Svi-vmpl-machilipatnam
Vishhnd-ubhaktikalpalataa
Front matter
No text on this page.
KAVYAMÂLÂ. 31.
THE
VISHNUBHAKTIKALPALATA
OF
PURUSHOTTAMA
With the Commentary of Mahîdhara.
EDITED BY
MAHÂMAHOPADHYAYA PANDIT DURGÂPRASAD
AND
KÂSÎNÂTH PÂNDURANG PARAB.
PRINTED AND PUBLISHED
BY
TUKARAM JAVAJI
PROPRIETOR OF "JAVAJI DADAJI'S NIRNAYA-SAGARA" Press.
BOMBAY
1892.
Price 10 Annas.
( Registered according to Act XXV of 1867.) ( All rights reserved by the publisher. )
काव्यमाला ३१.
*
पुरुषोत्तमविरचिता
विष्णुभक्तिकल्पलता।
महीधरकृतया टीकया समेता।
जयपुरमहाराजाश्रितेन पण्डितब्रजलालसूनुना
महामहोपाध्यायपण्डितदुर्गाप्रसादेन,
परबोपावन पाण्डुरङ्गतनूभुवा
काशीनाथशर्मणा च
संशोधिता।
साच
मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा
प्राकाश्यं नीता।
१८९२
(अस्य प्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरयन्त्रालयाधि-
पतेरेवाधिकार:
मूल्यं १० आणकाः।
No text on this page.
पुरुषोत्तमः। मानी-विष्णु-संज्ञकयोर्मातापित्रोर्लब्धजन्मा विष्णुभक्तिकल्पलताप्रणेता पुरुषोत्तमकविः कस्मिन्काले कतमं जनपदमलंचकारेति संदिग्धप्रायम् । यदि नामलिङ्गानुशासनपरिशिष्टरूपस्य त्रिकाण्डशषस्य निर्मातासावेव पुरुषोत्तमः स्या- त्तदैते विचाराः प्रादुर्भवन्ति । तथाहि नानार्थसंग्रहभूमिकायां चतुर्दशे पृष्ठे 'अयं वाङ्गो हलायुधवंश्यः ख्रिस्ताब्दीयत्रयोदशशतकोत्तरार्धान चिरंतनः' इति श्रीमदानन्दरामो व्य- वस्थापयति । महाराष्ट्रभाषानिबद्धकविचरित्राभिधाने ग्रन्थे तु 'अयं च ओरसाक्षत्रियः कलिङ्ग- देशस्य राजा शालिवाहनशकाब्दीयचतुर्दशशतके बभूव । कटकाभिधाना चास्य राजधा- न्यासीत् । अनेन त्रिकाण्डशेषः, हारावली, एकाक्षरकोषः, इति प्रबन्धत्रयी स्वदेशीयपा- ठालयोपयुक्ता व्यरचि' इत्यादि व्यवस्थापितमास्ते । 'नोटिसिस् आँव् संस्कृत म्यान्युस्क्रिप्टस्' संज्ञके सूचीपत्रे 'दशमे एकादशे वा त्रि- स्ताब्दशतके पुरुषोत्तम आसीत्' इति श्रीराजेन्द्रलालमित्रो निश्चिनोति । हारावलीसमाप्तौ 'श्रीधृतिसिंहजनमेजययोः समं निरूप्य श्रीधृतिसिंहवाचामाधारण हारावली निर्मिता' इति पुरुषोत्तमो वक्ति । तथा च पूर्वोक्तत्रिकाण्डशेषादि ग्रन्थावसाने 'पुरुषात्तमदेवः' इति देवशब्दान्तं नामोपलभ्यते । तेनायं कदाचित्क्षत्रियः स्यात् ।। विष्णुभक्तिकल्पलतायां तु कुत्रापि देवशब्दान्तं पुरुषोत्तमनाम न दृश्यत इत्यपि सं. देहावसरः। यद्यप्यत्र काव्ये 'हरिणचरणमात्रं-' इत्यादयः कतिपये श्लोकाः सहृदयहृदयान्तरे कामप्यरुचिकणिकामङ्कुरवन्ति तथापि संसारारामविहरन्मनोमृगवागुरायमाणत्वान्न कामं दोषोद्धोषकाः ॥
No text on this page.
महीधरः। एतट्टीकानिर्माता महतनूभवो महीधरो पाणवेदनृप(१६४५)प्रमे विक्रमवर्षे वाराण- स्यामासीदित्यादि सर्व निम्नलिखितश्लोकेभ्यः स्पष्टं ज्ञायते । तथाहि- अहिच्छत्रे द्विजच्छन्नं वत्सगोत्रसमुद्भवः । आसीद्रत्नाकरो नाम विद्वाजातो धरातले । १२१ ॥ तत्तन्जो रामभक्तः स तु भट्टाभिधोऽभवत् । महीधरस्तदुत्पन्नः संसारासारतां विदन् ॥ १२२ ॥ निजं देशं परित्यज्य गतो वाराणसी पुरीम् । सेवमानो नरहरि तत्र ग्रन्थमिमं व्यधात् ॥ १२३ ॥ विक्रमाद्तेि वर्षे बाणवेदनृमिते । ज्येष्ठाष्टम्यां शिवस्याने पूर्णो मन्त्रमहोदधिः ॥ १३३ ॥ महीधरस्य कल्याणनामा पुत्र आसीदित्यपि 'कल्याणाभिधपुत्रेण-' इति मन्त्रमहो. दधिसमाप्तिश्लोकाज्जायते । महीधरस्य सर्वस्मिन्नेव ग्रन्थे लक्ष्मीनृसिंहस्मरणरूपं मङ्गला- चरणपद्यं प्रायो वर्तते, तेन मन्त्रमहोदधिप्रणेटमहीधराद् विष्णुभक्तिकल्पलतानिर्माता क- श्चिदन्य इति शङ्काङ्कुरौऽपि नोदेति । अद्यावधि ज्ञाता महीधरविरचितग्रन्यास्त्वेते- विष्णुभक्तिकल्पलताविवरणम् । (२) वेददीपनामकं शुक्लयजुर्वेदभाष्यम् । (३) मन्त्रमहोदधिः। (४) नौका (मन्त्रमहोदधिव्याख्या)। (५) मन्त्रनिघण्टुः। अथास्याः सटीकाया विष्णुभक्तिकल्पलतायाः पुस्तकत्रयं मिन्नमातृकं नातिशुद्धं ना- तिप्राचीनं लेखनकालविकलमासादितम् । तत्र मूले कुत्रचिदेव पाठभेदो दृश्यत इति विशेषतः पाठोदाय न यतितम् । टीकायां तु प्रायः प्रतिश्लोकव्याख्यं पाठभिदा समुपल- भ्यते, कुत्रचिद् विवृतिव्यत्यासोऽपि । किं बहुना विलक्षणेयं टीका । हा हन्त तत्तन्निबन्धमणिनिकरनिकषायमाणशेमुषीके महामहोपाध्यायपण्डितश्रीदुर्गा- प्रसादे देवसभासभास्तारहीरतां गते द्वित्रमामपर्यन्तममुध्य ग्रन्थस्य वैयाकरणपण्डितश्री- शिवदत्तशर्मणा संपादनमकारीति तस्य महाशयस्याथ शोधनपत्रकर्तुः कविमलश्रीहरिवल- भशर्मणश्चोपकारमुरीकुर्मः॥
No text on this page.
काव्यमाला। श्रीपुरुषोत्तमकविप्रणीता. विष्णुभक्तिकल्पलता। श्रीमहीधरविरचितया टीकया समेता। प्रथमः स्तबकः। नृहरि गिरिजां गिरं गणेशं गुरुपादाब्जयुगं शिवं प्रणम्य । हरिभक्तिलताभिधेऽत्र काव्ये विवृतिं वच्मि यथामतीशतुष्टथै ॥ तत्र स्वाभीष्टदेवतावर्णनरूपं विष्णुभक्तिलताख्यं काव्यं चिकीर्षुः प्रारिप्सितग्रन्थनि- विघ्नपरिसमाप्त्यै शिष्टाचारपरिपालनाय च पुरुषोत्तमः कविराड्विग्नेशस्मरणलक्षणमाशीरूपं काव्यमुखं वदति । 'आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' इत्युक्तेः । अतिसुदृढमगातां हर्षमङ्कभावा- दधिकतममुमेशौ यं तथात्म्यैक्ययोगात् । तदधिकमिव यातौ यं सुतं वीक्षमाणौ सफलयतु स देवो वः ऋतुं वक्रतुण्डः ॥ १ ॥ उमेशौ भवानीशंकराव.कभावा(हैक्यादतिसुदृढं निबिडं यं हर्ष संतोषमगातां प्रापतुः । तथा आत्म्यैक्ययोगादात्मनोरक्यादधिकतममत्यधिकं हर्षमगाताम् । तथा तस्माद्धर्षाचं सुतं वीक्षमाणौ विलोकयन्तौ सन्तौ तदधिकमिव आत्म्यैक्ययोगहर्षादधिकं हर्षे याती प्राप्तौ स वक्रतुण्डो गणेशो देवो वो युष्माकं ऋतुं संकल्पं सफलयतु सफलं करोतु । मनोरथ- सिद्धिं करोत्वित्यर्थः । मालिनीवृत्तम् ।। एवं गणेशं स्मृत्वा भारती स्मरति- स्फटिकमणिमयाक्षत्रक्सुधापूर्णचञ्च- कनककलशवीणापुस्तकान्यादधाना । सकलविबुधवन्द्या वाङ्मयब्रह्ममूर्ति- मम कमलदलाक्षी देवता संनिधत्ताम् ॥ २ ॥ - २ काव्यमाला। एवंविधा दवता भारता मम संनिधत्ता संनिधानं सामीप्यं करोतु । कीदृशी । स्फटि- कमणिमयी या अक्षत्रक जपमाला च सुधया अमृतेन पूर्णश्चञ्चच्छोभमानः कनककलशो हेमकुम्भश्च वीणा वल्लकी च पुस्तकं च एतान्यादधाना धारयन्ती । मालाकुम्भौ दक्षिण- हस्तयोवीणापुस्तके वामहस्तयोः । तथा सकलैविबुधैर्देवैर्वन्द्या स्तुत्या । वाङ्मयं वाणीरूपं ब्रह्म वेदस्तन्मूर्तिः । वेदरूपेत्यर्थः । कमलदलाक्षी पुण्डरीकपत्रनेत्रा । इत्यनेन प्रसन्नत्वम् । 'प्रसन्ना देवता ध्येया सर्वाभीष्टप्रदायिनी' इत्युक्तेः । एवं सरस्वती ध्यात्वा सन्तः स्मरति- हृदयजलजजाग्रज्ज्योतिरुद्दयोतितान्तः- 'करणकिरणरीणाशेषदोषान्धकाराः । भवदवविवशानां तन्वते येऽभिषेकं हरिचरितसुधाभिस्तेऽभिनन्दन्तु सन्तः ॥ ३ ॥ ते सन्तः सत्पुरुषा अभिनन्दन्तु आनन्दं प्राप्नुवन्तु। ते के। ये हरिचरितसुधाभिर्गोवि- न्दचरित्रामृतैर्भवदवविवशानां संसारदावानलपरितप्तानामभिषेकं तन्वते । हरिचरित्रामृतैः संसारतापं शमयन्तीत्यर्थः । कीदृशास्ते । हृदयजलजे हृत्कमले जाग्रत्प्रकाशमानं यज्ज्यो- तिर्ब्रह्मतेजस्तेन द्योतितं प्रकाशित निर्मलितं यदन्तःकरणं तत्किरणे रीणाः क्षीणा अशे- षदोषाः कामादय एवान्धकारो येषां ते तादृशाः ॥ एवं मङ्गलं विधाय कर्तव्यं प्रतिजानीते- अधिजगति जनानामेक एवास्त्युपायो विषमतमभवाब्धिं तूर्णमेतं तरीतुम् । श्रवणमननपूर्व विष्णुपादारविन्द- स्मरणमिति तदेतत्प्रोच्यते भक्तिलोभात् ॥ ४ ॥ जगत्यामधि इत्यधिजगति पृथिव्याम् । 'जगती विष्टपे मह्यां वास्तुछन्दोविशेषयोः' इति विश्वः । विभक्त्यर्थेऽव्ययीभावः । विषमतमभवाब्धिमतिदुःसहं संसारसमुद्रं तूर्ण शीघ्र तरीतुं नराणामेक एवोपायोऽस्ति । को वा तमाह-श्रवणमननपूर्व विष्णुचरणाम्बुजस्म- रणमिति । सर्ववेदान्तवाक्यानामद्वैते वस्तुनि तात्पर्यावधारणं श्रवणम् । युक्तिभिस्तस्यैवा- नुचिन्तनं मननम् । ते द्वे विधाय हरिस्मरणमिति । तदेतद्भक्तिलोभात्प्रोच्यते कथ्यते ॥ विमलयतु मनो मे दूषितं दोषसंधै- रहरहरिह रम्या रामचन्द्रस्य भक्तिः । सगरतनयभूतिभ्रेषितं भूमिभागं सुरसरिदिव दोषप्लोषविख्यातशक्तिः ॥ ५ ॥ - १ स्तबकः विष्णुभक्तिकल्पलता । ३ अहरहः प्रतिदिनं रम्या मनोहरा रामचन्द्रस्य भक्तिर्दोषसंधैः कामादिसमूहेषितं मम मनो विमलयतु निर्मलं करोतु । तत्र दृष्टान्तमाह-सगरस्य राज्ञः पुत्राणां कपिलकोपा- ग्निदग्धानां भूत्या भस्मना भेषितं दूषितं अभिभागं सुरसरिद्ङ्गेव । दोषाणां पापानां प्लोषे दाहे विख्याता शक्तिर्यस्याः सेत्युभयोविशेषणम् ।। उपनिषदपि लेभे नैव साक्षाद्यदन्तं न च वचनमनोभियोंगिनो जन्मिवांसः । शिथिलितभवबन्धा जन्तवो यस्य नाम्ना हृदि तमभिनिबद्धं राधयाराधयामः ॥ ६ ॥ .. उपनिषद्वेदान्तोऽपि साक्षाद्यदन्तं यस्य विष्णोनिर्णय न लेभे न पर्याप्ता । योगिनः स- नकादयोऽपि वाग्भिर्मनोभिश्च यदन्तं न जग्मिवांसो न गताः । गमेः कसुः । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति श्रुतेः । यस्य नान्ना रामकृष्णेत्याधुच्चारितेन प्राणिनः शि- थिलितभवबन्धाः शिथिलीकृतसंसारजनककर्माणो भवन्ति । राधया गोप्या यद्वा राध्यते आराध्यते अनयेति राधा भक्तिराराधना तया हृदि अभिनिबद्धं मनस्यायातं तं हारे वयमाराधयामः ॥ श्रवणविवरमाप्ता सज्जनानां प्रसङ्गा- दनयदनयवृत्तीनप्यनेकान्दिवं या । हृदयविहितवासा मुक्तये कस्य नासा- वधिभुवनसमर्था जानकीनानिकीर्तिः ॥ ७ ॥ असौ जानकीजानिकीर्तिः । जानकी जाया यस्य सः । जायाया निङ् । रामकीर्तिः हृदयविहितवासा हृदये विहितः कृतो वासो यस्याः सा हृदये स्थापिता सती कस्य मुक्तये न, अपि तु सर्वस्यापि मुक्तये भवेत् । अधिभुवनं त्रिलोकेषु समर्था । मुक्ति दातुमिति शेषः । या रामकीर्तिः सजनानां साधूनां प्रसङ्गात् श्रवणविवरं कर्णमार्गमाप्ता श्रुता सती अनयवृत्तीनन्यायाचाराननेकानप्यजामिलादीन् दिवं द्योतमानं वैकुण्ठलोकमनयत्प्रापयत् ॥ अधिहृदयमयं चेद्भाति भर्ता रमाया विषमभवसमुद्रे साधुसेतुः सतां यः ।। उपनिषदमुदयां यष्टिमादाय हस्ते कलयतु क इवात्रागाधतां तद्भवाब्धेः ॥ ८ ॥ चेद्यदि रमायाः श्रियो भर्ता हरिधिहृदयं हृदये भाति प्रकाशते । सत्सङ्गादिति शेषः । यो विषमे भवसमुद्रे सतां भक्तानां साधुः समीचीनः सेतुः । तत्तर्हि उपनिषल्लक्षणामुदनां १. 'अनी ख.
oC काव्यमाला। D याट हस्तै गृहीत्वा भवाब्धेरेगाधतां गम्भीरतां क इव कलयतु जानातु । न कोऽपि । उपनिषदर्थे विचारिते ब्रह्मणि साक्षात्कृते को वा संसाराब्धिरित्यर्थः । यद्वा संसारसमुद्र श्रीहरिर्यदा सेतुर्जातस्तदोपनिषद्यष्टेः किं प्रयोजनं न किंचिदिति ॥ ननु श्रुतयो बहुधर्मप्रमाणकाः सन्ति कथं हरिरेव साधुसेव्यत्वेनाश्रयणीय इत्यत आह- श्रुतिभिरतिमिदोक्तौ कौतुकं कुर्वतीभि- हृदय थदयमेवाश्रीयते श्रीनृसिंहः । तदिह भवभयस्याभावभव्यं भज त्वं चरणकमलमस्यापास्य नोपास्यमन्यत् ॥ ९ ॥ हे हृदय, यद्यस्माच्छ्रुतिभिर्वेदैरयमेव श्रीनृसिंह आश्रीयते प्रतिपाद्यते । ननु ताभिः संसारभेदः प्रतिपाद्यते कुतो नृसिंहस्तत्राह-अतिभिदोक्तौ भेदव्याख्याने कौतुकं कुर्व- तीभिः । भेदव्याख्यानं कौतुकेन वास्तवं तु हरिप्रतिपादनं श्रुतेः । तत्तस्मादिह संसारेऽस्य हरेश्चरणकमलं त्वं भज सेवस्व । कीदृशम् । भवभयस्य संसारभीतेरभावे नाशे भव्यं कुश- लम् । यत एतदपास्य विहायान्यन्नोपास्यं न सेव्यम् ॥ हृदि न यदि नराणां विष्णुपादारविन्द- स्मरणवशसमुत्थः स्नेहयोगातिरेकः । तदितरपरिचर्या जायतेऽर्थाय कस्सै कतरगुणकृदद्रौ नीरसे नीरसेकः ॥ १० ॥ यदि नराणां हृदि विष्णुपादारविन्दस्मरणवशेनोत्यो यः स्नेहयोगस्तस्यातिरेक आधिक्यं न तत्तहि इतरपरिचर्या अन्यसेवा कस्मै अर्थाय जायते । भगवद्भक्तिं विनान्यसेवा अकि- चित्करेत्यर्थः । तत्र दृष्टान्तः--नीरसे शुष्केद्रौ नीरसेकः कतरगुणं करोति।न कमपीत्यर्थः। अहो त्वया प्रतिजन्म हर्यनाश्रयणेन दुःखं प्राप्तं तथापि कथं क्षणमात्रमपि स्थिरचि- तेन मुरारि न स्मरसीत्याह- अनुजनुरनुभूयाप्यत्र दुःखं दुरात्म- क्षणमपि हृदि रुद्धः शुद्धचित्तेन साक्षात् । जलजदलेजयश्रीमण्डितोदारनेत्रो न बत नवतमालश्यामवर्णो मुरारिः ॥ ११ ॥ हे दुरात्मन् , अत्र संसारे अनुजनुः प्रतिजन्म दुःखमाधिव्याधिलक्षणमनुभूयापि क्ष- णमपि शुद्धचित्तेन निष्कपटमनसा कृत्वा मुरारिहृदि बत न रुद्धः । कीदृशः । जलज- दलजयिन्या कमलपत्रजयिन्या श्रिया मण्डिते उदारे नेत्रे यस्य । तथा नूतनतमाल इव श्यामो वर्णो यस्य स तथा । बतेति खेदे।।
१ स्तबकः] विष्णुभक्तिकल्पलता। ननु संसारमयत्रासेन विह्वलतया कथं हाश्रयणं भवति तत्राई- भवपवनवयस्यानल्पसंकल्पकीला- विलसितकृततापप्रौढिमानं निरीक्ष्य । त्यज हृदय विषादं मा गमः कातरत्वं तव नवजलदश्री रक्षिता रामचन्द्रः ॥ १२ ॥ भवः संसार एव पवनवयस्यो वायुसखोऽमिस्तस्यानल्पा बहवः संकल्पाः कामा एव कीला ज्वालाः । 'वहेर्द्वयोर्खालकीलौ' इत्यमरः । तासां विलसितेन प्रसरणेन कृतो य- स्तापस्तस्य प्रौढिमानं भूयस्त्वं निरीक्ष्योत्पन्नं विषादं हे हृदय, त्यज । कातरत्वमधैर्य च मा गमः । यतो नवजलदश्रीनूतनमेघश्यामो रामचन्द्रस्तव रक्षितास्ति । तमाश्रयेत्यर्थः ॥ नन्वन्तकाले नरकत्रासः कथं गच्छतीति चेत्तत्राह- मनसि यदि मुकुन्दः कं दरं मन्द रम्ये- तरनरकततेस्तच्चिन्तयस्यन्तकाले। हरिचरणसरोजे जाग्रती यायतीर्थ कलिकलुषमशेषं स्वधूंनी ते धुनीते ॥ १३ ॥ हे मन्द मूर्ख, यदि ते मनसि मुकुन्दो हरिरस्ति तत्ताह रम्येतरनरकततेरतिदुःखदा- यिनिरयौघादन्तकाले के दरं त्रासं चिन्तयसि । कमपि मा चिन्तयेत्यर्थः । कुतस्तत्राह- रिचरनाम्बुजे जाग्रती शोभमाना अग्रतीर्थे सकलतीर्थमुख्यभूता या स्वभुंनी गङ्गा ते तवाशेषं सकलं कलिकलुषं पापं धुनीते नाशयति । पापोऽपि पापानिवृत्तो मुकुन्दं स्म- रन्नरकं नैतीत्यर्थः ।। ननु प्रायश्चित्तं विना कथं पापक्षयस्तत्राह- चिरममरतरङ्गिण्यादिसत्तीर्थसेवा- व्रतनियमजपा वा ये च दत्तप्रभावाः । न च सकलसमृध्या साधिता बाधितारः स्मरणसुकृतलक्ष्मीमध्वरा मध्वरातेः ॥ १४ ॥ चिरकालं गङ्गादि सतां तीर्थानां सेवा व्रतानि प्रायश्चित्तानि नियमाः स्नानसंध्यादयः जपा मन्त्रादीनां सकलसमृद्ध्या बहुधनेन साधिता: संपादिता अध्वरा यज्ञा एते दत्त- प्रभावाः दत्तः प्रभावः फलं यैस्ते ईदृशा अपि मध्वरातेमधुसूदनस्य स्मरणसुकृतलक्ष्मी स्मरणोत्थपुण्यशोमां न बाधितारो न जेतारः । हरिस्मरणतुल्यं पुण्यं नास्तीत्यर्थः ॥ यस्मादेवं तस्मात्सर्वस्मरणं विहाय हरिमेव सेवस्वेत्याह- श्रय हृदय रमायाः कान्तमन्यत्र मा या न धनतनयजायाः श्रेयसां संप्रदायाः । - काव्यमाला। व्यवहृतिमदुपायाः सर्वशस्तेऽन्तरायाः शमनशयगतं को रक्षिता त्वामपायात् ॥ १५ ॥ हे हृदय, रमाया लक्ष्म्याः कान्तं हरि श्रय सेवस्व । अन्यत्र मा याः मा गच्छेः । यातेर्लुङ् । ननु धनादयः कथं त्याज्यास्तत्राह-धनपुत्रकलत्राणि श्रेयसां कल्याणानां संप्रदाया मार्गा न भवन्ति । दुःखालयभूतानीत्यर्थः । ननु तर्हि व्यवहारः कथं त्याज्यस्त- त्राह-व्यवहृतिमति व्यवहारयुक्ते संसार तस्य वा ये उपायास्ते सर्वशः सर्वप्रकारैरन्त- राया विना एव । ननु एते सर्वे केन दोषेण त्याज्या इत्याह-~-शमनशयगतमिति । 'श- मनो यमराड्यमः' इत्यमरः । शयो हस्तः । बमहस्तगतं त्वामपायान्नरकदुःखात्को र- क्षिता । न कोऽपि हरि विनेत्यर्थः ॥ शिथिलय भवजालं चिन्तयानन्तयालं श्रय हृदय दयालु केवलं नन्दबालम् । न विधिविदितपारं संहृतक्षोणिभारं निखिलनिगमसारं ब्रह्म यनिर्विकारम् ॥ १६ ॥ हे हृदय, भवजालं संसारबन्धं शिथिलय श्लथं कुरु । अनन्तया बह्वया चिन्तया अलम् । चिन्ता न कर्तव्येत्यर्थः । केवलं नन्दवालं श्रय आश्रय । कीदृशम् । दयालु दया- वन्तम् । न विधिना ब्रह्मणा विदितः पारो यस्य तम् । संहृतो भूभारो येन तम् । नि- खिलनिगमसारं सर्ववेदान्तोपनिषत्प्रतिपाद्यम् । यनिर्विकारं मायातीतं ब्रह्मैव तं श्रय वसतिरसति विष्णुध्यानयोगे नराणा- मपि सुकृतपराणामस्ति गर्भे जनन्याः । हृदि भज तदजस्रं निर्मले कर्मलेप- व्यपनयननिमित्तं तं पतंगेन्द्रकेतुम् ॥ १७ ॥ सुकृतपराणां पुण्यवतामपि नराणां विष्णुध्यानयोगे हरिस्मरणे असत्यविद्यमाने सति जनन्या गर्भे वसतिनिवासोऽस्ति । तत्तस्मात् हे नर, निर्मले हृदि तं पतंगेन्द्रकेतुं गरु- डध्वजमजस्रं निरन्तरं त्वं भज । कर्मलेपस्य कर्मसंबन्धस्य व्यपनयने निराकरणे नि- मित्तं हेतुभूतम् ॥ त्रिचतुरदिवसान्तर्धानवानेव मृत्यु- 'नरकभयविमुक्तो विद्यते कोऽत्र जन्तुः । हृदि तदिह न किं स मर्यते कंसशत्रुः स्मरणमपि यदीयं योगयागातिगामि ॥ १८ ॥ - १. 'निरय' क.
१ स्तबकः] विष्णुभक्तिकल्पलता। Mang त्रयश्चत्वारो वा त्रिचतुराः । अचतुरेत्यादिना निपातः । दिवसा अन्तर्धानं यस्यास्तीति त्रिचतुरदिवसान्तर्धानवान् अल्पदिवसानन्तरमेवागामी मृत्युः । तर्हि का क्षतिस्तत्राह- अत्र संसारे नरकभयहीनः को जन्तुः । न कोऽपि विद्यते । तत्तस्मादिह संसारे स कंस- शत्रुर्हरिहदि किं न स्मर्यते । किं तत्स्मरणेन तत्राह-यदीयं स्मरणं योगोऽष्टाङ्गो या- गोऽश्वमेधादि तावतिगच्छति। योगयागाभ्यामुत्कृष्टफलमित्यर्थः ॥ रसवदपि समस्तं पश्य संसारवृक्षा- फलमविरलदोषं यच्च भूतं भविष्यत् । व्रजति परिमलायोत्कण्ठिता कं प्रमोद मिलितमलितरुण्या पद्ममासाद्य नासा ॥ १९ ॥ भवफणिमणिनारीनेत्रनिध्यानमूर्छ- जनमनसि न सिद्धिर्यस्य सेवां विहाय । अयि स हृदि न कस्मात्पन्नगारातिकेतु- भवजलनिधिसेतुः स्मर्यते मुक्तिहेतुः ॥ २० ॥ (युग्मम्) संसारवृक्षाद्यद्भूतं जातं भविष्यच्च फलं कान्ताकनकादिकं तत्समस्तं रसवत्स्वादुतर- मपि अविरलदोषं बहुदोषयुक्तं पश्य विचारय । तत्र दृष्टान्तः-नासा नासिका परिम- लाय गन्धग्रहणायोत्कण्ठिता सती अलितरुण्या भ्रमर्या मिलितं पद्मं प्राप्य के प्रमोदं हर्षे व्रजात प्राप्नोति । न कमपि । पुनर्धमर्या दष्टा दुःखमेवाप्नोति । तथा संसारसुखासक्तिरिति भावः ॥ भवः संसार एव फणी सर्पस्तस्य मणिस्थानीया नारी तस्या नेत्रनिध्याने चक्षुः रवलोकनं तेन मूर्छन्मुह्यजनमनो नरान्तःकरणं तत्र यस्य हरेः सेवां विहाय सिद्धिर्नास्ति । अयीति कोमलामन्त्रणे । हे जीव, हृदि गरुडध्वजो भवाब्धितारको मुक्तिकारणं स हरिः कस्मान्न स्मर्यते ॥ हरिणचरणमात्रं कामिनीनां प्रतीकं कमपि कलयतस्ते कोटयोऽगुयुगानाम् । परिणतिरसवत्ता तत्र नैवानुभूता प्रथमपदमितस्तद्धेहि मुक्त्वा णमाद्यम् ॥ २१ ॥ मृगपदप्रमाणं नारीणां प्रतीकं 'अङ्ग प्रतीकोऽवयवोऽपघनः' इत्यमरोक्तेः । अझं यो- न्याख्यं कमप्यनिर्वाच्यं कलयतो ध्यायतस्ते तव युगानां कोटयोऽगुर्गताः । युगकोटि- मितकालानुभवेनापि तत्राओं परिणतिरसवत्ता परिपाकस्वादुता नानुभूता । नालंबुद्धिर्जा- तेत्यर्थः । तत्तस्मादितोऽस्मिश्लोके आयं णं णकारं हरिणचरणेति णकारद्वयमध्ये प्रथम णं मुक्त्वा प्रथमं पदं श्लोकस्यायं पदं हरिचरणमात्रं पदं धेहि चित्ते धारय । दधातेर्लोटि 'ध्वसोरेद्धावभ्यासलोपश्च' इत्यभ्यासलोप एकारश्च ॥
काव्यमाला । शमयति भवतन्द्रामस्य नामामृतं द्रा- गपि न रसनसतं कस्य नोद्दामशक्ति । किमु न कमनमेनं मानसे तद्रमायाः श्रयसि पयसि सुप्तं लीलया दुग्धसिन्धोः ॥ २२ ॥ अस्य हरेनामामृतं द्रागपि मनागर्पि । ईषदपीति यावत् । रसनसक्तं जिह्वालग्नं स- कस्य भवतन्द्रा संसारनिद्रां न शमयति । यत उद्दामशक्ति दृढसामर्थ्यम् । तस्माहुग्ध- सिन्धोः पयसि लीलया सुप्तमेनं रमायाः कमनं कान्तं मानसे किमु न श्रयसि किर्मिति न सेवसे । अपि तु सेवस्वेत्यर्थः ॥ दधति मुदमुदारां नाकिवृन्दे नभःस्थे निखिलनृपनृशंसे कम्पमाने च कंसे। सह सबलभुजैस्तैर्दानवै रङ्गवाटे रमितममितशक्तर्यस्य वक्तुं न शक्यम् ॥ २३ ॥ तमिह किमु रमाया वल्लभं मल्लभङ्गो- त्सवभवदवलेपोत्पत्तिजेतारमन्तः । स्मरसि न विनयानुस्यूतसूक्तामृतौधैः स्तुतमतुलयशोभिः शोभिवृन्दैः सुराणाम् ॥ २४ ॥ (युग्मम्) अमितशक्तेर्बहुसामर्थ्यस्य यस्य हरेः सकलभुजैर्षलवद्वाहुभिस्तैः प्रसिद्धैश्चाणूरादिभि- दर्दानवैः सह रङ्गवाटे मल्लरङ्गे रमितं क्रीडितं वक्तुं न शक्यम् । क्व सति, नमःस्थे आका- शगते नाकिवृन्दे देवसमूहे उदारां महतीं मुदं हर्ष दधति सति । तथा निखिलनृपनृशंसे सकलराजघातुके कंसे कम्पमाने सति ॥ इह संसारे तं रमाया वल्लभमन्तश्चित्ते किं न स्मरसि । कीदृशम् । मल्लानां भङ्गेनोत्सवस्तस्माद्भवन्ती यावलेपोत्पत्तिर्गर्वोत्पत्तिस्तस्या जेतारम् । मल्लभङ्गे नापि गर्वहीनम् । तथा अतुलयशोभिर्निरुपमयशोन्वितैः सुराणां शोभि- वृन्दैः शोभमानसमूहैः कर्तृभिविनयेनानुस्यूताः संबद्धा ये सूक्तामृतौघाः सुवचनसुधा- समूहास्तैः स्तुतम् ॥ सुकृतमकृत किं किं चित्रमासर्गकाला- दहह सपरिवारो नन्दगोपश्च नैनः । इति विहितहितत्रि प्रत्तमुक्त्यच्युत त्वां फलमलभत यस्माद्वन्धुरं बन्धुरत्नम् ॥ २५ ॥ अह हेत्याश्चर्ये । सपरिवारो नन्दगोप आसर्गकालात्सृष्टिकालमारभ्य चित्रमाश्चर्यकारि :
१ स्तबकः विष्णुभक्तिकल्पलता। ९ किं किं सुकृतं पुण्यमकृत । एनः पापं च नाकृत । हे अच्युत, 'विहिते हितप्रियौ येन तत् हितकारि संपदाट । प्रत्ता दत्ता अर्थाद्भक्तानां मुक्तियेन तन्मुक्तिदम् । बन्धुरं मनो- हरं त्वां बन्धुरलं त्वलक्षणं बान्धवश्रेष्ठं फलं यहोऽलभत प्राप । पुण्यं विना हरिपित्वं नन्दस्य कथं स्यादिति नानाजन्मगतं पुण्यं नन्दस्यानुमीयत इत्यर्थः ।। विधिरतनुत मान्मुक्तिमार्गोपरोधो- झुरतररजसादौ तेन मे राजसीयम् । स्फुरंदमरसरित्त्वत्पादपद्मावगाहा- द्भवतु हृदयवृत्तिर्नीरजा नीरजाक्ष ॥ २६ ॥ विधिर्ब्रह्मा मर्त्यान्मनुष्यान्मुक्तिमार्गस्योपरोधे प्रतिबन्धे उद्धुरतरं समर्थंतरं यद्रजो रजो- गुणस्तेन सृष्टयादावतनुतासृजत् । तेन रजोगुणसृष्टत्वेन राजसी रजोगुणप्रधाना मम हृदयवृ- त्तिर्हे नीरजाक्ष कमलनेत्र, स्फुरन्ती अमरसरिद्गङ्गा यस्मिन्नेवंविधस्य त्वत्पादपद्मस्यावगाहा- नीरजा निर्मला भवतु । रजस्वलं जलावगाहान्निर्मलं भवति तथा त्वचरणाम्ब्वावगाहा- निर्मला भवतु ॥ यदहमदहमुत्स्यानिष्टया हृजनानां चकर च करपातं यत्परखे प्रमत्तः । श्रुतिपथपथिको यन्नामवं तन्मुरारे मम समभिसहस्वादीनवं दीनबन्धो ॥ २७ ॥ अनिष्टयोक्त्या अप्रियवचनेन जनानां हृच्चित्तमहं यदहं दग्धवानस्मि । यच्च अमत्तो- ऽनवहितोऽहं परस्ते परधने करपातं हस्तसंचारं चकर कृतवानस्मि । ‘णलुत्तमो वा' इति वृद्ध्यभावे गुणः । यच्च श्रुतिपथपथिको वेदमार्गचारी नाभवं न भूतः हे मुरारे दीनबन्धो, मम तमादीनवं दोषं समभिसहस्व क्षमस्व । दोष आदीनवो मतः ॥ भवजलनिधिमध्ये हर्षसंघर्षतर्ष- प्रमुषि विषमवीचिव्याकुलं वीक्ष्य विष्णो । चरणकमलनावं भावगम्यां मुनीन्द्र- रपि सदय तया मे यच्छ यच्छ प्रसीद ॥ २८ ॥ संसारसमुद्रमध्ये हर्षः संतोषः संघर्षः स्पर्धा तर्षस्तृष्णा तत्प्रमुखास्तदादयो या विषमा वीचय उर्मयस्तैर्व्याकुलं मां वीक्ष्य हे विष्णो, मुनीन्द्रैरपि भावगम्यां चरणकमललक्षणां नावं सदयतया मे यच्छ यच्छ देहि । प्रसीद । समुद्रे मन्जता नौरेव तारिका ॥ स्फुरितसरितमातन्वानमानन्दमुच्चैः सपदि सुपदपमं प्राप्य कृष्ण त्वदीयम् ।
१० काव्यमाला। दुरितरितमेतन्मामकं देव चेतो विमलितमलमस्तु प्रस्तुतत्वत्सपर्यम् ॥ २९ ॥ स्फुरिता सरिद्ङ्गा यस्मिस्तम् । उच्चैतिशयेनानन्दमातन्वानं विस्तारयन्तम् । हे कृष्ण है देव, त्वदीयं शोभनं पादपद्मं प्राप्य सपद्येतन्मामकं दुरितभरितं पापाक्रान्तं चेतः प्रस्तुता उपक्रान्ता प्रारब्धा इति यावत् । त्वत्सपर्या तव पूजा येन तादृशं सद्विमलितमस्तु निर्मलं भवतु॥ दमय मम यतीन्द्रध्येय चेतः प्रभूता- पदमपि यदवेत्य प्रेत्य दुर्गत्यवस्थाम् । सरभसमसदुच्चैराचरन्नति भीति तदव यदवलम्बः संसृतौ न त्वदन्यः ॥ ३० ॥ हे यतीन्द्रध्येय सनकाद्यौश्चिन्तनीय, मम चेतो दमय । यद्यस्मादसद दुष्टमाचरनपि नरः प्रेत्य मृत्वा प्रभूतापदं बहुविपद्युक्तामपि दुर्गत्यवस्था नरकयातनामप्यवेत्य ज्ञात्वापि भीति न प्राप्तोति । दुष्टाचारो नरकभयं श्रुत्वा न विभेतीत्यर्थः । तत्तस्मादव, रक्ष । यतः संसृतौ : संसारे त्वदन्योऽवलम्ब आश्रयो नास्ति ॥ त्वदपि भुवनमध्ये को वदान्यो वदान्यो नहि परपरिलभ्यं देव विश्वभरत्वम् । इदमहमभियाचे तद्विहाय त्वदनी वचन चरतु चेतो मामकं मा मुकुन्द ॥ ३१ ॥ हे मुकुन्द, भुवनमध्ये त्रिलोक्यां त्वत् अन्यो वदान्यः कः त्वं वद । वाक्यार्थस्य कर्म- त्वम् । 'प्रियवाग्दानशीलश्च वदान्यः परिकीर्तितः' । हे देव, विश्वंभरत्वं परपरिलभ्यमन्य- प्राप्यं नहि । तत्तस्मादहमिदमभियाचे मामकं चेतस्त्वदनी विहाय क्वचन मा चरतु मा यातु । अपि तु त्वच्चरणयोरेव यात्वित्यर्थः ॥ शमय मम यमस्य त्रासमत्रासमाना- पदि सपदि हृदि त्वं कृष्ण तिष्ठन्निमेषम् । जगति न गतिरन्या त्वां विना क्वापि धन्या प्रभवति भवतिग्माभीलनिर्मीलनाय ॥ ३२ ॥ हे कृष्ण, असमानापदि अनुपमपीडेऽत्रास्मिन्मम हृदि सपदि निमेष तिष्ठन् यमस्य त्रासं शमय । यतो जगति भवतिग्माभीलनिर्मीलनाय संसारस तीव्रमयोन्मूलनाय त्वां विना अन्या धन्या श्रेष्ठा गतिरुपायो न प्रभवति न समर्थो भवति । प्रभवनशीलो न भव- तीत्यर्थः ।।
. १ स्तबकः] विष्णुभक्तिकल्पलता। ११ अव भवदवदौःस्थ्यादिन्दिरालोचनेन्दी- वरमधुरतरश्रीसङ्गरङ्गदृगंशम् । मयि सदय निधायानन्त यद्योगजाग्र- न्मुदतिशयवशात्मा न सराम्येव किंचित् ॥ ३३ ॥ हे सदय, हे अनन्त, इन्दिराया लक्ष्म्या लोचनेन्दीवरस्य नेत्रकमलस्य मधुरतरा रम्या या श्रीः शोभा तस्याः सङ्गेन रङ्गन् क्रीडन् यो दृगशः कटाक्षस्तं मयि निधाय भवदवदौः- स्थ्यात्संसारदावानलदुःखादव रक्ष । यद्यतोऽवनेन योगेन यद्वा दगंशेन जाग्रत्स्फुरन्यो मु- दतिशयो हर्षवेगस्तद्वशात्मा सन् किंचिन्न स्मराम्येव ।। सततमहितहेतुं हन्तु हन्तुमधोवः सकलसुकृतसारः पादपद्मोपचारः। भवति हृदयशुध्या मानवो यद्विधाना- दलितदुरितभारः प्राप्तसंसारपारः ॥ ३४ ॥ सकलसुकृतानां मध्ये सारभूतो मधोर्हन्तुर्मुरारेः पादपद्मोपचारश्चरणाजसेवनं सततं वो युष्माकमहितहेतुं दुःखकारणीभूतं पापं हन्तु नाशयतु । चित्तशुद्ध्या यद्विधानाद्यस्य पाद- पद्मोपचारस्य विधानान्मानवो दलितदुरितभारो नष्टपापपुञ्जः सन्प्राप्तसंसारपारो भवति । मधुरिपुपदलग्नं चित्तमार्यस्य हत कथमपि न समर्था दस्यवो दर्पकाद्याः । सुमतिबलिविमुक्तं शक्नुवन्ति प्रमाष्टुं किमु हरिकरमध्यादानवा दानवारि ॥ ३५ ॥ दर्पकाद्याः कामाद्या दस्यवो वैरिण आर्यस्य पुण्यवतो मधुरिपुपदलग्नं हरिपदसक्तं चित्तं हतु कथमपि न समर्थाः । 'कंदर्पो दर्पकोऽनङ्गः' इत्यमरः । तत्र दृष्टान्तमाह-शोभन- मतिर्यो बलिस्तेन विमुक्तं दानवारि दानोदकं हरिकरमध्यादानवाः किं प्रमा? निराकर्तु शक्नुवन्ति । स्मेति शेषः । वामनहस्तादानोदकं बलिदत्तं यथा दैत्या नापहर्तुं शक्ता इत्यर्थः।। दशशतदलपमं यस्य तच्छत्रमुच्चै- वरचमरमहेला पिङ्गलेला च पुण्या । अनपरपरिमुक्तं भाति भद्रासनं स- बृदयकमलमेकं सार्वभौमः स जीयात् ॥ ३६ ॥ तत्प्रसिद्ध द्वादशान्तःस्थं सहस्रदलपमं यस्योच्चै छत्रम् । पुण्या पवित्रा इला पिङ्गलाच नाडी वरचमरमहेला चामरधारिणी स्त्री। 'अबला महेला ललना' इति कोषः । अनन्य- १२ काव्यमाला। भुक्तं सन्च्छेष्ठं हृदयकमलमेकं यस्य सिंहासनं भाति स सार्वभौमश्चक्रवर्ती जीयात् सर्वोत्क- घेण वर्तताम् ॥ सुरभिखुरभिदाभृद्भूतलोद्भूतधूली- धरममरमहेलामोहबाहुल्यहेतुम् । अमृतकरमुखीनां वल्लभो वल्लवीनां दधदपतु वपुर्वः कायभाजामपूर्वः ॥ ३७ ॥ सुरभीणां धेनूनां खुरैनिंदां बिभर्ति एतादृशं यद्भूतलं तस्मादुद्धता याधूली तद्धारकम् । अमरमहेलानां स्वर्गस्त्रीणां मोहबाहुल्ये हेतुभूतं वपुर्दधत् । अमृतकरमुखीनां चन्द्रवदनानां वल्लवीनां गोपीनां वल्लभः । कायभाजां शरीरिणामपूर्वो मुख्यो हरिौं युष्मानव्याद्रक्षतु ॥ नयनकमलयुग्मच्छत्रमृद्यत्र नासा करनखरमरीचिप्रस्फुरचामरश्रीः । अधरमधुरतायाः सार्वभौमो मुरारे- जगति जयति वंशो विश्वविश्वकवन्धः॥ ३८॥ यत्र वंशे नासादण्डो नयनकमलयुग्ममेव च्छन्नं बिभर्ति तादृशः । हस्तनखानां मरी- प्चयः किरणा एव प्रस्फुरन्ती चामरश्रीर्यस्य स विश्वं सर्वे यद्विश्वं जगत्तस्यैकवन्योऽसाधा- रणस्तुत्योऽधरमधुरताया ओष्ठमाधुर्यस्य सार्वभौमो राजा माधुर्यग्राहको मुरारेशो जगति भूतले जयति सर्वोत्कर्षेण वर्तते ॥ चरणकमललीला बालगोपालमूर्ते- जयति रुचिभिरिभ्या निर्भराभ्यासलभ्या। शकटतनुमनूनं वज्रतः कर्कशत्वा- च्छतशकलमकार्षांद्या सुमृद्वी सुरारिम् ॥ ३९ ॥ इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां भत्त्युद्भावनो नाम प्रथमः स्तबकः। बालगोपालमूर्तेः पादपद्मलीला अत्यन्ताभ्यासप्राप्या कान्तिभिरिभ्या आझ्या जयति सर्वोत्कर्षेण वर्तते सुतरां मृद्वी कोमला । या कर्कशत्वात्काठिन्येन वज्रतो वज्रादनूनं व- जसदृशं शकटतनुं शकटशरीरं सुरारिं दैत्य शतशकलं शतखण्डमकार्षीत्कृतवती । करोते- लुङि रूपम् । 'शकटासुरभञ्जनः' इति पुराणात् ॥ इति श्रीमहीधरविरचिते विष्णुभक्तिकल्पलताविवरणे भत्त्युद्भवो नाम प्रथमः स्तबकः । द्वितीयः स्तबकः। अव्यादवाङ्मनसगोचररूपशीला लीलावती यतिहृदम्बुजराजहंसी २ स्तबकः]] विष्णुभक्तिकल्पलता। एषा ललाटफलकार्पितचन्द्रलेखा शेषाहिशायिभगिनी दुरितादशेषात् ॥ १ ॥ वाक्च मनश्च तयोरगोचरमविषयं रूपं खरूपं शीलयति धारयति तादृशी । ली- लायुक्ता । यतीनां हृत्कमले राजहंसी । ललाटतटेऽर्पिता चन्द्रलेखा यया सा । शेष- नागशायिनो हरेभगिनी दुर्गा अशेषात्समग्रादुरितात्पातकादव्याद्रक्षतु । 'नन्दगोपकुले जाता' इति मार्कण्डेयोक्तेः । वसन्ततिलकावृत्तम् ।। यन्निमेषमपि रे वृषं विना वर्तसे मिथुनभावतोषितः । कर्कशत्वमिदमात्मनि स्फुटं पश्य सिंहमिव मृत्युमुद्धतम् ॥ २ ॥ रे जन्तो, निमेषमपि मिथुनभावेन स्त्रीसंयोगेन तोषितः सन्यद॒षं विना धर्महीनो व- तैसे इदं धर्महीनत्वमात्मनि स्वस्मिन्कर्कशत्वं स्वस्यैव दुःखदायित्वं स्फुटम् । यत उद्धतं सिंहमिव मृत्यु पश्य । रथोद्धतावृत्तम् । 'रान्नराविह रथोद्धता लगौ' इत्युक्तेः ॥ कन्यकावसुतुलादिदानतो यद्यसह्यभववृश्चिकव्यथा । नैव शाम्यति ततो बलिष्ठया रामनामसुधयाव सुस्थितः ॥ ३ ॥ यदि यतः कन्याकनकतुलादिदानेनाप्यसह्या संसाररूपवृश्चिकपीडा नैव शाम्यति ततो बलवत्या रामनामरूपया सुधया सुस्थितः सुखी आस्व तिष्ठ । आस्तेोटि मध्य- मैकवचनम् ॥ रामनामधनुषा भवाभिधं भिन्द्धि रे मकरमन्यथात्मकम् । कुम्भमध्यगतमीनवदशामेति कामिह न हाग्रहाकुलः ॥ ४ ॥ रे जन्तो, अन्यथात्मकं मिथ्यास्वरूपं स्वप्नप्रायं भवाभिधं संसाररूपं मकरं प्राह रामनामरूपेण धनुषा मिन्द्धि विदारय । ह स्फुटं इहाग्रहेण संसाराग्रहेणासक्तया आकुलो व्यग्रः कुम्भमध्यगतमीनतुल्यां का दशामवस्थां नैति न प्राप्नोति । दुःखमेवानुभवतीत्यर्थः ॥ अस्तमेति दिवसात्यये रविश्चन्द्रमा अपि विशेषतः क्षयी। मङ्गलोपरि मनः कयाशया तत्करोति जगतीतले बुधः ॥ ५॥ रविदिवसान्तेऽस्तं याति । चन्द्रोऽपि विशेषतः क्षयवान् । चन्द्रसूर्ययोरपि विपदं दृष्ट्वा बुधो ज्ञानी जगतीतले मङ्गलोपरि कल्याणाप्तौ कया तृष्णया मनः करोति । न किं. चिदपि साध्यमित्यर्थः ॥ जीव पीवरमथेतरद्वपुः शुक्रशोणितसमुद्भवं सदा । प्राप्यमेव हि परं शनैश्चरभ्रातृदूतभयभेषजं भज ॥ ६ ॥ हे जीव जन्तो, पीवरं स्थूलं हस्त्यादिकमथेतरत्सूक्ष्मं मशकादिकं वपुः शुक्रशोणित- जातं सदा प्राप्यमेव । हि यतः । अतः परं केवलं शनैश्चरभातुर्यमस्य दूतेभ्यो यद्भयं तस्य भेषजं निवर्तकं हरि भज सेवस्व ॥
काव्यमाला।
राहुर्णेव यदि रोहिणीपतिर्गृह्यसे नहि लुलायकेतुना ।
तावदेव कुरु यत्नमच्युताराधने धनधियं धिगन्ध ते ॥ ७ ॥
राहुणा चन्द्र इव लुलायकेतुना महिषप्वजेन यमेन यावन्न गृह्यसे । 'ग्रस्यसे' इति वा
पाठः । तावदेवाच्युताराधने हरिभजने यलं कुरु । हे अन्ध, ते तव धनधियं धनबुद्धिं
धिक् । तां मा काषीरित्यर्थः ।।
अष्टमी भव तनुर्महेशितुः कैटभारियजनाय यत्नतः ।
यौवनेऽसि नवमीनकेतनः किं त्वमत्र दशमी करिष्यसि ॥ ८ ॥
हे जन्तो, यत्नतः कैटभारेहरेर्यजनाय महेशितु: शिवस्याष्टमी तनुर्दीक्षितो भव ।
'पञ्चभूतानि सोमार्को यज्वेत्यष्टाजमूर्तयः' इत्युक्तेः । 'भूतेन्दुसूर्ययज्वान: शंकरस्याष्ट-
मूर्तयः' इति च । यौवने नवो नूतनो मीनकेतनः कामो यस्येदृशोऽसि । अत्र संसारे
दशमी वृद्धः सन्कि करिष्यसि । 'वर्षीयान्दशमी ज्यायान्' इत्यमरः । दशमोऽवस्था-
विशेषो यस्येति क्षीरस्वामी । जरायां शरीरासामर्थ्यान्न किमपि कर्तुं शक्यतेऽतस्तत्यू-
र्वमेव हरिभजने यनं कुर्वित्यर्थः ।।
अय्यनेकविधवेदनाकुले मातृकुक्षिकुहरे कृतौकसः ।
आमनस्यमपि ते मनस्यहो न प्रकाशमुपयाति किं नु तत् ॥ ९॥
अधीति संबोधने । हे जन्तो, अनेकविधाभिर्वेदनाभिराकुले व्याप्ते मातृकुक्षिकुहरे ज.
ननीजठरविवरे कृतौकसो विहितनिवासस्यापि ते तव मनस्यामनस्यं प्रसवजनितं दुःखं
प्रकाशं नोपयाति न स्फुरति । अहो आश्चर्य किं नु तत् । 'आमनस्यं प्रसूतिजन
इत्यमरः।
बुद्धिरस्ति यदि विष्णुयोगिनी तद्भयं किमिह कालपाशतः ।
मेरुमौलिरमरापगाप्लवो दह्यते किमु दवेन वह्निना ॥ १० ॥
यदि बुद्धिर्विष्णुयोगिनी हरियुक्तास्ति तत्तर्हि इह संसारे कालपाशतो भयं यमयातना-
भीतिः किम् । न किमपीत्यर्थः । दृष्टान्तमाह-अमरापगाया गङ्गाया आप्लव: प्रवाहो
यस्मिन्नीदृशो मेरुमौलिर्दवेन वह्निना दावानलेन किमु दह्यते । नेत्यर्थः ॥
सिद्धिरस्ति सुकृतानुसारतः सारतर्कसुहृदेष निर्णयः ।
अर्जितव्यमनिशं यशोधनं शोधनं यदखिलापरावतः ॥ ११॥
सुकृतस्य पुण्यस्यानुसारेण सिद्धिरस्तीत्येष निर्णयः सिद्धान्तः सारतर्कसुहृत्समीचीनस्य
तर्कस्य सहायः । अनुसारीत्यर्थः । तत्स्वरूपमाह-यत्समग्राणामपराधानां शोधनं नाशनं
तयशोलक्षणं धनमनिशं निरन्तरमर्जितव्यम् । सुकृतेनैव यशो भवतीत्यर्थः ॥
अर्जुनीयति यदर्जने जनो वर्जनीयजनसेवनादिभिः ।
मङ्क नश्यति चिराय संचिता वञ्चिता जगति के न संपदा ॥ १२ ॥
२ स्तबकः] विष्णुभक्तिकल्पलता। यदर्जने यस्याः संपदोऽर्जुने वर्जनीयानां कुत्सितानां जनानां सेवनादिभिर्जनोऽर्जुनीयति ऋणतुल्यो भवति । कुत्सितानुसरणेन लाघवं यातीत्यर्थः । 'अर्जुनं च तृणे नेत्ररोगे पार्थे च हैहये । द्रुमै केकिनि च' इति कोषः । अर्जुनमिवाचरति । 'उपमानादाचारे' इति क्यच् । क्यचि च' इतीत्त्वम् । चिराय संचिता शीघ्रं या नश्यति तया संपदा जगति के नरा न वञ्चिताः । सर्वेऽपि तदासक्ता वञ्चिता इत्यर्थः ।। भारतीशितुरिवास्तु विग्रहे भारती भवतु वाक्पतेरिव । भारतीह सकलोऽपि तद्गुणो यस्य भक्तिरचला न माधवे ॥ १३ ॥ 'विग्रहे शरीरे रतीशितुः कामस्येव भा कान्तिरस्तु । वाक्पतेगुरोरिव भारती वाग्भवतु । परंतु यस्य माधवे निर्मला भक्तिर्नास्ति तस्य सकलोऽपि कान्तिपाण्डित्यादिर्गुणो भारति भार इवाचरति । 'सर्वप्रातिपदिकेभ्यः क्विबाचारे' इति क्विप् ॥ जीवितव्यमतिमात्रचञ्चलं यादृशं कमलिनीदले जलम् । तद्विधाय हृदयं सुनिश्चलं चिन्तयस्व हरिमेव केवलम् ॥ १४ ॥ पद्मिनीपत्रे याहग्जलं चञ्चलं तादृग्जीवितव्यमतिचञ्चलं तत्ततो हृदयं सुनिश्चलं कृत्वा केवलं हरिमेव चिन्तयस्व ।। योनियन्त्रणविधा न वेद ना लीलयेन्द्रियचयस्य खेलतः । योनियन्त्रणविधानवेदना का न काः स सहते हतेप्सितः ॥ १५ ॥ लीलया स्वेच्छया खेलतः प्रचरत इन्द्रियचयस्य नियन्त्रणविधाः नियमनप्रकारान् यो ना पुरुषो न वेद न जानाति स नरो हतेप्सितो नष्टमनोरथः सन् काः का योनौ यन्त्रपविधान बन्धनं तजनिता वेदनाः पीडा न सहते । अपि तु सर्वयोनिवासव्यथाः सहत इत्यर्थः ।। तं धिगन्धमिह यस्य रामतो रा मतोऽधिककदर्थनावहः । एकवारमपि यस्य नामतो धाम तोषकरमेति तत्परम् ॥ १६ ॥ इह संसारे तं अन्धं पुरुषं धिक् यस्य रामतो हरेः सकाशादधिकां कदर्थनां दुःखमा- वहति प्रापयति तादृशो राः धनं मतो मान्यः । 'अभिसर्वतसो:-' इति द्वितीया । 'रा: स्वर्णे जलदे धने' इत्यमरः । रामस्य गुणमाह-एकवारमपि यस्य नाम्ना तत्प्रसिद्ध परं केवलं तोषकर संतोषप्रदं धाम ब्रह्मपदमेति ॥ क्लेशवारणसमर्थता भवे केशवादपि परस्य किं भवेत् । यं नमन्नपि सुरेषु गौरवं याति पातकिजनो न रौरवम् ॥ १७ ॥ भवे संसारे केशवात्परस्याप्यन्यस्यापि देवतान्तरस्य क्लेशस्य वारणे निराकरणे सामर्थ्य किं भवेत् । न भवेदेव । पातकिजनोऽपि यं केशवं नमन् सुरेषु गौरवं पूजां याति प्राप्नोति न तु रौरवं नरकम् ॥
काव्यमाला। 0 यस्य॑ चेतसि न जातु कंसहा कं सहायमयमेति मानवः । कालकिंकरकरान्तरं गतो रङ्गतो गलितयौवनः स्त्रियाः ॥ १८ ॥ यस्य चेतसि जातु कदाचित्कंसहा कुणो न अयं मानव इह लोके स्त्रिया रङ्गतः क्री- डया गलितयौवनोऽमुत्र यमदूतहस्तमध्यं प्राप्तः सन् कं सहायमेति । न कमपीत्यर्थः ॥ रामनाममहिमा महोत्सवं यस्य चेतसि तनोति न श्रुतः । तस्य जीवितमिवावकेशिनो भूमिभारकरणाय केवलम् ॥ १९ ॥ रामनाम्नो महिमा श्रुतः सन्यस्य चेतसि महोत्सवं न तनोति तस्य जीवितं केवलं-अ- वकेशिनो निष्फलवृक्षस्येव । 'वन्ध्योऽफलोऽवकेशी च' इत्यमरः । भूमिभारकरणाय भूभा- राय भवति ॥ न क्रिया समभिहारविक्रियाजातपातकमपोहितुं प्रभुः । वासुदेववरिवस्यया विना या विनाशयति सर्वमप्यघम् ॥ २० ॥ क्रिया ज्योतिष्टोमादिर्वासुदेववरिवस्यया हरिपूजया विना समभिहारेण पौनःपुन्येन या विक्रिया क्रोधकामादिस्तजातं पातकमपोहितुं निराकर्तुं न विभुन समर्धा । या वासुदेव- वरिवस्या सर्वमप्यघं पापं विनाशयति । मन्द रे भव कदापि मायया मा यियासुरिह मातृकुक्षिषु । प्राप को न भवकाननं गतोऽनङ्गतो मृगपतेः पराभवम् ॥ २१ ॥ रे मन्द, इह संसारे मायया कृत्वा कदापि मातृकुक्षिषु जननीजठरेषु यियासुगन्तु- मिच्छुर्ना भव । संसारेच्छापि न कर्तव्येत्यर्थः । तत्र हेतुमाह-भवकाननं संसारवनं गतः को नरोऽनङ्गतो मृगपतेः कामसिंहात्पराभवं न प्राप। अपि तु सर्वोऽपि कामेन परा- भूत इत्यर्थः ॥ दुर्लभं जनुरवाप्य मानुषं मानुषङ्गमिहि कालतो मृषा। रामचन्द्रचरणारविन्दयोविन्द योगिजनजीवनं युगम् ॥ २२ ॥ हे जन्तो, दुर्लभं मानुषं मनुष्यसंवन्धि जन्म प्राप्य मृषा मिथ्या कालतः कालेनानु- षङ्गं संबन्धं मा इहि मा गच्छ। मृत्युसंबन्ध मा प्राप्नुहीत्यर्थः । ततः किं विधेयमत आह- रामचन्द्रचरणकमलयोर्युग्मं योगिजनानां जीवनमाधारभूतं विन्द लभस्व । “विद्ल. लाभे'। 'शेमुचादीनाम्' इति नुम् ।। रामचन्द्रचरणौ सुकोमलौ को मलौघमिलिताशयोऽपि सन् । न स्मरन्विमलतामुपागतो यागतोऽधिकनमस्क्रियौ हि यौ ॥ २३ ॥ मलौघेन पापसमूहेन मिलितः संबद्ध आशयश्चित्तं यस्य स तादृशो महापापोऽपि स- न्सुतरां कोमलौ रामचन्द्रचरणौ स्मरन्कः पुमान्विमलतां निष्पापत्वं नोपागतः । अपि तु २ स्तबकः] विष्णुभक्तिकल्पलता। सर्वोऽपि निष्पापो जातः । हि यतो हेतोयौं पादौ यागतोऽश्वमेधादेरधिकनमस्क्रियौ अ- धिका यागाधिकफलदात्री नमस्क्रिया ययोस्तौ । तदुक्तम्-‘एकोऽपि कृष्णस्य कृतः प्र. णामो दशाश्वमेधावभृथैरतुल्यः' इति ॥ सेवितैव भुवि तर्हि गोमती गोमती यदि मुकुन्दमाश्रिते । यस्य सेवनमपास्य सारवं सारवन्न जलमप्यघापहम् ॥ २४ ॥ यदि गोमती वाग्बुद्धी मुकुन्दं हरिमाश्रिते तहि भुवि गोमती नदी सेवितैव । हरिभजन विना तीर्थ व्यर्थमिति भावः। तदेवाह-यस्य हरेः सेवनमपास्य त्यक्त्वा सारवत्सारयुक्तम् । श्रेष्ठमित्यर्थः । सारवं सरयूनदीसंबन्धि जलमपि नाघापहं न पापहृत् । सरवा इदं सार- वम् । 'दाण्डिनायन-' इत्यादिना निपातः ॥ तत्कथं मधुरिपोरनाविलं नाविलम्बमवलम्बसे पदम् । यत्समेत्य किल काञ्चनापदं नाप दम्भमतिरप्यहो जनः ॥ २५ ॥ तत्तस्मादनाविलं निर्मलं मधुरिपोः पदमविलम्ब यथा तथा कथं नावलम्बसे नाश्रयसि। अहो आश्चर्ये । दम्भमतिम्भिकोऽपि जनो यद्धरिपदं समेत्य प्राप्य काश्चनापदं किमपि दु:खं न प्राप । किलेति श्रुतौ ॥ कि गतेन गुरुतापसे वने सेवने कुरु मतिं मधुद्विषः । आत्मसान्न कुरुते हि कं सर्व कंसवंशवधकृन्नतेर्नरः ॥ २६ ॥ गुरवः श्रेष्ठास्तापसा यस्मिन्वने तत्र गतेन गमनेन किम् । न किमपि । मधुद्विषो हरेः से- वने मतिं कुरु । हि यतः कंसवंशवधकृन्नतेः कंसान्वयनाशकस्य हरेनतेनमस्काराद्धेतोर्नरः कं सवं यज्ञमात्मसादात्माधीनं न कुरुते । सकलयज्ञफलं प्राप्नोतीत्यर्थः । हरिनत्यैवाश्वमे- धादिफलप्राप्तेः किं वनगमनेनेत्यर्थः ।। अस्ति कामविषयेऽथवा मतिस्तत्परोऽयमुपदेश उच्यते । पद्मनाभपरिचर्यया परं तं निशम्य हृदये स्थिरं कुरु ॥ २७ ॥ अथवा ते कामविषये मतिरस्ति तर्हि तत्परः कामविषयोऽयमुपदेशः कथ्यते। तमुप- देशं परमुत्कृष्टं मोक्षविषयं निशम्य श्रुत्वा वेदान्तश्रवणेनावधार्य पद्मनाभपरिचर्यया हरि- सेवया हृदये स्थिरं कुरु । मोक्षातिरिक्तं कामं मा कार्षीरित्यर्थः ।। केवलं कलय नन्दनन्दनं नन्द नन्दनगतश्चिराय च । सेवितो विबुधवल्लभाजनैर्भाजनैः सपदि सर्वसंपदाम् ॥ २८ ॥ केवलं नन्दनन्दनं हरिं कलय ध्यायस्व । प्राप्नुहीत्यर्थः । 'कल संख्याने गतौ च' इति धातुरदन्तश्चुरादिः । ततः सर्वसंपदा भाजनैः पात्रभूतैर्विबुधवल्लभाजनैर्देवस्त्रीसमूहैरुर्वश्या- दिभिः सेवितो नन्दने देवोद्याने गतः प्राप्तश्विराय नन्द क्रीड ॥
१८ काव्यमाला। चक्रपाणिचरणार्चनादरो ना दरोज्झितमना यमादपि । विष्टपे भवति दुष्टशासिता भासिताखिलदिगन्तरः श्रिया ॥ २९ ॥ चक्रपाणिचरणार्चने हरिपादपूजने आदरौ यस्य स ना पुमानीदृशो भवति । विशेषणैः सेवनफलमाह-यमादपि दरेण त्रासेनोज्झितं त्यक्तं मनो यस्य । विष्टपे लोके दुष्टानां शा. सिता नियन्ता । तथा श्रिया भासितान्यखिलानि 'दिगन्तराणि येन । जगद्व्यापिकीर्तिर्भ- “वतीत्यर्थः ॥ वासरे मधुरिपोरुपोषिताः कामिनो दिवि वसन्ति भूषिताः । उर्वशीप्रमुखदेवयोषितामालिभिर्ललितभावतोषिताः ॥ ३० ॥ मधुरिपोर्वासरे एकादश्यामुपोषिता उपवासवन्तः कामिनः सकामा नरा भूषिता भूष- णालंकृताः सन्तो दिवि स्वर्गे वसन्ति उर्वश्या दिस्वर्गनारीणां पतिभिर्मनोहरै वैविलासैस्तो- पिता हर्षिताश्च भवन्ति । जाग्रतो हरिपदाम्बुजाग्रतो यस्य याति सकला विभावरी । तत्कलेवरविभा वरीयसी स्वः सदैव रविभावदुल्लसेत् ॥ ३१ ॥ हरिचरणाने जाग्रतो निद्रामकुर्वतो यस्य पुंसः सकला विभावरी रात्रिर्याति तस कले. वरभा वरीयसी श्रेष्ठा स्वः स्वर्गे सदैव रविभावत्सूर्यकान्तिवदुल्लसेच्छोभते ॥ रामनामभणितिं सुधाविधां मा मनागपि मुखाम्बुज त्यज । यमिनादृतवति प्रतीयते कामना नरि न दूरदूषणा ॥ ३२ ॥ सुधाविधाममृततुल्यां रामनामभणिति हरिनामोक्ति मुखकमलान्मनाक् स्तोकमपि मा त्यज । शश्वद्धरिनामानि जपेत्यर्थः । यां रामनामोक्तिमनादृतवत्यसेवमाने नरि पुंसि दूरदू- षणा दूरे दूषणं यस्यास्तादृशी दूषणहीना कामनाभिलाषो न प्रतीयते । हर्यभक्तस्याभी- ष्टालाभात् ॥ यादृशेन मनसा जनार्दनं सेवते सकलदेवतातनुम् । तादृशं फलमुपैति मानवः स्वर्गसौख्यमथ मुक्तिमुत्तमाम् ॥ ३३ ॥ मानवो नरः सर्वदेवस्वरूपं हरिं यादृशेन सकामनिष्कामेन मनसा सेवते. तादृशं फलं स्वर्गसौख्यमुत्तमां मुक्ति चोपैति । निष्कामसकामभेदेन ॥ मानसं यदि करोषि रामसात्कामसाध्यतमसंपदं ततः । मन्यसे यदुपचारचातुरी धातुरीड्यतरतां न कं नयेत् ॥ ३४ ॥ यदि मानसं चित्तं रामसाद्रामाधीनं करोषि ततस्तहि कामसाध्यतमसंपदं मन्यसे । तदा सर्वापि संपत्साध्यैव । यदुपचारचातुरी यस्य हरेः सेवनचातुर्य के नरं धातुब्रह्मणोऽपीड्य- तरतां स्तुत्यतमत्वं न नयेत् । हरिसेवी धातुरपीड्यो भवतीत्यर्थः ॥
२ स्तबकः] विष्णुभक्तिकल्पलता। १९ क्लेशमूलमखिलं वसुप्रजापौरुषादि सुलभं शरीरिणाम् । दुर्लभा जगति मुक्तिकारणं रामचन्द्रचरणार्चने रतिः ॥ ३५ ॥ क्लेशानां रागादीनां मूलं कारणं वसुप्रजापौरुषादि धनसंतानपराक्रमादि सकलं शरी- रिणां सुलभं परंतु जगति भूतले मुक्तेः कारणभूता हरिपादपूजाप्रीतिर्दुर्लभा ॥ विष्णुभक्तिजितवासनाशया नाशया तुरलयन्ति मानसम् । मालतीमधुनि लब्धकेलयः केलयः कुरबकेषु सस्पृहाः ॥ ३६ ॥ हरिभक्त्या जिता नाशिता वासना दुष्टप्रीतयो यस्मादीदृश आशयश्चित्तं येषां तादृशा नरा आशया तृष्णया मानसं न तरलयन्ति चञ्चलं न कुर्वन्ति । तत्र दृष्टान्त:-मालती- कुसुमरसे लब्धा केलि: क्रीडा यस्तादृशाः के अलयो भ्रमराः कुरबकेषु करीरेषु सस्पृहाः सतृष्णा भवन्ति । न केऽपीत्यर्थः ॥ तावका वयमनन्त शावका नावकाशमिह किं निरीक्षितुम् । तद्ददासि बत बालवत्सलो विश्ववीन जनको न को भवेत् ॥ ३७ ॥ हे अनन्त, यदि वयं तावकास्त्वत्संबन्धिनः शावकाः शिशवः । 'पृथुकः शावकः शिशुः' इत्यमरः । तत्तर्हि इह संसारे निरीक्षितुमस्मान्द्रष्टुमवकाशं किं न ददासि । कुत्रापि समयेऽस्मानवलोकयेत्यर्थः । बतेति हर्षे । हे विश्वबीज जगत्कारण, को जनकः पिता बा- लवत्सलो बालप्रियो न भवेत् । पिता पुत्रप्रियो भवेदेवेत्यर्थः ।। भक्तिरस्ति यदि कृष्ण तावकी तत्किमेति भवसंभवं भयम् । अन्धकारगरिमा करोति किं भास्करे नयनमार्गमागते ॥ ३८ ॥ हे कृष्ण, यदि तावकी भक्तिरस्ति तत्तहिं भवसंभव संसारोत्थं भयं किमेति प्राप्नोति । न प्राप्नोतीत्यर्थः । तत्र दृष्टान्त:-भास्करे रवौ नयनमार्गमागते चक्षुर्विषयमागते सत्यन्ध- कारगरिमा तमोबाहुल्यं किं करोति । न किमपीत्यर्थः ॥ श्रीनृसिंह तव पादयोर्द्वयं नित्यमत्ययभयादयादयम् । मन्मनोणुरणुभिर्विना भयं रंरमीतु सुरसिन्धुसंभवैः ॥ ३९ ॥ हे श्रीनृसिंह, अयं मन्मन एवाणुः परमाणुरत्ययभयान्मृत्यभीतेहैंतोस्तव पादद्वयं नित्य- मयात् सर्वदा प्राप्तः । अतः सुरसिन्धुसंभवैः पदद्वयगतगङ्गोद्भवैरणुभिर्जलबिन्दुभिः सह भयं विना मृत्युभयं विहाय रंरमीतु अत्यन्त रमताम् । रमतैर्यङ्लुकि लोटि रूपम् ॥ इन्द्रियं विषयसाधनप्रियं विग्रहः सपदि दत्तनिग्रहः । मानसं मिषति का न संपदः केवलं तु मम ते बलं हरे ॥ ४० ॥ हे हरे, ममेन्द्रियं चक्षुरादि विषयाणां साधनं संपादनं प्रियं यस्येदृशम् । विग्रहः शरीर २० काव्यमाला।। दत्तो निग्रहः पराजयो येन तादृशः । मानसं काः संपदो न मिषति स्पृहयति । सर्वा अ. पीत्यर्थः । एवमिन्द्रियदेहमनःसु मां पराभवत्सु मम केवलं ते तव बलम् । त्वं रक्षक इत्यर्थः॥ रामचन्द्र तव भक्तियोगतो यो रातो जनिभृतामपि क्षणः । तेन तन्नरकसंघसाध्वसं साध्वसंभवमशेषतो नजेत् ॥ ४१ ॥ हे रामचन्द्र, जनिभृतां प्राणिनां तव भक्तियोगाद्यः क्षणः कालो गतस्तेन नरकसमू- "हाजातं साध्वसं भयमशेषतः समग्रं साधु यथा तथा असंभवं नाशं ब्रजेत् । क्षणमात्रक- तया तव भक्त्या यदि पापनाशस्तर्हि जन्मावधि कृतया किमु वक्तव्यमित्यर्थः ॥ पद्मनाभ तव पादपद्मयोः पद्मयोनिरुपचारचातुरीम् । . शीलयन्भुवनकर्तृतामगात्तामगाधमहिमश्रियं च सः ॥ ४२ ॥ हे पद्मनाभ, पद्मयोनिर्ब्रह्मा तवाभिकमलयोः सेवनचातुर्यमभ्यस्पन लोककर्तृत्वं प्राप । तां प्रसिद्धामगाधो महिमा कीर्तिर्यस्यास्तादृशीं श्रियं च सोऽगादिति संबन्धः ॥ रामचन्द्र तव पादसेवया देव याति न किमीहितं नरः । तन्न रक्षसि कथं दयानिधे तानि धेहि चरितानि ते मंयि ॥ ४३ ॥ हे रामचन्द्र हे देव, तव पादसेवया चरणकमलसेवया नरः किमीहितं कमभिलाषं न याति न प्राप्नोति । सर्वाभिलाषदायिनी तव भक्तिरित्यर्थः । हे दयानिधे, तत्तहि कथं न रक्षसि । मामिति शेषः । तानि प्रसिद्धानि ते तव चरितानि गोवर्धनोद्धरणादीनि मयि धेहि धारय । तव चरितविस्मरणं मास्त्वित्यर्थः ॥ चन्द्रदीधितिचयान्प्रभावतो भावतोऽपि हि जयन्ति याः प्रभो । कीर्तयो हृदि लसन्तु मे घना मेघनादवधबन्धुरास्तव ॥ ४४ ॥ हे प्रभो, मेघनादो रावणात्मजस्तस्य वधेन बन्धुरा मनोहरा घना निबिडास्तव ताः की- तयो मे मम हृदि लसन्तु स्फुरन्तु । ताः काः । याः प्रभावतः प्रभावेण महिन्ना भावतः कान्तिमतश्चन्द्रदीधितिचयान् शशिरश्मिसमूहान् जयन्ति । ततोऽप्युज्ज्वलाः ॥ ये भजन्ति तव पादपङ्कजं पङ्कजं न भयमानुवन्ति ते । यस्य पादकमलार्चनेहया नेह याति भवितां जनः पुनः ॥ ४५ ॥ हे हरे, ये तव पादपङ्कजं भजन्ति ते पङ्कजं पापजातं भयं न प्राप्नुवन्ति । यस्य पाद- पद्मपूजालक्षणया ईहया चेष्टया जनः पुनरिह लोके भवितां जन्मवत्त्वं न याति न प्राप्नोति ॥ पीतचीवरधरं रमापति नीलनीरजदलोपमधुतिम् । मालया तुलसिमञ्जरीभुवा भूषितं भुवनभूषणं भजे ॥ ४६ ॥ पीतं चीवरमंशुकं धरति तं रमायाः कान्तं नीलं यनीरजदलं पद्मपत्रं तत्तुल्या द्युति- , २ स्तबकः] विष्णुभक्तिकल्पलता। २१. र्यस्य तं श्याम तुलसिमञ्जरीजातया मालया भूषितं लोकाभरणं हरे भजे । तुलस्या मञ्ज- रीति समासेऽपि इकारी स्त्रीकृतौ ह्रस्वी क्वचित् इति द्वस्वः॥ मन्महे किमपि मन्महेशितुर्धाम नित्यरमणीयमव्ययम् । यद्विदन्ति नहि सूरयो जना वेदवाचि कृतयुक्तियोजनाः ॥ ४७ ।। नित्यं रमणीयं सुन्दरमव्ययमपक्षयशून्यं किमपि लोकोत्तरं महेशितुर्हरेस्तद्धाम स्वरूपं वयं मन्महे चिन्तयामः । वेदवाचि वेदवाण्यां कृता युक्त्या योजना यैस्ते । वेदार्थज्ञा अपि' सूरयो बुधा यद्धाम न विदन्ति न जानन्ति ॥ रागिणां सुरतरङ्गिणीक्षणात्स्वर्वधूसुरतरङ्गिणी तनुः । अस्तु किं पुनरियं विरागिणां देहमात्रमपि यन्न सासहिः ॥ ४८ ॥ रागिणां सकामानां तनुः शरीरं सुरतरङ्गिणीक्षणाद्गङ्गादर्शनात्स्वर्वधूसुरतरङ्गिणी अप्सरो- मैथुनरागवती अस्तु । सकामानां गङ्गादर्शनात्स्वर्गाप्तिर्भवतु नाम । इयं गङ्गा पुनर्विरागिणां निष्कामानां देहमात्रमपि यन्न सासहिः न सहते तत्किम् । सकामानां स्वर्ग ददातु नि- कामानां देहमपि कथं न सहते । तेभ्यो मुक्तिं ददातीत्यर्थः । ईदृशं निजरसान्निरन्तरं कुर्वती हसितवारिजानना । गर्नति त्रिभुवने निरर्गलं तत्फलं हरिपदाश्रयादलम् ॥ ४९ ॥ निजरसात्स्वरागान्निरन्तरमीदृशं पूर्वश्लोकोक्तं सकामनिष्कामेम्यो द्युभोगमुक्तिरूपं फलदानं कुर्वती हसितवारिजानना विकसितकमलमेव मुखं यस्या ईदृशी त्रिभुवने निरर्गलं गर्जति तदुभयविधं फलं हरिपदाश्रयादलं समर्थम् । हरिचरणोत्पन्नत्वादेवेदृशं सामर्थ्यमित्यर्थः ॥ या मुकुन्दपदपङ्कजालया लीलया हरति सर्वपातकम् । दूषणानि तव हन्तु सा धुनी साधुनीरजविराजितोदका ॥ ५० ॥ या हरिपदपद्मालया सती लीलया सर्वपातकं हरति साधूनि नीरजानि पद्मानि तै - षितजला सा धुनी नदी गङ्गा तव दूषणानि पापानि हन्तु नाशयतु ॥ राजन्यव्याजराजद्दितिदनुतनुजोद्दामदोर्दण्डदर्प- प्राग्भारस्फारकृत्येतरभरतरले भूतलेऽम्भोजजन्मा । अस्तौषीदस्तदोषस्तवनिवहमहोत्साहवत्या गिरा यं तं षड्भ्यो दर्शनेभ्यः कमपि समधिकं चेतसाराधयामः ॥ ५१ ॥ इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां रागिविरागिफलविवेको नाम द्वितीयः स्तबकः।
२२
काव्यमाला।
राजन्यानी नृपाणां व्याजेन मिषेण राजन्तो ये दितिदनुतनुजा दैत्या दानवाश्च तेषा-
मुद्दामा उत्कटा ये दोर्दण्डा भुजास्तेषां दर्पप्राग्भारेण गर्वोत्कर्षेण स्फारं महत् यत्कृत्येतर-
दकृत्यं तस्य भरोऽतिशयस्तेन तरले चञ्चले मतले अम्भोजजन्मा ब्रह्मा अस्तदोषो दो-
षरहितो यः स्तवनिवहः स्तुतिसमूहः स एव महोत्साहो यस्यां तया गिरा यमस्तौषीत
तुष्टाव षड्भ्यो दर्शनेभ्यो मीमांसादिभ्यः समधिकं सर्वोत्कृष्टं तं कमपि ब्रह्मस्वरूपं चेतसा
आराधयामः । स्रग्धरा छन्द्रः ॥
इति श्रीमहीधरविरचिते विष्णुभक्तिकल्पलताविवरणे रागिविरागिफलविवेको नाम
द्वितीयः स्तबकः ।
.
तृतीयः स्तबकः ।
षष्ठी मङ्गलवारदास्ति हृदये येषां व्यतीपाततो
न त्रासः श्रवणेऽपि विष्टिरनिशं तेषां न वा तद्गरम् ।
अन्ये तु व्यतिपातविष्टिविवशा दर्शेन्दुदीनानना
दृश्यन्ते भरणीशभृत्यभयतो भीता भुवो मण्डले ॥ १ ॥
'तिथिौर्याः स्मृता षष्ठी' इति कोषात् 'षष्ठी तु षण्णां पूरण्यां कात्यायन्यामपी-
ध्यते' इति विश्वोक्तेः षष्ठी गौरी मङ्गलवारदा मङ्गलसमूहदात्री । 'समूहनिकरवात-
वारसंघातसंचयाः' इत्यमरः । सा येषां हृदयेऽस्ति तेषां गौरीस्मरणलीनानां व्यतीपाता-
दुत्पाताचासो न भवति । 'व्यतीपातो महोत्पाते योगभेदावपातयोः' इति विश्वोक्तेः।
तथा तेष्दं श्रवणे कर्णेऽप्यनिशं निरन्तरं विष्टिर्न द्रविणमन्तरेण परकर्मकारित्वं न । 'विष्टिः
कर्मकरे भद्रे प्रेषणे चेतनेऽपि च इति विश्वः । न वा तेषां गरं विषम् । विषकृतपरा-
भवोऽपि नास्ति । व्याधिर्वा नास्ति । 'गरो व्याधावुपविष विषे च करणे गरम्' इति
विश्वः । अन्ये गौर्या अभक्तास्तु व्यतिपातविष्टिभ्यां महोत्पातपरसेवकत्वाभ्यां व्याकुलाः
सन्तो दशॆन्दुदीनानना अमावास्याचन्द्रतुल्यवदना भरणीशो भरणीनक्षत्रस्वामी यमस्तस्य
भृत्या यमदूतास्तेभ्यो यद्भयं ततो भीता भुवो मण्डले दृश्यन्ते । शार्दूलविक्रीडितं छन्दः ।
'सूर्याश्वैर्मसजास्तथा सगुरवः शार्दूलविक्रीडितम्' इति लक्षणात् ॥
अनुजनुः के नु मानुषयोनिषु भ्रससि निम हितं महितं शृणु ।
श्रय जगत्रितयप्रियमच्युतं विमलमङ्गलमङ्गलसच्छ्रियम् ॥ २ ॥
हे जिह्म, अनुजनुः प्रतिजन्म मानुषयोनिषु क भ्रमसि कुतो भ्रमणं करोषि । महितं
पूजितं हितं वाक्यं शृणु जगत्रितयप्रियं त्रैलोक्यवल्लभं निर्मलमङ्गलगुतं अङ्गे लसन्ती शो-
भमाना श्रीर्यस्य तमच्युतं हरिं श्रय सेवस्व । द्रुतविलम्बित छन्दः ॥
अलस मानस मानसमा न ते वचन केऽपि विरोधविधायिनः ।
जड यदीयसमागमसंभवावतरहेतुरहो तव कर्तृता ॥ ३ ॥
३ स्तबकः] विष्णुभक्तिकल्पलता। २३ है अलस आलस्ययुक्त, हे मानस चित्त, ते तव मानसमा अभिमानतुल्याः केऽपि वि- रोधविधायिनः शत्रवः कचन वापि न सन्ति । हे जड मूर्ख, यदीयसमागमसंभवा अभिमानसङ्गाजाता अनेकावतारकारणभूता तक कर्तृता कर्तृत्वम् । वास्तवं कर्तृत्वं तव नास्ति आभिमानिकमेवेत्यर्थः ॥ यदि नरा दिनरात्रिषु केशवे जपरताः परतापनिवारिणि । अपि न मोहतमोहतचेतसस्तदपि कष्टकथापि कुतो भवेत् ॥ ४ ॥ नग यदि दिनरात्रिष्वहोरात्रं परतापनिवारिणि आध्यात्मिकादिनिवर्तके केशवे जप- रताः स्युस्तदपि तदा मोहतमसा अविवेकान्धकारेण हतं चेतो येषामीदृशा न भवन्ति तर्हि कष्टकथा दुःखवार्तापि कुतो भवेत् । न भवेदेवेत्यर्थः ॥ पिब मुकुन्दकथा भवतोऽन्यथा भवपथाघटिता विविधव्यथाः । क इव वारयिता दयिताग्रुपद्रवजवप्रचुरोपचयस्थिराः ॥ ५ ॥ हे जन्तो, मुकुन्दकथाः पिब आदरेण शृणु । अन्यथा हरिकथापानमन्तरेण दयिता- दीनां कलत्रपुत्रगृहवित्तपश्वादीनां व उपद्रवजवः पराभववेगस्तस्य प्रचुरोऽधिको य उप- चयो वृद्धिस्तेन स्थिराः यावजीवानुवर्तिनीः भवपथे संसारमार्गे आ समन्तात् घटिता रचिता भवतस्तव विविधव्यथा नानापीडाः क इव वारयिता । न कोऽपि नि. वारक इत्यर्थः ॥ हृदयतोयजतो यज तोषितं भृशमनन्तमनन्तरया श्रिया । किमितरैर्मितरैविमुखैर्मनिखिलदोषदृशेक्षितुमीहितैः ॥ ६ ॥ अनन्तरया निकटवर्तिन्या श्रिया भृशमत्यन्तं तोषितं सेवितमनन्तं हरिं हृदयतोय- जतो हृत्कमले । सार्वविभक्तिकस्तसिल् । यज पूजय । मितं स्वल्पं रान्ति ददति ते मितरास्तैरल्पस्वर्गादिफलदैरत एव हरेविमुनिखिला ये दोषास्तेषां दृष्ट्या इक्षितु- मवलोकयितुमीहितैः सदोषैरितरैहरिभजनादन्यैर्मखैज्योतिष्टोमादिभिः किम् । न कि- मपीत्यर्थः॥ चरणतामरसं मुरवैरिणः सर चिरं रुचिरं रुचिरङ्ग चेत् । भवति तोयनिधि तव जन्मवन्न सुतरं तरितुं त्वरितं भवम् ॥ ७ ॥ अङ्गेति संबुद्धौ । हे जन्मवन् जन्तो, चेद्यदि असुतरं सुखेन तरितुमशक्यं भवं तोय- निधि संसाराब्धि त्वरितं तूर्ण तरितुममिक्रमितुं तव रुचिर्भवति तर्हि रुचिरं कान्तं मु. स्वैरिणो हरेश्चरणतामरसं पदपद्मं चिरं स्मर ॥ मनसिकृत्य कृतार्थय जीवितं त्वमधुना मधुनाशनमादरात् । भवति धर्मविधौ न पटीयसी दशमिता शमिता तनुरङ्गिताम् ॥ ८ ॥ अधुनैव मधुनाशनं हरिं आदरान्मनसिकृत्य विषयान्तरपरित्यागेन संचित्य जीवितं
काव्यमाला।
कृतार्थय । 'कणेमनसी श्रद्धाप्रतीघाते' इति गतिसंज्ञेन मनसिशब्देन समासे सति 'समा-
सेऽनपूर्वे को ल्यप्' इति वाप्रत्ययस्य ल्यबादेशः । अधुनेति कथमत्याग्रह इत्याह-द-
शमोऽवस्थाविशेषोऽस्यास्तीति दशमी वृद्धः । 'वर्षीयान्दशमी ज्यायान्' इत्यमरः ।
तस्य भावो दशमिता तया शमिता जराजर्जरिता अङ्गिनां देहिनां तनुः शरीरं धर्म-
विधौ धर्मानुष्ठाने पटीयसी पटुतरा समर्था न भवति । वार्द्धके हरिभजनाशक्तेरिदानीमेव
हरिं भजेत्यर्थः ॥
निजनिजव्यवहारविधिक्षमो भवति यावदयं खचयस्तव ।
हरिपदप्रणतो क्रियतां त्वरा तव पुरा वपुराश्रयते जरा ॥ ९ ॥
'खमिन्द्रिये सुखे स्वर्गे शून्ये बिन्दौ विहायसि' इति, 'चयः समूहे प्राकारमूलबन्धे समा-
हृतौ' इति च विश्वोक्तेः खानामिन्द्रियाणां चयः समूहोऽयं श्रोत्रादिस्तव तावको यावनि-
जनिजव्यवहारविधौ श्रवणस्पर्शनादिकर्तव्ये क्षमः शक्तो भवति तावद्धरिपदप्रणतो नारा-
यणचरणनमस्कारे त्वरा वेगः क्रियताम् । यतो जरा तव वपुः पुरा आश्रयते आश्रयिष्यते
'यावत्पुरानिपातयोर्लट्' इति लडथै लट् । वार्द्धके जरामस्तेन्द्रियाणामसामर्थ्य हरिभज-
नाशक्तेरिदानी भजेत्यर्थः ॥
अभिमतं लभते तपसा जनस्तदपि सौख्यकरं न भवेत्पुनः ।
इदमनित्यमिति व्यथते मनस्तदुचितं हरिसेवनमेव नः ॥ १० ॥
जनस्तपसा यद्यप्यभीष्टं प्राप्नोति तदपि पुनः सुखकारि न भवेत् । यतोऽनित्यमिदमिति
मनो न्यथते व्याकुलीभवति । तत्तस्मान्नोऽस्माकं हरिसेवनमेवोचितं योग्यं नित्य-
त्वादित्यर्थः॥
दनुजतर्जनतो जनतोषकृद्धनसमानवपुर्नवपुष्टिभूः ।
वसतु हृत्कमले कमलेश्वरश्चिरमयं रमयन्मम मानसम् ॥ ११ ॥
दनुजानां दानवानां तर्जनेन तिरस्कारेण जनानां संतोषकारी मेघश्यामो नवाया नूत-
नायाः पुष्टे: पोषणस्य भूः स्थानम् । जगत्पोषणकृदित्यर्थः । कमलेश्वरो रमापतिरवं हरि-
श्चिरं मम मानसं रमयन्नानन्दयन्मे हृत्कमले वसतु ॥
अतिभयंकरसंसृतिसागरे रतिपतिप्रमुखैः कलितं झषैः ।
त्वमव माधव मां तुलसीदलैर्ललितमाल तमालदलाते ॥ १२ ॥
हे तुलसीदलैः कृत्वा ललितमाल मनोहरमालायुक्त, हे तमालपत्रश्याम, हे माधव, अ-
त्यन्तं भयंकरे संसारसमुद्रे रतिपतिप्रमुखैः कामक्रोधाद्यैझमत्स्यैः कलितं भक्षितं मां
त्वमव रक्ष ॥
तव दृगन्तसुधालहरी मयि त्रिविधतापवति क्षणमापतेत् ।
नरहरे बहवोऽपि यदुद्दताः शुभवता भवता भवतापिताः ॥ १३ ॥
३ स्तबकः] विष्णुभक्तिकल्पलता। २६ . हे नरहरे, त्रिविधतापवति आध्यात्मिकाधिभौतिकाधिदैवतंदुःखयुक्ते मयि तव दृ- गन्तः कटाक्ष एव सुधालहरी अमृतोमिः क्षणमापतेदापततु । 'विधिनिमन्त्रणामन्त्रणाधीष्ट- संप्रश्नप्रार्थनेषु लिङ्' । इति प्रार्थने लिङ् । यातः शुभवता कल्याणयुक्तेन भवता त्वया भवतापिताः संसारदुःखपीडिता बहवोऽप्युट्टताः ॥ विविधपातकजातकदर्थनाकुलितजन्तुशरण्यशिरोमणे । मम मनो विदधातु पदाम्बुजात्तव रमावर मा वरमाश्रयम् ॥ १४ ॥ नानाविधं यत्पातकजातं पापौघस्तेन या कदर्थना दुःखं तया आकुलिताः पीडिता ये जन्तवस्तेषां शरण्याः शरणे साधवो रक्षकास्तेषां शिरोमणे मुकुटभूत है रमावर लक्ष्मीपते, मम मनसस्तव पदाम्बुजादवरमन्यमाश्रयं मा विदधातु मा कुरुताम् । मन्मनस्त्वत्पदा- म्बुज एव तिष्ठत्वित्यर्थः ॥ सततसंसरणाध्वनि धावतो भवतु मे भवदनिषु विश्रमः । प्रकटयन्स्वमपाकुरु मे तमः कपटवामन वा मनसि क्षणम् ॥ १५ ॥ नित्यं संसारमार्गे गच्छतो मे त्वचरणे विश्रान्तिर्भवतु । हे कपटवामन मायाखर्व, त्व- मपि क्षणं क्षणमात्रं मे मनसि स्वरूपं प्रकाशयन् तमोऽज्ञानं नाशय ॥ अधिभवाटवि मन्मथवात्यया कलुषितात्मतया निजदिङ्मुखम् । अज न वेद्मि तदत्र दयां कुरु भ्रमति मे मतिमेदुर मानसम् ॥ १६ ॥ हे अज है हरे, अधिभवाटवि संसारवने मन्मथ एव वात्या वातस्य मण्डली तया का- ण्या वात्यया कलुषित आत्मा चित्तं यस्य तस्य भावस्तत्ता तया कामव्याकुलत्वेन निजदिङ्मुखं त्वदीयदिशोमुखं न वेद्मि यस्यां दिशि त्वमसि तां न जानामि । तत्तस्मादत्र मयि दयां कुरु । हे मतिमेदुर । मत्या मैदुरो व्याप्तः । हे बहुबुद्धे, मे मम मानसं भ्रमति चित्तभ्रामकमज्ञानं निवर्त्य त्वत्स्वरूपं दर्शयेत्यर्थः ॥ विविधदानवराजिविराजितोर्जितदिगन्तचरिष्णुयशोजनिः। तव करोतु करोऽतुलविक्रमोऽतिसुख(ष)मः सुखमच्युत सर्वदा ॥ १७॥ विविधा या दानवराजिदैत्यश्रेणिस्तया विराजिताः शोभिता अत एवोर्जिता उत्कृष्टा ये दिगन्ता दिक्प्रदेशास्तत्र चरिष्णु गमनशीलं यद्यशो दैत्यमारणोत्या कीर्तिस्तस्या जनिरु- त्पत्तिर्यस्मादीदृशः अत एवातुलविक्रमोऽनुपमपराक्रमोऽतिसुषमोऽत्यन्तं शोभमानः । 'सु- षमा परमा शोभा' । हे अच्युत, ईदृशस्तव करो हस्तः सर्वदा सुखं करोतु ॥ ध्रुवमयुर्लयमप्यभियातयो महसि ते ह सितेतरतेजसि । तदपराधपरा धरणीभरोद्धर नराः किमु ते स्मरणे रताः ॥ १८ ॥ हे धरणीभरोद्धर धरण्याः पृथ्व्या भरमुद्ररतीति पृथ्वीभारहर, अपराधपरा आगस्कृ- २६ काव्यमाला। P तोऽभियातयः शत्रवः शिशुपालादयोऽपि । 'अभियातिपराराति-' इत्यमरः । ह स्फुटं सिते. तरतेजसि श्यामसुन्दरे ते तव महसि स्वरूपै ध्रुवं लयमयुः प्रापुर्लीनाः । तर्हि ते तव स्मरणे रता नरास्त्वयि लीयन्ते तत्र किमु चिक्तव्यमित्यर्थः ॥ पतति पन्नगराजधृता धरा तिमिरमेति गति रविमण्डले । तदपि कृष्ण कदापि भवत्पदार्चनपरे न परेतपतेर्दरः ॥ १९ ॥ पन्नगराजेन शेषेण धृतापि धरा भूः पतति । रविमण्डलेऽपि तिमिरं तमो गतिमेति । सूर्योऽपि नश्यतीत्यर्थः । हे कृष्ण, तदपि प्रलयकालेऽपि भवत्पदार्चनपरे त्वत्पूजके नरे कदापि परेतपतेर्यमस्य दरस्त्रासो न । प्रलयेऽपि त्वद्भक्ता न नश्यन्तीत्यर्थः । 'परासुप्राप्तप- चत्वरेतप्रेतसंज्ञकाः(संस्थिताः) इत्यमरः । परेतानां भूतानां पतिर्यमः ॥ न भवतो भवतोयनिधौ नृणां शरणमस्ति परं प्रणिमज्जताम् । जलजनेत्र जनेऽत्र दधद्दयां भवभयादव यादव तेन माम् ॥ २० ॥ हे जलजनेत्र पुण्डरीकाक्ष, भवतोयनिधी संसाराब्धौ प्रणिमज्जतां नृणां भवतस्त्वत्तः परमन्यच्छरणं नास्ति । हे यादव, तेन कारणेन त्वदन्यशरणाभावलक्षणेनात्र मयि जने दयां दधद्धारयन्भवभयात्संसारभीतेामव रक्ष ॥ वसतिरेव सती वसतीश्वरो हृदि निरामय राम यदा भवान् । जनमनोहर नोऽहरपि क्षपा न रमसेऽरमसेचनकेऽत्र चेत् ॥ २१ ॥ हे निरामय निर्दोष हे राम, यदा ईश्वरः समर्थों भवान् हृदि चित्ते वसति तदा वत्त- तिरेव रात्रिरपि सती समीचीना । 'वसती रात्रिवेश्मनोः' । हे जनमनोहर लोकानन्ददा- यिन् , अरमत्यर्थे असेचनके अप्तिमति । दुःखदायिनीति यावत् । तदासेचनकं तृप्ते- नास्त्यन्तो यस्य दर्शनात्' इत्यमरः । अत्र चित्ते चेत्त्वं न रमसे तर्हि तदा नोऽस्माकमह- रपि दिवसोऽपि क्षपा रात्रितुल्यः । त्वयि चित्तागते सर्वदा प्रकाशोऽन्यथा तिमिरमित्यर्थः॥ मम मनश्चरितार्थयतु क्षणं तव सुसंहननं हननं भियाम् । अमरशेखर शेषरमाप्रियं सजलतोयदतो यदतिद्युति ॥ २२ ॥ हे अमरशेखर सुरमुकुटभूत, यत्सजलतोयदतः सनीरमेघादतियुति अधिककान्तियुक्तं शेषरमाप्रियं नागेन्द्रलक्ष्म्योर्वल्लभं मियां भयानां हननं नाशकं तव सुष्ठु संनहनं शोभनं श- रीरं तन्मम मनः क्षणं चरितार्थयतु कृतार्थ करोतु । 'तनुस्तनूः संहननं शरीरम्' इति ह- लायुधः । क्षणं त्वां ध्यात्वा कृती भवेयमिति भावः ॥ भवविडम्बनया रहितोऽनया व समये समयेष्टविपक्षयोः । तव रमेश रमे शरणं गतः प्रतिपदातिपदाश्रितया तव ॥ २३ ॥ हे रमेश श्रीपते, अनया भवविडम्बनया संसारदुःखेन रहितस्तवात्यन्तं पदाश्रितया प्र- तिपदा चेतनया ज्ञानेन । 'प्रतिपज्ज्ञप्तिचेतनाः । तव शरणं गतः सनू के समये कस्मि- ३ स्तबकः]] विष्णुभक्तिकल्पलता। २७ काले रमै क्रीडामि । किंभूतया प्रतिपदा । इष्टविपक्षयोमित्रामित्रयोः समया तुल्यया । रागद्वेषहीनः कदा भवच्छरणं यामीत्यर्थः ।। शमितसंसृतिसंतमसं महः श्रुतिगिरा रममाणमहो रहः । प्रकटयन्प्रकृतेः परमात्मनो मम रमख रमावर मानसे ॥ २४ ॥ हे रमावर श्रीपते, शमितं नाशित संसृतिः संसार एव संतमुसं गाढं तमो येन तथा रहः श्रुतिगिरा वेदवाण्या सह रममाणं प्रकृतेर्मायायाः परं मायातीतमात्मनः स्वस्थ मह- स्टेजो मम मानसे प्रकटयन्प्रकटं कुर्वन् रमस्व ॥ दिवि भवा विभवा विभवात्मनो वशमिताः शमितामितहृदुजः । प्रथमपुण्यचयव्ययहेतवस्तव तु भक्तिरचिन्त्यफलायतौ ॥ २५ ॥ हे विभो, दिविभवाः स्वर्गस्था विभवा भोगा आत्मनो वशमिताः प्राप्ताः शमिता अ- मेता बहवो हृद्रुज आधयो यैरीदृशा भवन्ति । परंतु प्रथमं पूर्व संचितो यः पुण्यचयः सुकृतौघस्तस्य व्यये नाशे हेतवः कारणभूताः । तु पुनस्तव भक्तिरायताबुत्तरकाले अचि- त्यफला बहुफलयुक्ता । तव भक्तिफलव्ययो नास्तीत्यर्थः ॥ अतिदयालु मनः कमनच्छविस्तनुरकण्टकराज्यमिलातले । तव परीष्टिलता दलतां गता गजवरा जवराजितविग्रहाः ॥ २६ ॥ -अत्यन्तं दयायुक्तं मनः,कमना कमनीया छविः कान्तिर्यस्येदृशी तनुः शरीरम्, इलातले भूमण्डलेऽकण्टकं रिपुहीनं राज्यम् । 'कण्टकः क्षुद्रवैरिणि । वेणौ दुमाङ्ग रोमाहे इति कोषः । तथा जवेन वेगेन राजिताः शोभिता विग्रहाः शरीराणि येषामीदृशा गजवरा द- न्तिश्रेष्ठा एते पदार्थास्तव परीष्टिलतायाः सेवालक्षणवल्या दलतां पत्रभावं गताः । तव सेवया एते सहजैन भवन्तीत्यर्थः ।। विदधतु ऋतुकोटिमहोत्सवाः कमलया मलयापनमीश्वराः । तव पदस्मृतिरेव पुनातु मां यदसि देव दयालुरकिंचने !॥ २७ ॥ ऋतुकोट्य एव महोत्सवा येषां ते ईश्वरा धनिनः कमलया धनेन मलयापनं पापना- शनं विदधतु कुर्वन्तु । मां तु तव पदस्मृतिरेव पुनातु शोधयतु । यद्यस्मात् हे देव, अकिं- चने निर्धने त्वं दयालुरसि ॥ दहति दारुणदुःखपरम्परा सदय यादव या दववद्वपुः । प्रथमजन्मसु सम्यगुपार्जिता शमय तामयतात्मतया मया ॥ २८॥ अयतात्मतया अजितेन्द्रियत्वेन मया पूर्वजन्मसु सम्यगुपार्जिता या दारुणानां दुः- खानां परम्परा दववद्दावानलवद्वपुर्दहति । हे यादव यदुवंशरत्न, हे सदय दयालो, तां दुःखश्रेणी शमय निवर्तय ॥
२८ काव्यमाला। 6 खरकुलं तरसा विनिपात्य तत्सतृणराजवनं जवनं मृधे । सुखयति स्म दयालुतया भवान्विजितधेनुक धेनुकदम्बकम् ॥ २९ ॥ हे विजितधेनुक विशेषेण जितः पराजितो धेनुको दानवो येन तादृश, तृणराजानां तालानां वनेन सहितं मृधे युद्धे जवनं वेगवत् तत्प्रसिद्धं खरकुलं रासभदेहधारिदानवान्वयं तरसा वेगेन निपात्य धेनुकदम्बकं गोसमूहं दयालुत्वेन भवान्सुखयति स्म सुखयुक्तम- कार्षीत् ॥ परवधूकिलकिञ्चितचिन्तया मलिनमीश मनः शमनः क्रुधः । न परिचिन्त्य बिभेति ततोऽव मां मदनतात नतातनुतोषकृत् ॥ ३० ॥ परस्त्रीणां किलकिञ्चितं विलासस्तस्य स्मरणेन मलिनमपि मे मनः शमनधो यम- क्रोधान्परिचिन्त्य न बिभेति । हे ईश, हे मदनतात कामपितः, हे नतातनुतोषकृत् प्र- णतानां बह्वानन्दकारिन् ततो हेतोर्मामव रक्ष । त्वच्चरणलग्नं मच्चेतो यमं न ग- णयतीत्यर्थः ॥ जननकोटिकृतं दुरितं नरस्तरति नामनि ते मनिते मनाकू । तदपि माधव मां किमुपेक्षसे भवदवे वद वेदनयानया ॥ ३१ ॥ हे माधव, नरस्तव नामानि मनाक् स्तोकमपि मनिते पूजिते ध्याते सति । 'मनअर्चने तान्तः । जननानां जन्मनां कोट्या कृतं दुरितं पापं तरति । तदपि भवदवे संसारदा- वानले अनया वेदनया पीडया उपलक्षितं मां किमुपेक्षसे तद्वद । वाक्यार्थस्य कर्मत्वम् । मदुपेक्षां हित्वा मां पालयेत्यर्थः । 'वेदना ज्ञानपीडयोः ॥ निखिलविष्टपकष्टनिवारणं परशुरामवपुर्दधदेव यत् । पुनरभूद्रघुवंशविभूषणं जनहिते नहि ते शिथिलादरः॥ ३२ ॥ हे हरे, निखिलानां विष्टपानां जगतां कष्टस्य निवारकं परशुरामस्य वपुर्दधदेव धा- रयत्नेव यत्वं (भवान्) पुना रघुवंशस्य विभूषणभूतो रामो दाशरथिरभूदेतद्युक्तमिति शेषः । हि यतो जनानां हिते कायें ते तव शिथिलादरो नास्ति । समममर्त्यवधूनिवहैर्मधौ कुसुपपूरितभूरितरूत्तरे । मम भवत्स्मृतिसौख्यशतांशदा न यदुनन्दन नन्दनकेलयः ॥ ३३ ॥ कुसुमैः पूरिता भूरयो बहवस्तरवो वृक्षा : उत्तरा अधिका यस्मिन्नीदृशे मधौ वसन्ते अमर्त्यवधूनां देवाङ्गनानां निवहैः समूहैः समं सह नन्दनवनकेलयो वासवोद्यानक्रीडाः हे यदुनन्दन हरे, भवत्स्मृत्या यत्सुखं तस्य शतांशदात्र्यो न भवन्ति । मधुरवेणुरवेण विमोहितब्रजवधूजवधूतभवार्तयः । स्मरणमात्रमिताः शमयन्त्यघं तव न के वनकेलिमहोत्सवाः ॥ ३४ ॥ .
३ स्तबकः]
विष्णुभक्तिकल्पलता।
२९
मधुरो यो वेणुरवस्तेन विमोहिता या व्रजवध्वो गोप्यस्तासां जवेन तरसा धूता निव-
तिता भवार्तयः संसारख्याधयो यैरीदृशाः हे हरे, तव के वनकेलय एव महोत्सवाः स्मरण-
मात्रमिताः प्राप्ताः सन्तोऽधं पापं न शमयन्ति । अपि तु शमयन्त्येव ॥
मनसि तेजसि तेऽज सितद्युतिद्युमणिवृन्दसमे हि समेयुषि ।
अपि सुधर्मतया मतया सतां किमु शचीशतया शतयागतः ॥ ३५ ॥
हे अज, सितद्युतयः श्वेता ये द्युमणयो दिव्यरत्नानि तेषां वृन्दैः समूहैः समे तुल्ये
ते तव तेजसि मनसि समेयुषि समागते सति सतां मतया मान्यया सुधर्मतया शोभनाच-
रणत्वेनापि किमु । शतयागतोऽश्वमेधशतेन कृत्वा शचीशतया इन्द्रत्वेनापि किमु । न
किमपीत्यर्थः । यदि हरितेजो मनस्यायातं तदा सर्वे धर्माः कृता इत्यर्थः ॥
भवति यत्र भवैकभयापहं भवदनुस्मरणं समये क्वचित् ।
अखिलपर्वसु चारुकराङ्गुलीकलितपर्वत पर्व तदेव मे ॥ ३६ ॥
चारुभिः कराङ्गुलीभिः कलितो धृतः पर्वतो गोवर्धनो येन तत्संबुद्धौ हे हरे, अखिल.
पर्वसु सर्वेषूत्सवेषु मे मम तदेव पर्व उत्सवः । तत्किम् । यत्र क्वचित्समये भवैकभयापहं
संसारसाधारणभीतिनिवर्तकं भवदनुस्मरणं भवति । त्वत्स्मृतिरेवोत्सव इत्यर्थः । 'पर्व प्र.
स्तावोत्सवयोम्रन्थौ विषुवदादिषु इति कोषः ।।
अनरिचक्रकथांप्रथितार्थया वसुधया सुधयाप्यथ किं तया ।
-हरिपदस्मृतिरेव हि केवला हृदि वसेदिवसे दिवसे यदि ॥ ३७॥
यदि दिवसे दिवसे प्रत्यहं हरिपदस्मृतिरेव केवला हृदि वसेत् तहि नास्ति अरिपक्रस्य
रिपुसमूहस्य कथा यत्र । प्रथितो विपुलोऽर्थों धनं यत्र । ततः कर्मधारयः तया च वसु-
धया किम् । तथा तया प्रसिद्धया सुधया अमृतेनापि किम् । हरिस्मृतौ सत्यामिहामुत्र
भोगैः किमित्यर्थः ॥
अयि वराह वराहवनिर्जितेऽमितबले तव लेखकुलद्विषि ।
कनकचक्षुषि का स्तुतिरम्भसो धृतवतो धरणीमपि दंष्ट्रया ॥ ३८ ॥
अयोति संबोधने । हे वराह, अमितबले बहुशक्तौ लेखकुलस्य देवसमूहस्य द्विषि शत्री
कनकचक्षुषि हिरण्याक्षे वराहवे श्रेष्ठयुद्धे निर्जिते सति अम्भसः प्रलयजलाइंष्ट्या धरणी-
मुद्धतवतस्तव का स्तुतिः ॥
यतो ननं नैव प्रणमति परं कंचन शिरः
करौ कस्याप्यने न जगति युतो यत्र च युतौ ।
वपुः पन्नं नाधः पतति कृतिनां माधव पुन-
मुंदेऽनन्तायै नः प्रणतिरियमस्तु त्वयि कृता ॥ ३९ ॥
३० काव्यमाला। हे माधव, यतस्त्वयि ननं शिरः परमन्य कंचन नरं न प्रणमति । यत्र त्वयि युताव- अलीकृतौ करौ जगति कस्याप्यने न युतः न युक्तौ भवतः । 'यु मिश्रणे' लट् । यत्र त्वयि पत्नं पतितं वपुः कृतिनां पुण्यवतामधो नरके न पतति । तस्मिस्त्वयि कृतेयं प्रणतिनों- ऽस्माकमनन्तायै मुदे पूर्णसंतोषायास्तु ॥ स एवाहं पापी कृतदुरितकोटीपरिणति- प्रभूतापत्तापत्रयरयशयस्त्वच्छरणधीः । स एव त्वं सत्त्वं भजसि भजदाति शमयितुं गुणातीतं ब्रह्माच्युत वितर तस्मान्मयि दयाम् ॥ ४० ॥ कृता या दुरितकोटी पापौघस्तत्परिणतः परिपाकात्प्रभूता उत्पन्ना यद्वा परिणति- भूता या आपत्कष्टं तापत्रयमाध्यात्मिकादि च तयो रये जवे शेते तथाविधः । अत एव त्वच्छरणधीस्त्वदेकशरणबुद्धिः पापी स एवाहम् । हे अच्युत, गुणातीतं ब्रह्म भज. तामाति पीडां शमयितुं सत्त्वं सत्त्वगुणेनावतारं रामकृष्णादिकं भजसि । तस्मान्मयि दयां वितर देहि ॥ अपीदं चेतो मे हरिचरितपीयूषलहरी- परीरम्भाभोगप्रसृमरमहानन्दसुभगम् । अपीयं जिह्वा मे नरकरिपुनामव्यसनिनी भवेदद्धा बद्धाञ्जलि शयसरोजद्वयमिदम् ॥ ४१ ॥ हरेश्वरितमेव पीयूषलहरी अमृतोमिस्तत्परीरम्भाभोगेनास्वादाधिक्येन प्रसमरः प्रसरण- शीलो यो महानन्दस्तेन सुभगं भाग्यवदिदं मे चेतो भवेद्भवतु । मे जिह्वापि नरकरिपोर्हरेनों- मव्यसनिनी नामोच्चारणपरास्तु । इदं शयसरोजद्वयं पाणिपद्मयुगलं अद्धा साक्षाद्धाञ्जलि कृताञ्जलि भवेत् ॥ शिवः स वः सवभुवः पावनावनवद्धवः । अवत्ववभवत्पीवभावलावण्यविच्छवः ॥ ४२ ॥ इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां स्वाभिप्रायप्रकाशनो नाम तृतीयः स्तबकः। स शिवो वो युष्मानवतु । किंभूतान्वः'। सवभुवः । 'धू प्रसवे । 'ऋदो र । सर्व जन्म भवन्ते प्राप्नुवन्ति ते सवभुवः । भू प्राप्तौ' आत्मनेपदी । अस्मारिवप् । शिवः की- दृशः। पावनं शुद्धिः,अवनं रक्षणं, ते विद्यते यत्र स पावनावनवान् ईदृशो हवो यजनं यस्य । यस्य यजने शुद्धिः शत्रुभ्यो रक्षा च भवतीत्यर्थः । “हवस्तु सप्ततन्तौ स्थानिदेशाह्वानयोरपि' इति कोषः । तथा अवभवतां (1) नम्रीभवतां पीवा स्थौल्यं यस्मात्सोऽवभवत्पीवा यं नमतां ४ स्तबकः] विष्णुभक्तिकल्पलता। ३१ ३ महत्त्वं भवतीत्यर्थः । भावस्याभिप्रायस्य लावण्यं सौन्दर्य विद्यते येषां ते भावलावण्यवन्तः शुद्धाभिप्रायास्तेभ्यः शं सुखं वाति ददाति गमयति वा स तथा । ततः कर्मधारयः ॥ इति श्रीमहीधरविरचिते विष्णुभक्तिकल्पलताविवरणे स्वाभिप्रायप्रकाशनो नाम तृतीयः स्तबकः। - चतुर्थः स्तबकः । रक्षन्तु वो हरिभुजाः प्रतिबिम्बभाजो वक्षःस्थलस्थिरमणीरमणीयमासि । क्षीराम्बुधावभिनवा इव पारिजाता जाताः समस्तजगतामभिलाषपूर्यं ॥ १ ॥ वक्षःस्थले स्थिरा या मणिः कौस्तुभः । 'रत्नं मणियोः' इत्यमरः । तस्या रमणीया मनोहरा या भाः कान्तिस्तस्यां प्रतिबिम्बभाजः प्रतिफलिता अत एव समस्तजगतां त्रि. लोकानामभिलाषपूरणाय क्षीरसमुद्रे जाता अभिनवाः पारिजाता इवेत्युत्प्रेक्षा । हरिभुजा वो युष्मान रक्षन्तु । कौस्तुभस्य सितत्वात्क्षीराम्बुध्युपमानम् ॥ पादारविन्दं पुरुषोत्तमस्य तमस्यगाधेऽभिनिमज्जतां नः । नखप्रभानिर्जितसोमशोभमशोभनं सर्वमपाकरोतु ॥ २ ॥ नखकान्त्या जिता चन्द्रप्रभा येन ईदृशं हरेः पादपद्ममगाधेऽपारे तमसि संसाराज्ञाने- ऽभितो निमज्जतामस्माकं सर्वमशोभनं पापमपाकरोतु निवर्तयतु ।। भावाभिधायां निशि येन मोहदुःस्वप्नदौःस्थ्यात्सपदि प्रबोधः । संपद्यते कोऽपि स चित्तरङ्गः श्रीरामचन्द्रे यदि चित्तरङ्गः ॥ ३ ॥ श्रीरामचन्द्रे यदि चित्तरङ्गो मनःप्रीतिः स्यात्, तदा स प्रसिद्धः कोऽप्यवर्णनीयश्चितो ज्ञानस्य तरङ्ग अमिः संपद्यते । येन ज्ञानोमिणा संसाररूपरात्रौ मोह एव दुःस्वप्नस्तेन य- हौःस्थ्यं दुःखं तस्मात्सपदि प्रबोधो भवति । संसारान्निवर्तत इत्यर्थः ।। मन्दारमालाभरसादरं यन्नाशं निजायुनिखिलं नयन्ति । मन्दारमालाभरसादरं तन्न चन्द्रचूडं परितोषयन्ति ॥ ४ ॥ यद्यपि मन्दा मूर्खा रमालाभरसाधनलाभलोभेन सर्वे निजमायुररमत्यर्थ नाशं नयन्ति व्यर्थमायुर्व्ययं कुर्वन्ति । तत्तदपि मन्दारकुसुममालानां भरेऽतिशये सादरं सप्रीतिं चन्द्रचूई शिवं न परितोषयन्ति न भजन्ति ॥ अगोचरो यत्तु मनोरथानां तुष्टे शिवे वस्तु तदप्यवाप्यम् । यद्दर्शनाय स्पृहयन्ति देवाः सोऽभूत्प्रभुर्भूतलभूतलभ्यः ॥ ५ ॥ .
३२ काव्यमाला। यद्वस्तु मनोरथानामगोचरोऽविषयः, यस्य च वस्तुनो दर्शनाय देवाः कामयन्ते, तदपि वस्तु शिवे हरे तुष्टेऽवाप्यम् । स प्रभुर्भूतलस्य भूतैर्नरैर्लभ्योऽभूत् । इत्याश्चर्यमित्यर्थः ।। जीवा यदूत्तमपदानि पदृच्छयैव यन्तो रजोभिरमलैः परिरब्धदेहाः । नेहाप्नुवन्नवतरं बत कीटकाद्याः पाद्यार्घ्यदानविधिना विधिनार्चितास्ते ॥ ६ ॥ बतेति हर्षे । कीटकाद्याः क्रिम्याद्या जीवा यदृच्छ्यैव यदूत्तमस्य कृष्णस्य पदानि- पा- दन्यासस्थलानि यन्तो गच्छन्तोऽतुलैरनुपमै रजोभिः पादपांसुभिः परिरब्धदेहा व्याप्ताङ्गाः सन्त इह संसारेऽवतरं जन्म नाप्नुवन् न प्रापुः ते जीवा विधिना ब्रह्मणा पाद्यार्थ्ययोर्दान- विधानेन पूजिताः । विधिपूजायोग्यतां प्राप्ता इत्यर्थः ॥ तीर्थाधिके सति सदा सुलभे समन्ता- चेतोहरे हरिचरित्रसुधासमुद्रे । लोकं मिमङ्कमपि पावयति प्रसिद्ध का भीतिरन्तकभवा भुवि मुक्तिभाजाम् ॥ ७ ॥ तीर्थेभ्यो गङ्गादिभ्योऽधिकपावने मिमओँ मजन्तमपि लोकं पावयति तारयति सदा सु- लभे चेतोहरे मनोहारिणि हरिचरित्रमेवामृतं तत्समुद्रे सति भुवि भुक्तिभाजामन्तकुभवा यमप्रकृतिका का भीतिः । न कापीत्यर्थः ।। गोविन्दपादार्चनचातुरीयं सद्यः पदं यच्छति तत्तुरीयम् । तदत्र चेतो भव सावधानं भवामयेऽग्यौषधमप्रधानम् ॥ ८ ॥ हरिपादपूजायां चातुर्य तत्प्रसिद्धं तुरीयं पदं ब्रह्मपदं यच्छति । तत्तस्मात् है चेतः, अत्र हरिपादार्चने सावधानं तत्परं भव । यतो भवामये संसाररोगेऽन्यत् हर्यर्चनं विना औषधमप्रधान मुख्यं न भवति ॥ यो गीयते जगति दुर्दमयातुकालः श्रीरामनाम जपतो मम यातु कालः । शीतांशुचारुवदनां रिपुरोधमाप्तां सीतां शुचा विरहितामिह यश्चकार ॥९॥ यो रामो जगति दुर्दमानां दुष्टानां यातूनां यातुधानानां रक्षसां कालो नाशको गीयते जनैः तस्य रामस्य नाम जपतः सतो मम कालः समयो यातु गच्छतु । 'काल: पुनः कृ. ष्णवर्णे महाकालकृतान्तयोः । सरणानेहसोः' इति कोषः । यश्चन्द्ररम्यास्यां रावणगृहे रोधं प्राप्तां सीतां शुचा शोकेन विरहितां हीनां चकार ।
४ स्तबकः] विष्णुभक्तिकल्पलता। उच्चस्तरां सारजनित्वकर्ती संपत्स्यते सा रजनिः कदा नु । यस्यां जपन्तो नरसिंहनाम पापं जनुः कोटिकृतं हनाम ॥ १० ॥ उच्चैस्तरामतिशयेन सारा श्रेष्ठा जनिर्जन्म येषां ते सारजनयः उत्तमजन्मानस्तद्भाव- की सा रजनी रात्रिः कदा नु संपत्स्यते भविष्यति यस्यां रात्रौ हरिनाम जपन्तो वयं जनुषां जन्मनां कोटिभिरपि कृतं पापं हनाम निवर्तयाम । हन्तेर्लोट् ॥ त्वत्प्रेरितेन मयका कृतमद्ययाव- त्किचिच्छुभाशुभमथापि तथा करोमि । मज्जन्मनः सफलतां कुरुषे न कस्मा- न्मजन्मनः सरिति विष्णुपदस्थितायाम् ॥ ११ ॥ हे मनः, त्वत्प्रेरितेन मयका मया। 'अव्ययसर्वनानामकच् प्राक् टेः' इत्यकच । अद्यया- वदेतद्दिनपर्यन्तं किंचिच्छुभाशुभं पुण्यपापं कृतम् अथ तथा तद्वत्करोम्यपि । अतो विष्णु- पदस्थितायां सरिति गङ्गायां मज्जत् मज्जनं कुर्वत्सत् मजन्मनो मम जनेः सफलतां साफल्यं कस्मान्न कुरुषे । हरिपदे स्थित्वा मज्जन्म सफलं कुर्वित्यर्थः ।। यत्प्रेर्यमाणमनिशं जनिशङ्कितेन दुष्टमानस मया समया मुकुन्दम् । नैव प्रयासि कतमो बत मोक्षमार्गों दृष्टो विहाय तमतर्कितमद्वितीयम् ॥ १२ ॥ रे दुष्टमानस, जनेः सकाशाज्जन्मपरम्परायाः तेन भीतेन मया अनिशं निरन्तरं प्रेर्यमाणमपि त्वं मुकुन्दं समया मुकुन्दस्य समीपे न प्रयासि नैव गच्छसि यतः अतो बतेति खेदे अद्वितीयं सजातीयत्वगतभेदरहितमतकितं तं विहाय कतमो मोक्षमार्गस्त्वया दृष्टः ।। बद्धे भवत्यसुमतामतिमात्रवन्धो मुक्ते तु मुक्तिरिति चित्त तवातिशक्तिः। बन्धे तु ते व्यसनिता न तथास्ति मुक्तौ तबद्धमेव भव केशवकेलिषु त्वम् ॥ १३ ॥ हे चित्त, भवति त्वयि बद्धे सति असुमतां प्राणिनामतिमात्रमत्यन्तं बन्धः त्वयि मुक्त तु तेषां मुक्तिः । इति तवातिशक्तिरत्यन्तं सामर्थ्य यस्मात्ते तव तु यथा व्यसनिता सक्ति- रस्ति तथा मुक्तौ न । तत्तस्मात् केशवकेलिषु हरिलीलासु बद्धमेव भव ॥ एक क्षणं हृदय तिष्ठसि चेदनन्ते तदुस्तरोऽपि भवनीरनिधिर्न किंचित् । रे ३४ काव्यमाला। नोचेदनेकविधदुःसहदुःखकोटी- कल्लोललचितमुपैषि दशामशुभ्राम् ॥ १४ ॥ हे हृदय, चेदेकं क्षणमनन्ते तिष्ठसि तत्तर्हि दुस्तरोऽपि भवनीरनिधिः संसारसागरो न किंचित्कर इत्यर्थः । नो चेद्धरिस्मरणाभावेऽनेकविधानां दुःसहानां दुःखानां कोट- योऽसंख्या ये कल्लोलास्तैलचितमाक्रान्तं सदशुभ्रां दुष्टां दशामुपैषि प्राप्नोषि ।। गोविन्दपादोदकबिन्दुरिन्दुः किं दुनिवार्य न तमो निहन्ति । निपीय पीयूषरसोत्तमं तमन्तर्महः पश्य महत्तमं तत् ॥ १५ ॥ गोविन्दचरणोदकबिन्दुरूपश्चन्द्रो दुनिवार्य किं तमो न निहन्ति सर्व हन्त्येव । अमृत- रसादप्युत्तमं तं पादोदकबिन्दु पीत्वा तत्प्रसिद्धं महत्तमं महस्तेजोऽन्तर्विलोकय ॥ श्रीवासुदेवं हृदयं नयन्ति न यन्ति ते गर्भभुवं जनन्याः । पदं तमेकं भज केशवस्य शिवस्य नान्यो निधिरस्ति लोके ॥ १६ ॥ ये नरा हरि हृदयं नयन्ति प्रापयन्ति स्मरन्ति ते मातुर्गर्भभूमिं न यन्ति न गच्छन्ति । तत्तस्मादेकं शिवस्य कल्याणकारिणः केशवस्य पदं भज । लोकेऽन्यो निधिर्नास्ति । 'विधिः' इति पाठे शिवस्स. कल्याणस्यान्यो हरिपादभजनव्यतिरिक्तो विधिः प्रकारों नास्ति । हरिसेवयैव कल्याणाप्तिरिति भावः ।। अन्ते विमुञ्चत खवर्गविधेयताशां न्याय्यो नृसिंहकृपयैव किलापवर्गः । मुञ्चालमित्यवगहो न हरीति शब्द वक्षःस्थलस्पृशि बकी शिवकीर्तनेऽपि ॥ १७ ॥ है जन्तवः, अन्तकाले खवर्गविधेयताशामिन्द्रियवश्यत्वाभिलाषं मुञ्चत । विषयाभि- लाषं त्यजतेत्यर्थः । यतो नृसिंहकृपयैवापवर्गों न्याय्यः । किल यतो बकी पूतना शिवकी- तने कल्याणरूपं कीर्तनं यस्य तस्मिन्हरौ वक्षःस्थलस्पृशि हृदयस्थेऽपि सति अलं मुञ्चे- त्यवक् उवाच । वक्ते ङि रूपम् । हरीति शब्दं नोवाच । तस्मादन्ते इन्द्रियवश्यत्वाभा- वादिदानीमारभ्यहरिः स्मर्तव्यः ।। यो देवकीमिव बकीमपि विश्वयोनिः खीयं निनाय पदमुज्ज्वलयैव मत्या । सर्वापराधशमनं कमलालयायाः को न श्रयेत कमनं कमनन्तमिच्छन् ॥ १८ ॥ यो हरिदेवकी मिव पूतनामपि उज्ज्वलया बुझ्या स्वीयं पदं निनाय तं सर्वापराधनि- वर्तकं रमायाः कमनं कान्तमनन्तं के सुखादिपदार्थमिच्छन्को न श्रयेत न सेवेत ॥
४ स्तबकः] विष्णुभक्तिकल्पलता। -- नायं नयो नयन यन्न यदूत्तमस्य नित्यं निभालयसि निर्मलमड्रियुग्मम् । किं वीसितैरवरवस्तुभिरप्रशस्तो- दैर्मनोहरतरैरपि भाविभङ्गैः ॥ १९ ॥ हे नयन नेत्र, होर्निर्मलं पदयुग्मं न निभालयसि न विलोकयसि न श्रयसि अयं नयो नीतिर्न भवति । अवरवस्तुभिरीक्षितैः किं न किमपि । कीदृशैः । अप्रशस्त उद उत्तर- कालो येषां तैः । तथा मनोज्ञैरपि भावी भङ्गो येषां तैः ।। गोविन्दमेव तुहि वस्तु हित्वा समस्तमन्यदूसने स नेड्यः । लोकत्रये कस्य पदस्य दास्यं पुरंदरत्वादपि सुप्रशस्यम् ॥ २० ॥ हे रसने, अन्यत् समस्तं वस्तु त्यक्त्वा गोविन्दमेव स्तुहि स्तुति कुरु । यद्यस्माल्लोक- त्रये स कस्य नेड्यः न स्तुत्यः । अस्य हरेर्दास्यं पुरंदरत्वादिन्द्रपदादपि सुप्रशस्यं प्रशस्तत- रमतस्तं स्तुहि ॥ त्वमन्यशब्दग्रहतां विहाय श्रवः शृणु श्रीपतिशीलशब्दम् । श्रुतीति शब्दस्त्वयि चागमे च समत्वमभ्येति यतो गुणौधैः ॥ २१ ॥ हे श्रवः कर्ण, अन्यशब्दग्राहित्वं त्यक्त्वा श्रीपति शीलयत्यभ्यस्यति तादृशं हरिवा- चकं शब्दं शृणु । यतः श्रुतिरिति शब्दस्त्वयि वेदे च गुणौधैस्तुल्यतामेति ।। दुःखाकरोषि यदरे यदुवंशरत्न- सेवारतानविरतं विधितामुपेत्य ।। दुष्कर्म किं न विदितस्तव कैटभारि- यन्नाम जन्मशतसंचितपापहारि ॥ २२ ॥ अरे हीनसंबोधने । हे दुष्कर्म, हरिभक्तिपरायणान् विधितां दैवत्वमुपेत्य प्राप्य यदुः- खाकरोषि पीडयसि । दुःखात्प्रातिलोम्ये डाचप्रत्ययः । तव किं कैटभारिहरिन विदितो न ज्ञातः । यस्य नाम जन्मनां शतेन संचितं पापं हरतीत्येवंशीलम् ॥ मिथ्यामनोरथपथि प्रथितानुभाव रे मोह को हरिपरेऽपि तव प्रसङ्गः । बालातपे तिमिरमिच्छति खेलितुं चे- सौख्यं लभेत कतरच्छ्रितरत्नवेदि ॥ २३ ॥ मिध्यैव मनोरथमार्गे प्रथितः ख्यातोऽनुभावो महिमा यस्य तादृश है मोह, हरिपरे विष्णुभक्तेऽपि तव कः प्रसङ्गः का प्रसक्तिः । किं सुखं यास्यसीत्यर्थः । अर्थान्तरमाह-
३
काव्यमाला।
चैद्यदि बालांतपेऽन्धकार क्रीडितुमिच्छति तर्हि किं सौख्यं लभेत । न किमपीत्यर्थः कि-
भूतं सौख्यम् । श्रिता रत्नवेदिर्येन तादृशम् ।।
एकं मुकुन्दं हृदये स्मरामि स्मरमितेनालमितः श्रमेण ।
न द्योततेऽजस्रकृतेऽपि यत्ने खद्योततेजस्तरणेः पुरस्तात् ॥ २४ ॥
एकं मुकुन्दं हृदये स्मरामि अतो हे स्मर काम, इतो मयि अमितेन बहुलेन श्रमेणालं
पूर्यताम् । दृष्टान्तमाह-तरण रवेः पुरस्तात् खद्योततेजो निरन्तरं यत्ने कृतेऽपि न द्योतते।।
संकल्पकल्लोलमगम्यसीमं जायादियादोभिरतीव भीमम् ।
कर्मोदकं त्वां न तृणाय मन्ये चतुर्भुजे चित्तमिते भवाब्धे ॥ २५ ॥
हे भवाब्धे संसारसमुद्र, चतुर्भुजे चित्तमिते प्राप्ते त्वां तृणाय न मन्ये तृणतुल्यं न गण-
यामि । 'मन्यकर्मण्यनादरें' इति चतुर्थी । कीदृशं त्वाम् । संकल्पा एव कल्लोलास्तरङ्गा
यस्य तम् । अगम्या दुष्प्रापा सीमा मर्यादा यस्य तम् । जाया स्त्री तदादय एव यादांसि
जलजन्तवस्तैः कृत्वा अतिभयंकरम् । कर्माण्येवोदकानि यत्र तम् ।।
संसारसत्रे षडमी अमित्रा मदादयो मामदया लुठन्ति ।
आशा तवैवास्ति चराचराणामाधार राधावर धाव रक्ष ॥ २६ ॥
यतः संसारवने अमी मदादयः षडमित्राः शत्रवो निर्दयाः सन्तो मां लुठन्ति । 'लुठ
चौर्ये । 'कामक्रोधौ लोभमोहौ तत्परं मदमत्सरौ । षडमी रिपवो ज्ञेयाः संसाराब्धौ निम-
जताम् ' इति शारदोक्तेः । अतो हे स्थावरजङ्गमानामाधार, हे राधावर, तवैव आशास्ति
अतस्त्वं धाव मां रक्ष ॥
संपापसंकल्पमलीमसेऽपि मनस्यनन्त स्मृतिमेषि मे यत् ।
स्वामी दयालुभवता समः कः को वापराधी मम साम्यमेति ॥ २७ ॥
सम्यग्यः पापसंकल्पस्तेन मलिने मनसि हे अनन्त, चेत्त्वं स्मृतिमेषि प्राप्नोषि तर्हि तवो-
चितमिति शेषः । यतो भवता समः को दयालु: स्वामी।अपराधी को वा मम साम्यमेति।
अतोऽहं त्वयैवानुकम्प्य इति भावः ।।
कृष्ण त्वदीयं चरणारविन्दं चेतोहरं चेतसि चिन्तयन्तः ।
सन्तः पदं तत्समवाप्नुवन्ति ब्रह्मादयोऽपि स्पृहयन्ति यस्मै ॥ २८ ॥
हे कृष्ण, सन्तः साधवश्चेतोहरं मनोहरं त्वदीयं पादाब्जं चित्ते चिन्तयन्तः सन्तस्त-
त्पदं प्राप्नुवन्ति यस्मै पदाय ब्रह्मादयोऽपि स्पृहयन्ति । 'स्पृहेरीप्सितः' इति संप्रदानत्वा-
चतुर्थी ।
येषां न माता न पिता न बन्धुर्न सोदरो नापि धनं न विद्या ।
न ते गुणा नापि शरीरशक्तिस्तेषां त्वमेवाच्युत सर्वमेव ॥ २९ ॥
४ स्तबकः] विष्णुभक्तिकल्पलता। येषां जनानां मातृपिटबन्धुसहोदरधनविद्याः न, ते प्रसिद्धा नियादयोऽपि गुणा न. नापि देहसामर्थ्य हे अच्युत, तेषां सर्व त्वमेव ।। केऽयू रमावर नराश्चरणप्रणत्वा न ब्रह्मणः पदमदभ्रदयावतस्ते । केयूरभूषितकरेण कृताभयस्य कृत्वापि पातकमतर्कितशक्तिंभाजः ॥ ३० ॥ है रमावर श्रीपते, के नरा जनास्तव चरणनमनेन पातकं कृत्वापि ब्रह्मपदं नायुन प्रापु: । यातेर्तुङि रूपम् । किंभूतस्य ते । अदभ्रदयावतो बहुदयायुक्तस्य । 'अदभ्रं बहुलं बहु' इत्यमरः । केयूरेणाङ्गदेन भूषितो यः करस्तेन कृताभयदानस्य । तथा अतर्किता शक्ति भजतीति तस्य ॥ अत्यन्तविह्वलमिदं विषयाङ्कुशैर्य- दाकृप्यते भृशमुदग्रभवान्तकेन । गीपीमनोहर मनोऽहरहर्मदीयं त्वत्पादपङ्कजपरागसरागमस्तु ॥ ३१ ॥ हे गोपीमनोहर, मदीयं मन उदग्रो यो भवान्तकः संसाररूपोऽन्तकस्तेन विषयाङ्कुशैः शब्दादिरूपसृणिभिरहरहः प्रत्यहमाकृष्यते ततोऽत्यन्तविह्वलमिदं तव चरणकमलपरागे स- प्रेमास्तु । ततो दुःखाभाव इत्यर्थः ।। लक्ष्मीनिवास जनजीवन दीनबन्धो बन्धोऽयमुत्कटतमो भवसंभवो मे । त्वन्मन्त्रनामजपतोऽस्तु तदस्य नाशो नाशोचिता त्रिभुवने त्वयि केन कर्तुम् ॥ ३२ ॥ हे राधावर, हे जनानां जीवन, हे दीनबन्धो, मे मम भवसंभवः संसारोत्थ उत्कटस्त- मस्तीव्रतरोऽयं बन्धोऽस्ति तत्तस्मात्त्वन्मन्त्रान्नामानि च जपतो ममास्य बन्धस्य नाशो- ऽस्तु । मन्त्राश्च नामानि च तेषां समाहारो मन्त्रनाम । त्रिभुवने त्वयि केन पुंसा आशा कर्तु नोचिता ।। गोविन्द गङ्गातुलसीतरङ्गत्तरङ्गमालामिलितं मदीयम् । मनस्त्वदीये चरणारविन्दे तापत्रयत्रासविमुक्तमस्तु ॥ ३३ ॥ हे गोविन्द, मदीयं मनस्त्वदीय पादपद्मे वर्तमानमत एव गङ्गायास्तुलस्या सह तरङ्ग- न्ती चञ्चला या तरङ्गमाला तया मिलितमतस्तापत्रयादाध्यात्मिकादेर्यस्त्रासस्ततो विमु- तमस्तु॥
काव्यमाला।
,
गोपालंबाल बलवत्तरकालकोप-
लोपाय कोऽपि नहि कायवतामुपायः ।
एकं विहाय महनीयमुदग्रदुःख-
संघातधातचतुरं चरणाम्बुजं ते ॥ ३४ ॥
हे गोपालबाल नन्दशिशो, महनीयं पूज्यमुत्कृष्टदुःखसंघातानां घाते नाशे चतुरमेकं ते
चरणाम्बुजं विहाय कायवतां प्राणिनी बलवत्तरस्यातिशक्तस्य कालकोपस्य लोपाय ना-
शाय कोऽप्युपायो नह्यस्ति ॥
पादाम्बुजन्म भजतामज तावकीनं
दीनातिमञ्जनशुभं जनदुःखहन्नः ।
आयान्तु यान्तु दिवसा भवसागरोऽपि
यस्मिन्परागति परा गतिरस्त्यवश्यम् ॥ ३५ ॥
हे अज, तावकीनं पादाम्बुजन्म पादपद्मं भजतां नोऽस्माकं दिवसा आयान्तु यान्तु ।
कीदृशम् , दीनानामातिभनने दुःखनाशे शुभं समर्थम् । जनानां दु:खं हरतीति । यस्मि-
पादपद्मभजने भवसागरोऽपि पराग इवाचरति जलकणवद्भवति । परागात्विप् । यतस्त्व-
मवश्यं निश्चितं परा गतिरसि ।।
कर्मानुरूपजनियुक्ततया न यामि
त्वत्पादसेवनसुधालहरीविहारम् ।
यस्मिन्ननेहसि विना सरणेन तत्र
दीने मयि स्वयमनन्त दया विधेया ॥ ३६ ॥
हे अनन्त, यस्मिन्ननेहसि समये । 'कालो दिष्टोऽप्यनेहापि' इत्यमरः । कर्मानुरूपजनियु-
क्ततया दैवयोग्यजन्मवत्त्वेन त्वत्पादसेवनमेव या सुधालहरी अमृतोर्मिस्तत्र विहारं क्रीडां
न यामि । त्वां न सेव इत्यर्थः । तत्र तस्मिन्काले त्वत्स्मरणेन विना वर्तमाने मयि स्वयं
त्वया दया विधेया कार्या ॥
कुरु मे परमेश्वर प्रियं हृदये संनिवसन्सुनिश्चलम् ।
हर पातकवृत्रमत्रसत्प्रभयाप्यन्य(क)भुवा यदत्र सत् ॥ ३७ ।।
हे परमेश्वर, मे हृदये सुनिश्चलं संनिवसन् प्रियं कुरु । किं प्रियमत आह-यदन्य
(क)भुवा रव्युत्थया प्रभया अत्रसदभीतं तत्पातकवृत्रं पापान्धकारम् । 'वृत्रो दैत्येऽन्ध-
कारे च' इति कोषः । अत्र हृदि सद्वर्तमानं हर नाशय ॥
मयि पापिनि कापि निष्कृतिर्न तव ध्यानमृते रमापते ।
किम कर्दमलेपितं वपुर्विमलं वारि विनापि जायते ॥ ३८ ॥
४ स्तबकः] विष्णुभक्तिकल्पलता। M हे रमापते, पापिनि मयि तव ध्यानमृते विना कापि निष्कृतिः प्रायश्चित्तं 'नास्ति । तत्र दृष्टान्तः-कर्दमेन लेपितं वपुर्जलं विना विमलं जायते किमु । न जायत इत्यर्थः ॥ अयि मानसमच्युत क्षणं कुरु कारुण्यगुणानुगुम्फितम् । सदया हि भवन्ति साधवः कलयन्तः किल दीनवेदनाः ॥ ३९ ॥ अयोति संबोधने । हे अच्युत, मे मानसं चित्तं कारुण्यगुणानुगुम्फितं दयायुक्तं क्षणं कुरु । कारुण्यमेव गुणस्तेन गुम्फितं प्रथितम् । हि यत्नः साधवो दीनानां वेदनाः कलय- न्तो जानन्तः सन्तः सदया भवन्ति किल । स्वयं भवाब्धिः स्वयमेव नेता स्वयं सतां तारयिता नृसिंहः । स्वयं च सौहार्दनिधिः स्वयं नौः सर्वात्मना तेन तमेव सेवे'॥ ४० ॥ हे नृसिंह, त्वं स्वयमेव भवाब्धिः संसाररूपः समुद्रः । नेता संसारप्रसारकोऽपि स्व- यम् । तस्मात्तारयितापि स्वयम् । सौहार्दस्य दयाया निधिः स्वयम् । नौरूपः स्वयम् । तेन हेतुना सर्वात्मना सर्वभावेन तं त्वामेव सेवे ।। हे लक्ष्मीवर हेलयो लयमयुर्मायाविनो दानवाः कुर्वन्तस्त्वयि वैरमेव विरता वेदोदिताद्वमनः । जीवा ये तु निरन्तरं नवनवानन्दास्तवैव स्तवै- स्तेषां दर्शनमात्रमप्यनुचितं किं देव तन्मादृशाम् ॥ ४१ ॥ हे लक्ष्मीपते, वेदप्रोक्ताद्वर्त्मनो मार्गाद्विरता निवृत्तास्त्वयि वैरमेव कुर्वन्तो दानवा माया- विनो हेलया अनायासेन त्वयि लयमयुः प्रापुः । 'हे दयालय ययुः' इति पाठे लयमिति शेषः। तर्हि ये तु जीवास्तव स्तवैः स्तोत्रनिरन्तरं नवनवानन्दा अत्यन्तानन्दयुक्तास्तेषां मादृशां दर्शनमात्रमप्यनुचितं किम् ॥ सेवे देव तवैव पादकमलं कल्याणकोटीकुलं श्रीमद्रक्ततलं परीष्टिपरतो लक्ष्मीकरात्कोमलम् । यद्दीव्यत्तुलसीदलं सुरसरित्कल्लोलकौतूहलं कैवल्यैकफलं नखावलिविभाविध्वस्तमायाबलम् ॥ ४२ ॥ इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां भक्तयुपद्रवनिराकरणो नाम चतुर्थः स्तबकः । १. अस्मात्प्राक् 'दुरवस्थतरं दयानिधे किमु नालोकयसे नृसिंह माम् । भवदीयपदा- म्बुजद्वयीस्मरणालम्बनमात्रजीवनम् ॥ इदं पद्यं पुस्तकान्तरेऽधिकमस्ति. २. 'हे दया- गृह ययु' इति च पाठः. ३. अस्मादनन्तरम् ‘भवदावानलज्वालविह्वलस्त्वत्पदाम्बुजे । लभतां मन्मनोभृङ्गः स्वर्धनीमधुनि स्थितिम् ॥ इति पद्यं पुस्तकान्तरेऽधिकमस्ति.
काव्यमाला। हे देव, ईदृशं यत्त पादपद्मं तदहं सेवे भजे । कीदृशम् । कल्याणकोट्याः कुलं गृहम् । श्रीमत् शोभायुक्तं रक्तं तलं स्वरूपं यस्य । परीष्टिः सेवा तत्परात्तदासक्तालक्ष्मीकरादपि कोमलम् । दीव्यन्ति शोभमानानि तुलसीदलानि यत्र । सुरसरितो गङ्गायाः कल्लोलैः को- तूहलमुत्सवो यत्र । कैवल्यं मुक्तिरेवैकं फलं यत्र । नखावलिविभया नखपतिशोभया वि- ध्वस्तं मायाबलं येन ॥ इति श्रीमहीधरविरविते विष्णुशक्तिकल्पलताविवरणे भक्त्युपद्रवनिराकरणो नाम चतुर्थः स्तबकः । पञ्चमः स्तबकः । लक्ष्मीलावण्यलीलारसविसरसरः साधु पेपीयमानं दृग्भ्यां साक्षान्मुरारेर्दिनकररजनीकामुकाभ्यां करौवैः कृष्णत्वं यद्विपाकादलभत सितमप्यस्य वर्म प्रभाम्भो- धाराभिर्निर्यदेतद्भवतु भवदवज्वालजालप्रशान्त्यै ॥ १ ॥ प्रभालक्षणाभिरम्भोधाराभिर्निर्यत्प्रसरणशीलम् । तथा दिनकररजनीकामुकाभ्यां सूर्य- चन्द्रलक्षणाभ्यां दृग्भ्यां मुरारेनॆत्राभ्यां करौघैः किरणसमूहः साधु यथा तथा साक्षात् पे- पीयमानमत्यन्तं दृश्यमानम् । ईदृशमेतत् लक्ष्म्या माया लावण्यलीलयोः सौन्दर्यक्रीडयो राजसतामसरूपयोर्यो रसविसरः प्रेमप्रसरः स एव सरस्तटाको भव एव दवाग्निस्तस्य ज्वा- लाजीलं ज्वालासमूहस्तस्य प्रशान्त्यै नाशाय भवतु संसारतापं शमयतु । एतत्किम् । य- पिकाद्यत्परिणामेन । यत्संसर्गादिति यावत् । सितं शुद्धसत्त्वात्मकमपि अस्य हरेर्वमं श. रीरं कृष्णवं श्यामतामलभत प्राप नीत्वा नाकनितम्बिनीनयनयोः पीयूषपानायते मत्वा मङ्गलमातनोति मरुतामास्थाय सुत्रामताम् । जानीते जगदीशितुर्यदतुलं जन्तु पित्वा पदं तन्नारायणनाम कामभिमतां सिद्धिं न दत्ते सताम् ॥ २ ॥ तत् हरेर्नाम सतां कामिष्टां सिद्धि न दत्ते । सर्वामपि दत्त इत्यर्थः । तत्किम् । जन्तु- यन्नाम नीत्वा प्राप्य । श्रुत्वेत्यर्थः । नाकानितम्बिनीनयनयोरप्सरोनेत्रयोः पीयूषपानायते अमृतपानवदाचरति । अप्सरसां भोगयोग्यो भवति । यन्नाम मत्वा ज्ञात्वा मननं कृत्वा सुवामतामिन्द्रत्वमास्थाय मरुतां देवानां मङ्गलं विस्तारयति । यन्नाम जपित्वा निदिध्या- सनं कृत्वा जगदीशितुर्हरेस्तुलं पदं ब्रह्मस्वरूपं जानीते । साक्षात्कारो भवतीत्यर्थः ।। यदूरीकुरुते भवान्धतमसं यस्य प्रकाशोऽक्षरं तद्ब्रह्मैव परं यदत्र ददते लिप्साधिकं लीलया ।
६ स्तबकः] विष्णुभक्तिकल्पलता। यस्यानेकगुणानलं न नलिनोद्भूतोऽपि वक्तुं विभु- स्तत्कि पामर रामरत्नमनिशं हृद्येव न स्थाप्यते ॥ ३ ॥ हे पामर अधम, तद्रामरत्नमनिशं निरन्तरं हृद्येव किं न स्थाप्यते । तत्किम् । यद्रामरलं भवान्धतमसं संसारगाढध्वान्तं दूरीकुरुते निवर्तयति । 'ध्वान्ते गाढेऽन्धतमसम्' इत्यमरः । अक्षरमविनाशि तत्प्रसिद्धं परं ब्रह्मैव यस्य रामरत्नस्य प्रकाशः किरणौधः । अत्र संसारे यद्रामरत्नं लीलया अनायासेनैव लिप्साधिकं वाञ्छाधिकं ददते । 'दद दाने' । विभुः प्रभु- रपि नलिनोद्भूतः कमलजो ब्रह्मापि यस्यानेकगुणान्वक्तुं नालं न समर्थः ॥ यज्ञस्तम्भवति कृता वसुमती तेनाखिला संयुगे सुप्तं तेन सपत्नदर्पदलनोद्दामप्रतिष्ठावता । वित्तं वेदविदे व्यतारि विधिवद्ब्रह्मार्पणन्यायतः कंसध्वंसकृतः कृतः कृतधिया येन प्रणामः सकृत् ॥ ४ ॥ तेन प्राणिना अखिला वसुमती भयुपयुक्ता कृता। सपत्नानां शत्रूणां दर्पदलने गर्वापहारे उद्दामा बड्डी प्रतिष्ठा यस्येदृशेन तेन संयुगे रणे सुप्तम् । तेन च ब्रह्मार्पणन्यायेन वेदविदे विधिवद्वित्तं व्यतारि दत्तम् । येन कृतधिया कुशलेन सकृदेकवारमपि कंसध्वंसकृतो हरे; प्रणामः कृतः ॥ धन्या धर्मधुरंधरेण धरणी तेनोर्बलोकाधिका माता तस्य कृतार्थतामुपगता वीतापदः पूर्वजाः । तस्मिँल्लोचनमार्गमागतवति प्रायेण पापक्षयो यस्योदारमतेन॑रस्य रमते चित्ते मुरस्य द्विषन् ॥ ५ ॥ तेन पुंसा धर्मधुरंधरेण धर्मभारवाड्रा अवलोकाधिका स्वर्गलोकाधिका धरणी धन्या। अमुष्य पुंसो माता कृतार्थतां प्राप्ता । पूर्वजाश्च तस्य वीतापदो गतदु:खाः । तस्मिन्प्रायेण लोचनमार्गमागतवति दृष्टे पापक्षयो भवति । उदारमतेर्महाबुद्धेर्यस्य नरस्य चित्ते मुरस्य द्विषन् हरी रमते ॥ चेतो यस्य जनार्दने जनमनःपीयूषपानाधिक- ध्यानानन्दपदे निरस्तनिखिलद्वैतप्रतिष्ठास्पदे किं तस्यारिभिरुद्धतैः किमथवा विघ्नैः कुलैर्वापदां किं पापेन किमन्तकेन बलिना देवेन वा तस्य किम् ॥ ६ ॥ जनमनसाममृतपानादधिको यो ध्याननन्दस्तस्य पदे स्थानभते । तथा निरस्तं निखिलं द्वैतप्रतिष्ठाया आस्पदं येन तादृशे जनार्दने यस्य चेतस्तस्योद्धतैररिभिः किम् । अथवा ६ ४२ काव्यमाला । विनैः किम् । आपदां कुलैर्वा किम् । किं पापेन । किमन्तकेन यमेन । बलवता देवेनापि वा किम् । न किमपीत्यर्थः ॥ यस्य स्वान्तमनन्ततो न चलित्रं लीलावतीलोचनै- रुच्चैः सूचितनिश्चलप्रियतया बालस्य वालिङ्गनैः । स्मारस्फारतयाथवातिबलवहारिधदावानल- ज्वालाभी रिपुभीतिभिश्च पुरुषो धन्यः स एव क्षितौ ॥ ७ ॥ एतैः पदार्थैर्यस्य स्वान्तं मनोऽनन्ततो हरेः सकाशान चलितं क्षितौ धरायां स एव धन्यः पुमान् । कैरित्यत आह-लीलावतीकटाक्षरुचैः प्रकाश सूचिता कथिता या नि- श्चलप्रियता स्थिरप्रियवाक्यं आ जन्मावधि तव लक्षहेममुद्राः अनेन दातुं प्रतिश्रुतत्यादि तेनापि । तथा पुत्रालिङ्गनैः । तथा स्मार उपतापः । 'स्मृ शब्दोपतापयोः' । घप्रत्ययः । तस्य स्फारतया बाहुल्येन । 'स्फारस्तु करकादीनां बुद्धदे विपुलेऽपि च' इति कोषः । त- थातिबलवान्यो दारिद्रयदावानलस्तस्य ज्वालाभिः । तथा शत्रुभीतिभिरपि । एतैर्हरौ स्थिरमना धन्यः ॥ पीयूषं परिहाय हायमधमस्तृष्णाभिभूतो जनः कूपं काङ्क्षति पङ्कसंकुलमलं दैवेन निर्वञ्चितः । हित्वा हृद्तमेव देवमतुलानन्दप्रदं केशवं भूतेष्वात्महिताय ताम्यति मतित्यक्तो हि संसारिषु ॥ ८ ॥ हो इति खेदे । अयं तृष्णाभिभूतोऽधमो जनोऽमृतं त्यक्त्वा पङ्कव्याप्तं कूपं वाञ्छति । यतो दैवेन वञ्चितः । कथं तदाह-अतुलानन्ददायिनं हृदयस्थं केशवं देवं त्यक्त्वा म- तित्यक्तो निर्बुद्धिः सन् संसारिषु भूतेष्वात्महिताय ताम्यति ग्लायति ॥ तावदैन्य मदन्यतो न भवतो गन्तव्यमव्याहता- नन्दं नन्द दरिद्र दुःसहतरं दुःखं च तावद्ददत् । तावद्र्जतु दुर्जनो मम विपद्वृद्ध्या रणत्कारक- द्यावन्मामवलोकते न कृपया कृष्णः कृतायां स्तुतौ ॥ ९ ॥ स्तुतौ कृतायां कृष्णो मां यावन्नावलोकते हे दैन्य, तावद्भवतस्त्वया मदन्यतो न गन्तव्यम् । 'कृत्यानां कर्तरि वा' इति भवत इति कर्तरि षष्ठी । हे दरिद्र, त्वमपि तावदुः- सहतरं दुःखं ददत्सत् अव्याहतानन्दं यथा तथा नन्द । किं च दुर्जनो मम विपदृझ्या रणत्कारकृत् हसन् गर्जतु । हरिणा मय्यक्लोकिते दैन्यादयोऽकिंचित्करा इति भावः ॥ 'मातर्मेदिनि देवकीतनयतामासाद्य देवो दया- सिन्धुः सिन्धुरलीलया त्वयि पदबातानतानीत्तु यान् ।
५ स्तबकः] विष्णुभक्तिकल्पलता। ४ एकं तच्चरणारविन्दमधुनो वाल्लभ्यलम्याल्लवं दत्त्वा मुक्तिदमाशु मह्यमनिशं मद्भारमुक्ता भव ॥ १० ॥ हे मातर्मेदिनि, दयार्णवो देवो हरिदेवकीपुत्रत्वं प्राप्य त्वयि विषये यान्पदबाता- न्पादन्यासमूहानतानीद्विस्तारयामास गजलीलया वाल्लभ्यलभ्यात्नेहप्राप्यात्तच्चरणारविन्दमधु- नस्तत्पादाब्जपरागादेकं मुक्ति लवं दत्त्वा मद्भाररहिता भव । तस्मिन्दत्तेऽहं मुक्तः स्याम् ततस्ते मद्भारहीनतेति भावः ॥ यद्धीमावरजो रजोधिकमनाः संन्यासिवेषं दध- कन्यामेकतमः समस्तसुभटश्रेणीशिरःशेखरे । गर्जत्येव बलेऽवलेपविधुरो हृत्वा सुभद्रामगा- नागोऽनन्तवशंगतो जयति सा नारायणस्वामिता ॥ ११ ॥ रजोगुणव्याप्तमना भीमानुजोऽर्जुनो यतिवेषं धारयनेक एवावलेपविधुरं गर्वहीनं यथा तथा निर्गवं एव सन् समस्तसुभटश्रेण्याः शिरःशेखरीभूते बलभद्रे गर्जत्येव सति अन- न्तस्य हरेर्वशंगतः सन्सुभद्रां हृत्वा अगात् आगोऽपराधं तु नागान प्राप । सा हरिस्वा- 'मिता जयति । हरेभक्तत्वादिति भावः ॥ कारागारगता हृतामरमुदो भौमस्य यद्भीरवो भर्तारं भगवन्तमन्तकभयातङ्कापहं लेभिरे । हृद्वृत्तिश्चतुराननस्य नितरां यद्दास्यमेवेहते- ऽप्येकायं कलितस्मृतेर्विजयते सोऽयं प्रसादः प्रभोः ॥ १२ ॥ हृता अमराणां मुदो येन ईदृशस्य भौमस्य नरकासुरस्य कारागृहस्था भीरवो नार्यः । 'नारी भीरुर्भामिनी कामिनी च' इति हलायुधः । अन्तकोत्पन्नमातङ्कं भयमपहन्ति तं नरकभीतिहर्तारं हरिं भर्तारं यल्लेभिरे प्रापुः । ऐकाम्यं यथा तथा कलिता स्मृतिर्येन तस्य निरन्तरस्मरणशीलस्य चतुर्मुखस्य मनोवृत्तिर्यदास्यमेवेहते चेष्टते सोऽयं प्रभोः प्रसादो विजयते ॥ कंसः किं सुकृतं चकार भगिनी कारागृहे योऽरुण. जामेयानपि जन्निवापितुरभूत्सौराज्यसंवैकषः । अन्यत्तस्य किमुच्यते तदपि मामेष क्षयं नेष्यती- त्यत्यन्तस्मृतकेशवः शिवतम तस्याश्रमं जग्मिवान् ।। १३ ॥ कंसः किं पुण्यं चकार, न किमपि । यतो भगिनी देवकी कारागृहे योरुणगुरोध, जामेयान् 'जामिः स्वस्कुलस्त्रियोः' तदपत्यानि जामेयास्तान् जघान, पितुरुग्रसेनस्य सौराज्यं सर्वे कषति बलाद्गृह्णाति तादृशोऽभूत् । ‘करीषकूलसर्वाभ्रेषु कषः' इति खान- ४४ काव्यमाला। त्ययः । तस्य कंसस्थान्यत्पापं किमुच्यते । यद्यप्येतादृशः, तदप्येष कृष्णो मां क्षयं नाशं नेष्यति मारयिष्यतीति भयेनात्यन्तं स्मृतः केशवो येन सः कंसः शिवतमं यद्धाम ब- माख्यं तज्जग्मिवान् प्राप । ईदृशो हरिस्मरणप्रभाव इत्यर्थः । ना रायः स्मरणं करोति हि यथा नारायणस्य प्रभो- रेवं चेत्कुरुते कलामपि तदा दारिश्यदारि द्रुतम् । प्राप्य श्रीकरुणाकंटाक्षकलना कल्याणमक्षुद्रया संपत्त्यैलविलं विलक्ष्य विलसत्याचन्द्रतारं सुखी ॥ १४ ॥ ना पुमान् यथा रायो घनस्य स्मरणं करोति तथा कलां लेशमपि यदि नारायणस्य हरेः स्मृतिं करोति तदा श्रीयुक्तो यः करुणाकटाक्षत्तत्कलनया दारिद्रयनाशकं कल्याणं मङ्गलं प्राप्याक्षुद्रया महत्या संपत्त्या ऐलविलं कुबेरन् । 'य:कपिङ्गैलविलश्रीदपुण्यजने- श्वराः' इत्यमरः । अतिक्रम्य आचन्द्रतारं कल्पान्तपर्यन्तं सुखी विलसति ॥ गङ्गे संनिहितासि संततमपि श्रीकृष्णपादाम्बुजे लक्ष्मि त्वं ललनाललाम लभसे लावण्यमस्योरसि । प्रेमा तस्य च मातरस्ति तुलसि त्वय्युत्तरस्तत्कथं विज्ञप्तिर्न विधीयते करुणया मद्दुःखविध्वंसिनी ॥ १५ ॥ हे गणे, त्वं हरिचरणे निरन्तरं निकटासि । हे लक्ष्मि, ललनानां नारीणां ललाम स्त्रीरलभूता त्वमस्य हरेरुरसि लावण्यं शोभा लभसे । हि तुलसि मातः, तस्य हरेः प्रेमा त्वय्यधिकोऽस्ति । तत्तर्हि करुणया कृत्वा मम दुःखनाशिनी विज्ञप्तिर्भवतीभिः किं न क्रियते । सर्वथा मम दुःखनाशाय हरिविज्ञपनीय इति भावः ॥ 'ललामवललामश्च शृङ्गे चिह्नपताकयोः । रम्ये प्रधाने भूषायां पुण्डे पुच्छप्रभावयोः' ॥ अन्तश्चिन्तयतामनन्तमनिशं श्वासा निवासाः श्रियो जन्तूनां यति यन्ति यागयुगलैस्ते तुल्यतां तन्वते । स्पर्धन्ते मृडमौलिमण्डननदीवीचीभिरुच्चैः पुनः पावित्र्येण भवाम्बुदव्युदसनोद्दामैकदेशौजसः ॥ १६ ॥ नित्यं चित्ते हरि स्मरतां प्राणिनां श्रियः शोभाया निवासा आधारभूता यत्ति या- वन्तः (१) श्वासा यन्ति गच्छन्ति । ते यागयुग्भैः सादृश्यं कुर्वते । हरि स्मरतां प्रतिश्वास यागद्वयफलमित्यर्थः । किं च ते श्वासाः शिवस्य मौलेर्मण्डनभूता या नदी गङ्गा तद्वी- चीभिः सह पावित्र्येण स्पर्धन्ते । कीदृशाः-भवाम्बुदस्य संसारमेघस्य व्युदसने नाशे .. १. 'मे दुःख' ख..
५ स्तबकः] विष्णुभक्तिकल्पलता। १ उद्दाममुत्कटमेकदेशौज एकभागस्थं तेजो येषाम् । येषामेकदेशस्थं तेजः संसारमेचं शमयति ॥ मुक्त्वा माधवसेवनं मतिमता मन्तव्यमन्तव्यथाः किंचिद्वारयितुं समर्थमपरं पुण्यं न लोकत्रये । संतप्ते तपतीव्रतापतपनप्रद्योततो भूतले तापं हर्तुमलं विना जलधरं दृष्टः कुतः केन कः ॥ १७ ॥ लोकत्रये एकं हरिसेवनं मुक्त्वान्ते मरणे या व्यथान्तन वारयितुं समर्थमपरं किंचित्पुण्यं मतिमताम् । कर्तरि षष्ठी । पुंसां न मन्तव्यम् ॥ तत्र दृष्टान्त:-तपे ग्रीष्मे तीव्रस्तापो यस्य तपनस्य भानोः प्रद्योतत: प्रद्योतेनातपेन संतप्ते भतले मेधं विना तापं हतु केन कः कुतो दृष्टः । न केनापि न कोऽपीत्यर्थः । तथा हरिसेवां विनान्तपीडानाशकं किमपि नास्तीति भावः ॥ धातुप्रत्यययोगतो रचयितुं रूपाणि लोकत्रये विद्वांसो विविधा विधातुरधिकं धीकौतुकं तु प्रभोः । संख्यालोपसमासकालपदभिल्लिङ्गादिभावान्वितं रूपं प्रत्यययोजनाविरहितैर्निर्माति यो धातुभिः ॥ १८ ॥ धातुर्भुवादिः, प्रत्ययस्तिबादिः, तयोर्योगाद्रपाणि भवत्यादीनि रचयितुं लोकत्रये वि- द्वांसो बुधा विविधा वर्तन्ते । परं तु विधातुः कर्तुः प्रभोरीशस्य हरेस्तु धीकौतुकं दुद्धि- विख्यातिरधिकम् । तदेवाह-यो विधाता प्रत्यययोजनाविरहितैर्ज्ञानसंबन्धशून्यैरचेतनैः । जडैरिति यावत् । धातुभिर्महाभूतैः संख्यैकत्वादिः, लोपो नाशः, समासः समर्थनम्, काल: समयोऽवस्थादिकः, पदभिद्वस्तुभेदः, लिङ्गादि स्त्रीत्वादि, भावो जन्म, एतैर्युक्तं रूपं मनुष्यपश्वादि निर्माति करोति ॥ 'धातू रसादौ श्लेष्मादौ भ्वादौ ग्रावविकारयोः । महा- भूतेषु लोकेषु शब्दादाविन्द्रियेऽस्थनि ॥ इति कोषः ॥ 'कौतुकं नर्मणीच्छायामुत्सवे कु- तुके मुदि । पारम्पर्यागते ख्याते मङ्गलोद्वाहसूत्रयोः ॥ इति च ॥ 'कालः कृष्णे महा- काले कृतान्ते समये मृतौ ।' 'पदं स्थाने विभक्त्यन्ये शब्दे वाक्येऽङ्कवस्तुनोः ।' 'भेदो वि- दारणे वेधे उपजापविशेषयोः ।' 'लिङ्गं पुंस्त्वादिचिह्नयोः । शिवमूर्तम्वनुमाने सांख्योक्तप्र- कृतावपि' इति च ॥ भावोऽभिप्रायवस्तुनोः । स्वभावजन्मसत्तात्मक्रियालीलाविभूतिषु । चेष्टायोन्योर्बुधे जन्तौ शृङ्गारादेश्व कारणे । शब्दवृत्तिहेतौ च ।' 'समासः स्यादैकपद्ये सं- क्षेपे च समर्थने ॥ तस्मिन्नस्मितयाभिभूतहृदया रूपे कृतप्रत्यया मन्दाः केऽपि तदाशयैकशरणा दम्भादयो दस्यवः । .
काव्यमाला। बाधन्ते बुधबोधबन्धुरविधिव्याषेधिमेधाविनो लोकं कोकमिवानिवार्यविपदं यामा निशामाश्रिताः ॥ १९ ॥ तस्मिन्देहे स्मितयाहंभावेनाभिभूतं पराभूतं हृदयं यैस्ते रूपे आकारे नरादिके एव कृतः प्रत्ययो विश्वासो यैस्ते, मन्दा दुष्टास्तेषां जन्तूनामाशयश्चित्तमेकं शरणं येषां ते, तथा बुधानां ज्ञानिनां बोधाय ज्ञानप्राप्तये समीचीनो यो विधिः प्रकारः श्रवणादिस्तव्याषे- धिनी ज्ञानप्रकारनिवर्तिका मेधा बुद्धिष्यं ते कामदम्भादयो दस्यवश्चौरा अनिवार्यविपद- मसाध्यकटयुक्तं लोकं बाधन्ते पीडयन्ति ॥ अत्र दृष्टान्तः-~~यथा निशामाश्रिता यामा रात्रिप्रहराः कोकं चक्रवाकं बाधन्ते । तद्वदेहमाश्रिताः सन्तो ज्ञानं बाधन्त इत्याशयः ॥ मजन्तु प्रबलप्रतापनिहतानेकैनसि न्यायतो निर्णीते निगमैनरा भवपराभूताः सुतीर्थान्तरे । मज्जन्तुस्तु मधुद्विषः पदनखप्रेङ्खप्रभामण्डली- पूरस्फारतरङ्गसंगमचमत्कारोत्सवं गाहते ॥ २० ॥ संसारपीडिता नराः शास्त्रनिीते प्रबलप्रतापेन निहतान्यनेकान्येनांसि पापानि येन तादृशे तीर्थान्तरे प्रयागादौ मजन्तु स्नान्तु । मजन्तुरहमेव जन्तुस्तु मधुद्विषो हरेः पदनखानां प्रेडन्ती या प्रभामण्डली कान्तिपटली तस्याः पूरस्य स्फारा वृद्धा ये तरङ्गास्तेषा संगम एव चमत्कारोत्सवस्तं गाहते हरिचरणभक्तिमेव गाहते ॥ लक्ष्मीभर्तरि भक्तिमेव भजतां यज्जायते जन्मिनां मानैश्वर्यमरातिभीतिरकुलस्फीतिः प्रतिष्ठाच्युतिः । नासीरः स समग्रसंपदुदधेर्वह्वेर्यथा सूचको धूमः स्यात्प्रथमो यथोपनिषदः पूर्वैव भूमिभिंदाम् ॥ २१ ॥ हरौ भक्ति भजतां जन्मिनां प्राणिनां यदानैश्वर्यमसामर्थ्यम्, अरातिभीतिः शत्रुभयम्, अकुलस्फीतिः कुलवृद्धेरभावः, प्रतिष्ठानाशः, इत्यादि दुःखं जायते, स समस्तसंपदुदधेः सर्वहर्षस्योत्पत्तेर्नासीरः सेनामुखम् । हरिभक्तौ क्रियमाणायां दुःखाविर्भावः सुखप्रागभाव- तया ज्ञेय इत्यर्थः । तत्र दृष्टान्तः-वह्वेस्तेजसो यथा प्रथमो धूमो जायते । यथा चोपनि- पदोऽद्वैतप्रतिष्ठापिकायाः पूर्वा आदौ पूर्वपक्षत्वेन भिदां भूमिर्भेदप्रतिपादनम् ॥ गङ्गासागरसंगमः सुमहितं काशीतलं शीतलं दाहाय प्रबलैनसो न सरितः शेषा विशेषार्थदाः । यस्य ध्यानमृते तमच्युतमहं हृत्कुञ्जकण्ठीरवं कुर्वे यत्पदवीक्षणेन पदवी दृश्यैव मुक्त्यद्भुता ॥ २२ ॥ गङ्गासमुद्रसंगमः, शीतलं सुमहितं पूज्यं काशीतलम् , विशेषार्थप्रदाः शेषाः सरितो ५ स्तबकः] विष्णुभक्तिकल्पलता। यमुनाद्याः, एते यस्य हरेर्थ्यानं विना प्रबलपातकनाशाय न भवन्ति, तं हरि हृदयलक्ष- णकुझे कण्ठीरवं सिंहं कुर्वे हृदि स्थापयामि । यत्पददर्शनेन मुक्त्वा कृत्वाद्भुता या पदवी मुक्तिपदं दृश्यैव भवति । यस्य चरणभजनेन साक्षात्कारो भवतीत्यर्थः ॥ द्रव्येणापि विना भवन्ति सुलभान्यम्भांसि भूमीतले प्राप्याः पादपपल्लवाः प्रभुरपि प्रौढप्रतापोऽच्युतः । स्यादेवाचितयार्चयार्चिततरस्तस्मिन्भवेदाचिते मोक्षो मङ्ख मुमुक्षितस्य नियतं तत्र प्रमाणं श्रुतिः ॥ २३ ॥ द्रव्यं विना भूतले जलानि सुलभानि, वृक्षपल्लवाः पूजार्थे प्राप्याः, प्रभुर्हरिरपि प्रौढ- प्रतापः, अर्चया प्रतिमया पूजितयाप्यच्युतोऽचिततरोऽत्यन्तं पूज्यः स्यात् । तस्मिन्हरौ पूजिते मुमुक्षितस्य मोक्षेच्योर्मधु शीघ्रं मोक्षो भवेत् । नियतं निश्चितं तत्र श्रुतिर्वेद एवं प्रमाणम् ॥ मार त्वं मृदुमानसानपि मुनीन्मृद्गासि यन्मार्गणै- स्तेन त्वजनकोऽपि कोपितमनास्त्वद्वृत्ततो वर्तते । यद्याता यमयातनां तनुभृतस्त्वामाश्रितास्त्वत्त्यजो नीता लोकमशोकमत्रभवता नारायणेन ध्रुवम् ॥ २४ ॥ हे मार काम, त्वं कोमलचेतसोऽपि मुनीन्बाणैर्यत्पीडयसि, तेन हेतुना त्वद्वृत्ततस्त्व- दाचरणेन त्वत्पिता हरिः क्रुद्धचित्तो वर्तते । मयि हरेः कोपः कथं ज्ञातः, तत्राह--यत- स्त्वामाश्रिताः कामरता जना यमपीडां प्राप्ताः । त्वत्त्यजो निष्कामा जना अत्रभवती पू- ज्येन हरिणाशोकं मोक्षं प्रापिताः, । अतो ध्रुवं ज्ञायते हरिस्त्वयि कुपितः ॥ लक्ष्मि त्वं यदपीपलः पलभुजः पौलस्त्यपूर्वानमू- नक्षीणैर्विभवैरशूशुष ऋषीनप्यन्नतृप्तिं विना । मातुस्तेऽनुचितं समस्तजगतामेतच्चिरं चिन्तयें- लङ्कायां पुरि शासनं तव धवश्वके भवन्राघवः ॥ २५ ॥ हे लक्ष्मि पौलस्त्यपूर्वानमून्रावणादीन्पलभुजो राक्षसान्पूर्णैर्विभवैः समृद्धिभिस्त्वं यदपीपल: पालितवत्यसि । ऋषीन्विश्वामित्रादीनन्नप्तिं विना शूशुषः शोषितवत्यसि । सर्व- जगतां मातुस्तवैतद्रक्षःपालनमृषिशोषणं चानुचितम् । एतच्चिरं चिन्तयंस्तव धवस्तव भर्ता रामो भवल्लङ्कायां तव शासनं शिक्षणं चक्रे ॥ तत्र युक्तिमाह-- नोचेदेष दशास्यतामनुभक्न्यादो भवाम्भोनिधे- लकेशः क गिरामगोचरतरस्त्वद्वल्लभो वा कुतः । , काव्यमाला। . तस्येच्छामपहाय कस्त्रिभुवने हतु जनस्त्वामलं तन्मातः कथमीदृशं पुनरपि प्रारभ्यते प्रस्तुतम् ॥ २६ ॥ चेद्ययेवं न स्यात्तर्हि दशास्यतां रावणभावमनुभवन्संसारसमुद्रस्य यादो जलजीवभूतो लङ्केशो रावणः क्व, गिरां वाचामगोचरतगेऽत्यन्तमविषयस्तव भर्ता रामः क्व । महदन्त- रमनयोः । तस्य रामस्येच्छां विना त्रैलोक्ये त्वां हर्तु हे मातः को वा समर्थो न कोऽपी- त्यर्थः । तत्तस्मादीदृशं प्रस्तुतमुपक्रान्तं पुनरपि कथं प्रारभ्यते । पापिपालनं धर्मिशोषणं च न कर्तव्यमित्यर्थः ॥ त्वं मूलप्रकृतिः पुराणपुरुषो नारायणोऽयं विधु- र्वह्निस्त्वं स च विन्दुरिन्दुवदने नादात्मकं ते वपुः । मातः किं बहुना चराचरमिदं जातं युवाभ्यां यत- स्तस्मादौदरपुत्रवन्निजतया पोष्यं विभेदं विना ॥ २७ ॥ हे मातरिन्दुवदने चन्द्रमुखि, त्वं मूलप्रकतिरादिमाया, अयं नारायणः पुराणपुरुषः, अयं विधुश्चन्द्रस्त्वम्, अग्नि रिः, बिन्दुस्तव वपुर्नादात्मकं नादरूपम् । किं बहुना । इदं स्थावरजङ्गमं युवाभ्यां लक्ष्मीनारायणाभ्यां जातम् । तस्माद्भेदं त्यक्त्वौरसपुत्रवन्निजतया स्वीयत्वेन विश्वं पोष्यं पोषणीयम् ॥ तत्त्वं मातरनन्तमन्तरनिशं निध्यायतामायता- वालोक्य स्थितिमेनमेव समया देवं दयासागरम् । अप्येतन्न विचिन्तयस्यधिजगत्येते दरिद्रादिता दत्त्वा पर्यनुयोगमच्युतपरा मां ढेपयिष्यन्ति यत् ॥ २८ ॥ हे मातः, तस्मात्त्वमन्तश्चित्तेऽनन्तं नितरां ध्यायतां स्मरतामायतावुत्तरकाले दयास- मुद्रमेनं देवं हरिं समया हरिसमीपे स्थितिमालोक्य तन्न चिन्तयसि । किं तच्चिन्तनीयम्, अत आह-दरिद्रादिता एते हरेरग्रे पर्यनुयोगमुपालम्भनं दत्त्वा मां ढेपयिष्यन्ति । त- स्माद्भक्तेभ्यो दारिद्र्यं दूरीकार्यमित्यर्थः ।। मातर्मङ्गलदेवते मधुरया दृश्या मनुष्या मुदा वीक्ष्यन्ते भवदीक्षिताः शतमखीभावाय ते दीक्षिताः । दोषस्तेषु गुणायते रिपुरपि प्रायेण मित्रायते व्यालो रज्जवति क्षितिस्त्रिदिवति क्षोणीपतिर्दासति ॥ २९ ॥ हे कल्याणदेवते मातः, ये मनुष्या मधुरया कृपायुक्तया द्रष्टया मुदा त्वया वीक्ष्यन्ते ते भवसंसारे दीक्षिताः संसारिणः संसरणदीक्षां प्राप्ताः सन्तः शतमखीभावायेन्द्रत्वभवनाय दी- १. दरिद्रेति भावप्रधानो निर्देशः.
५ स्तबकः] विष्णुभक्तिकल्पलता। क्षिता भवन्ति । तेषु च दोषोऽपि गुणायते, रिपुरपि बाहुल्येन मित्रवदाचरति, व्यालः सो रज्जवति रज्जुवदाचरति, क्षितिः पृथ्वी त्रिदिवति स्वर्गवदाचरति, क्षोणीपती राजा दासवदाचरति । गुणायते, मित्रायते, इत्यत्र क्यङ्क । रज्जवतीत्यादौ क्विप् ॥ अप्येकक्षणमेधि रे मधुकरः श्रीमन्मधुद्वेषिणः पादाम्भोजयुगे धिगेव कमलाकाङ्क्षावशः क्लिश्यसि । यद्भूताभ्युदयाय भूरिविभवैराविद्भार्गवी भक्त्या भर्तु""रसाधुभिरभिप्रायैः परैः पूर्यताम् ॥ ३० ॥ रे जन्तो, एकक्षणमपि श्रीमतो मधुसूदनस्य पादाब्जयुग्मे मधुकरो भ्रमर एधि भव । तव कमलाया लक्ष्म्या आकाङ्क्षया यदाकुलत्वं तद्धिगस्तु । यतो सा भार्गवी भृगुपुत्री लक्ष्मी हरेभक्त्यैव भूतानामभ्युदयायाविः प्रकटा भवेत् । अतः परैरन्यैरसाधुभिरभिप्रायैः पूर्यताम्, अन्येऽभिप्राया न कार्या इति भावः ॥ दूरं याहि देरिद्र दीर्णहृदयं दौर्भाग्य भङ्गं भज व्याधे लावणसैन्धवीषु लहरीष्वापद्यतां निहवः । शेषं भ्रंशमुपैतु युष्मदुपमं नारायणाराधने वैयत्र्यं व्यपहाय लग्नमनसो जाता वयं सर्वथा ॥ ३१ ॥ हे दरिद्र, दीर्ण स्फुटितं हृदयं यस्येदृशं सत्त्वं दूरं याहि । हे दौर्भाग्य, नाशं प्राप्नुहि । हे व्याधे रोग, त्वया लवणसिन्धोरिमा लावणसैन्धव्यः । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च इत्युभयपदवृद्धिः । क्षाराब्धिसंबन्धिनीषु लहरीषु निहवो लय आपद्यतां प्राप्यताम् । रो- गेण क्षाराब्धौ पतितव्यमित्यर्थः । शेषमनुक्तं युष्मदुपमं भवत्सदृशं दुःखभयादिकं भ्रंशं नाशमुपैतु । यतो वयं वैयत्र्यं व्यग्रत्वं त्यक्त्वा सर्वाशेन कृष्णाराधने लग्नचित्ता जाताः,अतो दरिद्रादिभिर्मयि न स्थेयमिति भावः ।। दयालुदेव त्वं क इव हृदयालुस्त्वदपरो रमा यस्यादेशोत्सवभवनवानन्दलहरी । अधर्मो यन्नाम्ना विलयमयते माधव सदा तदप्येतत्सीदत्यहह भुवनं त्वत्कपितृकम् ॥ ३२ ॥ हे देव माधव, त्वं दयालुः । त्वदन्यो हृदयालुः कृपावान्क इव, न कोऽपीत्यर्थः । रमा ल- क्ष्मीर्यस्य तवादेश आजैवोत्सवस्तदुत्पन्ना नवा आनन्दलहरी हर्षपरम्परा यस्याः सा । लक्ष्मी- यस्याज्ञाकारिणीत्यर्थः । यस्य तव नाम्ना अधर्मों नाशमाप्नोति । तदप्येवं सत्यपि त्वं पिता य- स्येदृशं भुवनमहह इत्याश्चर्ये सीदति दुःखं प्राप्नोति । त्वयि नाथे दुःखं न घटत इत्यर्थः ॥ १. 'किमेव क. २. दरिद्रेति भावप्रधानो निर्देशः. ३. 'व्यवहायक. ,
५०
काव्यमाला।
प्रमोदार्य प्रायः प्रभवतु वधूनेत्रनलिनो-
ल्लसल्लक्ष्मीलीलाकमलमधुपश्रेणिसुभगः ।
कटाक्षः केषांचित्कृतसुकृतसंघातवशतो
हरिध्यानं हित्वा मम किमपि नायाति हृदये ॥ ३३ ॥
वध्वा नेत्रपद्म उल्लसन्ती शोभमाना या लक्ष्मीस्तस्या यल्लीलाकमलं तत्र या मधुपश्रे-
णिर्धमरपतिस्तद्वत्सुभग एवंविधः कटाक्षः सुकृतसंघातः पुण्यसमूहस्तद्वशात्प्रायः केषां-
चित्प्रमोदाय सुखाय प्रभवतु । नायं कटाक्षः, किं तु पद्मालया इमा वधूनेत्रे पद्मं शिव-
सति, तद्धस्ते लीलाकमलमस्ति, तत्र भ्रमरपतिः सैवेयमिति भावः । एवं केचिस्त्रिया:
सुखमनुभवन्तु । मम तु हृदये हरिध्यानं त्यक्त्वा किमपि नायाति ॥
मुरारातिर्भाति श्रुतिमुकुटमाणिक्यकिरणा-
वलीभिर्व्याश्लिष्यचरणनखचन्द्रद्युतिचयैः ।
भजजन्तुखान्तोत्कटकुहरतो मोहतिमिरं
निरस्यबीरन्धैर्हदि यदि तदिष्टं किमितरत् ।। ३४ ॥
श्रुतेर्मुकुटभूतोपनिषत्तदेव माणिक्यं रत्नं तस्य किरणपतिभिर्व्याश्लिष्यन्तः संबध्नन्त
उपनिषत्प्रतिपाद्या ये चरणनखास्त एव चन्द्रास्तेषां नीरन्फ्रेनिषिडैर्युतिचयैः कान्तिपुजैः
कृत्वा भजतां जन्तूनां स्वान्तं चित्तमेवोत्कटं कुहरंगते तस्मान्मोहान्धकारं निरस्यनिवर्त-
यन्मुरारियदि हृदि भाति तत्तर्हि इतरदन्यदिष्टं किम्, न किमपि । हरिध्यानाधिकं सुखं
नास्तीत्यर्थः । अज्ञाननाशके हरौ हृदि भाति सति कृतार्था भवन्तीति भावः ।।
यच्छक्यं नैव वाचंयमविमलमनः संपरित्यज्य बढे
नैर्गुण्यादेव बन्धं ब्रजति पुनरहो न प्रसङ्गाद्गुणानाम् ।
यस्मिन्बद्धे विमुक्तिर्भवति तनुभृतां यत्रिलोक्याममूल्यं
कौशल्यागर्भरत्नं मम हरतु तमःस्तोममत्यद्भुतश्रि ॥ ३५ ॥
यद्रामरतं वाचंयमानां मुनीनां विमलं मनस्त्यक्त्वा बढुं नैव शक्यम् । यच्च मनसो नै-
गुण्यादेव संबन्धं याति, न तु गुणानां विषयाणां प्रसङ्गात्सेवया । यस्मिन्बद्धे प्राणिनां मु-
क्तिर्भवति । यच्च त्रिलोक्याममूल्यमत्यन्तमाश्चर्यकारिणी श्रीर्यस्य तन्निर्मूल्यं कौशल्यागर्भ-
रत्नं रामरतं मम तमःस्तोममन्धकारसमूहं हरतु । अज्ञाननिवृत्तिं करोत्वित्यर्थः ।।
ये जन्मान्तरपर्युदञ्चनवशादायान्ति जायादितां
जीवास्तेष्वपि मातृशासितमिदं चेतो ममत्वाकुलम् ।
सर्वेषां हि न तत्कथं तनुभृतां चौरेष्वपीडग्रसं
तेऽप्येवं भवितार एव घिगिमां चेष्टां विवेकोज्झिताम् ॥ ३६॥
६ स्तबकः] विष्णुभक्तिकल्पलता। ये प्राणिनो जन्मान्तरेऽन्यजन्मनि यत्पर्युदश्चनमृणम् । 'ऋणं स्यात्पर्युदश्चनम्' इति कोषः। तद्वशाज्जायादितां स्त्रीपुत्रपौत्रादिभावमायान्ति । मावशासितं मूर्खम् । 'मूर्खः स्या- न्मातशासितः' । इदं चेतस्तेष्वपीदृप्रसं पुत्रादिसमस्नेहाकुलं ममतया व्यग्रम् । तथा सर्वेषां तनुभृतां तच्चित्तं चौरेष्वपीदृग्रसं पुत्रादिसमस्नेहं कथं न भवति । यतः, ते चौ- रादयोऽप्येवं भवितारो जायादिभावं यास्यन्ति । अत एवेमां विवेकहीनां चेष्टां धिक् ॥ नित्यं हृत्कमलं कृतार्थयतु मे देवो भवानीपति- यस्सिन्मार्गगते मतेविरमति द्रागेव माया यया । हतु बोधधनं निबध्य बहुधा पाशैः प्रमादादिभि- मोहाब्धौ विषयैर्विलोभ्य विवशं व्याक्षिप्यते विष्टपम् ॥ ३७ ॥ भवानीपतिर्देवः शिवो नित्यं मम हृत्पद्मं कृतार्थयतु । यस्मिञ्शिवे मार्गमिते द्राक् शीघ्रं मतेर्माया विरमति निवर्तते । तिष्ठतु माया, तत्राह-यया मायया ज्ञानं धनं हर्तुं प्रमादादिभिः पाशैर्बहुधा बद्धा विषयैः स्लगादिभिर्विलोभ्य विवशं बद्धा भुवनं मो. हसागरे क्षिप्यते ॥ पूर्वो ह्रख इतश्च दीर्घ इतरो नैव क्वचिद्विद्यते कस्यानेन समानता त्रिभुवने को वा समानोऽमुना । अन्तःस्थायिनि घोषवत्यविरतं लोकोपचारात्मनः संज्ञासंधिसमाप्तये प्रतिजनुः किं नात्र तत्स्थीयते ॥ ३८ ॥ इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां भक्तिगौरवदर्शनं नाम पञ्चमः स्तबकः । हे मनः, प्रतिजनुर्जन्मनिजन्मनि संज्ञा देवदत्तादिका नरपश्वादिका वा तस्याः संधिः सं- बन्धस्तत्समाप्तये जन्मनिवृत्त्यै अत्र हरौ किं न स्थीयते । यस्मादितो हरेः पूर्व आदि- र्नास्ति, अनादित्वात् । इत इतरो ह्रस्वो रिपुरपि नास्ति, इतो दीर्घोऽपि क्वचिन्न विद्य- ते, त्रैलोक्येऽनेन हरिणा समानता सादृश्यं कस्या अमुना समानो वा कः,न कोऽपीत्यर्थः । किंभूतेऽत्र । अन्तःस्थायिनि चित्तस्थे । अन्तर्यामिणीत्यर्थः । लोकोपचाराल्लोकव्यवहारतो. अविरतं नित्यं घोषवति शब्दवति घोषो वेदशब्दः प्रतिपादकत्वेनास्तीति । वस्तुतो वाग्गो- चरे । तदासक्तिः कथं न क्रियते इत्यर्थः ॥ इति महीधरविरचिते विष्णुभक्तिकल्पलताविवरणे भक्तिगौरवदर्शनं पश्चमः स्तबकः । . षष्ठः स्तबकः। ये संसारतमिलतीव्रतपना ये मुक्तिलक्ष्मीलस- न्मुक्ताहारकणाः प्रणामनिपुणप्राणिप्रसादोन्मुखाः ।
५२ काव्यमाला। अद्वैतागमवाक्यदीपकदशानिर्माणसूत्राणि ये ते गोविन्दगुणाः प्रमोदमतुलं कुर्वन्तु वः सर्वदा ॥ १ ॥ ते हरिगुणा वो युष्माकं अतुलं प्रमोदं हर्ष कुर्वन्तु । ते के। ये संसाररूपान्धकारस्य तीबसूर्यप्रायाः । संसारनिवर्तका इत्यर्थः । ये मुक्तिरूपा या लक्ष्मीस्तस्या लसन्तो मुत्ता- हारस्थ कणा मणयः । ये च नमस्कारकुशला ये प्राणिनस्तेषां प्रसादं प्रत्युन्मुखाः । प्र- सादकरा इत्यर्थः । ये च । अद्वैतागमवक्यानि वेदान्तशास्त्रवचांसि त एव दीपकास्तेषां दशानिर्माणाय वर्तिरचनाय सूत्रभूताः ॥ कृष्ण त्वत्करुणाकटाक्षलहरीलीलालवाय स्पृहां कुर्वन्तः कमलासनप्रभृतयो देवाः स्तवं तन्वते । एकस्तत्तव पादपद्मरजसां गङ्गाम्बुना मिश्रितो वातोद्भूतकणः कृतार्थयतु मां कोऽपि प्रणामानतम् ॥ २ ॥ हे कृष्ण, ब्रह्मादयो देवास्तव कृपाकटाक्षलर्या या लीला तस्या लेशायैकदेशप्राप्तये इच्छां कुर्वन्तः सन्तस्तव स्ववान्स्तोत्राणि कुर्वते । तत्तस्मात्तव चरणधूलीनामेको वातो- दूतः कोऽपि कणो लेशो नत्या नम्रीभूतं मां कृतार्थयतु । किंभूतः । गङ्गोदकयुक्तः ॥ त्वं राजा भुवनेष्वतो भुवि तवावासं कुटुम्बीभव- न्दुष्पूरोदरपूरणाय वृषलः क्षेत्री खलेषु स्थितः। निष्पन्नं भवतो निवेदितवतो मे कर्मबीजैरपि क्षीणं तत्तव सेवनव्यसनिनं मामच्युताङ्गीकुरु ।। ३ ।। यतस्त्वं भुवनेषु राजा अतः कुटुम्बीभवनहं तव गृहे अवात्समुषितवानस्मि । वसते ड्यु- त्तमैकवचने रूपम् । किमर्थम् । दुष्पूरस्य जठरस्य पूरणाय । कीदृशोऽहम् । वृषलः वृष धर्म लुनातीति धर्मविमुखः । क्षेत्री शरीरवान् । खलेषु पापेषु स्थितः । क्षेत्रे निष्पन्नमुपा- जितं शुभाशुभं भवतस्तव निवेदितवतो मम कर्मरूपबीजैः क्षीणं कृष्णार्पणबुड्या कर्म कुर्वतः । कर्मक्षयादिति भावः । 'यत्करोषि-' इति गीतोक्तेः । तस्मात्तव सेवासक्तं मां हे अच्युत अङ्गीकुरु ॥ न्यायोऽयं निरणायि नैकनिगमैर्नारायणानश्वरः कर्तारं तदुपैति कर्म कलितं यद्येन यादृग्यथा । त्वामेव स्मरतो ममेह विगतोऽनेहा महानप्यहो मच्चिन्ता निमिषार्धमेकमपि किं तत्तन्यते न त्वया ॥ ४ ॥ हे नारायण, अनेकशास्त्रैरनश्वरो निश्चलोऽये न्यायो निरणायि निर्णीतः। क इत्याह-येन प्राणिना यथा येन प्रकारेण यादृक् शुभमशुभं वा कर्म कलितं कृतं तत्कारमुपैति ।
६ स्तबकः]] विष्णुभक्तिकल्पलता । मम तु त्वामेव स्मरतः सतो महाननेहा दीर्घकालो गतः । तत्तर्हि निमिषार्धमपि मचिन्ता त्वया किमिति न तन्यते । मच्चिन्ता विधेयेति भावः ॥ श्रीविष्णो जगदेकजीवन घनानन्द्वैकदीक्षागुरो मूर्छन्मोहमहान्धकारतरणे कारुण्यरत्नाकर । ग्राहव्याहतचेष्टितद्विपविपद्विच्छेददक्ष प्रभो कस्याग्रे भवसंभवः परिभवस्त्वांमन्तरेणोच्यते ॥ ५ ॥ हे श्रिया युक्त विष्णो, हे जगतामेकजीवन, हे निबिडानन्दैकदीक्षायामानन्ददाने गुरो, हे मूर्छतां मूढानां मोह एव महान्धकारस्तस्य तरणे खे मोहनाशक, हे कारुण्यरत्नाकर दया- ब्धे, ग्राहेण व्याहता चेष्टा यस्पदृशो द्विपो गजेन्द्रस्तस्य विपन्नाशे चतुर, हे प्रभो, संसारोत्यः पराभवस्त्वां विना कस्याग्रे कथ्यते ॥ सध्रीचीवुःखवीचीरतिशयविषमा विक्षिपन्व्याकुलत्वं गच्छन्न च्छन्दतः स्वादधिभवजलधि त्वां मधुद्वेषणैषः । स्मर्तुं शक्नोमि वेला मयि तव तदियं देव दातुं दया- दृष्टेरंशं प्रभूणां त्रिजगति करुणादानपात्रं यदातः ॥ ६ ॥ हे मधुद्वेषण मधुसूदन । 'रिपौ वैरिसपत्नारिद्विषद्रेषणदुहृदः' इत्यमरः । एषोऽहं त्वां स्मर्तु न शक्नोमि । किं कुर्वन् । अधिभवजलधि संसाराब्धौ अत्यन्तं विषमाः सध्रीचीः सहाच्च- नशीलाः सर्वत्र प्रसारिणीवु:खलहरीविक्षिपन्प्रेरयन् ।अत एव स्वात् निजात् छन्दतोऽभिप्रा- यात् स्वाभिप्रायेण स्ववशेनैव वा व्याकुलत्वं गच्छन् । 'छन्दो वशेऽभिप्राये च' इति कोषः । तत्तस्मात् हे देव, तव दयादृष्टेरंशं मयि दातुमियं वेला एष समयः । 'कालसम- यवेलासु तुमुन्' । यद्यस्मादातॊ दुःखितः । त्रैलोक्ये प्रभूणां दयादानस्य पात्रम् । प्रभुभि- र्दीनेषु दया कार्येति भावः ॥ देव श्रीवासुदेव ध्रुवमवति तवोदारलीलाकला य- द्विश्वं शश्वन्निकारोद्यतदनुतनुजव्याकुलीभूतमेतत् । तत्रैकान्तेऽनुकम्पानिगमनिगदिता न्यायदृष्ट्या निदानं तत्त्वं विश्वोपकारव्रत वितर मयि प्राप्तदौःस्थ्ये रगंशम् ॥ ७ ॥ हे श्रीवासुदेव, देव दीप्यमान, तवोदारा महती या लीला तत्कला लेशोऽप्येतद्विश्वं ध्रुव- मवति रक्षति । कीदृशम् । शश्वन्निकारे पराभवे उद्यता ये दनुतनुजा दानवास्तैर्व्याकुली- भूतम् । तत्र तासु लीलासु एकान्ते अनुकम्पा निगमैदैः कथिता । या न्यायदृष्टिस्तत्त्व- ज्ञानं तस्य निदानं कारणम् । तत्तस्माद्धे विश्वोपकारव्रत सर्वेषामुपकार एव व्रतं यस्य तादृश, प्राप्तदौःस्थ्ये दु:खिते मयि गंशं कृपाकटाक्षं वितर देहि ॥ , काव्यमाला। , एतन्मेऽव मुकुन्द देव हृदयं व्याप्तं विपद्वारिधे- र्वीचीभिर्विरलेतराभिरभितो रम्भेव दीव्यद्दलैः । विज्ञप्तिर्वरदायिनी त्वयि कृतापि स्यान्न चेत्राणिनां शब्दब्रह्मणि तच्छ्रमो मतिमतामाकाशकण्डूयनम् ॥ ८ ॥ हे मुकुन्द देव, एतन्मे हृदयमव रक्षाकीदृशम् । विपद्वारिधेर्दुःखाब्धेविरलेतराभिर्घना- भिर्वीचीभिर्व्याप्तमत्यन्तदुःखितम् । तत्रं दृष्टान्त:--दीव्यद्भिर्दलैः पत्नैर्यथा रम्भा कदली व्याप्ता । हे नाथ, त्वयि कृताप्रि विज्ञप्तिर्यदि प्राणिनां वरदाविनी इष्टदात्री न चेत् शहि मतिमतां सुबुद्धीनां शब्दब्रह्मणि वेदे श्रमो नमःकण्डूयनतुल्य: । हरिसेवयैष्टप्राप्तिरिति वेदार्थः । स चेन्मिथ्या तर्हि वेदोक्तकर्मणि श्रमो नमःखर्जनवन्मिथ्येत्यर्थः ॥ यन्मे पातकमस्ति माधव तव ध्यानान्तरायीभव- त्तत्कि देव निवार्यते न भवता भक्तानुकम्पावता । दासे दुःसहवेदनां गतवति स्वामी समर्थोऽपि चे- दौदासीन्यमुरीकरोति तदहो खस्वामिधर्मः कुतः ॥ ९ ॥ हे माधव, तव ध्यानेऽन्तरायीभवद्विन्नभूतं पातकं यन्मेऽस्ति । हे देव, भक्तेषु कृपा- लुना त्वया तत्पातकं किं न निवार्यते । अर्थान्तरेण द्रढयति-दुःसहपीडायुक्ते दासे सति दुःखनिरसनसमर्थोऽपि स्वामी चेदुदासीनतामुपेक्षां कुरुते, तर्हि स्वामिसेवकधर्मः कुतः । न कुतोऽपीत्यर्थः ॥ यस्मिन्न स्मृतिमेषि मेऽखिलगुरो गोविन्द तस्मिन्क्षणे मा जीवन्निति नीतिनिर्मलमतिर्मापैतु मञ्चेतसः । जन्तुर्यत्तव सेवया विरहितो जीवत्यवश्यं न त- सारं सौरभसंपदामविषयो यद्वत्सितं कौसुमम् ॥ १० ॥ हे सर्वगुरो, हे गोविन्द, यस्मिन्क्षणे त्वं स्मृति नैषि चित्तं नायासि तस्मिन्कालेऽयं जनो मा जीवनश्यतु । 'माङ्याक्रोशे' इति शतप्रत्ययः । इत्येतादृशी नीत्या निर्मला मति- मच्चित्तान्मा गच्छतु । यस्माज्जन्तुस्तव सेवां विना यज्जीवति अवश्यं न तत्सारम् । तत्र दृष्टान्तः-यथा कौसुमं स्मितं पुष्पविकासः सौरभसंपदां गन्धसमृद्धीनामविषयो न सा- रम् । अगन्धं पुष्पं निषिद्धमित्यर्थः ॥ तावन्मे मन्तुमत्त्वं मधुमथन महयामि यावन्न यत्ना- द्योगाभ्यासप्रवीणैरपि कपिलमनुव्यासपूर्वैः स्मृतं ते । १. 'दायिनि ख. , ६ स्तबकः] विष्णुभक्तिकल्पलता। पादाम्भोजं शरण्यावधि शरणमधिष्ठानमेकं शुभाना पश्चान्मे कैव चिन्ता तव भुवनविभो रक्षणीयस्य धर्मात् ॥ ११ ॥ हे मधुमथन, तावन्मम महन्मन्तुमत्त्वं सापरार्धेता यावद्यन्नाद्योगाभ्यासकुशलैः कपिला- दिभिः स्मृतं तव पादाम्बुजं शरण्यानामवधिभूतं शुभानां कल्याणानामेकं स्थानं शरणं न यामि । पश्चान्मम कैव चिन्ता, न कापीत्यर्थः । कीदृशस्य मे। हे भुवनविभो, त्वया धर्माद्रक्षणीयस्य त्वच्छरणागतस्य । मै [मम] त्वयैव रक्षा कार्येति भावः ॥ गोभिः शोभि तवानुवादनिविडानन्दाभिरुद्यद्वृषं रामोदारचरित्रचारु दलितारिष्टं प्रभूतद्युति । त्यक्तत्रासमघादपि प्रबलतस्त्वत्पादपद्माश्रयं त्याज्यं गोकुलवद्गदाग्रज कदाप्येतन्नमे तन्मनः ॥ १२ ॥ हे गदाग्रज, मम मनो गोकुलवत्कदापि त्वया न त्याज्यम् । कीदृशं गोकुलं मनश्च । तवानुवादेन निबिड आनन्दो यासां तादृशीभिर्गोभिर्धेनुभिरिन्द्रियैश्च शोभि राजितम् । उ. द्यन् वृषोऽसुरो धर्मश्च यत्र । रामस्योदारचरितेन चारु, रामाणां स्त्रीणां चरित्रेण चारु । दलितोऽरिष्टो वृषभासुरो विघ्नश्च यस्मात् । प्रकृष्टकान्तीति समानम् । प्रबलादघासुरात्पा- पाच त्यक्तत्रासं निर्भयम् । 'दुःखैनोव्यसनेष्वघम्' इत्यमरः । तव चरणपद्ममाश्रयो यस्येति समानम् ॥ संप्राप्तं भुवनत्रयेऽपि सुयशः सोमावदानं मया लब्ध्वानेकसुखानुभूतिसुभगा सुत्रामलक्ष्मीरपि । मन्ये तीर्णमशेषदुःखविषमं संसारवारांनिधि यद्यायाति दशास्यशात्रव तव ध्यानामृतं मे हृदि ॥ १३ ॥ हे दशास्यशात्रव रावणारे, तव ध्यानलक्षणममृतं यदि मम चित्ते आयाति, तदा मया त्रैलोक्ये चन्द्रनिर्मलं यशः प्राप्तं नानासुखानुभवेन सुभगेन्द्रलक्ष्मीरपि प्राप्ता । 'सुत्रामा गोत्रभिद्वनी' इत्यमरः । नानादुःखैर्विषमं संसारसमुद्र तीर्णे मन्ये ॥ चेतो मे चरितार्थयाच्युत चिरं त्वध्यानबुद्ध्यान्छिन्तं रूपेण प्रकटीभवन्नवभिदाभक्तिप्रतीतात्मनाम् । येन त्वं बहुलाकुलं बहुलया वृष्याकुलं गोकुले रक्षिष्यन्विभरांबभूविथ गिरिं गोवर्धनं लीलया ॥ १४ ॥ १. 'बहगोकलंक. २. 'कुलव्याकुलमू' का 'कुलं गोकुलम ख.
काव्यमाला। हे अच्युत, तव ध्यानेन या बुद्धिस्तद्युक्तं मे चित्तं चरितार्थय कृतार्थ कुरु । कीदृश- स्त्वम् । नव भिदा भेदाः श्रवणकीर्तनादयो यस्याः सा नवभिदा सा चासौ भक्तिश्च । भक्तिशब्दस्य प्रियादित्वाद्भिदाशब्दस्य बद्भावाभावः । तया प्रतीतस्तुष्ट आत्मा चित्तं येषां तेषां प्रकटीभवन् । येन हेतुना त्वं किलेति प्रसिद्धौ। [गोकुले] बहुलया घनया वृष्टया व्याकुलं बहुलाकुलं गोकुलं रक्षिष्यन् रक्षितुम् । तुमर्थे लट् । गोवर्धन गिरि लीलया बि- भरांबभूविथ धृतवानसि । बहुलः कृष्णपक्षेऽग्नौ शितौ च बहुला गवि ॥ कारुण्यामृतपूरिताक्षियुगलव्यालोलनैकद्युति- स्पर्शोदेशदलढुरन्तदुरितं दामोदरैनं तव । तावत्पाहि कृपाहितैकनिलय त्वत्पादपद्मस्मृते- रन्तर्यामिणि यामि निर्मलतया त्वय्येव यावल्लयम् ॥ १५ ॥ हे कृपाहितैकनिलय दयाहितयोरेकाश्रयभूत, हे दामोदर, तवाझिस्मरणानिर्मलत्वेनान्त- मिणि त्वयि यावदह लयं यामि लीनो भवामि तावदेनं मां त्वं पाहि रक्ष । कीदृशं माम् । तव कारुण्यामृतेन पूरितं यनेत्रयुग्मं तस्य व्यालोलाः प्रसरन्त्यो या नैकद्युतयो विविधकान्तयस्तासां स्पर्शद्देिशेन स्पर्शलेशेनैव दलदुरन्तं दुःसहं दुरितं पापं यस्य तम् ॥ ये लक्ष्मीपतिपादपङ्कजमिलन्मन्दाकिनीमज्जनो- द्दामानन्दभरेण भान्ति भविनां ते वासराः सार्थकाः । सद्यःपण्डकखण्डिताधरवधूवैक्लव्यवद्ब्रह्मवि- कर्मन्दिक्रियमाणकर्मवदहो शेषं जनुर्नार्थवत् ॥ १६ ॥ हरिपादपद्म मिलन्ती या गङ्गा तत्र मज्जनेन हरिपादस्मरणेनोद्दामो बहुलो य आन- न्दभरः सुखौघस्तेनोपलक्षिता दिवसा ये प्राणिनां यान्ति ते सार्थकाः । शेषं हरिपदस्मृ- तिहीनं जन्म नार्थवनिरर्थकम् । तत्र दृष्टान्तः-सद्यः पण्डकेन नपुंसकेन खण्डित ओष्ठो यस्या ईदृश्या वध्वा वैक्लव्यं दुःखं तद्वत् । तद्यथा निरर्थकम् । किं च ब्रह्मविदा कर्म- न्दिना तापसेन क्रियमाणं यत्कर्म तद्वत् । 'कर्मन्दी तापसो यतिः' । 'तदधिगम उत्तर- पूर्वाघयोरश्लेषविनाशौ-' (४।१।१३) इति व्याससूत्रात् ॥ श्रीमचूतकणेऽतिसौरभचणे कीरः कुलस्त्री धव- ध्याने मञ्जुसरोजराजिषु यथा पुष्पंधयश्रेणयः । वातान्दोलितवारिवाहविगलद्वारीव सारङ्गव- लक्ष्मीलालनलोल लालसमिदं त्वत्सेवने मेऽस्तु हृत् ॥ १७ ॥ हे रमालालनलोल लक्ष्मीविलासने सतृष्ण । 'लोलश्चलसवृष्णयोः' इत्यमरः । इदं मम हृदयं तव सेवने लालसं सामिलापमस्तु । तत्र दृष्टान्तचतुष्टयमाह-अतिसौरभेन वित्ते ६ स्तबकः] विष्णुभक्तिकल्पलता। १७ विख्याते श्रीमति चूतकुणे पक्वाने कीरः शुको यथा साभिलाषः स्यात् । 'तेन वित्तथुञ्चु- प्चणपौ' इति सौरभशब्दाचणयप्रत्ययः । पक्वश्चूतचूतकुणः । तस्य पाकमूले पीडादिकर्णा- दिभ्यः कुणज्वाहचौ' इति कुणप्प्रत्ययः । यथा भाने कुलनारी लोला । यथा च मनो- हरपद्मश्रेणीषु भ्रमरपतयः । यथा वातेन कम्पितो यो मेघस्तस्माद्विगलति वारि जले सार- ङ्गश्चातक इव । एतेषां तेष्विव में त्वयि प्रेमास्त्विति भावः ॥ साक्षाद्यस्य मनोमयी तव भवेदर्चा स संत्यज्यते संसाराभिधया भयंकररुना तैस्तैः सपर्यामृतैः स्नातं सर्वसुखावहैर्मुनिवराः कल्याणगीभिः सुराः कल्पद्रुप्रसवैः प्रभूतमहसं संपूजयन्ति प्रभो ॥ १८ ॥ हे प्रभो, यस्य पुंसः साक्षान्मनोमयी भवदर्चा भवेत् मानसी तव पूजा प्रतिमाध्यानं वा भवेत् स पुमान् संसाररोगेण भयंकरेण त्यज्यते । सुखावहै: पूजामृतैः स्नातं तं मुनिवराः शुभवाणीभिः 'चिरं जीव' इत्यादिभिरर्चन्ति । सुराः कल्पवृक्षपुष्पैश्च । कीदृशं तम् । प्रभूतमहसं बहुलतेजसम् ॥ सेवा ते वासुदेवानिशमशनिरसौ प्रौढपापाचलानां चिन्तारत्नं च साक्षाज्जगति जनमनःकामनापूरणाय । स्फूर्जदुःखौघवीचीविषमतमभवाम्भोधिपारावनीयं तब्रह्माद्वैततेजोमृतमयमनयैवाप्ययोगादवाप्यम् ॥ १९ ॥ हे वासुदेव, तव सततं सेवा प्रौढा ये पापपर्वतास्तेषामशनिः। वज्रप्राया नाशिकेत्यर्थः । ज- नमनसामिच्छापूरणाय सच्चिन्तामणितुल्या इष्टप्रदा । स्फूर्जन्त्यो या दुःखोर्मयस्तैर्विषम- तमो यः संसाराब्धिस्तस्य पारावनी परपारतीरभूमिः । संसारतारिकेत्यर्थः । तत्तस्मादयो- गादपि योगाभ्यासं विनापि अमृतमयं ब्रह्माद्वैतं तेज आत्मसाक्षात्काररूपं मयानया सेव- यैवावाप्य प्राप्यम् ॥ विष्णो कामितकामितानि ददते लोकत्रये देवता सा चेदस्ति तदातदर्पितहृतौ कालः किमालस्यकृत् । त्वद्भक्त्या फलितं तु कालकलितं न क्षीयते जन्मिना- मिष्टं माति मनोरथस्य महिमोद्रेकान्न मार्गेऽपि च ॥ २० ॥ हे विष्णो, त्रैलोक्ये का देवता अमितकामितानि बहूनीष्टानि ददते । 'दद दाने' । सा चेदिष्टदात्री देवतास्ति तदा तद्दत्तापहारे कालः किमालस्यं करोति । न करोतीत्यर्थः । त्व- द्भक्त्या प्राप्तं तु कालग्रस्तं न नश्यति । किं च भक्तिफलं च प्राणिनां मनोरथमार्गेऽपि म. हिमाधिक्यान्न माति । मनोरथाधिक सेवाफलमिति भावः ॥
काव्यमाला। लक्ष्मीकान्त कृतान्तपत्तनमनभ्यर्ण किमु प्राणिनां यावज्जीवमपि प्रपीडितहृदस्तिष्ठन्ति लोभादिभिः । तन्नस्त्वच्चरणारविन्दशरणादन्यां मनःकामनां मा निर्मातु कदाचिदेव करुणाकल्लोलिनीकामुक ॥ २१ ॥ हे रमापते, हे करुणाकल्लोलिनीकामुक, कल्लोला उर्मयो यासु ताः कल्लोलिन्यो नद्य- स्तासां कामुको भर्ता समुद्रः हे दयासमुद्र, तत्तस्मानोऽस्माकं मनः कदाचिदपि त्वत्या- दपद्मशरणादन्यामिच्छी मा करोतु । यतः प्राणिनां कृतान्तपत्तनं यमनगरं किमु अनझमर्ण दूरम् । अपि तु निकटमेव । तथापि लोभादिभिर्यावज्जीवं पीडितचित्ता जनास्तिष्ठन्ति ॥ विश्वक्सेन किमेनमेनसि कृताशंसं नृशंसं जनं कृत्वा कालमुखे क्षिपस्युपदिशन्कर्मानुरूपां मयि । बुद्धिं विष्टपकष्टभञ्जन जनुनीवातुरेको नृणां कारुण्यामृतवारिधिस्त्वमुचितं किं तत्तवापीदृशम् ॥ २२॥ हे विष्वक्सेन व्यापकसैन्ध, हे विष्टपकष्टभञ्जन लोकदुःखनिवर्तक, जनुषि जन्मनि जीवातुर्जीवनौषधभूतो दयामृतसमुद्रस्त्वं कर्मानुरूपामपि बुद्धिमुपदिशनेनसि कृताशंसं पापे कृताभिलाषं अत एव नृशंसं क्रूरमेनं जनं कृत्वा कालवदने किं क्षिपसि तवापि ईदृशं प्राणिनां नरकपातादिदुःखदानं किमुचितम् । अनुचितमित्यर्थः ॥ भेदाभावतया भवेदिह भवद्भक्तिर्न विष्णो मया मायासंतमसावसानकलितब्रह्मप्रकाशश्रिया । भेदस्तु भ्रममातनोति परमं तत्त्वं किमित्याशया तत्ते भक्तिसुधातरङ्गततये चेतः करोति स्पृहाम् ॥ २३ ॥ मायैव संतमसं गाढान्धकारं तस्यावसाने नाशे कलिता प्राप्ता ब्रह्मप्रकाशश्रीः परमान- न्दसाक्षात्कारो येनेदृशेन मया भेदाभावत्वेन हे विष्णो, तव भक्तिर्न भवेत् । भेदस्तु परम तत्त्वं किमिति चित्ते भ्रमं विस्तारयति । तत्तस्मात्ते तव भक्तिलक्षणामृतोमिपङ्खयै चि- त्तमिच्छां करोति ॥ दत्त्वा चन्दनमात्रमत्रभवते भावान्विता भामिनी भूत्वा भाग्यवती व्यतीत्य विबुधानुच्चैरगात्कुब्जिका । मालाकारमनस्तुतोष न कया पुष्पप्रदानाच्छ्यिा भक्तिः स्वल्पतरापि ते वितनुते कामं न कं श्रीपते ॥ २४ ॥ अत्रभवते पूज्याय तुभ्यं कुब्जा भामिनी भावान्विता श्रद्धायुक्ता सती चन्दनमात्रं .
६ स्तबकः]] विष्णुभक्तिकल्पलता। ५९ दत्त्वा भाग्यवती भूत्वा देवानतिक्रम्यौचैहरिलोकं ययौ । पुष्पप्रदानादेव मालाकारमनोऽपि कया समृद्ध्या न तुतोष । अपि तु सर्वसमृद्ध्या तुष्टमभूत् । हे श्रीपते, स्वल्पतरापि ते भक्तिः कं कामं न तनुते । सर्वेष्टमपि प्रयच्छतीत्यर्थः । दत्तं पूतनया दयार्णव तव द्वेषं दधत्या विषं निःशेषं तदपि व्युदस्य सदसद्याता परं त्वत्पदम् । तस्यानौपयिकं मुकुन्द तव किं देयं यदङ्किस्थिता त्रिस्रोतास्तरसा रसादपि कृतं कर्म क्षिणोति क्षणम् ॥ २५ ॥ हे दयासमुद्र, द्वेषं धारयन्त्या पूतनया तव विषं दत्तं तदपि सर्व सदसच्छुभाशुभं व्यु- दस्य त्यत्वा त्वत्पदं ब्रह्मपदं प्राप्ता । हे मुकुन्द, तस्य तव किं देयं दातव्यम् । अनौपयिक- मनुपयोगि सर्व देयम् । तवोपयोगीत्यर्थः । यत्पादस्थिता गङ्गा स्नेहादपि कृतं कर्म तरसा बलेन क्षणात्तत्क्षणं क्षिणोति नाशयति । केशी केशव लेशमप्युपकृतेः कस्यापि नैव व्यधा- द्वेधा निष्ठुरकर्मकर्मठतमं चक्रे यमन्धं मदात् । यत्त्वं तं विरजीचकर्थ हृदयग्रन्थि मृदित्वात्मनो हस्तेनान्तरगेन तस्य वपुषः स्वान्तं दया तव ॥ २६ ॥ हे केशव, केशी दैत्यः कस्याप्युपकारस्य लेशमपि नैवाकृत । ब्रह्मा मदान्धं यं नि- ष्ठुरकर्मसु अतिकर्मठं प्रवीणतमं चक्रे । कर्मणे घटते, 'कर्मणि घटोऽठच्' । आत्मनः स्वस्य हस्तेन तत्तच्छरीरान्तर्गतेन हृदयग्रन्थिमहंकारमज्ञानं मृदित्वा विनाश्य यस्मात्त्वं केशिनं विरजीचकर्थ रजोहीनं कृतवान् । तस्मात्तव स्वान्तं चित्तं दयाम् । पापिनोऽप्यु- पकारादिति भावः ॥ दृष्ट्वा कालियनागदूषितपयःपानेन पन्नं यमी- तीरे तर्णकपालबालककुलं कस्योपकारस्त्वया । कृप्तो नेह दयायाच्युत धिया यद्वैनतेयादभू- द्भोगी भग्नभयो धुनी गततरा रम्याश्च दम्यादयः ॥ २७ ॥ है अच्युत, तर्णका वत्साः पाला बालका गोपकुमारास्तत्समूहं कालियनागेन दूषितं विषप्रायं कृतं यत्पयो जलं तत्पानेन यमुनातीरे पन्नं मृतं दृष्ट्वा करुणाईया दृष्टया त्वया कस्योपकारो न कृतः । सर्वस्यापि कृत इत्यर्थः । तमेवाह—यस्माद्भोगी कालियो गरु- डाद्भीतिरहितोऽभूत् । धुनी यमुना गतगरा निर्विषा अभूत् । दम्यादयो वत्सा वालाश्च रम्याः सजीवा अभूवन् । इति विपरिणामः ।।
&
काव्यमाला।
पीतेन वकं पुन-
।
पन्थानं प्रथमं पिधाय वपुषा
ादायाजगरः परश्शतपशूनभैः समं जनसे ।
त्वं तस्यापि तदात्तजीवनविधिव्याजेन विष्णो व्यधाः
सद्यः संसृतिपाशनाशनमतस्त्वामीशमाशास्महे ॥ २८ ॥
अजगरोऽधासुरः स्थूलेन वपुषा प्रथमं मार्गमाच्छाद्य पुनर्मुखं व्यादाय विशालं कृत्वा
•अभै लैः सह परश्शताऽर्शताधिकान्पशूलासे । तेनात्ता भक्षिता गोपादयस्तेषां जीवन-
विधिनिषेण तस्याप्यघासुरस्य सद्यः संसारपाशनाशं हे विष्णो, त्वं कृतवान् । अतो हेतो-
रीशं संसारपाशनाशनक्षम त्वां वधमाशास्महे वाञ्छामः ॥
देव श्रीवर पीवरः कवलयंस्तत्त्वार्थबुद्ध्यङ्कुरा-
हृत्कासारदयापथः कलुषयन्मोहो महाकासरः ।
अन्तर्यामिणि साभ्यसूयहृदयं धत्ते भवत्यप्ययं
तत्कि तेन महाहवः सुमनसां संतुष्टये नेष्यते ॥ २९ ॥
हे देव, हे श्रीपते, पीवरः स्थूलो मोह एव महाकासरो महामहिषः । 'कासरो महिषः
स्मृतः । अन्तर्यामिणि भवति त्वय्यपि असूयामहितं चित्तं धत्ते । किं कुर्वन् । तत्त्वार्थ-
बुझ्यङ्कुरान् तत्त्वज्ञानलेशान् कवलयन्प्रसमानः । तथा हृदयमेव कासारः सरस्तस्य दया-
रूपं जलं कलुषं कुर्वन् । 'कासारः सरसी सरः' । तत्तस्मात्तेन मोहेन महाद्धं सुमनसां
साधूनां संतोषाय किं नेष्यते ॥
विश्वाधार हरेऽहरेकमपि मे हृद्वृत्तिरप्युद्धस-
त्वयानोद्भुरदुग्धसिन्धुलहरीलीलामरालीयताम् ।
येनाहाय समस्तजन्म सफलं संजायतेऽहा यथा
वर्णेनादिभवेन देव सफला वैयञ्जनीयं जनिः ॥ ३० ॥
हे विश्वस्याधार, हे हरे, मम चित्तवृत्तिरेकदिनमपि उत्फुल्लं विकसच्छ्रेष्ठं यत्तव ध्यानं
स एवोद्धरो महान्दुग्धसागरस्तस्य लहरीषु लीलाहंसवदाचरतु । येन हरिध्यानाब्धिहं-
सत्वेन अहा एकदिनेन सकलजन्म सफलं जायते । तत्र दृष्टान्तः– यथादिभवेन वर्णे-
नाकारेण सर्वा व्यञ्जनामियं वैयञ्जनी जनिः कादिव्यञ्जनसृष्टिः सफला जायते तेन विनो-
चारयितुमशक्तेः ॥
श्रीदामोदर सीदतामपि सतां त्वत्तः परं याचितुं
चेतो नेच्छति वेदगोरसलसद्धेयंगवीनात्मनः ।
कः कल्पद्रुममूलनिर्मलमणीनिष्पन्नवेदीतलं
हित्वा काङ्गुति तीरभूरुहभवच्छायामपायास्पदम् ॥ ३१ ॥
६ स्तबकः] विष्णुभक्तिकल्पलता। ६१ है श्रीदामोदर, सीदतां दुःखितानामपि सतां चेतस्त्वत्तोऽन्यं याचितुं नेच्छति । की- दृशात्त्वत्तः । वेद एव गोरसो दधि तस्य लसद्ययिंगवीनं नवनीतमुपनिषद्वेदानां सार- त्वात् स एवात्मा स्वरूपं यस्य । उपनिषत्प्रतिपाद्यस्येत्यर्थः । तत्र दृष्टान्तमाह-कल्प- वृक्षमूले निर्मलरत्ननिर्मितं यद्वेदीतलं तत्त्यक्त्वापायाना विघ्नानामास्पदभूतां नदीतीरवृक्ष- च्छायां को वाञ्छति ॥ देव श्रीवत्सलक्ष्मन्नव कवलयतः कालहस्ताद्विहस्ता- नेतानेकोऽपि लोको निधिरधिकतरश्रीरनुक्रोशवाराम् । या दैन्यं दुःखभाजां शमयति न दया किं तया साध्यमन्य- तन्नः किं न प्रपन्नानपि विनयवृतो वीक्षसेऽपि क्षणार्धम् ॥३२॥ हे देव, हे श्रीवत्सलाञ्छन, कवलयतो ग्रासं कुर्वतः कालहस्ताद्यमकरायाकुलानेतान- स्मांस्त्वमव रक्ष । यतोऽधिकशोभायुक्तोऽनुक्रोशवारां दयोदकानां निधिलॊके त्वमसि। अर्थान्तरमाह-या दया दु:खिनां दीनत्वं न नाशयति तया दययान्यत्कि साध्यमस्ति । तत्तस्मात्प्रपन्नाञ्शरणागतान्विनययुक्तानोऽस्मान्क्षणार्धमपि किं न पश्यसि ॥ लक्ष्मीजाने न जाने प्रतिजनिजनितानल्पसंकल्पसूत्र- रारब्धे मोहजाले नवनिबिडरुचिग्रन्थिगुप्तात्मकत्वात् । ध्यानं धर्मेषु धुर्यं धुतदुरितमथो पादयोरर्चनं ते चारित्रं चातिचित्रं कलयितुमपि तद्रक्ष कारुण्यवत्त्वात् ॥३३॥ हे लक्ष्मीपते, धर्मेषु धुर्य मुख्यं धुतदुरितं निवर्तितपापं ध्यानं तव पादयोः पूजनम् , अतिचित्रं चारित्रं च कलयितुं मनसि धर्तुं न जाने न वेमि दयावत्त्वात्ततो रक्ष । ध्याना- द्यज्ञाने हेतुमाह-प्रतिजन्म नानावतारेषु जनिता ये अनल्पा बहुलाः संकल्पास्त एव सू- त्राणि तैः कृते मोहजाले संसारे नवा प्रत्यहं नूतना या निबिडा धना रुचिः प्रीतिः सैव प्रन्थिस्तत्र गुप्तोऽनुस्यूत आत्मा चित्तं यस्य तस्य भावस्तत्त्वं तस्मात् संसारासक्तत्वा- ध्यानाद्यज्ञानमिति भावः ॥ मायामेया ममेयं तव नयनतिरोधानभूतास्ति विष्णो न त्वां पश्यामि तस्मादपि हृदयसरोजन्मरोलम्बमेकम् । संसारव्याधिवैद्यो यदसि तु तदियत्प्रार्थये स्वात्मदाना- द्वीक्षे त्वत्पादमात्रं कुरु किमपि तथा सिद्धभैषज्यदानात्॥३४॥ हे विष्णो, अमेया अपरिमिता 'दैवी ह्येषा गुणमयी मम माया दुरत्यया' इति वचनात् । इयं तव माया मम नेत्राच्छादनरूपास्ति । तस्मादृत्कमले भ्रमरभूतमपि त्वां न पश्यामि । 'उभावानन्दरोलम्बो भ्रमरे परिकीर्तितौं' इति कोशः । यद्यस्मात्त्वं संसाररूपरोगस ६२ काव्यमाला। वैद्योऽसि तत्तस्मादात्मदावादात्मसमर्पणेनेयदेतावद्याचे सिद्धौषधदानात्तथा किमपि कुरु यथा तव चरणमात्रमपि पश्यामि ॥ देव श्रीरामचन्द्र द्रुतममृतवतः कुर्वतः कायभाजो व्याजव्याहारतोऽपि व्यसनशतहतस्वीयमार्गानुरोधात् । त्वन्नाम्नः शक्यते कैस्त्रिजगति महिमा वक्तुमप्युक्ततत्त्वै- स्तन्नाम त्वत्प्रसादान्ममै रसनकृतावासमभ्यासतः स्तात् ॥३५॥ हे देव श्रीरामभद्र, त्रैलोक्ये त्वन्नाम्नो महिमा उक्ततत्त्वैस्तत्त्वज्ञैरपि कैर्वक्तुं शक्यते । न कैरपीत्यर्थः । कीदृशस्य त्वन्नाम्नः । व्यसनशतेन परदाराशत्त्यादिना हतो नष्टः स्वीय- मार्गस्य स्वाचारानुष्ठानस्यानुरोधोऽनुवृत्तिर्येषां तानाचारबहिर्मुखानपि कायभाजः प्राणिनो व्याजव्याहारतः सांकेत्यादिमिषेणोच्चारणादप्यमृतवतो मोक्षभाजः कुर्वतः । तस्मात्त्वत्प्र- सादात्तव नामाभ्यासवशान्मम जिह्वायां कृतवासं स्तात् । भवतु । अस्तेस्तातङ्ङादेशे रू- पम् । 'सांकेत्यं पारिहास्यं वा स्तोमं हेलनमेव वा । वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥' इति शुकोक्तेः ॥ गुणग्रामं वक्तुं तव न वयमुद्दाममतयो दयोदन्वन्नसाखपि तदपि कोणं दिश दृशः । यतो लब्धे बोधे तव चरितपीयूषजलधौ मरालानां स्यामाच्युत कतरसंज्ञाभृत इमे ॥ ३६ ॥ हे दयोदन्वन् दयासमुद्र, वयं तव गुणौघं वक्तुं नोद्यतबुद्धयः, तथाप्यस्मासु नेत्रस्य कोणं कटाक्षं दिश देहि । यतो दृग्दानाज्ज्ञाने प्राप्ते सति हे अच्युत तव चरित्रामृताधौ ये मराला हंसभूता ज्ञानिनस्तन्मध्ये कतरसंज्ञाभृतः किचिन्नामधारका इमे वयं स्याम त्व- हासमध्ये गण्यामहे । शिखरिणी वृत्तम् ॥ श्रीरामस्य नमस्यमस्यदशुभान्यनिद्वयं तद्वयं चित्तं चित्तमपेतपातकभरा भूरादिलोके कदा । द्रक्ष्यामोऽखिलमेव जन्तुमतुलश्रीकं तुलस्युत्तर- स्रग्भाजं गरुडध्वजं परिलसत्पीताम्बरं शाङ्गिणम् ॥ ३७ ॥ अशुभानि पापान्यस्यनिराकुर्वत् नमस्यं नमनीयं श्रीरामस्य पादद्वयं चेतं चेतं वि- चिन्त्य विचिन्त्यापेतपातकभरा निष्पापाः सन्तस्त्रैलोक्ये सर्वजन्तुमीदृशं वयं कदा द्रक्ष्यामः । कीदृशम् । सर्वश्रीयुक्तं तुलस्या अधिकमालायुक्तं गरुडकेतुं शोभमानपीतवस्त्रं शार्ङ्गधनु- धारिणम् । त्वत्पादस्मरणेन त्वत्स्वरूपं विश्वं कदा द्रक्ष्याम इत्यर्थः ॥ .
७ स्तबकः] विष्णुभक्तिकल्पलता। देव श्रीनरसिंह संहर मदज्ञानं यदाघ्रातह- नालस्यं तरसा त्यजामि शिरसा नन्तुं त्वदङ्ग्रिद्वयम् । लग्नं यत्र मनो मनोहरतरास्ताराधिपास्याः स्त्रियो- ऽपास्य स्वर्गसहामुदारमयते मायाविहीनं महः ॥ ३८ ॥ हे देव श्रीनृहरे, ममाज्ञानं संहर नाशय । येनाज्ञानेनाघ्रातं प्रस्तं हृद्यस्याज्ञानग्रस्तोऽहं शिरसा तव पादद्वयं नमस्कर्तुमालस्यं तरसा बलेनापि न त्यजामि । यत्र पदद्वये लग्नं मनो मामातीतमुदारं महो ब्रह्मस्वरूपमयते प्राप्नोति । किं कृत्वा । अतिसुन्दरीश्चन्द्रमुखीर्देवानां स्त्रियोप्सरसोऽपास्य त्यक्त्वा ॥ यत्कारुण्यकटाक्षलेशवशतो लब्धा दिवः स्वामिता यस्याज्ञामपहन्तुमन्तकशिरश्छेत्तापि नालं मृडः । संपत्तिक्षमया सदैव रमया यद्दास्यमभ्यस्यते भक्ते सीदति यः प्रसीदति विभुः सेव्यः स एवाच्युतः॥३९॥ इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां विष्णुविज्ञप्ति म षष्ठः स्तबकः । स एवाच्युतः सेव्यो नान्यः । यत्कृपाकटाक्षलेशवशादिवः स्वामिता स्वर्गेश्वर्यमि- न्द्रत्वं लभ्यम् । यमशिरसश्छेत्ता मृडः शिवोऽपि यस्याज्ञा हातुं न समर्थः । संपत्तिदात्र्या लक्ष्म्या यहास्यमेवाभ्यस्यते । भक्ते सीदति यो हरिः प्रसन्नो भवति । एतादृशो हरिः सेव्यो नान्यः ॥ इति श्रीमहीधरविरचिते विष्णुभक्तिकल्पलताविवरणे विष्णुविज्ञप्ति म षष्ठः स्तबकः । सप्तमः स्तबकः । संसारं तिरस्कर्तु मङ्गलं करोति- केयं कौस्तुभकान्तिपूरलहरीलीलाविहारातुला- नन्दा नन्दति नन्दनन्दन घनश्यामे त्वदीयोरसि । हृद्येवासि ममेति मां यदवदस्तत्केत्यसूयाकुलां छाया सुभ्र तवेयमित्यवतु वः श्लिष्यन्मुरारिः श्रियम् ॥ १ ॥ कौस्तुभकान्तिपूरलहरीषु लीलाविहारेऽतुलो निबिड आनन्दो यस्या ईदृशी मेघाभे त्वदुरसि हे नन्दसूनो का नन्दति । 'त्वं मम हृदय एवासि' इति यदुक्तवान् , तर्हि 'इयं का' इत्यसूयाव्याप्तां लक्ष्मी प्रति 'हे सुभ्रु त्वायं प्रतिबिम्बः' इत्युक्त्वालिङ्गनं कुर्वन् मुरा- रिर्वो युष्मानवतु पातु ॥ विश्वासो वनितासु मन्दमतिभिमैत्री मृषा भाषणं भेदो भर्गमधुद्विषोः करुणया मुक्ता क्रिया वा वरम् ।
काव्यमाला। अत्तं हालहले कलङ्ककलना कष्टं कलिर्वोत्तमै- ये गोविन्दपदारविन्दविमुखाः संभाषणं तैर्न तु ॥ २॥ वरमेतानि कार्याणि, परं हरिपदविमुस्तैः सह संभाषणं न तु । तानि कानि कार्याणी- त्याह-श्रीषु विश्वासः, मन्दबुद्धिभिनरैमैत्री, मिथ्यावचनम् , हरिहरयोर्भेदः, दयाहीना क्रिया निर्दयं कर्म, हालहलं विषमत्तं भक्षितम्, कलङ्कार्पणमृन्यस्य, उत्तमैः सार्ध कलहः । एतेभ्योऽपि हरिविमुखसंभाषणमधर्ममित्यर्थः ।। या वेला याति जन्तोगति जलधरश्याम लोकाभिराम श्रीराम ध्यानपूजाप्रणतिनुतिमहामङ्गलश्रीभिरिभ्या । आयुः सा सर्वकामैरभिमतमतुलं स्वर्गसौख्यं च सैव ब्रह्म त्वं सा तदन्या मृतिनरकततिप्राप्तिगर्भार्तिहेतुः ॥ ३ ॥ हे मेघश्याम, लोकानन्दकर श्रीराम, सा ध्यानपूजानतिस्तुतिरूपमहामङ्गलशोभाभिरिभ्या आढ्या या वेला जन्तोर्याति । 'इभ्य आढ्यो धनी स्वामी' इत्यमरः । सैवायुर्जीवनम्, सर्वा- भीष्टयुतं स्वर्गसुखमपि सैव वेला, ब्रह्मत्वं सैव, तदन्या हरिध्यानादिशून्या वेला मरणन- रकश्रेणीपातगर्भदुःखानां हेतुः कारणम् ॥ श्रीरामाय नमो नमो नम इति व्याहृत्य हत्यायुता- न्मुच्यन्ते मनुजा न जातु जठरं मातुर्विशन्ति क्वचित् । • मन्त्रोऽयं मधुराक्षरः स्फुरतु मे जिह्वाञ्चले निश्चलो येनामी निगडा गलन्ति सहसा संसारसंबन्धिनः ॥ ४ ॥ मनुष्याः 'श्रीरामाय नमः' इत्युच्चार्य ब्रह्महत्यादिपापौघान्मुच्यन्ते, जननीजठरं च क- दाचिन्न विशन्ति । मधुरवर्णोऽयं मन्त्रो मे जिह्वाञ्चले स्थितः स्फुरतु । येन मन्त्रेणामी सच- ङ्खलाः सहसा गलन्ति निवर्तन्ते ॥ सानन्दं सुन्दरीभिः समममरपुरोपान्तकान्तारवेल्ल- न्मल्लीवल्लीमतल्लीप्रचुरपरिमलप्रीयमाणालिवृन्दैः। उद्गीतस्फीतशीतद्युतिसदृशयशा यच्चिर भाति यज्ञैः कैतत्क्वानन्तसेवाफलमहह कुतः कल्पवृक्षः क्व तालः ॥ ५ ॥ एतादृशो नरो यज्ञैरश्वमेधादिभिः कृत्वा सुन्दरीभिः सार्ध सानन्दं यच्चिरं शोभते । एतत्व । हरिसेवाफलं मोक्षाख्यं क । द्वौं महदन्तरे । मोक्षापेक्षया स्वर्गफलं तुच्छमित्यर्थः । कीदृशः । अमरपुरं स्वर्गस्तत्समीपे कान्तारं वनं तत्र वेलन्त्यः प्रसरन्त्यो या मल्लिवल्ली- मतल्लयः मल्लिकालताश्रेष्ठाः । 'मतल्लिका मचचिका प्रकाण्डमुद्धतल्लजी' इत्यमरः । तासां १. जग्धादेशस्य वैकल्पिकत्वाभावात् 'अत्तम् इति कस्य रूपमिति चिन्तनीयम्.
R ७ स्तबकः] विष्णुभक्तिकल्पलता। ६५ प्रचुरो यः परिमलस्तेन प्रीयमाणानि यान्यलिवृन्दानि भ्रमरसमूहाँस्तैरुद्गीतं स्फीतं. चन्द्र- सदृशं यशो यस्यैतादृशः सन् । दृष्टान्तमाह-पारिजातः कल्पवृक्षः । कुतः । तालश्च क्व। यथा पारिजाततालयोरन्तरम्, तादृशं मोक्षस्वर्गयोरित्यर्थः ॥ जन्तो दीन भवाध्वनीन बहुना भारेण किं कर्मणां खिन्नः किं न करोषि कर्णकुहरे किंचिद्वरेण्यं वचः । विश्रामं कुरु रामचन्द्रचरणच्छायास्वनायासतो यत्रत्या भविनो विनोदवशतो विन्दन्ति वाञ्छाधिकम् ॥ ६ ॥ हे भवाध्वनीन । अध्वनि गच्छतीति 'अध्वनो यत्खौ' इति खः । हे संसारपान्थ । हे दीन जन्तो, कर्मणां नित्यनैमित्तिककाम्यानां भारेण कि खिन्नः श्रान्तोऽसि । किंचिच्छेष्ठं वचनं कर्णविवरे किं न करोषि । किं वच इत्याह-हरिपदच्छायासु विश्रान्ति कुरु । य- त्रत्या हरिचरणस्था जन्तवो विनोदवशेनैवायासं विना वाञ्छाधिकं लभन्ते ॥ हर्ष चेत्कुरुषे सखे तदविता विष्णुर्ममेति ध्रुवं कुर्वीथा यदि रोषमेष तदरिः संसार एकस्तव । लोभश्चेतसि चेत्तदर्पय धनं सत्पात्रभूते द्विजे- ऽहंकारस्तु तवायमेव घटते यत्सर्वमेवास्म्यहम् ॥ ७ ॥ कामादयो यद्यपि निषिद्धाः, तथापि तव कर्तव्याश्चेत्, तर्हि तेषां करणे स्थानमाह- हे सखे, चेद्धर्ष कामं कुरुषे तर्हि 'हरिर्मम रक्षिता' इति कामं कुरु । यदि रोषं कुरुषे चेत्, तर्हि एक एष संसारस्तवारिः, तत्रैव कार्यः । तव चित्ते लोभश्चेत्, तर्हि सत्पात्र- भूते विद्याचारयुते विप्रे धनं देहि । तवाहंकारस्त्वयमेव घटते यत्सर्वमहमेवास्मि । 'सर्वे खल्विदं ब्रह्म' इति श्रुतेः ॥ ये वर्णा व्यवहारमार्गविविधव्यापारवन्तः सदा किं तैः संसृतिजालविस्तृतिकृते तन्तुत्वमभ्यागतैः । जिह्वे जल्प निरन्तरं भगवते नारायणायों नमो याताः पातकिनोऽपि यैः परपदं यत्तद्गुणागोचरम् ॥ ८ ॥ संसारमार्गे नानाव्यवहारोपयोगीनि यान्यक्षराणि संसाररूपजालस्य विस्तारार्थ तन्तुत्वं प्राप्तैस्तैरक्षरैस्तव किम् । मिथ्यावर्णोच्चारो न.कार्य इति भावः । हे जिह्वे, नित्यं 'ॐ नमो भगवते नारायणाय' इति वर्णानित्यं वद । यैर्नारायणनामवर्णैः पातकवन्तोऽपि जना यद्गु- णातीतं परपदं ब्रह्मपदं तद्याताः प्राप्ताः यावत्संसारदावानलबहुलबलोत्तालकीलाकराल- प्राग्भारस्फारतापादतनुतरभवद्वेदनाभेदनाभिः । - ६६ काव्यमाला। कायः पञ्चत्वमायात्ययमहह न ते बीजदैवैकवश्य- स्तावन्नारायणस्य श्रय सुरसरितासेवितं पादपद्मम् ॥ ९ ॥ अहहेत्यद्भुते । हे जीव, दैवस्य प्राकर्मण एकोऽत्यन्तं वश्यो वशवर्ती । अयं ते तव कायो देहो यावत्पश्चत्वं मृति नाप्नोति, तावद्गङ्गया सेवितं हरेः पादकमलं त्वमाश्रय सेवस्व । देहस्य पञ्चत्वं कुतः । तत्र हेतुमाह-संसार एव दावाग्निस्तस्याधिकसामर्थ्यादुत्तालाश्च- ज्वला याः कीला ज्वालाः । 'वहेर्द्वयोर्खालकीलावचिहेंतिः शिखा स्त्रियाम्' इत्यमरः । तासां करालो भयंकरो यः प्राग्भार उच्चैस्तरता तेन स्फारो बहुलो यस्तापस्तस्मादत- नुतराश्चातिमहत्यो भवन्त्यो या वेदनास्ता एव भेदनास्ताभिः । संसारतापर्यावन्न नि- यत इत्यर्थः ॥ गोविन्दध्यानलीलालहरिपरिहृतानेकदुर्वारदोषाः सन्तः स्वैरं चरन्तस्तृणमिव गणयन्त्येवमुच्चैर्भवाब्धिम् । खामी वागःसमर्थो विमलतमधियाराधितः साधकाना- मम्भोधि वा हनूमाननुनयवचनं जानकीवात्मशत्रोः ॥ १० ॥ हरेानरूपा या लीलास्तासां लहरिभिर्नाशिता अनेके दुर्वारा दोषाः कामक्रोधादयो येषामीदृशाः सन्तो विश्वामित्रादयः स्वैरं चरन्तः स्वेच्छाचरणशीला अयाज्ययाजनवेश्या- गमनादि कुर्वन्तोऽपि संसारसमुद्रमुच्चैस्तुणमिव गणयन्ति मन्यन्ते । तत्र दृष्टान्तमाह- समर्थः स्वामी निष्कपटबुद्ध्या सेवितो भक्तानामागोऽपराधं यथा न गणयति । यथा हनू- मान्समुद्रं नागणयत् । सीताशुद्ध्यर्थं गतः । सीता रावणस्य विनयवचनं यथा नागणयत् । तथा सतां संसार इत्यर्थः ॥ लब्ध्वा पार्वणचन्द्रचारुचतुरं कंदर्पकाण्डाकुलः कामिन्या वदनं करिष्यसि धनं मन्ये चिरं कूर्दनम् । ख्याति क्षोणितले गमिष्यसि पुनः प्राप्याखिलं कासितं कालो न स्मृतिमेति किं कवलयन्नुत्तालजिह्वो जगत् ॥ ११ ॥ हे जन्तो, पूर्णेन्दुरभ्यं नार्या मुखं प्राप्य कामबाणातुरो निबिडं कूर्दनं खेलनं करि- ध्यसि निखिलमिष्टं पुनः प्राप्य लोके कीर्ति च प्राप्स्यसीति अहं मन्ये । परं चञ्चलरसनो जगत् कवलयन्प्रसमानः कालः किं तव स्मरणं नायाति । संसारसौख्येऽपि मरणमावश्यक- मिति भावः॥ मुक्ताहारोऽपि पीनस्तनकलशलसत्स्वाङ्गभावान्न मुक्तो मध्येवहि प्रविश्य श्रवणपथगता कर्णिका विभ्रमाय ।
७ स्तबकः]] विष्णुभक्तिकल्पलता। ६७ शब्दायेते पदस्थे अपि पतनभयान्नूपुरे कामिनीनां संसर्गस्तन्न दत्ते बत कतरदहो देहभाजामसौख्यम् ॥ १२ ॥ मौक्तिकहारोऽपि पीनौ यौ स्तनकुम्भौ तयोलसच्छोभमानं स्वाङ्ग स्वस्वरूपं यस्य तस्य भावान्न मुक्तः । तत्र शोभत एव । अथ च श्लेष:---मुक्त आहारो येनेदृशस्त्यक्तानोऽपि न सङ्गमुक्तः । कर्णस्यालंकारः कर्णिका । 'कर्णललाटात्कन्नलंकारे' इति कन्प्रत्ययः । कर्णगता कर्णिका वह्वेमध्ये । 'पारेमध्ये षष्ठया वा' इति समासः । अग्निमध्ये प्रविश्यापि विनमाय विलासाय भवति । वहिप्रवेशेऽपि भ्रमो न गतः । चरणस्थे अपि नूपुरे पतनभ- याच्छब्दं कुरुतः । पदस्थस्यापि पातभवमस्त्येव । तत्तस्माईहिनां नारीसङ्गः कियदुःखं न ददाति । सर्वासुखहेतवो नार्य इति भावः ।। को बिन्दु मृगतृष्णिकासु पयसः प्राप्नोति यत्नाज्जनः को वाभीषुभिरानमय्य शशिनं पीयूषमास्वादयेत् । संसारे सुखमेति कः सिकतया निष्पन्नपात्रोपमे जाड्यं जीव जहीहि याहि शरणं श्रीकान्तमेकान्ततः ॥ १३॥ को जनो मृगतृष्णायां यत्नादपि जलकणमाप्नोति । को वा किरणैश्चन्द्रं नमयित्वामृतं पिबति । सिकताकृतपात्रतुल्ये संसारे को वा सुखमाप्नोति । एतत्रयं दुर्लभमित्यर्थः । हे जीव जन्तो, जाड्यं मूर्खत्वं त्यज । सततं हरिं शरणं गच्छ ॥ कायः कष्टनिकाय एष नरकद्वारं पुरन्ध्रीजनो बन्धुः स्वार्थपरो नृपस्य पदवी कारुण्यलेशोज्झिता । वित्तं विद्युदिवास्थिरं विवदिषा वेदे वितण्डावती तत्संसारसमुद्रसारमितरकि कृष्णसेवामृतात् ॥ १४ ॥ एष देहो दुःखानां गृहम्, स्त्रीजनो निरयद्वारं तत्प्रापकत्वात् । स्वजनस्तु स्वार्थसा- धको न तु परोपकारी, नृपपदमपि निर्दयम्, द्रव्यं तडिच्चलम्, वेदे विवदिषा वक्तुमिच्छा। 'विविदिषा' इति पाठे जिज्ञासा । वितण्डावती वादस्यास्पदम् । तस्माद्धरिसेवारूपामृता- दन्यत्संसाराब्धौ कि सारम् । न किमपि । हरिसेवनमेव सारमित्यर्थः ॥ तृष्णावारि न वारि नान्नमशितं क्षुद्व्याधिविच्छित्तये योग्यामातनुते निरन्तरमियं निद्रात्मदैयैषिणी । मारो मूर्छति निर्दयं नरमधोदेशं नयन्भैरवं किं मानं वद जीवितव्यविषये विष्णोविहायार्चनम् ॥ १५ ॥ वारि जलं तृष्णां वारयति तृष्णावारि तृष्णानिवर्तकं न भवति । अन्नमपि भक्षितं स- क्षधारूपव्याधे शकं न । दिनान्तरे क्षुधोदयात् । निद्रा स्वस्य दैर्य मिच्छती सती नि- काव्यमाला। मेषमिषेणाभ्यासं करोति । जनं भयंकरमधोदेशं नरकरूपं प्रापयन्मारः कामो वर्धते । ततो वद हरेः पूजां विना जीवितं किं सारम् । हरिपूजनमेवेत्यर्थः ॥ कंसारातिसुरातिसेवितपदध्यानप्रमोदक्षणं हित्वाराधकबाधकव्यधविधौ लोकत्रये दक्षिणम् । कः सारामितरः करिष्यति विशामाशाभृशावर्तव- संसाराब्धिसमर्थमारमकरग्रासीकृतानामिह ॥ १६ ॥ कंसशत्रोहरेः सुरैर्देवैरत्यन्तं सेवितं यत्पदं तस्य ध्यानेन यः प्रमोदोत्सवस्तं त्यक्त्वा- न्यः को विशां नृणां सारां समाधानं संभालनं करिष्यति । न कोऽपि । कीदृशानां वि- शाम् । आशा तृष्णैव भृशोऽत्यर्थ आवर्ती जलभ्रमो यत्रेदृशो यः संसारसमुद्रस्तत्र समर्थो यो मारः काम एव मकरस्तेन ग्रासीकृतानां भक्षितानाम् । कामाकुलानामित्यर्थः । ध्या- नप्रमोदक्षणं कीदृशम् । त्रैलोक्ये आराधकानां सेवकानां ये बाधकाः कामादयस्तेषां व्यधो नाशस्तद्विधौ नाशकरणे दक्षिणं कुशलं समर्थमित्यर्थः । हरिध्यानमेव कामादिशम- कमिति भावः ॥ भूयाभूधर भक्तिरेव भवतः पादाम्बुजे भूयसी यामाश्रित्य यमं न मन्दमतिरप्यालोकते कुत्रचित् । दीव्यत्संसृतिदावपावकपयोवाहप्रवर्षत्ततिः पीयूषादपि पेयपावनरसा लम्या सदभ्यासतः ॥ १७ ॥ हे भूधर, तव पादाब्जे भूयसी बबी भक्तिर्मे भूयात् । मन्दबुद्धिरपि यां भक्तिमाश्रित्य कदापि यमं न पश्यति । कीदृशी भक्तिः । दीव्यन्प्रसरन्यः संसार एवं दावाग्नि- स्तत्र मेघस्य प्रवर्षन्ती ततिः श्रेणी । तन्नाशिकेत्यर्थः । अमृतादपि पातुं योग्यः पावनः पवित्रो रसो यस्याः । अमृतादपि स्वादीयसीत्यर्थः । तथा सता श्रेष्ठेनाभ्यासेन प्राप्या ॥ संसाराहयदावपावकलसल्लोभादिकीलावली- दाहव्याहतदेहिदौःस्थ्यदलने यज्जायु वीर्योत्तरम् । पीयूषादतिरिच्यतां मम मुखव्याकोशपद्माशये तद्गङ्गादिगरिष्ठतीर्थगुरु ते गोविन्द पादोदकम् ॥ १८ ॥ हे गोविन्द, तत्ते तव चरणोदकं मम मुखलक्षणे विकसितकमलमध्ये अमृतादप्यति- रिच्यताम् । अमृतादपि स्वादुतरमस्तु । तत्किम् । यत्पादोदकं संसाररूपदवानर्लसन्त्यो या लोभादिलक्षणा ज्वालापङ्कयस्तजनितंदाहेन व्याहृताः पीडिता ये देहिनस्तेषां दौःस्थ्यं दुःखं तद्दलने तन्नाशे वीर्योत्तरं बलवजायु औषधम् । संसारदावानलशमकमित्यर्थः ॥
७ स्तबकः] विष्णुभक्तिकल्पलता । संसृत्यायवागुरैकविषये व्याधो हि कालाभिधो मायाजालवशं विधाय बलवानहाय मामक्षिपत् । तत्रत्यातुलजन्तुजातिकलनोद्दामापदं मां दया- सिन्धो माधव मोचयामितभयाद्दीनं धृताशं त्वयि ॥ १९ ॥ संसारलक्षणवागुराया मृगबन्धन्या एको विषयो देशः तत्र कालनामा बलवान् व्याधो- ऽहाय शीघ्रं मायालक्षणजालवशवर्तिनं मां कृत्वा अक्षिपत्-क्षिप्तवान् । तत्रत्याः संसारवा- गुरीविषयस्था अतुला बहवो या जन्तुजातयस्तासां कलनेन प्रसनेन उद्दामा उत्कृष्टा आ- पत्पीडा यस्य तम् । अत एव दीनं त्वयि धृताशं कृताभिलाषं मां हे दयाब्धे माधव, अमितादसंख्याद्भयान्मोचय । संसृतिपथं निवर्तयेत्यर्थः ॥ मायाजालमिदं विचित्रमतुलं यस्मात्समुत्पद्यते सूत्रं प्रत्युत संसृतिप्रसृतये यत्र स्थिता जन्तवः । नित्यं निर्व्यथनैनिवारितदृशो यन्मध्यगैदृश्यते विश्वाकारतया तदेव परमं ब्रह्म प्रकाशात्मकम् ॥ २० ॥ इदं मायाजालं विचित्रमाश्चर्यकारि । अतुलमनुपमं च । तदेवाह-यस्मान्मायाजा- लात् प्रत्युत वैपरीत्येन संसारप्रसाराय सूत्र महत्तत्त्वमुत्पद्यते । 'प्रकृतेर्महान्' इत्यादिश्रुतेः । सूत्राजालं जायते । अत्र पुनर्जालात्सूत्रमिति वैपरीत्यम् । यत्र मायाजाले स्थिता ज- न्तवो निय॑थनैनितरां पीडनैर्निवारितदृशो नष्टज्ञाना वर्तन्ते । अथ 'रन्ध्र नियंथनं रो- कम्' इत्यमरोक्तेनिय॑थनं छिद्रं तेन वारितनेत्रा जना इत्याश्चर्यम् । छिद्रे तु पश्यन्ति । किंच, यन्मध्यगैर्यत्र मायाजाले स्थितैर्जनैः प्रकाशरूपं तद्ब्रह्म विश्वाकारतया संसाररूप- त्वेन दृश्यते । 'सर्व खल्विदं ब्रह्म' इत्युक्तेः ॥ मा दामोदर दाः कदाचन चिदानन्दानुभावोत्सवा- दन्यं मे समयं भयंकरभवव्याधिप्रधानौषधात् । कस्ते पादसरोजसेवनसुधासुस्वादसंतुष्टहृ- त्सौख्ये संसृतिसंभवे सुमतिमान्संजायते सस्पृहः ॥ २१ ॥ हे दामोदर, कदाचिदपि चिदानन्दस्य पोऽनुभावस्तज्जनितादुत्सवादन्यं समयं क्षणं मे मह्यं मा दाः मा देहि । किंभूतात् । भीतिप्रदो यो भवव्याधिः संसाररोगस्तस्य प्रधान श्रेष्ठमोषधं तद्रूपात् । अर्थान्तरमाह-ते तव पादपद्मसेवनमेव सुधा अमृतं तस्य शो- भनस्वादेन संतुष्टं हृत् हृदयं यस्य एतादृशः को वा सुमतिमान् संसारोत्थसुखे साभि- लाषो जायते ॥
काव्यमाला।
सर्वाशासु समुन्नते जितवति प्रायेण तापत्रयं
श्रीरामे भवदावपावकघने निष्पङ्कजन्मस्थितौ ।
अव्यक्ताक्षरमेव गर्जति भवेद्यासारमुक्तिस्तया
मा सीदन्तु सबीजयोगमरुतः सत्क्षेत्रिणोऽयं नयः ॥ २२ ॥
संसारदावानलस्य घने मेघे संसारतापशमके श्रीरामे अस्पष्टाक्षरं गूढं यथा तथा गर्ज-
ति या सारा श्रेष्ठा मुक्तिर्भवेत् , तया सन्तः क्षेत्रिणो देहिनो मा सीदन्तु । अयं नमो
नीतिः । कीदृशे रामे । सर्वदिक्षु समुन्नते प्रसिद्धे । आध्यात्मिकादितापत्रयं प्रायेण जित-
वति तापनाशके । निष्पत निष्पापं जन्म येषां तत्र स्थितिर्यस्य तस्मिन् । अर्थान्तर.
ध्वनिः-सर्वदिक्षनते तापनाशके निश्चिता पङ्कस्य जन्म स्थितिश्च यत्र । गूढं गर्जति
मेघे या आसारस्य वेगवृष्टेभुक्तिर्भवेत् , तया क्षेत्रवन्तो न सीदन्ति । कीदृशा देहिनः क्षे-
त्रिणश्च । सबीजयोगमरुतः । साकारध्यानयुक्तो योगः सबीजयोगः, तत्र मरुत् प्राणा-
यामो येषां ते । बीजं व्रीह्यादि तद्योगेन मरुता अनुकूलवायुना च सह वर्तमानाः । 'प-
कोऽधे कर्दमेऽपि च ।' 'बीजं तु रेतसि । स्यादाधाने च तत्त्वे च हेतावकुरकारणे ॥'
[इति हैमः । क्षेत्रं भरतादौ भगाङ्कयोः । केदारे सिद्धभूपन्योः' इति कोषः ॥
चित्रं त्वेतदलब्धबीजविवशा योगेन हीनाः सदा
येषां साधयितुं समीहितमभून्नैवानुकूलोऽनिलः ।
क्षेत्रं वीतवृषोदयं बहुतृणं संप्राप्य संकर्षणाः
साम्यं ते समवाप्नुवन्ति फलतः श्रीरामनामग्रहात् ॥ २३ ॥
एवंविधा अपि नराः श्रीरामनामग्रहणमात्रेण सम्यकर्षणं शरीरशोषणं कृषिश्च येषां
ते फलतः फलेन सादृश्यं यान्तीत्येतच्चित्रम् । कीदृशाः । अलब्धं यद्वीजं सबीजयोग-
ध्यानं च तेन विह्वलाः । योगेन योगाङ्गेन यमादिना उपायेन, हलादिसामग्र्या च हीनाः ।
किंच, येषां समीहितमिष्टं साधयितुमनुकूलो वायुः प्राणायामो बाह्यवायुश्च नाभूत् । किं
कृत्वा । वीतो नष्टो वृषोदयो धर्मोदयो वृष्टयुदयश्च यस्मात् । बहुतणं तृणादप्यूनं तुच्छम् ।
तृणात् '(विभाषा बहुच्) परस्तात्तु' इति बहुच् । बहूनि तृणानि यत्र ईदृशं क्षेत्रं स्थानं
च प्राप्य ।।
रे संसारपयोद पुण्यतरणिं प्रच्छाद्य पङ्कोत्तरा
वृष्टिवैषयिकै रसैरविरतं सन्मार्गरोधाय ते ।
किं च स्त्रैणकटाक्षलक्षणतडिझंकारतः केशवा-
सक्तान्भीषयसे श्रुतस्तव न किं तत्तायपक्षानिलः ॥ २४ ॥
७ स्तबकः विष्णुभक्तिकल्पलता। रे संसारमेघ, पुण्यतरणिं धर्मलक्षणं सूर्य प्रच्छाद्य वैषयिकैविषयसंबन्धिभी रसैविषया- स्वादैः पङ्क पापमुत्तरमधिकं यस्याः सा । तव वृष्टिः सन्मार्गस्य रोधाय वारणाय भवति । किंच स्त्रीसंबन्धी कटाक्षरूपो विद्युतो झांकारस्तेन विष्णुभक्तान् यत्त्वं भीषयसे भयमुत्पा- दयसि, तत्कि तव तस्य हरेस्तायो गरुडस्तत्पक्षवातो न श्रुतः । स त्वां निर्मूलं करिष्य- तीत्यर्थः । वातस्य मेघनिराकरणक्षमत्वं प्रसिद्धम् ॥ तृष्णावल्लभ दम्भदोर्बल महामोहपविष्टास्पद- क्रोधालस्यवयस्य लोभविभव भ्रान्तिव्रतैकादर । संकल्पात्मक मर्म तेऽस्ति विदितं संसार किंचित्परं यन्नारायणनाममात्रचकितो भूयो न भावी भवान् ॥ २५ ॥ तृष्णा वल्लभा यस्य । दम्भ एव बाहुबलं यस्य । महामोहस्थितावास्पदं यस्य । को- पालस्यै मित्रे यस्य । लोभ एव विभवः समृद्धिर्यस्य । भ्रान्तिर्वतरूप एक आदरो यस्य । संकल्प एव आत्मा स्वरूपं यस्य । हे संसार, तव किंचित्परमुत्कृष्टं मर्म विदितमस्ति । यद्धरिनाममात्रभीतो भवान पुनर्भविष्यति ॥ लोलत्वं न जहाति हन्त कमला कौमारमुख्यं वयो विद्युदर्शनकल्पमल्पदिवसा नैव स्थितिः स्वैः सह । या जागर्ति विदन्निदं न मनुजः संकल्पशय्यां गतः संसारावयवैरिणो विलसितं सर्वं तदेतद्धवम् ॥ २६ ॥ हन्तेति खेदे । लक्ष्मीश्वाञ्चल्यं न त्यजति । बाल्यादिवयस्तु विद्युदर्शनतुल्यम् । अति- चञ्चलमित्यर्थः । बन्धुभिः सहावस्थानं स्वल्पकालावस्थायि । मनुष्य इदं लक्ष्म्यादिचा- वल्यं जानन्नपि यन्न जागर्ति । मनोरथरूपशय्यां गतः सन् पारलौकिकं न करोति । नि- श्चितमेतत्सर्व संसारलक्षणशत्रोविलसितम् । संसारप्रताप इत्यर्थः ॥ रे संसारसमुद्र मुद्रय मुखं मा गर्न लोलैजलै- गण्डूषग्रहिलो ग्रहीष्यति मुनिस्त्वां कुम्भकात्संभवन् । ब्रह्मण्यः स यमी घनाम्बुगरलप्रायः प्रवीणः प्रभु, स्ताराकारधरः समस्तजगतामानन्दहेतूदयः ॥ २७ ॥ रे संसारार्णव, मुखं मुद्रय, चञ्चलै लैर्मा गर्ज । ब्रह्मण्यो ब्रह्मप्रतिपादकः । यमी नि- यमयुक्तः । [घनाम्बु] मेघजलं निबिडपानीयं तदेव विषं तनाशचतुरः । तारस्य प्रणवस्य आकारधारी, बिन्दुरूपो वा । सर्वलोकानामानन्दकारणीभूत उदयो यस्येतादृशः । कुम्भकात्प्राणायामभेदादुत्पन्नः । मुनिर्मननशीलः । ज्ञानरूपो हे अहिल आग्रहवांस्त्वां ग्रहीष्यति यास्यति॥
७२
काव्यमाला।
प्रायो य[त्परिचर्य]यैति विलयं दोषोऽखिलः संचितः
सर्वोपद्रवशान्तिरस्ति चरिते यस्य श्रुते विश्रुते ।
यन्नामैव महौषधं त्रिभुवने पथ्यं पयः पादयोः
संसारामय रामचन्द्रचरणप्रवे भवेत्कि व्यथा ॥ २८ ॥
हे संसाररोग, हरिपादपने नरे तव किं भवेत् । तमेव हरिं वर्णयति--यत्सेवया सं-
चितः सर्वो दोषः प्रायो नाशमाप्नोति । विश्रुते यस्य चरिते रावणवधादिके श्रुते सति सर्वे-
षामुपद्रवाणां नाशोऽस्ति भवति । त्रैलोक्ये वन्नामैव रामेत्यादिकं रोगौषधम् । यत्पादोदकं
पथ्यं हितम् । ईदृशे रामभक्त त्वमत्किचित्करः ॥
सारं सर्वगिरां सदा दिशति यजन्तोरसव्यश्रुतौ
काश्यां कालजिघृक्षितस्य करुणाकल्लोलमाली मृडः ।
पीतं पुण्यवशादशाननरिपो रामेति नामामृतं
येनासावमृती भयंकरभवाम्भोधेर्भयं तस्य किम् ॥ २९ ॥
रावणशत्री रामेतिनामरूपममृतं येन पुण्यवशात्पीतम्, असौ अमृती मोक्षाधिकारी।
तस्य भयंकरात्संसारसमुद्रांकि भयम् । न किमपीत्यर्थः । तदेवाह-दयासमुद्रो हरः
काश्यां कालेन गृहीतुमिष्टस्य मुमूर्षोर्जनस्य दक्षिणकर्णे सर्ववाणीनां सारभूतं सदा यद्राम-
नामोपदिशति ॥
रोष त्वं दोषपोषोन्मुख विषयजुषो यन्निगृह्णासि तद्व-
न्मैव श्रीवत्सलक्ष्मोपचरणचतुराजीगणो जातु जन्तून् ।
क्षेमं रामं नमन्तः कति तु कृतिविदामुत्तमं मन्तुमन्तो
धाम व्याधामपाणिप्रमुखमखभुजां भेजुरुद्भासिताशाः ॥ ३० ॥
हे रोष, हे दोषस्य वृद्धावुन्मुख, विषयसेवापरांस्त्वं यद्वत्पीडसि, तद्वद्धरेरुपचरणं सेवा
तत्परानरान्माजीगणः मा गणय । गणवतेलुंडि मध्यम पुरुषै]कवचनम् । 'नाग्लोपिशा-
स्वृदिताम्' इत्यस्य गणयतेविकल्पितत्वाच्चङ्कार्यम् । मन्तुमन्तः सापराधा अपि जनाः
कृतज्ञानां श्रेष्ठमिमं हरिं नमन्तः कतीन्द्रादिदेवलोकान प्राप्ताः । कीदृशाः । उद्भासिता
दिशो यैः । व्याधाम (जं पाणौ यस्य व्याधामपाणिरिन्द्रः । 'व्याधामोऽपि' इति वज्र-
नामसु क्षीरस्वामी ॥
दानं नानन्दहेतुर्भवति महदहो दत्तमप्युत्तमेभ्यो
यागो वा गोहयादिर्गलितफलतया नर्म निर्माति नोच्चैः ।
धर्मः शमैकभूमिर्न विलयमयते कोऽत्र यस्य प्रसङ्गा-
दम्भो दम्भोलिकल्पः स्पृशति कथामिवाधोक्षजध्यानधन्यान् ॥३१॥
७ स्तबकः] विष्णुभक्तिकल्पलता। . ७३ दानमिति । पात्रेभ्यो दत्तं महदपि तुलापुरुषादिकं दानं सुखकारणं न भवति । गोमे- धादिमार्गोऽपि अधिकसुखं न करोति । कुतः । गलितफलतया । क्षीणफलत्वेन दान- यागादिफलं भुक्तं क्षीयत इत्यर्थः । यस्य हरेः प्रसङ्गारिसेवातः शर्मणः सुखस्य एका असाधारणी भूमिः स्थानभूतो धर्मो न नाशं प्राप्नोति । तस्य हरेाने एकनिष्ठा- न्ध्यानपरान्को दम्भावधर्मसंबन्धः कथमभिभवति । नाभिभवतीत्यर्थः ।। भवतिमिर किमेतन्मेदुरं ते दुरन्तं प्रसरति परितोऽङ्गं पीडयत्साधुलोकान् । हरितरणिरुदेति ग्रस्तमायातमिस्रो रचयति न पुरा त्वां किं कथाशेषमेषः ॥ ३२ ॥ हे संसाररूपान्धकार, मेदुरं बहुलं दुरन्तं दुष्टावसानं साधुजनान्पीडयत्ते तवैतदङ्ग किं प्रसरति । न प्रसारणीयमित्यर्थः । यतो हरिरेव सूर्य उदयं याति । प्रस्तं मायारूपं तमो येन । एष हरिमिहिरः । 'मिहिरारुणपूषणः' इति कोषः । त्वां कथैव शेषो यस्य तादृशं किं न पुरा रचयति । न रचयिष्यतीत्यर्थः ॥ भवभुजग जगन्ति व्याकुलीकृत्य दर्पा- दयि दशसि दशास्यारातिसेवारतान्यत् । विषयविषयुताशीःखण्डनेऽतिप्रचण्डा- किमु पतगपतेस्ते कोऽपि गोपायितास्ते ॥ ३३ ॥ हे संसारसर्प, गर्वाजगन्ति व्याकुलानि कृत्वा यद्दशास्यो दशमुखस्तदराती रामस्तत्से- वापरायणांस्त्वं दशसि प्रससे । तत्कि पतगानां पक्षिणां पत्युर्गरुडाद्गोपायिता रक्षिता कोऽपि तव वर्तते । कीदृशात् । विषया एव विषं तद्युक्ता आशीर्दष्ट्रा तत्खण्डनेऽतिसमर्थात् ॥ भवदव तव दग्धुं नौचिती विष्णुभक्तां- श्चरितमतुलमेतत्कि न याति स्मृति ते यदयमपिबदग्निं गोकुलग्रासगृवं भवति सह महद्भिः श्रेयसे किं विरोधः ॥ ३४ ॥ हे संसारदावाग्ने, हरिभक्तान्दग्धुं तवौचिता योग्यता नास्ति'। एतदतुलं हरेश्चरितं किं तव स्मरणं नाप्नोति । यदयं हरिर्गोकुलदाहे साभिलाषं दवाग्निं [अपिबत् । अशमय. दिति भावः] ॥ आसीत्स्यमन्तकमणेहलहेतिचेतः कृष्णेऽतिकोपकठिनं कुहुनाविहीने । १. श्रोकोऽयं कत्रचित्प्रकृतस्तबकावसाने दृश्यते.
काव्यमाला। 6 सीतापि भर्तुरभवद्धनदुःखहेतुः संसारसागररसा गरलोपमानाः ॥ ३५ ॥ हलं हेतिरायुधं यस्य तस्य बलभद्रस्य चित्तं निष्कपटेऽपि कृष्णे स्यमन्तकमणेर्हेतोः कोपेन कठिनमभूत् । [कथंभूते कृष्णे । कुहुनाविहीने छलरहिते ।] "शतधन्वा मणिं गृहीत्वा प- लायित इति श्रुत्वा तं हन्तुं गतौ बलकृष्णौ ततो हयं पतितं विलोक्य बलमवस्थाप्य ग- तेन हरिणा तं हत्वा 'मणिर्नास्ति तत्र इत्युक्ते मणि: कृष्णेन निद्भुत इति मत्वा बलः क्रुद्धोऽभूत्" इति कथा । सीतापि रामस्य निबिडदुःखदायिन्यभूत् । अत एव संसाय. ब्धिरसाः केचन कामिनीरूपा विषतुल्याः । यैहरयेऽपि दुःखमदायीति भावः ॥ भाति श्रीतुलसि प्रसिद्धमहिमा तेऽयं विधेयं विधे- यत्स्वीयं न करोषि दासमसकृत्कर्तारमप्यंहसाम् । यत्पत्रे पुरुषोत्तमप्रभृतयो देवा निवासोत्सवा- स्तस्यायुक्तमिदं तदम्ब नय मां पारं भवाम्भोनिधेः ॥ ३६ ॥ तुलसी प्रार्थयते-हे श्रीतुलसि, अयं तव प्रसिद्धो महिमा भाति । कः । असकृत् अनेकवारं पापानां कर्तारमपि स्वीयं निजं दासं यद्विधेर्दैवस्य विधेयं वशं न करोषि । पापोऽपि त्वद्भक्तस्त्वयोद्भियत इति प्रसिद्धार्चाकीर्तिरित्यर्थः । यस्यास्तव पत्रे हर्यादयो देवा निवासनिरताः । तस्यास्तवेदमेव युक्तम् । तत्तस्माद् हे अम्ब, मामपि संसाराम्बुधैः पारं नय प्रापय ॥ चक्षुर्मैव दिक्षु भूः परवधूवक्षोजपद्मप्रभा कर्णाकर्णय कौतुकादपि वचो मावर्णवादात्मकम् । जिह्वे जल्प यथातथं विरमयाप्यक्षं परं पातका- न्मच्चित्तेऽखिलदुष्टदर्पदलनो दामोदरो दीव्यति ॥ ३७ ॥ इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां संसारतिरस्करणो नाम सप्तमः स्तबकः॥ हे चक्षुर्नेत्र, परस्त्रीस्तनपद्मकान्ति द्रष्टुमिच्छु मैव भूः मा पश्य । हे कर्ण, अवर्णवादात्म- कम् , अपवादवचनरूपं वा कौतुकादपि मा शृणु । हे जिढे, सत्यं वद । परमप्यक्षमिन्द्रिय घ्राणकरादिकं पापानिवर्तय । यतः सर्वेषां दुष्टानां दर्पनाशको हरिर्मम मनसि क्रीडति ॥ इति श्रीमहीधरविरचिते विष्णुभक्तिकल्पलताविवरणे संसारतिरस्कारो नाम सप्तमः स्तबकः॥ -- अष्टमः स्तबकः । संप्रति ध्यानं वक्तुं मङ्गलमाचरति- गोप्यः कोऽप्ययमद्भुतः सुतपसो नन्दस्य सूनुः स्वयं शंभुर्वा कमलासनः सुरशिरोरत्नं रमेशोऽपि वा ।
८ स्तबकः] विष्णुभक्तिकल्पलता। संलापामृतपूर्णकर्णकुहरामेवं ब्रजस्त्रीजनै- र्गादानन्दमयीं पयोऽर्थमवतु श्लिष्यन्यशोदां हरिः॥ १ ॥ हे गोप्यः, शोभनतपोयुक्तस्य नन्दस्यायं पुत्रः कोऽप्यद्भुतः शिवो ब्रह्मा देवशिरोमणि- हरिर्वा, एवं गोपीजनैः संलापामृतेन पूरितं कर्णविवरं यस्यास्ताम् । अत एव निबिडह- र्षव्याप्तां यशोदा स्तनपानार्थमालिङ्गन्हरिवः पातु ॥ पात्रं हृत्कमलं मुरारिचरणद्वन्द्वैकसेवामृतं स्नेहोऽनन्तनितान्तनिर्मलगुणैरुद्दामझोभा दशा । अन्तर्यामितया प्रतीतममलं ज्योतिः किमप्यद्भुतं मायाकज्जलरेख एष भवताद्दीपो भवध्वान्तभित् ॥ २ ॥ एष परमात्मरूपो दीपो वो युष्माकं संसारान्धकारभिद्भवतु । दीपसामग्रीमाह-है- त्पनं पात्रम् । हरिचरणयुगलभक्तिलक्षणममृतं स्नेहस्थानीयम् । हरेरत्यन्तनिर्मला ये गुणा ऐश्वर्यादयस्तैरुत्कृष्टशोभायुक्ता दशा वर्तिः । अन्तर्यामिस्वरूपेण प्रसिद्धं निर्मलाश्चर्यकारि ज्योतिर्दीपप्रभास्थानीयम् । किंभूतो दीपः । मायैव अञ्जनरेखां यस्य ॥ आयुर्नीरमिदं निमेषमिषतः कालेन पेपीयते पश्य प्राश्य जगन्ति विश्वविरमेऽविच्छिन्नतृष्णावता । प्राणस्तद्भयविह्वलः प्रियतया देहस्य चायं पुन- र्यातायातपरस्तदत्र कतरत्कृष्णादुपायान्तरम् ॥ ३ ॥ जगन्ति प्राश्य विश्वं संहृत्य विश्वनाशेऽपि अविच्छिन्नतृष्णायुक्तेन कालेन निमेषमिषा- दायुर्लक्षणं जलं पेपीयते । पातेर्यङ् । तस्मात्कालाद्भयेन व्याकुल: प्राणोऽयं देहस्य व- लभतया यातायातपरो गमनागमनपरोऽस्ति । तत्तस्मादत्र संसारे कृष्णादन्यदुपायान्तरं सुखसाधनं कतरत् । किमस्ति । हरिं विनान्य उपायो नास्तीत्यर्थः ॥ यत्ते चित्ते विधत्ते हरिपरिचरणोपायमस्तव्यपायं शास्त्रं साक्षात्समत्वप्रमदसमुदयप्राप्तये तद्धि विद्धि । लीलाकैलासशैलाश्रयविबुधवरप्राज्ञतायास्तु शेष संसारस्थित्यपेक्षापलपितपरमानन्दमर्थान्तराढ्यम् ॥ ४ ॥ 'समः शत्रौ च मित्रे च तथा मानापमानयोः' इत्यादिना गीतोक्तं यत्समत्वं तेन यः प्रम- दसमुदय आनन्दोदयस्तत्प्राप्तये शास्त्रं गीतोपनिषदादिवेदान्तशास्त्रं यत्ते यलवति । यती प्रयत्ने । चित्ते हरिसेवालक्षणमुपायम् , अस्तो व्यपायो विघ्नो यत्र निर्विघ्नं यथा तथा विधत्ते करोति. इति विद्धि जानीहि । आदौ मनोजयः, ततो हरिसेवा, ततः समत्वाप्तिः, .
काव्यमाला। , ततो ब्रह्मानन्द इति क्रमः । ततो लीलया कैलासः शैल आश्रयो यस्येदृशो यो विबुध- वरो देवश्रेष्ठः शंकरस्तस्य, प्रज्ञास्यास्तीति प्राज्ञः, प्रज्ञ एव प्राज्ञ इति वा तस्य भावः प्रा- ज्ञता ज्ञानं तस्याः शेषं तदन्यप्रतिपादकमान्तरयुक्तं यच्छास्त्रं तत् । संसारस्थित्यपेक्षया अपलपित आच्छादितः परमानन्दो येनेदृशं बोध्यम् । हर्यन्यप्रतिपादक शास्त्रं संसारप्राप- कमित्यर्थः॥ येनानेना विना स्यान्न विहितदुरितस्तीर्णचान्द्रायणादिः प्रायश्चित्तोऽप्यथान्यो विविधवृषवशाद्वासवावासवासम् । संप्राप्य स्निग्धमुग्धाधरमधुररसास्वादसौहित्यहीनो दीनो विभ्रंशमेति श्रयत तदनिशं दास्यमेवाच्युतस्य ॥ ५ ॥ द्विविधो जनः, पापी पुण्यवांश्च । तयोरपि हरिरेव शरणमित्याह-विहितं दुरितं गो- वधादिपापं येन सः । कृतचान्द्रायणादिप्रायश्चित्तोऽपि येन हरिं विना अनेना निष्पापो न स्यात् । अन्यथा अन्यः पुण्यवान् विधिधर्मवशाद्वासवावासे स्वर्गे संस्थितिं प्राप्य स्निग्धः प्रीतिविषयो मुग्धः सुन्दरो योऽधरस्तस्य यो मधुररसस्तस्यास्वादेन यत्सौहित्यं तृप्तिस्तद्रहितोऽप्सरोभोगेन । तृप्त एव दीनः सन् पुण्यक्षये भ्रंशं पातं प्राप्नोति । तत्त- स्मानिरन्तरं हरेर्दास्यमेवाश्रयत । हरिसेवां विनात्यन्तिकसुखाभावात् ॥ स्फूर्जभूर्जटिमौलिशालिनलिनीकल्लोलवल्लोलता- लीलाकौतुकमन्वभावि भवंता साकं निजैरिन्द्रियैः । भूत्वा केवलमेव धाम्नि तदहो शुद्ध सुषुम्णान्तरे मध्येहृत्कमलं सुखाय सुचिरं रे चित्त विश्रम्यताम् ॥ ६ ॥ रे चित्त, स्फूर्जति शोभमाने धूर्जटिमौलौ शिरसि शालिनी नलिनी गङ्गा तस्याः क- ल्लोलवद्गगोमितुल्यं लोलतालीलाकौतुकं चाचल्यक्रीडोत्सवो निजैरिन्द्रियैः सह भवता त्वया अन्वभावि अनुभूतम् । इन्द्रियाणि त्वं चातिचञ्चलमिति त्वयैवानुभूतम् । तत्त- स्मात्केवलमिन्द्रियरहितो भूत्वा सुषुम्णानाडीमध्यवर्तमाने हृत्पद्ममध्ये शुद्धे धाम्नि ब्रह्मस्व- रूपे चिरकालं सुखाय सुखं प्राप्तुं विश्रमः क्रियताम् ॥ धुन्या धर्मधुरीणयाध्वरभुजां बन्धूरया धारया द्वारं तां दशमी प्रविश्य वियतः प्रक्षाल्यमानं महत् । सर्वस्वं यदशेषतः श्रुतिगिरां ध्येयं यदेकं सतां तध्यात्वा सुमनस्तयार्चय चिरं चेतोऽच्युताख्यं महः ॥ ७ ॥ हे चेतः, तदच्युतरूपं महस्तेजः सुमनस्तया शोभनमनस्कत्वेन ध्यात्वा पूजय । चिरं सर्वदा । किं कृत्वा । दशमी द्वारं ब्रह्मरन्ध्राख्यां सुषुम्णालक्षणां वा प्रविश्य । कीदृशं C स्तबकः] विष्णुभक्तिकल्पलता। ७७ . महः । धर्मधुरं वहतीति धर्मधुरीणा, तया धर्मोत्पादिकया अध्वरभुजां देवानां धुन्या गङ्गया हरिचरणवर्तमानया वियतो ब्रह्मरन्ध्रसकाशाद् बन्धुरया मनोज्ञया धारया प्रवाहेण प्रक्षाल्यमानं महल्लोकोत्तरं यच्छतिगिरामुपनिषदाचामशेषतः सर्वाशेन सर्वस्वम् । यच्च सतां सनकादीनामेकं ध्येयम् ॥ भूत्वा केवलमेव मानस लसन्मोहाद्यसत्सङ्गतो मध्येहृत्कमलं प्रविश्य विमलं वैकुण्ठमाराधय । यस्यालोकनमात्रतोऽत्र तरसा निःशेषकर्मक्षयः क्षीणे कर्मणि कोऽप्यगोचरतरो वाचामलभ्यः पुनः ॥ ८॥ हे मानस, लसन्तः प्रसरन्तो ये मोहादयोऽसन्तो दुष्टास्तेषां सङ्गात्केवलमेकं भूत्वा हृत्पद्मे प्रविश्य निर्मलं हरिं पश्य । यश्य दर्शनमात्रेण सहसा सर्वकर्मनाशः स्यात् । नष्टे च कर्मणि वाचामविषयः कोऽप्यलभ्योऽप्राप्यः । अपि तु प्राप्यैव कर्मणां क्षय एव ब्रह्मान- न्दोदयो भवति । तानि कर्माणि हरिध्यानेनैव क्षीयन्त इति भावः ॥ सामर्थ्य सुमनःसु नास्ति नियतं बन्धं निरोढुं निजं तत्र स्वान्तमधुव्रतस्थितिरियं बन्धाय गन्धाशया । मुक्तिश्रीमुखपद्मसौरभमपि प्राप्यं यदीयाश्रया- देकं तद्भवपाशनाशकुशलं कृष्णाभिपद्मं भज ॥ ९ ॥ नियतं निश्चितं सुमनःसु देवेषु कुसुमेषु च निजं बन्धं कर्मबन्धनं निरोद्धं वारयितुं सा- मर्थ्य नास्ति । हे स्वान्तमधुव्रत चित्तभ्रमर, तत्र देवेषु गन्धाशया वासनया इयं स्थि- तिबन्धायैव । संसारबन्धोच्छेदेच्छया अन्यदेव भजनमकिंचित्करमित्यर्थः । तत्तस्मात्संसा- रपाशनाशे समर्थमेकं हरिपादपद्मं सेवस्व । यत्पादाश्रयान्मुक्तिलक्ष्मीमुखपमस्यापि सौरभ प्राप्यमेव ॥ चेतः प्रेतपतिस्थितिश्रुतिरिति त्रासाय संसारिणां तदृष्टिः परमापदामनुभवो नानाविधा वेदना । श्रीमद्रामकथा जनश्रुतिपथा नाहन्ति सर्वव्यथा नासन्पूर्णमनोरथाः कति जनास्तत्रादरं तत्कुरु ॥ १० ॥ हे चेतः, प्रेतपतेर्यमस्य स्थितिश्रवणं पुराणादौ प्राणिनामतिभयाय । यमस्थितिदर्शनं तु आपदां कष्टानां स्थानम् । अनुभवो नरकभोगस्तु नानाविधवेदनारूपः । जनानां श्रु- तयः कर्णाः पन्थानो मार्गा यस्या ईदृशी, जनैः कर्णश्रुता सती रामकथा ता नरकोत्थाः सर्वव्यथा हन्ति निवारयति । तथा रामकथया कति पूर्णमनोरथा नाभूवन् । अनेके पूर्ण- कामा जाता इत्यर्थः । तत्तस्मात्तत्र रामकथायामादरं कुरु । तामेव नित्यं शृण्वित्यर्थः ।
काव्यमाला । मा गा रागवाद्विहाय विमलं विष्णोः पदाजं क्वचि- चेतः सेवितमेतदेव मुनीभिर्मत्वा महिष्ठं महः । मद्वाचं मनुषे न चेदिह ततो हन्तास्मि तेऽहं यतो नो भूतानि न खानि नापि विषया नामी गुणा नो महान् ॥११॥ हे चेतः, निर्मलं विष्णेश्चरणकमलं त्यक्त्वा स्नेहवशात्वचिन्मा गच्छ । मुनिभिर्नार- दादिभिरेतदेव महिष्ठं श्रेष्ठं महस्तेजो ज्ञात्वा सेवितम् । मद्वाणी चेन्न मन्यसे नाङ्गीकुरुषे ततस्तर्हि ते त्वां हन्तास्मि । कर्मणि षष्ठी । चित्तं नाशयिष्यामि । उन्मना भविष्यामी- त्यर्थः । यत उन्मन्यवस्थायां भूतानि भम्यादीनि नो, खानि इन्द्रियाणि न, विषया रू- पादयोऽपि न, अमी गुणाः सत्त्वादयोऽपि नो, महान्महत्तत्त्वमपि न । ब्रह्मीभूतो भवि- ध्यामीत्यर्थः ॥ यत्तापत्रयसंभवन्नवनवज्वालावलीव्याकुलं जाड्यं नैव जहासि हासि कठिनं चेतस्त्वमुच्चैस्ततः । गङ्गाख्यं गरुडध्वजाभियुगले जागति जायुः स्फुटं तध्यानद्रवभावमेत्य तरसानेनैकतां तद्रज ॥ १२ ॥ हे चेतः, यद्यस्मात्तापत्रवादाध्यात्मिकादेः संभवन्ती जायमाना या नवनवा ज्वालाव- लिस्तया व्याकुलं सजाड्यं मौख्ये न जहासि न त्यजसि । ततो हेतोरुच्चैरत्यन्तं हा खेदे कठिनमसि । तस्माद्धरिपदयुग्मे गङ्गालक्षणं जायुरसविशेषोऽस्ति, तस्य ध्यानेन स्फुटं द्र- वत्वं प्राप्य तरसा वेगेन तेन गङ्गाजायुना एकत्वं प्राप्नुहि । हरिपदसक्तं भवेत्यर्थः ॥ चेतः के तव हेतवः स्तवमवज्ञाय श्रियः प्रेयसः प्रायः पातकजातघातकुतुकं यद्वर्तसे स्वेच्छया । आश्चेत्ते स्मृतिमेति मातुरुदरे वासव्यथा तत्कथं कण्ठाश्लिष्टवरिष्ठरिष्टनिकराबोधो न कष्टापदि ॥ १३ ॥ पापसमूहस्य घाते नाशे कुतुकमुत्सवो यस्येदृशं श्रियः प्रेयसो रमाकान्तस्य स्तवं स्तु- तिमवज्ञाय हे चित्त, त्वं प्रायो बाहुल्येन स्वेच्छया प्रवर्तसे तत्र के तव हेतवः किं प्रयो- जनम् । आः इति विस्मये । ते तव मातुरुदरे वासेन या व्यथा सा चेत्स्मृतिमेति, तदुःखं स्मर्यते चेत्तर्हि कष्टयुक्तायामापदि कण्ठे आश्लिष्टो लग्नो वरिष्ठः श्रेष्ठो यो रिष्टनिकरोऽशु- भसमूहस्तस्मादपि कथं बोधो न जायते । संसारदुःखक्लान्तस्यापि कथं न बोध इत्याश्चर्यम् ॥ अक्षाणामनिशं करोषि यदरे चेतस्त्वमन्वासनं तद्भोग्ये विषये सलालसमसि स्वामित्वमात्रभ्रमात ।
८ स्तबक;]
विष्णुभक्तिकल्पलता।
हित्वासन्नमहो महामृतमयं वेदान्तवेद्यं परं
कि लज्जापि न जायते शिवशिव व्यध्वेन ते गच्छतः ॥१४॥
हे चेतः, यन्निरन्तरमक्षाणामिन्द्रियाणामन्वासनमनुवर्तनं त्वं करोषि,इन्द्रियाण्यनुवर्तसे।
तद्भोग्ये इन्द्रिययोग्य विषये रूपादौ सलालसं सतृष्णं वासि । स्वामित्वमात्रभ्रमेण अहमि-
न्द्रियेशमिति भ्रमात् । 'स्वामित्वमात्रे भ्रमद्' इति पाठे विशेषणम् । किंच आसन्न नि-
कटवर्ति वेदान्तप्रतिपाद्यममृतरूपं महो ब्रह्मस्वरूपं हित्वा व्यध्वेन, विगतोऽध्वा व्यध्वः ।
तेक उन्मार्गेण गच्छतस्तव किं परं केवलं लजापि न जायते । शिवशिवेति दुःखवेदकः
शब्दः 'हरिहरि हतादरतया' इतिवत् ॥
अत्यन्तानुचितेऽपि कर्मणि मनः प्राप्य प्रवृत्ति पुनः
खेदं यासि किमुच्चकैः कुरु मतिं कृष्णे कृपाकोमले ।
लोके तदुरितं किमस्ति मधुजिन्नत्या न यत्क्षीयते
को वा दावविभावसोरपि रसोऽशोष्यस्तृणानां वने ॥ १५ ॥
हे मनः, अत्यन्तमयोग्येऽपि कर्मणि प्रवृत्ति प्राप्य पुनः खेदं किं यासि । कृपायुक्त
कृष्णे मतिं कुरु । लोके तत्पापं किमस्ति यद्धरिनमस्कारेण न नश्यति । दृष्टान्तमाह-
वने वर्तमानानां तृणानां को वा रसो दावानेरशोध्यः । अपि तु सर्वः शोष्य एव । तथा
हरिनत्या पापमिति ॥
निर्माय स्वयमेष शेषशयनः स्वामी समग्रं जग-
तयापारभरं चकार गुणिनि त्वय्येव चेतः परम् ।
त्वं तद्दर्शनमप्यनिच्छु मनुषे कर्तृत्वमप्यात्मनि
स्पष्टादीनव जीवितं क्षममतस्तदर्शनान्तं तव ॥ १६ ॥
हे चेतः, शेषशायी स्वामी हरिरेष सर्व जगत्स्वयं कृत्वा जगत्संबन्धिव्यापारसमूहं परं
केवलं गुणयुक्ते सत्त्वादियुक्ते त्वयि कृतवान् । त्वं तु हरिदर्शनमनिच्छु सद् आत्मनि क-
तत्वे मन्यसे । स्पष्ट आदीनवो दोषो यस्य तत्स्पष्टदोष, कृतन्न, अतो हेतोः हर्यभक्तिकार-
णात्तव जीवितं हरिदर्शनान्तं क्षमम् । दर्शनमन्तो नाशो यस्य तत् । हरिदर्शनानिमनस्को
भविष्यामीत्यर्थः ।
भाति श्रीपरमेश्वरः स्वयमयं हृत्पुण्डरीके यवा-
कारः कारणमेकमेव जगतामाधारभूतः प्रभुः।
सत्यस्मिन्नपि बम्भ्रमीषि किमरे चेतो दुराशावशा-
देकं तिष्ठ मुहूर्तमत्र नियतं यातुं निरातङ्कताम् ॥ १७ ॥
काव्यमाला। 4 अयं श्रीपरमेश्वरः स्वयं साक्षात् हृत्पझे भाति । कीदृशः । यवसदृशः। जगतामेक- मेव कारणम् , आधारश्च । प्रभुः कर्तुमकर्तुमन्यथाकर्तुं समर्थः । अरे हीनसंबोधने । हे चेतः, अस्मिन्हृत्पने वर्तमानेऽपि दुस्तृष्णावशाकि वं भ्रमसि । भ्रमतेर्यङ्लुगन्तं रूपम् । निश्चितं निरातङ्कतां निर्भयतां प्राप्तुमेकं मुहूर्तमत्र हृत्स्थे हरौ तिष्ठ ॥ हरिध्यानं हित्वा चरसि रसिको मोहमदिरां निपीय प्रेयस्या सह कुहनया संशयसखः । कृतान्तव्यापारं कलयसि न कस्मादकुशलं कियत्कालं केलि विषयवनमध्येऽनुभवसि ॥ १८ ॥ हे जन्तो, वं मोहरूपां मदिरां पीत्वा संशयस्य सखा सर्वदा संदिहानः सन् हरि- ध्यानं हित्वा त्यक्त्वा कपटयुक्तया नार्या सह रसिक आसक्तः क्रीडामनुभवसि । परंतु अ- कुशलं नरकादिदुःखप्रदं यमव्यापारं कस्मान्न कलयसि न जानासि । शिखरिणीछन्दः ॥ एवं चित्तमुपालभ्येदानी करमुपालभते- पत्रालंकृतपुष्पशालितुलसीवृक्षोल्लसद्वल्लरी- वृन्दैरिन्दिरया समं स भगवान्नारायणो नाचितः । पाणे दीनजनावनव्यसनिता नासादिता सीदते किंचिन्नोपकृतं कृतं किमहह प्रक्षीयते जीवितम् ॥ १९ ॥ हे पाणे, पौरलंकृतैः पुष्पैः शालते शोभत ईदृशो यस्तुलसीवृक्षस्तस्योल्लसन्ति शोभ- मानानि वल्लरीवृन्दानि मञ्जरीसमूहास्तैः कृत्वा लक्ष्म्या सह हरिस्त्वया न पूजितः । दी- नजनानां रक्षणे व्यसनिता सकामत्वमपि नाश्रिता। सीदते क्षुधादिपीडिताय प्राणिने क- श्चिदुपकारो न कृतः । अहहेति दुःखे । किं कृतं जीवितं प्रत्यहं क्षयं याति ॥ देवः श्रीललनानुरागकलनालीलोमिलोलीभव- स्वान्तः स्वां तनुते दृशं त्वयि न चेत्सेव्यस्तदाप्यादरात् ।। यस्मात्तच्चरितामृताब्धिलहरीलाभानुभावा जनाः स्तूयन्ते यतिभिः पवित्रमतिभिः संसारपारंगतैः ॥ २० ॥ श्रीरेव ललना स्त्री तस्या अनुरागकलना प्रेमधारणं तस्य लीलोमिषु लोलीभवत्स्वान्तं चित्तं यस्येदृशः । रमाक्रीडासक्त इत्यर्थः । देवी हरिश्चेत्स्वां दृशं त्वयि न तनुते, व्यप्र- वात्त्वां न पश्यति, तथाप्यादरपूर्व स एव सेव्यः । यस्माद्धरिचरितरूपो योऽमृतार्णव- स्तदुर्मिलाभमनुभवन्ति ये हरिचरितसत्ता जनाः ते संसारपरप्राप्तैः शुद्धमतिभिरपि य- < स्तबकः] विष्णुभक्तिकल्पलता। ८१ जायायौवनजीवनादिजनितं जोषं जगत्यस्ति य- त्तभोगाय भवत्यवश्यमखिलं मातङ्गजातेरपि । सेवासाधुसुधासु धेहि धिषणां हित्वेतराध्येषणां गोविन्दस्य यदिच्छवः सवभुजो नाद्यापि निद्रालवः ॥ २१ ॥ स्त्रीभोगादिजनितं यत्सुखं लोकेऽस्ति तद्धस्तिजातेः सर्वमवश्यं भोगाय भवति । 'शर्म: जोषं वशं सुखम्' इति कोषः । तस्मादितरस्याध्येषणां सेवां त्यक्त्वा गोविन्दस्य सेवा एव साध्व्यो याः सुधा अमृतानि तासु धिषणां बुद्धिं धेहि धारय । यदिच्छवो यत्सेवा- मृतकामुकाः सवभुजो यज्ञभुजो यज्ञभोक्तारो देवा अद्यापि निद्रालवो न भवन्ति । अ. लसा न सेवन्त एवेत्यर्थः ॥ एकस्मिन्नेव जन्मन्यहह तनुभृतां नैकजन्मप्रकाशः संलक्ष्ये भूतवर्गे त्विह सह सकले सर्वसाधारणेऽक्षः । विष्णुध्यानकताने मनसि मुनिरनुक्रोशदानाद्युपेते देवो मोहाभिभूते नर इतरजनिर्जातपङ्के स एव ॥ २२ ॥ अहहेत्याश्चर्ये । अक्षैरिन्द्रियैः सह सकले भूतवृन्दे पञ्चभूतवृन्दे सर्वसाधारणे पश्चिा]- दिसमाने संलक्ष्य सम्यग्दृश्येऽपि सति प्राणिनामेकस्मिन्नेवावतारे अनेकजन्मप्रकाशो भ- वति । तदेवाह-हरिध्यानतत्परे चित्ते जनो मुनिरित्युच्यते । दयादानादियुक्ते देव इति । मूढे चित्ते नर इति । जातपापे चित्ते इतरजनिश्चण्डादिः स एवोच्यते ॥ किं पुष्पं तुलसीसमं त्रिभुवने दानं किमम्मोनिभं गीतायास्तुलनामुपैति कतरच्छास्त्रं पवित्रं परम् । को देवो भजतां नितान्तहितकृन्नारायणादप्यहो का भक्तिः स्मरणाधिका किमितरच्चेतःसमं साधनम् ॥ २३ ॥ • त्रैलोक्ये तुलसीसमं किं पुष्पम् । जलसमं दानं किम् । कतमदन्यच्छास्त्रं गीतासम- मिति । हरेरन्यः को वा भजतामत्यन्तं हितकारी । स्मरणादधिका का भक्तिः । मनसा तुल्यं साधनं च किम् । एतैस्तुल्यमन्यन्नास्ति । एवं सुलभेऽपि साधने हरिभक्तिपराङ्मुखा भाग्यहीना इत्यर्थः ॥ एवं साधनमभिधाय त्रिभिः श्लोकानमाह- तन्मध्येरविमण्डलं मधुजितं देवं लसत्कुण्डलं नेत्रश्रीजितमञ्जुनीरजदलोदारप्रभासौभगम् । - ८२ काव्यमाला। भास्वद्भालतमालपत्ररचनारोचिष्णुवक्राम्बुजं भ्रूलेखाजितपुष्पजन्वधनुषः सौन्दर्यगर्वाङ्कुरम् ॥ २४ ॥ यतो हरिं विना गतिर्नास्ति तत्तस्मान्मध्येरविमण्डलं सूर्यमण्डलमध्यवर्तिनम् । 'ध्येयः सदा सविठमण्डलमध्यवर्ती' इति वचनात् । मधुजितं देवं हरिमन्तश्चित्ते भजे सेवे इति तृतीयश्लोकेनान्वयः ॥ मूर्धारोपितम मौलिवलभ्वसंदर्भितात्यद्भुत- ज्योतिर्दिव्यमणीमरीचिरमणीरङ्गीभवद्द्योतलम् । ग्लानि चन्द्रमसः कपोलफलकश्रीभिः सृजन्तं सदा यं ब्रह्मेति वदन्ति वेदविवृतौ विख्यातशिक्षाभृतः ॥ २५ ॥ मूनि आरोपितो यो रम्यो मुकुटस्तत्प्रदेशे खचिता अत्यद्भुतरोचिषो रम्यकान्तयो दि- व्यमण्यः । मणीशब्दः स्त्रीलिङ्गः । तासां रश्मय एव नार्यस्तासां रङ्गीभवनृत्यस्थानभूत द्योतलं नभो यस्य तम् । 'रङ्गः स्यान्नर्तनालये'। 'द्योदिवौ द्वे स्त्रियाम्'। मुकुटमणिकिरणाः खे भ्रमन्तो नृत्यन्त इव दृश्यन्त इत्यर्थः । कपोलतलशोभाभिश्चन्द्रस्य ग्लानिं पराजयं कुर्वन्तम् । किं च वेदविवृतौ श्रुतिव्याख्याने विख्यातां शिक्षा बिभ्रति ते उपनिषत्तात्प- यज्ञाः सदा यं हरिं ब्रह्मेति वदन्ति ॥ अत्यन्तोत्तमनासिकाविवरयोः श्वासप्रसङ्गोत्सवैः कुर्वाणं कमलामुरःस्थिरतरां निष्पारिजातादराम् । आरक्ताधरधर्मिणो धुरिमधोः प्रादुर्भवत्पल्लवं माकन्दं मदमार्गसार्गलहृदं कुर्वन्तमन्तर्भजे ॥ २६ ॥ अत्यन्तमुत्तमे ये नासाछिद्रे तयोः श्वासप्रसङ्गा एवोत्सवास्तैर्वक्षस्यत्यन्तस्थिरां रमां निर्गतः पारिजातकुसुमेष्वादरो यस्यास्तादृशीं कुर्वाणम् । श्वाससौगन्ध्यस्य कल्पतरुपु- पसमगन्धत्वादित्यर्थः । अधरस्थितेन रक्तत्वेन कृत्वा मधोधुरि वसन्तप्रारम्भे प्रादुर्भवन्तः पल्लवा यस्येदृशं माकन्दं निर्गर्व कुर्वन्तम् । ततोऽप्यधिकारुण्यादिति भावः । मदस्य ग. वस्य मार्गे सार्गलं सप्रतिबन्धं हृद्यस्य तम् ॥ पुनः श्लोकत्रयेण ध्यानमाह- दीव्यद्दन्तमयूखसंचयपयःपूरेण दुग्धोदधे- रुत्कण्ठां शमयन्तमात्महृदयस्थायिश्रियो हास्यतः। नित्यं प्रत्युरसप्रसक्तसुमणिस्फूर्जद्धणिश्रेणिभिः प्रत्याख्यातषडूमिनिर्मलमनोजाग्रत्रिलोकीहितम् ॥ २७ ॥ एवंविधं हरिं चित्त एवं कुर्वे इति तृतीयेनान्वयः । कीदृशम् । तदाह-हास्यतः दी- - ८ स्तबकः] विष्णुभक्तिकल्पलता। व्यन्तः प्रसरन्तो ये दन्तकिरणसमूहास्त एव दुग्धपूरस्तेन स्क्वक्षःस्थितायाँ लक्ष्म्याः क्षीरसागरस्योत्कण्ठां शमवन्तम् । हास्यप्रसरहन्तरश्मिभिः श्रियाः क्षीराब्धिभ्रमो भवती- त्यर्थः । उरसीति प्रत्युरसम् । सप्तम्यर्थेऽव्ययीभावः । 'प्रतेरुरसः सप्तमीस्थात्' इत्यच्प्रत्ययः। नित्यं वक्षसि संसक्तो यः शोभनो मणि: कौस्तुभस्तस्य स्फूर्जन्तो ये रश्मिसमूहास्तैः प्र- त्याख्यातास्तिरस्कृताः षडर्मयः क्षुधादयो यस्मात् । अत एव निर्मलं यन्मनस्तत्र जाग्रत् सदास्थितं त्रैलोक्यादिहितं यस्य तम् । 'प्राणस्य क्षुत्पिपासे द्वे, शोकमोहौ तु चेतसः । जरामृत्यू शरीरस्य षडूमिरहितः शिवः ॥ इति वचनात् ।। निःशकं जगदर्तिवर्तितमनोवृत्तिप्रतीतासुर- स्कन्धस्थायिमदव्यपायचपलं चक्रं च कौमोदकीम् । हस्तानां तु चतुष्टये सधनुषं शङ्ख तुषारयुते- बिम्बेनातिसक्षमक्षयजयोदये दधानं प्रभुम् ॥ २८ ॥ अक्षयोऽविनाशी यो जयस्तेनोत्कृष्ट हस्तचतुष्टये चक्र गदां सरसिजं पद्मं शङ्ख च दधानं बिभ्राणम् । कीदृशं चक्रम् । निःशङ्कं जगत्पीडायां वर्तितया मनोवृत्त्या प्रतीता हृष्टा येऽसुरास्तेषां स्कन्धस्थो यो गर्वस्तन्नाशे चञ्चलम् । दैत्यान्नाशयन्तमित्यर्थः। कीदृशं श- लम् । तुषारयुतेश्चन्द्रस्य बिम्बेनातिसदृशम् । प्रभुम् । समर्थमित्यर्थः ।। कण्ठस्थापितदामदुर्लभतमामोदेन मत्तालिनां व्याषेधव्रतपाणिपद्मरमया विभाजितोरःस्थलम् । नाभीनीरजसद्मपद्मजनुषा सिद्धान्तसंभावित- स्तोत्रार्थामृतपूर्णकर्णकुहरं हृद्येव कुर्वे हरिम् ॥ २९ ॥ कण्ठे स्थापितमालाया अत्यन्तं दुर्लभो यः परिमलस्तेन मत्तानां भ्रमराणां व्याषेधे निवारणे व्रतं यस्येदृशं पाणिपद्मं यस्याः, तया रमया शोभितमुरःस्थलं यस्य तम् । नाभी- पद्मं सम गृहं यस्येदृशेन पद्मजनुषा विधिना सिद्धान्ततया संभावितानि यानि स्तोत्राणि तदर्था एवामृतानि तैः पूरितं कर्णविवरं यस्य तम् ।। कर्पूरामृतदीधितिप्रतिमया कायश्रिया शोभितं धौतं सत्कलधौतजातसदृशच्छायं च यस्योत्तरम् । सेवाकारिसुपर्वराशिमुकुटप्राप्तप्रतिष्टैर्मणि- श्रेष्ठैर्जुष्टपदारविन्दयुगलं ध्यायामि दामोदरम् ॥ ३० ॥ कपूरचन्द्रतुल्यया देहश्रिया शोभितं विष्णुम् । 'शारदकोटिचन्द्रसदृशम्' इति शार- दोक्तेः । धौतं शुद्धम् । सत्' शुद्धं यत्कलधौतं हेम तत्समूहतुल्या कान्तिर्यस्य वासः । सेवा- कारिणो ये सपर्वराशयो देवसमूहाः । 'सुपर्वाणः सुमनसः' इत्यमरः। 'शाली' इति पाठे देवेषु ८४ काव्यमाला। . शालन्ते शोभन्ते ये मुकुटास्तत्र प्राप्ता प्रतिष्ठा स्थितियमुकुटखचितै रत्नश्रेष्ठैः सेवितं पादपद्मयुग्मं यस्य तम् ॥ भवाटव्यामव्याहतगतिरयं मारमृगयुः पुमेणानेणाक्षीनयनमयपाशैरशिथिलैः । दृढं बद्धाश्वस्थच्छदसदृशकारां नयति तां यतो मूढं विश्वं तदा निकृतेः कृष्ण कृपया ॥ ३१ ॥ संसारवनस्खलितगतिरयं कामव्याधः पुंस एवैणा मृगास्तान्मृगाक्षीनेत्ररूपपाशै ?ई बद्धा पिप्पलपत्रसदृशीं कारां बन्धनागारं नयति । नानायोनीः प्रापयतीत्यर्थः । यतो जने- विश्वं मूढं भवति तत्तस्मात् हे कृष्ण, कृपया निकृतेः संसारपराभूतेः सकाशादव रक्ष । 'तदवनकृते' इति पाठे तस्माद्रक्षणाय कृपां कुरु ॥ मच्चेतो मधुसूदनाशिकमले मन्दाकिनीकेलिमत् क्लिन्नं भक्तिरसेन तीर्णमभितः संसारवारांनिधिम् । मोहं मित्रमनेकजन्मसु मुदात्रैवाममज्जक्वचि- त्तद्वैरेण न विश्वसन्ति कथमप्यस्मिन्विषादादयः ॥ ३२ ॥ मम मनो हरिपदपझे गङ्गायां क्रीडायुक्तं. भक्तिरसेना सरसमभित: संसाराब्धितीर्ण सदनेकेषु जन्मसु सहायं मोहमत्रैव संसारे मजयामास । तद्वैरेण विषादमदलोभादयोऽप्य- स्मिश्चित्ते कथमपि न विश्वासं कुर्वन्ति मजनमयेन ॥ आम्नायाभ्यसनैः कृतं फलमिदं त्रेताकृताराधना- संतुष्टा मम यन्मतिर्भगवती श्रीरामचन्द्रेऽभवत् । यस्याराधनमन्तरेण तनुभृत्तापाय न द्वापरो न स्यात्तत्किमिवोच्यते कलिकृतामत्रापदां चेष्टितम् ॥ ३३ ॥ वेदाभ्यासरिदं फलं कृतम् । 'अग्नित्रयमिदं त्रेता' इत्यमरः । गार्हपत्यादीनां कृता प्रजा तया संतुष्टा यद्यतो मम हरौ बुद्धिरभूत् । यस्य सेवां विना द्वापरः संदेहो जन्तूनां ता- पाय न । अपि तु ताप्तायैवेति काकुः । कलिकृतां निबिडापदां चेष्टितं चेष्टा किमुच्यते । तास्तु वर्तन्त एव हरिभक्तिं विना ॥ हरौ हृदयमायाते माया ते किं करिष्यति । यदच्युतध्यानपरा न पराभवमागताः ॥ ३४ ॥ हरौ मनः प्राप्ते माया ते किं करिष्यति । अकिंचित्करेत्यर्थः । यतो हरिध्यानपरायणाः पराभवं न गताः ॥
८ स्तबकः] विष्णुभक्तिकल्पलता। ८५ भेदाभावेऽपि गोविन्द त्वद्दया मम जीवनम् । न वल्ली विद्यते क्वापि स्वातिश्रवणरोहिणी ॥ ३५ हे हरे, आवयोरभेदेऽपि तव दया मम जीवने हेतु: । दृष्टान्तमाह-स्वातिश्रवणरो- हिणी स्वस्वरूपस्य कारणस्यातिश्रवणेनातिक्रमणेन रोहति जायते, ईदृशी वल्ली कापि न विद्यते । बीजं मुक्त्वा यथा वली न जायते तथा त्वां विनाहं नास्मि । कार्यकारणयोरभेदात्॥ यदा नायाति हृदये तदा मे मृत्युतोऽधिकम् । आयाते हृदि गोविन्दे मृत्युर्मङ्गलमङ्गलम् ॥ ३६ ॥ यदा हृदि हरि याति तदा जीवनमपि मै मृत्युतोऽधिकम् । हरौ हृद्यायाते मृत्युः परममङ्गलम् । मुक्तिहेतुत्वात् ॥ सेवे त्वत्पादकमलं कमलाकान्त केवलम् । विलम्ब तद्विधत्से किं देव हर्तुं महापदम् ॥ ३७ ॥ हे रमाप्रिय, केवलं त्वत्पादप- सेवे । तर्हि हे देव, मम कष्टं हर्तु कथं विलम्ब कुरुषे । मम दुःखाहरणे विलम्बो न कार्यः ॥ तावल्लोभः प्रभुत्वं भजतु निजभुजस्फूर्जदूर्जातिरेकः प्रच्छन्नं तावदेनो विरचितमतुलां चित्तपीडां करोतु । रोषद्वेषाभिमानानयनिरयभियः स्फूर्तिमायान्तु ताव- द्यावन्नायाति मायातिमिरदिनकरश्चित्तमध्ये मुरारिः ॥ ३८॥ लोभस्तावदैश्वर्यं करोतु । कीदृशः । निजहस्तयोः स्फूर्जन्बलातिशयो यस्य । प्रच्छन्नं रहाकृतमेन: पापं तावदतुलां मनःपीडां करोतु । क्रोधद्वेषाभिमानानयनरकभियस्ताव- दृद्धिं यान्तु । मायान्धकारसूर्यो हरिर्यावच्चित्ते नायाति । तस्मिन्हृदि आयाते लोभादयः स्वयमेव नक्ष्यन्तीत्यर्थः । आयाते हृदये हरौ विगलितं विघ्नैर्गतं पातकैः कोपेनोपरतं शुचाशु चकितं वीतं विरोधादिभिः । वित्रस्तं विषयैर्बिभाय बहुधा भेदोऽपि वेदोदितो दीर्ण दुःखहृदानुदारचरितो मोहः समाप्तिं गतः ॥ ३९ ॥ हरौ हृद्यायाते विघ्नैरनाशि । पापैरपि गतम् । कोपेनोपरतम् । शोकेन आशु शीघ्र भीतम् । विरोधादिभिर्धष्टम् । विषयैरत्रासि । बहुधा वेदोक्तो भेदो भीतः। दुःखस्य हृ- दयेन स्फुटितम् । दुष्टचेष्टो मोहो नष्टः ॥ मच्चेतोवृत्तिलक्ष्मी रहसि विकसिते हृत्सरोजे सुजान- द्विष्वक्सेनप्रसङ्गोत्सवमवगणितोपायसर्वान्तरायम् ।
८६ काव्यमाला। संप्राप प्रेमपाथोनिधिलहरिपरिव्याकुलाश्लिष्य बाढं खामिव्यामिश्रभावं समलमत सुखं यत्र वाचां विरामः ॥ ४० ॥ मन्मनोरूपा लक्ष्मीः रहसि विकसिते हृत्पद्मे सुतरां जाग्रद्यो हरिः तत्सङ्गोत्सवम् । अवगणितोपाया निःसारा सर्वेऽन्तराया यत्रेदृशं तं प्राप्य प्रेमसमुद्रोमिव्याकुला सती सुखे परमानन्दे गाढमालिङ्गय स्वामिना सह व्यामिश्रितां प्राप । ब्रह्मैकतां प्राप्तेत्यर्थः । यत्र वाचामिन्द्रियाणां विरामः । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति श्रुतिः । 'मनसैवानुद्रष्टव्यं यन्मनो न मनुते' इति च ॥ इदानीं ग्रन्थान्ते मातापित्रोर्नामकथनपूर्वकं स्वनाम निगमयति-- मानी माता पिता विष्णुर्यस्याख्या पुरुषोत्तमः। विष्णुभक्तिलतां चक्रे सतां चक्रे कृताञ्जलिः ॥ ४१ ।। इति श्रीपुरुषोत्तमकृतायां विष्णुभक्तिकल्पलतायां चित्तप्रबोधो नामाष्टम: स्तबकः ।। यस्य मानीनान्नी [माता] । विष्णुनामा पिता । यस्याभिधानं पुरुषोत्तम: स इमां वि- ष्णुभक्तिकल्पलतां चक्रे कृतवान् । कीदृशः । सतां साधूनां चक्रे समूहे कृतोऽञ्जलियेन । साधुनमनकृदित्यर्थः ॥ इति श्रीमहीधरविरचिते विष्णुभक्तिकल्पलताविवरणे चित्तप्रबोधो नामाष्टमः स्तबकः॥ समाप्तश्चायं ग्रन्थः।
सटीकाया विष्णुभक्तिकल्पलतायाः शोधनपत्रम् । पृ. प. शुद्ध पाठः । ४- ५ भिदोक्तौ ९-१२ त्वचरणाब्जा १-२८ मजतो १२-१० भृद्यत्र १३-३ स्वरूपं १९-२४ मृत्युभीतेः २३-३० रङ्गिनाम् २६-२५ संहननम् २७-१५ लतादलतां २८- ७ शमनक्रुधः २९-२६ मुद्धृतवतः ३३-२० खेदे ४१-८ स्तम्भवती ४१-२८ ध्यानानन्दः ४४- ८ धनस्य ४४-१७ हे ४५- ३ मतिमतां ४५-१९ धातुभिः ४५-२४ विभक्त्यन्ते ४६-१५ तेषां पृ. प. शुद्धपाठः । ४६-२१ यदनैश्वर्य ४८-१२ प्रकृति ४८-२८ दृष्टया ४९-- ७रसाव ४९- ९ यतोऽसौ ५१-२२ कस्य ५५-१७ सोमावदातं ५५-१८ लब्धा ६४- ४ स्त्रीषु ६४- ५ मन्यस्य ६४-२० शृङ्खलाः ६४-२७ को ६७-३० दैर्ध्यमिच्छन्ती ६८-२८ पतयः ६९-२७ मौषधं ७०-१४ भारतादौ ७२- ८ मकिंचित्करः ७२-१५ ग्रहीतु ७२-२१ पीडयसि
No text on this page.
KÂVYAMÂLÂ. 76.
THE
GANGAVATARANA
OF
NILAKANTHA DIKSHIT.
EDITED BY
PANDIT BHAVADATTA S'ASTRÎ,
2nd Pandit, Government College, Ajmere,
Son of
MAHÂMAHOPADYÂYA PANDIT SIVADATTA
Head Pandit and Superintendent, Sanskrit Department,
Oriental College, Lahore,
AND
KÂSÎNÂTH PÂNDURANG PARAB.
PRINTED AND PUBLISHED
BY
TUKÂRÂM JAVAJÍ .
PROPRIETOR OF JAVAJI DADAJI'S NIRNAYA-SAGARA' PRESS,
BOMBAY.
1902.
Price 8 Annas.
(Registered according to Act XXV of 1867.) [ All rights reserved by the publisher. ] काव्यमाला. ७६ श्रीनीलकण्ठदीक्षितविरचितं गङ्गावतरणम्। जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारककेदारनाथ- कृपाङ्गीकृतशोधनकर्मणा महामहोपाध्यायपण्डितशिवदत्तशर्मतनूजपण्डितभवदत्तशास्त्रिणा, मुम्बापुरवासिपरबोपाह्वपाण्डुरङ्गात्मजकाशीनाथशर्मणा च संशोधितम् । तच मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् । RO- १९०२ (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते. रेवाधिकारः।) मूल्यं ८ आणकाः ।
No text on this page.
श्रीनीलकण्ठदीक्षितः।। तत्समकालिका द्रविडदेशीया अन्यकवयश्च । . जानन्ति खलु सर्वेऽपि पण्डिता दक्षिणदेशेषु श्रीमति भरद्वाजान्वये कृतावताराः श्रीम- दप्पयदीक्षितेन्द्रा इति । तेषामेव दीक्षितमणीनां अप्पयदीक्षिताः', 'अप्पय्यदीक्षिताः', 'अप्पदीक्षिताः', इत्यपि नामान्तरद्वयं संदृश्यते ग्रन्थेषु । श्रीकण्ठमतप्रतिष्ठापनाचार्य-चतु- रधिकशतप्रवन्धनिर्वाहक-महाव्रतयाजिन इति तेषां बिरुदावलिः । ते हि गतेषु ४६५४ कल्यब्देषु, तथातीतेषु १५५४ निस्ताब्देषु, काञ्चीपुरपरिसरवर्तिनि अडयप्पलनाम्न्यग्रहारे भरद्वाजकुलोत्पन्नस्य छन्दोगस्य श्रीमदाचार्यदीक्षितस्य सूनोःश्रीविश्वजिद्याजिरङ्गराजमखिनो लब्धजन्मानो द्वासप्ततिं संवत्सरान्प्राण्य परःशतान्ग्रन्थान्निर्ममुः । सर्वतन्त्रखतन्ताः श्रीमन्तो दीक्षितेन्द्राः । तत्रापि तेषामनितरसाधारणी नैपुणी पूर्वोत्तरयोर्मीमांसयोः । भक्तिश्च भगवति चन्द्रचूडे । द्राविडी (Tamil) तेषां जन्मभाषा । तेषां जन्मवत्सरादिकं सर्वमपि वृत्तान्तं विशदं व्याहरति दीक्षितचरिते शिवानन्दयोगीन्द्र:- 'वीणातत्त्व(४६५४)ज्ञसंख्यालसितकलिसमाभाक्प्रमातीचवर्षे कन्यामासे तु कृष्णप्रथमतिथियुतेऽप्युत्तरप्रोष्ठपाढ़े । कन्यालग्नेऽद्रिकन्यापतिरमितदयाशेवधिवैदिकेषु श्रीगौ3 प्राग्यथाह स्म समजनि विरिश्चीशपुर्यो कलेशः ॥' इति । एकादश रुद्रा इव तेषां समजनिषत तावन्तः पुत्राः । सर्वेऽपि कृतविद्या विनयोज्ज्वला. श्वावर्तिषत समीप एव तेषां निर्याणसमये । निर्याणं च श्रीमति चिदम्बरक्षेत्रे समभूत् । इयं हि तेषां चरमा सूक्तिरिति श्लोकममुं पठन्ति विद्वांसः- 'चिदम्बरमिदं पुरं प्रथितमेव पुण्यस्थलं सुताश्च विनयोज्ज्वलाः सुकृतयश्च काश्चित्कृताः। १. 'मुनिरस्ति भरद्वाजः ख्यातस्त्रिभुवनेष्वपि । अन्नैर्यस्य जही रामोऽप्यरण्यभ्रमणश्रमम् ॥ तस्यान्वये महत्यासीत्क्षीरोद इव चन्द्रमाः । श्रीकण्ठचरणासक्तः श्रीमानप्पयदीक्षितः ॥' इति गङ्गावतरपाकाव्ये प्रथम सर्गे। 'अप्पय्यदीक्षितेन्द्रानशेषविद्यागुरूनहं वन्दे । यत्कृतिबोधाबोधौ विद्वदविद्वद्विभाजकोपाधी ॥' इति तन्त्रसिद्धान्तदीपिकायाम् । 'बिद्वद्रोविहितविश्वजिदध्वरस्य श्रीसर्वतोमुखमहाव्रतयाजिसूनोः । श्रीरङ्गराजिमखिनः श्रितचन्द्रमौलिरस्त्यप्पदीक्षित इति प्रथितस्तनूजः ॥' इति सिद्धान्तलेशसंग्रहे। - वयांसि मम सप्ततेरुपरि नैव भोगे स्पृहा न किंचिदहमर्थये शिवपदं दिक्षे परम् ॥' इति । उच्यते च शिवलीलार्णवमहाकाव्ये नीलकण्ठमखीन्द्रेण- 'कालेन शंभुः किल तावतापि कलाश्चतुःषष्टिमिताः प्रणिन्ये । द्वासप्ततिं प्राप्य समाः प्रबन्धाञ्छतं व्यधादप्पयदीक्षितेन्द्रः॥' इति १ सर्गे ६ श्लोकः । तैः कृताः कृतयश्चतुरधिकं शतमिति परिगण्यन्ते विज्ञैः । त इमे दीक्षितेन्द्रा वेलूर. (Velur)आख्यनगराधीश्वरेण चिन्नवीरप्पनायकपुत्रेण लिङ्गमनायकस्य पित्रा चिनबोम्म- भूपालेन सादर नितरां संभाविताः संमाननाभिः । वसन्तस्तस्य समीप एव तत्र नगरे बहुशोऽत्यवाहयन्खजीवितकालम् । उच्यते च ग्रन्थेषु- 'हेमाभिषेकसमये परितो निषण्णसौवर्णसंहतिमिषाचिनबोम्मभूपः । अप्पय्यदीक्षितमणेरनवद्यविद्याकल्पद्रुमस्य कुरुते कनकालवालम् ॥ कर्णश्रीचिन्नबोम्मक्षितिपतिरभितो लम्भयातकुम्भ- स्तोमं हेमाभिषेकप्रणयनसमये यस्य मूर्ति प्रशस्याम् । रेजे श्रीरङ्गराजाध्वरिवरकलशाम्भोधिलब्धप्रसूते. विद्याकल्पद्रुमस्य स्वयमिव कलयञ्जातरूपालवालम् ॥' इति समरपुंगवदीक्षितकृत-यात्राप्रबन्धचम्पूकाव्ये । 'नानादेशनरेन्द्रमण्डलमहायत्नातिदूरीभव- कादाचित्कपदारविन्दविनतेरप्पय्ययज्वप्रभोः । शैवोत्कर्षपरिष्कृतैरहरहः सूक्तैः सुधालालितः फुल्लत्कर्णपुटस्य बोम्मनृपतेः पुण्यानि गण्यानि किम् ॥' इत्यन्यत च। अनन्तरं चाराधिता दीक्षितेन्द्राः पेन्नुगोण्डाधीशेन श्रीरङ्गरायसोदरेण तिरुमलरायतनू- १. असौ चिन्नबोम्मभूपालो विजयनगराधीशस्य नरसिंहवंशीयस्य सदाशिवमहारायस्य, पेनुगोण्डाधीशस्य कोटराजस्य श्रीरङ्गमहारायस्य च, सामन्तोऽभूत् । चिन्नबोम्मभूपा- लस्यास्य प्रार्थनया सदाशिवमहारायेण श्रीरङ्गमहारायेण च दत्तानि सप्त दानशासनपत्राणि वेलूर्(Velur)ज्वरखण्डेश्वरदेवायतने शिलायामुत्कीर्णानि सन्ति । तानि च १४८८ (A. D. 1566) शकाब्दे, १४९७ (A. D. 1575) शकाब्दे च उत्कीर्णानि । (Vide pp. 69-75, Vol. I., South Indian Inscriptions, by Dr. E. Hultzsch.)
३ जेन वेङ्कटदेवेन । नियोगेन चास्याकुर्वन्कुवलयानन्दं नामार्थालंकारप्रबन्धम्- 'अमुं कुवलयानन्दमकरोदप्पदीक्षितः । नियोगाद्वेकटपतेर्निरुपाधिकृपानिधेः ॥ इति कुवलयानन्दे । अनन्तरं च दीक्षितेन्द्रा अतीतेषु १५४८ शालिवाहनशकाब्देषु, यातेषु च १६२६ ख्रिस्ताब्देषु, 'अक्षय'नाम्नि संवत्सरे शैववैष्णवानां विवादं कमपि निर्णेतुं पाण्ड्यदेशा- धिपतिना तिरुमलैनायकमहाराजेन बहु प्रार्थितास्तत्रागमन् । प्रतीयते चायमंशः ओरिएण्टल हिस्टॉरिकल म्यान्युस्क्रिप्टम्'आख्यग्रन्थतोऽपि । अथ खदेशमागत्य कियता १. वेङ्कटदेवराज्यसमयश्च १५०८ (A. D. 1586) शकाब्दादारभ्य १५३५ (A. D. 1613) RECTA FICTA (Vide p. xiii, Second Report on Sanskrit Manuscripts, by Dr. E. Hultzsch.) 2. 'Oriental Historical Manuscripts' translated by W. Taylor, Vol. II, p. 149:- "In the year S. S. 1544, in Dundubhi year, the 17th of Masi month, Muthu-Tirumalai Naicker came to Madura in order to be anointed (or installed) to receive the sceptre and other ensigns of royal authority. " Having thus arranged the plan, the whole was, thus begun to be carried into execution at once on the 10th of Vyasi month, of Akshaya year during the increase of the moon. From that time forward as the master came duly to inspect the work, it was carried on with great care. As they were proceeding first in excavating the Teppakkulam they dug up from the middle a Ganapathi (or image of Ganesa) and caused the same to condescend to dwell in a temple built for the purpose. As they were placing the sculptured pillar of the Vasanta-mandapam and were about to fix the one which bore the representation of Yekapada-murthi they were opposed by the Vyshnavas. Hence a dispute arose between them and the Saivas, which lasted during six months and was carried on in the presence of the Sovereign. Two ar. bitrators were appointed, Appa Dikshitar on the part of . कालेन कोलधर्म गता • दीक्षिताः । अतः सर्वथा निणीयते १६२६ तमाब्दात्पूर्व न तेषां निर्याणसमय इति । शाब्दिकसार्वभौमः श्रीमान्भट्टोजिदीक्षितोऽपि तानेव गुरून्प्रार्थयमानस्तेभ्य एवाध्यैष्ट श्रीमद्भाष्यं ब्रह्मसूत्राणां श्रीमच्छंकरभगवत्पादप्रणी- तम् । एवं व्याहरन्ति दाक्षिणात्या ऐतिहासिकाः --'श्रीमान्भटोजिदीक्षितः स्वयं विर- चितान्प्रन्थान्बहूंलेखकैर्लेखयित्वा प्राहिणोद्बहुभ्यः पण्डितेभ्यः । ते च दृष्ट्वा तां सरणि- मतिमञ्जुलां नूनां चापाठयंस्तामेव शिष्यान् । अथ बहुना कालेन स एव दक्षिणां दिशं प्रपेदे सह शिष्यैः । तदा किल ददर्श क्वचिन्निकटे चिदम्बरस्य वसतः श्रीमदप्पयदी- क्षितेन्द्रान् । तत्र च सति प्रसङ्गे तानसावधिजग्मिवानखिलशास्त्रवेदनचणानधिगत- वेदान्तरहस्यान् । तेषामेव मुखात्प्रयतः शुश्राव कौमारिलं तन्त्रम्, श्रीमद्भगवत्पादशंक- रमुनिप्रणीतं ब्रह्मसूत्रभाष्यं च । ततः कुर्वन्गुरवे दक्षिणां ग्रन्थान्ते चोदितः स्वयं गुरुणा पूर्वोत्तरमीमांसयोः कर्तुमेकैकं ग्रन्थम् । प्राणैषीदसौ 'तन्त्रसिद्धान्तदीपिकाम्', 'श्रीम- त्तत्वकौस्तुभं' च । तन्त्रसिद्धान्तदीपिकायां श्रीमदप्पयदीक्षितेन्द्रानात्मनो गुरून्व्याहरति श्रीभट्टोजिदीक्षितः । यथा- 'अप्पय्यदीक्षितेन्द्रानशेषविद्यागुरूनहं वन्दे । यत्कृतिबोधाबोधौ विद्वदविद्वद्विभाजकोपाधी ॥' इति । तत्त्वकौस्तुभे च द्वितीयपरिच्छेदोपक्रमे 'प्रायशो विदुषां मुदे' इति चायमंशः सूचित इति । तथा ततः परं श्रीमति व्याकरणेऽपि ग्रन्थकरणं प्रार्थितैर्दीक्षितचरणैर्विरचिता श्रीमती नक्षत्रवादावली । यत्र च प्रतिद्वन्द्वितया 'अधुना पाणिनितन्त्रे विदुषां प्रीत्यै विर- च्यन्ते' इति स्पष्टं तस्य ग्रन्थस्य विद्वत्प्रीतिहेतुत्वं विशिष्योक्तमिति च । औत्तराहास्तु- गङ्गायात्रार्थमुदीची गतैः श्रीमदप्पयदीक्षितैः सह समागमः श्रीभद्योजिदीक्षितस्येत्यामनन्ति। सत्यं गङ्गायात्रामकुर्वञ्छ्रीमदप्पययज्वानः । उच्यते च 'गङ्गावतरण'काव्ये श्रीनीलकण्ठ- मखीन्द्रेण-गङ्गायां यः पुरा स्नातो देवश्चन्द्रार्धशेखरः । गाङ्गेयेन पुनः सस्नौ सोऽवतीर्य यदात्मना ॥ इति प्रथमसर्गे श्रीमदप्पयदीक्षितप्रशंसायाम् । सर्वथा श्रीमदप्पयदीक्षि- तानां न्यूनवयाः समकालिकश्च श्रीमान्भद्योजिदीक्षित इति सिद्धम् । the Saivas, and Ayya Dikshitar Ayyan on the part of the Vaishnavas: these then consulted Sanskrit authorities and made the Sastras agree; after which the pillar of Yekapada-murti was fixed in its place". १. लघुसिद्धान्तकौमुद्या मध्यसिद्धान्तकौमुद्याश्च प्रणेता वरदराजोऽस्यैव भोजिदी- क्षितस्य शिष्यः- 'नत्वा सरस्वती देवीं शुद्धा गुण्यां करोम्यहम् । पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम् ॥ - . , - श्रीमदप्पयदीक्षितस्य समानकालिकाः कवयः पण्डिताश्च- (१) सुप्रसिद्धः श्रीमान्रत्नखेटदीक्षितः, (२) आलंकारिकचूडामणिमहाकविर्जगन्नाथप- ण्डितः, (३) वैयाकरणसार्वभौमः श्रीमान्भट्ठोजिदीक्षितः, (४) अद्वैतविद्याचार्यश्चोलभूवल्लभ- स्याच्युतनायकस्य तत्तनयस्य रधुनाथभूपालस्य च मन्त्री विश्वविश्रुतौदार्यों गोविन्ददीक्षितश्च । रत्नखेटदीक्षितस्य श्रीनिवासदीक्षित इत्येव स्वपित्रा कृतं नाम । तस्य रत्नखेटश्रीनि- वासदीक्षित इत्यपि भूयान्व्यवहारः । तस्य संध्यावर्णनचातुर्यास्प्रमुदितेन राज्ञा कृतं नाम रत्नखेटाध्वरीति । उच्यते चैवं तस्य पुत्रेण राजचूडामणिदीक्षितेन प्रणीतस्य रुक्मिणी- परिणयमहाकाव्यस्य व्याख्यानारम्भे व्याख्यात्रा बालयज्ञकेदेश्वरेण- 'संध्यासंधुक्षिताम्भोधरनलिकगणादुद्गतान्सीसखण्डां- स्ताराकारान्निरोद्धं शशिरविकपटाद्विभ्रतो रत्नखेटौ । अन्योन्यं युध्यमानाबुदयचरमभूमृत्प्रवीराविति द्रा- गुक्त्या ख्यातापराख्यः क्षितिपतिवचसा रत्नखेटाध्वंरीति ॥' श्रीमतो रत्नखेटदीक्षितस्य कृतयः-(१) शितिकण्ठविजयकाव्यम् , (२) भावनापुरुषो- त्तमनाटकम्,(३) अद्वैतास्रवकौस्तुभम् , (४) वादतारावली, (५) मध्वध्वंसनम् , (६) बौद्धत- त्रमथनम् , (७) वेदान्तवादावली, (८) मणिदर्पणम् , (९) समयसर्वखम् , (१०) विधिनि- र्णयम् , (११) रत्नप्रदीपम् । अन्ये च सन्ति बहवस्तत्प्रणीताः प्रबन्धाः । उच्यन्ते च तत्कृतप्रबन्धानां नामानि पूर्वोक्तव्याख्याने । यथा- 'अद्वैतास्रवकौस्तुभं व्यरचयद्यो वादतारावली मध्वध्वंसनबौद्धतन्त्रमथने वेदान्तवादावलीम् । प्रख्यातं मणिदर्पणं समयसर्वखं विधेर्निर्णय तत्त्वानां परिशुद्धिबोधविमलं रत्नप्रदीपं स्मृतेः ॥ १४ ॥ विद्याविशेषमणिजालखनेर्गुरुश्रीभट्टोजिदीक्षितमुखाम्बुनिधेर्गृहीत्वा । सिद्धान्तमध्य(?)मवनौ प्रकटीकरोति कश्चिद्धनी वरदराज इति प्रसिद्धः ॥' इति तञ्जोर्राजकीयपुस्तकालयस्थ-लघुसिद्धान्तकौमुदीप्रारम्भे । 'नत्वा वरदराजः श्रीगुरून्भट्टोजिदीक्षितान् । करोति पाणिनीयानां मध्यसिद्धान्तकौमुदीम् ॥' -- अन्ते च- 'एषा वरदराजेन बालानामुपकारिका । अकारि पाणिनीयानां मध्यसिद्धान्तकौमुदी ॥ कृतिर्वरदराजस्य मध्यसिद्धान्तकौमुदी । तस्याः संख्या तु विज्ञेया खबाणकरवह्निभिः ॥ इति श्रीरविटिकंटिकंटिवरदराजभट्टकृत-मध्यसिद्धान्तकौमुदी ॥' इति तञ्जोर्राजकीयपुस्तकालयस्थ-मध्यसिद्धान्तकौमुद्याम् ।
१ यो भावनापुरुषवर्यमुखान्यकार्षीदष्टादशापि च दशाद्भुतरूपकाणि । भावोत्तराणि शतकण्ठजयादिमानि काव्यानि षष्टिमतनोदमृतायितानि ॥ १५॥ ध्वन्यध्वन्यमनोविनोदनिपुणाः साहित्यसंजीविनी- भावोद्भदरसास्त्रवादिकृतयः पारेशतं यत्कृताः । अन्ये क्षौद्ररसार्द्रसुन्दरगिरः क्षुद्रप्रबन्धाः शतं छन्दोज्यौतिषमन्त्रतन्त्रविषया भाषाप्रबन्धास्तथा ॥ १६ ॥ अन्याश्च यस्य कृतयो निखिलागान्तसिद्धान्तितान्तरनिरन्तरसूक्तिगुम्फाः । षड्दर्शनीसकलमर्मविवेककर्मकर्मक्षमाः सुकृतिनां मुदमावहन्ति ॥ १७ ॥ रत्नखेटदीक्षितस्य परम्परा यथा- श्रीभवस्वामी (भाष्यकार:) श्रीकृष्णार्यः (आह्निकप्रणेता) कुमारभवखामी (अद्वैतचिन्तामणिकारः) श्रीकृष्णार्यः श्रीभवस्वामिभट्टः श्रीरत्नखेटश्रीनिवासाध्वरी तथा चोच्यते रुक्मिणीपरिणयकाव्यस्य व्याख्यानारम्भे- 'यः षष्ठो भाष्यकर्तुः क्रतुवरमहितश्रीभवस्वामियष्टुः श्रीकृष्णार्यस्य दैनंदिनकृतिकृतिनः सोमपः पञ्चमो यः । नप्ता योऽद्वैतचिन्तामणिविरचयितुः पौण्डरीकादियष्टुः सर्वज्ञातुः कुमाराहयामिलितभवस्वामियज्वाभिधस्य ॥ ५॥ श्रीकृष्णार्यस्य पौत्रः प्रतिदिवसमविश्रान्तमन्नप्रदातु- ज्यौतिष्टोमादियष्टविविधकृतिकृतः सर्वविद्याधिकस्य । यः श्रीवैकुण्ठघण्टामणिरिति महितश्रीभवस्वामिभट्ट- स्थाद्वैतूज्ञातधूताखिलकलुषगणस्यात्मजः स्वात्मवेत्तुः ॥ ६ ॥ यदुच्यते श्रीमदप्पयदीक्षितकृत सिद्धान्तलेशसंग्रह'ग्रन्थस्य प्रारम्भे दीक्षितवृत्तान्तले- खनप्रवृत्तैर्भश्रीनारायणशास्त्रिभिः 'अस्य (असम्पयदीक्षितस्य) समकालिकाः कवयः पण्डि- ताश्च विलिख्यन्ते' इत्यारभ्य 'आनन्दरायमखी विद्यापरिणय-जीवानन्दादिप्रणेतास्य मान्यतमो वृद्धः' इति, तत्प्रमादकृतम् । अयमानन्दरायमखी भोसलवंशभूपतिकुलामात्यस्य 'श्रीमद्भोसलवंशभूपतिकुलामात्येषु विख्यातिमा- न्भारद्वाजकुलार्णवेन्दुरुदभूद्वावाजिरग्न्याहितः । , १.
बावाजिनाम्नो नप्ता, तञ्जनगराधीशस्यैकोजिमहाराजस्य मन्त्रिणों गङ्गाधराध्वरिणः पौत्रः, तस्यैव राज्ञो मन्त्रिणस्त्रिपुरविजयचम्पूप्रबन्धस्य निर्मातुनृसिंहरायमखिनस्तनूजः, स्त्रीधर्मा- दिग्रन्थकृतस्त्र्यम्बकरायमखिनस्तद्वैमात्रेयस्य मुकुन्दविलासकाव्य-राघवाभ्युदयनाटकादीनां प्रणेतुर्भगवन्तरायस्य च भ्रातृव्यः, शहजि-शरभोजि-तुकोजिमहीपालानां मन्त्री च । स्वयं विद्यापरिणय-जीवानन्दादिनाटकप्रणेता, आश्वलायनगृह्यसूत्रव्याख्याता च । तेषां राज्ञा राज्यारम्भकालोऽधस्तात्संदर्यते- एकोजिराजस्य १६७६ निस्ताब्दाः। शहजिराजस्य १६८४ शरभोजिराजस्य १७११ तुकोजिराजस्य १७२९ तुक्कोजिमहाराजः १७३६ वत्सरावधि सप्तसंवत्सरान्राज्यमकरोत् । असावानन्दरायमखी स्वपितृव्यकृतमखानुष्ठानसमये धातृवर्षे (१६९८ ख्रिस्ताब्दे) अनतीतकौमारोऽभूत्- 10 " " पुत्रस्तस्य किलैकभूपतिमणेमन्त्री सदैवाहत- स्तेनासीद्गुरुवत्प्रगल्भधिषणो गङ्गाधराख्योऽध्वरी ॥ तस्य द्वौ तनयावुदारचरितौ कृष्णाम्बिकागर्भजा- वेकश्मापतिलालितो गुरुपदे चारोप्य संमानितौ । तत्पुत्रेण च शाहजिक्षितिभृता ज्येष्ठानुवृत्त्याहतौ तत्तादृग्विविधाग्रहारकरणाद्विद्वत्प्रतिष्ठापकौ ॥ ज्येष्ठस्तत्र सदावदातचरितः श्रीमानृसिंहाध्वरी गायत्रीसमुपासनादिभिरपि श्रीतैश्च सत्कर्मभिः । आत्मानं परिपूर्य त सुचरितैः पुत्रैः प्रतिष्ठाप्य च त्रेधा ब्रह्महिताय सत्कृतिचितान्स ब्रह्मलोकानगात् ॥ तस्यात्मत्रितयेऽग्रजस्तु धृतिमानानन्दरायाध्वरी कौमारात्प्रभृति प्रगल्भधिषणः श्रीशाहराजाहतः । इष्टापूर्तसदन्नदानसुहितत्रै विद्यवृद्धैः सह श्रुत्युक्तार्थपरिष्क्रियापटुमतिः सत्कर्मनिष्णातधीः । * ज्येष्ठे तत्र नृसिंहयज्वनि दिवं यातेऽनुजस्तत्सुता- न्पश्यन्पुत्रवदग्रजापचितिमण्यानन्दराये दधत् । वैतानानि च कारयन्सुचरितान्येतैः वपुत्रेण च श्रीमानत्र महाग्निचिद्विजयते श्रीत्र्यम्बकार्योऽध्वरी ॥' इति ढुण्डिव्यासराययज्वकृते मुद्राराक्षसव्याख्याने ।
'धातृवर्षे यदा यज्ञरोवार्थमहमागतः । श्रीमहाराजराजस्य मन्त्रिणस्न्यम्बकप्रभोः ॥ महाराजस्तु मां प्रीत्या स्वसभायामवासयतू । भारतश्रवणार्थाय रात्रिंदिवमुदारधीः॥ यदा मासत्रयादूर्व प्राप्यानुज्ञां महीपतेः । गन्तुमिच्छामि च तदा धर्मशास्त्रनिबन्धने ॥ महाराजेन चाज्ञातो गौरीमायूरमागतः । तस्मिन्वर्षे वृश्चिकार्के धर्मशास्त्रसुधानिधेः ॥ एकेनैव मया पुत्रयुक्तेन शनकैः कृते । बुद्धिदण्डेन मथने रात्रिंदिवमनेकधा ॥ अष्टभिर्लब्धवानस्मि वत्सरैस्तत्फलं महत् । आचारनवनीतं तन्मृदु सर्वमनोहरम् ॥ महाराजस्य दयथा तत्संग्राह्यमभूद्भुवि । समाप्तं पञ्चदशभिः सहस्रैर्ग्रन्थसंख्यया । प्रचारोऽस्य महाराजाधीन एव हि सर्वथा । अहमप्पाध्वरी नाम्ना महाराजेन सादरम् ॥ दत्ता महीं समादाय........"दिसंभृतः । धान्यैः परम्परासिद्धे ग्रामे कृष्या समार्जितैः ॥ कुर्वन्कुटुम्बभरणं पुत्रपौत्रैः समावृतः । श्रेयः प्रार्थचमानः सन्महाराजस्य संततम् ॥ आयुःशेषं सुखं वस्तुमिच्छाम्यग्निक्रियान्तिके । मनोरथो महानेष महाराजेन पूर्यताम् ॥ एकमापतिपूर्वपुण्यसुकृतोत्कर्षेण लब्धोदयो दीपाम्बोदरवासभाग्यमहिमप्रख्यातपुण्योच्चयः । श्रीशाहक्षितिराट् प्रशास्तु वसुधामाचन्द्रमप्पाध्वरी यद्दत्तानबलेन धर्मविषयं शास्त्रं समग्रन्थयत् ॥' इत्यप्पादीक्षितविरचित आचारनवनीते । 'सूत्रधार:-अद्य भारद्वाजकुलजलधिकौस्तुभेन त्र्यम्बकरायमखिना समारब्धस्य क्रतोदिदृक्षयागतेन नानादिगन्तवासिना विद्वज्जनसभाजनेन सबहुमानमाहूय समादि- टोऽस्मि । पारिपाश्चिकः-वैदेशिकोऽस्मीति पृच्छामि कः पुनरयं त्र्यम्बकमखी नाम । सूत्रधारः-किं न जानासि निजगुणगणकुसुमसुरभोकृतदिगन्तमेतमपि । तथा हि ।
R कुर्वाणः सकलान्यदीयधिषणामालम्ब्य राज्यक्रमा-' नालोक्यानुदिनं निजामुपचितामामोदमानः श्रियम् । नित्यं भोसलवंशवारिधिविधुः शाहावनीवासवो यस्मिन्नेव गुणोज्ज्वले कलयते वाचस्पतेगौरवम् ॥ अपि च । यस्यैवाचारगाम्भीर्यशौयौदार्यादिभिर्गुणैः । वसिष्ठवाधिविजयकर्णाद्याः पुनरुक्तयः । अन्यच्च । नियन्त्रितात्मा निगमान्तविद्यामधीत्य धीमानमेलप्रसूतिः । ध्यायनसौ ब्रह्म निजात्मरूपं तदात्मना भावयति प्रपञ्चम् ॥ पारिपाचिकः-(सप्रत्यभिज्ञम् ।) एकक्ष्माधिपतेरिदंविधगुणः साचिव्यधुर्यः श्रुतः प्राज्ञः कश्चिदजातशत्रुसदृशो गङ्गाधराभिधः । तैस्तैर्येन निजैरनन्यसुलभैरावय॑मानो गुणै- राचार्यप्रतिपत्तिमेव कलयन्नासीदमुष्मिन्नृपः ॥ सूत्रधारः-दिष्ट्या जानासि तं महाभागम् । तर्हि तस्यात्मसंभवं नृसिंहरायमखीति सुगृहीतनामधेयं महानुभावमपि भवान्जानीयात् । पारिपाश्चिक:-बाढं जाने । यस्य किल कृतः पित्रा बाल्ये निरुपमगुणाढ्यो निजपदे निजैरेकक्षोणीपतिहृदयमाराध्य चरितैः । तदेवायं भूत्वा चरति नियतं मूर्तिमदिति प्रपञ्चे विख्यातिस्तदितरदुरापा विजयते ॥ सूत्रधारः -तस्यैवायमनुजन्मा। पारिपाश्चिकः-ननु तदनुजत्वमेव पर्याप्तं प्रख्यात्यै । सूत्रधारः-सत्यमुक्तं भवता । पारिपाश्चिकः-संप्रति यज्ञवाट प्रविष्टोऽहं शालान्तरप्रविष्टमनतीतकौमारमन्यं कमपि यजमानमद्राक्षम् । तं पुनर्न जानामि । सुत्रधारः-कथं न जानासि । साचिव्यधुर्यो विहितः पितृव्येणादृत्य शाहक्षितिपालमौले: आनन्दनामा विमलप्रसूतिः पुत्री नृसिंहाध्वरिण: स एषः ॥ पारिपाश्चिक:-भाव, कीदृशः परिषदादेशः । सूत्रधारः-तस्यैव त्र्यम्बकरायमखिनः समनन्तरानुजेन भगवन्तरायनामधेयेन सत्कविसार्वभौमेन संप्रति प्रणीतं राघवाभ्युदयं नाम नाटकमभिनेतव्यमिति ।' इति राघवाभ्युदयनाटके। m : ..
अतोऽयमानन्दरायमखी श्रीमदप्पयदीक्षितानां स्वर्गारोहणकाले १६२६ ख्रिस्ताब्दे जातमात्रोऽपि नाभूदिति स्पष्टम् । एवं स्थिते कथमस्य संभाव्यते दीक्षितैः सह समकालि- कता, कथमस्य प्रसज्ज्येत दीक्षितैरपि माननीयता वा । अपरं च । तस्मिन्नेव दीक्षितवृत्तान्तप्रकरणे 'दीक्षितानां समानकालिको न्यूनवया राजचूडामणिदीक्षितो भावनापुरुषोत्तमनाटककृत्' इति भदृश्रीनारायणशास्त्रिणो वदन्ति । प्रसज्ज्येत दीक्षितैः सह समकालिकत्वं तद्पक्षया न्यूनवयस्त्वं च श्रीमतो राजचूडामणि- दीक्षितस्य । परं तु न्यूनवयसा राजचूडामणिदीक्षितेन कृतं भावनापुरुषोत्तमं स्वमते दीक्षितानामपि मान्यतमो वृद्ध अनन्दरायमखी विद्यापरिणयनाटके कथं चिरादेव निर्वर्तित व्याहरतीति शास्त्रिणां चिन्तालवोऽपि चेतःपदवी नारूढ इव । एवमस्ति किल प्रस्तावनायां विद्यापरिणयनाटकस्य- 'पारिपाश्चिकः-भाव, कृष्णमिश्रप्रभृतिभिरत्र प्रबोधचन्द्रोदय इति, संकल्पसूर्योदय इति, भावनापुरुषोत्तम इति च न्यबन्धि नाम बहुधा प्राचीनैः । किमनेनाभिनवसंरम्भेण।' - इति । अनोपरितनवाक्यादानन्दरायमखिनः प्राचीनो भावनापुरुषोत्तमकृदिति सिद्धम् । वस्तुतो भावनापुरुषोत्तमनाटकस्य प्रबन्धा न राजचूडामणिदीक्षितः, किंतु तस्य पिता तोण्डीरमण्डलान्तर्वर्तिशूरसमुद्राग्रहारवास्तव्यः कृष्णभट्टारकपौत्रः, भवस्वामिनो लक्ष्म्याश्च पुत्रः, रत्नखेटश्रीनिवासदीक्षित इति सुप्रसिद्धः कविरिति तस्मादेव ग्रन्थतः स्पष्टी- भवति । तथा च भावनापुरुषोत्तमनाटके- 'नटी-ईरिसप्पबन्धणिव्याहइत्तओ को वा कई भवे । सूत्रधारः-अये, किमेतमपि न जानासि ।अस्ति खलु कश्चित्तोण्डीरेषु श्रीशूरसमुद्रा- भिधानो महानग्रहारः। तत्रास्ति कश्चित्तरुणाग्निहोत्री षड्दर्शनीसागरपारदृश्वा । शतावधानीत्यपराभिधानः श्रीश्रीनिवासाध्वरिसार्वभौमः ॥ नटी-केण वा ण जाणीअदि सो। सूत्रधारः-स एव विश्वामित्रवंशमुक्तामणिः श्रीकृष्णभट्टारकपौत्रः श्रीभवखामिभट्टसू- नुर्लक्ष्मीगर्भसंभवः श्रीकविवादिगजकेसरी भट्टाचार्यः प्रतिदिनप्रबन्धकर्ता तत्तादृशसकल- विद्याचमत्कृतवादव्याख्यानोपन्यासकौशलेन चोलभूवालभेनास्थानीरचितपत्रावलम्बः षड्भा- षासार्वभौमः सर्वतन्त्रखतन्त्रः श्रीमदभिनवभवभूतिः श्रीरत्नखेटश्रीनिवासाध्वरीन्द्रोऽत्र प्रबन्धा।' इति । एवं यदुच्यते भश्रीनारायणशास्त्रिभिश्चिन्नबोम्मनायको विजयनगराधीश इति, तस्य पिता कृष्णराज इति, ज्येष्ठो भ्राता नरसिंह इति, तत्सर्व भ्रमप्रयुक्तमश्रद्धेयमविचारर- मणीयं च। तत्तादृशनिरतिशयमहिम्नां श्रीमदप्पयदीक्षितानां यवीयसो भ्रातुराचादीक्षितस्य पौत्रः 3 सुप्रसिद्धः श्रीमान्नीलकण्ठमखीन्द्रः । अस्य नारायणाध्वरी पिता । माता चास्य भूमिदेवी । अयं तयोर्द्वितीयो नन्दनः । भ्रातरश्चास्य चत्वारः समभूवन् । सर्वेऽपि ते सुशिक्षिताः सर्वास्वपि विद्यासु कवयश्च । परमेक एव तेषु नान्ना ज्ञायते कुशकुमुद्वतीयनाटकस्य प्रबन्धा अतिरात्रयज्वा । श्रीनीलकण्ठमखीन्द्रस्य जीवनकाल: सप्तदशशतकपूर्वभाग इति स्पष्टमुपलभ्यते तदीयनीलकण्ठविजयचम्पूकाव्यतः । यतः प्राबध्नात्कविस्तं प्रबन्ध- मतीतेषु ४७३८ कल्यब्देषु । उच्यते च कविना स्वेनैव तत्र मन्थे- 'अष्टत्रिंशदुपस्कृतसप्तशताधिकचतुःसहस्रेषु । कलिवर्षेषु गतेषु प्रथितः किल नीलकण्ठविजयोऽयम् ॥' इति । शिवलीलार्णवमहाकाव्यस्य नवमसगै गङ्गारोधसि हिमवत्प्रान्ते देव्यास्तटातकायाः सेनानिवेशमुक्त्वा तत्प्रदेशवर्णनप्रवृत्तस्यास्य मुखात् 'अस्मादृशाः क्षितिसुराः पुनराहरन्त भागीरथीतटरुहाणि कुशाङ्कुराणि ।' इत्ययत्नपूर्वकं निःसरन्त्या वाण्या प्रथमवर्णजत्वं शिष्टा- चारसंपन्नत्वं चास्य सम्यनिरूप्यते। श्रीकण्ठमतसर्वस्ववेदी चायम् । अस्य दृढोऽभिनिवेशः श्रीमति शैवसिद्धान्त इति प्रतिभासते । स्वयमाह च-'शैवा वयमा चतुर्वदनात्' इति वैरा. ग्यशतके, 'आ गर्भादा कुलपरिवृढादा चतुर्वक्रतोऽपि त्वत्पादाब्जप्रपदनपरान्वेत्सि नश्चन्द्र- मौले' इत्यदसीयशान्तिविलासे च । एवमन्यत्रापि । यथा नीलकण्ठदीक्षितस्य महती प्रथा, न तथा श्रीमदप्पयदीक्षितेन्द्रतनुभुवामपि । नान्यः कोऽपि तदानींतनेषु तदधिक- स्तत्सदृशो वा दर्शनेषु साहित्ये वा । अयमेव श्रेष्ठः कवीनामस्य समकालिकानाम् । मञ्जुलपदसंनिवेशा विचित्रोडेखा रसनिर्भरा विशङ्कटप्रवाहा चास्य साहित्यसरमिः । नैव क्लिश्नाति वचेतः परचेतांसि वा केवलशब्दचित्रेषु यमकेषु वा । 'नीलकण्ठमखिनां सदसि सकृत्प्रविष्टस्यापि समुज्जृम्भते सरसपदसंदर्भवैदग्धी' इत्युद्धोषयति 'प्रत्यग्रपत- अलिरभिनवप्राचेतसः' श्रीरामभद्रमखीन्द्रः शृङ्गारतिलकमाणे । अस्य साहित्यवैदग्धी सर्वत्र प्रद्योततेऽस्य लघुकाव्येषु महाकाव्येषु च । अस्य लघुकाव्यानि--(१) कलिविडम्ब- नम् , (२) सभारञ्जनम् , (३) अन्यापदेशशतकम् , (४) शान्तिविलासः, (५) वैराग्यशत- कम् , (६) आनन्दसागरस्तवः । एते नीलकण्ठदीक्षितस्य षड् ग्रन्था इति व्यपदिश्यन्ते । अस्य महाकाव्येषु श्रेष्ठं शिवलीलार्णवमहाकाव्यं द्वाविंशतिसर्गपरिमितम् । द्वितीयं च गङ्गा- वतरणकाव्यमष्टसर्गपरिमितम् । श्रीमदप्पयदीक्षितानां वर्गारोहणतः परं द्वादशसंवत्सरे- धूतवाधिकेषु गतेषु श्रीनीलकण्ठविजयाभिधश्चम्पूप्रबन्धो निरमायि। नीलकण्ठविजय इव नान्यत्र तस्य ग्रन्थेषु ग्रन्थनिर्माणकाल: प्रोच्यते । ग्रन्थानां पौर्वापर्य केनापि प्रकारेण स्फुटं न परिस्फुरति । परंतु सुगमं श्रीमदप्पयदीक्षितानां खर्गारोहणानन्तरमेव सर्वेषा- मपि करणमिति । केचिद्वादशहायनेन कविना नीलकण्ठविजयो निर्वर्तित इत्याचक्षते । तन्न श्रद्धेयं प्रमाणाभावात् । श्रूयते अन्या अपि सन्ति बयस्तदीयाः कृतयः काव्येषु दर्शनेष्वपीति । तासु च (१) नलचरितनाटकम् , (२) कैय्यटव्याख्यानम् , (३) शिवतत्त्व- रहस्यम् , इत्येता एवाद्य नामतो ज्ञायन्ते । गृह्यन्ते च तासां नामानि कुशकुमुद्वतीयनाटके, , १२ तस्य तृतीयनन्दनेन गीर्वाणेन्द्रेण कृते शृङ्गारकोशभाणे च । यथा---'एष खलु द्वितीय- शंकररूपाणामप्पयदीक्षितानां नप्ता नलचरित्रनाटकप्रबन्धा' इति कुशकुमुद्बतीयनाटके, 'कैय्यटव्याख्यानशिवतत्त्वरहस्याद्यनेकप्रबन्धनिर्मातुः * * पवित्रकीर्तेीलकण्ठमखिनः' इति पूर्वोक्ते च भाणे समुपलभ्यते । श्रीनीलकण्ठमखीन्द्रो मधुरानगर्यो तिरुमलैनायक- महाराजस्य सदसि पण्डितसार्वभौमोऽमात्यप्रवरश्चाभूत् । तत्पुत्रा अपि तामेव पश्चादध्य- वात्सुरित्ययमंशः सूच्यते वीर्वाणेन्द्रेणापि शृङ्गारकोशो नाम भाण इत्यधुनैव खलु निवेदितं मधुरापुरादागतेन रङ्गकेतुना' इति वाक्येन । श्रीनीलकण्ठदीक्षितस्य अय्यादीक्षित इति चाभून्नामान्तरम् । तथा च तमयापि व्यवहरन्ति विज्ञाः । अत्र च तञ्जनगरे वेदमूति- जम्बुनाथभट्टानां सरखतीभाण्डागारे समधिगम्यते नीलकण्ठविजयचम्पूप्रबन्धस्य प्राचीन कोशद्वयम् । तत्र कोशद्वयेऽप्यवसानयोलिखित संदृश्यते-'समाप्तं चेदमय्यादीक्षितवि- रचितं चम्पुकाव्यम् ॥' इति ॥ नीलकण्ठमखीन्द्रस्य तथा नामान्तरेणाप्याकारणं न विना- कारणम् । विदितमेव हि सर्वेषामस्माकमस्मद्देशीयाः प्रायशो बिभ्रति पितामहानां नाम । तच किंचिद्विकृतमेव कीर्तयन्ति मातरः श्वशुराणां साक्षान्नामग्रहणमनुचितमिति । अत एवं नामपरम्परा आसन् श्रीमदप्पयदीक्षितानां वंशे । यथा-आचार्यदीक्षितः, आचार्य- दीक्षितपौत्र आच्चादीक्षितः (आचार्यदीक्षितः), तत्पौत्र अय्यादीक्षितः (आच्चादीक्षितः), इति । श्रीनीलकण्ठमखीन्द्रस्याशयमनुरुन्धान एव सर्वमपि हालास्यनाथस्योत्सवं निरवर्त- यत्तिरुमलैनायकमहाराजः । नीलकण्ठमखीन्द्रोऽपि निर्लोड्य शास्त्राणि यथादृष्टं तेषु कारया- मास सर्वमप्युत्सवादिकम् । ततः सर्वा अपि लीला भगवतो हालास्यनाथस्य काव्या- त्मना निर्ममे कविः । तदेव प्रथते शिवलीलार्णवमहाकाव्यनाम्ना- 'यः संरम्भः कृतिविरचने दुष्कवीनामभेद्यो यच्चैकाग्र्यं तदुचितपदान्वेषणे चित्तवृत्तेः । लभ्यं तश्चेदपि कवयतामन्ततस्त्रीण्यहानि स्थादेवं किं सरसकविताराज्यदुर्भिक्षयोगः ॥' 9. W. Taylor's Oriental Historical Manuscripts, Vol. II., p. 153:- “In Tai Month of Srimuga year (i. e. S. S. 1548) a mandapam in the Teppa-Kulam * * was completed. Besides agreeably to the declaration of Ayyâ Dikshitar, a brahmin versed in ancient language the King commanded that the celebration of all the sacred amusements of the God should be conductd by the temple attendants according to the ordinances of the ancient books."
.. अनेन नीलकण्ठविजयस्थेन श्लोकेन खस्य सदापि कार्यबाहुल्यमासञ्जितमिति व्यञ्ज- यति कविः । तच्च कार्य राज्यनिर्वाहरूपमित्यनुमीयते । श्रीनीलकण्ठमखीन्द्र आत्मानं वार्तिकाभरणस्य प्रणेतुर्वेङ्कटेश्वरमखिनः शिष्यं व्याहरति गङ्गावतरणकाव्ये कथावतारसगै । यथा-'वार्तिकाभरणग्रन्थनिर्माणव्यक्तनैपुणः । श्रीवेङ्क- टेश्वरमखी शिष्ये मय्यनुकम्पते ॥ इति । अयं साग्निचित्याप्तवाजपेययाजी वासिष्ठवं- शोद्भवः श्रीवेङ्कटेश्वरमखी । श्रीवेङ्कटेश्वरमखिनः पिता श्रीमानद्वैतविद्याचार्यः साग्नि- चित्यसर्वतोमुखातिरात्रसामिचित्याप्तवाजपेययाजी गोविन्ददीक्षितः। यः कौमारिलदर्श- नस्य विश्रुतां व्याख्यां रचयामास । यं तञ्जपुराधिनाथो रघुनाथः खार्धासनदानेन सभा- जयति स्म । येन खकृतसर्वतोमुखमहासत्रे निखानिताश्चिरावस्थितेर्युक्तरूपाः शिला- यूपाः कावेरीतीरेषु । यस्य वाजपेयेन यजतः स्वयं जग्राह श्वेतच्छत्रं स्वपित्रा नियुक्तो युवराजो रघुनाथभूपालः । प्रतीयतेऽमुना गोविन्दमखीन्द्रेण कृतमासीत्षड्दर्शनीसारभूतं प्रशस्यं किमपि ग्रन्थान्तरमिति वक्ष्यमाणपद्याभ्याम्- 'अद्वैतविद्याविभवावलम्बान्गोविन्दयज्वेन्द्रगुरूनुपासे । निर्मथ्य षड्दर्शननीरधीन्ये धियैव सारं ददते बुधेभ्यः ॥' इति यज्ञनारायणदीक्षितविरचिते साहित्यरत्नाकरे । D १. (१) राघवानन्द-नीलापरिणय-सभापतिविलासादिनाटकानां प्रबन्धा वेङ्कटेश्वरोऽन्य एव । स निद्रुवकाश्यपान्ववायजो धर्मराजमनीषिणस्तनूजो वैद्यनाथसूरिणः पौत्रः; 'मण- लूर पुरवास्तव्यश्च । (२) चित्रबन्धरामायणाख्यकाव्यस्य कर्ता वेङ्कटेश्वरस्त्वपरस्तृतीयः । तस्य परम्परा यथा- तिम्मयसोमयाजी (कृष्णातीरवासी बढचकाश्यपः) यज्ञेश्वरः (तस्य पुत्रचतुष्कात् प्रथमः) चरकूरिकोण्डुभट्टः (द्वितीयः) लक्ष्मीधरः (अयमेव रामानन्दाश्रमी; षड्भाषाचन्द्रिकायाः, अनघाघवव्याख्याया इष्टार्थ- कल्पवल्लाश्च कर्ता) तिरुमलयज्वा यज्ञेश्वरदीक्षितः (अलंकारराघव-अलंकारसूर्योदय-चित्रबन्ध- रामायणव्याख्यानादीनां कर्ता) वेङ्कटेश्वरः (चित्रबन्धरामायणकाव्यस्य कविः) गडा०३ षड्दर्शनाभिनवदुग्धसरित्परिण्यो निर्मथ्य यत्नरहितं निजया धियैव विश्राणयन्ननुदिनं विबुधावलीनामेतद्रसं मुररिपुं भुवि योऽतिशेते ॥' इति रघुनाथविलासनाटके। उच्यते च-असौ गोविन्दमखीन्द्रो रघुनाथभूमिपालस्य पित्राच्युतभूपालेनापि नितरां मानितस्तस्य मन्त्री च बभूवेति । तत्र पुरातनं श्लोकममुं पठन्ति पुराविदः पण्डितजनाः- 'त्रिनामाद्यन्तनामानौ ग्रहीक्षिद्दीक्षितावुभौ शस्त्रे शास्त्रे च निपुणावाहवेषु हवेषु च ॥' श्लोकस्यास्य पूर्वार्धनाच्युतभूमिपालगोविन्ददीक्षितायुच्यते । अच्युतानन्तगोविन्देति त्रिनामानि । अच्युतानन्तगोविन्देति नामसमुदायस्यैव त्रिनामसंज्ञा सुप्रसिद्धा । अयं गोविन्ददीक्षितो महाराजतः स्वयं प्रतिगृह्य बहूनग्रहारान्ब्राह्मणेभ्यो ददौ । मध्यार्जुने मायूरे कुम्भघोणे पञ्चनदेऽन्यत्र च स्थलेषु कावेर्याः पारेषु स्नानघटान्पुष्पमण्डपानि च रचयामास यान्यद्यापि संदृश्यन्ते सुदृढानि किं तु क्वचित्कचिज्जीर्णानि, न पुनरिदानींतनेन केनापि धर्मबुद्धिना समुद्धृतानि । कदाचिदयं गोविन्ददीक्षितः शिष्यान्कल्पतरुमध्याप- यन्मध्यार्जुनक्षेत्र उवास, ददर्श तत्र गतान्श्रीमतोऽप्पय्यदीक्षितेन्द्रान् । इयेष च तान्का- निचित्वसंशयस्थानानि कल्पतरौ विवरीतुम् । विवरणे तदीयां पटुतां संवीक्ष्य प्रार्थया- मास तान्कल्पतरोर्व्याख्यानं कर्तुम् । श्लोकोऽयं गोविन्ददीक्षितस्येत्युदाहरन्ति जनाः- 'अप्पदीक्षित किमित्यतिस्तुति वर्णयामि भवतो वदान्यताम् । सोऽपि कल्पतरुरर्थसिद्धये त्वगिरामवसरं प्रतीक्षते ॥' इति । श्लोर्कममुं बालकविनोक्तं व्याहरन्त्यन्ये । सर्वथा संभाव्यते श्रीमतो गोविन्ददीक्षितस्य समकालिकत्वं श्रीमदप्पय्यदीक्षितेन्द्रैः । यदुच्यते 'तोर् म्यान्युअल् (Tanjore Manual)आख्यग्रन्थे विजयराघवभूपालस्य मन्त्री गोविन्ददीक्षित इति, तत्प्रमाणान्तरसा- पेक्षं स्वतो न प्रमाणम् , असंभावितं च । अस्ति हरिवंशसारचरितं नाम त्रयोविंशतिसर्ग- परिमितं महाकाव्यं गोविन्दमन्त्रिकृतम् । अस्ति च तस्य व्याख्या श्रीमदप्पय्यदीक्षित- कृता । परमिदमय न निश्चिनुमः स एवायं गोविन्दमन्त्री योऽध्यासितार्धासनः समं रघु- नाथभूपेन इति । यतो हरिवंशसारचरितस्य प्रबन्धा गोविन्दमन्त्री शाण्डिल्यवंशोत्पन्नः कोण्डमनायकमन्त्री च इत्येवं तदन्थव्याख्यानतः प्रतीयते। यतो हरिवंशसारचरितस्य मूलकोशस्त्वद्य मया नोपलभ्यते । अतः श्लोकोऽयमुद्धृतो व्याख्यानतः- 'शाण्डिल्यान्वयहारमौक्तिकमणिः श्रीधल्लिमन्त्री पिता माता यस्य पतिव्रतैकमहिमाकल्पा च कुप्पाम्बिका तस्य श्रीहरिवंशसारचरिते गोविन्दमन्त्रिप्रभोः सर्गः पूर्तिमगानिसर्गललितः काव्ये महत्यादिमः ॥' इति । श्रीवेङ्कटेश्वरमखिनो ज्येष्ठसोदरो विद्यागुरुः साग्निचित्यसर्वप्रष्ठाप्तोर्यामयाजी श्रीयज्ञना- रायणदीक्षितः । अखण्डितमस्य पाण्डिल्यं सर्वेष्वपि व्याहारेषु । सुशिक्षितोऽयं काव्य- : । - १५ १ रीतौ । अयं रघुनाथभूपालालब्धजीवनो रघुनाथभूपविजय-रघुनाथविलासनाटक-साहित्य- रत्नाकरकाव्यादिकांस्तमेव राजानमधिकृत्य निर्ममे ग्रन्थान् । ददावस्मै यज्ञनारायणदीक्षि- ताय कर्णाभरणं निजं पतकं पादाङ्गदं कङ्कणं च रघुनाथभूपाल: । अयं खयमाध्वयं चकार खपितृकृते आप्तवाजपेयनाम्नि सप्ततन्तुवरे । अस्य समकालिकाः पण्डितम- णयः-(१) विधुतालंकारिकविबुधाहंकारः कृष्णयज्वा, (२) डिण्डिमकुलमण्डनः पण्डित- शिखामणिः सोमनाथः, (३) पारिजातनाटकस्य प्रबन्धा रघुनाथभूपालाश्रितः कुमारता- ताचार्यश्च । श्रीवेङ्कटेश्वरमखिनः कृतिषु-(१) टुप्टीकाव्याख्यानं वार्तिकाभरणम् , (२) कर्मान्तमी- मांसाया व्याख्या कर्मान्तनिबन्धदीपिका इत्युभे एव केवलमिदानीं नामतः परिज्ञायते । चोदितोऽनेनैव रचयामास तन्त्रशिखामणिं श्रीमान्राजचूडामणिदीक्षितः प्रख्यातः कर्ता काव्यदर्पणस्य । श्रीनीलकण्ठमखीन्द्रस्य समकालिका विद्वन्मणय:- (१) श्रौतधर्म इव मूर्तिमान् मान्यश्चोकनाथमखीन्द्रः । अयं कौशिकगोत्रोद्भवः । द्वाद- शाहादियज्वनो नारायणदीक्षितस्य गणपत्यभिधायां सहधर्मिण्यां समुत्पन्नः । प्रख्यातनान्नो रामभद्रमखीन्द्रस्य श्वशुरः पदविद्यागुरुश्च । अद्याप्यस्य वंशीयेषु तत्संबन्धिनां च संह- श्यते कन्यकास्वपि गणपतीति नामकरणम् । शब्दकौमुदी-धातुरत्नावली-भाष्यरत्नावल्य इदानीमस्य समुपलभ्यमानाः कृतयः । त्रिशिरःपुरस्य प्रान्ते मुत्तरशनल्लूराख्यग्रामे पुदुक्को- राज्ये पिन्नङ्गुडिनान्नि च ग्रामेऽन्यत्र च नदीतीरेषु वृत्त्यर्थमस्य कल्पयामासुरुत्तपक्षे. त्राणि तत्र तत्र तदानींतना राजान इति पुराविदः पण्डिताः । भाष्यरत्नावल्याम्- 'धातारं सूत्रकारं शिवनुतिसुहितं पाणिनि वाक्यकारं विष्णुं कात्यायनं तं गिरिशमहिवराधीश्वरं भाष्यकारम् । तातं नारायणं श्रीगणपतिमपि तां मातरं सादरं ता- नाचार्यान्सर्वतन्त्रप्रणयननिपुणानानमेः कर्म कुर्मः ॥ * * * * धीमद्वाक्यपदप्रमाणगहनप्रच्छादितोच्चावच- स्फीतार्थप्रतिपादनातिनिपुणः श्रीनीलकण्ठाध्वरी। यं भाष्यप्रकटीकृतौ पटयते द्वेधार्थदानात्कृती तस्यान्ये सुधियः कथं न विमलाः पुष्णीयुरर्थप्रदः ॥' इति । (२) श्रीरामचन्द्रोदयमहाकाव्यस्य कर्ता स्वयमेव तद्व्याख्याता च महाकविः श्रीवैष्णवः श्रीवेङ्कटेश्वरः । अयं गतेषु १५१८ संख्याकैषु शालिवाहनशकाव्देषु, तथा १५९५-९६ ख्रिस्ताब्देषु काञ्चीनगरसमीपे श्रीनिवासार्यतो जनिमुपगतः। अयमतीतेषु ४७३६ कल्यब्देषु तथा गतेषु १५५७ शालिवाहनशकाब्देषु स्वस्य चत्वारिंशे वयसि काशी गत्वा तत्रैव काव्यमिदं समग्रन्थयत् । तथा च रामचन्द्रोदयमहाकाव्ये- 'अभ्रपूर्णगुणपावनपद्यं व्योमवह्निसमसर्गमुदारम् । काव्यमङ्गगुणशैलयुगाब्दे वेङ्कटोऽकृत कलौ कविवर्यः ॥' व्याख्या-अन्ध्रपूर्णगुणपावनपद्य आकाशवत् पूर्णगुणानि पावनानि पद्यानि यस्य । त्रिंशताधिकत्रिसहस्रपद्यमित्यर्थः । ३०३० । व्योमवह्निसमसगै व्योमवत् निर्मलाः वह्निव- दुज्ज्वलाः साः यस्मिन् तत् । त्रिंशत्सर्गमित्यर्थः। तत् काव्यम् । कलौ अङ्गगुणशैलयुगाब्दे सति षट्त्रिंशदधिकसप्तशलाधिकचतुःसहस्रवर्षे सति । वेङ्कटः कविः । अकृत प्रणीतवान् ॥] 'षट्त्रिंशदत्र वृत्तानि छन्दांसि तु चतुर्दश । खार्कप्राणा इह श्लोका अनुष्टुप्संख्यया मताः ॥ आत्रेयश्रीनिवासाह्वयगुरुतनयः काव्यरत्नं व्यतानी- सीतानाथप्रसादप्रकटितधिषणो रामचन्द्रोदयाख्यम् । आ सीतेशाभिषेकादुदितशुभकथं त्रिंशता यत्तु सगैं- स्तस्मिन्नामाभिषेकाभ्युदयशुभकथस्त्रिंश आभाति सर्गः ॥ धृतितिथि(१५१८)मिते शकाब्दे संजातेनोपकाञ्चि मयकेन । कानी गतेन कुप्तं काव्यं मुनिबाणतिथि(१५५७)मिते हि शके ॥' ग्रन्थस्यास्य व्याख्याने च- 'नृसिंहार्यपौत्रस्य पौत्रः कवीन्द्रस्तथा वेङ्कटेशार्यपौत्रः प्रसिद्धः । खयं श्रीनिवासार्यसूनुः स्वकाव्यं लघु व्याख्यदाप्त... वेङ्कटेशः॥ धृतितिथिमिते शकाब्दे जनिमानुपकाञ्चि वेङ्कटेशकविः । काव्यमिदं व्याचष्ट खयमेव सतां नियोगमासाद्य ॥' ग्रन्थान्ते च- 'यतीन्द्रकरुणापात्रं तन्महानसकिंकरम् । आत्रेयप्रवरं नौमि प्रणतार्तिहरं गुरुम् ॥ १॥ १. रामचन्द्रोदयकाव्यस्य कर्तुर्वेङ्कटेशस्य परम्परा- १. यतिराजः २. (तत्सुतः) पद्मनाभः ३. (तत्सुतः) रामानुजार्यः ४. (तत्सुतः) पद्मनाभः ५. (तत्सुतः) पुरुषोत्तमः ६. (तत्सुतः) नरसिंहार्यः ७. (तत्सुतः) शठकोपः ८. (तत्सुतः) नृसिंहः ९. (तत्सुतः) पुरुषोत्तमः १७ तातकारुण्यसंप्राप्तज्ञानभक्तिरसामृतम् । यतिराजाह्वयं वन्दे देशिकं दिव्यदर्शनम् ॥ २॥ यतिराजगुरोः सूनुं पाषण्डमतखण्डनम् । आचार्यपद्मनाभाख्यं भवसंतारकं भजे ॥ ३ ॥ नमो रामानुजार्याय वेदान्तार्थप्रदायिने । आत्रेयपद्मनाभार्यसुताय गुणशालिने ॥ ४ ॥ रामानुजार्यसंप्राप्तसर्वविद्यासमृद्धये । पद्मनाभाय मथिते(?) तत्सुताय नमो नमः ॥ ५ ॥ पद्मनाभगुरोः सूनुं तत्कृपावाप्तवैभवम् । पुरुषोत्तममाचार्य गुणसिन्धुमुपास्महे ॥ ६ ॥ तातपाददयापात्रं मायावादतमोरविम् । व्याख्यातन्यायकुलिशं नरसिंहार्यमाश्रये ॥ ७ ॥ नृसिंहदेशिकावाप्तज्ञानविज्ञानसंपदे आत्रेयशठकोपाय नमो वैराग्यसिन्धवे ॥ ८॥ श्रीशठकोपपदाम्बुजभृङ्गं तत्करुणेक्षणलम्भितबोधम् । देशिकमत्रिकुलाम्बुधिचन्द्र नौमि नृसिंहमनन्तगुणाब्धिम् ॥ ९ ॥ श्रीमन्नृसिंहार्यसुतं महान्तं वेदान्तयुग्मव्यवहारशीलम् । आचारहेतुं करुणापयोधिं वन्दे वदान्यं पुरुषोत्तमार्यम् ॥ १० ॥ पुरुषोत्तमपादाब्जसेवासंप्राप्तसंपदे। नमः श्रीवेङ्कटेशाय गुरवे भक्तिसिन्धवे ॥ ११ ॥ पराङ्कुशशठारातिकृपासंप्राप्तसंपदम् । श्रीवेङ्कटेशतनयं श्रीनिवासार्यमाश्रये ॥ १२ ॥ इति । (३) कवेरस्य नीलकण्ठमखीन्द्रस्यानुजन्मा कुशकुमुद्वतीयनाटकस्य प्रबन्धा प्रतिरघु- वंशादिकर्ता अतिरात्रयज्वा । कुशकुमुद्वतीयनाटके- 'विद्वद्वादविवादकालयुगपद्विस्फूर्त्यहपूर्विका- निर्ययुक्तिसहस्रदर्शितनिजाहीन्द्रावताराकृतिः कर्तुं कारयितुं तथा रसयितुं काव्यानि नव्यान्यलं भूष्णुर्भाति सभासभाजितमतिः श्रीनीलकण्ठावरी ॥ १०. (तत्सुतः) वेङ्कटेशः ११. (तत्सुतः) श्रीनिवासः १२. (तत्सुतो रामचन्द्रोदयकाव्यस्य कविः) वेङ्कटेशः।
१८ * * अयं किल भरद्वाजकुलपारावारपारिजातः सकलसाम्राज्यसिंहासनाधिपतिस्तत्रभवतः श्रीमतो नारायणाध्वरिणस्तपःपरिपाकः कर्ता काव्यानां व्याकर्ता तन्त्राणां आहर्ता ऋतूनां व्याहर्ता सकलनृपसभेषु दिगन्तरविश्रान्तीतिरपारमहिमा मानवाकृतिः साक्षादेव दाक्षा- यणीवल्लभः श्रीकण्ठमतसर्वखवेदी श्रीनीलकण्ठावरी । एष खलु द्वितीयशं. कररूपाणामप्पयदीक्षितानां नप्ता नलचरितनाटकप्रबन्धा । नटी-को णु किंणामहेओ एअ णाडअप्पणेदा । सूत्रधारः-नन्वस्यैव सभानेतुरनुजन्मा विदितवेदितव्यः कविलोकमित्रमतिरा. त्रयाजी । स किल प्रतिरघुवंशादिकतॆति रसिकगोष्ठीषु जोधुष्यते ।' (४) शब्दचित्रखरूपभेदप्रतिपादक चित्ररत्नाकर'ग्रन्थस्य रुक्मिणीपरिणय-जानकीपरि- णय-गौरीपरिणय-द्रौपदीपरिणयादीनां नाटकानां च कर्ता श्रीचक्रकविः । चित्ररत्नाकरे- 'श्रीलोकनाथं जनकं रामचन्द्रं पतञ्जलिम् । नत्वाग्रजं च क्रियते चित्ररत्नाकरो मया ॥ रुक्मिणीजानकीगौरीद्रौपदीपरिणीतयः । कृतयो यस्य तस्यैषा कृतिश्चक्रकवेः शुभा ॥' तस्यैव ग्रन्थस्यावसाने- 'पुत्रं चक्रकविं गुणैकवसतिः श्रीलोकनाथः सुधी- रम्मा चाजनयत्सतीजननुता यं मानितं सज्जनः । षष्ठस्तस्य कृतावजायत परिच्छेदो नुते पाण्ड्यराट- चोलोवीपतिनीलकण्ठमखिभिः श्रीचित्ररत्नाकरे ॥' इति । टी. एस. कुप्पुस्वामिशास्त्री। तञ्जोर। : - काव्यमाला। श्रीनीलकण्ठदीक्षितप्रणीनं गङ्गावतरणम् । प्रथमः सर्गः। अद्भुतं किमपि द्वन्द्वमस्तु तन्मम शर्मणे । स्वस्तिकस्तनुते यस्य सुदृढाश्लेषनिर्वृतिम् ॥ १ ॥ व्यासमेव स्तुमो यस्य वाचं गणयितुं विधिः । विषीदति वृषाङ्केण विलूने पञ्चमानने ॥ २ ॥ कान्तः सहृदयो वाचः कविरेव चिरंतनः । जडे जगति येनैव च्छन्दः प्रागन्वरुध्यत ॥ ३ ॥ कवितामफलद्वीटी कालिदासमुखेऽपिता। पत्युर्मुखे तु सा गौर्याः परुषं निगमाक्षरम् ॥ ४ ॥ नारायणाध्वरीन्द्राय नमोऽस्तु ज्ञानसिन्धवे । शारदा यत्कटाक्षाणां साप्यवेतनकिंकरा ॥ ५ ॥ कल्पनेत्यस्ति तेत्किचित्कविलोकस्य जीवितम् । प्रविश्येव गृहीतं यद्भारत्याः कोशमन्दिरात् ॥ ६ ॥ स संदर्भः कवीन्द्राणां शारदा यं पदे पदे। श्लाघते विस्मयावेशस्मेरमन्थरया दृशा ॥ ७ ॥ शीलिते कविलोकेन सिद्धे ब्रह्मणि वाङ्मये। पामराः कलहायन्ते पश्यास्मिन्नन्यथान्यथा ॥ ८ ॥ अस्ति सारखतं चक्षुरज्ञातवापजागरम् । गोचरो यस्य सर्वोऽपि यत्स्वयं कर्णगोचरः ॥ ९ ॥ १. आदिकविः वाल्मीकिः, २. नारायणावरीन्द्रः कवेः पिता,
काव्यमाला।
सत्यर्थे सत्सु शब्देषु सति चाक्षरडम्बरे ।
शोभते यं विना नोक्तिः स पन्था इति घुष्यते ॥ १० ॥
शृण्वन्तोऽपि न शृण्वन्ति जानन्तोऽपि न जानते ।
साहितीमितरे तस्या ज्ञाता श्रोता च यः कविः ॥ ११ ॥
न लक्षणेषु निष्कर्षों न. वा काव्येषु कौशलम् ।
संदर्भनिर्णयायालं स ह्यदृष्टैकमूलकः ॥ १२ ॥
भारतीषु कवीन्द्राणां यावती सुकुमारता ।
तावती काव्यमर्मज्ञसंमकसहिष्णुता ॥ १३ ॥
अचमत्कृतसंदर्भमर्थ नैवाद्रियामहे ।
अत्यन्तभोगौपयिकमैश्चर्यमिव देहिनाम् ॥ १४ ॥
स्वर्गः कस्यास्तु सुधियः श्लाघन्ते चेन्निजं पदम् ।
ततोऽन्यः कोऽस्ति निरयस्तत्र ते यधुदासते ॥ १५ ॥
हतः श्लोको हतं काव्यं हता बुद्धिर्हतं यशः ।
सद्भिरुद्भावितो दोषो यदि नाभ्युपगम्यते ॥ १६ ॥
अन्धास्ते कवयो येषां पन्थाः क्षुण्णः परैर्भवेत् ।
परेषां तु यदाक्रान्तः पन्थास्ते कविकुञ्जराः ॥ १७ ॥
विदुषां मत्सरग्रन्थिविभेद्यो वचसां गुणैः ।
नैव केनापि दुर्मेधश्चोद्यमर्कटमुष्टयः ॥ १८ ॥
आ जन्मनः प्रबन्धृणां पद्यबन्धेषु यः श्रमः ।
सोऽपि सामाजिकायत्तः कष्टं धिक्कविजीवितम् ॥ १९ ॥
नार्थमुल्लिखितुं यत्नो नापि ग्रन्थयितुं गिरः ।
श्रवणत्प्रिागनाक्षेपः श्रोतुरभ्यर्थ्यते परम् ॥ २० ॥
दृषणाय न काव्यानां दुर्जनाक्षेपसंप्लवः ।
शफरीपरिवतैः किं सरसी न प्रसीदति ॥ २१ ॥
सव्यङ्गापि कवेर्वाणी सापभ्रंशा न शोभते ।
लम्बस्तनी को वीक्षेत रम्भामप्युर्वशीमपि ॥ २२ ॥
१ सर्गः] गङ्गावतरणम् । ३ ते क्व नु नाम सभा राज्ञां दुराक्षेपैकशिक्षिता । क्व नु वाचः सुधीलोकलालनैकरसाः कवेः ॥ २३ ॥ व्यङ्गुमस्फुरतो दोषान्भङ्क्तुमुत्स्फुरतो गुणान् । ईष्र्ये भगवति ब्रूहि का त्वदन्यां प्रगल्भताम् ॥ २४ ॥ किं मदक्ष्णोरयं दोषः किं तद्वस्त्वेव तादृशम् । कामं यन्मौलिरज्ञानां कम्पते कविसूक्तिषु ॥ २५ ॥ पुष्णन्तु खेति मधुरां परस्यापि कृतिं जनाः । खोक्तिभिर्यत्वचित्कर्णी दहन्ति तदरंतुदम् ॥ २६ ॥ स्तुत्यं न स्तुवते मूढाः पद्यं यत्तन्न दारुणम् । अपदे यत्प्रशंसन्ति तन्मे मर्माणि कृन्तति ॥ २७ ॥ जानीमो ज्यायसी लक्ष्म्या जातु न तु शारदे । आः स्मृतं ननु सा वक्रेष्वास्ते दुष्कविसंसदाम् ॥ २८ ॥ न यदाह मनुर्वध्यान्न च नासृजदजभूः । न वान्तकः कविमन्यान्नयते तन्मदंहसा ॥ २९ ॥ आमये यमके जाग्रत्यपमृत्यौ च दुष्कवौ । वाणि प्राणिषि तन्मन्ये वज्रेणैवासि निर्मिता ॥ ३० ॥ नाहमासं नृपः स्यां चेन्ननु कुर्यां तथा महीम् । विचिन्वतापि नेक्ष्यन्ते यथा दुष्कविताकुराः ॥ ३१ ॥ पातिव्रत्यक्रमः कोऽयं प्राणभङ्गावधिस्तव । सर्गतः कविपाशानां शारदे वारय प्रियम् ॥ ३२ ॥ दूयामहे दुष्कविभिदत्तकर्णज्वरा वयम् । न वा वदामो वाग्देवि ननु त्वमपि तैर्हता ॥ ३३ ॥ विज्ञप्तिः श्रूयतामेका विधातः करुणा यदि । मूकान्सृज कविंमन्यान्बधिरान्विदुषोऽथवा ॥ ३४ ॥ जना नीराजनीयास्ते जानन्ति स्वयमेव ये । कथंचिदपि वा सर्गः काव्यमबैश्च नाटकम् ॥ ३५ ॥ १ काव्यमाला प्राचेतसेन यानीता पालिता भवभूतिना । सर्वतश्चय॑ते वाणी सैवाद्य कविमानिभिः ॥ ३६ ॥ निःशङ्कं न प्रवृत्तोऽस्मि निन्दितुं कविमानिनः । निन्दामपि विगायन्ति यतः श्लाघामिवात्मनः ॥ ३७ ॥ मुनिरस्ति भरद्वाजः ख्यातस्त्रिभुवनेष्वपि । अन्नैर्यस्य जहौ रामोऽप्यरण्यभ्रमणश्रमम् ॥ ३८ ॥ तस्यान्वये महत्यासीत्क्षीरोद इव चन्द्रमाः । श्रीकण्ठचरणासक्तः श्रीमानप्पयदीक्षितः ॥ ३९ ॥ विधित्रयी यदाक्षिप्ता नान्यत्र लभते गतिम् । जयन्त इव दुर्दान्तजानकीशशरादितः ॥ ४० ॥ आगमैरप्यसंवेद्यमाद्यं यत्तत्त्वमैश्वरम् । आकुमारं परिज्ञातं तदेवासीद्यदुक्तिभिः ॥ ४१ ॥ श्रीकण्ठदेशिकग्रन्थसिद्धान्तद्योतचन्द्रिका । श्रीमती निर्मिता येन शिवार्कमणिदीपिका ॥ ४२ ॥ गङ्गया यः पुरा स्नातो देवश्चन्द्रार्धशेखरः। गाङ्गेयेन पुनः सनौ सोऽवतीर्य यदात्मना ॥ ४३ ॥ अमोषणीयैरक्रय्यैरमूल्यैरमलीमसैः । यत्प्रबन्धैः शतेनैव भारती परिकर्मिता ॥ ४४ ॥ यं विद्म इति यगन्थानभ्यास्यामोऽखिलानिति । यस्य शिष्याः स्म इति च श्लाघन्ते खं विपश्चितः ॥ ४५ ॥ नाकेऽपि सति देवानां माहात्म्यकलहे मिथः । वादः शाम्यति यद्वाचि विन्यस्य निखिलं भरम् ॥ ४६ ॥ आमोदिभिर्वचःपुष्पैरचितो येन शंकरः । तत्याज काशधत्तूरधारणोपहितां रुजम् ॥ ४७ ॥ तत्समानप्रभावस्य तदनन्तरजन्मनः । आसीदाचादीक्षितस्य पुत्रो नारायणाध्वरी ॥ ४८ ॥ १. अप्पयदीक्षितः कवेः पितामहस्य ज्यायान्भ्राता.
द
१ सर्ग:] "
गङ्गावतरणम् ।
जयन्ति तनयास्तस्य पञ्च सौभ्रात्रशालिनः ।
गर्भदासा महेशस्य कवयश्च विपश्चितः ॥ ४९ ॥
तेषामहं द्वितीयोऽस्मि भूमिदेवीतनुभुवाम् ।
नीलकण्ठ इति ख्यातिं नीतः शंभोः प्रसादतः ॥ १० ॥
वार्तिकाभरणग्रन्थनिर्माणब्यक्तनैपुणः ।
श्रीवेङ्कटेश्वरमखी शिष्ये मय्यनुकम्पते ॥ ११ ॥
कुर्वती श्रवणे वाणी कोमलां यस्य साहितीम् ।
कर्णपूरशिरीषेऽपि काठिन्यमिव पश्यति ॥ ५२ ।।
भान्ति शिष्याः पुरो यस्य पाणिविन्यस्तपुस्तकाः ।
तत्सूक्तिजाह्नवीपूरत्रासेनेव धृतप्लवाः ॥ १३ ॥
सति सह्यसुतातीरे सति त्रय्यन्तशीलने ।
3: गन्तुं निश्चितवानस्मि गङ्गां केनापि हेतुना ॥ १४ ॥
तपसा लभ्यतां तस्यास्तपसश्च कठोरताम् ।
पश्यन्वाचा तपस्यामि काव्यसंदर्भरूपया ॥ ५५ ॥
मूकोऽपि मुखरायेत यत्र स्मृतिपथं गते ।
उपेक्षितव्यं तद्वस्तु कथं कवयता मया ॥ १६ ॥
भगीरथमुखाद्वाचः स्तुवन्ति मम जाह्नवीम् ।
प्रभावे चन्द्रचूडस्य पर्यवस्यन्ति तत्त्वतः ॥ १७ ॥
चन्द्रशेखरसव्याङ्गचरणोन्मार्जनाम्भसाम् ।
विवर्ता जगदुत्सङ्गे विहरन्ति मदुक्तयः ॥ १८ ॥
भक्त्या कृतेति जाह्नव्याः प्रभावं वदतीति वा ।
सन्तः समनुगृहन्तु निर्गुणामपि मद्विरम् ॥ १९ ॥
आसीद्भगीरथो नाम राजा रविरिवापरः ।
येन साक्षात्कृतः शंभुर्येन गङ्गावतारिता ॥ १० ॥
सदयं सानुरागं च भुञ्जानं तं वसुंधराम् ।
ऐच्छदिन्द्रवशापि द्यौरन्तः कुलवधूरिव ॥ ६१ ॥
काव्यमाला।
गोवर्धनधर्रस्यापि यदि तावद्यशो हरेः ।
कियन्न वर्ण्यः स भुवं बिभ्रत्सगिरिकाननाम् ॥ १२ ॥
स पौरान्पादमूलस्थानरक्षदिति नाद्भुतम् ।
यद्दिगन्ते यशोऽरक्षप्रतापं चारिवेश्मसु ॥ १३ ॥
दयालरथ भूतेषु दण्ड्येष्वासीत्स निर्दयः ।
संजीवनोऽपि लोकानां चन्द्रमाः पथिकान्तकः ॥ १४ ॥
न दण्ड्यं मुमुचे कंचिन्न वा कंचिददण्डयत् ।
तथापि युक्तदण्डः स दयालुरिति पप्रथे ॥ १५ ॥
उचितेष्वदिशदृष्टिमुदासीनः परेषु च ।
शुश्राव च न शुश्राव स वाचमनुजीविनाम् ॥ १६ ॥
उचितज्ञतया तस्मिन्नन्वरज्यन्यथा प्रजाः ।
न तथा तस्य दानेन न तथा चोपलालनैः ॥ ७ ॥
तस्मिन्दुर्जनदुर्धर्षे समं पश्यति च प्रजाः।
सर्वोऽप्यासीदपिशुनः सर्वोऽपि गतमत्सरः ॥ ६८ ॥
स यावल्लालयामास क्रीडन्निव हसन्निव ।
उपासांचक्रिरे तावद्भूतास्तमनुजीविनः ॥ ६९ ॥
जातः कोपो न भृत्येषु जातोऽपि न निगूहितः ।
निगूहितोऽपि न चिरमास्त चित्तेऽस्य कोमले ॥ ७० ॥
वैरायतां विरिञ्चोऽपि विप्रकर्तु क्षमेत सः।
अज्ञातविमतोत्पादामभुत तदपि क्षितिम् ॥ ७१ ॥
प्रणाममात्रसंप्रीतस्तेजखी चोदयस्थितः ।
कूटस्थं रविमैक्ष्वाको गुणैरनुययाविव ॥ ७२ ॥
तस्यासन्प्राक्तना एव सेनामन्त्र्यनुजीविनः ।
नवं यशो नवः कोशो नवं राज्यं च केवलम् ॥ ७३ ॥
षष्ठांशं जगृहे नेति तुष्टुवुस्तं तपस्विनः ।
न त्वबुध्यन्त गृह्णन्तमुपायेनाखिलं तपः ॥ ७४ ॥
।
। सर्गः]
गङ्गावतरणम् ।
स्रस्तमंसतलात्पान्थैः संव्यानमपि वर्त्मसु ।
सातङ्कमाददे भूयस्तरद्भिस्तस्य शासनम् ॥ ७५ ॥
अख्यातपूर्वविजयानतृणीकृतजीवितान् ।
अक्षत्रियानयूनश्च न स संजगृहे भटान् ॥ ७६ ॥
अवितीर्णमहाग्रामैरकृतवर्णवृष्टिभिः ।"
कटाक्षैर्न बभूवेऽस्य कविवक्रनिपातिभिः ॥ ७७ ।।
संग्रामाङ्गणमारूढः स समक्षं विरोधिनाम् ।
तिरस्कारमिवामंस्त चापस्यापि शिरोनतिम् ॥ ७८ ॥
प्रददावेव सोऽर्थिभ्यः प्रतिजग्राह न क्वचित् ।
वासवादसकृदृष्टिं लिप्समानस्त्वलज्जत ॥ ७९ ॥
सायाह्नापचयेनापि मर्यादा लवतेऽर्णवः ।
स तु तावत्प्रवृद्धोऽपि मर्यादा नात्यलङ्घत ॥ ८० ॥
दातुं प्रवृद्धश्चन्द्रोऽपि पक्षे पक्षेऽपचीयते ।
स तु भूयोऽप्यवर्धिष्ट संततं वितरन्नृपः ॥ ८१ ॥
पदं किमेतावदुदारतोचितं प्रयुज्य शंसेयममुष्य दातृताम् ।
पदेषु यत्प्रत्यय एव नाशितः प्रयोगशूरैः कविभिः समन्ततः ॥ ८२ ॥
यदस्य युद्धेषु महत्कुतूहलं य उद्यमो यत्प्रतिपालनं च वा।
इदं किमङ्ग श्रुतमीक्षितं नु वा महीभुजोऽन्यस्य महोत्सवेष्वपि ॥ ८३ ॥
एकैकां क्रमभाविनीमपि कलामिन्दोः समाखाद्य यैः
कण्ठोद्रीवितजीवितैर्निरवधिः कालः कथंचिजितः ।
तैरेवोदरपूरमध्वरहविः स्फारं तदावर्जितं
भुञ्जानैस्त्रिदशैरधारि जठरप्रायं तदानीं वपुः ॥ ८४ ॥
परिज्ञातुं तत्त्वं निखिलमपि विद्यासु विदुषां
परिज्ञातं भूयः परिषदि सतां श्लाषितमपि ।
फलयोक्तुं तत्तत्क्रमसमुचितैः श्लाघितमपि
प्रगल्भः कोऽन्यः स्यात्रिभुवनवदान्यो यदि न सः ॥ ८५॥
८ काव्यमाला। साम्राज्यं यदि सप्तमार्णवतटीविश्राम्यदाज्ञाक्षरं सौन्दर्य यदि मुद्रिताः स्मरगिरः सा चेन्मतिः को गुरुः । शौर्य चेत्पुनरन्यदेव तदिति स्तोत्रं विचित्रं सतां शृण्वन्नेव भगीरथक्षितिपतिनिन्ये सहस्रं समाः ॥ ८६ ॥ इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध- निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते गङ्गावतरणे कथावतारो नाम प्रथमः सर्गः । द्वितीयः सर्गः। पौरजानपदपार्थिवलोकप्रस्तुतस्तुतिवचोमुखरायाम् । जातु संसदि निषद्य सुहृद्भिः संलपन्नतिनिनाय स कालम् ॥ १ ॥ स प्रसङ्गकृतसंगति वक्तुं प्रस्तुतं किमपि बान्धववृद्धैः । सावधानमशृणोदपदानं सर्वमेव सगरात्मभवानाम् ॥ २ ॥ अश्वमेधमकरोत्सगरो यद्यच्च तत्र तनया विनियुक्ताः । अन्वयुर्यदपि ते तुरगं तं यच्च तं शतमखोपजहार ॥ ३ ॥ यत्ततः सगिरिकेतुवनान्ता तैर्व्यचीयत मही निखिलेयम् । यच्च तैः पितृवचोऽनुसरद्भिः सिन्धुरेव समखन्यत भूयः ॥ ४ ॥ मन्दिरं फणभृतामवतेरुः सागरोदरपथेन च ते यत् । पादकर्णसमवायत एव प्राकृतैः फणिभिरद्भुतदृष्टाः ॥ ५ ॥ तं तुरंगमपि यद्ददृशुस्ते तापसस्य कपिलस्य समीपे । चोर इत्यमुमभिद्रवतां यद्भस्मतामदित हुंकृतिरस्य ॥ ६ ॥ अंशुमानपि समेत्य हयं तं यच्चकार सगराध्वरपूर्तिम् । सर्वमेतदवकर्ण्य स वीरो विस्मितोऽजनि विषण्णमुखश्च ॥ ७ ॥ दातुमम्बुपरिपारणमेषां कोऽभ्युपाय इति पृच्छति तस्मिन् । संनिकर्षमुपसृत्य वसिष्ठः शंसति स्म जगतः सुकृतेन ॥ ८ ॥ कन्यकास्ति कुटिलेति हिमाद्रेायसी स्मरणतोऽप्यघहन्त्री । शंकराय वितरीतुममाः सत्यलोकमनयन्त शिशुं ताम् ॥ ९ ॥ ..
२ सर्गः]
गङ्गावतरणम् ।
९
आकलय्य विबुधोपहृतां तामष्टभिश्च नयनैर्वृहिणः प्राक् ।
नाहतीश्वरमियं तु वराकी मुच्यतामिति गिरा निरतक्षत् ॥ १०॥
उद्यतां किमपि वक्तुमथैनां गर्वितां कमलभूरुपलभ्य ।
शापमित्थमसृजजलरूपा सद्य एव भवती भवितेति ॥ ११ ॥
सा ततो गिरिसुताकलयन्ती तं च निग्रहमनुग्रहमेव ।
ऊर्मिभिः प्रलयसागरपोरैरुत्पपात कवलीकरणाय ॥ १२ ॥
अप्रतर्कितविधेयमपोढस्थैर्यमर्धविरतश्रुतिपाठम् ।
शुष्कतालु वदनं च तदानीं पद्मभूरपि परिभ्रमति स्म ॥ १३ ॥
सावलेपनिपतत्सुरसिन्धुखैरचंक्रमतिरस्करणाय ।
सर्वतः स निगमान्किल सेतूनाबबन्ध चतुरश्चतुरोऽपि ॥ १४ ॥
सा च वामनपुराणवचोभिः स्पष्टमेव विवृता विदिता ते ।
नागलोकमवतार्य नदीं तां देयमम्बु सगरात्मभवेभ्यः ॥ १५ ॥
आशरीरपतनं व्रतचर्यामाचरन्नपि सुपर्णवचोभिः ।
असिन्धुमवतारयितुं तामंशुमानपि शशाक न धीरः ॥ १६ ॥
तत्सुतोऽपि न ददर्श दिलीपस्तत्समानयनकर्मणि योगम् ।
दृष्टिमत्र निदधासि यदि त्वं सिद्धिमेति नियमादयमर्थः ॥ १७॥
इत्थमूचिषि मुनौ करणीयं निश्चिकाय न तु तं निजगाद ।
सिद्धमप्यभिलपन्ति न सन्तः का प्रसक्तिरपि साधयितव्ये ॥१८॥
सेत्स्यतीति यदवादि भवद्भिः सिद्धमेव तु ततोऽभिमतं नः ।
इत्युदीर्य स विसृष्टसमाजः पार्थिवः प्रतिययाववरोधम् ॥ १९ ॥
सोऽथ जातु नृपतिः परितुष्टादाशिषं समधिगम्य वसिष्ठात् ।
निर्ययौ सुरनदीमुपनेतुं न्यस्य राज्यमखिलं सचिवेषु ॥ २० ॥
तीरसीमनि स दक्षिणसिन्धोराश्रमं कमपि संपरिकल्प्य ।
आरराध नियमैरतिमात्रैर्देवमम्बुजभवं नरदेवः ॥ २१ ॥
हेमकुम्भसलिलैरभिषिक्तो मौलिरस्य मुनिवेषधरस्य ।
वीचिकासु लवणासु पयोधेर्वीतशङ्कमहनि त्रिरमज्जत् ॥ २२ ॥
१०
काव्यमाला।
आश्रमं नगरमासनदर्भान्भद्रपीठमुटजं मणिवेश्म ।
संभ्रमाब्यवहरन्क्षितिपालोऽलजत त्रिचतुराणि दिनानि ॥ २३ ॥
स क्षणादजयदासनभेदाशिक्षणाचिरतरं खुरलीषु ।
जानता निखिलमभ्यसितव्यं कस्य कुत्र न भवेदुपयोगः ॥ २४ ॥
अत्यशेत स मुनीनपि दिव्शन्वासरैः कतिपयैर्वसुधेशः ।
संस्तवे भवंतु नाम विलम्बः संस्तुतं मतिमतां किमसाध्यम् ॥२५॥
किं स पूर्वमपि नाजयदक्षान्कि तु वा न ववृते शुचिरेवम् ।
तस्य केव तपसा परिहानिः प्रत्युतैष न ररक्ष तदोवींम् ॥ २६ ॥
खं च राज्यमपहाय सतोऽस्य स्वर्गराज्यमिति तत्कियदास्ते ।
तद्विदञ्छतमखो न शशङ्के तत्तपश्चरणतः कणशोऽपि ॥ २७ ॥
बाहुजोऽयमथ भानुकुलीनस्तत्र चाप्रतिभटः स्वमहिमा ।
तावतापि तपसा यदि युक्तस्तत्समीक्षितुमपि क्षमते कः ॥ २८ ॥
यद्गजेषु तुरगेषु भटेषु क्षोणिषु क्षितिपतिष्वपि सक्तम् ।
तन्मनस्तत इतोऽपि विकृष्य स्थापितं तपसि तेन कठोरे ॥२९॥
'नान्नमाद्रियत नाम्बु न मूलं का भविष्यति कथापि फलानाम् ।
मारुतं परमभुत निदाघस्तं च हर्तुमिव तस्य तदाभूत् ॥ ३० ॥
चण्डमारुतचलन्मृदुघासग्रासलालसतया गतिमान्यम् ।
प्रस्तुवत्यहिमभानुतुरङ्गे द्राधिमाणमलभन्त दिनानि ॥ ३१ ॥
तापमातपतरङ्गितमुच्चैः क्षन्तुमक्षमतया दिनलक्ष्मीः ।
किं चिरायति निशेति वितीर्णोद्ाहिकेव वपुरायतमूहे ॥ ३२ ॥
वक्रचंक्रमणवल्गनधाटीमण्डलभ्रमणमन्दगतानि ।
सादिनः स्वयमशिक्ष्यत धर्मात्तुन्दिलो मदनजैत्रतुरंगः ॥ ३३ ॥
आरुरोह गिरिमाप वनान्तानभ्रमीदनुदिशं परिधाव्य ।
अग्रहीदपि तृणानि समीरो निग्रहैकरतिभाजि निदाघे ॥ ३४ ॥
भानुभिः प्रलयपावकतीत्रैरापिबत्युदकमम्बुजबन्धौ ।
दूरदूरमपदिश्य मरीचीदुद्रुवुदिशि दिशीव सरस्यः ॥ ३५ ॥
१ सर्गः] गङ्गावतरणम् । ११ शक्यमञ्जलिपुटैः सलिलार्दैः सान्द्रमातपभरं अविकीर्य । जीर्णपर्णजटिलानि तदानीं विष्वगुज्ज्वलयितुं विपिनानि ॥ ३६॥ अङ्किताः किमपि शैवलखण्डैराबपाच्छकलितैरसिनीलाः । कोण एव सरितामवहन्त प्रान्तलीनपथिका जलवेण्यः ॥ ३७॥ कामिनः पथि तलेषु तरूणां गाढनम्रविटपेषु निवेश्य । अध्वखेदमहरन्त वधूनामम्बुभिः कमलिनीदलनीतैः ॥ ३८ ॥ उत्तरीयमहरत्कुचकुम्भादुन्ममार्ज मुखंघर्मपयांसि । अङ्गमङ्गमपि पान्थवधूनामालिलिङ्ग सुकृती वनवातः ॥ ३९ ॥ आगतैरपि पथातिविदूरादध्वगैस्तरुतलेषु निषद्य । स्पन्दितुं च पटुभिर्न बभूवे संनिकृष्टसलिलग्रहणाय ॥ ४० ॥ किं प्रपासु कुहचित्तरुणीनामास्पदं कुचतटेष्वधिगम्य । विध्यति स्म विजने पथि पान्थान्कुण्ठविक्रमतया कुसुमास्त्रः॥४१॥ सत्यपि श्रमविनोदिनि कामं तालवृन्तपवने तरुणानाम् । प्रेमभाजनमभूत्परमेकः प्रेयसीकुचदुकूलसमीरः ॥ ४२ ॥ फूत्कृतैरजहदूष्मतरङ्गैर्भूयसा मसृणितोष्ठदलानि । अवदन्त सुदृशाममिकेभ्यो मुग्धधर्मकणिकानि मुखानि ॥४३॥ न प्रणामरचनैर्न चटूक्त्या न व्यनीयत सखीवचनैर्यत् । कञ्चुकं तदपनिन्युररोजात्कामिलोकसुकृतेन नवोढाः ॥ ४४ ॥ मारुतो..."मधुरप्युपरेमे किं पिकैरमुखरैरतिखिन्नः । संदधे धनुषि नैव मनोजः सायकं त्रिचतुराणि दिनानि ॥ ४५ ॥ हारदामि हरिचन्दनपके शीतरोचिषि शिरीषदलेषु । कामिनीकुचतटेषु च लिल्ये पञ्चभिः किमसुभिः कुसुमेषोः ॥४६॥ सर्वरात्रमपि संलपना_विनमैः समपनीय विभाते । अप्रमर्दितकुचं युवतीनामङ्कपालिमलभन्त युवानः ॥ ४७ ॥ नास्ति मन्दपवनो न वसन्तः कूणितं च चरितं कुसुमेषोः । तावता विरहिणां किमिवासीत्तेषु मन्मथकणोऽपि कृतान्तः ॥ ४८ ॥ १
१२
काव्यमाला
अन्नमन्यदवमन्य यमेकं सेवते सुलभ इत्यहिलोकः ।
सोऽपि नैव सुलभो मरुदासीहुर्जयो जगति दैवनियोगः ॥ ४९ ॥
प्राणिमात्रपरिजीवनहेतोः शत्रवस्त्रय इमे पवनस्य ।
शुष्कतापसनिदाघभुजंगास्ते पतन्ति निरये क्व न विद्मः ॥ ५० ॥
उष्णमम्बु रविरुयमयूखः सान्द्रमुर्मुरकिरश्च समीराः ।
भूः पफाल पुनराः कथमासीत्पान्थपातकिदशापरिपाकः ॥ ११ ॥
खापकालमनुपाल्य गुरूणां विप्रलभ्य च चिरेण सपत्नीः ।
प्रस्थितासु कुलटाखपि धर्मैः पातकी किमपि नानुचकम्पे ॥५२॥
वारिविभ्रममहोत्सवदानै पुरा परिचचार निदाघः ।
तापमस्य विततार तदासौ किं भिदा न धनिनां कृपणेभ्यः ॥१३॥
तौ परस्परमहःपरिणामस्पर्धयेव नृपतिः सविता च ।
गाढयौवनमुपेयुषि धर्मे दुनिरीक्ष्यतरतामवहेताम् ॥ १४ ॥
स्नातुमम्बु न कुतश्चन लभ्यं पातुमस्ति न कथाप्यनिलस्य ।
स्थातुमास्त यमिनां तरुमूलं दूषितं तदपि दावशिखाभिः ॥ १५ ॥
यावदित्थमधिकोऽजनि धर्मस्तावदस्य तपसा विजजम्भे ।
तद्विपाकचकिता दिवि देवास्तापमापुरवनेरपि तीव्रम् ॥ १६ ॥
तिष्ठतस्तपसि तस्य कठोरे काश्तश्च सुरसिन्धुनिपातम् ।
वासरा निमिषवत्समतीयुर्वासरा इव समांश्च सहस्रम् ॥ १७ ॥
तं कदाचिदुपसृत्य विरिञ्चस्तस्य दृष्टिपथमप्युपगम्य ।
अर्थ्यतामभिमतं वितरामीत्याह वाग्भिरमृतस्त्रपिताभिः ॥ ५८ ॥
तत्क्षणं प्रमुदितः क्षितिपालस्तन्निशम्य वचनं द्रुहिणस्य ।
स्तोतुमारमत चारणलोकस्तूयमानचरितः स्वयमेनम् ॥ ५९ ॥
त्वत्प्रसूतमवतो हरतोऽपि स्यादुपासनविधिर्यदि धातः ।
त्वं कियत्कियदिवासि न वन्द्यस्तत्त्वदर्शनपरैर्मतिमद्भिः ॥ १० ॥
स्वादृशा जनिमता शयितव्यं त्वादृशा च ननु जागरितव्यम् ।
यत्र हि स्वपिति नश्यति लोको यत्र जीव्यति पुनः समुदेति॥११॥
३ सर्गः
गङ्गावतरणम् ।
१३
भारतीपरिवृढस्य पुरस्ते वागियं न परिहासपदं किम् ।
नृत्यतः पुरहरस्य पुरस्तान्नृत्यतां स्थितिरिव प्रमथानाम् ॥ १२ ॥
हुंकृतेन कपिलस्य महर्षेभस्मताशुपगताः पितरो मे ।
वर्गसिन्धुसलिलेष्विह तेषामस्तु मत्करपुटेन निवापः ॥ १३ ॥
तस्य प्रतिश्रुत्य तथेति देवः प्रदर्श्व गङ्गाम्पि पार्श्व एव ।
तिरोभवत्पश्यत एव तस्य वक्रैः समस्तागमवावदूकैः ॥ ६४ ॥
संव्यानमूर्मिलतिकाव्यतिषङ्गलब्ध-
फेनानुलेपमिव पाण्डरमावहन्तीम् ।
पश्यन्पुरस्तनुमती सुरलोकसिन्धु
सिद्धं मनोरथममंस्त दिलीपसूनुः ॥६५॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध-
निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाच्चादीक्षितपौत्रेण
नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते
गङ्गावतरणे भगीरथवरलाभो नाम द्वितीयः सर्गः ।
तृतीयः सर्गः।
ततः प्रणामैः स्तुतिभिश्च पार्थिवं प्रसादयन्तं सुरलोकवाहिनी ।
जगाद सद्यो जगदण्डमण्डलं निमजयन्तीव वचोभिरेव सा ॥१॥
प्रविष्टमात्रास्वपि मे रसातलं प्रवाहनासीरतरङ्गपतिषु ।
पतेदलाबूफलकपरोपमं विभिद्य विध्यण्डकपालसंपुटः ॥ २ ॥
मदम्बुसंपातविधूतकल्मषैर्महीश पूर्वैस्तव यत्र वत्स्यते ।
स एव लोको यदि मत्पयोजवात्पथि प्रलीयेत फलेत्तपस्तव ॥३॥
महर्षिरोषग्लपितान्महीभुजः"""कानपि लिप्ससे यशः ।
अवेक्षसे नैव जगत्रयीजुषामकाण्डसंवर्तविधानपातकम् ॥ ४ ॥
पतत्युदारे पयसां भरे मम प्रसह्य राजगिरिराजमौलिषु ।
समुत्पतच्छीकरवर्षदुर्दिनं चतुर्मुखो धाम किमावसेन्निजम् ॥ ५ ॥
ससर्ज कल्पादिषु विष्टपत्रयीं स योगमास्थाय कियन्तमात्मभूः ।
कथं "शेषीक्रियतां मया पुनः कथं पतामीति गिरैकयैव सा ॥६॥
१४
काव्यमाला।
अचिन्तयित्वा कृतिगौरवं विधेरपि त्यजन्ती करुणां शरीरिषु ।
पताम्यहं यद्यपि कुत्र वा भवन्भवान्निवापाञ्जलिमाचरिष्यति ॥ ७ ॥
पतेयमप्यथितसाधनाय ते निगृह्य वेगं निखिलं बलादहम् ।
परिप्लवाः क्षुद्रतया मदूर्मयः परं तु नेमे वचसि स्थिता मम ॥ ८ ॥
प्रदर्श्यतां कस्य पुरु पयोजवो निवेद्यतां वा नृप केवलं गिरा ।
न संनिकर्षे वडवामुखानलो न वा स योगी चुलुकीकृतार्णवः ॥ ९॥
विषादमभ्येमि भुवं पदे पदे विपद्यमानामनुचिन्त्य यद्यपि ।
तथापि नन्दामि चिरोपसंभृतां तरङ्गकण्डूमपनेष्यता त्वया ॥ १० ॥
प्रवेष्टुमभ्रेण पथा रसातलं हठाद्विशन्त्याममरावतीं मयि ।
पुनः स्वहस्तार्पितचन्दनाङ्कितं शचीमुखं द्रक्ष्यति किं पुरंदरः ॥११॥
अपि प्रकृत्या यदचञ्चलं जलं तदप्यलं यां ग्रसितुं महोदधेः ।
पदं भवेन्नाम समग्ररंहसां मदम्भसां किं न्वियमेव मेदिनी ॥ १२ ॥
इति प्रसन्नं मधुरं च वाङ्मयं प्रवाहमात्मीयमियोनिरन्त्यसौ ।
क्षणं व्यरंसीदिव यं सुरापगा तमेव लेभे वचनक्षणं नृपः ॥ १३ ॥
ससर्ज यस्त्वां त्रिजगन्नियामकश्चतुर्मुखः सोऽपि यदि त्वदूर्मिभिः ।
अवापितस्तत्क्षणमात्मसंशयं कथैव का स्याजगतो विनश्यतः ॥१४॥
महात्मतां यद्यपि ते महापगे न वेद वेधा न हरिन शंकरः ।
तथापि पौराणिकसंकथामुखात्कियत्कियदेवि गृहीतवानहम् ॥ १५ ॥
अतो न किंचित्प्रतिवक्तुमुत्सहे भवत्प्रवाहावतरोपपादकम् ।
परं तु मय्यम्ब दयोर्मिला दृशः पतन्तु ते किंचिदिति प्रसादये॥१६॥
प्रसाद्यमाना मुहुरित्थमुक्तिभिर्भगीरथाय प्रससाद सा ततः ।
अपि स्वयात्रानुपपत्तिगोचरामनेन च प्रास्तुत संकथां मिथः ॥ १७ ॥
मदुक्तयुक्त्या नृपते मया विना प्रतिप्रयातुं यदि ते न रोचते ।
अनेन रूपेण परं रसातलं प्रवेक्ष्यते तर्हि भवत्कृते मया ॥ १८ ॥
सुरापगास्रोतसि पूर्वभूभुजां कदा प्रदास्यामि जलाञ्जलीनिति ।
तपस्यतो मे फलमस्ति किं त्वया प्रवाहरूपं परिहृत्य नीतया ॥ १९ ॥
३ सर्गः] गङ्गावतरणम् । १५ ग्रहस्तवायं यदि तात तर्हि तां गृहाण गङ्गाममरावतीं गताम् । भणन्ति लक्ष्मीदयिताङ्ग्रिताडनप्रभिन्नविध्यण्डपरिस्रुतेति याम् ॥२०॥ न पातुमम्भो भवतीमिहार्थये परःसहस्रा भुवि सन्ति सिन्धवः । न चाम्बु दिव्यं ननु सन्ति वृष्टयः परं तु लिप्से तव पावनं पयः।।२१॥ यदीदमेवेच्छसि याहि भूतलं गृहाण भस्मान्युपयाहि मां पुनः । ममान्वगागच्छ विधातुरालयं मनोरथं साध्य मजलस्ततः ॥ २२ ॥ कथंचिदेनः कपिलापराधजं पितामहानामपनेतुमिच्छता । अकर्मभूमावधिगत्य तावकं पयः किमम्ब प्रतिपद्यतां मया ॥ २३ ॥ सुशिक्षितस्त्वं यदि वृद्धसेवया श्रुतिस्मृतिभ्यामुपदर्शिते पथि । विधित्ससे किं नु विकृष्य मां बलादकर्मभूमावहिराजवेश्मनि ॥२४॥ न वक्तुमीशे गिरमुत्तरोत्तरं त्वदुक्तिधारासमशीषिकापदम् । गुरोनिदेशो मम दुस्त्यजस्त्वयं कुतस्तमुत्सादयितुं प्रवर्तसे ॥ २५ ॥ यदि त्वलवयं गुरुशासनं त्वया यतस्व भूमाववतारणे मम । स्मृता स्मृता संनिदधामि तावदित्युदीर्य तं दिव्यनदी तिरोदधे ॥२६॥ विचिन्तयन्नमनदीगिरं मुहुर्विनिःश्वसन्नायतमायतं ततः । प्रजेश्वरः प्रस्तुतकार्यसिद्धये जगन्ति सर्वाणि जगाम चेतसा ॥ २७ ॥ मुमूर्षमाणासुरशैल्कविक्रमप्रसङ्गसंभावनयापि मूर्च्छताम् । अभून्न चित्ते नृपतेदिवौकसामपि प्रसज्य प्रतिषेधपात्रता ॥ २८ ॥ सुराग्रजो यद्यपि यद्यपि स्वयं जगन्ति निर्मात्यसकृयुगात्यये । शशाप तामेव नदी भवेति वा गिरेः सुतां यद्यपि कोपमूच्छितः॥२९॥ तथापि तदुर्विपयोदमर्दने प्रभुर्जराजर्जरितः कथं विधिः । तया पुरा भीमृत(?) एव भूषितस्तथा तथासाविति हि प्रगीयते॥३०॥ सहेत किं नाम वियन्नदी हरिः सहिष्यते किंचिदयं तु साहसी । ससर्ज विध्यण्डपुटेऽपि यः पदं समुत्क्षिपन्नावरणोदकैर्नदीम् ॥ ३१ ॥ अयं हि मनश्चिरमर्णवोदरे पुरा पुराणीः खयमाहरद्गिरः । अयं हि निर्मथ्य सुधाब्धिमद्रिणा पुरा सुरानप्यमृतैरतोषयत् ॥ ३२॥ 1. 'शल्कविक्रम' इति मातृकायाम् अपि स्यात् 'शुष्कविक्रम' ? .
१६
काव्यमाला।
अमुं पुमांसं परिहत्य कोऽपरः प्रवर्ततामर्णवशोषकर्मणि ।
अमुं विना केन पुनर्महोदधावबन्धि सेतुः शतयोजनायतः ॥ ३३ ॥
महीधरैर्मन्दरगन्धमादनत्रिकूटहेमाचलरोहणादिभिः ।
अधारि तामप्यवहद्वसुंधरामयं न किं नाम पुरा खदंष्ट्रया ॥ ३४ ॥
विचारयामो यदि कर्म वैष्णवं किमस्त्यसाध्यं त्रिषु विष्टपेष्वपि ।
विचारयामो यदि वापि,तां नदी भरं क विन्यस्य विशङ्कमास्महे॥३१॥
इदं तु सिद्धं हिमशैलनन्दना तथाविधैवास्तु ततोऽधिकापि वा ।
उपायवेदी मधुकैटभाहितस्तथापि किं किं न स साधयिष्यति ॥३६॥
न देवताभिर्न मृगैर्न मानुषैर्न वायुधैः संभवि यस्य नाशनम् ।
हिरण्यमीहक्षमपि प्रतिघ्नतो न बुध्यते कैरपि तस्य मायिता ॥ ३७॥
कथं कथं धिग्धिगिदं स्मृतिं गता कथा ममेयं पुरशासनाश्रया ।
पुराणिनी नन्वयमीदृशोऽपि सन्क्षणान्नृसिंहः शरभेण पातितः ॥ ३८ ॥
निवेद्यते यद्यपि तस्य विक्रमो जलंधरान्धत्रिपुरस्मरादिभिः ।
'तथापि बाणासुरसंगरे जनाः पठन्ति तस्यापि पराक्रमक्षतिम् ॥ ३९॥
अतो न किंचियवसातुमीश्महे मति खकीयां परमास्थिता वयम् ।
क कूपमण्डूकनिभा मतिर्नृणां क देवतातत्त्वविचारचातुरी ॥ ४० ॥
इति क्षितीशः प्रणिधानमाश्रितः क्षणं यदा यन्न मिमील लोचने ।
तदा विधिस्तस्य दृशोः पुरो भवन्प्रभावमैशं' गदितुं प्रचक्रमे ॥ ४१॥
कियत्यसौ तात वियन्नदी भवेत्कियन्ति सर्वाणि जगन्ति वा पुनः ।
खयं यदि प्राक्तनपुण्ययोगतः स एव ते संरभते महीश्वरः ॥ ४२ ॥
यदंशलेशावतरस्य केलयो भवन्ति दक्षाध्वरशिक्षणादयः ।
पठन्ति तस्यैवं पराक्रमक्षति न चेतना जातु कुतो विवेकिनः ॥४३॥
पुरा मुकुन्दाय तथा तपस्यते पुराहितवप्रतिपादितं वरम् ।
न पालयेद्वाणपुरे यदि स्वयं भजेदमुं पार्थिव देवतेति कः ॥ ४४ ॥
यदस्ति विश्वं क्रियते स येन तद्यतः स चाभूत्स च यत्र लीयते ।
स च स्वयं येन किलानुगृह्यते ततोऽप्यतीतं तदवैहि दैवतम् ॥ ४५ ॥
३ सर्गः]
गङ्गावतरणम् ।
प्रसूतिमीशानहरीन्द्रवेधसां प्रचक्षतेऽथर्वशिखागिरी यतः ।
विहाय सर्वानपि यस्य वन्द्यता विधीयतेऽथर्वशिखादिसूक्तिभिः॥४६॥
प्रमाणमूर्धन्यपदाभिषेचिता यतश्चतस्रः श्रुतयोऽपि जज्ञिरे ।
किमुक्तिभिः स प्रणवोऽपि
यत्पुरः
प्रतीयतेऽथर्वशिरस्यनेकधा ॥४७॥
प्रभु प्रशान्तं परमेश्वरं च यं भणन्लि कैवल्यगिरः परिस्फुटम् ।
यमेव विश्वाधिक इत्यनुश्रवाः प्रचक्षते कण्ठरवेण नापरम् ॥ ४८ ॥
यदाप्तिहेतोर्यतते जगत्रयी यदेव चाद्यं फलराजसाधनम् ।
तयैव देव्या स्वयमात्मविद्यया यदीयमधैं वपुषो विभूषितम् ॥ ४९ ॥
सुखावहो यः किल शंभुशंकराद्यभिख्यया यो वपुषातिनिर्मलः ।
य एव सर्वज्ञ इति प्रघुष्यते विशुद्धसत्त्वात्मकतां विभावय ॥ ५० ॥
तपोभिरल्पैर्दयते च देहिनां स देवदेवः शशिखण्डमण्डनः ।
दयापि सा देयमदेयमित्यमुं विभागमेव प्रथमं न बुध्यते ॥ ११ ॥
इति क्षितीशं प्रतिबोधयन्नसावदीक्षयच्छाम्भवदीक्षया पुनः ।
ददौ च तसै विनताय तत्परं परिष्कृतं पञ्चभिरक्षरैर्मनुम् ॥ १२ ॥
प्रविष्टमात्रश्रुतिसंपुटोदरः स मन्त्रराजः शशिखण्डपाण्डरः ।
तमांसि तस्य प्रबिभेद तत्क्षणं मनांसि यूनामिव मान्मथः शरः ॥१३॥
प्रतिप्रयाते जगतां पितामहे भगीरथः पूर्णमनोरथस्ततः ।
तपश्चरिष्यन्नतिदारुणं पुनर्गिरिं जगाम श्वशुरं पिनाकिनः ॥ १४ ॥
मरुद्भिरेकान्ततुषारवर्षिभिमनोहरन्तीषु यदीयभूमिषु ।
नवाभिसारेऽप्यधरं मृगीदृशां विमुक्तशकं व्रणयन्ति कामिनः ॥१५॥
कठोरसौरातपतापविद्वत्तुषारवापीसलिलैकजन्मनाम् ।
सरोरुहाणां किमिवोपहन्यते हिमेषु वा यत्र हिमात्ययेषु वा ॥ १६ ॥
हिमस्पृशां यन्मरुतां प्रसादतो विलासिनां मुग्धवधूरतेष्वपि ।
न शिक्षणीयाजनि जातु सीत्कृतिर्न चार्थनीया परिरम्भसान्द्रता॥१७॥
पुराणवेणुव्यतिषङ्गसंभवं दवं यदीयाः शमयन्ति तत्क्षणम् ।
तदचिरूष्मग्लपितद्रवीभवत्तुषारसङ्घातमहाम्बुवृष्टयः ॥ १८ ॥
१८ काव्यमाला। द्रवीभवद्भिः कर्चिदातपोष्मणां कचिच्च विद्याधरगानविद्यया । हिमस्वरूपैरितरैश्च यत्तटैः स्वयं भवेदेव न पञ्चषैर्दिनैः ॥ ५९॥ तपोविशुद्धे हृदये तपस्विनामणि क्षणादूर्ध्वमवस्थितो न यः। स एव यत्सानुविहारकौतुकी सदा महेशो यदि किं ततोऽधिकम्॥६० खतन्त्रखेलनिरिकन्धकाकरस्वयंसहावर्जितमुग्धपल्लवाः । मुनीन्द्रवृन्दाढतमूलपांसवो जयन्ति धन्याः किल यत्र वीरुधः॥६१॥ परिभ्रमद्गन्धमृगाधिवासितं प्रकीर्णकल्पद्रुमपुष्पमप्यधः । शिलातलं स्निग्धविशालशीतलं सुखेन यत्राधिवसन्ति किंनराः ॥१२॥ यदीयनीहारकणानितस्ततः किरन्मृगाङ्कः प्रथते सुधाकरः । यदीयगण्डोपल एवं कश्चन प्रयाति कैलास इति स्थिरं यशः॥१३॥ स यक्षविद्याधरकिंनराप्सरःफणीन्द्रगन्धर्वनिरन्तरे पथि । व्रजन्नतिक्रम्य तुषारभूधरं जगाम कैलासगिरिं जनेश्वरः ॥ ६४ ॥ महेशभूषाहिकुलानि कन्दरे चिरोपरोधात्क्षुधितानि रक्षितुम् । समीरणं सेवितुमागतं बलान्नयन्ति यत्र प्रमथाः कृपालवः ॥ १५ ॥ विशङ्कलङ्केशभुजोपकम्पिताद्यतो विकीर्णा रजतोपला इव । गणा जयन्ति प्रलयान्तपावकज्वलत्रिलोकीभसितावगुण्ठिताः ॥१६॥ तटेषु तत्तज्जगदण्डमण्डलीसमाहृतब्रह्मकरोटिकोटिषु । चरन्विधिर्यत्र न जातु शोचति स्मरन्नपि वं किल पञ्चमं शिरः॥६७॥ प्रवेशिताः स्फाटिककन्दरोदरं नवाङ्गना यत्कटकेषु किंनरैः । अपत्रपन्ते बहिरासिताः सखीरवेक्ष्य नैर्मल्यवशादतिस्फुटम् ।। ६८ ॥ बिभर्ति यः स्फाटिकराजतीस्तटीः कुटुम्बिनो यत्र धनेश्वरादयः । समः समृध्या' क इवास्य वर्तते प्रभुन भिक्षामटति खयं यदि ॥१९॥ शरार्क धूरवतीषु यत्तटे महेशपुष्पोपवनीषु रक्षिणः । खतः प्ररूढामपि जातु केतकी न हि क्षमन्ते विषवल्लरीमिव ॥ ७०॥ सुरसिद्धतापसगतागतोचितां परिहृत्य तत्र पदवीं भगीरथः ।
४ सर्गः]
गङ्गावतरणम् ।
अधितिष्ठति स तटमस्य पावनं
हृदयं च तस्य पुनरिन्दुशेखरः ॥ ७१ ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठबतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध-
निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षितपौत्रेण
नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते
गङ्गावतरणे गङ्गाहंकारो नाम तृतीयः सर्ग:
.
।
चतुर्थः सर्गः।
स बाह्यकरणग्रामसंविधानानुरोधिनीम् ।
आकृष्य मानसीं वृत्तिमाधत्त मदनान्तके ॥ १ ॥
इयता क्रमितुं शक्या मयेयमिति दर्शयन् ।
स तस्थौ भुवमाक्रम्य चरणाङ्गुष्ठरेखया ॥ २ ॥
बभौ तेन समुत्क्षिप्तो बाहुाघातलाञ्छितः ।
जित्वा तपोभिर्ब्रह्मर्षीजैत्रस्तम्भ इवोच्छ्रितः ॥ ३ ॥
स्वात्मानन्दसुधास्वादसुखितो वसुधेश्वरः ।
न फलेषु न मूलेषु नाप्सु च प्रीतिमानभूत् ॥ ४ ॥
सत्रौ जजाप दध्यौ च स संध्यावखिलास्वपि ।
कथाभिः कालकालस्य जजागर च शर्वरीः ॥ ५ ॥
तप्यमाने तथा तस्मिंस्तत्यजुः क्रमशो भयम् ।
क्षुद्रखखपदखामिदुर्विदग्धा दिवौकसः ॥ ६ ॥
षडङ्गमातृकामूर्तिषडध्वादिविभेदिना ।
न्यासजालेन नृपतिरङ्गमङ्गमशोधयत् ॥ ७ ॥
अनुसंधाय चण्डीशमन्तश्चण्डांशुमण्डले ।
पार्थिवः पञ्चषान्मासानुपासामास वासरे ॥ ८ ॥
अप्राकृतपरंज्योतिरभेदभ्यानशालिनः ।
तस्य दृष्टिपथे स्थातुं तत्रास महसां निधिः ॥ ९ ॥
अगृहीतोत्तरासङ्गमासीनं च तमन्तरे ।
परीक्षितुमिवाजग्मुर्दिवसा हिमसान्द्रिताः ॥ १० ॥
२०
काव्यमाला।
विना सर्शपथैः सान्त्वैविना व्याजैश्च कामिनाम् ।
अपि सान्द्रं परिष्वङ्गमन्वजानन्नवाङ्गनाः ॥ ११ ॥
गर्भेष्वाप्रपदीनानामवगुण्ठनवाससाम् ।
अशेत द्वन्द्वमस्पन्दमासक्तोरुभुजं मिथः ॥ १२ ॥
कञ्चुकाहरणातङ्ककातररणां मृगीदृशाम् ।
दयालु,मनो वायुर्ददौ रोमाञ्चकञ्चकम् ॥ १३ ॥
किं त्यक्तं युवभिर्धर्मे किं लब्धं चाधिकं हिमे । .
आनुकूल्यायशो लेभे चतुरस्तु हिमागमः ॥ १४ ॥
प्रकृत्या कुटिलो मारः पवनस्तुहिनाकरः ।
दीर्घाश्च रात्रयो हन्त जीवन्तु पथिकाः कथम् ॥ १५ ॥
संश्रान्तो हिमवर्षेण शङ्के मकरकेतनः ।
उपारुरोह नारीणामूष्मलं कुचमण्डलम् ॥ १६ ॥
फालानलशिखोत्तप्तपाणिपद्मा कपर्दिनः ।
कथमप्यतिचक्राम हिमं हैमवती तदा ॥ १७ ॥
ध्वंस्यमानेषु बाणेषु भज्यमाने च कार्मुके।
भुवनान्यजयत्रीणि भ्रूक्षेपादेव मन्मथः ॥ १८ ॥
वसन्त इव हेमन्तो वशीचक्रे जगत्रयम् ।
न वसन्तः स्वतः किंतु यः सरेण कटाक्षितः ॥ १९ ॥
मम्रः कुन्देषु ते भृङ्गा यैाप्तमखिलं वनम् ।
कस्य किं वा न पर्याप्तं कालो यधुपतिष्ठते ॥ २० ॥
द्वौ हि तेजखिनौ लोके सविता स च पार्थिवः ।
तस्थतुस्तौ विभज्येव दक्षिणोत्तरयोर्दिशोः ॥ २१ ॥
खस्तिकस्थगितोरोजाः सीत्कारतरलाधराः ।
स्नानान्तेषु स्त्रियो मुग्धा यूनामाचकृषुर्मनः ॥ २२ ॥
पतितव्यं हिमै म स्नातव्यं नाम च द्विजैः ।
किं कुर्मः कृतवानेवं स विधिर्नोपलभ्यते ॥ २३ ॥
सर्गः] गङ्गावतरणम् । २१ धूलीधूसरितादर्शदुर्दर्श रविमण्डलम् । प्रत्येतुमक्षमाश्चक्रा न मिथः समगंसत ॥ २४ ॥ निष्पभो यद्रविर्जज्ञे यच्च धूसरिता दिशः । उत्पातेनेव तेनासीत्प्रलयः पान्थयोषिताम् ॥ २५ ॥ निदाघ एव यत्रत्यः परत्र शिशिरायते । तत्रैव यदि हेमन्तः स कथं नास्तु पर्वतः ॥ २६ ॥ प्राक्तनेषु तुषारेषु प्रत्यग्रं पतितं हिमम् । निश्चीयते स्म मृदुतादृश्यैविद्याधरीपदैः ॥ २७ ॥ प्रमथा भसितारब्धसर्वाङ्गीणावगुण्ठनाः । पाणिस्थं देवदेवस्य पर्युपासत पावकम् ॥ २८ ॥ अमुक्ताहेमनेपथ्यमङ्गरागं च कौङ्कुमम् । किंचित्तत्रान्वमन्यन्त कुबेरान्तःपुरस्त्रियः ॥ २९ ॥ आकृष्टयोः कुमाराभ्यामैभवैयाघ्रचर्मणोः । संभ्रान्ता पतिमावत्रे सव्यानाग्रेण पार्वती ॥ ३० ॥ अवमुच्य वतंसेन्दुमवरोप्याहिभूषणम् । उद्घाट्य चाक्षि तार्तीयमीशेनापि स्थितं तदा ॥ ३१ ॥ नृपतिस्त्रिजगद्दाहनिदानेन तपोऽग्निना । हेमन्तं हिमवन्तं वा नाचिन्तयत चेतसा ॥ ३२॥ त्रिदशास्तच्छिरोरन्ध्रतपोनिज्वालतापिताः । सस्मरुश्चाक्षुषं ज्योतिः संवर्तेषु कपर्दिनः ॥ ३३ ॥ परिपाकोन्मुखे तस्य प्रायस्तपसि दारुणे । प्रसन्नानि निमित्तानि प्रादुरासन्पदेपदे ॥ ३४ ॥ विकचाम्भोरुहां वापी विमलं चेन्दुमण्डलम् । खानेषु पश्यत्राजर्षिः सिद्धं मन्त्रममन्यत ॥ ३५ ॥ कल्पान्तोद्धान्तजीमूतगर्जितस्निग्धमांसलः । संध्यासु शुश्रुवे तेन शंभोर्डमरुकध्वनिः ॥ ३६ ॥ १. तपो जग्वाल.
२२
काव्यमाला।
.'
चण्डीशताण्डवालोकसंभ्रान्तानमृतान्धसः ।
ददर्श दिवि संध्यासु क्षणत्विष इव क्षणम् ॥ ३७ ॥
प्रत्यहं प्रमथास्तत्र पश्यन्तस्तं तिरोहिताः ।
जातु विज्ञापयामासुश्चरितं तस्य शूलिनः ॥ ३८ ॥
तावतस्तपस्ने दातुमपश्यन्नुचितं फलम् ।
हरः प्रतस्थे तं द्रष्टुमथमर्ण इव ह्रिया ॥ ३९ ॥
उपरि न्यस्य संव्यानमुत्सार्य वलयान्पुरः ।
आन्तःपुरगृहद्वारमम्बिकैव करं ददौ ॥ ४० ॥
अचिन्तितोऽपनिष्क्रान्तमालक्ष्य मदनान्तकम् ।
किमेतदिति संभ्रान्ताः परिवत्रुस्ततो गणाः ॥ ४१ ॥
विनयानम्रजम्भारिविशोधितपुरं पुरः ।
अतिक्रम्यालयद्वारमारुरोह वृष हरः ॥ ४२ ॥
अम्बापि संभ्रमासन्नसखीदत्तकरा शनैः।
पादारविन्दविन्यासैः पावयामास मेदिनीम् ॥ ४३ ॥
कामं शिक्षितसंचारा कठोरे हृदि मे यतः।
अतः कथंचिदाकामदत्रिभ्यामेव सा भुवम् ॥ ४४ ॥
चन्द्रचूडकरालम्बसंभृतारुण्यसंपदम् ।
अम्बिकायाः करं मन्दमाममर्श सखीजनः ॥ ४५ ॥
देवोऽपि स्वयमारुह्य वृषभं वृषभध्वजः ।
देव्या विलम्बमानाया दृष्टिमध्वनि संदधे ॥ ४६ ॥
क्रुध्यन्नन्दिकरोद्भूतवेत्रपातपलायिताः ।
विजहुः सरणिं गौर्या विनीतास्तत्र देवताः ॥ ४७ ॥
पद्भ्यामेवोपसर्पन्त्याः पार्वत्याः पथि शंकरः ।
कटाक्षैविचकारेव कहारेन्दीवरास्तरम् ॥ ४८ ॥
व्यजनैः प्रान्तविन्यस्तकस्तूरीचन्द्रगन्धिभिः ।
मातरं तामसेवन्त कौबेरान्तःपुरस्त्रियः ॥ ४९ ॥
४ सर्गः]
गङ्गावतरणम् ।
सान्द्रस्तनपरीणाहसंभुनाय पदेपदे
भद्राण्याशास्त मध्याय पार्वत्याः प्रणयी तदा ॥ ५० ॥
आयतोहीविकाखिन्नानमरवेत्रदूरितान् ।
कटाक्षैः सानुजग्राह करुणासारसान्द्रितैः ॥५१॥
अनालम्ब्य सखीहस्तमनाचम्य च पादुकाम् ।
संनिकर्ष महेशस्य सा जगाम शनैः शनैः ॥ १२ ॥
कृत्वा सव्यपदं लक्ष्म्याः कुञ्चिते जानुमण्डले ।
आरुरोह वृषं शंभोर्हस्तमालम्ब्य सा ततः ॥ ५३ ॥
आरोपयन्निव खैरमालिलिङ्ग शिवः शिवाम् ।
इति संकथयन्तीषु सखीष्वैक्षिष्ट सान्यतः ॥ १४ ॥
पाणिभ्रमितशूलाग्रपर्यस्तजलदाः शिवम् ।
शतमन्वगमन्त्रुद्राः शतरुद्रीयसंस्कृताः ॥ १५ ॥
कुतः प्रतिष्ठते देवः कुत्र चेति गणास्तदा ।
पाणिभिनयनान्तैश्च पप्रच्छुरितरेतरम् ॥ ५६ ॥
भुग्ने भारेण भक्त्या च पुण्ये शिरसि नन्दिनः ।
वाममास्थापयवाहुं वाहनस्थो महेश्वरः ॥ १७ ॥
वाहनारोहवित्रस्तकपर्दान्तविलम्बितम् ।
चन्द्रं गृहीतुमुद्दाहुः स्कन्दो व्यचरदन्तिके ॥ १८ ॥
प्रागलब्धं विचित्यापि पादं मौलिं च शूलिनः ।
पश्यन्तौ
जग्मतुः पार्श्व चक्रायुधचतुर्मुखौ ॥ १९॥
अन्तकान्धककन्दर्पकालकूटादिनिग्रहम् ।
गायन्तो मधुरं तस्य गन्धर्वा ययुरप्रतः ॥१०॥
प्रशान्तं पावनं तत्र प्राप्य राज्ञस्तपोवनम् ।
तस्थौ तपस्यतस्तस्य पुरतः पुरशासनः ॥ ६१ ॥
स च तत्रान्तरे प्रातः स्नातो मन्दाकिनीजले ।
दध्यौ चिरमुमाकान्तं दहराकाशमण्डले ॥ १२॥
१४
OC
काव्यमाला।
उन्मीलयन्शौ किंचित्तेन कोलाहलेन सः ।
अप्राकृतं महः किंचिदद्राक्षीदग्रतो दृशोः ॥ १३ ॥
तस्यान्तः पुरुष कंचित्तरूणेन्दुशिखामणिम् ।
सान्द्रीभूतशरच्चन्द्रचन्द्रिकाभं ददर्श सः ॥ ६४ ॥
निर्बन्धक्लान्तभूषाहिनिर्दयाघ्रातमूच्छितम् ।
बोधयन्तै पुनः स्कन्दं चूडाचन्द्रसुधाकणैः ॥ ६५ ॥
हृदयं वीतमालिन्यं वाचमप्यमृतोर्मिलाम् ।
अधिष्ठातुमशक्तेन श्वेलेनाक्रान्तकंधरम् ॥ ६६ ॥
दुर्दान्तत्रिपुरप्लोषवृत्तान्तज्ञैः सुधाशनैः ।
सातकं दृष्टवदनं बहुमानस्मितेष्वपि ॥ ६७ ॥
कपालानि शिरःस्थानि स्कन्धे प्रत्येकशी विधेः।
दत्त्वा तदीयजिज्ञासौ गणेशे कुपितं मृषा ॥ ६८ ॥
हेरम्बकंधरालम्बिदूर्वाग्रमासकौतुकात् ।
गन्तुमुन्नमितग्रीवं गृहन्तमसकृन्मृगम् ॥ ६९ ॥
अस्मिन्दयस्व रक्षेमममुं पश्येति नाकिनाम् ।
आवेदयन्त्या कार्याणि हैमवत्याप्यनूषितम् ॥ ७० ॥
अथ दृष्ट्वा स देवेशमदृष्टं निगमैरपि ।
साध्वसाद्भुतसंभ्रान्तो न किंचित्प्रत्यपद्यत ॥ ७१ ॥
ततः प्रदक्षिणीकृत्य तन्मयं सपरिच्छदम् ।
मुहुः पस्पर्श धन्येन मूर्धा तस्याङ्ग्रिपङ्कजम् ॥ ७२ ॥
आत्माः फलपुष्पाबैरानर्च स महेश्वरम् ।
तदर्यदि यष्टव्यं कस्तमाराधयिष्यति ॥ ७३ ॥
क्वायं व शंभुस्तदपि स्तोतुं समुपचक्रमे ।
न हि वस्तुकृता प्रीतिः स्वशक्तिमनुरुध्यते ॥ ७४ ॥
त्वं गतिस्त्वन्मयं विश्वमिति साधारणी स्तुतिः ।
अस्तुतिस्त्वयि युक्ता तदवाङ्मनसगोचरे ॥ ७५ ॥
४ सर्गः]
गङ्गावतरणम् ।
२६
गुणं सन्तमसन्तं वा कीर्तयेद्यदि सा स्तुतिः ।
गृह्णन्गुणैकदेशं ते क इव स्तावको जनः ॥ ७६ ॥
सर्वज्ञ शंकराभिख्यासमावेदितवैभवात् ।
त्वहते कि परब्रह्म सच्चिदानन्दलक्षणम् ॥ ७७ ॥
त्वत्प्रसूतो हरिवित्रय्यन्तैरुपवर्ण्यते ।
तावत्प्रभाव भवतस्तर्कयन्ति मनीषिणः ॥ ७८ ॥
त्रिमूर्तिजननी तुर्या या मूर्तिर्विदितास्ति सा ।
यदि ते यदि वान्यस्य तन्मे ब्रह्मास्ति किं क्षतम् ॥ ७९ ॥
धर्मधर्मिभिदापन्नं चैतन्यं यदि मायया ।
जातौ तदेव हि युवां जगदादिमदंपती ॥ ८० ॥
कैवल्योपनिषद्भुष्टं यदिदं रूपमीश ते ।
संनिधत्तां तदा देव संस्मरामि यदा यदा ॥ ८१ ॥
इति तुर्यन्तसिद्धान्तनिष्कर्षामृतवर्षिणा ।
वाङ्मुखेन स्तुतस्तेन व्याजहारेदमीश्वरः ॥ ८२ ॥
यत्तप्तवानसि तपो यच्चैवं भक्तिमानसि ।
ततः प्रीतिजुषो मत्तस्तात कासितमर्थ्यताम् ॥ ८३ ॥
इत्याज्ञापयति स्वामिन्येतदाह भगीरथः ।
संभ्रमामोदसंधाधस्तब्धगद्गदया गिरा ॥ ८४ ॥
आगतोऽसि मदर्थ यदागसोऽस्यैव शान्तये ।
नालं मम तपः सर्व नाथ केनार्थये वरम् ॥ ८५ ॥
तथाप्यद्य त्वदीयाङ्गिसाक्षात्कारोपसंभृतैः ।
तपोभिरर्थये तात काशितं मे त्वदाज्ञया ॥८६ ॥
तपसाराधिता गङ्गा याचितावतरा मया ।
स्वाम्बुवेगसहं कंचित्प्रत्ययाचत मां पुनः ॥ ८७ ॥
अस्मिन्ननन्यसाध्येऽर्थे व्यापर्तुमुचितं तव ।
अत्रोदाहरणं मुख्यं हालाहलविनिग्रहः ॥ ८ ॥
२६
काव्यमाला ।
आयासमीदृशं यत्त्वमर्थितोऽसि जगद्गुरो ।
तन्मम क्षम्यतां बाल्यचापल्यमिति चानमत् ॥ ८९॥
अभिषेकप्रियाणां नः फ्रिामेतत्कृतं त्वया ।
नापराद्धं पुनः किंचिदित्युवाच तमीश्वरः ॥ ९० ॥
अभिधाय कृषात्तूर्णमवरुप महेश्वरः ।
निषसाद पुरस्तस्य निर्मले स्फाटिके तले ॥ ९१ ॥
आवध्य चर्म वैयाघ्रमपसार्य च बालकौ ।
सावष्टम्भः क्षितावास्त सज्जीभूतो वृषध्वजः ॥ ९२ ॥
सावलेपनमःसिन्धुसंनिपातोचितं प्रभोः ।
नन्दी विस्त्रंसयामास नागेन्द्रग्रथिता जटाः ॥ ९३ ॥
भगिनीसमागमसमुत्सुका शिवा
प्रमथास्तदद्भुतदिदृक्षयाकुलाः ।
स्वमनोरथोपगमसान्द्रकौतुको
नृपतिश्च तं निभृतमक्षिभिः पपुः ॥ ९४ ॥
बद्धनस्तकपर्दकन्दरपतद्भोगीन्द्रचन्द्राङ्कुर-
क्षेपव्यापृतनन्दिदृष्टिवलनव्याधूतदिग्भित्तयः ।
सावष्टम्भमहेशसंभ्रमपरित्रस्यत्रिलोकस्तुताः
पारे मद्वचसाममर्त्यतटिनीसंपातपूर्वक्षणाः ॥ ९५ ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध-
निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षितपौत्रेण
नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते
गङ्गावतरणे शंकरसाक्षात्कारो नाम चतुर्थः सर्गः ।
पञ्चमः सर्गः
प्रान्तसंक्रमिततारया दृशा पश्यति त्रिपुरशासने ततः ।
अस्मरत्सुरनदीमहंकृतां ध्यानयोगविधिना भगीरथः ॥ १॥
संभृता मनसि सा ततः क्षणात्संभ्रमेण महताकुलीकृता ।
सर्वतश्चिरनिरोधलज्जितं सजतामनयदूर्मिमण्डलम् ॥ २ ॥
२७
६ सर्गः]
गङ्गावतरणम् ।
सा निवेदयितुमात्मनिर्गमं सन्निकर्षमुपजग्मुषी विधेः ।
व्याजहार विनयावधीरणव्यक्तगर्वगरिमोष्मला गिरः ॥ ३ ॥
अस्ति नन्वयमयुग्मलोचनः स्फाटिकाचलचरो वनेचरः ।
धर्तुमिच्छति स नाम मामकं त्वत्परीक्षितमहारयं पयः ॥ ४ ॥
स प्रकामजरठो गुरुः पिता सा च मुग्धहृदया यवीयसी।
व्याहतो यदि न मे समुद्यमः कः शिवः क इव राजतो गिरिः ॥५॥
त्वद्गृहे स्थितवती चिरादहं त्वामनेन परितोषये ततः ।
त्वच्छिरोलवनकर्म दुर्मदं संनिपात्य गिरिशं रसातले ॥ ६ ॥
सावलेपनिपतन्मदूर्मितासंप्लवैककवलीकृतो हरः ।
संगतः पयसि शङ्खशुक्तिभिर्नन्दिना ननु गवेषयिष्यते ॥ ७ ॥
कालकूटमिव मन्यते शिवो मामकं प्रकृतिदुर्मदं पयः ।
ब्रूहि तावदधुनापि मेति तं मा विषीदतु यवीयसी पुनः ॥ ८ ॥
शङ्कितो जगदकाण्डविप्लवाद्याचते यदि भवानथापि माम् ।
तं मदम्बुवहनातिमानिनं कंचिदेव शमयामि नापरम् ॥ ९ ॥
कर्णयोर्यदि पतेयुरन्ततो गर्जितानि चलतां मदम्भसाम् ।
तत्त्वतः कथय किं भवेच्छिवस्त्वं हि तन्महिमलेशवेदिता ॥ १० ॥
इत्थमुद्धतमुदीर्य सा विधि संगतानपि सुरानभाषत ।
मा परित्रसत मामकं पयो लज्जते बलपराक्रमाय वः ॥ ११ ॥
यात यूयमपयात च क्षणं देवता निजनिजालयांस्ततः ।
कौतुकं तु यदि वोऽस्ति वीक्षितुं कोणमावसत निर्भया दिशाम् ॥१२॥
त्रासिताः किल तयैवमुक्तिभिः पार्थमापुरमराः पिनाकिनः ।
कस्य नाम न तथाविधा गिरः क्षोभयेयुरपि चाश्मन मनः ॥ १३ ॥
उद्यतान्गदितुमापगागिरः स्तम्भितानथ निजेन तेजसा ।।
आकलय्य नयनाञ्चलैः सुरानन्तरस्मयत चन्द्रशेखरः ॥ १४ ॥
संनिवृत्य सदसस्ततो बहिः क्रोधमन्थरविसंस्फुटैः पदैः ।
आविवेश सरसीं ततो नु तामापगापि जगदाक्रमोद्यता ॥ १५ ॥
२८
काव्यमाला।
स्थापिताः कमलर्जन्मनो पुरा सेतवः श्रुतिमयाः समन्ततः ।
संनिपत्य सकृदवे सप्लुतैरूमिभिस्त्वरितमुल्ललविरे ॥ १६ ॥
प्राणिनां प्रतियुगान्तमर्णवैर्यामशल्पयत पद्मभूर्दशाम् ।
सैव तस्य फलिता तदा तया कर्मणः क इव नाश्नुते फलम् ॥ १७ ॥
प्राप्य जानुमतिलञ्चय नाभिमप्यम्भसि क्षणमथास्य संमिते ।
क्रन्दतामशरणं तपखिनां शुश्रुवे कलकलान्वितं वचः ॥ १८ ॥
सर्वतः सुरतरङ्गिणीजलैः संप्लुते सदसि तत्र वेधसः ।
प्राणसंयमनशिक्षया परं मज्जिता न कतिचिन्महर्षयः ॥ १९ ॥
वक्रसौधवलभीगता विधेः शारदापि सहसोत्थिता सती ।
उद्गृहीतकरपुस्तका भयादक्षिपयुगमिव क्षणं क्षणम् ॥ २० ॥
विश्वसर्गचतुरोऽपि पद्मभून प्रतिव्यधित तत्र किंचन ।
स्वैरमस्तु कुशलः परापदि वापदि त्वकुशलोऽखिलो जनः ॥ २१ ॥
सत्यलोककुहरक्षणासिकासंकटा क्षमतयेव तत्क्षणम् ।
निर्जगाम परितस्ततो बहिस्तन्निसर्गनिरवग्रहं पयः ॥ २२ ॥
गाधभाजि गतविक्रियं जले सस्मितं तदनु नाभिमात्रके ।
सोक्तिगुम्फमपि दर्शितस्थले वक्रमण्डलमधाच्चतुर्मुखः ॥ २३ ॥
तारिता वयमिमां महापदं तावकादिह तपोबलादिति ।
स स्तुतः परिजनेन लज्जितः कः स्तुतेरपि वधोऽभिषङ्गिणः ॥ २४ ॥
फेनिलाः सलिलशोषरेखकाः सर्वतः सदनभित्तिपर्वसु ।
आयतश्वसितमानमन्मुखं पश्यति स्म स दृशातिदीनया ॥ २५ ॥
नाजपं किमिति मन्त्रमानलं नासृजं किमिति चाभितस्तटीः ।
इत्यखिद्यत विधिगते जले सा किल प्रकृतिरग्रजन्मनाम् ॥ २६ ॥
आननैर्हसितबाष्पकबुरैरद्य जीवितमिवेति वादिभिः ।
दोर्भिरप्यधिकदूरचालितैरालिलिङ्ग मुनिमण्डलं मिथः ॥ २७ ॥
सत्यलोकमपहाय निश्चिते गन्तुमिन्द्रपुरमभ्रगङ्गया ।
धावयन्पथि जनान्पुरो ययौ वेत्रपाणिरिव वीचिमारुतः ॥ २८ ॥
२ ९ ५ सर्गः] गङ्गावतरणम् । पाकशासनपुराभये पदे खेच्छया विहरतां सुधान्धसाम् । आगतं प्रलयमाचचक्षिरे जावीजलझलज्झला रवाः ॥ २९ ॥ संभ्रमोपगतचारशंसितवर्गसिन्धुपत्नं पदे पदे । सौधशृङ्गवलभीनिवेशितखस्वमूलधनमप्सरोजनैः ॥ ३० ॥ मन्दुरोदरविमुक्तविद्रवत्सैन्धवानुचरमादिमण्डलम् । दिक्तटोचलितजाचिकामरस्वीकृताभ्रककुलं गृहे गृहे ॥ ३१ ॥ निर्गतत्रिदशनाथदर्शनस्तब्धविद्रवदनीकिनीभटम् । इत्थमाकुलमतर्कितागता सा चकार नगरं शचीपतेः ॥ ३२ ॥ (त्रिभिस्तिलकम्) संपपात हरिनीलदन्तुरे वैजयन्तशिखरे समन्ततः । सा ततो विदधतीव संस्तवं मस्तके निपतितुं महेशितुः ॥ ३३ ॥ सर्वतः प्रचलितैः कणात्मना सौधशृङ्गपतितैस्तदम्बुभिः । संगतो न समलक्ष्यत क्षणं निर्मलः सुरपतेर्मदावलः ॥ ३४ ॥ वैजयन्तविनिपातवेगतो दूरमुत्पतति तत्पयोभरे । छत्रगर्भनिहितेव सा....."नाजनि क्वचिदपि क्षतोदरा ॥ ३५ ॥ प्राप्य सानुपदमेव मेदिनीं यं यमम्भसि निमज्जयिष्यति । तं तमत्र विनिधातुमेव किं त्रायते स्म निपुणं त्रिविष्टपम् ॥ ३६ ॥ सा ततः प्रचलिसा समन्ततो व्यानशे निरवशेषमम्बरम् । संविभक्तपरभागसुन्दरीचन्द्रिकेव शरदागमोज्ज्वला ॥ ३७ ।। सा दिवि प्रमथनाथकुन्तले संभ्रमद्विमलवीचिमण्डला । तय॑ते स्म चतुरैः सुधाशनैर्मालिकेव नवमल्लिकामयी ॥ ३८ ॥ व्योनि तल्लहरिवल्लरीहता ये सुराः सुरगजाश्च केचुन । ते तदीयजलजन्तवो न चेत्को नरः पयसि कश्च सिन्धुरः ॥ ३९ ॥ तज्जलभ्रमिभिराहितभ्रमा नन्दनीपवनपादपास्तदा । संप्रहर्तुमसमेक्षणं तया भ्रामिता "विरेजिरे ॥ ४० ॥ निमभागविनिपातसंभृता निस्तला रुरुचिरे जलभ्रमाः । गङ्गया निगमसेतुसंस्तवादार्जिताः प्रणकाण्डला इव ॥ ४१ ॥ इव" ३० काव्यमाला। आदिभिक्षुगृहिणी यवीयसी सा सभाजयितुमुद्यता दिवः । आजहार विविधानि भूषणान्यम्बराणि च महेन्द्रमन्दिरात् ॥ ४२ ॥ मुक्तदिव्यतरुपुष्पवृष्टयः श्लाघनोक्तिमुखराश्च सर्वतः । आहृता लहरिमारुतैस्तथा सिद्धचारणगणाः सहाययुः ॥ ४३ ॥ उद्गताभिरितरेतराहता(ते)रूमिभिः सुरगणः समुच्छ्रितः । आसदत्सदनमेव वेधसः को न तच्छ्यति तज्जलाप्लुतः ॥ ४४ ॥ वीचिवेगपरितुष्टसंपतत्पाकशासनपताकिनीसखी । यो मुद्यतवतीव वाहिनी सा जगाम सविधं महेशितुः ॥ ४५ ॥ आ विरिञ्चिगृहमा हिमाचलं निर्मला रुरुचिरे तदूर्मयः । स्वर्वधूभिरभितो दिदृक्षया पातिता इव कटाक्षरेखिकाः ॥ ४६ ॥ प्राप्य शंकरकपर्दकन्दरं संभ्रमन्निह तर्मिमारुतः । क्रोशति म सुरसिन्धुमुद्यतां मा पतेति विनिवारयन्निव ॥ ४७ ॥ सानुरागबहुमानमानतां सा शिवामभिकपार्श्ववर्तिनीम् । ऐकया किल तरङ्गरेखया पाणिनेव मृदुलं परामृशत् ॥ ४८ ।। तत्प्रवाहमुखवल्गदूमिकाशीर्णशीकरसमुत्थितास्तदा । ताडिता इव महोपलैस्ततो दूरदूरममरा विदुद्रुवुः ॥ ४९ ॥ कोपलेशपरुपैरवज्ञया कूणितैरपि विलोचनाञ्चलैः । पश्यति स्म पतनोन्मुखी नदीमीषदुन्नमितकन्धरो हरः ॥ ५० ॥ यावदानमयते यथापुरं द्रष्टुमुन्नमितमीश्वरः शिरः । तावदेव निपपात तत्र सा विस्मयाय मिषतां दिवौकसाम् ॥ ११ ॥ शापकोपकलुषेव सा विधि संनिमज्य सुचिरं विनिर्गता । तत्कपालमपि शांभवे शिरस्याजघान परुषाभिरूमिभिः ॥ १२ ॥ तस्य पञ्चमशिरोनिपातनादर्धदुर्मरणमापपात यत् । पातकं परिजहार तद्भवं पावनेन पयसा वियन्नदी ॥ १३ ॥ तजवादुपहृतं दिवौकसां तस्य मूर्धनि विमानमण्डलम् । वेत्रदण्डवलनेन नन्दिनो दिङ्मुखेषु निपपात दूरतः ॥ १४ ॥ .
५ सर्गः]
गङ्गावतरणम् ।
केयमायति मस्तकं गुरोस्तद्सेय निखिलाममूमिति ।
किंचिदुच्छ्रितकरे गजानने हुंकृतान्यकृत सत्रपं शिवः ॥ ५५ ॥
वीचिमारुतवितीर्णपारणामांसलाः शिवकपर्दपन्नगाः ।
संप्रसार्य फणमापदस्ततः संररक्षुरमृतांशुरेखिकाम् ॥ १६ ॥
अप्रतयंमसमीक्षितावधिं तं कपर्दवलयं पिनाकिनः ।
आपगा दिविषदामवाङ्मुखी पन्नगीव कलशं समाविशत् ॥ १७ ॥
तज्जटासु विशती वियन्नदी सा कियत्पथमदृश्यतामरैः ।
शुश्रुवे तदनु तज्जलारवो यस्य किंचिदपलभ्यते ततः ॥ १८ ॥
तज्जटापटलकन्दरोदरखीकृताः सुरनदीमहोर्मयः ।
लेशतोऽपि किल नाललक्षिरे सत्क्रिया इव कृतघ्नगोचराः ॥ १९ ॥
मूर्ध्नि तस्य मुहुराहितभ्रमा प्राप सा न पदवी निवर्तितुम् ।
दुर्लभं ननु जग" देहिनां तं प्रविश्य विनिवर्तनं पुनः ॥ १० ॥
अभ्यषिञ्चदमरापगा शिवं यच्छ्रुतिव्यतिकरानधैर्जलैः ।
तेन किं नु सुकृतेन भूयसा तत्क्षणाल्लयमवाप तत्र सा ॥ ६१ ।।
तापितासु नयनाग्निहेतिभिस्तज्जटासु पतितास्तदूर्मयः। ...
अम्भसां पुनरतिप्रबन्धतः क्लेदमात्रमदिशन्कथंचन ॥ १२ ॥
जातमित्यथ समीपवर्तिना नन्दिना सविनयं निवेदिते ।
सव्यपाणिविधुता जटाः पुनः
शंकरः परिबबन्ध पन्नगैः ॥ ६३ ॥
कपर्दममरापगासलिलसेकसान्द्रीकृतं
विधुन्वति सविभ्रमं पशुपतौ विकीर्णास्ततः ।
कचित्सुरपुरंध्रयः वचन यक्षविद्याधराः
कचिच्च परमर्षयः समवलन्त संमूच्छिताः ॥ ६४ ॥
यावयोमविटङ्कसंकुलचलत्कल्लोलकोलाहलै-
रायाभीमवधारयन्दुहितरं प्राप्तस्तुषाराचलः ।
तावत्पीतसुरापगोदकपुनर्व्याधूतसंदानिताः
संमृष्टाश्च पटाञ्चलेन शिवया शंभोरपश्यजटाः ॥ ६५ ॥
३२ काव्यमाला। अक्लिष्टपनगमजर्जरितेन्दुरेख- मव्यस्तकाशकितवस्तबकावतंसम् । शंभोरदृश्यत शिरः सुरसिन्धुमुक्त- दिव्यद्रुमप्रसवसौरभसारसान्द्रम् ॥ ६६ ॥ प्रणमदमरग्रामवस्तूयमानमहास्तव- स्तबकितगुहामूलाः कैलासशैलतटास्तदा । प्रशमितवियद्गङ्गाहंकारसंकथनात- प्रमथपरिषच्छन्नाः किं नाम नादधतेऽद्भुतम् ॥ ६७ ।। इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध- निर्वाहकमहावतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाच्चादीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते गङ्गावतरणे गङ्गावतारो नाम पञ्चमः सर्गः । षष्टः सर्गः। नतो जटाभिगिरिशस्य पीते तावत्यपि स्रोतसि देवसिन्धोः । भगीरथोऽपि प्रमथैः सहैव विसिस्मिये प्रागथ विव्यथे च ॥ १ ॥ तुष्टो विरिञ्चः प्रससाद शंभुर्लब्धा च गङ्गा फलितं किमेतैः । आराधनीयं वलयं जटानामज्ञासिषं येन न लेशतोऽपि ॥२॥ संध्यालु दिष्टया यदि नृत्यतोऽस्य संशीर्य या कापि जटापतिष्यत् । कल्पान्तसंभेददुरुत्तरापि सप्तार्णवी केव तदाभविष्यत् ॥ ३ ॥ आभाष्य गङ्गामवतार्य तामप्यासादिता येन न कार्यसिद्धिः । सोऽहं विलज्जः पुनरद्य तस्याः संजीवनायैव कथं यतिष्ये ॥ ४ ॥ निर्विद्य किंचिन्नृपतिस्तदैवं धैर्य परं धारयति स्म भूयः । नायं गुणोऽस्य प्रकृतिर्यदेषा चुक्षोभ किंचिद्यदसौ स दोषः ॥ ५ ॥ समानयेयं पुनरभ्रगङ्गां संपादयेयं मदिवापरां ताम् । तदस्ति किं यत्तपसामसाध्यमिति प्रपेदे पुनरिन्दुमौलिम् ॥ ६ ॥ प्रसादयामास भगीरथस्तं वाग्भिः पुरेवात्वरितो महेशम् । १. 'वाकू पुरेवात्वरितो महेशम्' इति मातृकायाम्.
६ सर्गः गङ्गावतरणम् ३३ आद्यं विदुः साधनमर्थसिद्धरसंभ्रमः कार्यविपर्ययेऽपि ॥ ७ ॥ कल्पावसानेषु चतुर्दशापि जगन्ति यत्र त्वयि संविशन्ति । तत्रैकवेधोगृहदीर्घिकेयं लीना वरकी यदि का स्तुतिस्ते ॥ ८ ॥ कियन्ति पीतानि विधेः कपालैः कियन्ति वेगादवनौ निपेतुः । कियन्ति केशेष्वपि लिलियरे ते गोदकानीति कुतः स्मयस्ते ॥ ९॥ दिष्टया निपीता भवता नदीयं शत्त्या न तस्यास्त्वयि कः प्रसङ्गः। शङ्खाम्बु दत्तं कियदेव भक्तैः सहस्रधारं ननु मन्यसे त्वम् ॥ १० ॥ सह्यानि चूडोरगफूत्कृतानि सह्याश्च गौरीचरणप्रहाराः । तज्जानती नाथ जटापदे ते तस्थौ न गङ्गा स्वयमेव नूनम् ॥ ११ ॥ आस्तां हिमाद्रौ श्वशुरेऽनुवृत्तिरास्तां च भक्ते. मयि तेऽनुकम्पा । चण्डीश दृश्या भगिनीवियोगशङ्काकुला किं असताभ्रगङ्गात् ॥ १२ ॥ अस्त्वेवमासीद्यदि ते कपर्दिन्गर्भो जगद्भिस्त्रिभिरप्यपूर्णः । मूर्धापि किं ते भवितव्यमेव गङ्गापि यस्य स्नपनाय नालम् ॥ १३ ॥ अभ्यर्थये त्वामथवा न गङ्गां कस्त्वं गृहीतुं पुनरुज्झितुं वा । स्तोष्यामि ता एव जटास्त्वदीया याभिर्निपीता कणवन्नदी सा ॥१४॥ जटा नमो वश्विरसंप्ररूढां रुद्धा पिपासामियती स्थिताभिः । युष्माभिरालिह्यत नान्तिकेऽपि दिष्टया पयोमण्डनिमोऽयमिन्दुः॥ १५॥ जटा ललाटानलतापितानां पानोदकं किं नु वियन्नदी वः । यच्च न्यगीर्यन्त पदेपदेऽपि पयांसि तस्याः स किमपदंशः ॥ १६ ॥ पीतं पयो बहिति मा बिभीत भविष्यथ स्वस्थतराः पुरेव । चण्डीशमत्तभ्रमणेन यूयं सद्यः समुद्वान्तजला दिनान्ते ॥ १७ ॥ भक्ताप्तिाभिः कियतीभिरद्भिः कालो महान्येन कपर्द नीतः । स त्वं समासाद्य च तावदम्बु भूयोऽपि किं प्रागिव भिक्षुकोऽभूः॥१८॥ इत्थं चमत्कारतरङ्गिताभिस्तुतोष तस्य स्तुतिभिर्महेशः। साहित्यमर्मावगमे क्षमेत सर्वज्ञमीशं तमृते परः कः ॥ १९ ॥ १. अस्मिन् श्लोके 'चण्डीश' इतीदं पदं न सम्यग्दृश्यते; मातृकायां तालपत्रे तत्प्रदेशस्य कृमिभिर्भक्षितलात.
३४ ३ ४ काव्यमाला। मोक्तुं नदीमानमनीनभिज्ञं मूर्धानमीशो नमयांबभूव । भक्तैकरक्षाव्रतदीक्षितानां दूरे स्वमानद्रढिमाभिमानः ॥ २० ॥ ये शुश्रुवुर्गर्वकिरो गिरः वास्तेप्नेव पश्यत्सु सुधाशनेषु । हीणेव निर्गन्तुमवाङ्मुखी सा ततोऽपतद्विन्दुसरस्युदारे ॥ २१ ॥ - तान्येव यादांसि महाभूतानि ता एव पर्याप्तदिशो लहर्यः । पेतुः कपर्दात्पुनरिन्दुमौलेगर्वोक्तयस्ताः क गता न विद्मः ॥ २२ ॥ तामापतन्तीमवनौ कपर्दादाकुञ्चितादीषदिवेन्दुमौलेः । दूरादमन्यन्त विलम्बमानां मालामिव द्रोणमयीममाः ॥ २३ ॥ सा तत्र सिन्धुः सरसि क्षरन्ती स्रोतांसि सप्त खयमाबभार । त्रिभिः प्रतीचीदिशमाववार त्रिभिश्च सा तैर्दिशमिन्द्रगुप्ताम् ॥ २४ ॥ आमन्त्र्य मूर्धा प्रणतेन शंभुमारुह्य च स्यन्दनमग्रतस्तम् । संप्रस्थितं पार्थिवमन्वयासीत्स्रोतः परं कीर्तिरिवास्य मूर्ता ॥ २५ ॥ गङ्गोर्मिभिर्मन्दमनुप्रवृत्तैर्गच्छन्पुरस्तादथ तच्छताङ्गः। आकृष्यमाणामलशृङ्खलस्य गन्धद्विपस्यापजहार शोभाम् ॥ २६ ॥ कंचित्पतन्ती कचिदुत्पतन्ती क्वचिच्च यान्ती चिरमुत्पथेन । सा तत्र चण्डीशजटावनान्ते संभ्रम्य दिङ्मोहवतीव रेजे ॥ २७ ॥ पादे पतन्ती परितः स्पृशन्ती गात्राणि पर्यङ्कतले लुठन्ती । कालाहोरुत्कलिकावतीव कामं गुरोः सा विजहार पार्श्वे ॥ २८ ॥ दृष्टानि कौमारविहारकाले दृश्यानि नीहारगिरेस्तटानि । द्रष्टुं चिरात्कौतुकशालिनीव सा सर्वतस्तत्र समारुरोह ॥ २९ ॥ ग्रस्तोदकायां मयि शंकरेण किं नाम मह्यं कृतवानसि त्वम् । नाहं सुता ते न गुरुर्मम त्वमिति क्रुधवाथ जहौ हिमाद्रिम् ॥ ३० ॥ अथाद्रिशृङ्गादवतीर्य भूमौ सा तत्र मन्दं सरिदुच्चलन्ती । आरब्धयज्ञस्य जगाम जोरभ्यर्णमालोकितुमादृतेव ॥ ३१ ॥ मौलौ निवासादमृतांशुमौलेर्दक्षाध्वरध्वंसदृढव्रतस्य । संक्रान्ततद्रीतिरिवाभ्रगङ्गा जहोरवध्वंसयति म यज्ञम् ॥ ३२ ॥ मदूर्मिवेगापहृताः सुराश्च कियत्कियद्यत्र हविर्लभन्ते ।
६ सर्गः] गङ्गावतरणम् । १६. किं तत्र नार्ह ग्रसितुं ममेति जग्राह सर्व हैविरश्रगङ्गा ॥ ३३ ॥ एतावदायस्यसि किं वृथैव जह्नो सकृन्मज जले मदीये । स्वर्ग च याहीत्यनुगृह्यतीव तं मजयामास तरंगिणी सा ॥ ३४ ॥ सुराः पुरोडाशचरुध्रुवाज्यस्वीकारसातत्यगतक्षुधोऽपि । उदन्यया केवलमर्दिताः किमाकर्णमुम्भः पपुरसिन्धोः ॥ ३५ ॥ पुरा पतन्ती मुकुटे पुरारेलेंभे फलं या किल दुर्विनीतेः। भूयोऽपि सैवापचकार जह्रोः कुतः प्रकृत्या कुटिलोपशाम्येत् ॥३६॥ यामापतन्ती महता रयेण संरभ्य तावज्जगृहे महेशः । तां लीलयैवापिबति स्म जगुस्ततोऽप्युदना ननु तं प्रपन्नाः ॥ ३७ ॥ क्वायं मुनिः क्षत्रकुलप्रसूतः क्व सा नदी शंभुजटैकधार्या । प्रस्तामुना सैव यदि क्षणेन केनाधिगम्यस्तपसां प्रभावः ॥ ३८ ॥ राजर्षिरेको विचकर्ष गङ्गामन्यः पुनस्तां कवलीचकार । ब्रह्मर्षिभिर्विग्धिगितः परं वा संन्यस्यतां किं नु तपोभिमानः ।। ३९ ॥ जातैव नीता विबुधैरियं द्यां शप्ता निरुद्धापि च वेधसा स्याम् (2) प्रस्ता शिवेनाप्यथ जळुना च कस्मिन्क्षणेऽजायत न प्रतीमः ॥ ४०॥ कन्या तवेयं भवितेति देवैर्याचे मुने त्वामिति तेन चोक्तम् । जबुर्जही कर्णपुटेन गङ्गां कर्णाहते यच्छतु कासितं कः ॥ ४१ ॥ रुद्धा चिरं यच्छ्रुतिसेतुमध्ये बद्धा चिरं यच्च जटासु शंभोः । सा निर्ययौ वासनयां तयैव विशृङ्खलं कर्णपुटान्महर्षेः ॥ ४२ ॥ तां जह्वकोपाद्व्यसनं प्रपन्नां कालाबहोः क्षोणितलेऽवतीर्णाम् । नद्योऽनुरक्ता इव तत्र तत्र तरङ्गहस्तैदृढमालिलिङ्गुः ॥ ४३ ॥ गच्छन्पुरस्तस्य रथो यथेच्छं गङ्गा च पश्चात्तमनुव्रजन्ती । प्रायेण धाटीग्रहणप्रसक्ती बालावुभौ केलिपराविवास्ताम् ॥ ४ ४ ॥ प्रवर्तते पावयितुं प्रदेशं यं यं नदी सा पुर एव तस्याः । तं तं पुनन्तः स्वयमूर्मिवातास्तस्यै ददुर्भावसरं कदाचित् ॥ ४५ ॥ १. 'स्वर्वीचिशीकरासारचारसमीरकिशोरसंस्पर्शनेन निजदर्शनेन चाशेषकिल्बिषविशो- षणात्केवलं सकलजनदेहनिर्णेजनमात्रलम्भितफलसलिलाम्' इति धर्मविजये दृश्यते.
काव्यमाला। भिन्दन्तमदीन्सरसीविशन्तं व्यापाटयन्तं च वनान्तराणि । प्रवाहमस्या नयति स्म यत्नाद्भगीरथो मतमेव द्विपेन्द्रम् ॥ ४६ ॥ अन्योन्यसभेदसमुच्छ्रितासु कल्लोलरेखासु कदाचिदस्याः । भूयः खलोकाक्रमसाध्वसेन दूरे सुरा दुद्रुवुरन्तरिक्षे ॥ ४७ ॥ खर्गादमल्नवरोपरन्ती स्वच्छन्दतादुर्ललितैस्तरङ्गैः । मानपि खाम्भसि मग्नमात्रान्दिवं नयन्ती विजहार गङ्गा ॥ ४८ ॥ विन्ध्यो गिरिः कुम्भजकोपभीतो गङ्गा च जमुग्लपितावलेपा । शके समानव्यसनाविवेमौ समीयतुर्की सविधेऽथ काश्याः ॥ ४९ ॥ भक्त्या परित्यज्य गतिं सगर्वी भक्तं पुरस्कृत्य भगीरथं च । विवेश विश्वेशितुरन्तिकं सा जानाति येनास्य जटाप्रभावम् ॥ ५० ॥ त्यक्तावशिष्टं कियदम्बु गाङ्गं सारूप्यभाजां कतमेन लभ्यम् । इत्थं सचिन्ते सति विश्वनाथे काशीमयासीदियमिङ्गितज्ञा ॥ ११ ॥ त्रय्यन्तसिद्धाञ्जननिर्मलाक्षैस्तपोधनैरप्यनवेक्षितं यत् । आलक्ष्यते धाम तदेव यस्यामात्यन्तिकेनाक्षिनिमीलनेन ॥ १२ ॥ यामभ्युपेताः परया समृद्ध्या भिक्षाशिनो दिग्वसना भवन्ति । थामावसन्तो भवबन्धमुत्त्यै देहार्ध एवाकलयन्ति दारान् ॥ १३ ॥ भस्माङ्गरागाः शिरसः कपालं पात्राय माल्याय च जालमस्भाम् । जना यदीयाः पुनराददानास्तनुं त्यजन्तीव न तु त्यजन्ति ॥ ५४ ॥ आतन्वतीमुज्झिततारतम्यमाब्रह्मकीटं जगदेकरूपम् । यामप्रबुद्धा इव पण्डिताश्च श्रेयः किमासादयितुं श्रयन्ते ॥ १५ ॥ सारूप्यभाजो बहवोऽत्र शंभोश्चत्वारि वक्राणि पुनर्विधातुः । एकेन चैकं लवितव्यमित्थं प्राप्ते गतिः केति भणन्ति यस्याम् ॥ १६ ॥ प्राङ्मजयन्ती सलिलावलेपात्प्राप्तं पुरो यं कमपि द्युसिन्धुः । तस्मिन्महेशे पुनरन्वगेव यस्यां परित्रस्यति तज्जटाभ्यः ॥ १७ ॥ पठन्ति यस्यामथ पाठयन्ति प्राज्ञाः शतं निर्मिमिते कृतीश्च । अस्थीन्यपूतान्यहयो न धार्या भोज्यं विषं नेति तु नावयन्ति ॥१८॥ आसाद्य यत्राक्षरमेकमीशात्प्राणैर्विमुच्यार्धपथं प्रपन्नैः ।
६ सर्गः] गङ्गावतरणम् । ३७ सहे नराश्चेत्पशुपक्षिणोऽपि ''"सर्वभूता म इति स्मयन्ते ॥ १९ ॥ सा तत्र सिन्धुर्विशती प्रसन्ना सेव प्रसन्नाश्च गिरः कवीनाम् । गभीरताखादिमवेगमूलां स्पर्धामबध्नन्नितरेतरेण ॥ ६० ॥ मय्यागतायामपि मुक्तिदायां तीर्थैः किमेभिः किमथापि लिङ्गैः। इतीव काश्यामुभयानि तानि सा मजयन्ती शनशो व्यचारीत् ।।६१॥ अम्भोभरैराश्रममण्डलानि संप्लावयन्ती शतशो मुनीनाम् । प्रायेण तत्पापजिहासयेव ममज्ज गङ्गा मणिकर्णिकायाम् ॥ १२ ॥ आपाततः स्वाद्विव तत्त्वतस्तु क्रूरादपि क्रूरतरं यदम्भः । पीते कणेऽप्यस्य शरीरिणो यत्पिबन्ति हालाहलमप्ययनम् ॥ ६३ ।। ऐश्वर्यलोभात्स्वमुपागतानां कर्णे जपन्किचन देहभाजाम् । यः कोऽपि यस्यां कितवावतंसो भिक्षाकपालानि करेषु दत्ते ।। ६४॥ भर्तुं स्वमेकं वपुरप्यशक्त्या प्रायः स्वतीराश्रयिणां जनानाम् । शिष्येषु विन्यस्यति या त्रिलोकसृष्टिस्थितिध्वंसमहाधिकारम् ॥ १५ ॥ एकैकमस्याश्चुलुकं वहेयुरेते यदि क्वेव भवेद्दयुसिन्धुः । इति क्षितीशे बिभयांबभूव पश्यन्प्रजास्तत्र महेशरूपाः ॥ ६६ ॥ ग्रस्ता जटाभिः प्रथमं पुरारेस्ता ततो या चुलुकेन जोः । ब्रह्मर्षिभिः सात्र पपे दृशैव भग्नः सकृद्भज्यत एव भूयः ॥ ६७ ॥ सा वेगादथ मणिकर्णिकाजलान्तःसंपातपतिहतिसंभवैद्यसिन्धुः । व्याकीर्णैर्नवकुसुमैरिवाम्बुलेशैर्विश्वेशं विनयपरिष्कृता ववन्दे ॥ १८ ॥ खच्छन्दनचरद्भगीरथरथकारधाराश्रव- प्रत्युद्यन्मुनिलोकलोचनपुटीनिर्वेदसर्वकषैः । स्रोतोभिर्घनसारसान्द्रशिशिरैः खोककल्लोलिनी तामालिम्पदिवेन्दुचूडनयनज्वालाजटाला पुरीम् ॥ ६९ ॥ इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध- निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते गङ्गावतरणे काशीप्रवेशो नाम षष्टः सर्गः ।
३८ काव्यमाला । सप्तमः सर्गः। अथ संनिहितं भगीरथं सरितं तामपि तद्रयानुगाम् । अवलोकितुमिच्छतां नृणामतुलस्तत्र बभूव संभ्रमः ॥ १॥ अगृहीतविवेकमापणानुपसंहृत्य सवेगमेकतः । पथिकान्वणिजोऽन्वयुञ्जत क नु सा सिन्धुरिति प्रतिक्षणम् ॥ २ ॥ स्थविरेषु गतेषु जाह्ववीसलिलोत्पीडभिया ततस्ततः । क्षणमध्ययनोपघाततः परितुष्टा बटवो विजहिरे ॥ ३ ॥ प्रलयष्वपि ये न शिक्षिताश्चिरमानन्दवनीनिवासतः । मुनयः......"ते चिरायुषः सुरसिन्धूमिषु विस्मयं दधुः ॥ ४ ॥ चरमं ववृषे भगीरथः शि....... पुरतस्तु तदा पदे पदे पुरयोषित्करजालमुष्टिभिः ॥ ५॥ पथि दिव्यनदीभगीरथौ प्रचलन्ती शनकैः सविभ्रमम् । अवलोक्य शिरोगृहस्थिता हरिण' स्खलनात्वचिदुन्नते पथि स्तिमितं पश्य रथं क्षिपन्त्यमी । रंभसाहतचक्रमण्डला रथदण्डा इव जद्दुजोर्मयः ॥ ७ ॥ पतितामिह कर्णिकां चिरा" ""तुः। किमियं मणिकर्णिकासरस्यवगाढा सरिदारसातलम् ॥ ८ ॥ सखि कर्षसि किं भगीरथं नयनैः प्रान्तनिविष्टतारकैः । अदसीयरथानुपातिभि... ."ष्ठति ॥ ९॥ तमनुप्रहिणोषि किं दृशौ सखि नेमे पुनरागमिष्यतः । ननु चोपदिशाम एव ते प्रथमं तेन वयं प्रतारिताः ॥ १० ॥ इयदुचलितापि जाहवी न किमप्या... तपस्विना हृदयस्थैव हृता गभीरता ॥ ११ ॥ इयमप्यपरा वराकिका दृगिवासाकममर्त्यवाहिनी । अनुगच्छति तत्र तत्र तं पुरतो गच्छति यत्र यत्र सः ॥ १२ ॥ अवसन्तममा """"पादितः । खयमेव सखि स्मरः खयं शरचापावपि नाम संन्यसेत् ॥ १३ ॥ ...... ....... . A
७ सर्ग:]
गङ्गावतरणम्।
........
...........
ननु दृष्टिपथेऽवतिष्ठसे. नरनेतुः सखि दूरती व्रज।
प्रतिपश्यति सोऽपि चेदितः प्रल......"
॥ १४ ॥
अलमेनमुदीक्ष्य निर्दयं सखि सौधादवरुह्यते [मया] ।
त्वमिहाख मनो बहिर्गतं मम चेदेति निरुध्ध शंस मे ॥ १५ ॥
सरिदन्तरसंगमागसा स्वयमागन्त'................
'संशयं मदनोऽयं नयते तदन्तिकम् ॥ १६ ॥
तरुणे शरदिन्दुसुन्दरे तरलापाङ्गवशंवदस्सरे ।
कृतमानपरिग्रहाः क्षणं किममुष्मिन्नपि सन्ति योषितः ॥ १७ ॥
....."ये सहसैवोत्सृज यात्वयं क्वचित् ।
ननु
चायतपातिभिः शरैर्मदनो मर्मसु ताडयिष्यति ॥ १८ ॥
हिमशैलनिषण्णकिंनरीनयनोपान्तनिपीतशेषितम् ।
पिबता....
'नस्त्रपा ॥ १९ ॥
अपचित्य रसालपल्लवान्यधिरुह्य स्फटिकस्थलीमपि ।
अवलोकयितव्यमेवमप्ययि मुग्धे किमवेक्षसे हठात् ॥ २० ॥
त्वरयन्नुषिताः सुखेन नः खयमेवैनमवेक्षितुं नृपम् ।
प्रहरन्पुनरित्थमाशुगैः प्रसवास्त्रः कथमद्य जीयताम् ॥ २१ ॥
दहतीव विधौ वनप्रिये परुषं जल्पति कुप्यति सरे ।
खमनस्यपि खेदतापि ते किमयं निष्फलमीक्ष्यते चिरम् ॥ २२
इति कर्णपुटेन पार्थिवः कलयन्पौरविलासिनीगिरः ।
प्रचचाल तदा शनैः शनैः परिपश्यन्पुररामणीयकम् ॥ २३ ॥
तनया इव मातरं चिरादुपयातामुपगम्य जाह्नवीम् ।
प्रमदाद्भुतभक्तिशालिनो मुनयो वाग्भिरथोपतस्थिरे ॥ २४ ॥
अपहर्तुमुपायतो विधेर्जननिर्माणमहाधिकारिताम् ।
वितनोषि जनानजन्मनो यदसि प्रागमुनैव यन्त्रिता ॥ २५ ॥
वितरिष्यसि कासितानिति त्वयि विश्वासमवानुमः कथम् ।
अपसृत्य वपुर्वपुष्मतां ननु तेभ्यो न ददासि तत्पुनः ॥ २६ ॥
काव्यमाला ।
दिश देवि सुतान्दिश स्त्रियो दिश भोगानिति नार्थयामहे ।
जहिमो वपुरेव गृह्यतां तदिदानीमिति नौ मनोरथाः ॥ २७ ॥
दिश नः प्रणुतैव वाञ्छितं सुरसिन्धो यदि लिप्ससे यशः ।
वपुरन्तमपि प्रतीक्षसे यदि काश्यां पुनरुक्तिरेव ते ॥ २८ ॥
अमृतं हृतवत्यसि ध्रुवं हरकोटीरमृगाङ्कसंगता ।
वयमप्यमृतार्थिनस्ततो भवतीमम्ब चिरादुपास्महे ॥ २९ ॥
वसवो बहवो विनाशिता न च गर्भो विधृतो न षण्मुखः ।
भवती सुतनिघृणामतो वदितुं मातरिति त्रपामहे ॥ ३० ॥
निगमस्तव संस्तवो महानपि सर्वज्ञशिरस्यवस्थितिः ।
परिहर्तुमतस्तवौचिती भवमूलं ननु चक्रकाश्रयम् ॥ ३१ ॥
सुखमास्व पुरीह याहि वा न पुनर्जातु यतस्व नः कृते ।
भवितव्यपरिक्रमैः क्वचित्सकृदस्मानपि सिञ्च शीकरैः ॥ ३२ ॥
खतनूविषयामहंक्रियामपहातुं त्वयि मज्जतां सताम् ।
अवनत्रयगोचरैव सा पुनरुन्मीलति सा किमद्भुतम् ॥ ३३ ॥
न विमुञ्चसि सावलेपत्तां ननु मुग्धे शमितापि शंभुना ।
किमपि प्रणतैव देहिनां किमुपारोहसि मस्तकस्थलम् ॥ ३४ ॥
इति जह्वसुतास्तवोक्तिभिर्मुखरे तत्र मुनीन्द्रमण्डले
अवरुह्य भगीरथो रथादगमद्विश्वपतेरुपान्तिकम् ॥ ३५ ॥
शतशः परितोष्य शंकर प्रणिपातैर्मुदितो भगीरथः ।
सुकुमारतरैः सुगन्धिभिः कुसुमैरर्चयति स्म वाङ्मयैः ॥ ३६ ॥
भव भूतपते विषाशनो भव भिक्षुर्भव भोगिभूषणः ।
तदपि प्रतिपत्तुमर्थये तव सारूप्यविडम्बनामहम् ॥ ३७ ॥
अयि लुब्धकताधिरोप्यतामपि वा भिक्षुकताभिनीयताम् ।
इयतैव किमर्थिनो नरा जहति त्वां कपटैकशिक्षिताः ॥ ३८ ॥
मदनान्तकविष्टपत्रयक्षुधिताहादनकङ्कणाङ्कया ।
अपि नोदरमन्नपूर्णया तव पूर्येत विनैव भिक्षया ॥ ३९ ॥
७ सर्गः] शावतरणम् । जटिलोऽसि दिगम्बरोऽसि यज्जितकामस्य तदहमेवं ते. गुणगृह्य इतीदमुच्यसे किमपि च्छादय सव्यमङ्गकम् ॥ ४० ॥ खयमेव दिशन्मदीप्सितं वह निःश्रेयसदानशौण्डताम् । परथापि तदर्पयिष्यते ननु गङ्गामणिकर्णिकादिभिः ॥ ४१ ॥ भुवनत्रयभारवाहिना भवता मे भवितुं न कौतुकम् । भवदनिसरोजसेविषु प्रमथेष्वेकतरत्वमस्तु मे ॥ ४२ ॥ भवबन्धहरोऽस्मि देहिनामिति विश्राम्यतु वीरघोषणा । चतुरो यदि पूर्वमात्मनः श्लथय त्वं त्रिजगत्कुटुम्बिताम् ॥ ४३ ॥ सति हेमगिरौ शरासने सति वेश्मन्यपि राजते गिरौ । भवता शिव भैक्षवृत्तिना क्रमितव्यः समयः कियानयम् ॥ ४४ ॥ वहसीन्दुमनेन किं भवेद्भवतो वस्तुषु सारवेदिता । भवदादरणात्कपालवद्भवति प्रत्युत तस्य हेयता ॥ ४५ ॥ त्रिपुरेषु परीक्षितं स्मितं मदनो वेद कटाक्षमीश ते । ननु नाम जनो जिजीविषुर्बहुमानं भवतोऽर्थयेत कः ॥ १६ ॥ सकृदन समेयुषां नृणां शिरसि स्थापयसे सुरापगाम् । अमुमर्थमजानता मया कियदस्यै सरिते कृतं तपः ॥ ४७ ॥ इति स्तुवन्मुकुटनिवेशिताञ्जलिर्भगीरथः प्रणतशिवंकरं हरम् । न्यवर्तत क्षणगमनोपरोधतः क्व जाह्नवी प्रतिचलिता तटादिति ॥ ४८ ॥ अथ नृपमधिरूढस्यन्दनं यान्तमग्रे सुरसरिदनुयान्ती वीचिभिर्मन्थराभिः । विहितजनकुटुम्बा संनिधौ दण्डपाणे- बलवदनुगमेऽपि प्राप्तशङ्केव रेजे ॥ ४९ ॥ आचान्तो नयनरपक्ष्मवलनैरायम्य धर्धावं धावमुपावरुन्ध्य सरणिं सङ्घीभवद्भिः पुरः ।
काव्यमाला । स्पृष्टः साधय साधयेति लहरीहस्तैरिवाल्वक्तया त्रस्यन्त्या पुरशासनादतिययौ देवः स वाराणसीम् ॥ ५० ॥ इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध- निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते गङ्गावतरणे विश्वेश्वरस्तवो नाम सप्तमः सर्गः । अष्टमः सर्गः। समतिलङ्घय पुरीमथ काशिकां स पुरतः प्रचचाल भगीरथः । सुरसरिज्जलसंप्लवसंभ्रमक्षुमितजानपदेन पथा शनैः ॥ १ ॥ नरपतेर्दधतीव सहायतां नगरपार्श्वचरी सरयूस्तदा । पथि पुनः खयमेव समागता परिचकर्ष नभःसरितं क्षणात् ॥ २ ॥ अनुसृतः सरितैष पलायते ननु बलादनया ह्रियते हठात् । इति नृपः पशुभिः स निसर्गतो निजगदे पथि जानपदैर्जनैः ॥ ३ ॥ पथि चचाल भगीरथदर्शिते सुरनदी "नेदमहं स्तुवे । पथि तदाचरिते ननु तद्भुवा प्रकृतिमण्डलमेव नियम्यते ॥ ४ ॥ कियदितश्चलितव्यमिति श्रमव्यतिकरादनुयोक्तुमिवोद्यता । असकृदस्पृशदूमिकराग्रतः प्रचलितं पथि तं पुरतो नदी ॥ ५ ॥ चिरनिरूढमनोरथमालिका सुरनदी दयिताननचुम्बने । कलयति स्म मुखानि सहस्रधा सति समीपगते मकरालये ॥ ६ ॥ पथि विलम्ब्य विलम्ब्य पदे पदे गिरिगुहासु निलीय निलीय च । उपजगाम कथंचिदुपान्तिकं नववधूरिव नर्मसखस्य सा ॥ ७ ॥ अनशनव्रतकौर्शत कुम्भभूसलिलपारणसंशयिताम्भसः । अवततार बिले किल केवले जलनिधेरथ भूमिपते रथः ॥ ८॥ तमसि तत्कुहरोपहिते महत्यनुचिता तपनातपसंकथा । तपन एव यदि स्वयमापतेद्भवति कज्जलपिण्ड इव क्षणात् ॥ ९॥ १. मातकायां नन बलादना होत न । ८ सर्गः] गङ्गावतरणम् । उपनिपत्य पुरेव पिपासया जिगमिषन्ति न यावदितोऽन्यतः । जलधरा इति तावदबिन्धना हुतवहः किल तानपि जनसे ॥ १० ॥ प्रतिनवाम्बुदशीकरसेचनप्रकटितोष्मणि तत्र हि यादसाम् । ज्वरमधत्त यथा जलदागमो न तु तथा मधुमासविपर्ययः ॥ ११ ॥ प्रतिनिदाघविरामसमाहितैर्जलधराम्बुभिराहितवृत्तयः । कतिचिदासत कण्ठगतासवो जलपतेः पुरि तोरणवालकाः ॥ १२ ॥ पतिभिया निपतेयुरितोऽद्रयः क्षितितले जगदण्डमितः स्फुटेत् । तदनु चावरणोदकमुत्पतेदिति मनोरथमूहुरिह स्थिताः ॥ १३ ॥ प्रियतमाभिगमाय सुदूरतोऽप्युपगताः सरितो जलदागमे । तमनवेक्ष्य शुचेव तदास्पदे प्रथम एव पदे विलयं गताः ॥ १४ ॥ क्षितिभृतः कुलिशाहतिकातराः शरणमित्यभजन्त यमर्णवम् । स च बभूव कथा परिशेषितो विधि""रां मुखता ननु तादृशी॥१५॥ कवलितास्तिमिभिः शफरार्भकाः सुखममंसत जीवनतो मृतिम् । सलिलशालिषु तद्वदनाध्वसु क्षणपरिक्रमणोत्सवलिप्सया ॥ १६ वचन भानुसुतादिमहानदीपतनतः शिशिरास्विव भूमिषु । परिमितानभितस्तनुशोषणाजलधरानवलोक्य शुशोच सः ॥ १७ ॥ रविकरोपनिपातविशोषितस्फुटितकर्दमरन्ध्रनिरन्तरम् । बिलमवेक्ष्य बिभाय स'वारिधेः सुरनदी सलिलव्ययशङ्कया ॥ १८ ॥ चिरमनेन पथा परुषोष्मणा प्रतिनिशं प्रचरन्नपि चन्द्रमाः । कथमहो न कदापि विलीन इत्यसकृदाकलयन्स विसिस्मिये ॥ १९ ॥ अथ भगीरथदेवपथानुगा सुरनदी तदवाप बिलं भुवः । प्रथममावसथादिव वेधसः प्रमथनाथनटागहनोदरम् ॥ २० ॥ सति संरखति सन्ति पयोधराः सति तदम्भसि सन्ति च सिन्धवः । तदिह काम्बुकथेति विषीदतामभयदेयमजायत यादसाम् ॥ २१ ॥ १. 'कथापशेषितो' इति मातृकायाम्. २. सरखति-समुद्रे. 'सरखान् सागरोऽर्णवः' काव्यमाला। कियदिदं परिपूरयितुं भवेत्सगरसूनुनखाग्रकृतं बिलम् । इति पतद्भिरपि स्मयमन्धरं सिमसिमायितमव तदूमिभिः ॥ २२ ॥ समदवल्गदमर्त्यतरङ्गिणीशफरबर्गनिरीक्षणलजिताः । अनुबभूवुरहो नु महोत्सवं तमपि सिन्धुशया जलजन्तवः ॥ २३ ॥ मधुरिमैकरसापि सुरापगा लवपातामगमत्पतितार्णवे । भुवनमूल्यरसापि हि साहिती कुकविवऋगता कुरुते व्यथाम् ॥२४॥ सुरनदीसलिलानिलताडितः परिजही भसितावरणं पुनः । अधित धूममथाग्निरबिन्धनः सति समीपतले पुनरादिते ॥ २५ ॥ पयसि संभृत एव यथापुरं जलनिधौ मिलिता जलजन्तवः । यदि भवन्ति कथंचन संपदो भवति का वजनेषु दरिद्रता ॥ २६ ॥ सगरनन्दनरन्ध्रसमुत्पतद्भुजगराजपुरीतिमिरावृते जलनिधेः कुहरे लुठनादभूत्सुरनदीसलिलेष्वपि नीलता ॥ २७ ॥ समुपलभ्य पयांसि यथापुरं मुमुदिरे न तथा जलमानवाः । सलिलशोषदशासु लयं गतान्समनुचिन्त्य शिशूनरुदन्यथा ॥ २८ ॥ समधिकोष्मणि तत्र विलिलियरे निपतिताः प्रथमे सरिदूर्मयः । सपदि पूरितसागरवीचिकाप्रतिहताश्चरमे तु निवर्तिताः ॥ २९ ॥ चुलकितो मुनिनापि गतत्रपः परिजुघोष पुरेव तदार्णवः । मतिमता ध्वनितव्यमदोषवत्क इव वेद गतं सदसच्च वा ॥ ३० ॥ अयमगाहत शोषमिह स्थिता जलचरा बहवः प्रलयं गताः । इति तदम्बुनरा मुदिताः क्षणादकथयन्गतकल्पकथामिव ॥ ३१ ॥ अथ पतन्तममुं नृपते रथं तमपि सागरपूरणनिखनम् । युगपदेव पपुः सुखमीक्षणैरनिमिषैरहिलोकपुरंध्रयः ॥ ३२ ॥ फणधरालयमूलनिवासिनं प्रमथनाथमवेक्ष्य भयेन वा । क्षणनिरुद्धतरङ्गरया पुनः परिपपात भगीरथबोधिता ॥ ३३ ॥ कनकभूधरमूलमणित्विषा गलितसंतमसेऽथ रसातले । भुजगराजभुजार्गलपालितां धुरि ददर्श स भोगवतीं पुरीम् ॥ ३४ ॥ १. 'निवासिनप्रमथनाथ' इति मातकायाम + < सर्गः] गङ्गावतरणम्। प्रवसतो विनिवर्तयितं पतीन्कृतधियः किल यत्कणिकन्यकाः । पथि कुहापि तदीक्षणगाचरे परिनिपत्य भवन्ति गतज्वराः ॥ ३५ ॥ स्वयमुपेतसमीरकृताशनैः स्फुटितभूविवरोदरशायिभिः । फणधरैरनपेक्षितवेतनैः प्रभुरवर्तत यत्र स वासुकिः ॥ ३६ ॥ सदनमेत्य स जग्धिकृते सखीन्समुपहूय निवेश्य च पङ्क्तिशः । विदधति व्यजनैरुपवीजनं किमपि यत्र मुखेष्वनिलाशनाः ॥ ३७ ॥ सति फणावलयातपवारणे सति च तन्मणिदीपशिखाङ्कुरे । घनतटिजटिलेषु धनागमेष्वभिसरन्ति न यत्र फणिस्त्रियः ॥ ३८ ॥ न विधुरस्ति न दक्षिणमारुतः क इव तद्विधुरः कुसुमायुधः । तदपि शासनमस्य दुरुत्तरं शिरसि बिभ्रति यत्र फणिस्त्रियः ॥ ३९ ॥ कतिचिदच्युतमञ्चकुलोद्भवाः कतिपये हरकुण्डलवंशजाः । रविरथाश्वगुणान्वयजाः परे तदिह तार्श्वभयं न यदोकसाम् ॥ ४० ॥ अधुतसिद्धशिरोमणिभूषणो प्रथनविश्लथनासहकञ्चुकः । अधृतकुण्डलमुग्धमुखाम्बुजो जयति यत्र भुजङ्गवधूजनः ॥ सति महावरणेऽपि हि यजना न दधते परिखाखनने त्वराम् । तनुतराजभवाण्डकरण्डकाधरकपालपरिक्षतिशङ्कया ॥ ४२ ॥ परिपतत्सु ततः स समन्ततः स्वमवलोकयितुं पुरवासिषु । बहिरभीतवदास्त हृदा पुनः परिजजाप पतङ्गपतेर्मनुम् ॥ ४३ ॥ पतति तत्र सुधाशनदीजले फणधराः कतिचित्पथि पातिनः । प्रविविशुर्भयसंकुचिताङ्गका रथविटङ्कपदेषु महीपतेः ॥ ४४ ॥ प्रमथनाथजटापटलापतत्फणधरेन्द्रमुखादखिलां कथाम् । श्रुतवतां किल तन्नगरौकसां सुरनदी न बभूव भयावहा ॥ ४५ ॥ प्रविशतीषु रसातलमण्डलं त्रिदशसिन्धुजलोरगपतिषु । अजनि बन्धुसमागमसंभवः फणभृतां प्रतिमन्दिरमुत्सवः ॥ ४६॥ अथ परीत्य स भोगवतीं पुरीममरसिन्धुसखो वसुधेश्वरः । शुचि विविक्तमनोरममासदद्भगवतः कपिलस्य तपोवनम् ॥ ४७ ॥ . गोगा नोट सामागार रोग-21 काव्यमाला। कपिलकोपहुताशनसंभृतं स पुरतः पितृभस्म निरीक्ष्य तत् । प्रमदशोकसमागममूच्छितो द्विविधमश्रु दधौ युगपदृशोः ॥ ४८ ॥ अथ रथादवतीर्य भगीरथे सगरजानुपसर्पति वीक्षितुम् । भसितराशिममजयदम्भसा भगवती सुरलोकतरङ्गिणी ॥ ४९ ॥ सुरसरित्कवलीकृतशेमितं दिवि यद्गास्त पदं त्रिदिवौकसाम् । तदपि तत्क्षणनितकल्मषैरपहृतं बलिभिः सगरात्मजैः॥ १० ॥ प्रथमलब्धसुरालयसंभृतप्रतिनवामृतपानगलत्तुषः । तदपवर्जितमञ्जलिमम्भसामपि पपुः पितरः सुंतवत्सलाः ॥ ११ ॥ अथ नदीमवगाह्य विनिर्गतः क्षितिपतिः परिपूर्णमनोरथः । मृदुगभीरपदामशृणोदिवि स्तुति ......"चतुराननगुम्फिताम् ॥ १२ ॥ न सगरोऽयमविन्दत नांशुमान्न च भवज्जनकस्तपसि स्थितः । तमपि लब्धवतोऽद्य मनोरथं तब यशो न गिरां पथि वर्तते ॥ १३ ॥ श्रुतिगिरोऽपि विचित्य विचित्य यं विफलयन्ति परिश्रममात्मनः । समुपलभ्य तमेव महेश्वरं क इव नाम नियोजयितुं प्रभुः ॥ १४ ॥ दशमुखोऽपि यदजिनियन्त्रितान्परिचकर्ष पुरा न भुजान्निजान् । क इव तस्य कपर्दपथंगतां सुरनदीमपि कर्षतु साहसी ॥ ५५ ॥ यदभजन्त दिवं सगरात्मजा यदपि सिन्धुरपूर्यत शोषितः । यदुपयन्ति नराश्च परं पदं तदखिलं तव तात तपोबलात् ॥ १६ ॥ तव भगीरथ वत्स सुतार्थिनस्तनुभवा सरिदस्त्वियमादिमा । इति निशम्य गिरं परमेष्ठिनः परिजहौ स तपोजनितां व्यथाम् ॥१७॥ ततः समामव्य वियन्नदीं तां तदम्बुसंपातपथेन देवः । अपाङ्गपातैः फणिसुन्दरीणामनुद्रुतः प्राप तटं पयोधेः ॥ १८ ॥ ततश्चिरादेत्य तटं पयोधेः प्रतीक्षमाणा नृपतेनिवृत्तिम् । चमूसमेताः सचिवास्तदीयास्तमुत्पतन्तं सलिलादपश्यन् ।। ५९ ॥ समुद्यतस्तस्य जलान्नृपस्य मुखेन मुग्धस्सितसुन्दरेण । उल्लासमासादयति स्म सेना वेलेव सिन्धोः शशलाञ्छनेन ॥६॥ १. 'समटातः' इति ष यकवचनम
८ सर्गः]
गङ्गावतरणम्
तपोविपाकेन निसन्तोऽपि तमप्रधृष्यं च शनैरुपेत्यः ।
पौरैरहंपूर्विकया प्रणेमे तदाविन्यस्तमहोपहारैः ॥ ११ ॥
दृष्टयानुकम्प्यानथ संबभाषे संभाषितव्यान्पुनरालिलिङ्ग।
आलिङ्गितव्यान्प्रणनाम वीरः पौश्चिरादुत्सुकतां प्रपन्नः ॥ १२ ॥
प्रख्यापितं प्राक्सुरलोकसिन्धुतरङ्गरेखाजयडिण्डिमेन ।
पृष्टं प्रधानैः सचिवरुदन्तं संगृह्य वीरः स्वमुदाजहार ॥ ६३ ॥
अलङ्घयवाक्यैरथ बन्धुवगैराप्तैरमात्यैरनुजीविभिश्च ।
संप्रार्थ्यमानः सममस्त वीरः स राजनेपथ्यविधि तदानीम् ॥ ६४ ॥
मन्दाकिनीमज्जनपूतमेको विस्रंसयन्नस्य जटाकलापम् ।
उन्नम्य मौलिं ग्रथयांबभूव मुक्तामयैर्दामभिरेव सान्द्रम् ॥ १५ ॥
स दुग्धसिन्धूदरजन्मनेव शुद्धेन रेजे श्रुतिमौक्तिकेन ।
कीयॆव कर्णगतया दिगन्तसमाक्रमोदन्तनिवेदनाय ॥ ६६ ॥
आपाण्डरे चन्दनचर्चिकाभिरामुक्तमुक्तासरलोभनीये ।
वक्षःपदे तस्य चिरेण लक्ष्मी स्माङ्गरागव्यसनं मुमोच ॥ १७ ॥
चचार कर्णद्वयसानुरागे चित्ते यदन्तःपुरसुन्दरीणाम् ।
स तेन संरक्त इवाबभासे परिष्कृतः काञ्चनकञ्चकेन ॥ ६८ ॥
स पादमूलग्रथितासिधेनुराबद्धतूणः समुपात्तचापः ।
भुखेन रक्तान्तविलोचनेन मूतों रसो वीर इवाबभासे ॥ १९ ॥
हृष्टेन गङ्गानयनान्नदीनां पत्या धुरि न्यस्तमिवोपहारम् ।
सखायमुच्चैःश्रवसस्तुरङ्ग स पाण्डरं कंचिदुपारुरोह ॥ ७० ॥
पदेन किंचिच्चलितेन सैन्धवं ध्रुवा च पर्यन्तविलोलया चमूम् ।
प्रचालयामास समं भगीरथः शनैस्ततः सागरतीरवर्मना ॥ ७१ ॥
दृगन्तरान्धंकरणं फणाभृतां दिगन्तगन्धद्विपकर्णदारुणम् ।
मुकुन्दनिद्रारसमोषभीषणं बबन्ध भेरी पुरतोऽस्य मौखरीम् ॥ ७२ ॥
तदानकध्वानतरङ्गसंप्लवैर्बबन्ध शय्या बलिहन्तुरन्धताम् ।
समीपमाटापि या किसन्यथा विशमासीत विहंगपंगवे ॥ ७३ ॥
काव्यमाला।
दिवौकसः पाणिविहारमात्रतो दृशोनिकोचेन
फणाभृतः।
अनेन तेनापि नरा व्यवाहरन्नथ क्षणं गर्जीत तस्य दुन्दुभौ ॥ ७४ ॥
कठोरधाराङ्कुशपातसंकुचत्सवॅहित्मेदस्तमुखा विषाणिनः ।
चमूचराः कोशवितीर्णसंभ्रमनिषादिभिर्दूरत एव निन्यिरे ॥ ७९ ॥
तनुच्छदासञ्जितचर्मपट्टिकानिबद्धनौक्षेयनिषङ्गकार्मुकाः ।
खलीनरज्जुग्रहणोच्छ्रिताननाः प्रचेलुरश्वाः पुरतोऽस्य सङ्घशः ॥ ७६ ॥
पताकिनीमूलचरो भगीरथः समन्त्रिवर्गश्चतुरैरतयंत ।
अनुद्रुतः प्राक्चिरमभ्रगङ्गया स्वयं च तां किंचिदनुद्रवन्निव ॥ ७७ ॥
योधैस्तरङ्गाननु निष्पतद्भिर्भङ्गैश्च योधाननु धावमानैः ।
मिथो मृषा युद्धमिवाततान महार्णवस्तस्य बलार्णवेन ॥ ७८ ॥
प्राप्तोपगृहा इव वारिराशेः पर्यन्ततालीवनमर्मरेण ।
तरङ्गरेखाविलयान्तरेषु सेनारवाः शुश्रुविरे नृपेण ॥ ७९ ॥
दिव्यं पयः क्षोणितलेऽवतार्य संपन्नकीर्ति तमिवानुकर्तुम् ।
भौमं रजो वाजिखुरप्रसूतं पताकिनी तस्य दिवं निनाय ॥ ८० ॥
सैनिकावतरदीर्घतरङ्गा संददर्श सरयूमविदूरे ।
सानुरागमुपगूहितुमग्रे संप्रसारितकरामिव देवः ॥ ८१ ॥
ततो विलम्ब्य क्षणमागमय्य पताकिनीमप्यनुसंपतन्तीम् ।
स राजचिहरुपसेव्यमानः शनैरयोध्याभिमुखं प्रतस्थे ॥ ८२ ॥
तृष्णाकदुष्णं पततामभीक्ष्णं पौराङ्गनालोचनमण्डलानाम् ।
उत्सारणायेव स चामरांभ्यां संवीज्यमानः शनकैरयासीत् ॥ ८३ ॥
तस्याग्रतो निर्मलमाबभासे साम्राज्यचिद्रं नवमातपत्रम् ।
पुरौकसां दर्शयितुं नृपेण नीतः कियानंश इवाभ्रसिन्धोः ॥ ८४ ॥
आलिप्तहाप्रपदं सुधाभिराबद्धहेमध्वजलोभनीयम् ।
संमृष्टरथ्यं च समन्ततोऽपि भगीरथस्तन्नगरं विवेश ॥ ८५ ॥
पताकिनीभिः प्रविशन्तमन्ताजैरवर्षन्पुरयोषितस्तम् ।
मजावतारावसरे पुरेव दिव्यैः प्रसूनैर्दिवि देवकन्याः ॥ ८६ ॥
आह्वादिभिर्मङ्गलतूर्यघोषैराशीवचोभिश्च समं जनानाम् ।
गौमाशिम, मानगोनो तरणमान गनिनेता ॥ ॥
सर्गः] गगावतरणम् । संभाव्य देवः क्रमशद्विजातीन्बन्धूनमात्याननुजीक्निश्च । द्वारान्तिकस्तब्धवधूसमाजसंबाधमन्तःपुरमाविवेश ॥ ८८ ॥ वियोगखिन्नास्तपसा विषण्णं स्वमेक्षिताः.स्वप्नदशानुभूतम् । मेराननाः स्मेरमुखारविन्दं तमभ्युपेयुस्तरुणं तरुण्यः ॥ ८९ ॥ पादे निपेतुः परिरभ्य दीर्घ तस्थुर्मुखैस्तस्य मुख चुचुम्बुः । संकल्पयोगाच्चिरविप्रलब्धास्तथापि तं नैव विशश्वसुस्ताः ।। ९० ॥ संरक्षन्ननुजीविनो वितरणैः संप्रीणयन्नर्थिनः पौराञ्जानपदानपि प्रतिदिनं पश्यन्दयादृष्टिभिः । आ वेधोगृहमा रसातलमपि स्वं नाम विश्रावय- न्दीनत्राणकृता भुजेन बुभुजे देवः समस्तां भुवम् ॥ ९१ ॥ वाचं व्याकुरुते चिरंतनगिरं मीमांसते चोभयीं पान्थः काव्यपथेषु पादकमले सक्तः पुरारेरिति । मामेतत्कथयिष्यतीति रचितं काव्यं मया तत्पुन- स्तावद्वक्ष्यति वा न वा तदुपरि न्यस्तः समस्तो भरः ॥१३॥ साहित्यं न हि जानते कतिपये शास्त्रैकनिष्ठा यदि क्षन्तव्यं विदुषामिदं क नु पुनः सर्वत्र सर्वज्ञता उत्पन्नाः किल धूमकेतव इव क्लिश्नन्ति यत्साहिती दुवैदग्ध्यलवेन केचिदिह तद्दुःखाय विद्यावताम् ॥ ९३ ॥ अस्पृष्टाः कलयापि दुष्कविकुलैरज्ञैरनाकर्णिता ज्ञानाज्ञानवतां कदाप्यपतिता दूरे दुरूहाध्वनि । खेलन्तु श्रुतिसंपुटीचुलुकिताः खैरं रसज्ञैर्जनैः प्रत्युक्तिच्यवमाननूतनसुधासाराः कवीनां गिरः ॥ ९४ ॥ इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध- निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते भगीरथनगरप्रवेशो नामाष्टमः सर्गः । समाप्तोऽयं ग्रन्थः।
No text on this page.