Scl

The Phakkikaratna Manjusa

Maithil Pandit Sri Kanakalal Sarma

PDF Proofread

Front matter

No text on this page.

S'RĪ HARIKRISNA NIBANDHA MANI MĀLĀ
NO. 6.
THE
PHAKKIKARATNA MANJUSA
COMMENTARY ON THE PANKT? OF SIDDHANTA KAUMUDI)
By
VYAKARANA KĀVYATIHTHA
MAITHIL PANDIT S'RI KANAKALAL S'ARMA
( Part II )
PUBLISHED BY
Sri Hari Krishna Nibandha Bhawan,
BENARES.
1936.
[ ALL RIGHTS RESERVED BY THE PUBLISHER

शास्त्रार्थ के लिये अपूर्व ग्रन्थ- *कौमुदीकल्पलतिका रचयिता- परिष्कारदर्पण इत्यादि अनेक ग्रन्थों के निर्माणकर्ताऽशुकवि वैयाकरणशिरोमणि प्रसिद्धशास्त्रार्थी जौनपुर बदलापुरनिवासी- शुक्ल श्रीवेणीमाधवशास्त्री जी । ? । आदरणीय विद्वज्जन एवं विद्यार्थिगण आप महानुभावों की सेवा में यह सूचित करते हुए बड़ा ही हर्ष हो रहा है कि आज तक पाणिनीयव्याकरण के पठन पाठन में अप्रसिद्ध तथा अप्रचलित एवं अकल्पित जितनी कोटियां थीं वह सब प्रकाशित हो गई। विशेषतः सिद्धान्तकौमुदी के प्रतीकों पर विचित्र कल्पनाये, पंक्तियों के विशिष्टव्याख्यानपूर्वक अपूर्वखण्डन, नये २ अद्भुत सूत्रों के न्यास, सूत्रों के विलक्षण तथा अतिसुगमरीति के शाब्दबोधप्रकारों ने इस अन्य की शोभा को क्या ही मनोहर किया है जो देखने से ही विदित हो सकती है। और भी विशेष बात तो यह है कि ग्रन्थकार के पुत्र श्री राजनारायणशुक्ल शास्त्री जी ने इस ग्रन्थ की टिप्पणी में मूलशेष प्रक्रिया परिष्कार आदि का यथोचित लेख करते हुये छात्रों को परीक्षा में उत्तीर्ण होने के लिये अतिसरस तथा संक्षिप्तपतियों का व्याख्यान भी किया है । इस ग्रन्थ से यह आशा पाई जाती है कि इस के द्वारा संस्कृतसाहित्य का जितना बड़ा उप- कार हुआ वैसा अन्य प्रकाशित पुस्तकों से नहीं । केवल इसी एक ग्रन्थ के पास में रखने से सिद्धान्तकौमुदी के ऊपर अब तक छपे हुये फक्किकादि- अन्यों की आवश्यकता हो न पड़ेगी। इस रीति से इतना उत्तम होते हुये भी स्वरवैदिकप्रकरणान्त इस ग्रन्थ का मूल्य केवल १॥) रक्खा गया है। आशा है कि संस्कृतानुरागी सजन इस प्रन्थ से अतिशीघ्र लाभ हठावेंगे । अन्यथा सम्भवत: द्वितीयसंस्करण की प्रतीक्षा करनी पड़ेगी। प्रातिल्यानम्-श्रीहरिकृष्णनिबन्धभवनम्, बनारस सिटी ।

श्रीहरिकृष्णनिबन्धमणिमालायाः
षष्ठो (६) मणि
फक्किकारत्नमञ्जूषा
सिद्धान्तकौमुदीस्थपङिव्याख्यानरूपा।
मुद्गलपुर (मुङ्गर ) मण्डलान्तर्गत महमदाग्रामवास्तव्येन गणपति-
ठक्कुरात्मकनाथठक्कुरात्मजेन व्याकरणकाव्यतीर्थेन ठक्कुरोपनामक
पण्डितश्रीकनकलालशर्मणा मैथिलेन रचिता ।
(कारकादिकृदन्तान्तो द्वितीयो भामः।)
मूल्य ४)
प्रकाशकः
श्रीहरिकृष्णनिबन्धभवनम् ,
बनारस सिटी।
२९०.३
राजशासनानुसारेण सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः ।

→परिष्कारदर्पण *- (परिष्कारों का विचिन्नग्रन्थ शास्त्रार्थकलासहित) आप महानुभावों की सेवा में निवेदन करते हुए अत्यन्त हर्ष होता है कि जिस परिष्कारदर्पणनामक ग्रन्थ के लिये विद्वज्जन बहुत दिनों से आका- क्षित थे वह प्रकाशित हो गया। इस ग्रन्थ में ३ प्रकरण हैं। जिसमें प्रथम प्रकरण पारिभाषिक ( अवच्छेदकत्त्व अवच्छेद्यत्त्व निरूपितत्त्व निरूपकत्त्व सम्बन्धावच्छिन्नत्त्व आदि) शब्दों के लक्षण उदाहरण समन्वय दोषा- दिवारणपूर्वक दिखाये हैं। द्वितीयप्रकरण व्याकरण के परिष्कारों तथा राणिनीय सूत्रों के शाब्दबोधों का है उसमें शेखरादि सहायक प्रायः सभी स्थलों का परिष्कार विवरण परीक्षोपयोगी तथा अध्ययनाध्यापनादि का महोपकारक है । इस ग्रन्थ के बनानेवाले जौनपुर बदलापुर निवासी घटिकाशतकशतावधानाशुकविकौमुदीकल्पलतिकाद्यनेकग्रन्थकार वैयाकरण- शिरोमणि प्रसिद्ध शास्त्रार्थी पण्डितप्रवर शुक्लश्रीवेणीमाधवशास्त्री जी हैं। शास्त्री जी का अतुलनीय श्रम तथा इनकी विचित्र परिष्कारशैली एवं कल्पनायें ग्रन्थ के देखने से ही आप को अनुभूत होंगी । ग्रन्थकार के पुत्र श्रीराजनारायणशुक्लशास्त्री जी ने इस ग्रन्थ की भी टिप्पणी वैसी हो विचित्र की है जैसी आप लोग कौमुदीकल्पलतिका में देख चुके होंगे। इस ग्रन्थ को पास में रखने से पूर्ण विश्वास है कि परिष्कारों का बनाना समझना तथा उनके द्वारा परीक्षा में उत्तीर्ण होना अतीव सरल है। शास्त्री--आचार्य परीक्षाओं का अत्यन्त उपकारक है। तृतीयप्रकरण इस प्रन्थ का शास्त्रार्थकला नाम से है। जिसमें परिभाषेन्दुशेखर की परीक्षोप- योगिपरिभाषाओं का ज्ञापक परिष्कारादि दिखलाते हुये अन्त में विचित्र कल्पनाओं द्वारा शेखर ही का खण्डन कर दिया गया है। उपरोक्तविषयों से यह ग्रन्थ अत्यन्त उपादेय हो गया है। इतना होते हुये भी इसका मूल्य स्वल्प ही १०) अट्ठारह आना मात्र रक्खा है। अधिक क्या प्रशंसा करें यदि इसके लिये अतिशीघ्र आर्डर न दिये तो इसके आधुनिकलक्षणों से प्रतीत होता है कि द्वितीयसंस्करण की प्रतीक्षा करनी पड़ेगी। प्राप्तिस्थानम्-श्रीहरिकृष्णनिबन्धभवनम् , बनारस सिटी।

फक्किकारत्नमञ्जूषाया द्वितीयभागस्य विषयानुक्रमणिका। पृ० पं. ८ १३ ३ २ ४ १९ २१: ३ १५ २५ ३ १५ १६ ४ ८ १६ m ३ १४ १७ १८ २५ ६ १७ ३२ ८ १८ ६ ८ १८ २२ विषयः (प्रथमा) प्रातिपदिकार्थेति नियतोषस्थितिकः प्राति. लिङ्गमात्र इति। अलिङ्गा नियतलिङ्गाश्चे० परिमाणमात्रे द्रोणो वचनं संख्येति। नागेशास्तु (द्वितीया) कारके कर्तुरीप्सिततमं कर्म कर्तुः किम् । माषेष्वश्व तमब्ग्रहणं किं पयसा० कर्मेत्यनुवृत्ताविति अनभिहिते अनभिहिते तु प्रातिपदि. अभिधानं तु प्रायेण. अथमूलोक्तपरिगणनो० नागेशास्तु क्वचिन्निपातेनाभिधानं तथा युक्तंचानीप्सितम् अकथितञ्च दुह्याजिति गां दोग्धि पय इति बलिं याचते वसुधाम् । अविनीतं विनयं याचते तण्डुलानोदनं पचति गर्गान् शतं दण्डयति व्रजमवरुणद्धि गाम् माणवकं पन्थानं० वृक्षमवचिनोति पृ० पं० विषयः माणवक धर्म ब्रूते ។ माणवक धर्म शास्ति शतं जयति देवदत्तम् २ २१ सुधां क्षीरनिधि मथ्नाति ९ | देवदत्तं शतं मुष्णाति ३ १४ ग्राममजां नयति हरति. ३३ | अर्थनिवन्धनेयं संज्ञा १८ | अकर्मकधातुभिर्योगे गतिवुद्धिप्रत्यवसानार्थेति अण्यन्तानां किमिति। २४ | नियन्तृकर्तृकस्येति ६ सूत्रे ज्ञानसामान्यार्था० २४ | शब्दायतेर्नेति। १५ । येषां देशकालादिभिन्न २५ परिक्रयणे सम्प्रदानमि० ९ १६ | अभुर्थस्य नेति। २२ | उभसर्वतसाविति १० ४ | जपमनुप्रावर्षत् । २५ परापि हेताविति० ११ २७ | नदीमन्ववसितेति १२ १२ अपिः पदार्थेति १२ ३१ कालाध्वनोः १३ २० (तृतीया) १३ ३३ स्वतन्त्रः कर्ता १४ साधकतमं करणम् १४ १५ / तमन्ग्रहणं किं गङ्गायां १४ १८ रामेण बाणेन हतो वाली १४ २२ | प्रकृत्यादिभ्य उपसंख्या १४ २७ दिवः कर्मच १४ ३२ अपवर्गे तृतीया १५ ४ | सहयुक्तेऽप्रधाने १९ २ १९ १९ १७ १० ११ ३ १९ ३१ १९ ३३ १७. २० २४ ७ २१ २ २१ १० २१ १९ २२ २१ २८ २२ १० ४ २२ १५ १ ३ विषयानुक्रमणिका। bo m ५ Ar m MT mr mr ३ ३ 99 m m m m' ३ विषयः येनाङ्गविकारः थम्भूतलक्षणे द्रव्यादिसाधारणमिति गम्यमानापि क्रियेत्यादि अशिष्टव्यवहारे (चतुर्थी) कर्मणा यमभिप्रेतिः कर्मणेतिकिम् । यसंग्रहणं किमिति क्रियया यमभिप्रैति. अन्यकर्तृकोऽभिलाषो. प्रीयमाणः किम् इलाघन्हुस्थाशपां धारेरुत्तमः स्पृहेरीप्सितः कुधद्रुहेाऽसूयार्थानां तादर्थ्य चतुर्थी क्लपि सम्पद्यमाने च क्रियार्थोपपदस्य च उपपदविभक्तेरिति मन्यकर्मण्यनादरे (पञ्चमी) ध्रुवमपायेऽपादानम् जुगुप्सा विरामेति भीत्रार्थानां भयहेतुः वारणार्थानामीप्सितः अन्तझै येनादर्शनमि० अन्यारादिति अञ्चूत्तरपदस्येति प्रभृतियोगे पञ्चमीति अपपरिबहिरिति अन्यतरस्यां ग्रहण सं० (षष्टी) पष्ठी शेषे पृ. पं० विषयः पृ० पं. २२ ३३ रुजार्थानामिति २ १० हिसायां किम् । धानापे० ३३ २४ २ शतस्य दीव्यतीति ११ २४ १० शेषे किं द्विरहन्यध्ययनम् ३३ १५ १५ | कर्तृकर्मणोः कृति ३४ उभयप्राप्तौ कर्मणि ३६ २१ २४ स्त्रीप्रत्यययोरकाकारयोः २५ २ शेषे विभाषा २५ ९ चतुर्थी चाशिषि ३६ ३२ १७ (सप्तमी) आधारोऽधिकरणम् २५ ३२ ३ क्तस्येन्विषयस्य ६ ૩૭ ૩૪ साध्वसाधुप्रयोगे च ३८ निमित्तात्कर्मप्रयोगे ११ यस्य च भावेन भाव० ६ ३८ अहोणां कर्तृत्वेऽनहीं० २७ १५ ३८ षष्टी चानादरे ३९ ३२ यतश्च निर्धारणम् ३९ पञ्चमी विभक्ते २ ३९ २८ १२ नक्षत्रे च लुपि ३९ सप्तमीपंचम्यौ कारक० २५ ४० १० स्वस्वामिभ्यां पर्यायेण ४० २८ ( समासप्रकरणेऽव्ययीभावे) ३० १३ | समर्थः पदविधिः २५ १९ भूतपूर्वे चरडिति निर्दे. ४२ ३० ३१ निपातेनाभिहितेऽप्यधि० ४२ ३१ आरादनादित्यत्र तु ना. ४२ १६ २२ दुर्यवनमिति ४२ २४ ३१ २९ निर्मक्षिकमिति ४२ ३० अतिहिममिति ४२ ८ शब्दप्रादुर्भाव इति ४२ १५ अनुविष्णु ४३ २ प्रतिशब्दस्य वीप्साया ४३ ऋद्ध राधिक्यं समृद्धिः ४३ .U २७ ७ २७ ६ २८ ० ४० ० १ ३ १ ३ . my विषयानुक्रमणिका। ३ ४४ ४४ . खट्वा क्षेपे विषयः ४० पं० विषयः पृ. पं० यथाऽसादृश्ये ४३ १६ एकदेशिसमासविषय. २१ विभाषा १६ | द्वितीयतृतीयचतुर्थ. एतत्सामर्थ्यात्प्राचीना० २३ उपमानानि सामा० ३ (तत्पुरुषसमासे) इह पूर्वपदन्तत्सदृशे ला. १९ इदं सूत्रं त्युक्तुं शक्यम् ८ पूर्वनिपातनियमार्थम् समासान्तः प्रयोजनम् उपमितं व्याघ्रादिभिः ९ ५५ ३० द्वितीया श्रितातितपति० विशेषणं विशेष्येण व. १९ ५६ २१ स्वयं क्तन युवा खलतिपलितवलि. ५६ लिविशिष्टपरिभाष ४५ ३५ तृतीया तत्कृतार्थेन० ४६ १० युवत्यामेव जरतीधर्मो० पूर्वसदृशसनोनार्थ ४६ कुमारश्रमणादिभिः मिश्रग्रहणं सोपसर्गस्या० अर्थाभावेऽव्ययीभावेन० १५ कृ द्ग्रहणं गतिकारकपूर्व० १६ तत्रोपपदं सप्तमीस्थम् ५८ ३२ बहुलग्रहणं सर्वोपाधि० २० उपपदमतिङ् ६० १९ कृतोतकिम् अतिङ् किम् माभवान् ६१ २० चतुर्थी तदर्थाः ४७ व्याघ्रीति तदर्थेन प्रकृतिविकृति अश्वक्रीतीति ६२ ११ अश्वघासादयस्तु ३१ अहृष्ठखोरेव ६२ २२ अर्थेन नित्यसमासो० ३४ स्त्रियामदन्तत्वट्टाविति. २ पञ्चमी भयेन ४९ दीर्घाही प्रावृडिति १९ प्रतिपदविधाना षष्ठी न० ४९ ननु लक्षणप्रतिपदो. ६३ २४ यदा प्रकरणादिना दन्ता० ४९ आदिति योगविभागात् अनित्योऽयं गुणेन. ४९ ३५ जात्यख्यायामित्यादि ३४ पूर्वोत्तरसाहचर्येण कृद. सविशेषणस्य प्रतिषेध. १९ तक्षकस्य सर्पस्य ५१ अशालाकिम् धर्मसभा० ६४ १६ राजपूजितमित्यादौ० ५२ (बहुव्रीहिसमासे) पत्यर्थभर्तृ शब्दस्य तु. ५२ २० शेषो बहुव्रीहिः ६४ २६ कथं तर्हि घटानां नि० ३० अनेकमन्यपदर्थे ६५ पूर्वापराधरोत्तरमेकेति अप्रथाविभक्तयर्थे० ६५ ११ षष्टीसमासापवाद इति समानाधिकरणानामि १२ ६५ १४ सर्वोऽप्येकदेशोऽहा प्रादिभ्यो धातुजस्येति ५३ २५ ६५ केचित्तु सर्व एकदेशः नजोऽस्त्यर्थानामिति ६५ २१ अर्द्ध नपुंसकम् वृद्धिनिमित्तस्य च. ५३ ६६ एकविभक्तावषाष्टयन्त० १६ । पूर्वपदात्संज्ञायामगः ६७ ४८ ७ ४८ ४८ ८ ६४ ९ ६ ५ . . ३ विषयानुक्रमणिका। पं० ६७ ७४ ७४ कर्मणि ल्युडिति ६ . . ७७ विषयः पं० ! विषयः पृ० उपसर्गाद्वहुलम् ६७ ११ इकोह्रस्वोऽब्यो. ७३ २९ कथंतहि विनसा हतबो. ६७ १८ सम्प्रसारणस्य ७३ ३२ इनः स्त्रियाम्। स्त्रीप्रत्यये चानुपसर्ज० २१ ११ (द्वन्द्वसमासे) समाननस्य छन्दस्य. चार्थद्वन्द्वः ६७ २५ तेषां कृतदीर्घाणां० ३५ मिलितानामन्वय इति ६८ १४ अग्रे शब्दस्य तु० ६ समाहारस्यैकत्वादेक० ६८ ३४ प्रातिपादिकार्थमात्र० विभाषावृक्ष इति सूत्र ६९ हस्त्यश्वादिषु सेनाङ्ग. ६९ ननु माषान्वपतस्त० नृगाणां मृगैरेवेत्यादि १० उत्तरपदं यत्प्रातिपदिकं० २७ अश्ववडवग्रहणं तु० पदव्यवायेऽपि ७६ वैकल्पिकः । समाहार० १७ विष्किरः शकुनो वा ७६ १९ विप्रतिषिद्धं किमिति [ तद्धितप्रकरणेऽपत्याधिकारे ] पुत्रेऽन्यतरस्यामित्यत ६९ २८ समर्थानां प्रथमाद्वा २८ पुनर्द्वन्द्वग्रहणं प्रसिद्ध ६९ तस्यापत्यम् ६ अथैकशेष इति २ आदिवृद्धिरन्त्योपधावृद्धी ११ वृद्धो यूना तल्लक्षण. तस्येदमित्यपत्येऽपीति नपुंसकमनपुंसकैनक० कृतसन्धेः किम् २३ श्वशुरः श्वश्रवा प्रथमात्किमिति त्यदादीनिसर्वैनित्यम् दैवयज्ञि इति सुत्रादन्य ७१ १२ ३० [ सर्वसमासशेषप्रकरणे] अपत्यं पौत्रप्रभृति गोत्रम् गोत्रे स्वैकोनसंख्यानाम् कृत्तद्धितसमासैकशेष. यद्वा स्वद्वयूनसंख्येभ्योऽनि ७९ मुपां सुपा तिका नाम्नेति १७ ७२ नियमार्थमिदं सूत्रमिति [ समासान्तप्रकरणे ] ऋक्यूरब्धूरिति ७२ २८ [तद्धिते चातुरर्थिकप्रकरणे कृष्णोदकपाण्डुसंख्या० सिद्धे यस्यति लोपेन० [अलुक्समास:करणे] समन्ताद्वेष्टितः परिवृत. अलुगुत्तरपदे मत्वर्थीयेनैव सिद्धे० ७२ ३४ ३१. पूरण इति वक्तव्यम् ३२ चतुर्थीतियोगविभागातू० ६ अपूर्वत्वे निपातनमिति गवियुधिस्थिरः इसुसुक्तान्तात्कः ८१ [ समासाश्रये ] इसुसोः प्रतिपदोक्तयोग्रह ८१ ११ धरूपकल्पचेलडब्रुव० ७३ १६ । मतोश्च बव्हजङ्गात् ८१ १६. हृदयस्य हृल्लेखेति ७३ लुग्ग्रहणं सर्वलोपार्थम् ८१ २१. ७७ ७८ ७८ १०. ११ ८० ४ . ८० ७२ ३८ कौमारापूर्ववचने ८० ७३ ८१ ६ ४ विषयानुक्रमणिका। पू . वर्तमाने लट् ८४ २ ९४ २७ or - अनद्यतने लुट् ८७ : ८७ ८८ ३ विषयः पृ० पं० । विषयः पृ. 4. [तिङन्ते भ्वादिप्रकरणे] हलादिः शेषापाद इति १९ श्रौत्रार्हन्तीत्यादि. केचिद्घटादौ ८२ ११ अहर्दिवमिति श्रापाके ) इति कृता० २० ९३ तोष्ट्रय्यमान इति निशानं चाक्षुषज्ञानमिति ८२ २१ विजयतेतरामिति कथं तहि प्रज्वालयति. कथं संक्रामयतीति १९ ९४ १९ लःकर्मणि च भावे कथं तर्हि निशामय० भू सत्तायाम् १२ परमपि हलादिः शेष. अतोदी?यदि [अदादिप्रकरणे ] परोक्ष लिट ८६ ४ : ऋतेरीयङ् नित्यत्वावुक० १७ । गमहनेत्युपधालोपस्तस्य भवतेरः ८६ २४ आभीयतया जस्याऽसि. १३ वधादेशोऽदन्त इति येन नाव्यवधानं ते० अयं दर्शनेऽपीति ९६ अनेकाल्वत्वात्सर्वादेशः उकारस्त्विति प्रवर्तनायां लिङिति २८ अन भाष्ये ख्शादिरय ९६ डित्वोचयिते योगविभागो वैचित्र्यार्थः ९६ सुटा यासुड्न वाध्यते आब्पूर्वत्वं प्रायिकमिति सकारद्वयस्यापि निवृ० २५ इह उतो वृद्धिर्नेति १२ सार्वधातुके किमिति नुशब्दस्य द्वित्वमिति इहोपसर्गाणामसमस्त. ३ पूर्वत्रासिद्धीयमद्वित्वैः २१ आमो मकारस्य नेत्व० ८९ उभयत आश्रयणे ना० २७ ननु कृञ्चानुप्रयुज्यत. १४ ; आत्थेत्यत्र झलीतिथत्व० ९८ प्रत्यये किमिति २३ । डिच्चपिन्नेत्यपित्वादि० एकाच उपदेशेनुऽदात्ता ८९ लावस्थायामिति एकाचःकिमिति ३ . गुणायादेशयोः कृतयो० २८ २८ नन्वनयोः पूलयोः कट ९० १५ । अडागमे सत्यनेकाच्त्वा० २३ आदेशश्चेहेति २३ , तनादित्वादेव सिद्धे इति सनिपातपरिभाषया ३१ ख्याधातुः सार्वधातुक. ९.९ २ इह सवर्णदीर्घस्येति ९१ ५ चर्करीतं चेति क्रादीनां चतुर्णा ग्रहणम् १८ । [जुहोत्यादिप्रकरणे -संज्ञायाः कार्यकालत्वात्० ९२ वचनसामर्थ्यादालोपस्य न० ९९ ईट किटकटीत्यत्रेति ९२ ओबिजीत्यस्यैव तत्र ग्र. ९९ पुनः प्रसङ्ग विज्ञानात्पी० ऐय इति ९९ विघटयतीति ९३ ११ ननु सूधातेलिटि ३० ९७ ८८ ९८ . ९० ९१ ३ ७ 01 mm विषयानुक्रमणिका । १० २३ ७ .. ३ २७ ० . १०७ १०७ १०७ विषयः पृ० पं. विषयः [दिवादिप्रकरणे] यत्र द्विरुक्ताविति। १०५ ज्ञाजनोर्जा १०० अदन्तत्वसामाणिरिव १०५ पुषाद्यङपवाद इति परत्वाद्वृद्धौ सत्यां टिलोपः १०५ ३५ पुषाद्यङपवादो० १०० वृद्धेर्लोपो वलीयाम् १०६ योगविभागसामर्थ्या १०० १३ ण्यन्तप्रक्रियायाम् बभूथाततन्थेति १०० १८ अचीचकासदिति। १०६ १४ [स्वादिप्रकरणे] अन्थिग्रन्थिदम्भिस्वर नचाग्लोपित्वाद्वयोरप्य. १०६ १०० इदं कित्वं पिदपिद्वि० सम्प्रसारणं तदाश्रयं च. १०० १०६ [ तुदादिप्रकरणे] बहिरङ्गोऽप्युपधाह्रस्वो० १०७ स्थानषष्ठीनिर्देशा उपदेशे दकारोपध इत्यादि १०७ १०१ कितिरमागम बाधित्वा लिई इति ईकारप्रइले० १०७ १३ १०१ द्विहल्ग्रहणस्यानेकहलुपल. : भयग्रहणं धात्वर्थोपल. १५ म्रियते ड्लिङोश्च विस्मापयन्विस्मितमा० १८ १०१ स्पृशमशेति ईर्ष्णतेस्तृतीयस्येतिं १०२ २७ अन्तरङ्गत्वादियविति। १०२ निवृत्तप्रेषणाद्धातोरिति १०७ ३२ [रुधादिप्रकरणे] सन्नन्तप्रक्रियायाम् जश्त्वं ष्टुत्वमित्यादि १०२ १२ कर्मणः किमिति १०८ तनादिप्रकरणे सनः षत्वस्यासिद्ध १०८ संज्ञापूर्वको विधिरनित्यः १०२ २१ | कथमुदिर्घरिति १०८ १९ पूर्वं धातुरिति । १०२ २५ । एज्विषयाभावादिति १०८ २२ सम्पूर्वस्य क्वचिदभूषणेऽपि १०३ हल्गहण जातिपरमिति १०८ २९ क्रयादिप्रकरणे इह नित्यमपि द्वित्वंगुणे० १०८ अवष्टभ्नोति । १०३ ९ / कृतदर्घस्य मिनोतः १०९ दोर्धनिर्देशसामर्थ्यान १०३ १२ ननु ऋधाः सनि १०९ २३ चुरादिप्रकरणे च्छ्वोः शूडिति १०९ ३० तेषामिह ग्रहणं प्रपञ्चार्थ १०३ स्थादिष्वभ्यासेनेति ११० चिन्तेति पठितव्ये यङन्तप्रक्रियायाम् । एतच्च ज्ञापक सामान्यापेक्ष. १०४ विशेषापेक्षमिति। १०४ धातोः किमिति १९ ११० १३ यत्तु इदित्करणाद्यन्नतीति १०४ २३ यस्यति संग्रहणमि० ११० १६ दीर्घोच्चारणं णिचः पाक्षिकत्वे १०४ २६ यकारपरेफस्य न ११० इररारामपवाद इति १०४ दीर्घोऽकितः ११० १९ अल्लोपस्य स्थानिवस्वा० कौटिल्य एवेति १०४ ११० ३४ ओः पुयणर्जाति १०५ अकित इत्युक्तेर्न दीर्घः १११ 0 0 - 0 0 ७ १०३ my .. ९ विषयानुक्रमणिका। 7 पृ०. पं० ३ ३ ३ ११३ विषयः पृ० पं. विषयः ( यलुगन्ते) औकारीयदिति ११७ २६ यडोऽचि च १११ १६ अत्राच्वेरित्यनुवृत्त्येति ११७ अनैमित्तिकोऽयमन्तरङ्ग. १११ १९ उष्ठवदित्यदेशादिति ११८ धातुत्वाल्लडादय इति १११ २७ : दरदनाचष्टे ११८ डित्वस्य प्रत्ययाप्रत्यय० १११ ओः पुयणजीतिसूत्रे ११८ १३ अनुदात्तङित इत्यनुबन्ध ११२ ५ टेरित्यस्यैवेति ११८ अत एवेत्यादि ११२ ९ । शुनयतीति ११८ बोभूतुतेतिक्ते ११२ १५ अन्येतु शुनयतीति ११८ अत एवेति ११२ १८ अङ्गवृत्तपरिभाषया ११९ अभ्यस्ताश्रयो जुसिति ११२ विदावयतीत्यन्त इति ११९ नित्यत्वावुगिति ११३ २ | उदीचयतीति ११९ ६ एकाग्रहणेनोक्तत्वाने ११३ तिरायति ११९ अनुनासिकलोपस्या ९ असिद्धवदत्रेति ११९ अनुवन्धनिर्देशान्न च्लेर. ११३ १७ (आत्मनेपदप्रक्रियायाम्) शितपाशपेति निषेधस्त्व. ११३ १९ कर्तरि कर्मव्यतीहारे ११९ श्तिपानिर्देशाज्जादेशोने. ११३ नेविंशः ११९ वधादेशस्य द्वित्वं तु. ११३ ३१ हर्षादिष्विति किम् ११९ आङ्पूर्णकात्तु १९४ णेरणाविति ११९ तपरत्वान गुण इति ११४ यद्वति १२० उतो वृद्धिरित्यत्र ११४ १२ ( परस्मैपदप्रक्रियायाम् ) लुका लुप्त प्रत्ययल० ११४ १६ ननु अनुपराभ्यां कृतः १२० ननु अर्तेर्यलु कि ११४ ग्रहो लिटीति दीर्घस्तु [ भावकर्मप्रक्रियायाम् ] ११४ तद्भाष्यविरुद्ध भावनेति ११५ १२० १ भाष्ये ध्वनितमिति सामानाधिकरण्याभा० १२१ ११५ तिवाच्यभावनायाः १२१ अपदान्तत्वादिति औत्सर्गिकत्वेनेति १२१ १९ ११५ २८ सन्निपातपरिभाषया आशीर्लिङि ११५ ३२ १२२ लिङ्गविशिष्टपरिभाषयेति अङ्गस्यैवातिदेश। १२२ ११६ अभिव्यक्तत्वेन धातुपा० प्रकृतो मितां ह्रस्व एव १२२ ११६ ९ पथीनतीति दीर्घविधौ यि ११६ १२२ १८ १३ देवतीति माधव इति णाविति जातिपरो १२२ २२ ११६ २३ ११७ २ कर्मकर्तृप्रक्रियायाम् युद्धे योऽयं ग्रामशब्द यदा सौकर्येति १२२ ७ 6 २७ [नामधातौ] 1o ३ यत्तु स्वामी विषयानुक्रमणिका । पृ० १२७ १२७ १२७ १२७ १२७ १२८ १२८ १२८ अजा प्राम ६ १२८ १२८ १२८ १२९ विषयः पृ० पं. विषयः कार्यातिदेशोऽयम् १२३ ३ वदः सुपि क्यप् च द्वितीया स्यादिति १२३ ६ । कर्मणि प्रत्ययावित्य के ननु पचिभिद्योरिति १९ । बृइति वृञोग्रहणं नवृङः तुल्यत्वव्यवहार इति १२३ २२ पुमःक्यवुक्तिः कर्मणेति किमिति १२३ २४ । इचेति ह्रस्वः गच्छति ग्राम इत्यादि १२३ ३१ अथ कथं भार्यावधूरि० सकर्मकाणां प्रतिषेधः १२३ ३३ / यथोत्तरंमुनीनां अन्योऽन्यं० ३५ / इह लोटाबधेत्यारभ्य १२४ आगमस्य दीर्घत्व विध्यर्थमिदमि० १२४ १० खशोऽन्यत्र नेष्यत कृदन्तप्रकरणे। ब्रह्मज्य इति धातोरिति १२४ आह्व इति आतृतीयसमाप्तेरिति २७ अच्चौ किम् भावे औत्सर्गिकमेकव० १२५ ९ भष्यावरोधादुपेक्ष्य. वृत्तिकारस्तु १२५ १३ भाष्यकारवचनात् विहितविशेषणं किम् १२५ १९ / चतुर्विधोऽत्र नियम इति नुम्ग्रहणमनुस्वारोपल. १२५ २९ / भावकर्मणोस्तु ण्यन्तभादिनामुपसं० १२५ ३३ / दृशिग्रहणादभ्यास क्शामः शस्य यो वे १२५ ३६ / केचिदविहिता अग्रहणंयक्यम० १२६ ७ | अर्थग्रहणमस्तिनैव जनेर्यद्विधिः स्धारार्थः १२६ १४ पर्यायोपादानम० नानुबन्धकृतमसाल १२६ १७ । अन्तर्भावित योगविभागोऽप्येवम् १२६ २२ विश्राम इतित्व० नुमिकृतेऽद्गुपधत्वभावा १२६ कथं प्रभावो राज्ञः यमेनियमार्थमिति १२६ ३० कथं राज्ञो नम इति शतेन वर्या मम्या १२६ રે રે १२९ १२९ १२९ १२९ १३० १३० १३० १३० १३० १३० १३१ १३१ इति विषयानुक्रमणिका समाप्ता ! cooes फकिकारत्नमञ्जूपा। श्रीशैलराजतनयैकरदाङ्किताऊँ मन्दाकिनीसतरलीकृतमजटालिम् । बालेन्दुरश्मिपरिशोभितभालदेशं श्रीविश्वनाथमनिशं समुपास्महे तम् ॥१॥ कारुण्यपूर्णहृदयां विधुखण्डभूपां देवीं सुरासुरसमर्चितपादपद्माम् । सृष्ट्यद्भवस्थितिलयैकनिदानभूतां दुर्गा श्रिया विलसितां जननीं नमामः ॥२॥ प्रणम्य गुरुपादाब्जं निधाय हृदये च तत् । फक्किकारत्नमञ्जूपाऽपरो भागो वितन्यते ॥ ३ ॥ अथ कारकप्रकरणम् । "स्वौजसमौडि'ति सूत्रेण विहितानां सुपामर्थविशेपे व्यवस्थाम्प्रदर्शयितुमाह-प्राति- पदिकार्थेति । (१)अस्यापि सूत्रस्य क्रियायोग एव प्रवृत्तिः । (२)अत एव ( तिङ्समा- नाधिकरणे प्रथमे ) ति वात्तिक सङ्गच्छते । (३)नचैवं भूतले घट इत्यादौ प्रथमा न स्या- क्रियायोगाऽभावादिति वाच्यम् । तत्राऽप्यन्ततोऽस्तिक्रियायाः सत्त्वात् । यत्र काचन क्रिया नास्ति; तत्राऽप्यस्तिभवतिविद्यतीनां सत्तेति भाष्योक्तेः । नच त्रयः काला इत्यादौ कल्या अपि क्रियाया असत्वादध्याहर्तुमशक्यत्वाच्च प्रथमा न स्यात् । न च सन्तीति क्रियामादाय तत्सिद्धिरिति वाच्यम् । कालत्रये वर्तमानत्वस्य बाधेनोक्तक्रियाऽध्याहार- स्याऽसम्भवादिति वाच्यम् । वर्तमानकालवृत्तित्वविशिष्टज्ञाने कालत्रयविषयकत्वस्याऽक्षत- सोन ज्ञायन्ते इति क्रियाऽध्याहारसम्भवात् । यद्वा, सन्तीत्येवाऽध्याहार्यः, प्रारब्धाऽऽप- रिसमाप्तिक्रियाऽऽश्रयत्वस्य वर्त्तमानत्वेन कालत्रयस्य सृष्टिप्रारब्धापरिसमाप्तिक्रियाऽऽश्रय- त्वरूपवर्तमानकालिकसत्तात्वविशिष्टत्ले बाधकाऽभावात् । आख्यातार्थकादिनाऽभेदान्वयेन प्रथमान्तार्थस्य क्रियायोगो बोध्यः । एवञ्च प्रथमान्तार्थस्याऽपि क्रियाजनकत्वात् (४)अस्याः (१)कारकविभक्तित्वेन भाष्ये व्यवहारः ॥ " १) प्रथमाया न कारकविभक्तित्वमिति वादिमतं दूषयितुमाह-अस्यापीति । २) एतत्सूत्रस्यापि क्रियायोग एव प्रवृत्तेरेवेत्यर्थः । (३) एतत्सूत्रस्य क्रियायोग एव प्रवृत्तावित्यर्थः । (४) प्रथमाया इत्यर्थः । (५) कारकत्वञ्च, क्रियानिष्टविशेष्यतानिरूपितप्रकारतासमानाधिकरणविशेष्यतानिरू- पिता ऽभेदसम्बन्धावच्छिन्नप्रकारताश्रयत्वम् । तादृशप्रकारताप्रयोजकपदोत्तरत्वं कारकविभ- क्तित्वम् । एवञ्च देवदत्तो गच्छतीत्यादौ देवदत्तस्य कारकत्वं तदुत्तरविभक्तेश्च कारकविभक्तित्व मुपपन्नम् , तथा हि गमनक्रियानिष्ठविशेष्यतानिरूपिता या प्रकारतासमानाधिकरणा विशेष्य- तासा च तिर्थकर्तृनिष्ठा तादृशविशेष्यतानिरूपिताऽभेदसम्बन्धावच्छिन्नप्रकारता देवदत्तनिष्टा तदाश्रयः स एवेति तस्य तत्त्वमुपपन्नम् । उक्तसम्बन्धावच्छिन्नप्रकारताप्रयोजको देवदत्त- स्तदुत्तरत्वं प्रथमाया इति तस्या अपि तत्त्वमुपपन्नमिति भावः ।

२ फक्विकारत्नमञ्जूषा । ननु (१)स्वार्थद्रव्यलिङ्गसंख्याकारकेतिपञ्चविधः प्रातिपदिकार्थ इति पक्षे स्वार्थद्रव्यलि- हुतित्रिविधप्रातिपदिकार्थपक्षे च कृष्णादिशब्द लिङ्गस्यापिप्रातिपदिकार्थत्वाल्लिङ्गग्रहणं व्य- र्थमित्यत आह-नियतोपस्थितिकः प्रातिपदिकार्थ इति । निपूर्वकयमधातोर्व्यापकत्व- मर्थः । तथा च नियता व्यापिका उपस्थितिर्यस्य स नियतोपस्थितिकः, यस्मिन्प्रातिपदिके उच्चारित यस्यार्थस्य नियमेनोपस्थितिः स प्रातिपदिकार्थः । अर्थात् (२)नियतोपस्थितिक- प्रातिपदिकार्थः । नियमनेत्यल्य व्यापकत्वेनेत्यर्थः । तत्त्वञ्च तत्समानाधिकरणाऽत्यन्ता- ऽभावीयप्रतियोगिताऽनबच्छेदकधर्मवत्त्वम् । स्वविषयकश्रावणप्रत्यक्षसमवायित्व-स्ववि- पयकशक्तिमानसमवायित्वरूपोऽधिकरणतानियामकः सम्बन्धो बोध्यः । (३)एवञ्चानिय- तलिङ्गकेभ्यस्तादिशब्देभ्यो लिङ्गस्यानियतोपस्थितिकत्वाऽभावेन प्रातिपदिकार्थपदेना- ऽग्रहणान्न ततः प्रथमोत्पत्तिरिति तदर्थमावश्यकं लिङ्गग्रहणमिति । तटः, तटी, तटमित्यादौ तादिशब्हानां पुंस्त्व-स्त्रीत्व-क्लीबत्वबोधकतत्तत्प्रत्ययसमभिव्याहारात्सकललिङ्गबोधको ततः कस्यापि लिङ्गस्म नियतोपस्थितिकत्वाऽभावात्तद्वोध्यलिङ्गस्य प्रातिपदिकार्थपद- नाऽग्रहणात्प्रथमाऽनुत्पत्त्या तदर्थ लिङ्गमहणस्याऽऽवश्यकत्वमिति भावः । नच नी- लरूपवत्परकस्य कृष्णशब्दस्य नियतलिङ्गत्वाऽभावात्ततः प्रथमा न स्यादिति वाच्यम् । वासुंदवार्थकस्य तस्य नियतलिङ्गत्वात् । कृष्णत्व-कृष्णसमवायपुंस्त्वादिनियतोपस्थितिक इति बोध्यम् । न च मञ्चाः क्रोशन्ति, सिंहो माणवक इत्यादौ मञ्चस्थकर्तृकाऽऽद्वानरूपा- र्थस्य सिंहादिसशरूपार्थस्य च लक्ष्यार्थस्य (४)शक्यार्थरूपप्रातिपदिकार्थेनाऽसङमहात्प्र- श्रला न स्यादिति वाच्यम् । शस्यार्थे पदं साधुत्तेनान्वाख्याय पश्चात्पदान्तरससभिव्या- हारात्तात्पर्याऽनुपपत्त्या लक्षणाङ्गीकारेणाऽदोपात् । शक्यतावच्छेदकारोपस्यैव लक्षणात्लेन व्यवहाराच्च । लिङ्गमात्रे इति । लिङ्गस्यैवाधिक्येति तदर्थः । नच नीलो घटः, वीरः पुरुष इत्यादौ विशेष्यविशेषणभावस्याऽधिकस्य भानसत्त्वेन लिङ्गस्यैवाऽऽधिक्याऽभावा- त्प्रथमा न स्यादिति वाच्यम् । विशेष्यविशेषणभावस्य वाक्यार्थत्वेन बहिरङ्गत्वात्स्वा- र्थमात्रनिमित्तप्रथसप्रवृत्तप्रथमारूपसंस्कारस्य तेन बाधाऽयोगात् । नच तस्य वाक्यार्थले किम्प्रमाणमिति वाच्यम् । ( यत्राधिक्यं सवाक्यार्थः) इति प्रकृतसूत्रस्थभाष्योक्त- (१) तटुक्तम्- एक द्विकं त्रिकं चाथ चतुष्कं पञ्चकं तथा । नामार्था इति सर्वेऽमी पक्षाः शास्त्रे निरूपिताः ॥ (२) तत्त्वञ्च, उच्चारितप्रातिपदिकसमानाधिकरणात्यन्ताभावाप्रतियोगिवोधनिरूपि- तविषयताश्रयत्वम् । लक्षणसमन्वयश्चत्थम् । उच्चारितघटरूपप्रातिपदिकसमानाधिकरणो योऽत्यन्ताभावः स च न घटो नास्तीत्याकारकोऽपि तु पटो नास्ति मठो नास्तीत्याकारक इति तादृशाभावस्य न घटविषयको बोधः प्रतियोगी, अपि तु पटविषयको मठविषयकश्चैव तादृश इत्युक्ताभावाप्रतियोगिबोधो घटीयो बोधः '( घट इत्याकारकः ) तन्निरूपितविषयता घटे तदाश्रयत्वं तस्यैवेति प्रातिपदिकार्थत्वं तस्य सिद्धमिति भावः । (३) नियतोपस्थितिकरूपप्रातिपदिकार्थस्य ग्रहणे चेत्यर्थः । ४ ) शक्यार्थरूपेत्यादि । लक्ष्यार्थस्य नियतोपस्थितिकत्वाभावादिति भावः ।

कतृकारकप्रकरणम् । ३ स्यैव प्रमाणत्वात् । अयं विशेष्यविशेषणभावो द्विविधः, एकः-यत्र भेदः संसर्गत्लेन मा- सते तत्र तत्सम्बन्धावच्छिन्नः, द्वितीयो-यन्त्र समानविभक्तिकनामार्थयोरन्वयस्तत्रेतरसम्ब- न्धाऽनवच्छिन्नः। नच विशेष्यविशेषणभावस्य वाक्यार्थत्वेन बहिरङ्गत्वात्तेन प्रथमप्रवृ- त्तसंस्कारावावेन घटम्पश्यतीत्यादावपि कर्मत्वस्य क्रियासापेक्षत्वेन वाक्यार्थत्वात्प्रथमा- ऽऽपत्तिरिति वाच्यम् । सत्येवं 'कमणि द्वितीया' इत्याद्यनुशासनवैयापत्तेः । एवञ्च द्वितीयादेदेशस्य प्रथमयाऽवरुद्धत्वादस्यास्ताभिबांधेन न प्रथमाऽऽपत्तिशाकलङ्ककणि- केति भावः ॥ एवञ्च नियतोपस्थितिकत्वरूपप्रातिपदिकार्थत्वस्वीकारेण यत्फलितन्तदाह-अलि- ङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थमात्रस्योदाहरणमिति । अलिंगा असत्त्वभूतत्देन लिङ्गादियोगाऽभाववन्त उच्चरित्यायव्ययशदा इत्यर्थः । बासुदेव-लक्ष्मी-ब्रह्माऽऽद्यर्थबो- धकाः कृष्ण-श्री-झानादयः शब्दा नियमेन पुं-स्त्री-क्लीबानुपस्थापयन्तीति भावः ॥ ननु द्रोणादीनाम्परिमाणमर्थ इति तेभ्यः प्रातिपदिकार्थमात्र एव प्रधमासिद्धौ परि- माणग्रहणं व्यर्थमिति चेत्, न। न मूलोक्तार्थलाभाय तस्याऽऽवश्यकत्वादित्यत आह-परिमा- णमात्रे द्रोणो बोहिरिति । अयम्भावः-सूत्रे परिमाणग्रहणसत्त्वे तत्र द्रोणशब्दात्प्रथमा- विधानेन परिमाणस्य प्रत्ययार्थत्वात्तत्र प्रकृत्यर्थस्य द्रोणस्याऽभेदनाऽर्थादितरसम्बन्धानव- च्छिन्नविशेषणविशेष्यभावसंसर्गणाऽन्वयः, प्रत्ययायल्य परिमाणस्य परिच्छेद्यपरिच्छेदकभा- वेन ब्रीहावन्वयः, तथाच द्रोणाऽभिन्नं यत्परिमाणं तत्परिच्छिन्नो व्रीहिरित्यर्थः फलितः, परिमाणग्रहणाऽभावे प्रातिपदिकार्थे प्रथमाविधानात्प्रातिपदिकार्थस्य प्रत्ययार्थत्वात्तत्र दो- णस्याऽभेदाऽन्वयः प्रत्ययार्थस्य च तस्योक्तसम्बन्धेन व्रीहावन्वयस्तथा च द्रोणाऽभिन्नो वी- हिरिति स्यात्परमेतबाधितं (नामार्थयोरभेदातिरिक्तः सम्बन्धोऽव्युत्पन्नः ) इति व्युत्प- त्तिविरोधात् । इति मूलोक्तार्थलाभार्थ परिमाणग्रहणमावश्यकमिति भावः। नचोक्तव्युत्पत्ती किम्प्रमाणमिति वाच्यम् । भेदसंसर्गावच्छिन्ननामार्थनिष्टप्रकारतानिरूपितविशेष्यतासम्ब- न्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति विशेप्यतासम्बन्धेन प्रत्ययजन्योपस्थितिः कारणमिति कार्यकारणभावस्यैव प्रमाणत्वात् । अत एव राज्ञः पुरुष इत्यत्र भेदसम्बन्धावच्छिन्नराज- निष्टप्रकारताकयुरुषपदार्थनिष्टविशेष्यताकशाब्दबुद्धौ डस्प्रत्ययजन्योपस्थितेः कारणत्वाद्- भेदसंसर्गको बोधी भवति । न हि भवति राजा पुरुष इत्यत्र तादृशो बोधः, उक्तसंसर्ग- कबोधे डस्प्रत्ययजन्योपस्थितेः कारणत्वात्तस्याऽनाऽसत्त्वात् । वैयाकरणैर्नाऽभेदस्य संसर्ग- त्वमङ्गीक्रियते । तस्य संसर्गत्वे नीलो घट इत्यादौ षष्ठ्यापत्तिः । विशेष्यविशेषणभावे तु न तदापत्तिः । तस्य बोधसामान्यसामग्रीलभ्यत्वेनाऽनन्यलभ्यत्वात् । राहोः शिर इत्या- दावौपाधिकभेदमादाय पष्ठ्युपपादनपरभाष्यप्रामाण्यात्तस्य संसर्गाऽभावत्वं कल्प्यत इति भावः ॥ वचनं किं संख्येति । ननु पञ्चकं प्रातिपदिकार्थ इति नये संख्याया अपि प्रातिपदि- कार्थत्वात्तौवेकादिशब्देभ्योऽपि प्रथमासिद्धौ सूत्रेवचनग्रहणं व्यर्थमिति चेत्, न। 'उक्तार्था- नामप्रयोग' इतिन्यायविरोधेनैकादिशब्देभ्यः प्रातिपदिकार्थे प्रथमाऽप्राप्त्या तदर्थमिह वचन- ग्रहणस्याऽऽवश्यकत्वेन सार्थक्यात् । एकत्वाद्यर्थेषु विभक्तिर्विधेया ते चाऽ र्थाः प्रकृत्यैव फक्किकारत्नमञ्जूषा। प्रतिपादिता इति तेषामभिधानाय पुनर्विभक्तिर्नावश्यिका । यथा घटोऽस्ति कलश इति न भवति, इत्यभिप्रायकोक्तन्यायविरोधो दुरि इति वचनग्रहणमावश्यकम् । न च वचनग्रह- सत्त्वेऽप्युक्तन्यायविरोधो दुरि इति वाच्यम् । सामर्थ्यादुक्तन्यायबाधेन विरोधपरिहा- रात् । नहि तद्ग्रहणमन्तरेष्टसिद्धिरिति भावः । नचैकत्वविशिष्टे एकत्वान्तराऽन्वयार्थमेक- वचनमस्त्विति वाच्यम् । प्रातिपदिकप्रतिपादितसंख्याविशिष्टे संख्याऽन्तराऽभावेनैकवच- नोत्पत्तेरसम्भवात् । न च तर्हि एकादिशब्देभ्यो द्विवचनादिकमुत्पद्यतामिति वाच्यम् । अनन्वितार्थकविभक्तिकल्पनाऽपेक्षयाऽन्वितार्थकविभक्तिकल्पनस्यैव न्याय्यत्वेन द्विवचना- दरनुत्पत्तेः । न च (अपदं न प्रयुञ्जीते) ति भाष्यसिद्धान्तादेकवचनादिसिद्धौ वचनग्रहणं व्यर्थमिति वाच्यम् । सत्येवं तल्याऽनावश्यकत्वात् । (नाऽसूया तत्र कर्तव्ये ) ति भा- ध्यसिद्धान्ताद्वयाख्यानात्करणं वरमिति प्राचीनसिद्धान्ताच्च कर्त्तव्यमेव वचनग्रहणमिति कचिदिति दिक् ॥ ननु हिमानीन्द्राणीत्यादिभ्यः प्रातिपदिकार्थमात्रे प्रथमा भवति, सा च न सम्भवति महत्त्वपुंयोगयोराधिक्यादिति चेत्, न। (१)(लिङ्गविशिष्ट ), परिभाषया तदुपपत्तेः । प्रा- तिपदिकार्थमात्र इत्यत्र प्रातिपदिकपदस्य प्रातिपदिकप्रकृतिकलिङ्गबोधकप्रत्ययस्याऽपि बो- धकत्वेन यस्माल्लिङ्गबोधकप्रत्ययान्तात्प्रथमोत्पत्तिरभिप्रेता तज्जन्यनियतोपस्थितिकोऽर्थो विवक्षितः; स च प्रकृतेऽस्तीति भावः ॥ नागेशास्तु-प्रातिपदिकार्थशब्देन यस्माच्छब्दात्प्रथमाविधानं तच्छब्दप्रवृत्तिनि- मित्तस्य तदाश्रयस्य च ग्रहणम् । तस्य च मुख्यस्येव आरोपिततदाश्रयस्यापि ग्रहणम् । प्र- वृत्तिनिमित्तप्रकारकारोपविशेष्यस्यापोति तदर्थः । प्रातिपदिकार्थशब्देनाऽऽरोपिततदाश्रयस्य ग्रहणादेव गोपीत्यादौ गोपत्वप्रकारकारोपविशेष्यार्थबोधकत्वेऽपि प्रथमासिद्धिः। (२)अन्य- थोक्तप्रयोगे गोपत्वरूपप्रवृत्तिनिमित्तस्य प्रातिपदिकार्थशब्देन ग्रहणात्तस्य तत्राऽसत्वात्सा न स्यात् । प्रातिपदिकार्थपदेन प्रवृत्तिनिमित्ततदाश्रययोरेव ग्रहणादेव सूत्रे लिङ्गग्रहणस्य सार्थ- क्यम् । अन्यथा 'स्वमोनपुंसकात् इत्यादिशास्त्रप्रामाण्याल्लिङ्गस्यापिप्रातिपदिकजन्योपस्थि- तिविषयार्थत्येन तस्य स्पष्टमेव वैयर्थ्यं स्यात्। लिङ्गस्य प्रातिपदिकजन्योपस्थितिविषयार्थत्वा- देव 'स्त्रियामिति सूत्रे स्त्रीत्वे द्योत्ये इत्यर्थी भाष्ये सिद्धान्तितः । न च प्रवृत्तिनिमित्तत- दाश्रययोः प्रातिपदिकार्थपदेन ग्रहणे हिमानी मृडानीत्यादौ प्रथमा न स्यान्महत्वपुंयोगयो- राधिक्यादिति वाच्यम् । महत्वविशिष्टहिमत्वस्याऽऽरोपितमृडत्वस्य च प्रवृत्तिनिमित्तस्य तत्र सत्त्वादित्यलम् ॥ इति कर्तृकारकप्रकरणम् । १) लिङ्गविशिष्टेति । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति परिभाषा- खरूपम् । ( २ ) आरोपिततदाश्रयस्य प्रातिपदिकार्थपदेनाऽग्रहणे सतीत्यर्थः ।

अथ कर्मकारकप्रकरणम् । कारके । अत्र प्रथमाऽर्थे सौत्री सप्तमी; तेन कारकमिति तदर्थः । कारकत्वं क्रिया- जनकत्वम् । करोति क्रियां निवर्तयतीतिव्युत्पत्तेर्भाष्ये दर्शनात् । ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीत्यादौ ब्राह्मणस्य न कारकत्वं तस्याऽन्यथासिद्धत्वेन क्रियाजनकत्वाऽभावात् । का- स्कागां क्रियाजनकत्वादेव तेषां क्रियायामेवाऽन्वयः। क्रियाजनकमिति ज्ञाते का सा कि. येत्याकासोदयेन क्रियाया जनकाकांक्षया च कारकागां क्रियायामन्वयस्यैवौचित्यमिति तदाशयः । न च क्रियाशब्दस्य प्रधानक्रियायां मुख्यत्वेन कर्मादिकारकाणां प्रधानक्रि- या निवर्तकत्वात्कथं तेषां कारकत्वमिति वाच्यम् । सकलकारकाणां स्वस्वनिष्ठफलोत्पत्य- नुकूल क्रियाद्वारा प्रधानक्रियानिष्पादकत्वेन तदुपपत्तेः । न च जनिष्यमाणपुत्राय गां दा- स्यामीत्यादौ सम्प्रदानत्वं न स्यात्तस्यदानामसन्निहितत्वन कारकत्वाऽभावादिति वाच्यम् : असन्निहितसम्प्रदानस्यापि दातृधुद्धिस्थत्वावश्यकत्वात्स्वज्ञानस्य पूर्वकालवृत्तित्वनैव क्रि- याजनकत्वात् । यथा यागस्य साक्षात्स्वर्गाव्यवहितपूर्ववृत्तित्वाऽभावेऽपि परमाऽपूर्वद्वारा स्वर्गजनकत्वं तथाऽसन्निहितसम्प्रदानजन्यं यत्तद्विषयकं तज्ज्ञानक्रियायाऽव्यवहितपूर्वकाल- वृत्तित्वेन सम्प्रदानस्यापि क्रियाजनकत्वमिति भावः । एवं स्तोकम्पचतीत्यादौ फलस्यापि स्वज्ञानद्वारा व्यापारजनकत्वेन कारकत्वात्कर्मत्वमुपपन्नम् । अन्यथा क्रियाजनकस्य कार- कत्वात्फलस्य तत्त्वाऽभावात्कर्मत्वं न स्यादिति भावः ॥ क्रियाऽन्वयित्वं कारकत्वमिति नाऽभ्युपगन्तव्यं ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीत्यादौ पुत्रद्वारा ब्राह्मणस्य क्रियाऽन्वयित्वेन कारकत्वाऽपत्तेः । न च साक्षाक्रियाऽन्वयित्वमिति तल्लक्षणस्वीकारे ब्राह्मणस्य साक्षात्क्रियाऽन्वयित्वाऽभावादुक्ताऽऽपत्त्यभावादिदमेव तल्लक्ष- णमस्त्विति वाच्यम् । तथा सति मातुः स्मरतीत्यादौ मातुः स्मरणक्रियायां साक्षादन्व- येन कारकत्वाऽऽपत्तेः । अतः पूर्वोक्तलक्षणमेव साधु, एवञ्च मातुः क्रियाजनकत्येनाऽन्वयि- त्वाऽविवक्षणेन नोक्ताऽऽपत्तिलेशोऽपीति भावः ॥ कर्तुरीप्सिततमं कर्म । कर्तृरिति ‘क्तस्य च वर्तमाने' इति कर्तरि षष्टी । ईप्सित- तममिति आप्नोतेः सनि द्वित्वे 'आपज्ञपृधामीत्' इत्याकारस्येत्वे 'अत्र लोपोऽभ्यासस्ये' त्यभ्यासलोपे 'मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्ते ततः ‘अतिशायने तमबिष्ठनाविति तमबि सिद्धम् । अत्र सूत्रे मतिरिच्छा न बुद्धिः, पुनर्बुद्धिग्रहणात् । अत्रेप्सितशब्दो नाs- भिप्रेतपरः; किन्तु क्रियापरः 'वारणार्थानामिति सूत्रभाष्यकैयटयोस्तथैव दर्शनात् । एवञ्च काप्तुमिष्यमाणं कर्मेति तदर्थः । आतिश्चात्र सम्बन्धो नतु व्याप्त्यर्थकः । स च सम्बन्ध उपस्थितत्वात् कर्तृपदार्थाऽविशेपणीभूतव्यापारद्वारक एव गृह्यते । उपस्थितपरित्यागेऽनु- पस्थितकल्पने मानाऽभावात् । एवञ्च का स्वनिष्टव्यापारप्रयोज्यफलेन सम्बन्धुमिष्य- माणमित्यर्थः । यथा तण्डुलं पचतीत्यादौ(१)(व्यपदशिवद्भावेन ) फलस्यापि स्वसम्ब- न्धित्वाकर्मत्वसिद्धिः । अत्र क्तप्रत्ययोपात्तवर्तमानत्वं न विवक्ष्यते; तथा सति कटं कृत- (१) व्यपदेशिवद्भावेनेति । 'व्यपदेशिवदेकस्मिन्निति परिभाषाखरूपम् । यथा सस- हाये मुख्यव्यवहारो भवति तथैकस्मिन्नसहायेऽपि भवतीत्यर्थः । .

६ फक्किकारत्नमञ्जूषा। . वान् करिष्यतीत्यादौ कर्मत्वाऽनुपपत्तेः । नचाऽत्र वर्तमानत्वस्याऽविवक्षणात्कथं षष्ठीति वाच्यम् । एतत्सूत्रशाब्दबोधे तदविवक्षेति तदाशयादित्यलम् ॥ कत्तुः किम् । माओवश्वं बध्नाति । ननु कारकाधिकाराद्व्यापारलाभात्तेन कर्तु- राक्षेपात् कर्तृवृत्तिव्यापारप्रयोज्यफलवत्त्वाकारिकेच्छानिरूपितविषयताऽऽश्रयः कौत्यर्थे द- वदत्तो ग्रामं गच्छतीत्यादौ देवदत्तकर्तृवृत्तिव्यापारः उत्तरदेशसंयोगानुकूलरूपः तत्प्रयोज्य- फलाऽऽश्रयो ग्रामो भवत्वित्याकारिका तादृशेच्छानिरूपितविषयता ग्रामनिष्ठा तादृशविष- यता ग्रामनिष्ठातादृशविषयताऽऽश्रयस्य ग्रामस्थ कर्मत्ये सिद्ध कर्तुर्ग्रहणं व्यर्थमिति चेत्, न । तस्य प्रकृतधातूपात्तव्यापाराश्रयकर्तृग्रहणेन सार्थक्यात् । अन्यथा माषेषु प्रसक्तमश्वं मा- पनाशो मा भूदित्यन्यत्र बनातीत्यर्थके माषेष्वश्वं बध्नातीतिप्रयोगे मापभक्षणकर्त्तर- श्वस्य मवृत्तिव्यापारप्रयोज्यगलबिलाधःसंयोगरूपफलाश्रयतया माषा भवन्त्वितीच्छा- यास्सत्त्वादधिकरणसंज्ञाम्बाधित्वा माषाणां कर्मत्वापत्तेः । प्रकृतधातूपात्तव्यापाराऽश्रय- कर्तुर्ग्रहणे तु नोक्तदोपः, अश्वस्य प्रकृतधातूपात्तव्यापाराऽश्रयत्वाऽभागेनाऽग्रहणात् । न च तादृशकर्तुहणेऽपि पुष्ट्यर्थे मापक्षेत्रेऽश्ववन्धनस्थल तादृशकर्तुदेवदत्तस्यैव मवृत्तिव्यापार- प्रयोज्य बन्धनाश्रयोऽश्वो भवतु, अश्वस्य गलबिलाधःसंयोगाश्रया मापा भवन्त्वितीच्छा- याः सत्त्वान्माषाणां कर्मत्वं दुर्वारमेवेति वाच्यम् । प्रत्यासत्या प्रकृतधातुवाच्यफलस्यैव ग्रहणेनाऽदोषात् । यत्तु स्वारसिकार्थके माषेष्वश्वं बध्नातीति प्रयोग एव दोषस्य सम्भ- वान्माषेषु प्रसक्तमित्याद्य) लक्षणा नावश्यिकेति केचित्, तन्न, कर्मण ईप्सिता माषा न तु कर्तरितिग्रन्थसंगत्यर्थ तदावश्यकत्वात् ॥ वस्तुनस्तु-प्रकृतधातूपात्तव्यापाराश्रयकर्तृग्रहणेऽपि पुष्ट्यर्थ माषक्षेत्रेऽश्वबन्धनस्थले माषाणां कर्मत्वव्यावृत्तये प्रकृतधातूपात्तफलस्य ग्रहणमावश्यकमिति तेनैव माषेषु प्रसक्त- मित्याद्यर्थके मापेष्वश्वं बध्नातीति प्रयोगेऽप्युक्तदोषव्यावृत्तौ कर्तृग्रहगफलमन्वेषणीय- मिति दिक् ॥ तमवग्रहणं किमिति-अवयवद्वारा समुदायस्य प्रश्नः । अर्थादीप्सिततम ग्रहणं किमर्थं ( कर्तुरुदेश्यं कर्मे ) त्येवास्तु सूत्रमिति प्रष्टुराकृतम् ॥ समाधत्ते-एयसौदनम्भुङ्क्त इति-यदा कृतभोजनोऽपि देवदत्तः पुनरोदनभोजने प्रवर्तते तदेदं प्रत्युदाहरणं बोध्यम् । अयम्भावः-कर्तुरुदेश्यं कर्मेति सूत्रकरणे उक्तस्थले भोजनक्रियाकर्तुः पयस उद्देश्यत्वात्तस्य कर्मत्वापत्तिः । ईप्सिततमबग्रहणसत्त्वे तु पयसः कर्तृवृत्तिव्यापारप्रयोज्यगलबिलाधःसंयोगरूपफलाश्रयत्वाभावान्नोक्तापत्तिः । ओदनम्भुङ्क्ते इत्यादौ पयसः कर्मत्वव्यावृत्त्यर्थमीप्सितग्रहणमेवाऽस्तु तमवग्रहणं व्यर्थ- मेवेतिवाच्यम् । अग्नेर्माणवकं वारयतीत्यादावग्नेः कर्मत्वव्यावृत्यर्थत्लेन तस्य सार्थ- स्यात् । नचाऽग्नेः कर्मले 'वारणार्थानामिति सूत्रं वैयर्थ्यमाप तेतिवाच्यम् । तस्य सामर्थ्यात्कर्मसंज्ञाम्बाधित्वा माणवकस्यापादानसंज्ञा विधानेन साफल्यात् । नचाऽग्नौ 'चारणार्थानामि' त्यस्य चरितार्थतो कथमपवादत्वमिति वाच्यम् । माणवकस्यापि वारि- धातूपस्थाप्यसंयोगरूपफलाश्रयत्वात् । संयोगाद्यनुकूलव्यापाराभावानुकूलव्यापारस्यैव वारिधात्वर्थत्वात् । नच संयोगस्न वारिधात्वर्थकर्तृव्यापारजन्यत्वाभावात्संयोगाश्रयेऽग्नौ नच पयसा कमकारकप्रकरणम् । कर्मत्वाऽप्राप्त्या तत्र चरितार्थस्योक्तसूत्रस्य कथमपवादत्वमिति वाच्यम् । असति तम- ग्रहणे कर्तृवृत्तिव्यापारवाचकधातूपात्तफलाश्रयत्वमित्यर्थस्यैव तेन लाभेन तत्र कर्मत्वस्य दुर्वारत्वात् । असति तमग्रहणे कर्तृवृत्तिव्यापारवाचकधातूपात्तफलाश्रयस्य कर्मत्वमि- त्यर्थेऽग्नेदेवदत्तकर्त्तवृत्युत्तरदेशसंयोगानुकूलव्यापाराऽभावानुकूलव्यापारवाचकवारिधातूपा- तोत्तरदेशसंयोगाश्रयत्वेन कर्मत्वं दुर्वारं स्यात् । ईप्सिततमब्ग्रहणसत्त्वे तु प्रयोज्यत्व- लाभः । (१)तत्त्वञ्च प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यप्रकृतधात्वर्थफलाश्रयत्वनोदूद- श्यत्वम् । तथाच प्रकृतधात्वर्थप्रधानीभूतव्यापारः उत्तरदेशसंयोगानुकूलव्यापाराऽभावा- ऽनुकूलव्यापारस्तत्प्रयोज्यं फलमुत्तरदेशसंयोगाऽनुकूलव्यापारस्तदाश्रयत्वं माणवकस्येति तस्यैव कर्मत्वम् , अग्नेस्तादृशफलानयत्वाऽ नावान्न तत्त्वमिति भावः ॥ ईप्सिततमत्वलक्षणे-फलव्यापारयोः प्रकृतधात्वर्थतने तुष्ट्यर्थ मापभक्षणाय माप- क्षेत्रेऽश्वबन्धनस्थलेऽपि माषाणां न कर्मत्वं बन्धनप्रयोज्यभक्षणफलाश्रयतोऽपि भक्षणस्य बध्नात्यर्थत्वाऽभावात् । प्रयोज्यत्वनिवेशफलं गां दोग्धि पयो देवदत्त इत्यादौ विभा- गानुकूलव्यापाराऽनुकूलव्यापारार्थकदुहियोगे पयसः कर्मत्वसिद्धिः । जन्यत्वनिवेशे तु न तस्य कर्मत्वं पयोनिष्टविभागस्य प्रधानीभूतव्यापारप्रयोज्यत्वेऽपि उक्तव्यापाराऽजन्य- त्वात् । प्रयोज्यत्वञ्च साक्षात्परम्परासाधारणमिति न तस्य कर्मत्वाऽनुपपत्तिरिति भावः ॥ अत्रेयं विचारणा-ननु 'कर्तुरीप्सिततम' 'तथा युक्तम् इति सूत्रद्वयाकरणरूपला- घवात् कर्तृनिष्टब्यापारप्रयोज्यफलसम्बन्धाश्रयः कर्मत्यर्थकं कर्तुराप्यतमं कर्मत्येवास्तु सूत्रम् । अग्नेर्माणवकं वारयति कूपादन्धं वारयतीत्यादौ नानिकृपयोः कर्मत्वाऽऽपत्तिः, अग्निकूपनिष्टफलसम्बन्धस्य कर्तृव्यापारप्रयोज्यत्वाऽभावादिति चेत् ; न । काशी गच्छन् पथि मृत इत्यादौ काश्याः संयोगरूपफलाश्रयत्वाऽप्राप्त्या तदर्थमीप्सिततममित्यस्य, अनी- प्सितस्य संग्रहार्थ तथा युक्तमित्यस्य चाऽऽवश्यकत्तेनोक्तसूत्रस्य कर्तुमशक्यत्वात् । तण्डुलं पिपक्षन्मृत इत्यत्र तण्डुलस्य फलसम्बन्धाऽऽश्रयत्वाऽभावात्कर्मत्वाऽनुपपत्तेश्च । इप्सित- तममित्युक्तौ तु फलसम्बन्धप्रकारेच्छाविपयत्वात्कर्म वसिद्धिरिति भावः ॥ पुनरत्र विचार्यते-ननु (२)यथोक्तसूत्राऽभ्युपगमे कर्तृवृत्तिव्यापारप्रयोज्यफल- वत्त्वप्रकारिकेच्छानिरूपितविषयताऽऽश्रयः कमेंत्यर्थे काशी न गच्छतीत्यादौ काश्याः संयो- मप्रकारेच्छाविषयत्वाऽभावात्कर्मत्वं न स्यादिति चेन्न । नमसमभिव्याहारे संयोगाऽभावा- ऽनुकूलव्यापारस्यैव गम्धात्वर्थत्येन संयोगाऽभावरूपफलाश्रयत्न कर्मत्वोपपत्तेः । नचैव- अग्नेर्माणवकं वारयतीत्यत्रोत्तरदेशसंयोगानुकूलव्यापाराऽनुकूलव्यापारस्य नसमभिव्याहार वारिधात्वर्थत्वादुहियोगे पयस इवाऽग्नेरपि प्रधानीभूतव्यापारप्रयोज्यसंयोगरूपफलाश्रय- त्वापत्तिरिति वाच्यम् । कर्मत्वलक्षणे प्रधानीभूतव्यापारजन्यत्वस्यैव निवेशेनाऽदोषात् । नचैवं गां पयो दोग्धीत्यादौ पयोनिष्टविभागस्य गोपवृत्तिव्यापाराऽजन्यत्वात्पयसः कर्म- त्वं न स्यादिति वाच्यम् । (३)तस्य गोवृत्तिव्यापारजन्यत्वेऽपि गोपवृत्तिव्यापारजन्य- (१) ईप्सिततमत्वञ्चेत्यर्थः । (२) कर्तुरीप्सिततमं कर्मेतिसूत्राङ्गीकार इत्यर्थः । (३) पयस इत्यर्थः ।

८ फक्किकारत्नमञ्जूषा। स्वस्याऽपि सत्वेन कर्मत्वोपपत्तेः । नचैवं घट जानाति घटमिच्छतीत्यादौ स्वविषयीभव- नाऽनुकूलव्यापारस्य ज्ञानादिरूपस्य धात्वर्थत्वेन ज्ञानादिसमकालोत्पत्तिकस्य स्वविषयी- भवनस्य ज्ञानाद्यजन्यत्वात्तदाश्रयस्य घटस्य, माणवकनिष्टस्योत्तरदेशसंयोगानुकूलव्यापा- राभावस्य प्रागभावरूपस्याऽनादित्वात्प्रधानीभूतव्यापाराजन्यत्वेन माणवकस्य च कर्मत्वं न स्यादिति वाच्यम् । कर्मत्वलक्षणे प्रयोज्यत्वनिवेशेन तत्र तदुपपत्तेः । तथाहि-स्वविष- योभवनादेरप्यनुभवबलेन स्वप्रयोज्यत्वस्याङ्गीकारात् घटस्य, कण्टकापसरणाद्दुःखाभाव इत्याद्यनुरोधेन प्रागभावस्य प्रयोज्यत्वाङ्गीकारेण माणवकस्य च कर्मत्वमुपपन्नमिति भावः॥ अग्नेमांशवकं न वारयतीत्यत्र तु नसमभिव्याहारे उत्तरदेशसंयोगानुकूलव्यापारस्य गच्छन्तं माणवकं दृष्ट्वा तूष्णी स्थितिरूपस्य माणवकव्यापारेणाऽन्यथा सिद्ध्याऽग्निसंयो- गप्रयोजकत्वाऽभावादग्निसंयोगरूपफलस्योक्तव्यापाराऽप्रयोज्यत्वेन तदाश्रयस्य माणवकस्य कर्मत्वं न स्यादिति वाच्यम् । कारणत्वस्येव प्रयोजकत्वस्याऽप्यन्यथासिद्धेरङ्गीकारात्त- दुपपत्तेः । यथा कारणमन्यथासिद्ध तथा प्रयोजकत्वमप्यन्यथासिद्धमिति भावः । ननु एतत्प्रावर्तिनः 'अधिशीङ्स्थासां कर्म इति सूत्रात्कर्मपदाऽनुवृत्या कर्मसंज्ञेत्यर्थ- लाभे 'कर्त्तरोप्सिततमम् इति सूत्रे कर्मपदं व्यर्थमित्याशय समाधत्ते-कर्मेत्यनुवृता- विति । (एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः) इति परिभापया एकयोगनिर्दिष्टस्याऽऽधारपदस्याऽप्यनुवृत्तावाधारस्यैव कर्मत्वं स्यान्नतु फलाश्रयस्येति तघ्यावृत्त्यर्थमन्त्र सूत्रे कर्मग्रहणमावश्यकमिति । अयम्भाव:-आधारोऽधिकरणमिति सूत्रे कस्याऽऽधारयाधिकरणसंज्ञेत्याकांक्षायां कारकाधिकाराक्रियाया एवाधारस्येति लाभे तत्रेप्सितस्वतन्त्रादाभ्यां साक्षात्क्रियाऽधारयोः कर्तकर्मसंताभ्यां बाधात्परम्पराऽऽधारस्य ग्रहणात्परम्परा च कर्तृकर्मद्वारैव । एवञ्च का स्वनिष्ठव्यापारेणाप्तुमिष्यमाणस्तन्निष्टक्रि- थायास्तद्वदाधारः कर्मत्वं प्रतिपद्येत, तथाच विषयतासम्बन्धेन यद्धातुफलं विषये, समवायेन कर्तर्यपि, तद्योगे कर्मत्वमित्याह-गेहं प्रविशतीति । अत्रोक्तसम्बन्धद्वयेन गेहचैत्रयोः फलं तिष्ठतीति भावः ॥ अनभिहिते । अत्र प्रकृतसूत्रस्य कर्तव्यत्वाकर्त्तव्यत्वयोर्विचारः प्रस्तू- यते-ननु स्वार्थ-व्य-लिङ्ग-संख्या-कारकेति पञ्चविधप्रातिपदिकार्थपक्षे ( अनिर्दिष्टार्थाः त्ययाः स्वायें भवन्ति ) इत्यभियुक्तोक्त्या 'स्वादि' सूत्रेण कर्मादौ संख्यायाञ्चार्थे स्वा- दिविभक्तीनां सिद्धौ ‘कर्मणि द्वितीया' इत्यादेः 'द्वयेकयोद्विवचनैकवचने' इत्यादिसूत्राणां नियमार्थत्वं तत्र कर्मणि द्वितीयेत्यादेवयंकयोर्द्विवचनैकवचने' इत्यादेश्चैकवाक्यत्व एकस्मि- न्कर्मणि द्वितीयैकवचनमिति सूत्रजन्यबोवे ( सूत्रस्या?) कर्माद्यर्थस्य प्राधान्यादनभि- हिते इतिसूत्रमनावश्यकम् । नच तदभावे देवदत्तेन ग्रामो गम्यते, यज्ञदत्तेन तण्डुलः पच्यते इत्यादावुक्तकर्मण्यपि द्वितीयापत्तिरिति वाच्यम् । ( उक्तार्थानामप्रयोगः ) इत्यनेनोक्त- कर्मणि तदप्राप्तेः । कर्मत्वबोधनमेव द्वितीयाविधानफलं तच्च तिडैव बोध्यते चेदलं तद्वि- धानेनेति तदाशयः । नच कर्मणि द्वितीयेत्यादिसूत्रस्य संख्यावाक्येन द्वयेकयोढिवचनैक- वचने इत्यादिना सहैकवाक्यत्वेन कर्मगतैकत्वे द्वितीयैकवचनमित्यर्थे संख्यायाः प्राधान्या- दुक्तन्यायाऽप्रवृत्तायुक्तकर्मण्यपि द्वितीयाऽऽपत्त्या तद्वयावृत्तयेऽनभिहिताधिकार आवश्यक कर्मकारकप्रकरणम् । ९ एवंति वाच्यम् । उक्तरीत्योक्तसूत्रजबाध संख्यायाः प्राधान्यात्तदावश्यकत्वेऽपि एकत्ववि- शिष्टे कर्मणि द्वितीयकवचनमित्यर्थे दर्शितदिशा तदनावश्यकत्वात् । न च ( द्विद्धं सुब- द्वमि ) ति न्यायेन व्यतिलुनीते इत्यत्र क्रियाविनिमयद्योतकव्यतीत्युभयोपसर्गप्रयोगवदु- तकर्मण्यपि द्वितीया दुर्वा रैवेति वाच्यम् । लक्ष्यानुसारा दुक्तार्थानामिति न्यायानुसरण- स्यैवौचित्यादित्यलम् । प्रातिपदिकविषये स्वार्थद्रव्ये त्यादिपञ्चकपक्षाङ्गीकारवद्धातुविपयेऽपि पञ्चकपक्षोऽङ्गीका- यः, तथा च धातोरपि क्रियात्व-क्रिया-काल-कारक-संख्यारूपं पञ्चकमर्थः, उभयत्र पञ्च- कपक्षाङ्गीकारादेव-धातुविषयेऽपि 'द्वयकयोरित्याद: 'भावकर्मणोः इत्यादेश्च भाष्यसम्मतं नियमत्वं सङ्गच्छते । तत्तत्पञ्चकस्य प्रातिपदिकधातुवाच्यत्वादेव दधि-अजर्घा-अपेदित्यादौ प्रातिपदिकधातुभ्यामेव सर्वबोधः । क्रियात्वक्रियेत्यादिपञ्चकस्य धातुवाच्यत्वादेव 'भावक- मणो रित्यस्य भावकर्मवाचकाद्धातोरित्यर्थः 'स्नुक्रमोः इति सूत्रभाप्ये उक्तः । प्रातिपदि- कस्थले धातुस्थले च द्योत्यत्वादेव प्रत्ययार्थस्य विशेषणत्वमेवेति दिक् ॥ ननु 'अनभिहिते' इत्यस्य 'कर्मणि द्वितीया' इत्यतः प्रागप्यधिकारात्प्रातिपदिकार्थ- सूत्रेऽपि तस्याऽधिकारेणाऽनभिहिते प्रातिपदिकार्थ एव प्रथमा स्यादुक्ते तस्मिन् सा न स्यादित्याशङ्कय समाधत्ते-अभिहिते तु प्रातिपदिकार्थमात्रे प्रथमैवेति । अनभिहि- ताधिकारे सत्यपि प्रातिपदिकार्थस्य प्रादिपदिकेन तिडादिना वोक्तत्वेऽपि सूत्रारम्भसाम- र्थ्यात्प्रथमैव नान्या विभक्तिः । अत एव ( अभिहिते प्रथमैले ) ति वार्तिकं सङ्गतम् । अन्यथोक्तरीत्या प्रातिपदिकार्थस्योक्तत्वेन प्रथमाऽप्राप्तौ स्पष्टैव वार्तिकाऽसंगतिरिति भाव: । - ननु अभिहिते प्रातिपदिकार्थमात्रे प्रथमैवेत्युक्ते तत्र कियद्भिरभिधानमित्याकांक्षाया- माह-अभिधानं तु प्रायेण तिकृत्तद्धितसमासैरिति । तिङ उदाहरणम् , देव- दत्तेन हरिः सेव्यते । अत्र कर्मणि तडा कर्मणो हरेरक्तत्वात्ततः प्रथमा । कृत उदाहरणम् , लक्ष्म्या सेवितो हरिः, अन्न कर्मणि क्तेन हरेः कर्मण उक्तत्वेन ततः प्रथमा । तद्धितस्यो- दाहरणम् , शतेन क्रोतः शत्योऽश्वः, अत्र शतशब्दात् 'शताच ठन्यतौ इत्यनेन तेन क्रीतमित्यर्थे यति तेनाऽश्वरूपकर्मण उक्तत्वात्प्रथमा । समासस्योदाहरणम् , प्राप्त आनन्दो यं स प्राप्ताऽनन्द इति बोध्यम् । तिङ्कदित्यादिपरिगणनादव कटं भीष्म कुर्वि- त्यादौ विशेष्यवाचककटपदोत्तरद्वितीया विशेषणवाचकभीष्मपदगतकर्मत्वस्योक्तत्वेऽपि भीष्मपदाद्वितीया । परिगणनाऽभावे तु येन केनाऽप्यभिधाने उक्तरीत्या विशेप- णवाचकाद्वितीयोत्पत्तिर्न स्यात् । वस्तुतस्तु परिगणनं भगवता भाष्यकृता प्रत्याख्या- तम् , तथाहि-प्रक्रियादशायां कटोऽपि कर्म भीष्मादयोऽपीति स्वीकारेण कटपदोत्तरद्वि- तीयया कटत्वविशिष्टकटगतकर्मत्वस्योक्तत्वेऽपि भीष्मत्वविशिष्टभीष्मनिष्टकर्मत्वबोधार्थ विशेषणवाचकादपि द्वितीयाया आवश्यकत्वात् । कटभीष्मयोः परस्परमन्वयबोधस्तु विशे- ध्यविशेषणभावेनैवेति बोध्यम् । ( नच सर्वाणि कारकाणि भावनायामेवान्वियन्ति) इति व्युत्पत्तिविरोध इति वाच्यम् । साक्षात्स्वाश्रयद्वारा ( परम्परया ) वाऽन्वयविषयिणी सा व्युत्पत्तिरितिस्वीकारेणादोषादिति । तिङा कृता च स्वप्रकृत्यर्थं प्रति यस्य कर्मत्वं । १० फक्किकारत्नमञ्जूषा। तस्य सर्वस्यापि कर्मत्वाभिधानान्न कृतः कटः सुन्दर इत्यादौ कुत्रापि द्वितीयोत्पत्ति- रित्यलम् ॥ अथ मूलोक्तपरिगणनोदाहरणस्य शत्य इत्यादेः खण्डनप्रकारः । तथाहि- यथा कर्मकरणादिपदे विभक्तिवाच्यतावच्छेदकरूपेण (उद्भूतकर्मत्वादिशक्तिमत्त्वेन) कदिर- भानात् न ततो द्वितीयोत्पत्तिस्तथा प्रकृते शत्य इत्यत्राऽप्युक्तरूपेण कर्मगो भानाऽभावात् ( अप्रतीयमानत्वात् ) द्वितीयोत्पत्यसम्भवेन तद्धितस्योदाहरणमेतन्निष्फलमेव, अर्थादनभि- हिताधिकारस्य नैतत्प्रत्युदाहगं युक्तम् । तस्मात् (१)औपगवः, चित्रगुरित्येतत्प्रत्युदाहरणं सुक्तम् । तत्र च येन रूपेण सम्बन्धस्य पष्टया भानं भवति तेनैव रूपेण तद्धितान्तादिभिः समुदायशत्या सम्बन्धस्य भानं भवति । (२)घट इत्यादौ षष्ट्यवाच्यतेन दृष्शनामेव प्रातिपदिकार्थपदेन ग्रहणं प्रातिपदिकार्थभिन्नस्यैव पष्टीविधायके 'पष्टी शेपे' इति सूत्रे रोपे पढ़ेन ग्रहणम् । औरंगवादौ सम्बन्धस्य पष्टीवाच्यत्वेन दृष्टत्वात्षष्ट्यापत्तिः । उक्ताधिकार आवश्यकः । सति च तस्मिन् अनभिहिते सम्बन्ध पष्टीति सूत्राऽर्थान्नोक्तापत्तिलेशोऽपीति भावः । वस्तुतस्तु औपगवश्चित्रगुरित्यपि न प्रत्युद्दाहरणं योग्यम् , कटं भीममितिपरि- गणनफलमुक्त्वाऽगेपत्वान्नात्र शेपलक्षणा पष्टी, अन्याऽनभिहितकर्मादिग्रामसत्त्वाच नान्या काचिद्विभक्तिरित्याशङ्कय न केवला प्रकृतिः प्रयोक्तव्या नाऽपि केवलः प्रत्ययः' इति समाधानं कृतम् । नहि काचिदन्या विभक्तिरेतस्या अभिसम्बई वक्तुमुत्सहते इति कृत्वा द्वितीयेति भाप्ये उक्तम् । तत्राऽशेषत्वाच्यात्र शेपलक्षणा षष्टीत्युक्त्यैव, औपगवादौ पष्टी- वारणात् । शेषपदेन प्रातिपदिकार्थभिन्नस्यैव ग्रहणादिहाऽतथालेनाऽदोपादिति तदाशयः । 'अनेकमन्यपदार्थे' इत्यत्र भाष्येऽपि ध्वनितमेतत् । यत्र हि चित्रगुरित्यादौ षष्ट्यर्थस्य सम्बन्धस्य नियमेन भानात्पष्टी प्राप्नोतोत्याशङ्कय, अनभिहितः सोऽर्थः ( चित्रागोस्वा- मित्वरूपः ) अन्तर्भूतः प्रातिपदिकार्थः सम्पन्न इति प्रथमेत्युक्तम् । अनेनाऽशेषत्वरूपः पष्ठ्यप्राप्तिहेतुरुक्तः । अन्तर्भूत इत्यनेन चित्रग्वादौ सम्बन्धस्यैव प्रवृत्तिनिमित्तत्वात्प्रा- तिपदिकार्थपदेन ग्रहणयोग्यत्वमुक्तमिति प्राञ्चः॥ नागेशास्तु-शत्य इत्यत्र क्रयणादिक्रियायाः कारकान्वययोग्यतावच्छेइकसाध्य- त्वन रूपेणाऽभानान्न द्वितीयाऽतिप्रसङ्गः । उक्तरूपेण क्रियाभानाऽभावेन तत्रेतरकारकाणा- मप्यन्वयो न भवति, देवदत्तेन शत्योऽश्व इति प्रयोगो नेष्टः, । नच शतेन क्रीत इत्यर्थं 'शताञ्च ठन्यतावि' त्यनेन यति निष्पन्नस्य शत्यशब्दस्य शतकरणकक्रयणकर्मबोधकत्वादु- क्तापत्तेर्दुर्वारैवेति वाच्यम् । प्रत्ययान्तसमुदायेनोपस्थितायास्तस्याः क्रियायाः साध्यत्वे- नाप्रतीयमानत्वात् । कारकान्वययोग्यक्रियाया धातोरेवोपस्थितिर्भवति ; नतु तद्धितशक्तये- ति नोक्ताऽऽपत्तिलेशोऽपीति भावः । एवं प्राप्तानन्द इत्यादौ यत्कर्मकप्राप्तिकर्तानन्द इति विग्रहत आनन्दकर्तृकप्राप्तिकर्मति समासतश्च बोधः, उभयत्र बोधे विशेष्यविशेषणभावव्य- (१) औपगव इत्यत्र तत्सम्बन्ध्यपत्यमित्यर्थे प्रत्ययविधानात् चित्रगुरित्यत्र षट्यर्थे बहुव्रीहिविधानादितिभावः । ( २ ) औपगवादी समुदायात्षष्ठ्यापादनं तदा सम्भवति यदा प्रातिपदिकार्थे विधीय- मानया प्रथमया वाधो न स्यादित्याशङ्कां वारयितुमाह-घट इति ।

कर्मकारकप्रकरणम् । ११ त्यासेनैकार्थीभावकल्पना, वृत्तिविग्रहयोरसमर्थत्वापत्तिश्च । किञ्चैकमिबोधकत्वरूपसामा- नाधिकरण्यस्य बहुव्रीयुपजीव्यस्य हानिः । किञ्च पूर्वोत्तरपदयोरेकविशेष्यकप्रतीतिजनकत्व- रूपसामानाधिकरण्याऽभावात्प्राप्ता भार्या यं स प्रातभार्य इत्यादौ पुंस्त्वानापत्तिरतो वृत्ति- विग्रहयाः समानार्थत्वनिहाय 'कालाः परिमाणिना इतिसूत्रस्थभाष्योक्तरीत्योभयत्र प्राप्ति- कानन्दकर्मत्येव बोधः । नत्र कर्मत्वस्य क्रियानिरूपितत्वाव्याऽऽनन्दनिरूपितत्वाऽभा. वेन प्राप्तिकानन्दकम्मति बोधः कथमिति वाच्यम् । विशेप्ये आनन्द कर्मत्वनिरूपकत्वस्य बाधेन विशेषणीभूतप्राप्तौ कर्मत्वनिरूपकत्वस्य पर्यवसानात् । स्वर्ग ध्वस्ते यथा स्वर्गी ध्वस्त इति भवति तथैवेति भावः । एवञ्च प्राप्तानन्दशब्दाद्विभक्तिवाच्यतावच्छेदकोद्भ- तकर्मत्वशक्तिमत्वेन क्रियाजनकत्वेन च कर्मादरभानान्न विभक्तिप्रसक्तिः । अत एव 'गति- कारकोपपदात् इति सूत्रे गतिकारकोपपदादिति किमर्थम् ? परमं कारक परमकारकमिति प्रती- कमुपादाय यथा सम्प्रदानादयः शब्दा न कारकरूपतां प्रतिपादयन्ति तथा कारकशब्दो- ऽपीति कृदन्ता हि क्रियायोग्यताविशिष्टद्रव्यवाचिनो न तद्भुतां कारकरान्ति प्रतिपादय- न्तीतिकैपटेनोक्तम् । अत एव न तस्य कर्मत्वस्य क्रियान्वयनियमः । अन्यथा कारकशक्तेः क्रियाविशेषणत्त्वनियमान्न कमांदः प्राधान्यं स्यात् । एवं कर्मादिपदं यथा विभक्तिवाच्य- तावच्छेदकरूपेण कमांदिभाननियामकं न तथा पक्कादि पदमपीति बोध्यम् । नचोत्तरीत्या परिगणनोदाहरणाऽन्यथोपपत्या तल्लेखनञ्चानुपपन्नमिति वाच्यम् । तिवृत्तहितसमासैरभि- धानं अर्थादुद्भुतकर्मत्वादिशक्त्याऽऽवेशेन न भानमिति न. विभक्तप्रसक्तिस्त्रैव तात्पर्य्य- ग्राहकत्वेन तदुपपत्तेः । इष्टः पुत्र, इप्यते पुत्र इत्यर्थे क्यच् कुतो नेत्याशक्य वशब्देनोक्त- त्वान्न क्यजिति समाहितं इष्टशब्दसामानाधिकरण्यात्पुत्रार्थ कर्मत्वस्यावगतावपि पुत्र इति सुबन्तस्य कर्मवाचकत्वाऽभावान्न तस्मात्क्यजिति तद्भावः । स्वं कर्मत्वं तहाचकशब्देन पुत्रगतकर्मत्वस्योक्तत्वान्न तत्रार्थ पुत्रशब्दस्य शक्तिरित्यक्षरार्थः । 'सुप आत्मन' इत्यस्य कर्मत्वविशिष्टबोधकसुबन्तात्क्यजित्यर्थ इति तहाशयः । वस्तुतस्तु कर्मत्वविशिष्श्वोधका- त्सुबन्ताक्यजित्यर्थे इह भवन्त इत्यादिना समाध्यन्तरमुक्तं, वाक्ये फलम्य विशेष्य- त्वावृत्तौ व्यापारस्येति समानाश्रयत्वाभावेन तत्रार्थे न वृत्तिरित्याहुः ॥ प्राचीनाऽनुसारेणोक्तस्याऽभिधानं तु प्रायेण तिकृत्तद्वितसमासरित्यत्र प्रायेणेत्यस्य फलमाह-क्वचिन्निपातेनाऽभिधानमिति । अयम्भावः- 'विषवृक्षोऽपि सम्ववर्य स्वयं छेत्तुमसाम्प्रतम्' इति श्लोके निपातेनाऽपिना विषवृक्षरूपकर्मण उक्तत्वात्ततः प्रथमा निपातेनाऽभिधा- नस्याऽनभ्युपगमेऽपिनोक्तकर्मण उक्तत्वेनापि विषवृक्षशब्दाद्वितीया दुर्वारवेत्यवसेयम् । एवं 'क्रमादमुं नारद इत्यबोधि स' इत्यादावितिशब्देन निपातेन नारदरूपकर्मण उक्तत्वान्न ततो द्वितीया ; किन्तु प्रथमैव । अत एव अपिना निपातेनाऽधिकरणस्योक्तत्वात्सप्तम्य- ग्राप्तौ वचनसामर्थ्यात्सप्तमी, विभक्त्यर्थेऽव्ययीभावसमासविधायकवचनसामर्थ्यादिति तदर्थ इति प्राश्वः। वस्तुतस्तु-विषवृक्षोऽपीति पद्ये तुमुन उपपत्त्यर्थमिष्यते इति क्रियान्तराऽध्याहा- रस्यावश्यकत्वम् , अन्यथा क्रियार्थकक्रियोपपदत्वस्य शकादियोगस्य चाऽसत्वात्तुमुन् न - १२ फकिकारत्नमञ्जषा। 'एवञ्च । स्यात् । उक्त क्रियाध्याहार तु 'इच्छार्थेषु तुमुन्' इत्यनेन सुलभ एव तुमुन्निति भावः । तिडैव कर्मण उक्तत्वात्ततो द्वितीयाऽप्रसत्या निपातेनाऽभिधानाऽभ्युपगमो निष्फल एव । विपवृक्षोऽपि सम्बद्ध्यं स्वयं छेत्तुमिष्यते यत्तदसाम्प्रतमन्याय्यं न युज्यते इति पद्या- ऽर्थः । छेदन याऽन्याय्यत्वादिच्छाया अन्याय्यत्वं बोध्यम् । क्रमादमुमित्यत्राऽपि अयन्ना- रद इति श्रीकृष्णीयज्ञानाऽऽकारस्याऽनुकरणम् । नारद इत्येतच्छब्दाऽभिलप्यमानाकारी बोधः । तथा च नारद इत्यस्य प्रथमान्तत्वेनाऽप्रथमान्तत्वेनाऽप्रातिपदिकत्वात्ततो न द्वि- तीयेति निष्फलैब निपाताऽभिधानाऽभ्युपगतिः । विभक्त्यर्थेऽव्ययीभावसमासविधायकवच- नसासर्थ्यात्तिकृत्तद्धितसमासैरवाऽभिधानं नत्वेतदतिरिक्तैरितिपरिगणनकल्पक-यैव युक्त- त्वान्निपातेनाऽभिधानेऽप्यधिकरणे सप्तम्युत्पत्तौ वाधकाऽभावेन निपाताभिधानं नैव स्वी- कार्यमित्याहुः ॥ तथा युक्तञ्चानीप्सितम् । तथा क्रियायुक्तस्येप्सिततमस्य कर्मत्वमिति तदर्थः । सूत्रेऽनोप्सितपदम्यानुद्देश्यमित्यर्थः । अनुद्देश्यञ्च द्विविधं द्वेष्यमुदासीनञ्च । आद्यस्योदा- हरणम्-ओदन भुञ्जानो विषं भुङ्क्ते । द्वितीयस्योदाहरणम्-ग्रामं गच्छंस्तृणं स्पृशतीति। वस्तुतस्तु न पूर्वप्रदर्शितं द्वेष्योदाहरणम्, समभिव्याहृतधात्वर्थप्रधानीभूतव्यापार- प्रयोज्यतद्वात्वर्थफलाश्रयत्वस्य तथायुक्तपदार्थत्वात्पराधीनतया विषं भुञ्जानेऽपि विपस्य भुजिक्रियानिरूपितफलाश्रयत्वेनोद्देश्यत्वात्कर्तुरित्यनेनैव कर्मत्वसिद्धेः। तदुक्तं भगवता भाज्यकृता (आतश्च विषमीप्सितं यत्तद्भक्षयति )इति, तस्माचौरान्पश्यतीति द्वेष्यस्योदाहरणम्, विपयेन्द्रियसम्बन्धेन दृश्यमाना अपि चौरा न दर्शनोद्देश्या अपित्वनि- टदर्शना एवेति । एवं च पूर्वसूत्रेण कर्मत्वाऽप्राप्तावनेन कर्मत्वमिति । नचोदासीनोदाह- रणे तृगादेरीप्सिततमत्वाऽभावेन कर्मत्वं न ल्यादिति वाच्यम् । स्पृश्यमानस्य गङ्गादेः स्पर्शादिजन्यसंयोगादिफलाधारत्वात्कर्मत्वोपपत्तेः । न च ( तथा युक्तमित्येवा )स्तु सूत्रं; मास्तु च तत्राऽनीप्सितग्रहणमिति वाच्यम् । तदभावे प्रकर्षहीनस्यापीप्सितस्यानेन कर्म- संज्ञाया ( वारणार्थानामि ) त्यस्याऽनवकाशत्वेनाऽपादानत्वापत्तेः । एवञ्च यवेभ्यो गवां वारणाय यदा दण्डोद्यमनादिकं कृतं तेनैव व्यापारेण तत्र सञ्चरन्त्यो महिष्योऽपि वारिता भवन्ति ताशस्थले महिषीर्वारयति इति प्रयोगो न स्यादनीप्सितमहिष्या अप्यपादनत्व- प्रसक्तेः । अत अनीप्सितमित्युपात्तम् । तथा युक्तमित्यस्याऽभावे विषेणौदनं भुक्ते इत्यादौ करणत्वमात्रविवक्षायां विषस्य, प्रयागात्काशी गच्छतीत्यादौ प्रयागस्य च कर्म- त्वापत्तिर्दुर्वा रेति तदावश्यकम् । सति च तस्मिन् प्रकृतधात्वर्थफलाश्रयत्वरूपतथायुक्तत्वा- ऽभावान्नोक्ताऽऽपत्तिरित्यलम् ॥ अकथितञ्च । अपादानानीत्यत्राऽपादानादिशब्दस्य भावप्रधाननिर्देशेनाऽपादानत्वा- दिपरत्वादिविशेषैरविवक्षितस्याऽपादानत्वादिरूपेणा (भासमानस्या ) (प्रतीयमानस्य ) कारकस्य कर्मत्वमित्यर्थः । अपादानादिशब्दस्य धर्मपरत्वाऽभावे प्रसक्तिपूर्विकाऽपादानत्वा- यविवक्षायामेवाऽनेन कर्मत्वं स्यात्सर्वथा पूर्वविधैरप्रसक्तौ न स्यादित्युक्तशब्दस्य धर्मपरत्व- मावश्यकम् । अपादानत्वादिविवक्षायां तु गोःपयो दोग्धीत्यादौ पञ्चम्यादय एव भवन्ति । अपादानत्वाद्यविवक्षायामन्वयितावच्छेदककर्मत्वमन्वयितावच्छेदककर्मत्वादिरूपेण विवक्षाया- कर्मकारकप्रकरणम् । १३. कारक- मनेन कर्मत्वमिति बोध्यम् । नचोक्तरूपेण विवक्षायां किं बीजमिति वाच्यम् । त्वव्याप्यकर्मादिसंज्ञानां स्वबोध्याथें कर्मादौ कर्मत्वादिशक्तिमत्वबोधकस्यैव तत्र बीज- त्वात् । बोधोऽपि कर्मत्वादिशक्तिमत्त्वेनैवेति । एतत्सूत्रविहितकर्मणि विहिताया द्वितीयायाः सम्बन्धार्थकत्वं प्राचीनोक्तं खण्डयति । तथाहि-'कर्मणि द्वितीया' इत्यादिशास्त्राऽभावे सर्वत्र षष्ठयाः प्राप्तिरिति सर्वासां द्वितीयादीनां पष्ठ्यपवादत्वं तदपवा- दत्वमात्रेणोक्तरूपाया द्वितीयायाः सम्बन्धाऽर्थकत्वन्न समुचितम् , तथा सति 'कर्मणिहितीया' इत्यस्य वैरूप्यापत्तेः । कर्तुरित्येतद्विहितकर्मणि या द्वितीया तस्याः कर्मत्वबोधकत्वं एत- त्सूत्रविषये सम्बन्धबोधकत्वमिति स्पष्टमेव वैरूप्यं स्यादिति भावः । एतत्सूत्रविषयेऽपि कर्मत्वशक्तिमत्त्वेन द्वितीयाया बोधकत्वादेव, अन्न सूत्रेण कर्मत्वे सिद्धे कर्तुरिति तथायुक्त- मिति च सूत्रद्वयं व्यर्थमित्याशङ्कय, उक्तसूत्राऽभावेऽनीप्सितमात्रस्यापि कर्मसंज्ञापत्तो वारणार्थानामित्यस्याऽनवकाशत्वादग्नेर्माणवकं वास्यतीत्यत्र माणवकादपि पञ्चम्चापत्ति- रित्युक्तसूत्रद्वयमवश्यं कार्यमित्युत्तरितं, द्वितीयायाः सम्बन्धार्थकत्वे शङ्कासमाधानयोर्भा- व्यकृत्कृतोः स्पष्टैवाऽसङ्गतिरिति । दुहादिधातूनां व्यापारद्वयार्थकत्वेन कर्तुरिति कर्मत्वे सिद्ध कर्म बेनाऽविवक्षायामप्यनेन कर्मत्वमिति परास्तमेतेनेति दिक् ॥ ननु नटम्य गाथां शृणोतीत्यादौ नटस्य गीतद्वारा क्रियाजनकत्षेन कारकत्वादकथि- तञ्चेत्यनेन कर्मत्वाक्षतिः । न च तस्याऽपादानत्वविवक्षणान्नोक्तापत्तिरिति वाच्यम् । 'आख्यातोपयोगे' इत्यत्रोपयोगग्रहणादनुपयोगे नियमपूर्वकविद्यास्वीकारभिन्ने आख्यातुर- पादानत्वाविवक्षाबोधनात्। न च दुहादिधातुकर्मयुक्ताभावान्न दोष इति वाच्यम् । तदंशस्यापि परिगणनलभ्यत्वादित्यत आह-दुह्याजिति । दुह्याच्पच्दण्डरुधिप्रच्छिचित्रूशासजिमथमुषाम् । कर्मयुक् स्यादकथितं तथा स्यान्नीहकृप्वहाम् ॥ १ ॥ इति षोडशधातुपरिगणनम् । अत्र श्रुधातोरसन्वात्परिगणितधातुकर्मयुक्ताभावेन न नटस्य कर्मत्वमिति भावः । परिगणनमिदं प्राचामनुरोधेनैव, भाष्ये तु दुहियाचिरुधिप्र- च्छिभिक्षिचिबज्शासय इत्येव पठिताः। कर्मयुक्त्वं नाम कर्मसम्बद्धत्वं तच्च न सर्वत्रै- करूपं किन्तु क्वचिद्धात्वर्थव्यापारात्प्राक् । कचिच्च धात्वर्थव्यापाराऽनन्तरमिति प्रकारद्वयम् तन्त्रोक्तप्रकारद्वये ब्रुविशासिभिन्नधातुविषये धात्वर्थव्यापारात्प्रागेव कर्मसम्बद्धत्वं ब्रूशास्- धातुविषये तु धात्वर्थव्यापाराऽनन्तरं कर्मसम्बद्धत्वम् । अविशासिभिन्नेऽपि, सति. सम्भवे धात्वर्थव्यापारात्प्रागेव कर्मसम्बद्वत्वं ग्राह्यम् । अत एव गां पयो दोग्धि स्था- ल्यामित्यादौ गोपव्यापाराऽनन्तरं स्थाल्यादेः पयः सम्बद्धत्वेऽप्यधिकरणत्वाऽविवक्षाया- मनेन कर्मत्वं न । तथाच तत्राऽपादानादीत्यत्रादिशब्देनाऽपादानसम्प्रदानाऽधिकरणाना- मेव ग्रहणं, करणस्य तु न हस्तादेः करणस्य पय आदिकर्मयोगाऽभावात् ॥ गां दोग्धि पय इति-अन्तःस्थितद्रवद्रव्यनिष्ठविभागानुकूलव्यापारो दुहेरर्थः । न च 'अकथितञ्च' इत्यस्येदमुदाहरणं व्यर्थम् , गौः पयस्त्यजति गवा पयस्त्याजयतीत्यर्थे पूर्वसूत्रेणैव कर्मत्वसिद्धेरिति वाच्यम् । व्यापारद्वयस्य धात्वर्थत्वे पूर्वसूत्रेण कर्मत्वसिद्धा- वप्येकव्यापारार्थकत्वे एतत्सूत्रोदाहरणस्य साफल्यात् । तत्र गोरपादानत्वाविवक्षायामनेन २ फ० म० फक्किकारत्नमञ्जूषा। कर्मत्वम् , अपादानत्वविवक्षायां तु पञ्चम्येव, पयसि गोरन्वये पष्ठी, द्विकर्मकेषु गवादीनां कर्मत्वाऽविवक्षया क्रियायामन्वये न षष्टी, अनभिधानात् पष्ठ्यन्तस्य स्वान्वययोग्यानाम- समभिव्याहारे एवान्वयस्योत्सर्गतो व्युत्पत्तेश्च । देवदत्तकर्तृकं पयःकर्मकं गोसम्बन्धि दोहनमिति बोधे पञ्चमी । देवदत्तकर्तृकं गोसम्बन्धि पयःकर्मकं दोहनमिति बोधे गोशब्दा- त्पष्ठीति बोध्यम् । बलिं याचते वसुधामिति-स्वीकाराऽनुकूलव्यापारः परस्वत्वनिवृत्तिस्वस्वत्वो- त्पत्त्युभयाऽनुकूलव्यापारो वा याचतेरर्थः । स्वत्वे बलेनिरूपकत्वसम्बन्धेनान्वयेऽनेन कर्म- त्वम् । पूर्व विपयस्य कस्याऽप्यभावनाऽप्राप्तिपूर्विकाऽविवक्षा बोध्या। नचाऽपादानत्वस्य प्रसक्त्या कथमप्राप्तिपूर्विकाऽविवक्षेति वाच्यम् । विभागस्योक्तधात्वर्थत्वाऽभावेनाऽपादा- नत्वाऽप्रसक्तः । उक्तं हि भाष्ये-(न हि याचनादेवाऽपायो भवति याचितोऽसौ यदि ददाति तदाऽपायेन युज्यते ) इति । असंकीर्तितपर्यायस्याऽकथितशब्दस्य ग्रहणे गां दोग्धि गोदौग्धि इति च याचिकृच्छिभिक्षयागे कर्मसंज्ञैवेत्येपां व्यवस्थेति सिद्धान्ते कैयटोक्तिश्च । बलेवसुधानिष्टस्वनिरूपितस्वामित्वात्मकसम्बन्धात्कर्मयुक्तत्वादनेन कर्मत्वमिति भावः ॥ अविनीतं विनयं याचत इति-इदमवश्यं करिष्यामीति शब्दप्रयोगजनकविशेप- रूपस्वीकाराऽनुकूलव्यापारोऽत्र याचरर्थः । फलतावच्छेदकसम्बन्धश्चात्र विषयतेति अवि- नीतस्य विनयेन सह स्वविषयकज्ञानवत्त्वसम्बन्धेन कर्मयुक्तत्वात्कर्मत्वम् ॥ तण्डुलानोदनं पचतीति-विक्लित्त्यनुकूलव्यापारो हि पच्धात्वर्थः । वस्तुतस्तु (द्वयर्थः पचिरि)ति भाष्याद्विक्लेटनं निवर्त्तनं च धातोरर्थः तण्डुलान्विक्लेदयन्नोदनं निर्व- तयतीति वाक्यार्थः । तण्डुलकर्मकविक्लित्तिपूर्वकौदनकर्मकं निवर्त्तनमिति बोधः । तथा च पच्धात्वर्थस्योक्तरूपत्वाकर्त्तरित्यनेनैव कर्मत्वसिद्धावस्यैतत्सूत्रोदाहरणत्वं चिन्त्यम् ॥ गर्गान् शतं दण्डयतीति-बलात्कारपूर्वकपरस्वत्वनिवृत्तिपूर्वकस्वस्वत्वोत्पत्त्य- नुकूलव्यापारो दण्डयतेरर्थः । वस्तुतस्तु स्वसम्प्रदानानुकूलव्यापाराऽनुकूलशासनरूपो धा- त्वर्थः । तथा च व्यापारद्वयार्थकदण्ड्यादिधातुयोगेऽपि पूर्वसूत्रेणैव कर्मत्वसिद्धाविदमप्ये- तत्सूत्रोदाहरणं चिन्त्यमेव । एवं व्यापारद्वयार्थकत्वेन सति प्रयोगे बहूनां धातूनां द्विक- मकत्वं बोद्धयम् ॥ ब्रजमवरुणद्धि गामिति-निर्गमप्रतिबन्धपूर्वकयत्किञ्चिदधिकरणकचिरस्थित्य- नुकूलव्यापारोऽवरुधेरर्थः । ब्रजे गौस्तिष्ठति तत्र तां निर्गमप्रतिबन्धपूर्वकं चिर स्थापय- तीति प्रतीतेः । तथाचैकाश्रयको गोवृत्तिनिर्गमप्रतिबन्धानुकूलो ब्रजसम्बन्धीति बोधः । अधिकरणत्वाऽविवक्षायामनेनात्र कर्मत्वम् । व्यापारद्वयस्य धात्वर्थत्वे पूर्वसूत्रेणैव कर्मत्वम् ॥ माणवकं पन्थानं पृच्छतीति-जिज्ञासाविषयीभूतार्थज्ञानानुकूलः केन पथा गन्तव्यमित्यभिलापादिरूपो व्यापारः पृच्छतेरर्थः । ज्ञानविषयत्वात्पथः कर्मत्वं माणवकेन च पथः स्वज्ञानाश्रयत्वरूपः सम्बन्धः । (नहि प्रश्नादेवाऽपायो भवति पृष्टोऽसौ यदा व्या- चष्टे तदापायेन युज्यत) इति भाष्योक्त्या नात्राऽपादानत्वविवक्षेति बोध्यम् । न च सम्प्र- दानत्वस्यैव विवक्षाऽस्त्विति वाच्यम् । कर्मसम्बन्धवत्त्वेनेच्छाविषयत्वाऽभावेन तद्विव- कर्मकारकप्रकरणम् । १५ । क्षाया असम्भवात् । अत्रापि व्यापारद्वयार्थकत्वे कर्तुरिति सूत्रेण कर्मत्वं बोद्धयम् । पथ- विषयकजिज्ञासाविषयकमाणवकवृत्तिज्ञानाऽनुकूलो देवदत्तकर्तृको व्यापार इति बोधः । वृक्षमवचिनोति फलानोति-अत्र ग्रहणाऽनुकूलव्यापारोऽवचिनोतेरर्थः । तथा च फलवृत्तिग्रहणाऽनुकूलन्यापारो देवदत्तवृत्तिरिति बोधः । शेखरकारस्तु-वृक्षात्फला- न्यादत्ते इत्याद्विभागपूर्वकदानस्य धात्वर्थत्वमभ्युपगच्छति । अपादानत्वाऽविवक्षाया- मनेन कर्मत्वम् । माणवकं धर्म ब्रूते इति–ज्ञानाऽनुकूलः शब्दप्रयोगरूपो व्यापारो बूधात्वर्थः ! एवञ्च देवदत्तवृत्तिः शिष्यसम्बन्धी धर्मविषयकज्ञानजनको व्यापार इति बोधः । केचित्तु- वदिवचिब्रुवि-उपदिशि-याचतीनां प्रतिपत्त्यवच्छिन्नव्यापारोऽर्थः । शिष्यनिष्ठप्रतिपत्तो शिष्यस्याधेयत्वसम्बन्धेनाऽन्वयः । तत्रैव धर्मस्य विपयतासम्बन्धेनान्वयः । तथा च धर्मविषयिणी या शिष्यनिष्टा प्रतिपत्तिस्तदनुकूलो देवदत्तवृत्तिव्यापार इति बोध इत्याहुः ॥ माणवकं धर्म शास्तीति-प्रवृत्तिपर्यवसायी ज्ञानाऽनुकूलः शब्दप्रयोगरूपो व्यापार एव शास्धात्वर्थः । एवं च शिष्यसम्बन्धी प्रवृत्तिपर्य्यवसायी धर्मप्रतिपादकशब्दकर्मको- च्चारणानुकूलो देवदत्तवृत्तिर्व्यापार इति वोधः । प्रवृत्तिपर्य्यवसायी च धर्म कुरु इत्यादिवि- विघटितोपदेशरूपो बोध्यः । फलतावच्छेदकः सम्बन्धश्चात्र विषयता। माणवकस्य वचना- दिकर्मणा धर्मेणेच्छाविषयीभूतत्वात्सम्प्रदानत्वं तस्याविवक्षणेऽनेन कर्मत्वं बोध्यम् । कर्तु- व्यापारोत्तरं माणवकस्य धर्मेण स्वविषयकज्ञानाश्रयत्वरूपः सम्बन्ध इति ॥ शतं जयति देवदत्तमिति-अनेकव्याजपूर्वकोऽन्यस्वत्वनिवृत्तिपूर्वकः स्वस्वत्वो- त्पत्त्यनुकूलो व्यापारी जिधात्वर्थः ॥ सुधां क्षीरनिधिं मथ्नातीति-दण्डग्रहणपूर्वकोऽन्तर्गतसारभागोत्थानाऽनुकूलव्या- पारो मन्थेरर्थः । उत्थानचात्रोर्ध्व देशसंयोगः ॥ देवदत्तं शतं मुष्णातीति-धनस्वाम्यज्ञानपूर्वकग्रहणाऽनुकूलव्यापारोमुष्धात्वर्थः । अत एव विभागस्य धात्वर्थान्तर्भावे देवदत्तस्याऽपादानत्वं तदविवक्षायामनेन कर्मत्वम् ।। प्राममजां नयति हरति कर्षति वहति वेति-उत्तरदेशसंयोगानुकूलव्यापारा- नुकूलव्यापारो णिधात्वर्थः । स्कन्धग्रहणपूर्वक उक्तधात्वर्थ एव वहधात्वर्थः । गत्यनुकूल- व्यापारविशेषः कृषतेरर्थः । बलाद्ग्रहणपूर्वकं देशान्तरप्रापणं हृधात्वर्थः । एषामुक्तार्थे कर्तु- रित्येव कर्मत्वम् । एवञ्च प्रामसम्बन्धी अजानिष्टोत्तरदेशसंयोगाऽनुकूलव्यापारो देवदत्तवृ- त्तिरिति बोधः । एवं भारं वहतीत्यादावपि बोध्यः ॥ अर्थनिबन्धनेयं संशति-अकथितञ्चेत्यनेन या संज्ञा साऽर्थनिबन्धनाऽर्थनिमित्ति- का, न तु स्वरूपाऽऽश्रया स्वरूपनिमित्तिकेति तदर्थः । नचैतत्सूत्रविहितकर्मसंज्ञाया अर्थ- निमित्तकत्वे किम्प्रमाणमिति वाच्यम् । तद्राजसूत्रस्थभाष्यकैयटयोरेव प्रमाणत्वात् । तत्र हि, ( अहमपीदमचोधं चोये ) इत्युक्तम् । असौ अस्मान्मामचोद्यं चोदयतीति तद- र्थः । तत्र पृच्छिपर्यायस्य चुदेरपि द्विकर्मकत्वं दृश्यते उक्तसंज्ञायाः स्वरूपनिमित्तकत्वे उक्तभाष्यकैयटौ व्याकुप्येयाताम् । चोये इत्यत्र कर्मणि प्रत्यये अस्मच्छब्दात्प्रथमा इदम् शब्दाद्वितीया, अत एव 'मारीचमुच्चैर्वचनं महार्थम् इति भट्टिकाव्यप्रयोगोपपत्तिरिति प्राञ्चः।

१६ फक्किकारत्नमञ्जूषा। शेखरकृतस्तु-परिगणिताऽतिरिक्तानां परिगणितधातुसमानार्थकानां येषां धातूनां द्विकर्मकत्वमिष्टं तेषां व्यापारद्वयार्थकत्वात्क रित्येव कर्मत्वसिद्धौ सज्ञाया अर्थनिमित्तक- त्वमनादेयम् । अत एव, न 'आख्यातोपयोगे इति सूत्रस्थभाष्यपरिगणनभङ्गापत्तिः । तस्या अर्थनिमित्तकत्वे तु भाष्योक्तपरिगणनस्य स्पष्टैवाऽसङ्गतिः, तत्समानार्थकानामन्येषामपि द्विकर्मकत्वात् । किञ्चोभयार्थकयाचिग्रहणेनैव बलिं भिक्षते वसुधामित्यादावपि कर्मत्वसि- द्वौ परिगणने भिक्षधातुग्रहणस्य वैयर्थ्यांपत्तेश्चेत्याहुः ॥ अकर्मकधातुभियोगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यमिति-वार्तिकम् । सत्यकर्मकधातुयोगे देशकालभावगन्तव्याध्ववाचकशब्दानां कर्मसंज्ञा वक्तव्येति तदर्थः । अकर्मकधातूनां स्वार्थकरणकव्यापने शक्तिस्तथा च स्वार्थ- करणकव्याप्त्यनुकूलव्यापार इत्यर्थे मासमास्ते इत्यादौ व्याप्तिरूपफलाश्रयत्वान्माणवक- स्य कर्तुरिति कर्मत्वम् । देवदत्तकर्तृकासनकरणकमाससम्बन्धिव्याप्त्यनुकूलव्यापार इति बोधः । अत्र देशपदेन देशत्वाऽवान्तरधर्मवान् कुरुपञ्चालादिरेवगृह्यते न तु सामान्यतो देशः, नवा ग्रामत्वादिना ग्रामः । अत एव कुरून् स्वपिति तिष्ठति वेति प्रयोगो भवति, न भवति देशं ग्राम वा स्वपिति तिष्ठति बेति प्रयोगः । कालपदेन च कालत्वाऽवान्तरधर्मवान् मास- सम्वत्सरादिरेव गृह्यते न तु सामान्यतः कालः । एवञ्च मासं सम्वत्सरं वाऽऽस्ते इति प्रयो- गो भवति न कालमास्त इति । भावपदेन च गोदोहनादिरेव न तु तदतिरिक्तः, तेन गोदोह- मास्ते इति प्रयोगः । न च गोदोहादिशब्दस्य कालार्थकत्वात्कालग्रहणेनैवोक्तप्रयोगोपप- तौ भावग्रहणं व्यर्थमिति वाच्यम् । घनन्तेन प्रतिपाद्यमानस्यापि कालस्य कर्मत्वं भवती- ति प्रपञ्चार्थत्वेन भावग्रहणस्य साफल्यात् । अध्वपदेनाध्वत्वाऽवान्तरधर्मवतः क्रोशयोज- नादेरेव ग्रहणं न तु सामान्यतोऽध्वनः । तेन क्रोशं योजनं वाऽऽस्ते देवदत्त इति भवति नतु अध्वानमास्ते इति । प्राचीनोक्तं प्रकृतवार्तिकस्य कर्मसंज्ञा विधायकत्वं खण्डयति । भाष्ये कर्मसज्ञाविधा- यकलेनादृष्टत्वान्नास्य कर्मसंज्ञाविधायकत्वम् । नचास्य वचनस्यैवोक्तसंज्ञा विधायकत्वम- स्तीति वाच्यम् । अकर्मकधातुप्रकृतिकण्यन्ताः कथं द्विकर्मका इति पूर्वपक्षे जाने । "कालभावाऽध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्" । देशश्चे, त्येवाकथितसूत्रे भाष्ये उक्तत्वात् । तत्र प्रसिद्धार्थकहिशब्दप्रयोगात्कालादि कर्म प्रसिद्धमेव पूर्वसूत्रबोधितमेवेति बोध्यते । नच हिशब्दस्य वाक्यालंकारार्थत्वादुक्ता- ऽभिप्रायकत्वाऽभावेनास्य विधायकत्वे न किमपि प्रतिबन्धकमिति वाच्यम् । कालाऽध्व- वाचकयोः कर्तुरित्येव कर्मत्वसिद्धौ कालाध्वानौ कर्मवदिति वार्तिकं व्यर्थमितिरीत्यास्य वात्तिकस्य प्रत्याख्याने घटं करोतीत्यादाविव प्राकृतमेवैतत्कर्म पूर्वसूत्रबोधितमेवेति 'का- लाध्वनोः' इतिसूत्रस्थभाष्योक्तरेव प्रतिबन्धकत्वात् । अस्याऽविधायकत्वादेव, समायां स- मायां विजायत इति विग्रहकथनपरस्य 'समां समां विजायते' इति सूत्रस्थभाष्यस्य सङ्गतिः। अन्यथाऽनेन द्वितीयाया एव साधुत्वात्तदसङ्गतिः । तस्मादुक्तप्रकारेणाऽकर्मकधातूनां का- लादिकर्मत्वाद्विकर्मकत्वमित्येव तत्तात्पर्य्यमित्यलम् ॥ गतिबुद्धिप्रत्यषसानार्थेति-गत्यर्थकबुद्ध्यर्थकप्रत्यवसानार्थकशब्दकर्मकाऽक- कर्मकारकप्रकरणम् । १७ । . मकधातूनामनुत्पन्ने णिचि तस्य कर्तुरुत्पन्ने णि िकर्मत्वमिति तदर्थः । कर्मकेत्यत्र कर्मपदं कर्मकारकपरं न तु 'कर्तरि कर्मव्यतीहारे' इत्यत्रेव क्रिया- परं व्याख्यानात् । अत एव शब्दार्थकहायिक्रन्दिधात्वोरण्यन्तावस्थकर्तुर्यन्तावस्थायां न कर्मत्वम् । णिच्पदं चात्रे हेतुमण्णिच एव बोधकं न तु स्वार्थणिचः । सूत्रघटकणिचपदस्य हेतुमणिबोधकत्वादेव ( भनेरहिसार्थस्य न) इति निषेधश्चरितार्थः । अन्यथा नित्यण्यन्त- स्य चौरादिकस्य भक्षेरण्यन्ताऽवस्थाऽसम्भवात्तत्कर्तुः कर्मत्वाऽप्राप्त्या निषेधो व्यर्थ एव स्यादिति भावः । ननु णिच्प्रकृतिकधात्वर्थव्यापारप्रयोज्यफलाश्रयस्येव णिजर्थव्यापार- प्रयोज्यफलाश्रयस्यापि कर्तुरित्येव कर्मत्वसिद्धौ गतिबुद्धीति सूत्रं व्यर्थमिति चेन्न । णि- जर्थव्यापारप्रयोज्यफलाश्रयाणां कर्मत्वं चेत्तर्हि गत्यर्थादिप्रकृतिकानामेवेति नियमार्थत्वेन तस्य सार्थक्यात् । तेन पाचयत्योदनं देवदत्तेनेत्यादौ न देवदत्तस्य कर्मत्वम् । पूर्वसूत्रे णि- जर्थव्यापारप्रयोज्यफलाश्रयातिरिक्तत्वेन संकोचेन सूत्रस्य स्वांशे चारितार्थ्यमिति । गती- त्यादि किमित्यादिना तदेवाऽनूयते इति बोध्यम् ॥ अण्यन्तानां किमिति । अयम्भावः, सूत्रेऽणीत्यस्याऽभावेन कर्तुः कर्मत्वमित्यर्थे गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्र इत्यादौ देवदत्तस्यापि कर्मत्वं दुर्वारम् , तत्सत्त्वे तु देवदत्तस्याऽण्यन्तावस्थायां कर्तृत्वाऽभाग्न नोक्तापत्तिरिति । उक्तस्थले बोधस्तु यज्ञदत्तक- र्मकगमनाऽनुकूलदेवदत्तकर्तृकव्यापारानुकूलविष्णुमित्रकर्तृको व्यापार इति दिक् ।। नियन्तृकर्तृकस्येति । ननु वहधातोर्वाहकर्तृकत्वान्नियन्तृकर्तृकत्वाऽभावेन निषेधप्रति- षेधोऽनुपपन्न इति चेन्न । नियन्नकर्तृकण्यन्तप्रकृतिभूतस्य वहेरित्यर्थे तदुपपत्तेः । न च प्रा- पणार्थकस्य वहेर्गत्यर्थत्वाभावात्कर्मत्वाऽप्राप्त्या तनिषेधवार्तिकारम्भो व्यर्थ इति वा- च्यम् । ग्राम प्राप्त इत्यादौ गतिं विना ग्रामप्राप्त्यसम्भवादाक्षिप्तगत्याऽपि गत्यर्थत्वमि- त्यभिमानेन तदारम्भस्य सार्थक्यादिति ॥ ननु (गतिबुद्धी) तिसूत्रे बुद्धिपदेन ज्ञानल्य ग्रहणाच्चक्षुरादीन्द्रियजन्यज्ञानार्थकानां धातूनां बुद्ध्यर्थत्वात्सूत्रेणैव ( दृशेश्चेति ) वार्तिकोदाहरणस्यापि गतार्थत्वाद्वार्तिकं व्य- र्थमेवेत्याशङ्क्य समाधत्ते-सूत्रे ज्ञानसामान्यार्थानामेवेति । उक्तवार्तिकं व्यर्थ स- ज्ज्ञापयति गतिबुद्धीतिसूत्रे बुद्वयर्थपदेन ज्ञानसामान्यार्थानामेव ग्रहणं न तु ज्ञानविशेषा- नामिति । एवञ्च सूत्रेण वार्तिकोदाहरणस्यागतार्थत्वात्तदावश्यकमिति स्वांशे चारि- तार्थ्य जातं, फलञ्च ज्ञापनस्य स्मारयति घ्रापयति देवदत्तेनेत्यादौ देवदत्तस्य कर्मत्वाऽभा- वरूपमिति भावः ॥ ननु शब्दं करोतीत्यर्थे 'शब्दवैरकलहे ति क्यङि तदन्ताणिचि शब्दायिधातोर्धात्वर्थे- नोपसंगृहीतस्य शब्दरूपकर्मणो धात्वर्थकुक्षिप्रविष्टत्वेनाऽकर्मत्वाद्गतिबुद्धीति सूत्रेण कर्म- संज्ञा दुरित्यत आह-शब्दायतेनेति । शब्दायधातोरणि कर्तुः णौ कर्मत्वं नेति तदर्थे शब्दाययति देवदत्तेन यज्ञदत्त इत्यादौ न देवदत्तस्य कर्मत्वापत्तिरिति दीक्षिताऽऽशयः ॥ नागेशास्तु-शब्दकर्मेत्यत्र कर्मपदस्य क्रियापरत्वे शब्दक्रियाणामित्यर्थेऽकर्मकत्या- त्प्राप्तगतिसंज्ञावारणाय ह्वाययति शब्दाययति क्रन्दयतीनां कर्मत्वप्रतिषेधस्य भाष्यकृतो- कत्वाच्छन्दकर्मकाणामित्यर्थे तदनुक्त्याऽस्य धातोः: शब्दरूपकर्मणो धात्वर्थेनोपसंगृहीत- फक्किकारत्नमञ्जूपा। स्वेऽपि ह्वयतेरिख बहिर्भूतपुत्रादिकर्मणः सम्भवेन तदभावे विनिगमकाऽभावादकर्मकत्वा- ऽभावन कसत्वाऽप्राप्त्या तनिषेधार्थ वार्तिकमिदं व्यर्थमेवेत्याहुः ॥ ननु गतिबुद्धीति सूत्रेऽकर्मकपदस्य न विद्यते कर्म येषामित्यर्थे सकर्मकाणामपि कर्म- गोऽविवक्षयाऽकर्मत्वादेवदत्तेन पाचयतीत्यादौ देवदत्तस्यापि कर्मत्वापत्तिरित्यत आह- येषां देशकालादिभिन्नं कर्म न सम्भवतीत्यादि । अयम्भावः-नियमस्य सजाती- याऽपेक्षत्वात् गतिबुद्धीति सूत्रस्य सकर्मकधातुप्रकृतिकणिजर्थव्यापारप्रयोज्यफलाश्रयाणां कर्मत्वं चेत्तर्हि गत्यर्थादीनामेवेति नियमार्थत्वेनाऽऽसयत्सलिले पृथ्वीमित्यादौ पूर्वसूत्रेणैव कर्मत्वसिद्धौ सूत्रेऽकर्मकपदेन सामर्थ्याद्देशकालादिभिन्नकर्माऽभाववतो ग्रहणादवतरणदलो- तप्रयोगस्थधातोर्दशकालाद्यतिरिक्तस्यौदनादिरूपकर्मणः सत्त्वेन तदविवक्षणेऽप्यकर्मकपदे- नाऽग्रहणान्नोक्तापत्तिशङ्काकलङ्ककणिकेति प्राञ्चः ॥ शेखरकृतस्तु-अविवक्षितकर्मकेभ्यो धातुभ्यः कृतपूर्वीकटमित्यादौ भाष्यकृता कैय- टेन च भावे क्तादीनामङ्गीकारादत्र सूत्रे अर्मकपदेनाऽविवक्षितकर्मकाणामपि ग्रहणम् । णे- रणाविति सूत्रे कैयटेन निवृत्तव्यापाराल्लुधातोणिचि (१)लावयति केदारं देवदत्त इत्यादौ कर्मद्वितीयान्तकेदारस्य प्रयोगाचोक्तविधानामप्यकर्मकपदेन ग्रहणम् । नचाऽर्थान्तरे शक्त्या तस्याऽकर्मकत्वं न त्वविवक्षयेति वाच्यम् । (२)तत्त्वप्रत्यभिज्ञयाऽर्थान्तरत्वाभावेन तत्र शक्तर्वक्तुमशक्यत्वात् । अर्थान्तरे वृत्तेरित्यस्योदाहरणन्तु नदी स्यन्दते इत्याद्यर्थक नदी वहतीत्यादीत्याकरे स्पष्टम् । कर्मणः शेपत्वविवक्षयाऽकर्मकत्वेन मातुः स्मर्य्यत इत्यादौ भावे लस्य 'अधीगर्थे ति सूत्रे भाष्ये उदाहृतत्वेनाऽविवक्षितकर्मकाणामप्य- कर्मकाणामप्यकर्मकपदेन ग्रहणमित्याहुरित्यलम् ॥ ननु (एष्वर्थेष्वभिनिविष्टानामि)ति समर्थसूत्रस्थभाष्यप्रयोगात् 'अभिनिविशश्चे' त्यत्र परिक्रयणे सम्प्रदानमितिसूत्रादन्यतरस्यांग्रहणाऽनुवृत्तिरित्याह-परिक्रयणे स- म्प्रदानमित्यादि । सूत्रेऽविकृतरूपश्रवणादविकृताया अभिनिविशित्यानुपूर्ध्या यत्र श्रवणं तत्रैव अभिनिविशश्चेत्यस्य प्रवृत्तिरिति कल्पनेनोक्तभाष्यप्रयोगे पापेऽभिनिवेश इत्यत्र चाऽऽपत्तिपरिहारादन्यतरस्यां ग्रहणाऽनुवृत्तौ व्यवस्थितविभाषाऽऽश्रयगे च प्रमाणाऽभावा- न्मूलोक्तमयुक्तमेवेति । निविशते यदि शूकशिखापदे सृजति सा कियतीमिव न व्यथाम् । इति नैषधीयपये का गतिरिति वाच्यम् । अभिनिविशितिसंघातस्य विवक्षणेन ता- दृशसंघातपूर्वस्यैव विशतेराधारस्य कर्मत्वविधानेन तत्रोक्ताऽऽपत्तेरयोगादिति नागेशा इति दिक् ॥ ननु मशकार्थो धूम इत्यर्थ इव भाप्योक्तस्याश्यर्थस्य नेत्यस्याऽशिनिवृत्यर्थस्य नेत्य- (१) द्विधाभवनाऽनुकूलव्यापारो हि लुनातेरर्थः । तत्र व्यापारत्यागे लूयते केदारः स्वयमेव, पुनस्तस्यैव केदारस्य प्रयोज्यत्वविवक्षया लावयति केदारं देवदत्त इति भवति । अत्र सूत्रेऽकर्मकपदेनाऽविवक्षितकर्मकस्याग्रहणे स्पष्टैव तादृशप्रयोगाऽनुपपत्तिरिति भावः ॥ ( २ ) फले पूर्वकालज्ञातफलाभेदस्य तदेवेदमिति तत्वप्रत्यभिज्ञयेत्यर्थः ।

कर्मकारकप्रकरणम् । १९ ज्ञानजन्यज्ञान- र्थस्तत्फलितमाह-अभुक्त्यर्थस्य नेति । भाष्ये तु एतस्योदाहरणस्य वने उपविश्य त्रिरात्रमुपवसतीत्यर्थाश्रयणादिदं प्रत्याख्यातम् । नचैवमुपोष्य रजनीमेकामित्यादौ का गतिरिति वाच्यम् । 'कालाध्वनोरिश्त्यनेनैव तत्र द्वितीयोपपत्तेरित्यलम् ॥ उपपइविभक्तिमाह-उभसर्वतसाविति । उभसर्दयोस्तसौ उभसईतसौ उभागे उभयशब्दनिष्टप्रकृतिकत्वस्योभशब्दे आरोपादुभत्रशङ्गप्रकृतिकत्वं पष्ठ्यर्थः । उपपदविभक्ती- नां सम्बन्धोऽर्थ इति बोध्यम् । उभयशसर्वशब्दप्रकृतिकतसन्तयोगे द्वितीयेति कारिका- र्थः । धिगिति-धिक्शब्दयोगेऽपि द्वितीया कार्येति तदर्थः । धिक् कृष्णाऽभक्तमि- त्यस्य कृष्णाऽभक्तसम्बन्धिनिन्देत्यर्थः । आत्रेडितान्तेष्विति–कृतद्विर्वचनेष्वित्यर्थः । इदमुपर्खादिष्वित्यस्य विशेषणं तेन- उपर्युपरिखुद्धीनां चरन्तीश्वरबुद्धयः । इत्यत्र न द्वितीयाप्रसक्तिः । उपरिवुद्धीनामुपरीत्यर्थेन तस्यानेडितान्तत्वाऽभावात् । ततोऽन्यात्राऽपीति-अन्यशब्दयोगेऽपि द्वितीयेति तदर्थः । तेन फलति पुरुषाऽऽराधनमृते, आषाढी यावच्छुद्धः, आरभ्य तस्यां दशमी तु यावत्प्रपूजयेत्पर्वतराजपुत्र्याः । इत्यादिषु ऋते शब्दयोगे यावच्छब्दयोगे च द्वितीयासिद्धिरिति दिक् ॥ (९)जपमनुप्रावर्षदिति-लक्षणत्वञ्च ज्ञानजनकज्ञानविषयत्वम् । विषयत्वं लक्ष्यत्वम् , तथा च जपस्य वर्षाज्ञानजनकज्ञानविषयीभूतत्वाल्लक्षणत्वेन तस्मि- ननुद्योत्ये सति अनोः कर्मप्रवचनीयत्वेन तद्योगे लक्षणवाचकाज्जपशब्दाद्वितीया । जपा- ऽभिन्नहेतुज्ञानजन्यज्ञानविषयो वर्पणमिति बोधः ॥ ननु हेतुतृतीयायाश्च सावकाशत्वात्स्वस्वांशे लब्धाऽवकाशरूपतुल्यबलविरोधस्य स- त्वाद्विप्रतिषेधसूत्रप्रवृत्त्या परत्वात्तृतीयाऽऽपत्या नदीमन्ववसितेति द्वितीयाघटितरूपं न स्यादित्याशंक्य समाधत्ते-पराधि हेतावितितृतीयाऽनेन बाध्यत इति-लक्षणेत्थं- भूताख्यानेति सूत्रेणैव सज्ञासिद्धावनुर्लक्षणे इत्यनेन पुनः संज्ञाविधानसामर्थ्यात्परस्या अपि तृतीयाया बाधेनोक्तप्रयोगोपपत्तौ न कापि बाधा दृष्टिगोचरीभूता भवतीति भावः । न च लक्षणेत्थम्भूताऽऽख्यानेति सिद्धसंज्ञाया जपमनुसिञ्चतीत्यत्र षत्वाऽभावसायकत्येन चारितार्थ्याद्वितीया विधायकत्वे मानाऽभावेन तदर्थमनुर्लक्षणे इत्यस्यावश्यकत्वात्पुनः संज्ञाविधानसामर्थ्यादिति कथनमनुपपन्नमिति वाच्यम् । लक्षणेत्यमिति सूत्रस्योपसर्ग- संज्ञाबाधननेन चारितार्थेऽपि कर्मप्रवचनीयेति सूत्रे तदुपस्थित्या द्वितीयाप्राप्तेः सुलभत्रेन अनुर्लक्षणे इत्येतद्विहितसंज्ञाया निरवकाशत्वस्य स्पष्टत्वादिति दिक् नदीमन्ववसितेति-नद्या सह सम्बद्धेत्यर्थः । तत्र तृतीयार्थाऽनुमोत्यं साहित्य तश्च प्रकृतेऽनुयोगित्वलक्षणमेव तथा च नद्यनुयोगिकसम्बन्धप्रतियोगित्ववती सेनेति बोधः। अपिः पदार्थेति-पदस्याऽप्रयुज्यमानपदान्तरस्याऽर्थः पदार्थः तद्योतकोऽपिः कर्मप्रवचनीयसंज्ञको भवतीत्यर्थः । सर्पिषोऽपीति-अत्राऽप्रयुज्यमानस्य बिन्दुरित्यावेः पदस्याऽर्थोऽपियोत्यः । सम्भावनायां लिङिति-'उपसंवादाऽशङ्कयोश्चेति सूत्रस्थभा- (१) कदा वृष्ट इति कस्यचित्प्रश्ने इदमुत्तरमिति बोध्यम् ।

फकिकारत्नमञ्जूषा । ध्यपठितेन (उपसंवादाशङ्कयोलिङ्) इति वार्तिकेनेति भावः । तत्राऽऽशङ्कोत्प्रेक्षा, सम्भा- बनापि उत्कटकोटिकाऽऽशंकैत्र । अपेः कर्मप्रवचनीयत्वात्तत्थोत्यसम्बन्धमाह, तस्या एवेति-सम्भावनाया एवेत्यर्थः । विषयीभूते भवने इति । प्रकृतार्थभवने इत्यर्थः । कर्तुदोलभ्यमिति-अत्र कर्तुर्दोर्लभ्यमिति षष्ठीतत्पुरुषो बोध्यः । स्वदौर्लभ्यप्रयुक्त- दौर्लभ्यवत्त्वरूपसम्बन्धोऽपिद्योत्यः । बिन्दुना कर्तृत्वादुक्तसम्बन्धेन स्यात्पदवाच्यक्रिया- चामन्वीयते इत्यर्थः । तदाह-अपिशब्दबलेनेत्यादि-एवञ्च सर्पिरवयवबिन्दुदौर्लभ्य- प्रयुक्तदौर्लभ्यवती तत्कर्तृका सम्भावनेति बोधः । नन्वेवं कर्मप्रवचनीयसंज्ञकापियोत्येऽर्थ सर्पिपोन्वयेन तस्य कर्मप्रवचनीययुक्तत्वाद्वितीया स्यादित्याशङ्क्य समाधत्ते-द्वितीया तु नेह प्रवर्तत इति । सर्पिषो बिन्दुना योगो, नत्वपिना । न च परम्परया तेना- ऽपि योग एवेति वाच्यम् । कर्मप्रवचनीयद्योत्योक्तसम्बन्धेनाऽपिशब्देऽन्वयाऽभावात् । एवञ्च न द्वितीयाऽऽपत्तिः । कर्मप्रवचनीयद्योत्यसम्बन्धप्रतियोगिवाचकादूद्वितीयेत्यर्थे प्रकृते- ऽपिथोत्यस्योक्तसम्बन्धस्य बिन्दुः प्रतियोगी न ततो द्वितीया, स्पष्टप्रतिपत्त्यर्थमपिधोत्य- विन्दोः प्रयोगेऽपि (उपपदविभक्तेरि)ति न्यायेन द्वितीयां बाधित्वा प्रथमैषेति । अपेः कर्मप्रवचनीयत्वे फलमाह-अनुपसर्गत्वादिति-अपेः -अनुपसर्गत्वादिति-अपेः कर्मप्रवचनीयत्वेनोपसर्गत्वा- ऽभावात् स्यादित्यत्र न षत्वमिति दिक् ॥ कालाध्वनाः-अत्यन्तसंयोगो निरन्तरं सम्बन्धः। स च गुणक्रियाद्रव्यैरभावन च। तेन मासं भोजनाऽभाव इत्यादि सिद्धम् । गुणादिभिः कालाध्वनोरत्यन्तसंयोगे सति प्रत्यासत्त्या कालाऽध्ववृत्तिभ्यां द्वितीयेत्यर्थः । उदाहरणन्तु, मासमधीत इत्यादि । बुद्धि- स्थयावदवयवसम्बन्धरूपा व्याप्तिद्वितीयार्थः । नचैकादश्यां रात्रौ जागृयादित्यादावपि द्वितीया दुर्वारेति वाच्यम् । अधिकरणत्वविवक्षणाद्वितीयाया अप्राप्तेः ॥ इति द्वितीया ।। अथ करणकारकप्रकरणम् । स्वतन्त्रः को-स्वातन्त्र्यञ्च, कर्तृप्रत्ययसमभिव्याहारे प्रधानीभूतधात्वर्थाश्रय- त्वम् । नयोक्तस्वातन्त्र्यलक्षणे कर्तृप्रत्ययसमभिव्याहार इति विशेषणं व्यर्थं तदहितलक्ष- णनैवाऽभीष्टसिद्धेरिति वाच्यम् । कर्मप्रत्ययस्थले पक्कस्तण्डुलो देवदत्तेनेत्यादौ धात्वर्थस्य फलस्य प्राधान्यात्तदाश्रयस्य तण्डुलस्य कर्तृत्वापत्तेर्दुरितया देवदत्तस्य तदनापत्त्या तदर्थ- मुक्तविशेषणस्य सार्थक्यात् । एवञ्च धात्वर्थव्यापाराश्रयत्वं स्वतन्त्रत्वमिति तल्लक्षणं फ- लितम् । नचैवं देवदत्तेन पाचयति यज्ञदत्त इत्यादौ णिजर्थव्यापाराश्रयस्य धात्वर्थव्यापारा- ऽऽश्रयत्वाऽभावात्कर्तृत्वं न स्यादिति वाच्यम् । णिचो द्योतकत्वेन द्वितीयव्यापारस्यापि धात्वर्थत्वात्तदाश्रयस्य यज्ञदत्तस्य कर्तृत्वे बाधकाऽभावात् । अथवा व्यापाराश्रयस्य भा- ध्योक्तस्याऽन्यानधीनस्य वा स्वतन्त्रत्वाच। नचाऽन्यानधीनस्य स्वतन्त्रत्वे णिजन्तस्थ- प्रयोज्यकर्तुः प्रयोजकाऽधीनत्वात्कर्तृत्वं न स्यादिति वाच्यम् । सर्वेषां स्वव्यापारे स्वत- न्त्रत्वस्य निर्विवादत्वात् । नचैवं प्रयोज्यप्रयोजकन्यवहारो न स्यादिति वाच्यम् । उत्तर- व्यापाराधीनत्वेनोक्तव्यवहारोपपत्तेरिति दिक् ॥

करणकारकप्रकरणम् । २१ साधकतमं करणम्-साधतमकमित्यस्य प्रकृष्टमित्यर्थः, तञ्च यद्वयापाराऽव्यवधा- नेन कार्यनिष्पत्तिस्तत् । उक्तञ्च- क्रियायाः परिनिष्पत्तिर्ययापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम् ॥ अथवा कारकान्तरनिष्ठव्यापारसम्बन्धावच्छिन्नक्रियाहेतुत्वाऽभावत्वे सति क्रियाहेतु- त्वरूपम् । अथवा व्यापारत्वे सति कारणत्वं तत्त्वमिति ॥ ननु क्रियते येनेति व्युत्पत्त्या करणल्युडन्तकरणेतिमहासंज्ञया करणपदादेव साधकत्ये लब्धे साधकपदस्यैव साधकतमार्थपरत्वादिष्टसिद्धौ तमब्ग्रहणं व्यर्थमित्याशङ्कते-तम- ग्रहणं किमिति । उत्तरयति-गङ्गायां घोष इति । अयम्भावः, व्यर्थ तमग्रहण ज्ञापयति इति, इह कारकप्रकरणे शब्दसामर्थ्यगम्यप्रकर्षाऽऽश्रयणं न भवति । अत एवं प्रत्युदाहरणीभूतोक्तप्रयोगे सप्तमीसिद्धिः । अन्यथाऽधिक्रियतेऽस्मिन्नितिव्युत्पत्त्याधिक रणपदादाधारलाभे अधारपदस्य प्रकृष्टाधारपरत्वे तिलेषु तैलं दध्नि सपिरित्यादाववाधिक रणसंज्ञया सप्तमी स्यानतु गङ्गायां घोष इत्यादावपीति । घोपाऽऽधारत्वस्य तीरधर्मस्य तीरे लक्षणया तथा प्रयोग इति बोध्यम् । न च महासंज्ञयोक्तार्थलाभासमर्थान्प्रत्या- धारादिपदस्य चरितार्थत्वेन शब्दसामर्थ्यगम्यप्रकर्षेत्यायुक्तज्ञापनासम्भवात्प्रत्युदाहरणस्य का गतिरिति वाच्यम् । आधारपदे स्वरितत्वप्रतिज्ञया गौणाधारग्रहणस्य सुलभत्वादि- त्यलम् ॥ रामेण बाणेन हतो वालीति-कर्तुत्वशक्तिमान्कर्तृक्रियाभावसम्बन्धश्च कर्तृतृती- यार्थः । करणत्वशक्तिमान् क्रियाकरणभावसम्बन्धश्च करणतृतीयार्थः । रामकर्तृकबाणक रणकप्राणवियोगाश्रयो वालीति बोधः ॥ प्रकृत्यादिभ्य उपसंख्यानम्-एतद्विहिततृतीयाऽर्थोऽभेदोऽन्योऽपि । - प्रकृत्यादिगणाजाता तृतीया तु तदात्मताम् । अवच्छेदकतावृत्ति प्रकारत्वादि शंसति ॥ इति । प्रकृत्या चारुरित्यादितः स्वाश्रयाधिकरणयावत्कालवृत्तिचारुत्ववान् । प्रकृत्यभिन्नचा- रुत्ववानीति वा बोधः ॥ दिवः कर्म च-ननु पूर्वसूत्रात्करणपदाऽनुवृत्त्यैव कर्मकरणयोर्विधानसिद्धौ चकारो व्यर्थ इति चेन्न । तस्य संज्ञाद्वयसमावेशार्थेन सार्थक्यात् । अत एव, अक्षैर्देवयते इत्यत्र परत्वा. तृतीया कर्मत्वाच्चाऽकर्मकत्वप्रयुक्तपरम्मैपदाऽभावश्च सिद्धयति । विप्रतिषेधशास्त्रबलात्तृती- यैवाऽत्र कर्मत्वकरणत्वेतिशक्तिद्वयं बोधयतीति बोद्धयम् । नचोभयसंज्ञाविधानं तृतीयान्त- घटितप्रयोगस्य द्वितीयान्तघटितप्रयोगस्य च साधुत्वार्थमेव तत्रोक्तशास्त्रबलेन तृतीयैव चेद्वितीयान्तघटितप्रयोगस्याऽसाधुत्वमेव स्यादिति वाच्यम् । अक्षाणां फलाश्रयत्वसमा- नाधिकरणकर्मत्वविवक्षायामक्षान्दीव्यतीति द्वितीयान्तघटितप्रयोगस्य साधुत्वात् । न च दिवः साधकतमस्योभयसंज्ञाविधानेनाऽक्षाणां देवितेत्यादौ तृतीयाऽऽपत्तिरिति वाच्यम् । तृतीयातः परत्वात्कृद्योगलक्षणषष्ठया एव प्राप्तेः । नचैवं मनसा देव इत्यादावपि षष्ट्या- ।

२२ फकिकारत्नमञ्जूषा। पतिरिति वाच्यम् । कर्तरि कर्मण्येव कृद्योगषष्ठीविधानाद्धेतौ तदविधानेन तत्राऽदोषात् । तत्र हेतुतृतीयान्तन मनसेत्यनेन पचाद्यजन्तस्य देवशब्दस्य समासः (मनसः संज्ञायामि)- त्यनेन तृतीयाया अलुक् । न च दिवः साधकतमे कर्मत्वकरणत्वोभयशक्तयङ्गीकारे कर्मणि प्रत्यये कृते करणत्वशक्तेरनुक्तत्वात्तृतीयाऽऽपत्त्याऽक्षान्दीव्यन्तामित्यादिप्रयोगोनैवोपपद्यतेति वाच्यम् । (अपादानमुत्तराणि कारकाणि बाधन्ते) इत्यस्योदाहरणभूते गां दोग्धीति प्रयो- गे कर्मणि प्रत्यये कर्मत्वशक्तरुक्तत्वऽप्यपादानत्वशक्तेरनुक्तत्वेन प्राप्तपञ्चमीनिवृत्त्यर्थ द्रव्य- गताऽनेकशक्तिमध्ये एकस्या अभिहितत्वेऽपरस्या अप्यभिहितवदवबोध इति न तत्र पञ्चमी इति भाष्योक्त्यैव तत्रत्यापत्तेरपि परिहारादित्यलम् ॥ भपवर्गे तृतीया-अपवर्ग इत्यस्य फलप्राप्तावित्यर्थः । सत्यां फलप्राप्तौ प्रयोज- नाऽभावादेव क्रियायामप्रवृत्तिरिति फलप्राप्तिशब्देन फलप्राप्तिपूर्वकस्त्याग उच्यते । तथा च-फलप्राप्तिपूर्वके क्रियात्यागे द्योत्ये सति कालाऽध्वनोरत्यन्तसंयोगे प्रत्यासत्त्या काला- ऽध्ववाचकाभ्यां तृतीयेत्यर्थः ।। सहयुक्नेऽप्रधाने-ननु सहेनाऽप्रधाने इत्येव सिद्धे युक्तग्रहणं व्यर्थमिति चेन्न । तस्य सहशब्दयोग एव न, किन्तु तदर्थयोगेऽपि तृतीया भवतीत्यर्थकल्पनेन सार्थक्यादि- त्याशयेनाऽऽह मूले-सहार्थेनेति-अर्थयोगेऽपि तृतीयाविधानादेव शब्दयोग विनाऽपि कचित्तृतीया भवतीत्याह-विनाऽपि तद्योगमिति-प्रमाणञ्चात्र (वृद्धो यूने) त्यादि- निर्देश एवेति । सहार्थः साहित्यं तच्च स्वसमभिव्याहृतक्रियादिसमानकालिकसमभिव्याहृ- तक्रियादिमत्त्वरूपम् । क्वचित्समानदेशक्रियावत्त्वमपि तत् । एतद्रूपसाहित्यस्य विवक्षणा- देव तिलवापोत्तरं तत्रैव क्षत्रे भाषवाप तिलैः सह माषान्वपतीति सिद्धयति । पुत्रेण सहा- गतः पितेति नैतत्सूत्रोदाहरणं युक्तम् , पुत्रस्याऽऽगमनकियाकर्तृत्वादेव ततस्तृतोयासिद्धः । एवञ्च पुत्रेण सह स्थूल इति मुख्यमुदाहरणं बोध्यम् । पुत्रकर्तृकागमनक्रियासमानकालि- कागमनक्रियावापितेतिप्रथमवाक्याबोधः । पुत्रसम्बन्धिस्थौल्यसमानकालिकस्थौल्यवा- पितेति द्वितीयतो बोधः । एवम्- सहैव दशभिः पुत्रैारं वहति गर्दभी। इत्यादितोऽपि पुत्रसम्बन्धिभारवहनसमानकालिकं गर्दभीकर्तृकं वहनमित्यादिक्रमेण बोधः । पुत्रेण सहागतः पितेत्यत्र प्रधानिभूतात्पितृशब्दात्तृतीयाव्यावृत्त्यर्थमेव सूत्रेऽप्रधा- नग्रहणं तत्राऽन्तरङ्गत्त्वात्प्रातिपदिकार्थमात्रे प्रथमैव चेदलमप्रधानग्रहणेन । न च पुत्रेण सह पितुरागमनमित्यादौ प्रथमाया अविषये पितुस्तदापत्तिस्तदवस्थैवेति वाच्यम् । (उप- पदविभक्तेः कारकविभक्तिर्बलीयसी) तिन्यायेन ( कर्तृकर्मणोः कृति ) इत्यनेन तत्र षष्ट्या एव विधानादिति दिक् ॥ येनाधिकारः-अङ्गमस्यास्तीत्यङ्ग अर्श आदित्वादच् । अङ्गस्य विकारोऽङ्गविका- र। अङ्गिनो विकार इति तदर्थः । प्रयोज्यत्वं षष्ट्यर्थः । येनेति सर्वनाम्ना प्रकृत्यर्थभू- तोऽवयवो लक्ष्यते । तत्राऽभेदस्तृतीयार्थः, तथा च, यदभिन्नाङ्गवृत्तिविकारप्रयोज्याङ्गिनो विकारो लक्ष्यते ततस्तृतीयेति सूत्रार्थः । अङ्गविकारः किमिति-अर्श आद्यजन्ताङ्गमहर्ण किमर्थमिति प्रश्नः । समाधत्ते-भक्षिकाणमस्येति-अयम्भावः-अर्श आद्यजन्ताङ्गस्या- करणकारकप्रकरणम । २३ ३ 'टाया ऽग्रहणे यदभिन्नाङ्गवृत्तिविकारो लक्ष्यते ततस्तृतीयेत्यर्थे प्रत्युदाहरणभूतोक्तप्रयोगे प्रथमां बाधित्वा तृतीयाऽऽपत्तिः, तद्ग्रहणसत्त्वे तु पूर्वोक्ताथै नोक्तापत्तिः । अङ्गिनो विकारस्येहा- ऽलक्ष्यत्वात् । अक्ष्णा काण इत्यत्र तु तृतीया न स्यादङ्गवृत्तिविकारस्याऽलक्ष्यत्वात् । यद्यपि अक्ष्येव काणं तथापि, अवयवधर्मस्य कागत्वस्य समुदाये आरोपेण शरीरे शरीरा- वच्छिन्ने चात्मनि काणत्वव्यवहार इति बोध्यम् । नचाऽक्षिगतविकारवाचकस्यैव काम- शब्दत्वेन प्रसिद्धत्वादर्थादेवाऽक्ष्णो लाभे तस्योक्तार्थानामिति न्यायेन प्रयोगाप्राप्त्याऽयमा काण इत्यस्य साधुत्वं न स्यादिति वाच्यम् । द्वौ विप्राविति वदुक्तप्रयोगसाधुत्वात् । अनेन प्रकारेणेशप्रयोगसाधुत्वे एतत्सूत्रमेव प्रमाणमित्यलम् ॥ इत्थम्भूगलक्षणे-इत्थंशब्दोऽत्र प्रकारमात्रपरः । प्राप्त्यर्थकाद्धातोः कर्तरि क्त भूतशब्दो निष्पन्नः कर्मविभक्त्यन्तेनेत्थं शब्देन भूतशब्दस्य समासः । लक्षणशब्दोऽत्र करणसाधनः । लक्ष्यते येन तल्लक्षणमिति विग्रहः । कर्मपठ्यन्तेनेत्थंभूतशब्देन लक्षणशब्द- ल्य समासः । तथा च कञ्चित्प्रकारं प्राप्तस्य लक्षणे द्योत्ये प्रत्यासत्त्या लक्षणवाचकात्तृती- यत्यर्थः । जटा अस्तापस इति-तापसत्वज्ञानजनकज्ञानं जटाज्ञानं ती इति तस्य लक्षणवाचकत्वेन ततस्तृतीयेति भावः। न च जटाभिस्तापसो ज्ञात इत्यर्थे ज्ञान- क्रियायां जटानां करणत्वादेव तत उक्तविभक्त्युपपत्तावलमेतत्सूत्रेणेति वाच्यम् । करण- त्वस्याऽविवक्षायां लक्ष्यलक्षणभावमात्रविवक्षायां तृतीयाविधानार्थमस्याऽऽवश्यकत्वात् । इत्थंभूतस्य यत्र लक्षणवाचकात्पृथगेवोपस्थितिर्भवति तत्रैवाऽनेन तृतीया विधीयते । अत एव कमण्डलुपदात्तृतीया न भवति । न च (सुपो धातुप्रातिपदिकयारि)त्यनेन कमण्डलु- पदादुत्पन्नायास्तृतीयाया लुकि न दोष इति वाच्यम् । समासे कृते तृतीयोत्पत्तिरिति तस्याः समासरूपप्रातिपदिकाऽनवयवत्वेन लुगनापत्त्या दोषस्य तादवल्थ्यादिति कैयटः । शेखरकृतस्तु-कमण्डलुः पाणौ यस्येति बहुव्रीहिः, कमण्डलुयुक्तपाणिरूपस्य कम- ण्डलुपाणित्वस्यैव लक्षणत्वेन (१)तस्यैव लक्षणवाचकत्वेन (२)तत एव तृतीयाऽऽपत्तिः । 'अनुर्लक्षणे' इति सूत्रे भाष्येऽप्युक्तमेतत् । तत्र हि, ( सकृदसौ कमण्डलुपाणिवाच्छाको दृष्टस्तस्य तदेव लक्षणम्भवती)त्युक्तम् । तत्र तदेवेत्यस्य कमण्डलुनाणित्वमेवेत्यर्थः । कम- ण्डलोर्लक्षणत्वे तु कमण्डलुपाणिरेव लक्षणमित्यर्थकः स एव लक्षणमिति वदेत् । (३)कै- यटमतेऽपि-तत्प्रदर्शितं तृतीयालुगनापत्तिरूपपणं तु न युक्तम् । कमण्डलुशब्दातृतीया- विधानेऽपि (तन्मध्यपतित)न्यायेन तस्याः समासरूपप्रातिपदिकत्वस्याऽक्षतत्वेन लुको दुर्वारत्वात् । (४)अत एव नरम्मन्य इत्यादौ (सुपोधात्वि)ति अमः कुतो न लुगित्या- शंक्याऽम्बिधानसामर्थ्यान्न लुगिति समाहितम्भाष्ये। कैयटमते तु अमः समासरूपप्रा- तिपदिकाऽनवयवत्वेन लुकोऽप्राप्त्या भाष्यकृत्कृतस्य शंकासमाधानस्य स्पष्टैवाऽसङ्गति- स्तस्मान्मदुक्त मेव ज्याय इत्याहुः ॥ ननु शास्त्रीयहेतोः कर्तृत्वाल्लौकिकहेतोश्च करणत्वात् तृतीयासिद्धौ (हेतावि)ति सुत्रं (१) कमण्डलुपाणेरेवेत्यर्थः । (२) कमण्डलुपाणिशब्दादेवेत्यर्थः । ( ३ ) कैयटमतं खण्डयितुमाह-कैयटमतेऽपीति। (४) उक्तन्यायेन तृतीयाया उक्तरूपप्रातिपदिकावयवत्वादेवेत्यर्थः ।

फकिकारत्नमञ्जूषा। - व्यर्थमित्याशय हेतुत्वकरणत्वयोर्भेदप्रदर्शनेन समाधत्ते-द्रव्यादिसाधारणमिति- आदिपदेन गुणक्रिययोहणं तथा च द्रव्यगुणक्रियाऽन्यतमत्वे सति नियतव्यापाररहितत्वं इतुत्वम् । द्रव्याधन्यतमत्वे सति नियतव्यापारसहितत्वं करणत्वमिति लक्षणं पर्य्यवसि- तम् । रेजोल्दाहरणं दण्डेन घटः दण्डहेतुको घट इत्यर्थः । अन्न दण्डस्य व्यापारवत्वेऽपि जिनकत्वाभावान्न करणत्वम् । करणस्योदाहरणं पुण्येन दृष्टो हरिः । पुण्यकरणक हरिदर्शनमित्यर्थः । अत्र पुण्यस्य क्रियाजनकत्वेऽपि व्यापाररहितत्वमिति हेतुकरणयोर्भेदेन करणतृतीयया हेतुतृतीयाया अगतार्थत्वाद्धताविति सूत्रमावश्यकमिति भावः ॥ ननु अलं श्रमेणेत्यादौ क्रियावाचकपदाऽसत्त्वेन क्रियाया अप्रतीत्या करणत्वाऽभावा- तृतीया न स्यादित्याशङ्कय समाधत्ते-गम्यमानापि क्रियेत्यादि-श्रमेणेत्यादिपदज- न्ययोधविषयाऽपीति तदर्थः । नतूच्चार्यमाणक्रियावाचकपदजन्यबोधविषयैवेति तदाशयः । त्य निषेधोऽर्थः । श्रमेण पाध्यं नास्तीत्यर्थः । वाक्यैकदेशस्य प्रयोगेण साध- नक्रियाम्प्रति श्रमस्य करणत्वात्तृगयेति । न च साध्यमित्यर्थज्ञानेऽपि साध्यमित्यस्य श्रमेणेति सुबन्तार्थत्वेन क्रियात्वाऽभावात् कथं श्रमस्य करणत्वमिति वाच्यम् । साध्यमि- त्यत्र प्रकृतिभूतधात्वर्थ प्रति श्रमस्य करणत्वाक्षतेरिति दिक् ॥ अशिष्व्यवहारेति-अशिष्टानां सङ्कीर्णाचाराणां यो व्यवहारः क्रिया तबाधकप्र. योगे प्रत्यासत्या यत्सम्बन्धेन व्यवहारस्य सङ्कीर्णाचारत्वं तहाचकात्प्रतिपदिकाच्चतुर्थ्यर्थे तृतीयेत्यर्थः । दास्या सम्प्रयच्छत इति । दासीसम्प्रदानकं रतिफलकं दानमिति बोधः । इति तृतीया । अथ सम्प्रदानकारकप्रकरणम् । कर्मणा यमभिप्रेति स सम्प्रदानम्-कळ दाधात्वर्थक्रियाकर्मणा सम्बन्धेच्छा- विषयीभूतो यः स सम्प्रदानमिति सूत्रार्थः । सम्यक प्रदीयते अस्मै तत्सम्प्रदानमित्यन्व- र्थसंज्ञाबलेन दानार्थकधासुयोग एवैतत्सूत्रप्रवृत्तिः । दाधात्वर्थश्च स्वस्वत्वनिवृत्तिपूर्वकपरस्व त्वोत्पत्त्यनुकूलव्यापाररूपः । अत एव रजकस्य वस्त्रं ददातीत्यत्र न चतुर्थी । अत्र दाधा- तुर्भाक्तः अधीनीकरणरूपेऽर्थे इति तदर्थः । दाधातुप्रयोग एव चतुर्थीविधानादेव, अजां धार्म नयति, हस्तं निदधाति वृक्षे इत्यादौ न चतुर्थी, इति वृत्तिकारमतम् । भाण्ये तु दानस्येति क्रियामात्रस्योपलक्षणम् , कर्ता क्रियामात्रकर्मणा सम्बद्धमिष्यमाणस्य सम्प्रदा- नत्वमित्यर्थः । अत एव खण्डिकोपाध्यायः शिष्याय चपेटां ददातीति प्रयोगः सङ्गच्छते, अत एव च 'दाशगोनौ सम्प्रदाने' इत्याद्यपि चरितार्थम् । अजाया ग्रामसम्बन्धो जाय- तामित्येवेच्छा न तु ग्रामोऽजासम्बद्भो जायतामित्याकारेच्छेति ग्रामस्याऽजारूपकर्मणा सम्बद्धमिष्यमाणत्वाऽभावान्न अजां ग्राममित्यादौ सम्प्रदानत्वाऽतिप्रसङ्गः । विप्राय गां ददातीत्यादौ सम्प्रदानत्वशक्तिमान् क्रियाकारकभावसम्बन्धश्च सम्प्रदानचतुर्थ्यर्थः कर्मणा सम्बन्धश्च स्वत्वादिरूपो बोध्यः । देवदत्तकर्तृवृत्तिविप्रोद्देश्यकगोनिष्ठत्यागानुकूलव्यापार इति बोधः ।

सम्प्रदानकारकप्रकरणम् । २५ कर्मतेति किम्-अयम्भावः-सूत्रे कर्मणेत्यनुपादाने कत्रों क्रियया सम्बधुमिष्य- माणस्य सम्प्रदानत्वमित्यर्थे विप्राय गां ददातीत्यादौ गोरूपकर्मणोऽप्युद्देश्यत्वात् अर्था- देवदत्तकर्तृवृत्तिदानक्रियया सम्बन्धेच्छाविषयोभूतत्वात्सम्प्रदानत्वापत्तिः । न च कर्मसं- ज्ञाया अनवकाशत्वाद् गोः कर्मसंज्ञैव स्यान्न सम्प्रदानसझेति वाच्यम् । सम्प्रदानसंज्ञायाः कर्मसंज्ञया सह पर्यायतया विधानेन कर्मसंज्ञायाः सावकाशत्वात्तया सम्प्रदानसंज्ञाया अबा- धेन दोपस्य तादवस्थ्यात् । अतः कर्मणेत्यस्योपादानमावश्यक, सति तस्मिन् गोरूपो- दृश्यत्वाऽभावात्तेनैव सम्बद्धुमिप्यमाणस्य सम्प्रदानत्वेन न तस्याऽऽपत्तिलेपोऽपीति दिक् ।। यं स ग्रहणं किमिति-सूत्रेऽनयोरनुपादाने क्रियाकर्मणा योऽभिप्रैति ब्राह्मणादिः तस्यैव सम्प्रदानत्वापत्तिः । न च कर्तृसंज्ञाया निरवकाशत्वेन तयोक्तसंज्ञाबाधेन नाऽऽप- त्तिरिति वाच्यम् । अकर्मकधातुविषये कर्तृसंज्ञायाः सावकाशत्वेन तथा सम्प्रदानसंज्ञावा- धानापत्त्या पूर्वोक्ताऽऽपत्तेस्तादवस्थ्यात् । न च कर्तः कर्तृत्वाऽभावन गोः कर्मत्वमेव न स्यादिति वाच्यम् । कर्मसंज्ञायां कर्तृग्रहणस्य स्वतन्त्रोपलक्षणत्वेनादोपात् । अत एव सार्थाद्धीयते इत्यत्र कर्तुरपादानत्वेऽपि कर्मणि लकारसिद्धिः । एवञ्च यं स ग्रहणमावश्यक- मिति भावः ॥ ननु सूत्रे कर्मणेत्युक्तावकर्मकक्रियोद्देश्यस्य सम्प्रदानत्वं न स्यादित्यत आह-क्रि- यया यमभिप्रेति सोऽपि सम्प्रदानमिति कर्मरहितक्रिययेति तदर्थः । सकर्मकेपु कर्मसंज्ञा सम्प्रदानसंज्ञाया बाधिका स्यादित्याह-पत्ये शेत इति–उद्देश्यत्वं चतुर्थ्यर्थः । पत्युद्देश्यकशयनकी पत्नीति वोधः । न च तादर्थ्यमुपकार्योपकारकभावरूपः सम्बन्धः । दानादयोऽपि सम्प्रदानत्वेनाऽभिप्रेतविप्राद्यर्था एवेति तादर्थ्यचतुथ्र्यैव सिद्धौ 'चतुर्थी स- म्प्रदाने' इदं सूत्रं व्यर्थमेवेति वाच्यम् । 'दाशगोनौ सम्प्रदाने' इत्येतदर्थन्तस्याऽऽवश्य- कत्वात् । सम्प्रदाने कारके दाशगोनाविति निपात्येते इति सूत्रार्थः । चतुर्थी सम्प्रदाने इत्यस्यासत्त्वे दाशगोत्राविति सूत्रे सम्प्रदानपदेन कारकग्रहणं न स्यादित्येतदर्थ तदावश्य- कमिति भावः । अत एव मूले दाशन्ति तस्मै दाशः । गां हन्ति तस्मै गोनोऽतिथि- रिति तयोरर्थः प्रतिपादितः । न च दाशगोध्नावित्यत्र सम्प्रदानशब्दस्य सम्यक् प्रदीयते यस्मै तत्सम्प्रदानमित्यर्थकल्पनया नैतत्सूत्राऽनुपपत्तिरिति वाच्यम् । उक्तरीत्योक्तसूत्राऽनु- पपत्तिपरिहारेण तदनावश्यकत्वेऽपि तत्सम्प्रदानकं दानमिति बोधार्थ 'चतुर्थी सम्प्रदाने' इत्य. स्यावश्यकत्वात् । सम्प्रदानसज्ञासत्वे विप्रसंप्रदानकं गोकर्मकं दानमिति बोधः । ताद- र्थ्यचतुर्थ्यां विप्रार्थ गोकर्मकं दानमिति बोध इत्येवमनयोर्भेदो बोध्यः । ननु अभिलषते रुचधातुसमानार्थकतया हरये रोचते भक्तिरित्यत्रेव हरिभक्तिमभिलष्य- तीत्यत्राप्यर्थग्रहणसामर्थ्यात्परामपि कर्मसज्ञां बाधित्वा सम्प्रदानसञ्ज्ञा कुतो नेत्याश- य समाधत्ते-अन्यकर्तृकोऽभिलाषो रुचिरिति । अभिलपतिकपेक्षया यदन्य- दभिलषतिकर्म तत्कर्तृका रुचिरिति तदर्थः । यत्किञ्चिन्निष्ठप्रीत्यनुकूलप्रीतिव्यधिकरणव्या- पारो रुचधात्वर्थ इति फलितम् । यत्कञ्चिद्विषयकप्रीत्यनुकूलप्रीतिसमानाधिकारणव्यापारो- ऽभिलषतेरर्थः । तथाच हरये रोचते भक्तिरित्यत्र हरिनिष्ठप्रीत्यनुकूलप्रीतिव्यधिकरणव्यापा- रो भक्तिनिष्ठ इति सम्प्रदानसंज्ञा जाता । हरिभक्तिमभिलष्यतीत्यत्र तु भक्तिविषयकप्री- २६ फक्विकारत्नमञ्जूषा। तिसमानाधिकरणव्यापारो हरिनिष्ट इत्युभयोः समानार्थकत्वाऽभावान्नाऽभिलषतियोगे सम्प्र- दानसशंति समाधातुराशयः । एवं समवायसम्बन्धावच्छिन्नप्रीत्यनुकूलप्रीतिव्यधिकरण- व्यापारार्थकप्रीधातुयोगे हरिं प्रीणयति भक्तिरित्यत्रापि न सम्प्रदानसंक्षा। रुचधातुसमा- नार्थत्वाभावात् प्रीयमाण इति निदेशेन प्रीधातुयोगे तदभावकल्पनाच्चेत्यलम् ॥ प्रीयमाणः किम्। देवदत्ताय रोचते मोदकः यथोति-ननु प्रीयमाणपढ़ा- उभाने क्रियाजनकत्वमात्रविवक्षायां सूत्रस्य चारितार्थ्यात्सम्प्रदानसंज्ञायां मन्दं प्रवृत्तस्य तस्य परत्वादधिकरणसंज्ञया बाधेन प्रत्युदाहरणेन काचिदनुपपत्तिरिति चेन्न । देवदत्तं रोचते मोदकः पथीत्यस्यापत्तिरिति प्रत्युदाहरणस्याशयात् । प्रीयमाणपदसत्त्वं तु कर्मसंज्ञाया अस्यापवादत्वेन न दोष इति भावः ॥ श्लाघहनुस्थाशपां ज्ञीप्स्यमान: -एषां धातूनां प्रयोगे बोधनेच्छाविषयीभृतः सम्प्रदानसंज्ञको भवतीत्यर्थः । बोधविपया स्तुतिः श्लाघतेरर्थः । गोपी स्मरात्प्णाय श्लाघते इति । स्मरादिति हेतौ पञ्चमो, तथाच-गोपीकर्तका स्मरहेतुका वृष्णसम्प्रदा- निकाऽत्कृष्णबोधवृत्तिविषया स्तुतिरिति बोधः । बोधविषयमितरादर्शनयोग्यदेशस्थापन न्हुतेरर्थः । आत्मानमित्यध्याहारः । तथा च-गोपीकर्तृका स्मरहेनुका कृष्णवृत्तिबोधविषया आत्मकर्मिका इतरादर्शनयोग्यदेशस्थापनाऽनुकूला क्रियेति बोधः । तिष्ठत इति । गोपी- कर्तृका स्मरहेतुका कृष्णसम्प्रदानिका स्वाभिप्रायबोधाऽनुकूला स्थितिक्रियेति बोधः । शपत इति । गोपीकर्तृका स्मरहेतुका कृष्णसम्प्रदानिका स्वाऽभिप्रायबोधाऽनुकूला शप- थक्रियेति बोधः । शेखरकृतस्तुः -स्तुत्यादिना बोधनं श्लाघादेरर्थः। तथाच स्तुत्या आत्मानुरागं कृष्णं बोधयतीत्यर्थः । एवं हुत्या स्थित्या शपथेन च आत्मानुरागं कृष्णं बोधयतीत्यर्थः । यद्वा स्तुत्या हुत्या च कृष्णं स्वसखीजनं बोधयतीत्यर्थः । एतत्सूत्रघटकज्ञीप्स्यमानपदे ण्यर्थकर्मणः प्रकृत्यर्थकर्मणश्च ग्रहणम् । श्लाघादेः स्तुत्यादिमानार्थकत्वे कृष्णं श्लाघते हुत इत्येव, जीप्स्यमान इति ज्ञापनवचनाज्ज्ञपेः सन्नन्तात्कर्मणि शानजित्याहुः ॥ धाररुत्तमर्णः-धारयतः प्रयोगे उत्तमर्गः सम्प्रयानसंज्ञको भवतीत्यर्थः । अत्र सूत्रे धारेरिति शृङ् अवस्थाने इति ण्यन्तस्य ग्रहणम् , नतु ण्यन्तस्य धृनः तथा सति मोक्षस्य धृधात्वर्थकर्तृत्वानापत्तेः, धृनः सकर्मकत्वेन मोक्षस्य कर्मत्वानापत्तेश्च, धृडो ग्रहणे तु तस्याऽकर्मकत्वादण्यन्तकर्तुमर्मोक्षस्य ‘णौ गतिबुद्धि' सूत्रेण कर्मत्वमुपपद्यते । भक्ताय धारयति मोक्षं हरिरिति । स्थापनानुकूलव्यापारोऽन्न धारिधात्वर्थः । तथा च भक्तसम्प्रदानको हरिकर्तृको मोक्षकर्मकाऽवस्थापनानुकूलव्यापार इति बोधः । ननु भक्तस्य कारकत्वाऽभावात्सम्प्रदानसंज्ञा न स्यादिति चेन्न । भक्ताऽसत्त्वे प्रेरणाया अभावात्प्रेरणा- जनकत्वेन भक्तस्य कारकत्वाक्षतेः । ननु मोक्षस्य ऋणत्वे सत्येव भक्तस्य तत्स्वामित्वादु- त्तमर्णत्वेन संप्रदानत्वं स्यात्परं मोक्षस्य ऋणत्वमेव न, ऋणं हि नाम यत्र सजातीयदानम- गीकृत्य परदत्तद्रव्यादानानन्तरं तदुत्तरकालिकर हीतद्रव्यसजातीयद्रव्यदाननाश्योऽदृष्टविशेषः, प्रकते मोक्षस्यैवंविधऋणत्वाऽभावेन भक्तस्योत्तमर्णत्वाऽसम्भवादिति चेन्न । अवश्यदेय- त्वमात्रेण मोक्षेऽपि ऋणत्वव्यवहारस्य सुलभत्वात् । अत्र सूत्रे उत्तमर्णग्रहणाभावे देवद- सम्प्रदानकारकप्रकरणम् । २७ ताय शतं धारयति ग्रामे अत्र ग्रामस्थाऽपि सम्प्रदानत्वापत्तिः । न च परत्वादधिकरण- संज्ञैव स्यादिति वाच्यम् । सत्येवमुत्तमर्गऽपि हतुसंज्ञापत्तेर्दुवारत्वात् । तस्मादुत्तमर्णय- हणाऽभावे हैतुसंज्ञाया इवाधिकरणसंज्ञाया अप्यपवादभूतेयं सम्प्रदानसंज्ञा स्यादिति त- व्यावृत्त्यर्थमुत्तमर्णग्रहणमिति दिक् ॥ स्पृहेरोप्सितः--अत्र सूत्रे इप्सितपदमिच्छाविषयपरं तथा च स्पृश्यतेः प्रयोगे इच्छाविषयः सम्प्रदानसंज्ञको भवतीत्यर्थः । पुष्पेभ्यः स्पृहयति। स्पृहयतिरिच्छामात्र- वाची, फलावच्छिन्नेच्छावाची छ । आद्य सम्प्रदानत्वं तत्प्रागेवोदाहृतम् । अन्त्ये कर्मत्वं पुष्पाणि स्पृहयतीति यथा, इत्येवाह मूले-प्रकर्षविवक्षायां तु परत्वात्कर्मसंज्ञेति । कलाश्रयत्वेन विवक्षायामित्यर्थः । अस्य सूत्रस्य क्रियाजनकत्वमात्रविवक्षायां चारितार्थेन परत्वात्मसंज्ञेति तद्भावः । पुष्पलम्प्रदानकेच्छेति चतुर्थीसमभिव्याहार पुष्पकर्मके छेति द्वितीयाममभिव्याहारे च बोधः । ननु स्पृहयतेः प्रयोगे सम्प्रदानवविधानात्- कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति च । इत्यनुमपन्न मिति चेन्न । क्रियासम्बन्धित्वमात्रविवक्षायां पष्टया तदुपपत्तेः ॥ अबदुहेाऽसूयार्थानां यं प्रतिकोपः-एषामर्थ इवाऽर्थो येषां ते तथोक्तास्ते- पाम् । विपयतया क्रुधाद्यर्थानां धातूनां प्रयोगे तन्मूलभूतकोपसम्बन्धिनः सम्प्रदानसंज्ञेति तदर्थः । तेषु क्रुधद्रुहोरकर्मकत्वात्पष्टयां प्राप्ताया मितरयोः कर्मसंज्ञायां प्राप्तायां वचनमिदम् । क्रोधश्चाऽमर्षरूपो मनसो वृत्तिविशेषः उत्कर्षविरोधिधर्मारोपाऽनुकूलव्यापारात्मकः । द्रोह- श्वाऽपकाररूपः । स च तदीयगुणे दोपत्वारोपाऽनुकूलव्यापाररूपः । इति क्रोधद्रोहयोर्भेदः । ईर्ष्या अक्षमा सा च परकीयपाण्डित्यादिगुणानामसहनं तच्च गुणादिज्ञानजन्यद्वेषात्मकम् । असूया च गुणेषु दोपतादात्म्यारोपः । इति द्रोहादस्य भेदः । हरये क्रुध्यतीत्यादि । हरिसम्प्रदानकः क्रोधः । हरिसन्प्रदानको द्रोहः । हरिसम्प्रदानिका ईर्ष्या । हरिसम्प्रदा- निका असूयेति बोधः । ननु कुपक्रोधे इत्यनुशासनात्कोपस्यैव क्रोधपदार्थत्वात्क्रोधस्य कोपप्रभवत्वमनुपपन्नमिति चन्न । वाक्चक्षुरादिविकारानुमेयप्ररूढकोपल्यैवाऽत्र क्रोधपदा- र्थत्वेन तस्य कोपप्रभवत्वोपपत्तेः । एवञ्च कोपक्रोधयोर्भदान्न कुपधातुयोगे सम्प्रदानत्वम् । अत एव कुप्यति कस्मैचिदित्याद्यसाध्वेषेत्यलम् ॥ तादर्थं चतुर्थी-तादर्थ्यमुपकार्योपकारकभावरूपः सम्बन्धः । तस्मिन् गम्यमाने उपकार्योपकारकवाचका चतुर्थीति तदर्थः । मुक्तये हरि भजतीत्यादितो मुक्तिरूपोपकार्यो- पकारकं हरिकर्मकं भजनमित्यादिक्रमेण बोधः सम्बन्धोऽनेकविधो नतु कार्य- कारणभावरूप एव । अत एव ब्राह्मणाय दधीत्यादयोऽपि प्रयोगा उपपद्यन्ते । उक्तरूपता- दर्थ्यस्य सम्बन्धत्वेन विवक्षायां षष्ठयेव । स्पष्टमिदं गुरोरिद गुर्वर्थमित्यन्त्र भाष्ये ॥ क्लुपि सम्पद्यमाने च-क्लृपीति सप्तमी नत्विका निर्देशः । अत्राऽर्थग्रहणं स- म्पूर्वकस्य पद्यतेरुत्पत्त्यर्थः, तथाच क्लुप्त्यर्थकधातुयोगे उत्पद्यमानेऽर्थेवर्तमानाद्विकृतिवा- चकात्प्रातिपदिकाञ्चतुर्थीति वार्तिकार्थः । भक्तिज्ञानाय कल्पते ज्ञानरूपेग परिणमते इत्यर्थः । अत एव प्रकृतिविकृत्योर्भदविवक्षायां विकृतिवाचकाच्चतुर्थी तयोरभेदविवक्षायां तु परत्वात्प्रथमेव, भक्तिनि कल्पते इत्यलम् ॥ । उक्तरूप:

२८ फक्किकारत्नमञ्जूषा। क्रियार्थोपपदस्य च कर्मणि स्थानिनः-क्रिया अर्थः फलं यस्य तक्रियार्थ तेन स्ववाचक लक्ष्यते क्रियाफलार्थवाचकमुपपदं यस्य स तथोक्तस्तस्य क्रियार्थीपपदस्य, अर्थश्च प्रत्यासत्त्या क्रियारूप एव गृह्यते स्थानिनशब्दस्याऽप्रयुज्यमानवाचित्वमिति व्याकरणशा. स्ने प्रसिद्ध तथा च यत्फलितन्तदाह-क्रियार्था किया उपपदं यस्येत्यादि । फले - भ्यो यातीत्यादितः फलकर्मकाऽऽहरणफलकं यानमित्यादिक्रमेण बोधः । यथा वाक्यार्थे वा- क्यैकदेशप्रयोगस्थले प्रविश पिण्डीमित्यादौ तस्यैव पदस्य सकलवाक्यार्थशक्तत्वं तथा प्रकृतेऽस्य समुदायस्याऽऽहरणघटितोक्तार्थे शक्तिरेतच्छास्त्रबलादिति बोध्यम् । सूत्रे स्था- निन इत्युक्त्या तुमुनः प्रयोगे न चतुर्थी । पिण्डीमित्यादावप्रयुज्यमानभक्षणक्रियाकर्मणि चतुर्थोवारणाय क्रियार्थोपपदस्येति पदमिति दिक् ॥ ननु 'नमः स्वस्तीत्यनेन नमःशब्दयोगे चतुर्थीविधान्नमस्करोति देवानित्यादौ नमः शब्दयोगे चतुर्थी कुतो नेत्याशङ्कय समाधत्ते-उपपदविभक्तरिति । सहयुक्तेऽप्रधाने इति सूत्रस्थभाष्ये प्रधाने प्रथमां साधितुमप्रधानग्रहणं प्रत्याख्यातुञ्च वचनरूपेण पठितेयम् । नमः स्वस्तीत्यन्नत्ययोगग्रहणेन ज्ञापितेयमित्याहुः केचित् । क्रियाकारकयोः सम्बन्धोऽन्त- रङ्गस्तन्निमित्तिका विभक्तिरन्तरङ्गा, उपपदार्थेन तु यत्किञ्चित्क्रियाकारकभावमूलकः सम्बन्ध इति तन्निमित्तिका विभक्तिरपि बहिरंगेत्येतन्मूलिकेयमित्याहुः–कैयटादय- स्तन्न । नमस्करोति देवानित्यादौ क्रियाकारकभावेनैवान्वये परत्वाच्चतुर्थीमाशंक्याऽनया वारणस्य भाष्योक्तस्याऽसङ्गत्यापत्तेः । कारकविभक्तित्वञ्च क्रियाजनकत्वसमानाऽधिक- रणकादिषट्काऽन्यतमत्वम् (अभिहिते प्रथम) ति वार्तिकस्वारस्यादन्याऽभिहिताऽनुभू- तकर्ताद्यन्यतमार्थत्वं प्रथमाया अपीति तस्या अपि कारकविभक्तित्वमित्यवसेयम् । यथा द्वावित्यादौ द्विशब्दादौविभक्तेश्चैकस्यैव द्वित्वस्य बोधस्तथैव देवदत्तः पचतीत्यादौ उभा- भ्यां कर्तृभ्यामेकस्यैव कर्तृत्वस्य बोधो नतु कर्तृत्वबोधाऽऽवृत्तिरिति बोध्यम्-वस्तुतस्तु सूत्रेऽर्थवन्नमःशब्दस्य ग्रहणात्प्रकृतेऽर्थवन्नमःशब्दयोगाऽभावान्न चतुर्थांशङ्काकलङ्कक- णिकावसर इति दिक् ॥ मन्यकर्मण्यनादरे विभापाऽप्राणियु-अप्राणिप्वित्यस्य प्राणिवजेत्यर्थः । तच्च मन्यकर्मविशेषणं, तथाच प्राणिवजें मन्यतेः कर्मणि चतुर्थी वा स्यात्तिरस्कारे इति तदर्थः । तत्राऽनादर इत्यस्य तिरस्कारोऽर्थः । तथाहि-अनादरो नाऽऽदराऽभावमात्रमपितु अधर्मादाविव नमो विरुद्धवाचित्वात्तिरस्कार इति । तत्राऽनादर इति मन्यकर्मविशेषणम् । तेनाऽनादरद्योतके मन्यतेः कर्मणीत्यर्थः फलितः । तिरस्कारश्च व्याख्यानादपकृष्टनिरूपितो- पमेयत्वस्याप्यभावरूप उपमेयेऽत्र गृह्य तेनत्वपकृष्टसादृश्यरूपः, तत्प्रतीतिश्च नजसमभिव्या- हार एवेत्यलम् । इति चतुर्थी। अथापादानकारकप्रकरणम् । ध्रुवमपायेऽपादानम्-ध्रुगतिस्थैर्ययोरित्यस्मात्कुटादेः पचायचि, ध्रुव स्थैय्ये इति पाठे तु इगुपधलक्षणे के वा निष्पन्नस्य ध्रुवशब्दस्य स्थैर्यार्थकत्वम् । विभागजनक- अपादानकारकप्रकरणम् । २९ . व्यापारोऽपायशब्दार्थः । तथा च-विभागजनकव्यापारे ध्रुवं स्थिरम् , उक्तव्यापाराऽनाश्रय- मिति यावत् । यत्तदपादानसंज्ञकं भवतीति सूत्रार्थः। भाष्ये-माथुराः पाटलिपुत्रकेभ्य आ- व्यतरा इत्यादौ बुद्धिपरिकल्पितमपादानमाश्रित्यैव पञ्चमीसाधनेन बुद्धिपरिकल्पितसम्ब- न्धपूर्वको बुद्धिपरिकल्पितोऽपि विभागो गृह्यते न केवलो वास्तवसम्बन्धपूर्वको वास्तव एवेति बोध्यम् । तथा च प्रकृतधातूपात्तविभागजनकव्यापाराऽनाश्रयत्वे सति प्रकृतधा- त्वर्थविभागाश्रयत्वमपादानत्वमिति फलितम् । सूत्रे ध्रुवग्रहणाऽभावे पचत्यादियोगे कर्त- संज्ञायाश्चारितायें न, अपायविषये यत्कारकं तदपादानमित्यर्थसम्भवेनापादानसंज्ञायाः कर्तृसंज्ञापवादत्वेन कर्तुरपादानत्वाऽऽपत्तिरिति तव्यावृत्त्यर्थ ध्रुवग्रहणमित्यवसेयम् । उक्तञ्च हरिणा- अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवाऽतदावेशात्तदपादानमुच्यते ॥ इति कैयटादयः शेखरकृतस्तु -उक्तरीत्या ध्रुवपदस्य निश्चलार्थकत्वेन त्रस्तादृश्वात्पतति (१)धाव- तोऽश्वात्पततीत्यादौ त्रासधावनाऽऽश्रयत्वेनाऽनिश्चलत्वाद्धृवत्वाऽभावेनाऽश्वस्याऽपादान- त्वं न स्यादिति पूर्वपक्षं विधायाऽत्राऽध्रौव्यमविवक्षितं यतः सतोऽप्यविवक्षा भवतीति स- माहितम्भाष्ये । अत्र पतधात्वर्थव्यापाराऽऽश्रयत्वरूपत्वदुक्ताऽध्रुवत्वस्याऽसत्त्वेन सतोऽध्रौ- व्यस्यऽविवक्षेति भाष्योक्तिरसङ्गतिमापद्येत । सिद्धान्तेऽपि त्वदुक्तध्रुवपदार्थकथनस्यैवौ- चित्येन भाष्योक्तस्याऽसङ्गतिः । लोकसिद्धनिश्चलाऽतिरिक्तेऽर्थे ध्रुवपदस्य शक्तिकल्पने गौरवञ्च । नचाऽन्यविधध्रुवत्वाऽभ्युपगमे अतदावेशादिति हरिकारिकाया असङ्गतिरिति चाच्यम् । तत्रातदावेशादित्यस्य तदावेशाऽविवक्षणादित्यर्थेन तत्सङ्गतः। अतोऽपाये गतिविशेषे सति यत् ध्रुवमवधिभावोपगमाश्रयत्वे सति अवधिभावोपगमातिरिक्तस्याऽ- वधित्वोपयोगिव्यापारस्याऽनाऽऽश्रयं तदपादानमिति सूत्रार्थः । त्रासादेवधित्वोपयोगि- त्वाऽऽश्रयणादश्वस्याऽपादानत्वं न स्यादिति पूर्वपक्षः । वृक्षात्पर्ण पततीत्यादौ त्रासादेर- सत्त्वान्न तस्याऽवधित्वोपयोगित्वमिति समाधानम् । वृक्षस्य पर्ण पततीत्यादौ वृक्षस्य पर्ण- द्वारा पातजनकत्वेन प्राप्ताऽपादानत्वव्यावृत्यर्थं ध्रुवमपाये इति । सत्येवं अपायपदं कारके इत्यस्य क्रियाजनकत्वेन विवक्षित इत्यर्थे तात्पर्यग्राहक बोध्यम् । ननु मेषपदोपात्तयोरेव परस्परशब्दार्थत्वात्तयोरवधिभावोपगमातिरिक्तव्यापाराऽनाश्रयत्वाऽभावेन परस्परान्मेषा- चपसरत इत्यत्राऽपादानत्वाऽनुपपत्तिरिति चेन्न । वाचकशब्दरूपोपाधिगतभेदस्य वाच्याऽर्थे आरोपात्तयोरप्यर्थयोर्भेदेन तदुपपत्तेः । ब्रासाऽऽश्रयाऽभिन्नाऽश्वाऽपादानिका देवदत्तकर्तृवृ- त्तिपतनक्रियेति प्रथमवाक्याबोधः । धावनकभिन्नाश्वापादानिका देवदत्तकर्तृवृत्तिःपतन- क्रियेति बोधः । कुड्यापादानकपातकभिन्नाऽश्वाऽपादानिका देवदत्तकर्तृवृत्तिपातक्रियेति तृतीयतो बोधः । अन्यतरमेषाऽपादानिकान्यतरमेपकर्तृकाऽपरसणक्रियेति चतुर्थतो बोधः । ननु विभागाश्रयस्याऽपादानत्वविधानाद्वयधधात्वर्थे विभागस्य प्रवेशात्तद्योगे धनुपा वि- ध्यतीत्यत्राऽपादानत्त्वं दुर्वारमिति चेन्न । व्यधधातोनिःसरच्छरजन्यवेधार्थत्वेन तद्योगे- (१) आदिपदेन कुड्यात्पततोऽश्वात्पततीत्यपि बोध्यम् । ।

३० फसिकारत्नमञ्जूषा। उपादानत्वकरणत्वयोः प्राप्तौ परत्वात्करणत्वस्यैव प्रवृत्तः । ननु विभागाऽनुकूलव्या- पारस्य त्यजधात्वर्थत्वेन तद्योगे ऽप्यपादानत्वप्रसक्तेर्दुरित्वावृक्षं त्यजति खग इति प्रयोगो न स्यादिति चेन्न । तत्र व्यापारव्यधिकरणविभागस्यैव धात्वर्थत्वात्कर्मसंज्ञयाs- पादानत्वस्य बाधेन तथा प्रयोगोपपत्तेः । विभागाऽनुकूलव्यापारस्य स्पन्दधात्वर्थत्वेन त- योगेऽपादानत्वं नाशयम् । उक्तधातोर्विभागार्थत्वाऽनङ्गीकारादिति वृक्षे स्पन्दने इत्येव भवति । चलधातोविभागार्थत्वात्तद्योगेऽपादानत्वस्य सौलभ्येनाऽऽसनाञ्चलित इति प्रयोगो भवत्येव । ननु सार्थस्य धात्वर्थप्रधानन्यापाराश्रयत्वाइपादान वप्रसक्त्या सार्थाद्धीयते इति प्रयोगो नोपपद्यतेति चेन्न । (अपादाने चाहीयरहोरिति)ति ज्ञापकात्कर्मप्रत्ययान्तहाधातु- प्रयोगेऽऽपादानत्वस्य ज्ञापनेन तदुपपत्तेः । कर्मसंज्ञायां कर्तृपदस्य स्वतन्त्रोपलक्षणत्वेन कर्मणि लकारे सार्थेन त्यज्यते देवदत्त इत्यर्थ इत्याहुरिति दिक् ॥ ननु विभागस्य संयोगपूर्वकविश्लेषरूपत्वेन तस्याऽत्राऽसत्त्वाद्बुद्धिकृतस्य विभागस्य गौणत्नाऽग्रहणाच्च सूत्रेणाऽप्राप्त्या वार्त्तिकमिदमावश्यकमित्याह-जुगुप्साविरामेति! जुगुप्सा-निन्दा, विरामो-विरतिः, प्रमादोऽनवधानता, जुगुप्साद्यर्थकधातूनां प्रयोगे जुगुप्सा- दीनां यद्विषयकत्वेन विवक्षा तदपादानमिति तदर्थः । तस्यैवं विषयस्य क्रियाजनकन्वरू- पकारकत्वेनाऽविवक्षायां सम्बन्धित्वेन च विवक्षायां पापस्य जुगुप्सते इति भवत्येव । एप धातूनां स्वार्थविशिष्टबौद्ध विश्लेषजनकनिवृत्तौ लक्षणया अपादाने पञ्चमीत्येव सिद्धौ वा- तिकमिदमुत्तरसूत्राणि च नावश्यकानीत्युक्तं भाष्ये ॥ भीत्रार्थानां भयहेतु:---भयं भीस्त्राणं त्राः, क्विबन्तावेतौ, धातुनिदेशे तु व्यधि- करणबहुव्रीहिराश्रयणीयः स्यात् । भीश्च त्राश्च भीत्रौ तावों येषान्ते भीत्रार्थास्तेषां भीत्रा. नामित्येतत्फलितमाह-भयार्थानामिति । हेतुतृतीयाऽपवादभृतोऽयं योगः। ननु भयार्थकधातुयोगे भयहेतोरपादानत्वविधानात् ॥ कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे । इति रामायणीयपद्ये कस्येति भयहेतोरपादानत्वप्रसक्त्या ततः कथं षष्ठ्युपपत्तिरिति चेन्न । कस्येत्यस्य संयुगेनाऽन्वयात्तस्य भयहेतुत्वाऽभावनाऽपादानत्वाऽग्रसत्या तदुपपत्तेः ! न च संयुगस्याऽपादानत्वाऽऽपत्तिरिति वाच्यम् । अधिकरणसंज्ञयाऽपादानसंज्ञाया बाधे- नोक्तापत्तेरयोगात् । अधिकरणत्वाऽविवक्षायामिष्टाऽऽपत्तिरेव पञ्चम्या इति बोद्धयम् । सूत्रे भीत्रार्थत्यस्याऽसत्त्वे व्याघ्र पश्यतीत्यादावपादानत्वाऽऽपत्तिः । न च कर्मसंज्ञयाऽपादान- त्वबाधेन नोक्ताऽऽपत्तिरिति वाच्यम् । कर्मत्वाऽविवक्षणे शेषषष्टी बाधित्वा पञ्चम्यापत्ते- १रित्वादित्यलम् ॥ चारणार्थानामीप्सितः-वारणं प्रवृत्तिविघातः सोऽर्थो येषां ते तथोक्तानाम् । इप्सितशब्दस्य वारणार्थधात्वर्थफलाश्रयोऽर्थः । यथा च-प्रवृत्तिक्रियाप्रतिषेधाऽनुकूलच्या- पाररूपवारणार्थकधातुयोगे जन्यफलभागित्वेन तत्क्रियाकर्तरीप्सितस्याऽपादानत्वमिति सू- त्रार्थः । यवेभ्यो गां वारयतीत्यादौ वारिधात्वर्थव्यापारजन्यसंयोगादिरूपफलाश्रयत्वाद्य- वादीनामपादानत्वात्तेभ्यः पञ्चमी । देवदत्तकर्तृवृत्तियवप्रतियोगिकविनाशाऽनुकूलभक्षणरूप- व्यापाराऽभावाऽनूकूलो व्यापार इति बोधः । एवं पुष्पेभ्य आतपं नाशयति, परस्टेभ्यः - अपादानकारकप्रकरणम् । ३१ पाणिम्वारयति, कूपादन्धं वारयतीत्यादितः, देवदत्तकर्तृवृत्तिरातपनिष्ठपुष्पवृत्तिशुष्कीभा. वाऽनुकूलव्यापाराऽभावाऽनुकूलव्यापार इति बोधः । पाणिनिष्ठपरस्ववृत्तिसंयोगाऽनुकूल- व्यापाराऽभावाऽनुकूलव्यापारो देवदत्तवृत्तिः । अन्धवृत्तिर्यः कृपवृत्त्यधःप्रदेशाध्वच्छिन्नसं- योगाऽनुकूलक्रियारूपपतनाऽनुकूलव्यापारस्तदभावाऽनुकूलव्यापारः कर्तृवृत्तिरिति बोधः । अग्नेर्माणवकं वारयतीत्यतस्तु माणवकवृत्त्यग्निजन्यदाहाऽनुकूलव्यापाराऽभावाऽनुकूल- व्यापारो देवदत्तवृत्तिरिति बोधः ॥ अन्नो येनाऽदर्शन मिच्छति-अन्तर्विरन्यकर्तृकस्वकर्मकदर्शनाऽभावाऽनुकूलव्य- वहितदेशस्थितिरूपस्तद्घटकं यत्कर्तृकदर्शनाऽभावमिच्छति तदपादानसंज्ञमित्यर्थस्तत्फ- लितमाह-व्यवधाने सतीति-येनेत्यत्र कर्तरि तृतीया। नाऽत्र कृयोगलक्षणा पष्टी शङ्कनीया । उभयप्राप्तौ कर्मण्येव तद्विधानात् प्रत्यासत्त्या आत्मनोगम्यमानत्वादस्त्युभ- यप्रातिरिति भावः । मातुनिलीयते कृष्णः' मातृकर्तृकस्वकर्मकदर्शनेच्छा कृष्णवृत्तिरिति मातृशब्दादपादानत्वेन पञ्चमी। ननूक्तोदाहरणे व्यवहितदेशस्थितेर्धातुना प्रतिपादनेऽपि कथमिच्छाया लाभ इति चेन्न । आक्षेपेण तल्लाभात् । अन्तौ किमिति । अयम्भावः, सूत्रे तदनुपादाने यत्कर्तृकदर्शनाऽभावमिच्छति तदपादानमित्यर्थे चोरान्न दिदृक्षते इत्यत्र चोरकर्तकस्वकर्मकदर्शनाऽभावच्छाया देवदत्तादिवृत्तित्त्वाचोरशब्दादपादानत्वाऽऽप- त्तिः । तदुपादाने तु व्यवधाने सतीत्यस्याऽप्यर्थकुक्षिप्रविष्टत्वेन प्रकृते तदभावान्नापत्ति- रिति । सूत्रे येनेत्यस्याऽभावे स्वकर्मकदर्शनाऽभावं य इच्छति तदुपादानमित्यर्थे कर्तुरेवो- क्ताऽऽपत्तिस्तत्सत्वे तु यत्कर्तृकेत्यर्थघटितोक्तार्थे न कर्तुस्तदापत्तिः । इच्छतिग्रहणाऽभावे यत्र दर्शनाऽभाव एव तत्रैवाऽपादानसंज्ञा स्यात् । तद्ग्रहणसत्वे तु अदर्शनेच्छाया तदनु- कूलव्यापारकरणे दैववशादर्शने सत्यप्युक्तसंज्ञा भवतीत्यलम् ॥ अन्यारादिति-अनाऽन्येत्यर्थग्रहणं तेनाऽन्यार्थकशब्दयोगे पञ्चमीति तदर्थः । अ- न्यार्थश्च भेदाऽऽश्रयो नतु भेदमात्रम् । अत एव घटाद्भिन्न इत्याद्युपपत्तिः । शेखरकारा- स्तु-'पञ्चमी विभक्तरित्यत्र विभागार्थकविभक्तपदेन भेदस्य व्याख्यानात् 'ध्रुवमपाये इति सूत्रे अपायशब्देन भेदस्याऽपि ग्रहणादपादाने पञ्चमीत्येव पञ्चमीसिद्धावन्येत्यर्थग्रहणमनादे- यमित्याहुः ॥ ननु सहाञ्चतीति सभ्यूडित्यन्न पञ्चम्यभावाय दिक्शाब्दसाहचर्येण दिग्वाचकस्यैवाऽज्जू- तरपदकस्य ग्रहणादिक्शब्दयोगे पञ्चमीविधानादेवाऽभूत्तरपक्ष्कयोगेऽपि पञ्चमी विधानसु- भत्वेन सूत्रे पृथगञ्यूत्तरपदग्रहणम्व्यर्थमित्यत आह-अञ्चुत्तरपदस्येति ॥ प्रभृतियोगे पञ्चमीति--प्रभृत्यर्थयोगेऽपि पञ्चमीति तदर्थः । अपादाने पञ्चमीति सूत्रस्थं भाष्यमेवाऽत्र प्रमाणम् । तत्र हि-( यतश्चाऽध्वकालनिर्माणं ततः पञ्चमी कार्तिक्या आग्रहायणी मास) इति वार्तिकं प्रत्याख्यातुम् (इदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते कार्ति- क्याः प्रभृत्याग्रहायणीमास) इत्युक्तम् । प्रतिशब्दाऽभावपि तदर्थसत्तामात्रेण पञ्चमी- त्यर्थकेनाऽनेन भाष्येण प्रभृत्यर्थयोगे पञ्चमीति वचनं वोध्यते । अन्यथा प्रभृतिपदाऽभावादु- क्तवार्तिकस्य पञ्चम्यर्थमावश्यकत्येन तत्प्रत्याख्यानमसंगतं स्यात् । एवञ्च मेरुपृष्टादारभ्य ध्रुवपर्यन्तं ग्रहनक्षत्रतारागणचित्रितोऽन्तरिक्षलोक इत्यत्र प्रभृत्यर्थकाऽऽरभ्यशब्दयोगेऽपि प- ३२ फक्किकारत्नमञ्जूषा। अमी। अवीचिमारभ्येत्यत्राऽऽरभ्येत्यस्य गृहीत्वेत्यर्थेन प्रभृत्यर्थकत्वाऽभावान्न पञ्चमीत्यलम् ॥ ननु (अपपरिबहिरञ्चवः पञ्चम्या) अत्र सूत्रे परस्परसाहचर्य्यादपपर्यावर्जनार्थयोः कर्म- प्रवचनीयसंज्ञकयोरेव ग्रहणात्तद्योगे (पञ्चम्यपाङ्परिभिरि)ति पञ्चमीविधानेन (लक्षणप्रतिप- दोक्त) परिभाषयाऽऽपपरिनिमित्तकसुबन्तस्यैव ग्रहणेन च पञ्चम्यैव समासस्य सिद्धत्वात् अ- पपरिसाहचर्य्यादुक्तपरिभाषया चाऽजूत्तरपदेनाऽपि अन्यारादिति विहितपञ्चम्यैव समासस्य सिद्धत्वाञ्च पूर्वोक्तसूत्रस्थं पञ्चमीग्रहणं व्यर्थ सत् बहिश्शब्दस्य पञ्चम्यन्तेन समासविधान- द्वारा बहिश्शब्दयोगेऽपि पञ्चमी भवतीति ज्ञापयतीत्याह-अपपरिबाहिरिति समास- विधानाजशापकादहियोगे पञ्चमीति । पञ्चम्यन्तेन समासविधानाज्ज्ञापकादिति त- दर्थः । ज्ञापकसिद्धस्याऽसार्वत्रिकत्वात्क्वचिबहिश्शब्दयोगे षष्ठ्यपि । तेन मणिबन्धादाक- निष्टं करस्य करभो बहिरिति सिद्धमिति दिक् ॥ ननु 'पृथग्विनानाने ति सूत्रेण विकल्पेन तृतीयाविधानात्तदभावपक्षे 'एनपा द्वितीया' इति प्रकृता द्वितीयैव स्यात् । अस्या वैकल्पित्वे पञ्चम्यपि, अस्याश्च नित्यत्वाद्विभक्तित्रयसमा- वेशो न स्यादिति तदर्थमन्यतरस्यां ग्रहणस्य समुच्चयार्थकत्वमावश्यकमित्याह-अन्यतर- स्यां ग्रहणं समुच्चयामिति । शेखरकृतस्तु-अत्र सूत्रेऽन्यतरस्यांग्रहणस्य न द्वितीयासमुच्चयार्थकत्वम् , फलाऽभा- वात् । न च द्वितीयासमुच्चयार्थकत्वे । विना वातं विना वर्ष केनेमौ पातितौ द्रुमौ । इत्यत्र द्वितीया भवतीति वाच्यम् । ऋतेशब्दयोग इव ततोऽन्यत्रापि दृश्यते इत्यनेनैव तत्र द्वितीयासिद्धः। अत्र सूत्रे द्वितीयाया असम्बन्धादेव भाष्यकृता नोक्तो द्वितीयासमुच्चयः । यद्यत्र द्वितीयासम्बन्धः स्यात्तदा 'करणे च स्तोकाल्पकृछ्रकतिपयस्येति सूत्रेऽपि पञ्चमी- समुच्चयार्थम्प्रकृताऽन्यरस्यां ग्रहणस्य सम्बन्धाऽऽवश्यकत्वात्तत्राऽपि द्वितीयासमुच्चयः स्या- दिति तनावः । (पञ्चम्या अधिकारे द्वितीयाषष्टीविषये प्रतिषेधो वक्तव्यः' दक्षिणेन ग्राम दक्षिणतो ग्रामस्येति) भाष्यात् (षष्ठ्यतसर्थप्रत्ययेने)त्यतः प्राक् (एनपा द्वितीये)ति सूत्र- मिति सूचितम् । अन्यथा सूत्रपाठक्रमत्यागे न्यायप्राप्तषष्ट्याः पूर्वनिपाताऽकरणे च न कि- मपि बोजम् । एवञ्चान्यतरस्यांग्रहणस्य नैव द्वितीयासमुच्चयार्थकत्वमित्याहुरित्यलम् ॥ इति पञ्चमी। अथ सम्बन्धकारकप्रकरणम् षष्ठी शेषे । अत्र सूत्रे शेपपदेन कर्मादिभ्यो येऽन्येऽर्थाः स शेष इति भाष्यकृतोक्तत्वा- त्कारकप्रातिपदिकार्थभिन्नस्य स्वत्वादेर्ग्रहणम् । स च शेष: स्वत्वत्वादिरूपेण सम्बन्धत्वेन रूपेण च षष्ठीवाच्यः। राज्ञः पुरुषोऽस्तीत्येतद्वाक्यजन्यशाब्दबोधाऽनन्तरं पुरुषो राजस्व- त्ववान्नवेति सन्देहो न भवतीति यथा विशेषरूपेण कल्प्यते तथा राजसम्बन्धी न वेति च सन्देहाऽनुत्पत्त्या सामान्येन सम्बन्धत्वेन रूपेण च शेषस्य षष्ठीवाच्यता कल्प्यते इति भावः । राजनिरूपितस्वत्ववदभिन्नपुरुषकर्तृकसत्तेति बोधः ॥

सम्बन्धकारकप्रकरणम् । ३३ ३ रुजाऽर्थानामिति । रुजा व्याधिरों येपान्ते रुजास्तषां तथोक्तानाम् । धातो- र्भाववचनत्वस्याऽव्यभिचारण सामद्विचव इति कर्तरि ल्युट्प्रकृत्यर्थोऽविवक्षितस्तदाह- भावकर्तृकाणामिति ॥ हिंसायां किम् , धानापेषणमिति । ( जासिनिग्रहणे )ति सूत्रे हिंसाग्रहणाऽभावे प्रत्युदाहरणभूतोक्तप्रयोगे उक्तसूत्रेण षष्ट्याऽऽप्रात्त्या (प्रतिपदविधाना पष्टी नस नस्यने) इति समासनिपेभेन धानायाः पेपणमित्यसमस्तप्रयोगाऽपत्तिः । तद्ग्रहणसत्त्वं तु पिप्धातोरन्न हिंसार्थकत्वाऽभावादनेन पष्ठ्यप्राप्त्या कर्तृकर्मणोरिति पष्ठ्या समासे तटुपपत्तिरिति भावः ॥ ननु गामस्य तदहःसभायां दीव्येयुरित्यत्र नित्यं पष्टीप्राप्तौ विकल्पार्थ द्वितीया ब्राह्मणे इति सूत्रमिति भाष्यात् 'दिवस्तदर्थस्येत्यत्र न शेपपदसम्बन्ध इत्याशयेन तिङन्तमु- दाहरति-शतस्य दीव्यतीति । यदि दिवस्तदर्थस्येत्येतत्सूत्रस्याऽपि शेपपदसम्बन्धन समासनिवृत्तिफलकत्वं स्यात्तदा यत्र समासस्य प्राप्तिसम्भावना तादृशंकृदन्तमेवोदाहरेत् । तथाऽकरणेन ज्ञायते नाऽत्र शेषपदसम्बन्ध इति भावः ॥ ननु ‘दिवस्तदर्थस्ये त्यादिसूत्रेण व्यवधानाच्छेषपदाऽसम्बन्धेनाऽधिकरणकारक एव षष्ठीविधानस्य समुचितत्वेन शेषग्रहणं व्यर्थमित्याशयेनाशङ्कते-शेषे किमिति । समाधत्ते- द्विरहन्यध्ययनमिति । शेषपदाऽसम्बन्धेऽधिकरणं पष्ठीविधानात्प्रत्युदाहरणभूतोक्तप्रयोगे षष्ट्यापत्तिरिति तव्यावृत्त्यर्थ वृत्त्यादिप्रामाण्यात् 'अधीगर्थदयेशामिति सूत्रे कर्मादीना- मविवक्षा शेष इति भाष्ये कर्मादीनामित्यत्र बहुवचनेनानापि शेषपदसम्बन्धबोधनाच्च मण्डूकप्लुत्या शेषपदसम्बन्ध आवश्यक एवेति समाधातुराशयः । वस्तुतस्तु उक्तभाष्ये बहुवचनेन नाऽत्र सूत्रे शेषपदसम्बन्धलाभः । कर्माश्रयषष्ठीविषये सूत्रोपात्तसकर्मकाणामकर्म- कवद्वचनमिति वार्तिकं प्रत्याख्यातुं शेष इति वर्तते इति भाष्यकृतोक्त परेण शेषश्व क इति पृष्टे कर्मादीनामविवक्षा शेष इति सिद्धान्तिना स्मारितत्वात् । सिद्धान्तिभाष्यकारेण. शेषपदार्थः स्मारितः । नैतावता कृत्वोथैत्यन्त्र शेपपदसम्बन्ध इति लभ्यते । (१)किञ्चैत- द्भाष्यबलेन दिवस्तदर्थस्येत्यत्र शेषपदसम्बन्धो लभ्यते । (२)अन्यथा वार्तिकरीत्या भावे इष्टस्य शतस्य दिव्यत इति प्रयोगस्याऽसिद्धिरापद्येत । (३)अत एव (अधीगर्थादयः प्रेष्यत्रु- पर्यन्ताः कर्माश्रयपदेनोच्यन्ते) इति कैयटेन वार्तिकव्याख्यायामुक्तम् । (४)एवञ्च शेषपदस- म्बन्धेनोक्तवात्तिकप्रत्याख्यानवदेतत्सूत्रद्वयप्रत्याख्याने एव भाष्यकर्तुस्तात्पर्य्यम् । नचैवं (६) द्वितीया ब्राह्मणे' इत्येतत्सूत्रस्थं भाष्यं विरुणद्धीति वाच्यम् । (६)वात्तिकरी- (१) प्राचीनव्याख्यायान्दोषमप्याह-किञ्चति । ( २ ) 'दिवस्तदर्थस्येति सूत्रे शेषपदाऽसम्बन्धे इत्यर्थः । ( ३ ) दिव इति सूत्रे शेषपदसम्बन्धादेवेत्यर्थः । अस्य मूलोक्तकैयटोक्तसूत्रभाष्यपाठा- च्छेषपदसम्बन्धलाभ इति । (४) दिव इति सूत्रे शेषपदसम्बन्धे सतीत्यर्थः । (५) ननु द्वितीया ब्राह्मणे इत्यत्र भाष्ये गामस्य तदहः सभायामित्यादौ शेषपदास- म्बन्धेन दिव इति सूत्रप्राप्तषष्ठीबाधनार्थमेतस्य सूत्रस्योक्तत्वादस्य का गतिरित्याह-द्विती- या ब्राह्मण इति । (६) वार्तिककृता हि नोक्ता शेषपदानुवृत्तिः किन्तु तेनाऽकर्मकवद्भाव एवोक्त इति भावः।

३४ फक्किकारत्नमञ्जूषा। त्योक्ताप्यस्य सत्यादिति तत्त्वस् । (१)किञ्च या कर्मणो विवक्षा, न तदा षष्टी, स्म- राम्यहं मातरमित्युक्तम्भाष्ये । भवन्नये यदा कर्माडिविवक्षा भवति । न भवति तदा षष्ठी- ति वदेत् । (२)एवञ्च 'नोऽविदर्थस्थ करणे' इत्यत्राऽपि न शेपपदसम्बन्ध इति बोध्यम् । एवञ्च नाऽज्ञानार्थकजानातियोगे कदाऽपि नृतीया । (३)शतं दीव्यतीत्यादि च सिद्धयति । ज्ञोऽविदर्भ येत्यत्र शेषपदसम्बन्धाऽभावेऽनेनैव व्यवधानात्कथमुपपत्तिरधीगर्थे त्यत्र भाष्यो- तस्य शेषपदसम्बन्धस्येति नाशंक्यम् । मण्डूकाऽनुवृत्त्या शेपपदसम्बन्धस्य तत्र सुलभ- त्वादित्यलमतिविस्तरेण ॥ को कर्मणो कृति । नाऽन्न सूत्रे शेषपदस्थ सम्बन्धः । तथा सति षष्ठी शेष' इत्यनेनैवाऽनाऽपि पष्टयाः सिद्धौ सूत्रमेतद्वैयर्थ्यमापद्येत । नचैतत्सूत्रस्य ज्ञोऽविदर्थस्येति सूत्रवत्समासनिवृत्तिफलकत्वेन चरितार्थत्वसम्भवे कथं वैयर्थ्यमिति वाच्यम् । (कृद्योगा पष्टी समस्यते ) इत्यनेन तन्त्र समासस्येष्टत्वादुक्तफलकत्वाऽभारेन वैयर्थ्यस्य स्पष्टत्वात् । सूत्रधटककृतिरित्यस्य करोतेर्भावे क्विबुत्पत्तौ कृयोगे कर्तरि कर्मणि च षष्ठीति सूत्रार्थी निम्पन्नः । कर्तरि षष्टयुदाहरणम् । कृष्णस्य कृतिः । कृतिरिति भावे क्तिन् , करणं कृतिः । कर्मपष्टयुदाहरणञ्च, जगतः कता कृष्णः । अत्र कर्तृसाहचर्य्याभेदसम्बन्धेनाऽन्यायिन एव कर्मणो ग्रहणात्स्तोकं पाक इत्यादौ न क्रियाविशेपणीभूतस्तोकादिपदात्षष्टी। (४)अन्य- था व्यपदेशिवदान फलस्य स्वाश्रयत्वात्कर्मत्वेन तत्रान्वितस्य स्तोकादरपि कर्मत्वात्त- स्माददुर्वा रैव पय्यापत्तिरिति बोध्यम् । (६)किञ्चस्तोकम्पाचक इत्यादौ न क्रियावि- शेषणेन स्तोकादिना समानाधिकरणसमासो नाऽपि सुप्सुपेत्यनेन सः । स्तोकादर्धात्वर्थ- ऽन्वयात्सुबन्तार्थविशेष्येण पाककर्ताऽन्वयाऽभाषेन सामर्थ्यविरहात् । ननु स्तोकं पाक इ- त्यत्रैव समासाऽभावप्रदर्शनस्य समुचितत्वे स्तोकं पाचक इति प्रयोगाऽन्तरे तत्प्रदर्शन निष्फलमिति वाच्यम् । 'तृजकाभ्यां कर्तरी ति सूत्रोदाहरणविपये ओदनस्य पाचक इत्यत्र षष्टीवत्स्तोकम्पाचक इत्यत्रापि सा स्यादिति सन्देहव्यावृत्तये प्रयोगान्तरे तत्प्रदर्शन- स्य साफल्यात् । (६)नचैवं द्वितीयाश्रितेत्यादेः वैयर्थ्याऽऽपत्तिः कष्टं श्रित इत्यत्र सुख- न्तार्थविशेष्येण श्रवणकर्ता कष्टमित्यस्याऽनन्वयेनाऽसामर्थ्यादिति वाच्यम् । तस्याऽरम्भ- सामर्थ्यादवयवद्वारकसामर्थेऽपि प्रवृत्त्या सार्थक्यात् । (७)द्वितीयाप्रकरणोक्तपरेतुम- तरीत्या सामर्थ्यस्य सत्त्वाच । (१) सिहावलोकनन्यायेनाइ-किश्चेति । (२) पूर्वोक्तव्यवस्थासिद्धौ चेत्यर्थः। ( ३ ) दिवस्तदर्थस्येति सूत्रे पूर्वोक्तरीत्या शेषपदसम्बन्धे सति यदा सम्बन्धित्वेन विवक्षा तदा षष्ठी, यदा कर्मत्वशक्तिमत्वेन सा तदा द्वितीयेति रूपद्वयसिद्धिरिति भावः । ( ४ ) अभेदेनान्वयिनः कर्मणो ग्रहणे सतीत्यर्थः । ५) अत्र विशेषमाह-किञ्चेति। ( ६ ) सामाऽभावेन समासशास्त्रेऽप्रवृत्ते सतीत्यर्थः । (७) प्राप्तोदकेत्यत्र वृत्तिविग्रहयोः समानार्थकत्वार्थ प्राप्तिकर्तुदककर्मेति बोधखीकार- वत्कष्टेति कर्मणो द्वितीयान्तार्थस्य कर्तर्यन्वयेन कष्टकर्मकाऽभिन्नाश्रयणकर्तेत्यर्थकल्पने सुम- न्तार्थविशेष्येणाऽप्यन्वयेन सामर्थ्यमस्तीति भावः।

सम्बन्धकारकप्रकरणम् । ३५ सुबन्तार्थविशेष्येणाऽनन्वयेन समासाऽभावादेव, दारुणं यथा भवति तथाऽध्यापक इत्यर्थकस्य दारुणाऽध्यापक इत्यस्य सिद्धये मलोपवचनमारब्धं 'पूजनात्पूजितमिति सूत्रे भाष्ये । असामर्थेऽपि समासाऽभ्युपगमे तु समासेनैवाक्तप्रयोगोपपत्तौ भाष्यकृत्कृतस्य मलापवचनस्य स्पष्टमेव वैयर्थ्यं स्यात् । उक्तसूत्रस्थभाष्यमेव क्रियाविशेपणान्न पष्टी- त्यत्रापि प्रमाणं बोध्यम् । अन्यथा 'तृजकाभ्यां कर्तरी' तिनिषेधसामर्थ्याइवय- वद्वारकसामर्थ्यऽपि पष्टीसमासस्य प्रवृत्त्या समासेनैवोक्तप्रयोगोपपत्तौ मलोपवचनस्य स्पष्टैव वैयांपत्तिरिति । नच विभापाधिकारेण पष्ठीसमासस्य वैकल्पिकत्वात्तद- भावपक्षे दारुणाऽऽध्यापक इत्यस्योपपत्तये मलोपवचनस्य चरितार्थत्व कथं वैयर्थ्य- मिति वाच्यम् । तथा सति वाक्ये मलोपश्च वक्तव्य इत्येव वचनस्य कर्तुमुचितत्वात् । वै- यधिकरण्येन समासाऽप्राप्तिविषयकत्वादेव क्रियाविशेषणे दारुगादौ विशेष्यणाऽनन्वया- त्समासाऽप्राप्त्या मलोपविधानमिति कैयटेनोक्तम् । न च विशेष्यणाऽनन्वयेऽप्यवचनद्वार- कसामर्थ्यमादाय सुप्सुपेति वा मयूरव्यंसकेति वा समासेनोक्तप्रयोगोपपत्तौ तदर्थे कृतस्य मलोपवचनस्य सर्वथा वैयर्थ्याऽपत्त्या क्रियाविशेषणात्यष्ठ्यभावे समासाऽभावे च न तद्विनि- गमकं भवितुमर्हतीति वाच्यम् । उक्तसमासविधायकशास्त्रद्वयस्याऽसार्वत्रिकत्वेन पूर्वोक्त- युक्त्या षष्ठयभावात्तत्समासल्याऽप्यभावेन चोक्तप्रयोगाऽनुपपत्त्या तदर्थमुक्तवचनस्याऽs- वश्यकत्वेनोक्तविषये विनिगमकत्वल्याऽक्षतेरित्यलम् ॥ ननु कर्तृकर्मभ्यां क्रियाऽऽक्षेपात्तद्वाचिनो धातोरेव सत्त्वात्तेभ्यस्तिकृतो विधानेऽपि तिड्योगे 'न लोके ति निषेधेन पष्टयभावे कृद्योगे एव षष्ठीति कृद्ग्रहणं व्यर्थम् । न च देवदत्तेन शत्योऽश्च इत्यादौ तद्धितयोगेऽश्वरूपकर्मणि पष्ठीव्यावृत्त्यर्थ कृद्ग्रहणमावश्यक- मिति वाच्यम् । कारकाऽन्वययोग्यताऽवच्छेदकरूपेण साध्यत्षेनोपस्थितक्रियानिरूपितकर्म- ण्येवाऽनेन षष्टीति नियमेन तद्धितात्तेन रूपण क्रियोपस्थित्यभावादश्वस्य तादृशक्रियानि- रूपितकर्मत्वाऽभावेन तत्र षठ्यप्राप्तेः । नच कृद्ग्रहणमुत्तरसूत्रेऽनुवृत्त्याऽव्ययएदन कृपव्यय- स्यैव ग्रहणार्थमिति वाच्यम् । अव्ययार्थस्य ये कर्तृकर्मणीति व्याख्यानेन कृतव्ययस्यैव तत्र ग्रहणात् । नच उभयप्राप्तावि'त्यनान्यपदार्थसम्पादनद्वारा बहुव्रीयुपपत्त्यर्थं कृद्ग्रहणमि- ति वाच्यम् । 'एकाचो द्वे' इत्यादाविवाऽन्यपदार्थस्याऽशब्देत्वेऽपि व्याख्यानात्तदुपपत्तेः । न च भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानामित्यादौ (१)गौणे णिच्प्रकृत्यर्थकर्तरि षष्ठ्यर्थ करोतीति कृदिति कर्तृपरं कृद्ग्रहणमिति वाच्यम् । गौणे णिच्प्रकृत्यर्थकर्तरि तृतीयावद्यत्न- मन्तरैव षष्ट्या अप्युपपत्तेः । एवञ्च कृद्ग्रहणम्व्यर्थमेवेत्याशयेनाऽऽशंकते-कृतिकिमिति । समाधत्ते-(२)तद्धिते माभूत्कृतपूर्वोकटमिति-अयम्भावः-उक्तरीत्या प्रयो- (१) अप्रधाने । २) तद्धिते माभूदिति । तद्धितान्तनिष्ठा या शक्तिः सा च बोधजनकत्वप्र- कारतानिरूपितकृतपूर्वांत्वावच्छिन्नभगवदिच्छीयविशेष्यतारूपा तस्या यो ग्रहः [ ज्ञानं ] स च तादृशविशेष्यताख्यविषयताप्रकारककृतपूर्वीपदत्वावच्छिन्नविषयतावत्कृतपूर्वीपदम्भवत्वि- त्याकारकस्तन्मात्रप्रयोज्योपस्थितिः । पूर्वकालिककृतिकर्तृत्वावच्छिन्नरूपा तद्विषयिका क्रिया कृतिक्रिया तस्याः कर्तरि कर्मणि च षष्टी माभूदिति तदर्थः ।

३६ ३ फक्किकारत्नमञ्जूषा। न जनाऽन्यथोपपत्त्या व्यर्थीभूतं कृदग्रहणं ज्ञापयति, कृदन्तशक्तिग्रहप्रयोज्योपस्थितिविषयक्रि- यायाः कर्तरि कर्मणि पष्टी यथा स्यात्, तद्धितान्तशक्तिगहमात्र प्रयोज्योपस्थितिविषय- क्रियायाः कर्तरि कर्मणि माभूदिति । तथा च कृतपूर्वोकटमित्यत्र कटस्य तद्धितान्तशक्तिग्रहमात्र प्रयोज्योपस्थितिविषय- क्रियायाः कर्मत्वान्न षष्टी । ईदृग्वृत्तिघटकतयैव सकर्मकधातुप्रकृतिकभावक्तान्तस्य कृतेत्यस्य प्रयोगेण कृदन्तशक्तया क्रियोपस्थित्यभावात् । न च निष्ठान्तत्वात् 'न लोकेतिः निषेधेनैव तत्र पष्टयभावनैतत्कृद्ग्रहणकृतनियमफलं युक्तमिति वाच्यम् । निष्टान्तमात्रवृत्तिशक्तिग्रहप्रयोज्योपस्थितिविपयक्रियानिरूपितकर्मण्येव तेन पष्टीनिषे- धात् । च कृग्रहणकृतनियमेन कृतपूर्वीकटमित्यत्रेव तण्डुलानां पाचकतर इत्यादावपि षष्ठी न स्यात् , तण्डुलानां पाचकतरेतितद्धितान्तनिष्टशक्तिग्रहप्रयोज्यो- पस्थितिविषयक्रियानिरूपितकर्मत्वसत्वादिति वाच्यम् । पाचकादेः पृथक्प्रयोगेण पाचक- पदनिष्ठशक्तिग्रहप्रयोज्योपस्थितिविषयत्वस्य निर्बाधेन पष्ठ्युपपत्तेः । कृधातोः कर्मणोऽवि- वक्षया भावे ते कृतमिति ततः पूर्वशब्दस्यतत्समभिव्याहारे कृतं पूर्वमिति विग्रह "सुप्सुपे'- तिसमासे 'पूर्वादिनिः' 'सपूर्वाच्चेति' इनिः, ततः कर्मयोगविवक्षया कृतपूर्वीकटमिति सि- द्धयति । अस्यैवंरीत्या साधुत्वे एतत्सूत्रस्थं भाष्यमेव मानम् । न च प्राक्कर्मणोऽन्वयाऽ- विवक्षामपि कृतेत्यस्य कर्मणि साकांक्षत्वेन सापेक्षत्वादसामर्थ्येन वृत्तिनस्यादिति वाच्यम् । वृत्तः पूर्व कर्मान्वयाऽभावेनाऽसाकांक्षत्वात् । न च 'नपुंसके भावे कः' इत्यनेन सकर्मके- भ्योऽपि धातुभ्यो भावे क्तप्रत्ययसिद्धौ कर्मणोऽविवक्षया भाषे क्तसाधनयत्नो व्यर्थ इति वाच्यम् । उक्तसूत्रेणाऽप्यकर्मकेभ्य एव क्तविधानादित्यलम् ॥ उभयप्राप्तौ कर्मणि-पूर्वसूत्रेणैव सिद्धौ नियमार्थमिदं सूत्रम्। उभयोः प्राप्ति- यस्मिन्निति बहुव्रीहिः । अस्याश्रयणादेकनिमित्तत्वलाभेनौदनस्य पाकः, ब्राह्मणानाञ्च प्रा- दुर्भाव इत्यादौ विभिन्न क्रियाकर्तृ कर्मणोः षष्ठीप्राप्तौ नायं नियमः प्रवर्त्तते । प्राप्तिपदेनोभ- योः प्रयोगे सत्येवाऽयं निषेध इति बोध्यम् ॥ स्त्रीप्रत्यययोरकाकारयो यं नियम इति-'स्त्रियां क्तिन्' इत्यधिकारविहि- तयोरकाऽकारयोः प्रयोगे कर्मण्येव षष्टो न तु कर्तरीतिनियमो न प्रवर्तते किन्तु कर्तर्यपि षष्ठी भवत्येव । नचैवं 'सुट् तिथोः' इति सूत्रे सुटा सीयुटो न बाध इति वृत्तिकृदुक्तमनु- पपन्नमिति वाच्यम् । कर्तुः करणत्वविववक्षया तदुपपत्तेः ॥ शेषे विभाषा-उक्तसूत्रकृतनियमस्याऽयं विकल्प इत्येके । इत्येतल्लब्धमर्थस्पष्ट- प्रतिपत्त्यर्थमाह-केचिदविशेषण विभाषामिच्छन्तीति-अकाऽकारभिन्नकृन्मात्रे इति तदर्थः ॥ चतुर्थो चाशिषि-आशीविषयक्रियाऽन्वय्यर्थकात्प्रातिपदिकात्तद्वारके आयु- 'ष्यादियोगे चतुर्थीषष्ठ्यावित्यर्थः । क्रियाद्वारकसम्बन्धस्वीकारादेव एतदर्थकचतुर्थ्य- न्तानां सुखहितादिभिन समासः। देवदत्ताय सुखं भूयादित्यादौ देवदत्तायेत्यस्य सुखादेश्व भूयादित्येतच्छब्दबोध्यक्रियायामन्वयेन परस्परमसामर्थ्यात् । इति षष्ठी।

अधिकरणकारकप्रकरणम् । ३७ ३ अथाधिकरणकारकप्रकरणम् । आधारोऽधिकरणम्-'कारके' इत्यधिकारात्क्रियाजनकेऽस्य प्रवृत्तिः । आधार- श्चोपस्थितत्वात्क्रियाया एव, तत्राऽऽधारपदेन न साक्षाक्रियाऽऽधास्य ग्रहणं; किन्तु पर- म्परया तदाधारस्य पराभ्यां कर्तृकर्मसंज्ञाभ्यां बाधात् । परम्परा च व्याख्यानात् कर्तृकर्म- द्वारैपेत्याह-कर्तृकर्मद्वारेति-उक्तञ्च हरिणा- कर्तृकर्मव्यवहितामसाक्षाद्धारयत्क्रियाम् । उपकुर्वत्क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ॥ इति ॥ न च कालस्य साक्षाक्रियाधारत्वसम्भवे कथं परस्पराऽऽधारस्य ग्रहणमिति वा- व्यम् । परम्पराऽऽधारग्रहणस्यैवाऽनुभवसिद्धत्वात्। तस्य साक्षाक्रियाऽऽधारत्वेऽप्याधा. रपदे स्वरितत्वप्रतिज्ञया परम्पराऽऽधारस्य ग्रहणम् । किञ्च कालस्य साक्षात्तदाधारत्वे का. ल: पचति भूतानीतिवत्कर्तत्वमेव स्यात् । परम्पराऽऽधारग्रहणे सिद्धे ( यस्य यद्वारा- कारकत्वं तस्य तद्द्वारैव क्रियान्वयः ) इति व्युत्पत्त्याऽस्याऽऽधारस्य कर्तृकर्मद्वारैव क्रि- याऽन्वयः । (१)अत एव, अक्षशौण्ड इत्यादौ समासः । यथा कटे शेते चैत्र इतिवाक्या- त्कटाऽधिकरणकचैत्रकर्तृकं शयनमिति बोधस्तथाऽक्षाधिकरणकशौण्डकर्तृका भवनक्रियेतिबो- धात्साक्षादेव सप्तम्यन्तस्य शौण्डादिभिः सामथ्येन समाससंज्ञासिद्धिरिति भावः । यत्तु कैयटेनोक्तम्-अक्षेषु शौण्ड इत्यत्राऽऽसक्तपदाऽध्याहारणाऽसक्तिक्रियाद्वा- रा सामर्थ्यात्समास इति तन्न हृदयग्राहि, भाष्यकृता तस्याऽर्थस्याऽनुक्तत्वाद् यत्र च क्रि- यावाचकपदन्न श्रूयते तत्रापि तदन्वययोग्यक्रियावाचकपदाऽऽध्याहारेण क्रियाऽऽधारत्व- स्योपपादनीयत्वान्मूले वृक्षः कपिसंयोगीत्यादावस्तिक्रियामध्याहृत्य तस्याः स्वकर्तृकपि- संयोगिवृक्षद्वारा मूलवृत्तितया मूलस्याऽऽधारत्वं बोध्यमिति दिक् ॥ औपश्लेषिकवैषयिकाऽभिव्यापकभेदादाधारस्त्रिधा । उप-समोपे श्लेप उपश्लेषस्तत्कृत- औपश्लेषिकः । यन्मासेऽतिक्रान्ते दीयते तस्य मास औपश्लेपिकमधिकरणमिति 'तत्र च दीयते' इति सूत्रभाष्योक्तः। अत एव, 'इको यणची'त्यत्राऽचीत्यौपश्लेषिकाऽऽधारे सप्त- मी । कटे आस्ते, स्थण्डिले शेते इत्याद्युदाहरणम् । कटाधिकरणिकैककर्तकाऽऽसनक्रिया । स्थण्डिलाऽधिकरणिकैककर्तृका शयनक्रियेति बोधः । विषयकृतो वैषयिकः, अप्राप्तिपूर्वक- प्राप्तिरूपसंयोगसमवायाऽतिरिक्तसम्बन्धेन यदधिकरणं तद्वैषयिकमधिकरण मिति फलितम् । मोक्षे इच्छाऽस्ति इत्याद्युदाहरणम् । स्थाल्यधिकरणककर्तृवृत्तिविक्लित्यनुकूलव्यापारः । मोक्षविषयकेच्छाकर्तकसत्तेति बोधः । यत्र सर्वाऽवयवावच्छेदेनाऽभिव्याप्तिस्तदभिव्याप- कमधिकरणम् । तिलेपु तैलं, दनि सर्पिः, सर्वस्मिन्नात्मास्तीत्यायुदाहरणम् । तिलव्या. पकाऽधिकरणकतैलकर्तृकसत्ता । दधिव्यापकाऽधिकरणकसपिःकर्तृकसत्ता । सर्वव्यापका- ऽधिकरणकाऽऽत्मकर्तकसत्तेत्येवं रीत्या बोधः । एतान्येव मुख्याधिकरणोदाहरणानि । पू. वक्तानि तु गौणाधिकरणस्यति बोध्यम् । अधिकरणत्वशक्तिमानधिकरणविभक्त्यर्थः ।। क्तस्येन्विषयस्य कर्मयुपसंख्यानम्-इनप्रकृतेः क्तान्तस्य कर्मणि सप्तभोति (१) उक्तनियमस्वीकारादेवेत्यर्थः ।

फक्किकारत्नमञ्जूषा। तदर्थः । तेनाऽधीती व्याकरणे इत्यत्र सप्तमी। कृतपूर्वीकटमित्यत्र न सप्तमी क्तान्तस्येन्प्र- कृतित्वाऽभावात् । अत्र न क्तः किन्तु भावे, अन्यथा क्तप्रत्ययेन कर्मण उक्तत्वात्तत्र सप्त- म्यनापत्तेः। अधिपूर्वकादिङा भावे क्ते तत 'इष्टादिभ्यश्चेति कर्तरीनौ गुणभूतक्रियया सम्बध्यमानव्याकरणरूपकर्मणि सप्तम्योक्तप्रयोगोपपत्तिरिति बोध्यम् ! अब कर्मपदेन का- लाऽतिरिक्तस्यैव ग्रहणान्मासमधीतीत्यादौ न मासशब्दात्सप्तमीत्यलम् ॥ साध्वसाधुप्रयोगे च-वार्तिकमिदं शेषषष्ठ्यपवादभूतं बोध्यम् । ननु 'साधु- निपुणाभ्यामित्येव सिद्धेऽत्र साधुग्रहणं व्यर्थमिति चेन्न । अर्चाऽविवक्षणे तत्त्वकथनमात्रेऽपि साधु त्यो राज्ञ इत्यादौ सप्तम्यर्थन्तस्याऽऽवश्यकत्वात् । नचोक्तसूत्र एवं साधुग्रहणं मास्त्विति वाच्यम् । अर्चाविवक्षणे प्रतिप्रयोगे सप्तमीनिवृत्त्यर्थन्तस्याऽऽवश्यकत्वात् ॥ निमित्तात्कर्मयोगे-प्रत्यासत्त्या स्वाऽन्वयिक्रियाकर्मणा योगे सति निमित्तवा- चकात्प्रातिपदिकात्सप्तमीत्यर्थः । चर्मणि दीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेपु चमरी हन्ति सीम्नि पुष्कलको हतः । द्वीपिचर्मणोरण्डकोपमृगयोश्च समवायसम्बन्धः । दन्तकुञ्जरयोः केशचर्मर्णाश्च संयोग- सम्बन्धः । देवदत्तकर्तृवृत्तिचर्म हेतुकढीपिनिष्टप्राणवियोगाऽनुकूलव्यापार इत्यादिक्रमेण बोधः । नचाऽनेन निमित्तवाचकात्सप्तमीविधानात्मुक्ताफलाय करिणं रघुवीर हन्तीति रघु- वंशप्रयोगोऽनुपपन्नः, निमित्तवाचकान्मुक्ताफलशब्दात्सप्तम्या दुर्वारत्वादिति वाच्यम् । मुक्ताफलं लब्धुमित्यर्थे 'क्रियार्थीपपदस्यचकर्मणि स्थानिनः इति चतुर्थ्या एव प्राप्तेरिति॥ यस्य च भावेन भावलक्षणम्-भावः क्रिया सा लक्ष्यते येन तद्भावलक्षणम् । यस्येत्यत्र वृत्तित्वं षष्ठ्यर्थः । भावेनेत्यत्र प्रयोज्यत्वं तृतीयाऽर्थः । तथा च यवृत्तिक्रि- याप्रयोज्यक्रियान्तरं लक्ष्यते ततोऽर्थाज्ज्ञापकक्रियाश्रयवाचकात्प्रातिपदिकात्सप्तमीत्यर्थः । तेन गोषु दुह्यमानासु गत इत्यत्र द्वाभ्यां गोपद्दुह्यमानपदाभ्यां सप्तमीसिद्धिः । ज्ञापक- क्रियाश्रयवाचकः कर्ता कर्म च, तत्र ब्राह्मणेष्वधीयानेषु गत इतिकर्तर्युदाहरणम् । कर्मणि तु प्रागेवोदाहृतम् । अत्र काचित्क्रिया स्वाऽऽधारकालेनाऽन्यां क्रियां बोधयति, यथा प्रकृते, काचित्तु स्वाऽऽधारकालाऽव्यवहितपूर्वकालेन गोषु दुग्धास्वित्यादौ। एतत्सूत्र- विहितसप्तम्या ज्ञापकत्वमर्थः । इदं सूत्रं स्वप्रवृत्तौ शब्दबोध्यमेव लक्ष्यलक्षणभावमपेक्षते न तु तस्य भूयोऽवयवदर्शनम् । ननु सूत्रेण ज्ञापकक्रियावाचकात्सप्तमीविधानेन राहूपरागे स्नायादित्यत्र ज्ञापकक्रियावाचकपदाऽभावात्सप्तमी न स्यादिति चेन्न । तत्र राहूपराग- पदेन तदाश्रयकालस्य ग्रहणेनाऽधिकरणसप्तम्या एव प्राप्तेः । विवाहे नान्दी मुखं कुर्या- दित्यत्र विवाहपदेन तत्प्राक्कालस्य ग्रहणादधिकरणसप्तम्येवेति दिक् ॥ अर्हाणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैपरीत्ये च-यस्यां क्रियायां ये उचिता- स्तेषां कर्तृत्वे विवक्षिते, तथा यस्यां क्रियायां येषां कर्तृत्वस्य अनौचित्यं तेषां अकर्तृत्व- विवक्षणे तथा तद्वैपरीत्ये येषां कर्तृत्वस्यौचित्यन्तेषामकर्तृत्वे येषान्तदनुचितन्तेषां कर्तृत्वे विवक्षिते सप्तमी वाच्येति वार्तिकार्थः। एषामुदाहरणानां मूले एव स्पष्टतया नात्र लिखितानि ॥

अधिकरणकारकप्रकरणम् । ३९. ननु क्षत्रिय- षष्ठी चानादरे-अनादर इति विपयसप्तमी । यस्य च भावनेत्याद्यनुवर्तते । तथा च, अनादरस्य गम्यमानत्वे सति यत्क्रियाप्रयोज्यक्रियान्तरं लक्ष्यते ततः षष्ठी सप्तमी चत्यर्थस्तत्फलितमाह-अनादराधिक्य इति । लक्ष्यलक्षणभावोऽत्र षष्ठयर्थः । प्रपूर्वकस्य व्रजतेरनादरविशिष्ट प्रव्रजनमर्थः । तत्र पष्टी तात्पर्य्य ग्राहयति । प्रत्यासत्त्या पुत्रादिविष- यकाऽनादर एवं गृह्यते इति भावः ॥ यतश्च निर्धारणम्-ननु यस्मात्समुदायानिर्धारणं पृथक्करण तादृशसमुदा- यघटकावृत्तिधर्मवत्त्वबोधनम् यत्र, तत्र तादृशसमुदायवाचकात्प्रातिपदिकात्पष्टीसप्तम्यौ स्त इत्यर्थेन शब्दस्य समुदायवाचकत्वाऽभावान्नराणां क्षत्रियः शूर इत्यादौ षष्ठयुपपत्ति स्यादित्यत आह-जातिगुणक्रियासंज्ञादिभिरिति । विशिष्टस्येत्यध्याहारः तथा च, जातिगुणक्रियाविशिष्टस्यैकदेशस्य यतः स्वघटितसमुदायात्स्तरसमुदायघटकावृत्तिधर्मकर- गकं पृथक्करणं तद्वाचकात्प्रातिपदिकात्पष्टीसप्तम्यावित्यर्थी निर्गलितः । सूत्रे यत इत्य- स्याऽभावे यस्य जात्यादिविशिष्टस्य स्वेतरावृत्तिधर्मवत्त्वबोधनं तत एव षष्ठ्यापत्तिः । क्षत्रियत्वजातिविशिष्टस्य क्षत्रियस्य स्तरब्राह्मणाद्यवृत्तिशूरत्वधर्मबोधनमिति क्षत्रि- यशब्दादेव तदापत्तिः तव्यावृत्त्यर्थं यत इत्यावश्यकमिति भावः । शब्दात्प्रथमाया एव प्राप्तौ तस्मादुक्तापत्तेरसम्भवेन कथं यत इत्यस्याऽसत्वे ततस्त- दापत्तिप्रदर्शनं युक्तमिति वाच्यम् । पष्टयपवादत्ववत्प्रथमाऽपवादत्वस्यापि सम्भवात् । स्वघटितसमुदायावधिकस्वेतरसमुदायघटकावृत्ति धर्मकरणकं पृथक्करणरूपनिर्धारणविष- यत्वरूपोऽवयवाऽवयविभावरूपश्च सम्बन्धो विभक्त्यर्थः । नृणां नूपु वा द्विजः श्रेष्ट इत्यादाहरणानि । नृसमुदायावधिकद्विजेतरनराऽवृत्तिश्रेष्ठत्वकरणकपृथक्करणरूपनिर्धार- णविषयो द्विजः श्रेष्ठ इत्येवं रीत्या बोधः । निर्धारणविषये उद्भुताऽवयभेदविवक्षया बहुवचनमेव न तु तिरोहिताऽवयवभेदविवक्षयैकवचनं 'कारके' इत्यत्र भाष्ये कारकेष्विति ब्रूयादित्युक्त्या तस्याऽसाधुत्वबोधनात् । नचैवं मिदचोऽन्त्यात्परः' इत्यत्रैकवचनं निर्धा- रणेऽसङ्गतमिति वाच्यम् । तत्र सौत्रत्वादेकवचनोपपत्तेः । नचैवमपि द्वन्द्वः सामासिकस्य चेति गीतावाक्यस्य का गतिरिति वाच्यम् । समाससमूहमध्ये समूहेऽर्थे 'अचित्तेति ठक एव तत्र गतित्वादिति दिक् ॥ पञ्चमी विभक्ते-अत्र यतश्च निर्धारणमित्यनुवर्तते । विभागश्चात्र भेदः । तन्न निर्धारणे सर्वत्र यथा कथञ्चिभेदस्य सत्त्वाद्विभक्तग्रहणसामर्थ्येन यत्र भेद एव तत्रैवाऽस्य प्रवृत्तिर्नतु केनाऽप्युपात्तरूपेण भेदसत्त्वे, इति नियमादाह-यत्र निर्धाय॑माणस्य भेद एवेति । निर्धारणविषयत्वरूपोऽत्र पञ्चम्यर्थः । माथुराः पाटलिपुत्रकेभ्य आव्यतरा इत्यतः पाटलिपुत्रकाऽवधिकनिर्धारणविषया माथुरा आढयतरा इति बोधः । एवञ्च पूर्वोक्तनिर्धा- रणनिरूपकवाचकस्य तदाश्रयवाचकस्य उक्तनिर्धारणप्रयोजकधर्मवाचकस्य च यत्रोपादान- मुञ्चारितेन शब्देन प्रतीतिस्तत्रैवैतत्सूत्रविहितपञ्चम्यन्तस्य साधुत्वम् । ननु पुरुषोत्तम इत्यत्र पुरुषाणामुत्तम इत्यर्थप्रतीत्या 'यतश्च निर्धारणमित्यनेन षष्टीविधानात् 'न निर्धारणे' इति समासनिषेधः स्यादिति चेन्न । सम्बन्धसामान्ये षष्ट्या समासोपपत्तेरित्यलम् ॥ नक्षत्रे च लुपि-लुप्शब्दस्याऽभावबोधकत्वात्तन्त्र नक्षत्रवाचकस्य वृत्तिनस्यादिति .

। फक्किकारत्नमञ्जूषा । लुप्शब्देन लुप्संज्ञया लुप्तप्रत्ययार्थो लक्ष्यते तदाह-नक्षत्रे प्रकृत्यर्थे यो लुप्संभये- त्यादि-मूलेनाऽऽवाहयेहेवीमिति । नक्षत्रवाचकान्मूलशब्दात् 'नक्षत्रेण युक्तः कालः' इत्यनेनाऽण् तस्य 'लुबविशेषे' इति लुप् । मूलनक्षत्रयुक्तचन्द्रकालाऽधिकरणदेवीकर्मक- वाहनमिति बोधः । 'सप्तम्यधिकरणे चेत्यतो मण्डूकप्लुत्याऽनुवृत्तस्याऽधिकरणस्याऽग्रहणे- ऽस्य सूत्रस्य सर्वविभक्त्यपवादत्वेनेतराऽनपेक्षत्वरूपाऽन्तरङ्गत्वात्प्रातिपदिकार्थ एव षष्टी- सप्तम्योविधानेन अद्य पुष्य इति प्रयोगो न सिद्धयेदिति तदर्थन्तदावश्यकमिति । नक्षत्र इत्यस्याऽसत्त्वे पञ्चालेपु तिष्ठन्ति अत्र पञ्चालशब्दादुभयविभक्त्यापत्तिरतस्तत् । तत्र 'जनपदे लुविाति लुप् ॥ सप्तमीपञ्चम्यौ कारकमध्ये-'कालाऽध्वनोरत्यन्तसंयोग' इत्यस्मात्कालाऽव- नोरित्यनयोरनुवृत्तिः । तौ च पञ्चम्या विपरिणम्येते । कारकशब्दोऽन्न शक्तिपरः। मध्य शब्दस्याऽवधिद्वयसापेक्षत्वाद्विवचनान्तेन कारकशब्दन समासः, कारकयोर्मध्ये इति विग्रहः । शक्तिद्वयस्य शक्तित्वेनैव बोधो न तु द्वित्वन । ननु कर्तृरूपकारकस्यैकत्वाभेद- निवन्धनमध्यव्यपदेशो न स्यादिति चेन्न । कर्तृत्वादिशक्तैरेव कारकरूपत्वात्तस्याश्च काल- भेदेन भेदाटुक्तव्यपदेशोपपत्तेरिल्याह-शक्तिद्वयमध्ये यौ कालाऽध्वानावित्यादि-- अवध्यवधिमतोः साजात्यनियमात्कालाऽध्वनोः कारकमध्येऽसम्भवाच्छक्तिशब्देन शस्त्या. श्रयकालग्रहणं बोध्यम् । षष्ट्या बाधकोऽयं योगः स्वाऽनन्तरकालवृत्तित्वादिकं विभक्त्यर्थः। यस्य चेश्वरवचनमित्यत्र प्रमाणाऽभावाल्लक्ष्याऽनुरोधेन व्याख्यानाञ्च निरूपितत्वस्य वृत्तित्वस्य वा षष्ट्यर्थत्वेन यन्निरूपितेश्वरत्वं गम्यते यन्निष्ठेश्वरत्वं च गम्यते ततः सप्त. मीत्यर्थ इत्याह-स्वस्वामिभ्यां पर्यायेण सप्तमीति-क्रमेणोदाहरणम् । अधि भुवि रामः, अधिरामे भूः । इत्यधिकरणकारकप्रकरणप ।। इति कारकप्रकरणम् । अथाव्ययीभावसमासप्रकरणम् । ननु कारकान्तेन सुप्संज्ञोद्देश्यसम्बन्धिन्याः संज्ञायास्तत्प्रयुक्तकार्यस्य च निरूपणा- ऽनन्तरं प्रसङ्ग तस्समासनिरूपणमारभते-समर्थः पदविधिरिति-विधीयते इति विधिः कर्मसाधनः । तस्य षष्टयन्तेन पदशब्देन समासः । पदस्य विधिः पदविधिरिति । समर्थ- पदस्थ समर्थाश्रितोऽर्थः । तथा च, पदसम्बन्धी विधिः समाश्रितो भवतीत्यर्थः । साम- यं द्विविधम्-व्यपेक्षारूपम् , एकार्थीभावरूपञ्च अत्रैकार्थीभावरूपमेव सामर्थ्य न तु व्यपेक्षारूपं व्याख्यानात् समासादिवृत्तिषु तस्याऽसम्भवाच्च । एकार्थीभावश्च (संसृष्टाऽर्थ समर्थमिति भाष्यात् विशेष्यविशेषणभावाऽवगा कोपस्थितिजनकत्वरूपः । शाब्दिकनये-समुदायशक्त्यङ्गीकारादस्ति कृत्तद्धितैकशेषसमाससनाद्यन्तधातुरूप- पञ्चवृत्तिष्वेकार्थीभावरूपसामर्थ्यम् । अत एव राजगुरुप इत्यादिसमासे न पदार्थैकदेशे राज्ञि ऋद्धादिविशेषणाऽन्वयः (पदार्थः पदार्थेनान्वेति न तु पदार्थकदेशेने )ति व्युत्पत्तेः । एतत्फलितार्थकथनमेव ( सविशेषणानां वृत्तिर्न वृत्तस्य विशेषणयोगे ने )ति बोध्यम् । नचोक्तरीत्या पदार्थेकदेशे विशेषणान्वयस्याऽभावप्रतिपादनाद्देवदत्तस्य गुरुकुलम् , ऋतु- ।

अव्ययीभावसमासप्रकरणम् । स्न्य राजमातङ्गा इत्यादेः प्रयोगस्याऽप्रामाण्यापत्तिरिति वाच्यम् । गमकत्वात्तत्र विशे- पागाऽन्वयस्य युक्ततया तस्य प्रामाण्योपपत्तेः । न च महादेव इत्यत्राऽऽत्वं न स्यात्समासे समुदाये शक्त्या तस्यैवाऽर्थवत्त्वेन तदेकदेशस्याऽनर्थकत्वेन सूत्राप्राप्तरिति वाच्यम् । सूत्रा- ssरम्भसामर्थ्याद्भूतपूर्वगतेराश्रयणाच्च सूत्रप्रवृत्तेरित्यलम् । वैयाकरणैः-समासे समुदाये एव शक्तिः स्वीक्रियते नत्ववय; तथाहि-रथन्तरं, सप्तपर्णः, शुश्रूषेत्यादाववयवार्थप्रतीत्यभावात्समासादिपञ्चसु विशिष्ट एव शक्तिः । अत एव व्यपेक्षापक्षस्योद्भावनं कृत्वा ( अथाऽस्मिन् व्यपेक्षारूपसामये योऽसावेकार्थीभावकृतो विशेषः स वक्तव्य ) इत्युक्तम्भाष्ये । अत एव च धवखदिरौ। निष्कौशाम्बिः । गोरथः । घृतघटः । गुडधानाः । केशचूडः । सुवर्णालङ्कारः। द्विदशाः । सप्तपर्णः इत्यादौ साहि- त्य-क्रान्त-युक्त-पूर्ण-मिश्र-संघात-विकर-सुच्प्रत्ययलोप-वीप्साद्यर्था वचनरूपेण वाच्या भवन्ति । अन्यथा तत्तदर्थ वचनं कर्त्तव्यमेव । यत्तु तार्किकमीमांसकादयः-राजपुरुष इत्यादौ राजपदादेः सम्बन्धिनी लक्षण- यैव राजसम्बन्धवदभिन्नः पुरुष इति बोधः स्यादेव समासे न स्वीकार्या शक्तिः । अत एव राज्ञः पदार्थेकदेशत्वेन तत्र ऋद्धादिविशेषणाऽन्वयो न (पदार्थः पदार्थेनान्वेति) इत्युक्तः ( सविशेषणानां वृत्तिनें )त्युक्तेश्च । धवखदिरावित्यादौ न साहित्याद्यर्थप्रत्यायकवचनक- र्तव्यतापत्तिः लक्षणयेवोक्तार्थत्वात् ( उक्तार्थानामि )ति न्यायेन तदप्रयोगात् । लक्षणया राजसम्बन्ध्यभिन्न इति बोधनेच्छायां समासस्य, राजसम्बन्धवानिति बोधनेच्छायां वि. ग्रहस्य च प्रयोगनियमसम्भवे 'विभाति सूत्रस्याऽपि नाऽऽवश्यकत्वम् । न चोक्तस्थ- लेयूक्तप्रकारेण विशिष्टशक्त्यनभ्युपगमेऽप्यवयवशक्त व निर्वाहेऽपि पङ्कजशब्दात्पङ्कजनिकत. रूपार्थलाभार्थ समुदायशक्तिराबश्यिकेति वाच्यम् । उक्तार्थस्य योगादेव लाभादित्याद्याहुः । तन्न, विशिष्टशक्त्यनङ्गीकारे विशिष्टस्याऽर्थवत्त्वाऽभावेन प्रातिपदिकत्वाऽनापत्तेः । अत एव अर्थवत्सूत्रभाष्ये अर्थवदिति किम् । अर्थवतां समुदायोऽनर्थकः, दश दाडिनानि षड- पूपाः, कुण्डमजाजिनमिति प्रत्युदाहृतम् । एवञ्च त्वन्मते राजपुरुपपदयोः प्रत्येकमर्थवत्त्वे- ऽपि समुदायस्य तत्त्वाऽभावात्प्रातिपदिकत्वं न स्यात् । नचोत्तरसूत्रे समासग्रहणात्मुल- भैव संज्ञेति वाच्यम् । समासग्रहणस्य नियमार्थत्वस्य भाष्यकृतैवोक्तत्वात् । अन्यथा सिद्धिं विना नियमत्वाऽसम्भवात् । समासग्रहणस्य नियमार्थत्वादेव राज्ञः पुरुषः, देव- दत्तः पचतीत्यादिवाक्यस्य मूलकेनोपदंशमित्यादेश्च न प्रातिपदिकसंज्ञा । किञ्च विशि- टशक्त्यस्वीकारे शक्यसम्बन्धरूपलक्षणाया अप्यसम्भवाल्लाक्षणिकार्थवत्त्वस्याऽप्यभावेन सर्वथा प्रातिपदिकत्वाऽभावस्य निश्चितत्वेन स्वाद्यनुत्पत्तौ ( अपदं न प्रयुञ्जीते )ति भा- ध्यात्समस्तप्रयोगविलयाऽऽपत्तिरित्यलम् ॥ ननु पूर्व भूत इति विग्रहे 'सुपा' इत्यनेन समासे समासत्वात्प्रातिपदिकसंज्ञायाम् 'सुपो धातुप्रातिपदिकयोरिरत्यनेन प्रातिपदिकाऽवयवस्य सुपो लुकि पूर्वभूत इत्यत्रोभयोः पूर्वभूतशब्दयोरुक्तसमाससंज्ञाविधायकशास्त्रघटकप्रथमान्यपदबोध्यत्वादुपसर्जनसंज्ञाप्राप्तौ द्वयोस्तस्यां सत्यां पर्यायेण पूर्वप्रयोगापत्त्या निर्देशोपपत्तौ निर्देशादित्यादिमूलोक्तस्याऽसङ्ग- त्यापत्तिरिति चेन्न। उपसर्जनेतिमहासंज्ञाकरणसामर्थ्याच्छास्त्रीयोपसर्जनत्वसमानाधिकर फक्विकारत्नमञ्जूषा। गलौकिकोपसर्जनत्ववत एव पूर्वनिपात इति कल्पनेन प्रकृते भवनक्रियाविशेषणत्वेन पूर्व शब्दस्यैवोपसर्जनसंज्ञया पूर्वप्रयोगप्राप्तौ निर्देशोऽपपत्त्या तदर्थम्मूलोक्तस्याऽऽवश्यकत्वेन तत्संगतेरित्याह-भूतपूर्वे चरडिति निर्देशाद्भूतशब्दस्यैव पूर्वनिपात इति- ननु निपातेनाधिनाऽधिकरणरूपार्थस्योक्तत्वेन ( उक्तार्थानामप्रयोगः) इति न्या. येन तदर्थकसप्तम्या अभावेन समासाऽभावादधिहरीति प्रयोगो न स्यादित्याह-नि- पातेनाऽभिहितेऽप्यधिकरणे वचनसामर्थ्यात्सप्तमीति । उक्तरीत्या सप्तम्या अभा- बेन समासाऽप्राप्त्या विभक्त्यर्थे समाससंज्ञाविधायकवचनस्यासंगतिरिति तदनुरोधादुक्ते- ऽप्यधिकरणरूपार्थे सप्तम्या समास इति भावः । न च तिकृत्तद्धितेतिपरिगणनादधिनोक्त- त्वेऽपि सप्तमी स्यादेव वचनसामर्थ्यात्सप्तम्याः कल्पनं न युक्तमिति वाच्यम् । तस्य भाष्ये प्रत्याख्यातत्वात् । नचाऽन्यसुबन्तेनाऽपि समासेऽधिहरीति प्रयोगसिद्धिस्स्यादेव वचनसामर्थ्यादिति प्रयासो न विशेषफलजनक इति वाच्यम् । प्रत्यासत्या यद्विभक्त्यर्थ- वाचकाऽव्ययेन सुबन्तस्य समासस्तद्विभक्यत्यर्थवाचकसुबन्तस्यैव ग्रहणेनाऽन्यविभक्तयर्थवा- चकसुबन्तेन समासस्याऽनिष्टत्वादिति दिक् ॥ ननु समया ग्राममित्यादौ आराद्वनादित्यादौ च समासो दुर्वार इति पूर्वपक्षं समाध- ते-आराद्धनादित्यत्र तु नाऽव्ययीभाव इति । यद्युक्तस्थलेषु समासः स्यात्तदा (अभितः) इति वार्तिकेन 'अन्यारादिति सूत्रेण च द्वितीयापञ्चम्योविधानस्य सर्वथा वैय- यं स्यादिति ताभ्यां तयोर्विधानसामर्थेन तदभावकल्पनमिति भावः । न च मध्यार्थ- कसमयाशब्दयोगे दूरार्थकाऽऽराच्छब्दयोगे च द्वितीयापञ्चम्योश्चारितार्थ्येन सामर्थ्यात्समा- साऽभावकल्पनमयुक्तमिति वाच्यम् । 'दूरान्तिकारि त्यनेन षष्ठीपञ्चम्योः प्राप्तौ प- ट्यपवादतया पञ्चम्या विधानेनान्तिकार्थकाऽऽराच्छब्दयोगे षष्ठ्यपवादत्वेन पञ्चमीविधान- म्य निरवकाशतया तत्सामर्थ्यादव्ययीभावाऽभावकल्पनस्य युक्तत्वात् । द्वितीयाविधान- सामर्थ्यादव्ययीभावाऽभावकल्पनं तु न युक्तमुक्तस्थले द्वितीयाविधानस्य चरितार्थत्वात् ॥ दुर्यवनमिति-ननु अर्थाऽभावाऽर्थकस्यापि दुरः सत्त्वादर्थाऽभावेन वात्र समास- सिद्धौ व्युद्ध्यर्थं समासविधानं विफलमिति चेन्न । येन समस्यते तदीयाऽर्थाभावे समासा- ऽभ्युपगमेन प्रकृते यवनऋद्धरेवाभावसत्त्वेन यवनानामभावाऽभावात् तत्र समासाऽसि- द्वयर्थ व्युद्धयर्थे समासविधानस्य साफल्यात् ॥ निमैक्षिकमिति-मक्षिकाणामभाव इति विग्रहः। संसर्गाऽभावेऽयं समासो नत्व- न्योन्याभावेऽपि । नचाऽत्र किं विनिगमकमिति वाच्यम् । अर्थग्रहणसामर्थ्यात्समस्यमा- नपदजन्यप्रतीतिविशेषविरुद्धाऽभावस्यैव ग्रहणेनाऽन्योन्याभावस्य तु प्रतियोगिताऽऽवच्छेद- केनैव विरोधेन तस्य च प्रकारत्वेऽपि विशेष्यत्वाऽभावेनाऽस्यैव तत्र गमकत्वात् ॥ अतिहिममिति--हिमस्याऽत्यय इति विग्रहः । अत्ययाऽर्थेऽव्ययीभावः । परश्चास्य सूत्रे ग्रहणं विफलमर्थाभावेनैव गतार्थत्वात् । अभावश्चात्र संसर्गाऽभाव एव, नत्वन्यो- ऽन्याऽभावः । अन्यथा घटः पटो नेत्यत्रऽतिप्रसङ्गः स्यात् ॥ शब्दप्रादुर्भाव-इत्यस्य शब्दविषयप्रकाशार्थेनाऽव्ययेन समास इत्यर्थः । अस्यो- दाहरणम्-इतिहरीति । अत्र हरिशब्दस्य स्वस्वरूपपरत्वं, तादृशषष्ठयन्तहरिशब्देन शब्दप्र- काशार्थकस्येतिशब्दस्य समासः ॥

अव्ययीभावसमासप्रकरणम् । ४३ वस्तुतस्तु-प्रति- अनुविष्णु-विष्णोः पश्चादिति विग्रहः । अन अचः परस्मिन्निति सूत्रस्थात् ( ततः पश्चात्स्त्रस्यते ध्वस्यते चे )ति भाष्यप्रयोगात् ! अनेकमन्यपदार्थ इति सूत्रस्थ- ( सर्वपश्चादि ) ति भाष्यप्रयोगाच्च न पश्चाच्छन्दस्य समासः; किन्तु तदर्थकाऽनुशब्द- स्यैव एतद्भाष्यप्रयोगादेतत्सूत्रे तत्तदर्थबोधकपदघटकतया गृहीताऽव्ययेन तत्तदर्थेन नायं समासः । अत एव 'यथाऽसादृश्ये इतिसूत्रस्थभाष्ये सादृश्यसम्पत्तीति प्राप्नोतीत्युक्तम् । यथाशब्देन तूत्तरसूत्रारम्भसामर्थ्यात्समासो भवत्येवेत्यलम् । नचास्य समासे का क्षति- रिति वाच्यम् । तथासति तस्य पूर्वनिपातापत्तेः । ननु अविग्रहो नित्यसमासोऽस्वपदविग्रहो वेति नित्यसमासलक्षणसत्त्वे वाक्यं दुर्लभ- मित्यत आह-प्रतिशब्दस्य वोप्सायामित्यादि । इति प्राञ्चः । स्थानमित्यादौ पत्वाऽभावसम्पादनेन चरितार्थत्वात्सामर्थ्यविरहेण तत्सामर्थ्याद्वाक्यस्या- ऽसाधुत्वमिति, (अर्थमर्थम्प्रतिप्रत्यर्थमिति सरूपसूत्रस्थभाष्यप्रयोगाचदा द्विर्वचनं तदा प्रतिशब्दस्य वृत्तित्वाऽभावेन समासेन वीप्साया उक्तत्वान्न द्विवचनमित्यलम् ॥ ननु समृद्धिसम्पत्त्योः पर्यायत्वादन्यतरग्रहणं न कार्यमित्याशङ्क्य समाधत्ते-ऋद्ध- राधिक्यं समृद्धिरिति । यथाऽसादृश्य-असादृश्य इतिछेदः, असादृश्येऽर्थे विद्यमानो यथाशब्दः समर्थेन सुबन्तेन सह समस्यते इति तदर्थः । यथा हरिस्तथा हर इत्यत्र न समासः, यथाशब्दस्य सादृश्यार्थकत्वेनासादृश्येऽविद्यमानत्वात् । तत्र हरेरुपमानत्वस्य यथाशब्दो द्योतकः । ननु यथाहरिरित्यत्र यथाशब्दस्याऽसादृश्यार्थकत्वाऽभावेन समासाऽभावः समुचित एव, तथा- हरिरित्यत्र तथाशब्दस्य सादृश्यार्थकत्वात्पूर्वसूत्रेण समासो दुर्वार इति चेन्न। सदृश इत्युक्त्या नियमतः प्रतियोग्याकांक्षादर्शनात्सादृश्यप्रतियोगिवाचकसमर्थसुबन्तेनैव तद्बो- धकाऽव्ययस्य समास इति कल्पनेनोक्तापत्तेस्तत्राऽयोगात् । यथाशब्दः समर्थसुबन्तेन सह समस्यते साहश्ये द्योत्ये नेति, 'यथाऽसादृश्ये' इत्यस्याऽर्थः । यथाशक्ति, यथाबलमित्या- द्यस्योदाहरणम् । अत एव असादृश्ये इतिकिमर्थं यथा देवदत्तस्तथा यज्ञदत्त इत्युक्तं; न तु सूत्रमेव किमर्थमित्युक्तम् । ननु यथार्थत्वेनैव सिद्धौ सूत्रमिदम्व्यर्थमिति चेन्न । सूत्रगृहीताऽव्ययेन तेनाऽसमासेन सूत्रस्याऽवश्यकत्वात् । सूत्रगृहीताऽव्ययेन तेनऽसमा- सेन सूत्रस्याऽपि ज्ञापकत्वात् । न च प्रकारवचने विहितेन थाल्प्रत्ययेन निष्पन्नस्य यथा शब्दस्य सर्वथा सादृश्यद्योतकत्वात्सूत्रोदाहरणाऽसम्भवेन सूत्रं व्यर्थमिति वाच्यम् । अ- व्युत्पन्नस्य चीप्सायोग्यतापदार्थानवृत्तिबोधकस्यैव यथाशब्दस्याऽत्र सूत्रे प्रहणेनोक्त- युक्त्योपपन्नस्य तस्याऽग्रहणादुदाहरणसम्भवेन सूत्रस्याऽवश्यकत्वात् । उदाहरणे यथा- शक्ति, यथाबलमित्यादावुक्तार्थक एव यथा शब्द इति तत्र समासार्थ सूत्रमावश्यकमेवेति बोध्यम् । न च यथाशब्दस्य व्यञ्जनयोपमानत्वप्रतिपादकत्वमिति निखिलाऽभियुक्तो- क्त्या यद्विशेषवान् हरिस्तद्विशेषवान् हर इत्युक्तबोधाऽनन्तरं व्यञ्जनयोपस्थापितार्थस्य शाब्दबोधविषयत्वं भवत्येवेति, उपमानदेवदत्ताऽभिन्न उपमेयो यज्ञदत्त इति बोधः, साधा- रणधर्मस्तु गृहीतविशेषधर्म एव । .

No text on this page.

तत्पुरुषसमासप्रकरणम् । ४५ अथ तत्पुरुषसमासप्रकरणम् । ननु (तत्पुरुष) इत्यधिकारसूत्राऽनन्तरं (संख्यापूर्वो द्विगुश्चे)तिसूत्रकरणाच्चकारबलेन द्विगुतत्पुरुषयोःसमावेशः स्यात् । न च चकारस्योकसंज्ञाद्वयपर्यायार्थत्वेन समुच्चया- र्थत्वाऽभावात् कथमुभयोः समावेशः स्यादिति वाच्यम् । (संख्यापूर्वी द्विगुरि)ति योग विभज्य पूर्वेण (तद्धितार्थोत्तरपदसमाहारे चे)त्यत्रोक्तस्य संख्यापूर्वस्य तत्पुरुषसंज्ञाविधा- नसामदेिव पायत्वसिद्धौ चकारस्य संज्ञाद्वयसमावेशार्थत्वाक्षतेः । एवञ्च द्विगुश्चति सूत्रमनावश्यकमेवेत्याह-इदं सूत्रं त्यक्तुं शक्यमिति । द्विगुश्चेति सूत्रमित्यर्थः । ननु द्विगोस्तत्पुरुषत्वे किम्फलमित्यत आह-समासान्तः प्रयोजनं पश्चरराज- मिति । पञ्चानां राज्ञां समाहार इति विग्रह (राजाहः सखिभ्यष्टद) इति टच । न च (अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः) इत्यनेन टजन्तोत्तरपदस्य द्विगोः पञ्चराजस्य स्त्री- त्वबोधनेन टित्वान्डीप् दुरि इति वाच्यम् । टचः समासस्यैवाऽन्ताऽवयवत्वं न तूत्तरपद- स्येति उत्तरपदस्याऽकारान्तत्वाऽभावादुक्तवार्तिकेन स्त्रीत्वाऽबोधनेन डीपोप्राप्तेः । न च समासार्थे यदुत्तरपदं तदन्तस्यैव समासान्तत्वमित्यर्थके समासार्थोत्तरपदान्ताः समासान्ता इति पक्षे द्विगोरकारान्तोत्तरपदत्वेन स्त्रीत्वादुक्तदोषस्तदवस्थ एवेति वाच्यम् । अन्न पक्षं पात्रादित्वान्नेत्यनेनैव दोषोद्धारादित्यलम् । पञ्चराजीति काशिकायामुदाहृतं तन्न युक्त- मिति हरदत्तः । केचित्तु पात्रादित्वान्डीबभावकल्पने विनिगमकाऽभावात्काशिकोक्तो- दाहणं युक्तमेवेत्याहुरिति दिक् ॥ द्वितीया श्रितातीतपतितेति-द्वितीयायाः प्रत्ययत्वेन प्रत्ययग्रहणपरिभाषया तदन्तविधिः । श्रितादिनां सुबन्तत्वाऽसस्भवेन स्वप्रकृतिके लक्षणा । तथा च द्वितीयान्तं श्रितादिप्रकृतिकरित्यर्थः सम्पन्नः । न च सम्बोधने श्रितादीनां सुबन्तत्वासम्भवेन तेषां स्वप्रकृतिके लक्षणा नाऽऽवश्यिकेति वाच्यम् । (येन विधिरि)ति सूत्रस्थभाष्यप्रामाण्येन सम्बुद्धिस्त्रीलिङ्गप्रथमान्तभिन्नेऽपि समासस्येष्टत्वेन श्रितादीनां लक्षणाया आवश्यकत्वात । श्रितादीनां समर्थविशेषणत्वात्प्राप्तस्य तदन्तविधेः (समासप्रत्ययविधौ प्रतिषेधः) इत्य- नेन निषेधात्कष्टं परमश्रित इत्यादौ न समासापत्तिः। तदन्तविधौ तु श्रितान्तसमर्थ- प्रकृतिकैरित्यर्थे तत्रोक्तापत्तिारैषेति दिक् ॥ स्वयं तन-ननु अत्र सूत्रे आत्मनेत्यर्थकस्य स्वयमित्यव्यस्य कर्तत्वनिष्ठविशेष्यता- निरूपितबोधजनकत्वेन कर्मत्वविशेष्यकबोधजनकत्वाऽभावान्न द्वितीयायाः सम्बन्धः; किन्तु नृतीयाया एवेत्याह-द्वितीया तु नेह सम्बध्यते; अयोग्यत्वादिति-असम्भवादिति तदर्थः । तस्य प्रत्ययत्वात्प्रत्ययग्रहणपरिभाषया तदन्तविधौ स्वयमित्यव्ययं क्तान्तप्रकृ. तिकसमर्थसुबन्तेन सह समस्यते इति सूत्रस्यार्थः । स्वायंकृतिरित्युदाहरणम् । समासे स्वयंकृतशब्दादिजि आद्यचो वृद्धौ रूपं सिद्धयतीति समासस्योक्तप्रयोगोपपत्तिरैकेश्वर्यमपि फलबोध्यम् । तदभावे तु कृत इत्यस्यैव षष्ट्यन्तत्येन तत एवोकप्रत्यये प्रकारल्य वृद्धौ रपरत्वे स्वयंकार्तिरित्यापत्तिरिति दिक् ॥ खट्वा क्षेपे-द्वितीया श्रितेत्यतो द्वितीयायाः स्वयं कनेत्यतः क्तनेत्यस्य चानु- बत्तिः, तयोश्च प्रत्ययत्वात्प्रत्ययग्रहणपरिभाषया तदन्तविधिः । क्षेपो निन्दा । खट्वा ४६ ४ फक्किकारत्नमञ्जूषा। , शब्दस्य स्वप्रकृतिके लक्षणा, तथा च-खट्वाप्रकृतिक द्वितीयान्त तान्तप्रकृतिकसमर्थ सुबन्तेन सह समस्यते सति निन्दाया गम्यमानत्वे इति सूत्रार्थः । खट्वारूढ इत्युदाह- रणम् । खट्वामारूढ इति विग्रहः । स जाल्म इत्युच्यते । असमीक्ष्यकारीति तदर्थः । जालमोऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः । इत्यमरोक्तो समाप्तवेदव्रतेन पुरुषेण खलु खट्वाऽऽरोढव्या ब्रह्मचारिणैव भूमौ शयितव्यम् । अनेनैव खट्वाऽऽरूह्यते चेदयमेव जाल्म इत्युच्यते । अस्य शब्दस्य रूढत्वा. दक्तेऽपि खट्वाऽऽरोहणे निन्दितानुष्ठानपरस्य सर्वस्याऽपि खट्वारूढत्वं बोध्यम् । अत एवाह-नित्यसमासोऽयमिति-वाक्येन निन्दाऽप्रतितेरिति भावः ॥ तृतीयान्तं तत्कृतार्थेन गुणवचनेन-सौत्रत्वात्तत्कृतेति लुप्ततृतीयान्तम् । तृतीयान्तपरामर्शितच्छब्देन तृतीयान्तार्थो लक्ष्यते । गुणवचनस्य शब्दत्वात् तृतीयान्ताs- र्थकृतेत्यस्याऽर्थद्वारा गुणवचनविशेषणत्वं तृतीयान्तार्थकृतो यो गुणस्तद्वचनेनेति, एतत्फलि- तार्थमाह-तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनेत्यादि-ननु गुणवचनेनेत्यत्र वचनग्रहणं व्यर्थ गुणशब्दस्य धर्ममानपरत्वेन तेन समासाऽसम्भयेन तद्वाचिन एव ग्रहणा- दिति चेन्न । गुणमुक्तवानिति व्युत्पत्या गुणवाचित्वविशिष्टद्रव्यवाचिन एव ग्रहणार्थ वचनग्रहणल्य सार्थक्यात् । तेन घृतेन पाटवमित्यादौ न समासः । तत्र गुणशब्दस्य धर्म- मात्रपरत्वादेव खण्डशब्दस्य क्रियावचनत्वेऽपि न कोऽपि दोषः । अस्य सूत्रस्य कृतश- दार्थद्वारकसामथ्य एवं प्रवृत्तिर्न तु साक्षात्परम्पराऽन्वये । अन्यथोत्तरसूत्रेण निपुणवलक्षण- शब्दाभ्यां समासविधानं व्यर्थ स्यात् । न च सदृशशब्दस्याऽप्युक्तार्थे ज्ञापकत्वसम्भवा- कथमुभयोरेवोपादानमिति वाच्यम् । सदृशशब्दस्याऽनावश्यकत्वस्य प्रदिपादयिष्यमा- णत्वात् । गुणवचननेनेत्यत्र गुणशब्दस्य तत्कृतेत्येतत्सापेक्षत्वेऽपि सौनत्वात्समासो बोध्यः । सूत्रे तत्कृतेत्यस्याऽनुपादानेऽक्ष्णा काण इत्यत्रापि समासापत्तिः, तदुपादाने तु अक्ष्णा काणत्वस्याऽकरणात्किन्तु कर्मादिनैव तत्करणात्काणशब्दस्य तृतीयान्तार्थकृतगुणवचनत्वा- ऽभावाऽनोक्ताऽऽपत्तिः । गुणवचनेनेत्यस्याऽभावे गोसम्बन्धिदध्यादिभोजने देवदत्तादेर्वपा- वत्वात्तृतीयान्तार्थकृतत्वेन गोभिर्वपावानित्यादौ समासाऽऽपत्तिः । तत्सत्वे तु देवदत्तादे- गुणवचनत्वाऽभावान्नोक्तापत्तिरिति दिक् ॥ पूर्वसदृशसमोनार्थकलह-ननु (तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्यामि)त्य- नेन स शशब्दयोगे षष्ट्या अपि विधानात्सदृशशब्देन षष्ठीसमाससिद्धावत्र सूत्रे सदृश- ग्रहणं व्यर्थम् । नचोक्तसूत्रविहितषष्ट्याः प्रतिपदविधानषष्ठीत्वात् (प्रतिपदविधाना पष्ठी न समस्यते) इति निषेधवचनस्य जागरूकत्वादुक्तसमासाप्राप्त्या समासार्थन्तत्र सदृशग्र- हणमावश्यकमिति वाच्यम् । उक्तसूत्रषष्ठया न प्रतिपदविधानत्वमित्यस्य प्रतिपादयिष्य.. न च (तत्पुरुषे तुल्यार्थतृतीया)इत्यनेन पूर्वपदप्रकृतिस्वरसिद्ध्यर्थं सहशन- हणमस्त्विति वाच्यम् । (सदृशप्रतिरूपयोः सादृश्ये ) इत्यनेनैवोक्तस्वरसिद्धः । तत्र हि दास्याः सदृश इत्यादौ षष्ट्या अलुकि पूर्वपदप्रकृतिस्वरार्थ सदृशग्रहणमावश्यकम् । न च मनसा सदृश इत्यत्र समासार्थमस्तु सदृशग्रहणमिति वाच्यम् । तस्य संज्ञात्वाऽभावन तदर्थमपि तस्याऽनावश्यकत्वात् । एवञ्च प्रयोजनाऽभावाद्वयर्थमेव सदृशग्रहणमिति चेन्न । भोजनेन सादृश्यवानित्यर्थे भोजनसदृश इत्यत्र समासार्थन्तस्याऽऽवश्यकत्वात् । न चा- तत्पुरुषसमासप्रकरणम् । नापि हेतोः शेषत्वविवक्षया षष्ठीत्यनेनैव समाससिद्धावेतदर्थमपि तदनावश्यकमेवेति वा- च्यम् । उक्तरीत्या समासोपपत्तावुक्तस्वरसिध्यापत्तेः । न च सदृशप्रतिरूपयोः सादृश्ये इत्यनेनैव स्वरसिद्धिरिति वाच्यम् । तत्र सादृश्यग्रहणेन तस्योपमानबोधकपूर्वपदके एव प्रवृत्तेः । वस्तुतस्तु-भोजनेन कृतः सदृश इत्यर्थे (तृतीया तत्कृतार्थनेति) (तत्पुरुष तुल्या- थ)ति सूत्राभ्यां समासस्वरसिद्ध्युपपादने तु व्यर्थमेव सदृशग्रहणमिति ध्वनितं प्रकृतसूत्र- स्थकैयटे इत्यलमतिविस्तरेण ॥ मिश्रग्रहणे सोपसर्गस्याऽपि ग्रहणमिति-पणबन्धेनैकार्थ्य सन्धिस्तस्मिन् गम्यमाने सति अनुपसर्गतृतीयान्तात्परं इत्युत्तरपदमन्तोदात्तमित्यर्थक 'मिश्र चाऽनुप- सर्गमसन्धावि' ति सूत्रे (समासप्रत्ययविधौ प्रतिषेधः) इत्यनेन तदन्तविधिप्रतिषेधात्सो- पसर्गेण समासाऽप्राप्त्याऽनुपसर्गणैव समाससिद्धौ व्यावयाऽभावाद्वयर्थमनुपसर्गग्रहणनु- क्तमर्थ ज्ञापयतीति भावः॥ ननु (कर्तृकरणे कृते)त्यस्य कर्तृकरणयोरर्थयोर्विहिततृतीयान्तस्य बहुलं समास इत्यर्थ प्रत्ययग्रहणपरिभापया निर्विशिष्टभिन्नस्य कृदन्तत्वाऽभावेन नखनिर्भिन्न इत्यत्र समासो न स्यादत आह-ऋग्रहणे गतिकारकपूर्वस्यापि ग्रहणमिति-यन्त्र गतिकारकस- मभिव्याहतं कृदन्तं तत्र गतिकारकसमभिव्याहृतस्यैव कृदन्तस्य ग्रहणमपिशब्दात्तदसम्म- भिव्याहते कृदन्ते केवलस्याऽपि तस्य ग्रहणमिति तदर्थः । तथा च-अवतरणदलोक्तोदाह- रणे नीरूपगतिविशिष्टस्य भिन्नस्य कृदन्तत्वात्समाससिद्धिति सर्वमनवद्यमिति भावः ॥ बहुलग्रहणं सर्वोपाधिव्यभिचारार्थमिति-बहूनर्थान् लातीति बहुलमिति बहुलपदस्यार्थात् कर्तृकरणयोर्विहितस्यापि कचिन्न समासः क्वचिद्विभक्तयन्तरस्याऽपि स- मासः । दात्रेण लूनवान् , दात्रेण छिन्नवान् , हस्तेन कुर्वन्नित्यादीन्याद्यस्योदाहरणानि । पादहारकः, गलेचोपक इत्यादि द्वितीयस्य । हियते इति हारकः, बाहुलकात्कर्मणि ण्वुल पादाभ्यां हारकः पादहारकः । पादाभ्यामित्यपादानपञ्चम्यन्तस्य समासः । चोपयतीति चोपकः, हेतुमण्ण्यन्ताच्चुप मन्दायां गतावित्यस्मात्कर्मणि ण्वुल् । गले चोपको गलेचो- पकः, (अमूर्धमस्तकादि)ति सप्तम्या अलुक् ॥ ननु सूत्रे सुपेत्यधिकारातिङन्तेन समासाऽनतिप्रसक्त्या कर्तृत्वकरणत्वयोः क्रिया- निरूपित्वेन काधाक्षितक्रियाबोधककृदन्तेनैव समासलाभेन व्यावयाऽभावात्कृद्ग्रहणं व्यर्थ- मित्याशयेनाऽऽशङ्कते-कृतेति किमिति । समाधत्ते-काष्ठः पचतितरामिति-कर्तृत्वकरणत्वयोः क्रियानिरूपितत्वात्तद्वा- चकसुबन्तस्य तद्धितान्तघटितस्याऽपि सम्भवात्तेनापि समासे प्रत्युदाहरणभूतोक्तप्रयोगे समासाऽऽपत्तिारैवेति तद्वारणाय कृत्ग्रहणमावश्यकमिति भावः। कृदन्तेनैव समासो यथास्यान्न सुबन्तेनेत्यर्थ कृग्रहणं प्रत्युदाहरणे शानजन्तादिभिरिव बहुलग्रहणात्समास- वारणं शक्यमिति केचिदित्यलम् ॥ चतुर्थी तदर्थार्थवलिहितसुखरक्षितैः-अत्र तदर्थपदं तस्मै इदं तदर्थमित्यर्थक तच्छब्देन सन्निष्कृष्टत्वाच्चतुर्था परामर्शः । तस्याश्च प्रत्ययत्वात्प्रत्ययग्रहणपरिभाषया तद- ४८ फक्किकारत्नमञ्जूषा। न्तविधौ चतुर्थ्यन्तमिति सामर्थ्यात्तेन तदर्थो लक्षते तस्मात्तादथ्य चतुर्थीत्यभिप्रेत्याह- चतुर्थ्यन्तार्थाय यत्तद्वाचिनेत्यादि-चतुर्थ्यन्तवाच्ययूपार्थ यहाादि तद्वाचकशब्दं चतुर्थ्यन्तस्य वा समास इत्यर्थः । यूपाय दावित्यादीन्युदाहरणानि । ननु सूत्रे तदर्थपदेन प्रकृतिविकृतिभावातिरिक्त ग्रहणे तेनैव बलिरक्षितशब्दाभ्यामा समाससिद्वौ याभ्यां समासार्थ कृतमुक्तशब्दद्वयग्रहणं व्यर्थ सज्ज्ञापयति तर्थपदेन प्रकृति विकृतिभावस्यैव ग्रहणमित्याशयेनाह-तदर्थन प्रकृतिविकृतिभाव एव गृह्यते बलिरक्षितग्रहणाज्ज्ञापकादिति-न च हितसुखशब्दयोरपि ज्ञापकत्वसम्भषेन शब्द चतुष्टयस्यैव ज्ञापकत्वप्रतिपादनस्य युक्तत्वाद्वयोरेव तत्त्वप्रदर्शनमयुक्तमिति वाच्यम् । । तसुखशब्दयोगे। (चतुर्थी चाशिष्यायुष्यमद्भद्रकुशलसुखार्थहितैरि )त्यनेनाऽतादयेऽ चतुर्थीसम्भवात् उक्तशब्दद्वयेनाऽन्योपकाराऽजननेन तद्योगे तादर्थ्यचतुझं असम्भवाच्चो तशब्दद्वयस्य ज्ञापकत्वाऽसम्भवात् । नच समासत आशिषोऽप्रतीत्या (चतुर्थी चाशिषी) ति विहितचतुर्थ्यन्तस्य समासाऽस्वीकारादलिरक्षितग्रहणवद्धितसुखशब्दयोरपि ज्ञापकल सम्भवतीति वाच्यम् । ब्राह्मणहितं, गोहितं गोसुखमित्यादिलक्ष्यदर्शनादतादर्थ्यचतुर्थ्य न्तस्यापि समासाङ्गीकारात्तदर्थन्तयोरावश्यकत्वात्सामर्थ्य विरहेण ज्ञापकत्वाऽसम्भवा दित्यलम् ॥ ननु बलिरक्षितग्रहणज्ञापकज्ञापितस्य प्रकृतिविकृतिभावस्य तदर्थपदेन ग्रहणमितिनिय मस्य रन्धनाय स्थालीत्यत्र समासवारणमेव फलं तत्र षष्ठीसमासस्य दुर्वारत्वान्नियमो व्यर्थ एव । न च सति षष्ठीसमासे समासस्वरः, तादर्थ्यचतुझं तु नियमेन समासवार- णात्पूर्वपदप्रकृतिस्वर इति स्वरे विशेष इति वाच्यम् (चतुर्थी तदर्थे) इत्येतद्विहितपूर्वप- दप्रकृतिस्वरस्यापि प्रकृतिविकृतिभाव एवेष्टत्वादुक्तस्वराऽप्रात्त्या स्वरेऽविशेषादुक्तसमा- सस्याऽनिवार्यत्वेन नियमवैयर्थ्यस्य तादवस्थ्यादिति चेन्न । रन्धनाय स्थालीत्यत्र शब्दश- क्तिस्वभावात्तदर्थत्वेनैव भानेन सम्बन्धत्वेनाऽभानात् षष्ठयभावेन तत्समासाऽप्रात्या सत्यां तादर्थ्यचतुर्थ्यां प्राप्तं तत् समासनिवृत्यर्थमुक्तनियमस्याऽऽवश्यकत्वेनसार्थक्यात् । एतत्सर्व प्रकृतसूत्रस्थभाष्ये स्पष्टम् ।तत्र हि-(चतुर्थी तदर्थमात्रेण चेत्सर्वप्रसङ्गोऽविशेषात् । सर्वस्य चतुर्थ्यन्तस्य तदर्थमात्रेण सह प्रसङ्गो भवति । अनेनाऽपि प्राप्नोति, रन्धनाय स्थाली, अवहननायोलूखलमि)ति । अत्राऽनेनाऽपि प्राप्नोतीत्युक्त्वा कथमप्येषु समासो न भवती- त्युक्तम् । उक्तञ्च कैयटेन नाऽनभिधानादन्धनस्थाल्यादयः षष्ठीसमासा भवन्तीति । नचो. तरक्त्या चतुर्थीषष्ठीसमासवारणेऽपि रन्धनार्था स्थाली रन्धनस्थालीति मध्यमपदलोपि- समासोबाधकाऽभावात्स्यादेवेति वाच्यम् । अनभिधानादुक्तसमासस्याऽप्यप्राप्तेरिति दिक् ॥ अश्वघालाद्यस्तु षष्ठोलमासा इनि-तदर्थपदेन प्रकृतिविकृतिभावग्रहणा- समासाप्राप्त्याऽत्रापि घासादीनामुपकारकत्वेन तादर्थ्यचतुर्थ्यां सत्यां न समासः; किन्तु वाक्यमेव । सम्बन्धत्वेन माने तु पष्ठीसमासो भवत्येवेति भावः ॥ अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यमिति-अनेन वात्तिकेन कार्यद्वयं विधीयते । एवमर्थशब्देन चतुर्थ्यन्तस्य नित्यसमासत्वं द्वितीय विशेष्यगतलिङ्ग- त्वच एतइसत्वे विभाषाधिकारेण समासस्य पाक्षिकत्वात्समासाऽभावपक्षे वाक्यस्याऽपी- - तत्पुरुषसमासप्रकरणम् । ४९ टापत्तौ द्विजायार्थ इति प्रयोगः स्यात् । 'अर्थरैविभवा अपी'त्यमरोत्याऽर्थशब्दस्य नित्य- पुंस्त्वात् (परबल्लिङ्ग द्वन्द्वतत्पुरुषयोरि)त्यनेन सर्वत्र पुंल्लिङ्गाल्यैव प्रयोगात् द्विजार्था यवाग द्विजार्थ पन इत्यादयः प्रयोगा न स्युः ! वस्तुतस्तु-अनेन विशेष्यलिङ्गतैव विधेया, समासनित्यत्वरूपद्वितीयविधेयस्य तु चतुर्थ्या तादर्थ्यस्योक्तत्वादर्थशब्देन विग्रहाऽप्रसक्त्या न्यायसिद्धत्वात् । गुरोरिदं गुर्व- र्थमित्यादाविव लिङस्यापि लोकतः सिद्धत्वे तु स्पष्टार्थमेवैतद्वात्तिकमित्यवसेयमिति दिक। पञ्चमी भयेन । पञ्चम्यन्तं भयशब्दप्रकृतिकसमर्थसुबन्तेन समस्यते इत्यर्थः । अत्र सूत्रे विनिगमकाऽभावात्सूत्रेणैव वृकभीत इत्यादौ समाससिद्धौ (भयभीतभीतिभीभिरिति वाच्यम् ) इत्येतद्वार्तिकाऽऽरम्भाञ्च न भयेत्यर्थग्रहणं किन्तु स्वरूपस्यैव । तेन न वृका- त्रास इत्यादौ समासाऽऽपत्तिरूपो दोषः । वार्तिके उपलक्षणत्वान्निर्गतजुगुप्सयोरपि ग्रह बोध्यम् । न च सूत्रे भयेत्याग्रहणे स्वरूपस्य ग्रहणाद् भोगोपरत इत्यादौ समासान स्यादिति वाच्यम् । बहुलग्रहणात्क्वचिद्विभक्त्यन्तरस्याऽपि कृता समास इत्यस्य पूर्वम- वाभिहितत्वेन तत्र समासोपपत्तेः । सुप्सुपेति मयूरव्यंसकादित्वाद्वा तदुपपत्तेश्च ॥ प्रतिपदविधाना षष्ठी न समस्यत इति वाच्यम् । पदं पदं प्रति विहिता प्रतिपदविधाना कारकविशेषोपादानेन विहितेत्यर्थः । 'पष्टी शेप' इत्येतद्विहितषष्ठ्यति- रिक्ता सर्वाऽपि षष्ठी प्रतिपदविधानेत्युच्यते सा न समस्यत इति तदर्थः । ननु (न नि- धारणे) इत्यनेन निर्धारणविहितषष्ट्याः समासो निषिध्यते, वार्तिकेनापि प्रतिपदविधान- षष्ठ्याः समासनिषेधः क्रियते । एवञ्च शेषषष्यतिरिक्तायाः सर्वस्या अपि षष्ठयाः प्रतिपद- विधानत्वाद्वात्तिकेनैवोक्तसूत्रप्रयोजनस्य गतार्थत्वात्सूत्रं व्यर्थमिति चेन्न । (यतश्च निर्धार- णमि)त्यनेन षष्ठ्या अविधानेन सप्तम्या एव विधानादनया तस्या बाधाऽभावाय, तत्प्र- तिप्रसवात्तत्र सम्बन्धसामान्य एव षष्ट्या विधानात्तस्याश्चाऽप्रतिपदविधित्वाद्वात्तिकेनाग.. तार्थतया सूत्रस्य सार्थक्यात् । यत्तु (ज्ञोऽविदर्थस्य करणे) इत्यादि (कृत्वोऽर्थप्रयोगे का- लेऽधिकरणे) इत्येतेषु सूत्रेषु शेषपदसम्बन्धात्तैः शेष एव षष्ठीविधानात्तत्र च (शेषे षष्टी)- त्येव सिद्धावुक्तसूत्रसमुदायसामर्थ्यात्तत्तत्सूत्रविहितषश्याः समासाभावकल्पनेन वार्तिकस्य सिद्धत्वान्नापूर्वन्तदिति; तन्न । उक्तसूत्राणां तत्तद्धातुयोगे उपात्तकारकाणां शेषत्वाऽभाव- ज्ञापनद्वारा वार्तिकज्ञापकत्वे विनिगमकत्वाऽभावात् । वार्तिकस्यापूर्वत्वादेव नेदं भाष्ये प्रत्याख्यातम् , अत एव च प्रतिपदविधानेतिपूर्वपक्षोद्धाटने शेषलक्षणाऽतिरिक्ता सर्वा प्रतिप- दविधाना, 'कर्तृकर्मणोः कृती' ति कृयोगेति च तत्रोक्तम् । तत्र शेषलक्षणेत्यस्य शेषमात्र- लक्षणेत्यर्थ इति दिक् ॥ ननु ब्राह्मणस्य ये दन्तास्ते शुक्ला इत्याद्ब्राह्मणशब्दस्य दन्तैरैवाऽन्वयात्तेनैव साम- यंन शुक्लशब्देनाऽसामर्थ्यात् (सविशेषणानां वृत्तिर्न वृत्तस्य च विशेषणयोगो ने)ति निषे- धाच्च ब्राह्मणस्य शुक्ला इत्यत्र समासो न स्यादत आह-यदा प्रकरणादिना दन्ना इति विशेष्यं ज्ञातं नदेदमुदाहरणमिति । अधुना शुक्लशब्दस्यैव विशेष्यसमर्पकत्वमिति न समासप्रातिरिति भावः ॥ अनित्योऽयं गणेन निषेध इति । गणवाचान TETam फक्किकारत्नमञ्जूषा। ऽसार्वत्रिकेत्यर्थः । पूरणार्थन च पष्ट्यन्तस्य समासनिषेधोऽपि तथेत्यपि बोध्यम् । अत्र प्रमाणं ('तदशिय संज्ञाप्रमाणत्वात्?) इत्यादिनिर्देश एव, तथाहि, गुणेन पूरणार्थेन च समासनिषेधस्य नित्यत्वे तस्य अशिष्यमित्यत्र समासनिषेधेन निर्देशाऽसङ्गतिरिति स एव व्यर्थीभूतो ज्ञापयति, अनित्योऽयमित्यादि । पूरणार्थेन समासनिषेधल्य नित्यत्वे 'लोपेन चत्पादपूरणमिति निर्देशः प्रमाणम् । तथाहि, पूरणार्थेन समासनिषेधस्य नित्यत्वे पादस्य पूरणमिति समासाऽनापत्त्या निर्देशासङ्गतिरिति स एवोक्तार्थ ज्ञापयतीति भावः । तेन कुम्भपूरणभव उच्छषष्ठ इत्यादौ समाससिद्धिः । शेखरकृतस्तु-पूरणार्थेन समासनिषेधाऽनित्यत्वस्य नोक्तोदाहरणे समाससिद्धिः फलम् । कुम्भसम्बन्धी पूरणं उञ्छसबन्धी षष्ष्ठ इति मध्यमपदलोपिसमासस्य सिद्धत्वात् । अत एव गुणेन समासनिषेधाऽनित्यत्वम्भाष्ये नोक्तम् । (१) अन्यत्राऽस्याऽनभिधानम् । • (२)अत एव, सर्वश्वेत इत्यादौ गुणेन न समास इति सन्दिर (गुणात्तरेणतरलोपश्चेति) • वचनमारब्धं सर्वगुणेति सूत्रे भाष्ये (३) । संख्याशब्दानां (४) भावशब्दत्वाद्योजनशतादौ क्रोशशतादी गोविंशतिरित्यादौ च नायं निषेध इति । तथा च पंक्तिविंशतीति सूत्रभाष्यम् (ते एते विंशत्यादयः शब्दाः समुदाये सन्तो भाववचना भवन्ती)ति (विंशत्यादिषु भा- ववचनेष्विति च, यस्तु तत्र (६)एषां गुणवचनत्वव्यवहारोऽपि स तु(६)तत्सादृश्यात् । (७) अन्यथा गावो धनमित्युपक्रमस्य धनमेको गुणः, अपत्यमेको गुणः इत्यपि भाष्योक्ते- इचैत्रधनं चैत्राऽपत्यादीनीत्यादि न स्यादित्याहुः ॥ पूर्वोत्तरसाहचर्येण कृदव्ययस्यैव ग्रहणमिति–पूर्वपरयोः सत्तव्ययोः कृताः सान्निध्यादव्ययपदेन कृइव्ययस्य ग्रहणादेव (सर्वपश्वादि) तिभाष्यप्रयोग उपपन्नः । अन्यथा कृद्रकृत्साधारणस्याऽव्ययस्याव्ययपदेन ग्रहणेन पश्चाच्छब्दस्याव्ययत्वेन तद्योगे समासनिषे- वापत्तावुक्तभाष्यप्रयोगो नोपपद्येत । प्रकृतसूत्रस्थभाष्येऽपि अकृदव्ययैरुचैरादिशब्दैः सा- म.भावान्नसमास इत्यभिधाय कृदव्ययमेवोदाहृतम् । एतेन सति सामयेऽन्याव्ययैः स- . मासस्येष्टत्वमवगम्यते। नागेशास्तु-द्विजस्य कुर्वन्कृत्वेत्यादौ सूत्रेण कारकषष्ट्या समासनिषेधात् कटा. द्यपेक्षया शेषपष्ठयां तु असामर्थ्यात्समासप्राप्तिरेव नेति सन्दिा द्विजस्य द्विषन् पुरा सू- (१) नन्वेवं काककार्ण्यमित्याद्यपि स्यादत आह–अन्यत्रेति। भाष्यादावनुक्तत्वान्ना- न्यत्रोक्तसमास इति भावः । (२) अस्य निषेधस्याऽनित्यत्वाऽभावादेवेत्यर्थः । ( ३ ) अस्य निषेधस्याऽनित्यत्वाऽभावाद्गोविंशतिरित्यादिसिद्धिर्न स्यादत आह- संख्याशब्दानामिति ४ ) भावप्रवृत्तिनिमित्तकत्वादित्यर्थः । यथा 'तस्यभाव' इत्यत्र भावशन्दस्य धर्म- परत्वं तथैवाऽत्रापि तस्य तत्वमिति भावः । (५) विंशत्यादीनामित्यर्थः । (६) गुणसादृश्यादित्यर्थः । ) गुणबोधकत्वस्यैव स्वीकार इत्यर्थः ।

तत्पुरुषसमासप्रकरणम् । ५६. य॑स्योदेतोरित्यादौ (द्विषः शतुर्वा वचनन्तोसुन्कसुनोरप्रतिषेध) इति कारकषष्ठीसत्त्वात्त- ब्रोदाहृतम्भाष्ये तस्मादीडशे विषये शेषत्वविवक्षणस्य तादर्थ्यस्य सम्बन्धत्वविवक्षणस्य चाऽभाव एव पाणिनितात्पर्यनिर्णयायैव भाष्यकृत्प्रवृत्तेरिति वदन्ति ॥ समानाधिकरणे समासनिषेधोदाहरणं-तक्षकस्य सस्येति-अन्न परत्वात्प्रा- तसमानाधिकरणसमासं बाधित्वा प्राप्तस्य षष्ठीसमासस्य निषेधः। नच षष्ट्यन्तयोः स- मासेऽर्थाऽभेदात्प्रधानस्याऽपूर्वनिपात इत्येतन्निरूपणप्रस्ताव येन सुबन्तेन समासस्तनिरू- पितसम्बन्धार्थकस्यैव षष्टयन्तस्य ग्रहणमित्युक्त्या प्रकृते तादृशषष्ठयभावात्समासाप्रा- प्त्या निषेधो विफल एवेति वाच्यम् । भाष्यप्रामाण्याद्यत्र व्यधिकरणषष्टयन्तयोः समा- सस्तत्र तादृश्या षष्ठया ग्रहणेन समानाधिकरणषष्ठयन्तयोः समासे उक्तनियमाऽभावात्स- मासप्राप्त्या निषेधस्य साफल्यात् । अत्र प्रकृतसूत्रस्थसमानाधिकरणग्रहणमेव मानमिति सूत्रकृत्तात्पर्य्यम् । नचाऽत्रासामर्थ्यादेव समासाप्राप्त्या निषेधो व्यर्थ एवेति वाच्यम् । कटोऽपि कर्म भीष्मादयोऽपीति पक्षे परस्पराऽन्वय एवेति सामर्थ्यस्य सत्वान्निषेधस्य सा- र्थक्यात् । क्रियान्वयनियमश्च न साक्षादेव; किन्तु यद्वारा कारकत्वं तद्द्वारकोऽपीत्यु.. क्तम् । नच समानाधिकरणाऽधिकारे समानमध्यमवीराश्चेति पाठात् तस्य समानाधिक- रणाधिकारस्थले समासविषयत्वाऽभावेऽप्यन्यत्राप्रवृत्तौ प्रमाणाऽभावेन समानाधिकरणमस. मर्थवदित्यसामर्थ्यात्समासाऽप्राप्त्या निषेधो व्यर्थ इति वाच्यम् । अधात्वभिहितमित्यु- क्त्या धातूत्तरप्रत्ययेन कर्माभिधाने यजुषः पीयमानत्येत्याद्यर्थ निषेधस्य सार्थक्यात् । इर्द भाग्ये स्पष्टम् । ननु तक्षकस्य सर्पस्येत्यत्र विशेषणतावच्छेदकतक्षकत्वस्य सर्पत्वात्मक- विशेष्यतावच्छेदकाऽव्यभिचारान्न विशेषणसमासप्राप्तिरिति चेन्न । कैलासाद्रिरित्यादौ समासानापत्या 'विशेषणं विशेष्येण बहुलमित्यन्त्र विशेषणविशेष्योभयोपादानेन विशेष- णत्वविशेष्यत्वाऽवच्छेदकधर्मद्वयस्य परस्परव्यभिचारे एव विशेषणसमासप्रातिरिति निय- माभावेन तत्रोक्तसमासस्य दुर्वारत्वात् । एवं च षष्ठीसमासनिषेधेऽप्युक्तसमासः स्यादेवे- तिनिषेधो विफल एवेत्याशङ्कय समाधत्ते-विशेषणसमासस्त्विह बहुलग्रहणान्नेति । उक्तस्थले विशेषणसमासेऽपि फले विशेषाभावादिति भावः । समानाधिकरणे समासनि- षेधस्य फलान्तरमप्याह-गोर्धेनोरित्यादि-विभक्त्यन्तरे चरितार्थस्य पोटायुवतीत्यादेः परत्वाबाधकस्य षष्ठीसमासस्याप्यनेन बाध इति भावः । अन्यथा तत्र हि षष्ठीसमासे सति गुणप्रवृत्तिनिमित्तकत्वादप्रधानत्वेन प्रथमानिर्दिष्टत्वेन च धनोः पूर्वनिपातः विशेपण- समासे तु गोरिति भेदः । तत्रादिपदेन भोज्यस्योष्णस्येत्यादेः संग्रहो बोध्यः । ये तु नो- पसर्गसंज्ञाया अन्वर्थत्वमङ्गीकुर्वन्ति तेषां मते षष्ठीसमासे पूर्वनिपातनियम इति तद्वारणाय निषेधः, विशेषणसमासस्तु स्यादेवेति कैयट इति प्राञ्चः। नागेशास्तु, ( प्रथमानिर्दिष्टमि ) तिसूत्रस्थभाष्योक्तरीत्या ( षष्ठी ) इति सूत्रे येन सुबन्तेन समासस्तदर्थनिरूपितसम्बन्धार्थकषष्ठ्या ग्रहणात्प्रकृते समासाऽप्राप्त्या निषेधस्या- ऽनावश्यकत्वेन समानाधिकरणग्रहणं व्यर्थमेव, ध्वनितञ्चेदम्भाष्ये । तथाहि भाप्यं स- मानाधिकरणे किमुदाहरणम् , एकदेश्याह, राज्ञः पाटलिपुत्रकस्य, प्रष्टाऽह नैतदस्ति, अ- सामर्थ्यादत्र न भविष्यति। येन सुबन्तेन समासस्तदर्थनिरूपितषष्ठयन्तेनाऽसामर्थ्यरूपः : .

५२ फक्किकारत्नमञ्जूषा। 'उदाहरणवाद्येकदेश्याह-कथमसामर्थ्य प्रष्टेकदेश्याह, समानाधिकरणमसमर्थवदिति । उदा- हरणवाद्यकश्याह, अधात्वभिहितमिति तच्छेषात्सर्पिपः पीयमानस्येत्युदाहरणमित्युप- स्वर्जनसंज्ञासूत्रस्थभाप्यैकवाक्यत्वनाऽस्यैवं व्याख्यानमेव युक्तमिति वदन्ति । राजपूजितमित्यादौ भूते तान्तेनेति-न च (तक्रकौडिन्य)न्यायेन वर्तमानार्थ- कक्तेन भूतार्थकक्तस्य बाधान्मूलोक्तमयुक्तमिति वाच्यम् । भूतार्थकक्तस्याऽवश्यं प्राप्तौ वर्तमानार्थकक्तस्याऽनारम्भात् । भूतत्ववत्तमानत्वयोर्युगपद्विवक्षाया असम्भवात् । दधि- दानस्याऽवश्य प्राप्तौ तक्रढ़ानारम्भायुक्त एव तक्रदानेन दधिदानबाधः; प्रकृते तथा ना- स्तीति भावः । केचित्तु---उक्तन्यायेन वर्तमानार्थकक्तेन भूतार्थकक्तस्य बाधप्राप्तावन्यथा समाधत्ते- तथा हि-याक्तन्यायेनोक्तार्थकप्रत्ययेनोक्तार्थकप्रत्ययस्य बाधः स्यात्तदा तेनैक् दिक इत्यनेन षष्ठीविधानादुपज्ञातशब्दस्य तेनेति तृतीयया योगो न स्यादित्युक्तनिर्देशाद्वर्त्तमा- नक्तेन न भूतक्तस्य बाध इति ज्ञायते । नचैवमप्युक्तनिर्देशस्य ज्ञानार्थेष्वेव ज्ञापकत्वम- स्त्विति वाच्यम् । "पूजितो यः सुरासुरैः।" इति प्रयोगाऽनुरोधेन सामान्यविषयकज्ञापकत्वस्यैवौचित्यात्, केचिच्च कारकषष्ट्या एव समासनिषेधकमिदं सूत्रं शेषपष्ट्या स्यादेव समास इत्याहुरित्यन्यत् ॥ ननु भृजस्तृचि निष्पन्नस्य भर्तृशब्दस्य तृजन्तत्वेन 'तृजकाभ्यां कर्तरी ति निषेधेन पष्टीसमासाभावे भर्तृशब्दस्य याजकादिगणे पाठेन समासस्येष्टत्वाद्वज्रस्य भनॆत्युदाहरण- मयुक्तमित्यत आइ-पत्यर्थभर्तृशब्दस्य तु याजकादित्वात्समास इति । प्रसिद्ध- त्वेन पत्यर्थभर्तृशब्दस्यैव याजकादिणे पाठादन्यार्थकस्य तस्याऽग्रहणाद्वज्रस्य भत्तत्यत्र भर्तृशब्दस्य धारणकर्थकत्वेन नोक्तसूत्रेण समासाऽऽपत्तिरिति युक्तमेवोदाहरणम् । नच याजकादिषु भतृशब्दस्याऽर्थविशेषविशिष्टत्वेनाऽपाठात्सामान्यतस्तस्य तत्र पाठेनोदाहरणे- ऽप्यनेन समासस्याऽवश्यम्भावितयाऽयुक्तमेवोदाहरणप्रदर्शनमिति वाच्यम् । रूटेर्वशीय- स्त्वात्पतिपर्यायस्यैव भर्तृशब्दस्य ग्रहणेनोदाहरणप्रदर्शनस्य युक्तत्वात् । तृजकाभ्यामि- त्यत्र तृच्साहचर्येण कर्थकस्यैवाकस्य ग्रहणेन कर्तृग्रहणमनावश्यकमिति नाशक्यम् ,तथा सति उत्तरसूत्रे भावार्थकस्यैवाकः सम्भवादर्थाधिकराऽनुरोधेन प्रकृतसूत्रेऽपि भावार्थकस्यै- व ग्रहणमिति शङ्का निरासाय कर्तृग्रहणस्यावश्यकत्वादिति भावः ॥ ननु ( तृजकाभ्यामि )तिनिषेधस्य जागरूकत्वात् त्रिभुवनविधातुरितिसमस्तप्रयोगो नैवोपपद्यतेत्याशयेनाऽऽशङ्कते-कथं तर्हि घटानां निर्मातुरित्यादि । समाधत्ते- शेषषष्ठ्या समास इति । प्रत्यासत्या कारकपष्ट्या एवाऽनेन समासनिषेध इति भावः। व्यासकारास्तु-विधातृशब्दस्य तृन्नन्तत्वादनेनानिषेधात्षष्ठीति सूत्रेण समा- सादुक्तप्रयोगोपपत्तिः । न च नृन्योगे (नलोकाव्ययनिष्टाखलर्थतनामि)ति सूत्रेण षष्ठी- निषेधात्तत्समासाप्राप्त्या पुनस्तदवस्थ एवोक्तदोष इति वाच्यम् । काभ्यामित्येव वक्तव्ये तृचः सानुबन्धस्य ग्रहणसामर्थ्यांदुक्ननिपधानित्यत्वज्ञापनेनोक्तदोपोद्धारादिति वदन्ति ।

तत्पुरुषसमासप्रकरणम् । ५३. . यत्तु (जनिकर्तुः) (तत्प्रयोजको हेतुश्चे)तिनिर्देशाभ्यां (तृजकाभ्यां कर्तरी)तिसमास- निषेधाऽनित्यत्वादुक्तप्रयोगोपपत्तिरित्याहुः केचित् , तन्न । शेषषष्टीसमासेनैवोक्तनिर्देश- द्वयोपपत्तौ सामर्थ्यविरहादुक्तसमासनिषेधाऽनित्यत्वज्ञापनस्यासम्भवादिति दिक् ।। पूर्वापराधरोत्तरमेकेति-नन्वेकदेशशब्दस्याऽवयवे रूढत्वात्तस्य कर्मधारयत्वे.. ऽपि तस्मात्मत्वर्थीयः । ( न कर्मधारयान्मत्वर्थीयः ) इति निषेधात्कथं कर्मधारयान्मत्व- थीय इति वाच्यम् । कृष्णसर्पवानित्यत्रेवोक्तनिषेध य रूटेष्वेव प्रवृत्तेः । न च ( एकगोपू- वादि)त्यनेन ठन दुर्वार इति वाच्यम् । एतन्निदेशादेवेनेः प्रवृत्तरित्याह-अवयविना सहेत्यादि। ननु ऊर्ध्वकाय इतिवत् (समुदाये हि प्रवृत्ताः शब्दा अवयव प्रवर्तन्त) इति न्यायात पूर्वकाय इत्यादिप्रयोगाणां कर्मधाग्यसमासेनैव सिद्धौ सूत्रमिदं व्यर्थमित्यत आह-पष्टी. समासापवाद इति । अयम्भावः-सूत्रसत्त्वे तेन समासे पूर्वशब्दस्य पूर्वप्रयोगे पूर्व- काय इत्युपपद्यते । सूत्राऽभावे षष्ठीसमासे तु षष्ठयन्तस्य कायशब्दस्य पूर्वप्रयोगे काय- पूर्व इत्यनिष्टप्रयोग आपद्यतेति तन्निवृत्त्यर्थ सूत्रमावश्यकमिति भावः । उक्तप्रयोगे पूर्वका- यस्येति विग्रहः । नच (अन्यारादि)ति सूत्रे दिशि दृष्टः शब्दो दिक्शब्द इति व्याख्या नेन सम्प्रति दिग्वृत्त्यभाववतामपि योगे पञ्चमौविधानात्पष्टया दुर्लभतयोक्तविग्रहो दुर्लभ इति वाच्यम् । (तस्य परमानेडितमि)तिनिर्देशेनाऽवयवाचिदिक्शब्दयोगे पञ्चम्यभा- वज्ञापनात्यष्ट्युत्पत्तौ बाधकाऽभावेनोक्तविग्रहस्य सुलभत्वात्। सूत्रे एकदेशिनेत्यस्याऽभावे पूर्व नाभेः कायस्येत्यत्रापि समासापत्तिरिति तव्यावृत्त्यर्थं तदुपात्तम् । नाभेर्यः पूर्वा भागः स कायल्याऽवयव इत्यर्थः । नाभेरित्यस्य दिग्योगलक्षणपञ्चम्यन्तत्वादन पूर्वस्य भागस्य नाभिरवधिः, नत्वेकशिनीति न नाभ्या सह समासः । कायशब्दन तु पूर्वकायो नाभेरिति समासः ल्यादेवेत्यलम् । ननु पूर्वपरेति सूत्रे पूर्वादोनामुपादानादेतेषामेवैकदेशानां समासः स्यादन्येषां न स्या- तथा मध्यान्हः; सायाह्न इत्यादिप्रयोगो नैवोपपद्यतेत्याशङ्क्याह-सोऽप्येकदेशोऽ. न्हा समस्यत इति । पूर्वादिभिन्नशब्दस्याप्याहन्शब्देन समास इति तदर्थः। अन्ना- ऽर्थे (संख्याविसायपूर्वस्ये ) ति सूत्रमेव ज्ञापकं बोध्यम् । तथाहि-उक्तज्ञापनाऽभावेऽन्ह- स्य सायपूर्वत्वाऽभावन सूत्राऽप्राप्त्या व्यर्थन्तदुक्तार्थ ज्ञापयतीति भावः । नच मध्यान्ह इत्यादरू काय इति वत्कर्मधारयेणैव निर्वाहाज्ज्ञापकत्वाश्रयणं व्यर्थमिति वाच्यम् । ( अहःसर्वेकदेशे ) त्यादिविहितसमासान्तस्य ( अन्होऽन्ह एतेभ्य ) इत्यन्हादेशस्थ्य चैकदेशिसमासं विनाऽनुपपत्त्या ज्ञापकाश्रयणस्य सार्थक्यात् ।। ननु उक्तज्ञापकादुक्तार्थज्ञापनेन मध्यान्ह इत्याद्युपपत्तावपि मध्यरात्र इति नोपपन्नमि- त्यत आह-केचित्तु सर्व एकदेशः कालेन समस्यते नत्वलैवेति । संख्यावि. सायेति ज्ञापकस्य सामान्यापेक्षत्वेन सर्वस्याप्येकदेशस्य कालवाचकशब्देन समास इत्यर्थ- ज्ञापनेनोभयत्र निर्वाह इति भावः। नचैवं दिनमध्यो रात्रिमध्य इति नोपपद्यतेति वा- च्यम् । ज्ञापकसिद्धस्याऽसार्वत्रिकत्वादिति भावः ॥ अद्धं नपुंसकम् । ननु ग्रामार्दो नगराई इति भाष्यप्रयोगात्खण्डवाचकार्द्धशब्द-.

फक्किकारत्नमञ्जूषा। स्य नित्यक्लीबत्वाभावात्समांशवाचकोक्तशब्दस्य नित्यक्लीबत्येन तस्यैवाऽत्र ग्रहणम् । प्रमाणञ्चान प्रकृतसूत्रस्थं नपुंसकग्रहणमेव । तथाहि-(पूर्वापराधरोत्तरमेकदेशिनकाधिकरणे) इत्यत्रैवार्द्धशब्दस्य पाठात्समासोपपत्तौ पृथगर्द्धमिति योगविभागेन निर्देशान्नपुंसकत्वे लब्धे पुनर्नपुंसकग्रहणं फलाऽभावाव्यर्थ सत् ज्ञापयति-'नित्यक्लीबार्द्धशब्द एवेह गृह्यत' इत्याह-नित्यं क्लीवे स इति । केचित्त-नपुंसकग्रहणस्य नोक्तार्थ ज्ञापकत्वमङ्गीकुर्वन्ति; किन्तु अर्धमिति निर्दे. शादेव नपुंसकत्वलाभे पुनस्तद्ग्रहणस्य सूत्रनिदेशे लिङ्गाविवक्षार्थमेव । नच तस्य समां- शवाचकनित्यक्लीवग्रहणार्थत्वेन सामर्थ्य विरहादुक्तार्थज्ञापकत्वं न सम्भवतीति वाच्यम् । एचो हस्वविधाने अद्धैकारौकारयोविधानमाशय (नैव लोके नैव वेदे अर्द्ध एकारोऽर्द्ध ओकारोऽस्ती)ति (एवोङ्) ( एच, इगि )तिसूत्रस्थभाष्यप्रयोगात्समांशवाचिनोऽत्यर्द्धश- ब्दस्य नित्यक्लीबत्वाऽभावात् । तथा च नित्यनपुंसकोऽर्द्धशब्द एकत्वविशिष्टेनाऽवयविना समस्यते इत्यर्थः । ननु पिप्पल्या नियमेन षष्ट्यन्तत्वात् (एकविभक्ति चापूर्वनिपाते) इत्यनेनोपसर्ज- नत्वे (गोत्रियोरि)ति हस्वत्वे अर्द्धपिप्पलि इति हस्वान्तप्रयोगापत्तिरित्यत आह-एक- विभक्तावषष्ट्यन्तवचनमिति। एकविभक्तिपदघटितसूत्रे यदेकविभक्तिपदन्तदषष्ठ्य- न्तबोधकमित्यर्थः । तेन पिप्पलीशब्दस्याऽनुपसर्जनत्वान्नोक्तापत्तिरिति बोध्यम् ॥ ननु (एकविभक्तावषष्ठ्यन्तवचनमि)त्यभ्युपगमे पञ्चानां खट्वानां समाहार इति विग्रहे खट्वाशब्दस्य षष्ठ्यन्तत्वादुपसर्जनसंज्ञाप्रतिषेधेन हस्वत्वाप्रवृत्तावदन्तत्वाऽभावन (द्विगोरि)ति डीपोऽप्रवृत्या पञ्चखट्वीति न स्यादित्याशङ्कय समाधत्ते-एकदेशिसमा- सविषयकोऽयमुपसर्जनसंज्ञानिषेध इति । (अपथं नपुंसकमि)त्येतत्सूत्रे पञ्चखट्वीति भाष्यप्रयोगादेकविभक्तावित्यस्य सङ्कोचादेतल्लभ्यते इति भावः । अर्द्ध पिप्पल्या इति विग्रहे, अर्द्धपिप्पलीति । परवल्लिङ्गत्वात्स्त्रीत्वम् । अनेन द्रव्यैक्य एव समासो विधीयते तेनाऽर्द्धपिप्पलीनामित्यत्र न समासो; द्रव्यस्य बहुत्वात् । उक्तनियमाऽभावे तु समासे अर्द्धपिप्पलीत्येवेति दिक् ॥ द्वितीयतृतीयचतुर्थतुर्याणि । ननु वृत्तिकारेण यदुक्तमस्य षष्ठीसमासापवादत्व- न्तदयुक्तमिति ध्वनयन्नाह-अन्यतरस्यां ग्रहणसामर्थ्यात्पूरणगुण इति निषेध वाधित्वेत्यादि । नच द्वितीयशब्दस्य भागार्थकाऽन्प्रत्ययान्तत्वात्पूरणार्थकप्रत्ययान्त- भिन्नत्वेन निषेधाऽप्राप्त्या पूरणगुणेति निषेधं बाधित्लेति मूलोक्तमनुपपन्न मिति वाच्यम् । भागार्थकान्प्रत्ययान्तस्याऽपि स्वार्थिकत्वेन पूरणार्थकत्वान्मूलोपपत्तेः । स्पष्टञ्चेदम्भा- प्ये । तत्र हि-अज्यतरस्यांग्रहणस्य पक्षे पष्टीसमासमुक्त्वा कृतेऽप्यन्यरस्यांग्रहणे षष्ठीस- मासो न प्राप्नोति किंकारणम् । पूरणगुणेति निषेधात् । नैतत्पूरणान्तम् । अना एतत्प- र्यवसन्नम् । व्यवहितं, स्वरभेदं प्रात इति यावत् । एतदपि पूरणान्तमेव । पूरणन्नामा. ऽर्थस्तमाह तीयशब्दः । अतः पूरणं योऽसौ पूरणान्तात्स्वार्थ भागेऽन् सोऽपि पूरणमेव । चूरणमन्नामाऽर्थ इत्यस्य पूरणाऽभिन्नो योऽर्थस्तस्य प्रतिपादनमतः स्वार्थिकत्वात्तदन्तेना- ऽप्यस्त्येवेत्यर्थः । पूरणशब्दे पूरयति स्वघटितसमुदायविशेपे विवक्षितसंख्याप्रकारकप्रतीति .

तत्पुरुषसमासप्रकरणम् । 44 तथाच- जनयतीति व्युत्पत्या बाहुलकात्कर्तरि ल्युट् ॥ उपमानानि सामान्यवचनी-उपमीयते वस्त्वन्तरं सादृश्येन परिच्छिद्यते येन तदुपमानम् । उपननोपमेयसाधारणधर्मविशिष्टोपमेयवचनं सामान्यवचनम् । उपमानबोधकानि सुवन्तानि उपमानोपमेयोभयसाधारणधर्मविशिष्टरूपसामान्यवचनैः सम- र्थसुबन्तैः सह समस्यन्ते इति सूत्रस्यार्थः । घनश्याम इत्याद्युदाहरणम् । इति प्राश्चः। शेखरकृतस्तु, स्वसभिव्याहृतनिष्ठमुपमानत्वमिवशब्दद्योत्यम् । इवशब्दसनीपोच्चा- रितघनादिपदार्थगतं यदुपमानत्वं सादृश्येन वस्त्वन्तरपरिच्छेदकत्वं तदिवशब्देन द्योत्यते इति तदर्थः । साधारणधर्मसम्बन्धस्योपमानोपमेययोर्बोधे तात्पर्य्यग्राहकता च । एवञ्च उप- मानोपमेययोरभेदान्वयादेव तयोः समानविभक्तिकत्वनियमः । समासे तूक्तार्थस्य समासश- क्तिबलाबोधः । उपमानत्वेनोपमानबोधकेत्यर्थास्दीकारे ससम्बन्धिकत्वात्सामान्यवचनैरि- त्येव उपमानेन समासलाभे उपमानग्रहणं स्पष्टमेव व्यर्थम् । एवमुत्तरसूने उपमितसित्यु- पमानत्वेन बोधकमित्यर्थकम् । एवमेव भाष्यस्वरस इत्याहुः । तत्र हि यत्र किञ्चित्समान- वैश्विञ्च विशेषस्तत्रोपमानोपभेये भवत इत्युक्त्वा, उपमानं, हि नाम, अनितिज्ञानार्थमु- पादीयते तत्समीपे यन्नात्यन्ताय मिमीते तदुपमानमेव, भुक्त्वा शस्त्री श्यामेति सूत्रोदाह- रणमित्युक्तम् । समानाधिकरणेनेति वर्तत इत्युक्तम् । तेन स्पष्टमेवोपमानोपमेययोरभेदा- न्वयो लभ्यत इति ॥ ननु धन इव श्याम इति विग्रहे घनश्यामशब्दयोरेकार्थवृत्तित्वरूपसमानाधिकरणत्वा- ऽभावात्समासो न स्यादत आह-इह पूर्वपदन्तत्सदृशे लाक्षणिकमिति-अत एवं मृगीव चपला मृगचपलेत्यादौ पुंवद्भावः सिध्यति। तत्र सन्निधानादुत्तरपदोपस्थापित- मृगत्वचपलत्वद्वारकस्यैव सादृश्यस्यैव ग्रहणमिति । न चैवं कथमुपमानपरत्वमितिवाच्य- म् । भूतपूर्वगत्या शक्यार्थमादाय तत्परत्वोपपत्तेः ॥ ननु धनश्याम इत्याद्युदाहरणसिद्धयर्थमेव ( उपमानानि सामान्यवचनैरि ) ति सूत्र तस्य विशेषणसमासेनैव सिद्धौ सूत्रं व्यर्थमेवेति चेन्न । सति विशेषणसमासे कुब्जखाः खञ्जकुब्जः इति वदूधनश्यामशब्दयोः पर्यायतया पूर्वनिपानापत्तेः । तस्मात्पूर्वनिपाताय सूत्रमावश्यकमित्याह-पूर्वनिपातनियमार्थ सूत्रमिति । 'तुल्यार्थतृतीयासप्तम्युपमा- नाव्ययः इति सूत्रे प्रतिपदोक्तस्यैवास्य ग्रहणेन ग्रहणार्थमपि सूत्रस्याऽऽवश्यकत्वम् । अत एव, पुरुषव्याघ्र इत्युदाहरणम् । उपमानशूरव्याबाऽभिन्नः शूर इति बोधः ( एवं मयूरव्यं- सकादयश्चे) त्यनेन समासेनोपमानस्वरप्रवृत्तिरिति तत्त्वमिति ॥ उपमितं व्याघ्रादिभिः । उपमेयमुपमितन् । भूतकालो नाऽनविवक्ष्यते । उपमेय- स्य सन्बन्धिशब्दत्वात्तेनोपमेयस्याऽऽक्षेपात् , उपमानभूतैर्व्याघ्रादिभिः सहोपमेयं समस्यते सति साधारणधर्मस्याऽप्रयोग इत्यर्थः । ननु उपमेयस्योपमानपरिच्छेद्यत्वादुपमानोपमेय- योः समभिव्याहारे उपमानस्य विशेषणत्वमेवेति तस्य विशेषणं विशेष्येणेति सूत्रेणैव पूर्व- निपातसिद्धौ विशेष्यस्य पूर्वनिपातार्थमिदं सूत्रमित्याह-विशेष्यस्य पूर्वनिपातार्थ सू- त्रमिति । उपमितमित्येतत्पदस्वारस्येनोपमितस्योपमानेन सह नित्यसाकांक्षत्वेन च व्या- प्रादीनामुपमानत्वे एव उपमानोपमेययोः समानलिंगत्वे सत्येव चेतत्सूत्रप्रवृत्तिः । अत ।

५६ फक्किकारत्नमञ्जूषा। युव (परवलिङ्गम् द्वन्द्वतत्पुरुषयोरि)ति सूत्रे (द्वन्द्वैकदेशिनोरि)तिन्यासं कृत्वा तत्पुरुषग्रहण प्रन्याख्यात भाप्ये। अन्यथा- भाध्याब्धिः क्वातिगम्भीरः क्वाहं मन्दमतिस्ततः। छात्राणामुपहास्यत्वं यास्यामि पिशुनात्मनाम् । इति कैयटश्लोके भाष्याब्धिरित्यत्र दृश्यमानपरवल्लिङ्गसिद्धयर्थं तत्पुरुषग्रहणस्याव- श्यकत्वात्प्रत्याख्यानासङ्गतिः । उक्तप्रयोगे सत्यपि सामान्यधर्मप्रयोगे लिङ्गभेदे च (म- शूख्यसकाइयश्चे)त्यनेन समासो बोध्यः । न च तत्र विशेषणसमास एवेति वाच्यम् । त- था लति उपमानस्य विशेषणत्वेन पूर्वनिपातापत्तेः । ननु सूत्रे सामान्याऽप्रयोगे इत्यस्यासत्त्वे पुरुषो व्याघ्र इव शूर इत्यत्र सामान्यधर्म- स्व शूरत्वस्य सति प्रयोगे समासापत्तिरतस्तदुपात्तम् । न च शूरसापेक्षत्वेनाऽसामर्थ्यात्स- मासाऽप्राप्त्या प्रत्युदाहरणासङ्गतिरिति वाच्यम् । प्रधानस्य पुरुषस्य सापेक्षत्वेऽपि साम. .ऽभावाभावात् । विशेपणरूपोपमानस्य नित्यसापेक्षत्वेऽपि तत्सापेक्षत्वस्या न दोषाव- इत्वमिति बोध्यन् । उपमानत्वञ्च साधारणधर्मवत्त्वेन परिच्छेदकत्वम् । परिच्छेद. सत्वञ्च साधारणधर्मवत्त्वेन ज्ञानविषयीभूतस्यैवेति । नच नित्यसापेक्षत्वस्य दो- वाऽऽधायकत्वाऽभावाद्विशेषणस्योपमानस्य नित्यसापेक्षवदुपमेयस्यापि नित्यसापेक्षत्वेनैव समाससंज्ञासिद्धौ प्रत्युदाहणे समासार्थ उपमानं नित्यसापेक्षमिति तत्सापेक्षत्वं न दोष इत्यस्यैव ज्ञापकत्वमित्ययुक्तमिति वाच्यम् । यद्यपि उपमेयत्वस्य साधारणधर्मवत्वेन परि- छंचत्वमेव; तथापि उपमेयस्य साधारणधर्मवत्त्वं विधेयमेवेत्युपमेयस्य नित्यसापेक्षत्वा- भावादिति दिक् ॥ विशेषणं विशेष्येण बहुलम्-ननु विशिष्यते येन तद्विशेषणम् , अन्यस्माद्व्या- वत्तकमित्यर्थः । कर्त्तः करणत्वविवक्षायां विपूर्वकाच्छिषे: ल्युटि रूपमित्याह-भेदक समानाधिकरणेनेति-विशेषणविशेष्ययोरुभयोः सम्बन्धिविशिष्टत्वादन्यतरोपादानेनै- वाऽऽक्षेपस्य सम्भवादुभयोपादानं स्पष्टार्थमिति कैयटः। यत्तु समस्तपदद्वयजन्यबोधप्र- कारस्य विशेषणविशेष्यधर्मद्वयस्य यत्र परस्परव्यभिचारस्तत्रैव समासो नान्यत्रैतदर्थमुभ- योपादाननिति; तान्न ! कैलासाद्रिः भावपदार्थ:, तर्क विद्येतिप्रयोगाणामसङ्गत्यापत्तेः । युवाखलतिपलितवलिनजरतीभिः–ननु 'विशेषणं विशेष्येण बहुलमि' त्यने- नैव समाससिद्धौ प्रयोजनाऽभावाव्यर्थमेवैतत्सूत्रमित्यत आह-पूर्वनिपातनियमार्थ सूत्रमिति-पूर्वसूत्रेण समासे युवतिशब्दस्य पूर्वप्रयोगानियमोऽनेन समासे सूक्तशब्द- स्यैव पूर्वप्रयोग इति तदर्थमेव सूत्रमिति भावः । ननु सूत्रे पुंलिङ्गयुवनशब्दस्यैवोपादानात्तस्य खलतीजरतीशब्दाभ्यां सामानाधिकर- गयाभावेष समासाऽप्राप्त्या युवखलती युवजरतीत्यादि न स्यादित्याशंका समाधत्ते- लिंगविशिष्टपरिभाषया युवतिशब्दोऽपि समस्यते इति-(प्रातिपदिकग्रहणे लि. विशिष्टस्यापि ग्रहणमिति परिभापास्वरूपम् । प्रातिपदिकस्य ग्रहणे लिङ्गबोधकप्रत्यय- विशिष्टस्य अपिशब्दात्केवलस्याऽपि ग्रहणम्बोध्यमिति तदर्थः । तथाचोक्तपरिभाषया सू. जोपात्त्युवमच्छङदेन युवतिशब्दस्यापि ग्रहणात्तस्याश्च खलत्यादिसमानाधिकरणत्वादुक्तप्र. - तत्पुरुपसमासप्रकरणम् । मागोपत्तो न किमपि बाधकमिति भावः । ननु सूत्रे समानाधिकरणाधिकारण एकार्थबोधकत्दरूपसामानाधिकरण्याऽभावाद्युव- जरताति प्रयोगो न स्यादित्यत आह-युवत्यामेव जरतीय एलरभनेत्यादि- बोधकालीनेच्छाजन्यज्ञानस्यारोपरूपत्वाज्जरतीत्वस्य युक्त्यामारोपायुवत्या अपि जाति- सामानाधिकरण्येन समासे उक्तप्रयोगोपपत्तिः । जरत्यां तु न युवतीत्वधर्भारोपः, तथा सति युवतीशब्दस्य विशेषणलेन विशेषणसमासेऽपि नियमतो युवतीशब्दस्य पूर्वनिपातसिद्धौ पूर्वनिपाताय कृतस्य सूत्रस्य वैयोपत्तेरितिभावः । कुमार श्रमणादिभिः-ननु सूत्रे कुमारशब्दस्य पाठात्तस्य श्रमणादिभिः सामाना- धिकरण्याऽभावात्कुमारी श्रमणा कुमारश्रमगति प्रयोगो न स्यादिति चन्न । लिङ्गविशिष्ट- परिभापपा कुमारशब्देन कुमारीशब्दस्थ ग्रहणात्तस्य च श्रमणादिशब्दन समानाधिकरण- त्वात्समासे उक्तप्रयोगोपपत्तेः । एतदेव कुलारग्रहणमुक्तपरिभाषाज्ञापक्षमिति बोध्य- मित्यलम् । ननु निलक्षिकमित्यादावव्ययीभावस्य चारितार्थ्यादविघ्नमित्यत्र विनानामभाव इति विग्रहे परत्वात्तत्पुरुषः ल्यादित्याह-अर्थाऽभावेऽव्ययीभावेन सहायं विक- ल्पत इति-पूर्वपदार्थप्राधान्येऽव्ययीभावः, उत्तरपदार्थप्राधान्ये तत्पुरुष इत्यादिरीत्ये- ति भावः । न्यायसिद्धे प्रमाणमप्याह-रक्षोहागमलध्वसन्देहाः प्रयोजनमिति ! अद्रुतायामसंहितमिति-असन्देह इत्यस्य सन्देहाऽभावो [ निश्चय ] इत्यर्थः । प्रमा- णभूतमुपन्यस्तं द्वितीयं वार्तिक संहितासूत्रस्थमिति बोध्यम् । दूताभिन्नायां मध्याविल- म्बितवृत्तौ संहिताऽभाव इत्यर्थः । अव्ययीभावे कृते, द्वन्द्वे परवल्लिङ्गनोपपन्नस्य असन्देहा इति पुंल्लिङ्गप्रयोगस्याऽनुपपत्तिः । द्वितीये द्रुतायामिति स्त्रीलिङ्गप्रयोगाऽनुपपपत्तिश्च । उक्तभाष्यवात्तिकप्रयोगेण नञ्तत्पुरुषसमासस्याव्ययीभावेन वैकल्पिकत्वज्ञापनादनुपलब्धि- रविवाद इत्याद्युपपन्नमिति भावः । न चाऽविद्यामाना विघ्ना यस्मिन्निति बहुव्रीहिणा अ- विघ्नं कर्मत्याधुपपत्तावव्ययीभावस्योदाहरणमिदं किमर्थमिति वाच्यम् ! उत्तरे कर्मण्यवि- भ्रमस्त्वित्यादेरव्ययीभावं विनाऽनुपपत्तेरिति प्राञ्चः । शेखरकृतस्तु--भाष्ये उत्तरपदस्य धर्मपरत्वान्नजतत्पुरुषोऽन्यपदार्थप्रधानः, न वि- द्यते ब्राह्मण्यं यस्मिन् सोऽब्राह्मणः इति, । नच बहुव्रीहेरन्यपदार्थप्रधानत्वस्य प्रसिद्धत्वा- न्नन्तत्पुरुषस्याऽन्यपदार्थप्रधानत्वे बहुबीहेवैयर्थ्यमिति वाच्यम् । उत्तरपदस्य धर्मिपरत्वे बहुव्रीहेश्चारितार्थ्यात् । उत्तरपदस्य धर्मिपरत्वे बहुव्रीहिसमासाऽऽश्रयणादेव 'अनेकमन्यप. दार्थे' इत्येतत्सूत्रस्थं (नमोऽस्त्यर्थानामुत्तरपदलोपश्चे)ति वार्तिकं सङ्गच्छते । न च बहु ब्रीहेरन्यपदार्थप्रधानत्वेऽस्य इत्यादौ सर्वनामकार्य न स्यादिति वाच्यम् । 'एतत्तदोःसुलोपो ऽकोरनज्समासे हलि' इत्येतज्ज्ञापकात्तत्र सर्वनामकार्योपपत्तेः । नोक्तार्थे सम्पूर्णसूत्रस्य ज्ञा- पकत्वम् ; किन्तु तदेकभूतस्याऽनजसमास इत्यस्यैव तत्त्वमिति बोध्यम् , तथाहि यदि अस इत्यादौ सर्वनामकार्य न स्यात्तदा 'हल्याब्भ्य' इत्यनेन सुलोपस्य दुरित्त्वादनसमा- सग्रहणं व्यर्थमेव स्यादिति भावः । तत्र भाष्ये नञ्तत्पुरुपस्यान्यपदार्थप्रधानत्वपक्षे अव. र्षा हेमन्त इत्यादौ विशेष्यतल्लिङ्गवचनापत्तिर्दोष उक्तः । नच 'लिङ्गमशिष्यं लोकाश्रयत्वा- ।

फक्किकारत्नमञ्जूषा । दि त्यनेन लिङ्गदोषपरिहारसम्भवात्तदापत्तिप्रदर्शनमयुक्तमिति वाच्यम् । उक्तयुक्त्या लिङ्गदोष परिहतेऽपि वचनदोषापत्तेस्तादवस्थ्यात् । नन्तत्पुरुषस्याऽन्यपदार्थप्रधानत्वपक्षेऽवर्षा हेमन्त इत्यादौ वचनदोपस्य दुरित्वात्त- घ्यावृत्त्यर्थन्नस्तत्पुरुषस्य पूर्वपदार्थप्रधानत्वमेवास्तु । अत्रापि पक्षेऽस इत्यादौ पूर्ववत्स- बनामकायोपपत्तिः। न चाऽवर्षा हेमन्त इत्यत्र पूर्वपदस्य नजोऽव्ययत्वात्तदर्थप्रधानस्य नस्तत्पुरुषस्य लिङ्गसंख्याभ्यां योगाऽभावात्तस्य पूर्वपदार्थप्रधानत्वाऽभ्युपगमेन कथन्तत्र- त्थदोषपरिहार इति वाच्यम् । शब्दशक्तिस्वभावाद्वाक्ये नमोऽसत्वभूतार्थाऽभिधायित्वे- ऽपि समासे सत्त्वभूतार्थाऽभिधायित्वेन लिङ्गसंख्यान्वयसम्भवात् । यद्वा गुणवाचकशब्दा. नामाश्रयगतलिङ्गादिवत्समासार्थप्रतियोगित्वेन यदव्यं श्रितस्तद्रव्यस्थलिङ्गादिसमा- सस्य भविष्यति । अभावस्पसमासार्थस्य प्रतियोगित्वेन वर्षास्पद्रव्याश्रयणादेतद्गतलिङ्गादिसमासस्य सुलभमेषेतिभावः । समासार्थेनाऽभावेन प्रतियोगिनोऽपि स्वज्ञानायाऽऽश्रयणादभावस्या- ऽपि प्रतियोग्याश्रयतया नोक्तदोषाऽवकाशः । नघटितसमासघटकेन वर्षाशब्देनाऽभाव- स्योपस्थित्या वर्षाशब्दरूपाश्रयस्यैव ग्रहणमुचितम् । प्रतियोगिन आश्रयत्वाकल्पने अव- र्षा हेमन्त इत्यादौ विशेष्यभूतहेमन्तगतलिङ्गवचनापत्तिदोषदूषितादन्यपदार्थप्रधानो न तत्पुरुष इतिपक्षादङ्गीकृतेऽपि पूर्वपदार्थप्रधानत्वपक्षे विशेष्यगतलिङ्गवचनाऽऽपत्तिरूपदो- पस्यातदवस्थत्वेन अस्तु तर्हि पूर्वपदार्थप्रधान इति भाष्याऽसङ्गतिः । पूर्वपदार्थप्रधानत्व- पक्षस्य निर्दोषत्वादेतत्समकक्षया [ अथवा पुनरस्तूत्तरपदार्थ प्रधान ] इति भाष्यकृदुक्ते. रसङ्गतिश्च । प्रतियोगिन आश्रयत्वाकल्पयितृरीत्या पूर्वपदार्थप्रधानत्वपक्षे दोषस्य स्थित- त्वादस्तु तद्युत्तरपदार्थप्रधान इति वक्तुमुचितम् । उक्तपक्षद्वयेऽपि 'अनेकमन्यपदार्थे। इति सूत्रेऽनेकमित्यत्र वक्ष्यमाणैकवचनासिद्धिं मनसि निधाय नन्तत्पुरुषस्योत्तरपदार्थप्र- धानत्वं सिद्धान्तितम्भाष्यकृता। उत्सर्गतस्तत्पुरुषस्योत्तरपदार्थप्रधानत्वम्भवति । अत्र नञ्तत्पुरुषस्य पूर्वपदार्थप्रधानत्वपक्षेऽस्याऽव्ययीभावाऽपवादत्वेनाऽव्ययीभावस्य बाधनात् , ननाव्ययीभावाऽभावोऽवश्यं स्वीकर्तव्यः । अन्यथा नञ्तत्पुरुषस्य पूर्वपदार्थप्रधानत्वपक्षेऽ- व्ययीभावापवादत्वं स्यात् । अतोऽत्यन्ताऽभावार्थकस्य नमः क्रियादिप्रतियोगिकाऽभाव- बोधकत्वादुत्तरपदार्थेनाऽनन्वयादसामर्थ्यादमक्षिकमित्यादौ नाऽव्ययीभावः । न संदेह इ- त्यादौ संदेहस्य गुणरूपत्वान्ननः सन्देहाऽभावबोधकत्वम्भवत्येव, इत्यभिप्रायेण 'प्रस- न्यायं क्रियागुणौ ततः प्रतिषेधप्रतीतिरिति भाष्य उक्तम् । असन्देह इत्यादौ चाऽऽरोपितः संदेह इति भेदेनाऽऽरोपज्ञानात्सन्देहाऽत्यन्ताऽमात्रप्रतीतिर्भवतीत्याद्याहु- रितिदिक ॥ तत्रोपपदं सप्तमीस्थम्-इदमधिकारसूत्रम् । अस्याऽधिकारत्वादेव, अमैव ल्यविधानमित्यादि प्राचां व्यवहारोपपत्तिः । येन सूत्रेणाऽमो विधानं तेन यस्योपपदसं. ज्ञाविधानमिति तदर्थात् । ननु एकस्य सूत्रस्योभयविधायकत्वन्न सम्भवतीति चेन्न । 'कर्म- ज्यणि त्यादौ कर्मणीत्यादेः सौत्र्याः प्रथमार्थे सप्तम्याः सत्त्वाद्धातोरण भवति, कर्म चो- पपदसंज्ञमितितदर्थादेकस्याऽप्युभयविधायकन्धदर्शनात् । अत्र सूत्रे सप्तमीपदस्य तदन्तप- तत्पुरुषसमासप्रकरणम् । १ स्तम्य- तत्स्थं तवाच्यमित्याह-सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन लिय- नमित्यादि । उपपदमितिमहासंज्ञया तत्रेत्यत्र प्रथमार्थे सप्तमीबलेन च लब्धार्थमाह- नद्वाचकं पदमिति-अन्न पदमित्यनेन विभक्त्यन्तस्य ग्रहणे स्तम्वेरमः, कर्णजपः, इत्यत्र स्तम्बकर्णयोरुपपदत्वाऽनुपत्तिस्तयोरविभक्त्यन्तत्वादिति वाच्यम् । कर्णयो रमिजपोरित्यत्र सुपीत्यधिकारेण स्तम्बकर्णयोस्वप्रकृतिकपुत्रन्ने लक्षणमा नरो- विभक्त्यन्तत्वेन तत्त्वोपपत्तेः । तत्र लक्षणाया अनङ्गीकारे उपपदमिति महामंशा स्योपपदसंज्ञकसुबन्तस्यासत्वात् स्तम्वेरमः, कणेजप इत्यत्र समामानापत्तिः । भुत. म्बकर्णयोरिति सप्तम्याः प्रथमार्थत्वादमिजपोरनन्तरमच् प्रत्ययो भवति स्तम्बको चोर- पदसंज्ञको भवत इत्यर्थापत्या यच्च सुबन्तं न तत्सप्तम्यन्तपदस्थ यश सप्तम्यन्तापान तत्सुबन्तमिति सूत्रार्थाऽनुपपत्त्या समासाऽनापत्तिरित्यर्थः । ननु स्तम्भेगमः, इ. न्यत्र सूत्रे स्तम्बकर्णयोरुपादानसामर्थ्यात्तयोः सुबन्तत्वाऽभाऽपि उपवार : १,५१- न्वात्संज्ञाया; सुलभत्वात्समासोपपत्तौ तत्र तदनुपपत्तिप्रदर्शनं न युनियुमिनि । तयुक्त्योक्तस्थलीयसमासाऽऽपत्तिपरिहारेऽपि समाससंज्ञा विधायकशाग्रं 'उपा..गा ति सूत्रे प्रथमान्तसुवन्तसुप्ग्रहणस्याऽनुवर्त्तनात्प्रथमान्तस्यैवोपपदांजक बन्नरयो अमासविधानेन 'सुप्यजातावि' ति णिन्यन्ते राज्ञः दर्शात्यादी समामा नापत्तागया ! तत्र प्रथमान्तं सुबन्तमेवोपपदं समस्यते इत्यर्थस्तु मुशीतिसप्तम्याः प्रथमाया : तथा च राजानं पश्यति तच्छीलेतिविग्रहपरोक्तप्रयोगे दुरिमेवोनदामिनि । म दमतिङिति सूत्रस्याऽवृत्याऽर्थद्वयकरणात्प्रथमान्तसुबन्तोपपदस्यान्यविभयान बना • पपदस्य च समासे न कुत्राऽऽप्यापत्तिरिति वाच्यम् । गौरयादर्थयकरण गण क्यत्वात् । उपपदमिति महासंज्ञाविरोधाच्च । स्तम्बकणंति प्रातिपदिश्या: पब तयोरुक्तसंज्ञाऽङ्गीकारे स्पष्ट एव महासंज्ञाविरोध इति भावः । एतेन पर चापपा भवतीत्यर्थादायातमिति ज्ञेयम् । 'मुप्यजातो णिनिम्ताच्छील्ग' मुभि:-:' इन गति विषये सप्तम्यन्तपदवाच्यत्वरूपतत्स्थत्वमादाय सुप्यजाताचिल्यादान ग.:. it.! दनेऽपि 'विभाषाग्रे प्रथमे' त्यादौ सुपीत्यस्याऽनधिकागदप्रेशदादोनों कथगुपए, f. वाच्यम् । उक्तस्थले तदनधिकारेऽपि महामंज्ञावटना ग्रादिश-दाना frium क्षणया तत्त्वोपपत्तेः॥ महासंज्ञाकरणसामर्थ्येन विभक्त्यन्तस्यैवोपपदसंज्ञास्वीकाराम, पति प्रणा तद्योगद्वये सुपसुपेति निवृत्तमित्युक्तमुपपदमतिभिति सूत्रे भाग । - Yof.. पदमुपपदम् । सामीप्यञ्च सप्तम्यन्तपदघटितसूत्रविधेयप्रन्ययप्रकृत्या भिम ... ऽनुपूर्व्यव्यवधानम् । 'कर्मण्यण' इति सूत्रे उष्ट्रप्रणायमितिभाप्योबाहरणा-1 ! मन पसर्गे कः' इत्यत्राऽनुपसर्गग्रहणाञ्च । नच आनुपूर्व्यव्यधानम्पयामीप्य-यानाः श्रय “गुरुं नमस्कारोतीत्यादावण दुर्वार इति वाच्यम् । भवन्तं शृणानान्गादविाम मिधानादणोऽप्रवृत्तेः। नन्वेतत्सूत्रस्याऽधिकारमुत्रन्त्र 'नय, गाहणं व्ययमधिग, तधात्वधिकारविषयतायाः सिद्धत्वादित्यत आह-तम्मिश्च सत्यनि-उप में वेत्यर्थः । अयम्भाव;-तत्रग्रहणाऽभाचे 'धः कर्मणि ट्रन्' इन्याहौ यथा समयभिसा ।

६० फक्किकारत्नमञ्जूषा। । प्रत्यया भवतीत्यर्थो भवति तथैव 'कर्मण्यणि त्यादौ कर्मण्यभिधेयेऽण् प्रत्यय इत्यर्थ कर्तर्यणप्रत्ययाऽनापत्तिः । किञ्च सप्तम्यन्तनिर्देशस्योपपदसंज्ञार्थत्वेन चारितार्थ्यात्केवला- दपि धातोः कर्तर्यणप्रत्ययसम्भवः । कृते तु तस्मिन् कुस्माद्युपपदस्थ प्रत्ययोत्पत्तिहेतुभूत- त्वेन केवलादुक्तप्रत्ययापत्तिशङ्काकलकोदयावसरो नैवास्तीति । अनेन च सूत्रेण प्रत्ययवि. शेपस्य पदसंज्ञासन्नियोगशिष्टत्वं बोधयति । यस्य प्रत्ययविधायकशास्त्रम्य सप्तम्यन्तपक- बाक्यता वा भवति तेन शास्त्रेण प्रत्ययविशेषस्य सतम्यन्तपदस्योपपदसंज्ञायाश्च युगप- द्विधानम्भवति यस्य तु प्रत्ययविधायनशास्त्रस्य नोक्तरूपत्वं तस्य केवलप्रत्ययमात्रविधा- चकत्वमेव । यथा तव्यत्तव्यानीयर इत्यादिशास्त्राणां केवलप्रत्ययविधायकत्वमेवेति तदा- शयः । प्रत्ययविधेरुपपदसंज्ञासन्नियोगशिष्टत्वाऽनङ्गीकारे त्वन्वाचयशिष्टत्वापत्तिः । अय- म्भावः-कर्मण्यणित्यादौ यस्मिन्प्रयोगे कर्मणो विधीयमानाऽण्प्रत्ययप्रकृत्यर्थाऽन्वयित्व- न्तत्रप्रयोगे कर्मण उपपदसंज्ञाऽपि भवति । धातोरणप्रत्ययस्तूपपदाऽभावेऽपि भवतीति सम्भाव्येत । नच सूत्रे कर्मणीति सप्तम्यन्तपदसत्त्वात्कथन्तदभावे प्रत्ययलम्भव इति वा- च्यम् । कर्मणीतिसप्तम्यन्तपदोच्चारणस्य यत्र तादृशस्य समीपोच्चारितत्वन्त्रोपपदसंज्ञा- विधायकत्वेन चारितार्थ्यात् । अत्र सूत्रस्य प्रथमार्थसप्तम्यामेव प्रवृत्त्या 'भुवो भावे' इ. त्यादौ भावेऽथें भुवः क्यबित्यर्थाद्धावे इति अधिकरणसप्तम्यां न प्रवृत्तिरिति बोध्यम् । उपदेशेऽजनुनासिक इदि, ति सूत्रे प्रवृत्युपयोग्यानुनासिकत्वव(१)लक्ष्यानुरोधेनैव काचि. सप्तमी प्रथमाथे काचित्स्वार्थाऽधिकरण एवेति व्यवस्थाऽनुमेयेत्यलं पल्लवितेन ॥ उपपदमतिङ्-सूत्रे सुबन्तस्याऽसत्वादुपपदेतिमहासंज्ञावलात्तल्लाभस्तथा च उपप- दस्य सुबन्तस्य समर्थेन नित्यं समास इत्यर्थः । सुबन्तस्योपपदसंज्ञास्वीकारादेव 'राजनि युधि कृजः' इत्यत्र राजनीति सप्तम्याः प्रथमार्थत्वकल्पनात्सुबन्तस्यैव क्वनिप्प्रत्ययविधान- ससकालिकोपपदसंज्ञास्वीकारेण राजानं योधितवतीति राजयुध्वेत्यादौ नलोपो जातः । सूत्रेऽतिङितिपदे न तिङ् यस्मिन्निति बहुव्रीहिणा तिङन्ताघटित उपपदसमास इत्य) ण्वुविधायकसुत्रस्थायाः क्रियाशंयां क्रियायामिति सप्तम्याः प्रथमार्थत्वेन एधानाहारको व्रजतीत्यत्र व्रजतीत्यस्य विभक्त्यन्तम्योपपदत्वेऽपि तिङन्तत्वान्न समासः । नच तस्योपपदसंज्ञा विधाने किम्फल मिति वाचाम् । तढच्चारण एवं प्रत्ययोत्पत्तैरेव फलत्वात् । एवञ्च तिङन्तस्य नोपपदसमास इति फलितमित्याह-अतिङन्तश्चायं - मास इति--कथमपि तिङन्ताघटितः समाससंज्ञकः समुदाय इत्यर्थः । कुम्भ अस कार इत्यलौकिकं प्रक्रियावाक्यमिति । समासप्रवृत्तियोग्यं लोके प्रयोगाईमित्यर्थः । ननु [अ- न्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते ] इतित्यायनलेन 'सुपो धातुप्रालिपस्कियोरि त्येत- सूत्रनिहितलुका 'लशक्वतद्धिते' 'तस्य लोपः' इति सूनद्वयविहितयोः उकारस्येत्संज्ञालोप- यो धेन कुम्भ मा इत्येवं प्रदर्शनर-य युक्त्तवाटुक्तवाक्यप्रदर्शनं न युक्तपिति चेन्न । इत्सं- (१) लक्ष्याऽनुरोधेनैवेति । ब्रह्मभूयमित्येतच्छब्दजन्यशाब्दवोधे धात्वर्थभवनस्यैव विशेष्यत्वेन भानस्याऽनुभवसिद्धत्वाद्भाव इति सप्तम्या न प्रथमार्थत्वम् । भव्यम्प्रभव्यमि- त्यादौ क्यपोऽदर्शनात् 'अनुपसर्गे सुपि' इत्यनयोस्तु प्रथमार्थत्वमेवेतिकल्पनवल्लक्ष्यानुरोधेन कल्पनीयमिति भावः ।।

तत्पुरुषलमासप्रकरणम् । ६१ । ज्ञालोपयो धाऽबाधयोः फले विशेषाऽभावेनोक्तन्यायाप्रवृत्तः । अत्र 'कर्तकर्मणोः कृति' इत्यनेन कृयोगलझगा पष्ठी। नवाऽन्तरङ्ग परिभाषया द्वितीयाया दुर्वारत्वात्कथ षष्टीति वाच्यम्। (प्रकल्प्य चापवादविषयं तत उत्सर्गः प्रवर्तते) इति न्यायेन पष्ठया एवं प्राप्तः । न- चोक्तसूत्रेग षष्ठोविधानात्पष्ठीसमासत्यैव सुलभत्वेन तं विहायोपपदसमासः कथमिति वा- च्यम् । विभक्त्युत्पत्तेः पूर्वमेवाऽन्तरङ्गत्वादुत्तरपदे उपपदसमासप्रवृत्तेः । नच कृद्योगलक्ष- षष्ट्याः कारकषष्ठीत्वेनाऽन्तरंगत्वात्षष्ठीसमासस्याऽपि विभक्त्युत्पत्तेः पूर्व प्रवृत्तौ कुतो नाऽयमेव समास इति वाच्यम् । सत्येवमस्य समासस्यैवेष्टत्वात् । नव षष्ठीसमासस्य नित्यत्वादेतत्कृतप्य तत्पुरुषसंज्ञाप्रयुक्तैकार्थीभावरूपसामर्थ्यस्याऽनपगमेनोक्तसमासप्रवृत्तेः। गुकस्या एव संज्ञाया उभाम्मामपि प्रवृत्त्याऽविरोवेन युगपदेवोभाभ्यां सेति भाष्ये स्पष्टमत्र -सूत्रे । (१)एवञ्च द्वितीयाश्रितेत्यादिसूत्रविहितसमासोऽप्युत्तरपदे सुत्रुत्पत्तेः प्रागेवेति बोध्यम् । (२)अतएव परिभाषायां कारकेतिसामान्यत एवोक्तम् । भाष्यकृता च न कार- कांशे प्रमाणमुपन्यस्तम् । नच प्रकृतसूत्रस्थभाष्यात्परिभाषा न कर्त्तव्येत्यवगमेन परिभा- पाघटककारकांशे नोपन्यस्तं भाष्यकृता प्रमाणमित्युक्तिन संगतिमाप्नोतीति वाच्यम् । प्रकृतसूत्रस्थभाष्यस्य विशिष्टायाः परिभाषाया अकर्तव्यपरत्वेनादोषात् । उक्तभाष्यस्यै- तत्परत्वादेव परिभाषाप्रत्याख्यानोत्तरमपि गतिकारकेति समासवचनादित्युक्तम् । तेन कारकांशो वाचनिक इति लभ्यत इति ॥ ननु सूत्रेऽतिपदसत्त्वात्तिङन्तस्य समासाऽभावबोधनं तत्सुपाऽधिकारेणैव सिद्धञ्चे- द्ध्यर्थं तद्ग्रहगमित्याशयेनाशक्ते-अतिङ्किमिति । समाधत्ते-मा भवान् भूदिति । कारको व्रजतीत्यादिभाष्योकल्याऽप्युपलक्षगमिदमिति बोध्यम् । अत्र समासाऽभावं सूचयितुमेव मध्ये भवानिति प्रयुक्तम् । अयम्भावः-अतिङ्ग्रहणाऽसत्त्वे तिङन्तेन समा- सापत्तिः, 'माङि लुङिति सप्तमोनिर्देशेन माङ उपपदत्वात्। नच सुपाधिकारस्य प्रागेवो- कत्वात्सुबन्तस्यैव समासेन तिङन्तस्य समासाऽभावाड्यर्थमेव तदिति वाच्यम् । तस्य वक्ष्यमागारिभाषाज्ञापनेन साफस्यात् । तथाहि-माङ उपपदत्वे तादृशमहासंज्ञाकरणब- लात् कर्तु देवदत्तो घट ग्राम व्रजतोति प्रयोगवत् 'ऐऔच्? 'तद्वितार्थति सूत्रद्वयस्थभा- व्याद्वित्रिपदव्यवधाने प्रयोगाऽभावबोधनेन माङि लुङिति सप्तम्याः प्रथमार्थत्वाऽभावा- तस्योपपदत्वे मानाऽभावेन तस्योपपदत्वे फलाऽभावेन चोक्तप्रत्युदाहरणभूतोक्तप्रयोगे -समासापत्यभावाड्यावाऽभावेन व्यर्थमतिमहणं ज्ञापयति नात्र सत्रे सुपेत्यस्यानुवृत्तिः 'कुगति प्रादयः' इत्यत्राऽपि न तदनुवृत्तिः । तत्र 'कुप्रादयः 'गतिः' इति योग विभज्य कुप्रादयः सुबन्ताः सुबन्तेन, समस्यन्ते, गतिश्च सुबन्तोऽतिङन्तेन समस्यत इत्यर्थः । तथा च सिद्वेषा परिभाषा (गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः ) (१) गतिकारकेति परिभाषायां कारकशब्दमात्रस्योपादानात्कारकविभक्त्यन्तस्य कृ- द्भिः समासविधायकशास्त्राणां कृदन्तात्सुबुत्पत्तः प्राक् प्रवृत्तिरित्यस्य सिद्धौ चेत्यर्थः । (२) परिभाषायाः कारकसामान्यविषयत्त्वादेवेत्यर्थः । ६फ०म० ६२ फक्विकारत्नमञ्जूषा। -- इति । उन्हयुक्त्या गत्युपपदयोर्लाभः कारकांशस्य तु 'कर्तृकरणे कृता बहुलमिति सूत्र- स्थबहुलग्रहणाल्लाभः । परिभाषाफलं प्रदर्शयन् गतिगुदाहरति-व्याघ्रीति । अत्र व्याडा शब्देन गति- समासः । अस्य समासस्य सुबन्तस्याऽपेक्षणे तु सुबुत्पत्यथ संख्याऽपेक्षणात्ततः पूर्वमेव लिङ्गयोगात्तन्निमित्तकप्रत्ययष्टावेव स्यान्न ङीप । अविभक्त्यन्तस्य प्रशब्दमानस्य जाति- वाचकत्वाऽभावेन च डीप न स्यादिति भावः । नच परिभाषाघटकांशत्रयस्य मध्ये गत्यं- शोदाहरणस्योपपदत्वेन सिद्धत्वाद्ध्यर्थ एव स इति वाच्यम् । आङ उपपदत्वेन तस्य घ्रश- ब्देन समासेऽपि पश्चाद्विशब्देन समासार्थ गत्यंशस्याऽवश्यकत्वात् । आङः 'नः संज्ञाया- मित्यनेनापर्वकात् प्राधातोः कप्रत्ययविधानादाङ उपपदत्वं न विशब्दस्येति भावः । कारकमुदाहरति-अश्वकोतीति । अत्राश्वेन क्रीतेति विग्रहे ‘कर्तृकरणे कृता बहुल- मित्यनेन समासः । 'क्रीतात्करणपूर्वादिति डिषु । सुबन्तेन सति समासे पूर्वोक्तयुक्त्या दाप्यदन्तत्वाभावान्नासाविति भावः । उपपटसुदाहरति-कच्छपीनि । कच्छेना पिब- तीति विग्रह 'सुपीति योगविभागात्कः । अनाऽपि मुवन्तेन समासे व्याघ्रीत्यत्रेव डीए न स्यादिति भावः । क छेन साधनेन पीबतीत्यर्थे कच्छस्य कारकत्वादस्यैवोदाहरणमिदं नोपपदस्य; तथा च माषवापिणीत्यस्योदाहरणम् । अत्र माषोपपदाद्वपधातोः 'सुप्यजाता- विति णिनिः । ततो माषोपपदस्य कृदन्तेन समासे 'प्रातिपदिकान्तनुविभक्तिषु चेति सूत्रेण पूर्वपदस्थनिमित्तात्परस्य समासप्रातिपदिकान्तनकारस्य णत्वसिद्धिः, सुबन्तेन समासे तु अन्तरंगत्वान्नान्तलक्षणडीपो दुर्वारतया ततो वापिनीशब्देन समासे गर्गभगिनीत्यत्रेव ण- त्वानापत्तिरित्येके । कच्छेत्यस्य कारकत्वाऽभावाद्युक्तमेवोदाहरणमुपपदस्येत्यन्ये इति दिक्। अह्नष्टखोरेव । ह्यहीन इति । द्वे अहनी भृतः क्रतुरिति विग्रहे तद्धितार्थोत्त- स्पदसमाहारे चेत्यनेन तद्धितार्थे द्विगौ 'तमधीष्ट' इत्यधिकारे द्विगोर्वेत्यनुवर्तते रात्र्यहः सम्वत्सराच्चे त्यनेन खे तस्मिन् 'अष्टखोरेवे त्यनेन टिलोपे खस्येनादेशे चोक्तरूपसिद्धिः । ननु खस्य टिलोपमात्रफलकत्वाऽभ्युपगमे तत्र तद्धितार्थं द्विगौ विहितेन ट्चैव टिलोपसि. दौ खग्रहणं व्यर्थमिति चेन्न । समासान्तविधेरनित्यत्वेन टचोऽप्रवृत्त्या खग्रहणस्य सार्थ- क्यात् । समासान्तविधेरनित्यत्वादेव द्विगोवत्यनुवर्तमाने रात्र्यहासम्वत्सराच्चेत्यस्य चारितार्थ्यम् । नच 'अहटखो रित्यनेन खे परे टिलोपविधानसामर्थ्यादेव समासान्तवि- धष्टचोऽप्रवृत्तौ तस्याऽनित्यत्वपर्यन्तानुधावनं खपुष्पग्रहणवन्निष्फलमिति वाच्यम् । अहीन इत्यत्र खे टिलोपविधानेन अह्न खोरित्यस्य लार्थक्यात्सामर्थ्याऽभावेन समासान्ताऽभावा- ऽसाधकत्वेनोक्तविधेरनित्यत्वमन्तरा उचो दुरितयोक्तविधेर नत्यत्वपर्टन्तानुधावनस्य सा- फल्यात् । नच टचि को दोप इति वाव्यम् । “अहो-ह्न पुतेभ्यः' इत्यनेन व्यहीन इत्यस्याहादेशेना सिद्धयापत्तेः । नच प्रमाणाऽभावात्समासान्तविधरनित्यत्वं न स्यादि- ति वाच्यम् । अश्वादिगणे राजन्छन्दपाठल्यैव तत्र प्रमाण वात् । तथाहि-प्रतेश्वादय- स्तत्पुरुषे इत्यनेनाऽन्तोदात्तार्थमश्वादिगणे राजन्छदपायः स चायं समासान्तविधेरनि- त्यत्वे सत्येब सफलः, अन्यथा टचैवान्तोदात्तत्वसिद्वौ तदर्थ कृतस्याश्वादिगणे राजञ्छ- ब्दपाटस्य बैयापत्तरित्यलम् ।

तत्पुरुषसमासप्रकरणम् । स्त्रियामदन्तत्वाट्टाविति । ननु 'रात्राऽन्हाहाः पुंसि' इत्यनेन रात्रिशब्दान्ता- ऽहन्शब्दान्ततत्पुरुषयोः पुंस्त्वविधानात्प्रकृतेऽहन शम्दान्ततत्पुरुषस्य पुंस्त्वबोधनात्स्त्री- त्वस्य दुर्लभतया स्त्रियामित्याद्युक्तिर्न सम्यगिति चेन्न । सर्वमहः सर्वाह इत्यत्र पुंस्त्ववि- धानेन सफलल्यांकवचनस्य लुप्ततद्धितेऽप्रवृत्तेः। न च प्रमाणाऽभावात्कयमिह तदप्र. त्तिरिति वाच्यम् । 'लुपि युक्तवद्वचनमित्यस्यैव तत्र प्रमागत्वात्। तथाहि-लुप्तप्रत्य. येवपि प्राकृतलिङ्गाऽनुशासनप्रवृत्यभ्युपगमे स्पटमेव तद्वैयर्थ्य स्यात् । लुप्तप्रत्यये प्राकृ- नलिङ्गाऽनुशासना प्रवृत्तेरव लवणः सूपः, लवणा यवागूरित्यादौ क्लोवत्वं न । नच द्वयो- रहोर्भवेति विग्रहे 'कालाजित्यनेन विहितस्य टओ द्विगार्जुगनपत्ये' इत्यनेन लुकि 'राजाहः सखिभ्यः इति टचि टिलोपेह्लादेशे च निष्पन्नस्य यह्नशब्दस्य ठअन्तत्वेन 'टि- बुढाऽगनि तिडीपो दुरितया टावित्युक्तिर्न समीचीनेति वाच्यम् । अनुपसर्जनीभूतस्य उजओ योऽका रस्तदन्तप्रातिपदिकान्डीविधायकसूत्रार्थ वर्णाश्रयत्वन ( वर्णाश्रये नास्ति प्र- त्ययलक्षणमि) ति निषेधात्प्रत्ययलक्षणाप्रवृत्त्या ठोऽसत्त्वेन डीपोऽप्रवृत्तः । नचैवं परि- हारेऽपि टचप्रत्ययस्य टित्वान्डीप् स्यादवेति वाच्यम् । टचः समासान्तत्वात्तद्धितार्थम्प्र- ति तस्योपसर्जनत्वेन तदप्रवृत्तेः । अत एव आपिशलिना प्रोक्तमधीयाना ब्राह्मणी आ- पिशलेत्युदाहृतम्भाष्ये । नच ( संख्या पूर्वी द्विगुरि )त्यनेन द्विगुसमास (द्विगोरि)त्यनेन डीप दुर्वार एवेति वाच्यम् । उक्तडीब्विधायकस्य 'अपरिमाणबिस्ताऽचितेति निपेधेन तदप्रवृत्तेः । अतोऽत्र टाब एव युक्तत्वात्तथैवोदाहृतमित्यलं पल्लवितेन । दोघोन्ही प्रावृडिति । दीर्वानि अहानि यस्यामिति विग्रह 'अलोऽन्हः एतेभ्यः इत्यनेनाऽन्हादेशे (क्षुम्नादिषु चे)ति त्वनिषेधे रूपं सिद्धयति । यत्तु प्राचा । उक्तप्रयोगे णत्वाऽभावोऽदन्ताहादेशाऽभ्युपगमेनोपपादितः स तदाया. सो मुधैव, 'प्रातिपदिकान्तनुम्विभक्तिधु चे'.त्यनेन प्राप्तगत्वव्यावृत्यर्थे तज्य क्षुम्नादिगणे पाठल्यावश्यकत्वेन तदुपपत्तेरिति भावः । ननु (लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहगमि)ति परिभाषया 'सन्महत्परमो. त्तमोत्कृष्टाः पूज्यमानैः' इत्येतत्सूत्रविहितप्रतिपदोक्तसमासस्यैवाऽत्र ग्रहणं स्यात्तथा च तत्र यदुत्तरपदं तस्मिन्नेव परे आत्वविधानं नान्यस्मिन्निति व्यर्थ समानाधिकारग्रहणमिति चेन्न । तस्य सामर्थ्याटुक्तपरिभापाऽप्रवृत्तिकल्पनेन साफल्यात् । एवञ्च महाबाहुरित्यत्र नाऽऽत्वानुपपत्तिः । उक्तप्रयोगे महान्तौ बाहू यस्येति बहुव्रीहिः ॥ ननु आन्महत इत्यनेन महच्छब्दस्यात्वविधानादुत्तरसूत्रे यष्टनोरेव ग्रहणाच्च सर्वथा- प्राप्त्या एकादशेत्यत्राऽऽत्वं न स्याइत आह-आदिति योगविभागादात्वमिति । योगविभागस्य भाष्याऽनारूढत्वमित्यत आह-प्रार्गकादशभ्य इति निर्देशाद्वेति । ननु अर्द्धनावमित्याद्यर्थं लोकाश्रयत्वाल्लिङ्गस्येत्यस्यावश्यकत्वादनेनैव लिङ्गोपपत्तौ लिङ्गविधायकप्रकरणमनावश्यकमिति चेत्सत्यम् । जात्याख्यायामित्या दिसूत्रसमूहवदिष्टा- पत्तेरिति ध्वनयन्प्रकृताऽनुपयुक्तान्यपि तानि व्याचष्टे-जात्याख्यायामित्यादि । जातेः प्राधान्येनाऽऽख्यायामित्यर्थः । भावप्रत्ययमन्तरा प्राधान्येन जातिबोधे गवादिशब्दानां साधुत्वे इदमेव सूत्र मानमिति बोध्यम् । तस्याऽविशेष्यत्वे बाह्यार्थाऽन्वयो व्यक्तिघटित- ६४ फक्किकारत्नमञ्जूषा एवञ्च यथोत्तरं परम्परया बोध्यः । तत्र जातेरेकत्वेनैकवचनं प्राप्नोतीत्यस्यारम्भः । अत्रैकत्वञ्च बहुवच- नार्थः । एकस्मिन्नर्थे वर्तमानः शब्दो बहूनामर्थानां वचनं बोधको भवतीत्यर्थादतिदेश- ऽयमित्याह-एकोऽप्यर्थो बहुवद्भवतीत्यादि । तदुक्तम्भाध्ये-( यावद्यादेकोऽर्थो बहुवदूभवतीति तावदेकस्मिन्बहुवचनामती) ति । एकत्वेऽर्थे बहुत्वप्रयुक्तस्य कार्यस्या- तिदेशात्कार्यातिदेश एवेति बोध्यम् । जातौ संख्यान्वये एकवचनस्य व्यक्तौ संख्याऽन्वये बहुवचनस्य सिद्धत्वादनावश्यकत्वेन भाष्ये प्रत्याख्यातमेतत्सूत्रम् । मुनीनां प्रामाण्यात्सूत्रोक्तार्थेऽसाधुत्वमेव प्रयोगाणामिति बोध्यम् । सविशेषणस्य प्रतिषेध इति । मुख्यार्थे बहुवचननिषेधार्थमिदं वार्तिकम् । यता तु अस्मच्छन्दस्य स्वघटिते उद्भताऽवयवभेदे समुदाये लक्षणा तदा बहुवचनं भवत्येव, तन. 'त्वं राजा वयमप्युपासितगुरुपज्ञाभिमानोन्नताः। इत्यादि सिद्धम् । गाग्र्योऽहं अवीमीत्यादावयं निषेधः । उत्तमपुरुषाऽनुरोधेनाऽत्राह- मित्यस्य स्वविशेष्यत्वादित्यलम् ॥ ननु 'सभाराजाऽमनुष्यपूर्वे' त्यत्र समेत्येको योगः, राजाऽमनुष्यपूर्वेत्यपरो योगः, तत्र सभान्तस्तत्पुरुषो नपुंसकं स्यादित्यर्थकेन सभेतियोगेनैव स्त्रीसमित्यत्र नपुंसकत्वं सिद्धे 'अशालेति सूत्रं व्यर्थमित्यभिप्रायेणाशङ्कते-अशाला किमिति । समाधत्ते-धर्म- सभेति । धर्मशालेत्यर्थः । अयमभिप्राय:-इनसभम् , ईश्वरसभमित्यत्रापि पूर्वयोगेनैव नपुंसकत्वोपपत्तौ व्यर्थः सन्नुत्तरयोगो ज्ञापयति स्त्रीत्वेतरलिङ्गविशिष्टप्राणिवाचकपूर्वपदक- स्य सभान्तस्य तत्पुरुषस्य नपुंसकत्वञ्चेत्तर्हि राजाऽमनुष्यपूर्वपदकस्यैव स्यादेवञ्च स्त्रीत्व- तरलिङ्गविशिष्टप्राणिवाचकपूर्वपदकेतरत्वेन पूर्वयोगे संकोचे कृते स्त्रीत्वेतरलिङ्गविशिष्टप्राणिवा- चकपूर्वपदकेतरत्वाऽभावन इनसभमीश्वरसमित्यत्र नपुंसकत्वा मुत्तरयोगस्यावश्यकत्वेन स्त्रीसभमीत्यत्रेव धर्मसभेत्यत्रापि नपुंसकत्वापत्तिरिति तदर्थमशालेति सूत्रमावश्यकमे वेति दिक् ॥ इति तत्पुरुषः ॥ । अथ बहुव्रीहिसमासप्रकरणम् । शेषो बहुव्रीहिः । असर्वोपयोगार्थकाच्छिषेः कर्मणि धना निष्पन्नस्य सूत्रघटकशेष- पदस्योपयुक्तादन्यपरत्वेन यस्य पदस्याऽर्थस्य वा पूर्वनोपयोगस्तस्य पूर्वमप्रसिद्धिमभिधा- य भाष्यकृता सिद्धान्तितं त्रिकतः शेष इत्येतन्मूलकव्याख्यानात् शेष इ.यस्य प्रथमान्त- त्वाच्च ३ तेन प्रथमान्ताऽपेक्षशेषस्यैव ग्रहणमिति बोध्यम् । पदतः शेषस्य ग्रहणे सामान्यतो विशेषतो वा यस्य पदस्योपयोगस्तदन्याऽप्रसिद्धिः, 'सुप्सुपे' त्यत्र समान्यतः, द्वितीया- भिते, त्यादौ विशेषत उपयोगः । अर्थोऽपि पूर्वपदार्थप्रधानत्वेऽन्यपदार्थप्रधानत्ये चा- ऽव्ययीभावः । उत्तरपदार्थप्रधानत्वे तत्पुरुषः प्रसिद्ध एव, अतो यस्य त्रिकस्य विशिष्य समासो नोक्तः स शेष इति विवक्षितमितिभावः । सशेषःप्रथमान्तमिति । ननूक्त- रेणा प्रथमान्तस्य बहुव्रीहिरिति सिद्धम् , तत्कथं, ( प्रादयां गताद्यर्थ प्रथमया) इति .

बहुव्रीहिसमासप्रकरणम् । ६५ तत्पुरुष समासप्रकरणयवार्तिकेन प्रगत आचार्य इत्यादौ प्रथमान्तस्य तत्पुरुष समासविधा- नादिति चेत्र । उक्तवात्तिकेन प्रथमान्तेन प्रादीनामुक्तसमासविधानेऽपि प्रथमान्तस्योक्तस- मासाविधानादिति भावः । नच कण्ठे काल इत्यादौ व्यधिकरणपदस्यापि बहुव्रीहिदर्शना- त्प्रथमान्तस्यैत्रोक्तास इत्ययुक्तमिति वाच्यम् । तत्र तत्र ज्ञापकसाध्यबहुव्रीहेदृष्टत्वात्। अनेकमन्यपदार्थे । अन्यस्य समस्यमानपदातिरिक्तस्य पदस्थार्थोऽन्यपदार्थस्तन्त्र विद्यमानस्याऽनेकप्रथमान्तस्य वा समासः; स च बहुव्रीहिसंज्ञक इत्यर्थः । अन्यपदार्थ इत्यत्राऽन्यपदं भेदविशिष्टार्थकं ततश्च भेदस्य प्रतियोगिनि साकाङ्क्षत्वाच्छेषपदोपस्थितस्य प्रतियोगित्वेन तत्राऽन्वयाद्वितीयान्ताधर्थ इति लब्धम् । तथा च-स्वनिष्ठप्रतियोगिता- निरूपितभेदविशिष्टार्थकपदार्थ विद्यमानस्याऽनेकप्रथमान्तस्य समास इति फलितार्थः ॥ अप्रथमाविभक्त्यर्थं बहुव्रीहिरिति । 'अनेकमन्यपदार्थे' इत्यनेकप्रथमान्तस्य स- मासविधानात्तत्राऽन्यपदार्थपदेन प्रथमान्तार्थातिरिक्तस्यैव ग्रहणं युक्तमित्येतत्फलितन्त- दिति भावः ॥ समानाधिकरणानामिति च फलितमिति । समानाधिकरणत्वञ्च, एकार्थबोध- उनकत्वम् । अनेकप्रथमान्तस्थले अभेदाऽन्वयप्रयोजकीभूतसमानविभक्त्यन्तविशेष्यविशे- पणवाचकपदसत्वादर्थादेव समानाधिकरणत्वोपपत्तिरिति तदाशयः । अनेकप्रथमान्तस्य समासविधानादेकप्रथमान्तस्य तदभाव इत्याह-प्रथमार्थे तु नेति । सूत्रे प्रथमान्तमि- न्यस्य फलमाह-पञ्चभिर्भुक्तमस्येति । प्रादिभ्यो धातुजस्येति । प्रादिभ्यः परं यद्धातुजं पदं तदन्तस्य पदान्तरेण समासः पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य वा लोप इत्यर्थः । प्रपर्ण इत्युदाहरणम् ॥ नमोऽस्त्यर्थानामिति । नञः परं यदस्त्यर्थवाचि पदं तदन्तस्य पदान्तरेण बहु- बीहिः, अस्त्यर्थवाचिनाम्पदानाम्वा लोप इत्यर्थः । अविद्यमानः पुत्रोऽपुत्र इत्युदाहरणम् । तत्राऽस्त्यर्थानामित्यस्याऽसत्वे अनुपनीतपुत्र इत्यत्रापि समासोत्तरपदलोपयोरापत्तिरत- स्तत् । नमोऽसत्वे निर्विद्यमानपुत्र इत्यत्राप्युक्तापत्तिः । नन्विह सुपेत्यस्याऽसम्बन्धेऽपि मुबित्यस्य सम्बन्धादस्तीत्यस्य तिङन्तत्वेन समासो न स्यादत आह-अस्तीति विभ- क्तिप्रतिरूपकमव्ययमिति । अत्र केचित्--चित्रा! जरती गौर्यस्येति विग्रहे सूत्रेऽनेकेतिपदसत्त्वेन त्रिपदब- हुव्रीहिः तत्र सूत्रेणोत्तरपदे पुंवत्त्वविधानादुत्तरपदशब्दस्य समासस्य चरमावयवे रूढत्वेनोत्तरपदस्य मध्यमपदेन व्यवधानात्प्रथमस्य न धूवभावः। गोरूपोत्तरपदे जरती- त्यस्य द्वितीयस्यापि न सः । पूर्वपदशब्दस्य प्रथमावयवे रूढत्वेन तस्य पूर्वपदत्वाऽभावात् तथा चचित्राजरतीगुः । जरतीचित्रागुर्वा । दीर्घातन्वीजंधः। तन्वीदीर्घाजंघ इत्येवेत्याहुः । वस्तुतस्तु-यथा द्वन्द्वसमासप्रकरणस्थे 'आनङ् ऋतो द्वन्द्वे' अत्र सूत्रे ( होतृपो- नृनेष्टोद्गातार) इति समर्थसूत्रस्थभाष्यप्रयोगान पूर्वपदाक्षेपः । अत एव भाष्यकृदुदाहु- तस्य तृतीयस्यानङः सङ्गतिः । अन्यथा पूर्वपदशब्दस्य प्रथमावयवे रूढत्वात्तत्र · तृतीयस्य पूर्वपदत्वाऽभावात्तइसङ्गतिः। तथैवाऽत्रापि पूर्वपदाक्षेपाऽऽभावेनोपान्त्यस्य पुंचत्वं स्या- देवेति चित्राजरद्गुरित्येव प्रयोगः । अत्र सूत्रे पूर्वपदसम्बन्धाऽभावादेव, चित्राजरत्यौ । । फक्किकारत्नमञ्जूषा। गावौ यस्येति द्वन्द्वगर्भ ऽपि बहुव्रीहौ चिनाजरदगुरिति भाष्यं सङ्गच्छते । ननु तत्र पूर्व- पढे पुंवत्वेन कुतो न टाब्निवृत्तिरिति चेन्न । द्वन्द्वान्तर्गतस्य जरच्छब्दस्योत्तरपदत्वेऽपि समानाधिकरणत्वाऽभावेन तदनिवृत्तः। नचैवमपि द्वन्द्वात्मकपूर्वपदस्य समानाधिकरणा- त्तरपदपरत्वेन सति पुवद्भावे तदवस्थ एवोक्तदोष इति वाच्यम् । स्त्रीप्रत्ययप्रकृतिभूतयो- ईन्द्वान्तर्गतचित्राजरच्छब्दयोरेकैकस्य भाषितपुंस्कत्वेऽपि द्वन्द्वात्मकपूर्वपदस्य भाषितपुंस्क- त्वाऽभावेनादोषादिति भावः । कर्मधारयपूर्वपदे तु पूर्वपदान्तर्गतोत्तरपदाश्रयणेन प्रथम- स्योत्तरपदाश्रयणेन द्वितीयस्य च पुंवत्वे जरच्चित्रगुः । कर्मधारयोत्तरपदे तु जरति चासौ. गौश्चेति विग्रहे गोरतद्धित' इति टचि टित्वान्डीपि जरद्गवी, अस्य चित्राशब्देन बहुव्री- हौ चित्राजरगवी यस्येतिविग्रहे 'नवृतश्चेति वक्ष्यमाणसूत्रेण कपि चित्रजरद्गवीक इनि प्रयोगः । सूत्रे भाषितपुंस्कादित्यस्याऽसत्वे गङ्गाभार्य इत्यत्र भार्यास्पोत्तरपदपरत्वेन पुंवद्भावापत्तिः । न च गङ्गाशब्दस्य नित्यस्त्रीत्वान्नोक्तापत्तिरिति वाच्यम् । सूत्रेण स्त्री- रूपार्थकबोधकस्य शब्दस्य पुंस्त्वरूपातिदेशकरणसमात्स्त्रिीत्वरूपार्थबोधकत्वेऽपि ग- गाशब्दस्योक्तापत्तेर्दुरित्वादिति भावः ॥ वृद्धिनिमित्तस्य च तद्धितस्येति-ननु वृद्धिशब्देन विहिता या वृद्धिरित्यर्थ- लाभः कथमिति चेन्न । व्याख्यानेन तल्लाभात्। तथाहि-यः सकलाया वृद्धेनिमित्तं यस्त्रयाणामाकारैकारौकाराणां निमित्तमितिभाष्यप्रामाण्यावृद्धिशब्दस्यावृत्तिः । तथा च सुकर एवोक्तार्थलाभः ॥ वृद्धिम्प्रति वृद्धिशब्देन फलोपधानाभावादिह पुंव. दिति । वृद्धिशब्देन ताम्प्रतिस्वरूपयोग्यस्वीकारे तु सोध्नीभार्य इत्यत्र वृद्धिशब्देन वि. हिताया वृद्धरौकाररूपाया हेतुभूततद्धितस्वरूपयोग्यत्वं वैयाकरणभार्यत्यत्रापि तद्धित. स्याऽणः सत्वान्निषेधापत्तिः । फलोपहितस्वीकारे तु नापत्तिः । तथाहि-फलोपहितस्वरूपयोग्यभेदेन द्विविधं निमित्तम् । तत्राऽऽयं कार्य्याव्यवहितपूर्व कालावच्छेदेन कार्याधिकरणवृत्तित्वे सति कार्यसमानाधिकरणाऽत्यन्ताऽभावीयप्रतियोगि- ताऽनवच्छेदकधर्मवत्वरूपम् । अन्त्यञ्च सत्यन्तविशेषणरहितम् । तथा च वृद्धिरूपकार्य- समानाधिकरणे उक्त प्रयोगोऽणः सत्त्वादणतिरिक्ताऽभावीयप्रतियोगिताऽनवच्छेदकाण्त्व. धर्मवत्ताया उभयत्र सत्त्वेऽपि बृद्धिरूपका-व्यवहितपूर्वकालावच्छेदेनोक्तरूपकार्याधिक- रणे सोध्नीत्यादिप्रयोगे वैयाकर घटकस्याऽणोऽसत्वान्नापत्तिः । अत्र प्रवाहणस्य परस्ट वृद्धिर्न पूर्वस्य तु वत्यर्थके 'प्रवाहणस्ये तिसूत्रे प्रवाहणेयीभार्य इत्यत्र वृद्धिानिमित्तला चति पुंवत्त्वनिषेधो न प्राप्नोति मादेवं जातेरिति भविष्यतीति भाथ्योक्तरवाऽत्र प्रमा- णत्वं बोध्यम् । तावदभार्य इत्यनत्यदोपव्यावृत्तये वृद्धनिमित्तं यस्मिन्नित्यर्थाश्रयणपरभा- ध्यादुक्तप्रयोगे वृद्धिनिषेध इष्ट एवेति शेखरकदिति दिक् ॥ ननु 'ओरोदि त्येव लायवात् सूत्रमस्तु गुणग्रहणवटितसूत्रकरणे संज्ञापूर्वकविधित्वेन गौरवाद्धेयम् । नच गुणग्रहणाघटितसूत्रकरणेऽपि भस्य तद्धिते इत्येवंरूपसंज्ञापूर्वकत्वस्य सत्त्वाद्गौरवाट्टेयमित्ययुक्तमिति चेन्न । यत्र संज्ञापदं विधेयसमर्पकं तस्यैव संज्ञापू- कविधित्वात्प्रकृते भस्य तद्धिते इति सत्वेऽपि संज्ञारूपविधेयसमर्पकपदत्वाऽभावेनादोषा- दिति चेन्न । गुणग्रहणस्य सामथ्यात् [संज्ञापूर्वको विधिरनित्यः] इत्यर्थज्ञापनेन साफ- बहुव्रीहिसमासप्रकरणम् । ६७ ल्यात् । तेन स्वायम्भुवमित्यादिसिद्धिः । [ओरोदि] तिन्यासे ओदित्यत्र तकारस्योच्चा- रणार्थत्वात्तपरत्वे फलाऽभावान्न 'तपरस्तत्कालस्ये त्यस्य प्रवृत्तिः । किञ्च 'ओरो' इत्ये- वास्त्विति भावः ॥ पूर्वपदात्संज्ञायामगः-ननु सूत्रेऽग इत्यस्य सत्त्वाद्गकारव्यवधाने पूर्वपदस्थ- निमित्तात्परस्य नस्य त्वन्नेत्यर्थे ऋगयनमितिषष्ठीतत्पुरुषे णत्वन्न भवतीत्याशयेनोदाहर. ति-अगः किम् । ऋगयनमिति ! वस्तुतस्तु-नागग्रहणस्योक्तस्थलीयणत्वापत्तिनिवृत्तिः फलम् । तस्य 'अणग नादिभ्यः' इति सूत्रे ऋगयनशब्दपाठसामर्थ्यान्निपातेनैव निवृतिरिति व्यर्थमेव तदिति भाष्ये स्पष्टमित्याह-अ गयनादिभ्य इत्यादि ॥ उपसर्गाबहुल-नन्वस्य सूत्रस्याऽष्टाऽध्याय्यामपठितत्वात्कुत उपलब्धिरिति नाशक्यम् । 'उपसर्गाइनोत्परः' इत्यत्राऽनोत्पर इति परित्यज्य तत्स्थाने बहुलग्रहणं सं. योज्य भाष्यकृतैव पठितत्वात् । सत्यस्मिन् नसो नस्योपसर्गस्थनिमित्तात्परस्य बहुलं ण- त्वमित्यर्थे प्रणोनयेत्यत्राऽव्याप्तिवारणं प्रश्नः पूपेत्यादावतिव्याप्तिवारणञ्च फलमि- त्यलम् ॥ ननु उक्तसूत्रे [ वेर्यो वक्तव्यः ] [ ख्यश्चे ] ति वार्तिकहस्य सत्त्वात्ताभ्यां ग्रख्य- यारन्यतरस्य विधानाद्विनसेत्यस्योपपत्त्यसम्भवादुक्तप्रयोगघटितस्य भट्टिपद्यस्य कथमुपप- त्तिरित्याशयेनाशंकते-कथं तर्हि विनसा हतबान्धवेति भट्टिरिति । समाधत्ते- विगतयेति । एवञ्च विनसेति 'पदन्नस् सूत्रेण नसादेशेन तृतीयान्तमिति न कश्चिहोष इति भावः ॥ इनः स्त्रियाम् । इनः प्रत्ययत्वेन ( प्रत्ययग्रहण ) परिभापया तदन्तविधौ स्त्रियां विद्यमानादिन्नन्तबहुवीहेः कबित्यर्थः । तथाच उक्तपरिभाषचा दण्डिनित्यस्यैदेन्नन्तत्वा. बहुदण्डिन्नित्यस्य तत्त्वाऽभावात्कप् न स्यादित्यत आह-अग्दिनस्मन्ग्रहणान्यार्थव- ताचाऽनर्शकेन च तदन्तविधि प्रयोजयन्तीति ॥ इति बहुव्रीहिः॥ - अथ द्वन्द्वसमासप्रकरणम् । चाथै द्वन्द्वः। 'अनेकमन्यपदार्थे' इत्यतोऽनेकमित्यस्यानुवृत्त्या चस्याऽथें विद्यमा- नानामनेकप्रथमान्तानां द्वन्द्वसमासो भवतीत्यर्थः । उक्तसूत्राइनुवृत्तस्याऽनेकमित्यस्य स्रग वाग्दृषदं होतृपोतनेष्टोद्गातार इत्यादौ यथायथं समासान्तस्याऽनइश्च मध्ये प्रवृत्ति- रन्त एव प्रवृत्तिश्च फलम्बोध्यम् । अत्र केचित् । चैत्रेण मैत्रेण च कृतमिति वाक्येऽवयवकर्तृत्वस्यैव प्रतीत्या चैत्रमै- त्राभ्यां कृतमिति समासे समुदायकर्तृत्वस्यैव प्रतीत्या चैत्रेण मैत्रेण च कृतमिति वाक्यस्य समाससमानार्थकत्वाऽभावेन चैत्रेण मैत्रेणेत्यस्य चैत्रमैत्राभ्यामिति समुदायसाधुत्वायो- जक्रवाक्यत्वाऽभावात्प्रथमान्तानामेव द्वन्दो नतु परिनिष्ठितविभक्तयन्तानामिति । वाक्यस्य समुदायसाधुत्वप्रयोजकत्वाऽभावादेव ( यदग्नये च प्रजापतये चे )त्यादौ व्यस्ते फक्किकारत्नमञ्जूषा। प्रत्येक देवतात्वप्रतीतिः । अग्नीषोमाभ्यामित्यादौ समुदाये देवतात्वप्रतीतिरिति व्यव- स्था सिद्धयति । वाक्यस्याऽपि समुदायसाधुत्वप्रयोजकत्वे तु समास इव वाक्येऽपि स. मुदाये देवतात्यप्रतीतिरेव स्यात् । अत एव (सिम्बुद्वयोरनुत्तरपदे ) इति वार्तिके स- म्बुद्धिग्रहणनिहाऽनावश्यक राजवृन्दारकेत्यादौ सम्बुद्धयन्तानां समासः, इह तावत्समा- मसमानार्थकेन वाक्येन भवितव्यम् । यश्चेहार्थो वाक्येन गम्यते नासौ कहाचित्समासेन गम्यते अवयवसम्बोधनं वाक्येन गम्यते समुदायसम्बोधनं समासेनेति 'न डिसम्बुद्धयो- रिति सूत्रे भाष्ये उक्तम् । सम्बोधनविभकयन्तस्य सम्मुखीभावफलकत्वात्प्रत्येकमेव स- म्मुखीभावप्रतीत्या क्रियान्वयेऽभावेन परस्परमसामर्थ्य मिति तदाशयः । यदा समाना- ऽधिकरणस्थडेऽपि न समासस्तदा व्यधिकरणानां सुतरां न द्वन्द्व इति परिनिष्ठितविभक्तया समासेऽपि राजपुरोहिताविति द्वन्द्वोदाहरणम् । एवञ्च व्यधिकरणतृतीयाऽयन्तानामपि क्रियादावाऽन्वयेन क्रियाजनकत्वरूपकारकत्वस्य प्रत्येकमेव बोधान्न वाक्यसमासयोस्तु- ल्यार्थत्वमित्यलम् ॥ मिलितानामन्वय इतरेतरयोग इति ! परस्पराऽपेक्षाणामुद्भूताऽवयवभेदसमूह- रूपागामेकस्मिन्धर्मावच्छिन्नेनाऽन्वय इति तदर्थः । तेन नीधातोः संयोगजनकव्यापारा- ऽनुकूलव्यापारवाचकत्वेन द्विकर्मकत्वेपि अजां ग्राम नयतीत्यादौ नाऽपि चकारप्रयोगो नाऽपि समास एकधर्मावच्छिन्नेऽन्वयाभावात् । (१)अत एवाऽत्राऽनेकचकारप्रयोगः । यन्त्र मिलितानामन्वयस्तोतरेतरयोगस्तादृशसमूहश्वार्थः इत्यन्वयः । समूहे उद्भूताऽव- यत्रभेदत्वञ्च, अवयवगतसंख्यारोपवत्त्वं प्रत्यवयवं समूहरूपत्वाऽऽरोपो वा । समूह इति । अनुभुताऽवयवभेदः समूह इत्यर्थः । तत्रेतरेतरगेगे उद्भुताऽवयवभेदसमूहस्य प्रतीत्या प्रवृत्तिधर्मरूपमेव प्रवृत्तिनिमित्तम् । समाहारे तु अतिरिकत्वेनैव समूहत्व- भानात्समूहत्वं प्रतिनिमितमिति विशेषः । ईश्वरं गुरुञ्च भजस्वेत्यादौ न समास असा- मादिति । अनेक सुबन्तानां चार्थे वृत्त्यभावेनैकार्थीभावरूपसामर्थ्याऽभावादित्यर्थः । समुच्चयस्थले च समभिव्याहृतस्यैकस्य सुबन्तस्य चार्थे वृत्तावपि अपरस्य चार्थे वृत्त्यभा- वः । अन्वाचये तु उभयोरपि चार्थे वृत्त्यभाव इति भावः ॥ ननु उद्भुताऽवयवभेदविवक्षो इतरेतरयोगद्वन्द्वे द्विवचनबहुवचनस्य, अनुभृताऽवय- वभेदविवक्षणे समाहारद्वद्वे समुदायगतैकत्वादेकवचनस्य चोपपत्तावेकवद्भावविधायकप्रकरण- मन्तरापीति व्यर्थमेवैतत्प्रकरणम् । इतरेतरयोगद्वन्द्वे नेष्ट एकवद्भावो लक्ष्यानुरोधादिति चेन्न । प्राण्यङ्गादीनां समाहार एवं नेतरेतरयोग इति नियमार्थत्वेन सार्थक्यात् । तथा च नैतेभ्यो बहुवचन द्विवचनापत्तिरुभूताऽवयवभेदविवक्षयेति बोध्यम् । (तिष्यपुनर्वस्वा- नक्षत्रद्वन्द्वे) इति विपरीतनियमो नाऽऽशङ्कनीयः । तथा हि एकवचनस्य द्विवचनाऽभावो बहुवचनग्रहणप्रयोजनम् । विपरीतनियमे तु प्राण्यङ्गाद्यतिरिक्तस्य समाहारत्वाऽभावादेकव- चनाऽनुत्पत्या बहुवचनस्यैव द्विवचनसिद्धौ पुनर्बहुवचनग्रहणं व्यर्थमेव स्यादित्यभिप्रा- येणाशक्य समाधानमाह-समाहारस्यैकत्वादेकत्वे सिद्धे नियमार्थ प्रकरण- मिति । नियमस्तूपरिष्टादुक्त एवेति बोध्यमित्यलम् ॥ .. In TO परम्पराऽपेक्षासत्वादेवेत्यर्थः । १ द्वन्द्वसमासप्रकरणम् । ननु विभाषा वृक्षमृगे' तिसूत्रेऽप्राणिनो ग्रहणं व्यर्थमिति चन्न । तस्य 'जातिरप्रा- णिनामिति सूत्रप्राप्तनित्यद्वन्द्वस्य विकल्पविधानेन सार्थक्यादित्याह-विभाषावृक्ष इति सूत्र इति । ननु विभाषा वृक्षमृगेति सूत्रे पशुपहणाऽभावे हस्त्यश्वादिना सेनाङ्गत्वेन 'द्वन्द्वश्चप्रा- णितूर्यसेनाङ्गानामि त्यनेन नित्यद्वन्द्वो दुर्वारः स्यादित्यत आह-हस्त्यश्वादिषु सेनाङ्गत्वानित्ये प्राप्ते पशुग्रहणं विकल्पार्थमिति ॥ ननु उद्भूतावयवभेदविवक्षानुभूतावयवभेदविवक्षाभ्यां रुपृषतम् रुरुषताः शुक- बकम् शुकबका इत्यत्र (चार्थे द्वन्द्वः) इत्यनेनैव द्वन्द्वसिद्धौ विभाषावृक्षमृगेतिसूत्रे मृग- शकुनिग्रहणं व्यर्थमिति चेन्न । तस्य नियमार्थत्वेन सार्थक्यात् ; सचेत्थं नियमः-मृगाणां मृगैरेव द्वन्द्वः, शकुनीनां तैरेवेति ! अन्यैस्तु सहेतरेतरयोग एवेत्याह-मृगाणां मृगैरे- वेत्यादि । अश्ववडवग्रहणं तु पक्षे नपुंसकत्वार्थमिति । अश्ववडवयोः पशुत्वाद्विक- ल्पसिद्धौ तयोर्ग्रहणं प्रतिपद्विधानार्थम् । तथा च-अश्ववडवमित्येकवद्भावपक्षे 'पूर्ववदश्व- वडवौ' इत्येतत्सूत्रं बाधित्वा ‘स नपुंसकमि' त्येव भवतीति भावः ।। ननु 'विप्रतिषिद्धं चानधिकरणवाची ति सूत्रं व्यर्थम् , उद्भूतावयवभेदविवक्षया इत- रेतरयोगद्वन्द्वे द्विवचनादेः, अनुत्भूतावयवभेदविवक्षया समाहारद्वन्द्वे, एकवचनस्य च वचन- मन्तराऽप्युपपत्तेरिति चेन्न । विरुद्धार्थानां द्वन्द्वस्यैकवदभावश्चेद्व्यवाचिनामेवेति निय- मार्थत्वेन तस्य सार्थक्यादित्याह-वैकल्पिकः समाहार इत्यादि । निमफल- शीतोष्णे उदके स्त इत्यत्र द्रव्यवाचित्वादितरेतरयोग एवेति भावः ।। विप्रतिषिद्धं किमिति । एतदग्रहणे अद्रव्यवाचिनामेवद्वन्द्व एकवद्वेति सामान्यतो नियमेऽविरुद्धार्थयोद्रव्यवाचिनोरेकवद्भावविधानान्नन्दकपाञ्चजन्यावित्येव स्यान्नतु नन्द- कपाञ्चजन्यमित्यतस्तद्ग्रहणमित्याशयेनाह-इह पाक्षिकः समाहारद्वन्द्वो भवत्ये- वेति । अनधिकरणवाचीत्यस्याग्रहणे शीतोष्णे उदके स्त इत्यत्र पाक्षिकसमाहारद्वन्द्वस्य- ऽनिष्टस्यापत्तिरिति भावः । ननु 'आनङ् ऋतो द्वन्द्वे' इत्यस्य लक्ष्याऽनुरोधेन ऋदन्तानां द्वन्द्वे ऋदन्तस्य पूर्वस्याऽऽनङ् स्यादृदन्त उत्तरपद इत्यर्थस्वीकारे पिता त्रावित्यत्राऽऽनहः न स्याह- न्तानां द्वन्द्वाऽभावादृदन्तोत्तरपदपरत्वाऽभावाच्चेत्याशंक्य समाधत्ते-पुत्रेऽन्यतरस्या- मित्यत इति । उक्तसूत्रात्पुत्र इत्यस्य मण्डूकप्लुत्याऽनुवर्त्तनेन वाक्यभेदाश्रयणेन ऋतु- न्तानां द्वन्द्वे ऋदन्तस्य पूर्वस्याऽऽनङ् ऋदन्ते उत्तरपदे ऋदन्तस्य पूर्वस्याऽऽनङ् पुत्रशब्द- इति द्विधार्थकरणान्नोक्तस्थलीया काचिदनुपपत्तिरिति दिक् । ननु 'आनङ् ऋतो द्वन्द्वे' इत्यतो द्वन्द्वपदानुवृत्यैव सिद्धौ पुनः 'देवता द्वन्द्वेचे त्यत्र द्वन्द्वग्रहणम्व्यर्थमित्यत आह-पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहर्चयस्य परिग्रहार्थमिति । येषां सहचरणं प्रसिद्धन्तेषामेव द्वन्द्वे आनडुन्तरपदे इत्येतदर्थन्द्वन्द्वग्रहणम् ; तेन ब्रह्मा च प्रजापतिश्चेति विग्रहे ब्रह्मप्रजापतीत्यादावानङ् न । एतयोरेकहविर्भागित्वेन सहचरणं ने दृष्टं श्रुतञ्चेति भावः ॥ इति द्वन्द्वः ॥ ..

फक्किकारत्नमञ्जूषा। अथैकशेषसमासप्रकरणम् । ननु एकशेपस्य द्वन्द्वापवादसङ्गत्यर्थमेतदुत्तरमेकशेपारम्भं प्रदर्शयति-अथैकशेष इति । नचाऽपवादस्याऽपि सङ्गतित्वे, सप्रसङ्ग उपोद्घातो हेतुतावपरस्तथा । निर्वाहकैकार्य्यत्वे, पोढा सङ्गतिरिष्यते ॥ इत्यनेन षोढात्वकथनस्य विरुद्धत्वमिति वाच्यम् । अपवादेत्यनेनाऽपि अपवाद्या- ऽपवादकभावरूपग्रसङ्गनिर्वाहकसम्बन्धस्य सूचनेनाऽविरोधात् ॥ वृद्धो यूना तल्लक्षणश्चेदिति । अत्र सूत्रे वृद्धपदेन अपत्यमन्तर्हितं वृद्धमिति पूर्वाचार्य्यपरिभापितस्य पाणिन्युक्तगोत्राऽपरपर्यायस्य ग्रहणम् । न च वृद्धपदेनेदृशस्य ग्रहणे किं प्रमाणमिति वाच्यम् । कृत्रिमेन यूना साहचर्य्यस्यैव चात्र प्रमाणत्वादित्यत ग्वाह मूले-गोत्रं शिष्यत इति । गोत्रयुवप्रत्ययमात्रेति । अन्न प्रत्ययपदस्य प्रतीति. परत्वाद्गोत्रयुवत्वप्रतीतिमात्रेत्यर्थः । तेन गर्गाश्च गाायणाश्च गर्गा इत्यस्य सिद्धिः । एक्शब्दार्थो मात्रं, तेन प्रत्ययार्थकृत्स्नादेः प्रकृत्यर्थस्य च प्रतीतेर्व्यवच्छेदादाह-कृत्स्नमि- ति । एतदेव विकारलभ्यन्तत्कृत एव विशेषश्चेन्नतु तत्कृतारिक्त इत्यर्थः । सुत्रे तल्ल- क्षणः किमित्यस्य तल्लक्षण एव किमित्यर्थः । प्रत्युदाहरति-भागवित्तिभागवित्ति- काविति । भागवित्तस्य गोत्राऽपत्यं भागवित्तिः । अस्मादपत्येऽथें इञ् यूनि अर्थे 'वृद्धा- ढक् सौवीरेषु बहुलमिति कुत्साया ठकि, तस्य कादेशे द्वितीयस्य सिद्धिः अत्र कुत्सासौ- वीरत्वयोरधिकयोरपेक्षणायुवत्वमात्रकृतवैरूप्याऽभावाच्चैकशेष इति बोध्यम् । कृत्स्नं कि- मिति । एवकारेण प्रकृत्यर्थस्यापि व्यावृत्तिः किमर्थेति प्रश्नः । उत्तरयति-गर्गवात्स्या- बनाविति । अत्र प्रकृत्यंशे वैरुप्यं न गोत्रादिकृतमिति नैकशेपः । तल्लक्षणविशेष इत्येव सामर्थ्यात्तलक्षण एवेति लाभे स्पष्टार्थमेवकारग्रहणमिति बोध्यम् ॥ नपुंसकमनपुंसकेनैकवच्चेति । नन्वानन्तर्य्यार्थकचशब्दबलाच्च सूत्रघटकस्या- ऽन्यस्यामित्यस्यैकवच्चेत्यनेनैव सम्बन्धो नत्वेकशेषेणेत्यत आह-तच्चौकवढेति । अन- पुलकेनेति किमिति ! एतद्ग्रहणाभावे नपुंसकेनापि द्वन्द्वे एकोपापत्तिः । शुक्लश्च, शुक्लञ्च, शुक्लं इति । ननु 'नपुंसकमनपुंसकेनैकवच्चास्याऽन्यतरस्यामित्येवं सूत्र. करणेऽपि यत्राऽनेनैकशेपस्तत्रैकवद्भावो भविष्यतीति प्रकृतसूत्रेऽस्य ग्रहणं व्यर्थमिति चन्न । अनपुंसकेन सहोक्तो नपुंसकस्यैकशेपस्तस्य वैकवद्भाव इति बोधनार्थन्तस्याऽsव- श्यकत्वेन सार्थक्यात् । तेन नाऽन्यसूत्राणां समाहारद्वन्द्वविपये प्रवृत्तिरिति बोध्यम् । नेनु 'सरूपाणामिति सूत्रस्य तहि समाहारविवक्षायामप्राप्त्याऽपवादाऽभावाद्घट- वटमिति समाहारविवक्षायान्द्वन्द्वः प्राप्नोतीति चेन्न । अनभिधानाघटघटमिति द्वन्द्वा- ऽप्राप्तेः । शुकोपविषये घटघटमिति द्वन्द्वव्यावृत्त्यर्थमनभिधानस्याऽऽवश्यकत्वावन्द्व- मात्रस्यैकशेपविपयेऽनभिधानमाश्रित्यैकशब्दस्याऽनकार्थत्वाञ्चाश्रित्य प्रत्याख्यातमेकशेष- प्रकरणम्भाष्ये । एकशब्दस्यानेकार्थत्वाऽभावे एकशेपाऽऽरभ्भेऽपि गावित्यतो गार्या- यणस्य बोधो न स्यात्तस्य तदर्थकत्वाऽभावात् । शुक्लज्ज्ञ शुक्ला च शुक्लश्चेति विग्रहे शु- एकशेषसमासप्रकरणम् । । हिानीत्येतत्सुत्रोदाहरणम् । तत्रविग्रहवाक्ये पटपदोपादानं शुक्लादिपदानां गुणे पुंस्त्वा- इगुणिपरत्वबोधनायेत्यलम् ॥ श्वशुरः श्वश्र्वा । ननु पितृशब्देन मातापित्रोः श्वसुरशब्देन श्वश्रूश्वशुरयोर्लक्षण. या बोधसम्भवादिदं पिता मात्रेति च सूत्रद्वयं व्यर्थम् । नच यथा सरूपाणामित्यादिसू- त्रसमूहस्य द्वन्द्वव्यावृत्यर्थमावश्यकत्वं तथैतत्सूत्रद्वयमपि द्वन्द्वनिवृत्यर्थमावश्यकमिति वाच्यम् । पक्षे द्वन्द्वस्यापीष्टापत्तेः। एवञ्च तदवस्थैवोक्तसूत्रद्वयस्य वैयर्थ्यशंकेति चेन्न । पितृश्वशुरशयोरिव मातृश्वश्रूशब्दयोः केवलयोर्द्वन्द्वविषये प्रयोगव्यावृत्तये सूत्रद्वयस्या- वश्यकत्वात् । नच द्वन्द्वविषये ताशप्रयोगस्याऽनभिधानादेव वारणसम्भवादनारम्भणीय- मेव सूत्रद्वयमिति वाच्यम् । अनभिधानाऽऽश्रयणेन प्रत्याख्यानस्याऽनौचित्यादि. ति भावः ॥ त्यदादीनि सनित्यम् । अन्न सूत्रे द्विपर्यन्तानामिति नियमो न प्रवर्त्तते; अहञ्च भवांश्च आवामिति भाष्योदाहरणात् । उक्तनियमप्रवृत्तौ तु अस्मच्छब्दस्य द्विपर्यन्ताना- मित्येतन्मध्येऽसत्वात्तस्यैकशेषानापत्त्या भाष्योदाहरणाऽसङ्गतिरिति भावः । इत्येकशेषसमासः॥ अथ सर्वसमासशेषप्रकरणम् । वृत्तिनिरूपणप्रस्तावादाह-कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तय इति । परार्थाऽभिधानं वृत्तिरिति । परशब्देन परपदार्थों गृह्यते । अर्थशब्देन स्व- स्यार्थी गृह्यते, परेण पदार्थेन युक्तो यः स्वस्याऽर्थः स परार्थस्तस्य योऽभिधाजन्योप- स्थितिस्तत्करणत्वमिति तदर्थः । इतरपदार्थान्वितस्वार्थविषयकाऽभिधाजन्योपस्थितिजन- कत्वमिति फलितोऽर्थः । यद्वा परेण प्रधानशब्देन शब्दान्तरार्थस्याऽभिधानं विशेषणत्वेन ग्रहणं तत्कर - णमित्यर्थः । यत्रत्यप्रधानपदेनेतरविशेषगकस्वार्थस्यैवोपस्थितिस्तत्करणमिति यावत् । यद्वा परेणऽप्रधानशब्देनाऽन्यशब्दार्थस्य विशेष्यत्वेन ग्रहणमित्यर्थः । वृत्तिरिति शेषः । साचाऽवयवशक्तिलहकृतपमुदायशक्तिसाध्या अवयवशक्तिलोकसिद्धा । शास्त्रकल्पि- ता च समुदायशक्तिरिति । तद्धितादिप्रत्यये समुदायस्य वृत्याश्रयत्वादेपामौपचारिको वृ- त्तित्वव्यवहारः प्राचाम् । सा च वृत्तिः समर्थःपदविधिरिति परिभाषा लभ्या, तत्र समासतद्वितयोः पदोद्देश्यकविधित्वस्य स्पष्टत्वान्मानान्तरसिद्धैकार्थीभावस्य सत्त्वाच स्पष्टैव परिभाषाप्रवृत्तिः । उपपदनिमित्तकानां कृतामपि स्पष्टमेव पदविधित्वम् । तत्सा- हचयेगाऽन्यत्रापि पदविधित्वं बोध्यम् । अत एव पाचकादीनां क्रियाकारकभावसम्बन्ध- प्रवृत्तिनिमित्तकत्वमूलकः क्रियाशब्दत्वव्यवहारः । एकशेषेऽपि द्वन्द्वस्याऽनुवर्तनादेतद्विषये एकशेषविधानादेकार्थीभावस्याऽऽवश्यकत्वम् । वस्तुतस्तु-परार्थाऽन्वितस्वार्थोपस्थापकत्वाऽभावादेकशेषस्य वृत्तित्पे मानाऽभा- वः । शिष्टपदेन स्ववृत्त्यैव तत्तत्समूहार्थोपस्थानस्य भाष्ये स्पष्टप्रतिपादनात् । एकशेषस्य वृत्तित्वाऽभावादेव 'समर्थः पदविधिरि' त्यस्याऽधिकारत्वपक्षे नोक्त एकशेषसङ्ग्रहो ७२ फक्किकारत्नमञ्जूषा। भाष्ये इत्यवसयम् । सनादिषु क्यजादेः सुबन्ताद्विधानेन स्पष्टमेव पदविधित्वमिात्न. स्वभावत एच वृत्त्यवृत्योः सिद्धत्वाद्वावचनं न कार्यमिति तत्प्रत्याख्यानपरभाष्यप्रमा- ण्यात्सुलभ एवैकार्थीभावः सनीति बोध्यम् । प्रातिपदिकप्रकृतिकणिचाप्येकार्थीभावः सुघट एवेति । वाक्यमिति । तव तत्समासघटकपदानान्तत्तत्समासप्रवृत्तियोग्यविभक्त- यन्तानां पृथक्प्रयोगरूपमित्यर्थः । संज्ञाविषयसमासे वाक्येन संज्ञाऽनवगमेऽपि वृत्तिघ- टकपदज्ञापनायासमल्यमानपदार्थबोधकवाक्यप्रयोगो. भवत्येव । नित्यसमासव्यवहारस्तु तस्य वाक्यस्य वृत्तिसमानार्थत्वाऽभावाद्गौणो बोध्यः । अविग्रह इति । लौकिक- विग्रहरहित इत्यर्थः । नित्याधिकारीयसमासे समासघटकपदानां व्यपेक्षाया अभावेन लो- किकवाक्याऽभावात् । एवञ्च विग्रहप्रदर्शनफलम्बोध्यम् । अश्वपदेति । समस्यमानया- वत्पदाघटित इत्यर्थः । समासविभाजकोपाधिगणनाया आवश्यकत्वादाह-सुपा सुपा तिङा नाम्नेत्यादि । अथ तिमित्यतः प्राक्सर्वत्र तिहामित्यस्य सम्बन्धः सुगं तित्यनेनैव तिका सुबन्तेनेत्यस्य लाभात्समासस्य पञ्चविधत्वमेव युक्तम् ! उभयत्रा- पि सुप्तिद्घटितत्वस्याऽविशिष्टत्वादित्यलम् । इति सर्वसमासशेषः ।। । अन्न अथ समासान्तप्रकरणम् । ऋक्परब्यूरिति-अ अनशे इतिछेदः, अ इति लुप्तविभक्तिकसौत्री निर्देश इति भावः ॥ ननु सुष्टु आपो यस्मिन्निति विग्रहे अपशब्दान्तत्वेन 'ऋक्कूरबधूरि त्यनेन समा- सान्तोऽप्प्रत्ययः स्यादिति चेन्न 'न पूजनादि, ति तनिषेधात् । तथा च "द्वयन्तरु- पसर्गभ्योऽप ईदिति नेत्वापत्तिरित्याशयेनाह-कृतसमासान्तग्रहणान्नेह सुबिति ॥ कृष्णोदकपाण्डुख्यापूर्वाया भूमेरजिष्यते। 'संख्याया नदीगोदावरीभ्यां चेति वार्तिद्वयन्नाऽपूर्व किन्तु 'अच् प्रत्यन्ववपूर्वात्सामलोम्नः' इत्यत्राऽजितियोगविभागात् सिद्वमेव, एवञ्च योगविभागेनैव सिद्वत्वाद्वार्तिकद्रयं नारम्भगोयमिति केचित् । केचिच्च भाष्य योगविभागल्यादर्शनादुक्तवात्तिकद्वयोदाहरणानां पृषोदरादित्वात्सिद्धिरित्याहुः । इति समासान्ताः । अथाऽलुक्समासप्रकरणम् । अलुगुत्तरपदे-पदे इत्येव सिद्धे उत्तरग्रहगसामर्थ्यादुत्तरपदशल्य समासच- रमावयवे रुढत्वम् । तथा चसमासचरमावयवे परे पञ्चम्यादीनामलुगिति तत्तत्सूत्राणामर्थः । ‘पञ्चम्याः स्तोकादिभ्यः' इत्यादेरारम्भान्नायं विधिः किन्त्वधिकार एवेत्याह-अलु- गधिकारः प्रागानङ, उत्तरपदाधिकारस्त्वाऽऽपादपरिसमाप्तेरिति । पूरण इति वक्तव्यम् । पूरणप्रत्ययान्ते उत्तरपदे आत्मञ्छब्दप्रतिकतृतीयाया अलुगिति तदर्थः । ननु उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणमित्यस्य 'हृदयस्य अलुक्समासप्रकरणम् । ७३ डल्लेखेत्यन्त्र लेखाहणज्ञापितस्य सत्त्वात्तदन्तविध्यभावात्पूरणप्रत्ययान्त इत्यर्थो न स्या- दिति चेन्न । आत्मनशब्दात्पूरणे प्रत्ययासम्भवेन तदन्तग्रहणस्याऽऽवश्यकत्वादुक्तार्थस्य सुलभत्वात् । एतदुदाहरणे हेताविति प्रकृत्यादिभ्य इति तृतीया, सुप्सुपेति समासः ॥ ननु प्रकृतिविकृतिभावस्य विरहेण रन्धनाय स्थाली इत्यत्रेव, आत्मनेपदम्। 'आत्मने- भाषे'त्यत्र समासो न स्यादित्यत आह-चतुर्थीतियोगविभागात्समास इति । अ- लुग्विधानसामर्थ्यादपीह समासः सुवच इत्यपि बोध्यम् ॥ गवियुधिस्थिरा--ष्टा धातोः 'अजिरशिशिर' इत्यौणादिकसूत्रेण किरचि स्थिर- शब्दो निष्पन्नः । अत्र सात्पदायोरित्यनेन निषेधे प्राप्ते एतदारम्भः, अनेन षत्वे गविष्टि- रो युधिष्ठिर इति सिध्यति । ननु लुकं बाधित्वादन्तरङ्गत्वाच्चाऽऽदेशे 'हलइन्तात्सप्तम्याः संज्ञायामि' त्यनेनैवाऽलुक् सिद्ध्यतीति किमर्थं सूत्रमिडमिति चेन्न । (अन्तरङ्गानपि वि- धीन्बहिरङ्गो लुग्बाधते) इति न्यायेनाऽवादेशात्पूर्व लुक्प्राप्त्या हलदन्तादित्यस्याऽप्रा- प्रत्याऽस्यावश्यकत्वादित्याशयेनाह-अत्र गवीति वचनादेवाऽलुगिति ॥ इत्यलुक्समासः। । अथ समासाश्रयविधिप्रकरणम् । घरूपकल्पचेलड्ब्रुवगोत्रेति-धरूपकल्पप्रत्ययेषु परेषु चेलडादिषु चोत्तरपदेषु भाषितपुंस्काद्विहितस्य ड्यन्तस्याऽनेकाचो हस्व इत्यर्थः । ननु घादीनां प्रत्ययत्वात्प्रत्य- यग्रहणपरिभाषया तदन्तविधि?ार इति चेन्न । लेखग्रहणेनोत्तरपदाधिकारे कचित्प्रत्यय- ग्रहणे तदन्तविध्यभावज्ञापनात् । इत्थंहि ज्ञापनप्रकार:-यदि प्रत्ययग्रहणे तदन्तग्रहणं स्यात्तदाऽणः प्रत्ययत्वात्ततस्तदन्तविधावणन्तरूपोत्तरपदे हृदादेश इत्यर्थे लेखशब्देऽप्यादे- शस्य सौलभ्येन लेखग्रहणस्य वैयर्थ्य स्पष्टमेव । न च घनन्तलेखशब्दस्य प्रयोगघटकत्वं यत्रतत्राऽप्यादेशार्थ लेखग्रहगस्याऽऽवश्यकतया कथं तद्वैयोदावनमिति वाच्यम् , लेखन- हणल्योकार्थज्ञापकत्ववर्णनपरभाष्यप्रामाण्याद् घनन्तलेखशब्दोत्तरपदकपूर्वपदस्य प्रयोगस्या- ऽनभिधानादिति भावः ॥ हृदयस्य हल्लेखेति-अत्र सूत्रेऽणन्तस्यैव लेखशब्दस्य ग्रहणं नतु घनन्तस्य, अ- प्रत्ययसाहचर्यात् , अत एव घनन्तरूपोत्तरपदे हृदयलेख इत्येव रूपं नत्वस्मिन् हृदादेशः। नन्वणन्तलेखशब्दग्रहणेऽणग्रहणेनैव सिद्धे लेखग्रहणं व्यर्थमिति चेन्न । उत्तरपदाधिकारे त. दन्तविधिर्नास्तीति ज्ञापनेन तस्य सार्थक्यात् । ज्ञापनप्रकारश्च प्रागेवोक्त इति भावः ॥ इको ह्रस्वोऽङ्यो गालवस्य-ननु सूत्रे गालवग्रहणं विकल्पेन हस्वविधानार्थमेव तिष्ठति तच्चेत्पूर्वसूत्रात् 'एकहलादौ पूरयितव्येऽन्यतरस्यामित्यस्मादन्यतरस्यामित्यनुवृ- त्यव सिद्धमिति निष्फलमेव तद्ग्रहणमित्यत आह-गालवग्रहणं पूजार्थमिति । सम्प्रसारणस्य-उत्तरपदे सम्प्रसारणस्य दीर्घ इत्यर्थः । ननु कौमुदगन्धीपुत्र इत्यत्र 'इको हस्थोऽड्यो गालवस्ये ति हत्वो दुर्वारः। नच कृते हस्ते दीर्घविधानं व्यर्थ ।

फक्किकारत्नमञ्जूषा। स्थादिति वाच्यम् । तस्य हस्वस्य वैकल्पिकत्वेन पक्षे सावकाशत्वात् । एवञ्च ह्रस्वाप- त्तिस्तदवस्थैवेत्यत आह-व्यवस्थिविभाषया ह्रस्वो नेति । इति प्राञ्चः । शेखरकृतस्तु-ग्रामणिकुलमित्यत्र हस्वस्याऽवकाशः, हस्वस्य वैकल्पिकत्वादेतद- भावे कौमुद्गन्धीपुत्र इत्यत्र सम्प्रसारणस्य सावकाशस्ततो हस्वप्रसङ्गे उभयप्राप्तौ परत्वा- सम्प्रसारणदीर्घत्वमेवेति भाष्ये स्पष्टमित्याहुः । ननु ष्यः प्रत्ययत्वेन प्रत्ययग्रहणपरिभाषया तदादिपदोपस्थितौ पूर्वपदरूपविशेष्या. न्तरसद्भावात्तदादिविशेष्यकतदन्तविध्यभावे पूर्वपदविशेष्यकतदन्तविधौ तदादेर्भेदसम्बन्धेन तदन्तेऽन्वये तदाधभिन्नं यत्ष्यडन्तं पूर्वपदं तस्य सम्प्रसारणमिति सम्प्रसारणविधाकस्य व्यङः सम्प्रसारणं पुत्रपत्योरित्यस्याऽर्थे परमकारीषगन्ध्येत्यस्य व्यङन्तपूर्वपदत्वस्य सत्त्वे ऽपि यस्मात् ध्यङ् विहितस्तदादित्वाऽभावात्सम्प्रसारणं न स्यादित्यत आह-स्त्रीप्रत्य- ये चानुपसर्जने नेति । कोऽअर्थस्तावदस्याः परिभाषाया इति पूर्वपक्षे प्रक्रान्तेऽन्न श्री. मद्गुरवः । लक्ष्येऽनुपसर्जनस्त्रीप्रत्ययस्य सद्भावेऽपि तन्न तदादेरप्रसङ्गेन उत्सर्गापवादयोः समानदेशत्वभङ्गेन च अनुपसर्जने स्त्रीप्रत्यये न तदादिविधिरिति न तावदेतदर्थः । सम्प्र- सारणविधायकशास्त्रघटकष्यपदस्याऽनुपसर्जनपरमकारीषगन्ध्याघटकष्यबोधकत्वात्तदादि- नियमाऽभावे व्यङन्तपूर्वपदस्य सम्प्रसारणमित्यर्थेऽतिकारीषगन्ध्या पुत्र इत्यत्रापि स. म्प्रसारणस्य दुर्वारत्वेन, उक्तसूत्रघटकस्य व्यङ्पदस्योपसर्जनस्याऽपि बोधकत्वान्निषेधा- ऽप्रवृत्या तदादिनियमेन परमकारीषगन्धीपुत्र इत्यत्रापि सम्प्रसारणाऽप्रसङ्गेन च, प्रत्यय- ग्रहणपरिभाषाऽपवादत्वादत्रापि ग्रहणपदसम्बन्धेनाऽनुपसर्जनस्त्रीप्रत्ययबोधके तत्पदघटि- तशास्त्रे तदादिविधिर्नेत्यर्थोऽपि नेति चेदुच्यते-व्यङः सम्प्रसारणमिति सूत्रे व्यङ्पद आवृत्तिः, एक व्यङ्पदमनुपसर्जनबोधकमपरमुपसर्जनबोधकम् । तत्राऽनुपसर्जनबोधके त- द्वादिनियमोऽनया वार्यते, ततश्चाऽनुपसर्जनष्यङन्तपूर्वपदस्य हस्व इत्यर्थे परमकारीषा- न्धीपुत्र इत्यत्र भवति सम्प्रसारणम् । उपसर्जनष्यङन्ततात्पर्य्यके प्यड्पदे तदादिनियमा. हुपसर्जनष्यङन्ततदादिपूर्वपदस्य हस्व इत्यर्थेऽतिकारीषगन्ध्या पुन इत्यत्र पूर्वपदस्य त- दादित्वाऽभावादुपसर्जनवाक्यस्य व्यङ उपसर्जनत्वादनुपसर्जनवाक्यस्याऽप्रसङ्गाच्च ना. तिप्रसङ्ग इत्याहुरित्यलम् ॥ समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु-उत्तरपदे समानस्य स आदेशः छन्दसि मुर्धादिरूपोत्तरपदे परे नाऽसाविति तदर्थः । ननु उत्तरपदशब्दस्य समासचरमावयवे रूढ- त्वात्पक्षादिशब्दानां समासचरमाऽवयवत्वाऽभावेन तद्रूपोत्तरपद चादेशाऽप्राप्त्या सपक्षः साधर्म्यमित्यादि न स्यादित्यत आह-समालस्येतियोगो विभज्यते इति । अत्र योगविभागो भाष्ये नोपलभ्यत इत्यरुचेराह-अथवा सहशब्दः सदशवचनोऽप्य- स्तीति । तथा च सहशब्देन समासे 'वोपसर्जनस्येति सादेश इति भावः । ननु 'पुरगामिश्रकासिधकेति दीर्घनिर्देशेनाऽसंज्ञायां दीर्घाऽभावात्संज्ञायामेव णत्व- मित्यस्य फलितत्वात् 'पूर्वपदात्संज्ञायामि'त्यनेनैव णत्वसिद्धौ पुनः कृतदीर्घस्य पुरगादि- पञ्चकस्य णत्वार्थनिर्देशो व्यर्थ इत्यत आह-तेषां कृतदीर्घाणां णत्वविधौ निदशो नियमार्थ इति । तथाचार्य नियमः-कृतदीर्धेभ्यः पुरगादिभ्य एव परस्य वनशब्दघट- समासाश्रयविधिप्रकरणम् । । कनकारस्य णत्वं नाऽन्येभ्य इति, नवेभ्यो वनस्यैव णत्वं नाऽन्यस्येति विपरीतनियमः कुनो नेति वाच्यम् । वनाऽतिरिक्तोत्तरपदे पुरगादीनां दीर्धान्तत्वाऽसम्भवेन विपरीतनि- यमाप्राप्तेरिति भावः । ननु अग्रेशब्दस्याऽसंज्ञात्वात् 'पूर्वपदात्संज्ञायामग' इत्यस्याप्राप्त्या णत्वार्थमस्य ग्रहणमावश्यकमेवेत्यत आह-अग्रेशब्दस्य तु विध्यर्थ इति । निर्देश इति शेपः । नच गकारव्यवधानेन 'पूर्वपदात्संज्ञाया मित्यस्याऽप्राप्त्या पुरगाशब्दग्रहणस्याऽपि विध्यर्थ- त्वसम्भवात्तस्य नियमार्थत्वोक्तिर्न युक्तेति वाच्यम् । अग इत्यस्य पञ्चम्यन्तत्वाऽभ्युप- गमेन गान्तात्पूर्वपदात्परस्य नस्य णत्वं नेति व्याख्यानेन पुरगाशब्दस्याऽकारान्तत्वेना- ऽग इति निषेधाऽप्राप्त्या पूर्वसूत्रेणैव सिद्धत्वसम्भवान्नियमार्थत्वोक्तयुक्तत्वात् । अत एवं अग इत्यस्य ऋगयनमित्येकमेवोदाहरणं दत्तमित्यलम् ॥ ननु वनस्याऽग्रे इति विग्रहेऽग्रेवणशब्दस्याऽधिकरणशक्तिप्रधानत्वात्प्रथमा न स्या- दिति चेन्न । 'अभितः सोर्थोऽऽन्तर्भूतः प्रातिपदिकार्थः सम्पन्न' इति भाष्येण प्रथमोपपत्ते- रित्याशयेनाह-प्रातिपदिकार्थमात्रे प्रथमेति । ननु पानशब्दस्य क्रियावाचकत्वात्क्षीरशब्देन तस्य समानाधिकरणत्वाऽभावेन क्षीरं पानं येषामित्युपपन्नमित्यत आह-कर्मणि ल्युडिति । 'कृत्यल्युटो बहुलमित्यत्र बहु- लग्रहणादिति भावः । पीयते इति पानमिति विग्रहः । कर्मणि ल्युटा निष्पन्नस्य पान- शब्दस्य द्रव्यवाचित्वेन क्षीरशब्देन सामानाधिकरण्यान्नानुपपत्तिरिति । ननु माषान्वपतस्तच्छोलौ पुरुषो माषवापिणावित्यादौ ( उत्तरपदत्वे चापदादिविधौ प्रतिषेधः) इति निषेधस्य जागरूकत्वाद्वापिन्नित्यस्योत्तरपदरूपप्रातिपदिकत्वाऽभावेन पूर्वपदेनोत्तरपदस्याक्षेपात्पूर्वपदस्थनिमित्तात्परस्योत्तरपदरूपप्रातिपदिकान्तस्थनकारस्य ण- त्वमिति, णत्वविधायकस्य 'प्रातिपदिकान्तनुम्विभक्तिषु चेत्यस्याऽर्थ गत्वं न स्यादिति चन्न । उत्तरपदशब्दस्य समासचरमाऽवयवे रूढत्वेन वापिन्नित्यस्य समासचरमाऽवयव. चनोत्तरपदत्वाऽक्षततया णत्वसिद्धरिति भावः ॥ ननु पूर्वपदस्थनिमित्तात्परस्य प्रातिपदिकान्तस्थनकारस्य णत्वमित्यर्थे गर्गभगिनी- न्यत्रण त्वं दुर्वारम् ; नकारस्य भगिन्निति प्रातिपदिकान्तस्यत्वादित्याशय समाधानवार्ति- कमवतारयति-उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वमिति । उत्तरपदरूपप्रा- तिपदिकान्तनकारस्यैव णत्वम्भवतीत्यर्थः । तथा चोत्तरपदशब्दस्य समासचरमाऽवयवे रूढत्वेनेहोत्तरपदं भगिनीशब्दो न तु भगिन्निति तस्य प्रातिपदिकत्वेऽप्युत्तरपदत्वाऽभा- वान्न णत्वाऽऽपत्तिरिति भाव इत्येतदभिप्रायेणैव मूले गर्गाणां भगिनीति विग्रहो दर्शित इति । उक्तवात्तिके ज्ञापकं घटयति-अत एव नुम्ग्रहणं कृतमिति । पूर्वपदाक्षिप्तो- त्तरपदेन प्रातिपदिकस्य विशेषगादेवेति हेत्वर्थः । अन्यथाऽङ्गस्य नुम्विधानादस्याङ्गस्यैव भागत्वादुत्तरपदस्य तत्त्वाऽभावान्नुम उदाहरणे व्रीहिवापाणोत्यादौ प्रातिपदिकान्तेत्येव गत्वोपपत्तौ प्रयोजनाऽन्यथोपपत्त्या नुम्ग्रहणं व्यर्थ सज्ज्ञापयति पूर्वोक्तवात्तिकमिति । वक्ष्यमाणप्रयोजनार्थनुम्प्रहगल्यावश्यकत्वेन ज्ञापकत्वेन ज्ञापकत्वाऽसम्भवात्तद्विघटयति- किञ्चेति । प्रहिण्वन्नित्यादौ हिवेर्नुमो णत्वार्थमपीति । एवाऽर्थकोऽत्राऽपिः । ।

७६ फक्किकारत्नमञ्जूषा! णत्वार्थमेवेत्यर्थः । अयम्भावः-नुम उदाहरणे ब्रीहिवापाणीत्यादावङ्गस्य नुम्विधानातः-- स्याङ्गभागत्वेन प्रातिपदिकान्तेतिणत्वप्राप्तिसम्भवः, प्रहिण्वन्नित्यत्रत्यप्रहिणु इत्य- स्याऽप्रातिपदिकत्येन तेन तदप्राप्त्या तदर्थ नुम्ग्रहणं कर्त्तव्यमेवेति ॥ पदव्यवायेऽपि । माषकुम्भवापेन। चतुरङ्ग-योगेनेति । ननु माषकुम्भस्य वापः, चत्वार्यङ्गानि यस्य तेन योग इति विग्रहे उत्तरपदत्वे चाऽपदादिविधाविति प्रत्ययलक्षण- निषेधात्कुम्भाऽङ्गयोः पदत्वस्य दुर्लभत्वेन पदव्यवायेऽपीति निषेधाऽप्रवृत्त्या णत्वापत्ति- दुवरिति चेन्न । प्रत्यासत्या उत्तरपदस्य कार्यित्व एवोक्तनिषेधवार्तिकप्रवृत्तेः । अपदा- दिविधाविति पर्युदासेन पदान्तविधावेव तत्प्रवृत्तेश्च । नवमपि माषकुम्भस्येत्यादेर्वापा- दिनिरूपितकारकत्वाद्दतिकारकोपपदानामित्यनेन वापादिभ्यः सुबुत्पत्तेः प्राक् समासे तेषां पदत्वं दुर्लभमितिसप्तमीसमासेन व्याख्याने णत्वनिषेधाऽसिद्धिरिति वाच्यम् । तस्या अनित्यत्वेनात्र सबुत्पत्त्यनन्तरमेव समासेनादोषात् । यत्तु 'कुमति चेति सूत्रे भाष्ये माषकुम्भवापेनेत्यत्र षष्टीतत्पुरुषोत्तरपदकपष्ठीतत्पुरुष 'कुमति चेत्यनेन नित्यणत्वेन भवितव्यम् । षष्ठीतत्पुरुषे प्रातिपदिकान्तेति विभाषयेत्युक्तं तत् णत्वप्राप्तिनिरूपणमिति बोध्यम् । यक्त कसूत्रस्थभाष्यादयं पदव्यवायेऽपीति निषेधः 'उपसर्गादसमासेऽपा'त्यादेरेव तेन प्रावनद्धमित्यायेवास्योदाहरणमिति तन्न, पदव्यवायेऽपीत्येतच्छेषभूतस्य ( अतद्धित ) इति वात्तिकस्याऽऽगोमयेणेत्यादिभाष्योक्तोदाहरणाऽसङ्गत्यापत्तेरित्यलम् । विकिरः शकुनौ वा। वृत्तिकारमते विष्किरः शकुनौ विकिरोवेति सूत्रपाठ इति स्वमतेनाशङ्कते-वावचनेनैव सुविकल्पे सिद्ध इति । तस्याऽपीति । विकिरश- ब्दस्याऽपीत्यर्थः । भाष्यविरोधादिति । इत्थं हि भाष्यम्-'विष्किरः शकुनौ विकि- रो वेति वक्तव्यम् , न वक्तव्यम् , शकुनिवाच्ये वैकल्पिक सुट् तदतिरिक्ते नित्यम् , तत्तर्हिव- क्तव्यम् , न वक्तव्यम् , न वावचनेन शकुनिरभिसम्बध्यते किन्तर्हि निपातनमभिसम्बध्यते शकुनिवाच्ये विष्किर इति वा निपातः, एतद्भाष्येण वृत्तिकारमताऽभिप्रेतसूत्रपाठस्य तच्छङ्कासमाधानयोश्च स्पष्ट एव विरोध इति भावः ॥ इति समासाश्रयविधिप्रकरणम् । । . अथ तद्धितप्रकरणम् अवसरसङ्गत्या तद्वितप्रकरणमारभते-समर्थानां प्रथमाद्वा । अत्र सूत्रे पदत्रयम् । प्रत्येकं पनानां स्वरितत्वात्प्राग् दिश इत्येतदवधिं यावदधिकारः १ पदत्रये स्वरितत्वप्र- तिज्ञाप्रयोजनं तु कस्मिश्चिन्निवर्तमानेऽपि अपरस्य निवृत्त्यभावः । यथा प्राग्दिश इत्यत्र समर्थानां प्रथमादित्यनयोनिवृत्तिः, वेत्यस्याऽनुवृत्तिः । ननु समर्थानामिति व्यर्थम् , समर्थः पदविधिरित्यनेनैव गतार्थत्वात् । नच पदविधित्वाऽभावान्न तेन गतार्थतेति वाच्यम् । 'घकालतनेष्विात्यलुग्विधानसामर्थ्यात्सुबन्तात्तद्वितोत्पत्तेः सिद्धान्तितत्वात्तस्य पदविधि- त्वस्य सुलभत्वादित्यत आह-सामर्थ्यमिति । समर्थशब्दः शक्तपर्यायः; शक्तत्वञ्च- . - तद्धितप्रकरणम् । अर्थप्रतिपादकत्वम् । तच्च परिनिष्ठितस्यैव सम्भवतीत्यत आह-कृतसन्धिकार्यमिति । नहि 'सु उत्थितः इत्यस्य कल्पनयाऽप्यर्थवत्त्वम्। सूत्रे समर्थानामिति निर्धारणे षष्ठी समर्थानाम्मध्ये प्रथमादित्यर्थः । प्रथमत्वञ्च तत्तत्सूत्रेषु प्रथमोच्चारितशब्दप्रतिपाद्यत्व- मेव । एवञ्चानेकसमर्थसम्भव एवाऽस्य सम्बन्ध इति ॥ तस्यापत्यम् । तस्येति न स्वरूपग्रहणं किन्तु षष्ठ्यन्तमानोपलक्षणमित्यत आह- षष्ठ्यन्तादिति । पञ्चम्यर्थस्याऽध्याहारः । अथवा अनुकरणात्पञ्चम्याः सौत्रो लुगिति बोध्यम् ॥ ननु उपगु अ इति स्थितौ गुणादेशस्य पितृव्यादौ साऽवकाशत्वात् 'ओर्गुणः' इत्येतं बाधित्वा परत्वात् अचो णिति' इति वृद्धिप्रसङ्गः । गुणे च कृतेऽवादेशे च 'अत उप- पायाः' इति वृद्धिप्रसङ्गश्च स्यादित्यत आह-आदिवृद्धिरन्त्योपधावृद्धी बाधत इति । तद्धितेष्वचामादेः' इदं सूत्रमुक्तसूत्राभ्यां परमिति परत्वात्तयोरनेन बाधः । अन्त्योपधावृद्ध्योः, गौः, पाचकः, इत्यादाववकाशः। आदिवृद्धस्तु सौश्रुतः इत्यादाव- वकाशः। औपगवः; त्याष्ट्रो जागत इत्यादावुभयप्राप्तौ परत्वादादिवृद्धिरेवेति भावः । नचादिवृद्ध्या परत्वादन्त्योपधावृद्धयोबांधेऽपि (पुनः प्रसङ्गविज्ञानात्सिद्धम् ) इति न्या- येन पुनः कुतो न ते इति वाच्यम् । अत्र लक्ष्याऽनुरोधात् ( सकृद्तो विप्रतिषेधेन यद्वा- धितं तद्वाधितमेवे)त्यस्यैवाऽऽश्रयणात् । अनुशतिकादिगणे पुष्करसच्छब्दपाठल्योक्तार्थे ज्ञापकत्वं बोध्यम् । तथाहि-पुष्करसच्छब्दात्पौष्करसादिरित्यस्य सिद्ध्यर्थमनुशतिकादि- पूक्तशब्दपाठः । आधुपधावृद्धिभ्यामुक्तप्रयोगसिद्धावुक्तगणे उक्तशब्दपाठो व्यर्थीभूतो ज्ञापयति, आदिवृद्धिरिति । तथा च, आदिवृद्धयोपधावृद्धेर्बाधादुक्तप्रयोगाऽसिद्धया तदर्थ- मुक्तगणे तत्पाठस्याऽऽवश्यकत्वेन स्वांशे चारितार्थ्य जातम् । न च पुष्करसदा चरतीत्यर्थ उकि पौष्करसादिक इत्येतत्प्रयोगसिद्ध्यर्थमनुशतिकादिपूक्तशब्दपाठस्याऽऽवश्यकत्वम् । न चोपधावृद्धयैवोक्तप्रयोगसिद्धौ तत्र पाणे व्यर्थ एवेति वाच्यम् । उपधावृद्धेर्जिणित्येव विधानादिति वाच्यम् । पुष्करसच्छब्दाहोऽनभिधानात् । उक्तज्ञापकेन सत्यपि सम्भव बाधनं भवतीत्यवश्यमाश्रयणीयम्भवतीति बोध्यम् । ननूक्तज्ञापनेऽपि जागत इत्यादावु- पधावृद्धेर्बाधोऽस्तु, औपगव इत्यत्रादिवृद्धिप्रवृत्त्यवसरे उपधावृद्धयप्राप्त्या कथन्तद्बाध इति चेन्न । जागत इत्यादावुपधावृद्धिबाधस्य निर्णये जाते कुत्रचित्कालान्तरप्राप्ताया अप्यु- तवृद्धर्बाधस्य समुचितत्वादिति भावः । ननु इदमर्थेऽपत्यसमूहविकारादीनामन्तर्भावादपत्येऽपि तस्येदमिति सूत्रेणारुणः सि- द्वौ किमर्थ 'तल्याऽपत्यमिति सूत्रम् । नचास्य 'अत इञ्' इत्याद्यर्थमावश्यकमिति वा. च्यम् ! तस्य तदर्थकत्वेनाऽऽवश्यकत्वेऽपि तत्रैव पाठस्य युक्ततया योगविभागस्य नैरर्थ- क्यादित्याशङ्कय समाधत्ते-तस्येदमित्यपत्येऽपि बाधनाथं कृतम्भवेदिति । तस्ये- दमित्येतद्वाधकस्य 'वृद्धाच्छः' इति सूत्रस्य बाधनार्थं तस्याऽपत्यमिति पृथक्कृतमिति तद्भावः । ननु अपत्यचतुरर्थीपर्यन्तेभ्योऽन्योऽर्थः शेष इति स्वीकारेण तस्येदमित्येतत्सूत्र- विहितस्याऽणः 'वृद्धाच्छः' इत्येतद्विहितस्य छस्य च शैषिकत्वादपत्याथें प्रवृत्त्यभावा- कथन्तद्वाधनार्थत्वं योगविभागस्येत्यत आह-उत्सर्गः शेष एवाऽसौ वृद्धाऽन्यस्य फक्किकारत्नमञ्जूषा! प्रयोजनमिति। उक्ततत्तत्प्रकृत्यान्विताऽपत्याद्यर्थस्यैवोक्तत्वादुपग्वादेस्तद्भिन्नत्वेन शेष-. त्वात्तत्रापवादप्रवृतिरस्त्येवेति । तस्यापत्यमिति योगविभागे तु उपग्वपत्यत्वस्याऽनेना- सत्वाच्छेपत्वाऽभावेनाऽपवादस्य प्रसङ्ग एव नास्तीति अपवादाऽप्रवृत्तिरूपोऽपवादः । ननु उपग्वादेवृद्धत्वेन वृद्धाद्विहितस्य छस्य स्वत एवं प्रसङ्गो नास्तीत्याशङ्कायामाह- वृद्धाऽन्यस्य प्रयोजनमिति । भान्वादिवृद्धप्रातिपदिकेभ्यः छाऽभावः प्रयोजन. मिति भावः ॥ ननु अन्तरङ्गत्वात्सन्धौ कृतायामेव प्रत्ययोत्पत्तिरिति व्यर्थ समर्थानाम्प्रथमावेति सूत्रस्थं समर्थग्रहणमित्याशयेनाऽशङ्कते-कृतसन्धेः किमिति । समाधत्ते-अकृतव्यू- हपरिभाषया सावुस्थितिर्माभूदिति । अयम्भावः-तदसत्वे कृतसन्धिकार्यात्तद्धित- प्रत्यय इत्यर्थाऽभावादुक्तपरिभाषया वृद्धौ सत्यामन्तरङ्गदीर्घस्य निमित्तविनाशसद्भावा- त्पूर्वमेतदप्रवृत्त्याऽनिष्टाऽऽपत्तिरिति तदावश्यकं तस्मिन्सति कृतसन्धेस्तद्वितोत्पत्त्या सुतरा- मिष्टसिद्धिरिति । समर्थग्रहणेन ज्ञापितेयम्परिभाषेति हरदत्तप्रभृतयः । लोकतः सि. द्धति केचित् ॥ ननु तस्यापत्यमित्यत्र निर्दिष्टस्य पदद्वयस्य मध्ये प्राथमिकस्यैव प्रकृतिसमर्थकत्व- नाऽपत्यस्याऽतत्त्वात्प्रकृत्याकाङ्क्षायाम्प्राथमिकस्यैव ग्रहणेन प्रथमादिति व्यर्थमित्याश- येनाऽऽशङ्कते-प्रथमात्किमिति । समाधत्ते-अपत्यवाचकादिति । अयम्भावः; प्रथमादित्यस्याऽसत्त्वे यथा तस्याऽपत्यमित्यादिसूत्रविहितप्रत्ययस्य षष्ठ्यन्तादभ्युपगति- स्तथैवाऽपत्त्यवाचकदेवदत्तादिशब्दात्प्रत्ययः स्यादिति शङ्का स्यादिति तद्वयावृत्यर्थं प्रथ- मादित्यावश्यकमिति । ननु यद्यपि उपगोरपत्यमिति विग्रहवाक्येऽपत्यवाचकस्य देवद- त्तादेरप्राथम्यान्न तत; प्रत्ययापत्तिस्तथापि अपत्यमुपगोरिति वाक्ये तस्य प्राथम्येनोक्ता- पत्तिस्तदवस्थैवेति चेन्न । पूर्वसूत्रादनुवृत्तस्य समर्थादित्यस्य सामर्थ्यानियतत्वादत्र लक्ष.. णाऽपेक्षस्यैव प्राथम्यस्य ग्रहणाद्विग्रहवाक्यापेक्षस्य तस्याऽनियतत्वाद्ग्रहणेनाऽदोषात् : षष्ठ्यर्थे मा भूदिति । इन्द्रो देवताऽस्य हविष इति विग्रहे ऐन्द्रं हविरिति प्रथमान्ता. त्प्रत्ययोत्पत्तिवत् , उपगुरपत्यमस्य देवदत्तस्येति विग्रहे औपगवो देवदत्त इति भवतु पर देवदत्तोऽपत्यमस्योपगोरिति विग्रहे देवदत्तिरुपगुरिति माभूदित्यर्थः । ननु तद्धितस्याऽपवाढत्वान्नित्यं समासबाधकत्वम् । न च तद्धितस्य विकल्पतया पक्ष समासस्याऽपि सम्भवाद्बाधकत्वकथनं न युक्तमिति वाच्यम् । 'पारे मध्ये पष्ठ्या वा' इत्यत्रत्यवाहणज्ञापितस्य यत्रोत्सर्गापवादौ महाविभापा विकल्पते तत्राऽऽपवादविनि. र्मुक्तोत्सर्गस्याऽप्रवृत्तिरित्यस्य सत्त्वात्पक्षे समासाऽप्राप्तेरित्याह-दैवयज्ञि इति सूत्रा. दन्यतरस्यां ग्रहणानुवृत्तेः समासोऽपीति ।। अपत्यं पौत्रप्रभृतिगोत्रम् । ननु पौत्रादरपत्यत्वाऽव्यभिचारादपत्यग्रहणमन्तरा- ऽप्यपत्यरूपपौत्रादेर्गोत्रसंज्ञा स्यादेवेति व्यर्थमपत्यग्रहणमित्यत आह-अपत्यत्वेन वि- वक्षितमिति । पौत्रादीनामपत्यत्वेन विवक्षायामेव गोत्रसंज्ञा स्यात्पौत्रत्वादिना विव. क्षायां सा माभूदित्यर्थमपत्यग्रहणम् । तेन औपगव इत्यादावप्यणो गोत्रसंज्ञासिद्धिः । अणोऽपत्यत्वमेव शक्यतावच्छेदकन्नतु पौत्रत्वादिकम् । इतरथा गोत्राऽधिकारस्थयमाद्य- तद्धितप्रकरणम् । ७९ थस्यैव गोत्रसंज्ञा स्यान्नत्वण इति । नचाऽपत्याधिकारे गोत्रयुवसंज्ञाकरणसामर्थ्यादप- त्यस्य लाभात्तेनैवोक्तप्रयोजनसिद्धौ प्रयोजनाऽभावाद्वयर्थमपत्यग्रहणमिति वाच्यम् । 'ते तद्राजाः' इत्येतत्सूत्रघटकतत्पदेन 'जनपदात् क्षत्रियाद' इत्येतत्सूत्रविहिताऽजादीनामेव ग्रहणेन गोत्रयुवसंज्ञाप्रकरणेन व्यवधानादादेः पूर्वप्रत्ययानामग्रहणेनाऽपत्याधिकारपाठ- सामर्थ्यस्योपक्षीणतयाऽपत्यस्यासम्बन्धशङ्काव्यावृत्यर्थः पुनरपत्यग्रहणस्याऽऽवश्यकत्वा. दिति भावः॥ ननु 'एकस्मिन् गोत्रे' इदं सूत्रम्ध्यर्थम् । नच तत्राऽनेकप्रत्ययव्यावृत्त्यर्थमावश्यक सूत्रमिति वाच्यम् । युगपदेकस्मिन् गोत्रेऽनेकप्रत्ययानामप्रसक्तरित्याशङ्कय सूत्रारम्भफलं प्रदर्शयति-गोत्रे स्वैकोनसंख्यानां प्रत्ययानां परम्परेति। स्वयं गोत्रन्तदपेक्षया एकोनसंख्यानां प्रत्ययानां तृतीये द्वयोः चतुर्थे त्रयाणां, पञ्चमे चतुर्णाम्परम्परा प्रसज्यत इति तदर्थः । तथा हि-उपगुशब्दात्तृतीये वाच्ये द्वयोरणिजोः प्रत्ययोरापत्तिः । तस्मा- देवोक्तशब्दात्पञ्चमे वाच्ये चतुर्णामणि फगिजां प्रत्ययानाम्परम्परेति । नच यस्येति चाति सूत्रेणाऽणाऽदेर्लोपेनाऽविद्यमानत्वादणिजादीनाम्प्रत्ययानां परम्परेत्युक्तः कथं सङ्गतिरिति वाच्यम् । अणन्तादिजुत्पतिः । इजन्तात्फक उत्पत्तिरित्युत्पत्तिमात्राऽभिप्रायेण प्रत्यय- परम्परेत्युक्तेः सुसंगतेः। यद्वा स्वद्व्यूनसंख्येभ्योऽनिष्टोत्पत्तिः प्रसज्यते । स्वं गोत्रन्तदपेक्षया ट्यू- नसंख्येभ्यः प्रकृतिभूतेभ्यः प्रातिपदिकेभ्योऽनिष्टप्रत्ययोत्पत्तिरित्यर्थः । अत्र पक्षे उपगो- स्तृतीये वाच्ये एकास्मादौपगवादिअनिष्टः प्राप्नोति चतुर्थ ब्याभ्यां, पञ्चमे त्रिभ्य इत्या- दीतिभावः । अत्राऽनिष्टोत्पत्तिमात्रं न विष्टाऽसिद्धिरित्यर्थः । अत्र पक्षे उपगुशब्दादणे- टसिद्धावपि औपगवादिनिवृत्त्यर्थं नियमार्थमिदं सूत्रम् । ननु नियमार्थकस्य सूत्रस्यार- म्भेऽपि गोत्रे एकस्यैव प्रत्ययस्य करणानियमेनाऽवाधादनन्तराऽपत्यप्रत्ययान्तानोत्रे प्रत्ययो दुर्वारः । नच गोत्रपदेन लक्षणयाऽपत्यसमुदायः सच परमप्रकृतेरेषेति वाच्यम् । अपत्यमि- त्यनुवृत्यैव सिद्धौ गोत्रग्रहगवैयर्थ्यापत्तेरिति चेन्न । गोत्रग्रहणस्य भाष्यकृता प्रत्याख्यात- त्वेनोक्तप्रत्ययस्येष्टापत्तेः । यहा गोत्रे बोध्ये एक एव शब्दः प्रत्ययः प्रकृतिनत्वनेकशब्द इत्यर्थः । यदि प्रत्यया- तात्प्रत्ययः स्यात्तर्हि नैकशब्दः प्रत्ययप्रकृतिः स्यादिति, यद्वा एकशब्दः प्रथमवाची प्रथमः शब्दो गोत्रे प्रत्ययमुत्पादयतीत्यर्थः । प्रथमत्वञ्च सर्वमूलत्वमित्येतत्सर्व स्पष्टम्भाष्ये । अपत्यं पितुरेव स्यादिति-तथाच- आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियान्त्वमी। आहुर्दुहितर सर्वेऽपत्यं तोकं तयोः समे ॥ इत्यमरः । मुख्यपक्षमाह-ततः प्राचामपीतिचेति-पित्रपेक्षया प्राचां पितामहप्रपितामहा. दीनामपीति तदर्थः । ‘पतिविंशति' इत्यन्न भाष्ये न पतन्त्यनेनेत्यपत्यमिति व्युत्पत्ते प्रदर्शनाद्बाहुलात्करणे यदा निष्पन्नस्याऽपत्यशब्दस्य क्रियानिमित्तत्त्वन्नतु पुत्रपर्यायत्वम् । यस्य यन्निमित्तमपतनं तस्य तदपत्यमितिफलितम् । पितामहादीनामपतने पौत्रादेरपि हेतुत्वेन तेषामपत्यत्वम्भवति ॥ मतभेदेन तद्धान्य इति-प्रथमपक्षे प्रत्ययमालाव्या- फक्किकारत्नमञ्जूषा। वृत्तये, द्वितीये स्वद्य नसंख्येभ्योऽनिष्टोत्पत्तिनिवृत्तये इत्यर्थः । सूत्रमेतत्तथोत्तरमिति- स्पष्टमित्यलम् । नियमार्थमिदं सूत्रमिति । अयम्भावः-अनन्तराऽपत्ये मुख्यः सम्बन्धेऽप्रवृत्त्या प्रथमपक्षे तत्तत्पितृवाचकादेव प्रत्ययःस्यान्न तु मूलभूतात् , तथा च-औपगवाऽपत्येनोप- गोमुख्यसम्बन्धाऽसद्भावादिहाप्राप्त्या तदर्थ सुत्रस्याऽऽवश्यकत्वेन विध्यर्थत्वन्नियमार्थ- त्वाऽभावेनौपगवशब्दात्प्रत्ययो दुरि इति चेन्न । गोत्रे बोध्ये क्रमतोऽनेकप्रत्ययो दुर्वार एवाऽपत्यप्रत्यय इति सूत्रस्यार्थे औपगवशब्दस्यापत्यप्रत्ययान्तत्वे पुनस्ततोऽपत्यप्रत्य- यानुपपत्त्याऽगत्या परम्परासम्बन्धस्वीकारादुपगोरेव प्रत्ययोत्पत्त्यौपगवात्तदनुत्पत्तेरिति । इत्यपत्याधिकारः॥ अथ चातुरर्थिकप्रकरणम् । ननु (वामदेवाड्यड्यावि)त्येवमस्तु सूत्रम् , वामदेवशब्दादुक्तसूत्रेणोक्तप्रत्ययविधानेन (यस्येति चे)तिलोपेनैव वामदेव्यमिति सिद्धे सूत्रे ड्यडययोडित्करणम्व्यर्थमिति चेन्न । डि- त्करगाभावे 'ययतोश्चातदर्थे' इत्यत्रत्ययद्यामुक्तसूत्रविहितयोर्ययतोहणापत्त्या ययतो- श्चेति सूत्रेण ननःपरस्योत्तरपदस्यान्तोदात्तत्वमित्यर्थकेनोक्तस्वरस्य वामदेव्यशब्दे दुर्वार- तया तव्यावृत्तिपुरस्सरमव्ययपूर्वपदस्वरार्थ डित्करणस्यावश्यकत्वात् । नच सत्यपि डित्वे कुतो नोक्तस्वरविधायकसूत्रप्रवृत्तिरिति वाच्यम् । एतड्डित्करणसामज्ज्ञिापिताभ्यां(नि- रनुबन्धग्रहणे न साऽनुबन्धकस्य) (तदनुबन्धकग्रहणेनाऽतदनुबन्धकस्ये)ति परिभाषाभ्या- न्तदप्रवृत्तेरित्येवाह- सिद्ध यस्येति लोपेन किमर्थं ययतो डितौ । ग्रहणं मा तदर्थे भूद्वामदेव्यस्य नस्वरे ।। इति । ( पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ) इत्यत्र तव्यग्रहणेन तव्यतोऽग्रहण- मिति पूर्वपरिभाषाफलम् । अङा चङोऽग्रहणमिति द्वितीयपरिभाषायाः फलम्बोध्यम् । ननु वास्त्रो रथ इतिवत् छानो रथ इत्यपि स्यात् छत्रैः परिवृतो रथ इत्यर्थे प्रकृतसू- त्रेणाप्रत्ययविधानादित्याशङ्का समाधत्ते-समन्ताद्वेष्टितः परिवृत उच्यते ! तेनेह न। छत्रैः परिवृता रथ इति । अयम्भावः-रथाच्छादनाय वस्त्रकम्बलादिभिरेव सम- न्तात् (सर्व) वेष्टनसम्भवान तु छन्त्रादिभिरिति न ततोऽप्रत्यया इति । ननु पाण्डुकम्बलशब्दान्मत्वर्थीयेन्प्रत्ययविधानात्पाझुकम्बलीति सिद्धौ सूत्रमिदं व्य- र्थमिति चेन्न । सूत्राभावे पाण्डुकम्बलेन परिवृत इत्यर्थेऽणप्रत्ययस्याऽपि दुर्वारतया तन्नि- वृत्त्यर्थ सूत्रस्यावश्यकत्वादित्याह-मत्वर्थीयेनैव सिद्धवचनमणा निवृत्त्यर्थमिति। कौमाराऽपूर्ववचने । ननु निर्देशोऽयमनुपपन्नः, अपूर्ववचने कौमारो निपात्यते इत्यर्थे कौमारोत्तरविभक्तिसकारस्य रुत्वयत्वयलोपेषु कौमार अपूर्ववचने इत्यस्यैव सिद्धिः, सन्धेरप्रसक्तरत आह-कौमार इत्यविभक्तिको निर्देश इति-तथा च सन्धौ बाधका- भावानिर्देश उपपन्न इति भावः ॥

८१ चातुरर्थिकप्रकरणम् । ननु सूत्रेऽपूर्ववचन इत्यस्य भावप्रधाननिर्देशत्वादित्याह-अपूर्वत्वे निपातनमि- ति । स्त्रिया एवापूर्वत्वमिष्यते न पुरुषस्य, पुरुषस्तु अपूर्वभार्यो भवतु मा वेति नाग्रहः ॥ इसुसुक्तान्तात्कः । ननु इसुसुक्तात्क इत्येव सूत्रकरणेऽप्यधिकृताङ्गविशेषणत्वादेव तदन्तविधिना तान्तादित्यर्थलाभः स्यादेवेत्यन्तग्रहणं व्यर्थ सज्जापयति प्रत्ययोपदेशकाले यस्तान्तस्तस्मात्परस्य ठस्य कादेशो यथा स्यादिति । ज्ञापनफलं तु माथितिक इत्यत्र स्येकादेशे यस्येति लोपे च तान्तत्वेऽपि कादेशाऽभावरूपम् । स्पष्टञ्चेदं 'स्येक' इति सूत्रे कैयटे । केचित्तु इकास्थाने कादेशस्य सन्निपातपरिभाषयैव वारणसम्भवादन्तग्रहण हेयमेवेत्याहुः॥ ननु इसुसुगिति सूत्रे सामान्यत इसुसोर्ग्रहणे आशिषघटकस्येसोऽपि ग्रहणात्ततः पर- स्यापि ठस्य कादेशापत्त्या आशिषिक इति प्रयोगो न सिद्धयेदत आह-इसुसो प्रति- पदोक्तयोर्ग्रहणान्नेहेति । (लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमि)ति परिभाष- या प्रतिपदोक्तयोरेवेसुसोर्ग्रहणादाशिष्घटकस्येसोऽतथात्वान्नोक्तदोषावकाश इति भावः । मतोब्ध बह्वजङ्गात्-ननु मतोबतच इत्येव सूत्रकरणेऽपि वैयधिकरण्यसम्बन्धेन बह्व- चो विहितो यो मतुप् तदन्तादनित्यर्थे नैवेष्टसिद्धाविहाङ्गग्रहणं व्यर्थमित्याशङ्का समाधत्ते- अङ्गग्रहणं बह्वजिति तद्विशेषणं यथा स्यान्मत्वन्तविशेषणं माभूदिति । सम्भ- वति सामानाधिकरण्ये वैयधिकरण्यमन्याय्यमित्यभियुक्तोक्त्या सत्यग्रहणेन बलजित्यङ्ग- विशेषणमेव नतु मत्वन्तविशेषणम् । असत्यङ्गग्रहणे तु मत्वन्तविशेषणमेव स्यादेवञ्च आहिमतमित्यादावजा दुरत्वं स्यादिति भावः । ननु ठूलोपसूत्राल्लोपपदानुवर्तनाल्लोपसिद्धाविह लुग्ग्रहणं व्यर्थमिति शङ्कां निराकरोति. लुग्ग्रहणं सर्वलोपार्थमिति । इति चातुरर्थिकप्रकरणम् । इति मैथिलवंशोद्भवस्य ठक्कुरोपनामकश्रीकनकलालशर्मणा कृती फक्किकारत्नमञ्जूषायां तद्धितप्रकरणं सम्पूर्णम् ॥

श्रीदुर्गामाधवगणेशाः । फक्किकारत्नमञ्जूषा। उत्तरार्द्धम् । १ भव्यप्रदा निखिलभक्तजनस्य नित्यम् देवासुर-प्रभृति-सेवितपादपद्मा ॥ संग्रामशत्रुहतिपूरितदेवकृत्या दुर्गाम्बिकाऽशु विपुलं कुशलं विधत्ताम् ॥ १ ॥ अथ तिङन्ते भ्वादिप्रकरणम् । ग्रन्यादौ ग्रन्थमध्ये ग्रन्थान्ते च मंगलमाचरणीयमितिशिष्टोक्त्या ग्रन्थमध्येऽपि मङ्गालकरणस्यावश्यकत्वाद् ग्रन्थमध्ये कृतस्य मङ्गलस्य शिष्यजनानामानुषङ्गिकमङ्गलार्थमुप- निबद्धः-(१)श्रौत्रान्तिीति-श्रोत्रियस्य भाव इत्यर्थे श्रोत्रियशब्दात् ( हायनान्तयुवा- दिभ्योऽणि)ति सूत्रे (श्रोत्रियस्य यलोपश्चे)ति वार्तिकेंन अणि यकारस्य लोपे, (यस्येति चे) त्यनेनेकारलोपे श्रौत्रमिति सिद्धयति । श्रोत्रियत्वमिति तदर्थः । अर्हतो भाव इत्यर्थे (गुणवचनब्राह्मणादिभ्यः कर्मणिचे)ति सूत्रे 'अर्हतो नुम्चेत्युक्त्या व्यभि नुमि च पित्वा- न्डीषि (हलस्तद्धितस्ये)ति यलोपे आर्हन्तीति सिद्धयति । योग्येति तदर्थः। श्रौत्रं च आर्हन्ती च श्रौत्रान्तिी ताभ्यां वित्तैः श्रौत्रार्हन्तीचणैः । (तेन वित्त ) इत्यनेन चणपि सिद्धिः । श्रोत्रियत्वयोग्यत्वाभ्यां प्रसिद्ध रित्यर्थः । किञ्च गुण्यः प्रशस्तगुणयुक्तैरित्यर्थः । [रूपादाहृतप्रशंसोर्यबि]ति सूत्रेऽन्येभ्योऽपि दृश्यते इत्युक्त्या गुण्या ब्राह्मणा इत्यस्य भा- ज्यादाबुदाहरणत्वेन तत्सिद्धिः। महान्तश्च ते ऋषयः महर्षयस्तैस्तथोक्तः । अहर्दिवमिति–प्रत्यहमित्यर्थः । [अचतुरविचतुर] इत्यादिना निपातनासिद्धिः । तोष्ट्रय्यमान इति-स्तौतेर्यङन्ताच्छानचि रूपम् । अगुणोऽपीत्यत्रापिशब्देनाऽऽ. पाततो(२)विरोधं द्योतयति । वस्तुतस्तु स्तुतिप्रयोजकीभूतानन्तकल्याणगुणानां श्रुति- १) श्रौत्रार्हन्तीचणैर्गुण्यैर्महर्षिभिरहर्दिवम् । तोष्टूय्यमानोऽप्यगुणो विभुर्विजयतेतराम् ॥ १ ॥ इति श्लोकस्वरूपम् । यं गुणहीनं सगुणं च विभुं वेदाध्ययनकर्तृत्व-योग्यताविशिष्टाः सत्वादिगुणशालयश्च महर्षयः प्रतिक्षणमतिशयेन स्तुवन्ति स विभुर्व्यापकः परमेश्वरः स. वोत्कृष्टत्वेन वर्तत इति तदर्थः । (२) एकस्मिन्नगुणत्वसगुणत्वयोः स्थित्यसम्भवेन स्तुतिविषयस्याऽगुणस्य विभोरपि शब्दबलात्सगुणात्वाऽऽपादनाद्विरोधः ।

भ्वादिप्रकरणम् । ८३ वर्तमाने लट्-ननु स्मृतिसिद्धत्वेऽपि वियदादिवढ्यावहारिकत्वात्तदभावस्य पारमार्थिकत्वेन न विरोधः । विजयतेतरामिति-वीतिपृथक् पदम् । तिडवच]ति तरप्याम् , ननु विजयते इत्यस्या. ऽतिङन्तत्वेनाऽप्रातिपदिकत्वेन च तरप् न स्यात् ; नच [सह सुपे]त्यत्र सहेति योगविभागेन विशब्दस्य तिङन्तेन समासे प्रातिपदिकत्वस्य सुलभत्वेन तरपोऽपि सौलभ्यमेवेतिवाच्यम् । तिङन्तोत्तरपदसमासस्यापि छन्दस्येव विधानाद्, किञ्च विजयत इत्यस्य प्रातिपदित्वाङ्गी- कारे सोरुत्पत्तिः, लिङ्गसर्वनामताऽभ्युपगमे नपुंसकत्वात्सो क्यपि [हस्वो नपुंसके] इति हस्वापत्तेः । नच जयत इत्यस्य तिङन्तत्वेऽपि तस्य विपदसापेक्षत्वेनाऽसामर्थ्यात्समासा- प्राप्त्या कथं तरबिति वाच्यम् । उपसर्गाणां (१)द्योतकत्वेनोक्तशङ्कानुदयेन तदुपपत्तेः । नियमेन स्वार्थसाकांक्षेतरार्थवाचकशब्दभिन्नार्थवाचकशब्दस्यापेक्षा हि सामर्थ्याऽभावप्रयो- जिका सेह नास्ति उपसर्गाणां द्योतकत्वात् । तरबन्तार्थे प्रति तिङन्तार्थस्य प्राधान्येन (प्रधान)न्यायेन प्रधानस्य सापेक्षत्वेऽपि वृत्तिर्भवत्येवेति भावः । (२)पूर्वार्ध इति-ननु पूर्वाद्धेऽपि तृतीयाऽध्यायस्य विनः [स्पृशोऽनुदके क्विन् ] इत्यनेन व्युत्पादनात्तुर्य्यपञ्च- माध्यायवर्तिन इत्येतावन्मात्रप्रतिपादनमसङ्गतमिव प्रतिभातीति चेन्न। यत्र ते प्राधान्येन कथिता इति तदभिप्रायेण प्रसङ्गात्तृतीयाध्यायस्थप्रत्ययकथनेनाऽप्यक्षतेः । ननु उणादिप्र- त्ययानां तृतीयाध्यायगोचरत्वाऽभावेन तृतीयाध्यायगोचराः प्रत्ययाः कथ्यन्ते इति ग्रन्थ- कर्तुः प्रतिज्ञा नानन्दोत्पादिनीति चेन्न। [उणादयो बहुलमि]ति सूत्रस्य बाधितत्वेन तेषामपि तृतीयाध्यायगोचरत्वाक्षतेरिति संक्षेपः ॥ वर्तमानत्वस्य शब्दप्रयोगाधिकरणक्षणवृत्तित्वरूपत्वेन क्रिया- याश्च पूर्वापरीभूताऽवयवसमुदायरूपत्वेनावयत्रानाञ्चाशुविनाशित्वात्तादृशसमुदायल्य निरु- क्तवर्तमानत्वस्य स्थिरसम्बन्धिनोऽनुपपन्नाद्वर्त्तमानक्रियावृत्तेर्धातोरित्यर्थः सर्वथाऽसम्भवीति चन्न । वर्तमानकालक्रियावृत्तेर्धातोरित्यर्थे तात्पर्यात् । नच प्रारब्धापरिसमाप्तत्वघटितस्यैव कालगतस्यापि वर्तमानत्वस्य विवक्षायामपि पूर्वोक्तानुपपत्तेस्तादवस्थ्यमेवेति वाच्यम् । बौद्धपूर्वापरीभूताऽवयवकसमुदायाऽधिकरणस्य जन्यकालस्य सम्भवात् । वर्तमाने लडित्या- दिसूत्रविहितलकाराणां वाचकत्वद्योतकत्वयोर्बहुविवादाध्यसितत्वम् । तत्र तेषाम्बहुत्वेन तत्र शक्तौ गौरवात्प्रकृतावेव शक्तिकल्पना ज्यायसी, ते च योतका एवेति तत्वम् । वर्च- मानकालत्वञ्च प्रयोगोचारणाधिकरणत्वे सति प्रारब्धाऽऽपरिसमाप्तक्रियोपलक्षितत्वम् । शस्तनीम्प्रारब्धाऽऽपरिसमाप्तिक्रियामादायाऽतिव्याप्तिव्यावृत्यर्थमुक्तविशेषणम् , भूतम- विष्यभिन्नत्वं वा तत्त्वम् ॥ (१) द्योकत्वेनेति । द्योतकत्वं नाम स्वसमभिव्याहृतपदनिष्ठवृत्त्युबोधकत्वम् । समन्वयो यथा, अनुभूयते सुखं साक्षास्क्रियते गुरुरित्यादौ स्वम् अनु साक्षादिति च तत्सम- भिव्याहृतपदं भूकृपदं तन्निष्ठवृत्तेरुद्बोधकत्वं द्योतकत्वमनुसाक्षादित्यनयोरस्तीति तयोस्त- त्वम् । एवं प्रकृते विजयते इत्यत्रापि वीत्युपसर्गस्य द्योतकत्वं बोध्यमिति भावः । (२) पूर्वार्द्ध कथितास्तुर्यपञ्चमाध्यायवर्तिनः । प्रत्यया अथ कथ्यन्ते तृतीयाऽध्यायगोचराः ॥ इति श्लोकाकारः । चतुर्थपञ्चमाध्यायस्थप्रत्ययाभिधानोत्तरतृतीयाध्यायस्थप्रत्ययाभिधानं करोमीत्यर्थः। ।

फक्किकारत्नमञ्जूषा । लः कर्मणि च भावे-ननु लाघवात् लकाराणां कृतावेव (१)शक्तिरभ्युपेया; न तु कर्तरि, तत्र तदभ्युपगमे गौरवस्य प्रतिभासमानत्वात् प्रथमान्तपदेनैव कर्तुल भाच्च । प्रक- त्यर्थप्रत्ययार्थयोः सहार्थत्वे प्रत्ययार्थस्यव प्राधान्यादाख्याताईं धात्वर्थस्य विशेषणत्वम् । आख्यातार्थे च प्रथमान्तार्थस्य विशेषणत्वम् । अनुकूलत्वमाश्रयत्वञ्च सम्बन्धः । तथा ३ चैत्रः पचतीत्यादौ विक्लित्यनुकूलव्यापाराऽनुकूलकृतिमांश्चैत्र इति बोधः । रथो गच्छती- त्यादौ रथस्याचेतनत्वेन यत्नशून्यत्वादाख्यातस्य व्यापारे आश्रये वा (२)लक्षणेत्याहु- स्तार्किकाः। तत्तुच्छम् । युष्मदस्मदोर्लकारेण सति सामानाधिकरण्ये एव पुरुषव्यवस्थोपपत्त्या लकाराणां कृतौ शक्त्यभ्युपगमे कृत्याश्रयस्य कर्तृत्वेन लकारेण युष्मदस्मदोरसामानाधिक- रण्येन तदनुपपत्तेः । लस्थानिकादेशभूततिबादिभ्यः कृतिमात्रबोधवत्तत्स्थानिकादेशभूतत- शानजादीनामपि लादेशाविशेषेण तेभ्यः कृतिमात्रबोधापत्तेश्च । नचाऽऽश्रयाश्रयिभावेन कर्मणि सम्प्रदाने च कृतेरन्वयात्तेभ्यः कृतिमात्रबोध इष्ट एवेति वाच्यम् । (३)(नामार्थ- योरभेदातिरिक्त सम्बन्धोऽव्युत्पन्नः ) इति व्युत्पत्तेर्जागरूकत्वेनाऽऽश्रयाऽऽश्रयिभावेनान्व- याऽनुपपत्तेः । नच (फलमुखगौरवं न दोषोत्पादकमि)ति न्यायसद्भावाच्छत्रादीनां कर्तरि शक्तिस्तिवादीनां कृतावेव सेति वाच्यम् । लाघवात्स्थानिन एव वाचकत्वं नत्वादेशानां तेषां बहुत्वेन गौरवमिति तव पक्षः । तथा च तिबादीनां शत्रादीनां च स्थानिस्मारकत्वेन लिपिस्थानीयत्वं बोधकत्वं तु लकारस्यैव तस्य च लकारस्य शत्राद्यन्ते कर्तरि शक्तत्वेन ति. चादीनां कृतिमानं बोधकत्वाऽनुपपत्तेः । नच लकाराणामनेकार्थत्वेन न काचिदनुपपत्तिरिति वाच्यम् । (अन्यायश्चानेकार्थत्वमि)ति न्यायस्य जागरूकत्वात् । न च (लः कर्मणि)इति सूत्रे कर्तृकर्मपदयोर्भावप्रधानत्वेन कर्तृत्वं कृतिः कर्मत्वं फलं तयोः शकौ सूत्रस्वारस्यम् । कर्मप्रत्ययान्ते पच्यते ओदनो देवदत्तेनेत्यादौ देवदत्तनिष्कृतिजन्य- व्यापारजन्यविक्लित्तिमानोदन इति बोधः। 'कर्तरि कृदि' तिसूत्रे कर्तरीतिपदस्य धर्मिप्र- धानतया शत्रादीनां कृत्याश्रये शक्तिरिति वाच्यम् । कर्तरि कृदिति सूत्रस्थकर्तृग्रहणस्यैव 'लः कर्मणी'त्यत्र चकारेणाऽनुवृत्तत्वाभावप्रधानेऽस्वारस्यात्। (स्थान्यर्थाभिधानसमर्थस्यै- चादेशत्वमिति न्यायेन शत्रादीनां स्थान्यर्थेन निराकांक्षत्वेनाऽऽकांक्षितविधानस्यैव ज्या- (१) शक्तिरिति । ननु कस्तावच्छक्तिपदार्थ इति जिज्ञासायामुच्यते-वैयाकरणनये वाच्यवाचकभावात्मकसम्बन्ध एव शक्तिपदार्थः । उक्तं च नागेशेन मञ्जूषायाम्-तस्मात्प- दुपदार्थयोः सम्बन्धान्तरमेव शक्तिः वाच्यवाचकभावाऽपरपर्यायेति। सम्बन्धान्तरमित्यस्य वाच्यवाचकभावरूपसम्बन्ध इत्यर्थः । गदाधरमते तु अर्थनिरूपितपदनिष्ठसंकेतलक्षणोभया- मकवृत्तिरेव शक्तिपदार्थः । (२) लक्षणेति। तार्किकमते-स्वशक्यसम्बन्धरूपो लक्षणापदार्थः । वैयाकरणनयेऽ- प्रसिद्धायाः शक्तरेवाभ्युपगमात् लक्षणा नास्त्येव । तदुक्तं नागेशेन मञ्जूषायाम्-शक्तिर्द्विवि- था प्रसिद्धाऽप्रसिद्धा चेति । (३) नामार्थद्वयस्याऽभेदसम्बन्धेनैवान्वयो भवति; न तु तदतिरिक्तसम्बन्धेन यथा नीलो घट इत्यादौ नीलघटयोः । नीलाऽभिन्नो घट इति बोधः ।

। स्वादिप्रकरणम् यस्त्वमिति न्यायेन कर्तरि कृदित्यनेन शक्तिग्रहाऽभावात् । न च नामार्थयोरभेदान्वयाऽनु- रोधन शतृशानजादीनां कर्तरि शक्तौ न कोऽप्युक्तदोष इति वाच्यम् । पचति कल्पं पचति- रूपं देवदत्त इत्याद्यनुरोधेन तिक्ष्वपि कर्तुंर्वाच्यत्वस्यैव समुचितत्वात् । किन्च कृतेर्लकार- वाच्यत्वे रथो गच्छतीत्यादावाऽऽश्रये लक्षणाऽभ्युपगतौ गौरवापत्तिः । सिद्धान्ते कर्तरि प्रत्यये कर्तुरभिहितत्वं कर्मणि प्रत्यये तु तस्यैव तत्त्वम् । इदानी कृतौ प्रत्यये तस्या एवा- ऽभिहितत्वेन कर्तुरनभिहितत्वादभिहितत्वाऽनभिहितत्वव्यवस्थोच्छेदापत्तिश्च । नच, अन- भिहितसंख्याके विभक्तिरिति (अनभिहिते) इत्यर्थकरणेन न दोष इति वाच्यम् । कृत्तद्धि- तसमासैः संख्याऽभिधानस्याऽप्रसिद्धत्वात् । किञ्च (स्थालीस्थे यत्ने पचिना कथ्यमाने स्थाली पचती)ति (कारके) इत्यधिकारसूत्रस्थभाष्यप्रयोगाड्यापारसामान्यस्य यत्नस्याऽपि बातोरेव लाभात् अनन्यलयल्यैव शब्दार्थत्वेन कृतौ शक्तस्सर्वथाऽसम्भवादित्यलम् ॥ भू सत्तायाम् । धातुसूत्रमिदम् । सत्तायामथे भृशब्दः साधुरिति तदर्थः । ननु बहूनां सत्त्वात्तान्विहाय भूधातोरेव प्रथमोपादाने को हेतुरिति चेन्न । (१)(अशोकवाटिका) न्यायेन तस्यादावुपादानात् । वस्तुतस्तु भूशब्दस्य महाव्याहृतिरूपत्वेनाऽनायासमङ्ग. लार्थमादौ तदुपादानमिति बोध्यम् ॥ अतो दी? यजि । (तुरुस्तुशम्यमः सार्वधातुके) इत्यतोऽनुवृत्तस्य सार्वधातुक- स्याऽभाव केशवः, अङनेत्यादौ दीर्घापत्तिः । केशशब्दात् (केशाद्वोऽन्यतरस्यामिति वप्र- त्ययः। अशब्दात्पामादित्वान्नः । नच (शृङ्घन्दाभ्यामारकन्) (हृदयाच्चालुरन्यतर- स्यामि) त्युभयत्राऽकारोच्चारणसामर्थ्यात्तद्धिते दीर्घाऽप्रवृत्तिज्ञापनान्न दोष इति वाच्यम् । उक्तरीत्योक्तकल्पनापेक्षया कलप्तसार्वधातुकसम्बन्धस्यैव ज्यायस्त्वमेवेति ज्ञापने तयोर्जा. पकत्वमिति तदाशयात् । नच सुपि चेति सूत्रस्य सार्वधातुकसम्बन्धाऽभावेऽधातुप्रत्यये यदि दीर्घस्तहि सुप्येवेति नियमार्थत्वेनोक्तस्थलीयापत्त्यभावेन तदनुवृत्तिनिष्फलैवेति वाच्यम् । सुपि चेत्यस्याऽभावे यज्वभ्यां युवभ्यामित्यादावतो दी? यनीति दीर्घापत्तेर्दुर्वारत्वात्तन्नि- वृत्त्यर्थन्तस्यावश्यकत्वेन नियमत्वायोगादुक्तस्थले दोषस्य तादवस्थ्यात् । नच ( नलोपः सुबिति) सूत्रेण दीर्धे नलोपाऽसिद्धया न दोष इति वाच्यम् । यत्रादित्वमात्रस्य निमित्त- तावच्छेदकत्वेन तस्य सुप्त्वव्याप्यत्वाऽभावात्सुप्त्वतयाप्यधर्मावच्छिन्ननिमित्तकार्याऽप्रा- प्त्या नलोपः सुबिति सूत्राऽप्रवृत्तेरिति संक्षेपः ॥ ननु अत आदित्येव सिद्धे दीर्घग्रहणं व्यर्थमिति चेन्न । दीर्घ एव यथास्यादिन्येव निय- मार्थत्वेन तस्य सार्थक्यात् । अत एव पचामीत्यादौ [अनन्त्यस्यापि प्रश्नाख्यानयोरिति प्लुतो नेति । नचाऽनन्त्यस्य पदस्य टेरिति तत्सूत्रार्थे कथन्तत्र तत्प्राप्तिरिति वाच्यम् । दीर्घग्रहणसामर्थ्यादनन्त्यविषय एव तत्सम्बन्धेन वाक्यट्योः क्लुप्तसम्वन्धत्यागे बीजाभा- वात् । तेन वाक्यस्थानन्त्यस्य पदस्याच: प्लुतः स्यादनन्त्यपदस्य च टेरिति तदर्थः । यत्त आदिति कृतेऽपि तपरकरणसामर्थ्यात्प्लुताऽभावस्य सिद्धत्वेन व्यर्थमेव दीर्घग्रहणमिति के (१) अशोकरोपणवाटिकानिर्माणयोर्मध्ये लाघवादशोकनिर्माणमेव प्राक् युक्तमिति तदभिप्रायः। ८ फ० म० । ८६ फक्किकारत्नमञ्जूषा। चित्तन्न तथा सति करिष्यामीत्यत्रोदात्तस्य स्यशद्वस्याऽऽन्तरतम्यात्प्राप्तस्याऽप्युदात्तत्व- स्य बाधापत्तेरित्यलम् ॥ परोक्ष लिट् । परोक्षत्वञ्च साक्षात्कृतमित्येतादृशविषयताशालिज्ञानाविषयत्वम् । यद्विषयताशालिज्ञानानन्तरं साक्षात्कृतमित्याकारिका ज्ञाननिष्ठविषयताशालिनी विलक्षणा प्रतीतिर्भवति तादृशविषयतानिरूपक यद् ज्ञानं तदविषयत्वमित्यर्थः। तच्च ज्ञानमिन्द्रि- यत्वावच्छिन्नकरणताकं ज्ञानम् । तच्च सन्निकृष्टविषयकमेवेति सन्निकर्षाप्रयोज्यत्वं लब्ध. मिति परोक्षत्वं स्फुटमेवेति । ननु (क्रिया नामेयमत्यन्तापरिदृष्टा पूर्वापरीभूता न शक्या पिण्डीभृता निदर्शयितु) मिति भाष्याक्रियाया अतीन्द्रियत्वेन न परोक्षे इति व्यावक- मिति-चेन्न । पिण्डीभूता ( समुदायभूता ) यास्तस्या निदर्शयितुमशक्यत्वेऽप्यवयवशः साक्षात्कृतमिति प्रतीतिविषयत्वसम्भवात् । अन्यथा पश्य मृगो धावतीत्यत्र धावनक्रि- याया दर्शनकर्मता न स्यादिति । व्यापाराऽऽविष्टानामपि साधनानामेवेह परोक्षत्वस्य वि. वक्षणान्नोक्तदोषः । अयं पपाचेत्यनुरोधेन व्यापारानाविष्टानामित्यपि वदन्ति केचित् । स्वक्रियायाः स्वप्रत्यक्षत्वात् (१)व्यातेने किरणावलीमुदयनः । (२)चक्रे|सुबन्धुः इत्यादयः प्रयोगा असंगता एव । व्यासङ्गादिना स्वक्रियायाः प्रत्यक्षत्वोपपादनेऽप्यनद्यतनातीतत्व- योरभावेन तदर्थकस्य लिटोऽप्यसम्भवादिति दिक ॥ नित्यत्वाबुक् गुणवृद्धी बाधत इति । गुणे वृद्धौ वा (अचः परस्मिन्नि) ति स्थानिवद्धावाद्भशब्दत्वेन वुकः प्रवृत्त्या कृताकृतप्रसंगित्वेन नित्यत्वमिति भावः । ननु[श. ब्दान्तरस्य प्राप्नुवन्विधिरनित्यः ] इति परिभाषया बुग्विधायकस्यानित्यसूचनान्नि- त्यत्वाबुगिति कथनं न सङ्गतिमाप्नोतीति चेन्न ! लक्ष्यानुरोधेनाऽत्रोक्तपरिभाषाया अप्र- वृत्तेः। नच गुणवृद्धयोः कृतयोरपि [द्विवंचनेऽचि] इत्यनेन स्थानिरूपातिदेशावुकः प्रवृत्ती वाधकाऽभावाऽन्मूलोक्तमसमञ्जसमिति वाच्यम्। प्रक्षालनाद्धि पङ्कस्येति न्यायेन स्थानिरू. पातिदेशपक्षानभ्युपगमेन द्वितीयाथें वुकः प्राग्गुणवृद्धयोरप्राप्त्या मूलोक्तस्य सामञ्जस्यात् ।। भवतेरः । प्रयोगे दृष्टानाम्भुवामनुकरणाद्भशब्दात् (इकश्तिपौ धातुनिर्देशे) इति रितपि रूपसिद्धिः । ननु शपः कथै विधानेनश्तिपोऽकर्थत्वात्तदप्राप्त्या रूपन्नोपपद्यतेति चेन्न । (उपसर्गात्सुनोती)त्यादिनिर्देशात् (लोपः पिबतेरिच्चे)ति निर्देशाच्च शितप्प्रत्यय- स्य कर्थत्वाऽभावेऽपि विकरणप्रवृत्तेःसुलभत्वात् । शितपः कर्तृवाचकत्वाऽभावेऽपि भावक- - १) वैशेषिकदर्शनस्य किरणावलीव्याख्यायामुदयनाचार्यस्यायं श्लोकः- अर्थानां प्रविवेचनाय जगतामन्तस्तमः शान्तये सन्मार्गस्य विलोकनाय गतये लोकस्य यात्रार्थिनः । तत्तत्तामसभूतभातय इमां विद्यावतां प्रीतये व्यातेने किरणावलीमुदयनः सत्तर्कतेजोमयीम् ॥ २) सुबन्धुकविकृतवासवदत्तानामगद्यकाव्ये कवेरिदं पद्यम्- सरस्वतीदत्तवरप्रसादश्चक्रे सुबन्धुः सुजनैकबन्धुः । प्रत्यक्षरश्लेषमयप्रवन्धविन्यासवैदग्ध्यनिधिनिबन्धम् ॥

भ्वादिप्रकरणम् । मगोरपि प्रवृत्तिः । केचित्तु-स्तिपः शकारोच्चारणसामार्थ्यादकथंऽपि शपि रूपसिद्धिः । नच शकारोच्चारणाऽभावे तिप आर्द्धधातुकत्वेन प्रकृते ब्रवीतिरित्यत्र चेडापत्तेर्दुरित्वात्तद्वया- वृत्त्यर्थ शकारोच्चारणमावश्यकमिति वाच्यम् । शकाराऽभाषे तिप आर्द्धधातुकत्वेऽपि (तितुत्रे) ति सूत्रेणेनिषेधाच्छकारोच्चारणस्यैतदव्यावर्तकत्वेन वैयर्थ्यस्य स्पष्टत्वात् एवञ्च शकारोच्चारणस्यैतदव्यातकत्वेन वैयर्थ्यस्य स्पष्टत्वात् । एवञ्च शकारोचारणसामर्थ्या- देवान शपः प्रवृत्त्या रूपमिति वदन्ति ॥ अनद्यतने लुट-अत्रानद्यतनत्वं नाम, अतीताया रात्रेः पञ्चार्द्धनाऽगामिन्या रात्रेः पूर्वार्द्धन सहितो दिवसोऽद्यतनस्तद्भिन्नोऽनद्यतन इति ॥ ननु (पुगन्तलघूपधस्य च)त्यत्र सार्वधातुकार्द्धधातुकयोरित्यस्याङ्गविशेषणत्वे सार्वधा- तुकार्द्धधातुकाऽव्यवहितस्याङ्गस्येको गुणो भवतीत्यर्थकरणे भिनत्तीत्यत्रापि गुणापत्तिः । तयोरिको विशेषणत्वे तु भेत्तेत्यत्रापि गुणो न स्यात्तकाररूपस्यैकवर्णस्य व्यवधानेन सार्व- धातुकाव्यवहितत्वाऽभावदित्याशंक्य समाधत्ते-येन नाव्यवधानं तेन व्यवहितेऽपि भवतीति—यद्वर्णकर्तृकव्यवधानशून्यत्वं न सम्भवति तद्वर्णव्यवधानेऽपि भवतीति तदर्थः । तथाच सूत्रसार्थक्यायैकवर्णव्यवधाने प्रवृत्तावप्यनेकवर्णव्यवधानेऽप्रवृत्त्या भेत्तेत्यत्र गुणो जातः, भिनत्तीत्यादौ तदभावश्च । (दीधीवेवीटामि)त्यत्रत्येद्ग्रहणस्यैवात्र ज्ञापकत्वम् । तथाहि अस्मिन्निषेधसूत्रे गुणाऽभावार्थमेवेटो ग्रहणम् । उक्तरीत्या गुणाऽभावोपपादनेन व्यर्थमेवेटो ग्रहणम् , ज्ञापिते तूक्तार्थे सर्व समञ्जसमिति दिक् ॥ ननु भवतादित्यनुपपन्नम् , तुहिस्थानिकादेशभूतस्य तातो कित्त्वेन तस्याऽनेकारत्वे- ऽपि आनडादादिव बाधकस्य (ङिच्चे)त्यस्य सद्भावात्तेनाऽन्त्यस्थाने तातप्रवृत्तेर्बोधनादि- ति चेन्न । अनन्यफलकङित्वे आनडादौ चरितार्थस्योक्तशास्त्रस्य गुणवृद्धिप्रतिषेधसम्प्रसार- णादिफलकतातडित्वे मन्द इव प्रवृत्तो(अनेकालि)त्यनेन परेण बाधात् । अनडादौ ङित्त्व. स्याऽन्त्यादेशातिरिक्तफलनास्ति । नच सर्वादेशे गुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थत्वम् , गुण- वृद्धिप्रतिषेधसम्प्रसारणाद्यर्थत्वे सति सर्वादेशत्वमित्युभयोः परस्परापेक्षणादन्योन्याश्रय इति वाच्यम् । (एरुरि)त्येतदनन्तरं (तियोस्तादाशिष्यन्यतरस्यामिति न्यासे इकारस्या- ऽनुवृत्त्यैव सिद्धौ डित्त्वस्य सर्वादेशत्वविधानार्थत्वकल्पनयोक्तदोषाऽयोगादित्याशयेनाह- अनेकालत्वात्लादेशः । यद्यपि ङिच्चेत्यादि । प्रवर्तनायां लिङ् इत्येव सुवचम् । चतुर्णा ग्रहणं प्रपश्चार्थमिति । अत एव अस्ति प्रवर्तनारूपमनुरूपं चतुर्वपि । तत्रैव लिछ विधातव्यः किं भेदस्य विवक्षया ॥ न्यायव्युत्पादनार्थ वा प्रपञ्चार्थमथापि वा विध्यादीनामुपादानं चतुर्णामादितः कृतम् इति भूषणग्रन्थः सङ्गच्छते । प्रवर्तनात्वञ्च, प्रवृत्तिजनकज्ञानविषयतावच्छेदकत्वम्, तच्चेष्टसाधनत्वस्यास्तीति तदेवार्थादिष्टसाधनत्वमेव विध्यर्थः ॥ ननु लिडो डित्त्वात्तत्स्थानिकादेशे च स्थानिवद्भाषेन डिम्त्वस्यानयनादचारिताये (अवयवेऽचरितार्थो विधिः समुदायस्योपकारक)इति न्यायेन समुदाये तत्त्वादिष्टसिद्धौ पुनर्या फकिकारत्नमञ्जूषा सुटो डित्त्वविधानं व्यर्थमित्याशंक्य समाधत्ते-डिवोक्तेायते कचिदनुबन्धका- र्येपीत्यादि-अयम्भावः, जित्वविधानसामर्थ्यात् न ल्यपीति ज्ञापकज्ञापितस्य क्वचिद- नुबन्धकायंऽनल्विधाविति विपेधाप्रवृत्तिरूपस्य क्वाचित्कत्वंबोधनेन टित्वोगित्वयोरनति- देशेन वक्ष्यमाणेत्यत्र (टिड्ढाणनि)ति डीसिद्धिः । ननु (डिच्च पिन्ने)ति भाष्यादुक्तज्ञा- पनासम्भवात्तप्रत्यदोषस्तदवस्थ ऐवेत्यरुचेराह-इनःशानचः शित्वमपीति-वक्ष्यमा- णेत्यन्न स्फुटतयोपपादनादलमिहोपपादनेन ॥ ननु सामान्यशास्त्रस्य विशेषशास्त्रेण बाध इत्यभियुक्तोक्त्या सुटो विशेषविहतत्पन (१) येन नाप्राप्तिन्यायेन सुटा यासुबाधः स्यादित्यत आह-सुटा यासुड्न बाध्यत इति । विषयभेदादिति-विषयभेदेन बाध्यबाधकभावाऽभावादत एव(असम्भव एवापवा- दत्वमिति वार्तिककृदुक्तिः सङ्गच्छते) । सत्यपि सम्भवे बाधनम्भवति यथादधिदानात्प्राक तदुत्तरम्वा तक्रदानेन दधिदानबाधः, अत एव तिसृणामित्यत्राचिरादेशेन नुटो बाधः कुतो नेत्याशंक्य न तिसूचतस्रिति ज्ञापन न नुडिति समाहितम् , तथाच प्रकृते पूर्वप्रदर्शित- दोषस्तदवस्थ एवेति वाच्यम् । यासुट् परस्मैपदेष्वित्यत्र विषयसप्तम्या अङ्गीकारात्परस्मै- पदविपयतायामेव लिङो यासुविधानेन तदानीं सुटोऽप्राप्त्या बाध्यबाधकभावाऽभावात अत एव लिडोयासुट तकारथकारयोः सुडित्युक्तं दीक्षितेन । विषयभेदादित्यस्य प्राप्तिविष. यभेदात्प्राप्तिक्षणभेदादित्यर्थः । वस्तुतस्तु (याड्विषये सीयुटः प्रतिषेधो वक्तव्य) इति वार्तिकेन प्रकृने बाध्यबाधकभावाऽभावकल्पनम् । यौगपद्यासम्भवरूपविप्रतिपेधाऽभावान्न परत्वेन सुटा यासुट्वाध इत्याहुः केचित् ॥ ननु (लिङः सलोपोऽनन्त्यस्ये) त्यनेन सार्वधातुकलिङ्सम्बन्धिनोऽन्त्यभिन्नसकारस्य लोपविधानात्सुटो लिङ्स्थानिकादेशावयवत्वेन विधीयमानत्वेन तल्लोपेऽपि यासुटः सकारस्या- ऽतथात्वाल्लोपो न स्यादिति चेन्न । अवयवाऽवयवस्यापि समुदायम्प्रत्यवयवत्वमित्याश्रय- णात्स्टोऽपि लिभक्तत्वेन तदीयसकारलोपोपपत्तेः । नच (लक्ष्ये लक्षणं सकृदेव प्रवर्त्तते) इति न्यायस्य जागरूकत्वाधासुट्सकारलोपो न स्यादिति वाच्यम् । लक्ष्यभेदेन तदुपपत्तेरि- त्याशयेनाह-सकारद्वयस्यापि निवृत्तिरिति ॥ ननु 'अतो येय' इत्यत्रानुवृत्तसार्वधातुकग्रहणाभावे चिकीर्ष्यादित्यत्रार्द्धधातु केऽपीया- पत्तिः । नच (अतो लोप) इत्यनेनाकारलोपेऽतःपरत्वाऽभावादेवेय् न स्यादिति वाच्यम् । (२)मध्येऽपवादन्यायेन पूर्व विधेरतो लोप इत्यस्य बाधात्तत्रोक्तापत्तेर्दुरित्वादित्याह-सा. र्वधातुके किम् , चिकीर्ष्यादिति-अयम्भावः, चिकीर्ष्यादित्यत्रेविधानेन चरितार्थ. स्यातो येन इत्यस्य (अतो दो? यनि) इत्यनेन बाधादीर्घस्यव दुरतया भवेदित्यत्रेय न स्यादित्यतिव्याप्तिदोषपरिहाराय सार्वधातुकग्रहणमावश्यकमिति भावः ॥ ननु णत्वविधायकशास्त्रे संहिताधिकारात्संहिताविवक्षणे णत्वं तदविवक्षणे णत्वाऽ (१) येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति-इति न्यायस्वरूपम् । यत्कर्तृकावश्यप्राप्तौ यस्य विधेरारम्भः स विधिस्तस्य (अवश्यप्राप्तस्य) बाधको भवतीत्यर्थः। २) मध्येऽपवादाः पूर्वान्विधीन्बाधन्ते नोत्तरानिति न्यायस्वरूपम् ।

भ्वादिप्रकरणम् । ८९ भाव इति विकल्परूपसिद्धौ विभाषाग्रहणं व्यर्थमिति चन्न । असमस्तष्यप्युपसर्ग संहि- ताया नित्यत्वज्ञापनेन चरितार्थत्वादित्याह-इहोपसर्गाणामसमस्तत्वेऽपि संहि- ता नित्यति ।। तदुक्तम्- संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ ननु ( इजादेव गुरुमतोऽनृच्छः ) इत्येतत्सूत्रविहिताऽऽम्घटकमकारस्य हलत्वनेत्संज्ञा स्यादत आह-आमो मकारस्य नेत्वमिति-यपत्र मकारस्येत्संज्ञा स्यात्तदा आस्- बातोः कास्धातोश्चाऽऽविधानं व्यर्थ स्यात्तत्रापीत्संज्ञा दुर्वारत्वादिति तत्सामर्थ्यादित्संज्ञा- ऽभावकल्पनेन न प्रकृतेऽपि काप्यापत्तिः । नच मित्त्वादन्त्यादचः परत्वसामर्थ्यादसञ्जातवि- राधिन्यायेन सवर्णदीर्घस्यैव बाधोऽस्त्विति वाच्यम् , सवर्णदीर्घबाधापेक्षया इत्संज्ञाबाध. स्यैव समुचितत्वात् ॥ ननु (कृञ्चानुप्रयुज्यत) इत्यतः कृतोऽनुवृत्त्यैव सिद्धे (आम्प्रत्ययवत्कृतोऽनुप्रयोगस्ये) त्यत्रत्यकृञ्ग्रहणं फलाभावाड्यर्थ सज्ज्ञापयति भवत्यन्यस्याऽप्यनुप्रयोगः तेन ( कृभ्वस्ति- योगे सम्पयकर्तरि च्विः ) इत्यत्र कृशब्दमादाय कृञ्प्रत्याहाराश्रयणेन कृभ्वस्तीनाम- नुप्रयोगलाभः । तेषां कृभ्वस्तीनां क्रियासामान्यवाचकत्वेनाऽऽम्प्रकृतीनां क्रियाविशेषवा- चित्वेन तदर्थयोरभेदान्वयः । सामान्यविशेषयोघंटो नीलघट इत्यादौ विधेयांशेऽधिकाव. गाहिशाब्दबोधस्य नवीनैरभ्युपगमात् । नचोक्तरीत्या कृभ्वस्तिलाभे सम्पदोपि प्रत्याहा- रान्तर्गतत्वेन लाभात्कुतो न प्रयोग इति वाच्यम् । तस्य तथात्वेऽप्यनन्वितार्थत्वेनाऽप्र योगात् । तथाच, एधांचक्रे इत्यादित एककर्तृकभूतानद्यतनपरोक्षकालिकवृद्ध्यभिन्नक्रियेति शाब्दबोधः॥ ननु अङ्गेन प्रत्ययाक्षेपः किमर्थ इत्यभिप्रेत्याशङ्कते-प्रत्यये किमिति-उत्तरयति- ववश्चेति-अयम्भावः । प्रत्ययग्रहणाऽभावे (उरदि)त्यस्य परनिमित्तकत्वाऽभावात्स्था- निवत्त्वाऽभावेन (न सम्प्रसारणे सम्प्रसारणमि )तिनिषेधाऽप्रवृत्त्या सम्प्रसारणापत्तिः, सति प्रत्ययग्रहणे तु नेति । उरदत्वस्य परनिमित्तत्वसियर्थत्वादेव भगवता भाष्यकृताss- सतमसमाप्तेरङ्गाधिकार उक्तः । आसप्तमसमाप्तेरङ्गाधिकारे भाष्यप्रामाण्यादङ्गसंज्ञायाः प्रत्ययनिमित्तत्वेन तद्द्वारा ( उरदि )त्यस्य परनिमित्तत्वमिति भावः। नचाङ्गसंज्ञाद्वारा निमित्तत्वमित्यस्याङ्गसंज्ञाम्प्रति प्रत्ययस्य निमित्तत्वेनोरदत्वम्प्रति निमित्तत्वमित्यर्थो वाच्यः, सच न युक्तः, प्रत्ययस्य साक्षानिमित्तत्वानुपपादनादिति वाच्यम् । प्रत्यय इत्य- स्यावृत्त्योक्तार्थस्य युक्तत्वादिति । एकाच उपदेशेऽनुदात्तात्-ननु एकाजनुदात्तयोस्सत्त्वादुपदेशपद काऽन्वेतीत्या- शङ्कायामाह-उपदेश इत्युभयान्वयीति-मध्ये पागत् (देहलोदीप) न्यायेन [काका- क्षिगोलक] न्यायेन वोभाभ्यां सम्बध्यत इत्यर्थः । नचानुदात्तपद एव सम्बन्धोऽस्तु एकाचि मास्त्वसाविति वाच्यम् । तथा सति पिपक्षति बिभत्सतीत्यादाविनिषेधाऽनापत्तेः । नचै- काचि पद एव सम्बन्धोस्तु मास्त्वनुदात्तपदे तत्सम्बन्ध इति वाच्यम् । सत्येवं कर्तुं हर्तु. - ।

फक्किकारलमञ्जूषा। मिति तुमन्नन्ते इनिषेधाऽनापत्तेः । इत्युभयत्रोपदेशपदसम्बन्ध आवश्यक इति भावः । एकाचः किपिति-ननु एकाग्रहणाऽभावे जंघनितेत्यादौ यङलुगन्ते निषेधस्य दुर्वा. रत्वेन व्यर्थमेव तदिति वाच्यम् । [स्थालीपुलाक] न्यायेन वक्ष्यमाणपरिभाषाज्ञापनेन तस्य सार्थक्यात् । तदाह-(१)श्तिपाशपानुबन्धेनेत्यादि-नच [ श्युः किती ] त्यत्रैका- ग्रहणल्यानुवृत्त्यर्थत्वेन कथमुक्तार्थे ज्ञापकत्वमिति वाच्यम् । तथा सति लक्ष्यानुसारे. वोक्तनिषेधज्ञापनादित्याहुरर्वाचीनाः । नव्यास्तु, एकाग्रहणमुत्तरार्थमित्युक्तवता भाष्य- कृता [एकाच उपदेश] इत्यत्रैकाजग्रहणस्यानवश्यकत्वं बोधितम् । नचेह,किञ्चित् पोइतीति भाष्येणोत्तरार्थस्याप्यै कान्ग्रहणस्येह करणं युक्तमिति वाच्यम् । भाष्यकृतवाऽत्रैकाज्ग्रहणस्य वैयॉपपादितत्वात् । नच हन्तिरूपोपदेशे वधादेशस्यैकाच्त्वान्निपेधः स्यादेवेति वाच्यम्। साक्षादुपदेशसम्भवे परम्परोपदेशग्रहणे मानाभावेनादोषात् । नच स्तिपा शपेत्यायुक्तज्ञापने ज्ञापकभूतैकाज्ग्रहणस्योत्तरार्थतया ज्ञापकत्वाऽभावाज्ज्ञापनासम्भवेन कथं यङ्लुकि तत्का- र्याप्रवृत्तिरिति वाच्यम् । यङ्लुकश्छान्दसत्वेन छन्दसि दृष्टस्यैवाऽनुविधानेन सर्वेष्टसि- वेरिति दिक् ॥ ननु अनयोः पूलयोः कर्ट कुर्वित्यादौ यथा उभयपूलनिर्मितकटपदोत्तराम विभक्तिगतै- कत्वविवक्षणं तथैवाऽव इत्यत्रडस्विभक्तिगतैकत्वस्य विवक्षणादेकत्वस्य संख्यात्वेन विशे. षणतया लक्ष्यानुरोधेन मत्वर्थलक्षणया एकावतो ग्रहणेन च सिद्ध व्यर्थमेकग्रहणमिति चेन्न। तस्योपदेशत्वावच्छेदेनैकाचो ग्रहणमिति बोधनेन सार्थक्यात् । तेन नावधीदित्यादौ निषेधः स्थान्युपदेशे एकाच्त्वेऽप्यादेशोपदेशेऽऽनेकाच्त्वात् । नच [अर्द्ध नपुंसकम्] [आकडारादेका संज्ञा] इतिसूत्रद्वयस्थनपुंसकग्रहणकाज्ग्रहणाभ्यां ज्ञापितस्य[सूत्रे लिङ्गवचनमतन्त्रमि]त्यस्य सत्त्वात्कथमुक्तप्रकारोपपत्तिरिति वाच्यम् । साक्षादुपदेशग्रहणेन चरितार्थत्वसम्भवे परम्परी- पदेशाङ्गीकारे बीजाऽऽभावात् ॥ आदेशश्चेह वैरूप्यसम्पादक एव गृह्यते । शसिदद्योः प्रतिषेधवचना- ज्ज्ञापकादिति-अयम्भावः [अत एकहल्मध्येऽनादेशादेलिटि] इत्यत्राऽऽनादेशघटकाऽऽदे- शपदेन विरूपत्वसम्पादकस्य ग्रहणम् । प्रमाणञ्चात्र शसिदद्योः प्रतिषेधवचनमेव, तथाहि, तत्रोपदेशपदेनोक्तरूपाग्रहणे स्वरूपस्याऽऽप्यादेशस्य ग्रहणापत्त्या यस्याऽङ्गस्य लिनिमित्त आदेशो न भवतीत्त्युक्तसूत्रस्यार्थे शस्धातोर्ददधातोश्चापि लिनिमित्तस्याऽऽदेशस्य सत्त्वा. देवाऽप्राप्त्या निषेधो व्यर्थः सन्नुतार्थ ज्ञापयतीति ॥ ननु उखधातोलिटि द्वित्वे हलादिः शेषे उत्तरखण्डाद्यवयवोकारस्य लघूपधगुणे उवडि (अतो गुणे) इतिपररूपे उवोखेति रूपसिद्धिः, अत्र पररूपात्प्राक् (इजादेचे)त्याम् कुतो ने. त्याशङ्का समाधत्ते-सन्निपातपरिभाषया [इजादेरि त्याम्नेति-द्वयोः सम्बन्धस्सन्नि- पातस्तल्लक्षणजायमानो विधिः स्वातिरिक्तसम्बन्धविघातकशास्त्रे निमित्तं न भवतीत्यर्थः । तथाच प्रकृतिप्रत्यययोर्यः पूर्वापरीभावः सम्बन्धस्तल्लक्षणजायमानो लघूपधगुणविधिः स्वाति- रिक्तलिट्परत्वसम्बन्धविघातके आमि न निमित्तम् , आमि सति लिट्परत्वव्याघातः स्प. (१) शितपा शपाऽनुबन्धेन निर्दिष्टं यद्गणेन च । यत्रैकाच्ग्रहणं चैव पञ्चैतानि न यङलकि ॥

भ्वादिप्रकरणम् । ट एव । इजादेरित्यत्र गुरुमानिति नित्ययोगे मतुपो विधानानित्यं यो गुरमानित्यर्थे प्रध वृद्धावित्यादावेवाऽऽम् न तु प्रकृते तत्प्रसक्तिरित्यन्ये ॥ ननु ऊखतुरित्यत्र पूर्व कृते सवर्ण दीर्धे तस्य पूर्वान्तवनावेनाऽभ्यासत्वेन (हस्व) इत्यनेन कुतो न पुन:स्व इत्यत आह-इह सवर्णदीर्घस्याऽभ्यासग्रहणेनेति-अयम्भा- वः । (वार्णादाङ्ग बलीयः) इत्यनया परिभाषयाऽन्तरङ्गमपि सवर्णदीर्घ बाधित्वा पूर्व कृते हस्वे ततो दीघे (लक्ष्ये लक्षण) न्यायेन न पुनर्हस्वापत्तिः । न च पिष्टपेषणवद्धस्वस्य ह्रस्व. विधानस्य वैययेन तच्छंकोत्थापनं निर्मूलमेवेति वाच्यम् । पर्जन्यवल्लक्षणप्रवृत्तेः सिद्धान्त- सिद्धत्वेन फलाऽभावेऽप्यङ्गाऽवयवाऽभ्यासरूपस्थानिनि विधीयमानहस्वप्रवृत्तेरनिवार्यत्वात्। नच स्योन इति भाष्यकृदुक्तोदाहरणादुत्तपरिभाषाऽनित्यत्वादप्रवृत्त्या द्वित्वनिमित्तको यो बहिरङ्गहस्वस्तदपेक्षयाऽन्तरङ्गासवर्णदीर्घस्यैव प्रवृत्त्या पुनरुक्तदोपस्तदवस्थ एवेति वाच्यम् । (षत्वतुकोरसिद्ध) इत्येतद्धटकतुग्ग्रहणेनाऽन्तरङ्गपरिभापाया अप्यनित्यत्वाद्धस्वस्यैव परत्वा- त्प्रवृत्तेरिति ग्रन्थकर्तुराशयः । नव्यास्तु, अभ्यासविकारे बाध्यबाधकभावाऽभावाद्धस्वदी. धयोरेकदा प्राप्तौ (लक्ष्ये लक्षण) न्यायान्न पुनर्व्हस्व इत्याहुः । उक्तपरिभाषया हस्वहला- दिशेषयोः समावेशे उक्तन्यायेन न पुनरसाविति केचित् । ननु कृसभ इत्येषां प्रकृत्याश्रयस्य (एकाच उपदेशऽनुदात्तादि)ति निषेधस्य प्राप्तत्वा- त् वृबृजोस्तु उदात्तत्वेन (श्रयुकः किती)तिप्रत्ययाश्रयस्य निषेधस्य प्राप्तत्वाच्च, ग्रहणं व्य- र्थम् । भारद्वाजनियमप्रापितेनिषेधाय स्तुद्वादीनां सार्थक्यमित्याह-क्रादीनां चतुर्णी ग्रहणं नियमार्थमिति-नियमाकारस्तु मूल एव स्फुटत्वादन नोक्तः । अव्यवहितोत्तर- त्वसम्बन्धानवच्छिन्नधातुत्वावच्छिन्नप्रकारतानिरूपितविशेष्यताप्रयोजकप्रत्ययघटितशास्त्रत्वं प्रकृत्याश्रयत्वम् । यावानिति । नश्वाशब्दान्यतरप्रापित इत्यर्थः । तेन षिधू इत्यस्य सिषेधिथेत्येकमेव । यत्तु (अनन्तरस्य विधिर्वा भवति प्रतिषेधो वे)ति न्यायेन प्रक्रमाद्वा नप्रापितस्यैव नियमस्तेनोक्तधातोरुभयमिति तन्न । (उपदेशेऽत्वत)इति सूत्रे नित्यानिट इत्यस्याक्षिावर्त्य इत्यर्थपरभाष्यासङ्गतिः । यदि च वाप्राप्तानियमो न स्यात्तदा तत्राऽप्यूदित्वप्रयुक्तविकल्पस्य सद्भावात्तदसङ्गतिः । मम तु क्रादिनियमेन नित्य इडिति भावः । नान्येभ्य इति-तेन बभूविवेत्यादेः सिद्धिः । नियमाकारे प्रकृत्याश्रयः प्रत्ययाश्रयः इत्युक्तन्तत्र विचार्यते । अस्तु नाम प्रकृत्याश्रयनिषेधस्य नियमः वृग्रहणस्थ ववर्थे त्यत्राप्राप्तनिषेधप्रापकत्वेन प्रत्ययाश्रयस्य नियमासम्भवात् । थलोऽकित्वेन न तम्र प्रत्ययाश्रयनिषेधप्राप्तिः । वृज उदात्तत्वेन नापि प्रकृत्याश्रयनिषेधप्राप्तिः । न चैवमपि वृडो नियमार्थत्वमस्त्विति वाच्यम् । तस्य विशेषरूपेणाऽत्राग्रहणात् । यद्यपि विशेषरूपेण तत्र वृशोऽपि न ग्रहणं तथाप्यप्राप्तनिषेधप्राप्तिफलकत्वेन वृक्ष एव ग्रहणम् । एवञ्च (युकः किति) इति निषेधो दुर्वार एवेति चेदुच्यते, (बभूथाततन्थे) ति सूत्रे छन्दसि ववषैति निपातनेन भाषायां वृषस्थल इटः स्वीकर्तव्यत्वावृग्रहणस्य थलविषयत्वाऽयोगेन वमादीनां चकित्वेन नियमस्य सुस्थत्वात् ॥ ननु संज्ञाशास्त्रस्य कार्यकालपक्षे न पृथग्वाक्यार्थबोधः किन्तु विधिवाक्येन सहैवेति सिद्धान्तः । तथा च (सन्वल्लघुनि) इति संज्ञाशास्त्रमेकाचो द्वेऽङ्गसंज्ञेति सहितमुपस्थितम् ।

९२ फक्षिकारत्नमञ्जूषा। ततश्च, अङ्गाभिन्नैकाचकर्मक यद्विरुच्चारणं तत्र पूर्वाभ्याससंज्ञः स चाऽभ्यासः चपरकणि- परकलघुपरकः सन्वभवतीत्यर्थ इति माधवमतम् । तदाह-(१)संज्ञायाः कार्यकाल- स्वादिति-अजजागरदित्यत्र सन्वद्भाववारणाय वार्तिककृता (जागर्तेः प्रतिषेधो वक्तव्यः) इति वार्तिकमारब्धम् , भाष्यकृता तु तत्प्रत्याख्यातम् । माधवमते सन्वद्भावस्य तत्राऽप्रा- प्त्या तदुभयमपि विरुद्धमित्याह । ऊर्णा दीर्घ इति-तेन औMनवदित्यस्य सिद्धिः । नात्र सन्वद्भावोपयोगो णौ कृतादेशस्य स्थानिवद्भावेन निषेधेन वा नुशब्दद्वित्वे सत्यभ्या. सेऽवर्णाऽभावात् । अर्थापयताविति–अर्थमावष्ट इत्यर्थे णिच्यापुगागमे ततः च्लेश्चडि दीर्घ (सन्वत् )इतीत्वे च, आर्तीथपदिति सिद्धम् । चकास्तौ तूभयमिदमिति-चपरे गौ यल्लघु इति व्याख्याने न स्यात् । चपरे णौ यदङ्गमितिव्याख्याने तु स्यात् , तेन अच- चकासत् अचीचकासदिति रूपद्वयं सिद्धम् । ननु येनोभ्यार्थेनोक्तरूपद्वयसिद्धिस्तदर्थद्वयं कथं लभ्यत इत्याह-विशेष्यं सन्निहितमिति-अत्र किम्प्रमाणमित्याकांक्षायामाह -इति ब्याख्याविकल्पस्य कैयटेनैव वर्णनादिति-चपर इत्यावर्त्य अग्लो- पविशेषणत्वेन योजितस्य फलमाह-णेरग्लोपेऽपि सम्बन्ध इति-श्रिद्धस्नुपरतो. ऽग्लोपित्वासम्भवनात्रापि चङ्पर इत्येतावतैव णाविति लभ्यत इत्यवसेयम् । अगिताम- पिसिद्धये इति-पचिकमिशकिप्रभृतीनामित्यर्थः । इत्संज्ञकानां लोपो न णिचं प्रतीक्षत इत्याशयः ॥ ननु अयधातोरात्मनेपदित्वात्ततश्शानचो विधानस्यैव युक्तत्वाच्छतृप्रत्ययासम्भवेन (२)(उदयति विततोद्ध्वरश्मिरज्वावि)ति माघश्लोके उदयतीति प्रयोगोऽनुपपन्न इत्यत आह-इटकिटकटीत्यति । कटीत्यत्र इधातोः प्रश्लेषादयतिरूपस्य सम्भवेनोक्तकाव्यप्र. योग उपपन्नः । पक्षान्तरेणोपपत्तिप्रकारमाह-यद्वा अनुदात्तत्त्वलक्षणमात्मनेपदमनि- (१) संज्ञाया कार्यकालत्वादङ्ग यत्र द्विरुच्यते । तत्रैव दीर्घः सन्वच्च नानेकाक्ष्विति माघबः ॥ १ ॥ चकास्त्यर्थापयत्यूर्णोत्यादौ नाङ्ग द्विरुच्यते । किन्त्वस्यावयवः कश्चित्तस्मादेकाक्ष्विदं द्वयम् ॥ २ ॥ वस्तुतोऽस्यावयवो योऽभ्यास इति वर्णनात् । ऊौँ दीर्घोऽर्थापयतौ द्वयं स्यादिति मन्महे ॥ ३ ॥ चकास्तौ तूभयमिदं न स्यात्स्याच्च व्यवस्थया । विशेष्यं सन्निहितं लघुनीत्यमेव वा ॥ ४ ॥ इति व्याख्याविकल्पस्य कैयटेनैव वर्णनात् । रग्लोपेऽपि सम्बन्धस्त्वगितामपि सिद्धये ॥ ५ ॥ इति व्याख्यातकारिकासंग्रहः । २) उदयति विततोलरश्मिरजावहिमरचौ हिमधाम्नि याति चास्तम् । बहति गिरिरयं बिलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ।। इति श्लोकाकारः ।

भ्वादिप्रकरणम् । ९३ , त्यमिति अन ज्ञापकं चक्षिडो डित्करणम् । तथा हि, चक्षिको डिस्करणाऽभावेऽनुदात्त- त्वादेवात्मनेपदसिद्धौ व्यर्थन्तदुक्ताथै ज्ञापकम् । अस्य भाष्येऽदृष्टत्वात्पूर्वप्रकारेणैवोपपायः तदस्वीकर्तृणान्न एव स इति भावः ॥ ननु प्यायधातोलिटि (लिटि धातोरनभ्यासस्य)(लिड्यङोश्चे)ति सूत्राभ्यां युगपद्वित्व- पीभावयोः प्राप्तौ परत्वाद्वित्वं बाधित्वाप्यायः पीभावे (सकृद्तौ यद्वाधितं तद्वाधितमेव) इति न्यायेन पुनद्वित्वं न स्यादित्यत आह-पुनः प्रसङ्गविज्ञानात्पोशब्दस्य द्वित्वमि- ति-घटादिगणे येऽन्यविकरणा अनूयन्ते तेषां तत्तत्प्रयुक्ता एव विकरणाः । ये तु भ्वादिस्था एवानूयन्ते स्वतन्त्रा वा पट्यन्ते तेषां शवेव । तेषु च येऽन्यत्राऽधीता इह पठ्यन्ते तेषामर्थ- नियमः । येत्विहैव पट्यन्ते तेषामुपसर्गादिनार्थान्तरपरत्वेपि मित्त्वमस्त्येवेति धातुवृत्त्या- दिषु स्थितं तदेत्तध्वनयन्नुदाहरति-विघटयतीति । ननु घटधातोर्मित्त्वे (कमलभवनो- दूधाटन) (१)प्रविघाटयितेत्यादयःप्रयोगा नोपपद्यन्त इतिचेन्न । चौरादिकस्यामितो घट स. घात इति धातोरुक्तरूपाऽभ्युपगमेनोपपत्तेः। नच भ्वादिस्थस्यैवोक्तधातोरत्रार्थान्तरे मित्त्वा- र्थमनुवादाद्दोपस्तदवस्थ एवेति वाच्यम् । अहेतौ स्वार्थे णिचि ज्ञपादिपञ्चातिरिक्ताश्चुरादयो मितो नेत्यर्थक (नाऽन्ये मितोऽहेतावि)ति निषेधात् । अनुवादसामर्थ्येन मित्त्वबाधकल्प- नापेक्षया स्वतन्त्रकल्पनस्यैव न्याय्यत्वात्। नच चुरादिपठितस्यैव घटधातोः पित्त्वार्थमि- हानुवाद इति वाच्यम् । तथासति तत्रैव घटिषिति पठितुं युक्तत्वात् । ण्यासश्रन्थेति युचा एव प्राप्त्या पित्वे फले विशेषाऽभावाच्चेति भावः ॥ हलादिः शेषापवाद् इति-यथास्थानिकहलादिः शेषापवाद इत्यर्थः। नचाऽभ्या. सविकारे वाध्यबाधकभावाऽभावादिदमसंगतमेवञ्च वस्यैव सम्प्रसारणापत्तिरिति वाच्यम् लियभ्यासस्योभयेषामित्यत्रोभयेषांग्रहणसामर्थ्यात्सामान्यत एवाऽभ्यासलोपाभ्यासस- म्प्रसारणविषये तन्नायाऽप्रवृत्तिज्ञापनेनेहादोषात् । सम्प्रसारणं तदाश्रयञ्च कार्य बलवदि- ति तूक्तसूत्रस्थोभयग्रह गवैर्ध्यापत्त्या तत्सुत्रभाष्य एव प्रत्याख्यातमिति तदुपन्यासः केषा- ञ्चिदयुक्त एवेति दिक् ॥ केचिद्घटादौ [अत्स्मृद्वत्वर] इति सूत्रे दीर्घस्थाने हस्वं पठन्ति तनोति माधव इति । सूत्रे दीर्घान्तपाठस्यैव सर्वसम्मतत्वाद्घटादावपि दीर्घान्त एव सर्वैः पठ्य. ते । यद्ययं हस्वान्तः स्यात्तदा दूहृदृ इति धातुद्वयेन ददतुरिति रूपद्वयसिद्धौ (शृप्रां ह- स्वो वे) ति वैकल्पिकहस्वविधायके दृग्रहणस्याऽऽनर्थक्यं स्यात् । न च विदारणेऽर्थे रूप- द्वयसिद्वयर्थं तत्र दृग्रहणस्याबश्यकत्वेन कथं वैयर्थ्यमिति वाच्यम् । धातनामनेकार्थत्वेन- समीद्वितरूपोपपत्तेरिति तदाशयः ॥ श्रा पाके, त्रै इति कृतात्वस्य श्रा इत्यादादिकस्य च सामान्येनानुकरणम् । १) किरातार्जुनीयकाव्ये २ सर्गे भारवेरयं श्लोकः- अभियोग इमान्महीभुजो भवता तस्य कृतावधेः । प्रविघाटयिता ससुत्पतन् हरिदश्वः कमलाकरानिव ।।

फक्किकारत्नमञ्जूषा (१) लुग्विकरणालुग्विकरणयो रलुम्विकरणस्य (२) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति परिभाषाभ्यामिति-(स्वरतिसूति) इत्यत्र सूङिति पठितेनापि रूपद्वयोपपत्तौ सूतिसूयत्योः पृथग्ग्रहणं व्यर्थ सत्पूर्वपरिभाषां ज्ञापयति । द्वितीया तु न्यायसिद्धा । यद्यप्युक्तपरिभाषाद्वयस्य परस्परविरोधादिहाप्रवृत्तावपीष्टसिद्धि- स्तथापीहोभयोरविशेषात्प्रवृत्तिरपि युक्तैवेति भावः ॥ ननु निशामनशब्दस्य शम आलोचन इत्यस्मान्निष्पन्नत्वेन विचारार्थकत्वादर्शनार्थ- कत्वं न स्यादित्यत आह-निशामनं चाक्षुषज्ञानमिति माधव इति-(अन्यमते ज्ञाप- नञ्च तदर्थः । ननूक्तशब्दस्यैतदर्थकत्वाभ्युपगन्तृणाम्मते (श्लाघन्हुङ् स्था) इत्यत्र ज्ञीप्स्य. मानो बोधयितुमभिप्रेत इति वृत्तिग्रन्थे सङ्गतेऽपि मारणादिकञ्च तस्यार्थः । एवञ्च माधव- मतेऽप्युक्तग्रन्थस्य सङ्गतिः। ननु ज्ञाधातोपिधातोश्च णौ मित्वाध्रस्वेन भाव्यमित्याशंकते- तथं विज्ञापना भर्तृविति-समाधत्ते-माधवमते चाक्षुषज्ञाने मित्वाऽभावा- दिति । एवञ्च ज्ञाधातोर्बोधनेऽर्थे ज्ञापयति, ज्ञपेस्तु ज्ञपयतीति माधवमते रूपद्वयं बोध्यम्॥ ननु अनुपसर्गस्यैव ज्वलादेवैकल्पिकमित्वं सोपसर्गस्य तु नित्यमेव एवञ्च प्रज्वालयती. त्यनुपपन्नमित्याह-कथं तर्हि प्रज्वालयति उन्नामयतीति । उत्तरयति-घअन्ता- त्तत्करोतीति णाविति । ननु (नोदात्तोपदेश) इति प्रतिषेधात्क्रमेजि क्रम इत्येवं नतु काम इति तथा च सं. क्रामयतीत्यनुपपन्नमित्याह-कथं संक्रामयतीति-समाधानमाह-'मितां ह्रस्व' इति. सूत्रे-वाचित्तविराग इत्यतो वेत्यनुवर्त्य व्यवस्थितविभाषाश्रयणादितिवृत्ति- कृदिति । एवञ्च क्वचित् गौ मितां हस्व इत्यस्य न प्रवृत्तिरिति भावः । एतेन इति जित्वा दिशो जिष्णुर्यबर्तत रथोद्धतम् । रजोविश्रामयन राज्ञां धुर्यान् विश्रमयेति सः ॥ इति व्याख्यातम् । घनन्तात्क्रमशब्दात्प्रज्ञाद्यणि क्रामशब्दं स्वीकृत्य ततस्तत्करो- तीति णावुक्तप्रयोगसिद्धिरिति केचित् । ननु (न कम्यमिचमामि) त्यनेन दर्शनार्थे शाम्यतेर्मित्त्वाभावविधानेन दर्शनातिरिक्ता- थे मित्त्वावक्ष्यमाणप्रयोगानुपपत्तिरित्याह-कथं तर्हि (३) निशामय तदुत्पत्तिमि- ति-चौरादिकस्य शम आलोचने इत्यस्योक्तरूपम् । नचैवं रीत्योक्तप्रयोगनिष्पत्तावपि (१) खरतिसूतीतिसूत्रे सूडिति वक्तव्ये सूतिसूयत्योः पृथङिनर्देशो हि परिभाषायां कैयटमते ज्ञापकः । अस्याः कार्य साहचर्यपरिभाषया सम्पाद्य भाष्ये नेयं पठिता । (२) लक्षणानुसन्धानपूर्वकं विलम्बोपस्थितिकं लाक्षणिकम् । तत्तद्विभक्तिविशेषाद्यनु- वादेन विहितः शीघ्रोपस्थितिकः प्रतिपदोक्तस्तयोर्मध्ये प्रतिपदोक्तस्यैव ग्रहणम् । विलम्बोप- स्थितिकत्वशीघ्रोपस्थितिकत्वयोरेव परिभाषायां बीजत्वम् । भुवश्च महाव्याहृतेरित्यत्र महा. व्याहृतिग्रहणादनित्या चेयम् । ३ ) सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः । निशामय तदुत्पत्तिं विस्तराद्गदतो मम ।। अयं दुर्गासप्तशत्याः प्रथमश्लोकः ।

भ्वादिप्रकरणम् । नार्थसङ्गतिरिति वाच्यम् । (१)शाम्यतिवद्धातूनामनेकार्थत्वात्तत्सङ्गतेरिति भावः ॥ ननु पै धातो डि अपासीदितीष्टरूपं न स्यात् (घुमास्थे) त्येतद्विहितत्वापवादस्य 'एलिडी'त्येत्वस्य 'गातिस्थेति सिज्लुकश्च प्राप्तेरिति चेन्न । (लक्षणप्रतिपदोक्तयोः प्रतिए- दोक्तस्यैव ग्रहणमि)ति परिभाषयाऽऽत्वनिष्पन्नस्य वा इत्यस्य लाक्षणिकत्वात्ततः प्रतिप- दोक्तस्य तस्य तत्तत्सूत्रे ग्रहणबोधनेनाऽनुपपत्तेरभावादित्याह-घुमास्थेतीत्वं तदपवाद एल्डिीत्येत्वमिति । आदादिकोऽयमिति हरदत्तः फले तु न भेद इति । ननु गाधातोर्लटि तत्स्थाने आतामि शपि गा आतामिति स्थितौ ( वार्णादाङ्ग बलीयः) इति परिभाषया वर्णनिमित्त. ककार्यादङ्गनिमित्तककार्यस्य बलवत्त्वबोधनेन 'आतो डितः' इत्यस्य दीर्घात्प्रागेव प्रवृत्ती फलभेदस्य स्पष्टत्वात्तन्मूलोक्तमयुक्तमिति वाच्यम् । स्योन इति भाष्योदाहरणादुक्तपरि- भाषानित्यत्वेन फलभेदाभावेन मूलोक्तस्य युक्तत्वात् । नवोक्तधातोश्शानचि मुकि फलभेद इति वाच्यम् । वार्णशास्त्रीयस्थानितासमानाधिकरणस्थानिताकत्वरूपसमानकायित्व एवोक्तपरिभाषाप्रवृत्यभ्युपगमेनादोषादिति भावः ॥ ननु (नेर्गदे)ति सूत्रे मारूपस्य ग्रहणात्तस्मिन्नुत्तरपदे उपसर्गस्थनिमित्तात्परस्य नस्य णत्वविधानादिह शिद्विषये आत्वाप्राप्त्या मारूपत्वाऽभावेनाऽशिद्विषये आत्वेऽपि तस्य लाक्षणिकत्वादग्रहणेन च गामादाग्रहणेष्वविशेषेऽपि मीनातिमिनोतीत्यादिना कृतात्वयोरपि ग्रहणापत्त्या तदनङ्गीकारेण च सर्वथा णत्वस्य दुर्लभत्वात्प्रणिमयते इति न स्यादत आह- मत्र घुप्रकृतिमाङिति पठित्वा ङितो माप्रकृतेरपि ग्रहणस्येष्टत्वादिति । घुश्च प्रकृतिश्च माङ्चेति द्वन्द्वे कस्य प्रकृतिरित्याकांक्षोदये सामीप्यात्पूर्वोत्तरयोरेवेति ( दाधा- वि)ति सूत्रभाष्ये सिद्धान्तितत्वेन प्रणिदयत इत्यत्रेव तत्रापि णत्वं सुलभमिति दिक् ॥ षत्वपक्षे णत्वमिति । नन्विदमनुपपन्नं पत्वस्य पदद्वयापेक्षत्वाबहिरङ्गत्वेनासिद्ध- त्वादिति चेन्न । धातूपसर्गयोः कार्यमन्तरङ्गमित्यभियुक्तोक्त्या षत्वस्यान्तरङ्गत्वबोधनेन प्राक् प्रवृत्तेः । (पूर्व धातूपसर्गेण युज्यते पश्चात्साधनेने)ति भाष्यमपि तत्र मानम् । पूर्व धातोः साधनेन योगः पश्चादुपसर्गेणेति मतान्तरे तु नैव णत्वमित्यलम् ॥ ननु व्येलो लिटि णलि (न व्यो लिटी)त्यात्वनिषेधे द्वित्वे परत्वाद्धलादिः शेष इत्य- नेनाऽभ्यासाऽवयवयकारस्य लोपे सम्प्रसारणाऽप्राप्त्या विव्यायेति रूपन्न स्यादत आह- परमपि हलादिः शेषं बाधित्वा यस्य सम्प्रसारणमिति-अत्र प्रमाण (लिब्य- भ्यासस्योभयेषामि)त्यत्रोभयग्रहणम् । वच्यादीनां ग्रह्यादीनाञ्च ग्रहणार्थमेव सूत्रे तद्- ग्रहणमनुवृत्यैव सिद्ध व्यर्थं तद्ग्रहणं ज्ञापयति परमपीति भावः । इति भ्वादयः ॥ (१) यथा शाम्यतेनिशामयतीत्यादौ दर्शने प्रयोगस्तथा चौरादिकशमधातोरपि श्रवणे वृत्तिर्भविष्यतीत्यर्थः ।।

फक्किकारत्नमञ्जूषा। . अथ तिङन्तेऽदादिप्रकरणम् । ऋतेरीयङ्-'वञ्चिलुच्युतश्चेति निर्देशात् 'कमेणि” इति निर्देशाच्च इका नि- दिष्टस्तान्तोऽयं धातुर्नविकारान्तः । यत्तु ईयडोदीर्घोच्चारणात्तान्तोऽयं धातुः, इदन्तत्वे हि सवर्णदीघणैव सिद्धेरियङमेव कुर्यादिति, तन्न, 'एनरेकाच इति याणापत्तौ सवर्णदीर्घस्य दुर्लभत्वात् । न च ऋतेर्यविधौ (अकृत्सा)ति दीर्घोपपत्तेरीयङ् विधानं तान्तत्व लिई स्यादेवेति वाच्यम् । यड्दिा न्यडोरिति द्वित्वापत्तेरिति भावः ॥ ननु जघस् अतुसिति किती महनेत्युपधालोपे तस्य 'अचः परस्मिन्निति स्था- निवत्वेन व्यवधानात् खर्परत्वाऽभावाच्चत्वाप्राप्त्या जक्षतुरिति न सिध्येदत आह- गमहनेत्युपधालोपस्तस्य चर्विधि प्रतीति-'न पदान्त' सूत्रेग चव॑म्प्रतिस्थानि त्वनिषेधात्सर्वमुपपन्नमिति भावः ॥ ननु हन्तेर्लोटि मध्यमपुरुपैकवचने हौ तस्मिन् 'हन्तेर्जः इत्यनेन हनो जादेशे 'अतो. हे?" इति हेर्लंग दुर्वार इति शंकां सामाधत्ते--अभीयतया अस्यासिद्धत्वाद्धर्न लुगि- ति । यत्तु सन्निपातपरिभाषयाऽपि हेर्लुको व्यावृत्तिः सम्भवतीति तन्न । 'अतोहे: इ. त्यारम्भसामादुक्तपरिभाषाऽप्रवृत्तेरिति ॥ वधादेशोऽदन्त इति-तेनाऽऽदेशोपदेशकालेऽनेकाच्त्वेन अवधीदित्यत्र 'एकाच इतिनिषेधस्याऽप्रवृत्तावपि 'अतो हलादेः' इत्यनेनेडादौ सिचि प्राप्ताया वृद्धरल्लोपस्य स्थानिवत्त्वेन व्यवधानाद्वयावृत्तिरिति भावः ॥ अयं दर्शनेऽपीति-'विश्वारूपा अभिचष्टे शचीभिः' इत्यत्र दर्शनार्थत्वेन व्याख्या- तत्वादिति भावः । नुम् तु न अन्तेदित इति व्याख्यानादिति-'इदितो नुम् धातोरिति नुम्विधौ 'गोः पदान्ते' इत्यतोऽन्त इत्यास्यानुवृत्याऽन्त्यावयकारेत्संज्ञकधा- तोरेव नुमिति भावः । एवञ्च नुमागमशंकोच्छेदाय चक्षिक इकारस्थाने अकार एव व क्तुमुचित इति ॥ ननु अनुदात्तत्वेनैव तङः सिद्धौ उकारोच्चारणं व्यर्थमित्यत आह-उकारस्त्विति । इदं माधवाऽनुरोधेन । एतस्य मूलोक्तपरिभाषायां ज्ञापकत्वेन भाष्येऽनुपन्यासात्स्फाय- ग्नित्यादिप्रयोगा असाधव एवेति परे अत्र भाष्ये खुशादिरयमादेश इति-अयम्भावः 'चक्षिक ख्याञ्' इत्यनेन न चक्षिकः ख्यामादेशः किन्तु ख्रशालादेश एव, तेन पुख्यानमित्यत्र न 'पुमः खय्यम्परे' इति रुत्वमित्यादि सन्धापेवोक्तम् । असिद्धकाण्डे (शल्य योवेति स्थितमि)नि तेन णत्वप्रक- रणान्तरमिति शेषः । अत एव शकारेण व्यवायान्न 'कृत्य च' इत्यनेन पर्याख्यानमित्यत्र गत्वम् । नापि सुप्रख्येन निवृत्तं सौप्रख्यं तत्र भवः सौप्रख्यीय इत्यत्र यत्वासिद्धत्वेन 'धन्वयोपधादिति वुम किन्तु छप्रत्यय एवेत्यलम् ॥ ननु 'ईशीड्जनां सेध्वयोरित्येकयोगकरणेनैव प्रयोजनसिद्धे पृथग्योगकरणं व्यर्थमि- त्यत आह-योगविमागो पैचित्र्यार्थ इति । ध्वे इत्यस्य पूर्वयोगेऽपकर्षः । से इत्य- स्योत्तरत्रानुत्तिरित्येवं विचित्रबोध इत्यर्थः । नच ईशेवं इडभावाय योगविभागस्यावश्य- . ।

अदादिप्रकरणम्। कतया वैचित्र्यार्थकथनमयुक्तमिति वाच्यम् । भाष्यविरोधात् । ईड्जनोचे चति भा- प्यसम्मतपाठः ॥ ननु शासेरापूर्वकत्वस्य नित्यत्वेन प्रशास्मह इत्यस्यानुपपत्त्या इदं कविभ्यः पूर्वभ्यो नमो वाकं प्रशास्महे । विन्देम देवतां वाचममृतामात्मनः कलाम् ॥ इति कविप्रयोगस्य का गतिरित्यत आह-आपूर्वत्वं प्रायिकमिति । अत ए- वोक्तकविप्रयोगसङ्गतिः । नच प्रशास्मह इत्यत्रेच्छारूपार्थप्रतीत्यभावान्नास्य धातो रूप- मिति वाच्यम् । धातूनामनेकार्थत्वात् । वचनं वाकः, वचे । नमोवार्क नमस्कारमिति यावत् । प्रशास्महे कुर्मह इति यावत् ॥ ननु लिङ्स्थानिकादेशस्य तिपः पित्त्वात्तस्य च(यदागम) परिभाषया याऽसुविशिष्टे सत्त्वात्तस्मिन् 'उतो वृद्धिलकी'त्यनेन वृद्धिर्दुवरित्यत आह-इह उतो वृद्धिर्न । भाष्ये जिश्च डिन्न ङिच्च पिन्नेति व्याख्यानादिति-सार्वधातुकमपिदित्ययावृत्याऽस्य लानः। ननु पूर्ववाक्येन ङित्त्वमपि दुर्लभमत आह-विशेषविहितेन डिबेन पि- त्वस्य बाधादिति ॥ ननु ऊर्णोतेलिटि णुशब्दस्य द्वित्वे उत्तरखण्डे णकारश्रवणं दुर्वारमत आह--नुशब्द- स्य द्वित्वमिति-उपदेशे न एव न तु णः' स तु 'रपाभ्यामित्यनेन भवति, तस्य द्वि- त्वदृष्टयाऽसिद्धत्वान्नुशब्दस्यैव द्वित्वम्' यबुध्या शास्त्रप्रवृत्तिस्तदीयद्वितीयप्रयोगस्यैव साधुत्वान्वाख्यानान्नोत्तरखण्डे णकारश्रवणं पूर्वोच्चारेण व्यवधानाच्च न शास्त्रेण णत्वप्रस- तिरिति भावः । ननु (पूर्वत्रासिद्धीयमद्वित्वे) इति परिभाषया णत्वस्यासिद्धत्वाऽभाव. बोधनान्णकारस्यैव द्वित्वेनोत्तरखण्डे तळूवर्ण दुर्वारमेवेत्यत आह-(१) पूर्वत्रासिद्धा- यमद्वित्वे इति त्वनित्यमिति--पूर्वत्रासिद्धमित्यधिकारे भवमित्यर्थः । गहादेराकृति- गणत्वाच्छः । यत्पूर्वत्राऽसिद्धीर्य शास्त्रं तत्राद्वित्वे इत्यस्योपस्थितिस्तस्य च पुर्ववेत्यने- नान्वयाद्वित्वभिन्ने पूर्वत्र कर्तव्ये इदमसिद्धमित्यर्थः । द्वित्वं त्वन्यत्रासिद्धम्भवत्येव । अत्र द्वित्वशब्देनाविशेषाषाष्ठाष्टमिकयोर्ग्रहणम् । परिभाषाऽनित्यत्वे प्रमाणमाह--उभौ साभ्यासस्यति- अन्यथा अन्धातोः 'अनिते' रित्यनेन कृतणत्वस्य द्वित्वे प्राणिणत् प्राणिजिपतोत्यादिसिद्धौ व्यर्थ सदुक्तसूत्रं परिभाषाऽनित्यत्वे ज्ञापकमिति भावः ॥ ननु 'एतेलिङि इत्यनेनोपसर्गात्परस्येणोऽणो ह्रस्वविधानादभीयादित्यत्रापि हस्वो दुर्वार इत्याशंक्य समाधत्ते--उभयत आश्रयणे नान्तादिवदिति-यथा द्वयोरेकः प्रे. प्यस्ताभ्यां युगपन्निन्नदेशकाय प्रेरितोऽविरोधार्थी न कस्यापि करोति कार्यन्तद्वत् पूर्वपर- शब्दाभ्यामन्तादिशब्दाभ्याञ्च विरोधस्य स्फुटत्वाद्विरुद्धातिदेशस्य युगपदसम्भव इति भावः । नैतद्विपये स्थानिवद्भावप्रवृत्तिः, आनुमानिकस्थान्यादेशमावे विशिष्टस्य स्थानि. त्वेऽपि प्रत्येकं तयोः स्थानित्ये मानाभावात् वर्णयोरेव श्रौतस्थान्यादेशभावविधानाच्चे- ति बोध्यम् । नच भान्तस्य (एकदेशविकृत) न्यायेनोपसर्गत्वात्परादिवद्भावेनेकारस्ये- (१) द्वित्वभिन्ने पूर्वत्र कर्त्तव्ये परशास्त्रमसिद्धमित्यर्थः । अत्र ज्ञापकं तु पूर्वत्रा- सिद्धमित्यधिकारभव शास्त्रमेवेति । अनित्यत्वे ज्ञापकवर्णनं च मुले एव स्पष्टमिति बोध्यम् ।

९८ फक्किकारत्नमञ्जूषा। णत्वाद्धस्वो दुर्वार एवेति वाच्यम् । परिच्छिन्नपरिमाणार्थवाचकद्वयादिद्रोणादिशब्दानां न्यूनाधिकयोरप्रवृत्तिवत्सर्वाग्रुपादानेन क्रियमाणसंज्ञायाः शास्त्रव्यापार विना न्यूनाधिकयो- रप्रवृत्तिवच्च परिच्छिन्नपरिमाणे तदप्रवृत्या दीर्घविशिष्टे भान्ते च लौकिकन्यायेनोपसर्ग- स्वाभावादुपसर्गसंज्ञायाः परिच्छिन्नपरिमाणप्रादिगतत्वादिति भावः । अन्येतु लक्ष्यानु- सारात्क्वचिदुक्तन्यायानाश्रयणाददोषः इत्याहुः ॥ ननु तेर्लोटि सिपि 'ब्रुवः पञ्च नामि' त्याहादेशे आह सिप इति स्थितावाहः स्था- निवत्त्वेन ब्रूत्वात्ततः परस्य सिपः 'ब्रुव इडि'-ति इट् दुर्वार इत्यत आह--आत्थेत्यत्र झलीति थत्वविधानान्न भवतीति । 'आहस्थः' इत्यनेन सिप्पे झलि हस्य थवि- धानसामर्थ्यादिण नेति कल्प्यते । अन्यथा सतीडागमे झलादित्वाभावात्तदप्राप्त्या आत्थे- ति रूपं न स्यादिति भावः ॥ ननु ब्रूतेर्लोटि तत्स्थाने मिपि तस्मिन्ब्रुवो गुणे मिप आनि तस्मिन्नवादेशे स्थानिव. भावेन मिपः पित्त्वस्याऽऽनौ सुलभत्वादुक्तसूत्रेणेदुर्वार इत्यत आह-ङिच्च पिन्नत्य- पित्वादिणनेति । (ङच्च पिन्न पिच्च डिन्ने)ति भाष्याद्विशेषविहितेनादिष्टङित्त्वेन पि. त्वस्य बाधात्पित्त्वाभावादेव नासाविति भावः ।। ननु 'द्विर्वचनेऽचि' इत्यनेन द्वित्वनिषेधादिङ एव द्वित्वे उत्तरखण्डस्य गाऽऽदेशे अ. धीगे इति स्यान्नत्वधिजग इत्यत आह-लावस्थायामिति । एवञ्च गादेशस्य लिटो निमित्तत्वेन द्वित्वनिमित्ताग्निमित्तत्वाऽभावाद् द्विवचनेऽचीत्यस्याऽप्राप्त्या नोक्ताऽऽपत्ति. रिति भावः । विवक्षिते वेति-लिटोविवक्षायामेवादेश इत्यर्थः। भाष्यकृन्मतमेतत् , एतन्मते त्वनैमित्तिकत्वेन सुतरामेव नोक्तसूत्रप्रवृत्तिरिति ॥ ननु पूर्व धातुरुपसर्गेण युज्यते पश्चात्साधनेनेत्यभियुक्तोक्त्या अन्तरंगत्वाद्गुणादेः प्रागेव सवर्णदीधे यणि अध्ययै इति न स्यादत आह-गुणायादेशयोः कृतयोरुपस- स्य यणिति । अयम्भावः, पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेणेत्यस्य सुटका- त्पूर्व' इत्यत्र भाष्ये सितान्तितत्वात्पूर्व गुणादिरेव । ननु एतत्सिद्धान्तपक्षे भाष्यकृता स्वेनैव तत्रैवाऽरुचिः प्रदर्शितेत्यरुचेराह-'णेरध्ययने वृत्तमिति निर्देशाद्वेति । एतन्निर्देशान्न दीर्घाऽभावः कल्प्यते किन्तु भाष्यदुक्त एव । अपूर्वार्थकल्पनापेक्षया भा- प्यसम्मतपक्षकल्पनस्यैव ज्यायस्त्वात् । नच [वार्णादांग बलीयः] इति परिभाषयैव दीर्घ- व्यावृत्तिरिति वाच्यम् । समानाश्रय एवोकपरिभाषाऽप्रवृत्तेरिति दिक् ॥ अडागमे सत्यनेकाच्त्वाद्यणिति-कृताकृतप्रसंगित्वमात्रेणाऽटो नित्यत्वादियङ् बाधित्वाऽऽट् । अत एवाऽपरितोषात् असिद्धत्वादियङ एवौचित्यमित्यभिप्रायेण वा के चिदित्युक्तम् । लावस्थायामेवाडिति पक्षे तु यणेवेत्यलम् ।। ननु तनादिकृभ्य उः' इत्यस्य स्थाने 'तनादेरुः' इत्येव सूत्रकरणात्कृतोऽप्युप्रत्ययः स्यादेव सूत्रे दृग्रहणं व्यर्थमित्यत आह-तनादित्वादेव सिद्ध इति । तनादिसाह- 'चर्येण तद्गणस्यैव कृतोऽत्र ग्रहणं क्रियासामान्यवाचित्वेनान्वययोग्यत्त्वात्तस्यैवात्रानु प्र. योगः । एवञ्च कृन्ग्रहणं व्यर्थं सद्गणकार्यस्यानित्यत्वे ज्ञापकम् । तथा च विश्वसेदित्यत्र न शपो लुगिति । भाष्यकृता तु कृनग्रहणस्य प्रत्याख्यातत्वाज्ज्ञापितेऽपि तस्य चारितार्थ्या ऽभावाच्चानार्थे तात्पर्य न युक्तम् । उक्तप्रयोगस्त्वार्पत्वादेव समाधेय इत्यलम् ।।

अदादिप्रकरणम् । ५५ ख्याधातुः सार्वधातुकमात्रविषय इति-अत्र प्रमाणमाह-(सस्थानत्वं नमः ख्यात्रे) इति वार्तिकम् । नमः ख्याने इत्यत्र सस्थानत्वं वक्तव्यम् । अन्यथा 'शर्प र वि- सर्जनीय' इत्यनेन विसर्गः स्यादिति तदभिप्रायः । आर्द्धधातुकेऽप्यस्य प्रयोगे कृदन्त- ऽस्मिन्परे 'शर्प रे विसर्जनीय' इत्यस्याऽप्रवृत्त्या 'कुप्वोरिति जिह्वामूलीयो दुर्वार एक स्यात् । कुप्वोरित्यस्य 'विसर्जनीयस्य स' इत्यस्यापवादत्वमजानतो वार्तिककृत उक्ति- रिति न वाच्यम् । ख्यामादेशस्य शादित्वप्रयोजनगणनावसरे एवं तदुक्तरिति । सं- ख्यातीति प्रयोगस्तु नास्त्येव । संख्येति प्रयोगस्तु न्यासकृन्मते ख्याना देशस्येति बाध्यमिति ॥ चर्करीतं चेति-चर्करीतमिति यङ्लुकः संज्ञा, तेन सामर्थ्यात्तदन्तग्रहणम् । अ- दादाविति । तेन यङ्लुगन्ताच्छवेव नतु तत्तद्गणप्रयुक्तः श्यनादिः । शपो लुक् च, परस्मै- पदिन उपक्रम्य पाठादस्य परस्मैपदित्वमेवेति । इत्यदादिप्रकरणम् ॥ - अथ तिङन्ते जुहोत्यादिप्रकरणम् । ननु आलोपस्य स्थानिवत्त्वाज्झपन्तत्वाऽभावेन धत्त इत्यादावपि भए भावो न स्या- दत आह-वचनसामर्थ्यादालोपस्य न स्थानिवत्त्वमिति।। अन्यथोपायसद्भावाद्व- चनसामर्थ्यकल्पनं न युक्तमित्याह-वस्तुतस्तु पूर्वत्रासिधे न स्थानिवदिति । एवञ्च वामनादीनां वचनसामर्थ्याश्रयणं व्यर्थमेवेति भावः ॥ ननु 'विज इडि ति सूत्रे सामान्यतो विजधातोपादानादर्थनिर्देशाभावाच्चैतद्गप- ठितस्यापि धातोस्तत्र ग्रहणात्ततः परस्येटो डित्त्वविधानाल्लुडादौ गुणनिषेधः स्यादत आ- ह-ओबिजीत्यस्यैव तत्र ग्रहणादिति । व्याख्यानात्तौदादिकस्य रौधादिकस्यैव च ग्रहणान्नेह काप्यनुपपत्तिरिति भावः ॥ ऐय इति-धातोर्लकि द्वित्वेऽभ्यासस्येत्वे इयकि उत्तरखण्डे गुणे सरत्वे हल्ड्या- दिलोपे विसर्गे आटि वृद्धौ रूपम् । लावस्थायामडिति पक्षेऽपि 'बहुलं छन्दस्यमाडि सूत्रे बहुलग्रहणात्तदुत्तरमत्राऽऽट् 'बहुलं छन्दसी'. त्येव सिद्ध 'अतिपिपाँचत्य- बार्तिग्रहणज्ञापकेन लोके प्रयोगेऽपि छान्दसप्रकरणे पाठात्कचिदेव लोके साधुत्व- मिति बोध्यम् । इति जुहोत्यादिप्रकरणम् ॥ अथ तिङन्ते दिवादिप्रकरणम् । ननु सूधातोलिटि तत्स्थाने थासि तस्य से द्वित्वे उवङि सुषुव् से इति स्थि. तो स्वरति सूति' ,इत्यनेन प्राप्तस्य वैकल्पिकेडागमस्य पुरस्तात्प्रतिषेधारम्भ- सामर्थ्यात् 'श्युकः किती' ति निषेधेन क्रादिनियमादिटि सुषुविषे इत्यादि सिद्ध- मिति भावः ॥

फक्किकारत्नमञ्जूषा। ज्ञाजनोर्जा-ज इति हल्वोच्चारणेऽपि 'अतो दी| यनी' ति दीघे जानातीत्यादि- सिद्धौ जाग्रहणस्य (अङ्गवृत्तौ पुनर्वृत्तावविधिः) इत्येतज्ज्ञापकत्वम् , तेन पाधातोः पिबादेशे कृते न गुणः । पिडादेशस्यादन्तत्वाश्रयणेन गुणवारणन्तु समाधानान्तर- मिति भावः ॥ ननु शल इगुपदधादनिटःक्स' इत्यनेन क्सस्य सिद्धत्व तत्सूत्रविहितक्सय किं फलनित्यत आह-पुषाद्यङपवाद इति ॥ ननु श्लिष इत्येतद्विहितक्सस्य पुपादिसूत्रविहिताङपवादत्ववच्चिगपवादत्वमपि स्या- दत आह-पुषाधङपवादो न तु चिणः पुरस्तादपवादन्यायादिति। (१)(पुरस्ता दपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरानि) ति तत्स्वरूपम् । तथा च पुरस्तादपवादस्य क्सस्य अनन्तरस्याङ एवापवादत्वं न तूत्तरस्य चिण इति भावः ॥ ननु 'आलिङ्गने' इत्यस्य (अनन्तरस्य विधिर्वा भवति प्रतिषेधो बे) ति न्यायेन श्लिष इत्येतद्विहितक्सस्य नियमत्वमेव स्यादत आह-योगविभागसामच्छिल इगुपधादित्यस्याप्ययं नियम इति । यदि श्लिप इति प्राप्तक्सस्यैव नियमः स्यात्तदा योगविभागल्य वैयर्थमेव स्यादिति भावः ॥ इति दिवादिप्रकरणम् ॥ अथ तिङन्ते स्वादिप्रकरणम् । बभूथाततन्थेति-ननु क्रादिनिषेधादेव सिद्धे ववर्थग्रहणं निगमे एवेति नियमार्थ- न्तदाह-तेन भाषायां थलीडिति । श्रन्थिप्रन्थिदम्भिस्वजीनां लिटः कित्त्वं वेतिव्याकरणान्तरमिहाप्याश्रीयत इति । 'सदेः परस्य लिटी' ति सूत्रस्थः ( परिषस्वजे ) इति भाष्यप्रयोगः, 'अत एक हलि, ति सूत्रस्थो (देभतुरि)ति भाष्यप्रयोगश्चेह मानम् । (दम्भेश्चे)ति 'अत एके' ति सूत्रस्थं वार्तिकम् ॥ इदं कित्त्वं पिदपिद्विषयकमिति सुधाकरादय इति-अनारुचिबीजन्तु श्र. न्थग्रन्थीत्येव लिट्पदस्य कित्पदस्य च कर्त्तव्यतापत्त्या गौरवरूपम् । मम तु व्याकरणा- न्तरेऽपि असंयोगादिति कित्प्रकरण एवैतदिति तयोरकर्त्तव्यत्वं स्पष्टमेव । अत एव भाष्ये प्रथमोपस्थितणलं विहाय देभतुरित्युदाहृतं दम्भेश्चेत्येत्वविधायके इत्यलम् ॥ इति स्वादिप्रकरणम् । (१) प्रथमोपस्थितापवादशास्त्राणि पश्चादुपस्थितविधिशास्त्राणि बावन्ते इति परिभाषा- र्थः। पूर्वोपस्थितानन्तरबाधेन चारितार्थ्यसम्भवे पश्चादुपस्थितबाधे मानाभाव एवात्र बीजम् ।

तुदादिप्रकरणम् । अथ तिङन्ते तुदादिप्रकरणम् । ननु रमित्यस्य मित्त्वादन्त्यादचः परत्वेन विधानात् (भ्रस्जो रोपधयोरमन्यतरस्या- मि)तिसूत्रे रोपधयोरिति षष्टीनिर्देशो व्यर्थ इत्यत आह-स्थानषष्ठीनिर्दशाद्रोपध- योनिवृत्तिरिति । अयम्भावः, स्थानं हि प्रसङ्गः । तेन रोपधयोः प्रसंग रम् प्रयुज्यत इत्यर्थः । प्रयुज्यमानो रम् मित्वादन्त्यादचः पर एव । देशान्तरे यस्य विधानं नास्ति तस्य स्थानिदेश एव विधानं युक्तम् । स्थानषष्टीनिर्देशसामर्थ्यात्तु देशान्तरे प्रयु- ज्यमानस्यापि रमो रोपधोनिवर्तकत्वम् । तस्मात् श्नमः प्रत्ययागमत्वे इव रमादे- शागमत्वे द्वेऽपीष्टे इति ॥ ननु आशीलिङि सम्प्रसारणं बाधित्वा परत्वादमि(सकृद्दति) न्यायेन सम्प्रसारणाऽभा. वे (१)(पुनः प्रसङ्गविज्ञानासिद्धभि)ति न्यायेन सम्प्रसारणेऽपि आद्गुणे भादित्याप- त्तिरित्यत आह [ ङ्कितिररमागम वाधित्वा सम्प्रसारणं पूर्वविप्रतिषेधेनेति ! सम्प्रसारणरमो जति भ्रष्टेत्यादाववकाशादिति भावः । कृताकृतप्रसङ्गिन्वमात्रेण सम्प्रसा- रणस्य नित्यत्वमपि सुवचम् । नच ऋकारान्तर्गतरेफमादाय रमोऽपि नित्यत्वमिति वा- च्यम् । वर्णग्रहणे वर्णैकदेशाग्रहणस्य भाष्ये स्पष्टत्वादिति दिक् ॥ ननु यस्य तुकि तस्य चुत्वेन चकारे लिटि द्वित्वेऽभ्यासकायें अच्छती' ति गुणे त्रि- हल्त्वान्नु न स्यादत आह-द्विहल्ग्रहणस्याऽनेकहलुपलक्षणत्वान्नुडिति ॥ न द्विहल्ग्रहणस्यानेकहलुपलक्षणत्वे प्रमाणाभावात्कथन्तत्र नुडिति वाच्यम् । अदुपधस्य चेदश्नोतेरेवेति नियमादूद्विहलग्रहणस्य प्रत्याख्यानं कुर्वतो भाष्यकारस्यैव तत्र प्रमाण- त्वेन तदुपपत्तेः । न च (२) (वार्णादाङ्ग बलीयः) इति परिभाषया गुणे तुकोऽप्राप्त्या त्रि- हल्त्वाऽभावादुक्ताऽनुपपत्त्यभावेन द्विहल्ग्रहणस्यानेकहलुपलक्षणत्वाऽभ्युपगमो व्यर्थ एवेति वाच्यम् । 'च्छ्वोः शूडनुनासिके चे'त्यत्र सतुनिर्देशेनोक्तपरिभाषायास्तुग्विषयेऽनाश्र- यणादिति दिक् ॥ म्रियतेलुंलिडोश्च । छित्त्वं स्वारार्थमिति । 'तास्यनुदात्तेन्डिददुपदेशालसार्व- धातुकमनुदात्तमित्यनेन 'माहि मृते'त्यत्र जितः परस्य लादेशसार्धधातुकल्यानुदात्तत्वे कृते धातोरुदात्तत्वम् । सत्यडित्वे तु प्रत्ययस्योदात्तत्वे धातोरनुदात्तत्वं स्यात् । न च सि- ज्लोपस्यासिद्धत्वालसार्वधातुकस्य डितः परत्वस्य दुरुपपादत्वात्कथं तस्यानुदात्तत्वमिति. वाच्यम् । डित्त्वसामर्थ्यन सिग्लोपस्यासिद्धत्वाऽभावज्ञापनात् । अमृतेत्यत्राऽडागमस्यै- वोदात्तत्वेन नान्यत्किञ्चित्प्रयोजनं मृडो डिन्त्वस्येति तत्राऽटवारणाय माङः प्रयोगे 'तिङ्- इतिङ इति तिडन्तनिवातेऽपि डिन्त्वं व्यर्थमेवेति हिशब्दप्रयोगः, तत्प्रयोगे तु हि चे त्यनेन तिङन्तनिघातनिषेधादिष्टस्वरसिद्धिरित्यलम् ॥ (१) तुल्यबलपुरुषद्वयस्यैको मृत्यः पर्यायेण कार्यसम्पादको भवति न युगपन्नानादिक्षु च कार्ये प्रेषितः, तथा लक्षप्रयोजनस्यापि शास्त्रद्वयस्य कुत्रचिल्लक्ष्ये युगपत्प्रवृत्त्यसम्भवेनाऽ प्रतिपत्तो सत्यां परविध्यर्थमिदं विप्रतिषेधसूत्रम् । कृते च तस्मिन् पूर्वशास्त्रप्राप्तौ सत्यां तद. पि भवत्येवेति मूलोक्तन्यायसिद्धिः । (२) वर्णोद्देश्यककार्यादजोद्देश्यककार्य बलवदित्यर्थः ।

१०२ फक्किकारत्नमञ्जूषा। ननु तृपेलुङि (स्पृशस्मृशे) ति सिज विकल्पः कुतो नेत्यत आह-स्पृशमशेतिसि. जविकल्पा पोषादिकस्यैव अङपवादत्वादिति ! ( उत्सर्गसमानदेशा अपवादाः) इति न्यायादिति भावः । किञ्चोक्तवार्तिके पौपादिकतौदादिकयोहणे पक्षे सिजभावे च्ले- २६ श्रवणोपपत्तौ 'च्लिः कापि न श्रूयत' इति भाष्यविरोधो दुर्वारः स्यादित्यलम् ॥ ननु (१)( पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः ) इति परिभाषया परत्वा- दियङः प्राग्लघूपधगुणः स्यादत आह-अन्तरंगत्वादियङिति । (२)(नाजानन्तर्य बहि- ष्ट्वक्लूप्तिरि) ति निषेधादन्तरङ्गपरिभाषाऽप्रवृत्त्या दोषस्य तादवस्थ्यमेवेति वाच्यम् । गणेयडोः समकालप्राप्तिकत्वेनोक्तनिषेधपरिभाषाऽप्रवृत्तेरिति भावः ॥ इति तुदादिप्रकरणम् । अथ तिङन्ते रुधादिप्रकरणम् । जशत्वं गुत्वमित्यादि । अत्र प्रक्रियाप्रदर्शनमान्न एव तात्पर्य्यम् , नतु ऋमदर्शने । 'शिण्ढीति सानुस्वार एव पाठः, अनुस्वारस्याऽऽदिष्टादयः पूर्वत्वेन स्थानिबत्त्वाप्रवृत्तावपि (दीर्घावाचार्याणामि) त्युत्तरं (अनुस्वारस्य ययि) (वा पदान्तस्य) (तोलि) (उदःस्था) (झयो हो) (शश्लोटी)ति षट्सूत्रीपाठोत्तरं (झलां जश्झशि) (अभ्यासे चर्च) (खरिच) (वाऽवसाने) (अणोऽप्रगृह्यस्ये)ति पञ्चसूत्रीपाठ इति भाष्यसम्मताष्टाध्यायीपाठपक्षे परस- वर्णदृष्टया (झरो झरी) त्यस्य (झलां जशि) त्यस्य चाऽसिद्धत्वेन यय्परत्वाऽभावात्परस वर्णाऽप्राप्तेरिति । इति रुधादिप्रकरणम् । अथ तिङन्ते तनादिप्रकरणम् । (३) संज्ञापूर्वको विधिरनित्य इति न भवतीत्यात्रेयादय इति । अत्रारुचि- बीजन्तु तनित्यत्वे भाष्यानुक्तत्वमेव ॥ ननु कात्पूर्वग्रहणं कालावधारणार्थ तदा सुट् भवति यदा कृतः कात्पूर्वो भवतीति ते. नान्तरङ्गमपि द्वित्वादिकं बाधित्पा पूर्व सुडिति 'अडभ्यासव्यवायेऽपीति न कार्यमिति तत्प्रत्याख्यातं कात्पूर्व इत्यपि प्रत्याख्यातम्भाष्यकारेणेत्यत आह-पूर्व धातुरिति । उपसर्गणेत्यस्य तदर्थेनेत्यर्थः । अत एवऽनुभूयत इत्यत्र कर्मणि लकारसिद्धिः एवञ्चा- (१) बलवत्त्वप्रयोजकपरिभाषाप्रकरणस्थेयं परिभाषा । अर्थस्तु पूर्वशास्त्रात्परं शास्त्रं ब- लवत् विप्रतिषेधसूत्रबलात् । परशास्त्रान्नित्यं शास्त्रं बलवत् । नित्यशास्त्रादन्तरङ्गशास्त्रं बलवत्। अन्तरङ्गशास्त्रादपवादशास्त्रं बलवत् इति । पूर्वात्परं बलवत् स्वोत्तरत्वादित्याद्यनुमानप्रका- रो बोध्यः। (२) अज्निष्ठान्यानन्नर्यनिमित्तकेऽन्तरङ्गे कर्तव्ये यदन्तरजप्राप्तिस्तत्र च कर्तव्ये न व. हिरङ्गत्वप्रयुक्तासिद्धिरित्यर्थः । अत्र षत्वतुकोरिति सूत्रस्थं तुग्ग्रहण ज्ञापकम् । (३) विधेयताप्रयोकसंज्ञाशब्दघटितं शास्त्रमनित्यमित्यर्थः । इयं परिभाषा भाष्ये नो- जा भाष्यकृतेति ध्येयम् ।

तन.दिप्रकरणम न्तरङ्गार्थकोपसर्गनिमित्ताद्वित्वाद्यपेक्षया सुडन्तरङ्ग इति तदाशयः । लावस्थायामिति पक्षे तु सम्परिभ्यां परत्वयोग्यस्य करोतेः सुडिति तदर्थात्सर्वथा पूर्व सुडित्यदोषः ।। ननु 'समवाय चात्यनेन सम्पूर्वकस्य कराते पणसंघातयोरर्थयारेव सुटो विधानालन्या- थं तदविधानेन 'संस्कृतं भक्षा' इति सूत्रमसङ्गतिमाप्नुयादित्यत आह-सम्पूर्वस्य क्य चिद्भूषणेऽपि सुडिति । अत्रार्थेऽवतरणदलोक्तसूत्रस्यैव ज्ञापकत्वमित्यवसेयम् ॥ इति तनादिप्रकरणम् । अथ तिङन्ते क्यादिप्रकरणम्। अवष्टभ्नोति । ननु [ः स्कभ्नातेनित्यमि] ति सूत्रे श्नाप्रत्ययनिर्देशेन श्नाप्रत्यय- सदाव एत पत्वस्थ न्याय्यत्वेन श्नुप्रत्ययपक्षे पत्वं कथमिति चेन्न । धातुनिशे रित- एप्रत्यये कृते विकरणल्यावश्यकत्वेन शवपवादश्नुश्नाप्रत्ययप्रवृत्तेरवश्वस्वीकार्यत्वात्तत्राऽन्य- तरोच्चारणस्य साधुत्वार्थत्वेनेतरनिवृत्त्यर्थत्वानभ्युपगमादिति भावः ॥ दीर्धनिर्देशसामर्थ्यान्न ह्रस्व इति । ननु ज्ञाजनोर्ज इत्येव सूत्रकरणे (अतोदी- घो यजी) ति दीर्वसिद्धौ दीर्घग्रहणस्य (१)(अङ्गवृत्तौ पुनर्वृत्तावविधिरि)ति परिभापाज्ञाप- कत्वस्याऽऽकरे स्थितत्वाद्दीघनिर्देशस्योपक्षयेन कथं हस्वाभाषे ज्ञापकत्वमिति चेन्न । सत्येव हस्वाभावे दीर्धनिर्देशस्योक्तपरिभाषाज्ञापकत्वातू । सनि हस्वे तु पुनरंगकार्यस्त्र प्रहत्त. स्वान्न ज्ञापकत्वम् । एवञ्च न हस्वाभावज्ञापने किमपि बाधकमिति भावः ॥ इति क्यादिप्रकरणम् । अथ तिङन्ते चुरादिप्रकरणम् । तेषामिह प्रहणं प्रपञ्चार्थमिति । (२)(अनिर्दिष्टार्थाः स्वार्थे भवन्ती) ति परि- भाषया स्यार्थे विधानार्थत्वात्प्रपञ्चार्थत्वकथनं तेपामयुक्तमिति वाच्यम् । सत्यशब्दस्य कृमथें णिच्यापुगित्यर्थक (सत्यस्य कूच्यापुगि) ति भाष्यविरोधात् । न च सत्यापग्रहण- स्याऽऽपुनिपातनार्थमावश्यकत्वमिति वाच्यम् । अर्थवेदार्थभाष्यके वार्तिक एवोक्तशब्द- ग्रहणेनापुसिद्धेरिति भावः ॥ लनु चितेरिदित्करणं व्यर्थमित्यत आहृ-चिन्तेति पठितव्ये इदित्करणं णिचा पाक्षिकत्वे लिङ्गमिति । अयम्भावः व्यर्थमिदित्करणं चुरादेणिज्वेति ज्ञापयति । णिचो नित्यत्वे तु तेन व्यवहितत्वान्नलोपाप्रात्प्या व्यर्थमेवेदित्करण स्यात् । न च णिजन्तातिक- पि नलोपाभावार्थमिदित्करणस्य चारितार्थ्यम् । न च णिलोपस्य स्थानिवद्भावेन व्यवधा- नादेव नलोपवारणमिति वाच्यम् । क्वौ विधौ न स्थानिवदि] ति स्थानिवत्त्वनिषेधेन दोषस्य तादवस्थ्यादिति वाच्यम् । 'असिद्धवदवाऽभादिति णिलोपस्यासिद्धत्वेन क्सै वि. (१) अङ्गवृत्तेऽङ्गाधिकारकार्ये जाते पुनरन्यस्याऽगंकार्यस्य विधानं न भवतीत्यर्थः । ज्यादादीयस इत्याद्विधानेन ज्ञापिता चेयम् । द्वयोरिति निर्देशादनित्या च । (२) येषां प्रत्यायानामार्था न निर्दिष्टास्तेषां स्वार्थे विधानं भवतीत्यर्थः । प्रत्यय इति महासंज्ञाबलादर्थाकांक्षायामन्यानुपस्थितिरेवास्या बीजम् ,स्पष्टाचेयं सुपिस्थ इत्यादिसूत्रेषु भाष्ये।

फक्किकारत्नमञ्जूषा। धादित्यस्य विशब्दमुच्चार विहितविधिविपनत्वेनादोपात्ान व क्वौ लुप्तं न स्थानिवदि. ति स्थानिमावनिषेधाविदन्ते दोषाऽभावार्थभिदित्करणस्न्यावश्यकत्वे ज्ञारकत्वायोग इति वाच्यम् । तस्यासार्यत्रिकत्वादिति प्राञ्चः। तत्रिमत्र्यादाविदित्वाप्य व्यभिचरितत्वा- त्वचौ लुसमित्याधणे ज्ञापकत्वौचित्याच्चिन्तेति पाठेऽर्धमात्रागौरवाञ्च न णिशाम्भवाये मानलिति न भाष्यकृता णिचो वैकल्पिकत्वयुक्तचापि कैयटकृतेत्यपि शोध्यमिति प्राहु-- नगिशाः। एतच्च ज्ञापकं सामान्यापेक्षमिति । सर्वेऽपि चुरादयो धातवो विकल्पेन णिचं लभन्त इत्यर्थकमिदित्करणं ज्ञापकमित्यर्थः । न च ज्ञापकस्य सामान्यापेक्षत्वे 'आधुपाढे त्यस्ट चैयर्थ्य सर्वचुरादीनां वैकल्पिकणिज्ज्ञापनेनैतसूत्रविहितवैकल्पिकणियोऽकिञ्चित्क- रत्यानिति वाच्यम् । ज्ञापकसिद्धस्थाऽसार्वत्रिकत्वेन सार्थक्यात् । एवञ्चास्मिन्पक्षे आध- पीयाणामेवैच्छिको विकल्पः, ज्ञापकस्य सामान्यापेक्षत्वादेव वृत्तिकृदुदाहृतस्य जागाणे. त्यादेः संगतिः । अन्यथोक्तप्रयोगानुपपत्तिः । अन्येषां तु शिष्टप्रयोगानुपपत्तिः । जन्येषां शिक्षप्रयोगाद्वयवस्थित इति एतत्पक्षस्य [भाष्यविरुद्वत्वं] दर्शयत्ति, तथा हि ज्ञापक्स्य सा- मान्यापेक्षत्ये 'घुपिरविशब्दने' इति सूत्रस्थभाष्यं विरुणद्धि, तत्र हि, विशब्दनार्थस्योक्त. धातोश्चुरादित्वेन नित्यणिजन्तत्वाद्भवादेश्चाऽ विशब्दनार्थ एव वृत्तः सूत्रेऽविशठदन इति व्यर्थमित्याशंक्य, एतदेव ज्ञापयति घुपेर्विशब्दने विभाषा णिच् तेन जुधुपिरिति सिद्ध- मित्युक्तम् , अत एव चुरादाविरित्वमति सार्थकम् ॥ विशेषापेक्षमिति । असंयोगोपधेकारान्तचुरादेणिचो विकल्प इत्येवं रूपमित्यर्थः । ज्ञापकस्य विशेषापेक्षत्वादेव, 'आषाद्वेः त्यस्य चरितार्थ्यम् । न च पूर्वपक्षस्य शैथिल्ये वृत्तिकृदुक्तग्रन्थस्य कथं सरतिरिति वाच्यम् । भ्वादेराकृतिगणत्वेन तत्रत्यधातोरुक्त- रूपोपपत्तः ॥ यतु इदित्करणाधन्त्रतीति माधवेनोक्तं तच्चिन्त्यमिति । नस्योपधत्वाऽभा- बेन नलोपाऽप्रसक्त्या ज्ञापितेऽपि चारितार्थ्याऽभावादिति भावः ॥ ननु ह्रस्वोच्चारणेऽपि परतीत्यादिरूपसिद्धावुक्तरूपसिद्धयर्थ कथं दीर्घोच्चारणं णिचो वैक- लिएकत्वं ज्ञापयतीत्याह-दीर्घोच्चारणं णिचः पाक्षिकत्वे लिंगमिति । इररारामपवाद इति । कारोपधे (उपधायाश्चे)चि सूत्रेणाऽचीकृतदित्यादाविर प्राप्तः । अग्नीमृजदित्यत्र ‘मृजेर्वृद्धिरि त्यनेनाऽऽर् प्राप्तः । इतरेषामृदुपधानां अपीपृथदि- त्यनाऽर् प्रास इति विवेकः । ननु इह उरित्यनूद्यमानः सवर्णान् गृह्णाति । ऋदिति विधी. यमानो न तान् गृह्णाति । तथाच, अचीक्लपदित्यत्र 'उत! इत्यनेन सति ऋवणे अची. क्ल पदित्यापत्तिरिति चेन्न । लत्वस्यासिद्धत्वेन प्राक् उत् इत्यस्य प्रवृत्त्या पश्चात् 'कृपो रोल' इत्यनेन प्रकारैकदेशस्य लादेशविधानेनेष्टसिद्धरित्यलम् ॥ ननु अत उपधाया इत्यनेन कथयतीत्यत्र वृद्धिदुर्वा रेत्यत आह-अल्लोपस्य स्थान- अत्त्वान वृद्धिरिति । अचः परस्मिन्निति सूत्रेणेत्यर्थः । नच स्थानिनि सति यत्कार्य तस्यैव स्थानिवदित्यनेनातिदेशो नत्वादेशप्रयुक्तवारणम् । पावक इत्यादेन सिद्धिस्तथा चोक्तदोषस्तदवस्थ एवेति वाच्यम् । अचः परिस्मिन्नित्यत्र - अन्यथा नायक:

चुरादिप्रकरणाम। स्थानिवदित्यनुवृत्त्या शब्दाधिकारपक्षाश्रयणास्थानिनि सति यन्न भवति तदादेशेऽपि न, स्थानिनि सति यद्भवति तदादेशेऽपीति भावातिदेशस्य सिद्धान्तितत्वेन स्थानि सत्यभव. त्या वृद्धरादेशेऽप्यभावात् । उक्तद्विविधातिदेशे न पदान्तसूत्रस्थवलोपादिग्रहणस्यैत्र प्रामाण्यमित्यलम् ॥ ननु उन धातोर्णिचि तदन्ताल्लुङि तत्स्थाने तिपि पकारेकारयोरित्वं लोपे च मध्ये ब्लौ तत्स्थाने चङि आडागमे आ उन इ अदितिस्थितौ णिची द्वित्वनिमित्तलाऽआ- बन (द्विवंचनेऽची) त्यस्याऽप्राप्त्या द्वित्वात्परत्वादन्तरङ्गत्वाच्च कृतेऽल्लोपेनिशब्द-दिल्वे औननदितीष्टरूपाऽनापत्तिरित्यत आह-ओम्पुयणजीति । बिभावयिषति, अबीभवदि- त्यादावन्तरङ्गत्वावृद्धाववादेशे (सन्यत) इत्येव सिद्धं पूयौतेश्च सनि (स्मिपूज्वशां सनि) सनीवन्त भ्रस्जदन्भे)त्यादिनेटि द्वित्वनिमित्तसत्त्वात् (द्विर्वचनेऽची)ति सूत्रप्रवृस्या पूर्व गुणाभावादभ्यासे उकारसद्भावेऽपि पिपरिपते यियविपतीत्यत्रेत्त्वर्थ पययोरित्येव वाच्यम् । नच पिपविपत इत्यादौ गुणाऽवादेशयोः (अचः परिस्मन्नि)ति स्थानिवद्वानाs- वर्णपरयकारादिपरत्वाऽभावादित्वं न स्यादिति वाच्यम् । पययोरित्येतत्सूत्रारम्भसामध्यन स्थानिवद्भावाप्रवृत्तेः; एवञ्च व्यर्थीभूतं वर्गादिग्रहणं णिचो द्वित्वनिमित्तत्वाऽभाषे तन्निमित्त- काऽजादेशस्य द्वित्वे कर्त्तव्ये निषेधं ज्ञापयति, ज्ञापनफलं तु तुतावयिपति, अतूतवत् , अर्णः नावयिपति, औMनवत् , पुस्फारयिषति, अपुस्फुरदिति । न च (ओ:पुयणजी)ति सूत्र णिचीत्याऽसत्त्वात्कथं णिच्यजादेशो नेत्यर्थलाभ इति वाच्यम् । द्वित्वनिमित्तेऽचि नाजा- देशः स्थानिवदित्यर्थक द्विर्वचनेऽचीत्यस्य (येन नाव्यवधानमिति न्यायेन एकवर्णव्यवधाने प्रवृत्त्या तल्लाभात् तेनाऽपूर्वनिषेधाज्ञापनात् । अत एव दिववनीयिषतीत्यादौ नातिप्र. सक्तिः । तथा च द्वित्वनिमित्तेऽजादौ प्रत्यये एकप्रत्ययातिरिक्ताच्यवाहिते परे तदन्यतर- निमित्तकादेशो नेति 'द्विवचनेऽची'त्यस्यार्थः फलित इति भावः । ननु उक्तरीत्योक्तज्ञापने- नाचिकीर्तदित्यत्र पूर्व 'उपधायाश्चेतीत्वमपि न स्यादत आह-यत्र द्विरुक्ताविति । ज्ञापकसाजात्याद्यत्र द्वित्वेभ्यासोत्तरखण्डस्यायोऽच प्रक्रियायां परिनिष्ठितरूपे वाऽवों लभ्यते तत्रैवोक्तनिषेधादुक्तस्थले प्रक्रियायां परिनिष्टितरूपे वाऽभ्यासोत्तरखण्डस्याऽऽधचोs- वर्णरूपत्वाऽभावान्नापत्तिरित्यलम् ॥ अदन्तत्वसामर्थ्यारिणज्विकल्प इति । कथादिषु उपाधावृद्धिदीर्घसन्वन्नाववि- रहात्सारभामप्रभृतीनामुपधाहस्वस्य गृहमृगप्रभृतीनामुपधागुणस्य चव्यावर्तनाददन्तत्वस्य सार्थक्यम् । गर्वयतेस्त्वदन्तत्वं प्रागुक्तलाभावाद्वयर्थः सत् णिचः पाक्षिकत्वं ज्ञापयति । नचादन्तत्वसार्थक्याय वाऽल्लोप इति प्राचोक्तमेव स्वीकर्तव्यमिति वाच्यम्। चिन्तयतेरि दित्त्वस्य सामान्यापेक्षज्ञापकत्वे उक्तस्याऽदन्तत्वफलस्य स्वष्टत्वेऽपि विशेषापेक्षज्ञापकत्वे तत्र तत्राऽऽकारोकाररूपानुबन्धानां ज्ञापकत्ववददन्तत्वस्य ज्ञापकत्वाक्षतेः । क्लुप्तेनैव णिविकल्पेनैव कृतार्थत्वेनापूर्वलोपबाधकल्पनस्यायुक्तत्वात् । सत्येवं मतद्वयेऽप्येकमेव रूपमिति भावः ॥ परत्वाद्वृद्धौ सत्यां टिलोप इति । शब्दान्तरपात्प्या लोपोऽनित्यः । वृद्धि- रपि तथा । उभयोरनित्ययोः परत्वावृद्धिः । कृतायां तस्यामौकारस्याऽऽवादेशात्प्रा.

फक्किकारत्नमञ्जूषा। गेद परत्रणादास्य बलायस्त्वाञ्च औलोप इति । एवञ्चाऽनग्लोपित्वाद्दीर्घसन्वद्भावौ स्तः। न च दिलोपल्य स्थानिवदाबेन व्यवधानाच्चपरणिपरलघुपरकाऽभावेन कथं दीर्घसन्वदावा- दिति वाच्यम् । तथाऽप्यङ्गस्य णिच्परत्वाऽनपायात् । चङ्परे णौ यल्लध्विति पक्षेऽपि अभ्यालस्याऽदियादचः पूर्वत्वेन स्थानिवत्त्वमेव नास्तीति न कोऽपि दोपः, अत एव 'मुण्डमिति सूत्रे हलिकल्योरदन्तत्वनिपातनं सङ्गच्छते । पूर्व लोपे तु इकारलोप्यग्लो. पित्वसत्त्वेन तद्वैयर्थ्य स्यात् । एतन्निपातनमेवाऽत्र ज्ञापकम् । आयादेशात्प्रागेवाऽन्तरङ्ग- त्वाल्लोपेऽनग्लोपित्वाद्भवत्येव सन्वद्भाव इति । वृद्धोपो बलीयानिति। अत एव 'नाग्लोपी तिसूत्रेऽगिति प्रत्याहारग्रहणन्य शाफ. ल्यम् ! (मुण्डमिश्र)ति सूत्रे हलकलेत्यकारान्तस्यैव पाठात् , एतद्भाष्यप्रामाण्यादिदुदुप- धेभ्यो णिजन्तेभ्यो लुङोऽनभिधानाच्च न दोप इति दिक् ॥ इति चुरादिप्रकरणम् । ke अथ तिङन्ते ण्यन्तप्रक्रिया । अचीवकासदिति । चपरे णौ यदङ्ग तस्य योऽभ्यासो लघुपर इति व्याख्यातॄणां प्राचां मत एतत् । मतान्तरे विति । भाष्यसम्मतपक्षे तु चपरे णौ यल्लध्वित्यर्थे सन्वद्रावाद्यप्राप्त्या अचचकासदिति रूपम् । ननु अचुचुर इ अदिति स्थितौ णिनिमित्तगिलोपस्य स्थानिवत्त्वाच्चपरणिपराया उपधाया अभावात्तत्परलघोरभावाच्च हस्वदीर्घो न स्यातामित्याशयेनाशङ्कते-लचागलो. पित्वाद्वयोरप्यसम्भव इति । समाधत्ते-ण्याकृतिनिर्देशादिति । 'ते प्रागधा- तोरित्यादौ गत्याकृतिनिर्देशवदिति भावः। एतेन वर्णग्रहणे एव जातिग्रहणं नान्यत्रेति केपञ्चिन्मतमपास्तम् । एवञ्च णित्वजात्याश्रयानेकणिचो ग्रहणेन णिचङ्परत्वाद्भूस्वदीर्घ. योरस्ति सम्भव इति वृत्तिकृन्मतम् । शेखरकृतस्तु-जातेः पौर्वापर्याभावेन दोषस्त. दवस्थ एव, जात्या न पौर्वापर्यव्यवहारः सम्भवतीत्याशङ्कायां [आर्द्धधातुक इति विषय- सामी]तिभाष्येण व्यक्तिद्वारकपौर्वापर्यस्याऽप्यनङ्गीकारात् । किञ्च णावित्यस्याऽग्लोप- विशेषत्वाण्णित्वजातिनिमित्तकारलोप इत्यर्थेन एकणिनिमित्तकापरणिलोपस्यापि णित्व- जातिनिमित्तकत्वेनाऽग्लोपित्वस्य दुर्वारतया दोषस्य तादवस्थ्यम् , तथा च अवीवदिति भाष्येगर्णिच्युपसंख्यानमिति 'चडी ति सूत्रस्थवार्तिकेन चोक्तप्रयोगसाधुत्वमित्याहुः॥ ननु अन्तरङ्गत्वात्पूर्व कृतयोवृद्धयायोः पश्चात्सम्प्रसारणेऽपि अशूशवदिति न स्यादत आह-सम्प्रसारणं तदाश्रयञ्च कार्य बलवदिति । वच्यादीनां ग्रह्यादीनामनुवृत्त्यैवे- एसिद्धौलिव्यभ्यासस्ये' त्यत्रोभयेषां ग्रहणसामर्थ्यादेतस्या लाभः । अन्यथा ववश्चेत्यत्र कृते हलादिशेषे वस्य सम्प्रसारणापत्तिरिति । नच णिच्यजादेशो न स्याद्वित्वे कर्तव्य इत्यर्थक 'द्विर्वचनेऽची' ति सूत्रप्रवृत्त्या वृध्द्यादेरप्राप्त्या न दोष इति वाच्यम् । अशुशवदि- तिभाष्यप्रयोगेणोक्तज्ञापनस्यानित्यत्वात् । नच सूत्रसामर्थ्यादेवोक्तज्ञापनस्यानित्यत्वमिति वाच्यम् । तस्य द्वित्वे कृतेऽपि चरितार्थत्वादिति भावः ॥ ननु एधतेलुङि गिचि उपधासंज्ञायाः प्राक् धिशब्दस्य द्वित्वे तत एकारस्योपधात्वाऽभावा- ण्यन्तप्रक्रियाप्रकरणम् ध्रस्वाऽप्राप्त्या मा भवानिदिधदिति प्रयोगो न स्यादत आह-बहिरंगोऽप्युपधाहस्यो- द्वित्वात्प्रागेवेति । एवञ्च द्वित्वात्प्रागृहस्व सत्युक्तप्रयोगसिद्धिः । अत्र प्रमाणमाघ- ओणेऋदित्करणाल्लिङ्गादिति । हस्वात्पूर्व द्वित्वं तु णिशब्दस्य द्वित्वे सत्धुपादत्रा- प्राप्त्या तनिषेधार्थ कृतस्य ऋकारस्य वेयर्थ्य स्यात् उक्तज्ञापनेनोक्तार्थज्ञापने तु द्वित्वा- प्रागुपधाहस्वाप्राप्तौतद्वयावृत्त्यर्थमृदित्करणस्यावश्यकत्वादुक्तार्थ ज्ञापकत्वं मुस्थमिति भावः । अयमुब्जधातुरुपदेशावस्थायां दकारोपधः उद्ज इति । ततो भुजन्युजाविल्या- त्रोब्ज इति निपातनेन दकारस्य बकारः तस्य चान्तरङ्गत्वेपि न द्वित्वात्प्राग प्रवृत्तिस्तथा सति ब्जिशब्दस्य द्वित्वे औब्जिजदितीष्टप्रयोगानापत्तिः । अर्थादुत्तरखण्डे वकारश्रवणा- पत्तिः स्यात् किन्तु दकारोच्चारणसामर्थ्यात् 'नन्द्रा संयोगादयः इतिनिषेधेन जिशब्दस्य द्वित्वे कृत एव, तथा च न कोऽपि दोप इत्यभिप्रेत्याह-उपदेशे दकारोपध त्यादि दकारोच्चारणसामर्थ्यादित्यन्तमिति । ननु कृतात्वस्यापि स्थानिवत्त्वेन लीत्वान्नुक् स्यादत आह-लोई इति इकारप्र- श्लेषादात्वपक्षे नुक् नेति । ननु हेतुभय इत्युक्तेर्भयस्मयावित्यनुपपन्न मित्यत आह-भयग्रहणं धात्वर्थोपल- क्षणमिति । ननु हेतोः स्मयस्य गम्यमानत्वे सत्येवाऽऽत्वात्मनेपदयो विधानात्तत्रात्वाङ्गीकारे आत्मनेपदत्यागे च वक्ष्यमाणरघुकाव्यप्रयोगानुपपत्तिरित्याशङ्कते-कथन्तर्हि (१)विस्मा- पयन्विस्मितमात्मवृत्ताविति । समाधत्ते-अत्र मनुष्यवाचेति । अत्र मनुष्यवा- चेति करणादेव स्मयस्य गम्यमानत्वाद्धेतोरगम्यमानत्वेन न दोषः । हेतोस्तद्गम्यमानले तु सत्यात्मनेपदे शानजापत्तिारैव । मुख्यसमाधानमाह-सत्यमिति । समाधानान्त- रमाह-मनुष्यवाक प्रयोज्यकर्तीति । यद्यपि प्रथमणिजर्थम्प्रति मनुष्यवागेव प्रयो- जिका तथापि द्वितीयणिजर्थाऽभिप्रायेणेदमुक्तम् । अत एवाऽऽत्वम्प्रवृत्तम् । प्रयोज्यस्य की प्रयोज्यकर्तीति व्याख्यायां प्रथमणिजीभिप्रायेणेव सुयोज्यमित्याहुः केचिन् । प्रयन्ताण्णाविति । राजा विस्मयते ते मनुष्यवाग्विस्मापयते तया सिंहो विस्मापय- न्निति । एवञ्च प्रथमणिच् मनुष्यवाचो हेतुत्वादात्वपुकोरुपपत्तिरिति भावः ॥ ईपर्यतेस्तृतीयस्येति वक्तव्यम्-तृतीयस्येत्यस्य तृयोयव्यञ्जनस्येत्यर्थः । अन्न व्याख्याने फलं दर्शयति-एयियदिति । एर्षिष्यदित्यस्यासाधुत्वापत्तिरत आह-द्वितीय- व्याख्यायामिति । ईर्ण्यतिप्रकृतिकप्रत्ययान्तधातोरित्यथें बीजाऽभावेन ण्यन्ते सन्नन्ते च प्रवृत्तिः । तृतीयस्येति । तृतीयव्यञ्जनसहितस्यैकाच इत्यर्थः ॥ ननु अर्थधातोरागर्वोयत्वेनात्मनेपदित्वात्प्रार्थयन्तीति प्रयोगानुपपत्तिरित्यत आह- निवृत्तषणाद्धातोरिति ! उक्तञ्च निवृत्तप्रेषणाद्धातोः प्रकृतेऽथें नियुज्यत इति । तेन - (१) इलोकोऽयं २ सर्गे रघुवंशकाव्ये- तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् । विस्माययन्विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः ॥

१०८ फांककारत्नमञ्जूषा। प्रार्थनां कुर्वन्तीति विवक्षितेऽर्थे प्रयोगे इति भावः। यत्तु परस्मैपदसिद्ध्यर्थ प्रार्थनं प्रा- शैल्तं कुर्वन्ति प्रार्थयन्तीति तन्न, धातुसंज्ञाप्रयोजकप्रत्यये चिकीर्पिते उपसर्गाणां पृथक्कर- नल्या वक्ष्ममाणत्वादू 'अर्थवेदयोरित्यापुको दुरित्वात् ॥ इति ण्यन्तप्रक्रिया । - अथ तिङन्त सन्नन्तप्रक्रिया। ननु प्रत्ययवाच्येच्छाया नियतकर्माकांक्षत्वात्प्रत्यासत्या प्रकृत्यर्थकर्मिकायामेवेच्छयां सानो विधानात्कर्मणो लाभ पुनस्सूत्रे तदुपादानं व्यर्थमित्याशङ्कते-कर्मणः किमिति । उत्तरयति-गमनेनेच्छतीति करणान्माभूदिति । अयम्भावः, कर्मण इत्यस्याऽभावे प्रत्यासत्तेः सोध्यत्वादिच्छाकर्मकादेवेत्यर्थे निश्चिते समानकर्तृकाद्धातोरित्यनेन यस्य यस्य समानकर्त्तत्वं तस्य सर्वस्योपस्थितौ करणभूतार्थवाचकादपि धातोः यत्किञ्चित्कमिका- यामिछायामपि प्रत्ययापत्तिः तत्सत्त्वे तु न तथेति । सामानकर्टकात्विमिति । प्रत्य- यापत्तिमाश्रित्य प्रश्नः । पूर्ववदेवोत्तरम् ।। ननु परत्वात्कत्वषत्वयोः कृतयोर्भपभावो न स्यादत आह-सनः षत्वस्यासिद्ध त्वाद्भषभाव इति । केचित्तु जागृह स इति स्थितौ सस्येणः परत्वात्प्राप्तपत्वस्यासिद्धत्वेन डत्वे भष्भाव इति वदन्ति । षत्वेच कृते पश्चाद्भभावे कर्तव्ये सकारपरत्वाभावेन भाभावी नेति पूर्वपक्षे प्रक्रान्तेऽस्य ग्रन्थस्य प्रवृत्तिरित्यन्ये ।। नदु धङः सनि [अत्रेटो दीर्घो नेष्टः] इत्यनेनेटो दीर्घाभावबोधनाद्दीर्घघटितप्रयोगो ऽनुपपन्न इत्याशंकते-कथमुदिधोपुरिति । समाधत्ते भौवादिकयोधू धूओरि- ति । एवञ्च 'अज्झनगमां सनी' ति वक्ष्यमाणसूत्रेण दीधे प्रयोगोपपत्तिरिति भावः ।। ननु दिदीषत इत्यत्र 'मिनाति मिनोति' इत्यनेनात्वं कुतो नेत्याशंका समाधत्ते- एविषयत्वाऽभावादिति । उक्तसूत्रेणै विषय एवात्वविधानान्न तु तदभाव इति प्रकृ- तेऽतथात्वान्नात्वमिति अन प्रमाणमाह-अत एवेति । एविषयाऽभावेऽप्यात्वे 'स निमिमे' ति सूत्रे माग्रहणेन (१)[गामाढाग्रहणेप्वविशेषः] इति परिभाषया मीधा- तारपि ग्रहणसिद्धौ पृथक् तदुपादानं व्यर्थ स्यादितीदमेवैविषय एवात्वमित्यत्र बी- जमित्यलम् ।। ननु 'हलन्ताच्चे त्यनेन इक् समीपस्थहलव्यवहितोत्तरस्य झलादिसनः किवद्भाव- विधानेन तितृक्षतीत्यत्र स न स्यात् सनो ऋकाररूपेक्समीपस्थनकाररूपहलः परत्वाभा- वान्मध्ये हकारेण व्यवधानादित्याशंक्य समाधत्ते-हलूग्रह जातिपरमिति । एवञ्च हल्त्वजात्याक्रान्तकानेकहल् परस्य झलादिसनः किदित्यर्थे न दोष इति भावः ।। गनु इषेः सनि द्वित्वगुणयोः प्राप्तौ नित्यत्वाद्वित्वेऽभ्यासस्यानर्थक्यादिटो गुणस्य चानापतौ एपिषिषतीतीष्टरूपन्न स्यादत आहह नित्यमपि द्वित्वं गुणेन बा. (१) दाधाध्वदाविति सूत्रेऽदाब्घटकदाप्पदेन देपो ग्रहणाय दैप् शोधन इत्यत्रेत्संज्ञकः पकारः कृत; सच दापदेन प्रतिपदोक्तदारूपस्यैव ग्रहणात् निरनुवन्धपरिभाषया निरनु- बन्धकस्यैव च ग्रहणाच्च व्यर्थः सन्नुक्तपरिभाषाज्ञापकः ।

सन्नन्तप्रक्रियाप्रकरणम् । ध्यत इति । अत्र प्रमाणमाह-उपधाकायं हि द्वित्वात्प्रवलमित्यादि। आण- अदित्करणस्य सामान्यापेक्षज्ञापकत्वेनोपधाकार्यमात्रस्य हस्वगुणादेद्वित्वात्प्राबल्यबोधनेन द्वित्वात्प्राग् गुणे रूपमिष्टं सिद्धयतीति भावः । वस्तुतस्तु णौ चडीति सूत्रस्यभाष्य यद्यमोणिमृदितं करोति तज्ज्ञापयति द्विर्वचनं हस्वादलीय' इत्युक्तत्वादस्य सामान्या- पक्षज्ञापकत्वं चिन्त्यम् । तस्माच्छब्दान्तरप्राप्त्या द्वित्वस्याऽनित्यत्वेन द्वयोरनित्ययोः पर- त्वादिड् वाच्यस्ततोऽपि प्राग् गुणेनेष्टसिद्धिरित्यलम् ॥ ननु ऊर्णोतेः सनि इडागमे द्वित्वात्प्राक् गुणेऽवादेशे च कृते पश्चान्न शब्दस्य द्वित्व ऽभ्यासे उकारश्रवणाऽनापत्तिरिति चेन्न । 'द्विवंचनेऽची' ति सूत्रेण स्थानिरूपस्या- तिदेशेन नोशब्दे नवशब्दे वा नुशब्दबुद्धया कार्यप्रवृत्त्या आदेशस्थ गुणस्य निषेधेन बाऽभ्यासे उकारश्रवणोपपत्तेः । नच द्वित्वम्प्रति सूत्रे षष्ट्यन्ततथोपात्तत्वात्सनः का. यित्वेन निमित्तत्वाऽभावाद्विर्वचनेऽचीत्यस्याऽप्राप्त्या दोपस्तदवस्थएवेति वाच्यम् । (१) [कार्यमनुभवन् हि कार्या निमित्ततया नाश्रीयते] इति परिभाषया कार्यानुभवकर्तृत्व- विशिष्टस्य कार्यिणो निमित्तत्वेनानाश्रयणादतादृशस्य कार्यिणो निमित्तत्वाक्षततया नुश- अस्यैव द्वित्वेन सनोऽद्वित्वात्तस्येटो निमित्तत्वेनोंकसूत्रप्रवृत्तेरदोषादिति भावः । ननु (लक्षणप्रतिपदोक्त) परिभाषया मिनोतेर्मीरूपस्य लाक्षणिकत्वेन मीग्रहणेन ग्रहणं न स्यादिति चेन्न । यन्त्र लक्षणाभिनिवृत्तत्वेन शब्दरूपापेक्षा तत्रैवोक्तपरिभाषोपस्थि- त्या प्रयोगाश्रयणे तदनुपस्थित्याऽदोषादित्याह-कृतदीर्घस्य मिनोतेर्मीरूपाऽविशे- पादिसिति । अत्र मीरूपमात्रस्य प्रयोगाश्रयणात्परिभाषाऽप्रवृत्तिः। विभाषा दिक समासे' इत्यत्र तु लक्षणाऽभिनिर्वृत्तस्य समासशब्दस्याश्रयणादुक्कपरिभाषाप्रवृत्त्या 'दिङ्- नामान्यन्तराले' इति प्रतिपदोक्तसमासस्यैवाश्रयणम् । उक्तपरिभाषाया अनित्यत्वात्वचि. दुपस्थितिः क्वचिदनुपस्थितिरिति निष्कृष्टोऽर्थ इति दिक् ॥ नतु ऋधातोः सनि इटि इसः सनोऽवयवस्य कार्यभागित्वेन कार्यिणो निमित्तत्वाला- भेन द्विवचनेऽचीति निषेधाऽप्रवृत्त्या गुणेऽर् इसिति स्थितौ रिसशब्दस्य द्वित्वे हलादिः शेषे अरिरिषतीति सिद्धिरिति भावः ॥ ननु उच्छेः सनि तुकि चुत्वे, द्विर्वचने न पूर्वत्रासिद्धं प्रवर्तते इत्यर्थक (पूर्वत्राऽसिद्धी- यमद्विवचने) इति परिभाषया द्वित्वदृष्टया चुत्वस्यासिद्धत्वाऽभावेन चकारछकारसहित- स्यटो द्वित्वे उयिच्छिपतीति सिद्धयति । नच [निमित्ताऽपाये नैमित्तकस्याऽप्यपायः इति परिभाषया चकाररूपस्य तुकोऽपायाञ्चकारस्याऽभ्यासे श्रवणापत्तिरिति वाच्यम् । तस्या अनित्यत्वेनाऽप्रवृत्त्याऽदोषात् । एतदनित्यत्वे ज्ञापकमाह-च्छो शूडिति सूत्रे सतु- ग्ग्रहणाज्ज्ञापकादिति । तथा हि तुग्विशिष्टस्य छकारस्य शादेशेऽपि उक्तपरिभाषया तुनिमित्तस्य छस्याऽपाये नैमित्तिकस्य तुकोऽपायात्तच्छ्रवणापत्त्या सतुरग्रहणं व्यर्थ स. ज्ज्ञापयति उक्तपरिभाषाऽनित्येति । एवञ्चेह तदप्रवृत्त्या नोक्तदोषः । समाधानान्तरमाह -प्रकृतिप्रत्ययापत्तिवचनाद्वेति। पुष्ययोगं जानाति पुष्येण योजयतीत्येतत्साधक (१) कार्यानुभवकर्तृत्वबिशिष्टः कार्या निमित्तं न भवति परिभाषार्थः । स्थण्डिलाच्छ- गितीति सूत्रे शयितरीति निर्देशोऽत्र ज्ञापकः ।

० फक्किकारत्नमञ्जूषा। 'पुष्ययोगे जी ति सूत्रे भाष्यकृत् कृतायाः प्रकृतिप्रत्ययानुवृत्तेपिकम् , तत्र हि चजोरि ति घिति परे कुत्वं अन्यथा कल्लुकि निमित्ताऽपाय इति परिभाषयैव कुत्वव्यावृत्ती च्यर्थव तदनुवृत्तिः। किञ्च [ आख्यानात्कृतस्तदाचष्टे ] इति वार्तिकविहितप्रकृतिप्रत्यय- यापत्तिवचनं तदनित्यत्वे ज्ञापकम् । वस्तुवस्तु एतैरुक्तपरिभाषाऽभाव एव ज्ञाप्यत इति दिक् । स्थादिष्यभ्यासेनेति नियमान्नेहेति-ननु नियमादेव निषेधे "सुनोतेः स्यसनोः, अस्येह निर्विपयापत्तिरिति चेन्न अभिसुसूपतेरप्रत्ययेऽभिसुसूरित्यत्र षत्वनिषेधाय तदावश्य- कत्वादिति भावः ॥ इति सन्नन्तप्रक्रिया । - अथ तिङन्ते यङन्तप्रक्रिया । ननु क्रियासमभिहार इत्युक्त्यैव धातोर्लाभात्सूत्रे पुनस्तदुपादानं व्यर्थमित्याशंकते- धातोः किमिति । उत्तरयति-ब्रुवोवचिरित्यादीति । वावच्यते चाख्यायते इत्या- 'दिसिद्धिः प्रयोजनम् । धिगित्यव्ययस्यापि क्रियावाचित्वादेकाच्त्वाच्च ततः प्राप्तयच्या. वृत्त्यर्थकमपि धातुग्रहणमित्यलम् ॥ यस्येति संघातग्रहणमिति । तेन नाव्ययीदहर्यादित्यादौ यलोपापत्तिः । संघातग्र- इणसामर्थ्यात्तु ( अर्थवद्ग्रहणे नाऽनर्थकस्ये)ति परिभाषोपस्थितौ न पुत्रकाम्यादौ यलोपा. तिप्रसक्तिः । वर्णग्रहणे तु तदनुपस्थित्या यलोपोऽन स्यादेवेति भावः ॥ दोघोऽकितः । अन्नाऽग्रहणे यंयम्यते रंरभ्यत इत्यादौ दीर्घापत्तिः । ननु सूत्रे दीर्घप- दश्रवणादुपस्थिताऽच्पदेन 'अत्र लोपोऽभ्यासल्ये' त्यस्मादनुवर्तमानाऽभ्यासस्य विशेष्यत्वेन 'अजन्ताभ्यासस्य दीर्घ इत्यर्थे नोक्तस्थले दीर्घप्राप्तिरिति व्यर्थ तत् । नचाऽभ्यासावयव- त्याचो दीर्घ इति वैयधिकरण्यान्वयाङ्गीकारे तस्य सार्थक्यमिति वाच्यम् । सामानाधिक. रण्यान्वयसम्भवे वैयधिकरण्यान्वयस्यायुक्तत्वेन (येन नाप्राति) न्यायेन नुको दीर्घापवाद- त्वाऽभ्युपगमेन च दोषाभावेनाकिग्रहणवैयर्थ्यस्य तादवस्थ्यादिति चेन्न । डोढौक्यत इत्य- त्राऽभ्यासहस्वबाधेनोक्तसूत्रप्राप्तदीर्घच्यावृत्तये ( अभ्यासविकारेषु उत्सर्गविधीन बाधका न बाधन्ते) इत्येतदज्ञापनायाऽकिग्रहणस्यावश्यकत्वात् । एवञ्चोकज्ञापकसमर्थनाय वैयधिक. रण्यपक्षाश्रयणेन ययम्यत इत्यादौ दीर्घात्पूर्व सत्यपि नुकि दीर्घवारणायावश्यकमिद्ग्रह- णमिति भावः ॥ ननु अर्यङि निन्द्राः संयोगादयः' इत्यनेन निषेधान्द्रेफस्य द्वित्वाभावेन वक्ष्यमाण- भाष्योदाहरणमसङ्गतं स्यादत आह-यकारपररेफस्य न द्वित्वनिषेधः । आरायंत इति भाष्योदाहरणादिति । द्वित्वम्प्रति यः कार्यित्वान्न निमित्तत्वयोग इत्यपास्त- मेतेन । भाष्योदाहरणस्य सामन्यापेक्षज्ञापकत्वादार्यमाख्यदारर्यदिति सिद्धिः॥ ननु विग्रहेण यङन्तप्रतिपाद्यविशेषाऽसम्प्रत्ययेन नित्यग्रहणमनर्थकमिति भाष्येण च नित्यग्रहणं न वाक्यनिवर्तकं किन्तु कौटिल्यपदान्वय्यावधारणार्थन्तदित्यह-कौटि- ल्य पवेति । इति वृत्तिकद्रीत्या. 'धातोरेकाचा इति सत्रभाष्यरीत्या त गयोग कि.

यडन्तप्रक्रियाप्रकरणम्। १११ यासमभिहारे यङ्भवत्येवेत्यवसेयम् । नच 'नित्यं कौटिल्ये गतावि' त्यत्र नित्यग्रहणं व्य- थ (१)(तक्रकौण्डिन्य) न्यायेन तक्रदानेन दधिदानबाधवत्सूत्रे कौटिल्यपदोपादानेन क्रि- यासमभिहारे प्रत्ययाविधानान्निस्यपदासद्भावेऽप्यवधारणार्थलाभेनेष्टसिद्धेरिति वाच्यम् । तस्योक्तन्यायानित्यत्वज्ञापनेन सार्थक्यात् । अत एव 'मतिबुद्धिपूजार्थेभ्यश्चे' त्येतत्सू. अविहितवर्तमानार्थकतेन पूजार्थकधातुभ्यो भूते क्तस्याबाधात् 'क्तस्य च वर्तमाने' इति षष्ट्यप्राप्त्या (पूजितो यः सुराऽसुरैरि)त्यत्र तृतीयायाः साधुत्वमिति भावः । अकित इत्युक्तेर्न दीर्घ इति-ननु अजन्ताऽभ्यासस्य दीर्घ इत्यर्थेन नुग्रुगादौः कृतेऽजन्तत्वाऽभावान्नीकि विशेषाभावाद्रीकि रोग्विधानेनैव सिद्ध रिग्विधिसामर्थ्यादेव तदभावसिद्धे किमकित इत्यनेनेति चेन्न । अभ्यासविकारविधौ वैयधिकरण्यान्वयज्ञाप- नार्थत्वात् । अत एव च्यतेः सनि द्वित्वेऽन्तरङ्गत्वात्तुकि चिच्छासतीत्यादावभ्यासहस्व. त्वेत्वसिद्धिः । नचैवमपि अपवादत्वानीगादिभिर्दीर्घबाधे व्यर्थमेव तदिति वाच्यम् । अ- भ्यासविकरे बाधका न इत्यर्थस्यापि ज्ञापनात् । इति यडन्त प्रक्रिया। अथ तिङन्ते यङ्लुगन्तप्रक्रिया। योऽचि च । अत्र सूत्रे अचीति प्रत्ययस्य ग्रहणं नतु प्रत्याहारस्य यङा साहब. र्यात् । चकारेण बहुलमित्यनुकर्षस्तदाह-अच् प्रत्यये बहुलं लुगिति-चकारस्य फ- लान्तरमप्याह-चकारात्तं विनाऽपीति । अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवतीति-'सन्योः' इति षष्ठी न तु सप्तमी । सप्तमीस्वीकारे थडो लुका लुसत्वेन प्रत्ययलक्षणाऽप्रवृत्या यङन्तत्वाऽभावेन द्वित्वानापत्तिरितिभावः। नच 'न लुमताङ्गस्ये त्यनेनाऽङ्गाधिकारविहितकार्यस्यैव निषेधेन: प्रकृते तादृशकार्याऽभावादूद्वित्वे बाधकाऽभावेन ससमीपक्षेऽपि न कोऽपि दोष इति वा- च्यम् । उक्तनिषेधसूत्रेाधिकारस्याग्रहणेन प्रत्यये परतः पूर्वस्य विधीयमानं यदांगमनांग कार्य तस्य सर्वस्यापि निषेधात् । अत एव राजपुरुष इत्यदौ नलोपसिद्धिः । आगाका-. यस्यैव तेन निषेधे तु 'यचिभमित्यस्यानाङ्गत्वेन निषेधाऽभावादूभत्वेन पदत्वबाधान लोपो. न स्यादिति भावः ॥ धातुत्वाल्लडादय इति-विबन्तेष्विव प्रत्ययोत्पत्तेः प्राक् प्रवृत्ताया धातुसंज्ञाया (एकदेशविकृत)न्यायेनाऽवस्थितत्वात कार्यकालपक्षेऽपि भूवादिसूत्रप्रवृत्तेश्च । अथवा, चर्करीतमित्यस्याऽदादौ पाठाह्मवादित्वाद्भुवादिसूत्रेण धातुसंज्ञेति भावः ॥ ङित्त्वस्य प्रत्ययाऽप्रत्ययसाधारणत्वेनेति-ऋतेरीयडित्यादिषु प्रत्ययेषु चित्रकादिष्वप्रत्ययेषु च ङित्त्वस्य दर्शनेन प्रत्ययस्याऽसाधारणरूपाश्रयणे प्रवर्त्तमानस्य प्रत्ययलक्षस्यात्राऽप्रवृत्त्या न यो ङित्वप्रयुक्तकार्यस्याऽऽत्मनेपदरूपस्य शङ्कालेशोऽपीति भावः । प्रत्ययस्याऽसाधारणरूपाश्रयण एव प्रत्ययलक्षणप्रवृत्तरेवसुदृषत्प्रासाद इत्यत्रासिति (१) सर्वेभ्यो ब्राह्मणेभ्यो दधि दीयतां तर्क कौण्डिन्यायेति तदाकारः ।

११२ फक्किकारत्नमञ्जूषा! . प्रत्ययाऽप्रत्यययोः सत्त्वादसाधारणरूपानाश्रयणेन प्रत्ययलक्षणाऽप्रवृत्त्याऽसन्तत्वाऽभावान्न दीर्घ इति दिक्॥ ननु येपामनुदात्तेता प्रत्ययलक्षणमन्तरैव ङित्त्वं तेभ्यस्त्वात्मनेपदं दुर्वारमित्यत आ- हु-अनुदात्तङिन्त इत्यनुबन्धनिर्देशादिति-श्तिपाशपाऽनुबन्धेनेति निषेधपरिगण- नेऽनुबन्धपदसद्भावेन तत्प्रयुक्तकार्यस्य यङ्लुक्यभावबोधनात् 'अनुदात्तडित' इत्यत्राङिन इत्यस्य डकारेत्संज्ञकाद्धातोरित्यर्थे डकारस्याऽनुबन्धत्वस्य स्पष्टत्वान्न तनिर्दिष्टात्मनेपद. प्रसक्तिरिति भावः ॥ अतएवेत्यादि शपोलुगित्यन्तमिति-उक्तनिषेधपरिगणनेन गगनिर्दिष्टकार्यस्या. यत्राप्रवृत्तिबोधनाच्छयन्नादेरप्राप्त्या तदनिर्दिष्टस्य शप एव प्रवृत्त्या तस्य (चर्करीतमि)त्य- स्य विशिष्याऽदादौ पाठाल्लुगिति बोध्यम् । ननु यङ्लुगन्तभूधातोर्लटि तिपि प्रत्ययलक्षणेन यङन्तत्वादद्वित्वेऽभ्यासस्य जश्त्वे तस्य च गुणे यो वेति इटि, तदभावे वाभु इति बोभूति इति स्थितौ 'सार्वधातुका- र्द्धधातुकयोरिति प्राप्तगुणस्य 'भूसुबोस्तिङीति निषेधे वोभवीति, बोभोतीतीति चेष्टप्र. योगो न स्यादत आह-बोभूतु तेतिक्ते इति छन्दसि निपातनादिति । उक्तसूत्रेणैव गुणनिषेधसिद्धौ निपातनस्य यलगन्तभूधातोश्छन्दस्येव तत्रापि लो. ट्येव गुणाऽभावो नाऽन्यत्रेति नियमार्थत्वेन लटि गुणे न बाधकमिति । अत एव बोभू- त्विति नियमार्थमत्रैव यङ्लुगन्तस्य गुणाऽभावो नान्यत्र बोभवीतीत्युक्तम्भाष्ये । अत एवेति । पूर्वोक्तनियमादेवेत्यर्थः । ननु समुदायस्य बोभू इत्यस्य भुवोऽतिरिक्तत्वेन त. त्वाऽभावाभूसुवोस्तिकीति गुणनिषेधाऽप्राप्त्या निपातनस्य गुणनिषेधायावश्यकत्वेन नि- यमार्थत्वं न सम्भवतीत्याशंकते-नच यङ्लुक्यप्राप्त एव णाभावो निपात्यता. मिति । सामाधत्ते-प्रकृतिग्रहणेन यङ्लगन्तस्यापि ग्रहणादिति । एवञ्च भूग्रह- णेन बोभू इत्यस्य ग्रहणाद्गुणनिषेधसिद्धया निपातनं नियमार्थमेवेति । प्रमाणमाह- द्विःप्रयोगाद्विर्वचनं षाष्टमिति सिद्धान्तादिति । षष्ठाध्यायस्थसूत्रविहितद्विवचनस्य द्विः प्रयोगरूपत्वेन तत्त्वाक्षततया निषेधादिसिद्धिः । शेखरकृतस्तु, उत्तरखण्डस्य भूत्वा- क्षततया भूसुवोरित्यस्य भूशब्दान्ताङ्गस्य न गुण इत्यर्थेन निषेधप्राप्त्या नियमसिद्धिः । द्विःप्रयोग त्वेऽपि विशिष्टानुपूर्वीभेदात्प्रकृतिग्रहणेन तद्ग्रहणोपपादनं न सम्भवति । अत एव 'दयते दिगीति सूने भाष्ये अस्तेयादेशे यदि स्थाने द्विवचनं द्वित्वे कृते सर्वादेशो भूभावः प्राप्नोति । अथ द्विः प्रयोगो द्विर्वचनं तदा परस्य भूभावे कृते पूर्वस्य श्रवण प्राप्नोतीत्युक्तमित्याहुः ॥ ननु 'आत' इत्यनेन सिज्लुकि सति आदन्तादेव झे सो विधानादिह जुस् न स्या- दत आह-अभ्यस्ताश्रयो जुसिति । 'सिजभ्यस्तविदिभ्यश्चे, त्यनेन सिचः परत्वमा- श्रित्य प्रासजुस एवं नियमो नत्वभ्यस्ताश्रयस्य तस्येनि न कोऽपि दोषः । नच परत्वात् अदभ्यस्तादि त्यनेन कृतेऽदादेशे जुसोऽप्राप्त्या दोषस्य तादवस्थमेवेति वाच्यम् । 'अभ्यस्ताश्रयजुसोऽदादेशापवादत्वेन दोषोद्धारादिति भावः ।। ननु 'सिजभ्यस्तविदिभ्यश्चेत्यनेनाऽभ्यस्ताश्रये जुसि कृते जलि चेति गणो दर्वार तनादिप्रकरणम। ११३ इत्यत आह-नित्यत्वावुगिति-(परनित्यान्तरङ्गापवादानामुत्तरोत्तरं क्लीयः) इति परिभाषया परत्वाऽपेक्षया नित्यत्वस्य बलवत्वयोधनाज्जुसि चति गुणल्य परत्वात्तदपेक्ष- या कृताकृतग्रसङ्गित्वेन बुको नित्यत्वाद्गुणं बाधित्वा वुगेवेति भावः ॥ ननु (एकाच उपदेशेऽनुदात्तादि)त्यत्रैकाच्ग्रहणस्य रितपाशपानुवन्धेति निषेधवचनज्ञा- पकत्वेनैकाग्रहणघटितशास्त्रस्य यङ्लुक्यप्रवृत्तिसूचनादिहोक्तसूत्राप्रवृत्तिरित्याह-एका- ग्रहणेनोक्तत्वान्नेनिषेध इति ॥ ननु गमेर्यालगन्तालोटि मध्यमपुरुषैकवचने सेपिच्चेति हौ तस्य 'अतो हेरिति लुक् स्यादत आह-अनुनालिकलोपस्याऽऽभीयत्वेनाऽसिद्धत्वान्न टुंगिति । समानानयाभीये कर्तव्ये समानाश्रयमाभीयमसिद्धमित्यर्थकस्य 'असिद्धवदनाभादित्यस्य 'अनुदात्तोपदेशे'त्यत्रोपस्थित्या, अनुदात्तोपदेशानां यमिरमिगम्यादीनां, तनोत्यादीनां, वनतेश्चानुनासिकस्य लोपः स्याज्झलादौ कि तिपरे सचाऽसिद्धो भवतीत्यर्थे समानाश्रय- स्य हे कोऽत्र कर्तव्यत्वे समानाश्रयस्यानुनासिकलोपस्यासिद्धत्वेन हेरतापरत्वाऽभावान्न लुगिति भावः ॥ ननु यङ्लुगन्ताद्गम डि 'च्लि लुङि इत्येत्सूत्रविहितस्य च्ले: स्थाने 'स्तिपा शप' ति निषेधपरिगणनेऽनुबन्धपदसद्भावात्तनिर्दिष्टकार्यस्येह प्रकरणेऽभावप्रतिपादनात् 'पु- षादिद्युताद्यलुदितः परस्मैपदेवि तिसूत्रेण नाऽङित्याह-अनुबन्धनिर्देशान्नच्लेरङिति ननु हन्तेर्यङ्लुकि 'हो हन्तेगिन्नेष्विात्यतो हन्तेरित्यनुवर्त्य 'अभ्यासाचेत्येतत्सू- त्रविहितकुत्वस्यान प्रवृत्तिर्न स्याद्धन्तेरित्यत्र रितपो निर्दिष्टत्वादुक्तनिषेधादित्यत आह- शितपाशपेति निषेधस्त्वनित्य इति । अनित्यत्वे प्रमाणमाह-'गुणे यङ्लुको" इति सामान्यापेक्षत्रापकादिति-अयम्भावः' सन्यको' रिति द्वित्वविधायकेनैका- चोद्वित्वविधानात्तत्र च रितपाशपेति निषेधेन यङ्लुकि कुत्रापि द्वित्वाऽभावात् 'गुणोय- ङ्लुकोः' इत्यनेनाअभ्यासस्य विधीयमानो यो गुणस्तस्य द्विर्वचनं विनाऽनुपपत्त्या व्यर्थी. भूतं क्वचिदप्रवृत्ति ज्ञापयति । विशेषाऽपेक्षज्ञापकत्वे तु एकाज्निबन्धनस्यैवाऽनित्यत्वं स्थादित्यलम् ॥ ननु हन्तेर्यङ्लुकि लोटि मध्यमपुरुषैकवचने हो जङ्घहीत्यत्र 'हन्तेर्जः' इति जादेशः कुतो नेत्याशङ्कां समाधत्ते-शितपा निर्देशाज्जादेशो नेति । उक्तजादेशविधायकसूत्रे हन्तरित्यत्र श्तिपो निर्दिष्टत्वेन तन्निर्दिष्टकार्यस्य च रितपा शपेति निषेधेन यङ्लुक्यप्रवृ- त्तिबोधनेन जादशाऽभाव इति भावः ॥ ननु हन्तेर्यङ्लुकि आशीलिङि लुडि च कृतद्विर्वचनस्य हन्तेर्वधादेशे पुनद्वित्वं कुता नेत्याशङ्कां समाधत्ते-वधादेशस्य द्वित्वं तु न भवतीति-अयम्भावः, सन्यहोरिति द्वित्वविधायके 'लिटि धातोरनभ्यासस्ये त्यतोऽभ्यासस्ये त्यतोऽनभ्यासपदानुवृत्तौ सन्न- न्तस्य यान्तस्य चानभ्यासमिन्नप्रथमैकाचो द्वित्वमित्यर्थ बध्यात् अबधीदित्यत्र बधादे- शस्य स्थानिवद्भावेनाऽभ्यासत्वान्न द्वित्वप्राप्तिः । नाऽभ्यासो यस्मिन् यस्य वेति बहुव्री- हावभ्यासपदस्य धातोः समानाधिकरणविशेषणत्वम् । अस्तेरिति सूत्रस्थभाष्येणोत्तरखण्ड.. स्यैव बधादेशे जंबध्यादित्येवरूपमिति बोध्यम् ॥

फक्किकारत्नमञ्जूषा! ननु आपूर्वकाद्धन्तेर्यलुकि 'आडो यमहनः' इत्यात्मनेपदं न स्याद्यङ्लुगन्तस्यो- धातोश्शुद्धधातुभिन्नत्वेन तद्ग्रहणेनाऽग्रहणात्सूत्रे च शुद्धधातोरेवोपादानादिति चेन्न । (१)(प्रतिग्रहणेन यङ्लुगन्तस्याऽपि ग्रहणात्) द्विः प्रयोगो द्विर्वचनं पाष्ठमिति सिद्धा- तितत्वादाह-आपूर्वकात्तु 'आङो यमहन' इत्यात्मनेपदमिति ॥ ननु चरतेर्यङ्लुकि 'चरफलोश्चेत्यभ्यासस्य नुकि उत्परस्यातः' इत्युत्वस्य गुणः कुतो नेत्यत आह-तपरत्वान्न गुण इति- ननु तपरकरणसामर्थ्यागुणव्यावृत्तिरिव दीर्घव्या- बृत्तिरपि स्यादत आह-हलि चेति दीर्घस्तु स्यादेवेति-तत्र युक्तिमाह-तस्याः सिद्धत्वेनेति-उत्वविधायकदृष्ट्या गुणस्य सिद्धत्वात्तस्य च तपरत्वव्यावर्त्यत्वेन व्या- वृत्तिः । दीर्घस्य तु उत्वदृष्टयाऽसिद्धत्वेन तपरव्यावर्त्यत्वाऽभावेन नानेन तद्व्यावृत्ति. रिति भावः॥ ननु यौतेर्यङ्लुकि लटि 'उतोवृद्धिरिति वृद्धिः स्यादत आह-उतावृद्धिरित्यत्र नाभ्यस्तस्येत्यतोऽनुवृत्तेरिति-अयम्भावः तत्र नाभ्यस्तस्येत्यस्यानुवृत्तावभ्यस्त- भिन्नोकारस्य वृद्धिरित्यर्थे प्रकृतेऽभ्यस्तत्वान्नोक्तापत्तिरिति दिक् ॥ ननु स्वपेर्यङ्लुकि 'स्वपिस्यमिव्येनां यङि' इत्यनेन सम्प्रसारणं कुतो नेत्यत आह- लुका लुप्ते प्रत्ययलक्षणाऽभावादिति-उक्तसूत्रेण यङि सम्प्रसारणं विधीयते यङश्च 'यकोचि चे त्यनेन लुक् तस्य च लुक्शब्देन कृताऽदर्शनात् 'न लुमताङ्गस्येति निषेधेन प्रत्ययलक्षणाऽप्रवृत्त्या योऽभावान्न सम्प्रसारणम् , मूले उत्वं नेति फलितार्थकथनमुक्त- सूत्रविधीयमानसम्प्रसारणन्नेति तदर्थः, । नच लुकः प्रागेव यङः सत्त्वेन तस्मिन्नुक्तापत्ति- र्बुरिति वाच्यम् । सर्वविधिभ्योलुग्विधेर्बलीयस्त्वेन (२) (अकृतब्यूह) परिभाषया च लुकः पूर्व तदप्रवृत्तेरिति भावः ॥ ननु अतर्यङ्लुकि लटि प्रथमपुरुषस्य बहुवचने झौ आरतीतिरूपं सिद्धयति तन्न स्यात् रर ऋ इति स्थितौ रुको रेफस्य 'रोरीति लोपे यणि कृते प्राप्तस्य 'ठूलोप' इति दीर्घस्य यणः स्थानिवद्धावेन निमित्ताऽभाषेनाऽप्रवृत्तरिति चेन्न । 'अभ्यासस्याऽसवर्णे' इत्यत्रा- सवर्णग्रहणेनाऽभ्यासकार्य ऽभ्यासानवयवधात्ववयबादेशस्य तत्प्रतिबन्धकस्थानिवद्भावो नेत्यर्थज्ञापनादीर्घविधौ स्थानिवत्त्वनिषेधाच्चोक्तानुपपत्त्यभावादिति ॥ ननु यङ्लुगन्ताद्ग्रहेनुंकि 'ग्रहोऽलिटी' तिसूत्रेण कुतो नेटो दीर्घ इति चेन्न । तत्रै काच्ग्रहणसत्त्वादेकान्निबन्धनकार्यस्यात्र प्रकरणेऽभावबोधनादित्याह-ग्रहो लिटीति दीर्घस्तु न, तौकाच इत्यनुवृत्तेरिति । माधवमते युक्तमेतदित्याह-माधवस्तु, दीर्घमाहेति । इत्थं हि तदाशयः, ग्रहोऽलिटी ति सूत्रस्थ(यङ्लोपे चोक्तमि)ति वार्तिक तदीयभाष्यादिपर्यालोचनात् जरीगृहितेत्यादौ यन्ताद्ग्रहेस्तृचस्तासेर्वा इटो दीर्घाभावे (१) प्रकृतिग्रहणे यङ्लुङन्तस्यापि ग्रहणमिति परिभाषास्वरूपम् । पाष्टद्वित्वस्य द्विः- प्रयोगत्वसिद्धान्तेन प्रयोगद्वयरूपे समुदाये प्रकृतिरूपत्वबोधनान्न्यायसिद्धमिदम् । २) अकृतव्यूहाः पाणिनीया इति परिभाषास्वरूपम् । पाणिनीयशास्त्राध्येतारो नि- मित्तस्य विनाशोन्मुखत्वे दृष्ट तत्प्रयुक्तकार्यकारिणो न भवन्तीत्यर्थः । समर्थानां प्रथमावति. -सूत्रस्थं समर्थग्रहणमत्र ज्ञापकम् । .

यङ्लुगन्तप्रक्रियाप्रकरणम् । युक्तिद्वयम् । पूर्वस्मादपि विधौ स्थानिवझाव: ग्रहेवित्तिस्येटो दीर्घ इति च तत्र भा. ज्यवार्तिककृद्रीत्या प्रथमः पक्षः ताभ्यां पूर्वत्रासिढे न स्थानिवदिति स्वीकृत्य दीर्घग्रहणं प्रत्याख्यातम् । तन्मते त्रैपादिकदीर्घातिरिक्तदीधै कर्त्तव्ये स्थानिवद्वावः सुयचः। द्वितीय- पक्षस्तु सूत्ररीत्या, एतन्मते सामान्यतो दीर्घविधौ स्थानिवद्भावनिषेधादसौ वक्तुमशक्यः। तथाच यङ्लुकि दीर्घप्रवृत्तौ न बाधकम् । यङ्लुकोऽनैमित्तिकत्वेन अज्झलादेपत्वेन च न स्थानिवद्भावः। द्विःप्रयोगो द्विवचनं पाष्ठमिति सिद्धान्ताद्ग्रहेर्यलुगन्ताद्विहितस्य ग्रहे- विहितत्वापायो नेति । तद्भाष्यविरुद्धमिति । तथा हि 'एकाचो द्वे प्रथमस्ये' ति सूत्रे हेरङ्गादिति भा- यमुपादाय कैयट आह तृचो हि जरीगृहित्यङ्गन्न तु अहिः विशेषणसामर्थ्याद्धि यथा- श्रुतविशेषणमिति । न च यङन्तप्रक्रमे एतत्समाधानस्य कैयटेनोक्तत्वात्कथं यछगन्ते तेन निर्वाह इति वाच्यम् । युक्तिसाम्याघळुगन्तेऽप्युक्तसमाधानेन दीर्घाभावस्य लक्षितत्वात् । अत्र पक्षे यङ्लुकि दीर्घाऽप्रसक्त्या पूर्वस्मादपि विधौ स्थानिवद्भाव इति, ग्रहेविहितेटोदीर्घ इत्यस्य च समाधानस्योपायस्योपायान्तरादूषकत्वादिति न्यायेन यङन्तांशे उपायान्तरपर. त्वन नेयत्वम् । न च यथाश्रुतरूपपक्षे गृहीतमित्याद्यसिद्धिरिति वाच्यम् । अङ्गसंज्ञाप्रवृ. त्तिकाले यथाश्रुतरूपस्येव सद्भावेन तत्सिन्दः । ग्राहितमित्यादौ तु नैवम् , 'निष्ठायां सेटि: इति णिलोपे एकाच्त्वानपायादिति भावः ॥ भाष्ये ध्वनितमिति । तथाहि, अत्र कितीत्यल्यानुवृत्तिर्नवेतिपूर्वपक्षे सजाते बहू- दोषानुद्भाव्य परिहत्य चोक्तमेतावानेव विशेषः । अनुवर्तमाने किग्रहणे छः षत्वम्वक्त- अननुवर्तमाने तस्मिन छः शत्वे कृते शान्तत्वादेव षत्वसिद्धौ ‘ब्रश्चादि सूत्रे छग्र- हणं न कर्तव्यम्भवतीति भावः । एवं वदन् भाष्यकार ऊठभाविभ्यो यङ्लुङ्नास्तीत्युक्त- वान् । अन्यथा दिवेर्यड्लुकि देदेति, देवेषि इत्यादौ ऊठो भावावाभ्यां महान् विशेषः म्यात् । ततश्च कितोऽननुवृत्तावूठः प्रवृत्त्या देयोति, देद्योषीत्यादिविशेषरूपलाभादतावा- नेवेत्येवकारो विरुध्येतेत्यलम् ॥ इति यालगन्तप्रक्रिया। व्यम्, अथ तिङन्ते नामधातुप्रक्रिया । ननु गामिच्छतीति विग्रहे गव्यतीत्यादौ अन्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वात् 'लोपः शाकल्यस्ये' ति वकारलोपः कुतो नेत्याशंका समाधत्ते-न पदान्तत्वादिति । 'नः क्ये' इतिवक्ष्यमाणसूत्रेण क्यचि क्यङि च नान्तस्यैव पदत्वादिहाऽतथात्वान्न दोष इति भावः ॥ ननु गव्याञ्चकार गव्यितेत्यादौ 'यस्य हल' इति यलोपो दुर्वार इत्यत आह-सन्नि- पातपरिभाषया क्यचो यस्य लापो नेति । यकारे परे यान्तादेशविधानाद्वकारो न थलोपनिमित्तम्भवतीति भावः ॥ ननु (सर्वप्रातिपदिकेभ्यः क्विव्या वक्तव्यः) इति वार्तिकेन प्रातिपदिकात्क्पिो वि.

११६ फाशकारत्नमञ्जूषा धानेन मालाशब्दस्य प्रत्ययान्तत्वेन प्रातिपदिकभिन्नत्वात्विचम् न स्यादत माह () लिङ्गविशिष्टपरिभाषयेति । प्रातिपदिकस्य मालेत्यस्य ग्रहणे लिंगवोधकटात्प्रत्ययवि. शिष्टस्य मालाशब्दस्यापि ग्रहणवोधनात्तदुपपत्तिः । समाधानान्तरमाह-एकादेशस्य पूर्वान्तवत्वाद्वेति । 'अन्तादिवञ्चे' त्यनेन दीर्घरूपैकादेशस्याऽकाररूपपूर्वस्थानिघटिन- मालशब्दवृत्तिप्रातिपदिकत्वस्यैकादेषविशिष्टमालाशब्देऽतिदेशात्प्रातिपदिकत्वात्तदुपपत्ति- रिति भावः ॥ ननु अरिवाचरतीतिविग्रहे क्विबन्ताटुक्तधातोर्लुङादौ गातिस्थेत्यादिसूत्राणां प्रा. शिवारत्यत आह-अभिव्यक्तत्वेन धातुपाठस्थस्यैव तत्र ग्रहणादिनि ! उक्तञ्च- अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः । शास्त्रार्थस्तेषु कर्त्तव्य उक्तेषु न तदुक्तिषु ॥ इति । पथीनतीति ! पन्या इवाचरतीति विग्रहेऽन्तरंगत्वादी गुणाऽभावाद्रूपमिदम् । भाधवानुसारेणैतत् । परे तु हलन्तेभ्य आचारविपोऽभावादयुक्तमेतत् । किञ्च इन्हन्नि त्यनेन शावेव दी? नान्यत्रेति नियमात्प्रकृते दीर्घाऽप्राप्त्या गुणे सति पथेनतीत्येव रूपम् । नच तत्र सूत्रे शाबित्युपादानाज्ज्ञापकस्य सजातीयापेक्षत्वे सुबानन्तर्य एव नियमफलनि- बेधप्रवृत्तिरिति वाच्यम् । तथा सति वृत्रघ्नः स्त्री वृनध्नीत्याग्रसिद्धयापत्तेः । अन्न हनु शब्दस्य विबन्तत्वात्तन्नाऽनुनासिकस्यतिदोघेऽस्मात्पुंयोगाखियां वृत्त्या नान्तलक्षणी- पि कृतेऽल्लोपो न स्यादित्याहुः । येषामिन्नादीनां शावुपधादीर्घः परमदण्डिन्नित्यादौ तेषां सण्डिनवृत्रहन्नादीनामेव, इन्हन्निति नियमो नतु पथ्यादीनामेतेषां तु शौ परे मुपन्थानीत्या- दावुपधादीर्घप्रवृत्तावपि 'इतोऽत्सर्वनामस्थाने' इत्यत्वे कृते 'इन्हन्निति नियमाप्रवृत्तेः । अन्यथा पन्थानावित्याद्यसिद्धिः । एवञ्च पूर्वोक्तरूपमेव साध्विति केचत् ।। देवतीति माधव इति । अत्र दिव उत्' इत्येनेन दोत्वं भवति तेन पदान्तविषय एवोत्वविधानादिह पदान्तत्वाऽभावादिति भावः । अत्र ऊठि द्यवतीत्युचितमिति । लघूपधगुणं बाधित्वाऽन्तरङ्गत्वादूठि यण् । नच (असिद्धं बहिरंगमन्तरङ्गे) अनया परि- भाषयाऽन्तरङ्गस्य यणः कर्त्तव्यत्वे बहिरङ्गस्योठोऽसिद्धत्वबोधनादच्परत्वाऽभावाद्यण न स्यादिति वाच्यम् । अचोऽन्यानन्तर्यनिमित्तकेऽन्तरङ्ग कर्त्तव्ये न बहिरङ्गत्वप्रयुक्तासिद्धि- रित्यर्थक (नाजानान्तये बहिषट्वप्रक्लप्तिरि)ति परिभाषयोक्तपरिभाषाया निषेधेनाप्रवृत्तेः। न च (वार्णादाङ्गं बलीयः) इत्यनया परिभाषया वार्णकाऱ्यांदाङ्गकार्यस्य बलीयस्त्वबोध- नेन यणं बाधित्वा लघूपधगुणे ऊक्तप्रयोगासिद्धिरिति वाच्यम् । समानाश्रय एव तत्प. वृत्तेः सिद्धान्तितत्वेनेह व्याश्रयत्वात्तप्रवृत्तः । व्याश्रयेऽप्युक्तपरिभाषाप्रवृत्त्यभ्युपगमे तु अनित्यत्वेन तद्प्रवृत्तिकल्पनम् । अत एव सिरौणादिके न प्रत्यये स्योनः सिद्धयतीति भावः। (१) प्रातिपदिकाहणे लिङ्गविशिष्टस्यापि ग्रहणम् । इति परिभाषास्वरूपम् । सामा- न्यरूपेण विशेषरूपेण वा प्रातिपदिकशन्दग्रहणे सति लिङ्गबोधकप्रत्ययविशिष्टस्य, अपि श- ब्दात्केवलस्यापि ग्रहणं वोभ्यम् ।

नामधातुप्रक्रियाप्रकरणम् । । यत्तु स्वामी स्वांचकारेति तदनाकरमेवेति । अनेकाच्त्वाभावादिति तदा- दशयः । अन्ये तु भाष्यकृता प्रत्ययग्रहणमपनीयेत्यनुक्तत्वात्प्रत्यायान्तत्वेन स्वामासेत्यादि रूपं साध्वेवेति वदन्ति । युद्धे योऽऽयं ग्रामशब्द इति-अयम्भावः, युद्धे योऽयं ग्रामशब्दः स च समुपप- विशिष्ट एवास्ति न केवलपामशब्दस्ततो ग्रामशब्दपाठेनैव संग्रामशब्दलाभे पुनः समुप सर्गविशिष्टपाठो व्यर्थीभूतो ज्ञापयति धातुसंज्ञाप्रयोजकीभूतप्रत्ययस्य चिकीर्षितत्वे उपसर्ग- समानाकारकपूर्वपदस्य पृथक्करणं भवतीति । ज्ञापने तूपसर्गसमानाकारेत्यंशानुपादाने -- ग्रामघटकसंशब्दस्य क्रियायोगाऽभावादुपसर्गत्वाऽभावेन ज्ञापकोपपत्तिर्न स्यात् । प्रयोग- मदनापसर्गस्यापि तत्समानाकारत्वं बोध्यम् । तत्र च चिकीर्षितपदोपादानात्पृथक्करणेन समासाऽभावकल्पनेऽपि तद्विषये क्यादिप्रत्ययविधायकसूने सुबन्तादित्यशे यस्माद्विहित- स्तदादीत्यंशाऽप्रवृत्त्या न दोषः । पृथक्कियत इत्यनेन जातसमासाऽभावकल्पनम् । अत एव, सुमनाय्येत्यादौ पुनः क्त्वान्तेन समासे ल्यसिद्धिः । उक्तञ्च तद् 'भृशादिष्वि त्य- भाष्ये संग्रामयतेरेव सोपसर्गान्नान्यस्मात्सोपसर्गादिति । ज्ञापनफलञ्च स्वमनायतेत्या - दौ मनःशब्दात्प्रागडिति बोध्यम् । ज्ञापकस्य सजातीयविषयत्वात्साजात्यं दर्शयति-तेनेन्यादिना । यत्र सकलस्योपसर्ग. रूपस्य श्रवणं नत्वादशेनाऽपहरणं तत्रैव पृथक्करणं भवति नत्वन्यत्रेति । अत एक, आ ऊढः स इवाचर्य ओढायित्वेत्यत्र उन्मनाय्य अवगलभ्येति वन्न ल्यबापत्तिः । ज्ञापकस्य विशे- पविषयत्वे षष्ठाध्यायीसूत्रस्थवार्तिकस्य तद्भाष्यस्य च प्रामाण्यम् । एतच्च तथाहीत्या- दिना मूले एव स्पष्टत्वान्नात्र लिखितम् । क्यजन्तादुस्राशब्दाल्लङि अंगल्याटि कृते 'उ- स्यपदान्तादिः त्यनेन प्राप्तपररूपस्य प्रतिषेधार्थमुक्तवार्तिकम् । न व औस्त्रीयदित्यत्रोसो- ऽनर्थकत्वान्न तत्प्राप्तिरिति वाच्यम् । छिन्युभिन्युरित्वादावप्युसोऽनर्थकत्वेन दोषापत्तेः । नच सर्वत्रोसोऽनर्थकत्वे क्व सूत्रप्राप्तिरिति वाच्यम् । अयुः, अबुरित्यादौ तत्प्र- वृत्तेः सुघटत्वात् । एवञ्चाऽयमेव (उस्योमाधिव)ति प्रतिषेधोऽत्रार्थवद्ग्रहणपरिभाषा- प्रवृत्तिज्ञापकः । औङ्कारीयदिति-अत्र 'ओमाओश्च' इत्यनेन प्राप्तपररूपस्य प्रतिषेधः। आ- डागमस्याऽऽडिपरे उदाहरणं प्रदर्शयति-औढीयदिति । आदेशेन (एकादेशरूपेण) अप- हृतस्थलेऽपि पृथक्कृतावाङः परत्राटो विधानादाडागमस्याऽऽङि पररूपाप्राप्त्या निषेधो व्यर्थः स्यात् । एवञ्चाध्यमेव निषेधो ज्ञापकस्य विशेषविषयत्वे प्रमाणमिति बोध्यम् । ज्ञापकस्य विशेषविषयत्वं न केवलषाष्ठवार्तिकतदीयभाष्ययोरेव प्रमाण्यमपि तु चशब्दं प्रयुञानस्य सूत्रकारस्याऽप्यनुकूलस्य प्रामाण्यमित्याह-चशब्देनेति । एवञ्च विनिगमकाऽभावेन तम्य बाध्यसामान्यचिन्तया सर्वबाधकत्वम् । अन्यथा ( पुरस्तादपवाद )न्यायेन ओमा. होश्चत्यस्यैव बाधो नतु उस्यपदान्तादित्यस्येत्यवसेयम् ॥ अत्राच्वेरित्यनुवृत्त्योति । अत एव लोहितमिन्नानां लोहितादिगणे पठ्यमान.. नां भृशादिपाठे नित्यात्मनेपदमेव प्रयोजनमुक्तम्भाष्ये न तु अभूततद्रावविषयतालाभो. ऽपीति तात्पर्य्यम् ॥ ।

११८ फक्किकारलमञ्जूषा। इष्टवादित्यतिदेशात्पुम्वद्भावादय इति -आदिशब्देन रभावटिलोपादयः । एतदयतीति । न च परत्वादत्रातिदिश्यमानकार्याणामुपदेशस्यैव देशत्वाङ्गीकाराहिलोपः स्यादिति वाच्चम् । ए॒वद्भावातिदेशसामर्थ्यात् अन्तरङ्गत्वाद् 'भस्याढे तद्धिते' इत्यस्य प्रत्ययोत्पत्तेः प्रागेव प्रवृत्या 'टेरि त्यस्याऽप्रवृत्तेः । न च पुंवत्त्वस्यासिद्धत्वेन टिलोपस्या- त्र दुर्लभत्वमिति वाच्यम् । एतयति श्येतयतीति भाष्योदाहरणेनाऽऽभीयासिद्धत्वस्या. नित्यत्वाहिलोपस्य दुर्वारत्वादिति भावः ॥ ननु अतिदेशशास्त्रे पुंवद्धावग्रहणं व्यर्थ टिलोपेनैव तयतीत्यादिसिद्धेरिति चेन्न । दार- यतीत्यस्य सिध्यर्थं पुंवद्भावग्रहणस्य सार्थक्यात्तदाह-दरदमाचष्टे दारदयतीति । दरदोऽपत्यं दारदः, 'यजमगध' इत्यण तस्य स्त्रियाम् 'आतश्चे' ति लुकि सिद्धिः । अत्र मुंवदूभावस्याऽभावे सति टिलोपे दरदयतीत्यापतिः ॥ ननु अजढदित्यत्र टिलोपे सति णिज्विशिष्टस्य द्वित्वे पश्चादभ्यासेऽकारो दुर्लभ इ. त्यत आह-ओः पुयणजीतिसूत्रे वर्गप्रत्याहारजग्रहो लिङ्गमिति । त्वां मां वाऽऽचष्टे इति विग्रह त्वापयति, मापयतीति रूपम् । वस्तुतस्तु त्वादयति मादयतीत्येव युक्तम् , तदेवोपपादयति, । अन्तरङ्गत्वादित्यादिना । न च (वार्णादाङ्ग बलीयः) इत्ये- तद्बलाडिलोपस्यैव प्रवृत्तौ त्वापयतीत्येव स्यादिति वाच्यम् । समानाश्रये तत्प्रवृत्त्यभ्युपग- मेनेह व्याश्रये तद्प्रवृत्तेः । न च भाष्ये प्रकृतिभावस्य प्रत्याख्यातेन दोषस्तदवस्थ एवे- ति वाच्यम् । प्रेष्टायुदाहरणविशेषे भाष्यस्याऽन्यथासिद्धिपरत्वेनादोषात् । अयम्भावः, 'प्रकृत्यैकाजिति सूत्रस्य वृत्तिकारेण प्रेयान् प्रेष्ठ इत्याद्युदाहरणदानात्तन्न प्रकृतिभावं विना- अपि प्रत्ययाचादेशविधायकसूत्रस्य 'असिद्धवदवाभादि' त्यनेनासिद्धत्वात्प्रस्थादावकारोच्चा रणसामर्थ्यात्तल्लोपाभावस्य भाष्ये साधनात् । स्रग्विन् स्रजिष्ठ इत्यादावपि लोपापवाद- विन्मतो लुकः प्रवृत्त्या नटिलोपः। नच प्रकृत्यैकाजिति सूत्रस्यैतावता प्रत्याख्यानमेवाङ्गी- करणीयमिति वाच्यम् । स्वापयतीत्याद्यर्थन्तदावश्यकत्वादिति ॥ टेरित्यस्यौवेति-एवकारेण 'नस्तद्विते' इत्यस्य व्यावृत्तिः । वस्तुतः प्रकृत्यका- जिति सूत्रेऽनेकाजित्येव सिद्धे प्रकृतिग्रहणेन (येन नाप्राप्ति) न्यायप्रवृत्तिबोधनात् प्रकृति- मावस्य टेरित्येतन्मात्रबोधकत्वमयुक्तम् । तथाच नस्तद्धित इत्यस्यापि प्रकृतिभावस्या- न्याय्यत्वेन श्वानयतीत्येव रूपम् । सम्प्रसारणविधायकस्य श्रूयमाणान्नन्त एवं प्रवृत्त्या टिलोपेऽपि सम्प्रसारणं दुर्लभमेवेत्यलम् ॥ शुनयतीति-ननु सम्प्रसारणे कृते पूर्वरूपत्वं वाधित्वा (वार्णादाङ्गमि) तिन्यायेन टिलोपे दुर्लभमिदं रूपमिति चेन्न । शुशुवतुरित्यादौ सम्प्रसारणे कृतेऽनेन न्यायेन ‘एर- नेकाजि तियणि रूपाऽसिद्धथा पूर्वरूपविषयेऽनित्येन तन्यायाप्रवृत्तेरिति भावः ॥ अन्ये तु शुनयतीति रूपमाहुरिति-इदमत्रारुचिबीजं ब्रह्मवच्छब्दादिष्ठनि मतो- लुं कि टेरित्यस्याप्रवृस्था नस्तद्धित इत्यस्य प्रवृत्तिदर्शनादिष्ठनि तस्यादृष्टवादित्यसङ्गतम् । किञ्च अमिष्ठ इत्यादावित्यज्यसङ्गतम् । तथाहि, केवलाद्गुणवचनत्वेन इष्ठनि एव दुर्ल- भा। मत्वन्तादिष्ठनि मतोल कि तेन टेरित्यस्य प्रवृत्तिमात्रबोधनेन लुगुत्तरं तदप्रवृत्त्या- परत्वादित्यस्यासङ्गतिः । किञ्च टेरित्यपेक्षया नस्तद्धित इत्यस्यैव परत्वमिति ।।

नामधातुप्रक्रियाप्रकरणम् । ११९ अङ्गवृत्तपरिभाषया सम्प्रसारणन्नेत्येक इति-~-अयम्भावः, टिलोपेनामा लोपे सम्प्रसारणाऽप्राप्त्योक्तपरिभाषोपन्यासो व्यर्थः ॥ विदावयतीत्यन्य इति- अत्र पूर्ववदेवाऽरुचिबीजम् । एवञ्च विद्वयतीत्येव रू. पमितिबोध्यम् । उदीचयतीति-उदञ्चमाचष्ट इति विग्रहे उद उपसर्गत्वात्पृथक्करणेनैकाच्त्वात्प्र. कृतिभावे रूपम् ॥ तिरायतीति-तिर्यज्ञमाचष्ट इति विग्रहे तिरसोऽनुपसर्गात्पृथक्करणाऽभावादेका- च्त्वाऽभावेन प्रकृतिभावेन प्रकृतिभावाऽप्राप्तौ टिलोपे रूपम् । असिद्धवाति चिणोलुग्न्यायेय प्रथमटिलोपोऽसिद्ध इति-अपाचितरा- मित्यन चिणः परस्य तशब्दस्य लुकि पुनस्तरप्प्रत्ययस्य लुग् न भवति प्रथमलुकोसि- द्वत्पन व्यवधानात्तद्वदित्यर्थः ।। इति नामधातु प्रक्रिया । । अथ तिङन्ते आत्मनेपदप्रक्रिया । कर्तरि कर्मव्यतिहारे-अत्र कर्मपदेन क्रियाग्रहणं व्यतीहारपदस्य विनिमयः, रिवर्तनम्वाऽर्थः, तच्च स्ववस्तुदानपूर्वकपरवस्त्वाङ्गीकाररूपम् । कर्मव्यतिहारपदेन न के- वलक्रियाविनिमयो गृह्यते अपि तु परस्परकरणपरिवर्तनमपि, संप्रहरन्ते राजान इति कैयटो- दाहरणात् । 'अनुदात्तङित्त आत्मनेपदमिति सामान्यसूत्रेणाऽत्मनेपदसिद्धौ अस्य पृथ. गारम्भसामर्थ्यात्कर्तृग्रहणमेतत्सूत्रघटकमुत्तरार्थमिति भावः ॥ नेविशः। अनार्थवद्ग्रहणलक्षणप्रतिपदोक्तपरिभाषाभ्यां नेरुपसर्गस्य ग्रहणात् मधूनि विशन्ति भ्रमरा इत्यत्र नात्मनेपदापत्तिः । ननु अटा व्यवायादन्यविशतेत्यत्र नात्मनेपदमि- ति चेन्न । स्वाङ्गस्याऽव्यवधायकत्वात् । नचाऽङ्गभक्तस्याऽटो विकरणान्तं प्रत्यवयवत्वेs- पि धातुम्प्रत्यनवयवत्वेन तदवस्थ एव दोष इति वाच्यम् । (उपसर्गनियमेऽड्व्यवाय उप- संख्यानमि) ति वार्तिकेनोपसर्गात्परधातुतो विहितकार्यस्योपसर्गधात्वोरन्तरालपतिताs- ड्व्यवायेऽपि बोधनेनाऽदोषात् । ननु निरूपोपसर्गविशिष्टविशेरात्मनेपदविधाने इत्युक्त्वा मैथिली भर्तुरङ्के निविशती भयात्, इति कथं सङ्गतमिति चेन्न । अङ्गानि विशतीमिति पाठभेदेन तत्संगतेरित्यलम् ॥ ननु अपाच्चतुष्पाच्छकुनिष्चित्यत्र । (सुडपि हर्षादिष्वेवे ) ति वार्तिकम् । अत्र हर्षादिष्वित्यस्याऽभावे अपकिरति कुसुममित्यत्रसुडापत्तिः । तत्सत्त्वे तु आलेखनाभावा- त्सुडभावः, नियमाणो वृषभः पादैर्भुवमपकिरतीत्यत्र हर्षायभावान्नासावित्यभिप्रायेणाह मूले-हर्षादिष्विति किम् । अपकिरति कुसुममिति । नेष्यत इति । अत एव भा. ध्ये ससुटकान्येवोदाहरणानि दृश्यन्ते । गजोऽपकिरतीति । स्वभावाख्यानमत्र । णेरणाविति । अत्र चत्वारि वाक्यानि प्रतीयन्ते । तथाहि, रित्येक वाक्यम् , अणौ यत्कर्म णौ चेदिति द्वितीयम् , स कर्तेति तृतीयम् , अनाध्याने इति चतुर्थम् , आ- त्मनेपदस्याधिकारः द्वितीययोगे कर्मपदस्य क्रियापरत्वम् ; तृतीययोगे द्वितीययोगस्यानुवृ- ।

१२० फक्किकारत्नमञ्जूषा । तिस्तत्र कर्मपदस्य कर्मकारकबोधकत्वम् , तथा च, ण्यन्तादात्मनेपदं स्यादौ या क्रिया सैव ज्यन्तेनोच्येत अणौ यत्कर्मकारकं स चेष्णौ कर्ता स्यान्नत्वाध्यान इति तदर्थः । एत- दुदाहरणानि तु अपरिस्पन्दनसाधनसाध्यः कर्तृस्थभावकाः सपरिस्पन्दनसाधनसाध्याः कर्तृस्थक्रियाश्च, एतच्च तथाहीत्यादिना मूले एव स्पष्टत्वान्नोपपादितम् ।। ननु पश्यन्तीत्यादिना निवृत्तप्रेषणक्रियाम्प्रतिपाद्याऽध्यारोपितप्रेषणक्रियाम्प्रतिपाइय. ति-यति । हेतुत्वारोपादिति । प्रेषणांशत्यागात्प्रेषणान्तरारोपणापि सौकर्यप्रतीने- रनुभवसिद्धत्वादत्रापि सौकर्यविवक्षाया एव हेतुत्वमिति भावः । अर्थः प्राग्वदिति , पक्षद्वयेऽप्युदाहरणीभूतान्त्यकक्षाद्वयस्य प्रेषणांशप्रतीत्यभावादिति भावः। आधिक्यादि- ति ! अत्र पक्षे णौ चेत्यनेनाऽधिक्यमात्रस्य व्यवच्छेदो नतु न्यूनत्वस्यापि सः । अन्यथा तृतीयकक्षायामपि न स्यात् । प्रकृत्युपात्तप्रेषणांशत्यागेन न्यूनत्वापत्तेरिति भावः ॥ इत्यात्मनेपदप्रक्रिया ॥ अथ तिङन्ते परस्मैपदप्रक्रिया । ननु 'अनुपराभ्यां कृतः, इत्यनेन कर्तरि परस्मैपदविधानात्कर्मकर्तर्यपि तत्प्रसक्तिरिति चन्न । कार्यातिदेशशास्त्रातिदेशपक्षद्वयमध्ये कार्यातिदेशपक्षस्यैव प्राधान्यात्कर्मकर्तर्यात्मने- पदादिविधायकस्य 'कर्मवत्कर्मणे त्यस्योक्तसूत्रापेक्षया परत्वादनेन तद्बाधेन तदप्रसक्तः । जब कार्यातिदेशपक्षेऽप्यतिदिश्यमानकार्याणामुत्पत्तिदेशस्यैव देशत्वांगीकारत् , शास्त्रा. तिदेशपक्षे कर्मवत्कर्मणेत्यनेनात्मनेपदाधविधाने तद्विधायकं 'भावकर्मणोरिति शास्त्रस्य वातिदेशात्तस्य च अनुपराभ्यामित्यतः पूर्वत्वेनानेनैव तद्वाधादोषस्तदवस्थ एवेति वाच्य- म् । 'कर्तरिशशेषादि ति सूत्रद्वयात्कर्तृपदानुवर्त्तनेन कर्तरूपे कर्तयेव परस्मैपदं नतु कर्मरूपे कर्तरीति व्याख्यानेनादोषादिति भावः । नच कतैव यः कर्तेति व्याख्याने पदार्थतावच्छेदकै. क्येन(१)घटी घट इत्यत्रेव शाब्दबोधो न स्यादिति वाच्यम् । एकस्य कर्तशब्दस्य स्वतन्त्रपर- स्वादपरस्य व्यापाराश्रयपरत्वेन स्वतन्नाऽसिन्नव्यापाराश्रय इत्यर्थे पदार्थतावच्छेदकस्य भेदेनादोषानित्यलम् ।। इति परस्मैपदव्यवस्था । अथ तिङन्ते भावकर्मप्रक्रिया ननु उत्पत्त्यर्थकाद्भवतेर्णिजन्तात् 'एरचि' इत्यचि निष्पन्नस्य भावशब्दस्य विवरण- माह-भावनेति । भवतेरुत्पत्त्यर्थत्वं ण्यन्तस्य भवतेः शुद्धन करोतिना समानार्थत्वं च दर्श- यति-उत्पादना क्रियति । उत्पादना च फलोत्पत्त्यनुकूलव्यापारः । न च फलशब्दस्यो- (१) (अभेदान्वयवोधश्च विरूपोपस्थितयोरेवे) तिव्युत्पत्त्यनुरोधाद्विरुद्धधर्माभ्यामुप- स्थितनामार्थद्वयस्यैवाऽभेदान्वयलाभेव नीलो घट इत्यादौ विरुद्धधर्माभ्यां नीलत्वघटत्वाम्या- मुपस्थितयोनीलघटपदार्थयोरभेदान्वयो भवति। घटो घट इत्यत्र तु घटत्वधर्मस्यैक्येन पदा- र्थयोविरुद्धधर्माभ्यामुपस्थित्यभावानाभेदान्बय इति भावः ।

भावकमप्रक्रियाप्रकरणम् । त्पत्याश्रयबोधकत्वेन द्रव्यादिषु सत्त्वात्स्थीयत इत्यत्र स्थितेरुत्पत्यभावादनुपपन्नमिनि वाच्यम् । कर्तृप्रत्ययसमभिव्याहारे तद्धात्वर्थत्वरूपस्यैव फलत्वात् । कर्मणि प्रत्यये विशेष. णविशेष्यभावव्यत्यासेऽपि फलव्यापारयोः फलत्वासम्भवनिरासाय कर्तृप्रत्ययसमभिध्याहार इति विशेषणम् । विशेष्यता च न केवलमुख्यविशेष्यतेव, किन्तु प्रकारत्वावच्छिन्नविशे- प्यताऽपि गृह्यते । विशेष्यताशब्देनैतादृशविशेष्यताग्रहणादेव गत्यर्थकधातुप्रकृतिकणिज- न्तस्थले संयोगस्य फलत्वोपपत्तिः । तद्धात्वर्थत्वं तद्धातुवाच्यत्वम् । चेतनाचेतनवृत्तिक स्कारयत्नादीनां क्रियात्वधात्वर्थत्वयोर्बोधनायाऽनेकपर्यायशब्दोपादानम् । क्रियाया धातु- वाच्यत्वादेव व्यापारार्थकजा विवरणविनियमाणयोः समानार्थत्वस्य, कथं ज्ञायते क्रिया- वचनाः पचादयः यदेतेषां करोतिना सामानाधिकरण्यमित्यनेन भूवादि' सूत्रस्थभाष्ण स्पष्टप्रदर्शनम् । क्रियात्वञ्च धातुवाच्यत्वसमानाधिकरणो जातिविशेपः। भूवादिसूत्रमेव तत्परिचायकमिति बोध्यम् । सामानाधिकरण्याभावादिति । असत्त्वभूतक्रियायाः सत्त्वार्थकयुष्मदादिसामा- नाधिकरण्यासम्भवादिति भावः ॥ तिवाच्यभावनाया असत्त्वरूपत्वेनेति । असत्त्वरूपत्वञ्च, लिङ्गा धनन्वयित्व सर्वनामपरामर्शयोग्यत्वं वेति तदुक्तम्- असत्त्वभूतो भावश्च तिड्पदैरभिधीयते । इति औत्सर्गिकत्वेनेति । द्विबह्वोद्विवचनबहुवचने एकवचमिति भाष्योक्तन्यासेनैकव- चनमित्यस्यौत्सर्गिकत्वं बोध्यमिति प्राञ्चः । शेखरकृतस्तु एकक्रियेति 'रूपबादि' सूत्र- स्थभाष्येण क्रियाया एकत्वमस्त्येव, तस्य प्रकृत्यर्थेऽन्वयादेकवचनं, स्वोत्तरतिष्वाच्य- कारकगतस्य द्वित्वादिकस्य तत्रारोपात्कर्तृकर्मतिड्षु द्विवचनादेः सिद्धिः । द्वित्वादिक- स्यापि प्रकृत्यर्थे एवान्वयः । यथा हतशायिकाः शय्यन्ते इत्यादौ हतशयनसदृशानि शय. नानीत्यर्थ उपमाने बहुत्वोपादानसामर्थ्यादुपमेये तिर्थक्रियारूपे उपमानगतबहुत्वारोपेण बहुवचनं तद्वत्तिवाच्यकारकगताया एवारोपो नत्वन्यकारकगताया इत्यत्राऽर्थशक्तिस्वभाव एक हेतुरिति । तदुक्तं हरिणा- एकत्वेऽपि क्रियाख्याते साधनाश्रयसंख्यया । भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रयः । इति ॥ ननु प्रथमपुरुषल्यापि शेषसमानाधिकरणत्वनियतत्वात्सोऽपि न स्यादिति चेन्न : शेषग्रहणं त्यक्त्वा प्रथमख्योत्सर्गत्वकरणेन तदुपपत्तेः । भावाख्यातस्थले एकवचनमेवेति वदतो दीक्षितस्यय (तव)मतेऽपि यत्रैकवचनञ्चान्यच्च प्राप्नोति तत्रैकवचनमेवेति नियमांगी- कार एपेसिद्धिः । अन्यथा द्वित्वे द्विवचनमेव बहुवचनमेवेति नियमेन द्विवचनबहुवचनयो- रनियतत्वादेकत्वेऽप्यापत्तिः । किन्त्वेकवचनमेव तस्यौत्सर्गिकत्वेन संख्यानपेक्षणादिति दी. क्षितोक्तिस्तु न समीचीना, वक्ष्यमाणप्रकारेण प्रथमपुरुषैकवचनोपपत्तेः । तथाहि, यथा कर्मः ण्येव द्वितीयेत्यादिरीत्या प्रत्ययनियमेऽव्ययेभ्यो विभक्तिसामान्याऽभावप्रसतौ सत्यामेक- .

१२२ फकिकारत्नमञ्जूषा। बचनमिति सूत्रस्याप्राप्तप्रापणार्थत्वेनाऽविशेषात्सर्वविभक्त्येकवचन विधायकत्वन्तथा प्रकृते- ऽपि सर्वेपाम्पुरुषाणामनेकवचनानि प्राप्नुवन्ति । उक्तप्रकारेणैकवचनमित्यस्य नियमत्व येपाम्प्रत्ययानामेकवचनञ्चान्यच्च प्राप्नीतीत्याकारकोक्तिबोध्यत्वं तेष्वेकवचनमेवेति नियमे प्रथमपुरुषैकवचनमेव भवतीति भावः ।। ननु आर्द्धधातुक इत्यादेविषयसप्तमीत्वाद्वधादेशस्यान्तरंगत्वेन चिण्वत्वं वाधित्वा वधादेश एव स्यादत आह-आशीलिङि वधादेशस्येति । अपवाद इति । वाक्या. र्थबोधवेलायां बाधनाऽभावेन हन्तेरपि सीयुटा सम्बन्धेन तस्य निरवकाशत्वात्तस्यापवाद- त्वम् । भाष्ये तु वधिभावात्सीयुटि चिण्वत्त्वं विप्रतिषेधेनेत्युक्तम् । एवञ्चायुक्तमेवापवा. दत्ववर्णनमित्यलम् ॥ ननु चिण्वद्भावेन चिणि दृष्टकार्यस्य विधानादवधोदित्यादौ चिणि वधादेशस्य दृष्टत्वा. दत्रापि वधादेशो दुर्वार इत्याशङ्कते-नच स्यादिष्विति । समाधत्ते-अङ्गस्यैवातिदे. शादिति । चिनिमित्तकाङ्गसम्बन्धिकार्यस्यैव विधानादवधीदित्यादौ लक्ष्यानुसारिव्या. ख्यानान्न चिनिमित्तकवधादेश इति ॥ नदु हस्वपदानुवृत्त्यैव विकल्पसिद्धौ ‘चिण्णमुलोरिश्त्यन्त्र दीर्घग्रहणमनावश्यकमित्यभि. प्रेत्याह-प्रकृतो मितां ह्रस्व एव तु न विकल्पित इति ॥ दीर्घविधौ हि णिचो लोपो न स्थानिवदिति । 'न पदान्त' सूत्रेण दीर्घविधौ स्थानिवत्त्वनिषेधादिति । नच. 'असिद्धवदत्रे ति णिचोऽसिद्धत्वमिति वाच्यम् । समाना. श्रयत्वाऽभावेनाऽऽभीयासिद्धत्वाऽप्राप्तेः। भाष्ये तु उक्तनिषेधसूत्रे दीर्घविधेः प्रतिदीन्न इत्यु- दाहरणदानात् त्रैपादिकदीर्घस्यैव ग्रहणेवोचितमेव तत्प्रत्याख्यानमित्यर्वाचामभिप्रायः ॥ नन्वेवं ण्यन्ताण्णौ दीर्घविकल्पानापत्तिर्व्यवधानादत आह-णाविति जातिपरो निर्देश इति । दीर्घग्रहणं मास्त्विति । हस्वविकल्पेनाऽपीष्टसिद्धिरिति भावः । वस्तु- तस्तु 'चिण्णमुलोरितिसूत्रस्थं दीर्घग्रहणमावश्यकमेव, घटादिपठितहेडेश्चिणि अहिडि अहो- ति रूपसिद्ध्यर्थ दीर्वग्रहणं, ह्रस्वविकल्पे तु अहेडीति स्यात् । एवं ण्यन्ताणिचि रूपसि- द्यर्थमपि दीर्घग्रहणमिति दिक् ॥ इति भावकर्मप्रक्रिया अथ तिङन्ते कर्मकर्तृप्रक्रिया । यदा सौकर्येति । सुखेन कर्तुं योग्यः सुकरस्तस्य भावस्सौकर्यम् । कर्तुापारो न विवक्ष्यत इति-सौकर्यातिशयबोधनाय कर्मादिकारकव्यापारस्यैव प्रधानधात्वर्थत्वेन विवक्षणात्कारकान्तरागामपि स्वस्वव्यापाराश्रयत्वेन कर्तृत्वाक्षतेः । सकर्मका अपि प्रा. येणाऽर्मका इति-व्यापारव्यधिकरणफलाश्रयाभावेन तेषामकर्मकत्वम् । द्विकर्मकधातूनां कर्मणः कर्तत्वात्प्रायेणेत्युक्तम् । तेन यगात्मनेपदचिचिण्वदिटः स्युरिति । ननु कार्यातिदे- शेऽप्यतिदिश्यमानकार्याणामुत्पत्तिदेशस्यैव देशत्वाङ्गीकारात्परत्वाच्छप्परस्मैपदे एव नतु य- गात्मनेपदे इति चेन्न । 'न दुहस्नुनमामित्यादिसामर्थ्यात्परस्यापि बाधेन तदप्राप्तैरिति भावः ॥

कर्मकर्तृप्रक्रियाप्रकरणम् । १२३ ननु शास्त्रातिदेशेऽपि लक्ष्यसिद्धौ कार्यातिदेशाङ्गीकरणं किमर्थमिति चेन्न । शास्त्र. स्थापिकार्थत्वेन मुख्यत्वात्कार्यातिदेशस्यैवाङ्गीकारादित्याह-कार्यातिदेशोऽयमिति । ननु सौकर्यातिशयबोधनार्थ कर्तव्यापारविवक्षणे कर्मादेः कर्तृत्वेन धातोरकर्मकत्वेन ततः कर्तृभावयोर्लकारविधानेन तत्र भावेलकारविधाने कर्तृरनभिहितत्वातिदेशेन तस्य कर्म- वद्भावेन द्वितीया दुर्वारैत्याशयेनाह-द्वितीया स्यादिति। नचैतदपेक्षया तृतीयायाःप- रत्वादेतदापत्तिप्रदर्शनस्यैवौचित्येन द्वितीयापत्तिप्रदर्शनमयुक्तमिति वाच्यम् । अतिदिश्यमा- नकार्यायां कार्यातिदेशस्यैव देशत्वमित्यर्वाचोनमते द्वितीयायाः परत्वेनादोषात् । भाष्यमते तृतीयापत्तिरेव, तस्याश्च 'न दुहस्नुनमा यश्चिणौ' 'कुषिरजोरि' त्याद्यारम्भसामर्थ्यात्पर - स्मैपदे विधीयमानशप्परस्मैपदबाधेऽपि प्रथमाबाधे मानाऽभावः समाधानम् । तथा च पूर्वोक्तापत्तिस्तदवस्थैवेति चेन्न । भावे प्रत्यये कृते कर्तृर्लकारेणानुपस्थित्याऽतिदेशाप्रवृत्तेः । (व्यत्ययो बहुलं ) (लिङ्याशिष्यङि)ति संहितापाठेऽनुस्वारस्य परसवर्णन जाते लकारे द्विलकाराल्ल इत्यनुवृत्त्या लकारवाच्यस्यैव कर्तुः कर्मवद्भाव इत्यर्थलाभेन यगादिकमेव नतु द्वितीयेति भावः । अत एव कृत्यक्तखलर्था न कर्मकर्तरि किन्तु भाव एवेति भावः । लकारेणैव कर्मकर्तुरुपस्थानेन कृदादिप्रसक्तिर्न, उक्तार्थानामप्रयोगात् । लविधेः पूर्व तु सुतरां न तत्प्रसक्तिलंकारोपस्थाप्यकर्तुरभावन कर्मवत्त्वाऽभावादितिभावः । ननु तुल्यत्वं नाम सादृश्यं तस्य च भेदनिबन्धनत्वेन प्रकृते कर्मणः कर्तृत्वविवक्षायां कर्मस्थफलरूपक्रियाया एव कर्तृस्थत्वेन भेदाऽभावात्सूत्रमिदमसंगतमित्याशंकते-ननु पचिभिद्योरिति । वास्तविकभेदाऽभावेऽप्युपाधिकृतभेदोऽस्त्येपेत्यभिप्रेत्य समाधत्ते- कर्मत्वकर्तृत्वेति-यथा पीतघटो नीलघटभिन्न इत्यत्र विशेषणभेदाभेदस्तथैव कर्तृत्व. समानाधिकरणा कर्मत्वसमानाधिकरणा च क्रिया भिन्नैवेति भावः ॥ तुल्यत्वव्यवहार इति। प्रत्यासत्या समानधातौ कर्मस्थक्रियया तुल्यक्रियाश्रय- णात् पचत्योदनं देवदत्त इत्यत्र कर्मणो राध्यत्योदन इत्यत्र कर्तृत्वेऽपि न कर्मवद्धाव इति भावः । कर्मणेति किमिति । एतदभावेऽसिस्थाल्योापारसत्याक्रियया तुल्यक्रियत्व- स्याक्षतत्वाद्दोषः । तत्सत्त्वे तु सामर्थ्यादृश्यमानकर्मनिष्ठविशेषप्रयोजककर्मस्थक्रियाया ग्रहणान्न साध्वसिरित्यादौ दोष इति भावः ।। ननु करणत्वाद्यवस्थायां वस्तुतः सन्नप्यसिस्थाल्योापारो, न धातूपात्तः, प्रकृतसूत्रे च 'धातोरेकाच' इत्यतो धातोरित्यनुवर्त्य धोतोर्वाच्यक्रियया तुल्यक्रिय इत्यर्थे न दोषो- ऽत आह-किञ्चेति । कर्मणेत्येतत्सामथ्येन दृश्यमानकर्मनिष्ठविशेषप्रयोजककर्मस्थक्रिया लक्ष्यत इति भावः ॥ गच्छति ग्राम इत्यादि । अत्र गम्यमानग्रामादिकर्मनिष्ठविशेषप्रयोजककर्मस्थ. क्रियाया अभावात्कर्तृस्थक्रियात्वमिति भावः ।। सकर्मकाणां प्रतिषेध इति । सौकर्यविवक्षणाऽभावपि प्राप्तकर्मवदभावनिषेधार्थ वार्तिकमिदम् । पच्यते ओदन इत्यत्रात एव दोपो न । अन्योऽन्यं स्पृशत इति । अयम्भावः, कर्मपदेन तत्स्थक्रिया लक्ष्यते नतु तेन कर्म. त्वोपयोगिनी तत्स्था क्रिया मानाभावात् , एवञ्चाऽन्योऽन्यमित्यादावुभयोः शब्दभेदेन फक्किकारत्नमञ्जूषा। कर्तृत्वकर्मत्वसत्त्वादेवैकस्मिन् संयोगानुकूलक्रिया संयोगो वा सैवाऽपरस्मिन्कर्तरीति कर्म- स्थक्रियकर्तृसत्त्वात्प्रालिः । आश्रयभेदेन च तुल्यत्वम् । नच स्पर्शस्य कर्तृस्थत्वेन कथमेत- प्रवृत्चिरिति वाच्यम् । तयोः कर्मणोरन्योऽन्यसंयोगकृतहर्षादिलक्षगविशेषदर्शनात्कर्मस्थ- स्वेन तत्प्रवृत्तेरिति आवः ॥ अजा प्रामं नयतीति-गमनानुकूलव्यापाररूपेणाऽजानिष्ठफलेन नेतृव्यापारेण या तत्र विशेषादर्शनेन कर्मस्थक्रियत्वाऽभावादिदं चिन्त्यम् । यदि ग्रामसंयोग एव तथेत्युच्यते तर्हि ग्रामं गच्छतीत्यादौ ग्रामेऽपि पुरुषसंयोगरूपविशेषदर्शनेन गम्यर्थस्यापि कर्मस्थत्वं स्यात् । अत एव अन्योऽयमाश्लिष्यत इत्येवोदाहृतम्भाष्ये इत्यलम् ॥ विध्यर्थमिदमिति । उपवासादितपः तापसन्तपति दुःखयतीत्यर्थः । एवञ्च ताप- सस्य कर्मत्वे तपेदुखजननमर्थः । तापसस्य कर्तृत्वे तु अर्जनमर्थः । तापसस्तपस्तप्यते अर्ज- यतीत्यर्थः । एवञ्च क्रियाभेदात्सकर्मकत्वाचा प्राप्ते विधिरिति भावः । एवकारस्तु व्यर्थ एवेति वृत्त्यनुसारिण इति । भाष्ये तु (सकर्मकाणां प्रतिषेधो वक्तव्यः) इत्यत्र प्रत्या- ख्यानाय एवकारसामर्थ्यान्नियमार्थत्वमुक्तं तपेरेव सकर्मकस्य नान्यस्येति दिक् । इति कर्मकर्तृप्रक्रिया समाता ॥ इति मैथिलवंशोद्भवस्य ठक्कुरोपनामकश्रीकनकलालशर्मणः कृतो फक्किकारत्नमञ्जूषायामुत्तरार्द्ध तिङन्तप्रकरणं समाप्तम् ॥ अथोत्तरार्द्ध कृदन्तप्रकरणम् । प्रणम्य तावञ्चरणारविन्दं धोविश्वनाथस्य ततो गुरोश्च । कृतेनिजायाः क्रियते शुभायाः कृदन्तभागः कृतिना मयाऽस्याः ॥१॥ ननु 'कृदतिङि' त्यनेन तिभिन्न प्रत्ययस्य कृत्संज्ञाविधानेन कृताञ्च तिज्ञानाधीन- ज्ञानेन तिनिरूपणोत्तरमेव कृन्निरूपणस्यौचित्यात्तिङ निरूप्य कृतं निरूपयितुमारभते धा- तोरिति । नच 'स्पृशोऽनुदके' 'ऋत्विक् दगि' त्यादिशास्त्रेण प्रागेव तिनिरूपणा- क्विन्नादिकृतान्निरूपितत्वात्पुनरिह तेपान्निरूपणमयुक्तमिति वाच्यम् । तत्र तेषां प्रस- ङ्गतो निरूपणेऽपि प्राधान्येनाऽत्रैव कृतां निरूपणस्यौचित्येनोक्ताशङ्कानुदयादित्यलम् ॥ प्राग्लादेशाद्धात्वधिकार इति पक्षस्यायुक्तत्व ध्वनयितुमाह-आतृतीयसमाप्ते. रिति । तृतीयाध्यायसमाप्तिपर्यन्तमित्यर्थः । लादेशात्प्रागधात्वधिकारे तु 'तिशित्सा- धंधातुकमित्यत्र धात्वधिकाराभावाच्छित्प्रत्ययमात्रस्य सार्वधातुकसंज्ञा विधानेन शसोड- प्युक्तसंज्ञापत्तौ तस्य च 'सार्वधातुकमपिदिति खित्वे हरीनित्यादौ 'धेड़िती' ति गुणो दु- वारः स्यादिति भावः । विधेयानिर्देशात्स्वरितत्वाच्चाधिकारसूत्रमिदमित्याह-अधिका- रोयमिति । एतदधिकारसूत्रसत्त्वे एव सोपसर्गाणामङ्गत्वव्यावृत्तिर्भवति । एतत्सूत्राऽभावे 'वर्तमाने लडित्यादेर्वर्तमानायथें प्रत्यासत्या तादृशार्थप्रतिपादकेभ्यो ल. डादयः स्युरित्यर्थे सोपसर्गाणामपि तादृशार्थप्रतिपादकत्वेन तेषामङ्गत्वापत्तावडाद्यव्यव. अयम्भावः, पूर्वकृदन्तप्रकरणम। १२५ स्थापत्तेरिति । नच तृतीयाध्यायसमाप्तिपर्यन्तं 'धातोरेकाजिति सूत्रस्थधातोरित्यस्य सम्बन्धेन धातोरेव लडाद्यापत्या नतु सोपसर्गाणामङ्गत्वप्रसक्तिरिति वाच्यम् । द्वितीयस्य धातोरित्यस्याऽधिकारसूत्रस्याऽभाषे 'तिशिदित्यस्य 'आर्द्धधातुकगि' त्यस्य च धातोय तिङः शितश्च ते सार्वधातुकाभिन्नास्तेभ्योभिन्नाश्चार्द्धधातुकाऽभिन्ना इत्यर्थापत्त्या किना- न्तटूपूप्रभृतीनामपि धातुत्वेन लभ्यां पूभ्यामित्यादौ भ्याम आर्द्धधातुकत्वस्य सत्त्वादि- डापत्तिः। द्वितीयधातोरिति सत्त्वेन उक्तसूत्रयोर्धातोर्धातोरित्येवमानुपूर्वीकशब्दोच्चारणेन विहितानान्ते संज्ञे इत्यर्थे न भ्याम आर्द्धधातुकत्वप्रसक्तिरिति भावः ॥ भावे औपसर्गिकमेकवचनं क्लीबत्वञ्चेति-भावे प्रत्ययविधानात्तन च लिङ्ग- संख्याऽभावेन सामान्ये नपुंसकमिति नपुंसकत्वमुत्सर्गतश्चैकवचनं भवति । यत्र लित्रय. मध्ये कस्यापि लिइन्स्य विवक्षा न तत्र नपुंसकलिङ्गमेव भवति, यन्त्र च कस्याश्चिदपि संख्याया न विवक्षा तत्रैकवचनमेव भवतीति भावः ॥ वृत्तिकारस्तु कर्मकर्तरि चायमिष्यत इत्याहेति-(केलिमर उपसंख्यानमि). तिवार्तिकविहितकेलिमरप्रत्ययः कर्मण्यर्थे भवति नत्वन्यस्मिन्नर्थ इति सिद्धान्तः, तत्रोक्त- प्रत्ययस्य कर्मणि कर्मकर्तरिचेत्युभयस्मिन्नथें विधानमङ्गीक्रियते वृत्तिकृतेति दीक्षित उक्त- वान् । परमेतन्मतमयुक्तमित्याह-तद्भाष्यविरुद्धमिति । तत्र हि भिदेलिमा इत्यस्य भेत्तव्या इति विवरणं प्रदर्शयद्भाष्यकृन्नये कर्मण्येवोक्तप्रत्ययो लभ्यते नतु कर्मकर्तर्यपीत्यतो भाष्यकृन्मतावृत्तिकृन्मतं विरूद्धमिति तन्मतमुपेक्ष्यमिति भावः ॥ विहितविशेषणं किम् । यका व्यधानेऽपि यथास्यात् । प्रयाप्यमार्ण प. श्येति । विहितविशेषणकरणे प्रपूर्वकयातेणिचि पुकि ण्यन्तस्य धातत्वेन वर्तमाने कर्मणि लटि तत्स्थाने शानचि तस्य शित्त्वात्सार्वधातुकत्वे यकि णिलोपे मुकि शानचो ण्यन्ताद्वि- हितत्वेन तन्नकारस्य विभाषेति णत्वे च रूपं सिद्धयति । विहितविशेषणाकरणे तु ण्य- तात्परस्योपसर्गस्थनिमित्तोत्तरकृत्स्थनकारस्य णत्वं वेतिसूत्रार्थे शानचो यका व्यवायेन ण्यन्तात्परत्वाभावाण्णत्वाऽप्राप्त्या रूपं न सिद्धयति । नच अड्व्यवायेऽपीति सूत्रेणैव णत्वसिद्धौ विहितविशेषणमनावश्यकमेवेतिवाच्यम् । विभाषेत्यन्त्र ण्यन्तकृतोरव्यवधान- स्यावेक्षणादग्रहणेन वारणाऽसम्भषेन विहितविशेषणस्यास्यावश्यकत्वादिति भावः ।। ननु 'इजादेः सनुमः' इत्यस्य प्रसङ्गनीयमित्यत्र 'कृत्यचः' इत्यनेन प्राप्तणत्वव्यावृत्तये विहितविशेषाङ्गीकराऽपि न नियमार्थत्वं नुमो नकारेण व्यवधानात्कृत्यच इत्यस्याप्रा. प्त्या प्रेन्वनमित्यत्र विध्यर्थत्वादत आह-नुम्ग्रहणमनुस्वारोपलक्षणार्थमिति । 'अट् कुप्वाङ् नुमित्यत्रेव प्रकृतेऽपि नुमाऽनुस्वारस्य लक्षितत्वान्न शङ्काकलङ्कलेशोऽपीति भावः ॥ ननु ण्यन्तस्य प्रकृत्यन्तरत्वेन प्रकृतिग्रहणेनाऽग्राह्यत्वानिषेधानापत्त्या प्रमापनीयमि- न्यादौ णत्वं दुर्वारमेवेत्यत आह-यन्तभादीनामुपसंख्यानमिति । केचित्तु 'हेरच- लीति सूत्रेऽचडीति पर्युदासेन (प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणमिति ज्ञापनासिद्धमि- दमित्याहुस्तन्न, ज्ञापनस्य कुत्वमात्रविषयपरत्वेन भाष्यादौ सिद्धान्तितत्वादित्यलम् ॥ ननु प्रल्यानीयमित्यत्र, अटकुप्वाइनुमित्यनेन णत्वं दुर्वारमित्यत माह-खुशानः १२६ शकिकारत्नमञ्जूषा । शस्य हे वेत्युक्तमिति । चक्षिकः ख्याञ् इत्यनेन न ख्यानादेशः किन्तु खुशामादेश रु, अस्म शारस्य जत्वप्रकरणोपरस्थितेन शस्य यो वेतिसूत्रेण यत् रूपं सिद्धयति, एवञ्च ॐवाअनुमित्येतदृष्ट्या यत्वस्यासिद्धत्वाच्छकारणाऽतिरिक्तेन व्यवधानान्न णत्वप्रा- क्षिरित भावः ॥ न 'अचो यदि त्यत्राऽग्रहणं हलन्तायतोऽभावाय तस्य च ऋवर्णान्तादिवलन्ता- इपि ण्यता बाधेनोपपत्तौ व्यर्थमेव तदित्याह-अजग्रहणं शक्यमकर्तुमिति । केचित्त अजन्तभुतपूर्वादपिधातोर्यत्प्रत्ययार्थमज्ग्रहणं तेन दित्स्यं धित्स्यमित्यत्र यति कृते यतो- उन्नाव' इत्युदात्तत्वसिद्धिः । अन्यथा यति कृते 'तित्स्वरितमिति स्वरितत्वापत्तिरित्याहु. स्तन्न, (१)आर्धधातुकविवक्षायामकारलोपडग्रहणस्योक्तफलकत्वसम्भवेन तस्मिन्परे तु तस्याकिञ्चित्करत्वात् । लोपस्य परनिमित्तकत्वानङ्गीकारे तु गणयतीत्यादावुपधावृद्धि- प्रसक्तिः॥ ननु जन्यमिति रूपस्य यता ण्यता वाभयथा सम्भवाहहलोर्यदिति ण्यतैव रूपसिद्धौ तकिशसिचतीतिवार्तिक जनेग्रहणं व्यर्थमित्यत आह-जनेर्यद्विधिः स्वरार्थ इति । यतोऽनाव इत्यायुदात्तस्वरार्थ इत्यर्थः ॥ ननु ण्यद्य तोरसरूपत्वेन वाऽसरूपोऽस्त्रियामित्यनेन यता ण्यतो वैकल्पिकवाधेन पक्षे ण्यत्प्रत्ययो दुरि एवेत्यत आह-नानुवन्धकृतमसारूप्यमिति। अनेकान्तपक्षेऽनुबन्धा- नामनवयवात्तत्कृताऽसारूप्यस्य न ग्रहणम् । एकान्तपक्षेऽपि ददातिदधात्योविभापति वि- आषाग्रहणज्ञापकादनुबन्धकृताऽसारूप्यस्यानाश्रयणादुक्तपक्षद्वये न ण्यतः प्रसक्तिरितिभावः॥ ननु धातूनां हलन्ताजन्तभेदन द्वैविध्यात्तत्र हलन्ताण्ण्यतो वक्ष्यमाणत्वात्परिशेषाद- जन्तादेव यतो विधानेन तव्यदादिष्वेव तद्ग्रहणादिष्टसिद्धौ पृथग्योगो नावश्यक इत्यभि- प्रेत्याह-योगविभागोऽप्येवम् , तव्यदादिष्वेव यतोऽपि सुपठत्वादिति । ननु 'पोरदुपधादिः त्यनेनाऽकारोपधपवर्गान्तधातोर्यद्विधानेन आपूर्वकाल्लभेर्यादिप्र. त्ययविवक्षायामेव नुमि तदाऽकारोपधत्वाभावान्न यत्किन्तु ण्यदेवेत्याह-नुमि कृतेऽदु- पधत्वाभावाणायदेवेति । ग्यति कृते आलम्भ्य इत्यत्र समासान्तोदात्तत्वं बाधित्वा कृदुत्तरपदप्रकृतिस्वरेणेष्टस्य स्वरितान्तत्वस्य सिद्धिः । यति प्रत्यये तु यतोनाव' इत्यनेना. ऽऽद्युदात्तत्वादनिष्टस्योत्तरपदाद्युदात्तत्वस्यापत्तिरिति भावः । ननु यमेः पवर्गान्तत्वेन पोरदुपधादित्यनेनैव सिद्धौ (गदमदे)ति सूत्रे तत्ग्रहणं व्यर्थ- मित्यत आह-यमेनियमार्थमिति | यमेश्चेदनुपसर्गादेवेतिनियमाकारः तेनोपसर्गविशि. टस्य तु प्रयाम्यमित्येव तत्रापि ( न तत्र भवेद्विनियम्यमि)ति वार्तिकप्रयोगदर्शनात् विनीत्युपसर्गद्वयातिरिक्तोपसर्गविशिष्ठस्य माभूदिति संकोचः । शतेन वर्या कन्येति । अत्र शतशब्दोऽनियतपरस्तेन कन्याया वरणे वरयितृणां नि- . (१) आर्धधातुकविवक्षायामकारलोपे तदानी हलन्तत्वात् ण्यतः प्रसक्तिः। आध- धातुकपरे लोपस्तु प्रत्यये सत्येव लोपः, लोपे सत्येव हलन्तत्वसम्भवः, इति प्रत्ययोत्पत्ति- कालेऽजन्तत्वस्यैव सत्वाद्यदेवेति केचिदित्यादिना प्रतिपादितमसङ्गतमेवेति ।

पूर्वकृदन्तप्रकरणम् । १२० यमो नास्तीत्यर्थः । अयम्भावः, सूत्रेऽनिरोधग्रहणसावे सालदिनिरोधरूपार्थकादेव यति वयंति सिद्धम् । अनिरोधग्रहणाऽभावे तु विनिगमकाऽभवन वृक्षोरुभयोरपि मह- णापत्त्या ततो यदापत्तिरित्येतध्वनयन्नाह-वृत्यान्येति । ननु 'एतिस्तुशास्त्र' इत्यत्र शु. ग्रहणे सामानास्य तत्राग्रहणमिति चेन्न । अत्रत्यवृन्ग्रहणस्य मुसि चरितार्थत्वात् : तत्र सूत्रेऽवद्यादीनि निर्विभक्तिकानि नतु द्वन्द्वः, तेन वयति स्त्रियामेव विधीयते । अस्त्रियां तु वृङः 'ऋहलोlत्' वार्या ऋत्विजः । सूत्रे द्वन्द्वाभिप्रायेण सुग्रीवो मम वोऽसावित्य:- दयः प्रयोगा बोध्या इत्यलम् ॥ वदः सुमि क्यप च । ननु लः कर्मणीत्यनेन यथा सकर्मकेभ्यः कर्मणि कर्तरि ल. कारविधानादकर्मकन्यो भावे कर्तरि च, तथा 'तयोरेव कृत्यक्तखला' इत्यनेनापि सक. संकभ्यः कर्मणि कर्तरि कृत्यप्रत्ययविधानादकर्मकेभ्य एव भावे तद्विधानमिति सिद्धान्तात्स. कर्मकधातुभ्यो भावे कृत्प्रत्ययविधानं दुर्लभमित्यत आह-भाव इत्यपट्टष्यत इति । ननु भुवो भावे इत्यत्राऽनुपसर्ग इत्यनुवर्त्य निरुपसर्गस्य भवतेरकर्मकत्वात् तमोरेवेति सूत्रेण भाव एव कृत्यप्रत्ययसिद्धौ भावग्रहणं व्यर्थमिति चेन्न, तस्योत्तरार्थत्वेन सार्थक्यस्य भाष्येऽभिहितत्वात् । एतद्भाष्यमतानुयायिमतं प्रदर्शयति-कर्मणिप्रत्ययावित्येके छात। ननु सूत्रे सामान्यरूपेण वृशब्दोपादानावृवृङो ग्रहणं स्यादत आह-वृइति ओ ग्रहणं न वृङ इति । ईडवन्द इति सूत्रज्ञापकान्न वृडो ग्रहणमिति तदर्थः । तत्र हिईड- वन्द साहचर्यादात्मनेपदिनो वृङ एव ग्रहणम् , अत्र वृक्षो ग्रहण तु तत्र ग्रहणं व्यर्थ स्यादिति भावः, पुनः क्ययुक्तिः परस्यापिण्यतो बाधनार्थेति । 'ओरावश्यके' इति विहितस्य ग्यतोऽवकाशः आवश्यकविवक्षायां लाव्यमति, क्यपोऽवकाशः स्तुत्य इति, अवभ्यस्तु- त्य इत्यादौ द्वयोः प्राप्तौ विप्रतिपेधसूत्रबलेन परत्वाण्ण्यत् स्यादतस्तद्वयावृत्त्यर्थं पुनः क्य- बुक्तिरिति भावः । इचेति ह्रस्वः सुपठ इति । इत्थं हि दीर्घपठतः सूत्रकारस्याऽभिप्रायः, इ इ इति प्रश्लेषाद्वितीय इकारो 'ये विभाषेत्यात्वबाधनाय, अन्यथा येइति विषयसप्तमी तेन यका- रादौ प्रत्यये बुद्धिस्थ एव प्राप्तस्याऽऽन्तरङ्गत्वेन क्यपा सह विधानादिकारस्य बहिरङ्गत्वे- नात्वं दुर्वारं स्यादिति । दीर्घस्य प्रत्याख्यानं कुर्वतो भाष्यकर्तुस्त्वयम्भावः, क्यप्सनिया- गशिष्टत्वादित्वमन्तरङ्गम् , ये इति परसप्तम्याश्रयणादात्वं बहिरङ्गम् , तथा च युक्त ए. वाऽऽत्वस्येत्वेन बाधः, न च हस्वादेशे 'पत्वतुकोरिति गुणस्यासिद्धत्वे तुगिति वाच्यम् , पदान्तपदायोरेवैकादेशस्याऽसिद्धत्वात् , एतदनङ्गीकारे वृक्षेच्छत्रमित्यन्त्र नित्यतुगापत्तिः, इष्टस्तु वैकल्पिक इतिप्राश्चः। शेखरकृतस्तु ये विभाषेत्यत्र ये इति विषयससमीत्वे. ऽपि जनादिसाहचर्येण यादिप्रत्ययोत्पत्तिपूर्वकाले नान्तरस्यैवात्वविधानेन क्गबुत्पत्ते: प्रा. गेवेत्वेनाऽत्र तदप्राप्त्या नस्यत्वे आद्गुणेन रूपसिद्धः, एतत्क्लेशवारणायैव दीर्घोचारण- मित्याहुः॥ ननु 'भृगोऽसंज्ञायामित्यत्राऽसंज्ञाग्रहणलत्त्वेन तत्रैव क्यपो विधानाद्भार्या वधूरित्यत्र संज्ञायामेतदप्राप्तावपि संज्ञायां क्यविधायकेन 'संज्ञायां समजनिषदनिपते' त्यनेन क्यप् १२८ फश्चिकारत्नमब्जूपा। दुओर इत्याशङ्कते-अथ कथं भार्या वधूरिति । ननु असंज्ञाग्रहणसामर्थ्यात्तन्न सूत्रान्त- रेखाsपि क्या न स्यादत आह-संज्ञापर्युदासस्तु मुसि चरितार्थ इति । उक्तापति वारयति-बिभर्ते इति । (तदनुबन्धकग्रहणे नातदनुबन्धकस्ये)ति परिभापया हुन्- धातोः क्यविधौ ग्रहणेन विभतंयंता रूपसिद्धिरितिभावः । ननु "चजोः' इति सूत्रे निष्ठायामनिट इति पठित्वा निष्ठायामनिट् धातोश्वजोः कुत्व- मित्यर्थे गर्जधातोनिष्ठायां सेट्त्वेन गय॑मित्यादौ 'नकादेरिति सूत्रोदाहरणे कुत्वभावं सम्पाद्य वात्तिककारेण प्रत्याख्यातन्तत्सूत्रम् । अर्जितर्जिप्रभृतीनां निष्ठायां सेट्वेल कुत्वा- आदः । अनुग्लुञ्चप्रभृतीनां कादिगणपठित्तत्वेऽपि 'ऊदितोवे' तिक्त्वायामिड्विकल्पत्येन 'य- स्य विभाषे ति निष्ठायामनिट्त्वात्कुत्वम्भवत्ये ट सूत्रकृन्मते तु स्यादिति परस्परविरोधेऽपि उत्तरोत्तरमुनिवाक्यस्य प्रामाण्याद्वात्तिककृन्मतमेव ज्याय इत्याह-यथोत्तरं मुनीनां प्रामाण्यादिति प्राञ्चः। नागेशास्तु वार्तिकस्य सूत्रदूषणाय प्रवृत्तत्वाद्भाष्यकृता च शातिकमते शोक इत्यस्यासिद्धिमाशंक्य सूत्रन्मतेऽपि ण्यति कुत्ववारणाय नियमार्थमा- श्यकेन शुचेर्घनीति वचनेन समाधानाद्वार्तिकमतस्यैवाऽभ्यनुज्ञानाच्चेत्याहुः ॥ ननु 'प्रषातिसर्गे' ति सूत्रे चकारेण लोटोऽनुकर्षणात्तेन कृत्यप्रत्ययाऽबाधाय कृत्यग्रह- णे, (वासरूप) विधेनित्यत्वे विकल्पबाधेन पक्षे कृत्यप्रत्ययसिद्धौ सूत्रे पुनस्तद्ग्रहणेन सा- अथ्यांदुक्तविधेरनित्यत्वज्ञापनेन (कल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्ती) तिसिद्धिरित्य- भिप्रायेणाह-इह लोटा बाधेत्यारस्य नेति सिद्धमित्यन्तमिति । वस्तुतस्तु वा- प्ररूपविधेरनित्यत्वे (अहेंकृत्यतृचश्चे)ति सूत्रस्यैव ज्ञापकत्वमिति लिङ्गा बाधा माभूदित्या- दिना मूले एव स्पष्टमिति भावः । मूले कचिन्नेत्यस्य क्त्वाप्रत्ययेन तुमुनो नित्यवाधाऽभा- वेन आसित्वा भुक्त आस्यते भोश्तुमिति च भवतीति फलम् ॥ आगमस्य दीर्घत्वसामर्थ्यादभ्यासहस्वो हलादिः शेषश्चनेति । नच दीर्घा- ऽगमोच्चारणस्य सवर्णदीर्घबाधकत्वेनोपक्षयात्सामर्थ्याभावेन मूलोक्तमसङ्गातमिति वाच्यम् , (अनन्तरस्ये) ति न्यायेन हलादिः शेषस्यैव वाधात् , वस्तुतस्तु दीर्घप्रवृत्तिकाल एव वै. पॉपस्थित्या तद्वाधस्यैव न्याय्यत्वम् , हलादिः शेषबाधनं तु अभ्यासस्याऽनचीति भा. ज्योक्तवचनेन साध्यम् । अभ्यासस्य यदुच्यते तदग्निमित्ताऽभ्यासभिन्नस्येत्यर्थः । अत एव लोलुव इत्यादौ गुणः । यद्ययन्त्र वचने वेति भाष्ये नास्ति तथापि रात्रिंचर इत्यादि. प्रयोगदर्शनादाश्रितमिति । खशोऽन्यत्र नेष्य इति हरदत्त इति । अनारुचिवीजन्तु भाष्यानानुकूल्यम् 'टि- ढाणगि तिसूत्रे प्रत्यासत्या टिदायवयवयकारस्यैव ग्रहणं समुचितं भाष्यप्रामाण्यात् । नटित्त्वसामर्थ्यादतिरिक्ताऽकारस्यापि ग्रहणमिति वाच्यम् । तथासति, धयेत्यत्राऽपिडी- जापत्तेर्दुर्वारत्वात् । नच टिदाद्यवयवाकारस्यैव ग्रहणे स्तनन्धयीत्यत्रापि डीब न स्यादि- ति वाच्यम् । गौरादित्वेन तदुपपत्तेः । नच डीषि स्वरे विशेष इति वाच्यम् । डीप्यपि उदात्तनिवृत्तिस्वरप्राप्त्या स्वरे विशेषाऽभावादित्यलम् । ब्रह्मज्य इति । ब्रह्मरूपोपपदाजिनाते. डित्वसामर्थ्यादभस्यापि टेलोपे रूपम् । नच कप्रत्यये आकारलोपेनाऽपि रूपसिद्धौ डविधानं व्यर्थमिति वाच्यम् । तथा सति स- पूर्वकृदन्तप्रकरणम् । १२. प्रसारणे इयडादेशे च ब्रह्मजिय इत्यापत्तेः । नच कप्रत्ययेऽपि मुरनेकाच' इति यणि रूम सिद्धौ डविधानं व्यर्थमेवेति वाच्यम् । अङ्गस्यैकाच्त्वेन ज्याधातोरेव प्रत्ययविधानेन घि शिष्टादविधानेन च तदप्राप्तेः । नच कर्मण्यधिकारे अकर्मकाज्याधातोः कथं डविधानमि- ति वाच्यम् । कविधौ सर्वत्रेति वचनसामर्थ्यात् ब्रह्म प्राप्तुं जिनातीत्यर्थाच्चाकर्मकादपि त तस्माड्डविधानोपपत्तेः । वस्तुतस्तु अकर्मकेष्वपि सुपीत्यस्य सम्बन्धेन सुप्युपपदे धातो. प्रत्ययविधानेनाऽदोषादितिभावः ॥ आह्व इति । नवाऽत्र केऽपि आलोपं बाधित्वा सम्प्रसारणे ततो (वार्णादि ) न्यायेन पूर्वरूपत्वं बाधित्वा लोपे तस्याभिया सिद्धत्वेनोवोऽप्राप्तौ यणि आह्व इति सि. डविधानं व्यर्थमिति वाच्यम् । आमीमासिद्धत्वानित्यत्वे वार्णादीति न्यायानित्यत्वे बाऽस्य ज्ञापकत्वात् । तेन जुहुवतुरिति सिद्धमिनि आवः ॥ अन्यौ किम् आयीकुर्वन्त्यनेनेति । ननु अन्न ख्युनोऽभाषऽणि 'करणाधिकरण- योश्रत्यनेन ल्युट् स्यादत आह-प्रतिषेधसामादिति । आब्यीकरणमिति रूपस्य ल्युट्ख्युनोस्तुल्यत्वम् । नच ख्युनि मुम्हस्वौ स्यातामिति वाच्यम् । 'ऊर्यादिच्चिडाच- चेति लिपातसंज्ञकत्वेन ब्यन्तस्याऽव्ययत्वेन मुम्विधायकेऽनव्ययस्येति पर्युदासेन तदप्रा प्तेः । नच ख्युनि 'उपपदमतिङिति नित्यसमासलाभो न ल्युटीति वाच्यम् । तत्रापि गतिसमाससम्भवेन तस्यापि नित्यसमासत्वात् । नच ङीटाब्भ्याम्विशेष इति वाच्यम् । (नमस्नजी)ति वार्तिकेन ख्युन्यपि डीपो विधानात् । नच स्वरे विशेष इति वाच्यम् । ल्युट्ख्युनोलिनित्स्वराभ्यां कृज उदात्तत्वाऽविशेषादित्यलम् ॥ भाष्यविरोधादुपेक्ष्यमिति । उक्तं हि भाष्ये सुपीति वर्तमाने पुनःसुब्ग्रहणं किम र्थम् , अनुपसर्ग इत्येव तदभूत् । इदं सुष्मात्रे यथा स्यात् , उदासारिण्यः, प्रत्यासारिण्य इति॥ भाष्यकारवचनाच्छीशब्दस्य ह्रस्वो मुममोरभावश्चेति । अयम्भावः ५ था प्रष्ठादिशब्दानां (योगास्त्रियां वृत्तिः प्रष्टी गणिफेति तथेह श्रीशब्दः परित्यक्तस्वलिङ्ग क्लीबः सन् कुले वर्तते । तत्र 'हस्थो नपुंसकेति हस्वः । नच क्लीबत्वे नुमापत्तिरिति वा. च्यम् । अपवादेनाऽमा तद्बाधात् । स्वमोनपुंसकादित्यमो लुक् स्यादिति वाच्यम् । अ. विधानसामथ्येनैव तद्वाधादिति प्राञ्चः । शेखरकृतस्तु, अत्र 'स्वमोरिति लुन, बा- व्यसामान्यचिन्तया 'सुपो धात्विाति लुग्वत् अस्यापि अम्विधिसामर्थ्येन बाधात् । किन बहिरङ्गतयाऽपि नाऽमो लुक् । त्रिपाद्यां तइप्रवृत्तेः। तस्माच्छ्रियं मन्य इत्येव भाष्य- सम्मतमित्याहुः॥ चतुर्विधोऽत्र नियम इति । अत्र सूत्रे श्रुतत्वात्पूर्व ब्रह्मादय उहेश्यास्ततोऽनन्तरं प्रकृतित्वाद्धन्तिः, ततः परिशेषाद्भुत इति क्विबिति सूत्रार्थः, तत्र विनिगमनाविरहेणाऽविशे- याच्चतुप्रैपि एवकारसम्बन्धः । तत्र ब्रह्मादिष्वेव भूतार्थाद्धन्तेरिति प्रकृतिनियमे हन्तेरुपप- दान्तरसम्बन्धवृत्तिफलो धातु नियमः, ततश्च भृत इत्याश्रयणेन कालान्तरेऽपि भवति पुरुष हन्ति हनिष्यति वेत्यर्थे पुरुषहेति । ब्रह्मादिपु भूतार्थादेव हन्तेरिति प्रत्ययनियमे वर्तमा. नभविष्यत्कालयोः पूर्वप्रयोगसिद्धिः । ब्रह्मादिषु भूतार्थाद्धन्तेरेवेत्युपपदनियमे भूत इत्या- श्रयणेन कालान्तरे धात्वन्तरादपि भवत्येव वृत्रं जयति जेष्यति या वृत्रजित् । न वत्र जि.

१३० फक्किकारत्नमञ्जूषा! -- नयानिति भूते प्रयोगः । ब्रह्मादिषु भूतार्थाद्धन्तेः विवेवेतिकालनियमे पितृव्यं हतवान पितृव्यवातीति भूतेऽपि प्रत्ययान्तरविशिष्टः प्रयोगः । ब्रह्मघातीति प्रयोगाभावो नियम- फलं बोध्यम् । द्विविधा नियम इति भाष्यमिति । तथाच भाष्यमुभयतोऽयं नियमः प्रमादिष्वेव विवेवेति च । युक्तञ्चैतत् श्रृंत्योपस्थितोपपदप्रत्यययोरुपरोधापेक्षया प्रकरण- लक्षणजघन्यप्रमागोपस्थितधातुकालयोरेवोपरोधो न्याय्यः । एकञ्चैतद्भाष्यविरोधात्पूर्वो- कमयुक्तमित्यलम् ॥ ननु पधातोराकारेत्संज्ञकत्वेन विभाषाभावादिकर्मणोरिति विकल्प प्राप्ते तदंशे नित्यार्थो विधिः स्यात् ततश्च भावादिकर्मभ्यामन्यत्र वैवात्याऽभावेऽपि 'आदितश्चेतिनिषेध एव स्यादत आह-भावादिकर्मणोस्तु वैयात्ये धृषिर्नास्तीति । अनभिधानादिति भावः । अत्र प्रमाणमाह-अत एव नियमार्थमिति । तेन भावादिकर्मभ्यामन्यन्त्र वै. यात्याभाषेऽपिन 'आदितश्चेति निषेधः । हरदत्त इति-अबैयात्ये भावादिकर्मणोरनमि- धानाद्वैयात्ये च नियमादादित्वस्व साफल्यमस्त्येवेत्यभिप्रेत्याह-माधवस्तु भावादि- कर्मणोरवैयात्ये विकल्पमाहेति । ननु वेचे'त्यनेन द्वित्वे कृतेऽपि प्रत्यासत्या पाष्ठद्वित्व एवाभ्याससंज्ञाप्रवृस्याऽऽष्टमिके तदप्रवृत्त्या स न स्यादत आह-दृशिग्रहणाझ्याससंशेति ॥ इति पूर्वकृदन्तप्रकरणम् । अथोत्तरकृदन्तप्रकरणम् । ननु उणादयो बहुलमित्यत्रत्यबहुग्रहणस्याऽपरिपूर्णोणादिपरिपूर्णार्थकस्य फलं प्रदर्शयति- कचिदविहिता अपीति । केचिदनुक्ता अपि धातवः प्रत्ययाश्चोणादिषु ऊह्याः तर्कणि- या इत्यर्थः । तथाहि, शकुलेति प्रयोगदर्शनात् हृषेरुलजितिसूत्राद्विहित उलच्प्रत्ययः श- किधातोरपि भवतीति । किञ्च कुत्राप्यविहितयोः फिडफिड्डप्रत्यययोरतिः प्रकृतिरूह्यते तयोः कित्वञ्च प्रल्प्यते । तथा षण्ढ इत्यत्र सत्वाभावश्चोह्यते । ननु द्वन्द्वान्ते श्रूयमाणपदस्य प्रत्येकमभिसम्बन्धस्य प्रसिद्धत्वेन शकषेति सूत्रस्था- थंग्रहणस्य तत्सूत्रस्थपदेष्वन्वयः स्यादित्यशंक्य समाधत्ते-अर्थग्रहणमस्तिनैव स- म्बध्यत इति । अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेतिन्यायेनाऽनन्तरेणास्तिनैवार्थ- ग्रहणय सम्बन्धो नतु शकादिभिरिति भावः । पर्यायोपादानमर्थोपलक्षणार्थमिति ननु कालशब्दोपादानादेव समयवेलाश- ब्दाभ्यामपि तुमुन्सिद्धौ पर्यायोपादानं व्यर्थमिति चेन्न । तस्याऽर्थोपलक्षणार्थत्वेन सार्थ- क्यात् । तथा च कालसमयवेलार्थेषूपपदेषु तुमुन्नित्यर्थेऽनेहाशब्दादपि तुमुन्सिद्धः । ननु सुस्थिर इति सूत्रेऽण्यन्तस्य सरतेरुपादानादतीसारो व्याधिरिति प्रयोगो नोपप- छतेत्यत आह-अन्तर्भावितण्यर्थोऽत्र सरतिरिति-अतीसार इत्यत्रोपस कारस्य 'उ पसर्गस्य घन मनुष्येबहुलमित्यनेन दीर्घः । ननु श्रमेहतातोपदेशत्वान्नान्तत्वाच्च 'नोदात्तोपदेशस्य मान्तस्याऽनाचमेरिति वृद्धि उत्तरकृदन्तप्रकरणम्। १३१ निषेचे विश्रम इति प्रयोगे न स्यादत आह-विश्राम इति त्वपाणिनीयमिति-अमेणि- जन्तादच विधाने तु विनाम इति प्रयोगःसाधुरेव भवितुर्महति, अत एव धुर्यान्विश्रामये- ति स इति रघुकाव्यपद्यसङ्गतिः । नच णिच्यपि वृद्धिनिषेधः स्यादितिवाच्यम् । नोदात्तो- पदेशेत्यत्र कृतीत्यस्यानुवर्तनेन णिचि वृद्धिनिषेधाप्राप्तः । 'मितां हस्व' इति ह्रस्वोऽपि ना- शक्यः । अत्यनु वर्तनाद्वयवस्थितविभाषाश्रयणेन हस्वाभावात् । एवं चोक्तरीत्या प्रयोग- स्य साधुत्वेऽप्यर्थभेदः स्यादेव । वस्तुतस्तु-निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिति विव- क्षायां न दोष इति भावः । ननु 'रिणीभुवोऽनुपसर्गे' इति सूत्रेऽनुपसर्गपदसद्भावादनुपसर्गा वो घजो विधाना- दुपसर्गात्ततो घनोऽविधानात्प्रभाव इति प्रयोगो न स्यादित्यभिप्रेत्य शंकते-कथं प्रभा- बो राम इति । समाधत्ते-प्रकृष्टो भाव इति । प्रादिसमास इति । अनुपसर्गानुवो वविधानेन भाव इति संसाध्य पश्चात्प्रशब्देन सह प्रादिसमासे प्रभाव इति प्रयोगोपपत्ति- रिति भावः । ननु त्रिणीभुव इति सूत्रेण नयतेजि नाय इत्यस्य साधुत्वे नय इति न स्यात् तथा- च वक्ष्यमाणप्रयोगो विरुध्येतेत्याह-कर्थराज्ञो नय इति। समाधत्ते-बाहुलकादि- ति । सूत्रे बहुलग्रहणानुवृत्त्या घामो वैकल्पिकत्वेनोक्तप्रयोगसिद्धिरिति भावः । अस्याधिकाराः किल पुस्तकस्य मुहुर्मुहुर्मुद्रणकादयश्च । प्रकाशकाधीनकृता हि सर्वे नान्यस्य कस्यापि जनस्य सन्ति ॥ इति ठक्कुरोपनामकश्रीकनकलालशर्मणः कृतौ फक्किकारत्नमञ्जूषाय कारकादिकृदन्तान्तो द्वितीयः खण्डः समाप्तः ॥ चतुर्थ संस्करणम् ) ( विद्याविलास यन्त्रालये मुद्रितम् , सर्वविधपुस्तकप्राप्तिस्थानम्- श्रीहरिकृष्णनिबन्धभवनम् बनारस सिटी।

॥ श्रीः॥ -* प्रौढमनोरमा ६५ महामहोपाध्याय-श्रीभट्टोजीदीक्षित-विरचिता। F063 महामहोपाध्याय-श्रीहरिदीक्षितविरचित-लघुशब्दरत्नव्याख्यासमेता महामहोपाध्यायश्रीभैरवमिश्रविरचित-शब्दरत्नन्याख्यया, लवपुरीय प्राच्यमहाविद्यालयप्रधानाध्यापकवेदान्त-व्याकरणाचार्य -साहित्य- मीमांसातीर्थमहामहोपाध्यायश्रीमाधवशास्त्रिभाण्डारीविरचित- प्रभानामकटिप्पण्या, आयुर्वेद-व्याकरणाचार्य- साहित्यतीर्थ-धर्मशास्त्रशास्निपदवीकधीयुतपण्डितजग- नाथशास्त्रिकृतयाऽव्ययीभावप्रकरणस्थ शब्द. रत्नप्रदीपकनामकटिप्पण्या च समलता। wate---- विद्धवृन्द । आप लोगों को यह सूचित करते अत्यन्त हर्ष होता है कि उपरोक्त मनोरमा शब्दरत्न तथा भैरवी व्याख्याके साथ वेदान्त-व्याकरणा- चार्य-साहित्य-मीमांसातीर्थ म०म० श्रीयुतपं०माधवशास्त्री भाण्डारी विरचित प्रभाटिप्पणी तथा अनेकशास्त्र के विद्वान् श्रीयुत पं० जग- नाथशास्त्रीजी कृत अव्ययीआवप्रकरण पर शब्दल प्रदीपक नामक टिप्पणी से अलकृत होने से यह संस्करण इतना सुन्दर तथा परी- क्षोपयोगि हुआ कि सीर्फ अल्प समय में ही प्रथम संस्करण हाथो हाथ बिकगया, इस परिवर्धित द्वितीय संस्करण में व्याकरणशास्त्र के परम विद्वान् पं० सदाशिवशास्त्रिकृत "विभा" नामकी टिप्पणी भी नवीन दी गई है। प्रन्थ अत्यन्त उत्तम नवीन, अक्षरों से ग्लोज चिकने मोटे कागज पर छपा है । मूल्य भी अल्प केवल ४) है। विद्यार्थियों को कमीशन काट कर ३.) में दिया जायगा। सर्वविधपुस्तकप्राधिस्थानम्- श्रीहरिकृष्णनिबन्धभवनम्

No text on this page.

No text on this page.

No text on this page.

The Phakkikaratna Manjusa

Author
Maithil Pandit Sri Kanakalal Sarma
Other authors
Ccl
Title
The Phakkikaratna Manjusa
File name
The Phakkikaratna Manjusa
Text
OCR done
Citation
1936
Publisher
Sri Harikrishna Nibandha Bhawan
Language
Sanskrit
Pages
148
Library
Scl
DLI number
326611
Barcode
2020010008734.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
pDObHGFSjmV
Download PDF

The Phakkikaratna Manjusa