University Library,gurukul Kangri Vishwavidyalaya
काव्यमञ्जूषा
Front matter
Pier--- -- THI H NO.42) ॥ श्री CHECKED 1975 . काव्यमञ्जूषा ८-८- COMPILED 1933. CHOWKHAMBÁ SANSKRIT SERIES A' COLLECTION OF RARE & EXTRAORDINARY SA नाम स्वापज्ञटिप्पणीविभूषित-पण्डितधर्माधिकारिकृष्णपन्तकृत रत्नावलीगद्यकाव्य-कामकन्दलनाटक-- श्रीकालिकामन्दाक्रान्ताशतक- श्रीवेणीरामपन्तधर्माधिकारिविरचित-धर्माधिकारिवंशवर्णन- श्रोविनायकशास्त्रिवतालप्रणीत-श्रीरेणुकास्तोत्रनाम्नां ग्रन्थरत्नानां सङ्ग्रहः । KAVYA MANJUSA 1 rollue 'on of Poetie Works Containing 'NAVALI, KAMAKANADALA ( With notes SRD NDIKĀMANDĀKRĀNTĀ S'ATAKA By Pindit Krsna Panta, Dharmadhikari DHARMADHIKARI VAMSA VARNANA Registered according to Act Parkटरकममाणकर, reduilt E५ RI RENUKA STOTIuxt By l'andit Vmáyaka sāstri Vetal UED & SOLD BY THE SECRETARY, Sanskrit T2ANH SNSKRIT SERIES OFFICE. enar8 City. 1934. ... amasan POOoOalorcedbCROSCOOOKSloka * श्री.* आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता। सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा-सस्कृतग्रन्थमाला मञ्जुलदर्शना रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २॥ स्तबक ४२६ Kolox Printed by Jai Krishna Das Gupta at the Vidya Vilas Press, Benares.
TA
CHOWKHAMBA SANSKRIT SERIES
A
COLLEOTION OF RARE & EXTRAORDINARY SANSKRIT WORKS.
NO. 426.
THE
KAVYA MANJŪSĀ
A Collection of Small Poetic Works
Containing
RATNÃVALI, KĀMAKANADALA (with notes)
SRI KĀLIKĀMANDĀKRĀNTĀ S'ATAKA
By
Pandit Krşņa Panta, Dharmādhikārí
DHARMĀDHIKĀRIVAMS'A VARNANA
Ву
Pandit Veņi Rāma Panta, Dharmādbīkāri
S'RI REŅUKĀ STOTRA
By
Pandit Vināyaka S'āstri Vetāl
.
Edited with a Prefalory Note
By
PANDIT ANANTA RĀMA S'ĀSTRĪ VETAL,
SĀHITYACHARYA,
Sanskrit Teacher, Udai Pratáp College,
Benares.
1984,
Dora Poslow O श्री: आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता । सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥१॥ चौखम्बा-संस्कृतग्रन्थमाला मजुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २॥ स्तबक ४२६ PRINTED-PUBLISHED & SOLD BY JAI KRISHNADAS-HARIDAS GUPTA The Chowkhamba Sanskrit Series Office Benares City. [ Registered According to det XXV of 1867, 411 Rights Reserved by the Publisher.) Printed by, Jai Krishna Das Gupta Vidya Vilas Press, Benares City. 1934.
* श्री: चौखम्बा-संस्कृत--ग्रन्थमाला (ग्रन्थ-संख्या ७८) नं०४२६ -- ॥ श्रीः ॥ काव्यमञ्जूषा नाम - स्वोपज्ञटिप्पणीविभूषित-पण्डितधर्माधिकारिकृष्णपन्तकृत- रत्नावलीगद्यकाव्य-कामकन्दलनाटक- श्रीकालिकामन्दाक्रान्ताशतक- श्रीवेणीरामपन्तधर्माधिकारिविरचित-धर्माधिकारिवंशवर्णन- श्रीविनायकशास्त्रिवेतालप्रणीत-श्रीरेणुकास्तोत्रनाम्नां ग्रन्थरतानां सङ्ग्रहः । काशिकोदयप्रतापविद्यालये संस्कृताध्यापकेन साहित्याचार्यपदवीभृता अनन्तरामशास्त्रिवेतालेन संशोधित: भूमिकया च परिष्कृतः। १९९१.
प्रकाशक:-
-
जयकृष्णदास-हरिदासगुप्ता-
चौखम्बा -संस्कृत-सीरिज आफिस,
बनारस सिटी।
AND
इस कार्यालय द्वारा "चौखम्बासंस्कृतसारिज" के अलावा और
मी ३ सोरिज यथा “काशीसंस्कृतसारिज" "बनारससंसातसीरिज"
"हरिदाससंमतसीरिज" अन्यमालायें निकलती है तथा इन ४ सीरिजों
के पश्चात् और भी विविध शान की पुस्तके प्रकाशित की गई है तथा
जन्य सब स्थानों के छपे हुए संस्कृत तथा भाषा-भाष्य के अन्य
विकमार्थ प्रस्तुत रहते हैं, सूचीपत्र पृथक् मंगवाकर देखें।
प्राप्तिस्थानम्
जयकृष्णदास हरिदास गुप्तः-
चौखम्बा संस्कृत सीरिज़ आफिस, बनारस सिटी।
GOOGop
208
॥श्रीः ॥ किञ्चित्प्रास्ताविकम् । उपक्रमः। अथैष प्रकाश्यते मुद्रयित्वा काव्यमञ्जूषा नाम नूनः सङ्ग्रहो ग्रन्थरत्नानाम् । अत्र किल सगृहीतानि रत्नावली कामकन्दलं श्रीकालिकामन्दाक्रान्ताशतकं धर्माधिकारिवंश वर्णन श्रीरेणुकास्तोत्रं चेति पञ्चैतानि ग्रन्थरत्नानि । अद्य तावदमीषां पञ्चानां ग्रन्थरत्नानां प्रकाशनस्य रुचिरेणावसरेण समुपस्थितमिति महत्तमं सम्मदस्य स्थानम् । ग्रन्थपरिचयः। रखावली नाम काचिदासीद्गन्धर्वकुमारी । सा किल प्रारजन्मवासनाबलेन भक्तिमती सपर्यापरा रुचिरेण गीतेन प्रीणयित्वा श्रीमन्तं भगवन्तं रत्नेश्वरं तदीयवरप्रसादादनुरूपं प्रति प्राप्तवती नागराजकुमारं रत्नचूडं नाम । हिमवता शैलराजेन तनूजां पार्वतीमुद्दिश्य काशीमागत्य महारत्नसम्भार आनीतः पुरा कालराजस्योत्तरे स्थापितः । तत्रैव सर्वरत- मयं तेजोमयं स्वयमेव प्रादुरभूलिङ्ग रत्नेश्वरं नाम ।-इतिहासममुं काशीखण्डोक्तं मृल. भूतमवलम्ब्य तदेव सकौशलं रुचिरेणालकृतिमता सरसेन गद्यबन्धेन समथ्य श्रीविश्व- माथान्नपूर्णाढुण्डिराजकालभैरवदण्डपाणिनामधेयदेवतापञ्चकस्तुतिरूपं मङ्गलाचरणपञ्चक- मादौ पद्यबन्धेन कृत्वा श्रीकाश्या महिमानमतिमानं वर्णयता ग्रन्थकारेण रत्नेश्वरमहि. म्भालङ्कृतो रत्नेश्वरभक्तया रत्नावल्या नाम्नैव सङ्केतितोऽयं प्रथमो गद्यमयः प्रबन्धः । द्वितीये कामकन्दलनाम्नि नाटके कविना वर्णितमेतदित्थमितिवृत्तम्-श्रीपतिशर्मा नाम कश्चित् ब्राह्मणो विलासी प्रकामानगरीश्वरस्य कामसेनभूपतेर्भवने नृत्यं कुर्वत्याः कामकन्दलाया वारविलासिन्याः सङ्गीतध्वनि राजद्वारतो निशम्य मार्दशिकस्य वाम- कराङ्गुष्ठहीनतया जायमानविकृतस्वरं मुरजध्वनि निषेद्य प्रतीहार, तन्निवेदितेन राज्ञापि सादरमाहूतो वस्त्रालङ्कारैः पूजितः सकलमलङ्कारादिकं राजदत्तं पुरस्तानृत्यकलाम तो प्रदर्शयन्त्यै तस्यै गणिकायै दत्तवानिति राज्ञा सक्रोधं निष्कासितो रत्नसेनाख्यासुहृदो गृहं प्रामात् । सदनु तस्य साहाय्येन युक्त्या व ससखीजनमुथाने लतोचितमण्डपं गतायां कामकन्दलायां, तप्रियतमे श्रीपतावपि तत्रोपानविहारव्याजन समुपस्थिते, परस्पर- HA २ किञ्चित्प्रास्ताविकम् । . मनुरागबहुलं भावर निध्याय तयोरुभयोर्याजितयोः सखोजनेन, तत्राप्यवगतवृत्तान्तेन महीपतिना नगरतो निष्कासितः किञ्चिदूरं गत्वा नगरादागतवतः कस्यापि नागरिक स्यागारं गत्वा स्वीयमुदन्तजातं तस्मै निवेदितवान् । तदुक्त्या च विक्रमादित्यस्वामिका मवन्तीनगरी प्रविष्टवता तेन श्रीपतिना 'महाकालेशदर्शनाय महीपतिनित्यमत्राग- छतीति तत्र शिवमन्दिरद्वारे “राजन् ! गुरुतो धर्मः प्राप्तो यर्थस्तथान्यभूपालात् । कामं त्वत्तो याचे, हीनतेन त्रिवर्गसम्पत्तिः" इतीदं पधं विलिखितं तत्रागतेन राज्ञा च पिलो- कितम् । ततश्च स्वीयसभामानाय ततो विदित्वा रहस्तदीयं वृत्तान्तं 'कार्य ते प्रथम विधास्यामीति यथोचितमाश्वास्य तं श्रीपति विक्रमार्केण 'कामकन्दला वारवधूरत्र प्रेपणीया युद्धं वा विधातव्यामिति दूतद्वारा निवेदितसन्देशो राजा कामसेनो नाम प्रकामानगर्या युद्धायैव सनद्धोऽभूत् । उभयोश्च महति सम्प्रवृत्ते सम्पराये पराजितेन कामसेनभूपतिना सादरं समर्पितां कामकन्दलां जग्राह सानन्दं श्रीपतिस्तया समं च सुचिरं विहारसुखमन्वभूदिति । इमां कथामुपजीव्य प्रधाननायिकां कामकन्दलामधिकृत्य कृतोऽयं ग्रन्थस्तदनुरूपमेव च नामोच्चारण विरचितमिदमीयं कविना। कचिचात्र स्थले कस्यापि प्रवेशं संसूच्य पुनः स्वयं तद्वर्णनं कविः कृतवानिति वैचित्र्यमुपलभ्यते नाटका- न्तरतः । इदं च नाटकं बहुत्र स्थाने नाटकलक्षणेन समन्वितमपि वचन तलक्षणालक्षित दृश्यते । मन्ये नाटकमित्यस्य नामधेयं रूपकसाधारण्याभिप्रायेण कविना कल्पितम् । कचिद्रूपकोपरूपकसङ्करे शक्योऽन्तर्भावयितुं भेदोऽयं सूक्ष्मया धियाऽवगन्तव्यः । तृतीया च कृतिः कवेः श्रीकालिकामन्दाक्रान्ताशतकनाम्नी पद्यमयी रचयितुर्भाव. गम्भीरसरसकवितारचनाचातुर्य व्यनक्तितराम् । अत्र किल श्रीकालिकायाः स्तुतिर्मनो- हरी पौरनवद्यः प्रतिपादिता विद्यते । क्वचिवचित्कवेः कल्पना त्वतीव चमत्करोति चेतांसि सचेतसाम् । अद्य यावदुपलब्धानि प्रायः शतकानि सर्वत्र स्नग्धरायां कचन शार्दूलविक्रीडिते च निबद्धानि तत्तत्कविभिः । इदं हि शतकं स्तुतिमयं मन्दाक्रान्तवृत्ते प्रथममेवाद्योपलब्धम् । चतुर्थे नानावृत्तमये धर्माधिकारिवंशवर्णने काव्ये लक्ष्मीधरनाम्नो बेदरनगरनिवासिनो मूलपुरुषादारभ्य कविना वेणीरामपन्तधर्माधिकारिणा स्वसमयावधि वर्णितो धर्माधि- कारिवंशस्तदुत्तरं च स्वीयसम्बन्धप्रदर्शनपुरःसरमस्मत्पितृवरश्रीविनायकशास्त्रिवेताल- पूज्यपादैर्यथोपलब्धं तच्छेपवर्णनं विहितम् । एतवंशविषयकं विशिष्य परिचयप्रदान हि श्रीमलक्ष्मीधरपन्तधर्माधिकारिविदुषाधिरादेव चिकीर्ण्यत इति तत्र स्थानेऽस्माक- मोदासोन्यम् । चरम च स्तोत्रं श्रीमत्था भगवत्याः श्रीरेणुकादेव्याः स्तुतिरूपं कवितामर्मविदां मानसमानन्दयितुं कथं नाम प्रभवतीति त एव प्रष्टव्याः सहृदयशिरोमणयः ।
किश्चित्प्रास्ताविकम् । ३ ग्रन्थकारपरिचयः। प्राथमिकस्य ग्रन्थत्रयस्य निर्माता श्रीधर्माधिकारिकृष्णपन्तपण्डितः स एव सम्ज. नेन्द्रप्रयोगकल्पद्रुमप्रणेता परिचितचरो नाम चौखम्बासंस्कृतसीरिजग्रन्थमालाग्राहका- णाम् । एतद्विषये हि वक्तव्यं सकलं प्रकाशितचरस्य सज्जनेन्द्रप्रयोगकल्पद्रुमस्य भूमि- कायामुक्तमेषेति न पुनस्तदीयावश्यकता। एतस्य विदुषो गुरुरासीद् रङ्गप्पोपनामा बालाजीपण्डितो नाम काशीस्थमहाराष्ट्रब्राह्मण इति रलावलीअन्योपक्रमे ग्रन्थकाव प्रतिपादितम् । धर्माधिकारिकुलकमलदिवाकरश्रीमन्नन्दपण्डितोत्तरमेकैकपुरुषानन्तरोत्प- त्तिक्रमेण घेणीदत्सगोपीनाथदुण्डिराजानन्तलक्ष्मीधरविश्वनाथवैद्यनाथमामधेयाः : पुरुषा समभूवन् । अत्रान्तिमस्य वैद्यनाथस्य च पुत्रोऽवर्तत श्रीमान् कृष्णपण्डिता प्रस्तुतग्रन्थ- निर्मातेत्यसौ नन्दपण्डितानवमः पुरुष आसीत् । धर्माधिकारिवंशवर्णनप्रणेता पण्डितवेणीरामपन्तधर्माधिकारी तावत् कृष्णपण्डिता. स्मजकालोपण्डितापरनामधेयकलाधरपन्तपण्डितादुत्पद्यते स्म । अस्य .हि पितामहः कृष्णपण्डितो नन्दपण्डितपौत्रस्य गोपीनाथस्य प्रथमः पुत्र आसीत् । इत्थं च नन्द- पण्डितादयं षष्ठः पुरुषोऽजायत ग्रन्थकर्ता । अस्य च योग्यताविषये धर्माधिकारिवंश. वर्णनपरो अन्य एवायं परिचायको भवेन्नूनं पाठकमहाभागानाम् । एतस्य सुधियो हि समयमीमांसायामुपस्थितायां, प्रतिपुरुषं पुरुषान्तरोत्पत्ती स्थूलमानेन त्रिंशद्वर्षात्मकस्य समयस्य कल्पनायां क्रियमाणायां वैक्रमकोनविंशशतको. सरार्धान्तिममागे जम्मलाभ कृतवतो रत्नावल्यादिप्रन्यकर्तुः श्रीकृष्णपण्डितात् प्राचीन- स्य नवमस्य पुरुषस्य तावन्नन्दपण्डितस्य समयो निःसंशयं सप्तदशशतकपूर्वार्धस्य मध्य- भागः शक्यतेक ल्पयितुम् । अमुष्या एव कल्पनाया अवलम्बन श्रीमन्नन्दविदुषः षष्ठ- पुरुषस्य वेणोरामपण्डितस्य समयोऽवधायतेऽष्टादशशतकस्यान्तिमो भागः । एतेन वक्रमेकोनविंशशतकस्य पूर्वार्भ स्थितिरेतस्य विदुषो निर्विवाद सिध्यति । श्रीरेणुकास्तुति विरचितवान् श्रीमान् स्वधमधुरन्धरदैवज्ञवाचस्पतिर्योतिष्पार- दृश्वा वेतालकुलकैरवसुधाकरो विनायकशास्त्री नाम सुगृहीतनामासीत् । श्रीमदामपण्डि- तात्मजनन्दाग्रजश्रीगोविन्दपण्डितस्य पुत्रो मेघनाथस्तदात्मजो बालकृष्णो द्वितीयस्त- तनयो मुकुन्दस्तस्सुतस्तृतीयो वासुदेवो नाम श्रीकृष्णजनकोऽभूत् । अर्थादयं वासुदेवसुतः श्रीकृष्णो गोविन्दपन्तविदुषः श्रीमन्नन्दबन्धोरासीत् षष्ठः पुरुषः । एतस्य खलु श्रीकृष्ण- विदुषः सुतायां सगुणाख्यायाम् ( अस्मपितुर्मातमहस्य मातरि) शेषोपनामकरेणीरामः पण्डितादजनि पण्डितो राजारामनामा । अमुतो हि गङ्गाभिधानायां पत्न्यामुद्भुता लक्ष्मी म कन्या जनन्यासोदेतद्ग्रन्थकर्तुविनायकशास्त्रियोऽस्मत्पितः । पञ्चाङ्गपाटीसंग्रहै- ४ किश्चित्प्रास्ताविकम् । कादशीनिर्णयादिप्रणेतुर्जेमिनिसूत्रलघुपाराशर्यादिटीकाकर्तुरे तस्य विदुषो ज्योतिष शास्त्रे शास्त्रान्तरे च पाण्डित्यातिशयमुद्दिश्य किमत्रोल्लेखनीयं नाम । तत्र तत्र प्रसिद्धा कोतिरेव तत्परिचायिकेत्यलं तत्प्रदर्शनप्रयासेन । मवर्तुनन्दमेदिनीमिते हि वैक्रमे वत्सरे परमं पद प्रासवानयं पुष्करक्षेत्रे विद्वद्वरः । श्रीमन्नन्दपण्डितपौत्रस्य गोपीनाथपण्डितस्यासीत्पुत्रद्वयम् । तत्र द्वितीयस्य दुण्डि- राजस्य वंशे कृष्णपण्डितोऽभूत्प्रथमस्य श्रीकृष्णस्य च वेणीरामपण्डितः। श्रीविनायक- शास्त्रा तु नन्दबन्धोर्गोविन्दस्य वंशे समुदपद्यतेत्येकान्वयसम्बन्धसूत्रस्य॒तास्त्रयोऽप्यमी ग्रन्थकाराः। उपसंहारः। रत्नावली श्रीकालिकामन्दाक्रान्ताशतकं श्रीरेणुकास्तोत्रं चेति पुस्तकत्रयमस्मद्गृह- एवोपलब्धमासीत् । कामकन्दलं नाटकं धर्माधिकारिवंशवर्णनं च मित्रवरश्रीलक्ष्मीधरपन्त- विदुषा सस्नेहमस्मभ्यं प्रकाशयितुं प्रदत्तमित्युपकारभारं स्मारं स्मारं तादृशोदारता- विषये तस्मै सवयसे हादिकान्धन्यवादाननेकान वितरामः । अन्येऽपि ये केचन कार्येऽस्मिन् कयापि विधया साहाय्यमाचरन , सद्भावेन मनसा तेऽपि स्मर्यन्ते साम्प्रतस्नेहशालिनः । अन्ने च श्रीमद्गुरुवरचरणस्मरण महिन्ना कार्यमिदमङ्गीकृतं समाप्तेः पदं नीत्वा विरमामि वृथा विस्-तरादिति शम् । - अधिकवैशाखशुक्लैकादशी. संवत् १९९१, काशी। विदुषां विधेयः- अनन्तरामशास्त्री वेताला ॥ श्रीः॥ धर्माधिकारिकृष्णपण्डितविरचिता रत्नावली। गौरीप्रेमानुबन्धत्रिभुवनजनतामक्तिभावातिरेक- ब्रह्मेन्द्रोपेन्द्रचन्द्रप्रमुखसुरतपः सञ्चयैर्निर्गुणोऽपि । पञ्चकोशात्मकं यः सुरधुनिविलसदृश्यमानं स्वरूपं बिनच्छीविश्वनाथः स भवतु भवतां भावुकोद्रेकदाता ॥ १ ॥ पायानः सान्नपूर्णा, प्रतिदिवसमहिद्विण्मुखादित्यसङ्घा(१) यस्याः पादप्रणामे नखशशिनि चिरं सुप्रशस्ताननेकान् । ब्रह्माण्डानां समूहानपरसुरगणासेवितान् संविलोक्या. श्चर्य वै मन्यमाना निगममनुगणैः संस्तुवन्ति.प्रकामम् ॥ २ ॥ उद्दामोत्तुगमूपाधिपयुगलसमाकृष्टिझाकारनाद- क्षुभ्यदैत्यारिदृष्टच्छविललिततरस्यन्दनेन्द्राधिरूढः । लोलकर्णाभिघातोद्धतमदसलिलामोदमाद्यद्विरेफ. जातोद्गीतस्तवो नः स दहतु कलुषं दुण्डिराजो गणेशः ॥ ३॥ यः प्रादुर्भूय रोषान्निजखरनखरा ग्रेण वैधात्रशीर्ष चिच्छेदेशाननिन्दाकरमथ शिवतः प्राप्य काश्याधिपत्यम् । तत्रत्यानां जनानां कलिकलुषधियां सच्चिदानन्दरूपं कर्तुं पापानि शास्त्या(२) दहति, स भवताद् भूतये कालराजः॥४॥ यः संप्रमोद्भमगणानुगतोऽविमुक्ते विघ्नं हरत्यनुदिनं भवभक्तिभाजाम् । ज्ञानप्रदोऽमद इति प्रथितः स पायाद्देवः शिवप्रियतरोबत दण्डपाणिः॥५॥ (१) इन्द्रादिदेवसमूहाः। (२) यातनादानेन ।
रत्नावली। वन्दे निजितनन्दनावनिरुहाऽच्छाच्छासूनोच्छल. माध्वीकद्रववाप्रपश्चवशितप्राज्ञेन्द्रसन्मण्डलम् । कारुण्याईकटाक्षजातसुबृहच्छास्त्राब्धिपारङ्गम च्छात्रौषं बत रङ्गपाभिधमहं बालाजिविज्ञं गुरुम् ॥ ६॥ परनाशे कर्तव्ये पिशुनानां भवति पटुधिषणा । सम्भवति मूषकाणामतिबुद्धिवस्तुकर्तने च यथा ॥ ७ ॥ अपि दुर्जनाभिभूतः स्वगुणख्यातिं करोति वै सुजनः । किं धनिको दस्युभयान निजैश्वयं प्रकाशयति ॥८॥ दुर्जनमत्तवराहः सज्जनगुणसरसि विमलतमे । अवगाथापि पिशुनतार्कदममलिनः पुनर्भवति ॥ ९॥ सन्तः परोपकृतये जीवितमपि संत्यजन्ति तृणवत् स्वम् । त्यक्तं दधीचिमुनिना सुरकार्यार्थ निजास्थिदानेन ॥१०॥ दुष्टमपि साधुसनाच्छुभतामेति च विहाय निजदौष्टयम् । तैलमनानेयमपि हि सुमनःसनाद्भवति हृदयहारि ॥ ११ ॥ मृदुलं सज्जनहृदयं नवनीतादपि भवत्यहो ! नितराम् । परतापदर्शनेन द्रवति हि, तन्नैव नवनीतम् ॥ १२ ॥ प्राक्काशीस्थरसाऽमरैरधिकृतो धर्माधिकारीति य. स्तद्वंशाम्बुधिजातमौक्तिकमणिः श्रीवैद्यनाथः कृती। तत्सूनुर्विदुषां समाजरसिको यः कृष्णशर्मा कवि. स्तेनेयं प्रवितन्यते रसमयी रत्नावली सस्कथा ॥ १३ ॥ शुभालद्वारा(१)व्या पिहितरसभावा गुण(२)वती सुरीति(३)प्रख्याता मृदुलपद(४)विन्याससुभगा । (१) उपमादय आमरणानि च । (२) श्लेषप्रसादादयः शीलादयश्च । (३) अवयवसंस्थानविशेषा व्यवहाराश्च । (४) सुप्तिङन्तानि चरणौ च ।
रत्नावली । ३ नवोढा कान्तस्य श्रवणमधुरैवाक्यरचनै. यथा रागोद्रेकं जनयति तथा सत्कविकथा ॥ १४ ॥ पुरा कथा दण्डिसुबन्धुवाणादयो बनेके कवयो वितेनुः । तथा कथा मे न,तथापि धीरै रत्नेशमाहात्म्यवतीति दृश्या॥१५॥ अस्ति स्वस्तिसमस्तस्थिरास्थलीविस्तृतमस्तकसंस्तुतप्रस्तारप्रशस्ति. स्तोमाऽहर्दिवं वर्षमानाऽपूर्वपूर्वेहिकजन्यर्जितधर्मार्थकामनिर्वाणसम्पूर्णसर्व. वर्णाश्रमधर्मकर्मप्रसितत्वा(१)खर्वगर्वखर्वीकृतसुपर्वदोवीसुपर्वादिपवितैः(२) उल्लसिताचलकरुपबहलवलाहककुलोल्लम्बन(३)तुलितातिवेलावलिप्तशैला- कलनकुशलमुसलिसोदरैः (४) अगणितकिरणचणाऽऽपणमणिगणजटितक. पाटपटितप्रकटगवाक्षश्रेणीप्रतिच्छायित(4)सहस्राक्षैः कियद्वातायनगतयुव. तिजनवदनविलोकनजनितकुवलयितपरवलसन्दोहसन्देहलुब्धमधुपसमुदय. समुदितामैः तरलतरमधुकरनमितसुकुमारलघुतस्वीरुन्मञ्चिकाऽश्चितकान्ता. लवालविलसितवलभीकैः गृहकर्मतत्परत्वनिसस्तवसनस्तनकलशदर्शनज्ञाप. नेङ्गितलजितनिजमन्दिरसुन्दरीकपटकुपितकटाक्षपातमुदिततरुणगणाश्चिता. ऽट्टैः वारनारीनिकरैरिव तत्परच्छेकैः (६) सुरलोकैरिव लेखा(७)मिरामैः सुप्रीवसैनिकैरिव पुरःस्थितहनुमाद्भिः (८) तान्त्रिकजनैरिव सावेशनैः(९) सावरोथै (२.० )रप्यनवरोधः(११) अनपारैरपि निम्नाकूपार(१२)मन्दिर- विसरैरुज्जृम्भिता, हृतसकलजनताचित्तमधुरमधुरमुरजनिस्वनातिवेलललित. वीणानिक्वाणसमीचीनविपञ्चीनिनादमाधुर्यहृद्यधनध्वनिसुचिकस्वरसप्तस्वर- मम्जुसङ्गीतगुञ्जिताभिः समप्रब्रह्माण्डमाण्डाखण्डप्रचण्डविनखण्डनसु. पण्डोइण्डचण्डशुण्डावण्डाभिरामदुण्डिराजादिवेतण्डतुण्डमूर्तिमण्डिताभिः (१) तत्परत्वम् । (२) पूर्णैः। (३) उत्तोलनम् । (४) कृष्णः । (५) उपमितः। (६) व्यसनिनो गृहासक्तपक्षिणश्च । (७) देवाश्चित्राणि च। (८) मारुतिहदविलासिनी च । (९) भूताविष्टाः शिरूपशालाश्च । (१०) अन्तःपुरम्। (११) अप्रतिबन्धः। (१२) अन्धवः।
रत्नावली। निखिलदिक्करटिकरटतटपाटनलम्पटपटुरवघटितविकट पाञ्चजन्यशकेन च. क्रमणचमत्कारचकितशचीशाऽरि(१)चयोचमस्तकच्छेदनपरिचितचातुरी- रुचिरसुदर्शनचक्रेण समददैतेयकुलदलनदीक्षादानदक्षोद्यदुहामकौमोदकी. गदया सान्द्रामन्दानन्देन्दिरावन्दितसुन्दरपादारविन्दद्वन्द्वोद्यन्मकरन्दबिन्दु- सन्दोहास्वादनलुब्धप्रमादन्दिान्दरायमाणभक्तवृन्दाऽवनदयाङ्करपोचत्पन च विरानितकरचतुष्टयः शम्पासहसभासुरपीताम्बरधरैः नव्यमुदिरबन्धुराग युतिद्योतः बिन्दुमाधवगोविन्दप्रतिमानैः पूरिताभिः सुरुचिरहरिततरमर- कतखचितचारुरुक्मोरुवलयाकारैः अखर्वहरितायुक्तरथपरिगततिमिरहर. करनिकरलोलार्कप्रमुखमिहिरबिम्बैर्बिम्बिताभिः प्रवृद्धयुद्धोद्धवलुब्धबुद्धिस. बद्धसङ्गन्ध(३)बद्धकञ्चुकमदोद्धतोवृत्तातिकोघदन्तविद्धाधरदैतेयाधिनाथ. नोदिताऽनन्तदन्तावलस्यन्दनसैन्धवपदगसमुदयोपद्रवदलितमेदिनीतलगत- जगदवनावेगविधृतविविधनारकण्ठीरव(४)भौदार(५)शाङ्कर(६)कौमारपौर- न्दर(७)वैरश्च(८)चामुण्ड(९)कालेय(१०)प्रमुखावतारदुर्गादेव्यादिसंदीपि. ताभिः अपारसंसारनिस्तारकारचित्सारविस्तारदग्धमारनागहारतारितभूभार. गरलाहारमस्मालकारगौरीदारकेदारप्रभृतिशङ्करलिजलिजिताभिः शया(११). श्लिष्टशिक्षितासंख्यब्रह्मपेशी(१२)जातातिचतुर्दशभुवनमहत्पीनोन्नततेजो. जयालकरालकालदण्डाभिः अभप्रान्तनूनोदितमृगाङ्कपिनोग्रकपर्दभाराभिः प्रतिकल्पागण्यस्वायम्भुवमुण्डपुण्डरीकसपरिष्कृतवक्षःस्थलाभिः भैरवादिमूर्तिभिभूषिताभिः अधरीकृतसौध(१३)माधुर्यगाधवेदादिविद्यावादो. पदेशसजातविद्वद्वन्दवन्दितान्तेवासिसन्दोहनमस्यागतद्विजोत्तमद्योतिताभिः वानरचमूभिरिवानदो(१४)ज्ज्वलाभिः समददन्तिगतिभिरिव सघण्टाघोषा- भी राज्याभिषेकसामग्रीभिरिव सकनककलशाभिः कौन्तेयततिभिरिव पाश्चा. काल. (१) दैत्यः। (२) अश्वः । (३) सम्यग गर्यो येषां ते। (४)नारसिंहीशक्तिरूपा। (५) वाराही । (६) माहेश्वरी। (७) इन्द्राणी । (८) ब्राह्मी। (९) चामुण्डा । (१०) काली । (११) हस्तः । (१२) ब्रह्माण्डम् । (१३) सुधाया इदम् । (१४) वालिपुत्रा परथ ।
रस्नावली। ली(१)मनोहराभिर्विष्णुमूर्तिभिरिब वैजयन्ती(२)भूषिताभिर्देवालयमालाभि. रुल्लासिता, विविधकुसुमसुषमसुरभिलुभ्यश्चञ्चलतरचञ्चरीकचयसप्तस्वरल. लित'शीशी' गुजितवीणाविपच्चीनिकणैः समीररिङ्गतुङ्गतरकासारसलिलतरण. तीराघातजातनादसाधुतालमानैः सरसमिरलीझाङ्कारमन्जुलमीरसिखितः विषमशरसमाक्रान्तसीमन्तिनीसक्तकपोतकलरवघुटुकनमृदुमृदङ्गनिनदैः मो. हितसकलशकुन्तसमवायसुलयकलकण्ठकलरुतगानः धनतरनिस्तरलजलघ. रपटलविसृष्टधनरसाऽऽसारसिक्तसकलशरीरमयूरनिकरनर्तकर्तनः मरुदी- रितसुरसविकसितकुसुमहसितसरसवल्लरीसुन्दरी(३)वृन्दालिनितविशाल. शालरसालपाटलबकुलनिचुलपिचुलमन्दारकन्दरालकदम्बजम्बूकर्कन्धूबन्धूक. दाडिमकुटजनारिङ्गनारिकेलपिप्पलबिल्वामलकमुनिकाञ्चनारप्रभृतिबहुविध. तरुवरसामाजिकै सुन्दररकाजिरायितैः आरामवोरैरलङ्कृता, रजनिकरमा सुरयज्ञसूत्रराजितोरःस्थलैः शारदमुदिरपाण्डुरातिपवित्रभस्मार्चितमालैः रु. चिररागरञ्जितपट्टाम्बरधरैः धरणिसुरवरनिकरैः अनवरतकृतपरिचर्यया स्ना. नागतनागरयौवतोन्नतपीनवझोजक्षोभम्रकुंस(४)लीलायितवीचिमालाविल!. सितया विमलबहलसंलोलकल्लोलमालान्दोलितैस्तरणलीलालुब्धस्तरलतरा. ऽनल्पबालककुलैललितकूलया रमणीयारोहण(५)निश्रेणि(६)श्रेणीशोभित. मर्दितदुर्गदर्पोरूद्दण्डसुदृढघट्ट(७)घटितप्रकटाऽविकटतटया सकृदवगाहन. जनितसुकृतातिरेककृतभसितभूतिधृतशूलकलितकपालकण्ठेकालव्यालमाल. सानलमालशिवरूपसकललोकशशिसहस्रभासुरसलिलया कोटिजन्यर्जितधर्म. लभ्यप्रतिपदात्यर्थतीर्थसार्थसार्थकीकृतपुमर्थानवरताचरितपरिपूरिततपःसम्प. द्विश्वम्भरप्रभृतिप्रार्थितमनोरथमणिकर्णिकासमागमसामोदजातरूपायितमाहा. स्या विटपिशाखयेवाण्डज(८)भूषितया राजपृतनयेव कम्बु(९)शोभितया (१) द्रौपदी पुत्तलिका च। (२) माला पताका च । (३) वलय एव सुन्दर्यः। (४) नर्तकः । (५) सोपानम्। (६) आधिरोहणी। (७)जलावतार। (८) मत्स्यः पक्षी च। (९) गजः शङ्गध।
रत्नावली। विमलगगनमण्डस्येव सरसरणि(१)मण्डितया श्लेषालकृस्येव स(२). भनया रथावस्येव प्रमद्रधा(३)जया राजसभयेव जीवनेह(४)द्विजाश्रि. तया गल्या परिष्कृता प्रलयेऽप्यनश्वरा विश्वेश्वरराजधानी नगरी गरीयसी वाराणसी नाम । या चैकरूपापि क्षेत्रभूतैरन्तरान्तरभवैश्चतुरपघनै(५)निर्वाणचतुष्क विश्राणनकारणैश्चतुःस्वरूपा। तथा हि-कनकाद्रेरिव विपुलावलय. केन्द्र(६)वर्तिनो मध्यवर्तिनो मध्यमेश्वराप्रतीचीनदेहलीहेरम्बावधि वितानितस्य सूत्रस्य पञ्चक्रोशायामस्य चक्रवालाकृत्या भ्रान्त्या मीयमान- बायसीमवलया वितन्वती सालोक्यं काशीति । तदन्तर्वर्तिनी पुमर्थसार्थ- प्रदतीर्थराजवास्तव्यस्य स्वस्तिकासिको(७)पविष्टस्य विष्टरश्रवसः(८) काशीनिविष्ठदृष्टेः सव्यसव्येतरचरणापसृताभ्यां सुरधुनीसकताभ्याम् अवा- गुदक्सीमभ्याम् असिवरणापगाभ्यां प्राक्प्रत्यक्सीमभ्यां जन्हमुनितनया. देहलीशिवतनयाभ्यां च परिच्छिन्ना सामीप्यमातन्वाना वाराणसीति । तदन्तः प्राच्यादिहरिच्चतुष्टयनिष्ठप्रतीहारप्रतिवेशिभिः(९) क्षेत्ररक्षण. दक्षिणैः पाशासिसनाथशयकमलकोटिगणपरिवृतैः अहहासेशभूतधात्रीश- गोकर्णेशघण्टाकर्णेशैर्बद्धधारणा (१०) सारूप्यदा अविमुक्ताख्यति । तदुदरगता मणिकर्णीशब्रह्मेशगोकर्णेशभारभूतेशैः कल्पितपूर्वादिसीमान्ता सायुज्ययोजिका अन्तर्ग्रहाख्येति । एवं चतुष्प्रतीकायां नगयाँ सर्वान्तर्गतान्तर्ग्रहाख्यक्षेत्रवराधिष्ठिते अगणि- तापणमणिगणखचितकनकशिखरविकीर्णकिरणशकचापसच्छाय(११)च्छा. यापूरितदिगन्तराले क्षणमात्राचरितजपहोमध्यानाविकर्मसम्पाद्यमानसहन (१) सूर्यो नौका छ। (२) अलङ्कारभेदस्तरङ्गश्च । (३) चक्र कोकध। (४) जलेच्छुपक्षिणो वृत्तीच्छुब्राह्मणाश्च । (५) चतुरवयवैः। (१)मध्यम् । (७) स्वस्तिकासनम् । (2)विष्णोः। (९)द्वारसमीपे विद्यमानः । (१०) मर्यादा । (११) सरशम्।
रत्नावली। समा(१)सम्पादनीयश्रेयःसम्पदि अविरतसमाघिसम्पन्नसनकादिमुनिसंसेविते अभिषेकागतासहपर्षिमुनिविप्रवदनोद्गीर्णशतरुद्रियादिस्वरसमादिते विकट. तुण्डप्रचण्डमुनिरिटिप्रभृतिगणकठिनदण्डताडनपराभूताऽहमहमिकापतह- शनलालसशतमन्युप्रमुखलेख(२)वृन्दजुष्टद्वारचतुष्टये वाताहतिकम्पनैर्निवा. रयन्तीभिरिव पातकततिं पताकामिरुत्तंसिसे र्दशनमात्रेण कृतार्थयादिनिघा. नकलशप्रदर्निचितामणिगणैरिव मणिमयकलशैः शोभितशिखरे विचित्र. रचनचमत्कृतरलहेमस्तम्भशतभूषितप्रतीच्यादिदिक्चतुष्टयगतयथार्थाभि- धशृगारेश्वर्यज्ञाननिर्वाणमण्डपचतुष्कषिते श्रुतिशिरसीवाद्वैतज्ञानप्रकाशके आराम इव मालिका(३)विष्ठितप्रान्तभागे मेराविव कनकरत्नाशखरे उन्नते च महाभारत इव धर्म(४)कथापूरिते वर्णितपाश्चालिके च मणिहेमबद्धे- ऽपि मुक्तिपदे असूर्येऽपि तमो(५)नाशके मोक्षलक्ष्मीविलासनामधेये प्रासा. दवरिष्ठे सर्वदा कृताधिष्ठानोऽपि भगवान् चतुर्मुखप्रमुखानवाप्तसमाप्तिश्रु. तिसमूहाऽलब्धान्तमहिमसमूहो निखिल वनोद्धरणनिमित्तविधृतलियरूपो ब्रह्माण्डस्तूप(६) इव बृहद्वपुर्धारको भक्तजनदुःखहारको दीनानाथैकशरणं जगत्कारणकारणं विधृतजटाभारः समुद्धृतभूभारः पञ्चवदनः पञ्चदश. नयनः (७) सर्ववरप्रदायको दग्धपुष्पसायको निखिललोकपालकस्त्यक्त. मायाजालकः कल्पितानेकब्रह्माण्डः कल्पान्तकृत्यभेरुण्डः (८)कृतविवि. धरूपविस्तरो जगदमगरलघस्मरो निर्वाणदीक्षागुरुर्विध्वस्तदक्षस्वरु(९). श्चन्द्र इव कलितमृगश्चन्दनतरुरिव व्यालाभरणो रनसानुरिव सुरधुनि- धारालकृतशेखरः सूत्रधार इव शैलूष (१०)प्रियो व्यवहारीव कपर्द(११). भाराञ्चितः समुद्र इव कौशिकी(१२)सङ्गममुदितो वेद इव वृष(१३)स. (१) वर्षम् । (२) देवाः। (३) मालाकारः। (४) युधिष्ठिरः सुकृतं च । (५) अज्ञानम् । (६) स्तम्भः। (७) प्रतिमुखस्य त्रिनेत्रत्वात् । (८) भयङ्करः। (९)यहा। (१०)नटो बिल्वश्च । (१६) वराटको जटाजूटश्च । (१२)नदी गौरी च। (१३) धर्मो नन्दी च।
८ रत्नावली। चारः श्मशानवास्यपि मङ्गलमूर्तिरनामयोऽपि शूली (१)धर्मिष्ठोऽपि मा. तुलानी(२)रसिकोऽनक्षदेव्यपि धूर्त(३)प्रियः स्थाणुरपि वान्छितफलदो- ऽस्थिनेपथ्योऽपि पवित्रः सर्वसंहापि न पातकी विषमेक्षणोऽपि सम. दृष्टिः सुलोचनोऽपि विरूपाक्षो विषाद्यप्यविषादी विषनिगरणकृष्ण. कन्धरः शरणागतवापञ्जरश्चूडामणीकृतनिशापतिः काशीपतिरन्नपूर्णा. सनाथो विश्वनाथो रुचिरचरणकमलषट्पदायमानभक्तजनतपःसम्पत्फल. वितरणायाऽषिवाराणसि स्थाने स्थाने लिङ्गरूपेण प्रादुर्बभूव । एवं भक्त- जनापितस्वसास्कृतवस्तुन्यपि लिङ्गरूपेण प्रादुरास्ते । एवमेवैकदा यातेन काशी पाणिपीडनकालादनुपलब्धतनयोदन्तेन मेनकानाथेन तुषारगिरिणोपगन्तुं तदीयप्रवृत्तिं निरूपितजामातृसम्पदु. स्कर्षेण जातमन्दाक्षणानवलोक्य तनयासनाथं विश्वनाथं जामातरम् भा. प्लुत्य पुण्यप्रदे पञ्चनदे कालराजोत्तरे नातिदूरे अलिकुलमलिनकमल- कुमुद करहारकोकनदेन्दीवरनिकरपिहिततदीयमकरन्दपुनरुक्तमधुरिमविमल. शीतलाऽतलस्पर्शवारिपूरिताया हंससारसरथाङ्गकुररनिकुरम्बमण्डिताया दिविषदामिव मुविषदा प्रावनाय(४) विहाय विहायसः स्थितिमाधिकाशि स्थिताया हरस्य गगनमूर्तेर्दर्पणायमानाया मन्दाकिन्या अतिविस्तरे प्रतीरे राशीकृत्यानीतोपायनरत्नानि प्रतिष्ठाप्य स्वनाम्ना वरणारोधसि रात्रिमात्र. निर्मिते प्रासादे शैलेश्वरं लिनं विलिख्य च तत्र स्वप्रशस्ति स्वविषयः(५) समवजि । प्रातर्विलोक्यादृष्टपूर्वदिवसं सप्रासादं महालिङ्गं विस्मितयो- हुण्डनमुण्डनगणयोर्मुखानिशम्य विश्वनाथ आर्यायै निजभार्यायै प्रियायै तत्तनयायै प्रदर्शयितुमागत्य तल्लिने निजवसतिं वरं प्रदाय यहच्छया कालभैरवोदमन्दाकिनीरोधस्याजगाम । तत्र च तस्मिन् रत्नराशौ विश्वे. श्वरसास्कृते सुकृतोदयादद्रिराजस्य पुरन्दरकोदण्डद्युतिज्वालाजटिलितग. गनतलं स्फुरत्प्रभाभासितदशाशं सर्वरत्नमयं सर्वरत्नप्रभं सर्वरनप्रदं मनो. हरं मनोरथपूरक प्रादुरमल्लिकं रमेश्वरं नाम । (१) रोगः त्रिशूलं च । (२) विजया । (३) किसयो धसूरश्च । (४) रक्षणाय। (५) देशः।
रत्नावली। यस्य च सकृत्सपर्यया सप्तसिन्धुवेलामेखलावलयितेला(१)धिपत्य करतलगतमञ्जसोपजायते। तदपूर्व लिङ्गं निभात्य विस्मितया प्रियया गिरि. जयाऽनुयुक्तेन तस्य रत्नेश्वरस्य लिङ्गवरस्य महिमानमतिमानमुपवर्णयता निजाननेन विश्वनाथेन चित्तहरमपूर्व चित्रतमं पुरावृत्तममाणि । तथा हि- आसीद्वन्धर्वराजो गन्धर्वलोकवास्तव्यः(२) स्तव्यगुणगणः सकल. विद्याचणः कलाकलापकुशल: कुशली स्फुरत्कीर्तिप्रतापः स्फूर्तिमत्तौर्य- त्रिको वसुपूर्णो वसुभूति म । यश्च प्रावृट्काल इव सततघनानद्धः(३) कर्ता कलाशास्त्राणां भर्ता गन्धर्वाणामाहर्ता गुणानां संहर्ता दोषाणामुप. हर्ताऽभिलषितानाम् । तस्य सुविनया तनया लावण्यवतीष्वग्रगण्या जित- चन्दिर(४)मुखारविन्दा स्तबकस्तनी मृणालकोमलबाहुलता तन्वी तनु- मध्याऽधरीकृतबिम्बाधरा मीनाभिमानमोचनलोचना विकलीकृतकोकिला- लापा सर्वगान्धर्वनिपुणा गुणरत्नगञ्जा(५)ऽनुपमेयरूपातिशया मूर्तेव रत्ना. करकन्यका बभूव रत्नावली नाम । या च सन्ध्येव विविधरागरक्ताम्बरा(६) कवितेवालङ्कार(७)मण्डिता तरुशाखेव रुचिरवयो(८)भूषिता कलावत्यपि नकलावती(९) गन्धर्व्यपि(१०) नगन्धर्वी(११)। यस्याश्चञ्चलत्वं नयनयोन चेतसि, मन्थरत्वं पादयोन बुद्धौ, काय वलमे न वपुषि, मौम्ध्यं शिशुक्रीडने न विद्यासु। तस्या. स्तिस्रश्छाया इव दिवसेऽनुगामिन्यो निशि कोक्य इव वियोगिन्योऽनुत्सृष्टै. काकिन्यः समानवयोरूपलावण्यगुणाश्चारुचातुर्यचणाः शशिलेखानालेखा- चित्रलेखाः सततसहशिशुखेलाः सख्य आसन् । अकारि चैकत्र ताभिः परिशीलनं वाचां देव्याः । प्रीतया च तया वाग्देवतया ताभ्यः सकल. कला व्यतारि। (१) पृथ्वी। (२) वसतीति वास्तव्यः । (३) निरन्तरं मेघाच्छन्नः वीणातालमृदङ्गसहितश्च । (४) चन्द्रः। (५) खनिः। (६) आकाशं वस्त्रं च । (७) भूषणान्युपमादयश्च । (८) पक्षी अवस्था च । (९) तुम्बुरुवीणा । (१०)गन्धर्वजातीया। (१९) अश्वी । २र० १० रत्नावकी। अथ सा रस्नावली प्राग्जनुषि कलावत्यमिधनतक्याख्ये सकृत्तपस्ये मासि शिवरात्रिजागरे कृतरुचिरतौत्रिकेण परिप्रीणितस्य रत्नेश्वरस्य प्रसादा. ऽऽत्तवासनावशेनाऽग्रहीत्ससंयम (१) नियमम् 'अपचितिमन्तरेण रत्ने- श्वरस्य व्याहृति(२)विसर्जनं न करिष्य' इति । ततःप्रभृति ताभिराली- भिः सहान्वहमायामिना गगनाध्वनाऽविमुक्त समागत्य रनमतस्य रत्नेश्व. रस्य नमस्यामकरोत् । अन्यदानन्दवनमभ्येत्य विविधार्चनोपचाराराध्य जगदीशं रस्नेन रत्नावली तदीयपुरतो रम्येण लयेन मम्जुलेन तालेना. ऽनुपमेन तानेनातुच्छया मूर्छनया विकस्वरेण सप्तस्वरेण सानुरागरागेणा. ऽविगीतानि (३) गीतानि जगौ । सख्यश्च निरगुर्जगत्साक्षिणं श्रीक्षणं(४) प्रदक्षिणीकर्तुम् । अत्रान्तरे प्रत्लेश्वरो रत्नेश्वरस्तदीयगानमुदितो वरदीय लिङ्गादेवावदत्-'अयि सुकुमारिके ! गन्धर्वकुमारिके ! अद्याऽघिरजनि अनकरणकुतुकेन रुचिरमूर्तिर्यस्त्वां रमयिष्यति, स तव नामसमाननामा दयितस्ते भविते'ति । एतनिजगीतमन्दरमथितलिनोदनवदुदितमुक्तिपीयूष मापीयाऽमन्दानन्दसन्दोहमेदुरा मन्दाक्षमीलिताक्षी च बभूव । तदनु यथा. गतं तारापथपथेन सह सखीभिर्निजोदन्तं रत्नेशोदितं निगदन्ती चचाल निजालयम् । अभिनन्दिता च वयस्याभिः 'दिष्टेन कुसुमितोऽद्य ते रत्नेशपरि. चर्यातभविता च फलितोऽपि विभावर्या मिति । 'अयि ! रत्नावलि ! निश्यद्य ते कौमारहरश्वोरो वरो यदि यास्यति स सुकृतकभाजनं त्वयाऽतियत्नेन कोमलबाहुलतापाशेन पाशयितव्यो यथास्माभिर्गोचरीक्रियेत । अपि च रत्नेशादेशात्प्रगे(५) एव तव तेन लब्धश्वश्रेयसेन प्रेयसा मनोहारिणा मनो. रथकारिणा च भवितव्यम् । अहो ! अस्मासु यातास्वपि भवत्येव सुकृता. तिरेकेण रत्नेश्वरं लिङ्ग वरवितरणमुखरं लोचनगोचरीचकार । चित्रं दिष्टोदयस्य(६) वृषोद्रेकस्य(७) च यत एकस्या एव सिद्धिरेकत्रवासा. स्वपि । विष्टमेवेष्टं साधयति नोद्यमः । एकोधमा हि वयं भवती च । नियति. (१) सेन्द्रियनिग्रहम् । (२) वचनम्। (३) स्तुत्यानि । (४) त्रिनेत्रम् । (५)प्रातः। ६) भाग्योदयस्य । (७) सुकृतातिशयस्य ।
रस्नावकी। शुक्रवादिन(१) एव तथ्या कथा' इत्यभिधाय पुनरप्यवदन् - 'सखि ! किंवदन्ती(२)यं प्रसनेनास्माभिरवाचि नेय॑या । यत इष्टोपगतिस्तु तव या सेव न' इति । एवं जल्पन्तीभिस्ताभिः सुदूरमपि वर्म कलयात्यल्पवदत्यकामि । प्राप्य च निवासं हर्षनिर्भरतया निवर्त्य वासरचयां परस्परवियोगशुचीव सान्ध्ये तमसि प्रसृते वयस्याः परस्परमामन्व्य स्वं स्वमालयं प्रययुः । रत्ना. वली तु सखीवियोगदूनापि रत्नेशादिष्टप्रियतमसनमाशासमुदितया मुदा सम्पन्नशृङ्गारवेषाभूषा संवेशवेश्मनि संविवेश । उत्तरेयुः रत्नेशदर्शनोत्कलि. कया सहोदिते दिनपतौ परस्परं मिलिताभिरालीभिर्मोनवतीयं रत्नावली विसस्तकेशपाशा मुदितानयष्टिरलसितनयना च्युतमाल्यानुलेपना इलथ. वसना परिभुक्तेवालक्षि । अथ पतञ्चन्द्रचतुष्टयमिव गगनातूष्णीं वाराणसी. मवतीर्य विमलमन्दाकिनीजले सलीलमाप्लुत्य रत्नेशं ददृशुः । समर्थ्य च दिव्योपचारैः प्रदक्षिणान्तमार्य विसृज्य च नियम (३) तस्य रत्नेश- मन्दिरस्यानतिदूरे विमलमन्दाकिनीसलिलसीकरसंसिक्तकुमुदकरहारगन्धि. समीरान्दोलितविविधतरुलताविराजिते रस्नेशारामैकदेशे विमलशिलातले वल्लीमण्डपिकाच्छन्ने उपहरे(४) समुपविविशुः । तदनु ताभिरालीभिरनु. युक्ता मन्दाक्षमुकुलिताक्षी निजोदन्तं क्षणदाभवमाचचक्षे- 'सख्यः ! प्रयातासु निजनिकेतनं भवतीषु तद्रलेशवचनपीयूषरसा- स्वादमनुभवन्ती प्रतिपन्नशृङ्गाराभरणा तदवलोकनकुतूहला शयनहीन(५). नयना शयनीयमभजम् । परिजनोऽपि यथायथं सुष्वाप । तदनु भावि. विषयस्यावश्यभाव्यतया सहसा स्वप्नदशामगमम् । बोधविरोधिभ्यां प्रमीला(६)तदङ्गसङ्गसुखाभ्यामात्मविस्मृतिमगाम् । एवं परवशीभूतया मया तदीयसझानगरससरस्वनिममया नाज्ञायि 'किमभवत् कोऽयं काहं क्वाह'- - (१) देवप्राधान्यवादिनः। (३) मौनरूपम् । (५) निद्रारहितनेत्रा। (२) लौकिकी कथा। (४) रहसि । (६) तन्द्रा।
१२ रत्नावली । मिति । अथ तं यातुमुद्यतं यावद् बाहुलतापाशेन बध्नामि तावदन्तराय. कराणि करकङ्कणान्यत्युषण(१)मक्वणन् । तेन सिञ्जितेन(२) महता प्रबो. षितवती प्रज्वलस्सु दीपेषु सुप्तेषु परिजनेषु आत्मानं तलिन(३)गतामेका. किनीमन्वभवम् । ततम्तद्विरहदहनकीला(४)वलीढया हृदि स्थितं दयितं चिन्तयन्त्या मूकतामापन्नया विस्मृतसकलकलया व्याकुलया मया शेष. यामिनी युगशतमिवात्यवाहि । न जाने, स किंदेश्यः किंवंश्यः किनामा । अहो ! विधात्रा कन्दर्पसौन्दर्यदर्पमपहर्तुमिवापरः कन्दर्पसौन्दर्यातिशयसौन्दर्य उदपादि । अथ वा रत्नेश्वरेणैव रूपातिशयसम्पादनोपकरणहीनतां विधातु. रवलोक्य स्वयमयमसञ्जातपूर्व उत्पादितः । दुनोति मे हृदयं तद्विलोकन. लालसाया: । तद्विश्लेषानलेन तप्ताहं "किं करोमि क गच्छामि किं शरणं केन वा कौशलेन कया प्रज्ञया कतमेनाश्वसनेनात्मानं धारयामी'त्यनल्पो- कलिकाकुलितं चेतो न धारयितुं शक्नोमि । जिगमिषूणामसूनां स्थितये संवेश(५)गतस्य तस्य पुनरालोकनेतरं न पश्यामि किञ्चिदगदम्(६)। सहचर्यः ! किं ब्रवीमि, प्रेमनिमृते सहचरीजने का मृषा भाषेत । अकार्य. कारी पञ्चशरो दशया दशम्या(७) कीर्तिशेषां मामापादयितुं यतते । पुन. स्तदर्शनेनैव मां जीवितामीक्षितास्थ । हे सख्यः ! तत्र तदीयं भूय ईक्षणं भवतीनामायत्तमस्तीति निश्चिनोमि' । एतत्तदीयं विरहविक्लवं(८) वचनमाकालयो नारिकेलजलमिवान्तः क्षुब्धमन्तःकरणं वहन्त्यः परस्परमालोकयन्त्यः समब्रुवन्-'वर पुते ! यस्य नावगम्यते किमाभिधानं का जातिः किं कुलं को देशः कस्य सूनुः किमाकृतिः, स कथं प्रापणीयः क उपायो विधेयः का बुद्धिः सञ्चारणीया किमपूर्व साधनीय मिति । रस्नावली तु तासामीहक् ससंशयं शंसितं निशम्य लघुहृदया 'हे सख्यस्तदुपलब्धौ यूयं कुण्ठितशक्तय' इति व्याहरन्ती 'यूयं कुण्ठी त्य!क्तेनैव मुमूर्छ । अथ सख्यस्त्वरमाणास्ता मोहमीलिताक्षी (१) अधिकतरम् । (२) कङ्कणरवेण । (३) शय्या (४) ज्वाला। (५) स्वप्नगतस्य । (६) औषधम् । (७) मरणरूपायाम् । (८) कातरम् ।
रत्नावली। पक्ष्मलाक्षीमवनिलुठितां लथानलता निर्वर्थ व्याकुलेन हृदयेन किमिति किमिति व्याहरन्त्यस्तदङ्गयष्टिं धारयन्त्यस्तन्मोहोपशान्तये कोमलानि कदली. दलशकलानि आस्तीर्य स्वापयामासुः । एका कमलकिजल्कसुरभिमन्दा. किनीशीतलजलं मलयचन्दनद्रवं कर्पूरचूर्णमिदं च सिषेच । अन्या सलिल. क्किन्नेन नलिनीदलेन मन्दं मन्दं वीजयाश्चके। अपरा तदङ्गलमानि कदली. नलिनीदलानि सन्तापशुष्काणि प्राक्षिपत् , नूतनान्यन्यान्यधारयत् । रवि- करप्रभाप्रवेशनिवारणाय लतामण्डपिकाच्छिद्राणि पल्लवै रुरुधुः । कोमल- कुवलयदलैरङ्गानि ममृजुः । मण्डपिकोपरि सलिलसेकेन वर्षासारमिव सर्वत आर्दीचकुः । एवमनेकविधाभिः क्रियाभिरुपचेरुस्तथापि न सा मोह- मत्यजत् । तदैका तु प्रत्युत्पन्नमति:(१) सत्वरमुत्थाय रत्नेशस्य स्नपनो. दकमानीय तस्याः सकलावयवेष्वसिञ्चत् । 'श्रद्धधानस्य भक्तिभावनस्य हि विपद्यपि महति नोपायान्तरमन्तरणेशचरणामृतमस्ती'ति तज्जलस्पर्श. मात्रेण सा विगतमोहा सुप्तोस्थितेव पुनरुत्पन्नेव 'शिवशिवेति भाषमाणो. दतिष्ठत् । उत्थाय चाङ्गजृम्भिकामाचरन्ती धैर्य सन्धार्य रत्नेशप्रसाद- बुद्ध्या कार्यमवधार्यावोचत्-'सख्यो ! यूयं मदीहित. लम्भने (२) कुतः कुण्ठिता अभूत । सरस्वतीप्रसादलब्धाः सकला वः कलाः स्मृतिपथादपजग्मुः किमु ? हे आलयो ! रत्नेशप्रसादे. नैवोपाय एको मध्यस्फुरत् । शृणुत तं कुरुत च । आविर्भवदम्यतारुण्य- च्छवीन् तिरोभवत्कौमारकान्तीन् सुषमपुंस्त्वश्रीकाननुपमेयसौन्दर्यान्युव. समूहान् यूयं संलिखत । हे शशिलेखे ! त्वं लेखान् विलिख । हे अनालेखे! त्वं धरणिवलयगानालिख । हे चित्रलेखे ! त्वमयोभुवनगान् संलिखेति । एतदाकर्ण्य तदीयचातुर्याश्चर्यफुल्लदृष्टयः सख्यो लपितमभिनन्द्य(३) विशदमसणचीरपटे तरुरसरागेण क्रमश एकशस्त्रिभुवनगान लावण्य. यौवननिधीन् लिलिखुस्तरुणस्तोमान् । मदनशरजर्जरिता वसुभूतिसुता सुरसअगतानमरानितरांश्च निरुप्य चपलाभ्यां लोचनाभ्यां रतिमलममाना लब्धया (१) तकालसखातबुदिः। (२) प्रापणे। (३)भाषितं समान्य ।
१४ रस्तावकी। ऽस्यजत् । अयदच 'श्रेयोऽतिशयसम्पाचमानलावण्यसम्पमेऽपि सुरलोके बत न कोऽपि ताइग्रूपलावण्यसम्पन्नः सम्पन' इति । ततोऽवनितलभवान्मुनि- कुमारान्युवराजानन्यांश्च निभास्य 'न तथा सौन्दर्यममार्येष्वपि का वार्ता माना मिति वदन्ती मुदं न लेभे । तदनु बलिसप्रगतेषु नयने सम्प्रेर्य दितिवनयान् दनुसुताभिरूप्य मनसिजदहनदूना नागयुवस्वक्षिणी प्राक्षि. पत् । तेषु प्रत्येकमशेषान् शेषवंश्यान् वासुकिसन्ततिबाननन्तजनजान् पुलीककुलजान कर्कोटकगोत्रजान्मद्राभिजनजान् चित्रगतानपि पश्यन्ती क्षणमीषल्लज्जिता नागराजं शङ्खचूडमपश्यत् । तदीक्षणादेव त्रपामरविनम्र बदना पुलकिताइयष्टिरभूत् । तदीयब्रीडाभरेण पुलकोदमेन चातिपेशलया चित्रलेखया कौमारहरो वरः क्षणादलक्षीव । तदनु परिहासरसिका चित्र. लेखा कुतुकेन निजपटाञ्चलेन चपलं चित्रपटीमगृहत् । मन्दाक्षमुद्रितवचना स्फुरहिम्बापरा रत्नावली वक्रया हशा तामैक्षत । तदा चतुरया शशि. लेखयाऽपानेनेलितानालेखा चित्रलेखाप्रहितं पटाश्चलं सस्वरमदूरयत् । अयोत्कलिकाकुला रत्नावली शकचूडान्वये रस्नचूडमद्राक्षीत् । तदव लोकनादेवानन्दाससलिलप्लुतं लोचनयुगलमभवत् । कपोलपार्मुिक्ताफल. विच्छुरितेव स्वेदविन्द्वश्चिता बभूव । चकम्पे च रोमाञ्चकन्चुकिता तन्वी सनुलता । चित्रन्यस्तदयितमिव स्वयमपि तस्तम्भ । हिया च वदन. मनमत् । मदनतापेन वैवर्ण्यमप्यतिशयितमभूत् । एवं सात्त्विकभावभावितां प्रियसहचरी वसुभूतिकुमारीमातुरी समीक्ष्य समाश्वासयचित्रलेखा 'अयि सखि ! समाश्वसिहि त्यजोस्कलिकां मा विषीद सिद्धं तवेहितं फलितस्ते मनोरथः सुलभस्ते दयितः अवगतमस्य विषयवंशनामादिकम् । सेवनसन्तुष्टेन रस्नेशेन सहशदयितदानेन सन्तोषितासि । उतिष्ठ व्रज, प्रयामो निजनिकेतनम् । एवमेकदा लिखरूपी रत्नेश्वरो निशि नागराजकुमारस्य रत्नचूडस्य निजमकस्य स्वप्नदशाबामावियावदत्-'मागराज ! युवराज ! भवान् सुकुमारी यां कुमारी वियस्यपहत्य पातालमापतन्तं त्सरन्त(२) (१) कपटेन मन्यन्तम्।
रत्नावली। १५ क्रूरभुजं दनुजमाहवे मिहस्य मोचयिष्यति, सा ते लावण्येनानुपमा प्रिय. तमा भविष्यतीति । श्रुत्वैतवतिहर्षवर्षकररचनं वचनं प्रबुध्य विस्मयविक- सितनयनः 'आश्चर्यमकृतातिपरिचर्ये मयि क्षिप्रतोयो रत्नेशो वरदीभ्या- ऽनुपमा मियतमा निर्दिवेश । कदा च सा प्रसादलभ्या हरिणकिशोराक्षी मे प्रत्यक्षीमविता । सा हि किन्देशीया किंवंशीया किंरूपा किमभिधे'. स्यनस्पकल्पनाकबालितहदय उर्वरितशर्वरी जागरित एवानयत् । उप. स्युत्थाय समुपजातफलोदय: समौत्सुक्यचचलो मनसिकृतमालो रत्नेश- वरं स्मरन् 'रत्नाअल्यष्टकेन कनककमलाष्टकेन च प्रत्यहं द्रष्टापि अर्चयि- प्यामीति तदैव नियम समकल्पयत् । ततश्चानुदिवस परमेशस्य रत्ने- शस्य कल्पस्या (१) नमस्यामाचरन मनोरथसहसपर्याकुलः संवेशोदित- दयितालब्धि प्रतीक्षमाण एवासीत् । अथात्र चित्रपटीपदर्शनेन प्रियतम- लाभं सुलभमन्या गन्धर्वकन्या गगनाध्वना गेहमगमन् । दयितविरहवेदना. दूयमाना रत्नावली तामेव चित्रपर्टी निमालयन्ती विस्मृतामपि सकल- दिनचर्या पर्याकुलतया वयस्यार्थनाभिः कथमप्याचरन्ती दिनमनैषीत् । तदनु गतासु निजनिलयमालीषु पुनरुकोत्कलिकाविकलहृदया परिवर्त(२). विवर्तनेन सुदूरदीर्वामिव रजनीमनीनयत् । उपसि सत्य वयस्याभि. मौनवती त्वरितमानन्दवनमेत्य विमलमन्दाकिनीसलिलमवप्लुत्य जगदीशं रलेशं समय॑ तास्तदीयामिरेव कथाभिरुत्कण्ठाविनोदं कुर्वतीर्मन्दं मन्दं गगनायनेन निलयं व्रजन्तीरतर्कितोपनतेन बलिसमवासिना दनुस्नुना सुवा. हुना दैववशाचतोऽपि अर्गलपीवराभ्यां तालतरुदण्डकर्कशाभ्या भुजाभ्या करालाननेन पञ्चाननेन प्रान्तरे कान्तारे कुरणीरिव प्रगुब स्वोदवसित. मब्राजि । तदीयभुजदण्डनिगडितास्तास्तं क्रूरदंष्ट्रमप्रतिवक्त्रं शोणितशोण. नेत्रं लम्बघोणं महापाणं (३) विस्तृताधरं जुगुप्साकरं दीर्घकर्ण कालवणे कोरप्रकेशं पर्वतनीकाशं कीनाशदूतमिवारि परिषसनाथकरं भयचरं निरीक्ष्य साध्वसध्वस्तास्त्रस्ताङ्गयष्टयो वेपथुममयो न्यलपन्-'हा तात! हा (१) विधियुक्ताम् । (२) अङ्गलोठनम् । (३) बलवन्तम् ।
रत्नावली। जननि !त्रायस्वाहा नियते ! किमस्मास्वारब्धमनाथासु।हा! मन्दमाग्या. भिरस्माभिः किमाचरितम् । हा! कचित्सुकृतेतरवार्तापि न व्याहृता । हा! विहाय रस्नेशार्चनं पित्रोरादिष्टकृत्यं शिशुखेलनं च न किञ्चिदपि जानीमः । हा! रसातलं नीताना नान हीनानां भयेन दीनानां कस्खाता नो भविता । हे रवेश! हे दयालो! हे वरद ! हे आशुतोष ! पाहि शरणागता बालाः । इस्थं विलपन्तीनां गन्धर्वकुमारीणामार्तरवमशृणोग्निजसप्रगतो भुजग- राजजो रवचूडः । अबदच 'केन कर्मपाशनाशनस्य मदीशस्य रखेशस्य नाम निगीर्यते । अथ वा रखेशोदितदनुतनुजाहृतकन्यकातरव एवैष' इति । पुनरपि कन्यकाननेरित 'रवेश ! पाहि पाही'ति कातरं स्वरं निशम्यतित्राण. तत्परो जन्यजित्वरः सत्वरमुत्थाय शरशरासने समादाय निजागारतो निरगा- दसवपरपीडो रखचूडः । दृष्ट्वा च तं दुरदृष्टं मांसपुष्टं वपा(१)पानतुष्टं दुष्टचेष्टं मानवादं दानवाघमं सुबाहुं दुन्दुभिनिर्घोषेण रोषेण भर्ल्सयन् बभाषे-'रे दानवापसद ! दुष्ट ! शिष्टकन्यापहारक ! मल्लोचनगोचरीभ्य काय यास्यसि । व्यथितरक्षणदक्षिणस्य मम निशिताशुगहतासुरधुनैव शमनसदने गमनं कुरु' इति । स च सुभगसुकुमारं फणिकुमारं विलोक्य स्फुरितायत. दशनवसनः(२) प्रावदत्-रे बाल ! किमजानन्निजाधिकृति माहक्षेण बल- क्षपितवीरलक्षण हर्यक्षेणेव सह कुरमः सङ्ग्राममभिलषसि । याहि निजा- ऽऽलयं, मा पातय जनकजम्पती शोकसागर'मिति । श्रुत्वैतद्रनचूहः पुन- रवोचत्-रे देतेय ! जाम ! किमिति शारदमुदिररसितेनेव मुधाजस्पि. तेन । दर्शयाशु बलक्षपितवीरलक्षं निजबलम् । नाहमण्वपि विभेमि । स्वां तृणाय मन्ये । किञ्च रलेशनाम गृणत्सु भयादितेषु त्वाम्भ्यो दुरात्मभ्यो न कल्पान्तविपद्यपि भयमस्तीति । तदनु निजमुखनिहितनयनं दरभरकम्पिततर्नु कन्यकाजनं 'मा भैषिष्टे'. त्याश्वास्य स्वनिषक(३)निष्काशितं निशितविशिखं कर्णान्ताकृष्टकार्मुकः प्राक्षिपत् । ततः स दितिजाणक (४)एनं माणवकं मन्यमानः कन्यका- (१) वसा । (२) वीर्णोष्ठः। (३) तूणीरः। (४) निन्धः । - जनमारोप्याविवरणि धरणीवह(१)मुत्पाव्य प्रेरयाशकार । रनचूगेपि समरपेशलश्चपलं तं चतुर्भिरिषुमिश्चतुष्खण्डमखण्डयत् । स पीनवाहुः सुबाहुरपि रूपवानिव कोपः पादताडितगूढपाद (२) इक क्षुब्धो दंष्ट्रा- बष्टलम्बोष्ठो भुजगराजकुमारजिषांसया कालदण्डनिममुत्पादितथा परिचं(३) प्राहिणोत् । रत्नेशस्य तदीयहृदयवर्तितया तत्परिषं तस्य गात्रा- न्तिकमालात(४)दण्डवदेवागच्छत् । कृतरिपुपीडो रखचूडोऽपि सजवेन हस्तलाघवेन तदन्तरैव शरैस्तदायुषा शेषेण सह विचिच्छेद । यावत्स दुर्वृत्तो. ज्यत् प्रतिकरोति तावत्ससम्भ्रमं समरचतुरो रनचूडः कालकरुपेन कल्पान्त. कारिणा महेषुणा हदि तमन्यधीत् । स विसृष्टो बत्सविष्टो (५) बाणः प्राणांस्तस्य दुष्टस्यान्विष्य विचित्य निर्गस्य च देहाद् दूरमयादवितुमिव दिगगनापुरतस्तदीयं दौरात्म्यम् । तदेहो वात्याहतमहामहीरुह व महीतले न्यपतत् । यो पनयसम्पादितेन वस्तुजातेन समीहते सुखभोगाय, तस्य निकृतस्य(६) सहामुभिर्वस्तुजातं यथागतं बजत्येव । सुखं तुरतोऽपास्तम्। अथापनीतकन्यकापीडो रत्नचूडस्तं दानवमेवं निपात्य ताः प्रत्य. ब्रवीत्-‘अयि सुन्दर्यः ! कुमार्यः सुदतीभिर्मवतीमिर्जन्मना किममलं कुलं समलङ्कृतम् । का यूयं, कुतो वाऽयं दुरारवो दानवो युष्मानकरमा. दपाहरत् । क वा सर्वेश्वरं प्रभापिङ्गं रत्नेश्वरमहालिज नयनाऽयनानीत(७). मभवत् । यत्रामवर्गोंदिरणेन यूयं निरस्तसमस्तविकटसकटा अमृत । एतदुत्तरवितरणेनानुगृह्यतामयं जनः'। इत्याकर्ण्य तदीयां प्रणयनिपुणां वाणी सपरस्परविलोकनं शनैरजल्पन्-'कोऽयं प्रागीक्षितवत् सटे समु. पागतोऽकार्यसुहृत् । अमुना बलिना दयालुना निजजीवितमर्जुनीकृत्य( दनुवनिपातनेन वयमाजीविताः । अस्यावलोकनेन प्रकृतिचपलोऽपि विषयि. चयो(९)ऽचलतामेति । पश्य, रम्यान्तरमपि निरूप्यास्मानोऽन्यत्र नयने (१) वृक्षम्। (२) सर्पः । (३) आयुधविशेषम् । (४) उल्मकम् । (५) वक्षस्थलप्रविष्टः। (६)शठस्य । (७) नेत्रगोचरीकृतम्। (८) तुणीकृत्य। (९) इन्द्रियगणा।
रत्नावली। चलतः । व्याहृतपानमते अवणे अपि रमणीयश्रवणीयान्तरमप्युपेक्षते । हृदयमणिमोषकस्यास्य निभालनेन खञ्जतामापयेते ब्रजितु चरणे' | इति अन्योन्यमुपांशु लपन्त्यो दृष्टपूर्वमपि चित्रपटे दारुणदानवदर्शनेन भयभर. विकलितनयनतया तं निजजीवितदातारमातुरा अपरिचिन्वत्यः प्रत्यब्रुवन्- 'अन जैवातृक ! (१)स्निग्धमुग्धेन यत्पृष्टा भवता तद्वदामः, श्रवणदानेनानुग्रा. ह्योऽयं कुमारीजनः । हे प्राणप्रद ! इयं गन्धर्वाधिपतेर्वसुभूतेरतिप्रिया तनया गुणरत्नालयो रनावलीनाम । वयं चैतस्या वयस्या बागबजा इवाऽसवः सततसहसकलकृत्याः स्मः । आशैशवादेषा काशीमागत्य महेशस्य रने. शस्य मित्रीकृतैकपिछ(२) ज्योतिर्लिङ्गं प्रत्यहमहयितुं तातानुज्ञाता समा- याति । अहो ! किमद्य घटितम् । आनम्य रत्नेशानं हर्षनिर्मरिताश्चलिता अपि दरमरनिर्भरिता अभूम । तत्रापि तत्र भवता भवता आजीविता' इति । आकण्यैतत् कुतुकलुलितनयनो नयनकर्णकुमारः(३) पुनरपृच्छत्- 'अयि सीमन्तिन्यः ! यदि रहस्यमवक्तव्यं न चेद्धर्षकारणं तर्खनुभवतु श्रवणसुखमयमनुप्राथो जनः' । श्रुत्वैतदन्योन्यक्षिप्तचक्षुषोऽब्रुवन्-'को दोषः कथने सरलहृदये, श्रूयताम् । आयुष्मन् ! परश्वोऽस्यै नः प्रियाल्यै रत्नावस्यै सङ्गीतसन्तुष्टेन रत्नेशेन वरो व्यतारि-'यस्तव संवेशे शैशव मशेषयिष्यति स त्वन्नामपदाङ्कितनामा भर्ता ते भवितेति । तेन भाविना निजपतिना स्वप्ने सनत्य प्रबुध्य च तद्विश्लेषशोचिष्केशशोषिताशेषदशा. माप्तवतीवाऽभवत् । सोऽप्यस्माभिर्दयितः कलापेशलतया चारुचित्रपटे प्रद- र्शितः । अज्ञातनामकुलदेशमपि तं चित्रगतं विलोक्यैवैषाऽऽयुःशेषा पुन- जिंजीव । तदेव प्रतिच्छन्दक(४)मस्या जीवितधारणेऽधुनावधि सुधायि. तम् । तदनु चाप रत्नेशमानम्य निजालयं यातुं चलिताश्चतस्रोऽपि गगना. यनेऽकस्मादागतेन दुर्दानवेन प्रसह्य प्रगृह्याधोभुवनगमनमकारि । इतः परं भवानेव तं दनुसुतापसदं जानातीत्येव निजं वृत्तम् । हेऽनुकम्पाकर ! निजोदन्तनिवेदनेन भवानप्यस्माननुगृहातु । दानवदर्शनात्मभृति सौदा. (१) आयुग्मन् । (२)मित्रीकृतकुबेरम्। (३) नागकुमारः। (४) चित्रपदः ।
रत्नावली। मिन्युपहतनेत्रप्रभा इव भयत्रस्ता अधैर्यध्वस्ताः क्षुब्धहृदया वेपथुमया(१) न विषा, कवयं का वयं को भवान् किं भविता किमभूदिति । कर्णाभ्यर्णलोचनानां कुमारीणामाकर्येहगुदन्तजातं स्वप्नशंसित. प्रियतमालाभं प्रत्यभिज्ञाय तदीयरूपलावण्याकृष्टहृदयः सुखसुधाहद इव निमग्नस्तन्मुखासक्तदृष्टिः पञ्चशरशरव्यीभूय (२) रोमाञ्चितः स्तम्भितः कम्पितः श्वसितो विकलित उत्कलितोऽपि(३) नागराजाजो बहुश्रुततया विवेकितया सुकृतितया नयानुगततया गुरूपदिष्टतया च दुर्निवार्यकन्दर्प. वेगं भीष्म इव सुरधुनिरोध निरुध्याभ्यदधात्-'हे गन्धर्वकुमार्यः ! योऽह- मस्मि सोऽहमस्मि । प्रथमं यदि रत्नेशं द्रष्टुकामा भवत्यस्तहि समागमत सह मया । दर्शयामि वो रोशम्' इत्यभिधाय सप्रश्रयं समनयत् कल्लो. लितकालिन्दीप्रवाहसममरकतसोपानां विविधरागमणिचयचमत्कृतरचना शान्तिसुखागारं वर्तुलाकारां मध्यगतस्तम्भशालामनोहरां हस्तगतकनक- धारायन्त्रेभ्यः सलिलासारं सावयन्तीमिर्ललितपुत्तलिकाभिर्विराजितगर्भ- भित्तिका निर्मलसुरभिसलिलपूर्णा कलहंससारसकोककुररादिकवि(४)विरुत- च्छमना सलिललीलायै इति(५)मिव कुर्वती कमलकुवलयकरहारनलिन. लुब्धमधुपगुञ्जितेन समागतस्य स्वागतमिवाचरन्ती मारुतोद्भूतपरागपकिलां लीलावापीम् । जगादच 'अस्या निमज्जत, प्रत्यक्षीभविष्यति व्यक्षेशो रत्नेश' इति । ततस्तस्यां ताश्चतस्रोऽपि समास्यवसनभूषणा भुजगराजतनुजा- देशेन तद्गतकमलमिलितलपना (६) न्यमज्जन् । जलादुन्मज्ज्यैव रत्नेशालयं ददृशुः । गतासु तासु रत्नचूडो धैर्यवानप्यधैर्यकालतस्तद्विश्लेषपरिक्लेशमनु. भवन् योगीव तदनुचिन्तनपरश्चन्द्र इवार्जुनीभूतः(७) कशीभूतश्च मत्त इव विस्मृतनिजकृत्यः शून्यदृष्टिश्च मूक इवाजल्पन् प्रतिमेव स्थगितमूर्तिरासीत् । विलोकितश्चैवं प्रियसुहृदाऽभिहितश्च-'वयस्य ! किमद्य ते सद्य उद्यतं वैलक्ष्यमनुलक्ष्यते प्रकृतिगतम् । यदि नाऽकथ्यं कथ्यता तर्हि, हृदयमन्यथा (१) कम्पप्रचुराः। (२) लक्ष्यीभूय। (३) उत्कण्ठितोऽपि । (४) जलपक्षिणः। (५) माहानम्। (६) मुखम् । (७) श्वेतीभूतः।
२० रत्नावली। ns दुनोति मे । श्रुत्वैतहीर्षमुष्णं च निश्वस्य फणिराजयुवराजः शनैरभाषस- 'सखे ! किमपि भवति(२) नावाच्यं भवति, विदितावश्यलभ्योऽपि वश्कता. मुपयातोऽस्म्यनवसरविस्फारितशरासनस्य विषमशरस्ये त्यभिधाय संवेशादि दयितावलोकनान्तमुदन्तजातं निजगाद । उपलभ्य(२)तदाश्वासयत्सवयाः 'निश्चितसिद्धौ धैर्यमेवावष्टभ्य गृहनीया प्रकृतिविकृतिमतिमता विलम्बेऽपि । किमित्यनुभवसि वैकल्य'मिति । आकण्यैतत्पुनरुवाच रनचूड:-'सखे ! कि अवीमि, दर्शनसमयात् सानुपमा प्रियतमा मे मनसि बिम्बितेव लीनेव खचितेव स्यूतेव कीलितेव सर्वदा विराजते । किं करोमि, अननुभूतपूर्वो देहवाहः प्रमथ्ननिय प्रसरति । तिरयति विषयग्राहकता च विषयिणाम् । अन्तरात्मा च निमज्जत्यन्धे तमसि । अशरणं मे हृदयं प्रमति मारुतापनीत. पोत इव चिन्तोदन्वति । कतुं न शक्नोमि किमपि लोकचर्या मिति । निश- म्यैवं विहस्य पुनरूचे वयस्य:-'सखे ! रखचूड ! सतनुदानवनिपातनस्य तवाऽतनुमनसिजनिपातने न सन्ति किमु विवेकहेतयः(३) । अपि च रत्नेश. प्रसादात् सत्वरमेव मनोरथसिद्धिर्भविता । समाश्वसिहि अथावलोक्य ता रत्नेशस्थलं स्थगिता इव विस्मिता इव चकिता इव परस्परमालपन्-'मयि ! स्वप्नोऽयं किमु तथ्यं वा। किं नु वयमेव प्रान्ता, किमु ता एव वयं न वा ? अथ वा रत्नेशस्य लीलेयम् । किमेतत् ! ऐन्द्रजालिकखेलवन्नावबुध्यते । एषा काश्येव प्रतिभाति । पश्य । एषोदग्वाहिनी सुरतटिनी । एतत् पश्चनदतीर्थम् । कालभैरवः । एष वृद्धकालः कालोदप्रहिश्च । एष कृत्तिवासाः । एतत् हंसतीर्थम् । एषा मन्दाकिनी पुष्करिणी' इत्यादि बहुविधानि प्रत्यभिज्ञाचिन्हानि दर्शयन्त्यो यावद्रलेशं प्रणेमुः, तावहिव्यगीतप्रसूति- सुभूतियहच्छयागतस्य दिहक्षया प्रमतो जगतो विषयेषु(४) निगमविशा. रदस्य मुनिनारदस्य मुखाद् 'रलेशदर्शनाद्विनिवृत्ता वियदयनगता दनुजनु. हता बलिसअनीता वित्रस्ता विलोकिता नागराजयुवराजेन तेनैव निहता (१) भवद्विषये। (२) क्षुत्वा । (३) शमाणि। (४) जनपदेषु ।
२१ 50 रनावरी। हनुसुखादुन्मोचिताऽऽश्वासिता पातालादधिकाशि वर्तिन्या शहरबाप्या रत्नेशालयं प्रापिता सवयस्या ते प्रिया तनयेति वृत्तान्तं नितान्तं दु:ख. करं वैयम्म्य(१)करमुपलभ्य समभ्यगमत्वरया वाराणसीम् । आगत्य च निरूप्य सवयस्यां कृतरनेशनमस्यां प्रसन्नास्यपाजां निजात्मजा पुनजीविता. मिव बसुमतिः कृतारपालिका(२)महमारोप्य मूर्युपत्राय सादरमपृच्छत् सकलं प्रवृत्तिजातम् । अथ साऽन्तरेण (३) स्वप्नविषयं दनुजापहरणबाती सम्पूर्णामवर्णयत् । तदनु रत्नावलीनितज्ञया विज्ञया शशिलेखया संवेश विषयोऽप्यशेषः समभाणि । देवगायकस्तन्नायकश्च वसुभूतिः सुकृती निशम्य नितरामन्तस्तुतोष । अस्तौषीच महिमानमतिमानं रत्नेशस्य । अथ तरुतलनिहितच्छायैः खरकरसमुदायाप्तभुवनमण्डले गगन- मणिमण्डले पुष्कर(४)मध्यवर्तिनि मध्याहस्नाननिमितोस्थितयमिजने काले रत्नचूडोऽपि तेनैव दीर्घिकामार्गेण नागलोकादविमुक्तमागत्य सानन्द मन्दाकिनीसरसि स्वात्वा मध्यन्दिनकृत्य निर्वयै सुन्दरं रत्नेशमन्दिरं प्रविश्य विविधसम्भारेण रत्नानल्यष्टकेन कनककमलाष्टकेन च देवदेवं रलेश्वरं समपूजयत् । तदनु प्रणिपत्य प्रदक्षिणं परिक्रम्य रम्यान्माणमण्डित मण्डपाचावहिरानजत्, तावत् ‘सोऽयं सोऽयं युवेति कुतूहलेनाङ्गुल्यप्रेण सधीचीमि:(५) पादर्शि । गन्धर्वराजो नागराजकुमार निर्वर्ण्य तदीयवयो. रूपगुणलावण्यविस्मितहृदयो दृष्टतनूरुहो मनस्यवादीत् -'अहो ! धन्यो. ऽस्मि रत्नेशानुगृहीतोऽस्मि, वरदप्रसादेन सहशबरलाभेन कन्यापीयं धन्ये ति। तदनु सुन्दरं नागराजकुमारं सादरमाइय पृष्ट्वा च नामगोत्रं गण. यित्वा च बलाबलं (६) तदानीमेव सर्वेश्वरस्य रलेश्वरस्य पुरतस्तस्मा अवाद् दुहितरनम् । रत्नचूडोऽपि रत्नेशसाक्षिकं वाचाऽर्पितममिलषितं सततचिन्तितमयनसुलभं भार्यारत्नं स्वीकृत्य रत्नेश्वरं श्वशुरं च प्रणम्य तेनैव वापीवर्मना पातालं प्राविशत् । गत्वा च निजभवनं जनकाय शकचूडाय समस्तवृत्तान्तजातं सखिमुखावज्ञापयत् । सोऽध्याकर्ण्य पर (१)व्यप्रता। (२) आलिजनम् । (३) विना (४) आका (५) समीभिः। (३) परितम्। .
१२ रत्नावली। मुदमवाप । अथ गन्धर्वाधिपतिर्वसुभूतिः सोपस्कार (१) कृतसम्भारं सब्रह्म वर्चसं(२)पुरोधसं मणिगणालोकं. नागलोकं प्राहिणोत् । तत्सहितः पुरो. हितस्तत्र गत्वा सवर्षीयांसं ससम्बन्धिनं ससुहृज्जनं जामातारं नागराज. कुमारं रत्नचूहं महतोपयमनयात्रिकोपकरणेन(३) गन्धर्वलोकं समानयत् । अथ गन्धर्वनेता वसुभूतिः सुलमेऽनेहसि कृतकौतुकमङ्गलेन वनिता- गीतमनोहरेण मुनिगणकृतस्वस्तिवाचनेन बन्दिरचितजयादिशब्देन प्रोद्य. ब्रह्मघोषेण दिव्येन वैवाहिकेन विधिना विविधमाल्यपल्लवकलशवादित्रादि. भूषिते रमणीयमण्डपे वरं मधुपर्केणाऽहयित्वा तनयापाणिमग्राहयत् । अदाच्च बहुविधानि बहुमूल्यानि यत्नलभ्यानि रत्नजातानि कनकामर- णानि वसनानि वाहनानि चान्यान्युपायनानि जामाने तद्नुरुभ्यश्च सम्ब. धिभ्यश्च सुहृदयश्च । तदनु तास्तिस्रोऽपि वयस्यास्तस्याः स्वस्वपितरं नितरां संप्रार्थ्य तमेव भुजगराजाङ्गजं वत्रुः । वसुभूतिसमतास्तेऽपि गन्धर्वा- स्तज्जनकाः कनकादिभिरुपायनैः सह निजनिजतनया यथाविधि प्रददुः । रत्नचूडोऽपि भुवनातीतसुन्दरीः कुमारीश्चतस्र उपयम्य चतसृभिः श्रुतिभि- रिख प्रणवः परमानन्दमन्वभवत् । ततश्विराभिलषितं त्रपासुभगं प्रत्या- ख्यातनीवी विसंसनं स्वस्तिकीकृतहस्तस्थगितस्तनकुड्मलम् आलिङ्गन. जनितसुखातिरेकं विस्मृतसकलविषयान्तरं प्रथमसुरतसुखमनुभूयैकरात्र. मिव गणरात्र(४)मुषित्वा परितुष्टेभ्यः श्वशुरेभ्यो विसर्जितो निजालय. माजगाम । आगत्य च चतसृभिर्भार्यामिः सह पित्रोश्चरणावभिवन्ध परम. सन्तुष्टेन पित्रा दत्चमधिराज्यसिंहासनं सामन्त(५)सहस्रसेवितमारुरोह । मम पित्रोश्चरणावनुचरन् ताभिर्नवोढाभिः सह कदाचित्काशीमागत्य कतिचित्कालवासेन विश्वेश्वररत्नेश्वरादिसपर्याचर्यामाचरन् कदाचिद् गन्धर्वलोके विविधगीतवाद्यनाट्यकाव्यकलाविलासं कुर्वन् कदाचिन्नागलोके प्राज्ये निजाधिराज्यं पश्यन् कदाचिदप्रतिहतगतितया जगत्रयगतदिव्य- दिव्यस्थलेषु सुनिर्भरं विहरंश्विरतरं परमसुखस्य परां कोटिमनुबभूवेति । (१) ससम्मानम् । (२) सतेजसम् । (३) विवाहयानसामग्या। (1) निशा बायः। (५) समन्ता ब्रमा राजानः।
रत्नावली। २३ वन्दे तं विश्वनाथं, गगनसुरसरितीरदेशेऽविमुक्ते ऽमुष्मै(१) प्रोद्दिश्य दातुं तुहिनशिखरिणानीय रत्नौधराशौ । क्षिप्ते, तत्पुण्यभारात्परिणतफलिनो लिङ्गरूपेण तुष्टः प्रादुर्भूतः स्वधामोज्ज्वलितसकलदिग् यो हि रत्नेशनाम्ना ॥१६॥ पायाद् रत्नेशलिङ्गं, यदतुलमहिमा वर्ण्यते नापि वेदैः सर्वो ब्रह्मादिदेवैर्मुनिभिरपि कथं नारदायैः स वयः । प्रोक्तः किश्चित्तथाप्युज्ज्वलरसकथया शम्भुनैव प्रियायै बद्धोऽनूध प्रयत्नात्सरस इति मया गद्यबन्धेन पाष्टर्यात् ॥१७॥ स हि रत्नेश्वरमहिमा, कीर्तनतस्तत्प्रसादेन । विद्याधनसुतकान्ताप्रज्ञारत्नानि लभ्यन्ते ॥ १८ ॥ इयं रस्नावली सम्यक्सुवर्णकुसुमाञ्जलिः । धर्माधिकारिकृष्णेन रत्नेशचरणेऽर्पिता ॥ १९ ॥ भासन्ते पक्कचूतामलगलितरसोद्गारवाराः किमेते किं मा(२)ऽऽत्तोपेन्द्रनाभीजलजननगलवाढमाध्वीकधाराः । किं वा दुग्धाम्बुनिध्युद्भवकनकघटाऽच्छोच्छलत्सौधधाराः किंवा धर्माधिकार्यन्वयमुकुटमणेः कृष्णपन्तस्य वाचः।२०॥ ॥ इति श्रीधर्माधिकारिकृष्णपन्तपण्डितविरचिता रत्नावलीसमाख्या कथा सम्पूर्णतामगात् ॥ (१)विश्वेश्वराय। (२) लक्ष्मीः।
'.
प्रशंसापत्रम् ।
इमा रत्नावलीकथां सम्मतीकृत्य साहित्योतकर्णधारोहोण्टाचार्य
आर्याद्वयमलिखत्-
रत्नावली कथेयं सम्बद्धा रसचूडेन ।
रमेश्वरप्रसादात्सरसा रचिता हि कृष्णपन्तेन ॥१॥
यो ऐना गुणसहितां सालङ्कारां विधूतदोषां च ।
निर्मस्सरं हि पश्यति सोऽप्येवं भवति तत्प्रसादेन ॥ २॥
रत्नेश्वरमाहात्म्यम् । । अगस्त्य उवाच। रस्नेश्वरसमुत्पत्ति कथयस्व षडानन ! । रत्नभूत महालिङ्गं यत्कावया परिवण्यते । कोऽस्य लिङ्गरस्य महिमा केनैतच प्रतिष्ठितम् । सर्व विस्तरतो हि मोरीयनन्दन । स्कन्द उवाच । रत्नेचरस्य माहात्म्य कथयिष्यामि ते मुने!! यथा चतस्य लिङ्कास्यप्रादुर्भावोमवकि यल्य लिङ्गस्य नामापि श्रुतं जन्मत्रयार्जितम् । वृजिनं नाशयेतस्य प्रादुर्भाव अवे मुने ! ॥ शैलराजेन रत्नानि यानि पुश्रीकृतान्यहो ! । उत्तरे कालराजस्य तानि तल्क गिरेवृषात् ।। सर्वरत्नमय लिङ्ग जातं तु सुकृतात्मनः । शक्रवाफ्समच्छायं सर्वरनयुतिप्रमः ॥ तल्लिङ्गदर्शनादेव ज्ञानरत्नमवाप्यते । गलेश्वर समालोक्य शिवौ त समागमे। यत्र रत्नमय लिङ्गमाविर्भूतं स्वयं मुने! । यस्य स्फुरत्प्रमाजालस्सतमम्बरमाळम् ।। तच हष्ट्वा शुभ लिङ्गं सर्वरत्नसमुद्भवम् । भवान्यष्टपूर्व हि परिपप्रच्छ भस्म । देवदेव ! जगन्नाथ! सईभक्ताभयप्रद ! । कुतस्त्यमेतल्लिङ्ग हि समपातालमूलवत् । ज्वालाजटिलिताकाशं प्रभाभासितदिङ्मुखमा किमाख्यं किस्वरूपं चकिप्रभाव मवान्तक! यस्य संवीक्षणादेव मनोमेऽतीव हृष्टवत् । इहैव रमते माय ! कथयत्तत् प्रसादतः । देवदेव उवाच । शृण्वपर्ण समाख्यामि यत्त्वयाऽपृच्छि पाति! स्वरूपमेतल्लिङ्गस्य सर्वतेजोनिधे परम् ॥ तव पित्रा हिमवता गिरिराजेन भामिनि!। त्वामुद्दिश्य महारत्नसम्भारोऽत्राप्यनायि-हि अत्र तानि च रत्नानि राशीकृत्य हिमाद्रिणा । सुकृतोपार्जितान्येव यमौ स्वसदन पुमः ॥ तवार्थ वा ममार्थ वा श्रद्धया यस्तमयते । काश्यांतस्य परीपाको भवेदीहम्विधोऽनः॥ लिङ्ग रत्नेश्वराय वै मत्स्वरूपं हि केवलम् ।अस्य प्रभावो हि महान्चाराणस्यामुमे ! ध्रुवम् । सर्वेषामिह लिङ्गानां रत्नभूतमिदं परम् । अतो रत्नेश्वरं नाम पर निर्वाणरत्नम्। अनेनैव सुवर्णन पित्रा राशीकृतेन च । प्रासादमल्य लिङ्गस्य विधापय महेश्वरि ॥ लिङ्गप्रासादकरणात् खण्दुस्फुटितसंस्कृतेः। लिङ्गस्थापनज पुण्यं हेलयवेह लभ्यते । तथेति भगवत्योक्त्वा गणाः प्रासादनिर्मितौ। सोमनन्दिप्रभृतयोऽसंख्या व्यापारितामुने । गणैश्च काञ्चनमयो नानाकौतुकचित्रितः । निर्ममे याममात्रेम प्रासादो मेस्त्रवत् ॥ देवी प्रहृष्टवदना दृष्ट्वा प्रासादनिमितिम् । गणेभ्यो व्यतस्तू भूरिसम्मा पारितोषिकम् ॥ पुनश्च देवी पप्रच्छ प्रणिपातपुरःसरम् । महिमानं महादेवं लिङ्गाल्याल्य महामुने ! ॥ देवदेव उवाच । लिङ्ग स्वनादिससिद्धमेत वि! शुभप्रदम् । आविर्भूतमिदानी च स्वपितुः पुण्यगौरवात् ॥ गुह्यानां परमं गुरुं क्षेत्रेऽस्मिश्चिन्तितप्रदम् । कलौ कलुपबुद्धीनां गोपनीय प्रयत्नता थान रहे ग न कैश्चिज्ज्ञायते परैः। अविमुके तथा लिङ्ग रत्नभूतं गृहे मम॥ यानि ब्रह्माण्डमध्येऽत्र सन्ति लिङ्गानिपार्वति । तैरचितानि सर्वाणि रत्नेशो यः समातिर प्रमादेनापि यैर्गौरि ! लिङ्ग रत्नेशमर्चितम् ! । ते भवन्त्येव नियतं सप्तद्वीपेश्वरा नृपाः । त्रैलोक्ये पानि वस्तुनि रत्नभूतानि तानि तु । रत्नेश्वरं समभ्यर्य समाप्नोति मान पूजयिष्यन्ति ये लिस्नेश कामवर्जिताते सर्वे मत्समा भूत्वा प्रान्ते द्रक्ष्यन्ति मामिला रुद्वा कोटिजाप्येम यस्फल परिकीर्तितम् । तत्फलं लभ्यते देवि ! रत्नेशस्य समर्थनाता लिङ्ग चानाविससिद्ध यद् वृत्त त अवीमि ते । इतिहास महाश्वयं सर्वपापनिकन्तनम् ॥ पुरेह नर्तकी काविदासीवाव्यार्थकोविदा । सैकदा फाल्गुने मासि शिवराज्यां कलावती। ननत जामरं प्राप्य जगौ गीत च पेशलम् । स्वयं ववादयामास नानावायानि वायविन। - - २ रत्नेश्वरमाहात्म्यम् । तेन तौर्यत्रिकेणापि प्रोणयित्वाथ सा मटी । रत्नेश्वरं महालिङ्ग देशमिष्ट जगाम ह॥ कालधर्मवशं याता तत्र सा वरनर्तकी । सुता गन्धर्वराजस्य वसुभूतेषभूव ह ॥ सगीतस्य सवाधस्य तस्य लास्यस्य पुण्यतः। रत्नेशा कृतस्येह जागरे शिवरात्रिजे॥ रम्या रत्नावली नाम रूपलावण्यशालिनी । कलाकलापकुशला मधुरालापवादिनी ॥ पितुरानन्दकृन्नित्यं वसुभृतेघंटोद्भव !। सर्वगान्धर्वकुशला गुणरत्नमहाखनिः ॥ मुने! सखीत्रयं तस्याश्चारुचातुर्यभाजनम् । शशिलेखानङ्गालेखाचित्रलेखेति नामतः ॥ तिसृभिस्ताभिरेकत्र वाग्देवी परिशीलिता।ताभ्यः सर्वाः कलाः प्रादात्परिप्रीता सरस्वती॥ प्राप्य रस्नावली गौरिससा जन्मान्तरवासनाम् । रत्नेश्वरस्य लिङ्गल्य जग्राह नियमं शुभम्। रत्नभूतस्य लिङ्गस्यकाश्यां रत्नेश्वरस्य वै।नित्यं सन्दर्शन प्राप्य वक्ष्याम्यति वचो मुखात्॥ इत्थं नियमवत्यासीत्सा गन्धर्वसुतोत्तमा।ताभिः सखीभिः सहिता नित्यं लिङ्ग च पश्यति॥ एकदाराध्य रत्नेशं ममेतल्लिङ्गमुत्तमम् । समानचं च सा बाला रम्यया गीतमालया ॥॥ सण्या प्रदक्षिणीकर्तु लिङ्गतिस्रोऽन्युमे! गताः। तस्या गोतेन तुष्टोऽहं लिङ्गस्थो वरदोऽभवम्। यस्त्वया रंस्यते रात्रावय गन्धर्वकन्यके! । तव नामसमानाख्यः स ते भर्ता भविष्यति ॥ इति लिङ्गाम्बुधेर्जातो परिपोय वासुधाम् । बभूवानन्दसन्दोहमन्थरातीव होमयी ॥ गताथ व्योममागंण सखीभिः स्वपितुर्ग्रहम् । कययन्ती निजोदन्तं तमालोनां पुरो मुदा ॥ ताभिर्दिष्ट्येति दिष्टयेति सखीभिः परिनन्दिता।अद्य ते वाञ्छितं भावि रत्नेशस्य समचनात् ॥ यद्यायाति स ते रात्रावद्य कौमारहारकः । चोरो बाहुलतापाशैः पाशितव्योऽतियत्नतः ।। गोवरीक्रियतेऽस्माभिर्यथा स सुकृतैकभूः । प्रातरेव तव प्रेयान् रत्नेशादिष्ट इष्टकृत् ॥ यातास्वस्मासु दृष्टासु भवती पुण्यगौरवात् । अहो ! रत्नेश्वरं लिङ्ग प्रत्यक्षीकृतवत्यसि ।। महो.! भाग्योदयो नृणामहो ! पुण्यमहोच्छ्रयाए कस्यैव भवेसिद्धिर्यदेकत्रापि तिष्ठताम्॥ सत्यं वदन्ति नासत्यं दैवप्राधान्यवादिनः । देवमेव फलेदेकं नोद्यमो नापरं बलम् ॥ भवत्या अपि चास्माकमेक एव हि चोछमः । परं दवं फलत्येकं यथा तब न नः पुनः ॥ लोकानां व्यवहारोऽयमालि! प्रोक्तः प्रसङ्गतः परं मनोरथप्राप्तिस्तव या सैव नः स्फुटम् ॥ इति संध्याहरन्तीनामनन्तोऽध्वातिशुच्छवत् । क्षणात्तासांव्यतिक्रान्तःप्राप्ताश्च स्वं स्वमालयम् अथ प्रातः समुत्थाय पुनरेकत्र सङ्गताः । सा च मौनवती ताभिः परिभुक्तव लक्षिता ॥ तूष्णीं प्राप्याथ काों सा स्नात्वा मन्दाकिनीजले। सखीभिः सहिताऽपश्यलिङ्ग रत्नेश्वरं मम॥ निवर्त्य नियम साथ लज्जामुकुलितेक्षणा । निर्बन्धेन वयस्याभिः परिपृष्टा जगाद ह ॥ रत्नावल्युवाच । अथ रत्नेशयात्रायाः प्रयातासु स्वमन्दिरम् । भवताषु स्मरन्त्येव तद्रत्नेशवचोऽमृतम् ॥ सविशेषाङ्गसंस्काराऽविशं संवेशमन्दिरम् । निद्रादरिद्रनयना तद्विलोकनलालसा॥ बलात्बप्नदशां प्राप्ता भाविनोऽर्थस्य गौरवात् ।मात्मविस्मरणे हेतु ततो मे द्वौ बभूवतुः॥ तन्द्रोदा संस्पर्शा ममबोधापहारको । तन्न्या परवशा चासं ततस्तत्स्पर्शनेन च ॥ न जाने त्वय किंवृत्तं काहे काहं सवाथ कः । तं निर्जिगमिघु सख्यो? यावद्धतुं प्रसारितः ॥ दोःकणेन रिपुगा कणितं तावदुत्कटम् । महता शिञ्जितेनाहं तेनाल्यं परिवोधिता ॥ सुखसन्तानपीयूषहदे परिनिमज्ज्य व ।क्षणेन तद्वियोगाग्निकोलासु पतिताऽबला ॥ किंकुलीयः स नो वेमिकिदेशीयः किमायादुनोति नितरां सख्यस्तविश्लेषानलो महान् ॥ अनल्पोकलिक चेतः पुनस्तत्पङ्गमाशया । प्रागानां मे बियासूनामेकमेव महौषधम् ॥ वयस्या ! निशि भुक्तस्य तस्यैव पुनराक्षणम् । भवतीनामधोनं च तत्पुनदर्शनं मम ॥ काउलीकमालयो ! वक्ति स्निग्धे मुग्धे सखोजने । ताशेनेन स्थास्यन्ति प्राणा यास्यन्ति मेऽन्यथा । दशम्यवस्था सन्नोद बाधितुं माधुना भृशम् ॥ इति तस्या गिरः श्रुत्या दूनाया नितरां च ताः। प्रोपमानामाः प्राधि पास ५..
रत्नेश्वरमाहात्म्यम् । । सख्य ऊचुः । वस्य प्रामो न नो नाम नान्धयो वापि बुध्यते।स कथं प्राप्यते भद्रे! क उआयो विधीयताम् ।। इति रत्नावली श्रुत्वा ससन्देहां च तद्विरम् । वयस्यास्तदवाप्तौ मे यूयं कुण्ठि मुमूर्छ ह ।। इत्य|क्तेन सा बाला यूयं कुण्ठितशक्तयः । यद्वक्तव्यं त्विति तया यूयं कुण्ठीति भाषितम् ॥ ततस्तास्त्वरिताः सख्यः परितापोपहारकान् । बहुशःशीतलोपयान् व्यधुर्मोहप्रशान्तये ॥ व्यपैति न यदा मूर्छा तरच्छीतोपचारतः । तस्यास्तदैकयानीतं रत्नेशस्नपनोदकम् ॥ तदुक्षणात् क्षणादेव तन्मूर्छा विरराम ह । सुप्तोत्थितेव सावादीन्मुहुः शिवशिवेति च ॥ स्कन्द उवाच। श्रद्धावां स्वभक्तानामुपसर्ग महत्यपि । नोपायान्तरमस्त्येव विनेशवरणोदकम् ॥ ये व्याधयो हि दुःसाध्या बहिरन्तःशरीरगाः । अव येशोदकस्पर्शात्ते नयन्त्येव नान्यथा ॥ सेवितं येन सततं भगवच्चरणोदकम् । तं बादाम्यन्तरशुविं नोपसर्पति दुर्गतिः ।। आधिभौतिकताच तापं चाप्याधिदैविकम् । आध्यात्मिक तथा तापं हरेच्छाचरणोदकम्॥ व्यपेतसंज्वरा चाथ गन्धर्वतनया मुने!। उचितजेति होवाच ताः सखोः स्निाधयोनिधान् ।। शशिलेखेऽनङ्गालेखे ! चित्रलेखे ! मदोहिते। यूर्य कुण्ठितसामाः कुतो वस्ताः कलाः कवा॥ मत्प्रियप्राप्तये सम्यगुपायोऽस्ति मयेक्षितः । रत्नेश्वरानुपहतोऽनुतिष्ठत हितं हिताः! ॥ शशिलेखेऽभिलषितप्राप्त्य लेखांस्त्वमालिख । संलिखानङ्ग लेखे! त्वं यूनः सर्वावनीचरान् ॥ चित्रज्ञे! चित्रलेखे ! त्वं पातालतलवासिनः । किञ्चिदाविर्भवचारुतारुण्यालङ्कृतीन् लिख ॥ अथाकण्यति ताः सख्यस्तचातुय्य प्रवयं च । लिलिखुः क्रमशः सख्यो यूनोयौवनशेवधीन॥ निर्यत्कौमारलक्ष्मीकानपुंवरवश्रीसमावृतान् । प्रातःसन्ध्येव गन्र्धवी नृपास्तानवैक्षत ॥ सर्वान्सुरनिकायान्सा व्यलोकयच्छुभेक्षणा । न चाञ्चल्यं जहावक्ष्णोस्तेषु स्वर्लोकवासिषु॥ ततो मध्यमलोकस्थान्मुनिराजकुमारकान् । विलाक्यापि न सा प्रीति काप्यार प्रेमनिर्भराः अथ रत्नावलो बाला कर्णाभ्यर्णविलोचना । शो व्यापारयामास बलिसद्मयुवस्वपि ॥ दितिजान्दनुजान वीक्ष्य सा गन्धर्वी कुमारकान् । रति बबन्ध नवापि तापिता मान्मथैः शरैः। सुधाकरकरस्पृष्टाप्यतिदूनाङ्गायष्टिका । पश्यन्ती नागयूनः सा किश्चिदुच्छ्वसिताऽभवत् ॥ भोगिनस्तान्विलोक्यापि चित्रं चित्रगतानथामनाक्सम्भुक्तभोगेव क्षणमासीत् कुमारिका । यूनः प्रत्येकमद्राक्षीदशेषान् शेषवंशजान् । तक्षकान्वयगांस्तद्वदथ वासुकिगोत्रजान् ॥ पुलीकानन्तकर्कोटभद्रसन्तानगानपि । दृष्ट्वा नागकुमारांस्तान् शङ्खचूडमर्थक्षत ॥ शङ्खचूठेक्षणादेव परां लज्जा बभार सा । उनिन्नपुलकाप्यासीदङ्गाप्रत्यङ्गसन्धिषु ।। तपाभरतोऽज्ञायि तत्कौमारहरो वरः । तया वैदग्ध्यधरया क्षणतचित्रलेखया अथ चित्रपट» चित्रलेखा चित्रपटाञ्चलम् । परिक्षिप्यावृणोत्तूर्ण परिहासैकपेशला ॥ रत्नावली चित्रलेखां दिया मौनावलम्बिनी । शा कुटिल यादाक्षीत्प्रस्फुरदशनाम्बरा ।। कटाक्षितानङ्गालेखा तयाथ शशिलेखया। चित्रलेखापरिक्षिप्तपटाचलमपाकरोत् ॥ वसुभूतिसुता साथ कन्या रस्नावली शुभा । शङ्खचूडान्ववाये तं रत्नचूडमवैक्षत ॥ तदीक्षणक्षणाद् दृष्टिरानन्दाश्रुभिरावृता। कपोलभित्तिरभवत्स्वेदोदकणिकाशिता ॥ चकम्पे गात्रलतिका भूतरोमाञ्चकबुका चित्रन्यस्तेव तस्तम्भ क्षणं मुकुलितानना.॥ ततः स चित्रलेखा सामेत्याबासयदातराम् । मौत्सुक्यं बज गन्धर्व! सिद्धस्तेऽमनोरथः॥ एतल्यावगतं सर्वे देशमामान्वयादिकम् । मा विषीदालि ! सुलमस्त्वेष रत्नेश्वरापितः ॥ अहो! सहवरावाप्त्या रस्नेशेनासि तोषिता । उप्ति यामः सदन रत्नेशः सर्वदो हि नः ॥ अथ देववशाचान्त्यस्ता दृष्टा गगनाध्वगाः । सुबाहुना दानवेन पातालतलवासिना ॥ गृहीत्वा ताश्चतस्रोऽपि निरगाहानवो गृहम् । हरिविकटदंष्ट्रास्यः प्रान्तरे हरिणीरिव !! ।
रत्नेश्वरमाहात्म्यम् । तास्त विलोक्य गन्वयों दंष्ट्राधिकरतानमः । रुविरारुगनेत्रं च जाता वेथुिभूमयः ।। हामासह पितवाहिहा विधे!मा विधेहि तत् । यदेतत्कर्तुमाधममाथास्यतिनिष्ठुरम्। हादेव! मन्दभाग्याभिः किमस्माभिरक्षितम् । सुकृतेतरवार्तापि न विसे पाहताकचित् ॥ शिशुक्रीडम हित्वा हित्वारत्नेबार्चनम् । पित्रोः स्वाधीनसच्चेष्टा दुष्ट विद्योन किश्चन ।। अधोमुवनमावीमाहीना नाथेन कोऽननः ।प्रातिप्राणार्थिनीर्वाला. शम्भो !रत्नेश !सर्वग! इथं मन्यतया विलपन्तीः कृपासुरम् । शुश्राव नागराजोऽसौ रत्नचूडो महामनाः ॥ कोऽसौ मरस्वामिनो नाम रत्नेशस्य महेशितः । लिङ्गराजस्य गृहाति कर्मबन्धनभेदिन। पुनरप्यातरावं स श्रुत्वा बालामुखरितम् । रत्नेका! रक्षरक्षेति गृहीतास्त्रो विनिययौ । तं वसासक्पानेच महामांसनिपेवणात् । अत्यन्तोन्मत्तदुश्चेष्टं रत्नचूडो निक्षत ॥ अध्याक्षिपधारे दुष्ट! शिष्टकन्यापहारक ! । मदृष्टिगोचरं यासक यास्यस्यय रेऽधाम! ॥ मम बाणाहसप्राणः प्रयाणं कुरु दुमते ! । आतंत्राणोधतमतेणैवस्वतपुर प्रति ॥ रत्नेश्वरस्य नाम प्रलयापपि स्फुटम् । गृहीतं न भवाहरभ्यस्तेषु मीतिर्भयात्मसु ॥ स्वमहानामतत्राणास्तु ये नराः । तेषां जन्मजराव्याधिकलिकालमयं कुतः ॥ इत्युक्त्या-सा भयास्तास्तन्मुखपहितेक्षणाः । व्याघ्रामाता इव मृगीर्मामैपिटल्युवायसः॥ हत्यामाख्या गन्धर्षीः स वै भुजगराजजः ।आकर्णपूर्णमाकृष्य कोदण्डं शाहिणोच्छरम् ॥ सोऽपि खो दनुजजः पदास्पृष्टभुजङ्गचत् । आविष्य कालदण्डा परिषं व्यसृजम्महत् ॥ हदि रस्नेवर लिङ्ग यस्य सम्बग्विजृम्भते । अलासदण्डपत्तस्मिन् कालदण्डोऽपि जायते अन्तरेव स विच्छेद परिघ स्वमहेषुभिः । दुवृत्तस्य पहायुर्विच्छियेतान्तरैव हि ॥ तमोऽस्य वार्ण चिक्षेप कालानलसमप्रभम् । स बाणस्तस्य हृदयं प्रविश्य प्रगवेष्यच ॥ प्राणानस्य विनिर्मात्य स्वयं दूरमगात्पुनः ॥ विस्थं तस्य दौरात्म्यं सर्वे विज्ञाय सत्वतः । दिगमनापुरः ख्यातुमिव नागाशुगो गतः ॥ अन्यायोपार्जितैव्यैर्यः सुरवं भोक्तुमिच्छति। तानि द्रव्याणि यान्त्येव सप्राणानि कुतः सुखम् ।। इति त दामवं हत्वाचागराजो महाबली।प्रत्युवाचाथ ताः कन्याः का यूयं कस्य चात्मजाः॥ दुरात्मनाकृतोऽनेन महता दनुजन्मना । क वा रत्नेश्वरं लिङ्ग भवतीभिर्विलोकितम् ॥ यस्य मामाक्षरोचाराव्यपेताः परमापदः । यूयमाशु सदाख्यात येन आनामि तस्वतः ।। इति श्रुत्वा गिरस्तस्य नितरां प्रेमनिर्भराः । परस्परं मुखं वीक्ष्य कोऽसौ स्याद् दृष्टपूर्ववत् ॥ अकारणसखा को सौ प्रान्तरे समुपस्थितः । निजप्राणान्पणीकृत्य येन त्राता: स्म बालिकाः अस्य सन्दर्शनादेव स्वभावचपलान्यपि । मन्थराणोन्द्रियाणि स्युः पस्पिीय सुधामिव ॥ यातमन्यन्त्र नो नेत्रे प्रोत्सहेते यथा तथा । अन्यस्त्वन्तरं प्रेक्ष्य रमणीयतरं त्वपि ॥ वापीयूषमाधुर्य नितरां प्राप्य नः श्रुती। शब्दान्तरमहापेक्षां न कुर्वाते सुजन्मनः ॥ आप्तुतः पङ्गुतामेतौ पादौ नलावपि । अमुं युवानमालोक्य चौरमा सन्मनोमणेः । इति ध्रुवन्त्यस्ता बालाः परस्परमनुलक्षणम् । दृष्ट्वापि चित्रं मध्यस्थ विविशुरू न पालिकाः अतीवभीषणाकारदजस्यासिसाध्वसात् । अन्धाभूतेक्षणास्सं नाज्ञासिषुहरिणीक्षणाः ॥ अचुश्च तं युवानं ता निजजीवितरक्षिणम् ॥ यदा! भवता पूर्व स्नेहनिर्भरचेतसा । तदाक्षामहे सर्वमवधेहि क्षण मनः ॥ इयं गन्धर्वराजस्य वसुभतेस्तनलवा । कन्या रस्नावली नाम गुणरत्नमहासनिः॥ वयं वयस्य पुतस्यायछायेवानुगताः सदा । आरभ्य बाल्यमप्येषा लिङ्ग रत्नेचसमिधम् ॥ याति विनाभ्यनुज्ञाता काश्यामयितुं सदा । वरोऽपि दत्तस्तेमास्यै प्रसन्नेमाम शम्भुना। हरिष्यसीति यः स्वप्ने कौमारं ते कुमारिके! | सब नामसमानाच्या स ते भर्ता भविष्यति। युवान खम्मभोकारं प्राप्याप्येषा सुदुखिता। पुमस्सद्विरहोस्थेन वहिमाऽसीव तापिता त रत्नेश्वरमाहात्म्यम् । ५ कलाकौशल्यतोऽस्माभिः सोऽपि चित्रे प्रदर्शितायस्य ग्रामोन नामापि नान्वयोऽध्यवबुध्यते चित्रशिखिसमप्येषा जीविता पुनः । ततो रत्नेश्वरं नत्वा स्मगृहायोत्सुकाभवत् ॥ यान्तास्ततोऽनया साधं प्रान्तरे गगनाध्वनि । अतर्कितागमश्चास्मान् हृत्वापातालमाविशत्॥ अनन्तरं भवानेव तं वेत्ति दनुजाधमम् ॥ अङ्ग! इत्येव वृत्तान्तो निजोऽस्माभिरुदीरितः। प्रसाद कुरु वास्माकं पुनः कोऽसि कृपानिधे।। यदाप्रति चास्माभिः स दृष्टो दुष्टदानवः । तदाप्रभृति मो नेत्रे विद्युतेव हतप्रभे ॥ कान्दिशीका भयाज्जातानविद्मः किञ्चिदेव हि । वयं का वयं कस्त्वं किंजात कि भविष्यति निशम्येति स पुण्यात्मा नागराजकुमारकः । आवास्यता भयत्रस्ता:प्रोवाचेदं च पुण्यधीः॥ मया सह समायात रत्नेशं दर्शयामि वः । इत्याहूय सता निन्ये क्रोडावापी सुखोदकाम् ॥ विचित्रमणिसोपानां हंसकोककृतारवाम् । कवीनां वाशितव्याजात्स्वागतं कुर्वतामिव ॥ तत्र तेनाभ्यनुज्ञाताः क्रीडावाप्यां निमज्ज्यताः। स चैलपुष्पाभरणाः प्रोन्ममन्जुस्ततःपुनः ।। बहिनिर्गत्य गन्धयः पश्यन्त्यः स्थगिता इव । रत्नेशालयमालोक्य कालराजसमीपतः ।। परस्परं ततः प्रोचुर्गन्धयो विस्मिता इव । स्वप्नाऽयं किन्नु वा सत्यं खेलो रत्नेश्वरस्य वा। क्यमेव हि वा प्रान्ता गन्धव्या न वयं किमु । किमतन्नेव जानीम ऐन्द्रजालिकखेलवत् ॥ एषोत्तरवहा गङ्गा स्फुटमेव भवेदिह । शङ्खचूदस्य वाप्येपा शाखचूडालयस्त्वसौ॥ एतत्पश्चमदं तीर्थमेष वागीश्वरालयः । यस्य सन्दर्शनादेव वाग्विभूतिविजृम्भते ।। शङ्खचूडेश्वरश्शेष शङ्खचूडप्रतिष्ठितः । यस्य सन्दर्शनात्पुंसां न भयं कालसर्पजम् ॥ एषा मन्दाकिनी नाम दीपिका पुण्यतोयभूः। यस्यां कृतोदकामा मर्त्यलोके विशन्ति न॥ असावाशापुरी देवी या स्तुता त्रिपुरारिणा । त्रिपुरं जेतुकामेन मन्दाकिन्यास्तटे शुभे ॥ याद्यापि पूजिता मसैराशां पूरयतेऽर्थिनाम् । मन्दाकिन्याः प्रतीच्या तु एष सिद्धयष्टकेश्वरः॥ भवेद्यस्य सपर्यातो गृहे सिद्धयष्टकं स्फुटम् । कुण्डं सिधष्टकाख्यं च तत्रैव विरजोदकम् ॥ यत्र स्नात्वा कृतश्राद्धो विरजस्को दिवं व्रजेतामुर्तास्ताः सिद्धयश्चाष्टौ याः काश्यां सर्वसिद्धिदाः सर्वसिद्धिप्रदश्वासौ महान् गजविनायकः । विनायकाः प्रणश्यन्ति यस्मै प्रणमतां नृणाम् ॥ असौ सिद्धेश्वरस्योच्चैः प्रासादः काञ्चनोज्ज्वलारत्नध्वजपताकाच सिद्धिःस्माद्विलोकनात् क्षेत्रस्य मध्यमे भागेः मध्यमेश्वर एष वै । मध्याधोलोकयोर्मध्ये न वसेद्यस्य वोक्षणात् ॥ मध्यमेशं समभ्यय॑ नरो मध्यमविष्टपे । आसमुद्रक्षितीन्द्रः स्यात्ततो मोक्षं च विन्दति ॥ ऐरावतेश्वरं लिङ्गं तत्प्राच्यामिष्टसिद्धिकृत् । दृश्यते यत्पताकायां रम्य ऐरावतो गजः ।। वृद्धकालेश्वरस्यैष प्रासादो स्ननिर्मितः । प्रतिदर्श वसेद्यत्र रात्री चन्द्रः सतारकः ।। यस्य सन्दर्शनान्नृणां न कालः प्रभवेद्भवे । न कलिः प्रभवेत्सत्यं न च कल्मषराशयः ॥ इति यावत्कां चक्रुः सम्भ्रान्ता इव बालिकाः । तावद पुविभूतिः सः गन्धर्वस्त्वरयाययो नारदाच्छूतवृत्तान्तः सुबाहुदनुजन्मनः । रत्नावली सुता प्रोता ससखीका यथा हृता । रस्नेश्वरस्समायान्ती शून्ये गगनवम॑नि । यथाऽनयच पातालं यथा युद्धमत्पुनः ।। यथा रत्नेशभक्तन रत्नचूडेन पातितः । स सुबाहुर्दनुजनुर्महेष्वासेन चेषुणा ॥ यथा च पृष्टवृत्तान्तो वापीमार्गेण चानयत् । शङ्खचूडस्य वापों तां पातालेषु प्रवर्तिनीम् ॥ यथाचप्राप्या निर्याताःकाशी दृष्ट्वापि बालिकााभृशं सम्भ्रान्तिमापनापश्यन्त्योऽपि समुत्सुकाः दृष्टा गन्धर्वराजस्तां पुनर्जातामिवात्मजाम् । सवयस्यां मनाग्लानमुखपजसुभियम् ॥ परिष्वज्य समाघ्राय ललाटफलक मुहुः । अङ्कमारोप्य पप्रच्छ सर्व वृत्तान्तमादरात् ।। अथ सा कथयामास दनुजापहृतेः कथाम् । रत्नेश्वरवरावाप्ति स्वप्नावस्थां विहाय च ॥ रत्नावलीमनोवृत्ति विज्ञायाथ मुखेङ्गितैः । शशिलेखा समाचष्ट स्पष्टवर्गः सविस्तरम् ॥ तुतोष नितरां सोऽथ गन्धर्वाधिपतिः कृती। प्रभावं वर्णयामास मुदा रत्नेश्वरस्य च ॥ ॥
६ रत्नेश्वरमाहात्म्यम् । स्कन्द उवाच। आकर्णय मुनिश्रेष्ठ ! विन्ध्यवृद्धिविवर्धन! । प्रत्यहं रस्नचूडोऽपि वापीमार्गेण संयमी॥ नागलोकात्समागत्य स्नात्वा मन्दाकिनीजले । रत्नेश्वर समभ्यर्च्य रस्नाल्यष्टकेन वै सुवर्णपङ्कजान्यष्टौ समर्पयति हृष्टवत् ॥ एकदा स्वप्नसमये रत्नेशो लिङ्गरूपचक् । रत्नचूडमुवाचेदं निजभक्तं दृढवतम् ॥ मानवेन तां कन्या मोचयिष्यति यां भवान् । तं दानवं रणे हत्वा तां पत्नी समवाप्स्यसि। इति स्मरन्धर सोऽथ नागराजो महामनाः। तां कन्या दानव हत्वा विमोच्य निजवीयंतः॥ वापोमागेण पातालादानिनाय पुनमहीम् । स्वयं च साधयाचके प्रत्यह नियम सुधीः । लिङ्ग समर्चयित्वाथ कृत्वा चापि प्रदक्षिणम् । यावदाहिः समागच्छद्रम्याद्रस्नेशमण्डपात् ॥ तावद्गन्धर्वराजाय ताभिः स वसुभूतये । सोऽयं सोऽयं युवा धन्यस्तर्जन्यग्रोण दर्शितः ॥ गन्धर्वराजस्तं दृष्ट्वा नागराजकुमारकम् । अतीव स्मेरनयनः संप्रहृष्टतनूरुहः ।। मनस्येनं च संवण्ये सद्रूपं सवयोऽन्वयम् । धन्योऽस्म्यनुगृहीतोऽस्मि रत्नेशेन वरार्पणात् ॥ कन्या धन्यतरा चेयमनुरूपोऽस्ति यत्पतिः ।। संप्रधाति हृयेनमवधार्य च सुन्दरम् । पृष्ट्वा तम्नामगोत्रं च गणयित्वा बलाबलम् ॥ रत्नेश्वरस्य पुरतस्तस्मै कन्या ददौ मुदा । नत्वा गन्धर्वलोके तं कृतकौतुकमङ्गलम् ॥ मधुपर्कण सम्पूज्य पाणिमप्राहय ततः । वैवाहिकेन विधिना ददौ रवान्यनेकशः ॥ शशिलेखानङ्गलेखा चित्रलेखापि कुम्भज! । विज्ञाप्य स्वजनेता वरयामास तं पतिम् ।। उपयम्य चतस्रोऽपि स गन्धर्वसुताः शुभाः । रत्नचूडो जगामाथ ताभिः स्वपितृमन्दिरम् ॥ यथा च समृभिः साध श्रुतिभिः प्रणवः शिवे ! स्वपित्रोश्चरणौ नत्वा नवोढाभिः स नागराद विनिवेदितवृत्तान्तो रत्नेशानुग्रहस्य च । उवास ताभिः ससुखं पितृभ्यामभिनन्दितः ॥ ईश्वर उवाच । रत्नेश्वरस्य लिङ्गस्य मम स्थावररूपिणः । सर्वेषां सर्वदस्यास्य प्रभावो गिरिजेऽतुलः ॥ अस्मिल्लिङ्गे परां सिद्धि प्रापुः सिद्धाः सहस्रशः । गुसमासीदिदं लिङ्गमद्ययावत्सुमध्यमे ! तव पित्रा हिमवता मम भक्तेन सर्वथा । पुण्याजितैर्महारत्न रत्नेशः प्रकटीकृतः ।। अस्मिलिने मम प्रातिनितरामद्विराजजे!। वाराणस्यामिदं लिङ्ग पूजनीय प्रयत्नतः ॥ मानारत्नानि लभ्यन्ते रत्नेशानुग्रहादुमे ! । स्त्रीरत्नपुत्ररत्नादि स्वर्गमोक्षावपि प्रिये ! ॥ योऽत्र रत्नेश्वरं नत्वा मृतो देशान्तरेष्वपि । न स स्वर्गादिहागच्छेत्कल्पकोटिशतैरपि ॥ असितायां चतुर्दश्यामुपोष्य निशिजागरात्ारत्नेशसन्निधौ देवि ! ममसान्निध्यमाप्नुयात्।। अस्य लिङ्गस्य पूर्वेण त्वयाजन्मान्तरे प्रिये ! । दाक्षायणीश्वर लिङ्गं महतयात्र प्रतिष्ठितम्॥ सत्य सन्दर्शनादेव न नरो याति दुर्गतिम्। अम्बिका नाम गौरी त्वं तत्राई चाम्बिकेश्वरः।। मूर्तः षडाननस्तत्र तव पुत्रः सुमध्यमे ! । एतत्त्रयं नरो दृष्ट्वा न गर्भ प्रविशेदुमे ! ॥ रत्नेश्वरस्य माहात्म्यं मया ते समुदीरितम् । गोपनीयं प्रयत्नेन कलिकल्मषचेतसाम् ॥ इदं रत्नेश्वराख्यानं यः पठिष्यति सर्वदा । स पुत्रपौत्रपशुभिर्न वियुज्येत कहिचित् ॥ श्रुत्वा रत्नेश्वरोत्पत्ति सेतिहासां नरोत्तमः।। अनूढो लभते सत्यं कन्यारत्नं कुलोचितम् ॥ कन्यापी समाकण्य स्वितिहास मनोहरम् । श्रद्धया सस्पति प्राप्य भविष्यति पतिव्रता । इतिहासमिम श्रुत्वा नारी वा पुरुषोऽपि वा । न जात्विष्टवियोगाग्नितापेन परितप्यते ॥ इति श्रीस्कन्दपुराणे काशीखण्डे रत्नेश्वरप्रशंसनं नाम सतषष्टितमोऽध्यायः ॥
श्रीधर्माधिकारिकृष्णपण्डितविरचितम् कामकन्दलं नाम नाटकम् पायाद्वो भूतनाथो निरीि शिखरिसुतासनलीलाविलासै- र्जाते काले निशीथे स्मृतसुरतटिनीकेलिरुचैः प्रिये हे ! उक्त्वा भङ्गालहर्या तव चिरविरहव्याकुलोऽहं सकोपां वक्रशोणनेत्रामथ निजमहिषीं वञ्चैयन् यो विटेशः ॥१॥ अपि च- मूतिषिया निशि लिप्तं कज्जलमझे महेशेन । प्रातर्वीक्ष्य विरूपं मुहुईसति साम्बिका जयति ॥ २॥ १ अत्र प्रस्तुते शिवकेलिवर्णनेऽप्रस्तुतस्य वक्ष्यमाणस्य नाट्यनाय. कस्य श्रीपतेः केलिरूपस्य बीजस्य स्फूर्त्या समासोक्त्यलकारेण ना. न्दीत्वम् । उक्तं च नाट्यदर्पणे-'यस्यां जिस्य विन्यालो ह्यभिधेयस्य वस्तुनः । श्लेषेण वा समासोक्त्या नान्दी पत्रावलीति सा' इति । २ अनेनाऽनवधानत्वबीजग्राहकत्वं सूचितम् । ३ अत्र स्मृत्यलङ्कारः स्मरणात् । ४ मदातिशयादिति भावः। ५अत्र भ्रान्त्यलङ्कारः भ्रमात् । ६ अत्र वाक्यान्यथायोजनहेतुकावस्थाभेदेन शङ्किते ताधिका. ऽपलापाच्छेकापट्नुतिरलङ्कारः । अनेन दक्षिणनायकत्वं वन्यते । उक्तं च शृङ्गारतिलके-'यो गौरवं भयं प्रेम सद्भावं पूर्वयोषिति । न मुञ्च त्यन्यचित्तोऽपि शेयोऽसौ दक्षिणो यथा' इति । ७ मनवधानत्वादिति भावः । ८ अत्र शिवस्य स्वधावल्यगुणत्यागपूर्षकाम्यदीयनीलगुणग्रहणा. तहणालङ्कारः । अत्र शिधवैकप्यातिशयवर्णनेनाप्रिमभूमिकापवैकप्य. चारुतातिशयो ध्वन्यते ।
कामकन्दले- मपि च-- लास्ये गात्रसमीरदीपितललाटस्थेक्षणाग्निस्फुर. स्कीलाऽऽशीर्णतुषाररश्मिविगलत्पीयूषधारोभरैः । जीवद्भिर्गललम्बिहारलैंतिकामुण्डैः स्तुतस्व्यम्बकः शम्भो ! शङ्कर ! चन्द्रचूड ! गिरिशेत्येवं मुदे जायताम् ॥३॥ ( नान्यन्ते) सूत्रधारः-..अलमतिविस्तरेण । आदिष्टोऽस्मि सततमन्दा- किनीमधुरतरतरजराजिसंसिक्तपूततटनिकटविहिततपःप्रभामासुनिखिल. दिग्भ्रान्तचतुर्दशविद्यावादवादीन्द्रवृन्दमैदनोदयाद्रिरूढप्रौढप्रतापतपैनातप. सन्तापितबुधजनैः श्रीमद्भिर्द्विजवरैः शारदे नवरात्रे दुर्गादर्शनयात्रामहो. त्सवे नाट्यमाभिनेतव्यमिति । तदिदानी केनचिदनिर्वचनीयप्रकरणेन विनोदयितुमिच्छामि । १ गात्रेऽतिकम्पनत्वादिति भावः । २ अत्र पूर्वार्धे समासबाहुल्यादोजो नाम गुणः । ३ मयूरव्यंसकादित्वात्समासः । अत्र विषयिण्या लतिकाया विष. येण हारेण सह तदात्मतया मुण्डेम्वन्धयात्परिणामालङ्कारः । 'पुरुषो व्याघ्र इवेतिवत 'उपमितं व्याघ्रादिभिरिति समासे 'हारो लतिके. त्युपमालङ्कारः । उभयोः समानाभ्यर्हितत्वेन समप्राधान्यसङ्करालङ्कारः। ४ मुदं दातुमित्यर्थः । 'क्रियार्थोपपदस्येति चतुर्थी । ५ वक्तीति शेषः । सूत्रं नृत्यकर्मानुष्ठानं धारयति तथोक्तः । ६ नान्दीपाठेनैव कालो न नेतव्य इति भावः । ७ अत्र जातिस्थधर्मवर्णनात्स्वभावोक्तिरलङ्कारः। ८ अनेनातिशयपुण्याधारत्वं तटस्य सूचितम् । ९ एतन श्रेयोऽतिरेको व्यज्यते । १० अनेन प्रतापस्य जगद्यापकत्वं ध्वनितम् । १९ अत्र मर्दनस्यान्यरूपेणोदयाद्रिरूपेण रूपवत्करणाद्रूपकालङ्कारः । १२ अत्रापि रूपकम् । १३ एतेन पाण्डित्यातिशयो ध्वन्यते । १४ पतेन लास्यस्य चारुतरत्वं सुव्यते। १५ सभ्यामिति शेषः ।
प्रयमोऽङ्कः। भवन्तो वेदान्तप्रकथितचिदानन्दरसिका इमे पौरा नानारसविविधगोष्ठीपरिचयाः । इदं द्रष्टुं याताः सरसरचितं नूनकविना ह्यतो द्रष्टव्यं तगिरिवरसुताड प्रभवति ॥ ४ ॥ मारिषाः--तदधुना श्रीदुर्गादेव्याः पुरस्तादभिनेतव्यं भवता । सन्त्यस्मदादयः सभासदोऽपि तत्कौतुकस्यावलोकनाय । सूत्रधार:--तद्भवतु | निलयं गत्वा भार्यामाहूय समीतकमनु- तिष्ठोमः ( परिकम्यावलोक्य नेपथ्याभिमुखम् ) प्रिये ! इतस्तावत् । (प्रविश्य ) नटी-इअनि । अज्जउत्तो आणवेदु, को णिोओ अणुचिठ्ठीअदुति । सूत्रधारः दैत्याः शोणितकारणास्त्रिजगति व्याप्ताः क्षणाचैर्विता हुक्कारेण कृतः स धूम्रनयनः शीघ्रं यया भस्मसात् । क्षिप्त चोडुकदम्बकं कचभरैर्देवारिसम्मर्दिनी सा दुर्गा नटनाऽजिरे विजयते भर्गस्य देहागा ॥ ५ ॥ १ नाट्यम् । २ नृत्यद्रष्टार आर्या इत्यर्थः। ३ दुर्गेत्यर्थः। ४ सन्नद्धा इति शेषः। ५ बहुवचनं सर्वभरताभिप्रायगर्भम् । ६ रङ्गभूम्येकदेशस्थरक्तवस्त्रनिर्मितभूमिकाग्रहणगृहमित्यर्थः । ७ आयाहीति शेषः। ८ सूत्रधारप्रिया । वक्तीति शेषः । ९ नृत्यस्येति शेषः । १० इयमस्मि । आर्यपुत्र आशापयतु, को नियोगोऽनुष्ठीयताम् ।' इति संस्कृतम् । ११ अत्राद्भुतो रसः। १२ रक्तबीजाः। १३ स्पष्टं चेदं मार्कण्डेयपुराणे । १४ धूम्राक्षः। १५ इदमपि तत्रैव स्पष्टम् । १६ अत्र दहार्धगेत्यनेन भस्मसारकरणेन चर्वणेन च सृष्टिस्थिति.
कामकन्द- अपि च-- लोलाऽल्यालिलसस्प्रफुल्लसुमनोजालोलसत्कानने मिल्लीवेशमनङ्गवेगजनकं धृत्वा चलन्ती शनैः । लोलापाङ्गतरकारसुद्धशा संमोहयन्ती शिवं चञ्चञ्चञ्चलनूपुरध्वनियुता वर्वति सर्वार्थदा ॥ ६ ॥ इमे सामाजिकाः कान्ते । शास्त्रगम्भीरवारिषौ । निमज्ज्याप्तसुसिद्धान्ताः सच्चिदानन्दमूर्तयः ॥ ७॥ तदेषां पुरोऽभिनेतव्यम् । नटी-(सविस्मयम् ) अज्जउत्त ! अञ्चरिअं अचरिाजे णिरं. तरजमणिसमजुताः सत्थईसणजाणिदणिच्चप्पआसप्फुरन्तपरमेसरा ते विमलसहामा कहं पेखन्ति । सूत्रधारा-- निसर्गसौम्यस्वभावा यथासमयं विविधरसानास्वाद- यन्ति पुनः स्वभावमेवानुवर्तन्ते । पश्य- प्रलयान्तातिसंक्षोभदग्धस्थावरजङ्गमः । स एव हि ललाटामिः पार्वतीवदने हिमः ॥८॥ प्रलयकरत्वं ध्वन्यते । न च जगद्भक्षणायैव चर्वणमिति वाच्यम् , तस्य ग्यजनामूलव्यङ्गयत्वात् । तथा हि-आधुनिकजगद्रक्षणपूर्वकजगद्याप्त दैत्यानां क्षणाच्चर्वणैनवमेवं तत्कालीनमिति व्यङ्ग्यम्, तेन मिति व्यज्यत इति भावः । १ चञ्चलभ्रमरपतिः । अत्र शृङ्गारो रसः। न चात्र 'तल्युर्वी'- तिवल्लकारयकारसंयोगाविसन्धिर्दोष इति वाच्यम् । जगदम्बावर्ण मेन गुणत्वात्सौन्दर्यातिशयादिति भावः । २ अनेनैकवीराध्यानं सूकम् । ३ पत्र परिणामालङ्कारः। ४ नाट्यमित्यर्थः। ५ 'आर्यपुत्र! आश्चर्यमाश्चर्यम् । ये निरन्तरयमनियमयुताः शाखदर्शनातनित्यप्रकाशस्फुरस्परमेश्वरास्ते विमलसहायाः कथं प्रेक्षन्ते।' इति संस्कृतम् । ६ सौम्या एव भवन्तीत्यर्थः । ७ शीतगुणवानित्यर्थः । 'तुषार शीतला शीतो हिमा सप्ताऽन्य. लिमका' इत्यमरः। तत्करत्व.
. प्रथमोऽङ्क। नटी-मोदु । उपसम्पामि । (परिक्रम्यावलोक्य नेपथ्याभिमुखम् ) महाभाम इदो दावे। भरता--(प्रविश्य ) प्रचण्डखड्गघातेन खण्डितासुरमण्डलाम् । नौमि तां चण्डमुण्डनी चण्डी मुण्डसजं शिवाम् ॥ ९॥ ( इति पुष्पाणि क्षिप्त्वा ) किमस्ति महानुभावे ।। नटी--अज्ज ! सम्पदं भवदीए अगदो किम्पि कोदूहलं काद. व अस्थि । भरत:-आर्थे ! स्मृतं स्मृतम् । यत् पूर्व धर्माधिकारिकृष्ण कविना कामकन्दलं नाटकं निर्मायास्मभ्यं समर्पितमासीत् , तत् उदित. शृङ्गाररसप्रयोगेणाभिनीयतेऽधुना । सूत्रधार:--(श्रुत्वैतत् ) सावधाना भवन्तु भरताः। श्रोतव्यं मारिषः । अस्ति कुत्रचित्प्रकामा नगरी । तत्र- भास्तेऽरातिमहीपतिक्षितिरुहरुभ्यत्प्रचण्डानल: कान्तावृन्दसुरञ्जने किमपरः कृष्णो रसामण्डले | १ 'भवतु । उपसामि । महाभाग ! इतस्तावत्।' इति संस्कृतम् । २ नृत्याभिनेता। ३ रङ्गभूमिमागत्येत्यर्थः । ४ रङ्गभुवि कुसुमप्रक्षेपो भरतसमयः । ५ 'आर्य ! साम्प्रतं भगवत्या अग्रता किमपि कौतूहलं कर्तव्य मस्ति ।' इति संस्कृतम् । ६ कामे अभिलाषमाने कं सुखं ददातीति कामकन्दः पटुनायका, तं लाति स्वीकरोति सा कामकन्दला। कमित्यव्ययम् । कन्देस्यत्र आतोऽनुपसर्गे का, लेत्यत्रापि । कामकन्दलामधिकृत्य कृतं नाटक कामकन्दलम् । 'अधिकृत्य कृते प्रन्थे' इत्यण् । ७ अत्र यद्यपि न केवलं शृङ्गाररसस्याभिनयोऽन्येषामपि, तथापि नाट्यनायकयोरनुरागलक्षणस्य तस्यैव प्राधान्यमन्येषां तत्पोषकत्वमिति न दोषः। पतेन बलिवमुक्तम् ।९ अनेन गतभस्मवादीप्तिमस्वमुक्तम् । १० एतेन प्रतापित्वं व्यक्तम् । भत्राभेदरूपकालङ्कारः। ११ मत्र तादूप्यरूपकम् । तेन सुषमत्वं ध्वनितम् ।
- कामकन्दले- नित्योत्सर्गविधानकम्पितसुरागारः सदा चिन्मय. ब्रह्मानन्दरसप्रसनहृदयः श्रीकामसेनोऽधिपः ॥ १० ॥ (इति निष्क्रान्ताः) इत्ति प्रस्तावना। (ततः प्रविशति सानुयायी कामसेनो राजा ) चश्चत्प्रभाभासुरभद्रपीठे संभाति सभ्यैः परिवेष्टितोऽयम् । कीर्तिः प्रतापद्युतिभिः पृथिव्यां नीता सदा पाटलतां च येन ॥११॥ ( अथ तसनयविवाहोत्सवे तारुण्यलावण्यपूर्णा कामकन्दलानाम्नी वारविला. सिमी मृत्यायाऽऽगात् ।) इति विष्कम्भका। (ततः प्रविशति सवयस्था कामकन्दला ।) लोललोचनारिजा सुनटनव्यापारकल्पोलपो यूनां चित्तविहारिणी मदकला मत्तेभकुम्भस्तनी । या गत्या जितहंसामनयना जीयाज्जितेद्वानना सङ्गीतरधरीकृतीमरपुरीरम्भादिवाराङ्गना ॥ १२ ॥ १ मामपि खण्डयिस्वा दास्यतीति भियेति भावः । २ अकस्य राज्ञो वह्निकृष्णशातृत्वरूपैरमेकधावर्णनादुल्लेखालङ्कारः ३ रनभुव इति शेषः । बहुत्वं सर्वभरताभिप्रायेण । ४ पूर्ववर्यस्याभिनयसम्बन्ध इत्यर्थः । तदुक्तम्-'अर्थस्य प्रतिपा. धस्य कथा प्रस्तावना मता' इति । अभिनयेन प्रतिपादयितुं शक्यस्या- अर्थक सङ्गतिकरणमिति तदर्थः । भूमिकाग्रहणमित्याशयः । ५ गृहीततभूमिको भरत इत्यर्थः । इति सर्वत्र । ६ 'कीर्तिवला प्रतापो रक्त' इति प्राक्कविसम्प्रदायादिति भावः । ७ या प्रस्तावनार्थः स एवार्थः, तदपरपर्यायोऽयम् । ८ रूपकम् । ९ करूपवल्लीत्यर्थः । अनेन अनुपमनर्तकत्विं व्यज्यते । रूपकम् । १० तेन सुन्दरीस्वमुक्कम । ११ लुप्तोपमालङ्कारः। १२ अत्र जयवस्तुना उपमालङ्कारो व्ययः । १३ अत्रापि तथा । १४ अत्राप्युपमैव ।
२ प्रथमोऽङ्कः। (तदनेहसि विविधविधौदधिपारङ्गमः शृङ्गारशेखरः श्रापविशर्मा द्विजवरो रध्यायां पर्यटन माजगाम । ) (ततः प्रविशति श्रीपतिः।) विद्याविजितवागीशः स्त्रीमनोमीनालिकः । सौन्दर्यजितकन्दर्पश्चातुर्याश्चर्यमूर्तिमान् ॥ १३ ॥ श्रीपतिः-(आकाशे तत्सङ्गीतध्वनिमाकण्येक्षणगोचरीकर्तुमुत्कण्ठितः प्रतीहारनिरुद्धो द्वार्युपविष्टः, विचिन्त्य ) सभायां केऽपि सङ्गीतशास्त्रज्ञाः सन्ति वा न वा। न जानन्त्यधुना सर्वे विस्वरं मुरजध्वनिम् ॥ १४ ॥ प्रतीहार:-भो भो विप्र ! कथं ज्ञातं भवता ! श्रीपतिः--दक्षिणेतरकराङ्गुष्ठहीनस्य मार्दनिकस्य प्रहारेणा- ऽस्वरो लक्ष्यते। (प्रतीहारोऽस्य नैपुण्यमवलोक्य तद् द्रष्टुं प्रभु च निवेदयितुमन्त- जगाम । विलोक्य ) श्रीमद्राराजाधिराज ! महाराज ! सुधीकिरीटवज्राशुनीराजितपदाम्बुजः । श्रीपत्याख्यो द्विजवरो द्वारि तिष्ठति चाधुना ॥ १५ ॥ 'तेनेह चित्ते चित्रकरश्चमत्कारो दर्शित' इति । तदुक्तवान् ) । कामसेनः--ईदृक्षं निपुणतरं शीघ्रमानय भूसुरवरम् । (प्रतीहारो झटिति बहिरागत्य राजसन्देशं निवेदितवान् ।) श्रीपतिः--एवं चेद् , यामि सदसि । (प्रविश्य भूपनमिताऽनि. राशीर्वचनं नाटयति-) त्रिभुवनतले कीय॑जो वै विराजतु भूपते ! तव वितरणे प्रास्ता मेधा ददातु शिवं शिवः । १ माधवापरनामेत्यर्थः। २ सदःसमीप इति शेषः । ३रूपकम्। ४ जालजीवीत्यर्थः । ६ अत्रैकस्य श्रीपतेरनेकधोल्लेखनादुल्लेखालङ्कारः। ६ तस्याः कामकन्दलाया इत्यर्थः। ७ वाम इत्यर्थः। ८ अतिपण्डितानामयं गुरुरिति सूचितम् । १ नस्येति भावः। १० नैपुण्यम। ११ कीर्तिचन्द्रः । अत्र परिणामालङ्कारः।
कामकन्दले- सकलरिपवो नाशं यान्तु स्फुरत्खरतेजसा हरपदयुगे भक्तिनित्यं प्रसपतु सर्वदा ॥ १६ ॥ मूपतिः--(अंशुकपरिष्कारैः पूजयित्वा ) सफलं जननं जातं त्वत्पादार्चनकारिणः । पूता सभा च मे विप्र ! कुलं भावि गतं च यत् ॥१७॥ (ततः कामकन्दला प्रति) हे रूपाजीवे ! सकलगुणगणप्रकटनमस्य पुरस्ताचावकार्य स्वया । कामकन्दला-यथाज्ञापयति देवः । ( ततः सा-) गायति नृत्यति कन्दुकखेलां युगपत्प्रकुर्वती वेश्या । शिरसि निधाय घटीयुगमद्भुतमार्यान् सुरञ्जयति ॥ १८ ॥ तद्दिष्टे- मुखगन्धवाहलुभ्यन्मधुव्रतेनाऽथ चूचुकं दष्टम् । सर्वानरुद्धपवनं त्यक्त्वा तद्रोकतो न्यवार्येव ॥ १९ ॥ ( श्रीपतिः सविस्मयं वीक्ष्य राज्ञा दत्तं भूषणादिकमतिचातुर्यशालिन्या अददात् ।) कामसेनः-(सक्रोधम् ) रे. बालिश ! मत्पुर एव त्वया गणि. काय दत्तमतस्त्वं गच्छेति ( निष्कासितवान् )। (श्रीपतिस्तदासक्तस्वान्तो बहिरागत्य विरहानलप्तुष्टो रत्नसेमाख्याहुद्गृहं ययौ ततः सापि तयाभूता लास्यविरतौ सदनमागत्य विरहाब्धिमानापर्य के पुष्वाप । ) रत्रसेनः--(प्रविश्य ) अहो! तत्कटाक्षकलम्बंक्षुण्णहृदयः श्रीप. तिरपि सुष्वाप ! १ प्रेत्युपसर्गवशावर्धतामित्यर्थः । २ वस्त्रालङ्कारैः। ३ पूतमिति शेषः । अत्र पूता पूतमिति द्विरूपादानास्पदार्थावृत्ति दीपकालङ्कारः। ४ आशापयतीति शेषः। ५ तस्मिन् काले। ६ "चूचुकं तु कुचागं स्यात्' इत्यमरः । ७'छिद्रं नियंथनं रोकम्' इत्यमरः । ८परिणामः। ९ परिणामालद्वारा १० बाण इत्यर्थः।
प्रथमोऽ। (सखा स्नसेनः सचकितं विलोक्य धैर्यमवष्टभ्य वैद्यगृहं गत्वा तमानीतवान् ।) (ततः प्रविशति भिषक् ) वैद्योऽनवद्यः स्वगुणैर्नानौषधिकरण्डभृत् । व्याधिवारणहर्यक्षो याति रोगविदां वरः ॥ २०॥ भिषक्-(धमनिमवलोक्योचे-) स्मरबाणपीडितोऽयं झटिति धेनं तौविधोपायः । उक्त भेषजमेतज्ज्ञात्वा तस्य स्वकं सम्यक् ॥ २१ ॥ (मुद्रां प्राप्य ) गम्यते । (इति निष्क्रान्तः ।) ( रत्नसेनः सुशीतलपाटलिपुष्पोदकादिनानोपायैस्तं प्रकृतिस्थमचरीत् ।) श्रीपतिः---( उपचारे कृतेऽप्यनवधानचित्तः सन् ) नयनाञ्जनशोभिताननाजं भ्रमराऽऽगुञ्जितगण्डपालिदेशम् । चलदीक्षणकोणकोटिलोलं रदनांशुच्छविभूषितं स्मरामि ॥ २२ ॥ मपि च-- कन्दुकखेलनबाहुप्रक्षेपोरोजदर्शनोल्लासम् । भ्रमरीखेलनकम्पितनितम्बबिम्बं स्मराम्यधुना ॥ २३ ॥ अपि च-- तन्मूर्तिमम पृष्ठतो मम पुरो मत्पावतो मद्गृहे मतल्पे मम पत्तने मम वने मत्पुस्तके मत्पथे । एवं तन्मयमेव विश्वमखिलं पश्याम्यहं सर्वदा हा हा ! तद्विरहेण दुःखलधौ ममं सखे ! तारय ॥ २४ ॥ २ १ अत्र परिणामालङ्कारः। नाडीमिति यावत् । ३ कामोपशान्तिरूप इति ध्वनिः। प्रकृतिस्थं कुर्यादिति शेषः । ४ आत्मीयम् आसक्तिरूपम् । ५ 'गुलाब' इति भाषायां प्रसिद्धम् । ६ एतेन कामकन्दलायाः पभिनीत्वं सूचितम् । ७ स्मृत्यलङकृतिः। ८ स्तनौ। ९मृत्यलङ्कारः। १. अकस्याः कामकन्दलाया अनेकत्र वर्णनाविशेषालङ्कारः। ११ परिणामालङ्कतिः । का०२ कामकन्दले- रस्मसेनः--सा का ! (श्रीपतिः सर्वमुदन्तं गदितवान् । रत्नसेना श्रुत्वा तत्र गल्वा तत्प्रतिवेशिनमपृच्छत् ।) (ततः प्रविशति प्रतिवेशी।) प्रतिवेशी-सा ज्वरादिपीडितास्तीति श्रूयते । (रलसेनः श्रुत्वा भवनमागत्य वैद्यवेशं गृहीत्वा तद्गृहसन्निधाने वसति चकार। तत्परिजमेरपरदिने श्रुतं 'भिषगागत' इति स आनीतः।) (ततः प्रविशत्यगदङ्कारभूमिको रत्नसेनः । रत्नसेन:-(धमनिमवलोक्य ) हृदयंजव्यथयाँ परिपीडितेयमिति मद्वचनं शृणुताऽऽदरात् । . .उपवनभ्रमैणाद् भविता सुखं स्वैनिलसेवनतोऽपि, न चान्यथा॥२५॥ ( इति निष्क्रान्तो वेशं त्यक्त्वा नेपथ्ये ।) (तत्सखीजनस्तां शिविकामारोप्य तत्र नयति स्म । तत्र लतोचितमण्डपे-) विरहज्वरमोहयुक्तया गलदस्रोदकबिन्दुसिक्तया । दयितो हृदि चिन्त्यते तया! शयनीये शयनं विनाऽऽस्यते॥२६॥ अपि च- वल्लीनिशान्ते कृतजागरेयं पयोपादैललनाऽऽनिशान्तम् । पयोपत्रव्यजनानिलैस्तैस्तापातिरेकं भजते वियुक्ता ॥ २७ ॥ तत्सखीषु काचिद् विदग्धसखी-(प्रविश्य ) गोपायसि कथं बाले ! वदने तव पाण्डिमा । पक्ष्मव्याप्ताश्रुविन्द्वोघाद्विरहाधिं वदत्यसौ ॥ २८ ॥ (कामकन्दला सवाग्यमम् मास्त । तदवसरे मित्रसन्देशश्रवणानन्दितस्वान्तः श्रीपतिर्वासरविरतावाक्रीडक्रीडनमिषेणागात् । प्रविश्य भ्रमल्लताच्छन्नमण्डपाग्रं जगाम । १ गृहसमीपवासिनमित्यर्थः । २ गृहीतवैद्यवेशः। ४ व्यथा व्याधिय॑भिचारी भावः। ५ 'श्रीपतिमपि तत्रैव प्रेषयिष्यामी'त्याशयेनेदमुक्तमिति भावः । ६ शुखवायुः। ७ उपविश्यते स्थीयत इत्यर्थः । ८ लतागृहे। ९ चन्द्रकिरणैः। १० उषाकालं यावत् । ११ कमलम् । १२ अत्रकथनस्य चेतनधर्मत्वादचेतनेऽप्यारोपात्समाधिर्नाम गुणः॥ १३ सायम्। १४ उद्यानविहारव्याजेनेत्यर्थः । १३ ३ मदन आधिर्वा ।
प्रथमोऽङ्कः। सो पच रस्पर विलोक्य-) चिरं विरहिणावुभौ प्रसितमानसौ दर्शने परस्परमनङ्गमार्गणनिपीडितौ पश्यतः । तदा सपुलकोत्कराञ्चिततनूरुहा निर्भर विलोक्य समयो सखीमभिनयत्यहो ! चित्तजम् ॥ २९ ॥ सखी-(ज्ञाततरवा पूर्णमुत्थाय श्रीपति प्रति-) शय्या पहजनिर्मिता कुचतटे पाटीरपङ्कद्रवो वारंवारमुदारशीतलजलैः सेकोऽपि धारागृहैः । तन्वनयास्तनुविग्रहं दहति, सस्सोढुं न शक्ताधुना दुःखार्ता, सुखदो भव प्रियतम ! त्वां नेतुमायाम्यहम् ॥ ३० ॥ श्रीपतिः-- तद्विरहानलदग्धो दर्शनपीयूषधारया सिक्तः । तत्सङ्गजीवनेन च बाले ! सुरतां च यामि सापि तथा ॥३१॥ (इत्युक्त्वा तया सहान्तर्गतः श्रीपतिः । वीक्ष्य सखीजनश्चलितः । तनूरुहमोदन. कम्पिसप्रस्वेदमौक्तिकश्रेणीललिततनुतनूलतिका कामकन्दला तमपि तथाभूतम्-) प्रेम्णाश्लिष्य तनूरुहाञ्चिततनुः सञ्चुम्ब्य वक्त्राम्बुजं पीनोत्तु कुचद्वयेन निभृतं सम्पीड्य वक्षःस्थलम् । बाला प्रीतिरसातिरेकमुकुलीभूताक्षिपद्मद्वया प्रेयांस रसतृप्तिमापयति किं निःसस्तदेहाम्बरा ॥ ३२ ॥ अपि च-- विविधैसुरतश्रान्ताङ्गायाः सुपीनकुचोपरि द्विगुणितरसप्रेमा कान्तो निधाय कपोलकम् । -- १ आसक्तचित्तौ। २ समीये। ३ कृशम् । ४ स्वर्गसुखप्राप्तिरिहैवेति भावः । ५ रोमहर्ष इत्यर्थः। ६ साविकभावातिशयादिति भावः । ७प्रापयतीत्यर्थः । प्रियतमं रसमग्नं कृत्वा सन्तोषयतीति भावः। ८नायकालम्बनः कारः। ९ नायिकालम्बनोऽत्र कारः।
कामकन्दले- प्रथितजघनः सुप्तश्चान्वदन् मुहुरादरा- दुदयशिखरे रक्तः शोभा दधाति यथा शशी ॥ ३३ ॥ (तदा गम्भीरसान्द्रस्नेहसिन्धुमज्जनसम्पादितशृङ्गारमुक्ताफलमालाललितगलेव एजितस्वेदविन्दुसन्दोहराजिहारिण्यङ्गलतिका तदीयमनोहरतरतनुवल्लरीविलोकनपुन. विगुणितसरतरतिः कान्तश्च । ) दीपे पाण्डुरंता वीक्ष्य वदनं श्लिष्टयोस्तयोः । वियोगशच्या तूर्णं तामेव रुचिमादधौ ॥ ३४ ॥ तत उत्तुङ्गापूर्वगिरिवक्षोरुहाऽऽरक्तपौरन्दरीरकपमिनीवल्लभे प्रादुर्भूते श्रीपति- रुत्थाय तामाश्वास्य गृहं गतः । पुनरस्ताचलचूडचुम्बिवारुणीरक्तचण्डांशी तथा चलि. सः । तदा कश्चिवाजचारोऽपि गतवास्तत्र । तेनोमयोः स्नेहातिशय वीक्ष्य करचित्तेन राजे निवेदितम् । राशा सामर्ष नगरतोऽपि निष्कासितः श्रीपतिः कदापि प्राप्स्यामि ताम्' इत्युक्त्वा गतः । कामकन्दला पुन:-) गते प्रियतमेऽवला नववियोगदुःखार्दिती सखीजनपुरो भृशं वदति बाष्पपूर्णक्षणा । मुहुर्व्यजनवीजनं कुरुत मा, ममोरोगतः कुपोटनिरुज्ज्वलो भवति देहदाहाय वै ॥ ३५ ॥ (श्रीपतिः पुनर्द्विगुणिततद्विरहदहनदग्धो नगरसीम्नि मध्वाप । ) ( इति निष्क्रान्ताः सर्वे ।) इति श्रीधर्माधिकारिकृष्णविरचिते कामकन्दलनाम्नि नाटके प्रथमोऽङ्कः । १४ । १ रक्तोऽनुरक्त शोणश्च । २ उपमालकतिः । ३ रूपकम्। ४अत्रापि रूपकम् । ५ उत्प्रेक्षा। ६ उषःकालाऽऽगमनात्। ७रूपकम् । ८ प्राची। शोणाऽनुरका च । ९सूर्ये । १० सुरा प्रतीची च । मद्यपत्वं व्यभिचारित्वं च ध्वनितम् । ११ एतेनाकरिते विप्रलम्भे गवस्था, अग्रे किं भावीति व्यङ्गश्चमा १२ वक्षोगतः दुगत इत्यर्थः । १३ अग्निः। १४ रूपकम् ।
- द्वितीयोऽङ्कः । १३ द्वितीयोऽङ्कः । (ततः प्रविशतः परागकेसरनामधेयौ नर्तको । अभिनीय रुचिरनटनम्-) पराग:--भो वयस्य ! वं कमपि कामकन्दलाप्रियस्य श्रीपते. वृत्तान्तं जानासि! केसर:-शृणु । ततः प्रेगे श्रीपतिः- मार्गेणाने चचालाऽसौ प्रियाविरहदुःखितः । स्मरन् हृदि गतां बालां पान्थैः सह मुहुर्मुहुः ।। १ ।। किञ्चिद् दूरं गत्वा, गङ्गाभङ्गपरम्पराञ्चिततटे पाठोपविष्टान् द्विजान् भूत्या भूषितदेहकान्तिरुचिरान् वेदोक्तमन्त्रैर्मुहुः । दर्भाग्राम्बुकणौघसिक्तशिरसो ज्योतिः परं ध्यायतो दृष्ट्वा मन्मथवाणजालविकलोऽध्वन्यः पुरः सर्पति ॥ २ ॥ परागः-सुमित्र ! म्लानमृणालेकोमलाङ्गवल्ली विप्रलम्भजाता. ऽऽभीलकृशा कामकन्दला-- अधिदिनान्तरमम्बुजलोचनाऽप्यधिवनं भ्रमति क्षुमिताम्बरा । वदति कुन्दतरुं कुसुमैर्मुहुर्हससि किं गलितालकवल्लरीम् ॥ ३ ॥ केसर:-पुनरन्यतो गला, गुञ्जन्मत्तमिलिन्दसुन्दरसरोजन्माऽलिलुभ्यञ्चल. द्धंसं शारदरात्रिनाथकिरणार्भाऽम्भः सरः शोभते । तद् दृष्ट्वा मदनेषुभिन्नहृदयः कान्तामुखाब्जं स्मरेन् नानावक्षलतानिकुञ्जभवने तिष्ठन् पुरो गच्छति ॥ ४ ॥ पुनरन्यतो गस्वा, २ अत्र वाचकलुप्तोपमालङ्कारः । ३ दुःखम् । ४ सप्तम्यर्थेऽव्ययीभावः। ५ विरूपदर्शनेनेति भावः। तरूणां कुसुमविकासे तरहास्थमिति कविसङ्केतः। ६ भ्रमराः। ७ कमलपनि। १ स्मृश्यलका - १प्रातः। ८उपमा।
y कामकन्दले- -- त्रुट्यहन्तकरोद्भवास्थिचिकुराकीर्ण श्मशानं मुहु. नृत्यतवधूकपालनिनदं गोमायुगृधैर्युतम् । तीव्रप्रज्वलदमिदग्धकुण सन्त्रासदं भीषणं पश्यन् गच्छति निःश्वसन्मुहुरयं पान्थः प्रियादुःखितः ॥५॥ परागः-सवयः ! श्रीपतिवल्लभा तत्स्मृतिदारुप्रज्वलितविरहदहना कामकन्दला पुन:- गलचिकुरघोरणी स्खलितभूषणाली च सा निरकविधुतुल्यमावहति चाननं पाण्डुरम् । दिनेशकिरणैर्यों कुमुदिनी परिम्लायति स्मराशुगगणैस्तथा विरहिणी परिग्लायति ॥ ६ ॥ केसरः--पुनरन्यतो गत्वा दूरतोऽवलोक्य पुरः पुरादागतं कम्प्रत्यूचे । ( ततः प्रविशति नागरः ।) श्रीपतिः-(प्रविश्य ) पुरेऽस्मिन् ब्राह्मणागारमस्ति नागर ! वा न वा । मार्गश्रान्तोऽहमधुना क्षणं तिष्ठामि वासरे ॥७॥ नागर: अहमेव द्विजो, मम गेहमागन्तव्यं भवता । (इति गृहं तं नयति स्म । नीत्वा संस्नाप्य भोजयित्वाऽऽस्तरणे उपवेश्य विरहपाण्डुरवदनकमलं वीक्ष्योऽपृच्छत्-) आगतस्त्वं कुतो विप्र ! क गमिष्यसि चाधुना । किं नाम तेऽस्ति भो विद्वन् ! वियोगातों नु दृश्य से ॥८॥ १ करादुद्भवो येषाम् । नखा इत्यर्थः। २ नृत्यन्तीनां भूतवधूनां कपालनिनदः कपालशब्दो यत्रेति बहुब्रीहिः श्मशानविशेषणमिदम् । ३शवः। ४ परिणामः। ५उपमा। ६ अत्र म्लायति ग्लायतीत्येकार्थस्यावृत्तेरावृत्तिदीपकालङ्कारः। ७ नगरवासिवादेतस्परीक्षणम् ।
-- द्वितीयोऽङ्कः। १५ (श्रीपतिः सर्वं तदभिललाप ।) नागरः भवन्तीपुरि विप्रेन्द्र ! गच्छ स्वं, तेमनो रथान् । पूरयिष्यति धर्मात्मा विक्रमाकों महीपतिः ॥ ९ ॥ ( श्रापतिरेतनिशम्य प्रातरुत्थाय तत्रैव धचाल । कियद दूरं गत्वा-) प्रचण्डचण्डांशुकरप्रतमो मध्यावदिष्टेऽन्धुसमीपभागे । वीक्ष्य प्रपोपालककामिनी नु प्रियानुरूपां हृदि विलोऽभूत् ॥ १० ॥ तथा हि-- विरहामिहेतिदग्धस्तथैष चण्डांशुचण्डकरतप्तः । दयितातौल्योंदियमपिहतमपि हन्तुं विनिर्मिता विधिना ॥ ११ ॥ पराग:--मारमार्गणपाटितहृदयकपाटा कामकन्दला किल-- स्मरजदुःखसमाकुलमानसा दिवसमब्दसमं समजीगणत् । कृशतराजलताङ्गुलिमुद्रिकां धृतवती च यथा करकरणम् ॥ १२ ॥ केसरः--पुनरप्रे गत्वा विविधपालाशतरपलोशिपलाशपालाशीभूते- ऽत्युच्चावचस्थले घोरझाकाररवरितप्रान्त उन्मत्तोत्तुनमातङ्गसन्निभपाषाण. गणमण्डित उच्चत्वचुम्बितचन्द्रबिम्बकूटकोटिविराजिते मृगमलखड्गिगज. द्वीपिनागादिविविधचतुष्पदाश्रिते हंसशुकसारिकाकपोतमयूरटिट्टिभरथाङ्ग. सारसतितिरिखानचातकप्रभृतिविहगकोलाहलगुञ्जिते दीर्घतरगहरनिर्झर- सरित्सरोवरगम्भीरनीरवापीकूपोपशोभिते गिरिवरेयं पुरः सर्पति । पराग:--विप्रलम्भपीडितदेहवल्लरी कामकन्दला च मनसीत्थं चिन्तयति स्म- सुमनोधन्वा भिल्लो मम तनुवातायुमुत्सुको हन्तुम् । पृष्ठे लमः प्रियतमसमागमदरी कदा प्रयास्यामि ॥ १३॥ - १कूपः। २पानीयशाला। ३ सादृश्यात् । ४हरितः। ५वृक्षः । ६ पत्रम्। ७ उपमा। ८ अयोगे योगकल्पनात्सम्बन्धातिशयोक्तिः । ९ वियपर्वते। १० काम इत्यर्थः। ११ मृगः। १२ व्याधानुसरणत्रस्तस्य मृगस्य गिरिगुहेव मे प्रियसमागम एव जीवनोपाय इत्याशयः। अत्र च समस्तवस्तुविषयं साङ्ग कपकमलङ्कारः।
१६ कामकन्दले- केसरः--वयस्य ! पुनः पुरो गत्वा विविधाऽऽमालसहिष्णुः किय. दिनानन्तरं बृहत्कपाटविष्कम्मशृङ्खलोपशोभितचतुरराजितां गम्भीरतर. सरित्सरोदीपिकाकूपजीवनजीवितपतत्रिसंहतिकलकलकूजितबहिर्मागामन्त- श्वञ्चच्चन्द्रप्रस्तरराजिराजिताऽजिरी विविधविपणिप्रसारितसरससकललोक. मनोमीनाकृष्टिकरनानावस्तुभूषितामुत्तुगतागर्वखैर्वीकृतेन्दुमण्डलपतिसदन. शशिशीलाशृङ्गामनेकरागरजितमारुतोद्धृतकोतनविलसितनागरिकाऽगार- श्रेणीशोभिताऽयनामवन्तीनगरी प्राप । तदपरफंसे 'नित्यं श्रीमहाकालेश. दर्शनायागच्छति महीपति'रिति तत्रैव निवासं कृतवानयम् । तत्र शिव. मन्दिरद्वारि पचमेकं विलिख्य स्वयं गुप्तः स्थितः । तद्यथा-- राजन् ! गुरुतो धर्मः प्राप्तो बर्थस्तथाऽन्यभूपालात् । कामं त्वत्तो याचे हीनतेन त्रिवर्गसम्पत्तिः ॥ १४ ॥ (ततः प्रविशति सानुचरो विक्रमादित्या। यस्य प्रभावो वैरिवरारोहानयनसलिल. कुल्याकलितवनकुलावलोकनेन न्दावनसन्दोहसन्देहकृत् स भासते साहसाङ्कः ।) विक्रमादित्यः--(प्रगे महाकालेश्वरदर्शनायागत्य तद् विलोक्य स्वदूतान्प्रति-) इदं पद्यं कृतं केन कोऽस्तीहस्थो हि वा न वा । अन्विष्यतां तूर्णमयं सद आनीयतां ध्रुवम् ॥ १५ ॥ (इत्युक्त्वा निलयं जगाम । दूतैः प्रान्विष्यानीतः सदः) श्रीपतिः--(प्रविश्य राजप्रणमितवरण आशीर्वचनं नाटयति-) सामाङ्गणमागतेऽमररिपौ शुम्भे जगविणे हस्ते चमकृपाणधारिणि बलैरावेष्टिते सर्वतः । १ स्यात्कष्टं कृच्छ्रमाभीलम्' इत्यमरः । २'अङ्गणं चस्वराऽजिरे' इत्यमरः । ३ सम्बन्धातिशयोक्तिः । ४ चन्द्रशाला, शिरोगृहमित्यर्थः । ५वजम्। ६ मार्गः। ७ दिने । ९ 'कुल्याल्पा कृत्रिमा सरित्' इत्यमरः। १० पद्यमित्यर्थः। ११ राजसभाम। १२ जगत् रावयति आक्रोशयति सः, तथाभूने । १३ हाल इति प्रसिद्धम् । १४ खड़गम्। । ८कान्ता।
द्वितीयोSI -- ५ युद्धोत्साहमुदा यया झटिति संन्यस्तः शरः कार्मुके तस्याः पातकसङ्घदारणकरं पादाम्बुजं वोऽवतात् ॥ १६ ॥ अपि च- राजस्त्वद्यशसा चयः प्रसरतु ब्रह्माण्डभाण्डे सदा नीते पाण्डुरतां, प्रियानपि रमा भूभृत्सुता रेवती । वैकुण्ठाऽसितकण्ठनीलवसनान्नो यान्ति येन भ्रमात् स्वद्धाटीश्रवणद्रिपुवधूनेत्राम्बुपूरो यथा ॥ १७ ॥ ततश्चश्चत्प्रभाभासुरविविधरागरञ्जितमणिगणमण्डितसमान्तरगतस्फुर. तेजोमयवज्रमौक्तिकराजिविराजितभद्रासनोपविष्टः श्रीविक्रमादित्यो भट्टारक: कुतो भवानागत ईदृशी तेऽवस्था गमिष्यत्यधुनेति कुत्र । स्वं कोऽसि शीघ्रं वद तेऽभिलाषः कोऽस्तीति राजा निजगाद विप्रम्१८ श्रीपतिः-- यशो निशम्याशु तवालयेऽहं यातो विमोक्तुं निजदुःखभारम् । अतो विविक्ते ब्रज राजराज ! जनाग्रतो वक्तुमशक्यमेतत् ॥ १९॥ ( भट्टारको रासि नीत्वाऽपृच्छत् । श्रीपतिः सर्वं सम्यगवावदीत् ।) भट्टारकः- स्वस्थो भव त्वं विप्रेन्द्र ! करिष्ये प्रथमं तव । कार्य, पश्चात्स्वकं राज्यं द्रक्ष्यामीत्यवधारय ॥ २० ॥ ( एतनिवेध सभामागतः । सदोगतो भट्टारकोऽमात्यादीप्रति पश्यति स्म।) अमात्यः-(प्रविश्य ) स्फुरत्प्रतापतपनः कीर्त्या चन्द्रो महीपतिः । को नियोगोऽथ कर्तव्य आज्ञापयतु सादरम् ॥ २१ ॥ भहारकः-प्रकामायाँ कामसेनाभिधं राजानं प्रति सन्देशहरः प्रेषयितव्यः-भावस्की कामकन्दला वारवधूरत्र प्रेषयितव्याथवाऽनीक कर्तव्यमिति । १वीररसः। २ विष्णुमहेशबलरामानित्यर्थः । ३ युद्धयात्रा। ४ पलायमानेत्यर्थः । ५ एकान्ते। ६ यक्लुगन्तादू वघातोलडिरूपम् । ७ अपकमुलेखश्च । ८ युद्धम् । ! का..
कापकन्दले- (अमात्यो झटिति तमाहूय प्रेषितवान् । दूतस्तूर्ण तन्त्र गत्वा द्वारपालदत्तप्रवेशा समा प्राविशत् ।) दूता--(यथावत् प्रणम्य) श्रीमन्महाराजराज ! श्रीराजाधिराजवरिष्ठ शत्रुविमर्दनशीलविक्रमादित्यप्रेषितोऽहम् । इदं पत्रं ग्राह्यम् , अस्योचर- वितरणं तूर्णमेवे । कामसेनः--(पत्रं विलोक्य सामर्ष मन्त्रिणं प्रति) दूतं प्रत्युत्तरम- विक्रमार्केण सह तुमुलमेव करिष्यामि न तामिति ददस्व । मन्त्री--दूत ! त्वं गच्छ राज्ञे विनिवेदय - न तो प्रेषयन्ति युद्धाय समुपस्थिताः। (दूतः सन्देशं गृहीत्वा पुरमागत्य भट्टारकायोक्तवान् ।) परागः-वयस्य ! प्रियतमराहित्यकृच्छशातकाययष्टिः काम कन्दला सखी प्रति बभाषे- यातः स्वप्ने निशायां शयनतलगतां मां हठादोलताभ्या. मालिङ्गय प्राणनाथश्चटुतरवचसाऽवोचदेतच्छृणु त्वम् । तद्वक्त्राब्जे स्वकीयं वदनमथ निधायाशु चुम्बामि यावत् प्रेम्णा तावद्वयस्ये ! बत शठविधिना नष्टनिद्रा कृताऽहम् ॥२२॥ चिरव्यथितबालाया विप्रलम्भावस्था कियदभिनेतव्येत्यलम् । ( इति निष्क्रान्तः ।) (केसरो वीररसाधिष्ठितः ।) भट्टारकः-( मन्त्रिणं प्रति ) धाँटीसामग्री कार्या । मन्त्री-(वाहिनीपतिमाहूय ) चतुरङ्गानीकं सज्जीकुरु । ( सेनानीस्तूर्णमागत्य निषादिसादिपदादीन सज्जीचकार । कृत्वा श्वस्तन एव यानं भवितेति विज्ञाय पूर्व प्रभुं बल दर्शयितुं स्तम्बेरमा दिसैनिकानोदयामास ।) आदौ करिसेनानीरागतः । तोरणाग्रत:- १३ १३ १दृतम्। २ शीघ्रमेव । कार्यमिति शेषः । ३ ददस्वेत्यत्रान्वयः। ४ प्रेषयामीति शेषः । ५ दुःखम् । ६कृशा। ७ अभूदिति शेषः। ८ युद्धयात्रा । ९ सेनापतिम् । १० हस्त्यश्वरथपादातमिति चत्वारि सेनाङ्गानि । ११ हस्त्यारोहाः। १२ अश्वारोहाः। १३ पदातयः॥ १५ सम्यम् । १५ गजादिसेनारक्षकान् । १६ बहिरिम् ।
द्वितीयोऽङ्कः। १९ . शुण्डादण्डप्रघूर्णश्रवणरिपुसमक्रूरनादप्रचण्ड. प्रोदामोच्छृङ्खलौघाः प्रतिभटहृदयद्रावकाः पर्वताभाः । चीत्कारक्षोभिताशा मदसुरभिलुठन्मतगुञ्जन्मिलिन्दा आन्दोलालोलकर्णा मदकलकरिणां राजयः प्रस्फुरन्ति ॥२३॥ ततः सादिसेनानी:- हेषात्रासितशत्रवश्वपलतागण खर्वीकृत. स्त्रीनेत्राः खुरकुट्टनेन नितरां क्षोदीकृतक्ष्मातलाः । स्फूर्जद्माणचलं निगाललुलितश्यामालकाः किङ्किणी- झाङ्कारध्वनिगुनिताश्चतुरगाः काम्बोजका भान्त्यमी ॥ २४ ॥ सतः पदातिसेनानी:- कियन्तो धानुष्काः फलकविधुहाँसध्रगुरवः परे योधाः कुन्तक्षपितरिपुदेहा मदकलाः । तथोद्यन्नादात्रा वरुणतनयापानरचिता. ऽरुणाक्षास्ते शूराः कवचकलिता भान्ति पदगाः ॥ २५ ॥ ततो रथिसेनानीः-- उद्दामोद्दामचञ्चद्रथतनुदलितक्ष्मातलास्तुङ्गवाहा वेगप्रोमूतनादक्षुभितरिपुजनाः स्यन्दना भान्ति भाभिः । केतुक्षिप्ताऽभ्रसम्धारणसकलकलाकोविदानां भटानां जेतृणां क्षुद्रघण्टास्वचकितसुरागारवीराः पुरस्तात् ॥ २६ ॥ मश्रीपती राजा एवं सकलं स्वचक्रं वीक्ष्य सचिवान्तरं संस्थाप्य यात्रायै प्रस्थितवान् ।) ( इति निष्क्रान्ताः सर्व।) इति श्रीधर्माधिकारिकृष्णविरचिते कामकन्दलनाम्नि नाटके द्वितीयोऽङ्कः । १ गलोद्देशः। २ कम्बोजदेशोद्भवा उत्तमजातीया इत्यर्थः । ३ ढाल इति प्रसिद्धम् । ४ खड्गः । ५ प्राससंज्ञक आयुधविशेषा, भाला इति प्रसिद्धः । ६ बन्दूक इति प्रसिद्धम् । ७ वारुणी सुरा। ८ भृशार्थे द्वित्वम् । ९ रथाङ्गं चक्रम् ।
३० कामकन्द- -- तृतीयोऽङ्कः । (ततः प्रविशति निद्वयम् ) प्रथमः-श्रीविक्रमादित्यमहाराजो विजययात्राये प्रस्थितवानिति श्रूयते । तत्र किं वृत्तम् ? द्वितीयः-ततः प्रातर्विविधमङ्गलतूर्यनादसंरम्भे सति साहसा गृहाद् बहिरभूत् । तदानी हि- जयाय चलिते भूपे प्राची रागारुणाम्बरा । सौर बिम्बं समादाय स्थिता नीराजनाय किम् ॥१॥ पदाम्तराणि गते सति-- पश्यन्ति पौराः पवनायनेषु स्थिस्वा सहर्ष कुतुकेन सेनाम् । मत्ता गजा लोलहयाः स्फुरन्तो रथा भटा उद्धतशस्त्र सङ्काः ॥ २ ॥ मगरतो बहिभूतं दृष्ट्वा-- वाहौघोत्खुरकुट्टनोद्धतरणेच्चक्रममाऽऽचूर्णित. क्षित्युड्डीनरजः सुरैः सचकितं ध्वान्तीकृताऽऽकाशकम् । दृष्ट्वा दुन्दुभिनादभीतवनितावृन्दं भुजाभ्यामुरो- लमं व्यग्रमनोभिरद्भुतमिदं प्राश्वासितं निर्गमे ॥ ३ ॥ प्रथमः-ततस्ततः ? वितीय:-एवं चलन् स प्रकामासमैया गत्वा गव्यूतियुगदूरे रणध्वजं स्थापयित्वा लेख्यार्थसंवाहक प्रेषयामास । दूतस्तत्र गत्वा प्रतीहारदत्तप्रवेशो भूपं ददर्श । यथावत्प्रणम्य च प्रोवाच- 'प्रचण्डकुण्डलिताहिण्डितगजशुण्डमाण्डितभुजदण्ड कुण्डलितचण्डकोदण्डो. ड्डीनबाणताण्डवखण्डितभटमण्डलः श्रीविक्रमादित्यस्त्वत्पत्तननिकटवर्ती १ वाद्यम् । २ विक्रमादित्या। ३ सिद्धविषया हेतूस्प्रेक्षा। ४ वातायनेषु गवाक्षेविस्यर्थः । ५ गर्जत् । ६ यात्रायाम् । ७ समीपे। ८ क्रोशयुगम् । ९ दूतम् । ११ कुण्डलं कुण्डलाकारं सातं यस्येत्यर्थः । 'तदस्य सम्जात'. मितीतच । E १०द्वारपालः।
तृतीयोऽङ्कः। २१ युद्धायोपस्थितः । त्वमपि तस्सामी तूर्ण कुरु' । राजा चार्विति स्वीकृत्य मन्त्रिणं प्रति । दूतश्चलितः । इहागत्य भट्टारकाय निवेदितवान् । (ततः प्रविशतः श्रीसाहसाङ्को मन्त्री च । ) मन्त्री-आज्ञापयतु भूपालः । राजा-चतुःप्रतीकमनीकं सज्जीकुरु । ( इति निष्क्रान्तो मन्त्रिणा सह ।) प्रथमः-ततः कि वृतम् ! द्वितीयः-सज्जीकृत्य च सेना मन्त्री राजानं व्यजिज्ञपत् । राजा सचिवान्तरं सबलं युद्धाय प्रेषितवान् । आगतस्तुमुलचत्वरं सः। उभयो. दुन्दुभिनादो जातः । भटकंटकं बद्धम् । अथ कचित्परस्परं बृहच्छृङ्खला. घूर्णनताबनोद्दण्डदन्ताघातोत्तुगण्डस्थलोद्धताघातचीत्कारस्वशुण्डादण्ड प्रथनयुध्यमानगजारोहास्तथा स्फूर्जद्धेषांघोषणानिमखुरखरताडनचरम चरण. पातावेगवर्यनललिताश्वारोहास्तथा वङ्गाजलाटचोलहूर्णप्रभृतिवारुण्यरुण. लोचनाः पदातयस्तथा किरिणीमादपूरिताकाशोत्तुङ्गवाहबहनाऽपस्कररव. गर्जावरक्षकाद्युपशोभितस्यन्दनारोहाः कवचिनोऽन्ये भटाश्च खगधनुर्भल्ल शक्तिशूलपट्टीशमुद्रपरश्वधादिविविधशस्त्रमहायुयुधिरे । वाहिनीनाथकालाँलं पातुं खड्गधनाधनाः । धनुरारावनिर्घोषा बाणपुङ्खतडिद्युतीः ॥ ४ ॥ भल्लैश्छिन्नाः कियन्तो हयखुरदलिताः केऽपि बाणोघभिन्नाः केचिद्दन्तीन्द्रशुण्डाधृतपदकमला रक्तरक्ताम्बराश्च । १पश्यति स्मेति शेषः। २ चतुरङ्गं सैन्यम्। ३द्वितीयं मन्त्रिणमित्यर्थः । ४ युद्धाङ्गणम्। ५ सेना। ६ हेषा अश्वशब्दः। ७ तीक्ष्णम् । ८गमनम् । ९ म्लेच्छजातिविशेषाः। १० क्षुद्रघण्टाः। ११ चक्र। १२ वी इति ख्यातम् । १३ आयुधविशेषः पटा इति प्रसिद्धः। १४ परशु। १५ सेनापतिः समुद्रश्च । १६ रक्तं जलं च। १७ वर्षुकाना। १८ रूपकालङ्कारः।
२२ कामकन्दले- धूर्यन्ते ते तथापि प्रबलभुजेलताकाण्डकण्डूयनेन प्रोद्भूतोद्दामवीर्या रणभुवि सुभटाः पानशोणायताक्षाः ॥५॥ प्रथमः-ततस्ततः ? द्वितीय:-तदानीं श्रीविक्रमार्कस्य प्रोद्भटभटसन्ताडितकामसेनभूपा. ऽनीकिनीनाथा गजयरथारोहा मदोद्धतयोद्धारश्च सर्वे पलायिताः । केचिद्विशन्ति भयतो गिरिगह्वराणि त्यक्त्वायुधानि नृपतेः शरणं च केऽपि । अन्ये भटा विविधवेशधराः प्रकामं भिक्षार्थमद्भुततरा विचलन्ति चित्रम् ॥ ६ ॥ वीक्ष्य भट्टारकस्तान् अत्युद्धतपराक्रमशालिमहाबलभटान्सङ्ग्रह्य स्यन्दनमारुह्य प्रकामानगरं शनैः शनैरुपाजगाम । श्रुत्वैतत्कामसेनः पलायितबलो भीत्या पुष्पसम्बद्धहस्तो विक्रमरवेः पुरस्तादाजगाम । (ततः प्रविशति विक्रमादित्यो राजा यथानिर्दिष्टः कामसेनश्च ।) भट्टारक:--( वीक्ष्य सामर्षम् ) कामसेन ! मया साकं क्षुद्रसेनाऽतिगर्वतः । युद्धायोपस्थितोऽज्ञातविक्रमादित्यविक्रमः ॥ ७ ॥ कामसेनः--राजेन्द्र ! महानपराधः कृतो मया । यतः पूर्वमेवा- ऽहङ्कारतो न प्रेषिता कामकन्दला । अतोऽहं क्षन्तव्यः । ( भट्टारकः सप्रसादं झटिति तं स्वस्यन्दने सहगृह्य रणाजिरं दर्शयति स्म । ) छिन्नप्रोद्दण्डवक्षःपदकरशिरसो व्याकुलाः शस्त्रपाते. योधाः कीलालनाद्भवबहलतरोत्तुङ्गभौधरक्ताः । शोभन्ते युद्धभूमौ पिबति किल तथाऽसुंक्च नक्तश्चरौधो योगिन्यः सञ्चरन्त्यो मृगकितवगणा वीरवीर्य नुवन्ति ॥८॥ १ 'घूरी हिंसाया'मिति धातुः । मार्यन्त इत्यर्थः । २ रूपकम् । ३ सेनापतयः। ४ सक्रोधम् । ५ पराक्रमः। ६ कामसेनम्। ७ युखाङ्गणम् । ८अत्र बीभत्सरसा। ९ तद्गुणालङ्कारः। १० रुधिरम्। ११ मृगधूर्ता गोमायवः। १२ स्तुवन्ति । ४ तृतीयोऽ। मपि च-- श्रीमद्भट्टारकस्य प्रखरतरलसतेजऔर्वामियुक्त निनीमाश्वोपनके सभटरथचयद्वीपवृन्दे गभीरे । सेनाकीलालसिन्धौ गजकुणेपबृहत्पोतसंलमभल्ल- स्तम्भासक्तारिहस्तध्वजमिब चरितं दृश्यते युद्धभूमौ ॥ ९ ॥ ( एताहक्समरा जिरं दर्शयित्वा स्वस्थले प्रणीयोपवेशयामास । उपविष्टं तं प्रति-) भट्टारक:-- श्रीपतिभूसुरश्रेष्ठो विद्याऽकूपारपारगः । यातस्ते राजधानी स कुतो निष्कासितस्त्वया ॥ १०॥ कामसेनः- मत्पुरो वाररामायै किक भूषणादिकम् । तेन श्रीपतिना गर्वात् किं दृष्ट्वा दत्तमर्थिना ॥ ११ ॥ अहं दातुमशक्तः किं, तस्यामासक्तचेतसा । यदर्पितमतो देशाद् बहिनिष्कासितो मया ॥ १२ ॥ भट्टारकः--तेन तस्यै किं ज्ञात्वा दत्तं, तदज्ञात्वा त्वयाऽमर्षेण निष्कासितः। कामसेनः--कि विज्ञाय ? भट्टारकः--वदनसुरभिलोभभ्रमद्ममरदष्टचूचुकायाः सकलकले वररुद्धसमीरदूरीकृताया एतच्चातुर्य विज्ञाय । ( कामसेनः सलज्जो निरुत्तरः ।) भट्टारकः--ज्ञातं नैतत्तव सदसि केनापि । कामसेनः-- ज्ञात्वा गुणगणमस्या दत्तं सम्यक् कृतं तेन । तस्यामासक्तोऽभूदनुचितमेतत्कथं तस्य ॥ १३ ॥ . १बीभत्सरसः। २ वडवाग्निः । ३मृतः। ४मकरः। ५शषः। ६ जहाज इति भाषायां प्रसिद्धम् । ७ अत्र पधे रूपकमुत्प्रेक्षा च । ८ समुद्रा 'चूचुकं तु कुचाग्रं स्यात्' इत्यमरः । १० अभूदिति शेषः।
कामकन्दले- ५ ! भट्टारक:--सौन्दर्यदर्पखर्वीकृतोर्वशीगर्वा गीतनीचीकताटवीमियो- जना लास्यलज्जितरम्भोत्कृष्टगुणगणवती कटाक्षपातैः कस्य मनो नाकर्षति । (कामसेनः साध्विति स्वीकृत्य तदाज्ञां प्राप्य निजागारं जगाम । भट्टारका यथाऽयमासक्तस्तथा सास्ति नवेति विज्ञातुं साहित्यो भूत्वा विविधचारुतरमनो हरवस्तुविक्रयणव्याजेन तद्गृहं गत्वा विरहाऽऽभोलकृशाङ्गी दयितस्मरणप्रसिता का वीक्ष्य ज्ञाततस्वः पुना राष्ट्रमागत्य श्रीपति मगरं प्रेषितवान् । श्रीपतिस्तूणं तत्रागस्य रत्नसेनालयं ययौ । मिलित्वोभौ परस्परमालिङ्ग्य कुशलवृत्तं कथयामासतुः । ) रत्नसेनः-(प्रविश्य) वयस्य ! दुःखाम्भोधिस्थचिन्तौबंदग्धं मा. मविज्ञाप्य व गतस्त्वं किमिति ! तत्कथय । श्रीपतिः--(प्रविश्य) भो मित्र ! किं वक्तव्यम् । बनि दुःखानि भुक्तानि मदर्थमेव श्रीविक्रमसूर्येण । 'कामसेनेन सहाऽनीकं कृत'मित्यादि सर्व वृत्तमजागदीत् । मत्प्रियायाः कुशलवृत्तान्तं तूर्णं निवेदय । रत्नसेनः-तत्कुशलं त्वद्विरहेण जीवितमात्रशेषामिति । (श्रीपतिः श्रुत्वा मूछा प्राप। रत्नसेनो झटिति तं प्रकृतिस्थं कृत्वा स्वस्था भवेत्युक्त्वा निष्क्रान्तः । श्रीपतिधैर्यमवष्टभ्य स्नात्वा भोजनादिकं विधाय चारुवसना. लङ्कारान्परिधाय कामकन्दलागृहं जगाम । तत्परिजनो यान्तं श्रीपतिमवलोक्य तां निवेदयामास ।) कामकन्दला-(श्रुत्वाऽऽशूत्थाय, प्रविश्य ) कथमागतोऽसि कान्त ! त्वं, किं जातं सविस्तर वृत्तम् । क गतोऽभूरिति शीघ्रं वद खलु, तुष्टो नरेशः किम् ॥ १४ ॥ (इत्युक्त्वा ) विरहविधुररामा प्राणनाथं निगद्य प्रसभमथ भुजाभ्यामङ्कपाली चकार । १ स्वीकृता, नाशित इत्यर्थः । २ वनप्रिय प्रिया कोकिलेत्यर्थः । ३ आकारगोपनम् अवहित्था, तया सहितो भूत्वा । आकारगुप्ति कृत्वेत्यर्थः। ४ तत्पराम्। ५ 'ठूलोप' इति दीर्घः। ६ 'और्वस्तु वाडवो वडवानलः' इत्यमरः । रूपकमत्र । पुनः पुनरगादीत्यर्थः। ८ धृत्वेत्यर्थः। ९ मालिशनम् ।
हतीयोऽ। २५ दयितसकलवृत्तं नो रसात्किञ्चिदूचे प्रियतम इति रागं वीक्ष्य तामालिलिङ्ग ॥ १५ ॥ मपि च-- चिरं बाढाश्लेषप्रकटतररोमाश्चिततनू रसाऽऽलोलाक्षीयं प्रियवदनचन्द्रं सुखकरम् । चिरं वीक्ष्य प्रेम्णा वदति दयितं-स्वत् किल विना स्वसाम्यं मां नेतुं कुसुमधनुषा सूचभूत् ॥ १६ ॥ (श्रीपतिः पुनरालिभाय सन्चुम्ब्य सर्वमाद्योपान्हं निमदितवान् ।) कामकन्दला-(सहर्षम् ) भोः प्राणनाथ ! खलु शत्रुगृहे निवासो नो चार विद्यत इति प्रवदन्ति सन्तः । कुद्धाऽहिरन्ध्रसमया वसतिर्जनानां नाशाय किन्न भवति स्म कदापि काले ॥ १७ ॥ अतो भेट्टारकस्यैव नगरं गन्तव्यमेव । श्रीपतिः-एतदेव भट्टारकेण समं विचार्यायातोऽहम् । स्वस्था भव, श्वस्तन एव यानं भविता । (इति निगद्य यथेप्सितं विहितविहारो रत्नसेनागारं गत्वा तमपीदं निवेद्य पुनर्विक्रमादित्यस्य संष्ट्रमाजगाम । ) प्रथमः ( भटः )-श्रूयते किल कामकन्दलागृहाद्विक्रमादित्यस्य राष्ट्र गतः श्रीपतिः । तत्र गत्वा तेन पुनः कि कृतम् ? जानासि चेत्कथय । द्वितीयः ( नटः )-तत्र गत्वा तमपि सर्व कथितवान् सः । पुन- रपरवासरे सचिवान्तरं सगृह्यायुधजीविभिः साकं तस्या निकाय्यं गत्वा तां प्रगृह्य कामसेनं निवेद्य स्वस्थानमानीतवान् । भट्टारक: स्वपतनं चचाल । चलन्प्रविष्टः । तदानी पौरा ऊचुः- यदीयभुजदारितप्रबलशत्रुभूपाङ्गना- सुलोचनविनिर्गताऽविरतवारिधारामरः । -- १ अतनुत्वम् । एतेन दशम्यवस्था सुध्यत । २ उद्यमः कृतः। ३ अत्र विशेषस्य सामान्येनोक्त्या अर्थान्तरन्यासालङ्कारः । ४सर्पविलसमापे। ५ राज्ञो विक्रमादित्यस्येत्यर्थः । "गृहम। ६ स्वदेशमित्यर्थः । ६ योधे।
२६ कामकन्दले- निपत्य कुचपर्वते सुरनदीच्छविधो यशो. मरालपतिमूर्मिभिः सुरमयत्यहो ! याति सः ॥२८॥ अपि च- काश्चिद्वातायनस्था विजितरिपुबलं भूपतिं पुष्पवर्षे. वर्षन्त्यग्रे च काश्चिनरपतितिलकं चारु नीराजयन्ति । काश्चिल्लाजान् क्षिपन्ति प्रतिपदमपराः कीर्तिमुत्कीर्तयन्ति प्रेक्षन्तेऽन्याश्च रामाः प्रतिसदनमहो । विक्रमादित्यवीरम् ॥१९॥ वजन् गृहद्वारमाजगाम । प्रथमः--ततस्ततः ! द्वितीयः-तदनन्तरं चञ्चतडिदाभमणिदेदीप्यमानप्रासादद्वाँस्तो विविधमङ्गलपूर्णकलशशर्यकमलाः काश्चिद्गोधूमचूर्णरचितडमरुसहशनीराजन- मार्गणेशाखजलजाः काश्चिद्विपञ्चीसप्तस्वरगीयमानविविधरागमनोहरास्तथा बहिर्नानाविधमङ्गलगायकमागधस्तुतिपाठकाश्चान्ये वादित्रैर्महोदयं मन्यन्ते यस्य, स साहसाङ्कः श्रीपतिना सह सहर्षपुलकोऽन्तश्चचाल । अधिसदो- ऽपरामात्यमाहूय 'मम सुहृत्तरं श्रीपतिपण्डितं मदुत्तरदेशस्थविच्छन्दकं दद. स्वे'त्युक्त्वा सूतमतमवासोऽलङ्कारैः सत्कृत्य वाडवहाँस्तिकरथौधरीत्री. प्रेडाशिविकादि सर्व दत्त्वा साष्टाङ्गप्रणमितमस्तकं भट्टारकं 'राजराज ! त्वद्यशोवल्लीपल्लवः कुसुमं धेरतु, भूपभूप ! त्वदात दीपस्त्रैलोक्यमुज्ज्व. लयतु, देवदेव ! कम्पितरत्नसौनुदानवारिपारावार कल्लोलराजिविलसतु ते' इत्यादिदत्ताशीःश्रेणिः सचिवेन सह तत्राजगाम । भट्टारकस्तामपि तथा १ रूपकम्। २ इहोपमालङ्कारः। ३ हंसः। ४ नीराजनामारार्तिकं कुर्वन्तीत्यर्थः । ५ वर्णयन्ति । ६ सदनं सदनं प्रतीति वीपसार्थेऽव्ययीभावः । गृहे गृहे इत्यर्थः । ७ द्वाारम् , तस्मात्तसिल । ८हस्तः । ९मार्गणशब्देन पञ्चसंख्या ग्राहा । पञ्चसंख्याका शाखा यस्येति पञ्चशाखो हस्त इत्यर्थः। १. सप्तभिस्तन्त्रीभिः परिवादिनी वीणा । ११ सभायाम् । १२ राजगृहम् । १३ वाजिसमूहः । १४ गजसमूहः । १५ गाडी इति प्रसिद्धा । १६ डोला इति प्रसिद्धा । १७ पालखी इति प्रसिद्धा। १८ राजानं कामसेनमिति यावत् । १९ परिणामः। २० रूपकम्। २१ सुरालयो मेरुः। २२ अद्भुतौदार्यवर्णनावत्युक्तिरलङ्कारः ।
तृतीयोऽङ्कः। २७ सत्कृत्य प्रेषितवान् । प्राप्तावुभौ विधुसदनं गत्वान्दोलनपीठ उपविशतः । सौन्द्रस्नेहसुयानमांजनसमारूढी प्रहर्षोंदधा. वौत्सुक्योद्धतत्रायुवेगचलितो भौगौघहीराकरे । तानादातुमनुत्तमाँस्तरुणतामूल्यादिविक्रेर्तृतो यातायातमनोरयौ प्रियतमौ, मन्ये निसंगों नवः ॥ २० ॥ प्रथम:-जगदुद्दण्डभुजदण्डाघातक्षपितरिपुबलललनालोचनसलिल. निधिजनियशचन्द्रप्रसूतकिरणनीतश्वेतीभावविक्रमरविप्रसादलब्धबहुविध. विलासयोरुभयोः षड्ऋतूत्सवलीला संद्रष्टुमिच्छामि । सखे ! तावदभिनया द्वितीय:-अथ सुमनोऽनहेसि, उड्डीनोड्डीनपिष्टांतकनिचयकृतध्वान्त एणामदाढ्य - प्रासाराऽगारमुक्तारुणसलिलभरासिक्तदेशे निवासे । उद्दामोदामवीणाधनपणेवरवाऽऽगुञ्जिते मत्तरामा. वृन्दैः सार्ध प्रसूनाभरणविलसिता बद्भुतं दीव्यति स्म ॥२१॥ तदनु प्रीष्मसमये- बालाऽच्छपाटीरसादेहा धारागृहाऽऽमुक्ततुषारसिक्का । ज्योत्स्नावदाते कुसुमावकीर्णे शुद्धान्तपृष्ठे रमते प्रियेण ॥२२॥ ततः प्रावृट्काले- गर्जज्जीमूतसङ्के विलसिततडिति प्रोकिरद्वारिधारे संडीनैहससबैः शबलितगगने प्रोन्नविहिसार्थे । आराम कोकिलालीकलकलकलिते वृक्षवृन्दावकीर्णे ह्यान्दोलायैर्विलासैः प्रमुदितहृदया क्रीडति स्म प्रियेण ॥२३॥ १शिरोगृहम। २ अत्र श्लोके साषयवरूपकालकतिः । ३ 'यानपात्रे शिशौ पोतः' इत्यमरः । जहाज इति प्रसिद्धम् । ४ रत्नखनिः। ५ तान् भोगान् , सदूपाणि रत्नानीत्यर्थः । ६ 'मुल्यात् इविक्रेतृतः' इति पदच्छेद । कामः । ७ सृधिरित्यर्थः ८ रूपकम्। ९ अद्भुतशौर्यवर्णनावत्युक्तिरलङ्कारः । १०पुष्पकाले वसन्ते । ११ गुलाल इति प्रसिद्धः। १२मृगमदः कस्तूरी १३ धारागृहं पिचकारीति ख्यातम् । १४ कांस्यतालम्। १५ डफ इति प्रसिदः। १६ चन्दनम् । १७ अट्टे। १८ मेघः। १९ चित्रितम । २० मयूरः । २१ उपवने। २२ अलातिप्रति पति प्रसिद्धः। - 1 पुस्तकालयप्रसिद्धः २८ कामकन्दले- - - अनन्तरं शरदिष्टे- शीर्षागाराऽपृष्ठे सुरभितरलसत्पारिजातलगालि. व्यासक्ताऽऽपीनवक्षोरुहयुगललुठत्केतकीरेणुपुजा । इन्दुज्योत्स्नावदाते शयनतल इयं प्राणनाथेन साकं मन्द मन्दं वहद्भिर्मलयजपवनइष्टचित्ता तदासीत् ॥ २४ ॥ अथो हेमन्तावसरे- बाला चन्द्रग्रेहान्तरे सुविजने ताम्बूलपूर्णानना शीतोत्कम्पतनूरुहाश्चिततनुर्माञ्जिष्ठरक्ताम्बरा । कस्तूरीरसलिप्तपीवरकुचाभोगा प्रियस्योरसि क्लान्ता सा प्रसभेन चित्रसुरतैः सुप्ता तदासीदहो ! ॥ २५ ॥ अथ शिशिरसमये- पर्यवाघोहसन्तीगतपवनसुहृत्तप्तगर्भालयेऽस्मिन् बाढाश्लिष्टा प्रियेण प्रमुदितहृदया तूलसान्द्रांशुकाट्या । कस्तूरीदेवपुष्पक्रमुकफलयुतोद्वीटिकीपूर्णवक्त्रा शेते सौहार्दभारालसतनुलातका चाटुसंलापिनीयम् ॥ २६ ॥ एवं तौ समकालं क्रीडन्तौ विजयेताम् । (सानन्दम्) हेतो हेयरिपुर्यया विजितलेखवृन्दोऽसुर- स्तदीयकृपया सदा मिथुनमेतदाक्रीडतु । परस्परमनोधरातलगतप्रहार्दोलेपो दिवानिशमुपैधता विविधभोगपुष्पच्छदैः ॥ २७ ॥ (इति निष्क्रान्ताः सर्वे ।) इति श्रीधर्माधिकारिकृष्णविरचिते कामकन्दलनाम्नि. नाटके तृतीयोऽः । प्रथम: समाप्त चेदं कामकन्दलं नाम नाटकम् । १ शिरोगृहम् । २शिरागृहमध्य । ३बोरसी इति ख्याता। ४ अग्निः। ५ पासगृहे। ६ कार्याला ७ लवङ्गम्। ८ ताम्बूलम् । ९भरतवाक्यमिदम् । १० महिषः । ११ देवाः । १२ वल्ली। रूपकम् १३ वर्धताम् । १४ रूपकालङ्कारः।
*श्री:
श्रीधर्माधिकारिकृष्णपण्डितविरचितम्
श्रीकालिकामन्दाक्रान्ताशतकम् ।
श्रीकालि ! त्वद्गुणलवमपि प्राप नो वेदराशि-
यस्यान्तं नो विधिमुखसुरा नारदाचा मुनीन्द्राः ।
प्रापुस्तत्वां सकलकलनाशालिनी ब्रह्मरूपा.
माथा स्तोतुं कथमहमहो ! शक्नुयामपजन्तुः ॥ १ ॥
त्वं बिहाने नटसि जगति स्वेच्छया यस्य मात.
वाचा
गुम्फः
प्रसरति मुखात्तस्य लोकोत्तरश्रीः ।
तस्मात् स्तव्यं स्तुसिरपि शिवे ! स्तावकोऽपि त्वमेव
वैशिष्टयं किं मम कृतनुतौ न्यूनतोदिक्ततासु ॥ २॥
श्रेष्ठपाद् यायां द्रुहिणशरणं, सोऽपि वैकुण्ठनाभी
शेते, सोऽपि स्वनयनकजेनार्चयामास शम्भुम् ।
सोऽपि क्ष्मायां स्वहृदि चरणं ते निघायाथ शेते
तत्त्वां यातः शरणमधुना पाहि मां दीननाथे ! ॥ ३ ॥
पर्यहत्वं विधिहरिहरायाः शवीभ्य मातः
प्रापुर्विज्ञापनकृत उमे ! वासवाथास्तु देवाः ।
दूर द्वारादवसरमनुप्रेक्षमाणा यतन्ते
विज्ञप्तिमें कथमथ पुरस्ते भवेत् क्षुद्रजन्तोः ॥ ४ ॥
हे ! मातस्ते चरणकमलोपासनायां त्रिकालं
दृष्ट्वा दृष्टवन विमलनखरे बिम्बितान् ब्रमकोशान् ।
अव्याजाद् यान् विधिहरिशिवास्त्यक्तकर्तृत्वगर्वा
नारीभूता नमितवदना अस्तुवन् भूरि भूरि ॥ ५॥
श्रीकालिकामन्दाक्रान्ताशतकम् । वासः काष्ठाऽऽभरणमुरगा भाजनं नुः कपाल क्रोष्ट्रयः सख्यः कुणपशयनं पित्ररण्ये निवासः । सामग्रीत्थं तव परशिवेऽकिश्वनी त्वं तथाप्यै. श्वयं तुच्छीकृतसुरपदं सुप्रसन्ना ददासि ॥ ६ ॥ श्यामासि त्वं गिरिशमहिले! पादपद्माश्रयाख्या. श्चन्द्रज्योत्स्नाविशदयशसां पात्रभूतान् करोषि । भस्येवं त्वं विषमनयना पश्यसि स्वीयभक्तान सर्वान् श्याम ! बत समदृशा ते समस्तं विचित्रम् ॥७॥ माध्वीकुम्मान पिषसि सततं रक्षणे सावधाना गर्जस्येवं भयकररवैर्भीतिभावं धुनोषि । एवं धत्से प्रकटितमुखं शोणितासारकीर्ण भक्तेष्वद्धा भवसि मृदुला किं ब्रुवे ते चरित्रम् ॥ ८ ॥ मालां धत्से मनुजशिरसां नारमुण्डं कराब्जे कठ्यां काञ्ची नरकरमयों श्रोत्रयोः शावयुग्मम् । इत्थं साक्षादशुभचरिता मजलं भक्तिभाजा नव्यं नव्यं गिरिशदयिते ! सर्वदा त्वं करोषि ॥ ९ ॥ पत्युर्वक्षःस्थलमुपगता नृत्यसि त्वं यथेच्छं वेदो लोको वदति लिखति त्वां सतीति प्रकामम् । धूमारूपं प्रविधृतवती भक्षयित्वा स्वकान्तं सौभाग्यं ते स्थिरतरमहो ! तेन तत्त्वं न विद्मः ॥ १०॥ पत्युनिन्दाश्रवणजरुषा यत्त्वया स्वं शरीरं त्यक्तं शम्भुप्रधृतमवनौ खण्डशो विष्णुकृत्तम् । स्थाने स्थाने पतितमकरोत्पुण्यदा पाठमालां कोपोऽप्युचैर्जगदुपकृति कालिके ! ते तनोति ॥ ११ ॥ निद्रामुग्धे कमलनयने तच्छुवोगोईजाता- देकाम्भोधावतिमदकलात् कैटभात्त्वा मधोध ।
श्रीकालिकामन्दाक्रान्ताशतकम् ।
मीतो धाता हरिनयनगामस्तवीत् कालरात्री
त्रिंशदृम्भिर्मुखकरपदां पतिभी राजमानाम् ॥ १२ ॥
अप्रिन्यासाऽऽनमितवसुधा त्वं शिरोरनघृष्ट.
व्योमाभोगा दशशतभुजव्याप्तदिक्चक्रवाला ।
बैकुण्ठायामरतनुसमुद्भूततेजःस्वरूपा
हन्तुं दुष्टं महिषदनुजं प्रादुरास्से स्म मात: ॥ १३ ॥
कर्पूरामं वदनकमलं दोलता नीलवर्णा
वोजी ते शशधरसमौ शोणरागं वलमम् ।
श्याम जो जघनमगजे ! कर्बुरं माल्यषा-
वासोगन्धा जननि ! शबला रूपमेतद्विचित्रम् ॥ १४ ॥
युद्धोत्कान शिखरिवपुषां कन्दरोद्यन्मुखाना
दैतेयाना दृढतरशिरोभाण्डखण्डं विभिन्दन् ।
दिग्मित्तीदिकरिवरघटाः स्फोटयंस्त्वत्कराब्जे
घण्टानादो जयंति गिरिजे ! चित्रघण्टासि तेन ॥ १५ ॥
मातासाझगति सकले दानवान् रक्तबीजान्
दृष्ट्वा वक्त्रं निजमतिमहद् व्याददाना पृथिव्याम् ।
ओष्ठं चैकं गगन इतरं संविधायाशु तूर्णं
खादन्ती त्वं विचरसि रणे दैवतैर्वन्धमाना ॥ १६ ॥
प्रस्यालीदासनशवगता वर्तुलाक्षी स्वकान्तं
पब्वाप्ता सुप्रहसितमुखी चारुलम्बोदरी च ।
हस्तैः कीमसितनलिनं चन्द्रहासं कपालं
धृत्वा मातर्विहरसितरामुग्रतारेति नाम्ना ॥ १७ ॥
युद्धे शकासुरमुखदशाकारभण्डासुरेन्द्र
हन्तुं स्वीयानखरदशकान्माधवीयावतारान् ।
मरस्यावान् वै युगपदितरांश्लीलयोत्पादयन्ती
विख्याता स्वं विहरसि शिवे ! राजराजेश्वरीति ॥ १८ ॥
श्रीकालिकामन्दाक्रान्ताशतकम् । एकैव स्वं वनमुपगता स्वासयुग्माद्विहर्तु- मुत्पाद्यालायुगमतितरां क्षुत्पिपासातुराऽभूः । छित्त्वा शीर्ष निजमतिजवात्कण्ठगा रक्तधारा. स्ताभ्यां साकं करधृतमुखेनापिषश्छिन्नमस्ता ॥ १९ ॥ त्वं ब्रह्मास्त्रं जननि ! भुवनस्तम्भहेतुः करोषि स्मृत्यैव द्राक् कलुषितधियां मुद्रणं, वैरिजिहाम् । वामे धृत्वाऽपर इह करे मुद्गरं सर्वपीता. नाम्ना लोके जयसि बगले ! व्याकुला भक्तकृत्ये ॥२०॥ रिनभृशावलितरलितालीनमत्तालिमाला. ऽम्भोजश्रेणीवलयितबृहत्पद्ममध्योपविष्टा । उच्छुण्डेमार्पितघटजलप्लाविता पद्महस्ता मातर्भतं धनभरयुतं कर्तुमेवंविधासि ॥ २१ ॥ कान्तारस्थं प्रणयकलहादिलरूपं स्वकान्तं मातः ! संमोहयितुमभजस्त्वं किरातीस्वरूपम् । गुलाहारं कुटिलचिकुरं बहकाञ्चीसुरम्यं शृङ्गीवायं करधृतधनुश्चैकवीरेति गीतम् ॥ २२ ॥ बासाभ्यन्तर्जनीन ! जगतो वीतिहोत्रस्वरूपा पक्तिं भुकिं परिणमयसि त्वं न चान्या भवानि ! । न्ताद्री हिमशिखरिणः स्पष्टरूपा यतस्त्वं ज्वालामुख्येवमभिगदिता भासि गीतप्रभावा ॥ २३ ॥ मुक्ताः स्युबै जनिमरणतो जन्मिनः सथ एव निश्वित्यैवं सह पुरभिदा स्थावरीभूय चैकम् । पञ्चकोशात्मकमतिमहल्लिङ्गरूपं दधाना नाम्ना गौरीमुखमिति तथा काशिकासि त्वमेव ॥ २४ ॥ श्रीरामोऽसौ त्रिभुवनजयी यत्र कुण्ठामवाप करं तं वै सतमुखमभिद्रावणं रावणाख्यम् ।
श्रीकालिकामन्दाक्रान्ताशतकम् ।
सीतापि स्वं निजमतिमहद्रूपमादाय हत्वा
भीतैर्देवैः कृतकरपुरैर्वन्दिता नृत्यसि स्म ॥ २५ ॥
उरूिपा जननि ! सहसे प्राणिनां भूरिमन्तून्
पाथोरूपा त्रिभुवनमिदं प्रीणयस्यम्बुपूरैः ।
तेजोरूपा समजनिमतो दर्शयस्यर्थजातं
वाताकारा त्वमसि जगतः श्वाससञ्चारकर्ती ॥ २६ ॥
एकैव त्वं जननि ! जगतामीश्वरी न द्वितीया
पर्यायस्त्वं पृथगिव सता भासि तत्तत्स्वरूपा ।
काली तारा जलनिधिसुता छिन्नमस्ताऽन्नपूर्णा
वाणी दुर्गा सवितृतनया सुन्दरी भैरवीति ॥ २७ ॥
शून्यालम्बा जलधिवसना तिष्ठति द्वादशात्मा.
ऽप्येवं शून्ये भ्रमति गगने मारुतोऽपि प्रवाति ।
शक्त्यैवैतत् सकलजगतो विद्यते वस्तुमात्रं
तस्मान्मुख्या बसि गिरिसुते ! शक्तिरूपा त्वमेव ॥ २८ ॥
श्रीकण्ठेन्द्रानुजकमलजाः शक्तिहीनाः प्रकर्तु
स्वं स्वं कृत्यं जननि ! पुरतः प्रास्तुवन् शक्तिलब्ध्यै ।
तेभ्यः प्रादास्त्वमतिशयिताश्चण्डिकापद्मवासा-
सावित्रीश्च, प्रकटितमतः सर्वमुख्या त्वमेव ॥ २९ ॥
या या पुस्ता त्रिभुवनगता भासते देवि ! सा सा
स्पष्टं सर्वा तव परिणतिः सृष्टये नान्यथेति ।
युद्धे शुम्भासुरमुखभवे सा धकिश्चित्कराभूत
मीस्वेनैव प्रशमितमभूत् क्रूरदेवारिवृन्दम् ॥ ३० ॥
मात_न्यक्षरपदवचोरूपिणी या त्वदीया
नो चेदत्र स्थिविरविरता वेदशास्त्राणि न स्युः ।
संज्ञाइतेरपि विरहतः सर्वमेतत्तमोऽन्धं
साकल्या नः स्फुरतु वदने भारतीनामधेया ॥ ३१ ॥
श्रीकालिकामन्दाक्रान्ताशतकम् । शम्मोर्लिङ्ग मुनिशयनतः सम्पतद् गुधमात्र वामाक्षीणां त्रिभुवनभुवा व्याकुलं सञ्चकार । तत्संरोर्बु त्रिदशविनुता मेखलाऽभूस्त्वमेव नान्यायापि त्रिभुवनतले पूज्यते तत्तथैव ॥ ३२ ॥ हे । मातस्ते पदनखसमुन्मार्जने धातृहस्ताद् यत्क्षीराब्धौ समलसलिलं सान्द्रमारात् पतत्सत् । गोलाकारं परिणतमभूञ्चन्द्ररूपेण चारु व्योम्न्यथापि स्फुटतरमहो ! चन्द्रिकाभिश्चकास्ति ॥३३॥ दृष्ट्वा चन्द्रस्तव नखपदं तुल्यतामाप्तुकामो लब्ध्वा तेजः सवितुरमलं मन्थर वर्धमानः । ताग जातोऽहमिति मनसाभ्येत्य खे ता ना लेमे गत्वा गत्वा प्रतिकुहु रविं दुःखितः संक्षिणोति ॥३४॥ स्वर्गनाया हदसमुदितं दिव्यमिन्दीवरं किं शालिग्रामो द्रुहिणनिहितस्तारपीठेऽचिंतुं वा । किं वा भूमेनयनकमलपोद्गता कृष्णतारा किं वा शम्भोर्हृदयनिहितं ते पदाब्जं विभाति ॥ ५ ॥ भीमतामाङ्गुलिरविसुतास्वच्छपौन वाली. गशालाक्षारुणतलसुरज्येष्ठजानिम्नगानाम् । सम्भेदाचे चरणकमले तीर्थराजे प्रयागे मातर्नित्यं वसतु हृदयं त्वत्स्वरूपाप्तये मे ॥ ३६ ।। दृष्टचन्द्रो धवलकिरणः सर्वदा कोऽयमन्यः श्यामज्योखो विजयत इति ज्ञातुमम्ब ! स्वदास्यम् । दृष्ट्वाऽऽलम्ब्याम्बुदमभिनभो नालयुम्ज्युत्पलानि यान्ति श्रोणिस्थितकटिलसत्पाणिकाचीमिषेण ॥ १७ ॥ हे ! मावर्यत्तव कुचयुगं पीवरं गाढमुचं देत्यै विषभरभृतं, यन्महेशानदृष्टम् ।
श्रीकालिकामन्दाक्रान्तायतकम् ।
शृङ्गारावं, चरणकमलोपासकैर्यच दृष्टं
क्षीराऽऽपूर्ण तदिह भवतात् पुष्टयेऽहर्निशं मे ॥३८॥
दीर्घा भूतासितघनततेरूद्धमामाति विद्युत्
कृष्णाहीशो गगनपतिता लेदि वा क्षीरघाराम् ।
किं वाकाशे तरणितनयाजाहपीसङ्गमोऽयं
देवैरित्थं जयति करगा तर्किता खड्गधारा ॥ ३९ ॥
मासे मासे तुहिनकिरणा नूतना भानुयोगाद्
ये जायन्ते त इह गगने चन्द्रिकाभिः स्फुरन्ति ।
ये ये प्रमाः सगिव गिरिजे ! तावकीने शिरोधी
राजन्ते ते विपुलमहसो मुण्डमालामिषेण ॥ ४० ॥
देवश्चन्द्रस्तव मुखसमः सम्यगाहादकारी
तत्सारूप्ये सति नु भविता ते मुखाब्जेन साम्यम् ।
इत्थं मत्वा सलिलवसतिं संयमं प्राप्य चेन्दोः
कुर्वन्त्यद्याप्यनलसमुपस्थानमिन्दीवराणि ॥ ४१ ॥
विद्युल्लेखा सजलमुदिराद्भाति किं प्रोल्लसन्ती
वेषापुत्री प्रवहति महानीलशैलादियं किम् ।
तणेत्थं त्रिभुवनगतैर्मातरुत्प्रेक्ष्यमाणा
वक्त्राम्भोजात्तव विजयते निःसृता लोलजिहा ॥ ४२ ॥
यस्ते रक्तोत्पलदलसमः क्रोधताम्रः कटाक्षो
दैत्येन्द्रेषु प्रपततु स वै, यश्च नीलाब्जतुल्यः ।
स्नेहश्यामः स पततु शिवे, यः सिताम्भोजकल्पो
वात्सल्याऽच्छः स पततु मयि प्रार्थये मातरेतत् ॥४॥
मातः ! पृष्ठाऽऽनमितचरणाबद्धचूडं विसर्पः
तेजोगशि श्रवणयुगले बिभ्रती शावयुग्मम् ।
आदावन्ते रविशशियुगं धारयन्ती निशेव
मेघश्यामे ! वितर सहसा स्वापतुल्यं समाधिम् ॥४४॥
८ श्रीकालिकामन्दाक्रान्ताशतकम् । स्यक्त्वा भानुनिजतपनतां वर्तुलत्वं च रूपं रेखाकारं नयनसुखदं दीप्तिमत् सन्दधानः । रात्रेरन्ते विकचकमलं श्लेष्टुमभ्यागतः किं सीमन्ते ते जयति जननि ! स्पष्टसिन्दूररेखा ॥ ४५ ॥ दुष्टो राहुम्रसतु दयितं नेति नक्षत्रवत्या पल्या स्वीयैरवयवचयैः किश्चिदाच्छादितो नु । मुक्ताजालाश्चितसुमसृणीभूतसीमन्तमूले मातनित्यं तव विजयते शीतभानुः कलावान् ॥४६॥ गात्रच्छाया निपतति तव श्यामला यत्र यत्र तस्मिंस्तस्मिञ्जगदुपकृतिः कालिके ! पर्युदेसि । इयामा मेषाः सकलभुवनं प्रीणयन्त्यम्बुवर्षेः श्यामान्येवोलुपतरुवरैः काननान्युत्फलन्ति ॥४७॥ सृष्ट्यादौ त्वं धरसि सगुणं रूपमाद्याऽसि तस्मा- दौदार्य ते जयति वसतौ दक्षिणाख्यासि तेन । कस्पान्ते त्वं कलयसि जगत्तेन कालीति गीता सर्वाभावे गगनसदृशी निर्मला श्यामलेति ॥ ४८ ॥ दिग्वासास्त्वं जननि ! जगति प्रोच्यसे खाम्बरा नो दिग्भिस्तुल्येऽपि सति मयि ते वस्त्रता नास्ति कस्मात् । इत्थं खेदाद् धनरवामिषातारशब्देन वर्षा- धाराव्याजाहहुतरमिदं रोदिति व्योम मन्ये ॥ ४९ ॥ देवस्त्रीभिः परिमलभरैर्मातरुद्वर्त्य येन त्वं कैलासे मणिमयघटैः स्नापिता दिव्यवारा । तत्तोयं क्ष्मातलमुपगतं नीलभासा विमिश्र कालिन्दीति प्रथितिमगमद् भानुकन्येत्यलीकम् ॥५०॥ हे ! मातस्ते सपनजजलं मालसिन्दूरमिश्र क्षिप्तं व्योम्नि प्रवहमरुता शुष्यदत्युप्रतेजः ।
श्रीकालिकामन्दाक्रान्ताशतकम् । पिण्डीभूतं दिनकरमिषाद् बम्भ्रमीति प्रकामं व्यक्तीकर्तुं कुवलयमिदं ध्वान्तजालावनद्धम् ॥ ५१॥ हस्ते भानु कनककलशं चाम्बरं शोणरागं धृत्वा माता जलनिधिजले सान्ध्यमन्त्रैदिजोक्तः । हर्षावेशादुदयमचलं यन्त्रराज प्रकल्प्य प्राची प्रातर्जननि ! कुरुते प्रत्यहं ते सपर्याम् ॥ ५२ ॥ सायंपूजाविषिषु खसरित्पाथसा पायदाने पादाब्जं ते बननि ! विधिना क्षालयित्वामहस्ताः । क्षिप्तास्तेभ्यः सलिलकणिकाः कीर्यमाणाः समन्ताद् भान्त्यद्यापि स्फुटतरमिमास्तारकावाररूपाः ।। ५३ ॥ कृत्वा सान्ध्यं तिमिरमचलाभाजनस्थं हि धूप. माकीर्याऽच्छा उडुसमुदया अक्षता व्योमपात्रे । मध्ये चन्द्रं गृहमणिमवस्थाप्य चारार्तिकं वै कुर्वन्त्यम्ब ! प्रतिसितदलं दिग्वधूव्यस्तवाने ॥५४॥ मातः ! स्नात्वा जलघिसलिले कौमुदीधौतवासो धूला चार्क तिलकमलिके झिलिकामन्त्रपाठम् । कुर्वश्चन्द्रः सह दयितया यामवस्या तवाग्रे तारापुष्पाञ्जलिमवकिरन् दक्षिणं बम्प्रमीति ॥ ५५ ॥ दोलामेति प्रधृतविकचेन्दीवर बहिबह तस्याधस्तात् कलशयुगलं लाङ्गलिसग्विभूषम् । तस्याधस्तात् सविसकमलश्रेणिका नृत्यमेति त्वं पुंभावा विहरसि शिवे ! तेन नैतद्विचित्रम् ॥ ५६ ॥ दंष्ट्रापोरं तव हि वदनं सृकिणी रक्तपूर्णे मुक्तान्केशान् कलितकुणपं कर्णयुग्मं भवानि ! आरावं च प्रलयपनवद्वीक्ष्य मा यातु भीति भक्तस्तस्मादभयदकरं सर्वदा स्वं विभर्षि ॥५७ ।। २ १० श्रीकालिकामन्दाक्रान्ताशतकम् । रत्वस्वर्णाभरणविरहात् कौणपाभूषणाच दिग्वासस्वादधिपितृवनं वासतोऽकिञ्चनेति । मत्वा भक्तो भवतु विमना मेति नूनं दया धत्से मुद्रां वरवितरणी सन्ततं कालिके ! त्वम् ॥ ५८ ॥ हुकृत्या वा रुडरुणदृशा दैत्यवारानपारान हन्तुं शक्ताप्यसि गिरिसुते ! खजमेतद्विभर्षि । धारातीर्थे कलुषमखिलं क्षालयित्वाशु मुक्ति यान्त्वेवं ते मतिरवसिता ते दयार्देति मन्ये ॥ ५९ ॥ धर्मध्वंसं जननि ! कुरुते यः प्रहर्ताऽऽततायी हन्तव्योऽसौ विरतममतीभूय वैर्यन्तरस्थः । बायो वेत्थं मतिरविचला स्यादिति ज्ञापनार्थ मद्भक्तानां स्वकरकमले छिन्नशीर्ष बिभर्षि ॥ ६० ॥ ब्रामीरूपा त्वमुषसि शिवे ! कोटिसूर्यप्रकाशा मध्याहृ त्वं जलघरसमा वैष्णवी दीप्ततेजाः। सायाहे स्वं शतशशिनिभा शाम्भवी चित्स्वरूपा सिद्धि देहि प्रकटितमुखि ! त्वं निशीथे तुरीया ॥ ६१ ॥ काकैर्जुष्टं कुणपनिचितं गृध्रसङ्घावकीर्ण कोष्ट्रीयुक्तं चितिसमुदितोदाढधूमाविलं च । श्ववाताव्यं भयकृदतुलाङ्गारदीप्तं श्मशानं स्वद्वासेनाशुभमपि शुभं सिद्धिदं साधकानाम् ॥ ६२ ।। स्वमन्त्रस्य प्रभवति शिवे ! साधनं सिद्धिकर्तृ प्राक्संस्कारादिह जनुषि तन्नैव मे भाति यस्मात् । यनारब्धेऽप्यथ जपमुखे हन्यते विघ्नसङ्ख. नाम्नवाहं तव शरणगः पावतो मां दयालो ! ॥ ६३ ॥ काका गृध्राः कुणपचितयः कुक्कुराः फेरवाश्च स्वस्थानस्थास्वमिव नितरां पूजनीया भवन्ति ।
श्रीकालिकामन्दाक्रान्ताशतकम् ।
वाचितास्तव शरणगस्त्वत्सुतोऽहं तु लोके
पूज्यो नास्मि क्वचिदपि शिवे ! ब्रूहि बीजं किमत्र ।।६४॥
मातईस्ते तव वरदया मुद्रया लान्छिते या
शक्तिर्वहाविव विजयते दाहिकाऽभीष्टदात्री ।
मय्यत्यन्ताभिलषितशिवे मोहवाधौं निममे
दीने भक्ते चरणशरणे कुण्ठिता सा कुतोऽभूत् ।। ६५ ॥
त्वय्यम्बाले ! स्ववरदकरं संप्रसार्य स्थितायां
मौादीहे वसु मनुजतः कल्पवल्ली विहाय ।
तन्मौल्य मे बजतु विलयं त्वत्पदे भक्तिरास्ता.
मित्थं श्राव्या सदयहृदये ! प्रार्थना पामरस्य ।। ६६ ।।
नास्त्येतच्चाऽमुकमपि न हीत्यादि वाक्यं गृहिण्याः
श्रावं श्रावं हृदयकमलं कोटिधा भिद्यते मे ।
सम्पायं तत्कथमपि मया चेन्न सीदेत्कुटुम्बं
कीहक् कुर्यां वद तव पदोपास्तिमम्ब ! त्वमेव ।। ६७ ।।
प्रावोचस्त्वं श्रुतिषु गिरिजे ! धर्ममूलं गृहित्वं
तस्मादारप्रहमकरवं नाल्पमप्यत्र किन्तु ।
धर्म कर्तुं तव पदकजप्राप्तिहेतुं समयों
दारिद्रयात् , तच्छमय कृपया येन ते साधु वाक् स्यात् । ६८॥
सीदन्तं वै निजपरिजनं वस्त्वलाभेन गृह्ये
दृष्ट्वा सम्पादनकृत उमे ! किं करोमि क यामि ।
एतद् दुःखं महदिति पुरः कस्य वाच्यं मयाद्य
खं मातेति प्रविकलतया वच्मि तन्नाशयाशु ।। ६९ ।।
एकाक्षोऽपि प्रभुरतिकृपापूर्णदृष्टया स्वकीयं
पश्यत्येव द्विनयनवतः का कथा त्वं तु मातः ।
आग्रहिव्यत्रिनयनकजा सत्यपि स्वीयबालं
किं नो पश्यस्यगतिकगति मां दयालो ! शरण्ये ! ॥७॥
श्रीकालिकामन्दाक्रान्ताशतकम् ।
नामोचारस्तव सकदुमे ! सर्वदुःखान्तकारी-
त्येवं मत्वा युनिशमनिशं मत्तवत् त्यक्तसर्वम् ।
काली कालीत्यहह ! जपतः शुष्कतामाप जिहा
मातर्मेऽद्यावधि करुणया त्वं कुतो नो शृणोषि ।। ७१॥
त्वत्पादाब्जस्मृतिरपि शिवे ! सर्वदुःखं निहन्ती.
त्येवं स्पष्टं वदति निगमः, सत्यमेतन्मृषा वा ।
सत्यं चेत् स्वद्गुगसमुदयोत्कीर्तनेऽप्यस्मि दुःखी
मिथ्या चेत् स्यानिगमवचने न प्रतीतिर्जनस्य ।। ७२ ।।
अब श्वो वा तदपरदिने त्वं प्रसन्ना भवित्री.
त्येवं मत्वा प्रतिदिनमुमे ! स्वामभिष्टौमि मातः !।
स्वं तु स्वान्ते मम विषयकं वत्सलत्वं न किञ्चिद्
धत्से माता पृथुकहठतोऽप्यर्पयत्येव दुग्धम् ॥ ७३ ।।
बाले किश्चिद्रुदति जननी धावति व्यग्रचित्ता
नामप्राहं युनिशमसिते ! रोदिमि त्यक्तकण्ठः ।
श्रुत्वापि स्वं न मयि दयसे नाथवा त्वं शृणोषि
नो जाने ते सुतविषयिणी कीदृशी चित्तवृत्तिः ।। ७४ ।।
नाहं जाने तव जपविधि न्यासजालं न चाची
स्वं माताऽहं सुत इति पर केवलं कालि ! जाने ।
मूढ़ विज्ञं कथमपि सुतं वत्सलोपेक्षते नो
तस्मान्मातः ! कृतिविरहितं पाह्युपेक्षां विहाय ।। ६५ ॥
दुण्ढिः स्कन्दोऽहमपि तनयस्ते शिवे ! स्नेहपात्रं
ताहक् स्नेहो मयि तव न हीत्यत्र बीजं हि मन्ये ।
मज्जामेदोरुधिररसमांसादिभिर्निर्मितं किं
दृष्ट्वाऽश्लीलं वपुरशुचि मे त्वं जुगुप्सां करोषि ।। ७६ ॥
देहे मांसादिभिरुपचिते मानुषं जन्म दत्त्वा
पश्चात्तस्मिाननि ! हि जुगुप्साकृति व युक्ता ।
श्रीकालिकामन्दाक्रान्ताशतकम् ।
१३
भारोप्य दुर्गरलयुगपि च्छेदनीयः स्वयं नो
मत्वा चैवं मयि कुरु कृपां कालिके ! बालकेऽस्मिन् ॥७॥
एतन्मेऽपि प्रकथनमहो ! युज्यते नैव यस्माद्
वक्त्राब्जं ते विजयत इदं रक्तधारावलिप्तम् ।
स्नेहाभावे तदपरमतः कारणं प्राकनं वा
पापं मोहात् कृतमिह जनौ तरक्षमस्व प्रसीद ।। ७८ ॥
वक्ष्यस्येवं यदि मम सुतास्त्वादशाः सन्त्यनेके
मैवं वादीर्जननि ! न हि ते मादृशा दुःखवन्तः ।
विद्याहीनो धनविरहितोऽनेकरोगार्तगात्रो
ऽसत्कर्माबश्वपलहृदयो बवृणी चास्मि दीनः ।। ७९ ॥
बाढं कुर्या यदि तव जपं न्यासखण्डं च पूजा
दद्यास्त्वं मे सुखमविकलं मातृता का तदा ते ।
मातर्मातर्जननि ! जननीत्येवमामन्त्रणेषु
प्रेम्णा दद्या यदि च शिशवे मातृता स्यायथार्था ।। ८० ॥
मातस्त्वं 'मे सुत' इति धिया पश्य मा पश्य वा मां
वां वेवाहं ननु परिचिनोमि 'प्रस्'रित्यजसम् ।
एतत् कालो गगनमनिलो भूर्दिशो भानुरिन्दु-
जानन्तीमे कथनसमये साक्षिणो मेऽभविष्यन् ॥ ८१ ॥
गङ्गारूपा त्रिजगदखिलं स्नानमात्रात्पुनासी.
स्येवं मत्वा त्वयि नियमतः स्नामि नित्यं, तथापि ।
नो पूतं किं जडवपुरिदं मानसं का मदीयं
येन स्याते मयि शुभकरः सुप्रसादो भवानि ! ॥ ८२ ।।
दाक्षायण्याः पतितचरणापृष्ठपीठे प्रसिद्ध
कालीघाटे वरदनकुलीशेन साकं स्थितासि ।
भक्ताम्सर्वान् वितरसि शिवेऽभीष्टसिद्धिं समा
मां किं नो ते परणपतितं पश्यसि स्वीयवालम् ॥ ८३ ॥
श्रीकालिकामन्दाक्रान्ताशतकम् । काष्ठे कुब्बे त्वमसि गिरिजे ! सर्बतो व्याप्तरूपा मदुःखं त्वं दिनदिनमवं वीक्षसे सर्वमेव । बाले सागस्यपि हि जननी जातु नापेक्षते तं किं वा स्वं नो भुषनजननी त्वत्सुतोऽहं न किं वा ॥४॥ हे ! मातस्ते सकलविषये कारणत्वं प्रसिद्धं मदुःखेऽपि त्वमसि नियतं कारणं नेतरद्धि । सत्यं सागा महमिति ततः प्रार्थये त्वां दयालं क्षान्त्वा सर्व मम सुखविधौ कारणत्वं गृहाण ॥ ८५ ।। ध्यायन्ति त्वामसिनुकवराऽभीतिहस्तां त्रिनेत्रां केचित् केचिदिसतनुतरां मूलचके भुजङ्गीम् । नाहं ध्यातुं किमपि गिरिजे ! शक्त उन्मुग्धचेता नाम श्रुत्वा मम मुखगतं बालकस्येव पाहि ॥ ८६ ।। सान्द्रानन्दा विहरसि महाकालवस्सोपरिष्टाद् दग्धं कामं पुनरपि समुत्पाद्य रत्यर्थनेन । चित्रबन्धैः पुरुषसहशैश्चुम्बनायैर्विलासै. स्तस्मात् किं त्वं मम गिरिसुते ! क्रन्दितं नो शृणोषि॥८७॥ बाहुद्वन्द्वाश्चितपृथुकुचापीवरस्कन्धदेशी मत्वा पार्श्वद्वयमभिगतौ हस्तिगण्डौ विशुण्डौ । क्रोधाद्धन्तुं प्रतिभटघिया धावमानं गजास्यं बालं दृष्ट्वा हससि नितरां विस्मरस्यम्ब ! किं माम् ।।८८॥ पुत्रं स्वोद्वर्तनमलभवं प्रातिहार्ये नियुक्त रोधकुद्धत्रिपुररिपुणा कृत्तशीर्ष विलोक्य । हाहाकारं सजलनयनं शोचसि स्माऽऽर्तनादं मातहष्ट्वा षडरिनिहितं शोचसि त्वं न कि माम् ॥८९॥ रेरे दैत्यापसद ! बहुधा किं मुषा गर्बसि त्वं पीत्वा हाल तब हदि इदं शूलमारोपयामि । !
श्रीकालिकामन्दाक्रान्ताशतकम् ।
१५
याते मृत्युं त्वयि दिविषदो विज्वरा गर्जितार
उक्त्वैवं त्वं महिषमवधीमत्सपत्नान्न हंसि ॥ ९० ॥
राज्यभ्रष्टः सुरथनुपती राज्यमात्राभिलाषी
तस्मै प्रादास्त्रिभुवनगतं त्वं मनुत्वं च राज्यम् ।
औदार्य ते चरणशरणेष्वीदृशं ख्यातमेत.
न्मय्येव स्वं भवसि कृपणा केन जाने न मातः ! ॥ ९१ ॥
हे ! मातस्त्वं श्रुतिषु जगदुद्धारिणीति प्रसिद्धा
पापासक्ता जगति बहवस्तारिता भक्तिहीनाः ।
भक्तं दीनं चरणशरणं नाममाला जपन्तं
मामद्यापि स्वमुदितदया नानुगृहासि कस्मात् ॥ १२ ॥
हे ! मातस्ते पदसरसिजासक्तचेतःषडङ्ग्रे-
राषिव्याषिप्रभृतिविपदं वीक्षसे मे किमित्थम् ।
किश्चिश्चित्ते प्रकुरु करुणां पाहि दीनं स्वबाल.
मेतत्ते वै किमपि कठिनं नास्ति विश्वम्भरायाः ॥ ९३ ॥
केचित्पुत्रास्तव गुणयुता दोषयुक्ताश्च केचित्
केचिञ्चैवोभयविरहिताः केचनैवोभयात्याः ।
वैषम्यं ते न हि गिरिसुते ! तेषु सर्वेषु योग्यं
वात्सल्यात्तद्गुणविरहिते मय्यतोऽस्ति ब्रुवेऽहम् ॥ ९४ ॥
कालक्षेपं न हि कुरु शरन्मेघवन्मेघवर्णे !
प्रावृण्मेघप्रतिममभितः शर्मवर्ष प्रवर्ष ।
विस्तार्यास्यं त्रिचतुरपृषद्वान्छयेवेक्षमाणे
सारङ्गे मय्यणुवसुतृषा पाणियुग्मं प्रसार्य ॥ ९५ ॥
मातः ! कालि ! प्रकटवदने ! चण्डिके ! देवि ! दुर्गे !
सौख्यं दुःखाचरणमजनं मौख्यमारोग्यमोजः ।
देहि त्रायस्व भवतु हराऽऽपादयोद्वर्धयाशु
वारं वारं चरणशरणीभूय याचे बतैतत् ॥ ९६ ॥
श्रीकालिकामन्दाक्रान्ताशकतम् । धाता नाहं तव नुतिकते नापि वल्मीकजन्मा व्यासो नाहं न हि वररुचिः कालिदासोऽपि नाहम् । तस्मादेषा मम जडमतेयुक्तिहीनापि चोक्तिः कर्णे कार्या भवतु सफला सा यथा प्रार्थयेऽहम् ॥ ७ ॥ दुःखाद् यद्यद् भणितमसकृन्नीचमुचं वचो मे श्रुत्वा क्षान्त्वा जननि ! दयया तर्णकस्येव तूर्णम् । दुःखध्वस्तिनिजचरणयोर्भक्तिरव्याजभावा भाव्या चैतन्मदभिलषितं नो किमप्यस्त्यतोऽन्यत् ॥ ९८ ॥ विश्वोत्पत्तौ कलितरजसे पद्मजायै नमस्ते सत्त्वस्थायै त्रिजगदवने शारदायै नमस्ते । तत्संहारे विपुलतमसे कालिकायै नमस्ते सर्वातीतत्रिगुणरहितानन्तशक्त्यै नमस्ते ॥ ९९ ॥ लोके नानाविधरुचिव शात् त्वां हि नानास्वरूपां सेवन्तेऽन्यन्न हि किमु परं त्वा विना सर्वरूपे !। पुंरूपापि त्वमास जननि ! क्लीवरूपा त्वमेव स्त्रीरूपापि त्वमिह जयसि स्वं मनोवागतीता ॥ १० ॥ लोके धर्माधिकृतिविदितः कृष्णशर्मा द्विजन्मा स्तोतुं शक्तेरपि विरहतोऽसङ्घयताया गुणानाम् । बिन्दुरिव गुणकणं प्राप्य भक्त्या प्रणुलो मन्दाक्रान्ताशतकमकरोत् कालिकाप्रीतिहेतोः ॥ १० ॥ इति श्रीधर्माधिकारिकृष्णपन्तपण्डितविरचितः श्रीकालिकाया मन्दाक्रान्ताशतकस्तवराजः सम्पूर्तिमगमत् । ॥ शुभाय भूयात् ॥
5 ॥ श्रीः॥ श्रीवेणीरामपण्डितधर्माधिकारिविरचितम् धर्माधिकारिवंशवर्णनम्। धर्माधिकारिवंशस्य वर्णनं निजशक्तिः । कुरुते साम्बमानम्य श्रीवेणीरामपण्डितः॥ १॥ आसीद् यामदिशि प्रसिद्धविबुधैः संसेवितं सर्वदा क्षोणीशेश्वरपत्तनं दिशि दिशि ख्यातं रमामण्डितम् । यत्तद् बेदरनामकं पथिकरुक्संहारक कारक सौख्यादेर्भुवि मण्डनं निवसता दोषस्य सङ्खण्डनम् ॥ २ ॥ स्वर्धनीव मनुजान्पुनाति या निम्नगा हि खलु तत्र काप्यमूत् । यज्जलैरवभृथो विधीयते याज्ञिकैर्विविषयज्ञकर्मसु ॥३॥ वापीकूपतडागजीवनगुणैः सञ्जीवनं पक्षिणा कल्हारोत्पलगन्धबद्धहृदया यत्र द्विरेफावली । भ्राम्यभृगवने निकुञ्जभवने मेघागमे ताण्डवं मायूरं शुकसारिकाकलकलस्तत्तद्गृहे सम्प्रमः ॥ ४॥ बृहत्कपाटार्गलशृङ्खलस्तद् द्वारैश्चतुर्दिक्षु चतुर्मिरेव । संशोभितं चत्वरवीथिस्थ्याचैत्यादिभिः श्रीनगरं बभूव ॥ ५ ॥ यत्प्रासादसुशोभितानि शिखराण्यासन् सदा मेरुणा स्पर्धन्ते शशिना तथा दिनकृता प्रोत्तुगतागतः । कामिन्यः परमोहयन्ति मनुजान्नेत्रप्रकाशच्छलै. द्वारि द्वारि सुवर्णपूर्णकलशा दध्यक्षतैः पूजिताः ॥ ६ ॥ वर्णाश्चत्वार भासन्नुचितनिजकुलाचारवान एव स्वा स्वामाजीविकां तामतिनिपुणधिया तत्र सर्वे प्रचक्रुः ।
धर्माधिकारिवंशवर्णनम् । नो दीनः कोऽपि हीनः कचिदपि च पुनर्मोजनाच्छादनायै. श्चित्रैः पुत्रैः कलत्रैस्तदिह निवसतां मानसं पूर्णमासीत् ॥७॥ शास्त्रार्थेषु प्रवीणाः श्रुतिवचनगुणैः पूर्णचिताः पुमांसो विप्रा वै दाक्षिणात्याः शिवचरणरता दीक्षिताः प्रायशो ये। आवासं ते प्रचक्रुर्भुवि सुखनिकरे पत्तने तत्र सर्वे ध्यायन्तो ब्रह्म सूक्ष्मं श्रुतिगणगदितं स्वप्रकारां निसान्तम् ॥८॥ तत्रासीद् द्विजपुङ्गवः श्रुतिधरो लक्ष्मीधरः पण्डितो विख्यातो भुवि वेदशास्त्रमथितार्थानां समालोचकः । श्रीमन्मुद्गलगोत्रजः प्रवरवानमिस्त्रिभिश्चर्षिभि- स्तेषामानिरसो समुत्प्रथमजो भााश्वसंज्ञः परः ॥९॥ मौद्गल्यश्च तथा तृतीयक ऋषिः सत्संसदामग्रणीः प्राज्ञो यः स्वयमाश्वलायनधृतामृग्वेदशाखां श्रयन् । तस्मिन् पत्तनके सभापतिरमूदिल्लीश्वराज्ञावशा- त्तन्मुद्राङ्कितताम्रपट्टफलकं लब्ध्वा स्वविद्यापलात् ॥१०॥ श्रीमदरवासिविप्रनिखिलाचारप्रधस्थिती तत्तद्ब्राह्मणपुङ्गवैरधिकृतो लक्ष्मीधरः पण्डितः । धर्माणामधिकारवानयमभूत्ते नोपनाम्ना क्षिती ख्यातः सर्वदिशि प्रसिद्धसुघियामप्रेसरः केसरी ॥ ११ ॥ व्यवहारविनिर्णयं सदा निजमुद्रादितपत्रदानतः । स्मृतिशास्त्रविचारतः सुधीः सुधियां सौख्यकरं चकार सः ॥१२॥ लिपि ता पैशाची परिलिखति नित्यं व्यवहृती श्रुतीना तात्पर्य परिकलयति स्वेन मनसा । स्मृतौ यद्येनोक्तं तदिदमयमालोच्य निजया घिया युक्तं चक्रे रघुवरपदद्वन्द्वनिरतः ॥ १३ ॥ उपास्यः श्रीरामो जनिरपि महाराष्ट्रककुले कुले पूज्या देवी किल परशुरामस्य जननी ।
धर्माधिकारिवंशवर्णनम् ।
मपी कालेऽन्यस्मिन् यदि भवति रामोत्सवदिनं
सदा दीन् कृत्वा निजविभवदानान्यपि ददौ ॥ १४ ॥
जनेर्धरित्री दिशि दक्षिणस्यां श्रीधेदरे पतनकेऽखिलार्थे ।
पूज्या कुले तस्य बभूव देवी सा रेणुका सर्वपदार्थदात्री ॥१५॥
सोऽयं धर्माधिकारी द्विजकुलतिलकः क्षमापतेः प्रीतिपात्र
मावासं तत्र कृत्वा स्वधिकृतिविषयं संप्रचक्रे प्रयत्नात् ।
पुत्री मित्री कलत्री द्रविणपशुगणैः पूर्णतां प्राप्तवान् सन्
तत्रत्यानां जनानां निजगुणविभवै रञ्जयन्मानसानि ॥१६॥
श्रीकृष्णोऽस्य सुतोऽभवत्प्रथमतो गोविन्दशर्माऽपर-
स्तस्याभूदनुजस्ततोऽपि कुशली, लक्ष्मीधरस्यात्मजौ ।
प्रज्ञायां गुरुणा समौ धरणिवत् क्षान्तौ पवित्रौ परौ
गाम्भीर्ये तु समुद्रवत् प्रकटितौ विद्वत्सभापूजितौ ॥ १७ ॥
लक्ष्मीधरादपि गुणैरधिको पृथिव्यां
ख्यातौ तदीयतनयो दिशि दक्षिणस्याम् ।
ज्येष्ठस्य सूनुरभवत्स महीपतिर्वै
जाते हि तस्य जनकः परलोकमाप ॥ १८ ॥
महीपतेः पण्डितवंशदीपो गोविन्दशमा प्रथितः पितृव्यः ।
भ्रातुः परां तां गतिमाकलग्य काश्यां निवासाय मनश्चकार ।। १९ ॥
तं भ्रातृपुत्रं तरसा गृहीत्वा गोविन्दशर्मा खलु तीर्थवासम् ।
विधातुमाराच्छिवराजधानी वाराणसी प्राप बुधारवर्यः ॥ २० ॥
विहाय पुत्रान् गुणतोऽधिकान् स्वान् श्रीषेदरे प्रातृसुतं गृहीत्वा ।
ज्येष्ठस्य बन्धोस्तनयस्य तस्य यज्ञोपवीतं त्वरया चकार ॥ २१ ॥
अनित्यमेतज्जरया विजीर्ण वपुर्मदीयं किल शाश्वतं न । .
बुद्ध्वैवमेवं प्रचकार मौनी चतुस्समस्यैव महीपतेः सः ॥२२॥
वैवाहिक कर्म चकार तस्य तं पाठयामास महीपति सः ।
मातुः परस्नेहवशाच्छिशुं तं मेने स्वपुत्रादषिकं द्विजान्यः ॥२३॥
धर्माधिकारिवंशवर्णनम् ।
मुद्रापात्राधिकारादिकमपि निखिलं यस्थितं बेदरे तत्
सर्व काशीनिवासिद्विजवरनिकरैरर्थयित्वा प्रदत्तम् ।
क्षोणीशाज्ञाबलेन प्रचुरमपि निजं स्वाधिकार हि काश्या
लब्ध्वा नव्यं महेशस्मरणबलवशात्तत्र वासं चकार ॥ २४ ॥
महतां न च दुस्त्यजं हि किश्चित् स्वसुतादीनपहाय दक्षिणस्याम् ।
निजबन्धुसुतं शिशुं गृहीत्वा वसतिस्तस्य बभूव शम्भुपुर्याम् ॥ २५ ॥
गोविन्दपण्डितसुता दिशि दक्षिणस्यां
ये वै स्थिता न पुनरत्र समागतास्ते ।
तेषां तु वंशविभवः खल्लु बेदरे वै
पण्णां बभूव न हि तं प्रविचारयामः ॥२६॥
महीपतिः पण्डितवंशवयों धर्माधिकारी किल काशिपुर्याम् ।
वंशस्तदीयः प्रचुरं बभूव काश्यां प्रसिद्धः पृथिवीतलेऽस्मिन् ॥२७॥
महीपतेः शङ्करपण्डितो वै पुत्रो ह्यभूच्छङ्कर एव साक्षात् ।
अनन्तशर्मा ह्यनुजस्तदीयः पुत्राविमौ पण्डितवंशवयौं ॥ २८ ॥
जातः शङ्करपण्डितस्य तनयः श्रीविश्वनाथः कृती
तस्यानन्तसुतस्ततोऽपि मतिमान् ख्यातः क्षितौ सर्वदा ।
तस्याभूतनयो गदाधरबुधः शास्त्रज्ञ एकः कवि.
स्स्वल्पायुः स ततः समाप्तिमगमद्वंशोऽखिलः शाङ्करः ॥२९॥
वंशोऽनन्तबुषस्य विस्तृतिमगात्पुत्रैस्त्रिभिस्ते त्रयः
कृष्णो ज्येष्ठसुतः समस्तषिषणालबारचूडामणिः ।
तस्याभूदनुजस्ततोऽपि कुशली रामाख्य एकः सुधी
विख्यातो वसुधातले हि विदुषां मध्ये स वाचस्पतिः ॥३०॥
तस्याभूदनुजो गणेश इति वै पुत्रास्त्रयः कीर्तिताः
कृष्णस्याप्यभवत्सुतः सुमतिमान् नारायणः पण्डितः ।
यो रामानुजो गणेश इति तत्पुत्रावपि द्वौ मतौ
बालोपण्डितनामकः प्रथमजस्तस्यानुजो माधयः ॥३१॥
धर्माधिकारिवंशवर्णनम् । बालोपण्डितनामकस्य तनयः काही तथा वामनो रामस्याप्यमवस्त्रयः खल मुताः प्रख्यातकीर्ति गताः । गोविन्दः प्रथमोऽनुजोऽस्य समभूच्छीवासुदेवः कृती नन्दोऽभूदवरस्ततः क्षितितले यवंशजाता वयम् ॥ ३२॥ क्षोणीशाश्रयणालिजेष्टतरणेळक्तं परं सेवना- द्विश्वेशस्य कृपाकटाक्षविभवानन्दः सतामग्रणीः । शास्त्रस्यापि बलेन लौकिकधिया मुद्राहितात्पत्रतः श्रीकाश्यां पुनरुज्जहार गिलितं धर्माधिकार परैः ॥ ३३ ॥ कृरस्नक्ष्मातलवर्तिपण्डितजनालङ्कारचूडामणिः श्रीनन्दः सुकृती कुलकतिलको वागीश एवापरः । श्रीमद्विष्णुपराशरोक्तवचसा टीकां चकार स्वयं धर्माचार्य इति प्रसिद्धिमगमच्छीधर्मशाने कृती ॥ ३४ ॥ षट्शानेषु विशारदः श्रुतिवचो व्याख्याय बुद्ध्या तु विज्ञानेश्वरवत्प्रवर्तक इह स्मृत्युक्तवाक्येष्वयम् । को जातो अवतार एष हि गुरोर्यासस्य वा सर्वथा काव्यादींश्च तथा परोपकृतये ग्रन्थान् न्यबध्नाद् बहून् ॥३५॥ न जातः कुळेऽस्मिन् कदाचितु कश्चिन्न वा सम्भवेदेवमेवापरोऽपि । महाराजपूज्यः प्रतापी द्विजन्मा कृती नन्दशर्मा स्वकीर्ति तताना॥३६॥ सभामण्डनं भूषणं काशिवासिद्विजानामयं खण्डनं पापजातेः । परं दण्डनं न्यायदर्शित्वरीत्या महाराजसंसत्सु वक्ताऽद्वितीयः ॥३७॥ प्रयागे यदा स्वामिकाज्ञाबलेन त्रिवेण्या महाविष्णुमूर्तित्रयं सः । परं लब्धास्तहिनासम्प्रचक्रे स्वयं नन्दसूनो नेरुत्सवं वै ॥ ३८ ॥ अन्माष्टम्या उत्सवं वार्षिकं तं कुर्मः सर्वे तत्कुलेऽस्मिन्प्रसूताः । पूर्व रामस्तरिनास्कृष्णवर्मा जातावेतौ तस्कुलोपास्यदेवौ ॥ ३९ ॥ माम्नाऽपरेण तु विनायक एष एव श्रीनन्दपण्डित इति प्रथितः पृथिव्याम् ।
धर्माधिकारिवंशवर्णनम् ।
यद्वंशजन्मविभवादवनतिलेऽस्मिन्
मन्दाः सुमन्दमतयोऽपि वयं हि मान्याः ॥ ४० ॥
यदेव शास्त्रार्थविचारकारी दृष्टो न लोकैस्त्रिपुरारिपुर्याम् ।
धर्मप्रवृत्ति प्रविधातुमारानन्दस्तदानन्दकरो बभूव ॥ ४१ ।।
यदैव समुपाहता निजकुलीनवृत्तिः परैः
कलेः प्रबलवैभवाच्छिवपुरे न धर्मस्थितिः ।
तदैव समभूत् क्षितौ निखिलशास्त्रमूर्तिः स्वयं
निशाकर इव द्विजेष्वपि ततान मोदं द्रुतम् ॥ ४२ ॥
पद्मासनेन भणितं वचनं निशम्य
नन्दोऽभिवन्द्य विधिमाशु ततोऽवतीर्य ।
प्रादुर्बभूव सवितेव हि शम्भुपुयाँ
लोकान्स्वधर्मकरणे विनियोक्तुमारात् ॥ ४३ ।।
धर्मस्य संस्थापनमेव कर्तुं हरिय॑थायं शिवराजधान्याम् ।
प्रादुर्बभूवाखिलपुण्यराशिनन्दः सतां सत्पथसंप्रदर्शी ॥ ४४ ॥
मण्डितो द्विजसमासु संबभौ नन्दपण्डितशिरोमणिर्यद। ।
दण्डिता दुरितमागिनस्तदा खण्डितं स्मृतिवचोविरोधि यत् ॥४५॥
गतवति धर्मेऽधर्मे स्थितवति धात्रा समाज्ञप्तः ।
नन्दः समुचितधर्म वर्णानां स्थापयामास ॥ ४६ ।।
दुरिततमो विनिहन्तुं जातो मार्तण्ड एव भुवि नन्दः ।
वचनांशुभिः प्रकाशं चक्रेऽसौ पण्डितः साक्षात् ॥ ४७ ॥
मतकर्ता बुधभर्ता पातकहर्ता हरिस्मर्ता ।
जातः स्मरहरपुर्या रामकुमारः परं नन्दः ॥ ४८ ॥
पुरतो धावति वाणी वेणी यस्य द्रुतं कुरुते ।
मालमनिशं, धर्मश्रेणीभूतः स नन्दोऽभूत् ॥ ४९ ॥
बहवः स्मृतिवचनानां व्याख्यातारः पुरातना जाताः ।
नन्दकता तद्विवृतिश्चमस्कता सा पुनर्जयति ॥ ५० ॥
धर्माधिकारिवंशवर्णनम् ।
गतजन्मनि विपुलतरं पुण्यं किं वा मयाचरितम् ।
यद्विभवान्मम जन्म श्लाध्यं नन्दान्वये जातम् ॥ ५१ ।।
हर हर शिव शिव जातं नन्दकुले जन्म मे व्यर्थम् ।
तद्गुणलेशावाप्ति भूद् यस्मान्मम व्यक्ता ॥ ५२ ॥
द्विजवरतिलको जातः पूर्वो नन्दोऽप्यपूर्वोऽयम् ।
धन्यो यस्कुलजन्मप्रतापतो लोकपूज्योऽहम् ॥ ५३ ।।
धन्यो धन्यतरोऽहं बुधजनमान्यः क्षितौ जातः ।
नन्दान्वयभवजन्मप्रतापतः सर्वदा गण्यः ॥ ५४ ॥
प्रदीपवर्तिज्वलिता तमांसि व्यनाशयत्स्नेहवशायथैव ।
नन्दस्तथा सर्वजनातिहारी प्रतापतः स्नेहबलेन चैव ॥ ५५ ॥
तारितं निजकुलं स्वशक्तितः स्मारिता वचनतः स्वधर्मता ।
कारितं स्मृतिषचोऽनुरोधि यद् वारितं द्रुतमनेन पातकम् ॥ ५६ ॥
मारिता प्रबलविधतामुना नीतिशास्त्रविभवेन हारिता ।
काप्यनीतिरिह गर्विता क्षितौ पातकप्रचुरता निवारिता ॥ ५७ ॥
महाम्भोधिपारं गता यस्य कीर्तिः स्थिता मानसे सर्वदा कृष्णमूर्तिः ।
गुणानामसङ्गयातकानां प्रपूर्तिः परानन्दसंस्फूर्तिभूतो हि नन्द:५८॥
अमीषामेषेयं परमविदुषां सौख्यलहरी
कृतिविद्वद्भूषा स्मृतिविवृतिरूपा विजयते ।
यदीया श्रीस्तस्मिन् द्विजगणमणौ पूर्वजपदे
परानन्दे नन्दे मम भवतु भक्तिः सुखकरी ॥ ५९॥
मया नन्दशर्मा द्विजन्मा सुकर्मा स्वधर्मप्रवक्ता महाविष्णुभक्तः ।
सुधर्मापतेः श्रीगुरोर्यत्सभायाः पतिः पण्डितानां परं वर्णितः सः॥६०॥
वर्णितः सुधिषणाप्रभावतः श्रीविनायकबुधः स्वपूर्वजः ।
नन्दपण्डित इति प्रसिद्धता योऽगमत् क्षितितले द्विजाप्रणीः ॥६१॥
पुत्रोऽभवत्तस्य हि कृष्णशर्मा प्रतापशाली विबुधामणीः सः ।
साहित्यशास्त्रैकपरायणोऽपि स्मृत्युक्तकर्म प्रकटीकरोति ॥ ६२ ॥
धर्माधिकारिवंशवर्णनम् ।
कुण्डमण्डपविषौ प्रगल्भता प्राप्त एष विदुषां पुरःसरः ।
धर्मशास्त्रवचनार्थपारगो दुष्टदण्डनपटुर्भटः स्वयम् ॥ ६३ ॥
न तस्य पुत्रः सममूत्कश्चिद् वंशस्तदीयो न बभूव तस्मात् ।
तस्यानुजस्यैव हि वंशजातं जातं विचित्रं परमं पवित्रम् ॥ १४ ॥
वेणीदत्तो द्विजाग्ग्यः स्मृतिपठनरुचिर्धर्मशास्त्रस्य वक्ता
प्रन्थानां चापि कर्ता पितृवदिह गुणैनन्दसद्वितीयः ।
सौन्दर्ये कामदेवः पितृचरणरतः मापतेः प्रीतिकारी
ह्याल्हावे शीतरश्मिर्वितरणविषये किं दधीचिर्बभूव ॥ ६५ ॥
'ममुं यदा मन्त्रबलात्पुमांस संमोचयिष्ये मम जीवनं न ।
तदेति विज्ञाय तथापि धीरः परोपकाराय मतिं चकार ।। ६६ ॥
संमोचयामास नरं तु कश्चिन्मृत्योर्यदासौ निजमन्त्रयोगात् ।
तदैव पञ्चत्वमवाप पित्रा निवारितोऽपि स्वमृतेर्वशः सन् ॥ ६७ ॥
तदुत्तरं पालयति स्म पञ्चवर्ष शिशुं तत्तनयं हि नन्दः ।
पुत्रस्य शोकं प्रविहाय धैर्यात्पौत्रं निजं तातसमं गुणौथैः ।। १८ ।।
गोपीनाथं स्वसुततनयं पालयित्वा हि नन्दो
मौजी बद्ध्वा स्वविभवबलात्कर्म वैवाहिकं च ।
कृत्वाऽध्याप्याखिलमुनिमतं शास्त्रजातं यथाव-
च्छम्भुं स्मृत्वा परमपदवीमाप सर्व विहाय ॥ ६९।।
गोपीनाथो गुणाल्यः स परमकुशली पण्डितेष्वप्रगण्यः
कृष्णं स्मृत्वा बभूव प्रतिदिवसमसौ धर्मशास्त्रस्य वक्ता ।
मीमांसासूत्रभाष्यप्रवचननिरतस्तस्य पुत्रास्त्रयोऽपि
श्रीकृष्णो ज्येष्ठ एकस्तदनु समभवद् दुण्डिराजा प्रवीणः७०
तस्याभूदनुजः कविर्गुणनिधिः श्रीनीलकण्ठाभिषः
स्वान्ते सर्वमिदं बलीकमिव वै निश्चित्य बुद्धषा स्वयम् ।
गोपीनाथबुधो विहाय सदनं श्रीनीलकण्ठं शिशु
प्रेम्णाऽऽदाय सुखेन वासमकरोल्लोलार्क भूमौ सदा ॥ ७१ ॥
धर्माधिकारिवंशवर्णनम् । गाईस्थ्यभारं सुतयोर्विधाय स्वयं पवित्रः परमस्तपस्वी । असीसमीपे वयसोऽवशेष लोलार्कतीर्थे खलु नीतवान् सः ॥७२॥ पपाठ पाठ्यं निखिलं हि शास्त्रं मनुष्यशृङ्गारविधि विहाय । श्रीगद्यपचानि परस्य पुंसः संस्तावकानि प्रचकार भक्त्या ।। ७३ ।। प्रहादनारदपराशरवत् प्रभक्तः श्रीकृष्णपादकमलद्वयमात्रसेवी । सन्तारितं कुलमनेन निजं स्ववृत्त्या धन्योऽहमेष मम वै प्रपितामहोऽसौ ॥ ७४ ॥ ताते गते मुक्तिपदं पवित्रः श्रीनीलकण्ठस्तनयस्तृतीयः । संन्यासमेव प्रचकार शीघ्रं बालोऽपि दारान्मनसाऽविचिन्त्य ॥ ७५ ॥ अभावाद्विवाहस्य जातो न वंशः परं नीलकण्ठस्य धीरस्य पुंसः । सुतौ द्वौ मतौ यो पुरा सम्प्रगीतौ तयोवंश एष प्रसिद्धिं जगाम|७६॥ जडभरतवदेव स्वां तनुं यो बिभर्ति कचिदपि न विषादो मन्यतेऽनेन चित्ते । नृहरिचरणभक्तः कृष्णशर्मा द्विजानां कुलतिलक इवाभूत्पुण्यकीर्तिस्तपस्वी ॥ ७७ ।। कलाधरस्तस्य सुतः पिता मे यो धर्मशास्त्रार्थविचारदक्षः । संस्कारकर्मस्वपि स प्रवीणः साहित्यशास्त्रे परिनिष्ठितोऽभूत् ॥७८॥ अल्पायुस्तु सदाशिवः समभवत्तस्यानुजः क्ष्मातले योऽसौ बालक एव शास्त्रपदवीमालम्बितः सुष्ठुधीः । कालोपण्डितनामकस्य समभूत्तस्यैव सूनुः कृती वेणीरामबुधः प्रसिद्धधिषणारामः शिवाकिकरः ॥ ७९ ॥ अल्पायुषस्तस्य न नाम वंशः कलाधरस्यैव सुतः प्रसिद्धः। शास्त्रार्थवक्ता सुनिबन्धकर्ता भक्तः शिवायाः स बभूव लोके ॥८॥ अधिकरणं सहस्रं यो हि निर्वक्ति नित्यं स्मृतिवचनसहसाण्याशु वक्ता सभायाम् ।
१. धर्माधिकारिवंशवर्णनम् । हरिचरणरतः सन्नमिहोत्रादिकर्ता बुधजनतरणिमें पूर्वजो दुण्डिराजः ॥ ८१ ॥ तस्याभवन् पश्च सुताः प्रतापिनः पाण्डोस्तनूजा इव ते यशस्विनः । धर्माधिकार स्वधिया प्रचक्रिरे प्रत्येकतः शास्त्रविचारकोविदाः ॥८२॥ नन्दोऽभूत्पथमं ततः पुनरभूच्छीमाननन्तः सुधी. स्तस्यासीदनुजो हरिस्तदनुजो नारायणः पण्डितः । तस्याभूदनुजस्ततोऽपि कुशली ओरामकृष्णाभिध- स्तेषां वंशतिः प्रसिद्धिमगमत्काश्यां महाविस्तृता ॥८३॥ गोपीनाथबुधः सुतः समभवन्नन्दस्य तस्यानुज- स्यानन्तस्य सुतो बभूव मतिमान् लक्ष्मीधरः पण्डितः । पुत्रौ द्वौ हरिपण्डितस्य कुशलौ श्रीवाल कृष्णोऽप्रज. स्तस्याभूदनुजस्ततश्च स महीपत्याख्य एकः सुधीः॥८४॥ श्रीनारायणपण्डितस्य तनयः ख्यातो धरामण्डले नाम्नाऽसौ रघुरेव दत्तकविषिं कृत्वा तु योऽङ्गीकृतः । पुत्रौ द्वौ भुवि रामकृष्णतनयौ विद्वत्सभामण्डनौ तस्याभूच्छिवरामपण्डित इति श्रेष्ठो गुणैर्जन्मना ।।८५॥ तस्याभूदनुजः कृती बुधवरः श्रीरामचन्द्राभिषः सर्वस्मादधिको गुणैस्तु वयसा ख्यातः कनीयानयम् । श्रीमन्नन्दसुतादिवर्णनमभूदित्थं पुनस्तत्सुता. दीनां सुष्ठुधियां सुखैकसदनं कार्य परं वर्णनम् ॥ ८६ ॥ नन्दादयः पञ्च सुताः प्रसिद्धाः श्रीढुण्डिराजाख्यबुधस्य पूर्वम् । प्रोक्ता भविष्यन्ति पुनः सुता वै तेषां तदा वर्णनमेव कार्यम् ॥८॥ तत्पुत्रपुत्रा न मयाऽनुवर्णितास्तेषां पुनः श्रीरमणस्य सेवया । केनापि पुंसा करणीयमाशु तत्सता मनःसौख्यकरं हि वर्णनम् ॥८८॥ नन्दान्वयो निपुणया हि गिरा मयाऽसौ संवर्णितः शिवपदद्वयसेवनेन । ..
14 धर्माधिकारिवंशवर्णनम् । ११ यस्यान्वये मम पितुः पितुरेव जन्म जातं ममापि कविभूषणकूटवयें ॥ ८९ ॥ नन्दपण्डितसुतान्वयो मया वर्णितो निपुणया धिया परम् । भाहसम्मतमतप्रकाशकास्तार्किका अपि नरा यदन्वये ॥ ९० ॥ केचिद्वेदविदः स्मृतौ सुकुशलाः केचिश्च तर्कागम. प्रन्थप्रौविस्तास्तु केचन पुनर्मीमांसकाः केचन । साहित्यार्थविशारदाः कविवरा जाता यदीयान्वये नन्दोऽसौ मम पूर्वजो गुणनिधिर्धन्यो बुधैः कीर्तितः ॥११॥ श्रीरामस्य तनुजनिः सुविदितः शास्त्रेषु पारङ्गत. श्चक्रे ज्योतिषिके निबन्धरचनां गोविन्दशर्मा द्विजः । वक्ताऽष्टादशसङ्खथकस्मृतिवचःसारं परं धीमता. मप्रे पूज्यतमः पुरारिपुरभूनन्दाप्रजः संबभौ ॥ ९ ॥ अष्टादशस्मृतिवचांसि विचार्य नित्यं गोविन्द पण्डितवरः समुदाजहार । श्रीराजसंसदि यथोचितधर्ममेक येन स्वकर्मनिरतः सकलो जनोऽभूत् ॥ ९३ ॥ भूपालपूज्यपादः पादाक्रान्ता कृता येन । विद्वत्प्रतापराजी तराणिमें पूर्वजः सोऽभूत् ॥ ९४ ॥ शास्त्रार्थवादशाली व्यालीवत्पापनाशेऽयम् । नृपजनमनोऽनुशीली नन्दोग्योऽम्म्मम प्राच्यः ॥ ९५ ॥ विद्वत्कदम्बनीपो मौख्यध्वान्तप्रदीपोऽयम् । यूपाकृतिः सभायां गोविन्दाख्यः क्षितौ जातः ॥ ९६ ॥ द्विजवरभूषाहीरः कीरः किं वचनरचनायाम् । धीरो रामतनूजो गोविन्दाख्यः पुरे शम्भोः ॥ ९७ ॥ विद्वन्मण्डलचन्द्रः कीर्तिश्चान्द्रीव यस्य सुव्यक्ता । गोविन्दपन्तनामा भामाजानेः परं भक्तः ।। ९८ ॥
१२ धर्माधिकारिवंशवर्णनम् । विवन्मण्डलतरणिस्तरणिरिवाऽऽप प्रकाशतां यस्तु । कीर्तिर्यस्य बभूव श्रीगोविन्दः कुले महति ॥ ९९ ॥ त्रिभुवनसुगीतकीर्तिः स्फूर्तिरभूद्यस्य सकलविद्यासु । गोविन्दमूर्तिरेषा पूर्तिः स्वानन्दलहरीणाम् ॥ १०० ॥ विद्वद्भूषामुकुटं मुकुटं यस्यैव पादकमले च । नृपतीनां यदमन्दं भूयो निस्पन्दते स मे पूर्वः ॥ १०१ ।। विद्वन्मण्डलतिलकस्तिलकाकारः 'कृतो येन । वंशो निजः स मेऽभूद् गोविन्दाख्यो वरः प्राच्यः ॥१०२॥ दृष्टमपूर्वः पूर्वैरपूर्वमिव पूर्वसन्जातम् । श्रीरामसिन्धुरत्नं गोविन्दाख्यं परं मन्ये ॥ १०३ ।। रामात्मजं परं तं गोविन्दाख्यं सुधीन्द्रजनसेव्यम् । पूज्यं लोकत्रितये जानीमः पूर्वजं स्वीयम् ॥ १०४ ।। श्रीममन्दवरिष्ठः श्रेष्ठः ख्यातश्च विबुधनिकरेषु । गोविन्दपन्तसंज्ञः प्रेष्ठः श्रीरामविबुधस्य ॥ १०५ ॥ शास्त्रार्थसारवक्ता गोप्ता स्वीयस्य पापसंहर्ता । श्रीमदरामकुमारो गोविन्दोऽभून्मम प्राच्यः ।। १०६ ॥ विश्वेश्वरस्य राज्ये न्यायाधीशः सभायां सः । अष्टसचिवाग्रगण्यो गोविन्दाख्यः परं जातः ॥ १०७ ॥ विज्ञानेश्वरगदितं वादिनि विषये विनिर्णयं चक्रे । गोविन्दपन्तसंज्ञः श्रीमन्नन्दाग्रजः सोऽभूत् ॥ १०८ ॥ मुद्राधितं तु पत्रं वादिभ्यः प्राप्तभागेभ्यः । न्यायेन रामसूनुर्गोविन्दः सन्ददौ पूज्यः ॥ १०९ ॥ गोविन्दमन्त्रजापी वापीवत्तापसंहारी । तापीब सुप्रतापी गोविन्दोऽयं सुधापी किम् ।। ११० ।। मन्दाप्रजो द्विजन्मा नाम्ना गोविन्दपन्तोऽयम् । धाम्नः परममहिम्नां भूम्नः क्षोणीशतुल्योऽभूत् ।। १११ ।।
धर्माधिकारिवंशवर्णनम् । रामद्रुमपरिषक्ता मुक्ताराजीव या युक्ता । गोविन्दकल्पलतिका मम भूयात्सा शिवायैव ।। ११२ ।। रामपयोनिधिजातः ख्यातो गोविन्दचन्द्रोऽयम् । वचनांशुभिः स्वकीयर्मोदं काशीनिवासिनां चक्रे ॥ ११३ ।। प्राचीनपुण्यकर्मस्वाचरणेनेह हरिहरस्मरणात् । रामात्मजः परोऽभूद् गोविन्दाख्यः क्षितौ पूज्यः ॥१४॥ दुरितनिवारणकारणतारणशम्भोः प्रसादेन । नन्दाग्रजः स्वशक्त्या गोविन्दो वर्णितः पूर्वः ॥ ११५ ॥ विदुषां गणनासु पूर्वगण्यौ निपुणौ रामसुताविमावभूताम् । समभूद् विपुलस्तयोः सुतानां सुखदो वंशवरः प्रतापशाली ॥११६॥ गोविन्दनन्दो तनयौ प्रसिद्धौ श्रीरामसंज्ञस्य बुधस्य लोके । वंशस्तयोरेव बभूव वर्यः ख्यातो विचित्रः परमः पवित्रः ॥११७॥ तत्र स्वपूर्वस्य हि नन्दशर्मणो वंशः समासेन मयाऽनुवर्णितः । गोविन्दसंज्ञस्य तदप्रजम्य वै संवर्ण्यते वंशवरः स्वशक्तितः ॥१८॥ यो रामपण्डितसुतः सुकविः पृथिव्यां नन्दाग्रजो द्विजकुलैकमणिर्बुधाग्न्यः गोविन्दपण्डित इति प्रथितस्तदीयो वंशो मया निजधिया खलु वर्ण्यते वै ॥ ११९ ।। तत्सुतः समभवद् गुणाग्रणीघनाथविबुधः परं क्षितौ । खलु सुतास्त्रयोऽपि ते वेदशास्त्रनिपुणा गुणाकराः ॥१२०॥ तत्रैकस्य सुतास्त्रयः समभवन् गोविन्दसंज्ञस्य वै यस्य भ्रातृकनीयसः शिवरतस्वान्तस्य विद्वत्प्रभोः । श्रीगोविन्दबुधं स्वपूर्वजवरं गोविन्दपौत्रं परं सर्वेभ्योऽभ्यधिकं गुणैः कुलमणिं तं वर्णयामो वयम् ।। १२१॥ न्याये व्याकरणेऽपि जैमिनिकृतौ वेदान्तशास्त्रेऽपि च श्रीसाहित्यविधौ स्मृतावपि तथा प्रत्यक्षवाचस्पतिः । तस्य वै धर्माधिकारिवंशवर्णनम् । श्रीमझेखनकार्यके गणपतिगोविन्दशर्मा परः श्रौतस्मातविचारसारचतुरो गोविन्दपौत्रो बभौ ॥१२२ ॥ वदनमहोद्योताख्यं ग्रन्थं चक्रे सपादलक्षं सः । गोविन्दनन्दबन्धोः पौत्रो गोविन्दशर्मा सः ॥ १२३ ॥ गोविन्दमूर्तिसेवी पौत्रो गोविन्दसंज्ञस्य । विद्वत्पूज्यः ख्यातो गोविन्दाख्यः स्वयं साक्षात् ॥ १२४ ॥ तस्याग्न्यस्य तु बालकृष्णमुकवेः ख्यातास्त्रयोऽप्यात्मजाः श्रीशम्भोश्चरणान्जसेवनपरा मीमांसकास्तार्किकाः । तस्मात्पूर्वभवस्य सम्यगभवहीरेश्वरस्यापि वै श्रीविष्णुस्तनयः सतां सुखकरः क्षीणः सुतस्तस्य सः ॥१२५।। गोविन्दस्य सुतास्वयः समभवन् श्रीविष्णुभक्तौ रताः सर्वेभ्योऽभ्यषिका गुणैः क्षितितले शास्त्रेषु पारङ्गताः । श्रीमच्छङ्करपण्डितः शिवरतः शास्त्रेषु पूर्णो मत. स्तस्यायः समभूत्सदाशिवबुधो गोपालसंज्ञः परः १२६ तत्राभूतनयः सदाशिवबुधस्याद्यः पर कीर्तिमान् दीर्घायुर्विबुषाप्रणीर्गुणनिधिर्नाम्ना गणेशः सुधीः । योऽभूत् क्ष्मातलवर्तिराजमुकुटे गोपालसिंहान्वये देशे पूज्यतमो भदावर इति ख्याते सुपुण्योदये ॥१२॥ स्वाभिमतकार्यकारी ज्ञानेनाज्ञानसंहारी । शास्त्राकलनविहारी हर्यनुसारी गणेशोऽयम् ।। १२८ ।। विलसति सुधीगणेशो विद्वच्चूडामणिः सोऽयम् । स्वाज्ञापालं चके राजानं बखतसिंहं यः ॥ १२९ ।। नाजीवत्तनयस्तु शङ्करबुषस्याभूल पुत्रस्तथा गोपालस्य ततः समाप्तिमगमद्भात्रोयोः सन्ततिः । शास्त्रार्थप्रविचारका गुणषियः पुत्रा गणेशस्थ वै विख्याता वसुधातले बुधवराश्चत्वार एवाभवन् ॥ १३० ॥ :
धर्माधिकारिवंशवर्णनम् । १५ श्रीधीरेश्वरपण्डितः प्रथमतः श्रीविश्वनाथस्ततो गोपीनाथबुधस्ततोऽपि रघुनाथोऽभूद् क्रमेण क्षितौ । एवं ते हि गणेशपण्डितसुतास्तेषां पुनः सन्ततः कर्तव्यं गुणवर्णन जलघिजाजानेः परं सेवया ॥ १३१ ।। श्रीबालकृष्णस्य सुतो द्वितीयः श्रीमाधवाख्यस्तु मृति जगाम नाभूत्ततः सन्ततिरेव तस्य द्वयोः पुनर्वशततिर्वभूव ॥ १३२॥ रघुनाथमुकुन्दसंज्ञको याववशिष्टौ तनयौ हि बालकस्य । स्मृतिशास्त्रविचारपारगौ तौ भुवि शम्भोः पदचिन्तकौ परस्य ॥१३३॥ स्मरन्मुकुन्दं मनसा मुकुन्दो विद्वत्सुधांशुःप्रथितः पृथिव्याम् । मिताक्षराकारवचो विचिन्त्य श्रीराजसंसत्सु यथार्थवक्ता ॥१३४॥ श्रीहर्षः किमु काव्यबन्धनविधौ साहित्यमूर्तिः स्वयं विद्वन्मौलिमणिमहानधिकृतः श्रीदण्डनीत्यादिषु । श्रीगोपालनृपेण राजमुकुटेनाभूत् स्वदेशे पर धर्माध्यक्षकुलाप्रणीरयमिति ख्यातो मुकुन्दद्विजः ॥१३॥ मुचुकुन्दसुखप्रदं मुकुन्दं स मुकुन्दः कुमुदैः समर्थ्य वै हि । शुभकुन्दविहारिणं स्वभक्त्या परमानन्दमवाप पणितेन्द्रः ॥ १६॥ कुन्दकुञ्जमुविहारिणं सदा श्रीमुकुन्दविबुधः सुरोत्तमम् । तं मुकुन्दममिचिन्त्य भक्तितः शक्तिः सुखमवाप मानस ॥ १३७ ॥ बालकसूनुः ख्यातः श्रीमान् स मुकुन्दशर्माऽयम् । विद्वन्मण्डलपाली किमु वनमाली द्वितीयोऽभूत् ॥ १३८ ॥ सद्भक्तसौख्यकर्ता हर्ता यो दुरिततिमिरस्य । चित्ते यस्य मुकुन्दः स मुकुन्दः सस्कुले जातः ॥ १३९ ।। सच्छिष्य कार्यकर्ता हर्ता शास्त्रार्थसारस्य ।। वक्ता रानपुरस्ताद्धर्म सर्व मुकुन्दो वै ॥ १४० ॥ विद्वन्मानसहंसः ख्याता हंसीव यस्य सत्कीर्तिः । धर्माध्यक्षकुलेऽस्मिन् द्विजवरमौलिमुकुन्दोऽसौ ॥ १४१ ।।
. १३ धर्माधिकारिवंशवर्णनम् । रघुनाथबुधोऽपि पण्डितः स्मृतिशास्त्रे विबुधेषु मण्डितः । सुकविर्मुनिजैमिनेः कृतौ परिषक्तः शिवपादसेवकः ॥ १४२ ॥ द्विजदीधितिरेव यो बभूव क्षितिपालेन सदैव पूजितश्च । रघुनाथबुधः कुलैकभूषा शिवपुर्या समभूत्स पूर्वजोऽयम् ॥ १४३ ॥ रघुनाथपदाब्जसेवकोऽसौ रघुनाथः कुलभूषणं बभूव । परराणकवार्तिकादिवार्तामकरोज्जैमिनिसूत्रमूलतो वै ॥१४४॥ तन्त्ररत्नपरराणकादि यद् कण्ठतः खलु चकार वार्तिकम् । हसंमतमतप्रवर्तकः संबभूव रघुनाथपण्डितः ॥ १४५ । पण्डितेषु मणिरेव संबभौ लोकमौर्व्यतिमिरं व्यनाशयत् । नत्यजन् जनविमुक्तिकारिकां काशिका द्विजजनप्रकाशिकाम्॥१४६॥ हारिका विविधपापसन्ततेारिकामिव कृतां पुरारिणा । सर्वलोकपरितारिकामसौ नत्यजनिह बभौ बुधाग्रणीः ॥ १४७ ॥ श्रौतादिकर्मकारी हारी स्वाज्ञानतिमिरनिकरस्य । श्रीमद्बालकसूनुः श्रीरघुनाथः परं जातः ॥ १४८ ।। वर्णितौ निपुणया धिया मया श्रीमुकुन्दरघुनाथपण्डितौ । सन्तति विह तयोः स्वशक्तितो वर्णयामि निखिला यथार्थतः॥१४९॥ पञ्चासंस्तनयाश्चतुर्दिशि पुनः ख्याता मुकुन्दस्य वै विद्वांसौ रघूनाथपण्डितकवेः पुत्रावपि द्वौ मतौ । ज्येष्ठः शम्भुरभूद् गदाधरबुधस्तस्यानुजः सोऽप्यभूत् शम्भोः श्रीशिवरामपण्डित इति ख्यातः सुतः संबभौ१५०॥ पुत्रः शिष्टवरो गदाधरबुधस्याभूत्परः कीर्तिमान स्मार्ताचार्य इव प्रसिद्धिमगमच्छीरगनाथः सुधीः ॥ ये वै पञ्च मुकुन्दपण्डितसुतास्तेषु प्रसिद्धो बमो श्रीनारायणपण्डितो द्विजवरः श्रेष्ठो गुणैर्जन्मना ॥५१॥ तस्याभूदनुजः सतां सुखकरः ख्यातः क्षितौ सर्वदा गङ्गारामबुधम्ततः समभवच्छीवासुदेका ती ।
धर्माधिकारिवंशवर्णनम् । १७ गङ्गारामसुतस्तु माधव इति ख्यातः परासुर्वभौ बंशस्तस्य बभूव न क्षितितले योऽल्पायुरेवाभवत् ॥ १५२ ।। अनन्तरामः खलु वै चतुर्थः पुत्रो मुकुन्दस्य बभूव योग्यः । मारायणस्यापि सुतौ प्रसिद्धी श्रेष्ठौ गुणैः पण्डितबंशवयों ॥१५३ ॥ एकस्तयोज्येष्ठ इति प्रसिद्धो नागेशसंज्ञः प्रथमस्तनूजः । भीमान् जगन्नाथ इति द्वितीयो नाम्ना सुतोऽभूद्विबुधस्य तस्य ।१५४॥ श्रीवासुदेवस्य सुतो बभूव श्रीकृष्णशर्मा सुमतिः कवीन्द्रः । कृष्णानुजोऽभूदपरस्तदीयो गोविन्दसंज्ञस्तनयः प्रसिद्धः ॥१५५॥ सुताविमौ पण्डितवंशवयौं श्रीवासुदेवस्य बुधेषु वयौँ । अनन्तरामस्य सुता बभूवुनयः क्षिती योग्यतमा द्विजाग्ग्याः॥१५६॥ श्रीबालकृष्णः प्रथमस्तनूजो हरिर्द्वितीयः प्रबभूव तस्य । तस्यानुजः श्रेष्ठतमो गुणौषैः पुत्रस्तृतीयः शुकदेवसंज्ञः ॥१५७।। मुकुन्दपुत्रः किल पञ्चमोऽयमुद्दामकीर्तिजयरामसंज्ञः । पुत्रा बभूवुनय एव तस्य भाव्यं परैः साम्बशिवस्य भक्त्या ॥ १५८ ॥ वेणीरामबुधस्तदीयतनयः श्रीवैजनाथाभिधः श्रीमान् यादवनामकः पुनरभूत्सूनुस्तृतीयः कृती । एवं श्रीजयरामपण्डितसुता घेते मया वर्णिता भाव्यानां गुणवर्णनं सुकृतिनां कर्तुं भवेत्कोऽपि वा ॥१५॥ वर्णितो न निखिलो मयाऽधुना वंश एष निजपूर्वसम्भवः । यो हि सम्प्रति धियाऽनुवर्णितस्तेन तुष्यतु शिवापतिः शिवः ॥१६०॥ श्रीवासुदेवस्य हि नन्दबन्धोरनन्तपुत्रस्य च कृष्णनाम्नः । सुतस्य नारायणपण्डितस्य वंशो न विस्तारभयादवर्णि ॥ १६१ ॥ कान्होपण्डितशर्मणः पुनरपि श्रीवामनस्यापि वै श्रीमन्माधवपण्डितस्य न मया वंशोऽधुना वर्णितः । प्रस्थाधिक्यवशात् सुसन्ततिविधे शादभावात्परं केषाश्चित्स्वकुलोद्भवकसुधियामज्ञानतश्चापि वा ॥ १६२ ॥ ३ धर्मा
धर्माधिकारिवंशवर्णनम् ।
गताः कुटुम्बेन युता विदेशे केचित्तु कध्यापतयोऽपि जाताः ।
मृतास्मजाः केचन संबभूवु तस्तदीयं चरितं प्रवाणि ॥ १६३ ॥
धूलीकणानपि पुमान् गणयेत्कदाचित्
तारागणैकगणनामपि कोऽपि कुर्यात् ।
धर्माधिकारिकुलसम्भवपण्डिताना
को वा गुणानिपुणधीर्गणयेदनन्तान् ॥ १६४ ॥
प्रचण्डमार्तण्डकराननन्तान् आखण्डलाखण्डितवारिबिन्दून् ।
विमातुमारादपि कोऽप्यलं स्यान्न चापि कश्चिनिजवंश्यलोकान् ॥ १६५ ॥
असंख्याताः ख्याताः पुनरपि च जाताः क्षितितले
कुले विद्वद्रस्ने द्विजमनुजधर्माधिकृतिके ।
भवेयुः श्रीशेच्छावशत इति हेतोगुरुरपि
प्रभुन स्यातेषां गणनरचनायां निपुणधीः ॥ १६६ ॥
केचिद् बेदरपत्तने कविवराः केचित्तु जाताः पुनः
श्रीकाश्यां द्विजवृन्दपूज्यतिलकाः केचिद्विदेशे पुनः ।
धर्माणामधिकारिणः समभवनातः परं वर्णन
सर्वेषां सुधियां विधातुमिह वै शक्तो भवेन्मादृशः ॥ १६७ ॥
गणनं निजकुलपुंसां वर्णनयुक्तं समासेन ।
को वा नरः प्रकुर्यात्तरणं यद्वत्समुद्रस्य ॥ १६८ ॥
काऽयं स्वकुलसमुद्रो बुद्धिदरिद्रः क चाहं वै ।
श्रीशम्भुभजनयोगात्पूर्ण जातं तथापीदम् ॥ १६९ ॥
वारिधितरणेऽमन्दं मृकण्डुतनयस्य पूर्वमवलम्बः ।
जातो ममापि सोऽयं विरचनकरणे हरिः सततम् ॥ १७० ॥
वेणीरामेण कृतं वर्णनमेतन्मनोहारि ।
त्रिपुरारिपादसेवाविभवेन स्वीयवंश्यानाम् ॥ १७१ ॥
स्वायकुलोद्भवलोकानन्दायेदं कृतं यत्नात् ।
इह नन्दादिबुधानां कीर्तिर्युक्ता परिस्फुरति ॥ १७२ ॥
धर्माधिकारिवंशवर्णनम् ।
बुधजननिकरः स्वान्ने पश्यतु सर्व च वचनरचनं में ।
जानातु मत्स्वरूपं नो वा किश्चिद्विजानातु ॥ १७ ॥
यत्राभूदिह नन्दपण्डितकवेर्जन्मादिसंकीर्तनं
सोऽयं वंशवरः सतां सुखकरः श्रीकाशिकावासिनाम् ।
वेणीरामबुधेन पूर्वजपदासक्तेन याथार्थ्यतः
श्रीशम्भोवरपादपद्मनिरतस्वान्तेन संवर्णितः ॥ १७४ ।।
धर्माधिकारिवंशस्य वर्णनं निजशक्तितः ।
कृतवान् साम्बमानम्य श्रीवेणीरामपाण्डितः ॥ १७५ ॥
इति श्रीधर्माधिकारिकुलतिलकायमानश्रीमन्नन्दपण्डितान्वय-
प्रसूतकलाधरपण्डितात्मजश्रीवेणीरामपण्डितविरचित
स्वपूर्वजवंशगुणवर्णनं सम्पूर्णतामगमत् ॥
श्रीविनायकशास्त्रिवेतालकृतम्
धर्माधिकारिवंशशेषवर्णनम् ।
प्रत्यप्ररचनाशालिधियां विश्राणने प्रमुम् ।
अनेकदं तं भक्तानामेकदन्तमहं भजे ॥ १ ॥
धर्माधिकारिवंशोऽयं श्रीवेणीरामपण्डितैः ।
वर्णितः समये स्वस्मिस्तच्छेषोऽत्राभिधीयते ॥ २ ॥
श्रीवासुदेवसूनुः श्रीकृष्णः पण्डितः प्रोक्तः ।
तस्य सुता सगुणाख्या सा मे मातामहस्य मातासीत् ॥३॥
तामुपयेमे वेणीरामः शेषोपनामको विद्वान् ।
ताभ्यां राजारामः पण्डित उदभूत्कुले हि शेषस्य ॥४॥
गङ्गाभिषाऽस्य पत्नी सुषुवे मोरेश्वरं सूनुम् ।
मन्मातरं च लक्ष्मी वेतालविनायकः सोऽहम् ॥ ५॥
२०
धर्माधिकारिवंशशेषवर्णनम् ।
श्रुतिप्रमाणं किल कर्म येषां ते र्निबन्धैः प्रचरन्ति धर्मम् ।
मन्वादिवाक्यस्मृतिभिर्विमिवंशत्रयात्ते बहुधोदभूवन् ॥ ६ ॥
भट्टकुलं प्रथमं तत्परमिह धर्माधिकारिकुलम् ।
शेषकुलं च तृतीयं काश्यामद्यापि च प्रथमपूज्यम् ॥ ७ ॥
नैयायिकमीमांसकसद्ग्रन्थाः कर्मपद्धतयः ।
प्रायः कुलत्रयेऽस्मिन्नुदयमवापुः परोपकाराय ॥ ८ ॥
कथमपि तत्सन्तानं सन्नहमद्य स्वकीयानाम् ।
नामान्यद्यावधि किल केवलमिह वच्मि तच्चिरस्थित्यै ॥ ९ ॥
पालाजी चिमणाजी नारायण इति सुतत्रितयम् ।
श्रीकृष्णपण्डितस्य त्वासीन्मन्मूलपुरुषस्य ॥ १० ॥
नारायणवंशे मो चिमणाजीतस्तु चत्वारः ।
आसन्सुता इहैको विष्णुर्याब्रूसमाख्योऽन्यः ॥ ११ ॥
सूनुर्गजाननोऽस्य भ्राता चासीत् सखारामः ।
गङ्गारामस्वपरो वंशो निष्ठां जगामैषाम् ॥ १२ ॥
अथ बालाजीसंज्ञाच्चतुष्टयं संबभूव तनयानाम् ।
प्रथमो मुकुन्दशर्मा गोपालोऽन्यो महादेवः ॥ १३ ॥
दामोदरोऽपरोभूतस्योदभवस्त्रयः पुत्राः ।
श्रीधर आत्मारामो गोविन्दश्चेति गोविन्दात् ॥ १४ ॥
यज्ञेश्वर आद्योऽभूत्परौ जगन्नाथरघुनायो।
मन्मातुलदौहित्र्या जज्ञे यज्ञेश्वरात्सुताद्वितयम् ॥ १५ ॥
से आवडीलहानीसंज्ञे, जज्ञे जगन्नाधात् ।
गणनाथो रघुनाथाज्जयकृष्णः शङ्करश्च स्तः ॥ १६ ॥
अथ बालाजीतनयाच्चत्वारो ये महादेवात् ।
मोरेश्वरचिन्तामणिराजारामा जनार्दननास्मात् १७
कृष्णः समजनि नाने वंश्यः कोऽप्यत्र विदितो मे ।
अथ बालाजीसूनोर्गोपालाज्जज्ञिरे सुता अष्टौ ॥ १८ ॥
धर्माधिकारिवंशशेषवर्णनम् ।
२१
नारायणसोनू जीविनायका अथ गणेशोऽन्यः ।
बाबूलक्ष्मणसंज्ञौ सविश्वनाथो हरिश्चेति ॥ १९ ॥
धोंडूसंज्ञा चैषां भगिनी वेरुल्करोपाख्या ।
अत्र हि बाबूपुत्रः कोऽप्यस्ति च तं न जानेऽहम् ॥ २० ॥
गणेशस्य चतुःपुत्रा भोलानाथोऽथ शङ्करः ।
शम्भुः सदाशिवश्वेति ते वसन्ति तु लश्करे ॥ २१ ॥
सोनूजीतनयो विष्णु कूपन्तश्च, तत्सुतः ।
छोट्यानामा परेषां तु न वंशो ववृधे भुवि ।। २२ ।।
बालाजीसंज्ञपुत्रातु मुकुन्दाच सुतद्वयम् ।
पुरुषोत्तमशर्माऽऽद्यो दाजीपन्तापराभिधः ॥ २३ ॥
काशीनाथोऽनुजस्तस्माविश्वनाथश्च माधवः ।
दाजीपन्तस्य पुत्रोऽस्ति लक्ष्मीकान्त इति स्मृतः ॥ २४ ॥
सुता च मत्स्नुषाप्यस्ति लक्ष्मीकान्तस्य केशवः ।
सूनुरेषा तु गोविन्दपण्डितानां कुलस्थितिः ॥ २५ ॥
श्रीनन्दपण्डिताद् यो विद्वद्वर्यास्कुले षष्ठः ।
पुत्रोऽनस्तस्यासील्लक्ष्मीधरपण्डितः काश्याम् ॥ २६ ॥
तस्य सुताः पञ्चासंस्तत्रासीत्सोमनाथाख्यः॥
स तु दिनकरभट्टसुतामुपयेमेऽस्याः सुतश्चासीत् ॥ २७ ॥
विश्वनाथरघुनाथशम्भवो वासुदेव इति सोदरा इह ।
सोमनाथविदुषोऽन्तिमादभूत्कन्यकाद्वयमतीव बुद्धिमत् ॥२८॥
मैंयामथुरासंज्ञ, निःसन्तानोऽत्र रघुनाथः ।
शम्भोस्तु रामचन्द्रस्तस्माच्छीदुण्डिराजोऽभूत् ॥ २९ ॥
नाम्ना धिया च वृत्त्या श्रीगुरुवरबालशास्त्रिविद्वद्धयः ।
शास्त्राण्यधीत्य सर्वाण्यपि विचचाराऽवनौ वागग्मी ॥ ३० ॥
वाराणस्यामस्माद् वीरेश्वर आधसूनुरभूत् ।
सोऽल्पायुरभूदन्यो नागेश्वरपण्डितश्विरायुः स्तात् ॥ ३१ ॥
धर्माधिकारिवंशशेषवर्णनम् । लक्ष्मीधरः सुतोऽस्य श्रीभगवत्याः प्रसादेन । अथ विश्वनाथसंज्ञाज्जज्ञे श्रीवैद्यनाथाख्यः ॥ ३२ ॥ तस्य सुतद्वितयमभूदाद्यः श्रीकृष्णपण्डितस्तत्र । साहित्यशास्त्रविज्ञो शब्दार्थचये विलक्षणधीः ॥ ३३ ॥ अकरोअनोपकृतये यो वासिष्ठस्मृतिव्याख्याम् । सज्जनवर्णनकाव्यं व्याकरणं शिक्षयंश्चके || ३४ ॥ गोविन्दाऽस्यानुज इह सुताद्वयं कृष्णपण्डितस्यास्ति । तत्र ज्येष्ठा दुर्गाऽनुजा च गङ्गाभिधानयुता ॥ ३५ ॥ एषा मदीयसुतयोः श्रीनाथाऽनन्तरामयोजननी । धर्माधिकारिवंशे सम्बन्ध इयान्ममाद्यन्तः ॥ ३६॥ अस्मिन्वंशे ये चिरञ्जीविनस्ते विद्यावन्तः शास्त्रनिष्ठा वदान्याः । ौते स्मात कर्मणि श्रद्धधानाः सन्तः सन्तु श्रीकृपासस्कटाक्षात् ।।३७।। धर्माधिकारिवंशामिः सततं किल्बिषापहः । मया समिध्यमानोऽयं सर्वदैव समेघताम् ॥ ३८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्येत्यादिविविधविरुदावली- विराजमानैः श्रीमद्वारकापीठस्थित श्रीशङ्कराचार्यवयः प्रीत्या समर्पितया स्वधर्मधुरन्धरदैवज्ञवाचस्पतिरिति सत्पदव्या श्रीमत्परमहंसेत्यादिविविधपदवीविभूषितैः श्रीकरवीरक्षेत्र- स्थित श्रीशङ्कराचार्यवदा समर्पितया ज्योति. पारदृश्वेति सत्पदव्या चालङ्कृतेन वेतालो. पाभिधीविनायकशास्त्रिणा विरचितं धर्माधिकारिवंशशेषवर्णनं शुभाय वृयै च भूयात् ।
॥धीः॥
श्रीविनायकशास्त्रिवेतालविरचितम्
श्रीरेणुकास्तोत्रम्।
त्वदीयपदरेणुके शिरसि रेणुके ! मामके
निधाय वरदं करं ननु दरं ममाऽनीनशः ।
स्ववत्सलतयाऽनु दोनयनलालनच्छन्नना
प्रमोदभरदृग्झरस्रुतमदश्रुभिर्धावयेः ॥ १ ॥
प्रणम्य सुषमामिषद्गनिमेषशीर्षोल्लस-
किरीटकुलसडलं परिमलाऽलमद्ध्युत्पलम् ।
मनोऽलिरयमुन्मदः सपदि तेऽनुजिघ्रन् मनाक्
तदन्यसुमनस्सु किं व्रजति नाधुना तत्स्मरन् ॥ २॥
मजन्तु विषयान् सजूर्विषयिणो विषाणीव ते
सारसिकमौलिना मम मनोऽलिना न्यक्कृताः ।
श्रुतं तदवलोकितं भवतु तत्स्पृशाञ्जघ्रता
रसालपदपङ्कजं जननि ! ते सदा स्वाद्यताम् ॥ ३ ॥
विजित्य हृदुपस्थतो मुहुरुपस्थितानन्दक
विशुद्धिमुपसंहरन्विरमताद् भवद्भक्तिषु ।
गिरा भजतु नाम ते करधृतार्चनोपस्कर
प्रयातु तव मन्दिरं विसृजतु त्वदन्यादरम् ॥ ४॥
मुमोच किल मां प्रसूरथ विदप्रणीरप्रजः
पितापि दयितोऽप्रजोऽपर इहाश्रयो यस्य मे ।
अयेऽहमधुनेह कं वृजिनपुञ्जवास्याहतः
प्रयामि दिशमाम्बिके! निदिश कान्दिशीकोऽय काम् ॥५॥
श्रीरेणुकास्तोत्रम् । -- यथायथमनुष्ठिताः स्तुतिकथाः कथञ्चिन्न ते स्मरामि च कृतं न तेऽर्चनमकिचनः किश्चन । तपो मनुजपोऽप्युपोषणमकारि न स्वत्कृते. ऽपराद्धममुमम्बिके ! यद किमुद्धरिष्यस्यतः ।। ६ ॥ विधिहरिहरादयो यदवधीरिता नान्तिके पुरन्दरपुरोगमा न पुर आसितुं शक्नुयुः । निगृह्य कृपयाऽम्बिके ! गुणगणैः स्वकीयदृढं बधान, न यथा पुनः श्रयति हृत्पशुः शोच्यताम् ॥७॥ अगाधवदपारवद्रयमदादियादोयुता विवेकमुखमत्सखा यदघिवीचि मनाः परम् । निधाय चरणौ पुरो नियमयाऽऽशु तृष्णानदी विनश्यति यथाऽम्बिके! न परमार्थमार्गो मम ॥ ८॥ स्तवीमि जमदग्निसद्गृहिणि ! नाम पृथ्वीगतं गृणन् परशुरामसज्जननि! जल्पितार्थाप्तये । तदम्बा कृपयाऽऽप्स्यतेऽद्य वयसोनपञ्चाशता मया, पठति कोऽपि चेत्स फलमाप्नुतात्तादृशम् ।। ९ ।। इति श्रीमत्पूज्यपादश्रीविनायकशास्त्रिवेतालविरचित श्रीरणुकास्तोत्रं सम्पूर्णम् ॥
No text on this page.