Central Library, Visva-bharati

Sabdakaustubha,vol.2

Sastri Mokate,ganapati Ed. · 2010/12/11

PDF Proofread

Front matter

ALSEXX
तमसो मा ज्योतिर्गमय
SANTINIKETAN
VISWA BHARATI
LIBRARY
42.32
B461
V.2 712
97714
XIN C

No text on this page.

یه

No text on this page.

No text on this page.

TAK
CHOWKHAMBA SANSKRIT SERIES;
A
COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS.
NOS. 234 & 235.
शब्दकौस्तुभः।
सर्वतन्त्रस्वतन्त्रश्रीमद्भट्टोजिदीक्षितविरचितः ।
ŠABDAKAUSTUBHA
by
Pandit Bhattoji Dikshita.
Edited by, Pandit Vindhyeswari Prasáda Dvivedin,
Librarian, Government Sanskrit College, Benares,
and
Vyâkâranâchârya GANAPATI Śástrî MOKATE,
Professor Raanavira Pâtha Sala
Hindu College Benares.
VOL II
FASCICULUS I TO II
PUBLISHED & SOLD BY THE SECRETARY,
CHOWKHAMBA SANSKRIT SERIES OFFICE. BENARES.
AGENTS:-
OTTO HARRASSOWITZ, LEIPZIG:
PANDITA JYESHTHARAM MUKUNDAJI, BOMBAY:
PROBSTHAIN & CO; BOOKSELLERS, LONDON.
Printed by Jai Krishna Das Gupta,
at the Vidya Vilas Press.
BENARES.
1917,
Registered According to Act XXV. of 1867.

। ॥ श्रीः॥ आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता ॥ सुवर्णाऽङ्कितभव्याभशतपत्त्रपरिष्कृता ॥१॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना ॥ रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २ ॥ स्तवकः-२३५ १ अस्यां चौखम्बा–संस्कृतग्रन्थमालायां प्रतिमासं पृष्ठशतके मुन्दरैः सीसकाररुत्तमेषु । पत्तेषु एकः स्तवको मुद्रयित्वा प्रकाश्यते । एकस्मिन् स्तवके एक एव ग्रन्थो मुद्यूते । २ प्राचीना दुर्लभाश्चामुद्रिता मीमांसावेदान्तादिदर्शनव्याकरणधर्मशास्त्रसाहित्यपुराणादिग्रन्था एवात्र सुपरिष्कृत्य मुयून्ते । ३ काशिकराजकीयप्रधानसंस्कृतपाठशालाऽध्यापकाः पण्डिता अन्ये च शाखदृष्टयो विद्वांस पतत्परिशोधनादिकार्यकारिणो भवन्ति । * भारतवर्षीयैः,ब्रह्मदेशीयः,सिंहलद्वीपवासिभिश्चैतद्ग्राहकदेयं वार्षिकमाग्रेमं मूल्यम्-मुद्रापानकः ८ अन्यैर्देयं प्रतिस्तवर्क " १ ५ प्रापणव्ययः पृथग् नास्ति । . ... ... ... ... ... साम्प्रतं मुद्रयमाणा ग्रन्थाः- सूत्रस्य यतीन्द्रश्रीमद्विज्ञानभिक्षुकृतव्या- (१) संस्काररत्नमाला | गोपीनाथभट्टकृता ख्यानम् । सम्पूर्णम् । ( वेदान्तः) ६ खएडे २ (९) स्याद्रादमञ्जरीमलिषणनिर्मिता सम्पूर्णा २ (२) शब्दकौस्तुभः । भट्टोजिदीक्षितकृतः १२ (१०) सिद्धित्रयम् विशिष्टाद्वैतब्रह्मनिरूपणपरम् (१) इलोकवार्तिकम् । भकुमारिलविरचितम् श्रीभाष्यकृता परमगुरुभिः श्रीश्रीयामुन- पार्थसारथिमिश्रकृतन्यायरत्नाकराख्यया मुनिभिविरचितम् । सम्पूर्णम् वेदान्तः व्याख्यया सहितम् । सम्पूर्णम् । १० (११) न्यायमकरन्दः । श्रीमदानन्दबोधभट्टा- (1) भाष्योपवृहितं तत्त्वत्रयम् । विशिष्टा- रकाचार्यसंगृहीतः । आचार्यचित्सुख- दैतदर्शनप्रकरणम् । श्रीमनोकाचार्यप्र. मुनिविरचितव्याख्योपेतः (वेदान्तः)४ णीतम् । श्रीनारायणतीर्थविरचितभाट्ट- (१२) विभक्त्यर्थनिर्णयो न्यायानुसारिप्रथमादि- भाषाप्रकाशसहितं सम्पूर्णम् (वेदान्तः)२ सप्तविभक्तिविस्तृतविचाररूप: म. म. (५) करणप्रकाशः । श्रीब्रह्मदेवविरचितः १ श्रीगिरिधरोपाध्यायविरचितः । सम्पूर्णः (६) भादृचिन्तामणिः । महामहोपाध्यायश्री (म्यायः) गागाभट्टविरचिता। तर्कपादः(मीमांसा)२ (१३) विधिरसायनम् । श्रीअप्पयदीक्षितकृत- (.) न्यायरत्नमाला-श्रीपार्थसारथिमिश्रविर म् । सम्पूर्णम् (मीमांसा) चिता संपूर्णा (मीमांसा) २ (१५) म्यायसुधा (तन्त्रवार्तिकटीका ) भट्ट- (6) अमममभाष्यम्-बादरायणमणी लवेदान्त सोमेश्वरविरचिता । (मीमांसा ) १६ ...

४ अध्याये २ पादे ! आह्निकम् । १०१ लुबविशेषे ॥ ४॥ : पूर्वेण विहितस्य प्रत्ययस्य लुब् स्यान तु षष्ठिदण्डात्मकस्य कालस्यावान्तरविशेषे गम्यमाने । अद्य पुष्यः । षष्ठिदण्डात्म- कस्येत्ययं विशेषस्तु पूर्वसूत्रानुवृत्तिवळाल्लभ्यते । तेनायेत्युक्त्या न ह्यो न श्व इति विशेषे गम्यमानेऽपि लुब् भवत्येव । अवि- शेषे किम् । पौषी रात्रिः । पौषमहः । पौषो मुहूर्त्तः । कथं तर्हि पौष्योपोहोरात्र इति चेत् अवयवद्वयरूपस्य विशेषप्रतीतेरिति गृहाण । पौर्णमास्यामयं लुम्न । विभाषा फाल्गुनीश्रव- णाकार्तिकीचैत्रीभ्य इति लिङ्गात् । तेन पुष्ययुक्ता पौर्णमासी पौषीति सिद्धम् । श्रवणशब्दात्तु भवति । अत एव लिङ्गात् । अबाधकान्यपि निपातनानि । तेन श्रावण्यां प्रौष्टपा वा- प्युपाकृत्यति सिद्धम् । संज्ञायां श्रवणाश्वत्थाभ्याम् ॥ ५ ॥ आभ्यां परस्य प्रागुक्तप्रत्ययस्य लुप्स्याद्विशेषेऽपि । श्र- वणी रात्रिः । अश्वत्थो मुहूर्त्तः । श्रवणशब्दे रक्तवद्भावस्तु न विभाषाफाल्गुनीश्रवणेति लिङ्गात् । ङीप् तु अण्योऽकार इति व्याख्यानान्न । द्वन्द्वाच्छः ॥ ६॥ नक्षत्रद्वन्द्वात्तृतीयासमर्थायुक्ते काले छः स्याद्विशेषे चा- विशेषे च । राधानुराधीया रात्रिः । तिष्यपुनर्वसषीयमहः । अविशेषे अघ राधानुराधीयम् । अयेत्यस्याव्ययत्वेऽपि तद्वि- शेषणस्य क्लीवत्वं लोकात् । न च लुबविशेष इति लुबण इव छस्यापि स्यादिति वाच्यम् । पूर्वोपस्थितेन अणैव तस्य नि- ૨૦૨ शब्दकौस्तुभे। राकासत्वात् । एतदेव हि मध्येऽपवादयीयेऽपि तत्वम् । दृष्टं साम ॥ ७॥ तेनेति तृतीयान्तादृष्टमित्यर्थे ऽण् स्याद्यदृष्टं साम चेत्तत् । वासिष्ठं साम । यस्य साम्रो विशेषे विनियोगो येन ज्ञात- स्तत्तेन दृष्टमित्याहुः। कलेढक् ॥ ८॥ अणपवादः । कलिना दृष्टं कालेयं साम । यत्तु व्याकर- णाधिकरणे भट्टैरुक्तं यदकालयत्तत्कालेयस्य कालेयत्वमिति श्रुतिविरुद्धेयं पाणिनिस्मृतिरिति तत्पौढिवादमात्रम् । एक- स्मिन्नेव सामनि कलिदृष्टत्वस्य कालायितत्वस्य चाविरोधात् । तन्त्रेणावयवार्थद्वयसम्भवाच्च । अत एवाह भर्तृहरिः । वैरवासिष्ठगिरिशास्तथैकागारिकादयः । कैश्चित्कथं चिदाख्याता निमित्तावधिसङ्करिति ॥ अस्यार्थः वीरेषु भवं वीरैलब्धं वीराणामिदमिति निमित- सङ्करेण वैरशब्दो व्याख्यातः । अतिशयेन वासयन्तीति वा वसिष्टेन प्रोक्तमधीयत इति वा निमित्तस्य सङ्करः प्रकृति- प्रत्ययावधिसङ्करश्च । गिरौ शेते गिरिं श्यति उपभोगेन त- नूकरोति गिरिरस्यास्तीति वा एकागारिकशब्दोऽप्येकेनागारे- ण जयतीति एकमगारं प्रयोजनमस्येति वा निमित्तसङ्करण व्याख्यातः । एतेन वामदेवादिति उत्तरसूत्रमपि व्याख्यात- म् । वामं वा इदं देवेभ्यः समजनि तद्वामदेव्यस्य वामदेव्यत्व. मिति श्रौतव्युत्पत्यन्तरस्य वामदेवदृष्टत्वेन सह विरोधात् । एतेन एतत्सूत्रद्वयं श्रुतिविरोधादप्रमाणमिति पार्थसारथेरुक्तिः परा- ४ अध्याये २ पादे १ आह्निकम् । स्ता । विरोधस्य वासिद्धेः । अभ्युपत्यापि ब्रूमः अर्थवादानां स्वार्थे तात्पर्यविरहात्तत्परस्य व्याकरणस्य कथं तैर्बाधः तथात्वे वा अहीनो वा प्रकरणादित्यधिकरणे कथं खप्रत्ययस्व- रेणाहर्गणसाध्यत्वं व्याख्यः यदेनं सर्वे न हासिषुस्तदहीन- स्याहीनत्वमिति श्रुत्या बाधापत्तेरिति दिक् । अत्र वार्त्तिकम् । सर्वत्राग्निकलिभ्यां ढगिति । अयमर्थः। सूत्रकृता हि साऽस्य देव- तेत्यधिकारेऽग्नेर्डक् उक्तः । दृष्ट सामेत्यधिकारे तु कलेढेगि- ति तदिदं सूत्रद्वयमपनीय प्राग्दीव्यत इत्यस्मादनन्तरमग्निक- लिभ्यां ढगिति पाठ्यमिति । अग्निना दृष्टं साम आनयमग्नौ भवमग्नेरागतं अग्नेः स्वं वा आग्नेयं यथा स्यात् । एवं क- लेरागतं कलेः स्वं कलौ भवं कालेयमित्यादि । अत्र श्लोक. बार्तिकम् । दृष्टे सामनि जाते वा प्यण् डित् द्विर्वा विधीयते । तीयादीका न विद्याया गोत्रादकवादिष्यते ।। जातेऽर्थे यो द्विरण स च वाडिदित्यन्वयः । उशनसा दृष्टं साम औशनसम् । औशनम् । जाते । शातभिषः । शातभिषजः । इह हि प्राग्दीव्यत इति प्राप्तोऽण् कालाआ बाधितः संधि- वेलादिसूत्रेण प्रतिप्रसूत इत्ययं द्विरुक्तोऽण् । अतो वा डि- त्वम् । तीयादीका । अयञ्च स्वार्थे । द्वैतीयीकः । तार्तीयीकः । वेत्येव । द्वितीयः । तृतीयः । न विद्यायाः । द्वितीया विधे- त्येव । गोत्रादकवत् । इदं च दृष्टं सामेत्यत्रैव । औपगवर्क अङ्के यो दृष्टः प्रत्ययः स सर्वोऽप्यतिदिश्यते न तु साक्षादङ्क- शब्दमुच्चार्य विहित एव तेन सङ्घाङ्कलक्षणेष्वित्यस्याण गोत्रच- रणाद् वृभित्यस्य चायमतिदेशः ।।

शब्दकौस्तुभे। वामदेवाडयड्डयौ ॥ ९॥ वामदेवेन दृष्टं साम वामदेव्यम् । सिद्धे यस्येतिलोपेन किमर्थं ययतौ डितौ । ग्रहणं मा तदर्थे भूद्वामदेव्यस्य नझस्वरे ॥ नजाश्रयः स्वरो नस्वरः उत्तरपदान्तोदात्तत्वम् । अत दर्थ इति सूत्रावयवेन ययतोरिति सूत्रं लभ्यते । तदयमर्थः । ययतोश्चेति सूत्रेण विधीयमानं ना उत्तरस्य ययदन्तस्या- न्तोदात्तत्वं अवामदेव्यशब्दे मा भूत्किन्त्वव्ययपूर्वपदस्वर पव यथा स्यादित्येतदर्थमनयोडित्वम् । यग्रहणेन हि ड्यग्रहणं न भवति । निरनुबन्धकग्रहणे न सानुबन्धकस्यति । तथा यद्हणेन ज्यत्ग्रहणं न भवति तदनुबन्धकग्रहणेनातदनुबन्धकस्येति । एते च परिभाषे इहैव डित्वेन ज्ञापिते । तत्राद्यायाः प्रयोजनम् । पूरणगुणेति सूत्रे तव्यतो ग्रहणं मा भूत् दिव औदित्यत्र दीव्य. तेर्माभूदिति । द्वितीयस्यास्तु अङ्ग्रहणे चङ्ग्रहणं मा भूत् श्वयतेरः अश्वत् नेह अशिश्वियदिति । परिवृतो रथः ॥ १० ॥ तृतीयान्तात्परिवृतेऽर्थेऽण रथश्चेत्सः । वस्त्रैः परिवृतो वास्त्रो रथः। तदेकान्तग्रहणं कर्त्तव्यम् । नेह पुत्रैः पौत्रैः परिवृत्तो वा। पाण्डुकम्बलादिनिः॥११॥ मत्वार्थीयेनेनिना सिद्धेऽण्वाधनार्थ सूत्रम् । पाण्डुकम्बलो गजास्तरणं तेन परिवृतः पाण्डुकम्बलो रथः । दैपवैयाघादञ् ॥ १२॥ अणोऽपवादः । स्वरे विशेषः। द्वीपिन्याघ्रशब्दाभ्यां विका- ४ अध्याये २ पादे १ आह्निकम् । रभूते चर्मणि वाच्ये प्राणिरजतादिभ्योऽनू । द्वीपिनष्टिलोपः तदन्तात्मकृतसूत्रेण पुनरञ् । द्वैपा रथः । वैयाघ्रः । कौमारापूर्ववचने ॥ १३ ॥ कुमार्या अण निपात्यते अपूर्वतायां द्योत्यायाम् । कौ. मारेति स्त्रीपुंससाधारणप्रातिपदिकमात्रनिर्देशादुभयत्रापि प्रत्य- यः। अपूर्वत्वं तु पाणिग्रहणविषयकं तदुभयत्र स्त्रिया एवेत्यादि सर्व निपातनाल्लभ्यते। अन्येनापरिणीता कुमारी परिणीतवान् कौमारः पतिः। द्वितीयासमर्थादुपयन्तरि प्रत्ययः । कुमारी या पति लब्धवती सापि भवत्येव । सूत्रारम्भे कृतेऽपि तस्य दुर्वारत्वात् । एवं तावत्कौमारः पतिरिति सिद्धम् । स्त्रियां तु पुंयोगलक्षणो ङीष् प्रत्यासत्या च यत्प्रयुक्तोऽस्य कौमारव्यपदेशः सैव कुमारी न तु स्त्र्यन्तरम् । एतच्च मुत्रारम्भेऽप्यावश्यकम् । पुंयोग- ङीषा प्रयोगातिप्रसक्तेस्तुल्यत्वादिति दिक् । तंत्रोदधृतममवेभ्यः ॥ १४ ॥ सप्तम्यन्तात्पात्रवाचिन उद्धृतमित्यर्थेऽण् स्यात् । शरावे उद्धृत ओदनः शारावः। माल्लिकः । कार्परः। शरावादाबुद्धृत्य निहित इत्यर्थः । सूत्रे युद्धरतिरुद्धरणपूर्वके निधाने वर्त्तते । अत एव सप्तमीसमर्थविभक्तिः सङ्गच्छते । भुक्तोच्छिष्ट इत्य- र्थ इति वृत्तिकाराः । अवशिष्ट इति तदर्थः । तथाच कल्प- सूत्रेषु व्यवहारः उच्छिनष्टि न सर्व जुहोतीति । अत्रैवोद्धरण- शब्दोपि प्रसिद्धः बाहुलकात्कणि भूते ल्युट् । सास्मिन्पौण. मासीत्यतः प्राक् तत्रेत्यनुवर्तते । तेन सप्तम्यन्तादेव प्रत्ययः । स्थाण्डिलाच्छयितरि व्रते ॥ १५ ॥ १४ १०६ शब्दकौस्तुभे। व्रतं शास्त्रितो नियम इति वृत्तिः । शास्त्रेण विहितः शा. स्त्रितः । प्रातिपदिकाद्धात्वर्थे इति णिजन्तात्कर्मणि क्तः। व्रतं- चेह समुदायोपाधिः। स्थण्डिले शेते स्थाण्डिलो भिक्षुः । संस्कृतं भक्षाः ॥ १६॥ सप्तम्यन्तात्संस्कृतेऽण् स्यात् यत्संस्कृतं भक्षाश्चेत्ते । भ्राष्ट्र संस्कृता भ्राष्ट्राः । शूलोखाद्यत् ॥ १७॥ पूर्वेण प्राप्तस्याणोपवादः ॥ शूले संस्कृतं शूल्यं मांसम् । उखा पात्रविशेषः तत्र संस्कृतं उख्यम् । कथमुख्योगिः न- ह्यसौ भक्ष इति चेत् । सत्यम् । भवार्थे दिगादित्वात् य- दित्याहुः। दध्नष्ठक् ॥१८॥ दनि संस्कृतं दाधिकम् । संस्कारश्चेह लवणादिना । यस्तु संस्कृतार्थे प्राग्वहतेः स तृतीयान्तात् । तेन दध्ना संस्कृ. तोऽपि दाधिक इति विवेकः । उदश्वितोऽन्यतरस्याम् ॥ १९ ॥ ठक् स्यात् पक्षेऽण् ।। इसुसुक्त्तान्तात् कः । औदश्वित्कः। औदश्वितः। क्षीराड्ढञ् ॥ २० ॥ संस्कृतमित्येव संबध्यते न तु भक्षा इति । तेन यवाग्वामपि भवति । क्षैरेयीति । टिड्ढाणनिति ङीप् । सास्मिन् पौर्णमासीति ॥ २१ ॥ सेतिप्रथमासमर्थात्तदनिष्ठसत्ताधिकरणे प्रत्ययः स्याद्यः अत्र ४ अध्याये २ पादे १ आह्निकम् । १०७ प्रथमान्तस्यार्थः पौर्णमासी चेत्सा । इतिशब्दाल्लौकिकीं विवक्षामनुसारयति । तेन संज्ञायामेवायं प्रत्ययः। सूत्रे संज्ञा. यामिति वृत्तिकृता प्रक्षिप्तम् । तत्तु भाष्यादिविरोधादितिश- ब्देन गतार्थत्वाचात्रोपेक्ष्यम् । पौषी पौर्णमासी अस्मिन् पौषः । मासार्द्धमाससंवत्सराणामियं संज्ञा । नेह । पौर्णमासी अस्मि- न्दशरात्रे । भृतकमासेव । भृता एव भृतकाः कर्मकराः तेषां हि कर्मकरणादारभ्य त्रिंशदहोरात्रात्मकः । सावनो मासः । स पौष्या पौर्णमास्या तद्वानपि न पोषाख्यः । पूर्णो मासोऽस्यां तिथाविति बहुव्रीहिः । प्रज्ञादेराकृतिगणत्वादत एव वा नि- पातनादण यद्वा माश्चन्द्रमाः भीमो भीमसेन इतिवत् । पूर्णो- माः पूर्णमाः । तस्येयं पौर्णिमासी । वस्तुतस्तु महाराजप्रोष्ठप- दानित्यत्र तदस्मिन् वर्तत इत्यर्थे पूर्णमासादण उपसंख्या- नात्सिद्धम् । आग्रहायण्यश्वत्थाट्ठक् ॥ २२ ॥ पूर्वेण प्राप्तस्याणोऽपवादः । अग्रे हायनमस्या इत्याग्रहा- यणी । प्रज्ञादेराकृतिगणवादण् । पूर्वपदात्संज्ञायामग इति णत्वम् । आग्रहायणी पौर्णमासी अस्मिन्नाग्रहायणिको मासः संवत्सरो वा । अश्वत्थेन युक्ता पौर्णमासी निपातनात्पौर्णमास्यामपि लुप् । आश्वत्थिकः । विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः ॥ २३ ॥ एभ्यः पौर्णमासीशब्देभ्यः प्रागविषये ठग्वा स्यात्पक्षेऽण फाल्गुनो मासः । फाल्गुनिकः । श्रावणः । श्रावाणकः । कार्तिकः । कार्तिकिकः । चैत्रः । चैत्रिकः । अश्वत्थः ।

१०८ शब्दकौस्तुभे । सास्य देवता ॥ २४ ॥ सेति प्रथमान्तादेवतावाचकादस्येत्यर्थे अण् स्यात् । द्रव्य: त्यागे उद्देश्या देवता इन्द्रो देवतास्य ऐन्द्रं हविः । आदित्यम् । वार्हस्पत्यम् । कथमैन्द्रो मन्त्र इति । मन्त्रस्तुतस्यापि देवता- त्वेन ग्रहणाददोषः । कथमानेयो वै ब्राह्मणो देवतयेति उपमा. नात् । सर्वत्राग्निकलिभ्यामित्युक्तत्वाद्वा । सति प्रकृते पुनः सेत्युक्तिः संज्ञार्थकस्य इतिशब्दस्य निवृत्यर्था । कस्येत् ॥ २५ ॥ कशब्दः प्रजापतेर्वाचकः तस्य इकारोन्तादेशो विधीयते प्रत्ययसन्नियोगेन । कायं हविः । इत्वे कृते यस्येतिलोपः प्राप्तः परत्वादादिल्या वाधते । श्रीर्देवतास्य श्रायमितिवत् । हो- माट्याणित्यत्रैव कग्रहणं तु न कृतम् । यस्येतिलोपात्परत्वादा. दिद्धौ कृतायामपि यस्यतिलोपापत्तेः । सकृद्गतिन्यायाश्रयणे तु कसोमाट्यणिति शक्यं कर्तुम् । इह कायस्य हविषः संप्रेषे कल्पका एव विवदन्ते । तत्र कायानुब्रूहीति न्याय्यमेव कस्मा अनबहीति तु आर्षम् । शुक्रात् घन् ॥ २६ ॥ अणोऽपवादः । शुक्रियं हविः । शुक्रियो मन्त्रः । अपोनत्नपांनप्तृभ्यां घः ॥ २७ ॥ अपोनस्त्रियं हविः । अपांनत्रियं हविः । इह अपोनपा- त् अपांनपात् इति देवतानामधेये । अनयोः प्रत्ययसंनियोगे- नोक्तं रूपं मूत्रे निपात्यते । अपोनपाते अपांनपातेऽनुब्रूहीति सं. प्रेषौ भवतः । वेदे तु अपोनपत्रे स्वाहा अपांनप्त्रे स्वाहेति छा- ४ अध्याये २ पादे १ आह्निकम् । १०९ न्दसः प्रयोगः। छ च ॥ २८ ॥ अपोनप्त्रीयम् । अपानवीयम् । योगविभागो यथासं- ख्यनिवृत्यर्थः । छपकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्यानम् । पैङ्गाक्षीपुत्रीयम् । तार्णविन्दवीयम् । शतरुद्राद् घश्च । अस्माच्छ- घौ वक्तव्यावित्यर्थः ॥ शतरुद्रियशतरुद्रीये । शतशब्दोऽनन्तव- चनः । शतं रुद्रा देवतास्येति घछौ । तयोर्विधानसामर्थ्याद्वि- गोलानपत्य इति लुङ् न भवति । महेन्द्रात् घाणौ च ॥ २९ ॥ चकाराच्छः स्यात् । महेन्द्रो देवताऽस्य महेद्रियं हविः । माहेन्द्रम् । महेन्द्रीयम् । सोमाट् व्यण् ॥ ३० ॥ सोमो देवतास्य सौम्यं हविः । सौमी ऋक् । टित्वान् ङीप् । हलस्तद्धितस्येति यलोपः । वाय्वृतुपित्रुषसो यत् ॥ ३१ ॥ एभ्यो यत्स्यादणोपवादः ॥ वायुर्देवतास्य वायव्यः । ओर्गुणः । वान्तोयीत्यवादेशः । ऋतव्यम् । पित्र्यम् । रीत इति रीङ् । यस्येतिचेत्यकारलोपः। उषस्यम् । उपस्- शब्दः स्त्रीलिङ्गो दिवो दुहितरं देवतां वक्तीति सुपेशसं सुखं रथमित्यादिमन्त्रेषु प्रसिद्धम् । द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोप्पातगृह- मेधाच्छ च ।। ३२ ॥ एभ्यश्छः स्याचाद्यत् । वास्तोष्पतिशब्दात्पत्युत्तरपदलक्ष- ११० शब्दकौस्तुभे । णस्य रायस्यापवादः । शेषेभ्यस्त्वणः । द्योश्च पृथिवी च द्यावापृथिव्यौ। दिवो द्यावा दिवसश्च पृथिव्यामिति द्यावादे- शः । ते देवते अस्य द्यावापृथिवीयम् । द्यावापृथिव्यम् । शु. नासीरीयम् । शुनासीयम् । शुनश्च सीरश्चेति द्वन्द्वः । शुनो वायुः सीर आदित्य इति वृत्तिकाराः । अन्ये त्वेकमेव शुनासीरमिन्द्रस्य गुणमाहुः । तथा चाश्वलायनः। इन्द्रो चाशुना- सीर इति । मन्त्रलिङ्गं च भवति इन्द्रं शुनासीरमस्मिन्यज्ञे हवाम- ह इति । मरुत्वतीयम् । मरुत्वत्यम् । अग्नीषोमीयम् । अग्री- पोम्यम् । वास्तोष्पतीयम् । वास्तोष्पत्यम् । वेश्मभूर्वास्तुरस्त्रि- यामित्यमरः । वास्तोः पतिर्वास्तोष्पतिः अत एव निपातना- साधुः। गृहमेधीयम् । गृहमेधशब्दमकारान्तं बचा अधी- यते । मरुद्भ्यो गृहमेधेभ्य इत्याश्वलायनः । गृहमेधास अ. गतेति मन्तति मन्त्रलिङ्गं च । तैत्तिरीयके तु मरुद्भ्यो गृहमेधि- भ्यः सर्वासां दुग्धे सायमोदवमिति पठ्यते । तत्रासौ नकारा- न्तः । मेधृ सङ्गमे इत्यस्माणिनिः । केचित्तु इकारान्तमाहुः । सूत्रे त्वकारान्तादेव प्रत्ययविधानं निर्विवादम् । अमेढक् ॥३३॥ आग्नेयम् । सर्वत्राग्निकलिभ्यामिति कलेढ गित्यत्रोक्तम् । कालेभ्यो भववत् ॥ ३४ ॥ कालानिति प्रकरणेन भवे प्रत्यया वक्ष्यन्ते ते सास्यदेवतेत्यस्मिन् विषयेऽनेन सूत्रेणातिदिश्यन्ते । वत्कर- णं सर्वसादृश्यार्थम् । तेन यस्माद्यो विहितस्ततः स एव भव- ति । मासिकम् । मादृषेरायम् । वत्करणं किम् । असतित. स्मिन् कालेभ्यो भवे ये उक्तास्ते यतः कुतश्चिदपि देवतार्थे ४ अध्याय २ पादे १ आह्निकम् । स्यादिति व्याख्याने कालाट्ठञ् इन्द्रादिभ्योऽपि स्यात् । का- लेभ्यः स्युरिति व्याख्याने तु भवप्रत्यया न विशिष्येरन् । ततश्च दिगादिभ्यो यदपि भवे विहित इति कालेभ्योऽस्मिन्नर्थे स्यात् । अथापि तन्त्राद्याश्रयणात् कालेभ्योऽपि भवे विहितास्ते कालेभ्योऽपि स्युरिति व्याख्यायेत एवमपि ऋतुभ्योऽणुक्तः मुहूर्तादेरपि स्यात् ॥ महाराजप्रोष्ठपदाट्ठञ् ॥ ३५ ॥ - महाराजो देवतास्य माहाराजिकम् । तदस्मिन्वर्तत इति नवयज्ञादिभ्य उपसंख्यानम् । नवयज्ञोऽस्मिन्वर्त्तते नावयनि- कः कालः । पूर्णमासादण वक्तव्यः। पूर्णमासोऽस्यां वर्त्तते पौर्णमासी तिथिः ॥ पितृव्यमातुलमातामहपितामहाः ॥ ३६ ॥ एते निपात्यन्ते । तत्र पितृमातृभ्यां भ्रातरि व्यडुलचौ । पितुर्धाता पितृव्यः मातुर्धाता मातुलः । मातृपितृभ्यां पितरि डामहच् । मातुः पिता मातामहः। पितुः पिता पितामहः । मातरि पिच्च । मातामही। पितामही । महोवाछन्दस्यानडावग्रहदर्शनात्। पितामह इति । अवेर्दुग्धे सोढदूसमरीसचः । एते वक्तव्याः । प्रक्रियालाघवाय षकारे पठनीये सकारपाठसामर्थ्यादमीषां सस्य पत्वं न । अविसोढम् । अविदूसम् । अविमरीसम् । तिलान्निष्फलात् पिञ्जपेजौ । तिलपेजः । वन्ध्यस्तिल इति अमरव्याख्यातारः। पिञ्जश्छदसि डिच्च । तिल्पिञ्जः ॥ तस्य समूहः ॥ ३० ॥ पष्ट्यन्तात्समूहेऽण् स्यात् । चित्तवदायुदात्तं । अगोत्रान्तं । प्रतिपदमनुक्तमत्ययमिहोदाहरणम् । तथाहि । अचित्ताग्वक्ष्य- ११२ शब्दकास्तुभे । ते • अनुदात्तादेर गोत्रान्तावुन् केदारादिभ्यः प्रतिपदं य. आदयः । काकानां समूहः काकम् । वार्कम् । बाकम् । काकटक- बकशब्दा आयुदात्ताः । प्राणिनां कुपूर्वाणामिति फिसूत्रात् । सूत्रन्तु न्यासकार इत्थं व्याख्यत् । प्राणिविशेषवाचिनां श- ब्दानां ये आदिभूताः कवर्गात् पूर्व तेषामुदात्तः स्यादिति । अथादिः पाक शकटेरिति ह्यधिकृतम् । हरदत्तोऽप्येवम् । किन्त्वत्र कुपूर्वेषामिति स्यात् तस्मात्फलितार्थकथनमिदम् । कुना हेतुना पूर्वे इति तु तृतीयातत्पुरुषो बोध्यः। पुंसानुज इति- वन तेन सर्वनामकार्य न । अस्माभिस्तु फिट्सूत्रवृत्तिमनुस्- त्य प्राणिनां कुपूर्वमिति पाठः प्रागुक्तः। स तु निर्वाध एवेत्यव- धेयम् । इह शौकमिति वृत्तिन्यासयोरुदाहृतम् । तदन्याय्यम् । खण्डिकादिषु शुकशब्दस्य भाष्ये वृत्तौ च पठितत्वेनाज- न्तत्वात् । भिक्षादिभ्योऽण् ॥ ३८ ॥ एभ्योऽण् स्यात्समूहे । भिक्षाणां समूहो भैक्षम् । अचि- तत्वाठक् प्राप्तः । गार्भिणम् । भस्याढ इति पुंवद्भावः । इन- ज्यनपत्ये इति प्रकृतिभावान्नस्तद्धित इति टिलोपो न । इहा- नुदात्तादेरञ् प्राप्तः सति तस्मिन्नायुदात्तत्वं टिलोपश्च स्यात् । युवतिशब्दोऽत्र पठ्यते । तस्य पाठसामर्थ्यान्न पुंवदिति वृत्ति- कारः । न चानुदात्तादेरवं बाधितुं पाठः भस्याढे तद्धिते पुंव- द्भावः । सिद्धश्च प्रत्ययविधावितिपागेव तिप्रत्ययनिवृत्तौ स- त्यां कनिन्युकृषीतिकनिनन्ततया आयुदात्तत्वात् । भाष्यवार्ति- कयोस्तु इह युवतिशब्दपाठस्य प्रत्याख्यानात् यौवनमित्येव संगतम् । नचैवं भाष्यमते यौवनशब्दोऽपभ्रंश एवेति भ्रमित- ४ अध्याये २ पादे १ आह्निकम् । ११३ व्यम् । शत्रन्तादनुदात्तादेराभि तस्यापि सिद्धेः । भिक्षा | गर्भि- णी । क्षेत्र । करीष । अङ्गार । चर्मिन् । वर्मिन् । सहस्त्र । युव- ति । पदाति । पद्धति । अथर्वन् । दक्षिण । गोत्रोक्षाष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनु- प्याजाद् वुञ् ॥ ३९ ॥ एभ्यो वुञ् स्यात् समूहे। लौकिकमिह गोत्रं तच्चापत्यमा न तु पौत्रप्रभृत्येव । औपगवानां समूहः औपगवकम् । उक्षन् । औक्षकम् । औरभ्रकम् । राजकम् । राजन्यकम् । राजपुत्रकम् । . वात्सकम् । मानुष्यकम् । आजकम् । वृद्धाचेति वक्तव्यम् । वृद्धा- नां समूहो वार्द्धकम् । स्यादेतत् । ग्लौचुकायनकमित्यादौ फिन्न न्तत्वादायुदात्ते चरितार्थोऽयं बुञ् । कापोतमित्यादौ लब्धा. वकाशेनाप्यनुदात्तादेरना परत्वाद्राध्यने तत्कथमोपगवकामत्यु- दाहृतम् । सत्यम् । अञो वुञ् पूर्वविप्रतिषिद्धमिति वार्तिकाददो- पः । इदं ज्ञापकसिद्धमिति खण्डिकादिभ्यश्चेत्यत्र वक्ष्यते । राजन्यकम् मानुष्यकमित्यत्र विवदन्ते । तथाहि अपत्यप्रत्य- यान्ताविमौ राज्ञोऽपत्ये जातिग्रहणमिति वार्तिके मनोर्जातावि- ति सूत्रे च जाताविति समुदायोपाधिः हरतेईतीतिसूत्रे पशा- विति यथा । अत एव हि तत्र कर्तर्येवेन् प्रत्ययः। न चैवमाप. त्यस्य च तद्धिते नातीति यलोपापत्तिः प्रकृत्या के राजन्य- मनुष्ययुवान इति वचनात् । न च गोत्रग्रहणेन गतार्थत्वम् । कृत्रिमस्यैव गोत्रस्य ग्रहणापतेः । एतयोः कृत्रिमगोत्रप्रत्यया- न्तयोः पुनरुपादानेन तु ज्ञाप्यते अपत्याधिकारादन्यत्र लौकिकगोत्रमिति । इमो हि शास्त्रे गोत्रान्ततया व्युत्पादनेऽपि लोके जातिपरतयैव प्रसिद्धौ । तथाच यूनि लुगिति सूत्रे शब्दकौस्तुभे। भाष्यम् । राजन्याद् वुञ् मनुष्याच्च ज्ञापकं लौकिकपरमिति । सोऽयं भाष्यवार्तिकारूढः पन्थाः। अपरे तु नेमौ गोत्रप्रत्यया- न्तौ शिवादिभ्योऽणिति सूत्र एव गोत्रग्रहणं निवृत्तमिति वृत्ति- कारकैयटप्रभृतिभिरुक्तत्वात् । अपत्याधिकारादन्यत्र लौकि- कग्रहणं तु व्याख्यानादेव उभयगतिरिहेति भाष्यात् । न चैवं प्रकृतसूत्रे राजन्यमनुष्यग्रहणवैयर्थ्यम् । एतयोरपत्यकृतं ने- ति ज्ञापनेन सफलत्वात् । तेन यलोपो नेत्याहुः । अन्ये तु जातिरेवार्थो न त्वपत्यमित्याहुः । इह पक्षद्वयेऽपि प्रकृत्या- के इति वचनं न कर्त्तव्यमिति तत्वम् । केदाराद्यञ् च ॥ ४० ॥ चाद् वुञ् । अचित्तलक्षणस्य ठकोऽपवादः । केदाराणां समूहः केदारम् । केदारकम् । गणिकायाश्चेति वार्तिकम् । अ. त्र यव नतु वुअपि गाणिक्यम् । ठञ् कवचिनश्च ॥ ४१॥ चात् केदारादपि । कवचिनां समूहः कावचिकम् । कैदारिकम् ॥ ब्राह्मणमाणववाडवाद्यन् ॥ ४२ ॥ ब्राह्मणानां समूहो ब्राह्मण्यम् । माणव्यम् । वाडव्यम् । स्यादेतत् । ब्राह्मणादयो वृद्धाः तेभ्यः प्रकृतो यबेवास्तु । नहि वृद्धाद्यनि यनि वा रूपे विशेषोऽस्ति । न वा स्वरे उभ- यथाप्याधुदात्तत्वात् । ठञ् तु नानुवर्तिष्यते स्वरितत्वात् । स- त्यम् । अन्यतो विधानार्थ यन्वचनम् । तेन पृष्ठादुपसंख्या नमिति वार्तिकं गतार्थम् । पृष्ठशब्दः स्तोत्रविशेषस्य संज्ञा । पृ.

४ अध्याये २ पादे १ आह्निकम् । ११५ छैः स्तुवत इति श्रुतेः । पृष्ठानां समूहः पृष्ठयः । कथं तर्हि पृष्ठयः षडह इति तद्वति तदुपचारात् । मत्त्वर्थलक्षणयेत्यर्थः ।। ग्रामजनबन्धुभ्यस्तल् ॥ ४३ ॥ ग्रामाणां समूहो ग्रामता । जनता । बन्धुता । गजस- हायाभ्यां चेति वक्तव्यम् । गजता । सहायता । अह्नः ख इति वक्तव्यम् । क्रतौ । क्रतावित्यपि तस्यैव शेषः । अहीनः । अहर्गणसाध्यसुत्याकः क्रतुरित्यर्थः । क्रतु वन्त उदाहरणम् । अचित्तात्तु आपूपिकं शाष्कुलिकमित्यादौ परत्वाहगेव । कापो- तम् । मायूरम् । तैत्तिरम् । कपोतमयूरशब्दौ लघावन्त इति मध्योदात्तौ तित्तिरिस्त्वन्तोदात्तः । इगुपधात्किः तरतेः सन्व- तुक चाभ्यासस्येति किप्रत्ययव्युत्पादितत्वात् । सन्वद्भावेना- घुदात्तस्तु न भवति । उणादयो बहुलमिति बहुलवचनात् ।। खण्डिकादिभ्यश्च ॥ ४४ ॥ एभ्योऽञ् स्यात् समूहे । आयुदात्तार्थ वचनम् । अचित्ता- हकं बाधितुं च । खण्डिकानां समूहः खाण्डिकम् । इह क्षुद्रक मालवात्सेनासंज्ञायामिति पठ्यते । तत्र क्षुद्रक मालवादि- ति योगो विभज्यते । क्षुद्रकस्यापत्यानि जनपदशब्दादिति वि. हितस्य तद्राजस्य लुक् मालवात्तु वृद्धलक्षणस्य व्यङः । ततो द्वन्द्व समासस्येत्यन्तोदात्तः ततोऽनुदात्तादेरभित्येव सिद्धे गो- त्रोक्षेति वुझं बाधितुं वचनम् । स्यादेतत् । यथा जनपदसमुदा. यस्य जनपदग्रहणेनाग्रहणात्काशिकोसलीया इत्यत्र छ एव न तु जनपदलक्षणो वुञ्ज तथेहापि गोत्रसमुदायस्यागोत्रत्वाद् वुत्रः प्राप्तिरव नास्ति । नच समुदायस्यागोत्रत्वेऽपि मालवस्य गोत्र- प्रत्ययान्ततया समुदायात्तदन्तविधिना वुमाप्तिः समासप्रत्य- १.१६ शब्दकौस्तुभे । यविधौ तदन्तविधेः. प्रतिषेधात् । किञ्च प्राप्तेपि घुञ् परत्वा- दव भाव्यम् । अत्राहुः । इदमेव सामूहिविधिवुनः पूर्वविभ: तिषेधं च ज्ञापयति यावता हि विनानुपपत्तिर्न शाम्यति तावतः सर्वस्य ज्ञाप्यतयेहोभयज्ञापनसम्भवात् तेन वानहस्तिकम् । गौधेनुकमिति तदन्तविधिः सिद्धः । औपगवकमित्यादौ वुञ् च । ततः सेनासंज्ञायामेवेति नियमार्थ द्वितीयं वाक्यम् । तेन क्षौद्रकमालवीसेना । अन्यत्तु क्षौद्रकमालवके । उभयत्रापि मा- लवादुत्पन्नस्य ज्यङो गोत्रेऽलुगचीति लुकि प्रतिषिद्धे आपत्य- स्येति यलोपः। उक्तं च भाष्ये । असिद्धिरनुदात्तादेः कोऽ क्षुद्रकमालवात् । गोत्राद् वु नच तद्गोत्रं तदन्तान सः सर्वतः ॥ ज्ञापकं स्यात्तदन्तत्वे तथा चापिशलेविधिः । सेनायां नियमार्थ वा यथा बाध्येत वाञ् वुति । तथाचेत्यस्यायमर्थः । धेनुरन- बिकमुत्पादयतीत्यापिशलेः मतम् । इकमुकमित्यर्थः । तेन वृद्धिः सिद्धा । धैनुकम् । अनअिति किम् । अधेनूनां समूह आधेन- वम् । उत्सादिपाठादञ् । यद्यप्युत्सादिगणे धेनुशब्द एव पठ्यते तथापि बष्कयासे इति लिङ्गात्तदन्तविधिः। तत्र सामूहिकेषु यदि तदन्तविधिर्न स्यात्तर्हि अनग्रहणं न कुर्यात् । सेनायामिति द्वितीयवाक्यस्यार्थस्य फलोपन्यासः । उलूकशब्दोऽत्र पठ्यते स लघावन्त इति मध्योदात्तः । यदुलूको वदति इत्यत्र तु छान्दसमायुदात्तत्वम् । एवञ्च भाषायामनुदात्तत्वात्पूर्वेणैवाञ् सिद्धः । इह पाठस्तु गर्गादियनन्तस्य कृतलुक इति बोध्यम् । असति हि पाठे उलूकानां समूहार्थविवक्षायां गोत्रेऽलुगचीति लुका प्रतिषेधादौलूक्यशब्दागोत्राश्रयो वुर प्रामोति । शुक- शब्दोऽत्र पठ्यते प्राणिनां कुपुर्वाणामित्याद्युदात्तत्वादाण प्राप्ते । युगवरत्रेति पठ्यते । तत्सङ्घातविगृहीतार्थम् । यौगवरत्रम् ।

४ अध्याये २ पादे ' आह्निकम् । ११७ योगम् । वारत्रम् । चरणभ्यो धर्मवत् ॥ ४५ ॥ बुनादयश्चरणेभ्यो वक्ष्यन्ते । चरणाद्धर्माम्नाययोरिति तु तत्र वार्तिकम् । तदप्यनेनातिदेशसूत्रेण ज्ञापितम् । यतः प्रकृते धर्मे यः प्रत्ययो वक्ष्यते ततः समूहेऽपि स्यादित्यतिदेशार्थमिदं सूत्रम् । कठानां सङ्घः काठकम् । कालापकम् । गोत्रचरणाद् वुञ् छान्दोग्यम् । औक्थिक्यम् । छन्दोगौक्थिकति ज्यः । आधर्व- णम् । आथर्वणिकस्येकलोपश्चेत्यण् । अचित्तहस्तिधेनोष्ठक् ॥ ४६ ॥ साक्तुकम् । आपूपिकादावपि परत्वादशं बाधित्वाऽयं ठगेव हास्तिकम् । धैनुकम् । तदन्तविधेापितत्वाद्गौधेनुकम् । जङ्ग- लधेनुवलजान्तस्येत्युभयपदवृद्धिविकल्पः । अनबित्युक्तं तेन आधेनवमित्यत्र उत्साधनेव । केशाश्वाभ्यां यञ्छावन्यतरस्याम् ॥ ४७ ॥ आभ्यामेतौ क्रमाद्वा स्तः पक्षे ठगणौ । कैश्यम् । कैशिकम् । अश्वीयम् । आश्वम् । पाशादिभ्यो यः ॥ ४८ ॥ पाश्या । तृण्या। इह पोतगलग्रहणं सङ्घातविगृहीतार्थमिति गोबर्धनः। युक्तश्चैतत् । ग्रामता जनता धूम्या पाश्या गल्या पृथक् पृथगित्यमरकोशात् । पाश । तृणधूम । वेत्ति । अहार । पोटगल पिटक शकट हल नट वन । खलगोरथात् ॥ ४९॥ एभ्यो यः स्यात् । स्वल्या । गव्या । रथ्या ।

११८ शब्दकौस्तुभे। इनित्रकट्यचश्व ॥ ५० ॥ खलादिभ्यः क्रमादमी स्युः। खलिनी। गोत्रा । रथकव्या। खलादिभ्य इनिर्वक्तव्यः । डाकिनी । कुठुम्बिनीत्यादि । आकृ. तिगणोऽयम् । इति सामूहिकाः । विषयो देशे ॥ ५१ ॥ षष्ठयन्ताद्यथाविहितं प्रत्ययः स्यादत्यन्तपरिशीलितेऽर्थे स चेद्देशः । शिबीनां विषयो देशः शैवः । देशे किम् । देवदत्त- स्य विषयोऽनुवाकः। राजन्यादिभ्यो वुञ् ॥ ५२॥ राजन्यादिभ्यो वुझ स्यात् । राजन्यानां विषयो देशः राजन्यकः । आकृतिगणोऽयम् । भौरिक्यार्येषुकार्यादिभ्यो विधल्भक्तलौ ॥ ५३ ॥ आभ्यां यथासंख्यमिमौ स्तः । भौरिकीणां विषयो देशः भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्तम् । सारसाय- अत्र वार्तिकानि । विषयाभिधाने जनपदे लुप् बहुवचनविषयात् । अङ्गानां वङ्गाः । मुह्माः । पुण्ड्राः । गान्धार्यादिभ्यो वा । गान्धा- रः । गान्धारयः । वासातः । वसातयः। शैवः। शिवयः। राजन्यादिभ्यो वा वुझ राजन्यकः राजन्यः । दैवयातवाः । दैवयातवकः । वैल्ववनादिभ्यो नित्यम् । वैल्ववनकः । आम्ब- रीषपुत्रकः । आत्मकामेयकः। न वाऽभिधेयस्य निवासवि- षयत्वाभिवासविवक्षायां लुविषयविवक्षायां प्रत्ययः । अस्या- र्थः। यो येषां विषयस्तत्रैव तेषां निवासे जनपदे लुप् स्पर्यते न नभक्तम् । विषयः अङ्गाः ।

४ अध्याये २ पादे १ आह्निकम् । ११९ तु निवासमात्रे अनभिधानात् । एवञ्चाङ्गा वङ्गाः मुलाः पुण्डा इत्यत्र निवासरूपतैव विवक्ष्यते न तु विषयरूपता । राजन्या. देस्तूभयं तत्र विषयो राजन्यकं निवासो राजन्याः । बैल्व- वनादिषु विषयत्वविवक्षैव । सर्व चेदं यथाभिधानं व्यवस्थास्य. ते तस्मान्मास्तु वार्तिकारम्भ इति । सोऽस्यादिरिति छन्दसः प्रगाथेषु ।। ५४ ।। अक्षरेयत्तानिबन्धनं पङ्क्त्यादिश्छन्दः । तद्वाचकात्पथमा. न्तादादिवाचकादस्येत्यादिमति प्रत्ययः स्यात् स आदिमान् प्रगाथश्चेत् । पतिरादिरस्य पाङ्गः प्रगाथः । आनष्टुभः। जा- गतः । प्रपथ्यत इति प्रगाथः । अकर्तरि च कारक इति क. मणि घञ् । पृषोदरादित्वा फनकारयोर्लोपः। प्रगीयते इति वा प्रगाथः । गै शब्दे उषिकुषिगर्तिभ्यस्थन् । रूढवायम् । चतुर्थ- षष्ठौ पादौ वाहतो प्रगाथे पुनरभ्यसित्वोत्तरयोखस्येदित्येवमा- दिवचनाद्यत्र द्वयोर्कचोस्तिस्रः क्रियन्ते । नपुंसकात् स्वार्थे उप- संख्यानम् । त्रिष्टुबेव त्रैष्टुभम् । जागतम् । कुटी कुटीर इतिवन् स्वार्थिक कृते लिङ्गान्यत्वम् । कथं तर्हि नपुंसकादित्युक्तम् । वृत्तिविषयस्य तथात्वादिति बोध्यम् । संग्रामे प्रयोजनयोदधृभ्यः॥ ५५ ॥ सोऽस्येत्यनुवर्तते । प्रयोजनवाचिभ्यो योद्धृवाचिभ्यश्च समर्थेभ्योऽस्येति षष्टयन्तार्थे सङ्ग्रामेऽभिधेयेऽण् स्यात् । सुभद्रा प्रयोजनमस्य सङ्ग्रामस्य सौभद्रः । भरता योद्धारोऽस्य भा- रतः सङ्ग्रामः ॥ तदस्यां प्रहरणमिति क्रीडायां णः ॥ ५६ ॥ स्पष्टम् । दण्डः प्रहरणमस्यां क्रीडायां दाण्डा । मौष्टा ।

१२० शब्दकौस्तुभे। महरणं किम् । माला भूषणमस्याम् । क्रीडायां किम् । खगः प्रहरणमस्या सेनायाम् । घञः साऽस्यां क्रियेति ञः ॥ ५७ ॥ घनन्तात् क्रियावाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे बात्ययः स्यात् । घन इति कृद्रहणाद्गतिकारकपूर्वस्या- पि ग्रहणम् । श्येनपातोऽस्यां वर्तते श्यैनम्पाता मृगया । ति. लपातोऽस्यां वर्तते तैलम्पाता स्वधा । श्येनतिलस्य पाते के इति मुम् । घनः किम् । श्येनपतनमस्यां वर्तते । क्रिया- किम् । प्राकारोऽस्यां वर्त्तते तदस्यामिति प्रकृते पुनः सास्या- मित्युक्तिः क्रीडायामित्यस्यानुवृत्तिर्मा भूदिति । दण्डपातो- ऽस्यां तिथौ वर्तते दाण्डपाता मौसलपातेत्यादि । तदधीते तद्वेद ॥ ५८ ॥ द्वितीयान्तादध्येतरि वेदितरि च प्रत्ययः स्यात् । व्या करणमधीते वेत्ति वा वैयाकरणः । द्विस्तद्रहणमधीयानविदुषोः पृथग्विधानार्थम् । अन्यथोत्तरत्र क्रतुवसन्तादीनामशब्दात्मकत- याध्ययनासम्भवाद्वेदितर्येव प्रत्ययः स्यात् द्विस्तग्रहणसामर्थ्या- त् क्रतुवसन्तादयः शब्दास्तत्प्रतिपादकग्रन्थे गोणा अपि प्रत्य- यं लभन्ते । क्रतूकधादिसूत्रान्ताट्ठक् ॥ ५९ ॥ ऋतुविशेषवाचिभ्य उक्थादेः सूत्रान्ताच ठक् स्यात् । क्र- तुशब्दस्तु न गृह्यते स्वरूपपरत्वेड्युक्थादिष्वेव पठेत् । नापि पर्यायग्रहणम् । उक्थादिषु यज्ञशब्दपाठात् । तस्मात्क्रतुविशे- पवाचिनामेव ग्रहणं तेभ्यो मुख्यार्थवृत्तिभ्यो वेदितरि प्रत्य- यः सत्यतिपादनपरग्रन्थहात्तिभ्यस्त्वध्येतरीति विवेकः । आ - ४ अध्याय २ पादे १ आह्निकम् । १२१ मिष्टोमिकः । वाजपयिकः । संस्थाविशेषवचनस्याप्यमिष्टोमश- ब्दस्य तत्संस्थाके क्रतौ निरूढः प्रयोगः । उक्थशब्दस्तु सा- मविशेष रूढः यानि यज्ञायत्रीयादुत्तरत्र पठ्यन्ते । तान्यधीयाने ठगणौ द्वावपि नेष्येते अनभिधानात् किन्तूक्थान्यधीत इति वाक्यमेव भवति । सामलक्षणन्तु प्रातिशाख्यमौविथक्यं नाम । औथिकानामाम्नायः इदमर्थे छन्दोगौक्थिति ज्यः तत्र लक्षणया वर्तमान उक्थशब्दष्ठकं लभते । उक्थमधीते वेत्ति वा औक्थिकः । औक्थिक्यशब्दात्तु ठकः प्राप्तिरेव नास्ति । अण् पुनरनभिधानानेति स्थितं भाष्ये । लौकायतिकः। उथ लोकायत न्याय न्यास पुनरुक्त यज्ञचर्चा क्रम इतर श्लक्ष्ण संहिता क्रम पद सट वृत्ति सङ्घह गण गुण आ. युर्वेद इत्युक्थादयः । सूत्रान्ताट्ठगित्यवशिष्यते ॥ तत्र वा. र्तिकम् । विद्यालक्षणकल्पसूत्रान्तादकल्पादेरिका स्मृत इति इकगिति ठगित्यर्थे विद्यालक्षणकल्पान्तादिति अकल्पादेरिति च पूरणीयमिति फलितोऽर्थः । वायसविधिकः । गौलक्षणिकः । पाराशरकल्पिकः । सांग्रहसूत्रिकः । अकल्पादेः किम् । काल्पसूत्रः । सूत्रान्तस्यैवायं निषेधो न तु विद्याद्यन्तस्य । अत एव काल्पसूत्र इत्येव भाष्ये प्रत्युदाहृतमिति कैयटः । काल्पविद्य इति तु केषांचिदुदाहरणं प्रामादिकमिति स एव । अस्यापवादं वार्तिककार एवाह । विद्या चाननक्षत्रधर्मत्रि- पूर्वेति । अङ्गादिचतुष्टयपूर्वको विद्याशब्दष्ठकं न लभत इत्यर्थः । आङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः । विद्यः। इह त्रिविधा विद्या त्रिविधा तामधीत इति विग्रहः । तिस्रो विद्या अधीत इति विग्रहे तु लुक् स्यादित्युक्तं द्विगोलुंगिति संत्रे । अत्र त्रैवियशब्दात स्वार्थे चातुर्वर्ण्यादित्वात् प्यवि त्रैवि- १२२ शब्दकौस्तुभे। घमित्यपि पक्षे भवति । तथा च याज्ञवल्काः । चत्वारो वे. दधर्मज्ञाः पर्षत्रैविद्यमेव वेति । अत एव पञ्चमे कैयटेन चा. तुर्वैद्यमित्यत्र चत्वारो वेदा इति चतस्रो विद्या अधीत इति च द्वेधा व्याख्यातं तत्र ठको लुकि स्वार्थे व्यानि अनुशति- कादित्वादुत्तरपदवृद्धिरिति विशेषः । आख्यायिकेतिहासपु. राणेभ्यश्च ठरवक्तव्य इति शेषः । यावक्रीतमाधिकृत्य व्याख्या- नं यावक्रीतमुपचारात् तदधीते वेत्ति वा यावक्रीतिकः । प्रैय- अवमधिकृत्य कृतमुपचारात् प्रैयङ्गवम् । ततः भैयाधिकः । वासवदत्तामधिकृत्य कृता आख्यायिका वासवदत्ता तामधीते वेत्ति वा वासवदत्तिकः । अधिकृते ग्रन्थे इत्यत्रार्थे वृद्धाच्छः । तस्य लुवाख्यायिकाभ्यो बहुलमिति लुप् । ततोऽनेन ठक् । एवं सौमनोत्तरिकः । गद्यरूपो ग्रन्थविशेष आख्यायिकेति अ. धिकृते ग्रन्थ इति सूत्रे हरदत्तः । ऐतिहासिकः । पौरा- णिकः । अनुसूर्लक्ष्यलक्षणे सर्वसादगिोश्च लः । इ. कन् पदोत्तरपदाच्छतषष्ठः षिकन् पथः अनुसूशब्द: ठकं लभते लक्ष्य लक्षणशब्दौ च । अनुसूर्नाम ग्रन्थः अनुसूमधीते ठक् । इसुसुगिति कादेशः । केऽण इति इस्वः । आनुसुकः । लाक्ष्यिकः । लाक्षणिकः । सर्वादेः सादे- दिगोश्छपत्ययस्य लुगित्यर्थः । अत्र द्विगोश्च ल इत्यंशेन द्विगो- टुंगिति सूत्रसिद्धमेवानूयते । अर्थवतः सशब्दस्य ग्रहणात्स- वंशब्दः पृथगुपात्तः । सर्ववेदानधीते सर्ववेदः। सर्वतन्त्रः । इहाणो लुक् । वार्तिकान्तमधीते सवार्तिकः । अन्तवचने सहशब्दस्याव्ययीभावः । अव्ययीभावे चाकालइति सभावः । ततोऽणो लुक् । द्विगोः । द्वितन्त्रः । पूर्वपदिकः । उतरपदि. कः। पदशब्द उत्तरपदं यस्य तस्मादिकन् स्यादितीकन् ।

४ अध्याये २ पादे १ आह्निकम् । १२३ शतशब्दात् षष्ठिशब्दाच परो यः पथिन्शब्दस्तदन्तात् पिक- न् स्यात् । षो ङीषर्थः । शतपथिकः । शतपथिकी। षष्ठिपथि- कः । षष्ठिपथिकी । अत्र वृत्तिकारो बहुलग्रहणं कृत्वा शातपथ इत्यणमप्युदाजहार तत्तु भाष्यादौ नास्ति । इकन् बहुलं प- थोत्तरपदादित्युक्थाधन्तर्गणसूत्रमिति न्यासकारः । क्रमादिभ्यो वुन् ॥ ६१॥ अणोऽपवादः । क्रमकः । पदकः । क्रम पद शिक्षा मीमांसा। अनुब्राह्मणादिनिः ॥ ६२॥ ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणं तदधीते वेत्ति वा अनु- ब्राह्मणी । यथार्थे यदव्ययमिति सादृश्ये ऽव्ययीभावादिनिः। म. त्वर्थीयेन सिद्धे अध्येतवेदितोरणं बाधितुं सूत्रम् ॥ वसन्तादिभ्यष्ठक् ॥६३ ॥ यत्र वसन्तो वर्ण्यते यो वा वसन्ते ऽध्येयः स उपचाराद्वसन्तः तमधीते वेत्ति वासन्तिकः । उक्थादिषु वसन्तादयः पाठ्याः । ते वा वसन्तादिषु । तथा तु न कृतमित्येव । अथर्वन्शब्दो ऽत्र पठ्यते । स उपचारादर्वणा प्रोक्त ग्रन्थे वर्तते । शैषि- कप्रकरणान्ते भाष्यकारास्तु इत्थमाहुः। तेन प्रोक्तमिति प्र. कृत्य ऋषिभ्यो लुग्वक्तव्यः । वसिष्ठः । विश्वामित्रः । अ- नुवाकः । अथर्वणो वा अथर्वा आथर्वण इति । अथर्वाणमधीते आथर्वणिकः । दाण्डिनायनसूत्रे निपा- तनाहिलोपो न । वसन्त वर्षा शरत् हेमन्त शिशिर प्रथम 4- नुगुण अथर्वन् आथर्वण ।

१२४ शब्दकौस्तुभे। प्रोक्ताल्लुक् ॥ ६ ॥ प्रोक्ते भवः प्रोक्तः । सौत्रत्वात् संज्ञापूर्वकत्वाद्वान वृद्धिः। उपचाराद्वा प्रोक्ते प्रोक्तशब्दः। प्रोक्तार्थकात्ययात्परस्याध्येहवे. दिवप्रत्ययस्य लुक् स्यात् । पाणिनिना प्रोक्तं पाणिनीयम् । तदधीयते पाणिनीयाः । वृद्धाच्छोऽत्र । प्रोक्तार्थकः प्रत्ययः । नात्रेयश्चेत्यण् । गोत्रे य इञ् तदन्तादेव स इति सिद्धान्तात् । ततोऽध्येत्रणो लुक् । स्त्रियां स्वरे च विशेषः । असति हि लुकि टिड्ढाणअिति ङीप् स्यात् । अण्स्वरेणान्तोदात्तत्वं च । लुकि सति तु टाप् भवति छस्वरेण मध्योदात्तता च । सूत्राच्च कोपधात् ॥६५॥ सूत्रवाचिनः ककारोपधादध्येतवेदिवप्रत्ययस्य लुक स्यात् । अप्रोक्तार्थ आरम्भः । अष्टावध्यायाः परिमाणमस्य अष्टकं पाणिनेः सूत्रम् । संख्यायाः मंज्ञासङ्घसूत्राध्ययनविति संख्याया अतिशदन्तायाः कन् । तदधीयते अष्टकाः पाणिनी. याः । दशका वैयाघ्रपदीयाः। त्रिकाः काशकृत्स्नाः । संख्याम- कृतरिति वक्तव्यम् । संख्याप्रकृतिकप्रत्ययान्तादित्यर्थः । क- लापिनो मोक्तमधीयते कालापाः । कलापिनोऽण् । नान्तस्य टिलोपे सब्रह्मचारीत्यौपसंख्यानिकष्टिलोपः । ततस्तदधीत इत्यण् । प्रोक्ताल्लुक् । कालापानामानाय इति गोत्रचरणाद् वुञ् । कालापकम् । ततस्तदधीत इत्यण् । तस्यालुक् । सति तु लुकि बित्स्वरेणाद्युदात्तः स्यात् सिद्धान्ते त्वण एव स्वरः । खियां डीप च । कोपधात्किम् । चत्वारोऽवयवा अस्य चतु- टयम् । तदधीते चातुष्टयः।

४ अध्याये २ पादे ! आह्निकम् । १२५ छन्दोब्राह्मणानि च तद्विषयाणि ॥ ६६ ॥ मण्डूकप्लुत्या प्रोक्तादित्यनुवृत्तं छन्दोब्राह्मणसामानाधि- करण्याजसन्तं विपरिणम्यते । छन्दांसि ब्राह्मणानि च प्रो- क्तप्रत्ययान्तानि तद्विषयाणि स्युः अध्येतवेदितप्रत्ययं विना न प्रयोज्यानि । यथा मपं विना व्यन्तं न प्रयुज्यते तथेत्यर्थः । अत एव तन्त्रेणार्थद्वयं विगृह्यते कठेन प्रोक्तमधीयते कठाः । वैशम्पायनान्तेवासित्वाणिनिः। तस्य कठचरकाल्लुक् ततोऽध्ये- तर्यण तस्य प्रोक्ताल्लुक् । मुदपिप्पलादशब्दाभ्यां प्रोक्तार्थे औत्सर्गिकोऽण् । शेषं यथायोगं प्राग्वत् । मौदाः । पैप्पलादाः । अर्चाभो वैशम्पायनान्तेवासी तस्माणिनिः। आर्चाभिनः। वाज- सनेयशब्दः शौनकादिः। वाजसनेयिनः । ब्राह्मणानि । ताण्ड्येन प्रोक्तमधीयते ताण्डिनः । आपत्यस्येति यलोपः । भाल्ल. विशब्द इअन्तः शाट्यशब्दागर्गादियअन्ताधभियोश्चेति फक् । ऐतरेयशब्दः शुभ्रादिढगन्तः । तेभ्यः पुराणमोक्तष्विति णिनिः । भाल्लविनः । शाट्यायनिनः । ऐतरोयणः । छन्दोग्रह- णादेव सिद्ध ब्राह्मणग्रहणं तद्विशेषप्रतिपयर्थम् । तेन पुराण- प्रोक्तानामेव तद्विषयता । नेह । याज्ञवल्क्येन प्रोक्तानि ब्राह्म. णानि याज्ञवल्कानि । कण्वादिभ्यो गोत्र इत्यण । आपत्ये- ति यलोपः । सुतभादौत्सर्गिकोऽण् । सौतभानि । याज्ञवल्क्या- दिभ्यः प्रतिषेध इति प्रतिषेधं पठन्ति इह चकारोऽनुक्तसमुच्च- यार्थः । कल्पे । काश्यपिनः । कौशिकिनः । काश्यपकौशि- काभ्यामृषिभ्यां णिनिः । सूत्रे पाराशरिणो भिक्षवः । शैला.. लिनो नटाः। पाराशर्यशिलालिभ्यामिति णिनिः । कर्मन्दिनः । कशाश्विनः । कर्मन्दकृशाश्वादिनिः । एतच्च सर्वमिह सूत्रे न्या.

१२६ शब्दकौस्तुभे । सभेदेन भाष्यसाधितमिति वृत्तिकृता चकारेण संगृहीतम् । छ- न्दोब्राह्मणानीति किम् । पाणिनीयं व्याकरणम् । पैङ्गी कल्पः । पिङ्गशब्दात् पुराणमोक्तेष्विति णिनिः । अथ चातुरर्थिकाः। तदस्मिन्नस्तीति देशे तन्नाम्नि ॥ ६७ ॥ प्रथमान्तादस्त्युपाधिकादण् स्यात् अस्मिन्नित्यर्थे प्रत्यया- न्तनामा देशश्चेत् । उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरः। बाल्व- जः । पार्वतः । सकललोकनिरूढे यथा स्यानत्वाधुनिकसंकोति- तेऽपीत्येतदर्थ इतिशब्दः । भूमनिन्दाद्यर्थपरिग्रहार्थश्च । म- तुपोऽयमपवादः । यद्येवमपवादविप्रतिषेधादिनिठनादयः प्रा- नुवन्ति । सत्यम् । तन्नाम्नात्युक्तेर्न दोषः। तद्धि नामधेय- ताविरोधिनो बलीयसोऽपि प्रत्ययान् बाधितुं क्रियते । तेन निवृत्तम् ॥ ६८ ॥ अन्तर्भावितण्याद्वत्तेः कर्मणि क्तः । देशे तनाम्नीति सू- प्रचतुष्ठयेऽप्यन्वेति । सहस्रेण निर्वृत्ता साहस्री परिखा । कुशा- म्वेन निर्वत्ता कौशाम्बी नगरी । तस्य निवासः ॥ ६९ ॥ शैवो देशः। अदूरभवश्व ॥ ७० ॥ तस्येत्येव । विदिशाया अदूरभवं नगरं वैदिशम् । चकारेण प्रागुक्ता अपि त्रयोऽर्थी इह संनिधाप्यन्ते । तेन वक्ष्य- माणप्रत्ययानां चातुरर्थिकत्वम् । चतुर्णामर्थानां समाहार- चतुरर्थी । तत्र भवा हि चातुरर्थिकाः । अध्यात्मादित्वाम् ।

४ अध्याये २ पादे १ आहिकम् । १२७ तद्धितार्थे द्विगौ तु ठनो लुक् स्यात् । चकारविरहे तु .सं- निधानाददूरभवार्थ एवोत्तरत्र संबध्येत । सन्निधानात् । ओरञ् ॥ ७१॥ चातुरर्थिकः । अरडुक्षविशेषः आरडवम् । नयां तु परत्वान्मतुः । इक्षुमती । द्रुमती । मतोश्च वह्वजङ्गात् ॥ ७२॥ बहुच्कमहं यस्य तथाभूतो पो मतुस्तदन्तादञ् स्यात् । सै- धकावतम् । बह्वजङ्गारिकम् । आहिमतम् । स्यादेतत् । मतो- बतच इत्येवास्तु व्यधिकरणे च पञ्चम्यौ व्याख्यास्येते । ब- हचो विहितो यो मतुस्तदन्तादिति । मैवम् सामानाधिकर. ण्यस्य न्याय्यतया मत्वन्तं यदहच् इत्येवास्तु न व्यधिकरण- मिति हि युज्यते । ततश्चाहिमतोऽञ् स्यात् । व्याव] तु स्ववानिति स्यात् । बह्वचः कूपेषु ॥ ७३ ॥ पहचप्रकृतिकात्सुबन्तादय् स्याचातुरर्थिकः कूपेष्वभि- धेयेषु । दीर्घवरत्रेण निवृत्तः कूपो दैर्घवरत्रः ।। उदक् च विपाशः ॥ ७४ ॥ विपाश उत्तरे ये कूपास्तेष्वभिधेयेषु अञ् स्याचातुरर्थि- कः। अबहजर्थ आरम्भः । दत्वेन निवृत्तः दात्तः कूपः । उद- किम् । दक्षिणतः कूपेष्वणेव । दात्तः । गौप्तः । स्वरे विशेषः । संकलादिभ्यश्च ॥ ७५॥ एभ्योऽञ् स्यात् । कूपेष्विति निवृत्तम् । संकलेन नित्तः सालः॥

१२८ शब्दकौस्तुभे । स्त्रीषु सौवीरसाल्वप्राक्षु ॥ ७६ ॥ सौवीरे तावत् दत्तामित्रेण निर्वृत्ता दात्तामित्री नगरी । साल्वे विधूमाग्निना नित्ता वैधूमानी । माचि । ककुदेन नि- वृत्ता काकुदी। सुवास्त्वादिभ्योऽण् ॥ ७७ ॥ उवर्णान्तलक्षणस्य कूपलक्षणस्य चामोऽपवादः । सुवास्तो- रदूरभवं सौवास्तवम् । ताण्डवम् । अण्ग्रहणं नद्यां मनुपो बा. धनार्थम् । सौवास्तवी नदी ॥ रोणी ॥ ७८ ॥ अस्मादण् स्यात् । कूपलक्षणस्यानो ऽपवादः । रौणः कूपः । तदन्तविधिरत्र येन विधिरितिसूत्रे | आजकरोणः । कोपधाच्च ॥ ७९ ॥ प्राग्वत् । कार्णछिद्रकः कूपः॥ वुञ्छ ण कठजिलसेनिरढण्ययफफिनिञ्यक्क- ठकोऽरीहणकृशाश्वर्यकुमुदकाशतृणप्रेक्षाश्मसखिसंका. शवलपक्षकर्णसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः ॥८॥ अरीहणादिभ्यः सप्तदशभ्यो गणेम्यः क्रमाद् वुना- दयः स्युश्चतुराम् । सूत्रे कुमुदस्य द्विः पाठेप्येक शेषो न भवति । प्रथमतः कुमुदान्तानां चतुर्णा द्वन्दं वि. धाय द्वितीयेन काशादिकुमुदान्तद्वन्द्वेन सह पुनर्द्वन्द्वविधानात् ॥ आदिशब्दः प्रत्येकं संवध्यते । तथाहि अरीहणादिभ्यो वु- म् । अरीहणेन निर्वृत्तं आरीहणकम् । कशाश्वादिभ्यश्छण् ।

४ अध्याये २ पादे १ आह्निकम् । १२९ काश्विीयः । ऋश्यादिभ्यः कः । ऋश्यकम् । कुमुदादिभ्यः छन् । कुमुदिकम् । काशादिभ्य इल: । काशिलः । तृणादि- भ्यः सः । तृणसम् । प्रेक्षादिभ्य इनिः । प्रेक्षी। अनादि. भ्यो रः। अश्मरा। सख्यादिभ्यो ढब् । साखेयम् । सङ्का- शादिभ्यो राय: । साङ्काश्यम् । बलादिभ्यो य: । बल्यम् । पक्षादिभ्यः फक् । पाक्षायणः । पयः पन्थ च । पान्थायनः । कर्णादिभ्यः फिन् । काणार्यनिः । सुतङ्गमादिभ्य इञ् । सौत. जमिः । प्रगदादिभ्यो ज्य: । प्रगदिन् प्रागद्यः । वराहादिभ्यः कक् । वाराहकः । कुमुदादिभ्यष्ठक् । कौमुदिकः । इह शिरी- पशब्दो गणत्रये पठ्यते । अरीहणादौ प्रथमकुमुदादौ वराहादी च । कथं तर्हि लुपि युक्तवदित्यत्र भाष्यं शिरीषाणामपि पक्ष लुबिति वास्तु उभयथापि चातुरूप्ये न विवादः । शरीषकः । वुञ् । शिरीषिकः । ठन् । शैरीषकः । कक् । शिरीषा इति । जनपदे लुप् ॥ ८१ ॥ ग्रामसमुदायो जनपदः तस्मिन् वाच्ये चातुरर्थिकस्य लुप् स्याल्लुबन्तं देशस्य नाम चेत् । पञ्चालानां निवासो जन- पदः पश्चाला: । कुरवः । अङ्गाः । वङ्गाः । कलिङ्गाः । मगधाः । पुण्ड्राः । तमाम्नीति किम् । उदुम्बराः सन्त्यस्मिन्नि- ति औदुम्बरो जनपदः । न छत्र लुबन्तं नामधेयम् । वरणादिभ्यश्च ॥ ८२ ॥ एभ्यः प्राग्वत् । अजनपदार्थ आरम्भः । वरणानामदूरभ- वं नगरं वरणाः। नगरं हि देशो न तु जनपदः । आकृति- गणोऽयम् ।

१३० शब्दकौस्तुभे। शर्कराया वा ॥ ८३ ॥ अस्माचातुरार्थकस्य वा लुप् स्यात् । ननु वाग्रहणं व्य- थै प्रथमकुमुदादौ वराहादौ च पाठसामर्थ्यादेव पक्षे उच्क- कोः श्रवणसम्भवात् सत्यम् । अत एव वाग्रहणसामर्थ्या- व पक्षे औत्सर्गिकोऽण् तस्य चायं लुविकल्पः । तदिह वक्ष्य- माणठक्छाभ्यां सह रूपषद्कं बोध्यम् । शर्करा । शार्करम् । शर्करिकम् । शारकम् । शार्करिकम् । शर्करीयमिति । ठक्छौ च ॥ ८४ ॥ शर्कराशब्दादेतौ स्तश्चतुराम् । उदाहृतम् । नद्यां मतुप् ॥ ८५॥ चातुरर्थिकः । उदुम्बराः सन्त्यस्यामुदुम्बरावती । इक्षु. मती । कथं तर्हि भगीरथेन नित्ता भागीरथीति मतुब- न्तस्यातनामधेयत्वात् । मध्वादिभ्यश्च ॥८६॥ अनद्यर्थ आरम्भः । मधुमान् । कुमुदनडवेतसेभ्यो ड्मतुप् ॥ ८७ ॥ कुमुद्वान् । नडान् । वेतस्वान् । अवर्णोपधा- त्परत्वेन वत्वम् । पूर्वत्रासिद्धे चेति टिलोपो न स्थानिवत् । एकदेशविकृतन्यायेन पदत्वाद्रुत्वे प्राप्ते बहिरङ्गत्वाहिलोप- स्यामिद्धत्वम् । न च पाष्ठी बहिरङ्गपरिभाषा रुं न पश्यदिति पाच्यम् । कार्यकालपक्षाश्रयणात् । नन्वेवम् औत्सीत्यादौ रुः घटी आमलकीत्यादौ जश्त्वं च स्यात् । यस्येतिलोपे कृते ४ अध्याये २ पादे १ आह्निकम् । १३१ पूर्वस्य स्वादिष्विति पदत्वात् । न च भत्वं यस्येतिलोपस्य स्था. निवद्भावात् । न च पदत्वेप्येवं तस्य रुविधिना सह कार्य- कालतया पूर्वत्रासिद्धे चेतिनिषेधादिति चेन्न । पदसंज्ञायां यथोद्देशाश्रयणात् । अत एव राम औ इत्यवस्थायां पदत्वे वस्त्रसादाविव स्थानिवद्भावेन रामावित्यादेः पदत्वम् । अन्यथा उभयत आश्रयेऽन्तादिवद्भावप्रतिषेधात्पदत्वं दुर्लभं स्यादिति दिक् । महिषाचेति वक्तव्यम् । महिष्मानाम देशः । प्रकृतस्यैवं मतुपः डित्वातिदेशेन सिद्ध प्रक्रियालाघवाय वतुपि वा कर्तव्ये मतुवचनमन्यतो विधानार्थम् । तेन महिषाच्चे- स्यपि सूत्रेण सूचितमेव ॥ नडशादाड् डवलच् ॥ ८८ ॥ नड्वलः । शाद्वलः । शादशब्दो दोपधः । शादो जम्बाल- घासयोरित्यमरः । शावल: शादहरिते इति च । शिखाया वलच ॥ ८९ ॥ शिखावलम् । दन्तशिखात्संज्ञायामिति पञ्चमे वक्ष्यति त. ददेशेपि शिखावल इति रूपस्य सिद्धये इदन्तु निर्वृत्ताधर्थ देशे तत्राप्यणो बाधनार्थ च । उत्करादिभ्यश्छः ॥९॥ उत्करीयः। नडादीनां कुक् च ॥ ९१॥ नडकीयम् । अत्रान्तर्गणसूत्रद्वयम् । क्रुश्चा हस्वत्वं च । तक्षमलोपश्चेति । कुश्चकीयः । तक्षकीयः । कुटि तु नलोपसिद्धा- शब्दकौस्तुभे। वपि छस्य ईयो न स्यात् । अप्रत्ययादित्वात् । इति श्रीशब्दकौस्तुभे चतुर्थस्याध्यायस्य द्वितीये पादे प्रथममातिकम् । शेषे ॥ ९२ ॥ अपत्यादिचतुरयन्तादन्योऽर्थः शेषस्तत्राणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । दृषदि पिष्टा दार्षदाः सक्तवः । उलूखले क्षुण्ण औलूखलो यावकः । अश्वैरुह्यते आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् । चतुर्द- श्यां दृश्यते चातुर्दशं रक्षः । स्यादेतत् । तस्येदमिति सूत्रेण चाक्षुषादयः सिद्धाः । दार्षदादयस्तु संस्कृतं भक्षा इत्यनेन तत् किं शेष इति सूत्रेण । न चाधिकारार्थ तदिति वाच्यम् । अधि- कारं विनापि घादीनां युट्युलन्तानां अपत्यादिचतुरर्थीपर्यन्ते- प्वर्थेष्वप्रवृत्तेपिकेनैव सुसाधत्वात् । तथाहि आर्द्रकशाले- त्यादयो वृद्धाः तेषां वृद्धाच्छ इत्येव सिद्ध उत्करादिषु पाठो ज्ञापयति नेतः प्राक् घादयः स्युरिति । गोत्रोक्षेति वुविधिर- पीह लिङ्गम् । अन्यथा हि समूहस्यापीदमर्थान्तर्भूततया गोत्रच. रणादित्येव वुः सिद्धे किं तेन । तथा राजन्यादिषु दैवया- नशब्दस्यारीहणादिषु भास्त्रायणशब्दस्य च पाठोऽपीह ज्ञापकः तयोरपि गोत्रप्रत्ययान्ततया गोत्रचरणादित्येव वुनः सिद्धेः । तथा फेश्छचेत्यत्र वेत्या ठग्विकल्प्यता छवचनं तु ज्ञापकमेवाप- त्यादिषु घादयो नेति । किञ्च । अपत्याधर्थानामनुवृत्या तस्ये- दंविशेषतया वा यदि तत्र घादय इष्येरन् तर्हि माग्दीव्यतो- णित्यवाणादिभिः सह पठ्येरन् । ननु मा भूदपत्यादि- ४ अध्याये २ पादे २ आह्निकम् । १३३ व्यावृत्तये शेषाधिकारः । तथापि साकल्यार्थः .सः अन्यथा संनिहिते जातार्थ एव घादयः स्युः भवादौ तु माग्दीव्यत इति विशिष्टावधिपरिच्छिन्नेषु अर्थेषु विधीयमाना अणादय एव स्युन तु घादयः शेषशब्दात्तु सर्वेषु घादयः सिध्यतीति । मैवम् । जाताधिकारानन्तरमा. षष्ठवित्यादिभिः सह घादिषु वक्तव्येषु ततः प्राक् पाठसा- मादेवार्थसाकल्यलाभात् । तस्मात् शेष इति लक्षणं चाधिका- रश्चेति वृत्तिरप्यसङ्गता । उभयत्रापि प्रयोजनस्य दुर्लभत्वा- त् । अत्रोच्यते । शैषिकत्वप्रयुक्त कार्यविशेष ध्वनायितुं क्रियमा. णः शेषाधिकारो ज्ञापयति । शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः ।। सरूपः प्रत्ययो नेष्टः समन्तान सनिष्यत ॥ इति । एतच्च सन्विधौ मतुबिधौ च भाष्ये पठितम् । अस्याः । शेषाधिकारे भवः शैषिकः । अध्यात्मादित्वाठञ् । मतुबर्थे भवो मतुबर्थीयः। गहादेराकृतिगणत्वाच्छ इति सन्विधौ हरदत्तः । रोगाख्यायामितिसूत्रे तु मत्वर्थाच्छ इति वार्तिक व्याचक्षाणो हरदत्त आह । मतुना समानार्थो मत्वर्थः तस्मा. स्वार्थे छः कदाधिकारे विधानसामर्थ्यात्कृत्संज्ञा कृदन्तत्वात् प्रातिपदिकत्वं बहुलवचनादभत्वेऽपि यस्योतलोपः । बाहुला. कादेव कचिन्न । तसौ मत्वर्थ इति यथा । बाहुलकादेव मतुब- र्थशब्दादपि भवति । शैषिकान्मतुब यादिति यथा । मतु- पोऽर्थो मतुवर्थः सोस्यास्तीति मतुबर्थिकः अत इतिठनाविति उन् । शैषिकप्रत्ययान्ताच्छैषिक: सरूपप्रत्ययो नेष्टः तद्यथा शालायां भवो घटः शालीयः । तत्र भवमुदकम् । पुनश्छो न १३४ शब्दकौस्तुभे । भवति । विरूपस्तु स्यादेव तद्यथा अहिछत्रे भव आहिछत्रः । तत्र भव आहिछत्रीयः । दण्डोऽस्यास्तीति दण्डिकः। सोऽस्या- स्तीति पुनष्ठञ् नेति तृतीये कैयटहरदत्तौ । इदं च मतुप्सूत्रस्थ- भाष्यापर्यालोचनमूलकम् । तत्र हि षष्ठयर्थे वृत्तं सप्तम्यर्थे व- ते सप्तम्यर्थे वा वृत्तं षष्ठयर्थे इत्युक्तं तच्चावश्यं वक्तव्यम् । ठजन्तादिनिरपि मा भूदित्येवमर्थम् । न हीनिठनोरर्थभेदः सुलभः सप्तम्यां च न तौ स्मृतावित्युक्तेरुभयोरपि षष्ठयर्थ- त्वात् । स्पष्टं चेदं पाश्चमिककैयटेऽपि । तस्मादिह दण्डिश- ब्दात् सप्तम्यर्थे यथा मतुब्भवति दण्डिमतीति एवं मत्वन्ताद- पि प्राप्तोऽनेन निषिध्यत इति तत्वम् । वह्निमदानित्यादिनैया- यिकपयोगस्तु दोषद्वयग्रस्तः । मतुबन्तान् मतुपो निषेधात् । त- सावितिभत्वेन जश्त्वासम्भवाच्च । केचित्तु शाब्दिकम्मन्या घ- टत्वत्वमित्यादि नैयायिकप्रयोगमपि दूषयन्ति । तन्मन्दम् । त्व- तलोरशैषिकत्वात् । विकारावयवप्रत्ययेभ्यः प्रागेव हि शेषाधिकारः। सनन्तादिति । अत्रापि सरूप इत्यपेक्ष्यते सारू. प्येण चात्रार्थसादृश्यं लभ्यते सामर्थ्यात् । तेन स्वार्थसनन्ता- सन् स्यादेव जुगुप्सिषते मीमांसिषत इति दिक् । राष्ट्रावारपाराद् घखौ ॥ ९३ ॥ आभ्यां क्रमात् घखौ स्तः । राष्ट्रियः । अवारपारीणः । अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम् । वाचनि- कमेवेदम् । सूत्रे तु सङ्घातस्यैव ग्रहणम् । अन्यथा वैषम्यात् संख्यातानुदेशो न स्यात् । अवारीणः ।पारीणः। पारावारीणः । प्रकृतिविशेषात्प्रत्ययविशेष इत्येतावन्मात्रमिह प्रकरणे उच्यते । जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ।।

४ अध्याये २ पादे २ आदिकम् । ग्रामाद्यखौ ॥ ९४ ॥ ग्राम्यः । ग्रामीणः । उत्तरसूत्रे ग्रामादित्यनुवृत्तैकत्र- पि। ग्रामयकः। कतत्र्यादिभ्यो ढकञ् ॥ ९५ ॥ कुत्सितास्त्रयः कत्रयः । बहुव्रीहिर्वा । अत एव निपात- नात्कोः कद्भावः । तेन कद्भावे त्रावुपसंख्यानमिति न कर्तव्यम् । कात्रेयकः । उम्भि पुष्कर मोदन कुण्डिन नगर माहिष्मती चर्मरावती । कुल्याया यलोपश्चेत्यन्तर्गणसूत्रम् । अत्र तृतीयो वर्णो लकार इत्येके । डकार इत्यन्ये । कुलकुक्षिग्रीवाम्यः श्वास्यलङ्कारेषु ॥ ९६ ॥ कौलेयकःश्वा। कौक्षेयकोऽसिः। कोलोऽन्यः। कोक्षोऽन्यः। प्रैवेयकोऽलङ्कारः । ग्रैवोऽन्यः।अयं योगः प्रत्याख्यातो भाष्ये । तथाहि । यदा कुशब्दश्च कुले वर्त्तते तदा तस्यापत्यमपि श्वैव । तत्रापूर्वपदादन्यतरस्यमिति ढकना सिद्धम् । कुक्षिग्रीवाश- ब्दाभ्यां तु दृतिकुक्षिकलशिवत्सस्त्यहेर्दन् । ग्रीवाभ्योऽण चे- त्याभ्यां तत्र भव इत्यधिकृत्य पठिताभ्यां सूत्राभ्यां ढनि कृते अस्यलङ्ककारयोः स्वार्थिकः कन् भवति । नद्यादिभ्यो ढक् ॥ ९७ ॥ नादेयम् । माहेयम् । पूर्वनगरीति पठ्यते । पौर्वनगरेयम् । पूर्वनगिरीति पाठान्तरम् । प्रकृत्तित्रयश्चेदम् । पुरि वने गिरौ चं भवं पौरेयं वानेयं गैरेयम् । नदी मही वाराणसी शरावती कौशाम्बीत्यादि ।

१३६ शब्दकौस्तुभे ।. दक्षिणापश्चात्पुरसस्त्यक् ॥ १८ ॥ दक्षिणादाजित्याजन्तमव्ययमिह गृह्यते पश्चात्पुरोभ्या साह- चर्यात् । दाक्षिणात्यः । पाचात्यः । पौरस्त्यः । कथं तर्हि नृपः पुरस्थैः प्रतिरुद्धवा पश्चात्तनैश्चन नुद्यमानः । यन्त्रस्थसिद्धा- थपदाभिषेकं लब्ध्वाप्यसिद्धार्थममन्यत स्वमिति । अत्र केचित् । पश्चात्तन्वन्तीति कुसृष्टया व्याचक्षते । अन्ये तु दिग्देशवाचिनि पश्चाच्छब्दे सावकाशं त्यकं परत्वाद्वाधित्वा कालवाचकात् युट्युलौ एव स्तः। अत एव शुप्रागितिसूत्रे प्राक्तनमित्युदाहृतं वृत्तौ परत्वाद्यतं बाधित्वा कालवाचिनष्टयुरिति न्यासकारा- दयश्च । नन्वेवं प्रकृते पश्चिमदेशस्थत्वस्यालाभादर्थासङ्गतिः पश्चिमकालभवत्वस्य शब्देन लाभे सत्यर्थादेशस्यापि लाभादि- ति वदन्ति । तन्न अग्रादिपश्चाड्डिमजिति डिमचा ट्युट्युलोर्बाध- स्य दुर्वारत्वात् । तस्मात् वाधकविषयेप्युत्सर्ग इति कथञ्चित्सम- र्थनीयम् । कापिण्याः फक् ॥ ९९ ॥ कापिशीशब्दात् फक् शेषे । षो डीपर्थः । कापिशायनं मधु । कापिशायनी द्राक्षा । वाइल्युर्दिपर्दिभ्यश्चेति वक्तव्यम् । अवृद्धादपीति वुओऽपवादः । वाहायनः । औयनः । पायनः ॥ रङ्कोरमनुष्येऽण् च ॥ १० ॥ रङ्कुशब्दादण् स्यात् चात् फक् अमनुष्येऽभिधेये । रावो राङ्कवायणो वा गौः। रचो नाम जनपदः ततः प्राग्दी- व्यतोऽण् प्राप्तः । तस्याद्धादपीति बुब् बाधकः । तस्य ओर्देशे ठम् । तस्य कोपधादण् । तत: कच्छा- ४ अध्याये २ पादे २ आहिकम् । दिभ्यश्चेत्यण प्राप्तः ततः फगणौ विधीयते । कोपधत्वादे- वाणि सिद्धे रङ्कुशब्दस्य कच्छादिपाठो मनुष्यतत्स्थयोवुविधा नार्थः । अमनुष्ये किम् । रावको मनुष्यः । स्यादेतत् । रङ्कोरित्येवं सूत्रमस्तु । कच्छादिषु पाठादणः सिद्धेः । मनुष्ये तु फगणौ बाधित्वा मनुष्यतत्स्थयोवुञ् भविष्यति । ये- ननाप्राप्तिन्यायेनापवादत्वात् । न च तत्स्थे ष्फगणावेव स्त इति ज्ञापनार्थमिदमिति वाच्यम् । राङ्कनकः कम्बल इत्यत्र वुन एवे- ष्यमाणत्वात् । अत्र वृत्तिकाराः । मनुष्य इति पर्युदासात् प्राणिन्येव फग्विधीयते तेन रावकः कम्बल इत्यत्र फङ् न । विशेषविहितेन फकाऽणो बाधो मा भूदित्यण्ग्रहणमपि कर्तव्यम् । एतच्च भाष्यवार्तिकाभ्यां विरुध्यते । तथाहि । अप्राणिन्यपि फकं स्वीकृत्य शेषस्तत्र प्रत्याख्यातः। आह च रङ्कोरमनुष्यग्रहणानर्थक्यं मनुष्यतत्स्थयोवुविधानात् । तत्स्थे फगणोपिकमिति चेन्नानिष्टत्वात् । अण्ग्रहणानर्थक्यं च कच्छादिभ्योऽविधानात् । धुप्रागपागुदप्रतीचो यत् ॥ ११ ॥ एभ्यो यत् । दिवि भवं दिव्यम् । प्राच्यम् । उदीच्यम् । इह सूत्रे दिवशब्दो दिवउदित्युत्वेन निर्दिष्टः न तु शुशब्दः व्याख्यानात् । अपाची दक्षिणा दिक् । द्वितीयो वर्णः प- कारो न तु दन्त्योष्ठयः। पदिन्द्रप्रागपागुदक् । राजा वृत्रञ्जङ्घ- मागपागुदगित्यादौ दर्शनात् । प्राच्यवाचीप्रतीच्यस्ताः पूर्व- दक्षिणपश्चिमा इत्यमरः । प्रागादयंः शब्दा द्विविधा अव्यया अनव्ययाश्च । अस्तात्यन्ता अव्यया अन्ये तु न । विशेषानु- शब्दकौस्तुभे। पादानादुभयेऽपीह गृह्यन्ते । कालवाचिनोऽव्ययात्तु परत्वात ट्युट्युलौ । प्राक्तनम् । कन्थायाष्ठक् ॥ १०२॥ कान्थिकः । वर्णी वुक ॥ १०३ ॥ वर्णों या कन्था ततो वुक् स्यात् । ठकोऽपवादः । य- था हि जातं हिमवत्सु कान्थकम् । वणुर्नाम नदः तत्समीप- देशो वर्णः अदूरभवश्चत्यर्थे सुवास्त्वादिभ्योऽण् । तस्य ज- नपदे लुप् । न च प्रतिपदविधानाल्लुम्नेति वाच्यम् । सुवा- स्त्वादिपाठस्य जनपदादन्यत्र कृतार्थत्वात् । वार्णवो ग्रामो वार्णवं नगरमिति यथा । सूत्रे सप्तमीनिर्देशस्तु गम्यमानस- तापेक्षः कारकाणां क्रिययैवान्वयस्थितत्वात् । तथा च व. रें विद्यमाना या कन्थेति विवरीतव्यम् । अव्ययात्त्यप् ॥ १०४ ॥ अत्र वार्तिकम् । अमेहकतसित्रेभ्यस्त्यब्बिधिर्योऽव्ययात् स्मृतः । अमात्यः । अमान्तिकसहार्थयोरिति मेदिनी । इहत्यः । कत्यः । ततस्त्यः । तत्रत्यः । परिगणनं किम् । उपरिष्टाद्भव औपरिष्टः । पारतः । विभाषापरावराभ्यामित्यसुजन्तः परतः शब्दः ततोऽण् । अव्ययानां भमात्रे टिलोपः । बहिषष्टिलोप- विधानात् ज्ञापकादनित्योऽयम् । तेनेह न । आरातीयः । - द्धाच्छ इति छः । त्यन्नेधुव इति वक्तव्यम् । नित्यः । निसो गते इति वक्तव्यम् । निष्टयः । निर्गत इत्यर्थः । निर्गतो व. नर्णाश्रमेभ्यो निष्टयश्चण्डालादिरिति तु वृत्तिकाराः । इस्वात्तादौ ४ अध्याये २ पादे २ आह्निकम् । १३९ तद्धित इति पत्वम् । तकारस्य ष्टुत्वम् । अरण्याण्णः । आ. रण्याः सुमनसः । दूरादेत्यः । दूरेत्यः। उत्तरादाहञ् । औत्तरा- हः । यदा तु उत्तरादाहिप्रत्यये ततोऽण् क्रियते तदौत्तराश- ब्दोऽन्तोदात्तोऽपि भवति । अव्ययात्यप्याविष्टयस्योपसंख्यानं छन्दसि । आविष्टयो वर्द्धते चारूरासु । आविर्भूत इत्यर्थः ।। ऐषमोह्यःश्वसोऽन्यतरस्याम् ॥ १०५ ॥ एभ्यस्त्यव् वा । पक्षे ट्युट्युलौ । ऐषमस्त्यम् । ऐषमस्त्य- नम् । ह्यस्त्यम् । ह्यस्तनम् । श्वस्त्यम् । श्वस्तनम् । पक्षे ठकि श्वसस्तुट् चेति तु । शौवस्तिकम् । तीररूप्योत्तरपदादौ ॥ १०६ ॥ यथासंख्येन । काकतीरम् । पाल्वलतीरम् । शैवरुप्यम् । तीररूप्यान्तादिति तु नोक्तम् बहुचपूर्वान्मा भूत् । बाहुरूप्यम् । दिपर्वपदादसंज्ञायां अः ॥१०७ ॥ अणोऽपवादः। पौर्वशालः । दाक्षिणशालः। असंज्ञा- यां किम् । संज्ञाभूतायाः प्रकृतेर्मा भूत् । पूर्वेषुकामशमी । दिक्- संख्ये संज्ञायामिति समासः । ततोऽणेव । प्राचां ग्रामनगरा- णामित्युत्तरपदवृद्धिः । पूर्वेषुकामशमः । पदग्रहणं किम् । स्वरूपग्रहणं मा भूत् । एवं हि दिग्गज इत्यादावेव स्यात् । प- दग्रहणसामर्थ्यात्तु व्यधिकरणपदो बहुव्रीहिः । दिशो वाचकं पूर्वपदमस्मिन्निति ॥ मद्रेभ्योऽञ् ॥ १०८॥ दिक्पूर्वपदादित्येव । पौर्वमद्रः । आपरमद्रः । मद्रैकदेशे मद्रशब्दस्य वृत्तौ दिक्शब्देन सामानाधिकररायात्तद्धितार्थ शब्दकौस्तुभे। इति समासः । दिशोऽमद्राणामिति पर्युदासादादिवृद्धिः । मद्रेभ्य इति बहुवचननिर्देशात् जनपदवाची गृह्यते न तु भद्रपर्यायः॥ उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् ॥ १०९ ॥ अस्माद । अणोऽपवादः । दिग्ग्रहणं निवृत्तम् । शिवपु. र । शैनपुरम् । प्रस्थपुरवहान्तादिति वुञ् न भवति । वृद्धादि- ति हि तत्रानुवर्तते । उदीच्यग्रामाकिम् । माथुरः । मध्यदे- शग्रामोऽयम् । बहुचः किम् । ध्वजी । पिप्यल्यादिङीषन्तो. ऽयम् । तत्राणेव । अन्तोदात्तात् किम् । शार्कराधानम् । धानशब्द उदात्तः लित्स्वरे कृते कृदुत्तरपदप्रकृतिस्वरान् ।। प्रस्थोत्तरपदपलद्यादिकोपधादण् ॥ ११०॥ एभ्योऽण् स्यात् । पूर्वसूत्रस्यापवादः । माहकि- प्रस्थः । प्रस्थान्तेति तु नोक्तम् । उत्तमकीर्णीप्रस्थ इ. त्यस्मान्मा भूदिति । पालदः । पारिषदः । वाहीक- शब्दोऽत्र पठ्यते । वृद्धाच्छं बाधितुम् । कोपधादण् तु अ. वृद्ध सावकाशः । निलीनकान्नैलीनकमिति यथा । यकृल्लोम- शब्दोऽत्रपठ्यते । यकृल्लोमनि भवो याकुल्लोमः । अनिति प्रकृतिभावो न । गणे नलोपनिपातनात् ।। करावादिभ्यो गोत्रे ॥ १११ ॥ कएवादिभ्यो गोत्रे यो विहितः प्रत्ययः यमिति यावत् तदन्तेभ्यस्तेभ्योऽण् स्याच्छेपे । छस्यापवादः । काएवाश्छात्राः।। इञश्च ॥ ११२॥ गोत्रे य इञ् तदन्तादण् स्यात् । दाक्षाः । गोत्र इति किम् । सौतगणमेरिदं सौतङ्गमीयम् । गोत्रं चेह शास्त्रीय न ४ अध्याये २ पादे २ आह्निकम् । तु लौकिकामत्युक्तं वृद्धिर्यस्येतिसूत्रे तेनेह न पाणिनीयम् न यचः प्राच्यभरतेषु ॥ ११३ ॥ इनश्चेति प्राप्तोऽण् प्रतिषिध्यते । पैङ्गीयाः । प्राष्ठीयाः। काशीयाः । वाशीयाः । काशिवाशि एतौ भरतौ प्राच्यत्वेऽपि पृथगुपात्तौ प्राच्यग्रहणे भरतानामग्रहणस्य द्वितीये ज्ञापि- तत्वात् । न च काशिशब्दात्काश्यादिभ्यष्ठञ्जिठौ कथं नेति शक्यम् । चेदिशब्दसाहचर्यादेशवाचिन एव काशिशब्दस्य तत्र ग्रहणम् । अतो गोत्रान्ताच्छ एवेति सिद्धान्तात् । वृद्धाच्छः ॥ ११४॥ शालीयः। मालीयः । अव्ययतीररूप्योत्तरपदोदीच्यग्रा- मकोपधविधीनयं परत्वाद्वाधते । तथाहि । छस्य तेषां चा- वकाश उदाहरणेषु स्पष्ट एव । आरातीय इत्यत्र त्यपं बाधि- त्वा छः । अमेहेत्यादिपरिगणनमनाश्रित्येदमुक्तम् । वायस. तीर । वायसतीरीयः । रूप्योत्तरपदेन सह छस्य विप्रतिषेधः प्राप्तिमात्राश्रयेणोच्यते । माणिरूप्यक इत्यत्र हि योपधलक्षणो वुझ छं बाधते । वाडवकर्षीयः । उदीच्यग्रामोऽयम् । उलूका अस्मिन् सन्ति औलूको नाम ग्रामः । तदस्मिन्नस्तीत्यण् । तत्र भव औलूकीयः । प्रस्थोत्तरेत्यादिना प्राप्तमणं छो बाधते । यस्तु कोपधादण् इत्यण स जनपदवुञोऽपवादः । तस्यापि वृद्धादकेकान्तेत्यत्र कोपधग्रहणं सौमुकाद्यर्थमिति । विहितश्छो बाधक इति स्थितिः । भवतष्ठक्छसौ ॥ ११५॥ वृद्धाद् भवत एतौ स्तः । भावत्कः । भवदीयः। प्रक्रि- १४२ शब्दकौस्तुभे । यालाघवाय कगेव क्रियतामिति चेत् न । भावत्कीति डीबर्थ ठक्करणात् । छसः सकारः सितिचेति पदसंज्ञार्थः । अत एव नायं शकारादिः । तथाहि सति सित्वं व्यर्थ स्यात् । वृद्धादित्यनुवृत्तेः शत्रन्तादणेव । भावतः । काश्यादिभ्यष्ठञ्जिठौ ॥ ११६ ॥ इकार उच्चारणार्थः । ञकार एवोभयत्राप्यनुवन्धः । तस्य विपर्यासस्तु स्त्रीप्रत्यये विशेषार्थः । काशिकी । काशिका । चै- दिकी । चैदिका । वृद्धादित्यनुवर्तते । तेन वाहीकग्रामवाचिनो देवदत्तशब्दस्याद्ध वाहजिठौ न किं त्वणेव । देवदत्तः । एङ् प्राचाभित्यत्र हि प्राग्ग्रहणं विकल्पार्थमिति कुणिमते भा- प्यमते च व्यवस्थितविभाषाश्रयणादमाग्देशवाचिनो न वृद्ध- संज्ञेत्युक्तम् । प्राचामिति देशविशेषणतया व्याचक्षणस्य जया- दित्यस्य तु मते क्षमेचावृद्धत्वं प्राग्देशवाचिनस्तु मतद्वयेपि वृ. द्धत्वात् ठञ्जिठौ स्त एव । दैवदत्तिकी । देवदत्तिका । कथं तर्हि वा नामधेयस्येति वार्त्तिके देवदत्तीया इति छो भाष्यादावुदा- हृत इति चेत् । अत्र वृत्तिकारः । व्यवस्थितविभाषाश्रयणा- च्छे कर्तव्ये एवं वृद्धसंज्ञा न तु ठनिठोरिति । इह कुमार- युवराजादयः पठ्यन्ते तेषामद्धत्वेऽपि पाठसामाजिठौ । आपदादिपूर्वपदाकालान्तादित्यन्तर्गणमूत्रम् । आपदादिरा- कृतिगणः। आपत्कालिकी । आपत्कालिका। आर्धकालिकी। आर्द्धकालिका। वाहीकग्रामेभ्यश्च ॥ ११७ ॥ वाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठनिठौ स्तः । छस्याप. वादः। ये तु अव्ययतीरेत्यादिना छस्य बाध्या उक्तास्ते कै.

४ अध्याये २ पादे २ आह्निकम् ।
शाक-
मुतिकन्यायेन बाध्यन्ते । तथाहि । आरान्नाम वाहीकग्रामः ।
आरात्की । आरात्की । आरात्का । इसुसुक्तान्तात्कः । तथा
कास्तीरं नाम वाहीकग्रामः । कास्तीरिकी। कास्तीरिका ।
दशरूप्यन्नाम वाहीकग्रामः । धन्वयोपधादिति बुञ् ठबिठौ
बाधते । दाशरूप्यकः । तथा शकलानि सन्त्यस्मिन् शाकलं नाम
उदीच्यग्रामान्तर्भूतो वाहीकग्रामः ततष्ठनिठावेव ।
लिका । अत्रत्यभाष्यबलादेव प्राच्योदीच्यभिन्नत्वं बाही-
कत्वमिति विवरणमुपेक्ष्यम् । किन्तु सिन्धुनदपष्ठानां शत-
द्रादिपञ्चनदीनां मध्यदेशविशेष एव वाहीक इत्युपपादितमेङ्
प्राचामिति मूत्रे । प्रकृतमनुसरामः । सौमुकं नाम वाहीकग्रामः ।
प्रस्थोत्तरपदेत्यादिना प्राप्त कोपधलक्षणमणञ्छो बाधते ।
परत्वात् । तमप्यपवादत्वात् ठठिौ । वृद्धादकेकान्तेति
सूत्रे कोपधग्रहणं कर्त्तव्यं सोसुकाद्यर्थमिति वक्ष्यमाणश्छस्तु
अपवादत्वात्तावपि वाधत इति । सौमुकीयः ।
विभाषोशीनरेषु ॥ ११८ ॥
उशीनरेषु ये ग्रामास्तद्वाचिभ्यो वृद्धेभ्यष्ठाजिठौ वा स्तः ।
सौदर्शनीयः ।
आर्देश ठञ् ॥ ११९ ॥
वृद्धादिति निवृत्तम् । उत्तरमूत्रे पुनद्धग्रहणात् ।
उवर्णान्ताद्देशवाचिनः ठञ् । निषादकर्पू । नैपादकपुकः । केण
इति इस्वः । देशे किम् । पटोश्छात्राः पाटवाः । त्रिठं व्याव-
यितुं ठग्रहणम् । वृद्धाच्छं परत्वाद् बाधते । दाक्षिकएकः ।
वृद्वात् प्राचाम् ॥ १२० ॥

. शब्दकौस्तुभे । पाग्देशवाचिनो वृद्धादेवेति नियमार्थ सूत्रम् । आढक. जम्बुकः । शाकजम्बुकः । नेह मल्लवास्तु माल्लवास्तवः । धन्वयोपधाद वुञ् ॥ १२१ ॥ धन्वविशेषवाचिनो यकारोपधाच्च देशवाचिनो वृद्धाद् वुन् स्यात् । धन्वेति विशेषग्रहणं नतु स्वरूपपर्यायग्रहणम् । वृद्धत्वासम्भवात् । पारेधन्वकः । धन्वनः पारमिति विग्रहे पारे मध्ये षष्ठ्या वेत्यव्ययीभावः । अनश्चेति टच् समासान्तः वुनि यस्येति लोपः । समानौ मरुधन्वानौ इत्यमरः । नपुंसको ऽपि धन्वशब्दोऽस्ति । आष्टकं नाम धान्वेति हस्वपाठात् । तेन विग्रहे नपुंसकादन्यतरस्यामिति टजभावपक्षे बुझि नस्तद्धित इति टिलोपः । ऐरावतं धन्य । ऐरावतकः । योपध । सांका- श्यकः । काम्पिल्यकः । साङ्काश्यकाम्पिल्यौ वुञ्छणादिसूत्रे- ण ण्यान्तौ। प्रस्थपुरवहान्ताच्च ॥ १२२ ॥ एतदन्ताद् वृद्धाद्देशवाचिनो वुन् । छापवादः । दृद्धा- दित्यनुवृत्त्यैव स्वरूपग्रहणे निरस्ते पूर्वमूत्र इव विशेषग्रहणं मा भूत् इत्यन्तग्रहणम् । मालाप्रस्थकः । नान्दीपुरं नाम वाहीकेषु ग्रामः तत्र वाहीकग्रामलक्षणौ ठठिौ छस्यापवादौ बुनप्येवम् । तत्रापवादविप्रतिषेधाद् वुव । नान्दीपुरकः । एवं पातनप्रस्थकः । कौजीवहकः । पुरान्तग्रहणमप्रागर्थ पाग्देशे तत्रेणैव सिद्धम् । रोपधत्वात् । रोपधतोः प्राचाम ॥ १२३ ॥ रोपधादीकारान्ताच्च प्राग्देशवाचिनो वृद्धात् वुत्र स्यात् ४ अध्याये २ पादे २ आह्निकम् । १४५ छस्यापवादः । पाटलिपुत्रकः । ऐकचक्रः । एकचक्रा नाम प्राग्देशनगरी । तत्र एङ् प्राचां देश इति वृद्धसंज्ञा । ईत इति दीर्वग्रहणं व्याख्यानात् । इस्वान्तस्य माग्देशवाचिनो ऽसम्भ- वाच्च । ककन्देन निवृत्ता नगरी काकन्दी स्त्रीषु सौवीरसाल्व- माश्वित्यम् । तत्र भवः काकन्दकः । तपरकरणं विस्प- ष्टार्थम् । जनपदतदवध्योश्च ॥ १२४ ॥ जनपदवाचिनस्तदवधिवाचिनश्च वृद्धात् प्रातिपादिका- द् वुञ् स्यात् । आदर्शकः । तदवधिरिति कर्मधारयः । नतु षष्ठीतत्पुरुषः । तथाहि सति मौञ्जी नाम बाहीकानामवधिभू- तो ग्रामः तत्र भवो मौञ्जीय इत्यत्रापि स्यात् । अवधित्वं च सन्निधानाजनपदं प्रत्येव । किमर्थं तर्हि तदवधिग्रहणमिति चेत् । उत्तरसूत्रे बाधकबाधनार्थमिति गृहाण । तथाहि । गतॊत्तरप- दाच्छो भवतीत्यस्यावकाशः । वृकगीयः । जनपदवुनो ऽवकाशः। आङ्गकः । त्रिगतशब्दादुभयप्रसङ्गे परत्वाच्छः स्यात् । वुबेव त्विष्यते । त्रैगर्तक इति । तथा च । गतॊत्तरपदाच्छवि- धेर्जनपदाद् वुञ् विप्रतिषेधेनेति न कर्त्तव्यं भवति । अवृद्धादपि बहुवचनविषयात् ॥ १२५ ॥ अवृद्धावृद्धाच्च जनपदावधिवाचिनो बहुवचनविषयात् प्राति- पदिकाद् वुञ् स्यात् । अण्छ योरपवादः। अद्धादणो वृद्धाच्छस्य प्राप्तः । अवृद्धाजनपदात् । अङ्गाः । वनाः । कलिङ्गाः । आज- कः । वाङ्गकः । कालिङ्गकः । मुसादिक्शब्देभ्यो जनपदस्ये. त्युक्तं येनविधिरिति सूत्रे । सुपाञ्चालकः । अदाजनपदावधेः अजमीढाः। अजक्रन्दाः। आजढिकः। आजक्रन्दकः दाजन- १९ १४६ शब्दकौस्तुभे। पदात् । दार्वकः। वृद्धाजनपदावधेः । कालञ्जराः। वैकुलिशाः । कालिञ्जरकः । वैकुलिशकः । विषयग्रहणं किम् । एकशेषेण बहुत्वे मा भूत् । वर्तनी च३वर्तन्यः तासु भवो वार्त्तनः । ननु वृद्धापूर्वेण सिद्धे तत्किमपिग्रहणेन । अत्राहुः । तक्रकौण्डिन्य- न्यायेन बाधा मा भूत् । तथाहि ! पूर्वसूत्रेण जनपदसामान्ये वृद्धात् बुभुक्तः । यथा ब्राह्मणसामान्ये दधि। इह तु बहुवचन- विषये विशेषेऽवृद्धाद् वुन् । यथा कौण्डिन्ये तक्रम् । ततश्च बहुवचनान्तादपि वृद्धाद् वुनि प्राप्ते आरभ्यमाणेनाद्धाद् वुबा वृद्धाद् वुझो बाधो मा भूदिति तस्य समुच्चयार्थोऽपिशब्दः । न- न्वेवं बहुवचनविषयादित्येवास्तु । अद्धार्थोयं योगो भविष्य- ति । सत्यम् । वृद्धाधिकारविच्छेदार्थमद्धादपीत्युक्तपित्याहुः । कच्छाग्निवक्रवोत्तरपदात् ॥ १२६ ॥ कच्छाद्युत्तरपदादेशवाचिनो द्धादवृद्धाच वुञ्। छाणोरपवा- दः । दारुकच्छकः । पैप्पलीकच्छकः । काण्डाग्नकः । वैभुजा- मकः । तैदुवकः । सैन्धुवककः । बाहुवर्त्तकः । वा. क्रवर्तकः। धूमादिभ्यश्च ॥ १२७ ॥ एभ्यो देशवाचिभ्यो वुञ् स्यात् । धौमकः । पाथेयशब्दोऽ प्र पठ्यते तस्य योपधत्वादेव वुनि सिद्धे सामर्थ्याददेशार्थ व- चनम् । तथा विदेहान-शब्दयोर्जनपदलक्षणे वुनि सिद्धेऽदेशार्थः पाठः । विदेहानां क्षत्रियाणां स्वं वैदेहकम् । आनर्तकम् । कुलात् सौवीरेष्विति पठ्यते । कौलकः । सौवीरश्चेत् । कौलमन्यत्र । समुद्रामावि मनुष्ये च । सामुद्रिका नौः । सामुद्रको मनुष्यः । नेह । सामुद्रस्तरकः । तीर्थ । तैर्थकः ।

४ अध्याय २ पादे २ आह्निकम् । १४७ नगरात्कुत्सनप्रावीण्ययोः ॥ १२८ ॥ नगराद् वुञ् कुत्मने प्रावीण्ये च गम्यमाने । प्रत्ययार्थवि- शेषणं चेदम् । कुत्सिते प्रवीणे च जातादौ प्रत्ययार्थे इति याव- त् । नागरकचौरः शिल्पी वा । एतयोः किम् । नागरा ब्राह्म णाः । अञ् । न च कर्व्यादिषु नगरशब्दस्य पाठात् ढकञ् श- यः । तत्र माहिष्मतीसाहचर्यात् संज्ञाभूतस्यैव नगरशब्दस्य ग्रहणात् । तत्र तु नागरेयकमिति भवत्येव । अरण्यान्मनुष्ये ॥ १२९ ॥ बुब् । अरण्याणो वक्तव्य इत्यौपसंख्यानिक- स्य णस्यापवादः । अत्र भाष्यम् । पथ्यध्यायन्यायविह- रमनुष्यहस्तिष्विति वक्तव्यम् । आरण्यकः पन्था अध्यायो न्यायो विहारो मनुष्यो हस्ती वा । वा गोमयेष्विति वक्तव्यम् । आरण्यका आरण्या वा गोमयाः । विभाषा कुरुयुगन्धराभ्याम् ॥ १३० ॥ आभ्यां वा वुन् । कौरवकः । कौरवः । यौगन्धरकः । योग- न्धरः । युगन्धरार्थ विभाषाग्रहणम् । कुरुशब्दस्य कच्छादिपाठा- देवाणः पक्षे सिद्धत्वात् । अद्धादपीति प्राप्तेऽपि जनपदलक्षणो वुञ् अणा मा बाधीति स एव परं विधेयः । मनुष्यतत्स्थयो- स्तु कुरुशब्दान्नित्य एव बुञ् । कौरवको मनुष्यः । कौरव- कमस्य हसितमिति । यथा एतदर्थमेव हि कच्छादिषु कुरुशब्दा पठ्यते । अन्यथाऽनयैव विभाषया वुअणोः सिद्धौ किं तेने. ति हरदत्तः। यत्तु वृत्तावुक्तं जनपदशब्दावेतौ ताभ्यापवृद्धा- दपीति नित्ये वुनि प्राप्ते विकल्पोऽयमिति तत्प्रयमप्राप्त्य- भिप्रायकम् ।

१४८ शब्दकौस्तुमे । मद्रवृज्योः कन् ॥ १३१ ॥ आभ्यां कन् । जनपदवुबोऽपवादः । मद्रेषु जातः । मद्रकः। दृजिकः। कोपधादण् ॥ १३२॥ जनपदवुबोऽपवादः । ऋपिकेषु जात आर्षिकः । माहिषि- कः । इह देश इत्यनुवर्तते वृत्तौ तच्चोत्तरार्थ न त्वदेशनिवृत्त्य- र्थम् । तत्र हि प्राग्दीव्यत इत्यण भवत्येव । प्रस्थोत्तरपदा- दिसूत्रं तु उदीच्यग्रामलक्षणस्याबो बाधनार्थम् । स्यादेतत् । इहाण्ग्रहणं मास्तु । कोपधादित्युक्ते आरम्भसामर्थ्याद् यो विहितो न च प्राप्नोति स एव प्रतिप्रसोष्यते । मैवम् । इक्ष्वाकुशब्दादोर्देशे ठञ् प्राप्तः तस्मिन् जनपदवुना बाधिते य- घण्ग्रहणं न क्रियते ततष्ठव स्यात् । सिद्धान्ते त्वणेव सि. ध्यति । ऐक्ष्वाकः । दाण्डिनायणादिसूत्रेण टिलोपः। कच्छादिभ्यश्च ॥ १३३ ॥ एभ्यो देशवाचिभ्योऽण् स्यात् । वुञादेरपवादः।काच्छः। सैन्धवः । कच्छशब्दो न बहुवचनविषयः तस्य मनुष्यतत्स्थ- यानर्थः पाठः। विजापकशब्दः पठ्यते तस्य कोपधत्वादे- वाणि सिद्धे ग्रहणमुत्तरार्थम् । कच्छ सिन्धु बहुडव वर्गु ग- न्धार मधुमत् कम्बोज कश्मीर साल्व कुरु अणु खण्ड द्वीप अ. नप अजवाह विजापक कुलूत कच्छादिः । मनुष्यततस्थयोवुञ् ॥ १३४ ॥ कच्छादिभ्य इत्येव । अणोऽपवादः। कच्छे जातादिः काच्छ- को मनुष्यः।काच्छकं हसितं जल्पितम् । काच्छिका चूडा । मनु- ४ अध्याये २ पादे २ आह्निकम् । १४९ ध्यतत्स्थयोरिति किम् । काच्छो गौः । सैन्धवः । वार्णवः ।। अपदातौ सात्त्वात् ॥ १३५ ॥ साल्वशब्दस्य कछादिपाठात् पूर्वेण वुबि सिद्ध नियमा. र्थ सूत्रम् । अपदातावेवेति । नेह । सात्वः पदातिव्रजति । गोयवाग्वोश्च ॥ १३६ ॥ साल्वाद् वुञ् स्यात् । कच्छाद्यणोऽपवादः । साल्वको गौः । साल्विका यवागूः । साल्वमन्यत् । गत्ततॊत्तरपदाच्छः ॥ १३७ ॥ देश इत्येव । अणोऽपवादः । वाहीकग्रामलक्षणौ तु ठञ् विठौ परत्वादयं बाधते । वृकगीयम् । शृगालगीयम् । श्वाविद्गीयम् । उपरपदग्रहणं वहुपूर्वनिरासार्थम् । वैगर्त- क इत्यत्र तु वुअव भवति । तदवधिग्रहणादित्युक्तम् । गहादिभ्यश्च ॥ २३८ ॥ एभ्यश्छः स्यात् । माहिकप्रस्थशब्दात्पस्थपुरवहान्ताचेति वुनि प्राप्से वाल्मीकिप्रभृतिभ्य इअश्चत्यणि प्राप्ते शेषेभ्य औ. सर्गकेऽणि प्राप्तेऽयमारम्भः । देशाधिकारेऽपि संनियोगेन मध्यममापद्यते । मध्यमीयः । चरणे तु प्रत्ययार्थेऽण् । माध्यमाः। तदेतद्विशेषे एव स्मर्यते । पृथिवीमध्यस्य मध्यम- भावश्चरणसम्बन्धेन निवासलक्षणोऽणिति । पृथिवीमध्यवाचि- न एव मध्यशब्दस्यादेशो न तु मध्यान्तरवाचिनः । चरण- सम्बन्धेन योऽण् स निवासलक्षणो बोध्यः । सोऽस्य नि- वास इत्यत्रैवार्थे भवति नान्यस्मिभित्यर्थः । तथा च पृथि. वीमध्ये जात एव मध्यमीयः न त्वन्यः । माध्यमास्तु पृथि- १५० शब्दकौस्तुभे । वीमध्यनिवासिन एव चरणा न त्वन्येऽपि तेन पृथिवीम- ध्यादागताश्चरणा इत्यर्थे मध्यमीया इत्येव भवति । मुखपा. श्वतसोर्लोपश्च । मुखतीयम् । पार्श्वतीयम् । आधादित्वात्तसिः । अलोन्त्यस्येति सकारलोपे कृते यस्येतिचेति अकारलोपः । अव्ययानां भमात्रे टिलोप इत्यस्यानित्यतां ज्ञापयितुं चेदम् । तेनारातीयः सिद्धः। कुम् जनस्य परस्य च । जनकीयम् । परकी. यम् । देवस्य च । देवकीयम् । वेणुकादिभ्यश्छण् वक्तव्यः । वैणुकीयम् । वैत्रकीयम् । औत्तरपदकीयम् । प्रास्थकीयम् । आकृतिगणोऽयम् । तेन स्वशब्दात् स्वार्थकनन्ताच्छे स्व. कीयम् । तथा च लुब्योगाप्रख्यानादित्यत्र नहि स्वकीय- स्यैव प्रत्याख्यानमिति न्यासः। केवलस्वशब्दात् सौवम् । द्वारादीनाश्चेति सूत्रे सौवं मुहूर्तम् । स्वीयमिति तु प्राक्क्री- ताच्छः । चान्द्रास्तु स्वजनपरदेवराज्ञां कुक् चेति सूत्रयन्ति । तत्र राज्ञो नलोपे यनान्तरमन्वेषणीयम् । अन्तरशब्दाद्हादित्वा- च्छे नशब्देन समासे नान्तरीयकमिति । अविनाभूतमित्यर्थः । प्राचां कटादेः ॥ १३९ ॥ पाग्देशवाचिनः कटादेश्छः। अणोऽपवादः । कटनगरी- यम् । कटघोषीयम् । कटपल्वलीयम् । राज्ञः क च । अस- म्भवादिह देशो न सम्बध्यते । दृद्धत्वाच्छे सिद्ध तत्सनि- योगेन कादेशमानं विधीयते। राजकीयम् । वृद्धादकेकान्तरवोपधात् ॥ १४ ॥ अक इक एतदन्तात् खोपधाच्च वृद्धाद्देशवाचिनश्छः । कोपधलक्षणस्याणो वाहीकग्रामलक्षणयोष्ठअिठोः रोपधेतोरिति वुनश्चापवादः। ब्राह्मणको नाम जनपदः यत्र ब्राह्मणा आ- ४ अध्याये २ पादे २ आदिकम् । १५१ युधजीविनः । ब्राह्मणकोष्णिके संज्ञायामिति निपातनात्साधुः। तत्र जातो ब्राह्मणकीयः। शाल्मलिकीयः । आयोमुखीय- म् । अत्र वार्तिकम् । अकेकान्तग्रहणे कोपधग्रहणं कर्तव्यं सौसुकाद्यर्थमिति । सूत्रे अकेकान्तग्रहणमपनीय कोपधादि- तिकर्तव्यं व्यापकत्वाल्लघुत्वाचेत्यर्थः । सौसुकीयम् । ऐन्द्रवेणु- कीयम् ॥ कन्थापलदनगरग्रामहृदोत्तरपदात् ॥ १४१ ॥ कथादिपञ्चकोत्तरपदादेशवाचिनो वृद्धाच्छः स्यात् । ठञ्. मिठादेरपवादः । दाक्षिकन्थीयम् । दाक्षिपलदीयम् । दा. क्षिनगरीयम् । दाक्षिग्रामीयम् । दाक्षिहदीयम् । पर्वताच्च ॥ १४२॥ पर्वतीयः । कथं तर्हि तत्र जन्यं रघो?रं पार्वतीयैर्गणै- रभूदिति कालिदासः । उच्यते पर्वतीयस्य राज्ञ इमे पार्वती- या इत्यर्थे तस्येदमित्यण् असरूपत्वाच्छैपिकादित्यादिना निषेधो न । विभाषा ऽमनुष्ये ॥ १४३ ॥ मनुष्यभिन्नेऽर्थे पर्वताच्छो वा स्यात् । पक्षेऽण् । पर्वतीया- नि पार्वतानि वा फलानि । अमनुष्ये किम् । पर्वतीयो मनु- प्यः । इह नित्यश्छः । अमनुष्यशब्द इह यौगिको गृह्यते न तु रक्षःपिशाचादौ रूढः । व्याख्यानात् । कृकणपर्णाद्वारद्वाजे ॥ १४४ ॥ भारद्वाजदेशवाचिभ्यां कुकणपर्णशब्दाभ्यां छः स्यात् । कृकणीयम् । पर्णीयम् । भारद्वाजे किम् । कार्कणम् । पार्णम् ।

. .१५२ शब्दकौस्तुभे। इति श्रीशब्दकौस्तुभे चतुर्थाध्यायस्य द्वितीयेपादे द्वितीय माह्निकम् । पादश्वं द्वितीयः समाप्तः ॥ युष्मदस्मदोरन्यतरस्यां खञ् च ॥१४५ ॥ इह योगविभागो बोध्यः । तेन यथासंख्यं न । युष्मद- स्मदोरन्यतरस्याम् । आभ्यां छो वा । त्यदादीनि चेति दृद्ध. त्वान्नित्ये प्राप्ते विकल्पोऽयम् । पक्षे अण् । युष्माकमयं युष्म- दीयः । यौष्माकः । अस्मदीयः । आस्माकः । ततः खश्च । यौष्माकीणः । आस्माकीनः ॥ तस्मिन्नणि च युष्माकास्माकौ ॥ १४६ ॥ एतयोरेतावादेशौ स्तः खनि अणि च । यौष्माकीणः । आस्माकीनः । यौष्माकः । आस्माकः । खमणोः किम् । युष्मदीयः । अस्मदीयः । इहापि योगविभागो बोध्यः । ते. नादेशयोः खग्भ्यां यथासंख्यं न । तस्मिन् युष्माका- स्माकौ। तस्मिन् रखत्रीत्यर्थः। ततः अणि च । स्पष्टम् । यद्वा लाघवार्थ खाणोरिति वक्तव्ये तस्मिन्नणि चेति गुरु- करणं वाक्यभेदं सूचयति । तेनेष्टसिद्धिः । तवकममकावेकवचने ॥ १४७ ।। एकार्थवाचिनी ये युष्मदस्मदी तयोस्तवकममको स्तः खनि अणि च । तावकीनः । तावकः । मामकीनः । मामकः । खत्रणोः किम् । त्वदीयः । मदीयः । अाद्यत् ॥ १४८॥ अर्ध्यः । सपूर्वपदा ठम् वक्तव्यः । वल्यर्थं वस्तु बाले. यं तस्याईमेकदेशः तत्र भवो वालेयार्धिकः ।

४ अध्याये ३ पादे १ आह्निकम् । १५३ परावराधमोत्तमपूर्वाच्च ॥ १४९ ।। एतत्पूर्वादर्धाद्यत् । परायम् । अवरायम् । अध- मार्यम् । सपूर्वादित्यौपसंख्यानिकस्य ठोऽपवादोऽयं यत् । ननु सूत्रे परादिभ्य इति पञ्चम्येवास्तु किं पूर्व- ग्रहणेन । सत्यम् । शब्दाधिक्यादर्थाधिक्यमिति न्यायेन पूर्वविप्रतिषेधसूचनार्थ ग्रहणम् । तेन दिक्शब्दाभ्यां पूर्वावरा- भ्यामर्द्धशब्देन सह समासे परावपि ठञ्यतौ बाधित्वा यदेव भवति । परायम् । अवराय॑म् । दिक्पूर्वपदाट्ठञ्च ॥ १५० ॥ दिक्पूर्वपदादर्धान्तात् ठञ् स्याचाद्यत् । पौर्वाधिकम् । पूर्वायम् । दाक्षिणाधिकम् । दक्षिणाय॑म् । ग्रामजनपदैकदेशादौ ॥ १५१॥ ग्रामैकदेशवाचिनो जनपदैकदेशवाचिनश्च दिक्पूर्वपदाद- र्धान्तादौ स्तः । इमेऽस्माकं ग्रामस्य जनपदस्य वा पौ. वर्धाः । पौर्वाधिकाः । दाक्षिणार्धाः । दाक्षिणाधिकाः । ग्रा- मस्य पूर्वस्मिन् अर्द्ध भवा इति तद्धितार्थे समासः । ततः प्र- त्ययः । अर्द्धशब्दस्य नित्यसापेक्षत्वात्समासतद्धितत्तिनि- हिः । ठग्रहणं स्पष्टार्थम् । अञ् चेत्युक्ते हि यतोऽप्यनुक- र्षः सम्भाव्येत । मध्यान्मः ॥ १५२ ।। मध्यमम् । अत्र वृत्तिकारः । आदेश्च । अवोधसोर्लोपश्चे- ति पठित्वा । आदिपः । अवमः । अधम इत्युदाजहार । तत्रा- दिम इति रूपम् अग्रादिपश्चाड्डिमजितिवार्तिकेन सिद्धम् ।

१५४ शब्दकौस्तुभे। अ सांप्रतिके ॥ १५३॥ मध्यशब्दादकारप्रत्ययः स्यान्मस्यावादः साम्प्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । मध्यं दारु । नाति- इस्वं नातिदीर्घमित्यर्थः । सम्प्रतीत्यव्ययं प्रज्ञादौ पठ्यते । त- च न्याय्ये वर्त्तते । तथाच प्रयुज्यते । अनाप्तश्चतूरात्रोति- रिक्तः षड्रातः स वा एष सम्पति यज्ञो यत् पञ्चरात्र इति । न न्यूनो नातिरिक्तः सम इत्यर्थः । इदानीमित्यर्थे तु प्रसि. द्धमेव । ततोऽण् । सांप्रतं सम्प्रतीति पर्यायौ ततो विनयादेरा- कृतिगणत्वात् स्वार्थे ठगिति न्यासकारः । हीपादनुसमुद्रं यञ् ॥ १५४ ॥ समुद्रं समया अनुसमुद्रम् । अनुयत्समयेत्यव्ययीभावः । सप्तम्यन्तश्चेदं द्वीपविशेषणं विद्यमान इति क्रियाद्वारकम् । समुद्रसमीपे यो द्वीपस्तद्विषयात् द्वीपशब्दाद्यत् स्यात् । क- च्छाद्यणो ऽपवादो मनुष्यवुनश्च । द्वैप्यम् । अनुसमुद्रं किम् । द्वैपमन्यत् । कालाट्ठञ् ॥ १५५ ॥ कालविशेषार्थकेभ्यष्ठञ् स्यात् । वृद्धाच्छं परत्वाद्वाधते । मासिकम् । आर्द्धमासिकम् । सांवत्सरिकम् । स्वरूपस्य पर्या- याणां चेह न ग्रहणम् । ज्ञापकात् । तथाहि । सन्धिवेला- त्रयोदशीप्रभृतिभ्योऽद्धेभ्योऽण् विधीयते तच्च ठो बाधनार्थ- म् । अर्थग्रहणे च तेभ्यष्ठत्रः प्रसङ्गो न त्वन्यथा । गौणमुख्य- न्यायो नेहाश्रीयते। सन्धिवेलादिसूत्रेऽनेन कालग्रहणेन न- क्षत्राणां विशेषणात् । ननु पुष्यादिशब्दानां कालो मुख्योऽर्थः। लुबविशेष इति व्युत्पादनादिति चेत् । मैवम् । पुष्यादिसमीप- ४ अध्याये ३ पादे १ आह्निकम् । १५५ स्थेन चन्द्रमसा योगाल्लक्षितलक्षणया हि काले वृत्तिः सैव लुप्. द्वारान्वाख्यायते पौषादिनिवृत्त्यर्थम् । न त्वेतावता कालो मुख्योऽर्थः अनन्यलभ्यस्यैव शब्दार्थत्वात् । तेन कदम्बपुष्पसाह- चर्यात् कदम्बः पुष्पकालः । ब्रीहिपलालसाहचर्याद्रीहिपलालः । तत्र भवं कादम्बपुष्पिकम् । ढहिपलालिकमिति सिद्धम् । कथं तर्हि शार्वरस्य तमसो निषिद्धय इति कुमारः । अनुदितौ- पसरागतेति भारविश्च । प्रमाद एवायमिति प्रामाणिकाः । कश्चित्तु येषां च विरोधः शाश्वतिक इति निर्देशेन कचिदप- वादविषयेऽप्युत्सर्गः प्रवर्तत इति सामान्यतो ज्ञाप्यत इ- त्याश्रित्य समादधौ । अथ कथं कालिकी व्याप्तिः कालिकः सम्बन्ध इति । कालविशेषवाचिनां हि ग्रहणमिति वृत्तिन्यास- पदमञ्जयर्यादिषु स्थितम् । उच्यते । कालवाचित्वाविशेषादिहापि ठञ् । विशेष एवं गृह्यत इत्यस्य मुनित्रयानुक्ततया निर्मूल- त्वात् । सन्धिवेलादिभ्योऽविधानं हि विशेषग्रहणं ज्ञापन तु तन्मात्रग्रहणे । तथा च नस्तद्धित इति सूत्रे सायंप्रातिफः पौनापुनिक इति भाष्यं व्याचक्षाणः कैयट आह । यथा कथंचित् कालशब्दात् ठभिति । एतेनाकालिकेप्सतिसूत्रेऽकालि- केति इस्वपाठपक्षे कालानिति कालिकमिति भट्टनार्तिकमपि व्याख्यातम् । वृत्तिमते तु कालात् कालशब्दाहमिति । कालायद प्रकृष्टे ठभिति पाश्चामिकसूत्रेणेति भाव इति भक्त्वा व्याख्येयं स्यात् । समानकालीनं पाकालीनमित्यादयस्तु प्रयोगा अमुकः पुरतः परेयुरित्यादिवनिरूढा एवापभ्रंशाः । तत्र जात इत्यतः माक् कालाधिकारः। श्राद्धे शरदः ॥ १५६ ॥ ठञ् स्याहत्वणोऽपवादः । श्राद्धमिति कर्मनामधेयम् ।

१५६ शब्दकौस्तुभे । श्रद्धावान् पुरुषस्तु नेह गृह्यते । व्याख्यानात् रुढियोगमपहर- तीति न्यायाच्च । शारदिकं श्राद्धं शारदमन्यत् । विभाषा रोगातपयोः ॥ १५७ ॥ शारादिकः शारदो वा रोग आतपो वा । एतयोः किम् । शारदं दधि । निशाप्रदोषाभ्यां च ॥१५८ ॥ चात् ठञ् । कालानिति नित्ये प्राप्ते । नैशिकम् । नैशम् । पादोषिकम् । प्रादोषम् । श्वसस्तुट् च ॥ १५९ ॥ श्वःशब्दाञ् वा स्यात् तस्य तुडागमश्च । ऐषमोह्यःश्व- स इत्यादिना त्यबपि विकल्पितः । टयुट्युलौ । शौवस्तिकः । द्वारादित्वान्न वृद्धिः ऐजागमश्च । श्वस्त्यः । श्वस्तनम् । स्या- देतत् । तुटः प्रत्ययभक्ततया ठस्यादित्त्वाभावादादेशो दुर्लभः कर्मठ इत्यठचो यथा । न च परत्वादिकः आङ्गतया तस्य बहिरङ्गत्वात् । तुटः प्रत्ययसन्नियोगशिष्टतयान्तरङ्गत्वात् । न च सूत्रभङ्गेन तुक सुकरः इसुसुक्तान्तादिति कादेशप्रसङ्गात् । मैवम् वुञ्छणादिसूत्रे वढचो मनुष्यनाम्नष्ठज्वेत्यत्र च ठचश्चित्वेन इका- देशोऽन्तरङ्गेभ्योऽपि बलवानिति ज्ञापितत्वात् । अन्यथा प्रत्यया- द्युदात्ते कृते इकादेशः स्यादिति किं ठचश्चित्वेन । कृते विका- देशे प्रत्ययस्वरं बाधितुं चित्वं युज्यते । सन्धिवेलावृतुनक्षत्रेभ्योऽण् ॥ १६० ॥ सन्धिवेलादिभ्य ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽण ४ अध्याय ३ पादे ? आह्निकम् । १५७ स्यात् । ठमोऽपवादः । सन्धिवेला । सन्ध्या । तिष्याद् भवादौ प्रत्ययः जातार्थे तु श्रविष्ठाफल्गुनीति लुक् स्यात् । सूर्यतिष्ये- त्यत्र तिष्यपुष्यपोर्नक्षत्राणीत्युक्तेर्यलोपः । सन्धिवेला सन्ध्या अमावास्या त्रयोदशी चतुर्दशी पञ्चदशी पौर्णमासी प्रतिपत् । संवत्सरात् फलपर्वणोः । सांवत्सरं फलं पर्व वा । सांवत्सरिक- मन्यत् । अण्ग्रहणं छवाधनार्थम् । सन्धिवेलादिभ्यो यथावि- हितमितियुच्यमाने सन्धिवेलादिपु पठितात्पौर्णमासीशब्दात वृद्धाच्छः स्यात् । वचनं तु ठजो वाधनार्थं स्यात् । प्रावृष एरायः ॥ १६१ ॥ ऋत्वणो ऽपवादः । प्रवर्षतीति प्राट् किशब्दे नहिती- त्यादिना दीर्यः । तत्र भवः प्रापेण्यः । जाते तु ठञ् वक्ष्यति । रपाभ्यामिति सिद्धे प्रक्रियालाघवार्थ णकारोचारणम् । किश्च । प्रादृषेण्यमाचक्षाणः प्राटपेण इत्यत्र णकारश्रवणार्थं तत् । ण्यन्तात् किम् । णिलोपाल्लोपयलोपाः । वर्षीभ्यष्ठक् ॥ १६२ ॥ ऋत्वणोऽपवादः । वर्षासु साधु वार्पिकं वासः । काला- साधुपुष्प्यत्पच्यमानेषु इति साध्वर्थे ठक् । छन्दसि ठञ् ॥ १६३ ॥ पूर्वसूत्रापवादः स्वरे भेदः । नभश्च नभस्यश्च वार्षिका- तू । तस्येदमर्थे ठञ् । ऋतुशब्दस्य मासे लक्षणा । वर्षावयव- भूताविमौ मासावित्यर्थः । नभ इति लिङ्गव्यत्ययात् ल्कीवता । लोके तु पुंस्त्वमेव । नमः खं श्रावणो नभा इत्यमरः।

१५८ शब्दकौस्तुभे । . वसन्ताच ॥ १६४ ।। ठञ् स्याच्छन्दसि । मधुश्च माधवश्व वासन्तिकातू । हेमन्ताच्च ॥ १६५ ॥ छन्दसि ठञ् स्यात् । हैमन्तिकः । योगविभाग उ- त्तरार्थः। सर्वत्राण च तलोपश्च ॥ १६६ ॥ हेमन्तादण् स्यात् तकारलोपश्च वेदलोकयोः । हैमनं वासः । नस्तद्धित इति टिलोपस्तु न भवति । तलोपस्य समुदा- यलोपत्वपक्षे अन्नितिप्रकृतिभावात् । अवयवत्वपक्षे तु यस्येति- लोपे तस्याभीयत्वेनासिद्धत्वात् स्थानिवत्वाद्वा । अण् चेति च- काराहत्वणपि । तत्र तकारलोपाभावाद्वैमन्तम् । वृत्तिकारा- स्तु सर्वत्र ग्रहणस्य पूर्वसूत्रेऽप्यनुकर्षाद्भाषायामपि हैमन्तिकमि- ति तृतीयं रूपमाहुः । तत्तु भाष्यविरुद्धम् । भाष्ये हीदं मू. त्रं प्रत्याख्यातम् । तच्चेत्थम् । हेमन्तपर्यायो हेमन्शब्दोऽप्य- स्ति । हेमन् हेमन्नागतीगतिकौँ । तस्मादेतो हेमनशुष्यतः इत्यादिप्रयोगात् । तत्र भाषायां हेमन्हेमन्तशब्दाभ्यां त्वणि हैमनं हैमन्तमिति रूपद्वयम् । छन्दसि तु ठवा तृतीयं रूपम् । न च ठनाऽणो बाधः । छन्दसि सर्वविधीनां वैकल्पिकत्वादि- ति तस्य नियतविषयता ज्ञापयितुं सूत्रमारेभे । अनभिधा- नादेवातिप्रसङ्गपरिहारं मत्वा प्रत्याख्यानम् । सायंचिरंपाढे गेऽव्ययेभ्यष्टद्युलौ तुट् च ॥१६७॥ सायमित्यादिभ्यश्चतुर्योऽव्ययेभ्यश्च कालवाचिभ्यष्टयुद्युलो ४ अध्याये ३ पादे १ आह्निकम् । १५९ स्तस्तयोस्तुद् च स च कृतादेशयोः घकाळतनेषु अनद्यतन इत्यादिनिर्देशात् अन्तरगत्त्वाद्धि प्रथमं तुटि भुज्युमृत्युरित्या- दाविव त्युशब्दस्य प्रत्ययतयाङ्गसंज्ञानिमित्तं यो युस्तस्य विधी- यमानो ऽनादेशो न स्यात् । तुगेव तु न कृतस्तस्य पूर्वान्ततया प्रातस्तनमित्यादौ विसर्जनीयासिद्धिप्रसङ्गात् । सायन्तनम् पाढेतनम् । प्रगेतनम् । दोषातनम् । दिवातनम् । सायमि- ति मान्तमव्ययम् । स्वरादिषु पाठात् । ततोऽव्ययत्वादेव सिद्धः प्रत्ययः । यस्तु स्यतेविसायशब्दो दिवसावसाने रूढः। तस्य प्रत्ययसन्नियोगेन मान्तत्वं निपात्यते । अन्यत्र त्वकारान्त एव सायाह्नः । आह च संख्याविसायपूर्वस्याहस्ये- ति । भारविश्व सायमण्डनमभित्वरयन्त्य इति । इदं च वार्ति- कमतम् । आह हि । सायचिरयोर्मान्तत्वं प्रत्ययसनियुक्तमि- ति । भाष्ये तु । सायंशब्दस्य पाठ इह मूत्रे प्रत्याख्यातः । घनन्तस्य सायशब्दस्य पाकादिशब्दवदकालवाचित्वात् । कथं तर्हि सायाह्नः सायमोऽढे मलोप इति वचनात् । तरे वा । साय- तरे । सायन्तरे । वा सप्तम्याम् । साये सायम् । एवं च भाष्य- मते सायमण्डनमित्यादयोऽपप्रयोगा एवेति बोध्यम् । प्राहेप्र- गे इत्यनयोरेदन्तत्वं निपात्यते । पाह्नः सोढोऽस्य प्राङ्केतन इ- त्याद्यर्थम् । तत्र हि सप्तमी नास्ति । जाताद्यर्थे तु घकालतने- वित्यलुकापि सिद्धम् । अत्र वार्तिकानि । चिरपरुत्परारिभ्य. स्त्रो वक्तव्यः । चिरत्रम् । परुनम् । परारित्नम् । चिर- शब्दस्य सूत्रे उपादानात् युट्युलावपि भवतः न तु किंय. तद्भहुषु कृमो ऽविधानमित्यत्रेव सूत्रस्य बाधः । सायश्चिरमो मकारान्तत्वमिति वार्त्तिके चिरन्तनमितिभाष्योदाहरणात् । परु- त् । पूर्वस्मिन्वर्षे । परारि पूर्वतरे वर्षे । प्रगस्य छन्दसि गलोप- शब्दकौस्तुभे। श्च । प्रनमात्मानम् । प्रत्रशब्दः पुराणवचन इति हरदत्तः । भाषायामप्यसौ पंश्चमे साधयिष्यते । एवं चास्य वचनस्य य- था न वैयर्थ्य तथा तत्रैव वक्ष्यामः । अश्रादिपश्चादिडमच । अग्रिमम् । पश्चिमम् । डित्वं शक्यमकर्तुम् । अन्ताच । अन्तिमम् । विभाषा पूर्वाह्नापराह्नाभ्याम् ॥ १६८ ॥ आभ्यां ट्युट्युलौ वा स्तस्तयोस्तुद् च । पक्षे कालाहम् । पूर्वाह्नेतनम् । अपराह्नेतनम् । घकालतनेप्नित्यलुक् । पूर्वाह्नः सोढोऽस्येति विग्रहे तु पूर्वाह्नतनं अपराह्नतनमित्येव । ठत्रा पौ- ह्निकम् । आपराह्निकम् ॥ तत्र जातः ।। १६९ ॥ अणादयो घादयश्च प्रकृताः तेपायर्थाः समर्थविभक्तयश्चे- तः परं निर्दिश्यन्ते । सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो घा- दयश्च स्युः । सुन्ने जातः सौनः । औत्सः । राष्ट्रियः । अवा- रपारीण इत्यादि । ननु शेष इत्यस्य लक्षणतया चाक्षुपं रूप- मित्यादाविव जाँतादिष्वप्यणादयः सिद्धाः । अधिकारतया च घादयः । तस्मादास्तावन्न निर्देव्याः समर्थविभक्तयोऽप्याक्षे. पादेव लप्स्यन्ते । चाक्षु रूपमित्यत्र तृतीया यथा । अत एव नियमार्थत्वमपि न शक्यम् । जातादिष्ववेत्यादिनियमे चाक्षुपमि- त्याद्यसिद्धिप्रसङ्गात् । तत्रास्ते शतेऽत्यादौ वनभिधानान भ- विष्यति अङ्गुल्या खनति वृक्षयूलादागत इत्यादौ यथा । अत्राहुः प्राटपष्ठबित्यादीनपवादास्तत्र तत्र विशेषे वक्तुं जा- ताद्यर्था अवश्यं वक्तव्यास्ते योगविभागेन विभक्तिविशेषसमभि- व्याहारेण वोक्ताः स्पष्टत्वार्थम् । यानि तु निरपवादान्यर्थादेश- ४ अध्याये ३ पादे १ आह्निकम् । नानि कृतलब्धक्रीतकुशला इत्यादीनि स्पष्टत्त्वार्थान्येवेति । प्रावृषष्ठप् ॥ १७ ॥ एण्यस्यापवादः। पित्वादनुदात्तः। प्राषिजातःप्राषिकः । संज्ञायां शरदो वुञ् ॥ १७१॥ ऋत्वणोऽपवादः । शारदकाः । दर्भविशेषाणां मुद्गविशेषा. णां च । संज्ञायां किम् । शारदं सस्यम् । केचित्संज्ञायामित्ये. तत्कृतलब्धेत्येतत्पर्यन्तमनुवर्तयतीति वृत्तिकारः । पूर्वाह्नापराह्नामूलप्रदोषावस्कराद् वुन् ॥ १७२ ॥ पूर्वाह्नकः । अपरान्हकः । विभाषा पूर्वाह्वापराह्नाभ्यामि- त्यस्यापवादः । आईकः । मूलकः । नक्षत्राणोऽपवादः । प्रदो- षकः । निशाप्रदोषाभ्याश्चेत्यस्यापवादः । अवस्करकः। औत्स- र्गिकस्याणोऽपवादः । असंज्ञायां तु यथाप्राप्तं ठत्रादय एवेत्येके । पथः पन्थ च ॥ १७३ ॥ पथि जातः पन्थकः। अमावास्याया वा ॥ १७४ ॥ मन्धिवेलाद्यणोऽपवादः । अमावास्यकः स्यः । अमावस्यदन्यतरस्यामिति सूत्रेणामापूर्वाद्वसेण्यति वृद्धौ पक्षे इस्वो निपात्यते । तेन हस्वपक्षे एकदेशविकृतस्या- नन्यत्वादण्वुनौ स्त एव । आमावास्यः । अमावस्यकः । ये तु सन्धिवेलादिष्विह सूत्रे च हस्वोपधमधीयते तेषां दो- चोपधान्न स्यात् । विकृत्या प्रकृतेरग्रहणादिति न्यासकारः हरदत्तोऽप्येवम् । अकृतद्धेदृद्धिप्रकृतिभूतस्येदं ग्रहणमित्या- श्रित्य इस्वपाठोऽपि समर्थयितुं शक्यते । । आमावा.

१६२ शब्दकौस्तुभे। अ च ॥ १७५ ॥ अमावास्याशब्दादकारः प्रत्यय: स्यात् । अमावास्यः । अमावस्यः । पक्षेऽण्वुनावुक्तौ । तथा चामावास्यायां जाते षड् रूपाणि । सकारद्वित्वविकल्पातु द्वादशेत्यवधेयम् । सिन्ध्वपकराममा कन् ।। १७६ ॥ सिन्धुशब्दात् कच्छाद्याणि मनुष्यबुनि च प्राप्तेऽपकरश- ब्दात्तु औत्सर्गिकेऽणि प्राप्ते । सिन्धुकः । अपकरकः । अणौ च ॥ १७७॥ क्रमात् स्तः । सैन्धवः। आपकरः । श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तवि- शाखाषाढाबहुलाल्लुक् ॥ १७८ ॥ एभ्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक् स्या- त् । लुकृतद्धितलुकीति स्त्रीमत्ययनिवृत्तिः। श्रविष्ठासु जातः श्र- विष्ठः । फल्गुनः । अनुराधः । स्वातिः। तिष्यः । पुनर्वसुः । हस्तः । विशाखः । अपाढः । कृत्तिकापर्यायस्थ बहुलाशब्दस्य समाहारद्वन्द्वे नपुंसकहस्वत्वेन सूत्रे निर्देशः न तु बहुर्थीदान- निमित्तकस्य बहुलशब्दस्य श्रविष्ठादिभिः साहचर्यात् । कथं तर्हि अव्ययात्त्यविति सूत्रे शैपिकाणां विप्रतिषेधनिरूपणप्रस्ता. वे भाष्यं सौवात इति । न च कृदिकारादिति डीपन्तात् स्वा- तीशब्दाजातार्थे इदं रूपमस्त्विति वाच्यम् । प्रातिपदिकग्रह- णे लिङ्गविशिष्टस्यापि ग्रहणात् । अत्र कैयटः । भवार्थेऽण् जा- ते तु श्रविष्ठेत्यादिना लुक् स्यादिति । संधिवेलादिसूत्रे ह- रदत्तोऽप्येवम् । माधवस्तु सूत्रे स्वातीतिष्योतिङीपन्तं पठन् जातार्थेऽप्यङीषन्तस्य सौवात इति रूपमिच्छति । एतच्चात सा- ४ अध्याय ३ पादे १ आह्निकम् । १६३ त्। तत्यगमने इत्यत्र धातुवृत्तौ स्पष्टम् । लुक्प्रकरणे चित्रारेव- तीरोहिणीभ्यः स्त्रियामुपसंख्यानम् । चित्रायां जाता चित्रा । रेवती । रोहिणी। यद्यपि गौरादिषु रेवती नक्षत्रे रोहिणी न- क्षत्र इति पठ्यते । तत्रेमौ नक्षत्रवाचिनौ । जाताथवृत्तित्वा- तथा पिप्पल्यादेराकृतिगणत्वादाभ्यां ङीष् । प्रथमो- त्पन्नस्तु लुक तद्धितलुकीति लुप्यते । फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ। स्त्रियामित्येव । टो ङीवर्थः । नकारः स्वरार्थः । विधानसामर्थ्यादनयोर्न लुक् । फल्गुनी। अपाढा । श्रविष्ठा- षाढाभ्यां छग् वक्तव्यः । स्त्रियामितीह नापेक्ष्यते । श्राविष्ठी- यः। आपाढीयः॥ स्थानान्तगोशालखरशालाच्च ॥ १७९ ॥ एभ्यो जातार्थस्य लुक् स्यात् । गोस्थाने जातो गोस्था. नः। अपूर्वस्थानः । गोशालः । रवरशालः। गोशालशब्द- स्य विभापासेनेति नपुंसकत्वे ह्रस्वत्वम् । तत्साहचर्यात् ख. रशालेऽप्येवमेव न तु द्वन्द्वैकत्वप्रयुक्तम् । एकादेशस्य पूर्व प्र. त्यन्तवद्भावाल्लिङ्गविशिष्टपरिभाषया वा स्त्रियामपि लुग्भवत्ये- व । यद्यपि टावन्तयोः पाठे एकदेशविकृतस्यानन्यत्वान्नपुंस- काभ्यां लुक् सिद्धत्येव तथापि लाघवार्थ इस्वपाठ इति हरदत्तः। वत्सशालाभिजिदश्वयुक्शतभिषजो वा ॥ १८० ॥ एभ्यो जातार्थस्य लुग्वा स्यात् । वत्सशाले जातः वत्सशालः । वात्सशालः । अभिजित् । आभिजितः । अश्वयुक् । आश्वयुजः । शतभिषक् । शातभिषजः । पक्षे शातभिषः। अण् डिवा विधीयत इति डित्वम् । एत. च दृष्टं सामेत्यधिकारे उक्तम् । अभिजिन्नामकं हि मुहूर्तमः, ।

१६४ शब्दकौस्तुभे । प्यस्ति । अश्वयुक्शतभिषजोस्तु प्रपश्चार्थ ग्रहणम् । इह व- सशालेति हस्वान्तस्य दीर्घान्तस्य वा ग्रहणम् । नक्षत्रेभ्यो बहुलम् ॥ १८१ ॥ नक्षत्रेभ्यः परस्य जाते प्रत्ययस्य बहुलं लुक् स्यात् । रोहिणः । रौहिणः । चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्या- नमित्येतत्तु स्त्रियां लुगेव यथा स्यादित्येतदर्थं न तु स्त्रियामेव लुगर्थम् । वाग्रहणमनुवर्त्य व्यवस्थितविभाषाश्रयणादेव लुग्व्य- वस्थायां सिद्धायां बहुलग्रहणं कचिदन्यदेवेत्यर्थम् । तेन टानौ वक्तव्यावित्यादि सिद्धम् । कृतलब्धकीतकुशलाः ॥ १८२॥ तत्रेत्येव । सुघ्ने कृतो लब्धः क्रीतः कुशलो वा सौनः । राष्ट्रियः। यद्यपि कसक्रीतत्वे जातलब्धत्वयोाप्ये तथापि पृथगुपादानं कृतत्वप्रकारफेऽपि बोधे शैषिकाः साधका इति वो- धयितुम् । अत एव जाते लुग्भाजामपि कृते लुङ् नेत्यवधेयम् । प्रायभवः ॥ १८३॥ तत्रेत्येव । सुघ्ने प्रायेण बाहुल्येन भवतीति स्रौनः । न च तत्र भव इत्यनेन गतार्थता भषप्रायभवयोलब्धक्रीतयोरि- वाविशिष्टत्वविशिष्टत्वाभ्यां भेदात् । उपजानुपकर्णोपनीवेष्ठक् ॥ १८४ ॥ औपजानुकः । औपकर्णिकः । औपनीविकः । उपजान्वा- दयः सामीप्येऽव्ययीभावः । समाहारद्वन्द्वात्सौत्रपुलिङ्गनिर्देशः । सम्भूते ॥ १८५ ॥ तत्रेत्येव । मुन्ने सम्भवति सौनः । इदानीं सुन्ने स- ४ अध्याये ३ पादे १ आह्निकम् । १६५ म्भाव्यते तत्पमाणान्नातिरिच्यते घा य: सेनादिरर्थ स एषमुच्यते । सूत्रे तन्त्राधाश्रयणादनवक्तृप्तिराधेयस्याधारात् परिमाणानतिरेकश्चेत्यर्थद्वयमपि विवक्षितम् । कोशाड्ढने ॥ १८६ ॥ कौशेयं वस्त्रम् । रूढीयम् । कोशे सम्भवस्तु सत्कार्य- वादाश्रयणात् । मतान्तरे तु विकारप्रकरणे एण्या ढजित्यस्या- नन्तरं कोशाचेति पाठ्यम् । तथा च वार्तिकम् । विकारे कोशाड्ढ सम्भूते अर्थानुपपत्तिरिति । कालात्साधुपुष्प्यत्पच्यमानेषु ॥ १८७ ॥ हेमन्ते साधुहेमन्तः प्रकारः । शैशिरमनुलेपनम् । वसन्ते पुष्यन्ति वासन्त्यः कुन्दलताः । ग्रैष्म्यः पाटलाः । शरदि पच्यन्ते शारदाः शालयः । गृष्मा यवाः । उप्ते च ॥ १८८ ॥ कालविशेषार्थात् सप्तम्यन्तादुतेर्थे यथाविहितं प्रत्ययाः स्युः । हेमन्ते उप्यन्ते हैमन्ता यवाः। ग्रैष्मा व्रीहयः । सूत्रे भूतकालो ऽतन्त्रः । योगविभाग उत्तरार्थः । आश्वयुज्या वुञ् ॥ १८९ ॥ उप्तेऽर्थे । ठोऽपवादः । बकारः स्वरार्थ उत्तरत्र वृद्ध्यर्थ- श्च । आश्वयुज्यामुप्ता आश्वयुजका माषाः । ग्रीष्मवसन्तादन्यतरस्याम् ॥ १९० आभ्यां वुन् वा स्यादुप्से । पक्षे ऋत्वण् । गृष्मकं ग्रैष्मं वा शस्यम् । वासन्तकम् । वासन्तम् । ॥

१६६ शब्दकौस्तुभे । . देयमृणे ॥ १९१॥ कालादित्येव । मासे देयमृणं मासिकम् । ऋणे किम् । मासे देया भिक्षा। कलाप्यश्वत्थयवबुसाद् वुन् ॥ १९२ ॥ यस्मिन् काले मयूराः कलापिनो भवन्ति स उपचारात् कलापी । तत्र देयमृणं कलापकम् । अश्वत्थस्य फलं अश्व- स्थः फले लुन् । तद्युक्तः कालोऽश्वत्थः ।' यस्मिन् कालेऽश्वत्थाः फलन्ति तत्र देयमश्वत्थकम् । यस्मिन्यव- बुसमुत्पद्यते तत्र देयं यवबुसकम् । ग्रीष्मावरसमाद वुञ् ॥ १९३ ॥ ग्रीष्मे देयमणं ग्रैष्मकम् । आवरसमकम् । समाशब्दो वर्षपर्यायः अवरा चासौ समा चेति कर्मधारयः । न च दिक्संख्ये संज्ञायामेवेति नियमः परशब्दस्यादिकशब्दत्वात् । आगामिनां वत्सराणामाघे संवत्सरे देयमावरसमकम् । अतीते वत्सरे देयं यदद्यापि न दत्तं तदित्यन्ये । संवत्सराग्रहायणीभ्यां ठञ् च ॥ १९४ ॥ चाद् वुन् । संवत्सरे देयमणं सावत्सरिकं सांवत्सरकम् । आग्रहायणिकं आग्रहायणकम् । सन्धिवेलादिषु संवत्सरा- त् फलपर्वणोरिति पठितम् । तत्र फले ऋणत्वेन विव- क्षितेऽण प्राप्तः । सोऽनेन ठत्रा वाध्यते । एतदर्थमेव हि ठग्रहणम् । अन्यथा वेत्येव ब्रूयात् ।। व्याहरति मृगः ॥ १९५॥ कालवाचिनः सप्तम्यन्ताच्छन्दायत इत्यर्थे यथाविहितं ४ अध्याये ३ पादे १ आह्निकम् । १६७ स्युः प्रत्ययाः यो व्याहरति स मृगश्चेत् । निशायां व्याहरति नैशो मृगः । नैशिकः । प्रादोपः । पादोपिकः । मृगः कि- में । निशायां व्याहरत्युल्लकः ॥ तदस्य साढम् ॥ १९६ ॥ प्रथमान्तात् कालार्थात सोढोपाधिकादस्येति षष्ठ्यर्थे प्रत्ययः स्यात् । अस्येति नेयं कर्तरि षष्ठी । न लोकेति निषेधात् । किन्तु कर्तुरेव शेषत्वविवक्षायां षष्ठी । सोढमभ्यस्तम् । का- लस्य स्वरूपेणाभ्यासायोगात् तत्सहचरितक्रियावृत्तेरयं प्रत्य- यः । निशासहचरितमध्ययनं निशा तत्सोढमस्य नैशः । नैशिकः । तत्र भवः ॥ १९७ ।। कालादिति निवृत्तम् । कालसम्बद्धस्य तवेत्यस्य निवृत्तये पुनस्तत्रग्रहणात् । न च पूर्वमूत्रस्थस्य तदित्यस्य व्यावृत्तये तत्र ग्रहणामिति वाच्यम् । तदस्येति सूत्रस्येति सूत्रस्येत उ- त्तरत्रापि मुप ठत्वात् । यद्यपि भूधातुरुत्पत्तावपि वर्तते त- थापीह सत्तार्थ एव गृह्यते । तत्र जात इति पृथग्ग्रहणात् । सुघ्ने भवः सौन्नः । राष्ट्रियः । दिगादिभ्यो यत् ॥ १९८ ॥ दिश्यम् । वय॑म् । दिश् । वर्ग । पूग । पक्ष । धाय्य । मित्र । मेधा । अन्तर । पथिन् । रहस् । अलीक । उखा । साक्षिन् आदि । अन्त । मुखा। जघन । मेष । यूथ । उदकात्संज्ञायाम् । न्याय । वंश । अनुवंश । वेश । काल । आकाश । दिगादिः । मुखजघनशब्दयोरिह पाठः शरीरावयवार्थः । सेनाया मुखे जघने च भवं मुख्यं जघन्यम् ।

.१६८ शब्दकौस्तुभे । शरीरावयवाच ॥ १९९ ॥ दन्त्यम् । कण्ठ्यम् । दृतिकुक्षिकलशिबस्त्यस्त्यहेर्डञ् ॥ २० ॥ दृतिश्चमविकारः शरीरावयवश्च । तत्र भवं दार्तेयम् । कुक्षिशब्दो धूमादिः ततो धूमादिभ्यश्चेति वुनि प्राप्तेऽनेन ढन् । कौक्षेयम् । कालशेयम् । कलशस्तु त्रिषु द्वयोः । घटः कुठनिपावस्त्रीत्यमरः स्त्रियां कलशिः कलशी चेति तद्या- ख्यातारः । तालव्या अपि दन्त्याश्च । शंवशूकरपांशवः । कलशः शम्बलं चैव जिह्वायां रशना तथेति शब्दभेदः। तथा दण्डाहतं काळशेयमरिष्टमपि गोरस इत्यमरस्य व्याख्यावसरे सेचपात्रं कलाशिः ।बस्ति भेरधस्तत्र भवं वास्तेयम् । अस्तिशब्दः प्राति- पदिकविभक्तिप्रतिरूपकनिपातसंज्ञम् । तच्च तिङन्तेन समानार्थ भिन्नार्थं च । आद्यं यथा । अस्तिक्षीरा गौः । द्वितीयं यथा । अस्तिमान् । धनवानित्यर्थः । तदिहाविशेषादुभयोर्ग्रहणम् । आस्तेयमिति न्यासकारहरदत्तौ । मतुब्बिधौ भाष्यकैयट- पर्यालोचनया तु नायं धनवाची किन्तु वृत्तौ धनकर्तृकां स. तामाहेति लभ्यते । अत एवास्तिसामानाधिकारण्याभा. वान्मत्वर्थ तत्र यत्नः कृतः । आहेयम् । ग्रीवाभ्योऽण च ॥ २०१ ॥ चात् ढञ् । शरीरावयवाच्चेति यतोऽपवादः। ग्रीवाशब्दो धमनीसङ्के वर्तते । तत्रोद्भूतावयवसङ्घविवक्षायां बहुवचना- तात्प्रत्यय इति सूचयितुं सूत्रे बहुवचनम् । तिरोहितावयवभे- दविवक्षायां तु एकवचनान्तादप्यण्ढो स्त एव । प्रैवेय. म् । अवम् ।।

४ अध्याये ३ पादे १ आह्निकम् । १६९ गम्भीरायः ॥२०२॥ गम्भीरे भवं गाम्भीर्यम् । अव्ययीभावाच ॥ २०३ ॥ परिमुखं भवं पारिमुख्यम् । पारिहनव्यम् । परिमुखादिभ्य एवेष्यते। नेह । औपकूलः । औपशालः । दिगादिगणानन्त- रं परिमुखादिगणः पठ्यते । तत्सामर्थ्यादिह सूत्रे ऽव्ययीभा- वपदं तन्मात्रपरमिति निर्णीयते । नहि परिमुखादीनामष्टाध्या- स्यां कार्यान्तरविहितमस्ति । परिमुखादिभ्य इत्येव तु न सूत्रितम् । बहुव्रीहितत्पुरुषयोरपि प्रसङ्गात् । अव्ययीभावग्रह- णस्योत्तरत्रोपयोगाच्च । परिमुख । परिहनु । पर्योष्ट । पर्युलख- ल। परिसीर । अनुसीर । उपसीर । उपस्थल । उपक. लाप । अनुतिल । अनुशीत । अनुभाव । अनुपूप । अनु. वंश । इह ये परिपूर्वास्तत्र यदि वर्जनं गम्यते ततोऽपपरि- बहिरञ्चवः पञ्चम्येति समासः । अथ सर्वतो भावस्ततो- ऽस्मादेव निपातनादव्ययीभावः । उपपूर्वेषु सामीप्ये । अनुपूर्वेष्वनुर्यत्समया । यस्य चायामः । पश्चादर्थे यदव्ययमि- ति च यथाभिधानसमासः । परिमुखादिगणे प्रतिशाखशब्दो- ऽपि बोध्यः । तथा च शारवृ व्याप्ताविति धातौ प्रतिशाखं भवं प्रातिशाख्यम् । अव्ययीभावाचेति भवार्थे ज्य इति माधवः । अन्तःपूर्वपदाकृञ् ॥ २०४ ॥ अव्ययीभावादित्यनुवर्तते । वेश्मनि अन्तर्वेश्मम् । विभ- त्यर्थेऽव्ययीभावः । तत्र भवमान्तश्मिकम् । आन्तर्गणि- कम् । अत्र श्लोकवार्तिकम् । ૨૨ १७० शब्दकौस्तुभे। समानस्य तदादेश्च अध्यात्मादिषु चेष्यते । उर्व दमाच्च देहाच्च लोकोत्तरपदस्य च ॥ मुखपाश्रुतसोरीयः कुग्जनस्य परस्य च । ईयः कार्योथ मध्यस्य मण्मीयौ चापि प्रत्ययौ ॥ मध्यमध्यन्दिनञ्चास्मात् स्थाम्नो लुगजिनात्तथा । वाह्यो दैव्यः पाञ्चजन्यो गाम्भीर्य चत्य इष्यते ॥ सामानिकः । सामानग्रामिकः । आत्मनि अध्या- त्मम् । विभक्त्यर्थेऽव्ययीभावः । अनश्चेति टच् समासान्तः । आध्यात्मिकम् । आधिदैविकम् । आधिभौतिकम् । अनुश- तिकादित्वादुभयपदाधिः । अध्यात्मादिराकृतिगणः । एवं च समानस्य तदादेरित्यादिरस्यैव प्रपञ्चः । उर्ध्वशब्देन समानार्थ उर्ध्व शब्दो मान्तः । स च एतद्वृत्तिविषय ए. वेति वृत्तिमतम् । कैयटस्तु दम उत्तरपदे ठसंनियोगेनोवं. शब्दस्य मान्तत्वं निपात्यत इत्याह । औवंदमिकः । देह- चेति । उर्ध्वशब्दपूर्वादेव । मान्तत्वं तु नेह निपात्यते । और्ध्व- देहिकम् । ऐहलौकिकम् । पारलौकिकम् । एतयोरनुशतिका- दित्वादुभयपदद्धिः । १। मुखेत्यादिश्लोकार्धं गहादिठस्यैव प्रपश्चः । उत्तरार्धेन तु मध्यादीयमण्मीयाः । मध्यीयः । मा. ध्यमः । मध्यमीयः । ननु मण्मीययोरिह किं फलम् । गहा- दिषु मध्यमध्यमं चाण चरण इत्यनेन मध्यममध्यमीययोः सिद्धत्वात् । सत्यम् । तत्र पृथिवीमध्यवाचिन एव ग्र. हणमित्युक्तम् । जातादिषु पृथिवीमध्यवाचिन एव म- ध्यमीय इति यथा स्यात् । मध्यान्तरवाचिनो मा भूदिति । इह तु मध्यान्तरवाचिनोऽपि भवार्थे मीयप्रत्ययो विधीय- ते । तथा गहादिपाठेन पृथिवीमध्यं निवास एषामित्यस्मि- प्रमा- ४ अध्याये ३ पादे १ आह्निकम् । १७१ नेवार्थे माध्यमा इति सिद्धम् । चरणसम्बन्धेन निवासल. क्षणोऽणित्युक्तत्वात् । इह तु मध्यान्तरवाचिनो भवार्थे मण्- प्रत्ययो विधीयत इति शेषः ॥ २ ॥ मध्येत्यनुकार्यानुकरण- योरभेदविवक्षया विभक्तिर्न कृता । मध्यशब्दो मध्यमभावं लभते दिनञ् च प्रत्ययः । बित्वादाद्युदात्तता । माध्यन्दिनं सवनं चारुपते । माध्यंदिनस्य सवनस्य दनः । स्था- म्न इति । स्थामन् शब्दान्तादित्यर्थः । एवमजिनान्तात् । उभयत्रापि भाष्यकारीयमुदाहरणं तदन्तविधी णम् । अश्वस्येव स्थाम बलं यस्येति बहुव्रीहिः । पृषोद- रादित्वात्सस्य तः । ततो भवार्थे अकारः । दित्यादित्येति. सूत्रे स्थाम्नोऽकार इति वार्त्तिकात् तस्यानेन लुक् । अश्व- स्थामा । सिंहाजिने भवः सिंहाजिनः । अणो लुक् । वाह्यो दैव्य इति श्लोकार्थे पञ्चजनाभ्यो विधीयते । गम्भीराज्य इत्यत्र पञ्चजनादुपसंख्यानं कर्त्तव्यमिति फलितोऽर्थः । अन्यः सर्वोऽप्यनुवादः प्राग्दीव्यत इत्यत्र पठितेन जाता- चर्थान्तरानुरोधादवच्यादर्तव्येन देवस्य यत्रत्री बहिपष्टि- लोप इत्यनेन गम्भीराज्य इति सूत्रेण च गतार्थत्वात् । ग्रामात्पर्यनुपूर्वात् ॥ २०५॥ ग्रामान्तादव्ययीभावाकृञ् स्यादणोऽपवादः । पारिग्रा- मिकः । आनुग्रामिकः । जिह्वामलाङ्गुलेश्छः ॥ २०६ ।। यतोऽपवादः । जिह्वामूलीयम् । अङ्गुलीयम् । वर्गान्ताच्च ॥ २०७ ॥ कवर्गीयम् ।

१७२ शब्दकौस्तुभे। अशब्दे यत्खावन्यतरस्याम् ॥ २०८ ॥ पूर्वेण पक्षे छः । मर्यः । मद्वर्गीणः । मद्वर्गीयः । अ. शब्दे किम् । कवर्गीयो वर्णः । कर्णललाटात्कनलङ्कारे ॥ २०९ ॥ यतोऽपवादः । कर्णिका । ललाटिका । अलङ्कारे किम् । कर्ण्यम् । ललाट्यम् तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः ॥२१॥ इति शब्दो वाक्यार्थ परामृशति तत्समीपे चकारस्तत्र भव इति वाक्यार्थमाक्षिपति । व्याख्यातव्यस्य ग्रन्थस्य नाम प्रतिपादकम् । तच्च शक्त्या लक्षणया वेत्यत्र नाग्रहः । त- स्मात्पठ्यन्तायाख्यानकरणे सप्तम्यन्तात्तु भवार्थे प्रत्ययाः स्युः । यद्यपि तस्येदं तत्र भव इति सूत्राभ्यां गतार्थता त- थापि ठत्रादिकानपवादान्वक्तुमिमावाँ निर्देष्टव्यावेव प्रसङ्गा- वणादिकं विधीयते । सुपां व्याख्यानः सौपो ग्रन्थः । तैङः । कार्तः । सुप्मु भवं सौपम् । व्याख्यातव्यनाम्नः किम् । पाटलिपुत्रस्य व्याख्यानी सुकोसला । पाटलिपुत्रं हि तया व्याख्यायते इक्सन्निवेशविशिष्टमिति । नत्विदं व्या- ख्यातव्यस्य नाम ग्रन्थेष्वेव व्याख्येयत्वस्य सुप्रसिद्धत्वात् । नामग्रहणस्य च प्रसिद्ध्युपसंग्रहार्थत्वात् । बह्वचोन्तोऽदात्ताट्ठञ् ॥ २११ ॥ अणोऽपवादः । पत्वणत्वयोर्विधायकं शास्त्रं षत्वणत्वं तस्य व्याख्यानस्तत्र भवो वा पात्वणत्विकः । बहुचः कि- म् । यचष्ठकं वक्ष्यति । एकाच प्रत्युदाहार्यः । सौपम् । तैङम् । अन्तोदात्तात्किम् । संहितायाः । सांहितम् । गति- ४ अध्याये ३ पादे १ आह्निकम् । १७३ स्वरेणाादात्तोऽयम् । अन्तग्रहणं स्पष्टार्थम् । उदात्तादित्यु- क्तेऽपि वर्णग्रहणे तदन्तग्रहणात् । वर्णादनुदात्तादित्यत्र यथा । क्रतुयज्ञेभ्यश्च ॥ २१२॥ क्रतुयज्ञशब्दौ सोमसाध्येषु यागेषु प्रसिद्धौ । तत्रा- न्यतरोपादानेन सिद्धे उभयोपादानसामर्थ्यादसोमका अ- पीह गृह्यन्ते । अग्निष्टोमाद्यर्थेषु मन्त्रब्राह्मणकल्पेषु वर्तमाना अग्निष्टोमादिशब्दा इहोदाहरणम् । ग्रन्थानामेव व्याख्येय- ताया उक्तत्वात् । आग्निष्टोमिकः । वाजपेयिकः । राजमू- यिकः। असोमकेभ्यः पाकयज्ञिकः। नावयज्ञिकः । बहुवच. नं स्वरूपविधिनिरामार्थम् । पाश्चौदनिकः । अनन्तोदात्ता- र्थ आरम्भः । तथाहि राजसूयवाजपेयशब्दो कृदुत्तरपदप्र- कृतिस्वरेण मध्योदात्तौ। राज्ञा क्षत्रियेण सूयते राजा सो- मः सूयतेऽत्रेति वा। राजसूयेति क्यप् तत एव निपातना. समासः षष्ठीसमासो वा । पीयतेऽस्मिन्निति पेयः बाहुल- कादधिकरणे यत् । वाजो यवागूभेदः । तस्य पेयो वाज- पेयः । नन्वस्तूभयोरुदाहरणता अग्निष्टोमादीनां तु कथम् । ते ह्यन्तोदात्ताः तथा हि स्तुतिः स्तोमः अग्नेः स्तोमोऽस्मिन्नि- ति बहुव्रीहिः । परादिश्च परान्तश्चेत्यन्तोदात्तः पाकशब्दो- ल्पपर्यायः प्रशस्तपर्यायो वा । योमा पाकेन । तं पाकेन म. नसेत्यादौ तथा दर्शनात् । पाकश्चासौ यज्ञश्चेति कर्मधार- यः । नवैर्तीहिभिर्यजनं नवयज्ञः । आग्रयणम् । कृदुत्तरपद प्रकृतिस्वरेणान्तोदात्तः । तस्माद् वृत्तिकारोक्तान्युदाहर- णानि असङ्गतानीति चेत् । सत्यम् । अन्यार्थमस्मिन्नारब्धे सति अन्तोदात्तादपि यज्ञाभिधायिनः परत्वादनेनैव भाव्य- १७४ शब्दकौस्तुभे । मिति वृत्तिकृत आशयो बोध्यः ।। अध्यायेष्वेवर्षेः ॥ २१३ ॥ ऋषिशब्देभ्यो लक्षणया व्याख्येयग्रन्थवृत्तिभ्यो भवे व्याख्याने चाध्याये ठञ् स्यात् ऋषिश्वेह प्रवृतः सच भृ. वादिः । होत्राध्वर्युणा च प्रवियत इति प्रवर इति व्युत्प- तेः । ग्रहदृनिश्चिगमश्चेत्यप् । उक्तश्च । भार्गवच्यावनाप्रवा- नौर्वजामदग्न्येति । होताजमदग्निवदूर्ववदप्रवानवच्च्यवनबद्- भृगुवदित्यध्वर्युरिति । योगरूढचायं गोत्रसपिण्डादिशब्दव- त् । गीयन्ते कीर्त्यन्ते येन वंश्यास्तद्गोत्रम् । समानः पिण्डो ऽस्येति सपिण्ड इत्यपि हि योगोऽतिप्रसक्तः । ऋषिशब्दो य- धप्यन्यत्र मन्त्रदृष्टरि प्रसिद्धस्तथापीह लक्ष्यानुरोधादस- मानार्पगोत्रजामित्यादौ दृष्टत्वाच प्रवरपर इति दिक् । वसि- ष्ठेन दृष्टो मन्त्रो वसिष्ठस्तस्य व्याख्यानस्तत्र भवो वासिष्ठि- कोऽध्यायः। अध्यायेष्विति किम् । वासिष्ठी ऋक् । भवा- र्थेऽण् । एवकारः सर्व वाक्यं सावधारणमिति ज्ञापयति न्यायसिद्धं चेदम् । उद्देश्यतावच्छेदकावेच्छदेन विधेयान्वयात् । पौरोडाशपुरोडाशात्छन् ॥ २१४ ॥ पुरोडाशसहचरितो मन्त्रः पुरोडाशः । स एव पौरोडाशो. ऽपि । आभ्यां ठन् स्यात् । पौरोडाशिकः । पुरोडाशिकी । पित्वान्डीए । पुरो दाश्यते पुरोडाशः । दाश दाने कर्मणि घश् । इहैव निपातनादस्य डत्वम् ॥ छन्दसो यदणौ ॥ २१५ ॥ यज्लक्षणस्य ठकोऽपवादः । छन्दस्यः । छान्दसः । इ. हार्थयोः प्रत्ययाभ्यां यथासंख्यं न । अस्वरितत्वात् ।

४ अध्याये ३ पादे १ आह्निकम् । व्यद्ब्राह्मणप्रथमाध्वरपुरश्चरणनामा- ख्याताट्ठक् ॥ २१६ ॥ यचः । ऐष्टिकः । पाशुकः । ऋत् । चातुर्होकः । ब्राह्म. णिकः । आर्चिकः । प्राथमिकः आध्वरिकः । गौरश्चरणि- कः । नामाख्यातग्रहणं संघातविगृहीतार्थमिति वार्तिकम् । आख्यातार्थ विगृहीतग्रहणं नामशब्दात्तु यचत्वादेव सि- दम् । नामिकः । आख्यातिकः। नामाख्यातिकः । अणगयनादिभ्यः ।। २१७ ॥ एभ्योऽण् स्याद्भवे व्याख्याने च । ठमादेरपवादः । आ. गयनः । अण्ग्रहणं बाधकबाधनार्थम् । वास्तुविद्यः । इह ठा मुक्ते छो मा भूत् । ऋगयन । अयनशब्दो भावसाधनोऽप्य. भेदोपचाराद्भन्थे वर्त्तते । अनो भावकर्मवचन इत्यन्तोदात्तः । पदव्याख्यान । इह मक्तिन्व्याख्यानेत्यन्तोदात्तः । छन्दो- मान अयमृगयनवत् । मनेत्रि तु थादिस्वरः । छन्दोभाषा । कृत्स्वरेणान्तोदात्तः । गुरोश्च हल इसकारे भाषाशब्दनिष्प- तेः । छन्दोविचिति । मक्तिनित्यन्तोदात्तः । पुनरुक्तश- ब्दस्थाथादिस्वरेण । निरुक्तशब्दः संज्ञायामनाचितादीना- मिति । निगमशब्दो गोचरादिमूत्रे घान्तो निपातितः । वास्तु- विद्यानक्षत्रविद्याङ्गविद्येति समासस्वरेण । उत्पातोत्पादशब्दो थाथादिस्वरेण । अशेः सरः वसेः संपूर्वाचिदिति संब- त्सरशब्दोऽन्तोदात्तः । मुहर्तनिमित्तशब्दौ प्रातिपदिकस्वरे- ण। उपनिपूर्वात्सदेः किए उपनिषत् कृत्स्वरः । विद्यान्याय- शिक्षाशब्देभ्यो यचष्ठक प्राप्तः । व्याकरणशब्दाद् वृद्धाच्छः प्राप्तः तदिह यथासम्भवं ठठक्छा बाध्याः । इत्यृगयनादिः ।

१७६ शब्दकौस्तुभे। तत आगतः ॥ २१८ ॥ सघनादागतः सौम्नः। ठगायस्थानेभ्यः ॥ २१९ ॥ एत्येनं स्वामी । स्वामिनमयमेतीति वा आयः स्वा. मिग्राह्यो भागः स यस्मिन्नुत्पद्यते तदायस्थानम् । तद्वाचि. भ्यष्ठक् स्यादणोऽपवादः। शुक्लशालाया आगतः शौक्लशा- लिकः । वृद्धाच्छं परत्वाद्धाधते । आपणिकः । आकरिकः । बहुवचननिर्देशः स्वरूपग्रहणनिरासार्थः ॥ शुण्डिकादिभ्योऽण ॥ २२० ॥ आयस्थानठकश्छादीनां चापवादः । शुण्डिकादागतः शौण्डिकः। कार्कणः । कृकणपर्णाद् भारद्वाज इति छ प्राप्ते । तीर्थशब्दस्य धूमादित्वादनि प्रासेऽण् । तैर्थः । औदपानः । उदपानशब्दस्योत्सादित्वाद प्राप्तः । पुनरणग्रहणान भव. ति । यथाप्राप्तविधाने हि आयस्थानठक् मा भूत् । अञ् तु स्यादेव । तदिह ठक्छवुबलो वाध्याः । स्थण्डिल उपल भूमि तृण पर्ण शुण्डिकादिः । विद्यायोनिसम्बन्धेभ्यो वुञ् ॥ २२१ ॥ विद्यायोनिकृतः सम्बन्धो येषां तेभ्यो वुञ् स्यादणोऽपवा- दः । छं तु परत्वाद् वाधते । उपाध्यायादागत औपाध्याय- कः । शैष्यकः । आचार्यकः । मातामहकः । पैतामहकः । मातुलकः। ऋतष्ठञ् ॥ २२२॥ बुञोऽपवादः । विद्यायोनिसम्बन्धेभ्य इत्येव । होतृक- ४ अध्याये ३ पादे १ आह्निकम् । म् । मातृकम् । भ्रातृकम् । उष्कमिति वक्तव्ये तपरकरणं ठग्रहणं च चिन्त्यप्रयोजनमिति प्राचः । पौतकी विद्यत्यत्र डोबर्थ उअिति तु तत्वम् । कञ्ग्रहणेन सिद्धमिति चेत् तर्हि यादृशीत्यादि न स्यात् । तदनुबन्धकग्रहणेऽतथाभूताग्रहणात् । पितुर्यच्च ॥२२३ ॥ चाट्ठञ् । रीङ् ऋतः । यस्येतिलोपः । पित्र्यम् । पैतृकम् । गोत्रादङ्कवत् ॥ २२४ ॥ लौकिकं गोत्रमित्युक्तम् । अपत्यप्रत्ययान्तादङ्कवत्प्रत्ययाः स्युः अङ्के दृष्टस्य सर्वस्यायमतिदेशो न तु साक्षाद्विहितस्येत्या- ग्रहः । तेन गोत्रचरणाद् वुमिति वुअपि लभ्यते । स हि तम्येदमिति सामान्येन विधीयमानोऽपि अभ्यअिनन्तादन्यत्रा. केऽपि दृष्टः । वतिः सर्वसादृश्यार्थः । कालेभ्यो भववचरणेभ्यो धर्मवदिति यथा । विदेभ्य आगतं वैदम् । गार्गम् । दाक्षम् । साङ्कत्युक्तरजायन्तादिहाप्यण् । औपगवेभ्य आगतमौपग- चकम् । गोत्रचरणादिति बुञ् । हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ॥ २२५ ॥ मनुष्यग्रहणमहेत्वर्थम् । हेतुभ्यस्तावत् समादागतं समरू. प्यम् । समीयम् । विषमरूप्यम् । विषमीयम् । गहादित्वाच्छः । विभाषात्र विभाषेति योगविभागादगुणवचनादपि पश्चमी । योगविभागे च व्याख्यानमेव शरणम् । बाहुलकं प्रकृतेस्तनु- दृष्टेरिति लिङ्गमप्यस्ति । ननु तत आगत इत्यधिकारे हेतु. मनुष्येभ्य इति निर्देश एव लिङ्गमस्त्विति चेन्न । जाड्या- दागत इत्यादिगुणपरतयाऽप्यस्य गतार्थत्वात् । मनुष्येभ्यः । देवदत्तरूप्यम् । दैवदत्तम् । बहुवचनं स्वरूपविधिनिरासार्थम् । २३ १७८ शब्दकौस्तुभ। मयट् च ।। २२६ ॥ योगविभागो यथासंख्यनिरासार्थः । सममयम् । वि. षममयम् । देवदत्तमयम् । टकारः स्त्रियां कीवर्थः । प्रभवति ॥ २२७॥ तत इसेव । हिमवतः प्रवति हैमवती गङ्गा । दारदी सिन्धुः । प्रभवति प्रकाशते तत्र प्रथमं दृश्यत इत्यर्थः । उ- त्पत्तिवचनस्तु प्रभवतिर्न गृह्यते । तत्र जात इत्यतो भेदेन निर्देशात् । विदूरायः ॥ २२८ ॥ अणोऽपवादः । विदूरात्प्रभवति वैदूर्यो मणिः । दन्त्य- मध्योऽयं शादलवत् न तु नड्वलवन्मूर्धन्यमध्यः । स्यादे- तत् । इह नार्थः सङ्गच्छते । बालवायाद्धि असौ प्रभवति विदरे तु संस्क्रियते । सत्यम् । अत एव समाहितं भाष्ये । बालवायो विदूरं च प्रकृत्यन्तरमेव वा । न वै तत्रेति चेद् ब्रूयाजित्वरीवदुपाचरेत् ॥ दिति । अस्यार्थः । बालवायशब्दः प्रत्ययं लभते विदूरादेशं च । सूत्रे पठितेनादेशेनानुरूपस्य स्थानिन आक्षेपात् । यथा प- दम इत्यादौ । अत एव शिवादिषु पठिताभ्यां विश्रवणरव- णाभ्यामनुरूपो विश्रवाः स्थानितयाऽऽक्षिप्यत इत्युक्तम् । प्र- कुत्यन्तरमेव वा । विदूरशब्दो नगरस्येव पर्वतस्यापि वाच. कोऽस्तीत्यर्थः । न वा इति । वैशब्दोऽक्षमा धोतयति । तत्र पर्वतेऽयं शब्दो न प्रसिद्ध इति चेजित्वरीवयवहरेत् । नियतपुरुषापेक्षोऽपि हि व्यवहारो दृश्यते । यथा वणिज एव वाराणसी जित्वरीति व्यबहरन्ति । एवं वैयाकरणा एव अ.

४ अध्याये ३ पादे १ आह्निकम् । १७९ दि विदूर इति । एतद्भाष्यं दृष्ट्वेदानी काव्येष्वपि तथा व्य- वहारः । तथा च श्रीहर्षः । तथा विहरादिरहरतांगमीति । तद्गच्छति पथिदूतयोः ॥ २२९ ॥ द्वितीयान्ताद् गच्छतीत्यर्थे प्रत्ययः स्यात् स चेद् गन्ता पन्या दूतो वा । त्रुघ्नं गच्छति सौनः पन्था दूतो वा । सा. ध्वसिरिछनत्ति । काष्ठानि पचन्तीत्यादाविव करणस्य स्वा. तन्यविवक्षया पन्थाः कर्ता । अभिनिष्कामति द्वारम् ॥ २३० ॥ तदित्येव । सुघ्नमभिनिष्क्रामति स्रोघ्नं कान्यकुब्जद्वारम् । स्रौनाभिमुखनिष्क्रमणे करणीभूतामिति फलितोऽर्थः । पूर्वव- करणस्य कर्तृत्वे प्रत्ययः। अधिकृत्य कृते ग्रन्थे ॥ २३ ॥ तदित्येव । अधिकृत्येत्येतदपेक्षया च द्वितीया । शारी- रक आत्मा तमधिकृत्य कृतो ग्रन्थः शारीरकीयः । चतु- लक्षणीसूत्रसंदर्भः । वृद्धाच्छः । वेदान्तग्रन्थेषु तु शारीरकमिति प्रचुरो व्यवहारः। स चौपचारिकः । न तु शैषिकप्रत्ययान्तः । अद्धादण् । यथा ययातिमधिकृत्य कृतो ग्रन्थः यायातः । अत्र वार्तिकम् । लुवाख्यायिकाभ्यो बहुलमिति तादर्थ्य एषा चतुर्थी आख्यायिका नाम गद्यरूपोऽयं ग्रन्थविशेषः । अत एवाख्यानाख्यायिकयोस्तत्र तत्रः भेदेनोपादानम् । आ- ख्यायिकाभिधानाय यः प्रत्यय उत्पन्नस्तस्य बहुलं लुषि. त्यर्थः । वासवदत्ता । सुमनोत्तरा । कचिन्न । भैपरथी। अभे- दोपचारेण गतार्थत्वामेदं कार्तिकमावश्यकम् ।

१८० शब्दकौस्तुभे । शिशुक्रन्दयमसभइन्द्वेन्द्रजननादिभ्यश्छः ॥२३२॥ शिशूनां क्रन्दनं शिशुक्रन्दः तमधिकृत्य कृतो ग्रन्थः । शिशुक्रन्दीयः । यमस्य सभा यमसभम् । यमसभीयः । द्वन्द्वा- । अग्निकाश्यपीयः । वाक्यपदीयन्तु वृद्धाच्छेनापि सि- द्धम् । इन्द्रजननीयम् । इन्द्रजननादिराकृतिगणः तेन च वि. रुद्धभोजनीयमध्यायं व्याख्यास्याम इत्यादि सिद्धम् । अत्र वार्तिकम् । द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः । दैवासुरम् । राक्षोसुरम् । वृत्तिकारस्त्वाह इन्द्रजननादेराकृतिगणवाद्य- थाभिधानं छः सिद्धः । तथा च शिशुक्रन्दादित्रयं न कर्त्तव्यं बार्तिकं च नतरामिति । सोऽस्य निवासः ॥ २३३ ॥ त्रुघ्नो निवासो वासाधिकरणमस्य स्रौनः । स्येति कुद्योगे कर्तरि षष्ठी । तथा च विशेषणविशेष्यमा- वव्यत्यासात् त्रुघ्नाधिकरणकवासकर्ता वृत्यर्थः । तथा च तत्र भव इत्येव सिद्धम् । सत्यम् । वासस्य चेतनमात्रकर्तृकतया प्रसिद्धत्वात् । प्रकारकृतो भेदो बोद्धव्यः । वसन्ति हि प्रे- म्णि गुणा न वस्तुनीत्यादौ तूपचारो बोध्यः ।। अभिजनश्च ॥ २३४ ॥ अभिजनवचनाः पूर्ववान्धवा इति वृत्तिः । अभिजायते एभ्य इति व्युत्पत्तेरिति भावः। पूर्वबान्धवाः पित्रादयः। बन्धु- शब्दः प्रज्ञादिः । पूर्वसूत्रादिह निवास इत्यनुवृत्तम् । तत्स. मानाधिकरण्यादभिजनशब्दस्य तत्सम्बन्धिनि लक्षणा। घुघ्नोऽभिजनोऽस्य सौनः। यत्र यो वसति स तस्य निवा- सः। यत्र तु पूर्वैरुषितं सोऽभिजन इति विवेकः। योगवि.

। ४ अध्याये ३ पादे १ आह्निकम्। १८१ भाग उत्तरार्थः। आयुधजीविभ्यश्छः पर्वत ॥ २३५ ॥ पर्वतवाचिनः प्रथमान्तादभिजनशब्दादस्येति षष्टयर्थे छः स्यात् । सूत्रे तादर्थे चतुर्थी । आयुधजीविम्य आयुधजी- व्यर्थम् । आयुधजीविनोऽभिधातुं प्रत्ययः स्यादित्यर्थः । हृद्गोलः पर्वतोऽभिजन एषामायुधजीविनां ते हृगोलीयाः । आयुधजीविभ्यः किम् । ऋक्षोदः पर्वतोऽभिजनो येषां ब्राह्म- णानां ते आझेदाः । शण्डिकादिभ्यो ज्यः ॥ २३६ ॥ शण्डिकोऽभिजनोऽस्य शाण्डिक्यः । सिन्धुतक्षशिलादिभ्योऽणौ ॥ २३७ ॥ सिन्ध्वादिभ्योऽण् तक्षशिलादिभ्योऽञ् स्यादुक्तेऽर्थे । सै- न्धवः । वार्णवः । सिन्धु वर्ण गन्धार मधुमत् कम्बोज कुलूत कश्मीर शाल्व किष्किन्ध गन्धिक उरम् दरत् । सिन्ध्वादयः प्रायेण कच्छादिष्वपि पठ्यन्ते । तेभ्योऽणि तत एव सिद्धे म. नुष्यवुओ बाधनार्थं वचनम् । तक्षशिला नगरी अभिजनोऽस्य ताक्षशिलः । वार्वर इति । तूदीशलातुरवर्मतीकूचवारात ठक्छण्ढव्यकः ॥२३८॥ तूदी अभिजनोऽस्य तौदेयः । शालातुरीयः । वार्मतेयः । कौचवार्यः । भक्तिः ॥ २३९ ॥ सोऽस्येत्यनुवर्तते । भज्यते सेव्यते इति भक्तिः। सुनो भक्तिरस्य सौनः । माथुरः ।

शब्दकौस्तुभे । अचित्ताददेशकालाक् ॥ २४ ॥ अणोऽपवादः । वृद्धाच्छं परत्वाद्वाधते । अपूपा भक्ति- रस्य आपूपिकः । शाष्कुलिकः । पायसिकः । अचित्तात्किम् । देवदत्तः। अदेशात् किम् । स्रोन्नः । अकालात्किम् । श्रेष्मः । महाराजात् ठञ् ॥ २४१ ॥ माहाराजिकः । वासुदेवार्जुनाभ्यां वुन् ॥ २४२ ॥ छाणोरपवादः । वासुदेवकः । अर्जुनकः । अल्पान्तर- मजाद्यदन्तमितिसूत्राभ्यामर्जुनस्य पूर्वनिपाते प्राप्ते तमकुर्वन् ज्ञापयति सर्वतोऽभ्यर्हितं पूर्व निपततीति । स्यादेतत् । वसुदे- वस्यापत्यं वासुदेवः । ऋष्यन्धकेत्यण् । तत्र गोत्रत्वात् क्षत्रिय- त्वाच्चोत्तरसूत्रेण वुबेवास्तु किमनेन वुना । न ह्यत्र वृद्धौ विशे- पः प्रागेव वृद्धत्वात् । न च द्धिनिमित्तस्येति पुंवद्भावनि- षेधो दोषः बुन्यपि न कोपधाया इति निषेधस्येष्यमाणत्वात् । न चाभ्यर्हितं पूर्वमित्येतज्ज्ञापनमेव फलम् । तथात्वे हि पूर्व- निपातप्रकरण एवाभ्यर्हितग्रहणमात्रं लाघवात्कुर्यादिति । अ- व भाष्यम् । संज्ञैषा तत्र भवत इति । अयं भावः । सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततोऽसौ वासुदेवेति विद्वद्भिः परिगीयते ॥ इति स्मृतेः परमात्मेह वासुदेवः । सर्वत्रैवासौ वसत्यन्त- र्यामित्वात सर्वत्र वसति वा सर्वस्य ब्रह्मविपतत्त्वादिति वासुः । बाहुलकादुण् । कोकः पुराणपुरुषो नलिनेशयश्च वार नरायणपुनर्वमुविश्वरूपा इति त्रिकाण्डशेषः । वासुश्चासौ देवश्चेति विग्रहः। तथा च नेयं गोत्राख्या नापि क्षत्रियाख्य- ४ अध्याये ३ पादे १ आहिकम् । ९८३ ति युक्त एव बुन्विधिः । अभ्यर्हितं पूर्वमिति तु प्रसङ्गाज्ज्ञापि- तम् । तदप्यनित्यम् । श्वयुवमघोनामिन्यादिलिङ्गादित्यवधेयम् ॥ गोत्रक्षत्रियाख्यभ्यो बहुलं वुन् ॥ २४३ ॥ अणोऽपवादः । परत्वादृद्धाच्छं बाधते। ग्लुचुकायनिर्भक्ति- रस्य ग्लौचुकायनकः । औपगवकः । क्षत्रियाख्येभ्यः । नाकु- लकः । साहदेवकः । बहुलग्रहणान्नेह । पाणिनो भक्तिरस्य पाणिनीयः। जनपदिना जनपदवत्सर्व जनपदेन समानशब्दा- नां बहुवचने ॥ २४४ ॥ जनपदिनो जनपदस्वामिनः तद्वाचिनां शब्दानां बहुवच- ने जनपदवाचिना शब्देन समानश्रुतीनां जनपदवत्सर्वं स्या- त्पत्ययः प्रकृतिश्चेत्यर्थः । जनपदतदवध्योश्चेतिप्रकरणे ये प्रत्यया उक्तास्तेऽत्रातिदिश्यन्ते । अङ्गा नाम जनपदो भक्ति- रस्य आङ्गकः । वाङ्गकः । सौपौण्ड्रकः । अङ्गाः क्षत्रिया भ. क्तिरस्य सोऽप्येवम् । जनपदिनां किम् । पञ्चाला ब्राह्मणा भक्तिरस्य पाञ्चालः । अभेदोपचाराद्राह्मणेषु पञ्चालशब्दस्य वृत्तिः । तत्रातिदेशाभावादणेव भवति । सर्वमिन्यस्य प्रयोज- नमाह वार्तिककारः । सर्ववचनं प्रकृतिनिहासार्थम् । तच मद्रज्यर्थमिति । अयं भावः । वृद्धिनिमित्तेषु वुनादिषु वि- शेषस्य दुर्लभत्वान्मज्योः कनि विशेषो बोध्यः। सोऽप्य- बहुत्व एवेति निहासोऽपचयोऽल्पता । तथाहि मद्राणां राजा । यमगधकलिङ्गमरमसादण् । माद्रः । वृजिशब्दात्तु वृद्धकोस- लाजादाज्यङ् । वार्यः । स भक्तिरस्येति प्रकृतिनिहासे म. द्रकः। सृजिकः । जनपदेन समानशब्दानां किम् । पौरवो १८४ शब्दकौस्तुभे। राजा भक्तिरस्य पौरवीयः । बहुवचनग्रहणं किम् । एकव. चनद्विवचनयोः संत्यपि शब्दभेदेऽतिदेशो यथा स्यात् । तेन प्रोक्तम् ॥ २४५ ॥ प्रकर्षणोक्तं प्रोक्तं प्रध्यापनेनार्थव्याख्यानन वा प्रकाशि. तमित्यर्थः । पाणिनिना प्रोक्तं पाणिनीयम् । आपिशलम् । काशकृत्स्नम् । प्रकर्षेणेति वचनान्नेह । देवदत्तेनाध्यापितम् । तित्तिरिवरतन्तुखण्डिकोखाच्छण् ॥ २४६ ॥ अणोऽपवादः । छन्दसि वाच्येऽयमिष्यते । तित्तिरिणा प्रोक्ताः श्लोका इत्यत्र तु न भवति । शौनकादिभ्यश्छन्द- सीत्यत्रास्यानुवर्तनात् । छन्दो ब्राह्मणानीति तद्विषयता । य- द्यपीमे कल्पाः न तु छन्दो नापि ब्राह्मणम् । तथापि छन्दो ब्राह्मणानीत्यत्र छन्दोग्रहणं स्वर्यते । तेन छन्दःप्रकरणमध्यव- र्तिनोऽस्यापि तद्विषयता सिध्यति । स्वरितेनाधिकारगति- व्याख्यानात् । यद्वा छन्दो ब्राह्मणानीत्यत्र चकारोऽनुक्त- समुच्चयार्थस्तेन कल्पादेरपि यथाभिधानं तद्विषयता एष्टव्या। तित्तिरिणा प्रोक्तं कल्पमधीयते तैत्तिरीयाः । वारतन्तवीयाः । खाण्डिकीयाः। औखीयाः । श्लोकेषु तु अण् न भवति । अनभिधानात् । काश्यपकौशिकाभ्यामृषिभ्यां णिनिः ॥ २४७ ॥ छस्यापवादः । णकार उत्तरत्र वृद्ध्यर्थः । इह तु वृद्धिः सिद्धैव । न च वृद्धिनिमित्तस्येति पुंवद्भावनिषेधोऽत्र फलम् । णिन्यन्तस्याध्यतृवदितृविषयत्वेन स्त्रियामप्रवृत्तेः । वृत्तावपि जातेश्चेति सिद्धत्वात् । चरणत्वेन जातित्वात् । काश्यपेन पोक्तं कल्पमधीयते काश्यपिनः । कौशिकिनः । ऋषिभ्यामि.

४ अध्याये ३ पादे १ आह्निकम् । १८५ ति किम् । इदानीन्तनेन गोत्रकाश्यपेन प्रोक्तं का. श्यपीयम् ॥ कलापिवैशंपायनान्तेवामिभ्यश्च ॥ २४७ ।। कलाप्यन्तेवासिनां वैशंपायनान्तवासिनां च ये वाचकाः शब्दाः तेभ्योः णिनिः स्यात् ॥ प्रोक्तार्थेऽणोऽपवादः । छ तु परत्वादाधते । तत्र कलाप्यन्तेवासिनश्चत्वारः । हरिद्रुः । छगली । तुम्बुरुः । उळप इति । वैशंपायनान्तेवासिनस्तु नव । आलम्बिचरकः । कलिङ्गः। कमलः । ऋचाभः । आरुणिः । ताण्ड्यः । श्यामायनः । कठः । कालापीति । उक्तं च । ह- रिदुरेषां प्रथमस्ततः छगलितुम्बुरू । उलपेन चतुर्थेन का. लापकमिहोच्यते । आलम्बिश्चरकः प्राचां कलिङ्गकमलायुभौ । ऋचाभारुणिताण्ड्याश्च मध्यमीयास्तयः परे । श्यामायन उदी. च्येषु उक्तौ कठकलापिनाविति । चरक इति वैशंपायनस्या- ख्या तत्सम्बन्धेन सर्वे तदन्तेवासिनश्चरका उच्यन्ते । इह साक्षाच्छिष्या एव गृह्यन्ते न तु प्रशिष्या अपि । कलापिखा- डायनग्रहणात् । तथाहि वैशंपायनान्तेवासी कठः । तदन्ते- वासी खाडायनः । तत्कि शौनकादिषु खाडायनस्य पाठेन । हारिद्रविणः । तीवुरविणः । औलपिनः । छगीलनो दिनुकं वक्ष्यति । आलम्बिनः । कालगिनः । कामलिनः । आर्चा- भिनः । आरुणिनः । ताण्डिनः । श्यामायनिनः । कठाल्लु- कं वक्ष्यति । कलापिनश्वाणम् । पुराणप्रोक्तेषु ब्राह्मणकल्पेषु ॥ २४८ ॥ तृतीयान्तात्मोक्तार्थे णिनिः स्यात् यत्तत्मोक्तं पुराणप्रो. ताश्चेत् ब्राह्मणकल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मु- २४ १८६ शब्दकौस्तुभे। निना प्रोक्ताः । ब्राह्मणेषु तावत् । भल्लुशाट्यायनऐतरेय ए- भ्यो णिनिः ।' भाल्लविनः । शाट्यायनिनः । ऐतरोयिणः । कल्पेषु । पिङ्ग अरुणपराज । पैङ्गी कल्पः । आरुणपराजी । पुराणप्रोक्तेषु किम् । याज्ञवल्कानि ब्राह्मणानि । आश्मरथः कल्पः । यज्ञवल्काश्मरथशब्दौ करावादी ताभ्यां यमन्ताभ्या- मणि । तद्विषयता तु नेह प्रतिपदं ब्राह्मणोक्तस्य णिनेरेव त. द्विधानात् । एतदर्थमेव हि तत्र ब्राह्मणग्रहणं छन्दस्त्वादेव तद्विषयत्वसिद्धेः । कल्पेषु तर्हि काश्यपिनः कौशिकिन इत्य वेव स्यादिति चेन्न । अस्य योगस्य छन्दोऽधिकारेऽननु- वृत्तेः । स तु अनुवर्तत इत्युक्तम् । पुराण इति निपातनात् तुडभावः । न चात्यन्तं राधः । सिद्धशुष्कपकबन्धैश्चेति निपातनादेव सिद्ध शुषः कः पचो व इति सूत्राभ्यामबाध. कान्यपि निपातनानीति ज्ञापितत्वात् । तेन पुरातनमिति सि- दम् । सर्वादिसूत्रे भाष्ये तु बाधकान्येव निपातनानीति स्थितम् । तत्र पृषोदरादित्वात्पुरातनशब्दः साधुः ।। शौनकादिभ्यश्छन्दसि ॥ २४९॥ एभ्यो णिनिः स्यात् प्रोक्ते । छाणोरपवादः । शौनकेन प्रोक्तमधीयते शौनकिनः । वाजसनेयिनः । छन्दसि किम् । शौनकीया शिक्षा | कठशाठ इति पठ्यते । तत्सङ्घातार्थम् । के- वलाद्धि लुकं वक्ष्यति । कठशाठाभ्यां प्रोक्तमधीयते काठशा- टिनः । खाडायनोत्र पठ्यते । तत्पाठो ज्ञापनार्थ इत्युक्तमेव । कलापिग्रहणादेव तसिद्धिरिति चेत् तान्यतरेण साक्षाच्छि. ध्यग्रहणे ज्ञापिते सामर्थ्यादधिकविधानार्थ सत् इतरोपादानं परम्पराशिष्ये अप्राप्तस्य विध्यर्थमिति गृहाण ।

४ अध्याये ३ पादे १ आदिकम् । १८७ कठचरकाल्लुक् ॥ २५०॥ आभ्यां प्रोक्तप्रत्ययस्य लुक् स्यात् । कठशब्दाद्वैशम्पाय. नान्तेवासित्वात् णिनिः । चरकादण् । तयो क् । कठे- न प्रोक्तमधीयते ये ते कठाः । छन्दसीत्येव । काठाः चारकाः इलोकाः। कलापिनोऽण् ॥ २५१॥ णिनरपवादः । वैशंपायनान्तेवासित्त्वात्माप्तिः । कलापिना प्रोक्तमधीयते कालापाः । इनरायनपत्य इति प्रकृतिभावे प्राप्ते नान्तस्य टिलोपे सब्रह्मचारीत्याधुपसंख्यानाहिलोपः । अण्ग्रहणसामर्थ्यादधिकविधानार्थ सत् बाधकबाधनार्थम् । तेन माथुरेण प्रोक्ता माथुरी वृत्तिः। सौलमानि ब्राह्मणानि । मौदाः । पैप्यलादाः शाकला इति सिद्धम् । मुद पिप्पलाद शाकल्य एभ्यः पुराणोक्तेष्विति णिनेरपवादोऽण् । छगलिनो ढिनुक् ॥ २५२ ॥ कलाप्यन्तेवासित्वात् णिनेरपवादः । छगलिना मोक्तम- धीयते छागलेयिनः। पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ॥ २५३ ॥ मण्डूकप्लुत्या णिनिरिह संबध्यते । तद्विषयतेहेष्यते । तदर्थ छन्दोग्रहणमनुवर्त्य सूत्रयोश्छन्दस्त्वं तु गौणं बोध्यम् । पाराशर्येण प्रोक्तं भिक्षमूत्रं चतुर्लक्षणीरूपमधीयते पाराशरिणो भिक्षवः । शिलामलते शिलालाः । अल भूषणपर्याप्तिवारणेषु सुप्यजाताविति णिनिः । ततोऽस्मिणिनौ टिलोपः। शैला- लिनो नटाः । भिक्षुनटसूत्रयोः किम् । पाराशरम् । शैलालम् ।

१८८ शब्दकौस्तुभे। कर्मन्दकृशाश्वादिनिः ॥ २५४ ॥ आभ्यां प्रोक्ते इनिः स्यात् । कर्मन्दिनो भिक्षवः । कृशष्ट- श्विनो नटाः । भिक्षुनटसूत्रयोरित्येव । कार्मन्दम् । काश्विम् । तेनैकदिक् ॥ २५५ ॥ सुदाम्नाद्रिणा एकदिक् । सौदामनी । तसिश्च ॥ २५६ ॥ पीलुमूलतः। उरसो यच्च ॥ २५७ ॥ चात्तसिः । अणो ऽपवादः। उरसो एकदिक् उरस्यः । उरस्तः। उपज्ञाते ॥ २५८ ॥ तेनेत्येव । विनोपदेशं ज्ञातमुपज्ञातम् । पाणिनिनोपज्ञातं पाणिनीयम् । कृते ग्रन्थे ॥ २५९ ॥ तेनेत्येव । वररुचिना कृतो वाररुचो ग्रन्थः । संज्ञायाम् ॥ २६० ॥ तृतीयान्तात् कृतेऽर्थे प्रत्ययाः स्युः संज्ञायाम् । अग्रन्था- र्थमिदम् । मक्षिकाभिः कृतं माक्षिकम् । गार्मुतम् । पैत्तिकम् । मधुनः संज्ञा एताः। कुलालादिभ्यो वुञ् ॥ २६ ॥ सेन कृते संज्ञायामित्यनुवर्तते । कुलालेन कृतं कौला- रकम् । वारुडकम् ।

४ अध्याये ३ पादे १ आह्निकम् । १८९ क्षुद्राभ्रमरवटरपादपादञ् ॥ २६२ ।। तेन कृते संज्ञायामित्यनुवर्त्तते । क्षुद्राभिः कृतं क्षौद्रम् । भ्रामरम् । वाटरम् । पादपशब्दाच्छे प्राप्ते अन्येभ्योऽणि अ- विधीयते । केचित्तु पादपशब्दस्थाने पदपशब्दं पठन्ति तन्म- तेऽण एवायमपवादः। इति श्रीशब्दकौस्तुभे चतुर्थस्य तृतीयपादे प्रथममादिकम् । तस्येदम् ॥ २६३ ॥ अणादयः पञ्च महोत्सर्गाः पादयश्च षष्ठयन्तात्संवन्धिान स्युः । उपगोरिदमौपगवम् । राष्ट्रियमित्यादि । अनन्तरादि. वनभिधानान्न । वहेस्तुराणिद् च । संवोढुः स्वं सांवहित्रम् । तुरिति तृन्तचोः सामान्यग्रहणम् । ढत्वादीनामसिद्धत्वाद- लौकिकप्रक्रियावाक्ये पूर्वमिट् । ततो निमित्ताभावान्न ढत्वा. दि । सिद्ध एवात्राण इडर्थमुपसंख्यानम् । अग्नीधः शरणे रण भं च । अग्निमिन्धे इत्यग्नीत् किम् । ऋत्विग्विशेषोऽयम् । त्वमग्निदृतीयत इत्यत्र तु छान्दसं इस्वत्वम् । शरणं गृहं स्थानं तत्राग्नीध्रम् । तास्थ्यात् मञ्चाः क्रोशन्ति इति वत्विजि प्रयोगः कल्पसूत्रकाराणम् । प्रत्याश्रावयेदानी- ध्रमिति । ततः शरणे छः आग्नीध्रीयं धिष्ण्यं परीत्येति रमो भित्वमायुदात्तार्थम् । तथा च प्रयुज्यते । पिधाग्रीधात्तव भागस्य तृणुहीति कश्चित् । तन्न । रण में चेति सांप्रदायिक- णित्वपाठविरोधात् । पाञ्चमिकभाष्यविरोधाच्च । आग्नीध्र- साधारणादनितिवार्त्तिके हि आग्नीध्रमिति भाष्ये उदाहृतम् । अञ् प्रयुक्त आधुदात्त इति हि तस्याशयः । रजिति पाठे तु तन्त्र सङ्गछेतेति दिक् । समिधामाधाने घेण्यण् । सामिषेन्यो शब्दकौस्तुभे। मन्त्रः । पित्वान्ङीष् । सामिधेनी । हलस्तद्धितस्येति पलो- पः । इह ययाग्निः समिध्यते सा समित् । संपदादित्वात करणे किए । ततः कर्मणि षष्ठयन्तादाधानकरणे तद्धितः । पाय्यसानाय्येति सूत्रे सामिधेनीष्विति निपातनादेतत्सिद्धम् । रथाद्यत् ॥ २६४ ॥ अणोऽपवादः । रथाद्रथाङ्गे इति वार्तिकम् । रथस्येदं रथ्यं चक्रं युगं वा । कथं तर्हि रथस्य वोढा रथ्य · इति त. द्वहतीति । यद्येवं । अयमेव तद्वोढर्यपीष्यताम् । तद्वहतीत्यत्र तु रथग्रहणं मा कारि । मैवम् । द्वौ रथौ वहति द्विरथ्य इत्यत्र द्विगोलुंगनपत्य इति प्राग्दीव्यतीयलुप्रसङ्गात् । यत्तु द्वयो रथयोरङ्गं तत्र द्विरथ इत्येव भवति । रथसीताहलेभ्यो यद्वि- धाविति तदन्तविधेरुपसंख्यानात् । अत एव परमरथ्यमिति सिद्धम् । ननु द्विगोलुंगनपत्य इत्यत्राचीत्यस्यापकर्षपक्षे कथमत्र यतो लुगिति चेत् सत्यम् । तद्वहतीत्यत्रस्थग्रहणमेव ज्ञापकमे- तस्य यतो हलादेरपि लुग्भवतीति अन्यथा तत्र रथग्रहणं व्य- र्थमेव स्यादिति । पत्रपर्वादञ् ॥ २६५ ॥ रथादित्येव । पूर्वस्य यतोऽपवादः । पतन्त्यनेन पत्रं वाहनम् । दाम्नीत्यादिना ष्ट्रन् । अश्वयुक्तो रथोऽश्वरथः त. स्यास्याङ्गमाश्वरथम् । पत्राध्वर्युपरिषदश्च ॥ २६६ ॥ एभ्योऽ स्यादणोऽपवादः । पत्राद्वाय इति वार्तिकम् । अश्वस्येदं वहनीयमाश्वम् । आध्वर्यवम् । पारिषदम् । इह पत्रेत्यर्थग्रहणे इतरयोस्तु स्वरूपग्रहणे व्याख्यानमेव शरणम् ।

४ अध्याये ३ पादे २ आह्निकम् । हलसीराट्ठक् ॥ २६॥ हलस्येदं हालिकम् । सैरिकम् । द्वन्द्वाद् वुन् वैरमैथुनिकयोः ॥ २६८ ॥ अणोऽपवादः । छं तु परत्वाद्वायते । काकोलूकिका । काकोलूकस्य वैरमित्यर्थः । कुत्सकुशिकयोमैथुनिका । विवा- हरूपः सम्बन्ध इत्यर्थः । मिथुनं दम्पती तस्य कर्म क्रिया निष्पादनम् । मनोज्ञादित्वाद् बुञ् । वुअन्तञ्चेह स्त्रियां स्वभा- पात् । वैरे देवासुरादिभ्यः प्रतिषेधः । दैवासुरम् । राक्षोसुरम् । गोत्रचरणाद् वुञ् ॥ २६९ ॥ तस्येदमित्यर्थे । अणोऽवादः । छं तु परत्वाद्वाधते । ग्लौचुकायनकम् । औपगवकम् । चरणाद्धर्माम्नाययोरिति वार्तिकम् । काठकम् । कालापकम् । वुनि प्रकृते वुविधिर- देषु वृद्ध्यर्थः। पुंवद्भावनिपेधस्तु कोपधत्वादेव सिद्धः । सङ्घाङ्कलक्षणेष्यत्यञिञामण् ॥ २७० ।। सस्येदमित्यर्थे । पूर्वस्य वुमोऽपवादः । सङ्घादिषु घो- षग्रहणमिति वार्तिकम् । अत एव यथासंख्यमपि न वैषम्या- । तिस्रः प्रकृतयः प्रत्ययार्थविशेषणानि चत्वारि तत्र द्वादशोदाहरणानि । अञ् । बैदः सोऽङ्को घोपो वा । बैदं लक्षणम् । यम् । गार्गः । गार्गम् । इञ् । दाक्षः । दा- क्षम् । अङ्कलक्षणयोर्निघण्टुपर्यायत्वं प्रसिद्धम् । कलङ्काको लाञ्छनं च चिन्हं लक्ष्म च लक्षणमित्यमरः । तथापि पृथ- ग्रहणसामर्थ्यादिह विशेषपरता । परम्परासम्बन्धोऽङ्कः यथा गवादिनिष्ठः स्वामिना गोदारा सम्बन्धः । साक्षात्तु लक्षणम् ।

१९२ शब्दकौस्तुभे। यथा बिदानां विद्या । घोष आभीरस्थानम् । णित्वं ङीप- पुंवद्भावनिषेधाय च । वैदी विद्या यस्य वैदीविद्यः । विदा. नामसाधारणी या विद्या तद्वानित्यर्थः । शाकलाहा ॥ २७१ ।। अस्मादण् वा स्यादुक्तेऽर्थे । पक्षे चरणत्वाद् वुञ् । शकलेन प्रोक्तमधीयते शाकलाः । तेषां सङ्घः अङ्कः घोषो वा शाकलः । लक्षणे ल्कीबता। छन्दोगौविथकयाज्ञिकबचनटाळ्यः ॥ २७२ ॥ सङ्कादयो निवृत्ताः । एभ्यो ज्यः स्यात्तस्येदमर्थे । च- रणशब्देभ्यो वुमोऽपवादः । नटात्तु औत्सर्गिकस्याणः । च. रणाद्धर्माम्नाययोरित्युक्तम् । तत्साहचर्यानटशब्दापि तयोरे- व । छन्दोगानां धर्म आम्नायो वा छान्दोग्यम् । औविथ- क्यम् । याज्ञिक्यम् । बाढच्यम् । नाट्यम् । अन्यत्र छान्दोगं कुलमित्यादि। न दण्डमाणवान्तेवासिषु ॥ २७३ ॥ दण्डप्रधाना माणवाः तेषु शिष्येषु च वुञ् न स्यात् । गोत्रग्रहणमिहानुवर्तते । तेन वुत्रः प्रतिषेधोऽयम् । दाक्षाः प्लाक्षाः दण्डमाणवाः शिष्या वा। रैवतिकादिभ्यश्छः ॥ २७४ ॥ तस्येदमित्यर्थे । एषां गोत्रप्रत्ययान्तत्वाद् वुनि प्राप्ते छो विधीयते । रैवतिकीयः । औदमेधीयाः । वैजवापीयाः । अत्र वार्तिकद्वयम् । कौपिञ्जलहास्तिपदादण् आर्थर्वणिकस्ये- फलोपश्चेति । द्वयमपीदं वृत्तिकृता सूत्रमध्ये प्रक्षिप्तमिति हर- दत्तः । आयं वार्तिकं द्वितीयं सूत्रमिति तु कैयटः । त.

४ अध्याये ३ पादे २ आह्निकम् । १९३ यद्वा मोक्ते. बायो गोत्रवुनोऽपवादः । द्वितीयस्तु चरणवुनः । कपिअल. स्यापत्यम् । अस्मादेव निपातनादण् । तदन्तात्पुनरण । कौ. पिञ्जलः। हस्तिनः पाद इव पादो यस्य हस्तिपादः। पा. दस्य लोपो न भवति अहस्त्यादिभ्य इति वचनात् । ह. स्तिपादस्यापत्यम् । अस्मादेव निपातनादण पद्भावश्च । हास्तिपदः । ततः पुनरण । हास्तिपदः । आथर्वणिकस्यायमा. थर्वणो धर्म आम्नायो वा चरणाद्धर्माम्नाययोरित्युक्तम् । आथर्वणिकस्तु देवा व्युत्पादितः । तथाहि अथर्वणा प्रोक्तो वेदोऽर्वाः अभेदोपचारान् तमधीते वसन्तादित्वाहक । दा- ण्डिनायनादिसूत्रे निपातनाडिलोपाभावः । ऽण् । ततश्छन्दोब्राह्मणानीति तद्विषयतायामाथर्वणशब्दस्याऽपि वसन्तादिषु पाठादध्येतरि ठक् । तस्य विधानसामर्थ्यात् प्रो- ताल्लुगिति लुङ् नेति । समाप्ताः शैषिकाः । तस्य विकारः ॥ २७५ ।। षष्ट्यन्ताद्विकारे अणादयः स्युः अपाणि आधुदात्तं अ. वृद्धं प्रतिपदमवक्ष्यमाणप्रत्ययं चेहोदाहरणम् । अश्मनो वि. कार आश्मः । अश्मनो विकार इति लोपः पाक्षिकः । भा. स्मनः । मार्तिकः । नित्स्वरेणायुदात्ता एते । अश्मन भस्मन् शब्दौ हि मनिन् प्रत्ययान्तौ मृदस्तिकन् । घादिसम्ब- दस्य ग्रहणस्य निवृत्तये पुनस्तस्येत्युक्तम् । अणादयस्तु न निवर्तन्ते प्राक् दीव्यतः प्राग्भवनादिति विशिष्टावधिपरि. च्छेदेनाधिकृतत्वात् । हालः । सैरः। अवयवे च प्राण्योषधिवृक्षेभ्यः ॥ २७६ ॥ चाद्विकारे । तेन वक्ष्यमाणाः प्रत्ययाः प्राण्यादिभ्यः त्रि- १९४ शब्दकौस्तुभे। भ्योऽर्थद्वये । अन्येभ्यस्तु विकार एव । तत्र प्राणिभ्योऽञ् वक्ष्यति । मयूरस्यावयवो विकारो वा मायूरः । औषधि. भ्यः मौर्व काण्डं भस्म वा । मूर्वाशब्दस्तृणधान्यानां च ध. पामित्याधुदात्तः । पैप्पलः। बिल्वादिभ्योऽण् ॥ २७७॥ बैल्वम् । ब्रीहिमुद्दाशब्दौ घृतादित्वादन्तोदात्तौ । ममूरगो- धूमगवेधुकाशब्दा लघावन्ते द्वयोश्चेति मध्योदात्ताः'। इपेः क्सुः । इक्षुः । प्रत्ययस्वरेणान्तोदात्तः । वेणुशब्दो वेण्वि- म्यानयोरिति पक्षेऽन्तोदात्तः । कुत्रः पास इति पासे कृते क- पीसीशब्दो जातिलक्षणङीपन्तः । कर्कन्धूशब्दोऽलाबूकर्क- न्धूदिधीपूरिति निपातनान्मध्योदात्तः। कुटीशमीशुण्डाभ्यो रः । प्रत्ययस्वरेणान्तोदात्तः । तत्र काण्डपाठलीशब्दाभ्यां वृद्धल- क्षणस्य मयटोऽपवादः। शेषेभ्यस्तु । अनुदात्तादिलक्षणस्या- वः । गवेधुकाशब्दस्य कोपधत्वादेव सिद्धे मयड् वैतयोरि- त्यादिना प्राप्तस्य मयटो बाधनार्थ ग्रहणम् । शेषेभ्यस्त्वद्ध- भ्यः पक्षे मयट् भवत्येव । अण्ग्रहणं वाधकबाधनार्थम् । विल्वादयो यथाविहितमिति हुक्ते पाटलीशब्दादनुदात्ता- दिलक्षणस्यायो मयटा बाधे प्राप्ते पुनर्वचनात् अमेव स्यात् । कोपधाच्च ॥ २७८ ॥ अण् स्यात् । अनोऽपवादः । त• तार्कवम् । ओरञ् प्राप्तः । तैत्तिडीकम् । तिन्तिडीकशब्दो लघावन्त इति म- ध्योदात्तः। पुजतुनोः षुक् ॥ २७९ ॥ आभ्यामण् स्याद्विकारे तयोः षुकागमश्च। ओरनोऽपवादः।

४ अध्याये ३ पादे २ आहिकम् । १९५ त्रपुणो विकारः त्रापुषम् । जातुषम् । ओरञ् ॥ २८० ॥ दैवदारवम् । देवदारुभद्रदारुशब्दौ पीतर्थानामित्या- शुदात्तौ ॥ अनुदात्तादेश्च ॥ २८१॥ दाधित्थम् । गार्मुतम् । गर्मुच्छब्दो यो मुट् चेत्युतिप्रत्यया- न्तः । कथं तर्हि तस्मा एतं प्राजापत्यं गार्मुतं चरुं निवपेदित्य- त्रान्तोदात्ततेति चेत् व्यत्ययेनेति नोत्वत्सूत्रे प्रामाणिकाः । पलाशादिभ्यो वा ॥ २८२ ॥ उभयत्र विभाषेयम् । पलाशखदिरशिंशपास्यन्दनानां अनुदात्तादित्वात्प्राप्ते अन्येषामप्राप्ते । पालाशम् । पलाशश- ब्दो घृतादित्वादन्तोदात्तः । खदिरशब्दोऽजिरशिशिरेत्यादौ किरच्प्रत्ययान्तो निपातितः । शिशपाशब्दो अथ द्वितीयं प्रा. गीषादिति वर्तमाने पान्तानां गुर्वादीनामिति मध्योदात्तः । स्पदि किञ्चिञ्चलने अनुदात्तेतश्च हलादेरिति युन् । किरतेरी- रन् करीरम् । कृतृम्यापीषन् शृपृभ्यां किच शिरीषम् । नित्स्वरेणाद्युदात्तावेतौ । विकङ्कतपूलासयवासशब्दा ग्रामा- दीनां चेत्यायुदात्ताः॥ शम्या प्लञ् ॥ २८३ ॥ पिदयम् । टिदिति तु माधवः । अमो ऽपवादः । शामी- लं भस्म । शामीली सुक् । चातुर्मास्येषु वरुणप्रघासे शामी- ल्यः भुवो भवन्तीति श्रुतम् । शमीशब्दो गौरादिङीपन्तः ।

शब्दकौस्तुभे । मयड्वैतयोर्भाषायामभक्षाच्छादनयोः ॥ २८४ ॥ प्रकृतिमात्रान्मयट्वा स्यात् । अश्ममयम् । आश्मम् । भाषायां किम् । खादिरो यूप इति वृत्तिकाराः । वस्तुतस्तु वेदे बढचः प्रयुक्तस्य मयटोऽर्थान्तरपरत्वमेवेति तात्पर्यग्रहार्थमेवेदम् । य- चश्छन्दसीतिसूत्रस्य यच एवेति नियमार्थत्वे यद्यपीदं गता- थै तथापि विपरीतनियमाशङ्का निवृत्त्यर्थं बोध्यम् । अभक्षा- च्छादनयोरिति किम् । मौद्गः सूपः । कार्पासमाच्छादनम् । अधिकारादेव सिद्धे एतयोरिति वचनमित उत्तरेषां प्राणिरज- तादिभ्योऽञ् इत्यवमदिानामपि विषये पक्षे प्रवृत्त्यर्थम् । कपोतम- यम् । इह विकारावयवाभ्यां सह प्रत्येकमभक्षाच्छादनयोरि- ति सम्बध्यते । समासनिर्देशात् । अतो यथासंख्यं न । अत्रेदमवधेयम् । आनन्दमयोऽभ्यासादित्यधिकरणे विका- रशब्दानेति चेन्न प्राचुर्यादिति सूत्रयतो व्यासस्यापि आन- न्दशब्दस्य बदच्कतया छन्दासि विकारे मय न लभ्यत इत्येव आशयः। अत एव प्रायपाठोऽप्यकिञ्चित्करः । उभयसम्भ- व एव तस्य निर्णायकत्वात् । एतच्च वृत्तिकृतामनुकूलम् । उत्तरमीमांसाभाष्यकारैस्तु विकार एवायं मयडिति सिद्धा- न्तितम् । तेषामयं भावः अन्नमयमाणमयमनोमयेषु व्यच्- वाद्यद्यपि सिद्धिस्तथापि विज्ञानमये तावद्विकारे मयडर्थ वृत्ति कृद्भिरपि यतनीयं तत्रायं यत्नः तात्पर्यग्रहस्य न्यायानुसं. धानेनैव सिद्धेस्तदर्थं पाणिनिना सूत्रारम्भदर्शनाचेह भाषा- ग्रहस्त्याज्यः। तथा च बचश्छन्दसीति नोत्वद्वर्धेति च द्विसूत्र्यपि त्याज्या । छन्दसि सकलविकल्पानां व्यवस्थिततायाः सर्वस- म्मतत्वात् । उर्ऋत् नित्यं छन्दसीत्यादीनां वैयाकरणैरित्थ- मेव प्रत्याख्यातत्वाच्च । श्रीग्रामरायोश्छन्दसीत्यत्र श्रियश्छन्द- ४ अध्याये ३ पादे २ आह्निकम् । सीत्यंशं प्रत्याचक्षाणेन भगवतापि ध्वनितमेतत् । तथा चान- न्दमय इत्यत्रापि विकार एव मयडस्तु ऐकरूंप्यात् । यद्वा प्रा. चुर्ये मपट्यपि प्रकृत्यर्थविरोधिनो लेशतो ऽनुवृत्तिलामा. प्रकृते विकार एव पर्यवस्यतीति । अथवा नित्यं दृद्धत्यत्र भाषाग्रहणं मानुवर्ति अनुवृत्तावपि सख्यशिश्वीतिसूत्रे इति शब्दबलेनेवैहापि नित्यग्रहणवलेन भाषायां नित्यमन्यत्रापि कचिदिति व्याख्यामाश्रित्य छन्दस्यपि कचिन्मयटः सम्भ- वात् । अंत एव शरादिषु मृच्छब्दपाठोऽप्यर्थवान् । मोषुवरुण- मुन्मयंगृहराहरावहंगमामिति प्रयोगात् । यद्वा आगतार्थे मयंट विकार इति त्वार्थिकार्थकथनमिति दिक् । नित्यं वृद्धशरादिभ्यः ॥ २८५ ॥ भाषायामभक्षाछादनयोरिति अनुवर्तत इति वृत्तिः । आम्रमयम् । शरमयम् । आरम्भसामर्थ्यादेव सिद्ध नित्यग्र- हणं योगविभागेनान्यत्रापि कचिन्नित्यार्थम् । तेनैकाचो नि- त्यमिति सिद्धम् । त्वङ्मयम् । स्रङ्मयम् । कथं आप्यम- म्मयमित्यमरः । अत्राप्यमिति प्रमाद एवेति बहवः । तस्ये- दमित्यणन्तात् स्वार्थे व्यनित्यन्ये । शर दर्भ मृत् कुटी तृण सोम वल्वजा एकाचत्वादेव सिद्धे मृच्छब्दस्येह पाठः प्रपश्चा- थः । वृद्धान्मयमाग्दीव्यतीयानामपवादः । गोश्च पुरीषे ॥ २८६ ॥ गोमयं पुरीषं न विकारो नाप्यवयवः । तथापि तस्ये- दमित्यर्थेऽयं प्रत्ययः। पिष्टाच ॥ २८७ ॥ मयड् स्याद्विकारे । अणोऽपवादः । पिष्ठमयम् भस्म । कथं १९८ शब्दकौस्तुभे । पैष्टी सुरेति सामान्यविवक्षायां तस्येदमित्यण् । संज्ञाया कन् ॥ २८८ ॥ पिष्टादित्येव । पिष्टस्य विकारविशेषः । पिष्टकः । बीहेः पुरोडाशे ॥ २८९ ॥ मयट् स्यात् बिल्वाधणोऽपवादः । व्रीहिमयः पुरोडाशः ब्रैहमन्यत् । असंज्ञायां तिलयवाभ्याम् ॥ २९० ॥ तिलमयम् । यवमयम् । संज्ञायां तु तैलम् । यावकः । यवशब्दाद्विकारेऽण् ततो यावादिभ्य इति स्वार्थे कन् । व्यचश्छन्दसि ॥ २९१ ॥ शरमयं बर्हिः । नोत्वदर्धबिल्वात् ।। २९२ ॥ धच इति प्राप्तः प्रतिषिध्यते । उत्वानुकारवान् । मौञ्ज शिक्यम् । मुञ्जशब्दस्य तृणधान्यानां चेत्यायुदात्तत्वादौत्सर्गि- कोऽण् वधं चर्म । वर्धशब्द आयुदात्तः । वृद्धिवपिभ्यां रन् । ततोऽण् । ठिट्ठतिडीप् । वार्धी रज्जुः । वध्रीति तु वधे- रौणादिके ष्ट्रनि । नधी वध्री वरत्रा चेत्यमरः । चश्चाः पश्य वधिकाः पश्यति भाष्यम् । वाध्यश्वस्य नामेति वेदे प्रयोगः । बैल्वः । तपरकरणाद् धूममयम् । मतुनिर्देशस्तदन्तविधि वार- यितुम् । इहैव हि स्याद्वैणवी यष्टिरिति । तालादिभ्योऽण् ॥ २९३ ॥ अमयटोरपवादः । तालश्यामाकाभ्यां हि वृद्धत्वा- ४ अध्याये ३ पादे २ आह्निकम् । १९९ न्मय प्राप्तः । बर्हिणां विकारो बाहिणम् । प्राणिरजतादिभ्यो- ऽ । ततो भितश्च तत्सत्ययादित्य प्राप्तः । शेषेभ्य. स्त्वनुदात्तादित्वाद प्राप्तः । तथाहि लिशिशिभ्यामिन्द्र- शब्द उपपदे मूलविभुजादित्वात्कः अन्येषामपीति दीर्घः । इन्द्रालिश । इन्द्रादृश । चप सान्त्वने । पचायच् । चापः । पी. यूक्षा लघावन्त इति मध्योदात्तः । फिष् इत्यधिकारादापः प्रागेव स्वरप्रवृत्तेः । इन्द्रायुधशब्दः समासस्वरेणान्तोदात्तः । अत्र गणसूत्रम् । तालाद्धनुषि । तालं धनुः । अन्यत्र तालमयम् । अण्ग्रहणं बाधकबाधनार्थम् । यथाविहितविधी बार्हिणशब्दादृद्धलक्षणो मयट् स्यात् । जितश्च तत्प्रत्यया- दित्यत्रो बाधनेन वचनस्य चरितार्थत्वात् । जातरूपेभ्यः परिमाणे ॥ २९४ ॥ बहुवचनात् पर्यायग्रहणम् । हाटकस्तापनीयः सौवणों वा निष्कः । परिमाणे किम् । हाटकमयी यष्टिः । प्राणिरजतादिभ्योऽञ् ॥ २९५ ॥ अनुदात्तादेरञः सिद्धत्वात् परिशिष्टमिहोदाहरणम् । शौ- कम् । वाकम् । शुकबकशब्दौ प्राणिनां कुपूर्वाणामित्या- द्युदात्तौ । किश्च अनुदात्तादिरपि वृद्ध इहोदाहरणम् । श्वा- विधो विकारः शौवाविध इति अनुदात्तादेरञः परोपि मय- डनेनासा परत्वाद्वाध्यते । कृदुत्तरपदप्रकृतिस्वरणान्तोदात्तः श्वाविच्छन्दः द्वारादित्वादैच् । राजतम् । रजत । सीस । लोह । उदुम्बर । नीप । दारु । रोहीतक । विभीतक । पातदा- शब्दकौस्तुभे। रू । वृद्धदारु । त्रिकण्टक । कण्टकार । रजतादिष्वनुदात्तादीनां पुनः पाठो मयबाधाय । जितश्च तत्प्रत्ययात् ॥ २९६ ॥ विद्या विकारावयवप्रत्ययस्तदन्तादञ् स्यात् तयोरेवार्थ- योः । मयटोऽपवादः । ओरय् । शम्याः प्लञ् । प्राणिर- जतादिभ्योऽन् । उष्ट्रात् वुन् । एण्या ढञ् । कंसीयपर. शव्ययोर्यजत्रौ । देवदारवस्य विकारोऽवयवो वा दैवदारवम् । दाधित्थम् । शामीलस्य शामीलम् । इत्यादिभितः । बै. वयमिति वृत्तिकाराः । भाष्ये तु विकारावयत्रप्रत्ययान्तात्पु. नस्तत्मत्ययो ऽनभिधानान्नेत्याश्रित्य सूत्रं प्रत्याख्यातम् । द्रुवयात्फललाच्चेष्यते द्रौवयं मानम् । कापित्थो रसः । कपि. स्थशब्दानुदात्तादेश्चेत्यनः फले लुक् । पुनरञ् । सूत्रारम्भे हि वैल्वस्य विकार इत्यत्रापि मयट् स्यात् । किञ्च औष्ट्रकस्य चर्मणो विकार औष्ट्रिकोपानदित्यत्र ठिड्ढाणनिति ङीप् स्यात् । न चेष्यते तथा च सौनागाः पठन्ति वुअश्वाञ् कृतम- सङ्ग इति तस्मादवयवे समुदायशब्दो विकारे च प्रकृतिशब्दो अभेदोपचाराद्वर्त्तत इत्येव शरणमिति सिद्धान्तितम् । त. स्माद् वृत्तिग्रन्थः सूत्रकाराभिप्रायवर्णनमात्रपरतया नेयः । क्रीतवत् परिमाणात् ॥ २९७ ॥ पश्चमे प्राग्वतेष्ठनित्यारभ्य क्रीतार्थे ये प्रत्यया येनोपा- धिना परिमाणाद्विहितास्ते तथैव विकारेऽतिदिश्यन्तेऽणा- दीनामपवादः । संख्योन्माने अपि परिमाणग्रहणेन गृह्यते न तु रूढिपरिमाणमेव । निष्केण क्रीतं नैष्किकम् । एवं नि- ४ अध्याये ३ पादे २ आह्निकम् । २०१ हकस्य विकारो नैष्किकः । शतस्य विकारः शत्यः । शतिकः । शताच ठन्यतौ । साहस्त्रः । शतमानविंशतिकसहस्त्रवसनादण् । उष्ट्राद् वुञ् ॥ २९९ ॥ मारायनोऽपवादः । उष्ट्रस्य विकारोऽवयवो वा औष्ट्रकः । उमोर्णयोर्वा ॥ ३०० ॥ औमम् । औमकम् । और्णम् । और्णकम् । उमाशब्दस्तु- णधान्यायुदात्तः । उर्णाशब्दः प्रातिपदिकस्वरेणान्तोदात्तः । ताभ्यां वुनभावे यथाक्रममणौ । एण्या ढञ् ॥ ३०१ ॥ प्राण्यबोऽपवादः। ऐणेयं मांसम् । एणस्य तु ऐणम् । गोपयसोर्यत् ॥ ३०२॥ गव्यम् । पयस्यम् । यद्यपि सर्वत्र गोरजादिप्रसङ्गे य- दस्त्येव तथापि मयड् वैतयोरिति पक्षे प्राप्तं मयटं बाधितुं पु- नरयं यद्विधिः ॥ द्रोश्व ॥ ३०३ ॥ ओरोऽपवादः । एकाचो नित्यमिति मयटो वा । दुर्वृक्षः । पलाशी द्रुद्रुमागमा इत्यमरः । द्रोर्विकारोऽवयवो वा द्रव्यम् । ओर्गुणः वान्तोयिप्रत्यये । पृथिव्यादिषु तु गुणैर्दूयते आश्री. यत इति दुधातोरचो यदिति यत्प्रत्ययान्तो द्रव्यशब्दः । माने वयः ॥ ३०४ ॥ द्रोरित्येव । यतोऽपवादः । द्रोर्विकारभूतं प्रस्थादि परि- माणं दुवयम् । यौतवं द्रुवयम् । यौतवं दुवयं पाय्यमिति मानार्थकं त्रयमित्यमरः । २६ शब्दकौस्तुभे। फले लुक् ॥ ३०५॥ विकारावयवप्रत्ययस्य लुक् स्यात्फले। आमलक्याः फ. लमामलकम् । मयटो लुक् । लुक् तद्धितलुकि । फलितस्य वक्षस्य फलमवयवो भवति विकारश्च । प्लक्षादिभ्योऽण् ॥ ३०६ ॥ अनोऽपवादः । शिशुकर्कन्धुशब्दयोरुवर्णान्तवादितरे- पां त्वनुदात्तादित्वादनः प्राप्तिः । विधानसामर्थ्यादणो न लुक् । प्लाक्षम् । प्लक्ष न्यग्रोध अश्वत्थ इङ्गुदी शिग्रु क- कन्धु बृहती । इङ्गुदीहतीशब्दौ गौरादिङीपन्तौ । आश्वत्थवै- णवप्लाक्षनैयग्रोधैगुदं फल इत्यमरः । न्यग्रोधशब्दो लघाव- न्त इति मध्योदात्तः । न्यग्रोधस्य च केवलस्येत्यैजागमः । जम्ब्वा वा ॥ ३०७॥ जम्बूशब्दात्फलेऽण् वा स्यात् । पक्षे ओरभित्यनुदा. तादेश्चेति वा उत्पन्नस्यात्रः फले लुगिति लुक् । जम्बु । जाम्बवम् । लुप च ॥ ३०८ ॥ जम्ब्बाः फलप्रत्ययस्य लुप् वा स्यात् । लुपि युक्तवत् । ज. म्चाः फलं जम्बूः । फले जम्ब्बा जम्बूः स्त्री जम्बु जाम्बवमि- त्यमरः । फलपाकशुषामुपसंख्यानम् । ब्रीहयः । मुद्गाः । पुष्प- मूलेषु बहुलम् । मल्लिकायाः पुष्पं मल्लिका । अनुदानादि- लक्षणस्यानो लुप् । मल्लिकाशब्दो मध्योदात्तः । अथ द्विती- यं प्रागीषात् त्र्यषां प्राङ्नकरादिति सूत्राभ्यां व्यषां द्वितीय- मित्यनुवृत्तौ मादीनां वेति फिटसूत्रात् मादीनां व्यचां द्वितीय । - ४ अध्याये ३ पादे २ आदिकम् । २०३ मुदात्तमित्यर्थः । वनमालिका । लघावन्त इति मध्योदात्तोऽयम् । जात्याः पुष्पं जाती। बिदार्या मूलं विदारी । अंशुमती । बृहती । जातीविदारीशब्दो गौरादिङीषन्तौ । अंशुशब्दः प्रा. तिपदिकस्वरेणान्तोदात्तः ततो मतुप् । इस्वनुड्भ्यां मतुविति मतुबकार उदात्तः । बृहन्महतो घजायुदात्तत्व उपसंख्याना- त् बृहतीशब्दो ऽन्तोदात्तः । बहुलग्रहणान्नेह । पाटला. नि पुष्पाणि | साल्वानि मूलानि । बाहुलकादेव कचिल्लुक् लुपोऽभावश्च । कदमं पुष्षम् । अशोकम् । करवीरम् । एते ल. घावन्त इति मध्योदात्ताः । अनुदात्तादिलक्षणस्यानो लुक् । वैल्वानि । बिल्वाद्यण् । इह न लुप्लुको । हरीतक्यादिभ्यश्च ॥ ३०९ ॥ एभ्यः फलप्रत्ययस्य लुप् स्यात् । अत्र लिङ्गं युक्तवत् । वचनं तु विशेष्यवदेव । हरीतक्यादिषु व्यक्तिरित्युक्तत्वात् । हरीतक्याः फलं हरीतकी । कोशातकी । इह द्राक्षाप्रभृतिभ्यो मयटो लुप् । अनुदात्तादिभ्योऽनः । इतरेभ्यस्त्वणः । कंसीयपरशव्ययोर्यजञौ लुक् च ॥ ३१० ॥ कंसीयपरशव्यशब्दाभ्यां विकारेऽर्थे यथासंख्यं यात्री स्तः छयतोश्च लुक् । कंसाय हितं कंसीयम् । तस्य विकारः कांस्यम् । परान् शृणाति परशुः तस्मै हितं उगवादिभ्यो यत् । परशव्यं दारु । तस्य विकारः पारशवः । परशव्यस्यानुदात्तादित्वादाने सिद्ध लुगर्थ वच. नम् । ननु यस्योतिलोपे कृते इलस्तद्धितस्यति यलोपेन सि- दम् । मैवम् । ईतीत्यनुवृत्तेः । अन्यार्थतया कृतात् मा- शब्दकौस्तुभे । तिपदिकाधिकारादेवेह धातुप्रत्यययोलुङ् न । इति श्रीशब्दकौस्तुभे चतुर्थस्याध्यायस्य तृतीये पादे द्वि- तीयमाह्निकम् । पादश्च समाप्तः । प्राग् वहतेष्ठक् ॥ १॥ तद्वहतीत्यतः प्राक् ठगधिक्रियते । तदाहेति माशब्दादिभ्य उपसङ्ख्यानम् । वाक्यादयं प्रत्ययविधिः । माशब्दिकः । माशब्दः कारीति यो निषेधति स एवमुच्यते । आहौ प्रभू. तादिभ्य उपसङ्ख्यानम् । प्रभूतमाह प्राभूतिकः । पार्याप्ति- कः । क्रियाविशेषणात्प्रत्ययः । आहेतिपदे एकदेशस्य प्रकृ. तिभागस्योच्चारणार्थेनेकारेणाहाविति निर्देशः निर्देशः । पृच्छतौ सुस्नातादिभ्यः । सुस्नातं पृच्छति सौस्नातिकः । सौख- शायनिकः । अनुशतिकादिः । गच्छतौ परदारादिभ्यः । परदारान् गच्छति पारदारिकः । गौरुतल्पिकः । तेन दीव्यति खनति जयति जितम् ॥ २ ॥ अक्षैर्दीव्यति आक्षिकः । अन्या खनति आभ्रिकः । कौदालिकः । अझैजयति आक्षिकः । अर्जितमाक्षिकम् । दीव्यतीत्यादौ कालपुरुषसङ्ख्या अविवक्षिताः । अदेवीत् देविष्यति वा आक्षिकः । एवं देविष्यास देविष्यामि वा । दीव्यन्ति दीव्यथ दीव्यामो वा आक्षिकाः । कारकन्तु विवक्षितमेव । अत एव जयति जितमिति कर्तृकर्मणोः पृथ- गुपादानम् ।

४ अध्याये ४ पादे १ आह्निकम् । २०५ संस्कृतम् ॥ ३ ॥ योगविभाग उत्तरार्थः । दना संस्कृतं दाधिकम् । मा. रिचिकम् । कुलत्थकोपधादण् ॥ ४॥ ठकोऽपवादः । कुलत्थैः संस्कृतं कौलत्थम् । तैत्तिडीकम् । तरति ॥ ५ ॥ उडुपेन तरति औडुपिकः । गोपुच्छाट्ठञ् ॥ ६॥ गौपुच्छिकः । नौद्वयचष्ठन् ॥ ७ ॥ नाविकः । घटिकः । बाहुभ्यां तरति बाहुका स्त्री । षकारः साहितिको न त्वनुबन्ध इति न ङीष् । तथाच श्लो- कवार्तिकम् । आकर्षात् पर्पोदेर्भस्त्रादिभ्यः कुसीदसूत्राच्च । आवसथात् किशरादेः पितः षडेते ठगधिकारे इति विधिवा- क्यापेक्षमिह षट्त्वं षडित्यस्य षड्भिर्वाक्यैर्विधेये लक्षणेति या- वत् । प्रत्ययास्तु सप्त । कुसीदादिमूत्रेण द्वयोर्विधानात् । इह येषां षकारः साहितिक इति सम्भाव्यते तेषामेव गणने क्रियमाणे ष्ठलादेः पित्वमनार्षमिति भ्रमः स्यादतो वार्तिक- कारः सर्वानेव पर्यजीगण । चरन्ति ॥८॥ तृतीयान्ताद्गच्छतिभक्षयतीत्येतयोरर्थयोष्ठक् स्यात् । ह- स्तिना शकटेन चरति हास्तिकः । शाकटिकः । दन्ना चरति दाधिकः ।

शब्दकौस्तुभे । आकर्षात ठल् ॥ ९॥ ठकोऽपवादः । लः स्वरार्थः । आकर्षशब्देन सुवर्णपरी- क्षार्थो निकषोपल उच्यते तेन चरति आकर्षिकः । आक- र्षिकी । षित्वान्ङीष् । माधवस्तु भ्वादौ कषरबषेत्यादि- दण्डको आकषात् ष्ठल् इति पाठमुदाजहार । तत्तु आकर्षा- त्पादरिति भाष्यवार्तिकाभ्यां सह विरुद्धम् । तत्र हि नीरेफ- पाठे वृत्ताननुगुणत्वं स्पष्टम् । पादिभ्यः ष्ठन् ॥ १० ॥ पण चरति पर्पिकः । पर्पिकी । पर्प गतौ । पर्पत्यने- नेति पर्पः । हलश्चेति घञ् । येन पीठेन पङ्गवश्वरन्ति स पर्प इति माधवः । उज्वलदत्तस्तु खष्पशिल्पशष्पवाष्परूप- तर्पतल्पा इति सूत्रे तर्पशब्दस्थाने पर्पशब्दं पठित्वापि सर्तेः पः पर्प गृहं बालतृणश्च तेन चरति पर्पिक इत्युदाजहार । इहान्तर्गणसूत्रे पादः पञ्चेति । पादाभ्यां चरति पदिकः यत्तु वात्तिकं पद्भाव इके चरतावुपसङ्खथानमिति सोऽस्यैव प्रपश्चः। पर्प अश्व अश्वत्थ रथ जाल न्यास व्याल पाद कृत् । श्वगणाट्ठञ् च ॥ ११ ॥ चात्छन् । ठकोऽपवादः । श्वगणेन चरति श्वागणिकः । वागणिकी। श्वगणिकः । श्वगणिकी । वादरिजीत्यत्रेकारा- दिग्रहणं कर्तव्यमिति वचनानि द्वारादिकार्य न । वेतनादिभ्यो जीवति ॥ १२ ॥ वेतनेन जीवति वैतनिकः । धनुर्दण्डति पठ्यते । तच सङ्घातविगृहीतार्थम् । तन्त्रावृत्त्यादीनामन्यतमाश्रयणात् । धानुण्डिकः । धानुष्कः । दाण्डिकः ।

४ अध्याये ४ पादे १ आह्निकम् । वस्त्रक्रयविक्रयाट्ठन् ॥ १३ ॥ वस्नेन मूल्येन जीवति वस्निकः । क्रयविक्रयग्रहणं सङ्घा- तविगृहीतार्थम् । क्रयविक्रयिकः । क्रयिकः । विक्रयिकः । आयुधाच्छ च ॥ १४ ॥ चाट्ठन् । आयुध्यन्त्यनेनेत्यायुधम् । घनर्थे कविधानमिति कः । आयुधेन जीवति आयुधीयः । आयुधिकः । हरत्युत्सङ्गादिभ्यः ॥ १५ ॥ एभ्यस्तृतीयान्तेभ्यष्ठक् स्यादुपादत्ते नयति वेत्यर्थे । उत्स- ड्रेन हरति औत्सङ्गिकः । उत्सङ्ग उडुप उत्पत पिटक पिटाक । भस्त्रादिभ्यष्ठन् ॥ १६ ॥ भस्त्रया हरति भस्त्रिकः । षित्वान्ङीष् भस्त्रिकी । भस्त्रा चर्मविकारः । येन लोहादि धमायते जलादिकं च नीयते । शीर्षभारशब्दोऽत्र पठ्यते । निपातनाद् शीर्षभावः सप्तमीसमा. सश्च । तत्पुरुषे कृतीति वा अलुक् । पक्षे शीर्षभारः । एवमंसे. भारः । अंसभारः। विभाषा विवधात् ॥ १७॥ तृतीयान्तादस्माद्धरत्यर्थे ष्ठन् वा स्यात् । पक्षे ठक् । विव. हरति विवधिकः । विविधकी । एकदेशविकृतस्या- नन्यत्वावधादपि ष्ठन् । वीवधिकः। वीवधिकी । ठकि प्राग्वत् । वीवधाचेति वक्तव्यमिति वार्तिकं दृष्ट्वा सूत्रेऽपि वीवधशब्दो वृत्तिकृता प्रक्षिप्तः वार्तिकं तु न्यायसिद्धार्थकथनपरम् । विवध- बीवधशब्दौ पर्यायौ पथि पर्याहारे च वर्तेते इति वृत्तिकृतः । पर्याहारो नाम परित आह्रियतेऽनेन तण्डुलादिकमिति व्युत्प- ।

२०८ शब्दकौस्तुभे। त्या उभयतो बद्धशिक्यः स्कयवाह्यः काष्ठविशेष उच्यते । अण 'कुटिलिकायाः ॥ १८॥ कुटिलिकया हरति मृगान् व्याधः कौटिलिकः । कुटिलि. कया हरति अङ्गारान् कौटिलिकः कारः । कुटिलिका व्याधा- नां गतिविशेषः कर्मारोपकरणभूतं लौहं च । निवृत्ते ऽक्षयूतादिभ्यः ॥ १९ ॥ अक्षयूतेन निर्वृत्तं आक्षयूतिकं वैरम् । त्रेमम्नित्यम् ॥ २० ॥ त्रिप्रत्ययान्तप्रकृतिकात्तृतीयान्तान्नित्तेऽर्थे मप् स्यात् । नित्यग्रहणं स्वातन्त्र्येण प्रयोग वारयितुम् । अत एव लौकिके विग्रहवाक्ये क्तिनादीनां प्रयोगो न तु क्त्रेः । डुकृञ् । कृ- त्या निवृत्तं कृत्रिमम् । पत्क्रिमम् । उत्रिमम् । विहित्रिमम् । संख्यावाची त्रिशब्दस्तु नेह गृह्यते व्याख्यानात् । प्रत्ययाप्रत्य- ययोः प्रत्ययस्य ग्रहणात् । निजां त्रयाणामित्यादिलिङ्गाच्च । ननु नित्यग्रहणेन निवृत्तार्थविवक्षायां वाक्यस्य वारणेऽपि तदविवक्षायां स्वातन्त्र्यस्य दुर्वारत्वाने लिङ्गमिति चेन्न । नि. त्यमिति योगं विभज्य तत्सामर्थ्यादर्थविशेषानादरेणैव स्वा- तन्त्र्यवारणात् । भावप्रत्ययान्तादिमप् वक्तव्यः । पाकेन निर्वृत्तं पाकिमम् । त्यागिमम् । एवं च म न कर्तव्यः। तथाहि भावप्रत्य- यान्तादिमप् । ततः त्रेः । पूर्वेण सिद्ध नियमार्थमिदम् । तेन निर्वृत्त तावद्वाक्यं निवर्त्यते ततः नित्यम् । अनेनान्यत्रापि स्वा- तन्व्यं वार्यते एवं च संख्यावाचिग्रहणं सम्भवत्यपि न । भाव- प्रत्ययान्तादित्यनुवृत्तेः । स्वरेऽपि विशेषो नास्ति उदात्तनि. त्तिस्वरेणेमप इकारस्योदात्तत्वात् ।

४ अध्याये ४ पादे २ आह्निकम् । २०९ अपमित्ययाचिताभ्यां कक्कनौ ॥२१॥ अपमित्येति ल्यबन्तमव्ययम् । उदीचां माङ इति स्का- प्रत्यय अपेत्यनेन सह गतिसमासात् । मयतेरिदन्यतरस्यामि- तीत्वम् । अतो नास्मात्तृतीयान्तात्प्रत्ययः किन्तु वचनात्पथ- मान्तादेव । अपमित्य निर्वृत्तं आपमित्यकम् । याचितेन निर्वृत्तं याचितकम् । संसृष्टे.॥ २२ ॥ दना संसृष्टं दाधिकम् । चूर्णादिनिः ॥ २३ ॥ चूर्णैः संसृष्टाश्चूर्णिनो ऽपूपाः । लवणाल्लुक् ॥ २४ ॥ लवणेन संसृष्टो लवणः सूपः । लवणं शाकम् । लव. णा यवागूः। मुद्गादण् ॥ २५ ॥ मुद्ः संसृष्टो मौद्ग ओदनः । व्यञ्जनैरुपसिक्ते ॥ २६ ॥ दना उपसिक्तं दाधिकम् । व्यज्यतेऽनेन ओदनादिरस इति व्यञ्जनम् । तद्वाचिना उपसिक्ते सिञ्चनेन मृदूकृत एव यथा स्यादिति नियमार्थमिदम् । तेनेह न सूपेन संसृष्टा स्थाली । ओजःसहोम्भसा वर्तते ॥२७॥ ओजसा वर्तते औजसिकः शुरः । साहसिकश्चारः। अ. म्भसिको मत्स्यः।

२१० शब्दकौस्तुभे। तत्प्रत्यनुपूर्वमीपलोमकूलम् ॥ २८ ॥ प्रत्यनुपूर्वमीपलोमकूलान्तं यत्मातिपदिकं तत्प्रकृतिका. द्वितीयान्ताद्वर्तत इत्यर्थे ठक् स्यात् । वृतेरकर्मकत्वेपि क्रिया- विशेषणत्वाद्वितीया । प्रतीपं वर्तते प्रातीपिकः । आन्वीपिकः । प्रातिलोमिकः । आनुलोमिकः । प्रातिकूलिकः । आनुकूलिकः । प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः । ऋक् पूरित्यकारः स- मासान्तः द्वयन्तरूपसर्गेभ्य इतीत्वम् । व्युत्पत्तिमात्रं चेदम् । प्रतिकूलानुकूलपर्यायौ हीमौ । एवं लोमकूलशब्दावप्यविवक्षि- सार्थावेव । रूढ्या योगापहारात् । ऊदनोर्देशे इत्यूत्वं तु नेह । अदेशत्वात् । परिमुखं च ॥ २९ ॥ परिमुखं वर्तते पारिमुखकः । चात्पारिपाश्चिकः । अपप- री वर्जन इति परः कर्मप्रवचनीयता पञ्चम्यपापरिभिरिति प. चमी । अपपरिवहिरञ्चवः पञ्चम्येत्यव्ययीभावः। परिमुखं वर्तते इत्यर्थे ठक् । स्वामिनो मुखं वर्जयित्वा यः सेवको वर्तते स पारिमुखिकः । यदा तु सर्वतो भावे परिशब्दः प्रादिसमासश्च तदा यतो यतः स्वामिनो मुखं ततो यो वर्तते सोऽर्थः । एवं पारिपाश्चिकोऽपि । प्रयच्छति गर्यम् ॥ ३० ॥ द्वितीयान्तात्प्रयच्छतीत्यर्थे ठक् स्यात् यत्प्रयच्छति गई चैतत् । द्विगुणार्थ द्विगुणम् । तात्स्थ्यात्ताच्छध्यं तत्प्रयच्छति द्वैगुणिकः । त्रैगुणिक उत्तमर्णः । बहुवृद्ध्युद्देश्यकदानकर्म- तया गीत्वम् । टर्टधुषिभावो वक्तव्यः । वृद्ध्यर्थं वृद्धिः तां प्रयच्छति बाधुषिकः । अथ कथं वृद्ध्याजीवश्व वाधुषिरित्यम- ४ अध्याये ४ पादे २ श्राह्निकम् । २११ रः । धाधुषिः समकम्पयतेति । नस्तेनः स्यात्रवाधुषी बाधुष्यं लवणक्रियेति च । स्वच्छन्दवाचः कवय इति हरदत्तः । गर्दा किम् । द्विगुणं वृद्धिं च प्रयच्छत्यधमर्णः । कुसीददशैकादशात्ष्ठनष्ठचौ ॥ ३१ ॥ आभ्यां गार्थाभ्यां यथासंख्यं ठनष्ठचौ स्तः प्रयच्छ- तीत्यर्थे । कुसीदं वृद्धिस्तदर्थ द्रव्यमपि कुसीदं तत्प्रयच्छति कुसीदिकः । कुसीदिकी । एकादशा दशैकादशशब्देनोच्यन्ते तथा च विशेषणसमासः । एकादशार्थत्वादेकादश एकादश च ते वस्तुतो दश चेति विग्रहः । संख्याया अल्पीयस्या इति । पूर्वनिपातः । इहैव सूत्रे निर्देशादकारः समासान्तः । अत एव पाक्यमप्यकारान्तेन भवति । दशैकादशान् प्रयच्छति दशैकाद. शिकः । दशैकादशिकी । इहाप्युत्तमर्ण एव तद्धितार्थः । उञ्छति ॥ ३२ ॥ बदराण्युञ्छति बादरिकः । श्यामाकिकः । काणिकः । भूमौ पतितस्यैकैकस्योपादानमुञ्छः । रक्षति ॥ ३३ ॥ समाज रक्षति सामाजिकः । शब्ददर्दुरं करोति ॥ ३४ ॥ शब्दं करोति प्रकृत्यादिविभागेन व्युत्पादयति शाब्दि- कः । अभिधानस्वभावाद् व्युत्पादन एवायं प्रत्ययः । नेह शब्दं करोति वर्बरः । दादुरिकः कुलालः । दर्दुरशब्दः पात्रविशेषवाची । अनुकरणशब्द इत्येके । पक्षिमत्स्यमृगान् हन्ति ॥ ३५ ॥ एभ्यो द्वितीयान्तेभ्यो हन्तीत्यर्थे ठक् स्यात् । स्वरुपस्य २१२ शब्दकौस्तुभे। पर्यायाणां विशेषाणां चेह ग्रहणम् । तत्र मत्स्यपर्यायेषु मीनस्यैव नेतरेषामिति स्वं रूपमित्यत्रोक्तम् । पक्षिणो हन्ति पाक्षिकः । शाकुनिकः । मायूरिकः । मात्स्यिकः । मत्स्यस्य ड्यामिति परिगणनात् सूर्यतिष्यति यलोपो न । मैनिकः । शाकलि- कः । मार्गिकः । आरण्यकचतुष्पात्सु हरिणे च वृत्तेद्यर्थो मृ गशब्दः । तत्रायस्य विशेपो द्वितीयस्य तु पर्यायो हरिणशब्दः । हारिणिकः। परिपन्थं च तिष्ठति ॥ ३६॥ अस्माद्वितीयान्तात्तिष्ठतीत्यर्थे ठक् स्यात् । परिपथशब्दः परीमुखवदव्ययीभावस्तत्पुरुषो वा । आये क्रियाविशेषणत्वा- कर्मत्वम् । द्वितीये तु कालभावाध्वगन्तव्या इति । पन्थानं वर्जयित्वा व्याप्य वा स्थितः पारिपन्धिकश्चोरः । चकारो भि- अक्रमः प्रत्ययार्थ समुच्चिनोति । परिपन्थं हन्ति पारिपन्थिकः । नेदं प्रत्ययसंनियोगेन पन्थेतिनिपातनं किं तु परिपथमित्येत. त्पर्यायभूतः परिपन्थशब्दोऽप्यस्ति परिशब्देन सह समासत्ते विषयीभूतः पन्थशब्दोऽस्तीति फलितोऽर्थः तेन ठकं विनापि परिपन्थं तिष्ठतीति लौकिकः प्रयोग उपपद्यते । एतदेव सूत्रयितुं तदिति प्रकृतमपि पुनर्द्वितीयोच्चारणं कृतमिति वृत्तिकाराः । माथोत्तरपदपदव्यनुपदं धावति ॥ ३७ ॥ माथशब्दः पथिपर्यायः । मथ्यतेऽवगाह्यते गन्तृभिरिति व्यु- त्पत्तेः । दण्डाकारो माथो दडमाथः दण्डमाथं धावति दाण्डमा- थिकः । पादविकः । आनुपदिकः । आक्रन्दाकृञ् च ॥ ३८॥ अस्मास्याचा धावतीत्यर्थे । स्वरे भेदः । आक्रन्द- ४ अध्याये ४ पादे २ आह्निकम् । २१३ । त्यस्मिनित्याक्रन्दो देशः दुःखितानां रोदनस्थानम् । आक्र- न्दं धावति आक्रन्दिकः । पदोत्तरपदं गृह्णाति ॥ ३९ ॥ पूर्वपदं गृह्णाति पौर्वपदिकः औत्तरपदिकः। पदान्तादिति तु नोक्तम् । बहुचपूर्वान्मा भूत् । प्रतिकण्ठार्थललामं च ॥ ४०॥ एभ्यो गृह्णात्यर्थे ठक्स्यात् । कण्ठं कण्ठं प्रतीति यथार्थेऽव्य- यीभावः । लक्षणेनाभिपती इति वा । यस्तु प्रतिगतः कण्ठमि. ति प्रादिसमासस्तस्येह न ग्रहणं व्याख्यानात् । प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः । लालामिकः । धर्म चरति ॥ ४१ ॥ धर्मशब्दाहक् स्याचरत्यर्थे । चरतिरिहासेवायां न त्वनुष्ठा- नमात्रे । तेन दैववशाद्धर्मे प्रवृत्तोऽपि दुर्वृत्तो धार्मिक इति नो- च्यते । आसेवा हि स्वारसिकी प्रवृत्तिः । अधर्माचेति वक्तव्य. म् । आधर्मिकः । प्रतिपथमेति ठञ् च ॥ ४२ ॥ वीप्सायामाभिमुख्ये वाव्ययीभावः । ऋपूरिति समा- सान्तः । प्रतिपथमेति प्रातिपथिकः । प्रातिपथिकी। समवायान्त्समवैति ॥ ४३ ॥ समूहवाचिभ्यो द्वितीयान्तेभ्यष्ठक स्यात् समवैतीत्यर्थे । सा- मवायिकः । सामूहिकः । सांनिवेशिकः । इह समवपूर्वस्येणोऽर्थः प्रविश्येकदेशीभवनम् । तत्र गुणभूतं प्रवेशं प्रति प्रकृत्यर्थस्य । २१४ शब्दकौस्तुभे । कर्मता .बोध्या । विशेष्यानुरोधेन तु लोके सप्तमी प्रायशः प्र. युज्यते । कुरुक्षेत्रे समवेता इति । परिषदो ण्यः ॥ ४४ ॥ समवायान् समवैतीत्यर्थे परिषदं समवैति परिषद्यः । सेनाया वा ण्यः ॥ ४५ ॥ पक्षेढक् सैन्याः । सैनिकाः। संज्ञायां ललाटकुक्कुव्या पश्यति ॥ ४६॥ ललाटकुक्कुटीशब्दाभ्यां पश्यतीसर्थे ठक् स्यात् संज्ञा- याम् । संज्ञानं संज्ञा प्रतिपत्तिः प्रसिद्धिरिति यावत् । प्रसि. स्यनुसारो योगो ग्राह्यो न तु स्वेच्छयेत्यर्थः । लालाटिकः से. घकः । द्वारे स्थित्वा प्रभोर्ललाटं पश्यति न तु कार्येषूपतिष्ठत इत्यर्थः । लालाटिकः प्रभोभीलदर्शी कार्याक्षमश्च य इत्य- मरः । वदान्योऽपि कथं दद्याल्लालाटिक्यै ललाटिकामिति ल- क्ष्यम् । कोक्कुटिको भिक्षुः । संन्यासी हि पादविक्षेपपर्याप्त- देशपर्यन्तमेव चक्षुः संयम्य गच्छति । कुक्कुटीशब्देन तत्पाता. ईः स्वल्पदेशो लक्ष्यते । तथा चाल्पमेव देशं पश्यन् कौकुटिक उच्यते । इदमेव विषयविभागं सूचयितुं संज्ञायामित्युक्तम् । तस्य धर्म्यम् ॥ १७ ॥ आपणस्य धर्नामापणिकः । अण महिष्यादिभ्यः ॥ ४८ ॥ महिष्या धर्म्य माहिषम् । याजमानम् । होत्रम् । ऋतोऽञ् ॥ ४९॥ यातुर्धय॑ यात्रम् । नराचेति वक्तव्यम् । नरस्य. पा ४ अध्याये ४ पादे २ आडिकम् । २१५ नारी। विशसितुरिलोपश्चाञ् च वक्तव्यः । विशसितुर्धर्म्य वैशस्त्रम् । विभाजयितुर्णिलोपश्चाञ् च वक्तव्यः । विभाजयि. तुर्धय॑ वैभाजित्रम् । अवक्रयः ॥ ५० ॥ षष्ठ्यन्ताहक् स्यादवक्रयेऽर्थे आपणस्यावक्रय आप. णिकः । धर्मोऽनुवृत्त आचारस्तस्मादनपेतं धर्म्यम् । अवक्रयस्तु लोभात्मवर्तित इति भेदः । स्वद्रव्यपरित्यागपूर्वकं परद्रव्यस्य स्वीकारो हि क्रयः तस्यावमत्वमवशब्देन द्योत्यते, वाणिज्याथ तैलधानादिकं देशान्तरं नयतास्मिन् शुल्कस्थाने प्रतिभार. मेतावद्देयं तथा इदं विक्रीणानेन राज्ञे एतावद्देयमिति तद्देशाधि. पतिना यत्कल्प्यते सोऽवक्रयः पिण्डक इति वोच्यते । तत्र स्व. द्रव्यमेव दत्वा स्वद्रव्यान्तरस्य स्वीकारायस्यावमत्वम् । सूत्रे च क्रीयतेऽनेनेति करणे एरच् । तेन राजग्राह्यं द्रव्यं ठगर्थः । तस्य परायम् ॥ ५१ ॥ अपूपाः परायमस्य आपूपिकः । शाष्कुलिकः । लवणाट्ठञ् ॥ ५२ ॥ लवण परायमस्य लावणिकः । किसरादिभ्यः ष्ठन् ॥ ५३ ॥ किसरं परायमस्य किसरिकः । किसरिकी । किसर नरद नलद स्थगल तरग गुल्गुलु उशीर हरिद्रा हरि- द्रुपी । किसरादयः सर्वे सुगन्धिद्रव्यविशेषवाचिनः । शलालुनोऽन्यतरस्याम् ॥ ५४ ॥ ठन्स्यात् । पक्षे ठक् । शलालुकः । शलालुकी। शाला- लुकः । शालालुकी । शलालुः सुगन्धिद्रव्यविशेषः ।

शब्दकौस्तुभे। शिल्पम् ॥ ५५ ॥ तदस्येत्यनुवर्तते । मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः । पाणविकः । मृदङ्गवादनादौ लाक्षणिकी प्रकृतिः । मुख्यार्थे वृत्तेस्त्वनभिधानान्न । शिल्पं कौशलं तच्च मृदङ्गवादनादि- विषयके । तेन मृदङ्गवादनविषयके मृदङ्गशब्दस्य लक्षणेति निष्कर्षः। मड्डुकझर्झरादणन्यतरस्याम् ॥ ५६ ॥ मड्डुकवादनं शिल्पमस्य माड्डुकः । माड्डुकिकः । झाझरः । झाझरिकः । इदमेव मूत्रं ज्ञापकं तत्सम्बद्धक्रि- याविषये लाक्षणिकेभ्यः शिल्पप्रत्यय इति । मड्डुः कझर्झरयोमुख्यार्थस्य शिल्पेन सामानाधिकरण्यायोगात् । प्रहरणम् ॥ ५७ ॥ तदस्येत्येव । असिः प्रहरणमस्यासिकः । चाक्रिकः । धा- नुष्कः । इणः ष इति विसर्जनीयस्य षः । परश्वधाञ् च ॥ ५८ ॥ चाक् । परश्वधः प्रहरणमस्य पारश्वधिकः । द्वयोः कु- ठारः स्वधितिः परशुश्च परश्वधः। शक्तियष्टयोरीकक् ॥ ५९ ।। शक्तिः प्रहरणमस्य शाक्तिकः । याष्टीकः । अस्ति नास्ति दिष्टं मतिः ॥ ६० ॥ तदस्येत्येव । अस्ति परलोक इत्येवं रूपा मतिर्यस्य स आस्तिकः । तद्विपरीतो नास्तिकः । दैवं दिष्टं भागधेयम् दिष्टमिति मतिर्यस्य स दैष्टिकः । अस्तिनास्तिशब्दौ निपाती ४ अध्याये ४ पादे २ आह्निकम् । २१५ यद्वा वचनसामादस्तीत्याख्यातानिपाताख्यातसमुदायाच प्रत्ययः । प्रमाणानुगा मतिर्दिष्टेति प्रक्रिया 'तु प्रामादिकी । दिष्टशब्दस्यादृष्टपर्यायत्वात् । क्लीबत्वाच्च । नालम्बते दैष्टिक- तामिति माघः । शीलम् ॥ ६०॥ तदस्येत्येव । अपूपभक्षणं शीलमस्यापूपिकः । छत्रादिभ्यो णः ॥ ६१ ॥ छत्रं शीलमस्य छात्रः । छत्रमाच्छादनं गुरोर्दोषाणा- मावरणमिति यावत् । कर्माध्ययने वृत्तम् ॥ ६२ ॥ तदस्येत्येव । प्रथमान्तात्षष्ठयर्थे ठक् स्यात् । अध्ययने वृत्ता या क्रिया सा चेत्पथमान्तस्यार्थः । ऐकान्यिकः । द्वै- यन्यिकः । एकमन्यदिति विगृह्य तद्धितार्थ इति समासः । तत- ठक् । यस्याध्ययने परीक्षाकाले विपरीनोच्चारणरूपं स्खलित. मेकं जातं स ऐकान्यिकः । एवं द्वैयन्यिकः । त्रयन्यिकः । बह्वच्पूर्वपदाट्ठञ् ॥ ६३॥ प्राग्विषये । द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वाद- शान्यिकः। त्रयोदशान्यिकः। त्रयोदशापपाठा अस्य जाता इत्यर्थः । हितं भक्षाः ॥ ६४ ॥ अस्येति प्रकृतमपि चतुर्थ्या विपरिणम्यते हितयोगात् । अपूपभक्षणं हितमस्मै आपूपिकः । तदस्मै दीयते नियुक्तम् ॥ ६५ ॥ नियुक्तमव्यभिचरितम् । अग्रभोजनमस्मै नियुक्तं दीयते ।

२१८ भन्दकोस्तुमे। , आग्रमोजनिकः । प्राणामांसौदनाटिठन् ॥ १६॥ उतऽर्थे । इकार उच्चारणार्थः । टो डीबर्थः । श्राणा नियु- कं दीयतेऽस्मै श्राणिकः । श्राणिकी। यवागूरुष्णिका श्राणा विलेयी तरला च सेत्यमरः । मांसौदनिकः । मांसौदनिकी । मांसौदनग्रहणं संघातविगृहीतार्थमित्येके । युक्तं चैतन् । प्रत्य- यान्तरारम्भसामर्थ्यात् । ओदनिक इत्यत्र वृद्धिवारणेन हि टिठन् सार्थकः । अन्यथा उबैव सिद्धौ किं तेन । भक्तादणन्यतरस्याम् ॥ ६७ ॥ पक्षे ठक् । भक्तमस्मै नियुक्तं दीयते भाक्तः । भाक्तिकः । तत्र नियुक्तः ॥ ६८॥ आकरे नियुक्त आकरिकः । अगारान्तात् ठन् ॥ ६९।। देवागारे मियुक्तो देवागारिकः । अध्यायिन्यदेशकालात् ॥ ७० ॥ तत्रेत्येव । निषिद्धदेशकालवाचकाहा स्यात् । श्मशाने- ऽधीते इमाशानिकः । चतुर्दश्यामधीते चातुर्दशिकः । आमावा- स्यिकः । अदेशकालास्किम् । काश्यां पूर्वाह्नेऽधीते । कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ॥ १ ॥ तत्रेत्येव । क्रियातत्वे चायं व्यवहरतिर्वर्तते । वंशकठिने व्यवहरति वांशकठिनिकः । वंशा वेणवः कठिना अस्मिन्देशे स वंशकठिनः । बस्मिन् देशे या क्रिया यथानुष्ठेया तां तथैवानु- ४ अध्याये ४ पादे २ आहिकम् । तिष्ठतीत्यर्थः । प्रास्तारिकः । सांस्थानिकः । प्रस्तारसंस्थान: शब्दौ सभिवेशपर्यायौ । निकटे वसति ॥ ७२ ॥ निकटशब्दात्सप्तम्यन्ताहक् स्याद्वसतीत्यर्थे । नैकटिको भिक्षुः। आवसथात्ठल ॥ ७३ ॥ वसतीत्यर्थे । आवसन्त्यस्मिभिसावसयः । उपसर्गे वसे- रित्ययप्रत्ययः । आवसथे वसत्यावसयिकः । षित्वान् सीए । आवसयिकी । समाप्तोऽस्य ठकोऽवधिः । प्राग्घिताद्यत् ॥ ७४ ॥ सस्मै हितमित्यतः प्राक् यदधिक्रियते । तहहति रथयुगप्रासङ्गम् ॥ ७५ ॥ रथ्यः । युगं रथाङ्गं वहति युग्यः । वत्सानां दमनका. ले स्कन्धे यत्काष्ठमासज्यते स पासङ्गः । मासज्यतेऽसाविति कर्मणि घम् तं वहति प्रासनयः । धुरो यड्ढकौ ॥ ७६ ॥ इह धुरो ढक चेत्येव मुवचम् । धुरं वहति धुर्यः। धौरेयः। धुर्वी हिंसायाम् । भ्राजभासेति किए । राल्लोपः धूः । यति तु न भकुर्छरामिति निषेधादलि चेति दी| न । इह ठर विधीय- ते न तु उटम् । धौरेयो लोहितार्भाशुरिति दृश्यते । धौरेय. क इति तु स्वार्थे कनि बोध्यम् । रवः सर्वधुरात ॥ ७७ ॥ शब्दस्वरूपापेक्षया नपुंसकनिर्देशो मधुनि बहुवीहाविति २२० । शब्दकौस्तुभे। वत् । सर्वा धूः सर्वधूरा । पूर्वकालैकेति तत्पुरुषे ऋपूरिति समा- सान्तः परवल्लिङ्गमिति स्त्रीत्वादाप् । सर्वधुरां वहति सर्वधुरीणः । ख इति योगविभाग इष्टसिद्ध्यर्थः कर्तव्य इति वृत्तिः । दक्षिणां धुरं वहतीति तद्धिनार्थे समासे ततः समासान्तेऽकारे टाषि च खः । दक्षिणधुरीणः । एवमुत्तरधुरीणः । एकधुराल्लुक् च ॥ ७८ ॥ एकधुरं वहतीति एकधुरीणः । एकधुरः। चकारेण खस्यानुकरणसामर्थ्यात्पक्षे श्रवणम् । अन्यथा हि चकारं विनैव पाकरणिकस्य यतो लुग्विधीयेत । शकटादण् ॥ ७९ ॥ शकटं वहति शाकटो गौः । ननु तस्येदमित्यणा सिद्धं यो हि शकटं वहति शकटस्यासौ भवति । अत्राहुः । आरम्भ- सामर्थ्यात्तदन्तविधिः । तेन द्वे शकटं वहति द्वैशकटिकः । प्राग्दीव्यतीयो लुङ् न । हलसीरात् ठक् ॥ ८०॥ हलं वहति हालिकः । सैरिकः । ननु तस्येदं हलसीरा- निति शैषिकेणैव सिद्धम् । सत्यम् । आरम्भसामर्थ्यादिहापि तदन्तविधिः । द्वैहालिकः। संज्ञायां जन्या ॥ ८१ ॥ जनी वधूः जायतेऽस्यां गर्भ इति जनिघसिभ्यामिण् । ज- निवध्योश्चीत वृद्धिप्रतिषेधे कृदिकारादिति डीए । जनीं वहतीति जन्या जामातुर्वयस्या । सा हि प्रणयकलहादौ वधूं जामातुः समीपं प्रापयति । कालिदासस्तु वध्वा यानवाहेष्वपि प्रायुङ्ग । यातेति जन्यामवदद कुमारीति ।

४ अध्याये ४ पादे २ आह्निकम् । २२१ विध्यत्यधनुषा ॥ ८२॥ द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्यान्न चेत्तत्र धनुः करणम् । पादौ विध्यन्ति पद्याः शर्कराः । पद्यत्यतदर्थ इति पद्भावः । उख्याः कण्टकाः । अधनुषा किम् । चोरं विध्यति । सम्भा- व्यते हि चोरव्यधने धनुषः करणता यदा तु धनुषेति प्रयु. ज्यते तदा सापेक्षत्वेनासामर्थ्यादेव न भवति तद्धितवाच्यायाः क्रियायाः गुणीभावेन भवति वै प्रधानस्येति न्यायस्यहानव- तारत् । न चात्राविग्रहा गतादिस्थेति न्याय आश्रयितुं श- क्यः धातूपातक्रियायामेव तथा व्युत्पत्तेः । अत एव कण्टकैः पादौ विध्यतीत्यादौ न भवतीति वृत्तिमतम् । भाष्ये त्वधनु- पेति प्रत्याख्यातम् । चोरं विध्यतीत्यत्र तु अनभिधाना- वेति दिक् । धनगणं लब्धा ॥८३ ॥ खन्नन्तमेतत् । धनं लब्धा धन्यः । गणं लब्धा गरायः । अन्नाराणः ॥ ८४ ।। अन्नं लब्धा आनः। वशं गतः ।। ८५॥ वशनं वशः इच्छा । वशिरण्योरुपसंख्यानमित्यप । वशं गतो वश्यः । परेच्छानुसारीत्यर्थः । पदमस्मिन् दृश्यम् ॥ ८६ ॥ शक्यर्थे ऋदुपधादिति क्यप् । पदं दृश्यमास्मिन्पधः कर्दमः । पद्याः पांसवः । नातिद्रवो नातिशुष्कः कर्दमः पद्य उच्यते । नात्यल्पा नातिबहुलाः पांसवोऽपि तथेरिताः । क २२२ शन्दकौस्तुभे । मूलमस्याबर्हि ॥ ८७॥ प्रथमान्तादाबर्डीत्युपाधिकान्मूलशब्दायत्स्यात् । बृह उद्यमने । दन्त्योष्ठयादिरयं न तु पवर्गादिः । उबूहरक्षः सह मूलमिन्द्रम् । जासुष्वीण्यवहाणत् इत्यादिदर्शनात् । आबईणमाबईः । उत्पा- टनम् । आबोऽस्यास्तीत्यावर्हि मूलमाबर्हि येषां ते मुल्या मुद्राः । मूलोत्पाटनं विना संग्रहीतुमशक्याः । मध्यतो लूयमानेषु कोशस्था अपि यस्यामवस्थायां पतेयुस्तामवस्थां प्राप्ताः । मुष्ठ शुष्का इति यावत् । संज्ञायां धेनुष्या ॥ ८८ ॥ धेनुशब्दस्य घुगागमो यमत्ययश्च स्वार्थे निपात्यते सं. शायाम् धेनुष्याशब्दोऽन्तोदात्तः । यति तु तित्स्वरः स्यात् । ऋणपदानाय धेनुर्दोहनार्थमुत्तमाय दीयते तस्याः संज्ञेयम् । पीतदुग्धेति सैवोच्यते । धेनुष्या बन्धके स्थितेत्यमरः । गृहपतिना संयुक्त ज्यः ॥ ८९ ॥ गृहपतिर्यजमानः तेन संयुक्तो गार्हपत्योऽग्निः । संज्ञायामि त्यनुवृत्तेराहवनीयादावतिप्रसङ्गो न । यद्वा गृहपतिर्नामामिविशे- पः । तेन संयोगो गाईपत्यस्यैव । अमिहोत्रे हि गाईपतये इयते। पत्रीसंयाजेषु च स तत्रज्यते । अत्रापि गृहपतिरमिरेव गृह्यते न तु यजमान इत्यत्र संज्ञाधिकार एवं शरणम् । नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्रा- प्यवध्यानाम्यसमसमितसंमितेषु ॥ ९. नाबादिभ्योऽष्टभ्यो यथासंख्यं तादिष्वष्टस्वर्थेषु यत्स्या- त् । तार्यादियोगे हि यथासम्भव करणे कर्तरि हेतौ तु.

४ अध्याये ४ पादे २ आदिकम् । २२३ ल्यायोगे च तृतीया भवतीति सैवेह समर्थविभक्तिरल्ल- भ्यते । अत्र प्रथममूलान्तानां द्वन्द्वं कृत्वा द्वितीयमूलादिद्वन्द्वेन सह महाद्वन्दः । मूलान्तानान्दित्राणां वा मूलादीनामेव वा कृत्वेति दिक् । तेन सारूप्याभावादेकशेषो न । नावा तार्य ना. व्यम् । शक्यार्थे ऋहलोमेत् । करणे तृतीया । वयसा तुल्यो वयस्यः । संज्ञाधिकारान्नेह । वयसा तुल्यः शत्रुः ! धर्मेण प्राप्यं धर्म्य फलम् । ननु धर्मादनपेत इति वक्ष्यमाणेन सिद्धम् । मैवम् । यदि धर्ममनुवर्तते तत्तस्मादनपेतम् । फलं तु धर्मवि. रोधि । धर्मस्य फलनाश्यत्वात् । विषेण वध्यो विष्यः । विषेण वधमहतीत्यर्थः । दण्डादिभ्य इति सूत्रेण वधशब्दादर्हार्थे यद्विधानात् । तत्र हि शीर्षच्छेदायञ्चेति पूर्वसूत्रायदनुवर्तत इति पञ्चमे वक्ष्यते । मूलेनायाम्यं मूल्यं लाभाख्यद्रव्यम् । तथाहि मूलं नाम पटादीनामुत्पत्त्यर्थं वणिग्भिर्विनियुक्तं द्रव्यम् । तेन स्वस्मादतिरिक्तं लाभाख्यं द्रव्यं शेषीक्रियते आत्मन उपकारकं क्रियते । आयूर्वकश्च नमिरभिभवे वर्तते तस्मा- स्पोरदुपधादिति यति प्राप्ते अत एव निपातनाण्यत् । आ. याम्यमभीभवनीयं आत्मानं प्रति शेषीकर्तव्यम् । स च ला- भाख्यो भाग एव लोके तु यावता द्रव्येण पटादिकं क्रियते तत्रैव समुदाये मूलशब्दः प्रसिद्धः न तु मूलातिरिक्तभाग- मात्र । तत्र मूल्यशब्दस्य तद्धटिते सङ्के लक्षणैव । एतेन यत्र दायप्रतिग्रहादिलब्धे क्षेत्र विक्रीयमाणे मूल्यं नास्ति तत्रापि क्रयद्रव्ये मूल्यशब्दप्रयोगो व्याख्यातः । लक्षितलक्षणाभ्यु- पगमात् । मूलेन समो मुल्यः पटः । उपादानेन समानफल इत्यर्थः । सीतया समितं सीत्यं क्षेत्रम् । सीता हलायम् । स. म्पूर्वादिणः क्तः । समितं सङ्गते निम्नोत्रतादिरहितं कुतमि- २२४ शब्दकौस्तुभे । त्यर्थः । समीकृतमिति यावत् । रथसीताहलेभ्यो यद्विधाविति. तदन्तविधिः। परमसीत्यम् । द्वाभ्यां सीताभ्यां समितमिति तद्धितार्थे समासस्ततो यत् द्विसीत्यम् । तुलया समितं तुल्य॑म् । संमितं सदृशम् । यथा तुला परिमेयं परिच्छि नत्ति एवं तुल्य- मपि प्रतियोगिनं सादृश्येन परिच्छिननीत्यर्थः । रुढिश्यम् । संज्ञायामित्यधिकारात् । धर्मपथ्यर्थन्यायादनपेते ॥ ९१ ॥ धर्मादनपेतं धर्म्यम् । पथ्यम् । अर्यम् । न्याय्यम् । संज्ञाधिकारादभिधेयनियमः । तेन शास्त्रीयात्पथोऽनपेतमेव पथ्यं न तु मार्गादनपेतश्चोरोऽपि । छन्दसो निर्मिते ॥१२॥ तृतीयान्ताच्छन्दसो यत्स्यानिर्मिते । छादे संवरण इति चुरादेर्धातूनामनेकार्थतया इच्छापर्यायोऽयं छन्दःशब्दोऽसुन्न- न्तः घअन्तस्तु प्रसिद्ध एव । स्वछन्दोछलइछकछेत्यादौ । वेदवाची त्रिष्टुबादिवाची च सान्त इह न गृह्यते संज्ञाधि- कारात् । तत्र निर्माणे इछायाः करणत्वात्सामर्थ्यात्तृतीयान्ता- दिति लभ्यते । छन्दसा निर्मितं छन्दस्यम्। इछया कृतमित्यर्थः । उरसोऽण च ॥ ९३॥ चाधत् । उरसा निर्मितः पुत्र औरसः। उरस्यः । सं. ज्ञाधिकारानेह । उरसा निर्मितं सुखम् । हृदयस्य प्रियः ॥ ९४ ॥ हृदयशब्दात्षष्ठयन्ताद्यत्स्यात्पीतिकरेऽर्थे । हृयो देशः । हृदयस्य हल्लेखयदण्लासेष्विति हृदादेशः ।

४ अध्याये ४ पादे २ आह्निकम् । २२५ बन्धने चर्षों ॥९५॥ हृदयशब्दात्षष्ठयन्ताद्वन्धने यत् स्यादृषांवभिधेये । ऋषि- रिह घेदः तदुक्तमृषिणेत्यादौ तथा दर्शनात् । हृदयस्य बन्धनो हृयो वशीकरणमन्त्रः । तेन हि परहृदयं बध्यते । कृद्योगल- क्षणा कर्मणि षष्ठी हृदयस्येति । अलौकिके तद्धितप्रकृतिभागे तु वचनसामर्थ्यादेव । संज्ञाधिकाराद्वसिष्ठादाषौ नायं यत् । मतजनहलात्करणजल्पकर्षेषु ॥ ९६ ॥ मतं ज्ञानं तस्य करणं भावः साधनं वा मत्यम् । कर्म- णि षष्ठी। ततो यत् । जल्पशब्दो भाषसाधनः कर्तरि ष- ष्ठी । जनस्य जल्पो जन्यः । हलस्य कर्षों हल्यः । कर्षशब्दो नेह परिमाणार्थः किन्तु क्रियाशब्दः संज्ञाधिकाराद्धलसम्बन्धा. च । हलस्येति कर्मणि षष्ठी करणस्य कर्तृत्वविवक्षायां कर्त- रिवा। रथसीताहलेभ्य इति तदन्तविधिः। द्विहल्यः। त्रिहल्यः । तत्र साधुः ॥ १७ ॥ सामसु साधुः सामन्यः । ये चाभावकर्मणोरिति प्रकृति- भावः । कर्मण्यः । साधुरिह प्रवीणो योग्यो वा गृह्यते । तदु- पकारकोऽपि । संज्ञाधिकारात् । प्रतिजनादिभ्यः खञ् ॥ ९८ ॥ जनो जन इति प्रतिजनम् । यथार्थे यदव्ययमिति वी- प्सायामव्ययीभावः । तत्र साधुः प्रातिजनीनः । प्रतिजन । इदंयुग । संयुग । पापकुल । परस्यकुल । अमुष्यकुल । सर्वजन । विश्वजन । पश्चजन । परस्यामुष्येति षष्टया निपात- नादलुक्। २९ २२६ शब्दकौस्तुभे। भक्ताराणः ॥ ९९ ॥ भक्त साधवो भाक्ताः शालयः । परिषदो ण्यः ॥ १०० ॥ परिषदि साधुः पारिषद्यः । परिषद इति योगविभागा- ण्णोऽपि । तथा च भाष्यं प्रयुक्तम् । पारिषदकृतिरेषा तत्र भव. तामिति । सर्ववेदपारिषदं शास्त्रमिति च । पार्षदमिति पाठे पृषो. दरादित्वादिकारलोपः। कथादिम्यष्ठक् ॥ १०१ ॥ कथायां साधुः काथिकः । गुडादिभ्यष्ठञ् ॥ १.२॥ गुडे साधु¥डिक इक्षुः । कौल्माषिको मुद्गः । साक्तुको यवः । गुड । कुल्माष । सक्तु । अपूप । मांस । ओदन । इक्षु । वेणु । संघात । प्रवास | निवास । पथ्यतिथिवसतिस्वपतेर्डञ् ॥ १०३ ॥ पथि साधुः पाथेयः । आतिथेयः । वसनं. वसतिः । बसेश्चेत्यतिप्रत्ययः । तत्र साधुर्वासतेयी रात्रिः । स्वस्य पतिः स्वपतिराळ्यः तस्य योग्यं स्वापतेयं धनम् । सभाया यः ॥ १०४ ॥ सभायां साधुः सभ्यः । अन्तोदात्तः । यति तु तित्स्वरः स्यात् । क्रतुर्भवत्युवथ्य इति वत् । यच्कत्वेऽपि हि तत्र यतो- नाव इति न भवति । यस्येतिलोपात्मा ध्यच्त्वात् । यदु- त्पतिवेलायां वचत्वस्य वेदभाष्ये स्थापितत्वात् । पक्षान्तरे तु नमः शष्याय च फेरनाय चेत्यादिवदायुदात्तः ।

४ अध्याये ४ पादे २ भाह्निकम् । २२७ ढश्छन्दसि ॥ १.५॥ सभेयो युवा । समानत्तीर्थे वासी ॥ १०६ ॥ साधुरिति निवृत्तम् । वासीति प्रत्ययार्थः । वसतीति वासी । निपातनाष्णिनिः । ग्रहादेराकतिगणत्वाद्वा । समाने तीर्थे गुरौ वसतीति सतीर्थ्यः । तीर्थे ये इति समानस्य सभावः। तरन्त्यनेनेति तीर्थम् । तरतेस्थक् । तीर्थ शास्त्राध्यरक्षे. त्रोपायोपाध्यायमान्त्रिषु । यौनौ जलावतारे चेति विश्वः । इह त्वध्यापकवाचिन एव ग्रहणं नान्यस्य । संज्ञाधिकारात् । समानोदरे शयित ओ चोदात्तः ॥ १०७ ॥ समानोदरे शयितः स्थितः समानोदर्यो भ्राता। शेतिर्हि स्थितौ दृष्टः जलाशय कुशेशयमिति यथा । समानमुदरमिति पूर्वापरप्रथमेत्यादिना कर्मधारयः । ततो यत् । तित्स्वरापवाद औचोदात्तः। सोदरायः ॥ १०८ ॥ औ चोदात्त इति नानुवर्तते । विभाषोदर इति सभावः । तत्र तीर्थे य इत्यतोनुवृत्ते ये इत्येतद्विषयसप्तमीपरतया व्याख्या- स्यते । तेन सोदर इत्यस्मात् यः । सोदर्यः । समानोदरे श- यित इत्येवार्थः । प्रत्ययस्वरः । कथं तहिं अपन्थानं तु गच्छन्तं सोदरोपि विमुश्चतीति मुरारिः । उच्यते । सह समानम् उदरं यस्येति वोपसर्जनस्येति सभावः । अत एव यत्र भ्राता स. होदर इत्यपि सिद्धम् । भवे छन्दसि ॥ १.९॥ सप्तम्यन्ताद्भवार्थे यत्स्याच्छन्दसि । मेध्याय च विद्युत्याय २२८ शब्दकौस्तुभे। च । यथायथं शैषिकाणामणादीनां घादीनां चापवादोयं यत् । पक्षे तेऽपि भवन्ति । सर्वविधिनां छन्दसि वैकल्पिकत्वात् तद्यथा। मृञ्जधानाम पर्वतः । तत्र भवः । मौजवतः। सोमस्येव मौञ्जवत्तस्य भक्षः । आपादसमाप्तेश्छन्दोऽधिकारः। पाथोनदीभ्यां ड्यण् ॥ ११० ॥ तमु त्वा पाथ्यो वृषा। चनोदधीत्त नाद्यो गिरो मे।पाथसि भवः पाथ्यः नद्यां भवो नाद्यः। पाथोन्तरिक्षमिति वृत्तिकाराः। पाति भूतान्यवकाशदानेनेति व्युत्पत्तेः । यद्यपि पातेले जुन च उदके थुट् अत्रे चेति अत्रोदकयोः पाथःशब्दो व्युत्पाद्यते तथापि बाहुलकादन्तरिक्षेऽपीति भावः । वेशन्तहिमवद्यामण् ॥ १११॥ वेशन्तः पल्वलम् । विशेझच् । तत्र भवा आपो वैशन्त्यः । वैशन्तीभ्यः स्वाहा । हैमवतीभ्यः स्वाहा । स्त्रोतसो विभाषा ड्यड्यौ ॥ ११२ ॥ पक्षे यत् । ड्यड्डययोस्तु स्वरे भेदः । स्रोतसि भवः स्रो. स्यः । स्रोतस्यः। सगर्भसयूथसनुत्ताद्यत् ॥ ११३॥ अनुभ्राता सगर्म्यः । अनुसखा सयूथ्यः । योनः सनुत्य उत वा जिगत्नुः । नुतिर्नुतम् । नपुंसके भावे क्तः । सगर्भा- दयस्त्रयोऽपि कर्मधारयाः । सर्वत्र समानस्य छन्दसीति स. भावः ततो भवार्थे यत् । यतोऽपवादः । तुग्राइन् ॥ ११४ ॥ अवार्थे । पक्षे यदपि छान्दसत्वात् । आवः शयं सुषमन्तु, ४ अध्याये ४ पादे २ आहिकम् । २२९ ग्यास्त्विति बहवः । तुग्रियास्विति तु शाखान्तरे । धनाका- शयज्ञवरिष्टेषु तुग्रशब्द इति वृत्तिः । अग्राद्यत् ॥ ११५ ॥ अग्रे भवमग्यम् । भवे छन्दसीत्येव सिद्धे यच्छयान्भि- र्वाधा मा भूदिति यद्विधीयते । घछौ च ॥ ११६ ॥ चकारो ऽव्यवहितं धनं समुच्चिनोति नतु संनिहितमापि यतम् । पूर्वेणैव तत्सिद्धेः। अग्रियः। अन्तोदात्त आयुदात्तश्च । अग्रीयः । लोके त्वग्रिम इत्येव । कथं तर्हि एतध्छुभं विजानी- हि ब्राह्मणाग्यस्य लक्षणमिति । छन्दोवदृषयः कुर्वन्तीति पाश्चः। वस्तुतस्तु साध्वर्थे यत् । शाखादित्वादिवार्थे य इति वा। समुद्राभ्राहः ॥ ११७ ॥ समुद्रिया अप्सरसो मनीषिणाम् । नानदतो अम्रियस्येव घोषाः। बर्हिषि दत्तम् ॥ ११८ ॥ भव इति निवृत्तम् । अर्चिशुचिहुमृपिछादिछर्दिभ्य इसिः हेर्नलोपश्च । वर्हिः कुशहुताशयोः । बर्हिष्येषु निधिषु प्रियेषु ।। दूतस्य भागकर्मणी ॥ ११९ ॥ भागोंऽशः । कर्म क्रिया । यदग्ने पासि दूत्यम् । भागे तस्येदमित्यणि प्राप्ते वचनम् । कर्मणि तु दृतवणिग्भ्यामित्यौपसं- ख्यानिके ये प्राप्ते ॥ रक्षोयातूनां हननी ॥ १२॥ षष्ठीबहुवचनम् । ताभ्यां रक्षाशब्दयातुशब्दाभ्यां हननकर- णभूतेत्यर्थे यत्स्यात् छन्दसि । योगे कर्मणि षष्ठी । याते अमे २३० शब्दकौस्तुभे। रक्षस्या तनू । यातव्या। रक्षसां यातूनां च हननीति विग्रहः । बहुवचनान्ताद्विधानं स्तुत्यर्थम् । बहूनां रक्षसां हननेन स्तुति- प्रतीतेः । नैऋतो यातुरक्षसीत्यमरः । सूत्रे विरूपाणामपीत्येकशे- षस्तु न भवति । शब्दस्वरूपपरतया भिन्नार्थत्वात् । शैषिकयो- रण्छयोरपवादोऽयं योगः। रेवतीजगतीहविष्याभ्यः प्रशस्ये ॥ १२१ ॥ आभ्यां यत्स्यात्प्रशंसने । शंसु स्तुतावित्यस्मात् कृत्य- ल्युटो बहुलमिति भावे क्यप् । तद्योगे कर्मणि षष्ठी। रयिरस्त्य- स्या रेवती । रयेमतो बहुलमिति सम्प्रसारणम् । जगच्छब्दात छत्वद्भावान्डीए । हविषे हिता हविष्या । उगवादिभ्यो यत् । तासां प्रसंशनं रेवसम् । जगत्यम् । हविष्यम् । यस्येतिलोपे कृते हलो यमा यमि लोपः। असुरस्य स्वम् ॥ १२२ ॥ अणोऽपवादः । असुर्य देवेभिर्धायि विश्वम् । मायायामण् ॥ १२३ ॥ असुरपाब्दात्षष्ठ्यन्तान्मायायामण् स्यात् । पूर्वसूत्रापवा- दः। आसुरी माया स्वधया कृतासि । तहानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः॥१२॥ मत्वन्तप्रकृतिकात्प्रथमान्तादुपधानकरणीभूतमन्त्रार्थकादा- सामिष्टकानामितीष्टकारूपे सम्बन्धिनि यत्स्यात् मतोश्च लुक् । वर्चः शब्दोऽस्मिन्निति वर्चस्वान् । चयनेजभूतो मन्त्रः । स व देवस्य त्वा सवितुः प्रसर्व इत्यादिकः । स उपधीयन्ते- नेनेत्युपधानो यासामिष्टकानां ता वर्चस्याः । वर्चस्या उपदधा- तीति हि श्रूयते । यद्यपि तस्मिन्मन्त्रे पदान्तराणि सन्ति त- ४ अध्याये ४ पादे २ आह्निकम् । थापि तत्प्रकृतिकमतुपि प्रत्ययो नापादनीयः । छन्दोधिका- रात् । तत्र हि सिद्धस्यानुशासनं न तु काव्यादिवत् अपूर्वो- स्प्रेक्षासम्भवः एवं चेह इतिशब्दादिकं स्पष्टार्थमित्यवधेयम् । एवं तेजस्याः । ऋतव्याः । अथ कथं सृष्टीरुपदधाति प्रा- गभूत उपदधातीति । सृष्ट्याः प्राणभृत्या इति हि प्रामोति । सत्यम् ।. सृष्टयादिशब्दानां तद्वन्मन्त्रोपधेयास्विष्टकासुपचा- रात्पयोगः न तु तद्धितान्तमेतदित्यवधेहि । पूर्वोत्तरमीमांस- योस्तु तद्धितपरतया प्रतीयमाना ग्रन्था भड्न्त्वानेयाः । अश्विमानण् ॥ १२५ ॥ अश्विमच्छब्दात्मागुक्तेर्थेऽण् स्याधतोपवादः मतोलक् च । इनण्यनपत्य इति प्रकृतिभावः । अश्विनीरूपदधात्ति । अश्विन्- शब्दवान्मन्त्र उपधानो यासामिष्टकानान्ता इत्यर्थः । वयस्यासु मर्नो मतुप् ॥ १२६ ॥ तद्वानासामिति सूत्रं सर्वमनुवर्त्तते । तत्र मतोरिति पदमा- वर्त्य पञ्चम्यन्ततया व्याख्यायते । मूर्धशब्दप्रकृतिको यो म- तुप् तदन्तप्रकृतिकात्मथमान्तान्मतुप् स्यात् । यतोऽपवादः । प्रकृत्यन्तर्गतस्य मतोलृक् च । वयःशब्दवन्मन्त्रोपधेयास्वि- ष्टकासु वाच्यासु । मुर्धन्वतीरूपदधाति । अनोनुडिति नुडा- गमः । वयःशब्दवन्मन्त्रोपधेयत्वाद्वयस्याशब्देन छन्दसीष्टका व्यवहृताः । ताश्च बह्वयः तास्वन्तश्चतस्रो मूर्धन्वत्वः विष्टम्भो वय इत्यादिभिर्वयस्वीमन्त्रैरुपधेयाः । तत्र यद्यपि मूर्धावयः प्र- जापतिछन्द इत्यस्मिन्नन्तिम एव मन्त्रे मूर्धन शब्दोऽस्ति तथा- पि तत्साहचर्याद्विष्टम्भोवय इत्यादयश्चत्वारोऽपि मन्त्रा मूर्द्धश- ब्दवन्त उच्यन्ते छत्रिणो गच्छन्तीतिवत् अत एव तदुपधेयेष्टकासु २३२ शब्दकौस्तुभे। मूर्धन्वतीरिति बहुवचनम् । वयस्यास्विति किम् । अग्रे यश- स्विन्यशसे समर्थय । अयं मूर्धा परमेष्टितिकेवलमूर्धशब्दक्ता अयशब्दरहितेन मन्त्रेणोपधेयाम मा भूत् । गायत्री पुरस्ता- दुपदधाति तेजो वै गायत्री। तेज एव मुखतो धत्ते । मूर्धन्वती- भवन्तीति श्रूयते । तत्र उपधानमन्त्रेष्वग्निर्मूर्धाभुवइत्यादिषु वयःशब्दाभावात्कथमस्य सूत्रस्य प्रवृत्तिरिति चेत्, अत्राह । मथममतुबन्त एवासाविष्टकास्त्रौपचारिकः सृष्टिप्राणभृदादिव- । एतावान्परं भेदः । स्टष्यादाकस्यापि मतुपो विरहाल्लक्षि- तलक्षणा हह तु लक्षणामात्रमिति । अत्रेदमवधेयम् । सूत्रे वय- स्यास्वितिप्रयोगोऽपि लाक्षणिकः । वयस्याशब्देन छन्दसि व्यव- हृताष्वित्यर्थात् । यद्वा । छन्दोवत्सूत्राणीति भाष्यकारेष्टेरय. मेव ज्ञापकः । अथवा सामान्यापेक्षं ज्ञापकम् । छान्दसा अपि कचिद्भाषायां प्रयुञ्जत इति । तेन तुरासाहं पुरांधाय । अनु. पस्थितपरिपंथिभिः पार्थिवैरित्यादि सिद्धम् । मत्वर्थे मासतन्वोः ॥ १२७ ॥ यत्स्यात् छन्दसि । नमोऽभ्रम् तदस्यस्मिन्निति नभस्यो मासः। तपस्यः । मधव्यः । ओजस्या तनुः । मासतन्योः किम् । स्वध्वरासो मधुमन्तो अग्नयः । अत्र वार्तिकद्वयम् । मासतन्यो- रनन्तरार्थे वा । लुगकारेकाररेफाश्चेति । वाशब्दश्चार्थे । मध्व- स्पिननन्तरमस्ति मधव्यो मासः । लुक् । मधुः । तपः । नमः । तपोनभसोः क्लीवत्वं छान्दसम् । अकार । इषः । ऊर्जः । इष्यमाणत्वादिद् अन्नम् । ऊर्ग बलम् । तद्वा- नित्यर्थः । इकारः। शोचनं शुक् । सास्मिन्नस्ति शुचिः । रेफः। शुक्रः । अयस्मयादित्वाजश्त्वं न ।

४ अध्याये ४ पादे २ आह्निकम् । २३३ मधोत्रं च ॥ १२६ ॥ चायत् । पक्षे औपसंख्यानिको लुक् । माधवः । मध- व्यः मधुः । तन्वो मधव्याः । माधवा तनूः । इह छन्दा धिकारे लुगादीनां विधानाद्भाषायां कथमिति चेत् । अव्यु- स्पन्ना एव तत्र नभःप्रभृतयः । यद्वा । इषऊन इत्यर्श- आधच् । शोचतरन्त वितरायर्थादौणादिक इप्रत्यये शुचिः शोचयति प्राणिन इति कृत्वा । नभःप्रभृतीनां अभेदोपचारा- न्मासे वृत्तिः । नभस्यप्रभृतयस्तु तत्र साधुरिति यदन्ताः । मधुयोगान्मासो मधुः । तस्यैव प्रज्ञादिपाठादणि माधवः । ओजसोऽहनि यत्खौ ॥ १२७ ॥ ओजःशब्दान्मत्वर्थे यत्खौ स्तः अहनि वाच्ये । ओजस्य. महः । खश्चेति तु न कृतम् । चकारेण संनिहितस्य तस्यानुकर्षः णाप्रसङ्गात् । वेशोयशआदर्भगाद्यल्खौ ॥ १२८ ॥ वेशोयशःशब्दौ आदी यस्प तादृशाद्भगशब्दान्ताद्यल् ख एतौ स्तः । वेशो बलं तदेव भग इति कर्मधारयः । भगः श्री. काममाहात्म्यवीर्ययत्नार्ककीर्तिवित्यमरः । वेशो भगोऽस्यास्तीति वेशोभग्यः । वेशोभगीनः । यशोभाग्यः। यशोभगीनः । यथा- संख्यं तु स्वरितत्वाभावान्नेति यथासंख्यसूत्रे भाष्ये स्थितम् । वृत्तिकृत्तु यल् खचेति सूत्रं व्यभजत् । पर्वः कृतमिनयौ च ॥ १२९ ॥ मत्वर्थ इति निवृत्तम् । पूर्वशब्दानृतीयाबहुवचनान्ताक ३० शब्दकौस्तुभे। तमित्यर्थे इनयौ स्तः चात्व इति वृत्तिकाराः। यल् तु नानुवर्तत इत्येतदपि हि योगविभागफलं तैरुक्तम् । यल्खावित्येकयोग इति भाष्यपक्षे तु यलप्यनुवर्तते । यदि वेदे लित्स्वरो नास्ती- त्यत्र प्रमाणमस्ति तयेकदेशानुवृत्तिरस्तु कित्त्वेतत्तत्वं सर्वशाखा- हषां महर्षीणामेव दृग्गोचरो नतु योगजधर्मरहितानामपि । गाम्भीरेभिः पथिभिः पूर्विणोभिः । यतेपन्था सचितः पू. या॑सः । पूर्वीणाः । अद्भिः संस्कृतमित्यर्थः । सहस्रेण संमितौ घः ॥ १३०॥ समित इति पाठान्तरम् । उभयथापि तुल्य इत्येवार्थः । सहस्रियासो अपां नोर्मयः । सहस्रेण तुल्या इत्यर्थः । मतौ च ॥ १३१॥ सहस्रशब्दान्मत्वर्थे घः स्यात् । तपासहस्राभ्यां विनिनी इत्यस्यापवादः । सहस्रमस्यास्ति सहस्त्रियः। सोममर्हति यः ॥ १३२॥ सोम्यो ब्राह्मणः । यज्ञाह इत्यर्थः । कथं तर्हि प्रीताऽस्मि ते सोम्य चिराय जीवेति रघुः । छन्दोधिकारात् । उच्यते । सोमः कर्पूरचन्द्रयोः । सोम इव सोम्यः । शाखादि- त्वाद्यः । सोमे साधुः तत्र साधुरिति यद्वा । सौम्ये- त्यादिवृद्धिपाठे चातुर्वर्णादित्वात्स्वार्थे ष्यम् । मये च ॥ १३३॥ सोमशब्दाद्यः स्यान्मयडर्थे । आगतविकारावयवप्रकृता मयडर्थाः । तथा च मूत्राणि । हेतुमनुष्येभ्योऽन्यतरस्यां ४ अध्याये ४ पादे २ आह्निकम् । २३५ रूप्यः । मयद् च मयड् पैतयोर्भापायामभक्ष्याछादनयोः । तत्प्रकृतवचने मयडिति । तेन यथायोगं पञ्चभीषष्ठीप्रथमाः सम. र्थविभक्तयः । सोम्यं मधु । सोममयमित्यर्थः । मधोः : ॥ १३४ ॥ य इति निवृत्तम् । मधुशब्दान्मयडर्थे यत् स्यात् । मध- व्यान् । मधुमयानित्यर्थः । वसोः समूहे च ॥ १३५॥ चान्मयडर्थे । यथायोगं समर्थविभक्तिः। वसोरितियोगवि- भागात्स्वार्थेऽपि यत् । अग्निरीशे वसव्यस्य । हस्तौ पृणस्त्र वहुभिर्वसव्यैः । पृणातिः पूरणकर्मा । अक्षरसमूढे छन्दस उपसंख्यानम् । ओश्रावयेति चतुरक्षरम् । पडिति चतुरक्षरम् । येयजामाह इति पञ्चाक्षरम् । यजेति यक्षरम् । यक्षरं वषट्कारः । एप सप्तदशाक्षरश्छन्दस्यः प्र. जापतिर्यज्ञमनुविहितः । सप्तदशाक्षरात्मकश्छन्दस्योऽक्षरसमूहः प्रजापतिः । प्रजापतिना दृष्ट इत्यर्थः । छन्दःशब्दादक्षर- समूहे वर्तमानात्स्वार्थे यत्प्रत्ययः । नक्षत्रात् घः ॥ १३६ ॥ स्वार्थे । नक्षत्रियेभ्यः स्वाहा । सर्वदेवात्तातिल ॥ १३७॥ आभ्यां तातिल स्यात्स्वार्थे छन्दसि । सविता नः सवतु सर्वतातिम् । पदक्षिणिदेवतातिमुराणः । अस्तु श्री. वै २३६ शब्दकौस्तुभे । शिवशमरिष्ठस्य करे ॥ १३८ ॥ करोतीति करः पचाद्यच् । कृयोगलक्षणा कर्मणि षष्ठीह समर्थविभक्तिः । शिवं करोति शिवतातिः । या- भिः शन्ताती भवथो ददाशुष अथो अरिष्टतातये । भाषायां शिवतातिप्रभृतीनां प्रयोगश्चिन्त्यः । भावे च ।। १३९ ॥ शिवादिभ्यो भावे तातिल स्याच्छन्दसि । शिवस्य भावः शिवतातिः । शन्तातिः । अरिष्टतातिः । यतोऽधिकारः समाप्त श्छन्दसीत्यस्य च ॥ इति पदवाक्यप्रमाणपारावारपारीणस्य श्रीलक्ष्मीधरसूरेः सूनुना भट्टोनिदीक्षितेन कृते शब्दकौस्तुभे चतुर्थस्याध्यायस्य चतुर्थे पादे प्रथममाह्निकम् ॥ पादः समाप्तोऽध्यायश्च ॥

TAK
CHOWKHAMBA SANSKRIT SERIES;
A
COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS.
NOS. 234 & 235.
शब्दकौस्तुभः।
सर्वतन्त्रस्वतन्त्रश्रीमद्भट्टोजिदीक्षितविरचितः ।
SABDAKAUSTUBHA
by
Pandit Bhattoji Dikshita.
Edited by, Pandit Vindhyeswari Prasada Dvivedin,
Librarian, Government Sanskrit College, Benares,
and
Vyakâranâchârya GANAPATI SASTRî MOKATE,
Professor Raanavira Pâtha Sala
Hindu College Benares.
VOL II
FASCICULUS I TO II
PUBLISHED & SOLD BY THE SECRETARY,
CHOWKHAMBA SANSKRIT SERIES OFFICE. BENARES.
AGENTS:-
OTTO HARRASSOWITZ, LEIPZIG:
PANDITA JYESHTHARAM MUKUNDAJI, BOMBAY:
PROBSTHAIN
& CO; BOOKSELLERS, LONDON.
Printed by Jai Krishna Das Gupta,
at the Vidya Vilas Press.
BENARES.
1917.
Registered According to Act XXV. of 1867.

No text on this page.

... ... ... ३ (११ शिवस्तोत्रावली । उत्पलदेवविरचिता । प्रमेयरत्नार्णवश श्रीक्षेमराजविरचितवृत्निसमेता(वेदान्तः)२ (२९) अनुमानचिन्तामणिव्याख्यायाः शिरोम- (१६) मीमांसाबालप्रकाशः जैमिनीयद्वादशा णिकृतदीधित्या जागदीशी टीका। १३ ऽध्यायार्थसंग्रहः श्रीभट्टनारायणात्मज- (२०) वीरमित्रोदयः । महामहोपाध्यायश्रीमित्र- भदृशदूरविरचितः । (मीमांसा) २ मिश्रविरचितः परिभाषा-संस्कारप्रका-- (१७) प्रकरणपञ्चिका प्रभाकरमतानुसारि-मी- शात्मकः । सापिण्यदीपकश्च मांसादर्शनम् । महामहोपाध्यायधीशालि- | (२१) वीरमित्रोदयः । महामहोपाध्यायधी- मित्रमिविरचितः आहिकप्रकाशः । कनाथमिश्रविरचितम् श्रीशङ्करभट्टकृतो मीमांसासारसंग्रहश्च सम्पूर्णः (मीमांसा) ३ (३२) स्मृतिसारोद्धारः विद्वद्वरविश्वम्भरत्रिपा- ठिसंकलितः। (१८) अद्वैतसिद्धिसिद्धान्तसारः । पण्डितप्रवर- श्रीसदानन्दव्यासप्रणीतस्तत्कृतव्याख्यास- (३३) वेदान्तरत्नमञ्जूषा । श्रीभगवत्पुरुषो- समाचार्यकृता । ... २ मलङ्कृतः। (वेदान्तः) (१९) कात्यायनीतसूत्रम्। महामहोपाध्याय (३४) प्रस्थानरत्नाकरः । गोस्वामिश्रीपुरुषो- त्तमजीमहाराजविरचितः... श्रीकर्काचार्यविरचितभाष्यसहितम् । १३ (३५) वेदान्तपारिजातसौरभं नाम अनमीमांसा- (२०) ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविर- भाष्यं श्रीनिम्बार्काचार्यविरचितम् । १ चितं संपूर्णम् (वेदान्तः) (२१) श्रीहर्षप्रणीतं खण्डनखण्डखाद्यम् । आ- (३६) योगदर्शनम् । परमहंसपरिव्राजकाचार्य- नारायणतीर्थविरचित-योगसिद्धान्तचन्द्रि- नन्दपूर्णविरचितया खण्डनफक्किावि- कासमाख्यया व्याख्यया संवलितम् । २ भजनाख्यया व्याख्यया विद्यासागरीति (३०) वेदान्तदर्शनम् । परमहंसपरिव्राजकाच र्य- प्रसिद्धया समेतम्। (वेदान्तः) श्रीरामानन्दसरस्वतीस्वामिकृतब्रह्माऽमृत- (२२) आख्यातचन्द्रिका श्रीभट्टमन्डविरचिता १ कर्षिणीसमाख्यव्याख्यासंघलितम् । (२३) श्रीलक्ष्मीसहस्रम् -बालबोधिनीव्याख्य- (३८) विश्वप्रकाशः । कोशः । विद्वद्वरश्रीम- याऽवतरणिकया च सहितम् । हेश्वरसूरिविरचितः । (२५) ब्रह्मसूत्रवृत्तिः मरीचिका श्रीवजनाथ- (३९) श्रीसुबोधिनी । श्रीवल्लभाचार्यविनिर्मिता भट्टकृता (वेदान्तः) २ श्रीमद्भागवतव्याख्या गोस्वामी श्रीविठ्ठल- (२५) क्रोडपत्रसंग्रहः । अत्र श्रीकालीशङ्कर नाथदीक्षितविरचितटिप्पणीसहिता। श्रीम- सिद्धान्तवागीशविरचितानि अनुमानजा ड्रागवतदशमस्कन्धजन्मप्रकर्ण श्रीसुबो- गदीश्याः प्रत्यक्षानुमानगादाधर्याः प्रत्य धिनीटिप्पण्योः-प्रकाशः गोस्वामि श्रीश्री सानुमानमाथुर्या व्युत्पत्तिवादस्य शक्ति- पुरुषोत्तमजीमहाराज विरचित ३ वादस्य मुक्तिवादस्य शब्दशक्तिप्रकाशि- (१०) वीरमित्रोदयः । महामहोपाध्यायश्रीमि- कायाः कुसुमाञ्जलेश्व क्रोडपत्राणि २ अमिश्रविरचितः पूजाप्रकाशः । ... (२६) ब्रह्मसूत्रम् , द्वैताद्वैतदर्शनम् । श्रीसुन्दरभ- (१) वेदान्तसिद्धान्तसंग्रहः । श्रुतिसिद्धा- हरचितसिद्धान्तसे तुकाऽभिधटीकासहित म्तापरनामकः । श्रीब्रह्मचारिवनमाल- श्रीदेवाचार्यप्रणीतसिद्धान्तजाहायुतम् २ मित्राविरचितः | वेदान्तकारिकावली (२०) षड्दर्शनसमुच्चयः । बौद्धनैयायिकका श्रीपुरुषोत्तमप्रसाद. शर्मकृता अध्यात्म- पिलजैनवैशेषिकजमिनीयदर्शनसंक्षेपः । सुधातरङ्गिण्याख्य टीकया सहिता । ३ मणिभद्रकृतटीकया सहितः । हरिभद्- (१२) स्वानुभवादर्शः । श्रीमत्परमहंसपरिबाज- मरिकृतः । काचार्यनारायणाश्रमशिष्यमाधवाश्रमविर (२८) शुद्धादतमार्तण्डःप्रकाशव्याख्यासहितः चितः । स्वकृतटीकाविभूषितश्च । ४ १ ... ... ४ ४ (१३) याज्ञवल्कस्मृतिः। बालम्भट्टीसमाख्यध्या- (१८) विरमित्रोदयः । लक्षणप्रकाशः। महारहो- ख्यासमलस्कृतमिताक्षरासहिता । व्य पाध्यायश्रीमित्रमिश्रविरचितः। वहाराध्यायः ११ (१५) बृहदारण्यकार्तिकसार श्रीमद्वियारण्यस्वा- (१४) गादाधरी । श्रीगदाधरभट्टाचार्यचक्रव मिविरचितः। महेश्वरतीर्थकृतयालघुसं- तिकृता । श्रीगणेशोपाध्यायविरचित ग्रहाख्यया टीकयासमलंकृतः। तत्त्वचिन्तामण्या श्रीरघुनाथतार्किकशिरो-(५०) विरमित्रोदयः । राजनीतिप्रकाशः । महा- मणिविरचितदीधित्या च गर्भिता। महोपाध्यायश्रीमित्रमिश्रविरचितः । (४५) शानदीपिका । श्रीपार्थसारथिमिश्र प्राणि- (५२)पूर्वमीमांसा अधिकरणकौमुदी। श्रीमन्म- ता। रामकृष्णविरचितयुक्तिनेहप्रपुरण्या हामहोपाध्याय पं. रामकृष्णभट्टाचार्य- ख्यव्याख्यया सहिता तर्कपादः । विरचिता परिशिष्टाधिकरणनिरूपणपूर्व- (१६) वैयाकरणसिद्धान्तलघुमञ्जूपा महामहो- के टिप्पण्या परिष्कृत पाध्याय--श्रीनागेशभट्टविरचित।। (५२) प्रसस्तपादभाष्यटीकासंग्रहः । तत्र क- श्रीमर्दुबलाचार्य-बालम्भट्टाभ्यां विर णादरहस्यम् । श्रीशंकरमिश्रविरचितम् १ चितकुञ्जिकाकलाहटीकाद्वयसंवलिता। ८ (५३) कमदीपिका । श्रीमन्महामहोपाध्याय (१७) व्याकरणसिद्धान्तसुधानिधीः । काश्मीरिककेशवभट्टविरचिता। विद्या- पर्वतीय विश्वेश्वरसूरिविरचितः । विनोदश्रीगोविन्दभट्टाचार्यकृतविवोपेन र ६ पत्रादिप्रेषणस्थानम् हरिदासगुप्ता, चौखम्बा बनारस सिटी

No text on this page.

No text on this page.

Sabdakaustubha,vol.2

Author
Sastri Mokate,ganapati Ed.
Title
Sabdakaustubha,vol.2
File name
Sabdakaustubha,vol.2
Text
OCR done
Citation
1917
Published
2010/12/11
Publisher
Chowkhamba Sanskrit Series Office,benares
Language
Sanskrit
Pages
149
Library
Central Library, Visva-bharati
Classification
Hinduism
Keywords
Sulokhadhatu
DLI number
553640
Barcode
4990010047937.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
ovM96jFp3qW
Download PDF

Sabdakaustubha,vol.2