथमचरणे बौद्धावतारे शालिवाह- नशके प्रमोदनामसंवत्सरे दक्षिणायने वर्षा भाद्रपदे मासि कृष्ण- पक्षेऽमावास्यायां पुण्यतिथौ भृगुवासर उत्तराफल्गुनीनक्षत्रे शुक्ल- १ क. ख. तवर।

श्राद्धमञ्जरी। १७५ योगे नागकरणे कन्यास्थे सूर्ये कन्यास्थे चन्द्र सिंहस्थे भौमे तुलास्थे बुधे वृषभस्थे बृहस्पती तुलास्थे शुक्र वृश्चिकस्थे शनैश्चरे कन्यास्थे राहो मीनस्थे केतावेवंगुणविशिष्टे पुण्यकालेऽमुकगोत्रस्या- मुकनक्षत्रेऽमुकराशौ जातस्यामुकनामधेयस्य ममेह जन्मनि जन्मान्तरे च नानायोनिषु ज्ञानतोऽज्ञानतश्च बाल्यकौमारयौवनवार्धकेषु जाग्र- स्वप्नसुषुप्त्यवस्थासु मनोवाक्कायकर्मभिः कामक्रोधलोभमोहमदमात्सर्यै- स्त्वक्चक्षुःश्रोत्रजिह्वाम्राणवाक्पाणिपादपायूपस्थैः संभावितानां प्रकाश- कृतब्रह्महत्यादिमहापातकानां रहस्यकृतानां महापातकानां महापातकस- मपातकानां तत्संसर्गित्वाद्यतिपातकानां गोवधायुपपातकानां पिपीलि- कावधादिलघुपातकानां मृगवधादिसंकरीकरणानां कृमिकीटवधादिम- लिनीकरणानां निन्दितधनधान्यजीवनावपात्रीकरणानां ब्राह्मणपीडना- न्यस्त्रीगमनादिजातिभ्रंशकरणानां विहितकर्मत्यागादिप्रकीर्णकानां च सकृत्कृतानामभ्यस्तानामत्यन्तचिरकालनिरन्तराभ्यस्तानां महापातका- दीनां प्रकीर्णकान्तानां नवविधानां बहुविधानां सर्वेषां पापानामपनो- दार्थं श्रीपरमेश्वरप्रीत्यर्थं समुद्रस्नानकल्पोक्तफलावाप्तयेऽस्मिन्क्षारमहो- दधौ स्मानमहं करिष्य इति संकल्प्य तीरस्थपाषाणमाचाराद्वालुकापिण्डं च गृहीत्वा पिप्पलादसमुत्पन्ने कृत्ये लोकभयंकरे । पाषाणं ते मया दत्तमाहारार्थ प्रकल्प्यताम् ॥ इति मन्त्रेण तं पापाणं वालुकापिण्ड सहितं कृत्यायै समुद्रे निक्षिपेत् । ततः पूर्वोक्तप्रकारेण दशविधनानानि कृत्वा बद्धाञ्जलिः समुद्राभिमुख- स्तिष्ठन्प्रार्थयेत् । त्वं राजा सर्वतीर्थानां त्वमेव जगतः पिता । याचितं देहि मे तीर्थं सर्वपापैः प्रमुच्यते ॥ ॐ सागरस्वननिर्घोष दण्डहस्तासुरान्तक । जगत्स्रष्टर्जगन्मदिनमामि त्वां सुरेश्वर ॥ तीक्ष्णदंष्ट्र महाकाय क० मर्हसि । विश्वाची च घृताची च विश्वयोने विशांपते । सांनिध्यं कुरु देवेश सागरे लवणाम्भसि ॥ त्रितत्त्वात्मकमीशानं नमो विष्णुमुमापतिम् । सांनिध्यं कुरु मे देव सागरे लवणाम्भसि ॥

॥ १७६ केळकरोपाहबापू भट्टविरचिता- इत्युक्त्वा नाभिमात्रे जले स्थित्वा ॐ नमो देवदेवाय० प्रणाशिनी । प्रपद्ये वरुणं देव० ॐ हिरण्यशृङ्गं वरुणं प्रपद्ये० मर्षणः । अग्निश्च योनिरनिलश्च देहो रेतोधा विष्णुरमृतस्य नाभिः । एतब्रुवन्पाण्डव सत्यवाक्यं ततोऽवगाहेत पति नदीनाम् ॥ इति पठित्वा पूर्वस्यां दिशि सुग्रीवं दक्षिणस्यां नलं प्रतीच्यां मैन्द- मुदीच्यां शरभं मध्ये श्रीरामं सीतां लक्ष्मणमङ्गन्दं विभीषणं हनूमन्तं च स्मृत्वा त्रिवारमवगाह्य मार्जनादि कृत्वा पवित्रमन्त्रान्पठित्वाऽाणि दद्यात् । तत्र मन्त्रा:- सर्वरत्नो भवाञ्श्रीमान्सर्वरत्नाकरो यतः । सर्वरत्नप्रधान त्वं गृहाणायं महोदधे ॥ उदन्वन्सर्वतीर्थेश सर्वदा हरिवल्लभ । इष्टं प्रकुरु भक्तानां गृहाणाय नमोऽस्तु ते ॥२॥ नमः कमलनाभायेत्यादि पूर्ववत् । ततोऽघमर्षणादि पूर्ववत्स्वानविधि कृत्वा नाभिमाने जले तिष्ठस्तर्पणं कुर्यात् । तच्चेत्थम् । यज्ञोपवीती साक्षताभिरद्भिर्देवतीर्थेन तर्पयेत् । पिप्पलादं तर्पयामि १ विकण्वं त. २ कृतान्तं त० ३ जीवकेश्वरं त० ४ मन्यु त० ५ कालरात्रि त०६ निद्रां त० ७ अहर्गणेश्वरं त० ८ वसिष्ठं त० ९ वामदेवं त० १० पराशरं त० ११ उमापति त० १२ वाल्मीकिनं त० १३ नारदं त० १४ वाल- खिल्यांस्त० १५ नलं त० १६ नीलं त० १७ गवाक्षं त० १८ गवयं त. १९ गन्धमादनं त० २० जाम्बवन्तं त० २१ हनूमन्तं त० २२ सुग्रीवं त० २३ अङ्ग त० २४ भैन्दं त० २५ द्विविदं त० २६ वृषभं त० २७ शरभं त०२८ रामं त० २२ लक्ष्मणं त० ३० सीतां त० ३१ अथ यम- तर्पणम् । यमं तर्पयामि १ धर्मराजं त० २ मृत्युं त० ३ अन्तकं त० ४ वैवस्वतं त० ५ कालं त० ६ सर्वभूतक्षयं त० ७ औदुम्बरं त० ८ दनं त० ९ नीलं त० १० परमेष्ठिनं त० ११ वृकोदरं त० १२ चित्रं त० १३ चित्रगुप्तं त० १४ आब्रह्मस्तम्बपर्यन्तं यत्किचित्सचराचरम् । मया दत्तेन तोयेन तृप्तिमेवाभिगच्छतु ॥ इति तर्पयित्वा पूर्ववत्स्नानाङ्गतर्पणं यक्ष्मतर्पणान्तं कृत्वा १ ग. क्षयकरं त।

श्राद्धमञ्जरी। १७७ ज्ञानतोऽज्ञानतो वाऽपि यन्मया दुष्कृतं कृतम् । तत्क्षमस्वाखिलं देव तीर्थराज नमोऽस्तु ते ॥ इति क्षमाप्य पितॄस्तर्पयित्वा पुरुषसूक्तेन नाममन्त्रेण वा सागर षोडशोपचारैः संपूज्य समुद्रादूमिर्मधुमाँ उ० इत्यादिसमुद्रलिङ्गकैऋ(क)- मन्त्रैः समुद्राय वयुनाय सिन्धूनां पतये नमः । नदीनार सर्वासां पित्रे जुहुता विश्वकर्मणे विश्वाहा मर्त्य हविः।इमर समुद्रः शतधारमुत्संव्य- च्यमानं भुवनस्य मध्ये । घृतं दुहानामदिति जनायाग्ने मा हि सी परमे व्योमन् । इत्यादियजुर्मन्त्रैश्च पुष्पाञ्जलिं दद्यात् । अस्मिन्दिन उपवासं कुर्यात् । इति प्रथमदिनकृत्यम् । अपरेयुः स्नानादि कृत्वाऽपराले पूर्वोक्ततीर्थश्राद्धविधिना श्राद्धं कुर्यात् । इति द्वितीयदिनकृत्यम् । तृतीयदिने स्नानादि कृत्वा समुद्रप्रीतये यथाशक्ति जपहोमदानादि कृत्वा महापूजां च कृत्वा तीरे सप्त ब्राह्मणान्सप्तसागररूपान्ध्याय- न्नुपवेश्य ॐ लवणसागराय नमः १ ॐ इक्षुसागराय नमः २ ॐ सुरासागराय० ३ ॐ सर्पिःसागराय० ४ ॐ दधिसागराय० ५ ॐ क्षीरसागराय० ६ ॐ स्वादुसागराय० ७ इतिक्रमेणाऽऽसनाद्युपचारैर- भ्यर्च्य वस्त्रालंकारादिभिर्भूपयित्वा यथाशक्ति प्रत्येकमामान्नानि दक्षि- णात्वेन हिरण्यं च दद्यात् । तत आचार्य संपूज्य तस्मै याबायाः संपू- फैिलावाप्तये दोग्धीं सवत्सां स्वर्णशृङ्गीं रौप्यखुरीमलंकृतां धेनुं दद्यात् । अशक्तौ तन्मूल्यं दत्त्वाऽन्येभ्यो ब्राह्मणेभ्यो भूयसी दक्षिणां दत्त्वा यथा- शक्ति ब्राह्मणान्भोजयेदिति तृतीयदिनकृत्यम् । आपत्तावेकस्मिन्नेव दिने सर्व कुर्यात् । प्रत्यागत्य गृहप्रवेशे घृताद्धं पूर्ववत् । इति श्रीमञ्चित्तपावनकेळक० श्राद्धमञ्जयाँ समुद्रयात्राविधिः । अथ प्रकीर्णकतीर्थधर्माः- तर्पणं पितृदेवानां श्राद्धदानं सदक्षिणम् । तीर्थे तीर्थे च गोदानं नियतः प्राकृतो विधिः ॥ विशिष्टख्यातलिङ्गेषु वृषदानं विधीयते । स्नानं विलेपनं पूजां देवतानां समाचरेत् ॥ १ ग. फलप्राप्त। २३ १७० केळकरोपाह्वबापूमद्दविरचिता- " ब्राह्मणानां भूमिदानं देवपूजाकराय च । सर्वत्र देवयात्रायां विधिरेष प्रवर्तते ॥ न तीर्थे पातकं कुर्यात्त्यजेत्तीर्थोपजीवनम् । तीर्थे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्य विक्रयः ॥ श्रौतस्मार्तक्रियां कर्तुं यो न शक्नोति मानवः । तेन तीर्थानि सेव्यानि व्रतानि च तपांसि च ॥ यात्रार्थं गतस्य तु साधारण्येन तीर्थे दिनत्रयं वास आवश्यक ऊर्च त्वैच्छिकः। अम्बुमध्ये गवां गोष्ठे तीर्थेष्वपि च पर्वसु । राहोर्दर्शनकाले च सूतकं नैव विद्यते ॥ इदं शीघ्रमन्यत्र गमनसंभावनायां दानादिविषये द्रष्टव्यमिति संक्षेपः। अथैकस्मिन्दिनेऽनेकश्राद्धसंपाते निर्णयः । तत्र समानदेशकालकर्तृदे- वताप्रधानाङ्गधर्मकाणां तन्त्रेणानुष्ठानम् । तन्त्रं यथा-अमुकश्राद्धानि तन्त्रेण करिष्य इति संकल्प्य सर्वमनुष्ठानं सकृदेव कुर्यादिति । निमित्तं विना न श्राद्धावृत्तिः । श्राद्धं कृत्वा तु तस्यैव पुनः श्राद्धं न तदिने । नैमित्तिकं तु कर्तव्यं निमित्तानुक्रमादयम् ॥ इति जाबालिवचनात् । अत एव हेमाद्रिणा-अमायुगमन्वादिसं. क्रान्तिश्राद्धानि तन्त्रेण करिष्य इति संकल्पवाक्यमुक्तम् । एवं युगादि. मन्वादिसंक्रान्तिकाम्या|दयाद्यलभ्ययोगाष्टकाश्राद्धानां पिण्डरहितानां कालदेवतादिसमानजातीयानां विवाहाद्यनन्तरपिण्डरहितस्य दर्शश्रा- द्धस्य च तन्त्रेणानुष्ठानं कर्तव्यम् । एतेषामपि कालभेदेन प्राप्तौ नैव समासः । पिण्डसहितानां काम्याप्टकादर्शादीनां च तन्त्रमेवेत्येकः पक्षः। अपरस्तु दर्शयुगादिमन्वादिसंक्रान्त्यादिश्राद्धानां समानजातीयानां विजातीयानां वा प्रसङ्ग एवोचित इति । प्रसङ्गो नाम संकल्पादौ महा- तन्त्रवतः सपिण्डकस्य श्राद्धस्यैवोल्लेखः । न प्रसङ्गिनः समानाल्पत- न्त्रस्य पिण्डरहितस्य श्राद्धस्योल्लेखः । तस्य तत्रापि ध्यानमात्रं कर्त- व्यम् । प्रसङ्गसिद्धिश्चोक्ता कालादर्शे- नित्यदार्शिकयोश्चोदकुम्भमासिकयोरपि । दार्शिकस्य युगादेश्च दार्शिकालभ्ययोगयोः । १ क. ख. एध्वपि। २ क, ख. त्राभिध्या।

': - श्राद्धमञ्जरी। १७९ दाशिकस्य तु मन्वादेः संपाते श्राद्धकर्मणः। प्रसङ्गादितरस्यापि सिद्धेरुत्तरमाचरेत् ॥ इति । इतरस्याल्पतन्त्रस्यापि सिद्धेरुत्तरं महातन्त्रमाचरेदित्यर्थः । माध- वीये-काम्यतन्त्रेण नित्यस्य तन्त्रं श्राद्धस्य सिध्यतीति । देवताभेदे तु नैव प्रसङ्गसिद्धिर्नापि तन्त्रम् । तदुक्तं तत्रैव- नित्यस्य चोदकुम्भस्य नित्यमासिकयोरपि । : नित्यस्य चाऽऽब्दिकस्यापि दार्शिकाब्दिकयोरपि ॥ युगाद्याब्दिकयोश्चापि मन्वाद्याब्दिकयोरपि । प्रत्याब्दिकेषु चालभ्ययोगेषु विहितस्य च ॥ संपाते देवताभेदाच्छ्राद्धयुग्मं समाचरेत् । निमित्तानियतिश्चात्र पूर्वानुष्ठानकारणम् ॥ इति । श्राद्धसंपाते पाकस्य भेद एव । अशक्तो केवलौदनमात्रभेदो वा। गृहदाहादिना युगपन्मरणे त्वेक एव पाकः । तदाह सिन्धौ भृगुः- एककाले गतासूनां बहूनामथवा द्वयोः । तन्त्रेण श्रपणं कृत्वा कुर्याच्छाद्धं पृथक्पृथक् ॥ इति । अत्रापि मरणक्रमेण श्राद्धानि कर्तव्यानि । तदज्ञाने संबन्धक्रमेण । यद्येकः कर्ता द्वयोः पृथक्श्राद्धे कुर्यात्तदा पूर्वमृतस्याऽऽदौ कृत्वा नात्या ततः पश्चान्मृतस्य पृथक्पाकेन कुर्यादिति कमलाकरः । एकस्मिन्दिने बयाणां श्राद्धं नैव कुर्यात् । तदाह सिन्धावाश्वलायन: नैकस्मिन्दिवसे श्राद्धं त्रयाणां कुत्रचिद्विजः। एकः कुर्यात्तथा पाते अन्यो भ्राता समाचरेत् ॥ भ्रातर्यविद्यमाने तु तत्परेऽह्नि समाचरेत् । अन्यथा श्राद्धहन्ता स्याच्छ्राद्धं संकरकृद्भवेत् ॥ इति । एकस्यां तिथौ मातापित्रोर्मरणे पूर्वं पितुः प्रत्याब्दिकं कृत्वा पश्चा. न्मातुरिति चन्द्रिकायाम् । हेमाद्रिमते मरणक्रमेणैव । वर्गद्वयस्य दर्श- वत्तन्त्रेण श्राद्धं कुर्यादिति कमलाकरः । पौर्वापर्याज्ञाने तु पितृपूर्व कुर्यादिति हेमादिः । सहगमने तु तिथ्येकत्वे तन्त्रेण प्रत्याब्दिकश्राद्धम् । तिथिभेदे तत्तत्तिथौ तत्तच्छ्राद्धमिति केचित् । अन्ये तु तस्याः पतिमर- णेन मृतप्रायत्वात्तिथ्यन्तरे सहगमनेऽपि भर्तृतिथावेव तन्त्रेण श्राद्धमि- त्याहुः । अनेकनिमित्तप्राप्तौ निमित्तकमेण श्राद्धानि कर्तव्यानि । यथा १ ग. कभे' । २ क. ख. °न्छाद्धसं। २ ग. मित्तानुक्र ।

१८० केळकरोपाहबापूभट्टविरचिता- दशैं चेपितृक्षयाहस्तदा क्षयाहप्रयुक्तं श्राद्धं कृत्वा दार्श कार्यम् । तदपि समाप्य ग्रहणं चेत्तन्निमित्तकमपि कृत्वा पुत्रजन्म यदि स्यात्तन्निमित्तक- मपि कुर्वीत । एवं दर्शे प्रत्याब्दिकमहालयप्रसक्तावपि तथैव । तत्राऽऽदौ मध्याह्न एव सांवत्सरिकारम्भं कृत्वा बाह्मणविस्तारवर्ज महालयं कृत्वा पिण्डपितृयज्ञं कृत्वा सांकल्पविधिना दर्शश्राद्धं कुर्यात् । अन्यथाऽपराले कर्मचतुष्टयासंभवात् । सति संभवे यथोक्तं कर्तव्यम् । एवमन्यत्रापि दृष्ट- व्यम् । पित्राऽपि बहूनामेकस्यां तिथौ मरणे संबन्धक्रमेण मरणक्रमेण वा पृथक्पृथक्श्राद्धानि कर्तव्यानि । पार्वणैकोद्दिष्टयोर्युगपत्प्रसक्तौ पूर्वमेको- द्दिष्टं कृत्वा पश्चात्पार्वणं कुर्यात् । तीर्थश्राद्धे यत्र काश्यादावेकस्मिन्म- हातीर्थेऽनेकान्यवान्तरतीर्थान्येकदिने गम्यन्ते तदैकस्मिन्नपि दिने तत्ततीर्थप्राप्तिनिमित्तकानि बहूनि श्राद्धानि निमित्तक्रमेण कार्याणि । उपवासमुण्डने तु सकृदेव । यत्र तु व्याप्यतीर्थावच्छेदेन श्राद्धकरणाद्या- पकतीर्थश्राद्धमपि सिध्यति तत्र प्रतिनिमित्तं नाऽऽवृत्तिः । किं तु तन्त्रे- णैव श्राद्धानां सिद्धिः । यथा-गङ्गावेणीप्रयागनिमित्तकानां गङ्गाका- शीमणिकर्णिकानिमित्तकानां चेत्यादि । तत्र काशीनिमित्तकं मणिकर्णि- कानिमित्तकं च श्राद्धं तन्त्रेण करिष्य इति संकल्प्यैकमेव श्राद्धं कुर्यात् । यदा तु प्रत्यासन्नप्राक्काले गङ्गायामकृतश्राद्धस्तदा गङ्गाश्राद्धं चेत्यपि वदेत् । एवं प्रयागगयादावपि द्रष्टव्यम् । यदा त्वन्योद्देशेन तीर्थ याति तदा तत्पित्रादीनुद्दिश्याऽऽदौ श्राद्धं कृत्वा पश्चात्स्वपित्रुद्देश्यक कुर्यादिति । श्राद्धसंपाते यादृशः श्राद्धानां प्रसङ्ग स्तन्त्रं वा तेषां तर्प- णेऽपि तथैव तन्त्रप्रसङ्गो । श्राद्धावृत्तौ तु तर्पणस्याप्यावृत्तिरुक्तप्रकारे- णाऽऽदावन्ते वेति दिक्। इति श्रीमञ्चित्तपावनकेळक श्राद्धमञ्जर्यां श्राद्धसंपाते निर्णयः । अथ श्राद्धविघ्ने निर्णयः । तत्र श्राद्धारम्भात्पूर्वमाशौचप्राप्तौ प्रत्या- ब्दिकमाशौचान्ते कर्तव्यम् । मासिकं तूत्तरेण सह । दर्शश्राद्धादीनां लोप एव । तबाप्याशौचान्ते श्राद्धलोपप्रायश्चित्तार्थमुपवास इति कमलाकरः । श्राद्धारम्भोत्तरं कर्तुराशौचप्राप्तौ प्रारब्धं श्राद्धं समापनी- यमेव । कर्मसमाप्तिपर्यन्तं कर्तुर्नाऽऽशौचम् । श्राद्धारम्भस्तु पाकारम्भ इत्येके । पाकसिद्धिरित्यन्थे । पाकप्रोक्षणमिति केचित् । विनिमन्त्रण- १ ग. 'द्देश्येन'।

श्राद्धमञ्जरी। १८१ मित्यपरे । अत्राऽऽचाराद्यवस्था । भोक्तुर्दोषोऽस्त्येवेति कमलाकरः । आशौचिनां गृहे श्राद्धभोजने यावत्कर्तुराशौचं तावद्भोक्तुराशौचम् । आशौचान्ते भोक्त्रा सांतपनं प्रायश्चित्तं कार्यमिति मार्कण्डेयः । मास- मेकं व्रती भवेदिति शङ्खः । अज्ञानात्त्वेकरात्रमुपोष्य पञ्चगव्यं पिवेदिति च्छागलेयः । सर्वत्राभ्यासे द्विगुणमिति माधवीयादौ । विप्रस्य त्वाशौच- प्राप्तौ निमन्त्रणोत्तरमाशौचाभाव इति कमलाकरः । इदमामश्राद्धपर- मिति शुद्धिविवेकः । आसनदानोत्तरमाशौचाभाव इत्यन्ये । आवाहनो- तरमित्यपरे । इदमेव युक्तमिति प्रतिभाति । देहे पितृघु तिष्ठत्सु नाऽऽ- शौचं विद्यते क्वचिदिति ब्राह्मोक्तेः। अस्मिन्पक्ष आसनावाहनोत्तरं भोक्तुराशौचप्राप्तौ विसर्जनपर्यन्तं नाऽऽशौचम् । आसनात्पूर्वमाशौच. प्राप्तौ तत्स्थानेऽन्यं विषं निमन्त्र्य भोजयेत् । विप्रस्य भोजनसमये दातु- गुहे तद्वान्धवादिमरणादौ शेषमुच्छिष्टमन्नं त्यक्त्वा परकीयशुद्धजले- नाऽऽचामेदिति हेमाद्रिः । केचित्मारब्धे श्राद्धे नाऽऽशौचमित्याहुस्त. ञ्चिन्त्यम् । अथ कर्तुर्भार्यारजोदर्शने । तत्र दार्शिकयुगादिमन्वादिसंक्रान्तिवैधृति- व्यतीपाताद्यावश्यकामि आमेन कार्याणि । शुद्धपत्न्यन्तरसत्त्वेऽन्नेनैव । पश्चमेऽहनि कार्याणीति कालादर्श । तन्न युक्तमिति चन्द्रिकाकारः । पित्रोराब्दिकं तु तद्दिन एवान्नेन सपिण्डकं कार्यम् । मासिकेऽप्येवमेव । केचिद्भार्यान्तरसत्त्वे तदिन एव । एकभार्यस्तु पश्चमेऽहनि कुर्यादि- त्याहुः । इदं कमलाकरादीनां नाभिमतम् । तन्मत एकभार्योऽपि तदिन एव कुर्यादिति । महालयश्राद्धानि पत्न्यां रजस्वलायां सत्यामप्यन्नेनैव कार्याणि । सकृन्महालयश्राद्धं तु नातायां पूर्वोक्तकालान्तरे पार्यम् । अष्टकाश्राद्धान्यारब्धानि चेदनेनैव । केचिन्मत उक्तान्यतममासे सकृ- कार्याणि । काम्यानां लोप एव । नैमित्तिकान्यावश्यकानि त्वामेन कार्याणि । अनावश्यकानां लोपः । अपुत्रकस्य स्त्री श्राद्धकी सा यदि रजस्वला चेत्तदाऽऽब्दिकं पञ्चमेऽहनि कुर्यात् । मासिकं तूत्तरेण सह । सकृन्महालयश्राद्धं पूर्वोक्तकालान्तरे । दर्शादीनां लोप एवेत्यन्यत्र विस्तर इति दिक। इति श्रीमच्चित्तपावनकेळकरोपाभिधमहादेवात्मजबापूभट्टविरचि. तायां श्राद्धमञ्जयाँ श्राद्धविघ्ने निर्णयः ।

१८२ केळकरोपाहबापूभट्ठविरचिता- अथ श्राद्धभोजन आमान्नादिश्राद्धीयद्रव्यप्रतिग्रहे च प्रायश्चित्तानि । तत्रान्तर्दशाहे यानि श्राद्धानि तानि नवश्राद्धसंज्ञानि । तत्राऽऽपदि कायम् । अनापदि चान्द्रायणम् । अनापदि नवश्राद्धेषु कामतो भुक्त- वतो विप्रस्य संवत्सरपर्यन्तं भोजनात्याक्संहिताध्ययनमिति प्रायश्चित्ते- न्दुशेखरे। एकादशाहे महकोद्दिष्टे चान्द्रायणम् । अनापदि चान्द्रं कायं च । प्रायश्चित्तान्ते पुनः संस्कार इति हेमाद्रिः। द्वादशाह आद्य- मासिक ऊनमासिके च पादोनकायम् । अनापदि कार्य पराकश्च । द्विमासिके त्रैपक्षिक उनषाण्मासिक ऊनाब्दे चाध प्राजापत्यम् । अनापदि पादोनम् । अतिकृच्छ्रो वा । त्रिमासादिसंवत्सरविमोक्षान्तेषु सपिण्डीकरणश्राद्धे चोपवासः। अनापदि कृच्छ्रः पादकृच्छ्रो वा । त्रिरात्रमुपवासः कृच्छ्रार्धं वा। प्राजापत्यमेव कृच्छ्रः। प्रथमाब्दिके द्वितीयाब्दिके तृतीयाब्दिके च पादोनकायम् । अनापदि चान्द्रम् । एषु श्राद्धेषु भोजने दोष उक्तः काशिकायाम् - सृतेऽहनि तु संप्राप्ते यावदब्दचतुष्टयम् । बहिः श्राद्धं प्रकुर्वीत न कुर्याच्छ्राद्धभोजनम् ॥ प्रथमेऽस्थीनि मज्जा च द्वितीये मांसभक्षणम् । तृतीये रुधिरं प्रोक्तं श्राद्धं शुद्धं चतुर्थकम् ॥ इति । स्मृत्यन्तरे च- सप्तत्रिंशच यो मासाश्राद्धे भुङ्क्ते तु मोहतः । स पतिदूषितः पापी प्रेताशी च भवेत्तु सः ॥ इति । चतुर्थाब्दिकादौ षट् प्राणायामाः । नक्तं वा। दर्शे षट् प्राणायामाः । अनुक्तौ पार्वणश्राद्धे दर्शातिदेशात्षट् प्राणायामाः। सर्वेषु श्राद्धेषु दश. कृत्वो गायत्र्याऽभिमन्त्रिता अपः पीत्वा संध्योपासनहोमादि यन्नित्यकर्म तत्कुर्यादिति प्रागेवोक्तम् । एतदनुक्तप्रायश्चित्तश्राद्धपरमिति विज्ञाने- श्वरः । काम्यनैमित्तिकश्राद्धेषु दोषाल्पत्वे दर्शवत्षटू प्राणायामाः । यस्मिश्राद्धे भोक्तुर्दोषबाहुल्यं तत्र प्रायश्चित्तमपि तदनुसारेण कल्पनी. यम् । उदाहरणं यथा निर्णयसिन्धावापस्तम्बः- सूतके मृतके भुङ्क्ते गृहीते शशिभास्करे । छायायां हस्तिनश्चैव न भूयः पुरुषो भवेत् ॥ इति । १ ग, एतेषु । १ क. ख. 'नित्योचितं त'।

श्राद्धमञ्जरी। १८३ तत्र चान्द्रायणादि प्रायश्चित्तं कल्पनीयमिति । सर्वत्र मिता. क्षरादावुक्तप्रकारेण यथोक्तं प्रायश्चित्तमाचरणीयम् । तदशक्तौ प्राय- श्चित्तप्रतिनिधिं कुर्यात् । तत्र प्राजापत्यप्रत्याम्नायास्तु पयस्विनीधे- नुदानम् । तदशक्तौ गोदानम् । तदभावे तन्मूल्यम् । धेनुमूल्यं गोरपेक्षया पश्चगुणम् । अयुतगायत्रीजपः । गायत्र्या व्याहृति- भिर्वा सहस्रतिलहोमः । गायच्या शतद्वयं घृताहुतयः । संहितापारा- यणम् । प्राणायामशतद्वयम् । द्वादशविप्रभोजनम् । तीर्थोद्देशेन योजनग- मनम् । रुदैकादशिनीजपः। शिरःशोषणपूर्वकद्वादश साङ्गानि नानानि । समुद्रगनदीनानम् । एतेषां प्राजापत्यप्रत्याम्नायानामन्यतमेन यथाधि- कारं यथाशक्त्या(क्ति) प्रायश्चित्तमाचरणीयम् । काये पर्यस्विनीधेनुदानं प्रत्याम्नायः । अशक्ती प्राजापत्यत्रयम् । पराके द्वे पश्च तिस्रो वा धेनवः । अशक्तौ तन्मूल्यं वा। उपवासे षड्गुञ्जापरिमितरौप्यदानम् । अतिकृच्छे धेनुद्वयम् । नक्तवते गुञ्जाद्वयपरिमितरौप्यदानं प्रतिनिधिरिति । पतित- चाण्डालदुर्मरणादिमृतानां श्राद्धेषु द्विगुणं प्रायश्चित्तम् । गुरुद्रव्या) श्राद्धभोजने प्रायश्चित्तार्धम् । जपशीलस्य निस्पृहस्य च तदर्धम् । क्षत्रियादिश्राद्धेषु द्वित्रिचतुर्गुणानि प्रायश्चितानि ज्ञेयानि । सर्वत्राभ्यासे द्विगुणं प्रायश्चित्तम् । आमहेमसंकल्पश्राद्धेषु तत्तदर्धानि प्रायश्चित्तानि । वृद्धौ प्राणायामवयं कृच्छ्राधं वा । सीमन्त नामकरणजातकर्मचूडाक- मङ्गिवृद्धिश्राद्धे सांतपनम् । सांतपने धेनुद्वयदानं प्रत्याम्नायः । अना- पदि चान्द्रम् । अन्यसंस्काराङ्गश्राद्धघूपवासः । अनापदि त्रिरात्रमुप- वासः। यतिव्रती ब्रह्मचारी चोक्तप्रायश्चित्तं कृत्वा त्रीनुपवासांस्त्रीन्प्राणा- यामान्घृतप्राशनं चाधिकं कृत्वा व्रतशेष समापयेत् । अनापदि तु द्विगुणं प्रायश्चित्तं द्वादश प्राणायामाः पञ्चगव्याशनं चेति । इति श्राद्धभोज. नादौ प्रायश्चित्तम्। निमन्त्रितो विप्रो यदि प्रमादादन्यत्र भोक्तुं गच्छेत्तदा त्रिरात्रमुप- वासं कुर्यात् । प्रमादाभावे तु प्राजापत्यम् । भोजनसमये शूद्रान्त्यजा- दिदर्शने भोजनोत्तरमाचमनपूर्वकं प्राणायामत्रयं कुर्यात् । इति । अथ श्राद्धकर्ता यदि श्राद्धदिने दन्तधावनं कुर्यात्तदा शतवारं गायत्र्याऽभिमन्त्रितं जलं पिबेत् । ऋतौ भार्यागमन उपवासः । अनृतौ १ ग.यस्वतीधे । ३ क. ख. 'गुण प्रा । ४ क. ख. °स्कारश्रा ।

१८४
केळकरोपाहबापूभट्टविरचिता-
प्राजापत्यम् । वाग्लोपे विष्णुस्मरणम् । श्राद्धकर्तुः श्राद्धभोक्तुश्चोक्तनिय-
मलोपे दोषतारतम्यालायश्चित्तं कल्पनीयम् । दोषतातरम्यं च निर्णयसि-
न्धुहेमाद्यादिग्रन्थेभ्योऽवगन्तव्यम् । विस्तरभयान्नेहोच्यते । उक्तपाय-
श्चित्ताभावे सामान्यं प्रायश्चित्तमाचरणीयम् । तत्रानादेशे शतगायत्री-
जप इति प्रायश्चित्तेन्दुशेखरे । अत्रापि दोषबाहुल्ये जपबाहुल्यम् ।
मिताक्षरायां तु लघुदोषे त्वनादिष्टे प्राजापत्यं समाचरेदिति चतुर्विंशति.
मतम् । तत्रैवोशनसा चोक्तम्-
यत्रोक्तं यत्र वा नोक्तमिह पातकनाशकम् ।
प्राजापत्येन कृच्छ्रेण शुध्यते नात्र संशयः ॥ इति ।
प्रजापतिश्चाऽऽह-प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् ।
स्मरणादेव तद्विष्णोः संपूर्ण स्यादिति श्रुतिः॥
प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै।
यानि तेपामशेषाणां कृष्णानुस्मरणं परम् ॥ इति ।
अलमतिप्रसङ्गेन । श्राद्धाकरणे दोष उक्त आदित्यपुराणे-
न सन्ति पितरश्चेति कृत्वा मनसि यो नरः ।
श्राद्धं न कुरुते तत्र तस्य रक्तं पिबन्ति ते ॥ इति ।
सुमन्तुरपि-श्राद्धात्परतरं नान्यच्छ्रेयस्करमुदाहृतम् । इति ।
श्राद्धकर्तुः फलमुक्तं कूर्मपुराणे-
योऽनेन विधिना श्राद्धं कुर्याद्वै शान्तमानसः ।
व्यपेतकल्मषो नित्यं याति नाऽऽवर्तते पुनः ॥ इति ।
सर्वं शिवम् ।
इति श्रीमञ्चित्तपावनकेळकरोपाभिधमहादेवात्मजयापूभट्टविरचि.
तायां श्राद्धमञ्जयाँ प्रायश्चित्तप्रकरणम् ।
क्षेत्रे भार्गवनिर्मितेऽम्बुधितटे राजापुरप्रान्तके
वाडग्रामसमीपवर्तिफणशीसंज्ञो लघुग्रामकः ।
तत्स्थः केळकरोपनामकमहादेवात्मजः शाण्डिलो
बापूभट्ट इमं प्रयोगमकरोत्तेनाच्युतः प्रीयताम् ॥१॥
नामूलं लिखितं किंचित्कचिदप्यत्र पद्धतौ ।
धर्मशास्त्रनिबन्धादौ मूलवाक्यानि सन्ति च ॥२॥
तानि दृष्ट्वा यथाज्ञानं निर्मिता श्राद्धमञ्जरी।
कृपया शोधितव्येयं परोपकृतये बुधैः ॥३॥

श्राद्धमञ्जरी। १८५ विष्णोः प्रीतिकरा नित्यं तुलसीमञ्जरी यथा । सदाऽस्तु विदुषां प्रीत्यै तथेयं श्राद्धमञ्जरी.॥४॥ श्रीशालिवाहने शाके कराग्निमुनिभूमिते(१७३२) । प्रमोदवत्सरे मार्गे मञ्जरीयं समापिता ॥५॥ यन्नामोच्चारणान्यूनं कर्म संपूर्णतां ब्रजेत् । तं नमामि महाविष्णुं शिवं च विमलेश्वरम् ॥ ६॥ इति श्रीमच्चित्तपावनकेळकरोपाभिधमहादेवात्मजबापूभट्टविरचिता श्राद्धमञ्जरी समाप्ता॥ -:*:

Shradhamanjari

Author
Harinarayana Aapte
Title
Shradhamanjari
File name
Shradhamanjari
Text
OCR done
Published
2006/06/10
Publisher
Anandashrama Printing Press Bombay
Language
Sanskrit
Pages
194
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
496544
Barcode
1990030083654.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Avaailable
VMLT id
ofVRnXWcCyi
Download PDF

Shradhamanjari