Library

Vinshtikakarinka

Shri Naagbhat · 2006/03/26

PDF Proofread

Front matter

। विंशतिकाकारिकाः विज्ञप्तिमात्रमेवैतदसदावभासनात् यथा तैमिरिकस्यासत्केश चन्द्रादि दर्शनम् ॥ १ यदि विज्ञप्तिरनर्था नियमो देशकालयोः । सन्तानस्यानियमश्च युक्ता कृत्यक्रिया न च ॥ २॥ देशादिनियमः सिद्धः स्वप्नवत् प्रेतवत्पुनः । सन्तानानियमः सर्वैः पूयनद्यादि दर्शने ।। ३ ।। स्वप्नोपघातवत् कृत्य क्रिया नरकवत्पुनः । सर्व नरक पालादिदर्शने तैश्च बाधने ॥४॥ तिरश्चां सम्भवः स्वर्गे यथा न नरके तथा । न प्रेतानां यतस्तजदुःखं नानुभवन्ति ते ॥५॥ यदि तत्कर्मभिस्तत्र भूतानां सम्भवस्तथा । इष्यते परिणामश्च कि विज्ञानस्य नेष्यते ॥६॥ कर्मणो वासनान्यत्र फलमन्यत्र कल्प्यते । तत्रैव नेष्यते यत्र वासना किं नु कारणम् ॥ ७ रुपाद्यायतनास्तित्वं तद्विनेयजनं प्रति। अभिप्रायवशादुक्तमुपपादुक सत्त्ववत् यतः स्वबीजाद्विज्ञप्तिर्यदा भासा प्रवर्तते । द्विविधायतनत्वेन ते तस्या मुनिरब्रवीत् ॥६ तथा पुद्गलनैरात्म्यं प्रवेशो ह्यन्यथा पुनः । देशना धर्मनैरात्म्यप्रवेशः कल्पितात्मना ।।१० न तदेकं न चानेक विषयः परमाणुशः। न च ते संहता यस्मात् परमाणुन सिध्यति ॥ ११ ||८

( २ )
षटकेन युगपद्योगात् परमाणोः षडंशता ।
षण्णां समान देशत्वात् पिण्डःस्यादणुमात्रकः ॥१२
परमाणोरसंयोगे तत्संघातेऽस्ति कस्य सः।
न चानवयवत्वेन तत्संयोगो न सिध्यति ॥१३
दिग्भागभेदो यस्यास्ति तस्यैकत्वं न युज्यते।
छायावृती कथं वान्यो न पिण्डश्चेन्न तस्य ते ।।१४
एकत्वे न
क्रमेणेतियुगपन्न ग्रहाग्रहौ।
विच्छिन्नानेक वृत्तिश्च सूक्ष्मानीक्षा च नो, भवेत् ।।१५
प्रत्यक्षबुद्धिः स्वप्नादौ यथा सा च यदा तदा ।
न सोऽर्थोदृश्यते तस्य प्रत्यक्षत्वं कथं मतम् ॥१६
उक्त यथा तदाभासा विज्ञप्तिः स्मरणं ततः ।
स्वप्ने दृग्विषयाभावं नाऽप्रबुद्धोऽवगच्छति ।।१७
अन्योऽन्याधिपतित्वेन विज्ञप्ति नियमोमिथः।
मिद्धेनोपहृतं चित्त स्वप्ने तेनासमं फलम् ।।१८
मरणं पर विक्षप्ति विशेषाद्विक्रिया यथा ।
स्मृतिलोपादिकान्येषां पिशाचादि मनोवशात्॥ १६
कथं वा दण्डकारण्य शून्यत्वमृषि कोपतः।
मनोदण्डो महावद्यः कथं वा तेन सिध्यति ॥२०
परचित्त विदां ज्ञानमयथार्थं कथं यथा ।
स्वचित्त ज्ञानमज्ञानाद्यथा बुद्धस्य गोचरः । २१
विज्ञप्तिमात्रतासिद्धिः स्वशक्तिः सहशी मया।
कृतेयं सर्वथा सातु न चिन्त्या बुद्धगोचरः ॥२२
इति विंशतिकाकारिकाः समाप्ताः।

अथ त्रिंशिकाविज्ञप्ति कारिकाः
आत्मधर्मोपचारो हि विविधो यः प्रवर्तते ।
विज्ञान परिणामोऽसौ परिणामः स च त्रिधा ॥१
विपाको मननाख्यश्च विज्ञप्तिर्विषयस्य च ।
तत्रालयाख्यं विज्ञानं विपाकः सर्वबीजकम् ॥२
असंविदितकोपादिस्थान विज्ञप्तिकं च तत् ।
सदा स्पर्शमनस्कारवित्संज्ञाचेतनान्वितम् ।। ३
उपेक्षा वेदना तत्रानिवृताव्याकृतं च तत् ।
तथा स्पर्शादयस्तच्च वर्तते स्रोतसौघवत् ।। १
तस्य व्यावृतिरहवे तदाश्रित्य प्रवर्तते ।
तदालम्बं मनोनाम विज्ञानं मननात्मकम् ॥५
क्लेशैश्चतुर्भिः सहितं निवृताव्याकृतैः सदा ।
आत्मदृष्ट्यात्मोहात्ममानात्मस्नेह संज्ञितै !! ६
यत्रजस्तन्मयैरन्यैः स्पर्शाद्य श्चाहतो न तत् ।
न निरोध समापत्तौ मार्गे लोकोत्तरे न च ।। ७
द्वितीयः परिणामोऽयं तृतीयः षड्विधस्य या ।
विषयस्योपलब्धिः सा कुशलाकुशलाद्वया ।। ८
सर्वत्रगैर्विनियतैः कुशलैश्चैतसैरसौ।
संप्रयुक्ता तथा क्लेशैरुपक्लेशैत्रि वेदना ॥
आद्याःस्पर्शादयश्च्छन्दाधिमोक्षस्मृतयः सह ।
समाधिधीभ्यां नियताः श्रद्धाथहीरपत्रपा ॥ १०

( ४ )
अलोभादि त्रयं वीय प्रश्रब्धिः साम्प्रमादिका ।
अहिंसा कुशलाः केशा रागप्रतिघमूढ़यः ॥ ११
मानग्विचकित्साश्च क्रोधोपनहने पुनः ।
म्रक्षः प्रदाश ईर्ष्याथ मात्सर्यं सह मायया ।। १२
शाठ्य मदोऽविहिंसाह्रीरत्रपा स्त्यानमुद्धवः ।
आश्रद्ध यमथ कौसीद्य प्रमादो मुषिता स्मृतिः ॥१३
विक्षेपोऽसंप्रजन्यं च कोकृत्यं सिद्धमेव च ।
वितर्कश्च विचारश्चेत्युपक्लेशाद्वये द्विधा ॥ १४
पंचानां मूलविज्ञाने यथाप्रत्ययमुद्भव ।
विज्ञानानां सह न वा तरङ्गाणां यथा जले ॥ १५
मनोविज्ञानं संभूतिः सर्वदा संज्ञिकाहते।
समापत्तिद्वयान्मिद्धान्मूर्छनादप्यचित्तकात् ॥ १६
विज्ञान परिणामोऽयं विकल्पो यद्विकल्प्यते ।
तेन तन्नास्ति तेनेदं सर्व विज्ञप्ति मात्रकम् ॥ १७
सर्वबीजं हि विज्ञानं परिणामस्तथा तथा ।
यात्यन्योऽन्यवशाद् येन विकल्पः स स जायते ॥१८
कर्मणो वासना ग्राहद्वयवासनया सह ।
क्षीणे पूर्वविपाकेऽन्यद्विपाकं जनयन्ति तत् ॥ १९
येन येन विकल्पेन यद्यद्वस्तु विकल्प्यते !
परिकल्पित एवासौ स्वभावो न स विद्यते ।। २०
परतन्त्रस्वभावस्तु विकल्पः प्रत्ययोद्भवः ।
निष्पन्नस्तस्य पूर्वेण सदा रहितता तु या ॥ २१

( ५ )
अत एव स नैवान्यो नानन्य परतन्त्रतः ।
अनित्यतादिवद् वाच्यो नादृष्टऽस्मिन् स दृश्यते ॥२२
त्रिविधस्य स्वभावस्य त्रिविधां निः स्वभावताम् ।
संधाय सर्वधर्माणां देशिता निःस्वभावता ॥ २३
प्रथमो लक्षणेनैव निःस्वभावोऽपरः पुनः।
न स्वयंभाव एतस्येत्यपरा निःस्वभावता ॥ २४
धर्माणां परमार्थश्च स यतस्तथतापि सः ।
सर्वकालं तथाभावात् सैव विज्ञप्तिमात्रता ॥ २५
यावद्विज्ञप्ति मात्रत्वे विज्ञानं नावतिष्ठति ।
ग्राहद्वयस्यानुशयस्तावन्न
विनिवर्तते ।। २६
विज्ञप्तिमात्रमेवेदमित्यपि
यु पलम्भतः।
स्थापयन्नग्रतः किंचित् तन्मात्रे नावतिष्ठते ॥ २७
यदालम्बनविज्ञानं नवोपलभते
तदा।
स्थितं विज्ञान मात्रत्वे ग्राह्याभावे तद्ग्रहात् ॥ २८
अचित्तोऽनुपलम्भोऽसौज्ञानं लोकोत्तरं च तत् ।
आश्रयस्य परावृत्तिद्विधा दौष्ठुल्यहानितः ॥ २६
स एवानस्रवो धातुरचिन्त्यः कुशलो ध्रुवः ।
सुखो विमुक्ति कायोऽसौ धर्माख्योऽयं महामुनेः ।। ३०
[ त्रिंशिकाविज्ञप्तिकारिकाः समाप्ताः कृतिरियमाचार्य वसुबन्धोः]

अथ वृत्तिः महायाने त्रैधातुकं विज्ञप्तिमात्रं व्यवस्थाप्यते । चित्त- मानं भो जिनपुत्रा यदुत त्रैधातुकमिति सूत्रात् । चित्त मनोविज्ञानं विज्ञप्तिश्चेति पर्यायाः। चित्तमत्र ससंप्रयोगमभिप्रेतंमात्रमिर्थ प्रतिषेधार्थम् । विज्ञप्तिमात्रमेवैतदसदविभासनात् यथा तैमिरिकस्यासत्केशचन्द्रादि दर्शनम् ॥१ अत्र चोद्यते- - यदि विज्ञप्तिरनर्था नियमो देशकालयोः । संतानस्यानियमश्च युक्ता कृत्यक्रिया न च ॥२ किमुक्तं भवति । यदि बिना रुपाद्यर्थेन रुपादि विज्ञप्ति- रुत्पद्यते न रुपाद्यर्थात् । कस्मात् कचिद्देश उत्पद्यते न सर्वत्र । तत्रैव च देशे कदाचिदुत्पद्यते न सर्वदा । तद्देशकाल प्रतिष्ठितानां सर्वेषां सन्तान उत्पद्यते न केवलमेकस्य । यथा तैमिरिकाणां सन्ताने केशाद्याभासो नान्येषाम् । कस्माद्यन्त मिरिकैः केशभ्रमरादि दृश्यते तेन केशादि क्रिया न क्रियते न च तदन्यैर्न क्रियते । यदन्नपानवस्त्रविपायुधादि स्वप्ने दृश्यते तेनान्नादि क्रिया न क्रियते न च तदन्यैनं क्रियते गन्धर्व नगरेणसत्त्वात् नगर क्रिया न क्रियते न च तदन्यैर्न क्रियते . तस्मादा भावे देशकाल- नियमः संतानानियमः कृत्य क्रिया च न युज्यते । न खलु न युज्यते यस्मात् ।

-
( ७ )
देशादि नियमः सिद्धः स्वप्नवत्
स्वप्न इव स्वप्नवत् । कथं तावत । स्वप्ने विनाप्यर्थेन,
कचिदेव देशे किंचिद् भ्रमरारामस्त्रीपुरुषादिकं दृश्यते न सर्वत्र ।
तत्रैव च देशे कदाचिदृश्यते न सर्वकालमिति सिद्धो विनाप्यर्थेन
देशकालनियमः।
प्रेतवत्पुनः
सन्तान नियमः
सिद्ध इति वर्तते प्रेतानामिव प्रेतवत् कथं सिद्धः समम् ।
सर्वैः पूयनद्यादिदर्शने ।।३॥
पूयपूर्णानदो पूयनदी, घृतघटवत्। तुल्यकर्म वेपाकावस्था
हि प्रेताः सर्वोऽपि पूयपूणो नदी पश्यन्ति नैक एव । यथा पूयपूर्णा
मेवं मूत्रपुरीपादि पूर्णा दण्डा सधरैश्च पुरुषैरधिष्ठितामित्यादि
ग्रहणेन । एवं संताना नियमो विज्ञप्तीनामसत्यप्यर्थे सिद्धः।
स्वप्नापघातवत्कृत्यक्रिया ।
सिद्ध ति वेदितव्यम् । यथा स्वप्ने यसमापत्तिमन्तरेण शुक्र
विसर्ग लक्षणः स्वप्नोपघातः । एवं तावदन्यान्य ष्टान्तैर्देशकाल
नियमादिचतुष्टयं सिद्धम् ।
नरकवत्पुनः
सर्व
सिद्धमितिनेदितव्यम् । नरकेष्विवनरकवत् । कथं सिद्धम् ।
नरकपालादि दर्शने तैश्च बाधने ॥४॥

( ८ ) यथा हि नरकेषु नारकाणां नरकपालादिदर्शनं देशकाल निय- मेन सिद्ध श्ववायसायसपर्वताद्यागमनगमन दर्शनं चेत्यादि ग्रहणेन सर्वेषां च नैकस्यैव तैश्च तद्बाधनं सिद्धमसत्स्वपि नरक- पालादिषु समान स्वकर्म विपाकाधिपत्यात् । तथान्यत्रापि सर्वा- मेतद्दे शकालनियमादिचतुष्टयं सिद्धमिति वेदितव्यम् ॥ किं पुनः कारणं नरकपालास्ते च श्वानो वायसाश्च सत्त्वा नेष्पन्ते । अयो- गात् । न हि ते नारका युज्यन्ते। तथैव दुःखाप्रति संवेदनात् । परस्परं यातयतामिमे नारका इमे नरकपाला इति व्यवस्था न स्यात् । तुल्याकृतिप्रमाणबलानां च परस्परं यातयतां न तथा भयं स्यात् । दाहदुःखं च प्रदीप्तायामयोमय्यां भूमावसहमानाः कथं तत्र परान्यातयेयुः । अनारकाणां वा नरके कुतः सम्भवः ॥ कथं तावत्तिरश्चा स्वर्ग सम्भवः । एवं नरकेषु तिर्यक्प्रेत विशेषाणां नरकपालादीनां सम्भवः स्यात् । तिरश्चां सम्भवः स्वर्गे यथा न नरके तथा । न प्रेतानां यतस्तज्जं दुःखं नानुभवन्ति ते ॥५ ये हि तिर्यञ्चः स्वर्गे संभवन्ति ते तद्भाजन लोक सुखसंवर्तनी- येन कर्मणा तत्र संभूतास्तज्जं सुखंप्रत्यनुभवन्ति । न चैवं नरक- पालादयो नारकं दुःखं प्रत्यनुभवन्ति । तस्मान्न तिरश्च संभवो युक्तो नापि प्रेतानाम् । तेषां तर्हि नारकाणां कर्मभिस्तत्र भूत विशेषाः' सम्भवन्ति । वर्णाकृति प्रमाण वल विशिष्टा ये नरकपालादि संज्ञा प्रतिलभन्ते । तथा च परिणमन्ति यद्विविधां हस्तविक्षेपादि क्रियां कुर्वन्तो दृश्यन्ते भयोपादनार्थम् । यथा मेषाकृतयः पर्वता आगच्छन्तो गच्छन्तोऽयः शाल्मलीवने च कण्टका अधोमुखीभवन्त अध्वमुखी भवन्तश्चेति । न ते न सम्भवन्त्येव ।

(६) यदि तत्कर्मभिस्तत्र भूतानां सम्भवस्तथा । इष्यते परिणामश्च किं विज्ञानस्य नेष्यते ॥ ६ ॥ विज्ञानस्यैव तत्कर्मभिस्तथा परिणामः कस्मान्नेष्यते किं पुनभू- तानि कल्प्यन्ते । अपि च । कर्मणोवासनान्यत्र फलमन्यत्र कल्प्यते । तत्रैव नेष्यते यत्र वासना किं नु कारणम् ।। ७ ॥ येन हि कर्मणा नारकाणां तत्र ताशो भूतानां सम्भवः कल्प्यते परिणामश्च कर्मणो वासना तेषां विज्ञानसंतानसंनिविष्टा नान्यत्र । यत्रैव च वासना तत्रैव तस्याः पलं ताशी विज्ञान परिणामः कि नेष्यते । ननु यत्र बासना नास्ति तत्र तस्याः पलं कल्प्यत इति किमत्र कारणम् । आगमः कारणम् । यदि विज्ञानमेव रूपादिप्रतिभासं स्यान्न रूपादिकोऽर्थरतमा रूपाद्यायतनास्तित्वं भगवता नोक्त स्यात। अकारण नेतद्यस्मात् । रूपाचायतनास्तित्वं तद्विनेय जनं प्रति । अभिप्रायवशादुक्तमुपपादुक सत्ववत् ।। ८॥ यथास्ति सत्त्व उपपादुक इत्युक्त भगवता । अभिप्रायवशाच्चित्त संतत्यनुच्छेदमाचत्यामभिप्रत्य । "नास्तीह सत्त्व आत्मा चा धर्मा- स्त्वेते सहेतुकाः” इति वचनात् । एवं रूपाद्यायतनास्तित्वमप्युक्त भगरता तद्देशनाविनेयजनमधिकृत्येत्याभि प्रायिकं तद्वचनम् । कोऽत्राभिप्रायः । यतः स्वबीजाद्विज्ञप्तिर्यदाभासा प्रवर्तते । द्विविधायतनत्वेन ते तस्या मुनिरब्रवीत् ॥ ६ ॥ ।

( १० ) किमुक्त भवति । रूपप्रतिभासा विज्ञप्तिर्यतः स्वबीजापरिणाम- विशेषप्राप्तादुत्पद्यते तच्च बीजं यत्प्रतिभासा च सा ते तम्या विज्ञप्त- श्वभूरूपायतनत्वेन यथाक्रमं भगवानब्रवीत् । एवं यावत् स्प्रष्टव्य प्रतिभासा विज्ञप्तिर्यतः स्वबीजात्परिणामविशेषप्राप्तादुत्पद्यते । तच्च बीजं यत्प्रतिभासा च सा ते तस्या कायस्प्रष्टव्यायतनत्वेन यथाक्रम भगवानब्रवीदित्ययमभिप्रायः॥ एवं पुनरभिप्रायवशेनदेशयित्वा को गुणः। तथा पुद्गल नैरात्म्य प्रवेशो हि- तथा हि देश्यमाने पुद्गलनैरात्म्यं प्रविशन्ति । द्वयाद्विज्ञान षटकं प्रवर्तते । न तु कश्चिदेको द्रष्टास्ति न यावन्मन्तेत्येवं विदित्वा ये पुद्गलनैरात्म्यदेशनाविनेयास्ते पुद्गलनैरात्म्यं प्रविशन्ति । अन्यथा पुनः। देशनाधर्मनैरात्म्यप्रवेशः अन्यथेति विज्ञप्तिमात्रदेशना कथं धर्मनैरान्यप्रवेशः। विज्ञप्ति- मात्रमिदं रूपादि धर्म प्रतिभासमुत्पद्यते न तु रूपादि लक्षणो धर्मः कोऽप्यस्तीति विदित्वा। यदि तर्हि सर्वथा धर्मो नास्ति तदपि विज्ञप्ति- मानं नास्तीति कथं तर्हि व्यवस्थाप्यते । न खलु सर्वथा धर्मो नास्तीत्येवं धर्मनैरात्म्यप्रवेशोभवति । अपितु । कल्पितात्मना ॥ १० ॥ यो बालै वर्माणां स्वभावो ग्राह्यग्राइकादिः परिकल्पितस्तेन कल्पि- तेनात्मना तेषां नैरात्म्यं न वनभिलाप्येनात्मना यो बुद्धानां विषय इति । एवं विज्ञप्तिमात्रस्यापि विज्ञप्त्यन्तरपरिकल्पितेनात्मना नैरात्म्यप्रवेशात् विज्ञप्तिमात्र व्यवस्थापनया सर्ववर्माणां नैरात्म्य ( ११ ) प्रवेशी भवति न तु तदस्तित्यापवादात् । इतरथा हि विज्ञप्तरपि विज्ञप्तयन्तरमर्थ. स्यादिति विज्ञप्तिमात्रत्वं न सिव्येतार्थवतीत्वाद्विज्ञ- तीनाम् ॥ कयं पुनरिदं प्रत्येत व्यमनेनाभिप्रायेण भगवता रूपाद्या- यतनास्तित्वमुक्त न पुनः सन्त्येव तानि यानि रुपादिविज्ञप्तीनां प्रत्येक विषयी भवन्तीति । यस्मात् । न तदेकं न चानेकं विषयः परमाणुशः। न च ते संहता यस्मात्परमाणुन सिध्यति ।।११॥ इति किमुक्त भवति । यत्तद्र पादिकमायतनं रूपादि विज्ञप्तीनां प्रत्येकं विषयः स्यात्तदेकं वा स्याद्यथा अवयवि रूपं कल्प्यते वैशेषिकैः । अनेकं वा परमाणुशः संहता वा तएव परमाणवः । न तावदेकं विषयो भवत्यवयवेभ्योऽन्यस्यावयविरूपम्य कचिदप्यग्रहणात् । नाप्यनेकं पर- माणनां प्रत्येकनग्रहणात् । नापि ते संहता पियी भवन्ति । धरना- स्परमाणुरेक द्रव्यं न सिध्यति । कथं न सिध्यति । यस्मात् । षटकेन युगपद्योगात्परमाणः षडंशता । षड्भ्यो दिग्भ्यः षड्भिः परमाणुभिर्युगपद्योगे सति परमाणोः षडंशता प्राप्नोति । एकस्य यो देशस्तत्रान्यस्यासम्भवात् । षपणां समानदेशत्वात्पिण्डः स्यादणुमात्रकः ।।१२ एष य एवैकस्य परमाणोर्देशः स एव षण्णाम् । तेन सर्वेषां समानदेशत्वात्सर्वः पिण्डः परमाणुमात्रः स्यात्परस्पराव्यतिरेकादिति न कश्चित्पिण्डो दृश्य. स्यात् । नैव हि परमाणवः संयुज्यन्ते निरवयव- स्वात् । मा भूदेषदोष प्रसंगः संहतास्तु परस्परं संयुज्यन्त इति काश्मीर वैभाषिकास्त इदं प्रष्टव्याः। यः परमाणूनां संघातो न स तेभ्योऽ- र्थान्तरमिति ।

( १२ ) - परमाणोरसंयोगात् तत्संघातेऽस्तिकस्य सः । संयोग इति वर्तते। न चानवयवत्वेन तत्संयोगो न सिध्यति ॥१३ अथ संघाताप्यन्योऽन्यं संयुज्यन्ते । न तर्हि परमाणूनां निर- वयवत्वात्संयोगोन सिध्यतीति वक्तव्यम् । सावयवस्यापि हि संघातस्य संयोगानभ्युपगमात् । तत्मात्रमाणुरेकं द्रव्यं न सिध्यति । यदि च परमाणोः संयोग इष्यते यदि वा नेष्यते- दिग्भागमेदो यस्यास्ति तस्यैकत्वं न युज्यते । अन्यो हि परमाणोः पूर्वदिग्भागो यावधोदिग्भाग इति दिग्भागभेदे सति कथं तदात्मकस्य परमाणोरेकत्वं योच्यते । छायावृती कथं वा यद्य कैकस्य परमाणोदिग्भागभेदो न स्यादादित्योदये कथमन्यत्र छाया भवत्यन्यत्रातपः । न हि तस्यान्यः प्रदेशोऽस्ति यत्रातपो न स्यात् । आवरणं च कथं भवति परमाणोः परमाएवन्तरेण याद दिग्भाग भेदो नेष्यते । नहि कश्चिदपि परमाणोः परभागोऽस्ति यत्रागमना- दन्येनान्यस्य प्रतिघातः स्यात् । असति च प्रतिघाते सर्वेषां समान- देशत्वात्सर्वः संघातः परमाणुमात्रः स्यादित्युक्तम् । किभेवं नेष्यते पिण्डस्यते छायावृती न परमाणोरिति । किं खलु परमाणुभ्योऽन्यः पिण्ड इष्यते यस्य ते स्याताम् नेत्याह । अन्यो न पिण्डश्चेन्न तस्य ते ॥ १४ यदि नान्यः परमाणुभ्यः पिण्ड इष्यते न ते तस्येति सिद्ध भवति । संनिवेश परिकल्प एषः परमाणुः संधात इति वा । किमनया चिन्तया । लक्षणं तु रूपादि यदि न प्रतिषिध्यते । किं पुनस्तेषां लक्षणं ( १३ ) चक्षुरादिविर्षयत्वं नीलादित्वं च । तदेवेदं संप्रधार्यते। यत्तच्चक्षु- रादीनां विषयो नीलपीतादिकमिष्यते किं तदेकं द्रव्यमथवा तदने कमिति । कि चातः अनेकत्वे दोष उक्तः । एकत्वे न क्रमेणेतियंगपन्न ग्रहाग्रहौ। विच्छिन्नानेक वृत्तिश्च सूक्ष्मानीक्षा च नो भवेत् ॥१५ यदि यावदच्छिन्ननानेकं चक्षुषो विषयस्तदेकं द्रव्यं कल्प्यते पृथिव्यां क्रमेणेतिर्नस्याद्गमनमित्यर्थः। सकृत्पादक्षेपेण सर्वस्य गतत्वात् । अर्वाग्भागस्य च ग्रहणं परभागम्य चाग्रहणं युगपन्नस्यात् । नहि तस्यैव तदानीं ग्रहणं चाग्रहणं च युक्तम् । विच्छिन्नस्य चाने- कस्य हस्त्यश्वादिकस्यनेकत्र, वृत्तिर्न स्याद्यत्रैव ह्यकं तत्रैवापरमिति कथं तयोविच्छेद इष्यते । कथं वा तदेकं यत्प्राप्त च ताभ्यां न च प्राप्तमन्तराले तच्छून्य ग्रहणात् । सूक्ष्माणं चौदकजन्तूनां स्थूलैः समानरूपाणामनीक्षणं न स्यात् , यदि लक्षण भेदादेव द्रव्यान्तरत्वं कल्प्यते नान्यथा । तस्मादवश्यं परमाणुशो भेदः कल्पयितव्यः । स चैको न सिध्यति । तस्यासिद्धौ रूपादीनां - चक्षुरादि विषयत्वमसिद्धमिति सिद्ध विज्ञप्तिमात्रं भवतीति । प्रमाण- क्शादस्तित्वं नास्तिवं वा निर्धार्यते। सर्वेषां च प्रमाणनां प्रत्यक्षं प्रमाणं गरिष्ठमित्यसत्यर्थं कामयं बुद्धिर्भवतिप्रत्यक्षमिति । प्रत्यक्षबुद्धिः स्वमादौ यथा विनाप्यर्थेनेति पूर्वमेव ज्ञापितम् । साच यदा तदा। न सोऽर्थो दृश्यते तस्य प्रत्यक्षत्वं कथं मतम् ॥१६ यदा च.सा प्रत्यक्षबुद्धिर्भवतीदं मे प्रत्यक्षमिति तदा न सोऽर्थो दृश्यते मनोविज्ञानेनैव परिच्छेदाच्चतुर्विज्ञानस्य च तदा निरुद्ध- ( १४ ) त्वादिति कथं तस्य प्रत्यक्षत्वमिष्टम् । विशेषेण तु क्षणिकस्य विषयस्य- तदानीं निरुद्धमेव तद्र पं रसादिकं वा । नाननुभूतंमनो विज्ञानेन स्मर्यत इत्यवश्यमर्थानुभवेन भवितव्यं तच्च दर्शनमित्येवं तद्विषयस्य रूपादेः प्रत्यक्षत्वं मतम् । असिद्धमिदमनुभूतस्यार्थस्य स्मरणं भवतीति । यस्मात् उक्त यथा तदाभासा विज्ञप्तिः विनाप्यर्थेन यथार्थाभासा चक्षुर्विज्ञानादिका विज्ञप्तिरुत्पद्यते तथोक्तम् । स्मरणं ततः। ततो हि विज्ञप्तः स्मृति संप्रयुक्ता तत्प्रतिभासैव रूपादिविकल्पिका मनो विज्ञप्तिरुत्पद्यत इति न स्मृत्युत्पादादानुभवः सिध्यति । यदि यथा स्वप्ने विज्ञप्तिरभूतार्थविषया तथा जाग्रतोऽपि स्यात्तथैव तदभावं लोकः स्वयमवगच्छेत् । न चैवं भवति । तस्मान्न स्वप्न इवापिलब्धिः सर्वा निरर्थिका । इदमज्ञापकं । यस्मात् । स्वप्ने दृग्विषयाभावं नाप्रबुद्धोऽवगच्छति ॥ १७ एवं वितथ विकल्पाभ्यास वासना निद्रयां प्रसुप्तोलोकः स्वप्न- इवाभूतमर्थं पश्यन्न प्रबुद्धस्तदभावं यथावन्नावगच्छति । यदा तु तत्प्रति पक्षलोकोत्तरनिर्विकल्पज्ञानलाभात्प्रबुद्धो भवति तदा तत्पृष्ठ लब्धा- शुद्ध लौकिकज्ञानसंमुखीभावाद्विषयाभावं यथावदवगच्छतीति समान मेतत् । यदि स्वसंतान परिणामविशेषादेव सत्त्वानामर्थप्रतिभासा विज्ञप्तय उत्पद्यन्ते नार्थ विशेषात् , तदा य एष पापकल्याण मित्रसंप- र्कात् सदसद्धर्मः श्रवणाच्च विज्ञप्तिनियमः सत्वानां स कथं सिध्यति असति सदसत्संपर्के तद्देशनयां च । अन्योऽम्याधिपतित्वेन विज्ञप्तिनियमो मिथः ।

( १५ ) सर्वेषां हि सत्त्वानामन्योऽन्य विज्ञप्तत्याधिपत्येन मिथोविज्ञप्त- नियमो भवति यथायोगम् । मिथ इति परम्परतः । अतः सन्ताना- नन्तर विज्ञप्ति विशेषात्संतानान्तरे विज्ञप्ति विशेष उत्पद्यते नार्थ विशेषात् । यदि यथा स्वप्न निरर्थिका विज्ञप्तिरेवं जाग्रतोऽपि स्यात्क- स्मात्कुशलाकुशलसमुदाचारे सुप्तालुप्तयोस्तुल्यं फलमिष्टानिष्टमायत्यां न भवति । यस्मात् । मिद्धनोपहतं चित्त स्वप्ने तेनासमं फलम् ।। १८ इदमत्रकारणं न त्वर्थ सद्भावः। यदि विज्ञप्तिमात्रमेवेदं न कस्य- चित्कायोऽस्ति न वाक् । कथमनुक्रन्यमाणानामौरभ्रिकादिभिरु- रभ्रादीनां मरणं भवति । अतत्कृते वा तन्मरणे कथमौरभ्रिकादीनां प्राणतिपातावद्यन योगो भवति । मरणं पर विज्ञप्ति विशेषाद्विक्रिया यथा । स्मृति लोपादिकान्येषां पिशाचादिमनोवशात् ।।१६ यथा हि पिशावादि मनोवशादन्येषां स्मृतिलोपस्वप्न दर्शन भूत- ग्रहावेश विकारा भवन्ति । ऋद्धिवन्मनोवशाच्च । यथा सारणस्यार्य- महाकात्यायनाधिष्ठानात्स्वप्नदर्शनम् । आरण्यकर्षिमनः प्रदोषाच्च वेमचित्र परविज्ञप्ति विशेषाधिपत्यात्परेषां जीवितेन्द्रिय विरोधिनी काचिद्विक्रियोत्पद्यते यया सभागसंतति- विच्छेदाख्यं मरणं भवतीति वेदितव्यं । कथं वा दण्डकारण्यशून्यत्वमृषिकोपतः । यदि परविज्ञप्तिविशेषाधिपत्यात्सत्वानां मरण नेष्यते । मनो दण्डस्य हि महासावद्यत्वं साधयता भगवतोपालिगृहपतिः पृष्टः । (कच्चित्ते गृहपते श्रुतं क्रेन तानि दण्डकारण्यानि कलिङ्गा- रण्यानि शून्यानि मेध्यीभूतानि । तेनोक्तम् । श्रुतं मे भो गौतम ऋषीणां मनः प्रदोषेणेति । ) म०बि० ( पालीटी ) पराजय. । तथा ( १६ ) मनोदण्डो महावद्यः कथं वा तेन सिध्यति ॥२० यद्यवं कल्प्यते। तदभिप्रसन्नरमानुषैस्तद्वासिनः सत्त्वा उत्सा- दिता न त्वृषीणां मनःप्रदोपान्मृता इत्येवं सति कथं तेन कर्मणा मनोदण्डः कायवान्दण्डाभ्यां महापद्यतमः सिद्धोभवति । तन्मनःप्रदो- षमात्रेण तावतां सत्त्वानां मरणासिध्यति । यदि विज्ञप्तिमात्रमेवेद परचित्तविदः किं परचित्तं जानन्त्यथ न । किंचातः । यदि न जानन्ति कथं परचित्तविदो भवन्ति । अथ जानन्ति । परचित्तषिदां ज्ञानमयथार्थकथं यथा । स्वचित्तज्ञानं तदपि कथमयथार्थम् । अज्ञानाद्यथा बद्धस्य गोचरः ॥२१ यथा तन्निरभिलाप्येनात्मना बुद्धानां गोचरः । तथा तदज्ञानात्त- दुभयं न यथार्थ वितथप्रतिभासतया ग्राह्यग्राहकविकल्पस्याप्रीणत्वात् । अनन्तविनिश्चयप्रभेदागाधगाम्भीर्यायां विज्ञप्ति मात्रतायाम् । विज्ञप्तिमात्रतासिद्धिः स्वशक्तिसदृशी मया । कृतेयं सर्वथा सा तु न चिन्त्या सर्व प्रकारा तु सा मादशौश्चिन्तयितु न शक्यते । तर्काविषय- त्वात् । कस्य पुनः सा सर्वथा गोचर इत्याह । बुद्धगोचरः ॥२२॥ बुद्धानां हि सा भगवतां सर्वप्रकारं गोचरः सर्वकार सर्वज्ञेय- ज्ञानाविघातादिति । विशतिका विज्ञप्तिमात्रतासिद्धिः । कृतिरियमाचार्य वसुबन्धोः।

अथ त्रिशिकाविज्ञप्तिभाष्यम् पुद्गलधर्मनैरात्म्ययोरप्रतिपन्नविप्रतिपन्नानामविपरीतपुद्गलधर्म- नैराश्यप्रतिपादनाथ त्रिंशिकाविज्ञप्तिप्रकरणारम्भः। पुद्गलधर्मनैरा- म्यप्रतिपादनं पुनः क्लेशज्ञेयावरणप्रहाणार्थम् । तथा ह्यात्मदृष्टिप्रभवा रागादयः क्लेशाः । पुद्गलनैरात्म्यावबोधश्च सत्कायदृष्टेः प्रतिपक्ष- स्वात् तत्प्राहाणाय प्रवर्तमानः सर्वक्लेशान् प्रजहाति । धर्मनैरात्म्य- ज्ञानादपिज्ञेयावरण प्रतिपक्षत्वात् ज्ञेयावरणं प्रहीयते । क्लेशज्ञेया- वरणप्रहाणमपि मोक्षसर्वज्ञत्वाधिगमार्थम् । क्लेशा हि मोक्षप्राप्ते- रावरणमिति अतस्तेषु प्रहीणेषु मोक्षोऽधिगम्यते। ज्ञेयावरणमपि सर्वस्मिन ज्ञेये ज्ञानप्रवृत्तिप्रतिबन्धभृतमक्लिष्टमज्ञानम्। तस्मिन्प्रं- हीणे सर्वकारे ज्ञेयेऽसक्तमप्रतिहतं च ज्ञानं प्रवर्तत इत्यतः सर्वज्ञत्व- मधिगम्यते । अथ वा धर्मपुद्गलाभिनिविष्टाश्चित्तमात्रं यथाभूतं न जानन्तीत्यतो धर्मपुद्गलनैरास्य प्रदर्शनेन सफले विज्ञप्तिमात्रेऽनुपूर्वण प्रवेशार्थं प्रकरणारम्भः। अथवा विज्ञानवद्विज्ञेयमपि द्रव्यत एवेति केचिन्मन्यन्ते विज्ञेयवद् विज्ञानमपि संवृतित एव न परमार्थत इत्यस्य द्विप्रकारस्याप्येकान्तवादस्य प्रतिषेधार्थः प्रकरणारम्भः । आत्मधर्मोपचारो हि विविधा यः प्रवर्तते लोकशास्त्रयोरिति वाक्यशेषः । विज्ञानपरिणामोऽसौ । आत्मधर्मोपचार इति सम्बध्यते । आत्मा धर्माश्चोपचर्यन्त इत्या- स्मधर्मोपचारः । स पुनरात्मविज्ञप्तिः धर्मप्रज्ञप्तिश्च । विविध इत्यनेक- प्रकारः। आत्मा जीवो जन्तुर्मनुजो माणव इत्येवमादिक आत्मो- ( १८ ) वासना पवारः। स्कन्धा धातव आयतनानि रूपं वेदना संज्ञा संस्कारा विज्ञानमित्येवमादिको धर्मोपचारः। अयं द्विप्रकारोऽप्यु चारो विज्ञानपरिणाम एव न मुख्ये आत्मनि धर्मेषु चेति। कुत एतत् । धर्माणामात्मनश्च विज्ञानपरिणमाद् बाहिरभावात् । कोऽयं परिणामो नाम । अन्यथात्वम् । कारणक्षणनिरोधसमकालः कारणक्षवलक्षणः कार्यम्यात्मलाभः परिणामः । तत्रात्मादिपिकाप- परिपोषाद्र पादिविकल्पवासनापरिपोषाच्चालयविज्ञाना- दात्मादिमिर्भासो विकल्पो रूपादि निर्भासश्चोत्पद्यते । तमात्मादिनिर्भासं रूपादिनिर्भासं च तस्माद् विकल्पाद् बहिर्भूतमियो- पादायात्मायु पचारो रूपादिधर्मोपचारश्चानादिकालिक प्रवर्तते । विनापि वाह्य नात्मना धर्मश्च तद्यथा तैमिरिकस्य केशोण्डुका पवार इति । यच्च यत्र नास्ति तत् तत्रोपचर्यते तद्यथा बाहीके गौः। एवं विज्ञानस्वरूपे बहिश्चात्मधर्माभावात् परिकल्पित एवात्मा धर्माश्च न तु परमार्थतः सन्तीति विज्ञानवद् विज्ञेयमप्युच्यत एवेत्यय मेकान्त पदो नाभ्युपेयः । उपचारस्य च निराधारस्यासंभवादव विज्ञानपरिणामो वस्तुतोऽस्त्यु गन्तव्यो यत्रात्मधर्मोपचारः प्रवर्तते । अतश्वायमभ्यु गम न युक्तिक्षमो, विज्ञानमपि विज्ञेयवत संवृतित एव न परमार्थत इति संवृतितोऽप्यभावप्रसङ्गान , न हि संवृतिनिरुपादाना युज्यते । तस्मादय नेकान्तबादो द्विप्रकारोऽपि नियुक्तिकत्वात् त्याज्य इत्याचार्य वचनम् । एवं च सो विज्ञेयं परिकल्पितस्वभावत्वाद् वस्तुतो न विद्यते विज्ञानं पुनः प्रतीत्यसमुत्पन्नत्वाद् द्रव्यतोऽस्तीत्यभ्युपेयम् । प्रतीत्यसमुत्पन्नत्वं पुनर्विज्ञानस्य परिणामशब्देन ज्ञापितम् । कथ नेतद्गम्यते विना बाह्य नार्थेन विज्ञान मेवाकारमुत्पद्यत इति । बाह्यो ह्यर्थः स्वाभासविज्ञानजनकत्वेन विज्ञानम्यालम्बनप्रत्यय इष्यते न कारणमात्रेण समनन्तपदि प्रत्ययविशेष प्रसङ्गात् । संचिता- ( १९ ) लम्बनाश्च पञ्चविज्ञानकायारतदाकारत्वात् । न च संचितमक्यव- संहातमात्राद् अन्यद् विद्यते तदवयवानपोह्य संचिताकारठिकाना- भावात् । तस्माद् विनैव बाह्यनार्थेन विज्ञानं संचिताकारमुत्पद्यते। न च परमाणव एव संचितास्तस्यालम्बन, परमाणुनां अतदाकारत्वात् । न ह्यसंचितावस्थातः संचितावस्थायां परमाणूनां कश्चिदात्मातिशयः । तस्माद् असींचतवत् संचिता अपि परमाणयो नैवालम्बनम् । अन्यस्तु मन्यते । एवं कपरमाणुरन्यनिरपेक्ष्योऽतीन्द्रियो वहवस्तु परस्प- रापेक्षा इन्द्रियग्राह्याः। तेषामपि सापेक्षनिरपेक्षावस्थयोरात्माति- शयाभानद् एकान्तेनेन्द्रियग्राह्यत्वम् अतीन्द्रियत्वं वा। यदि च परमाणव एव परस्परापेक्षा विज्ञानस्य विषयीभवन्ति एवं सति योऽयं घटकुड़ याद्याकारभेदो विज्ञाने स न स्यात् परमाणुना अतदाकार- त्वात् । न चान्यनिर्भासरय विज्ञानस्यान्याकारो विषयो युज्यतेऽति- प्रसङ्गात् । न च परमाणवः स्तम्भादिवत् परमार्थत. सन्ति अर्वा- ङ मध्यपरभाग सद्भावात् । तदनभ्युपगमे वा पूर्वदक्षिणापरोत्तरादि दिगभेदो यः स परमाणेन स्यात् । ततश्च विज्ञानवत् परमाणोरप्य- मूतत्वमदेशस्थत्वं च प्रसज्यते । एवं बाह्यार्थाभावाद् विज्ञान- मेवाकारमुत्पद्यते म्वप्नविज्ञानवद् इत्यभ्युपेतम् । वेदनादयोऽपि नातीताsनागतास्तदाकारविज्ञानजनका निरुडाजातत्वात् । न च वर्तमाना वर्तमानजनका उत्पद्यमानावस्थायां असत्वात् उत्पन्ना- वस्थायां विज्ञानस्यापि तदाकारेणोत्पन्नत्वान्न किचित् कर्तव्यमस्तीति मनोविज्ञानमप्यनालम्बनमेवोत्पद्यते। अन्यस्त्वाह । असत्यात्मनि मुख्य धर्मेषु चोपचारो न युज्यते। उपचारो हि त्रिषु भवति नान्यतमाभावे मुख्यपदार्थे 'तत्सदृशेऽन्यस्मिन् विषये तयोश्च सादृश्ये । तद्यथा मुख्येऽनौ तत्सदृशे च माए.वके तयोंश्च साधारणे धमें कपिलत्वे तीच्णत्वे वा सत्यनिर्माणवक इत्युपचारः क्रियते.। अत्र ( २० ) न ह्यग्निमाणक इति जातिव्यं वोपचर्यते। उभयथाप्युपचाराभावः । तत्र तावनजातेः साधारणं कपिलत्वं तीच्णत्वं वा । न च साधारण धर्माभावे माणके जातेरुपचारोयुज्यतेऽतिप्रसंगात् । अतधर्मत्वेऽपि जातेः तीक्ष्णत्वकपिलत्वयोः जात्यविनाभावित्वान्माणके जात्युपचारो भविष्यति । जात्यभावेऽपि तीब्णत्वकपिलत्वयोः माणवके दर्शनात् अविनामावित्वमयुक्तम् । अविनाभाविल्वे चोपचाराभावोऽनाविव माणव केपि जातिसद्भावात्। तस्मानमाणवके जात्युपचारः सम्भवति । नापि द्रव्योपचारः सामान्यधर्माभावात् । न हि योऽग्नेस्तीच्णोगुण कपिलो वा स एव माणवके किं तर्हि ततोऽन्यः विशेषस्य स्वाश्रय प्रतिबद्धत्वात् । विनाग्नि गुणेनाग्नेमाणक्के उपचारो युक्तः । अग्निगुणसादृश्यात् युक्त इति चेत् । एवमप्यग्निगुणस्यैव तीच्णस्य कपिलस्य वा माणक गुणो तीक्ष्णे कपिले वा साहशाद् उपचारो युक्तो न तु माणवकेऽग्नेः गुणसादृश्येनासम्बन्धात् । तस्माद् द्रव्योपचारोऽपि नैव युज्यते । मुख्योऽपि पदार्थों नास्ति, तत्स्वरूपस्य सर्वज्ञानाभिधानविषयातिकान्तत्वात् । प्रयाने हि गुणरूपेणैव ज्ञानाभिधाने प्रस्ततेते तत्स्वरूपासंस्पर्शात् । अन्यथा च गुणधैयर्थ्य प्रसङ्गः। न हि ज्ञानाभिधानव्यतिरिक्तोऽन्यपदार्थस्वरूपपरिच्छित्यु पायोऽस्तीत्यतः प्रधानस्वरूपविषयज्ञानाभिधानाभावात् नैवमुख्यः पदार्थोऽस्तीत्यवगन्तव्यम् । एवं यावच्छब्दे सम्बन्धाभावात् ज्ञानाभि- धानाभाव एवं चाभिधानाभिधेयाभावान् नैव मुख्यः पदार्थोऽन्ति । अपि च सर्व एवायं गौण एव न मुख्योऽस्ति । गौणो हि नाम यो यत्राविद्यमानेन रूपेण प्रवर्तते । सर्वश्च शब्दः प्रधानेऽविद्यमाने- नैव गुणरूपेण प्रवर्तते अतो मुख्यो नास्त्येव । तत्र यदुक्त असत्या- त्मनि मुख्ये धर्मेषु चोपचारो न युक्त इति तदयुक्तम् ।

( २१ ) विज्ञानपरिणामः कतिभेद इति न ज्ञायते । अतस्तद्प्रभेदोप- दर्शनार्थमाह। परिणामः स च त्रिधा ॥१॥ यत्रात्माधु पचारो धर्मोपचारश्च स पुनर्हेतुभावेन फलभावेन च विद्यते । तत्र हेतु परिणामो याऽऽलयविज्ञाने विपाकनिःष्यन्द- वासनापरिपुष्टिः। फल परिणामः पुनर्विपाकवासनावृत्तिलाभाद्- आलयविज्ञानस्य पूर्वकर्माक्षेपपरिसमाप्तौ या निकायसभागान्तरेष्वभि- निवृतिः निष्यन्दवासनावृत्तिलाभाच्च या प्रवृत्तिविज्ञानानां क्लिष्टस्य च मनस आलय विज्ञानाद् अभिनिवृत्तिः । तत्र प्रवृत्तिविज्ञानं कुशला- कुशलम् आलविज्ञाने विपाकगासनां निःष्यन्दवासनां चाधत्ते । अव्याकृतं क्लिष्टं च मनो निष्यन्दवासनामेव । योऽसौ त्रिविधः परिणाम उक्तोऽसावपि न ज्ञायते । अतस्तद्भेद प्रदर्शनार्थमाह । विपाको मननाख्यश्च विज्ञप्तिर्विषयस्य च । इति । स एष त्रिविधः परिणामो विपाकाख्यो मननाख्यो विषय- विज्ञप्त्याव्यश्च । तत्र कुशलाकुशलकर्मवासनागरिपाकवशाद् यथाक्षेप फलाभिनिवृत्तिर्विपाकः । क्लिष्टं मनो नित्यं मननात्मक मान मनना- ख्यम् । रूपादि विषय प्रत्यवभासत्वात् चक्षुरादिविज्ञानं षद्- प्रकारमपि विषयविज्ञप्तिः । तत्स्वरूप निर्देशमन्तरेण न तत् प्रतीयते इत्यतो यस्य यत्स्वरूपं तद्यथाक्रमं प्रदर्शयन्नाह । तत्रालयाख्य विज्ञानं विपाकः सर्व बीजकम् ।।२।। इति तत्रेति योऽयमनन्तरोक्तः त्रिविधः परिणामः । श्रालयाख्य- मित्यालयविज्ञानसंज्ञक यद्विज्ञानं स विपाकपरिणामः । तत्र सर्वसां- लेशिकधर्मबीजस्थानत्वाद् प्रालयः। आलयः स्थानमिति पयोयो।

( २२ ) अथ वालीयन्ते उपनिबध्यन्तेऽस्मिन्सर्वधर्माः कार्यभावेन तहालीयते उपनिबध्यते कारणभावेन सर्वधर्मेष्वित्यालयः। रिजानातीति विज्ञानम् । सर्वधातुतियोनिजातिषु कुशलाकुशल कर्म- विपाकत्वाद् विपाकः । सर्वधर्मबीजाश्रय त्यात सर्वतीजकम् । यदि प्रवृत्ति- विज्ञानव्यतिरिक्तम् आलयविज्ञानमस्ति ततोऽस्यालम्बनम् आकारो का वक्तव्यः । न हि निरालम्बनं निराकारं वा विज्ञानं युज्यते । नैव तन्निरालम्बनं निराकारं वेष्यते कि तो परिच्छिन्नालम्बनाकारम् । किं कारणम् । यस्माद् । पालयविज्ञानं विधाप्रवर्तते । अध्यात्मम् उपादानविज्ञप्तितो बहिर्धाऽपरिच्छिन्नाकारभाजन विज्ञप्तितश्च । तत्राध्या- स्ममुपादानं परिकल्पितस्वभावाभिनिवेशवासना साधिष्ठानम् इन्द्रिय- रूपं नाम च अस्यालम्बनस्याति सूक्ष्मत्वात्- असंविदितकोपादिस्थानविज्ञप्तिकं च तत् । असंविदितक उपादिस्मिन् असंविदितकाचस्थानविज्ञप्तियस्मिन् तदालयविज्ञानम् असंविदितकोपादि स्थान विज्ञप्तिकम् । उपादानम् उपादिः । स पुनरात्मादिविकल्पवासना रूपादिधर्म- विकल्पवासना च। तत्सद्भावादालयविज्ञानेनात्मादिविकल्पो रूपादि- विकल्पश्च कार्यत्वेनोपात्त इति तहासनात्मादिविकल्पानां रूपादि- विकल्पानां चोपादिरित्युच्यते । सोऽस्मिन्न इदं तदिति प्रतिसंवेदना- कारेणासंविदित इत्यतस्तदसंविदितकोपादीत्युच्यते। आश्रयोपादानं चोपादिः । श्राश्रय आत्मभावः साधिष्ठानम् इन्द्रियरूपं नाम च । तस्य पुनर्यदुपादानम् उपगमनम् एकयोगदमत्वेन तदुपादिः । तत्र कामरूपधात्वोयो मरूपयोरुपादानम्। आरूप्यधातौ तु रूपवीत- रागत्वाम्द्र पविपाकानभिनिवृत्ते-नामोपादानमेव। कि तु वासना- वस्थमेव तत्र रूपं न विपाकावस्थम् । तत्पुनरुपादानम् इदंतया प्रति- ( २३ ) संवेदयितुमशक्यमित्यतोऽसंविदित इत्युच्यते। स्थानविज्ञप्तिर्भाजन- लोकसंनिवेशविज्ञप्तिः। साप्यपरिच्छिन्नालम्बनाकारप्रवृत्तत्वाद् असं- विदितेत्युच्यते । कथं विज्ञानम् अपरिच्छिन्नालम्बनाकारं भविष्यतीति । अन्यविज्ञानवादिनामपि निरोधसमापत्त्याद्यवथासु तुल्य मेतन् न च निरोधसमापत्त्याद्यवस्थासु विज्ञानं नैवास्तीति शक्यते प्रतिपत्तु युक्ति विरोधात् सूत्रविरोधाच्चेति । तत्रालयाख्य विज्ञानमित्युक्त विज्ञानं चावश्यं चैत्तैः संप्रयुक्त मित्यतो वक्तव्यं कतमैः कतिभिश्च तच्चैतैः सदासंप्रयुज्यते। तथा किं तैः सर्वदा संप्रयुज्यते उत नेत्यत आह । सदा स्पर्शमनस्कारपित्संज्ञाचेतनान्वितम् ॥३॥ इति । सदेति यावदालयविज्ञानं तावदेभिः स्पर्शमनस्कारवेदना- संज्ञाचेतनाख्यैः पंचभिः सर्वत्रगैर्धमैरन्वितम् । वेदनं वित् । तत्रस्पर्श- त्रिकसंनिपाते इन्द्रियविकारपरिच्छेदः वेदनासंनिश्रयकर्मकः । इन्द्रिय- विषयविज्ञानानि त्रीण्येव त्रिकं तस्य कार्यकारणभावेन समवस्थानं त्रिकसंनिपातः। तस्मिन् सति तत्समकालनेवेन्द्रियस्य सुखदुःखादि वेदनानुकूलो यो विकारस्तेन सदृशो विषयस्य सुखादिवेदनीयाकार- परिच्छेदो यः स स्पर्शः । इन्द्रियं पुनर्चेन विशेषेण सुखदुःखादि- हेतुत्वं प्रतिपद्यते स त य विकारः। स्पर्शः पुनरिन्द्रियविकारसादृश्ये- नेन्द्रियं स्पृशतीन्द्रियेण वा स्पृश्यत इति स्पर्श उच्यते। अत एव विषयविकारपरिच्छेदात्मकोऽपीन्द्रियविकारपरिच्छेद उक्तः। वेदना- संनिश्रयत्वमस्य कर्म । एवं युक्त सूत्रे सुखवेदनीयं स्पर्श प्रतीत्यो- त्पद्यते सुखवेदितमिति विरतरः । मनस्कारश्चेतस आभोगः । आभुजनमा- भोग आलम्बने येन चित्तमभिमुखीक्रियते । स पुनरालम्बने चित्तवारण- कर्मा। चित्तवारणं पुनस्तत्रैवालम्बने पुनः पुनश्चित्त त्यावर्जनम् । एतच्च कर्म चित्तसंततेरालम्वननियमेन विशिष्ट मनस्कारमधिकृत्यो- ( २४ ) सुखदुःखयोस्तु क्तं न तु यः प्रतिचित्तक्षणं तस्य हि प्रतिक्षणमेव व्यापारो न क्षणान्तरे। वेदना अनुभवस्वभावा। सा पुनर्विषययरयाह्लादकपरि- तापकतदुभयाकारविविक्तस्वरूपसाक्षात्करणभेदात् त्रिधा भवति । सुखा-दुःखा-अदुःखासुखा च । एवं त्वन्ये मन्यन्ते । शुभाशुभानां कर्मणां फलविपाक प्रत्यनुभवन्त्यनेनेत्यनुभवः । तत्र शुभानां कर्मणां सुखोऽनुभवः फलविपाकः। अशुभानां दुःखः । उभयेषा- मःखार ख.। अत्र चालयविज्ञानमेव शुभाशुभकर्मविपाकः । तत्संप्रयुक्तैवोपेक्षा परमार्थतः शुभाशुभानां कर्मणां पावपाकः । कुशलाकुशलकर्मविपाकजत्वाद् विपाकोपचारः। तत्र सुखोऽनुभवः यस्मिन्नुत्पन्नेऽवियोगेच्छा निरुद्धे निरुधे च पुनः संयोगेच्छा जायते । दुःखोऽनुभवः यस्मिन्नुत्पन्ने वियोगेच्छा निरुद्ध पुनरसंयोगेच्छा। अःखासुखोयस्मिन्नुत्पन्ने निरुद्धे चोभयं न जायते । संज्ञा विषयनिमित्तोद्ग्रहणम् । विषय आलम्बनम्। निमित्तं तद्विशेषो नीलपीताद्यालम्बनव्यवस्थाकारणम् । तस्योद्ग्रहणं निरूपणं नीलनेतन् न पीतमिति । चेतनाचित्ताभिसंस्कारी मन- सश्चेष्टा यस्यां सत्यामालम्बनं प्रति चेतसः प्रस्पन्द इव भवति अयस्कान्तवशादयःप्रस्पन्दवत । वेदना त्रिविधा सुखा दुःखा अदुःखा- सुखा च । धर्माश्चतुः प्रकाराः कुशला अकुशला अनिवृताव्याकृता निवृताव्याकृताश्च । तत्रालयविज्ञाने विदिति सामान्योपदेशेन न विज्ञायते तिसृणां वेदनानां कतमा वेदना। तथा तदपि किं कुशल- मकुशलमनिवृताव्याकृतं निवृताव्याकृतमिति न विज्ञायत इत्यत आह- उपेक्षा वेदना तत्रानिवृताच्याकृतं च तत् । तत्रेत्यालयविज्ञानमेव प्रकृतत्वात्संबध्यते। उपेक्षवालयविज्ञाने वेदना न सुखा न दुःखा। तयोः परिच्छिन्नालम्बनाकारत्वात ( २५ ) रागद्वेषानुशयितत्वाच्च । अनिवृताव्याकृतं च तत् । आलयविज्ञान- मिति प्रकृतम्। तत्रानिवृतग्रहणं निवृतव्यवच्छेदार्थम् । अव्याकृत- ग्रहणं कुशलाकुशलव्यवच्छेदार्थम् । मनोभूमिकैरागन्तुकैरुपक्लेश- रनावृतत्वादनिवृतम् । विपाकस्वाद्विपाकं प्रति कुशलाकुशलत्वना- व्यारकरणादव्याकृतम् । तथा स्पर्शादयः। यथा आलयविज्ञानमेकान्तेन विपाकोऽपरिच्छन्नालम्बनाकारं सदा स्पर्शादिभिरन्वितं तत्र चोपेक्षैव वेदनानिवृताव्याकृतं च तथा स्पर्शादयोऽप्येकान्तेन विपाका एवापरिच्छिन्नालम्वनाकाराश्चात्मानं हित्वा इतरैश्चभिरालयविज्ञानेन च नित्यमनुगतारतेषु चोपेदैव वेदना अनिवृताव्याकृताश्चालयविज्ञानवत् । न हि विपाकेन संप्रयुक्तानामविपाकत्वमपरिच्छिन्नालम्बनाकारेण च परिच्छिन्ना- लम्बनाकारत्वं संभवति । एवमन्यत्रापि वाच्यम्। किं पुनस्तदालय- विज्ञानमेकमभिन्नमासंसारमनुवर्तते । संतानेन । न हि तदेकभिन्नमनुवर्तते क्षणिकत्वात् ।क तहि- तच्च वर्तते स्रोतसौघवत् ॥४॥ तच्चेत्यालयविज्ञानमेव संबध्यते । तत्र स्रोतो हेतुपलयोनॆरन्तर्येण प्रवृत्तिः । उदकसमूहस्य पूर्वापरभागाविच्छेदेन प्रवाहो ओघ इत्युच्यता यथा ह्योधस्तृणकाष्ठगोमयादीनाकर्षयन्गच्छति एवमालयवि मर्म पुण्यापुण्यानेज्यकर्मवासनानुगतं स्पर्शमनरकारादीनाकषयत्स्रोतसा- संसारमव्युपरतं प्रवर्तत इति । तस्यैवं स्रोतसा प्रवृत्तस्य कस्यामवस्थायां व्यावृत्तिरित्याह- उत - ( २६ ) - तस्य व्यावृत्तिरहत्त्वे किं पुनरर्हत्वं यद्योगादर्हन्नित्युच्यते । कस्य पुनर्योगादर्हन्नि- त्युच्यते। क्षयज्ञानानुत्पादज्ञानलाभात् । तस्यां ह्यस्थायामालय- विज्ञानाश्रितदौष्ठुल्यनिरवशेषप्रहाणादालयविज्ञानं व्यावृत्तं भवति । सैव चाहंदवस्था। उक्तः सविभङ्गो विपाकरिणामः। इदानीं मननाख्यं द्वितीय परिणाममाह । तदाश्रित्य प्रवर्तत इति विम्तरः। तत्र यथा चनुशं विज्ञानानां चतुरादय आश्रयत्वेन रूपादयश्चालम्बनत्वेन प्रसिद्धाः नैवं क्लिष्टस्य मनस आश्रय पालम्बनं वा प्रसिद्धम् । न च विज्ञानमा- श्रयालम्बन निरपेक्षं युज्यत इत्यतः क्लिष्टस्य मनस आश्रयालम्बन प्रति- पादनार्थं निरुक्तिप्रतिपादनार्थञ्चाह- तदाश्रित्य प्रवर्तते । तदालम्बनं मनोनाम विज्ञानं मननात्मकम् ॥५ तदाश्रित्य प्रवर्तत इति तच्छब्देनालयविज्ञानमभिसंबध्यते। तद्वासनाश्रयो ह्यालयविज्ञानमतस्तदाश्रित्य प्रवर्तते संताने- नोत्पद्यत इत्यर्थः। अथ वा यस्मिन्धातौ भूमौ वालयविज्ञानं विपाकस्तदपि क्लिष्टं मनस्तद्धातुकं तद्भूमिकं चेतेि तत्प्रतिबद्धवृत्ति- वात्तदाश्रित्य प्रवर्तते। तदालम्बमिति । आलयविज्ञानालम्बनमेव सत्काय- दृष्ट्यादिभिः संप्रयोगादहं मनेत्यालयविज्ञानालम्बनत्वात् । कथं पुनर्थत् एव चित्तादुत्पद्यते तदेवालम्बनं भवति । यथा तदनिच्छतां केषांचित्कस्यांचिदवस्थायां यत एव चित्तान्मनोविज्ञानमुत्पद्यते तदालम्बनमेव तदुत्पद्यते । मनोनाम विज्ञानमिति । मन इति नाम ( २७ ) आख्या यस्य विज्ञानस्य तदालयविज्ञानमाश्रित्य प्रवर्तते तदालम्बन च। मनोनाम इत्यनेनालयविज्ञानात्प्रवृत्तिविज्ञानाच्च व्यवच्छि- नत्ति । तत्पुनः किं स्वभावमित्याह । मननात्मकमिति । एवं मनना- स्मकत्वान्मन इत्युच्यते नैरुक्तेन विधिना । विज्ञानस्वरूपवादवश्यं तच्चैतैः संप्रयुज्यते। इदं तु न ज्ञायते कतमैस्तच्चैत्तैः कियद्भिः कियन्तं कालं वा संप्रयुज्यत इत्यत आह- के शैश्चतुभिः सहितं निवृताव्याकृतैः सदा । चैत्ता हि द्विप्रकाराः क्लशास्तदन्ये च । तदन्येभ्यो व्यवच्छे- र्थमाह क्लेशैरिति क्लेशा अपिषट् । न च सर्वैः संप्रयुज्यतेऽतश्चतु- भिरित्याह । सहितमिति संप्रयुक्तम् । क्लेशा अपि द्विविधाः । अकुशला निवृताव्याकृताश्च। अकुशलेभ्यो विशेषार्थमाह निवृता- व्याकृतैरिति । न हि निवृतेन विज्ञानेनाकुशलानां संप्रयोगः सम्भवति । निवृत्ताः क्लिष्टत्वात्। अव्याकृताः कुशलाकुशलत्वेना- व्याकरणात् । सदेति सर्वकालम् । यावदस्ति तावत्तैः संप्रयुक्तम् । सामान्यांनर्देशाद्विशेषतो न ज्ञायन्त इति विशेषतो निदिशात । आत्मदृष्ट्यात्ममोहात्ममानात्मस्नेहसंज्ञितैः ॥ ६ ॥ उपादानस्कन्धेष्वात्मेति दर्शनमात्मदृष्टिः सत्कायदृष्टिरित्यर्थः। मोहोऽज्ञानम् । आत्मन्यज्ञानमात्ममोहः। आत्मविषये मान आत्ममानोऽस्मिमान इत्यर्थः । आत्मनि स्नेह आत्मप्रेमेत्यर्थः । तत्रालयावज्ञानस्वरूपे संमूढः सन्नालयविज्ञाने आत्मदृष्टिमुत्पाद- यति । आत्मदर्शनाद्या चित्तस्योन्नतिः सोऽस्मिमानः । एतस्मिस्त्रये सति आत्माभिमते वस्तुनि योऽभिष्वङ्गः स श्रामस्नेहः ।

( २८ ) आह च- अविद्यया चात्मदृष्ट्या चास्मिमानेन तृष्णया । एभिश्चतुर्भिः संक्लिष्टं मननालक्षणं मनः ॥ विपर्यासनिमित्त तु मनः क्लिष्टं सदैव यत् । कुशलान्याकृते चित्ते सदाहंकारकारणम् ॥ एते हि आत्ममोहादयः क्लेशा मनोवन्नवभूमिकाः । इह च सामान्येनाभिधानान्न ज्ञायते किं स्वभूमिकैरेव सम्प्रयुज्यते उतान्यभूमिकैरपोत्यत आह- यत्रजस्तन्मयैः इति । यन्न जातो यत्रजः। तन्मयैरिति यत्र धातौ भूमौ वा जातस्तद्धातुकैः तद्भूमिकैरेव च संप्रयुज्यते, नान्यधातुकैरन्यभूमि- कैर्वा। किं पुनश्चतुर्भिरेव क्लेशैः संप्रयुज्यते नेत्याह । अन्यैः स्पर्शाश्च संप्रयुज्यत इति सम्बध्यते । च शब्दः समुच्चयार्थः । स्पर्शा- चैरिति स्पर्शमनस्कारवेदनासंज्ञाचेतनाभिः। एते हि पञ्चधर्माः सर्वत्रगत्वात्सर्वविज्ञानैः संप्रयुज्यन्ते । एतैरपि यत्र जातस्तन्मयैरेव संप्रयुज्यते नान्यधातुभूमिकैः । अथ वान्यैरिति मूलविज्ञान- संप्रयुक्त भ्यो व्यवच्छेदार्थम् । मूलविज्ञाने ह्यनिवृताव्याकृताः स्पर्शादयः। क्लिष्टे तु मनसि मनोवन्निवृतान्याकृताः। यदि तलिष्टं मनः कुशलक्लिष्टाव्याकृतावस्थास्वविशेषेण प्रवर्तते न तस्य तर्हि निवृत्तिरस्ति । अनिवृत्ते च तस्मिन्कुतो मोक्ष इति कथं न मोक्षाभावः प्रसज्यते । न प्रसज्यते यस्मात् ।

( २९ ) अर्हतो न तत् । न निरोधसमापत्तौ मार्गे लोकोत्तरे न च ॥७॥ अर्हतस्तावदशेषक्लेशप्रहाणाक्लिष्टं मनो नैवास्ति । तद्धि भावानिकभावनाप्रहातव्यक्लेशवदहत्वप्राप्त्यानन्तर्यमार्गेणैव प्रहीयते तदन्यक्लेशवदहत्वावस्थायां नैव विद्यते । अकिंचन्यायत- नवीतगगस्याप्यनागामिनो निरोधसमापत्तिलाभिनो मार्गबलेन निरोधसमापत्तेलभ्यत्वान्मार्गवन्निरोधसमापत्त्यवस्थायामपि निरु- ध्यते निरोधाच्च व्युत्थितस्य पुनरालयविज्ञानादेव प्रवर्तते । मार्गे लोकोत्तरे न चेति । लोकोत्तर ग्रहणं लौकिकव्यवच्छेदार्थम् । लौकिके तु मार्गे क्लिष्ट मनः प्रवर्तत एव । नैरात्म्यदर्शनस्यात्म- दर्शनप्रतिपक्षत्वान्न लोकोत्तरमार्गे प्रवर्तितुमुत्सहेते । विपक्षप्रति- पक्षयोः योगपद्याल्लोकोत्तरमार्गे तन्निरुध्यते । तस्मादपि व्युत्थितस्य पुनरालयविज्ञानादेवोत्पद्यते। द्वितीयः परिणामोऽयम् उद्दिष्टो निदिष्टश्चेति निगमयति । द्वितीयपरिणामानन्तरं तृतीयपरिणामो वक्तव्य इत्यत आह तृतीयः षड्विधस्य या विषयस्योपलब्धिः सा तृतीयो विज्ञानपरिणाम इति वाक्यशेषः । षड्विधस्येति षट्प्रकारस्य रूपशब्दगन्धरसस्प्रष्टव्यधर्मात्मकस्य विषयस्य या उपलब्धिग्रहणं प्रतिपत्तिरित्यर्थः । सा पुनः किं कुशला अकुशला अव्याकृतेत्यत आह- कुशलाकुशलाद्वया ॥८॥ - ( ३० ) - कुशलाऽकुशलाऽद्वयेत्याव्याकृतापि । अलोभाषामोहैः संप्रयुक्ता कुशला। लोभद्वेषमोहैः संप्रयुक्ताऽकुशला। कुशला- कुशलैरसप्रयुक्ता अद्वया न कुशला नाकुशलेत्यथः। सा पुनः कीदृशैश्चैतसिकैः संप्रयुज्यते कियन्तो वा तत्संप्रयोगिणश्च तसिका इत्यत आह- सर्वत्रगैर्विनियतैः कुशलैश्चैतसैरसौ। संप्रयुक्ता तथा क्लेशैरुपक्लेशैत्रिवेदना ॥६॥ य एते सर्वत्रगा उद्दिष्टास्ते न विज्ञायन्त इत्यतस्त- प्रदर्शनार्थमाह- आद्यास्पर्शादयः आदौ निर्दिष्टत्वादाद्याः सर्वत्रगा इत्यर्थः । तथा हि- सदास्पर्शमनस्कारवित्संज्ञाचेतनान्वितम् । इति प्रथतो निर्दिष्टाः। स्पर्श एषामादिरिति स्पर्शादयः। ते पुनः स्पर्शमनस्कारादयः पञ्चधर्माः सर्व चित्तमनुगच्छन्तीति सर्वत्रगाः। तथा ह्यत आलयविज्ञाने क्लिष्टे मनसि प्रवृत्ति- विज्ञानेषु च विशेषेण प्रवर्तन्ते । विनियतानधिकृत्याह- छन्दाधिमोक्षस्मृतयः सह । समाधिधीभ्यां नियताः विशेषे नियतत्वाद्विनियताः। एषां हि विशेष एव विषयो न सर्वः। तत्र छन्दोऽभिप्रेते वस्तुन्यभिलाषः। अभिप्रेते वस्तुन्य- भिलाष इति प्रतिनियतविषयत्वं ज्ञापितं भवत्यनभिप्रेते छन्दाभावात्। दर्शनश्रवणादिक्रियाविषयत्वेन यदभिमतं - ( ३१ ) स वस्तुतदभिप्रेतम्। तत्र दर्शनश्रवणादिप्रार्थना छन्दः। स च वीर्यारम्भ- संनिश्रयदानकर्मकः। अधिमोक्षो निश्चिते वस्तुनि तथैवाव- धारणम् । निश्चतग्रहणमनिश्चितप्रतिषेधार्थम् । ) युक्तित आप्तो- पदेशतो वा यद्वस्तु असंदिग्धं तन्निश्चितं येनैवाकारेण तनिश्चितमनित्यदुःखाद्याकारेण तेनैवाकारेण तस्य वस्तुनश्चे- तस्यभिनिवेशनमेवमेतन्नान्यथेत्यवधारणमधिमोक्षः। चासंहार्यतादानकर्मकः । अधिमुक्तिप्रधानो हि स्वसिद्धान्तात्पर- प्रवादिभिरपहर्तुं न शक्यते । स्मृतिः संस्तुते वस्तुन्यसंप्रमोषश्चे- तसोऽभिलपनता। संस्तुतं वस्तु पूर्वानुभूतम् । आलम्बनग्रहणावि- प्रणाशकारणत्वादसंप्रमोषः । पूर्वगृहीतस्य वस्तुनः पुनः पुनराल- म्बनाकारस्मरणमभिलपनता। अभिलपनमेवाभिलपनता। सा- पुनरविक्षेपकर्मिका। आलम्बनाभिलपने सति चित्तस्यालम्बना- न्तरे आकारान्तरे वा विक्षेपाभावादविक्षेपकर्मिका। समाधिरुप- परीक्ष्ये वस्तुनि चित्तस्यैकाग्रता । उपपरीक्ष्य वस्तुगुणतो दोषतो वा। एकाग्रता एकालम्बनता । ज्ञानसंनिश्रयदानकर्मकः । समाहिते चित्ते यथाभूतपरिज्ञानात् । धीः प्रज्ञा । साप्युपपरीक्ष्य एव वस्तुनि प्रविचयो योगायोगविहितोऽन्यथा वेति । प्रविचिनोतीति प्रवित्रयः। यः सम्यङ मिथ्या वा संकीर्णस्वसामान्यलक्षणेष्विव धर्मेषु विवेकावबोधः । युक्तियोगः। स पुनराप्तोपदेशोऽनुमानं प्रत्यक्षं च। तेन त्रिप्रकारेण योगेन यो जनितः स योगविहितः। स पुनः श्रुतमयश्चिन्तामयो भावनामयश्च । तत्राप्तवचनप्रामाण्याद्यो- ऽवबोधः स श्रुतमयः। युक्ति.नध्यानजश्चिन्तामयः। समाधिजो भावनामयः। अयोगोऽनाप्तोपदेशोऽनुमानाभासो मिथ्याप्रणि. हितश्च समाधिस्तेनायोगेन जनितोऽयोगविहितः। उपपत्ति- प्रतिलम्भिको लौ केकव्यवहारावबोधश्च न योगविहितो नायोग- विहितः । एषा च संशय व्यावतनकमिका । संशयव्यावर्तनं प्रज्ञया ( ३० ) - - कुशलाऽकुशलाऽद्वयेत्याव्याकृतापि । अलोभादेषामोहैः संप्रयुक्ता कुशला। लोभद्वेषमोहैः संप्रयुक्ताऽकुशला। कुशला- कुशलैरसप्रयुक्ता अद्वया न कुशला नाकुशलेत्यथः। सा पुनः कीदृशैश्चैतसिकैः संप्रयुज्यते कियन्तो वा तत्संप्रयोगिणश्चतसिका इत्यत आह- सर्वत्रगैर्विनियतैः कुशलैश्चैतसैरसी। संप्रयुक्ता तथा क्लेशैरुपक्लेशैत्रिवेदना ॥३॥ य एते सर्वत्रगा उद्दिष्टास्ते न विज्ञायन्त इत्यतस्त- प्रदर्शनार्थमाह- आद्यास्पर्शादयः आदौ निर्दिष्टत्वादाद्याः सर्वत्रगा इत्यर्थः । तथा हि- सदास्पशमनस्कारवित्संज्ञाचेतनान्वितम् । इति प्रथतो निर्दिष्टाः। स्पर्श एषामादिरिति स्पर्शादयः। ते पुनः स्पर्शमनस्कारादयः पञ्चधर्माः सर्व चित्तमनुगच्छन्तीति सर्वत्रगाः। तथा ह्यत आलयविज्ञाने क्लिष्टे मनसि प्रवृत्ति- विज्ञानेषु च विशेषेण प्रवर्तन्ते । विनियतानधिकृत्याह- छन्दाधिमोक्षस्मृतयः सह । समाधिधीभ्यां नियताः विशेषे नियतत्वाद्विनियताः। एषां हि विशेष एव विषयो न सर्वः। तत्र छन्दोऽभिप्रेते वस्तुन्यभिलाषः । अभिप्रेते वस्तुन्य- भिलाष इति प्रतिनियतविषयत्वं ज्ञापितं भवत्यनभिप्रेते छन्दाभावात्। दर्शनश्रवणादिक्रियाविषयत्वेन यदभिमतं ( ३१ ) स वस्तुतदभिप्रेतम्। तत्र दर्शनश्रवणादिप्रार्थना छन्दः। स च वीर्यारम्भ- संनिश्रयदानकर्मकः। अधिमोक्षो निश्चिते वस्तुनि तथैवाव- धारणम् । निश्चतग्रहणमनिश्चितप्रतिषेधार्थम् ।। युक्तित आप्तो- पदेशतो वा यद्वस्तु असंदिग्धं तन्निश्चितं येनैवाकारेण तनिश्चितमनित्यदुःखाद्याकारण तेनैवाकारेण तस्य वस्तुनश्चे- तस्यभिनिवेशनमेवमेतन्नान्यथेत्यवधारणमधिमोक्षः । चासंहार्यतादानकर्मकः। अधिमुक्तिप्रधानो हि स्वसिद्धान्तात्पर- प्रवादिभिरपहर्तुं न शक्यते । स्मृतिः संस्तुते वस्तुन्यसंप्रमोषश्चे- तसोऽभिलपनता। संस्तुतं वस्तु पूर्वानुभूतम् । अालम्बनग्रहणावि- प्रणाशकारणत्वादसंप्रमोषः । पूर्वगृहीतस्य वस्तुनः पुनः पुनराल- म्बनाकारस्मरणमभिलपनता। अभिलपनमेवाभिलपनता सा- पुनरविक्षेपकर्मिका। आलम्बनाभिलपने सति चित्तस्यालम्बना- न्तरे आकारान्तरे वा विक्षेपाभावादविक्षेपकर्मिका। समाधिरुप- परीक्ष्ये वस्तुनि चित्तस्यैकाग्रता । उपपरीक्ष्य वस्तुगुणतो दोषतो वा। एकाग्रता एकालम्बनता । ज्ञानसंनिश्रयदानकर्मकः । समाहिते चित्ते यथाभूतपरिज्ञानात् । धीः प्रज्ञा । साप्युपपरीक्ष्य एव वस्तुनि प्रविचयो योगायोगविहितोऽन्यथा वेति । प्रविचिनोतीति प्रवित्रयः। यः सम्यङ मिथ्या वा संकीर्णस्वसामान्यलक्षणेष्विव धर्मेषु विवेकावबोधः । युक्तियोगः । स पुनराप्तोपदेशोऽनुमान प्रत्यक्षं च । तेन त्रिप्रकारेण योगेन यो जनितः स योगविहितः। स पुनः श्रुतमयश्चिन्तामयो भावनामयश्च । तत्राप्तवचनप्रामाण्याद्यो- ऽवबोधः स श्रुतमयः। युक्ति.नध्यानजश्चिन्तामयः। समाधिजो भावनामयः। अयोगोऽनाप्तोपदेशोऽनुमानाभासो मिथ्याप्रणि. हितश्च समाधिस्तेनायोगेन जनितोऽयोगविहितः। उपपत्ति- प्रतिलम्भिको लौ केकव्यवहारावबोधश्च न योगविहितो नायोग- विहितः । एषा च संशय व्यावतनकर्मिका । संशयव्यावर्तनं प्रज्ञया ( ३२ ) ये- धर्मान्प्रविचिन्वतो निश्चयलाभादिति । एते हि पञ्चधर्माः परस्परं व्यतिरिच्यापि प्रवर्तन्ते । एवं यत्राधिमोक्षस्तत्र नावश्यमितरैरपि भवितव्यम् । एवं सर्वत्र वाच्यम् । उक्ता विनियताः। तदनन्तरोहि- ष्टास्त्विदानी कुशला वक्तव्या इत्यत आह- श्रद्धाथ हीरपत्रपा॥ १०॥ अलोभादित्रयं वीर्य प्रश्रब्धिः साप्रमादिका । अहिंसा कुशलाः एत एकादश धर्मा इति वाक्यशेषः। तत्र श्रद्धा कर्मफलसत्य- रत्नेष्वभिसंप्रत्ययः प्रसादश्चेतसोऽभिलाषः । श्रद्धा हि त्रिधा प्रवर्तते । सति वस्तुनि गुणवत्यगुणवति वा संप्रत्ययाकारा । सति गुणवति च प्रसादाकारा । सति गुणवति च प्राप्तुमुत्पाद तुं वा शक्येऽभिलाषाकारा। चेतसः प्रसाद इति । श्रद्धा हि चित्त- कालुष्यवैरोधिकीत्यतस्तत्संप्रयोगे क्लेशोपक्लेशमलकालुष्य- विगमाञ्चित्तौं श्रद्धामागम्यप्रसीदतीति चेतसः प्रसाद उच्यते । सा पुनश्छन्दसंनिश्रयदानकर्मिका। हीरात्मानं धर्म वाधिपति- कृत्वावधन लज्जा। सद्भिर्गस्तित्वादनिष्टविपाकत्वाच्च पापमेवा- वद्यम् । तेनावद्यन कृतेनाकृतेन वा या चित्तस्यावलीनता लज्जा सा ह्रीः। इयं च दुश्चरितसंयमसंनिश्रयदानकर्मिका। अप- त्राप्यं लोकमधिपतिं कृत्वावद्य न लज्जा । लोके ह्य तद्गर्हितं मां चैवंकर्माणं विदित्वा गहिष्यतीत्यश्लोकादिभयाद द्यन लज्जते । इदमपि दुश्चरितसंयमनसंनिश्रयदानकर्मकम् । अलोभो लोभप्रतिपक्षः। लोभोनाम भव भवोपकरणेषु च यासक्तिः प्रार्थना च। तत्प्रतिपक्षोऽलोभो भवे भवोपकरणेषु चानासक्ति वैमुख्यं च। अयं च दुश्चरिताप्रवृत्तिसंनिश्रयदानकर्मकः ।

एतच्च . ( ३३ ) अद्वषो द्वेषप्रतिपक्षो मैत्री । द्वेषो हि सत्वेषु दुःखे दुःखस्थानी येषु च धर्मेष्वाघातः। अद्वषो द्वेषप्रतिपक्षत्वात्सत्वेषु दुःखे दुःख- स्थानीयेषु च धर्मेष्वनाघातः । अयमपि दुश्चरिताप्रवृत्तिसंनिश्रय- दानकर्मकः । अमोहो मोहप्रतिपक्षः। अयथाभूतसप्रतिपत्तिर्मोहः । कर्मफलसत्यरत्नेष्वज्ञानम् । मोहप्रतिपक्षत्वादमोहस्तेष्वेव कर्मफल- सत्यरत्न षु संप्रतिपत्तिः । अयमपि दुश्चरिताप्रवृत्तिसंनिश्रयदान- कर्मकः। वीर्य कौशीद्यप्रतिपक्षः। कुशले चेतसोऽभ्युत्साहः । न तु क्लिष्टे । क्लिष्टे तूत्साहः कुत्सितत्वात्कौशीद्यमेव । कुशलपक्ष परिपूरणपरिनिश्रयकर्मकम् । प्रब्धिः दौष्ठुल्यप्रतिपक्षः कायचित्त कर्मण्यता। दौष्ठुल्य कायचित्तयोरकर्मण्यता सांक्ले- शिकधर्मबीजानि च। तदपगमे प्रश्रब्धिसद्भावात् । तत्र काय- कर्मण्यता कायस्य स्वकार्येषु लघुसमुत्थानता यतो भवति । चित्त- मनसिकारसंप्रयुक्तचित्तस्याह्लादलाघव निमित्तं यच्चैतंसिकं धर्मान्तरं तद्योगाञ्चित्तमालम्बने प्रवर्ततेऽतस्तञ्चित्त- कर्मण्यतेत्युच्यते । कायस्य पुनः स्प्रष्टव्यविशेष एव प्रीत्याहृते । कायप्रश्रब्धिर्वेदितव्या । प्रीतमनसः कायः प्रश्रभ्यतइति सूत्रे वचनात् । इयं तद्वशेनाश्रयपरावृत्तितोऽशेषक्लेशावरण निष्कर्षण- कर्मिका । साप्रमादिका सहाप्रमादेन वर्तत इति साप्रमादिका। का पुनरसौ। उपेक्षा । कुत एतत् । एकान्तकुशलत्वात् सर्व- कुशलानां चेह निर्देशाधिकाराछद्धादिवत् साक्षादनिर्देशात् तद्- व्यतिरिक्तान्यकुशलाभावाञ्च उपेक्षैव विज्ञायते। तत्राप्रमादः प्रमाद प्रतिपक्षः। अलोभाद्यावद्वीर्यमप्रमादः। यानलोभादीभि- श्रित्याकुशलान्धर्मान्प्रजहाति तत्प्रतिपक्षांश्च कुशलान्धर्मान्भावयति तेऽलोभादयोऽप्रमादः। अतएव प्रमादप्रतिपक्षः प्रमादस्यातो विपरीतत्वात् । स पुनः लौकिकलोकोत्तरसम्पत्तिपरिपूरण- कर्मण्यता सम्यङ् ( ३४ ) कर्मकः। उपेक्षा चित्तसमता चित्तप्रशठता चित्तानाभोगता। एभित्रिभिः पदैरुपेक्षा या आदिमध्यावसानावस्था द्योतिता। तत्र लय औद्धत्यं वा चेतसो वैषम्यम् । तस्याभावादादौ चित्त- समता। ततोऽनभिसंस्कारेणाप्रयत्नेन समाहितचेतसो यथा: भियोगं समस्यैव या प्रवृत्तिः सा चित्तप्रशठता। सा पुनरवस्था लयौद्धत्यशंकानुगताचिरभावित्वात् । ततो भावनाप्रकर्षगमना- त्तद्विपक्षदूरीभावात्तच्छ काभावे लयौद्धत्यप्रतिपक्षनिमित्तेष्वाभो- गमकुर्वताऽनाभोगावस्था चित्तस्यानाभोगता । इयं च सर्वक्लेशो- पक्लेशानवकाशसंनिश्रयदानकर्मिका। अविहिंसा विहिंसा प्रति- पक्षः। वधबन्धनादिभिः सत्वानामविहेठनमविहिंसा सत्वेषु करुणा। कं रुणद्धीति करुणा । कमिति सुखस्याख्या सुखं रुणद्धीत्यर्थ । कारुणिको हि परदुःखदुखी भवतीति। इयं चाविहेठनकर्मिका। उक्ता एकादश कुशलास्तदनन्तरोद्दिष्टास्तु क्लेशा इत्यतस्तानधिकृत्याह । क्लेशा रागप्रतिघमूढयः ॥११॥ मानग्विचिकित्साश्च इति रागश्च प्रतिघश्च मूढिश्च रागप्रतिघमूढयः । तत्र रागो भवभोगयोरध्यवसानं प्रार्थना च। स पुनदुःख संयोजन- कर्मकः । दुःखमत्रोपादानस्कन्धास्तेषां कामरूपारूप्यतृष्णवशादभि- निर्वृत्तिः । अतो रागस्य दुःखसंयोजनं कर्म निर्दिश्यते । प्रतिघः सत्वेष्वाघातः सत्वेषु रूक्षचित्तता येनाविष्टः सत्वानां वधबन्ध- नादिकमनर्थ चिन्तयति । स पुनरस्पर्शविहारदुश्चरितसंनिश्रय- दानकर्मकः । स्पर्शः सुखं तेन सहितो. विहारः स्पर्शविहारः न स्पर्शविहारोऽस्पर्शविहारः दुःखसहित इत्यर्थः । आघात. - चित्तस्यावश्यं दौर्मनस्यसमुदाचाराञ्चित्तं तप्यते । चित्तानुविधानाच्च कायोऽपि तप्यत एवंति सर्यापथेषु सदुःखसविघातोऽस्पर्श- विहारोभवति । प्रतिहतचित्तस्य च न किंचिद्दुश्चरितं विदूर इति प्रतिघोऽस्पर्श वेहारदुश्चरितसंनिश्रयदानकर्मक उक्तः । मोहोऽपायेषु सुगतौ निर्वाणे तत्प्रतिष्ठापकेषु हेतुषु तेषां चाविपरीते हेतुफलसम्बन्धे यदज्ञानम् । अयं च संक्लेशोत्पत्तिसनिश्रयदान कमकः । तत्र क्लेशकर्मजन्मात्मकस्त्रिविधः संक्लेशः। तस्यो- त्पत्तिः पूर्वपूर्वसंक्लेशनिमित्त उत्तरोत्तरस्य सक्लेशस्यात्मलाभः । उत्पत्तेः संनिश्रयदानकर्म । मूढस्यैव हि मिथ्याज्ञानसंशयरागादि- क्लेशपोनर्भविककर्मजन्मनां प्रवृते मूढस्येति । मानः। मानो हि नाम सर्व एव सत्कायदृष्टिसमाश्रयेण प्रवर्तते। स पुनश्चित्तस्योन्नतिलक्षणः। तथा ह्यात्मात्मीयभावं स्कन्धेष्वध्यारोप्यायमहमिदं ममेत्यात्मानं तेन तेन विशे- षेणोन्नमयति अन्येभ्योऽधिकं मन्यते । स चागौरवदुःखो- त्पत्तिसंनिश्रयदानकर्मकः । अगौरवं गुरुषु गुणवत्सु च पुद्गलेषु स्तब्धता कायवाचोरप्रशृतता दुःखोत्पत्तिः पुन- रत्र पुनर्भवोत्पत्तिः। च पुनश्चित्तोन्नतिस्वरूपाभेदेऽपि चित्तोन्नतिनिमित्तभेदात्सप्तधा भिद्यते । मानोऽतिमान इत्येवमादि । हीनात्कुलविज्ञानवित्तदिभिः श्रेयानस्मि कुलविज्ञानवित्तादि चित्तस्योन्नतिः सदृशेन वा कुलादिभिरेव सदृशोऽस्मीति या चित्तस्योन्नतिः स मानः भिरिति या 'अतिमानः। कुलविज्ञानवित्तादिभिः सहशात्त्यागशील- पौरुषादिभिः श्रेयानस्मि श्रेयसा वा कुलविद्यादिभिः सदृशोऽस्मि विज्ञानवित्तादिभिरित्ययतिमानः । श्रेयसः कुलविज्ञानविरह- ।

मानः। ( ३६ ) मेव श्रेयान्कुल विज्ञानवित्तैरिति या चित्तस्योन्नतिरयं मानाति- अस्मिमानः । पञ्चसूपादानस्कन्धेष्वात्मात्मीयरहितेष्वा- स्मात्मीयाभिनिवेशाचा चित्तस्योन्नतिः सोऽस्मिमानः। अभि- मानः । अप्राप्त उत्तरे विशेषाधिगमे प्राप्तो मयेति या चित्तस्योन्नतिः सोऽभिमानः । उनमानः । बह्वन्तरविशिष्टात्कुलविद्यादिभिरल्यान्तर- हीनोऽस्मि कुलविद्यादिभिरिति या चित्तस्योन्नतिरयमूनमानः । मिथ्यामानः । अगुणवतो गुणवानस्मीति या चित्तस्योन्नतिः स मिथ्यामानः अगुणा हि दौःशाल्यादयस्ते यस्य विद्यन्ते सोऽ- गुणवान् । तस्माद्गुण नस्मीत्यनेन हि दानशीलायभावेऽपि गुणवत्त्वमभ्युपगतं भवतीत्यतो निर्वस्तुकत्वान्मिथ्यामान इत्यु- च्यते । हगिति सामान्यनिर्देशेऽपि क्लेशाधिकारात्पञ्चैव क्लेशा- मिकाः सत्कायदृष्टयादिकाः दृष्ट्यः संबध्यन्ते । न लौकिकी सम्यग्दृष्टिरनास्रवा। आसां तु क्लिष्टनितीरणाकारत्वादविशेषे- ऽप्यालम्बनाकारभेदात्परस्परतो भेदः । तत्र सत्कायदृष्टियत्पश्चसू- पादानस्कन्वेष्वात्मात्मीयदर्शनम्। अन्तग्राहदृष्टस्तेष्वेव पञ्चसू. पादानस्कन्धेष्वात्मात्मीयत्वेन गृहीतेषु यदुच्छेदतः शाश्वततो वा दर्शनम्। मिथ्यादृष्टिः । यया मिथ्यादृष्ट्या हेतुं वापवदति फलं क्रियां वा सद्वा वस्तु नाशयति । सा सर्वदर्शनपापत्वान्मिथ्यादृष्टि- रित्युच्यते । दृष्टि परामर्शः। पञ्चसूपादानस्कन्धेष्वग्रतो विशि- ष्टतः श्रेष्ठतः परमतश्च यदर्शनम् । शीलव्रतपरामर्शः । पञ्चपादान- स्कन्धेषु शुद्धितो मुक्तितो नैर्याणिकतश्च यदर्शनम् । विचिकित्सा। कर्मफलसत्यरत्नेषु विमतिः। विविधा मतिर्विमतिः । स्यान्न स्यादिति । प्रज्ञातश्चेयं जात्यन्तरमेवोक्ता। उक्ताः दनन्तरोदिष्टास्त्रिदानीमुपक्जेशा वक्तव्या इत्यत षटक्लेशास्त- आह- - क्रोधोपनहने पुनः।

( ३७ ) प्रक्षः प्रदाश ईयाथ मात्सर्य सह मायया ॥१२॥ शाठ्यं मदो विहिंसा अहीरत्रपा स्त्यानमुद्धवः । अश्रिद्ध यमथ कौशीय प्रमादो मुषितास्मृतिः ॥१३॥ विक्षेपोऽसंप्रजन्यं च कोकृत्यं मिद्धमेव च । वितर्कश्च विचारश्चेत्युपक्लेशा द्वये द्विधा ॥१४॥ तत्र कोधो वर्तमानमपकारमागम्य यश्चेतस आघातः । अयं चाघातस्वरूपत्वात्प्रतिघान्न भिद्यते। किन्त्वस्य प्रतिघस्यावस्था विशेषे प्रज्ञप्तत्वात्प्रतिघांशिकः। वर्तमानमपकारमागम्य यश्चेतस आघातः सत्त्वासत्वविषयो दण्डदानादिसंनिश्रयदानकर्मकश्च स क्रोध इति प्रज्ञप्यते । उपनाहो वैगनुबन्धः । क्रोधादूचं ममानेनेद- मपकृतमित्यस्य वैरात्मकस्यानुशयस्यानुत्सर्गः प्रबन्धेन प्रवर्तन- मुपनाह : । अयं चाक्षान्तिसंनिश्रयदानकर्मकः । अक्षान्तिरपकारा. मर्षणं प्रत्यपकारचिकीर्षा च । अयमपि क्रोधवत्प्रद्वेषावस्था- विशेषे प्रज्ञप्यते । अतः प्रज्ञप्तिसन्नेव वेदितव्यः। म्रन आत्म- नोऽवद्यप्रच्छादना छन्दद्वेषभयादीनिराकृत्य काले तद्धितैषिणा चोदकेन तत् त्वमेवंकारीत्यनुयुक्तस्य मोहांशिक्यवद्यप्रच्छादना म्रक्षः। मोहांशिकत्वंतु म्रक्षस्य प्रच्छादनाकारत्वात् । अयं च कौकृत्यास्पर्शसंनिश्रयदानकर्मकः। धर्मतैषा यदवयं प्रच्छादयतः कौकृत्यमुत्पद्यते । कौकृत्याचावश्यं च दौर्मनस्येन संप्रयोगादस्पर्श विहार इति । प्रदाशश्चण्डवचोदाशिता । चण्डं वचः प्रगाढं पारुष्यं मर्मघट्टनयोगेन । दशनशीलो दाशी तद्भावो दाशिता । अयं च भावप्रत्ययः स्वार्थिकः। चण्डेन वचसा प्रदशवोति ( ३८ ) लाभसत्का- चण्डवचोदाशिता । अयं च क्रोधोपनाहपूर्वकश्चेतस आघात- स्वभाव इति प्रतिघांशिक एव न द्रव्यतो भिद्यते। अयं च वाग्दुश्चरितप्रसवकर्मकः । अस्पर्शविहारकर्मकश्च । तद्वतः पुद्गलस्य दुःखसंवासत्वात् । ईर्ष्या। परसंपत्तो चेतसो व्यारोषो राध्यवसितस्य लाभसत्कारकुलशीलश्रु तादीन्गुणविशेषान् परस्योपलभ्य द्वेषांशिकोऽमर्षकृतश्चेतसो व्यारोष ईर्ष्या । स्वमाश्रयं व्याप्य रोषो व्यारोषः। दौर्मनस्यसंप्रयोगात्तत्पूर्वकश्चा- स्पर्शविहार इति दौर्मनस्यास्पर्शविहारकर्मिकोच्यते ।. मात्सय दानविरोधी चेतस आग्रहः । उपात्त वस्तु धर्मामिषकौशलात्मकम् येन पूजानुग्रहकाम्ययार्थिनेऽनर्थिने वा दीयते तद् दानम् । तस्मिन्सति दानाभावात्तद्विरोधीत्युच्यते । लाभसकाराध्यसितस्य जीवितोपकरणेषु रागांशिकवे तस आग्रहोऽपरित्यागेच्छा मात्सर्यम् । इदं चासंलेखसंनिश्रयदानकर्मकम् । असंलेखः पुनर्मा- सर्येणानुपयुज्यमानानामप्युपकरणानां संचयावदितव्यः । माया परवञ्चना याभूतार्थसंदर्शनता । लाभसत्काराध्यवसितस्य परवञ्च- नाभिप्रायेणान्यथावस्थितस्य शीलादेरर्थस्यान्यथा प्रकाशना । इयौं च सहिताभ्यां रागमोहाभ्यामभूतान्गुणान्प्रकाशयतस्तयोः समुदितयोः प्रज्ञप्यत इति क्रोधादिवप्रज्ञप्तित एव न द्रव्यत इति मिथ्याजीवसंनिश्रयदानकर्मिका । शाठ्य स्वदोषप्रच्छादनोपाय- संगृहीतं चेतसः कौटिल्यम् । स्वदोषप्रच्छादनोपायः परव्यामोहनम् । तत्पुनरन्येनान्यत्प्रतिसरन्विक्षिपति । अपरिस्फुटं वा प्रतिपद्यते । अत एव शाव्यं म्रक्षाद्भिद्यते । स हि स्फुटमेव प्रच्छादयति न काका । इदमपि लामसत्काराध्यवसितोपायाभ्यां रागमोहाभ्यां स्वदोषप्रच्छादनार्थ परव्यामोहनाय प्रवर्तते । तयोरेव सहितयोः (३६ ) प्रज्ञप्यते । इदं च सम्यगववादलाभपरिपन्थिकर्मकम् । सम्यगव- वादस्य यो लाभो योनिशोमनसिकारस्तस्यान्तरायं करोति । मदः स्वसंपत्तौ रक्तस्योद्धर्षश्चेतसः पर्यादानम् ।कुलारोग्ययौवनबलरूपैश्वर्य बुद्धिमेधाप्रकर्षः स्वसंपत्तिः । उद्धर्षो हर्षविशेषः । येन हर्षविशेषण चित्तमस्वतन्त्रीक्रियते तेन तदात्मतन्त्रीकरणात्पत्ति भवतीत्ये- तदुक्तं चेतसः पर्यादानमिति । अयं च सर्वक्लेशोपक्लेशसंनि- श्रयदानकर्मकः। विहिंसा सत्वविहेठना। विविधैर्वधबन्धनताड- नतर्जनादिभिः सत्वानां हिंसा विहिंसा । विहेठ्यन्तेऽनया सत्वा- वधबन्धनादिभिदु:खदौर्मनस्योत्पादनादिति सर्वसत्वविहेठना । सा पुनः प्रतिघांशिकी निघृणता सत्वेषु चित्तरूक्षता सत्वविहे- ठनकर्मिका विहिंसेत्युच्यते । आह्रीक्य स्वयमवद्येनालज्जा । तस्मि- कर्मण्यात्मानमयोग्यं मन्यमानस्यापि यावधनालज्जा साह्रीक्यं होविपक्षभूतम् । अनपत्राप्यम् । परतोऽवद्यनालज्जा । लोकशास्त्र- विरुद्ध मेतन्मया क्रियत इत्येवमवगच्छतोऽपि या तया पापक्रियया लजा सापत्राप्यविपक्षभूतमनपत्राप्यम् । एतच्च द्वयमपि सर्वक्लेशोप- क्लेशसाहाय्यकर्मकम् । रागद्वेषमोहप्रकारेषु सर्वासकार्यप्रभवहेतुषु रागद्वेषयोरयोगपद्याद्यथासंभवं प्रज्ञप्यते न तु स्वतन्त्रमस्ति । स्त्यानं चित्तस्याकर्मण्यता स्तमित्यम् । स्तिमितस्य भावः स्तमित्यं यद्योगाञ्चित्तं जडीभवति स्तिमितं भवति नालम्बनं प्रति- पत्तु समुत्सहते । एतच्च सर्वक्लेशोपक्लेशसाहाय्यदानकर्मकम् । मोहांशे प्रज्ञप्तत्वाच मोहांशिकमेव न पृथग्विद्यते । औद्धत्यं चित्त- स्यान्युपशमः । व्युपशमो हि शमथस्तद्विरुद्धोऽव्युपशम । स पुनरेष रागानुकलपूर्वहसितरसितक्रीडिताद्यनुस्मरतश्चेतसो ऽव्युपशम- हेतुः शमथपरिपन्थकर्मकः। आश्रद्धं कर्मफलसत्यरत्नेष्वनभि- संप्रत्ययः श्रद्धाविपक्षः। श्रद्धा ह्यस्तित्वगुणवत्वशक्यत्वेष्वभिः ( ४० ) संप्रत्ययः प्रसादोऽभिलाषश्च यथाक्रमम् । अश्रद्धा तद्विपर्ययेणास्ति- स्वगुण वत्वशक्यलोवनभिसंप्रत्ययो ऽप्रसादो ऽनभिलाषश्च । कौसीद्यसंनिश्रयदानकर्मकम् । अश्रद्दधानस्य कुशल प्रयोगच्छन्दा- भाव कोसीद्यसंनिश्रयदानकर्मकत्वम् कौसीद्य कुशले चेतसोऽनभ्यु- साहो वीर्यविपक्षः । कुशले कायवाङ्मनःकर्मणि निद्रापार्श्वशयन- सुखमागम्य यो मोहांशिकश्चेतसोऽनभ्युत्साहः। एतच्च कुशल- पक्षप्रयोगपरिपन्थिकर्मकम् । प्रमादो यर्लोभट्ठषमोहकौसीद्यः क्लेशाद्रागद्वेषमोहादिकाञ्चित्त न रक्षति कुशलं च तत्प्रतिपक्ष- भूतं न भावयति । तेषु लोभद्वेषमोहकौसीधेषु प्रमादः प्रज्ञप्यते । अयं चाकुशलवृद्धिकुशलपरिहाणिसंनिश्रयदानकर्मकः। मुषिता स्मृतिः क्लिष्टा स्मृतिः। क्लिष्टेति क्लेशसंप्रयुक्ता। इयं च विक्षेपसंनिश्रयदानकर्मिका। विक्षेपो रागद्वषमोहांशिकश्चेतसो विसारः। विविधं क्षिप्यतेऽनेन चित्तमिति विक्षेपः । यै राग. द्वषमोहैश्चित्त समाध्यालम्बनावहिः क्षिप्यते तेषु यथासंभवं विक्षेपः प्रज्ञप्यते। एष च वैराग्यपरिपन्यिकर्मकः । असं- प्रजन्यं क्लेशसंप्रयुक्ता प्रज्ञा। ययासंविदिता कायवाञ्चित्तचर्या अतिक्रमप्रक्रमादिषु वर्तते करणीयाकरणीयाज्ञान त् । एतच्चाप. त्तिसनिश्रयदानकर्मकम् । कौकृत्यं चेतसो विप्रतिसारः। कुत्सितं कृतमिति कुकृतम् । तद्भावः कोकृत्यम् । इह तु कुकृतविषय- श्चेतसो विलेख: फौकृत्यं चैतसिकाधिकारात् । एतच्च चित्त- स्थितिपरिपन्थिकर्मकम् । मिद्धमस्वतन्त्रवृत्तिचेतसोऽभिसंक्षेपः । वृत्तिरालम्बने प्रवृत्तिः। सास्वतन्त्रा चेतसो यतो भवति तद्धिम् । कायचित्तसंधारणासमर्था वा वृत्तिश्चेतसोऽस्वतन्त्रता सा यतो भवति तन्मिद्धम्। अभिसंक्षेपश्चेतसश्चक्षुरादीन्द्रिय- द्वारेणाप्रवृत्तिः। एतच्च मोहांशे प्रज्ञपनान्मोहांशिकं कृत्याति- पत्तिसंनिश्रयदानकर्मकं च । वितर्कः पर्णेषको मनोजल्पः ( ४१ ) प्रज्ञाचेतनाविशेषः। पर्येषकः किमेतदिति निरूपणकारप्रवृत्तः । मनसो जल्पो मनोजल्पः। जल्प इव जल्पः। जल्पोऽर्थकथनम् । चेतनाप्रज्ञाविशेष इति । चेतनायाश्चित्तपरिस्पन्दात्मकत्वात् । प्रज्ञायाश्च गुणदोषविवेकाकारत्वात्तद्वशेन चित्तप्रवृत्तेः। कदाचिच्चित्तचेतनयो- वितर्कप्रप्तिः । कदाचित्प्रज्ञाचेतसोर्यथाक्रममनभ्यूहाभ्यूहावस्थयोः । अथ वा चेतनाप्रज्ञयोरेव वितर्कप्रज्ञप्तिस्तद्वशेन चित्तस्य तथाप्रवृत्तत्वात् । स एव चित्तस्यौदारिकता। औदारिकतेति स्थूलता वस्तुमान् पर्थेषणा- कारत्वात्। एष च नयो विचारेऽपि द्रष्टव्यः। विचारोऽपि हि चेतनाप्रज्ञाविशेषात्मकः। प्रत्यवेक्षको मनोजल्प एव । इदं तदिति पूर्वाधिगतनिरूपणात्। अत एव च चित्तसूक्ष्मतेत्युच्यते । एतौ च स्पर्शास्पर्शविहारसंनिश्रयदानकर्मको । अनयोश्चौदारिकसू- मतया व्यवस्थापनात्पृथक्करणम् । द्वयं द्विधेति । द्वयं च द्वयं च द्वये । ते पुनः कौकृत्यमिद्धे वितविचारौ च । एते च चत्वारो धर्मा हिधा क्लिष्टा अलिष्टाश्च । तत्राकुशलमकृत्वा कुशलं च कृत्वा यश्चेतसो विलेखस्तत्सलिष्टं कौकृत्यम् । यत्कुशलमकृत्वा तत्कौकृत्यमक्लिष्टम् । मिद्धमपि क्लिष्टचित्ताविद्ध क्लिष्टचित्तसंप्रयुक्त च क्लिष्टम् । अलिष्ट- चित्ताविडमलिष्टचित्तसंप्रयुक्त चाक्लिष्टम् । कामव्यापादविहिंसा- दिविताः लिष्टाः । नैष्क्रम्यादिवितर्का अक्लिष्टाः। एवं परोपघातो- पायविचारः क्लिष्टः। परानुग्रहोपायविचारोऽक्लिष्टः। तत्र ये कौकृत्य- मिद्धवितर्कविचाराः क्लिष्टाः त एवोपक्लेशा नेतरे। तत्र यथा रूपशब्दाधु पलब्धिः षट्प्रकारा यथासंभवं सर्वेश्चैतसिकैः संप्रयुज्यते सर्वत्रगैविनियतैः कुशलैः क्लेशैरुपक्लेशैश्च एवं त्रिवेदना तिसृभिश्च वेदनाभिः संप्रयुज्यते सुखया दुःखया अदुःखासुखया च सौमनस्य दौर्मनस्योपेक्षास्थानीयेषु रूपादिषु तदुत्पत्तेः। कुशला अकुशला अव्याकृता च । आलयविज्ञानं तु सर्वत्रगैः पञ्चभिरेव संप्रयुज्यते ( ४२ ) नान्यैन्तत्र चोपेक्षत्र वेदना अनिवृताव्याकृतं च । क्लिष्टं मनः सर्वत्रगैः पञ्चभिश्चतुर्भिश्च क्लेशैरात्ममोहादिमिः तत्रोपेव वेदना निवृताव्याकृतं चेति । इमिदानी चिन्त्यते। किं पंचानां चतुर्विज्ञानादीनां युगपदा- लम्बनप्रत्ययसांनिध्येऽप्यालयविज्ञानादेकत्वोपात्तर्भवति न द्वयोर्न बहूनां वा । यथैके मन्यन्ते । न द्वयोर्न बहूनां वा युगपत्समनन्तर- प्रत्ययाभावादेकस्यैव विज्ञानस्योत्पत्तिर्भवति। न चैकं विज्ञानं बहूनां समनन्तरप्रत्ययत्वं प्रतिपत्तुमुत्सहते उतानियमेन । यद्य कस्यैव प्रत्ययसांनिध्यमेकनेवात्पद्यते एवं द्वयोर्बहूनां च प्रत्ययसांनिध्ये उत्पत्तिर्भवतीत्यत आह। पञ्चानां मूलविज्ञाने यथाप्रत्ययमुद्भवः । विज्ञानानां सह न वा तरङ्गाणां यथा जले ॥१॥ पंचानामिति चक्षुरादिविज्ञानानां तदनुचरमनोविज्ञानसहितानाम् । पंचानां चक्षुरादिविज्ञानानां बीजाश्रयत्वात्तत उत्पत्तेर्गतिषु जन्मोपा दानाच्चालयविज्ञानं मूलविज्ञानमित्युच्यते । यथाप्रत्ययमुद्भव इति यस्य यस्य यः प्रत्ययः संनिहितस्तस्य तस्य नियमेनोद्भव आत्मलाभः । सह न वेति युगपत्क्रमेण वा । तरङ्गाणां यथा जल इति । आलय- विज्ञानात्प्रवृत्तिविज्ञानानां युगपदयुगपचचोत्पत्तौ दृष्टान्तः। यथोक्तम् । तद्यथा विशालमते [सन्धिनिर्मोचनसूत्रे ५.५] महत उदकौघस्य वहतः सचेदेकस्य तरङ्गस्योत्पत्तिप्रत्ययः प्रत्युपस्थितो भवत्येकमेव तरङ्गं प्रवर्तते। सचेवयोस्त्रयाण संबहुलानां तरङ्गाणामुत्पत्तिप्रत्ययः प्रत्युपस्थितो भवति। यावत्संबहुलानि तरङ्गाणि प्रवर्तन्ते। न च तस्योदकौघस्य स्रोतसा वहतः समुच्छित्तिर्भवति न पर्युपयोगः प्रज्ञायते । एवमेव विशालमते तदोषस्थानीयमालयविज्ञानं संनिश्रित्य ( ४३ ) प्रतिष्ठाय सचेदेकस्य विज्ञानस्योत्पत्तिप्रत्ययः प्रत्युपस्थितो भवति एक एवमेव चक्षुर्विज्ञानं प्रवर्तते । सचेदद्वयोस्त्रयाणां सचेत् यावत् पञ्चानां विज्ञानानामुत्पत्तिप्रत्ययः प्रत्युपस्थितो भवति सकृद्यावत्पञ्चानां प्रवृत्तिर्भवति । अत्र गाथा आदानविज्ञानगभीरसूक्ष्मो ओघो यथा वर्तति सर्वबीजो। बाला न एषो मयि न प्रकाश मोहैव आत्मा परिकल्पयेयु ॥ इति । न हि विज्ञानप्रतिनियमेनालम्बनप्रत्ययवत्समनन्तर- प्रत्यय इष्यते सर्वविज्ञानोत्पत्तौ सर्वस्य विज्ञानस्य तत्समनन्तर- प्रत्ययत्वाभ्युपगमात् । अत एकस्मादपि समनन्तरप्रत्ययादालम्ब- नप्रत्ययसांनिध्ये द्वयोर्बहूनां च विज्ञानानामुत्पत्तिर्न निरुध्यते । किं चात्र कारणं यत्समनन्तरप्रत्ययप्रतिनियमाभावे पञ्चानां च युगपदालम्बनप्रत्ययसांनिध्ये एकेनैवोत्पत्तव्यं न पञ्चभिरपीति । तस्मादालम्वनसद्भावे पञ्चानामपि चोत्पत्तिरित्यभ्युपेयम् । इदमिदानी वक्तव्यम् । किं मनोविज्ञानं चक्षुरादिविज्ञानैः सह प्रवर्तते विना वा उत नैवेत्यत आह- मनोविज्ञानसंभूतिः सर्वदासंज्ञिकादृते । समापचिद्वयान्मिद्धान्मर्छनादप्यचित्तकात् ॥१६॥ इति । सर्वदेति सर्वकालं चक्षुरादिविज्ञानैः सह विना वेत्यर्थः । अस्योत्सर्गस्यापवादमारभते आसंज्ञिकाहते समापत्तिद्वयान्मि- द्धान्मूर्च्छनादप्यचित्तकाद् इति । तत्रासंज्ञिकमसंज्ञिसत्वेषु देवे- धूपपन्नस्य यश्चित्तचैतसिकानां धर्माणां निरोधः। समापत्तिद्वय- मसंज्ञिसमापत्तिनिरोधसमापत्तिश्च । तत्रासंज्ञिसभापत्तिस्तृतीय- ध्यानाद्वीतरागस्य नोर्वमवीतरागस्य निःसरणसंज्ञापूर्वकेण मनसिकारेण मनोविज्ञानस्य तत्सप्रयुक्तानां च दैत्तानो यो निरोधः ( ४४ ) सोऽत्रासंज्ञिसमापत्तिरित्युच्यते । निरुध्यतेऽनेनेति निरोधः । स पुनः ससंप्रयोगस्य मनोविज्ञानस्य समुदाचारनिरोध आश्रय- स्यावस्थाविशेषः। स च समापत्तिचित्तादनन्तरं चित्तान्तरोत्पत्ति- विरुद्ध आश्रयः प्राप्यत इति समापत्तिरित्युच्यते । निरोधसमा- पत्तिगकिंचन्यायतनवीतरागस्य शान्तविहारसंज्ञापूर्वकेण मनसिकारेण ससंप्रयोगस्य मनोविज्ञानस्य क्लिष्टस्य च मनसो यो निरोधः । इयमप्यसंज्ञिसमापत्तिवदाश्रयस्यावस्थाविशेषे प्रज्ञप्यते । अचित्तकं मिद्ध गाढमिद्धोपहतत्वादाश्रयस्य तावत्कालं मनोविज्ञानाप्रवृत्त रचित्तकमित्युच्यते । अचित्तिका मूर्छा । आगन्तुनाभिघातेन वातपित्तश्लेष्म वैषम्येण वा यदाश्रयवैषम्य मनोविज्ञानप्रवृत्तिविरुद्धम् । तत्राचित्तिका मूर्यौपचर्यते । एताः पञ्चावस्था वर्जयित्वा तदन्यासु सर्वास्ववस्थासु मनोविज्ञान- प्रवृत्तिर्वेदितव्या। एवमासंज्ञिकादिषु मनोविज्ञाने निरुद्ध तद- पगमे पुनः कुत उत्पद्यते यत्तस्य कालक्रिया न भवति । तत्पुनरा- लयविज्ञानादेवोत्पद्यते । तद्धि सर्वविज्ञानबीजकमिति । यत्र विज्ञानपरिणामे आत्मधर्मोपचारः स पुनखिधेत्युद्दिश्य विस्त- रेण त्रिविधोऽपि निर्दिष्टः । इदानीमात्मधर्मोपचारो यः प्रज्ञप्यते स विज्ञानपरिणाम एव न विज्ञानपरिणामात्स . पृथगस्त्यात्मा धर्मा वेति यत्प्रति- ज्ञातं तत्प्रसाधनार्थमाह । विज्ञानपरिणामोऽयं विकल्पो यद्विकल्प्यते । तेन तन्नास्ति तेनेदं सर्व विज्ञप्तिमात्रकम् ॥ १७ ॥ इति योऽयं विज्ञानपरिणामत्रिविधोऽनन्त वरमभिहितः सो- ऽयं विकल्पः । अध्यारोपितार्थाकाराः धातुकाश्चित्तचैत्ता विकल्प उच्यते । यथोक्तम्- ( ४५ ) . अभूतपरिकल्पस्तु चित्तचैत्ता स्त्रिधातुकाः इति । तेन त्रिविधेन विकल्पेनालय विज्ञानक्लिष्टमनःप्रवृत्ति- विज्ञानस्वभावेन ससंप्रयोगेण यद्विकल्प्यते भाजनमात्मा स्कन्ध. धात्वायतनरूपशब्दादिकं वस्तु तन्नास्तीत्यतः स विज्ञानपरि- णामो विकल्प उच्यते असदालम्बनत्वात् । कथं पुनरेतविज्ञायते तदालम्बनं असदिति। यद्धि यस्य कारणं तस्मिन्समग्रे चावि. रुद्ध च तदुत्पद्यते नान्यतः । विज्ञानं च मायागन्धर्वनगरस्वप्न- तिमिरादावसत्यालम्बने जायते । यदि च विज्ञानस्यालम्बन प्रतिबद्ध उत्पादः स्यात् एवं सति मायादिष्वर्थाभावान्न विज्ञा. नमुत्पद्यते । तस्मात् पूर्वकान्निरुद्धात् तज्जातीयविज्ञानाद् विज्ञा- नमुत्पद्यते न बाह्यादर्थात् तस्मिन्नसत्यपि भावात् । दृष्टा चाभि- न्नेऽप्यर्थे प्रतिपत्तॄणां परस्परविरुद्धा प्रतिपत्तिः। न चैकस्य परस्प विरुद्धानेकात्मकत्वं युज्यते । तस्मात् अध्यारोपितरूपत्वाद् विकल्पस्यालम्बनं असदिति प्रतिपत्तव्यम् । अनेन तावत् समारोपान्तं परिहत्यापवादान्तपरिजिहीर्षया आह- तेनेदं सर्व विज्ञप्तिमात्रकम् इति । तेनेति तस्मात् । यस्मात् परिणामान्मकेन विकल्पे न यद्विकल्प्यते तेन तन्नास्ति, तस्माद् विषयाभावात् सर्व विज्ञप्ति- मात्रकम् । सर्वमिति त्रैधातुकमसंस्कृतं च मात्रशब्दस्तदधिक- विषयव्यवच्छेदार्थः । ककारः पादपूरणार्थः। यदि सर्व विज्ञप्ति- मात्रकमेव न ततोऽन्यः कर्ता करणं वास्ति । कथं मूलविज्ञानाद् अनधिष्ठिताद् असति करणे विकल्पाः प्रवर्तन्त इत्याह- (४६ ) सर्वबीजं हि विज्ञानं परिणामस्तथा तथा । यात्यन्योन्यवशाद् येन विकल्पः स स जायते ॥१८॥ तत्र सर्वधर्मोत्पादिनशक्त्यनुगमात् सर्वबीजम् । विज्ञानमित्या. लयविज्ञानम् । विज्ञानं ह्यसर्वबीजादप्यस्तीति । अतः सर्वबीज- मित्याह । विज्ञानाद् अन्यदपि कैश्चित् प्रधानादि सर्वबीजं कल्प्यत इति विज्ञानमित्याह । अथ वा एकपदव्यभिचारेऽपि विशेषणविशेष्यत्वदर्शनान्नाय दोषः। परिणामस्तथा तथा यात्यन्योन्यवशादिति । पूर्वावस्थातोऽन्यथाभावः परिणामः । तथा तथेति तस्य तस्य विकल्पस्यानन्तरोत्पादनसमर्थावस्था प्राप्नोतीत्यर्थः। अन्योन्यवशादिति तथा हि चक्षुरादिविज्ञानं स्वशक्तिपरिपोषे वर्तमाने शक्तिविशिष्टस्यालयविज्ञानपरिणामस्य निमित्त सोऽपि प्रालयविज्ञानपरिणामः चक्षुरादिविज्ञानस्य निमित्त' भवति । एवमन्योन्यवशाद् यस्मादुभयं प्रवर्तते तस्मादालयविज्ञानाद् अन्येनानधिष्ठिताद् अनेक प्रकारो विकल्पः स स जायते । तत्र च वर्तमाने जन्मनि यथालयविज्ञानात प्रवृत्तिविज्ञानस्योत्पत्तिर्भवति तथा ख्यातम् । इदानीं विज्ञप्तिमात्रे अनागतं जन्म वर्तमानजन्मनिरोधे सति यथा प्रतिसंधीयते तत् प्रदर्शयन्नाह- कर्मणो वासना ग्राहद्वयवासनया सह । क्षीणे पूर्वविपाकेऽन्यद्विपाकं जनयन्ति तत् ॥१६॥ इति । पुण्यापुण्यानेञ्जचेतना कर्म । तेन कर्मणा यदनागता- त्मभावाभिनिवृत्तये आलयविज्ञाने सामर्थ्यमाहितं सा कर्म- वासना । ग्राहद्वयम् । ग्राह्यग्राहो ग्राहकग्राहश्च । तत्र विज्ञानात्पृथ- - गेव स्वसंतानाध्यासितं ग्राह्यमस्तीत्यध्यवसायो ग्राह्यग्राहः। तच्च विज्ञानेन प्रतीयते विज्ञायते गृह्यत इति योऽयं निश्चयः स ग्राहक ग्राहः। पूर्वोत्पन्नग्राह्यग्राहकग्राहाक्षिप्तमनागततज्जातीयग्राह्यग्राहक- ग्राहोत्पत्तिबीजं ग्राहद्वयवासना। तत्र कर्मवासनाभेदाद् गति- भेदेनात्मभावभेदः बीजभेदादंकरभेदवत् । ग्राहद्वयवासनायास्तु सर्वकर्मवासनानां यथास्वं आक्षिप्तात्मभावोत्पादने प्रवृत्तानां सहकारित्वं प्रतिपद्यते । तद्यथा अवादयोऽङ्करस्योत्पत्ताविति । एवं च न केवलाः कर्मवासना ग्राहद्वयवासनानुगृहीता विपाकं जनयन्तीत्युक्त भवति । अत एवाह-ग्राहद्वयवासनया सहेति । क्षीणे पूर्वविपाकेऽन्यद्विपाकं जनयन्ति तदिति । पूर्वजन्मोपचि. तेन कर्मणा य इह विपाकोऽभिनिवृत्तस्तस्मिन् क्षीणे इति आक्षेप- काले पर्यन्तावस्थिते यथाबलं कर्मवासना ग्राहद्वयवासनासहिता उपभुक्ताद्विपाकाद् अन्यद्विपाकं तदेवालयविज्ञानं जनयन्ति, आलयविज्ञानव्यतिरेकेणान्यस्य विपाकस्याभावात् । क्षीणे पूर्व- विपाक इत्यनेन शाश्वतान्तं परिहरति । अन्यद्विपाकं जनयन्ती- त्युच्छेदान्तम् । चक्षुरादिविज्ञानव्यतिरिक्तमालयविज्ञानमस्ति तदेव च सर्वबीजकं न चक्षुरादिविज्ञानमिति । कुत एतत् । आगमाद् थुक्तितश्च । उक्त हि भगवताभिधर्मसूत्रे । अनादिकालिको धातुः सर्वधर्मसमयाश्रयः। तस्मिन् सति गतिः सर्वा निर्वाणाधिगमोऽपि वा ।। न चालयविज्ञानमन्तरेण संसारप्रवृत्तिनिवृत्तिर्वा युज्यते । तत्र संसारप्रवृत्तिः निकायसभागान्तरेषु प्रतिसंधिबन्धः । निवृत्तिः सोपधिशेषो निरुपधिशेषश्च निर्वाणधातुः। तत्रालयविज्ञानाद् अन्यत् संस्कारप्रत्ययं विज्ञानं न युज्यते। संस्कारप्रत्ययविज्ञा- नाभावे प्रवृत्तरप्यभावः संसारस्य । आलयविज्ञानानभ्युपगमे ( ४८ ) प्रतिसंधिविज्ञानं वा संस्कारप्रत्यय परिकल्प्येत संस्कारभाविता वा षड्विज्ञानकाया। तत्र ये संस्काराः प्रातिसंधिक विज्ञान- प्रत्ययत्वेनेष्यन्ते तेषां चिरनिरुद्धत्वात् , निरुद्धस्य चासत्वात् असतश्च प्रत्ययत्वाभावान्न संस्कारप्रत्ययं प्रतिसंधिविज्ञानं युज्यते । प्रतिसंधौ च नामरूपमप्य स्त न केवलं विज्ञान तत्र विज्ञानमेव संस्कारप्रत्ययं न नामरूपमिति का तत्र युक्तिः । तस्मात् संस्कारप्रत्ययं नामरूपमिति वक्तव्यम् , न तु विज्ञान- मिति । कतमदन्यविज्ञानप्रत्ययं नामरूपं यदुत्तरकालमिति चेत्तस्य प्रातिसंबिक नामरूपात् क आत्मातिशयः यतस्तदेव विज्ञानप्रत्ययं न पूर्व, पूर्व च संस्कारप्रत्ययं नोत्तरमिति । अतश्च संस्कारप्रत्ययं नामरूपमेवास्तु किं प्रतिसंधिविज्ञानेनाङ्गान्तरेण परिकल्पतेन । तस्मान्न प्रतिसंधिविज्ञानं संस्कारप्रत्ययं युज्यते । संस्कार परिभाविता वा षड्विज्ञानकाया अपि न संस्कारप्रत्ययं विज्ञानं युज्यते । किं कारणम् । न हि विज्ञानं विपाकवासनां निष्यन्दवासनां वा स्वात्मन्याधत्तुं समर्थ स्वात्मनि कारितविरो- धात् नाप्यनागते तस्य तदानुत्पन्नत्वात् अनुत्पन्नस्य चासत्त्वात् । नाप्युत्पन्नेपूर्वस्य तदा निरुद्धत्वात् अचित्तिकासु च निरोधसमा- पत्याद्यवस्थासु पुनः संस्कारपरिभावितचित्तोत्पत्त्यसंभवात् विज्ञानप्रत्ययं नामरूपं न स्यात् ,षडायतनं न स्यात् , एवं यावज्जा- तिप्रत्ययं जरामरणं न स्यात् । ततश्च संसारप्रवृत्तिरेव न स्यात् तस्मादविद्याप्रत्ययाः संस्काराः तदधिवासि चालयविज्ञानं संस्कार- प्रत्ययं विज्ञानं तत्प्रत्ययं प्रतिसंधौ नामरूपमित्येषैव नीतिरनवद्या। संसारनिवृत्तिरपि आलयविज्ञाने असति न युज्यते। संसारस्य हि कर्म क्लेशाश्च कारणं तयोश्च क्लेशाः प्रधानम् । तथा हि क्लेशाधिपत्यत्वात् कर्म पुनर्भवाक्षेपसमर्थं भवति नान्यथो। तथा आक्षिप्तपुनर्भवपि कर्म क्लेशाधिपत्यादेव पुनर्भवो भवति ( ४६ ) प्रथ नान्यथा । एवं च क्लेशा एव संसारप्रवृत्तः प्रधानत्वात् मूलम् । अतस्तेषु प्रहीणेषु संस्कारो विनिवर्तते नान्यथा। न चालयविज्ञानमन्तरेण तत्प्रहाणं युज्यते । कथं पुनर्न युज्यते । संमुखीभूतो वा क्लेशः प्रहीयते बीजावस्थो वा। तत्र संमुखी- भूतः प्रहीयत इति । अनिष्टिरेवेयम् । तत्र तत् (क्लेशः) प्रहाणमार्ग- स्था येनां वा बीजावस्थोऽपि नैव प्रहीयते । न हि प्रतिपक्षात् तदानों किञ्चिदन्यदभ्युपगम्यते, यत्र क्लेशबीजं व्यवस्थितं तत्प्रति- पक्षण प्रहीयेत। प्रतिपक्षचित्त एव क्लेशबीजानुषक्त इष्यता न हि तत् क्लेशबीजानुषक्तमेव तत्प्रतिपक्षो भवितुमर्हति । न चापहीणक्लेशबीजानां संसारनिवृत्तिः संभवति । तस्मादवश्वं आलयविज्ञानं तदन्यविज्ञानसहभूमिः क्लेशोपक्लेशैर्भाव्यते स्वबीजपुष्ट्याधानत इत्यभ्युपेयम । ये पुनश्चित्तत एव संततिपरि- णामविशेषाद् यथाबलं वासनावृत्तिलाभे सति क्लेशोपक्लेशाः प्रवर्तन्त तेषां चालयविज्ञानव्यवस्थितं बीजं तत्सहभुवा क्लेश- प्रतिपक्षमार्गेणापनीयते । तस्मिंश्चापनीते न पुनस्तेनाश्रयेण क्लेशानामुत्पत्तिरिति सोपधिशेषो निर्वाणधातुः प्राप्यते । पूर्वकर्माक्षिप्तजन्मनिरोधे च ततोऽन्यजन्माप्रतिसंधानान्निरुप- धिशेषो निर्वाणधातुः । न हि कर्म विद्यमानमपि क्लेशेषु प्रहीणेषु सहकारिकारणाभावात् पुनर्भवभिनिवर्तयितुं समर्थम् । एवं आलयविज्ञाने सति संसारप्रवृत्तिनिवृत्तिश्च नान्यथेत्यश्यं चक्षुरादिविज्ञानव्यतिरिक्त आलयविज्ञानम् । तदेव च सर्व- धर्मबीजानुगतं न चक्षुरादिविज्ञानमित्यभ्युपगन्तव्यम् । विस्तर- विचारस्तु पञ्चस्कन्धकोपनिबन्धाद् वेदितव्यः । यदि विज्ञप्तिमात्र- मेवेदं कथं न सूत्रविरोधः। सूत्रेषु हि त्रयः स्वभावा उक्ताः, परि- ( ५० ) कल्पितः, परतन्त्रः, परिनिष्पन्नश्च । नास्ति विरोधः, विज्ञप्तिमात्र एव सति स्वभावत्रयव्यवस्थानात् ।कथमित्यत आह- येन येन विकल्पेन यद्यद् वस्तु विकल्प्यते । परिकल्पित एवासी स्वभावो न स विद्यते ॥२०॥ आध्यात्मिकबाह्यविकल्प्यवस्तुभेदेन विकल्पानामानन्त्यं प्रदर्शयन्नाह-येन येन विकल्पेनेति । यद् यद् वस्तु विकल्प्यते । आध्यात्मिकं बाह्य वा अन्तशो यावद् बुद्धधर्मा अपि । परिकल्पित एवासी स्वभाव इत्यत्र कारणमाह-न स विद्यत इति । यद् वस्तु विकल्पविषयस्तद् यस्मात् सत्ताभावान्न विद्यते तस्मात् तद्वस्तु परिकल्पितस्वभावमेव , न हेतुप्रत्ययप्रतिपद्यस्वभाव । तथा- ह्ये कस्मिन् वस्तुनि तदभावे च परस्परविरुद्धानेकविकल्पप्रवृत्ति- दृष्टा । न च तदेकं वस्तु तदभावो वा परस्परविरुद्धानेकस्वभावो युज्यते । तस्मात् सर्वमिदं विकल्पमात्रमेव तदर्थस्य परिकल्पित- रूपत्वात् । उक्त च सूत्रे । न खलु पुनः सुभूते धर्मास्तथा विद्यन्ते यथा बालपृथग्जना अभिनिविष्टा इति । परिकल्पितानन्तरं परतंत्रस्वभावो वक्तव्य इति श्राह- परतन्त्रस्वभावस्तु विकल्पः प्रत्ययोद्भवः। अत्र विकल्प इति परतंत्रस्वरूपमाह । प्रत्ययोद्भव इत्यनेनापि परतंत्राभिधानप्रवृत्तिनिमित्तमाह । तत्र परिकल्पः कुशलाकुशला- व्याकृतभेदभिन्नाः त्रैधातुकाश्चित्तचैत्ताः यथोक्तम्- अभूतपरिकल्पस्तु चित्तचैत्तास्त्रैधातुका । इति । परैर्हेतुप्रत्ययैस्तन्त्र्यत इति परतंत्र उत्पाद्यत इत्यर्थः । स्वतोऽन्यहेतुप्रत्ययप्रतिबद्धात्मलाभ इति यावदुक्तं भवति ।

( ५१ ) उक्तः परतन्त्रः। परिनिष्पन्नः कथमित्यत आह- निष्पन्नस्तस्य पूर्वेण सदा रहितता तु या ॥२१।। अविकारपरिनिष्पत्त्या स परिनिष्पन्नः । तस्येति परतन्त्रस्य पूर्वेणेति परिकल्पितेन । तस्मिन् विकल्पे ग्राह्यग्राहकभावः परि- कल्पितः । तथा हि तस्मिन् विकल्पे ग्राह्यग्राहकत्वं अविद्यमान- मेव परिकल्प्यत इति परिकल्पितमुच्यते । तेन ग्राह्यग्राहकेण परतवस्य सदा सर्वकालं अत्यन्तरहितता या स परिनिष्पन्न- स्वभावः। अत एव स नैवान्यो नानन्यः परतंत्रतः । अत एव स नैवति परिकल्पितेन स्वभावेन परतन्त्रस्य सदा रहितता परिनिष्पन्नः । रहितता च धर्मता धर्मान्नान्या नानन्या युज्यते। परिनिष्पन्नश्च परतन्त्रधर्मतेत्यतः परतन्त्रात् परिनि- पन्नो नान्यो नानन्य इति बोद्धव्यः। यदि हि परिनिष्पन्नः परतन्वादन्यः स्याद् एवं न परिकल्पितेन परतन्तः शून्यः स्यात् । अथानन्य एवमपि परिनिष्पन्नो न विशुद्ध्यालम्बनः स्यात् परतन्त्रवत् संक्लेशात्मकत्वात् । । एवं परतन्त्रश्च न क्लेशात्मकः स्यात् परिनिष्पन्नाद् अनन्यत्वात् परिनिष्पन्नवत् । अनित्यतादेिवद् वाच्यो नान्यो नानन्य इति वाक्यशेषः। यथा ह्यनित्यता दुःखतानात्मता च संस्कारादिभ्यो नान्या नानन्या। यदि संस्कारेभ्योऽनित्यता अन्या एवं तर्हि संस्कारा नित्याः स्युः। अथानन्या एवमपि संस्काराः प्रणष्टस्वभावरूपाः स्युः अनित्यतावत् । एवं दुःखता- दिष्वपि वाच्यम् । यदि ग्राह्यग्राहकभावरहितः परतन्त्रः कथमसौ गृह्यते अगृह्यमाणो वा कथमस्तीति विज्ञायते । अत आह-

( ५२ )
नादृष्टेऽस्मिन् स दृश्यते ॥२२॥
नादृष्टेऽस्मिन्निति परिनिष्पन्नस्वभावे स दृश्यत इति
परतन्त्रः स्वभावः। निर्विकल्पलोकोत्तरज्ञानदृश्ये परिनिष्पन्ने
स्वभावे अष्टे अप्रतिविद्ध असाक्षात्कृते तत्पृष्ठलब्धशुद्ध-
लौकिकज्ञानगम्यत्वात् परतन्त्रोऽन्येन ज्ञानेन न गृह्यते । अतः
परिनिष्पन्ने अष्टे परतन्त्रो न दृश्यते । न पुनः लोकोत्तर-
ज्ञानपृष्ठलब्धेनापि ज्ञानेन न दृश्यते । यथा निर्विकल्पप्रवेशायां
धारण्यामुक्तम्-तत्पृष्ठलब्धेन ज्ञानेन मायामरीचिस्वप्नप्रतिश्रुत्को-
दकचन्द्रनिर्मितसमान् सर्वधर्मान प्रत्येतीति । अत्र च धर्माः
परतन्त्रसंगृहीता अभिप्रेताः। परिनिष्पन्नश्चाकाशवद् एकरस-
ज्ञानं च यथोक्तं निर्विकल्पेन ज्ञानेनाकाशसमतायां सर्वधर्मान्
पश्यतीति परतन्त्रधर्माणां तथतामात्रदर्शनात् । यदि द्रव्यमेव पर-
तन्त्रः कथं सूत्रे सर्वधर्मा निःस्वभावा अनुत्पन्ना अनिरुद्धा इति
निर्दिश्यन्ते । नास्ति विरोधः यस्मात् ।
त्रिविधस्य स्वभावस्य त्रिविधां निःस्वभावताम् ।
संधाय सर्वधर्माणां देशिता निःस्वभावता ॥२३॥
त्रय एव स्वभावा न चतुर्थोऽस्तीति ज्ञापनार्थं संख्यानिर्देशः
स्वेन स्वेन लक्षणेन विद्यमानवद् भवतीति । त्रिविधा निःस्व-
भावता लक्षणनिःस्वभावत उत्पत्तिनिःस्वभावता परमार्थनिः-
स्वभावता च । सर्वधर्माः परिकल्पितपरतन्त्रपरिनिष्पन्नात्मकाः ।
इदानी त्रिविधस्य स्वभावस्य या यस्य निःस्वभावता तां तस्य
प्रदर्शयन्नाह-
प्रथमो लक्षणेनव निःस्वभावोऽपरः पुनः ।
नस्वयंभाव एतस्येत्यपरा निःस्वभावता ॥२४॥

( ५३ ) धर्माणां परमार्थश्च श्च स यतस्तथतापि सः। प्रथमः परिकल्पितः स्वभावः अयं च लक्षणेनैव निःस्वभावः तल्लक्षणस्योत्प्रेक्षितत्वात् रूपलक्षणा रूपं अनुभवलक्षणा वेदने- त्यादि । अतश्च स्वरूपाभावात् खपुष्पवत् स्वरूपेणैव निःस्वभावः । अपरः पुनरिति परतन्त्रस्वभावः । नस्वयंभाव एतस्य मायावत् परप्रत्ययेनोत्पत्तः । अतश्च यथा प्रख्याति तथास्योत्पत्ति स्तिीति अतोऽस्य उत्पत्तिनिःस्वभावतेत्युच्यते । धर्माणां परमार्थश्च स यतस्तथतापि स इति । परमं हि लोकोत्तरज्ञानं निरुत्तरत्वात्त- स्यार्थः परमार्थः । अथ वा आकाशवत् सर्वत्रैकरसार्थेन वैमल्या- विकारार्थेन च परिनिष्पन्नः स्वभातः परमार्थ उच्यते । स यस्मात् परिनिष्पन्नः स्वभावः सर्वधर्माणां परतन्त्रात्मकानां परमार्थः तद्धर्मतेति कृत्वा तस्मात् परिनिष्पन्न एव स्वभावः परमार्थनिः- स्वभावता परिनिष्पन्नस्याभावस्वभावत्वात् । किं पुनः परमार्था- भिधानेनैव परिनिष्पन्नोऽभिधातव्यो, नेत्याह । किं तर्हि, तथ- तापि सः । अपिशब्दान्न केवलं तथताशब्देनैवाभिधातव्यः। किं तर्हि यावन्तो धर्मधातुपर्यायाः सर्वैस्तैरप्यभिधातव्य इति । सर्वकालं तथाभावात् तथता । तथा हि पृथग्जनशैक्ष्याशैक्षावस्थासु सर्वकालं तथैव भवति नान्यथेति तथतेत्युच्यते । किं पुनस्तथता तत्परिनिष्पन्न एव विज्ञप्तिमत्रता उतान्या विज्ञप्तिमात्रता । अत आह -- सैव विज्ञप्तिमात्रता ॥२५॥ अतिविशुद्धलक्षणावबोधाद्, यथोक्तम्- नाम्नि तिष्ठति तच्चित्त तदा तन्मात्रदर्शनात् । नाम्नि स्थानाञ्च विज्ञप्तावुपलम्भः प्रहीयते ॥

( ५४ ) तदा॥ नोपलम्भं तदा धातुं स्पृशते भावनान्वयात् । सर्वावरण विमोक्षं विभुत्वं लभते इति । सैव विज्ञप्तिमात्रतेत्यनेन वचनेनाभिसमय उक्तः । यदि विज्ञप्तिमात्रमेवेदं कस्मात् चक्षुःश्रोत्रघ्राणरसस्पर्शनैः रूप- शब्दगन्धरसस्पर्शान् गृह्णातीत्यत आह । यावद् विज्ञप्तिमात्रत्वे विज्ञानं नावतिष्ठति । ग्राहद्वयस्यानुशयस्तावन्न विनिवर्तते ॥२६॥ अथ वा यास्ताः कर्मवासना ग्राहद्वयवासनासहिताः क्षीणे पूर्वविपाकेऽन्य द्विपाकं जनयन्तीत्युक्त तस्मात् कथं प्रहाणमप्र- हाण चेत्यत आह । यावद्विज्ञप्तिमात्रत्वे विज्ञानं नावतिष्ठतीति विस्तरः । यावत् चित्तधर्मतायां विज्ञप्तिमात्रसंशब्दितायां विज्ञानं नावतिष्ठति किं तर्हि, ग्राह्यग्राहकोपलम्भे चरति । ग्राहद्वयं ग्राह्य- ग्राहो ग्राहकग्राहश्च । तस्यानुशयस्तदाहितं अनागतग्राहद्वयो- त्पत्तये बीजं आलयविज्ञाने । यावद् अद्वयलक्षणे विज्ञप्तिमात्रे योगिनश्चित्त न प्रतिष्ठितं भवति तावद् ग्राह्यग्राहकानुशयो न विनिवर्तते. न प्रहीयत इत्यर्थः। अत्र च बहिरुपलम्भाप्रहाणेना- ध्यात्मिकोपलम्भाप्रहाणं दर्शितमिति। अतोऽस्यैव भवति अहं चक्षुरादिभिः रूपादीन् गृह्णामीति । इदमिदानी वक्तव्यं किं अर्थरहितचित्तमात्रोपलम्भात् चित्तधमतावस्थानम् नेत्याह । किं तर्हि- विज्ञप्तिमात्रमेवेदमित्यपि झु पलम्भतः। स्थापयन्नग्रतः किंचित् तन्मात्रे नावतिष्ठते ॥२७॥ इति । अथ वा यः पुनराभिमानिकः श्रुतमात्रकेण जानीयाद् अहं विज्ञप्तिमात्रतायां शुद्धायां स्थित इति तद्ग्रहव्युदासार्थमाह- -

( ५५ )
-
विज्ञप्तिमात्रमेवेदमित्यपि यु पलम्भत इत्यादि। विज्ञप्तिमात्र
मेवेदं अर्थराहेतं न बाह्योऽर्थोऽस्तीति एवमुपलम्भतो ग्रहणतः
चित्रीकरणत इत्यर्थः अग्रत इत्यभिमुखम् । स्थापयन्निति यथाश्रुतं
मनसा । बहुप्रकारत्वात् योगाचारालम्बनानां किंचिदित्याह ।
अस्थिसंकलिकं वा नीलकं वापि पूयक वा विपडुमकं वा व्या-
ध्मतकादिकं वा । तन्मात्रे नावतिष्ठते विज्ञानोपलम्भानहाणान् ।
कदा पुनः विज्ञानग्राहस्य प्रहाणं चित्तमात्रतायां वा प्रतिष्टितो
भवतीत्यत आह-
यदा त्वालम्बनं ज्ञानं
नैवोपलभते तदा।
स्थितो विज्ञानमात्रत्वे ग्राह्याभावे तदग्रहात् ॥२८॥
इति । यस्मिन् काले देशनालम्बनं अत्रवादालम्बनं प्राकृतं वा
रू.पशब्दाचालम्बनं ज्ञानं बहिश्चित्तात् नोपलभते न पश्यति न
गृह्णाति नाभिनिविशते, यथा भूतार्थदर्शनात् न तु जात्यन्धयत् ,
तस्मिन् काले विज्ञान प्राहस्य प्रहाणं स्वचित्तवर्मतायां च प्रतिष्ठितो
भवति । अत्रैव कारणमाह--प्राह्याभावे तद्ग्रहादिति । ग्राह्य सति
ग्राहको भवति न तु ग्राह्याभाव इति । ग्राह्याभावे ग्राहकाभावमपि
प्रतिपद्यते न केवलं ग्राह्याभावम् । एवं हि सममनालम्ब्यालम्बकं
निर्विकल्पं लोकोत्तरं ज्ञानमुत्पद्यते, ग्राह्यग्राहकाभिनिवेशानुशया
प्रहीयन्ते स्ववित्तधर्मतायां च चित्तमेव स्थितं भवति । यदैवं विज्ञप्ति-
मात्रतायां चित्तमपस्थितं भवति तदा कथं व्यपदिश्यत इत्याह-
अचित्तोऽनुपलम्भोऽसौ ज्ञानं लोकोत्तरं च तत् ।
आश्रयस्य परावृत्तिद्धिधा
दौष्ठुल्यहानितः ॥२६॥
स एवानास्रवो धातुरचित्यः कुशलो ध्रुवः ।
सुखो विमुक्तिकायोऽसौ धर्माख्योऽयं महामुनेः ॥३०॥

( ५६ ) इति । तदनेन श्लोकद्वयेन दर्शनमार्गमारभ्योत्तरविशेषगत्या फल- संपत्तिरभाविता विज्ञप्तिमात्रविष्टयोगिनः। तत्र ग्राहकचित्ताभावात ग्राह्याटपलम्भाच्च अचित्तोऽनुपलम्भोऽसौ । अपरिचितत्वात् (अक्लिष्टत्वात् ) लोके समुदाचा राभावात् निर्विकल्पत्वाच्च लोका- दुत्तीर्णमिति ज्ञानं लोकोत्तरं च तदिति। तम्य ज्ञानस्यानन्तराश्रयस्य परावृत्तिर्भवतीति ज्ञापनार्थमाह-आश्रयस्य परावृत्तिरिति । आश्रयो अत्र सर्वबीजकमालयविज्ञानम् । तस्य परावृत्तिः या दौष्ठुल्यविपा- कद्वयवासनाभावेन निवृत्तौ सत्यां कर्मण्यताधर्मकायाद्वय ज्ञानभावन परावृत्तिः । सा पुनराश्रयपरावृत्तिः कस्य प्रहाणात् प्राप्यते, अत आह- द्विधा दौष्ठुल्यहानितः। द्विधेति क्लेशावरणदौष्ठुल्यं ज्ञेयावरणदौ- ष्ठुल्यं च । दोष्ठुल्यं आश्रयस्याकर्मण्यता। तत् पुनः क्लेशज्ञेया- वरणयोीजम् । सा पुनराश्रयपरावृत्तिः श्रावकादिगतदोष्ठुल्यहानितश्च प्राप्यते, यदाह-विमुक्तिकाय इति । बोधिसत्त्वगतदौष्ठुल्यहानितश्च प्राप्यते, यदाह - धर्माख्योऽपि महामुनेरिति । द्विधा आवरणमे- देन सोत्तरा निरुत्तरा च आश्रयपरावृत्तिरुक्ता । अत्र गाथा- ज्ञेयमादानविज्ञानं द्वयावरणलक्षणम् । सर्वबीजं क्लेशबीज बन्धस्तत्र द्वयोईयोः ।। इति । श्रावकबोधिसत्वयोः। आद्यस्य क्लेशबीज इतरस्य द्वयाव- रणबीजं तद्घातात सर्वज्ञतावाप्तिर्भवतीति । स एवानास्रवो धातु- रिति स एवाश्रयपरावृत्तिरूपः अनास्रवो धातुरित्युच्यते निदौष्ठुल्य- त्वात्। स त्वास्रवविगत इत्यनास्रवः। आर्थधर्महेतुत्वाद् धातुः । हेत्वर्थो ह्यत्र धातुशब्दः। अचिन्त्यस्तागोचरत्वात् प्रत्यात्मवेद्यत्वात दृष्टान्ताभावाच्च । कुशलो विशुद्धालम्बनत्वात् क्षेमत्वात् अनास्त्रव- धर्ममयत्वाच्च । ध्रुवो नित्यत्वात् अक्षयतया । सुखो नित्यत्वादेव यदनित्यं तदुःखं अयं च नित्य इति अस्मात् सुखः । क्लेशावरण- प्राणात् श्रावकाणां विमुक्तिकायः । स एवाश्रयपरावृत्तिलक्षणो धर्माख्योऽप्युच्यते। महामुनेभूमिपारमितादिभावनया क्लेशज्ञेया- वरणप्रहाणात् आश्रयपरावृत्तिसमुदागमात् महामुनेर्धर्मकाय इत्यु- च्यते । संसार परित्यागात् यदनुपसंक्लेशत्यात् सर्वधर्मविभुत्वलाभ- तश्च धर्मकाय इत्युच्यते। महामुरिति परममौनेययोगात् बुद्धो भगगन महामुनिरिति ॥ ॥ त्रिंशिकाविज्ञप्तिमाष्यं समाप्तम्॥ । कृतिराचार्यस्थिरमतेः॥

Vinshtikakarinka

Author
Shri Naagbhat
Title
Vinshtikakarinka
File name
Vinshtikakarinka
Text
OCR done
Citation
1897
Published
2006/03/26
Publisher
Shri Jiva Nand Vidhya Sagar Bhattacharyen Culcutta
Language
Sanskrit
Pages
59
Classification
Literature
DLI number
486792
Barcode
1990010094503.00
Scanning centre
IIIT, Allahabad
Rights
In Public Domain
VMLT id
ortxyMeiT6n
Download PDF

Vinshtikakarinka