Sringeri Sharada Peetham

Bala Manorama Part -xiii

Sri Vasudeva Deekshita · 2007/02/10

PDF Proofread

Front matter

'XIII.]
[त्रयोदशो भागः।
। श्रीरस्तु।
RI BÅLAMANORAMA
WITH
SIDDHANTA KAUMUDÍ
A NEW EDITION.
MAINLY BASED ON THE VARIOUS READINGS PREVALENT IN
SOUTHERN INDIA, CRITICALLY EXAMINED BY PUNDITS.
UTTARARDHAM.
॥ श्रीबालमनोरमा ॥
। सिद्धान्तकौमुदीसहिता।
दाक्षिणात्यानेकमहनीयकोशस्थपाठाननुसृत्य बहुविद्वत्साहाय्येन यथामति
त्रिशिरःपुरविराजमान सैण्ट जोसप्स् कालेज् प्रधानसंस्कृताध्यापकैः
शब्दालङ्कारविद्याभूषणैः कविशिखामणिभिः सारखतसारज्ञैः
तट्टै वाधूलश्रीनिवासाचार्यैः
सम्यक् परिशोधिता।
॥ उत्तरार्धम् ॥
EDITED AND PUBLISHED BY
S. CHANDRASEKHARA SASTRIGAL,
TEPPAKULAM, TRICHINOPOLY.
PRINTED BY BR. JOSEPH S.J.,
AT THE ST. JOSEPH'S INDUSTRIAL SCHOOL PRESS, TRICHINOPOLY.
1910.
:48 pp. 8 Annas.]
[All Rights Reserved.

SELECTED OPINIONS. - . त. गणपतिशादी, क्यूरेटर् , अनन्तशयनम्- "श्रीमन्तश्चन्द्रशेखरशास्त्रिणः, भवद्भिः संशोध्य मुद्यमा बालमनोरमायाः परमशिन भागान् परितुष्टेन मनसा पक्षिषि । सा हि सिद्धान्तकौमुदीव्याख्यास्वन्यतमा जिन्दावादनान्सिान्द्राय सिद्धान्तहीनदीमान पाणिनिसूत्रव्याख्यानवाक्यानां सर्वेषामर्थ सूत्रत आनीय प्रौढमन शब्देन्दुशेलाराधीविदारकुन्दल मानिकचा मुकुमारसम्म मात्रा सम्बोधयितुं समर्था बालपरमकारुणिकी 'अध्यापकनिर जन्म दिन हन्तसंशवमति : पना बगान माइनलमन्थलिप्या मुद्रणगोचरमंशतः कथञ्चिदासाद्य तिरोहितां विदितः मया चिन्तिान-अतः वाग्विस्तरगुा उक्तलिपि सामग्येण मुद्रणे बहुद्रव्यव्ययसापेक्षत्वादशक्ये, दूर एव कृ भूमण्डलोपोगनु देवनागरीमुद्रणं प्रति प्रत्याशेति । सेयं प्रत्याशा न केवलमुन्मीलिता भवद्भिः, किन्तु फलप्रान्तभूमि प्रायलमय नहले लोकोपकारस्य संस्कृतभक्तवर्ग: सर्वो, मन्ये ऋणं भवद्भ्यो धारयते । संशोधनञ्च ग्रन्थस्य भवद्भिः सः बिकिनि मन नामानिन्छामर बदल पत्रकृतस्य वा गुणस्य पुस्तके संविधानमत्यन्तं वो रमणीयम कविभूषणः श्री. ति. अ. ति. कुमारताताचार्यः निजाशयममायमावेदयते- “देवी वाण्यमला पुनरवन वैशारदीशालिनी सापि व्याकृतिसंस्कृतैव घटते भावस्य संसूचने । एक वाणिनिदर्शित्र सुलभा तां गूढभावामिमां व्याख्यान्ती ननु वासुदेवकृतिनः प्रार्थ्या कवीन्दैः कृतिः॥ जयतु निगमराशेस्तुङ्गमङ्ग धरण्यां जयतु कलिहतस्याप्यस्य रक्षाऽसदृक्षा। कथमिव नदुबलासले काउनतिभिमपलभ्यो नाधुनाऽऽख्यातविज्ञाः ॥" अयि प्रेष्टाः! श्रीचन्द्रशेखरवर्याः ! “अबालोकिपतास्माभिर्भवद्भिर्मुद्रयितुं देवनागराक्षरैरुपक्रान्तायाः वासुदेवावरिकृतेः श्रीमल बालमनोरमायाः त्रयो भागाः । इयं हि कृतिः कौमुदीजिज्ञासमानानां महत्यायुपकृतये प्रभवतीति सत्यमातिष्ठामहे अतोऽस्या मुद्रणे व्यापृतान् श्रीमतोऽपि निर्मायमुपतिष्ठामहे । यतोऽद्य विरलास्सयवसायशालिनस्सुरभारतीप्रचारसम्पाद हेवाकायत्तचित्ता विद्वांसः । तदियमितो नातिचर विप्रन्होपसनमासादयतु पूर्तिमभङ्गुरेणालोकेन लोकैकेश्वरस्य परमकरू करस्य श्रीमतो नारायणस्येति प्राध्वमाशास्महे" इति ॥ बङ्गळूनगरविराजमानचामराजेन्द्रसंस्कृतपाठशालायां व्याकरणशास्त्राद्धयापकः, निजगिल्ल करिगिर्याचा सानन्दमावेदयते- मनोज्ञपदविन्यासा वल्गुभावा मनोरमा । चित्तेभ्यो रोचतां सर्वविदुषां गुणदर्शिनाम् ।। सेयं बालमनोरमा मन्त्राद्यवालोकि । या दुर्ग्रहानप्यर्थान् विना प्रयासं सुकुमारतरपदसन्दभैरेव ग्राहयन्ती प्रक्रियाश्च तत्र त नातिसंक्षेपं विवृण्वती तत्वबोधिन्यादिप्रौढप्रवन्धानप्यतिशेत इति श्रुतिपथमुपनीततया समुत्पादितदिदृक्षापि देवनागरैरमुद्रि तया चिराय सुलभदर्शना नाभूत् । सम्प्रति सुन्दरैरक्षरैश्चारुतरपत्रेषु व्याख्यानव्याख्येययोरन्यूनानतिरेकसंविभजनेन निपु तरम्मुद्यमाणा प्रकाशकमहाभागैरल्पीयसा मूल्येन वितीर्यमाणा आवर्जयेदेव सर्वेषाम्मनांसीति दृढतरम्प्रत्येमि । आश चापूर्वप्रबन्धप्रचन्यमभिलषन्तः सर्वेऽपि गरीयसि कार्येऽस्मिन्दत्तादराणां शास्त्रिवर्याणाम् अवश्यसङ्ग्राह्यस्यैतत्पुस्तकस्य सङ्ग्रह सहकृत्वानो भवेयुः” इति ॥ Richard Schmidt, Ph. D., Bibliothek der Deutschen Morgenlandischen Gesellschaft:-"I beg to s. yon my sincerest thanks for your valuable edition of the Bâlamanorama, Part I, of which you were so kind as send to the signed Library. South Indian Pundits are now very much occupied in Sanskrit philology, which looked at in Europe with great interest. श्रीरस्तु । कल्याणं भवतु । शिवास्ते सन्तु पन्थान इति भृशमाशास्ते। तत्रभवतामनुचरः।" Honourable Mr. Justice Asutosh Mookerjee, Saraswati, M. A., D. L., F. R. A.S., F.R.S. E., etc., Yi Chancellor, Calcutta University, and Justice, High Court, Calcutta :-"I have looked through the splendid editi of the Siddhanta Kaundi with Bilamanórania, now in course of publication by Chandrasekhara Sastrigal. 1 work has been prepared with great care and attention, and is sure to be of great use to every student of the work Panini. The conmentary is remarkable for its simplicity, and may be strongly recommended to our B. A. (Honor: and 1. A. students. Thiere can he no reasonable doubt that a careful study of the work will greatly facilitate ti acquisition of a critical knowledge of Sanskrit, and I shall anxiously look forward to its completion." Mr. Harinath De, B. A. (Cantab.), M. A. (Cal.), M.R.A.S. of the Indian Educational Service, Membi of the Syndicate of the Calcutta University. Lecturer in Comparative Philology to the University of Calcutt and Librarian. Imperial Library, Calcutta :-"I have glanced through much of the Balamanorama publish: porti : Pin!:: Sastrigal. It is a very neatly and correctly printed work and likely to prove ve useful to beginners of Panini. The commentary, so far as I can judge, is simple and lucid. I beg leave Farecommend the work strongly for the patronage of the Sanskrit-loving public." Pandit Uma patidatta Sharma Pandeya, B. A M. R. A.S., and M. R. S. A. (London); Member of t Asiatic Society of Bengal, The Sahitya Sabha, The Bangiya Sahitya Parishad, The Imperial Library, 1 Barabazar Library, The Kanyakubjamandal Pusthakalaya and The Hindi Sahitya Sabha, formerly Principe Shri Vishuddhananda Saraswati Vidyalaya in Calcutta, The Nagaripracharini Sabha of Benares, I 2002??? si Sabha of Arrah: Senior Professor of Sanskrit, Meerut College, and Examiner, Calcut Provinci, etc., etc.:-. I have gone through your valuable edition of Paninian Vyakaran in the new garb Balaman rand. It will indred be of immense valu-to the students when complete, for they will find in a nut-sk all that is worth knowing in the Vyakaran collected together from Kashika, Mahabhashya, Siddhanta Kaumı and other well-known works on the subjeet. The list-ot contain sufficient hints to understand the texter? without the help of a teacher, provided the student has an elementary knowledge of Sanskrit. Some of aphorisms (Sutras) of Panini have ..cloudly clucidated. I wish this edition every success. Please send # ram-?: published. Thanking you in anticipation." .

॥ श्रीमुनित्रयमन्दिरस्थाः॥ ME+: ॥ कय्या ग्रन्थाः ।। पाणिनितन्त्रवादनक्षत्रमाला-श्रीमदप्पयदीक्षितविरचिता । अत्र कौलुम- नाजानन्तर्य-न धातुलोप-तक्रकौण्डिन्य- विप्रतिषेध- इको गुणविषयका विमर्शा अतिप्राटा अवश्यज्ञेयाश्च सन्ति- ग्रन्यसंख्या च प्रायेण ३५००. रू.१-८-०. व्याकरणक्रोडपत्रप्रथमभागः-अत्र रप्रन्याहारमण्डनमाधवाभरणादिकम् उनपदत्व इति वार्तिकार्थविचारानुपसर्जनात्सूत्रप्रत्याख्यान विचारादिकं चास्ति (पुटा: १२०)-रू. १-०-०. व्याकरणक्रोडपत्रद्वितीयभागः-अत्र अर्थवत्सूत्रस्थानिवत्सूत्रप्रातिपदि. कार्यगजमृत्रवादार्थादिकं भट्टोजिकुटनहलन्त्यमूत्रार्थविचारादिकं चास्ति (पुटा: १२०)- ६.१-०-०. शांकरी-लघुशब्देन्दुशेखरव्याख्या । रू. ०-१२-० व्याकरणग्रन्थरत्नावली-प्रतिमासं प्रचार्यमाणा संचिकेयम् । अस्या- मन्युत्तमा व्याकरणग्रन्थाः प्रकाश्यग्न् । अवतीर्णा पष्ठी संचिका । अत्र वादनक्षत्रमाला- यहच्छब्दरत्नबृहच्छेखरादिकं प्रकटितम् । रू. ०-६-६. कादम्बरीसंग्रहः-अत्युत्तमानि सग्लसरसानि कादम्बरीवाक्यान्येवोद्धृ न्य संकलितोऽयं ग्रन्थः, बहुभिः पत्रः पण्डितैश्च साधु प्रशंसितः । वारद्वयं एफ्. ए. भागे पाट्यतया नियमितश्च । रू. १- साहित्यरत्नमञ्जूषा-समयोपयोगिगद्यपद्यसंकलनात्मकः प्रबन्धः चम्यागे भागाः; प्रथमे बहुभ्यो नाटकेभ्यो वाक्यानि, द्वितीये तेभ्य एव पद्यानि, तृतीये गद्यकाव्येभ्यो वाक्यानि, चतुर्थे अनेकेभ्यः काव्येभ्यः पद्यानि चोद्धन्य योजितानि । पण्डितानां विशिष्य विद्यार्थिनां चातीवोपकारकः । एतादृशपुस्तकावश्यकता सर्वेपार्माप ममता रू. १.-०-०. गद्यत्रयम् (भगवद्रामानुजविरचितम्) रू. १-०-०. रघुवंशविमर्शः रू. १-०-०. वररुचिचरितम् रू. ०-४-... तिलकमञ्जरीसंग्रहः (प्रथमभागः) रू. ०-८-०. दु सर्वेषामपि प्रेषणव्ययः पृथक. Pandit,R.V. Krishnamasharian. रा. च. वि. कृष्णमाचार्यः, Srinuritraya Mandiram Parallarajar St., Trichinopoly, श्रीमुनित्रयमन्दिरम्, वरदराजन् स्ट्रीट् , तृश्चिनाप्पल्लि. अत्र . Sri Krishna Vilasa Press" Tanjore, उणादयः] बालमनोरमा। १०। शृस्कृतिाहित्रप्यासिवासिहनिक्किदिबन्धिमनिभ्यश्च । शृणातीति शरुः । 'शरुरायुधकोपयोः' । स्वर्वनम् । स्नेहाधिः । चन्द्र इत्यन्ये । त्रपु सीसम् । 'पुंसि भूम्न्यसव: प्राणा:' । 'वसुईदेऽग्नौ योक्त्रेऽशौ वसु तोये धने मणो'। हनुर्वक्त्रैकदेशः । क्लेदुश्चन्द्रः । बन्धुः । मनुः। चात् 'बिदि अवयवे'। बिन्दुः । ११ । स्यन्देः सम्पसारणं धश्च । 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिवि स्त्रियाम्' इत्यमरः । १२ । उन्देरिच्चादेः। उनत्ति इन्दुः । १३ । ईपेः किच्च । ईषेरुः स्यात्स च किदादेरिकारादेशश्च । ईषते हिनस्ति इषुः शरः । 'इषुर्द्वयोः' । १४ । स्कन्देः सलोपश्च । कन्दुः । १५ । सृजेरसुम् च । चात्सलोप उप्रत्ययश्च । रज्जुः । १६ । कृतेरावन्तविपर्ययश्च । ककारतकारयोविनिमयः । तद्दुः सूत्र- वेष्टनम् । १७। नावश्चेः । न्यवादित्वात्कुत्वम् । नियतमञ्चति न्यकुर्मगः । १८ । फलिपाटिनमिमनिजनां गुक्पटिनाविधतश्च । फले क् फल्गुः । यद्यपि फलिपाटीत्यादिसूत्रं यावदनुवर्तते इति न्यासग्रन्थेन मर्यादीकृत्येत्यपि प्रतीयते । तथापि अभिव्याप्येत्येवोचितम् । 'पिबतं सौम्यं मधु' इत्यादौ मधुशब्दस्यायुदात्ततादर्शनात् । 'वोतो गुणवचनात्' इति सूत्रे हरदत्तेन अभिव्याप्यति स्पष्टमभिधानाचेति भावः । त्रपु सीस- मिति ॥ तद्धि अग्निं दृष्ट्वा त्रपते लजते इव । 'त्रपु सीसकरङ्गयोः' इति मेदिनीकोशः । हनुरिति ॥ 'हनुः पुमान् परो गण्डात् ' इति वररुचिकोशः । स्त्रीलिङ्गोऽप्ययम् । 'हनुहट्ट- विलासिन्यां मृत्यावस्रगदे स्त्रियाम् । द्वयोः कपोलावयवे” इति मेदिनी । अतिशायने मतुप् । 'हनुमान् । 'अन्येषामपि दृश्यते' इति दृशिग्रहणात् पाक्षिको दीर्घः । हनूमान् । स्नेहेन बनातीति वन्धुः । प्रज्ञादित्वात् बान्धवः । मनुरादिराजो मन्त्रश्च । बिन्दुः पवर्गीयादिः । कन्दुरिति ॥ स्कन्दत्यस्मिन् जनताप इति व्युत्पत्त्या भोगस्थानमित्याहुः। अमरस्त्वाह । ‘क्लीबेऽम्बरीषं भ्राष्टो ना कन्दुर्वा स्वेदनी स्त्रियाम्' इति । कन्दुर्वा ना इति पूर्वेणान्वयाद्वा पुमानित्यर्थः । सृजेरसुम् चेति ॥ सृजतीति रज्जुः। स्त्रियां, ‘रज्जुर्वेण्यां गुणे योषित्' इति मेदिनी । आगमसकारस्य श्चुत्वेन शः, जश्वन जः । तर्कुरिति ॥ कृन्तत्यनेनेति विग्रहः । 'तर्कुटी सूत्रला त':' इति हारावलीकोशः । फलिपाटि । एकापि षष्ठी विषयभेदाद्भिद्यते। गुगागमे हि फलेरवयवषष्ठी। पठ्यादेशचतुष्टयविधौ तु पाट्यादिभ्यः स्थानषष्ठी । सा धतयोर्विधौ अन्येऽल्युपसंहियते इति 73 सिद्धान्तकौमुदीसहिता [उणादयः पाटे: पटिः । पाटयतीति पटुः । नम्यतेऽनेन नाकुर्वल्मीकम् । मन्यत इति मधु । जायत इति जतु । १९ । वलेचुक्च । 'वल संवरणे' । वल्गुः । २० । शः कित्सन्वच्च । श्यतेरुः स्यात्स च कित्सन्वच्च । शिशुर्बालः । २१ । यो द्वे च । ययुरश्वोऽश्वमेधीयः । सन्वदिति प्रकृते द्वेग्रहणमित्व- निवृत्त्यर्थम् । २२ । कुर्धश्च । बभ्रुः । 'बभ्रुर्मुन्यन्तरे विष्णौ बभ्रू नकुलपिङ्गलौ।' चादन्यतोऽपि । चक्रुः कर्ता । जघ्नुर्हन्ता । पपु: पालकः । २३ । पृभिदिव्याधिगृधिधृषिभ्यः । कुः स्यात् । पुरुः । भिनत्ति भिदुर्व- नम् । 'ग्रहिन्या-' (सू २४१२) इति सम्प्रसारणम् । विरहिणं विध्यति विधुः । 'विधुः शशाङ्के कर्पूरे हृषीकेशे च राक्षसे' । गृधुः कामः । धृषुर्दक्षः । २४ । कृग्रोरुच्च । करोतीति कुरुः । गृणातीति गुरुः । २५ । अपदुःसुषु स्थः । 'सुषामादिपु च' (सू १०२२) इति षत्वम् । अपष्टु । प्रतिकूलम् । दुष्ठु । सुष्टु । २६ । रपरिचोपधायाः। अनिष्टं रपतीति रिपुः । २७ । अजिशिकम्यमिपशिवाधामृजिपशितुग्धुग्दीर्घहकारश्च । अर्जयति गुणानृजुः । सर्वानविशेषेण पश्यतीति पशुः । कन्तुः कन्दर्पः । अन्धुः कूपः । विवेकः : । अनागमकानां मागमका आदेशा इति पक्षे तु स्थानषष्ठ्येवेति बोध्यम् । ‘फल्वसारे- ऽभिधेयवन । नदभिद मलवां स्वी' इति मेदिनी। वल संवरणे इति ॥ दन्त्योष्ठ्यादिः । यत्तज्वलदनेन मूत्र पवर्गीयादि पठित्वा, बल प्राणने' इत्युपन्यस्तम् । तल्लक्ष्यविरोधादुपेक्ष्यम् । 'अयं नाभा वदति वल्गवो गृहे ' इत्यादौ दन्त्योष्ठ्यपाटस्य निर्विवादत्वात् । धरणिकोशस्थमाह । वश्रुरिति ॥ ‘बर्धवैश्वानर मूलपाणी च गरुडध्वजे । विशाले नकुले पुंसि पिङ्गले त्वभिधेयवत् ॥' इति मेदिनीकोशः । अन्यतोऽपीति ॥ 'भ्रः कुश्च' इति वक्तव्ये प्राक् प्रत्ययनिर्देशादित्याहुः । भ्रश्चति प्रकृतिसंमृष्टन चकारेण प्रकृत्यन्तरसमुच्चयाचेति बोध्यम् । पृभिदिव्यधिगृधि । 'पुरुः प्राज्ये अभिधयवत् । पुंसि स्याद्देवलोके च नृत्यभेदपरागयोः' इति मेदिनी । सुषामेत्यादि ॥ एतच्च न्यासाद्यनुरोधेनोक्तम् । वार्तिककृता तु, स्थास्थिन्स्थूनामुप- सङ्ख्यातम् । ‘अपनुः पुंसि बाले च वामे स्यादन्यलिङ्गके' इति मेदिनी। अर्जिशि ॥ 'अर्ज अर्जने' । अस्य ऋजिरादेशः । दृशेः पशिः। कमेस्तुगागमः। 'अम रोगगत्यादिषु ।' अस्य धुगागमः । 'पशि नाशने'। सौत्रो धातुः । अस्य दीर्घः । 'बाई लोडने' हादेशः । षड्भ्योऽपि कुप्रत्ययः स्यादित्यर्थः । अविशेषेणेति ॥ चादिगणे तु पश्विति पठितम् । ‘पशु दृश्यर्थमव्ययम्' इति धरणिः । कन्तुः कन्दर्प इति ॥ 'कन्तुर्मकराकः' उणादयः]] बालमनोरमा । ५७९ 'पांसुर्ना न द्वयो रजः' । 'तालव्या अपि दन्त्याश्च सम्बसूकरपांसवः' । बाधत इति बाहुः । 'बाहुः स्त्रीपुंसयोर्भुजः' । २८ । प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च । बयाणां कु: सम्प्र- सारणं भ्रस्जे: सलोपश्च । पृथुः । मृदुः । न्यङ्कादित्वात्कृत्वम् । भृजति तपसा भृगुः । २९ । लबिंद्योनलोपश्च । लघुः । 'बालमूललध्वलमङ्गुलीनां वा लो रत्वमापद्यते' (वा ४७९८) । रघुर्नृपभेदः । बहुः । ३० । ऊर्णोतेर्नुलोपश्च । ऊरु सक्थि । ३१ । महति हस्वश्च । उरु महत । ३२ । श्लिषेः कश्च । श्लिष्यतीति निकुम॒त्यः । उद्यतो ज्योतिश्च । ३३ । आङ्परयोः खनिशृभ्यां डिच्च । आ खनतीत्याग्वुः । परं शृणातीति परशुः । पृषोदरादित्वादकारलोपात्पर्युरपि । ३४ । हरिमितयो?वः । 'दु गतौ' अस्मात् हरिमितयोरुपपदयोः कु: स च डिन् । हरिभिर्दूयते हरिदुर्वृक्षः । मितं द्रवति मितPः समुद्रः । ३५ । शते च । शतधा द्रवति शतद्रुः । बाहुलकात्केवलादपि । द्रव- त्यूर्ध्वमिति दुर्वृक्षः शाखा च । तद्वान्द्रुमः । इति त्रिकाण्डशेषः । पांसुरिति ॥ ‘पडि पसि नाशने ।' चुरादिन्यान्तः । स्त्रीपुंसयो- रिति॥ उक्तं ह्यमरेण । 'द्वौ परौ द्वयोर्भुजबाहू' इति। परी द्वौ भुजबाहुशब्दो द्वयोः स्त्रीपुंसयोरिति तदर्थः । अकारान्तोऽप्ययम् । अत एव 'बाह्रोश्च भुजयोः पुमान् ' इति दामोदरः । 'बाहा भुजेऽपुमान्मानभेदाश्ववृषवायुषु' इति मंदिन्याम् । टावन्तोऽप्ययम् । प्रथिम्रदि ॥ प्रथने इति पृथुः । 'पृथुः स्यान्महति त्रिपु । त्वक्पत्र्याकृष्णजीरेऽथ पुमाननौ नृपान्तरे ' इति मंदिनी । म्रदितुं शक्यते अकठिनत्वादिति मृदुः कामलः । भृगुः पुमान् मुनी हर तटे शुके' इति मेदिनी । 'भृगुः शुक्रे प्रपाते च जमदग्नौ पिनाकिनि' इति कोशान्तरम् । लघुरिति ॥ 'पृक्कायां स्त्री लघुः क्लीबं शीघ्र कृष्णागुरुण्यपि' इति त्रिकाण्डशेषः। 'लघुरगुरौ च मनोज्ञे निःमार वाच्यवत् क्लीबम् । शीघे कृष्णागुरुणि च पृक्कानामौषधौ तु स्त्री' इति मेदिनी। नृपभेद इति ॥ एतेन 'अवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसम्भवम्' इति व्याख्यातम् । बहुरिति ॥ बहुस्तु त्यादिसङ्ख्यासु विपुले त्वभिधेयवत् ' इति मेदिनी । ऊरुजङ्केति उज्ज्वलदत्तः । तत्र । तयोर्भेदात् । ऊणूयते आच्छाद्यते इत्यूरुः । कर्मणि प्रत्ययः । उरु महदिति ॥ कर्तरि प्रत्ययः । उद्यत इति ॥ स हि यावत्कार्य श्लिष्यति लगति व्याप्रियते इति यावत् । पशुरपीति ॥ 'पशुः परशुना सह' इति विश्वः । हरिदुर्वृक्ष इति ॥ दारुहरिद्रा इत्येके । तद्वानिति ॥ . - ' ५८० सिद्धान्तकौमुदीसहिता [उणादयः ३६ । खरु शकुपीर नीलंगुलिगु । पञ्चैते कुप्रत्ययान्ता निपात्यन्ते । खनते रेफश्चान्तादेशः । खरुः कामः क्रूरो मूल्ऽश्वश्च । 'शङ्कुर्ना कील- शल्ययोः' । 'पिबतेरीत्त्वं युगागमश्च' । पीयुर्वायसः कालः सुवर्णश्च । निपूर्वाल्लगि गतावस्मात्कुर्नेर्दीर्घश्च । नीलगुः कृमिविशेष: शृगालश्च । 'नीलाङ्गुः' इति पाठान्तरम् । तत्र धातोरपि दीर्घः । 'लग सङ्गे' अस्य अत इत्वश्च । लगतीति लिगु चित्तम् । लिगुर्मूर्खः । ३७ । मृगय्वादयश्च । एते कुप्रत्ययान्ता निपात्यन्ते । मृगं यातीति मृगयु- याधः । देवयुर्धार्मिकः । मित्रयुर्लोकयात्राभिज्ञः । आकृतिगणोऽयम् । ३८ । मन्दिवाशिमथिचतिचयङ्किभ्य उरच् । मन्दुरा वाजिशाला । वाशुरा रात्रिः। मथुरा। चतुरः । चङ्कुरो रथः । अङ्कुरः । खजूरादित्वादकैरोऽपि। ३९ । व्यथेः सम्पसारणं किच्च । 'विथुरश्चोररक्षसोः' । 'शुद्रुभ्यां मः' । खरुशब्दस्य कृरो मूर्ख इत्यर्थः । द्वयं दशपादीवृत्त्यनुसारेणोक्तम् । खरुः पतिंवरा कन्येत्यपि बोध्यम् । 'खरुदन्ते हरे दर्प हये श्वेते तु वाच्यवत्' इति विश्वत्रिकाण्डशेषौ । शंकुरिति ॥ ‘शकि शङ्कायाम्' । शङ्कतेऽस्मादिति, 'शङ्खः कीले गरे शख्ने सङ्ख्यापादप- भेदयोः । यादोभेदे च पाप च स्थाणावपि च दृश्यते' इति विश्वः । पीयुरिति ॥ 'पीयुः काले रवी घूके' इति मेदिनी । कृमिविशेष इति । 'नीलङ्गुः कृमिजातौ स्यात् भम्भराली- प्रसूनयोः' इति विश्वः । पाठान्तरमिति ॥ 'नीलङ्गुरपि नीलामुः' इति विश्वः । धातो- रपीति ॥ केचित्तु नीलशब्दे उपपदे गमेष्टिलोपः उपपदस्य मुम् दीर्घश्च पाक्षिको निपात्यते इत्याहुः । ‘लिगु घिते नपुंसकम्' इति वररुचिः । मृगय्चादयश्च ॥ ‘मृगयुः पुंसि गोमायो व्याधे च परमेष्ठिनि' इति मेदिनी । 'मृगयुर्ब्रह्मणि ख्यातो गोमायुव्याधयोरपि । देववुर्धार्मिके ख्यातो देवयुलॊकयात्रिके' इति विश्वः । आकृतिगण इति ॥ तेन, ‘पील प्रतिष्टम्भे' अस्मात्कुः । ‘पीलुर्गजे द्रुमे काण्डे परमाणुप्रसूनयोः' इति विश्वः । भट्टास्तु पीलुशब्दस्य वृक्ष आर्यप्रसिद्धिः गजे तु म्लेच्छप्रसिद्धिरित्याश्रित्य व्यवजहुः । कडि मदे । कण्डुरित्यादि बोध्यम् । वाशुरा रात्रिरिति ॥ वाश्यन्ते अस्यामिति विग्रहः। वासुरो गर्दभ क्त्यन्ये । 'वाशुरा वासिताराव्योः' इति मंदिनी । 'चङ्कुरः स्यन्दने वृक्षे' इति मेदिनी। 'अङ्कुरो रुधिर लोन्नि पानीयेऽभिनवोद्भिदि' इति च । खजूरेति ॥ ‘अकराङ्कुर एव च' इति विश्वप्रकाशः । व्यथेः ॥ 'व्यथ भयसञ्चलनयोः' । अस्मादुरच कित् स्याद्धातोः सम्प्र. सारणञ्च । दशपाद्यां तु धः किच्चति पठित्वा धकारमन्तादेशं विधाय विधुरोऽनग्निकः इत्युदा- हृतम् । माधवेनापि तदेवानुसृतम् । न त्वेतद्युक्तम् । 'त्वमेषां विथुरा शवांसि । अतिविद्धा विथुरेणाचिदना' इत्यादिमन्त्रषु थकारपाठस्य निर्विवादत्वात् । यदपि माधवेनोक्तं विदिभिदि इत्यत्र व्यथेः सम्प्रसारणञ्चेति वचनात् कुरचि थान्तं रूपमिति । तदतिस्थवीयः। कुरविधायके -- उणादयः] बालमनोरमा। ५८१ ४० । मुकुरददुरौ । मुकुरो दर्पण: । बाहुलकान्मकुरोऽपि । 'दृ विदारणे' धातोद्विवचनमभ्यासस्य रुक्टिलोपश्च । 'दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रि- भेदयोः' । 'दर्दुरा चण्डिकायां स्याद्गामजाले च द१रम्' इति विश्वः । ४१ । मद्गुरादयश्च । उरजन्ता निपात्यन्ते । माद्यतेमुक् । मद्गुरो मत्स्य- भेदः । 'कबृ वर्णे' । रुगागमः । ‘कर्बुरं श्वेतरक्षसो:' । बनाते: खजूरा- दित्वादूरोऽपि । 'बन्धूरबन्धुरौ स्यातां नम्रसुन्दरयोस्त्रिषु' इति रन्तिदेवः । 'कोकतेर्वा कुक् (च)' (गण १९५) कुकुरः-कुकुरः । ४२ । असेरुरन् । असुरः । प्रज्ञाद्यण् । आसुरः । ४३ । मसेश्च । पञ्चमे पादे ‘मसेरूरन्' इति वक्ष्यते । ‘मसूरा मसुरा व्रीहिप्रभेदे पण्ययोषिति' । 'मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः' । मसूरी पापरोगे स्यादुपधाने पुनः पुमान्' । 'मसूरमसुरौ च द्वौ' इति विश्वः । ४४ । शावशेराप्तौ । शु इत्याश्वर्थे । श्वशुरः । ‘पतिपत्नयोः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः' इत्यमरः । ४५ । अविमह्योष्टिषच । अविष: । महिषः । ४६ । अमेर्दीर्वश्च । 'आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि' । ४७ । रुहेर्दृद्धिश्च । ‘रङ्कुशम्बररौहिषा:' । रौहिषो मृगभेदे स्याद्रौहिषञ्च तृणं मतम्' इति संसारावर्तः । सूत्रे व्ययेरुपसङ्खथानस्थाप्रसिद्धत्वात् । तस्मादिह धः किच्चेति दशपादीपाठं पुरस्कुर्वन्तः प्रसादकारादयोऽप्युपेक्ष्याः। कथं तर्हि विधुर इति प्रयोगस्य निर्वाह इति चेत् । धुरो विगत इति प्रादिसमासेनेत्यवधेहि । 'समासान्ताः' इति सूत्रे वृत्तिपदमजोस्तथैवोक्तत्वात् । मुकुर इति ॥ ‘मकि मण्डने' । अस्मादुरच् नलोपश्च । बाहुळकादिति ॥ धातोरुपधायाः पक्षे उकार इति भावः। 'मुकुरो मकुरोऽपि च' इति विश्वः । 'मुकुरः स्यान्मकुरवत् दर्पणे वकुळद्रुमे। कुलालदण्डे' इति मेदिनी च । धातोरिति ॥ केचित्तु गुणो दुगागमश्च निपात्यते इत्याहुः । कर्बुरमिति ॥ ‘कर्बुरं सलिले हेनि कर्बुरः पापरक्षसोः । कर्बुरा कृष्णबृन्तायां शबले पुनरन्यवत्' इति मेदिनी । अविष इति ॥ राजा समुद्रश्च । माहेषो महान् । 'तुरीयन्धाम महिषो विवक्ति । उत माता महिषमन्ववेनत् ।' टित्त्वात् ङपि । महिषी राजपन्नी । रुहेः ॥ 'रौहिषो मृगभेदे स्याद्रौहिषञ्च तृणं मतम्' इति संसारावर्तः ।

५८२ सिद्धान्तकौमुदीसहिता [उणादयः । . ४८ । तवेर्णिद्वा । 'तव' इति सौत्रो धातुः । 'तविषताविषावधौ स्वर्ग च'। स्त्रियां तविषी-ताविषी नदी देवकन्या भूमिश्च । 'तविषी बलम्' इति वेदभाष्यम् । ४९ । नजि व्यथेः । 'अव्यथिषोऽब्धिसूर्ययोः' । अव्यथिषी धराराज्योः । ५० । किलेचुक्च । किल्बिषम् । ५१ । इपिमदिमुदिखिदिछिदिभिदिमन्दिचन्दितिमिमिहिमुहिमुचिरुचि- रुधिवन्धिशुषिभ्यः किरच् । इषिरोऽग्निः । मदिरा सुरा । 'मुदिर: कामुका- भ्रयोः' इति विश्वमेदिन्यौ । खिदिरश्चन्द्रः । 'छिदिरोऽसिकुठारयोः' । भिदिरं वज्रम् । मन्दिरं गृहम् । स्त्रियामपि । 'मन्दिरं मन्दिरापि स्यात्' इति विश्वः। चन्दिरौ चन्द्रहस्तिनौ' । तिमिरं तमोऽक्षिरोगश्च । मिहिरः सूर्यः । 'मुहिरः काम्यसभ्ययो:' । मुचिरो दाता । रुचिरम् । रुधिरम् । बधिरः । 'शुष शोषणे' शुषिरं छिद्रम् । शुष्कमित्यन्ये । ५२ । अशेर्णित् । आशिरो वह्निरक्षसोः । ५३ । अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः। अजेर्वीभावा- भाव: । अजिरमङ्गणम् । शशेरुपधाया इत्वम् । 'शिशिरं स्याहतो दे तुषारे शीतलेऽन्यवन्' । श्रथ मोचने' उपधाया इत्वं रेफलोपः । प्रत्ययरेफस्य लत्वम् । शिथिलम् । स्थास्फाय्योष्टिलोप: । स्थिरं निश्चलम् । स्फिरं प्रभूतम् । वेदभाष्यमिति ॥ ‘इन्द्रो मित्रस्य तविषीम् । इन्द्रस्यात्र तविषीभ्यः' इत्यादिमन्त्रेष्विति भावः । वैदिकनिघण्टौ, 'आजः पाज.' इत्यादिषु बलनामसु तविषीशब्दस्य पाठश्चेह मूलमिति बोध्यम् । 'तविषः शोभनाकार भेळेऽब्धिव्यवसाययोः। तविषी देवकन्यायां पुंसि स्वर्गे महोदधौ ॥ तविषी चेन्द्रकन्यायां ना स्वर्गाम्बुधिकाञ्चने' इति मेदिनी। किलेव॑क् च ॥ ‘किल श्वैत्यकीडनयोः' । 'किल्बिषं पापरोगयोः । अपराधेऽपि' इति मेदिनी । इषिरोऽग्निरिति ॥ आहार इत्यन्ये । 'छिदिरः पावके रजौ करवाले परश्वधे। मन्दिरं नगरेऽगारे क्लीबं ना मकरालये। चन्दिरोऽनेकपे चन्द्रे । तिमिरन्ध्वान्तनेत्रामयान्तरे । मिहिरः सूर्यबुधयोः । मुहिरः काममूर्खयोः । रुधिरोऽङ्गारके पुंसि क्लीबन्तु कुङ्कुमामृजोः । शुषिरं वंश्यादिवाये विवरे च नपुंसकम् । मूषिके न स्त्रियां नील्योषधौ रन्ध्रान्विते त्रिषु । आशिरो वीतिहोत्रे स्यात् राक्षसे भास्करे पुमान्' इति मेदिनी । अजिरमङ्गणमिति ॥ अङ्गेयुटि अनादेशस्य बाहुलकाण्णत्वमित्येके । अन्ये तु विश्वकोशा- धुपष्टम्भन दन्त्यमेवेच्छन्ति । इह दशपादीवृत्तौ नपूर्वस्य जीर्यतेः ऋवर्णलोपो निपात्यते इत्युक्तन्तदपि ग्राह्यम् । 'आशुन्दूतमजिरं प्रत्नमीज्यम्' इत्यादौ न जीर्यतीत्यजिरः इत्यर्थस्यानु- गुणत्वात् । 'अजिरं प्राङ्गणे कार्यविषये दर्दुरेऽनिले। शिशिरो ना हिमे न स्त्री त्वृतुभेदे जडे उणादयः] बालमनोरमा । ५८३ । तिष्ठतेवुक्लस्वत्वञ्च । स्थविरः । खदिरः। बाहुलकाच्छीको बुक्ह्रस्वत्वञ्च । शिविरम् । ५४ । सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच् । सलति गच्छति निम्नमिति सलिलम् । कलिल: । अनिल: । महिळा । पृषो- दरादित्वान्महेळापि । भड इति सौत्रो धातुः । 'भडिलौ शूरसेवको' । भण्डिलो दूत: कल्याणञ्च । शण्डिलो मुनिः । पिण्डिलो गणकः । तुण्डिलो मुखरः । कोकिलः । भविलो भव्यः । बाहुळकात्कुटिलः । ५५ । कमेः पश्च । कपिलः । ५६ । गुपादिभ्यः कित् । गुपिलो राजा । तिजिलो निशाकरः । गुहिलं वनम । ५७। मिथिलादयश्च । मध्यन्तेऽत्र रिपवो मिथिला नगरी। पथिल:-पथिकः। ५८ । पतिकठिकुठिगडिगुडिदंशिभ्य एरक् । पतेर: पक्षी गन्ता च । कठेर: कृच्छ्रजीवी । कुठेर: पर्णाश: । बाहुळकान्नुम्न । गडेरो मेघ: । गुडेरो गुडकः । दंशेरो हिंस्रः । ५९ । कुम्बेर्नलोपश्च । कुबेरः । ६० । शदेस्त च । शतेर: शत्रुः । ६१ । मूलरादयः। एरगन्ता निपात्यन्ते। मूलेरो जटा । गुधेरो गोप्ता । गुहेरो लोहघातकः । मुहेरो मूर्खः । ६२ । कबेरोतः पश्च । कपोत: पक्षी । त्रिघु-। खदिरः शाकभेद स्यात् ना चन्द्रे दन्तधावने' इति मेदिनी । शिबिरमिति ॥ शरतेऽस्मिन् राजानः । 'निवेशः शिबिरं षण्डम्' इत्यमरः । सलिकलि ॥ कलिल इति ॥ मिश्री गहनश्च । महिळेति ॥ ‘महिळा फलिनीस्त्रियोः' इति मेदिनी । पृषोदरेति ॥ तथाच दमयन्तीकाव्ये, 'परमहेलारतोऽप्यपारदारिकः' इति । परस्य महेला स्त्री । अथ च परमा उत्कृष्टा हेला क्रीडा तत्र रत इत्यर्थः । कपिल इति ॥ 'कपिला रेणुकायाञ्च शिंशपागोविशे- षयोः । पुण्डरीकः करिण्यां स्त्री वर्णभेदे त्रिलिङ्गकम् । नानले वासुदेवे च कुक्कुरे' इति मेदिनी। रेणुकंद लताविशेषः। 'हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी' इत्यमरात् । मिथिलादयश्च ॥ मथे विलोडने । अकारस्यत्वं निपातनात् । कुठेर इति ॥ कठ कृच्छ्रजीवने । कुठि च। द्वितीयस्य इदित्त्वान्नुमि प्राप्ते आह । बाहुलकादिति ॥ कबेरोतः॥ गुपादिसूनादारभ्य एतदन्तानि सप्त सूत्राणि केषाञ्चिदसम्मतानि । कपोत ५८४ सिद्धान्तकौमुदीसहिता [उणादयः - । कटुः । पटोलः । ६३ । भातेर्डवतुः। भातीति भवान् । ६४ । कठिचकिभ्यामोरन् । कठोरः । चकोरः । ६५ । किशोरादयश्च । किंपूर्वस्य शृणाष्टिलोपः । किमोऽन्त्यलोप: किशोरोऽश्वशाबः । सहोरः साधुः । ६६ । कपिगडिग ण्डकटिपटिभ्य ओलच् । कपीति निर्देशान्नलोपः । कपोल: गडोलगण्डोलौ गुडकपर्यायौ । कटोल: ६७ । मीनातेरू. । मयूरः । ६८ । स्यन्देः सम्पसारणश्च । सिन्दूरम् । ६९ । सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन् । सिनोतीति सेतुः । तितुत्र-' (३१६३) इति नेट् । तन्तुः । गन्तुः । मस्तु दधिमण्डम् । सच्यत इति सक्तुः । अर्धर्चादिः । 'ज्वर त्वर-' (सू २६५४) इत्यूठ । तत्र क्तिी- त्यनुवर्तत इति मते तु बाहुलकात् । ओतुर्बिडालः । धातुः । क्रोष्टा । ७० । पः किच्च । पिवतीति 'पितुर्वह्नौ दिवाकरे'। ७१ । अर्तेश्च तुः। अर्तेस्तु: स्यात्स च कित् 'ऋतुः स्त्रीपुष्पकालयोः' । इति ॥ 'कपीनः स्यचित्रकण्ठे पागवतविहङ्गयोः' इति मंदिनी । 'कपोतः पक्षिमात्रेऽपि' इति त्रिकाण्डशेषः । अत्रातचश्चित्त्व प्रामादिकम् । 'यत्कपोतः पदममा कृणोति । देवाः कपोत इषित। यदिच्छन्' इत्यादी सर्वत्र प्रत्ययस्वरण मद्ध्योदात्तस्यैव पठ्यमानत्वात् । कठोर इति ॥ कठिनः पूर्णश्च । 'कठोरताराधिपलाञ्छनच्छविः' इति माघः। किशोर इति ॥ 'किशोरोऽश्वस्य शाबके । तैलपण्यौषधी च स्यात्तरुणावस्थसूर्ययोः' इति मेदिनी । कपोल इति ॥ कटे वर्षावरणयोः । केचित्तु सूत्रे कडि मद इत्येतं पठन्ति । कण्डोल: पिटकः, चण्डालश्च । 'चण्डालिका तु कण्डोलवीणाचण्डालवल्लकी' इत्यमरः। पटोल इति ॥ ‘पटोलं वस्त्रभेदे नौषधौ ज्योत्स्न्यान्तु योषिति' इति मेदिनी । 'कल्ल शब्दे ।' बाहुळकादतोऽप्योलच् । 'कल्लोलः पुंसि हर्षे स्यान्महत्सू- मिषु वारिणः' इति मेदिनी । स्यन्देः॥ 'सिन्दूरस्तरुभेदे स्यात् सिन्दूरं रक्तचूर्णके । सिन्दूरी रोचनारक्तवल्लिकाधातकीषु च' इति मेदिनीविश्वप्रकाशौ । सितनि ॥ ‘सेतु लौ कुमारके' इति मेदिनी । 'सेतुरालौ स्त्रियां पुमान्' इति, 'मण्डन्दधिभवं मस्तु' इति चामरः । धातुर्नेन्द्रियेषु च । शब्दयोनिमहाभूततद्गुणेषु रसादिषु । मनःशिलादौ श्लेष्मादौ विशेषाद्दै- रिकेऽस्थि च' इति मेदिनी। 'श्लेष्मादिरसरक्तादिमहाभूतानि तद्गुणाः । इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः' इत्यमरः । अर्तेश्च तुः॥ तुनि प्रकृते अन्तोदात्तत्वार्थन्तुः क्रियते। 'ऋतुना यज्ञम् । य ऋतुर्जनानाम् ' इत्यादि । 'ऋतुर्वर्षादिषट्सु च। आर्तवे मासि च पुमान्' इति .

उणादयः]] बालमनोरमा । ५८५ ७२ । कमिमनिजनिगाभायाहिभ्यश्च । एभ्यस्तुः स्यात् । 'कन्तुः कन्दर्प- चित्तयोः' । मन्तुरपराधः । जन्तु: प्राणी । 'गातुः पुंस्कोकिले भृङ्गे गन्धर्वे गायनेऽपि च' । भातुरादित्यः । 'यातुरध्वगकालयोः' । रक्षसि क्लीबम् । हेतुः कारणम् । ७३ । चायः किः। 'केतुर्ग्रहपताकयोः'। ७४ । आमोतेर्हस्वश्च । अप्तुः शरीरम् । ७५ । वसेस्तुन् । वस्तु । ७६ । अगारे णिच'। 'वेश्मभूर्वास्तुरस्त्रियाम्' । ७७ । कृत्रः क्रतुः । ऋतुर्यज्ञ: । ७८ । एधिवयोश्चतुः । एधतुः पुरुषः । वहतुरनड्डान् । ७९ । जीवेरातुः। ‘जीवातुरस्त्रियां भक्ते जीविते जीवनौषधे'। ८० । आतृकन्वृद्धिश्च । जीवेरियेव । 'जैवातृकस्त्विन्दुभिषगायुष्मत्सु कृषीवले'। ८१ । कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः। 'कर्पू: पुंसि करीषाग्नौ कर्पूनद्यां स्त्रियां मता' । चमूः । तनू: । धनू: शस्त्रम् । सर्ज सर्जने' । सर्जू. र्वणिक् । 'खर्ज व्यथने' । खजूं: पामा । ८२ । मृजेर्गुणश्च । मजुः शुद्धिकृन् । ८३ । वहो धश्च । 'वधूर्जायास्नुषास्त्रीषु' । मेदिनी। कमि। कमिग्रहणं प्रपञ्चार्थम् । 'अर्जिशि' इत्यादिना कुप्रत्यये तुकि सिद्धत्वात् । मन्तु. रिति ॥ 'मन्तुः पुंस्यपराधेऽपि मनुष्येऽपि प्रजापती' इति मेदिनी। 'दीर्घ ह्यङ्कुशम्' इति मन्त्रस्य वेदभाध्ये तु मन्तुम इति मन्तुनिन्तद्वान् हे इन्द्रेति व्याख्यातम् । 'गातुर्ना कोकिले भृङ्गे गन्धर्वे त्रिषु रोषण' इति मेदिनी । 'भातुनी किरणे सूर्ये' इति च । चायः किः॥ केतुनी रुक्पताकारिग्रहोत्पातेपु लक्ष्मणि' इति मेदिनी। अप्तुः शरीरमिति ॥ अभिलषितार्थश्च, आप्तव्यत्वात् । अत एव अप्तोर्यामशब्दस्याभिलषितार्थप्रापक इत्यवयवार्थमाहुः । कृनः क्रतुः ॥ ऋतुर्यज्ञे मुनौ पुंसि' इति मेदिनी । एधिवह्योश्चतुः॥ चित्त्वादन्तोदात्तः। ‘स्योनं पत्ये वहां कृणुष्व' । 'वहतुः पथिके वृषभे पुमान्' इति मेदिनी । आतृकन् । 'जैवानृकः पुमान् सामे कृषका- युध्मतोत्रिषु' इति मेदिनी। कृषि ॥ रभसकोशस्थमाह । करिति ॥ 'कर्षुः पुमान् करीषानो स्त्रियां कुल्याल्पखातयोः' इति मेदिनी । 'सर्वणिजि विद्युति । स्त्रियां स्वर्गे विधौ रुद्रे' इति, 'खर्जू: कीटान्तरे स्मृता। खजूरी पादपे कण्ड्डाम्' इति च । मृजेः॥ 'मर्जुः स्त्री शुद्धौ धावकेऽपि च' इति मेदिनी । वहः॥ 'वधूः स्नुषा नवोढास्त्री भार्याप्रकाङ्गनासु च' इति विश्वः। 'पृक्का च महिला .. । । 74 ५८६ सिद्धान्तकौमुदीसहिता [उणादयः ८४ । कषेश्छश्च । कच्छूः पामा । ८५ । णित्कसिपद्यर्तेः । कासूः शक्तिः । पादूश्चरणधारिणी । आरू: पिङ्गलः । ८६ । अणो डश्च । आडूर्जलप्लवद्रव्यम् । ८७ । नबि लम्बेर्नलोपश्च । 'तुम्ब्यलाबूरुभे समे' इत्यमरः । ८८ । के श्र एरङ् चास्य । कशब्दे उपपदे शृणातेरू: स्यात् एरङादेशः । 'कशेरूस्तृणकन्दे स्त्री' बाहुलकादुप्रत्यये कशेरुः । क्लीबे पुंसि च । ८९ । त्रो दुद् च । तरतेरू: स्यात्तस्य दुट् । 'तर्दूः स्याहारुहस्तकः । ९० । दरिद्रातर्यालोपश्च । इश्च आश्च यौ तयोर्लोपः । दर्दूः कुष्ठप्रभेदः । ९१ । नृतिशृध्योः कूः। नृतूर्नर्तकः । शृधूरपानम् । ९२ । ऋतेरम् च । ऋति: सौत्रो धातुः । तत: कूरमागमश्च । रन्तुर्देवनदी सत्यवाक्च । ९३ । अन्दुदृम्भूजम्बूकफेलूकर्कन्धूदिधिषः । एते कूप्रत्ययान्ता निपात्य- न्ते । अन्दूर्बन्धनम् । 'दृभी ग्रन्थे' निपातनान्नुम् । दृम्भूः । अनुस्वाराभावो- ऽपि निपातनादित्येके । इन्भूः । जनेर्बुक् । जम्बूः । 'जमु अदने' इत्यस्येत्येके । वधूः' इति त्रिकाण्डशेषः । कषेः ॥ कषशषेति दण्डके पठिनः। ‘कान्तु, पामपामे विचचिका' इत्यमरः । णित्कसि ॥ कस गती । 'कामूर्विकलवाचि स्यात् तथा शन्यायुधे स्त्रियाम्' इति मेदिनी । 'कामूः शक्त्यायुधे मजि । बुद्धा विकलवाचि स्यात्' इति हेमचन्द्रः । न लम्बते अलावृ: । त्रो दुद च ॥ तर्दृरिति ॥ 'नेशि' इनि नेट् । वरमनादाविति परिगणनस्याना- धिनत्वात् बाहुलकाद्वा । केचित्तु तो दुक चति पठित्वा धातोर्चुगागममाहुः । तेषान्धातोर्गुणो दुर्लभः । चकारबलन वा माधनीयः, दुगागमात्पूर्वं यत्प्राप्तन्तदपि भवतीति व्याख्यानात् । दरिद्रातेः ॥ इश्च आश्चेति ॥ भोजदेवस्तु यालोप इति रेफादिकं पदं छित्वा द्वेधा व्याग्दयत् । इश्च आश्च । दः । रश्च इश्व आश्च । 'अन्त्य वाधेऽन्त्यसदेशस्य इति द्वितीयरेफलोपः । दर्दः । मृगवादित्वाइईम्वान्तश्च । 'दगुणो दट्ठरोगी स्यात्' इत्यमरः । इत्थञ्चत्वारि रूपाणि । अन्दृदृम्भू ॥ अन्दूर्वन्धनमिति ॥ ‘अदि बन्धने'। 'अन्दूः स्त्रियां स्यानिगडे प्रभेदे भूपणस्य च' इति मेदिनी । 'अन्दुको हस्तिनिगडे' इत्यमरः। 'संज्ञायाङ्कन्' । 'केऽणः' इति हस्वः । केचित्तु 'अम गती' अस्य दुक् अन्दूर्बुद्धिरिति व्याचख्युः। दृभी ग्रन्थे इति तुदादिः । इम्भूरिति ॥ सन्दर्भकतत्यर्थः । कथकः इत्यन्ये । अस्य रूपाणि हूहूवदित्युक्तम् । कैयटो. ऽप्यत्रानुकूलः। माधवादयस्तु दृढशब्दे उपपदे भुवः विष्प्रत्ययः, उपपदस्य दृन्नादेशो निपात्यते। यद्वा दृन्निति नान्तमव्ययं दृढार्थकमुपपदं, इन्भूः, तरुः सर्पः कपिति व्याख्याय 'इन्कर' इति य उणादयः] बालमनोरमा । बाहुलकास्वोऽपि । जम्बुः । कर्फ लाति कफेल: श्लेष्मातकः । निपातना- देत्वम् । कर्क दधाति कर्कन्धूर्बदरी । निपातनान्नुम् । दिधिं धैर्य स्यति त्यजतीति दिधिपूः पुनर्भूः । केचित्तु 'अन्दूहृम्भूजम्बूकम्बू' इति पठन्ति । 'हम्फ उत्क्लेशे' दृम्फूः सर्पजातिः । 'कमेर्बुक' । कम्बू: परद्रव्यापहारी । ९४ । मृग्रोरुतिः । मरुन् । गरुत्पक्षः । ९५ । यो मुद् च । गिरतेरुतिस्तस्य च मुट् । गर्मुत्सुवर्ण तृणविशेषश्च । ९६ । हृपेरुलच् । 'हर्षुलो मृगकामिनो:' । बाहुलकाञ्चटतेः । चटुलं शोभनम् । ९७ । हृमृरुहियुषिभ्य इतिः। 'हरित्ककुभि वर्णे च तृणवाजिविशेषयोः'। सरिनदी । ‘रोहिन्' मृगविशेषस्य स्त्री । 'युष' इति सौत्रो धातुः । 'ऋश्यस्य रोहित पुरुषस्य योषिन्' इति भाष्यम् । ९८ । ताडेर्णिलुक् च । ताडयतीति तडित् । ९९ । शमः । बाहुलकादित्संज्ञा एयादेश: इट् च न । 'शण्ढ: स्यात्पुंसि गोपतौ' । शण्ढः । क्लीबः । वर्षाभूवद्रूपमस्येत्याहुः । ह्रस्वोऽपीति ॥ उदाहृतञ्च विक्रमादित्येन । 'तस्या जम्बोः फलरसो नदीभूय प्रवर्तते' इति । यत्तु “परिणतजम्बुफलोपभोगहृष्टा” इति भारविप्रयोगं ह्रस्वान्तत्वे साधकत्वनोदाजगुः । तन्न । 'इको ह्रस्वोऽयः' इति सूत्रेण गतार्थत्वात् । दिधिमिति ॥ कचित्तु दधातेरित्वन्द्वित्वं पुक् च निपात्यते । दधात्यसौ दिधिपूरित्याहुः । उज्ज्वलदत्तोक्तं पाठमाह । केचित्त्विति ॥ एतच्च कयटमाधवादिमहाग्रन्थविरुद्धमित्यवधेयम् । अत एव 'दृम्भूः स्त्री सर्पचक्रयोः' इति भान्ते मेदिनी । मरुदिति ॥ प्रज्ञादित्वादणि मारुतोऽपि । मरुतशब्दोऽप्यव्युत्पन्नोऽस्ति । तथा च विक्रमादित्यकोशः । 'मरुतः स्पर्शनः प्राणः समीरो मारुतो मरुत्' इति संसारावर्तश्च । 'कोऽयं वाति स दाक्षिणात्यमरुतः' इति कविराजः । अत्रानुपपत्तिं मत्वा दाक्षिणात्यपवन इति पाठं कल्पयन्त्यल्पदृश्वानः इति वर्णविवेकः। गरु- दिति ॥ यवादिरयम् । तेन मतुपो वत्वं न । गरुत्मान् । ग्रो मुट् च ॥ ‘गर्मुन् स्त्री स्वर्ण- लतयोः' इति मेदिनी । विश्वकोशमाह । हरिदिति ॥ 'हरिद्दिशि स्त्रियां पुंसि हयवर्णविशेषयोः । अत्रियां स्यात्तृणे च' इति मेदिनी । ऋश्यस्येति ॥ एतेन ‘गतं रोहिद्भूतां रिरमयिषुमृश्यस्य वपुषा' इति पुष्पदन्तप्रयोगो व्याख्यातः। ‘रोहिन्मृग्यां लताभेदे स्त्री नार्के' इति मेदिनी । शमेढः ॥ बाहुलकादिति ॥ यद्यपि 'नेवशिकृति' इति इनिषेधः सुवचः । तथापि नेड्डरमनादाविति परिगणनादेवमुक्तम् । शण्डः स्यात्पुंसि गोपतो' आकृष्टाङ्गे वर्षवरे तृतीय. प्रकृतावपि' इति मेदिनी । कमठ इति ॥ कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकम्' इति सिद्धान्तकौमुदीसहिता [उणादय: . १०० । कमेरठः । कमठः । ‘कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकम्' इति मेदिनी । बाहुलकाजरठः । १०१ । रमेदृद्धिश्च । रामठं हिङ्गु । १०२ । शमेः खः । शङ्खः । १०३ । कणेष्ठः । कण्ठः। १०४ । कलस्तृपश्च । तृपतेः कलप्रत्यय: । चात्तृफतेः । तृपला लता। 'तृफला तु फलत्रिके'। १०५ । शपेर्वश्च । शबलः । १०६ । वृपादिभ्यश्चित् । वृषलः । पललम् । बाहुलकाद्गुणः । सरल: । तरलः । 'कमेव॑क् (च)' (गण १९६) कम्बलः । 'मुस खण्डने' मुसलम् । 'लङ्गेवृद्धिश्च' (गण १९७) लाङ्गलम् । 'कुटिकशिकौतिभ्यः प्रत्ययस्य मुट् । मेदिनी । जरठ इति ॥ जृष् वयोहानौ । ‘जरठः कठिने पाण्डौ कर्कशेऽप्यभिधेयवत्' इति विश्वमेदिन्यो । 'जरठः कठिन जीर्णे' इति वैजयन्ती । शमः खः॥ 'शङ्को निधौ ललाटास्त्रि कम्बा न स्त्री' इत्यमरः । 'शङ्खः कम्बौ न योषिन्ना भालास्नि निधिभिन्नखे' इति मेदिनी। कणेष्टः ॥ ‘कण्ठो गले सन्निधाने ध्वनौ मदनपादपे' इति विश्वमादेन्यौ । फल- त्रिक इति ॥ 'त्रिफला नृफला च सा' इति विश्वः । त्रिफलाशब्दसमानार्थस्तृफला- शब्द इति 'द्विगःः' इति सूत्र रक्षितः । ‘शप आक्रोशे' । वृषादिभ्यश्चित् ॥ 'शूद्रा- शावरवर्णाश्च वृषलाश्च जघन्यजाः' इत्यमरः । 'वृषलस्तुरगे शूद्रे' इति हेमचन्द्रः । पललमिति ॥ पल गतौ । 'पललं तिलचूर्णे च पङ्के मांसे नपुंसकम् । ना राक्षसे' इति मंदिनी । 'सरल: पूतिकाष्टे नाऽथोदारावक्रयोस्त्रिषु' इति मेदिनी । 'सरला विरलायन्ते धनायन्ते कलिट्ठमाः । न शमी न च पुन्नागा अस्मिन्संसारकानने' इत्यभियुक्तप्रयोगः । कमेरिति ॥ बाहुलकादित्यत्रानुपज्यते । ‘कम्बळो नागराजे स्यात् सास्नाप्रावारयोरपि । कृमाव"युनरासङ्गे सलिले तु नपुंसकम्' इति मेदिनी । 'मुसलं स्यादयोऽग्रे च पुंनपुंसकयोः वियाम् । तालमूल्यामाखुपर्णीगृहगोधिकयोरपि' इति मेदिन्याम् । मूर्धन्यमध्योऽप्ययमिति वर्णदशना, 'मुस खण्डने' इति धातार्दन्त्यान्तेषु मूर्धन्यान्तेषु च बोपदेवात्रेयादिभिः पठित- त्वात् । उज्ज्वलदत्तादयस्तु तालव्यमध्यमप्याहुः । अत एव मुसलोऽपि चेति विश्वकोशे मुशलोऽपि चति पाठान्तरम् । लङ्गेरिति ॥ बाहुळकादित्येव । एवमप्रेऽपि । 'लागलं तालहलयोः पुष्पभिद्रहदारुणोः । लाङ्गली गृहपिप्पल्याम्' इति हेमचन्द्रः । 'लागली तोय. पिप्पल्यां क्लीबन्तु कुसुमान्तरे । गोदारणे तृणे राजगृहदारुविशेषयोः' इति मेदिनी । 'कुङमलो मुकुले पुंसि न द्वयानरकान्तरे । 'कोमलं मृदुले जले' इति च । बाहुलकादन्यत्रापि । तथा 'कुस श्लपणे । दन्त्यान्तो निर्विवादः । बोपदेवमते तालव्यान्तोऽपि । गुणः । कोसलः कोशलो .

उणादयः] बालमनोरमा । ५८९ (च), (गण १९८) कुटमलः । कुडेरपि । कुड्मलः । कश्मलम् । बाहुलका. गुणः । कोमलम् । १०७ । मृजेष्टिलोपश्च । मलम् । १०८ । चुपेरच्चोपधायाः। चपलम् । १०९ । शकिशम्योर्नित् । शकलम् । शमलम् । ११० । छो गुग्घ्रस्वश्च । छगलः । प्रज्ञादित्वाच्छागलः । १११ । बमन्ताड्डः । दण्डः । रण्डा । खण्डः । मण्डः । वण्डश्छिन्नहस्तः । अण्ड: । बाहुलकात्सत्वाभाव: । षण्ड: सङ्घातः । तालव्यादिरित्यपरे । शण्डः । गण्डः । चण्डः । पण्डः क्लीबः । पण्डा बुद्धिः । - वा देशविशेषः । ‘वृद्धत्कोसल' इति सूत्रे तु दन्त्यपाठ एव साम्प्रदायिकः । 'सम्ब सम्बन्धे, शम्ब च' । सम्बलम् । 'शम्बलोऽस्त्री सम्बलवत् कुलपाथेयमत्सरे' इति मेदिनी । 'कदि आह्वाने' । नलोपः । गौरादित्वान्डीए । 'मदान्दोलितकर्पूरकदलीदलसंज्ञया । विश्रमाय श्रमापनानाह्वयन्तमिवाध्वगान्' इति काशीखण्डम् । अजादेराकृतिगणत्वासाबपि । 'कदला- कदलौ पृश्न्यां कदलीकदलौ पुनः । रम्भावृक्षेऽथ कदली पताकामृगभेदयोः ॥ कदला डिम्बि- कायाञ्च' इति मेदिनी । 'पिजि हिंसायाम्' । न्यक्वादित्वात्कुत्वम् । 'पिङ्गलो नागभिद्रुद्र- चण्डांशुपारिपार्श्वके । निधिभेदे कवावनौ पुंसि स्यात्कपिलेऽन्यवत् ॥ स्त्रियां वेश्याविशेषे च करिण्याङ्कुमुदस्य च' इति मेदिनी । कुश इति सौत्रो धातुः । 'कुशलः शिक्षिते त्रिषु । क्षेमे च सुकृते चापि पर्याप्तौ च नपुंसकम्' इति मेदिनी । 'कमु कान्तौ'। 'कमलं सलिलं ताने जलजे व्यानि भेषजे । मृगभेदे तु कमल: कमला श्रीवरस्त्रियाः' इति विश्वमेदिन्यो । 'मडि भूषायाम्' । 'मण्डलं परिधी कोठे देशे द्वादशराजके । क्लीवेऽथ निवहे विम्बे त्रिषु पुंसि तु कुक्कुरे' इति मेदिनी । 'कोठो मण्डलकम्' इत्यमरः । 'बिम्बोऽस्त्री मण्डलं त्रिषु' .इति च। 'कुडि दाहे', 'पट गतो', 'छो छेदने' । 'कुण्डलकर्णभूषायां पाशेऽपि वलयेऽपि च । अथ पटलं पिटके च परिच्छदे । छदिदृप्रोगतिलके क्लीवं बृन्द पुनर्न ना। छलं स्खलित. शाठ्ययोः' इति मेदिनी । मृजेष्टिलोपश्च ॥ ‘मलोऽस्त्री पापविकिट्टे कृपणे त्वभिधेयवत् ' इति मंदिनी । चुपेः ॥ 'चपलः पारदे मीने चिबुके प्रस्तरान्तरे । चपला कमला विद्युत् पुंश्चलीपिप्पलीषु च । नपुंसकं तु शीघ्र स्याद्वाच्यवत्तरलं चले' इति मेदिनी । शकिशम्योः॥ शकलं खण्डे रोहितादीनान्त्वचि च। तद्योगाच्छकली मत्स्यः । 'मत्स्यान् शकलान्' इति भाष्यम् । 'शकलन्त्वचि खण्डे स्यात् रागवस्तुनि वल्कले' इति मेदिनी । 'शमलं शकृदेनसोः' इति नानाथरत्नमाला। छो गुग ॥ ‘छगलं नीलवस्त्रे ना च्छागे स्त्री वृद्धदारके' इति मेदिनी। 'छगलइछागे च्छगली वृद्धदारकभेषजे' इति हेमचन्द्रः । अमन्ताडुः ॥ अमिति प्रत्याहारः । त्रिभ्य एव कणमा इति वृत्तिकारोक्तिस्तु अष्टाध्यायीस्थमात्र विषया । दण्ड इति ॥ बाहुल- कात् , 'चुटू' इति नेत्संज्ञा । 'दण्डोऽस्त्री लगुडेऽपि स्यात्' इत्यमरः । 'दण्डौ सैन्यापार्श्वगौ' इति त्रिकाण्डशेषः । 'रण्डा मूषिकपाञ्च विधवायाञ्च योषिति । खण्डोऽस्त्री शकले ५९० सिद्धान्तकौमुदीसहिता [उणादयः ११२ । कादिभ्यः कित् । कवर्गादिभ्यो डः कित्स्यात् । कुण्डम् । काण्डम् । गुङ् गुडः । 'घुण भ्रमणे' धुण्डो भ्रमरः । ११३ । स्थाचतिमृजेरालज्वालबालीयचः । तिष्ठतेरालच् । स्थालम्- स्थाली । चतेर्वालय् । चात्वालः । मृजेरालीयच् । मार्जालीयो बिडालः । ११४ । पतिचण्डिभ्यामालञ् । पातालम् । चण्डालः । प्रज्ञादित्वादणि चाण्डालोऽपीयेके। ११५ । तमिविशिविडिमृणिकुलिकपिपलिपश्चिभ्यः कालन् । तमालः । विशालः । बिडाल: । मृणालम् । कुलालः । कपालम् । पलालम् । पञ्चालाः नेक्षुविकारमणिभेदयोः । मण्ड: पञ्चाङ्गुले शाकभेदे क्लीवन्तु मस्तुनि । चण्डा तु पांसुलायां स्त्री त्रिपु हस्तादिवर्जिते । अण्डं मुष्कं च पेश्यां स्यात् । षण्डं पद्मादिसङ्घाते न स्त्री स्यात् गोपतो पुमान् । गण्डः स्यात्पुंसि खशिनि । ग्रहयोगप्रभेदे च वीथ्यङ्गे पिटकेऽपि च । चिह्नवीर- कपोलेषु हयभूषणबुडुदे । चण्डोला तिन्त्रिणीवृक्षे यमकिङ्करदैत्ययोः । चण्डी कात्यायनीदेव्या हिंसाकोपनयोषितोः । चण्डा धनहरो शङ्खपुष्पी त्रिवतिकोपने । तीब्रेऽपि । पण्ड: शठे धियि स्त्री स्यात्' इति मेदिनी । 'फण गतौ' । फण्ड: । प्रज्ञादित्वादण् । फाण्डं मुन्दरम् । क्वादिभ्यः कित् ॥ कुण्डमिति ॥ कुण शब्दोपकरणयोः । कित्त्वान्न गुणः । 'कुण्डमग्न्यालये मानभेद देवजलाशये । कुण्डी कमण्डलौ जारात्पतिवत्नीसुते पुमान् । पिठरे तु न ना' इति मेदिनी । काण्डमिति ॥ कमु कान्तौ । 'अनुनासिकस्य कि' इति दीर्घः । 'काण्डोऽत्री दण्डबाणार्ववर्गावसरवारिषु' इत्यमरः। अर्वा कुत्सितः। अत एव ‘काण्डं स्तम्बे तरुस्कन्धे बाणे वरदनीरयोः । कुत्सिते वृक्षभिन्नाडीबुन्दे रहसि न स्त्रियाम्' इति मेदिनी । गुडो गोलेक्षुपाकयोः' इत्यमरः । गुडा स्नुही, तद्वत्केशाः अस्य गुडाकेशः, शिवः । जटाधा- रिन्वान् । 'गुडः स्याद्गोलके हस्तिसन्नाहेश्रुविकारयोः। गुडा स्नुह्याश्च कथिता गुडिकायाश्च योषिति' इति मेदिनी । स्थाचति ॥ लचा सिद्धे आलचः आकारश्चिन्त्यप्रयोजनः । चित्स्वरं वाधिन्वा पक्षे आद्युदात्तार्थ इत्येके । 'स्थालं भाजनभेदेऽपि स्थाली स्यात् पाटलोखयोः' इति मेदिनी। 'चान्वालो यज्ञकुण्डे स्यादर्भ च' इति विश्वः। 'मार्जालीयः स्मृतः शूद्रे बिडाले कायशोधने' इति मेदिनी । पातालमिति ॥ उपधावृद्धिः । 'पातालं नागलोके स्याद्विवरे बडवानले' इति मेदिनी । 'चडि कोपे' इत्यस्य तु इदित्त्वान्नुमि अदुपधत्वाभावान वृद्धिः । यत्तु माधवग्रन्थे ‘पतिचण्डिभ्यामालन्' इति पठित्वा पातालशब्दे बाहुलकाद्वृद्धिमुक्ता आलनिति वृद्ध्यर्थं जितङ्केचित्पठन्ति इत्युपन्यस्य चण्डालशब्देऽपि वृद्धिः स्यादिति दूषितम् । तदतिरभसात् । एके इत्यपरितोषोद्भावनम् । तद्बीजन्तु 'कुलालवरुडकर्मारनिषादचण्डालमित्रामिनेभ्यश्छन्दसि' इति चण्डालात्स्वार्थेऽणं विदधता वार्तिकेन तद्भाष्येण च सह विरोध इति बोध्यम् । तमि- विशि ॥ 'तमु कालायाम् , विश प्रवेशने, बिड आक्रोशे, मृण हिंसायाम् , कुल संस्त्याने, कपि चलने, निर्देशानलोपः । 'पल गतौ, पचि विस्तारे। 'तमालस्तिलके खड्ने तापिञ्छे वारुणद्रुमे। , , उणादयः] बालमनोरमा । ५९१ ११६ । नेपक्षिणि । पतङ्गः । ११७ । तरत्यादिभ्यश्च । तरङ्गः । लवङ्गम् । ११८ । विडादिभ्यः कित् । बिडङ्गः । मृदङ्गः। कुरङ्गः । बाहुलकादुत्वं च । ११९ । सृोर्टद्धिश्च । सारङ्गः । वारङ्गः खगादिमुष्टिः । १२० । गन्गम्यद्योः । गङ्गा । अद्गः पुरोडाशः । १२१ । छापूखडिभ्यः कित् । छागः । पूगः । खड्गः । बाहुलकात् ‘पिड अनादरे' गन्सत्वाभावश्च । षिगस्तरलः । 'पिङ्गैरगद्यत ससम्भ्रममेवमेका' इति माघः । १२२ । भृञः किन्नु च । भृञो गन्कित्स्यात्तस्य नुट् च । 'भृङ्गाः षिगालिधूम्याटाः'। , विशाला विन्द्रवारुण्यामुज्जयिन्यान्तु योषिति । नृपवृक्षभिदोः पुंसि पृथुलेऽप्यभिधेयवत् । बिडालो नेत्रपिण्डे स्यात् पृपदंशुकके पुमान् । मृणालं नलदे क्लीवं पुनपुंसकयोर्बिसे । कुलाल: ककुभे कुम्भकारे स्त्री त्वञ्जनान्तरे । कपालोऽस्त्री शिरोऽस्नि स्याद्धटादेः शकले व्रजे। पाञ्चाली पुत्रिकारीत्योः स्त्रियां पुम्भूनि नीति' इति मेदिनी। बाहुलकात् दयतेरपि । शाला । 'शल चलने' अस्माद्धनि 'छायाशालानिशानाम् ' इति निपातनात् स्त्रीत्वमिति न्यासकारः । बोपदेवस्तु 'शालङ्कत्थने' इति पपाठ । 'शाला द्रुस्कन्धशाखायाहे गेहैकदेशयोः। ना झषे' इति मेदिनी । पतेः॥ पतेर्बाहुलकादर्थान्तरेऽपि । 'पतङ्गः शलभे शालिप्रभेदे पक्षिसूर्ययोः । क्लीबं सूते' इति मेदिनी । सूते पारदे इत्यर्थः। तरत्यादिभ्यः ॥ 'तरङ्गस्तुरगादीनामुत्फाले वस्त्रभङ्गयोः' इति विश्वः । बिडङ्ग इति ॥ 'बिड आक्रोशे'। 'बिलङ्गः कृमिसङ्घने बिडङ्गो नागरेऽन्यवत्' इति विश्वः। 'बिइङ्गस्त्रिध्वभिज्ञ स्यात् कृमिघ्ने पुनपुंसकम्' इति मेदिनी । मृदङ्ग इति ॥ ‘मृद क्षोदे। 'मृदङ्गः पटहे घोषे' इति मेदिनी । कुरङ्ग इति ॥ 'कृ विक्षेपे' वाहुलकादुत्वम् । कुर शब्दे इति वा अस्तु । ' सारङ्गः पुंसि हरिणे चातके च मतङ्गजे । शबले त्रिषु' इति मेदिनी । वाहुलकात् 'नृ नये' । 'अथ नारङ्गः पिप्पलीरसः । यमजप्राणिनिकटे नागरङ्ग द्रुमेऽपि च' इति मेदिनी । गन् गम्यद्योः॥ बाहुलकादमेरपि । 'अङ्गं गात्र उपाये च प्रतीके चाप्रधानके। अङ्गो देशविशेषे स्यादङ्ग सम्बोधनेऽव्ययम्' इति विश्वः । 'अझं गात्रे प्रतीकोपाययोः पृभूम्नि नीति । क्लबकत्वे त्वप्रधाने त्रिष्वङ्गवति चान्तिके' इति मेदिनी। छापू ॥ छायते छिद्यते यज्ञार्थमिति छागः । पूयते मुखमनेन । 'पूगस्तु क्रमुके वृन्दे' इति मेदिनी। 'खड भेदने' । खगो गण्डकशृङ्गे स्यात् निस्त्रिंशे गण्डकेऽपि च' इति शब्दतरङ्गिणी । 'खगो गण्डकशृङ्गेऽसिबुद्धभेदेषु गण्डके' इति मंदिनी । भृक्षः ॥ किग्रहणं स्पष्टार्थम् , अनुवृत्त्यैव लाभात् । 'भृङ्गो धूम्याटषिङ्गयोः । मधुव्रते भृङ्गराजे पुंसि भृङ्गगुडत्वचि' इति मेदिनी । 'शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके । विषाणोत्कर्षयोश्चाथ शृङ्गः स्यात्कूर्चशीर्षके । स्त्री विषायां ५९२ सिद्धान्तकौमुदीसहिता [उणादर १२३ । शृणातेर्हस्वश्च । शृङ्गम् । १२४ । गण्शकुनौ । नुट् चेत्यनुवर्तते । शाङ्गः । १२५ । मुदिरोगग्गौ । मुद्गः । गर्गः । १२६ । अण्डन्कृसृभृवृषः। करण्डः । सरण्ड: पक्षी । भरण्डः स्वामी वरण्डो मुखरोगः । १२७ । शृभसोदिः । शरत् । 'दरद्धृदयकूलयो:' । भसज्जघनम् । १२८ । दणातेः पुग्घ्रस्वश्च । दृषत् । १२९ । त्यजितनियजिभ्यो डित् । त्यद् । तद् । यद् । सर्वादयः । १३० । एतेस्तुट् च । एतद् । १३१ । सर्तेरटिः। 'सरट् स्याद्वातमेघयोः' । वेदभाष्ये तु 'याभिः कृशानुम्' इति मन्त्रे ‘सरड्भ्यो मधुमक्षिकाभ्यः' इति व्याख्यातम् । १३२ । लड्डेनलोपश्च । लघट वायुः । १३३ । पारयतेरजिः । पारक् सुवर्णम् । १३४ । प्रथः कित्सम्प्रसारणश्च । पृथक् । स्वरादिपाठादव्ययत्वम् । १३५ । भियः पुग्घ्रस्वश्च । भिषक् । १३६ । युष्यसिभ्यां मदिक् । 'युष्' सौत्रो धातुः । युष्मद् । अस्मद् । त्वम् । अहम् । १३७ । अर्तिस्तुमुहुमुधुक्षिक्षुभायावापदियक्षिनीभ्यो मन् । एभ्यश्चतु- देशभ्यो मन् । अर्मश्चक्षुरोग: । स्तोमः सङ्घातः । सोमः । होमः । सर्मो स्वर्णमीनभेदयो ऋषभौषधौ' इति मेदिनी । 'शृङ्गं विषाणमाख्यातं शैलाये जलयन्त्रके । मीनौषधिसुवर्णानां भेदे शृङ्गी प्रयुज्यते ॥ इति उत्पलिनीकोशः । अण्डन् कृस् ॥ 'करण्डी मधुकोशासिकारण्डेषु ललाटके' इति मेदिनी । ‘वरण्डोऽप्यन्तरावेदौ समूहमुखरोगयोः' इति विश्वमेदिन्यौ । बाहुलकात् तरतेः । 'तरण्डो बडिशीसूत्रबद्धकाष्ठादिके प्लवे' इति मेदिनी । शृदृ ॥ 'शरत् स्त्री वत्सरेऽप्य॒तौ । दरत् स्त्रियां प्रपाते च भयपर्वतयोरपि । भसत् स्त्री भास्वरे योनौ ' इति च मेदिनी । “उवे अम्बसुलाभिके” इति मन्त्रस्य व्याख्यायां भसद्भग इति वेदभाष्यम् । “जाघन्या पत्नीः संयाजयन्ति भसद्वीर्या हि स्त्रियः" इत्यत्र भसजघनमिति व्याख्यातारः। दृणातेः॥ दृषनिष्पेषणशिलापदप्रस्तरयोः स्त्रियाम्' इति मेदिनी । अर्तिस्तु ॥ ‘सोमस्तुहिनदीधितौ । वानरे च कुबेरे च पितृदेवे समीरणे । वसुप्रभेदे कपूरे नीरे सोमलतौषधौ' इति मेदिनी। 'धर्मोऽस्त्री पुण्य आचारे स्वभावोपमयोः : उणादयः] बालमनोरमा । ५९३ गमनम् । धर्मः । क्षेमं कुशलम् । क्षोमम् । प्रज्ञाद्यणि क्षौमञ्च । भाम: आदित्यः । यामः । 'वामः शोभनदुष्टयोः'। पद्मम् । यक्ष पूजायाम्। यक्ष्मो रोगराजः। नेमः । १३८ । जहातेः सन्वदालोपश्च । ' जिह्मः कुटिलमन्दयोः'। १३९ । अवतष्टिलोपश्च । मन्प्रत्ययस्यायं टिलोपो न प्रकृतेः । अन्यथा डिदित्येव ब्रूयान् । 'ज्वरत्वर-' (सू २६५४) इति ऊठौ । तयोर्दीधै कृते गुणः । चादिपाठाव्ययत्वमित्युज्ज्वलदत्तस्तन्न । तेषामसत्त्वार्थत्वात् । वस्तुतस्तु स्वरादिपाठादव्ययत्वम् । अवतीति ओम् । १४० । ग्रसेरा च । ग्रामः । १४१ । अविसिविसिशुषिभ्यः कित् । ऊमं नगरम् । स्यूमो रश्मिः । सिमः सर्वः । शुष्ममग्निसमीरयोः' । १४२ । इपियुधीन्धिदसिश्याधूम्भ्यो मक् । 'इष्मः कामवसन्तयोः' कृती । अहिंसोपनिषत्रयाये ना धनुर्यमसोमपे' इति च । 'धर्मः पुण्ये यमे न्याये स्वभावा- चारयोः क्रतो' इति विश्वः । 'क्षामं पट्टे दुकूलेऽस्त्री क्षोमं वल्कलजांशुके । शणजेऽतसिजे' इति मेदिनी । 'भामः क्रोधे रवा दीप्ती । यामस्तु पुंसि प्रहरे संयमेऽपि प्रकीर्तितः । वाम धने पुंसि हरे कामदेवे पयोधरे । वल्गुप्रतीपसव्येषु त्रिपु नार्या स्त्रियामथ । वामी शृगाली- बडबारासभीकरभीषु च । पद्मोऽत्री पद्मके व्यूहनिधिसंख्यान्तरेऽम्बुजे । ना नागे' इति च मेदिनी । यक्ष पूजायामिति ॥ यत्तृज्वलदत्तेन ‘जक्ष भक्ष हसनयोः' इत्युपन्यस्तम् , तन्न, तस्य चवर्गतृतीयादित्वात् । न च लक्ष्यमपि तथैवेति भ्रमितव्यम् । “ अक्षिभ्यान्ते नासिका- भ्याम्" इति मन्त्रे यश्मशब्दस्यान्तःस्थादित्वनिर्णयात् । न च तदुपन्यस्तधानुरप्यन्त.स्थादि- रिति भ्रमितव्यम् । 'जक्षत् क्रीडन् रममाणः' इत्यादिप्रयोगेण तथा कविकल्पद्रुमादिभिः सह विरोधादिति दिक् । मनिन्प्रत्यये तु नान्तः । 'राजयक्ष्मेव रोगाणाम्' इति माघः । यक्ष्म- णापि परिहाणिराययो' इति रघुः । दशपादीवृत्तौ तु इह सूत्रे पक्षीति पवर्गीयादि पठित्वा सौत्रो धातुः बाहुळकानकारस्य नेत्संज्ञा इत्युक्का अक्षिपश्मेत्युदाहृतम् । तन्न । 'पक्ष परिग्रहे' इत्यस्मान्मनिना गतार्थत्वात् । 'नेमः क्लीबेऽवधौ गर्ने प्राकारे कैतवेऽपि च' इति मेदिनी। 'नेमस्त्वधं प्राकारगर्तयोः । अवधौ कैतवे च' इति हेमचन्द्रः । जहातेः॥ 'जिह्मस्तु कुटिले मन्दे क्लीबन्तगरपादपे' इति मेदिनी । अवतेः ॥ ‘ओं प्रश्नेऽङ्गीकृतौ रोष' इति विश्वः । ग्रसेरा च ॥ 'प्रमु अदने'। अतो मन् । धातोराकारश्च । 'ग्रामः स्वरे संवसथे वृन्दे शब्दादिपूर्वक' इति विश्वः । शब्दादिपूर्वको ग्रामशब्दो बृन्दे । शब्दप्रामो गुणग्राम इति यथा । संपूर्वोऽयं युद्धे । तदुक्तम् । 'संपूर्वः संयुगे स्मृतः' इति । ऊमं नगरमिति ॥ 'त्वे ऋतुम् इति मन्त्रे 'ऊमास्तर्पका यजमानाः' इति वेदभाष्यम् । स्यूमो रश्मिरिति ॥ सूत्रतन्तुरित्यन्ये। शुष्मं तेजसि सूर्ये ना' इति मेदिनी । 'शुष्मं बलम्' इति वेदभाष्ये । इषियुधि ॥ । 75 ५९४ सिद्धान्तकौमुदीसहिता [उणादयः ईपीति पाठे दीर्घादिः । युध्मः शरो योद्धा च । इध्मः समित् । दस्मो यज- मानः । श्यामः । धूमः । सूमोऽन्तरिक्षम् । बाहुलकादीम व्रणः । १४३ । युजिरुचितिजां कुश्च । युग्मम् । रुक्मम् । तिग्मम् । १४४ । हन्तेहि च । हिमम् । १४५। भियः पुग्वा । भीमः । भीष्मः । १४६ । धर्मः। घृधातोर्मग्गुणश्च निपात्यते । १४७ । ग्रीष्मः । असतेनिपातोऽयम् । १४८ । प्रथेः षिवन्सम्पसारणं च । पृथिवी षवन्नित्येके । पृथवी । 'पृथवी पृथिवी पृथ्वी' इति शब्दार्णवः । १४९ । अशूषिलाटिकाणिखटिविशिभ्यः कन् । अश्वः । 'घुष स्नेह- नादौ' । ग्रुष्वः स्याहतुसूर्ययोः' । प्रुष्वा जलकणिका । लवा पक्षिभेदः फलं च । कण्वं पापम् । बाहुलकादित्त्वे किण्वमपि । खट्दा । विश्वम् । १५० । इण्शीभ्यां वन् । एवो गन्ता । 'ये च एवा मरुतः । असत्त्वे निपातोऽयम् । शेवं लाञ्छनं पुंसाम् । 'शेवं मित्राय वरुणाय १५१ । सर्वनिघृष्वरिष्वलष्वशिवपद्प्रवेष्वा अस्वतन्त्रे । अकर्तर्येते निपात्यन्ते । मृतमनेन विश्वमिति सर्वम् । निपूर्वाद्धृषेर्गुणाभावोऽपि । निघृष्यते युध्म इति ॥ 'युमो धनुषि संयुगे' इति मेदिनी । 'दस्मस्तु यजमाने स्यादपि चौरे हुताशने' इति च । 'न पूषणम्' इति मन्त्रस्य भाध्ये तु दस्मो दर्शनीय इति व्याख्यातम् । 'त्रिषु श्यामौ हरिकृष्णो इयामा स्याच्छारिका निशा' इत्यमरः । 'श्यामो वटे प्रयागस्य वारिदे वृद्धदारके। पिके च कृष्णहरितोः पुंसि स्यात्तद्वति त्रिषु । मरीचे सिन्धुलवणे क्लीबं स्त्री शारिकौषधौ । अप्रसूताङ्गनायाञ्च प्रियङ्गावपि गुग्गलौ । यमुनायां त्रियामायां कृष्णत्रिवृतिकोषधौ। नीलिका- याम् इति मेदिनी । ईममिति ॥ ईर गतो'। 'व्रणोऽस्त्रियामार्ममरुः क्लीबे' इत्यमरः । 'जन जनने' । जन्मम् । मनिनन्तस्तु नान्तः । 'जनुर्जननजन्मानि' इत्यमर उभयसाधारणः । युजिरुचि ॥ ‘रुक्मन्तु काञ्चने लोहे' इति विश्वमेदिन्यौ । हन्तेहि च ॥ ‘हिमं तुषार. मलयोद्भवयोः स्यान्नपुंसकम् । शीतले वाच्यलिङ्गः' इति मेदिनी। 'भीष्मो गाङ्गेयघोरयोः । भीमोऽम्लवेतसे घोरे शम्भौ मध्यमपाण्डवे । धर्मः स्यादातपे ग्रीष्मेऽप्युष्णस्वेदाम्भसोरपि । ग्रीष्म ऊष्मर्तुभेदयोः” इति च मेदिनी । अशूघुषि ॥ 'अश्वः पुंभेदवाजिनोः' इति विश्वः । 'लट्वा करञ्जभेदे स्यात् फले मद्ये खगान्तरे' इति विश्वमेदिन्यौ । 'कण्वं पापे मुनौ पुंसि कण्वं बीजाद्यशीथुषु । विश्वात्वतिविषायां स्त्री जगति स्यानपुंसकम् ॥ न ना शुण्ठयां पुंसि देवप्रभेदेऽप्यखिले त्रिषु' इति मेदिनी । इण्शीभ्याम् ॥ शेवं सुखमिति वेदभाष्यम् । .

उणादयः] बालमनोरमा । ५९५ । अनेन निघृष्वः खुरः । रिष्वो हिंस्रः । लष्वो नर्तकः । लिष्व इत्यन्ये । तत्रोपधाया इत्वमपि । शेतेऽस्मिन् सर्वमिति शिवः शम्भुः । शीङो हस्वत्वम् । पद्वो रथो भूलोकश्च । प्रहूयते इति प्रहः । ढेब आकारवकारलोपः । जहाते- रालापो वा । ईषेर्वन् । ईष्व: आचार्यः । इष्व इत्यन्ये । 'अस्वतन्त्रे' किम् । सर्ता सारकः । बाहुलकाद्भसतेः । ह्रस्वः । १५२ । शेवयद्दजिह्वाग्रीवाप्वमीवाः । शेव इत्यन्तोदात्तार्थम् । यान्त्यनेन यह्वः । हस्वो हुगागमश्च । लिहन्त्यनया जिह्वा । लकारस्य जः गुणाभावश्च । गिरन्त्यनया ग्रीवा । ईडागमश्च । आप्नोतीत्याप्वो वायुः । मीवा उदरकृमिः । वायुरित्यन्ये । १५३ । कृगृभ्यो वः। कर्व: कामः आखुश्च । गर्वः । शर्वः। दो राक्षसः । १५४ । कनिन्युषितक्षिराजिधन्विद्युप्रतिदिवः । यौतीति युवा । वृषा इन्द्रः । तक्षा । राजा । धन्वा मरुः । धन्व शरासनम्। युवा सूर्यः । प्रति- दीव्यन्यस्मिन्प्रतिदिवा दिवसः । १५५ । सप्यशूभ्यां तुद् च । सप्त । अष्ट । १५६ । नजि जहातेः । अहः । १५७। श्वन्नुक्षन्पूषन्प्लीहन्लेदन्नेहन्मूर्धन्मजन्नर्यमन्विश्वप्सन्परिज्म- न्मातरिश्वन्मघवन्निति । एते त्रयोदश कनिप्रत्ययान्ता निपात्यन्ते । श्वयतीति ह्रस्व इति ॥ ‘ह्रस शब्दे' । 'ह्रस्वो न्यक्खर्वयोस्त्रिषु' इति मेदिनी । शेवयह ॥ दशपादी- वृत्तिरीत्याह । यान्त्यनेनेति ॥ अन्ये तु यजतेर्जकारस्य हकारो निपात्यत इत्याहुः । यहशब्दो वदिकनिघण्टौ महन्नामसु पठितः । प्रवो यहूं पुरूणाम् । 'यहं महान्तम्' इति वेदभाष्यम् । मीवेति ॥ वेदभाष्ये तु अमीव इति छित्वा 'अम रोगे' इत्यस्माद्वः ईट् चेत्युक्तम् । 'अमी वहा वास्तोष्पते' इत्यादिमन्त्रास्तत्रानुकूलाः । कनिन्यु ॥ ‘युवा स्यात्तरुणे श्रेष्टे निसर्ग• बलशालिनि । वृषा कर्णे महेन्द्रे ना' इति मेदिनी। 'तक्षा तु वर्धकिस्त्वष्टा रथकारस्तु काष्ठ- तट्' इत्यमरः । 'राजा प्रभौ च नृपतौ क्षत्रिये रजनीपतौ । यक्षे शक्रे च पुंसि स्यात्' इति मेदिनी। 'समानौ मरुधन्वानौ' इत्यमरः । 'अथास्त्रियाम् । धनुश्चापौ धन्वशरासनकोदण्ड. कार्मुकम्' इति च । धन्वा तु मरुदेशे ना क्लीबे चापे स्थलेऽपि च' इति मेदिनी । धन्वि- गत्यर्थः सोत्रो धातुः । ‘ा अभिगमे' युवा सूर्यः । प्रतिदिवेति ॥ 'प्रतिदीने इन्धत् आकृतान्' इति मन्त्रे तु प्रतिदिवा कितव इति व्याख्यातम्। श्वन्नुक्षन्॥ कनिप्रत्ययान्ता ५९६ सिद्धान्तकौमुदीसहिता [उणादिषु श्वा । उक्षा । पूषा । प्लिह गतौ' । इकारस्य दीर्घत्वम् । प्लेहतीति प्लीहा कुक्षिव्याधिः । 'क्लिदू आर्दीभावे' । क्लियति क्लेदा चन्द्रः। स्निह्यतेर्गुणः । स्निह्यतीति स्नेहा सुहृच्चन्द्रश्च । मुह्यन्त्यस्मिन्नाहते मूर्धा । मुहेरुपधाया दीर्घा धोऽन्तादेशो रमागमश्च । मन्जत्यस्थिषु मज्जा अस्थिसारः । अर्यपूर्वो माङ् । अर्यमा। विश्वं प्साति विश्वप्सा अग्निः। परिजायते परिज्मा चन्द्रोऽग्निश्च । जने- रुपधालोपो मश्चान्तादेशः । मातर्यन्तरिक्षे श्वयतीति मातरिश्वा । धातोरिकार- लोपः । 'मह पूजायाम्' । हस्य घो वुगागमश्च । मघवा इन्द्रः । ॥ इन्युणादिषु प्रथमःपादः ॥ ॥ अथ उणादिषु द्वितीयः पादः ॥ १५८ । कृहभ्यामेणुः । करेणुः । हरेणुः गन्धद्रव्यम् । १५९ । हनिकुपिनीरमिकाशिभ्यः क्थन् । हथो विषण्णः । कुष्ठः । नीथो नेता । रथः काष्ठम् । इति ॥ नायं निदिति भावः । एतच्च हलन्तशब्दप्रकरणे मघवन्शब्दे व्युत्पादितम् । केचित्तु नित्त्व स्वीकृत्योक्षनादीनां सौत्रमन्नोदात्तनिपातनमाहुः । तद्गौरवादुपेक्षितम् । श्वेति ॥ इकार- लोपो निपाल्यते । पूषेति ॥ 'पूष वृद्धौ' 'कैदोषधिशशाङ्कयोः' इति यादवः । मूर्धेति ॥ 'मूर्धा ना मम्नकोऽस्त्रियाम्' इत्यमरः। मजेति ॥ टावन्तोऽप्ययम् । 'ऊध्मया सार्द्धमूष्मापि मज्जोक्तो मज्जया मह' इति द्विरूपकोशात् । ‘अर्थमा तु पुमान् सूर्य पितृदेवान्तरेऽपि च' इति मेदिनी । परिजायते इत्यादि ॥ एतच दशपावृत्त्यनुरोधेनोक्तम् । 'परिज्मानं सुखं रथम्' इति मन्त्रम्य वंदभाध्य तु परिज्मा परितो गन्ता । अजेः परिपूर्वस्य 'श्वन्नुक्षन्' इत्यादिना मन्प्रत्ययः । अकारलोपः। आधुदात्तत्वञ्च निपात्यते इत्युक्तम् । उज्ज्वलदत्तस्तु परिज्वेति पठित्वा जु इति मौत्री धानुः परिपूर्वः, यणादेशः, परिज्वा चन्द्र इत्याह । तलक्ष्यविरोधादुपेक्ष्यम् । मात. रिश्वति ॥ सप्तम्या अलुक् उदात्तत्वञ्च निपात्यते । इह भत्वविषये सम्प्रसारणन्न भवति । श्वयुवति सूत्रऽभिव्यक्ततरत्वेन कुक्कुरवाचकस्यैव श्वशब्दस्य ग्रहणम् । इह सूत्रान्त इति शब्द आद्यर्थः । तेनान्येभ्योऽपि यथादर्शनङ्कनिः । दशपाद्यान्तु इतिशब्दो न पठ्यते ॥ ॥ इत्युणादिषु प्रथमः पादः ॥ कृहृभ्याम् ॥ ‘करेणुरिभ्यां स्त्री नेभे' इत्यमरः । ‘करेणुर्गजयोषायां स्त्रियां पुंसि मतगजे' इति मेदिनी । गन्धेति ॥ कलापश्चेति बोध्यम् । 'कलापस्तु सतीनकः । हरेणुः खण्डके चास्मिन्' इति वैश्यवर्गे अमरः । 'हरेणुर्ना सतीने स्त्री रेणुकाकुलयोषितोः' इति मेदिनीविश्वप्रकाशौ । 'कुष्ठं रोगे सुगन्धे च' इति विश्वः । 'नीथे नाथे मघवानं सुतासः' इति द्वितीयः पादः] बालमनोरमा। ५९७ समूहः । १६० । अवे भृतः । अवभृथः । १६१ । उषिकुषिगर्तिभ्यस्थन् । ओष्ठः । कोष्ठम् । गाथा । अर्थः । बाहुलकाच्छोथः । १६२ । सर्तेर्णित् । सार्थ: १६३ । जृभ्यामूथन् । जरूथं मांसम् । 'वरूथो रथगुप्तौ ना'। १६४ । पातृतुदिवचिरिचिसिचिभ्यस्थक् । पीथो रवि: घृतं पीथम् । 'तीर्थ शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । अवतारर्षिजुष्टाम्भःस्त्रीरजःसु च विश्रुतम्' इति विश्वः । तुत्थोऽग्निः । उक्थं सामभेदः । रिक्थम् । बाहुलका- दृचेरपि । 'रिक्थमृक्थं धनं वसु' । सिक्थम् । १६५ । अर्तेर्निरि । निर्ऋथं साम । १६६ । निशीथगोपीथावगथाः। निशीथोऽर्धरात्रो रात्रिमानं च । गोपीथं तीर्थम् । अवगथ: प्रात:स्नातः । १६७ । गश्चोदि । उद्गीथः साम्नो भागविशेषः । १६८ । समीणः। समिथो वह्निः, संग्रामश्च । । मन्त्रे नीथशब्दस्यान्तोदात्तत्वं बाहुलकात् । 'नीथे नीथे स्तोत्रे स्तोत्रे च' इति वेदभाष्यम् । 'रथः पुमानवयवे स्यन्दने वेतसेऽपि च' इति मेदिनी । 'रथः स्यात्स्यन्दने काये चरणे वेत सेऽपि च' इति विश्वः । 'काष्टा दारुहरिद्रायाङ्कालमानप्रकर्षयोः । स्थानमात्रे दिशि च स्त्री दारुणि म्यानपुंसकम्' इति मेदिनी । उषिकुषि ॥ 'कोष्ठः कुसूले चात्मीये मध्ये कुक्षेहस्य च । गाथा श्लोक संस्कृतान्यभाषायां शेषवृत्तयोः' इति मेदिनी । 'अर्थोऽभिधेयरैवस्तुप्रयोजन- निनिषु' इत्यमरः । ‘अर्थो विषयार्थनयोर्द्धर्मकारणवस्तुषु । अभिधेये च शब्दानां निवृत्तौ च प्रयोजने' इति मेदिनी। शोथः श्वयथुः । शु गतौ । सर्तेर्णित् ॥ ‘सार्थो वणिक्समूहे स्यादपि सङ्घातमात्रके' इति मेदिनीविश्वप्रकाशौ । जुवृञ् ॥ 'जरूथोऽसुरविशेषः' इति वेद- भाष्यम् । 'वस्थं स्यात्तनुत्राणे रथगोपनवेश्मनोः' इति हेमचन्द्रः । 'वरूथो रथगुप्तौ स्याद्व- स्थं रथवेश्मनोः' इति विश्वः । पातृ ॥ 'तुत्थो ग्रावाञ्जने तु स्यान्नीलीसूक्ष्मैलयोरपि' इति विश्वः। 'तुत्थमञ्जनभेदे स्यात् नीलीसूक्ष्मैलयोः स्त्रियाम् । सिक्थो भक्तपुलाके ना' इति मेदिनी। अर्तेः॥ 'ऋ गतौ' 'द्रोघवाचस्ते निर्ऋथं सञ्चन्ताम्' इति मन्त्रे 'निर्ऋथो हिंसा' इति वेदभाष्यम् । 'निशीथस्तु पुमानर्धरात्रे स्याद्रात्रिमात्रके' इति मेदिनी । 'प्रतित्यञ्चारुमध्वरम्' इति मन्त्रे गोपीथः सोमपानमिति वदभाष्यम् । यास्कोऽप्येवम् । तीर्थमिति तु वृत्तिकारः। अवगथ इति ॥ गाङो ह्रखत्वं निपातनात् । समीणः॥ ‘समिथशब्दः सङ्ग्रामपर्यायेषु वैदिकनिघण्टौ पठितः । 'श्रिये जात' इति मन्त्रे समिथा युद्धानि' इति वेदभाष्यम् । युक्तञ्चैतत् । सम्यगेति .

५९८ सिद्धान्तकौमुदीसहिता [उणादिए १६९ । तिथपृष्ठगृथयूथपोथाः। तिजे लोप: । तिथोऽनल: कामश्च पृष्ठम् । गूथं विष्ठा । यूथं समूहः । 'प्रोथमस्त्री तुरङ्गास्ये प्रोथः प्रस्थित उच्यते' १७० । स्फायितञ्चिवश्चिशकिक्षिपिक्षुदिमृपितृपिपिवन्युन्दिश्विति- वृत्यजिनीपदिमदिमुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवा- शिशीहसिसिधिशुभिभ्यो रक् । द्वात्रिंशतो रक्स्यात् । वलि यलोपः । स्फारम । न्यक्कादित्वात्कुत्वम् । तक्रम् । वक्रम् । शक्रः । क्षिप्रम् । क्षुद्रः । सप्रश्चन्द्रः । तृप्रः पुरोडाश: । दृप्रो बलवान् । वन्द्रः पूजकः । उन्दी । उन्द्रो जलचरः। श्वित्रं कुष्ठम् । वृत्रो रिपौ ध्वनौ ध्वान्ते शैले चक्रे च दानवे'। अजेर्वी । वीरः । नीरम् । पद्रो ग्रामः। मद्रो हर्षो देशभेदश्च । 'मुद्रा प्रत्ययकारिणी' । 'खिद्रो रोगो दरिद्रश्च' । छिद्रम् । भिद्रं वज्रम् । मन्द्रः । चन्द्रः । पचाद्यचि चन्दोऽपि । 'हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्दो हिमद्युतिः' । दह्रोऽग्निः । दम्रः स्ववैद्यः । 'दभ्रः समुद्रः स्वल्पं च'। वसे: सम्प्रसारणे । ३१६८ । न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् । (८-३-११०) । - जयार्थमतेति व्युत्पत्तेः । सम्पूर्वस्य इण: क्तिनाद्यन्तस्य लोकेऽपि युद्धार्थत्वदर्शनाच्च । उक्तं ह्यमरेण 'समित्याजिसमि युधः' । तिथं पृष्टम् । 'पृषु सेचने' 'पृष्ठन्तु चरमन्तनोः' इत्यमरः । 'पृष्टञ्चरममात्रऽपि देहस्यावयवान्तरे' इति मंदिनी। स्तोत्रविशेषोऽपि पृष्ठम् । चित्राधिकरणे पृष्टैः स्तुवत इत्यादौ तथा निर्णयात् । गूथमिति ॥ 'गु पुरीषोत्सर्गे' निपातना दीर्घः । एवं यूथेऽपि । 'यूथन्तिर्यक्समूहे स्त्री पुष्पभेदे च योषिति' इति मेदिनी। 'यूथी पुष्पप्रभेदे स्यात् मागध्याञ्च करेणुके । यूथन्तिर्यक्समूहऽपि वृन्दमात्रेऽपि भाषितम्' इति विश्वः । ‘ग्रुङ् गतौ' निपातनाद्गुणः । 'प्रोथोऽस्त्री हयघोणायां ना कट्यामध्वगे त्रिषु इति मेदिनी। स्फायितश्चि॥ द्वात्रिंशत इति ॥ दशपाद्यान्तु त्रयस्त्रिंशदुक्ताः । दम्भिवहिवसीति पठित्वा 'वह प्रापणे उहाऽनड्डानित्युदाहरणात् । माधवोऽप्येवम् । स्फारमिति ॥ 'नेडशि' इति नेट । वलि यलोपः । स्फारः स्यात्पुंसि विकटे करकादेश्च बुङ्दे' इति मेदिनी । तक्रमिति ॥ 'तञ्चू सङ्कोचे'। वक्रः स्याजटिले क्रूरे पुटभेदे शनैश्चरे' इति विश्वः । ‘वक्रः शनैश्चरे पुंसि पुटभेदे नपुंसकम् । शक्रः पुमान् देवराजे कुहनार्जुनभूरुहोः' इति मेदिनी । क्षुद्र इति ॥ क्षुदिर् सम्पेषणे । 'क्षुद्रः स्यादधमक्रूरकृपणाल्पेषु वाच्यवत् । क्षुद्रा व्यङ्गानटी. कण्टकारिकासरघासु च । चाङ्गेरीवेश्ययोहिनामक्षिकामात्रयोरपि' इति मेदिनी। तृप्रः पुरो- डाश इति ॥ 'न तृप्रा उरुव्यंसः' इति मन्त्रे वेदभाष्यकारैः प्रकृतसूत्रे उज्ज्वलदत्तादिभि- श्वेत्थं व्याख्यातम् । दशपादीवृत्तौ तु तृप्रमाज्यकाष्ठश्चेत्युक्तम् । तृप्रन्दुःखमिति सुब्धातुवृत्ती माधवः । हिमांशुरित्यादि शब्दार्णवः । दस्यति रोगान् क्षिपति दस्रः । 'दस्रः खरेऽश्विनीसुते' ' .

द्वितीयः पादः] बालमनोरमा । ५९९ । रेफपरस्य सकारस्य सृप्यादीनां च मूर्धन्यो न स्यात् । 'पूर्वपदात्' (सू ३६४३) इति प्राप्तः प्रतिषिध्यत इति वृत्तिर्भूयोऽभिप्राया। तेन 'शासि- वसि-' (सू २४१०) इति प्राप्तमपि न । उस्रो रश्मिः । उस्रा गौः । वाश्री दिवसः । वानं मन्दिरम् । शीरोऽजगरः । हस्रो मूर्खः । सिध्रः साधुः । शुभ्रम् । बाहुलकात् मुसे रक् । मुस्रम् उदछु । १७१ । चकिरम्योरुच्चोपधायाः। चुक्रमम्लद्रव्यम् । रुम्रोऽरुणः । १७२ । वौ कसेः। विकुस्रश्चन्द्रः । १७३ । अमितम्योर्दीश्च । आम्रम् । ताम्रम् । १७४ । निन्देनलोपश्च । निद्रा । १७५ । अर्देर्दीर्घश्च । आर्द्रम् । १७६ । शुचेर्दश्च । शूद्रः । १७७ । दुरीणो लोपश्च । दुःखेनेयते प्राप्यत इति दूरम् । १७८ । कृतेश्च्छः क्रू च । कृच्छू क्रूरः । १७९ । रोदेर्णिलुक् च । रोदयतीति रुद्रः । १८० । बहुलमन्यत्रापि संज्ञाछन्दसोः। णिलुगित्येव । 'वान्ति पर्णशुषो वातास्ततः पर्णमुचोऽपरे' । इति मेदिनी । 'दस्रः खरे चाश्विनयोः' इति विश्वः । भूयोऽभिप्रायेति ॥ माधवस्तु वृत्तिस्वरसमनुरुध्ध 'अविन्द उस्रिया' इति मन्त्रे बाहुलकात् षत्वं नेति व्याचष्टे । 'उस्रो वृषे च किरणेऽप्युस्रार्जुन्युपचित्रयोः' इति मेदिनी । 'उस्रा गव्युपचित्रायामुस्रन्तु किरणे स्मृतः' इति विश्वः । 'वाश्रो ना दिवसे क्लीबं मन्दिरे च चतुष्पथे' इति मेदिनी। 'वाश्रो रासभपक्षि- णोः' इत्येके। माधवस्तु 'वाधैव विद्युन्मिमाति' इति मन्त्रे शब्दयुक्ता प्रस्नुतस्तना धेनुर्वाश्रेति व्याख्यत् । 'शुभ्रं स्यादभ्रके क्लीबमुद्दीप्रशुक्लयोस्त्रिषु' इति मेदिनी । चुऋमिति ॥ 'चक तृप्तौ'। 'चुक्रस्त्वम्लेऽम्लवेतसे । चुक्री चाङ्गेरिकायां स्यात् वृक्षाम्ले चुक्रमिष्यते' इति विश्वः । 'चुकं वृक्षाम्ले चाङ्गेय्यां स्त्री पुंस्यम्लेऽम्लवेतसे' इति मेदिनी । अर्दीर्घश्च ॥ 'आर्द्रा नक्षत्रभेदे स्यात् स्त्रियां क्लिनेऽभिधेयवत्' इति मेदिनी । शुचेर्दश्च ॥ शूद्रो वृषलः । 'अहहारे त्वा शूद्रा' इति श्रुतौ तु रूढेर्बाधाद्योग एव पुरस्कृतः । तथा चोत्तरतन्त्रे भगवता व्यासेन सूत्रितम् । 'शुगस्य तदनादरश्रवणात्' इति । कृतेः ॥ अन्त्यस्य च्छ: । क्रू तु सर्वस्य । अनेकाल्त्वात् । 'कृच्छ्रमाख्यानमाभीले पापसान्तपनादिनोः' इति विश्वमेदिन्यौ । क्रूरस्तु कठिने घोरे नृशंसे चाभिधेयवत्' इति च । बहुलान्यत्रापि संज्ञा ॥ बृहयति वर्धयति प्रजाः ब्रह्मा। शं सुखं भावयति शम्भुः। शोषयति शुष्मेत्यादि । छन्दसि, 'वर्धन्तु .

सिद्धान्तकौमुदीसहिता [उणादि १८१ । जोरी च । जीरोऽणुः । ज्यश्चेत्येके । १८२ । सुसुधागृधिभ्यः क्रन् । सुरः । सूरः । धीरः । गृध्रः । १८३ । शुसिचिमीनां दीर्घश्च । शु: सौत्रः शूरः । सीरम् । चीरम् मीरः समुद्रः। १८४ । वाविन्धेः। वीभ्रं विमलम् । १८५ । वृधिवपिभ्यां रन् । व चर्म । वप्रः प्राकारः । १८६ । ऋजेन्द्राग्रवज्रविप्रकुब्रचुब्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लौर- वरामाल । रत्नन्ता एकोनविंशतिः । निपातनाद्गुणाभावः । ऋनो नायकः । इदि इन्द्रः। अङ्गेर्नलोपः। अग्रम्। 'वोऽस्त्री हीरके पवौ' । डु वप् , उपधाया इत्त्वम् । विप्रः । कुम्बिचुम्ब्योनलोपः । कुब्रमरण्यम् । चुनं मुखम् । 'क्षुर विलेखने' रेफलोप: । अगुणः । क्षुरः । 'खुर छेदने' रलोपो गुणाभावश्च । खुरः । भन्देलोप: भद्रम् । 'उच समवाये' चस्य ग: उग्रः । जि भी त्वा सुष्टुतयः । य इमं जजान ।' वाहुलकादसंज्ञाछन्दसोरांप कचिदित्याशयेनोदाहरति । वान्तीत्यादि ॥ जोरी च ॥ ‘जीरः खड्ने वणिग्द्रव्ये ' इति विश्वः । ‘जीरस्तु जरणे खङ्गे' इति मेदिनी। ज्यश्चेति ॥ तथा च, 'न धातुलोपे' इति सूत्रे 'जीवेरदानुः' इत्यस्य प्रत्याख्या- नार्थ नैतज्जीवे रूपं किन्तु रकि ज्यः सम्प्रसारणमिति भाष्ये उक्तम् । सुसू ॥ 'सुरा चषक- मद्ययोः। पुल्लिङ्गस्त्रिदिवेशे स्यात्' इति मेदिनी । 'सुरो देवे सुरा मद्ये चषकेऽपि सुरा क्वचित्' इति विश्वः । सुवति प्रेरयति कर्मणि लोकमिति सूरः। सूर्यः । 'धीरो धैर्यान्विते स्वैरे बुधे क्लीवन्तु कुङ्कुमे। स्त्रियां श्रवणतुल्यायाम् ' इति मेदिनी । 'गृध्रः खगान्तरे पुंसि वाच्यलिङ्गो- ऽर्थलुब्धके' इति च । शुरिति तालव्यादिर्गत्यर्थः । 'शूरः स्यात् यादवे भटे' इति मेदिनी । शूरश्चारुभटे सूर्ये' इति विश्वहेमचन्द्र। । 'शूरः सूरश्च तरणौ' इति द्विरूपेषु विश्वः । ‘सीरो- ऽहलयोः पुंसि । चारा झिल्ल्यां नपुंसकम् । गास्तने वस्त्रभेदे च रेखालेखनभेदयोः' इति मेदिनी । 'चीरन्तु गोस्तने वस्त्रे चुडायां सीसकेऽपि च । चिरी कृच्छ्रादिकाझिल्ल्योः' इति विश्वः । वाविन्धेः॥ 'वीध्रन्तु विमलार्थकम्' इति विशेष्यनिघ्नेष्वमरः । ‘वप्रः पितरि केदारे वप्रः प्राकाररोधसोः' इति धरणिरन्तिदेवो । 'वप्रस्ताते पुमानस्त्री वेणुक्षेत्रचये तटे' इति मेदिनी। ऋजेन्द्र ॥ ऋज गत्यादिषु' । 'ऋज्राश्वः प्रष्टिभिरम्बरीष' इति मन्त्रे ऋज्रा गतिमन्तोऽश्वा यस्य स ऋत्राश्व इति वेदभाष्यम् । 'इन्द्रः शचीपतावन्तरात्मन्यादित्ययोगयोः' इति विश्वः । 'अगं पुरस्तादुपरि परिमाणे पलस्य च । आलम्बने समूहे च प्रान्ते च स्यानपुंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत्' इति मेदिनी । 'क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे' इति विश्वमेदिन्यौ। 'खुरः कोलदले शफे। भद्रः शिवे खञ्जरीटवषमेरुकदम्बके । करिजातिविशेषे ना क्लीबं मङ्गलमुस्तयोः। काञ्चने च स्त्रियां रास्नाकृष्णाव्योमनदीषु च । तिथिभेदे - .

द्वितीयः पादः] बालमनोरमा । ६०१ भेरी । पक्षे लः । भेलो जलतरणद्रव्यम् । शुचेश्चस्य कः, शुक्रः । पक्षे लः । शुक्लः। गुङ् वृद्धिः । ‘गौरोऽरुणे सिते पीते' 'वन सम्भक्तौ' । वनो विभागी। इणो गुणाभावः । 'इरा मद्ये च वारिणि' । 'मा माने' माला । १८७ । समि कस उकन् । 'कस गतौ' । सम्यक् कसन्ति पलायन्ते जनाः अस्मादिति सङ्कसुकः दुर्जनः, अस्थिरश्च । १८८ । पचिनशोणुकन्कनुमा च । पचे: क: । पाकुकः सूपकारः । नशेर्नुम् । नंशुकः । १८९ । भियः क्रुकन् । भीरुकः । १९० । क्वुशिल्पिसंज्ञयोरपूर्वस्यापि । रजकः । इक्षुकुट्टकः । चरकः । 'चष भक्षणे' । चषकः । शुनकः । भषकः । १९१ । रमे रश्च लो वा । रमको विलासी । लमकः । १९२ । जहाते१ च । जह्कस्त्यागी कालश्च । १९३ । ध्मो धम च । धमकः कर्मकारः । प्रसारिण्याङ्कटफलानन्तयोरपि । त्रिषु श्रेष्ठे च साधौ च न पुंसि करणान्तरे । उग्रः शूद्रासुते क्षत्राद्रुद्रे पुंसि त्रिघूत्कटे । स्त्री वचाक्षुद्रयोः' इति मेदिनी । 'भेदः प्लवे भीरुके च निर्बुद्धिमुनि. भेदयोः' इति विश्वः। ‘भेल: प्लवे मणौ पुंसि भीरावशे च वाच्यवत् । शुक्रः स्यात् भार्गवे ज्येष्ठे मासे वैश्वानरे पुमान् । रेतोऽक्षिरुग्भिदोः क्लीबं शुक्लो योगान्तरे सिते । नपुंसकन्तु रजते । गौरः पीतेऽरुणे श्वेते विशुद्धेऽप्यभिधेयवत् । ना श्वेतसर्षपे चन्द्रे न द्वयोः पद्मकेसरे। गौरी त्वसञ्जातरजःकन्याशङ्करभार्ययोः । ‘रोचना रजनीपिङ्गाप्रियङ्गुवसुधासु च । आपगाया विशेषेऽपि यादसां पतियोषिति' इति मेदिनी । 'नदीभेदे च गौरी स्याद्वरुणस्य च योषिति' इति विश्वः । अष्टवर्षा 'तु या दत्ता श्रुतशीलसमन्विते । सा गौरी तत्सुतो यस्तु स गौरः परिकीर्तितः' इति ब्रह्माण्डवचनं श्राद्धकाण्डे हेमाद्रिणा उदाहृतम् । एतेन ‘गौरः शुच्याचारः' इति भाष्यं व्याख्यातम् । 'इरा भूवाक्सुराप्सु च' इति मेदिनी। 'मालं क्षेत्रे जने मालो माला पुष्पादि- दामनि' इति मेदिनी । 'मालमुन्नतभूतलम्' इत्युत्पलः । 'क्षेत्रमारुह्य मालम्' इति मेघदूतः । मणिपूर्वोऽयमर्थान्तरेऽपि रूढः । 'मणिमाला स्मृता हारे स्त्रीणान्दन्तक्षतान्तरे' इति विश्वः । बाहुलकात् 'तिज निशाने' रन् दीर्घत्वं जस्य वः । 'तीवा तु कटुरोहिण्यां राजिकागण्डदूर्वयोः । त्रिवत्युष्णे नितान्ते च कटौ' इति मेदिनी । समि कसः ॥ ‘सङ्कसुकोऽस्थिरः' इति विशेष्यनिने अमरः । वुन्॥अपूर्वस्य निरुपपदस्य अपिशब्दात्सोपपदस्य । अर्थद्वारकसम्बन्धे षष्ठी, प्रकृतिप्रत्ययार्थयोः क्रियाकारकभावात् । 'रजको धावके शुके' इति विश्वः । 'रजको धावकशुकौ' इति हेमचन्द्रः । इक्षुकुट्टक इति । 'कुट छेदने' । इक्षुन् कुट्यति इक्षुकुट्टको गौडिकः । 76 ६०२ सिद्धान्तकौमुदीसहिता [उणादिषु १९४ । हनो वध च । वधकः । १९५ । बहुलमन्यत्रापि । 'कुह विस्मापने' । कुहकः । कृतकम् । १९६ । कृषेर्वृद्धिश्चोदीचाम् । कार्षक:-कृषकः । १९७ । उदकं च । प्रपश्चार्थम् । १९८ । वृश्चिकृषोः किकन् । वृश्चिकः । कृषिकः । १९९ । प्राङि पणिकषः । प्रापणिकः पण्यविक्रयी । प्राकषिकः परदारो- पजीवी। २०० । मुपेदीर्घश्च । मूषिक: आखुः । २०१ । स्यमः सम्पसारणं च । चादीर्घः । सीमिकः वृक्षभेदः । २०२ । क्रिय इकन् । ऋयिक: क्रेता। २०३। आङि पणिपनिपतिखनिभ्यः। आपणिकः । आपनिकः इन्द्र- नीलः किरातश्च । आपतिकः श्येनो दैवायत्तश्च । आखनिको मूषिको वराहश्च। २०४ । श्यास्त्याहअविभ्य इनच् । श्येनः । स्त्येनः । हरिणः । अविनोऽध्वर्युः। २०५ । जेः किञ्च । वृजिनम् । २०६ । अरज च । वीभावबाधनार्थम् । अजिनम् । । 'चपकोऽत्री मुरापाले मद्यमाद्यप्रभेदयोः' इति मेदिनी । लमकः ऋषिविशेषः । कृषः॥ कार्षक: कृपावलः । कृषकः स एव । 'कृपकः पुंसि फाले स्यात् कार्षके त्वभिधेयवत्' इति मेदिनी । ‘त्री कुशी कुशिकः फालः' इति रत्नकोशः। उदकं च ॥ उन्दी क्लेदने । ननु 'क्युन् शिल्पि इत्यादिना गतामिदम् । अत आह । प्रपञ्चेति ॥ प्राङि॥ सङ्घात उपपदम् । आङि॥ नन्वनेनैव सिद्ध प्रात्यत्र पणिग्रहणं व्यर्थमिति चेन । उपसर्गान्तरनिवृत्त्यर्थत्वात् । आपणिक इति ॥ वणिक । निम्वरेणाद्युदात्तः । आपणेन व्यवहरतीत्यर्थे ठकि तु “कितः' इत्यन्तोदात्तः । श्यास्त्या ॥ ‘श्येनः पत्रिणि पाण्डुरे' इति मेदिनी । स्त्येनश्चोरः। 'स्तेन चौर्ये' इति चौरादिकात्पचाद्याच तु निर्थकारोऽपि । केचित्तु ‘स्तायूनां पतये' इत्यादिप्रयोगोपष्टम्भेन निर्य- कारस्यापि धाताभ्वादिषु माधवादिभिः स्वीकृतत्वात् प्रकृतसूत्रेऽपि तमेव पठन्तः स्तेनशब्दो निर्यकार एवेत्याहुः । 'हरिणः पुंसि सारङ्गे विशदे त्वभिधेयवत् । हरिणी हरितायाञ्च नारी- भिवृत्तभेदयोः । सुवर्णप्रतिमायाञ्च' इति मेदिनी। वृजेः किञ्च ॥ ‘वृजिनं कल्मषे क्लीबळेशे ना कुटिलेऽन्यवत्' इति मेदिनी । अजिनमिति ॥ ‘अजिनञ्चर्म कृत्तिः स्त्री' इत्यमरः । ।

द्वितीयः पादः] बालमनोरमा । ६०३ २०७ । बहुलमन्यत्रापि । कठिनम् । नलिनम् । मलिनम् । कुण्डिनम् । द्यते: 'यत्परुषि दिनम्' दिवसोऽपि दिनम् । २०८ । दुदक्षिभ्यामिनन् । द्रविणम् । दक्षिणः । दक्षिणा । २०९ । अर्तेः किदिच । इरिणं शून्यम् । २१० । वेपितुह्योर्हस्वश्च । विपिनम् । तुहिनम् । २११ । तलिपुलिभ्यां च । 'तलिनं विरले स्तोके स्वच्छेऽपि तलिनं त्रिषु' । पुलिनम् । २१२ । गर्वेरत उच्च । गौरादित्वान्डीप् । गुर्विणी भिणी । २१३ । रुहेश्च । रोहिणः । २१४ । महेरिनण्च । चादिनन् । माहिनम-महिनम् राज्यम। २१५ । किब्बचिपच्छिश्रि दुगुज्वां दीर्घोऽसम्प्रसारणं च । वाक् । प्राट् । श्रीः । स्रवत्यतो घृतादिकमिति सूः, यज्ञोपकरणम् । दूर्हिरण्यम् । कटप्रूः कामरूपी कीटश्च । 'जूराकाशे सरस्वत्यां पिशाच्यां जवने स्त्रियाम्' । २१६ । आप्नोतेह्रस्वश्च । आपः । अपः । अद्भिः । अद्भ्यः । २१७ । परौ बजेः षः पदान्ते । ब्रजे: किव्दीघौ स्त:, पदान्ते तु षश्च । परिव्राट् । परिव्राजौ। कठिनमिति ॥ कठ कृच्छ्रजीवने । 'कठिनमपि निष्ठुरे स्यात् स्तब्धे तु नपुंसके स्थाल्याम् । कठिनी खटिकायामपि कठिना गुडशर्करायाञ्च' इति मेदिनी । मलिनमिति ॥ मल्ल धारणे' । 'मलिनन्दूषिते कृष्णे ऋतुमत्यान्तु योषिति' इति मेदिनी । कुण्डिन- मिति ॥ 'नगरण्डिनमण्डजो ययौ' इति श्रीहर्षः । कुण्डिनः ऋषिः । तस्यापत्य कौण्डिन्यः । दिनमिति ॥ परुषि पर्वणि दिनं खण्डितमिति तैत्तिरीयश्रुत्यर्थः । द्रुदक्षिभ्यामि नन् ॥ 'द्रु गतौ' । 'दक्ष वृद्धौ' । 'द्रविणं न द्वयोर्वित्ते काञ्चने च पराक्रमे। दक्षिणा दक्षिणोद्भूतसरलच्छन्दवर्तिषु । अवामे त्रिषु यज्ञादिविधिदाने दिशि स्त्रियाम्' इति मंदिनी । 'दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु । वाच्यवद्दक्षिणावाची यज्ञदानप्रतिष्ठयोः' इति विश्वः । अर्तेः ॥ 'इरिणं शून्यमूषरम्' इत्यमरः । 'इरिणन्तु खरे शून्येऽपि' इति मेदिनी । तुहिनमिति ॥ तुहिर् अर्दने । लघूपधगुणे कृते ह्रस्वः । तलिपुलिभ्याञ्च ॥ तल प्रतिष्ठायाम् । पुल महत्त्वे । 'तलिनं विरले स्तोके वच्छेऽपि वाच्यलिङ्गकम्' इति मेदिनी । महेः ॥ 'कुतस्त्वमिन्द्र माहिनस्सन्' इति मन्त्रे माहिनो महनीयः पूजनीय इति वेदभाष्यम् । क्विब्वचि ॥ पृच्छतीति प्राट् । 'छोः शूठ' इति शः । प्राशौ प्राशः । श्रीरिति ॥ 'कृदि- कारात्' इति ङीष् तु न । कृत्प्रत्ययो य इकार इति व्याख्यानात् । कृदन्तं यदिकारान्तमिति मल सिद्धान्तकौमुदीसहिता [उणादिः । २१८ । हुव: श्लुवञ्च । जुहूः । २१९ । सुवः कः । सुवः । २२० । चिक्च । इकार उच्चारणार्थः । क इत्, कुत्वम् । सुक् । 'खुवं च उचश्च सम्मृड्ढि'। २२१ । तनोतेरनश्च वः। तनोतेश्चिक्प्रत्ययः, अनो वशब्दादेशश्च । त्वक् । २२२ । ग्लानुदिभ्यां डौः । ग्लौः । नौः । २२३ । च्चिरव्ययम् । डौरियेव । ग्लौ करोति । 'कृन्मेजन्तः' (सू ४४९) । इति सिद्धे नियमार्थमिदम् । उणादिप्रत्ययान्तभव्यन्त एवेति । २२४ । रातेंडः । राः । रायौ । रायः । २२५ । गमेझैः। गौर्नादित्ये बलीवर्दे किरणक्रतुभेदयोः । स्त्री तु स्या- द्दिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियोः स्वर्गवाम्बुरश्मिदृग्बाणलोमसु' बाहुलकादयुतेरपि डोः । द्यौः स्त्री स्वर्गान्तरिक्षयोः' इति कोशः। २२६ । भ्रमेश्च डूः । भ्रूः । चाद्गमेः । अग्रेगूः । २२७ । दमे सिः। दोः । दोषौ । २२८ । पणेरिजादेश्च वः। वणिक्। स्वार्थेऽण् । 'नैगमो वाणिजो वणिक्'। २२९ । वशेः कित् । 'उशिगग्नौ घृतेऽपि च'। २३० । भृत्र ऊच्च । भूरिक भूमिः । २३१ । जसिसहोरुरिन् । जसुरिर्वत्रम् । सहुरिरादित्यः पृथिवी च । । त्याह पक्षेऽपि कारग्रहण तत्सामर्थ्यादेव केवलग्रहणात् । दुर्घटस्तु ङीषि श्रीमित्यपि रक्षित इच्छती- । 'श्रीर्वेषरचनाशोभाभारतासरलद्रुमे । लक्ष्म्यान्त्रिवर्गसम्पत्तिविधोपकरणेषु च । विभूती च मती च स्त्री' इति मेदिनी। जूराकाशे इत्यादि मूलोदाहृतञ्च । हुवः ॥ चात् विब्दीघौ । स्रुवः कः ॥ ‘त्रु गतौ'। वो यज्ञपात्रविशेषः । 'अयं खुवोऽभिजिहर्ति' 'स्रवेण पार्वणी जुहोति' इत्यादी प्रसिद्धः । चिक्च ॥ स्रुव इत्येव । योगविभाग उत्तरार्थः । तनोतेः॥ व इति सङ्घातग्रहणम् । तदाह । वशब्देति ॥ 'स्त्रियान्तु त्वगसुग्धरा' इत्यमरः । केशवोक्त- माह । गौर्नेत्यादि । गौः स्वर्गे च बलीवर्दै रश्मौ च कुलिशे पुमान् । स्त्री सौरभेयोग्बाण- दिग्वारभूष्वप्सु भूम्नि च' इति मेदिनी । द्यौरिति ॥ कर्तर्यधिकरणे वा प्रत्ययः । दोरिति ॥ त्रिलिङ्गोऽयमिति प्रागेवोक्तम् । जसिसहोरुरिन् ॥ 'जसुरये स्तय पिप्यथुर्गाम्' इति मन्त्रे जसुरये श्रान्तायेति 'नीचायमानं जसुरिं न इयेनम्' इत्यत्र जसुरिं क्षुधितम् । श्येनन श्येनपक्षिण- मिवेति । 'उतस्य वाजी सहुरितौ वा' इति मन्त्रे सहुरिः सहनशीलः इति च वेदभाष्यम् ।

द्वितीयः पादः] बालमनोरमा । । २३२ । सुयुरुनो युच् । सवनश्चन्द्रमाः । यवनः । रवण: कोकिलः। वरणः। २३३ । अशे रश च । अश्नोतेर्युच्स्यात् रशादेशश्च । रशना काञ्ची । जिह्वावाची तु दन्त्यसकारवान् । २३४ । उन्देर्नलोपश्च । ओदनः । २३५ । गमेर्गश्च । गमेर्युच्स्याद्गश्चादेशः । गगनम् । २३६ । बहुलमन्यत्रापि । युच्स्यात् । स्यन्दनः । रोचना । २३७ । रञ्जः क्युन् । रजनम् । २३८ । भूमधूभ्रस्जिभ्यश्छन्दसि । भुवनम् । सुवन: आदित्यः । धुवनो वह्निः । निधुवनं सुरतम् । भृजनमम्बरीषम् । २३९ । कृपृजिमन्दिनिधानः क्युः । किरण: । पुरण: समुद्रः । वृजन- मन्तरिक्षम । मन्दनं स्तोत्रम् । निधनम् । सुयु ॥ ‘सवनन्त्वध्वरे स्नाने सोमनिर्दलनेऽपि च' इति मेदिनी। 'रवणः शब्दने खरे' इति च । 'वरणस्तिक्तशाकेऽपि प्राकारे वरणं वृतौ' इति विश्वः । 'वरुणे वरणः सेतुस्तिक्तशाकः कुमारकः' इत्यमरः। अशे रश च ॥ जिह्वेति ॥ ‘रस आस्वादने' चौरादिकः । ततो नन्द्यादित्वाल्ल्युः । ‘ण्यासश्रन्थः' इति युज्वा । 'अथ रसनं स्वादने ध्वनौ । जिह्वायान्तु न पुंसि स्यात् रानायां रसना स्त्रियाम्' इति मेदिनी । एषा दन्त्यतालव्यवतोयोरर्थव्यवस्था भूरिप्रयो- गाभिप्रायेणोक्ता। वस्तुतस्तु द्वावप्यर्थद्वये साधू । तथा हि । 'तालव्या अपि दन्त्याश्च शम्बशम्ब. लशूकराः । रशनापि च जिह्वायाम्' इति विश्वकोशाजिह्वायामुभयम् । 'रसनं निस्वने स्वादे रसना काञ्चिजिह्वयोः' इत्यजयधरणिकोशाभ्यां काञ्च्यामुभयं साधु । 'रसनं स्वदने वाथ रसना काञ्चिजिह्वयोः । रसनञ्चापि रास्नायाम्' इति विश्वप्रकाशाच्चेति दिक् । एवञ्चेह सूते अशू व्याप्ती 'अश भोजने' इति धातुद्वयमपि ग्राह्यम् । 'रस आस्वादने' 'रस शब्दे' इति धातुभ्यां 'बहुलमन्यत्रापि' इत्यनुपदं वक्ष्यमाणो युच् । तेन सर्वत्रावयवार्थानुगमोऽपि सूपपाद इत्यवधेयम् । उन्देः॥ ‘ओदनं न स्त्रियां भक्ते बलायामोदनी स्त्रियाम्' इति मेदिनी । बहुलम् ॥ 'स्यन्दनन्तु स्रुतौ नीरे तिनिशे ना रथेऽस्त्रियाम्' इति मेदिनी । 'रोचना रक्तकल्हारे गोपि- त्तवरयोषितोः । रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचके त्रिषु' इति च । 'चदि आह्लादने' । 'चन्दनं मलयोद्भवे । चन्दनः कपिभेदे स्यान्नदीभेदे तु चन्दनी' इति विश्वः । 'चन्दनी तु नदीभेदे । चन्दनोऽस्त्री मलयजे भद्रकाल्यां नपुंसकम्' इति मेदिनी। भद्रकाली ओषधि. विशेषः । ‘भद्रकाली तु गन्धोल्यां कात्यायन्यामपि स्त्रियाम्' इति मेदिनी । 'असु क्षेपणे'। 'असनं क्षेपणे क्लीबं पुंसि स्याज्जीवकद्रुमे' इति मेदिनी । 'अत सातत्यगमने'। राजपूर्वः । 'राजातनः क्षीरिकायां प्रियाले किंशुकेऽपि च' इति विश्वमेदिन्यौ। एवमन्येऽपि द्रष्टव्याः । रजेः क्युन् ॥ बाहुलकात्कृपेरपि । लत्वाभावश्च । कृपणः । भूसू ॥ बहुलवचनाद्भाषायामपि । 'भुवनं विष्टपेऽपि स्यात्सलिले गगने जने' इति मेदिनी । कृप ॥ 'निधनं स्यात्कुले नाशे' इति . . ।

सिद्धान्तकौमुदीसहिता [उणाति । २४० । धृषेधिष् च संज्ञायाम् । धिषणो गुरुः । धिषणा धीः । २४१ । वर्तमाने पृषबृहन्महज्जगच्छतृवत् । अतिप्रत्ययान्ता: । 'पृ सेचने' गुणाभावः । पृषन्ति । बृहत् । महान् । गमेर्जगादेशः । जगत् । २४२ । संश्चत्तृपदेहत् । एते निपात्यन्ते। पृथक्करणं शतृवद्भावनिवृत्त्यर्थम् सञ्चिनोतेः सुट् । इकारलोपः । संश्चत् कुहकः । तृपत् छत्रम् । विपूर्वात् हन्टे ष्टिलोपः इत ए च । वेहद्गर्भोपघातिनी' । २४३ । छन्दस्यसानच्शुजृभ्याम् । शवसान: पन्थाः । जरसान: पुरुष: २४४ । ऋञ्जिवृधिमन्दिसहिभ्यः कित् । ऋजसानो मेघ: । वृधसान पुरुषः । मन्दसानोऽग्निर्जीवश्च । सहसानो यज्ञो मयूरश्च । २४५ । अर्तेर्गुणः शुद् च । अर्शसानोऽग्निः । २४६ । सम्यानच्स्तुवः । संस्तवानो वाग्मी । मेदिनी । 'निधनङ्कुलनाशयोः' इति हेमचन्द्रः । धृषेः॥ ‘धिषणस्त्रिदशाचार्ये धिषणा धियि योषिति' इति मेदिनी। वर्तमाने ॥ 'पृषन्मृगे पुमान् बिन्दौ न द्वयोः पृषतोऽपि ना। अनयोश्च त्रिषु श्वेतविन्दुयुक्तेऽप्युभाविमौ' इति मेदिनी । 'बृहती क्षुद्रवार्ताक्यां कण्टकार्याञ्च वाचि च । वारिधान्यां महल्याञ्च छन्दोवसनभेदयोः' इति विश्वः । शतृवद्भावात् 'उगिदचाम्' इति नुम् । बृहत् विपुलम् । ‘महती वल्लकीभेदे राज्ये तु स्यान्नपुंसकम् । तत्त्वभेदे पुमान् श्रेष्ठे वाच्यवत्' इति मेदिनी । महती नारदीया वीणा । 'अवेक्षमाणं महती मुहुर्मुहुः' इति माघः । 'जगत्स्या- द्विष्टपे क्लीवं वायो ना जङ्गमे त्रिपु । जगती भुवने मायां छन्दोभेदे जनेऽपि च ' इति मेदिनी। तत्र वायुवाचिनः पुंलिङ्गस्य नुमि जगन्-जगन्ती-जगन्तः इत्यादि । 'युगमिजुहोतीनान्द्वे च' इति व्युत्पादितस्य तु नुमभावात् जगत्-जगतावित्यादि । सचिनोतेरिति ॥ सुभूतिचन्द्रस्तु सम्पूर्वाच्छ्यतः संधदित्याह । तृपत् छत्रमिति ॥ चन्द्रमा इत्यन्ये । 'पिब मध्वस्तृपदिन्द्रा- वृषस्व' इति मन्त्रं तु तृपच्छब्दो यौगिकः । तृप्यन्नित्यर्थः । वेदभाष्ये तु तौदादिकात् तृपतेः शतृप्रत्यये आगमशास्त्रस्यानित्यत्वान्नुमभाव इत्युक्तम् । तत्प्रौढिवादमात्रम् । एतेन त्वमस्य ब्राह्मणादानृपत्पिब' इत्यादि मन्त्रान्तरं व्याख्यातम्। गौरित्यनुवृत्तौ 'वेहद्गर्भोपघातिनी' इत्यमरः। छन्दस्य ॥ 'शु गती, जृष् वयोहानौ' । एतेन 'प्रमन्महे' इत्यादिमन्त्रद्वयेऽपि शवसानशब्दस्य गन्नृपरतया सौष्टवे बाहुलकोपष्टम्भेन क्लिष्टव्याख्यानं नातीवादर्तव्यम् । ऋञ्जिवृधि ॥ ऋजि भर्जने । इदित्त्वान्नुम् । तत एव नलोपाभावः। एवञ्च अयं मन्दिसही च पूर्वसूत्रे एव पठितुं योग्याः । कित्त्वन्तु वृद्धावेवोपयुज्यते । उत्तरसूत्रेऽपि गुणग्रहणं सुत्यजम् , अर्तेः शुट च वृधःकिदित्युक्ती सर्वसामञ्जस्यात् । ऋजसानो मेघ इति ॥ 'ऋञ्जसानः पुरुवार उक्थैः । अस्मिन् मन्दसामा वृषशे वसु' इत्यादिमन्त्राणां भाष्ये तु यौगिकार्थ एव पुरस्कृतः । अर्तेः॥ धातोर्गुणः । प्रत्ययस्य शुडागमः । 'आसाविषदर्शसानाय शरुम्' इति मन्त्रस्य भाष्ये द्वितीयः पादः] बालमनोरमा । २४७। युधिबुधिशिभ्यः किच्च । युधान: । बुधान: । दृशानो लोक- पालकः । २४८ । हुर्छः सनो लुक् छलोपश्च । जुहुराणश्चन्द्रमाः । २४९ । श्वितेर्दश्च । शिश्विदान: पुण्यकर्मा । २५० । तन्तुचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ । शंसे: क्षदादि- भ्यश्च क्रमात्तन्तृचौ स्त: । तौ चानिटौ । शंस्ता स्तोता । शंस्तरौ । शंस्तरः । क्षदिः सौलो धातुः शकलीकरणे भक्षणे च । अनुदात्तेत् । 'वृक्ये चक्षदानम्' इति मन्त्रात् । 'उक्षाणं वा वेहतं वा क्षदन्ते' इति ब्राह्मणाच्च । 'क्षत्ता स्यात्सारथौ द्वाःस्थे वैश्यायामपि शूद्रजे'। २५१ । बहुलमन्यत्रापि । मन् मन्ता । हन हन्ता । इत्यादि । २५२ । नप्तनेष्तृत्वष्टहोतृपोतृभ्रातृजामातृमातृपितृदुहित । न पतन्त्यनेन पितरो नरके इति नप्ता पौत्रो दौहित्रश्च । नयतेः पुग्गुणश्च । नेष्टा । त्विषेरितो- ऽत्वम् । त्वष्टा । होता । पोता ऋत्विग्भेदः । भ्राजतेर्जलोपः भ्राता । जायां माति अर्शसानाय शत्रूणां हिंसित्रे इति व्याख्यातम् । युधिबुधि ॥ बाहुलकात् कृपेरपि । कृपाणः खड्गः। 'कृपाणेन कथङ्कारं कृपण: सह गण्यते । परेषान्दानसमये यः स्वकोशं विमुञ्चति ।' हुईः ॥ ‘युयोध्यस्मज्जुहुराणमेनः' इति मन्त्रे जुहुराणकौटिल्यकारि पापं, युयोधि पृथक् कुर्विति भाध्यम् । श्वितेर्दश्च ॥ श्विता वर्णे। अस्मात्सनन्तादानच्, सनो लुक्, तकारस्य दकारः । किदित्यनुवृत्तेर्न गुणः । पुण्यकर्मेति ॥ स हि उज्ज्वलो भवितुमिच्छति । 'शिश्वि- दानोऽकृष्णकर्मा' इति विशेष्यनिन्ने अमरः । अकृष्णं शुक्लं शुद्धमित्यर्थः । इह क्षीरस्वामी प्रकृत- सूत्रं विस्मृत्य, श्विदि श्वैत्ये, अस्माल्लिट: कानजिति व्याख्यत् । तत्तुच्छम् । कानचश्छान्दसत्वात् । इदित्त्वेन नलोपानुपपत्तेश्चेति दिक् । कृष्णकर्मेत्यमरे पाठान्तरम् । पापकर्मेत्यर्थः तत्रावयवार्थी- नुगमबलेन बोध्यः। शुद्धो भवितुमिच्छतीत्युक्तो हि इदानीमशुद्ध इति गम्यते । तृन्तृचौ ॥ 'अप्तृन्' इत्यतोऽत्र दीर्घो नेत्युदाहरति। शंस्तरावित्यादि ॥ नित्त्वादाद्यदात्तः। तथाच मन्त्रः। 'प्रावग्राम उत शंस्तासु विप्रः' । आदिशब्दात् 'शासु अनुशिष्टौ' । शास्ति विनयति सत्त्वानि शास्ता बुद्धः, शास्तरौ-शास्तरः । 'शास्ता समन्तभद्रे ना शासके पुनरन्यवत्' इति मेदिनी । प्रपूर्वस्य तु 'अप्तृन्' इति दीर्घः । प्रशास्तारौ-प्रशास्तारः । 'क्षत्ता शूद्राच पैश्याजे प्रतीहारे च सारथौ। भुजिष्यातनयेऽपि स्यात् नियुक्तवेधसोः पुमान्' इति मेदिनी। कोशानुसारेणाह । वैश्याया- मिति ॥ अमरस्तु 'क्षत्रियायाञ्च शूद्रजे' इत्याह । याज्ञवल्क्योऽपि । 'क्षत्तिया मागधं वैश्यात् शूद्रात् क्षत्तारमेव च' इति । इह बहुलमन्यत्रापीति प्रपञ्चार्थत्वात् उपेक्षितम् । नतेति ॥ नञः प्रकृतिभावः । 'पत्ल् गतौ' इत्यस्मात् तृच् टिलोपः । 'त्वष्टा पुमान् ६०८ सिद्धान्तकौमुदीसहिता [उणादि जामाता । 'मान पूजायाम्' नलोप: माता । पातेराकारस्येत्त्वम् । पिता' दुहेस्तृच्, इट् गुणाभावश्च । दुहिता । २५३ । सुज्यसेः । स्वसा । २५४ । यतेदृद्धिश्च। याता। भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् । २५५ । नबि च नन्देः । न नन्दति ननान्दा । इह वृद्धिर्नानुवर्तते इत्येके । 'ननान्दा तु स्वसा पत्युननन्दा नन्दिनी च सा' इति शब्दार्णवः । २५६ । दिवेः । देवा । देवरः । 'स्वामिनो देवृदेवरौ' । २५७ । नयतेर्डिच । ना । नरौ । नरः । २५८ । सव्ये स्थश्छन्दसि । 'अम्बाम्ब-' (सू २९१८) इत्यत्र 'स्थास्थिन्स्थूणामुपसंख्यानम्' (वा ४९६१) सव्येष्ठा सारथिः । सव्येष्ठरौ। सव्येष्ठरः। २५९ । अर्तिसृधृधम्यम्यश्यवितृभ्योनिः । अष्टभ्योऽनिप्रत्यय: स्यात् । अरणिरग्नेयोनिः । सरणिः । धरणिः । धमनिः । अमनिर्गतिः । अशनिः । अवनिः । तरणिः । बाहुलकाद्रजनिः । २६० । आङि शुषेः सनश्छन्दसि । आशुशुक्षणिरग्निर्वातश्च । २६१ । कृपेरादेश्च चः। चर्षणिर्जनः । देवशिल्पितणारादित्यभिपि' इति भदिनी । जायां मातीत्यन्त वितण्यर्थः । सुञ्यलेः॥ असु क्षेपण । अस दीप्तयादिषु । आभ्यां सुजि उपपदे ऋन् । यतेः॥ यती प्रयत्ने । नजि च नन्दः॥ उषाप्यूषा ननन्दा च ननान्दा च प्रकीर्तिता' इति द्विरूपेषु विश्वः। देवेति ॥ भ्रातर इत्यनुवृत्तौ स्वामिनी देवृदेवरौं' इत्यमरः । ‘देवे धवे देवरि माधवे च' इति श्रीहर्षः । नयतेः॥ 'स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः' इत्यमरः । सव्ये ॥ ऋर्डिच्चेत्यनुवर्तते । सव्ये- ठेति ॥ 'तत्पुरुषे कृति' इति सप्तम्या अलुक् । अर्तिस ॥ धमिः सौत्रः । 'अरणिहिमन्थे ना द्वयोनिमन्थदारुणि' इति मेदिनी । 'सरणिः श्रेणिवर्त्मनोः' इति दन्त्यादौ रभसः । 'सरणिः पती मार्गे च' इति मेदिनी। शू हिंसायाम् । ततः शरणिरिलेके । 'शरणिः पथि चाऽऽवलौ' इति तालव्यादावजयः । ‘इमामने शरणिम्' इति मन्त्रे शरणिं हिंसां व्रत- लोपरूपां मीमृषः क्षमखेति वेदभाष्यम् । 'धमनी तु शिरा हट्टविलासिन्याञ्च योषिति । अशनिः स्त्रीपुंसयोः स्याच्चञ्चलायां पवावपि । तरणिषुमणौ पुंसि कुमारीनौकयोः स्त्रियाम् । रजनी नीलिनीरात्रिहरिद्राजतुकासु च' इति मेदिनी । कुमारी लताविशेषः। 'तरणी रामतरणी कर्णिका कारकेसरा । सहा कुमारी गन्धाढ्या' इति धन्वन्तरिनिघण्टुः। रजेर्नलोपोऽपि बाहु- लकात् । कृषेरादेश्च चः॥ चर्षणिर्जन इति ॥ वैदिकनिघण्टौ चर्षणिशब्दस्य मनुष्यनामसु .

द्वितीयः पादः] बालमनोरमा । . २६२ । अदेर्मुट् च । अद्मनिः अग्निः । २६३ । वृतेश्च । वर्तनि: । गोवर्धनस्तु चकारान्मुट वर्त्मनिरित्याह । २६४ । क्षिपेः किच्च । क्षिपणिरायुधम् । २६५ । अर्चिशुचिहुमृपिछादिछर्दिभ्य इसिः। अचिोला । इदन्तो- ऽप्ययम् । 'अग्नेजन्ते अर्चयः । शोचिर्दीप्तिः । हविः सर्पिः । 'इस्मन्- (सू २९८५) इति ह्रस्वः । छदिः पटलम् । छर्दिवमनव्याधिः । इदन्तोऽपि । छर्घतीसारशूलवान्' । २६६ । बृंहेर्नलोपश्च । ' बर्हिर्ना कुशशुष्मणो:' । २६७ । द्युतेरिसिन्नादेश्च जः। ज्योतिः । २६८ । वसौ रुचेः संज्ञायाम् । वसुरोचिर्यज्ञः । २६९ । भुवः कित् । भुविः समुद्रः । २७० । सहो धश्च । सधिरनड्डान् । २७१ । पिवतेस्थुक् । 'पाथिश्चक्षुःसमुद्रयोः' । २७२ । जनेरुसिः। जनुर्जननम् । २७३ । मनेश्छन्दसि । मधुः । २७४ । अर्तिपृवपियजितनिधनितपिभ्यो नित् । अरुः । परुर्ग्रन्थिः । पाठात् । 'ओमासश्चर्षणीधृतः। प्रचर्षिणिभ्यः' इत्यादिमन्त्राणां भाष्ये तथैव व्याख्यानाच्च । उज्ज्वल- दत्तस्तु आदेश्च ध इति पठित्वा धर्षणी बन्धकीति व्याख्यत् । तदयुक्तम् , तथा सति वृषेरित्येव सूत्रयेत् , प्रागल्भ्यरूपावयवार्थानुगमात् । आदेश्च ध इत्यंशस्य त्यागेन लाघवाच । वर्तनिरिति॥ कृदिकारादिति पक्षे डीए । 'सरणिः पद्धतिः पद्या वर्तन्येकपदीति च' इत्यमरः । क्षिपणि- रायुधमिति ॥ 'उतस्य वाजी क्षिपणिन्तुरण्यति' इति मन्त्रस्य वेदभाष्ये तु क्षिपणिं क्षेपणमनु तुरण्यति त्वरयति गन्तुमिति व्याख्यातम् । अचिरिति सान्तम् । 'तमर्चिषा स्फूर्जयन्' इति मन्त्रः । 'नयनमिव सनिद्रं घूर्णते नैशमर्चिः' इति माघः । 'ज्वालाभासोर्न पुंस्यचिः' इति नानार्थे सान्तेष्वमरः । इदन्तोऽपीति ॥ णिजन्तादच इरिति भावः । 'अर्चिहेंतिः शिख स्त्रियाम्' इत्यमरः। 'रोचिः शोचिरुभे क्लीबे' इति च । छाद्यतेऽनया छदिः । छदिः स्त्रियामवेति लिङ्गानुशासन सूत्रम् । एवञ्च ‘पटलं छदिः' इत्यमरग्रन्थे पटलसाहचर्याच्छदिषः क्लीबतां वदन्त उपेक्ष्याः । बृहेः ॥ ‘बर्हिः पुंसि हुताशने । न स्त्री कुशे' इति मंदिनी । श्रुतेः॥ 'ज्योतिरग्नौ दिनकरे । पुमान्नपुंसके दृष्टौ स्यान्नक्षत्रप्रकाशयोः' इति मेदिनी । वसौ रुचेः॥ बाहुलकात्केवलादपि। 'रोचिः शोचिरुभे क्लीबे' । अर्तिपृ ॥ 'व्रणोऽस्त्रियामीममरुः क्लीबे' - . 77 सिद्धान्तकौमुदीसहिता [उणादिषु - वपुः । यजुः । तनु:-तनुषी-तनूंषि । धनुरस्त्रियाम् । 'धनुर्वशविशुद्धोऽपि निर्गुणः किं करिष्यति' । सान्तस्योदन्तस्य वा रूपम् । 'तपुः सूर्याग्निशत्रुषु'। २७५ । एतेर्णिच । आयुः । आयुषी । २७६ । चक्षेः शिच । चक्षुः । २७७ । मुहेः किच्च । मुहुरव्ययम् । २७८ । बहुलमन्यत्रापि । आचक्षुः । परिचक्षुः । २७९ । गृञ्चतिभ्यः ष्वरच् । 'कर्वरो व्याघ्ररक्षसोः' । गर्वरो- ऽहङ्कारी । शर्वरी रात्रिः । 'वर्वर: प्राकृतो जनः' । चत्वरम् । २८० । नौ सदेः। ‘निषद्वरस्तु जम्बालः' । निषद्वरी रात्रिः । ॥ इत्युणादिपु द्वितीय पादः ॥ ॥ अथ उणादिषु तृतीय पादः ॥ २८१ । छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगहरकतरसं- यद्वराः। एकादश प्वरच्प्रत्ययान्ता निपात्यन्ते । 'छिदिर्' 'छद्' अनयो- स्तकारोऽन्तादेशः छिदेर्गुणाभावश्च । छित्वरो धूर्तः । 'छत्वरो गृहकुञ्जयोः' । . - इत्यमरः । 'ग्रन्थिनी पर्वपरुषी' इति च । वपुः क्लीबन्तनुः शस्ताकृतावपि' इति मेदिनी । तनुः शरीरम् । 'तनुष तनुपऽनङ्गम् ' इति सुबन्धुः । 'स्यात्तनुस्तनुषा सार्धं धनुषा च धनुं विदुः' इति द्विरूपषु विश्व. । 'अथास्त्रियान्धनुश्चापौ' इत्यमरः । 'धनुः प्रियाले ना न स्त्री राशिभेदे शरासन । धनुर्धरे त्रिषु' इति सान्ते मेदिनी। चक्षेः ॥ शित्त्वात्सार्वधातुकत्वे रख्यात्र न । चक्षत रूपमनुभवन्त्यनेनेति चक्षुः । मुहेः ॥ 'मुहुः पुनःपुनः शश्वत् अभीक्ष्णम- सकृत् समाः ।' इत्यव्ययेवमरः । अस्मात्परं बहुलमन्यत्रापीति सुस्पष्टत्वात्त्यक्तम् । कृगृ ॥ 'नैनः कर्वरः कव्याकबुरो यातुरक्षसोः' इति शब्दार्णवः । 'शर्वरी यामिनीस्त्रियोः' इति मदिनी। 'वर्वर: पामरे केशविन्यास नीवृदन्तरे । वर्वरः फञ्जिकायान्तु वर्वरा शाखपुष्पयोः' इनि विश्वः । 'वर्वरः पामरे केशवल्कले नीवृदन्तरे । फनिकायां पुमान् शाकभेदपुष्पभिदोः प्रियाम्' इति मेदिनी । ‘चत्वरं स्थण्डिलेऽङ्गणे' इति च । नौ सदेः॥ वरजनुवर्तते । 'सदिरप्रतः' इति पत्वम् । 'निषद्वरः स्मरे पङ्के निशायान्तु निषद्वरा' इति मेदिनी ॥ ॥ इत्युणादिषु द्वितीयः पादः ॥ छित्वर ॥ 'छित्वरं छेदनद्रव्ये धूर्ते वैरिणि च त्रिषु' इति मेदिनी । 'डधाञ्' । अन्त्यस्य ईत्वम् । एवं 'पा पाने' इत्यादीनामित्येके । अन्ये तु 'पीव मीव तीव नीव स्थौल्ये' तृतीयः पादः] बालमनोरमा । धीवरः कैवर्तः । पीवरः स्थूलः । मीवरो हिंसकः । चिनोतेर्दीर्घश्च । चीवरं भिक्षुकप्रावरणम् । तीवरो जातिविशेषः । नीवर: परिबाट । गाहतेह्रस्वत्वम् । गह्वरम् । कटे वर्षादौ, कट्वरं व्यञ्जनम् । यमेर्दकारः संयद्वरो नृपः । पदेः सम्पदर इत्येके । २८२ । इसिञ्जिदीकुष्यविभ्यो नक् । ‘इनः सूर्ये नृपे पत्यौ' सिनः काण: । जिनः अर्हन् । दीनः । उष्णः । ऊनः । २८३ । फेनमीनौ । एतौ निपात्येते । स्फायते: फेन: । मीनः । २८४ । कृषेवणे । कृष्णः । २८५ । बन्धेर्बधिबुधी च । बध्नः । बुघ्नः । २८६ । धापृवस्यज्यतिभ्यो नः । 'धाना भृष्टयवे स्त्रियः' । पर्ण पत्रम् । पर्णः किंशुकः । 'वस्नो मूल्ये वेतने च'। अजेर्वी । वेनः । अन्नः आदित्यः । बाहुलकाच्छृणोतेः । श्रोण: पङ्गुः । २८७ । लक्षेरद् च । लक्षेश्चुरादिण्यन्तान्नः स्यात्तस्याडागमश्च । चान्मु- डित्येके । 'लक्षणं लक्ष्मणं नाम्नि चिह्ने च' । लक्षणो लक्ष्मणश्च रामभ्राता । 'लक्षणा हंसयोषायां सारसस्य च लक्ष्मणा' । एभ्यः प्रत्यये 'लोपो व्योः' इति वलोपमाहुः । ‘पीवरः कच्छपे स्थूले' इति मेदिनी । 'तीवरो नाम्बुधौ व्याधे' इति च । 'स्यानीवरो वणिजके वास्तवऽपि च दृश्यते' इति मेदिनीविश्व- प्रकाशौ । 'कट्रं कुत्सिते वाच्यलिङ्गं सके नपुंसकम्' इति मेदिनी । बाहुलकादुपपूर्वाज्जुहोते. रुकारलोपः । 'उपहरे समीपे स्यादेकान्तेऽपि नपुंसकम्' इति मेदिनी । उपह्वरो रथः इति केचित् । 'तदुप्रयक्षतम्' इति मन्त्रे तु उपह्वरे उपगन्तव्ये समीपे देशे । 'ड्स कौटिल्ये' । गतिविशेषवाचिना धातुना गतिमात्रमिह लक्ष्यते । ततोऽधिकरणे घः । कृदुत्तरपदप्रकृति- स्वरत्वमिति भाष्ये व्याख्यातम् । इण्सिम् ॥ ‘इनः पत्यौ नृपार्कयोः । जिनोऽर्हति च बुद्ध च पुसि स्यात् त्रिषु जित्वरे' इति मेदिनी । 'दीना मूषिकयोषायां दुर्गते कातरेऽन्यवत्' इति विश्वः । 'उष्णो ग्रीष्मे पुमान् दक्षाशीतयोरन्यलिङ्गके' इति मेदिनी । फेनमीनौ ॥ 'डिण्डीरो ऽब्धिकफः फेनः' इत्यमरः । 'मीनो राश्यन्तरे मत्स्ये' इति विश्वः । कृषः ॥ ‘कृष्णः सत्यवतीपुत्रः केशवे वायसेऽर्जुने । कृष्णा स्यात् द्रौपदीनीलीकणाद्राक्षासु योषिति । मेचके वाच्यलिङ्गः स्यात् क्लीबे मरिचलोहयोः' इति मेदिनी । ब्रनः सूर्यः । 'बुध्नः शिफायां रुद्रे च इति विश्वः । 'बुध्नो ना मूलरुद्रयोः' इति मेदिनी । धापृ ॥ ‘धाना भृष्टयवे प्रोक्ता धान्यके- ऽभिनवोद्भिदि' इति विश्वः । 'पर्ण पत्रे किंशुके ना' इति मेदिनी । 'वनस्त्ववक्रये पुंसि वेतने स्यानपुंसकम्' इति च । वेन इति ॥ लुण्टाकः प्रजापतिश्च । ‘सपूयॊ महोनाम्' इति मन्त्रे मनोः पुत्रेऽपि प्रसिद्धः । लक्षणमित्यादि ॥ लक्षणलक्ष्मणशब्दौ द्वावपि नाम- ६१२ सिद्धान्तकौमुदीसहिता [उणादिषु २८८ । वनरिच्चोपधायाः। वेन्ना नदी । २८९ । सिवेष्टेयं च । दीर्घोच्चारणसामर्थ्यान्न गुणः । स्यून आदित्यः । बाहुलकात्केवलो न: । ऊठ् । अन्तरङ्गत्वाद्यण् । गुण: । स्योन: । ० । कृवृसिद्रुपन्यनिस्वपिभ्यो नित् । कर्णः । वर्णः । 'जर्णश्चन्द्रे च वृक्ष च' । सेना । द्रोणः । पन्नो नीचैर्गतिः । अन्नमोदनः । स्वप्नो निद्रा । २९१ । धेट इच्च । 'धेन: सिन्धुर्नदी धेना' । २९२ । तृपिशुषिरसिभ्यः कित् । तृष्णा । शुष्णः सूर्यो वह्निश्च । रस्त्रं द्रव्यम। २९३ । मुत्रो दीर्घश्व । सूना वधस्थानम् । २९४ । रमेस्त च । रमयतीति रत्नम् । २९५ । राम्नासाम्नास्थूणावीणाः । राना गन्धद्रव्यम् । साना गोगल- कम्बल: । स्थूणा गृहस्तम्भ: । वीणा वल्लकी । २९६ । गादाभ्यामिष्णुच् । गेष्णुर्गायन: । देष्णुता । तु वृ । चिहयोः कावा । रामभ्रातरि पुहिङ्गो हसयोषायां लक्षणा सारसयोषायां लक्ष्मणा इति व्यवस्थे- त्यर्थः । ' लक्षणं नानि चिह च सारस्यां लक्ष्मणा कचित् । लक्ष्मणा त्वौषधीभेदे सारस्यामपि योपिनि। गमभ्रातरि पुंसि स्यात सधीक चाभिधेयवत्' इति मंदिनी। कोशे तु सारस्यामपि निर्मकार: म्वीकृतः । वन्नेति ॥ लघूपधगुण: । वाहुलकादिति ॥ एतच्च ‘च्छोः शूट' इति मूत्र वृनो यन विधिः' इति मूत्र केयटग्रन्थे च स्पष्टम् । ‘स्योनः किरणसूर्ययोः' इति मंदिनी । कृवृ ॥ ‘कर्णः पृथाज्यष्टमते सवर्णाद्री श्रुतावपि ' इति विश्वमेदिन्यो । 'वृञ् वरणे' दीर्घपाठ वरणे' । 'वो द्विजादिशुकादियशोगुणकथासु च । स्तुती ना न स्त्रियां भेदे रूपाक्षरविलेखन' इति मंदिनी । विश्वमेदिनीस्थमाह । जर्ण इति ॥ 'जर्णो जीर्णद्रुमेन्दुषु इति हेमचन्द्रः । 'द्रोणऽस्त्रियामाढके स्यात् आढकादिचतुष्टये । पुमान् कृषीपतौ कृष्णकाके वी नावृदन्तरे । स्त्रियाङ्काष्टाम्बुवाहिन्याङ्गवादीनामपीष्यते । अन्नं भक्तं च भुक्ते स्यात् । म्वनः खाप प्रमुप्तस्य विज्ञाने दर्शने पुमान्' इति मेदिनी। धेट इच्च॥ 'धेना नद्यां नदे पुमान्' इति मेदिनी । “धेनः समुद्र नद्याञ्च धना' इति विश्वः । श्लोको धारेत्यादिषु सप्तपञ्चाशत्संख्या- केषु बाडनामसु धेनेति वैदिकनिघण्टौं पठितम् । अत एव 'धनां जिगाति दाशुषे । इन्द्रं धेना- भिरिह मादयस्व' इत्यादिषु धेना वागिति व्याख्यातं भाष्ये । तृषिशुषि ॥ 'मि तृषा पिपासा- याम्' । 'तृष्णा लिप्सापिपासयोः' इति विश्वः । सुञः ॥ सूनाऽधोजिह्विकापि च' इति नान्ते अमरः । ‘सूनं प्रसवपुष्पयोः । सूना पुत्र्यां वधस्थानगलकण्डिकयोः स्त्रियाम्' इति मदिनी । रमेस्त च ॥ 'रत्नं स्वजातिभेदेऽपि मणावपि नपुंसकम्' इति मेदिनी । .

तृतीयः पादः] बालमनोरमा। ६१३ २९७ । कृत्यशूभ्यां स्नः । कृत्स्नम् । अक्ष्णमखण्डम । २९८ । तिजेर्दीर्घश्च । तीक्ष्णम् । २९९ । श्लिषेरच्चोपधायाः। श्लक्ष्णम् । ३०० । यजिमनिशुन्धिदसिजनिभ्यो युच् । यज्युरध्वर्युः । · मन्युर्दैन्ये क्रतौ क्रुधि' । शुन्ध्युरग्निः । दस्युस्तस्कर: । जन्युः शरीरी । ३०१ । भुजिमृङ्भ्यां युक्त्युको । भुज्युर्भाजनम् । मृत्युः । ३०२ । सर्तेरयुः । सरयुनदी । अयूरिति पाठान्तरम् । सरयूः । ३०३ । पानीविषिभ्यः पः। पाति रक्षत्यस्मादात्मानमिति पापम् । तद्यो- गात्पापः। नेपः पुरोहितः । बाहुलकाद्गुणाभावे नीपो वृक्षविशेषः । वेष्प: पानीयम्। ३०४ । च्युवः किच्च । च्युपो वक्त्रम् । ३०५ । स्तुवो दीर्घश्च । स्तूप: समुछाय: । ३०६ । सुशृभ्यां निच्च । चात्कित् । सूपः । बाहुलकादुत्त्वम । शूर्पम ३०७ । कुयुभ्यां च । कुवन्ति मण्डूका अस्मिन्कूपः। युवन्ति बध्नन्त्य- स्मिन्पशुमिति यूपो यज्ञस्तम्भः । ३०८ । खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः। सप्तैते पप्रत्ययान्ता निपा- त्यन्ते । खनते कारस्य षत्वम् । 'खष्पौ क्रोधबलात्कारौ' । शीलतेह्रस्वश्च । शिल्पं कौशलम् । ‘शसु हिंसायाम्' । निपातनात्षत्वम् । शष्पं बालतृणं प्रतिभाक्षयश्च । बाधतेः षः। 'बाष्पो नेत्रजलोष्मणोः' । बाष्पञ्च । रौतेर्दीर्घः । 'रूपं स्वभावे सौन्दर्ये' । पृ। पर्प गृहं बालतृणं पङ्गुपीठञ्च । “तल प्रतिष्ठा- करणे' चुरादिणिचो लुक् । 'तल्पं शय्याट्टदारेषु' । च्युवः॥'च्युङ् गतौ' । अनेकार्थत्वादिह भाषणे। च्यवन्ते भाषन्तेऽनेनेति विग्रहः । दशपाद्यान्तु 'चुपः किच्च' इति पठ्यते । 'चुप मन्दायाङ्गतौ'। चोपतीति चुप्पो मन्दगमनकर्ता । सुशृ ॥ 'सूपो व्यञ्जनसूदयोः' इति मेदिनी। शूर्पमिति ॥ बाहुलकादुत्वं रपरत्वं ‘हलि च' इति दीर्घः । 'प्रस्फोटनं शूर्पमस्त्री' इत्यमरः । दशपाद्यान्तु कुसुयुभ्यश्च । 'सृशृभ्यामूङ् च' इति पठित्वा सूपं शूर्पञ्च व्युत्पादितम् । द्विरूपकोशेऽप्युभयन्दर्शितम् । कुयुभ्याञ्च ॥ 'कु शब्दे, यु मिश्रणे' आभ्यां पः स च नित्धातोर्दीघत्वञ्च । 'कूपकूपकमृन्मानगर्तास्तु गुणवृक्षके' इति मेदिनी । 'शष्पः क्रोधे बलात्कृतौ' इति विश्वः । शष्पे बालतृणेऽपि च । पुंसि स्यात्प्रतिभाहानौ' इति मेदिनी । विश्वोक्तिमाह । बाष्प इति ॥ 'बाष्पमूष्मणि चाश्रुणि' इति कोशान्तरमभिप्रेत्याह । बाष्पश्चेति ॥ ‘रूपं स्वभावे सौन्दर्ये नालके पशुशब्दयोः । ग्रन्थवृत्तौ नाटकादौ आकरश्लो- कयोरपि' इति विश्वमेदिन्यौ। 'तल्पमहे कलत्रे च शयनीये च न द्वयोः' इति मेदिनी । ।

सिद्धान्तकौमुदीसहिता [उणादिषु (सू । ३०९ । स्तनिहृषिपुषिगदिमादिभ्यो हेरिनुच् । णेरिनुच् । 'अयामन्त-' २३११) इति णेरयादेश: । स्तनयित्नुः । हर्षयित्लुः । पोषयित्नुः । गदयितुः वावदूकः । मदयित्नुः मदिरा । ३१० । कृहनिभ्यां क्त्नुः । कृलुः शिल्पी । हलुाधिः शस्त्रञ्च । ३११ । गमेः सन्वच्च । जिगत्नुः । ३१२ । दाभाभ्यां नुः । दानुर्दाता भानुः । ३१३ । वर्गश्च । वग्नुः । ३१४ । धेट इच्च । धयति तामिति धेनुः । ३१५ । मुवः कित् । ' सूनुः पुत्रेऽनुजे रवौ' । ३१६ । जहाते ऽन्तलोपश्च । जङ्गः । ३१७ । स्थो णुः । 'स्थाणुः कीले स्थिरे हरे'। ३१८ । अजिरीरिभ्यो निच्च । अजेर्वी वेणुः । वर्णनंददेशभेदयोः । रेणुढयोः स्त्रियां धूलि:' । , . अमरीक्तमाह । तल्पमिति ॥ स्तनिदृषि ॥ स्तनगदी देवशब्दे । चुरादिण्यन्तौ । 'हृष नुष्टी, पुष पुष्टी, मदी हर्पग्लपनयोः ।' घटादिः । 'स्तनयित्नुः पुमान् वारिधरेऽपि स्तनितेऽपि च' इति मेदिनी । ‘हर्षयित्नुः सुने हेम्नि पोषयित्नुः पिके द्विजे। स्तनयित्नुः पयोवाहे तद्धनौ मृगरोगयोः' इति विश्वः । ‘गदयित्नुः पुमान् कामे जल्पाके कार्मुकेऽपि च' इति विश्वमेदिन्यौ मदयित्नुः कामदेवे पुमान् मद्ये नपुंसकम्' इति मेदिनी। कृहनिभ्यां त्नुः॥ कृत्नुरिति ॥ कर्तेत्यर्थः । कित्त्वान्न गुणः । हत्नुरिति ॥ अनुदात्तेत्यादिना अनुनासिकलोपः । एवमुत्तरत्र गमेरपि । शस्त्रञ्चेति ॥ चाद्धन्ता । दशपादीवृत्तौ तु क्नुरिति तकाररहितं पठित्वा कृणुः कर्ता हनुर्वकैकदेशः । बाहुलकानलोपः । गमेस्तु जिगत्नुरित्युदाहृतम् । तत्सर्वे प्रामादिकम् । लक्ष्य- विसंवादात् । तथा च श्रूयते । 'सुरूपकृत्नुमूतये। ज्येष्ठराजं भरेकृत्नुम् अयपृत्नुरगृभीतः । मा नो वधाय हत्नवे। मृगं न भीममुपहत्नुमुग्रम् । यो नः सनुत्यः उत वा जिगत्नुः' इत्यादि । अत एव हन्तिधातुं विवृण्वता माधवेन उपहत्नुरित्युदाहृत्य क्नोः कित्त्वादनुनासिकलोप इत्युक्तम् । यत्तु तेनैव 'मुरूपकृत्नुम्' इति मन्त्रे विवृण्वता तकारोपजनश्छान्दस इत्युक्तम् । तद्दशपादीवृत्तिमनुसृत्य, न तु वस्तुस्थितिमनुरुध्येति सहृदयैराकलनीयम् । दाभाभ्यां नुः॥ दानुर्दातरि वक्रान्ते' इति मेदिनी । 'भानू रश्मिदिवाकरौ' इत्यमरः । वचेः॥ वग्नुर्वक्ता । धेटः ॥ 'धेनुस्स्यान्नवसूतिका' इत्यमरः । विश्वोक्तिमाह । सूनुरिति ॥ जहातेः ॥ 'जह्नुः स्यात्पुंसि राजर्षिभेदे च मधुसूदने' इति मेदिनी। विश्वोक्तिमाह । स्थाणुरिति ॥ 'स्थाणुः कीले हरे पुमान् । अस्त्री ध्रुवे' इति मेदिनी। अजिवृ॥ 'वेणुपान्तरे वंशे' इति विश्वः ।

तृतीयः पादः]] बालमनोरमा। ६१५ , । ३१९ । विषेः किच्च । विष्णुः । ३२० । कृदाधारार्चिकलिभ्यः कः। बाहुलकान्न कस्येत्संज्ञा । 'कों धवलघोटकः' । दाको दाता । धाकोऽनड्वानाधारश्च । राका पौर्णमासी । अर्कः । कल्क: पापाशये पापे दम्भे विकिट्टयोरपि । ३२१ । सृभूशुषिमुषिभ्यः कक् । सृक उत्पलवातयोः । 'वृकः श्वापदकाकयोः' । भूकं छिद्रम् । शुष्कः । मुष्कोऽण्डम् । ३२२ । शुकवल्कोल्काः। शुभेरन्त्यलोपः । शुकः । 'वल्कं वल्कल- मस्त्रियाम्' । ' उष दाहे' । षस्य लः । उल्का । ३२३ । इण्भीकापाशल्यतिमर्चिभ्यः कन् । 'एके मुख्यान्यकेवला:' । भेको मण्डूकमेषयोः' इति विश्वमेदिन्यौ। काकः । पाक: शिशुः । शल्क शकलम् । अत्कः पथिकः शरीरावयवश्व । मर्कः शरीरवायुः । 'रेणुः स्त्रीपुंसयोधूलौ पुंलिङ्गः पर्पटे तु ना' इति मेदिनी । विषेः किच्च ॥ चकारानित् । आयुदात्तः । 'विष्णुरित्थाप्रविष्णवे शूषम्' । कृदा ॥ 'कर्कः कर्के तले वह्नौ शुक्लाश्वे दर्पणे घटे' इति विश्वमेदिन्यौ । 'राका नद्यन्तरे कच्छां नवजातरजःस्त्रियाम् । संपूर्णेन्दुतिथावपि' इति मेदिनी । 'राका तु सरिदन्तरे । राका नवरजःकन्या पूर्णेन्दुः पूर्णिमाऽपि च' इति विश्वः । इह दाधारा एषां 'केणः' इति ह्रस्वोऽपि बाहुलकानेति बोध्यम् । 'अर्कोऽर्कपणे स्फटिके रवौ ताने दिवस्पतौ' इति विश्वमेदिन्यौ । 'कल्कोऽस्त्री घृततैलादिशेषे दम्भे विभीतके । विट्कियोश्च पापे च त्रिषु पापाशये पुनः' इति मेदिनी । बाहुलकात् रमेरपि कः । 'रङ्कः कृपण- मन्दयोः' इति मेदिनी । कपिलकादित्वाल्लत्वं टाप् । 'लङ्का रक्षःपुरी शाखाशाकिनी- कुलटासु च' इति विश्वमेदिन्यौ । सृवृ ॥ 'सृका बाणोत्पलवाता' इति हेमचन्द्रः । 'सृकं संशाय पविमिन्द्र तिग्मम्' इति मन्त्रस्य वेदभाष्ये तु सूकं सरणशीलम् । पविं वज्रं संशाय सम्यक्तीक्ष्णीकृत्येति व्याख्यातम् । भूकं छिद्रे च काले च' इति मेदिनी । 'शुको व्याससुते कीरे रावणस्य च मन्त्रिणि । शिरीषपादपे पुंसि प्रन्थिपणे नपुंसकम् । वल्क वल्कलशल्कयोः' इति च । उल्का ज्वाला विभावसोः' इति भूतिचन्द्रः । इण्भी॥ 'एकं सङ्खथान्तरे श्रेष्ठे केवलेतरयोस्त्रिषु' इति मेदिनी। 'काकः स्याद्वायसे वृक्षप्रभेदे पीठसपिणि । शिरोवक्षालने मानप्रभेदे द्वीपभेदयोः । काका स्यात्काकनासायाङ्काकोलीकाकजङ्घयोः। रक्तिकायां मलव्याञ्च काकमाच्यां च योषिति । काकं सुरतबन्धे स्यात् काकानामपि संहतो' इति विश्व- मेदिन्यौ। पाकः परिणतौ शिशौ। केशस्य जरसा शौकल्ये स्थाल्यादौ पाचनेऽपि च । शल्कन्तु शकले कल्के' इति मेदिनी । 'शल्कैरग्निमिन्थानः' इति मन्त्रे काष्ठखण्डैरिति व्याख्या- तारः । मर्क इति ॥ मर्चिः सौत्रों धातुरिति बहवः। 'मर्च शब्दे' चौरादिक इति मिदचो. न्त्यात्सूत्रे कैयटः । मर्तो मतं मर्चयति द्वयेन' इति मन्त्रे मर्चयति विधेयीकरोति भर्सयतीति वेदभाष्यम् । न चैवं णिलोपस्य स्थानिवद्भावात्कत्वं न स्यात् इति वाच्यम् । पूर्वत्रासिद्धे सिद्धान्तकौमुदीसहिता [उणादिषु ३२४ । नौ हः । जहातेः कन्स्यान्नौ । निहाका गोधिका । ३२५ । नौ सदेर्डिच्च । निष्कोऽस्त्री हेम्नि तत्पले'। ३२६ । स्यमेरीट् च । स्यमीको वल्मीक: वृक्षभेदश्च । इट् ह्रस्व इति केचिन् । स्यमिकः । ३२७ । अजियुधिनीभ्यो दीर्घश्च । 'वीकः स्याद्वातपक्षिणोः' । यूका । धूको वायुः । नीको वृक्षविशेषः । ३२८ । हियो रश्च लो वा । 'ह्रीका ह्रीका त्रपा मता' । ३२९ । शकेरुनोन्तोन्त्युनयः। 'उन उन्त' 'उन्ति' उनि' एते चत्वारः स्युः । शकुनः । शकुन्तः । शकुन्तिः । शकुनिः । ३३० । भुवो झिच् । भवन्तिर्वर्तमानकालः । बाहुलकादवेश्च । अवन्तिः । वदेर्वदन्तिः । किंवदन्ती जनश्रुतिः' । ३३१ । कन्युक्षिपेश्च । चाद्भुवः । ‘क्षिपण्युर्वसन्तः' इत्युज्ज्वलदत्तः । भुवन्युः स्वामिसूर्ययोः । ३३२ । अनुङ नदेश्च । चाक्षिपे: । नदनुर्मेधः । क्षिपणुर्वातः । ३३३ । कृदारिभ्य उनन । ‘करुणो वृक्षभेदः स्यात्करुणा च कृपा मता । वरुणः । दारुणम् । १ तदभावात् । बाहुलकात् श्यतेः कन् । 'शाको द्वापान्तरेऽपि च । शक्तौ द्रुमविशेषे च पुमान् हारीत के त्रियाम्' इति मेदिनी । नौ हः ॥ 'निहाका गोधिका समे' इत्यमरः । 'शाकं नस्य- निहाकयोः' इति श्रुतिः । 'निष्कमस्त्री साष्टहमशते दीनारकर्षयोः । वक्षोऽलङ्करणे हेमपात्रे हमपलऽपि च' इति मंदिनी । स्यमः ॥ 'स्यमु शब्दे'। 'स्यमीका नीलिकायां स्त्री स्यमीको नाकुत्रुक्षयोः' इति मेदिनी । अजियु ॥ एभ्यः कन् । एषान्दीर्घश्च । तत्सामर्थ्यात् गुणाभावः । शकः ॥ 'शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः । 'शकुनस्तु पुमान् पक्षिमात्रे पक्षिविशेषयोः। शुभशंसिनिमित्ते च शकुनं स्यान्नपुंसकम्' इति भेदिनी । 'शकुन्तः कीटभेदे स्याद्रासपक्षिविहङ्गयोः' इति । शकुनिः पुंसि विहगे सौबले करणान्तरे' इति च । बाहुलका- कमरपि प्रत्ययादिलोप कुशब्दादेशः । कुन्तिः। 'इतो मनुष्यजातेः' इति ङीष् । 'कुन्ती पाण्डुप्रियायाञ्च सालक्यागुग्गुलुद्रुमें' इति मेदिनी। कन्युच् ॥ ‘क्षिपण्यस्तु पुमान् देहे सुरभौ वाच्यलिङ्गके' इति मेदिनी। 'भुवन्युः स्यात् पुमान् भानौ ज्वलने शशलाञ्छने' इति विश्व- मंदिन्यौ । कृवृ ॥ 'करुणस्तु रसे वृक्षे कृपायाङ्करुणा मता' इति विश्वमेदिन्यौ । 'वरुणस्तरुभेदे- ऽप्सु प्रतीचीपतिसूर्ययोः' इति विश्वः। 'दारुणो रसभेदे ना त्रिषु तु स्याद्भयावहे' इति मेदिनी । .

तृतीयः पादः] बालमनोरमा । - ३३४ । त्रो रश्च लो वा । 'तरुणस्तलुनो युवा' । ३३५ । क्षुधिपिशिमिथिभ्यः कित् । क्षुधुनो म्लेच्छजातिः । पिशुन: । मिथुनम् । ३३६ । फलेगुंक्च । फल्गुन: पार्थः । प्रज्ञाद्यण् । फाल्गुनः । ३३७ । अशेर्लशश्च । लशुनम् । ३३८ । अर्जेर्णिलुक्च । अर्जुनः । ३३९ । तृणाख्यायां चित् । चित्त्वादन्तोदात्त: । अर्जुनं तृणम् । ३४० । अर्तेश्च । अरुणः । ३४१ । अजियमिशीभ्यश्च । 'वयुनं देवमन्दिरम्' । यमुना । शयुनः अजगरः । ३४२ । वृतवदिहनिकमिकषिभ्यः सः। वर्स तर्सम् । तर्सः प्लवसमुद्रयोः' वत्सः । वत्सं वक्षः । हंसः । कंसोऽस्त्री पानभाजनम्' । कक्षम् अरण्यम् । त्रो रश्च ॥ ' तरुणं कुब्जपुष्पे ना रुचके यूनि च त्रिषु' इति मेदिनी। 'तरुणी तलुनीति च इति द्विरूपेषु विश्वः । क्षुधिपिशि | 'पिशुनकुङ्कुमे स्मृतम् । कपिचक्रे च काके ना सूचक- क्रूरयोस्त्रिषु । पृक्कायां पिशुना स्त्री स्यात्' इति मेदिनी । मिथुनं तु द्वयो राशिभेदे स्त्रीपुंसयुग्मके' इति च । फलेः॥ ‘फल्गुनस्तु गुडाकेशे नदीजार्जुनभूरहे । तपस्यसंज्ञमासे तत्पूर्णिमायाञ्च फाल्गुनी' इति मेदिनी । अणिति ॥ प्रज्ञादित्वात्पक्षेऽणित्यर्थः । 'फल्गुनः फाल्गुनोऽर्जुने' इति द्विरूपकोशः। अशेलशश्च ॥ 'अश भोजने'। अस्मादुनन् धातोलशादेशश्च । लशुनं महाकन्दः । 'उशना लशुनं वेश्म कश्मलं विश्वमश्ववत्' इति मध्यतालव्येषु विश्वः । लस् चेति पाठस्तु प्रामादिकः । अजेर्णिलुक् च ॥ अत्र ‘णेरनिटि' इति लोपेन सिद्धे णिलुक् चेत्युक्तः फलञ्चिन्त्यम् । 'अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः । मातुरकसुतेऽपि स्याद्धवले पुनरन्यवत् । नपुंसकन्तृणं नेत्ररोगे चाप्यर्जुना गवि । उषायां बाहुदानद्याङ्कुट्टिन्यामपि च क्वचित्' इति विश्वमेदिन्यौ। अर्तेश्च ॥ 'अरुणोऽव्यक्तरागेऽर्के सन्ध्यारागेऽर्कसारथौ । निःशब्दे कपिले कुष्ठभेदे ना गुणिनि त्रिषु । अरुणाऽतिविषा श्यामा मजिष्ठा त्रिवृतासु च' इति मेदिनी। अजियमि ॥ 'विश्वानि देव वयुनानि विद्वान्' इति मन्त्रे वयुनानि प्रजनानीति वेदभाष्यम् । वैदिकनिघण्टौ प्रज्ञापर्याये प्रशस्यपर्याये च वयुनशब्दः पठितः। वृतृ ॥ वसन्तर्समिति ॥ 'ति- तुत्र' इति नेट। षत्वन्तु न भवति। बाहुलकेन षत्वे कर्तव्ये प्रत्ययसंज्ञाया अप्रवृत्तेः। कक्षशब्दे तु षत्वं भवत्येव । एतच्च सर्वम् 'आदेशप्रत्यययोः' इति सूत्रे भाष्यकैयटपदमञ्जरीषु स्पष्टमेव । उणादिवृत्ति- कृतस्तु सर्वेऽपीह मत्वमुदाजहुः । तेषामयमाशयः। अस्तु भाष्यप्रामाण्याद्वसन्तसमिति दन्त्योऽपि साधुः । बाहुलकबललभ्यषत्वाभावस्य पाक्षिकत्वेऽपि बाधकाभावात् पक्षे षत्वमस्तु । वृषितृषि- भ्यानि ण्यन्तादेरचि घनर्थे कप्रत्यये वा वर्षतर्षशब्दयोर्दुरित्वात् । अज्विधौ भियादीनामुप- सङ्खयानं नपुंसके कादिनिवृत्त्यर्थम्' इत्यत्र वर्षमित्याकरे उदाहृतत्वाचेति । तस्मादिह द्विरूपता । 78 ६१८ सिद्धान्तकौमुदीसहिता [उणादिषु ३४३ । प्लुषेरचोपधायाः । प्लक्षः । ३४४ । मनेदीर्घश्च । मांसम् । ३४५ । अशेर्देवने । अक्षः । ३४६ । स्नुव्रश्चिकृत्यृषिभ्यः कित् । स्नुषा । वृक्षः। कृत्समुदकम् । ऋक्षं नक्षत्रम्। ३४७ । ऋषेर्जातौ । 'ऋक्षोऽद्रिभेदे भल्लूके शोणके कृतवेधने । ऋक्ष- मुक्तञ्च नक्षत्रे' इति विश्वः । ३४८ । उन्दिगुधिषिभ्यश्च । उत्सः प्रस्रवणम् । गुत्स: स्तबकः । कुक्षो जठरम् । ३४९ । गृधिपण्योर्दको च । गृत्स: कामदेवः । पक्षः । ३५० । अशेः सरः । अक्षरम् । ३५१ । वसेश्च । वत्सरः । फलिता । 'वर्षोऽस्त्री भारतादौ स्याज्जम्बूद्वीपाब्दवृष्टिषु । प्रावृट्काले स्त्रियां भूग्नि' इति मेदिनी । 'तर्षों लिप्सोदन्ययोः' इति च । 'पुत्रादौ तर्णके वर्षे वत्सः क्लीबन्तु वक्षसि' इति त्रिकाण्डशेषः । 'हंसः स्यान्मानसौकसि । निर्लोभनृपविष्ण्वर्कपरमात्मसु मत्सरे । योगभेद मन्त्रभेदे शरीरमरुदन्तरे। तुरङ्गमप्रभेदे च' इति मेदिनी। 'कंसोऽस्त्री तैजसे द्रव्ये कांस्य मानेऽसुरे तु ना' इति च । 'कसो दैत्यान्तरे स्मृतः । कांस्ये च कांस्यपात्रे च मानभेदे च कीर्तितः' इति विश्वः । 'कक्षा स्यादन्तरीयस्य पश्चादञ्चलपल्लवे । स्पर्द्धायां ना तु दोर्मूल- कच्छवास्तुणेषु च' इति मेदिनी। प्लुषेः ॥ ‘प्लक्षो जटी गर्दभाण्डद्विपभित्कुञ्जराशने' इति मंदिनी । 'क्षा द्वापविशंपे स्यात्पर्कटीगर्दभाण्डयोः । पिप्पले द्वारपार्श्वे च गृहस्य परिकीर्तितः' इति विश्वः । मनेर्दीर्घश्च ॥ मांसं स्यादामिपे क्लीवं कक्कोलीजटयोः स्त्रियाम्' इति मेदिनी । अशेः ॥ 'अथाक्षमिन्द्रिय । ना ताङ्गे कर्पचक्र व्यवहारे कलिद्रुमे' इत्यमरः । 'अक्षो ज्ञाना- त्मशकटव्यवहारेपु पाशके । रुद्राक्षेन्द्राक्षयोः सर्प विभीत कतरावपि । चक्रे कर्षों पुमान् क्लीबन्तु- स्थसौवर्चलेन्द्रिये' इति मेदिनी । स्नुवश्चि ॥ ‘ऋक्षः पर्वतभेदे स्याद्भल्लूके शोणके पुमान् । कृतवधनऽन्यालझं नक्षत्रे च नपुंसकम्' इति मेदिनी। ऋषेर्जातौ ॥ नियमार्थमिदं सूत्रं पेाताववेति । तेनान्येभ्यः केवलयौगिकत्वेऽपि प्रत्ययः। उन्दिगुधि ॥ 'गुत्सः स्यात्स्तबके स्तम्बे हारभिद्रन्थिपणयोः इति मेदिनी । गुच्छश्च । 'गुत्सो गुच्छो गुलुच्छवत्' इति द्विरूप- कोशात् । 'स्याद्गुच्छ: स्तबके स्तम्वे हारभेदकलापयोः' इति च वर्गद्वितीयान्तमेदिनीकोशाच । गृधेश्चन सिद्धे भष्भावनिवृत्तये दकारविधिः । ‘पक्षो मासा के पार्श्व ग्रहे साध्यविरोधयोः। केशादेः परतो वन्दे बले सखिसहाययोः । चुल्लीरन्ध्रे परत्रे च राजकुञ्जरपार्श्वयोः' इति विश्वमेदिन्यौ । अशेस्सरः ॥ अक्षरमिति ॥ ‘अक्षरं स्यादपवर्गे परमब्रह्मपर्णयोः' इति तृतीयः पादः] बालमनोरमा । ६१९ . ३५२ । सपूर्वाच्चित् । संवत्सरः । ३५३ । कृधूमदिभ्यः कित् । बाहुलकान्न षत्वम् । 'कृसर: स्यात्तिलौ- दनम्' । धूसरः । मत्सरः । 'मत्सरा मक्षिका ज्ञेया भम्भराली च सा मता' । ३५४ । पते रश्च लः । पत्सलः पन्थाः । ३५५ । तन्यृषिभ्यां क्सरन् । तसरः सूत्रवेष्टनम् । ऋक्षरः । ऋत्विक् । ३५६ । पीयुकणिभ्यां कालन्हस्वः सम्प्रसारणश्च । पीयुः सौत्रः । पियालो वृक्षभेदः । कुणालो देशभेदः । ३५७ । कठिकुषिभ्यां काकुः। कठाकु: पक्षी । कुषाकुरग्निः सूर्यश्च । ३५८ । सर्तेढुंक्च । 'मृदाकुर्वातसरितोः' । ३५९ । वृतेर्वृद्धिश्च । वार्ताकुः । बाहुलकादुकारस्य अत्त्वम् । वार्ताकम् । हेमचन्द्रः । उज्ज्वलदत्तादयस्तु अशेः सरनिति पेछुः । तन्न । नित्स्वरापत्तेः । इष्यते तु प्रत्ययस्वरेणाक्षरशब्दस्य मध्योदात्तत्वम् । 'ऋचो अक्षरे परमे व्योमन् ।' 'अक्षरण निमति सप्तवाणी' इत्याघमन्त्रेषु 'त्रीणि च शतानि षष्टिश्चाक्षराणि' इति यजुषि च तथैव पाठात् । अत एव द्वितीयाह्निकान्ते । 'अश्नोतेर्वा सरोऽक्षरम्' इति भाष्यकृतोक्तम् । सपूर्वाञ्चित् ॥ पूर्वेण सहितः सपूर्वः। 'इद्वत्सराय परिवत्सराय संवत्सराय । सम्पूर्वादिति पाठस्तु लक्ष्यविरोधादुपेक्ष्यः । कृधू ॥ कृसर इत्यादि हारावलीस्थम् । 'धूसरी किन्नरीभदे नागरे त्रिषु पाण्डुरे' इति मेदिनी । 'मत्सरा मक्षिकायां स्यान्मात्सर्यकोधयोः पुमान् । असह्यपरसम्पत्तौ कृपाणे चाभिधेयवत्' इति । मत्सरोऽन्यशुभद्वषे तद्वत्कृपणयोः स्त्रिषु' इति अमरः । 'असह्यपरसम्पत्तौ मात्सर्ये कृपणे क्रुधि' इति विश्वः । वेदे तु योगं पुरस्कृत्य प्रयुज्यते । 'इन्दुमिन्द्राय मत्सरम् । तं सिन्धवो मत्सर- मिन्द्रपानम्' इत्यादि। मत्सरं हर्षहेतुमिति तद्भाष्यम्। अमरोक्तिमाह। तसर इति ॥'अनुदात्तो. पदेश' इत्यादिना अनुनासिकलोपः । ऋक्षरः, ऋत्विगिति ॥ 'ऋक्षरन्तोयधारायामृक्षरस्त्व- त्विजि स्मृतः' इति मेदिनी । 'अनृक्षरा ऋजवः सन्तु पन्थाः' इति मन्त्रस्य वेदभाष्ये तु ऋक्षरः कण्टक इति व्याख्यातम् । पीयुक्कणिभ्याम् ॥ 'राजादनं प्रियालु: स्यात्' इत्यमरः । 'प्रियालुः स्यात्प्रियालवत्' इति हि द्विरूपकोशः । बाहुलकाद्भ रपि कालन् । नलोपः । न्यङ्घादित्वात्कुत्वम् । भगालं नरमस्तकम् । मत्वर्थे इनिः । 'चण्डीकान्तो भगाली च लेलिहानो वृषध्वजः' इति राजशेखरः। कठिकुषिभ्याम् ॥ ‘कठ कृच्छ्रजीवने, कुष निष्कर्षे ।' 'कठाकुः कपिवह्नयर्के ना परोत्तापिनि त्रिषु' इति मेदिनी । उज्ज्वलदत्तस्तु कटिकषिभ्यामिति पठित्वा 'कषशिष' इति दण्डकधातुमुपन्यस्य कषाकुरित्युदाजहार । तत्कोशविरुद्धम् । मेदिनीकोशे उकारप्रक्रमे पाठात् । सर्तेः ॥ ‘मृदाकुर्नानिले चक्रे ज्वलने प्रतिसूर्यके' इति मेदिनी । वृतेः ॥ वार्ताकुरपि वार्ताके वृन्ताकोऽपि च दृश्यते' इति द्विरूपे विश्वः । 'वार्ताकी हिङ्गुली .

६२० सिद्धान्तकौमुदीसहिता [उणादिङ , - . ३६० । निमाणमलोश्च । 'पृदाकुर्वृश्चिके व्याने चित्रके च सरीसृपे'। ३६१ । मृयुवचिभ्योऽन्युजागूजक्नुचः। अन्युच्, आगूच्, अक्नुच् , एते क्रमात्स्युः । 'सरण्युर्मेघवातयोः' । यवागूः । वचक्नुर्विप्रवाग्मिनोः' ३६२ । आनकः शीइभियः। शयानकोऽजगरः । भयानकः । ३६३ । आणको लूधूशिविधाञ्भ्यः । लवाणकं दात्रम् । धवाणको वातः । शिवाणक: श्लेष्मा । पृषोदरादित्वात्पक्षे कलोपः । ‘शिवाणं नासिका- मले' । धाणको दीनारभागः' । ३६४ । उल्मुकदविहोमिनः । उष दाहे । षस्य ल: मुकप्रत्ययश्च । उल्मुकं वलदङ्गारम् । दृणातर्विः । दर्विः । 'जुहोतेर्मिनि:' । होमी । ३६५ । ह्रियः कुनश्च लो वा । ह्रीकुः ह्रीकु: लज्जावान् । ३६६ । हसिमृग्रिण्वामिदमिलूपूधुर्विभ्यस्तन् । दशभ्यस्तनस्यात् । तितुत्र-' (सू ३१६३) इति नेट् । हस्तः । मतः । गतः । एत: कर्बुरः । वात: । अन्तः । दन्त: । 'लोतः स्यादश्रुचिह्नयो:' । 'पोतो बालवहित्रयोः' । धूर्तः । बाहुलकात्तुसेर्दीर्घश्च । तूस्तं पापं धूलिर्जटा च । सिंही भण्टाकी दुष्प्रधर्षिणी' इत्यमरः । वार्ताकं पित्तलङ्किञ्चि दङ्गारपरिपाचितम्' इति वैद्यक- शास्त्रम् । पर्देः । पृदाकुरित्यादि ॥ 'पृदाकुर्वृश्चिके व्याघ्र सर्पचित्रकयोः पुमान्' इति मेदिनी । सूयु ॥ ‘सरण्युस्तु पुमान् वारिवाहे स्यान्मातरिश्वनि' इति मेदिनी। 'सरण्युरस्यसूनुरश्वः' इति मन्त्रस्य भाध्य तु सरण्युः शीघ्रगामीति व्याख्यातम् । ‘यवागूरुष्णिका श्राणा विलेपी तरला च सा' इत्यमरः । ‘वचक्नुम्तु पुमान् विप्रे वावदूकऽभिधेयवत्' इति मेदिनी । ऋषि- विशेषऽप्ययम् । यस्य कन्या वाचक्नवीति प्रसिद्धा । आनकः ॥'भयानकः स्मृतो व्याने रसे राहो भयङ्कर' इति मंदिनी। शिवाणक इति ॥ ‘शिघि आघ्राणे'। 'शिवाणाचपात्रे स्यात् लोहनासिकयोर्मले' इति विश्वः । 'शिङ्काण: फेनडिण्डीरो नकरेतश्च पिच्छले' इति विक्रमादित्यकोशः । हारावलीस्थमाह । शिवाणमिति ॥ उल्मुकमिति च ॥ ‘दर्विः कम्बिः खजा काच' इत्यमरः । ह्रियः ॥ कुक्प्रत्ययेऽयङ्ककारो गुणनिषेधार्थः । हसिमृ॥ 'हस्तः करे करिकरे सप्रकोष्ठे करेऽपि च । ऋक्षे केशात्परो वाते' इति मेदिनी । मतॊ भूलोकः, तत्र भवो मर्त्यः । दिगादेराकृतिगणवाद्यत् । 'गर्तस्त्रिगर्तभेदे स्यादवटे च कुकुन्दरे । एतः कर्बुर आगते । अन्तः स्वरूपे नाशे वा न स्त्री शेषेऽन्तके त्रिषु । दन्तोऽटकटके कुञ्ज दशने चौषधौ स्त्रियाम्' इति मेदिनी । 'लोतमश्रुणि चोरिते' इति विश्वः । 'तत्तवतू' इति सूत्रे लोतो मेष इति कैयटः । 'पोतः शिशौ वहिने च' इति विश्वमेदिन्यौ ।

तृतीयः पादः] बालमनोरमा । ६२१ ३६७ । नञ्याप इट् च । नापितः । ३६८ । तनिमृङ्भ्यां किच्च । ततम् । मृतम् । ३६९ । अञ्जिसिभ्यः क्तः । अक्तम् । घृतम् । सितम् । ३७० । दुतनिभ्यां दीर्घश्च । दूत: । तातः । ३७१ । जेद्द चोदात्तः । जीमूतः । ३७२ । लोष्टपलितौ। लुनाते: क्त: तस्य सुट् धातोर्गुणः । लोष्टम् । पलितम् । धूर्त इति ॥ 'धुर्वी हिंसायाम्' । 'लोपो व्योः' इति वलोपः । विङतीत्यननुवृत्तिपक्षे तु रालोपः' इति लोपः । ‘हलि च' इति दीर्घः । 'धूर्तन्तु खण्डलवणे धुत्तूरे ना शठे त्रिषु' इति मेदिनी । तनिमृङ्भ्याम् ॥ 'ततं वीणादिकं वाद्यम्' इत्यमरः। 'अथ ततं व्याप्ते विस्तृते च त्रिलिङ्गकम् । क्लीबं वीणादिवाये स्यात् पुल्लिङ्गस्तु समीरणे । मृतन्तु याचिते मृत्यौ क्लीबं मृत्युमति त्रिषु' इति मेदिनी । अञ्जिधृ ॥ अक्तं परिच्छिन्नम् । 'अक्तपरिमाणस्य वाचकः' इति भाष्यस्य कैयटेन तथा व्याख्यातत्वात् । अत्र 'व्यस्तं प्राप्ते च सङ्कुले' इति विश्वप्रकाशे लिपि- भ्रमात् 'अक्तं व्याघ्रं च सङ्कुले' इत्युदाहरन्नुज्ज्वलदत्तो भ्रान्तत्वादुपेक्ष्यः । तथा च मेदिन्यां वकारादिप्रक्रमे 'व्यस्तन्तु व्याकुले व्याप्ते' इत्युक्तम् । 'घृतमाज्ये जले क्लीबं प्रदीप्ते त्वभिधेय- वत् । सितमवसिते च बद्धे धवले त्रिषु शर्करायां स्त्री' इति मेदिनी । 'ऋ गतौ' । बाहुलकात् क्तः । 'ऋतमुञ्छे शिले जले। सत्ये दीप्ते पूजिते स्यात्' इति मेदिनी । दुतनिभ्याम् ॥ दूतः प्रेभ्यः । गौरादित्वात् ङीष् । दूती। अथ कथं, तेन दूतिविदितं निषेदुषा' इति रघुः । 'दूङ् परितापे' अस्मात् क्तिच् । 'दूत्यान्दूतिरपि स्मृता' इति द्विरूपकोशः । 'तातोऽनुकम्प्ये जनके' इति विश्वमेदिन्यौ। बाहुलकात् शीङोऽपि । शीता लालपद्धतिः । रामपत्नी च । 'शीता नभःसरिति लागलपद्धतौ च शीता दशाननरिपोः सहधर्मिणी च । शीतं स्मृतं हिमगुणे च तदन्विते च शीतोऽलसे च बहुवारतरौ च दृष्टः' इति तालव्यादौ धरणिः । सीता दन्त्यादिरपि । 'सीता लागलपद्धतिः । वैदेहीस्वर्गगङ्गासु' इति दन्त्यादौ मेदिनीकोशात् । 'सीता लाङ्गलरेखा स्यात् व्योमगङ्गा च जानकी' इति दन्त्यादौ रभसकोशाच्च । अत्र त्यक्तं सूत्रम् । जेर्मूट चोदात्तः ॥ “जि जये'। अतः क्तः, तस्य मूडागमः, स चोदात्तः धातो. र्दीर्घश्च । 'जीमूतस्येव भवति' । 'जीमूतोऽद्रौ भूतिकरे देवताडे पयोधरे' इति मेदिनी । 'वेणी गरागरीदेवताळो जीमूत इत्यपि' इत्यमरः । 'जीमूतः स्यात् बृत्तिकरे शक्रेऽद्रौ घोषके घने' इति विश्वः । इदं सूत्रमनार्षमिति पुरुषोत्तमः । अत एव आकरे पृषोदरादिषु जीमूतशब्दः उदाहृतः । लोष्ट ॥ 'लोष्टानि लोष्टवः पुंसि' इत्यमरः । अत्र पुंसीत्युभयान्वयि । तेन पुनपुंसकलिङ्गोऽयम् । तथा च स्थानेऽन्तरतमसूत्रे भाष्यम् । लोष्टः क्षिप्तो बाहुवेगङ्गत्वा इत्यादि । अत एव 'लोष्टः पिण्डेऽपि लोष्टुः स्यात्' इति पुंस्काण्डे गोपालितः । 'पलितं .

६२२ सिद्धान्तकौमुदीसहिता [उणादिषु ३७३ । हृश्याभ्यामितन् । हरितश्येतौ वर्णभेदौ । ३७४ । रुहे रश्च लो वा। रोहितो मृगमत्स्ययोः' । लोहितं रक्तम् । ३७५ । पिशेः किच्च । पिशितं मांसम् । ३७६ । श्रुदक्षिस्पृहिगृहिभ्य आय्यः। श्रवाय्यो यज्ञपशुः । दक्षाय्यो गरुडो गृध्रश्च । स्पृहयाय्यः । गृहयाय्यो गृहस्वामी । ३७७ । दिधिषाय्यः। दधातेर्द्वित्वमित्वं षुक्च । 'मित्र इव यो दिधि- षाय्यः ।। ३७८ । वृब एण्यः । वरेण्यः । ३७९ । स्तुवः क्सेय्यश्छन्दसि । 'स्तुषेय्यं पुरुवर्चसम्' । ३८० । राजेरन्यः। राजन्यो वह्निः । ३८१ । शरम्योश्च । शरण्यम् । रमण्यम् । ३८२ । अर्तेनिंच । अरण्यम् । ३८३ । पर्जन्यः। 'पृषु सेचने' षस्य ज: 'पर्जन्यः शक्रमेघयोः' । ३८४ । वदेरान्यः । वदान्यस्त्यागिवाग्मिनोः' । शलजे तापे केशपाश च कर्दमे' इति मेदिनी । हृश्या ॥ 'हरिता स्त्री च दूर्वायां हरिद्वर्णयुते- ऽन्यवत्' इति मंदिनी । रुहेः॥ रोहितं कुङ्कुमे रक्ते ऋजुशक्रशरासने । पुंसि स्यान्मीनमृगयो- भैदे रोहितकद्रुमे । रोहितं रक्तगोशीर्षकुङ्कुमाजिकुचन्दने । पुमान्नदान्तरे भौमे वर्णे च त्रिषु तद्वति' इति मेदिनी । पिशेः ॥ ‘पिशितं मांसं मांस्यां स्त्री' इति मेदिनी। मांस्याञ्जटा- मांस्याम् । तथा च 'जटा च पिशिता पेशी' इति धन्वन्तरिः । श्रुदक्षि ॥ 'उद्यतस्रुचे भवसि श्रवाय्यः' इति मन्त्र श्रवाय्यो मन्त्रः श्रवणीयः इति वेदभाष्यम् । 'दक्षाय्यो यो दम आस नित्यः ।' 'विश्वरूपस्य स्पृहयाय्यस्य राजन् ।' दिधिषाय्य इति ॥ ‘मित्र इव यो दिधिषाय्यः' इत्यादिष्वपि यौगिकार्थ एव भाष्ये पुरस्कृतः । उज्ज्वलदत्तस्तु दधिषाय्य इति सूत्रं पठित्वा दधिपूर्वात्स्यतेराय्यः षत्वञ्च, दधिषाय्यो घृतमिति व्याख्यत् । दशपादी- वृत्तिकारस्तु धिषशब्दे अस्य द्वित्वं गुणाभावः अत्वञ्चाभ्यासस्य निपात्यते इत्याह । प्रसाद- कारादयोऽप्येवमेव प्रतिपन्नाः । तदेतत्सर्व लक्ष्यविरोधाद्वेदभाष्यविरोधाचोपेक्ष्यम् । स्तुवः॥ स्तुषेय्यं स्तोतव्यम् । बहुरूपमिति वेदभाष्यम् । यत्तूज्ज्वलदत्तेन ‘स्तुवः के.य्यः' इति पठित्वा कित्त्वाद्गुणाभावे उवङादेशे स्तुवेय्यः पुरन्दरः इत्युक्तम् । तन्न । वेदतद्भाष्यादिविरोधात् । तस्मादिह क्सेय्यप्रत्ययं पठन् दशपादीवृत्तिकृदेव ज्यायान् । पर्जन्यः॥ 'पर्जन्यो मेघशब्देऽपि ध्वनदम्बुदशकयोः' इति मेदिनी । वदेः ॥ अजयकोशस्थमाह । वदान्य इत्यादि ॥

तृतीयः पादः] बालमनोरमा । ३८५ । अमिनक्षियजिवधिपतिभ्योऽत्रन् । अमत्रं भाजनम् । नक्षत्रम् । यजत्रः । वधत्रमायुधम् । पतत्रं तनूरुहम् । ३८६ । गडेरादेश्च कः। कडत्रम् । डलयोरेकत्वस्मरणात्कलत्रम् । ३८७ । वृश्चित् । वरत्रा चर्ममयी रज्जुः । ३८८ । सुविदेः कत्रः। 'सुविदवं कुटुम्बकम्' । ३८९ । कृतेर्नुम्च । कृन्तनं लाङ्गलम् । ३९० । भृमृशियजिपर्विपच्यमितमिनमिहर्येभ्योऽतच् । दशभ्योऽत- च्स्यात् । भरतः । मरतो मृत्युः । 'दर्शतः सोमसूर्ययो:' । यजतः ऋत्विक् । पर्वतः। पचतोऽग्निः । अमतो रोगः । तमतस्तृष्णापरः । नमतः प्रह्वः । हर्यतोऽश्वः । ३९१ । पृषिरञ्जिभ्यां कित् । पृषतो मृगो बिन्दुश्च । रजतम् । ३९२ । खलतिः। स्खलते: सलोपः । अतच्प्रत्ययान्तस्येत्वञ्च । खलति- निष्केशशिराः । अमि ॥ 'नक्ष गतौ' । वधिः प्रकृत्यन्तरम् । नक्षत्रमिति ॥ 'नभ्राण्नपात्' इति सूत्रे नमः प्रकृति- भाव उक्तः । क्षदेः सौने त्रनि नसमासे व्युत्पत्त्यन्तरं तदिति बोध्यम् । यजत्रं अग्निहोत्रमिति प्राञ्चः। वस्तुतस्तु यजत्रो यष्टव्यदेवता । 'सन्तो वायुर्वातेन गच्छता संयजत्रैरङ्गानि' इति मन्त्र तथा दर्शनात् । गडेः॥ 'गड सेचने' 'कळत्रं श्रोणिभार्ययोः' इत्यमरः। वृञ ॥ चित्त्वादन्तोदात्तः। 'वरत्रायान्दा नह्यमानः ।' सुविदेः कत्रः॥ इह प्रायेण कत्रनिति नितं पठन्ति। तत्प्रामादि- कम् । 'बृहस्पतेः सुविदत्राणि राध्येत्यादौ नित्स्वरादर्शनात् । कृदुत्तरपदप्रकृतिस्वरेण प्रत्यय- स्वरस्यैव दर्शनाच्च । 'धन्वचयत्कृन्तत्रञ्च' इति मन्त्रेऽपि तथैव । 'कृन्तत्रर्तनीयमरण्यम्' इति वेदभाष्यम् । भृमृहशियजिपर्विपच्य ॥ ‘भृञ् भरणे' 'मृङ् प्राणत्यागे' 'दृशिर् प्रेक्षणे' । दशपाद्यान्तु 'भृदृशीङ्' इति पठित्वा 'दृ आदरे' । द्रियते दरतः शेते शयतः इत्युदाहृतम् । तन्न । रुशम्तममिन्दर्शतं बृहन्तम् । तरणिर्विश्वदर्शतः। दैव्यो दशतो रथः इत्यादिमन्त्रैस्तद्भाष्येण च विरोधात् । 'भरतो नाट्यशास्त्रे मुनौ नटे। रामानुजे च दौष्यन्तौ इति मेदिनी । यजतः ऋत्विगिति ॥ उज्ज्वलदत्ताद्यनुरोधेनोक्तम् । 'त्रिों अश्विना यजत । हिरण्यशम्यं यजतो बृहन्तम्' इत्यादिषु यजतशब्दो यष्टव्यपरतयैव वेदभाष्ये व्याख्यातः। 'पर्वतः पादपे पुंसि शाकमत्स्यप्रभेदयोः। देवमुन्यन्तरे शैले' इति मेदिनी। हर्यतोऽश्व इति ॥ एतदपि 'हर्य कान्तौ गतौ च' इति धात्वर्थ वृत्तिकारोक्तिञ्चानुसृत्योक्तम् । 'परित्यं हर्यतं हरिम् । आहर्यताय धृष्णवे' इत्यादिमन्त्रेषु हर्यतः सर्वैः स्पृहणीय इति वेदभाष्यम् । पृषिरचि ॥ 'पृषन्मृगे पुमान् बिन्दौ न द्वयोः पृषतोऽपि ना'। अनयोश्च त्रिषु श्वेतबिन्दुयुक्तेऽप्युभाविमौ ।

६२४ सिद्धान्तकौमुदीसहिता [उणादिषु । -- ३९३ । शापिरगामिवश्चिजीविप्राणिभ्योऽथः । सप्तभ्योऽथ: स्यात् । शयथोऽजगरः । शपथः । रवथ: कोकिलः । गमथः पथिकः पन्थाश्च । वञ्चथो धूर्तः । वन्दीति पाठे कर्मणि कर्तरि वा प्रत्ययः वन्द्यते वन्दते वा वन्दथः स्तोता स्तुत्यश्च । जीवथः आयुष्मान् । प्राणथो बलवान् । बाहुलकाच्छमिद- मिभ्याम् । ‘शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः' । ३९४ । भृश्चित् । भरथो लोकपालः । ३९५ । रुदिविदिभ्यां ङित् । रोदितीति रुदथः शिशुः। वेत्तीति विदथः। ३९६ । उपसर्गे वसे । आवसथो गृहम् । संवसथो ग्रामः । ३९७ । अत्यविचमितमिनमिरभिलभिनभितपिपतिपनिपणिमहिन्यो- ऽसच । त्रयोदशभ्योऽसच्स्यात् । अततीत्यतसो वायुरात्मा च। अवतीत्यवसो राजा भानुश्च । चमन्त्यस्मिंश्चमस: सोमपानपात्रम् । ताम्यत्यस्मिन्निति तमसो- न्धकारः । नमसोऽनुकूलः । ‘रभसो वेगहर्षयोः' । लभसो धनं याचकश्च । नभते नभ्यति वा नभस आकाशः । तपस: पक्षी चन्द्रश्च । पतस: पक्षी । 'पनस: कण्टकिफल:' । पणस: पण्यद्रव्यम् । महसं ज्ञानम् । ३९८ । वेत्रस्तुट् च । बाहुलकादात्वाभावः । वेतसः । रजतन्त्रिपु शुक्ल स्यात् क्लीव हार च दुर्बणे' इति मेदिनी। शीशपि ॥ उज्ज्वलदत्तेनात्र पञ्चमा वञ्चिः पठ्यते । अन्यैस्तु वन्दिः । वञ्चथवन्दथयोरन्यतरं वेदादुपलभ्य बहुश्रुतैः पाठो निर्णयः । बाहुलकादिति ॥ ‘शमथः शान्तिमन्त्रिणोः' इति मेदिनी। 'दमथस्तु पुमान् दण्डे दमे च परिकीर्तितः' इति च । रुदिविदि ॥ ‘विदथो योगिकृतिनोः' इति मेदिनी । अनोज्ज्वलदत्तः ‘रुविदिभ्याङ्कित्' इति पठित्वा रौतीति रुवथः श्वेत्युदाजहार । दशपादी- वृत्तिकारस्तु 'रुदिविदिभ्याङ्कित्' इति पपाठ । किं चोपसर्गे वसेरित्येवंरूपमुत्तरसूत्रन्द्रावपि न पेठतुः । तथा हि । शीशपीति सूत्रानन्तरं सोपसर्गाद्वसेः भृनश्चित् रुदिविदिभ्याङ्कित् । इत्युज्ज्वलदत्तस्य सूत्रपाठः । अन्यस्य तु शीशपीति सूत्रानन्तरम् आडिवसेः, भृञश्चित् , रुदिविदिभ्याङ्कित्, इति सूत्रपाठः । तदेतत्पाठद्वयं भाष्यादिविरोधादुपेक्षितम् । तथा हि । गाङ्कुटादिसूत्रे के पुनश्चङादयः चङ् अङ् नजिङ्अवङ्नङः इति भाष्यम् । 'रुदिविदिभ्याङ्कित्' इत्यनुवर्तमाने उपसर्गे वसेरित्यथप्रत्यय इति कैयटेन व्याख्यातम् । एवञ्च कुर्वतां भाष्यादिविरोधः स्पष्ट एवेत्यास्तान्तावत् । भाष्यकैयटमतेऽपि डिदित्यस्यानुवृत्तेः फलञ्चिन्त्यम् । अत्यविच- मि ॥ गौरादित्वात् ङीष् । 'अतसी स्यादुमा क्षुमा' इत्यमरः । 'चमसो यज्ञपात्रस्य भेदेऽस्त्री पिष्टके स्त्रियाम् । पनसः कण्टकिफले कन्दके वानरान्तरे । स्त्रियां रोगप्रभेदे स्यात्' इति

Bala Manorama Part -xiii

Author
Sri Vasudeva Deekshita
Other authors
S.chandrasekhara Sastrigal
Title
Bala Manorama Part -xiii
File name
Bala Manorama Part -xiii
Text
OCR done
Published
2007/02/10
Publisher
S.chandrasekhara Sastrigal Teppakulam Trichinopoly
Language
Sanskrit
Pages
51
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
486286
Barcode
1990030102925.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Avaailable
VMLT id
p1mKARioDsN
Download PDF

Bala Manorama Part -xiii