Prakrit Bharati Academy, Jaipur
Shri Budhi Sagar
Front matter
No text on this page.
RANA
श्रीबुद्धिसागरः
पण्यं ०-३-०
-
प्राप्तिस्थानम्,
श्री जैन आनंद पुस्तकालय
गोपीपुरा, सुरत.
RTOHDRDSDRORISED
-----
No text on this page.
श्रीरत्नसिंहाचार्यचरणचंचरीकश्रीउदयवल्लभचरणसेवकसंग्रामसोनीसंहब्धः श्री गागररि सामन्दिर श सप्रेम श्रीबुद्धिसागरः ता V धर्मनयव्यवहारप्रकीर्णकाख्यतरंगचतुष्कमय: मुद्रयित्री-जामनगरवास्तव्यश्रेष्ठिपोपटभाइबृहद्भातृश्रीलक्ष्मीचन्द्रात्मजश्रेष्ठिचुनीलालविहितार्थसाहय्येन मालवान्तर्गतरत्नपुरीयश्रीपभदेवजीकेशरीमलजीश्वेतांवरसंस्था । मुद्रणस्थानम्-श्रीफकीरचन्द मगनलाल बदामी इत्यनेन स्वकीये 'श्रीजैनविजयानन्द' प्रीन्टींग प्रस (कणपीठबजार, सुरत.) इति यत्रालये मुद्रितः प्रतयः ५०० वीरसंवत् २४६३ विक्रमसंवत् १९९३ काइष्टसन् १९३६ (सर्वेऽधिकाराः स्वायत्ता.) पण्यं ०-३-० ta प d.00AMPLE PLORED NEPlateam.PIdar NOR - श्रीसंग्रामसोनीविहितस्य बुद्धिसागरस्योपक्रमः ग्रन्थोऽयं यथार्थाभिधानो बुद्धिसागरो विपश्चितामुपदाक्रियमाणः गृह्यतां करकुशेशये कोविदैः। विषयः-असिन्. हि ग्रन्थरस्ने श्रीमद्भिः संग्रामसिंहैः प्रकरणापराभिधानास्तरंगा निवेशिताश्चत्वारः, ते च क्रमेण धर्मनयव्यवहारप्रकीर्णकाख्याः, यद्यपि लघुतमोऽयं ग्रन्थस्तथापि चाणक्यकामन्दक्यादिनीतिशास्त्राणामिव शिशूनां व्यवहारपरायणानां चातीव उपयुक्त इति मुद्रणमस्याहतं संस्थयाऽ- नया, यथायथं लोकोपयोगिनः सर्वेऽपि विपया असिन् निवेशिता इति ग्रन्थः पाठोपयुक्तोऽयं, कर्त्ता चास्यालावदीनसत्कसांगणा- न्वयी श्रीनरदेवतनूजः संग्रामसिंहो मालवाधिपमहमूदभाण्डागारिको येन श्रीमक्षीपार्श्वचैत्यं समुद्दधे, कृतिश्चास्य निजामजययात्रायां, प्रतिष्ठानपुरे इति स्पष्टं प्रशस्तावस्य । १९९३ वैशास शुक्ला १३ निवेदका आनन्दसागराः सोनीसंग्रामसिंहभाण्डागारिककृतस्य बुद्धिसागरस्य विषयानुक्रमः विषयः पृष्ठं विषयः पृष्ठं विषयः पृष्ठं| विपयः पृष्ठं विषयः पृष्ठं विपयः पृष्ठ देवलक्षणं २ आकिंचन्यं ६ अधिकारिलक्षणं १० विश्वासः शपथाकरणं वैद्यकसारः १९ मुक्तास्वरूपं २२ गुरुलक्षणं २/ धर्मतरङ्गः १ प्रजासेक्कलक्षणं ११ व्यवहाराकरण- ज्योतिस्सारः २० पद्मरागादयः २३ अहिंसा २ भूपाललक्षणं ९ सर्वोपदेशः प्रभृतयः १६ शकुनसारः २१ नागमणिः २३ सत्यं ३ राज्ञीलक्षणं ९ अश्वलक्षणं १२ वास्तुलक्षणं १६ सामुद्रिकसारः २१ वैराग्यम् २४ अचौर्य ३/कुमारलक्षणं ९ राजलक्षणं १३ व्यवहारतरंगः३ स्त्रीस्वरूपं २२ योगचतुष्क २५ ब्रह्म ३ मन्त्रिलक्षणं १० नयतरङ्गः २ शरीरप्रकरणं १७| रत्नपरीक्षा २२ प्रकीर्णकतरंगः ४ सोनीवंशप्रशस्तिः .
बुद्धिसागरः ॥१॥ अहं नमः श्रीवीतरागाय। मंडपदुर्गवास्तव्यभाण्डागारिकश्रीसंग्रामसिंहविहितो बु सागरः (सद्धर्मादिनिरूपकः) ॥एँ नमः ॥नमः श्रीवीतरागाय, मोहध्वान्तकभानवे नमजनधनानन्दकारिणे विश्वधारिणे ॥१॥ सर्वकल्याणरूपाय, सम्प- तसिद्धिप्रदायिने । विनव्रजविनाशाय, गौतमस्वामिने नमः ॥२॥ येषां प्रसादतः प्राप्ता, बुद्धिर्विश्वीपफारिणी । प्रारिप्सितार्थसित्यर्थ, गुरुभ्यः सर्वदा नमः ॥३॥ श्रीरत्नसिंहसूरेः पट्टालङ्करणमद्भुतगुणाढ्यम् । गुरुमुदयवल्लभाख्यं मरि वन्दामहे सततम् ॥४॥ उद्यत्प्रतापदिनकरकिर- गैनिधूतवैरितिमिरोघः। खल्वाकुलाब्धिचन्द्रः, स जयति महमूदभूमीन्द्रः ॥५॥ तस्य च मालवदेशे मण्डपडुगैत्र भाति सुवि- नीतः। सङ्ग्रामसिंहनामा भाण्डागाराधिकारीन्द्रः ॥३॥ गौतमवामिनः प्राप्तवरो भक्याऽतिसादरः।बुद्ध्याऽभयकुमारोऽयं,वाग्वा- दिन्याः प्रसादतः ॥७॥ओसवाले कुले श्रीमानररेवस्य नन्दनः । निर्मलार्थगमीराणि, शास्त्राण्यालोच्य तत्वतः ॥८॥सारमुद्धृत्य तेभ्यस्त, निजबुद्ध्यातिशुद्धया । बुद्धिसागरनामेति, सर्वदर्शनसम्मतम् ॥९॥ सझामो रचयत्येवच्छास्त्रं विश्वोपकारकम् । गंभी-
बुद्धिसागरः
॥२॥
सद्धर्मतरंगे
प्रस्तावना
धर्मप्रशंसा
GO
रमनतिक्रम्यमधीरैर्मन्दबुद्धिभिः॥१०॥ सुयुत्तरत्ननिचयः, पूर्ण लक्ष्मीनिकेतनम् । उद्यद्विवेकपूर्णेन्दुकलासनसुशोभितम् ॥११॥ सद्ध-
मनयशुद्धार्थव्यवहारप्रकीर्णकैः। तरङ्गनामभिर्युक्तं, चतुर्भि(वरप्रियम् ॥१२॥ पद्धिः कुलकम् ।।
भूयात् सदर्थसम्पत्तिव्यवहारविवेकवत् । विश्वं मदुपकृत्यै च, युगपत्श्रीसमन्वितम् ॥१॥ चिन्तयन्निति सघामो, जगजनहिते
रतः। शास्त्रकर्तृच्छलेनैव, विश्वोपकरणवतम् ॥१४॥ खयमङ्गीकृतं पूर्ण,प्रकारोत्पथनाशनम् । स्थापकः सर्वधर्माणां,जिनधर्मधुरन्धरः
॥१५॥ त्रिभिर्विशेषकम् ।। नातिविस्तारमत्यन्तहितार्थशतसङ्कुलम् । प्रसन्नार्थमतः शासं, मान्यमेतन्मनीपिमिः ॥१६॥ ये चोपहा.
सनिरताः, सदा दौपैकदृष्टयः । कृतोऽयमञ्जलिस्तेभ्यः, क्षमध्वं चापलं मम ||१७|| धर्मानयप्रवृत्तिः स्थानयात् सद्व्यवहारधीः ।
व्यवहारात् प्रसीदन्ति, प्रकीर्णार्थाः सुनिश्चिताः ॥१८|| अत्रोऽत्र धर्ममूलत्वान्नयादित्रितयस्य तु । धर्मशुद्धितरङ्गोऽयमाद्यः प्रार-
भ्यतेऽधुना ॥१९॥
अथ धर्मप्रशंसा॥ धर्माद्राज्यं यशो लक्ष्मीः, पुत्राः कायस्त्वनामयः। तपस्यामिरतिश्चापि, केवलज्ञानमुत्तमम् ॥२०॥ तपोज्ञानं
तथा दानं, तीर्थ खाध्याय एव च। शमो जीवदया. चेति, धर्ममूलानि संविदुः ॥२१॥ तपोदानादिसिद्धिस्तु, बह्वायासव्ययैर्भ-
वेत् । अयनसाध्याऽतिफला, दया तेषु प्रशस्यते ॥२२॥ परमात्मा हि सर्वज्ञो, यः साक्षी जीवकर्मणाम् । जीवानां पालनात्राणात् ,
परितुष्टो भवेत् स हि ॥२३।। यो द्वेष्टि मनुजो मोहात्, कृमिकाटपशूनपि । खात्मद्वेपः कृतरतेन, धुचं निरयपातनात् ॥२४॥ दया-
धर्म परित्यज्य, योऽन्यधर्मानिपेवते । वृथा श्रमं स कुरुते, कृषि पर्वतभूमिपु॥२॥ आत्मवत् प्राणिनः सर्वान् , पश्यन् कृच्छ्राद्
विमोचयेत् । खशक्त्या मनुजः सोऽग्रगण्यः पुण्यवतां भवेत् ॥२६॥
॥२॥
सत्यादि
बुद्धिसागरः
॥३॥
सद्धर्मतरंगे
अथ सत्यम्-तपो दानं यशः शौचं, विद्या च श्रुतशालिनी । आचारः शाश्वतो धर्मः, सदा सत्त्ये व्यवस्थितः ॥२७॥ महाभू-
तानि चन्द्राकौं, धीहीश्रीकान्तिकीर्तयः । सत्यस्य वशगाश्चैते, तसात् सत्यं सदा वदेत् ।।२८।। धर्मार्थव्यवहारेपु, भये हास्यकथा-
खपि। रते कान्ताजनैर्वाऽपि, न वदेदनृतं क्वचित् ॥२९॥ एतत् सत्यव्रतं नाम, सामः सत्यसङ्गरः । दिशत्यखिललोकस्य, हिता-
यामृतसग्मितम् ॥३०॥ सत्या सुसंस्कृता वाणी, वक्तृश्रोत्रोश्च मध्यगा। पुनाति परितः सर्व, गङ्गेवोभयकूलभाक् ॥ ३१॥ नास्ति
सत्यात् परा भूपा, नास्ति सत्यात् परं यशः। नास्ति सत्यात् परं वित्तं, तसात् सत्त्यं न संत्यजेत् ॥३२॥ कन्याप्रदाने शपथे, साक्षि-
वादे सभासु च । असत्यं प्रवदन मोहाजीवन्निरायमश्नुते ॥ ३३ ॥
अथ परद्र्व्यपरिहारमा अज्ञानादथवा लोभात् ,परिहासाच्छलादपि । परद्रव्यापहरणं,न कार्यमतिगर्हितम्।।३४||मार्गे यत् पतितं
दृष्टं,तथैवान्येन विस्मृतम् । निक्षेपस्थापितं चापि,चौरैपहृतं च यत्॥३५॥सुनर्ण रोप्यमन्नं वा,धातुभाण्डं तथा धनम् । परकीयं तृणा-
धन्यत् , करेणापि न संस्पृशेत् ॥३६॥ युग्मं । करनासापदच्छेदं, ताडनं शीर्पकर्तनम् । प्राप्नुवन्त्यशुभं चौरास्तसाचौर्य परित्यजेत् ।३७॥
अथ परस्त्रीपरिहरणम्-अधर्ममूलं वैरस्स, निदानं कलहास्पदम् । अयशोभाजनं धर्मतरोस्तीक्ष्णकुठारकम् ॥३८॥ इह निन्दा
करं प्रेत्यमहारौरवदायकम् । मनसाऽपि न कुर्वीत, परस्त्रीगमनं बुधः ॥३९।। युग्मम् ।। सामिलापं परस्त्रीणामालोके सम्भवन्ति हि ।
यावन्तो निमिपाः कल्पांस्तावतो नरके वसेत् ॥४०॥ महान्तोऽपि विनश्यन्ति, परस्त्रीसङ्गलोलुपाः। महदैश्वर्ययुक्ता हि, विनष्टा
रावणादयः॥४१॥ स पण्डितः रा गुणवान् , सतां पूज्यः स एवहि । अहो जगजितं तेन, यः परस्त्रीपराङ्मुखः ॥४२॥
अथ परिग्रहः।। गृहव्यापारनिरतैः, परलोकहितेप्सुमिः । जीवद्रोरो भवेधेन, न स कार्यः परिग्रहः ॥४३॥ चित्तं नैकान्तता-
Ah
N
॥३॥
BOD गृपादयः ॥४॥ बुद्धिसागरः मेति, यसारिपरिग्रहै। चतुर्वर्गफलं नृणां, चले चित्ते न सिद्ध्यति ॥४४॥ बहुलाभेऽपि तृष्णायाः, समाप्ति व दृश्यते । अतस्तां संपरित्यज्य, भवेत् सन्तोषवान् सुखी ॥५५॥ सद्धर्मतरंगे अथ गृही॥ देवतातिथिभक्तश्च, दीनानाथानुकम्पकः । खदारनिरतश्चापि, गृही स्याच दयापरः ॥४६॥ गुरुदेवार्चनं दानं, पठनं संयमस्तपः। पट् कर्माणि प्रकुर्वाणो, गृही मुच्येत बन्धनात् ।।४७॥ शुचिौताम्बरधरो, गन्धमाल्यफलाक्षतैः। दीपनीराज- नै पनैवेद्यैर्देवमर्चयेत् ॥४८॥ नास्तिक्यलोभादियुतो, निन्दकश्चानुसूचकः। दम्भाद्धर्माभिधानी च, गृही पाप्मैकजिनम् ॥४९॥, अथ ब्रह्मचारी ॥ गुरुशुश्रूषको नित्यमाज्ञापालनतत्परः। भवेत् पठनशीलथ, ब्रह्मचारी स सत्यवाक् ॥५०॥ शरीरसंस्कारपरो, नृत्यगीतादिसादरः । स्रगादिलोलुपश्चापि, ब्रह्मचारी विनश्यति ॥५१॥ अथ यती-विनिर्जितेन्द्रियग्रामः, सर्वजीवदयापर। सर्वशास्त्रार्थदर्शी च, भिक्षुर्मोक्षपदं बर्जेत् ॥५२॥ सर्वसङ्गविनिर्मुक्तो, यती धनपरायणः । बकवृत्तिः स विज्ञेयश्चण्डपाखण्डदण्डभृत् ॥५३॥ आहारशुद्धिरहितो, विरुद्धाचरणस्तु यः। मुक्ति वाञ्छति मूढात्मा, यतिधर्म विडम्बयेत् ॥५४॥ अथ साधारणान् धर्मान्नरदेवस्य नन्दनः। सङ्घामो वदति श्रेष्ठान् ,खयमाचरितान् शुभान् ॥५५।। दुर्लभं मानुषं प्राप्य,नयति व्यसनैस्तु यः। पर्वतोपलवुद्ध्याऽसौ, चिन्तारनं परित्यजेत् ॥५६॥ सम्पत्कुलबलैश्वर्यसुरूपत्वश्रुतादिषु । प्रकुर्वन् गर्वमचिराल्लघुतां याति मानवः ॥५७॥ अथेन्द्रियाणि ॥ जेतव्यानीन्द्रियाण्यादौ, नरेण नियतात्मना । उपेक्षितानि तान्याशु, विनंति व्याधिवत् सदा ॥५८॥ मृगो TE बुद्धिसागरः ॥५॥ सद्धर्मतरंगे गुर्वादि- खरूपं भीना की भृङ्गा, पतङ्गः पञ्च जातयः । शब्दादिलौल्यभावेन, पञ्चत्वं यान्त्यशकिनाः ॥५९॥ एकैकमप्यनर्थाय, महते महता- मपि । पश्चापि यस्य बलवन्त्यसौं न क्षणमाश्वसेत् ॥६०॥ अथ गुरु: स्वधर्माचारनिरतः, शास्त्रवेत्ताऽर्थतत्त्ववित् । निर्णता धर्मवाक्यानामक्रोधी विजितेन्द्रियः॥६१|| लोभमोहविहीनश्च, शिष्यवर्गकृपाकरः। स्पष्टार्थवक्ता सद्धर्मोपदेष्टा गुरुरुच्यते ।। ६२ ॥ अथोपासका अक्षुद्रः सुन्दरः पापभीर्लज्जादयान्वितः । निर्गुणेषु च मध्यस्थो, रागी परगुणेष्वपि ॥६३॥ कथका पक्षयुक्तश्व, दीर्घदर्शी च सौम्यदृक् । वर्धिष्णुः सत्यवादी च, विशेषज्ञो विवेकवित् ॥६४॥ उपकारी विनयवान् , धोरः क्रोधविवर्जितः गम्भीर- वैकविशत्या, गुणानामनया युतः।।६५॥ धर्मोपदेशपात्रं स्याद् , भाग्यवानीदृशो नरः । परीक्ष्य विधिवद्धों,वाच्यस्तमैं विपश्चिता ६६ अथ शिष्या राजवंश्योऽधिकारी वा, व्यवसायी विदेशगः। निर्धनत्वान्धकूपात्तु,समुद्धायः सुदैव हि ॥६॥ कस्यचित् प्रार्थना- भङ्गो, नैव कार्यः स्वशक्तितः । मदनज्वरतप्ताङ्गी, परनारी विनाऽनिशम् ॥१८॥ धनेनानेन वस्त्रेण, वचनेन प्रियेण वा। अतिथिः सर्वदा पूज्यः, सुशीतलजलेन वा ॥६९॥ अतिथिर्विमुखो याति, गृहात्तु गृहमेधिनः । तस्य तदिनजं पुण्यं, गृहीत्वैव प्रयात्यसो १७०॥ शुकपारापतश्येनमार्जारशुनकानपि । वन्यानथ मृगादीथे, क्रीडार्थ नैव पालयेत् ॥७॥सा क्रीडा नैव कर्तव्या, जीवद्रोहो भवेद्यया। निन्दितः पापहेतुत्वान्जीवद्रोहः स्वकामतः ॥७२॥ दया धर्मतरोर्मूलं, क्षमा विज्ञानशाखिनः। गुणानां विनयो मूलं, नाश- मूलं सगर्वता ॥७३॥ दुराचारपरो धृष्टः, पुण्यवन्तं विनिंदति । नूनं कले प्रभावोऽयं, विद्वान् मूर्खेण जीयते ।।७४॥ अथ मातापितरौ-श्रेयस्कारि मनोहारि, नित्यमानन्ददायि च । दुर्लभं मानुषे लोके, पित्रोः सन्दर्शनं महत् ॥७॥ सर्वतीर्थ- . ||५||
मातापितरौ
बुद्धिसागरः
॥६॥
सद्धर्मतरंगे
HOSHO
मयौ ज्ञेयौ, पितरौ पुण्यरूपिणौ । तयोराज्ञां विना पुत्रो, नैव तीर्थान्तरं व्रजेत् ॥७६॥ पितरौ चेदनादृत्य, मूर्खस्तीर्थपथं व्रजेत् ।
हस्ताचिन्तामणिं त्यक्त्या, दूरस्थं काचमञ्चति ॥७७॥ यो न वेत्ति नरः कार्येष्वन्तरं पुण्यपाप्मनोः। चतुरः पण्डितमन्योऽप्यस-
तामग्रणीस्तु सः ॥७८॥ जगदीशमहीपालगुरूणामपि सर्वदा। आज्ञाभङ्गं प्रकुर्वाणो, नरो भवति किल्विषी ॥७९॥ व्यवहारेऽ-
धिकारे वा, न कुर्यात् कौतुकेष्वपि । जटिलिङ्गिद्विजातीनां, कपाटोद्घाटनं सुधीः॥८०॥ वृथा परापवादादिकथाभि पिशुनैः समम्।
धर्मस्य समयो नैवातिवाद्यः शुद्धबुद्धिना ॥८॥ देवे गुरौ धर्मशास्त्रे, कपटं नाचरेद्बुधः। भाव्यं विशुद्धभावेन, तेष्वादरवता सदा
॥८२॥ तपखिगुरुदेवार्षियोगिभिच समं क्वचित् । नैव वैरवता भाव्यं, नरेण शुभमिच्छता ॥ ८३ ॥ अनुरागश्च दयायामिन्द्रियवर्गस्य
सन्ततं दमनम् । वाच्यं वचनं सत्यं त्वेतद्धर्मस्य हि रहस्यम् ।।८४॥ शीलं न खण्डनीयं न सनिवासः समं कुशीलैश्च । गुरुवचनाद्य-
स्खलनं धर्मस्यायं हि परमार्थः ॥८५॥ (आय)सुजन्म विमले कुले नृपतिसमसन्मान्यता, मुहुः प्रियसमागमोद्भवसुखं च लक्ष्मी:
स्थिरा। शशाङ्कधवलं यशः सदसि वाक्पटुत्वं नृणां, दिशत्यनिशमर्जितः सुकृतकल्पवृक्षः फलम् ॥८६॥ गौराभाति च यस्य गौर-
वगुणैर्विश्वम्भरेवापरा, रत्नालऋतिसोज्ज्वलाऽखिलपरस्त्रीसोदरस्य प्रिया । शृङ्गारादिरसेन कान्तसुभगा सङ्ग्रामसिंहस्य धीसिन्धौ
धर्मतरङ्ग एप शुभदस्त्वाद्योऽनवद्योऽभवत् ॥८७॥ इति भीसग्रामसिंहविरचिते वुद्धिसागरे धर्मतरङ्गः प्रथमः१॥
जयति जगत्रयजननी देवी वाग्वादिनी जगद्वन्या। यत्सरणात्तरणौधैः कविता कमनीयतां याति ॥१॥ श्रीवीतरागपदपङ्क-
जचश्चरीको, वाग्वादिनीचरणचिन्तनचित्तवृत्तिः । सभामनाम कविकल्पतरुः करोति, धीसागरं नयतरङ्गकरम्बितार्थम् ॥२॥
युक्तं समौ सजनदुर्जनावुभौ, यतो भवेतां खलु पापहारिणौ । सन्दर्शनात् संसदि दोषवादतस्तचित्रमेको गतिमेति नापरः ।। ३ ।।
॥६॥
बुद्धिसागरः ॥७॥ २ नयतरंगे राजादि- धर्माः सुवर्णालङ्कता शुद्धा, स्वदेशीयकवेः कृतिः। सुवृत्ताऽपि गृहस्त्रीव, दुर्घत्तेभ्यो न रोचते ॥४॥ अथ सग्रामसिंहोऽसौ, दुर्जनेऽपि दया- परः । नृपोद्देशेन कुरुते, हितं सर्वजनेष्वपि ॥५॥ सत्रामोक्तोहितैर्येपा, न गता दुष्टचित्तता । तरणेः किरणैघूको, दिवाऽन्धः कस्य दोषतः ॥६॥ धर्मेण राज्यलाभः स्याद्राज्यवृद्धिर्नयेन च। अतोत्र नयरत्नानां, पद्धति चतुरोचिताम् ॥ ७॥ नरदेवहितां रम्या, सनामैकजयप्रदाम् । विश्वोपकारिणी शुद्धां, सझेमाद्रचयत्यसौ ॥८॥ युग्मम् ॥ राजा राज्ञी कुमारच,मत्रिणश्चाधिकारिणः । प्रजे- त्युक्तकमाणां च, विधेयमधुनोच्यते ॥९॥ अथ राजा-राजा वृद्धोपसेवी साहक्षो नात्युग्रदण्डकृत् । अदीनवचनः सूरो, धर्मी पाङ्गुण्यवित् सुधीः ॥१०॥ परीक्ष्यकारी सोत्साहो, रिपुरन्धैकदृष्टिदः । वृद्धिव्ययविचारज्ञः, सरत्युपकृतं च यः ॥११॥ दृढप्रतिज्ञो मेधावी, शचित्रयसमन्वितः । अकर्णदुर्वलो यायी, सन्तोपी रिपोर्जये ॥१२॥ सर्वव्यसननिर्मुक्तो, युद्धविद्यादिभिः सदा। विभक्त- कालः सर्वत्र, सावधानः प्रियंवदः ॥१३॥ यसवानात्मरक्षासु, गूढमत्रः प्रतापवान् । सुगुप्तरागरोपश्च, भृत्त्येष्वननुसूचकः ॥ १४॥ चतुर्भिः कुलकम् ॥ यामे च पश्चिमे नित्यं, वेणुवीणादिजैः खनैः। गीतवाद्यैश्च विविधैः, प्रबुद्धः शयनं त्यजेत् ॥१५॥ कृतदेह- विशुद्धिश्च गतालयो जितेन्द्रियः। संस्मृत्य परमात्मानं, जगत्कर्तारमव्ययम् ॥१६॥ संसारसिन्धुतरणे, सेतुमव्यक्तरूपिणम् । इति यश्चिन्तयेन्नित्यं, चरचारुविलोचनः ॥१७॥ अधिकारनियुक्तानां, मध्ये को हितकारकः । को दण्ड्यः ? कश्च पूजाहः १, प्रेषणी- योऽस्ति का क्वचित् १ ॥१८॥ कस्मिन् देशे च गन्तव्यं ?, कः शत्रुः? किंबलं मम ? | कोशे राज्यतरोर्मूले, का वृद्धिः १ को व्ययो दिने? ॥१९॥ चतुर्भिः कुलकम् ॥ सुज्ञातं भक्षयेद्दन्तकाष्ठं प्रातरुदङ्मुखः । मुकुरादौ मुखं दृष्ट्वा, पञ्चाङ्गश्रवणं ततः॥२०॥ पञ्चाङ्गं प्रातरुत्थाय, यः शृणोति नराधिपः । दुर्दशा दुर्यशो नश्येत्तस्य दुःखमजं फलम् ॥ २१॥ प्राणाचार्यवचः कुर्यानित्यदानं वितीर्य . ॐॐ ॥७॥ Hot
28
बुद्धिसागरः
॥८॥
सद्धर्मतरंगे
राजादि-
धर्माः
.
च। विनीतवेपाभरणस्ततो धर्मसभां विशेत् ॥२२॥ सुदृष्टिदानसन्मानः, शुभसम्भाषणेन च । नियोगांश्चैव कार्येषु, सर्वान् सम्मा-
नयेत् क्रमात् ॥२शा खराष्ट्रे परराष्ट्रे च, मित्रे शत्रौ चरेष्वपि । मत्रिणाऽऽलोचयेत् सर्व, कार्यजातं महीपतिः ॥ २४ ॥ परेगितज्ञो
धीरच, मेधावी वाक्पटुस्तथा। प्राज्ञो यथोक्तवादी च, चरो दुर्लक्षवेपवित् ॥२५॥ क्रूरं स्तब्धमसन्तुष्टं, सालसं मुखरं शठम् ।
अभक्तं तु त्यजेद् भृत्य, पालयेत्तमनीदृशम् ॥२६॥ दुष्टदण्डः साधुपूजा, कोशवृद्धिर्नयेन च। अपक्षपातः सद्रक्षा, नृपाणां यज्ञप-
ञ्चकम् ॥२७॥ मृगयाधूतपानानि, गर्हितानि त्यजेन्नृपः। तेभ्यो विपदमापन्नाः, पाण्डुनैषधवृष्णयः ॥२८॥ अभ्यासः सर्वदा
कार्यः,सर्वविद्यासु पार्थिवैः । नृपः सर्वकलायुक्तः शशाङ्क इव शोभते ॥२९॥ कामलोभादिमिर्लोको,रौरवे मजति ध्रुवम् । यथाऽपरा-
धदण्डेन, यदि राज्ञा न धार्यते ॥३०॥ प्राकारंपरिखातोयधान्यदन्तितुरङ्गमैः । शूराप्तयत्रदैवज्ञैः, संगतं दुर्गमुच्यते ॥३॥ चतु-
रङ्गे वले पूर्णे, यो न यायी सहीयते । स्वचक्रपोषणेनैव,क्षीणोऽसौ दुर्नयं भजेत् ॥३३।। यस्य दुर्ग बलं तस्स,यस्य दुर्गस दुर्जयः। यस्य
स्थानबलं सम्यक्, शुद्धपाणिः स उच्यते ॥३३॥ अशुद्धपाणिर्यो राजा,परराष्ट्र प्रयाति चेत् । निश्चिन्तः सुखलोभेन, स वशं वैरि-
णां ब्रजेत् ॥३४॥ सन्धिश्च विग्रहो यानं.द्विधामानं तथाऽऽसनम् । संशयश्चेति पागुण्य, नृपाणां विजयप्रदम् ॥३५॥ रात्रावुलूकवशगः,
काकस्तद्वशगो दिवा घूकस्तद्वच कालज्ञो, बलाबलमुदीक्षयेत् ॥३६॥ हन्ति सिंह जले नका, स्थले नकं च केसरी । इति देशविभा-
गज्ञः, क्षितिपो दुर्जयं जयेत् ॥३७॥ शत्रोरुन्मूलनं कार्य, विजितेनैव शत्रुणा । कण्टकेन करस्थेन, कण्टकोद्धरणं यथा ॥३८॥ इत्या-
चारविचारज्ञो, देशकालविभागवित् । निष्कण्टकं नृपो भुङ्क्ते, स पृथ्वी सप्तसागरीम् ॥३९॥ लघूनपि च वर्द्धयन् कुसुमितान् विचि-
वन्न् शनैः, क्षिपन् कुटिलकण्टकान् बहिरसौ समुन्मूलितान् । दृई समधिरोपयन् विरहयन्मिथासंहतान् , भवेत् सुवनपालवत् कृत-
M
॥८॥
. ' बुद्धिसागरः ॥९॥ नयतरंगे राश्यादि- खरूप मतिः स्थिरो भूपतिः ॥ ४०॥ अथ राज्ञी-कन्यां राजकुलोत्पन्ना, राजलक्षणलक्षिताम् । चारुशीलामहीनांगी, यथाकालं समुद्हेत् ॥४॥ कुरूपाति सपत्नी, नित्यमीोपरायणा । स्वभर्तनिन्दका चैत्र, न सा योग्या नृपाङ्गना । ४२॥ तुल्यसौन्दर्यगुणयोर्योग्यशीलवयस्कयोगदम्पत्योरनयो- र्जातः, कुमारो गज्यभाजनम् ।। ४३ ॥ अथ कुमारः। राज्ञा पाल्येऽपि पुत्रस, शिक्षा कार्या प्रयत्नतः । सरसो नम्रतां याति, वंशोऽसौ नैव नीरसः ॥४४॥ पित्रा सुशिक्षितः पुत्रो, न दुष्टव्यसनी भवेत् । किं न बकरवत् कुर्याद्राजपुत्रो निरर्गलः ॥४५॥ यस्तु राजकुमारोऽपि, परिवारपराङ्मुखः। दुष्टव्यमनसंसक्तो, न राज्यं प्राप्नुयात् कचित् ॥४६॥ कुमारत्वेऽपि यः स्वाज्ञा, प्रतापं जयपद्धतिम् । न लिखेत खशरैर्वक्षस्यरातेः स न राज्यभाक् ॥४७॥ यौवराज्ये श्रुते यस्य, रिपोस्तपितधूमिते । हृदये नोत्थितो बहिः, कथग्रे स राज्यभाव ? ॥४८॥ अथ मत्रिणः-सङ्ग्रामे विजयः पुण्य, राज्यवृद्धिर्यशो धनम् । दुरमात्ये विनश्यन्ति, सम्भवन्ति सुमत्रिणि ॥४२॥ दुरमात्यो- पदेशेन, कृते कार्य त्वषं महत् । दुयंशोभाजन बहिमिदाहेन मारुतः ।।५०॥ अतो महीपतिर्दुष्टमकुलीनं खवंशजम् । अज्ञातशी- लमहितं, दुराचारं च दुर्मुखम् ॥५१॥ मूर्खमन्यायकर्तारं, सदा लोभैकलोलुपम् । निर्दयं व्यसनासक्तं, नामात्यत्वे नियोजयेत् ॥५२॥ युग्मम् ।। अनीतिज्ञा प्रधानादिपदाकाही दुराशयः। उधप्राप्ये फले नूनमुद्रा मनो यथा ॥५३॥ शरीरासुखलोमेन, सेवा- लसं करोति या राजबालभतां याति, कथं स गुणवानपि १ ॥५४॥ मित्रभावेन यः कोऽपि, मन्त्रं पृच्छति सादरम् । तसै कूटोपदे- याऽसौ, शिरश्छेत्ताकशायिनः ॥५५॥ राजमानं समासाद्य, परोपकरणं नरः । करोति निःस्पृहत्वेन, स यशस्वी नरोतमः ॥१६॥ , L A 11९॥
बुद्धिसागरः ॥१०॥ नयतरंगे ORDS अधिकारि- सेवकाः यस्तु लौकलोमैन, कार्यकारी से मध्यमः। लनं प्राश्य पुनः कार्य, न करोति महाधमः॥५७॥. एकेऽप्येवंविधाः सन्ति, जननी- दोषदायिनः। परेषां लञ्चमादाय, प्रन्ति कार्याणि निष्ठुराः ॥५८॥ सङ्कामो नवनीरदश्च सदृशावेतौ सुपुण्योन्नती, लोके जीवनदौ च निःस्पृहतयां नित्योपकारप्रियौ । तद्युक्तं परतापखण्डनमहापाण्डित्यवादस्तयोरेकस्त्यागपरः प्रमन्नवदनश्चित्तस्तथा नापरः।।५९॥ स कथं कथ्यते सद्धिनीतिशाखैककोविदः। वैरिणं विश्वसेधस्तु, विषवैश्वानरोपमम् ? ॥३०॥ दुर्जनोक्तानि वाक्यानि, प्रियाणि मधु- राण्यपि। अकालकुसुमानीव, विरुद्धं सूचयन्ति हि ॥६॥ अमर्पलोभमोहाथैः, सभायां न्यायमन्यथा। ब्ते यस्तन्मुखं दृष्ट्वा, नरं सूर्य विलोकयेत् ॥६२॥ नृपमानाभिमानी यो, वैरकारी समततः। यदि राजकुमारोऽपि, नरः शीघ्रं विनश्यति ॥६॥ “अथाधिकारिणः-धनोत्पत्तिमनालोच्य, योऽधिकारी भवेन्नरः। व्ययकर्तुषिनाऽऽयं वा, तस्य स्वमेऽपि नो सुखम् ॥१४॥ नृपाधिकारो नृपतेर्नियोगेषु च वैरकृत् । स यथा मकरद्वेषी, जलावासी विनश्यति॥६५॥ व्यापारी गणनालेख्ये, शुद्धतां न करोति यः। बन्धनं प्राप्नुयात् सोऽपि, कोशकीट इवात्मना ॥३६॥ खसेवाऽवसरे राजनिकटं नित्यमावसेत् । वेष्टयन्ति ममीपस्थं, प्रायोव- ल्लीनृपस्त्रियः ॥६७॥ विनाऽवसरमन्तों, याति भूपतिमन्दिरे । स करोत्यरुचिं धृष्टो, वसन्तत्तौ गुडो यथा ॥२८॥ पार्थिवे मित्रता नास्ति, निर्दये नास्ति धर्मता । सलोमे गौरवं नास्ति, सभामे चास्ति तत्रयम् ॥६९।। सहात्मकर्ममर्मज्ञैर्विरोधं प्रकरोति यः। स वृक्ष- तामेवाधो निकृन्तति ॥७॥ अथ प्रजासेवकश्च-राजा नेता न चेत् सम्यक्, तत्प्रजाऽन्यः प्रपीड्यते । अकर्णधारा पवनैौरिवाम्भोधिमध्यगा ॥७१॥ प्रजा खजनयित्री यद्राज्ये दुःखसमाकुला । तस्य धिग् जीवितं राज्ञो, नामोच्चारेऽप्यघं महत् ।।७२।। यसिन् राज्ये प्रजापीडा, कलहो . शाखामारुवा . ॥१०॥ हाहाच
- सेवक
बुद्धिसागरः
॥११॥
नयतरंगे
सामान्यो-
पदेशो
.
यत्र मन्दिरे। न तद्राज्यं न तद्वेश्म, वने चासो वरं ततः ||७|| त्यजेद्राजानमत्युग्रं, कृतघ्नं कृपणं तथा । कापण्यादविशेषज्ञ, दुर्ज
नाधिष्ठितागणम् ॥७४॥ राजा दुष्टः सुतो. मूर्यो, दुश्चरित्रवती प्रिया बान्धवैरमत्युग्रं, हृदि शल्यचतुष्टयम् ॥७५।। राज्ञो निन्दा-
परो नित्यं, परोक्षे मत्रिणस्तथा । स केवलं विष प्राश्य, जीविताशां करोत्यपि ॥७६।। महिषी राजमाता च, प्रतीहारः पुरोहित
मुख्यो मत्री कुमारच, पड् मान्या नृपवत् सदा ॥७७॥ दूरतों निष्फला सेवा, निकटाऽतिविनाशिनी । युक्ता मध्यस्थता ह्यसिन,
राशि वही गुरौ स्त्रियाम् ।। ७८ ।। धातुवादकुवाणिज्यंधूतदुपसेवया। समृद्धये करोत्याशा, वाहना(वहन्ना)शां समृद्धये ॥७९॥ न
वाच्यं कुपिते राज्ञि, हितं वाऽप्यहितं वचः। शीतमप्यम्वु दोपाय, नराणां तरुणज्वरे ॥८॥ सुभटःखामिनं मुक्त्वा, सभामाङ्गण-
माश्रितम् । पलायनपरो भीरुर्नरकं याति निश्चितम् ।।८।। स्वामिनोऽर्थे गतप्राणास्तस्य किश्चिन्न साहसम् । तत् साहसं रणाद् भ्रष्टो,
निर्लजः शूरसंसदि ॥४२॥ सङ्कामाद्विमुखस्यास्य, गैरवं तच तिष्ठतु । तत्पत्नी खं मुखं नैव, सखीनां दर्शयत्यपि ॥८॥
अथ सर्वोपदेश:-न सभासु वदेत् प्राज्ञः, परमर्माणि कर्हिचित् । वञ्चनं खापमानं च, गोप्यं नैव प्रकाशयेत् ॥८४॥ तृतीयो
न भवेद्यस्तु, द्वयोर्मत्रं प्रकुर्वतोः। यथावसरवक्ता च, स विद्वान् स विचक्षणः॥८॥ न मन्यते गुरोः शिक्षा, शीर्णागारं निसेवते ।।
नीचसङ्गप्रसक्तो यस्तस्य न स्यात् सुखं क्वचित् ॥८६॥ अवाझवाहनानूनमभक्ष्यस्य च भक्षणात् । अकरप्रार्थनात् पुंसां, पौतकं स्यात् पदे
पदे-१८७॥ शत्रोच सुहृदो वाऽपि, गुणिनो निर्गुणस्य वा। केषामपि न कर्तव्या, निन्दा दौर्भाग्यदायिनी ॥ ८८॥ यः सौभाग्यं
सार्वजन्यमीहते पुरुषोत्तमः। सर्वेषां तेन कर्त्तव्यं, परोक्षे गुणकीर्तनम् ॥८९॥मानं विहाय वाल्लभ्य, याति दौर्भान्यमन्यथा। कृच्छ्रात्
(सांत)करो-मानी, हेलया सुभगो नरः ॥१०॥--
Ig
॥११॥
बुद्धिसागरः ॥१२॥ नयतरंगे अश्वनृप- लक्षणं , अथ राजवाहनाश्वलक्षणम्-तुरङ्गाः शतशो राज्ञा, पालनीयाश्च सिन्धुजाः। पूर्वोक्तं श्रूयते वाक्यं, यथाश्यास्तस्य मेदिनी ॥९१॥ निर्मासो वहने प्रोथे, चलः स्कन्धेऽतिबन्धुरः। विशालोरस्कतायुक्तो, लघुः सात् कर्णयोर्द्वयोः ॥९॥ नेत्रे विशाले मणि- बद्दीप्यमानातिनिर्मले। मध्ये परिमितः पीना, पश्चात् पार्श्व द्वयोरपि ॥९५॥ स्निग्धरोंमोद्गमः पृष्ठे, विशालो वायुवेगजित् । आव- तैत्र शुभैर्युक्तो, निन्दितैश्च विवर्जितः ॥९४॥ इत्यादिशालिहोत्रोक्तैर्लक्षणैर्लक्षितः शुभैः । वाहितः सततं चारु, गतिविद्भिर्भटैस्तु' यः ॥९५|| सबलस्तरुणः शूरः, शुद्धवंशसमुद्भवः । राजवाहनयोग्योऽसौ, मन्दुरामण्डनं हयः ॥१६॥ अथ राजलक्षणम्-अश्वानां पदसहस्री यद्भटानामयुतं तथा। करोति नृपतेः कार्य, तदेकोऽपि मतंगजः॥१७|| भद्रो मन्दो मृगथापि, सङ्कीर्णश्चेति जातयः। गजानां पालकांप्येन, चतस्रः परिकीर्तिताः ॥९८॥ सुन्दरावयवैयुक्ता, नात्युचा नातिवामना। न स्थूला न कृशाश्थापि, समगात्रविराजिताः ॥९९॥ मधुसन्निभदन्ताथ, पृष्ठवंशे धनुःसमा वराहतुल्यजघना, गजाः स्युर्भद्रजा- तिजा॥१००। कक्षा वक्षोऽथ वलयः, श्लथा लम्बे गलोदरे। कुक्षिः स्थूला च सैंहीव, दृष्टिः स्यान्मन्ददन्तिनः॥१०१॥ हस्तावि द्वि- जकर्णेपु, सकण्ठेषु तनुश्च यः। मेण्बालाघरे इस्खा, स्थूलनेत्रो मृगः करी ॥१०२॥ परिणाहोचदैध्येषु, वसुबाणनगैः करैः। मृगो गजः साद्धस्तैकद्वियुद्धया मन्दभद्रकौ ॥१०॥ चिकैः प्रत्यङ्गकथितैर्भद्रादीनां विमिश्रितैः । दैादिमानरमिता, प्रोक्तः सङ्कीर्णवा- रणः ॥१०४॥ शूरो धीरः सुगतिमान् , भद्रजातिसमुद्भवः। मतंगजो हि मन्द्रस्य, वाहनार्थ प्रशस्यते ॥१०॥ नदद्विजयदुन्दुभि- प्रवरतूर्थतालवजैः स्फुरद्विविधवचैनप्रसमितत्रिलोकीश्रमा । सुवंशनृपमाश्रिना विमलकीर्तिमन्नर्तकी. सदैव विलसत्यहो जयतरङ्ग- रांगणे ॥१०६॥ गौराभाति च यस गौरवगुणैर्विश्वम्भरेवापरा, रनालकतिसोज्ज्वलाऽखिलपरस्त्रीसोदरस्य प्रिया।शादिरसेन ॥१२॥ .
व्यवहारः
बुद्धिसागरः
॥१३॥
व्यवहार-
शुद्धोतरंगे
कान्तसुभगा मझामसिंहस्य तत्प्रोक्त वुद्धिसुधाम्बुधौ नयतरगोऽयं द्वितीयोऽभवत् ॥ १०७॥ इति श्रीसत्रामसिंहविरचिते
बुद्धिसागरे द्वितीयो नयतरङ्गः ॥
सङ्ग्रामसिंहोक्तसुवृत्तशोभिवचःकदम्बश्रवणानराणाम् । धर्मार्थयुक्गन्नययुक्तिभाजां, न जायते कुव्यवहारबुद्धिः॥२॥ सद्धर्मशास्त्रार्थ-
विवेकवद्भिा, समं सभामद्भिरपापबुद्धया। निर्णीय सम्यमयतो नृपेण,वाच्यस्तु लोकव्यवहार एषः॥२॥ कलौ नृपालोभनिविष्टचित्ताः.
सभ्याच लंचोल्लसदग्रहस्ताः। असत्यदम्भप्रवगध लोका, गतं ततः मद्द्व्यवहारवृत्त्या॥३॥ विलोक्य लोकान् व्यवहारहीनान् , सद्भा-
मसिंहः मततं दयालुः। साधारणं मर्वजनानुकूलं, प्रवक्ति किञ्चिद् व्यवहारवाक्यम् ॥ ४॥ भवेद्गृहस्थः सततं, नरः मव्यवहारवान्।
चतुर्वर्गफलं तस्य, करस्थमिव लक्ष्यते ॥ ५॥ गुरौ देवे च दैवज्ञे, तीर्थे चैत्र मिपग्वरे। यथा भवति विश्वामस्तथा फलमवाप्नुयात्
॥६॥ आचारे व्यवहारे च, व्यवसाये रामासु च। सत्येनापि न कुर्वीत, शपथं गौरवापहम् 19]] कुर्वन् कुव्यवहारं यो, दृष्टः पूर्व
पतन्नधः। पुनस्तेन न कर्तव्यो, व्यवहारः सुंधीमता ||८) महता तद्वचो वान्यं, शक्यते कर्तुमेव यन् । नावर्षन् जलंदों जातु, दर्श-
यत्युत्तरोन्नतिम् ।।९।। देशकालप्रभावानां, तवं विज्ञाय सर्वदा। योजनीयानि कार्याणि, सर्वाण्यपि सुबुद्धिभिः ॥१०॥ न दान
विना कीर्तिनं दानं कमलां विना। न सा लक्ष्मीविना पुण्य, न. पुण्यं हि दयां विना ॥११॥ कुरूपस्याप्यशीलस्य, धनिनो हीन-
जन्मनः। गौरवं दृश्यते लोके, तसाद्धनमुपाजयेत् ॥१२॥ निर्गुणोऽप्येष गुणवानिष्कलङ्कः कलयपि। नीचोऽप्युच्चासने सर्वेः, स्थाप्यते
धनवान्नरः।।१३।। गृहे भवति चेद् भूरि, धनं वायत्तमर्जितम् । न दीयते च सत्पात्रे, पश्चात्तापाय तद्भवेत् ॥१४॥ श्रुत्वा सदुपदे-
शान् सत्पात्रे क्षेपो-धने-हितः। निक्षिप्य भूमौ पात्रेण, स मूठैरन्यथा कृतः॥२५॥धरणीतलनिक्षिप्तधनेनान्ते सुखं यदि । तदा वन्ध्या-
.
TO
॥१३॥
व्यवहार: - बुद्धिसागरः ॥१४॥ व्यवहार- शुद्धोतरंगे RISH - सुतोऽपि स्यात्, सुखी खकुसुमर्जितः॥१६॥ स्तावं स्तावं कदर्थित्वं, प्रापितायार्थिने धनी । ददाति दानं तेनासौ, तत्पापाव मुच्यते ॥१७॥ प्रशंसायं हि दातारः, कति नो सन्ति भूतले ?। परलोकहितार्थाय, द्वित्राः सन्ति न सन्ति वा ॥१८॥ प्रस्तावसदृशं दानं, दत्त्वार्थिभ्यः सभासु यः। अनुतापकरः पश्चात्तद्धर्ममपि नाशयेत् ॥१९॥ न येनाकारि विद्येयं, जिह्वाग्राङ्गणनर्तकी। सभायां स कथं वाक्यं (ब्रूयाद्) वाचांपतिर्यथा ॥२०॥कीर्ति लक्ष्मी धृति रूपमारोग्यं बुद्धिवैभवम्। कल्पवल्लीव विद्या सा, सन्तुष्ट्या किं न यच्छति ? ॥२१॥ कृपणः पूर्ण वित्तश्चेद्विद्यावान् गर्वपर्वतः । अहो चित्रं महद् दृष्टं, पानीयादग्निरुत्थितः ॥२०॥ अविज्ञातगृहे यानमज्ञातफल- भक्षणम् । अज्ञातौषधसेवा च, न कार्या कुशले सुभिः ॥२३॥ देशान्तरगतैः सद्भिर्व्यवसायहितेप्सुमिः । शुक्लभीत्या कुमार्गेण, न गन्तव्यं कदाचन ॥२४॥ शास्तारो बहवो यत्र, यंत्र राजा च बालकः । तद्राष्ट्र चतुरैस्त्याज्यं, स्त्रीप्रधानमराजकम् ॥२५॥ यस न ज्ञायते वित्तं, कुलं धर्मः सुशीलता। तेन मैत्री विवाहश्य, न कार्यः सुखमिच्छता ॥२६।। समये व्यवसायस्तु, कृतः स्याल्लाभदायकः। पर्वतीर्थादिसंयोगे, दत्तं बहुफलं यथा ॥२७॥ आपरखनृतं वाच्यं, कातरैर्न कदाचन । सत्येनैवापदं तीर्णा, हरिश्चन्द्रादयो नृपाः ॥२८॥ प्रहरेत् सर्वथा स्त्रीषु, कदाचिन्नातिकोपतः। विशेषावालयुक्तासु, सग खातुरासु च ॥२९॥ वैरिणामपि भूपालपुरो मर्म- प्रकाशनम् । अयशस्करमेतद्धि, न विधेयं मनीपीभिः ॥३०॥ कार्यस्तु सततं मद्भिर्वेपो वित्तानुसारतः। प्रभूतेऽपि धने धीरैनै प्रभोर- धिकः क्वचित् ॥३१॥ अविमृश्यात्मनः सारं, राजमान्यैः समं कलिम् । यः करोति विनाशाय, स्वस्य बन्धुजनस्य च ॥३२॥ प्रभावमा- स्मनो यस्तु, न वेत्ति धनगर्वतः। स नरः सुधिया नैव, प्रार्थनीयः कथंचन ॥३३॥ मोघाऽपि प्रार्थना श्रेष्ठा, गुणाधिकतरे नरे। खरा- रोहणतः श्रेष्ठ, पतनं तुरगादधः॥३४॥ ऋणं कृत्वा व्ययं कुर्वन् ,पुरः सौख्यं न विंदति । निजवित्तानुमानेन,व्यवसायात् सुखीभवेत् ॥१४॥ H व्यवहारः बुद्धिसागरः ॥१५॥ व्यवहार- शुद्धोतरंगे h ॥३५॥ व्याधिर्वैश्वानरो वादो, व्यसनं वेरमेव च। महानर्थकरा ह्येते, वर्द्धिताः पञ्च विश्रुता॥३६॥ कृतनाः स्वामिहन्तारो, ये च विश्वासघातका विनिन्दिता नराश्चैते, महापातकिमिः समा॥३७॥ असम्भाष्या भवन्त्येते, दर्शनात् पापकारिणः। व्यवहाराधिका- रेषु, कथमेषां हि योग्यता ? ॥३८॥ युग्मम् ॥ गुरुदेवामितम्योचं, वापीकूपादिसन्निधौ। न खपेत् कामकायाङ्क्षी, विनग्नो न जला- द्रपात् ॥३९॥ यः परस्याधमर्णोऽपि, खोत्तमर्णत्वनाञ्छया । दद्याद्वित्तं कुशीदेन, बहुनाऽपि स मूर्खराट् ॥४०॥ धीरः साहसिको मानी, बलवानुद्यमप्रियः । यः पराक्रमशीलच, तसाद्देवोऽपि शङ्कते ॥४१॥ अतिस्नेहो न कर्त्तव्यः, क्रोधो वाऽपि पदे पदे। कलह वर्धयेनैतत् , 'प्रान्ते दुःखकरं त्रयम् ॥४१॥ विद्वद्गोष्ठया सरसया, सङ्गीतैश्च सुभाषितैः। मधुरैर्वल्लभालापैर्भाग्यवान् गमयत्यहः॥४२॥ द्यूतादिव्यसनेनैव, निन्दया निद्रया तथा। नीचैः समं सदालापैः, पापीयान् गमयत्यहम॥४३॥ प्रातव्यं भ्रातरं पत्न्याः, स्वस्त्रीयं च वसुः पतिम् । वन्दिनं देवलं त्यक्त्वा, व्यवहारं समाचरेत् ॥४४॥ नात्यन्तं विश्वसेत् स्त्रीपु, नरः पुण्यवतीष्वपि । प्रायो मूढस्वभा- वास्ताः, स्त्रियः स्युः पापबुद्धयः॥४५॥ विरक्तां वनितां मूढो, विश्वसेत् काममोहितः। सोऽचिरान्नाशमायाति, यथा राजा विदूस्थः ॥४६॥ भर्तृभक्ति परित्यज्य, व्रततीर्थादिशीलनम् । प्रोपिते चातुरे पत्यौ, सादरत्वमलङ्कतौ ॥ ४७ ॥ नित्यं परगृहे यानं, प्रासादे जागरोत्सवे। माटगेहे सभायां च, न योग्यं हि कुलस्त्रियः॥४८॥ अश्लीलामितवक्तृत्वमशुचित्वं कुशीलता । नित्यं कलहकारित्वं, स्त्रियो दौर्भाग्यकारणम् ।.४९॥ सीतेव प्रियविप्रियं न कुरुते हंसीव पक्षद्वयं, शुद्ध व्यातनुते पृथैव सततं या पुत्ररत्नप्रसः । नित्यं सर्व कुटुम्बभारवहने सर्वसहेच क्षमा, कान्ता मन्दिरमण्डनं सुकृतिनः सा देहिनीवेन्दिरा॥५०॥ यस्य स्त्रीरतभोगोऽस्ति, स निःस्वोऽपि महीपतिः। सुभोज्यं वनितारत्नं, राज्यसारं विदुर्बुधाः॥५१॥ श्रुतं दृष्टं स्मृतं चापि, मनःप्रल्हाददायकम् । त्रिवर्गफलदं नान्यद्रनं ॥१५॥ .
व्यवहारो-
वास्तु च
बुद्विसागरः
॥१६॥
व्यवहार-
शुद्धोतरंगे
स्त्रीभ्यो हि दृश्यते ॥५२॥ व्यापारकोटिभारेण, श्रान्तानां गृहमेधिनाम् । साम्प्रतं दृश्यते किञ्चिद्, बल्लभालोकने सुखम् ॥ ५३॥
पृथ्वीलामे पुरं सारं, पुरे गेहो गृहे तथा । एकदेशश्च तत्रापि, शय्या च शयनेऽङ्गना॥५४॥ चञ्चच्चन्द्रमरीचिमिर्धवलिंते प्रोत्तुगसौध-
स्थले,जातीचम्पकमल्लिकापरिमलोद्धान्तद्विरेफाकुले । श्रीमचन्दनशैलसम्भवमरुतसंवीज्यमाने लसत्पर्यङ्के सुकृतीह कोऽपि रमते श्या-
मासमालिङ्गितः॥५५॥ जिनपृष्ठे हरेर्वामभागे दृष्टौ पिनाकिनः। ब्रह्मणो दक्षिणाङ्गे च, न गेहं कारयेद्बुधः॥५६॥ समीपे राजगेहस्य,
हिंस्रकारुकमन्निधौ । कुप्रातिवेश्मके स्थाने, श्मशाने च न संवसेत् ।।५७।। खनित्वा करमानं हि, भुवं तेनैव पूरयेत् । यद्यूनं तद-
निष्टं स्यादधिकं तच्छुभं मतम् ॥५८॥ मृदुध्रुवगुरुस्वातिहस्तवासववारुणैः। वास्तुनः सन्निवेशः स्यात् , तत्प्रवेशः करोज्झितैः॥५९॥
ध्वजो १ धूमस्तथा २ सिंहः ३, श्वा ४ वृपश्च ५ खरो ६ गजः ७ काकटश्चेति क्रमेणोक्तं, बुधैरायाप्टकं गृहे ॥६०। आयामविस्त-
राघाते, शेषमायोगजोद्धते । विषमायाः शुभाः प्रोक्ताः, स्वदिक्स्थाः सर्वगो ध्वजः॥६१।। तस्मिन् क्षेत्रफलेष्टनभैर्भक्ते शेषऋक्षकम् ।
भेऽष्टभक्त व्ययोऽपि स्याद् . बह्वायं सद्गृहं व्ययात् ॥१२॥ आक्रन्दं विपुलं चैव, पोडशविजयाह्वयम् । गृहनामानि जायन्ते, मन्दि-
रालिन्दभेदतः ॥६५॥ युग्मम् ॥ लग्नास्तारित्रिश्तर्येपु४,जीवरज्ञारका३ऽऽ४िभार्गवाः५। स्थिता यद्हनिर्माणे, शताब्दायुर्गृह
भवेत् ॥६६।। शुक्रः स्वोच्चगतो जीवो, लग्नगोऽम्बुगतोऽथवा । स्वोच्चगो लाभगो वाऽऽकि, प्रारम्भे तद्नुहं स्थिरम् ॥६७॥गुरौ
केन्द्रेऽथवा शुक्र, रैः पयायगैस्तथा। शुद्धैः केन्द्रव्यवच्छिद्रे)स्थिरलग्ने गृहं विशेत् ॥६८॥ इति वास्तुलक्षणं ।। जगजन-
मनोहरं विपुलसारसमश्रियं, सदैव सफलोद्यमं सकलसत्कलाकोविदम् । करोति विनयास्पदं वरविवेचनालङ्कृतं, नरं नृपतिवल्लभं व्य-
वहृतिः समासेविता ॥६९॥ गौराभाति च यस्य गौरवगुणैविश्वम्भरेवापरा, रत्नालङ्कतिसोज्ज्वलाऽखिलपरस्त्रीसोदरस्य प्रिया । शृङ्गा-
,
॥१६॥
शरीरवैद्यके
बुद्धिसागरः
॥१७॥
४ प्रकीर्ण-
कतरंग:
.
रादिरसेन कान्तसुभगा सदामसिंहस्य तत्प्रोक्ते बुद्धिशुभाम्बुधौ व्यनहरूमिस्तृतीयोऽभवत् ॥७०॥ इति श्रीमनामसिंह-
विरचिते बुद्धिसागरे व्यवहारतरङ्गस्तृतीयः॥
जिनाधिपं सर्वविदं प्रणम्य, मझामसिंहेन परोपकृत्ये । प्रारभ्यते सम्प्रति बुद्धिसिन्धी, प्रकीर्णकस्तुर्यतरङ्गराजः ॥१॥ सद्वैद्यकार्था-
मृतसङ्गशीतः, सामुद्रिकाअर्थवनाधिनागी। ज्योतिष्कलाविद्रुमकुखखजः, सुखाय वस्तुर्यतरङ्गवायुः ॥२॥दयामूलेन धर्मेण, विना न
स्थात् परं सुखम् । सुखस्थानं शरीरं तद्रक्षणीयं प्रयत्नतः ॥३॥ म प्रामोत्पपमृत्यु यो, युक्त्याऽऽत्मानं न रक्षयेत् । दीपो निर्वाणता
याति, स्नेहपूर्णोऽपि वायुना ॥४॥ शरीरं न विना ज्ञानमात्मनः सुखदुःखयोः । मझेपात् कथ्यते तावत् , उ(तस्योत्पत्तिर्मयाऽधुना
॥५।। कर्मणा प्रेरितो जीवः, शुक्रशोणितयोगतः। अतो गर्भाशये प्राप्तो, गर्भः सम्पद्यते तदा॥६॥ तत्क्षणे द्रवरूपः स्यात् , सप्ता-
हात् कललं भवेत् । पक्षान्ते बुद्धदाकार, मासेन कठिनं भवेत् ॥७॥ पेशी मासे द्वितीये सादुत्पद्यन्ते ततः परम् । शिरो भुजौ च पादौ
च, तृतीयेऽङ्गानि पक्ष वै ।।८॥ सर्वाङ्गव्यक्तस्तुयेऽसौ, मासि सञ्जायते ततः। पञ्चमे मासि चैतन्यं,पष्ठेरोमादिकं तथा ।।९।।सर्वाङ्गप-
रिपूर्णोऽयं, सप्तमे मासि यते। सभरत्यष्टमे मासि, त्वमिन्नोजस्तथाविधे ॥१०॥ चापल्यादोजस्तस्मिन् , जातः पुत्रो न जीवति ।
ननसे मासि गर्भोऽयं, असत्य सादधोमुखः।।२.१॥ अनुभूय परं योनिकटं जन्म ततः परम् । प्रसूतिसमये जातः, पुत्रः सर्वाङ्गशोभितः
॥१२॥ शुक्रशोणितयोः साम्ये, गर्भे पण्डः प्रजायते। अधीरः सत्वहीनच, धर्मकार्यविवर्जितः।।१३।। वीर्येऽधिके भवेत् पुत्रः, कन्या
रक्तेऽधिक तथा। तस्मात् सेव्यं प्रयत्नेन, वीर्यवृद्धिकरौषधम् ॥ ४॥ इति, शरीरं॥
वैद्यकसारः-ध्याधेः कर्मविपाकोक्तयुक्त्या नाश कचिद् भवेत् ।कचिद्भपज्ययोगाच, कचिदुःखानुभूतितः॥१५॥तसाच्छरीरे न
LA
Sta
S
॥१७॥
HTRO
वैद्यक
बुद्धिसागरः
॥१८॥
४ प्रकीर्ण-
कतरंग:
हिरोगकारणं, कमैंव साक्षातु निमित्तकारणम् । रसादयस्तेऽसमवायि कारणं, दोपाः प्रदुष्टाः समवायि कारणम् ॥१६॥ स्वस्थेन प्रातरु-
स्थाय, दन्तधावनपूर्वकम् । ताम्बूलमर्दननानसुगन्धाहारसेवनम् ॥१७॥ वृत्तिहीनं पदभ्रष्टं, शोका शरणागतम् । शक्तितस्त्वनुवर्तेत,
मानवं व्याधिपीडितम् ॥१८॥ श्मशाने च नदीतीरे,शून्यगेहे चतुष्पथे । देवालये वने रात्रौ, न गच्छेद्रोगभीरुकः॥१९॥ हिताहारवि.
हारेषु, दक्षो नित्यं जितेन्द्रियः। दयाधर्मविवेकज्ञः, स भवेत् सर्वदा सुखी ॥२०॥ वर्षाहिमग्रीष्मचितं विकारं, हिशोधयेत् यत्नपरो
हिताशी। शरद्वसन्ताभ्रदिनेषु तस्य, न जातु रोगाः प्रभवन्ति तजा॥२१॥ मधौ मधुरमश्माति, निदाघे मैथुनप्रियः। पिबेन्नधम्बु वर्षास,
दधिभोक्ता शरत्सु च ॥२२॥ हिमागमेऽतिनिद्वालुः, शिशिरे लघुभोजनम् । यः करोति विमूढत्वात् स नरो रोगवान् भवेत् ॥२३॥
आरामं जलकेलिं च, हम्यं क्षीरं च वल्लभाम् । मिष्टानं च भजेत् पट्सु, वसन्तादिष्वनुक्रमात् ॥२४॥यो भुङ्क्ते मात्रया नित्यं, यथा-
कालं हिते रतः। दिनचर्यासमुद्दिष्टं, स्वस्थः कुर्वन्न रोगभाक् ॥२५॥ अजीर्णे सति यो भुते, कुपथ्यं कुरुते सदा। तच्छरीरं कथं
लोके, भवेद् व्याधिविवर्जितम् १ ॥२६॥ विण्मूत्रनिद्रावमिकासरेताक्षुत्तृश्रमश्वासजवेगरोधात् । भवन्ति रोगा विविधाः शरीरे,
वातादयो वैद्यवरैरसाध्याः॥२७॥ यः पूर्वमेकवेगाों, यदि वेगान्तरं भजेत् । स्वयं दूतो महाव्याधिमाकारयति मृत्यवे ॥२८॥ त्यजे-
द्विषातुरो निद्रा, ज्वरी च घृतभोजनम् । कर्णरोगी शिरःस्नान, व्यवायं नेत्ररोगवान् ॥२९॥ त्वग्दोपक्षयकासाक्षियरोगातुरैनरैः।
संसर्गो नैव कर्त्तव्यो, यतः सञ्चारिणश्च ते ॥३०॥ यदि न स्याग्रहे वित्तमिच्छेदंगं गदोज्झितम् । निशान्ते स पिबेत्तिस्रः, प्रसृतीः
शीतलं पयः ॥३१॥ शीतं सुधोपमं खच्छं, सलिलं हृदयप्रियम् । श्रममूर्छाभ्रमहरं, वर्णदं पित्तनाशनम् ॥३२॥ सदा सर्वेषु भैप-
ज्येष्वशक्तो यः पुमान् भवेत् । भक्षणीया सदा तेन, तोयेनैका हरीतकी ॥३३॥ तीक्ष्णबुद्धिप्रदा खा, जराव्याधिविनाशिनी ।
॥१८॥
-
बुद्धिसागरः
॥१९॥
४ प्रकीर्ण-
कतरंगा
वैद्यकज्यो-
तिस्सारी
2
हरितकीयं सर्वेषां, मातेच हितकारिणी ॥३४॥ मूर्खदत्तं कुभूमिस्थ, शटितं कृमिभक्षितम् । अविज्ञातं च भैपज्यं, न ग्राह्यं शुभमि-
च्छता ॥३५॥ भुक्त्यादौ सलिलं पीतं, कार्य मध्ये समानताम् । स्थूलत्वमपि भुक्त्यन्ते, करोति वपुपि ध्रुवम् ॥३६॥ वस्त्रपूतं पिवेत्तोय,
यः श्रीगुरुसुरातिथीन् । अर्चयित्ला सदा भुंक्ते, ततः पाप्मा पलायते ॥३७॥ पवित्रं पडसाकीर्ण, सुपकं वल्लभातम् । भोजनं
जीर्णतामेति, मुक्तं मित्रादिभिः सह ॥३८॥ गव्यं घृतं सत् सलिलं च शीतं, वालाबलाक्षीरसुभोजनं च। स्नानं सुभोज्यं हि यथो-
क्तकाले, प्रोक्तानि मद् प्राणकगणि सद्यः ॥३९।। इति वैद्यकसारसग्रहः ।।
ज्योतिस्सार:-ज्योति शास्त्रमनादृत्य,पठन्नन्यच्च वाङ्मयम् नि भाति परिपूर्णाङ्गो,विचक्षुः पुरुपो यथा॥४०॥ अतस्तत्सारमुद्धृत्त्य
व्यवहाराय धीमताम् । साधारणं सुसंक्षिप्तं, ज्योति किश्चिदुच्यते ॥४१॥ नन्दा भद्रा तथा पूर्णा, शुभकायें शुभावहाः। सभामादौ
जया प्रोक्ता, रिक्ता बन्धवधादिषु ॥४२॥ बुधशुक्रेन्दुजीवानां, वाराः सर्वेषु कर्मसु । शुभङ्कराः परेपांच, स्वोक्तकार्यैकसाधकाः ॥४३॥
शुक्रज्ञाशनायेषु, नन्दादितिथयः शुभाः। प्रतिपन्नैव सौम्येन, न च सूर्येण सप्तमी ॥४४॥ हस्तो मार्ग च दासं च, मैत्रं पुष्यश्च
रोहिणी । नागः सूर्यादिवारेपु, योगस्त्वमृतसिद्धिकः ॥४५॥ मघा विशाखा रौद्रं च, मूलमग्निश्च रोहिणी । हस्तः सूर्यादिवारेपु, यम-
घण्टः क्रमाद् भवेत् ।।४६।। द्विदैवादिचतुष्केषु, तेषु सूर्यादिसप्तसु । वारेपूत्पातको मृत्युः, काणः सिद्धिःक्रमाद् भवेत् ॥४७॥ वेद-
पण्नवदिक्सलये, विश्वविंशतिसम्मिते। नक्षत्रे सूर्यनक्षत्राद्, रवियोगः शुभो मतः॥४८॥ ध्रुवमैत्रेन्दुमूलान्त्यस्वातिहस्तमघासु च ।
विवाहः शुभदो ज्ञेयो, विना लतादिदूपणम् ।।१९।। रेवत्यादितिकर्णेभ्यो, द्वयं हस्तेन्दुमैत्रभम् । प्रयाणे शुभदं प्रोक्तं, त्यक्त्वा तारां
विनिन्दिताम् ॥५०॥ आद्यं रात्रिचतुष्टयं निम्तुभं पौष्णं मघां चाष्टमी, दर्श भूततिथिं च पर्वदिवसं त्यक्त्वा च सन्ध्याद्वषम् ।
॥१९॥
बुद्धिसागरः
॥२०॥
४ प्रकीर्ण-
कतरंगः
ज्योति-
स्सार:
इज्येधीतनुधर्म(मा)र्गभृगुजे चन्द्रे शुभे कामिनी, पुत्रार्थी पुरुपः सुहृष्टमनसा सेवेत् समायां निशि ॥५१क्षा सर्वाग्निवारुणःश्च,युता भद्रा
तिथिर्यदा। यदि सौरारयोरिस्तदा जाता विपाङ्गना ॥५२॥ मूलादितिखातिकरेन्दुराधापौष्णोत्तरावासवरोहिणीषु । पैञ्याश्विपुष्प-
श्रुतिवारुणेपु, सुरप्रतिष्ठा शुभदा च दीक्षा ॥५३॥ सङ्क्रान्त्युभयथा यामद्वये विष्ट्यांन वैधृतौ । व्यतीपातेन गण्डान्ते,यामा कार्य-
मारभेत् ॥५४॥ शुभकर्म तथा यानं, गृहारम्भादिकं तथा। सितेन्दुजीवे नो कार्य, बाले वृद्ध तथाऽस्तगे ॥५५॥ यासादिसप्तवारेपु,
मासि हीनेऽधिके तथा । क्रूरविद्धे क्रूरयुते, भै कार्य नारभेत् क्वचित् ॥५६॥ मेपको नक्रकन्याश्च, कर्कमीनतुलावृताः। तुङ्गाः
सूर्यादिखेटानामुच्चान्नीचं तु सप्तमम् ॥५७॥ गुरुर्जीवबुधौ काव्यकोविदौ च विभास्कराः । विकुजावींद्विनाः सूर्यान्मित्राणि विकुनें-
द्विना ।।१८।। मूतौं चन्द्रसितौ धने सुरगुरुजीव विनाऽरित्रिगाः,शुक्रज्ञौ चतुरस्रगौ गुरुसिवौ धर्मात्मजः स्खौ शुभौ । जीवेन्दू द्युत-
गौखगाः शनिरविश्मापुत्रचन्द्रा ग्रहाः, सर्वे लाभगताच गोचरविधौ शुक्रः शुभश्चान्त्यगः ॥ ५९॥ व्ययाष्टमगताः सौम्याः, सर्व-
कार्येपु निन्दिताः। त्रिकोणधनन्द्राष्टस्थिताः पापग्रहास्तथा ॥६० ॥ त्रिकोण(ध)नस्रांशुगाः सकलकार्यसिद्धिप्रदाः, शुभा गगन-
गामिनस्तदितगस्त्रियल्लभगाः। विवाहसमयेऽष्टगौ तरणिसूर्यपुत्रौ शुभौ, शशाङ्कभृगुलग्नपा रिपुगतास्तथा नो हिताः॥११॥ शुभे
सकलकर्मणि ज्ञगुरुभार्गवा लग्नगा, दिशन्ति सुखमम्पदो विमलपड्बलैः शालिनः। विलगशुभदं सदा खलखगाः सनालोकनैः, शशी
निधनगः शुभं न कुरुते कदाचित् ध्रुवम् ॥६२॥ इति ज्योतिःसारसङ्ग्रहः ॥
शकुनसार:-प्रस्थितोऽपि मुहूर्तेन, विरुद्धे शकुने स्थिते । पुरो न योग्य गमनं, तस्साच्छकुनमुच्यते ॥२॥सपुत्रा स्त्री सवत्सा गौनृपः
पाठीनखंजनौ । आम मांसं ततं तूर्य, शङ्खमेरी स्थध्वनिः ॥४६॥ पूर्णकुम्भः प्रसूनानि, शुक्लाम्बरधरो नरः। मृत्तिकाऽक्षतपात्रं च,
॥२०॥
बुद्धिसागर
॥२२॥
सामुद्रिक-
सारः
,
च्छत्रचामरवारणाः ॥६५॥ यायिनोऽभीष्टदा खते, दर्शनाच्छ्रवणादपि । कुरङ्गा दक्षिणाः श्रेष्ठा, यायिनामोजसङ्ख्यया॥६६॥ पिङ्गलो-
लुककाकाथ, खरदुर्गादयः पथि । गच्छतो वामतः श्रेष्ठा,विशतो दक्षिणाभिताः॥६७॥ सगी स्त्री रथो भग्नः,कन्या प्रोक्तवयोऽधिका।
क यासीनि प्रवक्तारो, गमनप्रतिपेधकाः ॥१८॥ हीनाङ्गं कईमालिप्त, व्याधिक्षीणं नराधमम् । दृष्ट्वा सम्मुखमायात, न गच्छेत् कार्य-
सिद्धये ॥ १९॥ शकुनसारसनादः।।
सामुद्रिकसार:-विनापि जन्मममयमुदर्कफलसूचकम्। मामुद्रिकं यतस्तस्मात् , तत्सारं किश्चिदुच्यते ॥७०॥ पाणिपादतले पमं,
ध्वजो मत्स्यस्तथाऽङ्कुश। छत्रं वा दृश्यते यस्य, रा नरो भूपतिर्भवेत् ।।७१॥ स्वरः सत्त्वं तथा नामिर्गभीरं शस्यते त्रयम् । विपुलं च
तथा सद्भिर्वक्षोभालकराननम् ।।७२।। जयाद्वयं तथा पृष्ठं, कण्ठं पुंश्चिह्नमेव च । यसैतानि च इखानि, स नरो भाग्यवान् भवेद
॥७३॥ अक्षिणी च भ्रुवोर्मध्यं, स्तनमध्यं तथा हुनुः । एतानि यस्य दीर्घाणि, स सदा सेव्यते श्रिया ॥७४ ॥ नखताल्वधरापाङ्ग-
जिह्वाकरतलादिषु । रक्तत्वं दृश्यते यस्य, स पुमान् पुरुषोत्तमः ॥७४॥ ताम्बूलापूरितं वक्र, यस्याङ्गं चन्दनार्चितम् । शिरः पुष्पा-
कराकीर्ण, तं लक्ष्मीः समुपासते ॥७॥ उभयोः सन्ध्ययोः शेते, बह्वाहारपरस्तु यः। सदाऽति निष्ठुरं ब्रूते, स पुमान् हीयते श्रिया
॥७७|| तृणच्छेदं न मिलेखनं व्यर्थहास्यताम् । यः करोति नरो मूढः, स दरिद्री सदा भवेत् ॥७८॥
अथ स्त्री-सदाचारपरा नित्यं, सुशीला मितभापिणी। प्रसन्नवदना साध्वी, सा लक्ष्मी गृहमागता ॥७९॥ अन्यगेहरता
क्रूरा, चपला बहुभाषिणी । साऽऽपदेहमयी गेहे, वनिता कलहप्रिया॥८०॥ शरीरं रोमशं यस्या, निम्नाक्षी इखनासिका। श्मश्रुश्यामो-
मनोष्ठी च, वरणीया न कन्यका ॥८॥ विम्बाधरा कुरङ्गाक्षी, समावयवराजिता । सौभाग्यलक्षणैर्युक्ता, सा कन्योद्वाहितं शुभा
.
PORE
॥२१॥
. बुद्धिसागरः ॥२२॥ रत्नमुक्ता- परीक्षा 585 . ॥४२॥ शुभं वचनमर्चितं विमलमानसं प्रोन्नत, सतां नयनतुष्टिदं सहजसुन्दरं यद्वपुः। मतिः सुकृतशालिनी परगुणानुवादे रति- भवेदुपकृतिप्रियः किमपरैः शुभैर्लक्षणैः १ ॥८३॥ इति सामुद्रिकसारसग्रहः ।। अथ रत्नपरीक्षा-रत्नशब्दो गुणोत्कर्षायुवत्यश्वद्विपादिपु । इह तूपलरत्नानां, किञ्चिल्लक्षणमुच्यते ॥८४॥ बलदैत्याङ्गजातानि, रत्नानि च दधीचितः। भूखभावाद्वन्दत्त्येके,वैचित्र्यमुपलेष्विदम् ॥८५।। सर्वद्रव्यैरभेचं यद् ,वज स्निग्धं सुरश्मिवत् । तरत्यप्सु तडि- द्वह्निशकचापोपमं शुभम् ॥८६॥ वजं विलक्षणं सम्पजीवितखजनक्षयम् । सुलक्षणं करोतीष्टं, विद्युद्विपभयापहम् ॥८७॥ श्वेतं द्विजानां हितकारि वन, रक्तं तथा पीतमिलाधिपानाम् । शिरीषपुष्पद्युतिमद्विशां तच्छितेतरं शूद्रहितं प्रदृष्टम् ॥४८॥ अथ मुक्ता-द्विपाहिशुक्तिशङ्खाश्रमीनशूकरवेणुतः । मुक्ताफलानि जायन्ते, साम्प्रतं बहु शुक्तिजम् ॥८९॥ इन्द्रद्वीपकुलोद्भूतं, कुम्भिकुम्भोद्भवं च यत् । अनयं गुणवत् मुक्ताफलं हि पृथुलं हितम् ॥ ९० ॥ शेषतक्षकयोवेश्या नागास्तत्फणमध्यजा। मुक्ता नीलद्युतिः स्निग्धा, वक्ष्येऽतस्तत्परीक्षणम् ॥११॥ भाजने सुप्रदेशस्थे, राजते मौक्तिकं स्थितम् । तद् दृष्ट्वा स्थायदा वृष्टिरकसान ज्ञेय- मौरगम् ॥९२|| भौजंगं मौक्तिकं राज्ञां, धृतं शनिकृन्तति । यशो विकाशयत्याशु, श्रियं मातङ्गशालिनम् ॥१३॥ शलोद्भवं सुवृत्तं खाद्, प्राजिष्णु शशिकान्तिमत् । जातं करकवन्मेघसम्भूतं हि तडिप्रभम् ॥९४॥ पवित्र तिमिजं मत्स्याक्षिप्रभं च गुणोत्तरम् । पितृदेवादिकार्येपु, शस्तं सर्वजनप्रियम् ॥१५॥ दंष्ट्राम्ले वराहाणां, जातं सर्वगुणास्पदम् । वाराहं बहुमूल्यं स्याचन्द्रकान्तिसमप्रभम् ॥१६॥ पर्वण्यष्टोत्तरशते, महदंशस्य जायते । कर्पूरस्फटिकप्रख्यं, चिपिटं वेणुजं हि तत् ॥९७॥ शङ्खवेणुसाहे(शूकर)भनागानतिमि- सम्भवाः। गुणाधिकतया तक्षरवेध्या मौक्तिकाः स्मृता॥९८॥ श्यामं वैष्णवमिन्द्रदेवतमिदं चन्द्रप्रभाभासुरं, पीतं वारुणमंजनेन सदृशं रशा
बुद्धिसागरः
॥२३॥
मणिवैराग्ये
याम्यं च मुक्ताफलम् । गुज्जादाडिमवीजताम्रमिति यत् प्रोक्तं मरुद्देवतं, नि मानलसन्निभं तु चतुरैराग्नेयमित्युच्यते ॥१९॥
अथ पद्मरागादयः-पायो हि मणयः सर्वे, पारागादयो हिताः। खच्छाः स्निग्धप्रभा ज्योतिष्मन्तो रागविराजिताः॥१०॥
अमनोजश्च दुर्विद्धो, लेखाकीर्णः सशर्करः । कलुपो मन्दकान्तिश्च, मणिः सर्वोऽपि गर्हितः ॥१०१।।
अथ नागमणिः-शिखिकण्ठालिवर्णो यो, दीप्रदीपशिखाप्रभः । दृश्यते मूर्षि नागानामनो मणिरुसमः॥२०२॥ वित्ति धेर-
णीधवो मणिमहर्यमेनं सदा, भति खलु तस्य नो रिपुविषाग्निदोपाः कचित् । न तस्य विपये कदाचिदपि सम्भवन्तीतयो, जयेत्
स जगतीतलं ननु मणेः प्रभावादपि ॥३॥
अथ वैराग्य:-दृढ़ बद्धा पाशैविविधकृतकर्मप्रणिहितन जानन्तस्तत्वं किमपि परमानन्दविषयम् । धनं पुत्राःखी चेत्यहतममता
मन्दमतयो, भवाम्भोधौ मजन्त्यहह विहताः प्राणिन इमे ॥४॥ एके च रोगैः परिभूतदेहा, विमय बन्धून यमसम यान्ति । वा-
ञ्छन्ति चान्ये स्थिरतां पुनर्यजगत्यहो मोहबलं महीयः ॥५॥ रक्तमांसविलिप्तानि, चर्मणा वेष्टितान्यपि । अस्थीनि स्नायुनद्धानि,
शरीरमिह कथ्यते ॥६॥ तत् प्रत्यङ्गं मलाकीर्णमतिदुर्गन्धिमजडम् । व्याधिशोकबहुक्केशममतामन्दिरं महत् ॥ ७॥ गर्भ जरायुनि-
बन्धसङ्कटे पतितस्य वै । दुःखं संजायते जन्तोर्दुःसहं दशमासनम् ।।८॥ बाल्ये ततः पूतिगन्धिमललिप्ताङ्गकः सदा । व्याधिभिः परि-
भूतथ, सदुःखीत्यनिशं शिशुः ॥ ९॥ सम्पुष्टसर्वावयवः, कन्दर्पकलितान्तरः । धनयौवनगण, नित्यं माधति मन्दधीः ॥१०॥
अस्थिरं यौवनं प्राप्य, परस्त्रीरागरञ्जितः । धनं विपुलमामाद्य, विकर्मशतमाचरेत् ।।११।। मुखं लालाभिराकीर्ण, जराजर्जरितं वपुः।
परिक्षीण खिलाङ्गस्य, तृष्णैका परिवर्द्धते ॥१२॥ तसाच राज्ञः सन्मानं, शरीरं यौवनं धनम् । अनित्यमिव पश्येत, श्रीसत्रामोपदे-
॥२३॥
ध्यान बुद्धिसागर: ॥२४॥ - Dog शतः ॥१३॥ इति मत्वा च सर्वज्ञः, परमात्मा परः पुमान् । वीतरागश्चिरं ध्येयः, संसारतरणेप्सुमिः ॥१४॥ योगीन्द्रध्यानगम्यो यः, करुणासिन्धुरव्ययः। मुमुक्षुभिर्यथा ध्येयस्तद् ध्यानमधुनोच्यते॥१५॥ पिण्डस्थं च पदस्थं च, रूपस्थं च सुसिद्धिदम् । रूपातीत- मिति ध्यान, चतुर्दोक्तं मनीषिमिः ॥१६॥ अन्तःकरणसंस्थं यच्छरीरे निश्चलं भवेत् । तन्मयत्वादिशुद्धं तत् , पिण्डस्थं ध्यानमुच्यते ॥१७॥ महामन्त्रे च मन्त्रे च, मालामश्रेऽथवा स्तुतौ । खमादिलब्धमत्रे वा,पदसंध्यानमुच्यते ॥८॥ मूर्तिस्वरूपमालम्ब्य, मनोज्ञ- मविकारकम् । यथावस्थितरूपेण, ध्यानं रूपस्थितं हि तत् ॥१९॥ निर्गुणानन्दतत्वस्याव्यक्तस्य परमात्मनः । अलक्षस्यैव यद्ध्यान, रूपातीतं तदुच्यते ॥२०॥ निशीथे यस्तु जागर्ति, मितं वक्ति जितेन्द्रियः । अल्पं मधुरमश्नाति, स योगी सिद्धिमाप्नुयात् ॥२॥ श्रुते तत्त्वेऽप्यनभ्यासो, बहुनिद्रालुता भ्रमः। जनेऽरतिः कामगोष्ठी, योगिनो नाशहेतवः॥२२॥ योगश्चतुर्विधो मत्र १ लय २ राज३- हठा४ मिधः सिध्यत्यभ्यासयोगेन, सद्गुरोरुपदेशतः ॥ २३ ॥ पद्मासनाधासनेषु, संस्थितः प्राणरोधकृत् । यथोक्तं ध्यानमास्थाय, समाधि परमं विशेत् ॥२४॥ महामन्त्रादिकं मन्त्रं, जपन्नेकानमानसः । मन्त्रादेवाप्नुयात् सिद्धिं, मन्त्रयोगस्ततो मतः॥२५॥ अथ लययोगः। द्वैपायनादियोगीन्द्रैः, साधितोऽयं महात्ममि । लययोगः शुभः गोप्यो, नवचक्रलयात्मका२६॥ कन्दाख्यं प्रथम चक्रमाधारे लिङ्गमूलके। खाधिष्ठानं द्वितीयं स्यान्नामिचक्र तृतीयकम् ॥ २७॥ चतुर्थ हृद्गतं कण्ठे, पञ्चमं तालुगं ततः । षष्ठं भूम- ध्यदेशस्थं भूचक्र सप्तमं विदुः ॥२८॥ ब्रह्मरन्धेऽष्टमं चक्रं, व्योमाख्यं नवमं ततः । भवेत्पूर्ण गिरौ पीठे, तत्र ध्यात्वा विमुच्यते ॥२९॥अथ राजयोगः ॥ पवनोन्मत्तमातङ्गं, जित्वा सदुद्धियोगतः। साधितो राजयोगोऽयं, दत्तात्रेयादियोगिभिः॥ ३०॥ सद्गुरोः मनिधौ शुद्धपवनाभ्यासकृच्छुचिः। विशतंतुनिभां मूलात् , सुप्तां कुण्डलिनी सुधीः॥३१॥बोधितां पवनाघातैः, सुषुम्नान्तः ॥२४॥ महर
बुद्धिसागर
॥२५॥
प्रशस्तिः
,
-
प्रवेशयेत् । क्रमेण पंच चक्राणि, भेदयित्वोर्ध्वगामिनीम् ॥३२॥ नयेत् कुण्डलिनी चक्रे, सहस्रदलसज्ञिते। तत्र पीयूषपूर्णा तां, कृत्वा
सिद्धिं पराव्रजेत् ॥३३॥अथ हठयोगः॥ मार्कण्डेयेन चाष्टाङ्गः, पडङ्गस्तदनन्तरम् । गोरक्षप्रमुखैः पूर्व, साधितोऽयं हठाभिधः
॥३४॥ तस्याङ्गानि यमः १ सम्यग, नियमो २ ध्यान ३ मासनम् ४। धारणा ५ प्राणसंरोध ६ प्रत्याहार ७ समाधयः ८॥३५॥
लक्षणानि यमादीनामन्यशास्त्रप्रयोगतः। विज्ञेयान्यत्रं नोक्तानि, ग्रन्थगौरवभीतितः॥३६॥ चतुर्विधस्याप्यङ्गानि, तत्तन्मतविभेदतः।
सम्भवन्ति यमादीनिं, वसुपभेदसङ्ख्यया ॥ ३७॥ चतुर्विंशतितीर्थेशा, जम्बूखाम्यादयश्च ये। योगैः प्रक्षीणकर्माणः, प्राप्नुयुर्मो-
क्षमक्षयम् ॥३८॥ इति चतुर्विधो योगः॥
ढिल्ल्यामल्लावदीने नरपतितिलके राजति मामधीशे, सोनीश्रीसाङ्गणाख्यः समभवदुदितश्रीलसत्कीर्तिपूरः । तत्पुत्रः
पद्मराजः प्रथितगुणगणस्तत्सुतः सूरसंज्ञस्तत्सूनुर्धर्मनामा । तदनु च वरसन्धोऽभवत् सत्यशीलः ॥३९॥ नरदेवंधनाख्यो
च,तत्पुत्रौ द्वौ बभूवतुः । ओसवालकुलोत्तंसौ,दीनानाथकृपाकरौ ॥४०॥ चन्द्रपुर्या धनाख्येन,वितीर्य विपुलं धनम् । मोचिताः शक-
सङ्कटानराः शतसहस्रशमा४१॥ तज्ज्येष्ठो नरदेव एव समभूत् ख्यातः क्षितौ मण्डपे,मत्रागारकर: सदोद्यतकरः सत्पात्रदः सर्वदः।
हृसङ्गक्षितिपालसंसदि सतां मान्यः परार्थंकद्भाण्डागारधुरन्धरः स च परस्त्रीसोदरः सुन्दरः॥४२॥ जयत्ययं मम्प्रति तत्तनूजा,
सशामसिंहः सततं दयालु परोपकारैककरः सुशीलः, सौजन्यसिन्धुर्जिनभक्तियुक्तः॥४३॥ नरदेवजसत्रामाङ्गणमाश्रित्य मार्गणाः।
लब्ध्वा लक्षं पुनः स्थानमायान्ति खयमद्भुतम् ॥४४॥ सङ्ग्रामे नरदेवजेऽद्भुतमहो सर्व दरीदृश्यते, मुख्या यत्र दया परोपकरणं शत्रु-
त्वना पि न । भ्रातृत्वं परसुन्दरीषु परविचस्यामिलापः कुतः१, कीर्तिश्चन्द्रकरोज्ज्वलात्र विजयः सम्प्राप्यते सर्वदा ॥४५॥
॥२५॥
बुद्धिसागर
॥२६॥
.
नखेपुभू १५२०सम्मितविक्रमाब्दे,पञ्चेमरामेन्दु १३४५ मिते च शाके । चैत्रसापाठ्यां सितपक्षजायां, शुक्रस वारे शशिभे गविंदौ
॥४६॥ चापोदये वीर्ययुतच खेटः, श्रीमालवेशे महमूदभूपे । जेतुं महीपालनिजामसाहि, युद्धेन याते दिशि दक्षिणसांम् ॥४७॥
लसत्प्रतिस्थानपुरेऽतिरम्ये, गोदावरीतीरतरंगपूते । जिनं प्रणम्येह सुवुद्धिसिन्धु, सामसिंहः कुरुते कवीन्द्रः॥४८॥ श्रीमद्दक्षिण-
भूपति जितवतः कुम्भेभपभाननयोगद्गुर्जरगर्वपर्वतमहत्पक्षच्छिदो ग्राह्यः (वणः) । खल्वीश्रीमहमूदसाहिनृपतेविश्वासमुद्रौधरी,
समामः स्वकलत्रमित्रविलसत्पुत्रैधि जीवतु ॥४९॥ गौराभाति च यस गौरवगुणैर्विश्वम्भरेवापरा, रत्नालङ्गतिसोज्ज्वलाऽखिलपरस्त्री
सोदरस्य प्रिया । शृङ्गारादिरसेन कान्तसुभगा सत्रामसिंहस्य तत्प्रोक्ते वुद्धिनिधौ प्रकीर्णकतरङ्गोऽयं चतुर्थोऽभवत् ॥५०॥
5 fins 45545*145,4 fi fi fi ff$1954 19514474504149414 SFL 151464
इति श्रीओसवंशावतंसेने सर्वजीवदयापरेण श्रीसङ्ग्रामसिंहेन विरचिते
बुद्धिसागरे चतुर्थः प्रकीर्णकतरङ्गः ॥
55फफफफफफफफफफफफफफफफफफ9559
M
--
ORG
न
ST
॥२६॥
No text on this page.