बनस्थली विद्यापीठ
याज्ञवल्क्यस्मृति
Front matter
पुस्तकालय
DOG
63
केन्द्रीय
DOCOMDO20
वनस्थली विद्यापीठ
श्रेणी संख्या
891,२४
msxy
पुस्तक संख्या
अवाप्ति क्रमांक 22132
DOSBE
1944
4.
THE
AMBA SANSKRIT SERIES;
A.
RARE & EXTRAORDINARY SANSKRIT WORKS
No. 322.
याज्ञवल्क्यस्मृतिः।
मिश्रकृत'वीरमित्रोदय टीकया श्रीविज्ञानेश्वरकृत.
'मिताक्षरा'टीकया च सहिता ।
साहित्याचार्य-खिस्ते नारसवाशास्त्रिणा
त्योप./व्या -होशिङ्ग जगन्नाथशास्त्रिणाच
संशोधिता।
YAUÑAVALKYA SMRTI
jitli the Commentary of Afitra fisra's
bitrodaya and Vijnünes'vara's Alitāksarā.
EDITED BY
rāyanı S'astrí khisto Sihityacharya Assistant Librarian
zinātha S'astri Hoz'inga Sihityopadhyāya Sâdholál Scholar
Sarasvatibhavana Bonaros.
FASCICULUS I-.
JSILED I SOLD BY TIL SECRETARY,
OWKHAMBA SANSKRIT SERIES OFFICE, BENARES.
AGÈNTS:-UTTO HARRASSOWITZ, LEIPZIG:
VDITA JYESHTHARAM MUKUNDAJI, BOMBAY:
led by Jai Krislince Das Grupla,
: the Vidya Vilas Press, Benarres.
1924.
DO
केन्द्रीय
XDOCOMo2050+05
वनस्थ
891.
श्रेणी संख्या
MS
पुस्तक
संख्या
27
अवाप्ति क्रमांक
॥ याज्ञवल्क्यस्मृतिः। श्रीमन्मित्र मिश्रकृत चीरमित्रोदयारूपव्याख्यया श्रीमद्विज्ञानेश्वरकृतया मिताक्षराख्यव्याख्यया च संवलिता। - वी०मि०) निःस्वाम्यं स्वस्य शंसन्निव विदधदिव द्वैतवार्तामिहात. मद्वन्द्वं शीलयिष्यन्निव च निजपदं शीलिताऽद्वन्द्वभावः ।। अव्यात्त्वां शुद्धसत्त्वाकर इव विशदो विश्वभृत्कोडभर्तु- दंष्ट्रेवोच्चैरनाशी हरमुकुटशशीवैकदन्तस्य दन्तः ॥१॥ अस्ति क्षोणीप्रशस्तिस्तनुरिव गिरिशस्योडछी(१)पूरपूर्वा दुर्वाराभात्तदुर्गातनुरतनुरिपुर्विभ्रती भूरिभूतिम् ।। नीराजद्राजलक्ष्मीः सगुणमपि रुचा निधुनाना पिनाकं दृप्यन्नागाजिनश्रीः सुवृपमधिगता नागरावद्धशोभा ॥२॥ अरिकुलकरिकुम्भकूटपाटी शिखरितटीमिव यां प्रभापटीयान् ॥ आधिवसति महीन्दुवीरसिंहो मधुकरसाहिमहीशसिन्धुजन्मा ॥ ३ ॥ श्रेयःसम्भृतवीरसिंहनृपतेराप प्रतापोदया- हावोद्दामहुताशनाहितचमुरादेंन्धनस्य थियम् ।। या(२) चाऽन्तः स्फुटति ध्वनि प्रकटयत्यप्यश्रुधारारसा- विर्भावं तनुते तनोति कुयशोधूमैर्जगच्छयामलम् ॥ ४ ॥ गाम्भीर्य बहु वीरसिंहनृपतेरम्भोधिरन्तः स्मरन् दुर्वारौर्वशिखिच्छलेन निविडप्रौढोपतापं दधौ ॥ स्मारंस्मारमुदारसारनधिकोदश्चच्चमत्कारतो जातो ऽचेतन एव जातजडिमा श्यामाकृतिः माधरः ॥ ५॥ वाल्याऽवाल्यान्तरालस्थगितमिव मनः कामकौमारकेली- मस्वाकुर्वन् किशोरीचरण इवरिपुश्चञ्चलीभूय भूयः ॥ (१) छा-इति खपुस्तके पाठः। (२) येनाऽन्तः इति खपुस्तके पाठः ।
- २ याज्ञवल्क्यस्मृतिः [ आचाराध्यायः । क्रीडान्तावस्थकान्ताजन इव विगलत्कुन्तलो व्यस्तवासा यस्य प्रासाजरत्याः स्तन इव निपतन्नुन्नति नैव लेभे ॥ ६ ॥ भगोलाद् भूगोलाद्वहिरमियियासन्ति भवितुं पठानाः पाठीना इव जलविलीनां धियमधुः ।। मघो मोघारम्भोऽपसरति बुंदेलाकुलपती रणार्थ दुर्वारे रणति रणसारे रणभुवि ॥ ७ ॥ विभ्राणो बुधमित्रतां कविगुरू राजा धरानन्दनः शोभाभिर्विलसत्तमो दिवि लसत्केतुश्च भास्वत्सुतः ॥ इत्थं जन्यजनुर्नवग्रहतनुः किन्वस्ति तुङ्गः सदा सोद्रेकः किल वीरसिंहधरणीधौरेयचूडामणिः ॥ ८॥ शुभ्राभाविभवार्थमात्तवृपभो भोगीन्द्रभागीरथी- भास्वभूतिभनाथभूषितवपुः कैलासवासी भवन् । वीरश्रीयुतवीरसिंहनृपतेः सम्भाव्य शम्भुर्यशः शान्त्यै साम्यविधेर्वभार गरलं कण्ठे किमुत्कण्ठितः ?॥९॥ हेमोधिरकर्णिकापरमहाशैलौघसंवर्तिका व्यालेन्द्रकमृणालिका गजघटाव्यालीनभृङ्गालिका ।। सप्ताम्भोधिमधूलिकाविमलिका क्षोणीयशोमालिका सम्पर्के ऽप्रतिमल्लवीरनृपतेः शुभ्रारंविन्दायते ॥ १० ॥ व्रीडाभिर्जडिमोदयादुपलनां चिन्तामणिः पाशवं काम कामगवी च कल्पविटपी स्वर्गाटवी गाहते॥ आकण्योर्जितवीरसिंहनृपतेर्दानोर्जिहानं यशः सान्त नतया ऽद्य निर्दयमधो नेतारमस्तौद्वलिः ॥ ११ ॥ वसु वर्षति वीरसिंहदेवे जलदः केवलमम्बु यहिजेपु ॥ इयतैष यशोवदातविश्वो मलिनः सोऽजनि लज्जया तयैव ॥१२॥ दूराद् दुश्च्यवनो दिवस्पतिरभूहिकोणभाक् पावकः कीनाशः स्वयमेव दण्डमितवान् रक्षोपि रक्षोक्तिभाक् ॥ पाशं च स्वयमाददे पतिरपां वातो गतोऽश्यतां प्रस्थाने धनदोऽस्य गुह्यकपदं दुर्गाप्तिमुग्रो चरत् ॥ १३ ॥ आरोहो गीलतायाः सदुपकृतिपदं धर्मभूमीरुहाणा- मुंद्यानं शुद्धकीर्तरुपचयभवनं श्रीमृगीवागुरैव ॥ आकारो विप्रताया निधिरपि महसः सर्वविद्याऽनवद्यो .
उपोद्धातप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। - . यहारि द्योतते श्रीधुमणिरिव तमो मूर्च्छयन्मित्रमित्रः ॥ १४ ॥ क्ष्माचकं चार चक्रे समुचितनयतो रक्षितं भूमिदेवान् देवांश्च प्राप्तसेवान् विमलमपि यशो वीरसिंहो नरेन्द्रः ।। वित्तं मत्त्वाऽ प्यसारं वितरदविरतं याज्ञवल्क्योक्तिमुक्ता- हारं स्मृत्यर्थसारंरचयितुमथ स प्रादिशन्मित्रमिश्रम् ॥१५॥ उत्तंसस्तीरभुक्तेरखिलवुधगुरुः श्रीसदानन्दधीमान् श्रीभाजो मित्रमिधाजगदुपकृतये विभ्रदादेशदीपम् ॥ ज्ञानानां दैन्यदोपापहमकलिभयं याज्ञवल्क्योक्तिकोशाद् • दृष्ट्वा स्मृत्यर्थसारं समचिनुत यशोधर्मलक्ष्मीविहारम् ॥ १६ ॥ इह हि भगवता महर्पिणा याज्ञवल्क्येन लोकहिताय प्रणीतं धर्म- शास्त्रं तच्छिष्यप्रवरो मानवं भृगुरिव प्रश्नोत्तरप्रवन्धेन संक्षिप्य वक्तुं प्रस्तौति- योगीश्वरं याज्ञवल्क्यं सम्पूज्य मुनयोऽब्रुवन् ।। वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः ।। १ ॥ इत्येवं सम्प्रदायविदो ऽवतारयन्ति । परे पुनर्योगीश्वरमित्याद्यपि याज्ञवल्क्यप्रणीतमेव । 'कर्माण्यपि जैमिनिः फलार्थत्वात् 'इति [जै० सू० ३।१।४।] 'तदुपर्यपि वादरायणः सम्भवात्' [ व्र०सू०१।३। २६] इत्यादावाचार्याणामित्थमेव स्वग्रन्थे स्वनामकीर्तनस्य दर्शनात् । योगीश्वरमित्यादि स्वोत्कर्षकीर्तनं तु शिष्याणां श्रद्धादाक्य न त्वभिमानविशेपविजृम्भितमिति वर्णयन्ति । इदं च शास्त्रमध्यायत्रयात्मकम् । तत्र प्रथमेऽध्याये-(१) उ. पोद्घातप्रकरणम् [श्लो० १-९] (२) ब्रह्मचारिप्रकरणम् [ श्लो० १०-५० ] (३) विवाहप्रकरणम् [श्लो० ५२-८९ ] (४; जातिवर्णवि. वेकप्रकरणम् [श्लो. ९०-९६ ] (१), गृहस्थप्रकरणम् [श्लो. ९७-१२८ ] (६)स्नातकप्रकरणम् [श्लो० १२९-१६६ ] (७)भक्ष्याऽ. भक्ष्यप्रकरणम् [ श्लो० १६७-१८१] (८) द्रव्यशुद्धिप्रकरणम् [श्लो. १८२-१९७ ] (९) दानप्रकरणम् [ श्लो० १९८-२१६ ] (१०)श्राद्धः प्रकरणम् [श्लो० २१७-२७० ] (११) शान्तिप्रकरणम् [ श्लो. २७१- ३०८ ] (१२) राजधर्मप्रकरणम् [श्लो. ३०९-३६८ ] एवं द्वादश याज्ञवल्क्यस्मृतिः। [आचाराध्यायः । स- प्रकरणानि । द्वितीयतृतीयाध्याययोस्तु प्रकरणानि तत्र तत्राऽभि- धास्यन्ते । तदेतद्यथामति प्राचीननिवन्धानुपजीव्य व्याख्यायते । योगीश्वरामित्यादि । योगो वृत्तिनिरोधः तद्वतामीश्वरं - श्रेष्ट- म् । एतेन सार्वयं सूचितम् । यद्वा, प्रशंसायामिनिः । प्र- शस्तयोगवन्तमीश्वरमणिमादिविभूतियुक्तञ्च । अणिमादिकम- भिधाय 'ऐश्वर्य कारणैरेभिर्योगिनः प्रोक्तमष्टधा' इति मार्कण्डेय. पुराणात् । अब योगीश्वरपदप्रयोगान्मङ्गलमपि निवद्धं वेदितव्यम् । याज्ञवल्क्यमिति नामाऽनुकीर्तनम् । सम्पूज्य-कायवाङ्मनोभिः म्यक् समाराध्य । मुनयः सोमश्रवःप्रमुखाः । अब्रुवन् । किम् ? वर्णेत्यादि । वर्णाः ब्राह्मणादयः आश्रमाः ब्रह्मचर्यादयः 'ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये। आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेव- वाडवाः' इत्यनुशासनात् । इतरे-सङ्कीर्णाः। 'द्वन्द्वे च' इति सर्वनाम. संज्ञानिषेधादितराणामिति रूपम् । वर्णादीनां पुंस्त्वं चाऽत्र न वि. वक्षितं वीजाऽभावात् स्त्रीणामपि सङ्ग्रहः, सामान्यपरत्वानपुंस- (१)कतेतरशब्देन तासामप्युक्तिरित्यप्याहुः । तेषां धर्मान् स्मातीन् अस्मत्सन्देहास्पदत्वोचितान् । अशेषतः कात्यैन । नः अस्मान् । ब्रूहि । इत्थं व्याख्याने च केपाञ्चिद्धर्माणामग्रेऽनभिधानेऽपि न न्यू- नतेत्यवधेयम् । न च दण्डनीतिदारोपगमादीनां लौकिकत्वेन धर्मभि- नानामप्यभिधानादाधिक्यमाशङ्कनीयम् , तेषामपि नियमविपयतया धर्मत्वाद्विध्यादिविपयतयेव यागादीनां स्वरूपतस्तेपामलौकिकत्वात् । विध्युपलन्दानेन तु तेपामलौकिकत्वं दण्डनीत्यादीनां च नियमोपस- दानेनेति न कश्चिद्विशेषः । इदमेव चाऽभिसन्धाय भगवान् जैमिनिर्धर्म- लक्षणं विवक्षन्नसूत्रयत् "चोदनालक्षणोऽर्थो धर्मः"[ जै०सू० १११२१] इति। एतत्सूत्रव्याख्यानं च प्रकृतोपयोग्यपि विस्तरभयान्नेह ततमन्यत्र द्रष्टव्यम् । धर्मानित्याद्यर्थवहुवचनेन चतुर्वर्गस्य ग्रहणमिति स्मृतयः। अतो धर्मोऽभिधेयः कण्ठत एव दर्शितः । स च पद्धिधः-वर्णधर्म, आ- श्रमधर्मो, वर्णाश्रमधर्मो,गुणधर्मो, निमित्तधर्मः, साधारणधर्मश्च। तत्रा- ऽऽद्यो मद्यपानवर्जनादिः, द्वितीयो भैक्ष्यचर्यादिः तृतीयः पालाशदण्ड- धारणादिः, चतुर्थः शास्त्रीयाभिपेकादिगुणयुक्तस्य राज्ञः प्रजापालना- दिः, पञ्चमः प्रायश्चित्तम् , षष्ठः-अहिंसादिः । द्विविधश्च प्रवृत्तनि. (२) सकलिङ्गेनेतरशब्देन इति खपुस्तके पाठः ।
उपोद्घातप्रकरणम् ] वीरमित्रोदयमिताक्षरासहिता । . वृत्तभेदात् । तथा च मनुः- प्रवृत्तञ्च निवृत्तञ्च द्विविधं कर्म वैदिकम् । इह चाऽमुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते । निष्कामं शानपूर्व तु निवृत्तमुपदिश्यते । त्रिविधश्च नित्यनैमित्तिककाम्यभेदादिति विवेक्तव्यम् । प्रयो- जनं तु स्वर्गाद्यलौकिकश्रेयःसाधनवाचिना धर्मपदेनैव सूचितम् । धर्मज्ञानादिप्रणाडिकयतच्छास्त्रस्य धर्मप्रयोजकतायाः कटाक्षितत्वा. दिति ॥ १ ॥ (मिता० ) धर्माधर्मी (१)तद्विपाकास्त्रयोऽपि (२)क्लेशाः पञ्च प्राणिनामायतन्ते ॥ यस्मिन्नेतैनों परामृष्ट ईशो यस्तं वन्दे विष्णुमाकारवाच्यम् ॥१॥ याज्ञवल्क्यमुनिभाषितं मुहु- विश्वरूपविकटोक्तिविस्तृतम् ॥ धर्मशास्त्रमृजुमिर्मिताक्षरै- लबोधविधये विविच्यते ॥ २॥ याज्ञवल्क्यशिष्यः कश्चित्प्रश्नोत्तररूपं याज्ञवल्क्यमुनिप्रणीतं धर्म- शास्त्रं संक्षिप्य कथयामास । यथा (३)मनुप्रणीतं भृगुः । तस्य चायमाद्यः श्लोकः- योगीश्वरमिति । योगिनां सनकादीनामीश्वरः(४)श्रेष्ठस्तं याज्ञवल्क्यं सम्पूज्य मनोवाकायकर्मभिः पूजयित्वा मुनयः(५)सोमश्रवःप्रभृतयःश्र- वणधारणयोग्या अब्रुवन् उक्तवन्तःधर्मान्नोऽस्मभ्यं (६)बहीति । कथम्? (१) जात्यायु गा विपाकाः । (२) अविद्यास्मितारागद्वेषाऽभिनिवेशाः पञ्च से शाः ॥ ( पात० सू० २।३।) तत्राविद्या नाम अनित्ये, अशुचौ, दुःखे, अनात्मनि च नित्यशुचिसुखात्मना प्रत्ययः । वस्तुतोऽत्यन्तविभ- तयोरपि दृशक्तिदर्शनशक्त्यात्मनोः पुरुषबुद्ध्यारनायविधामहिम्ना बुद्ध्येकात्मतावभासः पु- रुपस्यास्मिता। अनुभूतसुखस्य तत्र तत्साधने वा लोभी रागः। अनुभूतदुःखस्य तत्र तत्साधनेवा परिजिहीर्षा द्वषः ॥ पामरस्येव श्रुतानुमितविधोकनोअप विदुषो यो नैसर्गिको रूठो मरणादेस्त्रासः सोऽमिनिवेशः । • (३) मनुन नं ० (१) प्रभुस्तं ख० (५) सोमप्रदादयः क० (६)हि कथयेति क.
६ याज्ञवल्क्यस्मृतिः [ आचाराध्यायः । - अशेषतः कात्सर्यन केषाम् वर्णाश्रमेतराणाम् वर्णा ब्राह्मणादयः, आश्रमा ब्रह्मचारिप्रभृतयः, इतरे ऽनुलोमप्रतिलोमजाता मूर्धावसि- कादयः । इतरशब्दस्य 'द्वन्छे च' इति सर्वनामसंज्ञाप्रतिषेधः । अत्र च धर्मशब्दः (१)षड्विधस्मार्तधर्मविषयः । तद्यथा-वर्णधर्म, आश्रमध. र्मों, वर्णाश्रमधर्मो, गुणधर्मो, निमित्तधर्मः, साधारणधर्मश्चेति । तत्र वर्णधर्मो 'ब्राह्मणो नित्यं मद्यं वर्जयेत्'इ २)त्यादिः । आश्रमधर्मोऽग्री- न्धनभैक्ष्यचर्यादिः वर्णाश्रमधर्मः पालाशो दण्डोब्राह्मणस्य'इत्येवमा. दिः । गुणधर्मः शास्त्रीयाभिषेकादिगुणयुक्तस्य राज्ञः प्रजापरिपा- लनादिः । निमित्तधर्मों विहिताकरणप्रतिपिद्धसेवननिमित्तं प्रायश्चि. त्तम् । साधारणधर्मोऽहिंसादिः । 'न हिंस्यात्स(३)र्वाभूतानि इत्याच- ण्डालं साधारणो धर्मः । 'शौचाचा(४)रांश्च शिक्षयेत्'इत्याचार्यक. रणविधिप्रयुक्तत्वाद्धर्मशास्त्राध्ययनस्य प्रयोजनादिकथनं नातीवो- पयुज्यते । तत्र चायं क्रमः । प्रागुपनयनात्कामचारकामवादकामभ. क्षाः । ऊर्ध्वमुपनयनात्प्राग्वेदाध्ययनोपक्रमाद्धर्मशास्त्राध्ययनं, ततो धर्मशास्त्रविहितयमनियमोपेतस्य वेदाध्ययनं, ततस्तदर्थजिज्ञासा, ततस्तदर्थानुष्ठानमिति । तत्र यद्यपि धर्मार्थकाममोक्षाः शास्त्रेणानेन प्रतिपाद्यन्ते तथापि धर्मस्य प्राधान्याद्धर्मग्रहणम् । प्राधान्यं च धर्ममूलत्वादितरेषाम् । न च वक्तव्यं धर्ममूलोऽर्थो ऽर्थमूलो धर्म इत्य. विशेष इति । यतोऽर्थमन्तरेणापि(५)जपतपस्तीर्थयात्रादिना धर्म- निष्पत्ति, रर्थलेशोऽपि न धर्ममन्तरेणेति । एवं काममोक्षावपीति ॥१॥ मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाऽब्रवीन्मुनीन् ।। यस्मिन्देशे मृगः कृष्णस्तस्मिन् धर्मान्निबोधत ॥२॥ (वी० मि०) मिथिला विदेहनगरी तस्यां स्थितः । एतेन देशप्रक- पनिवन्धनोऽध्यापनोपयोग्युत्कर्षः सूचितः । स तथा पृष्टः योगीन्द्रः = योगिनां परमेश्वरोऽपि । क्षण कञ्चित्कालमभिव्याप्य । ध्यात्वा प्रकृत. (१)स्मतिकविषयः० (२) वर्जयेदिति क. (३ ) अयमेव पाठो युक्तः । सर्वभूतानि इति ख. पाठः. (१) श्रुत्युक्तशौचाचारान ख. (५) जपतीर्थयात्रा का खर ।
उपोद्धातप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ७ वचनौपयिकमर्थजातं कञ्चित्स्वरसतः, कञ्चिच्च मनःप्रणिधानेन चिन्त- यित्वा । 'क्षणमात्रमृपिस्तस्थौ सुप्तमीनो यथा इदः । सोऽपश्यत्प्रणि. धानेन' [रघु०१।७३,७४] इत्यादौ योगिनामपि सूक्ष्मेक्षणाय प्रणिधान- प्रतिपादनात् । अब्रवीत्-यस्मिन्देश इत्यादि । मुनीन् -मननशीलान् तर्को- पजीविन इति यावत् । प्राचीनाचार्यशैलीमनुसरता महर्पियाज्ञवल्क्ये. नाऽत्राऽनुक्तैरपि स्मृत्यन्तरोक्तैः कैश्चिचमरेतच्छास्त्रोपबृंहणे शि- प्याणां सामर्थ्य सूचनादनुक्त (१)निवन्धनान्यूनता परिहतत्यवधेयम् । धर्मान् बुभुत्सितान् । निवोधत=निसृष्टवोधविपयीकुरुत । योधस्य यथात्वं देशकालहेतुस्वरूपलक्षणप्रमाणफलादितत्तद्धर्मसम्बन्धि- क्रोडीकरणेनेति प्रथमतः प्राधान्यादेशेन धर्मान् विशिनष्टि । यस्मि- न्क्वचिदपि देशेम्भूभागे भारतवर्परूपे; तदुपक्रम्य 'कर्मभूमिरि- यं स्वर्गमपवर्गञ्च गच्छताम्' इति विष्णुपुराणात् । मृगः कृष्णः इण इत्यर्थः । चरति-स्वभावत इति शेषः। 'कृष्णसारस्तु चरति मृगो यत्र स्त्रभावतः' इति मनुवचनात् । तस्मिन् अनुष्ठेयान् । अत्र यस्मिन्नि- त्यादिसिद्धवल्लिखनाद्रह्मावर्तादेः पुण्यत्वाभिधानमन्यत्र प्रशंसार्थम् । आसमुद्रातु वै पूर्वादासमुद्राच पश्चिमात्.। तयोरेवाऽन्तरं गिर्यारार्यावर्त प्रचक्षते ।। इति मनुना कृष्णसाररहितस्याऽपि देशस्याऽऽर्यावर्तत्वकथनेन धर्मत्वप्रतिपादनं तु असम्पूर्णधर्माभिप्रायेण; विशिष्टदेशे धर्माणामेव विशेपणादधर्मोत्पत्तावार्यावर्तादिविशेपो नाऽपेक्षितः, किन्तु भारतव- र्पमात्रमिति मन्तव्यम् ॥ २॥ (मिता० ) एवं पृष्टः किमुवाचेत्याह- मिथिलास्थ इति । मिथिला नाम नगरी तत्रावस्थितः स याज्ञव- ल्क्यो योगीश्वरः क्षणं ध्यात्वा कञ्चित्कालं मनः समाधाय एते श्रव. णाधिकारिणो विनयेन पृच्छन्तीति युक्तमेतेभ्यो वक्तुमित्युक्तवान्मु- नीन् । किम् । यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्माभिवोधतेति। कृष्ण. सारो मृगो यस्मिन्देशे स्वच्छन्दं विहरति तस्मिन्देशे वक्ष्यमाणलक्ष- णा धर्मा अनुष्ठेया नान्यत्रेत्यभिप्रायः॥२॥ (१) दनुकानिवन्धनान्यूनता-इति खपुस्तके पाठः।
८ याज्ञवल्क्यस्मृतिः । [आचाराध्यायः। . (वी० मि० ) अथ धर्मस्य प्रयोजनहतुन् प्राधान्यगुणत्वाभ्यामापा. ततःसंमुग्धानेव प्रमितिप्रयोजकांश्च प्रदर्शयन् प्रकृतशास्त्रस्य पूर्वकटा- क्षितधर्मप्रयोजकताप्रकटनेन प्राक् सूचितं प्रयोजनसम्बन्धं स्फुटयति- पुराणन्यायमीमांसाधर्मशास्त्राङ्गामिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥३॥ पुराणानि- सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चेति पुराणं पञ्चलक्षणम् ॥ इति लक्षितानि । ब्राझं पानं वैष्णवं च शैवं भागवतं तथा । तथा ऽन्यनारदीयं च मार्कण्डेयञ्च.सप्तमम् ॥ आग्नेयमष्टमं चैव भविष्यं नवमं तथा । दशमं ब्रह्मवैवर्त लैङ्गमेकादशं स्मृतम् ॥ वाराहं द्वादशं चैव स्कान्दं चाऽत्र त्रयोदशम् । चतुर्दशं वामनकं कौम पञ्चदशं स्मृतम् ॥ मात्स्यञ्च गारुडं चैव ब्रह्माण्डश्च ततः परम् । इति विष्णुपुराणे दर्शितानि । कोर्मे तु (१)विष्णुपुराणमनन्तर्भाव्य वायुपुराणमुपादायाऽष्टद- शत्वमुक्तं तदनयोर्विकल्प एव । भागवतं प्रसिद्धमेव । अम्बरीषशुकप्रोक्तं नित्यं भागवतं शृणु । पठस्व स्वमुखेनैव यदीच्छसि भवक्षयम् ॥ इति वचनात् । यत्रोपक्रम्य गायत्रीमुच्यते धर्मविस्तरः । वृत्रासुरवधोपेतं तद्भागवतमुच्यते ॥ इति लक्षणस्य तत्रैव सम्भवाच्च ।प्रसिद्ध गायत्र्योपक्रमस्य व्या. ख्यातृभिर्दर्शितत्वात्पुराणान्तरे तल्लेशस्याऽप्यभावादिति निपुण. मालोचनीयम् । अत्र पुराणशब्देनोपपुराणादीन्यप्युपलक्ष्यन्ते । तत्र कूर्मपुराणम्- (१) विष्णुपुराणमुपादायति खपुस्तके पाठः ।
उपोद्धातप्रकरणम् । ] वीरमित्रोदयमितासरासहिता। . : अन्यान्यपि पुराणानि मुनिभिः कथितानि तु । आद्यं सनत्कुमारोक्तं नारसिंहमतः परम् ॥ .. तृतीयं पाद्ममुद्दिष्टं कुमारेण सुभाषितम् । चतुर्थ शिवधर्माख्यं. साक्षान्नन्दिप्रवर्तितम् ।। दुर्वाससोक्तमाश्चर्य(१) नारदोक्तमतः परम् । कापिलं वामनं चैव तथैवोशनसोदितम् ।। ब्रह्माण्डसंज्ञकं चैव'कालिकासंशमेव च । माहेश्वरं तथा साम्वं सौरधर्मानुसंश्रयम् ।। पराशरोक्तमपरं मारीचं भार्गवाह्वयम् । : : इदञ्च पञ्चदशमं पुराणं कौममुच्यते ॥ पद्म पुराणे यत्प्रोक्तं नरसिंहोपवर्णनम् । तदष्टादशसाहनं नारसिंहमिहोच्यते ॥ नन्दाया यत्र माहात्म्यं कार्तिकेयेन वर्ण्यते । नन्दापुराणं तल्लोके नन्दाख्यमिति कीर्त्यते ।। यत्तु साम्वं पुरस्कृत्य भविष्येऽपि कथानकम् । तत्प्रोच्यते पुनर्लोके साम्चमेव मुनिव्रताः ।। एवमादित्यसंज्ञा च तत्रैव परिगण्यते । 'अष्टादशभ्यस्तु पृथक् पुराणं यत्तु दृश्यते ॥ विजानध्वं मुनिश्रेष्ठास्तदेतेभ्यो विनिर्गतम् । विनिर्गतसुद्धृतम्। प्रमाणकरणे भविष्यत्पुराणम्- अष्टादश पुराणानि रामस्य चरितं तथा। विष्णुधर्मादिशास्त्राणि शिवधर्माश्च भारत ॥ कार्णञ्च पञ्चमं वेदं(?) यन्महाभारतं स्मृतम् ।. सौराश्च धर्मा राजेन्द्र ! मानवोक्ता महीतले ।। जयेति नाम एतेषां प्रवदन्ति मनीषिणः। न्याया'प्रमाणप्रमेय इत्यादि हेत्वाभासाश्च यथोक्ताः'इत्यन्तं पञ्चा- ध्यायीशास्त्रमक्षपादप्रणीतम् । न्यायपदेन च साक्षाच्छतिविचारो. दासीनानि वैशेपिकसायपातजलान्यपि गृहान्ते । मीमांसा श्रुत्यादि- विवारः कर्मविषयकः 'अथातो धर्मजिज्ञासा'[जै०सू०१।१।१] इत्या. . (१) दुर्वाससक्तिमाचर्य-इति ख. पुस्तके । २ । याज्ञवल्क्यस्मृतिः। [आचाराध्यायः । दिद्वादशाऽध्यायीरूपो जैमिनिप्रणीतः, ब्रह्मविषयकश्च 'अथातो ब्रह्म- जिज्ञासा[व० सू० १०१।१] इत्यादिचतुरध्यायीरूपो . व्यासप्रणीत इति द्विविधः । धर्मशास्त्राणि-स्मृतयो मन्वादिप्रणीता धर्मसंहिताः। दृष्टार्था तु स्मृतिः काचिदष्टार्थी तथा परा। दृष्टादृष्टार्थरूपाऽन्या न्यायमूला तथा परा ॥ अर्थवादस्मृतिस्त्वन्या शिष्टैर्टष्टा तुं पञ्चमी इति भविष्यत्पुराणे विभक्ताः । गृह्याणि स्मृतिरूपाण्येव । स्मृति- पदेन पञ्चरात्राण्यपि गृह्यन्ते,तेषामपि मन्वादिस्मृतिवदेव प्रामाण्यात्। अलाभे वेदमन्त्राणां पञ्चरात्रोदिते नये. आचारेण प्रपद्यन्ते मामायास्यन्ति मानवाः ॥ इति वाराहे श्रीभगवद्वाक्यात् । अभावे वेदमन्त्राणां पञ्चरात्रोदिते विधिः । इति तत्रैव वचनान्तरात्। पञ्चरात्रविधानेन. सम्पूज्य मधुसूदनम् । इति ब्रह्मपुराणात् । महाभारते पञ्चरात्राणां प्रशंसितत्वाच । एवञ्च वेदान्ते भट्ट(१)वाक्ये च पञ्चरात्राप्रामाण्याऽभिधानं वेद- विरुद्धपञ्चरात्रविषयमिति मन्तव्यम् । तथा हि-स्मृतिपादे विरोधे वनपेक्ष्यं स्यादसति हनुमानम्'. जै०-सू०.१ । ३ । ३..] इति सूत्रे प्रत्यक्षश्रुतिविरुद्धस्मृतिप्रामाण्यमनपेक्ष्यमिति व्यवस्थाप्यते। हेतुदर्श- नाच' [ जै० सू० ११३।४] इति सूत्रेऽपि. भट्टपादाः-(२) यान्येतानि त्रयीविद्भिर्न परिगृहीतानि किञ्चित्तन्मिश्र(३)धर्म(४)कञ्चुकच्छायाप- तितानि लोकोपसङ्ग्रहलाभपूजाख्यातिप्रयोजनपराणि त्रयीविपरीता- सम्बद्धदृष्टशोभादिप्रत्यक्षानुमानोपमानार्थापत्तिप्राययुक्तिमूलोपनिव- द्धानि सांख्ययोगपाञ्चरात्र(५)पाशुपतशाक्यनिर्ग्रन्थपरिगृहीत(६)ध. . (१) भट्टवार्तिके-~~ इति ख० पुस्तके (२) अयं पाठः 'बनारस संस्कृत सीरीज्' मुद्रितपुस्तकस्थः पृ० ११४-१५ (६) तुल्याश्रय-इति क. ख. पुस्तकयोः पाठः । (१)धर्म- इति ख० पुस्तके नाऽस्ति । (५) पाञ्चरात्र' इत्यस्य स्थाने 'मन्त्र' -इति क. ख. पुस्तकयोः पाठः । (६) धर्मा-इनि क, ख, पुस्तकयो स्ति. ।
। T . उपोद्धातप्रकरणम् । ] चीरमित्रोदयमिताक्षरासहिता । ११ ऽिधर्मनिबन्धनानि विषचिकित्सावशीकरणोच्चाटनोन्मादनादि(१)स. मर्थकतिपयमन्त्रीपधिकादाचित्कसिद्धि(२) चलेनाऽहिंसासत्यवचन- (३)दमदानदयाश्रुतिस्मृति(ट)संवादिस्तोकार्थगन्धवासितजीविका- प्रायार्थान्तरोपदेशीनि, यानि च बाह्यतराणि (५) म्लेच्छाचारमिश्र; फभोजनाचरणनिवन्धनानि, तेपामेवैतच्छतिविरोधहेतुदर्शनाभ्याम: नपेक्षणीयत्व(६) प्रतिपाद्यते इति प्राहुः । अत एव रत्नमालायां भोजराजेन प्रोक्तानी'त्यादिभगवद्वचनमु(७)दाहृत्य कूर्मपुराणवचनं प्रत्युदाहृतम् । अन्यानि चैव शास्त्राणि लोकेऽस्मिन् मोहनानि तु । वामं पाशुपतं सोमं लक्षणं(१) चैव रौ(८)रवम् ।। असत्यमेतत्कथितं चेदवाह्यं तथैव तत् । . वामपाशुपताचारास्तथा वै पाञ्चरात्रिकाः ।, भविष्यन्ति कलौ तस्मिन् ब्राह्मणाः क्षत्रियास्तथा ॥ पाश्चराविका वेदविरुद्धपञ्चरात्रव्यवहारिणः। अत एव चाऽग्निपुराणे पञ्चरात्रपरिगणने पाशुपतादिपञ्चरात्राणि पठितानि । यथा हयग्रीव उवाच- प्रोक्तानि पञ्चरात्राणि. सप्तरावाणि च मया । व्यक्तानि मुनिभिौके पञ्चविंशतिसंख्यया ॥ हयशीर्ष तन्त्रमाद्यं तन्वं त्रैलोक्यमोहनम् । वैभवं पौष्करं तन्त्रं प्राहादं गार्यमा(९)लवम् ॥ नारदीयं च माण्डव्यं शाण्डिल्यं वैश्वक तथा । सत्यो शौनकं तन्त्रं वासिष्ठं ज्ञानसागरम् ॥ स्वायंभुवं कापिलं च ताय नारायणीयकम् । तथा- ܢ ܐ (१) उत्सादनादि-इति क.ख. पुस्तकयोः पाठः। (२) कादाचित्कासिद्धि इति क. ख: पुस्तकयो स्तिः । (१) शमः इत्यधिक क. पुस्तके पाठः । (४) स्मृति-इति क. ख. पुस्तक्योर्नास्ति । (५) बापचराणि-इति क. पुस्तके पाठः । (६) अनपेक्ष्यत्वं-इति क. ख. पुस्तकयोः पाठः । (9) टपाकृत्य-इति क. पुस्तके, उराहत्य- इति ख० पुस्तके । (८) चौरवम्-इति ख० पुस्तके । (९) लाघवम्-इति 1.
'.. १२ याज्ञवल्क्यस्मृतिः। [ आचाराध्यामः । आत्रेयं नारसिंहाख्यं(१) मानदाख्यं तथारुणम् ॥ बौधायनं तथावार्ण(?)मित्युक्तस्तस्य(२'विस्तरः । एतत्सर्वमभिसन्धायाऽऽन्हिके पञ्चरात्रनिर्मूलत्वाभिधान निर्मूलं. मिति श्रीदत्तोपाध्यायानां सिंहनादः। पञ्चरात्रपाशुपतादीन्यपि शास्त्राणि वेदाविरुद्धभागेप्रमाणमेवेति पारिजातश्चेति सकलशिष्टानुमतार्थव्य वस्थापने कृतं बहुभिरावेशैरिति । एवमन्यान्यपि-स्मृतिरिति शिष्टाः' इत्यायुक्तप्रामाणिकनिवन्धेपुं लिखितांनि वाक्यानि ग्राह्याणि, महा- जनपरिग्रहात् । षट्त्रिंशन्मतादीन्यपि तथेति केचित् । नेति कल्पतरुः । अशानि='शिक्षाव्याकरणनिरुक्तच्छन्दः कल्पज्योतिषाणि वेदाङ्गा- नि' इति देवलोक्तानि । शिक्षा-वेदाध्ययनेतिकर्तव्यताप्रतिपादको याज्ञवल्क्यपाणिनिपराशरादिग्रन्थः । व्याकरणं-वृद्धिरादेच्' इत्यादि 'अ अ' इत्यन्तमष्टाऽध्यायीशास्त्रं पाणिनिप्रणीतमन्येषां वैदिकाऽ- व्युत्पादकत्वात् । निरुक्तं = यास्कप्रणीतो बैदिकपदार्थादिव्युत्पादको प्रन्थः । छन्दः गायत्र्यादिच्छन्दःप्रतिपादकं पिङ्गलप्रणीतं शास्त्रम् । कल्पः ज्योतिष्टोमाद्यनुष्ठानपद्धतयः कात्यायनवौधायनादिप्रणीताः। ज्योतिः ग्रहगत्यादिबोधक होराशास्त्रमिति प्रसिद्ध गर्गादिप्रणीतम् । एतैः पुराणादिभिर्मिश्रिता युक्ता वेदाः वैदिकयाज्ञिकानां मन्वा- दीनामभियुक्तानां वेद इति प्रसिद्धविषयाः शब्दाः, मन्त्राधिकरण- न्यायात् । अपौरुषेयवाक्यत्वं वेदत्वमित्येके । मीमांसासिद्धपौरुषेया. न्यजातीयव्याख्यानवाक्यत्वं तदिति कण्टकोद्धारः । केचित्तु न्यायनिवन्धप्रकाशे 'कथात्वं जाति' रिति (३)वर्द्धमान- चरणानां सोपपत्ति लिखनं पश्यन्तस्तहिशा 'वेदत्वं जाति'रिति प- रिष्कुर्वते । अखण्डोपाधिर्वेदत्वमिति तूच्छृहलाः। ते पुनश्चतुर्विधा 'ऋग्यजुःसामाथर्वाणो वेदाः' इति देवलादिभिर्वि- भज्व प्रतिपादिताः । तत्र ऋग्बहुलो वेदभाग ऋक्, यजुर्बहुलः स यजुः, सामबहुलस्तु साम । अदृष्टद्वारा दृष्टप्रयोजनक(४)कर्मप्रति. पादकवाक्यवहुलश्वाऽथर्वा । खिलशुक्रियौ त्वेतच्चतुष्टयान्तर्भूतावेव । (१) नारसिंह च-इति ख० पुस्तके । (२) तथावर्णतमित्युक्तस्य-इति क. पुस्तके, तथाणमित्युक्तस्य-इति ख. पुस्तके.! (३) बर्द्धमानेत्यादि-वेदत्वमिति सूच्छृखला इत्यन्तो भागः ख० पुस्तके नास्ति । (viकर्मप्रयोजको घेदभागः खिलः इति ख० पुस्तके । .
उपोद्घातप्रकरणम् ] वीरमित्रोदयमिताक्षरासहिता । १३ तत्राऽनिरुक्त इदानीमनुष्ठानप्रयोजको वेदभागः खिलः। शुक्रोक्तत्वेन ब्राह्मणे कीर्तितो वंदभागः शुक्रियः । आशिरस्त्वथर्वैकदेश एवेति । अथैतेऽपि चत्वारो वेदाः प्रत्येक द्विविधाः, मन्त्रव्राह्मणभेदात् । तत्र यानि प्रयोगकाले ऽनुष्ठानौपायकार्थाभिधानरूपाणि वेदवाक्यानि . तानि मन्त्रशब्देनोच्यन्त इति 'तञ्चोदकेषु मन्त्राख्या' [ जै० सू० २ । १।३२] इति मन्त्राधिकरणे व्यवस्थितम् । तत्रापि मन्वादीनां मन्त्रप्र. सिद्धिरेव मन्त्रलक्षणं विवक्षिताविवक्षितविवेकेन पर्यवस्यति । अत एव प्रायिकमिदमभियुक्तप्रसिद्धलक्षणार्थ यत्राभियुक्तानां मन्त्रप्रसिद्धिः समन्त्र इत्यर्थ इति पार्थसारथिमिश्राः। भगवान् जैमिनिरपि ऊहप्रवरनामधे. यानां मन्त्रत्वनिरासाय 'अनाम्नातेष्वमन्त्रत्वमाम्नातेपु हि विभागः स्यात् [जैसू०२।११३४] इति मन्त्रप्रसिद्धिमेवोपलक्षयतिआहुश्च भट्टपादा:- याशिकानां समाख्यानं विज्ञेयं मन्त्रलक्षणमिति । अत्र मन्त्रेत्युपलक्षणमिति ब्राह्मणस्य ऋग्यजुःसामादीनां सू. तानुवाकादीनां चेत्थमेव लक्षणं निरवद्यम् । सम्भवप्राचुर्यातु लक्षणान्तराण्यभिधीयन्त इति मन्त्रभागातिरिक्तो वेदभागो ब्राह्मणम् यदाह-'शेषे ब्राह्मणशब्दः' [जै० सू०२।१।३३]। मन्त्रवाक्याव. शिष्टं वेदवाक्यं ब्राह्मणमित्यर्थः । मन्त्रा अपि ऋचो यजूंपि सामानि निगदा मन्त्रा इति · कात्यायनेन विभक्ताः । यत्राऽर्थवशेन पादव्यवः स्थास मन्त्र ऋक् । यदाह-'तेपामृग्यत्रार्थवशेन पादव्यवस्था जै. सु०२।१।३५) । नियताक्षर(१)मन्त्र ऋगिति पर्यवसितार्थः । अनीयमानत्वं चाऽत्र विशेषणमादन्यथा सामन्यतिप्रसङ्गात् । अनि- यताक्षरावसानो मन्त्र पुरस्कृतगानों यजुः । इदन्तु नान्तरीयकतया कटाक्षयनेव यजुर्लक्षणमाह-शेषे यजुःशब्दः [ जै० सू०२।१। ३७] । ऋक्सामभ्यां यदन्यत्प्रश्लिष्टपठितं तद्यजुः । गीयमानो मन्त्रः साम। यद्यपि गीतमेव सामशब्दार्थत्वेनासिद्धान्तयत् सप्तमेऽध्याये। तथाहि-रथन्तरेण स्तुवीत' इत्यादिदर्शनादक्षरेषु तद्यपदेशः । एवं च मन्त्रविभागप्रकरणे सोमशब्दस्य गीयमानाक्षरपरतामेवाऽभिप्रय- नसूत्रयत्। 'गीतिपु सामाख्या [जै० सू०२।१।३६] । अक्षरपर तया कथंचित्सूत्रयोजनादितिः । निगदास्तु 'प्रोक्षणीरासाद (1) एतदप्रे-पादावसानो-इति ख. पुस्तके । ....
याज्ञवल्क्यस्मृतिः। ... [ आचाराध्यायः । .. । यति' इत्येवमादयः परसम्बोधनरूपा. मन्त्राः 1 निगदाधिकरणे 'निगदों वा चतुर्थ स्याद्धर्मविशेषात्[ जै० सू०. २ ॥ १।३८ ]इत्याः क्षिप्य यजुर्विशेषा :एवेत्यलिद्धान्तयत् । अत एव--- -अहेर्बुनिय मन्त्रं मे गोपाय, यंमृपयत्रयीविदो विदुः । ऋचः सामानि यजृषि' इति श्रुतौ विधैव मन्त्रः कथितो यद्यपि, तथापि 'उपांशुः यजुषा, उच्चैर्निगदेन' इत्यादौ विशेषसंज्ञापुरस्काराद्यजुर्विशेषप्रदर्शनाय नि- गदाः कात्यायनेन पृथगुपात्ता. इति मन्तव्यम् । ब्राह्मणन्तु द्विविध विध्यर्थवादभेदात् । परकृतिपुराकल्पी त्वर्थवादान्तर्भूताववः । तत्र विधिश्चतुर्दा-उप्तत्तिविनियोगप्रयोगाऽधिकारभेदात् । । विध्य- न्तराविषयपदार्थस्वरूपप्रतिपादकोऽपि विधिरुत्पत्तिविधिराद्यप्रा. रुप्तत्तित्वात् । तत्र चाऽस्य शब्दान्तराभ्यासगुणसङ्ख्यानामधेयप्र- करणाख्यानि षट् सहकारीणि । अथ 'अग्निष्टोमेन यजेत' इत्यादिपरा. (१)ीरूपशेषत्ववोधको विधिर्विनियोगविधिः। नियोगे चास्य 'श्रुति- लिङ्गवाक्यप्रकरणस्थानसमाख्या'रूपाणि पट् सहकारीणि । फल स्वामित्वरूपाधिकारखोधको विधिरधिकारविधिः । यथाः 'ज्योतिः टोमेन यजेत स्वर्गकामः' इत्यादिः । साङ्गप्रधानस्य युगपत्कर्तव्यता- बोधको विधि प्रयोगविधिः । करणानुगृहीतप्रत्येकंविधिविनियु- क्तप्रयाजादीनामष्टदोषदुष्टविकल्पसमाधानाय साँझोपेतप्रधानकर्ता व्यता: बोधयन् प्रधानविधिरेवः प्रयोगविधिरित्युच्यते । यथा 'ज्यो- तिष्टोमेन यजेत' इत्येवमादिरेवेत्याकाराद्विवक्तव्यम् । उत्पत्तिविधि- स्त्रिविधः, कर्ममात्रोत्पादकः अग्निहोत्रं जुहोति' इत्येवमादिः । गुण- विशिष्टकर्मोत्पादकः 'सोमेनः यजेत' इत्येवमादिः । गुणमात्रोत्पादको 'द(२)ना जुहोति इत्येवेति । विनियोगविधिरपि, त्रिधा-पूर्वविधिनि- यमविधिः परिसङ्घयाविधिश्चेति । यदाहुः-- विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके, सतिः । तत्र चाऽन्यत्र च प्राप्त परिसंचयति कीर्त्यते ॥ तत्राद्यो ज्योतिष्टोमेन यजेत स्वर्गकामः' इत्यादिः। द्वितीयोः 'बी. हीनवहन्ति' इत्यादिः । तृतीयः अश्वाभिधानीमादत्ते' इत्यादि। भाष्ये तु: 'पञ्च पञ्चनखाः भक्ष्याः' इति तृतीयोदाहरणं प्रकृतकारि- (१) पराय-इति ख. पुस्तके। (२) नाऽग्निहोत्रं जुहोति- इति क..पुस्तके. पाठः । .
उपोद्धातप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । १५ -- . काविस्तरभयान विवियते इति । अर्थवादास्तु स्तुतिनिन्दारूपाः । तत्राद्यो 'वायुर्वै क्षेपिष्टा देवता'इत्यादिः । द्वितीयस्तु 'न तस्याऽऽहुः तिमभ्यवहरन्ति य उदिते जुहोति' इत्यादिरित्याद्यन्यत्रानुसन्धे. यमित्यास्तां प्रसक्तानुप्रसक्तिविस्तरः । पुराणादीनामुपसर्जनीकरणं वेदानां प्राधान्यसूचनाय । विद्यानां पुरुपार्थसाधनज्ञानानाम् 1 अत एव धर्मस्याऽपि स्थानान्युपायाः विद्यायाः प्रवृत्तिद्वारा धर्मप्रयो. जकत्वात् । यद्यप्यन्यत्राऽष्टादश. विद्यास्थानान्युक्तानि । तथा च विष्णुपुराणम् ! ... अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश ॥ आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः। अर्थशास्त्रं चतुर्थ(१)च विद्या ह्यष्टादश स्मृताः ॥ तथापीह' वेदशव्देनोपवेदरूपाणामायुर्वेदादीनां ग्रहणात न न्यूनतेति वोद्धव्यम् । तेपां विद्यास्थानत्वेऽपि न धर्मस्थानत्वं धर्मे तात्पर्याऽभावादित्यप्याहुः । यत्तु ब्रह्मपुराणम् - वेदान्तः पञ्चदशमं विद्या.पोडशकं भवेत्-इति.! तत्र वेदान्तः शारीरकम् । विद्या=वृहदारण्यकादिरहस्यम् । ते चाऽत्र मीमांसावेदपदाभ्यामेव गृहीते इति सर्व चतुरस्त्रम् ॥ ३ ॥ (मिता०) 'शौचाचारांश्च शिक्षयेत्'इत्याचार्यस्य धर्मशास्त्राध्याप. नविधिः। शिष्येण तदध्ययन कर्तव्यमिति कुतोऽवगम्यत इत्यत आह- पुराणेति । पुराणं ब्राह्मादि । न्यायस्तर्कविद्या । मीमांसा वेवा- क्यविचारः । धर्मशास्त्रं मानवादि । अङ्गानि व्याकरणादीनि पट् । एते. रुपेताश्चत्वारो वेदाः । विद्याः (२)पुरुषार्थसाधनानि । तासांस्थानानि च चतुर्दश। धर्मस्य च चतुर्दश स्थानानि हेतवः। एतानि च त्रैवर्णिकै- रध्येतव्यानि(३)तदन्तर्भूतत्वाद्धर्मशास्त्रमप्यध्येतव्यम् । (४)तत्रैतानि ब्राह्मणेन विद्याप्राप्तये धर्मानुष्ठानाय चाऽधिगन्तव्यानि । क्षत्रियवैश्या- भ्यां धर्मानुष्ठानाय । तथाच शहेन विद्यास्थानान्युपक्रम्योकम्- (१)तु-इति ख० पुस्तके । (२) पुरुषार्थज्ञानानि क० पुरुषार्थसाधनज्ञानि ख. (३.) तदन्तर्गतत्वात् क० । (1)तन मानेनानि कर। .
याज्ञवल्क्यस्मृतिः ।.. [आचाराध्यायः। • . - 'एतानि ब्राह्मणोऽधिकुरुते स च वृत्ति दर्शयतीतरेषाम्' इति । मनुरपि द्विजातीनां धर्मशास्त्राध्ययनेऽधिकारों ब्राह्मणस्य प्रवचने नान्यस्येति दर्शयति (.२ । १६ ), (१। १०३.)- निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः। तस्य शास्त्रेऽधिकारोऽस्मिन् शेयो नान्यस्य(२) कहिचित् ॥ विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः। शिष्येभ्यश्च प्रवक्तव्यं सम्यङ्नान्येन केनचित् ॥ इति ॥ ३ ॥ (वीमि०)धर्मशास्त्रस्य प्रयोजनवत्वेऽपि प्रकृते किमायातमित्याः शङ्कय स्वसंहितायां धर्मशास्त्रत्वं दर्शयितुं तव्यवस्थायै धर्मशास्त्रप्रणे. तृनाह- मन्वविविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः। यमाऽऽपस्तम्बसंवाः कासायनबृहस्पती ॥४॥ पराशरव्यासशङ्खलिखिता दक्षगौतमौ शातातपो वसिष्ठश्च धर्मशस्त्रम(२)योजकाः ॥ ५॥ उशन इत्यन्तमेकभावी द्वन्द्वः । प्रयोजकाः प्रणेतारः । वसिष्ठ- श्चेति चो ऽनुक्तसमुच्चये, तेनाऽन्येषामपि ग्रहणम् ॥ तथा च शंखलिखितौ-स्मृतिर्धर्मशास्त्राणि तेषां प्रणेतारो मनु- विष्णुयमदक्षाङ्गिरोऽत्रिबृहस्पत्युशनआपस्तम्बवसिष्ठकात्यायनपरा. शरव्यासशङ्खलिखितसंवर्तगौतमशातातपहारीतयाज्ञवल्क्यप्रचेतसा- . दयः शिष्टाः। मनुर्वृहस्पतिर्दक्षो गौतमोऽथ यमो ऽङ्गिराः। योगीश्वरः प्रचेताश्च शातातपपराशरौ॥ संवतॊशनसौ शङ्खलिखितावत्रिरेव च । विष्ण्वापस्तम्बहारीता धर्मशास्त्रप्रवर्तकाः ॥ एते ह्यष्टादश प्रोक्ता मुनयो नयतव्रताः। जावालिनाविकेतश्च स्कन्दो लोगाक्षिकाश्यपौ ॥ व्यासः सनत्कुमारश्च सुमन्तुश्च पितामहः । व्याघ्रः कायाजिनिश्चैव जातूकर्णः कपिजलः ॥ (१) कस्यचित्०० ख० । (२) प्रवर्तकाः इति क० पुस्तके । .ܙ १७ उपोद्धातप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । बौधायनश्च काणांदो विश्वामित्रस्तथैव च । पैठीनसि!भिलश्च उपस्मृतिविधायकाः ॥ T तथा-- वसिष्टो नारदश्चैव सुमन्तुश्च पितामहः । वभुः कार्णाजिनिः सत्यव्रतो गार्ग्यश्च देवलः ॥ जमदग्निर्भरद्वाजः पुलस्त्यः पुलहः क्रतुः । आत्रेयः छागलेयश्च मरीचिर्वत्स एव च ॥ . पारस्करऋष्यशृङ्गो वैजवापस्तथैव च । इत्यन्ये स्मृतिकार एकविंशतिरीरिताः ॥ एभिर्यानि प्रणीतानि धर्मशास्त्राणि वै पुरा । तान्येतानि प्रमाणानि न हन्तव्यानि हेतुभिः ॥ अत्र मन्वादिभिरष्टादशभिः प्रणीताः स्मृतयः,जावाल्यादिभिरटा- दश(१)भिस्तु प्रणीता उपस्मृतय इत्यवान्तराविभागवत्योऽपि भविष्ये- मन्वादिस्मृतयो याश्च पत्रिंशत्परिकीर्तिताः। इति सामान्येनैवोक्ताः। वसिष्ठायेकविंशतिप्रणीतास्तु तथा स्मृ. । त्यन्तरेषु च'इत्यनेनोक्ताः। वृद्धमनुवृद्धवसिष्ठवृद्धशातातपलघुहारी तयोगियाज्ञवल्क्यादयस्त्ववस्थाभेदेन सविशेषणसंज्ञाव्यपदेशभाजों मन्वादय एवेति न पृथगुक्ताः । एवञ्च(२)याज्ञवल्क्यप्रणीतत्वात्स्व- कृतसंहिता धर्मशास्त्रमिति दार्शतम् ॥ ४ ॥५॥ ( मिता० ) अस्तुः, धर्मशास्त्रमध्येतव्यं, याज्ञवल्क्यप्रणीतस्या- ऽस्ये शास्त्रस्य किमायातमित्यत आह- मन्वत्रीति । पाराशरेति च । उशनःशब्दपर्यन्तो द्वन्द्वैकवद्भावः । याज्ञवल्क्यप्रणीतमिदं.धर्मशास्त्रमध्येतव्यमित्याभप्रायः नेयं परिसं- ख्या(३) किन्तु प्रदर्शनार्थमेतत् । अतो वौधायनादेरपि धर्मशास्त्र- त्वमविरुद्धम् । एतेषां प्रत्येकं प्रामाण्येऽपि साकाहाणामाकाहाप रिपूरणमन्यतः क्रियते । विरोः४)धे विकल्पः ॥ ४ ॥५॥ (१) अटादशभि-इति क. पुस्तके नारस्ति । (२)च-इति खपुस्तके नास्ति.। . (३) परिसंख्या नाम एकस्यानेकत्र प्रातस्यान्यतो निवृत्त्यर्थमेकप पुनर्वचनम् । एतस्तिरोऽमें ८२ श्लोकमिताक्षरायो द्रव्यः । (१) विरोधे तु ख. 1. w १८ याज्ञवल्क्यस्मृतिः। आचाराध्यायः। ." 1 (वी० मि०.) इदोनों धर्मस्य साक्षाद्धेतून देशादीनं प्रदर्शयन्नेव स्वरूपमप्याह--: देशे काल उपायन द्रव्यं श्रद्धासमन्वितम् ।। पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम् ॥ ६ ॥ देशः-कुरुक्षेत्रादिः। कालः-सूर्योपरागादिसमयः। उपाय:-इतिकर्त- व्यता । द्रव्यं-हिरण्यादि।श्रद्धा-वैदिककर्मणि फलावश्यंभावनिश्चयः,त. या सम्यक् हेतुभावेनाऽन्वितं यथा स्यात् । पात्रं-श्रोत्रियादि वक्ष्य- माणम् । सप्तमी.चेह चतुर्थ्यर्थे । प्रदीयत इति दानं ससम्प्रदानक- स्त्यागः, स्वस्वत्वध्वंसपरस्वत्वोत्पत्तिफलको विक्रयादिव्यावृत्त इच्छा विशेषोवा! तत्र प्रकर्षः प्रत्युपकारादिप्रतिसन्धानराहित्यं जातिगुणा- दिरूपदानोपयोगि तत्तन्निमित्तसाचिव्यञ्च । अत्र(१)दानं चतुषु धर्म- चरणेषु युगचतुष्टयावस्थायित्वन प्राधान्यादुदाहरणम् । शास्त्रदेशित- तत्तत्स्वकारकसंवलितानां यागहोमादीनां सर्वेषामुपलक्षणम् । यदिति देशादिरूपकारकविशिष्टंक्रियापरामर्शः । तदिति यच्छब्दाऽव्यवहि- तोत्तरस्थस्य तच्छन्दस्य यत्तदुर्जितम्' (वे०सं०१।१३) इत्यादाविवो- त्सर्गतः प्रसिद्धपरामर्शकत्वेऽपि 'मयि. क्रूरे यत्तत्सविषयमिव' इत्या- दाविव तदपवादेन यच्छन्दनिर्दिष्टार्थनिर्देशतैवेति स्मर्तव्यम् । सकलं- सम्पूर्णम् । धर्मलक्षणं-तत्स्वरूपं शास्त्रदोशतसम्पूर्णफलसम्पादकत्वात् । देशाधेकैकादिरहितं तु विफलं विफलतरं विफलतम, तारकफला. साधकत्वादित्याशयः । एवञ्च यागादिरूपो धर्मों यद्यदविशिष्टो वि- ध्युपदिष्टः तत्समुच्चयं वाऽनुष्ठेयः । अङ्गा(२)नां विरोधे. नैराकांक्ष्ये च विकल्पः, अनन्यगतिकत्वादनाकासिताऽनन्वयाच्च । यदाहुः-- विरोधे तु विकल्पः: स्यात् इति । स्मृतिशास्त्रविकल्पस्तु आकाजापूरणे सति । इति च । परन्त्वावश्यके कर्मणि शक्यानामेव काम्ये तु सर्वेषा. मङ्गानासुपसंहारः । सर्वशक्तिनयात्सङ्कल्पितं काम्यमपि नित्यवदे. व। यत्र तु काम्ये अङ्गवैगुण्येऽपि कुतश्चिन्निमित्तात्सम्पूर्णफलता (१) अन्नदानम् इति ख. पुस्तके पाठः । (१) अजानि-इति ख. पुस्तके पाठः । ।
उपोद्धावप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। १९ ऽल्पफलता वा शास्त्रे देशिता तत्र तदर्थना तादगवाऽऽचरणीय- यमिति विवेकः॥६॥ (मिता० ) इदानीं धर्मस्य कारकहेतूनाह- देश इति । देशो यस्मिन्देशे मृगः कृष्ण इत्युक्तलक्षणः । काल: सङ्क्रान्त्यादिः । उपायः शास्त्रोक्तेतिकर्तव्यताकलापः। द्रव्यं प्रति प्रहादिलब्धं गवादि । श्रंद्धा आस्तिक्यबुद्धिस्तदन्वितं यथा भवति तथा । पायं न · विद्यया केवलयेत्येवमाविवक्ष्यमाणलक्षणम् । प्रदीयते यथा न प्रत्यावर्तते तथा परस्वत्वापत्त्यवसानं त्यज्यते । एतद्धर्मस्योत्पादकम् । किमेतावदेव नेत्याह-सकलमिति । अन्य- दपि शास्त्रोक्तं आतिगुणहोमयागादि तत्सफलं धर्मस्य कारक, 'जातिगुणद्रव्यक्रियाभावार्थात्मकं चतुर्विधं धर्मस्य कारकमित्युक्त भवति । तच्च समस्तं व्यस्तं वा यथाशास्त्रं द्रष्टव्यम्। श्रद्धा सर्व प्रानुवर्तत एव ॥ ६॥ (वी० मि० ) सम्प्रति पुराणादिभ्यः पूर्वोक्तेभ्यो निष्कृष्य प्रधा- नीभूतं धर्म प्रमाण(१) दर्शयन्नेव प्रदीयत इत्यनेन कर्ममाओपलक्षणे लो- किकभोजनादेरपि धर्मरूपतासक्ति व्युदसितुमुपलक्ष्यतावच्छेदक धर्मलक्षणमि(२)त्याह- श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।। सम्यक्सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम्॥ ७ ॥ श्रुतिर्वेदः । स्मृतिर्धर्मशास्त्रम् । यदाह मनुः- श्रुतिश्च (३)वेदो विशेयो धर्मशास्त्रन्तु वे स्मृतिः। सदाचारः। साधवः क्षीणदोषाः स्युः सच्छब्दः साधुवाचकः तेपामाचरणं यतु सदाचारः स उच्यते ॥ इति विष्णुपुराणे दर्शितः। आचरणमलौकिकं तेन लौकिकभोजना- दिव्युदासः । स्वस्य प्रियं प्रीतिः कारणेन कार्यलक्षणात्, धर्मसन्देहे वैदिकसंस्कारवासितात्मनामकत्र पक्षे मनःपरितोष इति यावत् । (१) प्रधाने-दति क. पुस्तके पाठः। (१) मप्याह- इति ख.पुस्तके । (१) स्तु-दति ख. पुस्तके पाठः । - २० याज्ञवल्क्यस्मृतिः । आचाराध्यायः । इ. यदाहु टपादाः- एतेन वैदिलानकधर्मश्रीसंस्कृतात्मनाम् । आत्मतुष्टेः प्रमाणत्वं सिद्धं धर्मप्रसिद्धये ॥ इति । आत्मन इति न तु सर्वस्य । - एतच्चैकदेशभू(१)मतेऽपि धर्मेऽन्वितं योग्यताबलात् । सम्यक सङ्कल्पात् रागद्वेषादिरहितात् शा(३)नात् जातः कामो ब्राह्मणोपचिकीर्षादिः ।। अद्रोहः सर्वभूतानां कर्मणा मनसा गिरा। अनुग्रहश्च ज्ञानञ्च शीलमेतद्विदुर्बुधाः ।। इति महाभारतादौ . शीलपरिगणनेऽनुग्रहादिशब्दनोक्तः दम्-एते । मूलमिति विधेयलिङ्गसङ्ख्याग्रहणात् तच्च पञ्चस्वन्यापेक्ष- या प्रधानीभूतेष्वपि श्रुत्यादिषु. एकस्य श्रुतिरूपस्य प्रमाणस्या- ऽतिप्राधान्यसूचनाय धर्ममूलं धर्म प्राधान्येन प्रमाणम् । प्राधान्यं च साक्षाद्वाधकतया । तथा च मनुः-- वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ साक्षात् श्रुत्यनुग्राहकतया लक्षणं प्रमाणम् । यद्यपि-- वेदो ऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।। • आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ इति मनुनैव शीलमप्यधिकमुक्तं तथाऽपि (३)तस्याऽद्रोहादिरूप- स्य भारतोक्तस्य ब्रह्मण्यता देवपितृभक्तता सौम्यता परोपता- पिता ऽनसूयता मृदुता ऽपारुष्यं मित्रता प्रियवादिता कृतज्ञता शर ण्यता प्रशान्तिश्चेति त्रयोदशविधं शीलमिति। ब्रह्मण्यतादेः हारीतो- क्तस्य च शीलस्याऽऽचार एवान्तर्भावान्नाऽत्र पृथगुक्तम् । देवभक्त- ता पितृभक्तताचेति वें । प्रायः परोपकारपर्यवसायितया ऽऽचारान्त. रादभ्यर्हितत्वेन वचनान्तरे 'गोवलीवर्द' न्यायद्भिदेनोपन्यस्तम् । एवं सम्यक् सङ्कल्पः काम इति प्रकृतवाक्येऽपि बोद्धव्यम् । तत्रंच (४)श्रु- तिरनिहोत्रादौ । स्मृतिरन्वष्टकादौ। आचारों होलकादौ । आत्मतुष्टि- (भूपतेऽपि---इति कख० पुस्तकयोः पाठः । (२) जनात्-इति क० पुस्तके पाठः । (३) अपि-इत्यधिकं ख० पुस्तके । (१) ब-इति क. पुस्तके नास्ति । • • " . --- .
उपोद्धातप्रकरणम् ] वीरमित्रोदयमिताक्षरासहिता । २१. रभ्यासादि(१)सन्देहविषयप्रायश्चित्तव्रतादी। तथा च प्रायश्चित्तप्र- करणे वृहस्पतिः- यस्मिन्कर्मण्यस्य कृते मनसः स्यादलाघवम् । तस्मिँस्तावत्पुनः कुर्याद्यावत्तुष्टिकर भवेत् ॥ इति । अलाघवं पापशून्यताप्रतिसन्धानविरहः, तन्निवन्धनोऽपरितोप इति यावत् । अव्यवस्थितविकल्पविषयप्राङ्मुखोदङ्मुखाचमनादावे- व मनस्तुष्टिः स्वविषये ऽन्यतरस्मिन् धर्म प्रमाणमिति बहवः । तुष्टि- स्तु यस्य तस्यैव धर्म प्रमाणमित्युक्तम् । कामस्तु प्रत्यक्षश्रुत्याद्यवोधि- ते ब्राह्मणोपकार (२)विशेषादी भोजनव्यतिरेकेण मया जलपानं न कर्तव्यमित्याद्याकारस्तदकरणादाविति तु विश्वरूपः। अंत्र पुराणादीनां स्वर्गादिकथाप्राधान्यादितिहासबहुलत्वेनाऽर्थवादादिरूपतया न्याय- मीमांसयोस्तर्कद्वारा शिक्षादीनामझानां तत्तदुपकारसम्पादनेन वे. दाऽनुग्राहकतया धर्मे प्रामाण्यं न साक्षादिति न तान्यत्र गणितानि । स्मृत्यादयस्तु श्रुतिमनुमापयन्तो ऽपि तामननुगृहन्त एव धर्म प्रमाण मिति तेषामत्र ग्रहणमिति विवेक्तव्यम् । एवं श्रुतिप्रमाणकधर्मस्य ल. क्षणमपि दार्शतम् । (३)स्मृत्यादिमूलकस्याऽपि धर्मस्याऽवश्यापेक्षि- तवेदप्रमाणकत्वात् । सर्वेषां वेदानां मुख्यतो धर्म एव तात्पर्यपर्यव- सानेन तत्रैव प्रामाण्यात्। 'चोदनालक्षणोऽर्थो धर्मः' (जै सू० १०१२) इति सूत्रे तु कलअभक्षणादेरधर्मस्यापि चोदनालक्षणत्वमङ्गीक- त्याऽर्थपदेन वारणं कृतमित्यवधेयम् ॥ ७ ॥ (मिता) इदानी धर्मस्य शापकहेतूनाह- श्रुतिरिति । श्रुतिर्वेदः । स्मृतिधर्मशास्त्रम् । तथाच. मनुः (२०१०) श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः इति । सदाचारः सः तां शिष्टानामाचारोऽ(४)नुष्ठानम् । स्वस्य चात्मनः प्रियं, वैकल्पिके विपये यथा 'गर्भाटमेऽष्टमे वान्दे' इ(५)त्यांदावात्मेच्छवःनियामिका। ... (१) अभ्यासानभ्यासादि-इति ख० पुस्तके पाठः । (२) ग्राह्मणोकार-इति क० पुस्तके, माह्मणोपरोपकार-इति तु ख० पुस्तके पाठः । (३) श्रुत्यादि-इति ख० पुस्तके । (४) 'नुष्ठानं नाशिष्टानाम् ख०। (५) इत्यधारमेष, इत्यादिष्यात्मच्दैष खः ।
२२ ; : याज्ञवल्क्यस्मृतिः। [आचाराध्यायः । सम्यक्संकल्पाज्जातः कामः शास्त्राविरुद्धो (१)यथा- मया भोजनव्य- तिरेकेणोदकं न पातव्यम्' इति । एते धर्मस्य मूलं प्रमाणम् । एतेषां विरोधे पूर्वपूर्वस्य बलीयस्त्वम् ॥ ७ ॥ (वी० मि०) नन्विदं धर्मलक्षणमात्म(२)तत्त्वसाक्षात्कारेऽति- व्यापकम् । न च सोऽपि. धर्म एव यागादीनामिव कर्मकाण्ड एंव व्युत्पादनप्रसंङ्गादित्याशङ्कायामाह- इज्याऽऽचारदमाहिंसादानस्वाध्यायकर्मणाम् ॥ अयन्तु परमो धर्मो यद्योगेनाऽऽत्मदर्शनम् ।। ८ ॥ इज्या-यागः । आचारः-आह्निकादिः । दमः-इन्द्रियनिग्रहः। अहिंसा-वि. हितातिरिक्तहिंसाविरहः । दानम्-उक्तम् । स्वाऽध्यायः-वेदाध्ययनम् । कर्म-इज्याद्यतिरिक्तं होमादि, 'गोवलीवर्द'न्यायात् पृथगुक्तम् । तेषां मध्ये योगेनाऽष्टाङ्गेन तु मनःसन्निकर्षमात्रेण यदात्मदर्शनम्-आत्मत- त्वसाक्षात्कार इति फलितार्थः । सोऽयं परमो धर्मः। 'पवनाग्निसमा- गमो ह्ययं सहितं ब्रह्म यदत्रतेजसा'(रघु०८।४) इत्यादौ प्रकंस्यमान- लिङ्गस्याऽपि प्रक्रान्तलिङ्गस्येव सर्वनाम्ना ग्रहणदर्शनान लिगाः सङ्गतिः । क्वचिद(३)यं त्विति पाठः । तत्र तुशब्दः कर्मणामित्यनन्तरं योज्यः, तेन- तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च । युगपत्रितयाऽभ्यासाजीवन्मुक्तिदृढा भवेत् ।। इत्युक्ताभ्यासावच्छेदः। तस्य तत्त्वसाक्षात्कारादप्युत्कर्षाद्य (४)- थाश्रुतक्रमे कर्मणामिति निर्धारणषष्ठयेव। तुशब्दस्य गतार्थत्वादित्य- वधेयम् । यद्वा कर्मणामिति शेषषष्ठी इज्यादिकर्मसम्बन्धितनिमित्त. कमात्मदर्शनमित्यर्थः। तमेतं ब्राह्मणां विविदिषन्ति यज्ञेन दानेन त. पसा ऽनाशकेन' इत्यादिश्रुतेः। परमत्वं त्वात्मदर्शनस्य । सकलप्रयो. जनमौलिभूतमोक्षान्तरङ्गत्वादिज्यादीनामपि तादात्तत्तवान्त. रफलस्य स्वर्गादेरानुषङ्गिकत्वात् । तथा चैतेनोत्कर्षेणेज्यादिधर्मे- (१) शास्त्राविरुद्धः कामों यथा ख० ।। (९) वत्त्व-इति क. पुस्तके पाठः । (६) क्वचिदयविति-इति ख० पुस्तके पाठः । (४) तथा- इति ख० पुस्तके पाठः ।
उपोद्धातप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। २३ भ्यो नि[१]कृष्य धर्मरूपस्यात्मदर्शनस्य शानकाण्डे ऽभिधानमिति सर्वचतुरस्रम् । क्वचित्तु कर्मणामित्यत्र कर्म वेति । स इत्यत्र चेति पठितं व्याख्यातं च धर्मस्वरूपमाह-इज्योति प्रदर्शनमात्रमेतत् । तेन वैदिकं सर्व धर्मधर्मः, भात्मदर्शनश्च प्रकृष्टोधर्म इति । देशे का. ल इत्यादिवचनं तु धर्मकारकप्रदशर्नमात्रपरतयवाऽवतारितमिति तदनञ्जसम् ॥ ८॥ (मिता० ) देशादिकारकहेतूनामपवादमाह- इज्येत्यादि । इज्यादीनां कर्मणामयमेव परमो धर्मः, यद्योगेन बा. ह्यचित्तवृत्तिनिरोधेनात्मनो दर्शनं याथातथ्यज्ञानम् । योगेनात्मक्षाने देशादिनियमो नास्तीत्यर्थः । तदुक्तं . 'यत्रैकाग्रता तत्राविशेपात्' इति पातञ्जले ॥ ८॥ ( वी० मि.) ननु श्रुतिः स्मृतिः सदाचार इत्यादिवर्मप्रमाण- गणनं नूनं धर्माऽधर्मसन्देहस्थले तन्निर्णायकत्वेन बहुशः शास्त्रवोधि. तस्य पर्षदादिवचनस्याऽनभिधानादित्याऽऽशङ्ख्य · शिष्टविशेषसमु. दायादिरूपं पर्षदादिस्वरूपं प्रदर्शयन्नेव [२] न केवलं सदाचार । शब्देन शिष्टानां कायक्रियवाऽत्राऽभिप्रेता किन्तु नामवचनमपति न न्यूनत्वमित्यभिप्रयन्नाह- चत्वारो वेदधर्मज्ञाः पर्पविद्यमेव वा(३) । सा ब्रूते यं स धर्मः स्यादेको (४)वाऽध्यात्मवित्तमः ॥९॥ वेदा-ऋगादयः। धर्मा-धर्मशास्त्राणि । तज्ज्ञाश्चत्वारः पर्पत् ।' ते च ब्राह्मणा ग्राह्याः । तथा च मनुः-- अनाम्नातेषु धर्मेषु कथं स्यादिति चेद्भवेत् । यं शिष्टा ब्राह्मणा व्रयुः स धर्मः स्यादशङ्कितः ॥ तिम्रो विद्या वेदा येपान्ते त्रिविद्याः तेषां समूहविद्यं भिक्षादि- त्वादण तद्वा पर्पत् । तथा च मनु:- (१) निटस्य-इति ख० पुस्तके । (२) च-इति ख० पुस्तके नास्ति । (३) च-इति क० पुस्तके। (१):एकोऽप्यध्यात्मवि-इति १० ब० पुस्तकयोः पाठः। - : ..
२४ याज्ञवल्क्यस्मृतिः। [ आचाराध्यायः . ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च । व्यंवरा परिषत् ज्ञेया धर्मसंशयनिर्णये ॥ ' योऽवराश्चरमः पक्षो यस्यां सा । एतेन संख्यान्तरमपिसूचितम्। (१)तथा चाऽशिराः- एकविंशतिसंख्यातैर्मीमांसान्यायपारगैः । वेदार्थकुशलैश्चैव परिषत्त्वं प्रकल्पयेत् ॥ .:: मनु:- विद्यो हैतुकस्तर्की नैरुक्तो धर्मपाठकः । प्रयश्चाऽऽश्रमिणः पूर्व परिषत्स्याद्दशावरा ॥ विद्यस्त्रयीवेत्ता। हैतुकोऽनुमानज्ञः। तर्की सत्तर्कक्षुण्णमतिः । तथा च मनु:- :: आर्ष धर्मोपदेशं च घेदशास्त्राविरोधिना यस्तर्केणाऽनुसन्धत्ते स धर्म वेद नेतरः ॥ नरुक्तो निरुक्तज्ञः। धर्मपाठको धर्मशास्त्राभिज्ञः प्रायश्चित्तादिनि: देष्टा-यमनुवादक इति लोका वदन्ति पठन्ति च- वेदविद्यावतस्नातः सत्यसन्धो जितेन्द्रियः । अनेकधर्मशास्त्रज्ञः प्रोच्यते धर्मपाठकः ।। पूर्व ब्रह्मचारिगृहस्थवानप्रस्थाः एते च कल्प्याः कार्यलाघवगौ- रवयोः गुणप्रकर्षनिष्कर्पयोश्च तारतम्येन व्यवस्थाप्याः । सर्व (२) चेदं प्रदर्शनार्थम् । यावद्भिर्यत्र धर्मनिरूपणं सम्भवति तावद्भिस्तत्र प- रिषत् । अत एव यमः- एको द्रौं वा त्रयों वापि यद् ब्रूयुर्धर्मपाठकाः । स धर्म इति विज्ञेयो नेतरेषां सहस्रशः ॥ इत्यास्तां विस्तरः । प्रकृतमाह सां पर्षत् यं धर्म इति ब्रूते स धर्मः । अ- ध्यात्मवित्तमः-आत्मानमधिकृत्य प्रवृत्तं शास्त्रमध्यात्म तद्विदा श्रेष्ठः आत्मतत्त्वसाक्षात्कारवानिति यावत् । एकोऽपि यं ब्रूत इत्या. धनुषञ्जनीयम् । पर्षदादिवचनमिव 'स्त्रीभ्य(३)श्चावरवर्णेभ्यो धर्मशेर षान् प्रतीयात् इत्येक इत्येके' (आप० ध० सू० २१ २९ । १५) इत्यक (१) यथा-इति क० पुस्तके । (२) वेदं-इति क. पुतस्के । (३) स्त्रीभ्यस्सवर्णेभ्यश्च-इति 'मयनराजकीयसंस्कृतपुस्तकमाला'मुद्रित पुस्तके पाठः ।
उपोद्धातप्रकरणम् ।] पीरमित्रोदयमिताक्षरासहिता। २५ . इत्यापस्तम्बोक्तस्त्रीशुदाद्याचारोऽपि वेदाद्यविरुद्धः परम्पराप्राप्तः सदा चारश(१)ब्देनैव सङ्ग्राह्यः । एकः-इत्यनेनाऽन्यादृशतदाचारेऽस्वरसः सूचितः। न च स्यादीनां निरुक्तसंस्वाभावात् शास्त्रविरोधश्च(२) कथा मेवमिति वाच्यं, क्षीणदोपत्वेन प्रकृतार्थ भ्रान्तेरुपलक्षणात। अन्यथेदा. नीन्तनानां प्रायशोऽध्यापनात् । शास्त्रविरोधश्च सर्वथैव सदाचारे- पूपसंहर्तव्यः। अन्यथेन्द्रकृताहल्यासङ्गमादेव (३)शिष्टकृताक्षमालोप- यमा[४] देव धर्मे प्रामाण्यापत्तेः । अत एव महाभारते- कृतानि यानि कर्माणि देवतैर्मुनिभिस्तथा । न चरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत् ॥ इत्यास्तामतिविस्तरः ॥ ९ ॥ इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमरीनीराजितचर: णकमलश्रीमन्महाराजाधिराजमधुकरसाहिसुनुश्रीमन्महाराज चतुरुदधिवलयवसुन्धराहृदयपुण्डरीकविकासदिनकर श्रीवीरसिंहदेवोद्योजितश्रीहंसपण्डितात्मज श्रीपरशुराम- मिश्रसूरिसूनुसकलविद्यापारावारपारीणधु. रीणश्रीमन्मित्र मिश्रकृते श्रीवीरसिंह- मित्रोदयाख्याने श्रीयाज्ञवल्क्य- व्याख्याने उपोद्घात- प्रकरणम् ॥१॥ (मिता० ) कारकहेतुषु ज्ञापकहेतुषु वा सन्देहे निर्णयहेतूनाह- चत्वार इति । चत्वारो ब्राह्मणाः वेद(५)धर्मशास्त्रज्ञाः पर्पत् । ति. स्रो विद्या अधीयन्त इति विद्यास्तेषां समूहस्रीविद्यम् । धर्मशास्त्रज्ञ- त्वमत्राऽप्यनुवर्तते तदा पर्षत् । सा पूर्वोक्ता पर्पत यं ब्रूते स धर्मः । अध्यात्मशानेषु निपुणतमो धर्म(६)शास्त्रज्ञश्च एकोऽपि वा यं ब्रूते सोऽपि धर्म(७) एव ॥९॥ इत्युपोद्धातप्रकरणम् । (१) धणेव इति क. पुस्तके। (१) शास्त्रविरोधश-दति क. पुस्तके नास्ति । (१)ी इत्ति क. पुस्तके। (१) सा-इति क. पुस्तके. (५) वेदशानधर्मज्ञाः ख. (६) घेदधर्मशामराश ख. (१) सोपि धर्मः स.
२६ याज्ञवल्क्यस्मृतिः। [आचाराध्यायः । अथ ब्रह्मचारिप्रकरणम् २ ( वी०मि० ) अथ वर्णधर्मषु वक्तव्येषु वर्णानाह- ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः ॥ निषेकाद्याः श्मशानान्तास्तेपां वै मन्त्रतः क्रियाः ॥१०॥ ब्रह्मन्ब्राह्मणःकचिद्विप्रेतिपाठः।कर्माधिकारिविभागाय द्विजान् विविनक्ति-'त्वाद्यास्त्रयो द्विजाः'-अत्र तुशब्दस्य वर्णा इत्युत्तरं पाठात् स्वरूपस्य आद्या इत्यनन्तरं योजनादर्थस्य सङ्गतिः । तेपामाधास्तु त्रयो द्विजाः द्विर्जायन्त इति व्युत्पत्तेः। तथा च वक्ष्यति-मातुर्यदन इत्यादि (१।३९) । अत्र वृत्तीनामनभिव्यक्तलिङ्गसङ्ख्यत्वात् ब्राह्मणाश्च क्षत्रियाश्चेत्यादिविग्रहेऽपि प्रकृतसमासोपपत्तेराद्या इत्यनेन ब्राह्मणा एवोक्ता इति भ्रमनिरासाय त्रय इत्युक्तम्। वर्णा इत्यनुषङ्गेऽपि त(१)नि- रासात्। तत्र च ब्रह्मव्यक्तिपुतिसृषु अनवध्यवसायादव्याप्त्यानन्याश्च ब्राह्मणत्वक्षत्रियत्ववैश्यत्वाद्यवाऽऽदाय त्रित्वपर्यवसानमिति । अत्रैव मनु:- चतुर्थ एकजातिस्तु वर्णो नास्ति तु पञ्चमः । चतुर्थः शूद्रः वर्णशुद्धः । वर्णसङ्करस्त्वस्त्येव, वर्णसङ्करोन वर्णान्तर्गत इत्यप्याहुः । तत्र द्विजानां शूद्रादिभ्यो धर्म विशेपमाह- निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः। : निषेको गर्भाधानं तदाद्याः श्मशानं तसम्बन्धिन्यन्त्येष्टिः तदन्ताः क्रिया मन्त्रतो मन्त्रकरणिकाः। तेषां वै द्विजानामेव, न तु शूद्रस्याऽपि । अमन्त्रकास्तु. तस्याऽपि क्रियाः । अत एव चूडाकरणान्ताः क्रियाः प्रकृत्य यमः-- शूद्रोऽप्येवंविधः कार्यो विना मन्त्रेण संस्कृतः । न केन चित्समसृजत छन्दसा तं प्रजापतिः ॥ शुद्र इति लिङ्गमविवक्षितमनुपादेयगतत्वात्। एवंविधः-चूडान्तक्रिया वान्-अत एव संस्कृतः कार्यः । मन्त्रेण वैदिकेन वेद (२)मन्त्रवर्ज'. मित्येकमूलताऽनुरोधात् । केन चिद्गायत्र्यादिना प्रजापतिर्ब्रह्मा तं (१) अपि इति ख. पुस्तके पाठः । (२) वेद इति ज. पुस्तके नास्ति । ।
नवाचारिप्रकरणम् । वीरमित्रोदयमितालरासहिता । शूद्रं समसृजत् संयोजयामास तेनोपनयनं नास्तीत्यर्थः । तथा च श्रुतिः-'गायच्या ब्रा(१)ह्मणं समसृजत् त्रिष्टुमा राजन्यं जगत्या वैश्यं न केन चिच्छन्दसा शूद्र' मिति । एवञ्च-- विवाहमात्र संस्कारं शूद्रोऽपि लभते सदा । इति ब्रह्मपुराणे मात्रपदेन उपनयनस्य वैदिकमन्त्रस्य वा व्यवच्छेदो, न गर्भाऽऽधानादीनामपीति मन्तव्यम् ॥ १० ॥ (मिता० ) एतैर्नवभिः श्लोकः सकलशास्त्रोपोद्घातमुक्त्वा इदानीं वर्णादीनां धर्मान्वक्तुं प्रथमं तावद्वर्णानाह- ब्रह्मेत्यादि । ब्राह्मणक्षत्रियवैश्यशूद्राश्चत्वारो वर्णा वक्ष्यमाणलक्ष- णास्तेषामाद्यास्त्रयो ब्राह्मणक्षत्रियवैश्या द्विजाः द्विर्जायन्त इति द्वि- जाः तेषां द्विजानां वै एवं न शू(२)द्रस्य । निपेकाद्याः निपेको गर्भा. धानमाद्यो यासां तास्तथोक्ताः । श्मशानं पितृवनं तत्सम्बन्धि कर्म अ(३)न्ते यासां ताः क्रिया मन्त्रैर्भवन्ति ॥ १० ॥ ( वी०मि०)उक्ता एव निकादिक्रियाः कालविशेपसम्वन्धेनाऽन्व. कामन् । तासां फलमप्याह सार्धश्लोकाभ्याम्- गर्भाधानमृतौ पुंसः सवनं स्पन्दनात्पुरा । पष्टेऽष्टमे वा सीमन्तो मास्येते जातकर्म च ॥ ११ ॥ गर्भ आधीयते ऽनेनेत्यादिव्युपतिभिर्गर्भाधानादिशब्दैस्तत्तत्संस्का- रकर्माण्युच्यन्ते । ऋतौ वा वक्ष्यमाणे काले । पुमा(४)न सूयतेऽनेनेति पुंसवनं पुंसः सवनमित्यनेनोक्तम् । स्पन्दनात् गर्भचलनात् । पूर्व-तृतीये मासीत्यर्थः । 'चतुर्थे स्पन्दते ततः' इति वचनात् । गर्भमासात् पष्टे- ऽष्टमे वा मासि सीमन्तोन्नयनम् । एते-आ(५)इते वहिर्गते गर्भकोशात् अपत्ये सति जन्मान जातकर्म इत्यर्थः। 'प्रसवे जातकर्म च'-इति पाठः सुगमः । चशब्देन (६)प्रसङ्गादपत्यजन्मकाल कृत्यानामन्येषां कर्मणां समुशयः । यद्वा-अग्रिमश्लोकस्यैकादश इत्यनन्तरं संयोज्यमानो. (१) ब्राण-इति ख० पुस्तके । (6) न यदाणा क. . (३) अन्तो यासो क. (१) पुमांस-इति क. ख. पुस्तकयोः पाठः। (९) आहते-इति क. पुस्तके, आयते- इति तु ख. पुस्तके. । (६) चशस्तरकारकर्माप्युच्यते, ऋतौ वा वक्ष्यमाणे काले पुमसे सूयते मसात-इत्यधिकः स. पुस्तके पाठः ।
. २८ याज्ञवल्क्यस्मृतिः । . [ आचाराध्यायः । ऽत्राऽनुक्तान् द्वादशादीन् समुच्चिनोति ते च दर्शयिष्यन्ते ॥ १९॥ अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः ॥ पष्ठेऽन्नप्राशन मासि चूडा कार्या यथाकुलम् ॥ १२ ॥ (वीमि० ) एकादशे जन्मदिनात्, पतञ्च सूतकान्तोपलक्षणम् . 'आशौचव्यपगमे नामधेयकरणम्' इति विष्णुवचनात् । अत्र-श्रुतिः- 'एकादशे द्वादशे वा पिता नाम कुर्यात्' । मनुः- नामधेयं दशम्यान्तु द्वादश्यां वाऽस्य कारयेत् । पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥ दशम्यां तिथौ दशम दिन इति यावत् । एतचाशौचापक दश. म्यामुपस्थाप्य नाह्मणान् भोजयित्वा पिता- नामधेयं दशम्यान्तु कोचिदिच्छन्ति पार्थिव । द्वादश्यामपर?राध्यां मासे पूर्णे तथा परे । अष्टादशे ऽद्वि च तथा बदन्त्येके मनीषिणः । रात्रिपदमहोरात्रपरम् । गोभिल:-'जननाद्दशरात्रे व्युष्टे शतराने संव- सरे वा नामधेयकरणम्' । व्युष्टेऽतीते । अत्र कालविकल्पे व्यवस्थेति वक्ष्यते(१) निष्क्रमः सूर्यस्य चन्द्रमसो वा दर्शनार्थमपत्यस्य सूती. गृहान्निस्सरणं चतुर्थे मासि । एतच छन्दोगानाम् । 'जननाद्यस्तृतीयो ज्योत्स्नस्तस्य तृतीयायाम्' इति गोभिलवचनात् । ज्योत्स्नः शुक्लपक्षः। 'षष्ठऽन्नप्राशनं मासि' इति प्रथमः कल्पः । ततोऽन्नप्राशनं कार्य मासि षष्ठे यथाविधि । अष्टमे वाऽपि कर्तव्यं यद्वेष्टं मङ्गलं कुले ॥ इति ब्रह्मपुराणे कालान्तरस्यापि विधानात् । लौगाक्षिरपि -'षष्ठे मासे इन्नप्राशनं जातेपु दन्तेषु वा' । चूडा-चूडाकर्म । यथाकुलं कुलाचा- राऽनुसारेण द्वितीये तृतीये वा ऽब्दे । तथा च मनुः- ततः संवत्सरे पूर्णे चूडाकर्म विधीयते । द्वितीये वा तृतीये वा कर्तव्यं श्रुतिदर्शनात् ॥ * एकादशद्वादशश्लोकयमिताक्षराख्या व्याख्या त्वेका सम्बद्धति द्वादशात् लोकादुत्तरम- भयोरपि मिताक्षरा इष्टव्या । (९) वक्ष्यते-इति क. पुस्तके चास्ति ।
. ब्रह्मचारिप्रकरणम् ] वीरमिनोदयमिताक्षरांसहिता । द्वितीये पूर्णे इत्यनुपज्यते । तृतीये ऽल्पाऽवशिष्टे तृतीये भूयिष्ठे गते चूडा' इति लौगाक्षिवचनात् । इदश्च तृतीयस्यैव चरमभागप्रशंसापर- मिति न पोनरुक्त्यम् । कार्येति विभक्तिविपरिणामेन गर्भाधानादिषु उपनयनान्तेष्वप्यन्वेति । नाम्नस्तु करणं व्यवस्थापनमात्रमिति विशे. पः । न च चूडापद्वन्नामपदमपि कर्मविशेषपरमेवाऽस्विति वाच्यं, प्रामाणिकलिखनविरोधादिति ॥ १२ ॥ (मिता०) इदानीं ताः क्रिया अनुक्रामति- गर्भाधानमिति । अहनीतिच । गर्भाधानमित्यनुगतार्थ कर्मनामधे. यम् । एवं वक्ष्यमाणान्यपि । तद्गर्भाधानमृतौ ऋतुकाले वक्ष्यमाणल- क्षणे । पुंसवनाख्यं कर्म गर्भचलनात्पूर्वम् । पप्ठेऽष्टमे वा मासि सीम- न्तोन्नयनम् । एते च द्वे पुंसवनसीमन्तोन्नयने क्षेत्रसंस्कारकर्मत्वा- त्सकृदेव कार्य न प्रतिगर्भम् । यथाऽऽह देवल:- सकृय संस्कृता नारी सर्वगर्भेषु संस्कृता। यं यं गर्भ प्रसूयेत स सर्वः संस्कृतो भवेत् ॥ इति । यद्वा एते आ इते आगते गर्भकोशाजाते कु(१)मारे जातकर्म। ए. कादशेऽहनि ना(२)म । तच्च पितामहमातामहादिसम्बद्धं कुलदेवता. सम्बद्धं वा । यथाह शङ्ख:-'कुलदेवतासम्बद्धं पिता नाम कुर्यात्' इति । चतुर्थे मासि निष्क्रमणलक्षणं सूर्यावेक्षणं कर्म । पष्ठे मास्यन्नप्राशनं फर्म । चूडाकरणं तु यथाकुलं कार्यमिति प्रत्येकं सम्वध्यते ॥११॥१२॥ (वीमि० )उक्तक्रियाणामावश्यकत्वे ऽप्यानुपडिकं फलमाह- एवमेनः शमं यांति वीजगर्भसमुद्भवम् ।। एवंएवंकृते वीजं शुक्र शोणितं च, गर्भस्तदाशयः, तत्समुद्भव. तत्सम्बन्धि । एनोऽशुचित्वमपत्यस्य । अत्र गर्भाधानादित्रयं क्षेत्रसं. स्कारद्वारा ऽपत्यसंस्कारकम् । क्षेत्रसंस्कारश्च प्रथमगर्भ एव जात इति न प्रतिगर्भमावर्तनीय, 'भारम्भणीया' न्यायात् । तथा च हारीतः- सकच्च कृतसंस्काराः सीमन्तेन द्विजस्त्रियः। यं यं गर्भ प्रसूयन्ते स सर्वः संस्कृतो भवेत् ॥ - । (१) कुमारे जातेच. (२) नामकरणम् ख.
याज्ञवल्लयस्मृतिः। [आचाराध्यायः । - सीमन्तेन तदन्तकर्मणा, न्यायतौल्यात् । पचनस्य चाऽस्य न्यायमूल- कत्वात् । द्विजेति चोपलक्षणम् । अत एव- सकृच्च संस्कृता नारी सर्वगर्भेषु संस्कृता । . इति देवलेन संस्कृतेति नारीति च सामान्येनैवोक्तम् । जातकर्मादि तु साक्षादेवाऽपत्यसंस्कारकमिति प्रत्यपत्यमावर्तनीयमिति विवेकः । द्विजसंस्कारे तूपनयनमप्यधिकम् । गाभैमर्जातकर्म चौडमौजीनिवन्धनैः । बैजिकं गार्भिक चैनो द्विजानामपमृज्यते । इति मनूक्तेः । गाभैोमैरिति तु पुंसवनादीनामप्युपलक्षणम् ।। .(मिता० ) एतेषां नित्यत्वेऽप्यानुषङ्गिकं फलमाह- एवमिति । एवमुक्तेन प्रकारेण गर्भाधानादिभिः संस्कारकर्मभिः कृतैरेनः पापं शमं याति । किंभूतम् । वीजगर्भसमुद्भवं शुक्रशोणितस- म्बद्धं गात्रव्याधिसक्रान्तिनिमित्तं घा न तु पतितोत्पन्नत्वादि ।। (वी०मि० )द्विजस्त्रीणां द्विजेभ्यः शूद्रादिभ्यश्च विशेषमाह- तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः ॥ १३ ॥ तूष्णीं वेदमन्त्रेण विना । एताः जातकर्माद्याः । स्रोणां ब्राह्मण्या- दितिसृणाम् । विवाहकणि प्रत्युरधिकारस्तस्य च निषेकाद्या इत्यादितः सामान्यत एव मन्त्रप्राप्ती-- वैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतः । इति(१)वचनाद्विवाहस्य स्त्रीसंस्कारकत्वेन तत्प्राधान्यमभिप्रेत्य तथा च मन्त्राणामपि सम्बन्धमाह-विवाहस्तु समन्त्रकः, इति । अत्र जातक. मादौ साङ्गोपाङ्गे मन्त्रा(२)णां निषेधः । तथा च मनु:- अमन्त्रिका तु कार्ययं स्त्रियामावृदशेपतः । संस्कारार्थ शरीरस्य यथाकालं यथाक्रमम् ॥ आवृत-क्रिया । अशेषतः सेतिकर्तव्यताका । एवं च विवाहेऽपि साङ्ग एव मन्त्रविधिरेकति न्यायादि(३)त्यर्थः ॥ १३ ॥ (१) वचनाद्विवाहस्य-इत्यादिः-स मन्त्रक इति-इत्यन्तो भागः ख. पुस्तके नास्ति । (२) मन्त्रामन्त्राणा-इति क. पुस्तके पाठः । (३) न्यायादिति-इति ख. पुस्तके पाठः ।
ब्रह्मचारिप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ३१ (मिता०) स्त्रीणां विशेपमाह-.. तूष्णीमिति । एता जातकर्मादिकाः क्रियाः स्त्रीणां तूष्णीं विनय मन्त्रैर्यथाकालं कार्याः। विवाहः पुनः समन्त्रकः कार्यः ।। १३॥ (वी०मि. )उपनयनकालमाह- गर्भाधमेऽष्टमे वाऽब्दे ब्राह्मणस्योपनायनम् ।। राज्ञामेकादशे सैके विशामेके यथाकुलम् ॥ १४ ॥ गर्भाधानलमयादष्टमे जन्मसमयादष्टमे वा वर्षे ब्राह्मणस्योपना यनम्। स्वार्थे णिच् । राज्ञां एकादश-इत्यत्र गुणभूतोऽपि. गर्भशब्दो. ऽनुवर्तनीयः,आकाढावलात्। तथा गोभिलः-'गर्भाप्टमेपु ब्राह्मणमुपनयेत् गर्भकादशेपु क्षत्रियं गर्भद्वादशेपु वैश्यम्' इति । विशां सैक-इत्यत्र ए- कादश इत्यनुपङ्गः, तेन द्वादश इत्यर्थः । एके आचार्याः । यथाकुलं-कु. लाचाराऽनुसारेण उपनयनमित्याहुः । एतेन कालान्तरमपि स्मृत्युक्तं तद(२)नुक्तं च सूचितम् । (२)तथाच गौतमः-'उपनयनं ब्राह्मणस्याऽष्टः मे नवमे पञ्चमे वा काम्यम्' । अष्टम इति नित्यकालनिर्देशः । मनुः- ब्रह्मचर्यस्य काम्यस्य कार्य विप्रस्य पञ्चमे । राशो बलार्थिनः षष्ठे वैश्यस्येहाऽर्थिनोऽष्टमे ।। उपनयेदित्युपक्रम्य- आपस्तम्बः-'अष्टमे ब्रह्मवर्चसकामं नवमे ते. जस्कामं दशमे ऽन्नाद्यकाममेकादश इन्द्रियकामं द्वादशे पशुकामम् । अत्र संस्का(३)रप्रकरणे यज्ञ इव मासादयस्त्रिंशदहोरात्राद्यात्मका ए- वेति प्रायः । सौरास्ते । परन्तु यस्मिन्मासे जन्मदिन सम्पूर्णमेवाऽऽदा. य मासादिगणनमित्येके । अनयैव रीत्या मुख्याश्चान्द्रास्त इत्यपरे । परे पुनर्गौणचान्द्ररूपास्तिथिनिर्मिता मासिकादाविव प्रकृतेऽपि त इत्याहुः । कालविकल्पः फलविशेपाऽनुक्ती पूर्वपूर्वसम्पत्तावुत्तरोत्तरा- श्रयणामत्येवं व्यवस्थितो वोध्यो न त्वैच्छिको, ऽष्टविधदोपादित्यन्य- प्र व्युत्पादितम् । फलविशेषोक्तौ तु तदनुसारे व्यवस्था। सति सम्भवे स्वगृह्मोक्त एव कल्प आदर्तव्य इति शिष्टाः ॥ १४॥ . (1) तदनुक-दति ख. पुस्तके नास्ति । () यथा-इति के. पुस्तके (३) संस्कारेण-रति ख. पुस्तके पाठः ।
३२ याज्ञवल्क्यस्मृतिः। [आचाराध्यायः। - (मिता०) उपनयनकालमाह- गर्भेति । गर्भाधानमा(१)दिं कृत्वा जननं वाऽष्टमे वर्षे ब्राह्मणस्योप- नायनं उपनयनमेवोपनायनम् । स्वार्थे अण् वृत्ता(२)नुसारात्। छन्दो- भङ्गात् । आर्ष वा दीर्घत्वम् । अत्रेच्छया विकल्पः । राज्ञामेकादशे। विशां वैश्यानां सैक एकादशे द्वादश इत्यर्थः । गर्भग्रहणं सर्वत्राऽनु- वर्तते । समासे गुणभूतस्यापिगर्भशब्दस्य वुद्ध्या विभज्योभयत्राऽप्य- नुवर्तनं कार्यम् । गर्भादेकादशे राशो गर्भाद्धि द्वादशे विशः। इति स्मृत्यन्तरद(३)शनात् । यथा-अथ श(४)ब्दाऽनुशासनम् । केषां शब्दानामिति । लौकिकानां वैदिकानामिति । अत्राऽपि कार्यमि- त्यनुवर्तते कुलस्थित्या केचिदुपनयनमिच्छन्ति ॥ १४ ॥ (वी० मि० )उपनयनान्तसंस्कारकर्मणां पित्रादिकर्तव्यत्वं दर्शयन्नेव पित्रादेः कृत्यान्तरमाह- उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ॥ वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥ १५ ॥ एवं ब्राह्मणादिकं शिष्यं शासनार्ह शुश्रुपादिगुणयुक्तमसूयादि- दोषरहितं चेति यावत् । उपनीय-उपनयनाख्यकर्मणा संस्कृत्य । महा- व्याहृतयो भूराद्यास्तिस्त्रः । सप्तेत्येके । तत्पूर्वकं यथा स्यात् । घेदं मन्त्रव्राह्मणरूपं पित्रादिरध्यापयोदित्यर्थः। महाव्याहृतयःप्रणवस्याड- पुपलक्षिकाः। ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा। स्रवत्यलं कृतं पूर्व परस्ताच्च विशीर्यते ।। । इति मनुवचनात् । ब्रह्मणों वेदस्य शौचं वक्ष्यमाणम् । आचारा. ह्निकादीन् चकारादन्यानपि ब्रह्मचारिनियमान् । शौचग्रहणं 'गोवली. चर्द' न्यायात् ॥ १५ ॥ (मिता०) गुरुधानाह-. ' । उपनीयेति । स्वगृह्योक्तविधिनोपनीय गुरुः (१)शिष्यं महाव्याहृति- पूर्वकं वेदमध्यापयेत्।महाव्याहृतयश्च भूरादिसत्यान्ताः सप्त । पञ्च वा (१) अवधि कृत्वा जन्मनो ख. (२) प्रकरणानुसारात् क. (३) वचनात् ख. (१) शन्दानामिति क. (५) शिष्यं गुरुः खं. - ...
अझचारिप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ३३ - . गौतमाऽभिप्रायेण । किं च शौचाचारांचा पक्ष्यमाणलक्षणान् शिक्ष- येत् । उपनीय शौचाचारांश्च शिक्षयेदित्यनेन प्रागुपनयनात्कामचारो दर्शितः। वर्णधर्मान्वर्जयित्वा स्त्रीणामप्येतत्समानं विवाहादाक् । उपनयनस्थानीयत्वाद्विवाहस्य ॥ १५॥ (वी० मि० ) शौचादीन् यथायथमनुक्रामन्नाह- दिवा सन्ध्यासु कर्णस्थब्रह्ममूत्र उदङ्मुखः ॥ कुंर्यान्यूत्रपुरीपे च रात्रौ चेद्दक्षिणांमुखः ॥ १६ ॥ कर्ण स्थितं ब्रह्मसूत्रं यज्ञोपवीतं यस्य सःकर्णोऽत्र दक्षिणः प्रथ. मोपस्थितत्वादाचारानुसाराच । पवित्रं दक्षिणे कर्णे कृत्वा विषमूत्रमाचरेत् । इति वचनादिति केचित् । इदं चैकवस्त्रतायाम् । यद्येकवनो यज्ञो- पवीतं कर्णे कृत्वा' इति सांख्यायनगृह्यात् । द्विवस्त्रपक्षे तु- नियम्य वाचं संवीताङ्गोऽवगुण्ठितः। इति मनुवचनान्निवीतमेव कर्तव्यम्। संवीतन्निवीतं अङ्गे यस्य स तथा निवीतं कण्ठे सजितयज्ञसूत्रं 'निवीतं कण्ठसजने' इति को शात् । तदपि पृष्ठदेशलक्षितं कार्यम् । कृत्वा यज्ञोपवीतं तु पृष्टतः कण्ठलम्वितम् । इति यमवचनात् । दिवा-दिने । सन्ध्यासु-प्रातःसायंरूपासु सन्ध्ययो- श्व यथा दिवा' इति वचनात् । बहुवचनस्य व्यक्तिवहुत्वादेवोपपत्तेः। सन्ध्यासु तिसृप्वपि दिवेत्यस्य . तदतिरिक्तभागपरत्वादित्यपि व्याचक्षते-उदग्मुखः उत्तराभिमुखः। रात्री दक्षिणाभिमुखः कुर्या- दुत्सृजेत् । चेदिति सन्ध्यास्वित्यत्राऽप्यन्वितम् । उपरोधविशेपेण- मैत्रं पूर्वाह एवेति सन्ध्यासु परिवर्जयेत् । इति चोक्तनिर्वाहाऽसम्भवाभिप्रायम् । अत्र पूर्वाह इति ब्रह्म मुहर्तपर्यन्तपरम् । मूत्रपुरीपे विति तु शब्दो भिन्नक्रमो दिवेत्य. प्राऽन्वेति । दिवेत्यस्य प्रातर्मध्याह्यपरत्वेन सङ्गवादिषु उदङ्मुख. त्वव्यवच्छेदार्थत्वात् । साम्प्रदायिकास्तु पुरीपे चेति- पाठः । चकार उदङ्मुख इत्यनन्तरं योज्यः। तेन दिवा' दिगन्तराभिमुखस्याऽत्रा- (१)ऽनुक्तस्य पुरीपाधुत्सर्गे :रीतिविशेषस्य च समुच्चयः। तथा देवल:- (1) अप इति ख. पुस्तकेऽधिकः पाठः । । . । ..
४ याज्ञवल्क्यस्मृतिः। [ आचाराध्यायः। सदैवोदङ्मुखः प्रातः सायाह्ने दक्षिणामुखः । विण्मूत्रे विसृजेन्नित्यं सन्ध्यासु परिवर्जयेत् ।। यमः- प्रत्यङ्मुखस्तु पूर्वाण्हे ऽपराण्हे प्राङ्मुखस्तथा । उदङ्मुखस्तु मध्यान्हे निशायां दक्षिणामुखः ॥ एवञ्च दिवा प्रातरादित्रिमुहूर्तात्मकसमयपञ्चकभेदेन व्यवस्थेति। 'ऐच्छिको विकल्पः' इति केचित् । एते च नियमाः सति सम्भवे, अन्यथा तु- छायायामन्धकारे वा रात्रावहनि वा द्विजः । यथासुखमुखः कुर्यात्प्राणवाधभयेषु च ॥ इति यमवचनात् । नेति विष्णुपुराणे- ततः कल्पं समुत्थाय कुर्यान्मत्रं नरेश्वरः । नैर्ऋत्यामिषुविक्षपमतीत्याऽभ्यधिकं भुवः॥ 'नैर्ऋत्यां शयनस्थानात्' आपस्तम्बः। दक्षिणां दिशं गत्वेति शेषः । अ(१)थ अस्तमिते बहिर्गामादाराचावसथान्मूत्रपुरीषे वर्जयेत् । आरा, दूरे-इत्युपाध्यायाः । समीप-इति मिश्राः । वायुपुराणे- शुष्कैस्तृणैर्वा काष्ठैर्वा पत्रवेणुदलेन च । मृण्मयैर्भाजनैर्वापि अन्तर्धाय वसुन्धराम् ॥ तृणैः काष्ठेश्च कुशपालाशादिभिन्नैः। . 'तृणमयज्ञिकं काष्ठ'मित्या- पस्तम्बात् । हारीतः- न गच्छन्नाप्यवस्थितः स्थित ऊर्ध्वम् । आपस्तम्वः-'न सोपानको मूत्रपुरीपे कुर्यात्'। शङ्खलिखितौ- 'नानन्तर्वासा न निवासाः'। अनन्तर्वासा अधरीयशून्यः । हारीतः-घ्राणास्यं वाससा वेष्टयित्वा मृद्धात्रीग्रीवामासज्य दक्षिणे वामपावें कमण्डलमाधाय । मृद्धात्री मृत्तिकापात्री। यम:- शिरः प्रावृत्य कुर्वीत शकृन्मूत्रविसर्जनम् । विष्णुपुराणे- तिष्ठेन्नातिचिरं तत्र। तत्र मूत्रादिस्थाने । हारीतः-'लोष्ठेन प्रमृजीत शुष्ककाष्ठेन वा । (१)तथा-इति ख० पुस्तके पाठः । - ब्रह्मचारिप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ३५ . गुदलिङ्गे इति शेषः । लोप्ठेनेति शुष्ककाष्ठाभावे । 'पर्णलोष्ठाश्म- भिमूत्रपुरीपापकर्पणं कुर्या'दिति यमनिपेधात् । व्यासः- नाऽश्ममूत्रफलाहारैरुन्मृज्यानाऽस्थिवर्हिषा। हारीतः-'आनोपधिवनस्पतीनूर्धानाच्छिद्य मूत्रपुरीपयोः. संसणं वर्जयेदिति । मूत्राद्युत्सर्गे देशविशेपनिपेधादयस्तु गृहस्थप्रकरणे दर्शयिष्यन्ते ॥१६॥ (मिता० ) शौचाचारानाह- दिवेति । कर्णस्थं ब्रह्मसूत्रं यस्य स तथोक्तः । कर्णश्च दक्षिणः । 'पवित्रं दक्षिणे कर्णे कृत्वा विषमूत्रमुत्सृजेत्' इति लिङ्गात् । असा. वहनि सन्ध्ययोश्च उदङ्मुखो मूत्रपुरीपे कुर्यात् । चकाराद्भस्मादि- रहिते देशे । रात्री तु दक्षिणामुखः ॥ १६ ॥ वी० मि.) गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृत लैः । गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ॥ १७ ॥ . . गृहीतशिश्नो वामहस्तेन औचित्यादाचाराश्च । उ१)त्थाय पुरी- पाद्युत्सर्गस्थानात्। चकारात्स्थानान्तरे उपविश्य। केवलजलेन लिङ्ग- गुदे क्षालयित्वा। 'सुनिर्णिक्ते मृदं दयादिति ब्रह्माण्डपुराणात् । सुनि- फिक्ते केवलजलक्षालिते. पाद्यादाविति निवन्धृभिस्तद्वयाख्यानात् । मृद्भिः ग्रीवासक्तमृद्धात्रीतः शुचौ देशे स्थापिताभिरसिक- ताभिः(२) । अन्यथा तद्धारण ३) स्याऽदृष्टार्थतापत्तेः । तदसम्भव त्वन्यतोऽप्यानीताभिरावश्यकत्वात् शुचिदेशीयाभिः ससिकताभिः शकृत्करवल्मीकपांसुलकर्दममार्गोखरकुड्यलेपासम्बन्धिनीभिः अन्त- जलस्थशौचावशिष्टकीटादिप्राणियुक्तहलोत्खातव्यतिरिकाभिश्च स्मृ- त्यन्तराऽनुसारात् । केचित्तु- वापीकूपतडागेपु नाहरेद्वाह्यमृत्तिकाः। अन्तर्जलगता ग्राह्याः परतो मणिवन्धनात् ॥ इति स्मृतिमञ्जूषालिखितवाक्यं प्रमाणयन्तो वाप्यादावन्तर्जल- स्थां मृदमुपाददते। अभ्युद्धृतैः पूर्वमेव करकादिपाने स्थापितैः । एत. (१) उत्थाय-इत्यादिः मृदं दयात् इत्यन्तो मागः ख० पुस्तके नास्ति। (२) आसिकताभिः- इत्यतः शकृत्करवल्मीक पाशुल: कर्दममार्ग:-इत्याधिक ख० पुस्तके । (३ ) तदारपस्य-इति ख० पुस्तके। - -- :: याज्ञवल्क्यस्मृतिः । [आचाराध्यायः । प्राप्त्यर्थमेवाऽभीत्युपसर्गस्याऽधिकस्योपादानम्। अत एव लिखितहा- रीतस्मृती-'दक्षिणपायें कमण्डलुधारणमुक्तं दृष्टार्थतयाः सङ्गच्छते। सङ्गच्छते च- उद्धृतोदकमादाय मृत्तिकां चैव वाग्यतः । उदङ्मुखो दिवा कुर्याद्रात्रौ चेदक्षिणामुखः ।। इति ब्रह्मपुराणे उद्धृतस्याऽऽदानविधानम् । एवं च जलाशयाद्ध- स्तमात्राहृतजलैः शौचं व्युदस्तम् । करकाद्यभावे तु हेमाद्रौ विशेष उक्ता- वलिमात्रं परित्यज्य कुर्याच्छौचमनुधृतः । इति । ।. इदं पुनरवाऽवधेयम् । मूत्रपुरीषोत्सर्गकालादो कर्णोपवतिधार- णादिन काम्यं,फलाऽश्रवणात् । विश्वजिन्न्यायस्याऽतिजघन्यत्वात्। नापि नित्यं मानाऽभावात् । नापि मूत्रपुरीपोत्सर्गाद्यङ्गमलौकिकानङ्ग- त्वात् । अन्यथा तक्षसूत्राधिकरणविरोधात् । किन्तु गृहस्थादाचार- भङ्ग इन्द्रवाहुवन्धनादिवन्नैमित्तिकं न्यायतौल्यात् । अत एव न्यूना. धिक न कर्तव्यमित्यने ले(ख?)ख्यवचने अवहितातिक्रमे सामान्यत एव प्रायश्चित्तोपदेशः सङ्गच्छत. इतिं कृतं विस्तरेणेति । गन्धलेपेति। गन्धलेपौ पुरीलादेः तत्क्षयकरं शौचं पाद्यादिक्षालनं कुर्यात् । अधो वामेन उर्ध्व दक्षिणेन पाणिना। .., धर्मविदक्षिणं हस्तमधः शौचे न. योजयेत् । तथैव वामहस्तेन नाभेरू न शोधयेत् ॥ .:. प्रकृतिस्थितिरेषा स्यात्कारणादुभयक्रिया। इति देवलातः । अतन्द्रितः अनलसः। अनेन स्मृत्यन्तरोक्तसंख्यादि- नियममभिप्रेति। तथा च मनुः- : एका लिङ्गे गुदे तिस्त्रस्तथैकत्र करे दश । उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता ॥ एकत्र वामे । हारीतः-'देशामध्ये पडष्टतः। पुनर्मनुः-- तिस्रस्तु मृत्तिका देयाः कृत्वा तु नखशोधनम् । मूत्रमागोत्सर्ग दक्षः- एका लिङ्गे तु सव्ये त्रिरुभयोमवयं स्मृतम् । . .. -- पादयोझै गृहीत्वा च। -- ब्रह्मचारिप्रकरणम् ] वीरमित्रोदयमिताक्षरासहिता। .३७ अत्र पुरीपोत्सर्गे पादयोस्तिस्रः मूत्रमात्रोत्सर्गे त्येकैका मृत्तिः फेति मिश्राः । उभयत्राऽपि लेपादिशङ्कायां प्रथमः कल्पः। तदभावे द्वितीय इत्युपाध्यायः । वौधायनः-'मूत्रे द्वे द्रे(१)तसः ? समुत्सर्गे'। अत्र ब्रह्मचारिणः प्रायश्चित्तमप्यधिकम् । शङ्खः- मृत्तिका तु समुद्दिष्टा त्रिपर्वी पूर्यते यया। त्रिपर्वी तर्जनीमध्यमाऽनामिकानां चरमपर्व(२)रूंपा । 'अङ्गुष्ठपर्व. मात्राऽपि मृत्तिका' इति छन्दोगान्हिकम् । 'आमलकमितापि' इति मिश्राः । गुदमृत्तिकायां दक्षः- अर्धप्रकृतिमात्रा तु मृत्तिका प्रथमा स्मृता । द्वितीया च तृतीया च तदर्धः परिकीर्तिता ।। पुनः स एव- लिङ्गेऽप्यत्र समाख्याता त्रिपर्वी पूर्यते यथा। अत्र लिङ्गे मृत्तिकाद्वयं गुदे पञ्च सप्त वा । वामकरे चतुर्विंश- ति-त्रिंशद्वा हस्तद्वये चतुर्दश पोडश वा मृत्तिकाः स्मृत्यन्तरोक्ता लेपाद्यनुवृत्तिशङ्कायां यथाक्रमं वोध्याः। एवं- -: पुनः सप्त (३)च मृत्तिकाः- इति. वाटे । शेपे हस्तद्वये सप्त मृत्तिकाः। विधिरपि तत्पर एवेति संख्यामुक्वा मनुः:- एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणन्तु वनस्थानां यतीनान्तु चतुर्गुणम् ॥ यद्दिवा विहितं शौचं रात्रौ तस्याऽर्धमिष्यते । तदर्धमातुरे प्रोक्तमातुरस्याऽर्द्धमध्वनि ॥ आतुरे अत्यातुरभिन्ने। अध्वनि-अतिकान्तारे। अन्यत्राऽऽपस्तम्बः पथि पादस्तु विशेय आतः कुर्याद्यथावलम् । ननु संख्यादिनियमे- यावंता मन्यते शुद्धिं शौचं कुर्वांत तावता । प्रमाणं द्रव्यसंख्या वा न शिष्टैरुपदिश्यते ॥ इति देवलविरोध इति चेत्-मैवम्, तस्य स्त्रीशुदादिमात्र(४)विषय- (१)भेतस इति ख० पुस्तके। (२) घरमपर्यन्तरूपा-इति ख० पुस्तके । (३) च-इति क. पुस्तकेऽधिकः पाठः। ( १ ) विषयत्वादित्यादि-जलमाप्रेत्यन्तो भागो नास्नि खः पुस्तके । . • . - - ..
३८ याज्ञवल्क्यस्मृतिः। [आचाराध्यायः । त्वात्तत्र संख्यादेरश्रवणात्। 'गन्धलेपक्षयावाचस्य प्रयतो भवति' इति पैठीनसिरपि तत्पर एव । जलमात्रविषयं वा देवलवचनम्- दातव्यमुदकं तावद्यावत्स्यान्मृत्तिकाक्षयः । इति दक्षात् । एवञ्च संख्यानियमोऽहष्टार्थः। शुद्धिस्तु गन्धले. पक्षयादेवेति मतमनादर्तव्यं कल्पनाप्रसङ्गात् । न्यूनाधिकं न कर्तव्यं शौचं शुद्धिमभीप्सता ! प्रायश्चित्तेन युज्येत विहितातिक्रमे कृते ॥ इति दक्षविरोधाच्च । अत्र न्यूनाधिकमिति संख्यामात्रे, तस्यैव प्रकृतत्वात् । अथ ऋष्यशृङ्गः- यस्मिन् स्थाने कृतं शौचं वारिणा तत्तु शोधयेत् । न शुद्धिस्तु भवेत्तस्य मृत्तिका यो न शोधयेत् ।। अथ हारीतः-'गोमयेन मृदा कमण्डलुं परिमृज्य'। ब्रह्मपुराणे-द्विराचम्यत-इति ॥ १७ ॥ ( मिता० ) गृहीतशिश्न इति । किं च अनन्तरं शिश्नं गृहीत्वा- स्थायोद्धृताभिरद्भिर्वक्ष्यमाणलक्षणाभिम॒द्भिश्च गन्धलेपयोः क्षय- करं शौचं कुर्यात् । अतन्द्रितोऽनलसः । उद्धृताभिरद्भिरिति जला- न्तः शौचनिषेधः । अत्र गन्धलेपक्षयकरमिति सर्वाश्रमिणां साधा- रणमिदं शौचम् । मृत्संख्यानियमस्त्वष्टार्थः ॥ १७ ॥ (वी० मि०) अथाऽऽचमनप्रकारमाह- अन्तर्जानुः शुचौ देश उपविष्ट उदङ्मुखः ।। प्राग्वा ब्राह्मण तीर्थेन द्विजो नित्यमुपस्पृशेत् ॥ १८ ॥ शुचौ अशौचापादकनिमित्तरहिते। देशे भूमौ। अन्तर्जानुः-जानुद्वय. मध्यस्थितबाहुद्वयं ताहग्दक्षिणबाहु वा यथा स्यात् तथोपविष्टः। तथा च हारातः-'अन्तरूोर?रत्नी कृत्वा'। (१गौतमश्च-'दक्षिणवाहुं जान्वन्तरं कृत्वा' । अत्र शक्तयपेक्षो विकल्पः। द्वितीयपक्षो द्विराचम्यत एवेति मिश्राः । उदङ्मुखः उत्तराभिमुखः, प्राङ्मुखः । वेत्यनुक्तस्यापि विकल्पार्थः। 'ईशानाभिमुखो भूत्वा' इति मरीचिवचनात् । उदङ्मुखत्वा दिकमाचमनान्तम्(२)। पादप्रक्षालनेऽपि- (१)गौतमश्चेति कृत्वेत्यन्तो भागो नास्ति क० पुस्तके । (२) आचमनाङ्गम् इति ख० पुस्तके ।
ब्रह्मचारिप्रकरणम् । ] वीरमित्रोदयामिताक्षरासहिता। ३९ . प्रथमं प्राङ्मुखः स्थित्वा पादौ प्रक्षालयेच्छनैः। उदङ्मुखो वा देवत्ये पैतृके दक्षिणामुखः ॥ इति देवलात् । स्थित्वेत्यूर्ध्वत्वदशायामेव । चरणक्षालनोक्तिर्जा नुपर्यन्तक्षालनपक्षे- इत्येवमद्भी ग़जा तु प्रक्षाल्य चरणौ पृथक् । हस्तौ चाऽऽमणिवन्धाभ्यां पश्चादासीत संयतः ॥ इत्यने तेनैवाऽभिधानात् । 'प्रक्षाल्य पादौ चोपविश्येति गोभिला- ऽप्येवम् । आजान्विति अध्वभ्रमणादिना जानुपर्यन्तशोचे । 'अन्यथा त्वाजङ्घाभ्यां पादाविति हारीतोक्तमेव ग्राह्यम्। देवत्य इत्यनेन च कृत- वचनकवाक्यत्वात् । पिठ्या इति रिक्तवैदिककर्माहं नैमित्तिकञ्च सर्व मेवाऽऽचमनमभिप्रैति। प्रक्षाल्य पादौ पाणी च त्रिः पिवेदम्बु वीक्षितम् । इति । दाक्षणे सामान्यादेवाऽऽचमने पादादिक्षालनविधानात् आकाङ्क्षातो. ल्यात् । प्रकृते तु पृथक् तदभिधानंमृद्रहणकालीनपादक्षालनेनैव चरि- तार्थत्वात् । एवञ्च'पृथक् पादासेचन'मित्यापस्तम्ववचनं केवलपादक्षाल. नविपयतया नेयम् । क्षालनन्तु पादयोर्दक्षिणोपक्रमेण 'सव्यं पादं प्र. क्षाल्य दक्षिणं प्रक्षालयति, ब्राह्मणश्चदक्षिणं प्रथम मिति पारस्करात् । छन्दोगानान्तु वैपरीत्यं गोभिलाऽनुसारात् । सव्ये पाणी कुशान् कृत्वा कुर्यादाचमनक्रियाम् । इति (१) कात्यायनवचन- सपवित्रेण हस्तेन कुर्यादाचमनक्रियाम् । इति मार्कण्डेयपुराणवचनाभ्यां कुशपवित्रधारणविधानम्। कर्मा- गाचमनमात्र इति सामान्याचमनप्रकरणे ऽत्र तन्नोक्तम् । क्रियां यः कुरुते मोहादनाचम्येह मानवः । भवन्ति निष्फलास्तस्य क्रियाः सर्वा न संशयः॥ इति वायुपुराणवचनेनाऽऽचमनस्य सकलवैदिककर्माङ्गत्वावग- मात् । सन्ध्यावन्दनागाचमनमात्रे तद्विधानमुपक्रमानुरोधात् इत्यपि. केचिदित्यास्तां विस्तरः। ब्राह्मण तीर्थन वक्ष्यमाणेन । द्विज इत्या. चमनकर्तृमात्रोपलक्षणमाकाहातोल्यात् । नित्यं सति . सम्भवे तीर्थान्तरसौष्ठवेऽपि- (१) एतदादिः-आचमनकि पामित्तीन्यन्तो भागः क. पुस्तके नास्ति । - याज्ञवल्क्यस्मृतिः। [ आचाराध्यायः। ब्राह्मण विप्रतार्थेन नित्यकालमुपस्पृशेत् । कायत्रैदशिकाभ्यां वा. न पित्र्येण कदाचन ॥ इति मनुना सम्भवे तीर्थान्तरस्याऽपि विधानात् । उपस्पृशेत् आंचा. मेदिति ॥ १८ ॥ (मिता० ) अन्तरिति । शुचौ अशुचिद्रव्यासंस्पृष्टे । देश (१)इ. त्युपादानादुपानच्छयनासनादिनिषेधः । उपविष्टो न स्थितो न शया- नः प्रह्वो गच्छन्वा । उदमुखः प्रामुखो वेति दिगन्तरनिवृत्तिः । शु- चौ देश इत्येतस्मात्पादप्रक्षालनप्राप्तिः। ब्राह्मण तीर्थन वक्ष्यमाणलक्ष- णेन । द्विजोन शूद्रादिः। नित्यं सर्वकालमाश्रमान्तरगतोऽपि । उपस्पृ. शेदाचामेत् । कथम् । अन्तर्जानुः जानुनोर्मध्ये हस्तौ कृत्वा दक्षिणेन हस्तेनेति ॥ १८ ॥ (वी० मि० ) ब्राह्मणेत्युक्तं, तत्कि ब्राह्म किञ्च तस्य विशिष्य विधिना व्यवच्छेद्यं तीर्थान्तरमित्यपेक्षायां तीर्थान्याह- • कनिष्ठादेशिन्यजुष्ठमूलान्यग्रे करस्य च ।। प्रजापतिपितृव्रह्मदेवतीर्थान्यनुक्रमात् ।। १९ ।। देशिनीतर्जनीकनिष्ठादीनां मूलानि करस्यायं अनुक्रमात् यथा- संख्यं प्रजापतितीर्थादीनि स्युः । तुशब्देनाऽङ्गुष्ठतर्जनीमूलयोर्व्यव. च्छेदः । यदि तु चेति पाठः। तदा कनीनीसूलस्य समुच्चयः । (२)तथा च वौधायनः-'कनीनीमूलं देवमङ्गुल्यनमार्षम्' । वसिष्ठः-व्यङ्गुष्ठस्याऽग्ने मानुषं मध्य आग्नेयम्' । 'योगी-'मध्ये सौम्यं प्रतिष्ठितम्'। ब्रह्मे हस्त- मध्ये ब्राह्मम् । शङ्खः:-'कायं कनीनिकामूलम्'। एवञ्च'कनिष्ठामूलस्य कायं प्राजापत्यं दैव'मिति । 'तर्जन्यङ्गुष्ठमध्यस्य पित्र्य मिति । 'अङ्गु. छमूलस्य ब्राह्म मिति । 'अङ्गुल्यग्रस्य दैवं आपमितिः। 'हस्तमध्यस्य आग्नेयं सौम्यं ब्राह्म'मिति संज्ञा पर्यवस्यतीति ॥ १९ ॥ (मिता०)प्राजापत्यादितीर्थान्याह- कनिष्ठेत्यादि । कनिष्ठायास्तर्जन्या.अङ्गुष्ठस्य च मूलानि करस्याग्रं च प्रजापतिपितृब्रह्मदेवतीर्थानि यथाक्रम वेदितव्यानि ॥ १९ ॥ (वी० मि० ). आचमनस्वरूपं दर्शयन् तदुत्तराङ्गमप्याह श्लो- कार्द्धन- (१) इत्युपानत् क०। (२) तथा च बौधायन:- इति खपुस्तके नास्ति ।
। ब्रह्मचारिप्रकरणम् ! ] वीरमित्रोदयमिताक्षरासहिता। ४१ त्रिः पाश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् ।। अपमृब्रहणानन्तरं संस्कृते कमण्डलो स्थापिताः। 'गोमयेन मृदा वा कमण्डलु परिमृज्य पूर्ववदुपस्पृशे दिति हारीतात् । 'मूत्रपु. रोपे कुर्वन् दक्षिणहस्ते गृहाति सव्येनाऽऽचमनीय'मिति फमण्डल्वधिकारी । बौधायनवचनपर्यालोचनया तथैवाऽवगमात् । अन्यथाऽऽचमनकाले कमण्डलुधारणस्याऽदृष्टार्थापत्तेः। आचमनीय. माचमनविधिम् । एवञ्च भूमिगतास्वप्स्वाचम्य प्रयतो भवति यं वा प्रयत आचामे'दित्यापस्तम्बदर्शनात् । स्वहस्तावर्जितजलाचमनं प्राय- श्चित्तहेतुरिति निरस्तम् ।यं प्रयतोऽन्य आचामेत् आचामयेत् स च प्रयतो भव(१)तीत्यनुपज्यते । यद्वेति क्वचित्पाठः। 'न शूद्राकपाण्या- चर्जिताभिरिति शजयचने। सव्येकपाणिपदे आचमनकर्तृभिन्नपरे शूद्रासाहचर्यात् । वहिर्जानुरुपस्पृश्य एकहस्तार्पितैर्जलैः। सोपानकस्तथा तिष्ठन्नैव शुद्धिमवाप्नुयात् ॥ इति भविष्यवचनमप्येतदनुसारेणैव नेयमित्यन्यत्र विस्तरः । त्रिः- चारत्रयम् । एवं चाद्भक्षणत्रयं योगरूढिभ्यामापूर्वस्य च सेवार्थ उपपूर्वस्पृशेरिव । क्वचित्त्वेकदेशेऽपि तत्प्रयोगो लक्षणयेति ध्येयम् । प्राोति प्रशब्देन प्रकृताऽभक्षणे स्मृत्यन्तरोत्तरीतिसाचिव्यरूपप्रक परामर्शः । तथा च देवल:- सोपानको जलस्थो वा मुक्तकेशो ऽपि वा द्विजः । उष्णीषी चाऽपि नाऽऽचामेद्वस्त्रेणोद्वयेप्ट्य वा शिरः ॥ तथा- -- न गच्छन्न शयानश्च न चलन्न परान्स्पृशेत् । न हसनैव संजल्पन्नात्मानं चैव वीक्षयन् ॥ केशानीवीमधःकायमस्पृशन् धरणीमपि । यदि स्पृशति चैतानि भूयः प्रक्षालयेत्करम् ।। आत्मानं हृदयं वीक्षयन्निति स्वार्थ णिच् । अधःकायो नाभ्यपेक्षया । व्यास:- - शिरः प्रावृत्य कण्ठं चाऽमुक्तकच्छशिखोऽपि वा। अकृत्वा पादयोः शौचमाचान्तो ऽथ(१) शुचिर्भवेत् ॥ (१) आचान्तोऽधाशुचिर्भवेत् इति ख० पुस्तके । w ४२ याज्ञवल्क्यस्मृतिः। [ आचाराध्यायः । - मुक्तकच्छशिखोऽपि वेति चरणस्थाने रथ्यापणगतोऽपि वेति ब्रह्माण्डपुराणे पठितम् । प्रचेताः-'नानन्तर्वासा नाथु कुर्वन्न चाऽमेध्ये' । अनन्तर्वासा-अधोवस्त्रशून्यः । होमदेवार्चनाद्यासु क्रियास्वायमने तथा(१) । नैकवस्त्रः प्रवर्तेत द्विजवाचनिके? ॥ गोभिल: नान्तरीयैकदेशेन कल्पयित्वोत्तरीयकम् । देवलः- शिखां वध्वा वसित्वा तु निर्णिक्ते वाससी शुभे । भविष्ये- विना यज्ञोपवीतेन मुक्तकच्छशिखो द्विजः । अप्रक्षालितपादस्तु आचान्तोऽथ शुचिर्भवेत् ॥ शाहायनः दानमाचमनं होमं भोजनं देवतार्चनम् । प्रौढपादो न कुर्वात स्वाध्यायं पितृतर्पणम् ॥ आसनारूढपादस्तु जानुऊर्जयोस्तथा। कृता(२)वसस्थिको यस्तु प्रौढपादः स उच्यते ॥ कृतावसक्थिकः कृतापाश्रयः 'वद्धपवाङ्ग इत्येके । जलस्थं स्थ. लस्थं वाऽनेकोद्वाह्यं प्रक्षालितमेकोद्वाह्यमपि दारु नाऽऽसन, मपि तु वेदीस्थानीयमत्स्तत्र पादारोहणं न दोष इत्यभिनववर्द्धमानोपाध्यायः। आपस्तम्बः-'तिष्ठन्नाचामेत् प्रह्वो वा' । हारीतः- न बहिर्जानु न त्वरया नासनस्थो न चोत्थितः। न पादुकास्थो नाचित्तः शुचिःप्रयतमानसः ।। तथा- भुक्तासनस्थ आचामेन्नाऽन्यकाले कंदाचन । गोभिल:- जानुभ्यामूर्ध्वमाक्रम्य जले तिष्ठन्न दुप्यति । ताभ्यामधस्तथा तिष्ठन्नाचामेच्च विचक्षणः॥ (१) एतदुत्तरं वसित्वा तु-इत्यन्तं ख० पुस्तके नास्ति । (२) एतत्पयोऽध क. पुस्तके नास्ति । -- ब्रह्मचारिप्रकरणम् ] वामित्रोदयीमताक्षरासहिता। पैठीनसिः-'अन्तरुदक आत्रान्तोऽन्तरेव गुध्यति वहिरुदक आचान्तो बहिरेव शुध्यति तस्मादन्तरेकं वाहिरके पादं कृत्वाऽऽचामेत् सर्वत्र प्रयतो भवति। व्यासः- - अपः पाणिनखाग्रेण आचामेद्यस्तु वै द्विजः। सुरापानेन तत्तुल्यमित्येवमृपिरब्रवीत् ॥ व्यासः-'वाग्यतो हृदयस्पृशस्त्रिश्चतुर्वाऽप आचामेत्'। चतुर्वेति विराचमनापरितोपपक्षे । भविष्ये- घ(१)नानुलिकरं कृत्वा एकानः सुमना द्विजः । समौ च चरणौ कृत्वा तथा यद्धशिखो नृपः ॥ नारसिंहे- दक्षिणन्तु करं कृत्वा गोकर्णाकृतिवत्पुनः । त्रिः पिवेद्वीक्षितं तोयमास्यं द्विः परिमार्जयेत् ।। गोभिल:- रात्राववीक्षितेनाऽपि शुद्धिरुक्ता मनीषिभिः । अवीक्षितेन तोयेन इति हलायुधनिवन्धे व्यास:- शङ्कहस्त उपस्पृशेत् । शङ्कुरुकृताङ्गुलिद्वयो हस्तो यस्य सः इति आचारमअर्याम् । ब्रह्मपुराणम्- समस्ताङ्गुलिनोद्धृत्य पानीयं दक्षिणेन तु । त्यक्त्वाऽङ्गुष्ठं कनिष्ठाञ्च शेपेणाऽऽचमनं विदुः ॥ देवल:- अथापः प्रथमात्तीर्थादक्षिणात्रिः पिवेत्समम् । अशब्दमनवनावमयहिर्जान्वबुदुदम् ॥ इत्यास्तां विस्तरः। द्विरुन्मृति वारद्वयं माजयित्वा, मुखामति शेषः। 'त्रिरोष्ठौ परिमृजे'दित्यापस्तम्ववचनं तूच्छिएजलशेपाऽनुः त्तिसम्भावनायाम् । मार्जनमङ्गुष्ठमृलेन । संवृत्याऽअष्टमूले वा हिः प्रमृज्यात्ततो मुखम् । संहत्य तिसृभिः पूर्वमास्यमेवमुपस्पृशेत् ॥ इति दक्षात् । (१। ज्ञानाङ्गुलिकरं-इति क. पुस्तके । - ..
४४. याज्ञवल्क्यस्मृतिः। [आचाराध्यायः । मुखं संवृत्याऽनि.मौष्ठं मुद्रयित्वा प्रमृज्यादित्यन्वयः । आचान्तः पुनराचामेत् वासो विपरिधाय च ॥ ओष्ठौ संस्पृश्य च तथा यत्र स्यात्तावलोमको । इति वसिष्ठेन निर्लोमकोष्ठभागस्पर्श द्विराचमनविधानात् । ति- सृभिस्तर्जनीमध्यमानामिकाभिः संहत्य मिलित्वा स्थिताभिः। एवं सं. चरणपूर्वकमेवास्यं, उप-समीपे श्यामलोमकमागे स्पृशेदित्यर्थः । एवं द्विरिति केचित् । सकृदुपस्पृशेत् द्विरित्येके । 'दक्षिणेन पाणिना सव्यं प्रोक्ष्य पादौ शिरश्चेन्द्रियाण्युपस्पृशे' दित्यापस्तम्बात् । एवञ्चाऽऽस्यमा- जनोपस्पर्शनपाणिपादप्रोक्षणानि क्रमेण सिद्धयन्ति । मार्जनोपस्पर्श- नयोर्मध्ये तु पाण्यादिप्रोक्षणं छन्दोगानां गोभिलसंवादात् । छन्दोगाहिका- दाचारस्य मार्जनानन्तरमुपस्पर्शनानन्तरञ्च करक्षालनमधिकमुक्तमि- ति। खानीति । खानि-छिद्राणि । 'शिरस्थानि खानि चोपस्पृशेच्छीर्ष. स्थानीति गौतमात् । घ्राणादीनीन्द्रियाणीति यावत् । तथा च गोभिल:- 'इन्द्रियाण्यद्भिः संस्पृशेदक्षिणी नासिके कर्णा'विति । अझ्युपक्रमः स्पर्शः छन्दोगाना, मन्येषां ब्राह्मणोपक्रम एव दक्षाद्यनुसारात्। समुपस्पृ. शेदिति संम्यगुपस्पृशेदित्यर्थः। तेन प्रतिच्छिद्रमद्भिः स्पर्शनं लभ्यते। खानीति चोपलक्षणम् । तथा च दक्षः- अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम् । अङ्गुष्ठानामिकाभ्याञ्च चक्षुःश्रीने पुनः पुनः ॥ नाभिं कनिष्ठाङ्गुष्ठाभ्यां हदयन्तु तलेन वै। सर्वाभिस्तु शिरः पश्च द्वाहू चाग्रेण संस्पृशेत् ॥ पश्चादास्यस्पर्शादेः । अत्राऽङ्गुष्ठेन प्रदेशिन्येत्युक्तेः । अङ्गुष्ठमध्यमायोगात् स्पृशेन्नासापुटवयम् । इति शोक्तपक्षान्तरम् । पुनःपुनरिति वीप्सा प्राणचक्षुःश्रोत्राणां प्रत्येकं पुटद्वये स्पर्शपरान्वयितावच्छेदकसामानाधिकरण्ये समभि. व्याहृतिक्रियासमभिव्यवहार एव । पुनः पुनरम्नं भुक्त इत्या- दिप्रयोगदर्शनेन पुनःशब्दस्य व्युत्पत्तिस्थैर्यात् । अत एव शङ्खवाक्ये- 'स्पृशेग्नासापुटद्वयं नेत्रद्रयं श्रवणे' इत्युक्तम् । 'चक्षुषी. नासिके श्रोत्रे सकृदुपस्पृशेत् द्विरेके' इत्यापस्तम्वदर्शनात् । एकैकत्र नासा. पुटादौ द्विर्द्विः स्पर्शनमित्यपि पक्ष इत्याहुः । .
ब्रह्मचारिप्रकरणम् ] वीरमित्रोदयमिताक्षरासहिता । ४५ - नाभिस्पर्शानन्तरन्तु हस्तप्रक्षालनन्ततः। 'स्पृशेम्नाभिदेशं पुनरपः संस्पृशे'दिति व्यासात् । अथ पैठीनसिः- स्पृष्ट्वा प्राणान् यथासहव्यं पादौ प्रोक्ष्य ततः शुचिः। सव्ये च पाणी शेषा अपो (१)नयेत् । प्राणान् इन्द्रियादीन् नि. नयेत् दद्यात् । इन्द्रियस्पर्शानन्तरं भविष्ये- यद्भूमावुदकं वीर ! समुत्सृजति मानवः। वासुकिप्रमुखान्नागांस्तेन प्रीणाति भारत !॥ शौचानन्तरं हारीत:-'गोमयेन मृदा वा कमण्डलुं परिमृज्य पूर्व वदुपस्पृश्याऽऽदित्यं सोममाग्नि वा वीक्षेत' । मन्त्र दिवाऽऽदित्यं, रात्री सोम, तयोरभावेऽग्निमिति व्यवस्था । ब्राह्म- पादयोई गृहीत्वा तु सुप्रक्षालितपाणिना । द्विराचम्य ततः शुद्धः स्मृत्वा विष्णुं सनातनम् ।। शङ्खलिखितौ-'आचम्येशानं मनसा ध्यायेत्' । अत्राऽऽदित्यादिदर्शनं विष्ण्वादिस्मरणं च शौचानन्तराचमन एव तत्सन्दंशात् । द्वित्वमपि तत्रैव नियतम् । अन्यत्र तु यथा तत्तद्विधानमिति स्मर्तव्यम् । व्यासः- 'शौचं कृत्वा मूत्रोच्चारं न पश्येत् ष्वाऽऽदित्यमग्निं सोमं वा पश्येत्' । अत्र(२)वसिप्टेन गोब्राह्मणस्पर्शनमधिकमुक्तम् । द्विराचमने तु पादक्षालनं सहदेव दृष्टैक्यात् । आस्यमार्जनादि पुनरावर्तते दृष्टिभेदात् । आस्यस्पर्शादिकमप्यावर्तते अदृष्टार्थत्वात् । भोजनोप- क्रमाचमने तु सकृदेवोष्ठस्पर्शः । भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचा- मेन् । 'द्विः परिमृजेत्सकदुपस्पृशेदित्यापस्तम्बात् । द्विजातीनामपि द्वितीयाचमने 'ओष्ठस्पर्शमात्रं प्रत्युपस्पृश्याऽन्ततः शुचिर्भवतीति गोभिलादिति श्रीदत्ताह्निकम् । आचमनविध्यनन्तरं देवल:- रेतोमूत्रशकृन्मोक्षे भोजनेऽध्व परिश्रमे । शौचमेवंविधं प्रोक्तमीपञ्चाऽन्यत्र वर्तते ॥ एवंविधं यथोक्तसकलाङ्गसम्पन्नम् । अन्यत्र ईपत् आचमनमात्रमपि(३) इन्द्रियस्पर्शादिरहितं शुद्धये भवतीत्यर्थः । अध्वपरिश्रम इति गमन- मात्रव्यवच्छेदः॥ (11 नियोजयेत्-इति ख. पुस्तके। (२) अथ-इति क. पुस्तके । (३) नि-इति क. पुस्तके ।
४६. माज्ञवल्क्यस्मृतिः । [आचाराध्यायः । ( वी० मि०) अपो विशिपन् व्यवस्थामाह साईन- अद्भिस्तु प्रकृतिस्थाभिहीनाभिः फेनयुद्बुदैः ॥ २० ॥ हत्कण्ठतालुगाभिस्तु यथासङ्घयं द्विजातयः ।। शुद्धयेरन् स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ॥ २१ ॥ अद्भिस्त्विति तुशब्देन भिन्नक्रमे स्मृत्यन्तरनिपिद्धजलव्यवच्छेदः। तथा च बौधायनः-पादप्रक्षालनोच्छेपेण नाचामेत्' । भूमी(१)स्नाप- यित्वाचामेत् । स्नापयित्वा-स्नाव्य । आपस्तम्बः-'नाभ्युदकशेपेण वृथा फर्माणि कुर्वीताऽऽचामेद्वा यानि शुभेन तथा न वर्पधाराञ्चाचामेत् तथा न प्रदरोदकेन तप्ताभिश्चाऽकरणात्। प्रदरो विदीर्णभूमिभागः। वसिष्ठः-'प्रदरादपि यागोस्तर्पणाय स्युः'तप्ताभिरित्यग्नितप्तपरम्। अधि. ताभिरिति शशदर्शनादिति नारायणः । हलायुधोऽन्याह-'नाग्नितप्ताभि'- रिति । कारणाद्रोगादेः। उदकेनाऽऽतुराणान्तु तथोणेनोप्णपायिनाम् । इति । प्रकृतिस्थाभिद्रव्यान्तरासंस्पृष्टाभिरिति केचित् । साहजिकरूपा- दिमतीभिरिति ज्यायः । न वर्णरसदुष्टाभिर्याश्च स्युरशुभागमाः । इति वसिष्टोक्तेः । अशुभागमाः=अशुचिदेशागताः । बुद्धदाः फेना इति प्रसिद्धाः। द्विजातयो ब्राह्मणक्षत्रियवैश्या यथासंख्यमन्तरवच्छेदे- न हृत्कण्ठतालुगामिनीभिः शुध्यन्ति । स्त्रीशूद्रो अन्ततः ओष्टप्रान्तेन सकृत्स्पृष्टाभिः शुद्धयतः। उत्तरोत्तरमपकर्षा'दिति पारिजातः । हलायुध- निवन्धे तु सुहृद पगाभिः ब्राह्मणः शुचिः,कण्ठगाभिः क्षत्रियः,तालुगाभिः वैश्यः,स्त्री शूद्रश्च ओष्ठप्रान्तगाभिरिति शरवचनमेवाऽत्र लिखितम् । अन्ततोऽन्तरवयवेन । एवं चापां भक्षणमेव विवक्षितम् । आचामेदि. त्युपक्रम्य- शारीरं शौचमिच्छन् हि शुद्रश्चैव सत्सकृत् । इति मनुना शूद्रे चशब्दसमुच्चितायां स्त्रियां च सदभक्षस्य स्फुटं विधानादिति कल्पतरुप्रभृतयः । अन्ततः अन्तेन, सार्वविभक्तिका स्तसिः तालुनेत्यर्थः । सदिति तु वैश्याद्विशेष इति मिताक्षरा । अत्र (3) एतदादिः-वर्षधराशाचामेत् इत्यन्त ख. पुस्तके नास्ति ।
'ब्रह.चारिप्रकरणम् । ] चीरमित्रोदयमिताक्षरासहिता। .४७ वर्द्धमानादयो मिताक्षरां, मिश्राः कल्पतरं, श्रीदत्तोपाध्यायाः पारिजातकमनुसरन्ति । स्त्री शूद्रो पाऽथ नित्याम्भःक्षालनाच करोष्ठयोः । इति ब्रह्मपुराणाञ्चरमा ज्यायान् । शारीरमित्यादिमनी स्पृशे- दित्यध्याहारः. कृष्णलं श्रपये दित्यादाविव व्यापारमात्रं वा धात्वर्थः । यद्वा शारीरशौचार्थिनोऽभक्षणमेव विधीयत इति तत्त्वम् । यत्तु आचमनार्थ पाणिपादप्रक्षालनमात्रमेवेति शूद्रा. धिकारे गौतमवचनम् , तदाचमनाहजलाभाव इत्याचाराऽध्याय- व्याख्यानन्तु सर्वसंमतमिति । शुद्रश्चेति चकारादनुपनीतोऽपीति मिताक्षरा । द्विजातिपदं द्वितीयजन्मयोग्यतामात्रपुरस्कारेण त्रैवर्णि- कसामान्यपरम् । अन्यथा द्विज इत्यादिशब्दोल्लेखेन विहितमः शौचादिकमनुपनीतस्य न स्यात् । स्त्री शूद्रश्चेति चकारयोर. न्यसमुच्चयार्थेनैव द्राक् प्रतीतेरनुक्तसमुच्चये मानाभावात् । एवं चाऽनुपनीतानामपि त्रैवर्णिकानामुपनीतवदाचमनकल्प इति त्वन्ये निवन्धारः ॥ २०॥ २१ ॥ (मिता० ) आचमनप्रकार:- त्रिरिति । वारत्रयमपः पीत्वा मुखमङ्गुष्ठमूलेन द्विरुन्मृज्य खानि छिद्राणि ऊर्ध्वकायगतानि प्राणादीनि अद्भिरुपस्पृशेत् । अद्भिर्द्रव्या- न्तरासंस(१)टाभिः । पुनर(२द्भिरित्यवग्रहणं प्रतिच्छिद्रमुदकस्पर्श नार्थम् । स्मृत्यन्तरात्-'अङ्गुष्ठेन प्रदेशिन्या घ्राणं चैव मुखं स्पृशेत् । अङ्गुष्ठानामिकाभ्यां च चक्षुःश्रोत्रं पुनः पुनः ॥ कनिष्ठाङ्गुष्टयो भि हृदयं तु तलेन वै । सर्वाभिस्तु शिरः पश्चाद्वाहू चाग्रेण संस्पृशेत्' ।। इति । पुनस्ता एवं विशिनष्टि । प्रतिस्थाभिः गन्धरूपरसस्पर्शान्त- रमप्राप्ताभिः । फेनबुद्बुदरहिताभिः । तुशव्दाद्वर्पधारागतानां शूद्राद्या- वर्जितानां च निषेधः ॥ २० ॥ (मिता.) हृत्कण्ठेत्यादि । हत्कण्ठतालुगाभिरद्भिर्यथाक्रमेण द्वि- जातयः शुध्यन्ति । स्त्री च शुद्रश्च अन्ततः अन्त(३)गतेन तालुना स्पृष्टाभिरपि । सदिति वेश्याद्विशेषः। चशब्दादनुपनीतोऽपि ॥२१॥ स्नानमदैवतैर्मन्त्रैमर्जिनं प्राणसंयमः ॥ सूर्यस्य चाऽप्युपस्थानं गायत्र्याः प्रत्यहं जपः ॥ २२ ॥ ()संस्पृनाभिः क. ग.। (२) दुनरव्यहणं क. (३) अन्तेन ख. - ४८ याज्ञवल्क्यस्मृतिः। [आचाराध्यायः। ( वी० मि०) स्नानमिति । मानेतिकर्तव्यतायाः संहितान्तरे याज्ञ. वल्क्येनैव प्रपञ्चितत्वान्नेह तदभिधानम् । तथा च योगी- योऽसौ विस्तरतः प्रोक्तः स्नानस्य विधिरुत्तमः । असामर्थ्यान्न कुर्यात्तत्राऽयं विधिरुच्यते ॥ सानमन्तजलं चैव मार्जनाचमने तथा । जलाभिमन्त्रणं चैव तीर्थस्य परिकल्पनम् ॥ अघमर्पणसूक्तेन त्रिरावृत्तेन नित्यशः। मानाचरणमित्येतत्समुद्दिष्टं महात्मभिः । अममर्थः-विस्तरतः स्नानकरणासामर्थेऽघमर्पणसूक्तेन त्रिरा. वृत्तेन क्रमेण जलाभिमन्त्रेण तीर्थपरिकल्पनाचमनमार्जनान्तर्जलजप- स्नानानि कुर्यात् । पूर्वप्रतिपन्नक्रमवत्तीर्थपरिकल्पनाद्यनुवादेन मन्त्र- मात्रविधानादत्रविपरीतेऽपि शाब्दक्रमे पूर्वस्नानकल्पस्यैव क्रमो ग्राह्य इति । अत्र विस्तरस्नानकल्पेऽसामर्थ्य संक्षिप्ततत्कल्पोपादाने वीजमु. पदर्शयताऽत्रापि कल्पेऽसमर्थस्येतोऽपि संक्षिप्तं कल्पान्तरमुपादेयत्वे. नाऽभिसंहितम् । तद्यथा पद्मपुराणे अनुवृतैरुद्धृतैवी जलैः स्नानं समाचरेत्-इत्यादिना सर्व पापं प्रमोचय-इत्यन्तेन दर्शितम् । तदनुसारी चाऽयं क्रमः। नाभि- मात्रं जलं प्रविश्य ॐ नमो नारायणाय इति मूलमन्त्रेण चतुर्हस्तं चतुरनं जलं हस्तेनावच्छिद्य (१)तीर्थे तीर्थत्वेन कल्पयित्वा 'विष्णोः पादे'त्यादिना 'शान्तिप्रदायिनी'त्यन्तेन वा 'रात्रिपथगामिनी'त्यन्तेन वा तत्र गङ्गामावाह्य मूलमन्त्रेण सप्तधा पठितेन, सप्तकृत्वः पञ्चकृत्व. श्चतुस्त्रिी करसम्पुटेन जलं मूर्ति क्षिप्त्वा 'ॐ अश्वक्रान्ते रथ. क्रान्ते' इत्यादिना 'सर्वपापं प्रमोचय' इत्यन्तेन मृदमभिमन्व्य तया गात्राण्यालप्य नद्यादौ प्रवाहादिमुखोऽन्यत्र सूर्याभिमुखस्त्रिनि. मज्जेदिति ।अयञ्च स्नानविधिः सर्वशाखिसर्ववर्णसाधारणः, सङ्कोचे मानाभावात् । पुराणश्रवणे सर्वाधिकारश्रवणाच्च । अनधीतवेदं प्रति चाऽयमेव प्रशस्तो वेदमन्त्रशून्यत्वात् । न च- ब्रह्मक्षत्रविशाश्चैव मन्त्रवत्स्नानमिप्यते । तूष्णीमेव तु शूद्रस्य सनमस्कारकं स्मृतम् ॥ (१) तीर्थे-इति ख. पुस्तके नास्ति।
ब्रह्मचारिप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ४९ इति नारसिंहे शुद्रस्य सामान्यत एव मन्त्रनिपेधात्कथमेवमिति वाच्यम् । 'वेदमन्त्रवर्ज शूद्रस्य' इति स्मृत्यन्तरेकफलकत्वेनाऽत्र वैदि- कमन्त्रमानव्युदासात्। तूणीं वेदमन्त्रवर्ज,सनमस्कारकं जलनमस्का. रसहितं वेदमन्त्रस्थाने नमःशब्दमात्रयुक्तमित्येके । एवं मत्स्यपुरा. णायुक्तोऽपि सर्वसाधारण एवेति । नरसिंहपुराणीयस्तु कुशमृत्तिलान् शुचौ देशे स्थापयित्वाऽभ्युत्य (१)स्वतो येन पूर्ववद्देहं प्रक्षाल्य स्ना. नशाटी संशोध्य द्विराचम्य शनैर्जलं प्रविश्य वरुणमप्पतिं नत्वा हरि स्मरन् पूर्ववदाप्लवेत् । ततस्तीरं समासाद्य आचम्य 'ॐ उपास्मै गायता'इत्यादि शं राजन्नोपधीभ्यः'इत्यन्तेन (२)त्यूचेन कुशाग्रस्थतो. येनाऽऽत्मानं प्रोक्ष्य 'इदं विष्णु रिति त्यृचन मृदा गात्राण्यालभ्य ना. रायणं देवं स्मरन् जलं प्रविश्याऽघमर्पणसूक्तस्य ऋष्यादिकं स्मृत्वा जले निमग्नः विरघमर्पणं जपेदिति । सर्वत्र वे(३)धस्नानकल्पे पूर्व स्मानाय नेया प्रायत्ये मलापकर्पणं स्नानम् । तूष्णीमेवाऽवगाहेत यदा स्यादशुचिर्नरः । आचम्य च ततः पश्चात्स्नानं विधिवदाचरेत् ॥ इति हारीतादित्यास्तां विस्तरः । स्नानाऽशको सन्ध्यादिकर्मानुकू- लशौचार्थमाह-अब्दैवतैर्मन्त्रमार्जनमिति ।अब्दैवतैरापोहिष्ठेत्यादित्रि भिः । इदञ्च सावित्र्यादेरप्युपलक्षणम् । तथा च योगी- त्रिरावर्त्य तु सावित्री प्रणवं व्याहृतीस्तथा। मार्जनं च ततः कृत्वा आपोहिष्ठेति मार्जयेत् ।। अर्धामधः प्रतिक्षिप्य उर्ध्व सार्हो समुत्क्षिपेत् । अधोभागविसृष्टाया असुरा यान्ति संक्षयम् ॥ सर्वतीर्थाऽभिपेकश्च ऊर्ध्व संमार्जनाद्भवेत् । अघमर्पणसूक्तेन मार्जनं कारयेत्ततः ॥ शं न आपश्च द्रुपदां कामतः सम्प्रयोजयेत् । एवं संमार्जनं कृत्वा वाह्यशुद्यर्थकारणम् ॥ अथाऽऽभ्यन्तरशुद्धर्थ प्राणायामान् समभ्यसेत् । प्रणवव्याहृतित्रयसहितगायच्या त्रिरावृत्तया एकं मार्जनम् 'आपो. . (१) तुभ्युपक्ष्य-इति क. पुस्तके । (२) इत्यत्तेनाऽप्तृचेन-इति क. पुस्तके। (६) वैय-इति ख. पुस्तके।
५० याज्ञवल्क्यस्मृतिः। [ आचाराध्यायः। हिष्ठे'त्यादिव्यचस्य प्रथमार्धेन दर्जलमधः क्षिप्त्वाऽपरार्द्धन द्वि- तीयम् । अघमर्षणेन मुक्तेन तृतीयम् । 'शम्न आपो धनवान्याः शन्नो भवन्त्वनूप्याः । शम्नः समुद्रिया आपः शन्नो भवन्तु कूप्याः' इति म. न्त्रेण चतुर्थ, द्रुपदया पञ्चममिति । चतुर्थपञ्चमे चाऽत्रापि कल्पे का. म्ये एव न । 'आपस्तु द्रुपदां कामतः' इत्यभिधानात् । यद्यपि स्ना. नाशक्तौ तदनुकल्पो मार्जनम् । कालदोपादसामर्थ्यान शक्नोति यदाह्यसौ । तदा ज्ञात्वा ऋषिभ्यस्तु मन्त्रैदृष्टन्तु मार्जनम् ।। शन्न आपस्तु द्रुपदा आपोहिष्ठाऽघमर्पणम् । एभिश्चतुर्भिमन्त्रैस्तु मन्त्रस्नानमुदाहृतम् ॥ इति योगिनैव 'शन्न आप इत्यादिमन्त्रचतुष्केनोक्तम् । तथापि पक्षान्तर मेतत्। यद्वाऽधिकफलार्थमिदं मार्जनं कल्पान्तरं वा । स्नानानुकल्पमार्ज नन्तु प्रकृतं याज्ञवल्क्योक्तम्। आपोहिष्ठेत्यादिव्यचमात्रकरणकमेवा 'आपो. हिष्ठे'ति तु ब्राह्ममिति हारीते तस्याऽपि विधानात् । परमार्थतस्तु 'अब्दैवतैर्मन्त्रैर्मार्जन'मिति सन्ध्यावन्दनान्तर्गतं 'आपोहिष्ठे'त्यादि- ध्य॒चमात्रमन्त्रकं प्राणायामोत्तरकृत्यमेवोक्तं क्रमे(१)तात्पर्याभावात् । 'निराचम्यासून् पुष्पाण्यम्बुमिश्राण्यूर्द्ध क्षिप्त्वा'इति कात्यायनसूत्र इव सन्ध्याप्रयोगो लक्षणमात्रत्वात् । अत एवाऽनुपदं प्राणानायम्य सम्प्रो. क्ष्येत्येव वक्ष्यति । न चैवं पौनरुक्त्यमाशङ्कनीयमुक्तानुवादेन सायं. सन्ध्यायां विशेषमात्रपरत्वात् । अन्यथा प्राणायामे तस्य वज्रलेपत्वा- दिति निपुणमालोकनीयमिति । प्राणसंयम इति प्राणायाम इत्यर्थः । एतत्प्रकारं वक्ष्यति । सूर्यस्योपस्थान मुद्धय'मित्यादिमन्त्रैः। गायत्र्याः 'तत्सवितु रित्यादिकायाः ऋचो जपः । एते प्रत्यहं क्रियेरन् । अनेन नित्यत्वमुक्तम् । तथा (२)च कात्यायन:- यथाऽहनि तथा प्रातर्नित्यं स्नायादनातुरः। दन्तान् प्रक्षाल्य नद्यादौ गेहे चोत्तरमन्त्रवित् ।। गेह इत्युद्धृतोदकोपलक्षणं नद्याद्यभावे विधानात् । यदि तु स्ना. नमब्दैवतरित्यादिना मध्याह्नस्नानादिकमेव विवक्षितम् । प्रत्यहमिति श्रवणात् । अत एव प्राणानायम्यत्यादिना सायंसन्ध्यां प्रातरेवमित्या. (१) क्रमेण- इति ख. पुस्तके । (२) च-इति ख. पुस्तके नास्ति ।
ब्राह्मचारिप्रकरणम् ] वीरमित्रोदयमिताक्षरासहिता । ५१ Vio Sarsouve Library दिना च प्रातःसन्ध्यां पृथक् पृथगेव वक्ष्यति, तदा स्पष्टमेव प्रक- तस्नानस्य नित्यत्वम् । अथातो नित्यस्नानमिति 'सवस्त्रोहरहरा- प्लुत्ये'त्यादिनानास्मृतिभ्यः । परं स्वास्मन् पक्षे प्रातःस्नानानभि- धानेन न्यूनत्वम्। न च पक्षान्तरेऽपि शङ्कनीयं मध्याह्नस्नानस्य गृहस्थ- प्रकरणेऽभिधानात् प्रत्यहमिति (१)त्वहोरात्रमिति परत्वेनाऽप्युपपद्य. ते बहुशः प्रयोगदर्शनादिति । सन्ध्यावन्दनं तु दिवातनं सामान्यमेव वाऽत्रोक्तमिति पर(२)मं च शिष्यते। तत्तु गृहस्थप्रकरणीयकृतशीच. विधिरिति विधिपदेन प्रातःस्नानोक्तेः। परिहरणीयमिति सन्ध्यावन्द- नमपि नित्यम् । तथा च विष्णुपुराणे- नित्यकालमुपस्थानं सन्ध्ययोः पार्थिवेष्यते । अन्यत्र सूतकाशीचविभ्रमातुरभीतितः ॥ योगी-- सन्ध्यात्रयन्तु कर्त्तव्यं द्विजेनाऽऽत्माविदा सदा सन्ध्याहीनोऽशुचिर्नित्यमनहः सर्वकर्मसु ॥ दक्षः:- यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् । आपत्त्यध्वस्वशक्तौ च सन्ध्यां कुर्वीत मानसीम् ॥ इति स्मृतिमञ्जूपायां लिखितम् । संवदति चैतत् 'मनसा चैनं स. म्यगाचारमनुपालये दिति गौतमोक्तेन । सन्ध्ययोरिति विष्णुपुराणं ब्रह्मचारिपरम् । अथ ब्रह्मचारिणो गुरुकुलवासः सन्ध्याद्वयोपासन- मिति. विष्णुवचनैकमूलकत्वात् । सन्ध्यात्रयन्तु कर्तव्यमिति योगिव. वचनं भिक्षुपरमात्मविदेति श्रवणादिति केचित् । तन्न- एतत्सन्ध्यात्रयं प्रोक्तं ब्राह्मण्यं यदधिष्ठितम् । यस्य नाऽस्त्यादरस्तत्र स न ब्राह्मण उच्यते ॥ इति आदिवचनद्वारस्य तत्त्वं सिद्धम् । वयोर्माना(?)भावादात्मविदेत्य. स्याऽहं ब्रह्मण इति ज्ञानवतेत्यर्थात् विष्णुवचनस्य प्रायोवादत्वात्परिसं. ख्यायां गौरवात् गृहस्थस्याऽप्यने सन्ध्योपासनाभिधानात्साधा- रणविधौ लाघवाच्च । अत्र 'ऋतं च सत्यं च' इत्यादिनाऽऽचमनमार भ्य गायत्रीजपान्ते कर्मकलापे सन्ध्यापदं प्रवर्तते, पवित्रयागमार. (१)त्वहोरात्रमिति इति क. पुस्तके नास्ति। (२) परमेव-इति स. पुस्तके पाठः।
५२ याज्ञवल्क्यस्मृतिः। [ आचाराध्यायः । भ्य क्षुद्रकृतिपर्यन्त इष्टसमुदायेऽश्वमेधपदवदिति तत्कर्त्तव्यता विधीयते । सन्ध्यामुपासते ये तु सततं शंसितव्रताः। विधूतपापास्ते यान्ति ब्रह्मलोकं सनातनम् ॥ यमस्मृत्यादौ तु देवताविशेषपरम् । ब्रह्मणोपासिता सन्ध्या विष्णुना शङ्करेण च । कस्तां नोपासयेद्देवी सिद्धिकामो द्विजोत्तमः ।। इति योगिना देवित्वेन कीर्तनात् । यावन्तोऽस्यां विकर्मस्थाः पृथिव्यां वालिशा द्विजाः । तेषान्तु पावनार्थाय सन्ध्या सृष्टा स्वयम्भुवा ॥ सन्ध्या उपासिता येन विष्णुस्तेन उपासितः। इति विष्णुतौल्यप्रदर्शनाच्च । विकर्मस्थाः विहिताकर्तारः शास्त्र- निषिद्धकरिश्च, वालिशा ज्ञानशुन्याः तस्या उपासनमाराधनमुक्तक मकलापेनेति विवेक्तव्यम् । ब्रह्मलोकगमनादिफलश्रवणादत्राऽपि सम्वलिताधिकार इत्यन्यत्र विस्तरः । सूर्यस्य चाऽप्युपस्थानमिति चाऽपिकाराभ्यामनुक्तस्य विशेषान्तरस्य सन्ध्यावन्दनेतिकर्तव्य. तान्तरस्य च समुच्चयः। तच्चेह कृत्स्नामपि सझेपतः प्रदर्श्यते । तथा च शङ्खलिखितौ-'स व्रती वहिः सन्ध्यामुपासीत' । स व्रती ब्रह्मचारी बहिर्गामात् । नैनं ग्रामेऽभिनिम्लोचेत् सूर्यो नाभ्युदयात् क्व चित् । इति मनुवचनात् । एवं ब्रह्मचारिणं निम्लोचेत् अस्तं यायात् । योगी-- स्नात्वैवं वाससी धौते अक्लिष्टे परिधाय च । प्रक्षाल्योरूं मृदाऽद्भिश्च हस्तौ प्रक्षालयेत्तथा ॥ अक्लिष्टे दग्धत्वाऽदिदोषरहिते । विष्णु:- नाऽप्रक्षालितं पूर्वधृतं वासो वा विभृयात् । . . पराशर:- स्नात्वा निरस्य वासोऽन्यजछे प्रक्षालयेन्मृदा । अपवित्रीकृते ते तु कौपीन श्च्योतदम्भसा ॥
ब्रह्मचारिप्रकरणम् ] वीरमित्रोदयमिताक्षरासहिता। कौपीनं लिङ्गम् । तथा- अभावे धौतवस्त्रस्य शानक्षीमाविकानि च । कुतपो योगपञ्च द्विवासा येन वा भवेत् ॥ कात्यायन:- - 'तृतीयमुपवीतं वा(१) उत्तरयिं कुर्या'दिति प्रकरणात् । तथा मृदोरू करौप्रक्षाल्याऽचम्य इदानीं तिलककरणमाचारात्। तत्र भारते- गङ्गातीरसमुद्भूतां मृदं मूर्ती विभर्ति यः। विभर्ति रूपं सोऽर्कस्य तमोनाशाय केवलम् ॥ वर्द्धमानादयस्तु- कर्मादौ तिलकं कुर्याद्रूपं तद्वैष्णवं परम् । यज्ञो दानं तपो होमः स्वाध्यायः पितृतर्पणम् ॥ भस्मीभवति तत्सर्वमूर्खपुण्ड्रविवर्जितम् । इति ब्रह्माण्डपुराणवचनमेव तिलके प्रमाणयन्ति। वामनपद्धती विशेषः- ललाटे वंशपत्राभं दीर्घ विप्रस्य शस्यते । मीनाकारं ततो न्यूनं क्षत्रियस्य प्रशस्यते ॥ ततो न्यूनं तु वैश्यस्य शूद्रस्याऽप्यर्धचन्द्रकम् । तिर्यक् तथाऽऽयतं पुण्डूं नित्यं कर्माङ्गमिष्यते ॥ तथा उशना:- अभावे तूदकेनाऽपि (२)पौण्ड्री दैवतमर्चयेत् । 'गङ्गातीरसमुद्भूता' मित्युपक्रम्य- मूर्ध्नि कण्ठे ललाटे च वाहुभ्यां हृदये तथा। नाभी पृष्टे प्रदातव्यं पार्वतश्च द्वयं द्वयम् ॥ इति पठन्ति । सन्ध्योपक्रमे व्यासः- स्मृत्वोङ्कारं च गायत्री निवनीयाच्छिखां ततः। पुनराचम्य हृदयं नाभि स्कन्धौ च संस्पृशेत् ॥ यदि तस्मिन्काले मुक्तशिखः स्यात्तदाऽनेन मन्त्रेण शिखां घ- धा(३)ऽऽचामेत् । न तु समन्त्रकृत्यार्थ वद्धाऽपि शिखा मोचनीयेति भ्रमः कार्य इत्युपाध्यायाः पठन्ति च । (१) वा-इति ख. पुस्तके नास्ति । (२) 'पुण्ड्री' इति ७० पुस्तके। () आचामत्' इत्यारभ्य-'गायत्र्यो तु शिखा वना'- इत्यन्तो भागो नास्ति ख. पुस्तके।
याज्ञवल्क्यस्मृतिः । [ आचाराध्यायः । :- ब्रह्मपुराणे- गायत्र्यान्तु शिखां वध्वा नैर्ऋत्यां ब्रह्मरन्ध्रतः। जुटिकाश्च ततो बध्वा ततः कर्म समाचरेत् ।। स्मृतिः शिखिवच्छिखया युक्तो ब्रह्मावर्तनवद्धया। शिखिवत् शिरोमध्ये, ब्रह्मावतॊ ब्रह्मग्रन्थिः, स च द्विगुणीकृत- (१)योग्रोटी तस्य द्विः प्रदक्षिणीकृत्य पश्चाद्भागं संवेष्टय पाशान्तर्भा. वे गर्भजादित्याहुः । एवञ्च सार्द्धभ्रमिद्वयं सम्पद्यते प्रवराद्धमिव भ्र- मिरिति साम्प्रदायिकाः। छन्दोगपरिशिष्टे-~- सव्ये पाणी कुशान्कृत्वा कुर्यादाचमनक्रियाम् । सव्यः सोपग्रहः कार्यो(शदक्षिणः सपवित्रकः ।। पवित्रम् । अनन्तर्गर्भिणं सायं कौशं द्विदलमेव च । प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्र चित् ॥ इति कात्यायनेन. लक्षितम् । अ(३)न्यत्र संन्यासपद्धतिलिखितं वा. क्यं पठन्ति । सव्यापऽसव्यवलितं ब्रह्मग्रन्थिसमन्वितम् । लवयेत्प्रथमं पर्व द्वितीयं न कदाचन ॥ पर्व-दक्षिणाऽनामिकायाः । ग्रन्थिर्यस्य पवित्रस्य न तेनाऽऽचमनं चरेत् । मोहादाचमनं कृत्वा रुधिरप्राशनं भवेत् ।। इति(४) तु वचनं प्रामाणिकनिबन्धृभिरनादरात शिष्टाचारविरोधाच्च हेयमेवेति । लघुहारीतः- दर्भहीना च या सन्ध्या यच्च दानं विनोदकम् । असंख्यातं च यजप्तं तत्सर्व निष्फलं भवेत् ।। योगी- ईशानाभिमुखो भूत्वा शुचिः प्रयतमानसः। आचान्तः पुनराचामेदतस्मीत्यभिमन्त्रितम् ॥ (२)द्विगुणीकृतमोटी-इति ख० पुस्तके । (२) कुर्यात-इति ख. पुस्तके । (२) अत्र-दति ख. पुस्तके । (४) तु इति क. पुस्तके नास्ति । -- ब्रह्मचारिप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ५५ . आन्तरं शुध्यति ह्येवमनपानमलीकृतम् । शुचिः स्नानेन मार्जनादिना वा सम्पादितशरीरशुद्धिः। " तथाच जावालिः- अशिरस्कं भवेत्स्नानं स्नानाशक्तौ तु कर्मिणाम् । आर्द्रण वाससा वाऽपि दैहिक मार्जनं विदुः॥ कर्मिणां कर्मचिकीर्पूणाम् । योगी- 'कालदोंपादसामर्थ्या'दित्यादि लिखितम् । हारीतोऽपि-'आपोहि- ठेति च ब्राह्म'मित्याद्यन्यत्र विस्तरः। 'आचान्तः पुनराचामे दिति । सन्ध्योपक्रमे पूर्व कृताचमनः 'स्मृत'मित्यभिमन्त्र्य पुनराचामेदित्य- र्थः । मन्त्रकरणकं द्विराचमनमिति तु मिश्राः । 'त्रिरावर्त्य तुसावित्री'- मित्यादि योगिवचनं तु लिखितं व्याख्यातञ्च । योगी- पूर्वा सन्ध्या तु गायत्री सावित्री मध्यमा स्मृता । या भवेत्पश्चिमा सन्ध्या सा तु देवी सरस्वती ॥ रक्ता भवति गायत्री सावित्री शुक्लवर्णिका । कृष्णा सरसती ज्ञेया सन्ध्यात्रयमुदाहृतम् ॥ रूपकथनं ध्यानार्थम्। छन्दोगपरिशिष्टे- रक्षडिन्ते वारिणाऽऽत्मानं परिक्षिप्य समन्ततः । अन्ते पूर्वोक्तमार्जनकर्मणः आत्मानं वारिणा परिक्षिप्य रक्षा का- यो। आचारातू 'आपो मामभिरक्षन्तु'इत्युच्चार्य 'ॐ भूर्भुवःस्व'रिति म. न्त्रोऽत्र करणमिति वर्द्धमानः । बृहस्पतिः- वध्वाऽऽसनं नियम्य स्वं स्मृत्वा ऋष्यादिकं ततः । सानिमीलितहग्मौनी प्राणायामान समभ्यसेत् ॥ आसनम् । पाझम सनं वापि तथा स्वस्तिकमासनम् । इति वायुपुराणायुक्तम् । ऊर्वोरूपरि विन्यस्य सम्यक् पादतले उभे । अङ्गुष्ठौ(१) च निवनीयाद्धस्ताभ्यां व्युत्क्रमात्ततः ॥ पद्मासनमिति प्रोक्तं योगिनां हृदयगममम् । जानूर्वोरन्तरे सम्यक् कृत्वा पादतले उभे ॥ ऋजुकायो विशेद्योगी स्वस्तिकं तत्प्रचक्षते । (१) इदं सार्दू पयं ख. पुस्तके नास्ति। - ५६ याज्ञवल्क्यस्मृतिः। [ आचाराध्यायः। इत्यादि लक्षितम् । अत्र पद्मासने प्रथमं दक्षिणस्य तदुपरि वाम- स्य चरणस्य न्यासः। तदुक्तम्- वामोरूपरि दक्षिणञ्च चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् । अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकये- देतद्याधिविघातिकारि यामिनां पद्मासनं प्रोच्यते ॥ स्वस्तिके च प्रथमं वामस्य तदुपरि दाक्षणस्य न्यासः । तदुक्तं पातञ्जलटीकायां-'सव्यं चरणं दक्षिणजङ्घोऊरन्तरे निक्षिपेत्, दक्षिणञ्च वामजचोर्वोरन्तरे तदेतत्स्वस्ति(१)क'मिति । अयन्तु विशेषः-कर्मकाले ऊर्वोरूर्व व्यत्यासेन चरणद्वयन्यासमात्रं पद्मासनपदेन अभिप्रेतम् । अन्यथा हस्तव्यापृतत्वेनाऽनिमक्रियाविरोधात् इति प्राहुः स्वं आत्मानं मन इति यावत्। नियम्याऽसूनिति पाठे प्राणायामपदं मन्त्रपरम् । ऋ- प्यादिकं स्मृत्वाऽसून्नियम्येति च योजनार्थात् । ऋष्यादिस्वरूपं योगी- यद्येन ऋषिणा दृष्टं सिद्धिः प्राप्ता च येन वै मन्त्रेण तस्य तत्प्रोक्तं ऋषेभीवस्तदार्षकम् ॥ छादनाच्छन्द इत्युक्तं वाससी इव चाऽऽकृतेः । आत्मा संछादितो देवैर्मृत्यो तिस्तु वै पुरी। आदित्यैर्वसुभी रुद्रैस्तेन छन्दांसि तानि वै। यस्य यस्य तु मन्त्रस्य उद्दिष्टा या तु देवता ।। तदाकारं भवेत्तस्य देवत्वं देवतोच्यते । पुरा(२) कल्पे समुत्पन्ना मन्त्राः कर्मार्थमेव च । अनेनेदन्तु कर्तव्यं विनियोगः स उच्यते ॥ आर्ष छन्दश्च देवत्यं विनियोगस्तथैव च । वेदितव्यं प्रयत्नेन ब्राह्मणेन विशेषतः ॥ अविदित्वा तु यः कुर्यात् याजनाऽध्यापनं जपम् । होममन्तजलादीनि तस्य चाऽल्पं फलं भवेत् ।। ब्राह्मणेन-विप्रेण,उपलक्षणमिदम् । एवं पञ्चविधं योगमिति वेद- रूपब्राह्मणान्तर्भावेन पञ्चविधत्वं प्रकारान्तरमधिकफलार्थ वा । अत्र ॐकारसप्तव्याहृतिशिरसां प्राणायाम यामपूर्वमव्यवहितक्रमेण ऋण्या- (१) पुरा इत्यारभ्य-विनियोगस्तथैव च-इत्यन्त ख. पुस्तके नास्ति ।
ब्रहाचारिप्रकरणम् ।.] वीरमित्रोदयमिताक्षरासहिता। ५७ दिस्मरणं मिलितानामेव तेपां विनियोगात् । 'आपोहिष्ठा'दीनान्तु प्रत्येक विनियुक्तानां तत्पूर्व (१) प्रत्येकन्यायप्राप्तस्याऽव्यवधानस्य तथैवोपपत्तेः। 'ऋत'मिति प्रथमाऽऽचमने 'अन्तश्चरसी'त्याचमने 'गायत्र्यसीति गायत्र्युपस्थाने ऋप्यादिस्मरणं नास्तीत्युपाध्याय- स्वरसः अत्र अघमर्पणसूक्तादेचऋप्यादिकं प्रसिद्धम् । अत्र ऋष्यादि- स्मरणे शब्दप्रयोगो न कार्यों मानाऽभावादसम्बद्धव्यवायापत्तेश्चेति मिश्राः। योगी- प्राणस्याऽऽयमनं कृत्वा आचामेत्प्रयतोपि सन् । प्राणायामप्रकारं वक्ष्यति मैत्रायणायगृह्यपरिशिष्टे- प्रातः 'सूर्यश्च मे'त्युक्त्वा सायमग्निश्चमेति च । 'आपः पुनन्तु' मध्याह्ने कुर्यादाचमनन्तथा । अस्य वचनस्य. राजाद्यलिखितत्वेन प्रकृताचमनेपु तत्तन्मन्त्र- सम्वन्धे शिष्टाचार एव प्रमाणमित्युपाध्यायः । प्राणानायम्य सम्प्रोक्ष्य त्यूचेनाऽब्दैवत्तेन तु । विभागमाह व्यासः- विष्णुः'--'ोपोवो(?)ऽप्टो क्षिपन्मूर्ध्नि अघौघस्य क्षयाय च । प्रकारमाह कात्यायन:- शिरसो मार्जनं कुर्यात्कुशैः सोदकविन्दुभिः । - यथा दुपदा । ॐकारो व्याहृतीः सप्त गायत्रीः शिरसा सह । 'आपोहिष्ठे'त्यूचस्तिस्रो 'द्रुपदा'द्यघमर्पणम् ।। 'उदुद्वयं' 'तञ्चित्रं' 'तत्तेजोऽसीति यथाक्रमम् । गायत्री उत्तरीयञ्च सन्ध्यामभिः समापयेत् ।। इति शातातपेन तथैव मन्त्रविधानात् । 'द्रुपदं चेत्यत्र 'सूक्तं चैव'- मिति पाठेऽपि उक्त एव क्रमः । सर्वत्र मार्जनं कर्म अप्लिङ्गानामुदाहृतम् । श्त्युक्त्वा द्रुपदा प्यादिकमुक्त्वा । अपः पाण्योः समादाय त्रिः पठेद् द्रुपदामृत्रम् । तत्तोयं मूर्ध्नि विन्यस्य सर्वपापैः प्रमुच्यते ॥ । (१) तत्सई-इति ख० पुस्तके ।
4 ५८ याज्ञवल्क्यस्मृतिः। [ आचाराध्यायः । इति योगि(१)याज्ञवल्क्यायपाठक्रमात् । ततोऽघमर्षणं तत्प्रयोगः (२)परि- शिष्टे करेणोद्धृत्य सलिलं घ्राणमासज्य तत्र च । जपे(३)दनायतासुर्वा त्रिः सकृद्वाऽघमर्पणम् ॥ अनायतासुर्वेति आयतासुरिति पक्षान्तरं दर्शितम् । शङ्खः- उपस्पृशेत्ततः पश्चान्मन्त्रेणाऽनेन धर्मतः । 'अन्तश्चरसी'त्यादि ! एतच्चाऽऽचसनं मार्जनानन्तरं श्रुतमप्य. घमर्पणानन्तरमनुष्ठेयम् । एतदनन्तरं शङ्खनैव सूर्याञ्जलिविधानात् । छन्दोगपरिशिष्टे- उत्थायाऽर्क प्रतिरोहत्रिकेणाऽञ्जलिमम्भसः। त्रिकेण- प्रणवो 'भूर्भुवः स्वश्च' सावित्री च तृतीयका । इति प्रागुक्तेन सूर्य प्रति जलाञ्जलिं क्षिपेदर्थात्सूर्यमुद्दिश्य त्यागोऽ. यम् । जलाञ्जलौ पुष्याण्यपि मिश्रणीयानि । 'पुष्णाण्यम्बुमिश्राण्यूर्व क्षिप्त्वाव॑बाहुः सूर्यमुदीक्षेत्' 'उद्यन्नुदुत्यं चित्रं तच्चक्षुरिति 'गायच्या च यथाशक्ति'इति कात्यायनात् । पुष्पजलाअलि स्वमौलितुल्यदेशमादाय प्रदक्षिणं प्रक्रम्य क्षिपेत् । 'यत्प्रदक्षिणं प्रकामन्ति तेन पाप्मानमव. धुन्धती'ति श्रुतेः। गाचच्या चेति जपजाप्यसाधारणेन सन्ध्यान्तर्गत- मप्राप्त्यर्थम्।स च'उभे सन्ध्ये जपन् जाप्यसुपासीत यथाविधीति वच. नेषु स्फुट एव । परि(४)श्रुतेस्तु सावित्रीजपः पृथगपीति मन्तव्यम् । अन्ये तु-'जपेन्नित्यं सर्वकल्मषनाशिनीम्' इति । जपेदहरहः स्नात्वा. सावित्री जपविद् द्विजः। इत्यादिभिवोंधितम्।गायत्रीजपरूपकर्मान्तरमेवेह विधीयते,परन्तु प्रधानभूतस्वतन्त्रेण तर्पणेन स्नानाङ्गतर्पणस्येव स्वतन्त्रगायत्रीजपे- नैव सूर्योपस्थानस्याऽपि प्रसङ्गत एव सिद्धेर्न तदर्थ पृथग्गायत्री. पाठ इति वदन्ति । सूर्योपस्थानकरणमन्त्राणां तु ऋष्यादिस्मरण- मावश्यकम्। (१) योगि - इति क. पुस्तके नास्ति । (२) तत्प्रयोग-इत्यस्य स्थान-तत्र योगः छन्दोऽघमर्षण-इति ख० पुस्तके पाठः। (३) जपेत्-इति ख० पुस्तके पाठः । ( ५ ) फलश्रुतेः-इति ख० पुस्तके ।
ब्रह्मचारिप्रकरणम् ] वीरमित्रोदयमिताक्षरासहिता । चित्रं देवेति च ऋच ऋपिः कौत्स उदाहृतः। त्रिष्टुप् छन्दो देवतञ्च सूर्योऽस्याः परिकीर्तितः ॥ अग्निष्टोम उपस्थाने विनियोगस्तथैव च । इति व्यासेन सन्ध्याप्रकरणेऽभिधानस्य एकत्र निर्णीत इति न्यायेना- ऽन्यत्रापि तत्सम्बन्धाऽभिप्रायकत्वात् । इदन्त्ववधेयं शिष्टाचारानु. सारि ऋष्यादिकमिह प्रसिद्धमेव (१)सर्वानुक्रमण्यांतु 'उदुद्वयं सौरी अनुष्टुप्प्रस्कण्वस्य उदुत्यं प्रस्कण्वः सौरी गायत्री चिरं कुत्स आङ्गिरसस्त्रैष्टुभं तचक्षुः पुर उष्णिक सौरी'त्युक्तम्। अत्राद्याजला- दुप(२) क्रमणे मध्ययोदक्षिणहोमे चतुर्थी भद्रावीरशान्तिकरणे वि. नियोगः इति कातीयकल्पः। गायत्रीजपे योगी- प्रणवो भूर्भुवः स्वश्च अङ्गानि हृदयादयः । त्रिरावर्त्य ततः पश्चादा छन्दश्च दैवतम् ।। विनियोगस्तथा रूपं ध्यातव्यं क्रमशस्तु(३) वै । अत्र ॐ हृदयाय नमः ॐ भूः शिरसे स्वाहा ॐ वपट् ॐ स्वः कवचाय हुं ॐ भूर्भुवः स्वः नेत्रत्रयाय(४)वोपट् ॐ भूर्भुवः स्वः अस्त्राय फडिति केवलेन ॐकारेण तत्सहितया प्रथमया व्याहृत्या तादृश्या द्वितीयया तादृश्यैव तृतीयया तादृशेनैव च व्याहृतित्रयेण तादृशेनैव च व्याहनिरूपेण पडङ्गन्यासमाचरन्ति । तत्र तु वासना चिन्तनीया, परं त्वीदृशाचारस्य बहुनरमहाजनसं. मतत्वेन नाऽत्राऽधिकमभिनिवेशः क्रियत इति गायत्रीरूपमाह भुवः शिखायै स एव- श्वेतवर्णा समुद्दिष्टा कौशेयवसना(५)शुभा । श्वेतैर्विलेपनैः पुष्पैरलङ्कगरैश्च भूपिता॥ आदित्यमण्डलान्तःस्था ब्रह्मलोकगताऽथवा । अक्षसूत्रधरा देवी पद्मासनगता शुभा ॥ (१) अनुकमण्या-इति ख. पुस्तके । (२) जलदुपात्कमणे-इति क. पुस्तके पाठ । (३) च-इति ख. पुस्तके । (१) नेवाभ्यो-इति का पुस्तके, नेत्रप्रपापा-इति च व. पुस्तके पाठः । (५) तथा--इति न पुस्तके।
याज्ञवल्लयस्मृतिः । [ आचाराध्यायः । -- आवाह्य यजुपाऽनेन 'तेजोऽसीति विधानतः ॥ ततो(१) बाह्य जपित्वा तु नमस्कृत्य विसर्जयेत् । एवं चाऽविशेषे तत्तद्वचनबलात्सन्ध्यात्रयेऽपि गायत्री शुद्धव ध्येया। कचित्तु 'प्रातर्ब्रह्माणी रक्ता, मध्यान्हे वैष्णवी कृष्णा, सायं माहेश्वरी शुक्ला' इति त्रिरूपा गायत्री ध्येयेति वदन्ति । पठन्ति चैतन्म: लतया सुबहन्यनाकरवाक्यानीति। अत्र चाऽऽवाहनादनन्तरं जपात्प्रा. गेव गायच्या उपस्थानं ब्राह्मणेन। तथा च शतपथश्रुतिः-'तस्या उपस्थानं गायत्र्यत्रस्येकपदी द्विपदी त्रिपदी चतुप्पद्यसि न हि पद्यसे नमस्ते तुरीयाय दर्शनाय पदाय परोरजसे सावदोमाप्राप'दिति । 'यं विष्पादस्मैकामो मासम (२)तिप्वानहैवास्मै स कामः समृद्धचते यस्मा एवमुपतिष्ठतेऽहमदः प्राप'दिति वा बौधायनः। उपतिष्टेत चा एतां देवी तुरीयेण पादेन । अथाऽभ्युदाहरान्त गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यसि(३)न हि पद्यसे नमस्ते तुरीयाय दर्शनाय पदाय परोरजस इत्यथैनां जपति । 'अथापीत्यादिना तुरीयपादस्य स्वरूप कथनम् । एवञ्च श्रुतावपि 'परो रजस'इत्यन्त एव मन्त्रः, अग्रे चाऽर्थ- वाद इत्युपाध्यायादयः। अन्ये तु ‘मा प्राप'दित्यन्तो मन्त्रः श्रुताविति- शब्देन तावद् दूरस्य व्यवच्छेदात् । बौधायनसूत्रन्तु राजाद्यलिखित स्वा. निर्मूलमेव । समूळत्वेऽपि बौधायनतैत्तिरीयसूत्रकारत्वेन माध्यन्दिनीयैः शतपथोक्त एव मन्त्रो ग्राह्य इत्याहुः । यत्तु- गायध्यस्यैकपद्याद्यैरुपस्थाय ततो जपेत् । उपस्थाय तुरीयेण तेनैव च विसर्जयेत् अष्टाक्षरपदन्तत्तु परो रजसे सावदोम् । इति मन्त्रप्रकाशानुसारात् सावदोमित्यन्त एवायं मन्त्र इति, तन्न शतपथविरोधात् । अजपां नाम गायत्री जीवो जपति सर्वदा। हंस इ-येव तन्मन्त्रं स च पादश्चतुर्थकः ॥ (१)ता-इति ख० पुस्तके । (२) मासमध इति वा न हैवास्म-इति ख० पुस्तके । (३) चतुष्पचपदास-इति ख० पुस्तके ।
प्रहाचारिप्रकरणम् ] वीरमित्रोदयमिताक्षरासहिता । ६१ इति काशीखण्डविरोधाञ्चेत्यपि कश्चित् । अत्रा'थोपतिष्ठेदित्यादि पूर्व- लिखितयोगिवचनमवलम्व्य 'आगच्छे'त्यादि 'स्मृते'त्यन्तं गायत्री- जगात्पूर्व केचित्पठन्ति । जप्यमाह योगी- ॐकारः पूर्वमुच्चार्यो भूर्भुवः स्वस्ततः परम् । गायत्री प्रणवश्वाऽन्ते जप्ये ह्येवमुदाहृता ॥ यमः (१)- सहस्रपरमां देवीं शतमध्यां दशावराम् । गायत्रीन्तु जपेन्नित्यं सर्वकल्मपनाशिनीम् ॥ चौधायनः-'शतकृत्वो ऽपरिमितकृत्वो वा दशावराम्' । अपरिमित. कृत्वः दशोपरि शतादर्वागनियतसवयमित्यर्थः । गोभिल:: कदाचिदपि नो विद्वान् गायत्रीमुदके जपेत् । गायव्यग्निमुखी देवी तस्मादुत्थाय तां जपेत् ॥ घृहस्पतिः- मार्जन जलमध्ये तु प्राणायामो यतस्ततः । उपस्थानं ततः पश्चात्सावित्रीजप उच्यते ॥ मार्जनं मन्त्रस्नानाझं.२)यतस्ततः जले स्थले वा । एवं प्राणाया. मोपस्थानयोः सन्ध्यान्तर्गतयोरुभयत्र विधानादुपस्थानपर्यन्ता स- न्ध्याजले यस्य मते । गायत्रीजपस्तु स्थल एवोक्तः । कात्यायनेन तु तीर्थसन्ध्यावन्दनमुक्तम् । नारसिंहेऽपि 'स्नानोत्तरं तर्पणात्प्रागभि- हितम् । दर्भपु दर्भपाणिः सन् प्राङ्मुखः सुसमाहितः। प्राणायामांस्तु कुर्वीत यथाशास्त्रमतन्द्रितः ॥ जपेदहरहः स्नात्वा सावित्री जपविट्विजः । अथ पुप्पाञ्जलिं क्षिप्त्वा भानवे चोर्द्धबाहुकः ॥ तत्तुल्यं च जपेन्मन्त्रं चित्तं तच्चक्षुरित्यपि । प्रदक्षिणमुपादृत्त्यं नमस्कृत्य ततः प्रभुम् ॥ अत्र दर्भप्विति श्रवणात्स्थल एव सन्ध्याकरणमायाति । जपान. न्तरमुपस्थानं प्रकारान्तरं बौधायनेऽपि दर्शनात्। हारीतः- (३) यमः इति क० पुस्तके नास्ति । (२) मन्त्रस्नानान्तं- इति क० पुस्तके ।
याज्ञवल्क्यस्मृतिः। [ आचाराध्यायः । ? 'सावित्री जपन् पापेभ्यो मुच्यते शतं जप्त्वा मानसात् पूतो भवति सहस्र जप्त्वा वाकृतात् पूतो भवति' । यमः- न तथा वेदजप्येन पापं निर्दहति द्विजः। यथा जपेन सावित्र्याः सर्वपापैः प्रमुच्यते ॥ जपविधौ शङ्खः-कुशवृस्यामासीनः कुशान्तरायां वा कुशपवि. त्रपाणिरुदङ्मुखः सूर्याऽभिमुखो वाऽक्षमालामादाय देवतां ध्या- यन् जपं कुर्यात् । सुवर्णमणिमुक्तास्फटिकपद्माक्षेन्द्राल(१)रुद्राक्षपुत्रं- जीवकानामन्यतममालां कुर्यात् । कुशग्रन्थियुतां वा हस्तोपयामैर्वा गणयेत् । वृसी लब्ध्वासनं हस्तोपयामोङ्गुलिनामनम् ? । योगी- तिष्ठश्चेद्वीक्षमाणोऽर्क जपं कुर्यात्समाहितः । अन्यथा प्राङ्मुखः कुर्याद्वक्ष्यमाणक्रमेण तु ॥ प्राक्कुलेषु कुशेष्वेव आसीनश्चाऽऽसने शुभे । नात्युच्छ्रितो नातिनीचो दर्भपाणिः सुसंयतः ।। स्फटिकेन्द्राक्षरुद्राक्षपुत्रजीवप्रवालकैः। अक्षमाला हि कर्तव्या उत्तमा ह्युत्तरोत्तरा ॥ प्राक्कुलेषु प्रागग्रेपु । नारसिंहे- त्रिविधो जपयज्ञः स्यात्तस्य भेदं निवोधत । वाचिकश्च उपांशुश्च मानसश्च त्रिधा मतः ॥ . त्रयाणां जपयज्ञानां श्रेयः स्यादुत्तरोत्तरः । यदुच्चनीचस्वरितैः स्पष्टशब्दवदक्षरैः ।। मन्त्रमुच्चारयेद्यक्तं जपयज्ञः स वाचिकः । शनरुच्चारयन्मन्त्रमीषदोष्ठौ प्रचालयन् ॥ किञ्चिच्छब्दं स्वयं विद्यादुपांशुः स जपःस्मृतः । ध्येया यदक्षरश्रेण्यो वर्णाद्वर्ण पदात्पदम् ।। शब्दार्थचिन्तानाभ्यासः स उक्तो मानसो जपः । एवञ्च त्रिविधस्याऽपि जपस्य विधानात् । नोच्चैजपं वुधः कुर्यात्सावित्र्याश्च विशेषतः । - (१) लरुद्रा-इति क. पुस्तके नास्ति ।
नवाचारिप्रकरणम् । ] चीरमित्रोदयमिताक्षरासहिता । ६३ इति शहवचनमल्पफलाऽभिप्रायम् । ध्यायेत्तु मनसा मन्त्रान् जिहोष्ठी न विचालयेत् । न कम्पयेच्छिरो ग्रीवां दन्तान्नैव प्रकाशयेत् ।। इति योगिवचनं मानसविषयम् । योगी- नचकमन्न च हसन्न पार्श्वमवलोकयेत् । न प्राशितो? ने जल्पंश्च न प्रावृतशिरास्तथा ॥ न पदा पदमाक्रम्यं न चैव हि तथा करौ। न वा समाहितमना न वसन् श्रावयन् जपेत् ।। न क्लिन्नवासाः स्थलगो जपादीनाचरेद्बुधः । व्रतादृते नावासा नैकवासाः समाचरेत् ।। न जीर्णन मलिनेन परिक्लिष्टेन वा जपेत् । यक्षराक्षसभूतानि सिद्धविद्याधरा (१)गणाः ॥ हरान्ति प्रसभं यस्मात्तस्माहुप्तं समाचरेत् । जपकाले न भाषेत व्रतहोमादिके तथा ॥ एतेष्वेवावसक्तं च यद्यागच्छंद्विजोत्तमः । स्मृतिः नेकवस्त्रः प्रवर्तत द्विजवाचनिके जपे। अभिवाद्य ततो विषं योगक्षेमं च कीर्तयेत् ।। तृष्णीमासीत च जपंश्चाण्डालपतितादिकान् । दृष्ट्वा तद्वायुपस्पृश्याऽऽभाष्य स्नात्वा पुनर्जपेत् ॥ 'अवसक्तं प्रवृत्तं योगादिकीर्तनञ्च दन्तसन्धाने सत्येव दन्तैर्द- न्तान् सन्ध्यायाऽन्तर्मुख एव यावदर्थमभिभापतेति तेनैवाऽभिधा. नात् । तदपि(२) संस्कृतेनैव न म्लेच्छितवै नापपित' इति श्रुतेः । :- तथा- यदि वा यमलोपः स्याजपादिपु कथञ्चन । व्याहरेद्वैष्णवं मन्त्रं स्मरेद्वा विष्णुमव्ययम् ।। (१)गुणा-इति ख० पुस्तके । (२) यदपि-इति वा पुस्तके ।
६४ याज्ञवल्क्यस्मृतिः। [ आचाराध्यायः। बौधायनः- - काषायवासाः कुरुते जपहोमप्रतिग्रहान् । न तद्देवगमं भवति हव्यकव्यवथो हविः ।। व्यास:- - आर्द्रवासाश्च यः कुर्याजपं होमं प्रतिग्रहम् । सर्व तद्राक्षसं विद्याद्वहिर्जानु च यत्कृतम् ॥ वसिष्ठः जपहोमोपवासेपु धौतवस्त्रधरो भवेत् । अहङ्कृतः शुचिर्भीनी श्राद्धादौ विजितेन्द्रियः ।। लघुहारीत:- जपहोमे तथा दाने स्वाध्याये पितृतर्पणे। अशून्यं तु करं कुर्यात् सुवर्णरजतैः कुशैः॥ अत्र सुवर्णधारण दक्षिणनामिकायाम् । अनामिकायां तद्धार्य दक्षिणस्य करस्य च । इति हेमप्रकरणीयदेवीपुराणात्तत्सन्दंशादजतकुशधारणमपि तत्रैव । 'तर्जन्यां रजतं धार्य'मिति त्वमूलम् । सदोपवीतिना भाव्यं सदा वद्धशिखेन च । विशिखा व्युपवीतश्च यत्करोति न तत्कृतम् ॥ क्रियां यः कुरुते मोहादनाचम्येह मानवः । भवन्ति हि वृथा तस्य क्रियाः सर्वा न संशयः ॥ इत्यादीनि । विधिहीनं भावदुष्टं कृतमश्रद्धया च यत् । उद्धरन्त्यलुरास्तस्य मूढस्य कृतात्मनः॥ • तथा- प्रमादात्कुर्वतां कर्म प्रच्यवेताऽध्वरेषु यत् । स्मरणादेव तद्विष्णोः सम्पूर्ण स्यादिति श्रुतिः ॥ इत्यन्तानि वचनानि उपाध्यायादिभिर्जपप्रकरणे लिखितानि च। प्रणव. व्याहृतित्रयसहितगायत्रीमधिकृत्य- योऽधीतेऽहन्यहन्येतां त्राणि वर्षाण्यतन्द्रितः। स ब्रह्म परमभ्येति वायुभूतः (१) स्वमूर्तिमान् ॥ (१) वायुर्भूत.-इति ख० पुस्तके ।
ब्रह्मचारिप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। तथा- सुवर्णस्तेयकृद्विमो:ब्रह्महा गुरुतल्पगः। सुरापश्च विशुद्धयन्ति लमजापान संशयः॥ इत्यादीनि तत्तत्फलार्थत्वादिति गायत्रीजपानन्तरं (१)कार्यम् । कात्यायन:-'विभ्रा'डित्यनुवाकपुरुपसूक्तशिवसङ्कल्पमण्डलबाह्मणैरि- त्युपस्थाय प्रदक्षिणीकृत्य नमस्कृत्य । अयञ्च जपः काम्यः । सन्ध्यात्रयेऽप्युपस्थानमेतदाहुर्मनीषिणः । मध्याह्न उदये वाऽपि 'विभ्राडा'दीच्छया जपेत् ॥ इति परिशिष्टात् । उदयेऽपत्यिभिधानादुदयमात्रानन्तरमपि । म. ध्याहसन्ध्यावन्दनमिति पारिजातः । नमस्कृत्य सूर्य, उपस्थानकर्मत्वेन तस्यैवोपस्थितत्वात् । 'नमस्कृत्य ततः प्रभुमिति नारसिंहाच्चेति । मि- श्रास्तु गायत्रीं नमस्कृत्यति कात्यायनसूत्रार्थ इति व्याख्यातवन्तः । तेपामयमाशयः-गायत्रीमधिकृत्य । तत्राऽऽवाह्य जपित्वा तु नमस्कृत्य विसर्जयेत् । इत्यावाहनादिपूर्वाऽपरक्रियासु गायत्र्या एव कर्मत्वेनाऽन्वयात्त- न्मध्यपठितायां नमस्क्रियायामपि स एव युक्तिमानिति । 'नमस्कृत्य ततः प्रभु'मित्यत्रापि प्रभुशब्देन गायत्र्यवाऽभिमता, 'गायव्यभि- मुखी'त्यादौ देवीत्वादिना कीर्तनादिति । आदित्यगायत्र्योईयोरपि नमस्कार इति तु ऋजवः । विसर्जने तु यद्यप्युपाध्यायैर्मन्त्रो न लिखितः। मित्रैः पुनस्तूष्णीमिति सिद्धवदुक्तम्। चण्डेश्वरेण तु- उत्तरे शिखरे जाते भूम्यां पर्वतवासिनि । ब्राह्मणैः समनुज्ञाते(२) गच्छ देवि यथासुखम्॥ इति विलिख्य छन्दोगानामेव मन्त्र इत्युक्तम्, तथापि सर्वाह्यो- ऽविरोधात् , गारुहलैशादिपुराणविहितत्वाच्च । अत एव आचारचिन्तामणौ शौरिणाचारपल्लवेदेववंशेन(?) साधारण्येनैव सिद्धवदयं . मन्त्री लिखित इत्याधुनिकवर्द्धमानाः । इत्येष चाऽपिशव्दाभ्यां परमर्पिकटाक्षितः। संक्षेपात् दर्शितः प्रश्ने सन्ध्यावन्दनिकः क्रमः ॥ २२ ॥ (१) कार्यम्-ति ख• पुस्तके नास्ति । (२) प्रमनुज्ञाता-इति ज. पुस्तको पाठ। 'उत्तमे शिखरे जाता भूम्यो पर्वतमूर्धनि । प्रागेन्योऽभ्यनुज्ञाता गर देवि यथासुखम् । इति प्रचलितः पाठः। . १ . याज्ञवल्क्यस्मृतिः। [ आचाराध्यायः। (मिता०) स्नानमिति। प्रातःस्नानं यथाशास्त्रम् । अब्दैवतैमन्त्रै रापोहिष्ठेत्येवमादिभिर्जिनम् । प्राणसंयमः प्राणायामो वक्ष्यमाण- लक्षणः । ततः सूर्यस्योपस्थानं सौरमन्त्रेण । गायत्र्यास्तत्सवितुर्व रेण्यमित्या(१)द्यायाः प्रतिदिवसं जपः(२)। कार्यशब्दो यथालिङ्गं प्रत्येकमभिसम्बध्यते ॥ २२ ॥ (वी० मि०) प्राणायामो द्विविधः, सवीजोऽवीजश्च । तथा च विष्णुपुराणम् -- प्राणाख्यसनिलं वश्यमभ्यासात्कुरुते तु यः । प्राणायामः स विज्ञेयः सवीजोऽवीज एव च ।। सवीज संगर्भः, मन्त्राद्यालम्बन इति यावत् । तदुक्तमभियुक्तैः- जपध्यानादिभिर्युक्तं सगर्भ तं विदुर्बुधाः । :: तदतं विगर्भश्च प्राणायामं परं विदुः ॥ सोऽपि प्रत्येक विधा। तथा चोक्तं मार्कण्डेयपुराणे-- लघुमध्योत्तरीयाख्यः प्राणायामस्त्रिधा मतः । तस्य प्रमाणं वक्ष्यामि तदलर्क! शृणुष्व मे॥ लघुादशमात्रस्तु द्विगुणः स तु मध्यमः । त्रिगुणाभिस्तु मात्राभिरुत्तरीय उदाहृतः ॥ निमेषोन्मेषणा मात्रा तालो लध्वक्षरं तथा । यत्तु पातञ्जलटीकायां 'षत्रिशन्मात्राभिः प्रथम उद्घातो मन्दः स एव द्विगुणीकृतो द्वितीयो मध्यमः स एव त्रिगुणीकृतस्तृतीयस्तीव्र इति वाचस्पतिमिथैरुक्तम्, तन्मुख्यं पक्षान्तरमिति । तत्र प्रकृते प्राणा- यामः कीगित्याकाङ्क्षा पूरयन्नेव सन्ध्यान्तर्गते प्राणायाम जपविशे. परूपमङ्गं वि(३)धत्ते- गायत्रीं शिरसा सार्दै जपेद्व्याहृतिपूर्विकाम् ।। प्रतिप्रणवसंयुक्तों निरयं प्राणसंयमः ॥ २३ ॥ अनाऽयंशब्दः स इति समानार्थः । 'पवनाग्निसमागमो ह्ययं स- हितं ब्रह्म यदलतेजसा [रघु० ८.४] इत्यादाविव । तस्य च यत्पदसापे- (१) मित्यादेः ख । (२) जपः कार्यःख। (३) विद्यते इति ख. पुस्तके..
ब्रहाचारिप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । - क्षत्वात्सप्तम्यन्तं तदिहाऽध्याहियते,तेन 'शिरसे'त्यादिविशेषणविशि- टांगायत्री यत्र जपेत्स(१)प्राणलंयमः क्रियतेत्यर्थः । क्रियरन्नित्य- ध्याहृतस्य विभक्तिविपरिणामेनाऽनुवृत्तेः। वहवस्तु-प्राणसंयमस्वरू- पमाह गायत्रीमित्यवतारयन्ति । तच्चिन्त्यम्, प्राणसंयमशब्दार्थ. स्याऽनभिधानात् । (२)न च तादृग्रूप एव तदर्थः(३)उच्छृङ्गलस्याऽपि तस्य प्राणसंयमत्वापत्तेः । न चाऽऽयतमाण इति कर्वध्याहारान्नैप दोपः । अत एव शबृहस्पतिवसिष्टाऽशिरःपैठीनसिवौधायनाः- सव्याहृति सप्रणवां गायत्री शिरसा सह । त्रिजपेदायतप्राणः प्राणायामः स उच्यते ॥ इति । छन्दोगपरिशिष्टे कात्यायनः- भूराद्यास्तिस्त्र एवैता महाव्याहृतयोऽव्ययाः (४)। महर्जनस्तपः सत्यं गायत्री च शिरस्तथा ॥ 'आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवः स्वरिति शिरसा प्रतिप्रतीक प्रणवसुच्चारयेदन्ते च शिरसः । एता पतां सहाऽनेन तथैभिर्दशभिः सह । विजपेदायतप्राणः प्राणायामः स उच्यते ॥ इति। आयतप्राण इति विशिशिपुरिति वक्त(५)व्यम् । अध्याहार- गौरवात् । न च पक्षान्तरेऽपि कर्बपेक्षा(६)पूरणाय तदाश्रयणमावश्य- कम् , अव्यहितपूर्ववचनेऽवश्याऽध्याहार्यस्याऽऽवृत्त्यैवोपपत्तेः । अ. ध्याहारापेक्षया तस्य लघुत्वात् । आयतासुत्वापेक्षया लघुधर्मान्तर- मेव पुरस्कृत्य तस्यौचित्याच्च । न चाऽन्यपक्षे क्रियानुवृत्तिगौरवं सर्व हि वाक्यं क्रियया परिसमाप्यत इति, तदावृत्त्यादेः सर्वैरेवा. ऽङ्गीकरणीयत्वात् । अन्यथा कर्ना(७)वृत्त्यादिरपि नाऽभ्युपे(८)या, युक्तिसाम्यात् (९) । किञ्च तत्पक्षे १०) 'पिकः कोकिल इत्यपि' इति पि. (१) एतदादिः-तचिन्त्यम्-इत्यन्तो भागः ख. पुस्तके नास्ति । (२) न च-इति ख. पुस्तके नास्ति । (६) शन्दार्थः इति ख. पुस्तके पाठः। (१) 'महाव्याहृतयोऽन्यथाः' इति ख. पुस्तके पाठः । (५) बकव्यम् इति ख. पुस्तके नास्ति । .(६) कपेशया -दति ख. पुस्तके पाठः। (6) प्रवर्ग-इति क. पुस्तके । (८) नापुरेश्याति वपु. पाठः । (९) युनिसामान्यात्-इति क. पु० पाठः। (१०) पो-इति ख. पु. पाठः।
याज्ञवल्क्यस्मृतिः। [:आचाराध्यायः । . कशब्दस्येवाऽत्र: प्राणसंयमशब्दस्य स्वार्थत्वरूपेण स्वार्थलक्षणाप- त्तिः । अन्यथा पौनरुक्त्यवज्रलेपादिति सचेतसा भाव्यम्। भवंतु वोक्तजप एवाऽयंशब्दार्थः । तस्य संयमपदार्थाभेदान्वयः 'संयम्यते- ऽनेनेति करणव्युत्पत्तेः। द्वादशमात्राभिरिति मात्राणामिव जप- स्याऽपि अवच्छेदादिप्रयोजकतया प्राणायामकरणत्वसम्भवात् । “यजमानः प्रस्तरः' इत्यत्र यजमानशब्दस्येव संयमशब्दस्य गुणः वृत्त्याश्रयणाद्वा । तत्प्रयोजनं प्राणसंयमस्वरूपमिव तदङ्गयुक्तजपो. ऽप्यत्यावश्यक इति न, तदभावे प्राणायामविधिनिर्वाह इति प्रति- पत्तिरेवेत्यवान्तरकथनात् । जपप्राणायामस्वरूपमिति त्वश्रध्देय- मेव । तथा हि प्राणसंयमशब्दे प्राणायाम एवात्रोच्यतेऽन्याभि(१) धानस्य विचारासत्त्वात् । बिरायम्याऽसू निति कात्यायनस्मृत्यायेक- त्वात् 'प्राणानायम्ये'त्यग्रेऽभिधानाच्च । न वोऽक्तगायत्रीजपःप्राणाया. मशब्दार्थः, व्युत्पत्तिविरहात् । न चायम्यतेऽनेनेति करणव्युत्पत्तिर्व- हुव्रीहिवा गौरवात् । कदाचित्तदाश्रयणस्याऽ न्यथाऽनुपपत्तिमूलक त्वात्। न च रूट्याश्रयणं योगेनैवोपपत्तेः। प्राणपदसमभिव्याहृतेषु नि- यमसंयमाऽऽयामशब्देषु निसमामुपसर्गाणामविशेषेणैवाऽनतिप्र- सङ्गात् । रूढेरपि योगसमानाऽधिकरणाया एव युक्तत्वाच । 'योग- रूढि'न्यायात् पङ्कजपदतुल्ययुक्तिकत्वात् मण्डपपद इव योगरूढत्वे मानाभावात्, प्राणायामशब्दार्थव्युत्पादनपराभियुक्तांनुशासनविरों- धाश्च । तथा भगवान् पतञ्जलिः-तस्मिन् संति श्वासप्रश्वासयोगति. विच्छेदः प्राणायामः । अत्र वेदव्यासभाष्यम्-सत्यासने वाहास्य वा- योराचमनं श्वासः, कोष्ठयस्य वायोनिःसारणं प्रश्वासः, तयोर्गति. विच्छेदः उभयाभावप्राणायाम इति । इहाऽऽचमनं निःसारणमिति भाववाचिभ्यां भवितैव विवक्षितः, कृदभिहितो भावो द्रव्यवत्प्रकाश- त इति न्यायात्। 'बिसकिसलयच्छेदपाथेयवन्तः' [मेघ० ११११] इत्या. दिप्रयोगप्राचुर्यात् । तेनाऽऽचम्यमानो वायुःश्वासः, निस्सार्यमाणः कोष्ठयों वायुः प्रश्वास इति लभ्यते । अत एवोक्तं तयोर्गतिविच्छेद इति भावप्राधान्यऽन्वयोपपत्तेः। टीकाकृतोऽप्याहुः-रेचकपूरककुम्भके. प्वस्ति गतिविच्छेद'इति।प्राणायामसामान्यलक्षणमेतदिति। तत्र पूर * (९) इतः प्रभृति-प्राणानायम्येत्यप्रे इत्यन्तो ग्रन्थः ख. पुस्तके नास्ति । i ब्रह्मचारिप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। के बहिरवच्छेदेन श्वा(१) सस्याऽपि गतिविच्छेदः, प्रश्वासस्याऽपि गत्यभावः, श्वासगत्यभावस्तु श्चाताऽभावादेव। कुम्भके तु श्वास. प्रश्वासयो यो(२) रप्यभावात् स्पष्टमेवोभयोर्गतिविच्छेद इति ता- त्पर्यम् । मार्कण्डेयपुराणर्माप- प्राणाऽपानविरोधश्च प्राणायाम उदाहृतः । इति । तथा-- प्राणानामुपसंरोधात्प्राणायाम उदाहृतः ॥ इति । एतेनाऽऽयतप्राण इति स्मृत्यन्तरदर्शनात् । प्राणनिरोधाव- च्छिन्नःप्रकृतगायत्रीजपः, तदवच्छिन्नःप्राणनिरोधः, तुल्यप्राधान्यादु. भौमिलितौ वा प्राणायाम इति निरस्तं तद्व्युत्पादनप्रवृत्तंशास्त्रीय: निरपेक्षानुशासनविरोधात् । अवीजप्रणवादिमात्रवीजप्राणा(३) याम- योरसङ्ग्रहदोपस्य दुष्परिहरत्वाच्च । तस्मात्सामान्यशास्त्रोत्पादित. स्वरूप एव । प्राणायामे सन्ध्यान्तर्गते योगिसंहितायाम्- नीलोत्पलदलश्यामं नाभिदेशे प्रतिष्टितम् । चतुर्भुजं महात्मानं पूरकेणैव चिन्तयेत् ॥ कुम्भकेन हृदि स्थाने ध्यायेच्च कमलासनम् । ग्रह्माणं रक्तसर्वाङ्गं चतुर्वक्त्रं पितामहम् ॥ रेचकेनेश्वरं ध्यायेल्ललाटस्थं महेश्वरम् । शुद्धस्फटिकसङ्काशं निर्मलं पापनाशनम् ॥ इति ध्यानविशेषरूपमिव प्रकृते जपविशेषरूपमङ्गमुपदिश्यत इत्ये- वज्यायः। अत्र- ब्रह्माणं केशवं शम्भुं ध्यायेद्देवाननुक्रमात् । इति पक्षान्तरम् । एवं च (४)सवीजः स्वकालांवच्छेदाय द्वादशमात्रादि. परिकलनशून्यश्च सन्ध्याप्राणायामः पर्यवस्यति, तत्कालस्य मन्त्रजपे- नेवाऽवच्छेदात् । त्रित्वादिकथनस्य योगिप्राणायाममात्रपरत्वात् । ए. तेन स्मृत्यन्तराण्यपि व्याख्यातानि । उक्तानुसारेणैव तदर्थस्य नेयत्वा- (१) सामस्याऽपि गतिविच्छेदः-इति ख. पुस्तके नास्ति। (२) द्रयोः-इति क. पुस्तके नास्ति । (३) प्राणायामनिरस्तयो-इति ख. पुस्तके पाठः । (४) च-इति क. पुस्तके नास्ति।
७० याज्ञवल्क्यस्मृतिः । [आचाराध्यायः । दन्यथाऽनुपपत्तेः । प्राणायामसामान्यलक्षणन्तु 'गायत्री'मित्यादि याज्ञ- ल्क्योक्तमिति । छन्दोगाहिकलिखनन्त्वेवं व्याख्येयम् । ननु भवतु प्रत्ये- कमेव पूरकादीनां प्राणायामत्वं, तथापि कुम्भक एव मन्त्रपाठः । याज्ञवल्क्यन संयमशब्देन तस्योवोक्तेः सम्यक् यम इति व्युत्पत्तेः। अत एव संयम इत्येकवचनमपि सङ्गच्छत इत्यत आह-'प्राणायामसामा- न्येति । तुशब्दो भिन्नक्रम इति याज्ञवल्क्योक्तन्तु प्राणायामानां त्रयाणां सामान्य लक्षणं धर्म इत्यर्थः । प्राणायामशब्दन प्राणायामसामान्य स्यैवाऽभिधानादितिभावः। सोऽयं जपः प्राणायामसंशक इति प्रामा- णिकलिखनमपि यथाकथञ्चियाख्ययमिति संक्षेपः । गायत्रीमिति 'तत्सवितु'रित्यादिचतुर्विंशत्यक्षरां सावित्रीमृचमित्यर्थः। तस्या एंव तैत्तिरीयकारण्यके प्राणायाममन्त्रत्वनाऽऽम्नातात् । सविता देवता यस्या मुखमग्निस्त्रिपाञ्च या । विश्वामित्र ऋषिः, छन्दो गायत्री, सा विशिष्यते ।। विनियोग उपनयने (१)प्राणायामे तथैव च । . इति योगिना प्रणायामे विनियोगकथनाच्च । शिरसा आपोज्योति'- रित्यादिना 'स्वरि'त्यन्तन छन्दोगपरिशिष्टप्रदर्शितेन यजुषा । सार्द्ध-सह, (२)साहित्यं च तेन गायत्र्याः पश्चात्पठितेन तावतैवाऽप्राधान्येन सहा- ऽर्थयोगविहिततृतीयोपपत्तेः। लिखितशङ्खादिस्मृतौ प्रकृत(३)वचनेऽपि पाठिकक्रमस्याकोपाञ्च । व्याहृतयो-भूराद्याः सप्त छन्दोगपरिशिष्टोक्ताः । प्रतीत्यनन्तरं प्रतीकमित्यध्याहार्य 'प्रतिप्रतीकं प्रणवमुच्चारयेदन्ते च शिरस' इत्यन्यत्र श्रवणात् । 'संयुक्ता'मित्युपसँगणाऽन्तेऽपि प्रणव. सम्बन्धमभिप्रेति । त्रिवारत्रयं जपेदित्यन्वयः। तेन 'ॐ भूः, ॐ भुवः, ด जनः, ॐ तपः, ॐ सत्य, ॐ तत्सवि- तुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्, ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवः स्वरो'मिति जप्यं पर्यवस्यति । एता एतां सहाऽनेन तथैभिर्दशभिः सह । इति छन्दोगपरिशिष्टैकमूलकत्वात् । जपस्तु प्राणायामे मानस एव । अन्यथाऽभिमतप्राणनियमनासम्भवात् । अन्ये तु- (१) प्राणायामे-इत्यारभ्य योगिना-इत्यन्तं ख० पुस्तके नास्ति । (२) सरूपं-इति ख० पुस्तके पाठः । (३) प्रकृत इाते फ० पुस्तके नास्ति । स्वः, ॐ महः, ॐ ब्रह्मचारिप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ७१ प्रणवेन तु संयुक्ता व्याहृतीः सप्त नित्यशः। सावित्री शिरसा सार्द्ध मनसा त्रिः पठेविजः ॥ इति संवर्त्तवचनमेवाऽत्र प्रमाणयन्ति । अत्र केचित्-पूरककुम्भक. रेचकैमिलित्वकं प्राणायाममिच्छन्ति । तत्रापि पक्षत्रयम् । एके-प्रत्येक- मेकधा मन्त्रपाठं पूरकादिषु मन्यन्ते । अन्ये-त्रिधा । अपरे-पूरकरेच. कयोमन्त्रपाठं न मन्यन्ते, कुम्भकमात्रे मन्त्रपाठमिच्छन्ति तत्सर्व: मयुक्तम् । तथा हि। पूरककुम्भकरेचकैः प्राणायामस्त्रिलक्षणः । नासिकाकृष्ट उच्छ्वासो ध्मातः प्रक उच्यते ॥ कुम्भको निश्चलश्वासो रिव्यमानस्तु रेचकः । इत्युपक्रम्य योगी- एवं त्रिविधमुद्दिष्टं प्राणायामस्य लक्षणम् ।। इत्युपसाहार । विधाशब्दो घवान्तरभेदवाची, अतः सामा- न्यस्य प्राणायामस्यैते त्रयः प्रभेदा इति प्रत्येकमेव पूरकादीनां प्राणा- यामत्वम् । स्मृत्यन्तरेऽप्युक्तम् 'त्रिविधः प्राणायामः-पूरकं, कुम्भकं, रेचक'मिति । किञ्च 'स विति पूर्णिकया वाह्याभ्यन्तरस्तम्भवृत्ति- देशकालसंख्यांभिः परि(१)Eष्टो दीर्घसूक्ष्म' इति पातञ्जलसूत्रमवतार्य्य यत्र प्रश्वासपूर्वको गत्यभावः स वाह्यः, यत्र श्वासपूर्वको गत्यभावः (२)स आभ्यन्तरः, तृतीयः स्तम्भवृत्तिः यत्रोभयाभावः सकृत्प्रयत्ना. प्रभवतीति भाष्ये तटीकायां च प्राणायामविशेषत्रयलक्षणपरं सूत्रमव- तारयति । स विति' इत्युपक्रमे 'एवं त्रयो विशेपा लक्षिता' इत्युप- संहारे च पूरकादीनां प्रत्येकमेव प्राणायामत्वमिति स्पष्टमुक्तमिति । अतः पूरकादिषु प्रत्येकं विधा मन्त्रपाठः, एतावतैव च प्राणाया- मत्रयसिद्धिः। आदानं रोधमुत्सको वायोस्त्रिस्त्रिः समभ्यसेत् । इति व्यासोक्तं पूरकादीनां प्रत्येकं त्रित्वं त्रिरावृत्तमन्त्रावच्छेदेन वा नानाप्रयोगापेक्षया वा। यद्वा पक्षान्तरमेवेदम् । त्रिविधं केचिदिच्छन्ति तथैव नवधा परे । (१) परिहतो-इति क. पुस्तके। (२) स-सादिः यत्रोमयाभाव-इत्यन्तो भागः खः पुम्न के नास्ति ।
७२ :. याज्ञवल्क्यस्मृतिः । [आचाराध्यायः। इति योगिनाऽप्यभिधामात् । परन्तु पूरकादीनां प्रत्येकमावृत्तिपक्षे एकैकमेकैकंधा कृत्वा पुनस्तथैव कृत्वा पुनस्तथैव कुर्यादिति क्रमः । तत्र प्रथसं वामनासापुटेन पूरक, अनन्तरं कुम्भकं, ततो दक्षिणना- सापुटेन रेचकं, ततो दक्षिणनासापुटेन पूरकं, अनन्तरं कुम्भकं, (१)ततो वामनासापुटेन रेचकं, ततो दक्षिणनासापुटेन पूरक अनन्तरं कुम्भकं, ततो दक्षिणनांसापुटेन रेचकमिति प्रकारः । तथा . च छन्दोगाहिकेऽप्युपाध्यायः-वासनासापुटेन शनैर्वायुमा कृप्य सघनाडीः पूरयन् नाभी यथोक्तं विष्णुं ध्यायन् यथोक्तं जपं कुर्यादिति पूरकाख्यः प्राणायामः, ततो हदि ब्रह्माणं ध्यायन् निश्च. लश्वासो जपेदिति. कुम्भकाख्यः, ततो दक्षिणनासापुटेन शनैर्वायु रेचयन ललाटे शिवं ध्यायन् जपेदिति रेचकाख्व इति । अभियुक्ताश्च--- ईडया कर्षयेद्वायुं बाह्यं षोडशमात्रया। धारयेत्पूरितं योगी चतुःषष्ट्या तु मात्रया ॥ सुषुम्ना मध्यमं सम्यग्द्वात्रिंशन्मानतः शनैः। नाड्या पिङ्गळया चै(२)नं रेचयेद्योगवित्तमः ॥ येनैव सन्त्यजेसेन पूरयेद्धारयेततः । रेच(३)येच्च ततोऽन्येन शनैरेवं पुनः पुनः ।। .. तथा- . भूयो भूयः क्रमात्तस्य व्यत्यासेन, समाचरेत् । 'प्राणायाममिमं(४) प्राहुर्योगशास्त्रविशारदाः ॥ इति । अत्र च प्राणायामगायत्रीजपे सर्वे जपधर्मा ग्राह्याः सामा- न्यशास्त्राऽनुरोधादित्यास्तां विस्तरः ॥ २३ ॥ (मिता०) प्राणायामविचार:- गायत्रीमिति । गायत्री पूर्वोक्तामापोच्योतिरित्यादिना शिरसा संयुक्तां उक्तव्याहृतिपूर्विकां प्रतिव्याहृति प्रणवेन संयुक्तां ॐ भूः ॐ भुवः ॐ स्वरिति त्रीन्वारान्मुखनासिकासञ्चारिवायुं निरुन्धन मनसा जपेदित्ययं सर्वत्र प्राणायामः ॥ २३ ॥ . (१) ततो-इत्यारभ्य कुम्मक, इत्यन्तं ख० पुस्तकेऽधिकम् । (२) चैवं-इसि ख० पुस्तके । (३) रेचयेद्य-इत्यारभ्य समाचरेत-इत्यन्त ख० पुस्तके नास्ति । (४) इमं-इत्यस्य स्थले इति-इति ख० पुस्मफे पाठः । M ब्रह्मचारिप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ७३ (वी० मि.) प्राणायामानन्तरं मार्जनकर्तव्यतायाः श्लोकार्द्धन प्रदर्शनपूर्वकं सायंप्रातःसन्ध्ययोरेकेन श्लोकेन विशेषमाह- प्राणानायम्य सम्प्रोक्ष्य तृचेनाऽन्दैवतेन तु ॥ जपन्नासीत सावित्री प्रत्यगातारकोदयात् ।। २४ ।। सन्ध्यां प्राक् प्रातरेवं हि तिष्ठेदासूर्यदर्शनात् ।। प्राणानायम्येति यथाविधि प्राणायाम विधायेत्यर्थः । सम्प्रोक्ष्य मार्जनं कृत्वा, तृचेन-ऋत्रयेण, अब्दैवतेन-जलदेवताकन आपोहि- प्ठेत्यादिना, सावित्रीम्-उक्ताम् , प्रत्यक्=पश्चिमाभिमुखः, जपन् सन्ध्यां लायंसन्ध्यां अभिव्याप्य, कालाऽध्वनारत्यन्तसंयोगे [पा० सु० २।३।५] द्वितीया । तदेव म्फुटयति--आतारकोदयात्: सम्यक् नक्षत्रदर्शनपर्यन्तम् । पश्चिमां तु समासीनः सम्यगृक्षविभावनात् । इति मनुवचनात् । मर्यादामाङ् । आसीत-उपविशेत् । तेन सा- यंसन्ध्यायामुपविश्य नक्षत्रदर्शनावधि सावित्री जपेदिति विशेपो दर्शितः । अत्र जपधर्म आसीनत्वादिस्तदङ्गेऽङ्गन्यासादौ सर्वत्राऽन्वे- ति, अङ्गानां प्रधानरीत्यन्वयस्वौत्सर्गिकत्वात्। प्रातः प्रातःसन्ध्या- यां, प्राक्-प्राङ्मुखः, एवं प्राणायामादिपूर्वकं उक्तजपं कुर्वन् सूर्यद. शनपर्यन्तं तिष्ठेत् ऊर्ध्वः स्यात् । तेन प्रातःसन्ध्यायामुत्थित एव सावित्री जपेदिति विशेपो दर्शितः । सूर्याभिमुखत्वमूर्द्धता च । तिष्ठेच्चेद्वाक्षमाणोऽर्क जपं कुर्यात्समाहितः । इति योगिवचनात्। तिष्ठेच्चदोदयात्पूर्वी मध्यमामपि शक्तितः। आसीतोद्गमाचाऽन्त्यां सन्ध्यां पूर्वत्रिकं जपन् । इति छन्दोगपरिशिष्टात् । अत्र शक्तित इत्यनेन मध्याह्ने 'सहस्रप. रमां देवो'मित्यायुक्तसञ्जयकैर्यथासामर्थ्य कृतैरेव जपैः सन्ध्योपा. सनसमाप्तिमभिनेति । नन्वेतद्वचनस्य सन्ध्यात्रयसाधारण्यात्प्रातःसायंसन्ध्ययोरप्ये. वमिति चेत्सत्यं, परन्तु फलविशेपार्थितायां तत्राऽवध्यन्तरोक्तिः । तथा च मनु:- १० ७४ याज्ञवल्क्यस्मृतिः। [ आचाराध्यायः । · ऋषयो दघिसन्ध्यत्वाद्दीर्घमायुरवाप्नुवन् । प्रज्ञा यशश्च कीर्ति च ब्रह्मवर्चसमेव च ॥ यशो-जीवितस्य(१) ख्यातिः, कीर्तिस्तु मृतस्य सेति व्याख्याता. रः। अत्र दीर्घायुरादिकं गुणफलमित्युपाध्यायाः । वाक्यान्तरेऽपि सूर्यन- क्षत्रदर्शनयोरेवाऽवधित्वं फलार्थ मूलक्याऽनुरोधात् । अथवा सूर्यनक्ष. प्रदर्शनयोः प्राक्कालोऽप्यनेन नित्यजपाङ्गतया बोध्यते, न तु जपेन कालस्याऽभिव्याप्तावपि तात्पर्यम् । एवञ्च सन्ध्यात्रयेऽपि नित्यजपे उक्तैव व्यवस्था, काम्यजपे तु प्रातः सायं च सूर्यनक्षत्रयोरुत्तराव. धित्वम् । एतञ्च यदि तवयाऽवधिजपस्य सहस्त्रजपादधिकसङ्ख्यत्व- सम्भवः । वस्तुतस्तु तदसम्भवात्सर्वत्र सहस्त्रजपनैव सन्ध्याया दी- र्घत्वम् । एवञ्च मध्याह्नसन्ध्यायामपि तदप्रत्यूहम् । जपे च सहस्र. सङ्ख्या ऋतुपुरुषोभयार्थी । 'खादिरं वीर्यकामस्य'त्यत्र यूपे. खादि- रत्ववत् । गायत्रीमभ्यसेत्तावद्यावदादिन्यदर्शनम् । इति । गायत्रीम(२)भ्यसेत्तावद्यावन्नक्षत्रदर्शनम् ॥ इति वचनयोरप्युक्तसङ्ख्यायामेव तात्पर्यम् । किं बहुना प्रकृतव. चनमप्यनयैव दिशा प्रस्थाप्यताम् । अथवा एवंविधानि सर्वाणि व. चनानि सन्ध्यासमयचरमसीमप्रदर्शनपरतयैव वर्ण्यताम् । ननु- सन्धौ सन्ध्यामुपासीत नाऽस्तगे नोद्गते रवौ। इति योगिसंहितायां सन्ध्यावन्दनस्य दिनरात्रिसन्धिरूपसन्ध्या. कालकर्त्तव्यत्वस्थितौ कियान् सन्धिरित्यपेक्षायाम्- हालवृद्धी तु सततं दिनरात्र्योर्यथाक्रमम् । सन्ध्या मुहूर्तमानं तु हासे वृद्धौ समा स्मृता ॥ इति वचनात्सन्ध्याकालस्य दण्डद्वयात्मकत्वे नियूंढे 'सम स्यादश्रुतत्वात्' इति न्यायाद्रात्रेश्वरमो दण्डो दिवसस्य प्रथमः प्रातःसन्ध्या, दिवसस्य चरमो रात्रेः प्रथमो दण्डः सायंसन्ध्यति पर्यवसानात्कथं सूर्यनक्षत्रदर्शनयोः सन्ध्यालमयोत्तरावधित्वमव्याप. नादधिकव्यापनाच्चेति चेत् मैवं, वाचनिकेऽर्थे न्यायाऽनवकाशात् । यदाह मिहिराचार्यः- (1) जीवितः सन्-इति क० ख० पुस्तकयोः पाठः । (२) इदं पयार्ध ख. पुस्तके नास्ति । -- - - ब्रह्मचारिप्रकरणम् । ] वीरमित्रादयमिताक्षरासहिता। । अर्धाऽस्तसमयात्सन्ध्या व्यक्तीभूता न तारका यावत् । तेजःपरिहानिरुपा भानोरादयं यावत् ॥ एवञ्चाऽविद्यमानाद्धांधिकमार्तण्डमण्डलः स्पष्टलक्ष्यनक्षत्रगणः कालविशेषःसन्ध्येति सन्ध्ययोः सामान्यलक्षणम्। तथा हि अस्तमि- तेऽपि सूर्य कियन्ति हि तस्य तेजांसि मुहूर्तमनुवर्तन्तेऽनु- दितेऽपि(१) तस्मिन् कियन्ति चित्प्रवर्तन्ते, तानि चोभयरूपाण्य. पि तारकातेजः पराभवन्तीति वस्तुस्थितिः । तेन प्रातःसन्ध्यायाः सौरकिरणप्रयुक्ततारकातेजोऽभिभव(२)प्रवृत्तिः । यत्नु (३)सन्ध्या पूर्वोऽवधिः, सूर्यविम्बार्होदयस्तूत्तरः, सायंसन्ध्यायास्तु सूर्य- विम्वार्धाऽस्तमयः पूर्वोऽवधिः, सौरकिरणप्रयुक्ततारकातेजो-. ऽभिभवनिवृत्तिस्तूत्तरः । यत्तु सन्ध्या च रात्रे गाऽवेशपः इति (४)प्रामाणिकलिखनं, तत् शास्त्रे क्वचित् क्वचित् सन्ध्याराव्योः पृथ. पकथनोपपत्तये । परिभाषाविशेषमाश्रित्य प्रायिकव्यवहारानुसारेण त्वस्मिन् छोपे सूर्यमडलवान् कालोऽस्मिन् दिनं तद्गहितश्च रात्रि- रिति लक्षणं दिनराव्युभयान्तर्गतैव सन्ध्या । परन्तूक्तसन्ध्याद्वयसा- मान्याऽनुसारेण सन्ध्याया भूयान् भांगो विभावर्यामंन्तर्भवति, स्तोकस्तु दिवस इति विशेपः, इत्युपपन्नं सूर्यविम्वार्द्धस्पटनक्ष. प्रमात्रयोः प्रातः ५)सायंसन्ध्योत्तरावधित्वं सन्ध्यात्रयसाधारणम् । तल्लक्षणन्तु- प्रयाणां चैव देवानां ब्रह्मादीनां समागमः । सन्धिः सर्वसुराणां च सन्ध्या तेन प्रकीर्तिता ॥ इति योगिनोक्तं पृथगेव । इदमत्राऽवधेयं मध्याहसन्ध्यायां न(६) दण्डद्वयात्मकत्वनियमो मानाऽभावात् न च संन्ध्या मुहूर्त्तमात्रं त्वित्य(७)विशेपितसन्ध्योपादानमेव (१)अपि-इति क० पुस्तके नास्ति । (२)निवृत्तिः-इति पाठान्तरम् । (१) यत्तु सम्भ्या-इति क० पुस्तके नास्ति । (१) प्रामाणिक-इत्यारभ्य परिभाषाधिशेष-इत्यन्तो भागः प. पुस्तके नास्ति । (५) प्रात:-इति ख० पुस्तके नास्ति । (६) न-इति ख. पुस्तके नास्ति । (0)दिति विशेषित-एवं ख० पुस्तके पाठः। .
- याज्ञवल्क्यस्मृतिः। [ आचाराध्यायः । मानमनध्यवसायात् । न च स्मृतिषु मध्यान्हे सन्ध्यावन्दनकर्तः व्यताया विहितत्वात् द्वितीययामस्याऽन्त्यो दण्डस्तृतीयस्य च प्रथम इति दण्डद्वयात्मिकाऽभिजित्कालरूपा मध्याहसन्ध्येति वा- च्यम्, मध्याह्नशब्देन त्रिधा विभक्तदिनस्य मध्यमभागाऽभिधानात् । अधाविभक्तदिनपञ्चमभागस्य संविभागेन तद्व्यवहितपूर्वकालस्य च सन्ध्यावन्दनोत्तरसंविभागपूर्व कर्त्तव्यकर्मकलापेनाऽक्रान्तत्वात् । तिसृष्वपि च सन्ध्यासु स्नातव्यं च तपस्विभिः । इत्यादौ तत्पूर्वकालस्याऽपि सन्ध्यात्वावसायाश्च । तस्मात्प्रात:- सायंसन्ध्याऽनवच्छिन्नो दिनभागः सम्पूर्णमेव वा दिनं मध्याह्नस. न्ध्याशब्दार्थः, अनन्यगतेः। मध्याह्न उठ्ये वाऽपि, इत्यादिशास्त्र- व्याकोपादत्यावश्यकप्रकरणे- मुखसंशोधनं प्रातः सन्ध्याऽह्नि स्नानपूर्विका । सन्ध्याऽथ पञ्चयशान्ते भोजनं लीलया स्थितिः। सायंसन्ध्याऽशनं वेदपाठोप्य(१)शयनं भवेत् । एतावदपि कर्त्तव्यं श्रेयःपरमभीरुभिः ।। इति अहनि स्नात्वा पञ्चमहायज्ञाग्निर्वयेत्यादिप्रामाणिकनिवन्ध- लिखनादाचारानुसाराच्च । इयांस्तु विशेषः-लति सम्भवेऽष्टधावि- भक्तदिनचतुर्थभागे(२)निषिद्धवेलायां क्रमेण स्नानं तत्प्रतिनिधि वा विधायाऽव्यवधानेन सन्ध्यावन्दनानिमित्तविशेषेण तु क्वचिद- प्यहागे निषिद्धवेलायां क्रमेण स्नान(३)सन्ध्यादिकमिति कृतं प्र. सक्तानुप्रसक्तथा । स्यादेतेन भवतूक्तं स्नानसन्ध्यालक्षणं समय- स्वरूपम् । तथाऽपि सहस्रजपेन तदुल्लइने ध्रौव्यात् । सन्धौ सन्ध्यामुपासीत नाऽस्तगे नोद्गते रवौ । इति वचनविरोध, इति मैवं- प्रातःसन्ध्यां सनक्षत्रामुपासीत यथाविधि । सादित्यां पश्चिमां सन्ध्याम स्तमितभास्कराम् ।। (१) पादोष्वशयनं इति ख० पुस्तके पाठः । (२) निषिद्धवेलायां क्रमेण-इति क० पुस्तके नास्ति । ( ३ ) स्नानत्यादि भवतूक,मित्यन्तं क०.पुस्तके नास्ति ।
ब्रह्मचारिप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ७७ इति संवर्त्तवाक्य इव प्रश्तेऽप्युपासीतेत्यस्य उपासीतेति विधिः। उपासीतेत्यस्य उपासितुमारभेतेत्यर्थात् तेन सन्ध्याऽप्युक्तदण्डद्वया- त्मके काले सन्ध्यामुपासीतेति विधिः । अर्थवैपम्येऽप्यनुपङ्गे दोषा- भावात् उपासितुमारभेतेत्युक्त्वा । 'सायं रवावदृश्ये प्रातर्दृश्य च नारभेते'ति निषेधश्च प्रकृतवचनार्थः । प्रातःसन्ध्यां सनक्षत्रां सम्य. ग्विभावनीयामथ पश्चिमां सन्ध्यां सादित्यां सम्पूर्णादित्यां तदसंभवे. ऽस्तिमितभास्करां उपासितुमारभेतेति संवर्त(१)वचनार्थः । न च निरुक्तस्वरूपायाः सन्ध्यायाः प्रकृतविशेषणद्वयात्सामानाधिकरण्या: ऽनुपपत्तिः, ताङ्नक्षत्रादित्याभ्यामव्यवहितोत्तरस्वरूपस्य सादि. त्यत्वोपपन्नमात्रयोः(२) सन्ध्ययोः सम्भवात् । अयं त्ववान्तरविशेषणे यत् 'सविशेषणे ही तिन्यायेन सन्ध्याव्यवधानविशिष्ठी नक्षत्रादित्यौ विशेष्यान्वयस्यौत्सर्गिकत्वादुक्तनक्षत्रादित्याऽव्यवधानविशिष्टा स. ध्यैव वाऽऽरम्भे वीजमिति । तत्र सति सम्भवे प्रथमः कल्पः, अन्य था द्वितीयः, यदाह यौधायनः। अपि चाऽत्र प्रजापतिगीतो.श्लोकावु. दाहरन्ति । अनागतां तु ये पूर्वामतिक्रान्तां तु पश्चिमाम् । सन्ध्यां नोपासते विप्राः कथन्ते ब्राह्मणाः स्मृताः॥ सायं प्रातः सदा सन्ध्या न ये विमा उपासते। तानेतान धार्मिको राजा शूद्रकर्मसु योजयेत् ॥ शातातपोऽपि- अनागतां तु यः पूर्वी सादियां चैव पश्चिमाम् । नोपासीत द्विजः सन्ध्यां स धृष्टो ब्राह्मणः स्मृतः ॥ : कचित्तु सनक्षत्रां दृश्यविद्यमानसकलनक्षत्रां प्रवृत्तसूर्यकिरणा- मिति शेपः तेनाऽहश्यकिञ्चिन्नक्षत्रस्यापि सन्ध्याऽव्यवहितपूर्वस्या. ऽपि समयस्य व्यवच्छेदः । सादित्यां-दृश्यसूर्या, अर्द्धत्यादि-अदृश्य- सुर्या , तेन हश्यसम्पूर्णसूर्यस्याऽदृश्यसम्पूर्णसूर्यस्य च समयस्य व्यवच्छेदः । तेन सन्ध्यायाः समारम्भो न तत्पूर्वमपीति व्याचक्ष - (१) संवर्त इति प. पुस्तके नास्ति । (२) साहित्योत्पलगायोः-इत्ति क. पुस्तके, सादित्यस्योपनमाश्यो:-दति. ख. पुस्तके पाठः।
- ....... याज्ञवल्क्यस्मृतिः। ... [आचाराध्याय:। -- ܝܢ भोःशब्द कीर्तयेदन्ते स्वस्य नानोऽभि(१)वादने। एवञ्च व्यत्य(२)स्तहस्ताभ्या(३)मभिवाद्यस्य पादौ गृहीत्वा अमु. कशर्माऽहमस्मि भो गुरो!' इति अभिवादनं पर्यवस्यति । अभिवा येन च प्रत्याभवादनं कार्यम् । तदाह स एव- आयुष्मान् भव सौम्यति विप्रो वाच्योऽभिवादने । अकारश्वाऽस्य नानोऽन्ते वाच्यः पूर्वाक्षरप्लुतः ॥ (४)अस्य अभिवादकस्य नामोऽन्ते अंकार इति नामान्तस्वरो- पलक्षणम् । 'आमन्त्रिते स्वरोऽन्त्यः प्लवत' इति वसिष्ठात् । तेनाऽभि- वादकनामाऽन्त्यस्वरः पूर्वाक्षरप्लुतः । पूर्वमक्षरं व्यञ्जनरूपं यस्य सः पूर्वाक्षरश्चासौ प्लुतश्चेति कर्मधारयः । प्लुतस्त्रिमात्रः पूर्वाक्षरे ति(६)विशेषणाद्वयञ्जनसहित एव स्वरः प्लावनीय इति पर्यवस्यति । एवञ्च 'आयुष्मान् भव सौम्य(६)देवदत्ता' इति प्रत्यभिवादनं सि. यति(७) । अत्र मनुः- यो न वेत्त्यभिवादल्य विप्रः प्रत्यभिवादनम् । नाऽभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ इत्यादि संक्षेपः ॥ २५॥. (मिता०), अग्निकार्यमिति । ततः सन्ध्योपासनानन्तरं द्वयोः सन्ध्ययोरग्निकार्य अग्नौ कार्य समित्प्रक्षेपादि यत्तत्कुर्यात् स्वगृह्यो- केन विधिना ॥ २५ ॥ (मिता० ) तत इति । तदनन्तरं वृद्धान् गुरुप्रभृतीनभिवाद- येत् । कथम् । असौ देवत्तशर्माऽहमिति स्वं नाम कीर्तयन् ॥ (वी० मि०) गुरुं चैवाऽप्युपासीत. स्वाध्यायार्थ समाहितः ॥ २६ ॥ (१) अभिवादनैः-इति क० पुस्तके पाठः । (२) व्यस्तहस्ताभ्यां-इति ख० पुस्तके पाठः । (३ ) अभिवायस्यत्यारभ्य गुरो !- इत्यन्तं ख० पुस्तके नास्ति । (४) पूर्धमार-इति ख. पुस्तकेऽधिकम् । (५) पूर्वाक्षरेण-इति क० पुस्तके पाठः । (६ ) सौम्य-इति ख० पुस्तकेऽधिकः पाठः । (७) सिद्यति-इत्यारभ्य प्रत्यभिधादनम्-इत्यन्तो ग्रन्थः ख. पुस्तके नास्ति।
ब्रह्मचारिप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८१ . गुरुं वक्ष्यमाणलक्षणम्। चस्त्वर्थः । गुरुमेव विति सम्बन्धः। समानार्थ(१)पत्यु(!)समुदायश्च समुदायार्थमेवाऽभिधत्ते,अपि चेत्यादी बहुशस्तथा दर्शनात् । अपिभिन्नक्रमः । तेन गुरुन्तु स्वाध्यायो वेदा(२)ध्ययनं, तदर्थमुपासीत परिचरेदपि । न केवलमभिवादयेदे. वेत्यर्थः । समाहितः तदेकानमनाः ॥ २६ ॥ (वी० मि०) आहूतश्चाऽप्यधीयीत लब्धं चाऽस्मै(३) निवेदयेत् ।। आहृतः=आकारितो गुरुणा प्रक्रमात् , न तु स्वयं गुरुं प्रेरयेत् । चकारात्तदनुष्टानादिकं समुच्चिनोति । तथा च गौतमः-'अनुज्ञात उपविशे(४)दक्षिणतः प्राङ्मुखः शिप्य उदङ्मुखो वा अधीयीताऽपि न केवलं उपासीतैवेति । लब्धं भिक्षादि सर्व अस्मै गुरवे निवेदयेत् दद्यात् इति यावत् । इदं मया लब्धमिति प्रकाशयेदित्यर्थः-इति साम्प्रदायिकाः॥ (वी० मि०) हितं चाऽस्य() चरेन्नित्यं मनोवाकायकर्मभिः ॥२७॥ हितं तदन्ववाययोर्विशुद्धमनुकूलम् । अस्य-गुरोः । नि- त्यं तत्तदवसराऽनतिक्रमे(६) । मानसवाचिककायिकैर्व्यापारैः कुर्यादित्यर्थः । चकारात्- शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च । नियम्य प्राञ्जलिस्तिप्ठेद्वीक्षमाणो गुरोर्मुखम् ॥ नित्यमुद्धृतपाणिः स्यात्साध्वाचारः सुसंयतः । आस्यतामिति चोक्तः सन्नासीताऽभिमुखं गुरोः ॥ इति आदिमन्वाद्युक्तं समुबीयते ॥ २७ ॥ (मिता० ) गुरुमित्यादि । तथा गुरुं वक्ष्यमाणलक्षणमुपासीत (१) समानार्थपत्युसनुदायश्व-इत्यस्य स्थले समानार्थव्यव-हाते ख० पुस्तके पाठः । (२) वेदायध्ययं-इति क. पुस्तके, वेदाध्ययं-इति च ख० पुस्तके पाठः । (३) लन्धं तस्मै इति खः। (४) उपविशेत-इति ख० पुस्तके पाठः। (१) हितं तस्याऽऽचरेनित्य-इति मुद्रितपुस्तके पाठः। (६) अनतिकमेग-इति ख. पुस्तके पाठः । ११ ६२ याज्ञवल्क्यस्मृतिः। [ आचाराध्यायः। तत्परिचर्यापरस्तदधीनस्तिष्ठेत् । स्वाध्यायार्थमध्ययनसिद्धये समा. हितोऽविक्षिप्तचित्तो भवेत् । आहूतश्चाऽप्यधीयीत गुहूत एवाऽधी- यीत न स्वयं गुरुं प्रेरयेत् । पञ्च लब्धं तत्सर्व गुरवे निवेदयेत् । तथा तस्य गुरोहितमाचरेत् । नित्यं सदा। मनोवाकायकर्मभिः न प्रतिकूलं कुर्यात् । अपिशब्दाहरुदर्शने गौतमोक्तं कण्ठप्रावृतादि वर्जयेत् ॥ २६ ॥ २७ ॥ (वी० मि०) प्रसङ्गाद् गुरोर याप्यानाह-- कृतज्ञाद्रोहिमेधाविशुचि(१)कुल्याऽनसूयकाः ॥ अध्याप्या धर्मतः साधुशक्ताप्तज्ञानवित्तदाः ॥ २८ ॥ कृतज्ञः-उपकाराविस्मरणशीलः । अद्रोही-परहिंसापराङ्मुखः। मेधावी -ग्रन्थग्रहणधारणप्रवणधीमान् । कुल्यो-ज्ञातिः । अनप्लू- यका असूयारहितः, परगुणाविष्करणतदोषानाविष्करणशील इति यावत्। साधुः सच्चरितः। शक्ता-शुश्रूषाकरणसमर्थः । आप्तो बन्धु- रवि(२)प्रलम्भको वा । ज्ञानदो-विद्यान्तरदाता। वित्तदोऽध्ययन. पणवन्धं विना गुरवेऽर्थदाता । एते धर्मतो धर्मशास्त्रानुसारेणाऽध्या- पनीयाः । कुल्येत्यत्र कल्पेति क्वचित्पाठः। तत्र कल्पा=आधिव्याधि- रहितः। क्वचित्कल्याणसूचकः इति पाठः । तत्र (३)कल्याणसूचका शुभलक्षणः। अध्याप्याः साधुशक्ताप्ताः स्वार्थदा धर्मतस्त्विमे । इति क्वचित्पाठः । तत्र स्वो जातिः। अर्थदो-गुर्वर्थप्रदाता। अत्रैव मनुः- - आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः। आप्तः शक्तोऽर्थदः साधुरध्याप्या दश धर्मतः ॥ २८ ॥ (मिता०) अध्याप्यानाह- कृतज्ञेति । कृतमुपकारं न विस्मरतीति कृतज्ञः। अद्रोही दयावान् । मेधावी ग्रन्थग्रहणधारणशक्तः । शुचिर्वाह्याभ्यन्तरशौचवान् । कल्प (१) शुचिकल्याऽनस्यकाः-इति मुद्रित पुस्तके पाठः । (२) बन्धुरहितविप्रलम्भकः इति ख० पुस्तके पाठः ।, (६) तत्र-इति क० पुस्तके नास्ति ।
ब्रह्मचारिप्रकरणम् । ] चीरमित्रोदयमिताक्षरासहिता । ८३ आधिव्याधिरहितः। अनसूयको दोपानाविष्का(१)रेण गुणाविष्कर- णशीलः । साधुवृत्तवान् । शक्तः शुश्रूपायाम् । आप्तो बन्धुः । ज्ञा- नदो विद्याप्रदः । वित्तदोऽप(२)णपूर्वकमर्थप्रदाता । एते गुणाः स. मस्ता व्यस्ताश्च यथासम्भवं द्रष्टव्याः । एते च धर्मतः शास्त्रांनुसा- रेणाऽध्याप्याः ॥ २८॥ (वी० मि० ) उपनीतं प्रत्याह- दण्डाजिनोपवीतानि मेखलां चैव धारयेत् ।। दण्डो-यष्टिश्च अजिनं-चर्म च उपवीतं यशसूत्रं च तानि । मेख-२ लां रशनां च धारयेत् । ब्रह्मचारीति शेषः । अत्र विशेपमाह मनुः- कार्णरौरववास्तानि चर्माणि ब्रह्मचारिणः । वसीरन्नानुपूर्येण शाणक्षौमाविकानि च ।। मौजी त्रिवृत्समा सा श्लक्ष्णा कार्या विप्रस्य मेखला । क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य क्षणतान्तवी ।। मुजाभावे तु कर्त्तव्या कुशाश्मन्तकवल्वजैः । त्रिवृता ग्रन्थिनै(३)केन त्रिभिः पञ्चभिरेव वा ।। फार्पासमुपवीतं स्याद्विपस्योवृतं त्रिवृत् । शणसुत्रमयं राज्ञो वैश्यस्याऽऽविकसूत्रिकम् ।। ब्राह्मणो वैल्वपालाशी क्षत्रियो वाटखादिरौ । पैलवौदुम्बदो वैश्यो दण्डानहन्ति धर्मतः ॥ केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । ललाटसंमितो राशः स्यात्तु नासान्तिको विशः ।। ऋजवस्ते तु सर्वे स्युरवणाः सौम्यदर्शनाः । अनुद्वेगकरा नृणां सत्वचो नाऽग्निदूपिताः ॥ कृष्णाया इदं कार्ण, कृष्णा-एणी । रुरोदिदं रौरवं; रुरुगीरमृगः, झपाव(४) इति प्रसिद्धः । वस्तस्येदं वास्तं, वस्तः छागः । आनुपूर्वे. ण ब्राह्मणक्षत्रियवैश्या(५)यथासङ्ख्यमित्यर्थः । एतानि चोत्तरीया- णि । तथा च स्मृतिः- (१) नाविष्करणेन ख०। (२) पणो येतनभाषावन्धस्तद्रहितं; अर्पणपूर्वकं प० ग० । (३) पन्थनकेन-इति क० पुस्तके पाठः । (१) पाव-इति ख० पुस्तके पाठः (५) काणम्-इति ख. पुस्तके ऽधिकम् । ..
८४ याज्ञवल्क्यस्मृतिः। [ आचाराध्यायः । त उत्तरीयं समाख्यातं वासः कृष्णाजिनं शुभम् । पारस्करगृह्यमपि-ऐणेयमजिनमुत्तरीयं ब्राह्मणस्य रौरवं राजन्य- स्याऽऽजं गव्यं वा वैश्यस्य'। एणी-कृष्णसारहरि(१)णी तस्या इद- मैणेयम् । 'स्त्रीभ्यो ढक्' [पा० सू०४ । १ । १२०] इति पाणिनिस्मृतेः । ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे त्रिपु। इति अमरसिंहः। एणस्येदमैणेयमिति भाष्यलिपिः प्रमादात् । न च 'एणः कृष्णमृगः स्मृतः' इति तद्याख्यायककात्यायनवचनादार्ष एवाऽयं प्रयोग इति वाच्यम् , तस्य स्त्रीप्रत्ययप्रकृत्येणशब्दव्याख्या. मात्रत्वात् । आर्षत्वाश्रयणे मानाभावात् । स्मृतिः- मेखला सप्तहस्ता स्यादजिनञ्च(२)द्विहस्तकम् । बहिर्लोम व्यङ्गुलं च खण्डं वाऽथ त्रिखण्डकम् ॥ चतुर्विशाष्टषोडशाङ्गुलैः खण्डानि कारयेत् । विकल्पः शक्त्यपेक्ष- या कुलाचारापेक्षया वा । 'सर्वेषां रौरवाऽजिन'मिति यमोक्तं कार्णाद्य- सम्भवे इति । 'शाणक्षौमाविकानी'ति, शणः स्तम्वलिः, क्षुमाऽतसी, अविर्मेषः, तदीयानि यथाक्रमं ब्राह्मणादयो ऽधरीयाणि वसीरन्नित्य- र्थः। 'क्षौमं शाणं वा वसनं ब्राह्मणस्य, कार्पासं क्षत्रियस्याऽऽविकं वै. श्यस्य' इति गोभिलोक्तं पक्षान्तरम् । तथा 'अलाभे सर्वाणि सर्वेषाम् । अलाभे तु मुख्यस्य, सर्वाणि क्षामादीनि सर्वेषां ब्राह्मणादीनाम् । तत्रै- व वसिष्ठः-'सर्वेषां तान्तवमरक्तम् । गौतमः-'सर्वेषां कार्पासमविकृतम्। काषायमप्येके इति संक्षेपः । अथ मेखला।मौजी त्रिवृदित्यादि । मौजी-मुञ्जभवा, त्रिवृत्-न. वगुणीकता,लक्ष्णा-मसृणस्पर्शा; मूर्वा-लताविशेषः, त्वधमरु!(३)र. तिप्रसिद्धः । तनिर्मिता मौर्वी, ज्या-धनुर्गुणः, तथाभूताया एव मौ. या मेखलायां विनियोगः । अश्मन्तका-कुशसशस्तृणविशेषः । व- ल्वजः सारयं ! इति प्रसिद्धः । त्रिवृतेत्यादि चतस्त्रस्तृतीयाः इत्थ. म्भूतलक्षणे । तेन त्रिरावृ(४)ता गुणरज्वा वर्त्तनत्रयेण विसरपर्य(५) वसितेन एकेन च ग्रन्थिना त्रिभिः पञ्चभिर्वा भ्रामणेर्लक्षितेन लक्षिता मेखला कार्येत्यन्वयः। भ्रामणे प्रवरसाम्येन व्यवस्थितो विकल्पः । (१) मृगी-इति ख० पुस्तके पाठः । (२) तु-इति ख० पुस्तके पाठः । (३) त्वग्धमरुः इति प्रसिद्धः-इति ख० पुस्तके पाठः । । (४) त्रिवृत्त्या-इति ख० पुस्तके पाठः । (५) त्रिसरपर्यन्तवसितेन-इति क० पुस्तके पाठः ।
ब्रह्मचारिप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८५ अथोपवीतम् । 'कासमुपवीतं स्या'दित्यादि । विप्रस्य कार्पा. सं, राज्ञः शणसूत्रमयं, वैश्यस्य मेपलोमः १)निर्मितमुपवीतमित्यर्थः । उपवीतस्वरूपमाह त्रिवृतनवगुणम् । 'नव वै त्रिवृदिति श्रुतेः । तेन नवतन्तव उपवीतमिति लभ्यते । अत एव देवल:- यज्ञोपवीतं कुरुत(२ सूत्राणि नव तन्तवः । नवेति उपवीतप्रकृतिभूतसूत्रसङ्ख्याकथनम् । सूत्राणीति बैंक- ल्पिकक्षामादिसूत्रबहुत्वापेक्षया बहुवचनम् , न केवलं नवतन्तु- समुदाय एवोपवीतमित्यभिप्रेरयन् (३) विशिनष्टि ऊर्ध्ववृतमिति । उपलक्षणमेतत् । तथा च संयोगपरिशिष्टम्- उर्ध्वन्तु त्रिवृतं कार्य तन्तुत्रयमधोवृतम् । त्रिवृतं चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते ।। अत्र टीका-वामावर्त(वलितं सूत्रमयं त्रिगुणीकृत्य दक्षिणाव- तवलितं च कार्य, तेन न तन्तवः सम्पद्यन्ते, तदेव विसरमुपवीतं स्यात्तस्य च त्रिकस्यैको ग्रन्थिरिति। एवञ्च यद्यपि कर्तक(५)सौक- र्यार्थमेव तन्त्ववयविनं भक्त्वा त्रिगुणीकृत्याऽधोमुखं वर्तयित्वा पुनः स्त्रिगुणीकृत्योर्ध्वमुखं वर्तयति, तथाऽपि ग्रन्थिपातनानन्तरं नवस. यथासिद्धये नवगुणं (६)सूत्रमुभयश्छिन्दन्ति । उपनयनकालीनोपवीते तुतदकरणं प्रमादादाचारानुसाराद्वेति स्मर्तव्यम् । ग्रन्थौ च त्रिप. श्वप्रवरापेक्षया त्रिपञ्चवारान् त्रितवां रज्जुमावर्तयन्ति । मनुना मेख- लाया तदभिधानादेकत्र निर्णीत इति न्यायादिति । तत्र भ्रमिदक्षि. णावर्तन तस्यौत्सर्गिकत्वात् । न च प्रकृतिभूततन्तूनां नवसङ्ख्यत्वे 'कार्पासमुपवीतं स्यात् पत्रिवृतं ब्राह्मणस्य'ति पैठीनसिविरोधः । नवगुणस्य त्रिसरत्वे एकेन प्रन्थिना 'तन्तुर्द्विगुणस्त्रिगुणोऽपि वेति देवलीयद्विगुणत्वोक्तिविरोध- श्चेति वाच्यम्, 'नवानां तन्तूनामसम्भवे पटकस्य, त्रिसरत्वासम्भवे द्विसरत्वस्याऽऽश्रयणा (७)दिति दैर्घ्य छन्दोगपारोशष्टे । (१) सूत्र-इति क० पुस्तके अधिकः पाठः। (२) फुरुत-इति क० पुस्तके नास्ति । (१) इत्यभिप्रायण-इति ख० पुस्मके पाठः । (१) पलित-इत्यस्य स्थाने 'मलीफ' इति खं० पुस्तके पाठः । (५) कर्तन-इति ख० पुस्तके पाठः । (६) सूर्य इति क० पुस्तके पाठः : (१) प्रश्रवणात्-दति का पुस्तके पाठः । ।
८६ याज्ञवल्क्यस्मृतिः। [आचाराध्यायः । पृष्ठवंशे च नाभ्यां च धृतं यद्विन्दते कटिम् । तद्धार्यमुपवीतं स्यात् नातिलम्वं न चोच्छ्रितम् ॥ वामस्कन्धे कृतं नाभिपृष्टवंशयोधृतं यथा कटिपर्यन्तं प्राप्नोति तावत्परिमाणमुपवीतं धार्य न ततो दीर्घ इस्वं चेत्यर्थः। अथ कौशं सौत्रं वा त्रिस्त्रिवृद्ययज्ञोपवीतमानाभेदक्षिणं बाहु- मुद्धृत्य सध्यमवधाय शिरोऽव दध्यात्, विपरीतं पितृभ्यः, कण्ठेऽवसक्तं निवीत, मधोऽवसक्तमधोवतिम्,' इति वौधायनः । कौशं पढें त्रसरादिनिर्मितं, · आनाभेः-नाभिप्राप्तम् । निगमपरि- शिष्टम्-'वामस्कन्धे यज्ञोपवीतं दैवे प्राचीनावातमितरथा (१)वातर- स्कन्धे नाभ्यामिति । नाभिप्राप्तमित्यर्थः । देवलः-उपवीतमधिकृत्य । स्तनादूर्द्धमधोनाभेन कर्त्तव्यं कदाचन । स्कन्धे प्रवेशित यज्ञोपवीतं यत्स्तनादू मवतिष्ठते नत्वधो लम्ब- ते, यच्च नाभिमति(२)क्रम्याऽधो याति तन्न धार्यतामित्यर्थः । एषु वचनेषु नाभ्यधोगामिनो यज्ञोपवीतस्य कण्ठतोऽर्थतो. ३) वा व्युदा- सात्कथमेवमिति चेन्न, एतेषां वचनानां माध्यन्दिनीयगोमिलीयाद्यतिरि- क्तशाखाविषयत्वात् । आचारोऽपि शिष्टानां कर्मप्रदीपाऽनुसारेणैवेति नाऽधिकमत्राऽभिनिविश्यते । अत्र ब्रह्मचारिणामेकमुपवीतं स्नात. कानान्तु द्वे इति नियमः । तथा हि मनुवसिष्ठी, स्नातकानां हि नित्यं स्यादन्तर्वासस्तथोत्तरम् । । द्वे चोपवीते यष्टिश्च सोदकश्च कमण्डलुः ॥ तदिदमुपवीतं प्राङ्मुख उदङ्मुखो वा परिदध्यात् दैव (४)त्वा- त् । अत्र यज्ञोपवीतमिति मन्त्रस्य विश्वेदेवा ऋषयस्त्रिष्टुप् छन्दो य. ज्ञोपवीतं देवता ग्रहणे विनियोगः इति ऋष्यादिस्मरणमपि केचि. दिच्छन्ति, मन्त्रं च त्रिः पठन्ति । मन्त्रस्तु वाजसनेयिनां 'यज्ञोपवीतं परमं पवित्र' मित्यादिः । छन्दोगानां 'यज्ञोपवीतमसी'त्यादिः । धारणप्रकारमाह गोभिल:-'दक्षिण बाहुमुद्धृत्य शिरोवधायः स- व्येऽसे प्रतिष्ठापयति स(६) दक्षिणं कक्षमन्ववलम्बं भवत्येवं (६)प्रा. (१) वामेतर'-इत्यारभ्य 'अधिकृत्य'-इत्यन्तस्य ग्रन्थस्य स्थाने-'पितृयज्ञे नाभ्यां दैव' इति पितृमनुष्यकार्यातिरिक्तसकलवैदिककर्मोपलक्षणामित्युपाध्यायाः इति ख० पुस्तके पाठान्तरम् । (२) अधिक्रम्य-इति क० पुस्तके पाठः। (३) कण्ठतोऽर्थस्य वा-इति ख. पुस्तके पाठः । (४) दैवतत्वात्-इति क० पुस्तके पाठः । (५) स इति ख० पुस्तके नास्ति । (६) यज्ञोपवीती-इति ख० पुस्तके पाठान्तम् ।
ब्रह्मचारिप्रकरणम् । ] वीरमित्रोदयामिताक्षरासहिता । ८७ चीनावीती भवति सव्यं वाहुमुद्धृत्य शिरोवधाय दक्षिणेऽसे (१)प्र. तिष्ठापयसि सव्यं कक्षमन्ववलम्वं भवत्येवं प्राचीनावीती (२)भव- ति' । निगमपरिशिष्टम्-'द्विकण्ठावसकम्', कण्ठपार्श्वद्वयं लग्नम् । छन्दोगपरिशिष्टम्- सदोपवीतिना भाव्यं सदा वद्धशिखेन च । विशिखो व्युपवीतश्च यत्करोति न तत्कृतम् ।। अत्र पूर्वानोपवीतित्वादेः पुरुषार्थत्वमुत्तरार्द्धन क्रत्वर्थत्वमभि. प्रेतमतो नाऽन्यतरवैयर्थ्य यद्वैदिकं कर्म न कृतम्। न फलसाधकं वै. गुण्यादित्यर्थः । उपवीतिनेति सामान्यशब्देन प्राचीनावीतनिवीत- योरपि पग्ग्रिहः, तेन श्राद्धकाले प्राचीनावीतित्वादावस्थायामपि न पुरुषार्थोपवीतित्ववाधः । न च- 'उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे । प्राचीनावीतमन्यस्मिन् निवीतं कण्ठलम्बितम् ॥ इत्यनुशासनादुपवीतपदस्य स्कन्धविन्यासविशेषविशिष्टसूत्रस- मुदायाविशेषवाचकत्वात्कथमेवमिति वाच्यं, भूयः प्रयोगवलेन स्क- न्धे विन्यालशून्येऽपि सूत्रसमुदायविशेपे सामान्यत एवोपवीतिप. दस्य शक्तिस्थैर्यात् । अत एवोपवीतदानविधयोऽपि निःप्रत्यूहाः । अन्यथा स्कन्धविन्यासविशिष्टस्यादानात्तदनुपपत्तेः । अत एव च- मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । अप्सु प्रास्य विनष्टानि गृहीतान्यानि मन्त्रतः ॥ इति मनुना परिहितेऽपि सुत्रसमुदाय एवोपवीतपदप्रयोगः सङ्ग- च्छते । सङ्गच्छते च 'यज्ञोपवीतं परमं पवित्र'मित्यादि मन्त्रेऽपिता दृशयज्ञोपवीतपदप्रयोगः । किञ्च-- उर्ध्व तु त्रिवृतं कार्य तन्तुत्रयमधोवृतम्। त्रिवृतं चोपवीतं स्यात्तस्यैको ग्रन्थिरिप्यते ॥ इत्युपवीतपदार्थव्युत्पादकन्दोगपरिशिष्टवचनात्सामान्यशक्तिरप्रत्यू- हेति । न चोपवीतपदस्य सूत्रससुदायविशेषसामान्यवचनत्वे उपवी- (१) सव्ये-इति क. पुस्तके पाठः । (२) यक्षेपीती- इति ख. पुस्तके पाठः ।
८८ याज्ञवल्क्यस्मृतिः। [ आचाराध्यायः। ताधिकरणविरोधस्तत्रः 'निवीतं मनुष्याणां, प्राचीनावतिं पितॄणा, मुपवीतं देवाना मिति श्रुतिमधिकृत्य 'उपवीतं लिङ्गदर्शनात्सर्वध. मः स्यातू' [ जै० ३।४।२।१० ] इति मीमांसायामुपवीतत्वादीनां पर- स्परभेदस्याऽतिस्फुटत्वादिति वाच्यं शक्तिभेदेनोभयोपपत्तेः। न च अ. न्यायश्चाऽनेकार्थत्व'मितिजैमिनीयन्यायविरोधः विनिगमकसत्त्वे तन्न्या. यावकाशात् प्रकृते च तदभावात् । प्रत्युत लाघवे सामान्यशक्तिरेवो. चिता । तुष्यतु वा विशेषशक्तिमात्राझीकारेण सुजनः । तथाऽपि. सामान्यपुरस्कारेण छन्दोगपरिशिष्टीयपरिभाषाबलादसति वाधके सामा. न्यपरतवोतपवीतपदस्य स्मार्ने कर्मणि प्रयुज्यते । एवं च श्राद्धादिकाले वामस्कन्धे द्वयोर्दक्षिणस्कन्धे च (१)द्वयोः सूत्रसमुदायविशेषयो. र्धारणस्वीकरणं मूर्खानां न श्रद्धेयं सर्वदेशीयशिष्टाचारविरोधाच्चे. ति । कण्टकोद्धारकृतस्तु सदेति प्रक्रम्यमाणकर्मकालपरमेव । अत एव पूर्वोत्तराद्धयोहेतुसद्भावेनाऽन्वयान वाक्यभेदः । यज्ञोपवीत द्वे धार्य श्रोते स्मार्ते च कर्मणि । इत्यादिना, गा(२)यच्यां च शिखां वध्वा नैर्ऋत्णां ब्रह्मरन्ध्रतः । जुटिकां च ततो वध्वा ततः कर्म समाचरेत् ॥ इति ब्रह्मपुराणवचनेन चाऽङ्गत्वस्थैर्यात् । एतेन सदेत्यादिविधिरि. ति मूर्खतैव । विशिख इत्यादिनिन्दार्थवादस्थपुरुषार्थविधिशक्तिमे. वाऽन्तर्भातीति परा(३)स्तम् । अत एव कर्माऽन्यकाले न धारणावश्य- कता। परन्तूपवीतधारणम्- सकृदुत्तारणात्तस्य प्रायश्चित्तीयते हि सः। इति वाक्यान्तरवलात्पुरुषार्थमपीति प्राहुः । अन्ये तु उक्तवचनमालोचयन्तो यज्ञोपवातधारणस्यापि न पुरु.. पार्थताम् । तथासत्यभ्यङ्गादिकाले यज्ञोपवीतत्यागस्य शिखामोचन- स्य च प्रामा(४)णिकैः करणाचारविरोधादिति वदन्तीत्यास्तामात्य(५) वेशः । गोभिल:-'यज्ञोपवीतं कुरुते सूत्रं वस्त्रं वाऽपि वा कुशरज्जुमेव' । (१) च-इति क० पुस्तके नास्ति । (२) गायच्या-इति ख० पुस्तके पाठः । (३)परास्तपत्रम्-इति क० पुस्तके पाठः । (४) च-इति क० पुस्तके नास्ति । (५) मत्यावेषः इति ख० पुस्तके पाठः । ।
ब्रह्मचारिप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ८९ अत्र सूत्रमिति मुख्यः पक्षः। अरण्यादौ तदलाभे वस्त्रं चौराद्युपहतो तस्याऽप्यभावे कुशरज्जुमिति उत्तरोत्तरमभावविधिरिति निवन्धारः । निगमपरिशिष्टं-'वाससा यज्ञोपवीतानि कुर्यात्तदभावे त्रिवृता सूत्रंण कुशमुञ्जवालप्रतिसररज्जुभिर्वा' । वालोऽत्र गोवालः । कार्पासक्षामगोवालशरवस्त्रतृणोद्भवम् । सदा सम्भवतो धार्यमुपवीतं द्विजातिभिः ॥ इति देवलसंवादात् । शरगावालादिपु नवगुणत्रिसरत्वादिनिय. मो नाऽस्ति सूत्र एव तदुपदशात् । अवघातायस्तु व्रीहिधर्मत्वात्त. कार्यकारिप्वपि क्रियन्ते । गुणादयस्तु यज्ञोपवीतान्तर्गता एव, न तु धर्मा इति टीकाकारः। तदभावे त्रिवृता सूत्रेणेति एकस्याऽभिधानमिति न गोभिलादिविरोध इति बहवः । । कल्पतरकृतस्तु 'यज्ञोपवीतपदमुत्तरीये गौणं तद्धर्मविन्यासविशेपप्राप्त्यर्थम्' इत्याहुः । (१)इति व्या. ख्याने त्रिवृत्सूत्रादयोऽप्युत्तरीयप्रतिनिधय एव । तथा च कात्यायनः 'तृतीयमुपवीतं वा योगपहुं वा (२ कुशरज्जु वा सूत्रं वा परिधान- स्योत्तरार्द्ध चोत्तरयिं कुर्यात्' इति । हारीतः- ब्रह्मसूत्रोपानद्वस्त्रं धृतमन्यैर्न धारयेत् । ब्रह्मसूत्रं यशोपवीतमन्यधृतं सर्वथा न धारयेदुपानहये तु ताट. शे अप्यापदि कृतनिर्णेजने धार्य । निर्णिकं चैव तान्तवम्' इति गौतम- वचनादिति कल्पतरुः । स्मृतिः- पिवतो मेऽम्भश्वाऽन्नं (च) ? भुजतोऽनुपवीतिनः। प्राणायाम विधा पटकं नक्तत्रययुतं क्रमात् ॥ अथ दण्डः-'ब्राह्मणो वैल्वपालाशी' इत्यादि। पीला गुडफलः। गो- भिल:-'पार्णवैल्या दण्डाः'पार्णः पालाशः, पालाशादयः क्रमेण दण्डा ब्राह्मणादीनां प्रशस्ता इत्यर्थः । पारस्करः- पालाशो ब्रह्मणस्य दण्डो वैल्वो राजन्यस्यौदुम्बरो वैश्यस्य सर्वे वा सर्वेपाम् , एपामलामे स. वेषां (३)सर्वे यशियाः'। धारयेद्वैल्वपालाशौ दण्डौ केशान्तिको द्विजः । यशाईवृक्ष वाऽथ सौम्यमव्रण एव च ॥ इति वचनात् । (१) एवं-इति ख० पुस्तके पाठः । (२) वा-इति क. पुस्तके नास्ति । () सर्वे-इति ख. पुस्तके नास्ति । । १२ ९० याज्ञवल्क्यस्मृतिः। [ आचाराध्यायः ऋजव एतेषामप्यलाभे तु सर्वेषां सर्वयज्ञियाः। इति यमवचनाच्च । औदुम्बर इति कुलकल्पभेदेन । केशान्तिक इत्यादि । ललाटोकेशजन्यस्थानस्याऽन्तः केशान्तः । एवं चोर्ध्व. स्थितस्य पुरुषस्य भूमितस्तत्पर्यन्तो ब्राह्मणस्य भूमध्यदेशसमितो राज्ञो नासाग्रसंमितो वैश्यस्य प्रमाणतो दण्ड इत्यर्थः । यत्तु केशा. न्तिकः कर्णसमीपकेशमूलपर्यन्त इति कस्यचिद्याख्यानं तम्न, तथा. सति ब्राह्मणक्षत्रिययोस्तत्तुल्यप्रमाणत्वे पृथगुपदेशानर्थक्यापत्तरिति इत्यनादन्यत्र । 'यूपवकाः' इति गौतमेन नाऽग्रत्वस्य विधानात् । अत्रणा: मच्छिद्राः, सौम्यदर्शनाः=अतिस्थौल्यादिनिव. न्धनभयानकत्वरहिताः, अनुद्वेगकरास्वरूपेणाऽभीषणा (१)इति । अत्राऽजिनोपवीतलेखलाधारणमष्टार्थ, दण्डधारणन्तु अबलम्बनगो- सादिनिवारणादिष्टार्थमित्याहुः ॥ (मिता० ) दण्डादिधारणमाह-- दण्डेति।तथा स्मृत्यन्तरप्रसिद्धं पालाशादिदण्ड, अजिनं (२)का- वर्णादि, उपवीतं कार्पासादिनिर्मितं, मेखलां च मुजादिनिर्मितां ब्रा- ह्मणादिब्रह्मचारी धारयेत् ॥ (पी० सि० ) ब्राह्मणेषु चरे क्षमानिन्धष्वात्मवृत्तये ॥ २९ ॥ भिक्षितमन्नादिकं भिक्षा । भिक्षेत भिक्षामित्यादिप्रयोगस्य बहु- शो दर्शनात् । तत्समूहो भैक्षम् । 'तस्य समूहः' (पा० सू०४।२।३७) इत्यनुवृत्तौ 'भिक्षादिभ्योऽण्' ( पा० सू० ४ । २ । ३८ ) इत्यनुशास. नात् । (३)एवञ्च भैध्यमिति यकारयुक्तोऽपपाठः, अणधिकारे पुनर- ग्रहणेन एभ्यो बाधकं बाधित्वाऽण् स्यादित्यभियुक्ताभ्यां व्याख्या. नात् । अनिन्द्यवनभिशस्तादिषु स्वकर्मनिरतेपु (४)च । वेदयन हीनानां प्रसक्तानां स्वकर्मसु । ब्रह्मचर्या(५)चरेद्भक्षं गृहेभ्यः प्रय(६)तोऽन्वहम् ॥ (१) इति-इति ख० पुस्तकेऽधिकम् । (२) कार्णाजिनादि खा (३) एवज इत्यारभ्य व्याख्यानात्-त्यन्तो ग्रन्थः ख० पुस्तके नास्ति । (७) च-इति ख० पुस्तके नास्ति । (५) ग्रहमचर्याहरेफ्रेक्ष-इति ख० पु. पाठः । (६) प्रहितो-हाते क० पु० पाठः।
--- ब्रह्मचारिप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । इति मनुवचनात् । तेनं ब्राह्मणेष्वनिन्द्येषु भिक्षया लब्धमन्नादि व्र- ह्मचारी चरेदाहरदित्यर्थः । आत्मनो वृत्तये प्राणरक्षणाय न तु परा- र्थम् आचार्यादिव्यतिरेकेण । समाहृत्य नु तद्भक्षं यावदर्थममायया । निवेद्य गुरवेऽश्नीयादाचस्य प्रामुखः शुचिः ॥ इति मनुनाऽऽचार्याय तन्निवेदनस्याऽभ्यनुज्ञानात् । न चाऽह- टार्थ तद्भक्षं हविषा संस्तुतम् । तपाऽऽचार्या देवतार्थे आहवनीयार्थ च भोजयित(१)व्यः । 'यदुच्छिएं प्राश्नाति (२)हविरुच्छिष्टमेव तद्भ- वति' इत्यापस्तम्बात् । 'आचार्यस्तु यदि स्वेच्छया न भुञ्जीत तदपि तदनुज्ञया स्वयं भुमीत' इत्याहुः। ब्राह्मणेविति सति सम्भव नियमः। तदभावे व्यासः- ब्राह्मणक्षत्रियाविशश्चरेयुभक्षमन्वहम् । सजातीयगृहप्वेव सार्ववर्णिकमेव वा ॥ सार्ववर्णिकमित्यापद्विपयं, तेन सति सम्भवे ब्राह्मणेषु तदभावे स्वसमानवणेपु तदभावे (३)शद्रवयं सर्वेषु (१)आपदादिपु । सर्वपु भिक्षेति चत्वारः पक्षाः। तथा च भविष्ये- सर्व वाऽपि चरे(५)द्रामं पूर्वोक्तानामसम्भवे । अन्त्यवयं महावाहो ! इत्याह भगवान्विभुः ॥ पाचं नियम्य प्रयतः आमिपं चाऽपि वर्जयेत् । चातुर्वर्ण्य चरेन्फ्रेक्षमलाभे कुरुनन्दन ! ॥ शौनकः गुरोः फुले न भिक्षत न शातिफुलयन्धुपु । अलाभे त्वन्यगेहाना पूर्व पूर्व विधर्जयेत् ॥ एतच्च नित्यभिक्षायाम् । यत्तु- मातरं वा स्वसारं वा मातुर्वा भगिनी निजाम् । भिक्षेत भिक्षा प्रथमं या चैनं नावमानयेत् ॥ .. (१) भोजयितव्यम्-इति क. पु० पाठः। (२) पहि-इति ० पु० पाठः। (6) स्वसमानशूद्रवज्य-इति ख० ए० पाठः । (१) सर्वेषु आपदादिपु- इति प.पु. नास्ति । (१) भाग-इति व. पु. पाठः ।
९२ याज्ञवल्क्यस्मृतिः। [ आचाराध्यायः । सुवर्ण रजतं रालं सा पात्रेऽस्य विनिक्षिपेत् । इति मनुवचनं तदुपनयनाङ्गप्राथमिकभिक्षाविषयमित्यविरोधः। (१)मनुः- प्रतिगृह्योक्षितं दण्डमुपस्थाय च भास्करम्। प्रदक्षिणं परीत्याऽग्नि चरेद्रेक्षं यथाविधि ॥ २९ ॥ (वी० मि०) आदिमध्यावसानेषु भवच्छब्दोपलक्षिता ।। ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् ॥ ३० ॥ ब्राह्मणादीनां ब्रह्मचारिणां भिक्षावाक्ये यथाक्रममादौ मध्ये अ. न्ते च स्थितेन भवच्छब्देन सम्वोध्य लिङ्गवता उपलक्षिता भैक्ष: चर्या कार्येत्यर्थः। तेन भवति भवन् वा भिक्षां देहि' इति ब्राह्मण- स्य, 'भिक्षां भवति भवन् वा देहि' इति क्षत्रियस्य, 'भिक्षां देहि भव- ति भवन्वा' इति वैश्यस्य ब्रह्मचारिणो भिक्षावास्यं सिद्धयति । अत एव हारीतः:-- सप्ताक्षरां चरेद्भिक्षां क्षां च हिं च न वर्जयेत् । 'क्षां च हिं च' इत्यनेन भिक्षां देहीति पदयोरपि प्रयोगो मत इत्युक्तमिति कल्पतरुः । अतः सप्ताक्षरत्वं स्त्रियामेव सम्बोध्याया- मित्यवधेयम् ॥ ३० ॥ (मिता० ) भैक्षचर्याप्रकार:-- ब्राह्मणेष्वित्यादि । पूर्वोक्तदण्डादियुक्तो ब्रह्मचारी ब्राह्मणेष्वनि- न्येषु अभिशस्तादि २)व्यतिरिक्तेषु स्वकर्मनिरतेषु भैक्षं चरेत् । आ- त्मवृत्तये आत्मनो जीवनाय न परार्थ आचार्यतद्भार्यापुत्रव्यतिरेकेण । निवेद्य गुरवे तदनुज्ञातो भुञ्जीत । 'तदभावे तत्पुत्रादौ' इति निय. मात्। अत्र च ब्राह्मणग्रहणं सम्भवे स(३)ति नियमार्थम् । यत्तु सा- ववर्णिकं भैक्षचरणमिति तत्रैवर्णि(४)कविषयम् । यच्च चातुर्वण्ये चरेद्रैक्षमिति तदापद्विषयम् । कथं भैक्षचर्या, आदिमध्यावसानेषु भवच्छब्दोपलक्षिता भवति भिक्षां देहि, भिक्षां भवति देहि, भिक्षा देहि भवति' इत्येवं वर्णक्रमेण भैक्षचर्या कार्या ॥ २९ ॥३०॥ (१) मनुः-इत्यारभ्य यथाविधि-इत्यन्तं क० पुस्तके नास्ति । (२) दिदोषरहितेषु-- खः । (३) सति न नियमार्थ० ख० । (४) बेवानिकाप्राप्त्यर्थम् ० ख०1 ब्रह्मचारिप्रकरणम् । ] वीरामित्रोदयमिताक्षरासहिता । ९३ (वी० मि०) कृताग्निकार्यो भुशीत वाग्यतो गुर्वनुज्ञया । अपोशानक्रियापूर्वं सत्कृत्याऽन्नमकुत्सयन् ।। ३१ ॥ गुर्वनुशया कृताग्निकार्यो ऽन्नं सत्कृत्याऽकुत्सयन् वान्यतः, अपो. शानक्रियापूर्व भुञ्जीतेति योजना । तत्र गुर्वनुज्ञया त्वमिदं भुक्ष्वेति विनियुझ्वेति वाऽऽचार्यानुमत्येत्यर्थः । कृतमग्निकार्यमग्नौ समि दाधानादिकं येन स तथा । 'अत्र पुनरग्निकार्यग्रहणं प्रातःसन्ध्या- काले कथञ्चिदकृताग्निकार्यस्य कालान्तरविध्यर्थ न पुनस्तृतीयप्रा- प्त्यर्थम्' इति मिताक्षरायाम् । अन्ये तु भक्ष्यतदेकदेशहोमोऽवाऽग्निकार्य- शब्देनाऽभिप्रेत इति वदन्तस्तत्र हविपो हुत्वा सन्ताऽग्नि समिधं दत्त्वा 'यदा यदन्नससी'त्युक्त्वाऽनुमन्त्रयेत् । 'त्रिः स्विकृतमग्नि- कार्य कृत्वाऽनुज्ञातो भुञ्जीत वाग्यतः' इति पैंठीनसिवचनं, 'प्रोक्षिता . क्षादग्नी हुत्वा भुञ्जीत' इत्यापस्तम्यवचनं च प्रमाणयन्ति । सत्कृत्य पूजयि- त्वा, भूतानामुत्पत्तिस्थितिहेतुतया ध्यात्वा । अकुत्सयन् अनिन्दन, वाग्यतो मौनी, अपोशानक्रिया 'ऽमृतोपस्तरणमसी'त्यनेन जलगण्डू- पपानं तत्पूर्वकं यथा स्यात् । तदुक्तं ग्राह्ये- आपोशानं च गृहीयात्सर्वतीर्थमयं च तत् । अमृ(१)तोपस्तरणमसीति, विष्णोरन्नमयस्य च ॥ अथ भोजनविधिः। स च 'आचारादर्शछन्दोगाहिकाऽऽचारचिन्तामण्या- धनुसारेणाऽत्रैव लिखनीयः। संवतः- अष्टौ ग्रासा मुनेर्भक्षं पोडशाऽरण्यवासिनः । द्वात्रिंशतं गृहस्थस्य अमितं ब्रह्मचारिणः ।। ३१ ॥ (मिता० ) भोजनप्रकार:- कृतानीति । पूर्वोक्तेन विधिना भिक्षामाहत्य गुरवे निवेद्य तदनु शया कृताग्निकार्यों वाग्यतो मौनी असं सत्कृत्य सम्पूज्य अकुत्सयन्न- निन्दन् अपोशानकियां अमृतोपस्तरणमसीत्यादिकां पूर्व कृत्या भु- जीत । अत्र पुनरग्निकार्यग्रहणं सन्ध्याकाले कथञ्चिदकृतासिकायेस्य फाला(२)न्तरविध्यर्थ न पुनस्तृतीयप्राप्त्यर्थम् ॥ ३१ ॥ (1) अमृतोपस्तरमसी विष्णोरनमयस्य च-इति क० पुस्तके पाठः। (२) कालान्तरं मध्यान्हादि। - ९४ याज्ञवल्क्यस्मृतिः। [ आचाराध्यायः । (वी० मि०) ब्रह्मचर्ये स्थितो नैकमन्नमद्यादनापदि । ब्रह्मचर्ये स्थित आश्रितब्रह्मचर्यो ब्रह्मचारीति यावत् । एकसेफ- स्वामिकम अनापदि अन्नान्तरलाभसम्भवे नाऽद्यात् । एकस्मिन् दिने यदीयमन्नं भुक्तं तदव्यवहितदिने तदीयमनं नाऽश्नीयादित्यर्थः । ( वी० मि० ) एतदपवदति । ब्राह्मणः काममश्नीयाच्छा व्रतमपीडयन् ॥ ३२ ॥ माह्मणग्रहणं राशश्चेब्रह्मचारी तदा श्राद्ध आमन्त्रितोऽभ्यर्थितः काममेकाशमप्यश्नीयात् मधुसांसादिवर्जनेन व्रतं ब्रह्मचारिनियमम. पीडयन् । ब्राह्मणग्रहणं राजन्यवैश्ययोः (१) श्राद्धे भोजनव्यावृत्त्य. र्थम् । तदाह श्राद्धभोजनमुपक्रम्य मनुः- राजन्यवैश्ययोश्चैव नैतत्कर्म प्रशस्यते । इति । काममित्यनेनाऽकामानुमतिर्विवक्षिता, तेनाऽभ्यर्थितस्य स्वेच्छया श्राद्धेऽप्येकान्नभोजनं व्यवच्छिन्नं तत्पर एव (२)च स्मृत्य- न्तरे ब्रह्मचारिणः श्राद्धभोजननिषेध इति स्मर्तव्यम् ॥ ३२ ॥ (मिता०) ब्रह्मचर्य इति । ब्रह्मचर्य स्थित (३)एकान्नं नाद्यादनापदि व्याध्याद्यभावे । ब्राह्मणः पुनः श्राद्धेऽभ्यर्थितः सन् (४)कासमश्नी- यात् । व्रतमपीडयन् मधुमांसपरिहारेण । अत्र ब्राह्मणग्रहणं क्षत्रियादेः श्राद्धभोजनव्युदासार्थम् । 'राजन्यवैश्ययोश्चैव नैतत्कर्म प्रचक्षते' इति मनुस्मरणात् ॥ ३२॥ ( वी० मि० ) ब्रह्मचारिणो नियमानाह- मधुमांसाऽअनोच्छिष्टशुक्तस्त्रीप्राणिहिंसनम् ।। भास्करालोकनाश्नीलपरिवादांश्च (५)वर्जयेत् ।। ३३ ।। मधु-मचं क्षौद्रं च, मांसं = सर्वमेव, अञ्जनं-घृतादिना गात्रस्य, कजलेन वाऽक्ष्णोः, उच्छिष्ट-भुक्तशेषं, स्वस्य-गुरुव्यतिरिक्तस्य पर. स्याऽपि, 'उच्छिष्टमगुरो ज्यम्' इति वसिष्ठवचनात्। शुक्तं परुषं वचः, स्वभावमधुरं कालवशादम्लतां गतं दध्यादिव्यतिरिक्तं च, प्राणि- (२) शूद्रयोः-इति ख० पुस्तके पाठः । (२) च-इति ख० पुस्तके नास्ति । (३) एकानमेकस्वामिकम् । (४) कामं पथेष्टम् । (५) परिवादादि-इति मुद्रितपुस्तके पाठः । - ब्रहाचारिप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ९५ पदं हिंसासामान्यलाभार्थ, भास्करस्य उद्यतोऽस्तं गच्छतश्चाऽऽलो. कनं, अश्लीलं-ग्राम्यं, परिवादा-परनिन्दा । अत्र मध्वादेर्भक्ष्यतया प्रसक्तस्याऽभक्षणात् । स्त्रियाश्वाऽष्टविधमैथुननिवृत्तरलीलस्याऽन- भिधानादअनादीनां च क्रियाणामकरणाद्वर्जनं द्रव्यं गुर्वनुशयेत्यु क्तम् ॥ ३३॥ (मिता० ) मधुमासादिवान्याह- मधुमांसेत्यादि । मधु क्षौद्रं न मद्यम् । तस्य 'नित्यं मद्यं ब्राह्मणो वर्जयेत्' इति निषेधात् । मांसं छागादिरपि । अञ्जनं घृतादिना गा- त्रस्य, कजलादिना चाक्ष्णोः । उच्छिष्टमगुरोः । शुक्तं निष्ठरवाक्यं (१)नान्नरसः, तस्याऽभक्ष्यप्रकरणे निषेधात् । स्त्रियमुपभोगे । प्राणि हिंसनं जीववधः। (२)भास्करस्योदयास्तमयावलोकनम् । अश्ली- लमस(३ त्यभापणम् । परिवादः सदसद्रूपस्य परदोपस्य ख्यापनम् । आदिशब्दात्स्नृत्यन्तरोक्तं गन्धमाल्यादि गृयते । एतानि ब्रह्मचारी वर्जयेत् । ३३ ॥ ( वी० मि० ) तत्र को गुरुरित्यपेक्षायां गुरुं निरूपयन्नेव प्रसङ्गा- दाचार्यादीनामपि निरूपयति- स गुरुयैः क्रियां (४)कृत्वा वेदमस्मै प्रयच्छति ॥ उपनीय ददद्वेदमाचार्यः स उदाहृतः ।। ३४ ।। एकदेशमुपाध्याय विग्यज्ञकदुच्यते । क्रियां निपेकाद्यां संस्कारहेतुभूतामुपनयनान्तां तदव्यवधानेनैव वेदाध्यापनस्य उपनीय वेदमध्यापयेत्'इत्यादौ विधानात् । कृत्वेयर्थाद्र- मचारित्वाभिमतस्यैव। वेदं सम्पूर्णकशाखं साङ्गं सार्थ च अस्मै ब्रह्म चारिणे प्रयच्छत्युपदिशति यः स तस्य गुरुरित्यर्थः । एतच ब्राह्मणप. रम् , इतरस्याऽध्यापनाऽनधिकारात् । तथा च वक्ष्यति । एवं च नि- पेकादिकामुक्तां क्रियां यथाधिकारमशेषां यो यस्य करोति स तस्य गुरुरिति साधारणमेकयोक्त्या गुरुलक्षणम् । अत एव- । (१)न रसादि क.! (२) भास्करस्य चालोकनं क. । (.)भास्करालोकनमुदितास्तमितादादादित्यस्यायलोकनम्-पति गुरुमम्मदायागतः पाठ संशो। (१)गुपमाषणं खा () कियाः-इति मुद्रितपुस्तके. पाठः ।
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः। H निषेकादीनि कर्माणि यः करोति यथाविधि । सम्भावयति चाऽन्नेन स विप्रो गुरुरुच्यते ।। इति मनौ यथाविधीति विप्र इति चोक्ताऽभिप्रायकतयैव नेयम् । अ- (१)न्यथा क्षत्रियादीनां स्वपुत्रं प्रति गुरुत्वाभावप्रसङ्गादिति बहवः । वस्तुतस्तु मान्यमाननरूपब्रह्मचारिधर्मान् वक्तुं गुर्वादिमान्यस्वरूपं तत्प्रसङ्गाद् गृहस्थमान्यर्विक्स्वरूपं चोक्तम् । गुर्वनुशयेत्यादौ च गुरु- त्वमुपनेतृत्वमेवाऽऽचार्यसाधारणं प्रमीतपितृकसाधारण्यनैव वि- धानात् । गुरुशब्दशक्तिस्तु जनकत्वोपाधिना मातापित्रोरेव तयो रे(२)व भूयसो लोकशास्त्रयोर्गुरुशब्दप्रयोगदर्शनात् । आचार्याः पितरो ज्येष्ठो भ्राता चैव महीपतिः । मातुलः श्वशुरस्त्राता मातामहपितामहो । वर्णज्येष्ठः पितृव्यश्च पुंस्येते गुरवो मताः । माता मातामही गुर्वी मातुलानी च सोदरा ॥ श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रियः । इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्विधा ॥ इत्यादावाचर्यादावपि गुरुशब्दप्रयोगस्तद्धर्ममाननीयत्वप्राप्त्य. र्थको गौणः । जनकचोपनेता च यश्च विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चते पितरः स्मृताः ।। इत्यादी जनकभिन्ने पितृशब्दप्रयोगवत् । भयदेवहरिनाथादिसंमतो. ऽप्ययमेवाऽर्थ इति तत्त्वम् । दददिति अध्यापयतीत्यर्थः । य इति शेषः । तथा च मनु:- उपनीय तु यः शिप्यं वेदमध्यापयेद्विजः। खकल्पं सरहस्यञ्च तमाचार्य प्रचक्षते ॥ कल्पशब्देन व्याकरणादीनि षडङ्गान्युपलक्ष्यन्ते । वेदं सम्पूर्णम् । एकदेशं वैक: ३)देशम् । यदाह मनुः-- एकदेशन्तु वेदस्य वेदाङ्गान्यपि वा पुनः । योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ (१) अन्यथा-इत्यारभ्य गुर्वादि-इत्यन्तं ख० पुस्तके नास्ति । । २) तयोरेव-इति ख० पुस्तके नास्ति । (३) पैकदेशम्-इति ख० पुस्तके नास्ति ।
ब्रह्मचारिप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। १७ । यज्ञकृत्-वृतः सन् पाकयज्ञादिकर्ता। यदाह मनु:-~- अग्न्याधेयं पाकयज्ञाननिष्टोमादिकान् मखान् । यः करोति वृतो यस्य तस्य ऋत्विगिहोच्यते । (वी० मि०.) एते मान्या यथापूर्वमेभ्यो माता गरीयसी ।। ३५ ।। एते गुर्वादयश्चत्वारः समवाये सति पूर्वपूर्वाऽनतिक्रमेणोत्तरो- त्तरेऽभिवादनादिना माननीयाः । जननी तु सर्वेभ्य एव मान्यतमा । तदाह मनुरपि- उपाध्यायाहशाचार्य आचार्याणां शतं पिता । सहस्रेण पितुर्माता गौरवेणाऽतिरिच्यते ॥ गौतमस्तु मातुराचार्यस्य च गौरवे विकल्पं मन्यते । यदाह-आ- चार्यः श्रेष्ठो गुरूणाम्' । यनु स्मृत्यन्तरे क्वचित्पितुर्गुरुतरत्वाभिधानं तद्विक्रयादिपरमिति द्रष्टव्यम् ॥ ३४-३५ ।। [मिता०] गुर्वाचार्यादिलक्षणमाह- स इति । योऽसौ गर्भाधानाद्या उपनयनपर्यन्ताः क्रिया यथा- विधि कृत्वा वेदमस्मै ब्रह्मचारिणे प्रयच्छति स गुरुः । यः पुनरुपन. यनमात्रं कृत्वा वेदं [१]प्रयच्छति स आचार्यः ।। ३४ ॥ [मिता० उपाध्यायविलक्षणम्- एकदेशमिति । वेदस्यैकदेशं मन्त्रब्राह्मणयोरेक अङ्गानि वा यो. ऽध्यापयति स उपाध्यायः । यः पुनः पाकयज्ञादिकं वृतः करोति स ऋत्विक । एते च गुर्वाचार्योपाध्यायविजो यथापूर्व यथाक्रमेण मा. न्याः पूज्याः । एभ्य: सर्वेभ्यो माता गरीयसी पूज्यतमा ॥ ३५ ॥ [वी० मि० ] ब्रह्मचर्यकालनियममाह- प्रतिवेदं ब्रह्मचर्य द्वादशाब्दानि पञ्च वा ॥ ग्रहणान्तिकमित्येके केशान्तश्चैव पोडशे ॥ ३६ ।। प्रतिशाखं स्वगृह्योक्तब्रह्मचारिव्रतं द्वादश पञ्च वा वर्षाणि का. (१) ददाति सः। १३ ९८ याज्ञवल्क्यस्मृतिः। [ आचाराध्यायः। र्यम् । प्रतिवेदमित्यभिधानान्नानविदाध्ययनमायाति । तदाह मनुः-- वेदानधीत्य वेदो वा वेदं वाऽपि यथाक्रमम् । अविष्लुतब्रह्मचयों गृहस्थाश्रममावसेत् ॥ अत्र वर्षवेदयोर्विकल्पः। शक्त्यपेक्षया फलभूमा कल्पनीय इति तु केचिद्रहणान्तिकमिति । यावता कालेन शाखानां शाखयोः शा. खाया वा अध्ययन सम्पद्यते तावत्कालामत्यर्थः । पुरुषबुद्धितारत. म्यापेक्षयोक्तकालादधिको न्यूनो वाऽध्ययनसमाप्तिकालो प्रतावधि- रित्येके-इत्यस्यार्थः। केशान्तो गोदानाख्यः संस्कारविशेषः। गर्भकालावधिकषोडश.. वर्षे कार्यः । 'गर्भादिसवथा वर्षाणामिति बौधायनात् । केचित्तु-ज. मावधिकमेवाऽत्र षोडशत्वं 'गर्भाष्टमे' इत्यादाविव विशेषमनाभधा. य 'अष्टमे वाऽब्दे' इत्यादाविव षोडशे इति निर्विशेषितविधिना तथा स्थैर्यादित्याहुः । एतद्राह्मणमात्रपरम् । तथा च मनु:- केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यवन्धोविशे वैश्यस्य ध्यधिके ततः ॥ ३६ ॥ (मिता० ) वेदग्रहणार्थ ब्रह्मचर्यावधिमाह- प्रतिवेदमिति । यदा विवाहासम्भवे वेदानधीत्य वेदो वा वेदं वेति प्रवर्तते तदा प्रतिवेदं वेदं वेदं प्रति ब्रह्मचर्य पूर्वोक्तं द्वादशवर्षा- णि कार्यम् । अशक्तौ पञ्च । ग्रहणान्तिकमित्येके वर्णयन्ति । केशा. न्तः पुनर्गो(१)दानाख्यं कर्म गर्भादारभ्य षोडशे वर्षे ब्राह्मणस्य का. यम् । एतच्च द्वादशवार्षिके वेदव्रते बोद्धव्यम्। इतरस्मिन् पक्षे यथास- म्भवं द्रष्टव्यम् । राजन्यवैश्ययोस्तूपनयनकालवद्वाविंशे चतुर्विशे वा (२)द्रष्टव्यम् ॥ ३६॥ (वी० मि० ) अथोक्तकालेषूपनयनासम्भवे गौणं कालमाह आषोडशाच्च(३)द्वाविंशातुर्विंशाच वत्सरात् ।। ब्रह्मक्षत्रविशां काल औपनायनिकः परः ॥ ३७॥ (१) गावः केशा दीयन्ते लण्यन्ते यस्मिनः । (२) वा यथासम्भवं खः । (६) आषोडशादादाविशाश्चतु - इति मुद्रितपुस्तके पाठः। -- प्रझचारिप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ९९ अभिविधावा प्रत्येकंच सम्बध्यते, छन्दसि परेऽपि व्यवहिता- श्व'{११४४८१,२] इत्यनुशानात् । तेन पोडश ब्राह्मणस्य, द्वाविशं क्षत्रि. स्यय, चतुविशंच वैश्यस्य वर्षमभिव्याप्योपनपनस्य परोमुख्यादन्यः फालः इत्यर्थः । चकारी मिथः समुच्चये । यत्तु 'द्वादश पोडश विंश. तिश्चेत्यतीता विरुद्धकाला भवन्तीति पैठोनासेवचनं, तत्तु द्वादशवर्षाद्य. तिक्रमे स्वल्पपापप्रतिपादनपरमित्याविरोधः । ( वी० मि.) नाऽतः परं व्रात्यस्तोमं विना गौणोऽप्युपनयनका- लोऽस्तीत्याह- अत ऊर्च पतन्त्येते सर्व(१)धर्मवहिष्कृताः ॥ सावित्रीपतिता व्रात्या व्रात्यस्तोमाहते क्रतोः ॥ ३८ ॥ अत इति (२)बहुवचनान्तात्तसिल् । तेनोक्तकालेभ्य ऊर्ध्वमेते ना. ह्मणादयः सावित्रीतः पतिताः भ्रष्टाः सावित्र्युपदेशाऽयोग्या भव- न्तीति यावत्, अतश्च पतन्ति उपपातकिनो भवन्ति, 'व्रात्यता वान्धः यत्याग' इति मनावुपपातकगणनात् । अत एव च (३)द्विजातिध. र्माऽनधिकारिणो भवन्ति । यद्यप्युपपातकस्याऽभ्यस्तस्यैव निवन्धुभिः कर्माऽनधिकारप्रयोजकत्वं लिखितं, तथाऽपि प्रकृते वचनवलादन. भ्यस्तस्याऽपि कर्मानधिकारप्रयोजकत्वं द्रष्टव्यम् । अत एव (४)च शास्त्रे तत्र तत्र वात्यपदवाच्याः । अत्र प्रतिप्रसवः । व्रात्यस्तोमाटते तोरिति ।वात्यस्तोमः क्रतुःखात्यानां प्रायश्चित्तक्रतुः तं विना। तेनो- तकालेभ्य ऊर्ध्वमपि कृतवात्यस्तोमा उपनेया (५)एव भवन्ति, न तु व्रात्यस्तोममात्रेणोपनयनं विनाऽप्यधिकारिणो भवन्तीति ॥ ३८ ।। (मिता० ) उपनयनकालस्य परमावधिमाह- आपोडशादिति, अत ऊर्ध्वमिति च।आपोडशाद्वर्षात् पोडशवर्षे . यावत् । आद्वाविंशादाचतुर्विंशाद्वाद्र(६)मक्षत्रविशां औपनायनि- कः उपनयनसम्बन्धी परः कालः। नाऽतःपरमुपनयनकालोऽस्ति । किन्तु अत ऊर्ध्व पतन्त्येते सर्वधर्मवहिप्कृताः सर्वधर्मप्वनधिका- (१) यथाकालमसंस्कृताः इति अपरः पाठः । (२) च-इति क. पुस्तके नास्ति । (५) एव-शनि ० पुस्तके नास्ति । (२) एव- इति स. पुस्तके पाठः । १४) च-रति म. पुस्तके नास्ति। (६) प्रागप्रियविशाखा 072 १०० याज्ञवल्क्यस्मृतिः। [आचाराध्यायः । रिणो भवन्ति । सावित्रीपतिताः पतितसावित्रीका. भवन्ति सावि- बीदानयोग्या न भवन्ति । व्रात्याः संस्कारहीनाश्च (१)वात्यस्तोमा. त्क्रतोविना । कृते तु तस्मिन्नुपनयनाधिकारिणो भवन्ति ॥३७-३८॥ (वी० मि० ) अत्राऽऽद्यास्त्रयो द्विजा इति प्रागभिधानाद् व्रात्य- स्याऽपि सति द्विजत्वे कथं द्विजातिधर्माऽनधिकार इत्यपेक्षायां न केवलं ब्राह्मण्यादिजातियोगमात्रेण द्विजत्वं, किन्तु सविधिमौञ्जीव- धनादित्याह- मातुर्यदये जायन्ते द्वितीयं मौजिवन्धनात् ॥ ब्राह्मणक्षत्रियविशस्तस्मामृताः ॥ ३९ ॥ द्वितीयमिति क्रियाविशेषणम् । यस्माद्राह्मणादयो मातृतः प्रथम जायन्ते द्वितीयं मौञ्जिवन्धनात्तस्मादेते द्विजाः । वात्यानां च मौजी- वन्धनाऽभावान्न द्विजत्वमिति भावः । मौजीति खत्वमार्षमित्याहुः । अत्र मौजीबन्धनजनितसंस्कारे जनिरौपचारिकः ॥ ३९ ॥ (मिता० ) आद्यास्त्रयो द्विजा इत्युक्तं तत्र हेतुमाह- मातुरिति । मातुः सकाशात्प्रथमं जायन्ते, मौजिवन्धनाच द्वि- तीयं जन्म यस्मात्तस्मादेते ब्राह्मणक्षत्रियवैश्या द्विजा उच्यन्ते ॥३९॥ ( वी० मि.) 'आहूतश्चाऽप्यधीयीते'ति प्रागुक्तस्याऽध्ययनस्य फलमाह-- यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ॥ वेद एव द्विजातीनां निःश्रेयसकरः (२)परः ॥ ४० ॥ यज्ञानां पाकयज्ञज्योतिष्टोमादीनां तपसां कायसन्तापनरूपाणां चान्द्रायणादीनां अन्येषाम[३]पि शुभफलानां दानाऽध्ययनादीनां कर्मणां मध्ये वेदाध्ययनमेव सर्वोत्कृष्टमभ्युदयसाधनं वैदिकसक- लवृत्तिनिदानभूतवाक्यार्थबोधादिजनकत्वादित्यर्थः । अत्र स्मृत्या.. द्यध्य[४] यनस्य तथात्वेऽपि वेदाध्ययनमूलकत्वेन तस्मादपकर्षः। (१) वात्यस्तोमो नाम नात्याना प्रायश्चित्तक्रतुः । तेन चोदालकत्रतादिप्रायश्चित्तान्तरमायुपलक्ष्य- ते. अपरार्कः1 (२) स्मृतः इति ख० पुस्तके पाठः। (३) अपि-इति ख० पुस्तके नास्ति। (१) 'यनस्य तथात्वेऽपि वेदाध्य०'-एतावानंश: ख. पुस्तके नास्ति।
No text on this page.
10000000000000000000000000000००००००००० 000 विशेष-सूचना। हमारे यहां हर तरह की संस्कृत पुस्तकें भाषा टीका के हरवक्त तैय्यार रहती हैं इसके अलावे हर तरह की छपाई तथा जिल्द के बंधाई का कार्य भी होता है। संस्कृत तथा भाषा भाष्य पुस्तकों का घड़ा सू. मुफ्त मंगाकर देखिय । 0000000000000000००७ 00000000000000000000000000000000000000000000000000000ex नीचे लिखे पते पर पत्र व्यवहार क Sam जयकृष्णदास-हरिदासगुप्तः- बौखम्बा संस्कृत सीरीज आफिम । विद्याविलास प्रेस, गोपालगंदिर लेन । वनारस सिक्ष्य- 1000000000000000000000000000000000000r.
No text on this page.