Carnegie Mellon University
Shathakotikhan'danam~
Front matter
No text on this page.
ar शास्त्रमुक्तावली, ५.. श्री शै० पू० यादवाद्विनिवासि श्रीमदनन्ताचार्यविरचितं A རྒྱུ་དེ་ mar- श्रीकाशी प्रतिवादिभयङ्कर अनन्ताचार्येण परिशोषितम्। অনুষ্ঠনকাৰখাকাখা श्रीकाञ्ची। Allright reserved.
No text on this page.
|| श्रीः । ।। श्रीहयग्रीवाय नमः ।। सत्प्रतिपक्षविभाजकपत्रम् । (श्रीशैलानन्तपूरुषकुलतिलकयादवाद्रिनिवासि श्रीमदनन्तानार्यवर्यकृतं शतकोटिखण्डनम् ।) यस्य श्रीनखकान्तिनाकसरितः कूर्मायतेऽघिद्वयं सेवानम्रसुन्रेद्रवनमकुटीमाला मराळायते । पश्यन्निझरयोपिम्बकततिर्मीनप्रपञ्चायते क्षोणीशाञ्जलयः पयोजमुकुळन्त्यव्यात्स नारायणः ॥ - (*) .. प्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितप्रकृतसाध्यताव च्छेदकावच्छिन्नप्रकारताशाल्यनुमितित्वव्यापकप्रतिबध्यतनिरूपितप्रतिबन्ध- कतावच्छेदिका सतीत्यादि । अत्र प्रतिबन्धकतावच्छेदकत्वं न स्वरूपसम्बन्ध रूपम् , सत्प्रतिपक्षोन्नायकेऽतिव्याप्तेरवारणात् ; वह्नयभावव्याप्यव्याप्यवान् वह्नयभाववान्वयभावव्याप्यव्याप्यवांश्च हद्द इति निश्चययोरेकविशिष्टा परत्वेन प्रतिबन्धकतया तादृशप्रतिबन्धकतावच्छेदकत्वस्य वह्नयभावव्याप्य व्याप्यवद्धदत्वावच्छिन्नविषयतायामक्षतत्वात् । एवं वह्नयभावव्याप्यकाली- नह्रदो महानसीयवह्निमानित्यादौ वयभावव्याप्यमहानसीयवह्नयभाववान् तादृशहद इति ज्ञानविषये महानसीयवह्नयभाववत्तादृशहदरूपबाधेऽति व्याप्तिवारणायानतिरिक्तवृत्तित्वरूपं जनकतावच्छेदकत्वं निवेशनीयम् । न चाव्यापकविषयताशून्यत्वेन तादृशज्ञानवारणसम्भवः, वह्निसामान्याभाव व्याप्यमहानसीयवयभावरूपविशिष्टाप्रसिध्या ताहशविशिष्टविषयिताया २ शास्त्रमुक्तावली। - अत्र अव्यापकत्वासम्भवात् , वयभावव्याप्यत्वावच्छिन्नविषयितायाश्च विशिष्ट पक्षघटितबाधविषयताव्यापकत्वात् । यद्धर्मावच्छिन्नप्रतिबध्यतानिरूपित प्रतिबन्धकत्वं सत्यन्तार्थ:- तद्धर्मावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकता निवेशेनैव तत्रातिव्याप्तिवारणेऽप्यभावव्यापकीभूताभावप्रतियोगिकालीनहदः प्रमेयाभाववानित्यादौ प्रमेयाभावव्यापकीभूताभावप्रतियोगिप्रमेयवान् तादृश हृद इति ज्ञानमादाय प्रमेयवत्ताशहदरूपबाधेऽतिव्याप्तिर्बोध्या, प्रमेयाभा- वत्वस्याभावव्यापकीभूताभावप्रतियोगिप्रमेयत्वस्य चाप्रसिध्या यद्रूपपदेन तयोरुपादातुमशक्यत्वात्-अन्येषां च तादृशबाधघटकत्वात् । एवं चाना हार्याप्रामाण्यज्ञानान स्कन्दितनिश्चयवृत्तित्वविशिष्टयद्रूपावच्छिन्नविषयित्व व्यापकं तादृशप्रतिबन्धकत्वजनकत्वोभयं तद्रूपावच्छिन्नत्वमिति फलितम् । चानाहार्यत्वमव्यवहितोत्तरक्षणावच्छिन्नसामानाधिकरण्यसम्बन्धेन इच्छावदन्यत्वम् । यादृशदोषविषयकनिश्चयसामान्यं स्वसमानाधिकरणेच्छा व्यवहितोत्तरवृत्ति तादृशदोषस्य प्रामाणिकत्वे जन्यतासम्बन्धेनेच्छावदन्यत्व मेव तत् , आहार्यज्ञग्ने इच्छाया हेतुत्वोपगमात् न तस्य तथात्वम् । सिद्धिकालीनानुमितो इच्छाया न हेतुत्वम्, किन्तु सिद्धिप्रतिबन्धकतायामुत्ते जकत्वमेव । जन्यतासम्बन्धेनेच्छावदन्यत्वं च स्वनिरूपितजन्यतावच्छेदक विषयितासम्बन्धावच्छिन्नेच्छात्वावच्छिन्नावच्छेदकताकप्रतियोगिताकभेद . वत्वम्, तेन जन्यज्ञानसामान्यस्य ईश्वरेच्छाजन्यत्वेऽपि न क्षतिः । अप्रा माण्यज्ञानानास्कन्दितत्वं च विषयत्वसामानाधिकरण्यकालिकविशेषणत्वै- तत्रितयसम्बन्धेन भ्रमविशिष्टान्यत्वम्, न तूत त्रितयसम्बन्धेन ज्ञानविशि- ष्टान्यत्वम्, सर्वज्ञानं गुणभिन्नं मेयत्वादित्यादौ गुणत्वव्याप्यवत्सर्वज्ञानत्वा वच्छिन्नात्मकसत्प्रतिपक्षेऽव्याप्तेः , तत्र सत्प्रतिपक्षज्ञानस्योक्तत्रितयसम्ब- न्धेन स्वात्मकज्ञानविशिष्टत्वात् । सम्बन्धकोटौ स्वभिन्नत्वस्यापि निवेशे स्वांशेऽप्रामाण्यावगाहिज्ञानाव्यावृत्तेः । यत्तु तत्र सर्वज्ञानत्वेन स्वभिन्नज्ञानमात्रावगाहिसत्प्रतिपक्षनिश्चय मादायैव लक्षणसमन्वय इति; तन्न, किञ्चिद्धर्मावच्छिन्नविशेषणतापन्नसत्वा वछिन्नविशेष्यकज्ञानस्य कतिपयवस्तुविषयकत्वासम्भवस्य प्रतिज्ञाग्रन्थे - सत्प्रापिक्षविभाजकपत्रम्। ३ गादाधर्यामेवोक्तत्वात् । यदपि अव्यापकविषयिताशून्यत्वविशेषणेनाप्रामाण्य ग्रहात्मकनिरुक्तसत्प्रतिपक्षवारणसम्भवात् स्वभिन्नत्वस्य सम्बन्धकोटौ निवेशेऽपि नक्षतिरिति तन्न, अप्रमात्वविशिष्टज्ञानकालीनहदादिपक्षकस्थलीय सत्प्रतिपक्षाव्याप्तेः । तत्राप्रामाण्यवज्ञानत्वावच्छिन्नविषयताया अव्यापकत्वा सम्भवेन स्वाशे अप्रामाण्यावगाहिज्ञानाव्यावृत्तेः । तस्मादुक्तसम्बन्धत्रयेण भ्रमविशिष्टान्यत्वमेव अप्रामाण्यज्ञानानास्कन्दितत्वम्। भ्रमत्वं च स्वानुयोगि निष्ठविशेष्यतनिरूपितत्वस्वप्रतियोगिनिष्ठत्वस्वावच्छिन्नत्वैतत्रितयसम्बन्धेन सम्बन्धविशिष्टान्यप्रकारताशालित्वमनुगतं हेतुग्रन्थ निरुक्तम्।स्वावच्छिन्नप्रति बन्धकतानिरूपिप्रतिबध्यतावच्छेदकत्व सामानाधिकरण्योभयसम्बन्धेन वियिताविशिष्टविषयित्ताशून्यज्ञानत्वं निश्चथत्वम् , तेन कोटिद्वयविशेष्यकस्य कोटिद्वयप्रकारकस्य एककोटिविशेष्यकापरकोटिप्रकारकस्य च संशयस्य सा. मान्याभावव्यवस्थापनादावुक्तस्यापि व्यावृत्तिः ॥ - यत्तु प्रकारितान्तरावच्छिन्नप्रकारिताशून्यत्वे सति विशेष्यितान्तर वच्छिन्नविशेष्यिताशून्यत्वमेव निश्चयत्वम् , कोटिद्वयप्रकारकसंशयीयकोटि द्वयीयप्रकारितयोः कोटिद्वयविशेष्यकसंशयीयविशेष्यितयोश्चावच्छेद्यावच्छे दकभावस्वीकारादिति। तन्न,ययोर्विषयतयोर्निरूप्यनिरूपकभावस्तन्निरूपित विषयितयोरवच्छेद्यावच्छेदकभावस्य नियतत्वेन वयभावव्याप्यवान् हूद इति ज्ञानीयवाहविषयित्वाभावविषयित्वयोरवच्छेद्यावच्छेदकभावसत्त्वेन तादृशज्ञाने प्रकारितान्तरावच्छिन्नप्रकारिताशून्यत्वासम्भवेनासम्भवात्।प्रका रितात्वेनावच्छेद्यावच्छेदकभावनिवेशेऽपि विशिष्टवैशिष्ट्यावगाहिबोधे विशे षणतावच्छेदकस्य धर्मिपारतन्त्रयेण धर्मिणि प्रकारतया तत्रैकप्रकारित्वा वच्छिन्नापरप्रकारितासत्त्वेन तादृशज्ञानस्यलक्षणाघटकत्वेनासम्भवप्रसङ्गात्। विशिष्टवैशिष्ट्यावगाहिज्ञानस्यैव जनकत्वेन तादृशज्ञानमादायैव लक्षणस्य समन्वेतव्यत्वात् । तत्रावच्छेद्यावच्छेदकभावास्वीकारे पक्षे परम्परया व्याप्तिं विशेष्ये विशषणमिति रीत्या वयभावव्याप्यं चावगाहमानात्समूहा लम्बनात्मकज्ञानाद्व्याप्तिविशिष्टवैशिष्ट्यावगाहिज्ञानस्य वैलक्षण्यानुपपत्तिः ।
४ शास्त्रमुक्तावली। न च तादृशज्ञानयोलक्षण्यनिर्वाहाय प्रकारतयोरवच्छेद्यावच्छेदकभावः-न तु प्रकारितयोरिति वाच्यम् ,-विनिगमनाविरहेण प्रकारितयोरप्यवच्छेद्यावच्छे दकभावसिद्धेः । स्वनिरूपकत्तानवच्छेदकधर्मावच्छिन्ननिरूपितत्वस्वावच्छि- नत्वोमयसम्बन्धेन प्रकारिताविशिष्टप्रकारिताशून्यत्वं निश्चयत्वमिति विव- क्षणेनोक्तदोषवारेणऽपि हुदो वयभावव्याप्यवान् हदे वयभावव्याप्यो नास्तीत्याकारकस्यैकोटिप्रकारकापरकोटिविशेष्यकस्य सामान्याभावव्य --- वस्थापनोक्तसंशयस्याव्यावृत्तेः । वस्तुतस्तु स्वावच्छिन्नविरोध्यनुमिति जनकतावच्छेदकविषयितावत्व - स्वप्रतियोग्युपहितत्वोमयसम्बन्धेनाभाव विशिष्टान्यत्वमेवाप्रामाण्यज्ञानाभावादिविशिष्टत्वम् ,न तु स्वावच्छिन्नप्रकृतानु मितिप्रतिबन्धकतावच्छेदकविषयितावत्त्व-स्वप्रतियोग्युपहितत्वोभयसम्बन्धे नाभावविशिष्टान्यत्वम्, तथा सति सामानाधिकरण्यांशे अप्रामाण्यज्ञाना स्कन्दितस्य व्यापकसामानाधिकरण्यघटितसत्प्रतिपक्षनिश्चयस्याज्यावृत्त्या तत्राव्याप्तेः, तादृशज्ञाने विरोध्यतुमितिजनकताविरहात् । न च प्रतिबन्ध- कतायां प्रकृतानुमितिनिरूपितत्वमनिवेश्यस्वा वच्छिन्न प्रतिबन्धकतावच्छेदक विषयितावत्त्वघटितोमयसम्बन्धेनाभावविशिष्टान्यत्वनिवेशान्नोक्ताव्याप्तिः सामानाधिकरण्यांशेऽप्रामाण्यज्ञानस्य प्रकृतानुमितिप्रतिबन्धकतावच्छेदका भावप्रतियोगित्वविरहेऽपि सामानाधिकरण्याभाववत्ताबुद्धिप्रतिबन्धकता- वच्छेदकाभावप्रतियोगित्वानपायादिति वाच्यम् ,-तथा सति अव्याप्यवत्तित्व ज्ञानस्योत्तेजकतामतेऽव्याप्यवृत्तिघटाभाववद्भूतलकालीनह्रदो वह्निमानि- त्यादौ वढ्यभावव्याप्यवत्तादृशहूदरूपसत्प्रतिपक्षाव्याप्तेः, तत्र सत्प्रति पक्षविषयकनिश्चयसामान्यस्य धटाभावत्त्वावच्छिन्नप्रकारतानिरूपितभूतलत्वा वच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्नप्रतिबन्धकतावच्छेदकीभूताभावप्रति- योग्युपहिततयोक्तोभयसम्बन्धेनाभावविशिष्टान्यस्य तादृशसत्प्रतिपक्षनिश्च याप्रसिद्धेः । एवं सामान्यमुखव्याप्तिस्थलीयानुमितौ तत्तत्साधनधर्मिक तत्तत्साध्यनिरूपितव्याप्तिग्रहाभावविशिष्टतत्तत्साध्यसाधनोपस्थितः प्रतिबन्ध कतायास्सिद्धान्तलक्षणादौ उक्तत्वेन संयोगसामा याभावव्याप्यसंयोगाय यावद्विशेषाभावकालीनहूदो वह्निमानित्यादौ वयभावव्याप्यवत्तादृशदरूप सत्प्रतिपक्षविभाजकपत्रम् । सत्प्रतिपक्षाव्याप्तः, स्वावच्छिन्न प्रतिबन्धकतावच्छेदकीभूतसाध्यसाधन विषयित्वस्वप्रतियोगिभूतव्याप्तिग्रहोपहितत्वोभयसम्बन्धेनाभावविशिष्टतया- तदन्यतादृशसत्प्रतिपक्षनिश्चयाप्रसिद्धेः । प्रकृतानुमितिप्रतिबन्धकतानि- वेशेऽपि सिद्धघटकालीनेष्टसाधनघटकालीनह्रदो वह्निमानित्यादौ स- प्रतिपक्षाव्याप्तेः, सिद्धत्वज्ञानाभावविशिष्टेष्टसाधनताज्ञानादिरूपेच्छासा- माया अनुमितिप्रतिबन्धकत्वात् । तस्मात्स्वावच्छिन्नजनकतावच्छेदकवि- षयितावत्त्वघटितोभयसम्बन्धेनाभावविशिष्टान्यत्वमेव निवेशनीयम्। अथ एतेनोक्तसत्प्रतिपक्षलक्षणस्य वयभाववढ्यभावव्यायव्याप्योभय- बद्धदेऽतिव्याप्तिरिति शङ्का निरस्ता , स्वावच्छिन्नजनकतावच्छेदकविषय तावत्त्वघटितोभयसम्बन्धेनाभावविशिष्टान्यत्वस्य बयभाववद्धदांशेऽप्रामा. ण्यज्ञानास्कन्दितेऽप्युक्तोभयवद्धदविषयकनिश्चये सत्त्वेन तत्र प्रतिबन्धकत्वा भावनातिव्याप्त्यप्रसक्तः। समानबललक्षणेऽप्रामाण्यग्रहाभावस्य स्वातन्त्रयेणानुमिति हेतुतापक्षस्योक्तत्वेन तत्पक्षे स्वावच्छिन्नजनकतावच्छेदकविषयितावत्त्वघ- टितोभयसम्बन्धेनाभावविशिष्टान्यत्वस्य ज्ञानेनिवेशासम्भवात् प्रतिबन्धकता घटितोभयसम्बन्धेनाभावविशिष्टान्यत्वमगत्या निवेशनीयम् , तत्पक्षसाधा- रण्यानुरोधात् , सामानाधिकरण्यांशेऽप्रामाण्यज्ञानादेश्च तत्तद्वयक्तित्वा- वच्छिन्नाभावा निवेशनीयाः, तथा चोक्तोभयवद्धदेऽतिव्याप्तिरिति चेन्न; तथापि वह्नयभावव्याप्यव्याप्यांशेऽप्रामाण्यग्रहास्कन्दितोक्तनिश्चयस्यापि- लक्षणघटकत्वेन तत्राप्रामाण्यग्रहस्योत्तेजकतापक्षे जनकताविरहेण वयभा वव्याप्यव्याप्यांशे संशयात्मकज्ञानस्यापि संग्रहेण तत्र पक्षद्वये जनकता विरहेणातिव्याप्तयप्रसक्तः । वस्तुतस्तु अनाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयवत्तित्वविशिष्ट- यद्रूपावच्छिन्नविषयिताव्यापकत्वस्य प्रतिबन्धकत्वजनकत्वोभयस्मिन्निवेशे ६ शास्रमुक्तावली। N . - यादृशस्थलविशेष प्रतिबन्वकीभूतज्ञानं साध्याभावव्याप्यजलत्वादिना- घटाद्यवगा व साध्याभावव्याप्यविशिष्टपक्षादिज्ञानं संशयादिरूपमेव तत्रा- नाहार्याप्रामाण्यज्ञानानास्कन्दितयद्रूपावच्छिन्नविषयिकनिश्चयाप्रसिद्धया ऽव्याप्तिरिति केवलयद्रूपावच्छिन्नविषयिताव्यापकत्वमेव प्रतिबन्धकत्वजनक- त्वोभयस्मिन्निवेश्य परिष्कर्तव्यम् , व्यापकताघटकसम्बन्धश्च स्वावच्छेदका भावप्रतियोग्युपहितत्व-स्वाश्रयत्वान्यतरसम्बन्ध इति नासम्भवः । न चैवं पर्वतो वह्निमानित्यादौ अप्रामाण्यवत्सत्प्रतिपक्षभ्रमेऽतिव्याप्तिः, तत्राप्रामाण्य प्रकारकतादृशज्ञानविशेष्यकज्ञानसामान्ये स्वावच्छेदकाभावप्रतियोग्युपहित त्वसम्बन्धेन प्रतिबन्धकत्वजनकत्वोभयसत्त्वादिति वाच्यम्,-अहार्यज्ञानेऽपि निरुक्ताप्रामाण्यवज्ज्ञानत्वावच्छिन्नविषयितासत्त्वेन तत्रोक्तसम्बन्धेन प्रति- बन्धकताविरहात् ; अनाहार्यज्ञानस्यैव प्रतिबन्धकतावच्छेदकाभावप्रति- योगित्वात् , अप्रामाण्यज्ञानगताहार्यत्वस्य च सत्प्रतिपक्षज्ञानप्रतिबन्धकता वच्छेदकाभावप्रतियोग्युपहितत्वविरहात् । लक्षणे तथैव निवेश्यत्वात् । न चाप्रामाण्यग्रहधर्मिकाप्रामाण्यग्रहकालीनबाधादिग्रहसत्त्वेऽनुमितिवारणाय- तत्राप्रामाण्यग्रहधर्मिकाप्रामाण्यग्रहविशिष्टबाधनिश्चयस्य पृथक्प्रतिबन्धकता या बाधग्रन्थे व्यवस्थापितत्वेन तादृशनिश्चयेऽपि यद्रूपावच्छिन्नविषयिता सत्त्वेन तत्राप्रामाण्यज्ञानानास्कन्दितनिश्चयत्वावच्छिन्न प्रतिबन्धकताविरहाद सम्भव इति वाच्यम् , तत्रापि स्वावच्छेदकाभावप्रतियोग्युपहितत्वसम्बन्धेन प्रतिबन्धकतासत्त्वेन व्यापकत्वानपायात् । अस्यायमनुगमः- प्रकृतानु मितित्वव्यापकप्रतिबध्यतावृत्तिरूपवत्त्वसत्प्रतिपक्षत्वम् । प्रतिबध्यतावृत्तित्वं च रूपे स्वसमानाधिकरणभेद प्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्न स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन ! स्वाधिकरणता स्वा वच्छिन्नविषयकत्वसम्बन्धेन । भेदप्रतियोगितावच्छेदकता स्वनिरूपितप्रति बन्धकतावत्त्वस्वावच्छेदकावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेद कविषयित्वावच्छिन्नानुमितिनिष्ठजन्यतानिरूपितजनकतावत्त्वोभयसम्बन्धा- वच्छिन्ना । प्रतिबन्धकतावत्वं जनकतावत्त्वं च स्वावच्छेदकाभावप्रतियोग्यु पहितत्व-स्वाश्रयत्वान्यतरसम्बन्धेनेति । एवञ्च वयभाववढ्यभावव्याप्य सत्प्रतिपक्षविभाजकपत्रम् । व्योप्याभयवद्धदऽतिव्याप्तिरवतरत्येव , उक्तान्यतरसम्बन्धेन प्रतिबन्धकत्व जनकत्वोभयोरुक्तोभयवद्धदत्वविच्छिन्नविषयिताव्यापकत्वात् । केचित् - विशिष्टान्तराघटितत्वविशेषणेनोक्तोभयवद्धद. वारणसम्भवः । यत्तु विशिष्टान्तराघटितत्वं यदि स्वावच्छिन्नाविषयक- प्रतीतिविषयतावच्छेदकयद्रूपावच्छिन्नविषयिताव्यापिका प्रकृतानुमितिप्रतिब- न्धकता वद्रूपावच्छिन्नाघटितत्वरूपं तदा वयभाववद्धदरूपविशिष्टान्तर घटितत्वेन उक्तोभयवद्धदवारणसम्भवेऽपि बाधघटितसत्प्रतिपक्षेऽव्याप्ति वारणाय प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तित्ववजनकतानतिरिक्तवृत्ति त्वस्यापि निवेशनीयतया उक्तातिप्रसङ्गो दुर्वारः ; न च यद्रूपावच्छिन्नविषय. कत्वं निरुक्तविरोध्यनुमितिजनकतानतिरिक्तवृत्ति तादृशरूपान्तराघटित त्वस्य विवक्षणेऽपि मेयत्वविशिष्टसत्प्रतिपक्षेऽतिव्याप्तिवारणसम्भवात् न नि- रुक्तातिव्याप्तिः, तादृशोभयवद्धदस्य तादृशविशिष्टान्तरेण वयभावव्याप्य व्याप्यवद्धदेन घटितत्वादिति वाच्यम्, वयभावव्याप्यवहयभावव्याप्यव्याप्य वद्धदादिरूपसत्प्रतिषक्षाव्याप्तिवारणाय प्रतिबन्धकतानतिरिक्तत्वस्यापि वि- शिष्टान्तरविषयितायां निवेशनीयतया उक्तविशिष्टेऽतिव्याप्तितादवस्थ्यादिति ; तन्न, स्वव्याप्यविराध्यनुमितिजनकताव्यापकत्व स्वाभाववद्वत्तित्वोभयसम्ब- न्धेन प्रकृतानुमितिप्रतिबन्धकताविशिष्टान्यत्वस्य विशिष्टान्तराघटितत्व शरीरप्रविष्टप्रतिबन्धकतायो निवेशेन केवलप्रतिबन्धकताघटित विशि- ष्टान्तराघटितत्वनिवेशेऽपि बाधघटितसत्प्रतिपक्षाव्याप्तिविरहात् , हद- स्समानाधिकरणजलाभाववानित्यादौ जलव्यापकसमानाधिकरणजलसमा नाधिकरणजलवद्धदरूपबाधघटितसत्प्रतिपक्षज्ञानीयप्रतिबन्धकताविशिष्टत्वा त्तद्घटकबाधज्ञानीयप्रतिबन्धकताया इति तत्र तादृशबाधघटितत्वस्या- किञ्चित्करत्वात् । स्वाभावश्च स्वाश्रयत्व-स्वावच्छेदकत्वान्यतरसम्बन्धा वच्छिन्नप्रतियोगिताको ग्राह्यः , तेन मेयत्वविशिष्टसत्प्रतिपक्षे नातिव्याप्तिः, सत्प्रतिपक्षज्ञानीयप्रतिबन्धकतयोः परस्परं स्वरूपसम्बन्धावच्छिन्नपरस्परा ८ A - शास्त्रमुक्तावली। ८ भावसामानाधिकरण्येऽपि स्वाश्रयत्व-स्वावच्छेदकत्वान्यतरसम्बन्धावच्छिन्न परस्परात्यन्ताभावसामानाधिकरण्यविरहात् । एवञ्च निरुक्तकेवलप्रतिबन्ध- कताघटितविशिष्टान्तराघटितत्वेनोक्तोभयवद्धदवारणसम्भवः । एवं केवल जनकताघटितविशिष्टान्तराघटितत्वनिवेशेऽपि वढ्यभावव्याप्यवयभाव- व्याप्यव्याप्यवद्धदे नाव्याप्तिः ; तादृशजनकतायां स्वव्यापकत्व-स्वाभाव- वदत्तित्वोभयसम्बन्धेन विरोध्यनुमितिजनकताविशिष्टान्यत्वस्य निवेशात् , यद्धर्मावच्छिन्नजन्यतानिरूपितजनकताविशेष्यदळप्रविष्टा तद्धर्मावच्छिन्नज- न्यतानिरूपितजनकताघटितविशिष्टान्तराघटितत्वस्य वा निवेशनीयत्वात् । न च यत्त्वतत्त्वनिवेशादननुगम इति वाच्यम् ,-अनुगमस्यापि कथञ्चित्सम्भ वात्। तथाहि- जन्यताविशिष्टरूपवत्त्वं विशिष्टान्तराघटितत्वघटितसत्प्रतिपक्ष त्वम् । जन्यतावैशिष्टयं चाधेयत्व-स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेद- वत्त्वोभयसम्बन्धेन। आधेयता च स्वसमानाधिकरणभेदप्रतियोगितावच्छेदक त्वसम्बन्धावच्छिन्नस्वनिष्टावच्छेदकताकप्रतियोगिताकभेद्वत्त्वसम्बन्धाव- वच्छिन्ना। स्वाधिकरणता-स्वावच्छिन्नविषयितावत्त्वसम्बन्धावच्छिन्ना। भेदन तियोगितावच्छेदकता स्वविशिष्टप्रतिबध्यतानिरूपितप्रतिबन्धकतावत्त्वस्वनि रूपितजनकतावत्त्वोभयसम्बन्धावच्छिन्ना।स्ववैशिष्ट्यश्चप्रतिबध्यतायांआधेय तासम्बन्धेन।आधयता च स्वावच्छेदकावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्ध कतावच्छेदकविषयित्वावच्छिन्नत्वसम्बन्धावच्छिन्नाद्वितीयसम्बन्धघटकस्व- निष्ठावच्छेदकता स्वविशिष्टरूपविशिष्टत्वसम्बन्धावच्छिन्ना। रूपे स्ववैशिष्टमञ्च स्वसमानाधिकरणभदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नस्वानिष्ठावच्छे दकताकप्रतियोगिताकभेदवत्त्वसम्बन्धावच्छिन्नाधेयत्वसम्बन्धेन । तत्र स्वा- धिकरणता-स्वावच्छिन्नविषयिताशालिनिश्चयत्वसम्बन्धावच्छिन्नााभेदप्रतियो गितावच्छेदकतास्वावच्छेदकावच्छिन्नजन्यतानिरूपितजनकतावत्वसम्बन्धा वच्छिन्ना । रूपविशिष्टत्वञ्च स्वविशिष्टप्रतीतिविषयितावच्छेदकत्वसम्बन्धा वच्छिन्नाधेयत्वस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वोभयसम्बन्धेन । प्र तीतो स्ववैशिष्ट्यं च स्वावच्छिन्नविषयतानिरूपकत्वसम्बन्धावच्छिन्नस्वनि सत्प्रतिपक्षविभाजकपत्रम् । ९ । ष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वसम्बन्धेन । स्वनिष्ठावच्छेदकता स्ववि शिष्टप्रतीतिविषयतावच्छेदकत्वसम्बन्धावच्छिन्ना । प्रतीतौ स्ववैशिष्टयञ्च-पूर्वो क्तसम्बन्धेनेति । एवञ्च निरुक्तकेवलजनकत्वघटितविशिष्टान्तराघटितत्ववि- शेषणेनोभयवद्धदवारणसम्भवः । एवं स्वावच्छिन्नाविषयकप्रतीतिविषयताव यद्रूपावच्छिन्नविषयकत्वं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्ति,यादृशवि- शिष्ठान्तरविषयकत्वं जनकत्तानतिरिक्तवृत्तितादृशविशिष्टद्वयविषयिताशून्यप्र- तीतिविषयत्वरूपजनकत्वप्रतिबन्धकत्वोभयघटितविशिष्टान्तराघटितत्वविशे षणेनाप्युक्तातिव्याप्तिवारणसम्भवः,उक्तपरिष्कारे बाधघटितसत्प्रतिपक्षे वय भावव्याप्यवह्नयभावव्याप्यव्याप्यवद्धदे चाव्याप्तिविरहात् । एतेनोक्तरीत्या जनकतायामुक्तोभयसम्बन्धेन जनकताविशिष्टान्यत्वस्य यद्धर्मावच्छिन्नजन्य- तानिरूपित्तजनकता विशेष्यदळप्रविष्टा तद्धर्मावच्छिन्नजन्यतानिरूपितत्वस्य वा निवेशे वयभावव्याप्यत्वविशिष्टं यजलव्यापकवह्नयभाव समानाधि करणजलं तद्विशिष्टह्रदेऽतिव्याप्तिः , तत्र सत्प्रतिपक्षज्ञानजनकताया उक्तो भयसम्बन्धेन उन्नायकजनकताविशिष्टत्वात् , वयभावव्याप्यत्वावच्छिन्नानु- भितिनिष्ठजन्यतामादायोक्तानुगमरीत्या विशिष्टान्तराघाटतत्वसम्भवाच्चेति निरस्तम् । विवेचयिष्यते चेदमुपरिष्टादिति वदन्ति । अन्ये तु- , सत्यन्तघटकप्रतिबन्धकतायां निरुक्तजनकतावच्छेदकविषयिता- स्वव्यापकतावच्छेदकत्वनिवेशान्नोक्तातिप्रसङ्गः प्रत्येकज्ञानीयवयभाव व्याप्यव्याप्यवद्धदविषयितायां निरुक्तजनकतावच्छेदिकायां प्रतिबन्ध कतावच्छेदकत्वविरहात् । न च निरुक्तसत्प्रतिपक्षोन्नायकविषयितायां नि: रुक्तजनकतावच्छेदिकायां सत्प्रतिपक्षज्ञानीयप्रतिवन्धकतावच्छेदकत्ववि. रहेण सर्वत्रासम्भव इति वाच्यम्, जनकयत्किञ्चिज्ञानीयविषयितात्वव्याप कत्वनिवेशनासम्भवविरहात् । वयभावव्याप्यवान् ह्रद इति ज्ञानमादायैव लक्षणगमनसम्भवात् । न च धर्मितावच्छेदकनिष्ठप्रकारतानिरूपितनिर- वच्छिन्नविशेष्यतामादायासम्भव इति वाच्यम् , जनकयत्किञ्चिज्ञानीय- ३ शास्रमुक्तावली। यत्किञ्चित्त्वनिवेशादननुगम इति वाच्यम् , पूर्वोक्तभेदप्रतियोगितावच्छेदक तायास्स्वविशिष्टप्रतिबन्धकतावत्त्वसम्बन्धावच्छिन्नत्वेन विवक्षणीयत्वात् । प्रतिबन्धकतायां स्ववैशिष्ट्यं च स्वनिरूपितत्व-स्वविशिष्टज्ञानविशिष्टत्वोभय सम्बन्धेन ज्ञाने स्ववैशिष्ट्यं । च स्वावच्छेदकावच्छिन्नप्रतिबध्यतानिरूपित प्रतिबन्धकतावच्छेदकविषयत्वावच्छिन्नानुमितिनिष्ठजन्यतानिरूपितजन- कतावत्त्वसम्बन्धेन। ज्ञानवैशिष्ट्यञ्च स्वसमानाधिकरणभेदप्रतियोगितावच्छे- दकत्वसम्बन्धावच्छिन्न-स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धे- न। स्वाधिकरणता स्वीयकिञ्चिदवच्छिन्नविषयितात्वसम्बन्धावच्छिन्ना : भेद प्रतियोगितावच्छेदकता स्वावच्छेदकसम्बन्धावच्छिन्नेति । - यत्तु- उक्तरीत्यासम्भववारणाययत्किञ्चिजनकतावच्छेदकविषयितात्व व्यापकतावच्छेदकताकत्वं प्रतिबन्धकतायां निवेशनीयम , तथा च सत्प्रति पक्षज्ञानीयजनकतामादायैव लक्षणगमनानासम्भव इति । तन्न, वक्ष्यमाण- रीत्या जनकतायां यत्किञ्चित्त्वनिवेशेऽपि ज्ञाने यत्किञ्चित्त्वनिवेशस्यावश्य- कतया तत एवोक्तदोषवारणे जनकतायां यत्किञ्चित्त्वनिवेशानावश्यकत्वात् । एकरूपेण जनकतापक्षसाधारण नुरोधस्य वक्ष्यमाणत्वाच्च । यत्तु जनकयत्किञ्चिज्ञानीयायां सामानाधिकरण्यविषयितायां सत्प्रति पक्षज्ञानीयप्रतिबन्धकतावच्छेदकत्वविरहेण प्रतिहेतुव्यापकसाध्याभाव समा नाधिकरणप्रतिहेतुमत्पक्षरूपतत्प्रतिपक्षाव्याप्तिप्रसङ्ग इति । तन्न ; व्यापकवयभावसमानाधिकरणजलवान वेति संशयव्यावृत्तनिश्चयत्व- शरीरघटकतया सामानाधिकरण्यविषयताया अपि ताशप्रतिबन्धकता वच्छेदकसम्भवात् । तथाहि-. स्वावच्छेदकधर्मिपर्याप्तावच्छेदकताकप्रति योगिताकाभावत्वावच्छिन्नप्रकारतानिरूपितहदत्वावच्छिन्नविशेष्यताकत्व- सम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेद्वत्त्व-स्वनिरूपितहद त्वावच्छिन्नविशेष्यताकत्वोभयसम्बन्धेन जलत्वावच्छिन्नप्रकारताविशिष्टज्ञा- नत्वं हि जलनिश्चयत्वम्। जलव्यापकवयभावसमानाधिकरणजलवान् जल सत्प्रतिपक्षविभाजकपत्रम् । - , सामान्याभाववान्वेति संशयस्यापि व्यावृत्तिः । स्वावच्छेदकतायाः पर्याप्त्य निवेशात् प्रतियोगितावच्छेदकतापर्याप्तिनिवेशाच्च हृदस्समुद्रजलवान्न वा जलवांश्च ह्रद इत्यांशिकनिश्चयस्य सङ्ग्रहः । तथा च स्वनिरूपितावच्छेदक तात्वेन सामानाधिकरण्यविषयिताया अपि प्रतिबन्धकतावच्छेदकत्वात् । प्रतिबन्धकतावच्छेदकतावच्छेदकसम्बन्धघटकस्यापि अवच्छेदककोटिप्रवि टानामप्यवच्छेदकत्वे प्रतिबन्धकतावच्छेदकत्वसम्भवात् । अतएव प्रतिज्ञो त्तरहेतूत्तरोदाहरणोत्तरोपनयनोत्तरत्वविशिष्टनिगमनत्वावच्छिन्नभेदप्रति योगितावच्छेदकत्वं निगमनस्योपपादितमवयवग्रन्थे । यदि च केवला न्वयिग्रन्थोक्तनिष्कृष्टकल्परीत्या संशयसमुच्चययो_लक्षण्यनिर्वाहाय संशये कोटिद्वयप्रकारितयोरवच्छेद्यावच्छेदकभावस्स्वीक्रियते , एवञ्च स्वनिरूपक तानवच्छेदकधर्मावच्छिन्ननिरूपितप्रकारितान्तरानवच्छिन्नप्रकारिताकज्ञान मेव जलत्वावच्छिन्न प्रकारकनिश्चयत्वम् , प्रकारितायां निरूपितत्वांशोपा- दानाच्च विशिष्टवैशिष्ट्यावगाहिज्ञानसङ्ग्रहः , संशयत्वं वा मानसत्वव्या प्यजातिरव्याप्यवृत्तिः , सर्वत्र संशयस्य मानसताया एवोपगमात् , चक्षु स्सन्निकर्षादिमद्धार्मक संशयदशायां पर्वतं पश्यामीत्यनुव्यवसायश्च संशयस्य पूर्व परतो वा जायमानतद्विषयकचाक्षुषज्ञानादिकल्पनेन तद्विषयकतयोप पादनीयः, संशत्वस्यचावच्छेदकं तद्धर्मावच्छिन्नविशेष्यकत्वावच्छिन्नतत्कोटि प्रकारकत्वमेव, तद्धर्मिविशेष्यकत्वावच्छिन्नजलप्रकारकत्वावच्छेदन संशय त्वाभाववत्त्वमेव जलप्रकारकनिश्चयत्वम्,जातेरव्याप्यवृत्तिता मिश्रादिभिरपि स्वीकृतेति नापसिद्धान्तभीतिः ; भवतु वा संशयत्वजातिाप्यवृत्तिरेव, द द्विशिष्ट निरूपितत्वं संशयीयकोटिद्वयीयविषयितायामेवापेयते , एवञ्च संश- यत्वविशिष्टानिरूपितजलत्वावच्छिन्नप्रकारकत्वमवे जलवत्तानिश्चयत्वम्, संयशनिश्चयविषयतयोश्च भेद इत्यादिकं विभाव्यते, तदा सामानाधिकरण्य प्रकारताभिन्न रम्परासम्बन्धानवच्छिन्नस्वीयप्रकारतात्वव्यापकतावच्छेदक- ताकत्वम्य प्रतिबन्धकताविशेषणत्वेन सामानाधिकरण्यविषयतायाः प्रति बन्धकतानवच्छेदकत्वेऽपि अतिविरहात् : साध्याभावववृत्तिमत्पक्षविषयक १२ शास्त्रमुक्तावली। किञ्चिदवच्छिन्नविषयितात्वव्यापकावच्छेदकताकत्वनिवेशसम्भवात् । न च निश्चयनिष्ठजनकतावच्छेदिकायां विशिष्टवैशिष्ट्यावगाहिज्ञानीयपरम्परा सम्बन्धावच्छिन्नव्याप्तिप्रकारतायां प्रतिबन्धकतावच्छेदकत्वविरहेणासम्भव स्य प्रसङ्गेन व्यापकताघटितसत्प्रतिपक्षमात्रेऽव्याप्तिकथनस्यानुचितत्वाच्च । अस्माकं तु परम्परासम्बन्धानवच्छिन्नयत्किञ्चिज्ज्ञानीयप्रकारतात्वव्यापकता- वच्छेदकतात्वस्य प्रतिबन्धकत्वविशेषणत्वान्न तत्रापि दोषः । यत्तु व्याप्तयंशे निश्चयत्वानिवेशप्रयुक्तलाघवस्य तुल्यतया विशिष्ट- वैशिष्ट्यावगाहिज्ञानत्वेनैव तादृशज्ञानस्य प्रतिबन्धकत्वमिति नोक्तरीत्या सम्भव इति; तन्न, विशेष्येविशेषणमिति रीत्या तदभावव्याप्यवत्ताज्ञानस्य विशृङ्खलोपस्थितिमूलकस्य प्रतिबन्धकत्वानुभवापलापापत्तेः । किञ्च प्रति बन्धकतायां विरोधितावच्छेदकरूपावगाहित्वमेव नियामकम्, न तु विलक्ष गविषयितावत्त्वमिति व्यधिकरणधर्मावच्छिन्नाभावखण्डने स्पष्टम् । जनक- तायां तु ज्ञानद्वयादिव्यावृत्तविलक्षणविषयतावत्त्वमेव नियामकं नैयायि- कानाम् । तथा च विशेष्येविशेषणमिति रीत्या ज्ञानस्थापि विरोधितावच्छे दकरूपावगाहित्वेन प्रतिबन्धकत्वं दुर्वारमिति । यत्तु सामानाधिकरण्यविषयितायाः प्रतिबन्धकतानवच्छेदकतया व्यापकसामानाधिकरण्यघटितसत्प्रतिपक्षाव्याप्तिवारणाय जनकतावच्छेदक मुख्यविशेष्यतात्वव्यापकतावच्छेदकताकत्वं निवेशनीयमिति; तन्न, व्याप्ति विशिष्टवैशिष्ट्यावगाहिज्ञानस्यैवानुमितिहेतुतया परम्परासम्बन्धावच्छिन्न व्याप्तिप्रकारतानिरूपितपक्षनिष्ठविशेष्यतायां जनकतावच्छेदिकायां प्रति - बन्धकतावच्छेदकत्वविरहेणासम्भवस्यैव प्रसङ्गात् । प्रतियोग्यसामानाधि- करण्यगर्भव्यभिचारप्रहप्रतिबन्धकतावच्छेदकविषयिताशालिनिश्चयत्वेन प्र- तियोग्यसामानाधिकरण्यगर्भतदगर्भव्याप्तिनिश्चययोरेकरूपेण व्याप्तयनुगमसिद्धा तल झणयोरुक्ततया तादृशजनकतावच्छेदकतायाः प्रति- योगिवैयधिकरण्यघटितजलव्यापकवह्नयभावसमानाधिकरणजलवद्धदत्वा- जनकताया - सत्प्रतिपक्षविभाजकपत्रम् । - वच्छिन्नमुख्यविशेष्यतायां च सत्त्वेन तत्र सत्प्रतिपक्षज्ञानीयप्रतिबन्धकता- वच्छेदकत्वाभावेनाव्याप्तेः। प्रतियोगिवैयधिकरण्याघटितव्यापकत्वावगाहि निश्चयस्यैव प्रतिबन्धकत्वात् । न च प्रतियोगिवैयधिकरण्यघटितव्यापक- ताघटितजलव्यापकवयभावसमानाधिकरणजलवत्तानिश्चयस्यापि प्रत्तियो- गिवैयधिकरण्याघटितव्यापकतावगाहिजलव्यापकवयभावनिश्चयविशिष्ट- त्वेन प्रतिबन्धकतासम्भवानोक्ताव्याप्तिरिति वाच्यम्,यादृशजलव्यक्तिघटितो- क्तप्रतियोगिवैयधिकरण्यघटितव्यापकतागर्भविशिष्टजलवद्धदज्ञानं जलव्या- पको वहयभाव इति ज्ञानकाले न जातं तादृशजलवद्धदविषयताया अपि सामान्यान्तर्गततया तादृशविषयतात्वव्यापकावच्छेदकताकत्वस्य प्रतिबन्ध कतायामभावेनाव्यागेर्दुवारत्वात् । तादृशव्यक्तिरप्रामाणिकीति चेत् । प्रामाणिकत्वेपि सम्भवपक्षस्यैवादराणीयत्वात् । अस्माभिस्तूक्तरीत्या अव्याप्तिवारणाय जनकयत्किञ्चिज्ज्ञानीयविषयतात्वव्यापकावच्छेदकताकत्वं प्रतियोगिवैयधिकरण्याघटितव्यापकत्वावगाहिनिश्चयीयविष- यितामादायैव लक्षणसमन्वयात् भवतां मते जनकतावच्छेदकयत्किञ्चिज्ज्ञा- नीयमुख्यविशेष्यतात्वव्यापकावच्छेदकताकत्वनिवेशे तूक्तोभयवद्धदेऽतिव्या- प्तिर्दुारा, तादृशजनकतावच्छेदकीभूतोभयवद्धदविषयकज्ञानीयमुख्यविशे- प्यकत्वव्यापकावच्छेदकताकत्वस्यतज्ज्ञानीयप्रतिवन्धकतायामक्षतत्वात्।एव- मवच्छेदकावच्छेदेन परामर्शस्य पक्षतावच्छेदकव्यापकत्वविशिष्टसंयोगस- म्बन्धावच्छिन्नप्रकारताशालिनिश्चयत्वेनैव जनकतया पक्षतावच्छेदकावच्छि- नमुख्यविशेष्यताया जनकतानवच्छेदकत्वेन जनकतावच्छेदकमुख्यविशेष्य. त्वाप्रसिध्यावच्छेदकावच्छेदेन सत्प्रतिपक्षाव्यानश्च । अस्माकं तु यत्किञ्चिज्ज्ञानीयपरम्परासम्बन्धानवच्छिन्नप्रकारतात्वव्यापकावच्छेदकत्व- प्रसिध्या नाव्याप्तिः । एवं भवदुक्तविशेषणेनोक्तोभयवद्धद्वारणं च न सम्भवति , वह्नयभावव्याप्यव्याप्यवह्नयभाववान् हद इति ज्ञानीयजनकता- मादायोक्तविशेषणसम्भवात् । हेतुतावच्छेदकभेदेन जनकताभेदपक्ष तादृश निवेश्यो, जनक- , ४ शास्त्रमुक्तावली। जनकतावच्छेदकीभूतमुख्यविशष्यतात्वव्यापकावच्छेदकताकत्वस्य बाधप्रति- बन्धकतायां सत्वात् , अस्माकन्तु वयभावव्याप्यव्याप्यवह्नयभाववानिति ज्ञानमादायापि नातिव्याप्तिसम्भवः । स्वीयतादृशप्रकारतात्वस्य वयभाव व्याप्तिघटकपदार्थीयप्रकारत्वादिषु सत्त्वेन तत्र प्रतिबन्धकतावच्छेदकत्व विरहात् । यदपि निरुक्तजनकतावच्छेदकमुख्यविशेष्यतात्वव्यापकतावच्छेदक- ताकत्वनिवेशनं न सम्भवति , जलव्यापकवह्नयभावसमानाधिकरणजलवान् हृदः शैवालव्यापकवयभावसमानाधिकरणशैवालवान् हद इत्यादिनिखिलप रामर्शसाधारण्यानुरोधेन स्वावच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानि- रूपितसाध्याभावत्वावच्छिन्नविषयतानिरूपितसामानाधिकरण्यविषयतानि- रूपितत्वस्वावच्छिन्नत्वोभयसम्बन्धेन किश्चिद्धर्मविशिष्टप्रकारतानिरूपितहद- त्वावच्छिन्नविशेष्यताशा लिनिश्चयत्वेन उक्तसर्वनिश्चयानामेकरूपेण जनकत्व स्वीकारात् । निरुक्तजनकतावच्छेदकमुख्यविशेष्यतात्वस्य शैवालव्यापक वह्नयभावसमानाधिकरणशैवालवद्धविषयत्तायां सत्त्वेन जलव्यापको वय- भाव इति ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतावच्छेदकत्वस्याभावेन निरुता ऽव्याप्तिदुर्वारा । न च जलव्यापको वढ्यभावः जलवांश्च हृदः शैवालव्या. पको वयभावः शैवालवांश्च हृद इत्यादिसकलनिश्चयसाधारण्यानुरोधेन स्वनिरूपितव्यापकत्वनिष्ठप्रकारतानिरूपितप्रकारतावच्छेदकावच्छिन्नप्रकार- तानिरूपितहदत्वावच्छिन्नविशेष्यकताकत्वस्वनिरूपकनिश्चयविशिष्टत्वोभय- सम्बन्धेन वह्नयभावत्वावच्छिन्नविशेष्यताविशिष्टनिश्चयत्वेनैकप्रतिबन्धक- त्वाङ्गीकारात् निरुक्तानुगतजनकतावच्छेदकविषयितात्वव्यापकत्वं निरुक्त प्रतिबन्धकतावच्छेदकतायामक्षतमिति न निरुत्तसत्प्रतिपक्षाव्याप्तिरिति वाच्यम् , तथापि निरुक्तप्रतिबन्धकतावच्छेदकतायाः वयभावत्वावच्छिन्न विशेष्यतायामेव सत्त्वेन जनकतावच्छेदकताया ह्रदत्वावच्छिन्नविशेष्यताया- मेव सत्त्वेन जनकतावच्छेदकविपयितात्वव्यापकत्वस्य प्रतिबन्धकतावच्छे- दकतायामसम्भवेनोक्तसत्प्रतिपक्षाव्याप्तर्दुरितति । तन्न , नानाविधान्वय- सत्प्रतिपक्षविभाजकपत्रम्। . व्यतिरेकच्याभिज्ञानानां मणिमन्त्रादिन्यायेन व्यभिचारधीप्रतिबन्धकतां स्वीकृत्य व्यभिचारग्रहप्रतिबन्धकतावच्छेदकप्रकारतानिरूपितपक्षतावच्छेद- कावच्छिन्नविशेष्यताशालिनिश्चयत्वेनानुगतरूपेण जनकताया अनुमितिग्रन्था- दिसिद्धतया अन्वयव्याप्तिघटितसत्प्रतिपक्षादिज्ञानजनकतावच्छेदकत्वस्य - व्यतिरेकव्याप्निघटितसत्प्रतिपक्षादिविशेष्यतायो सत्त्वेन तज्ज्ञानीयप्रतिबन्ध- कतावच्छेदकत्वस्याभावेनासम्भवस्य दुर्वारत्वात् । केवलान्वयिग्रन्थे मणि- मन्त्रादिन्यायन प्रतिबन्धकत्वस्याप्रामाणिकतयोक्तानुगतरूपेण जनकत्वं दू- षितमित्युक्तासम्भववारणानावश्यकतेति चेत् , व्यापकसामानाधिकरण्य- ज्ञानस्यापि भवदुक्तानुगतरूपेण जनकत्वं केवलान्वयिग्रन्थे दूषितमित्युक्ता- व्याप्तिवारणञ्चानावश्यकमिति तुल्यम् । एवं संयोगेन साध्याभाववन्निरू- पितसंयोगसम्बन्धावच्छिन्नवृत्तित्वाभावविशिष्टवान् समवायेन साध्याभाव- वन्निरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वाभावविशिष्टवानित्यादिनानासम्ब- न्धावच्छिन्नप्रकारताशालिज्ञानानां स्वावच्छेदकसम्बन्धावच्छिन्नाधेयतात्वा- वच्छिन्नत्वस्वनिरूपिताभावविषयतानिरूपितत्वोभयसम्बन्धेन पक्षतावच्छे- दकावच्छिन्नविशेष्यतानिरूपितप्रकारताविशिष्टप्रतियोगितासम्बन्धावच्छिन्न वृत्तित्वप्रकारतानिरूपिताधिकरणप्रकारतानिरूपिताभावप्रकारतानिरूपित- साध्यप्रकारताशालिनिश्चयत्वेनानुगतरूपेण हेतुत्वस्वीकारपक्षेऽसम्भवस्यैव सम्भवेनाऽव्याप्तिशङ्काया असङ्गतिश्च । अस्तु वा यथाकथञ्चिच्छङ्का अथापि भवदुक्तरीत्यानुगतरूपेण प्रतिबन्धकत्वेऽपि जनकतावच्छेदकीभूतदत्वा- वच्छिन्नविशेष्यतायां प्रतिबन्धकतावच्छेदकत्व भावेनाव्याप्तिरित्यसङ्गतमेव, स्वनिरूपितप्रकारतावच्छेदकावच्छिन्नप्रकारतानिरूपितव्यापकत्वनिष्ठप्रकार. तानिरूपितवह्नयभावत्वावच्छिन्नविशेष्यताकत्वस्वनिरूपकनिश्चयविशिष्टत्वो. भयसम्बन्धेन ह्रदत्वावच्छिन्नविशेष्यताविशिष्टनिश्चयत्वेनाप्युक्तनिश्चयानां विनिगमनाविरहेण प्रतिबन्धकताया अवश्यकत्वेन तादृशप्रतिवन्धकता- शास्त्रमुक्तावली। मादायैव लक्षणगमनसम्भवात् । उक्तरीत्या जनकयत्किञ्चिज्ञानीयविषयता- त्वव्यापकावच्छेदकताकत्वनिवेशस्यवश्यकतया एकरूपेण जनकतापक्षेऽपि- निर्वाहेण तदर्थमेकरूपेण प्रतिबन्धकतानावश्यकत्वाच्च । यदपि प्रकारता- विशिष्टनिश्चयत्वेनैवानुगतरूपेण प्रतिबन्धकत्वं प्रकारतावैशिष्ट्यञ्च स्वनिरू- पितहूदत्वावच्छिन्नविशेष्यताकनिश्चयविशिष्टत्वस्वावच्छेदकावच्छिन्नप्रकार- तानिरूपितव्यापकत्वप्रकारतानिरूपितवयभावत्वावच्छिन्नविशेष्यताकत्वो- भयसम्बन्धेन , स्वपदार्थश्चोभयत्र हृदत्वावच्छिन्नविशेष्यतानिरूपित जलत्वावच्छिन्नप्रकारता , तथा चोक्तरीत्या प्रतिबन्धकत्वे पूर्वोक्त सम्बन्धद्वयेन हृदत्वावच्छिन्नविशेष्यताविशिष्टनिश्चयत्वेन प्रतिबन्धकतामा- दाय विनिगमनाविरहासम्भवः,हृदत्वावच्छिन्नत्वरूपपदार्थद्वयस्य प्रतिबन्ध- कतावच्छेदकघटकत्वेन गौरवात् । अस्माकन्तु शुद्धप्रकारतात्वेनैव प्रकार- तायाः प्रतिबन्धकतावच्छेदकत्वघटकत्वेन लाघवात् । तथा चैकरूपेण जनकतापक्षे उक्ताव्याप्तिसङ्गतिः। न च स्वनिरूपितहदत्वनिष्ठावच्छेदकता निरूपकनिश्चयविशिष्टत्वस्वनिरूपितप्रकारतावच्छेदकावच्छिन्नप्रकारतानिरू- पितव्यापकत्ववकारतानिरूपितवयभावत्वावच्छिन्नविशेष्यताकत्वोभयसम्ब न्धेन विशेष्यताविशिष्टनिश्चयत्वेन विनिगमनाविरहेण प्रतिबन्धकत्वमावश्यक मिति नोक्ताव्याप्तिसम्भवः। विशेष्यतायाः प्रतिबन्धकतावच्छेदकत्वादिति वा- च्यम्,तथासति धर्मितावच्छेदकताप्रकारतयोरभेदमते एकत्र द्वयमिति रीत्या जलहूदत्वोभयं धर्मितावच्छेदकीकृत्य घटप्रकारेण जलवद्धदो घटवानिति निश्चयविशिष्टस्य जलव्यापको वड्यभाव इति निश्चयस्यापि प्रतिबन्धकत्वा पत्तेः घटप्रकारतानिरूपितजलहूदत्वोभयावच्छिन्नविशेष्यतायास्स्वपदेनो- पादाने तादृशविशेष्यतानिरूपितहदत्वनिष्ठावच्छेदकतानिरूपकनिश्चयवैशि- ष्ट्यस्य प्रथमसम्बन्धम्य तादृशविशष्यतानिरूपितजलत्वावच्छिन्नधर्मिता वच्छेदकत्वात्मकप्रकारतामादाय द्वितीयसम्बन्धस्य च सम्भवात् । प्रकार ताविशिष्टनिश्चयत्वेन प्रतिबन्धकतामते च स्वनिरूप्यतावच्छेदकहूदत्वावच्छे- द्यत्वाश्रयविशेष्यतानिरूपकनिश्चयवैशिष्ट्यस्य प्रथमसम्बन्धत्वान्न दोषः , सत्प्रतिपक्षविभाजकपत्रम् । .. BAR तादृशोभयावच्छिन्नविशेष्यकज्ञाने तादृशोभयावच्छिन्नविशेष्यतात्वघटत्वा- वच्छिन्नप्रकारतात्वाभ्यां निरूप्यनिरूपकभावेऽपि हृदत्वावच्छिन्नविशेष्यता- त्वजलप्रकारतात्वाभ्यां तद्विरहादिति ; तन्न , स्वनिष्ठहूदत्त्वावच्छेद्यत्वा- वच्छिन्ननिरूप्यताकप्रकारतावच्छेदकावच्छिन्नप्रकारतानिरूपितव्यापकत्व- प्रकारतानिरूपितवद्दयभावत्वावच्छिन्नविशेष्यताकत्वस्वनिरूपकनिश्चयविशि- टत्वोभयसम्बन्धेन विशेष्यताविशिष्टनिश्चयत्वेनापि प्रतिबन्धकताया निर्दुष्ट- तया विनिगमनाविरहसिद्धां तादृशप्रतिबन्धकतामादायैव लक्षणसमन्वय- सम्भवेन उक्ताव्यातयसङ्गते१रित्वात् । न च घटवद्ध्दवजलवान् घट इत्यादिज्ञानविशिष्टस्य जलव्यापको वह्नयभाव इति ज्ञानस्य प्रतिबन्ध- कत्वापत्तिः । अन्तरा भासमानविशेष्यताप्रकारतयोरभेदमते उक्तज्ञान- स्थापि ह्रदत्वावच्छेद्यत्वावच्छिन्ननिरूप्यताकजलत्वावच्छिन्नप्रकारताकत्वात् । अतः हृदत्वावच्छेद्यत्वविशेष्यतात्वोभयावच्छिन्ननिरूप्यताकत्वेन प्रकारता निवेशनीया, तथा च विशेष्यताविशिष्टनिश्चयत्वेन प्रतिबन्धकतामते विशे- प्यतात्वस्य संसर्गघटकतया प्रकारघटकतया च द्विधा निवेशनमावश्यकभि- ति गौरवमिति वाच्यम्;स्वनिरूप्यतावच्छेदकहूदत्वावच्छेद्यत्वविशेष्यतात्वो- भयाश्रयनिरूपकनिश्चयविशिष्टत्वेन प्रकारताविशिष्टत्वेन प्रतिबन्धकता वादिमते निश्चयस्य संसर्गघटकतावद्विशेष्यताविशिष्टत्वेन प्रतिबन्धकता- वादिमते स्वनिष्ठहदत्वावच्छेद्यत्वविशेष्यतात्वोभयावच्छिन्ननिरूप्यताकत्वेन प्रकारतानिवेशेन प्रकारतात्वेन तदनिवेशेन साम्यात् । न चैवं जल वान् हद इति निश्चयविशिष्टस्य संयोगव्यापको वयभाव इति निश्चयस्य प्रतिबन्धकत्वापत्तिः , संयोगनिष्ठसंसर्गताया अप्युक्तनिरूप्यताकत्वादिति वाच्यम् , सम्बन्धान्तरावच्छिन्नप्रकारताव्यावर्तकसंयोगावच्छिन्नत्वनिवे-- शावश्यकतया तत एव संसर्गताव्यावृत्तेः , प्रकारतात्वानिवेशात् । संसर्गताया निरवच्छिन्नत्वेन तदवच्छेदकाप्रसिद्धेश्च । तथा च साम्याद्वि- निगमनाविरहो दुरि इति । प्रकारकोटौ सम्बन्धावच्छिन्नत्वेन प्रकार- तान्निवेश्य प्रकारतात्वानिवेशेऽपि प्रकारकोटावाधिक्यागौरवं स्फुटमिति- - । बोध्यम् ।
शास्रमुक्तावली । - दिति ; तन्न, यत्तु तादृशमुख्यविशेष्यतात्वव्यापकतावच्छेदकताकत्वनिवेशे जल- व्यापकवह्वयभावकालीनजलवयभावव्याप्यव्याप्योभयवद्धदेऽतिव्याप्ति?- ारा । जलव्यापको वयभावः जलवान् हद इति वयभावव्याप्य व्याप्यव्यापको वढ्यभावः वयभावव्याप्यव्याप्यवांश्च हृदइत्यु भयोरेकरूपेण प्रतिबन्धकत्वाङ्गीकारात् , निरुक्तज्ञानवैशिष्ट्यावच्छि नप्रतिबन्धकतावच्छेदकतायास्तादृशजनकतावच्छेदकीभूतप्रत्येकज्ञानीय- विषयतायामपि सत्त्वेन निरुक्तजनकतावच्छेदकविषयितात्वव्यापका- वच्छेदकताकत्वस्य उक्तज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतायां सत्त्वा- उक्तजनकतावच्छेदकताया वह्नयभावव्याप्यव्याप्याव्या- पकवह्नयभावकालीनवह्नयभावव्याप्यव्याप्यवद्धत्वावच्छिन्नविषयतायामपि सत्त्वेन तत्रोक्तप्रतिबन्धकतावच्छेदकत्वाभावात् , तादृशज्ञानीयविषयितायां वयभावव्याप्यव्याप्यव्यापको वयभाव इति ज्ञानकालीनज्ञानीयवा- सम्भवेन उक्तप्रतिबन्धकतावच्छेदकत्वासम्भवात् । वह्नयभावव्याप्यत्वा- वच्छिन्नविधेयताकानुमितिजनकतावच्छेदकतायास्तत्राक्षतत्वात् । वह्नयभावव्याप्यव्याप्याव्यापकत्वांशेऽप्रामाण्यज्ञानास्कन्दितस्य तादृशनिश्च- यस्योत्तरं वयभावव्याप्यव्याप्यव्यापको वयभाव इति ज्ञानस्योत्पत्तौ बाध- काभावेन ताहशनिश्चयस्यापि निश्चयविशिष्टत्वेन प्रतिबन्धकनिश्चयत्वसम्भ- वात् । तादृशज्ञानीयविषयिताया अपि प्रतिबन्धकतावच्छेदकत्वं सम्भवती- त्युक्तविशिष्टेऽतिव्याप्तिर्दुारैवेति वाच्यम् , अप्रामाण्याभाववज्ज्ञानसामान्य- कालीनत्वं निष्प्रकारत्ववज्ज्ञानसामान्यकालीनत्वं वा वयभावव्याप्य- व्याप्याव्यापकवयभावकालीनवयभावव्याप्यव्याप्यांशेऽवगाहमानज्ञानी- यविशेष्यतायां प्रतिबन्धकतावच्छेदकत्वासम्भवेनातिव्याप्त थप्रसक्तेः । ताह- ज्ञानीयविशेष्यताया अप्रामाण्यज्ञानास्कन्दितज्ञानीयत्वासम्भवात् । पूर्वम- प्रामाण्यज्ञानस्वीकारे ज्ञानत्वावच्छेदेन निष्प्रकारत्वावगाहितादृशज्ञानस्यैवा- सम्भवात् । तादृशज्ञानोत्तरमपि तादृशज्ञानरूपप्रतिबन्धकबलादेव अप्रा- माण्यज्ञानासम्भवात् । नच तादृशज्ञानस्य ज्ञानसामान्ये निष्प्रकारकत्वा- वगाहित्वेऽपि तस्य पूर्व परतो वा प्रमात्वाभावरूपाप्रामाण्यावगाहिज्ञान- सत्प्रतिपक्षविभाजकपत्रम् । १९ सम्भवतीति वाच्यम् , प्रतियोगित्वस्वरूपान्यतरसम्बन्धावच्छिन्नवृत्तित्वा- भाववत्प्रकारकत्वकालीनत्वावगाहितादृशज्ञानीयविशेष्यताया एवमपि प्रति- बन्धकतावच्छेदकत्वासम्भवनातिव्याप्तेरप्रसक्तेः । प्रकारितात्वावच्छेदेनो- तान्यतरसम्बन्धावच्छिन्नवृत्तित्वाभावावगाहिज्ञानस्यैव स्वरूपसम्बन्धन प्रतियोगितासम्बन्धेन वा प्रकारित्वप्रकारकज्ञाने प्रतिबन्धकतया उक्तज्ञा- नोत्तरं प्रतियोगितासम्बन्धेन प्रकारित्वप्रकारकस्य प्रमात्वाभावावगाहि- ज्ञानस्य भ्रमत्वावगाहिज्ञानस्य चासम्भवात् । अथ सप्रकारकज्ञानकालीनजलस्यैव प्रतिहेतुत्वे सप्रकारकज्ञानकाली- नजलव्यापकवयभावव्याप्यसमानाधिकरणतादृशजलजलव्यापकवयभा- कालीनजलोभयवद्धदेऽतिव्याप्तिः । तादृशवह्नयभावव्याप्यव्याप्यवत्तादृश- ज्ञानस्य ज्ञानत्वावच्छेदेन निष्प्रकारत्वावगाहित्वासम्भवेनाप्रामाण्यज्ञाना- स्कन्दिततादृशज्ञानमादायातिव्याप्तिसङ्गतिरिति चेन्न । एकरूपेण जनकता मते वह्नयभावव्याप्यव्याप्यशुद्धजलवत्ताज्ञानस्यापि जनकत्वेन वयभाव- व्याप्यव्याप्याव्यापकवड्यभावकालीनत्वं उक्तप्रकारकत्वाभाववत्ताहशज्ञान- सामान्यकालीनत्वं चावगाहमानज्ञानीयविषयितायां जनकतावच्छेदिकायां प्रतिबन्धकतावच्छेदकत्वाभावेनातिव्याप्तयप्रसक्तेः । पक्षतावच्छेदककोटौ सप्रकारकज्ञानकालीनकस्य घटकत्वे तादृशपक्षतावच्छेदकस्थले कथञ्चिदति- व्याप्तिसम्भवेऽपि शुद्धहदपक्षकस्थलेऽतिव्याप्तयप्रसक्तिरेव । नच वय- भावव्याप्यव्याप्याव्यापकत्वांशे संशयरूपस्योक्तज्ञानस्यानन्तरं वड्यभाव व्याप्यव्याप्यव्यापको वयभाव इति ज्ञानसम्भवात् । निश्चयात्मक तादृशज्ञानविशेष्यताया अपि प्रतिबन्धकतावच्छेदकत्वसम्भवः , संशय- निश्चयविषयितयोरभेदादिति वाच्यम् ; उक्तान्यतरसम्बन्धावच्छिन्नवृत्ति- त्वाभाववत्प्रकारितासामान्यकालीनवयभावव्याप्यव्याप्याव्यापकवयभाव- २० शास्त्रमुक्तावली। १ कालीनवयभावव्याप्यव्याप्यवद्धदो घटवानिति ज्ञानस्य वयभावव्याप्य व्याप्याव्यापकत्वांशे संशयत्वायोगात् , धर्मितावच्छेदकांशे संशयत्वा- नभ्युपगमात् । अतएव जगदीशेनोक्तं बाधग्रन्थे वस्तुतो यत्र पक्षा- पेक्षया साध्याभावो लघुः तत्र तत्प्रकारक एव बाधनिश्चयो विरोधी, यथा चैत्रावलोकितढ्दो वह्निमानित्यादौ तत्प्रकारकनिश्चयत्वापेक्षया साध्याभावप्रकारकनिश्चयत्वस्यैत्र लघुत्वेन साध्यवत्ताज्ञानप्रतिबन्धकता- वच्छेदकत्वात् , यत्र साध्याभावापेक्षया पक्ष एव लघुः तत्र साध्या- भावधर्मिकपक्षप्रकारकनिश्चय एव विरोधी , यथा ह्रदश्चैत्रावलोकितवह्नि- मानित्यादौ यत्र पक्षस्साध्याभावश्च द्वयमेव तुल्यशरीरं तत्र साध्याभाव- प्रकारकस्येव पक्षप्रकारस्यापि बाधनिश्चयस्य विरोधित्वं , यथा घटा- भावो वह्निमानित्यादाविति तु परमार्थ इति । तथा चोक्तज्ञानीयविशे- प्यतायां जनकतावच्छेदिकायां प्रतिबन्धकतावच्छेदकत्वाभावात् । न जलव्यापकवथभावकालीनजलवड्यभावव्याप्यव्याप्योभयवद्धदेऽतिव्या- प्तिरिति । किञ्च जलव्यापको वड्यभावः जलवांश्च हृदः वह्नयभावव्याप्य- व्याप्यव्यापको वढयभावः वह्नयभावव्याप्यव्याप्यवांश्च हृद इत्यादिज्ञाना- नामेकरूपेण प्रतिबन्धकत्वाङ्गीकारोऽपि नोचितः , जातिमद्व्यापको वह्नय- भावः जलवांश्च ह्रदः जलव्यापको वढ्यभावः जातिमद्वांश्च द इति ज्ञानद्वयस्य प्रतिबन्धकत्ववारणाय स्वनिरूपितव्यापकत्वप्रकारतानिरूपित- प्रकारतानिरूपितनिरवच्छिन्नावच्छेदकतासमानाधिकरणनिरवच्छिन्नाव- च्छदकताकप्रकारतानिरूपितहूदत्वावच्छिन्नविशेष्यताकत्वस्वनिरूपकनिश्चय विशिष्टत्वोभयसम्बन्धेन वयभावत्वावच्छिन्नविशेष्यताविशिष्टनिश्चयत्वेन प्रतिबन्धकताया आवश्यकतया अविशेषितधर्मावच्छिन्ननिरूपितव्यापक त्वावगाहिनिश्चयविशिष्टनिश्चयकिञ्चिद्विशेषितधर्मावच्छिन्नव्यापकत्वावगाहि- सत्प्रतिपक्षविभाजकपत्रम् । २१ निश्चयविशिष्टनिश्चययोरेकरूपेण प्रतिबन्धकत्वासम्भवात् । अतएवैकरू- पेण जनकतामतेऽपि वह्निव्याप्यधूमवान् वहिव्याप्यजातिमद्वानित्यादि- ज्ञानानां पृथगेव हेतुत्वमुक्तं नव्यमतवादार्थे । वह्निव्यापकीभूताभावप्र- तियोगिजलं जलवान् ह्रदः वह्निव्यापकीभूताभावप्रतियोगिजातिमज्जाति- मद्वान् इद इत्यादिज्ञानानामनुगतरूपेण प्रतिबन्धकतापक्षेऽपि पृथगेव प्रतिबन्धकत्वमुक्तं चन्द्रनारायणीये । अपि चोभयवद्धदेऽतिव्याप्ति- शकैव नोचिता, जलव्यापकवह्नयभावकालीनजलवद्धदस्यापि विरोधस्य साक्षादनुमितिप्रतिबन्धकहेत्वाभासत्वपर्छ सामानाधिकरण्यविषयिताया- व्याप्तिशरीरेऽनिवेशेन विरोध्युन्नायकत्वसम्भवेन सत्प्रतिपक्षरूपताया दुर्वा- रत्वात् । एतदेवोक्तं सिद्धान्तलक्षणे गादाधर्याम् वस्तुतस्तु विरुद्धत्वेन ज्ञायमानधर्मवत्ताज्ञानस्यानुमितावेव प्रतिबन्धकताया वक्ष्यमाणतया साध्यसामानाधिकरण्यशरीरेऽपि सम्बन्धविशेषानिवेशेऽपि न क्षतिः सामानाधिकरण्यविपयितायाः प्रयोजकत्वं विशिष्टपरामर्शनिहाय उपे- यत' इत्यादिना । कृष्णभट्टैरपि जलव्यापकवड्यभावकालीनजलवद्धंदादि- व्यावत्तिरशक्या स्यादिति सामान्यनिरुक्तिप्रतीकमुपादाय व्याख्यातम्- " तस्योदासीनविषयितानिरूपकपदार्थघटितत्वाविशेषेण व्याप्तौ सम्बन्धसा- सामान्यगर्भसामानाधिकरण्यनिवेशपक्षे साध्याभावोन्नायकत्वाविशेषण च लक्ष्यत्वापात इत्यर्थ " इत्यादिना । तथा चोक्तविशिष्टेऽतिव्याप्तिशङ्काया मेयत्वविशिष्टसत्प्रतिपक्षातिव्याप्तिशङ्कातुल्यत्वान्न युक्ततेति । , एतेनोक्तरीत्या यत्किञ्चिज्ज्ञानीयविषयितात्वव्यापकावच्छेदकता- कत्वनिवेशस्यावश्यकतया केवलवयभावव्याप्यव्याप्यवान् हद इति ज्ञानीयविषयितात्वव्यापकावच्छेदकताकत्वस्य प्रतिबन्धकतायां सत्त्वात् । जलव्यापकेत्याधुक्तोभयवदेऽतिव्याप्तिर्दुर्वारेति निरस्तमिति कृतं पल्ल- वितेनेति वदन्ति । ६ २२ शास्त्रमुक्तावली अपरे तु-जलव्यापकवस्थभाव कालीनजलवल्यभावव्याप्यव्याप्याभ- यवद्धदेऽतिव्याप्तिवारणाय यद्रूपावच्छिन्नविषयिताथा प्रतिहेतुव्यापकसाध्या- भावसमानाधिकरणप्रतिहेतुविषयताजिशिष्टान्यत्वज्ञानवैशिष्ट्यावच्छिन्नप्रति- बन्धकतावच्छेदकत्वोभयाभाववत्वं निवेश्यते , वैशिष्ट्यञ्च - निरूपितत्व- तादात्म्यान्यतरसम्बन्धेन । निरुक्तोभयवद्धदविपयितायां च निरुतो- भयसत्त्वान्नातिव्याप्तिः । ननूक्तविषक्षण न सम्भवति , प्रतिहतुत्वस्थानुगतस्थासम्भवन जलोपादाने शैवालादिघटितसत्प्रतियोऽव्याप्तेः ; प्रकृतहेतुभिन्नत्वस्यानु- गतत्वेऽनि प्रकृतहेतोरेव अन्यरूपेण प्रतितुत्वे तटिनसत्प्रतिपक्षा- व्याप्तेः ; प्रकृतहेतुव्यापकसाध्यामायतनानाधिकरणप्रकृत तुमत्पक्षस्यापि- सत्प्रतिपक्षतापक्षे तत्राव्यातिञ्च लावापनीत काञ्चनमयबादिभानस्थले काञ्चनमयत्वाभावव्याप्यतद्वयक्ति-वयादौ चाव्यातिः । एवं गुगीय- संयोगेन वह्निसाके गुणीयत्नाभाववत्संयोगस्व माधता यास्तव्याप्य- वत्वसंयोगस्य सत्प्रतिपक्षताचाच जगदीशेनोक्तत्वेन तत्राव्याप्तिश्च , आधे- यतासम्बन्धेन पक्षव्याप्यवसाध्याभावपक्षवृत्तित्वव्यायवत्माध्याभावपक्षा- वृत्तित्वव्याप्य वत्साध्यादावव्यातिश्च । अथ स्वावच्छिन्नविपयित्तानिरूपित व्यापकत्वविषयतानिरूपितविषयता रूपिनसामानाधिकरण्यविषषितानि- रूपितत्वस्वावच्छिन्नत्वोमयसम्बन्धेन किञ्चिद्ध विशिष्टविषयिनाविशि-- ष्टान्यत्वमेव प्रतिहेतुव्यापक साध्याभावसमानाधिकरणप्रतिहेतुविषयतावि- शिष्टान्यत्वम् , तथा च व्यापकलामानाधिकरग्यवटितविशिष्ठमात्रस्य सङ्ग्र- हान्नोक्ताव्याप्तयः। च जलयापकशैवालसमानाधिकरणजलस्यैव प्रतिहेतुत्वे जलव्यापकौवालसमानाधिकर गजलव्यापकवल्यभावकालीनता- दृशजलययभावव्याप्यव्यायाम प्रबद्धदेऽतिञ्चाविः, लाशोअयवद्धदविषय- तायामुक्तविशिष्टान्यत्वाभावेन उक्तोभयाभावसम्भवात् । एवं जलव्यापकशै- न रिति । न । २३ जलच्या- वालानानाधिकरमजलं हि माहि जवाजव्यभावकालीन जलवय- मात्रयाचव्याजोमयजमानाका कानभिजलवावच्छिन्न- ऽतिव्यनिरिति वाच्यम् , सकरन । विमिनियर्मि- नायच्छे इत्यादिपकला निहिन बिल नया सायनस्थले ता- शवयमारकालीन नाकारतानिबोधताना जलत्वशैवाल- सामानांकिकरण्यामानायलावदयमाव- कालीन वह्नयनाथ स... लाजवता 3- मोमबान जल ७२६.६४ात् । पकशैवल समाजाधिरामकाजानि जलाधनाबच्छेद- कतानविज्ञता उनमन्त्रीपति, सावित स्थाल ताशाविषयता- निरूपितत्यं न मिति २i, सन साने विशेष्यतायाः कालीनयन भारतानिलमिला. स्त्रीया अच्छिन्नविशे- प्य तात्मक कारतानिरूपितत्वात् , यो विध्यतायाः थपावछिनविनवितानात्वावित थे स िजलायकवयमाव- व्याप्यसभानाधिकरणजलजलब्यायमा लालीन सोनवमद्धदेऽतिव्या शिवारा। तद्रूपावच्छिन्नविषयिताया ज्या समानाधिकरणनिशिजलादि- विषयितानिरूपितत्वेनोक्तामयाभाव स्वात् । यदि च तादृशविषथितावै- शिष्ट्यं तादात्म्यस्वभावनिरूपितत्वान्यतरसम्बन्धेचा नातोभयवद्धदवि- पयिनाला निकामयाभाववत्वनियुधो , बाले वहिव्यापकीभूताभाव- प्रतियोगिनिहनुमत्व लिन नायककोभूनाभावप्रतियोगिधर्म- वत्साध्यामाबाई चायाधिक चिमाजभिवायला निरूपितव्यापक- स्वरिपयिनानिरूपिताशामियानानिमायावयितानिरूपित- किञ्चिद्धर्मपापयमितावच्छे कमाने का मामयत्वघटितत्रित्वाव- नाभावविवागेनोक्तदोषवारा अत्यामागोव्यापकत्वोपादाने- उन्धनकवदिन १० ११ ७. . ... ... 4, 5- , २४ शास्त्रमुक्तावली । . तिपक्षेष्वव्याप्तिवारणाय प्रतिहेतुव्यापकसाध्याभावसमानाधिकरणप्रत्तिहेतु. विषयताविशिष्टान्यत्वज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतावच्छेदकत्वोभया- भाववत्वं साध्याभावत्वावच्छिन्नविषयिताविशिष्टान्यत्वरूपं परिष्क - तव्यम् साध्याभावत्वावच्छिन्नविषयतावैशिष्टयम्-स्वविशिष्टविषयिता- विशिष्टत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वस्वनि- ष्ठावच्छेदकताकप्रतिबन्धकतावच्छेदकत्वोभयसम्बन्धेन । विषयितायां स्व- वैशिष्टयं च स्वनिरूपितव्यापकत्वप्रकारतानिरूपितप्रकारतावच्छेदकाव- च्छिन्नत्वस्वनिरूपितसामानाधिकरण्यप्रकारतानिरूपितत्वाभयसम्बन्धेन । विषयितावैशिष्टयं च स्वनिरूपितत्वतादात्म्यान्यतरसम्बन्धेन । द्वितीय- सम्बन्धप्रविष्टस्वनिष्ठप्रतिबन्धकतावच्छेदकता स्वनिरूपितव्यापकत्वप्रकार तानिरूपितप्रकारतावच्छेदकावच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदकाव- च्छिन्नविशेष्यताकत्वस्वनिरूपकनिश्चयविशिष्टत्वोभयसम्बन्धावच्छिन्ना, तथा च नोक्तसत्प्रतिपक्षेऽव्याप्तिः ।किञ्चिद्व्यापकसाध्याभावसामानाधिकरण्य- घटितसत्प्रतिपक्षविषयतायां प्रतिहेतुव्यापकसाध्याभावसामानाधिकरण्य- विषयितानिरूपितप्रतिहेतुविषयिताविशिष्टत्वरूपप्रथमसम्बन्धाभावेन किञ्चि- द्वन्यापककाञ्चनमयत्वाभावादिघटितसत्प्रतिपक्षविषयतायां च तादृशसाध्या- भावविषयकत्वावच्छिन्न प्रतिबन्धकतावच्छेदकत्वरूपद्वितीयसम्बन्धाभावेना- क्तसत्प्रतिपक्षविषयितानां निरुक्तसम्बन्धद्वयेन साध्याभावत्वावच्छिन्न- विषयिताविशिष्टान्यत्वात् । जलव्यापकवथभावकालीनजलवय- भावव्याप्यव्याप्योभयवद्धदे च नातिव्याप्तिः तद्विषयतायाः प्रति- हेतुव्यापकसाध्याभावसमानाधिकरणप्रतिहेतुविषयताविशिष्टान्यत्वेन ता- दृशसाध्याभावविषयत्वावच्छिन्नप्रतिबन्धकतावच्छेदकत्वेन चोक्तोभय- सम्बन्धेन साध्यभावत्वावच्छिन्नविषयताविशिष्टत्वेन तदन्यत्वाभावात् । चैवं प्रतिहेतुतावच्छेदकघटितसाध्याभावाभावववृत्तिमत्पने- ऽतिव्याप्तिः वह्नयभावाभाववदवृत्तिजलं जलवान् हृद इति ज्ञानयोरेकविशिष्टापरत्वेन प्रतिबन्धकतया तादृशविशिष्टविषयतायां उक्त- सत्प्रतिपक्षविभाजकपत्रम् । २५ -- ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतावच्छेदकत्वघटितोभयसम्बन्धेन साध्या- भावाविषयताविशिष्टान्यत्वाद्यनपायादिति वाच्यम् , वक्ष्यमाणरीत्या वि. शिष्टान्तराघटितत्वेन तस्य वारणीयत्वात् , अथवा पूर्वपक्षोक्तरीत्या यद्रूपावच्छिन्नविषयतायां त्रित्वावच्छिन्नाभावविवक्षणमेव युक्तम् । न चैवं. अत्यन्ताभावगर्भव्यापकत्वोपादाने अन्योन्याभावगर्भव्यापकत्वघटितसत्प्र- तिपक्षाव्याप्तिरिति वाच्यम् , सत्प्रतिपक्षो हि अत्यन्ताभावगर्भव्याप. कताघटित एव,नत्वन्योन्याभावगर्भव्यापकताघटितोऽपि तस्य विरोध्युन्ना- यकत्वेऽपि प्रतियोगिवैयधिकरण्यगर्भव्यापकताघटितरूपसमशीलत्वेन प्रकृ- तानुमितिविरोधित्वाभावात् । प्रतियोगिवैयधिकरण्यगर्भभेदगर्भव्यापकत्व- योः विशेषाभावात् । एतेनोक्तउमयसम्बन्धेन साध्याभावत्वावच्छिन्नविषयता- विशिष्टान्यत्वं यद्रूपावच्छिन्नविषयतायान्निवेश्य उक्ताव्याप्तयतिव्याप्तयोर्वारणे. ऽपि तद्व्यक्तित्वव्यापकपक्षवृत्तित्वकालीनतव्यक्तित्वपक्षवृत्तित्वव्याप्य- व्याप्योभयवत्साध्याभावादावतिव्याप्तिः । एवमुपनीतकाञ्चनमयत्वादिभानस्थले तद्व्यक्तित्वव्यापककाञ्चनमयत्वा- भावकालीनतद्व्यक्तित्व काञ्चनमयत्वाभावव्याप्यव्याप्योभयवद्वयादावतिव्या. प्तिर्दुवारैवेति निरस्तम् , उक्तत्रित्वावच्छिन्नाभावस्य उक्तविशिष्टविषयिताया- मभावेनोक्तातिव्याप्तिविरहात् । वस्तुतस्तु प्रतिहेतुव्यापकसाध्याभावादिघटि. तसत्प्रतिपक्षविषयिताः ज्ञानवैशिष्ट्यावच्छिन्न प्रतिबन्धकताव्याप्यजनकता- वच्छेदकत्वेनानुगमय्य ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतावच्छेदकत्वतद्व्या- प्यजनकतावच्छेदकविषयताभिन्नत्वोभयाभाववत्वमेवोक्तविशेषणेन विवक्षि- तम् स्वव्याप्यजनकतावच्छेदकत्वमम्बन्धावच्छिन्नस्वनिष्ठावच्छेदक- ताकप्रतियोगिताकभेदवत्वस्वावच्छेदकत्वोभयसम्बन्धेन ज्ञानवैशिष्ट्या- वच्छिन्नप्रतिबन्धकताविशिष्टान्यत्वं ताहशविषयितायां विशेषणमिति पर्यवसितम् । तथा न काप्यव्याप्तिः । सत्प्रतिपक्षविषयिता सामान्यस्योक्तोभयसम्बन्धेन ज्ञानवैशिष्ट्यावच्छिन्न प्रतिबन्धकताविशिष्ट- त्वाभावेन तदन्यत्वात् । उक्तोभयवद्धद च नातिव्याप्तिः , तद्विषयि- ताया उक्तोभयसम्बन्धेन प्रतिबन्धकताविशिष्टत्वेन तदन्यत्वाभावात् - एतेन यद्रूपावच्छिन्नविषयितायां प्रतिहेतुव्यापकसाध्याभावसमानाधिकरण. - १ - .
२६ शास्त्रमुक्तावली। , प्रतिहेतुविषयिताविशिष्टान्यत्वज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतावच्छेदक- त्वोभयाभावनिवेशे साध्याभावाभावववृत्तिमत्पक्षरूपसत्प्रतिपक्षाव्याप्तिः, हृदो वह्निधूमोभयावानित्यादौ वयभावाभाववदवृत्तिव्यापको धूभाभावः वढ्यभावाभावववृत्तिमांश्च पक्ष इति ज्ञानयोरेकविशिष्टापरत्वेन प्रति- बन्धकतया वह्वयभावाभावषवृत्तिमद्धदविषयितायां निरुक्तोभयाभावा- सत्वात् । न चोभयाभावप्रतियोगिकोटावनतिरिक्तवृत्तित्वरूपावच्छेदकस्यैव निवेशान्नोक्ताव्याप्तिः , प्रत्येकज्ञानीयवढ्यभावाभावववृत्तिमदविषयिताया उक्तप्रतिबन्धकतातिरिक्तवृत्तित्वेन उक्तोभयाभाववत्वस्याक्षतत्वात्, जलव्या- पकेत्याद्युक्तोभयवद्भूदे च नातिव्याप्तिः तद्विषयितायां निरुक्तप्रति- बन्धकतानतिरिक्तवृत्तित्वस्य निरुक्तविषयिताविशिष्टान्यत्वस्य च द्वयोरेव सत्त्वेनोक्तोभयाभाववत्त्वस्य चाभावात् इति वाच्यम् , अभावविशिष्ट- व्यापक सामान्यत्वाभावकालीनसामान्यत्वसाध्यकघटादिपक्षकस्थले समवा- यसम्बन्धस्य व्याप्यताघटत्वे अभावविशिष्टव्यापकसामान्यत्वाभाव- कालीनसामान्यत्वाभावाभावववृत्तिमद्घटरूपसत्प्रतिपक्षेऽव्याप्तिः ह्यभावविशिष्टव्यापकस्सामान्यत्वाभावः अभावविशिष्टावांश्च हद इति ज्ञानयोरेकविशिष्टापरत्वेन प्रतिबन्धकतया निरक्तसत्प्रतिपक्षविषयिताया- निरुक्तप्रतिबन्धकतानतिरिक्तवृत्तित्वनिरुक्तविषयिताविशिष्टान्यत्वोभयव- त्वादिति निरस्तम् , अभाव विशिष्टव्यापकसामान्यत्वाभावकालीन- सामान्यत्वाभावाभाववदवृत्तिमत्पक्षरूपसत्प्रतिपक्षविषयितायां ज्ञानवैशि- ष्ट्यावच्छिन्नप्रतिबन्धकतावच्छेदकत्वसत्त्वेऽपि तद्व्याप्यजनकतावच्छेदक- विषयताभिन्नत्वाभावेनोक्तोभयाभाववत्वस्य उक्तसम्बन्धद्वयेन प्रतिब- न्धकताविशिष्टान्यत्वपर्यवसितस्याक्षतत्वेन तत्राव्याप्तिविरहात् । प्रतिहेतु- व्यापकसाध्याभावसमानाधिकरणप्रतिहेतुविषयित्वानिरूपकत्वतादृशसाध्या- भावविषयित्तानिष्ठपूर्वोक्तसम्बन्धद्वयावच्छिन्नावच्छेदकताकप्रतिबन्धकता- वच्छेदकत्वोभयाभाववत्त्वस्य स्वनिष्ठोक्तोभयसम्बन्धावच्छिन्नावच्छेदकताक तत्र , - - सत्प्रतिपक्षविभाजकपत्रम् । तादृश- - प्रतिबन्धकतावच्छेदकत्वस्वविशिष्टविषयितानिरूपकत्वसम्बन्धावच्छिन्नस्व- निष्ठावच्छेदकताकप्रतियोगिताकभंदवत्वोभयसम्बन्धेन साध्याभावविषय- ताविशिष्टान्यत्वपर्यवसितस्य यद्रूपावच्छिन्नविषयकनिश्चये निवेशे दोषा- भावाच्च । तथाहि जलव्यापकेत्याधुक्तोभयवद्धदे नातिव्याप्तिः विशिष्टविषयकनिश्चयस्य जलव्यापकवहयभावसमानाधिकरणजलवद्धदवि- षयत्वानिरूपकत्वेन तज्ज्ञानीयप्रतिबन्धकतायाः जलव्यापकवह्नयभाववि- पयकनिश्चयावच्छिन्नतया तादृशप्रतिबन्धकतावच्छेदकत्वाच्चोक्तोभयाभाव- वत्त्वस्य तादृशनिश्चयेऽभावात्। साध्याभाववदवृत्तिमत्पक्षे च नोक्तरीत्याव्या- प्तिः ,वह्नयभावाभावववृत्तिव्यापको धूमाभाव इति निश्चयीयधूमाभाव- विषयत्वनिष्ठपूर्वोक्तसम्बन्धावच्छिन्नावच्छेदकताकप्रतिबन्धकतावच्छेदक- त्वस्य वहयभावाभाववदवृत्तिव्यापको धूमाभाव इति निश्चये सत्त्वेऽपि वहयभावाभाववद पृत्तिमान् हुद इति निश्चये अभावेन तादृशनिश्चयस्योक्तो- भयाभाववत्वात्तादृशनिश्चयमद.यैव लक्षणसमन्वयात् । अभावविशिष्टव्या- पकसामान्यत्वाभावकालीनसामान्यत्वसाध्यकस्थलीयसत्प्रतिपक्षेऽपि व्याप्तिः, अभावविशिष्टव्यापकत्सामान्यत्वाभावः - उत्तरज्ञानं अभाव- विशिष्टव्यापकत्वांशेऽप्रमेति समूहालम्बनोत्तरकालीनतादृशसत्प्रतिपक्ष. निश्चयमादायैव लक्षणसमन्वयात् । तादृशसत्प्रतिपक्षनिश्च- स्वात्मकनिश्चयविशिष्टत्वेन न प्रतिबन्धकता, तस्याभावविशि- ष्टव्यापकत्वांशे अप्रामाण्यज्ञानानास्कन्दितत्वविरहात् । किन्त्वप्रामाण्य- ज्ञानात्मकपूर्वनिश्चयविशिष्टत्वेनैवेति तादृशनिश्चयेऽभावविशिष्टव्यापकसा- मान्यत्वाभावविषयितानिष्ठोक्तसम्बन्धावच्छिन्नावच्छेदकताकप्रतिबन्धकता- वच्छेदकत्वाभावेनोक्तोभयाभावसत्त्वात् । अप्रामाण्यज्ञानानास्कन्दितत्व- शरीरे च तद्वयक्तिभिन्नाप्रामाण्यज्ञानानाम्कन्दितत्वस्यैव निवेशेन तादृशा- प्रामाण्यज्ञानास्कन्दितनिश्चयस्यापि लक्षणघटकत्वानपायात् , अप्रामाण्य- ज्ञानाभावस्य पृथध्धेतुत मते तादृशनिश्चयस्य जनकत्वाच्च । किञ्च यथा- श्रुतेऽपि न तत्राव्याप्तिः , तदभाववदवृत्तित्वरूपव्याप्तिशरीरवृत्तित्वाभाव स्याभावत्वेनानिवेशात् , अनुयोगिताविशेषसम्बन्धेन वृत्तित्वीयत्वेनैव निवे- ना- , तत्र यस्य - २८ शास्रमुक्तावली। शात् साध्यीयत्वेन साध्याभावनिवेशनवत् , तथा च तादृशसाध्याभावा- भाववन्निरूपितवृत्तित्वीयवद्वानिति ज्ञानसाधारण्य नुरोधेन ज्ञानवैशिष्ट्यान- वच्छिन्नप्रतिबन्धकत्वावश्यकत्वात् , तादृशसत्प्रतिपक्षविषयित्वस्य ज्ञान- वैशिष्टयावच्छिन्नप्रतिबन्धकतातिरिक्तवृत्तित्वेनोक्तोभयाभावस्याक्षतत्वात् । अपि चात्र केवल सामान्यत्वाभावाभाववदवृत्तिमत्पक्षस्यैव सत्प्रतिपक्षत्वं गदाधरानुमतम् , न तूक्तविशिष्टसाध्याभावाभावंवदवृत्तिमत्पक्षस्य , ताह- शसत्प्रतिपक्षज्ञानस्य ज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकगनिराकरणाय हेतुतावच्छेदकघटनामसहमानस्य उक्तस्थले साध्यतावच्छेदकघटनायां ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतासम्पादिकायां अभ्युपगमासम्भवात् । अन्यथा सामान्यलक्षणे ज्ञानवैशिष्ट्यानवच्छिन्नत्वनिवेशे उक्तसत्प्रतिपक्षा. व्याप्तिसम्भवेन तामुपेक्ष्य असाधारण्याव्याप्तिपर्यन्तानुधावनवैफल्यापत्तेः एतेन वृत्तित्वीयविशिष्टव्यापकसामान्यत्वाभावकालीनसामान्यत्वसाध्यक- तादृशसत्प्रतिपक्षाव्याप्तिः वृत्तित्वीयविशिष्टव्यापकस्तामान्यत्वाभावः- वृत्तित्वीयविशिष्टवांश्च घट इति ज्ञानसाधारणज्ञानवैशिष्टयावच्छिन्नप्रति- बन्धकतानातरिक्तवृत्तित्वस्य वृत्तित्वीयविशिष्टव्यापकसामान्यत्वाभावका- लीनसामान्यत्वाभावाभाववदत्तिमद्वटविषयतायामक्षतत्वादिति निरस्त- मित्याहुः । . परेतु विरोध्यनुमितिनिरूपितयत्किञ्चिजनकताव्यापकत्वं सत्यन्त- घटकप्रतिबन्धकतायां निवेश्यम्,तथा च स्वविशिष्टप्रतिबन्धकतावत्वस्वाश्रय- त्वोभयसम्बन्धेन यद्रूपावच्छिन्नविषयिताव्यापिका विरोध्यनुमितिजन- कता तद्रूपावच्छिन्नत्वमिति लक्षणार्थः पर्यवसितः। प्रतिबन्धकतायां स्ववैशिष्टयञ्च स्ववृत्तिप्रतिबध्यतानिरूपितत्वस्वव्यापकत्वस्वावच्छेदकचरम- प्रकारत्वावच्छिन्नवैतत्त्रित य सम्बन्धेन , प्रतिबध्यगयां स्ववृत्तित्वं च स्वा- वच्छेदकावच्छिन्नप्रतिबध्यतानिरूपित प्रतिबन्धकतावच्छेदकविषयत्वावच्छि नानुमितिनिष्ठजन्यतानिरूपितत्वसम्बन्धेन । एवञ्च ह्रदो वह्निमान् धूमादित्य- सत्प्रतिपक्षविभाजकपत्रम् । २९ -- तत्र चरम- त्र जलव्यापकवड्यभावकालीनजलवयभावव्याप्यव्याप्योभयवद्धदेऽपि ना- तिव्याप्तिः, जलव्यापकवह्नयभावकालीनजलवद्धदविषयकत्वावच्छिन्नप्रतिब- न्धकतायास्सत्प्रतिपक्षज्ञानीयजनकताव्यापकत्वेऽपि स्वपदग्राह्यवयभावव्या- प्यव्याप्यवद्धदविषयकत्वावच्छिन्नजनकताव्यापकत्वाभावेनोक्तोभयसम्बन्धेन जनकताया उक्तोभयवद्धदत्वावच्छिन्नविषयिताव्यापकत्वाभावात् । जलं वृत्तित्वाभाववदित्यत्र जलव्यापकवृत्तित्वव्याप्यसमानाधिकरणजलवजलरूप- सत्प्रतिपक्षोन्नायकेऽपि नातिव्याप्तिः , तत्र सत्प्रतिपक्षोन्नायकज्ञानीयजनक- ताव्यापकत्वस्य तद्धटकबाधप्रतिबन्धकतायां सत्त्वेऽपि स्वावच्छेदकच रमप्रकारत्वावच्छिन्नत्वाभावात् , व्यापकत्वविशेष्यतानि- रूपितजलप्रकारतानिरूपितजलत्वनिष्ठनिरवच्छिन्नप्रकारताया एव तया तदवच्छिन्नत्वस्य वृत्तिजलत्वावच्छिन्नप्रकारत्वावच्छिन्नप्रतिबन्धकता - यामसत्त्वात् । एकरूपेण जनकतापक्षे स्वव्यापकत्वस्याप्युक्तप्रतिबन्धकता- यामसत्त्वात् । शैवालव्यापकवृत्तित्वव्याप्यसमानाधिकरणशैवालवजलमिति ज्ञानऽप्युक्तजनकतायास्सत्त्वेनोक्तबाधप्रतिबन्धकतया असत्त्वात् । न च च वृ- त्तित्वं तादात्म्यसम्बन्धावच्छिन्नत्वाभाववदित्यत्र तादात्म्यसम्बन्धेन तद्व्य- क्तिव्यापकतादात्म्यसम्बन्धावच्छिन्नत्वव्याप्यवनिरूपिततादात्म्यसम्बन्धाव- च्छिन्नवृत्तितावत्तद्वयक्तिमद्वृत्तित्वरूपे सत्प्रतिपक्षोन्नायकेऽतिव्याप्तिः, अनु- गतरूपेण जनकत्वाङ्गीकारेऽपि सम्बन्धभेदेन जनकताया भिन्नतया ता- दात्म्यसम्बन्धावच्छिन्नवृत्तित्वविषयिताघटितधर्मावच्छिन्नजनकताव्यापक- त्वस्य उक्तस्थलीयबाधप्रतिबन्धकतायां सत्त्वादिति वाच्यम् ; स्वाव च्छेदकीभूता व्यापकत्वनिष्ठविशेष्यतानिरूपततद्व्यक्तिनिष्ठ- प्रकारतानिरूपिततद्वयक्तित्वनिष्ठनिरवच्छिन्नप्रकारता तदवच्छिन्न त्वस्य उक्तप्रतिबन्धकतायामसत्त्वात् स्वावच्छेदकधर्म या - शास्त्रमुक्तावली। - सम्बन्धोभयावच्छिन्नत्वस्वनिरूपितव्यापकत्वप्रकारतानिरूपितसाध्याभाव- प्रकारतानिरूपितसामानाधिकरण्यप्रकारतानिरूपिततत्वोभयसम्बन्धेन प्रका- रताविशिष्टप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यताशालिंनिश्चय- त्वेनानुगतरूपेण जनकत्वे सम्बन्धभेदेन जनकताभेदानावश्यकत्वाच्च । हृदो वह्निमान् धूमादित्यत्र वयभावव्याप्यव्याप्यवहयभाववद्भदे नातिव्या- प्तिः , एकरूपेण जनकतापक्षे जनकताव्या कत्वस्य प्रतिबन्धकतायामस- त्त्वात् , स्वावच्छेदकचरमप्रकारत्वावच्छिन्नत्वस्य विरहाच्च । प्रकारतायां चरमत्वं धर्मितावच्छेदकताभिन्नत्वे सति तदनवच्छिन्नत्वे सति वा निरव- च्छिन्नत्वम् , तेन तत्र बाधप्रतिबन्धकतायास्तादृशजनकतावच्छेदकीभूतनिर- वच्छिन्नवह्नित्वादिनिष्ठप्रकारत्वावच्छिन्नत्वेऽपि नोक्तसत्प्रतिपक्षोन्नायकेऽति- व्याप्तिः । तादृशप्रतिबन्धकतावच्छेदकीभूतवह्नित्वनिष्ठनिरवच्छिन्नप्रकार-- ताया वयभावव्याप्यव्याप्यत्वनिष्ठप्रकारतानिरूपितधर्मितावच्छेदकतारूप त्वात्तदवच्छिन्नत्वाद्वा । उक्तपरिष्कारस्यानुगमस्तु-जनकतावृत्तिरूपवत्त्वं स- प्रतिपक्षत्वम्,जनकतावृत्तित्वं तु स्वसमानाधिकरणभेदप्रतियोगितावच्छेदक- त्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वसम्बन्धेन, स्वाधिकरणता स्वावच्छिन्नविषयितावत्वसम्बन्धावच्छिन्ना, भेदप्रतियोगिता- वच्छेदकता स्वविशिष्टप्रतिबन्धकतावत्वस्वाश्रयत्वोभयसम्बन्धावच्छिन्ना । प्रतिबन्धकतायां स्ववैशिष्ट यञ्च पूर्वोक्तसम्बन्धत्रयेणति । अथवा सत्यन्त- घटकप्रतिबन्धकतायां विरोद्धयनुमितिनिरूपितयत्किञ्चिज्जनकताव्यापकत्वे सति तादृशजनकतावच्छेदकतावच्छेदकविषयितात्वव्यापकावच्छेदकता- कत्वं निवेश्यम् , तथा च पूर्वोक्तभेदप्रतियोगितावच्छेदकता स्वविशिष्ट- प्रतिबन्धकतावत्वस्वाश्रयत्वोभयसम्बन्धावच्छिन्ना । प्रतिबन्धकतायां स्ववै- शिष्टयञ्च स्ववृत्तिप्रतिबद्ध्यतानिरूपितत्वस्वसमानाधिकरणभेदप्रतियोगिता- वच्छेदकत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वोभ- सत्प्रतिपक्षविभाजकपत्रम् । - यसम्बन्धेन। स्वाधिकरणता स्वावच्छेदकसामानाधिकरण्यविषायताभिन्नपर- म्परासम्बन्धानवच्छिन्नप्रकारतात्वस्वाश्रयत्वान्यतरसम्बन्धावच्छिन्ना, भेद- प्रतियोगितावच्छेदकता स्वावच्छेदकत्वस्वाश्रयत्वान्यतरसम्बन्धावच्छिन्नति। तथा च जलव्यापकवह्नयाभावकालीनजलवयभावव्याप्यव्याप्योभयवद्धदे नातिव्याप्तिः, एकरूपेण प्रतिबन्धकतापक्षे वयभावव्याप्यव्याप्यवद्ध- दत्वावच्छिन्नविषयित्वावच्छिन्नजनकतावच्छेदकविषयताव्यापकावच्छेदक- ताकत्वस्य तादृशप्रतिबन्धकतायां सत्त्वेऽपि तादृशजनकताव्यापकत्वविर- हात् । वृत्तित्वं तादात्म्यसम्बन्धावच्छिन्नत्वाभाववदित्यत्र सत्प्रतिपक्षोन्नाय- केऽपि नातिप्रसङ्गः, तत्र तद्घटकबाधप्रतिबन्धकतायां तादृशजनकताव्याप- कत्वसत्त्वेऽपि तादृशजनकतावच्छेदकविषयितात्वव्यापकतावच्छेदकताकत्व- विरहात् । एतेन स्वावच्छेदकचरमप्रकारत्वावच्छिन्नत्वघटितसम्बन्धत्रयेण प्रतिबन्धकतायां स्वविशिष्टत्वनिवेशे वयभाववद्धदकालीनजलव्यापक- वयभावव्याप्यसमानाधिकरणतादृशजलवद्धदेऽतिव्याप्तिः, तत्र बाधप्रतिब- न्धकतायां जनकतावच्छेदकचरमप्रकारत्वावच्छिन्नत्वस्य भिन्नरूपेण जनक- तापक्षे तादृशजनकताव्यापकत्वस्य च सत्त्वादिति निरस्तम् , तादृशजनक- तावच्छेदकविपयितात्वव्यापकावच्छेदकताकत्वविरहेणोक्तपरिष्कारेऽतिव्या- प्तिविरहादिति । यत्तु विरोध्यनुमितिनिरूपितयत्किञ्चिज्जनकताव्यापकत्वं सत्यन्तघ- टकप्रतिबन्धकतायां निवेश्यते, तथा च स्वनिरूपितप्रतिबन्धकतावच्छे- दकविषयित्वावच्छिन्नानुमितिनिष्ठजन्यतानिरूपितजनकतावत्वस्वविशिष्टप्र- तिबन्धकतावत्वोभयसम्बन्ध एव प्रतिबध्यतावृत्तिरूपवत्वरूपानुगतसत्प्रति- पक्षलक्षणघटकव्यापकताघटकप्रतियोगितावच्छेदकतावच्छेदकसम्बन्धः । स्वविशिष्टत्वञ्च स्वनिरूपितप्रतिबन्धकतावच्छेदकविषयित्वावच्छिन्नानुमिति- निष्ठजन्यतानिरूपितजनकताविशिष्टत्वस्वावच्छेदकावच्छिन्न प्रतिबद्धयतानि- ३ शास्रमुक्तावली । - - . रूपितत्वोभयसम्बन्धेन, जनकताविशिष्टत्वञ्च स्वसमानाधिकरणभेदप्रति- योगितावच्छेदकत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेद- वत्वसम्बन्धेन । विशेष्यदळन्तु जलव्यापकवड्यभावकालीनजलवद्धदे- ऽतिव्याप्तिवारणाय, तथा च वयभाववह्नयभावव्याप्यव्याप्योभयवद्धदे नातिव्याप्तिः। अत्र बाधप्रतिबन्धकतायां तज्ज्ञाननिष्ठजनकताव्यापकत्वा- भावादित्याशङ्कय, हृदो वह्निमानित्य त्रैव जलव्यापकवड्य- भावकालीनजलवयभावव्याप्यव्याप्योभयवद्धदेऽतिव्याप्तिः । तज्ज्ञाननिष्ठ- ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतायास्सत्प्रतिपक्षज्ञानीयजनकताव्यापक- त्वात् , यज्जनकताव्यापकत्वं प्रतिबन्धकतायां तज्जनकतानतिरिक्तवृत्तित्व विवक्षणेऽपि जलं वृत्तित्वाभाववदित्यादिस्थलीयसत्प्रतिपक्षोन्नायके एकरूपेण जनकतापक्षे वृत्तित्वं तादात्म्यसम्बन्धावच्छिन्नत्वाभाववदित्यत्र सत्प्रतिप- क्षोन्नायके चातिव्याप्तिरिति दूषितम् , तदप्येतेन निरस्तम् ; उक्तस्थले प्रतिबन्धकतायां तादृशजनकतावच्छेदकचरमप्रकारत्वावच्छिन्नत्वस्य ताह- शजनकतावच्छेदकविषयितात्वव्यापकतावच्छेदकत्वस्य चाभावात् । किञ्च भवदुक्तानुगमोपरि जलव्यापकवह्नयभावकालीनजलवयभावव्याप्यव्याप्यो- भयवद्भदेऽतिव्याप्तिरेव न लगति, तत्र स्वपदेन बाधप्रतिबद्धयत्वोपादाने तादृशप्रतिबद्धयतानिरूपितप्रतिबन्धकतावच्छेदकविषयित्वावच्छिन्नानुमिति- निष्ठजन्यतानिरूपितजनकताया उक्तोभयवद्धदविषयकनिश्चये विरहात् । स्वपदेन सत्प्रतिपक्षज्ञानीयप्रतिबद्ध्यत्वोपादाने तादृशप्रतिबद्धयतानिरूपित- प्रतिबन्धकतावच्छेदकविषयित्वावच्छिन्नानुमितिनिष्ठजन्यतानिरूपितजनक- तावत्वस्य तादृशनिश्चये सत्वेऽपि स्वनिरूपितप्रतिबन्धकतावच्छेदकविषयि- त्वावच्छिन्नानुमितिनिष्ठजन्यतानिरूपितजनकताविशिष्टत्वस्वावच्छेदकाव- च्छिन्नप्रतिबद्ध्यतानिरूपितत्वोभयसम्बन्धेन स्वविशिष्टप्रतिबन्धकतावत्वस्य तादृशनिश्चयेऽसम्भवात् । स्वपदेन सत्त्रतिपक्षोन्नायकज्ञानीयजनकताया सत्प्रतिपक्षविभाजकपत्रम् । एव सङगृहीततया,तद्व्यापकत्वस्य उक्तज्ञानविशिष्टज्ञाननिष्ठप्रतिबन्धकताया- मसत्त्वादिति । यदपि वृत्तित्वं तादात्म्यसम्बन्धावच्छिन्नत्वाभाववदित्यत्र सत्प्रतिपक्षोन्नायकातिव्याप्तिवारणाय प्रतिबन्धकतानिरूपितानतिरिक्तवृत्ति - त्वस्वरूपसम्बन्धरूपोभयविधावच्छेदकत्वस्य यद्रूपावच्छिन्नविषयितायां नि- वेशः, उक्तसत्प्रतिपक्षोन्नायकविषयितायाः बाधज्ञानप्रतिबन्धकतानिरूपित. स्वरूपसम्बन्धरूपावच्छेदकत्वविरहेण नातिव्याप्तिरित्याशङ्कय, तादृशस्थल एव साद्ध्याभावसाद्धयाभावव्याप्यव्याप्योभयवस्पक्षेऽतिव्याप्तरुक्तांववक्षणं न सम्भवतीति दूषितम् ; तन्न,उन्नायकदळप्रविष्टजनकताव्यापकत्वस्य प्र- तबन्धकतायां निविष्टतयैव ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतामादाय ह्रदो वह्निमान् धूमादित्यादौ वयभावव्याप्यव्याप्यवद्धदरूपसत्प्रतिपक्षोन्नायका- तिव्याप्त्यप्रसक्तेः । वृत्तित्वं तादात्म्यसम्बन्धावच्छिन्नत्वाभाववदित्यादि- स्थलीयसत्प्रतिपक्षोन्नायकातिव्याप्तेश्च-प्रतिबन्धकतानिरूपितस्वरूपसम्बन्ध- रूपावच्छेदकत्वनिवेशेनैव वारणेनानतिरिक्तवृत्तित्वनिवेशस्य निष्फलत्वन शङ्काया अयुक्तत्वात् । उक्ततादात्म्यसम्बन्धावच्छिन्नत्वाभावसाध्यकस्थले साद्ध्याभावसाद्धयाभावव्याप्यव्याप्योभयवत्पक्षेऽतिव्याप्त्या दूषणमप्ययु- क्तम् , उक्तोभयवत्पक्षस्य जनकत्वप्रतिबन्धकत्वघटितचिशिष्टान्तरत्वाक्रा- न्तेन तादृशसत्प्रतिपक्षोन्नायकेन घटितत्वेनैव वारणात् , विशिष्टान्तराघटित- त्वशरीरे प्रतिबन्धकतानिरूपितोभयविधावच्छेदकत्वनिवेशस्य उक्तविशिष्टा- तिव्याप्तिसम्पादकस्य विवक्षणानहत्वात् । अनतिरिक्तवृत्तित्वमात्रस्यैव तत्र निवेशनीयत्वादिति वदन्ति । इदन्तु न युक्तम् , प्रतियोगिवैयधिकरण्य- गर्भतदगर्भव्याप्तिज्ञानयोरनुगतरूपेण जनकतया जनकताव्यापकत्वस्य प्र- तिबन्धकतायामभावेन व्यापकताघटितसत्प्रतिपक्षेऽव्याप्तरिति । इदन्तु तत्वम् ; स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकयकि. ञ्चिद्रूपावच्छिन्नविषयित्वाव्यापकत्वस्य जनकतायां निवेशान्नोक्तातिव्याप्तयः, स्वावच्छिन्नाविषयकप्रतीतिविषयितावच्छेदकसाद्ध्याभावव्याप्यावत्पक्ष तावच्छेदकावच्छिन्नविषयित्वाव्यापकत्वस्य निरुक्तविशिष्टविषयिताव्यापक- - , शास्रमुक्तावली। , जनकतायामभावात् । न च सत्प्रतिपक्षज्ञानस्यानुगतरूपेण साद्धयाभावा- नुमितिजनकत्वस्वीकर्तृमते असम्भवः स्वावच्छिन्नाविषयकप्रतीतिविष- यितावच्छेदकशैवालव्यापकवयभावसमानाधिकरणशैवालवद्धदत्वावच्छि- नविषयित्वाव्यापकत्वस्य जलव्यापकवह्नयभावसमानाधिकरणजलवद्धदवि- षयनिश्चयीयजनकतायामसत्त्वात् । एकसम्बन्धेन साद्धयाभावववृत्तिम- त्पक्षविषधिकनिश्चयीयजनकतायामन्यसम्बन्धेन साद्धयाभावाभाववदंवृत्ति- मत्पक्षरूपविशिष्टान्तरविषयित्वाव्यापकत्वस्याभावाच्च एतेनोक्तविवक्षणे व्यापकताघटितसत्प्रतिपक्षमात्रेऽव्याप्त्यभिधानं केषाञ्चिदनादेयम् , उक्त- रीत्या असम्भवस्यैव प्रसङ्गादिति वाच्यम् ; स्वावच्छिन्नविषयकत्वाव्याप- कविषयिताशून्यज्ञानीयत्वस्य विशिष्टान्तविषयतायां निवेशेनैवोक्तासम्भवा- भावात् । शैवालव्यापकवह्नयभावसमानाधिकरणशैवालवद्ध्दविषयताया- जलव्यापकवह्नयभावसमानाधिकरणजलवद्ध्दत्वावच्छिन्नविषयित्वाव्यापक- विषयिताशून्यज्ञानीयत्वाभावात् । संयोगेन साद्धथाभावाभाववदवृत्तिमत्प- क्षविषयित्वाव्यापकविषयिताशून्यज्ञानीयत्वस्य सम्बन्धान्तरेण तद्विशिष्टपक्ष- विषयितायामभावाच्च । यत्तूक्तरीत्या विशिष्टान्त राघटितत्वनिवेशने वह्नयभावव्यापकं यज्ज- लव्यापकवयभावसमानाधिकरणजलं तत्समानाधिकरणवढ्यभाववढ्दा- त्मके सत्प्रतिपक्षोन्नायकेऽतिव्याप्तिः ; तज्ज्ञानीयजनकतायाः निरुक्तविशे- षणाक्रान्तविशिष्टान्तरविषयित्वाव्यापकत्वात् , उक्तविशिष्टविषयितायाः बाधज्ञानीयप्रतिवन्धकतावच्छेदकत्वाच्चेति । तन्न विशिष्टान्तरविषयि- त्वाव्यापकस्वविषयिताव्यापकप्रतिबन्धकताकत्वस्यापि विशेषणस्य सत्त्वेन तेनैव तादृशसत्प्रतिपक्षोन्नायकस्य वारणात् । तज्ज्ञाननिष्ठबाधप्रतिबन्धकता- या वयभाववद्धदरूपविशिष्टान्तरविषयिताव्यापकत्वेन तदव्यापकप्रतिब- न्धकताया अप्रसिद्धेः । विशिष्टान्तरविषयितायां च स्वावच्छिन्नाव्यापक- , सत्प्रतिपक्षविभाजकपत्रम् । ३५ - . व्यर्थमिति । तन्न, विषयिताशून्यज्ञानीयत्वं विशेषणम् , तेन व्यापकताघटितसत्प्रतिपक्षज्ञा-- नीयप्रतिबन्धकतायाः जलव्यापकवड्यभावकालीनजलवद्धदरूपविशिष्टवि- षयिताव्यापकत्वेऽपि न क्षतिः । यत्तु स्वावच्छिन्नानिरूपितविशिष्टविषयित्वाव्यापकत्वस्य प्रतिबन्ध- कताविशेषणतयैव निर्वाहे जनकत्वप्रतिबन्धकत्वोभयस्मिन् विशिष्टान्तर- विषयित्वाव्यापकत्वविशेषणं साद्धयाभावाभाववदवृ- त्तिमत्पक्षे प्रतिहेतुतावच्छेदकघटितेऽतिव्याप्तेः । वयभावाभाववदवृत्तिजलं जलवान् हद इति ज्ञानयोः ज्ञानविशिष्टज्ञानत्वेन प्रतिबन्धकतया तादृश- प्रतिबन्धकतायाः जलत्वाघटितवह्नयभावाभाववदवृत्तिमत्पक्षविषयित्वा- व्यापकत्वात् । विशिष्टान्तरविषयित्वाव्यापकजनकताकत्वस्यापि निवेशे च तत्र नातिप्रसङ्गः, जलत्वादिविषयितामनन्तर्भाव्य वयभावाभाववदवृत्ति- मत्पक्षादिविषयकज्ञानत्वेनैव जनकतया तादृशजनकतायाः स्वावच्छिन्नवि- षयित्वाव्यापकविषयिताशून्यज्ञानीयं यद्विशिष्टान्तविषयित्वं तादृशस्य व- यभावाभाववदवृत्तिमत्पक्षादिविषयित्वस्य व्यापकतया तव्यापकजनकता- त्वाभावात् । नच साद्धयाभावाभाववद्वृत्तित्वाभावसाद्धयाभावाभाववठ्ठ- त्तित्ववद्भेदज्ञानयोस्साद्धयाभावाभाववदवृत्तित्वप्रकारतानिरूपितहेतुताव च्छेदकावच्छिन्नविशेष्यताशालिबुद्धिप्रतिबन्धकतावच्छेदकविषयिताशालि- निश्चयत्वेन अनुगतरूपेण जनकतायाः केवलान्वयिग्रन्थसिद्धत्वेन प्रतिहेतु तावच्छेदकघटितोक्तसत्प्रतिपक्षेऽतिव्याप्तिर्दुारैव, उक्तजनकतायाः केवल. साद्धयाभावाभाववदवृत्तिमत्पक्षज्ञानसाधारण्यविरहेण विशिष्टान्तरविषयि- त्वाव्यापकत्वस्य स्वविषयिताव्यापकननकतायामक्षतत्वात् , तथा च वि- शिष्टान्तराघटितत्वेन न तद्वारणसम्भव इति, परामर्श तादृशविशिष्टाविष- यकत्वं निवेश्यैव वारणीयमिति विशिष्टान्तराघटितत्वशरीरे जनकतायां विशिष्टान्तरविषयित्वाव्यापकत्वनिवेशनमनर्थकमिति वाच्यम्, विशिष्टा- - - शास्त्रमुक्तावली। न्तरविषयित्वाव्यापकत्वं हि विशिष्टान्तरविषयितासमानाधिकरणभेदप्रति. योगितावच्छेदकत्वम् , भेदप्रतियोगितावच्छेदकता च-स्वनिरूपितजन्यताव- च्छेदकावच्छिन्नजन्यतानिरूपितजनकतावत्वसम्बन्धावच्छिन्ना, तथा च हेतु- तावच्छेदकाघटितज्ञानीयजनकत्वतद्धटितज्ञानीयजनकत्वयोर्भेदेऽपि तयोरेक- धर्मावच्छिन्नजन्यतानिरूपितत्वेन निरुक्तसम्बन्धेन विशिष्टान्तरविषयित्वाव्या पंकत्वावरहात्, हेतुतावच्छेदकघटितविशिष्टज्ञानीयजनकताया अप्युक्तसम्ब- न्धेन हेतुतावच्छेदकाघटितसाद्धयाभावाभाववदत्तिमत्पक्षज्ञानसाधारण्यात्। एवं वयभावव्याप्यव्याप्यवन्यभाववान् हद इति ज्ञानस्य वयभावव्याप्य- व्याप्यवह्नयभावत्वावच्छिन्नप्रकारत्वघटितेन विशिष्टवह्नयभावांशे भ्रमत्वग्रहा- भावघटितेन च रूपेण पृथक्प्रतिबन्धकत्वस्य जगदीशेन व्यवस्थापितत्वेन तत्पक्षेऽपि न वह्नयभावव्याप्यव्याप्यवह्नयभाववद्धदेऽतिव्याप्तिः। विशि- ष्टान्तरविषयितासमानाधिकरणभेदप्रतियोगितानिरूपिता या स्वनिरूपित- प्रतिबद्ध्यतावच्छेदकावच्छिन्नप्रतिबद्ध्यतानिरूपितप्रतिबन्धकतावत्वसम्ब- न्धावच्छिन्नावच्छेदकता तस्या एव विशिष्टान्तरविषयित्वाव्या कत्वपदार्थ- त्वात् । अनथैव रीत्या सामान्यलक्षणे मेयत्वविशिष्टं यद्भूमाभाववद्वृत्तित्वं तत्प्रकारकवह्नित्वावच्छिन्नविशेष्यकनिश्चयत्वेन पृथकप्रतिबन्धकत्वे तत्राति- व्याप्तिर्वारणीया, तादृशप्रतिबन्धकतायास्स्वरूपसम्बन्धेन विशिष्टान्तरविष- यित्वाव्यापकत्वेऽप्युक्तसम्बन्धेन विशिष्टान्तरविषयित्वाव्यापकत्वविरहात् । न चैवं जनकतायां विशिष्टान्तरविषयित्वाव्यापकत्वनिवेशनमफलम, प्रति- हेतुतावच्छेदकघटितसाद्धयाभावाभाववदवृत्तिमत्पक्षस्यापि विशिष्टान्तरवि- षयितासमानाधिकरणभेदप्रतियोगितानिरूपिता या स्वनिरूपितप्रतिबद्ध्यता- वच्छेदकावच्छिन्नप्रतिबद्ध्यतानिरूपितप्रतिबन्धकतावत्वसम्बन्धावच्छिन्ना- वच्छेदकता तदाश्रयप्रतिबन्धकताकत्वाभावादेव वारणात् , केवल साध्या- भावाभावववृत्तिमान् पक्ष इति ज्ञानस्यापि साद्धयवत्ताबुद्धिप्रतिबन्धकत्वा- सत्प्रतिपक्षविभाजकपत्रम् । . दिति वाच्यम् , वहयभाववद्वह्नयभावव्याप्यव्याप्यवद्वृत्तिवह्नयभावव्याप्य- व्याप्यवद्धदरूपविशिष्टेऽतिव्याप्तिवारणाय तदावश्यकत्वात् । तत्र प्रतिब- न्धकतायां विशिष्टान्तरविषयित्वाव्यापकत्वानपायात् । वस्तुतो विशिष्टा- न्तरविषयित्वाव्यापकत्वं प्रतिबन्धकतायां स्वरूपसम्बन्धेनैव वाच्यम् , न- तूक्तसम्बन्धेन , तथा सति बाधघटितसत्प्रतिपक्षाव्याप्तिप्रसङ्गात् , तत्र बाधविषयितासमानाधिकरणभेदप्रतियोगितानिरूपितस्वरूपसम्बन्धावच्छि- नावच्छेदकताश्रयत्वस्य सत्प्रतिपक्षप्रतिबन्धकतायां सत्वेऽपि निरुक्तसम्ब- न्धावच्छिन्नतादृशप्रतियोगितावच्छेदकत्वविरहात् । एवमभावव्यापकगग- नाभाक्वदभावक्त्कालीनगगनाभावसमानाधिकरणाभाववद्धटे घटो गगना- भाववदभाववत्कालीनगगनवानित्यादिस्थलीयसत्प्रतिपक्षेऽव्याप्तिश्च, तत्राभा- ववान् गगनाभाववान् अभाववांश्च घट इति निश्चययोरेकविशिष्टा- परत्वेन प्रतिबन्धकतया निरुक्तसम्बन्धेन गगनाभाववदभाववत्कालीनगग- नाभावसमानाधिकरणाभाववद्धटरूपविशिष्टान्तरविषयित्वाव्यापकत्वस्य स- प्रतिपक्षीयप्रतिबन्धकतायामभावात् । न च तत्र सत्प्रतिपक्षज्ञानस्य पृथ- प्रतिबन्धकत्वे मानाभावात् स्वरूपसम्बन्धेन विशिष्टान्तरविषयित्वा- व्यापकत्वनिवेशेऽप्यव्याप्तिर्दुारैवेति वाच्यम् मेयत्वव्यापको गगनाभाव- वदभाववत्कालीनगगनाभावः-मेयत्ववांश्च घट इति ज्ञानयोः पृथक्प्रति- बन्धकत्वस्यावश्यकतया एकरूपेण प्रतिबन्धकतापक्षे तादृशप्रतिबन्धकता- या उक्तसत्प्रतिपक्षज्ञानसाधारण्यात् स्वरूपसम्बन्धेन व्यापकत्वनिवेशे दोषाभावात् । एवञ्च प्रतिहेतुतावच्छेदकघटितसाद्धयाभावाभावववृत्ति- मत्पक्षेऽतिव्याप्तिवारकतयैव विशिष्टान्तरविषयित्वाव्यापकजनकतावत्वं वि- शिष्टान्तरघटितत्वशरीरे निवेशनीयम । अत्र प्रकारकोटावधिकपदार्थविष- यकनिश्चयस्य पृथक्प्रतिबन्धकतापले वयभावव्याप्यव्याप्यवह्नयभाववदे- ऽतिव्याप्तिस्तु यद्रूपावच्छिन्नविषयितायां तादृशविषयिताभिन्नत्वं निवेश्य ३८ शास्त्रमुक्तावली। वारणोया । सामान्यलक्षणेऽपि स्वरूपसम्बन्धेनैव विशिष्टान्तविषयित्वा- व्यापकत्वं निवेश्यम्, नतूक्तसम्बन्धेन, पूर्वोक्तदोषस्य सामान्यलक्षणेऽप्यवि- शेषात् । प्रकारकोटावधिकपदार्थावगाहिनिश्चयस्य पृथक्प्रतिबन्धकतापक्षे प्रकारकोटावधिकपदार्थघटितस्यापि दोषत्वात् । धर्मितावच्छेदककोटावधि. कपदार्थघटितस्यैव तैर्दोषत्वानुपगमात् । अतएव मेयत्वविशिष्टव्यभिचारा- दाविति प्रतीकमुपादाय व्याख्यातं जगदीशेन-अत्र मेयत्वविशिष्टं यद्वयभि- चारादिसाधनं तत्रत्येत्यर्थः कार्यः नतु मेयत्वविशिष्टं यद्यभिचारित्वं त- द्वति साधन इत्यर्थः, तादृशस्य लक्ष्यत्वात् , साधनधर्मिकप्रमेयत्वविशिष्ट- व्यभिचारित्वप्रकारकनिश्चयत्वेनापि व्याप्तिबुद्धौ स्वातन्त्रयेण प्रतिबन्धक- त्वात् , इत्यादिना । तथा च निरुक्तविशिष्टान्तराघटितत्वविरहानोक्तोभयव- दादावतिव्याप्तिरिति दिक् । ननु वह्नयभाववान् ह्रदो वह्निमानित्यत्र प्रकातनुमित्यप्रसिद्धया स- प्रतिपक्षाव्याप्तिरिति चेन्न , प्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरू- पितप्रकृतसाद्धयतावच्छेदकावच्छिन्नप्रकारताशालिज्ञानत्वव्यापकप्रतिबद्धय- ताया एव निवेशात् , व्यापकत्वञ्च स्वावच्छेदकाभावप्रतियोग्युपहितत्व- स्वाश्रयत्वान्यतरसम्बन्धेन, तथा चाहार्यज्ञाने स्वरूपसम्बन्धेन प्रतिबद्धय- ताविरहेऽपि प्रतिबद्ध्यतायाः अनाहार्यत्वाद्यवच्छिन्नतया स्वायच्छेदकाभा- वप्रतियोग्याहार्यत्वादिमत्तासम्बन्धेन तत्सत्त्वेन तादृशज्ञानत्वव्यापकप्रतिब- द्धयतायाः प्रसिद्धेः, वयभाववान् ह्रदो वह्निमानित्यत्र तादृशाहार्यज्ञान. मादायैव लक्षणसमन्वयः, वह्निमानू निर्वद्भिरित्यत्र धर्मितावच्छेदकनिष्ठप्र- त्यासत्त्याप्रतिबद्ध्यप्रतिबन्धकभावकल्पनाद्घटो वयभाववानित्यादिज्ञान- निष्ठप्रतिबद्धयतामादाय लक्षणसमन्वयः , ताशप्रतिबद्धयतायाः स्वाव- च्छेदकाभावप्रतियोग्याहार्यत्ववत्यसम्बन्धेन वह्निमान् निर्वह्निमानिति ज्ञाने सत्त्वात् , दीधित्याद्यरूनुरोधेन तु यद्रूपावच्छिन्नविषयकनिश्चयोत्तरानुमिति- . .
सत्प्रतिपक्षविभाजकपत्रम् । ३९ तथा च सामान्ये पक्षे साद्धयवैशिष्ट्यावगाहित्वाभावो विषयिताप्रयुक्तस्तद्रूपावच्छि- नत्वे सति पक्षविशेष्यतानिरूपितपक्षतावच्छेदकप्रकारत्वाभावत्ववृत्तिसा- द्धयविशेष्यतानिरूपितसाद्धयतावच्छेदकप्रकारत्वाभावत्ववृत्तियत्पक्षसा- द्धयवैशिष्ट्यावगाहित्वाभावत्ववृत्तिरूपं तादृशरूपावच्छिन्नविषयित्वावच्छि- नानुमितिनिष्ठजन्यतानिरूपितजनकतावच्छेदिका यद्रूपावच्छिन्नविषयिता तद्रूपावच्छिन्नत्वस्य लक्षणार्थत्वात् , प्रथमवृत्तिताद्वयं स्वसमानाधिकरणा- भावप्रतियोगितावच्छेदकत्वसम्बन्धेन, स्त्राधिकरणत्वं च स्वावच्छिन्नविषय- ताशालिनिश्चयाव्यवहितोत्तरानुमितित्वसम्बन्धावच्छिन्नम्, अभावप्रतियोगि- ताविषयिताप्रयुक्तादिकरणत्वसम्बन्धावच्छिन्ना, चरमवृत्तित्वं स्वसमा- नाधिकरणेत्यादिव्यापकत्वसम्बन्धेन, स्वाधिकरणता स्वावच्छिन्न- विषयताशालिनिश्चयोत्तरानुमितित्वसम्बन्धेन , भेदप्रतियोगिताव ग्छेदकता विषयताप्रयुक्ताधिकरणत्वसम्बन्धावच्छिन्ना वयभाववान् हृदो वह्निमानित्यत्र सत्प्रतिपक्षनिश्चयोत्तरानुमिति- सामान्ये विषयिताप्रयुक्तस्य पक्षसाद्धयवौशष्ट्यावगाहित्वाभावस्य सत्त्वा- सत्यन्तवत्त्वात् , बाधनिश्चयोत्तरानुमिनिसामान्ये पक्षतावच्छेदकवैशिष्ट्या. वगाहित्वाभावसाद्ध्यतावच्छेदकवैशिष्ट्यावगाहित्वाभावयोर्विषयिताप्रयुक्त- योरभावेन पक्षसाद्धयवैशिष्ट्यावगाहित्वाभावस्य विषयिताप्रयुक्तस्य सत्त्वेन च बाधत्वस्य तादृशत्वेन तदवच्छिन्नोन्नायकत्वाच्च लक्षणसङ्गतिः, हृदो वह्निमानित्यादौ ह्रदत्वादिप्रकारकबुद्धित्वस्य कस्यापि प्रतिबद्धयतानवच्छे. दकत्वेन तदभावस्य विषयिताप्रयुक्तत्वाभावेऽपि न क्षतिः, विषयिताप्रयु- ताधिकरणत्वसम्बन्धावाच्छन्नहृदत्ववैशिष्ट्यावगाहित्वाभावत्वावच्छिन्ना- भावस्य व्यधिकरणसम्बन्धावच्छिन्नाभावतया केवलान्वयित्वेन तत्रोक्तसम्ब- न्धेन बाधत्वस्य वृत्तेर्लक्षणगमनात् । एतेन यद्रूपावच्छिन्नविषयकनिश्चयोत्त (नुमितिसामान्ये पक्षसाद्धय- वैशिष्ट्यावगाहित्वाभावो विरोधिविषयताप्रयुक्तः तद्रूपावच्छिन्नत्वे सति य- ४० शास्रमुक्तावली। उक्तरीत्या हृदत्वप्रकार- दूपावच्छिन्नविषयिकनिश्चयोत्तरानुमितिसामान्ये पक्षे पक्षतावच्छेदकवैशि- ष्ट्यावगाहित्वाभावो विरोधिविषयिताप्रयुक्तः तद्रूपावच्छिन्नविषयित्वान्यत्वे सति यद्रूपावच्छिन्नविषयिताशालिनिश्चयोत्तरानुमितिसामान्ये साद्ध के सा- द्धयतावच्छेदकवैशिष्ट्यावगाहित्वाभावो विरोधिविषयिताप्रयुक्तः तद्रूपाव- च्छिन्नविषयत्वान्यत्वे च सति यद्रूपावच्छिन्नविषयताशालिनिश्चयोत्तरानुमि- तिसामान्ये प्रकृतपक्षे साद्धयवैशिष्ट्यावगाहित्वाभावो विरोधिविषयिताप्र- युक्तः तद्रूपावच्छिन्नविषयिताशाल्यनुमितिनिष्ठजन्यतानिरूपितजनकता यद्- पावच्छिन्नविषयताव्यापिका तद्रूपावच्छिन्नत्वमिति परिष्कारो निरस्तः, हदो वह्निमान् धूमादित्यादौ विरोधिविषयिताप्रयुक्तस्य हृदत्ववैशिष्ट्याव- गाहित्वाभावस्य यद्रूपावच्छिन्नविषयकनिश्चयाव्यवहितोत्तरानुमितित्वव्या- पकत्वं तादृशरूपावच्छिन्नविषयताया अप्रसिद्धेः, त्वाभावास्य विरोधिविषयताप्रयुक्तत्वाभावाव्याप्तेस्सर्वत्र विरोधिपदवैय- र्थ्याच्च । उन्नायकत्वाभावादव सिद्धिविषयेऽतिव्याप्तिवारणात् । नचैकं, व- हिमान् हृदो वह्निमान इत्यत्राव्याप्तिः। उक्तस्थले बाधनिश्चयोत्तरानुमितिसा. मान्ये विषयताप्रयुक्तस्य पक्षतावच्छेदकवैशिष्ट्यावगाहित्वाभावस्य सत्त्वेन बाधत्वस्योक्तसम्बन्धेन पक्षतावच्छेदकवैशिष्ट्यावगाहित्वाभावत्ववृत्तित्वा- भावादिति वाच्यम् , पक्षसाद्धयवैशिष्ट्यावगाहित्वाभावाधिकरणताभिन्न- विषयिताप्रयुक्तादिकरणतासम्बन्धस्याभावप्रतियोगितावच्छेदकत्वादुक्तस्थले तादृशाधिकरणतासम्बन्धावच्छिन्नपक्षतावच्छेदकवैशिष्ट्यावगाहित्वाभाव- त्वावच्छिन्नाभावस्य व्याधिकरणसम्बन्धावच्छिन्नाभावत्वेन केवलान्वयित्वेन तादृशाभावत्वे उक्तसम्बन्धेन बाधत्वस्य वृत्तित्वानपायात् । काञ्चनमयहूदो वह्निमानित्यादौ चाश्रयासिद्धत्वस्य हृदविशेष्यत्वावच्छिन्नकाञ्चनमयत्वप्रका- रित्वाभावत्वे उक्तसम्बन्धेनावृत्ते श्रयासिद्धचन्नायकातिव्याप्तिः ।
सत्प्रतिपक्षविभाजकपत्रम् । . यत्तु स्वावच्छिन्नविषयकनिश्चयाव्यवहितोत्तरानुमितित्वसमानाधिक- रणपक्षतावच्छेदकनिष्ठप्रकारतानिरूपितपक्षनिष्ठविशेष्यतानिरूपकत्वमेवोने- यतावच्छेदकरूपविशेषणमिति; तन्न, काञ्चनमयत्वाभाववत्काञ्चनमयदो व- हिमानित्यत्र पक्षतावच्छेदकप्रकारतानिरूपितपक्षनिष्ठविशेष्यताया आहार्य- ज्ञानमात्रनिष्ठाया अनुमितित्वसामानाधिकरण्यासम्भवेनाव्याप्तेः । यदि चानुमितित्वसमानाधिकरणपक्षतावच्छेदकताश्रयनिष्ठप्रकारतानिरूपितविशे- प्यतासामान्ये स्वावच्छिन्नविषयकनिश्चयाव्यवहितोत्तरानुमितित्वसामानाधि करण्यनिवेशान्न दोषः , उक्तस्थलेऽनुमितित्वसमानाधिकरणयोः काञ्चनम- यत्वतदभावप्रकारतानिरूपितहृदविशेष्यतयो धनिश्चयोत्तरानुमितिसामा- नाधिकरण्याल्लक्षणसमन्वयः, तादृशविशेष्यतासामान्यान्तर्गतकाञ्चनमय- त्वप्रकारतानिरूपितहदविशेष्यत्वस्य काञ्चनमयत्वाभाववद्भदनिश्चयोत्तरानु- मितित्वसामानाधिकरण्याभावात्तदुन्नायके नातिव्याप्तिः, स्वावच्छिन्नविष- यकनिश्चयाव्यवहितोत्तरानुमितित्वसामानाधिकरण्यं च तादृशविशेष्यतायां स्वावच्छेदकपक्षतावच्छेदकपर्याप्तावच्छेदकताकविषयतावत्त्वसम्बन्धेन, तेन तादृशविशेष्यतासामान्यान्तर्गतायाः हृदो वह्निमानिति ज्ञानीयायाः विशेष्य- तायाः निरूपकतासम्बन्धेन बाधनिश्चयोत्तरानुमितित्वासामानाधिकरण्येऽपि न क्षतिरित्यादिकं विभाव्यते; तदा नोक्तदोष इति धेयम् । अथात्रापि लक्षणे वयभाववयभावव्याप्यव्याप्योभयवद्भदेऽति- व्याप्तिः । न चोन्नेयदळे यद्रूपावच्छिन्नविषयकनिश्चयाव्यवहितोत्तरानुमिति- सामान्ये पक्षे साद्धयवैशिष्ट्यावगाहित्वाभाव इत्यत्र उत्तरपदं व्यर्थम् , बाधनिश्चयस्य पूर्व परतो वा पक्षे साध्यवैशिष्ट्याद्यवगाह्यनुमितेरसम्भवेन बाधोनायके सत्प्रतिपक्षे लक्षणसमन्वयसम्भवात् । अव्यवहितत्वं च स्ववृत्तिकृतिमत्वं पूर्वोत्तरक्षणवृत्तिपदार्थसाधारणं, तथा च नोक्तोभयवद्र- दादावतिव्याप्तिसम्भवः, वहथभावव्याप्यवद्रदविषयकनिश्चयाव्यवहितानु- ४२ शाखमुक्तावली। मितिसामान्ये पक्षे साध्यवैशिष्ट्याद्यवगाहित्वाभावाभावात् । वहिमान् हद इत्यनुमित्यनन्तरं हृदो वयभावव्याप्यवानिति निश्चयसम्भवात् । अत्र कल्पे सत्यन्तदळन्तु प्रतियोगिवैयधिकरण्यघटितव्यापकताघटितजलव्याप- कवयभावसमानाधिकरणजलवङ्देऽतिव्याप्तिवारकमिति वाच्यम् । एव- मपि वयभाववान् हृदो वह्निमानित्यादौ वढ्यभावव्याप्यव्याप्यवहथभा- वोभयवदेऽतिव्याप्तेः । इदो वह्निमानियादावपि प्रतियोगिवैयधिकरण्य- घटितव्यापकताघटितवयभावव्याप्यवहथभाववदे चातिव्याप्तेर्दुर्वार- त्वात् । उत्तरपदानुपादानेऽप्रामाण्यज्ञानास्कन्दितानुमित्यनन्तरं बाधनिश्च- यस्य तदनास्कन्दितानुमित्युत्तरमपि लौकिकसन्निकर्षजन्यबाधनिश्चयस्य सम्भवेनासम्भवस्यैव प्रसङ्गेन उत्तरत्वनिवेशनमसार्थक्यात् । उक्तोभयव- दादावतिव्याप्तिर्दुवोरैवेति चेत् ? अत्र वदन्ति, सत्यन्तघटिकाधिकरण- तायां विशिष्टान्तरविषयित्वाप्रयोज्यत्वस्य मेयत्वविशिष्टसत्प्रतिपक्षातिव्या- प्तिवारणायावश्यं विवक्षणीयतया तत एवोक्तोभयवद्भदवारणसम्भवः । यत्तु विशिष्टान्तरविषयत्वाप्रयोज्यस्वविषयताप्रयोज्यपक्षधर्मिकसा- द्ध्यवैशिष्ट्यावगाहित्वाभावाधिकरणताकत्वस्य मेयत्वविशिष्टसत्प्रतिपक्षाति- व्याप्तिवारणाय स्वातन्त्रयेण निवेशानोक्तोभयवद्धदेऽतिव्याप्तिः । न चैवं स. त्यन्तदळवैयर्थ्यम, वह्नयभावव्याप्यव्याप्यवान वयभाववान् वयभाव- व्याप्यव्याप्यवांश्च हद इति ज्ञानयोरेकविशिष्टापरत्वेन प्रतिबन्धकतया व. हथभावव्याप्यव्याप्यवद्रदविषयतायाः पक्षधर्मिकसाद्धयवैशिष्ट्यावगाहि- वाभावाधिकरणताप्रयोजकतया तत्रातिव्याप्तिवारकतया तत्सार्थक्यात् ; न च तद्विषयताप्रयोज्यायां उक्ताधिकरणतायां विशिष्टान्तरविषयताप्रयो- ज्यत्वसम्भवः, वक्ष्यमाणरीत्या विशिष्टान्तरे तादृशत्वनिवेशस्यावश्यकत्वा- दिति, तन्न, उक्तरीत्या सत्यन्तघटकाधिकरणतायां विशिष्टान्तरविषयित्वा- प्रयोज्यत्वनिवेशेनैव निर्वाहे स्वातन्त्रयण विशिष्टान्तराघटितत्वनिवेशस्य - सत्प्रतिपक्षविभाजकपत्रम् । ४३ गौरवप्रस्तत्वेन भवदुक्तवैयर्थ्यशङ्काया अनवतारात् । किञ्च स्वातन्त्रयेण तन्निवेशे मेयत्वविशिष्टसत्प्रतिपक्षेऽतिव्याप्तिश्च वहिधूमोभयसायके मेयत्व- विशिष्टजलव्यापकवह्नयभावसमानाधिकरणजलवान् धूमाभाववान् मेयत्व- विशिष्टजलव्यापकवह्नयभावसमानाधिकरणजलवान् हद इति ज्ञानद्वयोत्तर. ह्रदधर्मिकधूमवैशिष्ट्यावगाहित्वाभावाधिकरणतामादाय विशिष्टान्तराघटि- तत्वसम्भवात् । एवमुक्तस्थले जलव्यापकवड्यभावसमानाधिकरणजल- व्यापकधूमाभावसमानाधिकरणजलवदरूपसत्प्रतिपक्षकदेशे धूमाभावस- मानाधिकरणजलव्यापकवढ्यभावसमानाधिकरणजलवद्धदेऽतिव्याप्तिः, पक्षे धूमवैशिष्ट्यावगाहित्वाभावाधिकरणतामादाय विशिष्टान्तराघटितत्वसम्भ. वात् । न च सत्यन्तघटकाधिकरणतायां विशिष्टान्तरविषयित्वाप्रयोज्यत्व- मात्रनिवेशेऽसम्भवः, स्वविषयताप्रयोज्याधिकरणताया जलवद्धदविषयत्वा- प्रयोज्यत्वाभावात् , विशिष्टान्तरविषयतात्वव्यापकरूपावच्छिन्नाप्रयोज्यत्वनि- वेशेऽपि सत्प्रतिपक्षविषयतानिष्ठप्रयोजकतावच्छेदकस्य जलव्यापकवड्यभा- वत्वावच्छिन्नविषयिताशालिनिश्चयविशिष्टनिश्चयीयजलवद्धदत्वावच्छिन्नवि- षयतात्वस्य जलवद्रदत्वावच्छिन्नविषयितात्वव्यापकत्वमव्याहतम् । जल- व्यापकवहयभावनिश्चयविशिष्टनिश्चयीयविषयत्वतदविशिष्टनिश्चयीयविषय- तयोरभेदादिति वाच्यम्,-विशिष्टान्तरविषयत्वावच्छिन्नव्यापकतानवच्छे- दकत्वस्य सत्यन्तघटकविषयतानिष्ठप्रयोजकतायां निवेशेन दोषाभावात् । जलवदविषयतायाः जलवान् हृद् इति ज्ञानसाधारणतया तत्र सत्प्रति- पक्षीयप्रयोजकत्वावच्छिन्नाभावसत्वेन विशिष्टान्तरविषयतात्वावच्छिन्नव्या- पकतानवच्छेदकत्वस्य विषयितानिष्ठप्रयोजकतायामक्षतत्वात् , इत्थश्च स- प्रतिपक्षान्तरादिज्ञानकालीनज्ञानस्यैव विषयो यस्सत्प्रतिपक्षः तत्रापि न क्षतिः, तादृशस्थले स्वविषयताप्रयोज्याधिकरणताया विशिष्टान्तरविषयता- प्रयोज्यत्वनियमेऽपि स्वविषयतानिष्ठप्रयोजकतायां विशिष्टान्तरविषयिताव्या.
४ शास्रमुक्तावली। पकतानवच्छेदकत्वाक्षतेः । एवञ्च हृदस्समानाधिकरणजलाभाववानित्यादौ बाधघटितसत्प्रतिपक्षेऽपि नाव्याप्तिः, सत्प्रतिपक्षविषयितानिष्ठप्रयोज्यत्वस्य तादृशबाधविषयितात्वावच्छिन्नव्यापकतानवच्छेदकत्वात् । केवलबाधविष- यज्ञाने सत्प्रतिपक्षज्ञानीयप्रयोजकत्वावच्छिन्नाभावसत्वात् । विशिष्टान्तर- विषयितायां च स्वावच्छिन्नविषयित्वाव्यापकविषयिताशून्यज्ञानीयत्वं निवे- श्यम् , तेन सत्प्रतिपक्षविषयितानिष्ठप्रयोज्यताया जलव्यापकवह्नयभावका- लीनजलवद्धदरूपविशिष्टान्तरविषयिताव्यापकतावच्छेदकत्वेऽपि न क्षतिः। न चावच्छेदकावच्छेदेन वयादिसाद्धयके अवच्छेदकावच्छेदेन सत्प्रतिपक्षे. ऽव्याप्तिः। तत्र हृदत्वावच्छिन्नविशेष्यतानिरूपितहूदत्वव्यापकत्वविशि- ष्टसंयोगादिसम्बन्धावच्छिन्नवहित्वावच्छिन्नप्रकारत्वाभावाधिकरणताया एवं सत्यन्तप्रविष्टतया तत्प्रयोजकतायाश्चासामानाधिकरण्येन सत्प्रतिपक्षविष- यतासाधारण्ये विशिष्टान्तरीभूतसामानाधिकरण्येन सत्प्रतिपक्षविषयत्वाव- च्छिन्नव्यापकतावच्छेदकत्वादिति वाच्यम् , यद्रूपावच्छिन्नविषयकनिश्चया- व्यवहितोत्तरानुभितिसामान्ये पक्षसाद्धयवैशिष्ट्यावगाहित्वाभावव्याप्याभा- वाधिकरणताविशिष्टान्तरविषयितात्वावच्छिन्नव्यापकतानवच्छेदकविषयिता- निष्ठप्रयोजकतानिरूपितप्रयोज्यतावली तद्रूपावच्छिन्नत्वस्य सत्यन्तार्थत्वेन दोषाभावात् । उक्तस्थले ह्रदत्वव्यापकत्वविशिष्टसंयोगावच्छिन्नवहिप्रकार- त्वाभावव्याप्यो यस्संयोगेन हदे वहिवैशिष्ट्यावगाहित्वाभावः । तद्धिकर- णताप्रयोजकतायास्सामानाधिकरण्येन सत्प्रतिपक्षविषयितासाधारण्ये विर- हेण तादृशसत्प्रतिपक्षरूपविशिष्टान्तरविषयितात्वावच्छिन्नव्यापकतानवच्छे- दकत्वानपायेन तादृशप्रयोजकतामादायैव अवच्छेदकावच्छेदेन साध्यता- स्थले अवच्छेदकावच्छेदेन सत्प्रतिपक्षे लक्षणसमन्वयात् । यत्तु जलवद्रदविषयतामादायासम्भववारणाय यद्रूपावच्छिन्नविष- यकनिश्चयाव्यवहितोत्तरानुमितिसामान्ये पक्षधर्मिकसाद्धयवैशिष्ट्यावगा- - सत्प्रतिपक्षविभाजकपत्रम् । हेत्वाभावो विरोधिविषयिताप्रयुक्तः। तादृशत्वं विशिष्टान्तरे निवेशनीय- मति । तन्न, एवमपि बाधघटितसत्प्रतिपक्षाव्याप्तः। विशिष्टान्तरे वि- रोध्यन्नायकत्वस्यापि निवेशेन तत्र दोषवारणेऽपि वहिधूमोभयसाध्यके जलव्यापकवयभावसमानाधिकरणजलव्यापकधूमाभावसमानाधिकरणता- दृशजलवद्भदरूपसत्प्रतिपक्षघटितसत्प्रतिपक्षेऽव्याप्तेः । उक्तोभयवदादा- वतिव्याप्तिश्च, तद्घटकयोः वयभाववदवढ्यभावव्याप्यव्याप्यवद्दयोः प्रत्येकं ताहशत्वाभावात् । यदपि बाधघटितसत्प्रतिपक्षाव्याप्तिवारणाय विशिष्टान्तरविषयिता- निष्ठप्रयोजकतायां स्वानवच्छेदकधर्मावच्छिन्नत्वस्वप्रयोज्याधिकरणतावृत्ति- भेदप्रतियोगितानवच्छेदकत्वोभयसम्बन्धेन प्रयोजकताविशिष्टान्यत्वं देयम्। भेदप्रतियोगितावच्छेदकता च स्वनिरूपितप्रयोज्यत्ववत्त्वसम्बन्धावच्छिन्ना । तथा च बाधघटितसत्प्रतिपक्षस्थले बाधविषयितानिष्ठप्रयोजकतायाः उक्तो- भयसम्बन्धेन सत्प्रतिपक्षप्रयोजकताविशिष्टत्वात्तदन्यविशिष्टान्तरविषयिता- निष्ठप्रयोजकता विपरीतसत्प्रतिपक्षादिप्रयोजकतैव, तनिरूपितप्रयोज्यत्वा- भावस्य स्वविषयिताप्रयोज्याधिकरणतायां सत्त्वान्न तत्राव्याप्तिः । नचोक्त- विशेषणदाने हृदो वहिधूमोभयवानित्यत्र जलव्यापकवह्नयभावसमानाधि- करणजलव्यापकधूमाभावसमानाधिकरणतादृशजलवद्धदात्मकसत्प्रतिपक्ष- घटकसत्प्रतिपक्षे मेयत्वविशिष्टेऽतिव्याप्तिः, विशिष्टान्तरभूतावान्तरसत्प्रति- पक्षविषयितानिष्ठप्रयोजकतायाः उक्तोभयसम्बन्धेन महासत्प्रतिपक्षविषयि- तानिष्ठप्रयोजकताविशिष्टत्वादिति वाच्यम् , स्वावच्छिन्नविषयितात्वव्यापक- रूपावच्छिन्नप्रयोजकताविशिष्टान्यत्वस्यैव विशिष्टान्तरविषयितानिष्ठप्रयोज- कतायां निवेश्यत्वात् , महासत्प्रतिपक्षविषयितानिष्ठप्रयोजकतायाः मेयत्व. विशिष्टावान्तरसत्प्रतिपक्षविषयितात्वव्यापकरूपावच्छिन्नतया निरुक्तप्रयोज- - ४६ शास्रमुक्तावली । कताविशिष्टान्यत्वस्याक्षतत्वेन मेयत्वविशिष्टे तत्रातिव्याप्तिविरहात् । न च हृदो वह्निमानित्यत्र हृदवृत्तिवहिव्यापकीभूताभावप्रतियोगिजले मेयत्वविशि- टेऽतिव्याप्तिः, तत्र वहिव्यापकीभूताभावप्रतियोगि जलं हृदवृत्तिजलमिति ज्ञानयोः परस्परविशिष्टत्वेन प्रतिबन्धकताद्वयस्य स्वीकरणीयतया तथैव विनिगमनाविरहेण प्रयोजकताद्वयस्यापि परस्परावच्छेदकानवच्छिन्नस्य स्वीकरणीयतया द्वयोरपि प्रयोजकतयोः निरुक्तोभयसम्बन्धेन परस्परवि- शिष्टतया प्रयोजकताविशिष्टप्रयोजकतानिरूपितप्रयोज्यताशून्यत्वस्य स्ववि- षयताप्रयोज्यपक्षसाध्यवैशिष्ट्यावगाहित्वाभावाधिकरणतायामक्षतत्वात् । स्वविषयितानिष्ठप्रयोजकतायामपि निरुक्तोमयसम्बन्धेन प्रयोजकताविशि- ष्टान्यत्वनिवेशे तत्रैव लक्ष्यभूते हृदवृत्तिवहिव्यापकीभूताभावप्रतियोगिजले- ऽतिव्याप्तिरिति वाच्यम् , स्वप्रयोज्यत्वाभावसमानाधिकरणप्रयोज्यतानिरू- पितत्वस्यापि निरुक्तप्रयोजकाविशिष्टघटकतया उक्तस्थले च उक्तप्रयोजकता- द्वयस्यापि परस्परनिरूपितप्रयोज्यत्वाभावसमानाधिकरणप्रयोज्यत्वानिरूपि- तत्वेन निरुक्तप्रयोजकताविशिष्टान्यत्वस्याक्षततया उक्तातिव्याप्त्यनवकाशा- दिति । तन्न, बाधविषयतानिष्ठाया बाधीयप्रयोजकताया उक्तोभयसम्बन्धेन सत्प्रतिपक्षप्रयोजकताविशिष्टत्वेन वारणेऽपि तादृशबाधविषयतानिष्ठायास्स- प्रतिपक्षप्रयोजकताया अवारणेन बाधरूपविशिष्टान्तरविषयतानिष्ठसत्प्रति- पक्षप्रयोजकतानिरूपित प्रयोज्यत्वाभावस्य सत्प्रतिपक्षविषयिताप्रयोज्याधिक- करणतायामभावेन बाधघटितसत्प्रतिपक्षाव्याप्तेरवारणात् , स्वविषयता- निष्ठप्रयोजकतानिरूपितप्रयोज्यतावत्यां जलव्यापकं समानाधिकरणजलं ज- लवान् हद इति ज्ञानद्वयानन्तरकालीनानुमितिनिष्ठाधिकरणतायां स्वनिरू- पितप्रयोज्यतासम्बन्धेन बाविषयतानिष्ठप्रयोजकताया अभावेन स्वप्रयो- ज्याधिकरणतानिष्ठभेदप्रतियोगितानवच्छेदकघटितोभयसम्बन्धेन प्रयोजक- ताविशिष्टान्यत्वस्याक्षततया उक्तविशेषणेन बाधप्रयोजकत्ववारणाच्च। सत्प्र- सत्प्रतिपक्षविभाजकपत्रम् । । तिपक्षविषयतानिष्ठप्रयोजकतायास्स्वप्रयोज्याधिकरणतावृत्तिभेदप्रतियोगि- तानवच्छेदकत्वसम्बन्धेन स्वात्मकप्रयोजकताविशिष्टत्वेन तदन्यप्रयोजकता निरूपितप्रयोत्वाभावस्य मेयत्वविशिष्टसत्प्रतिषक्षविषयताप्रयोज्याधिकरणता- यां सत्त्वेन तत्रातिव्याप्तिवारणायोपात्तस्य स्वानवच्छेदकधर्मावच्छिन्नत्वस्य व्यर्थत्वाच्च । स्वनिरूपितप्रयोज्यत्वाभावसमानाधिकरणप्रयोज्यतानिरूपित- त्वस्य स्वात्मकप्रयोजकतायामभावेनैवोक्तसम्बन्धन प्रयोजकताविशिष्टान्य त्वस्य सत्प्रतिपक्षप्रयोजकतायां सत्त्वेनोक्तातिव्याप्त्यप्रसक्तेः। उक्तोभयसम्ब- न्धेन प्रयोजकताविशिष्टान्यत्वस्य प्रयोजकतायां निवेशे मेयत्वविशिष्टा- वान्तरसत्प्रतिपक्षेऽतिव्याप्तिशङ्कापि नोचिता । प्रतिहेतुतावच्छेदकघटितसा - ध्याभावाभावत्रवृत्तिमत्पक्षे वयभाववद्वह्नयभावव्याप्यव्याप्यवद्वृत्तिवय- भावव्याप्यव्याप्यवद्धदे चातिव्याप्तिवारणाय विशिष्टान्तरविषयितात्वव्याप- कजनकताकत्वस्य विवक्षणीयतया तदभावादेव मेयत्वविशिष्टावान्तरसत्प्र- तिपक्षवारणात्तदर्थ स्वविषयितात्वव्यापकरूपावच्छिन्नप्रयोजकताविशिष्टान्य- त्वपर्यन्तस्यानावश्यकत्वात् । यद्यपि वयभावव्याप्यव्याप्यत्वविशिष्टेऽवा- न्तरसत्प्रतिपक्षे उक्तरीत्यातिव्याप्तिवारणाय तावत्पर्यन्तनिवेशस्यावश्यकता, तथापि तादृशविशेषणोपादानेऽपि तत्रातिव्याप्तिवारणासम्भवः , महास- प्रतिपक्षविषयतानिष्ठप्रयोजकताया अपि मेयत्वविशिष्टावान्तरसत्प्रतिपक्ष- विषयतात्वव्यापकरूपावच्छिन्नत्वात् , जलव्यापकवड्यभावसमानाधिकरण- जलव्यापको धूमाभाव इति निश्चयविशिष्टमेयत्वविशिष्टजलव्यापकवयभा- वसमानाधिकरणजलवान् हृद इति ज्ञानीयतादृशहदविषयितात्वस्य मेयत्व. विशिष्टजलव्यापकवह्नयभावसमानाधिकरणजलवड्दविषयतानिष्ठभेदप्रति- योगितावच्छेदकत्वानिश्चयविशिष्टनिश्चयीयविषयत्वतदविशिष्टनिश्चयीयविष- यित्वयार्भेदविरहात् । अन्यथा विशिष्टान्तरविषयतात्वव्यापकरूपावच्छिन्न- प्रयोजकतानिरूपितप्रयोज्यत्वाभावनिवेशैनव जलवड्दविषयितामादायास- ४८ शास्त्रमुक्तावली। म्भववारणसम्भवे भवतां विशिष्टान्तरे ताहशत्वनिवेशनवैफल्यापत्तेः। स्वावच्छिन्नविषयितात्वव्यापकतावच्छेदकप्रयोजकताविशिष्टान्यत्वस्य प्रयो- जकतायां निवेशे तु मेयत्वशिष्टावान्तरसत्प्रतिपक्षवारणं सम्भवतीति बोध्यम् । मेयत्वविशिष्टे ह्रदवृत्तिवहिव्यापकीभूताभावप्रतियोगिजलेऽतिव्याप्ति- वारणाय स्वनिरूपितप्रयोज्यत्वाभावसमानाधिकरणप्रयोज्यतानिरूपितत्व- स्यापि निरुक्तप्रयोजकतावैशिष्ट्य घटकत्वमावश्यकमित्यपि न युक्तम् । वि- शिष्टान्तरविषयित्वाव्यापकजनकत्वाभावादेव तत्रातिव्याप्तिविरहात् । नचै. वमपि वह्नयभावव्याप्यव्या कत्वविशिष्टेहदवृत्तिवह्नयभावाभावव्यापकी- भूताभावप्रतियोगिजलेऽतिव्याप्तिवारणाय तादृशसम्बन्धस्यापि निरुक्तप्रयो- जकतावैशिष्ट्यघटकत्वमावश्यकम् । तत्र विशिष्टान्तरविषयित्वाव्यापक- जनकताकत्वस्यापि सत्त्वादिति वाच्यम,-एवमपि वह्नयभावव्याप्यव्याप्य- विशिष्टं यजलव्यापकवयभावसमानाधिकरणजलं तद्विशिष्टहदेऽतिव्याप्ति- सम्भवेन तावत्पर्यन्तानुधावनवैफल्यात् । तत्रापि जलव्यापकत्वप्रकारता. निरूपितवयभावत्वावच्छिन्नविशेष्यताशालिनिश्चयविशिष्टनिश्चयीयजलव- झदविषयतात्वेन वयभावत्वावच्छिन्नविशेष्यतानिरूपितजलव्यापकत्वप्रका- रताशालिनिश्चयविशिष्ठनिश्चयीयजलवद्धदविषयतात्वेन च विनिगमनाविर- हेण प्रयोजकताद्वयस्य सत्त्वात् । यद्यप्युक्तरीत्या बाधघटितसत्प्रतिपक्षाव्या- प्तिवारणाय विशिष्टान्तरविषयतानिष्ठप्रयोजकतायां स्वविषयतानिष्ठप्रयोजक- ताविशिष्टान्यत्वनिवेशे वयभावव्याप्यव्याप्यजलव्यापकवह्नयभावकालीन- जलाभाववह्न यभयवानित्यत्र तादृशजलवद्धदरूपबाधेऽतिव्याप्तिः विशि- ष्टान्तरीभूतजलव्यापकवह्नयभावकालीनजलवद्धदविषयतानिष्ठप्रयोजकता- याःनिरुक्तोभयसम्बन्धेन बाधविषयतानिष्ठप्रयोजकताविशिष्टत्वात् तदन्यवि- शिष्टान्तरविषयतानिष्ठप्रयोजकतानिरूपितप्रयोज्यताशून्यस्वविषयताप्रयोज्या- सत्प्रतिपक्षविभाजकपत्रम् । ४९ . धिकरणताकत्वादित्याशङ्कय निरुक्तविशेषणादानेऽपि वहृयभावव्याप्यव्या- प्याभाववह्नयभयवानित्यत्र वहयभावव्याप्यव्याप्यवद्रदेऽतिव्याप्तेर्दुवारतया यद्रूपावच्छिन्नविषयकनिश्चयाव्यवहितोत्तरानुमितिसामान्ये विरोधिविषयता- प्रयोज्यतावच्छेदकयद्रूपविशिष्टपक्षधर्मिकसाध्यवैशिष्ट्यावगाहित्वाभावः तद्रूपावच्छिन्नत्वे सति यद्रूपावच्छिन्नविषयताशालिनिश्चयाव्यवहितोत्तरानु- मितिसामान्ये विरोधिविषयताप्रयोज्यतावच्छेदकतद्रूपविशिष्टर्मिकसाध्य- वैशिष्ट्यावगाहित्वाभावः तद्रूप'वच्छिन्नविषयत्वावच्छिन्नानुमितिनिष्ठज- न्यतानिरूपितजनकतावच्छेदका यद्रूपावच्छिन्नविषयता तद्रूपावच्छिन्नत्वस्य विवक्षणीयतया पूर्वोक्तबाधेऽव्याप्त्यनवकाशादिति समाहितम्। तन्न, वयभा- वव्याप्यव्याप्याभाववयभयसाध्यकस्थले तादृशबाधविषयिताप्रयोज्यताव- च्छेदकस्य हृदधर्मिकवयभावव्याप्यव्याप्याभाववैशिष्ट्यावगाहि- त्वाभावत्वस्य वयभावव्याप्यवद्धदरूपसत्प्रतिपक्षविषयताप्रयो- ज्यतावच्छेदकत्वाभावेऽपि तादृशबाधविषयिताप्रयोज्यतावच्छे हधर्मिकोभयवैशिष्टावगाहित्वाभावस्य शसत्प्रतिपक्षविषयताप्रयोज्यतावच्छेदकत्वेन तादृशबाधात्मकसत्प्रतिपक्षो- मायकेऽतिव्याप्तेरवारणात् । व्यापकाभावप्रयोजकस्येति न्यायेन प्रत्येकवै- शिष्ट्यावगाहित्वाभावप्रयोजकस्याप्युभयवैशिष्ट्यावगाहित्वाभावप्रयोजक- त्वानपायात् । अन्यथा सत्यन्ताभावादेव पक्षसाध्यप्रसिद्धयन्नायकयोर्वा- रणे विरोध्यन्तद्वयवैयर्थ्यप्रसङ्गात् । वस्तुतस्तु उक्तोभयसाध्यकस्थले वड्यभावव्याप्यव्याप्यवद्धदरूपबाधेऽतिव्याप्तिवारणाय पक्षसाध्यवैशि- प्ट्यावगाहित्वाभावव्याप्याभावनिरूपितयादृशयादृशाधिकरणता सत्यन्तघ- टिका तादृशतादृशधिकरणतासामान्यप्रयोजकविषयतानिरूपितावच्छेदक त्वमुन्नेयतावच्छेदकरूपविशेषणम् ; तथा चोक्तस्थले वहयभावव्याप्यव्या- प्यवन्द्रदरूपबाधे नातिव्याप्तिः, तत्र सत्प्रतिपक्षस्य तादृशबाधोनेयरूपस्य - दकस्य ताह- शास्त्रमुक्तावली। - तथा तादृशबाधप्रयोजकविषयताप्रयोज्यह्वदधर्मिकोभयवैशिष्ट्यावगाहित्वाभाव- प्रेयोजकविषयताकत्वेऽपि तादृशाधिकरणतासामान्यान्तर्गतहदधर्मिकवय, भावव्याप्यव्याप्याभाववैशिष्ट्यावगाहित्वाभावाधिकरणताप्रयोजकविषयता- कत्वाभावात् । हृदो वह्निमान् धूमादित्यादौ च सत्प्रतिपक्षविषयताप्रयो- ज्याधिकरणता सामान्यस्य बाधविषयताप्रयोज्यत्वादुन्नायके प्रतिपक्षे लक्षणसमन्वयः । स्वविशिष्टरूपाव- च्छिन्नानुमितिनिष्ठजन्यतानिरूपितजनकतावच्छेदिका यद्रूपावच्छिन्नविषय- ता तद्रूपावच्छिन्नत्वमिति लक्षणघटकदलद्वयपर्यवसितार्थः । रूपे स्ववैशि. ष्टयञ्च स्वसमानाधिकरणेत्यादिव्यापकत्वसम्बन्धेन, स्वाधिकरणता स्वनि- ष्ठावच्छेदकताकप्रतियोगिताकभेदविशिष्टपक्षसाध्यवैशिष्टयावगाहित्वाभाव- व्यापकाभावाधिकरणतात्वसम्बन्धावच्छिन्ना, तत्र स्वनिष्ठावच्छेदकता-स्व- समानाधिकरणभेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्ना । स्वाधिकरणता स्वावच्छिन्नविषयकनिश्चयाव्यवहितोत्तरत्वसम्बन्धेन । भेदप्रतियोगिताव- च्छेदकता विर्षायताप्रयुक्तत्वविशिष्टस्वरूपसम्बन्धावच्छिन्ना। प्राथमिकभेद- प्रतियोगितावच्छेदकता स्वनिष्ठावच्छेदकताकप्रतियोगिताकमेदवत्वसम्ब- न्धेन । स्वनिष्ठावच्छेदकता स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्व. सम्बन्धावच्छिन्ना। स्वाधिकरणता स्वावच्छिन्नविषयकनिश्चयाव्यवहितोत्त- रानुमितित्वसस्बन्धावच्छिन्ना । भेदप्रतियोगितावच्छेदकता विषयताप्रयुक्त- त्वविशिष्टस्वरूपसम्बन्धावच्छिन्नेति । - ॥ सत्प्रतिपक्षविभाजकपत्रं समाप्तम् ॥
कांच्या-श्रीसुदर्शनमुद्रायन्त्रालये क्रय्याणि पुस्तकानि. नं ८ वैदिक ग्रन्थाः। नाम रु आ नं. नाम रु आ१६. यतिलिङ्गसमर्थनम् १. श्रीसूक्तभाष्यम् १७. प्रपन्नपारिजातः २. पुरुषसूक्तभाष्यम् १८. न्यायभास्करः ३. तैत्तिरीयोपनिषद्भाष्यम् ३ १ ८ (जगन्मिथ्यात्वखण्डनम्)। ४. सन्ध्यावन्दनभाष्यम् वेदान्त ग्रन्थाः । १९. भेदवादःतत्क्रतुन्याय ५. शतदूषणी भा-१ ६ विचारश्च ६. शतदृषणी भा-२ ३ १२ २०. दृश्यत्वानुमाननिरास ७. शतदूषणी भा--३ ८. शतदृषणी भा-४ ३ १२/ वादःमोक्षकारणतावादश्च ९. भगवद्गीता प्रतिपदा २१. कार्याधिकरणवादःभा१ ० १० २२. कार्याधिकरणवादःभार १ र्थविवरणसहिता २ २३. कार्याधिकरणतत्वम् ०१४ १० भगवद्गीता-वरवरमुनि २४. श्रीरामानुजसि व्याख्यासहिता २ द्धान्तसारः १ . ११.गीतार्थसंग्रहः-रक्षया सहितः ६२५. श्रुतितात्पर्यनिर्णयः (यन्त्रस्थः) १२.तत्वनिर्णयः मीमांसा ग्रन्थाः। (शैववैष्णववादः) ४/२६. भाट्टरहस्यम् ८ २७. मीमांसापादुका १३. सिद्धान्तचिन्तामाणिः १२२८. मीमांसाकौस्तुभःभा१ १ १४. पाराशर्यविजयः ०२९. मीमांसाकौस्तुभःभा४ १ (प्रथमाध्यायप्रथमपादः) मीमांसाकौस्तुभःभा५ १ ६ १५. वेदान्ताविजयः [गुरु ३७. सेश्वरमीमांसा ११४ विद्यानिजयः, ब्रह्मविद्या- विजयः, सद्विद्याविजयः, न्याय ग्रन्थाः। अद्वैतविद्याविजयः, परि ३२. प्रामाण्यवादः ३ ४ करविजयः ] ३३. अवच्छेदकतानिरुक्तः १४ ४ १ ४ ६ ( यन्त्रस्थः) [ २ ] १ १ ४ لم . १ १ नं नाम नाम रु आ ३४. बाधगादाधरी • १५/५१. शतकोटिमण्डनम् ३५. मूलगदाधरीये) विजयराघवाचार्यवि. शब्दखण्डः पाश्चरात्र ग्रन्थाः । ३६. उपाधिवादः ५२. सात्वतसंहिता ८ २ गदाधरस्य ५३. ईश्वरसंहिता ५४.पारमेश्वरसंहिता सव्याख्या १० ३७. गादाधरी चतुर्दशलक्षणी१ १४ ३८. गादाधरी पञ्चलक्षणी सम्प्रदाय ग्रन्थाः। ३९. सिद्धान्तलक्षणम् ४५५. तत्वत्रयम् ४०. पक्षता-गादाधरी ८५६. मुमुक्षुप्पडिरहस्यम् ४१. व्युत्पत्तिवादः २ ८/५७. श्रीवचनभूषणम् ర సవ్యభిచారసామాన్య ५८. श्रीवादिभीकरवैभवम् నిరుక్తి [सचित्रम् ६ ४३. सामान्यनिरूक्तिः • १२५९. श्रीवादिभीकरवैभवम् ४४. पदवाक्यरत्नाकरः २ [चित्ररहितम्] ర. సాధారణా సాధారణ கூய. சூவாய , வய - 'J నుపసంహారివిరోధ தன் அண்ணாவைபவம் గ్రద్ధా 20 అక్షా వైభనన్ ४६. तत्वचिन्तामणौ 62 AGal #Ofuiis am sivuii0 4 अवयवग्रन्थः १ ०/-3. by Tears ४७. सत्प्रतिपक्षग्रन्थः ఇర.సచ్చరిత్ర పరిత్రాణమ్ . ౧౨ ४८. शतकोटिः 65. பரஹ்மவித்யா 66. விசிஷ்டாத்வைத ४९. शतकोटिखण्डनम् ஸித்தாந்த ஸாரம் 0 2 श्रीकृष्णताताचार्यवि. தத்வமஸி 68. ஏகமேவாத்விதீயம்ப்ரஹ் ५०. शतकोटिखण्डनम् 69.Sagii. श्रीमदनन्ताचार्यवर्यकृतम् । १२/70.CDuTu. 0 8 ० 1 ६/67. அசசில் LO 0 2 0 2
No text on this page.