Allahabad University
Nyay Wartikasya
Front matter
न्यायवार्तिकस्य भूमिका । वाराणसीस्थराजकीयसंस्कृतपाठशालीय- पुस्तकालयाध्यक्षेण विन्ध्येश्वरीप्रसादद्विवेदिना सङ्कलिता। mammyama वाराणस्याम् । emeoneneumorsmoon सेठ-श्रीहरिदासगुप्तपुत्रेण चौखंबासंस्कृतसीरीज- काशीसंस्कृतसीरीजायनेकपुस्तकपकाशकेन सेठ-श्रीजयकृष्णदासेन विद्याविलासयन्त्रे मुद्रिता। सन् १९१६ इशवीये Registered According to Act XXV. of 1867. ( ALL RIGHTS RESERVED. ) ॐ नमः परमात्मने । - न्यायवार्तिकस्य भूमिका। त्वात् पृथगभिधानं विश्वनाथन्यायपश्चानना गोतमसूत्रवृत्तौ प्रमाणप्रमेयेत्या- दिप्रथमसूत्रव्याख्याने “अत्र वार्तिकं यदि वादे देशनीयत्वाद पृथगभिधानं तदा न्यूनाधिकापसिद्धान्तानां वादे देशनीय- स्यात्"(१) इत्युक्तवन्तः । शङ्करमिश्रेण वैशेपिकमूत्रोपस्कारे २अध्याये २ आह्निके सामान्यप्रत्यक्षाद्विशे- पाप्रत्यक्षाद्विशेषस्मृतेश्च संशय इति १७ मूत्रव्याख्याने "न्या- यवार्तिकेऽपि यत् कारणभेदेन संशये त्रित्वमुक्तं तदपि न स- म्भवति व्यभिचारेण समानधर्मादीनां त्रयाणां कारणत्वस्यै- वासम्भवात्"(२) इत्युक्तम् । श्रीधराचार्येण न्यायकन्दल्या पृथिवीनिरूपणे “यथाहोद्योतकरः समानासमानजातीग्रव्यव- च्छेदो लक्षणार्थः"(३) इत्युक्तम् । वर्द्धमानोपाध्यायेन द्रव्य- किरणावलीप्रकाशे "तस्य संस्कारात् कालाद्वा विनाश इति वार्तिकविरोधाच" इत्युक्तम् । षड्दर्शनटीकाकद्वाचस्पति- मिश्रेणापि "प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्या- (१) अस्मिन्नेव मुद्रिते न्यायवार्त्तिकपुस्तके पृ०१९ प०९ द्रष्टव्यम् । (२) पृ०९९ प०१४ (३) पृ० २१.५०१० MH-wweinmanmaina AN २ न्यायवासिकस्प भूमिकायाम् तम्"(१) इतिकारिकाव्याख्यायां सांख्यतत्वकौमुद्यां "सर्व चैतदस्माभिन्यायवार्तिकतात्पर्यटीकायां व्युत्पादितं नेहोक्तं विस्तरभया"दित्युक्तम् । चित्सुखाचार्येण तत्त्वप्रदीपिकायां (चित्सुख्या) द्वितीयपरिच्छेदे “वाचको गवयस्याय"मिति ३१ कारिकाव्याख्यायां "तथा च भगवदक्षपादप्रणीतं सूत्रम् प्रसिद्धसाधात् साध्यसाधनमुपमानमिति । व्याख्यातं चैतदु- द्योतकरेण वार्तिककृता आगमाहितसंस्कारस्मृत्यपेक्षं साह- श्यज्ञानमुपमानमिति"(२) इत्युक्तम् । एवमनेकेषु न्याय -वैशे- षिक-सांख्य-वेदान्तग्रन्थेषु न्यायवार्तिकस्य तथा तट्टीकायाश्च नाम दृष्ट्वा उद्योतकराचार्यकृतं न्यायवार्तिकनामानं महानि- बन्धं मनसि विज्ञाय पण्डितद्धेभ्यो न्यायदर्शनवात्स्यायनभा- ध्यस्य पठनपाठनयोः परमोपयोगित्वं तस्य निशम्य तदन्वे- षणेऽहं प्रवृत्तः । किन्तु "न्यायवार्तिकस्य विनष्टप्रायत्वात् त- ल्लाभेऽनेके महापण्डिताश्चिरादेव विफलप्रयत्ना अभूवं(३)स्तव किं साध्यं भविष्यतीति" नैयायिकद्धनिरुत्साहितोऽप्यहम् (१) पञ्चमी कारिका। (२) अस्मिन्नेवमुद्रिते न्यायवार्त्तिकपुस्तके पृ०५७ १०२१ द्रष्टव्यम् । (३)न्यायवार्तिकस्य दुर्लभत्वे खण्डश उपलब्धत्वे वा वक्ष्यमाणा लेखा वर्तन्ते । A contribution towards an index to the Bibliography of the Indian Philosophical systems by Fitzdward Hall, M.A., page 20, III. Nyaya-Varttika-Tatparya- Parisuddhi, also called Nyaya-nibandha. This is probably an emendation of Pakshila Svâmin's Värttika or Supplement to No. I. Dínnága, whom Váchaspati Misra names with censuro: he was another ancient expositor of ग्रन्थप्राप्तितन्मुद्रणप्रस्तावः । ३. "उद्योगेनैव सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥" इत्यनुसरन् न्यायवार्तिकं स्मरन् कतिपयवर्षानन्तरमेकस्य ब्राह्मणस्य गृहेऽहं भोजनार्थमाहूतो ब्राह्मणानांपली उपविष्टस्तत्रै. कस्य महावातायनस्य मध्ये याथातथ्येन जीर्णवस्त्रेण वेष्टितानि धूलीधूसराणि ऊर्णनाभादिभिराच्छादितानि अनेकानि पुस्तक पुटकानि प्रवेशितानि दृष्ट्वा तेषां निष्कासने प्रवृत्तो गृहपतिनावृद्धेन the logical institutes. The writings of both have, porhaps, perished. Completo copies of the work in question may be forthconing; but I have never seen one. Its author is Udayana Âclărya, who is also called Uddyotakara Âchărya and Udayakara Âchărya. He was of tho gotra of Bharadwaja. F. E. H. Tho Kusumăujali edited and translatod by E. B. Cowell, preface page vi, III-The Nyaya-Virttika, a commentary on No. II. by Uddyotakara Âchărya. I procurod lately, from a pandit of Nuddea, a fragment of this work containing a portion of the first book. A classifiod index of the Sanskrit MSS in the palace at Tanjoro by A, C, Burnell, p. 113; these are all precisely similar recent transcripts made at Benares by soveral persons about 1820. As the work is exceedingly rare, it is much to be regretted that these MSS. are so incorrect as to be useless. Whole lines are quite unintelligible, and some of the copyists seem to have been perfectly ignorant of even the form of the letters, Soe Catalogus Catalogorum by Theodor Aufrecht : printed in 1891-1903, part I, p. 311; pt. II, p. 68; pt: III, " , p. 66.
४ न्यायवार्तिकस्य भूमिकायाम् ब्राह्मणेन "मा स्पृश मा स्पृश मार्जारगमनागमननिरोधार्थ स्थापितानीमानि पुस्तकानि भोजनकाले मार्जार आगमिष्यति कीदृशस्त्वं बालकवचञ्चल: सर्वमन्नपानादिकं मार्जारेण भ्रंशयिष्यसि" इत्यादिभिरनेकैर्भर्सनैरपमानितो निवारितोऽप्यह विलम्बेन भोजनं करिष्यामीति ब्रुवन् तत्र स्थितानि कतिपयपु-. स्तकपुटकानि समाकृष्टवान् । तेष्वेकस्मिन् पुटके न्यायवार्तिकस्य प्रथमाध्यायस्य त्रिसूत्रीप्रकरणं प्रमाणप्रकरणं(१) द्वितीयतृती- यावध्यायौ च सम्पूर्णी(२) लब्धवान् । ततश्चास्मद्गुरुवरम- (१) पुस्तकमिदं देवनागराक्षरैः कागजाख्याधारे लिखितं परिशुद्धं च । पेशवामहाराजसभासदा नैयायिकप्रवरण श्रीमे- रुशास्त्रिणा लिखितेन वाराणसीस्थेन न्यायदर्शनवात्स्यायनभाष्य- पुस्तकेन संवादादिदं वार्त्तिकपुस्तकमपि तेनैव पण्डितेम लिखि- तमित्यनुमीयते । अस्यैव पुस्तकस्य प्रथमपत्रे निरङ्कपृष्ठे । प्र०२८०० द्वि०२३०० तृ० १६०० च०११०० प० ४३५ ८२३५ इति लेखदर्शनात् संपूर्णस्य वार्तिकग्रन्थस्य संख्यावगता। "प्र० २८००” इत्यनेन प्रथमाध्याये श्लोकसंख्या "द्वि० , २३००" इत्यनेन द्वितीयाध्याये श्लोकसंख्या एवंत्यिानेऽपि बोध्या। (२) अयं द्वितीयाध्यायो देवनागराक्षरैः कागजाख्याधारे लि. खितोऽशुद्धश्च । अत्र लेखकेन लिपिकाल एवंरूपेण लिखितः । "इत्याचार्यश्रीउद्द्योतकरकृतौ द्वितीयोऽध्यायः समाप्तः ॥ शु. भमस्तु ॥ संवत् १६०० शाके १४६५ विरोधकृत् नाम संवत्सरे पुस्तक लिषि(खि)तं वाराणसीमध्ये लिषा(खा)यितं ब्राह्मण लि- ग्रन्धप्राप्तितन्मुद्रणप्रस्तावः । हामहोपाध्यायश्रीमत्कैलासचन्द्रभट्टाचार्यशिरोमणिभिर्दत्तं प्र- थमाध्यायत्रिसूत्रीवार्तिकपुस्तकम् तत्माप्त्या चात्यन्तं हर्षितः । ततश्च क्रमशोऽन्वेषणे कृते चिरेण मिथिलादेशस्थझोपाख्य- पण्डितश्रीचण्डीश्वरसकाशात् प्रमेयप्रकरणमारभ्य प्रथमाध्याय- समाप्त्यन्तं पुस्तक(१)मुपलब्धवान् । इत्थंमध्यायत्रये सम्पन्ने वाराणसीस्थराजकीयसंस्कृतपाठशालीयपुस्तकालये वर्तमानं तृ- तीयचतुर्थाध्यायपुस्तक(२) ततश्च स्वर्गनिवासिनां भूतपूर्ववारा- णसीभूपणभूतानां श्रीविभवरामपण्डितानां पुरातनं पञ्चमा- ध्यायपुस्तक(३)मथ च वाराणसीस्थितेन :श्रीहरिनामदास- षि(खि)तं धर्मदासकायस्थ मासमाघचदि एकादशी ॥ श्रीवि- श्वेश्वरस्थानातू ॥ श्रि(शेर)साहि आलमराज्ये प्रवर्तमाने ॥" तृतीयाध्यायोऽपि तथैव लिखितो जीर्णत्वाद्याकारणानुमीयते यद्वर्षत्रिशत्याः पूर्व लिखितो भवेदिति । (१) पुस्तकमिदं मैथिलाक्षरैस्तेडेतपत्रेषु लिखितं पुरातनं जीर्ण कृमिस्पृष्टं प्रायः शुद्धं च । अन्ते लेखकेन “पुस्तकमिदं महोपा- ध्यायश्रीभवानन्दभट्टाचार्याणाम्" इति लिखितत्वात् कस्यचित्प- ण्डितस्य पुस्तकमिदमित्यवगम्यते । तेडेतपत्राणि तालपञ्चेभ्यो भिन्नानि समीचीनान्यपि भवन्ति । तेडेतफलं च सुदृढं कृष्णवर्ण भाषायां वज्रवव इति प्रसिद्धं दृष्टिदोषनिवारणार्थ बालकैर्धार्यते । (२) इदमपि मैथिलाक्षरैः कागजाख्याधारे लिखित परिशु. द्धं जीर्णम् । अत्र यद्यपि लिपिकालो न लिखितस्तथापि जीर्ण- त्वाद्याकारेण तत्सम्बद्धन्यायनिबन्धप्रकाशपुस्तकेन ल० सं० ४५६ ( लक्ष्मणसेनसंवत्सर) लिखितेन चानुमीयते तस्मिन्नेव समये लिखितं भवेदिति । (३) देवनागराक्षरैः कागजाख्याधारेषु लिखितं "१६०० विक्र- मीये संवत्सरे लिखितमिति" तत्र लिपिकालो लिखितो लेखकेन ।
न्यायवार्तिकस्य भूमिकायाम् साधुना कृपया प्रदत्तं नवीनं प्रथमाध्यायपुस्तकं(१) च प्राप्य पञ्चाध्याय्यात्मकं सम्पूर्ण न्यायवार्तिकं सङ्कलव्य(२) तमान- न्दमविन्दं यो वचसामगोचरः । "लाभाल्लोभः प्रवर्द्धत" इति न्यायवार्तिकलाभात् न्याय. वार्तिकतात्पर्यटीकाया अप्यन्वेषणे कृतेऽस्या अपि त्रीणि पुस्तकानि(३) प्राप्तानि । ततश्च क्रमशो न्यायवार्तिकतात्पर्य- टीकाया अपि व्याख्यानमुदयनाचार्यकृतं न्यायवार्तिकता- त्पर्यपरिशुद्ध्याख्य(४)मस्यापि व्याख्यानं श्रीगणेशोपा- (१) इदमशुद्धं नवीनमपि सन्दिग्धस्थले पाठापपाठनिश्चाय- कमत्यन्तमुपयोगि च । (२) एषु पञ्चस्वध्यायेषु "इति प्रमाणप्रकरणम् "इति प्रमेय- प्रकरण"मेवंरूपेण भिन्नान्येव प्रकरणानि आसन् तानि च पाचस्प- तिमिश्रकृतन्यायसूचीनिबन्धानुसारेण एकत्र सङ्कलितानि कृत्वा ग्रन्थः सम्पूर्णीकृत इति । अयं च न्यायसूचीनिबन्धोऽप्यत्र मुद्रित - एव विस्तरस्त्वग्रे वक्ष्यते। (३) प्रथमं पुस्तकं कागजाख्याधारे देवनागराक्षरैाराणस्यां लिखितम् । तत्र लेखकेन लिपिकाल एवं लिखितः । "इति वाचस्पतिमिश्रविरचितायां न्यायवार्तिकतात्पर्यटीकायां प्रथमोऽध्यायः समाप्तः। ळ् ॥ ल् ॥ ळ् ॥ स्वस्ति संवत्॥१४५४समये आश्विनवदि १० रविवासरे ॥ श्रीः ॥ ळ् ॥ ॐ नमो नारायणाय ॥ खस्ति । ॥ काशी करोतु कल्याणं विश्वेशः सर्वसम्पदः" इत्यादि । द्वितीयं तु तेडेतपत्रेषु मैथिलाक्षरैलिखितं तत्र लेखकेन लिपि- काल एवं लिखितः । “ल० सं० ४२७” ( लक्ष्मणसेनसंवत्सरे) तृतीयं कागजाख्याधारे देवनागराक्षरैलिखितं नवीनमशुद्धं च । ग्रन्थोऽयं श्लोकदशसाहस्रयात्मक इदानीं मुद्रित उपलभ्यते । (४) ग्रन्थोऽयं श्लोकद्वादशसाहस्रयात्मकः । इदानीं वङ्गदेशस्थ- एसियाटिक्सोसाइटीसभाया निदेशेन श्रीवर्द्धमानोपाध्यायकृतटी- कासहितो मुद्रितो भवतीति तद्विशेषवर्णनं तद्भूमि कायां द्रष्टव्यम् ।
अन्यप्राप्तितन्मुद्रणप्रस्तावः । ध्यायात्मजश्रीवर्द्धमानोपाध्यायविरचितं न्यायनिवन्धप्रका- शाख्य(१)मस्यापि व्याख्यानं श्रीवलभद्रमिश्रात्मजश्रीपद्मनाभ- मिश्रविरचितं वर्द्धमानन्दुनामक(२)मस्यापि व्याख्यानं तात्पर्य मण्डनाभिधं श्रीशङ्कर(३)कृतं च प्राप्तम् । एतेषां प्राप्त्या परमप्रमुदितमना एते ग्रन्थाः सर्वेषामपि विद्यानुरागिणां सुलभा भवेयुरिति चिन्तयन् मुद्रणद्वारा प्रकाशने यतमानोऽहमतिष्ठम् । अत्रान्तरे न्यायवार्तिकमन्वेषयद्भिर्वाराणस्यां समागतेः क- लिकातास्थगवर्नमेण्टसंस्कृतपाठशालाप्रधानाध्यक्षमहामहोपाध्या- यैरिदानी स्वर्गस्थैः श्रीमहेशचन्द्रन्यायरत्नभट्टाचार्य-सी. आई. ई. महाशयैरहं प्रोत्साहितो "यदेतेषां ग्रन्थानां मुद्रणं वङ्गदे- शस्थएसियाटिक्सोसाइटीसभासमादेशेन यदि भवेत् तर्हि सर्व- प्रकारेण समीचीनं भविष्यतीति" तत्र न्यायदर्शनवात्स्याय- नभाष्यस्य पृथङ् मुद्रितत्वादिदानी न्यायवार्तिकादीनां ग्रन्था- नामपि पार्थक्येनैव मुद्रणं समुचितमिति निर्धारितं तैरेव महा- शयैः । ततश्च मयानुमोदितेऽस्मिन्नर्थे उक्तमहाशयेषु कलिकाता. नगरे गतेषु उक्तसोसाइटीसम्पादकमहाशयानामपि समादेशपत्रे समागते न्यायवार्तिकमुद्रणारम्भो जात इति । .. (१) प्रन्थोऽयं श्लोकविंशतिसाहस्रयात्मकः । (२) आरम्भप्रभृत्यात्मनिरूपणान्तस्य ग्रन्थस्य पुस्तकमस्म- निकटे वर्ततेऽतः सम्पूर्णग्रन्थस्य श्लोकसंख्या इदानी कर्तुं न श- क्यते । अनेनैव पद्मनाभमिश्रेण किरणावलीप्रकाशोऽपि व्याख्या- तस्तदपि व्याख्यानं वर्द्धमानेन्दुनामकं द्रव्यग्रन्थात्मकमस्मानिक- है वर्तते तत्र श्लोकसंख्या ॥ ३००। (३) अयं शङ्करमिश्रो वा शङ्करभट्टाचार्यो वेति निर्णयस्तन्मु- द्रणावसरे भविष्यति ।
न्यायवार्तिकस्य भूमिकायाम् : तत्र च सर्वेष्वप्युपलब्धन्यायवार्तिकादर्शपुस्तकेषु / या. ख्येयत्वेन मूलत्वेन वा विन्यस्तानि न्यायसूत्राणि वार्तिकसं- श्लिष्टानि न तु पार्थक्येन, मया तु जिज्ञासूनां मुबोधार्थं तत्र तत्रैव सर्वाणि न्यायसूत्राणि स्थूलाक्षरैः पार्थक्येन मुद्रणसमये विन्यस्तानीति विज्ञेयम् । अत्रादर्शपुस्तकेषु प्रथमद्वितीयाध्यायपुस्तकानि देवनागरा- क्षरलिखितपरमादर्शपुस्तकादेवनागराक्षरैलिखितानीति लेखक- लिखितनामग्रामादिभ्योऽनुमीयते । अपराणि तृतीयचतुर्थाध्या- यपुस्तकानि देवनागराक्षरैलिखितानि प्राचीनान्यपि मैथिला- क्षरलिखितपरमादर्शपुस्तकाद्देवनागराक्षरेष्ववतारितानि यतस्ते- घु कचिद् रकारस्थाने वकारः कचिच्च वकारस्थाने रकार इत्यादि लेखोऽस्ति । अन्यानि प्रथमतृतीयचतुर्थाध्यायपुस्तका- नि मैथिलाक्षरलिखितानि किन्तु प्राचीनत्वाजीर्णत्वाद्विलुप्ता- क्षरत्वाच मैथिलानामपि दुष्पठानि ततः का कथा मादृशाना- मचिरपरिचितमैथिलाक्षराणाम् । एवं कचित् कचित तात्पर्यटी- कायामप्यव्याख्यातत्वाद् भ्रामकेष्वक्षरेषु अर्थानुसन्धानेनाक्ष- रान्तरविन्यासः कचित् सम्भवतीति भ्रान्तेः पुरुषधर्मत्वादिति तत् क्षन्तव्यं विद्वद्भिः परिश्रमवेत्तृभिरिति । मुद्रणसमयेऽस्मिन् पुस्तके पाठान्तरवोधनार्थं वाराणस्यां वृद्धब्राह्मणस्य गृहे प्राप्तं पुस्तकं प्रथमत्वेन मिथिलादेशस्थेन झोपाख्यपण्डितश्रीचण्डीश्वरशर्मणा दत्तं पुस्तकं द्वितीयत्वेन गुरुभिर्दत्तं पुस्तकं तृतीयत्वेन वाराणसीस्थराजकीयसंस्कृत- 'पाठशालीयं चतुर्थत्वेन विभवरामपण्डितानां पुस्तकं पञ्च- मत्वेन द्वितीयाध्यायमुद्रणसमये च महामहोपाध्यायश्रीगङ्गा- धरशास्त्रि- सी. आई. ई. महाशयैर्वा राणसीस्थराजकीय- ग्रन्थकचरितप्रस्तावः। ९. संस्कृतपाठशालीयभूतपूर्वाध्यापकैः प्रदत्तं द्वितीयाध्यायपुस्तकं च षष्ठत्वेनाद्वारा सूचितम् । यद्यप्यस्य न्यायवार्तिकस्य टीका आचार्यवाचस्पति- मिश्रेण कृता तस्या अपि टीका उदयनाचार्येण कृता तस्या अपि टीका वर्द्धमानोपाध्यायेन कृता एवंरूपेण टीकापरम्परा- शालिनोऽप्यस्य न्यायदर्शनरहस्यप्रकाशकम्य महानिबन्धस्य मुद्रणकार्य महानैयायिकानामप्यसाध्यं किं पुनर्मादृशानामल्प- ज्ञानां तथापि चिरेणाननुभूतमहाश्रमेणोक्तरीया वार्तिकपुस्त- कं सम्पूर्ण समाकलय्य यावच्छक्यं संशोध्य पाठान्तराणि च स- निवेश्य सर्वसाधारणविद्यानुरागिणां सौलभ्यार्थमुक्तसोसाइटी- सभानिदेशेन मुद्रितवानहमस्मि । अत्र गुणैकपक्षपातिनो नैया- यिकप्रवराः सम्पूर्ण मुद्रितपुस्तकं समधिगम्य दृष्टिपूतं कृत्वा मामकीनं परिश्रमं सफलयन्तु नैसर्गिकद्यया अस्मदृष्टिदोषजा मुद्राप्रमादजा अशुद्धीः संशोधयन्त्विति च भूयोभूय एवा- भ्यर्थये। अनेन कर्मणा प्रसीदतु सर्वान्तर्यामी श्रीपरमेश्वर इति ।। अत्र वाराणसीस्थराजकीयसंस्कृतपाठशालाभूषणभूतैरि- दानी स्वर्गस्थैर्महामहोपाध्यायैस्तार्किकशिरोमणिभिरस्मद्गुरु- वरैः श्रीद कैलासचन्द्रभट्टाचार्यमहाशयैरादशऍस्तकसम्पादन- साहाय्येन विषमस्थलव्याख्यानादिना च परममनुकम्पितो. ऽस्मि नोचेदस्य संस्करणं मम साध्यं कथमपि न भवेदिति ॥ यद्यपि कविभिः कल्पनया(१) शिष्यपशिष्यैश्च स्तु- (१) यथा माधवीये शङ्करविजये ३ सर्गे। विष्णुः पद्मपा- दाचार्योऽभूत् । वायुहस्तामलकाचार्योऽभूत् । वायुरेव तोटकाचा- र्योऽभूत् । ब्रह्मा सुरेश्वराचार्योऽभूदेवमेवाऽनेके देवाः शङ्कराचा- २ न्यायवार्तिकस्य भूमिकायाम् स्या(२) सम्पदायप्रवर्तकैश्चोत्कर्पख्यापनाय(२)अन्यैश्च साहसिकः किंवदन्तीश्रवणादिना(३) अपरैश्च हेत्वाभासैभ्रमात्मकानुमाने- र्यस्य चरणं सवितुं ब्राह्मणपुत्रा अभूवन्निति निरूपितम् । अयं माधवश्च न वेदभाष्यकर्ता पूर्वोत्तरमीमांसाव्याख्याता प- राशरस्मृत्यादिधर्मशास्त्रव्याख्याता सायनमाधवाचार्यः यतः पूर्वो- तामाख्यायिका प्रमाणोल्लेखरहितां स कथं लिखेत् । अपि च ९१३ शाकान्दे निर्मितां न्यायकन्दली चित्सुखीग्रन्थे समुद्धृतवन्तं चि. सुखाचार्य खण्डनखण्डखाद्यटीकाकारं श्रीहर्षादपि पश्चाद्भाविनं शङ्कराचार्यस्य शिष्यत्वेन च कथं लिखेत् । अपि च “वागीशाद्याः सुमनसः सर्वार्थानामुपक्रम इत्यादिमुद्राश्लोकानां शङ्करविजये- ऽभावात् । यद्यपि मुद्राश्लोकः सर्वदर्शनसंग्रहेऽपि नास्ति तथा- पि "श्रीमत्सायनदुग्धाब्धिकौस्तुभेन महौजसे"त्यादिश्लोकद- र्शनात् तस्य तत्कर्तृत्वं निर्विवादमेव । (१) गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ इत्यादि । (२) यथा रामानुजाचार्यों लक्ष्मणार्यापरनामधेयः फणिराज- शेषस्यावतारः १२० वर्षाणि भूमौ स्थितो लोकोत्तराणि कार्याणि कृतवानित्यादिप्रपन्नामृतग्रन्थे रामानुजचरितनामधेये प्रतिपादि- तम् । मध्वाचार्यस्तु वायोरवतार इत्यादिमहाभारते भविष्यत्पर्व- णि आर्यविद्यासुधाकरग्रन्थेऽपि । महाभारतस्य खिलो हरिवंशो- ऽस्यापि खिलो भविष्यत्पर्व अस्यापि खिलः कदाचिद् भवेत् ? व. ल्लभाचार्यस्तु अग्नेरवतार इत्यादिवल्लभदिग्विजयग्रन्थे । एवं नानकशाहस्य नानकचन्द्रोदयपुस्तके गोरखनाथस्य निरञ्ज- मपुराणे माहात्म्यम् । अनयैव रीत्या बहूनां निरूपणम् । (३) यथा भक्तमालाग्रन्थे १०८ भक्तानां चरितानि । मानसिंहः । हनूमान् । विभीषणः । शवरी । अजामिलः । जा टायुः। अम्बरीषः । विदुरः । सुदामा । चन्द्रहासः । शिविः । उसीचरः। द्रौपदी। वाल्मीकिः। रुक्माङ्गदः । मयूरध्वजः । प्र. हादः। निम्बादित्यः । श्रीमार्गः। रामानुजः । श्रीरङ्गः । श्रीकृष्ण- ११ । ग्रन्थकर्तृचरितप्रस्तावः । न(१)बहूनां पुरुषाणामेकनाम्ना प्रसिद्ध्यापि नाममात्रेणैवा(२). दासः । अग्रदासामरसिंहो । शङ्कराचार्यः । मण्डनमिश्रः । उद- यनाचार्यः । विठ्ठलेशः । नामदेवः । गीतगोविन्दकारजयदेवः । पद्मावती। श्रीधरस्वामी । विल्वमङ्गलः । पद्मकला । विष्णुशर्मा । शानदेवः । त्रिलोचनः । कुलशेखरः । रतिमतिः । युतिमान् । क- सवाई । राजकन्या । राजपुत्रः । वैश्यसाधुः । चतुर्भुजः । काम- धुक् । जयमल्लः । श्रीधरः। साक्षीगोपालः । रामदासः । नन्ददा- सः । आह्लदासः। रविदासः । कवीरदासः। पीपाजी। धनाभागवतः। रामराजः। सुखानन्दः। सुरसरित् । नरहरिः । माधवदासः । वृद्धा । परमानन्दः । श्रीकृष्णचैतन्यः। सूरदासः । हरिव्यासः । कृष्ण- दासः। विठ्ठल व्रिजवल्लभः । रूपसतानतः।व्यासः।गोविन्दस्वामी। मुरारिः । सदनकसाई। लड्डूदासः । सत्याराशी । लम्पा । नरसी। मीरावाई । तुलसीदासः। परशुरामः। एवमन्येऽपिबहवो निरूपिताः। एवमेव सन्तविलासग्रन्थेऽपि अनेके निरूपिताः । (१) यथा केनचिनिरूपितं "वराहमिहिराचार्यों भिल्लजातीयो वा कश्चित् शूद्र इति । उक्तं च वृहजातके। आदित्यदासतनयस्तदवाप्तबोधः काम्पिल्लके सवितृलब्धवरप्रसादः । आवन्तिको मुनिमतान्यवलोक्य यता- द्धोरां वराहमिहिरो रुचिरा व्यवत्त ॥ इति । अत्र आदित्यदासतनय इत्यत्र दासपदोपादानात् ।" वस्तुतस्तु भट्टोत्पलेन वृहज्जातकटीकायाम् । "आदित्यदासाख्यो ब्राह्मणस्तस्य तनयः पुत्रः" "चैत्रमासस्य पञ्चम्यां सितायां गुरुवासरे। वस्वष्टाष्टमिते शाके ८८८ कृतेयं विवृतिर्मया ॥" इत्युक्तत्वाद् ब्राह्मण एव । अन्येऽपीदानींतना ब्राह्मणा राखा. लदासकालिदासादिनामानो वर्तन्ते । (२) एके तु तर्कभाषाकर्तुः केशवमिश्रस्य समयनिर्णये प्रतिपा. दितवन्तः गोवर्धनेन तर्कभाषायाष्टीका रचितेति गोवर्धनसमयात् पूर्वकालभावी केशवः अपि च तर्कसंग्रहटीकापि न्यायबोधिनी १२ न्यायवार्तिकस्य भूमिकायाम् गोवर्धनेन कृता यथा। "अखिलागमसञ्चारि श्रीकृष्णाख्यं परं महः । ध्यात्वा गोवर्धनसुधीस्तनुते न्यायबोधिनीम् ॥" इति टीकामुखदर्शनादवगम्यते गोवर्धनात् पूर्वकालवी अन्न- म्भट्टोऽपि तर्कसंग्रहकारः । “शृङ्गारोत्तमसत्प्रमेयरचनैराचार्यगोव- धनस्पर्धी कोऽपि न विश्रुतः" इति गीतगोविन्दे आदावेव दर्शनात् जयदेवसमयात पूर्वकालवर्ती गोवर्द्धनाचार्यः । "ख्यातो गोवर्धनाचार्य उमापतिधरस्तथा । शरण्यो जयदेवश्च धोयी कविनृपः क्रमात् ॥ राज्ञो लक्ष्मणसेनस्य पञ्चरत्नानि संसदि ॥" इत्यनेन लक्ष्मणसेनस्य राज्ञः समये १०१० शकाब्दे वा तदा सन्ने समये जयदेवस्य स्थितिरिति निष्पन्नं भवति । श्रीरजनीका- न्तगुप्तमहाशयेन जयदेवचरितपुस्तके १३०० शकाब्दे जयदेवस्य स्थितिरनुमिता ततोऽपि जयदेवात्पूर्व गोवर्धनाचार्यस्ततोऽपि पूर्व तर्कभाषातर्कसंग्रहकाराविति । वस्तुतस्तु तर्कभाषाटीकारम्भे “यस्तर्कभाषामनुभाषते स्म गोवर्धनस्तर्ककथासु धीरः। तेनानवद्येन सुधांशुगौरी कीर्तिगुरूणाममृताधिकास्तु ॥ विजयश्रीतनूजन्मा गोवर्धन इति श्रुतः। तर्कानुभाषां तनुते विविच्य गुरुनिर्मितिम् ॥ श्रीविश्वनाथानुजपद्मनाभानुजो गरीयान् बलभद्रजन्मा । तनोति तर्कानधिगत्य सर्वान् श्रीपभनाभाद्विदुपो विनोदम्॥" इति दर्शनात् गोवर्धनः पद्मनाभमिश्रस्य भ्राता बलभद्रमिश्रस्य पुत्रः । पद्मनाभेन च किरणावलीभास्करे "उपदिष्टा गुरुचरणैरस्पृष्टा वर्धमानेन । किरणावल्यामर्थास्तन्यन्ते पद्मनाभेन ॥" "यस्तर्कदुस्तरतरार्णवकर्णधारो वेदान्तवर्मनिरताध्वगसार्थवाहः । श्रीपद्मनाभरचितेन दिवाकरण तुष्टोऽमुनास्तु सुकृती बलभद्र मिश्रः॥"
अन्धकर्तृचरितप्रस्तावः । १३ इत्युक्तत्वात वर्धमानोपाध्यायादपि पश्चात्कालभावीत्यर्वाचीनः सः यत उदयनाचार्य न्यायलीलावत्या प्रमाणयति न्यायलीलाव- तीकारः सा च वर्द्धमानोपाध्यायेन व्याख्याता इति ॥ अपि च शुक्लयजुःसंहिताभाष्यकर्तुः महीधरस्य समयनिर्ण- ये १८६९ ईसवीयवर्षे सप्तेम्बरमासे पण्डितपन्न मुद्रितं जयचन्द्रप्रद- तताम्रपत्रशासनस्थं "द्वात्रिंशदधिकद्वादशशतसंवत्सरे भाद्रे मासि शुक्लपक्षे त्रयोदश्यां तिथौ रविदिने अडतोऽपि संवत् १२३२” इत्यु- पक्रम्य “महापण्डितश्रीमहीधरपौत्राय महामिश्रपण्डितश्रीहाले- पुत्राय महापण्डितश्रीहृषीकेशशर्मणे ब्राह्मणाय" इत्युक्तं वचन- मवलम्ब्य १२३२ संवत्सरात् पूर्व महीधरस्य स्थितिनिर्णीता। वस्तुतस्तु शुक्लयजुःसंहिताभाष्यका महीधरेणात्मचरितमे वं लिखितम् । "रसवेदाङ्गभू १६४६ वर्षे मास्यसे ? धवले दले। त्रयोदश्यां रवेारे वाराणस्यां महीधरः ॥ श्रीरत्नेश्वरमिश्रस्य गुरोः केशवजन्मनः। आशया विवृतिं शौल्बी भाष्यवृत्त्यनुसारिणीम् । विदुषां सुखबोधाय व्यधाबुद्ध्यनुसारतः । भाष्यं रामकृतां वृत्तिं तारावालोच्य ? तत्त्वतः॥ नीलकण्ठो रमानाथः सिताम्भश्चन्द्रशेखरः। भैरवोऽथ कृपासिन्धुस्तेन तुभ्यान्नकेशरी ॥ इति महीधरविरचिता शुल्बसूत्रवृत्तिः समासा ॥" अत्र कदाचिदहूनां महीधराणां सम्भवोस्ति तथापि तत्कृत- ग्रन्थेषु मङ्गलश्लोकस्यैक्यात् संहितामाध्ये आदावेव "भाज्यं वि- लोक्यौव्वटमाधवीयम्" इत्युक्त्या च १३१३ शकाब्दे वर्तमानस्य माधवाचार्यस्य समयात् पश्चाद्भावी महीधर इति तु वज्र- लेपायितम् । एवं-ऋग्वेदीयसर्वानुक्रमे मेधातिथिः ऋषिः, मेधातिथिभट्टो- पि मनुस्मृतिभाध्यकारः। श्रीवाचस्पतिमिश्रो भामत्यामन्ते "त. स्मिन्महीपे महनीयकीतौ श्रीमन्नृगेऽकारि मया निबन्धः ।" नृ- न्यायवार्तिकस्य भूमिकायाम् चीनानामपि निबन्धकाराणां जीवनचरितस्य निरूपितत्वात् तथ्येनेयत्तया विवादरहितमर्वाचीनानां जीवनचरितं प्रायो नावगम्यते किं पुनश्चिरन्तनानां गोतम-कणाद-प्रभृतीनां महर्षीणामन्येषामपि ऋषिकल्पानापाचार्याणां तथापि यथोप- लब्धं सप्रमाणमत्र निरूपयामि ।। AN न्यायशास्त्रप्रणेतुर्भगवतो महर्षेोतमस्य चरितम् । तत्र तावन्न्यायशास्त्रप्रणेता भगवान् महर्षिर्गोतमः(१) क- रावण गोपाख्यानं महाभारते अनुशासनपर्वणि ७० अध्याय श्रीमद्भागव- तेऽपीत्यन्यो नृगनृपतिः । रामावतारसमये रावणों दशमुखः अ. परोऽपि लक्ष्मणोत्सवग्रन्थकतर्लक्ष्मणकायस्थस्य भ्राता इति लक्ष्मणोत्सवग्रन्थे प्रथमोल्लासे वर्णितः । वैशेषिकसूत्रकर्ता- कणादमहर्षिरपरोऽपि कणाभट्टाचार्यो भाषारतस्य कर्ता । मा- न्धाता महार्णवकर्मविपाकग्रन्थकारः अन्योऽपि मान्धाता महा. भारते राजधर्मे ६४ अध्याये निरूपितः । एवमेव वहवो वर्तन्ते । (१) मन्त्रद्रष्टृत्वमृषित्वमिति सामान्यलक्षणं मन्त्रद्रष्दृत्वे सति महद्दर्शित्वं महर्षित्वं तथा च वक्ष्यमाणरीत्या ऋग्वेदादिसूक्त-द्रष्ट त्वात् तत्त्वज्ञानानिःश्रेयसाधिमम इत्यादिशास्त्रकर्तृत्वेन महद्दशि- त्वाल्लक्षणसमन्वयः। महर्षिलक्षणं वायुपुराणे पूर्वार्द्ध ५९ अध्याये । "ऋषीत्येष गतौ धातुः श्रुतौ सत्ये तपस्यथ । एतत्सन्नियते तस्मिन् ब्रह्मणास ऋषिः स्मृतः॥७९॥” इत्यादि । “यस्मान हन्यते मानैर्महान् परिगतः पुरः । यस्माषन्ति ये धीरा महान्तं सर्वतो गुणैः॥ तस्मान्महर्षयः प्रोक्ता बुद्धः परमदर्शिनः ॥ ८२॥" विस्तरस्तु तत्रैवाथ मत्स्यपुराणे १४४ अध्याये ऽप्यनुसन्धेयः।
महर्षिगोतमचरितम् । १५ 0 स्मिन् काले कस्मिन् देशे आविरासीदिति निर्णयस्तु दूरे गत. स्तस्य नाम्न्येव विवादो वर्तते । स च गोतमो गौतमो वा ? दृश्यते चानेकत्र गोतम इति बहुत्र च गौतम इति । किन्तु नैषधचरित १७ सर्गे ७५ श्लोकः । "मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम् । गोतमं तमवेत्यैव यथा वित्थ तथैव सः(१) ॥" इति महापण्डितेन लोकोत्तरविद्यावैभवशालिना श्रीहर्षेणोक्त- त्वात(२)। न्यायसूत्रवृत्तावप्यन्ते । ऋषिलक्षणं तेषां चातुर्विध्यमुक्तं सम्प्रदायविद्भिः । यथा "ऋषीणाम् ऋषिपुत्राणामृषिकाणां स्वयम्भुवाम् । तथा नामाभिजानीयाद्यथैपां मन्त्रदृष्टयः॥ प्रवरैर्ये समाख्याता ऋपयस्ते इति श्रुतिः। तत्पुत्रपौत्रनप्तार ऋषिपुत्रा इति स्मृताः॥ राजन्यवैश्या ऋषिकास्त्रियस्तास्तिर्यग्योनयः । देवादेवाप्सरोनद्यो गन्धर्वास्ते स्वयम्भुवः॥” इति । (२) यः सचेतसां चैतन्यवतां सुखदुःखाद्यनुभवाभावात शि- लात्वाय पाषाणावस्थारूपायै मुक्तये मुक्ति प्रतिपादयितुं शास्त्रमूचे न्यायदर्शनं निर्ममे यूयं तं स्वयमेव अवेत्य विचार्यैव गोतमम् एत. नामानं मुनि यथा वित्थ जानीथ स एव तथा नान्य इत्यर्थः । स गोतमः यथा युष्माकं संमतस्तथा ममापीत्यर्थः । नायं परं नाना गोतमः किं तु प्रकृष्टो गौगौतमो महावृषभः पशुरेव । इति भगीरथादयष्टीकाकाराः। (२) श्रीहर्षेण स्वकपोलकल्पनया नोक्तमिदं किन्तु चार्वाको- क्तिरेवाक्षरशोऽनूदिता । चार्वाकस्य कथा तु महाभारते शान्तिप- र्षणि राजधर्मे ३८ । ३९ अध्याये विस्तरेण वर्तते । यथा "वैशम्पायन उवाच । ततस्तत्र तु राजानं तिष्ठन्तं भ्रातृभिः सह ।
१६ न्यायवार्तिकस्य भूमिकायाम् उवाच देवकीपुत्रः सर्वदर्शी अनार्दनः ॥ घासुदेव उवाच । ब्राह्मणास्तात लोकेऽस्मिन् अर्चनीयाः सदा मम । एते भूमिचरा देवा वाग्विषाः सुप्रसादकाः ।। पुरा कृतयुगे राजंश्चार्वाको नाम राक्षसः । तपस्तेपे महावाहो वदो बहुवार्षिकम् ॥ वरेण छन्द्यमानश्च ब्रह्मणा च पुनः पुनः । अभयं सर्वभूतेभ्यो वरयामास भारत ॥ द्विजावमानादन्यत्र प्रादाद्वरमनुत्तमम् । अभयं सर्वभूतेम्यो ददौ तस्मै जगत्पतिः ॥ सतु लब्धवरः पापो देवानमितविक्रमः। राक्षसस्तापयामास तीवकर्मा महाबलः॥" इत्युपक्रम्य "स एव निहतः शेते ब्रह्मदण्डन राक्षसः। चार्वाको नृपतिश्रेष्ठ माशुचो भरतर्षभ ।” इत्युक्तम् । अत्र केचित् वृहस्पतिशिष्य एकश्चार्वाको दुर्योधनसखः (धूर्तः) राक्षसश्चार्वाकोऽपर इति चार्वाकद्वयं निर्मूलं कल्पयन्ति । तथात्वेऽपि वेदादिनिन्दकस्य न्यायकर्तृगोतमनिरूपकस्य चार्वाकस्य नलकथा- प्रसङ्गे निरूपणान्महाभारतेऽस्य निरूपणं नासम्भवीति मन्तव्यम् । अपि च शान्तिपर्वणि मोक्षधर्मे १८६ अध्याये ।भारद्वाज उवाच । "यदि प्राणयते वायुर्वायुरेव विचेष्टते । श्वसित्याभाषने चैवं तस्माजीचो निरर्थकः।" अत्र नीलकण्ठष्टीकाकारः । नित्यं समिध्यत इति जीवस्यानौ. पाधिकं रूपं दीप्यत इत्युक्तं तल्लोकायतमते स्थित्वा आक्षिपति । यदीति । एवमेव २१८ अध्याये २३ तमे श्लोके लोकायतमतसञ्चारः कृतः "श्श्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिक"इत्यादिना । चार्वाकः चारुः लोकसम्मतो वाको वाक्यं यस्य पृषोदरादित्वात साधुः। “अत एव तस्य चार्वाकमतस्य लोकायतमित्यन्वर्थपरं नाम- धेय"मिति सर्वदर्शनसंग्रहे चार्वाकदर्शने माधवाचार्येणोक्तत्वात चार्वाको लोकायतिकश्चैक एवंति। अपरे तु "आग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् ।
महर्षिगोतमचरितम् । "एषा मुनिप्रवरगोतमसूत्रवृत्तिः(१) श्रीविश्वनाथकृतिना सुगमाल्पवर्णा । श्रीकृष्णचन्द्रचरणाम्बुजचश्चरीक- श्रीमच्छिरोमणिवचःप्रचौरकारि ॥" इति नैयायिकप्रवरेण विश्वनाथन्यायपश्चाननेनोक्तत्वात् । बुद्धिपौरुषहीनानां जीविकेति वृहस्पतिः॥” इति "त्रयो घेदस्य कर्तारो धूर्तभण्डनिशाचराः। इत्याद्यपि च वदतश्चार्वाकराक्षसस्यैवेदमपि "मुक्तये यः शि. लात्वाये"त्यादिवचनमित्यविज्ञाय न्यायशास्त्रस्य वास्तविकनिन्दा- यां तत् प्रमाणयन्ति तत्तूपहासास्पदम् राक्षसोक्तत्वेन शिष्टापरि- गृहीतत्वात् । न चैवं रीत्या गोतमनामाप्युपहासास्पदमित्यप्युच्यता- मिति वाच्यम् । वेदानां वेदसञ्जयव अग्निहोत्रस्याग्निहोत्रसज्ञ- यैवोच्चरितत्वात् । यथा च अग्निहोत्रत्रिदण्डभस्मधारणादीनां बुद्धि- पौरुषहीनानां जीविकात्वेन व्यवस्थापनं कृतम् तथैव गोतममहर्षे- र्गोतमत्वं व्यवस्थापितं महापशुत्वमिति यावत् तस्य गौतम इति नाम्नि तन्न सम्भवतीति भावः। अत्र महाभारते राजधर्मे युधिष्ठिरस्य राज्याभिषेकसमये चा- किः समायातश्चार्वाकाद् बहुपूर्वो वाल्पपूर्वो महर्षिोतम इति लौकिकानां मते निर्णयो भवितुमर्हतीति । स च समय "आसन् मघासु मुनयः शासति पृथ्वी युधिष्ठिरे नृपतौ" इत्यादिवृहत्संहितावचनेन यदा सप्तर्षयो मधानक्षुत्रे स्थि- तास्तदेति ५४०० गतवर्षासन्ने सम्भवतीति गणितशास्त्रानुसारे- गैतिहासिकवृत्तेन च न्यायदर्शनभाष्यकारवात्स्यायनचरितेऽत्रैव निपुणतरमुपपादयिष्यते। (१) अस्मन्निकटे पुण्यग्राम(पूनानगर)लिखितं पुरातनमेकं परिशुद्ध पुस्तकं वर्तते तत्राऽयमेव पाठः तथा इण्डियाआफिस्ला- इन्नेरीपुस्तकालये वर्तमाने लिखितपुस्तकेपि एवं १८२८ इसवी- यवर्षे कलिकातानगरे मुद्रिते ऽपि पुस्तके । नवीने तु क्वचित् शोध. कप्रमादादु गौतमसूत्रवृत्ति"रिति जातम् । ३ 10 १८ न्यायवार्तिकस्य भूमिकायाम् चेदादिभाष्यका श्रीमाधवाचार्येण च सर्वदर्शनसंग्रहे(१) ऽक्ष- पाददर्शने "तत्र प्रथमाध्यायस्य प्रथमाह्निके भगवता गोतमेन प्रमाणादिपदार्थनवकलक्षणनिरूपणं 'विधाये"त्यायुक्तत्वाद् श्रीजयनारायणतर्कपञ्चाननेन च वैशेषिकसूत्रविकृत्यायनेकनि- बन्धकारेण वङ्गदेशस्थ-एसिआटिक्-सोसाइटीद्वारा मुद्रिते न्या- यदर्शनपुस्तके "गोतममुनिप्रणीतं न्यायदर्शन मिति लिखि- तत्वात् । श्रीतारानाथतर्कवाचस्पतिभट्टाचार्येणापि वाचस्पत्ये वृहदभिधाने न्यायशब्दे न्यायशास्त्रस्य गोतमप्रणीतत्वेनैवावधा- रणाद् गोतम इत्येव निर्णीतं भवति । अयं च गोतमः पुरोहितत्वेन सूक्तकर्तृत्वेन वा ऋग्वेद- संहिता-तद्भाष्य-अथर्ववेदसंहिता-शतपथब्राह्मणादिषु अनेकेषु स्थलेषूक्त इत्यस्य समयादिनिर्णये वेदा एवं प्रमाणानीति । तथाहि ऋग्वेदसंहितायाम् १ अष्टके ५ अध्याये ६२ सूक्ते । सनायते गोतम इन्द्र नव्यमतक्षद्ब्रह्म हरियोजनाय । सुनीथाय नः शवसान नोधाः प्रातर्मस् धियावसुर्जगम्यात् ।। एवमेव ७७ । ७८ मुक्तयोरपि । अथर्ववेदसंहितायाम् ४ काण्डे ६ अनुवाके, १८ काण्डे ३ अनुवाकेऽपि गोतमस्य चर्चास्ति । माध्यन्दिनीये शतपथब्राह्मणे(२) १ काण्डे ४ अध्याये । "विदेघो ह माधवोऽग्निं वैश्वानरं मुखे बभार तस्य गोतमो रा- हूगण ऋषिः पुरोहित आस तस्मै ह स्मामन्व्यमाणो न प्रति- शृणोति तन्मेऽग्निर्वैश्वानरो मुखानिष्पद्याताऽइति ।" एवमेवा- (१) एसिटिक सोसाइटीमुद्रिते पुस्तके ११२ पृष्ठेऽवलोक्यम् । (२) Dr. Albrecht Weber. वेबरमहाशयमुद्रिते पुस्तके ३४ पृष्ठे द्रष्टव्यम् ।
महर्षिगोतमचरितम् । १९: ग्रेऽपि तस्मिन्नेवाध्याये। ऋग्वेदसंहिताभाष्ये प्रथमाष्टके ५ अध्याये २१ वर्गे । "त्रयोदशानुवाके एकादश सूक्तानि तत्रोपप्रयन्त इति नवर्च मथमं सूक्तम् । तत्रानुक्रम्यते । उपप्रयन्तो नव गोतमो राहूगणो गायत्रं त्विति । अस्यायमर्थः रहूगणनामा कश्चिदृषिः तस्य पुत्रो गोतमोऽस्य मुक्तस्य ऋषिरि"त्यादि । अपि च । यजुर्वेदीयकाठकोपनिषदि ५ वल्ल्याम् । छा- न्दोग्योपनिषदि ४ प्रपाठके ४ खण्डे, ५ प्रपाठके ३ । ४।५। ६ । ७।१६ । खण्डेषु । बृहदारण्यकेऽपि ४ अध्याये ६ ब्राह्म- णे गौतमस्य चर्चाया वर्तमानत्वानिश्चितं भवति गोतमस्या- पत्यं गौतमः ऋष्यन्धकवृष्णिकुरुभ्यश्च (पाणिनिः अ. ४ पा. १ सू. ११४) इत्यनेन अण्प्रत्यये कृते गोतमं विना गौतमस्या- सम्भवात् गोतम एव मूलपुरुषः । अत एव वृहदारण्यकोपनिषदि ५ अध्याये ७ ब्राह्मणे "सोऽब्रवीत् पतञ्चलं काप्यं याज्ञिकाश्च यो वै तत् काप्य सूत्रं विद्यात तश्चान्तर्यामिणमिति स ब्रह्मवित् स लोकवित् स देववित् स वेदवित् स भूतवित् स आत्मवित् स सर्ववि- दि"त्युपक्रम्य "स होवाच वायुर्वं गौतम तत्सूत्रं वायुना गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दब्धानि भवन्ति” इत्युक्तम् । अत्र शाङ्करभाष्ये "गौत- मेति गोवतः" इत्युक्तम् । अन्ये तु अस्यामेवोपनिषदि ४ अ. २ ब्रा. "इमावेव गोतमभरद्वाजांवयमेव गोतमोऽयं भर- द्वाज" इत्यत्र गोतमशब्दवदत्रापि गोतम एवेत्याहुः । यद्यपि नैषधचरितश्लोके शास्त्रमित्येवोक्तं न तु न्या. यशास्त्रमिति तथापि भगीरथ-नृहरि-नारायण-लक्ष्मणप्रभृ- न्यायवार्तिकस्य भूमिकायाम् " तितट्टीकाकारैः "शास्त्रं न्यायदर्शन" "तदत्यन्तविमोक्षोऽप. वर्ग इतिसूत्रेण" इत्यस्यैवोक्तत्वात् गोतमकृतस्य अस्यैव न्यायशास्त्रस्य ग्रहणम् । अपि च गोतमान्तरेण कृतमर्वाची- नमिदं न्यायशास्त्रमित्यपि न भ्रमितव्यम् । विश्वनाथन्याय- पश्चाननेन न्यायसूत्रवृत्तौ प्रथमाध्याये प्रथमसूत्रव्याख्याने न्यायस्य सर्वशास्त्रोत्तमत्वसाधनप्रस्तावे "तथा च न्यायो मीमांसा .धर्मशास्त्राणीति श्रुति(१)"रित्युक्तत्वात् वेदे(२) न्यायशब्दोपादानान्न्यायस्यातिचिरकालावस्थायित्वात् तत्क- (१) मुण्डकोपनिषदि प्रथममुण्डके "द्वे विद्ये वेदितव्ये इति ह स्म यह्मविदो वदन्ति परा चैवापरा च तत्र परा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिष- मिति इतिहासपुराणं न्यायो मीमांसा धर्मशास्त्राणीत्यपरा यया तदक्षरमधिगम्यते” अस्मन्निकटे वर्तमानेऽतिप्राचीने पुस्तकेऽयं पाठो वर्तते । युक्तश्चायमन्यासूपनिषत्सु मन्वादिस्मृतिध्वपि तथा पातअले व्याकरणमहाभाष्ये च इतिहासपुराणन्यायमीमांसादीनां परिकीर्तनात् शिक्षाद्यङ्गसहितानामुपनिषद्गर्भाणां चतुर्णा वेदानां प. रविद्यात्वं सर्वोत्कृष्टत्वं न्यायाधुपाङ्गसहितानामितिहासपुराणानां वे- दोपबृंहणरूपाणामपरात्वमिति विभागस्याप्यन्वर्थत्वाश्च । मुद्रितमु- ण्डकोपनिषदि तथा पाठाभावात् स चांशो निपतित इति प्रति- भाति । ऋग्वेदीयचरणव्यूहे तथा यजुर्वेदीयचरणव्यूहे ऽपि दृश्यते । तथाहि "तस्मात् साङ्गमधीत्य ब्रह्मलोके महीयते । तथा प्रतिपदम- नुपदं छन्दो भाषा धर्मो मीमांसा न्यायतर्का इत्युपाङ्गानि ।" इति । जीर्ण प्राचीनं लिखितं चरणव्यूहपुस्तकमस्मन्निकट वर्तते । तत्राप्ययं पाठो वर्तते । तत्र लेखकेन लिपिकाल एवं लिखितः "स्वस्ति संवत् १६४२ वर्षे माघवदि १२ शनौ पञ्चोलीहापैयापठनार्थ द्वि- जजनचरणपांशुधूसरमौलिना महादेवेन कृष्णार्पणबुद्ध्या लिखितं ॥" (२) श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः । मनु- स्मृतिः अ०१ श्लो० १०॥
महर्षिगोतमचरितम् । २१ तुर्गोतमस्याप्यतिचिरकालावस्थायित्वं निर्विवादमेव । अत्र श्रुतौ मीमांसाधर्मशास्त्रयोः साक्षादुक्तत्वान्न्यायशब्दवाच्ययोरपि तयो- ग्रहणं न सम्भवति तस्मान्न्यायशास्त्रस्य ऋग्वेदसंहिताशतप- यब्राह्मण-यजुर्वेदीयकाठकोपनिषत्-सामवेदीयच्छान्दोग्योपनि- षत्प्रतिपादितगोतम(१)प्रणीतत्वे नासमञ्जसमिति । एतदनु- कूलान्येव वचनानि पुराणेष्वपि उपलभ्यन्ते । तथाहि पद्मपुराणे उत्तरखण्डे २६३ अध्याये । "कणादेन तु सम्प्रोक्तं शास्त्रं वैशेषिकं महत् । गोतमेन(२) तथा न्यायं सांख्यं तु कपिलेन वै ॥ (१) केचित्तु वायुपुराणीयगयामाहात्म्ये २ अध्याये । "ब्रह्मा संभृतसंभारो मानसानृत्विजोऽसृजत् इत्युपक्रम्य । "सुकपालं गोतमं च तथा वेदशिरोव्रतम् ।" इत्युक्तं वचनमवलम्ब्य श्वेतवाराहकल्पे गोतमस्य ब्रह्मणः पु- त्रत्वं वदन्ति तथात्वे । क्षीरोदार्णवसम्भूत लक्ष्मीबन्धो निशाकर । गृहाणाऱ्या मया दत्तं गणेशप्रीतिवर्द्धनम् ॥" इति गणेशचतुर्थीव्रतकथायां दर्शनाचन्द्रमसः समुद्रादुत्पत्तिः । अपि च “ नेत्राभ्यां वारि सुस्राव दशधा द्योतयदिशः । तद्गर्भविधिना दृष्टा दिशो देव्यो धुस्तदा ॥ समेत्य धारयामासुर्न च ताः समशक्नुवन् । स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः॥ पपात भासयल्लोकाञ्छोतांशुः सर्वभावनः ॥” इति हरिवंशात् अत्रेमहर्षेर्नेत्रादुत्पत्तिः अस्य च समन्वयः कल्पमे. दाद्भवतीति गोतमोत्पत्तावपि तथैव समन्वयः कार्य इति । गया. माहात्म्ये मुद्रिते तु गौतमं चति दृश्यते । (२) अपरोऽपि गोतमो मत्स्यपुराणे ४८ अध्याये निरूपितः। अयं च उशिजान्महर्षेममतागर्भ स्थितो बृहस्पतिशापाद् दीर्घत. मा नाम (अन्धः) ऋषिरभूत् पुनः सुरभेरनुग्रहात् गोभिस्तमो ध्व.
२२ न्यायवार्तिकस्य भूमिकायाम् स्तं यस्येति निरुक्त्या गोतमः सञ्जातः । महाभारते आदिपर्वणि १०४, १०५ अध्याये दीर्घतमसो गोत- मस्योत्पत्तिः गौतमादिभिस्तत्पुत्रैश्च स्वमात्रनुचया दीर्घतमसो ग- ङ्गाजले प्रक्षेप इत्युक्तम् । अहं तु ऋग्वेदसंहिताभाष्य-शतपथब्राह्मणादीननालोच्यैव न्या- यकन्दलीभूमिकायामस्यैव गोतमस्य न्यायशास्त्रकर्तृत्वं प्रतिपा- दितवान् किन्त्विदानी तत्समालोचनाद् राहूगणस्य गोतमस्य वैदि- कसूक्तस्य ऋषित्वात् पौरोहित्याच शास्त्रकर्तृत्वसम्भवादीर्घतम- सोऽन्धस्य शास्त्रकर्तृत्वं निराकृतं भवति । अपि चानुपदमेव वक्ष्या- मि अस्य न्यायशास्त्रकर्तुर्गोतमस्य अक्षपाद इति नामान्तरम् तथा सति दीर्घतमसोऽन्धस्य गोतमस्य प्राकृते चक्षुषी एव न स्तः अ. क्षपादत्वं तु प्रमाणसहस्रेणापि भवितुं नाहतीति । अपि च मनुस्मृतौ १ अध्याये श्लो० ३४ । ३५ । "अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् । पतीन् प्रजानामसृजं महर्षीनादितो दश ॥ मरीचिमव्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रातसं वसिष्ठं च भृगु नारदमेव च ॥" इत्युक्तत्वाद् अङ्गिरा ब्रह्मणः पुत्रस्तद्वंश्यो गोतमो गोत्रप्रवर्तको यथाह मनुः। "जमदग्निर्भरद्वाजो विश्वामित्रात्रिगोतमाः। घसिष्ठकश्यपागस्त्या मुनयो गोत्रकारिणः॥ एतेषां यान्यपत्यानि तानि गोत्राणि मन्यते ॥" इदमुपलक्षणमन्येषामपि ग्रन्थान्तरे दर्शनात् । गोत्रप्रवरनिरूपकेषु ग्रन्थेषु गोतमगणे दश पठिताः । आयास्याः। शरद्वन्तः । कौमण्डाः । दीर्घतमसः । औशनसः । कारेणुपालाः । राहूगणाः । सोमराजकाः । वामदेवाः । बृहदुक्थाश्चेति । इत्यनेन राहूगणो भिन्नो गोतमो दीर्घतमाश्च भिन्न इति सिद्ध्यति। एवमध्यादीनामवान्तरभेदाः सप्रमाणं वात्स्यायनचरिते निरूपाय- प्यन्त इति ॥ अत्र गोतमस्यापत्यं पुमान् गौतमः ऋष्यन्धकवृष्णिकुरुभ्यश्च महर्षिगोतमचरितम् । २३ (पाणिनिः अ०४ पा० १ सूत्र ११४) इत्यनेन अण्प्रत्यये कृते अ. नेके गौतमाः सम्भवन्ति । तथाहि वाल्मीकि रामायणे बालका. पडे ५० सर्गे "शतानन्दं पुरस्कृत्य पुरोहितमानिन्दितः।" "प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः।” इति । "गौतमश्च शनानन्दो जनकार पुरोहितः।” इति उत्तररामच. रिते "गौतमः गोतमस्य महषैरपत्यं पुमानि"ति तट्टीकाकारः। शतानन्दस्य पिता गोतमः माता च अहल्या अस्मिन् विषये सा- धकानि बाधकानि च प्रमाणानि सङ्गिरन्ते पण्डिताः किन्तु साधके ममापि संमतिः गोतमो राहगणो विदेघराजस्य तत्रत्यस्य पुरो. हित आसीदिति शतपथब्राह्मणे प्रतिपादितमिति पूर्व पृ. १८ पं. २० दर्शितम् । तत्पुत्रस्य शतानन्दस्य जनकानां पुरोहितत्वे किमपि नासमञ्जसम् । एवं चेद्वाल्मीकिरामायणे बालकाण्डे ४८-५१ सर्गेषु मिथिलाभूमौ जनकपुरोपकण्ठे गौतमाश्रमस्य वर्णनात् तस्मिन् देशे न्यायशास्त्रस्य प्रणयनकथनं न साहसास्पदं भ. विष्यतीति । अत एव मिथिलायां न्यायचर्चाधिक्यात् उदयन- वाचस्पति-गङ्गेश-वर्धमानोपाध्यायैरनेके न्यायरहस्यग्रन्था निर्मिता इति । कचित्तु “अक्षपादः कणादश्च उलूको वत्स एव च"इत्या- दिवायुपुराणमुद्धृत्य अन्तसमये गोतमस्य प्रभासगमनेन समन्वयं दर्शयन्ति । तश्चिन्त्यम् अपवर्गनिरूपकं न्यायशास्त्र निर्मायापि किमपरमवशिष्टं यदर्थ प्रभासं गत्वा सोमशर्मणो ब्राह्मणस्य शि. ध्यतां गत इति विचारासहत्वात् । अपि चामरकोशे वुद्धनामभेदेऽपि । "सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः।" इत्यादि । "गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः।" इति । अन्यश्च । जैनतीर्थङ्करस्य २४ संख्यकस्य महावीरस्वामिनः शिष्योऽपि गौतमः यतो गौतमः पृच्छति महावीरस्वामी भ- णतीति जैनागमेषु दृष्टत्वात् ते चागमाः उभयसंवादरूपा एवेति । एतेनापि प्रमाणेन गोतमस्य चिरन्तनत्वमेव सिद्धम् ।
निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् ॥” । इत्यादि न्यायवार्तिकस्य भूमिकायाम् द्विजन्मना जैमिनिना पूर्व वेदमयार्थतः । २४ स्कन्दपुराणे कालिकाखण्डे १७ अध्याये । "गोतमः स्वेन तर्केण खण्डयन् तत्रतत्र ही"त्यादि । अपि च न्यायदर्शनवात्स्यायनभाष्येऽन्ते । “योक्षपाद(१)मृषि न्यायः प्रत्यभावदतां वरम् । तस्य वात्स्यायन इति भाष्यजातमवर्तयत् ॥” इति । न्यायवार्तिकारम्भे च । "यदक्षपादः प्रवरो मुनीनां शमाय शास्त्रं जगतो जगाद ।" इति इत्यनेनास्य गोतमस्य महर्षेः अक्षपाद इति नामान्तरं निष्पन्नं भवति । महाभारतटीकायां नलकण्ठ्यामादौ । "कणभक्षमक्षचरणं जैमिनिकपिलौ पतञ्जलिं च नुमः इति दर्शनात् अक्षचरण इत्यपि नामान्तरमेवेति ।। (१) “नैयायिकस्त्वक्षपाद” इत्यमरः । ( भट्टकीलहाननिदेशेन मुद्रितेऽमरकोशे १६७ पृष्ठे ) नैयायिकः अक्षपादः द्वे प्रमाणप्रमयसं- शयेत्यादिषोडशपदार्थवादिनो गोतमस्ये"ति तद्याख्यातारः । अ- क्षं नेत्रं दर्शनसाधनतया जातः पादेऽस्यति तदर्थः। कदाचिद्वेदव्यासापरनामधेयः कृष्णद्वैपायनमहार्ष!तमेन स- गतः इदमूचे यदनेन जीवब्रह्मणोर्भेदस्तर्केण प्रतिपादित इत्यस्य मुखं नावलोकयिष्यामीति तावदेव गोतमेन महर्षिणा व्यासस्था- वलोकनार्थ पादः प्रसारित इति पादे चक्षुः सञ्जातं ततश्च व्यासो गोतममक्षपादनाम्ना स्तुतवानिति पौराणिक कथां कथयन्ति वृद्धाः । इमामेव कथां भझ्यन्तरेण समुद्धृत्य वाचस्पत्ये बृहदभि- धानेऽक्षपादशब्दे शब्दार्थसमन्वयः कृत इति । --
न्यायशास्त्रप्रशंसा।
२५
अथ न्यायशास्त्रप्रशंसा।
अनेन गोतमेन प्रणीतस्य न्यायशास्त्रस्य सर्वविद्योत्तमत्वं
प्रतिपादयन्ति स्म श्रुतिस्मृतिपुराणेषु ।
तथाहि "न्यायो मीमांसा धर्मशास्त्राणीति श्रुतिः(१)"
मनुः।
"अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥"(२) इति ।
याज्ञवल्क्योऽपि ।
"पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥"(३) इति ।
विष्णुपुराणे च ।
"अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ।।
आयुर्वेदो धनुर्वेदो गान्धर्वश्चैव ते त्रयः ।
अर्थशास्त्रं चतुर्थ तु विद्या ह्यष्टादशैव तु ॥"(४) इति ।
अत्र कर्मोपासनाज्ञानात्मकरत्नत्रयप्रतिपादकत्वाद् वेदानां
काण्डत्रयात्मकत्वा(५)न्मीमांसापि कर्ममीमांसा भक्तिमीमांसा
(१) पुराणं न्यायो मीमांसाधर्मशास्त्राणीति आत्मोपनिषदिरखण्डे।
(२) इदं वचनं तु “वित्तस्य विद्यापरिसंख्यया मे कोटीश्चतनो
दश चाहरेतीति"
रघुवंशस्थपञ्चमसर्गस्थश्लोकव्याख्याने
मनुनाना
समुद्धृतम् ।
(३) याज्ञवल्क्यस्मृतौ १ अध्याये ३ श्लोकः । अत्र पुराणतर्कमीमां-
सति केचित् पठन्ति, अनेनापि पाठेन तर्कपदेन न्यायस्यैव ग्रहणम् ।
(४) विष्णुपुराणे ३ अंशे ६ अध्याये । एवं वायुपुराणे पूर्वार्द्ध ६१
अध्याये श्लो. ७८ । ७९ ।
(६) गीतागूढार्थप्रकाशे आरम्भ
२६ न्यायवार्तिकस्य भूमिकायाम् ब्रह्ममीमांसा चेति त्रिविधैव मीमांसापदेन ग्राह्या । परमात्म- जीवात्मनोर्भेदस्य सिद्धान्तत्वेन प्रतिपादकत्वाद्वैशेषिकसांख्य- योगानां न्यायविस्तरपदेन न्यायेऽन्तर्भाव इति प्राधान्येन न्या- यपदोपादानम् । यद्यपि सांख्ये परमात्मनिरूपण नास्ति तथापि "एकं सांख्यं च योगं च यः पश्यति स पश्यति" इति वचनप्रामाण्यात् सांख्ययोगयोरेकवाक्यतया सांख्यस्यापि ग्रहणम(१)। अत एव मनुरपि । १२ अध्याये १०६ श्लो०। "आर्ष धर्मोपदेशं च वेदशास्त्राविरोधिना। यस्तर्केणानुसन्धत्ते स धर्म वेद नेतरः ।" इति । इदमेव मनुवचन(२)मुद्भाव्य min "सच्चिदानन्दरूपं तत् पूर्व विष्णोः परं पदम् । यत्प्राप्तये समारब्धा वेदाः काण्डत्रयात्मकाः॥ कर्मोपास्तिस्तथा ज्ञानमिति काण्डत्रये क्रमात् । तदूपाष्टादशाध्यायैर्गीता काण्डत्रयात्मिका॥” इत्यादि । (१) जरनैयायिकजयन्तस्तु न्यायमञ्जयो प्रारम्भे एव । “न्याय- विस्तरशब्देनैतदेव शास्त्रमुच्यते । न्यायस्तर्कोऽनुमानं सोऽस्मिन्ने- व व्युत्पाद्यते । यतः सांख्याहतानां तावत्क्षपणकानां कीदृशमनु- मानोपदेशकौशलं कियदेव तत्तर्केण वेदप्रामाण्यं रक्ष्यते इति ना- साविह गणनाह इति ।" (२) अत्र मनुवचनं नैकदेशीयत्वेन ग्राह्यम् । मेधातिथिप्रभृति- भाष्यकारैर्मन्वर्थमुक्तावलीकारैः कुल्लूकभट्टैरपि “मनुर्वै यत्किञ्चाव- दत तद्भेषजमिति । ऋचो यजूंषि सामानि मन्त्रा आथर्वणाश्च ये । सप्तर्षिभिस्तु यत् प्रोक्तं तत्सर्व मनुरब्रवीत् ॥ इत्याधुक्तम् ॥ मनोः प्राधान्ये मन्वर्थमुक्तावल्युद्धृतच्छान्दोग्यब्राह्मणे "मनुर्वै यत्किञ्चिदवदत् तद्भेषजं भेषजताया इति ।" एवं छान्दोग्योप- न्यायशास्त्रप्रशंसा। २७. तार्किकरक्षायां(१) तर्कस्य सर्वप्रमाणानुग्राहकत्वं प्रसाधितम् एतस्मादपि तर्कनिरूपकन्यायशास्त्रस्य ग्रहण सम्भवति । अत्र तर्कशब्देन गोतमप्रणीताया आन्वीक्षिक्या एव ग्रहणम् । "आन्वीक्षिकी दण्डनीतिस्तकविद्यार्थशास्त्रयो"रित्यमरकोशात् । अत एव सर्वलिङ्गसंन्यासग्रन्थे "नैषा तर्केण मतिरापने- येति कठोपनिषदः २।९" "तर्कादिशास्त्रपठनं वर्जयेच्छुति- शासना"दित्यादिवदौन्तिकार्थः सङ्गच्छत इति । न्यायदर्श- नवात्स्यायनभाष्ये १ सूत्रव्याख्याने । "सेयमान्वीक्षिकी विद्या प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् । आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता ॥"(२) इति । निषदि ८ प्रपाठक १५ खण्डे "तद्धैतब्रह्मा प्रजापतये उवाच प्र- जापतिर्मनवे मनुः प्रजाभ्य आचार्यकुलावेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधी- यानो धार्मिकान् विदधदि"त्यादिदर्शनान्मनोः प्रशंसा वेदेऽपि वर्तत इति विज्ञेयम् । बृहस्पतिनाप्युक्तम् । "वेदार्थोपनिबद्धत्वात् प्राधान्यं हि मनोः स्मृतम् । मन्वर्थविपरीता या सा स्मृतिर्न प्रशस्यते ॥ तावच्छास्त्राणि शोभन्ते तर्कव्याकरणानि च । धर्मार्थमोक्षोपदेष्टा मनुर्यावन्न दृश्यते ॥" वचनमिदं कुल्लूकभट्टेन मनुटीकायां समुद्धृतं किन्तूपलभ्य- मानायां मुद्रितायां बृहस्पतिस्मृतौ नोपलभ्यते, उपलभ्यते च वृद्ध- बृहस्पतिस्मृतौ ग्रन्थोऽयं ३२०० श्लोकात्मको वर्तते इति श्रुतं मया श्रीगुरुचरणेभ्यः । (१) तार्किकरक्षायां दिपण्डितजर्नल्मुद्रिते पुस्तके १९५ पृष्ठेऽवलोक्यम्। (२) अस्याओं न्यायवार्तिक-न्यायत्तिकतात्पर्यटीका-न्या- २८ न्यायवार्तिकस्य भूमिकायाम् जयन्तोऽपि न्यायमअर्याख्यायां न्यायसूत्रवृत्तौ प्रथम- सूत्रावतरणिकायाम् । “इयमेवान्वीक्षिकी चतसृणां विद्या- नां मध्ये न्यायविद्या गण्यते आन्वीक्षिकी त्रयी वार्ता दण्ड- नीतिश्च शाश्वतीति । प्रत्यक्षागमाभ्यामीक्षितस्यान्वीक्षणमन्वी- क्षाऽनुमानमित्यर्थः । तदव्युत्पादकं शास्त्रमान्वीक्षिकस् । ननु चतस्रश्चेद् विद्याः कथं चतुर्दश दर्शिताः" इत्युपक्रम्य "न- न्वक्षपादात् पूर्व कुतो वेदप्रामाण्यनिश्चय आसीत् । अत्यल्प- मिदमुच्यते । जैमिनेः पूर्व केन वेदार्थो व्याख्यातः पाणिनेः पूर्व केन पदानि व्युत्पादितानि । पिङ्गलात् पूर्व केन छन्दां- सि रचितानि । आदिसर्गात् प्रभृति वेदवदिमाः विद्याः प्र. ताः । संक्षेपविस्तरविवक्षया तु तांस्तांस्तत्रतत्र कर्तृनाचक्षते" इत्यन्तेनामुमथै निपुणतरमुपपादितवान् । अत एव गङ्गशोपाध्याया अपि तत्त्वचिन्तामणी "अथ जगदेव दुःखपङ्कमग्नमुदिधीपुरष्टादशविद्यास्थानेष्व- भ्यर्हिततमामान्वीक्षिकी परमकारुणिको मुनिः प्रणिनाये" त्याधुक्तवन्तः। विश्वनाथन्यायपश्चाननास्तु न्यायसूत्रवृत्तौ प्रथमसूत्र- व्याख्याने। "श्रवणादनु पश्चादीक्षा अन्वीक्षा उन्नयनं तन्निा- हिका सेयमान्वीक्षिकी न्याय(१)तर्कादिशब्दैरपि व्यवहियते यवार्तिकतात्पर्यपरिशुद्ध्यादौ बहुविस्तरेण श्रुतिस्मृतिपुराणप्रामा- ण्येन न्यायस्य सर्वविद्योत्तमत्वं व्यवस्थाप्य प्रपञ्चितोऽतो विस्तर- भिया न निरूपितोऽस्माभिरिति । (१) न्यायदर्शनवात्स्यायनभाष्ये प्रमाणप्रमेयेत्यादिप्रथमसूत्र. व्याख्याने "कः पुनरयं न्यायः । प्रमाणैरर्थपरीक्षणं न्यायः । प्र- न्यायशास्त्रप्रशंसा। २९. तथा च न्यायो मीमांसा धर्मशास्त्राणीति श्रुतिः । पुराण- न्यायमीमांसेत्यादिस्मृतिः। मीमांसा न्यायतर्कश्च उपाङ्गः(१) परिकीर्तित इति पुराणम् । विद्यभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । त्यक्षागमाश्रितमनुमानं सान्वीक्षा प्रत्यक्षागमाभ्यामीक्षितस्यान्वी- क्षणमन्वीक्षा तया प्रवर्त्तत इत्यान्वीक्षिकी न्यायविद्या न्यायशा- स्त्रम् ।” अत्र तात्पर्यटीका “पश्चरूपश्चतूरूपो वा हेतुायः । प्रतिज्ञाद्यवयवसमूहो वा न्यायः । नीयते प्राप्यते विवक्षितार्थ- सिद्धिरनेनति न्याय इति ।" निर्णीयतेऽनेनेति न्याय इति व्युत्पत्त्या न्यायशब्दो वैदिकप- दार्थनिर्णायकेऽधिकरणभेदे प्रयुज्यते अत एव जैमिनीयन्याय- मालाविस्तरे माधवाचार्याः "सर्वे न्यायाः समर्थिता भवन्ती- ति ।” क्वचिद्धर्मशास्त्रेऽपि न्यायशास्त्रत्वेन प्रयुज्यते । काकता. लीयन्यायादौ आमाणके न्यायशब्दप्रयोगस्तु पारिभाषिकस्ते च न्याया लौकिकन्यायसंग्रहग्रन्थे ३३४ संख्यकाः पण्डितश्रीरामद- यालुशिष्यश्रीरघुनाथेन संगृहीताः । (१) वेदाङ्गानि अथर्ववेदीयमुण्डकोपनिषदि १ मुण्डके "द्वे विद्ये वेदितव्ये इति हस्म यब्रह्मविदो वदन्ति परा चैवापरा च । तत्र परा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति ॥" पाणिनीयशिक्षादौ च वेदाङ्गानां निरूपणं यथा "छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्यौतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते । शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ॥ तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥” इति वेदाङ्गोपाङ्गभेदाः शिक्षाकल्पव्याकरणभेदादयश्चतुर्वेदपरिशिष्ट. संग्रहभूभिकायां जैनेन्द्रव्याकरणभूमिकायां च निरूपयिष्यन्ते- ऽस्माभिः।
३० न्यायवार्तिकस्य भूमिकायाम् आन्वीक्षिकीं चात्मविद्यां वारिम्भॊश्च लोकतः॥इति ममुः(१) तथा । यस्तकेंणानुसन्धत्ते स धर्म वेद नेतरं इत्या- दि(२)। मोक्षधर्मे भारते । तत्रोपनिषदं तात परिशेषं तु पार्थिव । मथ्नामि मनसा तात दृष्ट्वा चौन्वीक्षिकी पराम् ॥ इत्युपनिषदर्थश्चान्वीक्षिक्यनुसारी ग्राह्य" इत्यायुक्तवन्तः । देवीपुराणे ऽपि ४५ अध्याये । "आत्मवेदनशीलत्वादन्वीक्षणपराथ वा । अन्वीक्षाकरणत्वाद्वा तस्मादान्वीक्षिकी स्मृता ॥” इति । कामन्दकोऽपि । "आन्वीक्षिकी यी वार्ता दण्डनीतिश्च शाश्वती । विद्याश्चतस्र एवैता लोकसंस्थिति हेतवः ॥ आन्वीक्षिक्याऽऽत्मविज्ञानं धर्माधर्मी त्रयीस्थितौ । अथानौँ च वार्तायां दण्डनीतौ नयानयौ ॥” इति । इमामेवान्वीक्षिकी विद्यामध्यात्मविद्यात्वेन दत्तात्रेयः अ- लर्काय प्रहादादिभ्य ऊचिवानिति श्रीमद्भागवते महापुराणे १ स्कन्धे ३ अध्याये १० । ११. श्लोके प्रतिपादितं यथा "पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचासुरये सौख्यं तच्चग्रामविनिर्णयम् ॥ षष्ठे अत्रेरपसत्वं वृतः प्राप्तो ऽनसूयया । आन्वीक्षिकीमलर्काय प्रहादादिभ्य ऊचिवान् ॥” इति । अत्र टीकाकाराः, तत्र श्रीधरस्वामी आन्वीक्षिकामात्मवि- (१) मनुस्मृतौ ७ अध्याये श्लो० ४३ । विस्तरस्तु मेधा- तिथिमाध्यादौ द्रष्टव्यः । (२) मनुस्मृतौ १२ अध्याये श्लो० १०६ ।
न्यायशास्त्रप्रशंसा। धाम् । राधारमणदासगांस्वामी अन्वीक्ष्य ते आत्मा इत्यन्वी- क्षा तामधिकृत्य ताम् । वीरराघवः आन्वीक्षिकीमध्यात्मवि- द्याम् । विजयध्वजः आन्वीक्षिकी तत्त्वविद्याम् । वल्लभा- चार्यः आन्वीक्षिकी योगपुरःसरामात्मविद्याम् । विश्वनाथ- चक्रवर्ती आन्वीक्षिकीमात्मविद्याम् । शुकदेवः अन्वीक्षिकी. मध्यात्मविद्याम् । एतेन न्यायभिन्ना आन्वीक्षिकी प्रतीयते । अत एव "आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयो"रि- त्यमरकोशेऽपि निरूपितः । "नैयायिकानां मुख्यन वरुणस्यात्मजेन च । पराजितो यत्र वन्दी विवादेन महात्मना ॥" इति महाभारतेऽपि तृतीयो नैयापिकः सङ्गच्छते अन्य. थान्वीक्षिकीत्रित यापत्तेः । अयमेवाओं न्यायनिन्दापाशंसास- मन्वये ऽग्रे विस्तरेण प्रपञ्चयिष्यते । तत्र उपनिषदर्थश्च आन्वीक्षिक्यनुसारीग्राह्य इत्यत्र "त- त्रोपनिषदं तात परिशेषं तु पार्थिवेत्यादि"महाभारतीयमो- क्षधर्म प्रमाणयन्ति स्म विश्वनाथन्यायपञ्चाननादयः परं समन्वयं तु न प्रदर्शितवन्त इति समन्वयः प्रदर्श्यते । महर्षिणा गोतमेन आन्वीक्षिकीत्यपरनामधेये न्यायशास्त्रे प्रमाणादिपदार्थनिर्वचनरूपाणि सूत्राणि(१) रचितानि उपनि- (१) पराशरोपपुराणे १८ अध्याये । "स्वप्लाक्षरमसन्दिग्धं सारवद्विश्वतो मुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥” इति । अस्मन्निकटे वर्तमाने एकस्मिन् प्राचीने व्याकरणमहाभाष्य- पुस्तके केनचित् पण्डितेन समुद्धृतम् ।
न्यायवार्तिकस्य भूमिकायाम् पत्स्वपि तत्रतत्रोपदेशप्रसङ्गेन स्वभावोत्या भङ्गचन्तरेण वा तत्तत्पदार्थज्ञापनपराणि वाक्यान्युपलभ्यन्ते इति उपनिषद्वा- क्याभिप्रायकाण्येव मूत्राणीति विज्ञायते । तथाहि । प्रमाण-प्रमेय-संशय -प्रयोजन-दृष्टान्त-सिद्धा- न्तावयव-तर्क-निर्णय-बाद-जल्प-वितण्डा-हेत्वाभास-च्छल- जाति-निग्रहस्थानानां तत्त्वज्ञानानिःश्रेयसाधिगम इति न्याय- सूत्रम् । प्रमाणम्-सौम्यत्वादेतत् प्रमाणम्-न विना प्रमाणेन प्रमेय- स्थोपलब्धिः। मैन्युपनिषदि ६।१४ , प्रमाणैरेतैरवगतः । नृसिंहोत्तरतापन्याम् ९, प्रमाणाप्रमाणसाधारणा । सर्वोपनिषत्सारे ४ , किं द्रव्यं किं स्थानं कति प्रमा- णम् । कालाग्निरुद्रोपनिषदि १ , उपनिपदः प्रमा- णम् । मुक्तिकोपनिषदि २ ॥ प्रत्यक्षम्-अनो ह वै नाम प्रत्यक्षम् । छान्दोग्ये ५ । २।१, त्वमेव प्रत्यक्ष ब्रह्मासि त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । तैत्तिरीयके । १।१।१॥ अनुमा वा अनुमानम्-वहिरात्मक्या गत्यान्तरात्मनोऽनुमीयते गतिः अन्तरात्मक्या गत्या बहिरात्मनोऽनुमीयते गतिः । मैन्युपनिषदि ६।१। उपमा वा उपमानम् सप्तविधेयं तस्योपमा। मैञ्युपनिषदि ६।२२। "अल्पाक्षरमसन्दिग्धं सारवद्विश्वतो मुखम् । सूत्रस्य लक्षणं चैतत् सहेतु अनुमापकम् ॥” इति । भामत्यां श्रीवाचस्पतिमिश्राः। "लघूनि सूचितार्थानि स्वप्लाक्षरपदानि च । सर्वतः सारभूतानि सूत्राण्याहुमनीषिणः ॥” इति । कचित्तु "बह्वर्थसूचनातू सूत्र"मित्यप्याहुः ।
न्यायशास्त्रप्रशंसा।
शब्दः-प्रज्ञया श्रोत्रं समारुह्य श्रोत्रेण सर्वाच्छब्दानाप्नोति ।
कौषीतकिब्राह्मणोप. । ३ । ६ । उपनिषदः प्रमाणम् ।
मुक्तिकोपनिषदि २॥
प्रमेयम्-प्रमेयोऽपि प्रमाणतां पृथक्त्वादुपैति । मैत्र्युपनिषदि६।१४॥
आत्मा-कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा येन वा
रूपं पश्यति येन वा शब्दं शृणोति येन वा गन्धाना-
जिघ्रति येन वा वाच्यं व्याकरोति येन वा स्वादु चास्वादु
च विजानाति । ऐतरेयोपनिषदि ३ अध्याये ।
आत्मान रथिनं विद्धि शरीर रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥
इन्द्रियाणि हयानाहुर्विषयास्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ।।
कठोप. १ अध्या० । ३ वल्ल्याम् ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ।
कठोप. ४ वल्ल्याम् ।
अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा । बृहदा.
रण्यके ४।५।१४।
आत्मा वा अरे द्रष्टव्यः श्रोतव्यः । बृहदारण्य.२।४। ५,
( आत्मगुणाः )-इच्छयामोति कैवल्यम् । अमृतविन्दु. २९,
विदेहमुक्ताविच्छा चेत् । मुक्तिकोपनिषदि १ । २९,
द्वेषश्चाणमल्लोऽयम् । कृष्णोप. १५, तत्प्रयत्नेन शोधयेत्,
मैत्र्युपनि - ६ । ३४, तत्पुरुषप्रयवसाध्यम् । मुक्ति-
कोप. २, पौरुषेण प्रयत्नेन । मुक्तिकोप. २ । ६,
अन्वेष्टव्यं प्रयत्नेन । मुक्तिकोप. ६३ ।
न्यायवार्तिकस्य भूमिकायाम् यदा वै सुखं लभते ऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यामिति सुखं भगवो विजिज्ञासे । छान्दोग्ये । ७ । २२ । १, तेषां सुखं शाश्वतं नेतरेपाम् । कठो. ५ । १२, इतरे दुःखमेवापि यन्ति । बृहदारण्यके ४ । ४ । १४, श्वेताश्वत. ३ । १० । दुःखस्यान्तं भविष्यति । श्वेताश्वत. ६ । २०, ज्ञान- मात्मनि महति नियच्छेत । कठोप. ३ । १३, अनेन ज्ञानमाप्नोति संसारार्णवनाशनम् । कैवल्य. २४ । शरीरम्-केन मुखदुःखे इति शरीरेणेति । कौपीतकि.१ । ७, प्रज्ञया शरीरं समारुह्य शरीरेण सुखदुःखे आमोति । कौषीतकि. ३ । ६, स्वे शरीरे यथाकामं परिवर्तते । बृहदारण्यके २ । १ । १८, अस्मिन् पञ्चात्मके शरीरे । गर्भोप. १ । इन्द्रियम्-भूतानीन्द्रियाणि । नृसिंहोत्तरता. ९ । दशेन्द्रियाणि महो. १ । चक्षुरादीन्द्रियं स्वतः । मुक्ति. २ । २२ । अर्थाः-शब्दस्पर्शादयो ह्यर्थाः। मैन्युप. ४ । २ । बुद्धिः-संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टितिर्मति- मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरमुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति । एतरे. योप. ३ अध्याये, बुद्धिधृतिः स्मृतिः स्मृतिः प्रज्ञानम् । मैञ्युप. ६ । ३१ । मनः-दशेन्द्रियाणि मन एकादशम् । महोप. १, हृदीन्द्रियाणि मनसा सन्निवेश्य । श्वेताश्वत. २। ८, मनः सर्वेन्द्रियाणि च । मुण्डकोप. २ । १।३, इन्द्रियैर्यनसि सम्पद्यमानैः । प्रश्नोप.३।९।
न्यायसूत्रपाठनिर्णयप्रस्तावः । का प्रेत्यभावः--अञ्जसा प्रेस सम्भवः । बृहदारण्यके ३ ।९ । २८ । फलम्-रतिमात्रं फलमस्याः । मैत्र्युप. ७ । ९ । दुःखम्-दुःखे नोद्वेगः । परमहंसोप. ३, कर्तृत्वादिदुःखनिवृत्ति- द्वारा । मुक्ति. २ । अपवर्गः-सर्गस्वर्गापवर्गहेतुः । मैन्युफ. ६।३०, अध्यवसायस्य दोषक्षयाद्धि मोक्षः । मैञ्युप. ६।३०, बद्धोऽतस्तद्विपरीतो मुक्तः । मैञ्युप. ६ । ३०, तन्निवृत्तिर्मोक्षः । सर्वोप- निषत्सारे १, मोक्षः स्याद्वासनाक्षयः । मुक्तिकोप. २०६८ अनयैव दिशा संशयादयोऽपि पदार्थास्तत्रतत्रोक्ता वेदितव्या विस्तरभयादिहोपरम्यते । एवमुपनिषत्सु तत्रतत्र तर्क-चिकित्सित-योग-वेदान्त-मी- मांसा-ऋग्यजुःसामाथर्ववेदेतिहासपुराणादिविद्यानां नामानि तत्प्रतिपाद्यविषयाश्च वर्तन्त इसवगन्तव्यम् । अत एव "आदिसर्गात् प्रभृति वेदवदिमा विद्या" इत्या- दि २९ पृष्ठोक्तजयन्तलेखोऽपि सङ्गच्छत इति । तच्च न्यायशास्त्रं(१) पश्चाध्याय्यात्मकं तथा च न्यायवा- (१) केचित्तु वात्स्यायनभाष्ये आत्मशरीरेन्द्रियार्थेत्यादिप्रमेय- सूत्रव्याख्याने “अस्त्यन्यदपि द्रव्यगुणकर्मसामान्यविशेष समवा- याः प्रमेयम् । तद्भेदेन चापरिसंख्येयम् । अस्य तु तत्त्वज्ञानादप. वर्गो मिथ्याज्ञानात् संसार इति ।” अपि च वैशेषिकशास्त्रे त्रय एव हेत्वाभासाः संक्षेपेण निरूपितास्त एव विस्तरेण पञ्च न्या- यशास्त्रे निरूपिता इत्यादिना बलवती युक्तिं प्रदर्श्य न्यायापेक्ष- या वैशेषिकस्य प्राथम्यं निरूपयन्ति । तदसत् मुक्तावलीप्रका- शादौ प्रमाणादिषोडशपदार्थानां न्यायोक्तानां वैशेषिकोक्त द्रव्यादिसप्तपदार्थेष्वन्तर्भावनिरूपणात् । सङ्क्षपस्यैव पूर्व कालाव स्थायित्वे “पदार्थो द्विविधो भावोऽ भावश्च भावःपावधः अ- न्यायवार्तिकस्य भूमिकायाम् र्तिके आरम्भे "शास्त्रं पुनः प्रमाणादिवाचकपदसमूहो, व्यूह- विशिष्टः पदं पुनर्वर्णसमूहः पदसमूहः सूत्रम् सूत्रसमूहः प्रकर- णम् प्रकरणसमूह आह्निकम् आह्निकसमूहोऽध्यायः पञ्चाध्या- यी शास्त्रम्" इति । तत्र प्रथमाध्यायान्ते । "तन्त्रप्रतिज्ञा संसारस्तनिवृत्तिश्च संविदा । उद्देशो लक्षणं चैव तत्त्वानामिह कीर्तितम् ॥" द्वितीयाध्यायान्ते । "संशयस्य प्रमाणानां विचारस्तव्यवस्थितिः । शब्दस्य तत्त्वप्रामाण्य पदार्थाचेह कीर्तिताः॥" तृतीयाध्यायान्ते । "आत्मा शरीरं करणमर्थो बुद्धिर्मनस्तथा । यद्यथा वस्तु तत्वेन तत्तथेहोपपादितम् ॥" चतुर्थाध्यायान्ते । "प्रवृत्तिदोषसम्बन्धः प्रेत्यभावः अपश्चितः । फलं दुःखं विमुक्तिश्च चतुर्थे परिकीर्तिताः ॥" पञ्चमाध्यायान्ते। "जातीनां सप्रपञ्चानां निग्रहस्थानलक्षणम् । शास्त्रस्य चोपसंहारः पञ्चमे परिकीर्तितः ॥" इत्येवम्भकारेण शास्त्रार्थसंग्रहे कृतेऽपि(१) इदानी न्यायमू- भावश्चतुर्विध" इति निरूपणात् जगदीशभट्टाचार्यकृततर्काम त-कोण्डभट्टकृतपदार्थप्रदीपिकादीनां सर्वापेक्षया प्राथम्यापत्तेश्च । (१) न्यायोक्तानां पदार्थानां संक्षेपेण निरूपणं न्यायसिद्धान्तः निरूपणं च सर्वदर्शनसंग्रहादौ श्रीमाधवाचार्यादिभिः कृतमेवेति पिष्टपेषणभियान प्रदर्शितमस्माभिः ।
न्यायसूत्रपाठनिर्णयप्रस्तावः । ३७. त्रपाठनिर्णये बहवो मतभेदा दृश्यन्ते । तत्र तावत् सूत्रपा- ठपुस्तकं द्विविधमुपलभ्यते प्राचीनं भाष्यकारसम्मतपाठानु- सारि नवीनं च विश्वनाथन्यायपञ्चाननकृतकृत्यनुसारि । किन्त्वेकं पुरातनं प्रायःशुद्धं पुण्यग्रामे (पूनानगरे) लि. खितं नैयायिकैः प्रामाणिकत्वेनावधृतं वात्स्यायनीयन्यायभा. ध्यपुस्तकमस्मन्निकटे वर्तते तत्र सर्वत्र सूत्रभाष्ययोर्मध्ये वि. रामचिह्नाभावात् सूत्राक्षराणां नवीनपुस्तकवत् गैरिकादि- ना रजितत्वाभावात् कचिच्च भाष्यकारेणापि अवतरण- व्याख्यानयोर्मध्ये सूत्राणां मिश्रणात् (१) कचिच्च स्वतन्त्रे. च्छस्य मुनेर्नियोगपर्यनुयोगानहत्वात् सूत्रकारेण यत्रयत्र ग्रन्थसङ्कोचः कृतस्तत्रतत्र वैशया) भाष्यकारेण सूत्रत्वेना- वभासमानानि बहूनि वाक्यानि रचितानि तान्यपि "स्व- पदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदु"रिति भाष्यलक्ष- णसमन्वयिना तेन व्याख्यातानीति (२) भाष्यग्रन्थेन सूत्र. पाठनिर्णयो दुरधिगम एव । सूत्राणां लघुत्वात् स्वल्पाक्षरत्वात् सर्वतः सारभूतत्वात् भाष्यसंवलितानामेव तेषां पठनपाठनयोः प्रचारश्चिरन्तनः । कुतार्किकैश्च कुहेतूत्थापनादिना स च प्रचारो कृशतां नीत इति एतावन्मानं सूत्रमेतावन्मानं भाष्यमिति निर्णयो न्या. यवार्तिककारसमयेऽपि दुरधिगम एवासीत् अत एव वा- र्तिककारोऽपि “अन्ये तु साध्य यसाधात् तद्धर्मभावित्वं (१) १ अ० १ आ० २८ सर्वतन्त्रसिद्धान्तसूत्रव्याख्याने द्रष्टव्यम् । (२) १ अ० १ आ० तदत्यन्तविमोक्षोऽपवर्ग इति २२ सूत्र- व्याख्याने द्रष्टव्यम् ।
न्यायवार्तिकस्य भूमिकायाम् दृष्टान्तस्येति सूत्रं पठन्ति" इत्यायुक्तवान् (१) किन्तु मह- र्षिणाक्षपादेन प्रणीतस्य निःश्रेयसहेतुभूतस्य शास्त्रस्य कुता- किंकाज्ञानान्धकारतिरोहितस्य प्रकाशनार्थ महाप्रदीपप्रज्वलने प्रवृत्तेन वार्तिककारेण प्रायो बहूनि सूत्राणि निर्णीतानीति तत्रतत्र वार्त्तिकदर्शनादवगतं भवति । अथ वार्तिककारकृतमूत्रनिर्णयोऽपि मन्देभ्यो नालं भवि- ष्यतीति षड्दर्शनटीकाकार आचार्यवाचस्पतिमिश्रो न्यायवा- तिकतापर्यटीकायां सूत्रपाठनिर्णयं यत्र तत्र कृत्वापि साकल्ये. न तदायार्थ न्यायसूचीनिबन्धाख्य(२) न्यायदर्शनसारार्थबोधक (१) मुद्रितवार्तिकपुस्तके पृ० १३५ पं० ९ द्रष्टव्यम् । (२) एतदनुसारेणैव विश्वनाथन्यायपञ्चाननैरपि न्यायसूत्र- वृत्तौ तत्तन्नाम्ना ८४ प्रकरणानि विभक्तानि किन्तु मुद्रितस्य तत्सूत्रवृत्तिपुस्तकस्यानवस्थितत्वात् परिशुद्ध पुस्तके तत्सर्व द्रष्टव्यम् । निबन्धोऽयं न्यायवार्तिके तृतीयखण्डेऽन्ते मुद्रितः । अ. स्माभिः समालोचितं न्यायसूचीनिवन्धे पदसंख्यायामक्षरसं- ख्यायां च लेखगणनावैषम्यं वर्तत इति । तच्च लेखकशोध- कप्रमादाजातमिति बोध्यम् । केचित्तु अस्य न्यायसूचीनिवन्धस्य न्यायवार्तिकतात्पर्यटी- कायां कचिद् विसंवाददर्शनाद्विभिन्नकर्तृकत्वं बदन्ति । तद- सत् न्यायवार्तिकटीकायामेव १ सूबव्याख्याने पृ. "त- दिदमभिधेयसम्बन्धप्रयोजनप्रतिपादनार्थकत्वं प्रथमसूत्रस्येत्यु- क्तम्" पृ. ४८ "तदेवं प्रथमसूत्रेण शास्त्रस्याभिधेयप्रयोजनस. म्बन्धान् दर्शयता पदार्थाः प्रमाणादय उद्दिष्टा” इति वैषम्य- दर्शनातू पूर्वपरग्रन्थयोर्विभिन्नकर्तृकत्वापत्तेः । आधुनिकास्तु नैतादृशो निबन्धः केनापि प्रामाणिकेनाचा. येण कस्मिंश्चिदपि शास्त्रे निर्मित इति केनचिचूर्तेनास्य सू. त्रनिर्णायकस्य ग्रन्थस्योपलब्धेः प्रदर्शनेन कीर्तिलाभेच्छया क- २ न्यायसूत्रपाठानिर्णयप्रस्तावः । ल्पितोऽयमित्युद्धोपयन्ति । तदत्यन्तदरिदायितमनोरथम् यतः ऋग्वेदीयशाकल्यसंहिताया मण्डलाध्यायसूक्तमन्त्रादीनां संख्या वाराणसीस्थराजकीयसंस्कृतपाठशालीयपुस्तकालये वर्तमाने दे. वीपुराणे २१४ पत्रे निरूपितास्ति । अपरोऽपि तन्निरूपकोऽनु. वाकानुक्रमनामा ऋग्वेदीयग्रन्थो वर्तते । यत्राध्याय-मण्डल. वर्ग -सूक्त-ऋक्-पदाक्षराणां संख्यैव प्रकाशिता । यथा "अध्यायानां चतुःषष्ठि६४र्मण्डलानि दशैव १० तु । वर्गाणां तु सहस्त्रे द्व संख्यातं च षड्डत्तरे २००६ ॥ सहसमेतत्सूक्तानां निश्चितं खालकैर्विना । दश सप्त च पठ्यन्त संख्यात वै पदक्रमम् १०१७ (१) ॥ एकर्च एकवर्गः स्यादेकश्च नवकस्तथा। द्वौ वर्गौ तु व्यचौ झयौ ब्यूनं तृचशतं स्मृतम् ।। चतुष्कं शतमेकं च चत्वारः सप्ततिस्तथा । पञ्चकानां सहस्रं तु द्वे च सप्तोत्तरे शते ।। श्रीणि शतानि षटकानां चत्वारिंशत् षट् च वर्गकाः। शतमूनविंशतिभिः सप्तकानामूनाष्टिरष्टकानाम् ।। ऋचां दश सहस्त्राणि ऋचां पञ्च शतानि च । ऋचामशीतिः पादश्च १०५८० । पारायणं सम्प्रकीर्तितम् । अर्द्धानां सहस्राणामेकविंशतिकं तथा । शतद्वयं तु द्वात्रिंशत्सपादं २१२३२ । मुनिभिः पुरा ॥ शाकल्यदृष्टं पदलक्षमकं सार्द्ध च वेदे त्रिसहनयुक्तम् । शतानि चाप्टौ दशकं द्वयं च १५३८१२ पदानि चची दश चर्चितानि ॥ एकं च शतसहस्त्रं च दश च सहस्राणि सप्त शतानि । चर्चापदानि ज्ञेयानि पदानि चान्यानि चत्वारि ॥ चत्वारि शतसहस्त्राणि द्वात्रिंशञ्चाक्षरसहस्राणि ४३२००० ॥" इति। एवं यजुर्वेद-लामवेद-अथर्ववेदीयसंहिताग्रन्थाना मन्त्रादि. संख्या वायुपुराणे पूर्वार्द्ध ५९ । ६० । ६१ आध्यायेपु निरूपिता।
न्यायवार्तिकस्य भूमिकायाम् पादम- माधवाचार्येण पराशरमाधवाख्ये पराशरस्मृतिभाष्ये ५९२ स्मृतीनां संख्या कृता । यथा "पराशरस्मृतावस्यां ग्रन्थक्लप्तिर्विविच्यते । द्वे काण्डे द्वादशाध्यायाः श्लोका अप्टोनषट्शतम् ॥" एवं महाभारते आदिपर्वणि संपूर्णस्य महाभारतस्य पर्वा- वान्तरपर्वाध्यायश्लोकानां संख्या कृता। तथा मार्कण्डेयपुराणान्तर्गतचण्डीसप्तशतीस्तोत्रस्य टीका- यामन्ते नागेशभट्टेन कात्यायनीयतन्त्रानुसारेण प्रत्येकाध्यायस्य प्रत्येकमन्त्राणामक्षराणां संख्यां प्रदर्श्य "अत्रायं गोप्यविधि"रि- त्यादिना संख्या लिखिता । यथा मार्कण्डेय उवाच ५ वैश्य उवाच २ राजोवाच ४ ऋ. षिरुवाच २७ भगवानुवाच १ ब्रह्मोवाच १ देव्युवाच ૨૨ देवा ऊचुः ३ दूत उवाच २ अर्द्धश्लोकाः ४० न्त्राः २३ पादार्द्धमन्त्राः २२ सार्द्धपादार्द्धश्लोकमन्त्राः ૨૨ श्लोकमन्त्राः ५३६ इत्थं सप्तशतमन्त्राः ७०० श्लोकसंख्या ५७८ ग्रन्थसंख्या ६०२ अक्षरसंख्या १९२७२ । अपि च महाभाष्यानुसारी पाणिनिसूत्रपाठो भिन्नः काशिका- दिवृत्त्यनुसारी च भिन्न इति नागेशभट्टेनैव । त्रीणि सूत्रसहस्राणि नव सूत्रशतानि च । चतुःषष्टि च सूत्राणि कृतवान् पाणिनिः स्वयम् ॥ महाभाष्यानुसारिपाणिनिव्याकरणसूत्रसंख्यानिर्णयः कृत इति । काशिकासम्मतश्चायं सूत्रपाठ इति प्रदर्श्य । "त्रीणि सूत्रसहस्राणि तथा नव शतानि च । चतुर्णवतिसूत्राणि पाणिनिः कृतवान् स्वयम् ॥" इत्युक्तम् । इदं पुस्तकद्वयमस्मन्निकटे वर्तते । एवं शारीरकमीमांसासूत्रपाठनिर्णयेऽपि "सूत्रं तु पञ्चपञ्चाशदुत्तरं शतपञ्चकम्"। ५५५ सूत्राणि इति वाराणसीस्थराजकीयसंस्कृतपाठशाली. यपुस्तकालये वर्तमाने शारीरकसूत्रसारार्थचन्द्रिकापुस्तके निरूपितम्।
४१ ' न्यायसूत्रपाठनिर्णयप्रस्तावः । ग्रन्थं रचितवान् । यत्र न केवलं न्यायदर्शनाध्यायाह्निकम- करणसूत्राणां संख्या निर्धारिता किन्तु पदानामक्षराणाम- पि संख्या निर्धारिता । एवमुदयनाचार्या न्यायपरिशिष्टा- ख्या(१) बोधसिद्धिर्बोधशुद्धिवेत्यपरनामधेयां न्यायमूत्रवृत्ति- मेवं महानयायिकश्रीगङ्गेशोपाध्यायात्मजवर्द्धमानोपाध्याया अपि अन्वीक्षानयतत्वबोधाख्यां न्यायसूत्रवृत्तिं निर्मितवन्त(२) इति । अपरोऽपि वाचस्पतिमिश्रो न्यायतत्त्वालोकाख्यां न्या. यसूत्रवृत्तिं रचितवान् तत्त्वचिन्तामणिप्रकाशाख्यां तत्त्वचि. न्तामणिव्याख्यामपि, तेनैव "श्रीवाचस्पतिमिश्रेण मिथिलेश्वरमरिणा(३)। लिख्यते मुनिमूर्धन्यश्रीगोतममतं महत् ॥" (१) अस्य ग्रन्थस्य खण्डितमेकं जीर्ण पुस्तकं ममान्तिके वर्तते । तट्टीकापि न्यायपरिशिष्ट प्रकाशाख्या वर्द्धमानोपाध्याय- कृता वर्तते । (२) सूत्रपाठनिर्णयार्थ तत्सारार्थनिरूपणार्थमेव वा उदयना- चार्यवर्द्धमानोपाध्यायादिभिवृत्तिग्रन्थो रचितो नो चेत् तात्पर्यप. रिशुद्धिग्रन्थेन तट्टीकया न्यायनिबन्धप्रकाशाभिधया च साशस्य व्याख्यातत्वात् किमपरमवशिष्टं यदर्थ वृत्तिग्रन्थः पार्थक्येन रचित इति । (३) "श्रीभैरवेन्द्रधरणीपतिधर्मपत्नी राजाधिराजपुरुषोत्तमदेवमाता । वाचस्पति निखिलतन्त्रविदं नियुज्य द्वैते विनिर्णयविधि विधिवत् तनोति" ॥ इति द्वैतनिर्णये। अस्य वाचस्पतिमिश्रस्य जीवनचरितमाचार्यवाचस्पतिमिश्र- जीवनचरितप्रकरणे प्रपञ्चयिष्यते । ६ ४२ न्यायवार्तिकस्य भूमिकायाम् इत्यादिना न्यायसूत्रोद्धारनामा ग्रन्थो(?) रचितः किं तु तत्र सूत्रपाठ एव न त्वपरः कश्चिल्लेखः सूत्राणां निर्णायक इति । न्याय-वैशेषिक-सांख्य-योग-कर्ममीमांसा-भक्तिमीमां- सा-ब्रह्ममीमांसाशास्त्रसूत्राणामार्षत्वादाप्तोक्तत्वाद्वा समान प्रा- माण्यमित्यत्र सन्देह एव नास्ति । इदं तु व्याख्याकाराणां व्याख्यानकौशलं यत् स्वशास्त्रोत्कर्षस्थापनायेतरमतखण्डनेन स्वमतव्यवस्थापनम् । सर्वाण्येव शास्त्राणि अनेकात्मप्रतिपाद- कानि ब्रह्ममीमांसाशास्त्र (वेदान्ते) विवादो व्याख्याकारमूलक एवेति नैव तिरोहितमस्ति दार्शनिकानाम् । तर्काप्रतिष्ठानादि- त्यादिना सूत्रेण २ । १ । ११ एतेन शिष्टापरिग्रहा अपि व्याख्याता २ । १ । १२ इत्यादिसूत्रेण च नास्तिकानामुप- निषदुक्तानां निराकरणं न तु न्यायादिदर्शनानां तत्र आर्षो- क्तत्वात् शिष्टपरिग्रहात् । किं तु शङ्कराचार्यादिभिर्हठादेव तथा व्याख्यातं सूत्रेषु तदभावादिति । यत्तु एतेन योगः प्रत्युक्त इत्यायुक्तं तत्राप्यर्थान्तरसंभवादारे व्याख्यानमपेक्षत इति । यत्तु स्कन्दपुराणीयकालिकाखण्डे १५-१८ अध्यायेषु वे- दादिविद्यानामितिहासो विस्तरेण निरूपितस्तत्रैव १७ अध्याये। "आश्वलायननामासौ शौनकात् प्राप्य चाखिलम् । संगृह्यापि च वैतानं सूत्रं होतुर्विनिर्ममे ।। आपस्तम्बो भरद्वाजः सत्याषाढो(२) महामुनिः । कात्यायनोऽथ वि-नास्तथा(?) बोधायनो मुनिः ।। तत्रैवाध्वर्युसूत्राणि निर्ममुर्यजुषां तथा । (१) अयं न्यायसूत्रोद्धारग्रन्थो विजयनगरसंस्कृतसीरीज. मुद्रितेन न्यायभाष्येण साकं मुद्रितोऽस्ति । (२) सत्याषाढ़ो हिरण्यकेश एव इति सम्प्रदायविदः । Primenews न्यायसूत्रपाठनिर्णयप्रस्तावः । जैमिनिः सामसूत्राणि निर्ममे छन्दसां ततः ॥ सर्वेषां प्रत्ययैः कर्म यज्ञीयं समभूत् तदा । गोतमः स्वेन तर्केण खण्ड यन् तत्रतत्र हि ॥ शप्तोऽथ मुनिभिस्तत्र शार्गाली योनिमृच्छति । पुनश्चानुगृहीतोऽसौ श्रुतिसिद्धान्ततर्कतः । सर्वलोकोपकाराय तव शास्त्रं भविष्यति ॥” इत्युक्तम् । तत्तु शापानुग्रहाभ्यां समन्वयनीयम् ।। प्राणतोषिणीतन्त्रे तु अष्टादशविद्यानिरूपणप्रस्तावे "गोत- मेन तथा न्याय"मित्यादिवचनानि गन्धर्वतन्त्रनाम्ना समु- द्धृय न्यायनिन्दाप्रशंसासमन्वयः कृतस्तथाहि "गन्धर्वतन्त्रे"। “गोतमप्रोक्तशास्त्रार्थनिरताः सर्व एव हि । शार्गाली योनिमापन्नाः सन्दिग्धाः सर्वकर्मसु ।। अत एव महाभारते मोक्षधर्मे काश्यपेन्द्रसंवादे । अहमासं पण्डितको हैतुको वेदनिन्दकः । आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थकाम् ।। इति प्रस्तुत्य आक्रोष्टा चातिवक्ता च ब्रह्मयज्ञेषु चै द्विजान् । यस्येयं फलनिष्पत्तिः शृगालत्वं मम द्विन ।। इति ब्राह्मणं प्रति शृगालवाक्यम् । नन्वान्वीक्षिकी दण्डनीतिस्वयी त्रिदिवसुन्दरीति' का- लीकुलसर्वस्वीयवचनेन आद्यानामसहस्रान्तर्गतत्वेनान्वीक्षिक्याः श्रीमद्दक्षिणकालिकास्वरूपाया अध्ययनरूपोपासनया यदि शृगालत्वं स्यात् तदा चतुर्वर्गफलं कुतो लब्धव्यमिति चेत् स- त्यम् आन्वीक्षिक्यध्यात्मविद्येति ब्रूमः सा च दत्तात्रेयप्रणीता न गोतमोक्ता तथा च भागवते प्रथमस्कन्धे ।
न्यायवार्तिकस्य भूमिकायाम् 'षष्ठे ऽबेरपत्यत्वं वृतः प्राप्तोऽनुसूयया । आन्वीक्षिकीमलर्काय प्रहादादिभ्य ऊचिवान् ॥ इति । अत्रिणा वृतः सन् तस्यापसत्वं प्राप्तः कथमित्याह अन- सूयया मामेवापत्यं कृतवान् इति दोषदृष्टिभकुर्वन्नित्यर्थः । शेष सुगमम् । “आन्वीक्षिकीमात्मविद्यामिति" श्रीधरस्वामिना व्याख्यातं न गोतमोक्तविद्या सा तु तर्काढयत्वेन प्रसिद्धति चेन्नैवम् तथात्वे आन्वीक्षिकी तर्कविद्यामिति मोक्षधर्मश्लोके तर्कविद्येति विशेषणम् आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशा. स्त्रयोरित्यमरसिहोक्तं न सङ्गच्छते तस्मात् तयोर्द्वयोरेवान्वीक्षि- कीति नामधेयम् । अथ तर्युक्तदोषस्तदवस्थ इति ससम् ग- न्धर्वतन्त्राभिप्रायमनालोच्य दोषमाशङ्कसे तथाहि निष्ठाया अतीतार्थाभिधायित्वाच्छार्गाली योनिमापन्नाः प्राप्ताः शृगा- लयोनिकाः सर्व एव गोतमप्रोक्तशास्त्रार्थनिरताः केवलं तर्क- शास्त्रनिपुणाः सन्तः सर्वकर्मसु सन्दिग्धा भवन्तीति वचनस्य निर्गलितार्थः । शास्त्रान्तरल्यावृत्तिस्तु निपातेन ते । अत एव 'आम्नायार्थाविवादेन न्यायचिन्तां करोति यः । तेन निःश्रेयसं प्राप्यं शार्गाली योनिमन्यथा ॥' इति पठन्ति । मोक्षधर्मश्लोकार्थस्तु तर्कविद्यामान्वीक्षिकी- मनुरक्तोऽहं द्विजानाक्रोष्टातिवक्ता च यस्य ब्राह्मणं प्रत्याक्रो- शस्य अतिवादस्य च फलनिष्पत्तिर्मम शृगालवामिति । युक्तं चैतद् वाचिकपापस्य मनुना तथात्वस्य प्रतिपादितत्वात् त. था च मनुः 'शरीरजैः कर्मदोषैर्याति स्थावरतां नरः । चाचिकैः पक्षितां याति मानसैरन्त्यजातिताम् ॥ इति । व्यज्य- - বাঘমুলাঠালায়লা। मानस- मानसपापं तु न गृहस्थानामित्यग्रे वक्ष्यते । कलीतरपरं वा तथा च भागवते प्रथमस्कन्धे 'सानुष्टि कलिं संम्राट् सारङ्ग इव सारभुक् । कुशलान्याशु सिध्यन्ति नेतराणि कृतानि यत् ॥' सारङ्गोभ्रनर इत्र सारग्राही संम्राट् राजा कलिं नानुद्वे- ष्टीत्यन्वयः । कुशलानि पुण्यानि आशु सङ्कल्पेन सिद्ध्यन्ति फलन्ति । इतराणि पापानि नाशु सिध्यन्ति यतस्तानि कृतान्येव सिद्ध्यन्ति न तु सङ्कल्पमात्रादियर्थः । सङ्कल्पः कर्म मित्यमरः । यदि तु तर्कविद्यापाठेन शृगालत्वमुच्यते तदा तु मोक्षधर्मस्थाक्रोष्टेत्यादिश्लोकस्य वैयर्थ्यं स्यादिति सुधी- भिर्विचार्यमिति ।" इत्यं च प्राणतोषिणीकृव्यवस्थाया आक्रोशस्य अतिवादस्य च फलं शुगालत्वं न त्वान्वीक्षिक्य- नुरागस्येति निष्कर्षः । यत्तु सांख्यप्रवचनभाष्ये पराशरोपपुराणनाम्ना " अक्षपादप्रणीते च काणादे सांख्ययोगयोः । त्याज्यः श्रुतिविरुद्धोंशः श्रुत्येकशरणैर्नृभिः ।। जैमिनीये च वैयासे विरुद्धांशो न कश्चन । श्रुत्या वेदार्थविज्ञाने श्रुतिपारं गतौ हि तौ ॥" इति वचनं समुद्धृतं तत्सर्वं पूर्वोक्तन्यायप्रशंसाप्रतिपादक- श्रुतिस्मृतिपुराणेतिहासादिविरुद्धत्वादेकदेशीयत्वादुपपुराणोक्त- त्वाच्चोपेक्षणीयम् । तथाहि श्रुतिस्मृतिपुराणसदाचारबलावलपरीक्षायाम् पूना. नगरस्थानन्दाश्रमयन्त्रमुद्रितगौतमप्रणीतधर्मसूत्रे २ पृष्ठे “अथ यत्र द्वे विरुद्ध तुल्यबले प्रमाणे उपनिपततः, यथा “अतिरात्रे षोडशिनं गृह्णाति" "नातिरात्रे षोडशिनं गृह्णाति" "उदिते न्यायवार्तिकस्य भूमिकायाम् जुहोति" "अनुदिते जुहोति" इतिश्रुत्योर्विरोधः, तथा "निय. मभोज्यं केशकीटावपन्नम्" इति गौतमः “पक्षिजग्धं गवाघ्रा- तमवधूतमवक्षतम् । केशकीटावपन्नं च मृत्प्रक्षेपेण शुध्यति" इति मनुः । तत्र किं कर्त्तव्यम् तुल्यबलविरोधे विकल्पः । प्रकर्ष- बोधने तु श्रुतिस्मृतिविरोधे स्मृयों नादरणीयः अतुल्यबल. त्वात् , अत एव जाबालिराह "श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरीयसी । विरोधे सदा कार्य स्मात वैदिकवत् सदा ॥" आचरात्तु स्मृति ज्ञात्वा स्मृतेश्च श्रुतिकल्पनम् । तेन यन्तरितं तेषां प्रामाण्यं विप्रकृष्यते ।। विस्तरस्तु तन्त्रवातिकाद्याकरग्रन्थतोऽवगन्तव्यः ।। यत्तु विश्वनाथन्यायपञ्चाननेन न्यायसूत्रवृत्तौ पृ.५६.१७ "निग्रहस्थानान्तःपातिनां हेत्वाभासानां पृथगभिधानप्रयोजनं जानाति भगवान् अक्षपाद एव" इत्युक्तम् । शङ्कराचार्येण वृहदारण्यकोपनिषद्भाष्ये .४ अध्यायस्य २ ब्राह्मणव्याख्याने। "अहोऽनुमानकौशलं दार्शितमपुच्छशृङ्गैस्तार्किकवलीवर्दै"रिति । विज्ञानभिक्षुणा विज्ञानामृताख्ये ब्रह्ममीमांसाभाष्ये अ- द्वैतसिद्धान्तखण्डनप्रसङ्गे "आधुनिकास्तु" "प्रच्छन्नबौद्धास्तु" इत्यादिवाक्यैः शङ्कराचार्या एव परिगृहीताः । प्रशस्तपादभाष्यटीकायां न्यायकन्दल्यां तदलं प्रकोपितैः श्रोत्रियवृद्धद्विजन्मभिरित्यादिवाक्य जैमिनीया एव परिगृहीताः। तत्सर्वं प्रस्थानभेदेन औद्धत्येन वा कृतमेवं समन्वयनीयम् ॥ आधुनिकन्यायतत्त्वविदस्तु वदन्ति । एतानि न्यायदर्श- न्यायसूत्रपाठनिर्णयप्रस्तावः । ४७. नसूत्राणि खण्डितानि(१) पुरातनान्न्यायदर्शनाद् याथातथ्ये. नोपलब्धात् केनचित् समुद्धृतानि यतः परीक्षाप्रकरणे प्रमा- णादीनां परीक्षां विहाय प्रथमतः संशयस्यैत्र परीक्षितत्वात् सकलपदार्थानां परीक्षाभावात् उद्देशक्रमपरीक्षाक्रमयोर्वेष- म्याच्च । इदं वात्स्यायनीयं न्यायभाष्यमपि विहाय किम- पि प्राचीनं न्यायभाष्यमासीत्(२) इदमुपलभ्यमानं वा. तिकमपि विहाय किमपि प्राचीनं वार्तिकमासीत्(३) हे- स्वाभासमूत्रवार्त्तिके "वार्तिकं कुर्वाणेनोक्त"मित्यायुक्तत्वात् । इदं सर्व कुकल्पनामात्र शास्त्रतात्पर्यानवबोधात् वा. चस्पतिमिश्रोदयनाचार्यवर्द्धमानोपाध्यायादिभिरचर्चितत्वाच ॥ अभिनवदार्शनिकास्तु वदन्ति “यस्मिन् समये ऋग्वे. दादिसंहिताग्रन्थानां(४) मन्वादिस्मृतीनां वायुपुराणादि- (१) विजयनगरसंस्कृतसीरीजमुद्रिते न्यायदर्शनपुस्तके सि- द्धान्तलक्षणसूत्रटिप्पण्यां द्रष्टव्यम् । (२) विजयनगरसंस्कृतसीरीजमुद्रिते न्यायदर्शनपुस्तके सि. द्धान्तलक्षणसूत्रटिप्पण्यां द्रष्टव्यम् । (३) विजयनगरसंस्कृतसीरीजमुद्रिते न्यायदर्शनपुस्तके भू. मिकायां २ पृष्ठे "सूत्रनिर्माणभाष्यनिर्मितिकालमध्ये कश्चन धार्तिकं निर्ममौ यन्नाम साम्प्रतं नोपलभ्यते यथा पाणिनीय- व्याकरणे सूत्रभाष्ययोरन्तरा कात्यायन इति तर्कयतां पाश्चा- त्यानां मतेन वार्तिकवचनानीत्यादि ।" विडिशमहाशयरुक्त एवार्थः प्रसाधितः । « Ueber Das Nyâyabhâshya ", von Ernst Windisch, Leipzig, (४) संहिताग्रन्थेषु पृथिव्यापस्तेजोवायूनामन्येषामपि स्तु- तिपराणि वाक्यानि रचितानि तेषां समूहाः सूक्तानीत्युक्तानि भवन्ति तेषां समुदायः संहितापदवाच्य इति संहितायो अ. न्वर्थ नामेति तेषां सिद्धान्तः ।
४८ न्यायवार्तिकस्य भूमिकायाम् पुराणानां च प्रणयनं तस्मिन् समये मूर्खबहुले संसारे- ऽध्यात्मविद्याया अभावात् कोऽपि पुरुषस्तद्विद्याप्रणयने न स- मर्थ आसीदिति पञ्चभिः पुरुषैरितस्ततः प्रकीर्णानि न्यायविद्या- सम्बन्धीनि ५२८ लघुवाक्यानि कल्पितानि अत एव तान्य- नवस्थितानि यतश्चतुष्पध्यायेषु आधुनिकतार्किककल्पितोदे- शलक्षणपरीक्षानुसारेण याथातथ्येन शास्त्रसमाप्तिः कृता प. ञ्चमाध्यायस्तु व्यर्थ एव ॥ एवं शारीरकमीमांसासूत्राणि १२००० नारदेन प्रणी- तानि तद्भाष्यमपि ६०००० श्लोकात्मकं महर्षिणा वायाय- णेन(१) प्रणीतम् । उपलभ्यमानानि वेदव्यासकृतित्वेन प्रसि- द्धानि शारीरकमीमांसासूत्राणि शाङ्करं तद्भाष्यमप्युपलभ्यमा- नं यमनराज्यप्राबल्य समये सर्वगोपनार्थपद्वैतसिद्धान्तप्रचारार्थ केनचिन्महाधृर्तेन • मणीतमिति ।।" अत्र परीक्षकास्तत्त्वविदस्तु वदन्ति प्रमेयसिद्धिः प्रमाणा- द्धीति अभिनवदार्शनिकैर्निरूपितेऽर्थे न किमपि प्रमाणं द- र्शितं नापि बलवती युक्तिराभिहितेति तत्सर्व खपुष्पशशवि. पाणनिरूपणायितमिति । तसिद्धान्तस्य परीक्षणेऽस्माकं वाक्यद्वयं स्फुरति । "घटं भिन्द्यात् पटं छिन्द्यात् कृत्वा रासभरोहणम् । येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ॥" "मुखमस्तीति वक्तव्यं दशहस्ता हरितकी ॥” इति । अपि च । प्रयागक्षेत्रे भूतपूर्वप्रदर्शिन्यामकः सुदीर्घका- पो लम्बग्रीवः सुपुष्टाङ्गो नातिवृद्धस्तिलकमालाधारी वैष्ण- (१) "वार्ष्यायणि"रिति तु निरुक्तग्रन्थनाना नागेशभट्टेन उमुद्धृतं वैयाकरणसिद्धान्तमञ्जूषायाम् ।
न्यायसूत्रपाठनिर्णयप्रस्तावः । ४९ । वाभासः प्रदर्शनीयपुस्तकसंग्रहभवने मिलितो यत्रान्यत्रासु. लभानि बहुमूल्यानि महाभारतादीनि पुस्तकानि स्थापिता. न्यासन् तेन महापुरुषेणोक्तम् “ममान्तिक एकमेवास्ति मह- त्पुस्तकम् यत्र भूतभविष्यद्वर्तमानानां समस्तजगतः पुस्तका- नामन्तर्भावोऽस्ति यथा वेदस्मृतिपुराणेषु तन्त्राङ्गोपाङ्गनीतिसु । कौमुदीनां सहस्राणि चन्द्रिकानां तथैव च ॥ कौस्तुभानां तु लक्षाणि दर्पणानां तथैव च । मनोरमाणां लक्षाणि प्रकाशानां तथैव च ॥ चिन्तामणीनामयुतं प्रदीपानां सहस्रकम् । लघुभाष्यमहाभाष्यटीकानां टिप्पणस्य च ।। विवरणानां च विवृतेलघुवृत्तेश्च दीधितेः । मुबोधिनीदीपिकानां प्रयुतान्यर्बुदानि च ॥ सारास्तेषां संगृहीता ग्रन्थे मार्तण्डमण्डले । तिस्रः कोटयोर्द्धकोटिश्च ग्रन्था मार्तण्डमण्डले।।"इत्यादि। अत्र परीक्षका वदन्ति । सर्वैरपि निबन्धकारैरनिबन्ध- कारैश्च विद्वद्भिरदृष्टवादनुघृतत्वादस्य ग्रन्थस्य महत्वस्य चासम्भवदोषेण दूषितत्वात् स च शविषाणायित इति ।। पाश्चात्यानुयायिनस्तु "तदर्थ यमनियमाभ्यामात्मसंस्का- रो योगाचाध्यात्मविध्युपायैः” (४ अ. २ आ. ४६ मू. ) इति सूत्रव्याख्याने “योगशास्त्राचाध्यात्मविधिः प्रतिपत्तव्य इति भाष्यकारेणोक्तत्वात् योगशास्त्रस्य पतञ्जलिप्रणीतत्वात् पतञ्जलेश्च स्त्रीष्टान्दारम्भात् १४० वर्षेभ्यः पूर्व तदासन्न- समये वा वर्तमानत्वात तत्पश्चात्काले न्यायसूत्राणां निर्माणं जातमिति वदन्ति । तन्मन्दम् । पातञ्जले व्याकरणमहाभा- न्यायवार्तिकस्य भूमिकायाम् व्ये(१). प्रथमाह्निक एव "सप्तद्वीपा वसुमती त्रयो लोकाश्चत्वा- रो वेदाः साङ्गाः सरहस्या(२) बहुधा भिन्ना एकशत- (१) योगेन चित्तस्य पदेन वाचा मलं शरीरस्थ तु वैद्यकेन । योपाकरोत् तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥ चरक एव पतञ्जलिरिति भावप्रकाशे आयुर्वेदोत्पत्तिप्रक- रणे विस्तरेण निरूपितम् । (२) केचित्तु "रहस्यमुपनिषद् मन्वादिस्मृतयो वा" इति महाभाष्यप्रदीपोद्योते नागेशभट्टेनोक्तत्वादुपनिषदर्थप्रतिपादक- त्वान्न्यायमीमांसाधर्मशास्त्राणां तत्र गतार्थत्वात् तेषामुपादान- स्य पौनरुक्त्यमुद्भाव्य तत्पाठस्य प्रक्षिप्तत्वं कल्पयन्ति तथात्वपि इतिहासः पुराणमिति पाठस्य मुद्रितामुद्रितसर्वसाधारणेषु महा- भाष्यपुस्तकेषु वर्तमानत्वात् पुराणेषु च न्यायस्य निरूपणात योगापेक्षया न्यायस्यातिपुराणत्वं दुर्वारमेव । यथा च पुराणेषु न्यायनिरूपणं तथा प्रतिपादितमधस्तात् । यद्वा "वाको वाक्यं त- कशास्त्र"मिति छान्दोग्योपनिषद्भाष्ये ७ प्रपाठके १ खण्डे शङ्करा- चार्येणोक्तत्वात् वाको वाक्यमितिप्रतिपादकव्याकरणभाण्यापेक्षया न्यायस्य प्राचीनत्वमित्याहुः। यद्वा । छान्दोग्योपनिषदि ३ प्रपाठके १७ खण्डे "तबैतद् घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाच" इति । श्रीक- ष्णेन तु भगवद्गीतायाम् ५ अध्याये। "सांख्ययोगौ पृथक् बालाः प्रवदन्ति न पण्डिताः।" "एक सांख्यं च योगं च यः पश्यति स पश्यति॥” इति । ४ अध्याये। "इमं विवस्वते योग प्रोक्तवानहमव्ययम् । विवस्वान् मनवे प्राह मनुरिक्ष्वाकवे ऽब्रवीत् ॥१॥ एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः, परन्तप ॥२॥ स एवायं मया तेऽद्य योगः प्रोक्तः परातनः ॥ ७॥"
न्यायसूत्रपाठनिर्णयप्रस्तावः। ५१ मध्वर्युशाखाः सहस्रवा सामवेदः एकविंशतिधा बाढच्यं नवधाऽथर्वणो वेदः वाको वाक्यमितिहासः पुराणं न्यायो मीमांसा धर्मशास्त्राणि वैद्यकमित्येतावान् शब्दस्य प्रयोगवि. षयः" इत्यायुक्तत्वात् योगापेक्षया न्यायस्य प्राचीनत्वसिद्धः ॥ एके निरूपयन्ति “ख्रीष्टान्दारम्भात् परं षष्ठशताब्द्याम- ते सप्तमशताब्द्यामारम्भे वा बौद्धो दिङ्नागाचार्यः प्रादु. रभूत् तन्मतखण्डनात् न्यायवार्तिककार उद्योतकराचार्यो दिङ्नागादर्वाचीनः वार्तिककारात् घर्षशतकात् पूर्व भा. ष्यकारो वात्स्यायनः भाष्यकारात्. वर्षशतकात् पूर्व वर्षश- तकद्वयाद्वा पूर्व न्यायसूत्रप्रणेता गौतमः बुद्धोऽपि गौतमः अपि च श्वेताश्वतरोपनिषदि ६ अध्याये "तत्कारणं सांख्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपापैः॥ १३ ॥" अत्रेदं न भ्रमितव्यं यत् तदानीं कापिलं सांख्यं नासीदेव ५ अध्याये ऽत्रैवोपनिषदि "ऋषि प्रसूतं कपिलं यस्तमने” इत्या- धुक्तत्वात् । देवकीपुत्रेण श्रीकृष्णेन भगवद्गीतायां १० अध्याये • "सिद्धानां कपिलो मुनिः ॥ २६ ॥" इत्युक्तत्वाच। अत्रान्वेषकंमन्याः स्वाभिप्रायसिद्धये छान्दोग्योपनिषदुक्ता देवकी भिन्ना तत्पुत्रः कृष्णोऽपि भिन्नः महाभारतभागवताधु- का देवकी भिन्ना तत्पुत्रः कृष्णोऽपि भिन्नः सांख्यकर्ता कपिलो भिन्नः उपनिषदुक्तः कपिलस्तत्कृतं सांख्यं च भिन्नमित्यादि प्र. लपन्ति । तत्तूपहासास्पदम् तथोक्तभिन्नत्वे तेषुतेषु . ग्रन्थेषु देवकीकृष्णोक्त्या तदानन्त्यप्रसङ्गात् उपस्थितं परित्यज्यानुप- स्थितकल्पने मानाभावात् तत्तुल्ययुक्तवा सूर्यचन्द्रादीनामपि प्रत्य- हमुदयास्तत्वात् स्थानान्तरे दर्शनात् परिमाणन्यूनाधिक्यदर्श- नादेषामप्यानन्त्यकल्पनापत्तरित्यलं पल्लवितेन ॥
न्यायवार्तिकस्य भूमिकायाम् जैनोऽपि गौतम आसीत् तन्नामभेदज्ञापनाय सूत्रकारस्य गौतमस्य गोतम इति नाम कल्पितम् ।" इत्यादि । अत्र समालोचयामः । महादिङ्नागादिभेदेनानेके दि. ड्नागाः सञ्जाता(१) वार्तिककारेण कस्य दिङ्नागस्य मतं खण्डितं ? यदि प्रमाणसमुच्चयग्रन्थकर्तुर्दिङ्नागस्य ग्रहणं तदा यथाकथञ्चित् आख्यायिकालापादिश्रवणेन तत्समय- निर्णयेऽपि तत्पश्चात्कालवर्तित्वं वार्तिककारस्य कथमपि भवितुं नाईति प्रमाणग्रन्थं विहायापि प्रमेयादिग्रन्थेष्वपि दिङ्नागमतखण्डनदर्शनात् सम्पूर्णन्यायग्रन्थसमालोचकदि- ङ्नागान्तरसम्भवात् । अपि च “वार्तिककारात् वर्षशतकात् पूर्व भाष्यकारो वात्स्यायनः भाष्यकारात् वर्षशतकात् पूर्व वर्षशतद्वयावा पूर्व न्यायसूत्रप्रणेता गौतमः" इति यदुक्तं तत्तु “मुखमस्तीति वक्तव्यं दशहस्ता हरीतकी"तिवत् , तत् कस्मात् प्रमाणादवगतं महाशयेनेति ? नावगम्यते । यदि सूत्रभाष्यवार्तिककाराणां पूर्वाप- 1 (१) एको दिङ्नागः सङ्घभद्रस्य प्रशिष्यः खीष्टान्दारम्भात् परं षष्ठशताब्द्यां जातः "India, what can it teach us", pp 305-307 अपरो विक्रमादित्यसभासदा कालिदासेनोक्तः विक्रमादित्य- समयश्च १९७३ वर्षेभ्यः पूर्वमिति हालसप्तशत्या निश्चीयते । महा. दिङ्नागादयोऽत्रैव ६१ पृष्ठे निरूपिता इत्यादिदिङ्नागभेदाः। अत्रैव पुस्तके इदमपि निरूपितं तावत् खीष्टान्दारम्भात् परं षष्ठशताब्द्यां मध्ये कालिदासोऽभूत् एवं चेत् षष्ठशताब्धामन्ते सप्तमशताब्यामारम्भे वा आविर्भूतं दिङ्नागं कालिदासो "दिङ्- नागानां पथि परिहरन्" इत्यादिना मेघदूते कथं लिखेदिति वद- तो व्याघातः।
न्यायसूत्रपाठनिर्णयप्रस्तावः । ५३ रभावे नियम एवैतादृशस्तदा माधवाचार्येण १३१३ शका- ब्दे(१) वर्तमानेन वेदधर्मशास्त्रमीमांसाशास्त्रादयो व्याख्या- ता इति वेदधर्मशास्त्रादिकर्तुरपि वर्तमानसमयात् पूर्व षष्ठशता- ब्द्यां सप्तमशताब्द्यामेव स्थितिः स्यादिप्ति(२) । यत्तु "न्यायसूत्रमणेता गौतमः बुद्धोऽपि गौतमः जैनोऽपि गौतम आसीत् तन्नामभेदज्ञापनाय सूत्रकारस्थ गौतमस्य गोतम इति नाम कल्पित"मित्युक्तं तस्माद् वहुः ज्ञत्वं रहस्यज्ञत्वमपि प्रकाशितं भवति । किं तु शतपथ. ब्राह्मणमत्स्यपुराणादि तु दूरे स्थितं महाशयेन नैषधचरितमपि न पठितं येन "गोतमं तमवेत्यैवेति"(३) पठित्वापि गो- तम एव तन्नाम इति निश्चितं स्यादिति । यत्तु गोतमचरितनिरूपणप्रसङ्गात् “वैशेषिकशास्त्रपणेता काणादः स च काकमांसभक्षीति" इत्यादिना एकेनैव यन्त्रण कणादमपि पेषितवाँस्तन्महदाश्चर्यम् । त्रिकाण्डशेष-मेदिनीकोशप्रामाण्यात् काणः काकस्त- मत्तीति काणादः काकमांसभक्षीति यावत्(४)। उलका एव काकमांसं भक्षन्तीति अन्वर्थ तस्य वै- ३ (१) आनन्दाश्रमसंस्कृतसीरीजनं० २ विज्ञापने ३ पृष्ठे द्रष्टव्यम् । (२) अन्वेषकंमन्यास्तु निर्धारितवन्तः प्रथमं संहिताग्र- न्धनिर्माणं ततो ब्राह्मणग्रन्थानां ततश्च सूत्र-भाग्यग्रन्थानां नि- र्माणं जातमिति । तदपि काल्पनिकमेव आश्वलायनसूत्र एव "सू- कारभाष्यकारमितिहासपुराणकार"मित्याधुक्तत्वात् । (३) नैषधचरिते १७ सर्गे ७५ श्लोकः। (8) History of Indian Literature, p. 246 न्यायवार्तिकस्य भूमिकायाम् शेषिकशास्त्रकर्तुः काणादस्य उलूक इति नाम(१) । ,पक्ष्या- स्मकत्वात् कौशिकगोत्र इति आहुण(२)इति नामान्तरं तस्य इत्यादिजैनालापान हृदि निधाय आर्यशास्त्रेतिवृत्तं सिद्धान्तयन्ति केचित् । तत्तु सर्वान् वेदान् शास्त्राणि च मिथ्यात्वेन प्रलपतः कस्याचिज्जैनस्य लेखमेव(३)मूर्ध्नि स्थाप्य कणादस्य महर्षे- (१) न्यायकन्दलीभूमिकोक्तप्रमाणेन कणभुग वा कणादो वा तस्य महर्षे म तस्मादागतं शास्त्रं काणादम् । तथैव उलूकादागतं शास्त्रमेव औलूक्यमिति औलुक्यदर्शननाम्ना माधवाचार्येण वैशे- षिकदर्शनं समुदधृतं सर्वदर्शनसङ्ग्रहे । (२) न्यायदर्शनप्रणेता राहूगणो गोतम इतीतिहास केन- चित् श्रुत्वा वैशेषिकशास्त्रतत्कर्तृकणादनिन्दासमये त्वरया नि- पीडितचेतसा कणाद एव आहुणनामा प्रलपितः । यथा च राहू गणो गोतमो न्यायप्रणेता तथा प्रतिपादितमधस्तात् । (३) तीर्थकल्पग्रन्थे "मुनीनां कोटिविंशत्या कुन्त्या च सह निवृताः। कृताहत्प्रतिमोद्धारा अत्र ते पञ्च पाण्डवाः ॥” इति । अर्हत्पूजका यदि पाण्डवास्तहि धर्मराजो युधिष्ठिर इन्द्रोऽर्जुनो वायु मोऽश्विनीकुमारौ नकुलसहदेवाविति भारतायुक्तिः कुत्र ग- च्छेदिति। भगवतो विष्णोरवतारं सर्वविद्यानिधानं वेदव्यासं चकुक्षि. त्वेन भगवन्तं पाणिनि शालातुरीयत्वेन भगवन्तं महर्षि शाकटायनं शकटाङ्गजत्वेन सर्वान् श्रोत्रियान् ब्राह्मणान् मिथ्यादृष्टित्वेन गण- रत्नमहोदध्यादौ प्रलपन्ति स्म जैनाः तत् किं वस्तुतत्त्वनिर्णाय- कमितिवृत्तनिर्धारकं वा मन्तव्यं भविष्यति ? । पुराणेषु पादपूरणा- र्थकचकारोपन्यासात् वेदव्यासश्चकुक्षिः चकारपूर्णा कुक्षिर्यस्येति व्युत्पत्त्याऽल्पज्ञ इति शालातुरो ग्रामस्तत्रभवः पाणिनि म्यः शकटाङ्गजो भारवाहकः शाकटायन इति तेषां हृदयम् । बुद्धजातके रामलक्ष्मणभरतशत्रुना मातरः सीता च तेषां भ.
++ न्यायसूत्रपाठनिर्णयप्रस्तावः। नाम प्रसह्य काणाद इति कल्पयित्वा काणशब्द कस्मिंश्चित्कोशे काकवाचकं दृष्ट्वा काकमांसभक्षीति निर्धारितवानित्ययुक्तम् । वस्तुतस्तु "कणादः काश्यपः समावित्ति" त्रिकाण्डशेषकोशा. "काश्यपोऽब्रवीदिति प्रशस्तपादभाष्याच कश्यपस्य महर्षेः पुत्रः कणाद इति"कणाद इति तस्य कापोती वृत्तिमनुतिष्ठतो रथ्यानिप. तितास्तण्डुलकणानादाय प्रत्यहं कृताहारनिमित्ता सज्ञा" । "स्वयमीश्वरः उलूकरूपधारी प्रत्यक्षीभूय द्रव्यगुणकर्मसामा- न्यविशेषसमवायलक्षणं पदार्थपदमुपदिदेशे"त्यादिपौराणिकी कथामजानन्तः। "योगाचारविभूत्या यस्तोषयित्वा महेश्वरम् । चक्रे वैशेषिकं शास्त्रं तस्मै कणभुजे नमः ॥" इतिप्रशस्तपादभाष्यमप्यवज्ञाय अपरिचितनिन्दास्तुतिवि- षया अज्ञातसिद्धान्तपूर्वपक्षास्ते व्यामोहयन्ति श्रोत्रियद्विजवाल- कान् । विस्तरस्तु न्यायकन्दलीभूमिकायां ६ । ११ पृष्ठे द्रष्टव्यः । केचिद्वदन्ति “शतपथब्राह्मणाद्युक्तो गोतमः शाक्यसिं- हो चुद्धो गौतमः इन्द्रभूतिजनगौतमच एते स्त्रीष्टान्दार- म्भात् ६०० वर्षेभ्यः पूर्वं वर्तमाना एककालावस्थायिन(१) गिनीति भगिन्या सह विवाहो जात इति वाल्मीकिरामायणा- ध्यात्मरामायणादि सर्व मिथ्यैवेति । एवं सति एकधर्मावलम्बिनिरूपितापरधर्मिकेतिहा- सादिना वस्तुस्थिति वगन्तव्या आचार्य- वाचस्पतिमिश्रेण सांख्यतत्त्वकौमुद्याम "पुरुषापसदैर्विगा- नैः पशुप्रायै"रित्यादिना बौद्धा जैनाश्च परिगृहीताः । (१) यास्कासुरायणयोः शिष्यो जातूकर्ण्य इत्यत्र शतपथब्राह्मण प्रमाणं प्रदर्य यास्कासुरायणयोः खीष्टाब्दारम्भात् पूर्व षष्ठ- शताब्द्यां स्थितिनिर्णीता । अत्र गुरुपरम्पराबोधकं दिव्यावदा- नीय ३३ अध्यायस्थं वचनं "ब्रह्मा देवानां परमतापसः इन्द्र- यथा ५६ न्यायवार्तिकस्य भूमिकायाम् आसन् परं गोतमेन तस्मिन् समये न्यायसूत्राणि प्रणी. तानि न वेति ? प्रणीतानि वा पञ्चाध्याय्यात्मकानि प्रणीतानि न वेति सन्देहः । मम तु मतं प्रथमाध्याय एवं प्रणीतो द्वितीय-तृतीय-चतुर्थाध्यायाः येषु वैशेषिक-योग-मीमांसा-वे- दान्त-बौद्धदर्शनानां समालोचनानि तेऽन्येन केनचिद्ग्रन्थ- कारेण भिन्ने समये रचिताः । एष्वध्यायेषु अनेकत्र ल. शावतारसूत्रेम्यो नागार्जुनकृतमाध्यमिकसूत्रेभ्यः आर्यदेवक- तशतकाच अक्षरशो विषयाः समुद्धृताः। एते च ग्रन्थाः स्त्री- ष्टान्दारम्भसमयनिकटवर्तिन इति ।" अत्र समालोचयामः । शतपथब्राह्मणायुक्तो गौतम इत्यत्रादिशब्देन ऋग्वेदसंहिता-अथर्ववेदसंहिता च गृहीता । तथा सति न्यायसूत्रकर्ता गोतमो बुद्धगौतमो जैनगौतमश्च एककालावस्थायिन इति ऋग्वेदसंहितादिषु गोतमोक्त्या बुद्ध- जैनगौतमात् पश्चात्कालभाविनस्ते ग्रन्था इति निष्पन्नम् । बुद्धात् पूर्वम् ऋग्वेदसंहितादयो ग्रन्था नासन्नेवेति हृदयम् । वेदधर्मशास्त्रपुराणतन्त्रादिषु यत्रयत्र गोतमशब्दाः यत्रयत्र स्य कौशिकस्य वेदार्थान् वाचयति स्म । इन्द्रः कौशिकोऽर- णेमीगौतमे (?) वेदान वाचयति । अरणेमीगौतमौ श्वेतकेतुं वेदान् वाचयतः । श्वेतकेतुः शुकं पण्डितं (?) वेदान् वाचयति ।" इत्यादि प्रदर्शितम् । अत्र शिष्यात् पूर्व गुरोः स्थितिस्तत्पूर्व शताब्द्यामिति क्रमेण निर्धारिते. खीष्टान्दारम्भात् पूर्व गौतम- स्य स्थितिः षष्टशताब्द्यामन्ते सिद्यति । एवं चेत् परमगुरोर्ब्रह्मणः स्थितिः सप्तमशताब्द्यां स- म्भवति तथा च ब्रह्मविष्णुमहेश्वराणामेककालावस्थायित्वादे- तेषां स्थितिमरणादिकं च खीष्टान्दारम्भात् सप्तमशताब्द्यांभवेदिति केम धारणीयम् ?
न्यायसूचपाठनिर्णयप्रस्तावः । ५७. वा गौतमशब्दास्तेषां वाचक एक एव पुरुषस्तेनैव न्यायशास्त्रं तेनैव धर्मशास्त्रं तेनैव पितृमेधसूत्रं तेनैव यत् कर्तव्यं तत् सर्व कु- तम्(१) अत्र गौतमीयं तन्त्रं कस्माद्विस्मृतमिति न बुद्ध्यामहे ? किन्तु प्रमेयसिद्धिः प्रमाणाद्भवतीति “इदं मया बुद्ध्यते" "इदं मया न बुद्ध्यते" इति कथनादेव कथं परमतिपत्तिर्भविष्यती- त्यपि न बुद्ध्यामहे । प्राधान्येन प्रमाणनिरूपणपरस्य न्याय- शास्त्रस्य माहात्म्यं यथा वेदधर्मशास्त्रपुराणादिषु दृश्यते तथा नैव तिरोहिनमस्ति विदुषाम् । एवं स्थिते न्यायशास्त्रस्य प्रामाण्याप्रामाण्यपरीक्षकस्य कियती सामग्न्यपेक्षितेति पूर्वो. क्तवचनान्येव बलवत्यो युक्तय इति महदाश्चर्यम् । अत्र त्रयाणां गोतमादीनामेककालावस्थायित्वमुक्त्यैत्र न सम्भवति प्रमाणाभावादिति प्रथमः । बुद्धगौतमजैन- गौतमयोर्यथाकथञ्चित् बौद्धजैनपट्टावल्यादिदर्शनात् समयनि- येऽपि शतपथब्राह्मण-(२)ऋग्वेदसंहिताथर्ववेदसंहितोक्तगो. (१) अत्र देवयाशिकलेख एव प्रमाणम् । शास्त्रत्रयस्य कर्ता एक एव मौतमः अत्र प्रमाणं स एव जानाति । अस्माभियदुक्तं योग- व्याकरण-वैद्यककर्ता एक एव पतअलिस्तत्र प्रमाणं स्कन्दपुरा- णीयागस्त्यसंहितास्थं पतञ्जल्याविर्भावप्रकरणम् । (२) नव्यास्तु इतिहासेन युक्त्या कल्पनया वा वेदानां समयनि- र्णयं तु कृतवन्त एव परं नक्षत्रग्रहगणितेन दुरुच्छेद्येन प्रकारेणापि कृतवन्त इति अल्पशानां व्यामोहनमात्रम् । वेदानां प्रणयने दे. शस्य शानाभावाद् ग्रहादीनां गणितमकिञ्चित्करं देशनिर्णयेऽपि प्रहाणां गतिरपि पुनः पुनरपि तथैव भवतीति अव्यवहितपूर्व- गतिसमय एव वेदाः प्रणीता इत्यपि स्थिरीकर्तुमशक्यमिति नैव तिरोहितमस्ति विदुषाम् । विस्तरस्तु महामहोपाध्यायश्रीसु.
न्यायवार्तिकस्य भूमिकायाम् तमस्यातिचिरन्तनस्य समयनिर्णयस्तु इदानींपर्यन्तं न जात इति द्वितीयः । त्रयाणां समानकालिकत्वे वेदानामपि तत्पश्चाद्भावित्वे बुद्धदेवेन वेदास्तर्कादीनि शास्त्राणि कथं पर्या- लोचितानीति बुद्धदेवसमानकालिकेन जैनगौतमेनापि वेदधर्म- शास्त्रपुराणतर्कादीनि शास्त्राणि कथं मिथ्याशास्त्रत्वेन(१) प्रति- धाकरद्विवेदिकताद् बनारसमेडिकलहालयन्त्रे मुद्रिताद् दिङ्मी. मांसाग्रन्थादवगन्तव्य इति नेह पिष्टपेषणभिया प्रपञ्चितमस्माभिः । (8) "Encyclopaedia of Religion and Ethics" Vol. VII p. 467, article on "Jainism" by H. Jacobi, श्वेताम्बरजैनास्त्वेवं वदन्ति २४ तीर्थङ्करो महावीरस्वामी स्वशिष्याय गौतमाय इन्द्रभूतये चतुर्दशपूर्वसञ्जकान् एकादशा- इसझकान् सिद्धान्तानुपदिदेश ते चैकादशाङ्गसमकाः ४५ भागेषु विभक्ताः यथा ११ अङ्गानि १ आचाराङ्गम् २ सूत्रकृदङ्गम् ३ स्थाना- ङ्गम् ४ समवायाङ्गम् ५ भगवतीसूत्रमित्यादिना । तत्र ४० नन्दिसूत्र- म ४१ अनुयोगद्वारसूत्रमस्ति । तत्रानुयोगद्वारसूत्रे "जं इमं अन्नाणी- हि मिच्छादिठ्ठीहिं सच्छन्दबुद्धिमइ विगप्यियंतं जहाभारहं रामायणं भीमासुरुष्क कोडल्लयं घोडयसुयं (घोडयमुह) सगडभदियाउ क- प्पासियं नागसुहुमं कणगसत्तरीवेसियं वइसेसियं बुद्धसासनं काविलं लोगायतं सद्वितंतं माढरपुराणं वागरणनाडगाइ अह- घा सावत्तरि कलाउ चत्तारिय वेया सङ्गोवङ्गा सेतं लोइयं नो आगमउ भावसुयम्” । अत्र नन्दीसूत्रे पाठान्तराणि 'कोडल्लयं' कोडिल्लयं ।अपि च 'भागवयं पाअंजली पुस्सदेवयं लेहं गणि सउणरूपं' एतावान् पाठोऽधिकः। भगवतीसूत्रे च २।१ । २० रिउव्वेय जजुब्वेय सामव्वेय अहव्व- णव्वेय इतिहासपञ्चमाणं निघंटुछट्ठाणं चउण्हंवेयाणं संगोवं- 'गाणं सरहस्साणं सारए वारए धारए पारए सडंगवी स- द्वितंतविसारए संखाणे सिक्खा कप्ये वागरणे छदे निरुत्ते जो- इसामयणे अण्णेसुय बहूसु बंभण्णएसु परिव्वायएसु नएसु न्यायसूत्रपाठनिर्णयप्रस्तावः । ५९ . पादितानीति तृतीयः । यथा च बुद्धदेवेन वेदादयः पर्या- लोचितास्तथा तेनैवोक्तं प्रदर्श्यते । ब्रह्मजालसुत्त १-३२ "इध भिक्खये एकचो समणो वा ब्राह्मणो वा तकी होति वीमंसी । सो तक्कपरियाहतं वीमंसानुचरितं सयं प. टिभानं एवं आह।" इत्यादि। अत्तनगलुवंसपुस्तके २२९ पृष्ठे "तक्कसत्थं" तर्कशास्त्रम् । ललितविस्तरेऽपि १२ अध्याये"निघण्टौ-निगमे-पुराणे- इतिहासे-वेदे-वैशेषिके-हेतुविद्याया"(१)मित्यादि । परिनिठिर याविहोत्था* इति । भगवतीसूत्रविषयकनिबन्धे वेवरमहाशयकृते २ खण्डे २४८ पृष्ठे द्रष्टव्यम् । नव्यास्तु उक्ता आगमा अतिनवीना खीष्टान्दारम्भात् प- रममुकशताब्द्याममुकशताब्द्यां प्रणीता इति । इति तु श्रूयत • एव महावीरस्वामिनः समये लेखनसम्प्रदायाभावात् गुरुप- रम्परया श्रुताः शिष्यकण्ठे स्थिताः पश्चाश्च लेखनसम्प्रदाय- प्रचारेण पुस्तकरूपेण सम्पन्ना जाता इति । यदि च लेखशब्द- स्य प्रणयनमेवार्थस्तदा विक्रमादित्यसंवत्सरारम्भात् ४७० वर्षे- भ्यः पूर्वमेव निर्वाणं गतानां महावीरस्वामिनां गौतमस्य च संवादो लेखकेन कया रीत्या दृष्टः श्रुतो वेति महान् विप्लवो भवेदिति । अत्र लेखनसम्प्रदायाभावस्यायमेवार्थो यदन्यमतावलम्बिभि- ने पाठ्या न च श्राव्या आगमा इति, न च लेखने मूर्खा अज्ञा ति जैनवृद्धा वदन्ति । (१) हेतुविद्या तु गोतमप्रोक्तं न्यायशास्त्रमेवेति महाभारतादौ सुव्यक्तम् । तथाहि "न्यायतन्त्राण्यनेकानि तेस्तैरुक्तानि वादिभिः। हेत्वागमसदाचार्ययुक्तं तदुपास्यताम् ॥" इति महाभारते शान्तिपर्वणि २१० अध्याये। *जैनप्रभाकरयन्त्रमुद्रिते सटीकभगवतीसूत्रपुस्तके १४९पृष्ठे द्रष्टव्यम्। .
६० न्यायवार्तिकस्य भुमिकायाम् अपि च बुद्धदेवस्य न्यायप्रणेतुर्गोतमस्य च एककालाव- स्थायित्वं नैव सम्भवतीति चीनदेशीया जापानदेशीयाश्च सिद्धा- न्तयन्ति तथाहि-Sadajiro Sugiura नामकजापानदेशीय. विद्वद्वरेण स्वरचिते "Hindu Logic as preserved in China and Japan" (Philadelphia, 1900; Publications of the University of Pensylvania: Series in Philosophy, No 4 ग्रन्थे २० पृष्ठे निरूपितम् । “एकस्य मते ख्री. धान्दारम्भात् १०३० वर्षेभ्यः पूर्व बुद्धदेवस्य जन्मा- भूत, द्वितीयस्य मते १०१४ वर्षेभ्यः पूर्व बुद्धदेवस्य ज. न्माभूत, तृतीयस्य मते ख्रीष्टान्दारम्भात् ७८० वर्षेभ्यः पूर्व चतुर्थस्य मते ७२३ वर्षेभ्यः पूर्व पञ्चमस्य मते ७१५ वर्षेभ्यः पूर्व षष्ठस्य मते ६८७ वर्षेभ्यः पूर्व सप्तमस्य मते ४८७ वर्षेभ्यः पूर्व बुद्धदेवस्य जन्माभूदिति ।" अत्र चीनदेशीया वहवः सिद्धान्तयन्ति खलु महाटी- काग्रन्थे १ । २२ निरूपितमस्ति "भारतवर्षे आदौ न्याय- शास्त्रप्रणेता "सक-मक"नामको ब्राह्मणोऽभूत् वस्तुतस्तत्राम "मक-सक" इति । अत्र मकशब्दचक्षुर्वाचकः सकशब्दश्च पा- देवाचक इति गुणवशादेव अक्षपाद इति तेन नाम लब्धम् । वस्तुत: गोतमनाम्नैव सर्वत्र प्रसिद्धिः । अस्याक्षपादाप- रपर्यायस्य गोतमस्याविर्भावो बुद्धदेवाद् बहुवर्षशताब्दीभ्यः पूर्वमभूदिति । many "अहमासं पण्डितको हैतुको वेदनिन्दकः । आन्वीक्षिकी तर्कविद्यामनुरक्तो निरर्थकाम् ॥ हेतुवादान् विवदता वक्ता संसत्सु हेतुमत् ॥" इत्यादि महाभारते शान्तिपर्वणि १८० अध्याये।
न्यायसूत्रपाठनिर्णयप्रस्तावः । ६१ "बुद्धदेवस्तु महादार्शनिको नाभूत् किन्तु सामाजिको वि. षयसंशोधको दयालुश्च तेन पञ्च शुद्धाः सप्त अशुद्धा(प. दार्थाः )श्चिन्तिताः(१) अर्थात् हेतवो हेत्वाभासाश्चेति सर्वे न्यायदर्शनरहस्यमनुगतम् ।" "स्त्रीष्टाविर्भावाद् द्वितीयशताब्या युर्जुनामकमहाजानि- कचौद्धपण्डितेन स्वग्रन्थे समालोचितम् ।" "Hindu Logic as preserved in China and Japan" नामक ग्रन्थे ३३ पृष्ठे महादिङ्नागस्य चरिते प्रतिपादित. म् Kwei-Ke नामकग्रन्थस्य भूमिकायाम् वसुबन्धुसमयात् परं रंकी-रंशिकीनामकयोस्तग्रन्धयोनिर्माता बोधिसत्व. दिङ्नागः भादुरभूत् स च सहस्रबुद्धान्तर्गतः पर्वते वसन् स्वकीयां ध्यानशक्तिमवर्धयत् यस्मिन् समये गम्भीरतत्वप्रति- पादकस्य तस्य ग्रन्थस्य समाप्तिरभूत तस्मिन् समये पर्वतस्य देवता तत्सन्मानार्थं भूमेरूचं सप्तपष्टिहस्तपरिमितमुच्चैः स. मारुह्यावोचदिदं खलु शाक्यबुद्धात् पर(२)मनेनैव बुद्धेन प्रथमतो न्यायशास्त्रोपरि व्याख्यानं कृतं यदि शाक्यबुद्ध इदानीं वर्त- मानश्चेत्तदा तस्याप्यादरणीयोऽयं भवेदिति ।" अनेनापीतिहा- सेनानुमितं भवति यत् शाक्यबुद्धात् पूर्वमपि गोतमप्रोक्तं न्यायशास्त्रमासीदेवेति । यच्चोक्तं "गोतमेन न्यायशास्त्रस्य प्रथमाध्याय एवं प्रणीत: द्वितीय-तृतीय-चतुर्थाध्याया अन्येन प्रणीताः बौद्धादिदर्शना- (१) Kwai-Shin-mitz, Vol. V., p. 2 seq. (२) अनेनानुमितं भवति शाक्यबुद्धेन गोतमप्रणीतं न्यायशास्त्रं पर्यालोचितमिति ।
न्यायवार्तिकस्य भूमिकायाम् नां तत्र समालोचना"दित्यादि “एवध्यायेषु लङ्कावतार- सूत्र-नागार्जुनकृतमाध्यमिकसूत्र-आर्यदेवकृतशतकेभ्योऽक्षरशो विषयाः समुद्धृताः । तस्मात् । २।३। ४। अध्याया नवीना" इति । अत्र “पञ्चममध्यायमतिगहन"मित्युदयनाचार्योत्या आ- चार्यवाचस्पतिमिश्रादीनामप्यतिगहनत्वेन प्रतीयमानः पञ्चमा- ध्यायोऽस्ति किं पुनर्मादृशानामत्यल्पज्ञानामिति जिज्ञासुरूपे. णान्वेषकेण मया पश्चमाध्यायविषये नवीनतार्किकसमालो. चनं किमपि न दृश्यते । यत्त्विदं लिखित प्रथमाध्यायेन पञ्च- माध्यायस्य सम्बन्ध एव नास्ति तन्न सम्यक् "तद्विकल्पाज्जा- तिनिग्रहस्थानबहुत्व"तिमि प्रथमाध्यायान्तिमसूत्रेण सूचित- त्वात्तद्वहुत्वनिरूपणावश्यकत्वादिति । अनुमीयते कदाचित चतुरध्याय्यात्मकमेव यथाकथञ्चिन्यायशास्त्रं तेषां मते भ- वितुमर्हति । २ । ३ । ४ । अध्यायेषु बौद्धादिदर्श- नानां समालोचनादन्येनैव नवीनेन केनचिद्रचिताः प्रथमा- ध्याय एवं गोतमेन रचित इति । परन्तु तेष्वध्यायेंषु योगं विहाय कस्यापि दर्शनशास्त्रस्य नामापि न वर्तत इति कस्माद् ज्ञातं यदिदं बौद्धस्यैव मतं मीमांसकस्यैव मतमित्यादि ? य. दि च संवादात तर्हि सूत्रेषु ये विकल्पा दृश्यन्ते तेषामाधुनिक- ब्राह्म-आर्य-परमार्थदर्शनादिग्रन्थेषु संवादादभिनवमेवेदं न्या- यशास्त्रं कथं न कल्पनीयम् ? । यदि च भाष्यकाराधनुमतव्याः ख्यानेन शास्त्रान्तरसमालोचनानवीनत्वनिष्कर्षस्तदा "आप्तोप- देशः शब्दः" १ अध्याये १ आह्निके ७ सूत्रव्याख्याने भाष्यकारे- ण “स द्विविधो दृष्टादृष्टार्थत्वा"दिति १ अ०१ आ०८ मूत्रव्या- ख्याने वार्तिककारेण च "तदेतल्लक्षणमृण्यार्यम्लेच्छानां समा- न्यायसूत्रपाठनिर्णयप्रस्तावः । . न"मिति व्याख्यातत्वात् प्रथमाध्यायोऽपि गोतमहस्तान्निप- तितश्चतुरध्याय्यात्मकमपि न कृतं गोतमेनेति निष्यन्नं भवति । वस्तुतस्तु न्यायसूत्रपाठे उद्योतकर-वाचस्पति-उदयना. चार्यादीनामपि कचित् सन्देह आसीदिति तत्रतत्र मुव्य. क्तमेव, विश्वनाथपञ्चाननेन तु न्यासूत्रवृत्तिग्रन्थे सुस्पष्ट- तया "नेदं सूत्रं किन्तु भाष्य"मित्याद्युक्तमेव । नवी- नतार्किकैस्तु मुद्रितपुस्तके स्थलाक्षरैर्विन्यस्तानां सूत्राणामेव सूत्रत्वं समधिगम्य तत्र सन्देहमपि विहाय सम्पूर्णा अध्याया एव गलहस्तिता इति महदाश्चर्यम् । यदि च २।३ ४ । अध्याया असम्बद्धा एवेति तदा उद्देशो लक्षणं परीक्षा चेति अनुबन्धत्रयसम्बद्धं शास्त्रं भवतीति महर्षीणां सम्प्रदायविच्छेदादाचार्यैरपि अनुबन्धत्रयसमन्वयार्थ कृत्ताः प्रयासा अरण्यरुदितं स्यादिति २।३ । ४ अध्यायात्मक परीक्षाभागं विहाय कोऽनुमन्येत प्रथमाध्याय एव प्रणीत इति । अत्रावशिष्टा प्रबला युक्तिर्यद्वौद्धशास्त्रसमालोचनं लङ्का- वतारसूत्र-नागार्जुनकृतमाध्यमिकसूत्र-आर्यदेवकृतशतकेभ्यः अक्षरशो विषयाणां समुद्धरणं च । यदि चात्र शङ्कासमाधिप- रिशीलनेनैव तत्तत्सूत्राणां मूले प्रक्षिप्तत्वमेव शङ्कत तदपि कथञ्चित् सङ्गतं भवेत् किमपराद्धमध्यायत्रयेणेति न बुद्ध्या- महे ? । कस्माज् ज्ञातं यच्छाक्यसिंहबुद्धस्यैव मतं ? यस्य च सम यस्य स्थैर्ये वहवोऽस्थिराः पण्डिताः । अपि च हीनयानि- कानां बौद्धानां मते(१)शाक्यसिंहश्च पञ्चविंशो बुद्धः अस्मात् पूर्वमनेके बुद्धाः सञ्जाता परमप्यनेके भविष्यन्तीति नैत- (१) Buddhaa Vamsa ( Pali Text Society-1882) Travels of Hiouen Thsang and Fa Hien.
न्यायवार्तिकस्य भूमिकायाम् त सिद्धं भवति यद्वौद्धनाम्नैव शाक्यसिंहमतमिदं, बौद्धना- म्नैव इदं शाक्यसिंहात् पश्चाद्भावीत्यादिनिश्चयावसर इति । यत्रयत्र बौद्धमतसंवादस्तत्रतत्र कस्माद् ज्ञातं बौद्धस्य शाक्यसिंहस्यैव मतं ? मूले तन्नामोल्लेखाभावाद् । उपनि- पत्स्वपि तदर्शनात् । तथाहि वृहदारण्यकोपनिषदि तृतीयाध्यायस्य द्वितीय ब्राह्मणे "नैवेह किञ्चनान आसीन् मृत्युनैवेदमातमासी"(१) दित्यायुपनिषद्याख्याने शङ्कराचार्येण तट्टीकायामानन्दज्ञाने- नापि शून्यवादि-क्षणिकवादि-बौद्धमतोद्भावनं कृतं तच्च त- त्तत्सम्प्रदायधूरवहत्वेन तत्तन्नाम्ना व्यक्तीकृतं तत्सम्पदा- यनिराकरणार्थम् । यतस्तथाविधाः शङ्कासमाधयोऽनादिका- लपवृत्ताः । यदि च बुद्धात्परमेव उपनिषदोऽभूवन् तर्हि बुद्धदेवेन तत्समानकालिकेन महावीरस्वामिना वा वेदाः समा. लोचिता इति ते कुत्र तिष्ठेयुरिति ? शङ्कितमधस्तात् । अल्पज्ञानां व्यामोहनिवृत्यर्थं व्याख्याकाराणामेषा रीतिरेव यत्माचीनग्रन्थमाहात्म्याविष्कारपूर्वकं नवीनमतख- ण्डनप्रदर्शनेन व्याख्यानम् यथा तत्रतत्र विशिष्टाद्वैतमतखण्ड- ने “त्रिदण्डिवेदान्तिमतं खण्डयतीत्यत्र" "रामानुजमतं ख- ण्डयतीति" अन्यथा रामानुजाचार्यादपि पूर्वकालवर्तिना शङ्क- राचार्यसमानकालिकेन सुरेश्वराचार्येण बृहदारण्यकवार्ति- के ५ ब्राह्मणे ३ अध्याये त्रिदण्डिमतखण्डनात् रामानुजा- चार्यात् परं सुरेश्वराचार्याः स्युः अपि च ब्रह्ममीमांसा- भाष्ये "वैधाच न स्वमादिवत्" २ अ० २ पा० २९ सूत्र- व्याख्याने भास्कराचार्येण शाङ्करमतखण्डने “ये तु बौद्ध (१) एशिआटिक्सोसाइटीवङ्गालमुद्रितपुस्तके पृ. २७ द्रष्टव्यम् । mamya न्यायसूत्रपाठनिर्णयप्रस्तावः । मतावलम्बिनो मायावादिनस्तेऽप्यनेन न्यायेन सूत्रकारेणैव निरस्ता" इति भाष्यात् पश्चात् सूत्राणि रचितानि स्युरिति महान् विप्लवो भवेदिति । य बहुज्ञत्वाद् यच्च न्यायशास्त्रस्य निन्दास्तुतिविषयको मह- पैर्गोतमस्य च निवासविषयकः समन्वयः कृतः सोऽप्याश्चर्य- जनक एव । तथाहि-"वैदिकसंहिताब्राह्मणग्रन्थयोायशा. स्त्रस्य च पूर्व सम्बन्ध एव नासीत् शुष्कन्यायविद्या त- दानी पृथगेवासीत् तस्माद् ब्राह्मणैरनादृता पश्चात् शनैः शनै- विपुलसमादरः सञ्जात इति ।" यदि च वैदिकग्रन्थस्य संम्बन्ध एव नासीत् तदा वि. श्वनाथन्यायपश्चाननादिभिरुक्ता न्यायो मीमांसा धर्मशास्त्राणी- त्युपाङ्गानि इसादिश्रुतयश्च कुत्र तिष्ठेयुः अथ च न्यायप्रणेतुर्गो- तमस्य ऋग्वेदादिसंहिताग्रन्थेषु शतपथब्राह्मणे च निरुक्त- रीत्या चर्चायां सत्यां पूर्व गोतमः काष्ठवत् स्थितः पश्चा- द्वहुकालानन्तरं न्यायशास्त्रं प्रणीतवान् इति निष्पन्नं भवति । अथ च "आन्वीक्षिकी विद्या न्यायशास्त्रं वा अध्या. त्मविधा वा क्षत्रियेष्वासीन्न ब्राह्मणेषु इत्यादि" तत्र प्र- माणं छान्दोग्योपनिषद् ५-३ “मा त्वं गौतमावदो ययेयं न प्राक् त्वत्तः पुरा विद्या ब्राह्मणान् गच्छति तस्मात् सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदि"त्यादि(१) तत्र मनुस्मृतौ १ अध्याये ३४ । ३५ श्लो. "अहं प्रजाः सिसृक्षुस्तु तपस्तप्ता सुदुश्चरम् । पतीन् प्रजानामसृजं महीनादितो दश ।। (१) न्याय प्रशासन कारस्याभावाद् धर्मसूत्रकर्तु!तमस्यात्र ग्रहणम्। .
न्यायवार्तिकस्य भूमिकायाम् मरीचिमच्याङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । पाचेतसं वसिष्ठं च भृगुं नारदमेव च ।" इत्युक्त्या अङ्गिरा ब्रह्मणः पुत्रस्तदंश्यो गोत्रप्रवर्तको गोतमः । छान्दोग्ये च मनोः प्रशंसा वर्तत एव । तर्हि गो- तमा पूर्व कोसौ क्षत्रियः आसीद् यत्र न्यायविद्याध्यात्मवि. घा वा वर्तमाना तत्र विद्याशब्दोप्यान्वीक्षिकीवाचक एव ? इति वर्णनीयम् । अपि च "विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधीष्टेऽहमस्मि । असूयकायानृजवे ऽयताय न मा ब्रूया वीर्यवती तथा स्याम् ॥" इत्यादिसहितोपनिषद्राह्मणश्रुतीनां माधवाचार्येण ऋम्- संहिताभाष्यमुखबन्ध उदाहृतानां का गतिः ॥ गोतमस्थानविषयकसमन्वये च वाल्मीकिरामायणेन तु गो- तमस्थानं मिथिलामण्डले आसीदिति सिद्धं किं तु "अक्षपाद: कणादश्च उलको वत्स एव चे"त्यादिवायुपुराणात् प्रभासक्षेत्रे ऽपि स्थानं सम्भवति । अस्य समन्वयार्थ गोतमासम्बद्धा श्रीमद्भागवतीय ११ स्कन्धीय ६ अध्यायस्था ३५ "प्रभासं सुमहत्पुण्यं यास्यामोऽद्यैव माचिर"मितिश्लोकसम्बद्धां श्रीमद्भा. गवतीय ११ स्कन्धीय ३० अध्यायस्थां ६ श्लोकसम्बद्धा "वयं प्रभासं यास्यामो यत्र प्रत्यक् सरस्वती"त्यादिश्रीकृष्ण- कथामुद्धृत्य गोतमस्य प्रभासगमनं साधयति । अत्र मिथि- लादेशे स्वाश्रमे स्थित एवं गोतमो ऽपवर्गनिरूपकं न्याय- न्यायंसूत्रपाठनिर्णयप्रस्तावः । ६७ शास्त्रं प्रणीतवान् ततः परं किमपरमवाशिष्टं यदर्थमन्ते प्रभास- क्षेत्रे गत्वा सोमशर्मणो ब्राह्मणस्य शिष्यतां गत इति ‘स. मन्वयकर्ता एव जानाति । यच्च लङ्कावतारसूत्र-नागार्जुनकृतमाध्यामिकसूत्र-आर्य- देवकृतशतकेभ्यो विषयाः समुद्धृता इति अत्र ते विषया उक्तग्रन्थेष्वेव निरूपिता नान्यत्रेत्यत्र किं बीजं किं प्रमाणं कस्माचावगतम् ? इति वक्तव्यं भवति । तानि वाक्यानि प्रायः शङ्कासमाधिलक्षणाक्रान्तानीति चिरकालादेव विचारग- भणीति विज्ञायते । मम तु मतमेते विषया ऋग्वेदसंहिताया- मुपनिषत्स्वपि निरूपिताः अतोऽनादिकालादेवास्तिकनास्ति- कशासमाध्योर्वर्तमानत्वादुक्तरीत्या तत्तत्सूत्राणां नवीनत्वकल्प- नया २ । ३ | ४ अध्यायानां नवीनत्वकल्पनमयुक्त- मेवेति । तथाहि- गोतमसूत्रम् ४।१।३१ "न स्वभावसिद्धिरापेक्षिकत्वात् ।" माध्यमिकसूत्रम् "न सम्भवः स्वभावस्य युक्तः प्रत्ययहेतुभिः । स्वभावः कृतको नाम भविष्यति पुनः कथम् ॥ श्वेताश्वतरोपनिषदि २ "कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् ।" तथा श्वेताश्वतरोप. ६ । १ "स्व. भावमेके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः गोतमसूत्रम् ४ । १ ४९ "नासन्न सन सदसदसत्सतोधात् । माध्यमिकसूत्रम्
न्यायवार्तिकस्य भूमिकायाम
"सतश्च तावदुत्पत्तिरसतश्च न युज्यते ।
न सतश्चासतश्चेति पूर्वमेवोपपादितम् ॥
नैवासतो नैव सतः प्रत्ययार्थस्य युज्यते ।
न सन्नासन्न सदसद् धर्मो निर्वर्तते सदा॥"
"सदसत् सदसच्चेनि यस्य पक्षो न विद्यते ।
उपारम्भाश्चिरणापि तस्य वक्तुं न शक्यते ॥"
मुबालोपनिषदि १।११
"सहोवाच न सन्नासन्न सदसत् ।" तत्रैव ३ खण्डे
"असता इदमग्र आसीत् ।"
ऋग्वेदसंहितायामपि १० म० १२९ मू०१ मन्त्रे द्रष्टव्यम्
गोतमसूत्रम् ४ । २ । ३१-३२
"स्वमविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः।"
"मायागन्धर्वनगरमृगष्णिकावद्वा ।"
माध्यमिकसूत्रम् ।
"यथा माया यथा स्वप्नो गन्धर्वनगरं यथा ।
तथोत्पादस्तथा स्थानं तथा भङ्ग उदाहृतम् ।।"
मैन्युपनिषदि ४ प्रपाठक
"इन्द्रजालमिव मायामयं स्वम इव मिथ्यादर्शन"
मित्यादि ।
अन्ये तु "उपलभ्यमानन्यायसूत्राणामतिसावधानतया
पाठेन समालोचनेन च निष्पन्नं भवति तावद् यो-
गवेदान्तादिशास्त्रनिरूपितविषयोपनिपातात् जैनदर्शने प्रमेये-
षु सुखस्य परिगणनात् अत्र च न्यायशास्त्रे प्रमेये-
षु तदभावात् जातिनिरूपणे प्रथमाध्यायपञ्चमाध्याययो-
-- न्यायसूत्रपाठनिणयप्रस्तावः । विरोधात् तत्र महान् विप्लवो जातः । अपि च द्वितीय- तृतीय-चतुर्थाध्यायेषु षोडशपदार्थानां परीक्षाया अभावान नेदं पूर्ण शास्त्रमिति । अन्यच्च हिन्दूशास्त्रेषु न्यायशास्त्रस्य निन्दाया दर्शनात् बौद्धशास्त्रेण संश्लिष्टमिदं शास्त्रं जातम् । यत्तु स्त्रीष्टान्दारम्भसमयात् ३०० वर्षेभ्यः परं वर्तमानाद्वात्स्या- यनात् प्रभृति इदानींतनपर्यन्तैष्टीकाकारैः स्वव्याख्यानेन समाहितं संयोजितं ते ऽपि नापारयस्तत्वतो व्यवस्थापयितुं तत्त्वार्थानित्यादि" निरूपयन्ति । इयं हि तेषामुक्तार्थसं- सिद्धौ प्रबला युक्तिर्यद् “वाचस्पतिमिश्रेण न्यायसूत्रोद्धारः न्यायसूचीनिबन्धश्च रचितः अनयोः संवादेन समालोचनेन च महान् विप्लवो दृश्यत" इति । अत्र समालोचनम् । अत्र महान् विशेषोऽस्ति यत् न्या- यशास्त्रस्येतिवृत्तमितिहासः समयनिर्णयादिकमपि बहुभिः कृतम् तन्निरूपितप्रमेयादिपदार्थसमालोचनं तैनं कृतमन्येनैव कृतमिति हर्षविषयोऽयम् । अयं तु अननुभूतमहाहर्षविषयो "यद्वात्स्यायनप्रभृतीदानींतनयर्यन्तं टीकाकारा नापारयस्त- चतो व्यवस्थापयितुं पदार्थान्" इदं तु तत्थ्यमेव गङ्गेशो- पाध्यायः श्लोकद्वादशसाहस्यात्मकेन तत्त्वचिन्तामणिग्रन्थे- न “प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानी"तिपञ्चदशाक्षरा. त्मकमेव गोतमसूत्रं व्याख्यातं ततः परं व्याख्यानुव्याख्यानैः श्लोकानां लक्षाणामष्टाविंशत्या उपटहितमपि(?) इदानीपर्यन्तं क्रोडपत्रविवेचनादयो न समाप्तिं गता नापि विश्रान्ता इत्ये- (१) चौखंबासंस्कृतसीरीजमुद्रिते क्रोडपत्रसंग्रहे भूमिकायां विस्तरेण निरूपितमिदमस्माभिः ।
'७० न्यायवार्तिकस्य भूमिकायाम् षां तत्वज्ञा महाशया एव । परं तु कुत्र किंवा स्खलनं जात. मितिनिरूपितवन्तश्चेत् सिद्धं नः समीहितं भवेत् तस्य चर्चेव न कृतेति खदास्पदम् । परं तु वैद्यकविद्यावद् गणितविद्यादि- वन्नास्य न्यायशास्त्रस्य लौकिकार्थसिद्धिः प्रयोजनं किं तु "त. वज्ञानानिःश्रेयसाधिगम" इति प्रथममूत्र एव प्रयोजनं दर्शितं सूत्रकारण तत्तु निःशेषन्यायशास्त्रपरीक्षणान् महाशया एव जा. नन्ति तत्वज्ञानानिःश्रेयसाधिगमो भवति न भवति वेति ? । बौद्धाद्यागमविषये वाचस्पतिमिश्रेण ५ कारिकाव्याख्यायां सां- ख्यतत्वकौमुखामुक्तमेव "विगाना छिन्नमूलत्वात म्लेच्छादिभिः पुरुषापसदैः पशुपायैरित्यादि" तस्माच्छिष्टापरिगृहीतास्ते आग- मा एवेति तर्हि न्यायोक्तद्वादशविधेषु प्रमेयेषु सुखस्य गणनाभावे जैनागमेषु तत्परिगणनान न्यायशास्त्रस्य न्यूनतेति कथकस्यैव न्यू- नता। यद् आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुः खापवर्गास्तु प्रमेयमिति सूत्रोक्तद्वादशविधेषु प्रमेयेषु परिगणितं दु:- खमेकविंशतिप्रकारकमिति तत्र मुखस्य वार्तिककारेण ग्रन्थारम्भ एव सम्यकपरिगणितस्य ज्ञानाभावाद्वा तिरष्कृतत्वात् । जातिनिरूपणे प्रथमपञ्चमाध्याययोः को विरोध इति तु "मुखमस्तीति वक्तव्यं कुन्तीपुत्रो विनायक इतिवत्" विरो- धस्यादर्शितत्वात(१)। यदि च अन्यशास्त्रोक्तपदार्थानां तदन्यत्रोपनिपातेनैव शास्त्रस्य व्यर्थता तदा सर्वेष्वेव शास्त्रषु(२) अन्यदीयशास्त्रविष- योपनिपातात् सर्वाणि शास्त्राणि व्यर्थान्येवेति किमपि नाध्येत- (१) प्रथमाध्यायपञ्चमाध्याययोः सम्बन्धश्च ६२ पृष्ठे ऽत्रैव प्रद शिंतो मया । (२) अस्यामेव भूमिकायां पृष्ठे ५० द्रष्टव्यम् ।
७२ न्यायवार्तिकस्य भूमिकायाम् मिश्रेण न्यायसूत्रोद्धारः न्यायसूचीनिवन्धश्च रचितः(१) अन- योः संवादेन समालोचनेन महान् विप्लवो दृश्यत" इति(२)। इदमुपलभ्यमानं न्यायशास्त्रं सर्वथानवस्थितं पठनपाठनानुप युक्तमिति तेषां हृदयम् । इदं सर्व न चित्रं नाप्यपूर्वार्थनिर्धारणं जैनागमे सुयणा. ङ्गसूत्रे त्रिषष्टयधिकानि त्रीणि शतानि मतानि(३) प्रदर्शितानि भारतवर्षीयोपासकसम्पदायाख्यपुस्तके ऽपि सुबहूनि मता- नि निरूपितानि तानि च स्वमते सर्वथैवानुभवसिद्धानि परमते तु स्वमतं विहाय सर्वत्रैवानुभवापलाप इति सर्वेपी साधुत्वे यत्समाधानं तदेव केषामन्येषां शङ्कायाः समाधानं भवितुमर्हतीति । अपि च पूर्वाचार्यैः कृतानामेतादृशीनां श. ङ्कानां समाधानं तु उदयनाचार्येण किरणावल्यां श्रीहर्षेण खण्डनखण्डखाये साहित्याचारपि तत्रतत्र कृतमेव । अधि- कं तु मया न्यायदर्शनभाष्यकर्त्तात्स्यायनस्य चरिते भाष्यव- र्णने यथा यथं परीक्षिष्यते ॥ WHATNEntempire (१) एकेनैव वाचस्पतिमिश्रेण ग्रन्थद्वयं रचितं विभि- ज्नेन वा कुत्र को वा विप्लव इति तैः समालोचितं न वेति ब. हूनां सन्देहो भवति स्वयं तीर्णः परान् तारयतीति लौकिका. भाणकेन तत्प्रदर्शनस्यात्यन्तावश्यकत्वात् । मया तु किञ्चिद्व- र्णितमधस्तात् परिशिष्टं वाचस्पतिमिश्रचरिते निरूपयिष्यते । (२) कुत्र विप्लवः को वा विप्लव इति अवश्यनिरूपणीयं भवति तदभावादकिञ्चित्करमिदम् । (३) मलयगिरिकृतायां द्वितीयोपाङ्गटीकायां मुखबन्धे द्रष्टव्यम् । Indian Antiquary 1888 p. 344.
वात्स्यायनचरितम् । ७३ . अथ न्यायदर्शनभाष्यकर्तुमहामुनेर्वात्स्यायनस्य चरितम् । तत्र तावन्न्यायदर्शनभाष्यकर्ता भगवान् वात्स्यायनः क- स्मिन् देशे कस्मिन् काले आविर्भूत इति निर्णयस्तु दूरे गतस्तन्नाम्न्येव मतभेदा दृश्यन्ते एकत्र वात्स्यायनोऽपरत्र पक्षिलस्वामी अन्यत्र पक्षिलमुनिः पक्षिल इति वा । किन्तु न्यायभाष्यान्ते । “योऽक्षपादमृर्षि न्यायः प्रत्यभावदतां वरम् ॥ तस्य वात्स्यायन इदं भाष्यजातमवर्तयत्"॥(१) इति । न्यायवार्तिकसमाप्तौ च। "यदक्षपादप्रतिभो(२) भाष्यं वात्स्यायनो जगौ। अकारि महतस्तस्य भारद्वाजेन वार्तिकम् ।।" इति दर्शनान् निर्णीतं भवति तस्य मुख्यं नाम वात्स्या- यन इति । अक्षपादप्रतिभ इति वार्तिककारोक्त्या अक्षपाद- तुल्यो महर्षिर्भाष्यकार इति सिद्धम् । न्यायवार्तिकतात्पर्यटीकायामारम्भे आचार्यवाचस्पति- मिश्रेण । "अथ भगवता अक्षपादेन निःश्रेयसहेतौ शास्र प्रणीते (१) पद्यमिदं विजयनगरसंस्कृतसीरीजमुद्रिते न्यायदर्श- नपुस्तकेऽन्येष्वपि प्राचीनेषु लिखितपुस्तकेषु तथा अस्मन्निकटे वर्तमाने महानैयायिकैः प्रामाणिकत्वनावधृते प्रायः शुद्ध पुण्य- ग्रामे (पूनानगरे ) लिखिते प्राचीने पुस्तकेऽपि वर्तते । (२) यदक्षपादप्रतिम इत्यपि कचित् ।
-७४ न्यायवार्तिकस्य भूमिकायाम् व्याख्याते च भगवता पक्षिलस्वामिना किमपरमवशिष्यते यदर्थं वार्तिकारम्भ" इत्युक्तत्वात् पक्षिलस्वामी इत्यपि नि. पन्नं भवति । वेदादिभाष्यकी माधवाचार्येणापि सर्वदर्शनसंग्रहे Sक्ष- पाददर्शने(१) “पक्षिलस्वामिना च सेयमान्वीक्षिकी विद्या प्रमाणादिभिः पदार्थैः प्रविभज्यमाने"त्याद्युक्तम् । तार्किकरक्षाटीकायां चादावेव "पक्षिलमुनि(२)प्रभृतय". इत्युक्तम् । तथा च वात्स्यायनस्य नामान्तरं पक्षिलमुनिः पक्षिल. स्वामी इति च सिद्धम् । शतपथब्राह्मणे बृहदारण्यकोपनिषदि समाप्तौ “अथ- वशः" इत्युपक्रम्य "वात्स्याद्वात्स्यः"(३)इत्युक्तम् । तस्माद् वत्स्यस्य युवा अपत्यं वात्स्यायन इति । वात्स्यायनस्य चर्चा पद्मपुराणीयरामाश्वमेधे १ अध्या- येऽपि वर्तते । (१) बङ्गदेशीय-एशियाटिक्सोसाइटीद्वारा मुद्रितपुस्तके १५ पृष्ठे द्रष्टव्यम् । (२) केचित्तु अत्र मुनिशब्दस्तत्त्वप्रदीपिकाकारचित्सुखमु. निवद् बोध्य इति तन न्यायवार्तिकारम्भे “यदक्षपादप्रवरो मुनीनां" वाचस्पतिमिश्रकृतखण्उनोद्धारे “यदक्षपादस्य महामु- नेर्मत"मित्याधुक्त्या अत्रापि तथात्वात् । पक्षयति तत्त्वज्ञानं परिगृह्णातीति पक्षिलः । पक्ष+चाहुलकादिलच् । यद्वा पक्षिणो दयया लाति आदत्से गृह्णातीति पक्षिलः । ला आदाने इति पाणिनिः । पक्षिलचर्चापि मत्स्यपुराणे ५२ अध्याये द्रष्टव्या । (३) वत्स्यस्य युवा गोत्रापत्यं वात्स्यायनः वत्स+यञ् त. तो यूनि फक् जीवति वत्से युवापत्त्यं वात्स्यायन इति यावत् ।
वात्स्यायनचरितम्। . व्यास उवाच । "ततः परं धराधारं पृष्टवान् भुजगेश्वरम् । वात्स्यायनो मुनिवरः कथामेतां सुनिर्मलाम्॥” इत्यादि । इत्थं च पुराणादौ वात्स्यायनस्य चर्चाया दर्शनात् तस्य चिरन्तनत्वं सिद्धमेष । एवं तत्कृतन्यायदर्शनभाष्येऽपि न कोऽपि हेतुर्दश्यते येनार्वाचीनत्वं सिद्धयेत् । यदि च वक्ष्यमाणात्मवाद्यनात्मवाद्यास्तिकनास्तिकसां- ख्ययोगक्षणिकवादिभूतचैतनिकदशावयववादिनां मतोपन्यासे- नार्वाचीनत्वं करप्येत तदा उपनिषदादिष्वपि तद्दर्शनात् ते- पामध्यर्वाचीनत्वं भवेत् किं पुनर्वात्स्यायनस्य तत्प्रणीतभा. प्यस्य वेति । यथा सद्भाष्ये २५ पृष्ठे(१) “अनात्मवादिनः ।" ३८.पृ० "इति सांख्यानाम् । इति योगानाम् ।" ३९ पृ० "दशावयवानेके नैयायिका वाक्ये संचक्षते । जिज्ञासा संशयः शक्यप्राप्तिः प्रयोजनं संशयव्युदास इति ॥" ६० पृ० "अथवास्त्यात्मेत्येके । नास्त्यात्मेत्यपरे मन्यन्ते"इति। १०४ पृ० "आकाशगुणः शब्दो विभुनिसोऽभिव्यक्तिध- मक इत्येके" । "गन्धादिसत्तिद्रव्येषु सन्निविष्टो गन्धादिवदवस्थितो. ऽभिव्यक्तिधर्मक इत्यपरे।" "आकाशगुणः शब्द उत्पत्तिनिरोधधर्मको बुद्धिवदित्यपरे"। "महाभूतसंक्षोभजः शब्दोऽनाश्रित उत्पत्तिधर्मको नि- रोधधर्मक इत्यन्ये" । (१) अत्र पृष्ठाङ्का विजयनगरसंस्कृतसीरीजमुद्रितन्यायदर्श- नभाज्यपुस्तकानुसारेण बोध्याः ।
' ७६ न्यायवार्तिकस्य भूमिकायाम् १५९ पृ० "एवं हि पश्यन्तः प्रवदन्ति सांख्याः पुरुष- स्यान्तःकरणभूता नित्या बुद्धिरिति"। १६३ पृ० "क्षणिकवाद्याह ।" १७४ पृ. "भूतचैतनिक आह ।" १८७ पृ० "अत्र नास्तिक आह ।" २२१ पृ. "याज्ञवल्क्यो मैत्रेयीमिति होवाच । कात्याय. न्या सहान्तं करवाणीति" । २२२ पृ० "चातुराश्रम्यविधानाचेतिहासपुराणधर्मशास्त्रे- वैकाश्रम्यानुपपत्तिः।" इत्यायुक्तं तेनापि नार्वाचीनत्वं सिद्ध्यति ॥ तथाहि तद्भाष्ये २५ पृष्टे(१) अनात्मवादिनः । नैरात्म्य- वादस्तु मैत्रायण्युपनिषदि ७ । ८ "नैरात्म्यवादकुहकै"रिति । इदं चार्वाकमतमपि सम्भवति । यथा महाभारते शान्तिपर्वणि मोक्षधर्मे १८६ अध्याये। “यदि माणयते वायुर्वायुरेव विचेष्टते । श्वसित्याभाषते नित्यं तस्माज्जीवो निरर्थकः ॥" इत्यादि ३८ पृष्ठे "इति सांख्यानाम् । इति योगानाम् ।" योग- स्य चर्चा कठोपनिषदि ६ वल्ल्याम् । श्वेताश्वतरोपनिषदि ६ अध्यायें सांख्ययोगौ समुद्धृतौ । अपि च छान्दोग्योपनिष- दि ६ प्रपाठके १७ खण्डे "तद्घनघोर आङ्गिरसः कृष्णाय देवकीपुत्रायोत्कोवाच' श्रीकृष्णेन भगवद्गीतायाम् । "एक सांख्यं च योगं च यः पश्यति स पश्यति।" इत्युक्तम् । ३९ पृष्ठे “दशावयवानेके नैयायिका वाक्ये सञ्चक्षते । (१) अत्र पृष्ठाका विजयनगरसंस्कृतसीरीजमुद्रितपुस्तकानु- सारेण बोध्याः।
वात्स्यायनचरितम् । जिज्ञासा संशयः शक्यप्राप्तिः प्रयोजनं संशयव्युदाम इति ।" नैयायिकानामनेकत्वं मयैवात्र प्रदार्शतमान्वीक्षिकीविद्यानि- रूपणप्रकरणे । यथा महाभारते । "नैयायिकानां मुख्येन वरुणस्यात्मजेन च । पराजितो यत्र वन्दी विवादेन महात्मना ॥ इत्थं चान्वीक्षिक्यैक्येऽपि न नैयायिकैक्यम् अन्यथा इदानींतनेषु न्यायग्रन्थेषु "इति प्राञ्च:" "इति नव्याः" "इत्य- स्पपितृचरणा" "इत्यस्मद्गुरुचरणा" इति मतभेदानुपपत्तेः । केचित्तु दशावयववादित्वेन बौद्धं कल्पयन्ति तन्निर्मूलम् यदि स बौद्धो भवेत् तदा भाष्यकार यायिकनाम्ना कदापि गृहीतो न भवेदपि तु नास्तिकादिनाम्नेति । ६० पृष्ठे अथवास्त्यात्मेत्येके नास्त्यात्मेत्यपरे मन्यन्त- इति । मैत्रायण्युपनिषदि ७ प्रपाठके ८ खण्डे । "नैरात्म्यवादकुइकैमिथ्यादृष्टान्तहेतुभिः । भ्राम्यल्लोको न जानाति वेदविद्यान्तरं तु यत् ॥" १०४ पृष्ठे आकाशगुणः शब्दो विभुर्नित्योऽभिव्यक्ति- धर्मक इत्येके । १०४ पृ० गन्धादिसहवृत्तिव्येषु सन्निविष्टो गन्धादिव. दवस्थितोऽभिव्यक्तिधर्मक इत्यपरे । १०४ पृ० आकाशगुणः शब्द उत्पत्तिनिरोधधर्मको वु- द्धिवदित्यपरे। २०४ पृ० महाभूतसोभजः शब्दोऽनाश्रित उत्पतिधर्मको निरोधधर्मक इसन्ये । अत्र “अन्ये" इत्यनेनाधुनिका बौद्धं क- ल्पयन्ति तदनुयायिनस्तु ख्रीष्टाब्दारम्भात् ४८७ वर्षेभ्यः पूर्व बुद्धदेवस्थिति निश्चिन्वन्तस्तत्पूर्व न्यायभाष्यामिदं नासीदेवे- ७८ न्यायवार्तिकस्य भूमिकायाम् ? ति समुद्घोषयन्ति । तदसत् । वेदधर्मशास्त्रपुराणेषु आस्तिकनास्तिकभेदे- नानेकानि मतानि निरूपितानि भाष्यकारेण बौद्धनामानुल्लि- खितत्वात् तदिदं मतं कस्मादवगतं बौद्धस्यैवेति यदि च त. तदन्थसंवादात् तदाऽऽधुनिकमतसंवादादपि तत्पश्चाद्भावि- त्वात् अभिनवमेव वात्स्यायनीयं भाष्यं कथं न कल्प्येत ? । बौद्धग्रन्थेष्वपि हीनयानिकैरतीतानागता अनेके बुद्धा निरू. पिता इति कस्य बुद्धस्येदं मतमित्यपि निरूपणीयमेव यदि च गौतमस्य शाक्यसिंहस्य बुद्धदेवस्य मतं तदपि निरू- पणीयमेव कस्मिन् ग्रन्थे तत् प्रतिपादितमिति ? | ऐतिहासिकत्तशोधने निपुणंमन्या आधुनिकास्तु इ- सवीयवर्षारम्भत् ४८७ वर्षेभ्यः पूर्वम् । "सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः । समन्तभद्रो भगवान् मारजिल्लोकजिज्जिनः ।। षडभिज्ञो दशवलोऽद्वयवादी विनायकः । मुनीन्द्रः श्रीधनः शास्ता मुनिः शाक्यमुनिश्च सः ।। स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः । गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ॥ इत्यन्वर्थनामविशिष्टो बुद्धो निर्वाणं गत इति वदन्ति तत्र वक्ष्यमाणानि दुरुच्छेद्यानि बलवन्ति प्रमाणान्युपन्यस्तानि । "प्रोफेसर बुलरमहाशयाः (Buhlor) तथा डाक्टर फ्लीट ( Fleet ) महाशयाः पाषाणस्तम्भे लिखितेऽशो- कराजस्य शासने २५६ संख्यां दृष्ट्वा कल्पयन्ति बुद्धमर- णाशोकजीवनसमययोरेतावद्वर्षपरिमितमन्तरम्' "अपि च परमार्थनामकेन बौद्धन वसुबन्धुचरितपुस्तकं " वात्स्यायनचरितम् । ७९ निर्मितं तत्र लिखितमस्ति बुद्धदेवनिर्वाणानन्तरं १००० वर्षे भ्यः पश्चात् स्थितौ "दृश्यपं"विन्ध्यवस" नामकौ बौद्धौ । तावेतौ ख्रीष्टान्दारम्भात् परं पञ्चमशताब्द्यां वर्तमानाविति उपात्तसमय एव बुद्धनिर्वाणस्य ।" "अन्यच्च चीनदेशीयकांटननामके नगरे संख्याबोधक- रेखाविन्द्रादिवत्-चिह्नविशेषाङ्कितलेखाः ४८९ वर्षपर्यन्तं स्थापयन्ति स्मेति स्थितिः तत्र ९७५ चिहान्यासन् तत्र ४८९ संख्या न्यूनीकृना सती स एव निर्दिष्टसमयो बुद्ध- निर्वाणस्य भवति ।" यद्यतादृशान्येव प्रमाणानि व्यक्ताव्यक्तसाधारणानि व- स्तुतत्त्वनिर्णये प्रभवन्ति तदा किमपराद्धं वेदधर्मशास्त्रपु. राणे(१) स्तरामाषणादीतिहासमहापण्डितः सहृदयैरवगम्य- रिति न बुद्ध्यामहे । यदि च बुद्धात्परमेव सर्वमिति निर्णीयते तदा इ- सवीयवर्षारम्भात् ५२७ वर्षेभ्यः पूर्व निर्वाणपदव्यां गतानां जैनचतुर्विंशतीर्थङ्करमहावीरस्वामिनां चतुर्णा वेदानां भारत- रामायणादीनां मिथ्याशास्त्रत्वनिरुक्तिः(२) कुत्र तिष्ठेद्वेदादयो वा कुत्र तिष्ठेयुरिति ? ॥ १६३ पृ. "क्षणिकवाद्याह" । क्षणिकवादश्च वृहदारण्यको- पनिषदि ३ अध्याये २ ब्राह्मणे छान्दोग्ये ७ प्रपाठके ७। ८ खण्डयोः कठोपनिषदि ६ वल्ल्याम् । १७४ पृ० "भूतचैतनिक आह" । भूतचैतनिकदेहात्मवा. (१) यथा च पुराणानां सामञ्जस्यं तथाग्रे वक्ष्यते । (२) अयमों निपुणतरमधस्तादुपपादितमले उपपादयिष्यते च इत्यास्तां तावदिति ।
न्यायवार्तिकस्य भूमिकायाम् दनिरासश्च छान्दोग्ये ८ प्रपाठके ९-१२ खण्डेषु वर्तत इति । अन्ये आधुनिकतार्किकास्तु स्वेन तर्केण तर्कयन्ति खलु हेमचन्द्रकृताभिधानचिन्तामणेर्मयकाण्डस्य ५१७ श्लो- कस्य अर्द्धम् अर्द्धश्च ५१८ श्लोकस्य "वात्स्यायने मल्लनांगः कौटिल्यश्चणकात्मजः । द्रामिलः पक्षिलस्वामी विष्णुगुप्तोङ्गुलश्च सः ॥"(१) इति दृष्ट्वा उक्तवचनानुसारि यत्र कुत्रचियाख्यानमपि श्रुत्वा उक्तवचने चाणक्यस्याविकलं नाम हठात् सन्निवेश्य चाणक्यस्य विष्णुपुराण-वायुपुराण-मत्स्यपुराणायुक्तस्या- पि चन्द्रगुप्तस्य राज्ञो मन्त्रिणः समयनिर्णायकं ग्रीक-चीन-दे- शीयानां कमपि लेखं वा शिलाशासनस्थं वा वक्ष्यमाणप्रकार- कलेखं यत्र चाणक्यस्य चर्चापि नास्ति तमेव मूर्ध्नि संस्थाप्य समुद्घोषयन्ति तावन्यायदर्शनभाष्यं चाणक्यवात्स्यायनकृतं स्त्रीष्टाब्दारम्भात पूर्व ३२१ वर्षेभ्यः(२) पुरातनं कथमपि भवितुं (१) अत्र श्लोके उकानि कानिचिन्नामान्येवासाधूनि । स च प्रमादो ग्रन्थकारस्य लेखकस्य वेति न बुद्ध्यामहे । यथा वात्स्यायनीयकामसूत्रटीकायामारम्भे महापण्डितेन यशोधरेण "मल्लिनाग" इत्युक्तम् । मुद्राराक्षसनाटकटीकायां "कौटिल्यः कुटिलसतिश्चाणक्य" इत्युक्तम् । चाणक्यनीतावथ च मुद्रारा. क्षसे चाणक्य इति मुख्यं तन्नाम प्रतिपदं गृह्यते । हेमचन्द्रेण कोशकता तद् गृहीतमेव नास्ति । पुराणेतिहासादौ च चा- णक्य एव चन्द्रगुप्तस्य मन्त्रीति । अभिधानचिन्तामणिटीका- कारण केनचिजैनेन कौटिल्यशब्दार्थमजानता "कौटल्य" इति कृतं "कुटः मृत्पात्रं तत्र धान्यानि लाति आदत्ते संगृहातीति यावत् कुटलः तस्य भावः कौटल्य" (?) इति व्युत्पादितम् । “अं. शुल” इत्यस्य स्थाने “अङ्गुल" इत्यपि कृतम् । (२) आधुनिकतिहासतत्त्वविदस्तु अयमेव समयश्चन्द्रगुप्त- धात्स्यायनचरितम् । ८१ नाईतीति । अत्र नैयायिका वदन्ति पुरुषोत्तमदेवकृतत्रिकाण्डशेषकोशे(१) ब्रह्मवर्ग "विष्णुगुप्तस्तु कौण्डिन्यश्चाणक्यो द्वामिलोंशुलः । वात्स्यायनो मल्लिनागपक्षिलस्वामिनावपि(२) ॥" आप च त्रिकाण्डशेषकोशारम्भ एव "अलौकिकत्वादमरः स्वको न यानि नामानि समुल्लिलेख । ये राज्याभिषेकस्येति निर्णीतं सोऽपि परीक्षणीयोऽग्रे मयेति । (१) कोशकारेण वेद-धर्मशास्त्र-पुराणेषु न्यायदर्शनादिषु व शब्दा येषु अर्थेषु प्रयुक्ता नानास्थानेषु वितता एकत्र संकलय्य कोशे कथिता अत एव अमरसिंहः "समाहृत्यान्यतन्त्राणि संक्षिप्तः प्रतिसंस्कृतैः। सम्पूर्णमुच्यते वर्गेनामलिङ्गानुशासनम् ॥ २॥" अमरानुयायी षुरुषोत्तमदेवोऽपि । "परिभाषादिकं सर्वमत्राप्यमरकोशवत् । "इत्युक्तवान् अमरपरिशिष्टाख्योऽपि महान् कोशो ऽतीवोपयुक्तो वर्तते त. दर्शनान्न तत्परिशिष्टापेक्षा भवतीति । इत्थं च "पुराणं मानवों धर्मः साङ्गो वेदश्चिकित्सितम् । आशासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥" इतिवत् कोशानां नाशासिद्धत्वं नाप्पैतिहासिकवृत्तकमव्य- वस्थापकत्वम् । तथा च अनेकार्थध्वनिमार्याख्यकोशे २ हरि- शब्दो विष्णु-सूर्य-वानरादीनां वाचकत्वेनैकत्र लिखितः न त- स्माद्विष्णु-सूर्य-वानराणामैक्यं नप्येकदेशैककालावस्थायिन इति सिद्धम्। (२) पाठोऽयं प्राचीने लिखिते पुस्तके वर्तते । मुद्रिते पुस्तके तु 'द्रोमिणः" "मल्लिनाग" अत्र “मन्दनागः" इति दृश्यते । अत्र विसर्गः शोधकप्रमादाद्वोध्यः पक्षिलस्वामिनावपति द्विवचनानुपपत्तेः ।
न्यायवार्तिकस्य भूमिकायाम् विलोक्य तैरप्यधुना प्रचार- मयं प्रयत्नः पुरुषोत्तमस्य ।।" "परिभाषादिकं सर्वमत्राप्यमरकोशवत् ।" इति लिखितम् अमरकोशे तु “त्वन्ताथादि न पूर्वभा" इति लिखितम् । अत एव त्रिकाण्डशेषकोशटीकायां बुधम- नोहरायां "विष्णुगुसस्तु कौण्डिन्यः कौटिल्यो वा चाणक्यो द्रामिलः अंशुलः इति पञ्चनामानि चाणक्यस्य । वात्स्यायन मल्लिनागः पक्षिलस्वामी पक्षिलमुनिर्वा इति त्रीणि नामानि वात्स्यायनमुने"रिति व्याख्यातम्(१) । कलिकातानगरमुद्रिते अमर-त्रिकाण्डशेष-हारावली-मेदिनीतिकोशचतुष्टय पुस्तके(२) सूचीपत्रेऽपि अष्टौ नामानि न चाणक्यस्येति प्रदर्शितम् । एवं स्थिते चाणक्यो भिन्नो वात्स्यायनश्च भिन्न इति प्रतिभाति । यदि च अष्टौ नामानि वात्स्यायनस्यैव । पञ्च णक्यस्य त्रीणि वात्स्यायनस्येति तु टीकाकारमूचीपत्रकार- योः प्रमादः तदापि "मल्लिनागपक्षिलस्वामिनावपीत्यत्र" स- चा- (१) दृश्यते च न्यायवार्तिकतात्पर्यटीकायां सर्वदर्शन- सङ्ग्रहे तार्किकरक्षाटीकायापि पक्षिलस्वामी पक्षिलमुनिर्वा । यशोधरकृतकामसूत्रटीकायां मल्लिनाग इत्युक्तम् । न्यायग्रन्थेषु नै- यायिकत्वेन वात्स्यायनं विहाय चाणक्योऽन्यो वा नाभिहितः इति त्रिकाण्ड शेपटीका कारस्य मतं नायुक्तमिति । (२) श्रीमदमरकृतकोशः पुरुषोत्तमऋतस्त्रिकाण्डशेषश्च । हारावल्ल्यभिधानं मंदिनीकारस्य नानार्थः । नगरे कलिकाताख्ये कोल ब्रुक्साहवाया। श्रीविद्याकरभिश्रेण कृतसूचीसमन्वितः ॥ वेदत्वष्टकलानाथसम्मिते विक्रमाव्दके। मुद्राक्षरेण यत्नेन बाबूरामेण लेखितः ॥
वात्स्यायनचरितम् । मुञ्चवार्थ के नापिशब्देन(१) मल्लिनागपक्षिलस्वामिनो मुच्चयेन ग्रहणान्यक्तिभेदः सिद्ध्यति वात्स्यायनशब्दवाच्यौ मल्लिनागपक्षिलस्वामिनावपि भवत इति यावत् । अतः वि. ष्णुगुप्तादिनामविशिष्ट्याणक्य एको वात्स्यायनः, मल्लिनागः पक्षिलस्वामी च भिन्नो भिन्नो वात्स्यायन:(२) । नात्र किम- पि चित्रम् न वात्स्यायना एवं भिन्ना अपि तु व. सोऽपि भिन्नो भिन्नः । यथाह आश्वलायनश्रौतसूत्रे उत्त- रपट्ढे ६ अध्याये(३) "जामदग्ना वत "जामदग्ना वत्सास्तेषां पञ्चायो भा. गवच्यावनामवानौर्वजामदग्नेति ॥ ६ ॥ "द्विविधाः वत्साः जा- मदना अजामदग्नाश्च । तत्र ये जामदग्नाः वत्साः वयमिति स्मरन्ति तेषां पञ्चायः प्रवरो भवति भार्गवच्यावनामवा- नौर्वजामदग्नेति" इति तद्वृत्तिकृतः । “अथ हाजामदग्नानां भार्गवच्यावनामवानेति ॥७॥ "ये तु वयमजामदग्ना वत्सा इति स्मरन्ति तेषां व्यायः प्रवरा" भवति । "द्विप्रकाराणां वत्सानां परस्परमविवाहः ।" इति त. दृत्तिकृतः । पुरुषोत्तमदेवस्तु वेद-धर्मशास्त्र-पुराणादीनि सम्यगालो- च्य "अलौकिकत्वादमरः स्वकोशे" इयादि उक्त्वा त्रिका- ण्डशेषाभिधं कोशं रचितवान् इत्येतस्य प्रामाणिकत्वम् । हे. (१) १।४।९६ पाणिनिसूत्रेण आपिशब्दः समुच्चयवाचकः । (२) चाणक्य-विष्णुगुप्त-कौटिल्यादयो वात्स्यायनगोत्रजा इत्याश्वलायनीयश्रौतसूत्रे प्रवराध्याये । (३) एशिआटिक्सोसाइटीचंगालद्वारा मुद्रिते पुस्तके ८७५ पृष्ठे द्रष्टव्यम् न्यायवार्तिकस्य भूमिकायाम् मचन्द्रस्तु न जाने कस्मात् सार्ग विधाय अष्टौ नामानि वात्स्यायनस्येति सर्व विप्लावितवान् इति तत्र मूलं मृग्यमेवे. ति वदन्ति ॥ अपरे तु यदाधुनिकतार्किकाः हेमचन्द्रोक्तेषु वात्स्या- यनस्याष्टसु नामसु चाणक्यशब्दाभावेऽपि प्रसह्य चाणक्यं तेषु सनिवेश्य ग्रीकदेशनिवासिनो मेगास्थिनीसस्य पुस्तके(१) निरूपितं भारतवर्षीयं कमपि “सेन्द्राकोत्तस" नामकं(२).तदा- नीतनं राजानं विज्ञाय "सेन्द्राकोत्तस"शब्देन चन्द्रगुप्तं प- रिकल्प्य चन्द्रगुप्तचाणक्ययोश्च मुद्राराक्षसादिभ्य एककाला- घस्थायित्वं ब्रुवन्तश्चन्द्रगुप्तस्य राज्याभिषेकसमयं स्त्रीष्टाब्दार- म्भात् ३२१ वर्षेभ्यः पूर्व निश्चिन्वन्तः तस्मिन्नेव समये वात्स्या- यनीयं न्यायभाष्यं रचितमिति सिद्धान्तयन्ति तन्न सम्यक् । यतो वात्स्यायन इत्यनेनैव चणकात्मजात् चाणक्याद् भेदसिद्धिः न व्यक्त्यैक्यम् वत्सस्य गोत्रापत्यं वात्स्यः वत्स्यस्य युवा गोत्रापत्यं वा वात्स्यायन:(३) एवं सति वात्स्यायन: (१) एन सैट इण्डिया (See Mc Crindle's Ancient India) (2) Justini Hist Philipp. Lib XV. cap IV ) sterica महाशयास्तु "सन्द्राकोनस" इति वदन्ति । Diodorus Siculus XVII 93 डियोडोरस, (Quintus Curtius ) IX. 2 कि. टसकार्टियस महाशयास्तु “जन्द्रमस” इति वदन्ति । Strabo XV. I. 36 स्ट्रेवो महाशयास्तु "सेन्द्रकोतस" इति । Sir William Jones सर विलियम् जोन्स महाशयास्तु सेन्द्राकोतस चन्द्रगुप्तश्चैक एवेति । (३) गर्गादिभ्यो यञ् ४ अध्याये १ पादे १०५ पाणिनीयसूत्रेण जुगुप्सा-पूजयोर्यविधानात् । अत्र गर्गादिगणे वत्सः पठितः चणकोऽपि पृथक पठितोऽस्ति अतः पार्थक्यं निश्चितमेव अ- वात्स्यायनचरितम् । ८५ चणकात्मजवाणक्यः कथमपि भवितुं नाहति । यदि च वत्सगोत्रीयश्चाणक्य एवं न्यायभाष्यकर्ता तर्हि वत्सपुत्रस्य वात्स्यस्य पुत्र एव कथं न सः अपि च गोतम-कणाद-कपिल- पतञ्जलिप्रभृतयोऽपि कथं स्वनामोल्लेखं तत्रतत्र कृतवन्तः कथं स्वगोत्राण्येव न लिखेयुरिति सम्प्रदायविरोधः । अपि च कोशकारेण विष्णुगुप्तादिषु नामसु सप्त व्यक्तिनामा- नि एकं नाम तु गोत्रस्य तदा कोशकारेण अन्येऽपि सर्वे वात्स्यायना ये वत्सगोत्राः गो गोत्रप्रवरग्रन्थे पठितास्ते कथं नोपात्तास्तस्मान्न्यायभाष्यकर्ता वात्स्यायनो व्यक्तिविशेष एवेति न तु चणकात्मजो नापि कोशोपात्ताः सर्वे शब्दा ए. कव्यक्तिवाचका इति । तस्माद् य एवं वात्स्यायनः स एव पक्षिलस्वामी पक्षिलमुनिति(१) मन्तव्यम् । वाचस्प- तिमिश्रादिभिस्तात्पर्यटीकादिग्रन्थेषूक्तत्वादिति । यथा कात्या- यन एवं पारस्काराचार्यों हिरण्यकेश एव सत्याषाढः कृ. ठणद्वैपायन एव वेदव्यास इत्यादय इत्याहुः । वस्तुतस्तु मेगास्थिनीसपुस्तकविषयेऽनेके वदन्ति यत् खलु तल्लिखितं संपूर्ण पुस्तकमेव नोपलब्ध तस्ततः प्रकीर्णानि पत्राण्यवोपलब्धानि तेभ्य एक पुस्त- कं समाकलव्य भाषान्तरेवनूदितमिति(२) तत्र “सेन्द्राकोत्त- न्यथा व्याघ्रपात्-प्राचीनयोग-पुलस्ति-अग्निवेश-शङ्ख-धनञ्जय- विश्वावसु-मनु-ऋक्ष-अनुडह-याज्ञवल्क्य-रहूगण-मुद्गल- जमदग्नि-पराशरादीनामपिपाठात् सर्वेषामैक्यापत्तेः । (१) योऽक्षपादमृर्षि न्यायः प्रत्यभाद्वदतां वरम् । तस्य वात्स्यायन इदं भाष्यजातमवर्तयत् ॥ इति न्यायभा. अयान्ते वर्तते। (२) वकिमचन्द्रचट्टोपाध्यायेर ग्रन्थावली, कृष्णचरित्र १३१४ केनापि इ.
८६ वाभूिमिकायाम् स" "सेन्द्राकोतस" "जन्द्रमस" शब्देन चन्द्रगुतस्य ग्रह- णमाधुनिकतार्किकाणामेव बुद्धि कौशलं तसन्तानानां शि- याणामेवाहो पाण्डित्यमहो कौशलमिति घण्टाघोपपूर्वकं तत्प शंसनं न तु तत्चविदाम् यतो "मात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणा" "एक बिन्दु के लघु भषे कुन्ती कुत्ती होइ" विन्द्राकारस्य नकारावयवस्य स्पष्टत्वे “कुन्ती” इति पठ्यते तस्यैवास्पष्टत्वे "कुती" (शुनी) इति पठ्यते । उच्चार- णापाटवे तु शकलं सकलं सकृच्छकृद्भवतीति । अत्र केचित् उच्चारणापाटवेन चन्द्रगुप्तस्यैव नाम से- न्द्राकोत्तसादिशब्भ्य उपात्तमिति समादधति अस्तु त. देव परं तु यच्च भूमेश्चित्रे भारतवर्षस्य चतुष्कोणत्वं तेन निरूपितमपि च भारतवीयमनुष्याणां जातिरूपेण स- तथा भेदं प्रदर्य “एकजातीया मनुष्या एतादृशा वर्तन्ते येषां मुखं नास्त्येव ते खलु धूममाघ्राय फलस्य सौरभं गन्धमाघ्राय जीवन्ती"त्यादि प्रलपितम् अन्येषां मनु- व्याणां प्रत्येकहस्तेषु अष्टावष्टायगुल्यो भवन्त्येवमन के विषया निरूपिताः एवं च यत्र सेन्द्राकोत्तसराजा निरूपितस्तत्र चाणक्यस्य चर्चापि नास्ति तदपि उच्चारणापाटवेन अनु- बङ्गलासन मुद्रित "मिगास्थेनिस खोष्टपूर्व ३ वा चतुर्थशताब्दीर लोक । मिगास्थेनिसर भारतसम्बन्धीय ग्रन्थ विद्यमान नाई, केवल अन्यान्य ग्रन्थकार ताहां हईते ये सकल अंश ताहादिगेर निज- निज पुस्तके उद्धृतकरिया छिलेन ताहाई संकलन पूर्वक डाक्तर श्वान्वेक नामक एक जन आधुनिक पण्डित एकखानि ग्रन्थ प्रस्तुत करियाछेन ताहाई एखन मेगास्थेनिसकृत भारतवृत्तान्त बलिया प्रचलित।"
वात्स्यायनचरितम् । मानेन बुद्ध्यपाटवेन वेति केनचिदेव समजसनीयं न तत्त्व- विद्भिरिति । मित्रगोष्ठीमासिकसंस्कृतपत्रिकायां चतुर्थवर्षीयपष्ठसप्तम- संख्ययोः .( १८२९ शाकाब्दीयाश्विनकात्तिकमासयोः ) १५६-१५७ पृष्ठे उद्धृतोऽस्ति "ग्रीसदेशीय- मेगास्थिनीसनामकराजदूतेन स्वनिर्मित-इण्डिकानामकग्रन्थे भारतदेशस्याकारश्चतुष्कोणक्षेत्रसमानो वर्णितः । अन्येन ग्री. सदेशीयेन "टलेमी"नामकेन भारतदेशीयमानचित्रं-( map ) मुद्रितं तत्रापि भारतदेशश्चतुष्कोण एवं वर्णित" । इति । ज्यौतिपसिद्धान्तेषु भूगोलवर्णनप्रस्ताव भारतभूमेरा- कारस्त्रिकोणकल्प एव यथाह सिद्धान्तशिरोमणौ गोलाध्याये भास्कराचार्यः लङ्कादेशाद्धिमगिरिरुदग्धेमकूटोऽथ तस्माद तस्माच्चान्यो निषध इति ते सिन्धुपर्यन्ताः । एवं सिद्धादुदगपि पुराच्छृङ्गवच्छुक्लनीलाः वण्येषां जगुरिह बुधा अन्तरे द्रोणिदेशान् ॥ २६ ॥ आधुनिकैरपि भूमेश्चित्रेषु त्रिकोणकल्प एव निरूपि- तस्तदा ग्रीसदेशीयानामुक्तनिरूपणं तु सर्वथैवाप्रामाणिकमेव । तस्मान्मेगास्थिनीसनामकस्य तत्सशस्य वा लेखोऽश्रद्धेयः । अपि च साङ्गोपाङ्गं बिना चन्द्रगुप्तादिनाममात्रेणैव समय- निर्णये(१) सति राजतरङ्गिणीग्रन्ये १ तरङ्ग काश्मीरदेशे रा. (१) यदि च प्राचीनपाषाणादिपाठकवलेन लेन्द्राकोत्तसश- ब्देन चन्द्रगुप्त एव भवेत् तत्सम्बन्धवलेन तन्मन्त्री चाणक्योऽपि तत्रागच्छत् पूर्वोक्तहेमचन्द्रकोशबलेन स विष्णुगुप्तः स एव वात्स्यायनः स एव न्यायमाथ्यकर्ता भवेत् तदा ५२० शका- ८८ न्यायवार्तिकस्य भूमिकायाम् वणकुम्भकर्णविभीषणनामका राजानः सञ्जाता इति ले- खदर्शनात् रामलक्ष्मणादीनामाधुनिकत्वापत्तेः एवं महाभारते ऽनुशासनपर्वणि ७० अध्याये नृगोपाख्यानं श्रीमद्भागवतेपि वृगोपाख्यानं वर्तते । वाचस्पतिमिश्रेण भामत्यामन्ते "नरेश्वरा यच्चरितानुकार- मिच्छन्ति कर्तुं न च पारयन्ति । तस्मिन् महीपे महनीयकी? श्रीमन्नृगेऽकारि मया निवन्धः ॥" इत्युक्तत्वान्महाभारताद् भागवताच पूर्व वाचस्पतिमिश्र- स्य स्थित्यापत्तेः। अन्यच्च नृसिंहनामसहस्त्र-रामनामसहस्र-कृष्णनामसहस्रा- दिपुस्तकदर्शनाद्विज्ञातं भवति यानि नामानि नृसिंहस्थ तान्येव वाहुल्येन रापस्य कृष्णस्य तथा वहूनां मनुष्याणामपीत्यसा- धारणहेतून् विना नाममात्रादेव कालनिर्णये रामादीनामप्या. धुनिकत्वमाधुनिकमनुष्याणामपि त्रेतायुगावस्थायित्वं स्यादिति महान् विप्लवः । यदि च सेन्द्राकोत्तम्शब्देन चन्द्रगुप्त एव सिद्धयेत् तत्स. म्बन्धवलेन तन्मत्री चाणक्योपि तदानीं प्रसह्य तत्र प्रविशत् हे- मचन्द्रकोशप्रामाण्यात् क्लिष्टकल्पनगा चाणक्य एव वात्स्यायनः ब्दलब्धजन्मना त्रिंशद्वर्षवयस्केन ब्रह्मगुप्तेन ब्रह्मस्फुटसिद्धान्तो विरचितः अस्य पिता जिष्णुगुप्तः पितामहश्च विष्णुगुप्तः अयं च पुरुषपरम्परया सुप्रसिद्धग्रन्थकारो महापण्डितः अयमेव न्यायभा- ज्यकर्ता कथं न कल्प्यत इति न बुद्ध्यामहे । ब्रह्मस्फुटसिद्धान्त स्तु महामहोपाध्यायश्रीसुधाकरद्विवेदिना मुद्रापितः ।, वात्स्यायनचरितम् । ८९ मल्लनागः चणकात्मजः द्रामिलः पक्षिलस्वामी विष्णुगुप्तः अ. गुलः स एव कौटिल्यश्च एकस्यैव पुरुषस्य सर्वाणि ना- मानि तदा · कौटिल्यप्रणीतस्यार्थशास्त्रस्य जैनचतुर्विंशतीर्थङ्क- रेण महावीरस्वामिना जैनसिद्धान्तेषु मिथ्याशास्त्रत्वेन(१) निरूपितत्वात् महावीरस्वामिनश्च विक्रमीयवर्षारम्भात् ४७० वर्षेभ्यः पूर्व स्त्रीष्टाब्दारम्भात् ५२७ वर्षेभ्यः पूर्वं निर्वा- (१) श्वेताम्बरजैनास्त्वेवं वदन्ति २४ तीर्थङ्करो महावीरस्वा. मी स्वशिष्याय गौतमाय इन्द्रभूतये चतुर्दशपूर्वसञकान् ए. कादशाङ्गसङ्घकान् सिद्धान्तानुपदिदेश ते चैकादशासनका ४५ भागेषु विभक्ताः यथा ११ अङ्गानि १ आचाराङ्गम् २ सूत्रकदङ्गम् ३ स्थानाङ्गम् ४ समवायाङ्गम् ५ भगवतीसूत्रमित्यादिना तत्र ४० नन्दिसूत्रम् ४१ अनुयोगद्वारसूत्रमस्ति । तत्रानुयोगद्वारसूत्र "जं इमं अनाणीहि मिच्छादिट्ठीहिं सच्छन्दबुद्धिमइ विग. व्यियं तं जहा भारहं रामायणं भीमासुरुष्कं कोडलयं घोहय- सुयं सगडभाइयाउ कप्पासियं नागसुहमं कणगसत्तरीवेसियं बइससियं बुद्धसासनं काविलं लोगायतं सद्वितंतं माढरपु- राणं वागरणनाडगाइ अहवासावत्तरि कलाउ चत्तारिय वया संगो- वंगा सेतं लोइयं नो आगमउ भावसुयम्"। अत्र नन्दीसूत्रे पाठान्तराणि (कोडल्लयं)कोडिल्लियं अपि च 'भाग- वयं पाअंजली पुस्सदेवयं लेहं गणिों सउणरूपं, एतावान् पा- ठोऽधिकः । भगवतीसूत्रे च २।१ । २० "रिउवेद जजुवेद सामवेद अथ- व्वणवेद इतिहासपञ्चमाणं निघंटुछठानं चउणह बेदाणं सं- गोवंगाणं सरहस्साणं सारए वारप धारए पारप खडंगवी साढतंतविसारए संखाणे सिक्खा कप्ये वागरण छन्दे निरु- ते जोतिसामयने अण्णेसुय वस्सु वंभण्णएसु परिव्वायएसु न- येसु परिनिहिए यावि होत्था" इति भगवतीसूत्रविषयक- निबन्धे वेवरमहाशयकृते २ खण्ड २४८ पृष्ठे द्रष्टव्यम् । ૧૨ न्यायवार्तिकस्य भूमिकायाम् णपदं गतत्वात् (१) ततोऽपि पूर्व स्थितः कौटिल्यः मेगा- स्थिनीसोक्तसेन्द्राकोत्तससमये स्त्रीष्टान्दारम्भात् पूर्व ३२१ वर्षेऽपि स्थित इत्यस्य सामञ्जस्यमाधुनिकतार्किकैरेव कर्तव्यं न तत्वविद्भिरिति । मम तु मते भारतवर्षस्य चतुष्कोणाकारत्वनिरूपणवत् तत्रत्य मनुष्याणां मुखहीनत्वनिरूपणादिवञ्च सेन्द्राकोत्तम्श- ब्देन कश्चिदन्य एव राजा भवेत् चन्द्रगुप्तस्याग्रहे तु कश्चिदन्य- श्चन्द्रगुप्तः ? तरङ्गराजतरङ्गिण्यादिनिरूपितकाश्मीरराजरावणा- दिवदिति न तु विष्णुपुराणायुक्तश्चन्द्रगुप्तचाणक्यसचिव इति प्रतिभाति । एवं सति विक्रमादित्यवर्षारम्भात् ४७० वर्षेभ्यः पूर्व निर्वाणत्वं गतस्य महावीरस्वामिनः २४ तीर्थङ्करस्य जी- वनसमयात् पूर्व शास्त्रत्वेन वर्तमानस्य कौटिल्यशास्त्रस्य त. स्कर्तुः कौटिल्यस्य बहुपूर्वकालावस्थायित्वं सिद्ध्यति । अत एव भागवते १२ । १ । ७ "नव नन्दान् द्विजः कथित(२) प्रपन्नानुद्धरिष्यति । तेषामभावे जगती मौर्या(३) भोक्ष्यन्ति वै कलौ ॥ (१).आपामरप्रसिद्धोऽयं विषयो जैनपट्टावल्यां द्रष्टव्यः । (२) द्विजः कश्चित् चाणक्य इति श्रीधरस्वामी भागवतटी. कायाम् । (३) भारतवर्षीयेतिहासपुस्तकानि महाभारतादीनि महापुराणा- नि विष्णु-मत्स्य-वायुपुराणादीनि च सर्वाणि मुराया राजप- ल्या अपत्यानि मौर्या इति वदन्ति व्युत्पत्तिबललभ्यानि मौर्या इति नामान्यन्वर्थान्यपि भवन्ति । परं तु रघुवंशे “नवे तस्मिन् महीपाले सर्व नवमिवाभवत्" अपि च लौकिकाभाणकोऽपि "कवयः किं न कल्पन्ते किं न भक्षन्ति वायसाः" इदानीं वात्स्यायनचरितम् । स, एवं चन्द्रगुप्तं वै द्विजो राज्येऽभिषेक्ष्यति ॥” इति । स्कन्दपुराणेऽपि । "ततोऽपि द्विसहस्रेषु दशाधिकशतत्रये । भविष्यं नन्दराज्यं च चाणक्यो यान् हनिष्यति ॥" इत्युक्त्या अस्मिन् १९७२ विक्रमाब्दे २८३७ शाका- ब्दे २७०६ सौरवर्षेभ्यः पूर्व चाणक्यस्य स्थितिरासीदिति निष्यन्नं भवति । एवं स्थिते शिलादिशासनस्थानां सन्देहपूर्णानां जीर्णत्वा- द्विलुप्तकल्पाक्षराणामानुसन्धानेन संयोजितवर्णानां वाक्याना. मेकेनैकपकारणान्येनान्यप्रकारेणा(१)ऽनुमानेनार्थानुसन्धानेन पाठकानां ख्रीष्टपूर्व चतुर्थशताब्धां चाणक्यस्थितिस्थापकानां कुत्र स्थितिर्भविष्यतीति आधुनिकतार्किकैरेव समासनीयम् । यदि चाणक्यश्चेदर्वाचीनस्तदा विष्णुपुराणे वायुपुराणे मत्स्यपुराणे च चाणक्यस्य कथाया निरूपणात् विष्णुपुराणा- दिकर्ता द्वापरयुगे वर्तमानो वेदव्यासः कुत्र तिष्ठेत् तानि पुराणा- . श्रूयते पारशीकदेशे मुरानामिका काचिन्नगरी तदुत्पन्नो मौर्यश्चन्द्र गुप्तः, पारशीक इति । "किं किं न साधयति कल्पलतेव विद्या॥" (१) यथा दिल्लीनगरस्थस्तम्भस्थलेख कोलघुक् महाशयेन एके- न प्रकारेण क्यानिङ्ममहाशयेनान्येन प्रकारण एवं वाराणसी स्थराजकीयपाठालये वर्तमाने पाषाणस्तर लिखितं पद्यं पठित्वा केचित् युधिष्ठिरस्य स्तम्भोऽयमिति कल्पयन्ति । अन्ये तु तत्र 'पाल' शब्दपाठात् पालवंशीयस्य कस्यचिद्राक्षः । अपरे तु गुप्ताक्षरे- षु लेखात् गुप्तवंशस्येत्यादयः कल्पनाविशेषाः । आचार्यश्रीसत्यवतसामश्रमिणस्तु ताम्रशासनमेव पठित्वा वेद. भाष्यकर्तुमहीधरस्य पुरातनत्वं बदन्तीति प्रतिपादितमधस्तात् ।
न्यायवार्तिकस्य भूमिकायाम्
न्यपि कुत्र तिष्ठेयुरिति । तथाहि विष्णुपुराणे ३ अंशे
३ । ४ । ५। ६ अध्यायेषु
"द्वापरे द्वापरे विष्णुासरूपी महामुने ।
वेदमेकं स बहुधा कुरुते जगतो हितः ॥"
"यया स कुरुते तन्वा वेदमेकं पृथक् प्रभुः ।
वेदव्यासाभिधानात् तु सा मृतिमधुविद्विषः ॥"
"अष्टाविंशतिकृत्वो वै वेदा व्यस्ता महर्षिभिः ।
वैवस्वतेन्तरे तस्मिन् द्वापरेषु पुनः पुनः ॥"
"चतुर्धा यैः कृतो वेदो द्वापरेषु पुनः पुनः ॥
ऋग्वेदश्रावकं पैलं जग्राह स महामुनिः ।
वैशम्पायननामानं यजुर्वेदस्य चाग्रहीत् ।।
जैमिनि सामवेदस्य तथैवाथर्ववेदवित् ।
सुमन्तुस्तस्य शिष्योऽभूद्वेदव्यासस्य धीमतः ॥
रोमहर्पणनामानं महाबुद्धिं महामुनिम् ।
मूतं जग्राह शिष्यं स इतिहासपुराणयोः ॥"
"कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् ।
कोन्यो हि भुवि मैत्रेय महाभारतकृद्भवेत् ॥"
"आख्यानेश्चाप्युपाख्यानैर्गाथाभिः कल्पशुद्धिभिः ।
पुराणसंहितां चक्रे पुराणार्थविशारदः ॥
आयं सर्वपुराणानां पुराणं ब्राह्ममुच्यते ।
अष्टादशपुराणानि पुराणज्ञाः प्रचक्षते ॥
ब्राझं पानं वैष्णवं च शैवं(१) भागवतं तथा ।
(१) मद्वयं भद्धयं चैव ब्रत्रयं वचतुष्टयम् ।
अनापलिङ्गकूस्कानि पुराणानि पृथक् पृथक् ॥
इति देवीभागवते । अत्र मद्वयेन मत्स्यपुराणम् मार्कण्डे-
वात्स्यायनचरितम् । अथान्यन्नारदीयं च मार्कण्डेयं च सप्तमम् ।। आग्नेयमष्टमं चैव भविष्यं नवमं तथा । दशमं ब्रह्मवैवर्त लैङ्गमेकादशं स्मृतम् ।। वाराहं द्वादशं चैव स्कान्दं चात्र त्रयोदशम् । चतुर्दशं वामनं च कौम पञ्चदशं स्मृतम् ॥ मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् । सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥ सर्वेष्वेतेषु कथ्यन्ते वंशानुचरितं च यत् ।" इति इत्थमष्टादशविद्या वेदानां शाखाभेदाश्च तत्संख्या तत्पा- ठकानां महर्षीणां नामानि च ३-६ अध्यायेषु निरूपितानि । एवं ४ अंशे ४ । ५ अध्याययोः सूर्यवंशकथनप्रस. जेन रामायणकथां ६-२० अध्यायेषु सोमवंशकथामुपक्रम्य यदुवंशकथाप्रसङ्गे कृष्णावतारकथां भारतकथां च संक्षिप्य भूत- कालिकत्वेन वर्तमानत्वेन वा निरूपितवान् । ततश्च २१-२४ अध्यायेषु कलियुगे भविष्यत्वेन च राजवंशा निरूपिता यथा यपुराणं च गृह्यते । भद्वयेन भागवतं भविष्यं च । अत्रयेण ब्रह्मपुराणं ब्रह्मवैवर्त ब्रह्माण्डं च । वचतुष्टयेन विष्णुपुराणं घायुपुराणं वाराहपुराणं वामनपुराणं च । अ-ना-प-लि-ग-कू-स्कानीत्यनेन आग्निपुराणं नारदपुराणं पमपुराणं लिङ्गपुराणं गरुडपुराणं कूर्मपुराणं स्कन्दपुराणं च । एषु शिवपुराणानुक्त्या वायुरूपेण शिवेन प्रोक्तत्वा- च्छवापरनामधेयं वायवीयं पुराणमिति तत्र तत्र लेखदर्शना विरोधपरिहारेऽपि पुराणद्वयं तु जातमेव । अत एव वृहन्नार. दपञ्चरात्रे पुराणसमन्वये षड्विंशतिमहापुराणानीति ' प्रदर्य कल्पभेदेन एकस्मिन् कल्पे एतानि अन्यस्मिन् कल्पे कानिचिद्भिन्ना- नि परन्तु षड्विंशतेर्नाधिकानीति निरूपितम् । ततः परम ष्टादशोपपुराणानि अष्टादशोपोपपुराणानि अष्टादशतिहासाश्च. वर्तन्ते इत्यलं पल्लवितेन । .
९४ न्यायवार्तिकस्य भूमिकायाम् "अर्जुनस्याप्युलप्यां नागकन्यायामिरावान् नाम पुत्रो. ऽभूत् । माणिपूरपतिपुत्र्यां च पुत्रिकाधर्मेण बभ्रुवाहनं ना. म पुत्रमर्जुनोऽजीजनत् । सुभद्रायां चाभकत्वेऽपि योसाव- तिवलपराक्रमः समस्तारातिरथविजेता सोऽभिमन्युरजायत । अभिमन्योहत्तरायां परिक्षीणेषु कुरुषु अश्वत्थामप्रयुक्तब्रह्मा- स्त्रेण गर्भ एव भस्मीकृतो भगवतः सकलसुरासुरवन्दितचर- णयुगलस्यात्मेच्छा कारणमानुपरूपधारिणोनुभावात् पुनर्जीवि- तमवाप्य परिक्षित् जज्ञे । योऽयं साम्प्रतमेतद् भूमण्डलमखण्डि. तायतिधर्मेण पालयतीति ।" ततः परम् "पराशर उवाच । अतः परं भविष्यानहं भूमिपाला- न कीर्तयिष्ये योऽयं साम्पतमवनीपत्तिः परिक्षित् तस्यापि जनमेजयश्रुतसेनोग्रसेन भीमसेनाः पुत्राश्चत्वारो भविष्यन्ति ।" इत्युपक्रम्य "ब्रह्मक्षत्रस्य यो योनिशो राजर्पिसत्कृतः । क्षेमकं प्राप्य राजानं स संस्था प्राप्स्यते कलौ" ॥ इत्युक्तम् ततः “मागधानां वार्हद्रथाना भविष्याणामनुक्रमे कथ- यामि । अत्र हि वंशे महाबला जरासन्धप्रधाना बभूवुः । जरासन्धसुतात् सहदेवात् सोमापिस्तस्माच्छ्रुतवान् इत्यु- पक्रम्य "तस्यापि रिपुञ्जयः पुत्र इत्येते वाईद्रथा भूपतयो वर्षसहस्रमेकं भविष्यन्ति । योयं रिपुञ्जयो नाम वाईद्र- थोऽन्त्यस्तस्य मुनिको नामामात्यो भविष्यति । स चैनं स्वामिनं हत्वा स्वपुत्रं प्रद्योतनामानमभिषेक्ष्यति तस्यापि पा लकनामा पुत्रो भविता ततश्च विशाखयूपस्तत्पुत्रो जनक- च नन्दिवर्धन इत्येतेऽष्टात्रिंशदुत्तरमब्दशतं पश्च प्रद्योताः (प्रद्योतनामानः) पृथिवीं भोक्ष्यन्ति । ततश्च शिशु- स्तस्य वात्स्यायनचरितम् ! ९५ नागस्तत्पुत्रश्च काकवर्णो भविता तत्पुत्रः क्षेमधर्मा तस्यापि क्षतौजास्तत्पुत्रो विम्बिसारस्ततश्चाजातशत्रुस्तस्माञ्च दर्भको दर्भ- काचोदयनस्तस्मादपि नन्दिवर्धनस्ततो महानन्दी इत्येते शै- शुनागा दशभूमिपालास्त्रीणि वर्षशतानि द्विषष्ट्यधिकानि भ- विष्यन्ति । महानन्दिसुतः शूद्रागर्भोद्भवोतिलुब्धो महापद्मो नन्दः परशुराम इवापरोऽखिलक्षत्रान्तकारी भविता । ततः प्रभृति शूद्राः भूमिपाला भविष्यन्ति । स चैकच्छवामनुल्लकि- तशासनो महापद्मः पृथिवीं भोक्ष्यति । तस्याप्यष्टौ सुताः सुमहत्पाबा भवितारः तस्य महापास्यानु पृथिवीं मोक्ष्यन्ति । महापद्मस्तत्पुत्राश्च एक वर्षशतमवनीपतयो भविष्यन्ति । न- वैव तान् नन्दान कौटिल्यो ब्राह्मणः सयुद्धरिष्यति । ते- पामभावे मौर्याश्च पृथिवीं भोक्ष्यन्ति कौटिल्य एव चन्द्रगुप्तं राज्येऽभिषेक्ष्यति । तस्यापि पुत्लोबिन्दुसारो भविष्यति तस्याप्यशोकवर्द्धनस्ततः मुयशास्ततो दशरथस्ततः सङ्गतस्ततः शालिशुरुस्तस्मात् सो- मशर्मा तस्माच्छतधन्वा तस्य तु वृहद्रथनामा भविता । एवं मौर्या दश भूपतयो भविष्यन्ति अब्दशतं समात्रिंशदुत्तरं ते- पामन्ते पृथिवीं शुङ्गा भोक्ष्यन्ती"त्यादि निरूपितम् एवमेव वा. युपुराणे उत्तरार्दै(१) ३७ अध्याये निरूपितम्(२)। (१) मुद्रितं तु वायुपुराणं पूर्वार्द्धमेव अस्योत्तरार्द्ध तु रेवाखण्डा- त्मकं श्लोकद्वादशसाहस्यात्मक वर्तते तेन सह वायुपुराणस्य २४००० संख्या भवति । केचित्तु प्रदर्शितशिवपुराणात्मकत्वमणि वि- हाय कल्पितपुस्तकं ब्रह्माण्डपुराणत्वेन वदन्ति तदसत् ब्रह्माण्ड- पुराणस्य १२००० श्लोकात्मकस्य लिखितस्य पुस्तकस्य वाराणसी- स्थराजकीयसंस्कृतपाठशालायामप्युपलभ्यमानत्वात् । (२) सूत उवाच ।
न्यायवार्तिकस्य भूमिकायाम् ततध यथा मे कीर्तितं सर्व व्यासेनादभुतकर्मणा । भाव्यं कलियुगं चैव तथा मन्वन्तराणि तु ॥ अनागतानि सर्वाणि अवतो मे निबोधत । अत ऊर्ध्व प्रवक्ष्यामि भविष्यन्ति नपाश्च ये॥" इत्युपक्रम्य अधिसामकृष्णनामकं राजानमारभ्य क्षेमकान्तं पञ्चविंश- तिराजानो भविष्याः वृहद्रथमारस्य पुनरपि सञ्जयस्तत्पुत्रः शाक्यः तत्पुत्रः शुखोदन इत्यादिः । ततश्च मा. गधा जरासन्धप्रभृतयः ३२ राजानः तेषां प्राधान्येन नामानि तथाहि जरासन्धस्य पुत्रः सहदेवः सहदेवस्य पुत्रः सोमापिः ५८ वर्षाणि श्रुतश्रवाः ६४ वर्षाणि अयुतायुः २६ वर्षाणि नि- रामित्रो १०० सुकृतः ५६ वर्षाणि वृहकर्मा सेनाजिञ्च २३ श्रुत. अयस्तु ४० महावाहुः महाबुद्धिः महाभीमपराक्रमश्च ३५ शु- चिः ५८ क्षेमः २८ सुवतः सुव्रतो वा ६४ धर्मनेत्रो ५ नृ- पतिः ५८ पुनः सुवतः ३८ दृढसेनः ५८ सुमतिः ३३ सुबलः २२ सुनेत्रः ४० सत्यजित् ८३ वीरजित् ३५ अरिजयः ५० पते राजानो भविष्यन्ति वर्षसंख्यानां योगे कृते ९७४ वर्षाणि जरासन्धस्य सहदेवस्य च वर्षाणि नोल्लिखितानि तत्सं- योजने १००० सम्भवन्ति । ततः परं पञ्च प्रद्योता भविष्यन्ति तथाहि मुनिकः २३ वर्षाणि ततः पालक: २४ विशाखयूपः ४० अ. जको जनको वा ३१ नन्दिवर्द्धनः २० एतेषां वर्षाणां संयोजने १३८ वर्षाणि भवन्ति । ततः परं दश शैशुनागा भूपतयो भविष्य- न्ति तथाहि शिशुनागः ४० वर्षाणि काकवर्णः शुकवर्णो वा ३६ क्षेमवर्मा २० अजातशत्रुः २५ क्षतीजा वा क्षत्रीजाः ४० विविसारो विद्मिसारो वा २८ दर्शको दर्भको वा २५ उदयो या उदयनः ३३ नन्दिवर्द्धनः ४२ महानन्दी ४३ एतेषां योगे कृते ३३२ वर्षाणि भवन्ति । अत्र शिशुनागजन्मारभ्य गणनया ३६२ व- र्षाणि सम्भवन्ति शैशुनागसमय एव विंशतीराजानो भविष्यन्ति । ततो महानन्दिसुतादयापि वर्षशतं १०० भविष्यन्ति । तान् समुद्धृत्य कौटिल्यो ब्राह्मणश्चन्द्रगुप्त नृपं राज्ये ऽभिषेक्ष्यति सच २४ वर्षाणि भोक्ष्यति । ततो भद्र लारो बिन्दुसारो वा २५ वर्षाणि तत्र वात्स्यायनचरितम् । आधुनिकताकिंकास्तु आधुनिकी लोकयात्रामुदाहृत्य तावद् भविष्यद्वृत्तं कनाप्यवगन्तुं न शक्यत इति वदन्तः पुराणषु • च कथाभागं दृष्ट्वा तदुक्तपदार्थानां तत्पश्चात्कालभावित्वं नि- रूपयन्ति । तन्न सङ्गच्छते यतः पुराणेषु भूतकालिकी कथा भूतत्वेन वर्तमानकालिकी का वर्तमानत्वेन भविष्यत्कालिक वृत्तं भविष्यत्वेन सुस्पष्टतया वर्णितम् । यदि सर्व भूतकालिकमेव ततः परं पुराणादिनिर्माणं जातमिति तदा कलौ क्षीणे सन्ध्या- शिष्ट कल्क्यवतारो भविष्यतीत्युक्त्या(१) तस्यापि भूतत्वापत्तेः । अन्येषामपि वर्तमानानां कलिधर्माणां येषां वर्षाणां पञ्च. ततस्तस्यापि पुत्राऽशोकवर्द्धनः २६ वर्षाणि राज्यं भोक्ष्यतीत्याद- योऽनेके राजानो निरूपिताः। (१) मत्स्यपुराणे ४८ अध्याये । चतुर्विशे युगे रामो वसिष्ठेन पुरोधसा । सप्तमे रावणस्यार्थे जसे दशरथात्मजः ।। अष्टमे द्वापरे विष्णुरष्टाविंशे पराशरात् । वेदव्यासस्ततो जज्ञे जातूकर्ण्यपुरःसरः ॥ कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् । बुद्धो नवमके यज्ञे तपसा पुष्करेक्षणः ।। तस्मिन्नेव युगे क्षीणे सन्ध्याशिष्ट भविष्यति । कल्की विष्णुर्यथा नाम पाराशर्यपुरःसरः॥" इत्युपक्रम्य कालधर्माः संक्षेपेण निरूपिताः । मिरुते पुराणे ५२ अध्याये अष्टादशपुराणानां सारांशाः श्लोकसंख्या दानमा- हात्म्यं द्वापरे द्वापरे वेदव्यासेन पुराणानां समुद्धरणं च स. म्यक्तया निरूपितम् । अत्राध्यायादिनिदर्शनं वाराणसीस्थराज- कीयसंस्कृतपाठशालीयपुस्तकानुसारेण बोध्यम् । विष्णुपुराणे ३ अंशे २ अध्याये । प्रोक्तान्येतानि भवता सप्तमन्वन्तराणि वै। भविष्याण्यपि विप्रर्षे समाख्यातुं त्वमर्हसि ॥१॥ १३ " .
९८
न्यायवार्तिकस्य भूमिकायाम्
पुनः।
शत्याः पूर्व लिखितेषु पुस्तकेषु लेखोऽस्ति तेषां तथा भविष्य-
सूर्यचन्द्रोपरागादीनामपि भूतकालिकत्वापत्तेश्च । अंत एव
गङ्गामाहात्म्यमधिकृत्य तदानीं गङ्गाया असत्त्वेऽपि तच्छ- ,
कासमाधिप्रसङ्गे स्कन्दपुराणायकाशीखण्डे उक्तम् ॥
पुराणसंहिता तात ब्रूते त्रैकालिकी कथाम् ।
इत्यादि सङ्गच्छते । वस्तुतस्तु वेदव्यासेन गुरुपरम्परया
पुराणानि प्राप्तानि तथा स्वशिष्याय
प्रतिपादितानि न तु
निर्मितानीति(१) ॥
(१) वायुपुराणे उत्तरार्द्ध ४१ अध्याये ।
ब्रह्मा ददौ शास्त्रमिदं पुराणं मातरिश्वने ॥ ५८ ॥
तस्माञ्चोशनसा प्राप्तं तस्माचापि बृहस्पतिः ।
वृहस्पतिस्तु प्रोवाच सवित्र तदनन्तरम् ॥ ५९ ॥
सविता मृत्यवे प्राह मृत्युश्चेन्द्राय
इन्द्रश्चापि वसिष्ठाय सोऽपि सारस्वताय च ॥ ६० ॥
सारस्वतनधाम्ने च त्रिधामा च शरद्वते ।
शरतस्त्रिविष्टाय सोऽन्तरिक्षाय दत्तवान् ॥ ६१ ॥
वर्षिणे चान्तरिक्षो वै सोऽपि त्रय्यारुणाय च ।
अय्यारुणो धनञ्जये स च प्रादात् कृतये ॥ २ ॥
कृतक्षयात् तृणञ्जयो भरद्वाजाय सोऽप्यथ ।
गौतमाय भरद्वाजः सोऽपि निर्यन्तरे पुनः ॥ ६३ ॥
निर्यन्तरस्तु प्रोवाच तथा वाजवाय च ।
स ददौ सोमशुष्माय स ददौ तृणबिन्दवे ॥ ६४ ॥
तृणविन्दुस्तु दक्षाय दक्षः प्रोवाच शक्तये।
शक्तेः पराशरश्चापि गर्मस्थः श्रुतवानिदम् ॥ ६५ ॥
पराशराजातुकर्णस्तस्माद् द्वैपायनः प्रभुः ।
द्वैपायनात् पुनश्चापि मया प्रोक्तं द्विजोत्तमाः ॥ ६६ ॥
वैशम्पायन उवाच।
मया चैतत्पुनः प्रोक्तं पुत्रायामितबुद्धये ।
इत्येव वाचा ब्रह्मादिगुरुणा समुदाहृता ॥ ६७ ॥
वात्स्यायनचरितम्। ९९ यद्वा निर्णायकानां भूतभविष्यद्वर्त्तमानकालिकक्रिया- विशेषविषयकं ज्ञानमेव नास्ति अथवा ते विष्णोरवतारं महर्षिमूर्धन्यस्य शुकदेवस्य पितरमष्टादशपुराणानां महाभा- रतेतिहासस्य पञ्चमवेदस्य च वक्तारं ऋग्यजुःसामाथर्ववेदानां विभक्तारं ब्रह्ममीमांसाप्रणेतारं(१) श्रीवेदव्यासं मिथ्याभाषि- त्वेन वञ्चकत्वेन पापिष्ठं कल्पपन्ति । अत्र पुराणेषु अन्य- कर्तृत्वेन वेदव्यासकृतित्वे सन्देहश्चेत् तर्हि ममापि महान् सन्देहो भवति तत् किं ते सम्यग् विमृष्य वदन्ति त्वरया निपीडितचेतसा वा आग्रहेण अथवानवधृतमनसा बदन्ती- त्यादिरित्यलमतिप्रसङ्गेन प्रकृतमनुस रामः । विष्णुपुराणे ४ अंशे २४ अध्याये कलिधर्मनिरूप- (१) आनन्दतीर्थापरनामधेयेन मध्वाचार्येण ब्रह्ममीमांसा- भाष्ये "तथा चोक्त स्कान्दे । नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् । किञ्चित् तदन्यथा जातं त्रेतायां द्वापराखलम् ॥ गोतमस्य ऋषेः शापात् ज्ञाने त्वज्ञानतां गते ! सङ्कीर्णबुद्धयो देवा ब्रह्मरुद्रपुरःसराः ॥ शरण्यं शरणं जग्मुर्नारायणमनामयम् । तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः ॥ अवतीर्णो महायोगी सत्यवत्या पराशरात् । उत्सन्नान भगवान् वेदानुजहार हरिः स्वयम् ॥ चतुर्धा व्यभजत् तांश्च चतुर्विंशतिधा पुनः । शतधा चैकधा चैव तथैव च सहस्रधा ॥ कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये । चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा ।। कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । कोऽन्यो हि भुवि मैत्रेय महाभारतकृद्भवेत् ॥"इत्यादि ।
न्यायवार्तिकस्य भूमिकायाम् णानन्तरं पुनः कृतयुगाविर्भावप्रसङ्गे "यावत् परिक्षितो जन्म यावन्नन्दाभिषेचनम् । तावर्षसहस्रं तु ज्ञेयं पञ्चशतोत्तरम्(१) ॥ सप्तर्षीणां च यो पूर्वी दृश्यते उदितौ दिवि । तयोस्तु मध्यनक्षत्रं दृश्यते यत्समं निशि ॥ तेन सप्तर्षयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम् । ते तु यौधिष्ठिरे काले(२) मघास्वासन् द्विजोत्तम ॥ तदा प्रवृत्तश्च कलिद्वादशाब्दशतात्मकः(३) । (१) मुद्रितपुस्तके पञ्चदशोत्तरमिति पाठः । पञ्चदशोत्तरस- हस्रवर्षपर्यन्तं शुद्धः क्षत्रियवंशः स्थास्यतीति टीकाकारैस्तदर्थों- ऽपि निरूपितः तन्न सङ्गच्छते लेखकादिना मूले कृतस्य प्र. मादस्य टीकाकारैरपि तथैवार्थस्य प्रदर्शितत्वात् । तथात्वे प. रिक्षिदारभ्य नन्दपर्यन्तानां मध्ये वार्हद्रथा वर्पसहस्रमेकं ततो- ऽष्टत्रिंशदुत्तरमब्दशतं पञ्च प्रद्योताः ततः शैशुनागा दश भूमि- पालास्त्रीणि वर्षशतानि द्विषष्टयधिकानि ततो महानन्दिसुतो नन्द इत्यधस्तादुक्ते विष्णुपुराणे १५०० वर्षाणि भवन्तीत्यस्यो- न्मत्तप्रलापापत्तेरिति । (२) ते तु पारिक्षिते काले इति मुद्रितपुस्तके प्रामादिकः पाठः । “आसन् मघासु मुनयः शासति पृथ्वीं युधिष्ठिर नृ. पतौ" इत्यादिनिर्दिश्यमानबृहत्संहितावचनविरोधात् । "प्रयास्य- न्ति यदा चैते पूर्वाषाढां" इत्यपि प्रामादिकमेव । अन्यथा युधि. ष्ठिरसमये परीक्षित्समयेऽपि मघासु सप्तर्षयः स्थिता अथ नन्द- ममये पूर्वाषाढायां गताः परं तु परीक्षिदारभ्य नन्दपर्यन्तं १५०० वर्षाणि भवन्तीति मघा आरभ्य शतभिषापर्यन्तं पञ्चदशनक्षत्राणि भवन्तीति शतभिषड्नक्षत्रे सप्तर्षिस्थित्यापत्तेः । (३) कलिप्रमाण ३६०००० मानुषवर्षाणि दिव्यवर्षाणि योजनया १२०० शतानि इत्यग्रेऽस्मिन्नेव पुराणे निरूपितम् । तदा कलिः प्रवृत्तः प्रक- तु शतानि द्वादश.
वात्स्यायनचरितम् । यदैव भगवद्विष्णोरंशो यातो दिवं द्विज ॥ वसुदेवकुलोद्भूतस्तदैव कलिरागतः । यावत् स पादपद्माभ्यां पस्पर्शमां वसुन्धराम् ॥ तावत् पृथ्वीपरिष्वङ्गे समर्थो नाभवत् कालिः । गते सनातनस्यांशे विष्णोस्तत्र भुवो दिवम् ।। तत्याज सानुजो राज्यं धर्मपुत्रो युधिष्ठिरः । विपरीतानि दृष्ट्वा च निमित्तानि स पाण्डवः ॥ याते कृष्णे चकाराथ सोऽभिषेक परिक्षितः । प्रयास्यन्ति तदा(१) चैते पूर्वाषाढां महर्षयः(२) ।। र्षेण वर्तमानः न स्वारब्ध इति फलितार्थः । तदा कदेत्यपेक्षा. यामाह । यदैव भगवद्विष्णोरित्यादि । “कलिः पूर्व सन्ध्या- रूपेण वृत्तोऽपि स्वेन रूपेण सन्ध्यारूपमतिक्रम्य प्रवृत्तः प्रकर्षण वृत्त इति । एतदेव स्पष्टयति । यदैवेति ।" इति विष्णुपुराणटी- कायां रत्नगर्भभट्टाचार्याः । (१) यदा-इति मुद्रितपुस्तके पाठः । (२) कमलाकरेण ज्यौतिषसिद्धान्ततत्त्वविवेके लोके प्रसिद्धा- नां सप्तर्षीणां स्थिरत्वं प्रतिपादितम् । येषां सप्तर्षीणां पुराणा. दिषु चारो निरूपितस्ते तु धर्मानुष्ठानोपयोगिनोऽदृश्याः केचिदन्य एव । आधुनिका अपि सप्तर्षिचारविषये ऽनेकान् विकल्पानु- द्भावयन्ति यथा “नक्षत्राणि राशिचक्रे स्थितानि सप्तर्ष यस्तु त. द्वहिः स्थिता कदाचिदपि मघासु न स्थास्यन्ति" इत्यादि । अत्रानुमीयते मया यथा मनुष्यादयो यानादिकं समारुह्य गच्छ- न्ति तथा ग्रहा अपि गच्छन्तीति चारशब्दस्यार्थ इति उप- र्यध:कल्पनया चरत्वं स्थिरत्वं नक्षत्रेषु स्थायित्वं कल्पयन्ति । वस्तुतस्तु नक्षत्रकक्षातः सप्तर्षिकक्षायाश्चातिदुरे वर्तमानत्वात न केनाप्याधुनिकेनाभिनववयस्केन तनिणेतुं शक्यम् एकस्मिन्नक्षत्रे यदि वर्षशतं तिष्ठन्ति यदि च गणकस्य वर्षशतद्वयमायुश्चेत्तदा स्थू १०२ न्यायवार्तिकस्य भूमिकायाम् तदा नन्दात् प्रभृत्येप कलिईद्धिं गमिष्यति । यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदाहनि ।। प्रतिपन्नं कलियुगं तस्य संख्यां निबोध मे । त्रीणि लक्षाणि वर्षाणां द्विज मानुषसंख्यया ॥ पष्टिं चैव सहस्राणि भविष्यत्येष वै कलिः । शतानि तानि दिव्यानि सप्त पञ्च च संख्यया ।। निःशेषेण ततस्तस्मिन् भविष्यति पुनः कृतम् । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विजसत्तम ॥ युगेयुगे महात्मानः समतीताः सहस्रशः । वहुन्वान्नामधेयानां परिसंख्या कुलेकुले ॥ पुनरुक्तवहुवात् तु न मया परिकीर्तिताः ॥” इति ॥ श्रीवराहमिहिराचार्येण घेद-धर्मशाख-पुराणादीनि स- मालोच्य बृहत्संहितायां १३ अध्याये सप्तर्विचारप्रकर- णे उक्तम् । "आसन् मघासु मुनयः शासति पृथ्वी युधिष्ठिरे नृपतौ । षद्विकपञ्चद्वियुतः २५२६ शककालस्तस्य राज्यस्य ॥३॥ लगतिदर्शनगणितैक्यं भवितुमर्हति । एवमेव भास्कराचार्येण ग्रहग- णिते भगणोपपत्तो ग्रहाणां मन्दोच्चादिदग्गणितैक्यपक्षे "नायमर्थः पुरुषलाध्य” इत्याद्युक्तम् । नवीनानामपि मते येषां तारागणानां सुमहतिदूरवर्तित्वादसत्त्वं पूर्व निश्चितमासीत् तेषामिदानी दूर- दर्शकनवीनयन्त्राविर्भावेन सत्त्वमेव सुनिश्चितं जातम् । तस्माद्विष्णु- पुराणटीकाकारादिप्रदर्शितरीत्या यन्नक्षत्रेण सम सप्तर्षीणामुदयो दृश्यते तस्मिन्नेव नक्षत्रे तदानीमवस्थानं वक्तव्यमिति । सप्तर्षीणां चाराभावेऽदृश्यत्वे च वृद्धगर्ग-कश्यप-वराहमिहिरादीनां तञ्चा- रनिरूपणं धूमाच्छादिते किरणरहिते प्रत्येकर्षिदर्शने ऽशुभफ- लनिरूपणमुन्मतप्रलाप एवेत्यलं पल्लवितेन ।
वात्स्यायनचरितम् । १०३ - पर्पसहस्रत्रितयं शतमेकं सप्ततिनवाग्रा ३१७९ च शककालयातमिश्रं कलेगतं धर्मपुत्रात् तु(१) ॥ ४ ॥ (१) पाठोऽयं वाराणसीस्थराजकीयसंस्कृतपाठशालीयसर- स्वतीभवनस्थे पुरातने पुस्तके वर्तते । मुद्रितपुस्तके च त्रुटि- तस्तथैव टीकापि त्रुटिता वर्तते । त्रुटितमूलपुस्तकानुसारेण भ- होत्पलेन टीका कृता इति कथनं तु साहसमिवाभाति । मुद्रितटी- काप्रदर्शितरीत्या कृतया गणनया इदानीमुत्तराभाद्रपदासु सप्तर्षी- णां स्थितिरायाति तत्तु दृग्गणितैक्यविरुद्धम् । आसन् मघास्वित्यादिना तत्र संयुक्ता इत्यन्तेन ग्रन्थेन व. स्तुत्रयं प्रतिपादितम् युधिष्ठिरस्य राज्यकालः तस्य शककाला- नयनप्रकारः गतकलियुगाब्दानयनप्रकारश्च । तथाहि धर्मपुत्राद् युधिष्ठिरात् वर्षसहस्रत्रितयम् एकं शतं नवाना सप्तत्तिश्च ३१७९ एतद्वर्षवृन्दे शककालयातमिश्रे सति गतकलियुगाब्दाः समा- यान्ति । षड्विकपञ्चद्वियुतः २५२६ एतद्वर्षवृन्दे शककालयुक्ते सति राज्यान्तकालः समायाति। पृथ्वी शासति युधिष्ठिरे अ- र्थात् राजसिंहासनाधिरूढे मघासु सप्तर्षयः आसन् इति । अत्र धर्मपुत्रयुधिष्ठिरसमयात् गतकलियुगाब्दानयनं प्रदर्शितमतः कलि- युगारम्भात् पूर्वकालावस्थायित्वे द्वापरयुगावस्थायित्वं सुव्यक्तम् । अत एव सप्तर्षिचारप्रकरणे भट्टोत्पलेन वृहत्संहिताटीकायां "क- लिद्वापरसन्धौ तु स्थितास्ते पितृदैवतम्" इत्युक्तवृद्धगर्गवचनं सङ्ग- च्छते । ते सप्तर्षय इति भावः। शककालस्तस्य राक्षश्च राज्यस्यति वा पाठः तस्य युधि- ष्ठिरस्य शककालः अत्र शकशब्दः संवत्सरवांचकः पारिभाषिकः तथाह ज्योतिर्विदाभरणे १० अध्याये "युधिष्ठिरो विक्रमशालिवाहनौ नराधिनाथौ विजयाभिनन्दनः । इमेऽनु नागार्जुनमेदिनीविभु. बलिः क्रमात् षट् शककारकाः कलौ ॥” इति । विस्तरस्तु वाचस्पत्ये बृहदभिधाने शकशब्दविवरणे द्रष्टव्यः ।
न्यायवार्तिकस्य भूमिकायाम् एकैकस्मिनृक्षे शतं शतं ते चरन्ति वर्षाणाम् । प्रागुदयतोऽप्यविवराजूनयन्ति तत्र संयुक्ताः ।।५॥" एतदनुसारेणास्मिन् १९७२ विक्रमाब्दे १८३७ शा- काब्दे १९१५ स्त्रीष्टाब्दे कलियुगस्य ५०१६ सौरव. पाण्यतीतानीत्ययं चहूनां ज्योतिर्विदां सिद्धान्तः एतदेव स्पष्टयामि । तथाहि युधिष्ठिरराज्यकाले मघानक्षत्रस्य कस्मिन् पादे वा- सिंहराशौ कस्मिन्नशे सप्तर्षयः स्थिता इति लेखाभावात् सूक्ष्मगणनायां व्यतीतवर्षसंख्यायां किञ्चिदन्तरं सम्भ- वतीति स्थूलगणनया प्रदर्यते । इदानीमपि आकाशे सप्तर्षयो मघास्वेव वर्तमाना दृश्यन्ते इति नैव तिरोहित- मस्ति विदुषाम् तथा सति प्रथमावृत्तौ मघा आरभ्य म. षड्विकपञ्चद्वि २५२६ युतः इदानीन्तनशककालः १८३७ युक्त्या ४३६३ एतावन्ति वर्षाणि व्यतीतानि तानि च तस्य रा- ज्यत्यागकालात् स्वर्गारोहणकालाद्वा अवगन्तव्यानि । यतः प्रायो निर्वाणकालान्मरणकालाद्वा वर्षारम्मव्यवहारो भवति शा. लिवाहनशककालविषये सिद्धान्तशिरोमणी गणिताध्याये भास्क- राचार्याः। याताः षण्मनवो युगानि भवितान्यन्यागान्रित्रयं नन्दान्दुिगुणास्तथा शकनृपस्यान्ते कलेर्वत्सराः । गोद्रीन्द्वद्रिकृताङ्कदननगगोचन्द्राः१९७२९४७१७९शकाब्दान्विताः । सर्वे सङ्कलिताः पितामहदिने स्युर्वर्तमाने गताः ॥ २८॥ च जैनानां महावीरस्वामिनिर्वाणकालात् संवत्सरा- रम्भः । एवं सति राजतरङ्गिण्युक्त ६५३ गतेषु कलिवर्षेषु युधिष्ठिरावस्थाने इदानींतन ४३६३ गतयुधिष्ठिराब्दयोगे ५०१६ कलिगताब्दाः समायान्तीति सर्व समञ्जसम् । यया वात्स्यायनचरितम् । घापर्यन्तं २७०० सौरवर्षाणि नृणां वर्षाणि वा अतीतानि (१) पुनरपि द्वितीयावृत्तौ(२) तथैव २७०० वर्षाणि अतीता. (१) वायुपुराणे उत्तरार्द्ध ३७ अध्याये सप्तर्षवस्तदा प्राहुः प्रतीपे राशि वै शतम् । सप्तविंशैः 'शतैर्भाव्या आन्ध्रान्तास्ते त्वया पुनः ।। ४१२ ।। सप्तविंशतिपर्यन्ते कृत्स्ने नक्षत्रमण्डले । सप्तर्षयस्तु तिष्ठन्ति पर्यायेण शतं शतम् ॥ ४१३ ॥ इति (२) इदानींपर्यन्तमेकावृत्तिरेव कथं न मन्तव्या तथा सति "ततोऽपि द्विसहस्रेषु दशाधिकशतत्रये । भविष्यं नन्दराज्यं च चाणक्पो यान् हनिष्यति ॥" इति स्कन्दपुराणस्थं वचनं कुत्र समन्वयनीयम् ? । आप च जनमेजयप्रदत्तं ताम्रशासनं कुत्र गच्छेत् ? तत्ता- म्रशासनस्य प्रतिलिपिः सन् १८७५ नम्बरमासम्मुद्रिते इण्डियन् अंटिक्योरी पुस्तके वर्तते तथाहि "श्रीगणाधिपतये नमः पान्तु घो जलदश्यामाः शाङ्गज्याधात. कर्कशाः त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हारिवाहवः स्वस्ति श्रीज. याभ्युदये युधिष्ठिरशके प्लवङ्गाख्ये एकोननवतिवत्सरे सहस्य- मासे अमावस्यायां सौम्यवासरे श्रीमन्महाराजाधिराजपरमे. श्वरो वीरप्रतापशाली कुरुकुलोद्भवो वैयाघ्रपादगोत्रजः श्रीज- म्मेजयभूपः किष्किन्धानगर्या सिंहासनस्थः सकलवर्णाश्रम- धर्मप्रतिपालका पश्चिमदेशस्थसीतापुरवृकोदरक्षेत्रे मुनिवृंदमठस्य गरुडवाहनतीर्थश्रीमदशिष्यकैकयनाथैराराधि- तसीतारामस्य पूजार्थ कृतभूदानसाधनमस्मत्प्रपितामहयुधि- ष्ठिगधिष्ठिप्तमुनिवृन्दक्षेत्रेऽस्य चतुःसीमापरिमितिक्रमः पूर्वभागे उत्तरवाहिन्याः तुङ्गभद्रायाः पश्चिमे पश्चिमे दक्षिणभागे अगस्त्या- श्रमसङ्गमादुत्तरे पश्चिमे पाषाणनद्याः पूर्वे उत्तरभागे भिन्न- नद्याः दक्षिणे एतन्मध्यस्थमुनिवृन्दक्षेत्रं भवच्छिष्यपरंपरया आचन्द्रार्कपर्यन्तं निधिनिक्षेपजलपाषाणआक्षिणी(?) आगामि- सिद्धसाध्यतेजःस्वाम्यसहितं स्ववुध्यनुकूलेन तत्रत्य- अस्मन्माता- न्यायवार्तिकस्य भूमिकायाम् नि सङ्कलनया ५४०० वर्षाणि गतानि । युधिष्ठिरमहाराजस्य द्वापरयुगे वर्तमानत्वात् वर्षसहस्त्रात्मकमायुः सम्भवति(१) पित्रोः विष्णुलोकप्राप्त्यर्थ हरिहरसन्निधौ उपरागसमये सहिर- ण्येन तुंगभद्राजलधारापूर्वकं क्षेत्रं यतिहस्ते दत्तवानस्मि एत- धर्मसाधनस्थ साक्षिणः आदित्यचन्द्रावनिलानलौ च द्यौर्भू. मिरापो हदयं यमश्च अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् दानपालनयोर्मध्ये दानाच्छ्रेयोनुपालनम् दाना. स्वर्गमवाप्नोति पालनादच्युतं पदं स्वदत्ताद् द्विगुणं पुण्यं पर- दत्तानुपालनं परदत्तापहारेण स्वदत्तं निष्फलं भवेत् स्वदत्ता पु. त्रिका ज्ञेया पितृदत्ता सहोदरा अन्यदत्ता तु जननी दत्तभूमि परि- त्यजेत् । अन्यैस्तु च्छर्दितं क्षुद्रैः श्वभिश्च च्छर्दितं न तु । ततः कष्टस्ततो नीचः स्वयंदत्तापहारकः स्वदत्तां परदत्तां वा ब्रह्मवृत्ति हरेत यः षष्टिवर्षसहस्त्राणि विष्टायां जायते क्रिमिः।" इति ॥ केचित्तु अनियतस्वरूपां लिपि नियतस्वरूपां परिकल्प्य तत् ताम्रशासनं कृत्रिम निरूपयन्ति । अन्ये तु तत्रोक्ताः वङ्गसंवत्लरसहस्यशासकृष्णपझामावास्या- सौम्यवासरोपरागादियोगा इतः पूर्व त्रयोदशशताब्यां सम्भवन्तीति' स एव समयो महाभारतस्येति वदन्ति । वाराणसीस्थराजकीयसंस्कृतपाठशालीयप्रधानगणिताध्यापकेन महामहोपाध्यायश्रीबापूदेवशास्त्रि-ली. आई. ई. महाशयेन तु पूर्वोक्तकुकल्पनानिरासपूर्वकं गणितेन तत्ताम्रशासनं तदुक्तकालि- कमेव व्यवस्थापितमिति । (१) युधिष्ठिरस्य वर्षसहस्रपरिमितमायुरभूदित्यत्र ममाग्रहो नास्ति यदि महाभारतमत्स्यपुराणादिनिरूपितमायुयादियुगव्य- वस्था मिथ्यैव तदा युधिष्ठिरोऽपि बाभूत् भारतीयं युद्धमपि नाभूत् सर्व स्वकपोलकल्पितं काव्यं सर्वमनवस्थितमिति तदुदा- हृत्याधुनिकैर्वस्तुतत्त्वव्यवस्थापने न किमपि वाच्यम् । किं जातं किं न जातमिति सर्वज्ञो भगवानेव वेद मयातु यया रीत्या शास्त्र- निर्माणं तयैव रीत्या सामअस्यं कृतं तथैव निरूपयिष्यत इति ।
वात्स्यायनचरितम् । १०७ . तथोक्तं मत्स्यपुराणे १३१ अध्याये द्वापरयुगे वेदव्या. सेन वेदानां तच्छाखानां विभागप्रसङ्गे तच्छिष्याणां कल्प- सूत्रतद्भाष्यरचनाप्रसङ्गे। "द्वापरेष्वभिवर्तन्ते मतिभेदास्तथा नृणाम्।” इत्युपक्रम्य । पूर्ण वर्षसहस्रं तु(१)परमायुस्तदा नृणाम् ।”इत्याधुक्तम् । (१) पाठोऽयं वाराणसीस्थराजकीयसंस्कृतपाठशालीयहस्त. लिखितपुस्तके वर्तते मुद्रितपुस्तके तु पाठभेदोऽध्यायक्रम. भेदश्च वर्तत इति । चिरजीवित्व प्रमाणं तु “दश वर्षसहस्राणि दश वर्षशतानि च । रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ॥" इति वाल्मीकिरामायणादिकं वर्तत एव । जैनबौद्धमन्थे- स्वपि वहूनां चिरजीवित्वं प्रतिपादितमेव । खीष्टीयानामपि ग्रन्थे बहूनां दीर्घजीवित्वं महम्मदीयानामपि पुस्तके बहूनां चिर- जीवित्वं प्रतिपादितमिति बहूनामैक्याद् युधिष्ठिरस्य वर्षसहस्र- जोवित्वे न किमपि चित्रं प्रतिभाति । अपि च सम्बन्धाभिधेयप्रयोजनाधिकारीत्यनुबन्धचनुष्टयम् उद्देशो लक्षणं परीक्षा चेति निरूपणक्रमः सज्ञापरिभाषा चेति शा- रमुखम् इति यया संशया परिभाषया येन च क्रमेण पुराणानां प्रणयनं तथैव तेषां समालोचने न किमप्यसमञ्जसम् । कचित्तु उत्तरायणे गते सूर्ये मरणमिच्छतो भीष्मस्य ,शरश- य्यां गतवत आधुनिकरीत्याऽसमञ्जसं निरूपयन्तो गणितेन तत् सं. साध्य महाभारतस्यातात्कालिकत्वमाहुस्तन्न तावत्कालं गणितेन शरशय्यायामवस्थानासिद्धः । कुवेरगुप्तां दिशमुष्णरस्मो गन्तुं प्रवृत्ते समयं विलय । दिग् दक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासामिवोत्ससर्ज ॥ इति शिवपुराणमूलककुमारसम्भवानुपपत्तेच!
१०८ न्यायवार्तिकस्य भूमिकायाम् आधुनिकलोकयात्रामुदाहत्य परीक्षणे तु आकाशस्थितानां वहूनां पदार्थानां भूमिस्थितानां च बहूनां पदार्थानामशेषवि. शेषरूपेण सर्वात्मता शानं न भवतीति कुतो युधिष्ठिरस्य चि. रायुष्टुं भीमस्य हस्तिसहस्रबलत्वं भीष्मपितामहस्य रशय्याशयनं च सिद्ध्येत् ? । इतः पूर्व व्योमयानादीनामपि अ- सम्भव एवासीत् दृश्यते चानवरतं प्रत्यहं विज्ञानविद्यामाहिम्ना नवनवं वस्तु आविर्भवतीति तत्सर्व नासम्भवीति । वेदधर्मशालपुराणादीनां न्यायादिदर्शनानां च परस्परवि- रोधपरिहारार्थ मधुसूदनसरस्वत्याख्यभिक्षुणा प्रस्थानभेदग्रन्थे उदमनाचार्येण न्यायकुसुमाञ्जलौ ज्यौतिषपुराणयोरेकवाक्यता- सम्पादनाय पण्डितवरश्रीरामचन्द्रेग अविरोधप्रकाशग्रन्थे च व. हवः प्रयासाः कृताः । वस्तुतस्तु तेषामेकवाक्यतासम्पादनमै- कमयं च न केनापि कर्तुं शक्यं तथात्वे विशिष्टाद्वैताद्वैतद्वैताद्वत- मतभेदो न स्यात् मम तु मते तदपि ब्रह्मानिर्वचनीयत्वसाधकमेव । आधुनिकास्तु मन्वादिप्रणीतधर्मशास्त्राणां पुराणानामपि न्यूनाधि- कपाठदर्शनानिबन्धेतानां वचनानां तदुपलब्धपुस्तकेष्वनुपल- म्भान्महाविप्लवं वर्णयन्ति तदपि शास्त्रतात्पर्यानववोधात् । यथा अस्यां लोकप्रसिद्धायां मनुस्मृतौ ११९६ संवत्सरलिखि- तेन तालपत्रपुस्तकेन संवादे कृते ७५ श्लोका अधिका दृश्य- न्ते । अपरापि ६००० श्लोकात्मिका षट्साहस्री वृद्धमनुस्मृतिर्वा बृहन्मनुस्मृतिः वाराणस्यां मिसिरपोखरास्थले कान्यकुब्जस्य पं० विश्वेश्वरदत्तव्यासस्य गृहे वर्तमाना मया ! न्येऽपि मनुसहिता-मनुसिद्धान्त-मनुहोरा-नामका ग्रन्था वर्तन्ते । तथोक्तं नारदसंहितायामारम्भे "ब्रह्माचर्यो वसिष्ठोत्रिर्मनुः पौलस्त्यलोमशौ । मरीचिरगिराव्यासो नारदः शौनको भृगुः ।। यवनश्च्यवनो गर्गः कश्यपोऽथ पराशरः । अष्टादशैते गम्भीरा ज्योतिःशास्त्रप्रवर्तकाः॥ लिद्धान्त-संहिता-होरारूपस्कन्धत्रयात्मकम् ।
११० न्यायवार्तिकस्य भूमिकायाम् सति मघा एवं सति कलिवर्षेषु ६५३ मितेषु गतेषु युधिष्ठिर - महाराजस्य वर्तमानत्वं निरूपयन्ती · राजतरागिणी अपि सङ्गच्छते । "शतेषु पदम सार्देषु व्यधिकेषु च भूतले । कलेगतेषु वर्षाणामभवन् कुरुपाण्डवाः ॥” इति । एवं आरम्य पूर्वाषाढापर्यन्तं १० नक्षत्राणि भवन्तीति परीक्षिद्राज्याभिषेकसमये वर्षाणां दश शतानि १००० अतीतानि । अयमेव परमार्थो विष्णुपुराणस्य ये सप्तर्षयो मघास्वासन् युधिष्ठिरसमय इति शेषः एते च तदा पूर्वाषाढा प्रयास्यन्ति तदैव भगवति वासुदेव श्रीकृष्णे दिवं याते सति परीक्षितो राज्याभिषेकं कृत्वा सानुजो युधिष्ठिरोरा ज्यं तत्याज । एषः कलिः नन्दात् प्रभृति वृद्धि गमिष्यतीति । अतो निष्पन्न परिक्षिद्राज्याभिषेकसमये कलिवर्षाण्यतीतानि ६५३ ततश्च बाईद्रथा भुपतयः सहस्रवर्षपर्यन्तम् । ततश्च प्रयोतनामानो भूपतयोऽष्टत्रिंशदुनरमब्दशनम् । ततश्च ौशुनागास्त्रीणि वर्षशतानि द्विपष्ट्यधिकानि । ३६२ ततश्च महापभस्तत्पुत्राथ एकशतम् । १०० २२५३. सीदिदानी तत्पुस्तकसंग्रहस्य विक्रयान जाने तत् कुत्र गसम् । एवं तत्तनिवन्धकारैरुद्धृतानां भारतवचनानामुपलभ्यमा- ने महाभारते क्वचिदनुपलम्भान्महाभारतस्यापि नवीनत्वं ख- ण्डितत्वमनवस्थितत्वादिकं प्रलपन्ति तदपि तात्पर्यानवबोधात् । मन्त्रभारत-जैमिनिभारतादीनां विद्यमानत्वात् । एवं सर्वमननुविमृश्य वक्तव्ये महान् विप्लवो भवेत् ।
वात्स्यायनचरितम् । १११ नवैव नन्दान् कौटिल्यो ब्राह्मणः समुद्धरिष्यति । तेषामभावे मौर्याश्च भोक्ष्यन्ति कौटिल्य एव चन्द्रगुप्तं राज्ये ऽभिषेक्ष्यतीति । इत्थं स्थूलगणनया विष्णुपुराणेन २२५३ कल्यब्देष्वती- तेषु ततः परं चन्द्रगुप्तस्य राज्याभिषेकसमयः समायाति । एवं सति ततोऽपि द्विसहस्त्रेषु दशाधिकशतत्रये । भविष्यं नन्दराज्यं च चाणक्यो यान् हनिष्यति ॥ इति स्कन्द पुराणीयवचनमपि सङ्गच्छते । एवं च पूर्वोक्तं भागवतीयं वायुपुराणीयं मत्स्यपुराणीयं च वचनं सङ्गच्छत इति। अपि च विक्रमाब्दारम्भात् ४७० वर्षेभ्यः पूर्व निर्वाणपदवीं गतानां जैन २४ तीर्थराणां महावीरस्वामिनां कौटिल्य- शास्त्रस्य मिथ्याशास्त्रनिरुक्त्या उक्तसमयादनल्पपूर्वकालावस्था- यित्वं कौटिल्यस्य सङ्गच्छत इति सर्व समञ्जसम् । आधुनिकास्तु दूरदेशस्थैरत्युग्रबुद्धिभिर्महासामर्थ्यवद्भि- श्चिरस्थैरपि दुरधिगमान् विषयान् तस्मिन् समयेऽल्पाया. सेनाल्पेन कालेन राजदूतेन येन केनचिन्मेगास्थेनीसनाम्ना याथातत्थ्येनाऽवगतान् समाकलय्य पुस्तकनिर्माणाभावेऽपि त- भाम्ना पत्रादिना सङ्कलिते पुस्तके 'सेन्द्राकोत्तस' 'सेन्द्राकोतस' 'जन्द्रमस'इलाकारकैः पदैः स्वविधाबुद्धिमहिम्ना चन्द्रगुप्त परि. कल्प्य तत्प्रकरणे चाणक्यस्य चर्चाया अभावेऽपि बलात्कारेण चाणक्यं सनिवेश्य अशोकवद्धनस्य चन्द्रगुप्तपौत्रस्य चर्चाया अभावेऽपि यं कश्चिदशोकं सन्निवेश्य तज्जीवनचरितादिक यथोक्तशिलाशासनादिभ्यो यथोक्तरीत्या परिकल्प्येदानी महाभारतं विष्णुपुराणं वायुपुराणं मत्स्यपुराणं श्रीमद्भागवतं स्कन्दपुराणादिकं च समन्वेतुमिच्छन्ति यदि न पारयन्ति ११२ न्यायवार्तिकस्य भूमिकायाम् तदा तान्येवावज्ञायोपहसन्ति “सर्व गप्पं" "सर्व गाँजा" इति वदन्तीति शोकस्थानम् । यदि च निरुक्तपुगणादिनिर्दिष्टचन्द्रगुप्ताशोकवर्द्धनादि- भ्यो भिन्ना अर्वाचीनाश्चन्द्रगुप्ताशोकप्रभृतयस्तदा नासम्भवः तथाहि विष्णुपुराणे १ अंशे १५ अध्याये । "युगेयुगे भवन्त्येते दक्षाद्याः मुनिसत्तम । पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यत्ति ॥ ६१ ॥" विष्णुपुराणे ४ अंशे २४ अध्याये कलिधर्म एव "ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विजसत्तम । युगेयुगे महात्मानः समतीताः सहस्रशः ॥ बहुत्वानामधेयानां परिसंख्या कुलेकुले । पुनरुक्तवहुत्वात् तु न मया परिकीर्तिताः ॥" "एष तूदेशतो वंशस्तवोक्तो भूभुजां मया । निखिलो गदितुं शक्यों नैव जन्मशतैरपि ॥” इति । युधिष्ठिरार्जुनभीमसेननकुलसहदेवाः पञ्च भ्रातरः पाण्डवा इति सार्वजनीनप्रसिद्धिः । विष्णुपुराणे ४ अंशे २१ अध्याये परिक्षितोऽपि जनमेजयश्रुतसेनोग्रसेन भीमसेनाश्चत्वारः पुत्रा भविष्यन्तीति । ततश्च शतानीकाद् द्वादशपुरुषानन्तरमपरः शतानीको भविष्यतीति । तत्रैव २२ अध्याये गुरुक्षेपस्ततो वन्सो वत्साद्वत्सव्यूहस्ततः प्रतिव्योमस्तस्यापि दिवाकरस्तस्मा- त् सहदेवः । ततश्च त्रयोदशपुरुषानन्तरं सञ्जयस्तस्माच्छा- क्यः शाक्याच्छुद्धोदनः । ततः २३ अध्याये जरासन्धसुतात् सहदेवादित्यादि भविष्यत्वेन निरूपितम् । अत्रापरे इतिहासतत्त्वविदः “वात्स्यायने मल्लनागः कौटिल्यश्चणकात्मज" । इति हेमचन्द्रस्य कोषं "विष्णु.
वात्स्यायनचरितम् । ११३ गुप्तस्तु (कौण्डिन्यः) कौटिल्यः चाणक्यो द्रामिलौशुल" इति पुरुषोत्तमदेवस्य कोषं चावलम्ब्य वदन्ति यत् वात्स्या- यनचाणक्य एव इति न्यायदर्शनभाष्यं चाणक्येनैव कृतं ते तु वदतो व्याघातेन दूरादेव निराकृता भवन्ति यतः कोशे कौटिल्यस्यापि पाठात् कौटिल्येन स्वनिर्मितेऽर्थशास्त्रे प्रथमे ऽधिकरणे द्वितीयेऽध्याये "सांख्यं योगो लोकायतं चेत्यान्वीक्षिकी"(१)त्युक्तत्वात् स च न्यायशास्त्रं जानात्येव नेति वात्स्यायनेन तु न्यायभाष्ये "सेयमान्वीक्षिकी न्यायविद्या प्रदीप: सर्वविद्यानामुपायः सर्वकर्मणाम् । आधारः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता ॥" wayam-e- (१) महिसूरस्थ-ओरिअण्टल लाइब्रेरी सीरीजमुद्रिते पुस्तके ६ पृष्ठे द्रष्टव्यम् । केचित्तु सांख्ययोगयोरुपनिषत्सु अनेकत्र चर्चितत्वात् पुराणे. ष्वपि भागवतादिषु “पञ्चमः कपिला नाम-प्रोवाचासुरये सांख्य". मिति, मत्स्यपुराणे १५७ अध्याये वा० रा० सं० पाठशालीय. पुस्तके २७० पन्ने। "अथान्यद्रूपमास्थाथ शम्भु नारायणोऽव्ययः । आजगाम महातेजा योगाचार्यो महायशाः ॥ सांख्याचार्योतिमतिमान् कपिलो ब्राह्मणोऽपि वा ! उभावपि महात्मानौ कूजन्तौ क्षेत्रतत्परौ ॥ इति । सांख्यं योगो लोकायतं चेत्यान्वीक्षिकीनि सुष्ठूक्तं कौटिल्येनेति घदन्ति तदप्यल्पज्ञतामात्रं सांख्यसूत्रषडध्याय्यां "न वयं षट्पदार्थ- वादिनो वैशेषिकादिवत्" इत्युक्तत्वान्यायवैशेषिकयोरेकवाक्यतया सांख्यापेक्षयाऽपि न्यायस्य पूर्वकालिकत्वं महर्षीणां सम्मतमिति । सम्प्रदायविदस्तु यथोक्तश्रुति-स्मृति-पुराणेतिहासोक्तन्याय- शास्त्रस्यैवान्वीक्षिकीपदवाच्यत्वादिदं कौटिल्यार्थशास्त्रं यत्र तत्र तद्विरुद्धार्थप्रतिपादकत्वात् कल्पितमिवाभातीत्युपेक्षणीयमित्याहुः । १५ ११४ न्यायवार्तिकस्य भूमिकायाम् इत्युक्तत्वाध्यक्तिभेदः कर्तृभेदो बुद्धिभेदः सिद्धान्तभेदश्च मुव्यक्त एव । अत्र इतिहासतत्त्वविद्गुरवः केचिद्वदन्ति "तदानीं न्याय- शास्त्रं नासी"देवेति तथात्वेऽपि सिद्धं नः समीहितं “मूलं नास्ति कुतः शाखा" इत्याभाणकेन यदि तदानीं न्यायशास्त्रमेव नासीत् तदा भाष्यं कस्य कृतं चाणक्यवात्स्यायनेनेति ?। कामसूत्रव्याख्यायां “वात्स्यायन इति स्वगोत्रनिमि- ता सज्ञा मल्लनाग इति सांस्कारिकी'(१) इत्युक्तत्वात् अयं चाणक्यो वात्स्यायनो राजमन्त्रित्वात् कामशास्त्रे ऽर्थशास्त्रे चैकयैव रीत्या अधिकरणाध्यायक्रमेण लौकिकविषयान् संगृह्य तच्छास्त्रं प्रणीतवान् इति नायं नैयायिक इति सिद्धम् । एवं स्थिते निर्दिष्टाश्वलायनसूत्रोक्तवत्सभेदाद्वात्स्यायनभे- दस्तद्भेदात् कौटिल्यचाणक्यभिन्नेन महर्षिणा वात्स्यायनेन न्यायभाष्यं प्रणीतमिति सुष्ठूक्तम् । अपि च चाणक्येनैव न्यायदर्शनभाष्यं कृतमिति वदन्त- श्वाणक्यस्य विष्णुपुराणादौ पाठात् तस्य चाणक्यपश्चाद्भावित्वं संसाध्य पुराणानामर्वाचीनत्वं न्यायभाष्यस्य प्राचीनत्वं प्रलपन्ति तदप्यनधिगतशास्त्रतात्पर्यमूलकमेव । यतश्छान्दो- ग्योपनिषत्सु ७ प्रपाठके १ खण्डे “अधीहि भगव इति सोपससाद सनत्कुमारं नारदस्त होवाच । यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्व वक्ष्यामीति ।। १ ॥ स होवाचदं भग- वोऽध्येमि यजुर्वेद, सामवेदमावणं चतुर्थमितिहासपुराणं (१) बनारसचौखम्बाबुक्डीपोमुद्रितपुस्तके १७ पृष्ठे २८ पली द्रष्टव्यम् ।
वात्स्यायनचरितम् । ११५ पञ्चमं वेदानां वेद(२) पित्र्य राशिं दैवं निधि वाको. वाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्या नक्षत्रविद्या सर्वदेवजनविद्यामेतद्भगवोध्येमि ॥२॥" एवमेवात्रैव ७ प्रपाठके २ खण्डेऽपि । अपि चात्रैवोपनि- पत्सु ८ प्रपाठके १५ खण्डे "तबैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्य आचार्यकुलाद्वेदमधीत्य यथावि- धानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान् विदध"दित्यादि । मन्वर्थमुक्तावल्यां तु “मनुर्वै यत् किश्चिदवदत् तद्भेषजं भेषजतायाः" इत्युक्त्या उपनिषदपेक्षया मनोः प्राचीनत्वं सि- ध्यति मनुना च "अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । (१) वङ्गदेशस्थएशिआटिक्सोसाइटीमुद्रिते मैञ्युपनिषत्पुस्तके १७१ पृष्ठे "इतिहासः पुराणं विद्या । अत्रेतिहासो भारतादिः ।" वृहदारण्यके ४ अध्याये इतिहासः पुराणं विद्या इत्यादि । वङ्गदेशस्थ एसि. मुद्रिते छान्दोग्यपुस्तके ४७६ पृष्ठे "वाको वाक्यं" "तर्कशास्त्रम्” इति शाङ्करभाष्ये । आधुनिकतार्किकास्तु वदन्ति “इतिहासपुराणं पञ्चमं वेदानां वेद"मित्यत्र वेदोक्तस्व तत्रतत्रेतिहासभागस्य वेदोक्तस्य तत्रतत्र प्राचीनकथाभागस्य ग्रहणम् न तु महाभारतविष्णुपुराणा- दीनां ग्रहणमिति । तत्र पञ्चमं वेदानां वेदमित्यस्य कोऽर्थः ? यदि चतुर्युवेदेवेव पञ्चमोऽपि वेदोऽस्ति तदा ततद्विषयभेदेन सहस्रशो वेदा भवेयुस्तदा ब्रह्मादिकमारभ्यापामरं प्रसिद्धं वेदानां चतुष्टुं व्याहतम् अपि च । "इतिहासपुराणाभ्यां वेदं समुपवृंहयेत् । विभेत्यल्पश्रुताद्वेदो मामयं प्रहदिति ॥"
११६ न्यायवार्तिकस्य भूमिकायाम् पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥"(१) अपि च "पुराणेष्वृपि यज्ञेषु ब्रह्मक्षत्रसवेषु च ॥" मनुस्मृतौ ५ अध्याये २३ श्लो. २३ श्लो. इत्युक्तत्वान्मनो- रपेक्षया पुराणानां प्राचीनत्वं सिद्ध्यति विष्णुपुरा- णादौ चाणक्यस्य चर्चाया दर्शनात् पुराणापेक्षया चा- णक्यस्य प्राचीनत्वं किं तु आधुनिकतार्किकतर्कसिद्धेन चाणक्येन न्यायभाष्यं रचितं न्यायभाष्ये च ४ अध्याये १ आ- इति इतिहासपुराणानां वेदोपवृंहण रूपाणां वेदभिन्नत्वप्रति- पादिका याज्ञवल्क्यस्मृतिरपि कुत्र गच्छेत् तथा च येषां वचनं पूर्वा- परसमन्वयपूर्वकं प्रामाणिकं युक्तिपथं नावरोहेत् तदा तत्र उन्मत- प्रलापाको भद इति न बुद्ध्यामहे । अत्र पुराणेतिहासपञ्चमानां चतुर्णा वेदानां वेदं व्याकरण- मित्यादिशाङ्करभाष्यं मूलबंपन्याच्चिन्त्यम् । केचित्तु इतिहासपुराणानां रूपकमूलकत्वात् नाटकादिवदभि. नेयत्वं वदन्ति तत्तूप सासास्पदं सति कुड्ये चित्रमिति न्यायात् तात्त्विकवस्तुलत्त्व एव रूपकत्वमाभिनेयत्वं च सम्भवति अ. न्यथा खपुष्पशशविषाणादीनामपि रूपकाभिनयौं स्याताम् । रू- पकत्वेऽभिनेयत्वे चाग्रहश्चेत्तदेदानींतनानामपि लेखो रूपकमेव- त्याकिञ्चित्करमेव । अपि च तदानींतनायोध्याजनकपुरहस्ति- नापुरादीनि नगराणि गोतमविश्वामित्रवसिष्ठादीनामाश्रमाणि मथुरादीनि तीर्थानि अन्यान्यपि पुरातनानि चिह्नानि ' कस्मिन् गिरिगव्हरे महान्धकारे तिष्ठेयुरितीदानींतनैरन्वेषकमन्यैरेव पण्डितैर्वाच्यम् । (१) रघुवंशीय ५ सर्गस्थवित्तस्य विद्यापरिसंख्यया मे को- श्चितम्रो दश चाहरोति इति श्लोकव्याख्याने मल्लिनाथेन मनुनाम्ना वचनमिदमुद्धृतम् ।
वात्स्यायनचरितम् । ११७ ह्निके पात्रचयान्तानुपपत्तेश्च फलाभाव इति ६२ सूत्र- व्याख्याने(१) "नाविशेषेण कर्तुः प्रयोजकफलं भवती- ति चातुराश्रम्यविधानाचेतिहासपुराणधर्मशास्त्रेष्बकाश्रम्यानुप- पत्तिः । तदप्रमाणमिति चेन्न प्रमाणेन प्रामाण्याभ्यनु। ज्ञानात् प्रमाणेन खलु ब्राह्मणेनेतिहासपुराणस्य प्रामाण्य- मभ्यनुज्ञायते ते वा खल्वेते अथर्वाङ्गिरस एतदितिहास- पुराणमभ्यवदन्नितिहासपुराणं पञ्चमं वेदानां वेद इति त- स्मादयुक्तमेतदमामाण्यामिति । अप्रामाण्ये च धर्मशास्त्रस्य प्रा- णभृतां व्यवहारलोपालोकोच्छेदप्रसङ्गः । द्रष्ट्रप्रवक्तृसामान्या- चापामाण्यानुपपत्तिः । य एवं मन्त्रब्राह्मणस्य द्रष्टारः प्रवक्तारश्च ते खल्वितिहासपुराणस्य धर्मशास्त्रस्य चेति । इति लेखदर्शनाद् चाणक्यापेक्षया पूर्ववर्तित्वं पुराणानां सिद्ध्यति । अपि च महाभारते मोक्षधर्मे २१८ अध्याये सौगतता- किमतनिरासदर्शनात् सुगतानन्तरं महाभारतनिर्माणम् । बुद्धदेवसमानकालिकेन २४ जैनतीर्थङ्करेण महावीरस्वा- मिना विक्रमादित्यसमयात् ४७० वर्षेभ्यः पूर्व निर्वाणत्वं (मरणं) प्राप्तवता अनुयोगद्वारसूत्र-नन्दि सूत्र-भगवतीसूत्र-दशाश्रुतस्क- न्धादौ महाभारतादीनां मिथ्यात्वनिरुक्तिः । जनमेजयप्रद- तेन ताम्रपदृशासनादिना ४३६३ वर्षेभ्यः पूर्व वेदव्यासयुधि- ष्ठिरादीनामवस्थानम् । शतपथब्राह्मणे २।१।२-३ | "एताह वै प्राच्य दिशो न च्यवन्ते-तस्मात् कृत्तिकामु आदधीत" (१) विजयनगरसंस्कृतसीरीजमुद्रितपुस्तकानुसारेणात्र सूत्र. संख्यावगन्तव्या ।
११८ न्यायवार्तिकस्य भूमिकायाम् इति लिखितं निरीक्ष्य गणितशास्त्रेण ४८७५ वर्षेभ्यः पूर्व शतपथब्राह्मणनिर्माणं न्यायवैशेषिकसांख्ययोगमीमांसा- वेदान्तानां परस्परखण्डनमण्डनानि च । अपि च कौलजगमदनोद्धृतजैन-बौद्धमतनिरासकोमा- महेश्वरसंवादात्मकतन्त्राणामर्वाचीनत्वं सिद्ध्यति । सुय- णाङ्गसूत्रमितिप्रसिद्ध जैना गमे(१) ऋषभदेवस्तीर्थङ्करो भरताय राज्ञे चतुरो वेदानुपदिदेशेति जैनागमापेक्षया वेदानां पुरातनत्वं सिद्ध्यति तथा दशाश्रुतस्कन्धनाम- के(२) जैनागमे जैनतीर्थङ्कराः पुराणानामत्यादिधर्मशास्त्रा- णां(३) ज्ञातारो भविष्यन्तीति पुराणानां धर्मशास्त्राणामपि प्राचीनत्वं सिद्ध्यतीति । अत्र किं नवीनं किं वा प्राचीनं किं पूर्व किं वा परमित्यादिकं लौकिकयुक्त्याधुनिकै स्तार्किकैरेव व्यवस्थापनीयम् । अत्राधुनिकानामेका बलवती युक्तिरवशिष्टा वर्तते उपनिष- दुक्तानि पुराणानि भिन्नानि न तूपलभ्यमानानि अथवा तत्रतत्र उपलभ्यमानानि वचनानि नवीनत्वप्राचीनत्वानुमापकानि (१) यतिवरेण श्रीरामचन्द्रेण प्रतिपादितम् । (२) धाराणसीस्थराजकीयसंस्कृतपाठशालीयसरस्वतीभवनस्ये पुस्तके १३ पन्ने द्रष्टव्यम् । (३) तदुक्तं याज्ञवल्क्यस्मृतौ । “मन्वत्रिविष्णुहारीता याज्ञवल्क्योशनोङ्गिराः । यमापस्तम्बसंवर्ताः कात्यायनवृहस्पती ॥ पराशरव्यासशङ्खलिखिता दक्षगौतमौ । शातातपो वसिष्ठश्च धर्मशास्त्रप्रवर्तकाः॥” इति अन्ये ऽप्युपस्मृतिकारकाः १८, अपरे उपोपस्मृतिकारकाः २१, तद्भिन्ना अपि प्रकीर्णकस्मृतिकारश्चाने निरूपणीयाः । Harmonetunarm-RRH.
वात्स्यायनचरितम् । ११९ तानि केनचित्प्रक्षिप्तानि वा अनेकैः पण्डितैरल्पज्ञैः रचिता- स्ते ते ग्रन्था अनवस्थिता इसादिका इयं च विनिगमना- विरहेणानवस्थितवाग्जालमात्ररूपत्वात् शिष्टापरिगृहीतत्वादेव दूगपास्तेति । अत्र सम्पदायविदस्तु देवा महर्षयश्चापि योगबलेना- तीतानागतपदार्थविषयकज्ञानवन्तः कचिद्भविष्यत्कथामपि क- थयन्ति स्म यथा भागवते १ स्कन्धे ३ अध्याये २४ श्लो. “बुद्धो नाम्ना ऽजनिसुतः कीकटेषु भविष्यति" । मात्स्ये ४८ अध्याये "तस्मिन्नेव युगे क्षीणे सन्ध्याशिष्टे भविष्यति । कल्की विष्णुः" इत्यादि । मुद्गलपुराणे कलिधर्मा निरूपिताः । एवं वाल्मीकिरामा. यणेऽपि "रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति" । एवं रूपेण भविष्यतीतिक्रियाविन्यासपूर्वकं कथितवन्त इति तेन न प्राचीनत्वनवीनत्वनिर्णयावकाश इति वदन्ति । अथापरे व्यवस्थापका वदन्ति तावत् न्यायदर्शनभाष्यकारो वात्स्यायनगोत्रात्पन्नो यः कश्चिदप्रसिद्धो नैयायिकः प्राकृति- कमनुष्य एवासीत् न तु ऋषिः इयं हि तेषां बलवती युक्तिव- लवत्पमाणमपि तथाहि कुसुमाञ्जलेरनुक्रमणिकायां १२ पृष्ठे "ततश्च भाष्यकारो वात्स्यायनगोत्रोत्पन्न इति सि- ध्यति । पक्षिलस्वामीतिनाम्नापि स न ऋषिरित प्रती. यते । ऋषीणां तथाविधनाम्नः कचिदप्यश्रवणात् । यद. क्षपादप्रतिम इति वार्तिकश्लोके भारद्वाजेनेत्यस्य भारद्वाज- गोत्रोत्पनेनेतिवत् वात्स्यायन इत्यस्यापि वात्स्यायनगोत्रोत्प. न इत्यर्थस्यैव प्रतीतिर्भवति । यदक्षपादप्रतिम इत्यनेन कथा १२० न्यायवार्तिकस्य भूमिकायाम् भाष्यकर्तुरक्षपादवत् न्यायवीद्याप्रवीणत्वमेव प्रतीयते न तु ऋषित्वमिति ।" अस्य लेखस्यायमाशयः सूत्रकाराः कदाचिन्महर्षयो भवेयुर्भाष्यकारास्तु मनुष्या एव तत्तन्महर्षिगोत्रोत्पन्नाः। एवं सति व्याकरणमहाभाष्यकारः पतञ्जलिरपि तद्गोत्रोत्पन्न एव तथा सति याज्ञवल्क्यस्य ? महर्षेः सूर्यार्घ्यदानसमयेऽञ्ज. लौ पतित इति अन्वर्थनामबोधिका पौराणिकी कुत्र गच्छेत् ? एवं बोधायनादयोऽपि ततद्गोत्रोत्पन्ना एव गो. त्रप्रवर्तकस्तु किमपि शशशृङ्गं वा खपुष्पं वा पाषाणो वा न तु पण्डितो नापि ग्रन्थकार इति । “पक्षिलस्वामीतिनाम्नापि स न ऋपिरिति प्रतीपते । ऋपीणां तथाविधनाम्नः कचिदप्यश्रवणात् ।" इत्यनेन मह- पाण्डित्यं वहुज्ञत्वं च प्रकाशितं भवति । किं तु वाचस्पतिमिश्रेण भामत्यामादौ उक्तम् "मार्तण्ड-तिलकस्वामि-महागणपतीन् वयम् । विश्ववन्द्यान्नमस्यामो सर्वसिद्धिविधायिनः ॥" अत्र वेदान्तकल्पतरुटीकाकारादयः पद्यमिदं "मार्तण्डस्य सदा पूजां तिलकस्वामिनस्तथा । महागणपतेश्चैव कुर्वन् सिद्धिमवाप्नुयात् ॥” इति याज्ञवल्क्यस्मृति(१ अध्यायस्थ २९४ श्लोक)मूलकमिति वदन्तीति तिलकस्वामी देवविशेष इति निर्णीतं(२) भवति । अपि च चतुर्वर्गचिन्तामणौ प्रायश्चित्तखण्डे महिषीहरण- (१) मिताक्षरासहितमुद्रितयाज्ञवल्क्यस्मृतौ तिलकं स्वामिन- स्तथेति पाठश्चिन्त्यः विस्तरस्तु वाचस्पतिमिश्रचरिते मया निरूपयिष्यते। 2
वात्स्यायनचरितम् ।
१२१
प्रायश्चित्तप्रकरणे "देवस्वामी(१)
यो विप्रो महिषी हत्वा परकीयां धनातुरः।
स गत्वा नरकं घोरं भुवि चाण्डालवान् भवेत् ।।
न तस्य निष्कृतिर्नास्ति गुरुचान्द्रायणादिह ॥"
इति स्मृतिवचनेन देवस्वामिनो महर्षित्वं सिद्धम् ।
अत्र देवस्वामिपदेन देवलो ग्राह्य इति न भ्रमितव्यम् ।
यतोऽस्मिन्नेव चतुर्वर्गचिन्तामणौ भूमिहरणप्रायश्चित्तप्रकरणे
(१) श्रीनरसिंहीये प्रयोगपारिजाते षोडशकर्मकाण्डे संस्कार
निरूपणे आरम्भ एव
"मनुर्वृहस्पतिर्दक्षो गौतमोथ यमोङ्गिराः ।
योगीश्वरः प्रचेताश्च शातातपपराशरौं ।
संवतॊशनसौ शङ्खलिखितावत्रिरेव च ।
विषण्वापस्तम्बहारीता धर्मशास्त्रप्रवर्तकाः ॥
पते ह्यष्टादश प्रोक्ता मुनयो नियतव्रताः ।
जावालि चिकेतश्च स्कन्दो लौगाक्षिकश्यपौ।
व्यासः सनत्कुमारश्च सन्तनुर्जनकस्तथा ॥
व्याघ्रः कात्यायनश्चैव जात्तूकर्ण्यः कपिञ्जलः ।
बोधायनश्च काणादो विश्वामित्रस्तथैव च ॥
पैठीनासि!भिलश्चेत्युपस्मृतिविधायकाः ।
वसिष्ठो नारदश्चैव सुमन्तुश्च पितामहः ।।
विष्णुः कार्णाजिनिः सत्यव्रतो गार्यश्च देवलः ।
जमदनिर्भरद्वाजः पुलस्त्यः पुलहः ऋतुः।
आत्रेयश्च गवयश्च मरीचिर्वास ? एव च ।
पारस्करश्चर्यशृङ्गो वौजा ? वामस्तथैव च ।
इत्यन्ये स्मृतिकार एकविंशतिरीरिता ॥” इत्यादि ।
आश्वलायन-देवस्वामि-शौनक-मार्कण्डेय-भृग्वादीनां
वचनानि तत्र तत्र प्रमाणत्वेनोद्धृतानीति तेऽपि प्रकीर्णकस्मृतिका-
रका एवेति।
वात्स्यायन १२२ न्यायवार्तिकस्य भूमिकायाम् देवलवचनमुक्त्वाऽनुपदमेव यथाह "देवस्वामी ग्रामं वा क्षेत्रमात्रं वा केदारं भूमिमेव वा। विप्राधीनं हरेद्राजा यमलोकमवाप्नुयात् ॥ पश्चाद्भूमिमुपागम्य क्रिमिराशिर्भवेन्मले।" एवमेवमनेकत्र देवस्वामिस्मृतिवचनानि समुद्धृतानि । अत एव तार्किकरक्षाटीकायां "पशिलस्वामी" “पक्षिलमुनि" रित्युक्तमपि सङ्गच्छते । अपि च “यदक्षपादप्रतिम इति न्यायवार्तिकश्लोके भारद्वाजेनेत्यस्य भारद्वाजगोत्रोत्पनेनेतिवत् इत्यस्यापि घात्स्यायनगोत्रोत्पन्न इत्यर्थस्यैव प्रतीतिर्भव- ति" इति यदुक्तं भारद्वाजेनेत्यस्य भारद्वाजगोत्रोत्पन्नेन अत्र गोत्रोत्पन्न इति कस्य शब्दस्यार्थ ? इति महामहोपाध्याया एव जानन्ति । अक्षपादप्रतिम इत्यनेनापि भाष्यकारस्य न्यायविद्याप्रवीणत्वं महाशयानामनुमतम् अर्थात् अक्षपाद- स्य न्यायविद्याप्रवीणत्वमेव न तु कर्तृत्वम् अक्षपादपति- भ इति पाठे अक्षपादप्रतिम इति वा पाठे प्रतिमाशब्दस्य प्रतिभाशब्दस्यापि प्रवीणत्वमेवार्थो महाशयसम्मतः । अत्र विवेचका एक प्रमाणम् ।। अन्ये तु कालात्ययापदिष्टः कालातीत इति १ अध्याये २ आह्निके ९ सूम(ध्याख्याने पाणी वाचस्पति- मिश्रेण लिखितम् “एवं व्यवस्थिते भाप्यकारः सूत्रं स्वपर- मतश्लिष्टं व्याचष्टे" इत्युपक्रम्य "स्थूलतया एप दोपो भा- (१) अत्र विजयनगरसंतसीरीज हिताय दर्शनकानु- सारणाङ्काः ज्ञातव्या इति ।
वात्स्यायनचरितम् । १२३ ध्यकारेण नोद्भावितः यत्पुनर्भदन्तेन(१) कालातीतस्य व्या- ख्यानं कृतं" "तदेतद्भदन्तदूपणमेतद्व्याख्यानानभ्युपगमेन परिहरति । अवयव विपर्यासपचनं त्विति । अनभ्युपगमहे- तुं पृच्छति । करूणादिलि । उत्तरं यस्येति ।" इति दृष्ट्वा समुद्घोपयन्ति यमुद्धात् परमवश्यमेव भाष्यकारस्य स्थितिरभ्यु पगन्तव्पा । तदप्यसत् । प्रथमतस्तु बुद्धस्य स्थिति निर्णये ऽनेके मतभेदा उपलय पुराणादिष्वपि तच्चर्चाया दर्शनात् নন্দিীঘ শাসডানায় যাবি। অথ দ্যাথলি- येऽपि भदन्तात् पश्चाद्भाबिना बावस्पतिषिश्रेण व्या. ख्यानकौशलपूर्वकं भदन्टमासण्डनं प्रदर्शितभित्येवावगन्त- व्यम् अन्यथा ब्रह्ममीमांसाभाष्ये "वैधाच न स्वभादिव- त्" २ अध्याये २ पादे २९ सूत्रव्याख्याने भास्कराचार्य- ण शङ्कराचार्यमतखण्डने “ये तु बौद्धमतावलम्बिनो मा- यावादिनस्तेऽप्यनेन न्यायेन सूत्रकारेणैव निरस्ता” इति लिखितत्वात् भाष्यकारात् शङ्कराचार्यात् परं सूत्रकारः स्या. दित्यादि ६४ पृष्ठे निपुणतरमुपपादितमधस्तात् । केचित्तु पक्षिलस्वामीत्यनेन स्वामीत्युपाधिधारिणो द्रामिल इति नान्ना द्रविडत्वेन निश्चितस्य वात्स्यायनस्य सम्पति जीवरमिति प्रसिद्ध काञ्चीनगरे स्थितिरासीदि- ति । "वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्ते" २ अ- ध्याये १ आह्निके ४२ मुत्रभाश्ये “पचतीति स्थाल्यधिश्रयः णमुदकासेचनं तण्डुलावपनमेधोपसर्पणमग्न्यभिज्वलनं द. वघटन मण्डनावणमधोवतारणमिति” इत्यादि ओदनपाच- नक्रियोदाहरणेन द्रविडत्वमेव द्रढयति यतो द्रविडदेशे (१) बौद्धभेदे भदन्तशब्दस्त्रिकाण्डशेषकोशे द्रष्टव्यः ।
त् अथ न्यायभाष्यकार- १२४ न्यायवार्तिकस्य भूमिकायाम् ओदनमेव भोज्यपदार्थपूत्तमम् । अपि च कौटिल्यार्थ- शास्त्रात् प्रदीपः सर्वविद्यानामित्यादिवचनस्य समुद्धृतत्वा- च "पौवापयायोगादप्रतिसम्बद्धार्थमपार्थकम्" ५ अध्याये २ आह्निके १० सूत्रभाष्ये दश दाडिमानी- त्युदाहरणस्य व्याकरणमहाभाष्यादुद्धृतत्वात् कौटिल्यात् पत- ञ्जलेश्च पश्चात्कालभावी वात्स्यायनो इति स्त्रीष्टान्दारम्भात् परं चतुर्थशताब्धामासीदिति वद- न्ति । अपि च माध्यमिकमूत्र-नागार्जुनशतक-लङ्कावतार- सूत्रमूलकानां न्यायसूत्राणां व्याख्यातत्वात् ख्रीष्टाब्दार- म्भात् पश्चात्कालभावित्वं वात्स्यायनस्य दुर्वारमित्यपि वदन्तीति । अत्र समालोचनम् । स्वामीत्युपाधिर्वा पक्षिलस्वामी- त्येकं नाम वेति जिज्ञासायां मार्तण्डतिलकस्वामी देवस्वामी- ति(१)वदेकं नामैवेति नात्र किञ्चिद्वाधकं दृश्यत इत्युपाधिधा- रणकल्पनं कल्पनामात्रम् । व्यवस्थापकमहाशयेनैवेदमप्युक्तं यन्यायभाष्यकर्ता वा- त्स्यायनः काममूत्रकर्ता च वात्स्यायनः अर्थशास्त्रकर्ता च नैकव्यक्तिकः किन्तु भिन्न एवं परन्तु न्यायभाष्यकर्तुर्वा- त्स्यायनस्य द्रविडत्वसाधनप्रसङ्गे त्वरया "विष्णुगुप्तस्तु को- टिल्यश्चाणक्यो द्रामिलोंशुलः" इत्यादिकोशेन कौटिल्यस्या- र्थशास्त्रप्रणेतुरेव द्रामिल इत्यपि नामेति नावधारितम् । ह - ठात् तथात्वे ऽपि द्रामिलशब्देन कया व्युत्पत्त्या द्रविडत्वं तस्य प्रसाध्यत इति न बुद्ध्यामहे । यतः 'सकलं' 'शकलं' (१) यथा मार्तण्डतिलकस्वामी देवविशेषो देवस्वामी च महर्षिः स्मृतिकारकस्तथा प्रतिपादितमधस्तात् ।
वात्स्यायनचरितम् । १२५ 'सत्' 'शकृत्' इत्यादयो भेदा वैयाकरणैः प्रदर्शिता इति । अथ द्रविडत्वे ऽपि काञ्च्यां निवासे असाधारण इतरव्या- वर्तको हेतुः ओदनपाचनप्रकार एवं प्रदर्शित इत्यनेन काञ्चीं विहाय द्रविडदेशं विहाय वा भारतवर्षमात्र केपि ओदनपाचनं तद्भोजनं वा न जानन्तीति निष्पन्नं भवतीति बहु- ज्ञैः समालोचनीयम् । बहूनि न्यायमूत्राणि लङ्कावतारसूत्र-नागार्जुनकृतमाध्य. मिकसूत्र-आर्यदेवकृतशतकेभ्यः समुद्धृतानीति न्यायमूत्र. पाठनिर्णयप्रस्तावे निराकृतमधस्तात् तन्निराकरणेनात्रोक्तमपि निराकृतं भवति । यत्तु कौटिल्यार्थशास्त्राधाकरणमहाभाष्याद्वचनानि समुद्धृ. तानि न्यायभाष्यका वात्स्यायनेन तदत्र विनिगमकाभावेन न्यायभाष्यादेव कौटिल्येन व्याकरणभाष्यकारेण च कथं न समुद्धृतानीति ?। यदि च न्यायदर्शनवात्स्यायनभाष्योक्त्यैव तदाविर्भा- वसमयो देशश्च निश्चीयते तदा युक्तियुक्तं तत् प्रदश्यते । वेद-धर्मशास्त्र-पुराणेषु द्वौ गोतमौ निरूपितौ एकश्च र. हूगणस्य पुत्रोऽपरश्च दीर्घतमा अन्धः । तत्र अन्धस्य दीर्घ- तमसः शास्त्रकर्तृत्वं न सम्भवतीति राहूगणस्यैव ऋग्वेदादिमू- क्तस्मारकत्वात् शास्त्रकर्तृत्वमिति २२ पृष्ठे प्रतिपादितमधस्तात् । स च राहूगणो गोतमो मिथिलाभूपतर्विदेघराजस्य विदेहरा. जस्य वा पुरोहित आसीत् तद्राज्यस्थानं च सरस्वतीनद्याः पूर्व स्मिन् सदानीराया नद्याश्च(१) पश्चिमे देशे इति सर्वमुपपादित शतपथब्राह्मणे १ काण्डे ४ अध्याये । अयमेव देशो मिथिलादे- (१) सदानीरा उत्तरवङ्गे वगुरामण्डलेऽद्यापि प्रसिद्धा वतत ।
१२६ न्यायवार्तिकस्य भूमिकायाम् श इति वाल्मीकिरामायणादिभ्योऽपि निश्चीयते । अपि च वा. युपुराणे २३ अध्याये "तत्रापि मम ते पुना(?) भविष्यन्ति सपोशनाः । अक्षादः कणादा उल्टको वल्स य च ॥ २०३ ॥ इत्यनेन गोतमसनीन गोलभसमीपवर्ती वात्स्या- यनः प्रतिभाति । अन्य ६.रीर पोषणमा- लोचनेन श्रीराचन्द्रेश अगोगोषकण्ठे सरथा उत्तरे तटे. ऽश्वमेधयज्ञः कृतः स च देशो पात्स्यायनस्थातिप्रिय इति शत- शस्तत्कयामागं भुजगशरं पप्रच्छति विज्ञायते स एक देशो मिथिलासम्बद्ध स्तनिवासस्थानमिति सम्भाव्यते । अयो- ध्यागर्मोत्तरकोशलमिथिलादेशयोश्च महादृढः सम्बन्ध इति सा- र्वजनीनप्रसिद्धिरिति । एवं स्थिते वात्स्यायनेन न्यागभाष्ये १ अ. २ आ. अविशेषाभिहिलेर्थे वत्तुरभिभायादर्थान्तरकल्पना वाक्छल- मिति १२ मूत्रव्याख्याने "नवकम्बलोऽयं माणवक" इत्यु- दाहृतम् अत्र कम्बलशब्दस्य प्रयोगो द्वादशात्त्या कृतः । लौकिकास्तु नेपालादागतोऽयं नवकम्बलवत्त्वादित्युदाहरन्ती- ति प्रशस्ताः कम्बला नेपालदेशीया इति वात्स्यायनो ने- पालसमीपवर्ती । अपि च २ अ. १ आ. रोधोपवातसा- दृश्येभ्यो व्यभिचारादनुमानमप्रमाणमिति ३७ मूत्रव्याख्या- ने “नदी पूर्णा गृह्यते" "नीडोपघातादपि पिपालिका- ण्डसञ्चारो भवति" "पुरुषोऽपि मयूरवासितमनुकरोति" एवं (१) शिष्ये पुत्रत्वोपचारः “उत्पादकब्रह्मदात्रोगरीयान् ब्रह्मदः पिता” इति मनुः । इदं निपुणतरमुपपादितं न्यायकन्दलीभूमि- कायामस्माभिः।
वात्स्यायनचरितम् ! १२७ नैकदेशवाससादृश्येभ्योऽर्थान्तरभावादिति ३८ सूत्रव्याख्या- ने “पूर्वोदकविशिष्टं खलु वर्षोदकं शीघ्रतरत्वं स्रोतसो वहु. तरफेनफलपर्णकाष्ठादिवहनं" "पथा सपोदीनामिति" एतैरु- दाहरणैरपि मिथिलादेशीयः प्रतिभाति । एवं ५ अ.२ आ- हिके पौर्वापर्यायोगादप्रतिक्षम्बद्धार्थमपार्थकमिति १० सूत्र- व्याख्याने “दश दाडिमानि पडपूषाः कुण्डमजाजिनं प. ललपिण्डः” एतैरुदाहरणैस्तु मैथिल एव प्रतिभाति पललपि- ण्डो वङ्गदेशे मिथिलादेशे वा भवतीति पडपूपाः दश दा. डिमानीत्युक्त्या वङ्गदेखीवत्वव्याच्या मैथिल एव वङ्गदेशे तेपा प्रशस्तानामभावादिति । पललपिण्डोत्या च दाक्षिणा- त्यमात्रयादृत्तिरिति । केचित्तु समानतन्त्रासिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धा- न्तः इति १ अ० १ आ० २९ सूत्रव्याख्याने न्यायदर्शन- वात्स्यायनभाष्ये(१) “पुरुषकर्मादिनिमिचो भूतसर्गः कर्महेतवो दोपाः प्रवृत्तिश्च स्वगुणविशिष्टाश्चेतनाः असदुत्पद्यते उत्पन्न निरुद्ध्यत इति योगानाम् ।" इति । अपि च सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध इति ? अ० २ आ० ६ सूत्र व्याख्यानेऽपि तस्मिन्नेव भाषणे “यथा सोऽयं विकारो व्यक्तरपैति नित्यत्वप्रतिषेधात् । अतोऽप्यस्ति विना- शप्रतिषेधात् ।” इति च वर्शते । अयमेव लेखः पातजलसूत्र- भाष्ये विभूतिपादे एतन शूनेन्द्रिशेपु धर्मलक्षणावस्थापरिणामा व्याख्याता इति १३ सूत्रस्य व्याख्यानं "सदेत त्रैलोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात् अपेतमप्यस्ति चिनाशप्रति- पेधात् ।" इति हाते । अत्र योगशास्त्राचार्यपतञ्जलेरेव (१) विजय संतसीमिति पुस्तके ३८ टे।
१२८ न्यायवार्तिकस्य भूमिकायाम् ग्रहणम् अनेन पतञ्जलिना मौर्य राजस्य नाम स्वग्रन्थे लिखि. तम् स च राजवंशः स्त्रीष्टसमयात् १४० वर्षेभ्यः पूर्वं समाप्त इति तस्मिन् समये तदासन्ने वा समये पतञ्जलिरभूत् ततः परं पातञ्जलमतनिदर्शको न्यायभाष्यकर्ता वात्स्यायनोऽभू- दित्याहुः । तदसत् योगानामित्यनेन(१) शिवसंहिताशि- वस्वरोदययोः कर्तुः शिवस्य कस्मान्न ग्रहणम् ? याज्ञव- ल्क्यगीतायाः योगियाज्ञवल्क्यस्मृतेः कर्तुर्याज्ञवल्क्यस्य कस्मान्न ग्रहणम् ? योगवासिष्ठकर्तुर्वसिष्ठस्य कस्मान्न ग्रहणम् ? एतेषां विषयाणां परमार्थतो भझ्यन्तरेण वा तत्रतत्र प्रतिपाद: नात् । अपि च मौर्यवंशममाप्तिसमयश्च उक्तसमयो न सम्भवतीति पूर्व निरूपितत्वाच्च । यश्च पातञ्जलसूत्रव्यासभाष्ये दर्शितः स चांशः स्वयमेव कथं न पूर्वापरपाठेन समालोचनेन निर्णीयते सा चान्योक्तिरेव "अपर आह धर्मानभ्यधिको धर्मी पूर्वतत्त्वानतिक्रमात् पूर्वा परावस्थाभेदमनुपतितः कौटस्थ्येन विपरिवर्तेत यद्यन्वयी स्यादित्ययमदोषः कस्मात् एकान्तानभ्युपगमात् तदेतत् त्रैलोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात् अपेतमप्यस्ति वि- नाशप्रतिषेधात् संसर्गाचास्य सौम्यं सौक्ष्म्याच्चानुपलब्धि- रिति ।" अवशिष्टं प्रसह्य गृहीतस्य पतज्जलेराचीनत्वं तत्र विचार्यते । पतञ्जलिर्ययुक्तकालावस्थायी तदा "द्वाप- रेद्वापरे विष्णुासरूपी महामुने ।" इति विष्णु- पुराणायुक्तो योगसूत्रभाष्यकारो वेदव्यासः कुत्र ति- ष्ठेत् अपि च स्कन्दपुराणीयहालास्यखण्डे भावप्रकाशे (१) योगस्य यथा चिरन्तनत्वं तथा ५० पृष्ठे प्रतिपादितमधस्तात् ।
वात्स्यायनचरितम् । १२९ च चरकप्रादुर्भावप्रकरणे पतञ्जलेरितिहासवर्णनात् स्कन्द- पुराणकर्ता वेदव्यासः भावप्रकाशनिर्दिष्टेतिहासमूलकर्ता च कु- प्रतिष्ठेत कात्यायन-लौगाक्षिसूत्रेषु गोत्रप्रकरणे निर्दिष्टः पत- ञ्जलिरिति मूत्रकारोऽपि कुत्र तिष्ठेयुः । यथा पुराणानां नार्वाचीनत्वं तथा प्रतिपादितमधस्तात् । तस्मानार्वाची- नत्वं पतञ्जलेरिति ॥ अन्ये तु मंद्रासदेशस्थ-अदिआरपुस्तकालयस्थेषु पुस्तकेषु एका न्यायसूत्रत्स्यिायनभाष्यादपि प्राचीना वर्तत इति तत्रत्यसूचीपत्रे ९१ । ९२ पृष्ठे लिखितमस्तीति न्यायमूत्राणां व्याख्यानेषु वात्स्यायनभाष्यं नातिप्राचीनमिति बोधयन्ति । तस्याः प्रतिलिः द्विवाणि पत्राणि वाराणसीस्थराजकी- यसंस्कृतपाठशालीयकार्यालये वर्तन्ते इति मया सा वृतिः समा- लोचिता तस्या रचनायाः प्रकारोऽतीव नवीनोऽप्रौढोऽस्पष्टार्थ इति केनचिदाधुनिकनैयायिकेन रचिता इति प्रतिभाति । अपरे तु सूत्रेभ्यो भिन्नानि न्यायदर्शनवात्स्यायन- भाष्ये कानिचिद्वाक्यानि तेषामपि व्याख्यानान्यवलोक्य भाष्यात प्राचीनं न्यायसूत्राणां कि- मपि व्याख्यानं वार्तिकं वा आसीद यदिदानी नोप- लभ्यत इति । तदसत् इदानीं नोपलभ्यते किं तु उद्द्योतकरापरपर्यायेण भारद्वाजेन न्यायवार्तिककृता ऋषि- कल्पेनाचार्येण वाचस्पतिमिश्रेण शिवावतारेणोदयनाचार्येण वर्द्धमानोपाध्यायेन वेदादिभाष्यकर्तभिर्माधवाचारपि नो पलब्धा नापि चर्चितेति तत् किं मूषिकविषाणशशशृङ्ग- खषुष्पात्मकमासीत् ? तस्मान्नासीदेव । कि तु "सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः । तर्कयन्ति खलु १३० न्यायवार्तिकस्य भूमिकायाम् स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ॥" इति पराशरोपपुराणीयाष्टादशाध्यायस्थभाष्यलक्षणस्य समन्वय एवं एव । स्वपदानि च वर्ण्यन्तेऽत्र पदानी- त्यस्य “पदसमूहो वाक्यमिति" न्यायवार्त्तिकात् स्ववाक्या. नि च वर्ण्यन्ते इत्याशयोऽवगम्यते । तस्मात् तानि वा. क्यानि भाष्यकारस्यैव न त्वन्यस्य । अत एव भगवताभा- व्यकारेण कारणद्रव्यस्य प्रदेशशब्देनाभिधानात् नित्येष्व- प्यव्यभिचार इति २ अध्याये २ आह्निके १७ सूत्रव्या- ख्याने(१) "कस्मात् पुनः सूत्रकारस्यास्मिन्नर्थे सूत्रं न श्रू- यते इति शीलमिदं भगवतः सूत्रकारस्य वहुवधिकरणेषु द्वौ पक्षौ न व्यवस्थापयति तत्र शास्त्रनिद्धान्ततत्त्वावधार- णं प्रतिपत्तुमर्हतीति मन्यते । शास्त्रसिद्धान्तस्तु न्यायसमाख्या- तमनुमतं बहुशाखमनुमानमिति ।" उदयनाचार्यास्तापर्यपरिशुद्धौ तन्त्राधिकरणाभ्युपगम- संस्थितिः सिद्धान्त इति सूत्रव्याख्याने "भाष्यका- रस्य रीतिरियं स्वप्रतिभया व्याख्यान"मित्यादि । विश्व- नाथन्यायपश्चाननैरपि न्यायसूत्रवृत्तौ पृ. २७ पं. १ अ. भ्युपगमसिद्धान्तन्यायेन भाष्यकारस्यापि सूत्रकर्तृत्व मूचितम् । एतावता सिद्धं भवति भाष्यकारेण कचित् स्वातन्त्र्येण वैशद्यार्थ वाक्यानि रचितानि तानि व्याख्यातान्यपीति ॥ अपि शास्त्रकाराणां रीतिरियं ऊहापोहविचारे आचार्याणां नामानि कचिद्वचनान्यपि समुद्धरन्ति तेन न पृथक् शास्त्राणि ग्रन्था वा अनुमेयाः यथा शारीरकसूत्रे च (१) विजयनगरंसंस्कृतसीरीजमुद्रिते पुस्तके १०८ पृष्ठे द्रष्टव्यम् ।
वात्स्यायनचरितम् । १३१ आश्मरथ्यादयः पाणिनिमुत्राष्टाध्याय्यामपि स्फोटायन-भार- द्वाज-गार्यादयश्च । आधुनिका अपि विद्वांसः सभायां स्ववक्तृतायां स्वमतानि निरूपयन्ति यदि तानि अन्यः कश्चित् स्वग्रन्थे उद्धरेत् तदा न शास्त्रान्तरं ग्रन्थान्तरं वानुषेयं भविष्यतीति । वेदेषु ब्राह्मणोपनिषत्सु अलौकिकारुपनि मितेष्वपौरुषेयेषु वा आयुर्वेदेष्वपि "भवन्ति चात्र" इत्यादिना उक्तं तत्र न वेदान्तरमनुमेयम् । न्यायभाष्यस्य द्विविध पुस्तकमुपलभ्यते द्विविधमपि पुरा- तनं तालपत्रेषु लिखितं तत्रैकं प्रायः सम्पूर्ण गत्रान्ते “योक्षा- दमृषि न्यायः" इत्यादिपy मध्ये ऽपि बहुविशेपो वर्त्तते । अपरं च अन्त्यश्लोकहीनं मध्ये ऽपि कचित् खण्डितम् । एतत्पुस्तकद्वयं जगन्नाथपुर्या गोवर्द्धनमठे वर्तते एतन्मूलकान्येव प्रायो बहूनि आदर्शपुस्तकानि उपलभ्यन्ते । इदं ग्रन्थन्यूनाधिक्यं लेख- कशोधककृतं तत्रतत्र समुपलभ्यत इत्यनुमीयते इति । वात्स्यायनभाष्याद्भिन्नान्यर्वाचीनानि अन्यान्यपि न्या- यसूत्रव्याख्यानानि वर्तन्ते । यथा वाचस्पति मिश्रकृतो न्यायसूचीनिबन्धः । उदयनाचार्यकृतं बोधसिद्धिबोधशु. द्विवेत्यपरनामधेयं न्यायपरिशिष्टम् । वर्द्धमानोपाध्यायकृत. मन्वीक्षानयतत्वबोधाख्यम् । इत्यादि पूर्व सूचितमेव विस्तरेण सत्तदाचार्याणां समयनिरूपणप्रस्तावे ऽग्रे ऽपि निरूपयिष्यते । अपराण्यपि व्याख्यानानि वर्तन्ते । जयन्तकृता न्यायसि- द्धान्तमञ्जर्याख्या महावृत्तिः इयं विजयनगरसंस्कृत सीरीजनाम- कपुस्तकावल्यां मुद्रिता । तत्कृता न्यायकलिका लघुत्तिः(१) । (१) न्यायसूत्रपाठस्यातिदुरूहत्वं निरूपितमधस्तात् अत एव १३२ न्यायवार्तिकस्य भूमिकायाम् विश्वनाथन्यायपञ्चाननकृता गोतमसूत्रवृत्तिः(१) । वृ- त्तिरियं द्वित्रवारं कलिकातानगरे वाराणस्यामपि मुद्रिता परं त्वशुद्धिवहुला अनेकेषु पत्रेषु पतिद्वयेन पतित्रयेण ख- ण्डिता वर्तते । वेदान्तिमहादेवकृता मितभाषिण्याख्या न्यायमू- त्तिः(२)। नागेशभकृता न्यायसूत्रवृत्तिः पूर्व मया दृष्टा इदानीं सा नोपलभ्यते । अनेनैव नागेश भट्टेन पाणिनिव्याकरणे . वहुभिराचा िविधं व्याख्यानं कृतम् प्रथमं न्यायभाष्यानुसा- रिसूत्रपाठानुसारि द्वितीयं तु स्वसिद्धान्तानुसारि । यथा वा- चस्पतिमिश्रेण १ तात्पर्यटीका २ न्यायसूची च । उदयनाचार्येण १ तात्पर्यपरिशुद्धिः २ न्यायपरिशिष्टं च । वर्द्धमानोपाध्यायेन १ न्याय- निबन्धप्रकाशः २ अन्वीक्षानयतत्त्वबोधश्च । विश्वनाथपञ्चाननेन १ न्यायसूत्रवृतिः २ न्यायालोकः । एवमन्यैरपि । (१) अस्मन्निकटे वर्तमानेऽधःप्रतिपादिते पुस्तके द्रितपुस्तकादन्ते ऽयं विशेषः । "एषा मुनिप्रवरगोतमसूत्रवृत्तिः श्रीविश्वनाथकृतिना सुगमाऽल्पवर्णा । श्रीकृष्ण वन्द्रचरणाम्बुजचश्चरीक- श्रीमच्छिरोमणिवचःप्रचयैरकारि ।। कठिनार्थपदां कृतिं ममैतां मृदुनि त्वञ्चरणे नमर्पयामि । अपराधमिमं प्रभो क्षमेथाः ननु नारायणदेव दीनबन्धो ॥ रसवाणतिथौ १५५६ शकेन्द्रकाले वहुले कामतिथौ शुचौ सिताहे। अकरोन्मुनिसूत्रवृत्तिमतां ननु वृन्दाविपिने स एष विश्वनाथः ॥" (२) अस्मन्निकटेऽस्या वृत्तः १ । २।३ । ४ अध्याया वर्तन्ते । ।
वात्स्यायनचरितम् । न्यायादिशास्त्रेषु धर्मशास्त्रे साहित्यादिषु चानेके ग्रन्था रचिताः। महामहोपाध्यायश्रीभट्टाचार्यचूडामणितनयश्रीभट्टाचार्यसा- र्वभौमरामभद्रविनिर्मितं न्यायरहस्याख्यं व्याख्यानम्(१) श्रीमद्राधामोहनगोस्वामिता न्यायमूत्रविवरणाख्या त्तिः वृत्तिरियं वाराणस्यां पण्डितपत्रे पण्डितपत्रे मुद्रिता तस्माद्धृत्य पृथगपि मुद्रिता । अनेनैव राधामोहनगोस्वा. मिना रघुनन्दनभट्टाचार्यकृतस्मृतितत्त्वानि व्याख्यातानि मा- थुरी-जागदीशी-गादाधरीग्रन्थोपरि क्रोडपत्राण्यपि रचितानि । श्रीमद्गुरुवरमहामहोपाध्यायधीकैलासचन्द्रभट्टाचार्यशिरो- मणिकृता भाष्यच्छायाख्या न्यायसूत्रवृत्तिः । वृत्तिरियं न्या- यदर्शनवात्स्यायनभाष्यार्थबोधिका ग्रन्थसंख्ययाऽपि भाष्येण समाना । शोकस्थानम् आरम्भात् प्रभृति पञ्चमाध्यायस्य द्वितीयाहिके ५ सूत्रव्याख्यापर्यन्तं ग्रन्थं निर्माय महाशयाः पाञ्चभौतिकं देहं सन्त्यज्य परमपदं गतवन्त इति । न्यायसूत्राणां सर्वेषां व्याख्यानानां शिरोमणिभूतं न- चीनन्यायत्वेन व्यवाहियमाणानां तत्त्वचिन्तामण्पादिन्याय- महानिबन्धानामाधारभूतं न्यायवार्तिकं वरीवति किन्तु न के- वलम्वाणां नापि केवलभाष्यस्य(२) व्याख्यानमपि तू- हापोह विचारपूर्वकन्यायसिद्धान्तज्यवस्थापक भाष्यसंवलित- सूत्रव्याख्यानमित्यनुपदं वर्णयिष्यते ॥ (१) इदं व्याख्यानमस्मन्निकटे चतुर्थाध्यायान्तं वर्तते । पत्राणि १६८ श्लोकसंख्या ४२०० (२) भाष्यस्य टीका न्यायचन्द्रिकाख्या रामचन्द्रकता ऽतीव मनोहरा वर्तते ।
१३४ न्यायवार्तिकस्य भूमिकायाम् अथ न्यायवार्तिककर्तुः परमर्षे रवाजस्य चरितम् । न्यायवार्चिककारो भारद्वाजः कस्मिन् देशे कस्मिन् काले आविर्भूत इति निश्चयाभावेऽपि इदानीमनेके सि. द्धान्तास्तद्विपका आविर्भूना इति तत्परीक्षापूर्वकं किञ्चिदुच्यते । न्यायवार्तिकान्त "यदक्षपादप्रतिभो भाष्यं वात्स्यायनो जगौ । अकारि महतस्तस्य भारद्वाजेन वार्तिकम् ।।" "इति परमर्विभारद्वाजकृतं न्यायत्रिसूत्रीवार्तिकं समाप्तम्" इति त्रिसूत्रीप्रकरणान्ते दृश्यते(१) । "इति पाशुपताचार्यश्रीभारद्वाजोद्योतकर कृतौ न्यायमूत्र- वार्तिके पञ्चमोऽध्यायः(२) इति वार्तिककारोक्त्या न्यायवार्तिककारः परमार्षिार- द्वाजः किं तु आचार्यवाचस्पतिमिश्रेण तात्पर्यटीकारम्भे "अथ भगवताक्षपादेन निःश्रेयसहेतौ शास्त्रे प्रणीते व्युत्पादिने च भग- वता पक्षिलस्वामिना किमपरमवशिष्यते यदर्थ वार्तिकारम्भ इति शङ्को निराचिकीर्षुः मूत्रकारोक्तप्रयोजनानुवादपूर्वकं वार्तिका रम्भप्रमोजनं दर्शयति । यदक्षपादइति । यद्यपि यकृता कृतव्युत्पादनमेतत् तथापि दिङ्नागप्रभृतिभिरर्वाचीनैः कुहेतु- सन्तमससमुत्थापनेनाच्छादितं शास्त्रं न तत्त्वनिर्णयाय पर्या- समित्युद्योतकरण स्वनिबन्धोद्योतेन तदपनीयत इति ।" (१) पाठेऽयं महामहोपाध्यायश्रीयुक्तकैलासचन्द्रभट्टाचार्य- शिरोमणिमहाशयानां पुस्तक वर्तते । (२) फ्ठोऽयं वाराणसीस्थपण्डितवरश्रीविभवरामशर्मणः पुस्त. के वर्तते ।
भारद्वाजचरितम् । म. अपि च श्रीधराचार्येण न्यायकन्दल्या चित्सुखाचा- र्येण तत्त्वप्रदीपिकायामपि न्यायवार्तिककारमुद्द्योतकराचार्य- नाम्नाजुहावेति न्यायवार्तिककारस्य मुख्य नाम भारद्वाजः उद्योतकर इत्युपनाम वा गुणवशानाम इति अनुमीयते । नै. तच्चित्रम् अनेके आचार्या नामद्वयन प्रसिद्धा यथा हर्षिः कृष्णद्वैपायन एव वेदव्यासः । महर्षिोतम एव अक्षपादः । महर्षिर्वात्स्यायन एव पक्षिलस्वामी । मह- र्षिः कणाद एव कणभुग वा कणभक्षः । प्रशस्तपाद एव प्रश. स्तकरः। कात्यायन एवं पारस्करः । सत्याषाढ एव हि- रण्यकेशः । एव मन्येऽपि । निबन्धकारास्तु कृष्णद्वैपायनस्य स्थाने वेदव्यासमपि वि. हाय "व्यासः" मीनांनका यथा प्रभाकरस्य स्थाने "गुरवः" भट्टकुमारिलस्य स्थाने "भट्टाः" पार्थसारथिमिश्रस्य स्थाने "मिश्राः" । अन्येऽपि गुरुचरणाः पिचरणा यज्ञपत्युपाध्याय- स्य स्थाने उपाध्याया इति लिखति स्म । इति चिरन्तनसम्प- दायानुसारेण न्यायवार्तिककारं भारद्वाज(१) योनकर- नाम्नालिखन्ति स्म आचार्या इति । अयं भारद्वाज उद्द्योतकराचार्यः कस्मिन् देशे कस्मिन् काले च आविर्भून इति विचारे काश्मीरदेशीय इति केचिद्वदन्ति तन्त्रेषु केरलाम्नाय-चीनाम्नाय -महाचीनाम्नाय-शैवागमाप- रनामधेयकाश्मीराम्नायनाम्ना नानासम्प्रदायदर्शनाद् वार्तिक- पुस्तके कचित् "पाशुपताचार्य-उद्योतकरावरचितं न्यायसूत्रवा- (१) अनुमीयते ऽननैव भारद्वाजेन वैशेषिकसूत्रवृत्तिरपि प्रणीता न्यायकार्तिक ऽनेकत्र प्रशस्तपादभाष्यस्थवाक्यानि "इति शास्त्र"मित्याकारेण समुद्धृतानीति ।
१३६ न्यायवार्तिकस्य भूमिकायाम् र्तिकमिति'' दर्शनात् । तन्न शिवादित्यमिश्रेऽपि व्योमशिवा- चार्य इतिप्रयोगात् सूत्रकारभाष्यकारयोमिथिलादेशे निवासात् । तात्पर्यटीका-परिशुद्धि-प्रकाश-वर्द्धमानेन्दु-तात्पर्यमण्डनकारा- णां मैथिलत्वात् मध्ये वार्तिककारस्य काश्मीरदेशीयत्वे प्रब- लप्रमाणाभावात् वार्तिककारोऽपि मैथिल इत्यनुमाने बाध. काभावाच । एके तु वदन्ति न्यायवार्तिके पृ. ११० "गोपालकेन मार्गे ऽपदिष्टे एष पन्थाः श्रुघ्नं गच्छती'ति उदाहृतत्वाद्वा- र्तिककारो मालवदेशान्तर्गतपद्मावत्यां लब्धजन्मा स्थाण्वीश्वर- स्थानस्थः पद्मावत्यां न्यायविद्याप्रचारवाहुल्यादिति । तन्न वाक्यारम्भ एव 'गोपालकेने त्युक्तत्वात् न्याया. करग्रन्थेषु न कोऽपि पद्मावतीनिर्मितो ग्रन्थो दृश्यत इति तस्य वाङ्मात्रत्वाच । न्यायवार्तिककारो भारद्वाजः कस्मिन् काले आवि- भूत इति प्रस्तूयते । न्यायवात्तिके पृ. ११० पं. ७ "अहो कौशलं भदन्तस्य" पृ. ४४ पं. इति “कोऽन्यो भदन्ताद्वक्तुम- हति ।" पृ. १३१ पं. १० “सौत्रान्तिकपक्षमाश्रित्य लक्षणं वि- चार्यते" पृ० १२० पं. ७ "वादविधानटीकायां" पृ. १२१ पं.२ "वादविधौ" इत्यादिलेखदर्शनात् बुद्धात् पश्चात् कालभावी इत्यनुमीयते । आचार्यवाचस्पतिमिश्रेण तत्रतत्र "दिङ्नाग- मतं खण्डयति" “वासुवान्धवं लक्षणं खण्ड यति" इत्यादिलि- खितत्वात् कश्चिदर्वाचीनो भारद्वाजोद्योतकर इति निष्पन्न भवति परं तु तात्पर्यटीकारम्भ एव । "इच्छमि किमपि पुण्यं दुस्तरकुनिबन्धपङ्कमनानाम् । उद्द्योतकरगवीनामतिजरतीनां समुद्धरणात् ॥” इति ।
भारद्वाजचरितम् ।
अत्र अतिजरतीनामुयोतकरगवीणामित्युक्त्या अति-
जीर्णानामतिपुरातनीनामिसवगम्यते ततोऽपि दुस्तरकुनिबन्धप-
मनानामित्युक्तिरप्युक्तमेवार्थ द्रढयति तथा सति वाचस्पतिमि-
श्रममयात् पूर्व(१) भदन्तसमयात् परं न्यायवार्तिकग्रन्थनिर्मा-
णमभूत् तदानीं भारद्वाज आसीदिति निीयते ।
अत्र सम्प्रदायविदः । वासवदत्ताख्यायिकायां पृ० २३५"न्या-
यस्थितिमिवोद्योतकरस्वरूपा"मिति दर्शनात् १२०० वर्षेभ्यः
पूर्व वासवदत्ताकर्तुः स्थित्या तत्पूर्व न्यायस्थितिकर्ता भारद्वाज आ-
सीत् । यथा शङ्कराचार्यः श्रौतस्मातधर्मस्थितिकर्ता शिवावतार(२).
(१) वाचस्पतिमिश्राणां ८९८ शाकाब्दे यथा स्थितिरासीत्
तथा तञ्चरिते ऽग्रे निरूपयिष्यते ।
(२) शिवावतारः प्रस्थानत्रयभाष्यप्रणेता शङ्कराचार्यः तत्स्था-
पितशृङ्गेरी-गोबर्द्धन-शारदा-ज्योतिर्मठेषु तच्छिष्याः शङ्कराचा-
र्यनाम्ना प्रसिद्धाः तारारहस्यादितन्त्राणां कर्तापि गौडशङ्कराचार्यः
इत्यादिशङ्कराचार्यभेदात् तच्चरितान्यपि नानाविधानि उपल-
भ्यन्ते किं तु प्रस्थानत्रयभाष्यकर्तुरेव चरिते किश्चिदुच्यते ।
तथा चोक्तं कूर्मपुराणे पूर्वार्द्ध ३० अध्याये
"कलौ रुद्रो महादेवा लोकानामीश्वरः परः ।
तदेव साधयेन्नृणां देवताना च देवतम् ॥ ३२ ॥
करिष्यत्यवताराणि शङ्करो नीललोहितः ।
श्रौतस्मार्त प्रतिष्टार्थ भक्तानां हितकाम्यया ॥ ३३ ॥
उपदेश्यति तज्ज्ञानं शिष्याणां ब्रह्मसंज्ञितम् ।
सर्ववेदान्तसारं हि धर्मान् वेदनिदर्शनात् ॥ ३४ ॥
ये तं प्रीता निषेवन्ते येन केनोपचारतः ।
विजित्य कलिजान् दोषान् यान्ति तं परमं पदम् ॥३४॥” इति ।
तथा शिवरहस्ये ऽपि नवमांशे १६ अध्याये
"शृणु देवि भविष्याणां भक्तानां चरितं कलौ ।
वदामि संग्रहेणैव श्रवणाद्भक्तिवर्द्धनम् ॥ ३॥
१३८ न्यायवार्तिकस्य भूमिकायाम् Hdrapmee mineraniummomen कल्यब्धौ मजमानाँस्तान् दृष्ट्वानुक्रोशतोम्बिके । मदंशजातं देवेशि कलावपि तपोधनम् ॥ ६॥ केरलेषु तदा विप्रं जनयामि महेश्वरि । तस्यैव चरितं तेऽद्य वक्ष्यामि शृणु शैलजे ॥७॥ कल्यादिमे महादेवि सहनत्रितयात् परम् । सारस्वतास्तथा गौडा मिश्राः कर्णाजिना ? द्विजाः ॥ ८ ॥ आममीनाशना देवि आर्यावर्तानुवासिनः । औत्तरा विन्ध्यनिलया भविष्यन्ति महीतले ॥९॥ शब्दार्थज्ञानकुशलास्तर्ककर्कशबुद्धयः । जैना बौद्धा बुद्धियुक्ता मीमांसानिरताः कलौ ॥ १० ॥ वेदबोधदवाक्यानामन्य न्यथैव प्ररोचकाः। प्रत्यक्षवादकुशलाः शल्यभूताः कली शिवे ॥ ११ ॥ मिश्राः शास्त्रमहाशस्त्ररद्वैतोच्छदिनोंम्बिके । कमेव परमं श्रेयो नैवेशफलदायकः ॥ १२ ॥ इति युक्तिपरासृष्टवाक्यैरुद्वोधयन्ति च । तेन घोराः कुलाचाराः कर्मसारा भवस्तथा ?॥ १३ ॥ तेषामुद्घाटनार्थाय सृजामीशे मदंशजम् । केरले शललग्रामे विप्रपल्लयां मदंशजः ॥ १४॥ भविष्यति महादेवि शङ्कराख्यो विजोत्तमः । उपनीतस्तदा मात्रा वेदान् साङ्गान् ग्रहीष्यति ॥ १५ ॥ जैनान् विजिशे तरला तथान्यान् कुमतानुगान् । तदा मातरमामन्य परिबाट् स भविष्यति ॥ १८ ॥ व्यासोपदिष्टसूत्राणां द्वैतवाक्यात्मनां शिवे । अद्वैतमेव सूत्रार्थ प्रामाण्येन करिष्यति ॥ २५ ।। द्वात्रिंशत्परमाय्वन्ते शीघ्र कैलासमावसेत् । एतत् प्रतिगृहाण त्वं पञ्चलिङ्गं सुपूजयन् ॥ ३९ ॥” इत्यादि । एवं स्थूलेन प्रकारेण देशकालनिर्णयो भवति । सूक्ष्मेन प्रकारेण देशकालादिनिर्णयार्थ शङ्कराचार्यशिष्येण चिद्विलासाख्येन २४००० श्लोकात्मकं शङ्करजयाख्यं चरितम् । रचित इदमेव माधवाचार्येण "प्राचीनशडूरजये सारमाकृष्य लिख्यते" इत्यादिना स्वग्रन्थे स- भारद्वाजचरितम् । १३९ स्तथा बौद्धमावल्यसमये भारद्वाजोऽपि न्यायास्थितिं कृतवा- निति न चित्रम् । यद्यपि शङ्कराचार्याणां श्रौतस्मार्तधर्मस्थितिकर्तृत्वे कूर्म- पुराण-शिवरहस्यादि आर्ष प्रमाणमस्ति न तथा उद्योतक- मुद्धृत्तम् । अनन्तानन्दगिरिणापि शङ्कराचार्यशिष्यमात्मानं ब्रुवता शङ्करजयनाम्ना ग्रन्थो रचित इति नैव तिरोहितम् । एवं धनपतिसूरिणापि शङ्करविजयो रचितः । एवमनेकैरपि विद्वद्भिर्ना- नाविधा ग्रन्था रचिता । सम्प्रति बाबूराजेन्द्रनाथघोषमहोदयेन "शङ्कर ओ रामानुज"नाना ४९१ पृष्ठात्मको निबन्धो वङ्गभाषायां रचित इति । किं तु शङ्करमन्दारसौरभे नीलकण्ठभट्टाः "प्रासूत तिष्यशरदाममियातवत्या- मेकादशाधिकशतोनचतुःसहस्रचाम् ।” इत्युक्तवन्तः तिष्यशरदां कलियुगाब्दानामिति भावः । सम्प्रदायविदस्तु "निधिनागेभवह्वयब्दे ३८८९ विभवे मासि माधवे। शुक्त तिथौ दशम्यां तु शङ्करायौदयः स्मृतः ॥” इत्याहुः । नवाशीत्युत्तराष्टशत्यधिकत्रिसहस्त्रीमिते वर्षे कलियुगस्येति शेषः । श्रीभास्करभारतीकृतसौभाग्यचन्द्रोदये "वर्षेष्वतीतेषु शतेषु षट्लु तिष्येऽवतीर्णो भुवि शङ्करायः।” इति । सदानन्दस्वामिकृतशङ्करविजये "धर्मेधाविंशतिशक सप्तमद्विसहनके । अब्दे सर्वजिते जातः सहे वै पञ्चमे दिने ॥” इति । अत्र अन्वेषकं मन्याः शिवरहस्यस्थं "सहस्रत्रितयातू परमिति" वचनं "सहस्त्रद्वितयात् पर"मिति पठित्वा किवदन्त्यादिना वि- क्रमादित्यसमयासने समये शङ्कराचार्याणां स्थितिं वदन्ति । तन्न शङ्कराचार्यप्रणीतेषु ब्रह्मसूत्रोपनिषङ्गीताभाष्येषु समुद्धृतेषु ग्रन्थेषु इतः पूर्व त्रयोदशशताब्द्यां निर्मितोऽपि ग्रन्थः समुद्धृत इति त- त्पूर्व द्वात्रिंशद्वर्यपरिमितायूनामाचार्याणां स्थितिस्थापनं त कर्तुं शक्नुवन्ति ।
१४० न्यायवार्तिकस्य भूमिकायाम रस्थ न्यायस्थितिकतत्वे उपलभ्यते तथापि प्राचीनेनाचार्येण वासवदत्ताख्यायिकायां समूलभेवोपात्तमिति नासमञ्जसम् । न्यायवासिकं पुरातनं भवतु वा नवीनं किं तु "भारद्वा- जेन वार्तिक"मित्युक्त्या न्यायमूत्रतद्भाध्यवदेव समादरणीयं कालनिर्णयस्तु काकदन्तपरीक्षावदुपेक्षणीय इति(१) । वार्तिकलक्षणं तु पराशरोपपुराणे १८ अध्याये "उक्तानुक्तद्विरुक्तानां चिन्ता यत्र प्रमज्यते । तं ग्रन्थं वार्तिकं प्राहु तिकज्ञा मनीषिणः ॥” इति । अस्मन्निकटे वर्तमाने एकस्मिन् महाभाष्यपुस्तके लिखितेषु सूत्र-भाष्य-वार्तिकलक्षणेषु वानिकलक्षणं यथा । "उत्तानुक्तद्विरुक्तानी विचारस्य निबन्धनम् । हेतुभिश्च प्रमाणैश्च एतद्वार्तिकलक्षणम् ॥” इति । उक्तलक्षणाक्रान्तो न्यायवार्तिकग्रन्थश्च तत्वचिन्तामण्या- दिन्यायमहानिबन्धानामाधुनिकनवीनन्यायत्त्वेन व्यवाहियमा- णानामाधारभूतो महानैयायिकरपि दुरधिगमो भारद्वाजकृतो- ऽपि इदानींतनानां भाष्यकारंमन्यमानानां महामहोपाध्यायानां मते भारद्वाजो न ऋपिरिति वदतां भारद्वाजगोत्रेण येन केनापि पण्डितेन रचित इति सिद्धान्तः । अत्र यथा भारद्वाजेन वार्तिक ग्रन्थो रचितस्तथा प्रतिपा- दितमधस्तात् । भारद्वाजस्य ऋपित्वं तु प्रश्नोपनिपदि ६ प्रश्ने "अथ हैनं शुकेशाः भारद्वाजः पप्रच्छ” “पोडशकलं भारद्वाज पुरुष" इति मुण्डकोपनिषदि १ मुण्डके । पाणिनिरपि व्याकर- णमूत्रपाठे ७ अ, २पा.६३ मू. "ऋतो भारद्वाजस्य" इति । किं तु (१) "पुराणमित्येव न साधु सर्व नवीनमित्येव न गर्हणीयम् । सन्तः परीक्ष्यान्यतरद् भजन्ते मूढः परप्रत्ययनेयबुद्धिः ॥” इति ।
भारद्वाजचरितम् । १४१ , अनेनैव भारद्वाजेन न्यायवार्तिकं प्रणीतमित्यत्र दृढममाणाभावे. ऽपि श्रौतस्मातसूत्रादिषु कृष्णात्रिः वृद्धात्रिः अत्रिः, विष्णुः विष्णु- वृद्धः, श्रीमुखः शाण्डिल्यः गर्दभीमुखध शाण्डिल्यः, याज्ञवल्क्यः वृद्धयाज्ञवल्क्यो योगियाज्ञवलपश्वेत्यादिदर्शनाद्भारद्वाज भेदानु- मानादुक्तकालावस्थायिना भारद्वाजेन परमर्षिणा कृतं वार्तिकमि- त्युक्तः सिद्धान्तो निराकृतः । वत्सोऽपि द्विविध इत्युक्तमधस्तात् । वार्तिकग्रन्थे ऽपि १२८ पृ० १७ पं० "हेतुवार्तिकं कुर्वा- णेन" १६८ पृ० २२ ५० "हेत्वाभासवार्तिके" इत्याद्युक्त्या किमपि पुरातनं न्यायवार्तिकमासीदिति कल्पयन्ति केचित् तन्न कचिरौद्धानां वार्तिकं कचिच्च ब्रह्ममीमांसासूत्रे “वा- दरायणः (१) व्याकरणमहाभाष्ये गोनीयस्त्वाहे खादिवदु- तत्वात् शास्त्रतात्पर्यानवबोधाच । विश्वनाथन्यायपश्चाननो न्यायसूत्रवृत्तिग्रन्थं न्यायभाष्यवा- तिकादिग्रन्थान् समालोच्यैव कृतवान् किं तु न्यायवार्तिकग्रन्थं साकल्येन नोपलब्धवान् “प्रत्यक्षनिमित्तत्वात्-" २ अ. १ आ. २५ सूत्रव्याख्याने" इदं न सूत्र"मित्युक्तं तेन, वार्तिककारेणा- स्य सूत्रत्वं कण्ठरवेणोक्तत्वादिति । अनुमीयते यद्वर्षशतत्र- यात्पूर्वमपि वार्तिकग्रन्थो लुप्तप्राय आसीदिति । चीनदेशीयेतिहासपुस्तकाद्विज्ञातं भवति यत् वर्तमानसम- याद् चतुर्दशशताब्दीभ्यः पूर्व शङ्खभद्रबौद्धस्य शिष्यपरम्प- रायां दिङ्गागो बौद्धाचार्योऽभूत् तेन न्यायसूत्राणां स्वमतानु. सारेण समालोचनं कृतम् तन्मतखण्डनाद्वार्तिककारोऽर्वाचीन- इति सिद्धान्तयन्ति केचित् इदं न सम्यगित्युक्तं मया गोतमच. रिते अयं विशेषोऽप्यस्ति । यत् वर्तमानसमयात् नवशता- ब्दीभ्यः पूर्व वर्तमान आचार्यवाचस्पतिमिश्रः "उद्द्योतकरग- (१) ४ अध्याये ४ पादे ७ । १२ सूत्रम् ।
१४२ न्यायवार्तिकस्य भूमिकायाम् वीणामतिजरतीनामिति कथं लिखेत् यतो वर्तमानसमयात् षट्- शताद्वीभ्यः पूर्व वर्तमानमपि गङ्गेशोपाध्यायं नव्यास्त्विसाकारेण व्यवहरन्ति नैयायिकाः तस्मात् स सिद्धान्तः सन्दिग्ध एवेति । न्यायवार्तिक १०३ पृ० (प्रथमसंस्करणे) काश्यपीयं लक्ष- णमित्यत्र "कणादः काश्यपः समौ" इत्यनेन पर्यवसितं काणा- दलक्षणमित्यर्थमजानता केनचित् काश्यपी क्षितिरिति लि. खितमादर्शपुस्तके तथैव प्रमादान मुद्रितमिति ज्ञेयम् । १२८ पृ. १७ पं. वार्तिकं कुर्वाणेनेति केनचिबौद्धन कृतं तद्वार्त्तिकमित्यजानन्तो न्यायवार्तिककारमेव समाकृष्य नि. रूपयन्ति “मुद्रितवार्तिके साम्प्रतं नोपलभ्यते" इति मुद्रितं वार्तिकमनवस्थितमिति तेषां हृदयम् । यत्र कचित् न्यायवार्तिकतात्पर्यटीकायां प्रतीकादौ मु. द्रितवार्तिकपुस्तकेन वैषम्यात् मुद्रितवार्तिकपुस्तकस्यानव. स्थितत्वं खण्डितत्वं च कल्पयन्ति केचित् । तन्न मूलादर्शपुस्त- केषु वहूनि पाठान्तराणि उपलभ्यन्ते तानि न अनवस्थामूल- कानि न वा त्रुटिमूलकानि निबन्धस्य चिरन्तनत्वात लेखक- शोधकप्रमादजातात् पाठान्तराद् वाचस्पतिमिश्रेण यल्लब्धं वा- र्तिकपुस्तकं तदनुसारि व्याख्यानं कृत(१)मिति विज्ञेयम् ॥ (१) तात्पर्यटीकायां ६५ पृ० द्रष्टव्यम् । यथा पेक्षताजागदी- श्याम् । “न च प्रकृतस्वरसंवलितस्यैव पाठस्य धर्तुमुचितत्वाद्- व्याप्त्योति धारणं युक्त"मित्यादि । मुद्रितदीधितिपुस्तके "भवानन्दसम्मतः पाठः" "जगदीश- सम्मतः पाठ"इत्यादि न्यायवार्तिकस्यापरं व्याख्यानं न्यायसारविचारकी श्री- राघवभट्टेन कृतं "समानादिशब्दार्थस्तु वार्तिकव्याख्यानावसरे स्फु- टीभविष्यति" इति तत्रोक्तत्वात् । वा. रा. सं. न्यायसारविचारपु- स्तके ७ पन्ने द्रष्टव्यम् । .
१४३ आचार्यवाचस्पतिमिश्रचरितम् । न्यायवार्तिकतात्पर्यटीकाकर्तुः आचार्यवाचस्पतिमिश्रस्य चरितम् । वेद-धर्मशास्त्र-पुराण-तन्त्र-व्याकरण-ज्यौतिष-छन्दो- न्याय-वैशेषिक-सांख्य-योग-मीमांसा-वेदान्त-चिकित्साशा. खादौ वाचस्पतिप्रणीतास्तत्पुत्रपौत्रप्रणीता वा अनेके ग्रन्था उपलभ्यन्त. इति अनेके वाचस्पतयोऽभूवनिति नात्र सन्देहाव- काशः । तत्र वाचस्पतिमिश्रा अपि अष्टौ तत्रापि दार्शनिको द्वौ तत्राप्याचार्यसन्मिाचस्पतिर्वा षड्दर्शनटीकाकृदाचार्यवाच. स्पतिमिश्रो वा इतरव्यावर्तकविशेषणयुक्तत्वादेक एवेति न्याय- वार्तिकतात्पर्यटीकाकारत्वात् प्रकृते स एव वर्णनीय इति ।। तत्र आचार्यवाचस्पतिमिश्राणां(१) महर्षि कल्पानामावि- र्भावे देशकालनिर्णयाभावेऽपि गुणैकपक्षपातिनो विद्वांसो भवन्तीति ते अनेकान् सिद्धान्तान् निरूपयन्ति(२) वस्तुतस्तु (१) तार्किकरक्षाटीकायां लघुदीपिकायां १२ पत्रे "आचार्य- वाचस्पतिमिश्राः” अप्पयदीक्षितेनापि शास्त्र सिद्धान्तलेशसंग्रहे पृ. ८ । २४ आचार्यवाचस्पतिमिश्राः" (२) माधवीये शङ्करविजये वाचस्पतिमिश्रः पूर्वजन्मनि श्री- शङ्कराचार्यापार प्रधानशिष्यः पद्मपादाचार्यः शारीरकभाष्यसाख्यां प्रणीतवान् स एव निबन्धः सुरेश्वराचार्याणां शापात् पञ्चपादि- काभिधानत्वं गतः ततश्च शङ्कराचार्यानुग्रहातू पद्मपाद एव द्वितीय- जन्मनि वाचस्पतिर्भूत्वा शारीरकभाष्यव्याख्या संपूर्णा भामती प्र- णीतवानित्यादि निरूपितम् । केषाश्चिन्मते वाचस्पतिमिश्राणां पत्नी भामती । मतान्तरे कन्या भामती । अन्येषां मते नेपालप्रान्तभागे भामानामको ग्रा- मविशेषः । तत्र स्थितेन पाचस्पतिमिश्रेण भामती अन्थो र- चित इति यावत् ।
४ न्यायवार्तिकस्य भूमिकायाम् आचार्यवाचस्पतिमिश्रेण सांख्यतत्वकौमुद्यादौ वक्ष्यमाणानि वचनानि लिखितानि । "मनांसि कुमुदानीव बोधयन्ती सतां सदा । श्रीवाचस्पतिमिश्राणां कृतिः स्तात् तत्त्वकौमुदी॥" तत्रैव "सर्व चैतदस्माभिया॑यवार्तिकतात्पर्यटीकायाम् ।" न्यायवार्तिकतात्पर्यटीकायां च ३ अध्याये २ आह्निके ३९४ पृ. "विपश्चितं चैतदस्माभिर्ब्रह्मतत्त्वसमीक्षान्यायकलिकाभ्याम्" तत्वबिन्दौ मुद्रितपुस्तके २३ "उपपादितं न्यायकलिकायाम्" "भामत्यां च १८ पृ. "विस्तरस्तु ब्रह्मतत्वसमीक्षायाम् पृ. ७१ "उपपादितं चैतदस्माभिर्विस्तरेण न्यायकलिकायाम् ।" एवं तात्पर्यटीकायां पृ. ५७ । “तत्त्वसमीक्षायाम्" योगभाष्य- व्याख्यायां तत्ववैशारद्याम् ३२ मूत्रव्याख्याने "अर्थक्रिया ब्रह्मतत्वसमीक्षान्यायकणिकाभ्यामुपपादिता।" अपि च भामत्यां ग्रन्थसमाप्तौ “यन्न्यायकलिका-तत्वसमीक्षा-तत्त्वबिन्दुभिः । यन्न्याय-सांख्य-योगानां वेदान्तानां निवन्धनैः ।। समचैपं महत् पुण्यं तत्फलं पुष्कलं मया । समर्पितमथैतेन प्रीयतां परमेश्वरः ॥" इत्युक्तनिबन्धानां कर्ता एक एव । अत एव पड्दर्शन- टीकाकारत्वेन तं व्यवहरन्ति विद्वांस इति । अयं वाचस्पतिमिश्रः कस्मिन् देशे आविरभूदिति विचारे मण्डनमिश्र-मुरारिमिश्र-पार्थसारथिमिश्र-सुचरितमिश्रादयो मिश्रशब्दान्ता मैथिला इति मिश्रशब्दसम्बन्धात् "तनिषिद्धं च परिहरतां दाक्षिणात्याना"मिति तात्पर्यटीकायां ३२ पृ. दर्शनादयमपि मैथिल एवेति अनुमीयते ।
आचार्यवाचस्पतिमिश्रचरितम् । १४५ समयनिर्णये तु वक्ष्यमाणं पद्यं तत्कृतन्यायसूचीनि. बन्धान्ते लिखितमुपलभ्यते । "न्यायसूचीनिवन्धोसावकारि सुधियां मुदे । श्रीवाचस्पतिमिश्रेण वस्वङ्कवसुवत्सरे ॥" इति न्यायसूचीनिबन्धाख्ये सूत्रपाठनिर्णायके न्यायदर्शन- रहस्यार्थप्रदर्शके निबन्धे लिखितत्वात् ८९८ शाकाब्दे न्यायवा- र्तिकतात्पर्यटीकाकाराणां वाचस्पतिमिश्राणां स्थितिरासीदिति निश्चीयते । निबन्धोऽयं तात्पर्यटीकाकारेणैव कृत इति व्यु- त्पादितमत्रैव ३८ पृष्ठे अधिकं तु निरूप्यते । न्यायदर्शने सूत्रपाठभेदादहव आचार्याः ग्रन्थद्वयं कृतवन्तः यथा उदयना- चार्यास्तात्पर्यपरिशुद्धि न्यायपरिशिष्टं च वर्द्धमानोपाध्याया- स्तात्पर्यपरिशुद्धिप्रकाशमन्वीक्षानयतत्त्वबोधं च जयन्तश्च न्या. यमञ्जरी न्यायकलिकां च विश्वनाथन्यायपञ्चानना न्याय- सूत्रवृत्ति न्यायालोकं च तथैव वाचस्पतिमिश्रोपि न्यायवार्ति- कतात्पर्यटीका न्यायसूचीमपीति नैतच्चित्रम् तथा भामत्यामन्ते "न्यायसांख्ययोगानां निवन्धन"रिति बहुवचनेन न्याय- सूचीतात्पर्यटीकास्थाधन्तपद्ययोः प्राय ऐक्येनैककर्तृकत्वं नि- विवादमेव । वस्वङ्कवसुवत्सरे अत्र वत्सरशब्दः शाकाब्दवा. चक एवं इदमेव द्रढयन्ति वक्ष्यमाणानि प्रमाणानीति । तथा- हि भामत्यामन्ते । "नरेश्वरा यच्चरितानुकार- मिच्छन्ति कर्तुं न च पारयन्ति । तस्मिन् महीपे महनीयकों श्रीमन्नृगे ऽकारि मया निबन्धः ॥" इति । यद्यपि नृगनामानोऽनेके राजानो महाभारते भागवते १९ १४६ न्यायवार्तिकस्य भूमिकायाम् च उपलभ्यन्ते तथापि अर्वाचीननृगविषये शार्ङ्गधरपद्धयां विशिष्टराजवंशवर्णनप्रसङ्गे नृगनृपतिपाषाणयज्ञयूपप्रशस्तिनाम्ना पद्यद्वयं समुद्धृतम् । यथा "आविन्ध्यादाहिमाद्रेविरचितविजयस्तीर्थयात्राप्रसङ्गा- दुग्रीवेषु प्रहर्षान्नृपतिषु विनमत्कन्धरेषु प्रसन्नः । आयुर्वित्तं यथार्थ पुनरपि कृतवान् म्लेच्छविच्छेदनाभि- देवः शाकम्भरीन्द्रो जगति विजयते वीसलः क्षोणिपालः॥ ब्रूते सम्प्रति चाउहानतिलकः शाकम्भरीभूपतिः श्रीमान् विग्रहराज एष विजयी सन्तानजानात्मजः । अस्माभिः करद व्यधायि हिमवद्विन्ध्यान्तरालं भुव: शेपस्वीकरणाय मास्तु भवतामुधोगशून्यं मनः ॥” इति । शार्ङ्गधरपद्धत्या शाकम्भरीदेशे चउहान-क्षत्रियवंशे हम्मी- रराजोभूत् तत्सभायां राघवदेवपण्डितात्मजा गोपाल-दामो- दर-देवदासाख्याः पण्डिता वर्तमाना आसन् । दमोदरात्मज- शाधरण नृगनृपतिपाषाणयज्ञयूपस्य नाम । उक्त कारण समुद्धृतम् । हम्मीरराजश्व १२९५ वैक्रमे वर्षे मृतः तत्पूर्व ६० वर्षाणि राज्यं कृतवानिति वदन्ति ऐतिहासिकाः । अतो निष्पन्नं भवति १२३५ वैक्रमवर्षेभ्यः ११०० शाकर्षभ्योऽपि पूर्व डिल्लीनगरोपकण्ठस्थितस्तम्भेऽपि १२२० विक्रमवर्षे १०८५ शाकाब्दे निरुक्तानि पद्यान्यासनिति उक्तसमये वा- चस्पतिमिश्रस्थितौ नासमअसं किमपि । हेमाद्रिणा-वोपदेवेन च आयुर्वेदीया शाधरसंहिता व्याख्याता वोपदेवसमयश्च १९८२ गतशाकान्दासनसमय एवेति निरुक्तसमये शार्ङ्गधरस्थितिर्न विरुद्धा । वर्नेसमहाशयसंगृहीते एपीग्राफिआइण्डिकापुस्तके (वा.
१४८ न्यायवार्तिकस्य भूमिकायाम् यानि लिखितानि पद्यानि तदुक्तक्रमेणैव ग्रन्था रचिता इति अनुमीयते प्रथमतो मण्डनमिश्रविरचितविधिविवेकस्य टीका न्यायकलिकैच रचिता(१)अस्य ग्रन्थस्योपादानं प्रायस्तत्कृत. ग्रन्थेषु दृश्यते ततो ब्रह्मसिद्धिव्याख्या ब्रह्मतत्वसमीक्षा(२) ततश्च तत्वबिन्दुग्रन्थः(३) इदं ग्रन्थद्वयं न्यायवार्तिकतात्पर्यटीकायां(४) (१) कचित्तु अमुं ग्रन्थं न्यायकणिकानाम्ना व्यवहरन्ति । वा. राणसीस्थराजकीयसंस्कृतपाठशालीयपुस्तके "इति पूर्वकणिका समाप्ता"इति लेखोप दृश्यते । ग्रन्थोऽयं काशीविद्यासुधानि- धिपत्रे मुद्रितः। (२) ब्रह्मतत्त्वसमीक्षा मण्डनमिश्रकृतब्रह्मसिद्धाख्या । (३) तत्त्वबिन्दुग्रन्थष्टिप्पणसहितः पण्डितपत्रे मुद्रितोऽपि लघुत्वात् दुरूहः अस्य एका महती टीका ममान्तिके ४००० श्लोकात्मिका वर्तते। (४) न्यायवार्तिकतात्पर्यटीकायाः पुस्तकत्रयं ममान्तिके व- तते तत्र प्रथमे पुस्तके लिपिकालोऽधोलिखितप्रकारेण लि- खितोऽस्ति। "इति वाचस्पतिमिश्रविरचितायां न्यायवार्तिकतात्पर्यटीकायां प्रथमोऽध्यायः समाप्तः।ळ्॥ळ्ळ्॥ स्वस्ति संवत् ॥ १४५४ समये आ- श्विनवदि १० रविवासरे ॥ळ्॥ ॐनमो नारायणाय ॥ स्वस्ति । काशी करोतु कल्याणं विश्वेशः सर्वसम्पदः॥ भवानी च जगन्माता जयं ने विधातु च ॥ तावद्गजन्तु कवयः शास्त्रायां कपयो यथा । महेशांमृतचीत्कारवाणी यावन्न निःसृता ॥ छ ॥ शुभ- म् ॥ ॥ गर्व वहन्तु भुवि भाविनि लेखकात्र ? शून्याटवीमदनि- रीक्षितमत्तसत्त्वाः ॥ श्रीमाधवांघ्रियुगपद्ममधुव्रतोपि यावत्प्रयाति न हरिनरसिंहनामा ॥छ ।" वाराणसीस्थराजकीयसंस्कृतपाठशालीयं तु न्यायवार्तिकता- त्पर्यटीकापुस्तकं गोरक्षशतकं च सर्वविद्यानिधानकवीन्द्राचार्य- सरस्वतीनां पुस्तकम् । अयं च १६९६ वैक्रमाब्दासन्ने समये घाराणस्यां वर्तमानः गोदावरीतटात् समायातः गोरक्ष- आचार्यवाचस्पतिमिश्रचरितम् । १४९ समुद्धृतमिति पश्चान्न्यायवार्तिकतात्पर्यटीकाया निर्माणमियं टीका च सांख्यतत्वकौमुद्यां समुद्धृता योगभाष्यटीका. यां तत्त्ववैशारद्यां तत्वकौमुदी समुद्धृता भामत्यां तु आदिम. ध्यावसानेषु सर्वे ग्रन्था उपात्ता इति । केचित्तु भामत्यामारम्भे "मार्तण्डतिलकस्वामिमहागणपतीन् वयम् । विश्ववन्द्यान्नमस्यामः सर्वसिद्धिविधायिनः ॥" इति दृष्ट्वा मार्तण्डतिलकस्वामिनः शिष्यो वाचस्पतिमिश्र इति वदन्ति तन्न शास्त्रतात्पर्यानववोधात् तात्पर्यटीकायां ८७ पृ. "अस्माभिखिलोचनगुरूबीतमार्गानुगमनोन्मुखै"रित्यु- क्तत्वाच्च । प्रपञ्चितं चास्माभिर्वात्स्यायनचरिते ऽधस्तात् । मुम्बईनगरे द्वितीयात्तिमुद्रिते सटीककाव्यप्रकाशपु- स्तके भूमिकायाँ ३१ पृ. विश्वनाथकृतकाव्यप्रकाशदर्पणे "इति वाचस्पतिमिश्रः" ४० पृ० दीक्षितभीमसेनकृतायां सुधा- साराख्यायां काव्यप्रकाशटीकायां "सर्वतन्त्रविदो वाच- स्पतिमिश्राः" इति प्रदर्शयता काव्यप्रकाशस्य टीका वाच. स्पतिमिश्रेण कृता इति स्वकृतटीकोपोद्धाते २ पृष्टे कल्पि- तम् एतचिन्त्यम् । श्रीतारानाथतकवाचस्पतिभट्टाचार्येण सांख्यतत्वकौमुदी- भूमिकायां निरूपितं यद्वाचस्पतिमिश्रेण खण्डनोद्धारः कृत शतकपुस्तकं संगृहीतवान् तत्र उक्तसमय एव लिखितः । अपि च १६२७ ईशवीयवर्षात् १६५६ वर्षान्तं शाहजहांनृपति- समयः तस्मादेव उक्ताचार्यैः काशीप्रयागयात्रिकाणां करो विमो. चित इति ऐतिहासिका वदन्ति । अस्मन्निकटे पुस्तकत्रयं वर्तत इति तद्वर्णनं च कृतमधस्तात् ।
१५० न्यायवार्तिकस्य भूमिकायाम् इति श्रीहर्षादर्वाचीन इति । परं तु वाचस्पतिमिश्रकृता न्या- यत्तिकतात्पर्यटीका उदयनाचार्येण व्याख्याता उदयनाचार्य- कृता किरणावली न्यायकुसुमाञ्जलिरपि खण्डनग्रन्थे श्रीहर्षेण समुद्धृतौ पुनरपि खण्डनग्रन्थस्योद्धारो वाचस्पतिमिश्रेण कृत इति विजानाति तर्कवाचस्पतिमहाशय इति । अस्पाभिरनुमीयते तत्त्वचिन्तामणिप्रकाशाख्यव्याख्या- न्यायतत्वालोकाभिधन्यायसूत्रवृत्ति-न्यायसूत्रोद्धारादिकी न- वीनवाचस्पतिमिश्रेण काव्यप्रकाशटीका खण्डनखण्डखाद्यो- द्धारश्च कृत(१) इति । अनेन स्वरचितग्रन्थेषु न्याय- तत्वालोकादिपु षड्दर्शनटीकाकारो वाचस्पतिमिश्रः समुद्- धृत(२) इति । अस्य समयादिनिरूपणे । श्रीवाचस्पतिमिश्रेण मिथिलेश्वरमरिणा । लिख्यते मुनिमूर्धन्यश्रीगोतममतं महत् ॥" इति न्यायसूत्रोद्धारारम्भे । "शिवेनोरसि विधृतौ पादौ नत्वापवर्गदौ । व्यलेखि न्यायसूत्राख्यं चैत्रे वस्वक्षिवासवे ॥" इति सूत्रोद्धारान्ते दर्शनात् वस्वक्षिवासवे इत्यनेन १४२८ वैक्रमे वर्षे ग्रन्थो ऽयं निर्मितः सुधामधुनामाप्येको ग्रन्थो वाच- स्पतिमिश्रकृतो विज्ञायते तत्र लिपिकालः १३०३ शाकान्दो दृश्यते इत्युभयोरविरोधात् १२९३ शाकाब्देभ्यः पूर्व मिथि- (१) खण्डनोद्धारोऽपि काशीविद्यासुधानिधिपत्रे मुद्रित इति । (२) खण्डनोद्धारे २५ पृष्ठे "विस्तरस्तु तत्त्वालोके मयैवोक्त इतीहोपरम्यते" तत्त्वालोकाख्ये न्यायसूत्रव्याख्याने १ अ० १ आ० २१ सू० बाधनालक्षणं दुःखमित्यत्र च षडदर्शनटीकाकृवाचस्पति- मिश्रः समुद्धृतः। .
उदयनाचार्यचरितम् । लादेशे उक्तवाचस्पतिमिश्रस्य स्थितिरासीदित्यनुमीयते । वि. स्तरस्तु खण्डनखण्डखाद्योद्धारभूमिकायां निरूपितोऽस्माभिः । अपरोऽपि वाचस्पतिमिश्रो विवादचिन्तामणि-तीर्थचि- न्तामणि-श्राद्धचिन्तामण्यादिधर्मशास्त्रनिबन्धकर्ता अन्योपि सि- द्धान्तशिरोमण्यादिज्यौतिषनिबन्धव्याख्यातुर्लक्ष्मीदासस्य पिता वाचस्पतिमिश्रो भिन्न एवेति तत्तद्न्थसमालोचनाव्यक्तं भविष्यतीति ॥ न्यायवार्तिकतात्पर्यटीकापरिशुद्धिकर्तुः श्रीमदुदयनाचार्यस्य चरितम् । उदयनो(१) वा उदयनाचार्यों वा न्यायाचार्योदयनो वा उदयकरो(२) वा उदयाकरो(३) वा उदयंकरो(४) वा उदय- (१) "व्यातेने किरणावलीमुदयन"इति किरणावल्यामुदयना- चार्योक्त्या न्यायाचार्योदयन एव नान्यः । विस्तरस्तु अग्रे नि- रूपयिष्यते । (२) "इदमुदयकरण न्यायलोकागमाना"मिति कलिकाता- मुद्रितात्मतत्त्वविवेकपुस्तकान्ते दर्शनातू स एव नान्यः । वस्तु- तस्तु तदिदमुदयनेन न्यायलोकागमाना"मित्येव पाठस्तालपत्रा- दिलिखितपुस्तकेषु दृश्यते । (३) "उदयाकरसूनुना" इति ईश्वरप्रत्यभिशासूत्रग्रन्थे दर्शनात् सोऽन्यः । (४) "शब्देन्दुशेखरे ज्योत्स्ना प्रकरोत्युदयंकर"इत्युक्त्या ना- गेशभट्टादपि पश्चात्कालभावीति सुतरां भिन्नः ।
१५२ न्यायवार्तिकस्य भूमिकायाम् नाचार्यभादुडी(१) इत्यादिनामभिस्तत्तद्देशीया गुणैकपक्षपाति- नोऽनेकैः प्रकारैः किंवदन्त्यादिभिन्यायाचार्यमुदयनाचार्य वर्ण- यन्ति । किं तु वैशेपिकभाष्यटीका वा प्रशस्तपादभाष्यटीका किरणावली, वैशेषिकशास्त्रसारभूता लक्षणावली, न्यायभाष्यटी- काटीकाटीका न्यायनिबन्धापरनामधेया तात्पर्यपरिशुद्धिः, बोध- शुद्धिर्बोधसिद्धिर्वा न्यायपरिशिष्टाख्या न्यायसूत्रवृत्तिः, आत्म- तत्त्वविवेको न्यायकुसुमाञ्जलिश्च येनोदयनाचार्येण रचितः स एवेदानी वर्णनीय इति नासौ वङ्गदेशीयो न वा दाक्षिणात्यः किं तु मैथिल इति भविष्यपुराणपरिशिष्टे भगवद्भक्तमाहात्म्ये ३० अध्याये स्पष्टमुपलभ्यते तथाहि- अथ वक्ष्ये तृतीयस्य हरेरंशस्य धीमतः । उदयनाचार्यनाम्नस्तु माहात्म्यं लोमहर्पणम् ॥ १ ॥ भूत्वा स मिथिलायां तु शास्त्राण्यध्यैष्ट सर्वशः । विशेषतो न्यायशास्त्रे साक्षाद्वै गोतमो मुनिः ॥ २ ॥ बौद्धसिद्धान्तमुग्धान्तःसुखाय हितकारिणीम् । (१) "उदयनाचार्यभादुडी भिन्नः चाटुर्जी-वानुर्जी-गाङ्गुली- भादुडीत्याधुपाधयस्तु वल्लालसेनेन दत्ता अस्य समयस्तु तत्कृताद्- भुतसागरादिग्रन्थेभ्यः १०८९ शाकाब्दः । उदयनाचार्येण लक्षणा- वल्यां ९०६ शाकाब्दो ग्रन्थनिर्माणकालो लिखित एव अथ च न्यायवार्तिकतात्पर्यपरिशुद्धौ "अमृतस्थाने अम्रुत इति दाक्षिणा- त्यानाम्" | "गौडाः शषसाः सा इति” । अत्र गौडा वङ्गदेशीयाः एवं निन्दालिखनादुभयभिन्नत्वं निर्विवादम् । विस्तरस्तु न्या० वा० ता० परिशुद्धिभूमिकायाम् । वल्लालसेनस्तु १०८९ वर्षेऽद्भुतसागरग्रन्थं कृतवान् किं तु ल- क्ष्मणसेनस्य पुत्रो वल्लालसेनो वा वल्लालसेनस्य पुत्रो लक्ष्मणसेन इत्यादि विचारोऽने समुद्भावयिष्यते ।
उदयनाचार्यचरितम् । १५३ वितेने विदुषां प्रीत्यै विमलां किरणावलीम् ॥ ३ ॥ एकदा बौद्धसिद्धान्तान् प्रकटीकर्तुमागतः । बौद्धाचार्यस्तीरभुक्तौ नृपग्रामे समागतः ॥ ४ ॥ स्वशिष्यैः स्वीयशास्त्रस्य पुस्तकैर्वहुभिर्वृतः । राजानं प्रेषयामास दूतं दर्पवशादसौ ॥ ५ ॥ कश्चिच्छिष्यं गच्छ शिष्य मिथिलेशं वदाधुना । मद्वाक्यात् वेदशास्त्राभ्यां सुधा भ्रान्तोसि भूपते ॥ ६ ॥ निरीक्ष्य मम शास्त्राणि मत्पथानुगतो भव । अस्ति चेत् तव देशेऽस्मिन् वेदस्थापनकृत् पुमान् ॥ ७ ॥ तमानय मया सार्द्ध विचारं प्रकरोतु सः । तदा राजा तु श्रुत्वैतद्वचनं दूतभाषितम् ॥ ८ ॥ उवाच दूतं गच्छ स्वं स्वगुरुं ब्रूहि मे वचः । अहं भ्रान्तः स चेद् भ्रान्त इत्येवं निश्चयो महान् ॥ ९ ॥ आगच्छ सदसि प्रातः स ते व्यक्तिभविष्यति । इत्युक्तः स गतो दूतः प्राह सर्व नृपोदितम् ॥ १० ॥ गुरवे स तु शृण्वन् वै जहासातिमदान्वितः । अथ राजा तत्क्षणात्तु देशस्थान् पण्डितान् बहून् ॥ ११ ॥ श्रीमदुदयनाचार्यमुख्यानानाय्य चोक्तवान् । अहायं नास्तिको ग्रामे समायातोतिपण्डितः ॥ १२ ॥ अनेन विवदध्वं वै यूयं यदि स चेजयेत् । तदाहं च भवन्तश्च सर्वे तन्मतगामिनः ॥१३॥ भविष्यामो न सन्देहो भवतां चेन्जयो भवेत् । तदाहं भवतां दास्यं करिष्यामि न संशयः ॥ १४ ॥ इत्युक्त्वास्ते तु विद्वांसः सर्वे तूष्णीं स्थिता अथ । श्रीमदुदयनाचार्यस्तेषां मध्ये ऽब्रवीन्नृपम् ॥ १५ ॥ A न्यायवार्तिकस्य भूमिकायाम् सत्यमात्थ महाराज शृणु किञ्चिन्मयोदितम् । जयः पराजयो वापि श्रीहरेरिच्छ या नृणाम् ॥ १६ ॥ यथाशक्ति विदादं तु करिष्यामि न संशयः । त्वं तु चिन्ता परित्यज्य पश्यास्माकं पराक्रमम् ॥ १७ ॥ इत्युक्त्वा नृपतिग्रामे तस्थुः सर्वेऽथ पण्डिताः । द्वितीये दिवसे प्राप्ते राजा सदसि चागतः ॥ १८ ॥ . आहूय पण्डितान् सर्वान् तं चापि जिनशास्त्रिणम् । उवाच युवयोरस्तु विचारः पश्यतो मम ॥ १९ ॥ इति राजवचः श्रुत्वा नास्तिकः पूर्वमब्रवीत् । अहो विचार उभयोः स नो भवितुमर्हति ॥ २० ॥ नैत वै सत्पथारूढाः किं वदिष्यन्ति मामिह । इति श्रुत्वा वचस्तस्य नास्तिकस्य दुरात्मनः ॥ २१ ॥ उवाचोदयनाचार्यो मतं तन्मतखण्डनम् । एवं बहुदिनान्यास द्विचारः सुमहाँस्तयोः ॥ २२॥ तदा बौद्धो हृदा मत्त्वाचार्यान्निजपराजयम् । मायां विस्तारयामास महाश्चर्यप्रदायिनीम् ॥ २३ ॥ - उचाच नृपति राजन् सर्वे ऽमी मद्विरोधिनः । न कोपि मद्धितं ब्रूते तस्मादेकं वदाम्यहम् ॥ २४ ॥ शालग्रामशिलायां तु सत्यमेषां स्थितो हरिः । स्वमतैः : खण्डयामि शिलामहम् ॥ २५ ॥ यदि सा जलवद भूत्वा स्याददृश्या शिला पुनः । तदा मदुक्तं सत्यं स्यादथ चेत् तां पुनः स तु ॥ २६ ॥ आचार्यों जलवत् कृत्वा शिलां व्यक्तां करिष्यति । तदास्यापि मतं ससं मन्येऽहं नात्र संशयः ॥ २७ ॥ इत्युक्तः स नृपस्तेन बौद्धनाथ महीपतिः। ॥ तामानयात्र
उद्यनाचार्यचरितम् ।
ददर्शोदयनाचार्य किं वदत्येष नास्तिकः ॥ २८ ॥
इत्युक्तो भृमिपतिना पाहाचार्योतिदृष्टवत् ।
इदं तु मायाचरितं तथापि स्वीकरोम्यहम् ॥ २९ ।।
मायामपि च जानामि परं त्वेकं ब्रवीम्यहम् ।
जातायां च पुनस्तस्यां शिलायां तन्मनद्वयम् ॥ ३० ॥
सत्यं चेति वदिष्यन्ति भ्रान्त्या सर्वे सभासदः ।
तस्मादेकमहं वक्ष्ये सत्यमिथ्याविचारणे ॥ ३१ ॥
तत्करिष्यत्यां चेद्वै करिष्ये स्वोक्तमप्यहम् ।
इति श्रुत्वा ततो राजा जैनाचार्य ददर्श ह ॥ ३२ ॥
ततो जैनः स्वयं प्राह करिष्याम्यस्य भाषितम् ।
इति श्रुत्वा ततो राजा शालग्रामशिलां दृढाम् ।
आनाय्य स्थापयामास स्वर्णस्थाल्यां शुचौ भुवि ॥ ३४ ॥
ततो बौद्धो ऽब्रवीत् स्वीयं मतं दृष्ट्वा तु तां शिलाम् ।
अथ क्षणेन सा सर्वा शिला जलमभूत् तदा ॥ ३५ ॥
सतोक्षणतस्तदै जलमन्तर्वभूव ह ।
पश्यतां सर्वलोकानां महाचर्यमभूदिदम् ॥ ३६ ॥ .
ततस्तूदयनाचार्यो बौद्धसिद्धान्तखण्डनम् ।
स्वमतं प्राह शीघ्रं तज्जलं प्रादुर्वभूव ह ॥ ३७॥
तत्क्षणेन च तद्वारि सा शिला समपद्यत ।
ततो राजादयः सर्वे साधुसाध्वितिवादिनः ॥ ३८ ॥
प्रशशंसुश्च तं भक्त्योदयनाचार्यमादरात् ।
आचार्यस्तु तदा प्राह कथमेषा स्तुतिर्मम ॥ ३९ ।।
स्थित एव मते ह्यस्य तस्मात् कुरु मदीरितम् ।
इत्युक्त्वा नास्तिकं प्राह मयाकारि तवेरितम् ॥ १० ॥
१५६ न्यायवार्तिकस्य भूमिकायाम् अतः परं मतं कस्यं सत्यं मिथ्येति निश्चिनु । मया यदुच्यते तेन प्रकारेण नृपाग्रतः ॥ ४१ ॥ एष तालद्रुमो द्वारि तिष्ठत्यतिमहानहो । तमारुह्य पतिष्यावो यः स्थास्यति स सत्यवाक् ॥ ४२ ॥ वेदाः प्रमाणमित्युक्त्वा निपतिष्याम्यहं भुवि । स्वं तु वेदा अप्रमाणमित्युक्त्वा निपताधुना ॥ ४३ ॥ युगपत् पततोक्षाजीविष्यति य आवयोः । स सत्यवाग्मतं तस्य सत्यं लोकस्तुतं भवेत् ॥ ४४ ॥ एवमाचार्यवचनं श्रुत्वा सोऽपि जहर्प च । स्वीचकार ततो राजा तावुभावब्रवीद्वचः ॥ ४५ ॥ अहो प्राणान्तकी चेयं परीक्षा नैव शोभना । तस्माद्विरमतामत्र युवामेतद्विचारनः ॥ ४६ ।। इति राजवचः श्रुत्वा उदयनाचार्य आहृतम् । तव नास्त्यत्र किश्चिद्भो दूषणं नैव घातकम् ॥ १७ ॥ स्वशास्त्रभक्तितश्चावां करिष्यावो यथारुचि । त्वमेकस्मिन्मृते चास्मिन् मयि वा नृपसत्तम ॥ ४८ ॥ तन्मतं च परित्यज्य जीवन्मतपरो भव । किं च यावन्ति ते राज्ये पुस्तकानि च तानि वै ॥ ४९ ॥ जले प्रक्षिप ये चैतच्छास्त्रोपासनकारकान् । तान् दण्डयित्वा यो जीवेदावयोस्तन्मतानुगान् ॥ ५० ॥ कुरुष्वेत्यस्मदुक्त्या वै प्रतिज्ञां कुरु भूपते । इत्युक्तो नृपतिजैनाचार्यस्य मुखमैच्छत ॥ ५१ ॥ एवमेवाब्रवीत् सोऽपि प्रतिजज्ञे नृपस्तदा । तत उत्थाय ते सर्वे आगतास्तालसन्निधौ ॥ ५२ ॥ वंशादिनाथ तौ द्वौ तमारुह्योचर्महातरुम् । 1
उदयनाचार्यचरितम् ।
१५७
घेदाः प्रमाणमित्युक्त्वा आचार्यो न्यपतद् भुवि ॥ ५३ ॥
बौद्धो वेदा अप्रमाणमित्युक्त्वा निपपात ह ।
आचार्यो निपतन्भूमौ वेदैः संरक्षितः सुखम् ॥ ५४ ॥
मन्दमन्दं समागत्य तस्थौ वेदं हरिं स्मरन् ।
जैनाचार्यः पतन्मार्गे भ्राम्यमाण उपर्यधः ॥ ५५ ॥
परिवर्तितशी! हि पपात धरणीतले ।
व्यस्तमस्तकवाव्हघिनिष्पाणो न्यपतत् खलु ॥ ५६ ॥
इति दृष्ट्वा महाश्चर्य सर्वे राजादयो जनाः ।
आचार्य प्रशशंसुस्ते नमस्कृत्य मुहुर्मुहुः ॥ ५७ ।।
ततो राजा वेदशास्त्रं सत्यं मत्वातिभक्तितः ।
स्वराज्ये स्थापयामास तदाचारपरः स्वयम् ।। ५८ ॥
भूत्वा चकार राज्यं स सर्वधर्मसमन्वितः ।
नास्तिकस्य च यान्यासन् शास्त्राणि पृथिवीतले ॥ ५५ ॥
तानि सर्वाणि चिक्षेप जले ये तदुपासकाः ।
तान् सर्वान् दण्डयित्वा स चकारास्तिकतमतान् ॥ ६० ॥
श्रीमदुदयनाचार्य चक्रे राजगुरुं नृपः ।
जीविकायै ददौ ग्रामान् स्वयमाज्ञापरोऽभवत् ॥ ६ ॥
एकदोयनाचार्यों जगन्नाथदिदृक्षया ।
पुरुषोत्तमपुरे गत्वा स्नात्वा तत्तीर्थवारिणा ॥ ६२ ॥
मार्कण्डेयहूदायेन मन्दिरद्वारमागतः ।
देवं द्रष्टुं मन्दिरान्तः प्रवेष्टुं चलितो यदा ॥ ६३ ॥
तदा कपाटः संलग्नः स्वयमेव निरीक्ष्य सः ।
द्वारान्तरमुपायातस्तदाप्येवं बभूव ह ॥ ६४ ॥
.' अथ तृतीये द्वारे तु संप्राप्तः स यदा द्विजः ।
तत्रापि स कपाटस्तु स्वयं लग्नः पुनश्च सः॥६५॥
१५८ न्यायवार्तिकस्य भूमिकायाम् चतुर्थ द्वारमागत्य मन्दिरं गन्तुमुद्यतः । तमप्यपश्यत् संलग्नं कपाटं वयमेव हि ॥६६ ॥ इति कौतुकमेतत् तु पश्यन्तस्ते जनाः स्थिताः । तदा तूदयनाचार्यः सस्मितं वाक्यमब्रवीत् ।। ६७ ।। जगन्नाथ सुरश्रेष्ठ भक्त्यहङ्कारपूर्वकम् । ऐश्वर्यमदमत्तोसि मामवज्ञाय वर्तसे ।। ६८ ॥ उपस्थितेषु बौद्धेषु मदधीना तब स्थितिः । इत्येवमुक्त श्लोके तु सहसोद्घाटिताः स्वयम् ॥ ६९ ।। कपाटास्तत्क्षणादेव नृणां चित्रं तु पश्यताम् । ततस्तत्र स्थिता येषु जगन्नाथस्य पूजकाः ॥ ७० ॥ ते सर्वे विनयात् तं तु गृहीत्वाचार्यमादृताः । नीत्वाथ मन्दिरे देवं दर्शयन्ति स्म हर्षिताः ॥ ७१ ।। सोऽपि दृष्ट्वा जगन्नाथं संपूज्य स्तुतिभिर्मुहुः । स्तुत्वा जप्त्वा समभ्येत्य वहिर्दत्वा धनानि च ॥ ७२ ॥ उषित्वा कतिचिद्रात्रीः समायातुमथोद्यतः । अथ स्वप्ने जगन्नाथः पूजकब्राह्मणान् स्वयम् ॥ ७३ ॥ -उवाच मम यच्चास्ति पीताम्बरमनुत्तमम् । तद्देादयनाचार्यायाशु सोऽतीव मे प्रियः ॥ ७४ ॥ ममैवांशो न सन्देहो ऽनेनैव स्थापितोऽस्म्यहम् । तिरस्कृतो महामूढवौद्धसिद्धान्तवादिभिः ॥ ७५ ॥ इति दृष्ट्वा तु ते स्वप्नं पूजकाः प्रातरुत्थिताः । परस्परं स्वप्नमध्ये मन्त्रायित्वातिभक्तितः ॥ ७६ ॥ पीताम्बरं समानीय जगन्नाथाज्ञया ददौ । आचार्याय ततः सोऽपि धृत्वा तन्निनमस्तके ॥ ७७ ।। प्रणनाम मुहुर्देवं जगन्नाथं मुदा द्विजः । .
सदयनाचार्यचरितम् । .१५९ एवं ततो जगन्नाथप्रसादं प्राप्य स द्विजः ।। ७८ ॥ मिथिलामाजगामाशु निजमन्दिरमुत्तमम् । तत्र शिष्योपशिष्यैश्च सेवितः परमादरात् ॥ ७९ ॥ अध्यापयामास मुहुः सर्वशास्त्राणि यत्नतः । अधीत्य तस्मादाचार्याद्वेदशास्त्राणि सर्वशः ॥ ८ ॥ धर्म संस्थापयामासुदेशेदेशेतिपण्डिताः । अद्यापि मिथिलायां तु तदन्वयभवा द्विजाः ॥ ८१ ॥ विद्वांसः शास्त्रसम्पन्नाः पाठयन्ति गृहेगृहे । स तु कालेन महता वृद्धो भूत्वा जरातुरः ॥ ८२ ॥ काशीमागत्य कतिचित् स्थित्वा तत्र दिनानि च । मणिकयां ब्रह्मनाले प्राणांस्तत्याज लीलया ॥ ८३ ।। प्रातः पुरातनं देहं वैष्णवं मुरदुर्लभम् । एवं सोदयनाचार्यो बभूव पृथिवीतले ।। ८४ ।। धर्मसंस्थापनार्थाय नास्तिकानां निवृत्तये । शृण्वन् चरितमेतस्य नरो बुद्ध्या महीयते ॥ ८५॥ इति भविष्यपुराणपरिशिष्टे उदयनाचार्यचरितं नाम त्रिंशोऽध्यायः ॥ ३० ॥ इत्थं स्थूलेन प्रकारेणोदयनाचार्याणां देशकालस्थिती. नां निर्णयो भवति सूक्ष्मेन प्रकारेण तु तत्कृतलक्षणावलीग्र. न्थान्तस्थेन इलोकेन "ताम्बराङ्कअमितेष्वतीतेषु ९०६ शकान्ततः । वर्षेदयनश्चक्रे सुबोधो लक्षणावलीम् ॥" इत्यनेन ९०६ शाकवर्षे तेषां स्थितिरासीदिति नि- १६० न्यायवार्तिकस्य भूमिकायाम् पन्नं भवति । शकान्तत इत्युक्त्या शाकवर्ष एव ग्राह्यो ययो. क्तमत्रैव भूमिकायां १०४ पृ. सिद्धान्तशिरोमणिगणिताध्या. यस्थं भास्कराचार्यवाक्यम "शक नृपस्यान्त कलेवत्सराः ।" इत्यादि । अस्मन्निकटे तार्किकरक्षाटीकाया ज्ञानपूर्णकृतायाः पु. स्तकं १३२४ शाकवर्षे लिखितं वर्तते । टीकाग्रन्थे च उ- दयनाचार्यस्य नाम समुद्धृतम् । ज्ञानपूर्णश्च विष्णुस्वामिनः शिष्यः । अपि च ११९९ विक्रमवर्षे १०६४ शाकवर्षे कु. मारपालस्य राज्ञो राज्याभिषेकोऽभूत् तस्मिन्नेव समये मध्वाचार्य आसीदिति आर्यविद्यासुधाकरे निरूपितम् मध्वा- चार्यात्पूर्व विष्णुस्वाम्यासीदिति भगवद्भक्तमाहात्म्ये ३१. अध्याये निरूपितमित्यनेन ९०६ शाकाब्दे उदयनाचार्य- स्थितिन विरुद्धा। अपि च ११६४ शाकाब्दे लिखिता नैषधंचरितटी- का नेपालदेशे वर्तत इति सत्रत्यलिखितपुस्तकसूचीपत्रे भूमि- कायां ३२ पृ० निरूपितम् । अन्यञ्च "युग्माश्चाङ्क निरुक्ते ९७२ शकनृपतिसमे कान्यकुब्जेश्वरस्य आदेशं प्राप्य यत्नान्नलचरितमहाकाव्यटीका व्यधत्तं । सूरिभूदेवसझो दिनमणितनयः कूर्मपूर्वागजन्मा तुष्यात् तेनान्तरात्मा त्रिभुवनजनकोमापतिश्रीमहेशः ॥ इति । इत्युक्तनैषधचरितटीकाभ्यां ९७२ शाकवर्षेभ्यः पूर्व नैषधचरितकर्तुः श्रीहर्षस्य स्थितौ सत्यामेव खण्डनखण्ड. खाद्यग्रन्थे “शङ्का चेदतुमास्त्येवे"त्यादिकुसुमाञ्जलिकारि- कोद्धारे ९०६ शाकाब्दे उदयनाचार्यस्थिती :
उदयनाचार्यचरितम् । १६१ असं किमपि(१)। (१) अत्रान्येषामैतिहासिकानां मतानि वर्तन्ते । "श्रीहर्षकविः श्रीहीरपण्डितात् मामल्लदेव्यां समजनि । पूर्वस्यां वाराणस्यां(१) पुरि गोविन्दचन्द्रो नाम राजा तत्पुत्रो विजयचन्द्रः तत्पुत्रो जयन्त. चन्द्रः जयन्तचन्द्रस्य पुत्रो मेघचन्द्रः तस्य राज्ञो बहवो विद्वांसः तत्रैको हीरनामा विप्रः तस्य नन्दनः श्रीहर्षः सोऽपि वालावस्थः सभायां राजकीयनैकेन पण्डितेन वादिना हीरो राजसमक्ष जित्वा मुद्रितवदनः कृतः । इत्यादि सर्व राजशेखरसूरिणा १३४८ खीष्टाब्दे विरविते प्रबन्धकोशे श्रीहर्षविद्याधरजयन्तचन्द्रप्रबन्धात् गौडदेशीय इ. त्यवगम्यते। प्राचीनलेखमालायां २३ लेखे सं० १२४३, २२ लेखे जयचन्द्र- यौवराज्यदानपत्रे सं० १२२५ लिखितः इत्थं च जयन्तचन्द्रस्य द्वादशखीष्टशतके स्थितिनिश्चयान्नैषधीयचरितकर्नुः श्रीहर्षस्यापि तदैव स्थितिनिश्चिता । अत एव जयन्तचन्द्रपितृविजयचन्द्र- वर्णनात्मकमेव विजयप्रशस्तिरचनातातस्य इति पञ्चमसर्गस- माप्तिश्लोक्त स्वकीयविशेषणध्वनितविजयप्रशस्तिनामकं काव्यं भवेत् । अस्मिँश्च विषये बहूनां विसंवादं प्रदर्य तत्खण्डन- पूर्विका डाक्तरबुलरसंमतिरपि तथाहि तदीयं रायल् एशियाटिक सासाइटी बांवे व्यांच इति नामभूषितविद्वत्लभया १८७५ खीष्टान्दे प्रकाशिते प्रबोधनग्रन्थे पृ० २७९-२८७ मुद्रितं व्याख्यानम् । अयं जयन्तचन्द्रो जयचन्द्र एव यः किल राठौरवंशीयानां कान्यकुब्जाधिपानामन्तिमो वाराणस्यधिपतिर्वभूव यं च खी- प्टस्य ११९५ वर्षे यवना राज्यात् प्रसह्य प्रभ्रंशयांचक्रुः । श्रीमान् काशीनाथस्यम्बकसूनुस्तैलङ्गः कुसुमाञ्जलिकर्तुरुद. (१) कान्यकुब्जेश्वरत्वेपि काश्यादितीर्थाधिपतित्वमपि तदी- यताम्रपत्रादवगम्यते । किं तु ताम्बूलद्वयमासनं च लभते यः कान्यकुब्जेश्वरादित्यनेनात्र विजयचन्द्र एव ग्राह्य इत्यत्र प्रमाणं राजशेखर एव जानाति ।
१६२ न्यायवार्तिकस्य भूमिकायाम् उदयनाचार्येण न्यायवार्तिकतात्पर्यपरिशुद्धौ २ ध्याये २ आदिके "प्रपश्चितोऽस्माभिस्तु न्यायकुसुमाञ्जला- विति" इति । तत्रैव ३ अ. १ आ. “विद्यासन्ध्योदयोद्रेका"दित्यादि- यनाचार्यस्य समय(१) निरूपयन् प्रसङ्गतः श्रीहर्षस्यापि समय- विवेकमन्वबधनात् तत्रादर्शयत् श्रीहर्षः खीष्टस्य नवम्यां दशम्यां वा शताब्द्यां बभूव न तु द्वादश्याम् । अहमदावादसमीपे ढोलकाग्रामे चाण्डुपण्डितेन १३५३ सं. वत्सरे(२) नैषधटीका व्यरचि । तत्रैवं दृश्यते पङ्गिः "प्रथमं ताव- त्कविर्जिगीषुकथायां स्वपितृपरिभावुकमुदयनमत्यमर्षणतया कटा- क्षयंस्तदन्थीनुद्रन्थयितुं खण्डनं प्रारिप्सुः' इत्यादि केचित्तु "विजयप्रशस्तिरचनातातस्य" इति नैषधचरित- पञ्चमसर्गान्तश्लोकदर्शनात् "ताम्बूलद्वयमासनं च लभते यः कान्यकुब्जेश्वरा"दित्यादिदर्शनाञ्च ताम्रपत्रोपात्तस्य कान्यकुब्जा- धिपतेर्विजयचन्द्रदेवस्य संवत् १२२५ वर्षे जयश्चन्द्राय यौवराज्य दत्तवत उक्तसमयात्पूर्व स्थायी कान्यकुब्जश्च श्रीहर्ष इति वदन्ति तत्तुच्छम् “गौडोर्वीशकुलप्रशस्तिभणिती"ति ७ सर्गान्ते दर्शनात् बङ्गदेशीयोऽपि सम्भवति । विजयचन्द्रनाम्नैव तत्समया- वस्थायी. चेत् इण्डियन् अण्टिक्केरीस के पन्चे सन् १८८६ मईमा. समुद्रिते पृष्ठे १४१ मुद्रिते ताम्रपत्रे श्रीहर्षेण प्रयुक्तस्य शासनस्य स्थिरायतेः इतिदर्शनात तात्कालिकोऽपि श्रीहर्षों भवेत् तत्ताम्र. पत्रं तु ७९४ खोटाब्दे लिखितमिति ॥" (१) इण्डियन् अण्टिक्केरी प्रथमपुस्तके २९७ पृ० ३५३ पृ. द्वितीयपुस्तके ७१ पृ० च। (२) तदीयसमाप्तौ श्लोकः श्रीविक्रमार्कसमयाच्छरदामथत्रि- पञ्चाशता समधिकेष्वितेषु ? । तेषु त्रयोदशसु भाद्रपदे च शुक्ल- पक्षे त्रयोदशतिथौ रविवासरे च ॥ amam Mediwwermanen १६३ उदयनाचार्यचरितम् । पद्यं लिखितम् इदमेव पद्य किरणावल्यामारम्भे ऽपि । अपि च "अपसिद्धान्तस्तु यथा विरोधाद्भिद्यते तथा तत्रैव वक्ष्यते । शेष परिशिष्टे । " इति । किरणावल्यां "विस्तरस्तु न्यायकुसुमाञ्जलावात्मतत्ववि- वे चानुसन्धेयः।" इति । तात्पर्यपरिशुद्धि-फिरणावल्युक्तमेव "विद्यासन्ध्योदयो। का"दित्यादिपा लक्षणावल्याम् । प्रबोधसिद्धिर्बोधसिद्धिर्बोधन विशुद्धिायपरिशिष्टं चेत्येकस्यैव ग्रन्थस्य नामभेदा इति वरदराजाचार्येण तार्किकरक्षायां ३१० पृ. निरूपितमिति उक्तस्य निबन्धषकस्यैककर्तृकत्वं निर्विवादम् । विदण्डिवेदान्तिनो वदन्ति उदयनाचार्याणामात्मतत्त्ववि- वेके ऽन्ते “अत एव त्रिदण्डिवेदान्तिमतोपसंहार" इत्याद्युक्त्या प्रपन्नामृतग्रन्थेन १०१२ शाकाब्दे रामानुजाचार्याणां स्थिति- सिद्धौ तत एव त्रिदण्डिवेदान्तिमतप्रचारात् तत्कालपूर्ववर्तित्वा- सम्भवाल्लक्षणावल्युक्त ९०६ शाकाब्दे उदयनाचार्याणां स्थिति- न सम्भवतीति । तन्न रामानुजाचार्येभ्योऽपि बहुपूर्ववर्तिन- टङ्क-द्रमिण-गुहदेव-भारुच्यादयोऽपि विशिष्टाद्वैतवार्दिन एक- दण्डी त्रिदण्डी वेति मनुस्मरणात् त्रिदण्डिवेदान्तिमतस्यापि चि- रन्तनत्यादिाते। अपि च सुरेश्वराचार्येण बृहदारण्यकवार्तिके ५ ब्राह्मणे ३ अध्याये "सत्रिदण्डवदि" त्युक्तत्वात् शङ्कराचार्याणामपि समये त्रिदण्डिमतसत्त्वात शङ्कराचार्यात् पश्चात्कालवर्तिनो वाचस्प- तिमिश्रस्य पश्चात् कालवर्तिन उदयनाचार्यस्य त्रिदण्डिमतो- पन्यासे नासमञ्जसं किमपि । सम्पदायधूर्वहत्वेन रामानुजाचार्य- परत्वे तत्राग्रहश्चेत् तदा क्लिष्टकल्पनया निर्वाहो भवितुमर्हति तथा १६४ न्यायवार्तिकस्य भूमिकायाम् हि १०१२ शाकाब्दोऽन्त्यसमयो १२० वर्षपरिमितपरमायुषां रामानुजाचार्याणां ८९२ शाकाब्दे जन्मसिद्धौ लक्षणाव- ल्युक्त ९०६ शाकाब्दात् परमपि उदयनाचार्याणां स्थिति- सम्भवादिति । यच्चोक्तं पञ्चरत्ने । "ख्यातो गोवर्द्धनाचार्य उमापतिधरस्तथा । शरणो जयदेवश्च धोयी कविनृपः क्रमात् ॥ राज्ञो लक्ष्मणसेनस्य पञ्चरत्नानि संसदि ॥” इनि । गोवर्धनाचार्येण शृङ्गारसप्तशत्यामन्ते । "उदयनबलभद्राभ्यां सप्तशती शिष्यसोदराभ्यां मे। द्यौरिव रविचन्द्राभ्यां प्रकाशिता निर्मलीकृत्य ॥ अत्रोदयन उदयनाचार्य इति व्यङ्यार्थसन्दीपनाख्ये सप्त- शतीव्याख्याने आनन्दपण्डितेन व्याख्यातम् । एतेन उदयनाचार्यो लक्ष्मणसेनस्य राज्ञः सभायामासी. दिति निष्पन्नम् । लक्ष्मणसेनश्चातिप्रसिद्धो राजाभूदिति तत्संव- त्सरश्च ल० सं० इत्याकारेण मिथिलादेशीयलिखितपुस्तकादिषु दृश्यते तत्संवत्सरप्रवृत्तिकालविपये उक्तं गणकैर्देशभापया । "शाके सो सन् जानव सोई। रहित वाणशशिवाण ५१५ जो होई। जासन जमा रहै सो देखहु । शरशशिवाण५१५ हीन कर लेखदुः ।। बाकी रहै सो ल० सं० प्रमान । गुरु ज्ञानीजन भाषामान । अरु चौषट् एकादश दीजै। ल० सं० सहित संवत् करलीज।। इति । इत्यनेन १०२९ शाकाब्दे लक्ष्मणसेनसंवत्सरप्रवृत्तिः सम्भ- वति । अथ च "मैथिलकोकिलविद्यापति"नामक पुस्तके ११ पृष्ठे समुदधृते दानपत्रे ल० सं० २९३ शाके १३२१ इति लिखित- त्वात् स एव समयः समायाति । किन्तु वल्लालसेनकृताद्भुत- उदयनाचार्यचरितम् । १६५ सागरे ग्रन्थनिर्माणकालः १०८१ शाकाब्दो लिखितस्तत्र लक्ष्मणसेनस्यापि नाम वर्तत इति ६० वर्षपरिमितकालान्तरे लक्ष्मणसेनबल्लालसेनयोः स्थिते सम्भवः परन्तु लक्ष्मणसेन एव पूर्वपुरुषः आनन्दभट्टेन चल्लालसेनचरिते वल्लालसेनस्य पुत्रो लक्ष्मणसेन इति प्रतिपादितं तत्र लक्ष्मणसेन इत्यत्र लवणसेन इति पुस्तकान्तरे पाठदर्शनात् लक्ष्मणसेनश्च पूर्वपुरुप इत्यत्र नासमञ्जसं किमपि । तथा च लक्षणावल्युक्त ९०६ शाकान्दे वर्तमान उदयना- चार्यः १०२९ शाकाब्दासन्ने सपये वा १०२९ शाकाब्दा- त् परं १०८९ शाकाब्दान पूर्व ६० वर्षाभ्यन्तरेऽपि आसी- दित्यसम्भवालक्ष्मणसेनसंसदि वर्तमानो गोवर्धनाचार्यस्य भ्राता भिन्न एवोदयनाचार्य इति । एवं गोवर्धनाचार्यस्य भ्राता बलभद्रो ऽपि भिन्नः पद्म नाभभिश्रस्य पिता बलभद्रो भिन्ने एवं अनेन किरणाव- लीभास्करे वर्द्धमानोपाध्यायस्य नाम समुद्धृतमिति प्रति- पादितमस्यामेव भूमिकायां १२ पृष्ठे । एवं गीतगोविन्दटीकाकार उदयनाचार्यः कश्चिदन्य एव गीतगोविन्दकर्तुजयदेवस्य रजनीकान्त गुप्तमहाशयेन १३०० शाकाब्दे पण्डितपत्रमुद्रितप्रसन्नराघवनाटकभूमिकायां पण्डितगोविन्ददेवशास्त्रिणा च स्थितेर्निर्धारणात् गीतगो. विन्दीकाकर्तुः तत्पश्चात्कालभावित्वात् । अपरोऽपि वत्सराजापरनामधेय उदयनः सुतरां भिन्न- स्तत्कथा च विष्णुपुराणे ४ अंशे २१ अध्याये कथासरि- सागरे ऽपि निरूपिता इति ॥ .
न्यायवार्तिकस्य भूमिकायाम् न्यायनिबन्धप्रकाशकर्तुः श्रीवर्द्धमानोपाध्यायस्थ चरितम् । वर्द्धमाननामानोऽपि अनेके पण्डिता अभूवन् परं तु न्यायनिवन्धप्रकाशकर्ता एवेदानी प्राधान्येन निरूपणीयः । तथाहि न्यायनिबन्धप्रकाशान्ते "यस्तर्कतन्त्रशतपत्रसहस्ररश्मि- गङ्गेश्वरः सुकविरवकाननेन्दुः । तस्मात्मजः पितुरधीत्य निबन्धमित्थं प्राकाशयत् कृतिमुदे बुधवर्द्धमानः ॥” इति कुसुमाञ्जलिप्रकाशादावपि "न्यायाम्भोजपतङ्गाय मीमांसापारदर्शिने । गङ्गेश्वराय गुरवे पित्रे ऽत्रभवते नमः ॥ इति तत्वचिन्तामणौ च गणेशस्तनुते मितेन वचसा श्रीतत्त्वचिन्तामणिम्" एतावत्ता निष्पन्नं भवति दिगन्तविश्रान्तकीर्तेस्तत्वचि- न्तामण्यादिकर्तुः श्रीगणेशापाध्यायस्य पुत्रः शिष्यश्च वर्द्धमा- नोपाध्याय इति । गङ्गेशोपाध्यायश्च कस्मिन् देशे कस्मिन् काले आविरभूदितीदानीपर्यन्तं तदीयोपलब्धेषु ग्रन्थेषु नोपलभ्य- ते किन्तु तत्त्वचिन्तामणावनुमानपरिच्छेदे "इति खण्डन- कारमतमपास्त"मित्युक्त्या श्रीहर्षसमयात् पश्चात्कालभा- वी १२९३ शाकाब्दे सुधामधुनिबन्धका वाचस्पतिमिश्रेण तत्त्वचिन्तामणिग्रन्थस्य व्याख्यतत्वादुक्तशाकाब्दपूर्वकाल. भावीति नात्र सन्देहः ।
बर्द्धमानोपाध्यायचरितम् । १६७ अपि च १५०० ईशवीयवर्षे १३२२ शाकाब्दे वर्तमा- नस्य मैथिलकोकिलविद्यापतेः पक्षधरमिश्रापरपर्यायस्य तत्व. चिन्तामण्यालोककारस्य जयदेवमिश्रस पितृव्याद्धरिमिश्राद्वि- धासम्पादनं तमेव समयं द्रढयति । अपि च मिथिलादेशाधिपतेमहेशठक्कुरस्य भ्राता मेघठाकु. रापरपर्यायो भगीरथठक्कुरो विशाब्दवयस्को जयदेवमिश्रात् संपूर्ण न्यायशास्त्रमधीतवानिति तत्कृतकिरणावलीप्रकाशप्रका. शिकाग्रन्थादवगम्यते तथाहि "यः कैशोरे विश्वविख्यातकर्मा धर्माचार्यः श्रीमहादेवशर्मा । तत्सोदों वर्द्धमानस्य सूक्तौ भावं मेघः सम्यगाविष्करोति ॥" "दिशाब्दे जयदेवपण्डितकवेस्तर्काब्धिपारं गतः श्रीमानेष भगीरथः समजनि श्रीचन्द्रपत्यात्मजः । श्रीधीरातनयेन तेन रचिता श्रीमन्महेशाग्रज- श्रीदामोदरपूर्वजेन जयतादाचन्द्रमेषा कृतिः ।" अन्यच्च आसीत् पण्डितमण्डलाग्रगणितो भूमण्डलाखण्डल जातः खण्डवलाकुले गिरिसुताभक्तो महेशः कृती । शाके रन्ध्रतुरङ्गमश्रुतिमहीसंलक्षिते १४७८ हायने वाग्देवीकृपयाऽशु येन मिथिलादेशः समस्तोऽर्जितः ॥ पद्यमिदं मिथिलायां जनकपुरस्थानात् पञ्चक्रोशान्तर ईशानभागे धनुःक्षेत्रे (धनुखा) कूपे प्रस्तरपट्टे लिखितमस्ति ।
१६८ न्यायवार्तिकस्य भूमिकायाम् तत्रान्यान्यपि पद्यानि सन्ति । इत्यनेन १४७८ शाकाब्दे विद्याविभवसम्पन्नेन महेशठ. क्कुरेण वृद्धावस्थायां मिथिलाराज्यं प्राप्तम् तथा च भगीरथ. ठक्कुरेण २० वर्षवयस्केन वृद्धादेव जयदेवपण्डितकवेः न्या- यशास्त्रमधीतमिति १३७८ शाकाब्देऽपि जयदेवस्थितिः(१) सम्भवतीति १२९३ शाकाब्दादपि पूर्वकालभावी गङ्गेशो- पाध्याय इति नासम्भवी तस्मिन्नेव काले वर्द्धमानोपाध्यायो- ऽप्यासीदिति । पाँजीपुस्तकाल्लोकमसिद्ध्या च वर्द्धमानोपाध्यायो मैं- थिल न्यायवार्तिकतात्पर्यपरिशुद्धिप्रकाशा- परपर्यायन्यायनिबन्धप्रकाश-न्यायपरिशिष्टप्रकाशा-न्वीक्षा- नयतत्त्ववोधादयो ग्रन्था रचिता इति प्रतिपादितमधस्ता- त् । तपित्रा लोकोत्तरविद्याविभवबुद्धिशालिना महर्षिक- ल्पेन श्रीगङ्गेशोपाध्यायेनैतादृशस्तत्वचिन्तामणिन्यायमहानिव- न्धो रचितो यद् वर्द्धमानोपाध्याय-पक्षधरमिश्र-रुचिदत-- गोकुलनाथोपाध्याय---मधुसूदनमिश्र-प्रभृतिभिर्मेथिलपण्डितैः एव अनेनैव (१) कुसुमाञ्जलिभूमिकायां ११८९ शाकाब्दे जयदेवस्थिति संस्थाप्य "शाके मुनिव्योमयुगेन्दुगण्ये १४०७" इति चैतन्यदेवज- न्मव्यवस्थापकपद्यस्थं युगशब्दं चैतन्यचन्द्रोदयनाटकस्थेन "शा- के चतुर्दशशते रविवाजियुक्ते १४०७” इतिपद्येन चतुर्वाचकं दृढीकृत्य रघुनाथशिरोमणिचैतन्यदेवयोरेककालावस्थायित्वात शिरोमणिजयदेवमिश्रयोः संवादं खण्डयन्ति । तत्तुच्छम् ३८६ लक्ष्मणसेनवर्षे १४१५ शाकाब्दे वर्तमानेन रुचिदत्तन "अधीत्य रु- चिदत्तेन जयदेवाजगद्गुरोः"इत्युक्तेः १३२२ शाकाब्दे वर्तमानाज- यदेवपितृव्याद्धरिमिश्रान्मैथिलकोकिलविद्यापतेरध्ययनस्यानुपपत्तेः।
१६९ .. वईमानोपाध्यायचरितम् । वासुदेवसार्वभौम-रघुनाथतार्किकशिरोमणि-मथुरानाथ-भवान- न्द-जगदीश-गदाधर-चन्द्रनारायण-कालीशङ्करप्रभृतिभिर्वङ्ग- देशीयैः पण्डितैर्महादेव-कृष्णम्भट्ट-राघवेन्द्राचार्यादिभिर्दाक्षि- णात्यपण्डितैश्च साक्षात् परम्परया वा व्याख्यातत्वात् क्रोडप- त्रादिना च संवलितत्वात् श्लोकानां लक्षाणामष्टाविंशत्या उपभृहित इदानीं नवीनन्यायत्वेन लोके व्यवाहियते इत्यादि प्रतिपादितमस्माभिर्वा राणसीमुद्रिते चौखंबासंस्कृतसीरीजपुस्तके क्रोडपत्रसंग्रहे भूमिकायां १ । २ । ३ खण्डेषु । किं तु नवी- नत्वव्यवहारः शास्त्रतात्पर्यानवबोधात् गङ्गेशोपाध्यायेन तत्त्व- चिन्तामणिग्रन्थे आदावेव “प्रत्यक्षानुमानोपमानशब्दाः प्रमा. णानी"ति गोतमसूत्रमवलम्ब्य "प्रमाणतत्त्वं विविच्यत" इ- त्यादिना तत्त्वचिन्तामणिग्रन्थो रचित इति न नवीनत्वं किमपि । यत्तु. अवच्छेदकावच्छिन्नशब्दादिभिर्व्याख्यातत्वेन नवीन- त्वसाधनं तदपि शास्त्रतात्पर्यानवबोधादेव । पातञ्जलदर्श ने समाधिपादे २६ सूत्रं "पूर्वेषामपि गुरुः कालेनाऽन- वच्छेदात्” । अत्र व्यासभाप्यम् "पूर्वे हि गुरवः का. लेनाऽवच्छेद्यन्ते यत्रावच्छेदार्थेन कालो नोपावर्तने" इति । अत्र भाष्यटीकायां वाचस्पतिमिश्राः "व्याचष्टे पूर्वे हि इति । कालस्तु शतवर्षादिः अवच्छेदार्थेन अवच्छेदेन प्रयोजनेन नोपावर्तते । " इत्यादिदर्शनादिति । गङ्गशोपाध्यायादिनैयायिकानामुक्तानां चरितानि सप्रमा- गानि श्रीमता वाराणसीस्थराजकीयसंस्कृतपाठशालीयसरस्वती. भवनस्थपुस्तकप्रधानाध्यक्षेण श्रीगोपीनाथकविराज-एम् . ए. महाशयेन सङ्गृहीतानि तानि शीघ्रमेव प्रकाशितानि भवि- ध्यन्तीति मयात्रोपरम्यत इति । ૨૨ न्यायवार्तिकस्य भूमिकायाम् न्या- तत्त्वचिन्तामण्यादिनिबन्धानामाधारभूतं तदिदं यवात्तिकमेशिआटिक्सोसाइटीवमालसभानिदेशेन मत्संशोधन- पूर्वकं प्रथमं मुद्रितमिदानींपर्यन्तं न्यायदर्शनानुरागिभिनिःशेषं सर्वाणि तन्मुद्रितपुस्तकानि गृहीतानि उपयोजितानि च तत्त- कार्येष्विति मया सहर्ष पुनरपि चौखंबाबुकडिपोसम्पादकसेठ- हरिदासात्मजसेठजयकृष्णदासपार्थनया मुद्रितम् | भूमिकापी- यमेशियाटिक्सोसाइटीवङ्गालसभाद्वारैव प्रथमं मुद्रयितुमारब्धा किन्तु विलम्बमसहमानैरत्यर्थं भृशं नोदितोऽहनेनां मुद्रितवान् । इदानीं रोगार्तत्वादनवहितचेतसो मम दृष्टिदोषेण च जाता अशुद्धीः क्षाम्यन्तु दयापरा विद्वांसः सफलयन्तु मामकीनं परिश्रममिति भूयो भूय एव परमेश्वरं प्रार्थय इति शम् ।। सरस्वतीभवन गवर्नमेण्टसंस्कृतकालेज बनारस २५ दिसम्बरमासे १९१६ इसवीये वर्षे विन्ध्येश्वरीप्रसादद्विवेदी ॥ श्रीः ॥ m भूमिकेयं मुद्रितशुद्धिपत्रसंयोगेन पठनीया किं तु यासामशुद्धीनां दर्शनमात्रादेव बोधो भवति तासां नात्र समावेशः कृतः । पृष्ठे पडो अशुद्धम् शुद्धम् ર Fitzdward Fitz Edward ૨૨ ॥३००। भाषने १६ १६ दृश्श्यमाने ૨ P १ " ३६०० भाषते दृश्यमाने घेदान्तिकार्थः। चतसृणां रम्भाश्च मनु पूर्वकाला भावः षड्विधः सिद्धान्त- अध्यायेषु चतुःषष्टिं नानुद्वेष्टि वदौन्तिकार्थः चतसृणां रश्चि ममुः पूर्व काला भावःषड्विधः सिद्धान्तः आध्यायेषु चतुःषष्टि सानुद्वेष्टि २५ ३५ २६ २० ३ न्यायवार्तिकस्य भूमिकायाः पृष्ठे पको अशुद्धम् शुद्धम् सम्रा अहो अनु ६ संम्राट अहोऽनु नीतिसु चन्द्रिकानां शविषाणा ४९ नीतिषु चन्द्रिकाणां সাহাৰিষাল संस्थाप्य मिति निष्पन्न દર ११ स्थाप्य तिमि निष्यनं २ ५ न्यासूत्र न्यायसूत्र १३ कृत्ताः कृताः २१ समयस्य समयस्य २५ Travels ६८ शेवधीटे(?) सदसञ्चनि उपारम्भाश्चि जैनदर्शने ६८ ६ ६८ ૨૨ १२ जैनागमेयु Trarols शेवधिष्टे(?) सदसञ्चति उपारम्भश्चि जैननिबन्धो- *द्धृतसूत्रे जैननिबन्धो- द्धृतसूत्रे तिरस्कृत यथायथं भ्राम्यल्लोको रम्भात् नाप्येक १६ तिरष्कृत ७२ १५ यथा यथं १२ भ्राम्यल्लोको रम्भत् नप्येक शुद्धिपत्रम् । पृष्ठे पङ्को अशुद्धम् एन्सेंट वत्सपुत्रस्य ૨ १ समजस निर्वाणत्वं शताब्धां अवनीपत्तिः शुद्धम् হনুহৰ (वत्सपुत्रस्य) वात्से पुत्रस्य समञ्जस निर्वाणं शताब्द्यां अवनीपतिः तत्पूर्वकाल सप्त मन्वन्तराणि रश्मो रङ्गिरा व्यासो ११ ९७ ३ तत्पश्चात्काल २७ १०७ ૨૬ सप्तमन्वन्तराणि रस्मो रगिराव्यासो २६ १०८ ११२ . ११४ ૨૨ ११४ ૨૨ दक्षाद्याः चतुर्थ बुक्डीपो निर्वाणत्वं जैना गमे न्यायवीद्या दक्षाद्या चतुर्थ बुडिपो निर्वाणं जैनागमे न्यायविद्या. ११७ ११८ ६ ૧૨૦ डाक १२१ १६ सन्तनु रीरिता शन्तनु रीरिताः १२१ ૨૨ २४ १२९ ૧૨ ૨૨ णाङ्काः वृतिः क्षमेथाः पाठेऽयं इच्छामि णाङ्का वृत्तिः क्षमेथा पाठोऽयं इच्छामि ૨૨ १३६ २४ न्यायवार्तिकस्य भूमिकायाः १३८' चरितम् । रचित रचिता १३९ १२९ अन्वेषकं मन्याः १४० २१ ११ १४५ १५० १५४ चरितं रचितम् रचिताः अन्वेषकंमन्याः सुकेशाः परिशुद्धि षड्दर्शन विवादं ग्राम महाश्चर्य ये तु २४ মুহা: परिशुद्धि षडदर्शन विदादं ग्राम महाचर्य येषु ३ १५४ १५५ १५८ १० १६३ वेचा वेके चा