Svi-ksri-chennai
Chitramiimaa'saa
Front matter
No text on this page.
M. Ramanatha Deakan iurar (Mayuran)
KAVYAMÂLÂ. 38.
THE
CHITRAMÎMÂMSÂ
OF
APPADIKSHITA
AND THE
CHITRAJÍMAMSA-KHANDAYA
OP
JAGANNATH PANDIT.
EDITED BY
PANDIT SIVADATTA,
AND
WÁSUDEV LAXMAN SHÁSTRÎ PANSÎKAR.
Third Edition.
PUBLISHED
DY
PÂNDURANG JAWAJÌ,
PROPRIETOR OF THE "VIR. AYA-SAGAR" Press,
BOMBAY
1926.
Price 1 Rupee
( All rights reserved by the publisher. ]
Poblisher: Pandurang Jawaji,
Nirnaya-sagar' Press,
Peinter:-Ramchandra Yesu Shedge, 26-28, Kolbhat Lane, Bombay
काव्यभाला ३८. श्रीमदप्पदीक्षितप्रणीता चित्रमीमांसा। पण्डितराजजगन्नाथविरचितं चित्रमीमांसाखण्डनं च । जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारक- केदारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, मुम्बापुरवासिपणशीकरोपाह्वलक्ष्मणशर्मात्मज- वासुदेवशर्मणा च संशोधितम् । तृतीयावृत्तिः। तच्च मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः स्वीये निर्णयसागराख्ययन्त्रालये मुद्रयित्वा प्राकाश्यं नीतम् । १९२६. मूल्यं १ रूप्यकः ।
No text on this page.
काव्यमाला। श्रीमदप्पदीक्षितप्रणीता चित्रमीमांसा। अभिवन्द्यचन्द्रशेखरमाद्यं गौरीसखं परं ज्योतिः । वितनोमि विपुलविषयां विशदार्थामर्थचित्रमीमांसाम् ।। त्रिविधं तावत्काव्यम् । ध्वनि-गुणीभूतव्यङ्ग्य-चित्रभेदात् । यत्र वाच्यातिशायि व्यङ्ग्यं स ध्वनिः । यथा- - 'स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः । वलीषु तस्याः म्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदविन्दवः ॥ अत्र तपस्यन्त्या देव्या देहोपरि निपततां प्रथमवृष्टिबिन्दूनां क्रियास्वभाव- वर्णनेन देव्या समाध्युचितावस्थानाभिव्यक्तिद्वारा चिरनिदाघतप्तदेहोपरि नि- पतनेन सुखपारवश्यसंभ्रमहेतौ प्रथमवृष्टावप्यविहता समाध्यवस्था व्यज्यते । तथा हि। 'नासाग्रन्यस्तनयनः संवृतास्यः सुनिश्चलः । ध्यायात मनसा देवमुरो विष्टभ्य चाग्रतः ।।' इति समाधिमतामवस्थानमाहुः । तत्र पक्ष्मसु स्थिता इत्यनेन नासाग्र- न्यस्तनयनतारूपमर्धनिमीलनं व्यज्यते । सर्वथोन्मीलने पक्ष्मणामूर्वाग्रत्वेन सर्वथा निमीलने तेषामधोगत्वेन च तेषु जलबिन्दूनां स्थित्यसंभवात् । प- मभ्यश्युतानां तेषामास्याप्रवेशेनाधरोष्ठे निपत्य ततश्च्युतिकथनेन संवृता- स्यत्वं व्यज्यते । ततश्चयुतानां तेषां स्तनोत्सेधनिपतनादिवर्णनेन तूरोवि- एम्भः । अलसवदवनतावस्थाने हि स्तनयोरन्तःसंकुचिताकारतया तदुत्से- धयोस्तेषां पतनं न स्यात् । कथंचित्तयोः पतित्वा वलित्रयं प्राप्तानामपि वलीषु तिर्यगेव गमनं स्यात् , न नाभिदेशप्राप्तिः। नाभौ च संवृतायां प्रवेशो न स्यात् । पक्ष्माधरादिपतनक्रमकधनेन च निश्चलत्वं व्यज्यते । मुखादि- २ काव्यमाला। चलने सति पक्ष्मपतितानां तेषामधरपयोधगदिक्रमेण पतनासंभवात् । किं चैभिरेव विशेषणैर्देव्या लोकोत्तरं सौन्दर्यमभिव्यज्यते । स्थिता इत्यनेन पक्ष्म- णामविरलतायाः क्षणमित्यनेन तेषां महणतायाः पक्ष्मपतनशिथिलवेगैरुदबि- न्दुभिस्ताडनोक्त्याधरस्यातिसौकुमार्यस्य पक्ष्माधरपंतनादिभिः शिथिलवेगानां तेषां स्तनोत्सेधे चूणीभाववर्णनेन तयोरतिकाठिन्यस्य, उरोविष्टम्भेऽपि व- लीषु तेषां स्खलनोक्या वलीनां विम्पष्टतायाः सर्वबिन्दूनां नाभावेव प्रवेश. कथनेन नाभेरतिगभीरतायाश्चाभिव्यञ्जनात् । एवं च वाच्यातिशायि व्य- गयमत्रेति ध्वनेरुदाहरणमिदम् । यथा वा- 'निःशेषच्युतचन्दनं स्तनतटं निर्मुष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा वापी नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥' अत्र वापी सातुं गतासि न तु तत्सकाशमिति वाक्यार्थे स्थिते तत्स. काशमेव रन्तुं गतासीत्यधमपदेन प्राधान्येन व्यज्यते । तथाहि । अधमत्व- मपकृष्टत्वं तच्च जात्या कर्मणा वा भवति । तत्र जात्यापकर्ष नोत्तमना- यिका नायकस्य वदति । नापि वापराधपर्यवसायिदूतीसंभोगादिहीनक- मातिरिक्तेन कर्मणा । तादृशं च दृतीसंभोगात्प्राचीनं सर्व सोढमेवेति नो- द्घाटनाहम् । अन्यथा स्वयं दूतीसंप्रेषणानुपपत्तेः । तदनन्तरं च स्वप्रेषित. दूतीसंभोगरूपमेव खयं संनिहितचिह्वातुं शक्यं हीनकर्म संभवतीति तत्पर्यवसायिनाधमपदेन तस्यान्तिकमेव रन्तुं गतासीति व्यज्यते । निःशेष. च्युत चन्दनं स्तनतटमित्यादीनि वाच्यानि संभोगचिहोद्धाटनेन तत्र साहा- यकमाचरन्ति । कथम् । निःशेषच्युतचन्दनं स्तनतटमित्यत्र तावद्वापी स्ना. तुमितो गतासीति वाच्यार्थमुपपादयितुमिहोत्तरीकर्ष(ष)णेन चन्दनच्यु- तिरित्यन्यथासिद्धिपरिहाराय निःशेषविशेषणं कृतम् । ततश्चन्दनच्युतेः १. 'अपि व्यज्यते' कच. २. 'पतनातिशिथिल' क-घ; 'पतनादिना शिथिल' ख. ३. हि दूतीसंप्रेषणादि' ख-ग. ४. 'स्वयं' क-घ-पुस्तकयो स्ति; 'स्वसंनिहित' ख. ५. 'इवोत्तरीयकर्षणेन' 'इवोत्तरीयापकर्षणेन' घ. का चित्रमीमांसा। 3 " स्नानसाधारण्यव्यावर्तनेन संभोगचिह्नोद्घाटनाय तटग्रहणम् । स्नाने हि सं. र्वत्र चन्दनच्युतिः स्यात् , तव तु स्तनयोस्तटे उपरिभाग एव दृश्यते, इय. माश्लेषतैवेति । तथा निर्मष्टरागोऽधर इत्यत्र ताम्बूलग्रहणविलम्बात्मा- चीनरागस्य किंचिन्पृष्टतेत्यन्यथासिद्धिपरिहाराय निर्मुष्टराग इति रागस्य निःशेषम॒ष्टतोक्ता । पुनः स्नानसाधारण्यव्यावर्तनेन संभोगचिह्नोद्घाटनाया- धर इति विशिष्य ग्रहणम् । उत्तरोप्ठे सरागेऽधरोष्ठमात्रस्य निर्मुष्टरागता चुम्बनकृतैवेति । नेत्रे दूरमनञ्जने इत्यत्र प्रातर्दत्तमञ्जनं कालविलम्वेन किं. चिद्विलुप्तमित्यन्यथासिद्धिपरिहाराय दूरमित्युक्तम् । दूरमत्यर्थमित्यापात- तोऽर्थः । कालतः स्नानेन वा सर्वतोऽञ्जनलोपः स्यात् , तव तु लोचनयोः कचित्प्रान्त एवानञ्जनत्वमिदं चुम्बनकृतमेवेति । पुलकिता तन्वी तवेयं तनुरित्यत्रापाततस्तन्वीति सहजतानवकीर्तनेन पुलकितेति, स्नानचिहोप- न्यासः पुलकितापि तन्वी वर्तत इति हृदि स्थितोऽन्वयः । तेन च स्नानेन पुलकिता तनुः किंचिदुच्छसिता भवति, इयं तु न तथेति रतिक्लेशजनिता- वेब तानवपुलकोद्गमाविति मर्मो द्घाटनम् । एवमेभिर्वाक्यैरुपम्कृतेनाधमपदेन तम्यान्तिकमेव रन्तुं गतासीति व्यज्यमाने , प्राग्याच्यार्थनादशायां वापी स्नातुं गतासीत्येतदनुगुणार्थतयान्वितं मिथ्यावादिनीति संबोधनमपि व्य- झ्यानुगुण एवार्थ पर्यवस्यति । ततश्च न्यग्भावितवाच्यमस्यापि व्यङ्ग्यं वाच्यातिशायीति इदमपि वनेरुदाहरणम् । यत्र व्यङ्ग्यं वाच्यानतिशायि तद्गुणीभूतव्यङ्ग्यम् । यथा- 'गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते किंत्वेवं विजनस्थयोर्हतजनः संभावयत्यन्यथा । इत्यामश्रणभङ्गिसूचितवृथावस्थानखेदालसा- माश्लिप्यन्पुलकोत्कराश्चिततनुं गोपी हरिः पातु वः ॥' अत्र गच्छाम्यच्युतेत्याद्यामन्त्रणेन त्वया रन्तुमेतावत्कालं स्थितं तन्न १. 'सर्वच्युतिः' ख ग. २. 'निर्मृष्टताका' ख. ३. मिथ्यावादिनीत्यादि' क. ४. 'वाच्यादतिशायीति' ख.
काव्यमाला। लब्धमिति व्यङ्ग्यम् । तत्तु इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसामि- त्येतद्वाच्यस्य सिद्धिं करोतीति तदङ्गत्वान्न वाच्यातिशायि । अतो गुणी- भूतव्यङ्ग्यमिदम् । यथा वा- 'प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेऽथवा. किमुत सकले याते वाह्नि प्रिय त्वमिहैष्यसि । इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सबाप्पगलज्जलैः ॥' अत्र सकलमहः परमावधिः । ततः परं प्राणान्धारयितुं न शक्नोमीति व्यङ्ग्यं प्रियगमननिवारणरूपस्य वाच्यस्य सिद्धिं करोतीति तदङ्गत्वाद्वा- च्यानतिशायि । अत इदमपि गुणीभूतव्यङ्ग्यम् । यदव्यङ्गयमपि चारु तचित्रम् । तत्रिविधम्-शब्दचित्रमर्थचित्रमुभयचित्रमिति । शब्दचित्रं यथा- 'नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुरभिं सुमनोभरैः ॥' अर्थचित्रं यथा- 'स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः । अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ॥' उभयचित्रं यथा- -- 'वराहः कल्याणं वितरतु स वः कल्पविरमे विनिर्धन्वन्नौदन्वतमुदकमुर्वीमुदवहत् । खुराघातत्रुट्यत्कुलशिखरिकूटप्रविलुठ- च्छिलाकोटिस्फोटस्फुटघटितमङ्गल्यपटहः ॥' तदेवं त्रिविधे ध्वनिगुणीभूतव्यङ्गययोरन्यत्रास्माभिः प्रपञ्चः कृतः । श- व्दचित्रस्य प्रायो नीरसत्वान्नात्यन्तं तदाद्रियन्ते कवयः, न वा तत्र विचारणी. यमतीवोपलभ्यत इति शब्दचित्रांशमपहायार्थचित्रमीमांसा प्रसन्नविस्तीर्णा प्रस्तूयते । १. 'उभयत्र' क.
चित्रमीमांसा। चिन्त्येऽत्र चित्रवर्गे प्रदर्ययोर्लक्ष्यलक्षणयोः । प्राचीनानामेव श्लोकाः प्रायेण लिख्यन्ते ॥ इति चित्रमीमांसायां ग्रन्थारम्भप्रकरणम् । उपमैका शैलूषी संप्राप्ता चित्रभूमिकाभेदान् । रञ्जयति काव्यरङ्गे नृत्यन्ती तद्विदां चेतः ।। चन्द्र इव मुखमिति सादृश्यवर्णनं तावदुपमा । सैवोक्तिभङ्गीभेदेना. नेकालंकारभावं भजते । तथा हि । 'चन्द्र इव मुखं मुग्वमिव चन्द्रः' इत्यु- पमेयोपमा । 'मुखं मुखमिव' इत्यन्वयः । 'मुखमिव चन्द्रः' इति प्रती- पम् । 'चन्द्रं दृष्ट्वा मुखं स्मरामि' इति स्मरणम् । 'मुखमेव चन्द्रः' इति रूपकम् । 'मुखचन्द्रेण तापः शाम्यति' इति परिणामः । 'किमिदं मुख- मुताहो चन्द्रः' इति संदेहः । 'चन्द्र इति चकोरास्त्वन्मुखमनुधावन्ति' इति भ्रान्तिमान् । 'चन्द्र इति चकोराः कमलमिति चञ्चरीकास्त्वन्मुखे रंज्यन्ति' इत्युल्लेखः । 'चन्द्रोऽयं न मुखम्' इत्यपह्नवः । 'नूनं चन्द्रः' इत्यु- स्प्रेक्षा । 'चन्द्रोऽयम्' इत्यतिशयोक्तिः । 'मुखेन चन्द्रकमले निर्जिते' इति तुल्ययोगिता । 'निशि चन्द्रस्त्वन्मुखं च हृष्यति' इति दीपकम् । 'त्वन्मुख एवाहं रज्यामि चन्द्र एंव चकोरो रज्यते' इति प्रतिवस्तूपमा । 'दिवि चन्द्रो भुवि त्वन्मुखम्' इति दृष्टान्तः । 'मुखं चन्द्रश्रियं बिभर्ति' इति निदर्शना । 'निष्कलङ्क मुखं चन्द्रादतिरिच्यते' इति व्यतिरेकः । त्वन्मु. खेन समं चन्द्रो निशासु हृष्यति' इति सहोक्तिः । 'मुखं नेत्राङ्करुचिरं स्मितज्योत्लोपशोभितम्' इति समासोक्तिः । 'अजेन सदृशं वक्रं हरिणा- हितसक्तिना' इति श्लेषः । 'मुखस्य पुरतश्चन्द्रो निष्प्रभः' इत्यप्रस्तुतप्रशंसा । एवमुक्तानेकालंकारविवर्तवतीयमुपमा । तदिदं चित्रं विश्वं ब्रह्मज्ञानादिवोपमाज्ञानात् । ज्ञातं भवतीत्यादौ निरूप्यते निखिलभेदसहिता सा ॥ । १. 'अनुरज्यन्ति' क. २. 'एव हि क. ३. 'शकिना' ख-ग.
काव्यमाला। अस्यास्तावदेवं लक्षणमाहुः- उपमानोपमेयत्वयोग्ययोरर्थयोर्द्वयोः । हृद्यं साधर्म्यमुपमेत्युच्यते काव्यवेदिभिः ।। कविसमयप्रसिद्ध्यनुरोधेनोपमानोपमेयत्वयोग्ययोरेव साधर्म्यमुपमा । नत्वतथाभूतयोः । अत एव 'कुमुदमिव मुखं प्रसन्नम्' इयादिनोपमा । तथा- भूतयोरपि वस्तुत्वद्रव्यत्वादिकृतमहृद्यं साधर्म्यं न तथा । किंतु हृद्यमेव कान्तिमत्त्वादिकम् । सर्वोऽपि ह्यलंकारः कविसमयप्रसिद्ध्यनुरोधेन हृद्य- तया काव्यशोभाकर एवालंकारतां भजते । अतः 'गोसदृशो गवयः' इति नोपमा । 'गौर्वाहीकः' इति न रूपकम् । 'स्थाणुर्वा पुरुषो वा' इति न संदेहः । 'इदं रजतम्' इति न भ्रान्तिमान् । 'नायं सर्पः' इति नापह्नुतिः । 'पीनो देवदत्तो दिवा न भुङ्क्ते' इति न पर्यायोक्तम् । 'पर्वतो वह्निमान्' इति नानुमानम् । 'स देवदत्तः' इति न स्मरणम् । 'तस्थस्थमिपां तांततामः' इति न यथासंख्यम् । 'पुत्रेण सहागतः पिता' इति न सहोक्तिः । तेन विना गतः' इति न विनोक्तिः । 'श्वेतो धावति' इति न श्लेषः । इत्याद्यू- हनीयम् । अत्रेदं विचार्यते-द्वयोरिति विशेषणमिह किमर्थम् । खस्य खेनैव साधर्म्यवर्णनात्मकस्यानन्वयस्य व्युदासार्थमिति चेत् , एवमप्युपमान. स्योपमेयत्वकल्पनात्मके प्रतीपे द्वयोः पर्यायेणोपमेयत्वकल्नापत्मिकायामुप. मेयोपमायां चातिव्याप्तिः । तयोः सादृश्यवर्णनसत्त्वादुपमात्वेन संग्राह्यत्वे तथैवानन्वयोऽपि संग्राह्यः स्यादिति व्यर्थं द्वयोरिति पदम् । एतेन 'साधर्म्य- मुपमा भेदे-' इति काव्यप्रकाशिकोक्त(काशोक्त)लक्षणेऽनन्वयव्युदासाय कृतं भेदग्रहणमपि प्रत्युक्तम् । नहि संभवत्साधर्म्यवर्णन एवोपमात्वम् । येन खस्य खेन साधासंभवादनन्वयस्य व्यवच्छेद्यत्वमितरयोः संग्राह्यत्वं न स्यात् । तथात्वे 'हंसीव धवला कीर्तिः खर्गङ्गामवगाहते' इत्यादौ कवि- कल्पितसाधोपमाया अनुपमात्वप्रसङ्गात् । किं च सत्यामप्युपमानोप- मेयत्वयोग्यतायां सत्यपि हृद्यत्वे लिङ्गवचनभेदादिदुष्टायामुपमायां 'हंसीव १. 'उपमानोपमेयत्व' ख ग घ. २. 'काव्यप्रकाशिकोक्त' घ. ३. 'इत्यादेः क, चित्रमीमांसा धवलश्चन्द्रः सरांसीवामलं नमः' इत्यादिरूपायामतिव्याप्तिः । उदाहरिप्य- माणे चोपमाध्वनावतिव्याप्तिः । न हि सोऽप्यलंकारः । अलंकार्यत्वात्, ब्राह्मणश्रमणन्यायेन तत्रालंकारध्वनिव्यपदेश इति सिद्धान्तात् । यदि च दुष्टादुष्टालंकार्यालंकारसाधारणोपमासामान्यलक्षणमिति नोक्तातिव्या- प्तिस्तदोपमानोपमेयत्वयोग्ययोरिति हृद्यमिति च व्यर्थम् । कविसमयप्रसि- ध्यभावादिदुष्टोपमाया अपि संग्राह्यत्वात् । यत्तु विद्यानाथेन लक्षणमुक्तम्- 'स्वतःसिद्धेन भिन्नेन संमतेन च धर्मतः । साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकदोपमा ॥' इति । अत्र स्वतःसिद्धेनेत्युत्प्रेक्षाव्यावृत्तिः । तत्रोपमानस्य कविकल्पितत्वेन लोकसिद्धत्वाभावात् । भिन्नेनेत्यनन्वयव्यावृत्तिः । संमतेनेति सर्वविधदुष्टो- पमाव्यावृत्तिः । कविसमयप्रसिद्ध्यभावेन लिङ्गवचनभेदादिना वा यद्यदसं- मतं तस्य सर्वस्यापि संमतपदेन व्यावर्तनात् । धर्मत इति श्लेषव्यावृत्तिः । श्लेषे हि 'सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव ।' इत्यादौ श- ब्दसाम्यमात्रमिवशब्देनोच्यते न गुणक्रियारूपधर्मसाम्यम् । अन्येन वर्ण्य- स्येत्यनेन प्रतीपव्यावृत्तिः । तत्र वयेन प्रकृतेन संहाप्रकृतस्य सादृश्यवर्ण- नात् । एकदेत्यनेनोपमेयोपमाव्यावृत्तिः । वाच्यमित्यनेन व्यङ्गयोपमाव्या वृत्तिः' इति । तत्रोत्प्रेक्षाव्यावृत्तये खतःसिद्धेनेत्युक्तमयुक्तम् । उत्प्रेक्षा यामिवकारस्य विषयविषयिणोस्तादात्म्यादिसंभावनावाचकत्वेन तत्र साम्य- स्यावाच्यतया तत एव तयावृत्तेः । उक्तं हि चक्रवर्तिना- 'यदायमुपमानांशो लोकतः सिद्धिमृच्छति । तदोपमैव येनेवशब्दः साधर्म्यसूचकः ।। यदा पुनरयं लोकादसिद्धः कविकल्पितः । तदोत्प्रेक्षैव येनेवशब्दः संभावनापरः ॥' इति । दृष्टं च लोके संभावनापरत्वमिवशब्दस्य । 'दूरे तिष्ठन्देवदत्त इव भाति' इति । कथं च स्वतःसिद्धेनेत्यनेनोत्प्रेक्षाव्यावृत्तिः । १. 'ध्वमित्व' ख; 'ध्वनित्वेन' ग. २. 'इति' ख-ग-पुस्तकयो स्त्रि ३. 'सिद्धित्वा' क; 'प्रसिद्धत्वा 'ग. ४. 'अन्यस्य सादृश्य ख-ग. - ८ . . भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥ One काव्यमाला। 'न नित्यमस्मिन्परिपूर्णतेति त्यक्त्वा नभः क्षोणितलावतीणेः । आनन्दयन्निन्दुरिव स्वधाम्ना विभाति लोके नवकाकतीन्द्रः ॥' इति तदीयोत्प्रेक्षोदाहरण एवोपमानस्य खतःसिद्धत्वात् । इन्दुः क्षोणि- तलावतीर्णत्वाकारेण कविकल्पित इति चेत्तर्हि, 'चन्द्रबिम्बादिव विषं चन्दनादिव चानलः । परुषा वागितो वक्रादित्यसंभावितोपमा ॥' इत्युक्तायामसंभावितोपमायामव्याप्तिः । विषानलयोः स्वतःसिद्धत्वेऽपि चन्द्रचन्दनप्रभवत्वेन कविकल्पितत्वात् । 'उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥' इति कविकल्पितोपमानायामुपमायां सर्वथैवाव्याप्तिः । भिन्नेनेत्यनन्वय. व्यावृत्त्यर्थमुपात्तमप्ययुक्तम् । 'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥' इत्यस्यामुपपादकोपमायामव्याप्तेः । तत्रोपमेयदोषगुणसामान्यान्तर्गतानाk- पमानानां दोषगुणविशेषाणां कलङ्ककिरणानां तद्भिन्नत्वाभावात् । अथो- पमेयतावच्छेदकभिन्नोपमानतावच्छेदकावच्छिन्नत्वमुपमानस्य तद्भिन्नत्वमेत- दपि न युक्तम् । (sure) (As on has अनवरतकनकवितरणधृतजललवकरतरङ्गितार्थिततः । ३८.५ ८२००८-२ भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला ।' इति रशनोपमायामव्याप्तेः । मतित्वाद्युपमानतावच्छेदकासमुपमेयताव- च्छेदकभिन्नत्वाभावात् । उपमेयोपमायामुपमानतावच्छेदकयोईयोरपि तद्भि- नत्वाभावेनोक्तविशेषणेनैव तव्यावृत्तिसिद्ध्या एकदेत्यस्य वैयपत्तेश्च । 'रजोभिः स्यन्दनोजूतैर्गजैश्च घनसंनिमः । १. 'वतीर्णस्वेन' क; 'वतीर्णत्वात्' ख. २. 'इत्युक्तरूपायो' ख-ग... 'गुणदोष'क. ४. 'उपात्तानां' क. ५. 'मिन्ने उप' ख. ६. 'पच्छेदकधर्मावच्छिमावक ~ MAT) चित्रमीमांसा। ९ इत्युपमेयोपमाप्रकरणोदाहरिष्यमाणपरस्परोपमायामव्याप्तेश्च । अथ खो- पमेयतावच्छेदकभिन्नधर्मावच्छिन्नत्वमुपमानस्य तद्भिन्नत्वमिति' विवक्षितमि- दमपि न सम्यक् । 'उपाददे तस्य सहस्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् । से तहुकूलादविदूरमौलिर्बभौ पैंतद्गङ्ग इवोत्तमाङ्गे ॥' 'द्वारं द्वारमटन्भिक्षुः शिक्षत्येवं न याचते । अदत्त्वा मादृशो मा भूर्दत्त्वा त्वं त्वादृशो भव ॥' इत्याद्यभिन्नधर्मिकोपमास्वव्याप्तेश्च । तत्र परमेश्वरत्वादेः खोपमेयताव- च्छेदकस्यैवोपमानतावच्छेदकत्वात् । श्लेषव्यावृत्त्यर्थं धर्मत इति विशेषण- मप्ययुक्तम् । तत्र न शब्दसाम्यमात्रमिवेनोच्यते किं तु गुणसाम्यमपीति तंदव्यावृत्तेः । ननु पुरे सकलकलत्वं कलकलशब्दसाहित्यं सुधांशुबिम्बे कलासाकल्यमिति, नैकोऽनुगतो गुणो लभ्यते । मैवम् । श्लेषभित्तिका- भेदाध्यवसायमूलया भेदेऽभेद इत्येवंरूपयातिशयोक्त्या धर्मसाधारण्यला- भात् । नापमानोपमेययोरेनुगत्या धर्मस्य मुख्यसाधारण्य एवोपमालंकारः । 'पाण्ड्योऽयमंसार्पितलम्बहारः कुप्ताङ्गरागो नवचन्दनेन । आभाति बालातपरक्तसानुः सनिझरोद्गार इवाद्विराजः ॥' इत्यादौ हरिचन्दनबालातपहारनिझरादीनां बिम्बप्रतिबिम्बभावेन निर्दि- प्टानामपि साधारणधर्मत्वाङ्गीकारात् । ननु सकलकलमित्यादावपि गुण- साम्यं चेदुपमैव स्यादिति चेत् . शब्दसाम्यमानं चेदपि किमित्युपमा न स्यात् । नहि शब्दान्यगुणादिसाम्यमेवोपमाप्रयोजकं न शब्दासाम शब्दासान्य मिति कुलधर्मः । 'यथा प्रह्लादनाचन्द्रः प्रतापात्तपनो यथा । तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥' १. 'इत्यनेन' ख-ग. २. 'अतढुकूलादवि' ख-ग. ३. 'वहन्गाङ्गमिव प्रवाहम्' क; 'पतद्गाङ्ग' ख-ग. ४. द्वारमित्यादिपूर्वार्धं क-घ-पुस्तकयो स्ति. ५. 'न तद्यावृत्तिः' काघ. ६. श्लेषनिमित्तक' क-घ. ७. 'उभेदे भेदः' ख. ८. 'पमेयानुगत्या' क. ९. 'अनुगतधर्मस्य' घ. १०. 'ननु' खंग-पुस्तकयो स्ति. ११. 'चेत्तदपि' घ. २चि० १० काव्यमाला। 3 इत्यत्रानुगतार्थनामरूपशब्दसाम्येऽप्युपमादर्शनात् । किं तु, श्लेषस्यालं. कारान्तरविविक्तविषयाभावेन निरवकाशतया बलवत्त्वेनालंकारान्तरबाधक- त्वादुपमाप्रतिभानेऽपि तत्प्रतिभोत्पत्तिहेतुः श्लेष एव. नोपमेति मङ्खकादि- भिरभ्युपेयते । ततश्च यथा शब्दसाम्यमाश्रित्योपमाप्रतिभाने तबाधकत्वं श्लेषस्य तथा श्लेषभित्तिकाभेदाध्यवसायलब्धाभेदगुणसाम्यमात्रमाश्रित्यो- पमाप्रतिभानेऽपि तद्वक्तुं शक्यमिति तदनुरोधेन न तत्र गुणसाम्यपरि- त्यागः । यत्तु रुद्रटेन-सकलकलमित्यादावुपमा समर्थयमानेन, 'स्फुटमर्थालंकारावेतावुपमासमुच्चयौ किं तु । आश्रित्य शब्दमानं सामान्यमिहापि संभवतः ॥' इति शब्दसाम्यमात्रमिहोक्तम् , तदन्ततः शब्दसाम्यमात्रमाश्रित्याप्यु- पमा समर्थयितुं शक्येति भावेन, न त्वभेदाध्यवसायेनापि गुणसाम्यं न संभवतीति भावेन,, श्लिष्टविशेषणेप्वप्यभेदाध्यवसायेनैक्यस्यालंकारान्तरेषु सर्वैरपि समाश्रयणात् । तस्माद्धर्मत इत्यनेन न श्लेषो व्यावर्तयितुं शक्यते । वस्तुतस्तु सकलकलमित्यादावुपमैवेति व्यर्थ धर्मत इति विशेषणम् । अलं. कारान्तरविविक्तस्तु श्लेषस्य विषयस्तत्प्रकरणे दर्शयिष्यते । किं च विवि. क्तविषयाभावेनालंकारान्तरबाधकत्वमिति वाचोयुक्तिरप्ययुक्ता । विषय- सद्भावमात्रेण निरवकाशत्वहानेविविक्तविषयानपेक्षणात् । नह्ययमलंकार- गोचरो लोकन्यायो, यद्विविक्तविषयो वक्तव्य इति । अरन्ध्ररत्नानां सुवर्ण- विविक्तविषयाभावेऽपि सुवर्णाश्रितानामेव चारुताहेतुत्वेनालंकारान्तरत्वव्य- वस्थितेः । अन्यथा निरवकाशैररन्ध्रप्रत्युप्तरत्नैः सावकाशस्य तदाश्रयसु. वर्णस्यालंकारता बाध्येत । नाप्ययं वाक्यविसंमतः शास्त्रीयन्यायः, पदे जुहोतीत्यादीनामिवोत्तरार्धे जुहोतीत्यादीनामाहवनीयशास्त्रादिविविक्तविष- याभावेऽपि सविषयत्वमात्रेण प्रतिष्ठितत्वात् । नाप्यसाधारण्येनैतच्छास्त्र- न्यायः । सहोक्त्यादीनामतिशयोक्त्यादिविविक्तविषयाभावेऽपि तदबाधे. १. 'इत्यर्थानुगतार्थ' ख-ग. २. 'मलकादिः' क-ख-ग. ३. निमित्तिक' क-घ. ४. 'न तदनुरोधेन तत्र' क-घ. ५. 'शक्यत इति' क. ६. 'श्लेषविषयः' ख-ग.
चित्रमीमांसा। ११ नालंकारान्तरत्वव्यवहारादविरोध इहाप्यविशिष्टः। तस्मादत्रोपमाप्रतिभो- त्पत्तिहेतुः श्लेषालंकार इत्ययुक्तम् । प्रत्युतोपमैवात्र श्लेषप्रतिभोत्पत्तिहेतुः । नहि पुरवर्णनप्रकरणे सकलकलमिति तद्विशेषणपदस्य सुधांशुबिम्बमिवे- त्युपमाया अनिबन्धने कलासाकल्यलक्षणार्थान्तरप्रतिभा संभवति । प्रतीप- व्यावृत्त्यर्थमन्येन वर्ण्यस्य साम्यमित्युक्तं तत्रान्येनेत्ययुक्तम् । अनेनेत्यस्य भिन्नविशेषणेन पौनरुक्त्यात् । किं च वात्प्रकृतादन्येनाप्रकृतेनेति यद्यर्थस्तदा 'इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु । रजांसि समरोत्थानि तच्छोणितनदीप्विव ।' इति समुच्चितोपमायामव्याप्तिः । तत्र समराङ्गत्वेन रजसां शोणितेषु पतनस्यापि वर्ण्यत्वात् । यदि तु स्वयं वयेनावयेन वा कुतश्चिद्वादन्ये- नेत्यर्थः । तदाप्युत्कृष्टगुणत्वादुपमानभावमप्यसहमानस्योपमानत्वकल्पनरूपे प्रतीपेऽतिव्याप्तिः । यथा- 'अहमेव गुरुः सुदारुणानामिति हालहल तीत मा स्म दृप्यः । ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥' अत्र हि वर्णानां दुर्जनवचसां हालाहलेनातिप्रकृष्टदोषत्वादुपमानभा- वमप्यसहमानेन साम्यनिबन्धनं प्रतीपम् । अत्र वर्ण्यस्येत्यप्ययुक्तम् । 'त्व- कीर्तेः पुरतो भाति ज्योत्स्ना ध्वान्तमलीमसा' इत्यप्रस्तुतप्रशंसासंकीर्णोपमा- यामव्याप्तेः । तत्र कीर्ते रेव वर्ण्यत्वेन ज्योत्स्नाया अवर्ण्यत्वात् । अपि च 'अन्येन वर्ण्यस्य साम्यं वाच्यम्' इति कोऽर्थः । किमन्यप्रतियोगिकत्वेन वर्ण्यगतं साम्यं वाच्यमिति, किं वा यथाकथंचिद्वावर्योभयनिरूपितं साम्यं वाच्यम् । अथवा वर्णानुपयोगिकत्वेन साम्यं वाच्यमिति । आये 'सरसिजमिदमाननं च तस्याः सममिति चेतसि संमदं विधत्त' इत्युभयवि- श्रान्तसादृश्योपमायामव्याप्तिः । द्वितीये प्रसिद्धप्रतीपेऽप्यतिव्याप्तिस्तद- वस्था । एवं तृतीये वर्ण्यस्य साम्यमित्येतावता विवक्षितार्थलाभादन्येनेत्यस्य १. 'प्रतिभाहेतुः' ख-ग. २. 'उक्तमयुक्तम्' क-घ. ३. 'मा स तातक घ.
१२ काव्यमाला। वैयर्थ्यम् । उपमेयोपमाव्यावृत्त्यर्थमेकदेति विशेषणमप्ययुक्तम् । तेन 'ख- मिव जलं जलमिव खं' इत्यादौ पर्यायेण प्रवृत्तायामुपमेयोपमायामतिव्या- प्तिनिरासेऽपि : 'तद्वल्गुना युगपदुन्मिषितेन ताव-: त्सद्यः परस्परतुलामधिरोहतां द्वे । प्रस्पन्दमानपरुषेतरतारमन्त- श्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥ इति युगपत्प्रवृत्तायां तस्यामतिव्यात्यनिरासात् । अपि चैवम् , 'ज्योत्स्लेव नयनानन्दः सुरेव मदकारणम् । प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी ॥' इति भिन्नसाधारणधर्मायां मालोपमायामव्याप्तिः । तत्रानेकदा साम्य- प्रतिपादनात् । न च बहूपमामेलनमेव मालोपमा नैका, तासु च प्रत्येक लक्षणमस्त्येवेति वाच्यम् । तथा सत्युपमेयोपमाप्युपमाप्रतीपमेलनमेवेति तघ्यावृत्त्यर्थ विशेषणान्तरकरणायोगात् । संसृष्टिसंकरात्पृथग्रन्थकृतां लेखनमुभयत्रापि तुल्यम् । एवमुपमेयोपमाप्रकरणे उदाहरिष्यमाणायां 'रजोभिः स्यन्दनोद्भूतैः' इति परस्परोपमायामव्याप्तिः । व्यङ्गयोपमाव्यावृ- त्यर्थ वाच्यमित्युक्तमप्ययुक्तम् । 'न पद्मं मुखमेवेदं न भृङ्गौ चक्षुषी इमे । इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमैव सा ॥' इत्युक्तरूपायां तत्त्वाख्यानोपमायां साम्यस्यावाच्यत्वेनाव्याप्त्यापत्तेः । 'त्वदाननमधीराक्षमाविर्दशनदीधिति । भ्रमद्भुङ्गमिवालक्ष्यकेसरं भाति पङ्कजम् ॥' इत्यादौ विशिष्टोपमाद्याक्षिप्तविशेषणाद्युपमायामव्याप्त्यापत्तेश्च । 'शस्त्री श्यामा' इत्यादिवाचकलुप्तोपमायां 'चन्द्रसुहृन्मुखम्' इत्यादिसाम्यलक्षकप- दवदुपमायां चाव्यात्यापत्तेश्च । किं च वाच्यमित्यत्र विधेयतया वाच्यतो. च्यते अनुवाद्यतया वा । आये
चित्रमीमांसा।
'स कर्षन्महतीं सेनां पूर्वसागरगामिनीम् ।
बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः ॥'
इत्यादावेवेदं लक्षणं स्यात् ।
'स ययौ प्रथमं प्राची तुल्यः प्राचीनबर्हिषा ।
अहिताननिलोद्भूतैस्तर्जयन्निव केतुभिः ॥
इत्यादौ न स्यात् । द्वितीये यत्र व्यतिरेकालंकारे साम्यस्य निषेधायानु-
वाद्यता 'मुखेन निष्कलङ्केन न समस्तव चन्द्रमाः' इत्यादौ, तत्रापीदं लक्षणं
स्यात् । न च निषेधाप्रतियोगित्वेन वाच्यमिति विशेषणीयम् ।
'असिमात्रसहायोऽपि प्रभूतारिपराभवे ।
नैवान्यतुच्छजनवत्सगर्वोऽयं महाद्युतिः ॥'
इति व्यतिरेके तथाप्यतिव्याप्तेः । न च निषेधप्रतियोगिकोट्यननुप्रविष्टतया
वाच्यमिति विशेषणीयम् ।
'वृथा चरसि किं भृङ्ग तत्र तत्र वनान्तरे ।
मालत्याः सदृशीं कापि भ्रमन्नपि न लप्स्यसे ॥' .
इत्युपमानलुप्तायामव्याप्तेः । तत्र सदृशलाभनिषेधे साम्यस्यापि प्रति-
योगिकोटिनिविष्टत्वात् । तस्माद्विद्यानाथोक्तलक्षणमप्ययुक्तम् ।
यत्तु सरस्वतीकण्ठाभरणोक्तं लक्षणम्-
'प्रसिद्धरनुरोधेन यः परस्परमर्थयोः ।
भूयोऽवयवसामान्ययोगः सेहोपमा मता ॥'
इति । तदपि गुणक्रियादीनां परस्परसादृश्यवर्णनात्मिकायाम्-
'सस रश्वक्षुण्णानामेलानामुत्पतिष्णवः ।
तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः ॥'
इत्याधुपमायामव्याप्तम् ।
'उद्गर्भहूणतरुणीरमणोपमर्द
भनोन्नतस्तननिवेशनिभं हिमांशोः ।
१. 'महाधृतिः' क. २. 'अपि व्याप्तः' ग.
.
१४ काव्यमाला। - बिम्बं कठोरविसकाण्डकडारमेत- द्विष्णोः पदं प्रथममप्रकरैर्व्यनक्ति । 'सद्यो मुण्डितमत्तहूणचिबुकप्रस्पर्धि नारङ्गकम्' इत्यादौ प्रसिद्धिरहि- तोपमानायां कल्पितोपमायां चाव्याप्तम् । यत्त्वलंकारसर्वस्वकृतोक्तम् - "उपमानोपमेययोः साधर्म्य भेदाभेदतु. त्यत्वे वोपमा । साधर्म्य त्रयः प्रकाराः । भेदप्राधान्यं दीपकतुत्ययोगिता दृष्टान्तप्रतिवस्तूपमासहोक्तिव्यतिरेकादिषु । अभेदप्राधान्यं रूपकपारेणाम- भ्रान्तिमदुल्लेखादिषु । द्वयोस्तुल्यत्वं यथास्यामुपमायाम् । अत्र ह्युपमानो- पमेयासाधारणरूपाभ्यां भेदः साधारणधर्मेणाभेदश्चेति द्वयोरपि तुल्यतैव" इति तदप्युपमानोपमेयातिव्यात्यादिदुष्टमिति स्पष्टमेव । तस्माद्दुर्वचमस्या लक्षणमिति । अत्रोच्यते- 'व्यापार उपमानाख्यो भवेद्यदि विवक्षितः । क्रियानिष्पत्तिपर्यन्तमुपमालंकृतिस्तु सा ॥' उपमानव्यापार उपमितिक्रियानिप्पादको व्यापारः सादृश्यवर्णना । सोऽयमुपमितिक्रियानिष्पत्तिपर्यन्तं विवक्षिता चेदुपमालंकार इत्यर्थः । तथा च व्यतिरेके नातिव्याप्तिः । तत्र सादृश्यवर्णनासत्त्वेऽपि 'मुखेन निष्कल- केन' इत्यादौ साक्षात्तस्यैव निषेधेन, 'नैवान्यतुच्छजनवत्' इत्यादौ तत्प्र- योजकधर्मनिषेधेन चोपमितिक्रियाया अनिष्पत्तेः । नाप्यनन्वयेऽति- व्याप्तिः । तत्रापि खेन खस्य सादृश्यस्य सदृशान्तरव्यवच्छेदे रुद्ररोदन- वपोत्खननाद्यर्थवादेऽसदर्थस्य निन्दास्तुत्योरिव द्वारमात्रतया वर्ण्यमानत्वे- नोपमितिक्रियाया अनिष्पत्तेः । अन्यथा खस्य खेनोपमितिक्रियानिप्पत्तौ सदृशान्तरव्यवच्छेदेऽपि सर्वथानुपमत्वद्योतनं फलं न स्यात् । आहुश्च तस्य तदेव फलं भामहादयः- 'यत्र तेनैव तस्य स्यादुपमानोपमेयता । असादृश्यविवक्षातो वदन्ति तमनन्वयम् ॥' इति । अत एव वर्ण्यमानमपि खस्य खभिन्साधर्म्य नान्वेतीत्यनन्वयपदव्यु- - चित्रमीमांसा। त्पत्तिमलंकारसर्वस्वकारादयो वदन्ति । ततश्च यथाम्भसि कतकरजःसंयो- जनेन रजोन्तरव्यवच्छेदे सति कतकरजसोऽपि विलयनात्सर्वथानाविलमम्भः सिध्यति तथा 'रामरावणयोयुद्धं रामरावणयोरिव' इत्यादौ खेन सादृश्य- वर्णनया सदृशान्तर अवच्छेदे सति वस्तुतः खेनाप्युपमाया असंभवादनु- पमं रामरावणयोर्युद्धमित्यत्रैव कविसंरम्भ इत्युपमितिक्रियाया अनिष्पत्ते- र्नानन्वयेऽतिव्याप्तिशङ्कावकाशः । एवं प्रतीपेऽपि यत्रोपमित्यनिप्पत्तिः, 'आकर्णय सरोजाक्षि वचनीयमिदं भुवि । शशाङ्कस्तव वक्रेण पीपरैरुपमीयते ॥" इत्यादौ न तत्रातिव्याप्तिशङ्का । उपमितिक्रियानिष्पत्तिविरहात् । 'गर्वमसंवाद्यमिमं लोचनयुगलेन किं वहसि भद्रे । सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ।' इत्यादि प्रतीपमुपमेयोपमा चेत्युभयमपि संग्राह्यमेवेति न तद्व्यापनं लक्षणस्य दोषः । तथा ह्युदाहृतं प्रतीपं तावदुपमाविशेष एव । सादृश्य- वर्णनस्य प्रकृतविषयत्व इवाप्रकृतविषयत्वेऽपि स्मृतिरूपसंदेहभ्रान्त्यने- कधाग्रहणापहवसंभावनासंभवद्वस्तुसंबन्धनिबन्धननिर्दिष्टसमर्थनादीनामिवा- लंकारान्तरत्वायोगात् । अन्यथा तेषामपि प्रकृतविषयत्व एव स्मरणरूपकसंदे. हभ्रान्तिमदुल्लेखापढुत्युत्प्रेक्षानिदर्शनार्थान्तरन्यासाद्यलंकारत्वम् । अप्रकृतवि- पयत्वेऽपि चाललंकास्त्वमिति कल्पनाप्रसङ्गात् । स्मृत्यादयश्च प्रकृतविषया इवाप्रकृतविषया अप्यलंकारभूतास्तत्र तत्रोदाहरिष्यन्ते । न चोपमायामयं नियमो यदप्रकृतेन प्रकृतसादृश्यवर्णनात्मनैव तया भाव्यमिति । समुच्चयो- पमायुदाहरणेषु प्रकृतयोरेवाप्रकृतयोरेव वा सादृश्यवर्णनस्याप्युपमात्वाङ्गी- कारात् । तद्वप्रकृतेनाप्रकृतस्य सादृश्यवर्णनमप्युपमैवेति युक्तम् । एवं चो. पमेयोपमापि प्रकृताप्रकृतविषयोपमाद्वयरूपतया नालंकारान्तरतां भजते । अन्यथा तत्प्रकरणोदाहरिष्यमाणपरस्परोपमाया अप्यलंकारान्तरत्वप्रसङ्गात् । परस्परभ्रमनिबन्धनादिष्वप्यलंकारान्तरतापत्तेश्च । न चानन्वयप्रतीपोपमे- १. 'नातिव्याप्ति' ख-ग. २. 'प्रकृतांप्रकृतविषयत्वे' क.
१६ काव्यमाला। योपमासु सादृश्यवर्णनस्य पृथनिरूपणस्य चाविशिष्टत्वेनानन्वयस्यानुपमा- त्वमितरयोरुपमात्वं च वक्तुमयुक्तमिति वाच्यम् । यत्रोपमितिक्रियानिष्प- त्तिस्तत्रोपमाशब्दप्रवृत्तिनिमित्तसद्भावेन, यत्र तदनिष्पत्तिस्तत्र तदभावेन च वैषम्यस्य स्फुटत्वात् । इममेव विशेषमभिप्रेत्य काव्यप्रकाशिकादिलक्षणे- प्वनन्वयव्युदासार्थमेव यत्नः कृतो नोपमेयोपमादिव्युदासार्थम् । उपमेयो- पमादेरुपमान्तर्गतत्वेऽपि व्यङ्ग्यादिकृतवैचित्र्यविशेषेण पृथग्गणनं न विरु- ध्यते । रूपकपरिणामवत् । 'उभौ यदि व्योम्नि पृथक्प्रवाहो' इत्यादी लक्षणाभावो न दोषः । यदि तथाभूतौ प्रवाहौ स्यातां तर्षुपमीयेत । न च तो संभवतः । तस्मान्न केनाप्युपमीयत इत्युपमापरपर्यायोऽयमित्यनिष्प- त्तावप्युपमात्वखीकारे तत्रोपमाशब्दस्य पारिभाषिकत्वापत्तेः । किंतु तत्रा- तिशयोक्तिविशेषोऽलंकारः । अत एव काव्यप्रकाशिकायां 'प्रस्तुतस्य यद- न्यत्वं यद्यर्थोक्तौ च कल्पनम्' इत्यतिशयोक्तिषु, परिगणय्य यद्योक्तौ कल्पनस्य या आपकी . i Hin thi 'राकायामकलकं चेदमृतांशोर्भवेद्वपुः । तस्या मुखं तदा साम्यपराभवमवाप्नुयात् ॥' इत्युदाहृतम् । 'पुप्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्या ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥' इति तु कविकल्पितोपमानाया उत्पाद्योपमेति व्यवहृताया उदाहर- णम् । तत्र यद्युत्पाद्यस्योपमानस्य संभाविततया तेनोपमितिनिप्पत्तेर्लक्षणम- स्त्येवेति नाव्याप्तिः । न चैवं 'चन्द्रबिम्बादिव विष' इत्यसंभावितोपमाया- मव्याप्तिः। तत्रासंभावितेनैवोपमानेनोपमितिक्रियानिष्पत्तेः । कविना वि. वक्षितत्वेन विवक्षा नुसार्युपमितिक्रियानिप्पत्तिसद्भावात् । नहि 'वस्तुसदा- निबन्धनोपमितिक्रियानिप्पत्तिरुपमा' इति लक्षणमुच्यते किं तु कविविवक्षा- निबन्धना । अत एव श्लोके विवक्षित इति विशेषणमर्थवत् । अन्यथा 144 १. 'इत्यत्र' ग-घ. २. 'संभवात्' क.
चित्रमीमांसा। १७ 'चन्द्र इव मुखम्' इत्यादावपि लक्षणं न स्यात् । चन्द्रगतकान्त्यतिशयस्य वस्तुतो मुखेऽभावेन विवक्षानुसरणं विना गत्यभावात् । 'चन्द्रधवला कीर्तिः' इत्यादौ च सर्वथैव लक्षणं न स्यात् । कीर्ती धावल्यस्य लेशतोऽप्यभावात् । न चैवमनन्वयेऽपि कविविवक्षया खस्य खेनोपमितिक्रियानिष्पत्तिः संभ- वतीति वाच्यम् । सर्वथैवानुपमत्वद्योतने कविसंरम्भे सति तथा विवक्षानुद- यात् । 'वृथा चरसि किं भृङ्ग' इत्यादौ सादृश्याधिकरणस्यानुपलम्भोक्त्यो- पलभ्यमानेषु सादृश्यनिषेधपर्यवसानेऽप्यनुपलभ्यमानगतसादृश्याभ्यनुज्ञाना- तत्रोपमितिक्रियानिप्पत्तिरस्तीति नाव्याप्तिः । अत एव तस्य विशिष्यानु- पादानादुपमानलप्तता । एवम् 'निरूप्यमाणं कविना सादृश्यं वात्मनो न चेत् । प्रतिषेधमुपादाय पर्यवस्यति सोपमा ॥' इत्यपि लक्षणमनुसंधेयम् । उपमितिक्रियानिष्पत्तिमत्सादृश्यवर्णनमुपमा । खनिषेधापर्यवसायि सादृश्यवर्णनमुपमा । इति द्विविधमप्येतदुपमासामान्यलक्षणम् । अलंकारभूतोपमालक्षणं त्वे- तदेवादुष्टाव्यङ्ग्यत्वविशेषितम् । विशिष्टोपमादिस्थले विशेषणाद्युपमानां वाच्यभूतविशिष्टोपमादिसियङ्गत्वात् । वाच्यसिद्ध्यङ्गरूपगुणीभूतव्यङ्ग्यत- यैव तासां नालंकारतेति न तदव्यापनं दोषः । 'न पद्मं मुखमेवेदं' इत्यादौ नोपमालंकारः । किं तु प्रतिषेधाक्षिप्तप्रसक्तितया भ्रान्तिमान् , तदुपपादक- तयोपमा चेत्युभयं व्यङ्ग्यम् । तथापि भ्रान्तिमदादिकमपि साधर्म्यमूलत्वमा- त्रणोपमामध्ये परिगणयता दण्डिना तत्त्वाख्यानोपमेत्येतादृशव्यवहारः कृतः परमिति न तत्राप्यव्याप्तिर्दोष इति दिक् । सा चेयमुपमा द्विविधा पूर्णा लुप्ता च । उपमानोपमेयसाधारणधर्मोपमावाचकानां चतुर्णामुपादाने पूर्णा । तेषामेकस्य द्वयोस्त्रयाणां वा लोपे सति लुप्ता । १. 'सिद्ध्यर्थखात्' क.
१८ काव्यमाला। पूर्णायां क्वचित्साधारणधर्मस्यानुगामितया निर्देशः । क्वचिद्वस्तुप्रति- वस्तुभावेन । कचिद्विम्बप्रतिबिम्बभावेन । कचिच्छेषेण । क्वचिदुपचारेण । क्वचित्समासान्तराश्रयेण । क्वचिदेषां यथासंभवं मिश्रणेन । लुप्तायां तु नैवं भेदाः । तस्यां साधारणधर्मस्यानुगामित्वनियमात् । किं तु प्रकारान्तरेण भेदा वक्ष्यन्ते । तत्र पूर्णायां धर्मस्यानुगामिता यथा- 'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ।' औत्पत्तिकस्तु शब्दस्यार्थेन संबन्ध इति वागर्थयोर्नित्यसंबन्धित्वं प्रसि- द्धम् । उमामहेश्वरयोरप्यनयो पृथग्भावः चन्द्रचन्द्रिकयोरिवेति तत्प्रसिद्धम् । तथा च नित्यसंबन्धित्वरूपोऽत्र साधारणधर्मोऽनुगामितया निर्दिष्टः । यद्यप्युमामहेश्वरयोर्वागर्थवन्नित्यसंबन्धित्ववर्णनेन तयोनिरतिशयपरस्परप्रे- मशालित्वं महामहिमत्वमित्यादि व्यज्यते तथापि न ध्वनिगुणीभूतव्य- झ्यव्यवहारः । न खलु व्यङ्ग्यसंस्पर्शप्रतिभासादेवात्र चारुताप्रतीतिः, किं तु वाच्यवैचित्र्यप्रतिभासादपीति प्रायस्तत्र : संभवद्रसादिरूपं व्यङ्ग्यमलं- कारान्तरं चागणयित्वैव तत्तदलंकारा उदाहियन्ते । एकस्यैव धर्मस्य संबन्धिभेदेन द्विरुपादानं वस्तुप्रतिवस्तुभावः । स तु शुद्धो न संभवति । किं तु विशेषणतया विशेप्यतया वा सर्वत्र बिम्बप्र- तिविम्बभावकरम्बितः । वस्तुतो भिन्नयोधर्मयोः परस्परसादृश्यादभिन्नत- याध्यवसितयोर्द्विरुपादानं बिम्बप्रतिबिम्बभावः । तत्र वस्तुप्रतिवस्तुभावस्य विशेषणता यथा- 'यान्त्या मुहुर्वलितकंधरमाननं त- दावृत्तवृन्तशतपत्रनिभं वहन्त्या। दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥' अत्र बिम्बप्रतिबिम्बभावेन निर्दिष्टयोः कंधरावृन्तयोर्वलितावृत्तश. - १. 'श्रयणेन' क. २. 'तयोरतिशय' ख-घ.
चित्रमीमांसा। १९ - व्दाभ्यामेक एव धर्मो विशेषणतया निर्दिष्टः । विशेष्यता यथा- 'सा तेन जगृहे साध्वी हठात्साध्वसकम्पिता । वानरेणातिलोलेन वाताधूतेव वल्लरी ॥' अत्र साध्वसवातयोर्बिम्बप्रतिबिम्बभावापन्नयोः कम्पिताधृतशब्दाभ्यामेक एव धर्मो विशेप्यतया निर्दिष्टः । शुद्धबिम्बप्रतिबिम्बभावो यथा-'पा. ण्ड्योऽयमंसार्पितलम्बहारः' इत्यादि । अत्र हरिचन्दनबालातपौ हार- निर्झरौ च बिम्बप्रतिविम्बभावेन निर्दिष्टौ । श्लेषो यथा- 'नरसिंह महीपाल समस्तोऽपि रिपुस्तव । पारावारसमानत्वं दधाति खपदच्युतः ॥' उपचारो यथा- 'उद्भवन्तमुदितार्चिषं ततो भानुमन्तमिव हेमभूभृतः । पङ्कजैरिव कुमारमीक्षणैर्विस्मयेन विकचैः पपुर्जनाः ॥' अत्र विकासः पुप्पधर्म उपमेयेषु वीक्षणेषूपचरितः । समासभेदाश्र- यणं यथा- 'तया विवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्या । प्रसन्नचेतःसलिलः शिवोऽभूत्संसृज्यमानः शरदेव लोकः ॥' अत्र विवृद्धाननचन्द्रकान्त्येति विशेषणं देव्यां शरदि च समासभेदेन प्रवर्तते । मिश्रणेप्वनुगामित्वबिम्बप्रतिबिम्बभावयोर्मिश्रणं यथा- 'भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् । अधृष्यश्वाभिगम्यश्च यादोरनैरिवार्णवः ॥' अनाधृप्यत्वमभिगम्यत्वं च नृपगुणानां यादोरलानां च बिम्बप्रतिबि- म्बभावमपेक्ष्य लब्धात्मकं साधारणो धर्मः । अनुगामित्वश्लेपयोर्मिश्रणं यथा- 'गते तव भ्रातरि वत्स पञ्चतां चिराय नश्चान्द्रमसं कुलं महत् । अदृष्टसंतानतया न शोभते वनं हरेः प्राङ्मथनादिवोदधेः ॥' अत्र संतानशब्दश्लेषमपेक्ष्य लब्धात्मकं शोभारहितत्वं साधारणो धर्मः । अनुगामित्वोपचारयोर्मिश्रणं यथा- - १. 'प्रसन' क-घ. २. 'साधारणधर्मः' ख-ग.
२० काव्यमाला। 'तडिदुज्ज्वलहेतिमुत्तरः कुरुराजध्वजिनीं विलोकयन् । प्रिययेव भिया सकम्पया परिरेभे धृतधर्मपाथसा ॥' अत्र सकम्पत्वानुगामिधर्मापेक्षया लब्धचारुभावं परिरम्भकर्तृत्वं भी- त्यामुपचरितम् । अनुगामित्वसमासभेदाश्रयणयोर्मिश्रणं यथा- 'श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरावाससः । अङ्गना इव रजखला दिशो नो बभूवुरवलोकनक्षमाः ॥' अत्र श्येनपक्षपरिधूसरेत्यादिविशेषणयोः समासभेदाश्रयणेन साधारण्य- मपेक्ष्यानवलोकनक्षमत्वमनुगामिधर्मश्चारुतातिशयं पुष्णाति । वस्तुप्रतिव- स्तुभावबिम्बप्रतिबिम्बभावयोर्मिश्रणं यथा- 'लिङ्गैर्मुदः संभृतविक्रियास्ते ह्रदाः प्रसन्ना इव गूढनकाः । वैदर्भमामध्य ययुस्तदीयां प्रत्यर्प्य पूजामुपदाछलेन ।' अत्र बिम्बप्रतिबिम्बभावापन्नयोः क्रोघनत्रयोः संवृतगूढशब्दाभ्यामेक एव धर्म उक्त इति बिम्बप्रतिबिम्बभाववस्तुप्रतिवम्तुभावः । संतोषचिह्नप्र- सादयोर्बिम्बप्रतिबिम्बभावश्च । श्लेपबिम्बप्रतिविम्बभावयोर्मिश्रणं यथा- 'पार्थनाशमुदिता नृपात्मजा बाप्पमूहुरविनीतमन्यवः । आतपक्कथितपाथसो बहिः शीतगर्भसलिला इव हृदाः ।।' अत्र बाप्पशब्दे श्लेषस्य नृपात्मजबदविशेषणानां विम्वप्रतिविम्बभाव- मपेक्ष्य चारुता । उपचारविम्बप्रतिविम्वभावयोर्मिश्रणं यथा- 'सा किलाश्वासिता चण्डी भी तत्संश्रुतौ वरौ । उद्ववामेन्द्रसिक्ता भूविलमग्नाविवोरगौ ॥' अत्राश्वासितेन्द्रसिक्तेत्यनयोर्वरोरगाणां च विम्बप्रतिबिम्बभावमपेक्ष्यो. द्वमनमुपमानोपमेययोर्द्वयोरप्युपचरितम् । मुख्यार्थस्य द्वयोरप्यसंभवात् । मुख्यार्थे तस्य ग्राम्यत्वाच्च । तदाहुः- 'निष्ठयूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् अतिसुन्दरमन्यत्तु(त्र) ग्राम्यकक्षां विगाहते ॥' इति । १. 'शब्देन' क. २. 'यदाहुः' क.
चित्रमीमांसा। २१ -- - एवमन्यदपि द्वयोर्मिश्रणमूह्यम् । अनुगामित्वबिम्बप्रतिबिम्बभावसमा- सभेदाश्रयणानां मिश्रणं यथा- 'नृपं तमावर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधूभवित्री । महीधरं मार्गवंशादुपेतं स्रोतोवहा सागरगामिनीव ।।' अत्र व्यत्यगादित्यनुगामिधर्मः । अन्यवधूभवित्री सागरगामिनीत्यनयो. बिम्बप्रतिबिम्बभावः। आवर्तमनोज्ञनाभिरित्यत्र समासभेदाश्रयणमित्येतेषां मिश्रणम् । अनुगामित्वश्लेषोपचाराणां मिश्रणं यथा- 'असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः । वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ॥' अत्रातुरदृष्टिवीक्षित इत्यादावनुगामिता । रामादिशब्दश्लेषः । चुम्बित- शब्दस्य वसन्तपक्षे उपचारः । इत्येतेषां मिश्रणम् । एवमन्येऽपि मिश्रणो- दाहरणभेदाः खयमेव द्रष्टव्याः । बिम्बप्रतिबिम्बभावोदाहरणेषु कश्चिद्वि- शेषः । क्वचित्प्रसिद्धसाधर्म्यतया प्रतीयमानसाधर्म्ययोर्बिम्बप्रतिबिम्बभावः । यथा---'पाण्ड्योऽयमंसार्पितलम्बहारः' इत्यादौ । क्वचिदप्रसिद्धसाधर्म्य- तया येनकेनचित्प्रकारेणोपात्तसाधारणधर्मयोर्बिम्बप्रतिबिम्बभावः । यथा-. 'तया विवृद्धाननचन्द्रकान्त्या' इत्यादौ । अत्र हि शरदपर्णयोः स्वतोऽप्र. सिद्धसाधर्म्ययोर्विवृद्धाननेत्यादिना समासभेदाश्रयणेनोपात्तसाधारणधर्मयो- रेव बिम्बप्रतिबिम्बभावः । यथाकथंचित्साधर्म्यप्रतीति विना बिम्बप्रति- बिम्बभावो न संभवत्येव । 'यथा त्वं गुणवाँल्लोके तथा ते निर्गुणो रिपुः । इतीदमुपमानं तु विपरीतमिति स्मृतम् ॥' इत्युक्तरूपाय विपरीतोपमायाः कथं निर्वाहः । तत्र हि सगुणत्वनि - गत्वयोर्नोपात्तेन न वा प्रतीयमानेन धर्मेण साधर्म्यप्रतीतिरस्ति । नैष दोषः। तत्राप्यात्यन्तिकत्वखाभाविकत्वादिधर्मेण प्रतीयमानेन तयोः साधर्म्यप्र- तीतेः । अन्यथा यथाशब्दोदितस्य सादृश्यस्य सर्वथा निरालम्बनत्वप्रस- झात् । एवं पूर्णाया दिगुदाहृता । १. 'मिश्रणभेदोदाहरणाः' ख-घ. ३ चि.
२२ काव्यमाला। लुप्ताष्टविधा-वाचकलुप्ता, धर्मलुप्ता, उपमानलुप्ता, वाचकोपमान- लुप्ता, धर्मोपमानलुप्ता, धर्मवाचकलुप्ता, वाचकोपमेयलुप्ता, धर्मोपमानवाच- कलुप्ता चेति । क्रमेणोदाहरणानि- 'कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् । अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भतुल्यम् ॥' अत्र कैलासगौरमित्यत्र वाचकलोपः । निकुम्भतुल्यमित्यत्र धर्मलोपः । वाचकलोपः सर्वत्र समासविधायकशास्त्रकृतः । धर्मलोपस्त्वैच्छिकः । प्रभा- वादिना निकुम्भतुल्यमित्यपि वक्तुं शक्यत्वात् । 'यच्चोराणामस्य च समागमो यच्च तैर्वधोऽस्य कृतः । उपनतमेतदकस्मादासीद्वत काकतालीयम् ॥' इत्यत्र काकतालशब्दौ वृत्तिविषये काकतालसमवेतक्रियावर्तिनौ । तेन काकागमनमिव तालपतनमिव काकतालमिति इवार्थे 'समासाच तद्विषयात्' इति ज्ञापकात्सुप्सुपेति , समासः । उभयत्रोपमेयं क्रमेण देवदत्तागमनं दस्यूपनिपातश्च । तेन देवदत्तदस्युसमागमः काकतालसमागमसदृश इति फलति । ततः काकतालमिव काकतालीयमिति द्वितीये इवार्थे 'समासाच्च तद्विषयात्' इति छप्रत्ययः । ततश्च पतता तालफलेन यथा काकस्य वध एवमुपनिपतितैर्दम्युभिर्देवदत्तस्य वध इत्यर्थः । यदाह भगवान्भाष्यकारः- 'एवं तर्हि द्वाविभावर्थो काकागमनमिव तालपतनमिव काकतालं काकताल- मिव काकतालीयम्' इति । तच्च विवृतं कैयटेन- "तत्र काकागमनं देवदत्तागमनम्योपमानम् । तालपतनं दस्यूपनिपा- तस्य । तालेन तु यः काकस्य वधः स देवदत्तस्य दस्युना वधस्योपमान- मिति । अकस्मादुपनतत्वं च समानो धर्मः । तदाह वृत्तिकारः-'तेन काकतालीयं नामाकस्मादुपनतं चित्रीकरणमुच्यते इति । ततश्चात्र का. कागमनतालपतनसमागमनरूपस्य पतत्तालकृतकाकवधरूपस्य चोपमानस्या- नुपादानात् । प्रत्ययार्थोपमायामुपमानलोपः । समासार्थोपमायां वाचको- मानलोपः । अत्रैव 'किमिति बूमो वयमिदम्।' इति तृतीयपादपाठे प्रत्यया. ोपमायां धर्मोपमानलोपः । समासार्थोपमायां धर्मोपमानवाचकलोपः । अन चित्रमीमांसा धर्मलोपमात्रमैच्छिकन् । 'यं त्वं पालयसे धर्म वृत्त्या च नियमेन च । स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु ॥" अत्र राघवः शार्दूल इवेत्यर्थे 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति समासे धर्मवाचकयोर्लोपः । अत्र वाचकलोपवद्धर्मलोपोऽपि शास्त्रीयः । सामान्यप्रयोग एवैतत्समासानुशासनात् । धर्मवाचकलुप्तायां धर्मलोपस्यै- च्छिकत्वमपि संभवति । यथा- 'नृणां यं सेवमानानां संसारोऽप्यपवर्गति । तं जगत्यभजन्मर्त्यश्वञ्चा चन्द्रकलाधरम् ॥' अत्रापवर्ग इवाचरतीत्यर्थेऽपवर्गतीत्यत्राचारार्थस्य किपो लोपाद्वाचकव- द्धर्मस्यापि लोपः । चञ्चेत्यत्र चच्चा तृणपुरुष इवेत्यस्मिन्नर्थे 'इवे प्रतिकृती' इति विहितस्य कनो 'लुम्मनुप्ये' इति लुम्विधानाद्वाचकलोपो धर्मलोपश्च । अस्य श्लोकस्य 'यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति । तं शंभुमभजन्मर्त्यश्चञ्चैवात्महिताकृतेः ॥' इति पाठे नोभयत्रापि धर्मस्य श्रवणमपि संभवति । 'रूपयौवनलावण्यस्पृहणीयतराकृतिः । पुरतो हरिणाक्षीणामेष पुप्पायुधीयति ॥' अत्र वाचकोपमेययोर्लोपः । रूपयौवनेत्यादिखविशेषणसामर्थ्यात्वा- स्मानं पुष्पायुधमिवाचरतीत्यस्यार्थस्य गम्यमानत्वात् स्वात्मन उपमेयस्य लोपः कवेरैच्छिकः । न चैष इत्युपमेयस्योपादानमस्तीति शक्यम् । तस्य कर्मविभक्त्यभावेन पुष्पायुधीयतीत्यत्रोपमेयासमर्पकत्वात् । अत्रैव हरिण- स्याक्षिणी इवायते अक्षिणी आसामित्यस्मिन्नर्थेऽनुशिष्टे हरिणाक्षीणामिति पदे धर्मोपमानवाचकानां लोपः । सर्वोऽप्ययं 'सप्तम्युपमानपूर्वपदस्य' इत्यादिशास्त्रकृत एव लोपः । त्रिलोपे धर्मलोपस्त्वैच्छिकोऽपि संभवति । यथा- २४ काव्यमाला। 'यच्चोराणामस्य च' इति श्लोकस्य द्वितीयपाठे समासार्थोपमायाम् । एवं लुप्ताया अष्टौ विधाः प्रदर्शिताः । काव्यप्रकाशिकाकारादिभिस्तु पूर्णायाः षडिधाः लुप्तायास्तु धर्मलुप्ता- दिष्ववान्तरभेदेन कैश्चिदेकोनविंशतिरन्यैर्विंशतिविधाः प्रदर्शिताः । तत्रायं विभागः-पूर्णा तावहिविधा श्रौती आर्थी च । सादृश्यमात्रवाचकयथे- वादिशब्दवती श्रौती । सादृश्यविशिष्टधर्मिपर्याप्ततुल्यसदृशसंकाशादिशब्द- वती आर्थी । द्विविधापि वाक्ये समासे तद्धिते चेत्येवं षड़िधा पूर्णा । धर्मलुप्तापि पूर्णावदेव विभागवती । किं तु श्रौती तद्धितेत संभवतीत्येवं पञ्चविधा । वाचकलुप्ता कर्मकर्तृणमुलोः कर्माधिकरणक्यचोः क्यङि णिनी समासे चेत्येवं सप्तविधा । उपमानलुप्ता वाक्यसमासयोर्द्विविधा । धर्मवा- चकलुप्ता किप्समासयोर्द्विविधा । धर्मोपमानलुप्ता वाक्यसमासयोद्विविधा । उपमेयवाचकलुप्ता क्यचि एकविधा । धर्मवाचकोपमानलुप्ता समास एवै- कविधेति । यदाहुः 'पूर्णा लुप्ता च सा द्वेधा श्रौत्यार्थी चेति ते पुनः । द्विविधे,प्रथमा, वाक्ये समासे तद्धिते भवेत् ॥ तद्वलुप्तापि धर्मस्य लोपे श्रौती न तद्धिते । इवादिलोपे द्विविधे णमुलि क्यचि च क्यङि । तथा णिनौ समासे च सप्तधा परिकीर्तिता । उपमानस्य लोपे तु, द्विधा वाक्यसमासयोः । इवादिधर्मलोपेऽपि द्विविधा किप्समासयोः । धर्मोपमानयोलों पे वाक्यगा च समासगा ॥ इवादेरुपमेयस्य द्वयोलौंपे भवेत्स्यचि । इवादिधर्मोपमानलोपे त्वेषा समासगा ॥' इति ।। अत्रोदाहरणानि तन्मतरीत्या संगृह्यास्माभिलिख्यन्ते- 'यस्याज्ञा शिरसोह्यते सुमनसां वृन्दैर्यथा मालिका बवा मुञ्चति यः पशूनिव जनान्यस्याश्रवद्वैभवम् । १. 'लुप्तायां' क-घ. २. 'पर्यन्त' क. ३. 'तु' ख.
चित्रमीमांसा। २५ हृद्यं शेवधिना समं हृदि भजन्त्यानन्दसारोपमं यं धन्याः शशिवत्प्रसन्नवपुषे तस्मै नमः शंभवे ॥ अत्र षड्डिधापि पूर्णा दर्शिता। तत्र प्रथमवाक्ये वाक्यगा श्रौती। द्विती- यवाक्ये समासगा श्रौती । 'इवेन नित्यसमासो विभक्त्यलोपः पूर्वपदप्रकृ- तिस्वरत्वं च' इति वार्तिककृद्वचनेन पशूनिवेत्यस्य समासपदत्वात् । तृतीयवाक्ये तद्धितगा श्रौती । अभ्रवदिति षष्ठीसमर्थाद्वतः 'तत्र तस्येव' इति सूत्रेणेवार्थे विहितत्वात् । 'हृद्यं शेवधिना समं हृदि भजन्ति' इत्यत्र वाक्यगा आर्थी । 'आनन्दसारोपमं' इत्यत्र समासगा आर्थी । हृद्यमिति विशेषणमत्राप्यपेक्ष्यते । अन्यथा धर्मलुप्तैव स्यान्न पूर्णा । शशिवदित्यत्र तद्धितगा आर्थी । तत्रत्यवतेः 'तेन तुल्यं क्रिया चेद्वतिः' इति तुल्यार्थे विहितत्वात् । 'मूर्तिर्यथा नवसुधा बलभिन्मणीव कण्ठप्रभा सुसदृशश्च जटास्तडिद्भिः । शङ्खाक्षि काञ्चननिभं पदमजदेश्यं यस्यैष मेऽस्तु हृदि दैवतसार्वभौमः ।। अत्र पञ्चविधापि धर्मलुप्ता दर्शिता । तत्र मूर्तिर्यथा नवसुधेति वाक्यगा । बलभिन्मणीव कण्ठप्रभेति समासगा श्रौती। उभयत्रापि भातीत्यादिक्रि- याप्रयोगे सैव साधारणो धर्म इति धर्मलुप्ता न भवेत् , अतस्तदप्रयोगः । श्रौती तु धर्मलुप्ता तद्धिते न संभवति । षष्ठीसमर्थात्सप्तमीसमर्थाद्वा इवार्थे विहितस्य वर्धर्मोपादानं विनान्वयसौकर्याभावात् । न च वाच्यं 'इवे प्रतिकृतौ' इत्यधिकारे इवार्थे विहितस्य तद्धितस्य धर्मोपादानं विना नैरा- काङ्ग्यमस्ति । 'कुशाग्रीया बुद्धिः' 'शैलेयं दधि' 'पौण्डरीकं मुखम्' इति दर्शनात् । अतस्तत्र श्रौती धर्मलुप्ता तद्धित उदाहर्तुं शक्यत इति; इवे प्रतिकृतौ' इत्यधिकारे विहितप्रत्ययानां तुल्यार्थे एव विधानात् । अन्यथा तेषां सादृश्यविशिष्टधर्मिपर्यन्तत्वाभावेन कुशाग्रीया बुद्धिरित्याद्युपमेयसा. मानाधिकरण्यासंभवासादृश्यविधानमपि सदृशे पर्यवस्थति सामानाधि- २६ काव्यमाला करण्यदर्शनादिति सूत्रे इवग्रहणं न विरुध्यते । सुसदृशश्चेत्यादि वा- क्यत्रये क्रमेणार्थी वाक्यगा समासगा तद्धितगा च । अन्जदेश्यमित्यत्रेष- दसमाप्तौ विहितोऽपि देश्यप्रत्ययः सादृश्ये प्रयुज्यते सोऽपि सामानाधि- करण्यात्सदृशपर्यवसायी । ननु सदृशादिशब्दप्रयोगे सादृश्यविशिष्टध. मिपर्यन्तत्वादार्थीति युक्तम् । सादृश्यादिशब्दप्रयोगे कथम् । किं श्रौती उतार्थी । यथा- रतशे- 'परस्पराक्षिसादृश्यमदूरोज्झितवर्मसु । मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ।' इत्यादी।श्रौत्येवेति ब्रूमः। तत्र तद्धितप्रकृत्या धर्मिपर्यन्ताभिधानेऽपि धानप्रत्ययाभिहितस्य सादृश्यस्यैव वाक्यान्वियित्वात् । 'यं पश्यन्दीप दर्श सपदि मनसिजः कीटनाशं सप्रनष्टः खान्ते योऽन्तःपुरीयत्यतिभजनकृतस्तं कुमारीयति द्राक् । मूलस्तम्भायते यस्त्रिभुवनभवने कोकिलालापिनी यं वामाङ्ग कल्पवल्ली श्रयति कुवलयश्यामला तं भजामि ॥' अत्र सप्तविधापि वाचकलुप्ता दर्शिता । तत्र दीपमिव पश्यन्नित्यर्थे दीपदर्शमिति कर्मणमुलि, कीट इव नष्ट इत्यर्थे कीटनाशं नष्ट इति कर्तृणमुलि, खान्तेऽन्तःपुर इवाचरतीत्यर्थेऽन्तःपुरीयती यधिकरणक्यचि, कुमारं स्कन्दमिवाचरतीति कर्मक्यचि, त्रिभुवनस्योत्पत्तौ मूलस्तम्भ इवा- चरतीत्यर्थे मूलस्तम्भायत इति कर्तृक्यङि, कोकिल इवालपतीत्यर्थ कोकि- लालापिनीति णिनौ, कुवलयमिव श्यामलेत्यर्थे कुवलयश्यामलेति समासे न क्रमेण वाचकलुप्ता द्रष्टव्या। 'पूजनं पुररिपोस्तनोतु मे चित्तमन्यदपहाय चापलम् । यत्समं प्रियहितं न दृश्यते नेम नापि सदृशं निशम्यते ॥' अत्र यत्सममिति समासे येन सदृशमिति वाक्ये चोपमानलुप्ता द्वि- विधापि दर्शिता। 'वृथा मम भ्रमत्यहो मनः स्थिते महेश्वरे श्रुतोऽस्ति तेन किं समः स्मृतोऽथवास्ति तत्समः ।
चित्रमीमांसा । २७ डिङ्यत्वदः सदा तदकिपङ्कजद्वये चकोरकीयतु स्थिरं तदानने शशिप्रभे ॥ अत्रावशिष्टाः षडिधा अपि लुप्ताः प्रदर्शिताः । तत्र द्वितीयपादे वा- क्यसमासयोधर्मोपमानलुप्ता द्विविधा, तृतीयपादे किप्समासयोधर्मवाचक- लुता द्विविधा, चकोरकीयत्विति वाचकोपमेयलुप्ता, शशिप्रभ इति धर्मो- पमानवाचकलुप्ता च क्रमेण द्रष्टव्या । एवमयं पूर्णालुप्ताविभागो वाक्यसमासप्रत्ययविशेषगोचरतया शब्दशास्त्र- व्युत्पत्तिकौशलप्रदर्शनमात्रप्रयोजनो नातीवालंकारशास्त्रे व्युत्पाद्यतामर्हति । न वा लुप्तानामयं सामस्त्येन विभागः । तथाहि-धर्मलुप्ता वाक्यसमासत- द्धितेषु दर्शिता द्विर्भावेऽपि दृश्यते-'पटुपटुर्देवदत्तः' इति । अत्र हि 'प्रकारे गुणवचनस्य' इति सादृश्ये द्विर्भावविधानात् । पटुसदृश इत्यर्थः । यो हि शास्त्रादिप्वपटुरेव पटुवदभिनयति स उच्यते पटुपटुरिति । न ता- वदियं वाक्ये धर्मलुता । 'कर्मधारयवदुत्तरेषु' इति समाससद्भावविधानेनै- कपद्यसिद्धेः । अत एव न समासेऽपि धर्मलुप्तेयम् । वाचकलुप्ता णिनि विना कैश्चित्पडिधा दर्शिता । णिनिना सहापरैः सप्तविधा । किप्तद्धितयो- रपि दृश्यते- 'यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति । तं शंभुमभजन्मर्त्यश्चञ्चैवात्महिताकृतेः ॥' इति विवृतमेतदधस्तात् । वाक्यसमासयोरुपमानलुप्तामि दर्शिता । 'उ- पनतमेतदकस्मादासीद्वत काकतालीयम्' इति तद्धितेऽपि दृश्यते । वाच- कोपमानलुप्ता खरूपत एव नोदाहृता । सापि काकतालीयमिति प्रकृतिभूते समासे दृश्यते । धर्मोपमानलुप्तापि तद्धिते काकतालीयमित्यत्र दृश्यते । धर्मवाचकलुप्ता किप्समासयोरिव तद्धितेऽपि दृश्यते । 'तं जगत्यभजन्म- य॑श्चञ्चा चन्द्रकलाधरम्' इति हि प्रागुदाहृतम् । तस्माल्लुप्ताविभागे दि- मात्रप्रदर्शनमेवेदं प्राचां न तु सामस्त्येन विभागः । ये चान्ये काव्यालो- १. 'अत्रावशिष्टा षड्डिधापि लुप्ता प्रदर्शिता क-घ. २. 'विनापि' ख. ३. 'लु. प्तक्विप' क.
२८ काव्यमाला। - कादिषूपमायां प्रकारभेदा दर्शितास्ते सर्वे तेष्वेव द्रष्टव्याः । दर्शिताश्चे- हापि लेशतो लक्षणविचारप्रस्तावे । रूपकप्रकरणे चास्याः प्रकारभेदा- कांश्चित्प्रदर्शयिष्यामः । पुनश्चेयमुपमा संक्षेपतस्त्रिधा-क्वचित्ववैचित्र्यमात्रविश्रान्ता यथा- ‘स च्छिन्नमूलः क्षतजेन रेणुः' इत्यादौ । कचिदुक्तार्थोपपादनपरा यथा- 'अनन्तरत्नप्रभवस्य' इत्यादौ । यथा वा- 'विश्रब्धघातदोषः खवधाय खलस्य वीरकोपकरः । वनतरुभङ्गध्वनिरिव हरिनिद्रातस्करः करिणः ॥' क्वचियङ्ग्यप्रधाना सा व्यङ्ग्यस्य वस्त्वलंकाररसरूपतया त्रैविध्यात्रि- विधा । तत्र वस्तुध्वनिर्यथा- दर्पान्धगन्धगजकुम्भकपाटकूट- संक्रान्तिनिघ्नघनशोणितशोणरोचिः । वीरैर्व्यलोकि युधि कोपकषायकान्तिः कालीकटाक्ष इव यस्य करे कृपाणः ॥' अत्र कृपाणस्य कुपितकालीकटाक्षसादृश्यवर्णनेन सकलरिपुबलक्षयः क्षणादेव करिष्यत इति वस्तु व्यज्यते । अलंकारध्वनिर्यथा- 'यशसि तव विकसिते नृप हिमकरकिरणच्छटाधवले । भ्रमर इव पुण्डरीके विराजते विष्णुपदमेतत् ॥' अत्रोपमालंकारेण यशसः पुण्डरीकवद्वैपुल्यस्य, गगनस्य च भ्रमरवदल्प- त्वस्य प्रतीतेराश्रयाश्रयिणोरनानुरूप्यलक्षणोऽधिकालंकारो व्यज्यते । रस- ध्वनिः 'वागर्थाविव' इत्यादावुदाहृतः। क्वचिदेकत्रैव त्रिविघोऽपि ध्वनिर्दृश्यते यथा- 'पैश्यात्र नलिनीपत्रे बलाका परिदृश्यते । हरिन्मणिमये पात्रे शुक्तिकेव प्रतिष्ठिता ॥ - १. 'पझ्याद्य क-घ.
चित्रमीमांसा। २९ किमावयोः संकेतस्थानं भविष्यतीति प्रष्टुमनसो जनसमक्षमपृच्छतश्च प्रच्छन्नकामुकस्याभिप्रायमिङ्गितेन विदितवत्या विदग्धायाः संकेतस्थान- सूचनार्थमिदं वचनम् । अत्र पद्मपत्रस्थितबलाकाया मरकतपात्रप्रतिष्ठित- शुक्तिकासादृश्यवर्णनेन• तस्यास्तद्वन्निश्चलत्वप्रतीतेराश्वस्तत्वं व्यज्यते तेन तत्प्रदेशस्य निर्जनत्वं व्यज्यत इति वस्तुध्वनिः । ततश्च तदेव संकेतस्थान- मावयोरिति प्रकाशनात्संलक्षितसूक्ष्मार्थप्रकाशनरूपसूक्ष्मालंकारध्वनिः । एवं तदभिप्रायानुरूपवर्णनात्परस्परं रतिभावो व्यज्यत इति रसध्वनिश्च । ननु रसादिध्वनिरसंलक्ष्यक्रम इति प्रसिद्धिः कथमत्र तस्यानुरणनेन व्यङ्ग्यतोच्यते । मैवम् । यत्र विभावाभावादिवशादाशु भाविनी रसाभि- व्यक्तिस्तत्रासंलक्ष्यक्रमता । अन्यत्र तु रसादिध्वनिरपि संलक्ष्यक्रम एव । तदुक्तमभिनवगुप्तपादाचार्यैः-'यद्यपि रसभावादिरों ध्वन्यमान एव न वाच्यः कदाचिदपि तथापि न सर्वोऽसंलक्ष्यक्रमस्य विषयः' इति । अत एव ध्वनिकारोऽपि- ‘एवंवादिनि देवर्षों पार्थे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥' इत्यत्र लजाख्यं संचारिभावमनुरणनव्यङ्ग्यमुदाजहार । अथोपमाव्यङ्ग्यप्रसङ्गादुपमाध्वनयः प्रदयन्ते । तत्र शब्दशक्तिमू- लोपमाध्वनिर्यथा- 'किरति प्रकरं गवां प्रकामं सुमनःस्वच्छतरं निधौ कलानाम् । कतिचित्कलयन्ति यत्प्रबोधं कतिचिन्नेति स तत्स्वभाव एव ॥' एकस्माद्गुरोविद्यां शिक्षमाणानां केचित्प्रगल्भन्ते नान्य इति विशेषो बोधकस्य गुरोस्तेषु तेषु बोधनविशेषकृतो न भवति किं तु तत्वभावकृत इत्यस्मिन्नर्थे प्रकृतेऽप्रकृतार्थस्योपमानत्वकल्पनयात्रैवमुपमा व्यज्यते यथा चन्द्रे किरणानां प्रकरमविशेषेण सर्वपुष्पेषु विकिरति कानिचिद्विकसन्ति नान्यानीत्येष विशेषस्तत्तत्पुष्पखभावकृत एव न तु चन्द्रस्य किरणवि- १. 'प्रसिद्धः' ख. २. 'रूप' ग.
३० काव्यमाला। शेषकृतः । एवं गुरौ सर्वशिष्येष्वविशेषेण वाङ्मयं , विकिरति तेषु बोधाबोधविशेषोऽपि तत्तत्स्वभावकृत एवेत्यत्र श्लिष्टानां गोसुमनः कलानिधिशब्दानां वागादिपर्यायपरिवृत्त्यसहिष्णुत्वाच्छब्दशक्तिमूलानुर णनरूपध्वनिः । अर्थशक्तिमूलो वस्तुनोपमाध्वनिर्यथा- 'वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश । त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ॥ अत्रार्थशक्त्या चन्द्रे दृष्टिसमागम इत्यनेन चन्द्रे सीतामुखसादृश्यं उट ज्यते । अलंकारेणोपमाध्वनिर्यथा- 'यदृष्टोऽसि तदा ललाटपतितप्रासप्रहारो युधि स्फीतासक्नुतिपाटलीकृतपुरोभागः परान्दारयन् । येषां दुःसहकामदेहदहनप्रोद्भूतनेत्रानल- ज्वालालीभरभासुरे पुररिपावस्तं गतं कौतुकम् ॥ अत्रान्यत्कार्यं प्रकुर्वतोऽशक्यान्यवस्तुकरणात्मको विशेषालंकारः उक्तरूपं त्वां पश्यतो यथोक्तविशेषणविशिष्टपुररिपुदर्शनमासीदिति नि न्धनाकरणस्य क्रियासामान्यात्मनो दर्शनेऽपि सद्भावाद्यद्यप्ययमों वाच्यस्तथापि तस्मिन्कौतुकास्तमयवर्णनायझ्यः । तेन तदा त्वं तथाभू पुररिपुरिव स्थितोऽसीत्युपमा व्यज्यते । एवमुपमादिगुदाहृता । अथोपमादोषाश्चिन्त्यन्ते-न्यूनत्वमधिकत्वं लिङ्गभेदो वचनभेदोऽर दृश्यमसंभव इत्यस्याः षड् दोषानाहुः । तत्रोपमेयादुपमानस्यापकृष्ट न्यूनत्वम् । उत्कृष्टत्वमाधिक्यम् । द्वयमपि जात्या प्रमाणेन धर्मतो वे प्रत्येकं त्रिविधम् । तत्र जातिप्रमाणगतन्यूनत्वाधिक्ये यथा- 'चण्डालैरिव युष्माभिः साहसं परमं कृतम् ।' 'वह्निस्फुलिङ्ग इव भानुरयं चकास्ति ।' 'अयं पद्मासनासीनश्चक्रवाको विराजते । युगादौ भगवान्वेधा विनिर्भित्सुरिव प्रजाः ॥' - चित्रमीमांसा। ३१ - पातालमिव नाभिस्ते पर्वताविव च स्तनौ । वेणीदण्डः पुनरयं कालिन्दीपातसंनिभः ॥' अत्र चण्डालादिभिरुपमानैः प्रस्तुतोऽर्थोऽत्यन्तमेव कदर्थित इत्यनुचि- तार्थतायामिमे न्यूनत्वाधिक्ये पर्यवस्यतः । धर्मतो न्यूनत्वाधिक्ये तु हीना- धिकपदत्वरूपौ दोषौ । यथा- 'स मुनिर्लाञ्छितो मौड्या कृष्णाजिनपटं वहन् । व्यराजन्नीलजीमूतभागाश्लिष्ट इवांशुमान् ॥' 'स पीतवासाः प्रगृहीतशाङ्गों मनोज्ञभीमं वपुराप कृष्णः । शतहदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः ॥' अत्राद्य उपमानस्य मौञ्जप्रतिविम्बस्तडिल्लक्षणधर्मो न निबद्ध इति न्यूनत्वम् । द्वितीये उपमेयस्य शङ्खादेरनिर्देशेन शशिनो ग्रहणमतिरि- च्यत इत्याधिक्यम् । लिङ्गवचनभेदो यथा- 'भाग्याभावात्करस्थोऽपि चिन्तारत्नमिव च्युतः। सक्तवो भक्षिता देव शुद्धाः कुलवधूरिव ॥' इमौ प्रक्रमभङ्गान्तर्भूतौ । कथं? च्युतत्वादिरत्र साधारणधर्मो भवितुं नार्हति । उपमानोपमेययोर्मध्ये यत्र लिङ्गवचनसारूप्यं तत्रैवास्य समन्वये- नोभयान्वयाभावात् । तथा चोपात्तविशेषणविशिष्टस्यैवोपमानत्वमुपमेयत्वं वा भवेत् । प्रतीयमानेन तु धर्मान्तरेणोपमानिर्वाह्या स्यात् । ततश्चोपमानोप- मेययोः कस्यचित्सविशेषणत्वमन्यस्य नेत्येवं विशेषणप्रक्रमभङ्गरूपता । केचित्तु कालपुरुषलोडादिभेदमपि दोषमाहुः । यथा-व 'तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि निर्व्यपेक्षः । त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेमिं पितुराज्ञयेव ॥' अत्र समुद्रनेमिमत्यजमित्यन्वेति न तु त्यक्ष्यामीति । पुरुषभेदो यथा- 'शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितद्धिः । आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ।।' नीवारे आभातीत्यन्वेति न त्वाभासीति ।
३२ काव्यमाला। विध्यादिभेदो यथा- 'आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते । पुत्रं लभखात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ॥' भवन्तमलभतेत्यन्वेति न तु लभखेत्याशीः । असादृश्यासंभवावुपमाया- मनुचितार्थतायां पर्यवस्यतः । असादृश्यं यथा- 'प्रश्नामि काव्यशशिनं विततार्थरश्मिम् ।' काव्यस्य शशिना सादृश्यमप्रसिद्धम् । यद्यर्थानां रश्मीनां च सादृश्यं प्रसिद्धं स्यात्तदा तदीयबिम्बप्रतिबिम्बभावेन काव्यशशिनोः सादृश्यमप्र- सिद्धमप्योनीयेत न च तदप्यस्ति । यथा वा- 'एष विन्ध्याचलः सान्द्रकुञ्जोल्लसितनिझरः । भालेक्षणस्फुरद्वह्निशिखाटोप इवेश्वरः ॥' - असंभवो यथा- - 'निपेतुरास्यादिव तस्य दीप्ताः शरा धनुर्मण्डलमध्यभाजः । जाज्वल्यमाना इव वारिधारा दिनार्धभाजः परिवेषिणोऽर्कात् ॥' ज्वलन्त्योऽम्बुधाराः सूर्यमण्डलान्निप्पतन्त्यो न संभवन्तीत्यसंभवः । केचिदुपमानाप्रसिद्धिं पृथग्दोषमाहुः । यथा- 'बाप्पदिग्धेक्षणं वक्रं तरुण्याः परिदृश्यते । तुषारसिक्तच्छदनं तरङ्गिण्या इवोत्पलम् ॥' अत्र बाप्पदिग्धेक्षणं तुषारसिक्तच्छदनमित्यनयोर्बिम्बप्रतिबिम्बभावेन सादृश्यसंभवेऽप्युत्पलस्य मुखं प्रत्युपमानत्वाप्रसिद्धिरेव दोषः । अथैषां दोषाणां यथासंभवमपवादाः प्रदर्श्यन्ते-कविसमयसंमतेषु जात्या प्रमाणेन च न्यूनत्वाधिक्ये न दोषौ । यथा- 'तवाननसमश्चन्द्रश्चन्द्रतुल्यं त्वदाननम् । 'यणुकं मध्यसदृशं मध्यं व्यणुकसंनिभम् ॥' - १. 'काव्यशशिनोः' ग. २. 'आनीयते' ख.. ३. 'सान्द्रः कुञ्जोचलित' काख. ४. 'निष्पेतुः क-ख.
चित्रमीमांसा। ३३ अत्र कविसमयप्रसिद्धेर्न किंचिदनौचित्यम् । उपमेयोपमानगताधिक- धर्मोपादानस्यैकैकधर्मकानेकोपमार्थत्वेन वा साधारणधर्मवत्तासंपादनार्थत्वेन वा धर्मिस्वरूपविशेषलाभार्थत्वेन वा विधान्तरेण वा प्रस्तुतकार्यान्तरार्थत्वे धर्मतो न्यूनत्वाधिक्ये न दोषौ । यथा-कुमारि 'क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्द्रेव शरत्रियामा । नवं नवं क्षौमनिवासिनी सा भूयो बभौ दर्पणमादधाना ॥ इत्यत्रोपमेयगताधिकविशेषणोपादानस्यैकैकविशेषणकानेकोपमामार्थ- त्वात् । 'क्षीरोदवेला च सफेनपुञ्जा पर्याप्तचन्द्रा च शरत्रियामा । अनुव्यधात्क्षौमनिवासिनी तामच्छप्रभं दर्पणमादधानाम् ॥' इत्यस्यैव श्लोकस्य पाठे उपमानगतानेकधर्मोपादानमेकैकधर्मकोपमाद्व- यार्थमित्युपमानस्य धर्मत आधिक्यान्न दोषः । 'इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः । क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव हृदः ॥' अत्र विज्ञापितविशेषणं ध्यानस्तिमितलोचन इति साधारणधर्मवत्तासं- पादनार्थमिति न्यूनत्वं न दोषः । 'ज्यानिनादमभिगृहती तयोः प्रादुरास बहुलक्षपाछविः । ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ॥' अत्र निबिडेति विशेषणं कालिकायां बहुलक्षपाछविरिति साधारण- धर्मवत्तासंपादनार्थमित्याधिक्यं न दोषः । 'अतिथिं नाम काकुत्स्थात्पुत्रमाप कुमुद्वती । पश्चिमाद्यामिनीयामा प्रसादमिव चेतना ॥' अत्रातिथिं नामेति विशेषणं धर्मिखरूपविशेषलाभार्थमित्याधिक्यं न दोषः । 'रसान्तराण्येकरसं यथा दिव्यं पयोऽनुते । देशे देशे गुणेष्वेवमवस्थास्त्वमविक्रियः ॥' १. 'नवक्षीम' क-घ. २. 'आधिक्यं ग. ३. 'काले' घ. ४चि.
काव्यमाला। अत्र दिव्यमिति विशेषणं धर्मिविशेषलाभार्थमित्यधिकत्वं न दोषः । एवं प्रकृतकथासंघटनचमत्कारादिकार्यान्तरत्वेऽपि द्रष्टव्यम् ।.. एवं च प्रस्तुतकार्यान्तरोपयोगरहितानां बिम्बप्रतिबिम्बभावेऽपि न सा- धारणधर्मतैकप्रयोजनतया संभाव्यमानानामुपमेयोपमानविशेषणानां प्रतिवि- शेषणानिर्देश एव न्यूनत्वमधिकत्वं च दोषः । कार्यान्तरार्थानामप्यनुगामिनामतयाँ विशेषणनिर्देशेन वा साधारणीकरणे त्वधिको गुणः । यथा-'ज्यानिनादमभिगृद्धती-' इति श्लोके ज्यानिना- दमभिगृद्धतीत्युपमेयविशेषणं ताडका खयमेव जिघांसया प्रादुर्भूय प्रथम- मभिद्रुतवती रामेण हतेति स्त्रीवधानौचित्यपरिहारार्थत्वेऽप्युपमानसाधा- रणम् । कालिकायामपि गर्जितशालिन्यामतिशयोक्त्या तद्विशेषणानुवृत्तेः । तथा-'नृपं तमावर्त-' इति श्लोके 'अन्यवधूभवित्री' इत्यस्य व्यतिक्रम- णार्थत्वेऽपि सागरगामिनीति तत्प्रतिविशेषणनिर्देशः कृतः । यत्र लिङ्गवचनभेदेऽपि सामान्याभिधायिपदं खरूपमेदं नापद्यते स तत्र न दोषः । उभयानुगतिक्षमत्वात् । यथा-'भीमकान्तैनूपगुणैः' । 'तद्वेषोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः । दधते स्म परां शोभां तदीया विभ्रमा इव ।।' सामान्याभिधायिपदस्य खरूपभेदापत्तावपि लिङ्गवचनभेदो महाकवि- प्रयोगेषु दृश्यते । 'द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम् । त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥' 'प्रवृद्धो हीयते चन्द्रः समुद्रोऽपि तथाविधः । स तु तत्समवृद्धिश्च न चाभूताविव क्षयी ।' इत्यादौ । कालादिभेदे तु भूयांस्युदाहरणानि । 'एतादृशीषु लोकसि. द्धत्वाल्लिङ्गादिभेदो न दोषः' इति वामनः । एवं गुणदोषव्यवस्थायां सह- दयहृदयमेव प्रमाणम् । उक्तं हि दण्डिना- : १. 'तत्र तत्र द्रष्टव्यम्' क.
चित्रमीमांसा। ३५ 'न लिङ्गवचने भिन्ने न हीनाधिकते अपि । उपमादूषणायालं यत्रोद्वेगो न धीमताम् ॥ स्त्रीव गच्छति षण्ढोऽयं वक्त्येषा स्त्री पुमानिव । प्राणा इव प्रियोऽयं मे विद्याधनमिवार्जिता ॥ भवानिव महीपाल देवराजो विराजते । अलमंशुमतः कक्षामारोढुं तेजसा नृपः ॥ इत्येवमादि सौभाग्यं न जहात्येव जातुचित् । अस्ति च क्वचिदुद्वेगः प्रयोगे वाग्विदां यथा ॥ हंसीव धवलश्चन्द्रः सरांसीवामलं नमः । भर्तृभक्तो भटः श्वेव खद्योतो भाति भानुवत् ॥ ईदृशं वय॑ते सद्भिः कारणं तत्र चिन्त्यताम् ।' इति । कविसमयप्रसिद्धौ सत्यामसादृश्यं न दोषः । यथा-'चन्द्रधवला कीर्तिः' इत्यादौ । उपमेयगतासंभावितत्वविवक्षायामुपमानस्यासंभवो न दोषाय । यथा-'चन्द्रबिम्बादिव विषम्' इत्यादौ । श्लिष्टसाधारणधर्मा- यामन्यत्रापि सहृदयहृदयाह्लादिन्यां कल्पितोपमानायामुपमायामप्रसिद्धत्वं न दोषः । यथा- 'कविमतिरिव बहुलोहा सुघटितचक्रा प्रभातवेलेव । हरमूर्तिरिव हसन्ती भाति विधूमानलोपेता ॥ 'सद्यो मुण्डितमत्तहूणचिबुकप्रस्पर्द्धि नारङ्गकम्' इत्यादौ । एवमन्येऽपि दोषापवादप्रकारा विद्वद्भिश्चिन्तनीयाः ॥ इति चित्रमीमांसायामुपमाप्रकरणम् । अथोपमेयोपमा निरूप्यते- उपमानोपमेयत्वं द्वयोः पर्यायतो यदि । उपमेयोपमा सा साद्विविधैषा प्रकीर्तिता ।। यदि द्वयोर्यद्वर्ण्यते सोपमेयोपमेत्युच्यते तदा तुल्ययोगितायामति. व्याप्तिः । तत्र- १. 'अप्रसिद्ध' का 'अप्रसिद्धि' ग..
३६ काव्यमाला। 'जनस्य तस्मिन्समये विगाढे बभूवतुद्वौं सविशेषकान्तौ । तापापनोदक्षमपादसेवौ स चोदयस्थो नृपतिः शशी च ॥' इति द्वयोर्नृपशशिनोयुगपदेकधर्मान्वयवर्णनात् । अतः पर्यायेणेत्युक्तम् । तथापि-17 'तस्य द्विपानां मदवारिसेकात्खुराभिघाताच्च तुरङ्गमाणाम् । रेणुः प्रपेदे पथि पङ्कभावं पक्कोऽपि रेणुत्वमियाय भूयः ॥' इत्यत्रातिव्याप्तिः । तत्र रेणुपङ्कयोः पर्यायेण पङ्करेणुभाववर्णनात् । अत उपमानोपमेयत्वमित्युक्तम् । द्वयोर्यदुपमानोपमेयत्वं वर्ण्यते सोपमेयोपमेत्यु- तेऽपि—'व्युष्टं प्रमाणं च वियोगवेदनाविदूननारीकमभूत्समं तदा' इत्यु- भयविश्रान्तसादृश्यायामुपमायामतिव्याप्तिः । न च तत्रोभयोरपि सादृश्याश्र- यत्वरूपस्योपमेयत्वस्यैव प्रतिपादनमस्ति न सादृश्यप्रतियोगित्वरूपस्योप- मानत्वस्यातो नातिव्याप्तिरिति वाच्यम् । मुखतः प्रतिपादनाभावेऽपि तयोः परस्परमुपमानत्वस्यार्थाप्रतीतेः । न ह्युपमानोपमेयत्वं यंत्र वाच्यमिति ल- क्षणे विवक्षितम् । व्यङ्ग्योपमेयोपमासंग्रहाभावप्रसङ्गात् । अतः पर्यायेणे- त्युक्तम् । एवमपि-'भणितिरिव मतिर्मतिरिव चेष्टा' इत्यादिरसैनोप- मायां मतिचेष्टयोः पर्यायभेदेनोपमानत्वस्योपमेयत्वस्य च सत्त्वेनातिव्याप्ति- परिहारायैकस्मिन्पर्याये यं प्रत्युपमानवं तं प्रत्येव पर्यायान्तरे उपमेयत्वं विवक्षणीयम् । द्विविधैषेत्युक्तम् । द्वैविध्यं धर्मस्य साधारण्यवस्तुप्रतिवस्तुभावाभ्याम् । 'सुगन्धि नयनानन्दि मदिरामदपाटलम् । अम्भोजमिव ते वकं त्वद्वक्रमिव पङ्कजम् ॥' 'सच्छायाम्भोजवदनाः सच्छायवदनाम्बुजाः । वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गानाः॥' इति क्रमेणोदाहरणे । अत्रेदं विचार्यते । लक्षणस्य 'लद्वल्गुना युगपदुन्मिषितेन तावत्' इति १. 'वियोगवह्निना' क. २. 'तत्र' ख.
चित्रमीमांसा। ३७ प्रागुदाहृवायां युगपदुपमेयोपमायामव्याप्तिः । न चेयमुपमेयोपमा न भवति, किं तूभयविश्रान्तोपमामात्रमिति शङ्कनीयम् । परस्परतुलामित्यनेन द्वयोरपि प्रतियोगित्वस्यापि प्रतिपाद्यमानतया उपमेयोपमेत्यवयवार्थस्यावि- शिष्टत्वात् । अर्थादपि सिद्ध्यतः परस्परप्रतियोगित्वस्य मुखतः प्रतिपादनेन तृतीयसदृशव्यवच्छेदरूपफललाभाच्च । किं च 'रजोभिः स्यन्दनोद्भूतैः' इति प्रागुदाहृतायां परस्परोपमायामतिव्याप्तिः । न च तत्राप्युपमेयोपमा । तृतीयसदृशव्यवच्छेदाप्रतीतेः । 'द्विविधैषा प्रकीर्तितेति विभागासामञ्जस्य- प्रसङ्गाच्च । न ह्यत्र धर्मस्य साधारण्यं वस्तुप्रतिवस्तुभावो वास्ति । गग- नस्य भूतलेन सादृश्ये रजोव्याप्तत्वं साधारणधर्मः । भूतलस्य गगनेन सा- दृश्ये गजानां मेघानां च बिम्बप्रतिबिम्बभाव इत्यत्यन्तविलक्षणत्वात् । अत एवात्र तृतीयसब्रह्मचारिव्यवच्छेदरूपं फलमपि न सिध्यति । एकध- माश्रयेण परस्परसाम्ये वर्ण्यमाने ह्यनयोरस्मिन्विषये तृतीयः सब्रह्मचारी नास्तीति फलति । कस्यचित्केनचित्सादृश्ये वर्णिते तस्याप्यन्येन सादृश्य- मर्थसिद्धमपि मुखतो वर्ण्यमानं तृतीयसदृशव्यवच्छेदार्थं भवतीति हि तत्फ- लकत्वे बीजम् । न चैतद्धर्मसाधारण्य इव धर्मभेदेऽपि लभ्यते। रजोभिर्ग- गनस्य भूतलसादृश्यवर्णनेन भूतलस्य मेघाकारैर्गजैगगनसादृश्यस्यार्थतः सिद्ध्यभावात् । अपि च- 'पितासमाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन । पुत्रस्तथैवाधिकवत्सलेन स तेन पित्रा पितृमान्वभूव ॥ इति व्यत्यस्तधर्मिबिम्बप्रतिबिम्बकोपमायामतिव्याप्तिः । अत्र हि पुत्रः पिता चेत्युभावुपमेयोपमानभूतौ धर्मिणौ । तयोस्तावेव व्यत्यासेन पितृमत्त्वं पुत्रित्वमिति साधारणधर्मकोटिप्रविष्टतयोपात्तौ । तयोश्च बिम्बप्रतिबिम्ब- रूपसाधारण्यापादको धर्मो मतुविनिप्रत्ययोपात्तं प्राशस्त्यम् । प्रशंसायां ह्यत्र तौ प्रत्ययौ पित्रा पितृमानिति संबन्धमात्रस्यविक्तव्यत्वात् । एवं च १. 'साधर्म क. २. 'भव्यकलात्' क.
काव्यमाला। पुत्रस्य पितुश्च प्रशस्तपितृमत्त्वं प्रशस्तपुत्रवत्त्वं च बिम्बप्रतिबिम्बकरम्बितेन वस्तुप्रतिवस्तुभावेन साधारणधर्मे इति लभ्यते । तयोश्च पितापुत्रयोः प्राशस्त्यप्रतिपादके.। अधिकवत्सलेन समाराधनतत्परेणेति च विशेषणे । ततश्च धर्म्युपमायां यः पिता पुत्रस्योपमानं स एव तस्य तदुपपादके बिम्ब- प्रतिबिम्बनिर्देशे उपमेय इति लक्षणस्य वर्तनं तावत्स्पष्टम् । न चेयमुपमे- योपमा । पुत्रपित्रोधर्मिणोरुपमायां प्रशस्तपितृमत्त्वं प्रशस्तपुत्रवत्त्वं च वस्तु- प्रतिवस्तुभावेन बिम्बप्रतिबिम्बभावकरम्बितेन साधारणो धर्मः । पितापुत्रयोस्तु धर्मकोटिनिविष्टयोर्वात्सल्यभक्त्यतिशयकृतं प्राशस्त्यमनुगतसाधारणधर्म इति पूर्वोदाहरणसारूप्यात्समुच्चयोपमया पुत्रोऽपि पितृभक्त्या प्रशस्तः पितापि पुत्रवात्सल्येन प्रशस्त इत्यर्थलाभेऽपि तृतीयसब्रह्मचारिव्यवच्छेदालाभाच्च । न चात्र इवशब्दद्वयादियुक्तपर्यायद्वयाभावात्पर्यायविशेषणेनैवातिव्याप्तिनि- रासः स्यादिति वाच्यम् । वाच्यकक्षायां पुत्रपित्रोरुपमा व्यङ्ग्यकक्षायां पि- तापुत्रयोरिति पर्यायद्वयसत्त्वात् । न हि पर्यायद्वयस्यापि वाच्यत्वमत्र विव- क्षितम् । येनेवशब्दद्वययुक्तपर्यायद्वयाभावादतिव्याप्तिर्निरस्येत । तथा सति हि व्यङ्ग्योपमेयोपमासाधारण्यं न स्यादित्युक्तम् । न चात्र धर्मिणोरेवोपमा धर्मयोस्तु उपमानोपमेयसाधारण्यार्थमभेद एव प्रतीयते नोपमेति वाच्यम्- 'नलिन्या इव तन्वङ्ग्यास्तस्याः पद्ममिवाननम् । मया मधुकरेणेव पायं पायमतृप्यत ॥' इत्यादौ बिम्बप्रतिबिम्बभावापन्नयोस्तन्वीनलिन्यादिकयोरुपमाया अपि दर्शनेन धर्मयोः सादृश्येन साधारणीकरणस्याप्युपमाप्रयोजकत्वात् । तस्मा- तत्रातिव्याप्तिशङ्का दुर्वारा । अतोऽनुपपन्नमेवेदं लक्षणं लक्ष्यते । अत्र ब्रूमः- अन्योन्येनोपमा बोध्या व्यक्त्या वृत्त्यन्तरेण वा । एकधर्माश्रया या स्यात्सोपमेयोपमा मता ॥ अन्योन्येनेति विशेषणान्न रशनोपमायामतिव्याप्तिः । व्यक्त्या वृत्त्य- १. 'बिम्बप्रतिबिम्बभाव' ख-ग. २. 'साधारण्ये ख-ग. ३. 'उपपादके' क.
चित्रमीमांसा। ३९ न्तरेण वा बोध्येति विशेषणाच नोभयविश्रान्तसादृश्योपमायामतिव्याप्तिः । परस्परप्रतिक्षेपकविकल्पार्थेन वाकारेण हि या परस्परप्रतियोगिकत्वविशि- टोपमा तद्विषयवृत्त्यन्तरनिरपेक्षव्यक्तिबोध्या तद्विषयव्यक्तिनिरपेक्षवृत्त्य- न्तरबोध्या वा भवति सोपमेयोपमेति पर्यवस्यति । ततश्चोभयविश्रान्त- सादृश्योपमायामन्योन्यप्रतियोगिकत्वांशे व्यक्तिः सादृश्यरूपोपमांशे वृत्त्य- न्तरमिति तयोः करम्बितत्वान्नातिव्याप्तिशङ्का । सामान्यलक्षणसिद्ध्यर्थं च व्यक्तिवृत्त्यन्तरयोरन्योन्यत्वेन क्रोडीकृतयोर्ग्रहणम् । एवं हि 'तया गृहीतं नु मृगाङ्गनाभ्यः' इत्यत्र वृत्त्यन्तरापेक्षव्यक्तिबोध्यायामनलंकारभूतायां व्य- क्तिनिरपेक्षवृत्त्यन्तरबोध्यायामलंकारभूतायां चोपमायां लक्षणमनुगतं भव- ति । यद्यपि व्यङ्ग्यायामप्युपमेयोपमायां शब्दस्य सहकारित्वेन तद्गतश- तेरप्यपेक्षितत्वात् 'खमिव जलं जलमिव खम्' इत्यादौ वाच्याया- मपि गम्यसाधारणधर्मायां तस्यां धर्माशे व्यक्तेरपेक्षितत्वात्परस्परनरपेक्ष्य- मसंभवि, तथाप्यन्योन्यप्रतियोगिकत्वविशिष्टसादृश्यविषयवृत्त्यन्तरनिरपेक्ष- फत्वं व्यक्तेः तद्विषयव्यक्तिनिरपेक्षत्वं वृत्त्यन्तरस्य चास्त्येव । इदमेव च व्यक्तिपदानपेक्षयालंकाररूपाया विशेषलक्षणमपि । तत्र व्यक्तिपदपरित्यागे वृत्त्यन्तरमात्रबोध्येत्येतद्विशेषणं पर्यवस्यति । ततश्चोभयविश्रान्तसादृश्योप. माव्यावृत्तिः । न च तस्यामेकस्यैवोपमानत्वं न तु द्वयोरित्यन्योन्यपदेनैव व्यावृत्ताविदं व्यर्थमिति वाच्यम् । प्राकरणिकाप्राकरणिकयोः सादृश्यवर्ण- नेऽप्राकरणिकस्यैवोपमानत्वलाभेऽप्युभयोरपि प्राकरणिकत्वे विनिगमनावि- रहेण परस्परोपमानत्वप्रतीतेः । एवं धर्माश्रयविशेषणात् 'रजोभिः स्यन्दनो- कीर्णैः' इति परस्परोपमायां नातिव्याप्तिः । उक्तविशेषणबलादेव 'पिता समाराधनतत्परेण' इत्युपमायामपि नातिव्याप्तिः । उभयत्राप्युपमेययोभिन्न- धर्माश्रयत्वात् । एकधर्माश्रयेत्यस्य चायमर्थः । कस्यचिदन्येनोपमायां यो धर्मः साधारणो वस्तुप्रतिवस्तुभावापन्नो वा स एवान्यस्य तेनोपमायामपीति । न त्वनुगामिधर्माश्रयेत्यर्थः । बिम्बप्रतिबिम्बगर्भवस्तुप्रतिवस्तुभावनिर्देशे तद- भावादिति दिक् । इदं तूपमेयोपमात्वप्रयोजकं लक्षणम् । अनुगतानतिप्रसक्तलक्षणं तु- १. 'तत्र'क.
काव्यमाला। आशामा 'सदृशस्य तृतीयस्य व्यवच्छेदाय यद्भवेत् । अन्योन्येनोपमेयत्वं सोपमेयोपमा मता ॥' इति द्रष्टव्यम् । अत्रान्योन्येनेति विशेषणं 'अहमेव गुरुः सुदारुणानाम्' इति प्रतीपविशेषव्यावृत्त्यर्थम् । अथोदाहरणानि । तत्र धर्मस्य साधारण्ये यथा- 'खमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ।' इयं प्रतीयमानसाधारणधर्मा । वाच्यसाधारणधर्मा यथा -'सुगन्धि नयनानन्दि' इत्यादि। यथा वा- 'गिरिरिव गजराजोऽयं गजराज इवोच्चकैर्विभाति गिरिः । निर्झर इव मदधारा मदधारेवास्य निर्झरः स्रवति ॥' अत्रोपमेयोपमाद्वयस्य परस्परानुगृहीतत्वेन विच्छित्तिविशेषोऽधिकः । वस्तुप्रतिवस्तुभावो यथा—'सच्छायाम्भोजवदना' इत्यादि । इदं वस्तुप्रतिवस्तुभावस्य बिम्बप्रतिबिम्बविशेषणत्वे उदाहरणम् । त- द्विशेष्यत्वे यथा- 'वकं पद्ममिवैतस्या नेत्र भृङ्गमनोहरम् । पद्मं वक्रमिवाभाति मृगलोचनभूषितम् ।। एतानि पर्यायोपमेयोपमोदाहरणानि । युगपदुपमेयोपमोदाहरणं तु- 'तबल्गुना युगपदुन्मिषितेन' इत्यादि । तत्रापि यथासंभवं पूर्वोक्ता भेदा उन्नेयाः ॥ इत्युपमेयोपमाप्रकरणम् । अथानन्वयः- प्रत ३२ एकस्यैवोपमानोपमेयत्वेऽनन्वयो मतः। एवकारबलादेकस्यामेवोपमितिक्रियायामिति गम्यते । तेनोपमेयोप. मायां रसनोपमायां च नातिव्याप्तिः । उदाहरणम्-'गगनं गगनाकारं १. 'चित्रमीमांसायां' क.
चित्रमीमांसा। ४१ - सागरः साबरोपमः' । अयं प्रतीयमानधर्मः । निर्दिष्टधर्मों यथा- 'न केवलं भाति नितान्तकान्तिनितम्बिनी सैव नितम्बिनीव । यावद्विलासायुधलास्यवासास्ते तद्विलासा इव तद्विलासाः ॥' ननु- 'पितुर्नियोगाद्वनवासमेवं निस्तीर्य रामः प्रतिपन्नराज्यः । धर्मार्थकामेषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिम् ॥' इत्यत्रैकस्यैव रघुपतेरुपमानत्वमुपमेयत्वं च । न च तत्रानन्वयः । समुच्चयोपमया तस्य धर्मार्थकामेष्वनुजेषु च समवृत्तिमात्रस्यैव प्रतिपाद्यतया सदृशान्तरव्यवच्छेदे तात्पर्याभावात् । तथा 'त्यक्ष्यामि वैदेहसुतां पुरस्ता- समुद्रनेमिं पितुराज्ञयेव' इत्यत्राप्यस्ति खस्यैवोपमानत्वमुपमेयत्वं च । तत्रापि नानन्वयः । पितृनियोगात्शितित्याग इवापवादात्सीतात्यार्गेःच सह- शान्तरप्रसक्त्यभावेन तद्यवच्छेदस्य फलत्वायोगाच्च । एवम्- 'उपाददे तस्य सहस्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् ।। स तहुकूलादविदूरमौलिर्बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥ इत्यादावप्येकस्यैवोपमानोपमेयभावः स्पष्टः । न चैतेषु क्वचिद्धर्मादिषु वृत्तेरवरजेषु वृत्तेश्वोपमानोपमेयभावः । अन्यत्र क्षितित्यागस्य सीतात्यागस्य चापरत्र गङ्गापतनस्य दुकूलसंनिधानस्य च । न तु कचिदप्येकस्यैव धर्मिण उपमानोपमेयभावः । विशिष्टान्वयिनोऽपि विशेष्यबाधे विशेषणसं- क्रमौचित्यादिति वाच्यम् । यथा धर्मार्थकामेषु समवृत्तिं प्रपेदे तथा- वरजेष्वित्यादिप्रकारेणैकस्यैवोपमानोपमेयभावे निबद्धेऽपि तस्य विशेष- णसंक्रान्तिकल्पने 'पाण्ड्योऽयमंसार्पितलम्बहारः' इत्यादीनामपि हारनिर्झरा- दीनामेवोपमानोपमेयभावः स्यादिति बिम्बप्रतिबिम्बोदाहरणमात्रविलोपप्र. सङ्गात् । 'रामरावणयोर्युद्धम्' इत्यादावभेदेऽप्युपमानोपमेयभावमभ्युपग- च्छतामालंकारिकास्किाणां विशेष्यबोधस्यापरिहरणीयत्वाच्च । तस्मादत्र 'सविशेषणे हि' इति न्यायोपन्यासो वाक्यमीमांसकानां शोभते नालं- १. 'सविशेषणे हि विधिनिषेधी सति विशेष्ये बाधे विशेषणमुपसंक्रामतः' इति.
४२ काव्यमाला। कारमीमांसकानाम् । वाक्यमीमांसका ह्यभेदे उपमानोपमेयभावनिर्देश एवं नास्तीति मन्यमाना 'रामरावणयोयुद्ध' इत्यादावद्यतनस्य पूर्वेद्युस्तनं युद्ध- मुपमानम् । एतत्कल्पगगनस्य कल्पान्तरगगनमुपमानमित्यादि कल्पयन्ति । तस्मादालंकारिकमते एतेष्वेकस्यैवोपमानोपमेयभाव इति लक्षणमतिव्याप्त- मिति चेत् । अत्र ब्रूमः 'खस्य खेनोपमा या स्यादनुगाम्येकधर्मिका । अन्वर्थनामधेयोऽयमनन्वय इतीरितः ॥' खस्य खेनेति विशेषणादुपमेयोपमायां रसनोपमायां च नातिव्याप्तिः । अनुगाम्येकधर्मिकेति विशेषणादुदाहृतोपमाविशेषेषु नातिव्याप्तिः । यद्यपि तेष्वपि समां वृत्तिं प्रपेदे इत्याद्यंशेऽनुगामिधर्मप्रवेशः । तथाप्येको न भवति । धर्मार्थकामावरजादिबिम्बप्रतिबिम्बभावकरम्बितत्वात् । अत ए. वैकग्रहणमप्यर्थवत् । अन्वर्थनामधेय इति तु न लक्षणान्तर्गतम् । किं तु खेन खस्योपमाप्यनुगाम्येकधर्मा चेदेवानन्वयो नान्यथेत्यत्रोपपत्तिमात्रप- रम् । धन्यैक्ये हि खस्य स्खेनोपमा नान्वेतीत्यनन्वय इत्यन्वर्थ नाम भवति । अनन्वय्यर्थनिबन्धनवशाच्चानुपमत्वद्योतनफलपर्यन्तं धावेत्। धर्मभेदे तु एक- धर्मावच्छिन्नेन खेनैव धर्मान्तरावच्छिन्नस्य स्खस्योपमान्वेतीति न तत्रा. न्वर्थ नाम, न वानन्वय्यर्थनिबन्धनाधीनानुपमत्वफललाभः । इदमनन्वयत्व- प्रयोजक लक्षणम् । लक्षणमात्रं तु 'यत्र तेनैव तस्य स्यात्' इति भाम- होक्तमनुसंधेयम् । 'उभौ यदि व्योम्नि पृथक्प्रवाही' इत्यतिशयोक्तिविशे- वेऽनुपमत्वद्योतनफलसाम्यकल्पनावत्यतिव्याप्तिनिरासाय तेनैव तस्येति वि- शेषणम् । अयमनन्वयो व्यङ्गयोऽप्यस्ति । यथा- 'अद्य या मम गोविन्द जाता त्वयि गृहागते । कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ॥' अत्र गृहागतं श्रीकृष्णं प्रति विदुरवाक्ये इयं त्वदागमनप्रभवा प्रीति- बहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेत् नान्येनेत्युक्तिभन्या त्व.
चित्रमीमांसा। ४३ दागमनप्रभवप्रीतेः सैव सदृशी न वितरप्रभवेति व्यज्यते । एतादृशव्या- वृत्त्यर्थमनन्वयालंकारलक्षणेऽव्ययत्वविशेषणं पूर्ववद्रष्टव्यम् ॥ इलनन्वयप्रकरणम् । अथ स्मरणालंकारः- स्मृतिः सादृश्यमूला या वस्वन्तरसमाश्रया । सरणालंकृतिः सा स्यादव्यङ्ग्यसविशेषिता ॥ यथा- - 'अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार । सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ।।' यथा वा- 'दिव्यानामपि कृतविस्मयां पुरस्ता- दम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्ती- मस्सार्षीजलनिधिमन्थनस्य शौरिः ।। एकत्र सदृशदर्शनात्तत्सदृशधर्मिका स्मृतिः । इतरत्र सदृशदर्शनात- त्सदृशलक्ष्मीसंबन्धिनो जलनिधिमन्थनस्य स्मृतिः । उभयत्रापि सादृश्यमू- लकवस्त्वन्तरस्मृतित्वमविशिष्टम् । अत एव सदृशासदृशसाधारण्यार्थतया लक्षणे वस्त्वन्तरग्रहणमर्थवत् । 'सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति । वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ्गं यतः क्कासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि ॥' अत्र श्रुतकुरसंबन्धिनस्तन्नयनस्य स्मरणातत्सदृशसीतानयनस्मृति- स्तत्संबन्धिसीतास्मृतिश्चेति । किं त्वेषा व्यजया, अलंकार्यभूता च । व- व्यावृत्यर्थमव्ययत्वविशेषणम् । .
काव्यमाला। 'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव- स्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्तटो मुद्रिताः ॥' स्तूयमानभूसंबन्धिनो भूभृद्भुजस्य स्मृतिर्न सादृश्यमूलेति नात्र स्मर- णालंकारः । किं तु स्मृतेः संचारिभावस्य भूभृद्विषयरतिभावाङ्गत्वात्प्रेयो. ऽलंकारः। 'स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् । ऋषीज्योतिर्मयान्सप्त सस्मार स्मरशासनः ॥' अत्र चिन्तामूला स्मृतिः । विच्छित्तिविशेषाभावान्न कश्रिलंकारः । ए- तदुभयव्यावृत्त्यर्थ सादृश्यमूलेति विशेषणम् । एवमेते भेदाभेदसाधारण- साधर्म्यमूला अलंकाराः प्रदर्शिताः ॥ इति स्मरणालंकारप्रकरणम् । । अथाभेदप्रधानेषु प्रथमं रूपकं निरूप्यते- आरोपविषयस्य स्यादतिरोहितरूपिणः । उपरञ्जकमारोप्यमाणं तद्रूपकं मतम् ॥ अत्रारोपविषयस्येत्यनेनोत्प्रेक्षातिशयोक्त्योावृत्तिः । तत्र मुखादेरारो- पविषयत्वाभावात् । अतिरोहितरूपिण इत्यनेन ससंदेहप्रान्तिमदपहुतीनां व्यावृत्तिः । तेषु संदेहान्त्यपहवैर्विषयस्य तिरोधानात् । उपरञ्जकमि- त्यनेन समासोक्तिपरिणामव्यावृत्तिः । तयोर्हि नोपरञ्जकत्वं विषयेवतादू- प्यापादकत्वलक्षणम् । समासोक्तौ व्यवहारमात्रसमारोपेण ताद्रूष्यप्रतीतेरे- वाभावात् । परिणामे आरोप्यमाणस्यैव विषयताद्रूप्यापत्त्या विषयस्यारो- प्यमाणताद्रूप्यापत्त्यभावादित्याहुः ॥ अत्रेदं विचार्यते । आरोपाध्यवसाययोः कीदृशं भेदमभिसंधायारोप- विषयस्येत्यनेनोत्प्रेक्षाव्यावृत्तिरुच्यते । यदि विषयविषयिणोरभिहितयोरमे- दप्रतिपत्तिरारोपः । विषयनिगरणेन • विषयिणस्तदभेदप्रतिपत्तिरध्यवसाय चित्रमीमांसा। ४५ इति भेदमभिसंधाय, तदोत्प्रेक्षारोपमूलैव स्यात् । तत्र 'नूनं मुखं चन्द्रः' इति विषयस्य मुखस्याप्यभिधानेन तन्निगरणाभावात् । ततश्च तत्रातिव्या- प्तिरनिवारितैव स्यात् । ताप्यप्रतिपत्तिरारोपस्तदभेदप्रतिपत्तिरध्यवसाय इति तयोर्भेदः । 'मुखं चन्द्रः' इत्यादिरूपके चन्द्रस्य यद्रूपं चन्द्रत्वं तेन रूपवत्तामात्रं मुखस्य प्रतीयते । न तु प्रसिद्धचन्द्राभेदः । 'मुखविषयायां चन्द्रः' इत्याद्यतिशयोक्तौ तु तदभेद एव प्रतीयत इति चेत् । न । वैपरी- त्यस्यापि वक्तुं शक्यत्वात् । न च वाच्यम् । 'इन्दोरपि मृगाक्षीणां मुखेन्दुरतिरिच्यते । निर्जरैः पीयमानोऽपि यः कदाचिन्न हीयते ॥' इति मुखचन्द्रस्य प्रसिद्धचन्द्रायतिरेकवर्णनं तदभेदप्रतिपत्तौ न संभव- तीति रूपके तादृप्यप्रतिपत्तिरेवेति । तथा सति हि 'सुधाबद्धप्रासैरुपवनचकोरैरनुसृतां किरज्योत्स्नामच्छां लवलिफलपाकप्रणयिनीम् । उपप्राकाराग्रं प्रहिणु नयने तर्कय मना- गनाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥' 'अपरः पाकशासनः' इत्याद्यतिशयोक्तौ 'अपर इव पाकशासनः' इत्या- द्युप्रेक्षायां च रूपकवदेव प्रसिद्धचन्द्राद्यभेदप्रतिपत्त्यभावेन तादूप्यप्रति- पत्तिरेव स्यादिति तयोर्लक्षणस्यातिव्याप्तिरनेनानिवारिता स्यात् । अथ तत्र प्रसिद्धचन्द्राद्यभेदप्रतिपत्त्यभावेऽप्युपात्तकल्पितापरचन्द्राद्यभेदप्रतिपत्तिः सं- भवतीति चेत् । रूपकेऽप्येवं वक्तुं शक्यमित्यसंभव एव लक्षणस्य स्यात् । किं चातिरोहितरूपिण इत्यनेन ससंदेहभ्रान्तिमतोरतिव्याप्तिवारणेऽपि ना- पहवेऽतिव्याप्तिवारणम् । 'नेदं मुखं किं तु चन्द्रः' इत्यत्र मुखे मुखत्वा- भावारोपस्य चन्द्रत्वारोपस्य चाहार्यत्वेन विषयतिरोधायकत्वाभावात् । आ- हार्यारोपस्यापि तिरोधायकत्वे रूपकेऽपि लक्षणस्यासंभवः स्यात् । उत्प्रे- क्षाया अप्याहार्यसंभावनारूपाया अतिरोहितरूपिण इत्यनेनैव व्यावृत्तिसि- द्धावारोपविषयस्येति विशेषणस्य वैयर्थ्यं च स्यात् । अतिशयोक्तौ विष- यस्य निगीर्णस्य तिरोहितत्वेन तस्यां अप्यनेनैव व्यावृत्तिः । अपि च । ५ चि.
काव्यमाला। 'त्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ॥' इति निदर्शनायामतिव्याप्तिः । तत्रोपमेयवाक्यार्थे उपमानवाक्यार्थता- दूप्यारोपसद्भावात् । यदि चारोपविषयस्य पदार्थस्येति विशेषणम् । तथा- प्यलक्तककृतत्वत्पादनखमार्जनं श्रीखण्डलेपकृतविधुपाण्डुरीकरणमिति नि- दर्शनायामतिव्याप्तिः। 'अनिदण्डो हरेरूर्ध्वमुरिक्षप्तो बलिनिग्रहे । विधिविष्टरपद्मस्य नालदण्डो मुदेऽस्तु वः ॥' इति रूपकेऽव्याप्तिश्च । यत्तु सरखतीकण्ठाभरणोक्तं लक्षणम् 'यदोपमानशब्दानां गौणवृत्तिव्यपाश्रयात् । उपमेये भवेद्वृत्तिस्तदा तद्रूपकं विदुः ॥' इति । तदप्यतिशयोक्तावतिव्याप्तम् । 'मुखं चन्द्रः' इति रूपके चन्द्रशब्दस्य मुखे गौणसारोपलक्षणा । चन्द्र इत्यतिशयोक्तौ साध्यवसानलक्षणेत्यालं- कारिकसिद्धान्तात् । वस्तुतस्त्वतिशयोक्तावेव लक्षणा न तु रूपके इति शक्यं व्यवस्थापयितुम् । तथाहि । अतिशयोक्ती विषयाभिधायिमुखादि- पदाप्रयोगाच्चन्द्रादिपदेनैव तत्प्रत्यायनं कार्यमिति तस्य तत्र लक्षणावश्य- मास्थेया । रूपके विषयविषयिणोः स्वस्ववाचकाभिहितयोरभेदप्रतिपत्तिः संसर्गमर्यादयैव संभवतीति किमर्थं तत्र लक्षणा, अशक्या च तत्र लक्ष- णाभ्युपगन्तुम् । कथम् । 'मुखं चन्द्र' इत्यत्र लक्षणया मुखे प्रवर्तमानं चन्द्रत्व केन निमित्तेन प्रवर्तेत । मुखत्वेन वा, मुखासाधारणकान्तिविशेषेण वा, च. न्द्रत्वेन वा, चन्द्रासाधारणकान्तिविशेषेण वा, मुखचन्द्रोभयानुगतकान्तिसा- मान्येन वा, मुखगतचन्द्रसादृश्येन वा । नाद्यः । मुखपदेन पौनरुक्त्यापत्तेः । मुखत्वस्य शक्यासंबन्धित्वेन तेन निमित्तेन लक्षणायोगाच्च । अत एव न द्वितीयः । न तृतीयचतुर्थी । मुखावृत्तिधर्मयोस्तत्र प्रवृत्तिनिमित्तत्वायो- गात् । न पञ्चमः । कान्तिमान्मुखचन्द्र इत्यत्र कान्तिमत्पदेन पौनरुक्त्या- पत्तेः । नापि षष्ठः । सादृश्यस्य शब्दप्रतिपाद्यत्वेनाव्यङ्ग्यत्वेन रूपकस्यो , १. 'मुखगतासाधारण' ख-ग.
चित्रमीमांसा। ॥ पमापृथग्भावानुपपत्तेः । अभेदप्रधानं रूपकमिति सिद्धान्तविरोधाच्च । त- स्माद्रूपके स्वखपदाभिहितयोर्विषयविषयिणोरभेदप्रतिपत्तिः संसर्गमर्यादयेत्येव वक्तव्यमिति लक्षणस्यासंभवोऽपि दोषः । यदा तु 'वक्रेन्दौ तव सत्ययं य- दपरः शीतांशुरुजृम्भते । 'द्वौ चन्द्रौ जगतो राजन्स दिवि त्वं महीतले' इत्यादौ विषयस्य प्रसिद्धचन्द्राभेदप्रतिपत्तिर्न संभवतीति कथंचिदिन्द्वादि- पदस्य विषये लक्षणा कल्प्यते । तथापि 'कान्तिमान्मुखचन्द्र' इत्यादौ का ठकाध्यापकादिवत्संसर्गमयादयैवाभेदप्रतिपत्तिसंभवेनातिक्लिष्टलक्षणाश्रयणा- योगात्तत्राव्याप्तिर्वज्रलेपायते । अपि च । 'सेतुः शैलैस्त्वया बद्धः पूर्वं जेतुं दशाननम् । कं जेतुमद्य बध्नासि यशश्चन्द्रोपलैः प्रभो ॥' 'चिराद्यत्कौतुकाविष्टं कल्पवृक्षमुदीक्षितुम् । तन्मे सफलमद्यासीन्नेत्रं त्वय्यवलोकिते ॥' इत्यादौ व्यङ्गयरूपके चाव्याप्तिः । अत्र ह्याद्ये वयं प्रभुं प्रति रावण- वधाय त्वया सेतुर्बद्ध इति निर्दिश्यमानेन वस्तुना त्वमेव राम इति रूपक व्यज्यते । न च तत्र विषये गौणं रामपदमस्ति । द्वितीये त्वामवलोकयता मम नेत्रेण चिरकाङ्कितं कल्पवृक्षावलोकनं लब्धमिति प्रतीयमानेन विशे- षालंकारेण त्वमेव कल्पवृक्ष इति रूपकं व्यज्यते । तत्र कल्पवृक्षपदं प्रसि. द्धकल्पवृक्षपरमेव न विषयलक्षकमिति स्पष्टम् । 'ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ।' इति शुद्धसारोपलक्षणामूलकरूपके चाव्याप्तिः । तत्र ह्यानन्दहेतुत्वा- दानन्दत्वरूपणं न त्वौपम्यात् । यत्तु 'आयुघृत'मित्यादौ विच्छित्तिविशेषाद- र्शनाच्छुद्धसारोपलक्षणास्थले न कश्चिदलंकार इति । तदयुक्तम् । ‘गौ;- हीक' इत्यादौ विच्छित्तिविशेषादर्शनेन गौणसारोपलक्षणास्थलेऽप्यलंकार- त्वाभावप्रसङ्गात् । क्वचिद्वैचित्र्यादर्शनेऽप्यन्यत्र वैचित्र्यवति स्थलेऽलंकार- त्वमिहापि वक्तुं युक्तम् । 'नेत्रानन्देन चन्द्रेण' इति + 10ो ४८ काव्यमाला। 'आयुर्दानमहोत्सवस्य, विनतक्षोणीभृतां मूर्तिमान् विश्वासो, नयनोत्सवो मृगदृशां, कीर्तेः प्रकाशः परः । आनन्दः कलिताकृतिः सुमनसां, वीरश्रियो जीवितं धर्मस्यैष निकेतनं, विजयते वीरः कलिनेश्वरः ॥' इत्यादौ शुद्धसारोपलक्षणास्थलेऽपि वैचित्र्यदर्शनात् । यदि तु हेतुमता सह हेतोरभिधानमभेदतो हेतुरिति, मतान्तराश्रयेण तत्र हेत्वलंकारो न रूप. कमित्यभ्युपगम्येत । तदा 'आरोपविषयस्य स्यात्' इति पूर्वोदाहृतलक्षणस्य तत्राठ्याप्तिः । एवम्-'उपमैव तिरोभूतभेदा रूपकमुच्यते । तद्रूपकम- भेदो य उपमानोपमेययोः' इत्यादिलक्षणेष्वप्यतिव्याप्त्यादिदोषा यथासंभ- वमुन्नेयाः । अत्र वदामः- 'बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिद्भुते । उपरञ्जकतामेति विषयी रूपकं तदा ॥' बिम्बाविशिष्ट इति विशेषणात् 'त्वत्पादनखरत्नानाम्' इति निदर्श- नायां नातिव्याप्तिः । तत्र हि चन्द्रो यथा खतः शुभ्रत्वादनासञ्जनीयधा- वल्यस्तथा नखाः स्वतोऽरुणत्वादनासञ्जनीयारुण्या इति सादृश्येन नखानां चन्द्रस्य च बिम्बप्रतिबिम्बभावः । अलक्तकचन्दनयोरन्यत्र खवर्णासञ्जक- त्वेन । ततश्च तत्र बिम्बभावान्नखालक्तकविशिष्टे एव रञ्जने तत्प्रतिबि- म्बभूतचन्द्रचन्दनविशिष्टपाण्डुरीकरणमुपरञ्जकम् । एवमन्यत्रापि 'अर- ण्यरुदितं कृतम्' इत्यादिताद्रूप्यारोपवन्निदर्शनोदाहरणे सर्वत्र बिम्बभावा- पन्नवस्तुविशिष्ट एवोपमेये तत्प्रतिबिम्ब विशिष्टमुपमानमुपरञ्जकमिति न क्वाप्यतिव्याप्तिः । रूपके तु न कचिदपि बिम्बप्रतिबिम्बभावापन्नधर्मवि- शिष्टतया विषयविषयिणोरुपादानम् । सावयवरूपकेऽपि विशेष्यरूपणात्पृ. थगेवावयवेषु रूपणं न त्ववयवविशिष्टरूपेण विशेष्ये । 'अशिदण्डो हरे- रूर्ध्वम्' इत्यत्राप्यधिदण्डनालदण्डयोर्न बिम्बप्रतिबिम्ब विशिष्टता । तयोः प्रतीयमानेन श्यामलत्वविधातृविष्टरकमलश्लिष्टत्वाद्यनुगामिधर्मेणैवोपमानो. पमेयभावात् । किं तु विधातृविष्टरकमलश्लिष्टत्वरूपसाधारणधर्मवत्तासंपा. दनार्थ विशेषणविशिष्टतामात्रमुपमेयस्य ।
चित्रमीमांसा। ४९ निर्दिष्ठ इति विशेषणान्न निगीर्णविषयायामतिशयोक्त्यामतिव्याप्तिः । व्यङ्गयरूपकोदाहरणेषु विषयिवाचकाप्रयोगसंभवेऽपि विषयनिर्देशः सार्व- त्रिक इति न तत्राव्याप्तिः । 'नेत्रानन्देन' इत्यादौ हेत्वलंकार इति मते विषय इत्यनेनोपमेय इत्येतदर्थकेन तव्यावृत्तिः । तत्रापि रूपकमित्येकावली. कारादिमते विषयपदं धर्मिमात्रपरं स्पष्टार्थम् । अनिकुते निषेधास्पृष्ट इति विशेषणादपढ़तौ नातिव्याप्तिः । उपरञ्जकतामाहार्यताप्यनिश्चयगोचरतामेतीत्यनेन ससंदेहोत्प्रेक्षासमा- सोक्तिपरिणामभ्रान्तिमत्खतिव्याप्तिनिरासः । ससंदेहोत्प्रेक्षयोनिश्चयस्यैवा- भावात् । समासोक्तौ परिणामे च तस्य ताप्यागोचरत्वात् । समासोक्तौ व्यवहारमात्रसमारोपात् । परिणामे आरोप्यमाणस्यैव विषयताद्रूप्यगोचर- त्वात् । भ्रान्तिमति सतः कल्पितस्य वा प्रवृत्त्यादिपर्यन्तस्य खारसिकस्यैव निबन्धने तस्यानाहार्यत्वात् । अव्यङ्ग्यविशेषणाच्चैतदेवालंकारभूतस्य रूपकस्य लक्षणमिति सर्व स्थम् । तच्च रूपकं त्रिविधम्-निरवयवं सावयवं परम्परितं च । निरवयवं केवलं माला चेति द्विविधम् । सावयवंतु समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विविधम् । परम्परितं च श्लिष्टाश्लिष्टशब्दनिवन्धनत्वेन द्विविधं सत्केवलं माला चेति द्वैविध्याच्चतुर्विधम् । एवमष्टविधो रूपकालंकारः । तत्र केवलं निर. वयवं यथा-- 'कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु य- सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् । अनिद्रं यच्चान्तः खपिति तदहो वेयभिनवां प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ॥' मालानिरवयवं यथा- 'सोन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मणकर्म नर्मवचसामुल्लासनावासभूः । सु. १. 'नर्मरहस' क-ख-ग.
५० काव्यमाला। - विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षाक्रिया प्राणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ।।' समस्तवस्तुविषयं सावयवं यथा- 'ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकार्थी- नन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् । द्वीपावीपं भ्रमति दधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ।' एकदेशविवर्ति सावयवं यथा- 'प्रौढमौक्तिकरुचः पयोमुचां बिन्दवः कुटजपुष्पबन्धवः । विद्युतां नभसि नाट्यमण्डपे कुर्वते स्म कुसुमाञ्जलिश्रियम् ॥' अत्र नभसो नाट्यमण्डपत्वेन रूपणाद्विद्युतामर्थान्नर्तकीत्वं गम्यते । इ- त्येकदेशे रूपकस्य विशेषणवाच्यतया वर्तनादिदमेकदेशविवर्ति । श्लिष्टशब्दनिबन्धनं केवलपरम्परितं यथा- 'अलौकिकमहालोकप्रकाशितजगत्रयः । स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान् ।।' अत्र त्वमेव मुक्तारत्नमित्यारोपणपूर्वकः सद्वंश उत्तमान्वय एव सद्वंश उत्कृष्टवेणुरित्यारोप इति रूपकद्वयमपि संभूतपरम्परमिति परम्परितम् । वंशे श्लिष्टशब्दनिबन्धनं च । तदेव मालापरम्परितं यथा- 'विद्वन्मानसहंस वैरिकमलासंकोचदीप्तद्युते दुर्गामार्गणनीललोहित समित्वीकारवैश्वानर । सत्यप्रीतिनिधानदक्ष विजयप्राग्भाव मीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिश्चमुच्चैः क्रियाः॥' अश्लिष्टशब्दनिबन्धनं केवलं परम्परितं यथा- 'निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रपञ्चम् । प्रथममिह भवान्स कूर्मनाथो जयति चतुर्दशलोकवल्लिकन्दः ।। - १. 'बाणाः पञ्चशिलीमुखस्य' ग.
चित्रमीमांसा। ५१ - - - तदेव.मालापरम्परितं यथा- 'पर्यको राजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गः सङ्ग्रामत्रासताम्यन्मुरलपतियशोहंसलीलाम्बुवाहः । भग्नप्रत्यर्थिवंशोल्बणविजयकरिस्त्यानदानाम्बुपट्टः खड्गश्मासौविदल्लः समिति विजयते मालवाखण्डलस्य ॥' इदं वैधघेणापि दृश्यते । तत्केवलं यथा- 'आवृण्वतो लोचनमार्गमाजौ रजोऽन्धकारस्य विजृम्भितस्य । शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूदुधिरप्रवाहः ।।' मालारु पकं यथा- 'सौजन्याम्बुमरुस्थली सुजनतालेख्यधुभित्तिर्गुण- ज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वयुच्छच्छटा । यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् ।।' एवमष्टौ भेदा रूपकालंकारस्य प्राचीनैः प्रदर्शिताः । एवं भेदा उप- माया अपि वक्तुं शक्याः । एकत्र प्रदर्शितेन प्रकारेण संभवस्थलेऽन्यत्राप्यु- नेतुं शक्या इति न प्रदर्शिताः । तथाहि । 'वागर्थाविव संपृक्तौ' इत्यादी केवलनिरवयवोपमा । 'ज्योत्स्लेव नयनानन्दः' इत्यादौ मालानिरवयवोपमा । 'ततः प्रतस्थे कौबेरी भाखानिव रघुर्दिशम् । शरैरुौरिवोदीच्यानुद्धरिष्यबसानिव ॥' इत्यत्र समस्तवस्तुविषयसावयवोपमा । 'नेत्ररिवोत्पलैः पद्मर्मुखैरिव सरःश्रियः । पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ॥' इत्यत्रैकदेशविवर्तिनी । 'अत्यन्तरागिणमपि निपीतवसुसंचयम् । गणिकेवापरदिशा पूषाणं निरकासयत् ।' इत्यत्राप्येकदेशविवर्तिनी । पूर्वत्र विशेषणोपमार्या विशेष्योपमा गम्यते, उत्तरत्र विशेप्योपमया विशेषणोपमेति भेदः ।
५२ काव्यमाला। 'दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला । आभाति वेला लवणाम्बुराशेर्धारानिबद्धव कलङ्करेखा ॥' इत्यत्राश्लिष्टशब्दनिबन्धनकेवलपरम्परितोपमा । अत्र ह्यम्बुराशेरयश्चक्रे- णोपमा । तद्धाराश्लिष्टकलङ्करेखया वेलाया उपमा चेति द्वयमपि संजातपर- म्परम् । यथा वा- 'अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे सेनानाथे स्थितेऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम् । कर्णालं संभ्रमेण व्रज कृप समरं मुञ्च हार्दिक्य शङ्कां ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः ।।' अत्र द्रोणस्यौर्वेणोपमा प्रतिबलजलधेरित्यत्रोपमायाः साधिकेत्युपमाद्वय- मपि संजातपरम्परम् । एवं 'राजहंसायते राजा विदुषामेप मानसे' इत्यत्र श्लिष्टशब्दनिबन्धनकेवलपरम्परितोपमा । उभयत्रापि मालापरम्परितमनयैव रीत्योन्नेयम् । 'रेणुध्वान्तस्य रक्तौघो बालधर्मकरायते' इति वैधर्मेण रूप- कवदुपमेति सर्वं समानम् । अयं तु विशेषः । समस्तवस्तुविषयं रूपकं न विशिष्टरूपकं भवति । विषयविषयिणोर्बिम्बप्रतिबिम्बधर्मविशिष्टयोस्ताद्रूप्यारोपे निदर्शनाया ए. वावतरणात् । सावयवोपमा तु विशिष्टोपमां गमयति । 'ततः प्रतस्थे को- बेरी भाखानिव' इत्यत्र शरैरुदीच्यानुद्धर्तुमुत्तरां दिशं प्रस्थितस्य रघोर्वि- शिष्टस्य किरण रसाशोषयितुमुत्तरां दिशं प्रस्थितेन विशिष्टेन रविणा साधर्म्यस्य फलितार्थतया लाभात् । एवं च कचिदुपमयान्यत्रोपमाया गम्यत्वं चतुर्धा पर्यवस्यति । क्वचिद्विशेषणोपमया विशेप्योपमायाः । 'विश्वजित्सर्वपृष्ठोऽतिरात्रः' इत्यत्र पृष्ठगतसर्वताविधिनेव तद्विशेष्यपृष्ठविधेः । कचिद्विशेष्योपमया विशेषणोपमायाः । वैकृतप्रधान विधिनेव प्राकृततदङ्ग- कलापविधेः । उभयमप्येकदेशविवर्तित्वेनोदाहृतम् । कचिदवयवोपमया विशिष्टोपमाया गम्यत्वम् । अङ्गप्रधानगोचरप्रत्येकविधिकलापेनेव सर्वा- ङ्गविशिष्टप्रधानगोचरप्रयोगविधेः । तत्तु समस्तवस्तुविषयोपमोदाहरणे चित्रमीमांसा। ५३ दार्शतम् । एकवाक्यतायामवयवोपमया विशिष्टोपमाया गम्यत्वे इदमुदा. हरणम् । वाक्यभेदेनापि दृश्यते- 'हस्त इव भूतिमलिनो यथा यथा लश्यति खलः सुजनम् । दर्पणमिव तं कुरुते तथा तथा निर्मलच्छायम् ॥' अत्रावयवोपमाय! यथा भूतिमलिनो हस्तो दर्पणमधिकमधिकं घर्षयन्नु त्तरोत्तरं निर्मलीकुरुते । तथा खलः सुजनमधिकं, घर्षयन्नुत्तरोत्तरं निर्मल- मेव कुरुते इति विशिष्टोपमा गम्यते । क्वचिद्विशिष्टोपमया तदवयवो. पमानां गम्यत्वम् । विशिष्टविधिनेव विशेषणविशेष्यविधीनाम् । यथा- 'त्वदाननमधीराक्षमाविर्दशनदीधिति । भ्रमद्धृङ्गमिवालक्ष्यकेसरं भाति पङ्कजम् ॥' अत्र विशिष्टेन विशिष्टस्योपमया तदवयवभूतानां भृङ्गलोचनानां केसर- नखदीधितीनां पङ्कजाननयोश्चोपमानोपमेयभावो गम्यते । एवमसंख्या उ. पमाविकल्पाः । तथा- 'किसलयकरैलतानां करकमलैः कामिनां मनो जयति । नलिनीनां कमलमुखैर्मुखेन्दुभियोषितां मदनः ॥' इत्येवमाद्या रसनारूपकाद्या रूपकविकल्पा अप्यसंख्याः । उक्तं हि काव्यालोके- 'अपर्यन्तो विकल्पानां रूपकोपमयोर्यतः । दिङ्मानं दर्शितं धीरैरनुक्तमनुमीयताम् ॥' इति । इति रूपकप्रकरणम् । - - अथ परिणामः- 'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति तल्लक्षणमुक्तम् । तत्र शक्यते । 34 जे 'यामि मनोवाकायैः शरणं करुणात्मकं जगन्नाथ । जन्मजरामरणार्णवतरणतरण्यं तवाङ्गियुगम् ॥' १. 'जगन्नाथम्' ख-ग.
५४ काव्यमाला। 'निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः । धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्याततरं रैरासे ।' 'एतान्यवन्तीश्वरपारिजातजातानि तारापतिपाण्डुराणि । संप्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि ॥' इति श्लोकेष्वारोप्यमाणानां तरण्य-नयन-प्रसूनानां तरण-निरीक्षणा-वतंस- नरूपप्रकृतकार्योपयोगे सत्यप्युक्तलक्षणकृतालंकारसर्वस्वकारेणैव रूपक- मङ्गीकृतम् । 'आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ।।' इत्यादिश्रुतावारोप्यमाणानां रथिरथादीनां 'सोऽध्वनः पारमामोति त- द्विष्णोः परमं पदम्' इति वक्ष्यमाणाध्वपारगमनरूपप्रकृतकार्योपयोगे सत्यपि भगवता बादरायणेन आनुमानिकमप्येकेषामिति चेत् न शरीर- रूपकविन्यस्तगृहीतेर्दर्शयति च' इति शारीरकसूत्रे रूपकंमङ्गीकृतम् । अ- तस्तेषु लक्षणस्यातिव्याप्तिः । एवम्- 'भिन्नेषु रत्नकिरणैः किरणेप्विहेन्दो- रुच्चावचैरुपगतेषु सहस्रसंख्याम् । दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ॥' इति भ्रान्तिमति, 'विकसदमरनारीनेत्रनीलाजपण्डा- न्यधिवसति सदा यः संयमाधःकृतानि । न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रिय वः ॥' इत्यपहुतौ, 'उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयःकृतेन किम् । त्रपासरिदुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ॥' १. 'ररास' क-ग. २. 'संप्रत्यहं पश्य तडिद्वधूनाम्' ख; 'संप्रत्यहं यस्य तडिद्वधूनाम्' ग; 'संप्रत्यहं यस्य हरिद्वधूनाम्' घ. ३. 'खण्डानि' क-घ.
15233 चित्रमीमांसा। इत्यतिशयोक्ती, 'चक्रभ्रमणकरत्वात्कुदृष्टिभिर्दूरवर्ण्यमानत्वात् । श्रुत्यन्तखेलनत्वान्मशक त्वामेव माधवं मन्ये ॥' इत्यनुमाने चातिव्याप्तिः । भ्रान्तिमत्यहिमांशोर्विकासे, अपद्रुतावमर- नारीनेत्राणां ब्रह्मचर्यवितरणे, अतिशयोक्तो कुम्भयुगस्य सरित्तरणे, अनु- माने माधवस्य चक्र भ्रमणे च प्रकृतकार्योपयोगित्वात् । अपहृतौ 'तं यथा यथोपासते तथैव भवति' इति तत्क्रतुन्यायेन संयमाधःकृतामरनारीनेत्राधिष्ठा- नस्य ब्रह्मचर्यवितरणोपयोगित्वम् । 'सुहृदालापेनैव प्रणश्यति स्थास्नुरान्तरः क्लेशः । कान्तामुखचन्द्रेण हि शाम्यति रुचिरेण विरहजस्तापः ।।' इति दृष्टान्तसंकीर्णपरिणामे चाव्याप्तिः । अत्रारोप्यमाणस्योपमानकोट्य- न्तर्गताप्रकृतकार्योपयोगित्वादिति । अत्राहुः । आरोप्यमाणस्य प्रकृतात्मनोपयोगित्वे परिणाम इति ल- क्षणार्थः । न चैवं सत्युदाहृतरूपकादिप्वतिव्याप्तिः । तेप्वारोप्यमाणानां तरण्यनयनप्रसूनसूर्यादीनां खात्मनैव तरणनिरीक्षणावतंसनकमलविकासना- दिकार्योपयोगित्वसंभवेन तदर्थमझियुगविद्युद्यशश्चन्द्रादिप्रकृतात्मतापत्त्यन- पेक्षणात्।न चोक्तलक्षणस्य परिणामेऽसंभवः । यत्रारोप्यमाणं किंचित्का- योपयोगित्वेन निबध्यमानं स्वतस्तस्य तदुपयोगित्वासंभवात्प्रकृतात्मता- पत्तिमपेक्षते तत्रैव परिणामाङ्गीकारात् । यथा 'प्रसन्नेन दृगजेन वीक्षते मदिरेक्षणा' इति । अत्र त्यजस्य वीक्षणोपयोगित्वं निव- ध्यते । मयूरव्यंसकादिसमासेनोत्तरपदार्थप्राधान्यात् । न चोपमितिस- मासाश्रयणेन पूर्वपदार्थप्राधान्यादृश एव तदुपयोगित्वं निबध्यत इत्य- स्त्विति वाच्यम् । प्रसन्नेनेति सामान्यधर्मप्रयोगात् । 'उपमितं व्याघ्रा- दिभिः सामान्याप्रयोगे' इति तदप्रयोग एवोपमितसमासानुशासनात् । अजस्य च वीक्षणोपयोगित्वं न खात्मना संभवति । अतः प्रकृतगात्म- १. 'चत्रमणे प्रकृतकार्योपयोगिलातू' ख-ग-घ. २. 'प्रकृतात्मतापरिणत्यनपे- क्षणात्' ख.
काव्यमाला। तापत्त्यपेक्षणात्परिणामालंकारः । नन्वेवं 'यामि मनोवाक्कायैः' इत्यादिष्वपि तरणादिशब्दलक्षितजन्मनाशाद्युपयोगित्व _ तरण्यादीनामड्रियुगाद्यात्मनैवेति तेप्वपि परिणामप्रसङ्गः । मैवम् । यस कार्यवाचिपदप्रथमप्रतीततन्मुख्या- र्थनिर्वर्तनसामर्थ्य तदात्मनोपयोगित्वस्य ग्राह्यत्वात् ।' तरण्यादिपदमुख्यार्थ- निवर्तनसामर्थ्यस्य च तरण्यादिप्वेव व्यवस्थितत्वात् । तस्मादुदाहृतेषु रूप- कमेव । तेषु च नातिव्याप्तिरिति । नन्वेवमुक्तातिव्याप्तिपरिहारेऽपि- 'सोऽपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं दृष्टिः सा मदविस्मृतवपरदिकिं भूयसोक्तेन वा । सर्व विस्मृतवानसि भ्रमर हे यद्वारणोऽद्याप्यसा- वन्तः शून्यकरोऽपि सेव्यत इति भ्रातः क एष ग्रहः ॥' इत्यप्रस्तुतप्रशंसायामतिव्याप्तिः । तत्राप्रकृतवारणरसनाविपर्ययादीनां प्रकृतदुष्प्रभुरसनाविपर्ययाद्यात्मतयैव तत्सेवात्यागलक्षणकार्योपयोगित्वात् । न हि यथा वारणस्य कर्णचापलं भ्रमरस्य तत्सेवात्यागे हेतुः, तथा तस्य रसनाविपर्ययः शून्यकरता च तत्र हेतुः । मदः प्रत्युत तत्सेवायामेव हेतु- रिति तस्य तत्त्यागहेतुत्वं दुरापास्तम् । एवमपि यत्तेषां त्यागहेतुत्वं नि. वध्यते तद्वारणादीनामप्रकृतानां दुष्प्रभुप्रभृतितादात्म्यापत्त्यैव निर्वाह्य- मिति । 'सुहृदालापेनैव' इत्यत्रोदाहृतपरिणामेऽव्याप्तिश्च तदवस्था । तत्र चन्द्रवन्मुखस्याप्यप्रकृतत्वेन प्रकृतात्मनोपयोगित्वाभावात् । उच्यते । प्र- कृतात्मनेत्यत्र प्रकृतशब्दो विषयमात्रपर इति नोदाहृतपरिणामाव्याप्तिः । उपयोगित्वं च प्रकृतागमकार्य प्रति विवक्षितम् । अप्रस्तुतप्रशंसोदाहरणे प्रकृतदुष्प्रभुसेवात्यागगमकवारणसेवात्यागं प्रत्युपयोगित्वमिति न तत्रा- तिव्याप्तिः । एवं च- 'आरोप्यमाणमारोपविषयात्मतया स्थितम् । प्रकृतस्योपयोगि स्यात्परिणाम उदाहृतः ।।' १. 'यत्कार्यवाचिपदं प्रथमं प्रतीतं तन्मुख्यार्थनिवर्तनसामर्थ्यरूपस्य' ग; 'का- यवाचिपदप्रथमप्रतीततन्मुख्यार्थ' घ. २. 'निषेव्यत इति' ग.३. 'परिणामाव्याप्तिश्च' ख.
चित्रमीमांसा। - इति विद्यानाथलक्षणं प्रकृतस्येति पदस्य प्रकृतगमकस्येति व्याख्यानेन परिष्करणीयम् ॥ अयं च परिणामो द्विविधः । सामानाधिकरण्यवैयधिकरण्याभ्याम् । सामानाधिकरण्येन यथा- 'तीर्खा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय- स्तस्मै सौमित्रिमैत्रीमयमुपकृतवानातरं नाविकाय । व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं कृच्छ्रादन्वीयमानः क्षणमचलमथो चित्रकूटं प्रतस्थे ।' अत्रारोप्यमाण आतरो विषयभूतसौमित्रिमैत्रीरूपतापत्या गुहोपकारल- क्षणकार्योपयोगीति परिणामः । उभयोर्विभक्त्यैक्यात्सामानाधिकरण्यम् । वैयधिकरण्येन यथा- 'पुन्नागजालकैर्हारान्काञ्चीः केयूरदामभिः । कर्णिकाः कर्णिकारैश्च विहर्तुं विदधुर्वने ॥ अत्रारोप्यमाणा हारादयो विषयभूतपुन्नागजालकादिरूपतयैव वनक्री- डोपयोगिन इति परिणामः । विभक्तिभेदाद्वैयधिकरण्यम् । इदं च वैयधिकरण्यं रूपकेऽपि संभवति । यथा- 'तारानायकशेखराय जगदाधाराय धाराधर- च्छायाधारककन्धराय गिरिजासङ्गैकशृङ्गारिणे । नद्या शेखरिणे दृशा तिलकिने नारायणेनास्त्रिणे नागैः कङ्कणिने नगेन गृहिणे नाथाय सेयं नतिः ॥' अत्र नदीदृशोर्विषययोर्विभक्तिरारोप्यमाणयोः शेखरतिलकयो स्ति । यथा वा- 'द्विर्भावः पुष्पकेतोर्विबुधविटपिनां पौनरुक्त्यं विकल्प- श्चिन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः । द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्व- न्नानन्दं कोविदानां जगति विजयते श्रीनृसिंहक्षितीन्द्रः ॥' १. 'आरोपविषय' ख. २. 'केलिकालय' ग. ३. 'श्रीनृसिंहः ख-ग. - ६ चि० काव्यमाला। - अत्र विषयस्य राज्ञो विषयिणां पुष्पकेतुप्रभृतीनां च विभक्तिभेदः । अथ परिणामस्य व्यङ्ग्यतायां किमुदाहरणम् । नरसिंह धरानाथ के वयं तव वर्णने। अपि राजानमाक्रम्य यशो यस्य विजृम्भते ॥' इति विद्याधरेणोदाहृतम् । अत्र राजपदेन चन्द्रे विषये निर्दिष्टे तत्रा- रोप्यमाणस्य नृपस्याक्रमणरूपकार्योपयोगिनः प्रतीतेः परिणामो व्यज्यत इति, तदयुक्तम् । अत्र ह्यारोप्यमाणस्य नृपस्य नृपात्मनैवाक्रमणोपयोगो न चन्द्रात्मना । विद्याधरेणापि विषयिणः स्वरूपेण कार्यानुपयोगे तदुपयोगाय विर्षयिणे विषयात्मना परिणत्यपेक्षायामेव परिणामोऽङ्गीकृतः । यदाह- 'तं परिणाम द्विविधं कथयन्त्यारोप्यमाणविषयतया । परिणमति यत्र विषयः प्रस्तुतकार्योपयोगाय ॥' विद्यानाथेन तूदाहृतम्- 'एष शाम्यति वस्तापो राजपादनिषेवया । कण्टकद्रुममूलेषु वासस्तं शमयेत्कथम् ॥' इति । नास्त्यत्र प्रागुत्तदोषानुषङ्गः । नृपचरणसेवायां प्रस्तुतायामारोप्यमा- णायाः चन्द्रचरणसेवायाः नृपचरणसेवात्मतयैव तापशान्तिहेतुत्वात् । तापशब्दस्य सौरतापसाधारण्येऽपि प्रकृते राज्यभ्रंशजनिततापस्यैव वि- वक्षितत्वात् । तन्निवर्तने चन्द्रकिरणसेवायाः स्वतोऽसामर्थ्यात् । तथापि प्राचीनानां मत एवैतदुदाहरणम् । ते हि 'राजपादनिषेवया' इत्यस्य प्र- करणनियत्रितत्वादप्रकृतायां चन्द्रकिरणसेवायां शब्दशक्तिमूलो व्यञ्जना- व्यापार इति मन्यन्ते । वस्तुतस्त्वप्रकृतेऽप्यर्थे शब्दानामभिधैव व्यापार इत्यस्माभिः श्लेषप्रकरणे व्यवस्थापयिष्यमाणत्वात् , इहापि 'राजपादनिषे. वया' इत्यत्र चन्द्रकिरणसेवायामप्यभिधैव व्यापारः । अतः प्रस्तुताप्र. स्तुतद्वयताद्रूप्यप्रतीतेः श्लेषभित्तिकातिशयोक्त्यादिष्विव संसर्गविषयैव ला- भात्तस्य प्रकृतकार्योपयोगितायास्तृतीयाया लाभाच न कापि व्यञ्जनाव्या- पारापेक्षेति नेदं परिणामध्वनेरुदाहरणम् । इदं च दूषणं पूर्वोदाहरणेऽपि तुल्यम् । इदं तूदाहरणम्- १. 'विषयिण' इति ग-पुस्तके नास्ति. - THE KUPPUSWAM SESIR RESEARC!!1 MAL चित्रमीमांसा। 'चिराद्विषहसे तापं चित्त चिन्तां परित्यज । नन्वस्ति शीतलः शौरेः पादाजनखचन्द्रमाः अत्र चिरतापात प्रति हरिपादाजनखचन्द्रसद्भावप्रदर्शनेन तमेव निषे- वख, तनिषेवणादयं तापः शान्तिमेष्यतीति परिणामो व्यज्यते । एवं रूपकवलक्षण्ये परिणामो निरूपितः । तत्र रूपके प्रकृतमप्रकृतरूपापन्नं भवति, परिणामे त्वप्रकृतं प्रकृतरूपापन्नं भवतीति वैलक्षण्ये स्थिते यत्त- दुपजीव्यचक्रवर्तिनान्यथैव तयोर्वैलक्षण्यं वर्णितम् । मुखचन्द्र इति रूपके मुखं महारजवरूपेण पटवदारोप्यमाणचन्द्ररूपेण स्थगितस्वरूपं भवति । 'मुखचन्द्रेण तापः शाम्यति' इति परिणामे तु मुखमनाच्छादितस्वरूपमेव भवति । चन्द्रस्य मुखात्मनैव विरहतापशान्तिहेतुत्वादिति । उक्तं च- 'विषय्याकारमारोप्य विषयस्थगनं यथा । “दा रूपकत्वं तदा तत्र रञ्जनेन समन्वयः ॥' 'यदा तु विषयो रूपात्वस्मादप्रच्युतो भवेत् । उपयुक्त्यै तदाकारः परिणामस्तदा मतः ॥' इति । अत्रेदं विचारणीयम् । रूपके विषयस्य स्थगनं न तावत्तिरोहितरूप- त्वम् । रजतप्रमेण शुक्तिखरूपस्येवाहार्यारोपेण विषयस्य तिरोधानासं- भवात् । शारीरके च 'य एवासौ, तपति तमुद्गीथमुपासीत' इत्यत्रोद्गीथ- स्यादित्यदृष्टिविषयत्वाङ्गीकारे रजतदृष्टिविषयशुक्तिखरूपमिवोद्गीथभिन्मा- खरूपं तिरोधीयेतेत्याशङ्कयाहार्यदृष्टेरतिरोधायकत्वस्योक्तत्वात् । नापि विषय्युपसर्जनत्वम् । परिणामेऽपि तुल्यत्वात् । उभयत्राप्युत्तरपदार्थप्रधा. नस्य मयूरव्यंसकादिसमासस्याविशेषात् । अत एव विषयिविशेषितत्वं स्थगनमित्यपि निरस्तम् । विषयिणो विशेष्यत्वात् । तस्मात्स्थगनास्थगनवै- लक्षण्यवचो निरालम्बनमिति विषयात्मनोपयोगेनैव परिणामस्य रूपकाद्वै. लक्षण्यं समर्थनीयमित्यलं विस्तरेण ॥ इति परिणामप्रकरणम् ।
काव्यमाला। अथ संसंदेहः- साम्यादप्रकृतार्थस्य या धीरनवधारणा । प्रकृतार्थाश्रया तज्ज्ञैः ससंदेहः स इष्यते ॥ त्रिविधश्चायं ससंदेहः । शुद्धो निश्चयगर्भो निश्चयान्तश्च । क्रमेण यथा- 'आनीय द्विषतां धनानि विपिने राजन्यचूडामणे तेष्वालोक्य विनिर्मलं हिमकलाखण्डं करण्डं पुनः । किं वाद्यं किमु पेषणं किमु धनं किं क्षेपणीयायुधं किं वा दैवतमित्यनिश्चितधियो मन्दाः पुलिन्दा जनाः ॥ 'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैव नियतम् ।। कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ॥' 'किं तावत्सरसि सरोजमेतदारा- दाहोखिन्मुखमवभासते तरुण्याः । संशय्य क्षणमिति निश्चिकाय कश्चि- द्विब्बोकैर्बकसहवासिनां परोक्षैः ॥ इति वदन्ति । अत्रेदं विचारणीयम् । साम्यादिति किमन्नाद्धेतोर्वसती- तिवत्फलत्वेन हेतुत्वविवक्षया पञ्चमी, उत स्वतो हेतुत्वविवक्षया । आ- धेऽप्रकृतसाम्याभिव्यक्तिफलकत्वमर्थः स्यात् । तथा सति 'आनीय द्वि. पताम्' इत्याद्युदाहरणेऽव्यातिः । न हि तत्र हिमकरण्डस्य वाद्यादिसाट- श्याभिव्यक्तौ कविसंरम्भः । किं तु द्विषत्पुरमीदृशीमवस्थामापनमिति राज्ञः प्रतापातिशयाभिव्यक्तौ । द्वितीये साम्यादित्यनेन किमेकमेवाप्रकृत- साम्यं यावत्संदेहकोट्युच्छितिहेतुत्वेन विवक्षितम् , उतैकमनेकं येत्यनि- यमः । आधे 'अयं मार्तण्डः किम्' इत्याद्युदाहरणेऽव्याप्तिः । नहि तत्र 'किं लक्ष्मीरुवंशी वेयं रम्भा वा मेनकाथ वा' इत्यत्र लक्ष्मीत्यादिविक- ल्पेष्वतिशयितसौन्दर्यसाम्यवदेकमेव साम्यमिह मार्तण्डत्वादिविकल्पेषु हेतुः, १. 'सदेहः' क-ग-घ. २. 'हिमजलाखण्डं' ग.
चित्रमीमांसा - किं तु प्रतापेन दुनिरीक्षत्वसाम्यं मार्तण्डत्वविकल्पे, दुराधर्षत्वसाम्यं कृ. शानुत्वविकरपे, क्षणेन सकलसंहर्तृत्वसाम्यं कृतान्तविकल्पे च हेतुः । द्वि- तीये 'इह नमय शिरः कलिङ्गवद्वा समरमुखे करहाटवद्धनुर्वा' इति वि- कल्पालंकारेऽतिव्याप्तिः। अत्र दिग्विजयप्रवृत्तेन बलवता राज्ञा समरे प्रसक्ते यथा कलिङ्गनृपतिः 'समाक्रान्तो बलवता काकुन्नभ्रंशिनीं श्रियम् । श्रयेत वैतसीं वृत्तिं न भौजङ्गी कदाचन ॥' इति नीतिमनुसृत्यासंदिर्घ निजराज्यलक्ष्मीभ्रंशपेरिहारकामः शिरो न- मितवान् , तथा वा शिरो नमय, यथा करहाटनृपतिः 'जयेन लभ्यते ल. क्ष्मीर्मरणेन सुराङ्गना' इति नीतिमनुसृत्य युद्धकामो धनुर्नमितवान् , तथा वा धनुर्नमयेति समयोचिताप्तोपदेशे ताजचरितदृष्टान्तप्रापितानवस्थिता- र्थधीसत्वात् । न च तत्र श्लोके तादृग्धीनिबन्धनं नास्तीति नातिव्याप्ति- रिति वाच्यम् । तन्निबन्धनस्यापि लक्षणान्तर्गतविवक्षायाम्- 'जीवनग्रहणे नम्रा गृहीत्वा पुनरुन्नताः । किं कनिष्ठाः किमु ज्येष्ठा घटीयन्त्रस्य दुर्जनाः ॥' इत्यादिषु संदेहविषयनिबन्धनगम्यससंदेहालंकारेष्वव्याप्तिप्रसङ्गात् । उ- स्प्रेक्षायां वाच्यगम्यभेदवदिहापि द्विविधोदाहरणदर्शनेन वाच्यगम्यभेदेन द्वैविध्यस्याङ्गीकर्तव्यत्वात्। अपि चानवधारणेति किमुच्यते । अनिश्चयात्मकत्वमिति चेत् । तथा सति 'बालेन्दुवक्राण्यविकाशभावात्' इत्यादावुदाहरिष्यमाणायामप्रकृतसा- म्यनिमित्ततत्तादात्म्यसंभावनारूपायामुत्प्रेक्षायामतिव्याप्तिः । विरोधेन पर. स्परप्रतिक्षेपकतया निबद्धानेककोट्यवगाहित्वं विवक्षितमिति चेत् । तथापि 'अई केऽपि शशतिरे' इत्यादावुदाहरिष्यमाणायामपडुतावतिव्याप्तिः। संदे- हविकल्पयोर्वाकारादिनेव तत्रापि तत्तन्मतत्वोपन्यासेन परस्परप्रतिक्षेपसिद्धेः । १. 'संहकत्व' ख. २. 'परिहातुकामः' क. ३. 'उद्धताः' क. ४. 'संभावनाया उत्कटेकोटिसंदेहरूपत्वात् । विरुद्धानेककोट्यवगाहित्वं तदिति चेत् । तथापि मुखचन्द्र इति रूपके तिव्याप्तिः' इत्यधिकं ख-पुस्तके.
६२ काव्यमाला। 'अस्याः सर्गविधौ प्रजापतिरभूञ्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥' इति ससंदेहोदाहरणे चाव्याप्तिः । तत्र चन्द्रादीनां संदेहधर्मिणामेवा- नेकत्वम् । प्रकारस्तु सर्वत्र वर्णनीयवनितासष्मृत्वमेकमेवेत्यनेककोटिक- त्वाभावात् । न च साम्यनिमित्तत्वाभावान्न तत्र ससंदेहः । 'इतो गता सा क गता न जाने गृहं गता मे हृदयं गता वा' इति संदेहो न संग्राह्य इति वाच्यम् । वर्णनीयनायिकायाः कान्त्या चन्द्रसाम्यं सौरभसौकुमार्याभ्यां पुष्पसाम्यं च निमित्तीकृत्य किमस्यां कान्तिनिधानभूतश्चन्द्रः स्वकान्तिसंपदा स्रष्टा, उत पुष्पमासः खकीयपुष्पसंपदेति संदेहनिबन्धनात् 'शृङ्गारैकरसः स्वयं नु मदनः' इत्यंशस्य शृङ्गारविभ्रमबाहुल्यमात्रपर्यवसायित्वेन किंचित्साम्य- निमित्तत्वाभावेऽपि चन्द्रवसन्तधर्मिकांशयोस्तन्निमित्तत्वानिवारणात् । एवं च प्रकृतार्थाश्रयेत्येतदप्ययुक्तम् । उदाहृतसंदेहस्य वर्णनीयना- यिकानाश्रयत्वेनाव्याप्तिरिति चेत् । अत्र ब्रूमः । 'बुद्धिः सर्वात्मनान्योन्याक्षेपिनानार्थसंश्रया । सादृश्यमूला वार्थस्पृक्संदेहालंकृतिर्मता ॥' यद्यप्यन्योन्यप्रतिक्षेपकविरुद्धनानार्थावलम्बनत्वं विकल्पस्याप्यस्ति । त- थापि तदर्थानां सर्वात्मना परस्परप्रतिक्षेपकत्वं नास्ति किं तु पक्षे तत्प्रा. प्तिमनिरुध्य खप्राप्तिपक्ष एव खपरिपन्थिप्राप्तिप्रतिक्षेपकत्वम् । न हि 'बी- हिभिर्यवैर्वा यष्टव्यम्' इति विकल्पोद्देशे ब्रीहयो यवान् यवाश्च वीही. न्सर्वात्मना यागात्प्रतिक्षिपन्ति । तथा सति शास्त्रस्यास्यानिर्णायकत्वेना- ननुष्ठापकत्वेन चाप्रामाण्यप्रसङ्गात् किं तु खखानुष्ठानपक्ष एव । अत एव 'व्रीहिभिर्यवैर्वा यष्टव्यम्' इति संदेहेन पृष्टवन्तं प्रति 'व्रीहिभिर्यवैर्वा यष्टव्यम्' इति प्रश्नसमाकारमेव वाक्यं निर्णायकं प्रश्नमूलसंदेहनिवर्तक- मनुष्ठापकं च दृश्यते । प्रश्नवाक्ये वाकारः सर्वात्मना पक्षान्तरप्रतिक्षे. पार्थः । उत्तरवाक्ये पक्षे तप्रतिक्षेपार्थ इति विशेषसद्भावात् । एवं विक- रुपालंकारोदाहरणेऽपि द्विविधस्यापि नीतिशास्त्रस्य प्रामाण्याचदुपदिष्टफले- चित्रमीमांसा ६३ च्छानुसारेणोभयमपि पक्षेऽनुष्ठातुं युक्तमिति शिरोधनुनमनयोर्न सर्वात्मना परस्परप्रतिक्षेपकत्वमिति विकल्पालंकारे नातिव्याप्तिः । अपह्नवोदाहरणे सर्वात्मना परस्परप्रतिक्षेपसत्त्वेऽपि वाकारार्थस्पर्शाभावान्नातिव्याप्तिः। तत्र हि केचिदन्य इति मतान्तरत्वोपन्यासेन पक्षाणां परस्परप्रतिक्षेपलाभः । न तु वाकारार्थस्पर्शोऽस्ति । उत्प्रेक्षायामपि नातिव्याप्तिः। तत्र ह्युत्कटको- टिके संशयकोट्योः समबलत्वाभावेन वाकरार्थस्पर्शाभावात् । 'अस्याः सर्ग- विधौ' इत्युदाहरणे परस्परप्रतिक्षेपकनानाकोटिसमाश्रयत्वाभावेऽपि तथाभूत- नानाधर्मिरूपार्थसमाश्रयत्वसत्त्वान्नाव्याप्तिरिति सर्वमवदातम् । संदेहालंकारध्वनिर्यथामत्कुलकूटस्थवक्षःस्थलाचार्यकृते वरदराजवसन्तो- सवे- 'कांचित्काञ्चनगौराङ्गीं वीक्ष्य साक्षादिव श्रियम् । वरदः संशयापन्नो वक्षःस्थलमवैक्षत ॥' अत्र संशयस्य शब्दोपात्तत्वेऽपि तावन्मात्रस्यानलंकारत्वात् । तदलंकारताप्रयोजकस्य वक्षःस्थले स्थितैव लक्ष्मीस्ततोऽवतीर्य पुरत- स्तिष्ठतीत्येवं संशयाकारस्य वक्षःस्थलमवैक्षतेत्यनेन व्यङ्ग्यत्वात्संदेहालंका- रध्वनिरत्रेति । यथा- 'दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनु बिम्बमात्मनः कानि कान्यपि चकार लज्जया ॥ इत्यत्र कानि कान्यपीति सामान्यतो निर्दिष्टानुभावविशेषप्रतीत्यर्थल- ज्जाशब्दप्रयोगेऽपि तस्याः खविभावानुभावाभ्यां रसानुगुणाभिव्यक्तिरूपो ध्वनिः । यद्यपि 'संशयापन्नः' इत्यनेन लक्ष्म्याः पुरो दृष्टायाश्च मध्ये कस्या रूपमधिकमिति संशयाविष्ट इति वा, निःसमाधिकरूपवत्त्वाभिमानिनी लक्ष्मीः पुरत एनां दृष्ट्वा कथं वर्तत इति संशयापन्न इति वा, इयं च व- क्षसि कुत्र निवेशनीयेति संशयापन्न इति वा बहवः संशयाकारा वक्षः- स्थलमवैक्षतेत्यनेन व्यङ्ग्याः संभवन्ति, तथापि सर्वेषामपि संदेहानां साह- श्यमूलत्वाद्यतिरेकमूलसंदेहस्याप्यत्र संभवेऽपि कथंचित्सादृश्यमूलत्वात्से- देहालंकारध्वन्युदाहरणत्वमिति युक्तमेव ॥ इति संदेहालंकारप्रकरणम्। - १. 'इयं वक्षसि ख.
काम्पमाला। अथ भ्रान्तिमान्- प्रताप होते. कविसंमतसादृश्याद्विषये पिहितात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः॥ पिहितात्मनीयनेनारोप्यमाणानुभवस्य खारसिकं. कविप्रतिभया क- ल्पनं विवक्षितम् । तस्यैव विषयपिधानसामर्थ्यात् । अतो रूपकादौ नाति- व्याप्तिः । उदाहरणम्- 'कपाले मार्जारः पय इति करालेढि शशिन- स्तरुच्छिद्रप्रोतान्विसमिति करी संकलयति । रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति ॥' अत्र लेहनादिप्रवृत्तिपर्यन्ततोक्तेः खारसिक एव विभ्रमः कविप्रतिभया चन्द्रिकोत्कर्षद्योतनाय निबद्धः । क्वचिद्भान्तेरुत्तरोत्तरं पल्लवेन चमत्कारः- 'बल्लाल क्षोणिपाल त्वदहितनगरे संचरन्ती किराती कीर्णान्यादाय रत्नान्युरुतरखदिराङ्गारशङ्काकुलाङ्गी । कृत्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती श्वासामोदानुधावन्मधुकरनिकरैधूमशङ्कां करोति ।' क्वचिद्भिन्नकर्तृकोत्तरोत्तरान्तिनिबन्धनेन चमत्कारः । शिञ्जानैमञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकै- स्तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः । तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकै- रित्थं चोलेन्द्रसिंह त्वदरिमृगदृशां नाप्यरण्यं शरण्यम् ॥' क्वचिदन्योन्यविषयम्रान्तिनिबन्धनेन । यथा- 'पलाशकुसुमभ्रान्त्या शुकतुण्डे पतत्यलिः । सोऽपि जम्बूफलप्रान्त्या तमलिं धर्तुमिच्छति ।।' १. 'प्रभावित्तः' ग. २. 'जल्लाल' ग. ३. 'सां करोति' ग. ४. श्वासामोदानु. यातेः' ग-घ. 'श्वासामोदप्रसके मधुकरनिकरें' रु.
THERE५८. ASTR चित्रमीमांसा । MALE 'विस्फूर्तिमत्यां कीतौ ते विधिवैकुण्ठशंकराः । आरोढुं शयितुं वस्तुमाकान्ति महीतले ॥ पते इत्यत्र प्रान्तिमदलंकारो व्यायः । सादृश्यान्यमूलौ संदेहविभ्रमौ ससंदेहप्रान्तिमदलंकारप्रयोजको न भ- वतः। यथा- 'अमुष्य धीरस्य जयाय साहसी शरासनन्यां विशिखैः सनाथयन् । निमज्जयामास यशांसि संशये स्मरस्त्रिलोकीविजयार्जितान्यपि ॥' 'दामोदरकराघातचूर्णिताशेषवक्षसा । दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥' आधे दुर्जयविजयोद्योगसाहसप्रयुक्तः कीर्तिभ्रंशसंदेहः । द्वितीये गा- ढमर्मप्रहारकृतचन्द्रविभ्रम इति । इति भ्रान्तिमत्प्रकरणम् । अथोल्लेखालंकारः- निमित्तभेदादेकस्य वस्तुनो यदनेकधा । उल्लेखनमनेकेन तमुल्लेखं प्रचक्षते ॥ यत्र नानाविधधर्मयोग्येकं वस्तु तत्तद्धर्मयोगरूपनिमित्तभेदादनेकेन प्र- हीत्रानेकधोल्लिख्यते स उल्लेखः । 'कीर्तिगङ्गाहिमक्ष्माभृदोजःसूर्योदयाचलः । शत्रुसेनाब्धिमन्थाद्रिगुणरत्नैरोहणः ॥' इति मालारूपके एकस्य राज्ञो यशखित्वादिधर्मयोगरूपनिमित्तभेदात्तुषा- राद्रित्वाद्यनेकप्रकारेणोल्लेखनमस्तीति तत्रातिव्याप्तिनिरासायानेकेत्युक्तम् । तत्र ग्रहीतृभेदनिबन्धनं न भवत्यनेकधोल्लेखनमिति नातिव्याप्तिः । 'विद्याविक्रमसौन्दर्यतपसां निधिमागतम् । पश्यन्ति विबुधाः शूराः स्त्रियो वृद्धाश्च कौतुकात् ॥' इत्यत्रैकस्य वर्ण्यस्य विद्याधनेकधर्मयोगरूपनिमित्तभेदादनेकेन ग्रहीत्रो- १. 'मुष्टिप्रहार' ग.
६६ काव्यमाला। लेखनमस्तीति तत्रातिव्याप्तिवारणायानेकधेत्युक्तम् । तत्र कौतुकाखरूपाव- लोकनमात्रंनिबन्धनं नानेकथोल्लेखनमिति तद्व्यावृत्तिः । 'शिञ्जानैर्मञ्जरीति खनकलशयुगं चुम्बितं चञ्चरीकैः' इत्युदाहृतायामनेककर्तृकान्तिपरम्प- रायां स्तनादीनां मञ्जरीसादृश्यादिनिमित्तभेदादनेकेन 'चञ्चरीकादिना मञ्ज- रीत्वाद्यनेकप्रकारेणोल्लेखनमस्तीति तत्रातिव्याप्तिवारणायैकस्य वस्तुन इ. त्युक्तम्। 'कीर्ती विस्फूर्तिमत्यां ते मृणालक्षीरशङ्किनः । द्वयेऽपि नागास्तन्वन्ति जिह्वान्तोल्लेखनं मुहुः ॥' इति भ्रान्तिमदुदाहरणे एकस्या एव कीर्तेरनेकेन कुञ्जरभुजंगरूपेण ग्रहीत्रा मृणालक्षीरस्मत्वाद्यनेकप्रकारेणोल्लेखनमस्तीति तत्रातिव्याप्तिनिरा- साय निमित्तमेदादित्युक्तम् । तत्र कीर्तिगतं धावल्यमेकमुल्लेखद्वयेऽपि नि- मित्तम् । यद्यपि गजभुजंगानां खखप्रियाहारलोभरूपनिमित्तभेदोऽप्यस्ति, तथापि निमित्तभेदादित्यनेनैकनिमित्तविरहो विवक्षित इति तद्व्यावृत्तिः । तस्य संग्राह्यत्वे निमित्तभेदादिति खरूपकथनमात्रम् । एवमपि यदि- 'कान्त्या चन्द्र विदुः केचित्सौरभेणाम्बुजं परे । वक्त्रं तव वयं ब्रूमस्तपसैक्यं गतं द्वयम् ॥' इत्यपह्नवोदाहरणविशेषेऽतिव्याप्तिः शङ्कया, तदानीमनेकधोल्लेखनं नि- षेधास्पृष्टत्वेन विशेषणीयम् । तत्राद्योल्लेखनद्वयं परमतत्वोपन्याससामर्थ्या- गुम्यमान निषेधमिति नातिव्याप्तिः। उदा:: 'श्रीभिः कामोऽर्थिभिः खर्दुः कालः शत्रुभिरैक्षि सः ।' अत्र चानेकपोल्लेखने रुच्यर्थित्वमयादिकं यथायोगं प्रयोजकम् । रु- चिरभिरतिः । अर्थित्वं लिप्सा । द्विविधश्चायमुल्लेखः । शुद्धोऽलंकारान्त- रसंकीर्णश्च । तत्र शुद्धो यथा- 'गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवतैः । यथास्थितश्च बालाभिदृष्टः शौरिः सकौतुकम् ॥ अत्र यस्तथा भीतं भक्तं गजं त्वरया त्रायते स सोऽयमादिपुरुष इति १. 'बीमिः कामः' इत्यारभ्य 'मर्थित्वं लिप्सा' इत्यन्तः पाठः क-पुस्तके नास्ति.' - चित्रमीमांसा। ६७ - वृद्धाभिः संसारादीत्या तदभयार्थिनीभिः कृष्णः पुर। प्रविशन् दृष्टः, य- स्तथा चञ्चलत्वेन प्रसिद्धाया लक्ष्म्या अपि कामोपचारवैदग्ध्येन नित्यवल्लभ- सोऽयं दिव्ययुवेति युवतीभिः सोत्कण्ठाभिदृष्टः, बालाभिर्बालस्वभावाद्यथा- स्थितरूपवेषयुक्तो दृष्ट 'इति सर्वत्र वस्तुसता नानारूपेणोल्लेखादयं शुद्धः । यथा वा हर्षचरिते श्रीकण्ठजनपदवर्णने- 'यस्तपोवनमिति मुनिभिः, कामायतनमिति वेश्याभिः, संगीतशालेति लासकैः, यमनगरमिति शत्रुभिः, चिन्तामणिरित्यर्थिभिः, वीरक्षेत्रमिति शस्त्रोपजीविभिः, गुरुकुलमिति विद्यार्थिभिः, गन्धर्वनगरमिति गायकैः, वि- श्वकर्ममन्दिरमिति विज्ञानिभिः, लाभभूमिरिति 'वैदेहकैः, धूर्तस्थानमिति वन्दिभिः, साधुसमागम इति सद्भिः, वज्रपञ्जरमिति शरणागतैः, विटगो- ष्ठीति विदग्धैः, सुकृतपरिणाम इति पथिकैः, असुरविवरमिति वाहिकैः, शक्याश्रम इति शमिभिः, अप्सरःपुरमिति कामिभिः, महोत्सवसमाज इति चारणैः, वसुधारेति च विप्रेरगृह्यत ।' अत्र तपोवनादिभूयिष्ठत्वात्तपोवनायुल्लेखः शुद्धः । अत्रैव यमनगरत्वा- द्युल्लेखः संकीर्णः । तत्र यदि यमनगरत्वादीनामुपरञ्जकतामात्रेणान्वयस्तदा रूपकसंकरः । यदि ताद्रूप्यानुभावगोचरतया, तदा भ्रान्तिमत्संकरः । अयं चोल्लेखो वर्ण्यगुणोत्कर्षख्यापनायाचेतनकर्तृकोऽपि निबध्यते । यथा तत्रैव हर्षवर्णने- 'निःस्नेह इति धनैः, अनाश्रयणीय इति दोषैः, निग्रहरुचिरिती- न्द्रियैः, दुरुपसर्प इति कलिना, नीरस इति व्यसनैः, भीरुरित्ययशसा, दुर्ग्रह-चित्तवृत्तिरिति चित्तभुवा, स्त्रीपर इति सरखत्या, घेण्ढ इति परकलत्रैः, काष्ठामुनिरिति यतिभिः, धूर्त इति वेश्याभिः, विनय इति सुहृद्भिः, कर्मकर इति विप्रैः, असहाय इति शत्रुयोधैः, एकमप्यनेकधा गृह्य- माणम्' इति । स . - १. 'चिन्तामणिभूमिः' इति हर्षचरिते. २ वणिग्भिः' ग. ३ असुविवरमिति वातिकैः' इति हर्षचरिते. वातिकैर्विवरव्यसनिमिरिति तत्र टीकायाम्. ४. 'दुर्गाह चित्तवृत्तिः' स. ५. 'शण्ठः' इति हर्षचरिते. शण्ठः प्रजननाक्षम इति टीका. ६. 'विनेयः' क. सा ६८ काव्यमाला। भ्रान्तिमदलंकारादयोऽप्येवमचेतनकर्तृका निबध्यन्ते- 'भिनेषु रत्नकिरणैः किरणेष्विन्दो- रुच्चावचैरुपगतेषु सहस्रसंख्याम् । दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ॥' इत्यादौ । 'मधुलुब्धा मधुकरास्तृषिताश्च चकोरकाः । सुगन्धि कान्तिसपन्नमनुधावन्ति ते मुखम् ॥' इत्यत्रोल्लेखो व्यङ्ग्यः । 'विद्याविक्रमसौन्दर्य' इति श्लोके विद्यादीनां खरूपावलोकनकौतुकमात्रे निमित्ततया यदि न विश्रान्तिः, किं तु विद्व- चाद्युल्लेखवदवलोकनकौतुकनिमित्ततायां पर्यवसानं तदा तत्राप्युल्लेखनगता- नेकधात्वविच्छित्तिविशेषस्य गम्यत्वादुल्लेखालंकारो गम्यः । 'परिवादकामुकशुनामेकस्यामेव योषिति । कुणपः कामिनी भक्ष्यमिति तिस्रो विकल्पनाः ॥' इत्यत्राप्युल्लेख इष्यत इति लक्षणस्य नातिव्याप्तिः । अथापर उल्लेखप्रकारः- 'गृहीतृभेदाभावेऽपि विषयाश्रयभेदतः । एकस्यानेकधोल्लेखमप्युल्लेखं प्रचक्षते ।' तत्र विषयभेदादनेकधोल्लेखः शुद्धः संकीर्णश्च । शुद्धो यथा- 'अकृशं कुचयोः कृशं वलमे विपुलं चक्षुषि विस्तृतं नितम्बे । अधरेऽरुणमाविरस्तु चित्ते करुणाशालिकपालिभागधेयम् ॥' 'गुरुर्वचसि, पृथुरुरसि, विशालो मनसि, जनकस्तपसि, सुमित्रस्ते- जसि, सुमन्त्रो रहसि, बुधः सदसि, अर्जुनो यशसि, भीष्मो धनुषि' इत्यादौ श्लेषसंकीर्णः। 'हंसमयीव गतिषु, परपुष्टमयीवालापे, चक्रवाकमयीव पतिप्रेमणि, प्राविण्मयीव पुयोधरोन्नतौ, कमलमयीव कोशसंग्रहेषु, कुसुममयीव फल- दानेषु' इत्याद्युप्रेक्षासंकीर्णः । पयोधरोन्नतावित्यादौ विषयांशे श्लेषसंकी- र्णश्च । 'युधिष्ठिरः सत्यवचसि' इत्यादौ रूपकसंकीर्णः । 'युधिष्ठिरसमः सत्यवचसि' इत्यादावुपमासंकीर्ण इत्याधुग्नेयम् । - चित्रमीमांसा । अधिकरणभेदेनानेकधोल्लेखो यथा- 'वर्धिष्णोरुपरि क्षणं रविरभूच्छत्रं बलिध्वंसिनो रत्नं मूर्ध्नि ललाटसीम्नि तिलकं कर्णान्तिके कुण्डलम् । अंसे चक्रमुरःस्थले मणिवरो नाभौ सरोजासनो यस्याङ्कौ कटकस्त्रिविक्रमगतेः पायादपायात्स वः ॥' अत्र रूपकसंकीर्णः । भगवल्ललाटमध्यकर्णान्तादितत्तदवयवाभिमुख- स्थितग्रहीतृभेदनिमित्तोल्लेखसंकीर्णश्च । एकस्यैव द्रष्टुर्ललाटमध्ये कर्णान्तिके च रविदर्शनासंभवात् । 'यस्य वह्निमयो हृदयेषु, जलमयो लोचनपुरेषु, मारुतमयः श्वसितेषु, क्षमामयोऽङ्गेषु, आकाशमयः शून्यतासु, पञ्चमहाभूतमयो मूर्त इवादृश्यत निहतप्रतिसामन्तान्तःपुरेषु प्रतापः ।' अत्र वहिजलादिशब्दगृहीततापबाष्पादिरूपाणां प्रतापकार्याणां प्रतापस्य चाभेदकथनं हेत्वलंकार इति तत्संकरः । मतान्तरे रूपकसंकरः 'कस्तूरीतिलकादि भालफलके, देव्या मुखाम्भोरुहे रोलम्बन्ति, तमाललोलमुकुलोत्तंसन्ति मौलिं प्रति । याः कर्णे विकचोत्पलन्ति, कुचयोरंशे च कालागुरु- स्थास्यन्ति, प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ।।' अत्रोपमासंकीर्णः । केचित्तु तत्तदधिकरणौचित्याकस्तूरीतिलकादि- तादात्म्यसंभावनायामुपमार्थे विहितोऽपि किबुप्रेक्षायां पर्यवस्यतीत्युपमो- पक्रमोप्रेक्षेयमित्याहुः । तन्मते उप्रेक्षासंकीर्णः । एवमलंकारान्तरसंकरो. ऽप्युन्नेयः । इत्युल्लेखप्रकरणम् । अथापद्धतिः- प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम् । साम्यादपछुतिर्वाक्यभेदाभेदवती द्विधा ।। अन्यत्वकल्पनमात्रं रूपके, विषयनिषेधमात्रं 'नाहं दूती वरतनोरणt -- - ७ चि.
७० काव्यमाला। तापोऽतिभास्वरः' इत्याक्षेपे, उभयमपि साम्यविशेषणरहितम् । 'न पञ्च- विशिखः कामः किं त्वपञ्चशिलीमुखः' इत्यतिशयोक्तौ , चातिव्याप्तमिति विशिष्टोपादानम् । न चैवं 'न पद्मं मुखमेवेदम्' इति तत्त्वाख्यानोपमायां विषये पद्मत्वनिषेधस्य मुखत्वप्रकल्पनस्य च सत्त्वादतिव्याप्तिः । प्रकल्पन- पदस्यारोपपरत्वात् । 'निषिध्य विषयं साम्यादन्यारोपः' इति क्त्वाप्रत्य- येन लक्षणं नोक्तम् । वक्ष्यमाणोदाहरणे आरोपपूर्वकापहवेऽसिव्याप्ति- प्रसङ्गात्। इयं च साक्षान्निषेधकनादिप्रयोगे परपक्षत्वाद्युपन्यासेन निषेधसाम- दिगम्यत्वे च,वाक्यभेदेन प्रवर्तते । विषयासत्यत्वप्रतिपादकच्छद्मनिभक- पटव्याजादिशब्दप्रयोगे विषयासत्यत्वपर्यवसायिरूपवपुर्नामभङ्गयादिशब्द- प्रयोगे च तदभेदेन । अत्र वाक्यभेदेऽपवपूर्वक आरोप आरोपपूर्वकापहवश्चेति द्वैविध्यम् । क्रमेणोदाहरणानि- उमारे 'अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये कलको नैवायं विलसति शशाङ्कस्य वपुषि । अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ॥ यथा वा-- 'नेदं नभोमण्डलमम्बुराशिर्नेमाश्च तारा नवफेनपुञ्जाः । नायं शशी कुण्डलितः फणीन्द्रो नायं कलङ्कः शयितो मुरारिः ॥' पूर्वत्र निरवयवापढुतिरत्र सावयवेति भेदः । 'अङ्कं केऽपि शशकिरे जलनिधेः पई परे मेनिरे सारङ्ग कतिचिच्च संजगद्विरे भूच्छायमैच्छन्परे । रे इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीहश्यते. तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे ।। इत्यत्राप्यपहवपूर्वक आरोपः । अपलवस्तु परपक्षोपन्यासादर्थसिद्धः ।
चित्रमीमांसा) 'विकसदमरनारीनेत्रनीलाजपण्डा- न्यधिवसति सदा यः संयमाधःकृतानि । न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्य श्रियं वः ॥' अत्रारोपपूर्वकोऽपह्नवः शाब्दः । 'मन्थानभूमिधरमूलशिलासहस्र- संघट्टनव्रणकिणः स्फुरतीन्दुमध्ये । छाया मृगः शशक इत्यपि पामराणां लोके गतानुगतिकः प्रथितः प्रवादः ॥' अत्राप्यारोपपूर्वकोऽपहवः । स च पामरवचनोपन्यासादर्थसिद्धः । ए- तानि वाक्यभेदेनोदाहरणानि । एकवाक्यतायां तु- 'बत सखि कियदेतत्पश्य वैरं स्मरस्य प्रियविरहकृशेऽस्मिन्कामिलोके तथा हि उपवनसहकारोद्भासिभृङ्गच्छलेन प्रतिविशिखमनेनोदृङ्कितं कालकूटम् ॥' 'अमुष्मिल्लावण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वप्लुष्टः पृथुजघनभारे निपतितः । यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमावलिवपुः ॥' पूर्वत्र न सभृङ्गाणि सहकाराणि, अपि तु सकालकूटाः शरा इत्यस- त्यत्वाभिधायिच्छलशब्दवशात्प्रतीयते । उत्तरत्र नेयं रोमावलिः किं तु धू- मशिखेत्यसत्वपर्यवसायिवपुःशब्दबलात्प्रतीयते । :- केचित्तु सादृश्यव्यक्तयेऽपह्नववदपवाय सादृश्यमप्यपद्धुत्यलंकारं व- दन्ति । यथाहुः 'सादृश्यव्यक्तये यत्रापहवोऽसावपह्नुतिः । अपहवाय सादृश्यं यत्रास्त्येषाप्यपहृतिः ॥' इति । १. 'खण्डानि' ख-ग. २. 'पृथुजघनभागे' क.
७२ काव्यमाला। उदाहरन्ति च- 'आकृष्यादावमन्दग्रहमलकचयं वक्रमासज्यवक्रे कण्ठे लग्नः सुकण्ठः प्रसरति कुचयोर्दन्तगाढाङ्गसङ्गः । बद्धासक्तिर्नितम्बे पतति चरणयोर्यः स ताप्रियो मे बाले लज्जा निरस्ता न हि न हि सरले चोलकः किं त्रपाकृत् ॥' अत्र वीक्षितं प्रियमपहृत्य चोलकत्वारोपः । तदर्थं च प्राक् प्रियचो- लसदृशधर्मोपन्यासः । अत्रेदमपह्नुतिकथनं व्याजोक्त्यलंकारं पृथगनङ्गी- कुर्वतामुद्भटादीनां मतमनुसृत्य । ये तु उद्भिन्नवस्तुनिगृहनं व्याजोक्तिरिति व्याजोक्त्यलंकारं पृथगिच्छन्ति तेषामिहापि व्याजोक्तिरेव नापह्नुतिरिति रुचकादयः । दण्डी त्वपहृतेः साधर्म्यमूलत्वनियममनादृत्य 'किंचिदपहृत्य कस्यचित्रप्रदर्शनमात्रमपह्नुतिः' इति लक्षयित्वोदाजहार- 'अपहृतिरपहृत्य किंचिदन्यार्थसूचनम् । न पञ्चेषुः स्मरस्तस्य सहस्रं पत्रिणामिति ॥ चन्दनं चन्द्रिका गन्धो गन्धवाहश्च दक्षिणः । खयमग्निमयी सृष्टिः शीता किल परान्प्रति ॥ अमृतस्यन्दिकिरणश्चन्द्रमा मम नो मतः । अन्य एवायमात्मा विषनिष्यन्ददीधितिः ॥' साधर्म्यमूला त्वपहुँतिरिति तेन व्याहृता । 'त्वदालेख्ये कौतूहलतरलतन्वीविरचिते विधायैका चक्र रचयति सुपर्णासुतमपि । अथ खिद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौप्पं चापं मकरमुपरिष्टाच लिखति ॥' इत्यादावपह्नुतिध्वनिरुदाहर्तव्यः । अत्र हि चक्रसुपर्णलेखनेन नायं सा- धारणः पुरुषः किं तु पुण्डरीकाक्ष इति कयाचियनितम् । अन्यया तु तस्याप्येतादृशं रूपं न संभवतीत्याशयेन नायं पुण्डरीकाक्षोऽपि किं तु मन्मथ इति तदुभयमुन्मृज्य पुष्पसायकमकरध्वजलेखनेन व्यञ्जितम् ।। इत्यपहृतिप्रकरणम् । १. 'सादृदयनियममनाहत्य' ग घ. २. 'सहस्रं विशिखाः पुनः' ख.
चित्रमीमांसा। । अथोत्पेक्षालंकारः- यत्रान्यधर्मसंवन्धादन्यत्वेनोपतर्कितम् । प्रकृतं हि भवेत्प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥ यथा- 'बालेन्दुवक्राण्यविकाशभावाद्वभुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥' अत्र प्रकृतानि पलाशकुसुमान्यप्रकृतनखक्षतधर्मवक्रत्वलौहित्यसंबन्धा- नखक्षतत्वेनोपकल्पितानि । तर्कः संभावनामात्रं न त्ववधारणम् । तदी- यधर्मो हि तत्तादात्म्यसंभावनामात्रहेतुर्न व्याप्तिपक्षधर्मतावल्लिङ्गवदवधारण. हेतुः । न चात्रेवशब्दस्य सादृश्यपरत्वमित्युपमाशङ्का कार्या । उपमाया यत्र क्वचित्स्थितैरपि नखक्षतैः सह वक्तुं शक्यतया वसन्तनायकसमागत. वनस्थलीसंबन्धित्वविशेषणकल्पनानपेक्षत्वात् । पलाशमुकुलानां नखक्षत. तादात्म्यसंभावनायामेव तथाविधविशेषणस्योपयुक्तत्वात् । एवमन्यत्रापि यत्र यत्राप्रकृततादात्म्यसंभावनोपयुक्तविशेषणकल्पना तत्र सर्वत्राप्युटो- क्षावगन्तव्या। यथा- 'उवाह या तनुलता भृङ्गालीरोगवल्लरीम् । पश्चाद्विमुक्तां वैमल्याद्विम्बितामिव वेणिकाम् ॥' उपमा यत्र क्वचित्स्थितयापि वेणिकया वक्तुं शक्येति तत्रानुपयुक्ता, वैमल्यात्पुरोभागप्रतिबिम्धितत्वरूपविशेषणकल्पना तादात्म्यसंभावनार्था । यत्र तु संभावनोपयुक्तविशेषणकल्पनारहितमुपमानं निबध्यते तत्र पर- मिवशब्दः सादृश्यपर इत्युपमालंकारः । अमुमेव विभागमभिप्रेत्य चक्रव- तिनोक्तम् 'यदायमुपमानांशो लोकतः सिद्धिमृच्छति' इत्यादि । दण्डिना. पीवशब्दस्योत्प्रेक्षाव्यञ्जकत्वयुक्तम् । 'मन्ये, शके, ध्रुवं, प्रायो, नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥' इति । अत्रादिशब्देन तर्कयामि, संभावयामि, जाने, उत्प्रेक्षे, स्यात् , इत्येव- मादीनां संग्रहः । अत्र च १. 'सादृश्यपर्यवसानल' ख. - . - ७४ काव्यमाला। - 'कस्तूरिकामृगाणामण्डाद्गन्धगुणमखिलमादाय । यदि पुनरहं विधिः स्यां खलजिह्वायां निवेशयिष्यामि ॥' 'यद्यनुष्णो भवेद्वह्नियद्यशीतं भवेजलम् । मन्ये दृढव्रतो रामस्तदा स्यादप्यसत्यवाक् ।' इत्यादिप्वतिव्याप्तिवारणाय धर्मसंबन्धादित्युक्तम् । तेषु हि 'यद्यर्थोक्ता च कल्पनम्' इत्यतिशयोक्त्यलंकारविषयेषु, 'संभावनं यदीत्थं स्यादित्यू. होऽन्यस्य सिद्धये' इति संभावनालंकारविषयेषु वा निर्निमित्तमेव तथा त- थोपतर्कणम् । तथापि- 'सर्वातिशायिसौन्दर्य शङ्के सत्यवतो मुखम् । येन सा मृगशावाक्षी सावित्री तरलीकृता ।' इत्यादिप्वतिव्याप्तिः स्यादिति तद्वारणायान्यधर्मसंबन्धादित्युक्तम् । तत्र सावित्रीहृदयतरलीभावकारकत्वादिना स्वधर्मेणैव वितर्कणमिति नातिव्याप्तिः। पिन, 'विरक्तसंध्यापरुष पुरस्ताद्यतो रजः पार्थिवमुज्जिहीते । शके हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः ॥' इत्यत्रातिव्याप्तिवारणायान्यत्वेनेति विशेषणम् । तत्र ससैन्ये प्रत्युद्ग- न्तर्यन्यत्रापि दृष्टस्यागेरजोगमनस्य संबन्धेन निमित्तेन भरतः प्रत्युद्गतत्वेन वस्तुसद्रूपेणैवोपतर्कितो न त्वन्यत्वेनेति नातिव्याप्तिः। 'नरसिंहमहीपाल विदुस्त्वां मकरध्वजम् । मार्गणास्तव संजाताः कथं सुमनसोऽन्यथा ॥' इत्यत्रातिव्याप्तिवारणायोपतर्कितमित्युक्तम् । तत्रानुमानालंकारविषये सुमनोमार्गणस्वेन मन्मथत्वव्याप्तिलिङ्गेन राज्ञि मन्मथत्वमवधृतं न संभाव- नामात्रम् । 'इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मगीणामिव प्रम्लानारुणिमेव विद्रुमलता श्यामेव हेमप्रभा । कार्कश्यं कलयामिच कोकिलवधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्दा इव ॥ जिला 01...
चित्रमीमांसा। ७५ प्रत इत्यबातिव्याप्तिवारणायोपतर्कितमित्युक्तम् । तत्र निरतिशयसौन्दर्यसी- तावदनादिसंनिधानेन तद्वदनाद्युपमानेष्वपि निकर्षापादकेन प्रशस्तोपमा- नेप्विन्द्वादिष्वप्रकृतेष्वञ्जनलेपादिनिकर्षसंभावना क्रियत इति नातिव्याप्तिः। नन्वेवमपि- 'अस्मद्विक्रमचेष्टितानि निखिलत्रैलोक्यहेलाजय- प्रहीभूतसुरासुराणि भवतो भूमेः सुता शृण्वती । पत्यौ द्वेषकषायितेन मनसा स्निग्धा मयि स्थास्यति स्त्रीणां प्रेम यदुत्तरोत्तरगुणग्रामस्पृहाचञ्चलम् ॥' इत्यत्र चाञ्चल्यसहचरितत्वेनान्यत्र दृष्टस्त्रीत्वस्य संबन्धेन निमित्तेन व. स्तुतः प्रत्येकस्थिरचित्ता देवी सीता चञ्चलत्वेनोपतर्किता । न च तत्रो- प्रेक्षालंकारः । रावणकृततदीप्सितसंघटनानुकूलविचारमात्रस्य निबद्धत्वेन विच्छित्तिविशेषाभावात् । न चान्यधर्मसंबन्धादित्यत्र धर्म उपमायामिव सहृदयहृदयाहादी विवक्षितः, न तु साधारणधर्ममात्रम् । तथा च नोक्ताति- व्याप्तिः । स्त्रीत्वादेश्वाञ्चल्यादिसंभावनामात्रप्रयोजकत्वेऽपि सहृदयहृदया- ह्लादिसाधारणधर्माभावेनोसमीलंकारप्रयोजकत्वाभावादिति वाच्यम् । तथा सति- ने 'स्तनाभिरामस्तबकां नूनं सीतेति वल्लरीम् । संभावयन्रघुपतिर्धावति स्म दिदृक्षया ।' इत्यत्रातिव्याप्तेरवारणात् । न चाहार्यत्वं तर्कविशेषणम् । इह त्वना- हार्या संभावनेति वाच्यम् । तथा सति 'शङ्के हनूमत्कथितप्रवृत्तिः' इति संभावनाया अप्यनाहार्यत्वेन तव्यावृत्त्यर्थस्यान्यत्वेनेत्यस्य वैयर्थ्यप्रसङ्गा- दिति चेत् , मैवम् । अन्यत्वेनेत्यस्यान्यत्वेनावगतपरतया तस्यैवाहार्यत्ववि- शेषणपर्यवसायित्वात्। ननु तथापि नैतल्लक्षणम् , अव्याप्तेः । तथा हि । यत्र खमात्रधर्माद- न्यमात्रधर्माद्वा किंचिदुप्रेक्ष्यते तत्रान्यधर्मसंबन्धादिति लक्षणांशाभावाद- व्याप्तिः । यथा- 'अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिभिः । कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥' T ७६ काव्यमाला। 'भूयस्तराणि यदमूनि तमखिनीषु ज्योत्स्नीषु च प्रविरलानि ततः प्रतीमः । संध्यानलेन भृशमम्बरमूषिकाया- मावर्तितैरुडुभिरेव कृतोऽयमिन्दुः ॥ इत्यत्राद्योदाहरणेऽङ्गुलीसदृशीभिर्मरीचिभिः केशसंचयसदृशस्य तिमि- रस्य ग्रहणास्वमात्रधर्मादेव शशिनचुम्बनमुत्प्रेक्षितम् । द्वितीये ताराविर- लत्वाविरलत्वरूपेणान्यमात्रधर्मेण चन्द्रस्य संध्यानलमध्यगाम्बरमूषिकावर्ति- ततारानिकरनिर्मित्तत्वमुत्प्रेक्षितम् । किं च हेतुफलधर्मस्वरूपोत्प्रेक्षाखन्य- त्वेनेति लक्षणांशाभावाव्याप्तिः । यथा- 'सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुाम् । अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥' इति हेतूत्प्रेक्षोदाहरणे नूपुरगतेन दुःखिसाधारणेन मौनित्वेन निमि- तेन नूपुरे तद्धेतुभूतदुःखमेव धर्मतयोत्प्रेक्ष्यते, न तु दुःखितादात्म्यम्, दुःखशब्दस्योपरि तुमुबाद्यश्रवणात् । एवम्- 'चोलस्य यद्धीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः । अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि ।।' इति फलोत्प्रेक्षोदाहरणे द्रुमगतेन ललाटाक्षरदर्शनप्रवृत्तपुरुषसाधारणेन ललाटपाटनेन निमित्तेन द्रुमाणां तत्फलं ललाटाक्षरदर्शनमुद्देश्यमिति ध- मतयोत्प्रेक्ष्यते न तु ललाटाक्षरदर्शनप्रवृत्तधर्मितादात्म्यम्, द्रष्टुमित्यस्य धर्मिपर्यन्तत्वाभावात् । तथा-- 'पिनष्टीव तरङ्गाप्रैः समुद्रः फेनचन्दनम् । तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ॥' इति धर्मस्वरूपोत्प्रेक्षोदाहरणे समुद्रस्य चन्दनघर्षणशिलाप्रान्तस्था- नीये तटे हस्तस्थानीयतरङ्गाप्रैः फेनचन्दनप्रेषेकत्वेन, शशाङ्कस्य करैर्दिग- ङ्गनादिधवलीकरणेन च. प्रतीयमानेन निमित्तेन तत्कर्तृकं पेषणलेपनमा- त्रमुत्प्रेक्ष्यते, न तु तयोः पेषणलेपनकर्तृतादात्म्यम् । पिनष्टि लिम्पतीत्या. ख्यातयोः कर्तृवाचकत्वेऽपि 'भावप्रधानमाख्यातम्' इति न्यायेन कर्तुः प्रधानभूतक्रियोपसर्जनस्यान्यत्रान्वयासंभवात् । अत एव 'लिम्पतीव तमो- - चित्रमीमांसा ७७ ऽङ्गानि वर्पतीवाञ्जनं नमः' इत्युत्प्रेक्षामुदाहृतवता दण्डिनोक्तोदाहरणयो- रिवशब्दश्रवणाल्लेपनवर्षणकर्तृभ्यां तमोनभसोरुपमामाशय 'कर्ता यद्युपमानं स्यान्न्याभूतोऽसौ क्रियापदे । खक्रियासाधने व्यग्रो नालमन्यद्यपेक्षितुम् ॥ इति दूषितम् । 'वृत्तानुपूर्वे च न चातिदीर्घ जचे शुभे सृष्टवतम्तदीये । शेषाङ्गनिर्माणविधौ विधातुावण्य उत्पाद्य इवास यत्नः ॥' इत्यत्र निरतिशयलावण्यशालिजङ्घासृश्यनुमितेन निःशेषलावण्यकोश- व्ययेन निमित्तेन विधातुः शेषाङ्गनिर्माणोपयुक्तलावण्योत्पादने यत्नमात्रमु. प्रेक्ष्यते, न तु तथाभूतयत्नवत्तादात्म्यमिति स्पष्टमेव । अपि चाप्रकृतधर्मिकोत्प्रेक्षायां प्रकृतमित्यंशाभावादव्याप्तिः । यथा-- 'हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा । कृतमध्यबिलं विलोक्यते धृतगम्भीरखनीखनीलिम ॥' अत्र कृतमध्यबिलमिति पदार्थहेतुककाव्यलिङ्गापेक्षयातिशयोक्त्या कृ. तमध्यरन्ध्राकाशनैल्यत्वेनाध्यवसितो यः कलङ्कस्तद्वत्त्वेन निमित्तेन, कल- काध्यवसितधृतमध्यरन्ध्राकाशनैल्यत्वनिमित्तोत्प्रेक्षितं कृतमध्यबिलत्वेन नि- मित्तेन वा चन्द्रमण्डलं दमयन्तीवदननिर्माणाय हृतसारत्वेनोलेक्षितम्, नतु प्रकृतं दमयन्तीवदनमेवोक्तप्रकाराहृतैन्दवसारांशनिर्मितत्वेनोप्रेक्षितम् । 'य- द्वालेन्दुकलोच्चयादुपचितैः सारैरिवोत्पादितं तत्पश्येयमनङ्गमङ्गलगृहं भूयो. ऽपि तस्या मुखम्।' इत्यत्रेव तथाशब्दान्वयाभावात् । ननु यथा शब्दतोऽन्वया- लाभेऽपि 'ब्राह्मणशतं भोज्यता मित्यत्र प्रधानमतिलज्योपसर्जने क्रियान्वयपर्य- वसानम्, संख्याया भोजनान्वयायोग्यत्वात्, तथेहापि प्रधानमिन्दुमण्डल- मतिलङ्योपसर्जने दमयन्तीवदने इन्दुमण्डलाहृतसारांशनिर्मितत्वोत्प्रेक्षापर्य- वसानं स्यात्, अप्रकृतस्यावर्णनीयत्वादिति चेत्, न । अप्रकृतवर्णनस्याप्य. प्रस्तुतप्रशंसारूपेण प्रकृतातिशयाधानार्थतयान्वेतुं योग्यत्वात् । नच वाच्यं 'इन्दुर्लिप्त इव' इत्यप्रस्तुतप्रशंसोदाहरणान्तर इवात्रापि संभावनामात्रमेव १. 'नल्यत्वोत्प्रेक्षितम्' ख.
काव्यमाला। नोत्प्रेक्षेति । तत्र सहृदयहृदयाहादिनिमित्ताभावेनोत्प्रेक्षासामग्रीपरिपूर्त्यभा- वादुत्प्रेक्षाया असंभवेऽप्यत्र तत्संभवादप्रस्तुतप्रशंसया संकरोपपत्तेः । त. स्मादव्याप्तत्वान्नेदं लक्षणं युक्तमिति चेत् । अत्र ब्रूमः । न तावत् 'हृतसारम्' इत्यादावव्याप्तिः । प्रकृतशब्दस्य विषयत्वाभिमतमात्रपरत्वात् । नचैवं 'इन्दुर्लिप्त इव' इत्यादावतिव्याप्तिः । तत्र सीतावदनसंनिधाने वस्तुतोऽन्यधर्मत्वे सत्यपीन्दुगताञ्जन लिप्तत्वसंभाव- नायामन्यधर्मत्वस्याप्रयोजकत्वात् , धर्मस्य सहृदयहृदयाह्लादिनो विवक्षि- तत्वाद्वा । अन्यत्वेनेत्यस्यान्येन प्रकारेणेत्यर्थ इति न हेतुफलधर्मस्वरूपोटो. क्षाखव्याप्तिः । यत्र धर्मिणि धर्म्यन्तरं तादात्म्येनोत्प्रेक्ष्यते तत्र धर्म्यन्त. रमन्यः प्रकारः । यत्र तु कश्चिद्धर्म एव किंचित्प्रति हेतुतया फलतया खरूपेण जोत्प्रेक्ष्यते तत्र स एव धर्मोऽन्यः प्रकार इति सर्वत्राप्यनुगतेः । यद्वा हेतुफलधर्मखरूपोत्प्रेक्षोदाहरणेष्वपि तादात्म्येनैवोत्प्रेक्षा । तथा हि । 'सैषा स्थली यत्र विचिन्वता त्वाम्', 'चोलस्य यद्वीतिपलायितस्य' इत्या. दिहेतुफलोत्प्रेक्षोदाहरणयोस्तावद्विश्लेषदुःखललाटाक्षरदर्शनादिधर्मों हेतुतया फलतया वा नोत्प्रेक्ष्यते । किं तु नूपुरयुपादिधर्मिकं यन्निश्चलत्वकण्टक- संश्लेषादिनिमित्तकं मौनव्यापाटनादिकं तदेव दुःखहेतुकमौनललाटाक्षरदर्श- नार्थव्यापाटनादितादात्म्येनोत्प्रेक्ष्यते । अवश्यं च द्विविधस्यापि मौनादेस्तादा- त्म्येनाध्यवसाय आस्थेयः । अन्यथा निश्चलत्वादिहेतुके खाभाविकमौनादौ दुःखादेहेतुत्वादिनोत्प्रेक्षणमसमञ्जसं स्यात् । अङ्गीकृतश्च 'सैषा स्थली' इत्यादौ दुःखादिर्धर्म एव मौनादिहेतुतया नूपुरादिगतत्वेनोत्प्रेक्ष्यत इति वदताप्यलंकारसर्वस्वकृता द्विविधस्य मौनादेरभेदाध्यवसायः । 'हेतृत्प्रेक्षायां यस्य प्रकृतसंबन्धिनो धर्मस्य हेतुरुत्प्रेक्ष्यते स धर्मोऽध्यवसायवशादभिन्न उत्प्रेक्षानिमित्तत्वेनाश्रीयते' इत्यादितद्वचनात् । आवश्यकं चान्यत्रापि क्वचि- स्वचिद्धेतूत्प्रेक्षोदाहरणे निमित्तांशे तादात्म्याध्यवसायाश्रयणम् । यथा- 'उन्मेष यो मम न सहते जातिवैरी निशाया- मिन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः । १. 'यस्य' ख.
चित्रमीमांसा। ७९ - नीतः शान्ति प्रसभमनया वक्रकान्येति हर्षा- लमा मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः ॥' अत्र हेतुतया हर्षोत्प्रेक्षां प्रति तत्फलत्वाभिमतं पादयोः पद्मलक्ष्म्या लगनं निमित्तं वाच्यम् , तच्च सर्वथैवासिद्धम् । अतस्तत्र पादयोर्यः खा- भाविकशोभासम्बन्धः स एव पद्मलक्ष्मीलनात्वेनाध्यवसितो निमित्तमिति समर्थनीयम् । एवं निमित्तांशे तादात्म्याध्यवसानावश्यंभावे तत्रैवोत्प्रेक्षा- विश्रान्तिरस्तु । नच तत्र निमित्तान्तरमन्वेष्यं स्यादिति वाच्यम् । निश्च- लत्वहेतुकमौनस्य दुःखहेतुमौनत्वेनोत्प्रेक्षायां चरणारविन्दविश्लेषकालभवत्वं निमित्तं कण्टकसंश्लेषहेतुकव्यापाटनस्य ललाटलिपिदर्शनार्थव्यापाटनत्वेनो- त्प्रेक्षायां महाराजोऽप्येवं कष्टमनुभवति, इतः परमपि कियदनुभाव्यमने- नेति जिज्ञासोत्थापकपलायनकालभवत्वमित्यादेः स्पष्टत्वात् । अयमेव पक्षो दण्डिनोऽभिमतः । यदाह- 'अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्य वा । अन्यथोत्प्रेक्ष्यते यत्र तामुत्प्रेक्षां प्रचक्षते ॥ मध्यन्दिनार्कसन्तप्तः सरसीं गाहते गजः । मन्ये मार्तण्डगृह्याणि पद्मान्युद्धर्तुमुद्यतः ।। स्नातुं पातुं बिसान्यत्तुं करिणो जलगाहनम् । तरनिष्क्रयायेति कविनोत्प्रेक्ष्य वर्ण्यते ॥' इति । अत्र सन्तापनिवृत्त्यर्थत्वेनान्यथैव स्थिता करिणश्चेतनस्य जलगाहनरूपा वृत्तिरन्यथा तद्वैरनिष्क्रयार्थजलावगाहनत्वेनोत्प्रेक्ष्यत इति स्वकृत लक्षणानु- सारेणैव योजितम्। काव्यप्रकाशिकाकारस्याप्ययमेव पक्षोऽभिमतः । तेन हि 'संभावनम- थोत्प्रेक्षा प्रकृतस्य संमेन यत्' इत्युपमानोपमेयस्य तादात्म्यसम्भावनमुत्प्रे- क्षालक्षणमभिधाय 'उन्मेषं यो मम न सहत' इति तत्रोदाहरणं कृतम् । ततश्च खकृतलक्षणानुरोधेन खाभाविकी पादशोभैव खवैरिजयप्रभवहर्षल. मपद्मलक्ष्मीत्वेनोत्प्रेक्ष्यत इत्यभिमतमिति स्फुटमेव । १. 'परेण ख.
काव्यमाला। तथा 'पिनष्टीव तरङ्गाप्रैः' इत्यादिधर्मखरूपोत्प्रेक्षोदाहरणेष्वपि प्रेरणा. दिरेव पेषणादिरूपत्वेनोत्प्रेक्ष्यते । न च प्रेरणादेविषयस्यानुपादानं दोषः । अतिशयोक्ताविव तदुपपत्तेः । उत्पेक्षाया अध्यवसायगर्भतया तत्र विषय- निगरणस्योचितत्वाच्च । न च प्रेरणादेविषयत्वेन निमित्तत्वाभावे निमित्ता- न्तरमन्वेष्यं स्यादिति वाच्यम् । प्रेरणस्य पेषणरूपतयोत्प्रेक्षायां प्रान्तगत- फेनचन्दनपुञ्जीभवनं निमित्तम् । करव्यापनस्य दिगङ्गनालेपनत्वेनोत्प्रेक्षायां तद्धवलीकरणं निमित्तमिति निमित्तान्तरस्य जागरूकत्वात् । 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः' इत्यादौ व्यापनादिलेपनादि- रूपतया सम्भावितमिति वदता काव्यप्रकाशिकाकारेणापि धर्मखरूपोरे- क्षोदाहरणेषु तादात्म्योप्रेक्षणपक्ष एवाश्रितः एवं 'चुम्बतीव रजनीमुखं शशी'त्यादावपि रजन्या वदनत्वेनाध्यवसितं यदारम्भाख्यं मुखं तस्य शशिनश्च सम्बन्धश्चुम्बनत्वेनोप्रेक्ष्यते। 'वृत्तानुपूर्वे च' इत्यत्रायत्नपूर्वके शेषाङ्गनिर्माणे यत्नपूर्वकत्वतादात्म्योत्प्रेक्षेत्याबृह्यम् । अन्यधर्मोऽनुगामितयैव न विवक्षितः, किं तूपमायां साधारणधर्म इव बिम्बप्रतिबिम्बभावादिभिः सर्वैरपि प्रकारैर्विवक्षितः । तथा च यथा- 'आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । सुजातपुष्पस्तबकावनम्रा संचारिणी पल्लविता लतेव ॥' इत्यत्र बिम्बप्रतिबिम्बभावकृताभेदाध्यवसायेन । 'तारुण्यकुञ्जरारूढां विलासकमलाकुलाम् । मूर्तामिव मनोजस्य त्रैलोक्यविजयश्रियम् ॥' इत्यत्र समासभेदाश्रयणकृताभेदाध्यवसायेन च धर्मस्य प्रकृताप्रकृतसा. धारण्यादन्यधर्मसम्बन्धः । तथा- 'अङ्गुलीभिरिव' इत्यत्रान्वयभेदकृता- भेदाध्यवसायेन धर्मस्य प्रकृताप्रकृतसाधारण्यादन्यधर्मसम्बन्धः सुसंपाद इति न तत्राव्याप्तिः । नापि 'भूयस्तराणि' इत्यत्राव्याप्तिः । तत्रोपात- धर्माक्षिप्तधर्मान्तरसम्बन्धस्य निमित्त्वात् । तत्र हि चन्द्ररूपविषयगतसं. ध्यानलमध्यगाम्बरमूषिकावर्तिततारानिकरनिर्मितत्वोत्प्रेक्षायां तारागतेन त. तद्रात्रिषु विरलत्वाविरलत्वरूपेणोपात्तधर्मेण निमित्तेन धर्मस्य चन्द्रगतस्य तद्विरलत्वाविरलत्वानुविधायिवृद्धिहासशालित्वस्याक्षेपः । १. 'पलविनी' ख.
चित्रमीमांसा। अयं चापरोऽपि विशेषः । अन्यधर्मसंबन्धादित्यन्यपदार्थों धर्म्युटो- क्षासु विषय्येव, धर्मोत्प्रेक्षासु तु विषयिणो धर्मस्याश्रयः । एवं स्थिते य- त्रानुपात्तो निमित्तभूतो धर्मस्तत्र सर्वत्रापि यो धर्मोऽन्यपदार्थस्य विषयस्य च संबन्धितया संभावनापदवीमारोहति तथाभूतोऽन्वेष्यः । तत्र 'वर्षतीवा- जनं नभः' इत्यत्र नभोगतत्वेन वर्पणक्रियोत्प्रेक्षापक्षे नभसो भूपर्यन्तगामि- नीलिमव्याप्तत्वमञ्जनवर्युकसाधारणनिमित्तम् । तमसो व्यापने नभःकर्तृकाञ्ज. नवर्षणक्रियात्वोत्प्रेक्षेति पक्षे तु सकलवस्तुसान्द्रमलिनीकरणादि । एवं 'वेलेव रागसागरस्य' इत्यादौ संक्षोभकारित्वादि गम्यं निमित्तमूहनीयम् । यत्र तु निमित्ततया धर्मस्योपादाने सत्यपि तत्संबन्धो विषयस्यान्यपदा- र्थस्य वाञ्जसा न प्रतीयते तत्र क्वचिन्निमित्तभूतधर्मादन्यस्य कस्यचिद्धर्मस्य तत्ताद्रूप्यसंपादनेन तत्संबन्धः समर्थनीयः । क्वचिद्विषयम्य चान्यपदार्थस्य वा तद्धर्माश्रयताप्यसंपादनेन, कचिन्मिलितेन तेनोभयेन, क्वचिदुपा- तधर्मकृतधर्मान्तराक्षेपेण । तत्र धर्मान्तरस्य निमित्तताद्रूप्यसंपादनमुपमायां धर्मस्य संपादनमिव विम्बप्रतिबिम्बभावादिभिः प्रकारेस्ते प्रदर्शिताः। एवं विषयस्यान्यपदार्थस्य वा धर्माश्रयात्ताद्रूप्यसंपादनं श्लेषादि- भझ्या । तत्र विषयस्य श्लेषेण धर्माश्रयताद्रूप्यसंपादनं यथा- 'अस्यां मुनीनामपि मोहमूहे भृगुर्महान्यत्कुचशैलशीली । नानारदाहादि मुखं श्रितोता॑सो महाभारतसर्गयोग्यः ।।' १. 'गाढनीलिम' ख. २. नैषधे सप्तमे सर्गे दमयन्तीवर्णनमिदम् , तत्र 'अस्यामिति । अहं अस्यां व्यासादिमुनीनामपि मोहं ऊहे तर्कयामि । मुनयोऽप्येतामाश्रित्य तिष्ठन्तीति । अथ च जितेन्द्रियाणामप्यस्यां विषये मोहंमदनविकारं तर्कयामि। तेऽप्यनया मोहिता इत्य- धः। यस्मात् महान् अतितापसो भृगुः कुचशैलशीली कुचपर्वतसेवी। मुनीनां पर्वताश्रयखात् पर्वतबुद्ध्या स्तनावाश्रयति । अथ च कामपीडितत्वादत्युच्चावेतत्कुचौ गृहीतुमिच्छति । अथ व भृगुस्तटः पर्वताश्रयेण वर्तते कुचयोः पार्श्वभागस्तटतुल्य इत्यर्थः। शीलमेव शैलं कुचयोः शैलं स्वभावं शीलयति अभ्यस्यति परमद्यापि कुचखभावो नायातीत्यर्थः । मदनपीडित- खादेतन्मुखं नारदमानन्दयतीत्यर्थः । मुखं नानाविधैभत्रिंशत्संख्याकै रदैर्दन्तैरानन्दयत्य- तिसुन्दरमित्यर्थः । महाभारतस्य सर्गे निर्माणे योग्यः समर्थो व्यासः श्रितावूरू येनैवंविधः। कदलीस्तम्भच्छायाबुद्ध्या एतदूरू आश्रिय तिष्ठति । अथ च कामपीडितलादेतदूरु समा. लिजय वर्तत इत्यर्थः । महती भा दीप्तिर्यस्य । रतं सुरतं तस्य सर्गो निर्माणं तत्र योग्य. - .
८२ काव्यमाला। - अत्र भृग्वादिमुनिरूपविषयगतदमयन्तीगोचरमोहोत्प्रेक्षायां यदेव त. कुचपरिशीलनादि निमित्तं न तद्विषयगतं किं तु तटादिगतम् । तस्य भृग्वादिशब्दश्लेषेण विषयगततानिर्वाहः । अपहृत्या यथा- 'किंशुकव्यपदेशेन तरुमारुह्य सर्वतः । दग्धां दग्धामरण्यानीं पश्यतीव विभावसुः ॥' अत्र दावानलरूपविषयगतदग्धादग्धवनप्रदेशदर्शनक्रियोत्प्रेक्षायां तरु- समारोहणं निमित्तम् । तदपि न विषयगतं किं तु किंशुकपुष्पगतम् । तत्रापि यद्यपि मुख्य समारोहणं नास्ति तथापि तदीयं तरुसमाश्रयणमेव तदारोहणत्वेनाध्यवसितम् , ततश्च तत्रापद्भुत्या विषयस्य किंशुकपुप्पतादू- प्यसंपादनेन धर्मसंबन्धनिर्वाहः । अन्यपदार्थस्य श्लेषेण धर्माश्रयताद्रूप्यसंपादनं यथा- 'अस्या दोहदशालिन्या मुखमापाण्डुरप्रभम् । सत्यं राजेति मन्येऽद्य यद्भुवं भोक्तुमिच्छति ॥' अत्र मुखस्य चन्द्रत्वोत्प्रेक्षायां भुवं भोक्तुमभिलाषो निमित्तम्, तद्विष- यगतमपि नान्यपदार्थभूतचन्द्रगतम् । अतस्तत्र राजशब्दश्लेषेण चन्द्रस्य धर्माश्रयताद्रूप्यसंपादनेन धर्मस्य तदीयतानिर्वाहः । धर्मान्तरस्य निमित्तधर्मताद्रूप्यसंपादनं विषयस्य तद्धर्माश्रयताद्रूप्यसंपा- दनं चेत्युभयमेलनं यथा- 'आकृष्टिवेगविवलद्भुजगेन्द्रभोग- निर्मोकपट्टपरिवेष्टनयाम्बुराशेः । मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरमचेष्टत पादमूले ॥ अत्र मन्दाकिनीरूपविषयगतपयोधिमन्यव्यधाव्युपशमरूपफलोत्प्रेक्षायां यन्निमित्तं चरणमूले वेष्टनं तत्तादात्म्यसंपादनं पर्यन्तवेष्टनस्य श्लेषेण विष. यस्य यत्ताद्रूप्यसंपादनमपढत्या वेति मिलितेनोभयेन विषयस्यान्यधर्मसंब- स्ततः कर्मधारय इति वा । एवंविधो व्यासो विस्तारः श्रितावूरू येन । अतिविशालावूरू इति भावः ॥ इति टीका. १. राजा चन्द्रो नृपश्च. २. भुवं गर्भिण्यभिलषितां मृदं पृथिवीं च.
चित्रमीमांसा। ८३ न्धनिर्वाहः । उपात्तधर्मेण धर्मान्तराक्षेपस्तु दर्शित एव । तस्मादन्यधर्मसं. बन्धादित्येतदपि सर्वोत्प्रेक्षानुगतमिति न काप्यव्याप्तमिति सर्व समञ्जसम् । अलंकारसर्वस्वकृतेत्थमस्य विभागः प्रदर्शितः । वाच्या प्रतीयमाना चेति तावदुत्प्रेक्षा द्विविधा । इवादिप्रयोगे वाच्या, तदप्रयोगे प्रतीय- माना । तत्र वाच्या जातिगुणक्रियाद्रव्याणामप्रकृतानामध्यवसेयत्वेन चतु- विधा । तेषां च प्रत्येकं भावाभावाभिमानरूपतया द्वैविध्येनाष्टविधा । तेषु निमित्तगुणक्रियारूपत्वेन षोडशभेदाः । निमित्तस्य पुनरुपादानानुपादा- नाभ्यां द्वात्रिंशत्प्रकाराः । तेषु पुनः प्रत्येकं स्वरूपहेतुफलोत्प्रेक्षारूपत्वेन षण्णवतिर्भेदाः । तत्र द्रव्यस्य स्वरूपोत्प्रेक्षणमेवेति हेतुफलोत्प्रेक्षास्ततोऽपि विपातनीयाः । ततः षोडशभेदा न्यूनाः । जात्यादीनामपि हेतुफलोतो. क्षयोर्निमित्तस्यानुपादानं न संभवति ततश्चतुर्विंशतिर्भेदा न्यूनाः । तथा च खरूपोत्प्रेक्षावैकल्येन द्वात्रिंशद्भेदा, हेतुफलोत्प्रेक्षे प्रत्येकं द्वादशभेदे, इति पञ्चपञ्चाशद्भेदा वाच्योत्प्रेक्षा । प्रतीयमानोत्प्रेक्षायामप्येवमेव गणना । तत्र खरूपोत्प्रेक्षायामपि निमित्तानुपादानं न संभवतीति भेदः । ततश्च तत्र खरूपोत्प्रेक्षा षोडशभेदा, हेतुफलोत्प्रेक्षे पूर्ववद्वादशभेदे इति चत्वारिंश- देदा गम्योत्प्रेक्षा । एवमेव मिलित्वा षण्णवतिभेदोत्प्रेक्षेति । विद्यानाथेन पुनद्रव्यस्य हेतुफलोत्प्रेक्षणमप्यङ्गीकृत्यानुपात्तनिमित्तेषु ग- म्यस्य निमित्तस्य गुणक्रियारूपत्वेन भेदगणनमजातपुत्रनामकरणकल्पं न चारुत्वावहमिति तदनादृत्यान्यथा विभागो दर्शितः । वाच्यायां वरूपो. प्रेक्षा चतुर्विंशतिभेदा, अनुपात्तनिमित्तायां गुणक्रियारूपभेदगणनाभावेन भेदाष्टकहासात् । हेतुफलोत्प्रेक्षे प्रत्येकं षोडशविधे । द्रव्योत्प्रेक्षागोचराणां भावाभावाभिमानेन गुणक्रियानिमित्तत्वेन चतुर्णा भेदानामाधिक्यात् । एवं षट्पञ्चाशद्भेदा वाच्योत्पेक्षा । प्रतीयमानयां पुनः स्वरूपोत्प्रेक्षापि षोडश- प्रकारा । तत्र निमित्तानुपादानासंभवेन तन्निबन्धनभेदाष्टकहासात् । ततश्चा. ष्टचत्वारिंशद्भेदा प्रतीयमानोत्प्रेक्षा एवं मिलित्वा चतुरुत्तरशतभेदोत्प्रेक्षेति । अथोदाहरणानि दिमात्रेण प्रदर्श्यन्ते । उपात्तगुणनिमित्तजातिभाव- खरूपोत्प्रेक्षा यथा- 'स वः पायादिन्दुर्नवबिसलताकोटिकुटिलः सरारेर्यो मूर्ध्नि ज्वलनकपिशे भाति निहितः ।
८४ काव्यमाला। स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्तः स्फटिकवलेनाङ्कुर इव ॥' अत्राङ्कुरशब्दस्य जातिशब्दत्वाजातिरुत्प्रेक्ष्यते । उपात्तः कौटिल्यगुणो निमित्तम् । एवमुपात्तक्रियानिमित्तापि जातिभावस्वरूपोत्प्रेक्षोदाहर्तव्या । उपात्तक्रियानिमित्तगुणभावस्वरूपोत्प्रेक्षा यथा- 'निवेशितं यावकरागदीप्तये लग्नं तदीयाधरसीन्नि सिक्यकम् । रराज तत्रैव निवस्तुमुत्सुकं मधूनि निर्धूय सुधासधर्मिणि ॥' अत्रौत्सुक्यं गुण उत्प्रेक्ष्यते । उपात्ता लगनक्रिया निमित्तम् । एव- मुपात्तगुणनिमित्तापि गुणभावस्वरूपोत्प्रेक्षोदाहर्तव्या । उपात्तगुणनिमित्त क्रियाभावखरूपोत्प्रेक्षा यथा- 'अथ सांध्यसान्द्रकिरणारुणितं हरिहेति ति मिथुनं पततोः । पृथगुत्पपात विरहार्तिगलद्धृदयस्रुतासृगनुलिप्तमिव ।।' अत्र रुधिरानुलेपन क्रियोत्प्रेक्ष्यते । उपात्त आरुण्यगुणो निमित्तम् । एवमुपात्तक्रियानिमित्तापि क्रियाभावस्वरूपोत्प्रेक्षोदाहर्तव्या । उपात्तक्रिया- निमित्तद्रव्यभावस्वरूपोत्प्रेक्षा यथा- 'एकैकमुद्गतगुणं च्युतदूषणं च हित्त्वान्यमन्यमुपगम्य परित्यजन्ती । एतां जगाद जगदर्चितपादपद्मा पद्मामिवाच्युतभुजान्तरविच्युतां सा ॥' अत्र पद्माया एकतया द्रव्यत्वाद्रव्यमुत्प्रेक्ष्यते । उपाचा उपगम्यपरि- त्यजनक्रिया निमित्तम् । एवमुपात्तगुणनिमित्तद्रव्यभावस्वरूपोत्प्रेक्षोदाह- र्तव्या । एवं भावाभिमानेषु जात्यादिषूपात्तनिमित्ता अष्टौ भेदाः संपन्नाः । अनुपात्तनिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा- 'वर्षातपानावरणं चिराय काष्ठौघमालम्ब्य समुक्षितेषु । बोलेषु ताराकवकेप्विवैकं विकखरीभूतमवैमि चन्द्रम् ॥ अत्र कवकजातिरुत्प्रेक्ष्यते । अनुपात्तो धावल्यवर्तुलत्वादिर्गुणो नि- मित्तम् । अनुपात्तनिमित्तगुणभावस्वरूपोत्प्रेक्षा- १. 'नके पु ताराकलिकेपु' क. २. 'कलिकालजातिः' क. 7 चित्रमीमांसा। - जय सोच 'अयमाभाति राजेन्द्रो विजिताखिलशात्रवः । अनुजीविषु सर्वेषु प्रसाद इव मूर्तिमान् ॥' अत्र प्रसादो गुण उत्प्रेक्ष्यते । अनुपात्तो बहुप्रदत्वसुखनिषेव्यत्वादि- निमित्तक्रियाभावोत्प्रेक्षा यथा- 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः । असत्पुरुषसेवेव दृष्टिनिष्फलतां गता ॥' अत्र क्रियोत्प्रेक्ष्यते । अनुपात्तं व्यापनादि निमित्तम् । अनुपात्तनि- मित्तद्रव्यभावोत्प्रेक्षा यथा- 'देहस्था दर्पणे यस्य पश्यति प्रतिमामुमा । अन्याभ्यामिवोत्पन्नमर्धनारीश्वरान्तरम् ॥' अत्रार्धान्तरोत्पन्नार्धनारीश्वरान्तरद्रव्यमुत्प्रेक्ष्यते । प्रतिबिम्ब्व्यत्यस्तभा. गस्त्रीपुरुषाकारशालित्वमनुपातं निमित्तम् । अर्धनारीश्वरान्तरोत्प्रेक्षाया. मपि वस्तुतोऽर्धनारीश्वरस्यैकत्वाद्रव्योत्प्रेक्षात्वमविरुद्धम् । यथा वा- 'विललास जलाशयोदरे कचन द्यौरनुविम्बितेव या । परिखा कपटस्फुटस्फुरत्पतिबिम्बानवलम्बिताम्बुनि ।। अत्र देवपुरीद्रव्यमुत्प्रेक्ष्यते । सौभाग्यातिशयः कुण्डिनपुरीगतोऽनुपात्तो निमित्तम् । एवं चतुर्विधानुपात्तनिमित्तोदाहृता । अस्यां निमित्तस्य गुण- क्रियारूपभेदमालोच्याष्टविधत्वमूहनीयम् । एवं जात्याद्युत्प्रेक्षा भावाभिमा- नवत्यः षोडश संपन्नाः । अथ वा विद्यानाथोक्तप्रकारेणानुपात्तनिमित्तगुणक्रियाभेदो न चिन्त- नीयः । अनुपाते निमित्ते तव्यवस्थाया असंभवात् । यथा-'विललास ज- लाशयोदरे' इत्यत्र निरतिशयसौभाग्यवत्त्वं गुणो निमित्तमित्यपि वक्तुं शक्यम् । निरतिशयसौभाग्यभागित्वं क्रियानिमित्तमित्यपि । अतो द्वाद- शैव भेदाः । अथाभावाभिमानवत्यः स्वरूपोत्प्रेक्षाः । उपात्तगुणनिमित्ताजातिगुणक्रियाणामभावोत्प्रेक्षा यथा- 'अकुङ्कुमक्षोदमिवाङ्गमेतदयावकारुण्यमिवाधरं ते । अनञ्जनोहेखमिवाक्षियुग्मं खाभाविकैरेव गुणैरुदीक्षे ॥
८६ काव्यमाला । अत्र कुङ्कुमरजोयावकरागाञ्जनोल्लेखनरूपाणां जातिगुणक्रियाणामभावा उत्प्रेक्ष्यन्ते । उपात्ताः स्वाभाविकगौरारुणनीलवर्णा निमित्तम् । एतासु क्रियानिमित्तमप्युदाहार्यम् । उपातक्रियानिमित्तद्रव्याभावोत्प्रेक्षा यथा- 'भुवि त्वन्मुखमालोक्य पूर्णचन्द्रमिवोदितम् । अचन्द्रामिव पश्यामि दिवं शोभाविवर्जनात् ।' अत्र चन्द्रस्य द्रव्यस्याभाव उत्प्रेक्ष्यते । उपात्ता वर्जनक्रिया निमित्तम् । एवमुपात्तगुणनिमित्तापि द्रव्याभावोत्प्रेक्षोदाहार्या । एतावेव श्लोकौ 'इदं विशालाक्षि विभावयामि' 'पदवीममृतान्धसाम्' इति चतुर्थपादयोः पाठे- ऽनुपात्तनिमित्तजात्याद्यभावोत्प्रेक्षोदाहरणे । एवमभावाभिमानवत्योऽपि ख- रूपोत्प्रेक्षाः पूर्वोक्तरीत्या षोडश द्वादश वेति द्वात्रिंशचतुर्विंशतिर्वा रूपोत्प्रेक्षाभेदाः प्रदर्शितप्रायाः । एतासु विषयिणः क्वचित्तादात्म्येनाध्यवसायः । यथा-'स वः पा- यादिन्दुः' इत्यत्र । क्वचित्तु संसर्गितया यथा-'निवेशितं यावकराग- दीप्तये' इत्यत्रौत्सुक्यस्येत्ययमपि भेदो बोद्धव्यः । अथ हेतूत्प्रेक्षा । उपात्तगुणनिमित्ता जातिहेतूत्प्रेक्षा यथा-" 'तनुरेणशावकदृशस्तनीयसी शनकैरवाप शरकाण्डपाण्डुताम् । उदरान्तरस्थितिमुपेयुषो हरेः करपाञ्चजन्यकिरणैरिवोद्गतैः ।' अत्र किरणजातिः पाण्डिमानं प्रति हेतुत्वेनोत्प्रेक्ष्यते । स एव पा- ण्डिमा निमित्तम् । एवं क्रियानिमित्तापि जातिहेतूप्रेक्षोहनीया । क्रियानि- मित्ता गुणहेतूत्प्रेक्षा यथा- . 'वहतो बहुशैवलश्चतां धृतरुद्राक्षमधुव्रतं खगः । स नलस्य करं ययौ पुनः सरसः कोकनदभ्रमादिव ॥' अत्र नलकरप्राप्तिक्रियां प्रति कोकनदभ्रमो हेतुत्वेनोत्प्रेक्ष्यते । सैव प्राप्ति- क्रिया निमित्तम् । उत्तरत्रापि हेतूप्रेक्षायां सर्वत्र फलमेव निमित्तम् । एवं गुणनिमित्तापि गुणहेतूप्रेक्षा द्रष्टव्या । गुणनिमित्ता क्रियाहेतूप्रेक्षा यथा- 'विवस्वता नायिषतेव मिश्राः स्वगोसहस्रेण समं जनानाम् । गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः ।। १. 'दधतो' क. + - चित्रमीमांसा। जत्रा अत्राध्यगुणं प्रति. नयनक्रिया हेतुत्वेनोप्रेक्ष्यते । एवं क्रियानिमित्तापि क्रियाहेतृप्रेक्षोदाहार्या । क्रियानिमित्ता द्रव्यहेतूप्रेक्षा यथा- 'हृदयं परिपूतमेव नित्यं विदुषस्तस्य विशुद्धकर्मभाजः । विधूदापगयेव विश्वमूर्तेः प्रवहन्त्या वसतोऽन्तरशिपद्मात् ॥' अत्र पवनक्रियां प्रति गङ्गाद्रव्यं हेतुत्वेनोत्प्रेक्ष्यते । एवं गुणनिमि- पापि हेतूप्रेक्षोदाहार्या । इत्थं भावाभिमानवत्यो हेतूप्रेक्षा उदाहृताः । अथाभावाभिमानवत्यः । 'रात्रौ रवेर्दिवा चेन्दोरभावादिव स प्रभुः । भूमौ प्रतापयशसी सृष्टवान्सततोत्थिते ॥' 'तस्मिन्नस्तंगते भानौ विधुस्तस्य पदे कियान् इत्यनादरतो नूनं मीलत्यम्बुरुहाकरः ॥ 'वीणावादनसंरम्भाच्चकम्पे दक्षिणः स्तनः । अदृष्ट्वेवेतरं तस्यास्तम्भाभोगतिरोहितम् ॥' अत्राद्यश्लोके रविचन्द्रयोर्जातिद्रव्ययोरभावौ हेतुत्वेनोप्रेक्ष्येते । द्वि- तीयतृतीयश्लोकयोरादरदर्शनयोर्गुणक्रिययोरभावौ । सृष्टिमीलनकम्पक्रि- यास्तु निमित्तानि । एवं गुणनिमित्ता अप्यभावहेतूप्रेक्षा उदाहार्याः । एवं षोडशभेदा हेतूप्रेक्षा दर्शिता। अथ फलोत्प्रेक्षा- 'सौधेषु यत्र मुखभासु मृगेक्षणानां ज्योत्स्नापहासचतुरासु विसृत्वरीषु । चन्द्रस्तदर्थमिव रात्रिषु बंभ्रमीति कुर्वन्करप्रसरणान्यधिजालबर्गम् ॥ 'तव निर्वर्णा यद्वर्णं स्वर्ण वर्णाय तादृशे । त्वत्कोशगेहान्निर्गम्य तीर्थेषु वसति ध्रुवम् ॥' रैथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् । उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥' १. 'सततोदिते' ख. २. 'तस्यास्तुम्ब्याभोग' ख. ३. बिहणकृतविक्रमाङ्कदेवचरिते महाकाव्ये पद्यमेतत्. - ८८ काव्यमाला। - 'दुग्धार्णवसहस्राय कैलासाचलकोटये । नूनं प्रतापरुद्रेण यशो दिक्षु प्रसारितम् ॥' एषु लोकेषु क्रमेण मुखप्रभागौरवर्णपरिवर्तनदुग्धार्णवकैलासरूपाणि जातिगुणक्रियाद्रव्याणि फलत्वेनोत्प्रेक्ष्यन्ते । भ्रमणतीर्थवासप्रस्थानप्रसारण- क्रिया निमित्तानि । एवं गुणनिमित्ता अप्युदाहार्याः । अभावाभिमानवत्यः फलोत्प्रेक्षा यथा- 'त्वदाननेन सादृश्यं प्राप्तुकामो निशाकरः । कलङ्कपङ्काभावाय नूनं मजति सागरे ।' 'अरण्यवासाजितबान्धवासु मृगीष्ववैरार्थमिवाशरण्याः । कलिन्ददेशेश्वरवैरिनार्यः पराङ्मुखा लोचनविभ्रमेषु ।' 'हेमाद्रिकुञ्जेषु विहारभाजः निख्वाङ्गनाकल्पितचन्द्रकान् । श्रीवीररुद्रस्य यशोविलासान्गायन्त्यसंस्प्रष्टुमिवान्धकारम् ॥' 'वीररुद्रनरेन्द्रस्य जयप्रस्थानसंभवम् । रजःपिहितदिग्गोलं निराकाशमिवोत्थितम् ॥' एषु श्लोकेषु पक्कवरस्पर्शनाकाशानामभावाः फलत्वेनोत्प्रेक्ष्यन्ते । तेषु पराङ्मुखत्वमेको गुणः । अन्याः क्रियाः । इत्थं,गुणक्रियानिमित्तभेदा उदा- हार्याः । एवं फलोत्प्रेक्षाः षोडश दर्शिताः । इति वाच्योत्प्रेक्षावर्गः । अथ गम्योत्प्रेक्षाः दिङ्मात्रेणोदाहियते 'नभसि महसां ध्वान्तध्वाङ्कप्रमापणपत्रिणा- मिह विहरणैः श्येनंपातां रवेरवलोकयन् । शशविशसनत्रासादाशामगाच्चरमां शशी तदधिगमनात्तारापारावतैरुदडीयत ।' अत्र सूर्येण विसृष्टानां ध्वान्तकाकप्रमापणश्येनरूपाणां किरणानां विह- रणेन निमित्तेन सूर्यस्य श्येनपातवतीं मृगयाविहारक्रियोत्प्रेक्ष्यत इति क्रिया- स्वरूपोत्प्रेक्षा तावदेका । तस्माच्छशिनस्त्रासः तस्य दिगन्तरगमनं प्रति हेतुत्वेनोत्प्रेक्ष्यत इति हेतूत्प्रेक्षान्या । ततस्तदधिगमस्तारापारावतानां मुग्धत्वेनाध्यवसितः तत्तत्स्थानेऽस्फुरणं प्रति हेतुत्वेनोत्प्रेक्ष्यत इत्यपरा च हेतूप्रेक्षा । सर्वाश्चैता गम्याः । इवाद्यभावात् । एवमन्या अपि खयमेव चित्रमीमांसा। - - बोध्याः । नूनमादिशब्दविरहेण पूर्वोक्तप्रकाराणामुन्नेतुं शक्यत्वात् । प्रागु- दाहृतानामेव श्लोकानां नूनमादिशब्दाविधानेन गम्योत्प्रेक्षोदाहरणत्वसंभ- वाच्च गम्योत्प्रेक्षाः पृथक्साकल्येन नोदाहृताः । इदं तु चिन्त्यते । गम्योत्प्रेक्षासु जातिद्रव्यस्वरूपोत्प्रेक्षे संभवतो नवेति । संभवत इति पक्षे- 'रुचयोऽस्तमितस्य भास्वतः स्खलिता यत्र निराश्रयाः खलु । अनुसायमभुर्विलेपनापणकाश्मीरजपण्यवीथयः ।।' 'परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचरः । फणिभाषितभाष्यफक्किका विषमा कुण्डलनामवापिता ॥ इत्यादिनोदाहरणेन भाव्यम् । अभिमतं च तथा केषांचित् । अलं- कारसर्वस्वकारस्य तु न संभवत इति पक्षः । एतदभिप्रायेणैव तेनोक्तं ग. म्योत्प्रेक्षाविभागे 'प्रायश्चात्र स्वरूपोप्रेक्षा न संभवति' इति । कस्त- नयोस्तस्य । पक्षेऽलंकारः रूपकमेव । अत एव- 'पीयूषप्रसूतिर्न वा मखभुजां दानं तमोलूतये वर्गङ्गाविमनस्ककोकवदनस्रस्ता मृडालीलता। द्विर्भावः स्मरकार्मुकस्य किमपि प्राणेश्वरी सागसा- माशातन्तुरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुः ॥' इत्यत्र मालारूपकमुदाहरता 'वर्गङ्गा विमनस्का' इत्यादिप्वपि रूपक- मेवोररीकृतम् । तस्माज्जातिव्योत्प्रेक्षे परिहृत्यैव गम्योत्प्रेक्षावर्गः परि- गणनीयः। इदं चान्यद्वोद्धव्यम् । धर्म्युत्प्रेक्षासु विषयिविषयानुगतो धर्मो धर्मोत्प्रे. क्षासु विषयाश्रयविषयानुगतो धर्मश्च निमित्तम् । तेन 'उवाह या तनुलता' इत्यादौ वैमल्यं निमित्तमित्यादिपक्षो न युक्तः । तस्य तादात्म्यसंभावनो- पयुक्तप्रतिबिम्बघटकस्य तनुधर्मस्य विषयधर्मत्वाभावात् । 'यत्रान्यधर्मसं- बन्धात्' इत्यादिलक्षणं वदद्भिः सर्वैरपि विषयधर्मस्यैव निमित्तत्वस्य व्यव- हृतत्वादित्यलमतिविस्तरेण । अत्र ब्रूमः- १. 'निरालयाः'ख.
काव्यमाला। 'विषयिण उत्प्रेक्षायां जातिगुणाद्यात्मना विभागविधा । यादर्शि नैव शोभा तयोपमायामिवोपमेथस्य ॥ तदभावेऽलंकाराः संभवमात्रेण न विभागम् । अर्हन्तीतरथास्या विषयोऽप्येवं विभक्तव्यः ॥ धर्मस्यापि विभागो गुणक्रियात्मा न चारुताहेतुः । उपमायामिव सोऽपि न्यूनस्तदभावयोरसंकलनात् ॥ मनसि सन्तमिव प्रियमीक्षितुं नयनयोः स्पृहयान्तरुपेतयोः । ग्रहणशक्तिरभूदिदमीययोरपि न संमुखवास्तुनि वस्तुनि ॥ वतंसनीलाम्बुरुहेण किं दृशा विलोकमाने विमनीबभूवतुः । अपि श्रुती दर्शनसक्तचेतसां न तेन ते शुश्रुवतुर्मुगीदृशाम् ॥ इत्यादिषु पश्यामो गुणक्रियाभावयोरपि व्यक्तम् । उज्ज्वलभावनिबन्धनमुत्प्रेक्षायां निमित्तत्वम् ॥' अत्र ह्याचे उदाहरणे नयनयोहृदयगतप्रियवीक्षणायान्तःप्रविष्टत्वो. प्रेक्षणायां बाह्यवस्तुग्रहणशक्त्यभावो निमित्तम् । द्वितीये श्रोत्रेन्द्रियगत- विलोकनैकाग्रत्वोत्प्रेक्षायां श्रवणक्रियाभावो निमित्तम् । एवम्- 'वीरासनैर्ध्यानमुषामृषीणाममी समध्यासितवेदिमध्याः । निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥' इत्यादीन्यभावनिमित्तत्वे भूयांस्युदाहरणानि । 'अपि च समुच्चयभेदः परिगणनीयो निमित्तेषु । भावौ भावाभावौ समुच्चितावपि निमित्ततां भजतः ॥' 'अवैमि हंसावलयो वलशास्त्वत्कीर्तिमूर्तेश्चपलाः पुलाकाः। उड्डीय युक्तं पतिताः सवन्तीवेशन्तपूरं परितः प्लवन्ते ।' 'उडुपरिषदः किं नार्हन्ती निशः किमनौचिती पतिरिह न यदृष्टस्ताभ्यां गणेयरुची गणः । स्फुटमुडुपतेराश्मं वक्षः स्फुरन्मलिनात्मन- श्छविमदनयोविच्छेदेऽपि द्रुतं बत न द्रुतम् ॥ १. वेशन्तमल्पसरः, तत्पूरयित्वेति णमुल.
THE KUPPUSWER RESEARCH : चित्रमीमांसा। 'एवमादिषु बहीषु निहोतुं केन शक्यते । समुच्चितनिमित्तत्वमुत्प्रेक्षासु निरीक्षितम् ॥' आये उदाहरणे हंसावलीनां कीर्तिपुलाकत्वोत्प्रेक्षायां धावल्यगुणो जलो- परि प्लवनक्रिया चेत्युभयं निमित्तम् । द्वितीये उडुपतिवक्षसोऽश्मविकारत्वो- स्प्रेक्षायामश्मच्छविरूपो भावो द्रुतत्वाभावश्चेत्युभयं निमित्तम् । किं च- 'उत्प्रेक्षायां निमित्तत्वं यजातिद्रव्ययोरपि । तेनापि विकलां विनो निमित्तगणनामिमाम् ।।' 'द्रोणः स तत्र वितरिष्यति भाग्यलभ्य- सौभाग्यकार्मणमयीमुपदां गिरिम्ते । तहीपदीप इव दीप्तिभिरोषधीनां चूडामिलजलदकज्जलदर्शनीयः ।। अत्र द्रोणाचलस्य दीपत्वोत्प्रेक्षायां तत्प्ररूढौषधिवृक्षदीपस्योपरि स्थितं जलदकज्जलं च निमित्तमिति जातेनिमित्तत्वं दृष्टम् । 'निशासु मूर्ध्नि स्फुरता यत्सौधो राजतीन्दुना । श्रीकण्ठो भक्तरक्षार्थ संनिधानं भजन्निव ॥' इत्यत्र बाणासुरसौधस्य शिवरूपोत्प्रेक्षायां मूर्ध्नि स्फुरन्निन्दुर्निमित्तम् । एवम्--'भाखतालंकारेण, श्वेतरोचिषा मितेन, लोहितेनाधरेण, सौम्येन दर्शनेन, गुरुणा नितम्बेन, सितेन हारेण, शनैश्चरेण पादेन, विकचेन लोचनोत्पलेन, त्रिभुवनविजयकेतुना रूपेण, ग्रहमयीवे'त्यत्र वासवदत्तायाः सकलग्रहमयत्वोत्प्रेक्षायां श्लेषेण तत्तद्रहरूपापन्नालंकारादयो निमित्तमिति जातिक्रियागुणानां समुच्चितानां निमित्तत्वं दृष्टम् । न चोदाहृतेषु दीप्त्या- दिसंबन्धो निमित्तं स च सर्वो गुण एवेति वाच्यम् । तथा सति 'ईदृक्षा क्षामतां गतौ' इत्यादावपि गमनादिक्रियासंबन्ध एव निमित्तमिति, क्रियाया एवानिमित्तत्वप्रसङ्गात् । न च तथापि 'भाखतालंकारेण' इत्यादौ श्लेषण सूर्यरूपताद्यापन्ना अलंकारादयो निमित्तं न त्वविशिष्टा जातिव्यं वेति वाच्यम् । तथासति 'कपालेनोन्मुक्तः स्फटिकवलेनाङ्कुर इव' इत्यादा- वपि कपालोन्मुक्ताङ्कुरत्वादिविशिष्टमेवोत्प्रेक्षणीयं न त्वविशिष्टं जात्यादि- १. 'वृक्षवीप्तय उपरि' क-ख. २. 'गुणानां समुचितत्वं दृष्टम्' ग.
९२ काव्यमाला। - कमिति विषयिणोऽपि जात्यादिरूपेण विभागस्यासामञ्जस्यप्रसङ्गात् । तस्माद्वि- पयिण इव निमित्तस्यापि जात्यादिरूपेण चतुर्विधतया पुनः प्रत्येकं भावाभावा- भ्यामष्टविधतया च विभागः कर्तव्य इति न्यून एवायं विभागः ) किं च यद्धे- तूत्प्रेक्षायामनुपादानं निमित्तस्य ।कापि न संभव इति प्रतिश्रुतं तदपि नो चारु। 'मग्ना सुधायां किमु तन्मुखेन्दोर्लग्ना स्थिता तत्कुचयोः किमन्तः । चिरेण तन्मध्यममुच्चतास्य दृष्टिः क्रशीयः स्खलनाद्भिया नु ॥' 'इह हेतावुत्प्रेक्ष्ये मज्जनलगने निमित्तमनुपात्तम् । तत्कार्य दृष्टिगतं चिरेण यन्मुखकुचत्यजनम् ॥' स्यादेतत् । इह मज्जनलगनोत्प्रेक्षयोश्चिरेण मुखकुचत्यागावनुपात्तौ निमित्ते, तयोश्च न मज्जनलगने हेतुत्वयोग्ये इति । सत्यम् । तथापि हेतू- प्रेक्षैव । न हि हेतूभवनक्षमस्योत्प्रेक्षैव हेतूप्रेक्षा, किं तु हेतुत्वेनोत्प्रेक्षा । यथा-'सैषा स्थली यत्र विचिन्वता त्वाम्' इत्यत्र । अत्र हि पञ्चमी हेतु- त्वप्रतिपादिका । तथा- 'कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ । अपश्यन्ताविवान्योन्यमीक्षां क्षामतां गतौ ॥' इत्यत्र क्षामतागमनं प्रति परस्परादर्शनस्य हेतुत्वोत्प्रेक्षायां शतृप्रत्ययो हेतुत्वप्रतिपादकः । 'मदनतापभरेण विदीर्य नो यदुदपाति हृदा दमनस्वसुः । निबिडपीनकुचद्वययन्त्रणा तमपराधमधात्प्रतिबनती ॥' इत्यत्र हृदयस्य मदनतापेन स्फुटितत्वोत्पतनाभावे कुचद्वययत्रणाया हेतुत्वोत्प्रेक्षायामुत्पतनप्रतिबन्धकत्वपरः प्रतिबध्नतीशब्दः फलतोऽनुत्पतन- हेतुत्वप्रतिपादकः । एतादृशेषु च फलस्य निमित्तस्योपादानं नियतमेव । अन्यथा पञ्चभ्यादीनामन्वयसंघटनाभावात् । यत्र हेतुत्वप्रतिपादकः शब्दो नास्ति तत्र हेतुभवनक्षमस्यापि स्वरूपोत्पेक्षैव । अत एवालंकारसर्वस्वकृता- 'प्राप्याभिषेकमेतस्मिन्प्रतितिष्ठासति द्विषाम् । चकम्पे लोक्यमानार्थभयविहलितेव भूः ॥' - चित्रमीमांसा। ९ इत्यत्र , विह्वलितत्वस्योत्प्रेक्ष्यस्य हेतुत्वप्रतिपादकशब्दरहितस्य कम्पं प्रति हेतुभवनक्षमत्वेऽपि खरूपोत्प्रेक्षोदाहृतेति चेत् । मैवम् । एवं हि- 'स्मरसि स्मर मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् । च्युतकेसरदूषितेक्षणान्यवतंसोत्पलताडनानि च इत्यत्र हेतूत्प्रेक्षा लक्ष्या न स्यात् । स्मरणगतहेतुत्वप्रतिपादकशब्दाभा- वात् । न चेष्टापत्तिः। 'कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् । किमकारणमेव दर्शनं विलपन्त्यौ रयते न दीयते ॥' इत्युक्त्यनन्तरं प्रवृत्तस्यास्य श्लोकस्य, अथ वा मत्पूर्वकृतापराधस्मरणेनैव दर्शनं न दीयते किमिति हेतूप्रेक्षापरत्व एव सामञ्जस्यात् । यदि तु हेतुत्वप्रतिपादकशब्दाभावेऽपि पूर्वापरानुगुण्येनापि हेतूप्रेक्षा भवेत् तहींहापि तृतीयोत्प्रेक्षासमभिव्याहारात्तस्यां चिरेण मध्यत्यजने शब्दोपात्ते स्खलनभय- स्यैवाद्योत्प्रेक्षयोरपि निमित्ततया गम्यमाने चिरान्मुखकुचत्यजने मज्जनस्य लग- नस्य च हेतुत्वेनोत्प्रेक्षणमित्येव युक्तम् । यत्रापि हि फले फलत्वप्रतिपादक- शब्दस्तत्राप्यौचित्येन फलोत्प्रेक्षामवधीर्य हेतूत्प्रेक्षाङ्गीकार्या दृश्यते । यथा- 'हृत्तस्य यन्मन्त्रयते रहस्त्वां तब्यक्तमामन्त्रयते मुखं यत् । तद्वैरिपुप्पायुधमित्रचन्द्रसख्यौचिती सा खलु तन्मुखस्य ॥' अत्र हि हृदयकृतरहस्यमन्त्रणोद्भेदनप्रत्यवमर्शकेन तच्छब्देन सख्यौचि- तीशब्दस्य कर्मार्थकष्यजन्तस्य सामानाधिकरण्याच्छब्दतो रहस्योद्भेदनस्य मुखगतहृदयवैरिमन्मथसुहृच्चन्द्रसख्यकार्यत्वं प्रतीयते । तथापि तत्र स- ख्यस्य रहस्योद्भेदनं प्रति हेतुत्वेनैवोत्प्रेक्षा, न तु हरस्योद्भेदनस्य सख्य- फलत्वेन । रहस्योद्भेदनं फलमुद्दिश्य सख्यं कृतमित्युत्प्रेक्षाया असामञ्ज- स्यात् । हेतुत्वमात्रेण हेतूत्प्रेक्षाया इव तदुद्देशं विना कार्यत्वमात्रेण फलो- स्प्रेक्षाया अनिर्वाहात् । एवं यत्र हेतौ हेतुत्वप्रतिपादकः शब्दस्तत्रापि क्वचिदौचित्येन हेतूत्प्रेक्षामवधीर्य फलोत्प्रेक्षाङ्गीकार्या दृश्यते । यथा- १. 'वा' क. २. 'इत्युक्त्वानन्तरम्' क. - काव्यमाला । - 'स्मराशुगीभूय विदर्भसुभ्रूवक्षो यदक्षोभि खलु प्रसूनैः। .. स्रज सृजन्त्या तदशोभि तेषु यत्रैकया सूचिशिखां निखाय ॥' अत्र निखनने पूर्वकालत्वरूपकारणत्वप्रतिपादकक्त्वाप्रत्ययसद्भावेऽपि न तद्वैरशोधनं प्रति हेतुत्वेनोत्प्रेक्ष्यं किं तु वैरशोधनार्थं निखननमिति वै- रशोधनमेव फलत्वेनोत्प्रेक्ष्यम् । सिद्धासिद्धयोरपि सिद्धस्योत्प्रेक्षणीयत्वात् । इह तदुद्देशोत्प्रेक्षणसंभवाच्च । यथा वा--- 'अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः । इत्याह धाता हरिणेक्षणायां किं हस्तलेखीकृतया तयास्याम् ॥' अत्र हस्तलेखीकृतया सरोजसृष्ट्येति करणविभक्तिसद्भावेऽपि न सा विधातृकर्तृकसरोजसृष्टिगतहस्तलेखत्वप्रकाशनं प्रति हेतुत्वेनोत्प्रेक्ष्यते, किं तु तत्प्रकाशनार्थ सरोजसृष्टिहस्तलेखकरणमिति तत्प्रकाशनमेव फलत्वेनो- त्प्रेक्ष्यम् । किं बहुना यत्र हेतुत्वप्रतिपादकः शब्दस्तस्यैव फलत्वमौचि- त्येन कचिदङ्गीकार्य दृश्यते । यथा- 'स्तनावालोक्य तन्वङ्ग्याः शिरः कम्पयते युवा । तयोरन्तरनिर्मग्मां दृष्टिमुत्पाटयन्निव ॥' अत्र शतुहेतौ विधानेऽपि फलस्याप्युद्देश्यतया कथंचिद्धेतुत्वमित्युप- पाद्य फलोत्प्रेक्षाङ्गीकरणीया । एवं च फलत्वादिप्रतिपादनमप्यनादृत्य हेतूत्प्रेक्षादिकमौचित्येनाङ्गीकार्य तदा किमु वक्तव्यं विरोधिशब्दाभावे औचित्यानुशरणं कार्यमिति । एवमनया दिशान्यत्रापि निमित्तानुपादानं संभवदूहनीयम् । अपि च- 'यथोपात्तनिमित्तत्वमनुपातनिमित्तता । प्रत्येकं वर्तते तद्वत्समुच्चित्यापि दृश्यते ॥' यथा- 'मुनिद्रुमः कोरकितोऽसितद्युतिर्वनेऽमुनामन्यत सिंहिकासुतः । तमिस्रपक्षत्रुटिकूटभक्षितं कलाकलापं किल वैधवं वमन् ॥' अत्र कोरकनिर्गमनविशिष्टस्य मुनिद्रुमस्य विधुकलाकलापवमनविशिष्ट- १. हस्तलेखो नाम रुचिरवर्णलेखसिध्यै पूर्वमभ्यासदाव्य तदभ्यसनम्. - चित्रमीमांसा। ९५ . - राहुरूपत्वे. उत्प्रेक्ष्यमाणे विशिष्योत्प्रेक्षानिमित्तमसितवर्णत्वमुपात्तम् , वि- शेषणोत्प्रेक्षानिमित्तं तु कोरकविधुकलासाधादिरूपं नोपात्तम् । यथा वा- 'त्वत्प्राङ्गणे सुन्दर पाण्ड्यदेव मतङ्गजाः शृङ्खलिनो विभान्ति । आवासदानादरिभूपतीनामाशान्तशैला इव सापराधाः ॥' अत्र विशेषणभूतसापराधत्वोत्प्रेक्षानिमित्तं शृङ्खलितत्वमुपात्तम् , विशे- प्यशैलरूपत्वोत्प्रेक्षानिमित्तमौन्नत्यादिकं नोपात्तम् । यथा वा- 'अजस्रभूमीतटकुट्टनोत्थितैरुपास्यमानं चरणेषु रेणुभिः । रयप्रकर्षाध्ययनार्थमागतैर्जनस्य चेतोभिरिवाणिमाकितैः ॥' अत्र विशेष्यभूतचेतोरूपत्वोत्प्रेक्षायामणिमाङ्कितैरिति निमित्तमुपात्तम् । अध्ययनार्थमागतैरिति तद्विशेषणोत्प्रेक्षायामपि चरणोपासनारूपं निमित्तमु- पात्तम् । रयप्रकर्षे त्यध्ययनविशेषणे निमित्तं चेतसां वर्णनीयादश्वादपकृ- ष्टस्यत्वं नोपात्तम् । एवमन्यत्रापि निमित्तोपादानानुपादानसमुच्चये उदाहर्त- व्यम् । तस्मान्न्यूनः सतृणाभ्यवहारश्चायं विभागः । अतोऽत्र विषयिणो जात्यादिरूपेणाष्टधाविभागम् , धर्मस्य गुणक्रियारूपेण विभागं चापहाय वि- भागान्तरलभ्या यावन्तो भेदास्तावन्त एव चमत्कारिणः । खरूपहेतुफलोत्प्रेक्षासु तु विधान्तरेणाप्यवान्तरभेदाः संभवन्ति । यथा- खरूपोत्प्रेक्षा द्विविधा, अविशिष्टोप्रेक्षा विशिष्टोत्प्रेक्षा च । यत्र विषयिणो विशेषणमुपात्तमपि नोत्प्रेक्षणीयमवगम्यते तद्विषयरूपस्य तन्निमित्तरूपस्य वा विषयविशेषणस्याभावात् किं तु तद्विशेषणं विषयिणि विधान्तरेणोपयुज्यते सा विशिष्टोत्प्रेक्षा । यत्र तु विषयिणो विशेषणमप्युत्प्रेक्षणीयमवगम्यते तद्वि- षयरूपस्य तन्निमित्तरूपस्य वा विषयविशेषणस्योपादानात्सा विशिष्टोत्प्रेक्षा । तत्राद्या यथा- 'रतेहीतानुनयेन कामं प्रत्यर्पितवाङ्गमिवेश्वरेण । काकुत्स्थमालोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम् ॥' अत्र मदनरूपत्वोत्प्रेक्षायां मदनाकृतिशालित्वमस्ति निमित्तम् । अत- स्तावदुत्प्रेक्षणीयमवगम्यते तत्प्रत्यर्पणं रत्यनुनयप्रसन्नेन परमेश्वरेण कृत- मिति विशेषणांशस्तु नोत्प्रेक्षणीयोऽवगम्यते । तदंशे विषयस्य वाच्यस्य - काव्यमाला। गम्यस्य वा निमित्तस्य वालाभात् । किं तु परमेश्वरदग्धस्य मदनदेहस्या- सुरदग्धस्य कचदेहस्य शुक्र इव न कश्चिदन्यः प्रत्यर्पणं कर्तुं शक्नोतीति विषयिणि प्रत्यर्पणोपपादकतया तद्विशेषणमुपयुज्यते इत्यविशिष्टोत्प्रेक्षेयम् । विशिष्टोत्प्रेक्षायां 'मुनिद्रुमः कोरकितोऽसितद्युतिः' 'त्वत्प्राङ्गणे सुन्दर पाण्ड्यदेव' इत्याद्युदाहरणे विषयोपादानाद्विषयिविशेषणस्योत्प्रेक्षतावग- म्यते । द्वितीये निमित्तोपादानाद्धेतुफलोत्प्रेक्षे त्वसिद्धयोः सिद्धयोर्वा हेतु- फलभावनोत्प्रेक्षणीयतया प्रत्येकं द्विविधे । 'सैषा स्थली यत्र विचिन्वता त्वाम्' 'चोलस्य यद्भीतिपलायितस्य' इत्यादिषु नूपुरकण्टकिद्रुमादावसिद्ध- योर्विश्लेषदुःखललाटलिपिदर्शनादिकयोर्हेतुफलाभावेनोत्प्रेक्षणीयता । 'आलोहिततलावेतौ क्षितौ विक्षेपणादिव । वर्णयेम कथं तन्व्याः पादौ पल्लवकोमलौ ।' 'पूरं विधुर्वर्धयितुं पयोधेः शकेयमेणाङ्कमणिं कियन्ति । पयांसि दोग्धि प्रियविप्रयोगात्सशोककोकीनयने कियन्ति।' इत्यादिषु पादचन्द्रादौ खतःसिद्धयोरेव विक्षेपपयोवर्धनादिकयोहेतुफला- भावेनोत्प्रेक्षणीयता । प्रकारान्तरेणापि कतिचिढस्या भेदान्समासोक्ति- प्रकरणे दर्शयिष्यामः । यत्तु सर्वस्वकृता वैचित्र्यान्तरमस्या दर्शितम् । एषा कचिद्धर्मविषये श्लिष्टा, कचिच्छलादिशब्देन सापहवा, क्वचित्पदार्थान्वयवेलायां सादृश्या- भिधानादुपमाक्रान्ताप्युपमावाक्यार्थतात्पर्यसामर्थ्यादभिमातृव्यापारौचित्यक्र- मेणोत्प्रेक्षायां पर्यवस्यतीत्युपमोपक्रमा चेति । तत्र धर्मविषये श्लिष्टत्वं किमित्युपन्यस्तम् । किं धर्मस्य निमित्तानुगामितयेव श्लेषेणापि निर्वाह्यत इति, किं वा धर्माशेषु शुद्धतेव श्लेषेणालंकृतापि दृश्यत इति । आये उपमायां साधारणधर्मस्यानुगामित्वादयो यावन्तो भेदाः साधारण्यनिर्वाह- कास्ते सर्वेऽप्युत्प्रेक्षायां धर्मस्य निमित्ततानिर्वाहकाः संभवन्तीति न्यूनो विभागः । तथा हि 'बालेन्दुवक्राण्यविकाशभावात्' इत्यादौ तावदनुगामित्वं स्पष्टम् । तथा- - १. 'अभिमन्तृ' ख-ग.
चित्रमीमांसा। ९७ , 'व्यराजत सखे तन्व्या वक्रं वलितकन्धरम् । लावण्यौघजलावृत्तनालदण्डमिवाम्बुजम् ॥' इत्यत्र वस्तुप्रतिवस्तुभावः । बिम्बप्रतिबिम्बभावादयस्तु प्रागेवोदाहृताः । द्वितीये निमित्तांशेन श्लेषेण वालंकारान्तरेणाप्यलंकृतता दृश्यते इति न्यूनो विभागः । तथा हि 'अङ्गुलीभिरिव केशसंचयम्' इति निमित्तांशे उपमालंकारः स्पष्टः । 'उदरं परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किल । धृततच्चतुरङ्गुलीव यद्वलिभिर्भाति सहेमकाञ्चिभिः ॥' इत्यत्रोत्प्रेक्षा । अत्र दमयन्त्युदरस्य केनचित्कुतुकिना परिमीयमाणत्वो- त्प्रेक्षायां काञ्चीसहितासु वलीषु तदीयाङ्गुलित्वोत्प्रेक्षालब्धमुदरगतं तदी- याङ्गुलिचतुष्टयधारणं निमित्तम् । 2 ।। 'अजस्रमारोहसि दूरदीर्घा संकल्पसोपानततिं तदीयाम् । श्वासान्स वर्षत्यधिकं पुनर्यध्यानादिव त्वन्मयतामवाप्य ॥ इत्यत्रासंगतिः । यतोऽत्र नलस्य दमयन्तीरूपतावाप्त्युत्प्रेक्षायां दमय- न्तीकर्तृकेण सोपानारोहणेन नलस्य श्वासवर्षणं निमित्तम् । , 'प्रतीपभूपैरिव किं ततो भिया विरुद्धधभैरपि भेत्तृतोज्झिता । अमित्रजिन्मित्रजिदोजसा स यद्विचारहक्चारगप्यवर्तत ॥' इत्यत्र विरोधाभासः । अत्र हि विरुद्धधर्मगतश्रियभेदकत्वत्यागोत्प्रे- क्षायां विरुद्धतयावभासमानधर्माणां नले सहवासो निमित्तम् । 'ध्रुवमधीतवतीयमधीरतां दयितदूतपतद्गतिवेगतः । न . . ' रिभाती धृतिविरोधकरी व्यणुकोदरी तदुदितः स हि यो यदनन्तरः ॥' इत्यत्रार्थान्तरन्यासः । यद्यप्यत्र दमयन्तीगतस्य चापलस्य नलदूतहंसप- क्षवेगो हेतुत्वेनोत्प्रेक्ष्यते, तथापि तत्रोत्प्रेक्षायामध्ययनफलमात्रं न निमित्तं किं त्वन्यवेगात्कथमन्यत्र चापलमिति शङ्कावारणाय निबद्धेन 'तदुदितः स हि यो यदनन्तरः' इत्यर्थान्तरन्यासेनोपस्कृतम् । एवम्- 12.3 'गौरीव पत्या सुभगा कदाचित्कर्तेयमप्यर्धतनूसमस्याम् । इतीव मध्ये विदधे विधाता रोमावलीमेचकसूत्रमस्याम् ।' १. 'उपेत्य ख.
९८ काव्यमाला। - इत्यत्र निमित्तांशे रूपकमित्यायूहनीयम् । तस्मादुभयथापि ,तत्र श्लि- टत्वमात्रकीर्तनं न्यूनमितरेषामप्युपलक्षणं द्रष्टव्यम् । यत्तु सापह्नवत्वे- 'गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु । यत्रोल्लसत्फेनलवच्छलेन मुक्ताट्टहासेव विभाति शिप्रा ।' इति खरूपोत्प्रेक्षायामुदाहृतं तदपि हेतुफलोत्प्रेक्षयोरपि सापह्नवत्वे उपलक्षणं बोद्धव्यम् । तत्र सापह्नवहेतूप्रेक्षायाम्- 'मुग्धः स मोहात्सुभगाचदेहाद्ददद्भवद्भूरचनाय चापम् । भ्रूभङ्गजेयस्तव यन्मनोभूरनेन रूपेण यदा तदासीत् ।।' अत्र मदनगते मुग्धशब्दवाच्यत्वे वस्तुतो हेतोः सौन्दर्यस्य हेतुत्वमप- हृत्य नलभूरचनाय स्वचापादानप्रयुक्तस्य मौढ्यस्य हेतुत्वमुत्प्रेक्षितम् । सा- पह्नवफलोत्प्रेक्षा यथा- 'रवितप्तो गजः पद्मांस्तद्गृह्यान्बाधितुं ध्रुवम् । सरो विशति न स्नातुं गजस्नानं हि निष्फलम् ॥' अत्र गजस्य सरःप्रवेशं प्रति वस्तुतः फलस्य स्नानस्य फलत्वमपहृत्य पद्मवाधनमत्र फलत्वेनोत्प्रेक्षितम् । न च स्वरूपोत्प्रेक्षाया वास्तवविषय- खरूपापहव एव विच्छित्तिविशोषो न तु फलोत्प्रेक्षयोः प्रसिद्धहेतुफला- पह्रव इत्यस्ति । प्रत्युतोदाहृतयोर्हेतुफलोत्प्रेक्षयोः जसिद्धहेतुफलापह्नवोऽपि सहेतुकः न तूदाहृतविषया खरूपापहवोत्प्रेक्षे इत्युपलक्षणतैव युक्ता । अन्य- दन विचारणीयं समासोक्तिप्रकरणे विचारयिप्यते । १० यत्तु 'कस्तूरीतिलकन्ति भालफलके' इत्यादावुपक्रान्ता उपमा औचि- त्यादुत्प्रेक्षायां पर्यवस्यतीत्युक्तं तत्र भालादिस्थानविशेषसंबन्धस्य कस्तूरी- तिलकादितादात्म्यमात्रे औचित्यं चेत् रूपके पर्यवसानं स्यादिति तस्य तादात्म्यसंभावनायामौचित्यमुपगम्योत्प्रेक्षायां पर्यवसानं वाच्यम् । तथा च- 'रक्षन्तु त्वामसितजलजैरञ्जलिः पादमूले मीना नाभीसरसि हृदये कौस्तुभाख्या मुरारेः । १. 'मारबाणा मुरारेः' ग.
चित्रमीमांसा। - द्वाराः कण्ठे हरिमणिमया वक्रपद्मे द्विरेफाः पिच्छाचूडाश्चिकुरनिकरे घोषयोषित्कटाक्षाः ॥' इत्यादौ रूपकप्रतीतिस्थलेऽप्युत्प्रेक्षोपगन्तव्या । तथा- 'पतत्रिणा तद्रुचिरेण वञ्चितं श्रियः प्रयान्त्याः प्रविहाय पल्वलम् । चलत्पदाम्भोरुहनूपुरोपमा चुकूज कूले कलहंसमण्डली ॥' 'लोकाश्रयो मण्डपमादिसृष्टिब्रह्माण्डमाभात्यनुकायमस्य ।' . 'अथाजिनाषाढधरः प्रगल्भभाग्ज्वलन्निव ब्रह्ममयेन तेजसा । विवेश कश्चिजटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ॥ इत्यादावुपमाप्रतीतिस्थले यथोत्प्रेक्षायां पर्यवसानम् । एवम् – 'वरणः कनकस्य मानिनी दिवमङ्कादमरादिरागताम् । घनरत्नकवाटपक्षतिः परिरभ्यानुनयन्नुवास याम् ॥' 'खधाकृतं यत्तनयैः पितृभ्यः श्रद्धापवित्रं तिलमिश्रमम्भः । चन्द्रं पितृस्थानतयोपतस्थे तदङ्गरोचिःखचिता सुधैव ॥' इत्यादिरूपकप्रतीतिस्थलेऽपि तस्यां पर्यवसानमुपगन्तव्यम् । तादात्म्यसं- भावनोपयुक्तविशेषणनिबन्धरूपन्यायसाम्यात् । एवम्- 'पूर्णेन्दोः परिपोषकान्तवपुषः स्फारप्रभाभासुरं .. नेदं मण्डलमभ्युपैति गगनाभोगाजिगीषोर्जगत् । गार कामस्योच्छ्रितमातपत्रमधुना पाण्डुप्रदोषश्रिया मानोन्नद्धजनाभिमानदलनोद्योगैकहेवाकिनः ॥' इत्यपहृत्युदाहरणे इत्यपि द्रष्टव्यम् । अधिकं निदर्शनालंकारप्रकरणे चिन्तयिष्यते । ननु गम्योत्प्रेक्षायां अलंकारतया परिगणनमयुक्तम् । तस्या अलंकार- ध्वनित्वात् । उच्यते । विषयविषयिनिमित्तेषूपात्तेषु केवलमिवादिवाचका- १. सर्वेषु पुस्तकेषु श्लोकाध एव दृश्यते. २. 'प्रविशेषकान्तवपुषः' ग. ३. 'मानो- नाहजना' ख. ४. 'हेतोव॒वम्' क. ५. ख-पुस्तकेऽत्रैव 'इत्युत्प्रेक्षाप्रकरणम् । समा. प्तश्चायं समुपलभ्यमानो ग्रन्थः' इति ग्रन्थसमाप्तिः कृता. ग-पुस्तके तु 'अप्यर्धचि- त्रमीमांसा' अयं समाप्तिश्लोकोऽत्र विलिख्य पुनरने अधिकमित्यादि लिखितमस्ति. ६. 'केवल इवादि' ग.
१०० काव्यमाला। प्रयोगमात्रेण यत्रोत्प्रेक्षावगम्यते सात्यन्तं स्फुटत्वाद्वाच्यायमानत्वादलंकार- तामेवासादयतीति । यथोदाहृतम् । यत्रोत्प्रेक्षणीयस्य विषयिणोऽप्यनुपादानं निबद्धेन वस्तुनालंकारेण वा गम्योत्प्रेक्षा गूढा तत्रैवोत्प्रेक्षाध्वनिः । यथा- 'वीररुद्रभटान्दृष्ट्वा जयलक्ष्म्यावृतान्रणे । कर्षन्त्यरिवधूकेशान्कानने कण्टकिट्ठमाः ॥' अत्र वस्तुना कचग्रहणरूपेण जयश्रीसमालिङ्गितभटदर्शनोद्दीपितमन्मथा इवेत्युत्प्रेक्षा ध्वन्यते । 1- । 'वेलामतिक्रम्य पृथुमुखेन्दोरालोकपीयूषरसेन तस्याः । नलस्य रागाम्बुनिधौ विवृद्धे तुङ्गौ कुचावाश्रयति स्म दृष्टिः ॥' अत्रैकदेशविवर्तिरूपकेण मज्जनभयादिवेत्युत्प्रेक्षावगम्यते । एवमन्यत्रा- प्युदाहार्यम् । इत्युत्प्रेक्षाप्रकरणम् । अथातिशयोक्तिः- तस्यास्तावत्- विषयस्यानुपादानाद्विषय्युपनिबध्यते । यत्र सातिशयोक्तिः स्यात्कविप्रौढोक्तिजीविता ॥ इति लक्षणमुक्त्वा चातुर्विध्यं वर्णयन्ति । भेदेऽभेदः, अभेदे भेदः, संबन्धेऽसंबन्धः, असंबन्धे संबन्ध इति । एतेषामुदाहरणानि- 'कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ।।' 'अन्येयं रूपसंपत्तिरन्या वैदग्ध्यधोरणी । नैषा कमलपत्राक्षी सृष्टिः साधरणी विधेः ॥ 'अस्याः सर्गविधौ प्रजापतिरभूञ्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । - - १. 'अस्याः' क. २. 'कुवलयमेतापि' ग.
चित्रमीमांसा। १०१ -- वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः॥' 'दाहोऽम्भः प्रसूतिपचः प्रचयवान्बाष्पः प्रणालोचितः श्वासाः प्रेजितदीप्तदीपकलिकाः पाण्डिम्नि मनं वपुः । किं चान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिवर्तते ॥ अत्र कमलादीनां मुखादिभेदेऽप्यभेदः । रूपादीनां लोकसिद्धरूपाद्य- भेदेऽपि भेदः । रूपस्य पुराणप्रजापतिसृष्टिसंबन्धेऽप्यसंबन्धः । विरहादीना. मम्भःप्रसृतिपचत्वाद्यसंबन्धेऽपि संबन्धश्च क्रमेण निबद्धः । अत्रेदं विचार्यते। विषयस्यानुपादानादित्यत्र किमनुपादानं सर्वथैव विषयस्य प्रतिपादकाभावः, तद्वाचकाभावो वा । आद्ये 'कमलमनम्भसि' इत्यादावपि लक्षणं न स्यात् । कमलादिशब्दानां लक्षणया विषयभूतमुखादिप्रतिपादकत्वात् । द्वितीये 'चुम्बतीव रजनीमुखं शशी' इत्यादिषु मुखशब्दादिश्लेषमूलातिशयोक्ताव- व्याप्तिः । विषयिवाचकातिरिक्तविषयप्रतिपादकाभावो विवक्षित इति चेत्, तथापि 'उन्मीलितानि नेत्राणि पद्मानीवोदिते रवौ' इत्यादावुन्मीलितशब्द- वाच्यलक्ष्यार्थाध्यवसायरूपातिशयोक्तावसिव्याप्तिः । तत्रोन्मीलितशब्दस्य विषयीभूतविकाशलक्षकतया तद्वाचकातिरिक्तस्यैव विषयप्रतिपादकत्वात् । विषयिप्रतिपादकातिरिक्तविषयप्रतिपादकाभावविवक्षायामपि- 'पल्लवतः कल्पतरोरेष विशेषः करस्य ते वीर । भूषयति कर्णमेकः परस्तु कर्णं तिरस्कुरुते ॥' इत्यत्र कर्णशब्दश्लेषमूलातिशयोक्तावव्याप्तिः । तत्र विषयविषयिणोः पृथक्वर्णपदोपादानाद्विषयप्रतिपादकविलक्षणविषयप्रतिपादकाभावो वा वि- वक्षित इति चेत् , तथापि- 'उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयस्कृतेन किम् । त्रपासरिदुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ॥' - १०२ काव्यमाला। इत्यत्र कुचद्वये कुम्भयुगाभेदाध्यवसायरूपातिशयोक्तावव्याशिः । त- बोरःप्रभवत्वाकारेण विषयप्रतिपादकस्य विषयिप्रतिपादकविलक्षणस्य स- द्भावात् । ननु विषयिप्रतिपादकविलक्षणस्य विषयतावच्छेदकप्रकारेण वि- षयप्रतिपादकस्याभावो विवक्षितः, उरःप्रभवत्वं तु न पयोधरयोर्विषय- तावच्छेदकमनेकसाधारणत्वादिति चेत् , एवमपि- 'ध्वान्तस्य वामोरु विचारणायां वैशेषिकं चारु मतं मतं मे । औलुकमाहुः खलु दर्शनं यत्क्षमं तमस्तत्त्वनिरूपणाय ॥' इत्यादावुलूकदर्शनमिति वैशेषिकमते पक्षिविशेषदृष्ट्यभेदाध्यवसायरू- पातिशयोक्तावव्याप्तिौरा । तत्र वैशेषिकॅमतमिति विषयतावच्छेदकप्र- कारेण विषयप्रतिपादकस्य संभवात् । अपि चैवम् 'रामरावणयोर्युद्धम्' इत्यनन्वयालंकारे चातिव्याप्तिः । तत्र विषयप्रतिपादकविलक्षणविषयप्र- तिपादकाभावात् । ननु यत्र कश्चिदभेदेनाध्यवसीयते स विषयः, यस्तु तथाध्यवसीयते स विषयीति विषयविषयिभावोऽत्र विवक्षित इति नोक्ता- तिव्याप्तिरिति चेत् , एवमपि 'विद्वन्मानसहंस' इत्यादिश्लिष्टरूपकेऽतिव्या- प्तिर्वारा । रूपके ताद्रूप्यारोपमात्रम् , अतिशयोक्तावभेदाध्यवसाय इति कल्पना तु रूपकविचारलक्षण एव निरस्ता । सारूप्यनिबन्धनसमासोक्त्यु- दाहरणेषु चातिव्याप्तिः। 'अप्यचित्रमीमांसा न मुदे कस्य मांसला । अनूरुरिव धर्मांशोरर्धेन्दुरिव धूर्जटेः॥ समाप्तश्चायं समुपलभ्यमानो ग्रन्थः । . १. क-पुस्तके 'इति चेत्' इति नास्ति. २. 'निरीक्षणायाम्' क. ३. 'दुर्वारा । तत्र' इति क-पुस्तके नास्ति. ४. 'सद्भावात्' क. ५. 'अप्रस्तुतप्रशंसोदाहरणेषु' ग.
काव्यमाला। पण्डितराजश्रीजगन्नाथविरचितं चित्रमीमांसाखण्डनम् । नागेशकृतमर्मप्रकाशादु द्धृतया टिप्पण्या सहितम् । नामं नामं घनश्याम धाम तामरसेक्षणम् । पण्डितेन्द्रो जगन्नाथशर्मा निर्माति कौतुकम् ॥ रसगङ्गाधरे चित्रमीमांसाया मयोदिताः। ये दोषास्तेऽत्र संक्षिप्य कथ्यन्ते विदुषां मुदे । सूक्ष्मं विभाव्य मंयका समुदीरिताना- मप्पय्यदीक्षितकृताविह दूषणानाम् । निर्मत्सरो यदि समुद्धरणं विदध्या- दस्याहमुज्वलमतेश्चरणौ वहामि ॥ यत्त्वादिभागे चित्रमीमांसायामप्पयदीक्षितैः 'निःशेषच्युतचन्दनं स्तन- तटम्' इति पद्यं ध्वन्युदाहरणप्रसङ्गे व्याख्यातम् – 'उत्तरीयकर्षणेन च- न्दनच्युतिरित्यन्यथासिद्धिपरिहाराय निःशेषग्रहणम् । ततश्चन्दनच्युतेः स्नानसाधारण्यव्यावर्तनेन संभोगचिह्नोद्घाटनाय तटग्रहणम् । स्त्राने हि स- व्याख्यातमिति । व्याख्यानमेवाह-उत्तरीयेत्याद्याचरन्तीत्यन्तेन इत्यादी- त्यादिना प्रातर्दत्तमञ्जनं कालविलम्बेन किंचिद्विलुप्तमित्यन्यथासिद्धिपरिहाराय दूरमिति । अत्यर्थमित्यापात तोऽर्थः । एतेन कालान्यथासिद्धिनिरासः । पुनः स्नानसाधारण्यव्यावर्ज- (त)नेन संभोगचिहोद्घाटनाय दूरे प्रान्त इति हृदयस्थितोऽर्थः । कालतः स्नानेन सर्व १'मया'.
२ काव्यमाला। र्वत्र चन्दनच्युतिः स्यात् , तव तु स्तनयोस्तट उपरिभाग एव, दृश्यते । इयमाश्लेषकृतैव । तथा निर्मुष्टरागोऽधर इत्यत्र ताम्बूलग्रहणविलम्बात्मा- चीनरागस्य किंचिन्मृष्टतेत्यन्यथासिद्धिपरिहाराय निर्देष्ट इति रागस्य निःशेषमृष्टतोक्ता । पुनः स्नानसाधारण्यव्यावर्तनेन संभोगचिह्नोद्धाटनाया- धर इति विशिष्य ग्रहणम् । उत्तरोष्ठे सरागेऽधरोष्ठमात्रस्य निर्मुष्टरागता चुम्बनकृतैव' इत्यादिना 'इदमपि ध्वनेरुदाहरणम्' इत्यन्तेन संदर्भेण त- टादिघटिता वाक्यार्थाः 'स्नानव्यावृत्तिद्वारा संभोगाङ्गानामाश्लेषचुम्बनादीनां प्रतिपादनेन प्रधानव्यङ्ग्यव्यञ्जने साहायकमाचरन्ति' इति, तदेतदालं- कारिकाणामतितमां हृदयारंतुदतया नालंकारमीमांसकेन वक्तुं युक्तम् । एवं च तटादिघटितानां वाक्यार्थानां मुख्यार्थवापीस्नानपक्षे बाधितत्वाद्वि- रोधिलक्षणया वापी स्नातुं न गतासि किं तु तदन्तिकमिति प्रतिपत्तौ वि- गलितव्यञ्जनाव्यापारेण यथा--'अहो पूर्ण सरो यत्र लुठन्तः स्त्रान्ति मा- नवाः' इत्यत्र लुठन्त इत्यस्य विशेषणस्य मुख्येऽर्थेऽनुपपत्त्या विरुद्धोऽर्थों भासमानोऽपि न व्यङ्ग्यः, एवमिहापि स्यात् । अपि च यथाकथंचिदङ्गीकुरु वात्र व्यञ्जनाव्यापार तथापि न तवेष्ट- सिद्धिः । वाच्यानां निःशेषच्युतचन्दनस्तनतटत्वादीनामधमत्वस्य च त्व- दुक्तरीत्या प्रकारान्तरेणानुपपद्यमानतया दूतीसंभोगमात्रनिष्पाद्यत्वेन गु- णीभूतव्यङ्ग्यत्वप्रसङ्गात् । किं चैवं सति 'भम धम्मिअ वीसत्थ-' इ- त्यादौ लिङ्गजलिङ्गिज्ञानरूपेणानुमानेन व्यक्तिं गतार्थयतो व्यक्तिविवेक- कृतो मतं प्रत्याचक्षाणा व्यभिचारित्वेनासिद्धत्वेन च संदिह्यमानादपि तोऽञ्जनलोकः स्यात्तव तु लोचनयोः क्वचित्प्रान्त एवानञ्जनत्वमिदं चुम्बनकृतमेवेत्यादि परिग्रहः । वाक्यार्थाः प्रधानवाक्यार्थाः । प्रधानव्यङ्ग्य संभोगः। यथाकथंचि. दिति । अर्थापत्तिप्रमाणस्यातिरिकस्याभावादिति भावः । अत्र रमणे । संभोग- मात्रेति । तदन्येन वाच्यसिद्धेरेवाभावादिति भावः । भमेति । 'भ्रम धार्मिक विश्रब्धः स शुनकोऽद्य मारितस्तेन । गोदानदीकच्छनिकुञ्जवासिना दृप्तसिंहेन ॥' कुसुमावच- १. 'भम धम्मिअ वीसत्थो सो सुणओ अज्ज मालिदो तेण । गोलाणइकच्छकुडगवा- सिना दरिअसीहेण ॥.
३ चित्रमीमांसाखण्डनम् । लिङ्गायञ्जनुमभ्युपगच्छन्तः सर्वेऽपि ध्वनिमार्गप्रवर्तकास्तव प्रतिकूलाः स्युः । अन्यच्च येनोदाहृतं पद्यमायुष्मता व्याख्यातम् , तस्यापि विशेषणानामसाधा- रण्यमननुमतमेव । तथा च तेनैवोक्तं पञ्चमोल्लासशेषे–'निःशेषेत्यादौ ग- मकतया यानि चन्दनच्यवनादीन्युपात्तानि तानि कारणान्तरतोऽपि भ. वन्ति । यतश्चात्रैव स्नानकार्यत्वेनोपात्तानीति नोपभोग एव प्रतिबद्धानी- त्यनैकान्तिकानि' इति । एवं च त्व(त)दुक्तिविरोधः स्फुट एव । तस्मा- द्वाच्यार्थसाधारण्यमेवोचितमतिविदग्धनायिकानिरूपितानां विशेषणानाम् । तथा हि-अयि बान्धवजनस्याज्ञातपीडागमे खार्थपरायणे खानकालाति- क्रमभयवशेन नदीमदीयप्रिययोरन्तिकमगत्वैव वापी स्वातमितो ममान्ति- काद्गतासि न पुनस्तस्य परवेदनानभिज्ञतया दुःखदातृत्वेनाधमस्यान्तिकम् । यतो निःशेषच्युत चन्दनं स्तनयोस्तटमेव नोरःस्थलम् । वापीगतबहुलयुवज- नत्रपापारवश्यादंशद्वयलग्नाग्रस्खस्तिकीकृतभुजलतायुगलेन तटस्यैवोन्नततया मुहुरामर्शात् । एवं त्वरया सम्यगक्षालनेनोत्तरोष्ठो न निर्देष्टरागोऽधरस्तु तदपेक्षया गण्डूषजलरदनशोधनामुल्यादीनामधिकसंमर्दमावहतीति तथा । किं च सम्यगक्षालनेन नेत्रे जलमात्रसंसर्गादूरमुपरिभाग एवानञ्जने । शीतवशात्तानवाच्च तव तनुः पुलकितेति । एवं तस्या विदग्धाया गूढता- त्योंक्तिरुचिता । अन्यथा वैदग्ध्यभङ्गापत्तेः । एवं साधारणेषु वाक्यार्थेषु मुख्यार्थे बाधाभावात्तात्पर्यार्थस्य झटित्यना- कलनात्कुतोऽत्र लक्षणावकाशोऽनन्तरं च वाच्यार्थप्रतिपत्तेर्वक्तृबोद्धव्यना- यार्थ कुळे धार्मिकभ्रमणेन खण्डितसंकेतायास्तनिवारणोक्तिरियम् । अत्र वाच्येन भीरु- खभावस्य गृहे श्वनिवृत्त्या भ्रमणेन निकुञ्ज सिंहोपलब्ध्या भ्रमणनिषेधो व्यङ्ग्यः । प्रन्थ- विरोधमाह-अन्यञ्च येनेत्यादि । गमकतयेति । संभोगेत्यादिः। अत्रैव निःशे- षेत्यादावेव । प्रतिबद्धानि जन्यतया न तत्रैव संबद्धानि । अनैकान्तिकानि सा. धारणानि । कथं तर्हि तस्य व्यङ्ग्यत्वं प्रकाशाद्युक्तमाह-तस्माद्वाच्यार्थेति । वापी- मानेनेत्यर्थः । निरूपितेति । बोधितेत्यर्थः । गमे इत्यन्तव्याख्या स्वार्थेति । अन्तिक- मित्यत्र गतासीत्यनुषङ्गः । एवं त्रपापारवश्यात् । तथा निर्मष्टरागः । तन्वीत्यस्यार्थ- माह-तानवाञ्चेति । कृशलाचेत्यर्थः । उपसंहरति-एवमिति । उक्तप्रकारेत्यर्थः । मुख्याथै वापीनाने । अनन्तरमिति । वाच्यार्थप्रतिपत्तेरनन्तरं चेत्यर्थः । वक्री १०चि० काव्यमाला। यकादीनां वैशिष्ट्यप्रतिपत्तौ सत्यामधमपदेन खैप्रवृत्तिप्रयोजको दुःखदातृ- त्वरूपो धर्मः साधारणात्मा प्राग्वाच्यार्थदशायामपराधान्तरनिमित्तकदुःख- दातृत्वरूपेण स्थितो व्यञ्जनाव्यापारेण दूतीसंभोगनिमित्तकदुःखदातृत्वाका- रेण पर्यवस्यतीत्यालंकारिकसिद्धान्तनिष्कर्षः । एतेन 'अधमत्वमप्रकृष्टत्वं तच्च जात्या कर्मणा वा भवति । तत्र जात्यापकर्ष नोत्तमनायिका नाय. कस्य वक्ति । नापि खापराधपर्यवसायिदूतीसंभोगादिहीनकर्मातिरिक्तेन कर्मणा । तादृशं च दूतीसंप्रेषणात्प्राचीनं सोढमेवेति नोद्घाटनाहमितीतर- व्यावृत्त्या संभोगरूपमेव पर्यवस्यति' इति यदुक्तम् , तदपि निरस्तम् । विदग्धोत्तमनायिकायाः सखीसमक्षं तदुपभोगरूपस्य वनायकापराधस्य स्फुटं प्रकाशयितुमतितमामनौचित्येन प्राचीनानामेव सोढानामप्यपराधाना- मसह्यतया दूती प्रति प्रतिपादयिषितत्वात् । यथैव हि- 'औण्णिदं दोब्बलं चिन्ता अलसन्तणं सणीससिअम् । मह मन्दभाअणीए केरं सहि तुह वि परभवइ ।' इत्यादावौन्नियादीनि वाच्यभूतखक्लेशनिमित्तकसखीक्लेशसाधारणान्येव बो. द्धव्यवैशिष्ट्यवशात्तत्कामुकोपभोगजनितौनियादिषु पर्यवस्यन्ति । न चात्र वाच्यार्थव्यावर्तकं किंचिद्विशेषणमपेक्षन्ते सहृदयाः, एवमिहापि । अथ तदन्तिकगमनस्य लक्षणावेद्यत्वेऽपि रमणमात्रस्य लक्ष्यशक्तिमूलध्वननवेद्य- त्वमव्याहतमेवेति चेत् , नैवम् । 'अधमत्वं जात्या कर्मान्तरेण वा नोत्तम- विदग्धोत्तमनायिका । बोद्धव्या दुःशीला दूती । नायकस्तादृशः । आदिना काक्वादि- परिग्रहः । अधमपदेनेति । बोधित इति शेषः । स्वेति । अधमपदप्रवृत्तिनिमित्तमि- त्यर्थः । साधारणेति । तादृशकर्मान्तरसाधारणेत्यर्थः । स्वापराधेति । स्वं नायिका. दूतीसंभोगादिरूपं यद्धीनकर्मेत्यर्थः। एतेनेत्यस्यार्थमाह-विदग्धेति । तदुपभोगेति। दूत्युपभोगेत्यर्थः । अतितमामत्यन्तम् । प्राचीति । दूतीसंप्रेषणादित्यादिः । अन्यथा वैदग्धादिभङ्गापत्तिः । औण्णिहमिति। 'औनियं दौर्बल्यं चिन्तालसत्वं सनिःश्वसितम्। मम मन्दभागिन्याः कृते सखि लामपि परिभवति ॥ कृतकामुकसंभोगां दूतीं प्रत्यु- प्रभोगचिह्न स्तं ज्ञातवत्या नायिकाया इयमुक्तिः । साधारणानि । रोगादितोऽपि तत्संभ- १. स्वप्रवृत्तिनिमित्तप्रयोजकः' इति.
चित्रमीमांसाखण्डनम्। नायिका नायकस्य वक्ति' इत्यादिना संदर्भण रमणस्यापि भवतैव श्रुता- पत्तिवेद्यतायाः स्फुटं वचनात् । एतेन काव्यप्रकाशटीकाकृतामुक्तयः परास्ताः । विशेषणसाधारण्यपरस्य खमूलग्रन्थस्यैव तैरनाकलनात् । बाधा- भावेन लक्षणाया दूरापास्तत्वात् । यत्तु- 'प्रहरविरती मध्ये वाह्नस्ततोऽपि परेण वा किमुत सकले याते वाहि प्रिय त्वमिहैप्यसि । इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सबाष्पगलज्जलैः ॥' इत्यत्र 'सकलमहः परमावधिस्ततः परं प्राणान्धारयितुं न शक्नोमीति व्यङ्ग्यं प्रियगमननिवारणरूपवाच्यसिद्ध्यङ्गम्' इति मध्यमकाव्योदाहृतिप्र. सङ्गे निगदितम् , तच्चिन्त्यम् । सबाष्पगलजलानां 'प्रहरविरतौ' इत्या- द्यालापानामेव प्रियगमननिवारणरूपवाच्यसिद्ध्यङ्गव्यङ्ग्यतया व्यङ्ग्यस्य गु- णीभावाभावात् । आलापैरिति तृतीयया प्रकृत्यर्थस्य हरणक्रियाकरण- तायाः स्फुटं प्रतीतेः । न च व्यङ्गयस्यापि वाच्यसिद्ध्यङ्गतात्र संभवतीति तथोक्तमिति वाच्यम् । 'निःशेषच्युतचन्दनम्' इत्यादावप्यधमत्वरूपवाच्य- सिध्यङ्गताया दूतीसंभोगादौ संभवाद्गुणीभूतव्यङ्गत्वापत्तेः । अस्तु वा ततः परं प्राणान्धारयितुं न शक्नोमीति वाच्यसिद्ध्यङ्गतया गुणीभावस्तथापि नायकादेविभावस्य बाष्पादेरनुभावस्य चित्तावेगादेश्च संचारिणः संयोगा- दभिव्यज्यमानेन विप्रलम्भेन ध्वनित्वं को निवारयेत् । वात् । यथात्रैव नायिकायास्तद्वियोगतः। प्रहरविरताविति । हे प्रिय, त्वं किं प्रहरसमाप्तौ दिनमध्ये याते वा मध्याह्नादपि परेण तृतीयप्रहरेण यातेन वा सर्वदिने गते वेह मत्समीपे उत निश्चयेनैध्यस्यागमिष्यसि । इत्येवंप्रकारेण । आलापेऽस्यान्वयः । अग्रे स्पष्टम् । शतशब्दोऽनियतसंख्यावाची । एवमुक्तव्यवच्छेदे । व्यङ्ग्यस्य शक्नोमीत्यन्तस्य । ननु विनिगमनाविरहोऽत आह-आलापैरिति । प्रकृत्यर्थस्य तादृशालापस्य । अ. पिरुक्तसमुच्चये । ननु सबाष्पगलज्जलतदुक्तालापानां गमनोत्तरचिरकालावस्थितिनिवार- कतयाप्युपपत्तेर्व्ययसहितानामेव गमननिवारणसामर्थ्यमत आह-अस्तु वेति । आन्तरालिकव्यङ्ग्यमादायैव ध्वनिगुणीभूतादिव्यङ्ग्यव्यवहारस्योपपद्यमानतया 'विप्रलम्भेन ६ काव्यमाला। यदप्युभयचित्रप्रस्ताव उदाजदुः- 'वराहः कल्याणं वितरतु स वः कल्पविरमे विनिर्धन्वन्नौदन्वतमुदकमुर्वीमुदवहत् । खुराघातत्रुट्यत्कुलशिखरिकूटप्रविलुठ- च्छिलाकोटिस्फोटस्फुटघटितमङ्गल्यपटहः ॥' एतच्च पद्यं दोषाविलत्वादनुदाहायमेव । तथा हि-प्रथमेऽर्धे वाक्यद्व- यस्यापि समाप्तेर्नैराकाङ्क्षयादुत्तरार्धगतविशेषणे समाप्तपुनरातत्वम् । नि- वृत्त उद्वाहे मङ्गल्यपटहवादनप्रतिपत्तेरपदस्थपदत्वम् । ऊर्ध्ववहननिष्पत्तौ च भूम्यूचंगानां कुलशिखरिणां कूटेषु कथंकारमधःस्थस्य भगवतो वर हस्य खुराघात इति व्याहतार्थत्वम् । एकार्थेऽनेकक्रियत्वेन यत्पदाध्या- हारेण चासंष्टुलत्वं चेति । अन्येऽप्येवंजातीयका बहवोऽत्र दोषाः । न ह्यवरं काव्यमिति दोषसहस्रग्रस्तमुदायिते । तस्य काव्यतैव नेत्यालंका- रिकसिद्धान्तात् । अयमपि कवेः सहृदयस्य च महान्दोषो यत्पुनरिद- मेव पद्यं पूर्वोत्तरार्धव्यत्यासेन न पद्यान्तरतामापितम् । एवमप्येकार्धगते. नानेकक्रियत्वेन यत्पदाध्याहारेण चासंष्ठुलत्वाच्चमत्कारापकर्षः स्थित एव ॥ इति श्रीभभट्टारकपेरुभट्टात्मजेन पण्डितराजापराभिधानेन जगन्नाथभटेन निर्मिते चित्रमीमांसाखण्डने ग्रन्थारम्भप्रकरणदोषः। अथोपमाप्रकरणदोषाः- यत्तु 'मुखस्य पुरतश्चन्द्रो निष्प्रभः' इति वाक्यमुपमाया विपुलालंकार- वर्तितां प्रतिपादयद्भिः प्रायुज्यत, तद्व्याकरणाविमर्शनिबन्धनम् । पुरत इति नगरवाचिनः पुरशब्दात्तसिलि मुखस्य नगरादित्यर्थस्यासंगत्यापत्तेः । न हि पूर्ववाचकः पुरशब्दः कापि श्रूयते । पूर्वशब्दात्तु 'पूर्वाधरावराणामसि. ध्वनित्वं को निवारयेत्' इति चिन्यम् । अन्यथा 'प्रामतरुणम्' इत्यादिगुणीभूतव्य- अघीयप्रकाशाधुक्तोदाहरणानामप्यसंपत्यापत्तौ व्याकुली स्यात् । तत्रापि व्यङ्गय संकेतभङ्गेन वाच्यमुखमालिन्यातिशयरूपानुभावमुखेनैव विप्रलम्भाभासपोषणं न केवलेन संकेतभङ्गेन । तस्याकर्तव्यत्वबुद्ध्यापि संभवादिति बोध्यम् । तसिलीति । इदं चिन्त्यम् । तदप्राप्तेः ।
चित्रमीमांसाखण्डनम् । पुरधवश्चैषाम्' इत्यसौ पुरादेशे च पुर इति भाव्यम् । न तु पुरत इति । अत एव 'अमुं पुरः पश्यसि देवदारुम्' इति प्रायुत महाकविः । एव. मेव च- 'रूपयौवनलावण्यस्पृहणीयतराकृतिः । पुरतो हरिणाक्षीणामेष पुष्पायुधीयति ।।' इति वाचकोपमेयलुप्तोदाहरणमपि तैर्निर्मितमपशब्दकलुषितमेव । तथा चाहुर्वैयाकरणाः- 'पत्या पुरतः परतः,' 'आत्मीयं चरणं दधाति पुरतः', 'पुरतः सुदती समागतं माम्' इत्यादयः सर्वेऽपि व्याकरणाज्ञानमूला अ- पशब्दाः इति । यदपि चोपमालक्षणसिद्धान्तः–'उपमितिक्रियानिष्पत्तिमत्सादृश्यव. र्णनमदुष्टमव्ययमुपमालंकारः', 'खनिषेधापर्यवसायि सादृश्यवर्णनं वा त- थाभूतं तथा' इति लक्षणद्वयं तैरेव निर्मितम् , तदसत् । वर्णनस्य विल- क्षणशब्दात्मकस्य, विलक्षणज्ञानात्मकस्य वा शब्दवाच्यताविरहेणोपमाया वाच्यालंकारता न स्यात् । तस्य सर्वथैवाव्यङ्ग्यत्वादव्यङ्ग्यत्वविशेषणवैय- र्थ्याच्च । अथ यदि वर्णनविषयीभूतं तादृशसादृश्यमुपमेत्युच्यते तदा यथा गौस्तथा गवय इत्यत्रोपमालंकारापत्तेः । एवं 'कालोपसर्जने च तुल्यम्' इत्यादावपि । अशिष्यत्वादिना प्रधानप्रत्ययार्थवचनसादृश्यस्य तत्रापि आद्यादिलात्तलावित्युचितम् । महाकविः कालिदासः । तैः अप्पयदीक्षितैः । इदं चिन्त्यम् । पुरत इति निपाताङ्गीकारात् । अत एव 'इयं च तेऽन्या पुरतो विडम्बना' इति कालिदासः, 'पश्यामि तामित इतः पुरतश्च पश्चात्' इति भवभूतिश्च संगच्छते । इति केचित् ॥ अन्ये तु-'दक्षिणोत्तराभ्यामतसुच्' इत्यत्र तसुचैव पुंवद्भावेन सिद्धेऽतसु. विधानमन्यस्मादपीति ज्ञापनाय । तेन पचाद्यजन्तात्पुरशब्दात्तस्मिनिष्टसिद्धिः- इत्याहुः ॥ वस्तुतस्तु-'पुर अग्रगमने' इति चौरादिकाणिजभावे इगुपधलक्षणे के सार्वत्रिकस्तसिः ।' इति बोध्यम् । वैयाकरण इति । प्राश्च इत्यादिः । विलक्षणशब्देति । शब्दस्य वाच्यत्रमते नायं दोषोऽत आह-विलक्षणशानेति । अव्यङ्ग्यत्वात् व्यङ्ग्यलाभावात् । तादृशेति । अदुष्टाव्यन्यायविशेषणद्वयान्यतरेत्यर्थः । इत्यादावपीति । उपमालंकारापत्तिरित्यस्यानुषङ्गः । आदिप्रामु चिन्त्यम् । तत्रापि . .. १. 'पत्या पुरतः सरता'.
काव्यमाला। प्रतिपादनात् । न चात्र वचनभेदस्य दोषस्य सत्त्वाददुष्टत्वविशेषणेनैव वारणं भविष्यतीति वाच्यम् । एतद्वाक्योपछुतवाक्यान्तरप्रतिपादितै(कै)को- पमेयके सादृश्ये तथाप्यतिप्रसङ्गात् । न चात्रोपमितिक्रियानिष्पत्तावपि न सादृश्यवर्णनम् , विषयस्याचमत्कारित्वात् , चमत्कारिविषयककविव्यापा- रस्यैव वर्णनपदार्थत्वादिति वाच्यम् । एवं हि चमत्कारित्वस्य लक्षणे- ऽवश्यं निवेश्यत्वेनोपमितिक्रियानिष्पत्तिविशेषणस्य वैयर्थ्यात् । नानिष्प- नमापाततः प्रतीयमानं सादृश्यं चमत्कृतिमाधत्ते । एवं द्वितीयलक्षणे नि- पेधापर्यवसायित्वं निरर्थकम् । व्यतिरेके 'तवाननस्य तुलनां दधातु जलज कथम्' इत्यादौ कमलादिसादृश्यनिषेधस्य, आनन्वये च सर्वथा साह श्यनिषेधस्य चमत्कारितया तत्प्रतिपत्तये प्रतियोगिविधया सादृश्यनिरूप- णमित्यलंकारिकैरभिधानात् । किं च- 'स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः । शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः ॥ इत्यादी मुख्यवाक्यार्थत्वेनानलंकारभूतायामुपमायामतिव्याप्तिः । उपमिति- क्रियानिष्पत्तिमत्सादृश्यवर्णनस्य [अदुष्टाव्यङ्ग्यत्वस्य च] अत्रापि सत्त्वात् । नह्यत्राभेदप्रधानोत्प्रेक्षा शक्या वक्तुम् । कल्पितोपमाया निर्विषयत्वा- पत्तेः । न चेयमुपमा लक्ष्यैवेति वाच्यम् । ध्वन्यमानोपमानिवारणप्रया- सस्य वैयर्थ्यापत्तेः । कालोपसर्जनयोरपि । अत्र 'कालोपसर्जने च तुल्यम्' इत्यत्र द्विवचनोपादानादिति भावः । एतदर्थमेव द्वितीयदोषोक्तिः । उपप्लुतेति । कल्पितेत्यर्थः । प्रधानप्रत्ययार्थवच. नवत्काल इत्यादीति भावः । तदाह-एकोपमेयेति । अत्रेति । यथा गौरित्यादावि- त्यर्थः । व्यतिरेक इति । तवाननस्येत्यादावित्यर्थः । कमलादिसादृश्येति । कम- लादिनिष्ठसादृश्येत्यर्थः । ननु वर्णनपदस्य चमत्कारजनकज्ञानविषयीभूतानुयोगिकत्वार्थे तात्पर्यग्राहकमिदम् , न तु लक्षणशरीरपदकमिति चेत् , तत्राह-किं चेति । वाक्या. र्थत्वेनेति । तथा च न वाक्यार्थोपस्कारकलमिति भावः । तदाह-अनलमिति । १. 'प्रतिपत्तिपादितैक'.
चित्रमीमांसाखण्डनम् । 'व्यापार उपमानाख्यो भवेद्यदि विवक्षितः । क्रियानिष्पत्तिपर्यन्तमुपमालंकृतिस्तु सा ॥' इति स्वकृतसूत्रेऽलंकारभूतोपमाया एव लक्ष्यत्वेनाभिधानस्य, अलंका- रभूतोपमालक्षणत्वे तदेवादुष्टाव्यङ्ग्यत्वविशेषितमिति तत्रैव पुनरभिधानस्य चासंपत्यापत्तेश्च । नात्रोपमानोपमेयसादृश्यादुपमाखरूपादस्ति कश्चिदति- रिक्तो वाक्यार्थः, येनोपमा तमलंकुर्यात् । अपि च लक्षणे सादृश्यविशेषणं निरर्थकम् । 'उपमितिक्रियानिष्पत्तिमद्वर्णनमुपमा' इत्येतावतैव स्वाभी- ष्टार्थलाभात् । अन्यचाव्यङ्ग्यत्वविशेषणमयुक्तम् । नहि व्यङ्ग्यत्वालंका- रत्वयोरस्ति कश्चिद्विरोधः । प्राधान्येन व्यङ्ग्यतायां तु प्रधानत्वालंकार- त्वयोर्विरोधादलंकारवलक्षणं तत्र मा प्रसाटीदित्युपस्कारकत्वेन पुनर्विशे- षणीयम् , न त्वव्यङ्ग्यत्वेन। 'अद्वितीयं रुचात्मानं मत्वा किं चन्द्र हृष्यसि । भूमण्डलमिदं मूढ केन वा विनिभालितम् ॥' इत्यत्र कस्यचिद्विदेशस्थस्य किरणैरात्मानं तापयन्तं चन्द्रं प्रति वाक्ये अस्ति मम प्रियायाः कदापि बहिरनिर्गतायाः अत एव त्वयाप्यदृष्टाया आननं त्वत्सदृशमिति व्यङ्ग्यायामुपमायां मूढपदध्वन्यमानचन्द्रविषयव- तृगतासूयालंकारभूतायामव्याप्तेः । विशिष्टोपमादिस्थले च विशेषणाद्युप- मानां वाच्यसिद्ध्यङ्गतया गुणीभूतव्यङ्ग्यत्वम् , सिद्धार्थस्योपस्करणाभा- वात्तु नालंकारतेति मम न काप्यसंगतिः ॥ यदपि काव्यप्रकाशोक्तोपमाभेदाधिकभेदकथनप्रस्तावेऽभिहितम् -'घ- मलुप्ता वाक्यसमासतद्धितेषु दर्शिता । द्विर्भावेऽपि दृश्यते । 'पटुपटुर्देव- नन्वलंकरोतीति योगबोधितोपस्कारकलस्यालंकारसामान्यखरूपत्वेन विशेषलक्षणेषु तद- निवेशेऽपि क्षत्यभाव इत्यत आह-अपि चेति । अत एव चित्रभूतोपमालक्षणं विति तै!क्तम् । पूर्ववदस्यापि तात्पर्यग्राहकलादिदमपि चिन्यम् । अव्यङ्ग्यत्वं च तल्लक्षणे प्राधान्येनाव्यङ्गयत्वं बोध्यमिति दिक् । विनिभालितमिति । विशेषेण दृष्टमित्यर्थः । अत्रेति । व्यङ्ग्यायामित्यत्रास्यान्वयः । व्यङ्ग्यायामुपमायामिति । अत्रोपमान- स्योपमेयत्वकल्पनात्मकप्रतीपस्यैव व्यङ्ग्यत्वम् । मूढपदखारस्यात् । चमत्कारातिश- १० काध्यमाला। 4 दत्तः' इत्यत्र 'प्रकारे गुणवचनस्य' इति सादृश्ये द्विर्भावविधानात् इति, तत्तुच्छम् । अत्र चोपमावाचकस्याप्यनुपादानाद्वाचकधर्मलमायामेतदाधि. क्यमुद्भावयितुमुचितम् । न तु धर्मलुप्तायाम् ।... ' धर्ममात्रलुप्तायाश्चान्तर्भावात्पृथगुपादानमसंगतमेव स्यात् । न चात्र द्विर्भावस्यैव वाचकस्य सत्त्वान्नास्ति तस्य लोपः अपि तु धर्ममात्रस्येति वक्तुं शक्यम् । द्विर्भावस्य सादृश्यवाचकबोर्भाष्यकैयटादिविरुद्धत्वात् । त. दुक्तम्-'प्रकारे गुणवचनस्य' इति सूत्रे सिद्धं स्विति प्रतीकमादाय के- यटेन द्विवचनस्य प्रकृतिः स्थानी' इति तदर्थो विशिष्यते न तु प्रकारः । तत्र सर्वस्य गुणवचनत्वाट्यभिचाराभावात् । तद्ब्रहणाद्गुणवचनो यः शब्दो नितिस्तस्य सादृश्ये द्योत्ये द्वे भवत इति सूत्रार्थः इति । एवं च द्विर्भा- वपदस्य सादृश्युयोतकत्वमेव न वाचकत्वम् , अतो वाचकलोपोऽप्यत्रास्तीति वाचकधर्मलुप्ताया उदाहरणमेतत् , न धर्मलुप्तायाः । यदि तु द्योतकोऽपि वाचकपदेनात्र विवक्षित इत्याग्रहः तदा तुष्यतु भवान् । यच्चान्यदभ्यधीयत तस्मिन्नेव प्रसङ्गे- "नृणां यं सेवमानानां संसारोऽप्यपवर्गति । तं जगत्यभजन्मर्त्यश्चञ्चा चन्द्रकलाधरम् ।।' अत्र किक्वनोलोंपे प्रत्येकं वाचकधर्मलोप उभयत्रापि" इति तदरम- णीयमेव । चञ्चेत्यत्र कनो वाचकस्य 'लुम्मनुष्ये' इति शास्त्रेण लोपेऽपि तं चन्द्रकलाधरमभजन्निति चन्द्रकलाधरभजनराहित्यरूपस्य चञ्चार्चन्द्रसाधार- गस्य धर्मस्योक्तत्वात्कथं तावद्धर्मलोपः । न चोपमेयमर्त्यविशेषणतयोपा. माभि याच्च । किं हृष्यसी येतत्स्वारस्याचेति केचित् । अत्र चेति । चो ह्यर्थे । सूत्रार्थ इति । द्विर्भावस्य सादृश्यद्योतकत्वेऽपि शकत्वरूपवावकत्वाभावाद्वाचकलोप इति तव हृदयम् । तत्तु इवादेोतकतानये चन्द्र इव मुखमित्यत्र, चन्द्रसुहृन्मुखमित्यत्र य वाचकलुप्ताव्यवहाराभावाय सादृश्यतद्विशिष्टान्यतरबोधकामावस्यैव वाचकलुप्ताव्यव- हारप्रयोजकत्वस्य वाच्यत्वेन द्योतकस्यापि बोधकत्खानपायेन नास्ति वाचकलोप इति त- दाशयादबोधमूलकमिति चिन्त्यमिदम् । यश्चान्यदिति । वक्ष्यमाणमन्यचेत्यर्थः । किन्लोपे तथोक्तेर्युक्त्वेऽपि कन्लोपेऽयुक्तवमित्याह-कन इति । तामुपपादयति- - चित्रमीमांसाखण्डनम् । ११ तस्य चन्द्रकलाधरभजनराहित्यस्य सादृश्योपसर्जने चञ्चायामनन्वयान्न सा. दृश्यमिति वाच्यम् । 'यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति । तं शंभुमभजन्मर्त्यश्चञ्चैवात्महिताकृतेः ॥' इति पाठे धर्मश्रवणमप्युभयत्रापि संभवति' इति खोक्तेरसंगत्यापत्तेः । इहाप्युपमेयसंसारविशेषणतयोपात्तस्य सुखमयत्वस्य सादृश्योपसर्जनेऽपव- र्गेऽन्वयाभावात्कथंकारं धर्मस्य साधारण्यम् । उपमेयगतत्वेनोपमानगतत्वेन वा उपात्तस्य धर्मस्य शाब्दे उभयान्वये स. त्यपि वस्तुत उभयनिष्ठताज्ञानमेव साधारणतया नियामकमिति चेत् , च. न्द्रकलाधरभजनराहित्येऽपि दीयतामेवमेव दृष्टिः । यदि चोपमेयतावच्छेद कतयैव चन्द्रकलाधरभजनराहित्यं मम विवक्षितम् , साधारणधर्मश्च खात्म हिताकरणरूपः स चात्र लुप्त एवेति शपथेन खाभिप्रायः प्रकाश्यते तदा निवारितोऽयं दोषः । तुष्यतु भवान् । यच्चापि “सेर्यमुपमा संक्षेपतस्त्रिधा-कचिस्ववैचिच्यमात्रविश्रान्ता । यथा-'स च्छिन्नमूलः क्षतजेन रेणुः' इत्यादौ । कचिदुक्तार्थोपपादनपरा । यथा-'अनन्तरत्नप्रभवस्य' इत्यादौ” इति तैरेव द्रविडशिरोमणिभिरभ्य- धीयत । तदप्यहृद्यमेव । 'देवतुल्यैर्नरैर्भाति स देशः सुमनोहरः' इत्यादी वाच्यभूतवस्तूपस्कारिकाया देवोपमाया अक्रोडीकरणात् । नात्र खवै- चिध्यमात्रे विश्रान्तिरस्ति गुणानां प्रधानसान्निध्ये खातघ्यायोगात् । नापि व्यङ्गयोपकारकत्वमेवालंकाराणामिति नियमोऽस्ति । अलंकारभूतो. पमासु खवैचित्र्यमात्रविश्रान्ताया उपमाया असंग्रहे को नाम ध्वन्यमाना. यास्तस्या निरासायाव्यङ्गयत्वविशेषणदानदुराग्रहः । असंग्रहे तु तत्रैवालं- कारभूतोपमालक्षणस्यातिव्याप्तिरिति प्रागेवावेदनात् । अहो महदेवेदमन्या- इहापीति । कथंकारं कथं कृत्वा । पाठान्तरवादी खाशयमाह-उपमेयेति । एव. मेवेति । एवं च तुल्यतेति भावः । प्रकारान्तरेण खाशयमाह-यदि वेति । तैरे. १. साधारणतानियामकम्'. २. आधुनिकपुस्तकेषु तु पुनश्चयम्' इन्युपलभ्यते.
१२ काव्यमाला। य्यम्-यदलक्षणीयायाश्च खवैचित्र्यमावविश्रान्ताया उपमायाः संग्रहः, लक्षणीयायाश्च प्रागुक्तासूयालंकारभूताया असंग्रह इति । प्राचां तूपमासा- मान्य लक्षयतां ध्वन्यमानाया इव वाच्याया अपि स्ववैचित्र्यमात्रविश्रा. न्तायाः संग्रहो नानुचितः । न तु खस्य यत्नेन ध्वन्यमानोपमां निरस्य कण्ठरवेणालंकारभूतोपमालक्षकस्य । यदि च प्रबन्धव्यङ्गयोपस्कारकत्वे- नेयं संगृह्यत इत्युच्यते, तदा 'खवैचित्र्यमात्रविश्रान्ता' इति खोक्तिविरुद्धा स्यात् । 'अनन्तरलप्रभवस्य' इत्यत्र गुणसमूहसमानाधिकरणे एको दोषो दोषत्वेन न स्फुरतीत्यस्यार्थस्य पूर्वार्धप्रतिपादितार्थसमर्थनात्मकस्य सामा- न्यात्मकस्य विशेषरूपोदाहरणप्रदर्शनमन्तरेण सम्यगनाकलनादिन्दुकिरण- समानाधिकरणेऽङ्क: उदाहृतः, न तूपमानतया निर्दिष्टः । सामान्याद्विशेषस्य भै- दाभावेनोपमितिक्रियाया अनिष्पत्या उपमालंकृतेरत्रानवतारादुदाहरणालं. कारोऽयमतिरिक्तः । यथा 'इको यणचि' इति वाक्यार्थस्य सामान्यात्मनो विज्ञानायोकारे यकारो दध्युदकेकारस्येवेति वाक्यान्तरेण तद्विशेष उदा- हियते, तद्वदत्रापीति । विशेषस्तूदाहरणालंकारप्रकरणे रसगङ्गाधरादवसेयः । वेति । अप्पयदीक्षितैरेवेत्यर्थः । स्वस्येति । तवेत्यर्थः । नानुचित इत्यस्यानुषङ्गः। इयं खवैचिथ्यमात्रविश्रान्ता । विरुद्धा स्यादिति । वस्तुवस्तु-उपमासामान्यलक्षण- स्थापि प्रकृतत्वेनोपमासामान्यस्यैवायं विभागः । उपमानोपमेयतावच्छेदकयोर्भेदाचास्ये. वोपमितिनिष्पत्तिः । अत एव 'सेयमुपमा' इत्येवोक्तम् । नत्वलंकार इति । 'नयने दिश- शिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव' इत्यत्र तूक्तार्थोपपादनपरैव मुखकर्तृकनयकर्मक- शिशिरीकरणस्यैव कव्युक्तस्येन्दूपमयैवोपपत्तेः । उक्तार्थोपपादनेत्यस्य चोक्तार्थस्योपपाद- नम्, उक्तार्थे वोपपादनमित्यर्थद्वयम् । विनिगमनाविरहात् । इति न दोष इति चिन्त्य. मिदमिति बोध्यम् ॥ उक्तार्थोपपादनपरोपमायास्तदुक्तमुदाहरणं दूषयति-अनन्तेति। 'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्य विलोपि जातम् । एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥' इत्यत्रेत्यर्थः । स्फुरतीत्यस्यार्थस्य तृतीयचरणप्रतिपा. द्यस्य । तत्त्वनानिर्दिष्टत्वे हेतुमाह-सामान्येति । अनवतारदिति । अप्रे तथा चेति शेषः । अलंकारोऽयमतिरिक्त इति । 'अदला मादृशो मा भूहेला त्वं खादृशो भव' इत्यभिन्नधर्मिकोपमायामुपमानतावच्छेदकोपमेयतावच्छेदकभेदेनोपमितिक्रियानिष्प. तेरुपमालंकारव्यवहारस्य च सर्वसंमतत्वेन तद्वदिहापिसामान्यधर्मविशेषधर्मयोस्तयोर्भे देन १. 'सामान्यरूपस्य'. २. 'करणेऽशुओं'.
चित्रमीमांसाखण्डनम् । १३ . यत्तु लुप्तायां बिम्बप्रतिबिम्बादयो नैवं भेदाः । तस्यां साधारणधर्म. स्यानुगामितानियमात्' इत्युक्तम् , तन्न । 'मलय इव जगति पाण्डुर्वल्मीकसमो नृपोऽम्बिकातनयः । जम्बूनदीव कुन्ती गान्धारी सा हलाहलेव सरित् ॥' इत्यत्रानुगामिधर्मस्याप्रत्ययाच्चन्दनानां पाण्डवानाम् , सर्पाणां दुर्योध- नादीनां च बिम्बप्रतिबिम्बभावस्यैवोपमानिर्वाहकत्वात् । न च श्रौतोपादान- मन्तरेण नास्ति बिम्बप्रतिबिम्बभाव इति वाच्यम् । आर्थबिम्बप्रतिबिम्बने तद- नपेक्षणात् । अत एवाप्रस्तुतप्रशंसायां वाच्यव्यङ्ग्यवाक्यार्थावयवानां बि. म्बनमप्रत्यूहम् ॥ इति श्रीभभट्टारकपेरुभट्टात्मनेन पण्डितराजापराभिधानेन जगन्नाथभट्टेन निर्मिते चित्रमीमांसाखण्डने उपमाप्रकरणदोषाः । अथोपमेयोपमाप्रकरणदोषाः- यत्तु प्राचीनलक्षणमव्याप्त्यादिभिर्दूषयित्वा 'अन्योन्येनोपमा बोध्या व्यक्त्या वृत्त्यन्तरेण वा । एकधर्माश्रया या स्यात्सोपमेयोपमा मता ॥' इति स्वयं लक्षणं निरमीयत । अस्यार्थः सपदकृत्यः संक्षेपेण तदुक्त. रीत्या सहृदयानां सौकर्यायोच्यते-अन्योन्येनेति । अन्योन्यप्रतियोगिक- त्वविशिष्टा व्यक्त्या व्यञ्जनाव्यापारेण वृत्त्यन्तरेण शक्त्या वा बोध्या वेद्या, एकधर्माश्रया एकधर्मप्रयोज्या या उपमा सा उपमेयोपमा मतेत्यन्वयः। अन्योन्येनेति विशेषणादिदं तच्च सममित्युभयविश्रान्तोपमाया निरासः । तनिष्पत्तेः संभवादुदाहरणालंकारो मास्त्वतिरिक्त इति तदाशयात् । चिन्त्यमेतत् । 'उद- कोदकारे दधीकारस्य यः' इति पाठः ॥ प्राचीनेति । 'उपमानोपमेयत्वं द्वयोः पर्यायतो यदि । उपमेयोपमा सा स्याद्विवि- धैषा प्रकीर्तिता ॥' इत्यर्थः । अव्याप्तीति । तद्वल्गुना युगपदुन्मिषितेन तावत्' इत्य. त्राव्याप्तिः । रजोभिः स्यन्दनोद्भूतैः' इत्यत्रातिव्याप्तिरिति भावः । तृतीयार्थः प्रतियोगि- त्वमित्याशयेनाह-अन्योन्यप्रतीति । लक्षणाया असंभवादाह-शक्त्येति । इवा- दिसत्त्वे इति भावः । विश्रान्तेति । उभयत्र पर्यवसिता न श्रौती तस्यामित्यर्थः । श.
१४ काव्यमाला। अनान्योन्यप्रतियोगिकत्वस्य व्यञ्जनव्यापारगम्यत्वेनोपमायाश्च शक्तिवेद्यत. या परस्परनिरपेक्षेणैकेन व्यापारेणान्योन्यप्रतियोगिकत्वविशिष्टायास्त स्या अबोधनात् । परस्परनरपेक्ष्यस्य लक्षणे वाकारेणाभिधानात् । एकधर्माश्र- येति विशेषणात् 'जोभिः स्यन्दनोद्भूतैर्गजैश्च धनसंनिभैः। भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥' इत्यत्र परस्परोपमायां नातिव्याप्तिः । तत्रोपमाप्रयोजकधमक्याभावात् । भूतलोपमानिकायां प्रयोजकस्य रजसामनुगामिधर्मस्य, नभस्तलोपमानि- कायां प्रयोजकस्य घनसदृशगजानां बिम्बप्रतिबिम्बभावापन्नधर्मस्य च भे- दात् । व्यक्त्येति च विशेषणं व्यङ्गयोपमेयोपमासंग्रहार्थमितीदमुपमेयोप- मात्वप्रयोजक लक्षणमिति, तन्न । 'अहं लतायाः सदृशीत्यखर्वं गौराङ्गि खेदं न कदापि यायाः । गवेषणेनालमिहापरेषामेषापि तुल्या नितरां भवत्याः ॥ अत्र 'षष्ठ्यन्तात्सदृशादयः शब्दाः सादृश्यप्रतियोगिवचनाः' इत्युक्त- तयान्योन्यप्रतियोगिकत्वविशिष्टाया उपमायास्तनुत्वादिरूपैकधर्माश्रयाया वृत्त्यन्तरेण शक्त्या बोधनादुपमेयोपमात्वापत्तेः । न चात्रान्योन्यप्र- तीति । सप्तपदे(?)त्यादिः । ननु मिथो निरपेक्षत्वं न निविष्टगत आह--परस्प. रेति । अन्यथा पक्षान्तरकथनासंगतेरिति भावः । रजसामिति । प्रयोजकीभूतरजो. मिन्नानुगामिधर्मस्येत्यर्थः । समान विभक्तिकत्वस्येव समानवचनत्वस्यामेदान्वये न तन्त्रत. मिति भावः । एवमग्रेऽपि । घनगजयोर्भेदेन साधारणत्वं कथमत आह-बिम्बेति। प्रयोजकमिति । अनुगतानतिप्रसक्तलक्षणमात्रं तु-'सदृशस्य तृतीयस्य व्यवच्छेदाय यद्वयोः । अन्योन्येनोपमेयत्वमुपमेयोपमा मता ॥' इति द्रष्टव्यम् । अत्रान्योन्येनेति वि. शेषम् 'अहमेव गुरुः सुदारुणानाम्' इति प्रतीपविशेषव्यावृत्त्यर्थमिति भावः । अह. मिति। लतानुयोगिकसादृश्याश्रयावहमित्यर्थः । अखर्व महान्तम् । एषापीति। त्वदनु- योगिकसादृश्यप्रतियोगिकेत्यर्थः । अत्रेयस्य इतीत्यादिः । तनुत्वेत्यस्य अनुपात्तेत्यादिः । । १. व्यञ्जनाव्यापारमात्रवेधत्वेन'. २. 'शक्तिबोध्यतया'. ३. रसगङ्गाधरे त्वत्र 'रजो- भिभूरिव द्यौर्घनसंनिभैगजैश्च द्यौरिव भूरिति कस्यचित्पदस्याथें परस्परोपमायां नाति- व्याप्तिः' इति पाठः. ४. 'तव तावदस्ति' इति रसगङ्गाधरे पाठः.
चित्रमीमांसाखण्डनम् । १५ तियोगिकस्वमुपमायां न प्रतीयते । लतादिसंबन्धिसादृश्याश्रयत्वस्यैवास्स- त्पदार्थेऽन्वयादिति वाच्यम् । 'मुखस्य सदृशश्चन्द्रश्चन्द्रस्य सदृशं मुखम्' इत्युपमेयोपमायामव्याप्तेः । नहि 'अहं लतायाः सदृशीत्यखर्वम्' इत्यत्रोप- मेयोपमा भवितुमर्हति । गर्वमात्रनिरासपरत्वेनोत्तरार्धगतोपमायास्तृतीयस- दृशव्यवच्छेदाप्रतिपत्तेः । अत एव अन्यान्यपि तव सदृशानि सन्त्येव तेषां गवेषणेन किं फलमित्येतदर्थकं गवेषणेनेत्युत्तरार्धं संगच्छते । 'तृतीयस- ब्रह्मचारिव्यवच्छेदो युपमेयोपमाजीवितम्' इत्यालंकारिकसिद्धान्तात् । अ- न्यथा 'रजोभिः स्यन्दनोद्धतैः' इति प्रागुक्तपरस्पररोपमावारणप्रयासवैफल्य. प्रसङ्गात् । न च तृतीयसदृशव्यवच्छेदफलकत्वमुपमाविशेषणमिति वा- च्यम् । विशेषणान्तरवैयर्थ्यापत्तेः । तद्विशेषणव्यावर्त्यानामाधुनिकविशेषणे- नैव वारणात् । अन्योन्यप्रतियोगिकत्वविशिष्टोपमैकवृत्तिमात्रवेद्येत्यप्ययु- क्तमेव । 'खमिव जलं जलमिव खम् , हंसश्चन्द्र इव हंस इव चन्द्रः' इ. त्यादौ खजलयोश्चन्द्रहंसयोश्च सादृश्यान्वये प्रतियोगित्वस्य संसर्गत्वेन वृ- लतादीति। लताद्यनुयोगिकसादृश्यप्रतियोगिकलस्यैवेत्यर्थः । एतेन सादृश्यव्यवच्छेदः । सादृश्यादिपदानां धर्मिबोधकलात् । एवं च सादृश्यस्य तत्रान्वये इयम् , न तु तत्रेति भावः। मुखस्येति । तत्रापि सदृशपदसत्त्वेन तत्तुल्ययोगक्षेमलादिति भावः । नन्वेवं तथा दु. र्वचमिति यथैतत्संग्रहस्तथाह-लताया इति । अस्यापि संग्रह इष्ट एवेत्यतिव्याप्तिर्नात आह-नन्त्यमिति । (१) । ननु तन्मात्रपरख एव किं बीजमत आह-अत एवेति । तत्परत्वेन तस्याः साफल्यादेवेत्यर्थः । उत्तरार्धं तदेकदेशः । अन्यथा तुर्यचरणेनैवेष्टार्थ- लामे मध्ये एतत्कथनानर्थक्यं स्पष्टमेवेति भावः । नन्वेवमपि तृतीयसदृशव्यवच्छेदप्रती. तावेवेयमित्यत्र किं विनिगमकमत आह-तृतीयेति । सब्रह्मेति । सदृशेत्यर्थः । ए- वमग्रेऽपि बोध्यम् । 'सिद्धान्तः' इति पाठः । 'सिद्धान्तात्' इत्यपपाठः । अन्यथा तस्य तज्जीवितलानङ्गीकारे । वाच्यमिति । 'अहं लतायाः' इत्यत्राति[व्याप्ति]वारणाये- दानीं वक्तव्यमित्यर्थः । विशेषणान्तरेति । अन्योन्येनेत्यादीत्यर्थः । नन्वेवं कथमुफ- दोषनिरासोऽत आह-तद्विशेषणेति । विशेषणान्तरेत्यर्थः । तदुक्तमन्यदूषयति- अन्योन्येनेति । प्रतियोगित्वस्येति । अनुयोगिन्नविशिष्टत्यादिः । ननु तस्य वृत्ति. । - १. 'उत्तरार्धमपि'. २. 'भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम्' इत्यत्राप्युपमेयो. पमत्वनिवारणप्रयासवैयापत्तेः' इति रसगङ्गाधरे पाठः, ३. 'प्रतियोगिकत्वस्य'. ११चि० काव्यमाला। त्यविषयत्वात् । 'वृत्तिवेद्यानां पदार्थानां संसर्गो वृत्त्यवेद्यः' इति तात्पर्य- वृत्तिमनङ्गीकुर्वाणैर्वाक्यविद्भिरभ्युपगमात् । अन्यथा प्रकारतापत्तेः ॥ इति श्रीभभधारकपेरुभट्टात्मजेन पण्डितराजापराभिधानेन जगन्नाथभट्टेन निर्मिते चित्रमीमांसाखण्डने उपमेयोपमाप्रकरणदोषाः । - यच्च- अथानन्वयः- -"अयमनन्वयो व्यङ्गयोऽप्यस्ति 'अद्य या मम गोविन्द जाता त्वयि गृहागते । कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ॥' अत्र गृहागतं श्रीकृष्णं प्रति विदुरवाक्यम् । 'इयं त्वदागमनप्रभवा प्रीतिर्बहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेन्नान्येन, इत्युक्तिभङ्गया 'त्वदागमनप्रभवप्रीतेः सैव सदृशी, नत्वितरप्रभवा' इति व्यज्यते' इत्य- भिहितम् , तन्न । 'अमुष्यास्त्वदागमप्रभवायाः प्रीतर्वारान्तरत्वदागमन- प्रभवा प्रीतिः सदृशी' इति प्रत्ययस्य सर्वजनसिद्धतया श्रीकृष्णागमनजन्य- प्रीतिसामान्यावयवयोर्द्वयोः प्रीतिव्यत्तयोः सादृश्यस्याबाधाद्योगार्थाभावेना- नन्वय एव नायं भवितुमर्हति, 'खस्मिन्वसादृश्यस्यान्वयाभावादनन्वयः' इत्युपमाप्रकरणे खयमेवाभिधानात् । उपमेयस्य प्रीतिव्यक्तिविशेषस्य सह- शान्तरव्यवच्छेदे बाधातादृशप्रीतिसामान्यस्यावयविनो निरुपमतया प्रती- यमानस्यानुपमेयत्वेन फलवैयधिकरण्यप्रसङ्गाच ॥ न चात्र 'श्रीकृष्णागमन- प्रीतिसामान्यावयविनः खेन सादृश्यं मध्ये प्रतीयते' इति शपथः कर्तु- मुचितः । सहृदयत्वभङ्गप्रसङ्गात् । प्रयोजनविरहाच ॥ श्रीकृष्णागमन- विषयत्वं कुतो नेत्याह-वृत्तीति । उक्तग्रन्थस्यैकवृत्तिमात्रवेद्यत्वे न तात्पर्य किं तु वृ. त्तिद्वयवेद्यत्वाभावे । यद्वा तज्जन्यप्रतीतो यथाकथंचिद्भासमानत्वमेव तन्मात्रवेद्यत्वम् । अस्ति च'खमिव जलम्' इत्यादौ । नास्ति च तत्रेति तन्निरास इत्याशयेनादोषाचिन्त्यमिदम्॥ अमुष्या इति । यत इत्यादिः । व्यक्त्योदितमेदेनेति शेषः । योगार्थेति । अनन्वयपदयोगार्थेत्यर्थः । ननु रूढमेवानन्वयपदमभिमतमत आह-स्वस्मिन्निति। व्यवच्छेदे बाधादिति । तस्य व्यवच्छेदकरणेऽसामर्थ्यादित्यर्थः । कालान्तरस्थप्री- तिव्यक्तिविशेषस्य सदृशस्य सत्त्वादिति भावः । तादृशेति । श्रीकृष्णागमनजन्येत्यर्थः ।
चित्रमीमांसाखण्डनम् । १७ प्रभवप्रीतिसामान्यस्य निरुपमत्वसिद्धिरेव प्रयोजनम् इति चेत् न । एतत्कालावच्छिन्नकालान्तरावच्छिन्नतादृशप्रीतिव्यक्त्योरवयवयोरुपमानोप- मेयभावेनैवावयविनि तत्सिद्धेः । यथा- 'एतावति प्रपञ्चे सुन्दरमहिलासहस्रभरितेऽपि । अनुहरति सुभग तस्या वामा दक्षिणार्धस्य ॥' इत्यादाववयवयोर्वामार्धदक्षिणार्धयोः सादृश्येनावयविनः कान्तारूपस्या- नुपमत्वं प्रतीयते । एवमिहापि ॥-नहि तत्रापि निरुपमत्वप्रतीत्यावय- विनः खेन सादृश्यप्रत्ययोऽन्तरा कल्प्यते इति वाच्यम् । निरुपमत्व- प्रतीतेरनन्वयनैयत्यविरहात् । अन्यथा 'गगनपुष्पमिवास्य वचः सखे' इ- त्यादिकल्पितोपमायामपि निरुपमत्वप्रत्ययेनानन्वयकल्पनापत्तेरिति न किं- चिदेतत् ॥ 'रत्नाकरोक्तस्यैवानन्वयप्रकारविशेषस्यात्र व्यङ्ग्यता' इत्यपि वक्तुमयु- क्तमेव । तस्य रसगङ्गाधरेऽस्माभिर्निरस्तत्वात् । प्रकृतेऽवाच्यत्वात् । ख. यमनन्वयप्रकरणे तस्यानुक्तत्वाच । इदं पुनरनन्वयध्वनेरुदाहरणं मदीये गङ्गास्तवे- 'नगेभ्यो यान्तीनां कथय तटिनीनां कतमया पुराणां संहर्तुः सुरधुनि कपर्दोऽधिरुरुहे । कया वा श्रीभर्तुः पदमितरयाक्षालि सलिलै- स्तुलालेशो यस्यां तव जननि दीयेत कविभिः ॥' अत्रेतरयेत्येतन्माहात्म्यात् 'त्वयि तु तव तुला दीयेतैव' इत्यनन्वयो निरुपमत्वपर्यवसायी व्यज्यते । यथा वा- 'भुवनत्रितयेऽपि मानवैः परिपूर्णे विबुधैश्च दानवैः । न भविष्यति नास्ति नाभवत्क्षितिप त्वत्तुलनाधरोऽपरः ॥' - महिला स्त्री । दक्षिणार्धस्येति कर्मणः शेषत्वविवक्षायां षष्टी । अत्रोपमेयं समुदिता नायिका ॥ ननूक्तरीत्या न व्यजकलम् , किं तु रत्नाकरोतरीत्येति नोकदोषोऽत आह- रत्नेति । तस्य प्रकारस्य प्रकृतेऽवाच्यखात् । ननु लया दूषितोऽपि न मया दूषितः, तत्राह-स्वयमिति । 'अन्यथा-अलंकारध्वनेविषयापहारः स्यात्' इति रत्नाकरोक्तिं १८ काव्यमाला। अत्राप्यपरशब्दमहिना 'त्वं तु त्वत्तुलनाधरो वर्तसे' इति व्यज्यते । तस्याभावे त्वसमालंकार एवेति रसगङ्गाधरे व्यक्तमुपपादितमस्माभिः ॥ इति श्रीभट्टभट्टारकपेरुभट्टात्मजेन पण्डितराजापरामिधानेन जगन्नाथभटेन निर्मिते चित्रमीसांसाखण्डनेऽनन्वयप्रकरणम् । अथ स्मरणालंकारप्रकरणम् । यत्तु- "स्मृतिः सादृश्यमूला या वस्त्वन्तरसमाश्रया । स्मरणालंकृतिः सा स्यादव्यजयत्वविशेषिता ।' यथा- 'अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार । सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥' यथा वा- 'दिव्यानामपि कृतविस्मयां पुरस्ता- दम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्ती- मस्मार्षीजलनिधिमन्थनस्य शौरिः ॥' एकत्र सदृशदर्शनात्तत्सदृशधर्मिका स्मृतिः, अपरत्र सदृशदर्शनात्त- सदृशलक्ष्मीसंबन्धिनो जलनिधिमन्थनस्य स्मृतिः । उभयत्रापि सादृश्यमूल. खण्डयितुमाह-इदं पुनरिति । नगेभ्यः पर्वतेभ्यः । कपर्दो जटाजूटः । अपीति । रघुवंशे दशरथमृगयावर्णनम् । स दशरथः । सादृश्यबोधकं केशपाशस्य विशेषणद्वयम् । दिव्यानामिति । माघे जलक्रीडावर्णनम् । अम्भस्तो जलात् । मन्थनस्येति । 'अधीगर्थ-' इति कर्मणि शेषे षष्ठी ॥ लक्ष्यद्वये बीजमाह-एकत्रेति । आद्य इत्यर्थः । इत(अप)रत्र अन्ये । सदृशेति । लक्ष्मीसदृशनायिकेत्यर्थः । लक्षणं संगमयति- उभयत्रेति । तथा च द्वितीयलक्ष्यसंग्रह एव 'वस्वन्तरसमाश्रया' इति विशेषणफलमि- १. 'इतरत्र' चित्रमीमांसा रसगङ्गाधरयोः पाठः.
चित्रमीमांसाखण्डनम् । १९ कवस्त्वन्नरस्मृतित्वमविशिष्टम् । अत एव-सदृशासदृशसाधारण्यार्थतया लक्षणे वस्त्वन्तरग्रहणमर्थवत् । 'सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति । वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ्गं यतः कासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि ।' अत्र श्रुतकुरङ्गसंबन्धिनस्तन्नयनस्य स्मरणात्तत्सदृशसीतानयनस्मृति- श्चेति । किंत्वेषा व्यङ्ग्या अलंकार्यभूता च । तव्यावृत्त्यर्थमव्यङ्ग्यत्व- विशेषणम् । 'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव- स्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥' अत्र स्तूयमानभूसंबन्धिनो भूभृतः स्मृतिर्न सादृश्यमूलेति नात्र स्मरणमलंकारः, किंतु स्मृतेः संचारिभावस्य भूभृद्विषयकरतिभावाङ्गत्वा. प्रेयोऽलंकारः । एतव्यावृत्त्यर्थ लक्षणे 'सादृश्यमूला' इति विशेषणम्" इत्याहुः॥ तदेतत्सर्वमरमणीयम् । यत्तावदुच्यते-"सदृशासदृशयोः केश- पाशजलनिधिमन्थनयोः संग्रहाय लक्षणे वस्त्वन्तरग्रहणमर्थवत्" इति, तत्र 'सादृश्यमूला स्मृतिः स्मरणालंकारः' इत्येतावतैव केशपाशस्मरणस्येव त्याह-अत एवेति । द्वितीयस्य लक्ष्यलादेवेत्यर्थः । सहशासशेति । स्मृतेः सदृशासदृशान्यतरविषयकत्वलाभार्थत येत्यर्थः ॥ अव्यङ्ग्यत्वविशेषणफलमाह-सौमित्रे इति । हनुमन्नाटके सीतावियोगे श्रीरामचन्द्रस्य लक्ष्मणं प्रत्युक्तिरियम् । ननु निश्चयेन । चण्डांशुः सूर्यः ॥ तन्नयनेति । कुरङ्गनयनेत्यर्थः । तत्सदृशेति नयनविशेषणम् । इति । 'भूता च' इत्यप्रे योज्यः । एषा सीतास्मृतिः। अलंकारसामान्यलक्षणमपि नास्ती. त्याह-अलमिति । सीतास्मृतेः प्राधान्यादिति भावः । अत्युच्चा इति । भुवं प्रत्यु. क्तिरियम् । प्रस्तौमि करोमि । इमां भुवम् ॥ न सादृश्येति । किं तु 'एकसं. बन्धि-' इति रीयेति भावः ॥रतिभावेति । कविनिष्ठेत्यादिः । अरमणीयमिति । वक्ष्यमाणदोषादिति भावः ॥ तमेव दाायानूद्याह-यत्तावदिति । तत्र उच्यमाने तस्मिन् । बूम इति शेषः । तदाह सादृश्यति । एवमप्रेऽपि । केशेति । तस्य सदृ.
२० काव्यमाला। जलनिधिमन्थनस्मरणस्यापि संग्रहाद्वस्त्वन्तरसमाश्रयत्वविशेषणमनर्थकम् । एकत्र सादृश्यदर्शनोबुद्धसंस्कारजन्यत्वेन, अपरत्र च सादृश्यदर्शनोद्बुद्धसं- स्कारजलक्ष्मीस्मरणोद्बुद्धसंस्कारजन्यत्वेन च, सादृश्यमूलकत्वस्याविशेषात् । नहि ‘सादृश्यमूला' इत्युक्ते 'सदृशविषया' इति लभ्यते । येन जलनिधि- स्मृतेरसंग्रहः स्यात् ॥ * ॥ यदपि-"सौमित्रे ननु सेव्यातम्-' इ. त्यत्र स्मृतिर्व्यङ्ग्यालंकार्यभूता च । तव्यावृत्त्यर्थमव्यङ्ग्यत्वविशेषणम्-" इत्युक्तम् , तत्र नेयं स्मृतिरलंकार्यभूता, किं तु जानक्यालम्बनो निशास- मयोद्दीपितः संतापादिनानुभावित उन्मादेन च संचारिणा परितोषितो विप्रलम्भः प्रधानत्वेनालंकार्यः, तस्य स्मृतिरुत्कर्षहेतुत्वादलंकार एव, अतो नितरां तव्यावृत्त्यर्थमव्यङ्ग्यत्वविशेषणमनुचितम् । नहि व्यङ्ग्यत्वालंकार- त्वयोर्विरोध इति वक्तुं शक्यम् , नित्यव्यङ्ग्यानां रसभावादीनां पराङ्गता- यामलंकारत्वाभ्युपगमात् । प्रधानव्यङ्ग्यव्यावृत्त्यर्थं पुनरुपस्कारकत्वं सर्वेष्व- प्यलंकारलक्षणेपु देयमिति प्रागेवावेदितम् । यदप्युक्तम्- "अत्युच्चाः परितः स्फुरन्ति-' इत्यत्र स्मृतेः संचा- रिभावस्य भूभृद्विषयकरतिभावाङ्गत्वात्प्रेयोलंकारत्वम्" इति । तत्र हि भावस्य भावाद्यङ्गतायां प्रेयोलंकारत्वम् । न ह्यत्र स्मृतिर्भावः, तस्याः स्म- रतिना वाचकेनाभिधानात् । नहि वाच्यस्य व्यभिचारिणो भावत्वं वक्तुं युक्तम् । 'व्यभिचार्यञ्जितो भावः' इति सिद्धान्तस्य भङ्गापत्तेः । तथा शत्वेन दृष्टान्तलमिति भावः। स्यादिति । इतीति शेषः। सादृश्यपदस्य नियमसंबन्धि- कतया संबन्ध्याकालायामुपस्थितस्मर्यमाणस्यैवान्वयापत्तिः। न हि 'जनकत्वमूला पूज्यते' इत्युक्त पुत्रजनकत्वेन भार्या पूज्यते । अतो 'वस्त्वन्तरसमाश्रया' इत्यावश्यकमिति चि. न्यमिदम् ॥ नेयं स्मृतिरलंकार्यभूतेति । अत्र स्मृतेः 'हा क्वासि' इत्यादिपदगम्य- त्वेन विवहनप्रवृत्तराजानुगम्यमानभृत्यवत् । 'शठेन विधिना निद्रादरिद्रीकृतः' इत्यादी शठादिपदगम्यासूया बुद्धा, तस्या एव प्राधान्यादलंकार्यत्वम् । अनुपस्कारकत्वाच विप्र- लम्भस्यैव तत्त्वाचेति चिन्त्यम् ॥ विप्रलम्भः श्रीरामचन्द्रनिष्ठः । नितरामित्यस्यानी- चित्येऽन्वयः। तदाशयं खण्डयति-नहीति ॥ नित्येति । सर्वथे त्यर्थः । कदाप्यवा. च्यलश्येति यावत् । नन्वेवं प्राधान्येऽप्यलंकारखापत्तिरत आह-प्रधानेति । सर्वेषु ।
चित्रमीमांसाखण्डनम् । २१ चोक्तं सर्वखकृता-"प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः । तत्रापि विभावाद्यागूरितत्वे । यथा-'अहो कोपेऽपि कान्तं मुखम्' इति, नतु खशब्दनिवेद्यत्वे । यथा- 'अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन निवृत्तखेदः । रहस्त्वदुत्सङ्गनिषक्तमूर्धा स्मरामि वानीरगृहेषु सुप्तम् ।' इत्यादौ” इति ॥ ननु-भावाद्यङ्गीभूतभावत्वं न प्रेयोलंकारत्वम् , अपि तु-भावाद्यङ्गीभूतसंचारित्वमात्रम् । तथा च प्रकृते स्मरणस्य ख- शब्दनिवेद्यत्वेन भावत्वविरहेऽपि संचारित्वानपायात्प्रेयोलंकारत्वमविरुद्ध- गेव-' इति चेत् । एवं तर्हि 'इतरागीभूतस्थायित्वमानं रसालंकार- स्वम् , नतु व्यज्यमानत्वविशिष्टम्' इत्यस्यापि सुवचत्वात् । एवं च 'चराचरोभयाकारजगत्कारणविग्रहम् । कल्पान्तकालसंक्रुद्धं हरं सर्वहरं नुमः ॥' इत्यत्र क्रोधस्य खशब्दनिवेद्यत्वेऽपि देवताविषयकरतिभावाङ्गीभूतस्था- यित्वानपायाद्रसालंकारः स्यात् । न च-इष्टापत्तिः । अपसिद्धान्तात् । तस्माद्-व्यज्यमानस्यैवं संचारिणो भावाद्यङ्गतायां प्रेयोलंकारत्वम्- इति नात्र स्मृतिमादाय प्रेयोलंकारत्वं वाच्यम् । किं तु भूविषयकरतेः पूर्वार्धव्यङ्ग्याया उत्तरार्धगतभूभृद्विषयकरतिभावाङ्गत्वाद्युक्ता प्रेयोलंकारता । उक्तं च मम्मटभट्टैः-'अत्र भूविषयो रत्याख्यो भावो राजविषयकरति- न खत्रैव । तथा चालंकारसामान्यलक्षणप्राप्त लात्तस्य नातिप्रसङ्ग इति भावः ॥ सिद्धा. न्तेति । मम्मटभट्टादीनामिति शेषः । तद्न्थमाह-प्रेयोलमित्यादि इतीत्यन्तेन । तत्रापि तदुक्तस्यापि, न स्मृतिष्वपि। आगूरितत्वे आविष्कृतत्वे। अत्रेति। पुष्पकेण लक्षातोऽयोध्यां गच्छतः श्रीरामस्य सीतां प्रत्युक्तिरिय रघुवंशे । अनुगोदं गोदासमीपे॥ वानीरेति । तृणधान्येत्यर्थः । सुप्तं वापः । इष्टापत्तिं परिहरति-एवं चेति । तथा सुवचत्वे चेत्यर्थः । स्वशब्दस्येति । क्रुद्धमितीत्यर्थः ॥ रतिभावेति । कविनि. ठेत्यादिः । स्मृतिमादायेत्युक्तिफलमाह-किं विति । एवं च प्रेयोलंकारस्य सत्त्वेऽपि १. 'तन्न । भावस्य हि' इति रसगङ्गाधरपाठः, २. 'व्यज्यमानस्यैव स्थायिनः पराङ्गत्वे यथा रसालंकारत्वम् , एवं व्यज्यमानस्यैव सं.' इति रसगङ्गाधरपाठः. , २२ काव्यमाला। भावस्य' इति ॥ अपि च महदिदमाश्चर्यम् । यखेनैव निर्मितः कुवलया- नन्दाख्यः संदर्भोऽपि विस्मृतः । उक्तं च तत्र शेषभागे-'विभावानुभावा- भ्यामभिव्यञ्जितो निर्वेदादिः स यत्रापरस्याङ्गं स प्रेयोलंकारः' इति । इति श्रीभभट्टारकपेरुभहात्मजेन पण्डितराजापराभिधानेन जगन्नाथभट्टेन निर्मिते चित्रमीमांसाखण्डने स्मरणालंकारप्रकरणम् । अथ रूपकप्रकरणम् । यत्तु- "बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिद्भुते । उपरञ्जकतामेति विषयी रूपकं तदा ॥ अत्र 'बिम्बाविशिष्टे' इति विशेषणात् 'स्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ।। इति निदर्शनाया निरासः, तत्र विषयस्य मार्जनस्यालक्तकादिरूपबि- म्बविशिष्टत्वात् । 'निर्दिष्टे' इति विशेषणान्निगीर्णविषयायां 'कमलमन- म्भसि कमले च कुवलये तानि कनकलतिकायाम्' इत्याद्यतिशयोक्ती ना तिव्याप्तिः । अनिद्भुते निषेधास्पृष्टे इति विशेषणादपद्भुतौ नातिव्याप्तिः । 'उपरञ्जकतामाहार्यताद्रूप्यनिश्चयगोचरतामेति' इत्यनेन ससंदेहोत्प्रेक्षयो- निश्चयस्यैवाभावात् । समासोक्तो व्यवहारमात्रसमारोपात् । परिणामे चा- रोप्यमाणस्यैव विषयताद्रूप्यनिश्चयगोचरत्वात् । भ्रान्तिमति सतः कल्पि- वत्कृतं तदुपपादनं चित्रमीमांसास्थमयुक्तमिति भावः । भावस्येति । अङ्गमिति शेषः । खेनैव अप्पदीक्षितेनैव । तत्र कुवलयानन्दे । निर्वेदादित्रयस्त्रिंशत् । अपरस्य भावादेः ॥ बिम्बेति ॥ अयं भावः-यथा चन्दः स्वतः शुभ्रवादनासजनीयधावल्यः, तथा नखाः स्वतोऽरुणवादनासजनीयारुणा इति सादृश्येन नखानां चन्द्रस्य च बिम्बप्र. तिविम्वभावः । अलक्तकचन्दनयोरन्यत्र स्ववर्णासञ्जकत्वेन सः। तथा च बिम्बप्रतिबिम्ब. भावो यत्र नखालक्तकविशिष्ट एव रजने तत्प्रतिबिम्बभूतचन्द्रचन्दनविशिष्टं पाण्डुरीकरण- मुपरजकम्-इति ॥ निर्दिष्ट इति । उच्चारित इत्यर्थः ॥ तत्र येन यस्य व्यावृत्तिस्त- १. 'इति रसगङ्गाधरान्तर्गतचित्रमीमांसाखण्डनसंग्रहे स्मरणालकारप्रकरणम्' इत्या- दर्शस्थपाठः, - - चित्रमीमांसाखण्डन । तस्य वा. प्रवृत्त्यादिपर्यन्तिकखारसिकश्रमस्यैव निबन्धनेन तस्यानाहार्व- त्वात्" इत्याहुः ॥ तन्न, 'त्वत्पादनखरत्नानाम्' इत्यादिनिदर्शनाव्यावृ. त्यर्थं बिम्बाविशिष्टत्वं विषयविशेषणं तावदयुक्तमेव । तत्र वाक्यार्थरूप- कस्य तक्ष्यमाणत्वेन लक्ष्यत्वात् । यदि च 'मुखं चन्द्रः' इत्यादिरूपका. न्तर इवात्रापि वस्तुविशेषे वस्त्वन्तरतादात्म्यारोपे सत्यपि नेदं रूपकम् । अपि तु निदर्शना-इत्यागृह्यते । तदा 'मुखं चन्द्रः' इत्यपि निदर्शना- इत्युच्यताम् । निरस्यतां च रूपकम् ॥(किं च-'इन्दुशोभा वहत्या- स्यम्-' इत्यादिपदार्थनिदर्शनायां कथमन्यस्यान्यः शोभा वोढुं समर्थ इति संबन्धस्यानुपपन्नत्वातच्छोभासदृशी शोभा लक्ष्यमाणा चन्द्रशोभया विष. यिस्था निगीर्णेति साध्यवसानलक्षणामूलत्वं तावन्निर्विवादम् । वाक्यार्थनि- दर्शनायां तु विषयविषयिणोरुपादानेऽप्यार्थ एवारोपो न शाब्दः । यथा- 'त्वत्पादनखरत्नानि यो रञ्जयति यावकैः । इन्दु चन्दनलेपेन पाण्डुरीकुरुते हि सः ॥' इत्यत्र । इह त्वत्पादनखरत्नकर्मकं यावककरणकं रञ्जनम् , इन्दुक- मकचन्दनलेपकरणकपाण्डुरीकरणभिन्नमित्यारोपस्य व्यङ्ग्यत्वाद्भवति नि- दर्शना । 'त्वत्पादनखरत्नानाम्' इत्यत्र तु विषयविषयिणोः प्रथामा]न्त- शब्दोपात्तयोरभेदसंसर्गेण बोधाच्छाब्द एवारोपो नार्थ इति रूपकमेव युक्तम् , न निदर्शना ।।। रूपके बिम्बप्रतिबिम्बभावो नास्तीति तु भ्रान्ति- मात्रम् , 'ययोरिवादिशब्दप्रयोगे उपमा, तयोरेकवान्यारोपे रूपकम्' इति नियमादत्र यदि रूपकं नाङ्गीकुरुषे, मैवाङ्गीकुरु तर्हि तत्रेवयथादेः प्र. योगे उपमामपि । एवम् 'त्वयि कोपो महीपाल सुधांशाविव पावकः ।' इत्यादौ खकल्पितेन विशिष्टेन धर्मिणा सादृश्यस्य प्रत्ययादुपमां ब्रूषे, ब्रूहि तर्हि तत्रैवेवस्य निरासे 'त्वयि कोपो महीपाल सुधांशौ हव्यवाहनः' । कमेणाह-सममिति ॥ अगोचरत्वे क्रमेण हेतू आह-समेति । अत्र उत्पादेत्यत्र २४ काव्यमाला। इत्यादौ रूपकमपि, तथा 'कुङ्कुमद्रवलिप्ताङ्गः कषायवसनो यतिः । कोमलातपबालाभ्रसंध्याकाल इवाबभौ ।' इत्यत्र 'संध्याकालो न संशयः' इति कृते रूपकं भवितुं युक्तम् । त्वयि कोपः-' इत्यत्र कल्पितं रूपकम्' इह तु न तथेति विशेषः । न च-एवमादौ प्रतीयमानोत्प्रेक्षा-इति वाच्यम् , निश्चीयमानत्वेनाभे. दस्य भानात् ॥ किंच-आलंकारिकसंमतोऽयं रूपके बिम्बप्रतिबिम्बभावः । उक्तं हि विमार्शन्याम्- 'कंदर्पद्विपकर्णकम्बुमलिनैर्दानाम्बुभिः क्षालितं संलग्नाञ्जनपुञ्जकालिमकलं गण्डोपधानं रतेः । व्योमानोकहपुष्पगुच्छमलिभिः संछाद्यमानोदरं पश्यैतच्छशिनः सुधासरुचिरं बिम्बं कलङ्काङ्कितम् ॥ अत्र कलकस्य दानाम्ब्वादिभिः प्रतिबिम्बनम् , लाञ्छितत्वाङ्कितयोः शुद्धसामान्यारूपत्वम्-इति ॥ तथा 'निर्दिष्टे शब्देनाभिहिते' इत्यस्य 'येन केनचिद्रूपेण शब्देनाभिहिते' इत्यर्थः, आहोस्वित्-'उपमेयताव- च्छेदकरूपेण शब्देनाभिहिते' इत्यर्थः, आये- 'सुन्दरं कमलं भाति लतायामिदमद्भुतम् ।' इत्यत्रातिशयोक्तावतिप्रसङ्गः, सुन्दरपदेन सुन्दरत्वेन रूपेणेदंपदेन वाननस्य प्रतिपादनात् । न च-अत्र सुन्दरपदार्थस्यारोप्यमाणकमला- न्वय एव, न तु वदनरूपविषयान्वयः-इति वाच्यम् , कमलपदेन कमल. ताद्रूप्येणाननस्यैव लक्षणयोपस्थापनात्तत्रैव सुन्दरादिपदार्थान्वयो युक्तः, कंदपैति । सर्वत्र षष्ठीतत्पुरुषः । कम्वुः शङ्खः । कलं रमणीयम् । 'अनोकहः कुटः शालः' ॥ शुद्धसामान्येति । अनयोर्वस्तुप्रतिवस्तुभावापन्नवादिदं चिन्त्यम् ॥ द्वितीय विशेषणं दूषयति-तथेति । आहोस्वित् अथवा । इत्यत्र रूपकातिशयो. क्तिविषये । अन्वय एवेति । तत एव चमत्कारात्सांनिध्याचेति भावः । रूपकातिश- योक्ति ध्वनयितुमाह-कमलेति । तत्रैव आनन एव । न त्विति । 'पदार्थः पदा- चित्रमीमांसाखण्डनम् । २५ न तु विशेषणीभूते कमले ॥ अथ 'तादृशं विषयमुद्दिश्य विषयिताद्रूप्यं यत्र विधीयते' इत्यपि लक्षणवाक्यार्थः । प्रकृते च सुन्दरत्वावच्छिन्नमु- दिश्य कमलताद्रूप्यस्याविधानान्नातिप्रसङ्गः-इति चेत् , न 'मुखचन्द्रस्तु सुन्दरः' इत्यादिरूपके समासं गतयोर्विषयविषयिणोः पृथग्विभक्तिमन्तरे- णोद्देश्यविधेयभावाबोधादव्याप्त्यापत्तेः ॥ द्वितीये तु–'अनिद्भुत-' इति विशेषणवैयर्थ्यम् , अपहृतावुपमेयतावच्छेदकस्य निषिध्यमानतया तेन रू. पेण विषयस्यानिर्दिष्टत्वादेव लक्षणस्याप्रसक्तेः । निश्चयगताहार्यत्वविशेष- णवैयर्थ्यं च, भ्रान्तिमति दोषविशेषेण प्रतिषिध्यमानतया नास्त्युपमेयता- वच्छेदकस्पर्शः, इति तावतैव वारणात् ॥ यच्चाप्युक्तम्- 'अव्यङ्ग्यत्वविशेषणाचेदमेवालंकारभूतस्य रूपकस्य ल- क्षणम्-' इति । तदपि निरस्तप्रायम् । न हि व्यङ्ग्यत्वालंकारत्वयोर्विरो- , र्थेन-' इति न्यायादिति भावः । तादृशं येनकेनचिद्रूपेण शब्देनाभिहितम् । इत्यपि उद्देश्य विधेयभावघटितोऽपि । अविधानादिति । तादृशमाननमुद्दिश्य भानक्रियाया एव विधेयत्वादिति भावः । यद्वा सुन्दरत्वादेः कमलखादिविशिष्टे विशेषणवमेवोद्देश्यता. वच्छेदकलम् । इयांस्तु विशेषः-यदतिशयोक्तावुपमेयधर्मस्योद्देश्यतावच्छेदकवाभाव एव, रूपके खनियमः, इतीति भावः ॥ अत एवाह-मुखचन्द्रस्त्विति । पृथगिति। उद्देश्य विधेयभावेन बोधे भिन्न विभक्तिजन्योपस्थितेस्तन्त्रखात् । तथा च व्यस्ते तथा प्रतीतिः, न समस्ते इत्यत्राव्याप्तिरिति भावः । ननूपमेयतावच्छेदकरूपेण शब्देनाभिहिते इति तदर्थेन प्रागुक्तदोषोऽत आह-द्वितीये विति । अपहृतौ ‘नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम्' इत्यत्र । अनिर्दिष्टत्वादेवेति । अत्र निषेधप्रतियोगिवि. धया निर्दिष्टवादिदं चिन्त्यम् । न च तथा निर्दिष्टत्वेऽपि पुरस्काराभावः, तर्हि तावत्पर्यन्त- विवक्षाबोधनार्थमेवानिहत इति विशेषणसाफल्यादिति बोध्यम् । तावतैव उकार्थकनिर्दिष्ट इति विशेषणेनैव । इदं चिन्यम्-आहार्यखविशेषणस्य निर्दिष्ट इति विशेषणलब्धार्थकथन- तात्पर्यकत्वात् । अतिशयोक्ता लक्षणामाहात्म्याज्ज्ञायमानज्ञानस्यानाहार्यस्यैव जायमानवेन तावतैव वारणात् । शक्यतावच्छेदकलक्ष्यतावच्छेदकयो नमिति त्वल्लिखितमतान्तरेऽपि युगपदेवोभयोर्भानेन बाधस्यैवानुपस्थितत्वान्न तद्बुद्धेराहार्यलम् । किं च चन्द्रवृत्तिगुणवत्त्व- लक्ष्यतावच्छेदकस्य चन्द्रवस्य च मिथोविरोधाभावेन न बाधप्रतिसंधानम् । मुखत्वेन मुख लक्ष्यत इति श्रद्धेयमेव । रूपके तु बाधस्य स्फुटमुपस्थितत्वेन साक्षाद्यन्जनया वा जा- यमाना ताद्रूप्यप्रतिपत्तिराहायैवेति दीक्षिताशय इति दिक् ॥ इदमेव प्रागुकं रूपकल- २६ काव्यमाला। घोऽस्ति, प्रधानव्यङ्ग्यरूपकवारणाय पुनरुपस्कारत्वं विशेषणमुचितमित्य- सकृदावेदनात् । अनलंकारत्वस्य तुल्यतया प्रधानव्यङ्ग्यरूपकस्येव प्रधान- वाच्यरूपकस्यापि वारणीयतया तद्वारकविशेषणाभावेन तत्रातिप्रसङ्गाच्च । रूपकलक्षणं तु रसगङ्गाधरादवगन्तव्यम् ॥ इति चित्रमीमांसाखण्डने रूपकप्रकरणम् । अथ परिणामः। यच्च वैयधिकरण्येन परिणामे दीक्षितेनोदाहृतम् - 'तारानायकशेखराय जगदाधाराय धाराधर- च्छायाधारककंधराय गिरिजासङ्गैकशृङ्गारिणे । नद्या शेखरिणे दृशा तिलकिने नारायणेनास्त्रिणे नागैः कङ्कणिने नगेन गृहिणे नाथाय सेयं नतिः ।। यथा वा- - 'द्विर्भावः पुष्पकेतोविबुधविटपिनां पौनरुक्त्यं विकल्प- श्चिन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः । द्वैत देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्व- नानन्दं कोविदानां जगति विजयते श्रीनृसिंहक्षितीन्द्रः ॥' इति ॥ अत्र चिन्त्यते–'तारानायकशेखराय-' इति पद्ये तावत् गि- रिजासङ्गैकशृङ्गारिणि भगवति भवे नतिः प्रक्रान्ता । शृङ्गारिता च शे- खरादीनि भूषणान्यपेक्षते इति नद्या आरोग्यमाणशेखररूपतयैवोपयोगो न खरूपेण । एवं च दृशोऽपि तिलकरूपतयेति रूपकमेव शुद्ध भवितुमर्हति ।। ननु-'परिणामे विषयाभिन्नतया विषयिणोऽवस्थानम्' इति भवतैवोक्तम् । क्षणमेव । नन्वेवं कथमतिप्रसङ्गनिरासोऽत आह-प्रधानेति । नन्वेवमपि विनिगम- नाविरहात्तथोतिरत आह-अनलमिति । मन्मते तु तेनैवोभयोारणमिति भावः । इति रूपकप्रकरणम् ॥ अथ परिणामः ॥ तारेति । चन्द्रशेखरायेत्यर्थः । धाराधरेति । नीलग्रीवाये- त्यर्थः । नद्या गङ्गया । दृशा भालचक्षुषा । मगेन कैलासेम ॥ कोविदानां पण्डितानाम् ॥ शुद्ध रूपकामिश्रम् ॥ एवमिति । परे तु-"मीनवती नयनाभ्याम्" चित्रमीमांसाखण्डनम् । २७ तदत्र नद्यादेविषयस्य तृतीययाभेदः प्रतिपाद्यमानो विषयिणि शेखरादौ भासत इति कथं नाम रूपकं स्यात्-इति चेत् 'मीनवती नयनाभ्यां करचरणास्यैः प्रफुल्लकमलवती । शैवालिनी च केशैः सरसेयं सुन्दरीसरसी ॥' इत्यत्र व्यधिकरणरूपके सुन्दा सरसीतादात्म्यस्य मीनकमलशैवाल- गतैर्नयनकरादिकेशाभेदैर्मनागप्यसमर्थनात् । प्रत्युत-नयनकरादिकेशग- तैर्मीनकमलशैवालाभेदैश्च समर्थनाद्यथा खनिष्ठाभेदे प्रतियोगित्वं तृती- यार्थः, एवं 'नद्या शेखरिणे दृशा तिलकिने-' इत्यत्रापीति क विष- यिणि विषयप्रतियोगिकाभेदपर्यवसानम् ॥ यदि पुनरारोप्यमाणे यथा- कथंचिद्विषयाभेदप्रत्ययमात्रात्परिणामतोच्यते, तदा 'प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम्' इति त्वदुदाहृतरूपकस्य परिणामतापत्तेः । प्रेम- लतिकाम्' इति समासे प्रेम्णो विषयस्य लतिकायामारोप्यमाणायामभेदेन विशेषणत्वात् । विस्तृतिश्च रसगङ्गाधरादवसेया । 'द्विर्भावः पुष्पकेतो:-' इति पद्येऽपि-कोविदानन्दजननजगदुत्कर्षों राज्ञो नृसिंहस्य कथ्यते । तत्र कोविदानन्दजनकत्वं राज्ञ आरोप्यमाणद्वितीयमन्मथादिताद्रूप्येण यथा संभवति, न तथा केवलेन स्वरूपेण । तथा हि-अहो नयनानामस्मदी- यानां साफल्यं यदयमपरो मन्मथोऽस्माभिरालोक्यत इति मन्यमानानां तेषां नयनानामानन्दस्तावत्पुप्पकेतुनैवोत्पाद्यते न राज्ञा । एवम् –अपरोऽयं क- ल्पतरुः, द्वितीयश्चिन्तामणिः कर्णश्च, तथा वासवो भूगतोऽयमन्यो दारिद्य. इत्यत्र सुन्दयाँ सरसीतादात्म्यरूपं रूपकं मुख्यवाक्यार्थः । तत्र च मीनवत्त्वादिः साधा. रणो धर्मः । तस्य च सुन्दर्यामभावात्प्राप्तबाधबुद्धिस्थगनाय'नयनाभ्यां मीनवती'इति सु- न्दरीविशेषणम् । सरस्यां मीनवत्वं प्रसिद्धमेव । एवं च सुन्दर्या मीनवत्त्वसंपादनरूपप्र. कृतकार्योपयोगिनां मीनानां नयनात्मतापत्त्यैवेति तदंशे परिणाम एवेति नयनप्रतियोगिका- भेदवन्मीनवतीति बोध इति दिक् । 'पादाम्बुजं भवतु नो विजयाय म 'इत्यादौ 'रूपकोप- मयोः संदेह एव' इति प्राहुः ॥ कथ्यते इति । शत्रन्तलडन्ताभ्यामिति भावः । तत्र द्वयोर्मध्ये । 'द्विीवः पुष्पकेतोः-' इत्यस्यार्थमाह-द्वितीयमन्मथेति । 'विबुध-' इति वाक्यार्थमाह-अपरोऽयं कल्पतरुरिति । एवंच बहुवचनं कल्पभेदाभिप्रायेण। 'विकल्पश्चिन्तारत्नस्य' इत्यस्यार्थमाह-द्वितीयश्चिन्तामणिरिति । द्वितीय इत्यस्या- प्रेऽप्यनुषङ्गो बोध्यः। तपन-'इत्यादेरर्थमाह-कर्ण इति।भूगत इत्यनेन प्रसिद्धेन्द्राद्य- १२ चि० २८ काव्यमाला। मस्माकमपहरिष्यति । हरिः खल्वयं संसारं नः परिहरिष्यतीत्यभिमाना- जायमानस्तेषामानन्दोऽप्यारोप्यमाणैः कल्पवृक्षादिभिरेवेति न विषयात्मना विषयिण उपयोगः, अपि तु खात्मनैवेति कुत्रास्ति परिणामः । अत एवेदं पद्यं रूपकप्रकरणे विमर्शिनीकारादिभिरालंकारिकैरुदाहृतमिति तद्न्थ- विरोधश्च ॥ - यच्च विद्याधरोक्तं परिणामध्वन्युदाहरणमनूद्य दूषितम् । तथाहि- "नरसिंह धरानाथ के वयं तव वर्णने । अपि राजानमाक्रम्य यशो यस्य विजृम्भते ॥ अत्र राजपदेन चन्द्रे विषये निर्दिष्टे तत्रारोप्यमाणस्य नृपस्याक्रमण- रूपकार्योपयोगिनः प्रतीतेः परिणामो व्यज्यते-' इति ॥ तदयुक्तम् । तत्र ह्यारोप्यमाणस्य नृपस्य नृपात्मनैवाक्रमणोपयोगः, न चन्द्रात्मना" इति । तदसत् । अत्र विजृम्भणं नाम न केवलं प्रागल्भ्यमानं कवेरभिप्रेतम् , येन यशःकर्तृकाक्रमणे नृपस्य नृपात्मनैव कर्मतारूप उपयोगः स्यात् । अपि तु निरतिशयनैर्मल्यगुणवत्तायां खसमानजातीयद्वितीयराहित्यप्रयुक्तः प्रौढिविशेषः । आक्रमणं न्यग्भाव एव । एवं चैवंविधे विजृम्भणे चन्द्रक- मकमाक्रमणमुपयुज्यते, न तु नृपकर्मकमिति विषयितया व्यज्यमानस्यापि नृपस्य चन्द्रात्मनैवाक्रमणोपयोग इति रमणीयमेव विद्याधरेणोक्तं परिणा- मव्यङ्ग्यतायामुदाहरणम् ।। . तिरेकः सूचितः । 'द्वैतं देवस्य' इत्याद्यर्थमाह-हरिरिति । दूषितमित्यस्य ‘चन्द्रा त्मनेति' इत्यन्तेनान्वयः । अत्र प्रागुक्तपद्ये । गुणवत्तायां तद्रूपसाधारणधर्मे । एवं च विजृम्भणाकमणयोरुक्करूपत्वे च ॥ रमणीयमेवेति । तत्रेदं चिन्त्यम्-"राज. शब्दस्यानेकार्थत्वात् , विजृम्भतेश्च प्रागल्भ्यतदुक्तार्थोभयपरत्वात् , प्रकरणाश्च शक्ति- संकोचकस्याभावात् , तत्रेण शक्त्यैव तुल्यतयार्थद्वयोपस्थितौ 'सर्वदो माधवः पातु' इति- वच्छेष एवायम् , न परिणामः । क्व वा नृपस्य व्यज्यमानतेति प्रकृतनरसिंहराजोत्कर्षस चन्द्रकर्मणाक्रमणेनेवेतरनृपाक्रमणेनापि सूपपादलम् । नच द्वयोरपि राजपदार्थयोरितर- क्रियान्वये राजानाविति द्विवचनं स्यादिति वाच्यम् , 'न ब्राह्मणं हन्यात्' इतिवदुपपतेः। समाहारद्वन्द्वविषयेऽप्येकशेषस्य कैश्चिद्वैयाकरणैरङ्गीकाराच । अस्तु वारोपः,तथापि नृपस्स- वारोप्यमाणवम् ,चन्द्रस्यैव विषयत्वमित्यत्र नियामकाभावः । अत्रैव च दीक्षिततात्पर्यम्।
चित्रमीमांमाखण्डनम् । २९ यद्यपि परोक्तिं दूषयित्वा खयं परिणामव्यङ्ग्यतायामुक्तम्- "चिराद्विषहसे तापं चित्त चिन्तां परित्यज । नन्वस्ति शीतलं शौरेः पादाजनखचन्द्रमाः ॥' अत्र चिरतापात प्रति हरिपादनखचन्द्रसद्भावप्रदर्शनेन 'तमेव निषे. वस्ख, तन्निषेवणादयं तापस्तव शान्तिमेप्यति' इति परिणामो व्यज्यते" इति ॥ तत्तुच्छमेव । 'आरोप्यमाणस्य विषयात्मकत्वेन प्रकृतकार्योपयोगे परिणामः' इति खयमेवोक्तम् । तत्र प्रकृतकार्योपयोगमात्रं न परिणामश- रीरम् , अपि तु विषयिगतायाः प्रकृतकार्योपयोगिताया अवच्छेदकीभूत- विषयताद्रूप्यम् । अत एव रूपकप्रकारविशेषत्वमस्यान्यैरालंकारिकैः स्वयं च तत्र तत्राभिहितम् । एवं चात्र नखचन्द्रसद्भावप्रदर्शनेन 'तन्निषेवणा- दयं ते तापः शान्तिमेष्यति' इति प्रकृतोपयोगिताया व्यङ्गयत्वेऽपि तदव. च्छेदकीभूतस्य विषयिणि विषयताद्रूप्यरूपस्य परिणामस्य वाक्यवाच्यत्वा. च्छक्यसंसर्गत्वाद्वा सर्वथैव न व्यङ्गयत्वं वक्तुमुचितम् । विद्याधरोक्तोदाह- रणे तु नियन्त्रिताया अभिधाया विषयचन्द्राभेदवेदनाक्षमतया शब्दशक्ति- मूलानुसरणस्य नास्त्युपयोगः ॥ इति चित्रमीमांसाखण्डने परिणामप्रकरणम् । अथ ससंदेहः । - यत्तु- 'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः खयं नु मदनो मासो नु पुष्पाकरः । अपि च प्रागल्भ्यस्यापि विजृम्भत्यर्थत्वेन प्रकृतकार्योपयोगिना नृपत्वेनापि नृपस्य संभ- वति । अत एव विद्याधरेणापि 'विषयिणः स्वरूपेण प्रकृतकार्यानुपयोगित्वे तदुपयोगाय विषयिणो विषयात्मनोपरिगत्यपेक्षायामेव परिणामः'इत्युक्तम् । यदाह-तं परिणामं द्वि- विधं कथयन्यारोप्यमाणविषयतया। परिणमति यत्र विषयी प्रस्तुतकार्योपयोगाय॥'इति। ननु तात्पर्यविषयीभूतप्रकृतकार्यानुपयोगित्वमस्त्येव-' इति चेत् , तस्यैव तात्पर्यविषयत्वे मानं विभावय-" इति ॥ परोक्तिं विद्यानाथोक्तिम् । स्वयमेव अप्पदीक्षितेनैव ॥ चिरतापात चित्तम्' इति शेषः॥ वैयाकरणमतेनाह-वाक्येति । नैयायिकमते- नाह-शक्येति । इति परिणामप्रकरणम् ॥ अस्या इति । विक्रमोर्वशीये उर्वशीवर्णनमिदम् । मासो वसन्तः। वनिता ३० काव्यमाला। वेदाभ्यासजडः कथं सविषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ।।' अत्र चन्द्रादीनां संदेहधर्मिणामेवानेकत्वम् । प्रकारस्तु वर्णनीयवनिता. स्रसृत्वमेकमेवेत्यनेककोटित्वाभावात्-विरोधेन परस्परप्रतिक्षेपकतया निब- द्धानेककोट्यवगाहित्वरूपस्य संशयलक्षणस्याव्याप्तिमाहुः ॥ तन्न । अत्र हि 'अस्याः सर्गविधौ यः प्रजापतिरभूत् , स किं नु चन्द्रः, किं नु मदनः, किं वा नु वसन्तः' इति संशयः प्रजापतिधर्मिकश्चन्द्रत्वादिनानाकोटिक एवेति कुत्राव्याप्तिः । न च–अत्र चन्द्रादिधर्मिकः संशयो युको वक्तुम् । एवं च प्रजापतेः प्रथमोद्देशो न स्यात् । दोषदानाय वाक्यान्तरकल्पनेन तथा कव्यभिप्रायवर्णनादौचित्यात् ॥ यदपि प्राचां लक्षणम् 'साम्यादप्रकृतार्थस्य या धीरनवधारणा । प्रकृतार्थाश्रया तज्ज्ञैः ससंदेहः स इप्यते ॥' इति महता प्रबन्धेन त एव दूषितवन्तः ॥ तदपि न । साम्यनिमि- तान्निश्चयसंभावनान्यतरभिन्ना या धीः इति तदर्थकरणे दोषाभावात् । निश्चयत्वं तु संशयाघटितमेव निर्वक्तव्यम् ॥ यदपि च संशयध्वन्युदाहरणप्रसङ्गे- 'कांचित्काञ्चनगौराङ्गी वीक्ष्य साक्षादिव खयम् । वरदः संशयाविष्टो वक्षःस्थलमवैक्षत॥' इत्यस्मत्कुलकूटस्थवक्षःस्थलाचार्यकृतवरदराजवसन्तोत्सवान्तर्गते पये सं. स्रष्टुत्वं प्रजापतिशब्दबोध्यम् । अभावादित्यव्याप्ती हेतुः। संशयलक्षणमाह-विरो. धेनेति । हि यतः । अस्या उर्वश्याः । तदुपपादनं खण्डयति-न चात्रेति । एवं चेति ।चो ह्यर्थे । यत एवं सतीत्यर्थः । विधेयस्य पाश्चात्यमिति नियमादिति भावः । त एव अप्पदीक्षिता एव ॥ अनवधारणेत्यस्य तात्पर्यार्थमाह-निश्चये- ति ॥ नन्वेमन्योन्याश्रयापत्तिरित्यत आह-निश्चयत्वं त्विति ॥ कांचि- दिति । इदं च पद्यमप्पदीक्षितमूलपुरुषवक्षःस्थलाचार्यकृतवरदराजवसन्तोरसवस्थम् । वरदः काञ्चीदेवता विष्णुः । तदिति । संशयेत्यर्थः । तत्र सामान्यज्ञाने । अ.
चित्रमीमांसाखण्डनम् । शयस्य 'खशब्दोपात्तत्वेऽपि तावन्मात्रस्यानलंकारत्वात्तदलंकारताप्रयोजकस्य 'वक्षःस्थले स्थितैव लक्ष्मीस्ततोऽवतीर्य किं पुरस्तिष्ठति' इत्येव संशयाका- रस्य 'वक्षःस्थलमवेक्षत' इत्यनेन व्यङ्ग्यत्वात्संदेहालंकृतिध्वनिरत्रेति ॥ यथा- 'दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कान्यपि चकार लजया ॥' इत्यत्र 'कानि कान्यपि' इति सामान्यतो निर्दिष्टानुभावविशेषप्रतीत्यर्थं लज्जाशब्दप्रयोगेऽपि तस्याः स्वभावानुभावाभ्यां रसानुगुणाभिव्यक्तिरूपो ध्वनिः-" इत्याहुः ॥ तदेतद्धतनित्त्वज्ञैरुपहसनीयम् । तथाहि-'संशया- विष्टः' इत्यत्र संशयपदेनैकस्मिन्पदार्थे विरुद्धनानापदार्थसंबन्धावगाहिज्ञानं साक्षादेव निवेद्यते । तत्र कोऽसौ विरुद्धो नानार्थ इति विशेषाकाङ्ख्या वक्षःस्थलावेक्षणेन 'वक्षःस्थलस्थैव लक्ष्मीस्ततोऽवतीर्य किं पुरस्तिष्ठति' इत्या- दिरों व्यञ्जनव्यापारेण बोध्यमानः शक्त्या संशयशब्दनिवेदितज्ञानविशे- पणीभूतेन सामान्यार्थेन साकमभेदेन पर्यवस्यति । एवं च संशयमात्रस्य शक्त्या बोधनात् 'वक्षःस्थलस्थितैव' इत्यादिविषयविभागस्यापि विरुद्धना- नार्थत्वेन सामान्याकारेणावलीढतया तयैव कवलीकरणाद्वाच्यार्थसंशयपर्य- वसायकत्वाच्च न कस्यापि ध्वनिव्यपदेशहेतुत्वमुचितम् । सर्वथा वाच्यवृ. त्यचुम्बितस्यैव तथात्वमिति ध्वनिमार्गप्रदर्शकैः सिद्धान्तितत्वात् । तथा च द्वितीयोहयोते- 'शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्गयोऽर्थः कविना पुनः । यत्राविष्क्रियते खोक्त्या सान्यैवालंकृतिलनेः ॥' । वेक्षणेनेति । व्यजनार्थवत्तिरपीति भावः । संशयमात्रस्येति । सर्वस्य संशयस्य । अर्थत्वेन सामेति । एतद्रूपसामान्याकारणेत्यर्थः । अवलीढेति । बोध्यतयेत्यर्थः । तयैव शक्त्यैव । कवलीति । बोधनादित्यर्थः। नन्वेवमपि विशेषरूपेण व्यत्य- खमेवात आह-वाच्यार्थेति । विशेषसंशयस्येत्यादिः । तदाह-कस्यापीति । १. 'संशयपदार्थस्य' इत्यादर्श पाठः.
३२ काव्यमाला। इति सूत्रयित्वा 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया । ल(ह)सन्नेत्रार्पिताकूलं लीलापमं निमीलितम् ॥' अत्र 'संकेतकालमनसं विटं ज्ञात्वा लीलापमं निमीलितम्' इति वदता कविना लीलापद्मनिमीलनस्य प्रदोषाभिव्यञ्जकत्वं खोक्त्यैव निवेदितमिति ध्वनिमार्गादयमपर एव गुणीभूतव्यङ्ग्यस्य मार्गः । यथा वा- 'अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र । अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् ॥ 'अत्र निःशङ्क रन्तुमायाहि' इत्यर्थश्चरणत्रयव्यङ्ग्योऽप्यवसरव्याहृते. ाजत्वं ब्रुवता कविना स्फुटं खोक्त्या निवेदित इत्ययमपि न ध्वनेर्मार्गः" इत्याहुरानन्दवर्धनाचार्याः । एवं चैवंविधेषु विषयेषु व्यञ्जकत्वस्य व्यङ्ग्यस्य वा मनागुक्तिसंस्पर्शमात्रेण ध्वनित्वं निराकुणाः 'कांचित्काञ्चनगौरा- ङ्गीम्' इति पद्ये शब्दाभिहितव्यङ्गये ध्वनित्वं कथमिव खीकुरिन् ।' एतेन 'दर्पणे च परिभोगदर्शिनीम्-' इति प्रागुक्तपद्ये लज्जाध्वनित्वं यद. भ्यधीयत, तदप्यपास्तमिति दिक् ॥ इति चित्रमीमांसाखण्डने संशयालंकृतिः । विशेषस्यापीत्यर्थः । सर्वथा केनापि प्रकारेण । तथात्वं ध्वनितम् । संकेतेति । को वावयोरतिकालस्तत्संकेतमित्यत्र (2) दत्तचित्तमित्यर्थः । हसदिति क्रियाविशेष- णम् । इति वदतेति । क्वान्तवाक्यविशिष्टं वदतेत्यर्थः । अन्यथा क्वान्तवाक्येनैवा. र्थात्तदभिव्यञ्जकरवे सिद्धे कान्तवाक्यानर्थक्यं स्पटमेव । तदाह-स्वोक्त्यैवेति। क्ला- न्तवाक्येनेत्यर्थः । अत्र गृहप्रदेशविशेषे । एवमग्रेऽपि । कुम्मेति पान्थसंबोधनमिति कश्चित् । तन्नामिका दासीत्यन्यः । जलाद्याहरणार्थ दासी, न क्रीडादासीति तत्त्वम्। वियो- गात्पापात्वम् । कतिपयेत्यनेन द्रुतमागमनाभावः सूचितः । अवसरे समय उक्ताजपू- मित्यर्थः । पूर्वोदाहरणाशयेनाह-व्याकेति । द्वितीयाशयेनाह-व्यङ्गयेति ॥
चित्रमीमांसाखण्डनम् । '३३ अथ भ्रान्तिमान् । यच्च- 'कविसंमतसादृश्याद्विषये पिहितात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः ॥' इतिलक्षणं तैरुक्तम् , तन्न । 'कविसंमतसादृश्यप्रयोज्यो विषय आरो- प्यमाणो यत्र वाक्संदर्भ स भ्रान्तिमान्' इति भ्रान्तिमतो लक्षणं विहाय रूपकव्यावृत्यर्थं 'पिहितात्मनि' इत्युच्यते, न चैतद्युक्तम् । न हि रूपक- वाक्य आरोप्यमाणस्यानुभवो वर्ण्यते, किं तु तस्माज्जायते । न च-अ. त्रानुभवान्तं भ्रान्तेर्लक्षणम् , अग्रिमं च भ्रान्तिमतः । तत्र भ्रान्तिलक्षणे रूपकातिव्याप्तिवारणाय 'विषये पिहितात्मनि' इति विशेषणम् इति वा- च्यम् । अनुभवत्वघटितस्य भ्रान्तिलक्षणस्यानुभूयमानाभेदात्मके रूपके क. थमप्यवृत्तेः ॥ यदि च-रूपकपदं रूपकबुद्धिपरमिति ग्रन्थसामञ्जस्यं विधीयते, तदा विषयतावच्छेदकानवगाहिनि 'मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेव वा तमालः । रघुपतिमवलोक्य तत्र दूरादृषिनिकरैरिति संशयः प्रपेदे ॥' इति संशयेऽतिप्रसङ्गः । 'कमलमिति चञ्चरीकाः, चन्द्र इति चकोरा- स्वन्मुखमनुधावन्ति' इति भ्रान्तिसमुदायात्मके उल्लेखेऽतिव्याप्तेश्च ॥ · अत्र भ्रान्त्या संकीर्ण उल्लेख इति चेत्, न तावतोल्लेखांशातिव्याप्तिन दोषः । नहि दुग्धभागजलभागानां व्यामिश्रणमस्तीति दुग्धलक्षणं जलांशातिव्या- अथ भ्रान्तिमान् । उच्यत इति । अयं भावः-तद्विशेषणेनारोप्यमाणानुभवस्य खारसिकस्य कविप्रति- भया कल्पनं विवक्षितम् , तस्यैव विषयपिधानसामर्थ्यात्-इति ॥ अग्रिमं चेति । यत्रेत्याधुक्तमित्यर्थः ॥ तत्रेति । तद्वाक्य जानुभवस्य तत्रापि सत्त्वादिति भावः ॥ ननु नाम(?) संशयेऽतिप्रसङ्गः, विषयस्यैवेति प्रतिपादनादत आह-कमलमिति । अत एव वक्ष्यति-भ्रान्त्या संकीर्ण' इति । अतिव्यातेश्चेति । उल्लेखनप्रान्तित्वयोरत्र संकी- र्णत्वं बाधकाभावाद्भूतत्वमूर्तस्वयोरिव । 'नरैर्वरगतिप्रद' इत्यत्रोल्लेखत्वस्य 'कनक इन' इत्यत्र भ्रान्तित्वस्य सावकाशत्वादिति कश्चित् । 'वनितेति वदन्त्येतां लोकाः' इति बदु- दाहृतापहृतिसंकीर्णोल्लेखे उपमेयतावच्छेदकनिषेधसामानाधिकरण्येनोत्थाप्यापहृतिलक्षणा- तिव्याप्तिस्तवाप्यस्ति । एवं तत्तदलंकारसंकीर्णे तत्तदसंकरलक्षणस्य सा दुरेित चिन्य- ३१ काव्यमाला। सिकं कर्तुं युक्तम् । एकत्वविवक्षायाः खयमनुद्गारात् । तथा चामत्कृत- लक्षण एव पर्यवसानम् ॥ यदपि च भिन्नकर्तृकोत्तरोत्तरभ्रान्तावुदाहरणं दत्तम्- 'शिञ्जानैर्मञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकै- स्तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः । तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकै- रित्थं चोलेन्द्रसिंह त्वदरिमृगदृशां नाप्यरण्यं शरण्यम् ॥' इति ॥ अत्र विचार्यते-स्तनकलशयुगे हि न तावन्मलरीसादृश्यं कविसमयसिद्धम् , येन तन्मूला चञ्चरीकाणां भ्रान्तिरुपनिबध्येत । 'दोषा- न्तरमूला तु सा नालंकारः' इत्यनुपदमेवोक्तम् ॥ अपि च-धर्मिणि कलशरूपकानुवादेन मञ्जरीभ्रान्तिरूपमलंकारान्तरमुपनिबध्यमानमुद्वेजक- मेव सहृदयानाम् । 'नहि सादृश्यमूलैकालंकारावच्छिन्ने सादृश्यमूलमलं. कारान्तरं शोभते । तथा-'मुखकमलं तव चन्द्रवत्प्रतीमः' इति प्रागेवा. वेदनात् ॥ प्रत्युत-कलशरूपकेण मञ्जरीसादृश्यतिरस्काराच्च । तथा 'तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः' इत्यत्र विधेया- विमर्शाद्विधेयान्तरमाकाङ्गितम् । कीरैर्दष्टा इति तु भाव्यम् । जाता इत्य. ध्याहारेऽपि विवक्षितस्याविधेयत्वम् , अविवक्षितं च विधेयत्वं प्रसज्येत ॥ एवम्-'तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकैः' इत्यत्र न तावपिकनिनदास्ताडनयोग्याः काकानाम् , येन तद्धिया आलपन्त्यस्तै- ताब्येरन् । नापि पिकनिनदभ्रम आलपन्तीषु संभवति, संभवन्वा न सा- मिदमित्यपरे । तावदादौ । उपेति । वयेतेत्यर्थः ॥ ननु यथाकथंचित्सादृश्यमप्यस्ती. त्यत आह-अपि चेति । धर्मिणि स्तनरूपे । मुखकमलमिति रूपकम् ॥ अभ्युपे. त्याह-प्रत्युतेति । एवमाद्ये दोषमुक्खा द्वितीये दोषमाह-तत्रासोल्लेति । भ्रमर- भयजनकजातचेष्टा इत्यर्थः ॥ विधेयाविमर्शादिति । विधेयस्याकथनादित्यर्थः । उद्दे. श्यकोटिप्रविष्टं सर्वमिति भावः। पाणी उद्दिश्य विशिष्टस्य कीरकर्तृकदष्टत्वस्य विधेयस्वे । को दोष इति चिन्त्य मिदम् ॥ विवेति । इष्टवस्येत्यर्थः ॥ तृतीयं तमाह-एवमिति। तल्लोपाय कीरदूरीकरणाय । तावदादौ । दोषमूलः संभवतीत्याह-संभवन्वेति । १. पर्वयसानमित्यर्थः पाठोरसगङ्गाधरेऽस्मिन्प्रकरणे नोपलभ्यते. २. 'यचापि' रसग०, ३. 'तत्र रसग०.
चित्रमीमांसाखण्डनम् । ३५ दृश्यमूलः । 'पिकनिकरघिया' इति तु भाव्यम् ॥ अथ -तदालापेषु पिक. निनदबुद्धरपि तासु पिकबुद्ध्युत्पादनद्वारा संभवत्येव ताडनोपयोग इति प्रयोज्यत्वार्थकतृतीयया पिकनिनदधीप्रयोज्यकाकर्तृकताडनकर्मत्वमालप. न्तीनां सुप्रतिपादमेव-इति चेत् । मैवम् । तथा प्रतीतेरसिद्धेः । 'चौर- बुद्ध्या हतः साधुः' इत्यादौ चोरबुद्धिहननयोः सामानाधिकरण्येन हेतु- हेतुमद्भावगमकत्वव्युत्पत्तेः ॥ एवम्-'दन्तिबुद्ध्या हतः शूरैर्वराहो वनगो- चरः ।' इत्यत्रापि विशेष्यतया वराहवृत्तेर्दन्तिबुद्धेवराहवृत्तिहननहेतुभा. वावगमः । त्वदुक्तरीत्या 'दन्तबुद्ध्या' इति तु कृते बोधकदर्थनैव ।। किंच-पिकानां कूजितादिशब्दैरेव शब्दो वर्ण्यते, न तु निनदादिशब्दैः सिंहदुन्दुभ्यादिशब्दप्रयोगयोग्यैः । तथा-प्रथमद्वितीयचरणस्थयोः स्तन- पाण्योर्यथाकथंचियवहितमपि जातान्वयमपि 'त्वदरिमृगदृशाम्' इत्येतत्प. ष्ठयन्तमन्वेतुं शक्नुयात् , न तु तृतीयचरणस्थे 'तल्लोपायालपन्त्यः' इत्य- स्मिन्विशेषणे विशेप्यभावेनेति तासां ताटस्थ्यमेव स्यात् । विभक्तिविपरि- णामेऽपि क्रमभङ्गासष्ठुलत्वाभ्यां स्थितमेवेति पद्यमव्युत्पन्ननिर्मितमेवेदम् ।। दीक्षितैस्तु भ्रान्त्यलंकारांशमादायोदाहृतमिति न तेषां तथा दोषः ।। इति चित्रमीमांसाखण्डने भ्रान्त्यलंकारः । . अथोल्लेखः। यत्तु तैरेवाभिहितम्- "एवमपि यदि- 'कान्त्या चन्द्रं विदुः केचित्सौरभेणाम्बुजं परे । वकं तव वयं ब्रूमस्तपसैक्यं गतं द्वयम् ॥' इत्यपह्नवोदाहरणविशेषेऽतिव्याप्तिः शङ्कया ॥ तदानीमनेकधोल्लेखनं नि. शब्दप्रयोगेति । शब्दे प्रयोगेत्यर्थः । आसत्त्याकाङ्क्षयोः खारसिकयोरभावादाह-य. थाकथंचिदिति । जातान्वयेति । नाप्यरण्यं शरण्यम्' इति संनिहितेनेति भावः । न विति । विभिन्न विभक्तित्वात्स्वस्मिन्खभेदाभावाचेति भावः । ननु विभक्तिविपरिणा- मेनाभेदान्वयः सुलभोऽत आह-विभक्तीति । प्रक्रमेति । नन्वेवं दीक्षितैः .. १. 'भ्रान्तिमदलंकारः' इति भवेत्.
३ काव्यमाला। षेपास्पृष्टत्वेन विशेषणीयम् । तत्राद्योल्लेखनद्वयं परमतत्वोपन्याससामर्थ्या- द्गम्यमाननिषेधमिति नातिव्याप्तिः-" इति तन्न, "द्विविधश्चायमुल्लेखः- शुद्धोऽलंकारान्तरसंकीर्णश्च" इत्युक्त्वा "श्रीकण्ठजनपदवर्णने यस्तपोव- नमिति मुनिभिरगृह्यत" इत्यादौ शुद्धः, "यमनगरमिति शत्रुभिः वज्रपञ्ज- रमिति शरणागतैः, इत्यादी भ्रान्तिरूपकादिसंकीर्णः" इति स्वयमेवोक्त- त्वादिहाप्यपद्दुत्या संकीर्ण उल्लेख इत्यस्य सुवचत्वात् ॥ यदि चैवंविधाप- दुतिवारणाय निषेधास्पष्टत्वं विशेषणमुच्यते, तदा 'कपाले मार्जारः पय इति कराल्लेढि शशिन- स्तरुच्छिद्रप्रोतान्बिसमिति करी संकलयति । रतान्ते तल्पस्था हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति ॥' इति त्वदुदाहृतभ्रान्तावतिव्याप्तिः कथं नाम वार्यत, मार्जाराद्यनेकग्रही- तृकानेकधोल्लेखनस्य तत्रापि सत्त्वात् । स्वस्खप्रियाहारलिप्सारूपनिमित्त- भेदाच्च । तस्मात्संकीर्णनिवारणाय यनोऽनर्थक एवेति ॥ इति चित्रमीमांसाखण्डन उल्लेखप्रकरणम् । दाहृतमत आह-दीक्षितैरिति ॥ एवमपि उक्तविशेषणदानेऽपि । गम्येति । बहु- प्रीहिः॥श्रीकण्ठेति। शुद्धस्यैकमुदाहरणं सोपपादनमुक्त्वान्यदाह हर्षचरित।इत्यादौ 'यस्तपोवनम्' इत्यादि गये। अगृह्यतेत्यस्य सर्वत्र संबन्धः । इच्छब्दार्थः श्रीकण्टजन- पदः । शुद्ध इति । तत्र तपोवनादिभूमिनिष्टत्वादिति भावः । यमनगरत्वादीनां तादूप्या- नुमवगोचरतयान्वये आह-भ्रान्तीति । यदि तेषामुपरजकतामात्रेणान्वयः, यदाह- रूपकेति । एवंविधेति । विलक्षणेत्यर्थः । त्वदुदेति । त्वया प्रथमं मुख्यत्वेनोदाहृते. त्यर्थः । तादृशभ्रान्तिविशेषस्यापि वारणावश्यकत्वात् , अन्यथा संकीर्ण तत्कथमादात्रुदा- हृतम् । तद्विविक्तविषयस्यैवादावुदाहर्तुमौचित्यात् । अन्यथालंकारभेदो न स्यादिति भावः॥ १. निमित्तभेदादेकस्य वस्तुनो यदनेकधा । उल्लेखनमनेफेन तमुल्लेखं प्रचक्षते ॥' इत्यु खलक्षणे 'अनेकधा' इति विशेषणदानेऽपीत्यर्थः स्यात्, चित्रमीमांसाखण्डनम् । अथापगतिप्रकरणम् । यत्तु-अपहृतिध्वनावुक्तम्- 'त्वदालेख्ये कौतूहलतरलतन्वीविरचिते विधायका चक्रं रचयति सुपर्णीसुतमपि । अपि खिद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौष्पं चापं मकरमुपरिष्टाच लिखति ।' इत्यादावपह्नुतिध्वनिरुदाहर्तव्यः । अत्र हि चक्रसुपर्णलेखनेन नायं सा- धारणः पुरुषः, किंतु पुण्डरीकाक्षः इति कयाचियञ्जितम् । अन्यथा तु, तस्याप्येतादृशं न संभवतीत्याशयेन 'नायं पुण्डरीकाक्षः, अपि तु मन्मथः' इति तदुभयमपमृज्य पुष्पसायकमकरध्वजलेखनेन व्यञ्जितम्" इति । तदेतदापातरमणीयम् । यत्तावदुच्यते-'चक्र सुपर्णलेखनेन नायं साधा- रणः पुरुषः किंतु पुण्डरीकाक्षः-इति कयाचियञ्जितम्' इति । तत्रापहु- ते: भागौ–उपमेयनिषेधः उपमानारोपश्च इति । तयोस्तावदुपमाना- रोपभागः 'पुण्डरीकाक्षोऽयम्' इत्याकारश्चक्रसुपर्णलेखनेन व्यक्तुं शक्यः, चक्रसुपर्णयोस्तत्संबन्धित्वात् । नतु–'नायं साधारणः पुरुषः' इत्युपमेय. निषेधभागोऽपि, व्यञ्जकस्यारोपमात्रव्यञ्जनेन चरितार्थतया सामर्थ्याभावात् । नाप्यनुभवसिद्धः सः,येन तद्व्यञ्जनायोपायो गवेष्येत । नापि गवेष्यमाणोऽपि तद्व्य अनोपायः शब्दोऽर्थो वा उपलभ्यते, येनानुभवकलहः स्यात् । नच- अनेकधेति । पयस्वादीत्यर्थः । उपसंहरति-तस्मादिति । त्वदलेख्य इति । खप्रतिकृतिभूतचित्र इत्यर्थः । नायकं प्रति खसख्युक्तिः । एका तन्वी सखी। चक्र सुदर्शनम् । सुपर्णीसुतं गरुडम् । अपि अथ । क्वचित्तथैव पाठः । अथ मार्जनयोग्य- लाय हेतुगर्भ विशेषणम्-स्विद्यत्पाणिरिति।अपरा तत्सखी । तस्यापि पुण्डरी- कांक्षस्यापि । इत्याशयेन तथा लेखनेन । इति व्यजितमित्यन्वयः। तदुभयं चक- सुपर्णद्वयम् ॥ तत्रेति । उच्यत इति शेषः। एवमप्रेऽपि भागो व्यक्तुं शक्य इत्यनुषज्यते। व्याकेति । चक्रसुपर्णलेखनस्येत्यर्थः । ननु कथं तदनुभवोऽत आह-नापीवि ३८ काव्यमाला। साधारणपुरुषमन्तरेण पुण्डरीकाक्षतादात्म्यारोपो दुर्घट इति सोऽपि व्यज्यत इति वाच्यम् , रूपकोच्छेदापत्तेः ॥ इति चित्रमीमांसाखण्डनेऽपहृतिप्रकरणम् । लभ्यत इति । प्रकृतपद्य इति शेषः । दुर्घट इति । तज्ज्ञानस्य तत्र प्रतिबन्धकत्वा- दिति भावः । सोऽपि निषेधभागोऽपि । अन्यथानुपपत्त्येति भावः ॥ इति रसगङ्गाधरमर्मप्रकाशोद्धृतटिप्पण्यामपह्नुतिप्रकरणम् ॥ समाप्तोऽयं ग्रन्थः। १. एतत्प्रणेतुः पण्डितराजजगनाथस्य विषये यद्वक्तव्यं तत्सर्व रसगङ्गाधरभूमिकायां महामहोपाध्यायपण्डितवरदुर्गाप्रसादैर्वणितमिति तत एवावसेयम्. एतद्न्थादर्शपुस्तकं तु जयपुरराजगुरुश्रीलक्ष्मीदत्तनुश्रीयुतश्रीदत्तशर्मभिः काव्यमालार्थ संवत् १७०९ (ख्रिस्त- शतक १६५२) लिखितं १७ पत्रात्मकं दत्तमिति तेऽतीव धन्यवादाही. २. एतद्न्थप्रणेतुर्नागेशभट्टस्य विषयेऽपि वक्तव्यं रसगङ्गाधरभूमिकायामेव महामहोपा. ध्यायैवर्णित मिति तत एवावसेयम्. टिप्पण्यादर्शपुस्तकं तु नोपलब्धम्, किंतु मूलग्रन्थोपयो. ग्यंशोऽमा भिरेव मैथिलवर्यश्रीयुतसुन्दरशर्मसाहाय्येनोद्धृत्य प्रकाशितः,
No text on this page.