Bharti Bhawan Library Allahabad

Bedantdarshanam No155

PDF Proofread

Front matter

THE
CHOWKHAMBA SANSKRIT SERIES;
A
COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS.
NO. 155. 156. 157. 158.
वेदान्तदर्शनम् ।
परमहंसपरिव्राजकाचार्यश्रीरामानन्दसरस्वती
स्वामिकृत ब्रह्माऽमृतवार्षिणी समाख्य
व्याख्यासंवलितम् ।
वेदान्तपरिनिष्ठितप्रज्ञश्रीप्रज्ञानानन्दसरस्वती
स्वामिभिः परिष्कृत्य संशोधितम् ।
VEDÂNTADARŜANA
WITH A COMMENTARY CALLED BRAHMÂMRITAVARSINI
by
ŜRI RÂMÂNANDA SARASWATI SWAMI,
EDITED BY
PRAJNÂNÂNANDA SARASWATI SWÂMI,
mmatosis
PUBLISHED AND SOLD BY THE SECRETARY,
CHOWKHAMBA SANSKRIT BOOK-DEPÔT.
BENARES:
AGENTS:- OTTO HARRASSOWITZ, LEIPZIG:
PANDITA JYESHTHARAMA MUKUNDATI,BOMBAY.
PROBSTHAIN & Co., BOOKSELLERS, LONDON.
Printed by Hari Krishna Dasa Gupta
PROPRIETOR, AT THE VIDYA VILASA PRESS.
BENARES.
Price Rupee One.
Registered According to Act XXV. of 1867.
AR

(कुतर्कदग्धचिकित्सायाः) शुद्धयशुद्धिपत्रम् । पृ० पक्ति शुद्धम् १ सर्वमात्मै अशुद्धम् सर्वमात्मे १ ६ २ २ ९ ६ ६ धर्मता इत्यंशे दात्माश्रप नाभ्युपगम्पन् सूचितम् आघ ताप्तर्यम् तदितरं नविरोधो ४ धर्मतां ५ इत्यंशे ६ दात्माश्रय ७ नाभ्युपगम्येरन् ८ सूचितं ९. आध १० ताप्तय ११ तदितर १२ ननिरोधो १३ लेखः १४ लब्ध्य १५ काप्यारोपित १६ यावद्रव्य १७ षष्ठक्षणे १८ उपादानान्यत्वे १९ मसन्तं २० ब्रह्माणमेवच २१ वीक्ष्यमाणे २२ षभिः २३ करणैः २४ कंप्यन्ते २५ रूपेणवचसा १२ २ तब्ध्य कायपरोपित यावद्रव्य षष्ठ क्षेण उपादानन्यत्वे मसप्त ब्राह्मणमेवच वीक्ष्यमाणो षडभिः कारणैः कथ्यन्ते रूपस्ववचसा २५१० ६६ १२ ENER ब्रह्मामृतवार्षिणीसहित वेदान्तदर्शनाधिकरणानां । सूचीपत्रम् । २ १२ ४३ १ ब्रह्मणो विचार्यत्वाधिकरणम् । १ अ०१ पा०१ २ ब्रह्मणोलक्षणाधिकरणम् । २ ३ ब्रह्मणोवेदकर्तृत्व वेदैकमेयत्वाधिकरणम् । ३ ४ वेदान्तानां ब्रह्मैकपरत्वाधिकरणन् । ४ ५ ब्रह्मण एव सच्छब्दवाच्यताधिकरणम् । ५ ६ ब्रह्मण आनन्दमयताधिकरणम् । ६ ७ परमेश्मरस्यैव हिरण्मयपद्वाच्यताऽधिकरणम् । ७ ८ ब्रह्मण एवाकाशशब्दवाच्यताधिकरणम्। ८ ९ ब्रह्मण एव प्राणशब्दवाच्यताधिकरणम् । ९ १० ब्रह्मण एव ज्योतिःशब्दाभिधेयत्वाधिकरणम्। १० ११ ब्रह्मण एव प्राणशब्दव्युत्पन्नत्वाधिकरणम् । ११ १२ ब्रह्मण एव मनोमयत्वाधिकरणम् ।१ पा०२ १३ ईश्वरस्यैवात्तृत्वाधिकरणम् । २ १४ जीवब्रह्मणोरेव गुहाप्रवेशाधिकरणम् । ३ १५ ब्रह्मण एवाक्षिगतत्वाधिकरणम् । ४ १६ परमेश्वरस्यैवान्तर्यामिताधिकरणम् । ५ १७ परमेश्वरस्यैव भूतयोनित्वाधिकरणम् । ६ १८ परमेश्वरस्यैव वैश्वानरत्वाधिकरणम् । ७ १९ ब्रह्मण एव धुभ्वाद्यायतनत्वाधिकरणम् । १ पा०३ २० परमात्मन एव भूमत्वाधिकरणम् । २ २१ ब्रह्मण एवाक्षरताधिकरणम् । ३ २२ परब्रह्मण ईक्षतिकर्मताधिकरणम् । ४ २३ ब्रह्मण एव दहराकाशाधिकरणम् । ५ ६३ ६७ ७१ ७३ ८९ ९२ ९३ JEEGRAN (२). २४ ईश्वरस्यैवाक्षिपुरुषगतत्वाधिकरणम् । ६ २५ चैतन्यस्य सर्वजगद्भासकत्वाधिकरणम् । ७ २६ परमेश्वरस्याङ्गुष्ठमात्रत्वाधिकरणम् । ८ २७ देवादीनामप्यधिकारित्वाधिकरणम् । ९ १०७ २८ जातिशूद्रस्य ब्रह्मविद्यायामनधिकाराधिकरणम् । १० २९ ईश्वरस्यैव कम्पनहेतुताऽधिकरणम् । ११ १२१ ३० ब्रह्मण एव ज्योतिष्ट्राधिकरणम् । १२ १२३ ३१ ब्रह्मण एव नामरूपनिर्वाहकताधिकरणम् । १३ ३२ ब्रह्मण एव विज्ञानमयाधिकरणम् । १४ १२५ ३३ कारणशरीरस्यैवाव्यक्तपदबाच्यताधिकरणम् । १ पा० ४ १२८ ३४ तेजोऽबन्नात्मकप्रकृतेरेवाजात्वाधिकरणम् । २ ३५ प्राणादीनामेव पञ्चजनत्वाधिकरणम् । ३ ३६ जगद्योनौ ब्रह्मण्येवसर्ववेदान्तवाक्यसमन्वयाधिकरणम् ४ १४२ ३७ परब्रह्मण एव जगत्कर्तृत्वाधिकरणम् । ५ ३८ परमात्मन एव दर्शनयोग्यात्मत्वाधिकरणम् । ६ ३९ ब्रह्मण एवोपादाननिमित्तकारणत्वाधिकरणम् । ७ ४० ब्रह्मण एव जगत्कारणत्वेऽन्याऽसम्भवाधिकरणम् । ८ ४१ सांख्यस्मृतेर्बाध्यत्बाधिकरणम् । १ अ०२ पा० १ १५६ ४२ योगस्मृतेर्बाध्यत्वाधिकरणम् । २ १५७ ४३ वैलक्षण्याभासस्य जगत्कारणत्वाऽबाधकत्वाधिकरणम् । ३१५८ ४४ काणादादिमतैर्वाध्यत्वाभावाधिकरणम् । ४ २६३ ४५ अद्वैतस्यैव भोक्तृभोग्याकारभासमानत्वाधिकरणम् । ५ १६४ ४६ ब्रह्मण्यद्वैतस्यैव तात्त्विकत्वाधिकरयम् । ६ १६४ ४७ परमेश्वरस्य हिताहितभागित्वाभावाधिकरणम् । ७ ४८ अद्वितीयब्रह्मण एव नानाविधसृष्टिकर्तृत्वाधिकरणम् । ८ १६९ ४९ ब्रह्मणो विवर्त्तत्वाधिकरणम् । ९ १७० ५० ब्रह्मणोऽशरीरस्यैव मायाधिष्ठानाधिकरणम् । १० १७२ ५१ नित्यतृप्तस्यापि ब्रह्मण एव जगत्स्स्रष्ट्टत्वाधिकरणम् । ११ १७३ ५२ ब्रह्मणो वैषम्यनैपुंण्याभावाधिकरणम् । १२ ५३ निर्गुणस्यापि ब्रह्मणो मायिकप्रकृतित्वाधिकरणम् । १३ १७५ ५४ प्रधानस्य जगद्धेतुत्वाभावाऽधिकरणम्। १ पा०२ १७७ १६७ TMainst (३) ૧૮૨ २०१ २०४ २०६ ५५ ब्रह्मणो विसदृशजगदुत्पत्तौ कारणादीयदृष्टान्तसद्भावा- ऽधिकरणम् । २ ५६ परमाणुकारणवादनिराकरणाधिकरणम् । ३ ५७ वैनाशिकखण्डने समुदायासिद्ध्यधिकरणम् । ४ ५८ विज्ञानवादनिराकरणाधिकरम् । ५ ५९ आर्हतानां सप्तभङ्गीनयनिराकरणाधिकरणम् । ६ ६० केवलनिमित्तकारणवादनिराकरणाधिकरणम् । ७ ६१ जीवोत्पत्तिवादनिराकरणाधिकरणम् । ८ ६२ आकाशस्य ब्रह्मजन्यताधिकरणम् । १ पा० ३ ६३ वायोर्ब्रह्मजन्यत्वाधिकरणम् । २ ६४ सद्ब्रह्मणोऽजन्यत्वाधिकरणम् । ३ ६५ तेजसो ब्रह्मजन्यत्वाधिकरणम् । ४ ६६ अपां ब्रह्मजन्यत्वाधिकरणम् । ५ ६७ पृथिवीमात्रस्यान्नशब्दवाच्यताधिकरणम् । ६ ६८ सोपाधिकब्रह्मण एव कार्यकारणत्वाधिकरणम् ७ ६९ लयक्रमनिरूपणाधिकरणम् । ८ ७० प्राणादिसृष्टौ क्रमनिरूपणाधिकरणम् । ९ ७१ जीवस्य जन्ममरणराहित्याधिकरणम् । १० ७२ जीवस्य नित्यत्वाधिकरणम् । ११ ७३ जीवस्य चिद्रूपत्वाधिकरणम् । १२ ७४ जीवस्य सर्वगतत्वाधिकरणम् । १३ ७५ जीवस्य कर्तृत्वाधिकरणम् । १४ ७६ जीवस्याध्यस्तकर्तृत्वाधिकरणम् । १५ ७७ ईश्वरस्य जीवप्रवर्तकत्वाधिकरणम् । १६ ७८ जीवेश्वरव्यवस्थाधिकरणम् । १७ ७९ इन्द्रियाणां परमात्मजन्यत्वाधिकरणम् । १ पा० ४ ८० इन्द्रियाणामेकादशत्वाधिकरणम् । २ ८१ इन्द्रियाणामऽणुत्वाधिकरणम् । ३ ८२ प्राणस्य श्रेष्ठताजन्यताधिकरणम् । ४ ८३ प्राणस्य तत्त्वान्तराधिकरणम् । ५ ८४ प्राणस्याणुत्वाधिकरणम् । ६ २०८ २०९ २२१ ૨૨૨ ૨૨૭ २२९ २३१ २३२ २३५ KathmENAKCHARTIMES ८५ इन्द्रियाणां देवपरतन्त्रताधिकरणम् । ७ ८६ इन्द्रियाणां प्राणात्तत्त्वान्तरत्वाधिकरणम् । ८ २३७ ८७ ईश्वरस्यैव नामरूपव्याकर्तृत्वाधिकरणम् । ९ ८८ जीवस्य भूतसूक्ष्मवेष्टितस्यैव परलोकगमनागमना- ऽधिकरणम् । १ अ० ३ पा० १ २४३ ८९ स्वर्गादवरोहतो जीवस्य सानुशयत्वाधिकरणम् । २ ९० पापिनां स्वर्गेगत्य भावाधिकरणम् । ३ ९१ स्वर्गावरोहे जीवस्याकाशादितुल्यताधिकरणम् । ४ ९२ स्वर्गादवरोहतां त्वराविलम्बाधिकरणम् । ५ २५७ ९३ स्वर्गावरोहतां व्रीह्यादौ संश्लेषाधिकरणम् । ६ २६० ९४ स्वप्नसृष्टर्मिथ्यात्वाधिकरणम् । १ पा०२ २६० ९५ सुषुप्तौ जीवस्य हृत्स्थ ब्रह्मणैक्याधिकरणम् । २ ९६ सुप्तस्यैव जागरणाधिकरणम् । ३ ९७ मू या अवस्थान्तरताधिकरणम् । ४ ९८ ब्रह्मणो नीरूपत्वाधिकरणम् । ५ २६७ ९९ ब्रह्मणो निराकरणाविषयत्वाधिकरणम् । ६ १०० ब्रह्मातिरिक्तवस्तुनिराकारणाधिकरणम् । ७ २७६ १०१ काराधितेश्वरस्यैव फलदातृत्वाधिकरणम् । ८ २७९ १०२ सर्ववेदान्तज्ञानोपासनाया एकत्वाधिकरणम् ।१ पा०३ ६८१ १०३ शास्त्रान्तरोक्तस्याप्युपसंहाराधिकरणम् । २ २८४ १०४ उद्गीथविद्याया भिन्नताधिकरणम् ।३ १०५ उद्गीथस्योङ्कारविशेषणत्वाधिकरणम् । ४ १०६ वसिष्ठत्वादीनामाहार्यताधिकरणम् । ५ ૨૮૮ १०७ आनन्दादीनामुपसंहाराधिकरणन् । ६ २८९ १०८ पुरुषस्यैव ज्ञेयताधिकरणम् । ७ १०९ ईश्वरस्यैवात्मशब्दवाच्यत्वाधिकरणम् । ८ ૨૨૨ ११० प्राणविद्यायामनग्नतावुद्धेरेव विधेयत्वाधिकरणम् । ९ १११ शाण्डिल्यविद्ययाः समानताधिकरणम् । १० २९६ ११२ नाम्नोर्व्यवस्थाधिकरणम् ११ ११३ संभृत्यादीनामनुपसंहाराधिकरणम् । १२ ११४ पुरुषविद्याया विभिन्नताधिकरणम् । १३ २८४ AMERAISA (५) ११५ वेधादेविद्याङ्गत्वनिराकरणाधिकरणम् । १४ ११६ ज्ञानिनः कर्मणां हान्युपायनाधिकरणम् । १५ ११७ उपासकानां कर्मत्यागव्यवस्थाधिकरणम् १६ ११८ उपासनया ब्रह्मलोकगन्तॄणामेव मार्गव्यवस्था- ऽधिकरणत् । १७ ३०७ ११९ सर्वास्वेवोपासनासु मार्गकल्पनाधिकरणम् । १८ ३०७ १२० तत्त्वज्ञानिनां मुक्तिनैयत्त्याधिकरणम् । १९ १२१ निषेधोपसंहाराधिकरणम् २० १२२ मन्त्रद्वयस्य विद्यैकताधिकरणम् । २१ १२३ उषस्तकहोलब्राह्मणयोर्विद्यैकताधिकरणम् । २२ १२४ देहादित्यमण्डलवयुपासनायाविद्याभेदाधिकरणम् । २३ ३१३ १२५ सत्यविद्याधिकरणम् । २४ १२६ दहरहार्दाकाशयोरुपसंहाराधिकरणम् । २५ १२७ उपवासे प्राणाहुतिलोपाधिकरणम् । २६ १२८ अङ्गावबद्धोपास्त्यनैयत्याधिकरणम् । २७ १२९ वायुप्राणोपासनयोः प्रयोजनभेदाधिकरणम् । २८ १३० मनश्चिदादीनां स्वतन्त्रताधिकरणम्। २९ १३१ आत्मनो देहातिरिक्तत्वाधिकरणम् । ३० ३२६ १३२ उक्थादिधियोः शाखान्तरेग्नुवृत्त्यधिकरणम् । ३१ ३२७ १३३ वैश्वानरविद्यायां समस्तोपासनाधिकरणम् । ३२ १३४ शाण्डिल्यादिविद्यानां भिन्नताधिकरणम् । ३३ १३५ अहमहविद्यायां विकल्पनियमाधिकरणम् । ३४ ३२९ १३६ लौकिकप्रतीकेषु याथाकाम्याधिकरणम् । ३५ १३७ कर्माङ्गप्रतीकेषु याथाकाम्याधिकरणम् । ३६ १३८ आत्मज्ञानस्य स्वतन्त्रताधिकरणम् । १ पा० ४ १३९ संन्यासिन एव ब्रह्मनिष्ठताधिकरणम् । २ ३४० १४० रसतमत्वादीनां ध्येयत्वाधिकरणम् । ३ १४१ उपनिषदाख्यानस्य विद्यास्तुत्यर्थताधिकरणम् । ४ १४२ ब्रह्मात्मैक्यज्ञानस्य कर्मानपेक्षताधिकरणम् । ५ १४३ ब्रह्मात्मैक्यशानोत्पत्तौ यज्ञशमदमादिकर्मापेक्षाधिकरणम्६३४५ १४४ आपदि सर्वान्नभोजनानुज्ञाधिकरणम् । ७ (६) १४५ यशादीनामाश्रमविद्योभयहेतुत्वाधिकरणम् । ८ १४६ अनाश्रमिणोऽपि ब्रह्मज्ञानाधिकाराधिकरणम् । ९ १४७ आश्रमाणामवरोहनिराकरणाधिकरणम् । १० ३५२ १४८ ऊर्ध्वरेतसः पातित्ये प्रायश्चित्ताधिकरणम् । ११ १४९ भ्रष्टस्य कृतप्रायश्चित्तस्याप्यव्यवहार्यताधिकरणम् । १२ ३५४ १५० ऋत्विकृताङ्गध्यानस्य स्वामिगामित्वाधिकरणम् । १३ ३५५ १५१ निदिध्यासनस्य विधेयत्वाधिकरणम् । १४ १५२ भावशुद्धेरेव बाल्यशब्दाभिधेयताधिकरणम् । १५ १५३ आत्मज्ञानस्यैहिकामुष्मिकत्वब्यवस्थाधिकरणम् । १६ ३५९ १५४ मुक्तेरेकविधत्वाधिकरणम् । १७ १५५ श्रवणमननादीनामावृत्त्यधिकरणम् । १ अ०४ पा. १ १५६ आत्मत्वेन ब्रह्मणो ग्रह्णाधिकरणम् । २ १५७ प्रतीकेऽहंदृष्टिनिरासाधिकरणम् । ३ १५८ उपास्ये ब्रह्मदृष्टयधिकरणम् । ४ १५९ अङ्गेष्वादित्यादिधीकरणाधिकरणम् । ५ ६६४ १६० उपासन आसनावश्यकताधिकरणम् । ६ १६१ उपासने दिगादिनियमनिराकरणाधिकरणम् । ७ १६२ उपासनानामामरणावर्तनाधिकरणम् । ८ १६३ ज्ञानिनां जीवत एव पापलेपनिराकरणाधिकरणम् ।९ १६४ ब्रह्मात्मैक्यज्ञानिनः पुण्यलेपनिराकरणाधिकरणम्। १० ३६८ १६५ ज्ञानादनारब्धपुण्यपापयोरेव निवृत्त्यधिकरणम् । ११ १६६ अग्निहोत्रादिनित्यकर्मणो नाशनिराकरणाऽधिकरणम्। १२३६९ १६७ नित्यकर्मणो विद्यासाधनताधिकरणम् । १३ १६८ अधिकारिणामेव मुक्तिनियत्यधिकरणम् । १४ १६९ वागादीनां मनसि वृत्तिलयाधिकरणम् । १पा०२ ३७३ १७० मनसः प्राणे लयाधिकरणम् । २ ३७४ १७१ प्राणानां जीवे लयाधिकरणम् । ३ १७२ उपासकाऽनुपासकयोरुत्क्रान्तिसामान्याधिकरणम् ४ १७३ उपासकस्य ब्रह्मणि स्वरूपेण लयनिराकरणाधिकरणम्। ५३७७ १७४ आत्मैक्यज्ञानिनः प्राणानां देहादनुत्क्रान्त्यधिकरणम् । ६ ३७८ १७५ तत्त्ववित्प्राणानां परमात्मन्येव लयाधिकरणम् । ७

(७)
१७६ तत्त्वविद्वागादिलयस्य निःशेषत्वाधिकरणम् । ८
१७७ उपासकस्योत्क्रान्तर्विशेषाधिकरणम् । ९
१७८ रात्रिमृतस्यापि रम्यनुसारित्वाधिकरणम् । १०
૨૨
१७९ उपासकस्य दक्षिणायनेऽपि विद्याफल लाभाधिकरणम्।११३८३
१८० अर्चिरादिकस्यैव ब्रह्मलोकमार्गताधिकरणम् । १ पा०३ ३८५
१८१ वायोः सन्निवेशाधिकरणम् । २
१८२ वरुणादिलोकानां व्यवस्थाधिकरणम् । ३
१८३ अर्चिरादीनामातिवाहिकत्वाधिकरणम् ।४
९८४ कार्यब्रह्मण एवोत्तरमार्गगम्यत्वाधिकरणम् । ५
१८५ प्रतीकोपासकानां ब्रह्मलोकगतिनिराकरणाधिकरणम्।६ ३९२
१८६ कैवल्यमुक्तेर्नवीनत्वनिराकरणाधिकरणम् । १ पा०४
१८७ मुक्तेर्ब्रह्मभिन्नतानिराकरणाधिकरणम् । २
१८८ सविशेषत्वादिव्यवस्थानिराकरणाधिकरणम् ।३
१८९ परलोकगोपासकस्य भोग्यवस्तुसृष्टौ संकल्पहेतुता-
धिकरणम् । ४
१९० देहभावाभावयोरैच्छिकताधिकरणम्।५
१९१ उपासकस्यानेकदेहेषु सात्मकत्वाधिकरणम्। ६ ३९८
१९२ शानिनो जगत्त्रष्टुत्वनिराकरणाधिकरणम् । ७ ४००
इत्यधिकरणसूचीपत्रम् )
RAMERENT
indemotesamaya

No text on this page.

FARRURAMMerowavimignal SafalAveranMERICA (अस्यामेषां ग्रन्थानां वाक्यानि विचारितानि) १ ईशावास्योपनिषत् शु. यजुः २ केनोपनिषत् सामवेद- ३ कठोपनिषत् कृष्णय- ४ प्रश्नोपनिषत् अथर्ववे- ५ मुण्डकोपनि अथर्ववे- ६ माण्डूक्योपनि. अथर्ववे- ७ऐतरेयोपनि. ऋग्वे- ८ तैत्तिरीयोपनि. कृष्णयजुः ९ छांदाग्योपनि. सामवे १० वृहदारण्योपनिष. शुक्लय- ११. श्वेताश्वतरोपनि. कृष्णोपनि १२ कौषीतक्युपनि. ब्राह्मण ऋग्वेद १३ कैवल्योपनि. क्ल. य. १४ जावालोपनिषत् शुक्लयजुः १५ काण्वशाखा अग्निरहस्यब्राह्मण शुक्लय- १६ ताण्डिशाखा १७ शाट्यायनिशाखा शुक्लयजुः १८ पैङ्गीरहस्यब्राह्मणशुक्लयजुः १९ भगवद्गीतास्मृतिः २० मनुस्मृतिः २१ कपिलस्मृतिः २२ योगस्मृतिः २३ करणादगौत्तमस्मृतिः २४ बौद्धादिस्मृतिः २५ पुराणानि २६ इतिहासाः २७ सर्वोपासकग्रन्थाः २८ सर्वमतभेदाः २९ सर्वतन्त्राणि ३० सर्ववैदिकसूत्राणि ३१ आर्षसूत्रविषयाः FOR

No text on this page.

NRNA (वेदान्तदर्शनस्य) शुद्धयशुद्धिपत्रम् । पृ० पतिः २४ ११ २८ २ ૨ ૨ ४२ ७३ शुद्धम् १ चतुर्भिः २ दिदर्शयिषुः ३ त्वेकदेशिमतम् ४ ब्रह्मेत्यत्रेत्यानन्द ५ नखान ६ रातेतुः ७ मन्वायत्ता ८ मन्वायत्ता ९ अमृतमभय १० केवलमिन्द्रियावि ११ सुतेजा १२ समाहिते १३ विधरण एषां १४ नाहं १५ मृतमभय १६ तदेतदिति १७ शोधिततत्त्व १८ विग्रहवर्ती १९ नसृजता २० अवशिष्टं २१ स्थूलशरीरा २२ उत्तरमाह २३ आम्नानात् अशुद्धम् चतुर्भि दिदर्शयिषु त्वेकदशिमतम् ब्रह्मेत्यत्रत्पानन्द मूनस्नान रातेातुः मन्वायता मन्वायता अमृतभय केवलमन्द्रियावि सुतजा सामाहिते विधारण एषां नाह मृतमय तदतदिति शोधितत्त्व विग्रहवती नसृज्यता अवथिष्ट स्थूलशरारीरा उत्तमाह आम्नात् ६ ३ ९९ १०१ १०५ ४ द ६ १ २ FARMEROYIYETHNIHINDIAN (२) १४८ ७ ९६८ १२ १६८ १६९ १७४ ३ ३ M २४ मैत्रेयीब्राह्मण २५ नवाह्यान् २६ राम्नानाद् २७ यत्किञ्चित् २८ इत्यादिना २९ संहर्तृत्वं ३० शारीरात् ३१ दध्याकारण ३२ वैषम्यनैघृण्य ३३ साम्यावस्था ३४ विपर्ययोदर्शनात् ३५ जगत्कारणस्य ३६ मोहमपीपिपत् ३७ जीवस्यांश ३८ ग्राह्यत्याज्यभेदः ३९ तथा प्राणाः ४० तथा प्राणा इति ४१ विश्वेश्वरदर्शन ४२ इत्यादिदोषा ४३ वदन् ४४ भेदनिर्देशेन ४५ रूपमभवन् ४६ त्रिवृदेकैका ४७ प्रवाहणाख्य ४८ धुलोकाख्य ४९ इष्टादिकारिण ५० तद्व्यापारादवि ५१ तदंशो ५२ क्लेशैः ५३ तस्मात् ५४ अनाम्नानात् मैत्रेयीब्रह्मण नावाह्यान् रास्नाद् यत्कञ्चित् इत्यादिन संहर्तृत्वं शरीरात् दध्याकरण वैषम्यनघण्य साम्यवस्था विपर्ययोऽदर्शनात् जगजत्कारणस्य मोहमामीपदत् जीवस्पाश ग्राह्यत्याजाभेदः तथा प्राणः तथा प्राण इति विश्वेरदर्शन इयदिदोषा वदद् भेदनिर्दशेन रूप भवन् वृत्रिदेकैका प्रवाहाणख्य ह्युलोकाख्य इष्टाकारिरिण तयादारादवि तदशो क्लैशैः तस्मत् अनास्नात् ૨૨૪ २२७ ૨૨૭ ६ ४ २३२ ૨ २३३ २३८ २४१ ११ २४४ २४६ ९ २५१ ५ २५३ ६ २६२ १४ २६३ २६७ २९९ १० १ १ (३) ५५ तद्धिलिङ्ग ५६ अध्ययनं १ ३४६ १२ तद्धिलिङ्ग अध्यापनं चै जुह्वाति जुहोति शारीरासनानां पूर्वमारब्ध भ्रूमेः निष्कामतो अनन्तरम् गतिर्न मुक्तमुमजीव्य जगत्रातृत्वादि ५८ जुहोति ५९ जुहोति ६० शरीरासनानां ६१ पूर्वमनारब्ध ६२ ब्रमः ६३ निष्कमतो ६४ अनन्तरं ६५ गतिर्न ६६ मुक्तमुपजीव्य ६७ जगत्त्रष्टुत्वादि ९ ३७१ २ ९ इति।

No text on this page.

ॐ नमो नारायणाय । कुतर्कदग्धचिकित्सा। नाम वेदान्तदर्शनभूमिका। श्रीप्रज्ञानानन्दसरस्वतीस्वामिसंकलिता। प्रपञ्चोपशमायाऽस्मै सच्चिदानन्दमूर्तये ॥ गुरुवे शान्तरजसे नमः परदयालवे ॥१॥ प्रथमतो वादिनिर्मितग्रन्थनिरुक्त्यनुपपत्तिः । तथाहि । अद्वैत- स्यात्मत्वात्तद्भिन्नस्य द्वैतस्य पारमार्थिकसत्ताशून्यत्वाद् वस्तुपरि- च्छेदासंभवाच अज्ञानतत्कार्यवाङ्मनआधभावाच्च, यत्र त्वस्य सर्व- मात्मेवाभूत् तत्र केन कं पश्येदित्यादिश्रुतिविरोधाच्च, न निरोधो न चोत्पत्तिरिति श्रुतेश्च शुद्ध अद्वये सच्चिदानन्दघने वादोऽनुपपन्न एव । तत्रापि खण्डनन्तु सुतरां हास्यास्पदद्मनुपपन्नञ्च । किञ्चाद्वैत- स्यात्मत्वादापे स्वस्य खण्डनानुपपत्तिरेव । यः सर्वेषां खण्डयिता साक्षी विभुरेको बाधद्रष्टा स केन बाधयितुं शक्यः । न हि सर्वस्य खण्डनकर्ता ज्ञानस्वरूपः साक्षी केनापि खण्डयितुं शक्यः । साक्षि- त्वादेव । तथाचायं प्रयोगः। सर्व द्वैतं तज्ज्ञेयं, सच्चिदात्मस्वरूपभास्य- त्वात् । स्वप्नज्ञेयवदिति । किञ्च, ब्रह्मैवेदं सर्वमात्मैवेदं सर्व, पुरुष एवेदं सर्व, चैतन्यस्यैकरूपत्वाद् भेदो युक्तो न कर्हिचित्, वासुदेवः सर्व- मिति, सच त्यञ्चाहमर्जुन, क्षेत्रज्ञं चापि मां विद्धि, तदनन्यत्वमारम्भण- शब्दादिभ्यः, आत्मेति तूपगच्छन्ति ग्राहयन्ति च, आत्मनि चैवं विचित्राश्च हि, भेदः सर्वत्र मिथ्यैव धर्मादेरनिरूपणादित्यादिश्रुति- स्मृतिसूत्रभाष्यवार्तिकपुराणानुभवविरोधादपि द्वैतं न पारमार्थिक- म् । वादानुपपत्तिश्च ॥ किं वा अद्वैते ये वादाःकुतर्कदुराग्रहरूपाः,न ते वस्तुतो विरोध- मावहन्ति । स्वकपोलकल्पितत्त्वात् संप्रदायबहिर्भूतत्वाच्च शिष्टा- ऽग्राह्यत्वाञ्चोपेक्षणीयाः। तथाचोक्तं वेदव्यासेन अपरिग्रहाच्चात्यन्त- मनपेक्षा । श्रुतिस्मृतियुक्तिशिष्टमन्वादिभिः केनाप्यंशेन द्वैतसत्य- FINTunsagarta SMARATHtrika कुतर्कदग्धचिकित्सासमाख्या त्वाऽनङ्गोकारात् । परमाणुकारणवादाः प्रधानादिद्वैतसत्यवादाः प्र, लापवदुपेक्षणीया मुमुक्षुभिः ॥ किञ्च, अद्वैतवादो नाम जीवब्रह्मणोर्वास्तवैक्यं, जगञ्चापि ब्रह्मै- वाऽखण्ड, नान्यदिति सर्वोपनिषत्लिद्धान्तः। स सत्संप्रदायाज्ज्ञात्वा खण्ड्यते चेत्, तदा खण्डनानुपपत्तिः ।शाते द्वैतं न विद्यत इति स्व- रूपत्वादेव न सम्भवति ॥ उपनिषत्पदव्युत्पत्त्यापि, खण्डनानुपपत्तिः । उपनिपूर्वकषद्ल विशरणगत्यवसादनेविति धातोः क्विपि सत्युपनिषत्पदं भवति । सामीप्यतया निश्चयेन, वारतवैक्यं ब्रह्मतत्त्वमखण्ड भेदवर्जितं बोध- यति जिज्ञासुमित्युपनिषद्, रागादीन् शिथिलयति सर्वदुःखं नाशयति च ब्रह्मविद्योपनिषत् ॥ किञ्च दैतं सर्वस्य ज्ञातमेवाऽहं जन्ममरणवान्, मत्त ईश्वरः पृथक, जगत्सत्यमनादि चमूढाजानन्त्येव । तथाच द्वैतमेव बोधयेञ्चेद् वेदस्ता ज्ञातत्वादेव उपेक्षा स्यात्। अपूर्वत्वाऽभावाच। तस्मादद्वैत- मेव बोधयति । तथाचोक, प्रत्यक्षाद्यनवगतं श्रुत्या प्रतिपादनीय- मद्धतम् । द्वैतं न प्रतिपाधं, तस्य स्वयमेव लोकसिद्धत्वादिति ।। संप्रदायाऽभावेन खण्डयतिवेत्तर्हि सुतरां खण्डनस्यानुपप- तिः । जहि यस्य तत्त्वं ज्ञायतेऽज्ञायते वा तत् खण्डयितुं शक्यते। तत्वाज्ञानात् सत्खण्डनाऽनुपपत्तिः । योयं न जानाति, तं कथं खण्ड- यितुं समर्थः । स्वकपोलकल्पनया खण्डनं तु विदुषां समक्षे हास्या- स्पदं प्रलापत्यादुपेक्षणीयश्चेति । न हि प्रमां विना खण्डने मण्डने वा प्रवृत्तिः संभवति ॥ किञ्च, द्वैतस्य साधकं वा, अद्वैतं ब्रह्म । आधे आत्माश्रयादि । द्वितीचे स्वाविरुद्धस्य साधकं स्वं कथं भवेत् ! !। न च चण्डभानु- स्तमसि मानं भवितुमर्हति । यत्सत्त्वे यदभावस्य नियतत्वं विरोधि तत् । भानुसत्त्वे तमःसत्त्वं केन दृष्टं क्षितौ वद । प्रत्यक्षादीनि प्रमा- णानि द्वैते सन्तीति चेद्, मानानि केन सिध्यन्ति।मानान्तरपरिग्रहे- ऽनवस्थादयो दोषाः स्युः । अप्रमाणं द्वैतं भ्रम एव । स्वतः सिद्धत्वे, चित्त्वे च आत्मन एव नामान्तरम् । अनुभूतिस्तु न प्रमाणप्रयोजिका। मेयस्यापि च मानत्वं भवेत्तथा सति ॥ येन रूपेण यज्ज्ञानं तत्तथेति विनिश्चयः।

वेदान्तदर्शनभूमिका। ! कर्तुं न शक्यते काऽपि रज्जुः सर्पायते न हि ॥ मेयसिचै च मानत्वं मानसि च मेयता। अन्योन्याश्रयदोषेण न लिखेदुभयं तव ॥ मानाभावादद्वयस्य न सिद्धिरिति चेत्तदा । पुत्राऽभावान सिद्धिः स्याद् बन्ध्याया अपि ते मते ॥ पुनाभावः स्वरूपं चेन्मानाभावोऽपि तस्य तत् । शून्यवादप्रसङ्गश्वेच्छून्यं द्वैतस्य मे मतम् ॥ प्रमाणाभावतो द्वैतं शून्यमेव समाविशेत् । नाद्वैतशून्यता सा तु भवेन्मानाद्यसंभवे ॥ यदन्यस्य प्रमाणानि न सहेत कथं तु तत् । स्वस्मिन् सहेत मानानि विवस्वानिव तत्तमः॥ तस्मात्तूष्णीं तिष्ठ वत्स ! तदेवाऽतमिष्यत, इति । ब्रह्माऽभेदाभ जीवस्य भेदोऽस्ति जगता लह । सुपर्णऋतपानाख्यश्रुतिभ्यां भेद उच्यते ॥ इतिचेद्, ब्रूहि कस्त्वं भोजोवो ब्रह्माऽथवेश्वरः । जीवश्चदीश्वराद्भिन्नो ब्रह्मणो वाऽथ मे वद ॥ भिनश्चेदीश्वराद बेहि, को भेदे हेतुरसा। सर्वशत्वादयो धर्मा ऐश्वरा मयि नेति चेत् ॥ सर्वज्ञ ईश्वर इति ब्रुवता ज्ञात एव हि। प्रातिस्विकं न जानामीति चेच्छदार्थविद् भवान् ॥ न वा आद्येऽथ यत् किश्चिद् वकि जानाति तद् भवान् ॥ किञ्च, अभिन्ने भेदशून्ये वस्तुनि शुद्ध सच्चिदानन्दरूपे प्रतीतः प्रतिभातो भेदः स्वप्रतियोगिकान्योन्याभाचो मृशा मिथ्या स्यात् । यथा चन्द्रनानात्मता, चन्द्रव्यक्त्यनेकता, अभिने चन्द्रे प्रतीता वृषा। यथा चन्द्रैकत्वबुद्धिर्द्धित्वबाधरूपा तथा सामानाधिकरण्यबुद्धि- रण्यैक्यांशे भेदबाधरूपैव ।भेदाभेदयोरविरोधकल्पने, चन्द्रेऽपि तथा कल्पनाप्रसङ्गात् । वस्तुनि विकल्पाऽयोगस्तु प्रकृतेऽपि समानः॥ अयं प्रयोगः-सामानाधिकरण्यप्रत्ययगोचरो भेदो मिथ्या। आभिन्ने प्रती. तत्वात् । चन्द्रभेद्वत् । ननु वैपरीत्यमेव किं न स्यात् । उक्त प्रत्यय- गोचरोऽभेदो मिथ्या । भिन्ने प्रतीतत्वात् । दूरस्थवृक्षद्वयप्रतिभास- मानाऽभवत् भवताऽप्यात्मनि प्रतिभासमानस्यान्तःकरणदेहेन्द्रिया- AHMEDIANE ४ कुतर्कदग्धचिकित्सासमाख्या धैक्यस्य तथात्वाभ्युपगमादितिचेन्न । भवत्वेवं, तथापि कुण्डला- दौ कनकात् पृथक्सत्ताऽदर्शनात् सत्कनकाऽभेदबाधस्य तेष्व- ऽसत्त्वापादकत्वेन, फलतो विशेषाऽभावात् । दूरस्थवृक्षादिवद् भिन्ने वस्तुनि प्रतीतोऽभेद ऐक्यञ्च मृषैव । स च प्रकृते मृषा भवन् कुण्ड- लादिकं सत्त्वात् प्रच्याव्य मृषात्वे स्थापयिष्यति । अभ्युपेत्यापि भेदप्रतिभासस्याभेदबाधकत्वमुक्तम् । विशेषस्य प्रागुक्तत्वात् । उभ- यथापि वास्तवं कनकैक्यमव्याहतमेव । उक्तहेत्वोरन्यतरमृषात्वे-- लक्षणात् । कनकादिवस्तुनः, स्वतो भेदो न प्रभवत्यनृतभेदस्यैक्या ऽविघातित्वात् । नन्वेवं सामानाधिकरण्यप्रत्ययगोचरभेदाऽभेदयो- रेकतरविरोधादन्यतरमृषात्वमिव सत्प्रतिपक्षन्यायेन परस्परपराह- तत्वादुभयमृवात्वमेव किं नस्यात् । तथाच सर्वप्रपञ्चे प्रतिभासमान- स्य सदभेदस्यापि मृषात्वापत्तौ शून्यवादप्रसङ्ग इतिचेन्न । भवत्वेवं तथापि कुण्डलाद्यनृतविकारसापेक्षभेदाऽभेदयोzषात्वेऽपि, निरपेक्ष- वास्तवकनकैक्याऽक्षतेः । ततस्त्वदुक्तसापेक्षभेदाभेदोभयमृषा- त्वात् । स्वतः सिद्धनिरपेक्षवस्तुनः परमार्थसद्रूपस्य भेदोऽसत्त्वं न भवति । तथाविधसर्पभेदाभेदोभयबाधोऽपि, रज्ज्वादिस्वरूपाऽविधा- तदर्शनात् । ननु स्वतोऽभिन्नमपि कनकादिवस्तु, कटकत्वकुण्डल- त्वादिधर्मभेदाद् भिद्यताम् । यथाऽभिन्नोऽपि पुरुषो दण्डी कुण्डली स्रग्वीत्यादिविशेषणभेदाद् भिद्यते । केवले तस्मिन् विशेषणा- न्तरवति च, नायं दण्डीति भेददर्शनात् । स्वात्ममात्रनिरूपिताऽभेद- स्य चाऽन्यप्रयुक्तभेदाऽविरोधित्वेन बाधकाऽभावान्मिथ्यात्वाऽसिद्धे- रितिचेन्न । उक्तधमैः कनकादिधर्मिणि तदा भेदः प्रसिद्ध्येद्, यदि तेषां धर्माणां दण्डकुण्डलादिविशेषणानामिव, धर्मिणः कनकादेः सकाशाद्, भिदा प्रमाणसिद्धा भवति । न तु तथा । तेषु कनकाद्य- ऽभेदस्यैव त्वयैवोच्यमानत्वात्।ननु तर्हि कटकत्वादिजातयः कनका- दत्यन्तभिन्ना एव, तत्समवेताश्च सन्त्विति वैशेषिकाद्या मन्यन्ते इतिचेन्न । यस्माल्लोके गवावादीनां भेदे सति, चन्द्रादिस्वरूपस्या- ऽभेदेपि वा सति, गौरश्वधर्मोऽश्वो गोधर्म इति गवाश्वौ परस्परस्य धर्मिणाविति वा, चन्द्रश्चन्द्रधर्मश्चन्द्रधर्मीति वा, धर्मधर्मिव्यवस्था, धर्मधर्मिव्यवहारः, तद्भावेन स्थितिर्वा नपरिचिता, न क्वचिदपि दृष्टा । तथाच धर्मधर्मित्वमपि विमर्श प्रमाणाऽगोचरत्वात् प्रति.

वेदान्तदर्शनभूमिका । । योग्यनुयोगिधर्मधर्मिनिरूपणाऽशक्यत्वाद्, भेदवन्मृषैवेति धर्माणां भेदकत्वं दुरापास्तम्॥ किञ्च, भिन्नैर्धमैर्धर्मिण्यन्यो भेद उत्पाद्यते, उत स्वनिष्ठ एवा ऽऽसज्ज्यते । नाद्यः। यत् कनकादि वस्तु स्वतोऽभिन्नं भेदरहितं, तत् परतः स्वाऽतिरिक्तकटककुण्डलत्वादि धर्मता भेदं भजत इति भेदभाग् न भवति, परोत्पाद्यभेदाधिकरणं न भवतीति यावत् । उत्प- नेन भेदेन स्वाभाविकाऽभेदोपमर्दे कुण्डलादेरकनकत्वप्रसङ्गादनुप- मर्दे चोत्पत्तुमेवाशक्यत्वात् । किञ्चाभिन्ने वस्तुनि लब्धात्मानौ धर्मों भेदं जनयेताम्, अलब्धात्मानौ वा, आत्मलाभसमकालमेव वा । आये अभिन्ने वस्तुनि विनापि भेदं यथोत्पत्तिं लभेते,एवं स्थितिमति लप्स्यते इति भेदजननवैयर्थ्यम् । उत्तरकल्पयोस्तु,अलब्धात्मधर्मयो- जनकत्वमेवाऽसंभवि । परेषां जन्यभेदाऽसंप्रतिपत्तिश्चेति दूषणद्वयं प्रसरतिद्वितीयेऽपि अन्यस्य भेदादन्यस्तदितरोन भिद्येत । सम्भाव- नायां लिङ् । एतन्न संभावितम् । न हि घटपटयोर्मेंदाद् देवदत्तादि भिद्यते।परभेदस्य परस्मिन्नध्यासमन्तरणाऽऽसञ्जयितुमशक्यत्वात् । अन्यथाऽभेदमात्रोच्छेदप्रसङ्गात् । एतेन दडी कुण्डली इत्यादिवि- भिन्नविशेषणानामप्यभिन्नपुरुषे भेदकत्वं न सम्भवतीति दर्शितम् । धर्माणां परस्परभेद एव न सिद्ध्यति । दूरे तेषां धर्मिभेदकत्वम् । अभिन्ने धर्मिणा सहाऽभेदाधर्माणामपि भेदो नोचित इति ते धर्मा भिन्नाः कथम् !! न कथञ्चिदिति ॥ स्वनिष्ठधर्मभेदादितिचेन्न । तत्राप्याऽऽक्षेपसाम्यादनवस्थापा- ताच्च । अथवा यदि धर्मभेदाधर्मी भिद्यत इति नियुक्तिकमेवाभ्युप- गच्छसि, तर्हि तथैव धर्म्यभेदाद् धर्माणामप्यभेद इति वैपरीत्यमेव किं नाऽभ्युपगच्छेः । धर्मधर्मिणोधमाणां च परस्परं भेदो मिथ्योति, किं वक्तव्यं, यद् घटपटादीनामपि परस्परभेद आश्रयादितत्त्वविमर्श तथैवेति । सर्वोऽपि भेदः, अभिन्नाश्रयो, भिन्नाश्रयो वानाद्यः।व्याघा- तात् । प्रतियोगितावच्छेदकसामानाधिकरण्यविरोधाच्च । द्वितीये भिन्नः स्वप्रतियोगिप्रतियोगिकाऽन्योन्याभावाऽनाश्रयो यस्य, स तथाविधोऽभ्युपगत इतिचेत्, तत्र पृच्छामः। निरूप्यमाणभेदाधि- करणस्य, व्यावर्तिका भिदा प्रतियोग्यन्यता निरूप्यमाणभेदेनैव, उत भेदान्तरण । आये तेन निरूप्यमाणभेदेनैवेतिचेत्तदा आत्माश्रयदोषः। LIVNISESAMEERTREAM ६ कुतर्कदग्धचिकित्सासमाख्या । स्वाधिकरणविशेषनिर्णये, स्वाधिकरणनिर्णयस्य हेतुत्वोक्तिपर्यव- सानात् । द्वितीयेऽपि तेनैवेति न, किन्तु भेदान्तरेणेतिचेत् तस्यापि भेदत्वात् । प्रतियोग्यन्यवृत्तित्वस्यावश्यवाच्यतया, पूर्वभेदेन तद- धिकरणस्य प्रतियोग्यन्यतोत्तो, अन्योन्याश्रयः । भेदयोः परस्परा- ऽधिकरणनिर्णये, परस्पराधिकरणनिर्णयस्य हेतुत्वोक्तिपर्यवसानात् । यदि तु तदधिकरणव्यावर्त्तनाय, तृतीयो भेदोऽभ्युपगम्येत, तदा- ऽप्यनवस्था । अथवा तद्भिदा दुर्निरूपा । आश्रयविशेषाऽनिरू- पणात् । भेद मात्रं तत्त्वतो निर्वक्तुमशक्यमतो मिथ्यैव ॥ किन धर्मिताऽवच्छेकविशिष्टधर्मिज्ञानस्य प्रतियोगिताऽवच्छेदकविशिष्ट- प्रतियोगिज्ञानस्य चाऽभावे भेदबुद्ध्यदर्शनाद् भेदज्ञानस्य तथा- विधधर्मिप्रतियोगिविषयकत्वनियमाञ्च तस्मिन् धर्मिप्रतियोगिज्ञानं कारणमिति, निर्विवादम् । तत्र तयोरैक्यशाने कुतो न भेदधीऐक्य- शानं विरोधीतिचेन्न । प्रत्येकमैक्यज्ञानस्याऽवर्जनीयतया, भेदबुद्धि- मात्रोच्छेदापत्तेः । भेदज्ञानात् प्राग् भेदाऽभावत्वतद्व्याप्यत्वादिना ऐक्योपस्थित्यसंभवेन विरोधित्वाऽसंभवाच्च । तस्मादगत्या भेद- शाने धर्मिप्रतियोगिनोर्मेंदज्ञानं हेतुरित्यवश्यं वाच्यम् । तत्रकारणी- भूतज्ञानगोचरो भेदो यदि ग्राह्यभेद एवोच्येत, तर्हि तज्ज्ञाने तज्ज्ञानं कारणमित्युक्तं स्यादित्यात्माश्रयदोषवारणायाऽन्यो वाच्यः तस्यापि भेदवदेव धादिभेदग्रहं विना ग्रहणायोगात् पूर्वभेदज्ञानस्याऽपेक्षणे- अन्योन्याश्रयप्रसङ्गादन्योऽन्यो भेदोवाच्यस्तथाचाऽनवस्थादुर्वारैव॥ अयं प्रसिद्धो भेदो, भिन्नौ यो धर्मिप्रतिभटौ आश्रयप्रतियोगिनौ तौ विषयौ यस्य तथाविधाज्ज्ञानाजातं यज्ज्ञानं, तेन वेद्यो ग्राह्यः। भेदशाने धर्मिप्रतियोगिभेदज्ञानं कारणमिति यावत् । तत्र धादेः, आदिपदात् प्रतियोगिनश्च परस्परभेदस्य सिद्धिर्ज्ञानं, पुनरपि पूर्व- भेदज्ञानवदेव, तथा धर्मिप्रतियोगिभेदज्ञानाधीना इत्येवंरीत्या अन- वस्था स्यात् । परावृत्तावन्योन्याश्रयचक्रकयोरापत्तिः ॥ किञ्च, भेदो धर्मिप्रतियोगिभ्यां भेदान्तराञ्चाऽभिन्नो, भिन्नो चा। आये वक्ष्यमाणाऽऽत्माश्रयादिदोषभयाद् भेदपदार्थे धादेः प्रति- योगिनो भेदान्तराञ्च सकाशादभेदे भेदाऽभावे पूर्वोक्तदोषाः । अथवा भेदशून्ये, तदनधिकरणे वा अभ्युपगम्यमाने, भेदबुद्धिर्भेदशानं, मृषा निर्विषया भवति । घटात् पटो भिन्नो भवति इति बुद्धभिन्न इत्यशे वेदान्तदर्शनभूमिका। , .. घटपटातिरिक्तविषयाऽनिरूपणात् ॥ किञ्च, प्रतियोग्यभेदे घटशून्यो घटभिन्नो न स्याद्, घटाभिन्नो वा घटशून्यो न स्याद्, घटभेदशून्यश्च घटोघटवान्न स्याद्, भेदप्रति- योगी च घटो न स्याद् । अभावविरहात्मत्वाऽभावात् । एवं धर्म्य- भेदेऽप्याधाराधेयभावो न स्यात् । घटभेदात्मकपटाद्याश्रयस्य, घटा- भिन्नत्वापत्तिरभावान्तराऽभेदे तत्तत्प्रतियोग्यवृत्तित्वप्रसङ्गे, निरा- श्रयत्वापत्तिः । परेषां भेदनिरूपणक्लेशवैफल्यदर्शनात् द्वितीयेपि भेदेऽधिकरणे धर्मिप्रतियोगिभ्यां विभेदेऽभ्युपगम्यमाने पूर्वदोषा आत्माश्रयादयः प्रादुःष्युः । तथाहि । भेदनिष्ठो धादिभेदः स्वय- मेवचेदात्माश्रपदोषापत्तिरभेदेआधाराधेयभावाऽयोगात् । पूर्वकल्पा- विशेषात् तदुक्तसर्वदोषापत्तिः।सोऽपि भेदो धर्मिप्रतियोगिभिन्नो- ऽवश्यं वाच्यः । तन्निष्ठधर्मिप्रतियोगिभेदः । तस्याऽधिकरणात्मकत्वे, आत्माश्रयापत्तेरन्यत्वेऽन्योऽन्याश्रयः।अन्यत्वे परावृत्तौ चक्रकापत्तेस्त- प्राप्यन्यस्तत्राप्यन्य इत्यनवस्था च। एवं द्वितीयादिभेदेषु पूर्वपूर्वभेदभे- दस्थापि। तेषु चोत्तरोत्तरभेदभेदस्य चान्यत्वाऽनन्यत्वादिनाऽऽत्माश्र- याऽन्योन्याश्रयचक्रकाऽनवस्था अपि प्रसञ्जनीयाः । एवमेव घटभेदे पटभेदस्तस्मिँश्च घटभेदश्चाऽऽश्रयाऽनतिरिक्तश्चेत् सर्वभेदानामैक्या- पत्तौ जगत एव तत्प्रतियोगितया, तदाश्रयत्वाऽयोगात् । निराश्रय- त्वात् सर्वप्रमाणाऽगोचरत्वे अलीकत्वापत्तिः । प्रतियोगिनामेव तदाश्रयत्वाऽभ्युपगमे च घटोऽपि घटभिन्नः, पटोऽपि पटभिन्नो, भेदो- ऽपि भेदभिन्नः स्यादिति, सर्व जगदव्यवस्थं मिथ्यैवाऽऽपद्येत । तयोराश्रयातिरिक्तत्वे चान्योन्याश्रयचक्रकाऽनवस्थाः। एवं कुड्यादि- भेदे, तयोः स्तम्भादिभेदस्तास्मन्कुड्यादिभेद इति, चक्रकाऽनवस्थाः। तथा घटे घटभेदभेदस्तद्भेदस्तद्भेद इत्यनवस्था मूलक्षयकरी ॥ एवमभावाऽधिकरणकाऽभावान्तरस्याश्रयाऽभेदेऽत्यन्ताभावेऽपि न्यायसाम्यादैक्यापत्त्या, तस्य प्रतियोग्यधिकरणावृत्तित्वे निराश्रय- त्वापत्तिस्तवृत्तित्वे तु जगन्मात्रस्य स्वाऽधिकरणनिष्ठाऽत्यन्ता- भावप्रतियोगित्वेन मिथ्यात्वापत्तावस्मदभिलषितसिद्धिराश्रयाद् भेदे स्वऽनवस्थाद्यापत्तिः॥ ननु घटभेदे घटभेद इत्यऽभेदेऽप्याधाराधेयभावः, प्रामाणिक- प्रतीतिबलादभ्युपगम्यते।घटे घटभेदभेदस्त दस्तभेदइत्यनवस्था- , कुतकदग्धचिकित्सासमाख्या ऽपि प्रामाणिकत्वान्नदोषायेत्यादि परेषां कुशकाशावलम्बनेन परिहार निरस्यति । अपरा त्वदभ्युपगमलक्षणा गतिरुपपत्तिः प्रतीतेः प्रामा- णिकत्वनिर्वाहिका न भवति घटो घटवानिति घटान्तराऽनधिकरण- घटविषयकप्रतीतेरपि प्रामाण्यापत्तेः । यदि तु तादृशघटस्यापि घटात्यन्ताभावाऽधिकरणत्वात्तदभाववति तद्वगाहित्वात्साअप्रमा तर्हि प्रकृते तुल्यम् । प्रतीयमाना अप्यन्ये भेदा नाऽभ्युपगम्यन्ते चेदाद्योऽपि तथास्तु, साधकबाधकयोः साम्यात् । तेन सर्वोऽपि भेदो मृषैव । मिथ्याभूतस्य तु दोषाऽऽकरत्वं भूषणम् ॥ एवं भेदस्याऽधिकरणेन सह सम्बन्धस्य दुर्निरूपत्वादपि निर- वच्छिन्नस्वसम्बन्धाभाववति प्रतीयमानत्वरूपमिथ्यात्वलक्षणाक्रान्त- त्वाद् मिथ्यात्वम्।भेदाधिकरणत्वेनाऽभिमते भूतलादिद्रव्ये गुणादीनां विमर्श द्रव्याऽनतिरेकात् तेभ्यो द्रव्यस्य प्राधान्याञ्च । वस्तु- मात्रोपलक्षणत्वेन द्रव्यनिर्देशः । वस्तुमात्रे भेदस्यान्योन्याभावमात्र- स्य आधारतानियामको योगः सम्बन्धो भावरूपोऽभावरूपो वा । आये तत्र भावस्वरूपस्तावन्न भवति । सम्बन्धो हि सम्बन्धिभ्यां भिन्नस्तावाश्रितश्चेति सम्बन्धलक्षणाक्रान्तस्यैव तस्यावश्यं वक्तव्य- तया, अधिकरणवत् तस्याप्यभावेन सह सम्बन्धान्तरविकल्पने- ऽनवस्थानादसिद्धेः । सम्बन्धाऽयोग्यत्वोपपादनाय भेदंविशिनष्टि- चेद् निरूपाख्यस्य, निर्गता धर्मिप्रतियोगिव्यावर्तकधर्मव्यतिरेकेण उपाख्या, शब्दप्रत्ययप्रवृत्तिनिमित्तधर्मो यस्य, स्वतोऽध्यासतो वा । व्यावर्तकसर्वधर्मशून्यस्य अभावादेव धर्माधारत्वस्याध्यासाधिष्ठान- त्वस्य चाऽयोगात् । नच तेजोऽभावेऽन्धकारे, नैल्यचलनाद्यारोपो दृश्यत एवेति, नायं नियम इति वाच्यम् । अन्धकारस्यापि द्रव्या- ऽन्तरत्वात् । नचैवं सति तत्साक्षात्कारे आलोकसंयोगापेक्षापत्तिः। पेचकादीनां द्रव्यचाक्षुषे ह्यस्मदादीनामालोकचाक्षुषे चाऽऽलोक- संयोगाऽपेक्षाविरहेण तस्याऽसार्वत्रिकत्वात् । न चावश्यकतेजो- भावेनैव निर्वाहः।अबाधितनैल्यचलनतारतम्यसंख्यापरिमाणसंयोग- विभागपृथक्त्वपरत्वापरत्वसंस्कारे जात्यादिगोचरसर्वानुभवसिद्ध- प्रत्यक्षाणां स्वतः संवादतश्च निश्चितप्रामाण्यानां निर्वाहकत्वादा- वश्यकेन तमोद्रव्येणैव निर्वाहे तेजोऽभावस्यैव काममपलापापत्तेः । नचावयवादिकल्पनादिगौरवम् । अवयवानामप्यनुभवसिद्धत्वात ।

वेदान्तदर्शनभूमिका । ९ १ परमाणूनां च पृथिव्यादिष्वपि निरस्तत्वेन, काप्यकल्पनीयत्वात् । अन्यथा तुल्यन्यायेन शीतोष्णस्पर्शयोरन्यतराभावेनवोपपत्तेरेकस्या- ऽनुष्णाशीतस्पर्शस्य चापलापापत्तेः। नच पृथिवीवायोरुभयाभावा- नुभवविरोधः। तप्यमानोदके कदाचिदुभयाभाववदुपपत्तेः । किञ्च प्रौढप्रकाशतेजःसंसर्गाभावस्यैवान्धकारत्वे, घटे घटान्तराऽभाववत् प्रौढप्रकाशकतेजस्यपि तदभावसत्त्वात् सूर्येऽप्यन्धकारव्यवहारा- पत्तिः । तेजोगतगुणक्रियादिषु तेजःसंयुक्तघटादिसर्वद्रव्यनिष्ठगुण- क्रियादिषु चान्धकारप्रत्ययापत्तिः। तत्र प्रौढप्रकाशकतया यावत्तेजः- संसर्गाभावस्य सदैव सुलभत्वादिति. यत्किञ्चिदेतत् । द्वितीयेऽपि अभावश्च प्रकृतभेद एवेतिपक्षस्थाऽग्रिमस्वरूपपक्षान्तर्भावात्तव्याव- तनायान्य इति प्रकृतभेदातिरिक्तोऽभावो भेदतदधिकरणयोर्योगो न कुतः ? समत्वात् । तस्यापि निरुपाख्यत्वेन, भेदतुल्यत्वादधिकरणेन च सह संबन्धाऽयोगात्। एतेन विशेषणता पदार्थान्तरमिति नवीन- तार्किकप्रलापो निरस्तः। तस्य भावाभावान्यतरान्तर्भावस्यावश्य- वाच्यत्वात् । विशेषणताख्यः स्वरूपलम्बन्धविशेष इति जरत्ता- किंकप्रलापमपि निरस्यति । स्वरूपसम्बन्ध इत्यस्य स्वरूपमेव सम्ब- न्ध इत्यर्थो वा स्वरूपयोः सम्बन्ध इति वा ? । आद्येऽपि तत्तद- धिकरणस्वरूपं भेदस्वरूपमुभयस्वरूपं वा, न त्रितयमपि । कुतः । अनुभयमिलनात् । उभ्याभ्यां सम्बन्धिभ्यां मिलनं सम्बन्ध, उभय- मिलनं,तभावात्, एकैकस्वरूपस्योभयाऽसम्बद्धत्वादुभयस्वरूप- स्याप्यसम्बद्धस्यान्यसाधारणत्वादुभयाश्रितत्वाऽभावादनेकत्वाच्च । तेषां सम्बन्धत्वाऽयोगात् । द्वितीयेऽपि, तयोर्मेदतदधिकरणयोर्भा. वाभावाभ्यामतिरिक्तं किमपि सम्बन्धरूपं नास्ति । तदुभयभिन्न- स्यालीकत्वात् । तेनोक्तदोषगणेन, सम्बन्धस्याभावो निःसम्बन्धम्। अर्थाभावेऽव्ययीभावस्याऽद्रुतायामसहितं, रक्षोहागमलध्वसन्देहाः प्रयोजनमित्युभयथापि महाभाष्ये प्रयोगेण तत्पुरुषेण सह विक- ल्पनाद् अव्ययीभावस्तत्पुरुषो वा । अव्ययीभावपक्षे, तृतीयालप्तम्यो- बहुलमिति बहुलग्रहणात् सप्तम्या अम्भावो न । सम्बन्धाभावे- ऽपि प्रतीतोऽर्थः, प्रतीयमानो भेदो मृषैव । यथा रजतसम्बन्धशून्या- यां शुक्तौ प्रतीयमानत्वाद्रजतं मृषा, तद्वद् भेदोऽपि मृषा । अत्र निः- सम्बन्धेऽपि तत्र प्रतीयमानत्वं मिथ्यात्वामिति लक्षणप्रदर्शनेन स- , ૨ । १० कुतर्कदग्धचिकित्सासमाख्या म्बन्धविमर्श, गुणगुणिनोः क्रियाक्रियावतोर्जातिव्यक्त्योरवयवा- ऽवयविनोविशिष्टकेवलयोरुपादानोपादेययोराधाराधेयप्रभृतीनां च सम्बन्धस्य, भिन्नाऽभिन्नत्वादिना दुर्निरूपत्वात् , सर्वप्रपञ्चस्य मृषा- त्वे, असङ्गोदासीनमद्वितीयकूटस्थचिन्मात्रवस्त्वेष परमार्थसत्यं शिष्यत इतिवेदान्तपरमसिद्धान्तरहस्यं सूचिततत्त्वदृशां महात्मनां, न तु कुतार्किकाणां पामराणाम् ॥ ननु प्रमाणजन्यप्रतीतिरेव वस्तुतत्त्वसाधिका। सा च घटपटा- दीनां भेदं ग्राहयति । नच प्रामाणिकोऽर्थो युक्तिसहस्रेणापलपितुं शक्यःायुक्तीनामपि प्रमाणाऽधीनत्वेनोपजीव्यप्रमाणविरोधे, आभास- त्वौचित्यात् । उपपत्तिरहितानामपि पक्षिमत्स्यादर्निरालम्बनगमन- निरुच्छ्वासजीवनादीनां प्रत्यक्षसिद्धानामप्रत्याख्येयत्वादितिचेन्न । भेदस्यापिप्रमाणानि विमृश्य निराचष्टे । तथाहि । तत्र भेदस्याऽऽघ- प्रमाणगम्यतां निरस्यति। चक्षुरादीन्द्रियाणां भेदो गोचरो विषयो न भवति । कुतः। संयोगादायनयप्रसिद्धस्य संयोगसंयुक्तसमवाया. देः, भाट्टाऽभिमतसंयुक्ततादात्म्यादेश्च संनिकर्षस्य, निरुपाख्ये त- स्मिन्नयोगात् । नच विशेषणतासंनिकर्षोऽस्ति । तस्याः सम्बन्ध- निरासेनैव, निरस्तत्वात् । तस्मान्न भिदा भेदः प्रत्यक्षस्यगोचरः, नाप्यनुमानस्य । तथाहि। अधिकरणविशेषेणाऽसङ्गताया असम्बद्धाया भिदाया इति विभक्तिपरिणामेन, सम्बन्धः, सामानोक्तिर्वा व्याप्ति- रव्यभिचरितसामानाधिकरण्यलक्षणा, स्वाधिकरणनिष्ठात्यन्ताभा- वप्रतियोगिताऽनवच्छेदकभेदत्वाऽवच्छिन्नसामानाधिकरण्यलक्षणा- ऽन्यादृशी वा व्याप्तिः क्वचिदपि वस्तुनि नास्ति, यद्ग्रहात् साऽनु- मीयते । एवं निरुपाख्यत्वादेव, व्यापकतावच्छेदकधर्मशून्यत्वात् प्र- तियोगिताऽधिकरणत्वासम्भवात् प्रतियोग्यनुयोगिभावसंबन्धस्यैव, विमर्श दुर्वचत्वाञ्च, व्याप्तिनेत्यपि बोध्यम् ॥ नाप्युपमानस्य । तथाहि । गवादिसदृशे गवयादौ दृष्टे, गो- सदृशो गवय इति अतिदेशवाक्यार्थ स्मरतः प्राग्दृष्टगोपिण्डस्य पुरुषस्योपमितिः प्रसिद्धा । न च निरुपाख्ये भेदे कस्यचित् सादृश्य- मस्ति येनोपमीयेत । एवं वैधाऽसाधारणधर्मयोरप्याधारत्वा- ऽसंभवात्तत्सिद्धेः प्रमाणगोचरत्वसिचधीनत्वाञ्च वैधासाधारण- धर्मावशिष्टपिण्डज्ञानजन्योपमितिगोचरताऽपि निरसनीया । असं- , , वेदान्तदर्शनभूमिका। ११ , निकृष्टे सन्निकृष्टसादृश्यज्ञानमुपमितिरिति भाडनयेऽपि, वस्तुतः सदृश एवोपमितिरिति सर्वतो विसदृशी भिदा भेदोन तद्गोचरः॥ नाऽपि शब्दस्य । तथाहि । प्रत्यक्षादिसिद्धार्थानुवादित्वेन, प्रत्यक्षाद्यगोचरेऽप्रसरात् । दृश्यमानस्य च नीलं नभ इत्यादिवद् भ्रान्तिसिद्धाऽनुवादित्वेनाप्युपपत्ते वैदिकशब्दगोचरता न सम्भवति। तथाहि । वैदिकवाक्यस्य तात्पर्यम् ऐदम्पर्य द्वारं यस्याः सकाशात् सा वाक्यतात्पर्यात् स्वयं दूरा, वैदिकवाक्यतात्पर्यगोचरता, भेद- स्य दूरापास्ता । प्रत्युत, नेह नानास्ति किञ्चन मृत्योः स मृत्युमाप्नो- ति य इह नानेव पश्यति, एकधैवानुद्रष्टव्यम् , अत्र भिदामिव मन्य- मानः, शतधा सहस्रधा जायते, न कांचन भिदास्ति, उदरमन्तरं कुरुतेऽथ तस्य भयं भवति, यत्र हि द्वैतमिव भवति, तदितरं इतरं पश्यति, अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथापशुरेवं स देवानां, सदेव सौम्येमन आसीदेकमेवा- ऽद्वितीयं, द्वितीयाद् वै भयं भवति, एक एव हि भूतात्मा भूते भूते व्यवस्थितः * एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ रूपं रूपं प्रतिरूपो बभूव, मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् , अशब्द- मस्पर्शमरूपमव्ययं, ब्रह्मैवेदं सर्व, पुरुष एवेदं सर्वम्, ईशावास्य- मिदं सर्व, कार्यकारणतां हित्वा पूर्णबोधोऽवशिष्यते, न विरोधो न चोत्पत्तिर्न बद्धो नच साधकः * न मुमुक्षुर्न वै मुक्तइत्येषा परमार्थता, यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद् विजानाति स भूमा, यदल्पं तन्मर्त्यमित्यादिश्रुतिसहस्त्रैः प्रत्यगद्वयसन्मात्रतात्पर्यकैः प्रतिषियमानत्वाद् द्वैतस्य । तथापि, मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धनिर्मितमिति प्रलापकर्तुंर्नास्तिकस्य धूर्तस्य पापिनः पशुतुल्य- स्य वेदहृदयाऽनभिज्ञस्य, स्पष्टं द्वेषतां प्रतारकतामावहति ॥ ननु क्रियाकारकफलभेदस्य प्रतिषेधे सर्वप्रमाणप्रमेयव्यवहारो- च्छेदः। कर्मकाण्डप्रमाण्यानुपपत्तिर्गुरुशिष्यादिद्वैताऽभावे श्रवणा- द्यप्रसिद्धरुपनिषदामपि प्रवृत्त्ययोगात् प्रामाण्याऽसिद्धिरित्यसंभा- वनाप्रपञ्चनोक्तदोषाणां कः परिहार इतिचेच्छृणु । लोकसिद्धव्याव- हारिकभेदोपजीवनेनैव, सर्वव्यवहारसिद्धिरविद्वद्विषयत्वात् सर्व- प्रमाणानाम् । उपपादितं चैतद् भगवद्भिर्भाष्यकारैः । तथाहि । ब्राह्मणो बृहस्पतिसवेनयजेत, राजा राजसूयेन स्वाराज्यकामो यजेत, , १२ कुतर्कदग्धचिकित्सासमाख्या वैश्यो वैश्यस्तोमेन यजेत, जातपुत्रः कृष्णकेशोऽग्नीनादधीत, एत- या निषादस्थपतिं याजयेदित्यादिश्रुतयो लौकिकवर्णाश्रमवयोऽव- स्थादिविशिष्टदेहतादात्म्यमुपजीव्य प्रवृत्ता अपि, नाऽप्रमाणम् । तात्पर्यविषयाभूते यागादिक्रियाफलयोः साध्यसाधनभावेऽविसंवा- दात् । तथा क्रियाकारकफलभेदं कर्तृत्वभोक्तृत्वादिकं च वस्तुतो मिथ्याभूतमपि, लौकिकसर्वानुभवसिद्धमुपजीव्य प्रवृत्ता अपि वर्त्त- न्ते । अन्यथा देहात्मवादस्यापि श्रुत्यनुमतत्वेन वस्तुत्वकल्पनाप्रस- ङ्गात् । नचोपजीव्यविरुद्धार्थ श्रुतिरपि कथं निवेदयेदिति वाच्यम् । तात्त्विकप्रामाण्यांशस्यानुपजीव्यत्वात्, तद्बाधेऽपि व्यावहारिक- प्रामाण्यांशस्य बाधनेनतावन्मात्रस्यैवोपजीव्यत्वेनाऽविरोधात् । नच क्रियाकारकफलविभागस्य मिथ्यात्वनिश्चये, कर्मसु श्रवणादौ च प्रवृत्यनापत्तिः । प्राक् तन्निश्चयात् प्रवृत्त्युपपत्तेस्तादृशपुरुषान् प्रत्येव शास्त्रप्रामाण्योपपत्तेर्निश्चितात्मतत्त्वं प्रत्यप्रवृत्तावपि कृत- कार्यायाः श्रुतेर्वैयर्थ्यस्यानाशक्यत्वात् ॥ नाप्यनुपलब्धिः प्रमाणं द्वैतसत्यत्वे । तथाहि । उपलब्धियर्थ- सद्भावावगाहनान्मानम् । तदभावश्चानुपलब्धिः । सा च न मानं, न प्रमाणम् । न ह्युपलब्धिरर्थ साधयतीति तदभावोऽपि तथेति वक्तुं शक्यम् । चक्षुरादेरर्थग्राहित्वे दृष्टमित्यान्ध्यादेरपि तथात्वकल्पना- पत्तेः । नच तस्याः स्वतोऽर्थवाहित्वाभावेऽपि प्रतियोगितद्व्याप्ये- तरयावत्प्रतियोग्युपलब्धिसामग्रीसहकृतत्वरूप-योग्यताविशिष्टाया अभावोपलब्धिजनकत्वमस्त्विति वाच्यम् । अननुगतगुरुतरप्रतियो- ग्युपलब्धिसामग्रीणां कारणतावच्छेदकत्वाऽनुपपत्तेः । अनुपलब्धि- विशिष्टप्रतियोग्युपलब्धिसामग्री वा, तद्विशिष्टाऽनुपलब्धिर्वा, सा- भनीघटकैकैककारणानि वा, प्रत्येकं तदितरकारणान्यनुपलब्धिवि- शिष्टानि, वा, वैपरीत्यं वेत्यत्र विनिगमनाविरहेणाऽभावग्रहे प्रमाणा- नन्त्यापत्तेरनुपलब्धिमात्रग्राह्यत्वनियमभङ्गापत्तेश्च । किञ्चाऽन्धकारे- ऽपि घटाभावप्रत्ययापन्तिः । घटालोकसंयोगादेर्घटव्याप्यत्वेन तदितरचक्षुरादिसत्त्वात् । अपिच पिशाचचाक्षुषसामग्यप्रसिद्ध्या स्तम्भे पिशाचभेदग्रहाऽनापत्तिः। किञ्चाऽनुपलब्धेरप्यभावतया सा- ऽप्यनुपतब्ध्यन्तरेण सिञ्चतीत्येवं वाच्यम् । तथाच साप्यन्यया सा- प्यन्ययेत्यनवस्थानादनुपलब्धिरेव स्वयं न सिध्यति, दूरे तस्या ।

वेदान्तदर्शनभूमिका। १३ अर्थसाधकत्वम् । एतेन प्रतियोगिसत्त्वप्रसञ्जनप्रसाञ्जितप्रतियोगिक- सत्त्वरूपा तद्योग्यताऽपि प्रत्युक्ता । तर्कस्यापाद्यापादकव्यतिरेकनिश्च याधीनत्वेनानुपलब्ध्यग्रहे अयोगात् । तद्ग्रहे चाऽनवस्थानात् । य- धनवस्थाभयादनुपलब्धिरन्यतः स्वतो वा सिध्यतीत्युच्यत तय- भावान्तरमपि तथैव सेत्स्यतीत्यनुपलब्धिकल्पनवैयर्थ्यम् । यदि तु सा साक्षिवेद्या, तर्हि स्वानार्थवति नार्थसाधिका । अभावान्तराणा- मपि तथात्वापत्तिश्चेति त्वदभिलषितभङ्ग एव ॥ अर्थापत्त्यादिगो चरताऽपि भेदस्य नास्ति । तथाहि अस्यां- भिदायां ह्यापत्तिः प्रमाणं नास्ति । अर्थापत्तेर्व्यतिरेकव्याप्तिग्रहाधी- नत्वेन प्रतियोग्यप्रसिद्धौ व्यतिरेकाप्रसिद्धः । किञ्च पटे कस्या- ऽनुपपत्त्या घटे भेदः कल्पेत । पटत्वस्येति चेन्न । तस्य भेदाऽवि- नाभावनियामकतजन्यत्वादिसम्बन्धाप्रसिधा तत्त्कल्पकत्वायो- गात् । घटत्वाभावानुपपत्त्येतिचेन्न । समनियताभावानामैक्येन भेदाभावाभावरूपत्वेन च तस्य भेदाव्यतिरेकाद् व्यातिरकाऽभ्यु- पगमेऽपि भेदसमानयोगक्षेमत्वात्, सोऽपि कस्याऽनुपपत्त्या पटे कल्पतेति प्रष्टुं शक्यत्वात् । कल्पकाऽपरिचये अर्थापत्त्यप्रसरात् । नाऽपि सम्भवः प्रमाणं भेदे । तस्य सर्वसंमतत्त्वाऽभावात् । अभ्युपगन्तृणामपि संख्यापरिमाणादिमात्रगोचरत्वप्रसिद्धरभावग्रा- हकत्वाऽभावात् । एवमुपदेशनिरपेक्षत्वादेति प्रमाणगोचरताऽपि भेदस्य न सम्भवत्येव ॥ तर्हि ता किमलीकैव । तथा सति न भासतेति शङ्कां वारय- न साक्षिवेधत्वपरिशेषणेन तन्मिथ्यात्वं साधयति।तथाहि । प्रमाणा- ऽगोचरत्वेऽपि प्रत्यक्षाऽपरोक्षत्वेन सर्वाऽनुभवसिद्धा सा विमृष्टा । साधु एषा भिदा मृषैव । यथा स्वप्नदृष्टमैन्द्रजालिकमायोप- दर्शितं नगरं यथा साक्षिमात्रवेद्यत्वान्मिथ्या । तथाच प्रयोगः । भेदो मिथ्या स्वरूपेणाऽविषयत्वे सत्यरोक्षत्वात् स्वप्नगन्धर्वनगरादिवत् । भेदस्य मिथ्यात्वसाधकयुंक्तयः संसर्गाभावेऽपि समाः सुधीभिरूहितुं शक्यन्ते।इत्थं कार्यकारणभेदोऽपि मिथ्यैव ब्रह्मणःसर्वप्रपञ्चकारणत्वं- श्रुत्युपजीवितर्कैः कनककुण्डलन्यायेनापि, स्वप्नदृष्टान्तैश्चसिद्धमेव मिथ्यात्वम् । सर्वप्रपञ्चभेदो निरस्तो मूढकल्पितः । तस्मात् । सिद्धं शुद्धं सच्चिदानन्दाद्वितीयं ब्रह्म सर्वोपनिषदां परमसिद्धा- ।

BAARE १४ कुतर्कदग्धचिकित्सासमाख्या न्तभूतम् । वेदहृदयाऽनभिज्ञप्रलापेन, न परमार्थसद् वस्त्वन्यथा भ- वति । तथाचोक्तं- नाऽसतो विद्यते भावो नाऽभावो विद्यते सतः। उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः॥ निश्चितं युक्तियुक्तञ्च यत्तद् भवति नेतरद्, इति । किञ्च एवम न्योन्याभावलक्षणे भेदे निरस्ते, द्वित्वपृथक्त्वादि- रूपस्यापि तस्य निरासे अयमेवावसरः । तत्र वैशोषिकायस्तावदेव- माहुः । संख्याख्यो गुणः सर्वद्रव्यवृत्तिरेकत्वद्वित्वबहुत्वभेदात् त्रिधा । तत्राऽवयवगतैकत्वैरवयव्येकत्वमनित्यद्रव्येषु यावद्रव्य- भावि जन्यते । नित्यद्रव्येषु तु तन्नित्यमेव । द्वित्वादौ तु विशेषः । घटद्वये चक्षुरादिसंयोगादयमेकोऽयमेक इत्यपेक्षाबुद्ध्या द्वित्वोत्पत्ति- स्ततो द्वित्वद्वितत्वत्वनिर्विकल्पकमनन्तरमिमौ द्वौ घटावितिविशिष्ट- वैशिष्टयावगाहिसाक्षात्कारो द्वित्वे प्रत्येकवृत्त्येकत्वद्वयमसमवायि- कारणं द्रव्यद्वये समवायिकारणमपेक्षाबुद्धिनिमित्तकारणम् । एवं बहुत्वादावप्यूह्यम् । अपेक्षाबुद्धिनाशाच्च द्वित्वनाशः । अपेक्षाबुद्धिः क्षणचतुष्टयस्थायिनी । एवं पृथक्त्वेऽपि सर्व बोध्यमिति । तदेत- न्निराक्रियते । अपेक्षाबुद्ध्या द्वित्वं जन्यते इत्यसत् । यतो बहिर्भवो बाह्यो घटादिप्रदेशवृत्तिरर्थः सत्यवस्तुरूपोबुद्धिमात्रादिच्छाप्रयत्न- कायचेष्टाद्यद्वारकज्ञानान्न भवति नोत्पद्यते । उत्पद्यमानश्च मिथ्यैव स्यात् । तथाच प्रयोगः । द्वित्वादिमिथ्या । बुद्धिमात्रजन्यबाह्यार्थ- त्वाद् । गिरिशिखरे मनोरथपरिकल्पितप्रासादवदिति । एवं स्वाप्न- पदार्थवदेकैकपुरुषमात्रग्राह्यत्वादपि तस्य मिथ्यात्वम् । स द्वित्वादि- लक्षणोऽर्थों भवन्नपेक्षाबुद्ध्या जायमानत्वेन त्वयाऽभ्युपगम्यमानः, परेषां पुरुषान्तराणां गोचरः प्रत्यक्षः स्यात् । बाह्यसत्यार्थस्यैक- पुरुषमात्रग्रहणयोग्यस्य प्रसिद्धेः । तथाविधशुक्तिरजतादेर्मिथ्यात्व- प्रसिद्धेश्च । स्वसमानाधिकरणाऽत्यन्ताऽभावप्रतियोगित्वस्वविशेष्य- निष्ठभेदप्रतियोगिताऽवच्छेदकत्वरूपमिथ्यात्वलक्षणयोगादपि द्वित्वा- दमिथ्यात्वम् । एकैकत्र न द्वित्वमेकैको न द्वौ इति प्रतीतेरेकै वस्तु प्रत्येकं न द्वये, द्वित्वशून्यं द्वयभिन्नं वा इति तवाप्यभिमत- मेव । एवञ्चेत् प्रत्येकमऽनीलयोर्नीलावितिप्रतीयमाननीलरूपवत् प्रत्येकमनुभयस्वरूपयोरुभयमितिप्रतिं द्वित्वमपि मिथ्यैव । द्वौ न ।

वेदान्तदर्शनभूमिका । द्वौ, द्वयोर्द्धित्वं नास्तीति प्रतीतिर्नास्तीतिचेत् । प्रत्येकमनीलयो - वप्यनीलौ द्वयोरपि नैल्यं नास्तीतिवद् द्वावपि न द्वौ, द्वयोरपि द्वित्वं नास्तीति प्रतीतौ वाधकाभावात् । द्वित्वाभावप्रकारतायां द्वित्वं विशेष्यतावच्छेदकं नेतिचेन्न । नेदं रजतमितिवद्रजतं रजतं नेति, बाधाऽनुल्लेखाद् बाधे क्वाप्यरोपितरूपस्य विशेष्यताऽवच्छे- दकत्वाऽप्रसिद्धस्तदनपेक्षणात् । किञ्च सति नीले, पाकेन रक्तरूपा- ऽनिष्पत्तेर्व्याप्यवृत्तिगुणस्य, समवायेन गुण त्वव्याप्यजात्या सजा- तीयस्योत्पत्तौ, प्रतिबन्धकत्वमवश्यं वाच्यम् । तथाच सत्येकत्वे समवायेन, द्वित्वाद्युत्पत्त्यनुपपत्तिरेकत्वस्य नाशे तस्य यावद्रव्य- भावित्वसिद्धान्तव्याघातः । प्रत्येकमेकत्वप्रत्ययानुपपत्तिश्च । किञ्च यदि प्रत्येकं न द्वित्वं तर्हि व द्वित्वम् । द्वयोरितिचेत् किं तवयम् । द्वित्वान्तरस्य पर्याप्त्यधिकरणं चेदनवस्था । स्वस्यैवचेदात्माश्रयः। स्वाधिकरणविशेषनिश्चये, स्वाधिकरणविशेषनिर्णयस्य हेतुत्वा- पत्तेः॥ अथ केयं पर्याप्तिः।स्वरूपसम्बन्धविशेष इतिचेद्, विशेषणतोक्त- दोषग्रासः। अतिरिक्ताचेत् साऽपि प्रत्येकमसती कास्ते । साऽपि द्वयोः पर्याप्ताचेदनवस्थेति न द्वित्वाश्रयसिद्धिः। किञ्च त्वया योग्य- विभुविशेषणगुणानां स्वोत्तरजन्यगुणनाश्यत्वाऽभ्युपगमाद् द्वित्व- समकालोत्पन्नज्ञानेन द्वित्वत्वनिर्विकल्पकेन वा अपेक्षाबुद्धिनाशाऽव- भ्यम्भावात् तेन द्वित्वनाशे द्वित्वं सविकल्पकं द्वित्वविशिष्टद्रव्य- त्वं वा निर्विषयं स्यात् । तथाच प्रत्यक्षे विषयस्य कार्यसहभावेन, हेतुत्वसिद्धान्तहानिस्तदभाववति तदद्वगाहित्वात् । द्वावितिप्रत्यक्ष- स्या प्रमात्वापत्तिश्च । पूर्व द्वित्ववानासीदिति तद्वत्येव तवगाहन- मितिचेन्न । तस्करापहृतकुण्डले पुरुषेऽसौ कुण्डली पुरस्तादा- स्ते इतिशब्दप्रत्यययोः, प्रामाण्याऽदर्शनात् तदानीं घटवति भृतले पूर्वोत्तरकालयोर्घटाभावत्वमात्रेण घटाऽभाववदिदं भूतलमिति शब्द- प्रत्ययप्रमाणत्वापत्तेस्तुल्यन्याये घटवादिदं भूतलमितिशब्दप्रत्यययो- रप्रमाणत्वापत्तेश्च । प्रातीतिकालिकतत्तभाववत्तयोरेव प्रमात्वा- ऽप्रमात्वप्रयोजकताया अवश्यं वाच्यत्वात् । तस्य द्वित्वस्य विशिष्ट- प्रथा। सविकल्पकज्ञानं द्वित्वविशिष्टद्रव्यप्रत्यक्ष वा मृषा । निर्विषया अप्रमा स्यात् । अथवा, अपेक्षाबुद्धेर्विनैव प्रमाणं चतु-क्षणाऽव- JANATATTAR कुतर्कदग्धचिकित्सासमाख्या स्थानाऽभ्युपगमेऽपि,दण्डकुण्डलयोभयवानिति षष्ठक्षणोत्पन्नज्ञानस्या- ऽप्रामाण्यं दुर्वारमेव । पञ्चमक्षणेऽपेक्षाबुद्धिनाशने षष्टक्षेण द्वित्व- नाशात्। किञ्च अयमेकोऽयमेक इत्यपक्षावुद्ध्या द्वयोरेव द्वित्वं, त्रित्वामि- त्यादिनियमः कुतः।वैपरीत्यस्यापि दुर्वारत्वात् । समवायिकारणादि- साम्ये कार्यवैलक्षण्यं वा कथम् । नचैकत्वयोर्द्वयं, द्वित्वे त्रयं, त्रित्वे हेतुरिति नियमाद् व्यवस्थेति वाच्यम् । एकत्वे द्वित्वाद्यभावाद् गुणे गुणाऽनङ्गीकारात् । द्वित्वोत्पत्तेः प्राग् द्रव्येऽपि तदभावेन परम्परा सम्बन्धेनापि तत्र तस्य दुर्वाच्यत्वात्।अत एव द्वित्वे द्रव्यद्वयं हेतुरित्याप नोक्तिः।सम्भवाऽभावात् । द्वित्वस्य त्रित्वादिसंख्यामात्रस्य च सङ्करः। आश्रयाऽव्यवस्था,एकत्रैव समवधानमवैलक्षण्यमेकैकस्याऽनेकजात्या- क्रान्तता च स्यात्।कारणवैचित्र्यं विना कार्य वैचित्र्याऽयोगात् ।योगे चाऽत्रेदमेवैतजातीयमेव । जननीयमिति विनिगमकाऽभावेनैकैकत्रै- वाऽनेकवैजात्यशालिद्वित्वत्रित्वादिसमावेशप्रसङ्गाजायमानैकसंख्या- व्यक्तरेव लाघवात् । द्वित्वे च, त्रित्वत्वाद्यनन्तवैजात्यकल्पनप्रसङ्गा- त् । नच तत्तत्प्रागभावव्यवस्थाभेदाभ्यां कार्यव्यवस्थाभेदवैलक्ष- ण्यानीत्युदयनाचार्योक्तं युक्तम्, प्रागभावस्य कार्यवैलक्षण्याप्रयोजक- त्वादन्यथा गुणगुणिनोः समानसामग्रीकत्वेऽपि, प्रागभावभेदादेव वैलक्षण्योपपत्तेः । समवायिकारणादिभेदकल्पनस्याऽनुभवविरुद्ध- पौर्वापर्योत्पत्तिकत्वकल्पनाप्रयासस्य च, नैफल्यापत्तेः। सजातीय- कारणजन्यघटादीनां नानाद्वित्वादिव्यक्तीनां च प्रागभावभेदाद, वैजात्यापत्तेः, प्रागभावतभेदयोः प्रतियोगितभेदसिद्ध्यधीनत्वेना- ऽन्योन्याश्रयापत्तेः । प्रागभावाऽनभ्युपगमाच्च । प्रागभावाद् व्यवस्था, आश्रयनियमो, विविधावस्थाव्यवस्थेतिव्युत्पत्तेर्वैलक्षण्यं च न भव- ति । यत्त्वाहुरेकत्वान्तरसहितैकत्वेन द्वित्वं, द्वित्वसहितैकत्वेन त्रित्वं, तत्साहितचतुष्टयमिति । तत्र द्वयोरेव द्वित्वोत्पत्त्यनन्तरं, त्रित्वचतु- ष्ट्वाद्यापत्तेः । तयोः प्रत्येकमेकत्वस्यापि सत्त्वेन द्वित्वसहितैकत्वस्य तत्रैव सुलभत्वात् । नच द्वित्वाऽसमानाधिकरणैकत्वमेव, तथाविधं त्रित्वहेतुरिति वाच्यम् । द्वित्वान्तराश्रयघटकैकेन सह द्वयोस्त्रित्व- व्यवहाराऽनापत्तेः । ननु नानैकत्वविषयिण्या, अपेक्षावुद्याऽऽदित्वं द्वित्वतद्व्यक्तिव्यधिकरणैकत्वं चेत्यादि तद्व्यवस्थयैव कार्यव्यव- स्थासिद्धिरिति नोक्तदोष इतिचेन्न । अपेक्षाबुद्धेः क्लप्तिरीदृश्येवा- ।

वेदान्तदर्शनभूमिका । १७ ऽस्यां संख्यायां हेतुरितिनिश्चयो नास्ति । उपलक्षणञ्चैतदसमवायि- कारणत्वेनाऽभिमतसंख्यानामप्यनिश्चयस्य । तथाहि । अयमेको ऽयमेक इत्येकरूपया द्वित्वम् । अयमेकोऽयमेकोऽयमेक इतिवा, इमौ द्वावयमेक इति वा विविधया त्रित्वम् । एवमेकत्वचतुष्कविषयिण्या, इमौद्वावयमेकोऽयमेकइमेत्रयोऽयमेक, इमौ द्वाविमौ द्वाविति च, चतु- विधया चतुष्टयं च सर्वैरनुभूयत इति नैकतरैव कारणमिति, वि- निगमकमस्ति । इत्थं सर्वासामासां सायवैजात्यादिनियामकत्वे, द्वित्वस्यैकरूपस्य सम्भवेऽपि, त्रित्वे वैजात्यद्वयं, चतुष्वे वैजात्यचतु- ष्टयं, पञ्चत्वे वैजात्याष्टकामेत्येवं, क्रमेणोत्तरोत्तरं बहुतरवैजात्यवृद्धि- रनुगतत्रित्वत्वाधुच्छेदश्च स्यात् । एवमेव विनिगमनाविरहाद्, गणितशास्त्रप्रसिद्धगुणनभाजनवैचित्र्यबुद्धीनामपि संख्याज्ञानहेतू- नां संख्यावैजात्यप्रयोजकत्वे, द्वित्वादिसर्वसंख्यास्वप्यनन्तवैजात्यानि स्युरिति । एवं तत्तद्र्व्यसमवेतपूर्वपूर्वसर्वसंख्यानां व्यस्तसम- स्तानां स्वस्वन्यूनाधिकसर्वसंख्यासु गुणनभाजनादिवैचित्र्येण प्रत्येकमसमवायिकारणत्वे वैजात्यप्रयोजकत्वे च सर्वसंख्यासु प्रत्येकमनियतानन्तवैजात्यापत्तिः । कारणीभूतद्वित्वाद्यव्यवस्थया, त्रित्वादिष्वव्यवस्थापत्तिश्च बोध्या । नन्वेकमेकत्वस्याप्यनुपपत्ता- वद्वयं ब्रह्मोतिवदनेकं ब्रह्मेत्यप्यापद्यतेतिचेन्न तस्येतरनिर- पेक्षत्वेन वस्तुस्वरूपत्वात् । न एकत्वं संख्यापरं, संख्येयाऽभा- वात् ब्रह्मातिरिक्तस्य, नेह नानास्ति किञ्चनति श्रुत्या निषेधनाञ्च । परमाणुतदेकत्वयोर्मानाभावेन कारणपरम्पराभङ्गाज्जन्यैकत्वासिद्धः। आकाशादेरुत्पत्तिश्रवणान्नित्यद्रव्याऽप्रसिद्ध्या नित्येऽपि तस्मिन् मानाऽभावात् । गुणकर्मादिष्विव सर्वत्रापि वस्तुस्वरूपमात्राव- लम्बनेनैवैक्यव्यवहारोपपत्तेः।नचाऽऽश्रयगतसंख्ययैव गुणादिष्वेक- त्वादिव्यवहारो न स्वरूपमात्रेणोते साधुः । एकव्यक्तिसमवेतगुण- क्रियादिषु एकत्वादिषु चाऽऽश्रयैक्यापत्तौ विनवाऽऽयासमस्मदिष्ट- सियापत्तेः। व्यक्त्यनेकत्वाजातिसमवायादिषु द्वित्वादिसर्वसंख्या- व्यवहारापत्तेरेकव्यक्तिगतरूपरसादिषु द्वित्वबहुत्वव्यवहाराऽनापत्ते- श्च । तत्रैकत्वं स्वरूपमेवेति याच्येत तर्हि द्रव्येष्वपि तथैवाऽस्तु । किञ्चाऽऽकाशैकत्वव्यक्तेरेकत्वव्यवहारः किमाश्रयैकत्वव्यक्त्यन्तरा- दुत स्वतः। आये तस्याप्यन्यतस्तस्याप्यन्यत इत्यन्योन्याश्रयचक्र- । ३ १८ कुतर्कदग्धचिकित्सासमाख्या । । काऽनवस्थाः स्युः । द्वितीये तस्येव घटादीनामपि स्वत एकत्व- व्यवहारोपपत्तौ नैकत्वाख्यसंख्या गुणस्वीकारे प्रयोजनं प्रमाणं वास्तीति मूलोच्छेदादपि न द्वित्वादिसिद्धिः।साधकबाधकसाम्यात् । संख्योक्तदूषणानि पृथक्त्वेऽपि तुल्यानि । तस्यापि संख्यावदेवैक- पृथक्त्वद्विपृथक्त्वादिभिन्नस्य कारणगतैकपृथक्त्वापेक्षाबुद्ध्यादि- जन्यत्वस्य परैरभ्युपगमात् ॥ एतेन बहुतरपतनपरिस्पन्दाश्रयत्वादिसाध्याः परत्वादयः, परा- स्ता वेदितव्याः॥ ननु कनककुण्डलयोरन्योन्याभावलक्षणोद्वित्वपृथक्त्वादिलक्षण- श्व भेदो मास्तु । तथाप्यधिकरणात्मकाऽभाववादिनां प्रभाकरा- ऽऽदीनां मते इवाऽधिकरणस्वरूपएव भेदोऽस्त्वितिचेन्न । कार्य घट- शरावादिनिदानादुपादानकारणान्मृदादेर्नान्यत् स्वरूपतोऽपि भिन्नं न भवति । कुतः। पृथक् कारणात् पृथग्भावेनाऽनधिगमात् । मृदः पृथक्कृत्य घटादेर्दयितुमशक्यत्वात् । ननु क्षीरोदकयोमिलितयोः पृथक्कारणाऽसामर्थ्येऽपि,तत्स्वरूपभेदवदत्राप्यस्त्वितिचेन्न । कार्य- स्योपादानऽन्यत्वे सति हि उपादानकारणनिमित्तकारणयो।लक्षण्यं, विभिन्नलक्षणत्वं न सम्भवति । गवाश्वयोरिवाऽत्यन्तभिन्नयो- स्तयोरयुतसिद्धिनियामकस्थ दुर्वचत्वात् । स्वतादात्म्यापन्न- कार्यजनकत्यनुपादानत्वं, स्वातिरिक्तकार्यजनकत्वं निमित्तत्त्व- मित्येवोपादाननिमित्तयोर्लक्षणभेदस्याऽवश्यवाच्यतया भेदाऽभ्युपग- मे लक्षणभेदाऽसंभवात् । ननु स्वस्मिन् समवायेन, कार्यजनक- त्वसुपादानत्वं, तदन्यसम्बन्धेन, कार्यजनकत्वं निमित्तत्वमि- त्येव लक्षणमयुतसिद्धिनियामकश्च समवाय एवाऽभ्युपगम्यत इतिचेन्न। समवावायाभ्युपगमाञ्च साम्यादनवस्थितेरिति बादरायण- दर्शितदिशा निरसनीयत्वेनानुपेतादनभ्युपगतात् समवायात्त्वदुक्त- लक्षणव्यवस्था न सम्भवत्येव । तथाहि । उपादानोपादेययोर्गुण- गुणिप्रभृतीनां च, न तावत्सवायाख्योयः सम्बन्धः सम्भवति । स हि संयोगवदेव सम्बन्धिभ्यां भिन्नस्तावाश्रितश्च वाच्यः। तस्य यद्युभ- यसम्बन्ध्याऽऽश्रितत्वं संयोगवदेव स्वातिरिक्तसमवायेन कल्पेत तर्हि तस्यापि पूर्वसमवायसाम्यात् । पूर्वसमवायं तत्सम्बन्धिनौ चा ऽऽश्रयितुं समवायान्तरपर्यंषणायां तस्यापि पूर्वाभ्यां, साम्यमित्यन- वेदान्तदर्शनभूमिका। १९ वस्थाप्रसङ्गात् । किञ्च पटादिद्रव्यस्यैकेन समवायेन बहुभिस्तन्तुभि र्गन्धरसादिभिश्च न सम्बन्धत्वसम्भवः । संयोगे तथाऽदर्शनात् । अपिच सत्स्ववयवेष्ववयाविनाशस्थले,एकसम्बन्धिनि,नश्यति सम्ब- न्धो न नष्ट इत्येतदनुभवविरुद्धं, घटध्वंसाधिकरणकपालेषु घट- समवायप्रत्ययापत्तिश्च । तदानीं तेषु तत्समवायो नास्तीतिचेदनप- सृतस्यानष्टस्य च तस्य तत्र कुतोऽसत्त्वम् । सत एव तस्य समवाय. स्तदाधारता,नियामको नेतिचेत् तत्प्रागपि, तस्य कपालेश्वाधार- तानियामकसम्बन्धस्य दुर्वचत्वेन पूर्वोत्तरकालयोरविशेषात् । अभा- वीयविशेषणतानिरासोक्तयुक्तिभिरनवस्थानप्रसत्या च विशेषण- ताविशेष्ययुक्तिसम्भवाऽभावात् । एवं तन्तुषु प्रागलतः पटस- मवायस्योत्पत्तिमन्तरेण कथं पटोत्पत्त्यनन्तरमपि सत्त्वं, तत्राऽनागत- स्यानुत्पन्नस्य चालतस्तत्र सत्त्वोकेरनुभवपथाऽनारोहात् । अत एवोपहसितं वृद्धैः। न याति न च तत्रासीदस्ति पश्चान्न चांशवः । जहाति पूर्व नाधारमहो व्यसनसन्ततिरिति ॥ अयं च दोषगणो जातियत्यन्ताभाव च बोध्यः । किञ्च यद्येक एव समवायस्तर्हि तन्तुषु घटोऽश्वे गोत्वं, गवि चाश्वत्वमिति री- त्या सर्वेषां समवेतद्रव्यगुणकर्मजातीनां सर्वद्रव्यगुणकर्मलु समवे- तत्त्वात् सर्वस्य सर्वात्मत्वे वस्त्वव्यवस्था स्यादिति निष्प्रमाणका- द् दुरवस्थिताञ्च समवायान्न लक्षणव्यवस्थासिद्धिः।कार्यस्योपादाना- ऽन्यत्वाभ्युपगमे दोषान्तरमाह । कर्षादिपरिमितसुवर्णादेः, कार्य कुण्डलकटकादौ द्रव्यान्तरभूते कारणगुरुत्वेन तत्सदृशगुरुत्वान्तरा- रम्भादापाद्यमानया द्विगुणगुरुतया मूल्यस्य क्रेतृप्रत्यर्पणीय- द्रव्यस्य वृद्धिप्रसङ्गः । द्वैगुण्यं प्रसज्ज्येत । कर्षान्तरसञ्चालिते गुरु- त्वमूलद्वैगुण्यदर्शनात् । कारणगुरुत्वस्य, कार्यगुरुन्वेनाऽभिभवान्न द्वैगुण्यप्रत्यय इतिचेदतीन्द्रिय कार्यप्रतिबन्धाऽतिरिक्ताऽभिभव- निरूपणासम्भवाद्विनिगमनाविरहेण परस्परेण परस्परकार्यप्रतिबन्धे पतनादिकार्यस्यैवासम्भवापत्तेः । पतनादिकार्यातिरेकेण तदनुमाप- कान्तराऽप्रसिद्धस्तदसम्भवे गुरुत्वप्रत्ययस्यैवोच्छेदापत्तेश्च । नन्वस्तु कनककुण्डलयोरत्यन्ताऽभेदस्तथापि तदभिन्नकुण्डलाद्यवस्थापरि- माणभेदात्तदनुषक्तकनकस्वरूपमपि भिन्नमेवोच्यताम् ।

२० कुतर्कदग्धचिकित्सासमाख्या वैचित्र्यबुद्धोर्निरालम्बनत्वापत्तेरवस्थाभेदेऽपि कनकैकाकारप्रत्ययस्तु कनकत्वजात्यैक्यनिबन्धनो भविष्यतीतिचेन्न । पिण्डकुण्डलाधव- स्थादिभेदात् कनकादिवस्तुभेद उच्यमाने स्थित्युपवेशनाद्यवस्था- भिदया देवदत्तादयो नरा मनुष्याश्च प्रत्येक प्रतिक्षणं भेदिनो भवे- युः। तथाच देवदत्तस्योपविष्टस्योत्थाने तदवस्थस्य मरणादुत्थित- स्य च जन्मत आशौचजातकर्मादिप्रसङ्ग उपविष्टस्य मरणहेतावु- त्थाने इच्छाऽयोगात् सर्वपुरुषाणां स्पन्दनाऽनुपपत्तिश्च । यदि तु तेष्वबाधितप्रत्यभिज्ञावलादभेदस्तहि प्रकृतेऽपि तुल्यम् । अवस्थानां तु भेदाभेदादिना दुर्वचत्वेन मिथ्यात्वमेव । एवमाश्रयात् पार्थ- क्येनोत्पत्तिविनाशनिरवयवत्वसावयवत्वपरिस्पन्दापरिस्पन्दव्याप्ति- विच्छित्तिव्यासक्तिपर्याप्तिसांकर्यासांकर्यादिना दुरवधारणस्वभाव- त्वादावश्यकाऽनुगतोपादानेनैवाऽनुगतकनकादिबुद्धिनिर्वाहाच्च ता- र्किकाऽभिमतनित्यजातिपदार्थोऽपि निरसनीयः। तत्रापि, न याति न च तत्रासीदितिश्लोकोक्तदोषलाम्यादिति नाधिकरणस्वरूपोऽपि भेदः प्रामाणिक इति सर्वोपादानसन्मात्रवस्त्वैक्यं सिद्धम् ॥ ननु वस्तुनोऽत्यन्ताभेदे कार्यकारणभावप्रत्ययः किन्निबन्धन इतिचेत् । सोऽपि मायिकाऽवस्थाभेदपर्यालोचननिबन्धनो, न वा- स्तवः । तदन्वयव्यतिरेकाऽनुविधानादिति दर्शयति । तस्मात् सं- सारः सम्भावनामात्रः प्रत्यगात्मनि तदवोधविजृम्भितः। अत्रार्थ संशयश्चेत् स्यात् प्रत्यग्दृष्ट्या निरीक्ष्यतामिति वार्तिकोक्तप्रत्यग्- दृष्टिप्रकारोपदर्शनेन निष्प्रपञ्चं सन्माजमनुभावयति । तथाहि । पूर्वोत्तरोभयाऽवस्थाऽनुगतं हि मृद्वस्तु प्राक्तनपिण्डावस्थापन कारणमित्युच्यते, पश्चात्तनं घटावस्थापन्नं तु कार्यमिति । तत्र पूर्व- तनी पिण्डावस्थां पश्चात्तनं घटत्वं घटावस्थां च मनसि विमृशतो विभेदेनाऽनुसन्दधानस्य पुरुषस्य वस्तुतो भेदशून्येऽपि मृद्वस्तुनि, अवस्थाद्वयाऽनुषङ्गमपेक्ष्य, हेतुकार्यत्वधीः, कार्यकारणभावलक्षण- भेदग्राहिणी बुद्धिः स्यात् । प्राप्तकालतायां लिङ् । एकमुभयाऽवस्था- ऽनुगतं मृदमेव मृन्मानं स्फुटमवस्थाद्वयविविक्तं परिमृशतः पर्या- लोचयतः पुरुषस्य पूर्वोत्तरावस्थयोर्मेद्व्यतिरेकेणाऽसत्त्वप्रतीतेः स्व- रूपमात्रनिष्ठे मृद्वस्तुनि चाऽभिन्ने कार्यकारणभावाऽसम्भवाद्धेतुः कारणं नैवास्ति, नास्त्येव । एवं कार्यमपि नास्ति। वास्तवरूपपर्या- वेदान्तदर्शनभूमिका। २१ लोचने मायिकरूपतिरोभावात् । यथाऽयं दृष्टान्तस्तद्वन्मायी माया- संवलितः परमात्मा प्रपञ्चस्य पूर्वावस्था, सदेव सोम्येदमग्र आसी- दिति श्रुतेः सर्वप्रपञ्चशून्य एव, न तु सृष्टिकर्तृत्वं, प्रत्यक्षाश्रयत्वं वा सम्भवति । तत्कर्तृत्वे, न निरोधो न चोत्पत्तिः, असङ्गो ह्ययं पुरुषः, चैतन्यस्यैकरूपत्वाद् भेदो युक्तो न कर्हिचिदित्यादिश्रुतिविरोधः स्यात् । सर्वभेदशून्य एव । एतत् सर्व सत्सम्प्रदायादेव शायते । स्वतस्तु श्रुत्यर्थाऽन्यथाप्रदर्शनेन प्रलापित्वं मूर्खत्वं च सिद्धति तत्त्वदृशां समक्षे, स्वार्थाद् भ्रश्यति च नरकादिप्राप्तिरपि भवति । तथाचोक्तं भवता- यः शास्त्रविधिमुत्सृज्य वर्त्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम्, इति ॥ तस्मान्मायिकप्रपञ्चश्चोत्तरावस्था । तद्धेदं तहव्याकृतमासीत्त- नामरूपाभ्यामेव व्याक्रियते इति श्रुतेः। तौ मायिप्रपश्चौ द्वैतवासना- वासिते मनसि कलयतः प्रतिसंदधानस्य पुरुषस्य । तदेतद् ब्रह्मा- ऽपूर्वमनपरमित्यादिश्रुतेर्वस्तुतः कार्यकारणभावनिर्मुक्तमपि ब्रह्म जग. तो हेतुधीरपि स्यात् । वस्तुतो मायिप्रपञ्चयोः सर्वानुगतसद्वस्त्व- ऽव्यतिरेकात् सदेवैकरूपं सच्चिदानन्दघनं ब्रह्मैव पटु द्वैतवासना- नास्कन्दितं यथा स्यात्, तथा परिमृषतो हि सर्वत्र पश्यतः पुरुष- धौरेयस्य मायी मायाविशिष्टो जगत्कारणं नास्त्येव । तथा जगदपि- नास्त्येव । मायिप्रपञ्चयोः सदविचारमात्रसिद्धत्वेन, विचारपूर्वक- दर्शने सत्येव तिरोधानात् । यथाहुः- दन्तिनि दारुविकारे दारु तिरोभवति सोऽपि तत्रैव । जगति तथा परमात्मा परमात्मन्यपि जगत्तिरोभवतीति ।। श्रुतिरपि, कार्यकारणतां हित्वा पूर्णबोधोऽवशिष्यते, मनसैवेद- माप्तव्यं, नेहनानास्तिकिञ्चन पूर्णमदः पूर्णमिदमित्यदौ तदेव बोध- यतीति॥ ननु यदि ब्रह्मैव सत्यमितरत् सर्वमनृतं तर्हि कथं जगति सत्य- ताप्रतीतिरितिचेत् । देहादावात्मताप्रत्ययवत् सत्पदार्थे जगदध्या- सात्तद्धर्मेणैव तथा प्रतीतिरिति लौकिकदृष्टान्तेन बोधयति । सन् कुम्भइतिमृत्सत्तैव कुम्भसत्ता । ननु घटशरावादी, मृन्मृदित्यनुगत- प्रत्ययवजगति प्रतिवस्तुनो ब्रह्माऽनुगतिः प्रतीयते। तत्प्रतीतौ जाड्य- २२ कुतर्कदग्धचिकित्सासमाख्यः दुःखानुभवविरोध इतिचेद् विरुद्धचित्सुखरूपानुगमादर्शनेऽप्यध्यस्त- रूपाविरुद्धसत्तांशानुगतिर्दृभ्यत एव । यथा घटःसन् कुशूलं सत् एव मखिलं जगत्सत्यमितिवत् सर्वत्रैकं सद्रूपं भाति । यञ्च सृष्टेः प्राक् सदेव सोम्येदमग्र आसीत् तद्धेदं तव्याकृतमासीदात्मा वा इदमेक एवान आसीत् , अहमेकः प्रथममासं वामि च भविष्यामिचेत्यादि- श्रुतिनित्यसत्ताबोधकेनाऽस्धातुना सदेकस्वभावं वस्तु श्रुतम् । त- देव मायिप्रपञ्चोभयानुगतमुभयाधिष्ठानरूपं सत्यम् । तदेव मृत्तिका- कुम्भस्थालीशरावादिस्वकार्यजातमिव कृत्स्नं प्रपञ्चं व्याप्यावभाति। तर्हि मृदिव किं ब्रह्मापि सविकारम् ? । नेति। सद्रूपे ब्रह्मणि निखिल- मपि जगदध्यस्तम् । रज्जुगतऋजुवक्रतादेस्तदध्यस्तस इव विवः- ऽप्यन्यथाभावप्रतीतिरूपे स्वरूपाऽपरित्यागेन सत्यधिष्टाने जगत् । तत्सत्तानुवृत्तिदर्शनात् । तद् ब्रह्मैव, तद्व्यतिरेकेण जगन्नास्तीत्य- ऽद्वितीयसद्वस्तुसिद्धिः। सद्रूपादन्यत्वे इदमखिलं जगदसत् स्यात् । सतः अभेदे तु सदैकरूप्याद् ब्रह्मैव जगत् सम्पन्नम् । तत एवा- ऽद्वितीयसन्मात्ररूपलक्ष्यसिद्धिः। तथाच ब्रह्मवाऽद्वितीयं पारमार्थिक सत्यम् । द्वैतं तु मिथ्यैवेत्यत्र सहस्रशः श्रुतिस्मृतिपुराणादिवाक्या- नि सन्ति । तथाहि- एक एव हि भूतात्मा भूते भूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा। कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥ सर्व खल्विदं ब्रह्म, पुरुष एवेदं सर्व, ब्रह्मैवेदं सर्वम, आत्मैवेदं सर्व, नेह नानास्ति किञ्चन, मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति, न काचन भिदास्ति, ॐमित्येतदक्षरमिदं सर्व, स एवाध- स्तात् स उपरिष्टात् स पश्चात् स पुरस्तात् स दक्षिणतः स उतरतः स एवेदं सर्वम्, अहमेवाऽधस्तादहमेवोपरिष्टादहं पश्चादहं पुर- स्तादहं दक्षिणतोऽहमुत्तरतोऽहमेवेदं सर्वम् । आत्मैवाऽधस्ताद् आत्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदं सर्वम् । एतद् ब्रह्मतत्सर्वम् । नारायण एवेदं सर्वम् । सञ्चि- दानन्दरूपमिदं सर्वम् । सत्तामात्रं हीदम् । स एव सर्व यद् भूतं यच्च भव्यं सनातनम् ।

वेदान्तदर्शनभूमिका । २३ . स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः ॥ स्वयं विश्वमिदं सर्व स्वस्मादन्यं न किञ्चन । ईशावास्यमिदं सर्वम्॥ शिवो गुरुः शिवो वेदः शिवो देवः शिवः प्रभुः। शिवोऽस्म्यहं शिवः सर्व शिवादन्यं न किञ्चन ॥ मरुभूमौ जलं सर्व मरुभूमात्रमेव तत् । जगत्त्रयमिदं सर्व चिन्मात्रं स्वविचारतः॥ भववर्जितचिन्मात्रं सर्व चिन्मात्रमेव हि । यत्किञ्चिद्यन्न किञ्चिच्च सर्व चिन्मात्रमेव हि ॥ अखण्डैकरसं सर्व यद्यच्चिन्मात्रमेव हि । भूतं भव्यं भविष्यञ्च सर्व चिन्मात्रमेव हि ॥ झाता चिन्मात्ररूपश्च सर्व चिन्मात्रमेव हि । यञ्च यावञ्च दूरस्थं सर्व चिन्मात्रमेव हि ॥ आत्मनोऽन्या गतिर्नास्ति सर्वमात्ममयं जगत् । आत्मनोऽन्यत्तुषं नास्ति, सर्वमात्ममयं जगत् ॥ सर्वमात्मैव शुद्धात्मा सर्व चिन्मात्रमद्वयम् । सर्व च खल्विदं ब्रह्म, सर्वमात्मेदमाततम् ॥ न त्वं नाहं न चान्यं वा सर्वमात्मेदमक्षतम् । न तदस्ति न यत्राहं न तदस्ति न मन्मयम् ॥ भ्रान्तिरभ्रान्ति स्त्येव सर्व ब्रह्मैव केवलम् । न देहो न च कर्माणि सर्व ब्रह्मैव केवलम् । जगन्नाम्ना चिदाभाति सर्व ब्रह्मैव केवलम् ॥ सर्व प्रशान्तमजमेकमनादिमध्य- माभास्वरं स्वदनमात्रमचैत्यचिह्नम् । सर्व प्रशान्तमितिशब्दमयी च दृष्टि- बोधार्थमेव हि मुधैव तदोमितीदम् ॥ न तु तद्वितीयमस्ति । सर्व विकारजातं मायामात्रम् । नास्ति द्वैतं कुतो मय॑म् ॥ प्रपञ्चो यदि विद्येत निवर्तेत न संशयः। मायामात्रमिदं द्वैतमद्वैतं परमार्थतः॥ विकल्पो विनिवर्त्तत कल्पितो यदि केनचित् । , SCORESEASTRRN कुतर्कदग्धचिकित्सासमाख्या उपदेशादयं वादो शाते द्वैतं न विद्यते ॥ द्वितीयकारणाऽभावादनुत्पन्नमिदं जगत् । यथैवेदं नभः शून्यं जगच्छून्यं तथैव हि ॥ इदं प्रपञ्चं नास्त्येव नोत्पन्नं नोत्थितं जगत् ॥ सर्व शशविषाणवत् ॥ चित्तं प्रपञ्चमित्याहुर्नास्ति नास्त्येव सर्वदा। मायाकार्यादिकं नास्ति माया नास्ति भयं न हि ॥ परं ब्रह्माहमस्मीति स्मरणस्य मनो न हि । वन्ध्याकुमारवचने भीतिश्चेदस्त्विदं जगत् ॥ मृगतृष्णाजलं पीत्वा तृप्तश्चेदस्त्विदं जगत् । शशशृङ्गेण नागेन्द्रो मृतश्चेजगदस्ति सत् ॥ गन्धर्वनगरे सत्ये जगद् भवति सर्वदा। गगने नीलिमासत्ये जगत् सत्यं भविष्यति ॥ शानिनो हृदयं मूढैर्शातञ्चेदस्त्विदं जगत् । सर्वदाभेदकलनं द्वैताद्वैतं न विद्यते ॥ नास्ति नास्ति जगत्सर्व गुरुशिष्यादिकं न हि । सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ॥ चैतन्यस्यैकरूपत्वाद् भेदो युक्तो न कर्हिचित् । जीवत्वं च मृषा ज्ञेयं रज्ज्वां सर्पाग्रहो यथा ॥ घटनाम्ना यथा पृथ्वी पटनाम्ना हि तन्तवः। जगन्नाम्ना चिदाभाति नास्ति नास्ति हि सर्वदा॥ अनात्मेति प्रसङ्गो वा अनात्मेति मनोऽपि वा। अनात्मेति जगद्वापि नास्त्यनात्मेति निश्चिनु ॥ चिदिहास्मीति चिन्मात्रमिदं चिन्मात्रमेव हि । चित्वं चिदहमेते च लोकाश्चिदिति भावय, इत्यादिश्रुति- सिद्धमद्धतम् ॥ भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् । आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः॥ ज्योतींषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च । स एव सर्वो भुवनैकरूपो यदस्ति यन्नास्ति च विप्रवर्य, इति महाभारते॥

वेदान्तदर्शनभूमिका । २५ DAMOHD एकः समस्तंयदिहास्ति किञ्चित् तदुच्यते नास्ति परं तदन्यत्। सोऽहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् ॥ यमेनोक्तम्- सकलमिदमहं च वासुदेवः परमपुमान् परमेश्वरः स एकः। इति मतिरचला भवत्यनन्ते हृदयगते ब्रज तान् विहाय दूरात् ॥ यथाह वसुधा सर्व सत्यमेतदिवौकसः। अहं भवो भवन्तश्च, सर्व नारायणात्मकम् ॥ विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसत्यं कः करिष्यति इति विष्णुपुराणे ॥ विष्णोरन्यं न पश्यन्ति येऽमी ब्राह्मणमेव च । कुतर्कमतयो मूढाः पच्यन्ते नरकेऽशुचौ ॥ ये च मूढा दुरात्मानो भिन्नं पश्यन्ति मां हरेः। ब्रह्माणं च तथा तेषां भ्रूणहत्यासमं त्वधम् ॥ आदिस्त्वं सर्वभूतानां मध्यमन्तस्तथा भवान् । त्वत्तः सर्वमभूद् विश्वं त्वयि सर्व प्रतीयते ॥ अहं त्वं सर्वगो देव त्वमेवाऽहं जनाईन । आवयोरन्तरं नास्ति सर्वैरथैर्जगत्त्रये ॥ न तदस्ति विभो देव यत्ते विरहितं क्वचित् । यदासीद्वर्त्तते यञ्च यञ्च भावि जगत्पते ॥ सर्व त्वं देवदेवेश विना किञ्चित्त्वया न हि । यदस्ति यद् भाति तदात्मरूपं नान्यत्ततो भाति नचान्यदस्ति । स्वभावसंवित्प्रतिभाति केवला ग्राह्य ग्रहीतेति मृषा विकल्पः। यदकारणकं भाति भानं तन्नैव किञ्चन ॥ तत्तथा परमार्थेन परमार्थः स्थितोऽनघ । चिदेव पञ्चभूतानि चिदेव भुवनत्रयम् ॥ विज्ञातमधुना सम्यगहमेव चिदेव हि । अयं प्रपञ्चो मिथ्यैव, सत्यं ब्रह्माहमद्वयम् ॥ अत्र प्रमाणं वेदान्ता गुरवोऽनुभवस्तथा । साकारमनृतं विद्धि निराकारं निरन्तरम् ॥ एतत्तत्त्वोपदेशेन न पुनर्भवसम्भवः। पञ्चभूतात्मकं विश्वं मरीचिजलसंनिभम् ॥

कुतर्कदग्धचिकित्सासमाख्या कस्याप्यहो नमस्कुर्यामहमेको निरजनः । आत्मस्वरूपञ्च कथं समाधिरनात्मरूपञ्च कथं समाधिः॥ अस्तीति नास्तीति कथं समाधिर्मोक्षस्वरूपं यदि सर्वमेकम् । दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् ॥ सम्पन्नं चेत्तदा तात परा निर्वाणनिर्वृत्तिः। आत्मा नित्यो हि सद्रूपो देहोऽनित्यो ह्यसन्मयः ।। तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् । रज्ज्वज्ञानात् क्षणेनैव यद्रज्जुर्हि सर्पिणी ॥ भाति तद्वञ्चितिः साक्षाद् विश्वाकारण केवला । उपादानं प्रपञ्चस्य ब्रह्मणोऽन्यन्न विद्यते ॥ तस्मात् सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत् । व्याप्यव्यापकता मिथ्या सर्वमात्मेति शासनात् ॥ इति ज्ञाते परे तत्त्वे भेदस्यावसरः कुतः। दोषोऽपि विहितः श्रुत्या मृत्योर्मृत्युं स गच्छति ॥ इह पश्यति नानात्वं मायया वञ्चितो नरः। सुवर्णाजायमानस्य सुवर्णत्वं च शाश्वतम् ॥ ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भवेत् । स्वल्पमप्यन्तरं कृत्वा जीवात्मपरमात्मनोः॥ यः संतिष्ठति मूढात्मा भयं तस्याऽभिभाषितम् । यस्मिन् सर्वाणि भूतानि ह्यात्मत्वेन विजानतः॥ न वै तस्य भवेन्मोहो न च शोकोऽद्वितीयतः। अनुभूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन् । असद्रूपो यथा स्वप्न उत्तरक्षणबाधतः ॥ स्वप्नो जागरणेऽलीकः स्वप्नेऽपि जागरो नहि। द्वयमेव लये नास्ति लयोऽपि हुभयोन च ॥ त्रयमेव भवेन्मिथ्यागुणत्रयविनिर्मितम् । अस्य द्रष्टा गुणातीतो नित्यो ह्येकश्चिदात्मकः॥ यद्वन्मृदि घटभ्रान्ति शुक्तौ वा रजतस्थितिम् । तद् ब्रह्मणि जीवत्वं वीक्षमाणो, नपश्यति ॥ यथा मृदि घटो नाम कनके कुण्डलाभिधा। शुक्तौ हि रजतख्याति वशब्दस्तथा परे ॥

वेदान्तदर्शनभूमिका। १ यथैव शून्ये वेतालो गन्धर्वाणां पुरं यथा । यथाकाशे द्विचन्द्रत्वं तद्वत् सत्ये जगत्स्थितिः॥ यथा तरङ्गकल्लोलैजलमेव स्फुरत्यलम् । पात्ररूपेण तानं हि ब्रह्माण्डौघैस्तथात्मता ॥ घटनास्ना यथा पृथ्वी पटनाना हि तन्तवः । जगन्नाम्ना चिदाभाति शेयं तत्तदभावतः॥ घटत्वेन यथा पृथ्वी पटत्वेनैव तन्तवः। विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥ कनकं कुण्डलत्वेन तरङ्गत्वेन वै जलम् । विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥ ज्ञानशेयप्रभेदेन यथा स्वाप्नं प्रतीयते । विज्ञानमात्रमेवेदं तथा जाग्रचराचरम् ॥ तन्तोमैदे पटो यद्वच्छून्य एव स्वरूपतः। आत्मनोऽपि तथैवेदं भानमात्रं चराचरम् ॥ भागवते- दृष्टं श्रुतं भूतभवद्भविष्यत् स्थास्नुश्चरिष्णुमहदल्पकञ्च। विनाच्युताद् वस्तुतरां न वाच्यं स एव सर्वं परमार्थभूतः॥ न चान्तर्न बहिर्यस्य न पूर्व नापि चापरम् । पूर्वापरं बहिर्यस्य जगतो यो जगञ्च यः॥ योमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा । अविद्ययाऽऽत्मनि कृते इति तद् ब्रह्मदर्शनम् ।। ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः। सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित् क्वचित् ।। यथा हिरण्यं स्वकृतं पुरस्तात् पश्चाच्च सर्वस्य हिरण्मयस्य । तदेव मध्ये व्यवहार्यमाणं नानापदेशैरहमस्य तद्वत् ॥ न यत्पुरस्तादुत या पश्चान्मध्ये च तन्न व्यपदेशमात्रम् । भूतं प्रसिद्धं च परेण यद्यत्तदेव तत् स्यादिति मे मनीषा । अविद्यमानोऽप्यवभासते यो वैकारिको राजसलर्ग एषः। ब्रह्म स्वयज्योतिरतो विभाति ब्रह्मेन्द्रियार्थात्मविकारचिनम् ॥ अर्थे ह्यविद्यमाने हि संसृतिर्न निवर्तते । ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥

२८ कुतर्कदग्धचिकित्सासमाख्या १ यथा ह्यप्रतिबुद्धस्य प्रस्वापो बबनर्थभृत् । स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ ज्ञानं विवेको निगमस्तपश्च प्रत्यक्षमैतिह्यमथानुमानम् । आद्यन्तयोरस्य यदेव केवलं कालश्च हेतुश्च तदेव मध्ये ॥ शानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम् । अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा ॥ सर्वभूतेषुयेनैकम्भावमव्ययमीक्ष्यते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ यो मां पश्यति सर्वत्र सर्वञ्च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ आत्मैव केवलं सर्व भेदाभेदो न विद्यते । तत्त्वमस्यादिवाक्यैश्च स्वात्मा हि प्रतिपादितः॥ नेति नेति श्रुति—यादनृतं पाञ्चभौतिकम् ॥ सर्व जगद्विद्धि निराकृतीदं सर्व जगद्विद्धि विकारहीनम् । सर्व जगद्विद्धि विशुद्धदेहं सर्व जगद्विद्धि शिवैकरूपम् ॥ आत्मा साक्षी विभुः पूर्ण एको मुक्तश्चिदक्रियः। असङ्गो निस्पृहः शान्तो भ्रमात् संसारवानिव ॥ यथा न तोयतो भिन्नास्तरङ्गाः फेनवुवुदाः। आत्मनो न तथा भिन्न विश्वमात्मविनिर्गतम् ॥ तन्तुमात्रो भवेदेव पटो यद्वद्विचारितः। आत्मतन्मात्रमेवेदं तद्वद्विश्वं विचारितम् ॥ श्रीहर्षमिश्रप्रणीतखाद्यखण्डनरीत्यापि भेदो मिथ्यैव ।। किं जीवब्रह्मणोभदे मानमस्ति न वाऽथवा ॥ नचेत् सिचेत् कथं भेदो दर्शनीयमथास्ति चेत् ॥१॥ नाहं ब्रह्मतिचेन्मानं प्रत्यक्षं तन्निशम्यताम् ॥ शुद्धचिन्मात्रयोर्भेदे मानं नोपाधिभेदकम् ॥ २॥ अहङ्कारं परित्यज्य जीवोपाधि निरीक्ष्यताम् ॥ जीवो ब्रह्मास्ति तद्भिन्नो वेति वैदिकचक्षुषा ॥ ३ ॥ यद्यल्पज्ञत्वधर्मादीन् स्वान् विलोक्य तथैश्वरान् ।। सर्वज्ञत्वादिकान् धर्मान् भेदं ब्रूषे त्वमेतयोः ॥ ४॥ तथापि नो वयं ब्रूमः सार्वशादिविशिष्टयोः॥

MASAVIERA
वेदान्तदर्शनभूमिका ।
२९
अद्वैतं येन तद्रुद्धा श्रुतिः स्वार्थ न साधयेत् ॥ ५॥
अल्पज्ञत्वादिकान् धर्मान् स्वान् विहाय तथैश्वरान् ॥
सर्वज्ञत्वादिकाँस्त्यक्त्वा ह्यभेदः साध्यतां तयोः ॥ ६ ॥
द्वासुपर्णादिवाक्येभ्यो भेदश्चेन स युक्तिभाक् ।।
द्वैताऽनुवादतस्तेषामद्वैतैकपरत्वतः ॥ ७ ॥
किञ्च भेदं वदन् वादी प्रष्टव्योऽत्राधुना मया ॥
प्रतीचो ब्रह्मभिन्नं वा ब्रह्म तद्भिन्नतां गतम् ॥ ८॥
आद्ये ब्रह्माऽनृतं दुःखं जडं वापि भवेद् ध्रुवम् ॥
प्रातिलोम्येन दुःखादेरञ्चतो भिद्यते यतः ॥९॥
द्वितीये देहवृध्यादेहेतुः प्रत्यङ् न सम्भवेत् ॥
न भवेच्च तथा व्यापीत्यात्मनोऽनर्थमाविशेत् ॥ १० ॥
किञ्च भेदस्य धर्मी स्याद्भिन्नो वाऽभिन्न एव वा ॥
भिन्नश्चेत् केन भेदेन स्वेन वाऽथ परेण वा ॥ ११ ॥
स्वेन भेदेन भिन्नत्वे स्फुटमात्माश्रयो मतः॥
स्वस्यै वाव्यवधानेन स्वापेक्षित्वात् स्वसंस्थितौ ॥ १२॥
भेदेनान्येन भिन्नत्वे त्वन्यस्याप्यस्य संस्थितिः ॥
बक्तव्या भिन्न एव स्यान्नाभिन्ने व्याहतत्वतः॥ १३ ॥
सत्येवं केन भेदेन भिन्न इत्यपि कथ्यताम् ॥
स्वेन चेत् पूर्ववत्तर्हि दोषोऽत्रात्माश्रयो भवेत् ॥ १४ ॥
भेदेनान्येन भिन्नत्वे स्यात्तथाऽन्योन्यसंश्रयः॥
चक्रकं च तृतीयेन तथान्येनानवस्थितिः॥ १५ ॥
अथेयमनवस्थाऽपि सोढव्या चेत्तदा वद ॥
कि क्रमेणऽसकृद्वैषां भेदानां धर्मिणि स्थितिः॥१६॥
आद्ये भेदप्रवाहस्यानन्तस्य स्यादवस्थितिः॥
कथं सान्तपदार्थेषु स्थितौ चानन्तता भवेत्॥ १७ ॥
उत्तरोत्तरभेदेन भेदव्यवहृतेः क्षयात् ॥
प्राग्लोपश्च भवेद् दोषः प्रमाणापगमस्तथा॥ १८ ॥
तथाऽक्रमिकपक्षेऽपि केन भेदेन धर्मिणि ॥
भिन्ने चावस्थितिः कस्य स्यादत्राऽविनिगम्यता ॥ १९ ॥
दुष्टत्वात् सर्वथैवैवं भेदस्य ब्रह्मजीवयोः॥
परिशेषादभेदः स्यात्तयोर्वेदप्रचोदितः ॥ २०॥

कुतर्कदग्धचिकित्सासमाख्या एवं घटपटादीनां भेदादौ खण्डनोक्तयः ॥ अद्वैतमतसिद्ध्यर्थ प्रचार्य्यन्तां तथाविधाः ॥ २१ ॥ घटादस्मात् पटो भिन्नः किञ्चैतद् भेदसाधकम् ॥ प्रत्यक्षं साधयेद् भेदं शुद्धं संसृष्टमेव वा ॥ २२ ॥ नाद्यो भेदस्य धादिघटितत्वान्निरन्तरम् ॥ द्वितीयेऽपि च वक्तव्यं कीदृशस्तद्ग्रहक्रमः॥ २३ ॥ शात्वा घटपटौ पूर्व तद्भेदो गृह्यते ततः ॥ यद्वा भेदं गृहीत्वैवं गृह्यते तावनन्तरम् ॥ २४ ॥ अन्त्ये दोषः पुरैवोक्तो वाद्यपक्षेऽपि कथ्यताम् ॥ भानं कीदृशयोरस्ति तयोर्भेदप्रसाधकम् ॥ २५ ॥ स्वरूपेणैव चेत्तर्हि ज्ञायतां क्षीरनीरयोः॥ मिथःसङ्कीर्णयोर्भेदः स्वरूपेण च भातयोः॥ २६ ॥ धर्मित्वादिस्वरूपेण वा घटत्वादिना यदि ॥ भानं निरूपयेद् भेदं तदा चान्योन्यसंश्रयः॥२७॥ भेदव्यवस्थितौ सत्यां धर्मित्वादेर्व्यवस्थितिः ॥ धर्मित्वादेर्व्यवस्थायां ततो भेदो भवेदिति ॥ २८ ॥ योगपद्येन चेद् भेदं घटं चैव पटं तथा ॥ त्रीनेतान् बोधयेन्मानं प्रत्यक्षं ते तदा वद ॥ २९ ॥ असंसृष्टतयाऽन्योन्यमङ्गुलित्रयवद् भवेत्॥ भानमेषां त्रयाणां वा किं संसृष्टतयाऽथवा ॥ ३० आधे घटः पटो भेद इत्येवंरूपता भवेत् ॥ प्रत्यक्षस्यास्य न स्याञ्च पटो भिन्नो घटादिति ॥ ३१ ॥ संसृष्टत्वेन भानेऽपि घटादेानपूर्वकम् ॥ भेदज्ञानं भवेत् किं वा तदभेदशानपूर्वकम् ॥ ३२ ॥ वज्रलेपायते दोषः पुरोक्तः पक्षयोईयोः॥ तस्माद् द्वैताऽऽग्रहं त्यकृत्वा चिन्तनीयं सदाव्यम् ॥३३॥ भिन्नौ घटपटौ चैतद्यमानं द्वैतसाधकम् ।। तच्च घटपटद्वैतं साधयेत् स्वात्मनो न च ॥३४ ॥ तथाच श्रुतिरद्वैतबोधिका मानमेययोः॥ अभेदद्वारतो धावेदभेदेऽपि प्रमेययोः ॥ ३५ ॥ मानान्तरेण चेत् सियेन्मानमेयोभयोभिंदा ॥

B वेदान्तदर्शनभूमिका । तदानवस्थितिर्यद्वा काप्यन्तेऽभेद इष्यताम् ॥ ३६ ॥ तस्मात् केनापि मानेन भेदः सेढुं न चाहति ॥ ज्ञात्वैतदन्ततोऽद्वैतं श्रुत्युक्तं परिचिन्त्यताम् ॥ ३७ ।। श्रुत्याऽद्वैते सुनिर्णीतेऽभयो भवति मानवः ॥ द्वितीयाद् वै भयं यस्माद् भवत्येतत् सुनिश्चितम् ॥ ३८ ॥ शोकमोहाम्बुधिं तीर्वा सुखसिन्धौ स्व आत्मनि ॥ प्रतिष्ठामचलां प्राज्ञो विन्दते ध्यानतत्परः॥ ३९ ॥ इति खाद्यखण्डनरीत्याऽपि भेदमिथ्यात्वम् ॥ अथ संक्षेपेण वेदान्तदर्शनस्य षोड़शपादार्थोऽपिनिरूप्यते, तथा- हि । समन्वयाध्यायस्य प्रथमे जिज्ञासाधिकरणे, ब्रह्म जिशासितव्य- मित्युक्तं, किं लक्षणं तद् ब्रह्मेत्याकाङ्क्षायां, द्वितीयाधिकरण सूत्रं, "जन्माद्यस्ययत इति” अस्य जगतो नामरूपाभ्यां व्याकृतस्य, कर्तृ- भोक्तृ संयुक्तस्य, मनसाय्यचिन्त्यरचनारूपस्य, यतः सर्वज्ञात्सर्व- शक्तः सर्वाधिष्ठानान्मायोपहितात्कारणाजन्मस्थिति भङ्गं भवति, तद् ब्रह्मेति द्वितीयाधिकरणार्थस्तत्रहेतु भूतं, तृतीयाधिकरणं, “शा- स्त्रयोनित्वादिति" ऋग्वेदादिशास्त्रस्याऽनेकविद्यास्थानोपबृंहितस्य, देवतिर्यङ्मनुष्यवर्णाश्रमादिव्यवहारहेतोः, सर्वार्थावद्योतिनः, स- र्वज्ञकल्पस्य, श्वासादिवत्कारणत्वात् , तस्मादेव वेदादेः प्रादुर्भा- वः । किंवा शास्त्रं हितशासकत्वाद् वेद वेदान्तायेव, कारण यस्य ब्रह्मात्मैक्यानुभवेऽसाधारणं, यथावत्स्वरूपानुभवे, तद् ब्रह्म स- ञ्चिदानन्दाऽद्वितीयमिति तृतीयाधिकरणार्थः । पुनस्तत्रैव हेतुत्वेन, चतुर्थाधिकरणं, “ तत्तुसमन्वयादिति” तदेव शुद्धसच्चिदानन्दा- ऽद्वितीयं वेदान्तशास्त्रादेवाऽवगम्यते, तदेवचमायोपाधित्वेन, जग- जन्मादिकारणं तदपि वेदान्तादेवनिश्चीयते, कथं समन्वयात् सर्वे- षु वेदान्तेषु वाक्यानि परमतात्पर्येणतस्यार्थस्यैव प्रतिपादकत्त्वेन समनुगतानि, सर्वे वेदान्ता अखण्डार्थमेव प्रतिपादयन्ति न संसर्ग विशिष्टं वेति यावत् । तद्बोधनार्थमेव जगजन्मादिकारणञ्च सर्वशं सर्वशक्तिचेति ब्रह्मबोधयन्तीति चतुर्थाधिकरणार्थः । एकमेवा- ऽद्वितीयं सर्वभेदपारमार्थिकशून्यंब्रह्मति वेदान्तदर्शनार्थः । एवं चतुःसूत्र्यां चतुर्भिरधिकरणैर्ब्रह्मणएव सर्वज्ञत्वेन सर्वशक्तित्वेन जगत्कारणत्वेन, सर्वाधिष्ठानतयाच, परमसत्यत्वेनिश्चिते, तद्विज्ञा- ३२ कुतर्कदग्धचिकित्सासमाख्या नार्थ समित्पाणिः सगुरुमेवाभिगच्छेच्छोत्रियं ब्रह्मनिष्ठमितिश्रुतेः प्रामाण्यात्तङ्गत्वा,विधिवद्वेदान्तवाक्यैरेव विवेकवैराग्यादिसा- धनचतुष्टय युक्तेनाऽधिकारिणा ब्रह्मात्मैक्यविचारः कर्तव्य इतिनिरू- पितं भवति, तत्राऽन्यस्यापि जडप्रधानपरमाण्यादिकारणत्वं सम्भ- ति न वेति संशयनिरासाय पञ्चमाधिकरणं, "ईक्षते शब्दमिति" न सांख्यपरिकल्पितं प्रधानमचेतनं कारणं शक्यं वेदान्तण्वाश्रयितुं, यतोऽशब्दं हि तजगत्कारणत्वे, न वेद प्रतिपादितमिति सूत्रार्थः, कुतः ? प्रधानस्या शब्दत्वं ईक्षतेः, ईक्षितृत्वश्रवणात्कारणस्य, कथं? एवं हि छान्दोग्योपनिषदिश्रूयते, सदेव सोम्येदमन आसीदेकमेवा- द्वितीयमित्युपक्रम्य, तदैक्षतबहुस्यां प्रजायेय इति कारणस्येक्षितृत्व- श्रवणाच्चेतनत्व श्रवणादिति, न हि जडस्येक्षितृत्वं सम्भवति लो- केपि घटादिष्वदर्शनात् । तस्मान्नप्रधानं जगत्कारणं, परमावा- दीनामपि तथैवोक्तहेतोः इति पञ्चमाधिकरणार्थः । प्रधानशब्दवा- च्याऽव्यक्तस्य मायायाब्रह्माधीनत्वश्रवणाच्च ब्रह्मणश्चमायोपहितस्य विवर्तकारणत्वनिरूपणादिति, न हि शुद्धं ब्रह्म केवलं कारणं भवितु- मर्हति, तथा सति, सुषुप्तेरुत्थानाऽनुपपतिर्मुक्तानां वन्धत्वापत्तिश्चे- ति दोषद्वयं स्याच्छुद्धत्वाऽविशेषात् । न निरोधोनचोत्पत्तिर्नबन्धोन च साधकः ॥ न मुमुक्षुर्न वैमुक्त इत्येषा परमार्थता, कार्योपाधिरय- श्रीवः कारणोपाधिरीश्वरः । कार्यकारणतां हित्वापूर्णबोधोऽवशि- ज्यते, मायिनन्तु महेश्वरं, केवलो निर्गुणश्चेत्यादिश्रुतिविरोधाच्च । तथाऽद्वैतसिद्धिविरोधोपि, तथाहि न च ब्रह्मोपादानं तस्याऽपरि- णामित्वान्नचशुक्त्यादोरववित्तॊपादानमविद्यामन्तराऽन्यथा भावल- क्षणस्य विवर्त्तस्यैवाऽसम्भवादिति, शुद्धत्वव्याघाताच्च, शेषेषु षडधिकरणेष्वानन्दमयत्वाऽऽदित्याद्यन्तर्गतत्वाऽऽकाशज्योतिःप्रा- णादिशब्दप्रतिपाद्यत्वादीनि तस्यैव परमात्मन उक्तानि, तेषामपि तत्रैवान्तर्भाव इति, न ब्रह्मातिरिक्तं कारणं भवितुमर्हतीति श्रौतो- ऽर्थः। प्रथमाध्यायस्य द्वितीयेऽस्पष्टपादे सप्तभिरधिकरणैरस्पष्टब्रह्म- लिङ्गैब्रह्मण एवोपास्यत्वमुक्तं, प्रधानजीवादीनान्नोपास्यत्वमिति चोक्तम् । प्रथमाध्यायस्य तृतीयेशेयपादे चतुर्दशभिराधिकरणैर्ब्रह्मणः सर्वाधिष्ठानत्वं, सर्वश्रेष्ठत्वमक्षरशब्दवाच्यत्वं, प्रणवेनोपास्यत्वं, प्रकाशकत्वं प्रणवरूपत्वं, विज्ञानमयादिशब्दवाच्यत्वं चोक्तम् ।

वेदान्तदर्शनभूमिका। प्रथमाध्यायस्य चतुर्थेपादे पदचिन्ताख्येऽष्टभिरधिकरणैः पुनः प्र- धानकारणतानिराकरणपूर्वकं ब्रह्मणएवाऽभिन्ननिमित्तोपादानका- रणत्वमुक्तमवैदिकमतान्तरनिराकरणंचाान्निरूपितमिति सर्ववेद- वाक्यानांशुद्धसच्चिदानन्दस्वरूपे ब्रह्मात्मन्येवपरमतात्पर्येण सम- न्वयो, नामाऽखण्डार्थतेति यावत् । १। अविरोधाख्यद्वितीयाध्या- यस्य प्रथमेस्मृतिपादेत्रयोदशभिरधिकरणैःसांख्यादिस्मृतिविरोध- परिहारं कृत्वा, निर्गुणस्यापिब्रह्मणोमायाशक्तिवशाद् विवर्त्ता- धिष्ठानत्वेनप्रकृतित्वंनिमित्तकाणत्वंचसाधितम् । द्वितीयाध्यायस्य तर्कपादेद्वितीयेऽष्टभिराधिकरणैःसांख्यतार्किकवौद्धजैनपाशुपताद्यवै- दिकमतदुष्टत्वप्रदर्शनेनाऽविरोधस्तत्तद्युक्तिभिरेवसाधितः । द्विती- याध्यायस्य तृतीयेवियत्पादेसप्तभिरधिकरणैराकाशादीनामनित्य- त्वमुत्पत्यादिनासाधितं, वायोश्वाऽनित्यत्वमुत्पत्तिश्चेतिब्रह्मणो ज- गजनकत्वं, जीवस्य ब्रह्मस्वरूपत्वमेकलक्षणत्वनचोक्तम् । द्विती- यस्यचतुर्थे लिङ्गपादे नवभिरधिकरणैरिन्द्रियादीनामात्मसमुत्पन्न- त्वं तेषां परिच्छिन्नत्वं, देवताधीनत्वमीश्वरस्यैवप्राणादिनिर्मातृत्व- मुक्तम् । २ । साधनाख्यतृतीयाध्यायस्य प्रथमेवैराग्यपादे, षडाभि- रधिकरणै र्जीवस्याऽशानिनो,भाविशरीरवीजरूपभूतसूक्ष्मवेष्टित- स्यैवेतोगमनं, परलोकेसुखादिभोगार्थ, जाग्रदवस्थाभिन्नत्वमारो- हणमवरोहणंचसस्यादौजीवस्यनमुख्यंजन्म, किन्तु तत्र तत्रा- ऽऽकाशादिषु संश्लेषमात्रं, प्रथमाहुतौ श्रद्धाशब्देनाऽपां प्रतिपादन- मुपासनाफलभोक्तृत्वं चोक्तम् । तृतीयस्यद्वितीयेतत्वंपदशोधन- पादेऽष्टभिरधिकरणैर्ब्रह्मणोऽसङ्गत्वनिरूपणायस्वप्नादिसृष्टेर्मिथ्यात्व- मात्मनः स्वप्नाद्यवस्थासाक्षित्वं, ताभ्योभिन्नत्वंचोक्तमखण्डार्थत्वं योग्यायोति । तत्रैवाऽणुमध्यमविभुपरिमाणविचारश्चोक्तइतिब्रह्मणोनि- षेधावधित्वेनसर्वबाधसाक्षित्वेन,परमार्थसत्यत्वं, जीवस्यापिब्रह्मरूप- त्वेन,सर्वावस्थासाक्षित्वं, स्वप्रकाशत्वंचानंतत्वं साधितं तत्रैवद्विती- यादे ॥ तृतीयस्यगुणोपसंहारेतृतीयेपादे,षट्त्रिंशद्भिरधिकरणैश्छा- न्दोग्यवृहदारण्यकादिश्रुत्युक्तयोःपञ्चाऽग्निविद्योपासनयोर्विध्यनुष्ठा- नफलसाम्येनैकत्वं, सर्वशाखास्वविरुद्धतत्तद्गुणोपसंहारस्यकर्त्त- व्यत्वं, नानोपासानानांप्रतीकाऽहंग्रहाङ्गाऽववद्धसंज्ञकानांकथनं, विकल्पेन समुच्चयेनवानामस्मरणमाःपूजाख्यायांप्रतीकोपासनायामै कुतर्कदग्धचिकित्सासमाख्या , च्छिकत्वं, विकल्पसमुच्चयोर्यथाकाम्यंचोक्तम् । तृतीयस्यान्तरङ्गव- हिरङ्गरूपज्ञानसाधनपादेचतुर्थे, सप्तदशभिरधिकरणैर्ब्रह्मात्मैक्यज्ञान- स्यकर्मोपासनानिक्षस्वतन्त्रस्यैवनिर्वाणमोक्षजनकत्वं, कर्मोपासन- योश्चनिष्कामयोरन्तःकरणशोधकत्वेन परंपरयामोक्षजनकत्वं, वैदि- कसम्प्रदायरीत्याब्राह्मणपरमहंसाख्यसंन्यासिनएव, ब्रह्मात्मैक्यज्ञाने, मुख्याधिकारित्वं, शानस्य,नकर्मभिरुपासाभिश्चसमसमुञ्चयः, तस्य शानस्य स्वोत्पत्तौनिष्कामकर्मोपासनासापेक्षत्वं, योग्यतावशादश्व- वलीवईवदितिरथचर्यायांशकटेवेति, भ्रष्टोर्ध्वरेतसोःसंन्यासिनै- ष्ठिकब्रह्मचारिणोश्चप्रायश्चित्तस्याऽमुष्मिकं शुद्धिजनकत्वं, न व्य- वहाराहत्वं, तयोःपतितयोः पंक्तिवाह्यत्वं स्मृत्याचार प्रामाण्या- दितियावत् । सालोक्यादिमुक्तीनामीश्वरोपासनाफलानां साति शयत्वं, निर्वाणमुक्तेश्वनिरतिशयनित्यसुखब्रह्मस्वरूपत्वंचोक्तम् । ३ फलाध्यायस्यचतुर्थस्यप्रथमेजीवन्मुक्तिपादे, चतुर्दशभिराधिक- रणैर्वेदान्त श्रवणादीनामावर्तनीयत्वं, मध्यमाधिकारिणां नतूत्त- मानामुपासनायामासननियमत्वमामरणंतासांकरणीयत्वंच, ध्यान- साधनस्यैकाग्रस्यप्रधानत्वादिग्देशकालनिमानियमै,ब्रह्मात्मैक्यज्ञानि. नांजीवतामेवपुण्यपापयोर्लेपाऽभावः, प्रारब्धस्यकर्मणोभोगेनैव क्षयः, सञ्चितकर्मणांतुब्रह्मशानेनविनाशः । झात्राजीवेनस्वात्मतयाब्रह्मणो- ज्ञातव्यत्वं, नतुभदिनामिव स्वात्मभिन्नत्वेन, तथासति,घटादिवद्- विनाशत्वापत्तिर्जडत्वापत्तिश्च,ब्रह्मभिन्नस्य सर्वस्यजडत्वादनित्यत्वा- ञ्च,नान्योऽतोस्तिद्रष्टा,यावविकारन्तु विभागोलोकवादितिश्रुतिसूत्र- विरोधात्स्वानुभवविरोधाच्च । प्रतीको पासनायामहत्वेनाऽग्राह्यत्वं, तथासति प्रतीकाऽभावप्रसङ्गात् । कर्मणांकर्मफलानांचतारतम्यनवि- धमानत्वमनित्यत्वं, विवेकादिसाधनवतां मोक्षावश्यकत्वंचोक्तम् । चतुर्थस्य द्वितीयेपादे एकादशभिरधिकरणैर्वागादीनां मनसिलयो,न स्वरूपेण, ब्रह्मात्मैक्यतत्त्वविदोवागादीनांपरमात्मनिनिःशेषेणलयो, शानेनसर्वस्य वाध्यमानत्वात् । उपासकानां मूर्द्धस्थानादेवोत्क्रमणं, तेषां निशायामपि मृतानामुपासनाफलप्राप्तिः, ब्रह्मात्मैक्यतत्त्वविदस्तु स्वस्यव्यापकदर्शनान्नोत्क्रमणं सम्भवति, नतस्यप्राणाउत्क्रामन्तीत्या- दिप्रोक्तम् । चतुर्थस्यतृतीयेपादेषडभिराधिकरणैरार्चिरादिकस्य ब्रह्म- लोकमार्गस्यैकत्वमुत्तरमार्गेणकार्यब्रह्मगमनम् । प्रतीकोपासकानांब्रह्म- RA MAHAPOORI RRAISINYMSSE वेदान्तदर्शनभूमिका। ३५ लोकादिषु न गमनमतत्क्रतुत्वादिति, तेषां देवतान्तरोपासकत्वा- दित्यायुक्तम् । चतुर्थाध्यायस्यचतुर्थेपादेविदेहमुक्त्याख्येब्रह्मलोकसं- शकेसप्तभिरधिकारणैर्मुक्तिरूपस्यवस्तुनोब्रह्मणः, पुरातनत्वंयत्पूर्व- मेवस्वतःसिद्धस्वरूपं,जीवस्यतदेव मुक्तावाविर्भवत्यविद्यावाधेनेत्यु- तं, ब्रह्मणोऽभिन्नमभेदेनवास्तवेनाऽवस्थानं, तथाच श्रुतिः, ब्रह्मैवसन् ब्रह्माप्येतीतिमुक्तस्वरूपस्यानिर्विशेषशुद्धब्रह्मणोयुगपत्सविशेषनिर्वि- शेषत्वमशानिज्ञानिदृष्टिभेदेन, नवस्तुतः, सविशेषत्वंकदापि, तथाच श्रुतिः,उपासकानां सिद्ध्यर्थ ब्रह्मणोरूपकल्पना। केन चिच्छिष्टेनाप्युक्तं निर्विशेषंपरब्रह्मसाक्षात्क मनीश्वराः । येमदास्तेऽनुकप्यन्ते सवि- शेषनिरूपणैरिति । अर्चिरादिमार्गेणब्रह्मलोकेप्राप्तस्योपासकस्यभोग्य- वस्तूनांसृष्टौमानसस्यैवहेतुत्वमुपासनयासत्यसङ्कल्पत्वाद्,देहान्तर- सृष्टावपि स्वातन्त्र्यं, जगत्सृष्टौस्वातन्त्र्याऽभावेपि भोगमोक्षयोः स्वातन्त्र्यम् । सदेहत्वमदेहत्वमपितस्य स्वेच्छिकमेवेत्यादिविषयजा तंनिरूपितमितिशम् ॥ इति ॥ इति श्री १०८ परमहंसपरिव्राजकाचार्य्यपूज्यपादस्वामिस्वय- म्प्रकाशानन्दसरस्वतीशिष्यप्रज्ञानानन्दसरस्वतीस्वामिप्रकाशिता कुतर्कदग्धचिकित्सा वेदान्तदर्शनभूमिका समाप्ता ॥ ॐ तत्सत् ॥ श्रीकृष्णार्पणमस्तु ॥

MARWARAN श्री १०८ जगद्गुरुवर्यश्रीमच्छङ्कराचार्य्यस्तोत्रम् ॥ शङ्कराचार्यवर्यायश्रीजगद्गुरवेनमः ॥ श्रुतिसिद्धान्तपाराय सर्वविद्यास्वरूपिणे ॥१॥ ब्रह्मरूपायशान्तायसच्चिदानन्दमूर्तये ॥ त्रय्यन्तपद्मसूर्यायसर्वरूपायते नमः ॥२॥ सर्वाधिष्ठानभूतायपाखण्डमतभेदिने ॥ निराकारायशुद्धाय निष्प्रपञ्चायते नमः॥३॥ निष्कलायनिर्गुणायनिर्विशेषाय आत्मने ॥ निस्संगायसुमहते नित्यानन्दाऽद्वयाय च ॥४॥ परहंसायरागादिमलरहितायविष्णवे ॥ शङ्करायनमस्तुभ्यं विद्याधीशायते नमः ॥५॥ महादेवायतुर्यायतुर्यातीतायवै नमः ॥ श्रुतिरूपस्ववचसाशिष्यसंतापहारिणे ॥६॥ नमःसंन्यासिवायजगदुद्धारहेतवे ॥ पूज्यपादायसकलागमसच्छास्त्रदर्शिने ॥ ७ ॥ अनादिगुरुसंप्राप्तसंप्रदायप्रकाशिने ॥ अधर्मनाशकायाऽस्तु प्रणतिर्मेसहस्रशः॥ ८॥ कैवल्यमोक्षरूपायसृष्टिस्थित्यन्तहेवते ॥ कार्यकारणमुक्तायब्रह्मणेपरमात्मने ॥९॥ साक्षिणे सर्ववेदान्तवेद्यायपुरुषाय च ॥ मनोवाचांविदूरायनमोऽस्तुसर्वशक्तये ॥ १० ॥ स्तोत्रमेतत्पठेद्यस्तुप्रयतःशुद्धमानसः॥ धर्मार्थकाममोक्षाणांसिद्धिस्तस्यनसंशयः ॥११॥ इति श्रीमत्परमहंसपरिव्राजकाचार्योर्धाम्नायकाशीकैवल्यधाम- निवासिपूज्यपादप्रज्ञानानन्दसरस्वतीस्वामिविरचितं श्रीजगद्गुरुशङ्कराचार्य्यस्तोत्रं समाप्त म.

TRAMMAR (७) न्यायरत्नमाला-श्रीपार्थसारथिमिश्र वि० सं० (मीमांसा) ૨ (८) ब्रह्मसूत्रभाष्यम्-बादरायणप्रणीत- वेदान्तसूत्रस्य यतीन्द्र श्रीमद्विज्ञान- (वेदान्तः)६ भिक्षुकृत व्याख्यानम् । सम्पूर्णम् । (९) स्याद्वादमञ्जरी-मल्लिषेणनिर्मिता सम्पूर्णा । (जैनदर्शनम् )२ १०) सिद्धित्रयम्-विशिष्टाद्वैत-ब्रह्मनिरूपण- परम्-श्रीभाष्यकृतां परमगुरुभिः श्री ६ (वेदान्तः)१ । श्रीयामुनमुनिभिर्विरचितम् । सम्पूर्णम् १९) न्यायमकरन्दः । श्रीमदानन्बोधभट्टा- रकाचार्यसंगृहीतः । आचार्यचित्सुख- (वेदान्तः)४ मुनिविरचितव्याख्योपेतः (१२) विभक्त्यर्थनिर्णयःन्यायानुसारिप्रथमादि- सप्तविभक्तिविस्तृतविचाररूपःम० म० (न्यायः) श्रीगिरिधरोपाध्यायरचितः । सम्पूर्णः (१३) विधिरसायनम् । श्रीअप्पयदीक्षितकृतम्। सं० (मीमांसा) ૨ (१४) न्यायसुधा ( तन्त्रवार्तिकटीका ) भट्ट- सोमेश्वरविरचिता। (मीमांसा) १६ (१५) शिवस्तोत्रावली । उत्पलदेवविरचिता। (वेदान्तः)२ श्रीक्षेमराजविरचितवृत्तिसमेता। (१६) मीमांसाबालप्रकाशः (जैमिनीयद्वादशा- ऽध्यायार्थसंग्रहः ) श्रीभट्टनारायणात्मज (मीमांसा)२ भट्टशङ्करविरचितः। (१७) प्रकरणपञ्चिका (प्रभाकरमतानुसारि-मीमांसादर्शनम् ) महामहो- पाध्यायधीशालिकनाथमिश्रविरचितं, श्रीशङ्करभट्टकृतो मीमांसा- सारसंग्रहश्च सम्पूर्णः (मीमांसा)३ १८) अद्वैतसिद्धिसिद्धान्तसारः । पण्डितप्रवरश्रीसदानन्दव्यासप्रणीत- स्तत्कृतव्याख्यासमलङ्कृतश्च । (वेदान्त)३ १९) कात्यायनश्रौतसूत्रम् । महामहोपाध्यायधीकर्का- चार्यविरचितभाष्यसहितम् । १३ २०) ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविरचितम् ( वेदान्तः २२)श्रीहर्षप्रणीतं खण्डनखण्डखाद्यम् । आनन्दपूर्ण- विरचितया खण्डनफक्किकाविभजनाख्यया व्या-(वेदान्तः) १३ ख्यया (विद्यासागरी)ति प्रसिद्धया समेतम्।। 'आख्यातचन्द्रिका श्रीभट्टमल्लविरचिता । श्रीलक्ष्मीसहस्रम्-बालबोधिनीव्याख्यया-] ऽवतराणिकया च सहितम् । ।} १ १ SMADRASASH (२) गुणानि पत्रिंशत् ॥ ३६ ॥ चतुर्थपादेऽधिकरणानि नव ॥ ९॥ गौणानि त्रयोदश ॥ १३ ॥२॥ तृतीयाध्यायस्य प्रथमपादेऽधिकरणानि षट् ॥ ६ ॥ गुणानि एकविंशतिः ॥ २१ ॥ द्वितीयपादे अधिकरणानि अष्टौ ॥८॥ गुणानि त्रयस्त्रिंशत् ॥ ३३ ॥ तृतीयपादेऽधिकरणानि षट्त्रिंशत् ॥ ३६ ॥ गौणानि त्रिंशत् ॥ ३०॥ चतुर्थपादेऽधिकरणानि सप्तदश ॥ १७ ॥ अङ्गानि पञ्चत्रिंशत् ॥ ३५ ॥ ३॥ चतुर्थाध्यायस्य प्रथमपादेऽधिकरणानि चतुर्दश ॥१४॥ गुणानि पञ्च ॥५॥ द्वितीयपादेऽधिकरणानि एकादश ॥११॥ गुणानि दश ॥१०॥ तृतीयपादेऽधिकरणानि षट् ॥६॥ अङ्गानि दश ॥१०॥ चतुर्थपादेऽधिकरणानि सप्त ॥ ७ ॥ अङ्गानि पञ्चदश ॥ १५॥ इति शम् ॥

No text on this page.

Bedantdarshanam No155

Title
Bedantdarshanam No155
File name
Bedantdarshanam No155
Text
OCR done
Citation
1867
Publisher
Chowwekhamba Sanskrit Book Depot Benares
Language
Sanskrit
Pages
56
Library
Bharti Bhawan Library Allahabad
DLI number
272980
Barcode
5990010894102.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
pGZLksM0mwq
Download PDF

Bedantdarshanam No155