University Library,gurukul Kangri Vishwavidyalaya
निबन्धादर्शः
Front matter
२७२
||श्रीः॥
निबन्धादर्श:
संग्राहकः
महामहोपाध्याय
श्री पं० गिरिधरशर्मा चतुर्वेदः
सम्पादक:
श्री पं० शिवदत्तशर्मा चतुर्वेदः एम० ए०
साहित्यव्याकरणाचार्य:
(प्राध्यापक : संस्कृतमहाविद्यालय काशीहिन्दूविश्वविद्यालय, वाराणसी)
चौरखम्बा संस्कृत सीरीज आफिस,वाराणसी
१६६७
© The Chowkhamba Sanskrit Series Office,
P.O. Chowkhamba, Post Box 8,
Varanasi-1 (India)
1967
Phone : 3145
THE
HARIDAS SANSKRIT SERIES
272
NIBANDHĀDARSA
(A Collecton of Ideal Sanskrit Essays )
Compiled By
MAHĀMAHOPADHYAYA
PT. GIRIDHARA SARMA CHATURVEDI
Edited By
PT. SHIVADATTA S'ARMA CHATURVEDI M. A.
THE
CHOWKHAMBA SANSKRIT SERIES OFFICE
VARANASI-1
1967
Second Edition
1967
Price Rs. 2-50
Also can be had of
THE CHOWKHAMBA VIDYABHAWAN
Publishers & Antiquarian Book-Sellers
Post Box 69, Varanasi-1 (India)
Phone : 3076
दो शब्द ई० १६६६ में चौखम्बा संस्कृत सीरीज, वाराणसी में प्रस्तुत पुस्तक (निबन्धादर्श) के सम्पादक मेरे पूज्य पिता महामहोपाध्याय पंडित गिरिधर शर्मा जी की संस्कृत रचनाओं के संग्रह का प्रथम भाग 'चतुर्वेदिसंस्कृतरचनावली' नाम से प्रकाशित हुआ और चौखम्बा प्रकाशन परिवार की ओर से पूज्य पिता जी को समर्पित किया गया । पूज्य पिता जी ने उस पर संतोष व्यक्त करते हुए मुझे निर्देश दिया था कि इस 'चतुर्वेदिसंस्कृतरचनावली' के दूसरे भाग में उनकी समस्त महत्त्वपूर्ण कृतियों का समावेश हो जाय । उसी समय उन्होंने बतलाया था कि संस्कृत में निबन्धलेखन की समुचित शिक्षा के लिए उन्होंने 'संस्कृतनिबन्धादर्शः' नामक पुस्तक का सम्पादन किया था। वह कई वर्ष पूर्व प्रकाशित और बहुमानित हो चुका था और वर्तमान में वह अनुपलब्ध है । इस पुस्तक का नाम मैंने कई पाठ्यक्रमों में छपा देखा था परन्तु पुस्तक हमारे घर पर भी उपलब्ध नहीं थी। पिताजी ने उसका भी पुनर्मुद्रण कराने की प्रेरणा दी। कुछ दिनों में श्री ईश्वरप्रसाद चतुर्वेदी एम० ए० के प्रयत्न से पुस्तक की प्रति मिली और चौखम्बा संस्कृत सीरीज से ही इसके भी प्रकाशन का आदेश पिताजी ने दिया । विगत १० जून को हमारे ऊपर काल का भीषण वज्रपात हुआ और ज्ञान का वह प्रदीप्त पुञ्ज, वह स्नेह-समुद्र, हम अभागों के देखते देखते ही सूख गया ? पूज्य पिताजी के दिवंगत होने के तत्काल पश्चात् , वाराणसी में उपस्थित विद्वानों ने उनके अवशिष्ट अप्रकाशित साहित्य को प्रकाशित करने के लिए 'श्री गिरिधर साहित्यिक शोध संस्थान' की स्थापन की, जिसके अध्यक्ष, पिताजी के परम प्रिय शिष्य, विख्यात संस्कृत विद्वान् , राष्ट्रपति संमानित, महामहोपाध्याय श्री परमेश्वरानन्द शास्त्री जी बनाए गए । उनसे संस्थान की कार्यविधि का निश्चय हुआ और निर्णय किया गया कि 'चतुर्वेदिसंस्कृतरचनावली' के द्वितीय भाग को संपादित कर पिताजी की 'आत्मकथा' तथा 'संस्कृतनिबन्धादर्श' आदि को शीघ्र प्रकाशित कराया जाय। पाठकों को यह सूचना देते हुए प्रसन्नता होती है कि ये तीनों ही कार्य सुसम्पादित हो चुके हैं, निबन्धादर्श तो पाठकों के हाथों में जा ही रहा है, 'आत्मकथा' भी प्रेस में जा चुकी है, तथा 'चतुर्वेदि- संस्कृतरचनावली' का द्वितीय भाग भी चौखम्बा प्रकाशन से इसके तत्काल उपरान्त ही प्रकाशित किया जायगा। आशा है प्रस्तुत ग्रन्थ, जिसके पुनर्मुद्रण की आवश्यकता का अनुभव बहुत दिनों से हो रहा था, पाठकों को समुचित मनस्तोष प्रदान करेगा। वाराणसी, अक्षय तृतीया वि० सं० २०२४ -निवेदक शिवदत्तशर्मा चतुर्वेदी प्रास्ताविकम् ननु 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते' इति न्यायानुसारेण किन्नु प्रयोजनमुद्दिश्य ग्रन्थस्यास्य प्रवृत्तिरिति चेदुच्यते । प्रथम तावत्तत्त- त्परीक्षापाठ्यविध्यनुसारेणैव प्रचरति साम्प्रतमध्ययनाध्यापने तत्परीक्षार्थ नियतरूपेणैव निबन्धलेखनस्यावश्यकता अतिरोहितैव सर्वेषाम् । छात्रा- वस्थाया अनन्तरं व्यावहारिकजीवनदशायां प्रविश्य तत्तत्सभासु भाषण- द्वारा समाचारपत्रादिषु च लेखद्वारा साफल्येन स्वाभिप्रायाविष्करणार्थमपि निबन्धरचनापाटवमधिकमुपकारीत्यपि कस्याविदितं भवेत् । अत एव निबन्ध- रचनाया अतिमहत्त्वमत्युपयोगिता च सर्वैः स्वीक्रियते उद्घोष्यते च । परं सन्त्येवाने के ग्रन्था विषयमेनमुद्दिश्य प्रवृत्ताः। अयं तु ग्रन्थोऽनन्य- साधारणमेव किञ्चित्प्रयोजनमुद्दिश्य प्रवृत्त इत्येवाधस्तात्प्रदर्श्यते । प्रायेण निबन्धरचनाया विषयो नूतन आधुनिक एवं वेति बहूनां मतिः । निबन्ध- रचनाविषयका ग्रन्थाः सर्वथा नूतना एवोपलभ्यन्त इति हेतुश्चापि पूर्वोक्तां मतिमेव द्रढयति । सैषा मतिनिराधारैवेति दर्शयितुमेव वस्तुतो ग्रन्थस्यास्य रचना संजाता । अत एव एकान्ततः प्राचीनाचार्याणां प्रसिद्धानामसाम्प्रति- कानां विदुषां च विशिष्टग्रन्थेभ्य एव समुद्धृत्य आदर्शभूता निबन्धा अत्र संगृहीताः। ते ते विश्रुतग्रन्थकाराः कथमिव स्वविचारसन्दर्भान् निबबन्धु- रित्यमुमर्थ स्वच्छादर्श इव प्रदर्शयन्नयं निबन्धादर्शश्छात्राणामुपकाराय विदु- षाञ्च मनोऽनुरजनाय भविष्यतीति विश्वसिमः ।
( 5 ) अस्मिन्हि निबन्धादर्श न केवलमद्यत्वे वस्तुवर्णनात्मकवृत्तान्तवर्णनात्मक- विचारात्मकरूपेण प्रसिद्धा निबन्धभेदा एवं प्रदर्शिताः, किन्तु पत्रलेखन- ताम्रपत्रादिलेखन-गल्पजीवनचरितादिविषयका अपि प्राचीना निबन्धाः समुद्धृताः सन्ति । परन्ततोऽप्यतिशयेनोपयोगी अंशस्त्वस्य ग्रन्थस्य संस्कृत- साहित्यविषयका निबन्धा एव । नूनं तद्द्वारा छात्राः संस्कृतस्य प्रधानभूत- साहित्येतिहासेन परिचिता भविष्यन्ति । तदेवं प्रदर्शितमस्य ग्रन्थस्यानन्य- साधारण प्रयोजनम् । प्राचीननिबन्धानां विषये हि झटिति समायाति स्मृतिपथमेतत् पद्यम्- बहपि स्वेच्छया कार्म प्रकीर्णमभिधीयते । अनुज्झितार्थसंबन्धः प्रबन्धो दुरुदाहरः ॥ अपि च- - रीति विचिन्त्य विगणय्य गुणान्विगाह्य शब्दार्थसार्थमनुसृत्य च सूक्तिमुद्राः । कार्यों निबन्धविषये विदुषा प्रयत्नः के पोतयन्त्ररहिता जलधौ प्लवन्ते । काशी वि० सं० १९९४ -गिरिधरशर्मा चतुर्वेदः विषयानुक्रमः दो शब्द प्रास्ताविकम् निबन्धाः पृ० १ ५ ४ आत्मलजयैव लङ्घयन्ति ११ १ सद्वृत्तम् (चरकसंहितायाः) २ तिस्र एषणाः पुनर्भवसिद्धिश्च (,, ३ आयुषो नियतकालप्रमाणत्वं न वा (., सत्पुरुषा नाचारवेला (आर्यशूरविरचितजातकमालायाः) ५ प्रविवेकसुखरसज्ञानां विडम्बनेव विहिंसेव कामाः प्रतिकूला भवन्ति ( आर्यशूरविरचितजातकमालायाः) ६ प्राचीनपत्रलेखनपद्धतिः (महावीरचरितादेः) ७ महाराजाधिराजश्रीहर्षस्य ताम्रपत्रलेखः ८ कोसलाधिपतेस्तीवरदेवस्य ताम्रपत्रलेखः ६ श्रीशंकराचार्यः (श्रानन्दगिरिकृतशंकरविजयात् ) १० निवृति म नगरी उपमितिभवप्रपञ्चाख्यकथायाः) ११ निर्वृतिनगरीमार्गः १२ अगस्त्याश्रमवर्णनम् ( कादम्बर्याः) १३ पम्पासरोवरवर्णनम् , ) २२ २६ २८ ३७ ) ४० ४५ ५२ ५५ ६० ६२ ६६ ६६ " " ७१ ( १० ) १४ जाबाल्याश्रमवर्णनम् (कादम्बर्याः) १५ सन्ध्यावर्णनन् १६ उज्जयिनीवर्णनम् १७ प्रभातवर्णनम् १८ आर्यावर्तवर्णनम् (नलचम्प्वाः) १६ निषधानगरीवर्णनम् २० दक्षिणदेशस्य वर्णनम् २१ कुण्डिननगरस्य वर्णनम् २२ उषःकालवर्णनम् २३ प्रभातसमयवर्णनम् २४ विन्ध्यवनस्थलीवर्णनम् २५ चन्द्रोदयवर्णनम् २६ वर्षासमयवर्णनम् ( वासवदत्तायाः) २७ प्रस्थानभेदः ( मधुसूदनसरस्वतीस्वामिनः) २८ वेदस्वरूपं वेदशाखाश्च ( पार्यविद्यासुधाकरात् ) २६ वेदाङ्गानि तदुपयोगश्च ( साथणीयऋग्वेदभाष्यभूमिकायाः) ३० वेदोपाङ्गानि (आर्यविद्यासुधाकरात् ) ३१ पुराणमतसंग्रहः ) ३२ तान्त्रिकसाहित्यम् ,,) ३३ संस्कृतकवीनां विषये प्राचीना उक्तयः ) ) ८१ ८२ ६२ १०६ १२१ " १२४ १२७ h- निबन्धादर्शः म० म० श्री गिरिधरशर्मा चतुर्वेदः ॥ श्री.ar निबन्धादर्शः १. सद्वृत्तम् आत्महितं चिकीर्षता सर्वेण सर्व सर्वदा स्मृतिमास्थाय सद्वृत्त- मनुष्ठेयम् । तद्धथनुष्ठानं युगपत् संपादयत्यर्थद्वयमारोग्यमिन्द्रियविजयं चेति । तत्सवृत्तमखिलेनोपदेक्ष्यामः । तद्यथा देवगोब्राह्मणगुरुवृद्धसिद्धा- चार्यानर्चयेत् । अग्निमुपाचरेत् । ओषधीः प्रशस्ता धारयेत् । द्वौ कालावुपस्पृशेत् । मलायतनेष्वभीक्ष्णं पादयोश्च वैमल्यमादध्यात् । त्रिः पक्षस्य केशश्मभुलोमनखान संहारयेत् । नित्यमनुपहतवासाः सुमनाः सुगन्धिः स्यात् । साधुवेशः, प्रसाधितकेशः मूर्धश्रोत्रघ्राणपादतैलनित्यः, पूर्वाभि- भाषी, सुमुखः, दुर्गेष्वभ्युपपत्ता, होता, यष्टा, दाता, बलीनामुपहर्ता, अतिथीनां पूजकः, पितृणां पिण्डदः, काले हितमितमधुरार्थवादी, वश्यात्मा, धर्मात्मा, हेतावीर्घः, फले नेर्पाः, निश्चिन्तः, निर्भीकः, धीमान , ह्रीमान , महोत्साहः, दक्षः, क्षमावान् , धार्मिकः, आस्तिकः, विनयबुद्धिविद्याभिजनवयोवृद्धसिद्धाचार्याणामुपासिता, छत्री, दण्डी, मौनी', सोपानत्कः, युगमात्रदृग् विचरेत् । १. मौली-इति पाठान्तरम् ।
२ निबन्धादर्श मङ्गलाचारशीलः, कुचेलास्थिकण्टकामध्यकेशतुषोत्करभस्मकपाल- स्नानबलिभूमीनां परिहर्ता । प्राक् श्रमाद् व्यायामवर्जी स्यात् । सर्वप्राणिषु बन्धुभूतः स्यात् । क्रुद्धानामनुनेता, भीतानामभ्युपपत्ता, सत्यसन्धः, सामप्रधानः, परपरुषवचनसहिष्णुः, अमर्षनः, प्रशमगु- णदर्शी, रागद्वेषहेतूनां हन्ता। नानृतं ब्रूयात् । नान्यस्वमादध्यात् । नान्यस्त्रियमभिलषेत् , नान्यश्रियम् । न वैरं रोचयेत् । न कुर्यात्पापम् न पापेऽपि पापी स्यात् । नान्यदोषान् ब्रूयात् । नान्यरहस्यमागमयेत् । नाधार्मिकैन नरेन्द्रद्विष्टैः सहासीत, नोन्मत्तैर्न पतितैर्न भू- एहस्तृभिर्म सुट्टैम दुष्टैः । न दुष्टयानान्यारोहेत् । नानास्तीर्णमनुपहित- मविशालमसमं वा शयनं प्रपद्येत । न गिरिविषममस्तकेष्वनुचरेत् । न द्रुममारोहेत् । न जलोप्रवेगमवगाहेत । कूलच्छायां नोपासीत । नाम्युत्पातमभितश्चरेत् नोच्चैह सेत् । न शब्दवन्तं मारुतं मुश्चेत् । नासंकृतमुखो जम्मा शवथु हास्यं वा प्रवर्तयेत् । न नासिका कुष्णी- यात् । न दन्तान्विघट्टयेत् । म नखान यादयेत् नास्थीन्यभिहन्यात् । न भूमि विलिखेत् । म छिन्द्यात्तृणम् । न लोष्ट्र मृदुनीयात् । न विगुणमङ्गश्चेष्टेत । ज्योतीष्यग्निश्चामध्यमशस्तं च नाभिवीक्षेत । नैकः शून्यगृहं न चाटवीमतुप्रविशेत् । न पापवृत्तान् स्त्रीमित्रभृत्यान् भजेत । नोत्तमविरुध्येत । नावरानुपासीत । न जिह्यं रोचयेत् । नामार्यमाश्रयेत् । न भयमुत्पादयेत् । न साहसातिस्वप्नप्रजागरस्ना- नपानाशनान्यासेवेत । नोर्ध्वजानुश्चिरं तिष्ठेत् । न व्यालानुपसर्पेत् । न इंष्ट्रिणः न विषाणिनः । पुरोवातालपावश्यातिप्रवातान जह्मात् । कलिं नारभेत । नाविगतक्लमो नानाप्लुतबदनो न नग्न उप-स्पृशेत् । न स्नानशाट्या स्पृशेदुत्तमाङ्गम् । नोपस्पृश्य ते एव बससी बिभृयात् । न पूज्यमङ्गलान्यपसव्यं गच्छेत् । नेतराण्यनुदक्षिणम् ।
३ निवन्धादर्शः नारनपाणि स्नातो नोपहतवासाः नाजपित्वा नाहुत्वा देवताभ्यो नानिरूप्य पितृभ्यो नादत्वा गुरुभ्यो नातिथिभ्यो नोपाश्रितेभ्यो नापुण्यगन्धो नामाली नाप्रक्षालितपाणिपादवदनो नाशुद्धमुखो नोद मुखो न विमानाभक्ताशिष्टाशुचिलुधितपरिचरो न पात्रोष्वमे- ध्यासु नादेशे नाकाले नाकीणं नादत्त्वाग्रमग्नये नानोक्षितं प्रोक्षणोदकैर्न मन्त्रैरनभिमन्त्रितं न कुत्सयन्न कुत्सितं न प्रतिकूलोपहितमन्नमाद- दीत, न पर्युषितम् । नाशेषभुक् स्यात् अन्यत्र दधिमधुलवणसक्तु- सर्पियः । न नक्तं दधि भुञ्जीत । न सक्तूनेकानश्नीयात् , न निशि न भुक्त्वा न बहून्न द्विर्नोदकान्तरितान् । न छित्वा द्विजै'भक्षयेत् । नानृजुः क्षुयान्नाद्यान्न शयीत । न वेगितोऽन्यकार्यः स्यात् । न वाय्वग्निसलिलसोमार्कद्विजगुणप्रतिमुखं निष्ठीवितावातवर्धोमूत्रा ण्युत्सृजेत् । न पन्थानमवमूत्रयेत् । न जनवति नान्नकाले न जपहो- माध्ययनबलिमङ्गलक्रियासु श्लेष्मसिङ्घाणकं मुश्चेत् । न स्त्रियमवजानीत् , नातिविश्रम्भयेत् , न गुह्यमनुश्रावयेत् , नाधि- कुर्यात् । न सतो न गुरून्परिवदेत् । न विमत्स्वनातवीषु नाभ्यु- दितासुर दिक्षु नाग्निसंप्लवे न भूमिकम्पे न महोत्सवे नोल्कापाते न महाग्रहोपगमने न नष्टचन्द्रायां तिथौ न संध्ययो मुखाद् गुरोर्ना- वपतितं नातिमात्रं न तान्तं न विस्वरं नानवस्थितपदं नातिद्रुतं न विलम्बितं नात्युच्चै तिनीचैः स्वरैरध्ययनमभ्यस्येत् । १ द्विजैर्दन्तैः। २. अभ्युदितासु दिक्षु दाहवतीसु दिक्षु-इति चक्रदत्तः । ३. महामहोपगमनं चन्द्रसूर्यग्रहणम् । ४. अवपतितं होनवर्णम् --इति चक्रदत्तः । ५. तान्तं सक्षस्वरम् ।
४ निबन्धादर्शः नातिसमयं' जह्यात् । न नियमं भिन्द्यात् । न बालवृद्धलुब्ध- मूर्खक्लिष्टक्लीः सह सख्यं कुर्यात् । न गुह्यं विवृणुयात् । न कश्चिदव- जानीयात् । नाहमानी स्यात् । नाधीरो नात्युच्छितसत्त्वः स्यात् , नाभृतभृत्यो नाविश्रब्धस्वजनो नैकः सुखी न दुःखशीलाचरोपचारो न सर्वविश्रम्भी न सर्वाभिशङ्की न सर्वकालाविचारी । न कार्यकालमति- पातयेत् । नापरीक्षित-मभिनिविशेत् । नेन्द्रियवशगः स्यात् । न चञ्चलं मनो भ्रामयेत् । न बुद्धीन्द्रियाणामतिभारमादध्यात् । नातिदीर्घसूत्री स्यात् । क्रोधहर्षावनुविध्यात् । न शोकमनुवसेत् । न सिद्धावौत्सुक्यं गच्छेत् , नासिद्धौ दैन्यम् । प्रकृतिमभीक्ष्णं स्मरेत् । नतुप्रभावनिश्चितः स्यात् । हेत्वारम्भनित्यश्च । न कृतमित्यावसेत् । न वीर्य जह्यात् । नापवादमनुस्मरे। आत्मानमाशीभिराशासानः “अग्निमें नापगच्छेच्छरीरात् , वायुमें प्राणानादधातु, विष्णु, बलमादधातु, इन्द्रो मे वीर्यम् , शिवा मां प्रविशन्त्वापः, आपो हि ष्ठे"त्यपः स्पृशेत् । द्विः परिमृज्यौष्ठौ पादौ चाभ्युक्ष्य मूर्धनि खानि चोपस्पृशेदद्भिः। आत्मानं हृदयं शिरश्च । ब्रह्मचर्यज्ञानदानमैत्रीकारुण्यहर्षा-पेक्षाप्रशमपरश्च स्यादिति । अत्र श्लोकाः। स्वस्थवृत्तं यथोद्दिष्टं यः सम्यगनुतिष्ठति । स समाः शतमव्याधिरायुषा न वियुज्यते ॥ नृलोकमापूरयते यशसा साधुसम्मतः । धर्मार्थावेति भूतानां बन्धुतामुपगच्छति ॥ परान सुकृतिनो लोकान् पुण्यकर्मा प्रपद्यते । तस्माद् वृत्तमनुष्ठेयमिदं सर्वेण सर्वदा ॥ [चरकसंहितायाः] १. अतिसमयो बहुभिर्मिलित्वा कृतो नियमः । २. न चिरं शोकवशगः स्यादित्यथः ।
निबन्धादर्शक २. तिस्र एषणाः पुनर्भवसिद्धिश्च इह खलु पुरुषेणानुपहतसत्त्वबुद्धिपौरुषपराक्रमेण हितमिह चामुष्मिश्च लोके समनुपश्यता तिस्र एषणा पर्येष्टव्या भवन्ति । तद्यथा । प्राणेषणा धनैषणा परलोकैषणेति । आसां तु खल्वेषणानां प्राणैषणा तावत्पूर्वतरमापद्यते । कस्मात् ? प्राणपरित्यागे हि सर्वत्यागः। तस्यानुपालनं - स्वस्थस्य स्वस्थवृत्ति- रातुरस्य विकारप्रशमनेऽप्रमादस्तदुभयमेतदुक्तं वक्ष्यते च । तद्यथोक्त- मनुवर्तमानः प्राणानुपालनादीर्घमायुरवाप्नोतीति प्रथमैषणा व्याख्याता भवति। अथ द्वितीयां धनैषणामापद्येत । प्राणेभ्यो ह्यनन्तरं धनमेव पर्ये- ष्टव्यं भवति । न धतः पापात्पापीयोऽस्ति यदनुपकरणस्य दीर्घमायुः । तस्मादुपकरणानि पर्येष्टु यतेत । तत्रोपकरणोपायाननुव्याख्यास्यामः । तद्यथा । कृषिपाशुपाल्यवाणिज्यराजोपसेवादीनि । यानि चान्यान्यपि सतामविगर्हितानि कर्माणि वृत्तिपुष्टिकराणि विद्यात्तान्यारभेत कर्तुम् । तथा कुर्वन्दीर्घजीवितं जीवत्यनवमतः पुरुषो भवतीति द्वितीया धनेषणा व्याख्याता भवति । अथ तृतीयां परलोकैषणामापद्येत । संशयश्चात्र । कथम् ? भवि- ध्याम इतश्च्युता न वेति । कुतः पुनः संशय इति ? उच्यते । सन्ति ोके प्रत्यक्षपराः परोक्षत्वात् पुनर्भवस्य नास्तिक्यमाश्रिताः। सन्ति चापरे ये त्वागमप्रत्ययादेव पुनर्भवमिच्छन्ति । श्रुतिभेदाच्च ( संशयः)- मातरं पितरञ्चैके मन्यन्ते जन्मकारणम् । स्वभावं परनिर्माणं' यदृच्छां चापरे जनाः। इत्यतः संशयः-किन्नु खल्वस्ति पुनर्भवो नवेति । १. पर ऐश्वर्यादिगुणयुक्त आत्मविशेषस्तेन संसार्यात्मनिरपेक्षिणा निर्माण- मित्यर्थः।
६ निबन्धादर्शः तत्र बुद्धिमान्नास्तिक्यबुद्धिं जह्याद्विचिकित्साञ्च । कस्मात् । प्रत्यक्षं ह्यल्पमनल्पमप्रत्यक्षमस्ति यदागमानुमानयुक्तिभिरुपलभ्यते। यैरेव तावदिन्द्रियैः प्रत्यक्षमुपलभ्यते तान्येव सन्ति चाप्रत्यक्षाणि । सताश्च रूपाणामतिसन्निकर्षादतिविप्रकर्षादावरणात् कारण- दौर्बल्यान्मनोऽनवस्थानात्समानाभिहारादभिभवादतिसौक्ष्म्याच्च प्र- त्यक्षानुपलब्धिः तस्मादपरीक्षितमेतदुच्यते-प्रत्यक्षमेवास्ति नान्य- दस्तीति । द्विविधमेव., खलु सर्प सच्चासच्च। तस्य चतुर्विधा परीक्षा। प्राप्तोदेशः प्रत्यक्षमनुमानं युक्तिश्चेति । तत्राप्तागमस्तावद्वेदः। यश्चान्योऽपि कश्चिद् वेदार्थादविपरीतः परीक्षकैः प्रतीतः शिष्टानुमतो लोकानुग्रहप्रवृत्तः शास्त्रवादः स चाप्ता- गमः। आप्तागमादुपलभ्यते दानं तपो यज्ञः सत्यमहिंसा ब्रह्मचर्य- मित्यभ्युदयनिःश्रेयसकराणीति । न चानतिवृत्तसत्वदोषाणा'मदोषैर- रपुनर्भवो धर्मद्वारेषू पदिश्यते । धर्मद्वारावहितैश्च व्यपगतभयराग- द्वेषलोभमोहमानैर्ब्रह्मपरैराप्तैः कर्मविद्भिरनुपहतसत्त्वबुद्धिप्रचारैः पूर्वैः पूर्वतरैमहर्षिभिर्दिव्यचक्षुभिदृ ष्वोपदिष्टः पुनर्भव इति व्यवस्येदेवं पुनर्भवम् । प्रत्यक्षमपि चोपलभ्यते। मातापित्रोर्विसदृशान्यपत्यानि । तुल्य- सम्भवानां वर्णस्वराकृतिसत्त्वबुद्धिभागविशेषाः। प्रवरावरकुलजन्म । दास्यैश्वर्यम् । सुखासुखमायुः । आयुषो वैषम्यम् । इहाकृतस्यावाप्तिः । अशिक्षितानाञ्च रुदितस्तनपानहासत्रासादीनाश्च प्रवृत्तिः। लक्षणो- १. अतिवृत्तावनुपशान्ती सत्त्वदोषौं मानसौ रजस्तमोरूपौ येषां ते तया, तेषाम् । २. अदाकर्षिभिः। ३. धर्मद्वारेषु शास्त्रेषु ।
निबन्धादर्श त्पत्तिः। कर्मसामान्ये फलविशेषः । मेधा क्वचित्, क्वचित् कर्मण्यमेधा । जातिस्मरणम् । इहागमनमितश्च्युतानाञ्च भूतानाम् । समदर्शने प्रियाप्रियत्वम् । अत एवानुमीयते यत्स्वकृतमपरिहार्यमविनाशि पौर्वदेहिक देव- संज्ञकमानुबन्धिकं कर्म तस्यैतत् फलम् , इतश्चान्यद्भविष्यतीति फलाद्वीजमनुमीयते, फलश्च बीजात् । युक्तिश्चैषा । षड्धातुसमुदयाद् गर्भजन्मा आत्मा च परलोक- सम्बन्ध एवेति कर्तृकरणसंयोगादिक्रया। कृतस्य कर्मणः फलं नाक- तस्य । नाङ्कुरोत्पत्तिरबीजात् । कर्मसदृशं फलम् । नान्यस्माद्वीजा- दन्यस्योत्पत्तिरिति युक्तिः । एवं प्रमाणश्चतुभिरुपदिष्टे पुनर्भवे धर्मद्वारेऽववधीयेत । तद्यथा गुरुशुश्रूषायामध्ययने व्रतचर्यायां दारक्रियायामपत्योत्पादने भृत्य- भरणेऽतिथिपूजायां दानेऽनभिध्यायां' तपस्यनसूयायां देहवामानसे कर्मण्यक्लिष्टे देहेन्द्रियमनोऽर्थबुद्ध्यात्मपरीक्षायां मनःसमाधाविति । यानि चान्यान्येवंविधानि कर्माणि सतामविगहितानि स्वाणि वृत्तिपुष्टिकराणि. विद्यात्तान्यारभेत कर्तुम् । तथा कुर्वनिह चैव यशो लभते प्रेत्य च स्वर्गमिति तृतीया परलोकपणा व्याख्याता भवति ।। [चरकसंहितायाः] -- १. सामुद्रिकलक्षणप्रतिपादितलक्षणोत्पत्तिः । २. अभिण्या तु परस्वविषये स्पृहत्यमा - निबन्धादर्शः ४. आयुषो नियतकालप्रमाणत्वं न वा भगवन्तमात्रेयमग्निवेश उवाच । किन्नु खलु भगवन् ! नियत- कालप्रमाणमायुः सर्व न वेति । भगवानुवाच- इहाग्निवेश ! भूतानामायुर्युक्तिमपेक्षते । दैवे पुरुषकारे च स्थितं ह्यस्य' बलाबलम् ।। देवमात्मकृतं विद्यात् कर्म यत् पौर्वदैहिकम् । स्मृतः पुरुषकारस्तु क्रियते यदिहापरम् ।। बलाबलविशेषोऽस्ति तयोरपि च कर्मणोः । दृष्टं हि त्रिविधं कर्म हीनं मध्यममुत्तमम् ।। तयोरुदारयोर्युक्तिर्दीर्घस्य स्वसुखस्य च । नियतस्यायुषो हेतुर्विपरीतस्य चेतरा ॥ मध्यमा मध्यमस्येष्टा कारणं शृणु चापरम् । दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते ।। दृष्ट्वा यदेके मन्यन्ते नियतं मानमायुषः ।। कर्म किश्चित् क्वचित् काले विपाके नियतं महत्" । किश्चित्त्वकालनियतं प्रत्ययः प्रतिबोध्यते ।। इति । १. अल्पायुषः। २. तयौदैवपुरुषकारयोः प्रशस्तत्वेनोत्तमयोरित्यर्थः । ३. अनियतस्यायुषोऽसुखस्य हीनयोर्दैवपुरुषकारयोर्युक्तिहेतुरित्यर्थः । ४. दैवेन पराभूतं पुरुषकारं दृष्ट्वति भावः । ५. बलवदित्यर्थः। ६. दृष्टकारणैद्रिक्तं क्रियत इत्यर्थः ।
६ निबन्धादर्शः तस्मादुभयदृष्टत्वादेकान्तग्रहणमसाधु । निदर्शनम 'पि चात्रोदा- हरिष्यामः। यदि हि नियतकालप्रमाणमायुः सर्व स्यात् , तदायुष्का- मानां न मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवास- स्वस्त्ययनप्रणिपातगमनाद्याः क्रिया इष्टयश्च प्रयुज्येरन् । न उद्भ्रान्तचण्डचपलगोगजोष्ट्रखरतुरगमहिषादयः पवनादयश्च दुष्टाः परिहार्य्याः स्युः, न प्रपातगिरिविषमदुर्गाम्बुवेगाः। तथा न प्रमत्तोन्मत्तोद्भ्रान्तचण्डचपलमोहलोभाकुलमतयः, नारयः, न च प्रवृद्धोऽग्निः, न च विविधविषाश्रयाः सरीसृपोरगादयः। न साहसम् , नादेशकालचर्या, न नरेन्द्रप्रकोपः। इत्येवमादयो भावा नामावकराः स्युः, आयुषः सर्वस्य नियतकालप्रमाणत्वात् । न चानभ्यस्ताकालमरणभयनिवारकाणामकालमरणभयमागच्छेत् प्राणिनाम् । व्यर्थाश्चारम्भकथाप्रयोगबुद्धयः स्युमहर्षीणां रसायना- धिकारे। नापीन्द्रो नियतायुषं शत्रु वज्रेणाभिहन्यात् । नाश्विनावात्त भेषजेनोपपादयेताम् । नर्षयो यथेष्टम् श्रायुस्तपसा प्राप्नुयुः, न च विदितवेदितव्या महर्षयः ससुरेशाः सम्यक् पश्येयुरुपदिशेयुराच- रेयुर्वा'। अपि च सर्पचक्षुषामेतत् परं यदैन्द्रं चक्षुः, यदञ्जास्माकं तेन प्रत्यक्षं यथा पुरुषसहस्राणामुत्थायोत्थायाहवं कुर्वताम् अकुर्व- ताश्चातुल्यायुष्टम् , तथा जातमात्राणाम् अप्रतीकारात् प्रतीकाराच्च । 1. निदर्शनं युक्तिः। २. भेषजमिति शेषः। ३. सर्वचक्षुषां सर्वप्रमाणानामित्यर्थः । एतत्परमनान्तत्वेनं श्रेष्ठं यदैन्द्र चक्षुः प्रत्यक्षप्रमाणमित्यर्थः ।
क्रियोपयोगं सम्यक् , १० निबन्ध अविषविषप्राशिनाश्चापि अतुल्यायुष्ठम् । न च तुल्यो योगक्षेम उदपानघटानां चित्रघटानाञ्चोत्सीदताम्' । तस्माद्धितोपचारमूलं जीवितम् । अतो विपर्ययात् मृत्युः । अपि च देशकालात्मगुणविपरीतानां कर्मणामाहारविहाराणाश्च सर्वातियोगसन्धारणम्", असन्धारणमुदी नाश्च गतिमताम् , साहसानाञ्च वर्जनमारोग्यानुवृत्तौ उपलभामहे हेतुमुपदिशामः सम्यक् पश्यामश्चेति । अतः परमग्निवेश उवाच । एवं सति अनियतकालप्रमाणायुषां भगवन ! कथं कालमृत्युरकालमृत्युर्वा भवतीति । तमुवाच भगवान् आत्रेयः। श्रूयताम् अग्निवेश! यथा यानसमायुक्तोऽक्षः प्रकृत्यैवाक्ष- गुणैरुपेतः स्यात् , स च सर्वगुणोपपन्नो वाह्यमानो यथाकालं स्वप्रमाणतयादेवावंसानं गच्छेत् ; तथायुः शरीरोपगतं बलवतः प्रकृत्या यथावदुपचर्यमाणं स्वप्रमाणक्षयादेव अवसानं गच्छति । स मृत्युः काले। यथा च स एवाक्षोऽतिभाराधिष्ठितत्वाद् विषमपथादपथादक्षच- क्रभङ्गाद्वाह्यवाहकदोषादणिमोक्षात् पर्य्यसनादनुपाङ्गा च्चान्तरा व्यसनमापद्यते, तथायुरप्ययथाबलमारम्भादयथाग्न्यभ्यवहरणाद्विषमा- भ्यवहरणात् विषमशरीरन्यासादतिमैथुना-दसत्संश्रयादुदीर्णवेगविनि 3 १. चित्रघटीऽयं चित्रित एव स्थाप्यते, स हि पानीयवहनादिप्रत्यवायहेत्व- भावात् चिरं तिष्ठति । उदपानघटस्तु जलसंबन्धाद् तथा वहनसमये पतनादिना च शीघ्रमुत्सीदति । अतस्तयोरतुल्यो योगक्षेमः । २. सन्धारणं वर्जनम् । ३. अणिमोक्षास्कीलमोचात् । ४. पर्यसनं परिक्षेपः । अनुपाङ्गात् स्नेहादानात् ।
निबन्धादर्शः ११ ग्रहात् विधार्यवेगाविधारणाद् भूत-विषवाय्वग्न्युपतापादभिघातादा- हारप्रतीकारविवर्जमाच्चान्तरा व्यसनमापद्यते । स मृत्युरकाले । तथा ज्वरादीनप्यातङ्कान्मिथ्योपचरितानकालमृत्यून' पश्याम इति ॥ [ चरकसंहितायाः ] ४, आत्मलज्जयैव सत्पुरुषा नाचारवेला लवयन्ति तद्यथानुश्रूयते । बोधिसत्त्वः किल कस्मिंश्चिदनुपक्रुष्ट' गोत्रचारित्रे स्वधर्मानुवृत्तिप्रकाशयशसि विनयाचारश्लाघिनि महति ब्राह्मणकुले जन्मपरिग्रहं चकार । स यथाक्रम गर्भाधानपुंसवनसीमन्तोन्नयनजा- तकर्मादिभिः कृतसंस्कारक्रमो वेदा-ध्ययननिमित्तं श्रुताभिजनाचारस- म्पन्ने गुरौ प्रतिवसति स्म । तस्य श्रुतग्रहणधारणपाटवञ्च भाक्तयन्वयश्च सततं पूर्वे वयस्यपि शमाभरणा स्थितिश्च प्रेमप्रसाद सुमुखं गुरुमस्य चक्रुः॥१॥ वशीकरणमन्त्रा हि नित्यमव्याहता गुणाः । अपि द्वेषाग्नितप्तानां किम्पुनः स्वस्थचेतसाम् ।। २॥ अथ तस्याध्यापकः सर्वेषामेव शिष्याणां शीलपरीक्षा-निमित्तं स्वा ध्यायविश्रामकालेश्वात्मनो दारिद्रयदुःखान्यभीक्ष्ण-मुपवर्णयामास । स्वकुल प्रसिद्धः। १. अकालमृत्युम् अकालमृत्युकरान्।। २. अनुपक्रष्टुम् - अनिन्दितम् ।
१२ निबन्धादर्शः स्वजनेऽपि निराक्रन्दमुत्सवेऽपि हतानन्दम् । धिक् प्रदानकथामन्दं दारिद्रयमफलच्छन्दम् ॥ ३ ॥ परिभवभवनं श्रमास्पदं सुखपरिवर्जितमत्यनूर्जितम् । व्यसनमिव सदैव शोचनं धनविकलत्वमतीव दारुणम् ॥ ४ ॥ अथ ते तस्य शिष्याः प्रतोदसञ्चोदिता इव सदश्वा गुरु-स्नेहात्समु पजातसंवेगाः सम्पन्नतरं प्रभूततरश्च भैक्षमुपसंहरन्ति स्म । तानुवाच । अलमनेनात्र भवतां परिश्रमेण । न भैक्षोपहारा कस्यचिदारिद्रयक्षामतां क्षपयन्ति । अस्मत्परि-क्लेशामर्षिभिस्तु भवद्भिरयमेव यत्नो धनाहरणं प्रति युक्तः कर्तुं स्यात् । कुतः। सुधमन्नं जलं तर्ष मन्त्रवाक्सागदा गदान् । हन्ति दारिद्रयदुःखन्तु सन्तत्याराधनं' धनम् ॥ ५ ॥ शिष्या ऊचुः । किं करिष्यामो मन्दभाग्या वयं यदेतावान्नः शक्ति प्रयामः | अपि च । भैक्षवद् यदि लभ्येरन्नुपाध्याय ! धनान्यपि । नेदं दारिद्रयदुःखन्ते वयमेवं सहेमहि ।। ६॥ प्रतिग्रहकृशोपायं विप्राणां हि धनार्जनम् । अप्रदाता जनश्चायमित्यगत्या हता वयम् ॥ ७ ॥ अध्यापक उवाच । सन्त्यन्येऽपि शास्त्रपरिदृष्टा धनार्जनोपायाः। जरानिष्पीतसामर्थ्यास्तु वयमयोग्यरूपास्तत्प्रतिपत्तौ। शिष्या ऊचुः । वयमुपाध्याय जरयानुपहतपराक्रमाः। तद्यदि नस्तेषां शास्त्रविहितानामुपायानां प्रतिपत्तिसहता मन्यसे तदुच्यताम् । यावदध्यापनपरिश्रमस्यानृण्यन्ते गच्छाम इति । अध्यापक. उवाच । तरुणैरपि व्यवसायशिथिलहृदयैर्दुरभिस- १. सन्तत्याः सन्तानस्य आराधनम् । २. प्रयामो दैयम् । इयत्तेति यावत् ।
निबन्धादर्शः १३ म्भवाः खल्वेवंविधा धनार्जनोपायाः। यदि त्वयमत्र भवतां निर्बन्धः, तच्छ यतां साधुः कतम एको धनोपार्जनक्रमः । आपद्धर्मः स्तेयमिष्टं द्विजानामापच्चान्त्या निःस्वता नाम लोके । तस्माद्भोज्यं स्वं परेषामदुष्टैः सर्व चैतद्ब्राह्मणानां स्वमेव ॥८॥ कामं प्रसह्यापि' धनानि हतु शक्तिर्भवेदेव भवद्विधानाम् । न त्वेष योगः, स्वयशो हि रक्ष्य, शून्येषु तस्माद् व्यवसेयमेव ।।६।। इति मुक्तप्रग्रहास्तेन ते छात्राः परममिति तत्तस्य वचनमयुक्तमपि युक्तमिव प्रत्यश्रौषुरन्यत्र बोधिसत्त्वात् । स हि प्रकृतिभद्रत्वात्तन्नोत्सेहेऽनुमोदितुम् । कृत्यवत्प्रतिपन्नं तैाहन्तुं सहसैव तु ॥ १० ॥ ब्रीडावनतवदनस्तु बोधिसत्त्वो मृदु विनिःश्वस्य तूष्णीमभूत् । अथ स तेषामध्यापको बोधिसत्त्वमवेक्ष्य तं विधिमनभिनन्दन्तम- प्रतिक्रोशन्तं निविष्टगुणसम्भावनस्तस्मिन्महासत्त्वे किन्नु खल्वय- मव्यवसितत्त्वान्निःस्नेहतया वा मयि स्तेयं न प्रतिपद्यते, उताधर्म- संज्ञयेति समुत्पन्नविमर्शस्तत्स्वभावव्यक्तिकरणार्थं बोधिसत्त्वमुवाच । भो महाब्राह्मण ! अमी द्विजा मव्यसनासहिष्णवः समाश्रिता वीरमनुष्यपद्धतिम् । भवाननुत्साहजडस्तु लभ्यते न नूनमस्मद्व्यसनेन तप्यते ॥१९॥ परिप्रकाशेऽप्यनिगूढविस्तरे मयात्मदुःखे वचसा विदर्शिते । कथन्नु निःसम्भ्रमदीनमानसो भवानिति स्वस्थवदेव तिष्ठति ॥१२॥ १. बलप्रयोगेणापि । २. योगः प्रयोगः, समुचित इति शेषः । ३. तैः कृत्यवत्प्रतिपन्नं सहसैव व्याहन्तुं प्रतीकर्तुं तु न उत्सेहे इत्यर्थः । ४. अगहयन्तम् ।
निबन्धादर्शः अथ बोधिसत्त्वः ससम्भ्रमोऽभिवाद्योपाध्यायमुवाच । शान्तं पापम् । न खल्वहं निःस्नेहकठिनहृदयत्वादपरितप्यमानो गुरुदुःखै- रेवमवस्थितः, किन्त्वसम्भवादुपाध्यायप्रदर्शितस्य क्रमस्य । नहि शक्यमदृश्यमानेन क्वचित्पापमाचारितुम् । कुतः । रहोऽनुपपत्तेः । नास्ति लोके रहो नाम पापं कर्म प्रकुर्वतः । अदृश्यानि हि पश्यन्ति ननु भूतानि मानुषान् ॥१३॥ कृतात्मानश्च मुनयो दिव्योन्मिषितचक्षुषः । तानपश्यन रहोमानी बालः पापे प्रवर्तते ॥१४॥ अहं पुनर्न पश्यामि शून्यं क्वचन किश्चन । यत्राप्यन्यं न पश्यामि नन्वशून्यं मयैव तत् ॥ १५ ॥ परेण यञ्च दृश्येत दुष्कृतं स्वयमेव वा। सुदृष्टतरमेतत्स्याद् दृश्यते स्त्रयमेव यत् ।। १६ ।। स्वकार्यपर्याकुलमानसत्वात्पश्येन्न वान्यश्चरितं परस्य । रागार्पितैकाग्रमतिः स्वयन्तु पापं प्रकुर्वन्नियमेन वेत्ति ॥ १७ ॥ तदनेन कारणेनाहं व्यवस्थित इति । अथ बोधिसत्त्वः समभिप्रसा दितमनसमुपाध्यायमवेत्य पुनरुवाच न चात्र मे निश्चयमस्ति मानसं धनार्थमेवं प्रतरेद्' भवानपि । अवेत्य को नाम गुणागुणान्तरं गुणोपमदं धनमूल्यतां नयेत् ॥ १८ ॥ स्वाभिप्रायं खलु नवेदयामि- कपालमादाय विवर्णवाससा वरं द्विषद्वेश्मसमृद्धिरीक्षिता। व्यतीत्य लज्जां न तु धर्मवैशसे सुरेन्द्रतार्थेऽप्युपसंहृतं मनः ॥१६॥ अथ तस्योपाध्यायः प्रहर्षविस्मयाक्षिप्तहृद्य उत्थायासनात्सम्प- रिष्वज्यैनमुवाच । साधु साधु पुत्रक ! साधु महाब्राह्मण ! प्रतिरूप- मेतत्ते प्रशमालङ्कृतस्यास्य मेधाविकस्य । १. प्रतरेत् =प्रतारयेत् ।
निबन्धादर्शः १५ निमित्तमासाद्य यदेव किञ्चन स्वधर्ममार्ग विसृजन्ति बालिशाः। तपःश्रुतज्ञानधनास्तु साधवो न यान्ति कृच्छ्रे परमेऽपि विक्रियाम् ॥ २० ॥ त्वया कुलं सममलमभ्यलङ्कृतं समुद्यता नभ इव शारदेन्दुना। तवार्थवत्सुचरितविश्रुतं श्रुतं सुखोदयः सफलतया श्रमश्च मे ॥२१॥ तदेवमात्मलज्जयैव सत्पुरुषा नाचारवेलां लङ्घयन्तीति ह्रीबले- मार्येण भवितव्यम् । [जातकमालायाः] --- ५. प्रबिवेकसुखरसज्ञानां विडम्बनेव विहिंसेव च कामाः प्रतिकूला भवन्ति । तद्यथानुश्रूयते । बोधिसत्त्वः किल कश्मिंश्चिन्महति गुणप्रकाश- यशसि वाच्यदोषविरहिते ब्राह्मणकुले जन्मपरिग्रहं चकार । तस्य यत्र कनीयांसः षडपरे भ्रातरस्तदनुरूपगुणाः स्नेहबहुमानगुणान्नित्या- नुगुणा बभूवुः, सप्तमी च भगिनि । स कृतश्रमः साङ्गेषु, समधिगत- विद्यायशाः, सम्मतो जगति, दैवतवन्मातापितरौ परया भक्त्या परिचरन् श्राचार्य इव पितेव तान भ्रातृन्विद्यासु विनयकुशलो गृहमावसति स्म । स कालक्रमान्मातापित्रोः कालक्रियया संविग्न- हृदयः, कृत्वा तयोः प्रेतकल्यानि, व्यतीतेषु शोकमयेष्विव केषुचिदेव दिवसेषु, सान् भ्रातृन सन्निपात्यो 'वाच । १. एकत्रीकृत्य ।
१६ निबन्धादर्शः एष लोकस्य नियतः शोकातिविरसः क्रमः। सह स्थित्वापि सुचिरं मृत्युना यद्वियोज्यते ॥१॥ तत्प्रव्रजितुमिच्छामि श्रेयः श्लाघ्येन वर्त्मना। पुरा मृत्युरिपुर्हन्ति गृहसंरक्तमेव माम् ॥ २ ॥ यतः सर्वानेव भवतः संबोधयामि । अस्त्यत्र ब्राह्मणकुले धर्मेण यथाधिगता विभवमात्रा । शक्यमनया वर्तितुम् । तत्सवैरेव भवद्भिः परस्परं स्नेहगौरवाभिमुखैः शीलसमुदाचारेष्वशिथिलादरैर्वेदाध्ययन- परैमित्रातिथिस्वजनप्रणयवत्सलैर्धर्मपरायणैर्भूत्वा सम्यग्गृहमध्या- वस्तव्यम् । विनयश्लाघिभिनित्यं स्वाध्यायाध्ययनोद्यतैः। प्रदानाभिरतैः सम्यक्परिपाल्यो गृहाश्रमः ॥ ३ ॥ एवं हि वः स्याद्यशसः समृद्धिधर्मस्य चार्थस्य सुखास्पदस्य । सुखावगाहश्च परोऽपि लोकस्तदनमत्ता गृहमावसेत ॥ ४ ॥ अथास्य प्रव्रज्यासंकीर्तनाद्वियोगाशङ्काव्यथितमनसः शोकाश्रुदुर्दिनमुखाः प्रणम्यैनमूचुः । नाईत्यत्रभवान्पितृवियोगशोकश- ल्यव्रणमसंरूढमेव नो घट्टयितुमपरेण दुःखाभिनिपातनारेण । अद्यापि तावपितृशोकशल्यक्षतानि रोहन्ति न नो मनांसि । तत्साध्विमा संहर धीर बुद्धि मा नः क्षते क्षारमिवोपहार्षीः ॥५॥ अथाक्षमं वेत्सि गृहानुरागं श्रेयःपथं वा वनवाससौख्यम् । अस्माननाथानपहाय गेहे कस्माद् वनं वाञ्छसि गन्तुमेकः ॥६॥ तद्यात्रभवतो गतिः सास्माकम् । वयमपि प्रव्रजाम इति । बोधिसत्त्व उवाच- अनभ्यासाद्विवेकस्य कामरागानुवर्तिनः । प्रपातमिव मन्यन्ते प्रव्रज्यां प्रायशो जनाः ॥७॥ इति मया निगृह्य' नाभिहिताः स्थ प्रव्रज्याश्रयं प्रतिजानतापि भ्रातरः - १. आत्मानमिति शेषः ।
निबन्धादर्शः १७ गृहवनवासविशेषम् । तदेतच्चेदभिरुचितं भवतामेव प्रव्रजाम इति । ते सप्तापि भ्रातरो भगिन्यष्टमाः स्फीतं गृहविभवसारमश्रुमुखञ्च मित्रस्व- जनबन्धुवर्ग विहाय तापसप्रव्रज्यया प्रजिताः । तदनुरक्तहदयश्चैनान सहाय एको दासी दासश्चानुप्रब्रजिताः । तेऽन्यतरस्मिन् महत्यरण्यायतने ज्वलितमिव विकसितकमलवन- शोभया विहसदिव च फुल्लकुमुदवनैः, अनिभृतमधुकरगणम् अमल- नीलसलिलं महत्सरः संनिश्रित्य प्रविविक्तमनोज्ञासु च्छायाद्रुमसमुप- गूढास्वसन्निकृष्ट-विनिविष्टासु पृथक् पृथक् पर्णशालासु व्रतनियमपरा ध्यानानुयुक्तमनसो विजङ्गः । पञ्चमे पञ्चमे दिवसे बोधिसत्त्वसमीपं धर्मश्रवणार्थमुपजग्मुः। स चैषां ध्यानोपदेशप्रवृत्तां कामादीनव दर्शनी संवेजनीयां प्रविवेकसंतोषवर्णबहुला कुहना लपनकौसीद्यादिदोप- विगर्हणीमुपशमप्रसादपद्धतिं तां तां धा कथां चकार । सा चैनान्दासी बहुमानानुरागवशा तथैव परिचचार । तस्मात्सरसो बिसानुद्धृत्य महत्सु पद्मिनीपर्णेषु शुचौ तीरप्रदेशे समा- न्विन्यस्य च भागान् काष्ठसंघट्टनशब्देन कालं निवेद्यापकामति स्म । ततस्तेषामृषीणां कृतजपहोमविधीनां यथावृद्धमेकैकोऽभिगम्य ततो बिसभागमेकैकं यथाक्रममादाय स्वस्यां स्वस्यां पर्णशालायां विधिवत् परिभुज्य ध्यानाभियुक्तमतिर्विजहार । त एवं प्रवृत्ता नैव परस्पर ददृशुरन्यत्र धर्मश्रवणकालात्। तेषामेवंविधेन निरवद्येन शीलवृत्तसमुदाचारेण प्रविवेकाभिरत्या ध्यानप्रवणमानसतया च सर्वत्र यशः समुपश्रुत्य शक्रो देवानामिन्द्र- स्तत्परीक्षानिमित्तं तत्राभिजगाम । तच्चैषां ध्यानाभिमुखत्वं कुकार्य- ध्वप्रसङ्गमनुत्कण्ठां प्रशमाभिरामं चावस्थानमवेक्ष्य स्थिरतरगुण- सम्भावनस्तत्परीक्षानिमित्तमवहितमना बभूव १. आदीनवानवौ क्लेशे-इत्यमरः । २. कुहना लोभान्मिध्येर्यापथकल्पना-इत्यमरः। सा नि०२ १८ निबन्धादर्श अनुत्सुको धनान्तेषु वसव्छमपरायणः । आरोपयति साधूनां गुणसम्भावनां हृदि ।। ८॥ अथ द्विपकलभदशनपाण्डुकोमलानि समुद्धृत्य प्रक्षाल्य च बिसानि मरकतहरितप्रभेषु पद्मिनीपत्रेषु कमलदलकेशरोपहारालस्कृतान्विर- चय्य समान्भागान्काष्ठसंघट्टनशब्देन निवेद्य कालं तेषामृषीणामपस- तायां तस्यां दास्यां बोधिसत्त्वपरीक्षार्थ शक्रो देवानामिन्द्रः प्रथममेव बिसमागमन्तर्धापयामास। प्रवर्तने हि दुःखस्य तिरस्कारे सुखस्य च । धैर्यप्रयामः साधूनां विस्फुरनिव गृह्यते ॥ ६ ॥ अथ बोधिसत्त्वोऽभिगतः प्रथमे बिसभागस्थाने बिसभागविरहितं पभिनीपत्रं परिव्याकुलीकृतोपहारमभिसमीक्ष्य गृहीतः केनापि मे बिसप्रत्यंश इत्यवधृतमतिरपेतचेतःसंक्षोभसंरम्भस्तत एव प्रतिनिवृत्य प्रविश्य पर्णशालायां यथोचितं ध्यानविधिमारेभे । वैमनस्यपरिहारार्थ चेतरेषामृषीणां तमर्थ न निवेदयामास । इतरे त्वस्य भ्रातरो नूनमनेन गृहीतः प्रत्यंश इति मन्यमाना यथोचितानेव स्वान्स्वाननुक्रमेण बिस- भागानादाय यथास्वं पर्णशालासु परिमुज्य ध्यायन्ति स्म । एवं द्वितीये तृतीये चतुर्थे पञ्चमे च दिवसे शक्रस्तस्य तं बिसप्रत्यंशमुपनिदधे । बोधिसत्त्वोऽपि च महासत्त्वस्तथैव निःसंक्षोभप्रशान्तचित्तो बभूव । मनःसंक्षोभ एवेष्टो मृत्यु युःक्षयः सताम् । जीवितार्थेऽपि नायान्ति मनःक्षोभमतो बुधाः॥ १० ॥ अथापराहसमये धर्मश्रवणार्थमृषयस्ते यथोचितं बोधिसत्त्वस्य पर्णशाला समभिगता ददृश्वांसश्चैनं कृशतरशरीरं परिक्षामकपो- लनयनं परिम्लानवदनशोभमसम्पूर्ण स्वरगाम्भीर्य परिक्षीणमध्यपरिक्षी- णधैर्यप्रशमगुणमभिनवेन्दुप्रियदर्शनमुपेत्योपचारपुरःसरं ससम्भ्रमाः १. सतां मनः संक्षोभ एव मृत्युरिष्टः न आयुःक्षय इत्यन्वयः ।
निबन्धादर्शः १९ किमिदमिति कार्य निमित्तमेनमपृच्छन् । तेभ्यो बोधिसत्त्वस्तमर्थ यथानुभूतं निवेदयामास । अथ ते तापसाः परस्परमीदृशमनाचारम- सम्भावयन्तस्तत्पीडया च समुपजातसंवेगाः कष्टं कष्टमित्युक्त्वा ब्रीडावनतवदनाः समतिष्ठन्त शक्रप्रभावाच्च समावृतज्ञानगतिविषयाः कुत इदमिति न निश्चयमुपजग्मुः। अथ बोधिसत्त्वस्यानुजो भ्राता स्वमावेगमात्मविशुद्धिश्च प्रदर्शयञ्छपथातिशयमिमं चकार- समृद्धिचिह्नाभरणं स गेहं प्राप्नोतु भार्याश्च मनोऽभिरामाम् । समग्रतामेतु च पुत्रपौत्रैर्बिसानि ते ब्राह्मण! यो ह्यहार्षीत् ॥ ११ ।। अपर उवाच- - G मालाः स्त्रजश्चन्दनमंशुकानि बिभ्रद्विभूषाश्च सुताभिमृष्टाः । कामेषु तीब्रां स करोत्वपेक्षा बिसान्यहार्पोद् द्विजमुख्य ! यस्ते ॥ १२ ॥ अपर उवाच- कृष्याश्रयावाप्तधनः कुटुम्बी प्रमोदमानस्तनयप्रलापैः । वयोऽप्यपश्यन् रमतां स गेहे बिसानि यस्ते सकृदप्यहार्षीत् ॥ १३ ॥ अपर उवाच। नराधिपै त्यविनीतचेष्टैरभ्यय॑मानो नतलोलचूडैः। कृत्स्नां महीं पातु स राजवृत्त्या लोभादहार्षीत्ता यो बिसानि ॥ १४ ॥ अपर उवाच- पुरोहितः सोऽस्तु नराधिपस्य मन्त्रादिना स्वस्त्ययनेन युक्तः । सत्कारमाप्नोतु तथा च राज्ञस्तथापि यो नाम बिसान्यहार्षीत् ॥ १५ ॥ अपर उवाच- अध्यापकं सम्यगधीतवेदं तपस्विसम्भावनया महत्या । अर्चन्तु तं जानपदाः समेत्य बिसेषु लुब्धो न गुणेषु यस्ते ॥ १६ ॥ सहाय उवाच- चतुःशतं प्रामवरं समृद्धं लब्ध्वा नरेन्द्रादुपयातु भोक्तुम् । अवीतरागो मरणं स चैतु लोभं विसेष्वप्यजयन्न यस्ते ॥ १७ ॥ - २० निबन्धादर्शः - दास उवाच- स प्रामणीरस्तु सहायमध्ये स्त्रीनृत्तगीतैरुपलाप्यमानः । मा राजतश्च व्यसनानि लब्ध-बिसार्थमात्मार्थमशीशमद्यः ॥१३॥ भामिन्युवाच- विद्योतमानां वपुषा श्रिया च पत्नीत्वमानीय नराधिपस्ताम् । योपित्सहस्राग्रसरों करोतु या त्वद्विधस्यापि बिसान्यहार्षीत् ॥ १६ ॥ दास्युवाच-- एकाकिनी सा समतीत्य साधून्स्वादूपभोगे प्रणयं करोतु । सत्कारलब्धा मुदमुद्वन्ती विसान्यपश्यत्तव या न धर्मम् ।। २० ॥ अथ तत्र धर्मश्रवणार्थ समागतास्तद्वनाध्युषिता यक्षद्विरदवान- रास्तां कथामुपश्रुत्य परां ब्रीडां संवेगखोपजग्मुः । अथ यक्ष आत्मविशुद्धिप्रदर्शनार्थमिति शपथमेषां पुरतश्चकार-- आवासिकः सोऽस्तु महाविहारे कचङ्गलायां नवकर्मिकश्च । आलोकसन्धिं दिवसैः करोतु यस्त्वय्यपि प्रस्खलितो बिसार्थम् ॥२१॥ हस्त्युवाच- षभिः पाशशतैः स बन्धं प्राप्नोतु रम्याच वनाजनान्तम् । तीक्ष्णाकुशाकर्षणजा रुजश्च यस्ते मुनिश्रेष्ठ बिसान्यहार्षीत् ॥ २२ ।। वानर उवाच- स पुष्पमाली त्रपुष्टकण्ठो यष्ट्या हतः सर्पमुखं परैतु । वैकक्ष्यबद्धश्च वसेद् गृहेषु लौल्यादहापीत्तव यो बिसानि ॥२३ ।। १. काश्यपबुद्धसमये महाविहारे वसन् कचङ्गलानामकनगों नवकर्मिकः सन्नेको देवपुत्रः प्रतिदिवसमेकैकगवाक्षनिर्माण विवशः प्रवृत्तोऽभूदिति कथात्रानु- सन्धया । आलोकसन्धिं गवाक्षमित्यर्थः ।
- रोग४४ान निबन्धादर्शः अथ बोधिसत्त्वस्तान् सर्वानेवानुनयविनीताक्षरं शान्तिगाम्भीर्य- सूचकमित्युवाच- यो नष्टमित्याह न चास्य नष्टमिष्टान्स कामानधिगम्य कामम् । उपैतु गेहाश्रित एव मृत्युं भवत्सु यः शङ्कत ईदृशं वा ।। २४।। अथ शक्रो देवेन्द्रस्तेन तेषां कामोपभोगप्रातिकूल्यसूचकेन शपथा- तिशयेन समुत्पादितविस्मयबहुमानः स्वेनैव वपुषाभिज्वलता तानृपीन- भिगम्य सामर्षवदुवाच । मा तावद्भोः ! यत्प्राप्तिपर्युत्सुकमानसानां सुखार्थिनां नैति मनांसि निद्रा । यान्प्राप्तुमिच्छन्ति तप:श्रमैश्च तान्केन कामानिति कुत्सयध्वे ॥ २५ ॥ बोधिसत्त्व उवाच । अनन्तादीनवा मार्ष ! कामाः। संक्षेपतस्तु श्रूयतां यदभिसमीक्ष्य कामान्न प्रशंसन्ति मुनयः । कामेषु बन्धमुपयाति वधञ्च लोकः शोकं क्लमं भयमनेकविधञ्च दुःखम् । कामार्थमेव च महीपतयः पतन्ति धर्मोपमर्दरभसा नरकं परत्र ॥ २६ ॥ यत्सौहृदानि सहसा विरसीभवन्ति यन्नीतिशाठ्यमलिनेन पथा प्रयान्ति । कीर्त्या वियोगमसुखैः परतश्च योगं यत् प्राप्नुवन्ति ननु कारणमत्र कामाः ॥ २७ ।। इति हीनविमध्यमोत्तमानामिह चामुत्र च यद् वधाय कामाः। कुपितान्भुजगानिवात्मकामा मुनयस्तानिति शक्र नाश्रयन्ते ॥ २८ ॥ अथ शक्रो देवानामिन्द्रस्तस्य तद्वचनं युक्तमित्यभिनन्ध तेन चैतेषामृषीणां माहात्म्येनाभिप्रसादितमनास्तेभ्यार विश्चकार। गुणसम्भावनाव्यक्तिर्यत् परीक्ष्योपलभ्यते । मया विनिहतान्यस्मात्परीक्षार्थ बिसानिः व २२ निबन्धादर्श तत्सनाथं जगद्दिष्टया मुनिभिस्तथ्यकीर्तिभिः । विशुद्धिः स्थिरचारित्रे तदेतानि बिसानि ते ॥३०॥ इत्युक्त्वा तानि बिसानि बोधिसत्त्वस्य समुपजहार । अथ बोधिसत्त्वस्तदस्यासमुदाचारधार्टथं तेजस्विनिभृतेन वचसा प्रत्या- दिदेश। न बान्धवा नैव वयं सहाया न ते नटा नापि विडम्बकाः स्मः । कस्मिन्नवष्टभ्य न देवराज ! क्रीडापथेनैवमृषीनुपैषि ॥ ३१ ॥ इत्युक्ते शक्रो देवेन्द्रः ससम्भ्रमापास्तकुण्डलकिरीट विद्युदुद्भासुर- वदनः सबहुमानमभिप्रणम्यैनं क्षमयामास । उक्तप्रयोजनमिदं चापलं मम निर्मम !। पितेवाचार्य इव च क्षन्तुमर्हति तद् भवान् ॥ ३२ ॥ निमीलितज्ञानविलोचनानां स्वभाव एष स्खलितुं समेऽपि । क्षमाञ्च तत्रात्मवतां प्रपत्तुमतोऽप्यदश्चेतसि मा स्म कार्षीः ॥ ३३ ॥ इति क्षमयित्वा शकस्तत्रैवान्तर्दधे । तदेवं प्रविवेकसुखरसज्ञानां विडम्बनेव विहिंसेव च कामाः प्रति- [ जातकमालायाः] कूला भवन्ति ॥ ६-प्राचीनपत्रलेखनपद्धतिः स्वस्ति । महेन्द्रद्वीपात् परशुरामो लङ्कायाममात्यं माल्यवन्तमभ्य- हयति । विदितमेतद्वो यदस्माभिर्दण्डकारण्यतीर्थोपासकेभ्यस्तपोधने- भ्यः प्रतिज्ञातमभयम् । तत्र विराधदनुकबन्धप्रभृतयः केऽप्यतिचरन्तीति श्रुतम् । तत्तान्प्रतिषिध्य सवृत्तिमस्मद्धितां च माहेश्वरप्रीतिमनुरु- ध्यन्तां भवन्तः।
निबन्धादर्श २३ ब्राह्मणातिक्रमत्यागो भवतामेव भूतये। जामदग्न्यश्च वो मित्रमन्यथा दुर्मनायते ॥ [ महावीरचरितस्य द्वितीयाङ्कात् ] ( २ ) स्वस्ति । सुगृहीतनामधेयस्य देवस्य चन्द्रगुप्तस्य सहोत्थायिनां प्रधानपुरुषाणामितोऽपक्रम्य वध्यमलयकेतुमाश्रितानां प्रमाणलेख्यपत्र- मिदम् । तत्र प्रथममेव तावद् गजाध्यक्षो भद्रभटः, अश्वाध्यक्षः पुरुषदत्तः, महाप्रतीहारस्य चन्द्रभानो गिनेयो हिङ्गुरातः, देवस्य स्वजनसम्बन्धी महाराजो बलगुप्तः, देवस्यैव कुमारसेवको राजसेनः, सेनापतेः सिंहबलस्य कनीयान्भ्राता भागुरायणः, मालवराजपुत्रो लोहिताक्षः, क्षत्रगणमुख्यो विजयवर्मेति । वयं देवस्य कार्येऽवहिताः स्म इति । [ मुद्राराक्षसस्य तृतीयाङ्कात् ] स्वस्ति । यथास्थाने कुतोऽपि कोऽपि कमपि पुरुषविशेषमवगम- यति । अस्मत्प्रतिपक्षं निराकृत्य दर्शिता सत्यवता सत्यवादिता। साम्प्रतमेतेषामपि प्रथममुपन्यस्तसन्धीनामस्मत्सुहृदां पूर्वप्रतिज्ञातस- न्धिपरिपणनप्रोत्साहनेन सत्यसन्धःप्रीतिमुत्पादयितुमर्हति । एते ह्येवमु- पगृहीताः सन्तः स्वाश्रयविनाशेनोपकारिणमाराधयिष्यन्ति । अविस्मृ- तमेतत्सत्यवतः स्मारयामः। एतेषां मध्ये केचिदरेः कोषदण्डाभ्या- मर्थिनः केचिद्विपयेणेति । अलङ्कारत्रयं च सत्यवता यदनुप्रेषितं तदुप- गतम् । मयापि लेखस्याशून्यार्थ किश्चिदनुप्रेषितं तदुपगमनीयम् । वाचिकं चाप्ततमात् सिद्धार्थकाच्छोतव्यमिति । [ मुद्राराक्षसस्य पञ्चमाङ्कात् ] । स्वस्ति । यज्ञशरणात्सेनापतिः पुष्यमित्रो वैदिशस्थं पुत्रमायुष्म- न्तममिमित्रं स्नेहात्परिष्वज्यानुदर्शयति । विदितमस्तु। योऽसौ राज- निबन्धादर्श सूययज्ञदीक्षितेन मया राजपुत्रशतपरिवृतं वसुमित्रं गोनारमादिश्य संवत्सरोपावर्तनीयो निरर्गलस्तुरगो विसृष्टः स सिन्धोदक्षिणे रोधसि चरन्नश्वानीकेन यवनानां प्रार्थितः । तत उभयोः सेनयोर्महानासीत् सम्मर्दः। ततः परान्पराजित्य वसुमित्रेण धन्विना । प्रसह्य ह्रियमाणो मे वाजिराजो निवर्तितः ।। सोऽहमिदानीमंशुमतेव सगरः पौत्रेण प्रत्याहृताश्वो यक्ष्ये । तदि- दानीमकालहीनं विगतरोषचेतसा भवता वधूजनेन सह यज्ञसेवनाया- गन्तव्यमिति ।। [ मालविकाग्निमित्रस्य पञ्चमाङ्कात् ] ( ५ ) स्वस्ति । श्रीवाराणस्यां महाराजाधिराजपरमेश्वरमहामोहपादान श्रीपुरुषोत्तमायतनात् मदमानी साष्टाङ्ग प्रणम्य सविनयं विज्ञापयतो यथा । भद्रमव्याहतम् । अन्यत् । देव ! पुनर्देवी शान्तिर्मात्रा श्रद्धया सह विवेकस्य दूत्यमापन्ना विवेकसङ्गमाय देवीमुपनिषदमहर्निशं प्रबोधयति । अपि च । कामसहचरोऽधर्मोऽपि वैराग्यादिभिरुपप्लुत इव लक्ष्यते । यतः कामाद्विच्छिय कुतश्चिन्निगूढश्चरति । तदेवं ज्ञात्वा दवः प्रमाणमिति ॥ [प्रबोधचन्द्रोदयस्य द्वितीयाङ्कात् ] स्वस्ति । श्रीमहाराजदेवपालदेवः समामसिंहमण्डलेश्वरं समा- दिशति । अस्माभिर्निजविजयश्रीवशीकरणकारणं त्वत्कृते प्रहितमिद- मश्वरत्नम् । त्वया तु सततमत्रैव कटके स्थातव्यम् । यदा गुर्जरावनि प्रविशतोऽस्य नृपस्य वयमाकस्मिकागमनेन समरसंरम्भ सम्भावयामः तदा निजपितृवधभववैरार्णवोत्तरणाय तरीकरणीयः करवाल इति । [हम्मीरमदमर्दनस्य द्वितीयाङ्कात् ] निबन्धादर्शः ( ७ ) स्वस्ति । श्रीजनमनोवृत्तेः श्रीमोहमहाराजो गुर्जरराजराजधान्यां कल्याणमित्रं कलिकन्दलमतिनिबिडमालिङ्गय समादिशति यथा। क्षेमोऽस्माकम् । भवतापि निखिलप्रवृत्तिगर्भिणी निजकौशलकथाति- लकिता निरन्तरमस्मन्मनःप्रमोदाय प्रहेया विज्ञप्तिः। तथा विपक्ष- परिजनोपजापकर्मणि नित्यमवहितेन स्थातव्यम् । यश्च त्वत्पार्वे मिथ्यात्वराशिनामा तापसच्छद्मा रसप्रदश्चिरात्प्रहितोऽस्ति स यथा- कालं प्रस्तुतप्रयोजने व्यापारयितव्यः। ये च चत्वारः कोपगच्छद्म- लौल्यनामानस्तीक्ष्णस्त्वन्निकटे प्रहिताः सन्ति तेऽपि न चिरादधिकृत- कार्ये नियोजयितव्याः। अत्रार्थे भवन्तं त्वरयितुं संस्कारको नाम लेखहारकः प्रहितोऽस्तीति ।। [ मोहपराजयस्य चतुर्थाङ्कात् ] (८) स्वस्ति । उज्जयिनीतः सकलराजन्यशिखण्डशेखरीकृतचरणार- विन्दः परममाहेश्वरी महाराजाधिराजो देवस्तारापीडः सर्वसम्पदा- मायतनं चन्द्रापीडमुदश्चच्चारुचूडामणिमरीचिचक्रचुम्बिन्युसमाङ्गे चुम्वन्नन्दयति । कुशलिन्यः प्रजाः। किन्तु कियानपि कालो भवतोऽ- दृष्टस्य । बलवदुत्कण्ठितं नो हृदयम् । देवी च सहान्तःपुरैर्ला- निमुपनीता। अतो लेखवाचनविरतिरेव प्रयाणकालतां कल्याणिना नेतव्येति ।। [ कादम्बर्याः।] -- निबन्धादर्शा ७-महाराजाधिराजश्रीहर्षस्य ताम्रपत्रलेखः ओं स्वस्ति । महानौहस्त्यश्वजयस्कन्धावाराच्छ्रीवर्धमानकोटया महाराजश्रीनरवर्धनस्तस्य पुत्रस्तत्पादानुध्यातः श्रीवनिणीदेव्यामुत्पन्नः परमादित्यभक्तो महाराजश्रीराज्यवर्धनस्तस्य पुत्रस्तत्पादानुध्यातः श्रीमदप्सरोदेव्यामुत्पन्नः परमादित्यभक्तो महाराजश्रीमदादित्यवर्धन- स्वस्य पुत्रस्तत्पादानुध्यातः श्रीमहासेनगुप्तादेव्यामुत्पन्नश्चतुस्समुद्रा- तिक्रान्तकीर्तिः प्रतापानुरागोपनतान्यराजो वर्णाश्रमव्यवस्थापनप्रवृत्त- चक्र एकचक्ररथ' इव प्रजानामातिहरः परमादित्यभक्तः परमभट्टारक- महाराजाधिराजश्रीप्रभाकरवर्धनस्तस्य पुत्रस्तत्पादानुध्यातः स्मितयशः- प्रतानविच्छुरितसकलभुवनमण्डलः परिगृहीतधनदवरुणेन्द्रप्रभृति- लोकपालतेजाः सत्पथोपार्जितानेकद्रविणभूमिप्रदानसंप्रीणितार्थिहृद- योऽतिशयितपूर्वराजचरितो देव्याममलयशोमत्यां श्रीयशोमत्यामुत्पन्नः परमसौगतः सुगत इव परहितैकरतः परमभट्टारकमहाराजाधिराजश्री- राज्यवर्धनः। राजानो युधि दुष्टवाजिन इव श्रीदेवगुप्तादयः कृत्वा येन कशाप्रहारविमुखाः सर्वे समं संयताः । उत्खाय द्विषतो विजित्य वसुधां कृत्वा प्रजानां प्रियं प्राणानुज्झितवानरातिभवने सत्यानुरोधेन यः॥१॥ तस्यानुजस्तत्पादानुध्यातः परममाहेश्वरो महेश्वर इव सर्वसत्त्वा- नुकम्पी परमभट्टारकमहाराजाधिराजश्रीहर्षः अहिच्छत्राभुक्तावङ्गदीयवै- षयिकपश्चिमपथक सम्बद्धमर्कटसागरे समुपगतान्महासामन्तमहाराज- १. एकचक्ररथः = सूर्यः। २. भुक्ति, विषय, पथक-इत्येते शब्दाः देशस्य विभिन्न विभागद्योतका: क्रमेण 'जिला', 'तहसील', 'तालुका' समानार्थका भवेयुरिति प्रतिभाति ।
- निबन्धादर्शः दौस्साघसाघनिकप्रमातारराजस्थानीयकुमारामात्योपरिकविषयपतिभ- टचाटसेवकादीन्' प्रतिवासिजानपदांश्च समाज्ञापयति- विदितमस्तु यथायमुपरिलिखितग्रामः स्वसीमापर्यन्तः सोद्रङ्ग' सर्वराजकुलाभाव्यप्रत्यायसमेतः सर्वपरिहृतपरिहारो' विषयादुद्धृ- तपिण्डः५ पुत्रपौत्रानुगश्चन्द्रार्कक्षितिसमकालीनो भूमिच्छिद्रन्यायेन मया पितुः परमभट्टारकमहाराजाधिराजश्रीप्रभाकरवर्धनदेवस्य मातु- भट्टारिकामहादेवीराझीश्रीयशोमतीदेव्या ज्येष्ठभ्रातृपरमभट्टारक- महाराजाधिराजश्रीराज्यवर्धनदेवपादानां च पुण्ययशोऽभिवृद्धये भरद्वाजसगोत्रबचच्छन्दोगसब्रह्मचारिभट्टबालचन्द्रभद्रस्वामिभ्यां प्रतिग्रहधर्मेणामहारत्वेन प्रतिपादितो विदित्वा भवद्भिः समनुमन्तव्यः प्रतिवासिजानपदैरप्याज्ञाश्रवणविधेयैर्भूत्वा यथासमुचिततुल्यमेयभा- गभोगकरहिरण्यादिप्रत्याया एतयोरेवोपनेयाः सेवोपस्थानं च करणी- यमित्यपि च अस्मत्कुलक्रममुदारमुदाहरद्धि- रन्यैश्च दानमिदमभ्यनुमोदनीयम् । लक्ष्म्यास्तडित्सलिलबुबुदचश्चलाया दानं फलं परयशःपरिपालनञ्च ॥१॥ १. महासामन्त, महाराज, दौःसाधसाधनिक, प्रमातार, राजस्थानीय, कुमा- रामात्य, उपरिक, विषयपति, भट, चाट, सेवक-एते सामन्तविशेषाणां, विभिन्ना- धिकारिणां, विभिन्न कार्यकारिणां सेवकानां च उपाधयः । २. राजार्थसंग्रहीतव्यधान्यादिसमेतः, ग्रामवसतिसमेत इत्यर्थो वा । ३. य आया राजानं नोपगच्छन्ति ते । ४. परिहार:-राजकरः। ५. विषयाख्याद्देशविभागात्पृथक्कृत इत्यर्थः । ६. अग्रहार:-क्षेत्रोत्पन्नशस्यादुद्धृत्य ब्राह्मणोद्देशेन स्थाप्यं धान्यादि । गुरुकुलादावृत्तब्रह्मचारिणे देयं क्षेत्रादि, ग्रामभेदश्च । इति वाचस्पत्यबृहदभिधाने ।
निबन्धादर्शी कर्मणा मनसा वाचा कर्तव्यं प्राणिभिर्हितम् । हर्षेणैतत्समाख्यातं धर्मार्जनमनुत्तमम् ।।२।। दूतकोऽत्र महाप्रमातारमहासामन्तश्रीस्कन्दगुप्तः। महाक्षपटला- धिकरणाधिकृत" महासामन्तमहाराजभानुसमादेशादुत्कीर्णमीश्वरेणे- दमिति । संवत् २०२ कार्तिक वदि १। स्वहस्तो मम महाराजाधिरा- जश्रीहर्षस्य । [ Banskhera Copper-plate Inscription of Harsha, of Harsha Samvat 22 (628 A.D.) (Epigraphia Indica, Vol- IV, p. 208.] 4-कोसलधिपतेस्तीवरदेवस्य ताम्रपत्रलेखः श्रीमत्तीवरदेवस्य कोसलाधिपतेरिदम् । शासनं धर्मवृद्ध्यर्थं स्थिरमाचन्द्रतारकम् ॥ १॥ जयति जगत्त्रयतिलकः क्षितिभृत्कुलभवनमङ्गलसूवः । श्रीमत्तीवरदेवो धौरेयः सकलपुण्यकृताम् ॥२॥ स्वस्ति श्रीपुरात्समधिगतपञ्चमहाशब्दानेकनतनृपतिकिरीटकोटि- श्रृष्टचरणनखदर्पणोद्भासितोऽपि कण्ठदुन्मुख(?)प्रकट रिपुराजलक्ष्मी- केशपाशाकर्षणदुर्ललितपाणिपल्लवः, निशितनिस्त्रिंशघनघातपातिता- रिद्विरदकुम्भमण्डलगलदहलशोणितसदासिक्तमुक्ताफलप्रकरमण्डित- रणाङ्गणविविधरत्नसम्भारलाभलोभविजृम्भमाणारिक्षारवारिबाडवा- नलः, चन्द्रोदय इवाकृतकरोद्वेगः, क्षीरोद इवाविभूतानेकातिशायिरत्न- सम्पत् , गरुत्मानिव भुजङ्गोद्धार 'चतुरः, परामृष्टशत्रुकल त्रनेत्राञ्जन- १. अक्षपटल इति राज्ञोऽधिकरणविशेषस्य संज्ञा । २. उद्धारोऽपनयनम् , विनाश इति यावत् ।
२६ कान्तः निबन्धादर्शः कोमलकपोलकुडकुमपत्रमात् (? भङ्गा), शिष्टाचारव्यवस्थापरिपालन- कदत्तचित्तः। अपि च प्राक्तने तपसि यशसि रहसि चेतसि चक्षुपि वपुषि च पूजितो जनेनाक्लिष्टतया नितान्तमवितृप्तः', गूढः गाढस्व- च्छप्रसन्नवदनेन चालकृतः, स्वामिभवनेऽप्यबहुलपनोऽनुज्झितः, कुतृष्णोऽपि नितान्तत्यागी, रिपुजनप्रचण्डोऽपि सौम्यदर्शनः भूति- विभूषणोऽप्यपरुषः स्वभावतः, किश्वासन्तुष्टो धर्माजने न सम्पल्लाभे, स्वल्पक्रोधे न प्रभाव; लुब्धो यशसि न परवित्तापहारे, शक्लः (? सक्तः) सुभाषितेषु न कामिनीक्रीडासु, प्रतापानलदग्धाशेषरिपुकुल- तूलराशिस्तुहिनशिलाशैलधवलयशोराशिप्रकाशितदिगन्तः, प्रकृत्या, श्रीमदिन्द्रबलसूनोरलडकृतपाण्डुवंशस्य श्रीनन्नदेवस्य तनय- प्राप्तः, स्वपुण्यसम्भारप्रशमिताशेषजगदुपद्रवः, स्वप्रज्ञाशुचि(? सूचि)- समुद्धृताखिलकण्टकः, परमवैष्णवो मातापितृपादानुध्यातः श्रीमहा- शिवतीवरराजः कुशली पेण्ठामभुक्कोपिम्परिपके ब्राह्मणान्सम्पूज्य प्रतिवासिनः समाज्ञापयति-- विदितमस्तु भवतां यथास्माभिरयं ग्रामो याबद्रविशशिताराकिर- णप्रतिहतघोरान्धकारं जगदवतिष्ठते तावदुपभोग्यः सनिधिः सोप- निधिरचाटभटप्रवेशो दारद्रणकसर्वकरादानसमेतो मातापिनोरात्म- नश्च पुण्याभिवृद्धये भारद्वाजसगोत्रवाजसनेयमाध्यन्दिनभट्टगौरीदत्त- पुत्रभट्टभवदत्तभट्टहरदत्ताभ्यां ज्येष्ठद्वादश्यामुदकपूर्व प्रतिपादित इत्य- वगम्य भवद्भिर्यथोचितमाभ्यां भोगभागमुपनद्धिः सुखं प्रतिवस्तव्य- मिति । भाविनश्च भूमिपालानुद्दिश्येदमभिधीयते । भूमिप्रदा दिवि ललन्ति, पतन्ति हन्त हृत्वा महीं नृपतयो नरके नृशंसाः। एतद् द्वयं परिकलय्य चलां च लक्ष्मी- मायुस्तथा कुरुत यद्भवतामभीष्टम् ॥१॥ १. अवितृतान्न मदोडतः। -- निबन्धादर्श रक्षापालनयोस्तावत्फलं सुगति दुर्गति । को नाम स्वर्गमुत्सृज्य नरकं प्रतिपद्यते ॥२॥ अग्नेरपत्यं प्रथमं सुवर्ण भूवैष्णवी सूर्यसुताश्च गावः । दत्तात्रयस्तेन भवन्ति लोका यः काञ्चनं गां च महीं च दद्यात् ॥३॥ प्रवर्धमानविजयराज्यसंवत्सरे ७ कार्तिकदिवसेऽष्टमे ८। [ Ragim Copoer:plate Inscription of Tivaradeva of the 7th year of his reign (of the last quarter of the 8th century A. D. Fleets Gupta Inscription No. 81. ] ६-श्रीशङ्कराचार्यः नमामि शङ्कराचार्यगुरुपादसरोरुहम् । यस्य प्रसादान्मूढोऽपि सर्वज्ञोऽहं सदास्म्यलम् ॥ अनन्तानन्दगिरिरहमप्रतिहताज्ञस्य भगवतः शिष्यः स्वगुरोरव- तारप्रयोजनं वर्णयामि। अथ सर्गादौ भगवांश्चतुर्मुखः स्वमुखबाहूरुपादेभ्यः किल ब्रह्म- क्षत्रवैश्यशूद्रान निर्माय संस्थानचक्राधिदेवशिवविष्णुब्रह्मगणपत्युपास- कान् कृत्वा जातिधर्मपरिपालनतपोविधिमाकल्पपर्यन्तमाचकार । ततः प्रवृत्तेषु कृतादियुगेषु ब्राह्मणादयः सत्यधर्मतपोविद्यादिपरिशो- भितशीलाः सर्वदेवमयः स्वजातिदेव इति सम्यग्विचारसम्पत्रा: स्वेशैक्यनिजितभिहाद्यन्तरायाः सदाद्यर्थपर्यालोचनतत्परा बभूवुः । पूज्येषु सेवका नीचाः पुण्यमार्गक्रियानुगाः । तत्तदेव पदं चापुर्यथाजातिकुलस्थिति ।।
३ निबन्धादर्शः ३१ विप्राणां दैवतं शम्भुः क्षत्रियाणान्तु माधवः । वैश्यानान्तु भवेद् ब्रह्मा शूद्राणां गणनायकः ।। इति मनुस्मृतेः। ब्राह्मणेन शिवः शिवतत्त्वविदा सेवितव्या, क्षत्रियादिना तु तत्तत्तत्त्वविदेति निरवद्यं मनुस्मृतेरितरथा कर्तुमश- क्यत्वात् । परन्तु क्षीणे पुण्ये लुप्तधर्मतया क्लेशभाजि कलियुगे परस्पररागादिग्रस्तेषु ब्राह्मणादिषु सत्यज्ञानशून्येषु निगमाचारपरित्य- क्तेषु लोकप्रवृत्तिः काचिदासीत् । केचिच्छम्भरताः परे हरिरता वाणीरताः केचन केचिद् वह्निरता दिवाकररता विघ्नेशभक्ताः परे । केचिच्छक्तिरताश्च भैरवरताः केचित्तु मल्लारिंगा विष्वक्सेनरताः परे मदनगाः केचिद्भजन्त्यर्थदम् ॥ केचित्सुरेशमपरे यममप्पतिश्च वायुं महीमुदकमम्बरमादिमूर्तिम् । केचिद्विराजमपरे त्रिगुणान् यथेष्टं केचित् प्रधानमपरेऽणुमुपात्तकर्म ।। केचिच्चन्द्रपराः परे कुजपराः केचितु सौम्योत्सुकाः केचिज्जीवपराः परे भृगुपराः केचित्तु मन्दाश्रिताः। केचित् कालपराः परे पितृपराः केचित्तु नागेशगाः केचित्तार्यपराश्च सिद्धनिचयं सेवन्ति(?) केचिद्धिया। केचिद् गन्धर्वसाध्यादीन् भूतवेतालगाः परे । एवं नानाप्रभेदानां नृणां वृत्तियथेप्सिता ।। केचित् स्ववृत्तिं वेदार्थः प्रतिपाद्यां समूचिरे । केचिद्धम्मैरियं मुक्तिरिति जल्पं समास्थिताः॥ अन्योन्यमत्सरग्रस्ताः परस्परजयैषिणः। निजेच्छाकृतिमङ्गेषु धारयन्ति रुषान्विताः ॥
निबन्धादर्शः
कर्मभ्रष्टान्परानन्ददूरान् मूढान्नराधमान् ।
तान् दृष्ट्वा नारदः शीघ्रमाप ब्रह्मपदान्तिकम् ।।
भो तात ! नूतनमभूज्जगदेतदर्वा-
ग्वाचित्रयुक्तिपरिकल्पितकर्मशीलम् ।
कालादिजातनिगमार्थपरम्परा स्या-
द्वयर्था तदा यदि भवन्मतमप्रमाणम् ।।
भवद्भिः पूर्वमिदमुक्तम् -सदेव सौम्येदमन श्रासीत् । ब्रह्म वा
इदमग्र आसीत् । आत्मा वा इदमेक एवाग्र आसीत् । वासुदेवो वा
इदमग्र आसीत् ।
यदाऽतमस्तन्न दिवा न रात्रि-
नसन्न चासंश्चिव (?-सच छिव) एव केवलः।
तदक्षरं तत्सवितुर्वरेण्यं
प्रज्ञा च तस्मात्प्रमृता पुराणी ।।
स्मृतिश्च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।
उत्तमः पुरुपस्त्वन्यः परमात्मेत्युदाहृतः ।। इति ।
तत्प्रीतये कर्म करोतु विप्रः क्षत्रस्तु भूमि महसा भुनक्तु ।
वैश्यो ददात्वर्थमथास्य तुष्टयै शूद्रः करोत्वग्रजपूजनं हि ॥ इति ।
तस्माद् द्विजातीनामेकमेव दैवतं सदादिशब्दवाच्यम् । तस्य
गुणातीतवृत्तेर्लिङ्गाभावात् तत्सत्त्वे मानाभावाच्च निरुपाधिकं ब्रह्मैव
मुमुक्षुभिरुपासनीयमिति ।
एवं नारदवचनं निशम्य ब्रह्मापि चिरं ध्यात्वा स्वलोकात् पुत्रमि-
त्रभक्तादियुक्तः शिवलोकं प्राविशत् । तत्र मध्याह्नकोटिसूर्यकोटितेजसं
कोटि हिमांशुशीतलं पश्चवक्त्रं चन्द्रमौलि विद्युत्पिङ्गजटाधरं पार्वतीवा-
मार्द्धशरीरिणं सर्वेश्वर महादेवं दृष्ट्वा दण्डवत् सगणः प्रणनाम ।
उत्थाय सम्पुटितहस्तयुगः सगणो ब्रह्मा किलोवाच । भो महादेव !
सर्वज्ञ सर्वलोकेश सर्वसाक्षिन् सर्वमय सर्वकारण सर्वात्मक सर्वातीत
- निबन्धादर्शः सर्वदेववन्दितचरणारविन्द, प्रणवरूप, प्रणवातीत, प्रणवगोचर, कालरूप कालातीत, कमनीयविग्रह, कन्दर्पहर, कामितार्थप्रद, करु- णाकर, श्रीपरमेश्वर ! सावधानेन मदीयां विज्ञापनामवधारय । तुरीय- प्रणवातीताद् ब्रह्मणः सत्यज्ञानानन्दलक्षणाद् भगवतः किलार्द्धविन्दु. रूपा प्रकृतिरुत्पन्ना । तवैतस्याश्चन्द्रचन्द्रिकान्यायेन शुद्धाद्वैता सा त्वमेवेति सिद्धम् । तत्सकाशादकारः शुक्लः सत्त्वसम्पन्नः, तस्मादु- कारः कृष्णः तामसगुणप्रधान उत्पन्नः । तस्मान्मकारः शोणवर्णः रजः- सम्पन्नोऽहम् । भवदाज्ञया जरायुजादिचतुर्विधजङ्गमान् पर्वतादीन स्थावरांश्च सृष्टा समुद्रद्वीपगिरिनदीवनपुरग्रामगोतुरगमर्त्यकरिसिंह- व्याघ्रभल्लूकादीन् ब्रह्मक्षत्रियवैश्यशूद्रजातीन् प्राणिनश्च तत्तद्धर्मसमा- चारशीलान कृत्वा भवच्चरणारविन्दध्यानासक्ते मयि सत्यलोकाश्रिते भूलोके कश्चिदुपद्रवः समुत्थितोऽभवत् । तदवधारय- श्रुत्याचारं परित्यज्य मिथ्याचारं समाश्रिताः। विप्रादयो विचित्रैस्तु लिङ्गैः सन्तप्तदेहिनः । हुतं नैव यथाकालमग्नौ हव्यमृगन्ततः। लिङ्गिनो वयमित्युच्चैरभिमानान्नराधमाः ॥ न दत्तं पर्वणि प्राप्ते काव्ये पित्रादितृप्तये। नाध्यापितं ब्रह्मयज्ञं सत्यलोकस्य सिद्धये ॥ नाग्निष्टोमं नाग्रयणं न संन्यासं कदाचन । करोति मनुजः कश्चित्सर्व पापण्डमाप्नुयुः ॥ विष्णुदासा वयञ्चेति वयमीशानलिङ्गिनः । भैरवार्कगणेशानां देव्या भक्ताश्च केचन ।। केचित्कापालिकाचारा मद्यमांसाशिनः सदा । एकस्यैव मतस्यापि भेदषट्कं समाश्रिताः॥ एवं बहवश्चार्वाकमतसिद्धान्ताश्रिताः तत्स्वरूपमेव परमिति तदाचाराः सत्यशौचादिधर्मज्ञानरहिताः पशव इव द्वैतवादिनः श्रुति- ३ नि० - निबन्धादर्शः स्मृतीतिहासपुराणोपपुराणादिकलितकर्मज्ञानरूपमार्गद्वयं परित्यज्य तृतीयपथा मूढतात्पर्येण हि विहिताविहितमविज्ञाय शुद्धाद्वैतविरोधिनः दुर्नीत्या श्रुत्यर्थविरुद्धं तात्पर्य स्वीकृत्य सर्वे कुमतशोला बभूवुः । कर्ता त्वमीश! जगतां मम केशवस्य तेजोभुगन्तसमये लयकर्तृकत्वात् । तस्मात्कुविप्रबलकुत्सितदुर्मताना नाशाय चिन्तय समुद्धर वेदमार्गम् ।। इति ब्रह्मणा प्रस्तुतः श्रीपरमेश्वरः सन्तुष्टान्तरः सन्निदमुवाच ब्रह्मन् यथासुखं गच्छ सन्तुष्टोऽस्मि तवोक्तितः। शङ्कराचार्यनाम्नाह सम्भवामि महीतले ॥ यद्धितं तव विष्णोश्च तदेव स्थापयाम्यहम् । मम भक्तावुभौ यस्मात्सत्यं नान्यद्विचिन्तय ॥ मविभूतिहरिस्त्वं हि चेन्द्राद्यष्टदिगीश्वराः । वसवो द्वादशादित्या गन्धर्वाश्च मरुद्गणाः ।। यक्षाः सिद्धास्तथा साध्या गरुडाः किन्नरादयः। किमत्र बहुनोक्तेन सर्व चेदं चराचरम् ॥ मदङ्गभेदसञ्जातं लये मय्येव लीयते । अहमेकोऽक्षरः कर्ता ध्रुवः शाश्वत एव च ।। गुहाशयः सर्ववेदार्थप्रणवात्परः । तस्मात्सर्वेषु कालेषु मामद्वैतमुपाश्रय ॥ इति सम्बोधितो ब्रह्मा प्रणिपत्य महेश्वरम् । सगणः प्राप सत्याख्यं निजलोकमनन्यधीः॥ सर्वात्मको देवश्चिदम्बरपुराश्रितः। आकाशलिङ्गनाम्ना तु विख्यातोऽभून्महीतले ।। तत्र विद्वन्महेन्द्रस्य कुले द्विजगुणाश्रिते। जातः सर्वज्ञनाम्ना तु कश्चिद् द्विजकुलेश्वरः॥ आत्मा ततः
निबन्धादर्शः
३५
कामाक्षीति सती चाभूत्तस्य लक्षणलक्षिता ।
चिदम्बरेश्वरं ध्यात्वा तावुभौ प्रापतुः सुताम् ।।
सा कुमारी सदा ध्यानसक्ताभूज्ज्ञानतत्परा।
विशिष्टेति च नाम्ना तु प्रसिद्धाभून्महीतले ।।
तामष्टमेऽब्दे विप्राय शान्तायाद्भुतकर्मणे ।
प्रददौ विश्वजिन्नाम्ने सर्वज्ञोऽस्याः पिता स्वयम् ।।
सा सदा पतिमद्वैतं ध्यात्वाकाशात्मकं शिवम् ।
तस्याराधनमत्युग्रमाचकार
विवेकिनी॥
तादृशीमपि सन्त्यज्य ययौ विश्वजिदद्भुतम् ।
अरण्यं तपसे कृत्वा मनो निश्चयतां गतम् ॥
तदाप्रभृति सा नारी चिदम्बरमहेश्वरम् ।
तोपयामास पूजाभिनैिरात्मगतैः सदा ।।
स देवः सर्वपूर्णाऽपि तस्या वदनपङ्कजम् ।
प्रविश्य विस्मितान् कुर्वन् जनानन्यान् समागतान् ॥
महोग्रतेजसा जुष्टा विशिष्टाभूद्यथाम्बिका ।
सर्वैः सम्पूजिता नित्यं पित्रादिभिरुपाश्रिता ।।
अतीते मासि गर्भस्य वृद्धिरासीदिने दिने ।
चिदम्बरेश्वरं कृत्वा यजमानं द्विजोत्तमाः ।।
तृतीयादिषु मासेषु चक्रुः कर्माणि वेदतः ।
प्राप्ते तु दशमे मासि विशिष्टागभूगोलतः ॥
प्रादुरासीन्महादेवः शङ्कराचार्य्यनामतः।
आसीत्तदा पुष्पवृष्टिदेवसङ्घः प्रचोदिता ।
नेदुर्दुन्दुभयो दिव्याः स्वर्गे लोके चिरं सुखम् ।।
विचित्ररूपतेजोगुणगाम्भीर्यादियुक्तः शैशवेऽपि प्राकृतमागधग्रीवा-
णादिसर्वभाषाकुशलः, सरस्वतीविलास इव समवर्तत । तृतीये वर्षे
चौलकर्म, पञ्चमे वर्षे मौञ्जोबन्धं विध्युक्तितश्चक्रुर्विप्रौधाः। तदनु:
निबन्धादर्शः विद्यागुरुसमीपे सकृच्छवणादेवावगतसर्व विद्याप्रपश्चातीत इव, समज्ञानवशाज्जीवन्मुक्त इव किलानालस्यादभवद् भगवान् श्रीमदा- चार्यः। षड्दर्शनमूलः, इतिहासस्थाणुः, निगमशाखः, षडङ्गपल्लवः, सूत्रपुष्पः, मन्त्रशलाटुः' ज्ञानपक्वफलः श्रीशङ्करकल्पवृक्ष आसीत् । स्वर्गे यथा कल्पतरुस्तथा भूमौ हि शङ्करः । सुराणां भूसुराणाश्च वाञ्छितार्थप्रदो गुरुः ॥ वेदे ब्रह्मसमस्तदङ्गनिचये गार्योपमस्तत्कथा- तात्पर्यार्थ विवेचने गुरुसमस्तत्कर्मसंवर्णने । आसीज्जैमिनिरेव तद्वचनदर्पोद्वाधकन्दे समो। व्यासेनेव मदीयसद्गुरुसौ श्रीशङ्कराख्यः क्षितौ ॥ अद्वैतार्णवपूर्णचन्द्रमभिधापद्माटवीभास्कर विद्वत्कोटिसमर्चिताघ्रियुगलं प्रद्वेषिकक्षानलम् । हृद्यावद्यसमस्तवेदजनितप्रोद्यद्विवेकाङ्कुरं स्विद्यद्वागमृतं परात्परगुरुं श्रीशङ्करं तं भजे ॥ अर्द्धन्दुललाटः, पूर्णेन्दुमुखः, विशालवक्षाः, आजानुबाहुः उन्नि- तम्बः, पीनोरुः, गुढगुल्फः, स्वल्पपादः, शोणनखः, करपादमध्य- स्थलेषु शङ्खचक्रादिचिह्नितः, शिरसि वामभागे त्रिशूलचिह्न दक्षिण- भागे त्वर्द्धचन्द्रचिह्नमेवमङ्कद्वयेन साक्षाचिदम्बरेश्वर इव विराजमानः, समप्रमाणशरीरः, मौञ्जिदण्डाजिनतिलकधारण भिक्षाशनादिभिः शास्त्र- विधिरेवमनुष्ठेय इति सर्वमान् बोधयन् । शिष्यबोधनार्थमुपाध्यायानुज्ञावशाद् ब्रह्मासने चतुःषष्टिकला- परागके चतुर्दशविद्यामणिविराजिते सहस्रवेदप्रभादीपिते सूत्रेतिहासत- न्तुविराजिते तापनीयागममन्त्रतन्त्रयन्त्रादिषट्त्रिंशदङ्गुलोच्छिते प्रागद्रौ १. शलाटुः- अपक्वफलम् । २. तद्वचनदप्रोद्बोधकन्धे-इति पाठान्तरम् ।
तिबन्धादर्शः ३७ बालभानुरिव, ब्रह्माण्डगोलकीले ध्रुव इव, जनककृतद्वादशवार्षिके सत्रे याज्ञवल्क्य इव, परीक्षिन्नरेन्द्रस्य ज्ञानबोधसमये शुक इव, मेरुमस्तके तपश्चर्याङ्गीकारोचितव्यास इव, रामकथाप्रदातृत्वकाले वाल्मीकिरिव, भाष्योपदेशकाले पतञ्जलिरिव, देवानां शिक्षासमये सुराचार्य इव, नारदोपदेशकाले ब्रह्मेव, धर्मराजस्य तत्त्वोपदेशकाले श्रीकृष्ण इव, समासीनः श्रीशङ्कराचार्यगुरुरनेकशिष्याणां निगमादिसर्वशास्त्रप्रप- श्वस्य सदुपदेशमाचकार । [ आनन्दगिरिकृतशंकरविजयात् ] --- एताश्चैवं १०–निर्वृति म नगरी जरा रुजा मृतिश्चेति खलता च कुरूपता। दरिद्रता दुर्भगता उद्दिष्टाः क्रमशो यखा ।। विवल्गन्ते विपक्षक्षयमुच्चकैः । कुर्वाणां भवचक्रेऽत्र लोकपीडनतत्पराः॥ प्रकर्षेणोदितं माम ! किमासां विनिवारकाः। लोकपाला न विद्यन्ते नगरेऽत्र नृपादयः ।। विमर्शनोदितं वत्स ! नैताःशक्या नृपादिभिः। निवारयितुमित्यत्र कारणं ते निवेदये ॥ ये केचिद्वीर्यभूयिष्ठाः प्रभवो भवनोदरे । तेष्वपि प्रभवन्त्येताः सर्वेषु प्रसभं सदा ।। सर्वत्र विचरन्तीनामासामुद्दामलीलया। गजानामिव मत्तातां नास्ति मल्लो जगत्त्रये ।। स्वप्रयोजनवीयण विलसन्तीनिरकुशम् । को नाम भुवने साक्षादेताः स्खलयितुं क्षमः ।।
निबन्धादर्शः प्रकर्षणोक्तम् । माम ! तत्किं पुरुषेण न यतितव्यमेवामूषां निरा- करणे? विमर्शेनोक्तम् । वत्स ! निश्चयतो निराकरणे न यतितव्यमेव । यतो न शक्यत एवावश्यंभाविनीनामासां निराकरणं कर्तुम् । विमृश्य- कारो च पुरुषः कथमशक्येऽर्थे प्रवर्तते । न हि कर्मपरिणामकालपरि- णतिस्वभावलोकस्थितिभवितव्यतादिसम्पूर्णकारणसामग्रीबलप्रवर्तिता- नामवश्यमाविर्भवन्तीनाममूषामन्येषां वा कार्यविशेषाणां निराकरणे यतमानः पुरुषः प्रयासाहते कश्चिदर्थं पुष्णाति । प्रकर्षः प्राह । माम ! पूर्व भवता प्रत्येकमासां जरारुजादीनामप राण्येवान्तरङ्गबहिरङ्गाणि प्रवर्तकानि निर्दिष्टानि । तत्कथमिदानी कर्म- परिणामादीनि प्रवर्तकत्वेनोच्यन्ते ? विमर्शनोक्तम् । तानि विशेषकारणानीति कृत्वा प्राधान्येनोक्ता- नि। परमार्थतस्तु यथानिर्दिष्टकर्मपरिणामादिकारणकलापव्यापार- मन्तरेण न नयननिमेषोन्मेषमात्रमपि कार्यजातं किञ्चिज्जगति जायते। प्रकर्षः प्राह । माम ! यद्येवं ततः पुरुषेण किमात्मनो निजवर्गीण- स्य वामूरभ्यर्णवर्तिनीरापतन्तीरुपलक्ष्य न कर्तव्य एव कश्चिदासां निवारणोपायः ? किन्नान्वेषणीया एव वैद्यौपधमन्त्रतन्त्ररसायनचतु- विधदण्डनीत्यादयः समुपस्थित जरारुजामृत्य्वादिनिर्घातनोपायाः ? किं सर्वथा पादप्रसारिकैवात्र श्रेयस्करी ? किमकिञ्चित्कर एव पुरुषो हेयोपादेयहानोपादने ? ननु प्रत्यक्षविरुद्धमिदम् , यतः प्रवर्तन्त एव पुरुषा हिताहितयोरवाप्तिनिराकरणकामनया । प्रवृत्ताश्चोपाये प्राप्नु- वन्ति हितमर्थं निराकुर्वन्ति चोपस्थितमभ्युपायत एवाहितमिति । विमर्शनोक्तम् । वत्स ! विश्रब्धो भव मोत्तालता यासीः। परामृश वचनैदंपर्यम् । निश्चयतो हि मयोक्तं यथा मा प्रवर्तिष्ट पुरुषः, व्यवहा- रतस्तु तत्प्रवृत्ति को वारयति । पुरुषेण हि सर्वत्र पुरुषापराधमलः सद- निबन्धादर्शः ३९ नुष्ठाननिर्मलजलेन क्षालनीयः । तदर्थ हि तत्प्रवृत्तिः । यतो नाकलयत्य- सौ तदा भाविकार्यपरिणामं ततो व्यवहारतः सर्वहेयोपादेयहानोपादा- नसाधनं समाचरत्येव। किञ्च । चिन्तितश्चानेन । यदुताहं न प्रवर्ते तथा- प्यसावप्रवर्तमानो नासितुं लभते । यतः कर्मपरिणामादिकारणसामग्रथा वेतालाविष्ट इव हठात् प्रवर्तत एव । न चाकिञ्चित्करः पुरुषः। किं तर्हि स एव प्रधानः । तदुपकरणत्वात्कर्मपरिणामादीनाम् । न च पादप्रसा- रिका श्रेयस्करी। व्यवहारतः पुरुषप्रवृत्तेहिताहितनिर्वर्तनापवर्तनक्ष- मत्वात् । निश्चयतस्तु निःशेषकारणकलापपरिणामसाध्यत्वात् कार्या- णाम् । अन्यथा पूर्वमाकलिते पुरुपेण वैपरीत्येन तु परिणते पश्चात् प्रयोजनेन विधेयौ न हर्षविषादौ । समालम्बनीयो निश्चयाभिप्रायः । यथेत्थमेवानेन विधातव्यमिति भावनया विधेयो मध्यस्थभावः । न चतञ्चिन्तनीयं यद्येवमहमकरिष्यं ततो नेत्थमभविष्यदिति । यतस्तथा- वश्यंभाविनः कार्यस्य कुतोऽन्यथाकरणम् । नियता हि निश्चयाकूतेन नियतकारणसामग्रीजन्या च सकलकालं तथैवानन्तकेवलिज्ञानगोच- रीभूता च समरसापि जगति बहिरङ्गान्तरङ्गकार्यपर्यायमाला। सा यया परिपाट्या व्यवस्थिता यैश्च कारणैराविर्भावनीया, तयैव परिपट्या तान्येव च कारणान्यासाद्याविर्भवति । कुतस्तस्यामन्यथाभावः। अतोऽ- तीतचिन्ता मोहविलसितमेव । व्यवहारतोऽपि हितावाप्तयेऽहित निषेधाय च प्रवर्तमानेन पुरुषेण सुपर्यालोचितकारिणा नानकान्ति- कानात्यन्तिके तत्साधने भेषजमन्त्रतन्त्ररसायनदण्डनीत्यादौ महाना- दरो विधेयः; अपि त्वैकान्तिकात्यन्तिकं तत्साधनमन्वेषणीयम् । सर्वथा सदनुष्टानोपायेन तत्र यातव्य यत्रैते जराम्जादयः सर्वेऽप्युप- द्रवा न प्रभवन्ति । प्रकर्षः प्राह । माम ! कुत्र पुनरेते न प्रभवन्ति । विमर्शेनोक्तम् । अस्ति सन्नगरी रम्या निर्वृ तिर्नाम विश्रुता । अनन्तानन्दसन्दोहपरिपूर्णा निरत्यया॥
४० निबन्धादर्शः तस्यां न प्रभवन्त्येव संस्थितानामुपद्रवाः । जरारुजाद्याः सा यस्मात् सर्वोपद्रववर्जिता ॥ तस्याश्च गन्तुकामेन सेव्याः सद्वीर्यवृद्धये । पुरुषण सदा तत्त्वबोधश्रद्धानसक्रियाः ।। ततो विवृद्धवीर्याणां तस्या मार्गेऽपि तिष्ठताम् । तनूभवन्ति दुःखानि वर्द्धते सुखपद्धतिः ॥ [ उपमितिभवप्रपञ्चाख्यकथायाः] ११--निर्वृतिनगरीमार्गः अस्त्यत्र निर्वृतिर्लोके नगरी सुमनोहरा। सा च भुक्तरतिक्रान्ता महामोहादिभूभुजाम् ।। निर्द्वन्द्वानन्दसम्पूर्णा' सततं निरुपद्रवा। एभिश्चाकर्णिता सर्वैः सालोकैः पुरवासिभिः ।। ततो लोकायतं मुक्त्वा ये शेषपुरवासिनः । नगरी गन्तुमिच्छन्ति तामेते वत्स ! निर्वृतिम् ।। तत्र नैयायिकैस्तावदेष कल्पितो नितिमार्गः। यदुत प्रमाण- प्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहे- त्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वपरिज्ञानन्निःश्रेयसाधिगमः । तत्रार्थोपलम्भहेतुः प्रमाणम् । तच्चतुर्धा । तद्यथा। प्रत्यक्षानुमानो- पमानशब्दाः प्रमाणानि । तत्र प्रत्यक्षमिन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञान- मव्यपदेश्यमव्यमिचारि व्यवसायात्मकं प्रत्यक्षम् । तत्पूर्वक त्रिविधमनुमानम् । तद्यथा पूर्ववच्छेषवत्सामान्यतोदृष्टश्च । तत्र पूर्वव- कारणात्कार्यानुमानम् । यथा मेघोन्नतेर्भविष्यति वृष्टि रिति । शेषव- कार्याकारणानुमानम् । यथा विशिष्टान्तदीपूरदर्शनादुपरि वृष्टो निबन्धादर्शः ४१. देव इति । सामान्यतो दृष्टं नाम यथा देवदत्तादौ गतिपूर्विका देशा- न्तरप्राप्तिमुपलभ्य दिनकरेऽपि सा गतिपूर्विकैव समधिगम्यते । प्रसि- द्धसाधर्म्यात्साध्यसाधनमुपमानम् । यथा गौस्तथा गवय इति । प्राप्तो- पदेशः शब्द आगम इत्यर्थः । तदेवमिदं चतुर्विधं प्रमाणमभिहितम् । तथा आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखा- पर्गास्तु प्रमेयम् । किं स्यादित्यनवधारणात्मकः प्रत्ययः संशयः। किमयं स्थाणुः स्यादुत पुरुष इति । येन प्रयुक्तः प्रवर्तते तत्प्रयोजनम् । अविप्रतिपत्तिविषयापन्नो दृष्टान्तः। सिद्धान्तश्चतुर्विधः। तद्यथा सर्व- तन्त्रसिद्धान्तः, प्रतितन्त्रसिद्धान्तः, अधिकरणसिद्धान्तः, अभ्युपगम सिद्धान्तश्चेति । प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः । संशयादृवं भवितव्यताप्रत्ययस्तर्कः । यथा भवितव्यमत्र स्था- णुना पुरुषेण वेति । संशयतर्काभ्यामूज़ निश्चयतः प्रत्ययो निर्णयः । यथा पुरुष एवायं स्थाणुरेव वा । तिस्रः कथा वादजल्पवितण्डाः। तत्र शिव्याचार्ययोः पक्षप्रतिपक्ष- परिग्रहेणाभ्यासख्यापनाय वादकथा । विजिगीपुणा साधं छलजातिनि- ग्रहस्थानसाधनोपालम्भो जल्पः । स एव प्रतिपक्षस्थापनाहीनो वितण्डा । अनैकान्तिकायो हेत्वाभासाः। नवकम्बलो देवदत्त इत्यादि च्छलम् । दूपणाभासास्तु जातयः । निग्रहस्थानानि पराजयवस्तूनि । तद्यथा प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासः हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञा तार्थमपार्थकमप्राप्तकालं न्यूनमधिकं पुनरुक्तमननुभाषणमप्रतिज्ञानम- प्रतिभा कथाविक्षेपो मतानुज्ञा पर्य्यनुयोज्योपेक्षणं निरनुयोज्यानुयो- गोऽपसिद्धान्तो हेत्वाभासश्चेति निग्रहस्थानानि । तदेते प्रमाणादयः पोडश पदार्था नैयायिकदर्शनसमासः॥ वैशेषिकैः पुनरयं वत्स ! परिकल्पितो निर्वृतिनगरीगमनमार्गः। यदुत द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां पदार्थानां तत्त्व ४२ निबन्धादर्शः परिज्ञानान्निश्रेयसाधिगमः । सा हि नितिनिःश्रेयसरूपा । तत्र पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति नव द्रव्याणि । रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वबुद्धि- सुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारगुरुत्वद्रवत्वस्नेहवेगशब्दाः पञ्च- विंशतिर्गुणाः। उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति पञ्च कर्माणि । सामान्यं द्विविधं परमपरञ्च । तत्र परं सत्तालक्षणम् । अपरं द्रव्यत्वादीति । नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः अयुतसिद्धानामा- धाराधेयभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः। लैङ्गिक- प्रत्यक्षे द्वे एव प्रमाणे । इति वैशेषिकदर्शनसमासार्थः ।। सांख्यैस्तु वत्स निजबुद्धया परिकल्पितोऽयं निर्वृतिनगर्याः पन्थाः। यदुत पञ्चविंशतितत्त्वपरिज्ञानान्निःश्रेयसाधिगमः। तत्र त्रयो गुणाः सत्त्वं रजस्तमश्च । तत्र प्रसादलाघवप्रसवानभिष्वङ्गाद्वेषप्रतीतयः कार्य सत्त्वस्य । शोषतापभेदस्तम्भोद्वेगापद्वेषाः कार्य रजसः। वरण- सादनबीभत्सदैन्यगौरवाणि तमसः कार्यम् ततः सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः । सैव प्रधानमित्युच्यते । प्रकृतेश्च महानाविर्भवति । बुद्धिरित्यर्थः। बुद्धेश्चाहङ्कारः। ततोऽहङ्कारादेकादशेन्द्रियाणि । तद्यथा पश्च बुद्धीन्द्रियाणि स्पर्शनरसनघ्राणचतुःश्रोत्ररूपाणि, पञ्च कर्मेन्द्रि- याणि वाक्पाणिपादयपायूपस्थलक्षणानि, मनश्वाविर्भवति । तथा तत एवाहङ्कारात्तमोबहुलात्पञ्चतन्मात्राणि स्पर्शरसरूपगन्धशब्दलक्षणा- न्याविर्भवन्ति । तेभ्यश्च पृथिव्यादीनि पञ्च महाभूतानि । तदेषा चतुर्विंशतितत्त्वात्मिका प्रकृतिः। तथा परः पुरुषश्चैतन्यस्वरूपः । स चानेको जन्ममरणकरणानां नियमदर्शनाद्धर्मादिषु प्रवृत्तिनानात्वाच्च प्रकृतिपुरुषयोश्चोपभोगार्थः संयोगः पङग्वन्धयोरिव । उपभोगश्च शय्याद्युपलम्भो गुणपुरुषान्तरोपभोगश्च । प्रत्यक्षानुमानागमाः प्रमा- णानीति सांख्यदर्शनसंक्षेपार्थः ।। बौद्धैः पुनर्भद्र! परिकल्पितेयं निवृतिनगरीवर्तनी। यदुत द्वादशा- यतनानि । तद्यथा । पञ्चेन्द्रियाणि पश्च शब्दादयो मनो धर्मायतनञ्च ।
अथवा निबन्धादर्श ४३. धर्मास्तु सुखादयो विज्ञेयाः । प्रत्यक्षानुमाने द्वे एव प्रमाणे इति बौद्धदर्शनसमासार्थः॥ वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिकभेदाच्चतुर्विधा बौद्धा भवन्ति । तत्र वैभाषिकमतमिदम् । यदुत क्षणिकं वस्तु । तद्यथा। जातिर्जनयति, स्थितिः स्थापयति, जरा जर्जयति, विनाशो नाशयति । तथात्मापि तथाविध एव पुद्गलश्चासावभिधीयते ।। सौत्रान्तिकमतं पुनरिदम् । रूपवेदनाविज्ञानसंज्ञासंस्काराः सर्व- शरीरिणामेते पञ्च स्कन्धा विद्यन्ते । न पुनरात्मा । त एव हि परलोक- गामिनः तथा क्षणिकाः सर्वे संस्काराः स्वलक्षणं परमार्थतः। अन्या- पोहः शब्दार्थः । सन्तानोच्छेदो मोक्ष इति । योगाचारमतन्त्विदम् । विज्ञानमात्रमिदम्भुवनम् । न विद्यते बाह्यार्थः । वासनापरिपाकतो नीलपीतादिप्रतिभासाः। आलयविज्ञानं सर्ववासनाधारभूतम् । आलयविज्ञानविशुद्धिरेव चापवर्ग इति ॥ माध्यमिकदर्शने तु सर्वशून्यमिदम् । स्वप्नोपमः प्रमाणप्रमेय- प्रविभागः । मुक्तिस्तु शून्यतादृष्टिस्तदर्थं शेषभावना ॥ ॥ इति बौद्धविशेषाणां मतसंक्षेपार्थः ।। लोकायतैः पुनर्वत्स! सा नितिनगरी नारतीति प्रख्यापित लोकायते । अमी ब्रुवते । नास्ति निर्वृतिर्नास्ति जीवो नास्ति परलोको नास्ति पुण्यं नास्ति पापमित्यादि । किं तर्हि पृथिव्यापरतेजो वायुरिति तत्त्वानि । तत्समुदाये शरीरेन्द्रियविषयसंज्ञा। तेभ्यश्चैतन्यं मद्याङ्गेभ्यो मदशक्तिवत् । जलबुबुदवज्जीवाः । प्रवृत्तिनिवृत्तिसाध्या प्रीतिः पुरुषार्थः। स च काम एव नान्यो मोक्षादिः। तस्मान्नान्यत् पृथिव्या- दिभ्यस्तत्त्वमस्ति दृष्टहान्यदृष्टकल्पनासम्भवादिति । प्रत्यक्षमेव चैक प्रमाणमिति लोकायतमतसमासः॥ मीमांसकानां पुनरेष मार्गः। यदुत वेदपाठानन्तरं धर्मजिज्ञासा कर्तव्या। यतश्चैवं ततस्तस्य निमित्तपरीक्षा। निमित्तञ्च चोदना । यत निबन्धादः उक्तम् । चोदनालक्षणोऽर्थो धर्मः। चोदना च क्रियायां प्रवर्तकं वचन- माहुर्यथाग्निहोत्रं जुहुयात्स्वर्गकाम इत्यादि। तेन धर्मो लक्ष्यते । नान्येन प्रमाणेन । प्रत्यक्षादीनां विद्यमानोपलम्भनत्वादिति । प्रत्यक्षा- नुमानशब्दोपमानार्थापत्त्यभावाः षट् प्रमाणानीति मीमांसकमत- समासः ॥ अमीभिः पुनर्वत्स ! विवेकमहापर्वतारूढरप्रमत्तत्वशिखरस्थितै - नपुरनिवासिभिर्जनलोकैरयं दृष्टो नितिनगरीगमनमार्गः । यदुत जीवाजीवास्रवसंवरनिर्जरामोक्षास्तत्त्वम् । तत्र सुखदुःखज्ञानादिपरि- णामलक्षणो जीवः। तद्विपरीतस्त्वजीवः । मिथ्यादर्शनाविरतिप्रमाद- कषाययोगा बन्धहेतवः। स आस्रवः। आस्रवकार्य बन्धः। आस्रव- विपरीतः संवरः। संवरफलं निर्जरा। निर्जराफलं मोक्ष इत्येते सप्त पदार्थाः। तथा विधिप्रतिषेधानुष्ठानपदार्थाविरोधश्च । अत्र जैनदर्शने स्वर्गकेवलार्थिना तपोध्यानादि कर्तव्यम् । सर्वे जीवा न हन्तव्या इति वचनात् । सततसमितिगुप्तिशुद्धा क्रिया । असम्पन्नो योग इति वचनात् । उत्पाद विगमध्रौव्ययुक्तं सत् । एक द्रव्यमनन्तपर्यायमर्थ इति । प्रत्यक्षपरोक्षे द्वे एव प्रमाणे । इति जैनमतस्य दिग्दर्शनमात्रम् ॥ [ उपभितिभवप्रपञ्चाख्यकथायाः ] निबन्धादर्शः १२-अगस्त्याश्रमवर्णन। तस्याश्च (विन्ध्याटव्याम्) दण्डकारण्यान्तःपाति, सकलभुवन- विख्यातम् , उत्पत्तिक्षेत्रमिव भगवतो धर्मस्य; सुरपति-प्रार्थना-पीत-सकल-सागर-सलिलस्य, मेरुमत्सरादम्बर- तल-प्रसारित-शिरः-सहस्रेण दिवसकर-रथ-गमन-पथमपनेतुमभ्युद्यतेन अवगणित-सकलसुर-वचसा विन्ध्यगिरणाऽप्यनुल्लविताज्ञस्य, जठरा- नल-जीर्ण-वातापिदानवस्य, सुरासुर-मुकुटमकरपत्र'कोटि-चुम्बित- चरण-रजसो-दक्षिणाशा-वधू-मुखविशेषकस्य, सुरलोकादेकहुङ्कारनि- पातित-नहुष-प्रकटप्रभावस्य भगवतो महामुनेरगस्त्यस्य भार्यया लोपा- मुद्रया स्वयमुपरचितालवालकै करपुट-सलिल-सेक-संवर्द्धितैः सुतनिर्वि- शेषैरुपशोभितं पादपैः; तत्पुत्रेण च गृहीतव्रतेनाषाढिना' पवित्र-भस्म-विरचितत्रिपुण्डका- भरणेन कुशचीवरवाससा मौञ्ज-मेखलाकलितमध्येन गृहीत-हरित- पर्ण-पुटेन प्रत्युटजमटता भिक्षां दृढदस्युनाम्ना पवित्रीकृतम् , अतिप्रभूतेध्माहरणाञ्च यस्येध्मवाह इति पिता द्वितीयं नाम चकार ; दिशि दिशि शुकहरितैश्च कदलीवनैः श्यामलीकृत-परिसरम , सरिता च कलसयोनि-परिपीत-सागर-मार्गानुगतयेव बद्ध-वेणिकया गोदाव- परिगतमाश्रमपदमासीत् । च दशरथवचनमनुपालयन्नुत्सृष्टराज्यो दशवदनलक्ष्मी- विभ्रम-विरामो रामो महामुनिमगस्त्यमनुचरन सह सीतया लक्ष्मणो- परचित रुचिर-पर्णशालः पञ्चवटयां कश्चित् कालं सुखमुवास । यत्र १. मकरपत्राणि स्वर्णनिर्मिता मकराकृतिपक्षाः। २. गृहीतव्रतेन ब्रह्मचर्यव्रतधारिणा | आषाढः पलाशदण्डोऽस्यास्तीति तेन । ३. भिक्षानस्थापनार्थ गृहीतं हरितपर्णनिर्मितं पुटकं येन तेन ।
यत्र ४६ निबन्धादर्शः चिरशून्येऽद्यापि शाखा-निलीन-निभृतपाण्डु-कपोतपङ्क्तयो लग्नतापसाग्निहोत्र-धूमराजय इव लक्ष्यन्ते तरवः। बलिकर्म कुसुमान्यु- द्धरन्त्याः सीतायाः करतलादिव संक्रान्तो यत्र रागः फुरति लताकिस- लयेषु । यत्र च पीतोद्गीर्ण-जलनिधि-जलमिव मुनिना निखिलमाश्र- मोपान्तवतिषु विभक्तं महादेषु । यत्र च दशरथ-सुत-निशित-शर- निकर-निपात-निहत-रजनीचर-बल-बहुल-रुधिर-सिक्त-मूलमद्यापि तद्रा- गाविद्धनिर्गत-पलाशमिवाभाति नवकिसलयमरण्यम् । अधुनापि यत्र जलधरसमये गम्भीरमभिनव-जलधर-निवह-निना- दमाकर्ण्य भगवतो रामस्य त्रिभुवन विवरव्यापिनश्चापघोषस्य स्मरन्तो न गृह्णन्ति शष्प-कवलमजस्रमश्रुजल-लुलित-दीन दृष्टयो वीक्ष्य शून्या' दश दिशो जराजर्जरितविषाणकोटयो जानकीसंवर्द्धिता जीर्णमृगाः। यस्मिन्ननवरतमृगया-निहत शेष-वनहरिण-प्रोत्साहित इव कृतसोवा- विप्रलम्भः कनकमृगो राघवमतिदूरं जहार। यत्र मैथिलीवियोगदुः- खदुःखितौ दशवदन-विनाश-पिशुनौ चन्द्रसूर्याविव कबन्ध प्रस्तौ समं रामलक्ष्मणौ त्रिभुवनभयं महच्चक्रतुः। अत्यायतश्च यस्मिन् दश- योजनबाहोर्बाहुरगस्त्यप्रसादनागतनहुषा. जगर-कायशङ्कामकरोषिजनस्य । जनकतनया च भ; विरहविनोद- नार्थमुटजाभ्यन्तरलिखिता यत्र रामनिवासदर्शनोत्सुका पुनरिव धर- णीतलादुल्लसन्ती वनचरैरद्याप्यालोक्यते ॥ [कादम्बाः]] रथ-सुत-शर निपातितो १. शून्या रामलक्ष्मणसीतारहिताः । २. कबन्धेन दनुकबन्धेन राहुणा च । ३. दनुकबन्धस्य।
निबन्धादर्शः १३–पम्पासरोवरवर्णनम् तस्य चैवंविधस्य सम्प्रत्यपि प्रकटोपलक्ष्यमाण-पूर्ववृत्तान्तस्याग- • स्त्याश्रमस्य नातिदूरे जलनिधि-पान-कुपित-वरुणोत्साहितेन अगस्त्यम- सरात्' तदाश्रमसमीपवर्त्यपर इव वेधसा महाजलनिधिरुत्पादितः, प्रलयकाल-विघटिताष्टदिग्भाग-सन्धिबन्धं गगनतलमिव भुवि निप- तितम् , आदिवराहसमुद्धृत-धरामण्डल स्थानमिव सलिलपूरितम् ; अनवरत-मजदुन्मद-शबरकामिनी-कुचकलसलुलितजलम् , उत्फु- ल्लकुमुदकुवलयकलारम् उन्निद्रारविन्दमधुविन्दुबद्धचन्द्रकम् , अलिकुल-पटलान्धकारित-सौगन्धिकम् , सारसित समदसारसम्, अम्बुरुह-मधुपान-मत्त-कलहंस-कामिनाकृत कोलाहलम् , अनेकजल- चर-पतङ्गशतसञ्चलन-चलित-वाचाल-वीचिमालम् , अनिलोल्लासित. कल्लोल-शिशिर-शीकरारब्धदुर्दिनम् ; अशङ्कितावताणाभिरम्भः-क्रोडारागिणाभिः स्नानसमये वनदेव. ताभिः के शाशकुसुमैः सुरभीकृतम् , एकदेशावतोर्ण मुनिजनापूर्य- माण-कमरडनु कल-जलव्यनि-मनोहरम् , उन्मिपदुत्पल-धन-मध्यचा- रिभिः सबरीया रसितानुमेयः कादम्बकदम्प के रासेवितम् , अभि. षेकावतोर्ण-पुलिन्दराज-सुन्दरी-कुचचन्दनधूलिधवलित-तरङ्गम् , उपा. न्त-जात-केतकी-रजःपटलबद्धकूल-पुलिनम् , आसन्नाश्रमागत-तापस- क्षालिताई वल्कलकषाय-पाटल-तट-जलम् , उपतट-विटपि-पल्लवपुटा- निलवीजितम् ; १. अगस्त्यं प्रति मत्सरात् । २. कुमुदानि श्वेतोत्पलानि, कुवलयानि नीलोत्पलानि, कहाराणि रक्तो- त्पलानि। ३. सारसिताः सशब्दाः। ४. कादम्ब कदम्बकैः कलहंसगणैः। ५. कगयनिर्यासैः।
लता-मण्ड- निबन्धादर्शः अविरल-तमाल-वीथिकान्धकारिताभिः, बालिनिर्वासितेन सञ्च- रता प्रतिदिनमृष्यमूकवासिना सुग्रीवेणावलुप्त-फल-लघुलताभिः, उद- वासि-तापसानां देवतार्चनोपयुक्त-कुसुमाभिः, उत्पतज्जलचर-पतङ्ग- पक्षपुट-विगलित-जलविन्दु-सेक-सुकुमार-किसलयाभिः, पतल-शिखण्डिमण्डलारब्ध ताण्डवाभिः, अनेक-कुसुम-परिमल-वाहि- नीभिर्वनदेवताभिः श्वासवासिताभिरिव वनराजिभिरुपद्धतीरम् ; अपरसागरशङ्किभिः सलिलमादातुमवतीर्णैर्जलधरैरिव बहलप- मलिनैर्वनकरिभिरनवरतमापीयमानसलिलम् , प्रतिमम् अपां निधानं पम्पाभिधानं पद्मसरः ।। [ कादम्बर्याः] अगाधमनन्तम- --- , १४–जावाल्याश्रमवर्णनम् अनतिदूरमिव गत्वा दिशि दिशि सदासन्निहित-कुसुमफलैः, ताल-तिलक-तमाल-हिन्ताल-वकुल-बहुलैः, एला-लताऽऽकुलित-नारिकेल- कलापैः, आलोल-लोध्र-लवली-लवङ्ग-पल्लवैः, उल्लसचूत-रेणु-पटलैः, अलि-कुल-झङ्कार मुखर-सहकारैः, उन्मद-कोकिल-कुल-कालालाप- कोलाहलिभिः, उत्फुल्लकेतकीकुसुममञ्जरीरजः-पुञ्जपिञ्जरैः, पूगीलता- दोलाधिरूढ़-वनदेवतैः, तारकावर्षमिवाधर्मविनाश-पिशुनं कुसुम- निकरमनिलचलि-तम-नवरतमतिधवलमुत्सृजद्भिः, संसक्तपादपैः, काननैरूपगूढम् ; अचकित प्रचलित-कृष्णसार-शत-शवलाभिः, उत्फुल्लस्थलकम- लिनी-लोहिनीभिः, मारीच मायामृगावलून-प्ररूढ-वीरुद्दलाभिः, दाश- रथि-चाप-कोटि-क्षत-कन्द-गर्त्त-विषमित-तलाभिः, दण्डकारण्यस्थली- भिरुपशोभितप्रान्तम् ;
१ निधन्धादशः श्रागृहीत-समित्कुश-कुसुम-मृद्भिः अध्ययन-मुखर-शिष्यानुगतैः सर्वतः प्रविशद्भिर्मुनिभिरशून्योपकण्ठम् ; उत्कण्ठित-शिखण्डि-मण्डल श्रूयमाण-जलकलस-पूरणध्वानम् ; । अनवरताज्याहुति प्रीतैश्चित्रभानुभि' सशरीरमेव मुनिजनममर- लोकं निनीषुभिः उद्धूयमान-धूम-लेखाच्छलेनाबध्यमान-स्वर्ग-मार्ग- गमन-सोपान-सेतुमिवोपलक्ष्यमाणम् ; आसन्नवर्तिनीभिः, तपोधनसम्पर्कादिवापगतकालुष्याभिः, तरङ्ग- परम्परासंक्रान्तरविबिम्बपङ्क्तिभिः तापसदर्शनागतसप्तर्षि-माला विगाह्यमानाभिरिव, अतिविकच-कुमुदवनमृषिजनमुपासितुमवतीर्ण- ग्रहगणमिव निशासूद्वहन्तीभिर्दीर्घिकाभिः परिवृतम् ; अनिलावनमित-शिखराभिः प्रणम्यमानमिव वनताभिः, अनवरत- मुक्तकुसुमैरभ्यर्च्यमानमिव पादपैः, आबद्धपल्लवाञ्जलिभिः उपास्य- मानमिव विटपैः; उटजाजिर-प्रकीर्णशुष्यच्छथामाकम् , उपसंगृहीतामलकलवली- लवङ्ग कर्कन्धू-कदली-लकुच-चूत-पनस-तालफलम् , अध्ययन-मुखर- बटुजनम्, अनवरत-श्रवण-गृहीत-वषट्कार-वाचालशुककुलम् , अनेक-सारिको ष्यमाण-सुब्रह्मण्यम् , अरण्यकुक्कुटोपभुज्यमान- वैश्वदेव-बलिपिण्डम् , आसन्नवापीकलहंस-पोत-भुज्यमान-नीवार- बलिम् , एणी-जिह्वा-पल्लवोपलिह्यमानमुनिबालकम् , अग्निकार्या- र्द्धदग्धसिमसिमायमान-कुशसमित्कुसुमम् , उपलभग्ननारिकेल-रस- स्निग्ध-शिलातलम् , अचिरतुण्णबल्कलरसपाटल-भूतलम् , रक्तच- न्दनोपलिप्तादित्यमण्डलनिहितकरवीरकुसुमम् , इतस्ततो विक्षिप्त- भस्मलेखालङ्कृतमुनिजनभोजनभूमिभागम् , परिचित-शाखा-मृग- कराकृष्ठ-यष्टिनिष्काश्यमानप्रवेश्यमानजरदन्धतापसम् ; १ दक्षिणाग्निगाहपत्याहवनीयरूपैरग्निभिः । ४ निः निबन्धादर्शः इभ-करभकाझैपभुक्तपतितैः सरस्वती-भुजलता-विगलितैः शङ्खव- लयैरिव मृणाल-शकलैः कल्माषितम्', ऋषिजनार्थमेणकैर्विषाण- शिखरोत्खन्यमानविविधकन्दमूलम् , अम्बुपूर्णपुष्करपुटैर्वनकरिभि- रापूर्यमाण-विटपालवालकम् , ऋषिकुमारकाकृष्यमाण-धनवराह-दंष्ट्रा- न्तराल-लग्नशालूकम् , उपजातपरिचयैः कलापिभिः पक्षपुटपवन- सन्धुक्ष्यमाण-मुनिहोम-हुताशनम् ; आरब्धामृत-चर-चारु-गन्धम् , अर्धपक्व-पुरोडाशपुण्यपरिम- लामोदितम्-अविच्छिन्नाज्यधाराहुति-हुतभुग्घुङ्कार-मुखरितम् , उपच- यंमाणातिथिवर्गम् , पूज्यमान-पितृ-दैवम् , अय॑मान-हरि-हर-पिता- महम् , उपदिश्यमान-श्राद्धकल्पम् , व्याख्यायमान-यज्ञविद्यम् , अालो- च्यमानधर्मशानम्-पठ्यमानविविधपुस्तकम् , विचार्यमाण-सकल- शास्त्रार्थम् ; प्रारभ्यमाणपर्णशालम् , उपलिप्यमानाजिरम् , उपमृज्यमानोट- जाभ्यन्तरम् ; श्रावध्यमानध्यानम् , साध्यमान-यन्त्रम् , अभ्यस्यमान- योगम् , उपह्रियमाणवनदेवताबलिम् , निर्वय॑मानमौञ्जमेखलम् , प्रक्षाल्यमान-वल्कलम् , उपसंगृह्यमाणसमिधम् , संस्क्रियमाण-कृष्णा- जिनम् गृह्यमाण-गवेधुकम् , शोष्यमाणपुष्करबीजम् , प्रध्यमानाक्ष मालम् , गृह्यमाणत्रिपुण्डूकम् , न्यस्यमान-वेत्रदण्डम् , आपूय॑माणक- मण्डलुम्; अदृष्टपूर्व कलिकालस्य, अपरिचितमनृतस्य, अश्रुतपूर्वमनङ्गस्य, अब्जयोनिमिव त्रिभुवनवन्दितम् , असुरारिमिव प्रकटितवराह-नरसिं- हरूपम् , सांख्यमिव कपिलाधिष्ठितम् , मथुरोपवनमिव बलावलीढ- १ कल्माषितम् = विचित्रीकृतम् ।। २ अमृतचः - धृतसंयुक्तचरुः ।
, निबन्धादर्शः हर्षित-धेनुकम्', उदयनमिवानन्दितवत्सकुलम् , किम्पुरुषाधिराज्यमिव मुनिजन-गृहीत-कलसाभिषिच्यमानद्रुमम्', निदाघसमयावसानमिव आसन्न-जलप्रपातम् , जलधरसमयमिव वन-गहन-मध्य-सुख-सुप्त- हरिम् , हनूमन्तमिव शिलाशकल-प्रहार-सञ्चूर्णिताक्षास्थि-सञ्चयम्, खाण्डवविनाशोद्यतार्जुनमिव प्रारब्धाग्निकार्यम् ; सुरभि-विलेपन धरमपि सतताविर्भूतधूमगन्धम् , मातङ्ग-कुला"- ध्यासितमपि पवित्रम् , उल्लसित-धूमकेतु-शतमपि प्रशान्तोपद्रवम्- परिपूर्ण-द्विजपति मण्डलसनाथमपि सदासन्निहित-तरुगहना- न्धकारम्; अतिरमणीयमपरमिव ब्रह्मलोकमाश्रममपश्यम् । यत्र च मलिनता हविधूमेषु न चरितेषु, मुखरागः शुकेषु न कोपेषु, तीक्ष्णता कुशाग्रेषु न स्वभावेषु, चञ्चलता कदलीदलेषु न मनासु, चक्षुरागः कोकिलेषु न परकलत्रेषु, कण्ठग्रहः कमण्डलुषु न सुरतेषु, मेखलाबन्धो व्रतेषु नेाकलहेषु, स्तनस्पर्शो होमधेनुषु न वनितासु, १ धेनवो नवप्रसूता गावः, धेनुको धेनुकनामासुरः । धेनुकासुरः कृष्णेन हत इति भागवतम् । २ दुमा वृक्षाः, द्रुमो नाम राजा च । पुरा किल मुनिभिः किन्नरराज्ये दुमोड- भिषिक्त इति श्रूयते । ३ अक्षाणां विभीतकफलानाम् , अस्थिसञ्चयो मध्यवर्ती कठिनांशः । अक्षस्य अक्षनामकराक्षसपुत्रस्य अस्थिसञ्चयश्च । ४ सुरभि सुगन्धि विलेपनमङ्गरागयोग्यं चन्दनादिकम् । सुरभेोः विलेपनं गोमयं च । ५ मातङ्गकुलेन चण्डालसमूहेन च । ६ द्विजपतिः = चन्द्रो ब्राह्मणश्च । ७ मेखलाबन्धः - मौजीबन्धनं खङ्गमुष्टिधारणं च ।
निबन्धादर्शः पक्षपातः कृकवाकुषु न विद्याविवादेषु भ्रान्तिरनलप्रदक्षिणेषु न शास्त्रेषु, वसुसङ्कीर्तनं दिव्यकथासु न तृष्णासु, गणना रुद्राक्षवलयेषु न शरीरेषु, मुनिबालनाशः' क्रतुदीक्षया न मृत्युना, रामानुरागो रामा- यणेन न यौवनेन, मुखभङ्ग-विकारो जरया न धनाभिमानेन । यत्र च महाभारते शकुनिवधः, पुराणे वायुप्रलपितम् , वय परि- णामे द्विजपतनम् , उपवनचन्दनेषु जाड्यम् , अग्नीनां भूतमत्त्वम् , एणकानां गीत-श्रवणव्यसनम् . शिखण्डिनां नृत्यपक्षपातः, भुजङ्गमानां भोगः२, कपीनां श्रीफलाभिलाषः, मूलानामधोगतिः । [ कादम्बर्याः] ----- १५-सन्ध्या-वर्णनम् अनेन च समयेन परिणतो दिवसः। स्नानोत्थितेन मुनिजनेना- विधिमुपपादयता यः क्षितितले दत्तः तमम्बरतलगतः साक्षादिव रक्तचन्दनाङ्गरागं रविरुदवहत् । ऊर्ध्वमुखैरर्कबिम्व-विनिहितदृष्टि- भिरूष्मपैस्तपोधनैरिव परिपीयमान-तेजःप्रसरोविरलातपस्तनिमानम- भजत्। उद्यत्सप्तर्षि-सार्थ-परिजिहीर्षयेव संहृतपादः पारावत-पाद. पाटल-रागो रविरम्बरतलादलम्बत । आलोहितांशुजालं जलशयन- मध्यगतस्य मधुरिपोर्विगलन्मधुधारमिव नाभिनलिनं प्रतिमागतम- १ बालनाशः = केशादिच्छेदनं शिशुमृत्युश्च । २ भोगः शरीरं सकचन्दनादिसंभोगश्च ! ३ जगत्पूज्यानां सप्तर्षीणां चरणेन (किरणैः) स्पों न' भवे. दिति भावः। ४ पाद: किरणश्चरणश्च ।
५३ निबन्धादर्शः परार्णवे सूर्यमण्डलमलक्ष्यत । विहाय धरातलमुन्मुच्य च कमलिनी- वनानि शकुनय इव दिवसावसाने तरुशिखरेषु पर्वताग्रेषु च रवि. किरणाः स्थितिमकुर्वत । आलग्नलोहितातपच्छेदा मुनिभिरालम्बित- लोहित-वल्कला इवाश्रमतरवः क्षणमदृश्यन्त । अस्तमुपगते च भगवति सहस्रदीधितावपरार्णव-तटात् उल्लसन्ती विद्रुमलतेव पाटला सन्ध्या समदृश्यत । यस्यामाबध्यमानध्यानम् , एकदेश-दुह्यमान-होमधेनु-दुग्धधाराध्वनि-मनोहरम् , अग्निहोत्रवेदि- विप्रकीर्यमाण-हरित्कुशम्', ऋषिकुमारिकाभिरितस्ततो विक्षिप्य- माण-दिग्देवतार्चन-बलिसिकथक'माश्रमपदमभवत् । क्वापि विहत्य दिवावसाने लोहिततारकातपोवनधेनुरिव कपिला परिवर्त्तमाना सन्ध्या मुदितैस्तपोधनैरदृश्यत । अचिरप्रोषिते च सवितरि शोकवि धुरा कमल-मुकुल कमण्डलु-धारिणी हंस-सितदुकूल-परिधाना मृणाल- धवल-यज्ञोपवीतिनी कधुकर-मण्डलाक्षवलयमुद्वहन्ती कमलिनी दिनपति-समागमत्रतमिवाचरत् । अपरसागराम्भसि पतिते दिवसकरे तत्पतन-वेगोत्थितमम्भः सीकरनिकरमिव तारागणमम्बरमधारयत् । अचिराञ्च सिद्धकन्यका- विक्षिप्त-सन्ध्यार्चन-कुसुमशबलमिव तारकितं वियदराजत । क्षणेन चोन्मुखेन मुनिजनेनोर्ध्व-विप्रकीर्णैः प्रणामाञ्जलिसलिलैः प्रक्षाल्य- मान इवागलदखिलः सन्ध्यारागः । तयमुपगतायाश्च सन्ध्यायां तद्विनाश-दुःखिता कृष्णाजिनमिव विभावरी तिमिरोद्गममभिनवमवहत् । अपहाय मुनिहृदयानि सर्व मन्यदन्धकारतां तिमिरमनयत् । . १ कुशानां निक्षेपो होमीयास्तरणार्थम् । २ बलिसिक्थः उपहाररूपमनम्।
निबन्धादर्श क्रमेण च रविरस्तंगत इत्युदन्तमुपलभ्य यातवैराग्यो धौतदुकूल- वल्कल-धवलाम्बरः सतारान्तःपुरः२, पर्य्यन्तस्थिततनु-तिमिरतमाल- वनलेखम् , सप्तर्षिमण्डलाध्युषितम् , अरुन्धतीसञ्चरण-पवित्रम् , उप- हिताषाढम्, आलक्ष्यमाणमूलम् , एकान्तस्थित चारु-तारकमृगम्, अमरलोकाश्रममिव गगनतलममृतदीधितिरध्यतिष्ठत् । चन्द्राभरण- भृतस्वतारका-कपाल-शकलालङ्कृतादम्बरतलात् त्र्यम्बकोत्तमाङ्गादिव गङ्गा सागरमापूरयन्ती हंस-धवला धरण्यामपतज्ज्योत्स्ना। हिमकर- सरसि विकच-पुडरीक-सिते चन्द्रिकाजलपान-लोभादवतीर्णो निश्चल- मूर्तिरमृतपङ्क-लग्न इवादृश्यत हरिणः । तिमिर-जलधर-समयाप गमानन्तरम् अभिनव-सित-सिन्दुवार-कुसुम-पाण्डुरैरर्णवागतै रगाह्य न्त हंसैरिव कुमुद-सरांसि चन्द्रपादैः। विगलितसकलोदयरागं रज निकर-बिम्बमम्बरापगावगाह-धौत- सिन्दूरमैरावतकुम्भस्थलमिवतत्क्ष- रणमलक्ष्यत । [ कादम्बर्याः] १ वैराग्यं वैतृष्ण्यं विशिष्टो रागश्च । २ सतारं सज्योतिरन्तः पुरं हृदयमध्यं स: । पक्षे तारा नक्षत्राण्येवान्तः पुराणि तैः सह। ३ आषाढा दण्डाः । आषाढे पूर्वाषाढोत्तराषाढे नक्षत्रे च । ४ अर्णवेभ्यः सागरेभ्य आगतैः । पक्षे समुद्रानपि प्राप्तः ।
निबन्धादर्शः ५५ १६-उज्जयिनी-वर्णनम् अस्ति सकल-त्रिभुवन-ललामभूता, प्रसवभूमिरिव कृतयुगस्य, आत्मनिवासोचिता भगवता महाकालाभिधानेन भुवनत्रय-सर्ग-स्थिति- संहार-कारणेन प्रमथनाथे'नापरेव पृथिवी समुत्पादिता, द्वितीय- पृथिवी-शङ्कया च जलनिधिनेव रसातलगभीरेण परिखा-वलयेन परिवृता, पशुपति-निवास-प्रीत्या च गगन-परिसरोल्लेखि-शिखरमालेन कैलासगिरिणेव सुधासितेन प्राकारमण्डलेन परिगता, प्रकट-शङ्ख- शुक्ति-मुक्ता-प्रवाल-मरकतमणिराशिभिश्चामीकर - चूर्ण-सिकता-निकर- निचितैरायामिभिरगस्त्य-परिपीत-सलिलैः सागरैरिव महाविपणिपथै- रुपशोभिता, सुरासुर-सिद्ध गन्धर्व विद्याधरोरगाध्यासिताभिश्चित्रमा- लाभिरनवरतोत्सवावलोकनकुतूहलादम्बरतलादवतीर्णाभिर्दिव्यविभा नपङ्क्तिभिरिवालङ्कृता, मथनोद्धत दुग्ध-धवलित-मन्दरद्युतिभिः कनकमयामलकलशशिखरैरनिल-दोलायित - सितध्वजैरुपरि-पतदभ्रग डैरिव तुषारगिरिशिखरैरमरमन्दिरैविराजितझंगाटका', सुधावेदिकोपशोभितोदपानैर नवरत-चलित-जल - घटी - यन्त्रसि च्यमान हरितोपवनान्धकारैः केतकी-धूलि-धूसरैरुपशल्यकै रुपशो- भिता, मद मुखर-मधुकर-पटलान्धकारितनिष्कुटा, स्फुरदुपवन-लता- कुसुमपरिमल-सुरभि-समीरणा; रणित - सौभाग्यघण्टैरालोहिताशुकपताकैराबद्ध-रक्तचामरैर्विद्रुम- - १ गणाधीश्वरेण शंकरण । २ उद्धृतैरुस्थितैः ३ 'शृङ्गाटकचतुष्पथे' इत्यमरः । ४ उदपान कूपः। ५ 'ग्रामान्त उपशल्यं स्यात्' इत्यमरः। ६ निष्कुटो गृहारामः।
५६ निबन्धादर्श मयः प्रतिभवनमुच्छ्रितैर्मकराङ्कितैः मदन-यष्टिकेतुभिः प्रकाशितमकर- ध्वज-पूजा, सततप्रवृत्ताध्ययनध्वनि-धौत-कल्मषा, स्तिमितमुरज-रव- गम्भीर-गर्जितेषु सलिलसीकरा'सार-रचितदुर्दिनेषु पर्यस्तरविकिरण- रचित-सुर चाप-चारुषु धारागृहेषु मत्त-मयूर-मण्डलैमण्डलीकृतशिख. ण्डैस्ताण्डवव्यसनिभिराबध्यमानकेकारवकोलाहला, विकच-कुव- लय-कान्तैरुत्फुल्लकुमुद -धवलोदरैरनिमिष-दर्शनरमणीयैराखण्डल- लोचनैरिव सहस्रसंख्यैरुद्भासिता सरोभिः, अविरल-कदली-वन-कलि- ताभिरमृत-फेनपुञ्ज-पाण्डुराभिर्दिशि दिशि दन्तवलभिकाभिर्धवली- कृता, यौवन-मदमत्त-मालवीकुच-कलश-तुभित-सलिलया भगवतो महाकालस्य शिरसि सुरसरितमालोक्य समुपजातेय॑येव सततमाबद्ध- तरङ्गभ्रुकुटीलेखया खमिव क्षालयन्त्या शिप्रया परिक्षिप्ता; सकल-भुवन-ख्यात-यशसा हरजदा-चन्द्रणेव कोटिसारेण, मैना- केने वाविदित-पक्षपातेन, मन्दाकिनी-प्रवाहेणेव प्रकट तिकनक-पद्मरा- शिना, स्मृतिशास्त्रेणेव सभावसथ-कूप-प्रपारामसुरसदन-सेतु-यन्त्र प्रव- तकेन, मन्दरेणेवोधृतसमस्तसागर-रत्नसारेण-संगृहीत-गारुडेनापि' भुजङ्ग भीरुणा, खलो पजीविनापि प्रणयिजनोपजीव्यमानविभवेन, १ सलिलसीकराणां जलयन्त्रनिःसृतजलबिन्दूनाम् । २ कुवलयैर्नीलोत्पलैः। ३. कुमुदैः श्वेतोत्पलैः। ४ कदलीनां पताकानां बनेन समूहेन कलिताभिराकीर्णाभिः । ५ गजदन्तनिर्मिताभिश्चन्द्रशालाभिरुपरिगतक्षुद्रग्रहैरित्यर्थः । ६ पुरा किल इन्द्रद्वारा सकलपर्वतानां पक्षच्छेदकाले हिमालयपुत्रो मैनाकः पलायमानः समुद्रेऽमज्दिति पौराणिकी वार्ता । ७ गारुडं विषचिकित्साशास्त्रं मरकतमणिश्च । ८ 'भुजङ्गः पिङ्गसर्पयाः ।' इति कोशः। ६ खलो दुर्जनो नवीनधान्यस्थापनास्थलं च ।
মিলনামা वीरेणापि विनयवता, प्रियंवदेनापि सत्यवादिना, अभिरूपेणापि स्वदारसन्तुष्टेन, अतिथिजनाभ्यागमार्थिनापि परप्रार्थनानभिज्ञेन, कामार्थपरेणापि धर्मप्रधानेन, महासत्त्वेनापि परलोक भीरुणा, सकलविज्ञान-विशेषविदा, वदान्येन, दक्षेण, स्मितपूर्वाभिभाषिणा, परिहास-पेशलेन, उज्ज्वलवेशेन, शिक्षिताशेषदेशभाषेण-वक्रोक्तिनिपु- णेन, आख्यायिकाख्यान-परिचयचतुरेण, सर्वलिपिज्ञेन, महाभारत- पुराणरामायणानुरागिणा, बृहत्कथा-कुशलेन, द्यूतादि-कला-कलाप- पारगेण, श्रुतरागिणा, सुभाषितव्यसनिना, प्रशान्तेन, सुरभिमास- मारुतेनेव सततदक्षिणेन हिमगिरिकाननेनेवान्तःसरलेन, लक्ष्मणेनेव रामाराधन-निपुणेन, शत्रुनेनेवाविष्कृतभरत-परिचयेन, दिवसेनेव मित्रानुवर्तिना, बौद्धेनेव सर्वास्तिवाद-शूरेण सांख्यागमेनेव प्रधान- पुरुषो पेतेन, जिनधर्मेणेव जीवानु कम्पिना, विलासिजनेनाधिष्ठिता; सशैलेव प्रासादः, सशाखानगरेव महाभवनैः, सकल्पवृक्षेव सत्पु- दर्शित-विश्वरूपेव चित्रभित्तिभिः, सन्ध्येव पद्मरागानुरागिणी', अमराधिप-मूर्तिरिव मखशतानलधूम - पूता, पशुपति • लास्यक्रीडेव सुधाधवलाट्टहासा, वृद्धव जातरूपक्षया', गरुडमूतिरिवाच्युतस्थिति- १ परलोकः शत्रुजनो जन्मान्तरं च । २ सततोदारचित्तेन, सर्वदा दक्षिणदिश आगतेन च । ३ भारतः केकयीपुत्रः, भरतमुनिप्रणीतं नाट्यशास्त्रं च । ४ सर्वे पदार्था बाह्या आभ्यन्तराश्च वस्तुतो विद्यन्तेइत्येष हि बौदेषु केषाञ्चिद् वादिनां सिद्धान्तः। उजयिन्यामपि केतुः प्रश्नावसरे सर्वेषां विक्रेयवस्तूनामस्ति, याद आसीत् । ५ प्रधानपुरुषैः श्रेष्ठमानवैः, प्रधानेन प्रकृत्या पुरुषेण च । ६ अनुरागो रक्तिमा। ७ अहानामट्टालिकानां हासः प्रकाशः। अट्टहासो महाहास्यं च । ८ क्षया गृहाणि, क्षयो विनाशश्च । रुषः, निबन्धादा रमणीया, प्रभातवेलेव प्रबुद्धसर्वलोका, शबर-वसतिरिवावलम्बित- चारुचामरनागदन्त-धवलगृहा, शेषतनुरिव सदासन्नवसुधाधरा, जलधिमथनवेलेव महाघोषपूरितदिगन्तरा, प्रस्तुताभिषेकभूमिरिव सन्निहितकनकघटसहस्रा, गौरीव महासिंहासनोचितमूर्तिः अदिति- रिव देवकुल-सहस्रसेव्या, महावराहलीलेव दर्शितहिरण्याक्षपाता, अस्तीकतनुरिव आनन्दितभुजङ्गलोका', हरिवंशकथेव अनेक-बाल- क्रीडारमणीया, प्रकटाङ्गनोपभोगाप्यखण्डितचरित्रा, रक्तवर्णापि' सुधाधवला, अवलम्बित-मुक्ता-कलापापि विहार भूषणा, बहुप्रकृति- रपि स्थिरा, विजितामरलोकातिरवन्तीपूजयिनी नाम नगरी। यस्यामुत्तुङ्ग-सौधोत्सङ्ग-सङ्गीतसङ्गिनीनाम् अङ्गनानामतिमधुरेण गीतरवेणाकृष्यमाणाधोमुख-रथतुरङ्गः पुरःपर्यस्त-रथपताका-पट- कृतमहाकाल-प्रणाम इव प्रतिदिनं लक्ष्यते गच्छन् दिवसकरः । यस्याश्च सन्ध्यारागारुणा इव सिन्दूरमणिकुट्टिमेषु, प्रारब्धनील कमलिनीपरिमण्डला इव मरकत-वेदिकासु, गगनतलप्रसृता इव वैदू. य॑मणिभूमिषु, तिमिर-पटल-विघटनोद्यता इव कृष्णागुरु-धूम-मण्ड- लेषु, अभिभूत-तारकापङ्क्तय इव मुक्ताप्रलम्वेषु विकच-कमल- चुम्बिन इव नितम्बिनी-मुखेषु, प्रभातचन्द्रिका-मध्यपतिता इव स्फटि- कभित्ति-प्रभासु, गगनसिन्धु-तरङ्गावलम्बिन इव सितपताकांशुकेषु, पल्लविता इव सूर्यकान्तोपलेषु, राहुमुखकुहरप्रविष्टा इवेन्द्रनीलवाता- यनविवरेषु विराजन्ते रविगभस्तयः। १ भुजङ्गलोको विटजनः सर्पगणश्च । पुरा किल भगवानास्तीकः सर्पकुलवि नाशोद्यतं जनमेजयस्य सर्पसत्रं प्रार्थनया निवारितवानिति महाभारतकथा त्रानुसंधेया। २ रक्तवर्णा, अनुरक्तब्राह्मणादिवर्णा च । ३ विगतहाराणि भूषणानि बौद्धालयाश्च । ४ लम्बमानमुक्ताकलापेषु । .
निबन्धादर्शः यस्याश्चानुपजात-तिमिरत्वादविघटितचक्रवाकमिथुना व्यर्थीकृत- सुरतप्रदीपाः सञ्जातमदनानलदिग्दाहा इव यान्ति कामिनीनां भूषण- प्रभाभिर्बालातपपिञ्जरा इव रजन्यः । याश्च सन्निहित-विषमलोचनामनवरतमतिमधुरो रतिप्रलाप इव प्रसर्पन मुखरीकरोति मकरकेतु-दाह-हेतुभूतो भवन-कलहंसकोलाहलः। यस्याञ्च निशि निशि पवनविलोलैः दुकूलपल्लवै रुल्लसद्भिर्मा- लवी-मुख-कमल-कान्ति-लजितस्येन्दोः कलङ्कमिवापन-यन्तो दूरप्रसा- रितध्वजभुजाः प्रासादाः लक्ष्यन्ते । यस्याश्च सौध शिखर-शायिनीनां पश्यन् मुखानि पुरसुन्दरीणां मदनपरवश इव पतितः प्रतिमाच्छलेन लुठति बहल चन्दन-जल-सेक- शिशिरेषु मणिकुट्टिमेषु मृगलाञ्छनः । यस्याश्च निशावसाने प्रबुद्धस्य तारतरमपि पठतः पञ्जरभाजः शुकसारिकासमूहस्याभिभूतगृहसारस-स्वरामृतेन विस्तारिणा विला- सिनी-भूषणरवेणाविर्भाब्यमानाः व्यर्थीभवन्ति प्रभात-मङ्गलगीतयः । यस्याश्चानिवृत्तिः मणिदीपानाम्, तरलता हारलतानाम् , अस्थि- तिः सङ्गीतमुरजध्वनीनाम् , द्वन्द्ववियोग श्चक्रनाम्नाम् , वर्णपरीक्षा कनकानाम् , अस्थिरत्वं ध्वजानाम् , मित्रद्वेषः कुमुदानाम् , कोषगुप्ति- रसीनाम् । किं बहुना, यस्यां सुरासुर-चूडामणि-मरीचिचयचुम्बितचरणन- खमयूखो निशित-त्रिशूल-दारितान्धकमहासुरः, गौरी नूपुर-कोटि- घृष्टशेखर-चन्द्रशकलः, त्रिपुरभस्म-रजःकृताङ्गरागः, मकरध्वज-ध्वंस विधुरया रत्या प्रसादयन्त्या प्रसारित-कर युगल-विगलित-वलय-निक- १ विस्तृतपताकापटैः। २ अनिर्वाणता, विषयेभ्योऽनुपरमश्च । ३ दम्पतीविरहः ।
निबन्धावती रार्चितधरणा, प्रलयानल-शिखा कलाप कपिल-जटाभार-भ्रान्त- सुरसिन्धुः, अन्धकारिभगवान् उत्सृष्ट-कैलास-वास-प्रीतिर्महाकाला- भिधानः स्वयं प्रतिवसति । [कदम्बर्याः] १७-प्रभातवर्णनम् एकदा' तु प्रभातसन्ध्यारागलोहिते गगने च कमलिनी मधुरक्त- पक्षसम्पुटे वृद्धहंस इव मन्दाकिनीपुलिनादपर-जलनिधि-तटमवतरति चन्द्रमसि, परिणत-रङ्कु-रोमपण्डुनि व्रजति विशालतामाशाचक्रवाले, गजरुधिररक्तहरिसटालोहिनीभिः प्रतप्त-लाक्षिक-तन्तु-पाटलाभि- रायामिनीभिः अशिशिरकिरणदीधितिभिः पद्मरागशलाकासम्माज- नीभिरिव समुत्सार्यमाणे गगनकुट्टिमकुसुमप्रकरे तारागणे, सन्ध्या- मुपासितुमुत्तराशावलम्बिनि मानससरतीरमिवावतरति सप्तर्षिमण्डले, तटगत-विघटित शुक्ति सम्पुट-विप्रकीर्णमरुणकरप्रेरणाधो गलित मुडुगणमिव मुक्ताफलनिकरमुद्वहति धवलितपुलिनमुदन्वति पूर्वतरे, तुषारबिन्दुवर्षिणि विबुद्धशिखिकुले विजृम्भमाणकेसरिणि करि- णीकदम्बक-प्रबोध्यमान-समदकरिणि क्षपाजल-जड-केसरं कुसुम- निकरमुदयगिरिशिखरस्थितं सवितारमिवोद्दिश्य पल्लवाञ्जलिभिः समुत्सृजति कानने, रासभरोमधूसरासु वनदेवताप्रासादानां तरूणां शिखरेषु पारा- वतनालायमानासु धर्मपताकास्विव समुन्मिषन्तीषु तपोवनाग्निहोत्र- धूम्रलेखासु, १ प्रसङ्गनिर्देशः-वैशम्पायननामा शुका बकस्य राशः पुरस्तात् स्ववृत्तान्त- वर्णनप्रसङ्ग शबरमृगयामुपर्णयन् प्रभातकालं वर्णयति ।
निवन्धादशः अवश्यायशीकरिणि लुलितकमलवने रति-खिन्नशबरसीमन्तिनी- स्वेदजलकणापहारिणि वनमहिष-रोमन्थ फेनबिन्दुवाहिनि चलित- पल्लव-लता लास्योपदेशव्यसनिनि विघटमान-कमलखण्ड-मधुशीक- रासार-वर्षिणि कुसुमामोदर्पितालिजाले निशावसानजातजडिम्नि मन्दमन्दसञ्चारिणि प्रवाति प्राभातिके मितरिश्वनि, कमलवन-प्रबोध-मङ्गालपाठकानाम् इभगण्डडिण्डिमानां मधु. लिहां कुमुदोदरेषु घटमान-दलपुट-निरुद्धपक्षसंहतीनामुच्चरत्सु हुङ्कारेषु, प्रभातशिशिरमारुताहतमुत्तप्तजतुरसाश्लिष्टपदममालमिव सशेष. निद्राजिमिततारं चक्षुरुन्मीलयत्सु शनैः शनैरूषरशय्याधूसर-क्रोड. रोमराजिषु वनमृगेषु, इतस्ततः सञ्चरत्सु वनचरेषु विजृम्भमाणे श्रोत्रहारिणि पम्पासरः- कलहंसकोलाहले, समुल्लसति नर्तितशिखण्डिमण्डले मनोहरे वनगजकर्णतालशब्दे, क्रमेण च गगनतलमवतरतो दिवसकरवारणस्यावचूल'चामरक- लाप इवोपलक्ष्यमाणे मञ्जिष्ठारागलोहिते किरणजाले, शनैः शनैरुदिते भगवति सवितरि, पम्पासरःपर्यन्ततरुशिखर- सञ्चारिणि अध्यासितगिरिशिखरे दिवसकरजन्मनि हृततारे पुनरिव कपीश्वरे वनमभिपतति बालातपे, स्पष्टे जाते प्रत्यूषसि, न चिरादिव दिवसाष्टमभागभाजि स्पष्ट- भासि भास्वति भूते' प्रयातेषु यथाभिमतानि दिगन्तराणि शुककुलेपु, कुलायनिलीन- निभृत-शुकशावकसनाथेऽपि निःशब्दतया शून्य इव तस्मिन् वनस्पती, स्वनीडावस्थित एव ताते, मयि च शैशवादसञ्जातबले समुद्भिद्यमान १ अबचूलोऽवनताग्रभागः। २ सुग्रीवे । तस्य सूर्याजन्मन उपाख्यानं रामायणे द्रष्टव्यम् । ३ मयि च वैशम्पायनानामके शुके । १९ ६२ निबन्धादर्शः पक्षपुटे तातसमीपवर्तिनि कोटरगते, सहसैव तस्मिन् महावने संत्रासितसकलवनचरः सरभससमुत्पतत्पत्रिपक्षपुटसन्ततः भीतकरिपो- तचीत्कारपीवरम्प्रचलित मत्तालिकुल क्वणितमांसलःपरिभ्रमदुद्घोण. वन-रव-घर्घरः गिरिगुहा सुप्त-प्रबुद्धसिंहनादोपबृंहितः कम्पयन्निव तरून भगीरथावताय॑माण-गङ्गाप्रवाह-कलकल बहलो भीतवनदेवता. कर्णितो मृगयाकोलाहलध्वनिरुदचरत् । [कादम्बर्याः] -- १८-आर्यावर्त्तवर्णनम् अस्ति समस्त विश्वम्भराभोगभास्वल्ललामलीलायमानः, समानः सेव्यतया नाकलोकस्य, ग्राम्यकविकथाबन्ध इव नीरसस्यमनोहरः, भीम इव भारतालङ्कारभूतः, कान्ताकुचमण्डलस्पर्श इवाप्रणीः सर्व- विषयाणाम् , अनधीतव्याकरण इवादृष्टप्रकृतिनिपातोसर्ग'लोपवर्ण- , विकारः, पशुपतिजटाबन्ध इव विकसितकनककमलकुवलयोच्छलितरजः पुञ्जपिञ्जरितहंसावतंसया प्रचुरचलञ्चकोरचक्रवाककारण्डवमण्डली. मण्डिततीरया भगीरथभूपालकीर्तिपताकया स्वर्गगमनसोपानवीथीय. मानरिङ्गत्तरगया गङ्गया पुण्यसलिलैः प्लावितश्चन्द्रभागा'लंकृतक- देशश्च, सारः सकलसंसारचक्रस्य, शरण्यः पुण्यकारिणाम् , आरामो रामणीयककदलीवनस्य, धाम धर्मस्य, प्रास्पदं सम्पदाम् , अाश्रयः १ उपसर्गोधनापहारादिरुपद्रवः । उपसर्गाः प्रादयः । २ चन्द्रभागया नद्या चन्द्रखण्डेन च ।
निबन्धादर्शः श्रेयसाम् , अाकरः साधुव्यवहाररत्नानाम् , आचार्यभवनमार्यमर्या- दोपदेशानामार्यावर्तो नाम देशः। यस्मिन्ननवरतधर्मकर्मोपदेशशान्तसमस्तव्याधिव्यतिकराः पुरुषायु- षजीविन्यः सकलसंसारसुखभाजःप्रजाः, तथा हि कुष्ठयोगो गान्धिका- पणेषु, स्फोटप्रवादो वैयाकरणेषु, सन्निपातस्तालेषु ग्रहसंक्रान्तिः' र्योतिःशास्त्रेषु, भूतविकारवादः सांख्येषु, क्षयस्तिथिषु, गुल्मवृद्धिर्वन- भूमिषु गलग्रहो मत्स्येषु, गण्डकोत्थानं पर्वतवनभूमिषु, शूलसम्बन्ध- श्चण्डिकायतनेषु दृश्यते न प्रजासु । यत्र च' तुरगोपशोभिताः सङ्ग्रामा इव ग्रामाः, तुङ्गसकलभ- वनाः सर्वत्र नगा इव नगरप्रदेशाः, सदाचरणमण्डनानि नू पुराणीव पुराणि, सदानभोगाः प्रभञ्जना इव जनाः, प्रियालपनसाराणि" यौवनानीव वनानि, विटपिहिताश्चेटिका इव वाटिकाः, निवृति' स्थानानि सुकलत्राणीवेक्षुक्षेत्रसत्राणि', जलाविलक्षणा:९ पशुपुरुषा इवाप्रमाणास्तडागभागाः, कुपितकपिकुलाकुलिता लङ्केश्वरकिङ्करा इव १ ग्रहाणां सूर्यादीनां मेषादिराशी संक्रान्तिः । ग्रहो बन्धनं तस्य संक्रान्तिश्च । २ संग्रामपक्षेच' इति छेदनीयम् । ३ नगपक्षे-तुङ्गैः पुंनागैरुपलक्षितं, कलभरिभडिम्भैश्च सहितं वनं यत्र । ४ वायुपश्च-सर्वदा नभो-गाः इत्यर्थः । ५ वनपक्षे-प्रियालं राजादनं पनसंच इयर्ति प्राप्नुवन्तीत्यर्थः । ६ विटपिभ्यो हिताः, विटः पिहिता वेष्टिताश्च । ७ निर्वृतिः सुखं, वृतेरभावश्च । ८ सत्राणि दानशालाः। ६ तडागभागाः-जलाविला जलार्थिभिः सदा स्व्यतया जलपिच्छिला: क्षणाः अवतारादितीरप्रदेशा यत्र । पशुपुरुषास्तु जडा विलक्षणा व्यपेतशास्त्राः। यद्वा अवि-लक्षणाः। .
६४ निबन्धादर्श भग्नकुम्भकर्णघनस्वापाः' कूपाः, पीबरोधसः सरित श्व गावा, सती- प्रतापदोषाः सूर्यद्युतय इव कुलस्त्रियः। यत्र च मनोहारिसारद्वन्द्वा स्तत्पुरुषेण द्विगुना चाधिष्ठिताः कादम्बरीगद्यबन्धा दृश्यमानबहुव्रीहयः केदाराः। किं बहुना। नास्ति सा नगरी यत्र न वापी न पयोधरा । दृश्यन्ते न च यत्र स्त्री नवापीनपयोधरा ।। अपि च भवन्ति फाल्गुने मासि वृक्षशाखा विपल्लवाः। जायन्ते न तु लोकस्य कदापि च विपल्लवाः ॥ यत्र सौराज्यरञ्जितमनसः सकलसमृद्धिवर्द्धितमहोत्सवपरम्परार- म्भनिर्भराः, सततमकुलीनं कुलीनाः, प्राप्तविमानमप्राप्तविमानभङ्गाः, कतिपयवसुविराजितमनेकवसवः, समुपहसन्ति स्वर्गवासिनं जनं जनाः। कथं चासौ स्वर्गान्न विशिष्यते । यत्र गृहे गृहे गौर्यः स्त्रियः महेश्वरो लोकः, सश्रीका हरयः, पदे पदे धनदाः सन्ति लोकपालाः। केवलं न सुराधिपो राजा । न च विना. यकः कश्चित् । १ कूपपक्षे-स्फुटितघटकण्ठाः, घनाः प्रचुराः स्वाः आपः येषु । २ सारसद्वन्द्वाः, सार-सद्वन्द्वाः इति च च्छेदः । ३ पय-प्रधाना भूमिः। ४ कुलीना अभिजाताः । पक्षे कुः पृथ्वी तस्यां लीनाः । ५ विमानः तिरस्कारः। ६ वसवोऽष्टौ। ७ वसु धनम् । ८ सुराधिप इन्द्रः । पक्षे-धिपिबतोति अधिपः। सुराया अधिपः सुराधिपः ।
. निबन्धादर्शः यत्र च लतासम्बन्धः कलिकोपक्रमश्च पादपेषु दृश्यते न पुरुषेषु । यत्र चमरक वार्ता परमहिमोरेपघातश्च तुहिनाचलस्थलीषु श्रूयते न प्रजासु। यश्च नीतिमत्पुरुषाधिष्ठितोऽप्यनीतिः, सवटोऽप्यवट सङ्कुलः, कारूपयुतोऽप्यगतरूपशोभः । यत्र च गुरुव्यतिक्रमं नक्षत्रराशयः, मात्राकलह लेखशालिकाः, मित्रोदयद्वेषमुलूकाः, अपत्यत्यागं कोकिलाः, बन्धुजीव विघातं ग्रीष्म- दिवसाः कुर्वन्ति न जनाः । किं बहुना। देशः पुण्यतमोद्देशः कस्यासौ न प्रियो भवेत् । युक्तोऽनुक्रोशसम्पन्न योजनैरिव यो जनैः॥ [ नलचम्प्वाः] १ चमरका गोविशेषाः। पक्षे चमरक ( मरको मरणबाहुल्यम् ) इति च्छेदः । २ पर महिम, परम-कि इत्ययं च च्छेदः । ३ ईतिरुपद्रवः। ४ अवटाः कूपादिगर्ताः। ५ कारवः शिल्पिनः, तैरुपयुतः । पक्षे कारूपं कुत्सितमीषद्वा रूपम् । ६ बन्धुजीवं बन्धूकम् । पक्षे बन्धुजीवा बान्धवाः । ७ अनुक्रोशेन कृपया संपन्नैपनैः। पक्षेऽनुक्रोशे संपन्नैः अन्नजलतृणादिभिः समृद्धोंजनैः। ५ नि०
निबन्धादर्शः
१६-निषधानगरीवर्णनम्
जम्प' विषयस्थ पये निया नामास्ति जनादः प्रथितः ।
तत्र पुरी पुरुषोत्तमनिवासयोग्यास्ति निवेति ॥
जननीति मुदितमनसा सततं मुस्वामिना कुतानन्दा ।
सा नगरो नगतनया गोरोव मनोहरा भाति॥
यस्यामनं लेहेन्द्रनीलशाल शिखरसहस्त्रनिःमृतांशुजालबालशाद्व
लाङ्कुरामग्रास लालसाः स्खलन्तः खे खेदयन्ति मध्येदिनं सादिनं रवि-
रथतुरङ्गमाः।
यस्यां च स्फटिकमणिशिलानिबद्धभवनप्राङ्गणगतासु सञ्चरद्गृहि-
गोचरणालतकपदपक्तिमु पतन्ति निर्मलसलिलाभ्यन्तरतरत्तरुणारु-
रणकमलकानया सुग्धमधुपपटलानि ।
यन्यां च विविधनणिनिर्मितवासभवनव्यभित्ति स्वच्छासु स्वां
छायामवलोकयन्त्यः कृतापरस्त्रीशङ्काः कथमपि प्रायानोयन्ते प्रियैः
प्रियतमाः।
यस्याञ्च दिव्यदेवकुलालकृताः स्वर्गाः इस मार्गाः, सततमपांसु-
वसनाः सागरा इत्र नागराः समत्तवारणानि वनानीव भवनानि,
सुरसेनान्विताः स्वर्गभूषा इव कूताः, अधिकन्धरोदेशमुद्भासयन्तो
हारा इव विहाराः ।
१ तस्य आर्यावर्तस्य ।
२ जन-नीति, पक्षे जननी इति । न गतनया, पक्षे नग-तनया। सुस्वामिना
सुमभुगा, शाभनेन स्कन्देन च । मनोहरा रम्या, पक्षे मनसि हरो यस्याः।
३ शाल: प्राकारः।
४ मत्तवारणोऽपाश्रयो मत्तेभश्च ।
निबन्धादर्शः यस्यां च बहुलक्षणाः' सुधावन्तो दृश्यन्तेऽन्तः प्रचुराः प्रासादाः बहिश्च धारणेन्द्राः । सुशोभितरङ्गाः समालोक्यन्तेऽन्तः संगीत- शाला बहिश्च क्रीडाकमलदीपिकाः । वहुधान्य निरुद्धाः कथमप्य- भिगम्यन्तेऽन्तः पण्यस्त्रियो यहिश्च क्षेत्रभूमयः । नानाशुकविभूषणाः शोभन्तेऽन्तः सभा बहिश्च सहकारवनराजयः । ससोगन्धिक प्रसारा बिराजन्तेऽन्तविपणयो बहिश्च सलिलाशयाः। किंबहुना भूमयो बहिरन्तश्च नानारामोग्य' शोभिताः । कुर्वन्ति सर्वदा यन्न विचित्रवयसा मुदम् ।। यस्यां च भक्त भाजो देवतायतनेषु देवताः सन्निधाना' दृश्यन्ते हट्टेषु वणिग्जनाः। अक्षरसावधानाः कविगोष्ठीपुकवयो विलोक्यन्ते तस्थानेषु भूतकाराः । कान्तारागप्रियाःकरिणो राजद्वारेषु सञ्चरन्ति वेश्याङ्गणेषु भुजङ्गाः। यस्यां च चतुरुदधिवेलाविराजितसकलधराचक्रचूडामणी मणि- कर्मनिर्मितरम्यहम्यतया सुरपति पुरीपराभवकारिण्याम्-अव्ययभावो . १ बहुल क्षणाः (क्षणो भूमिका ), बहु-लक्षगा इति च च्छेदः । २ सुधायुक्ताः, पक्षे सुष्टु धावन्तः । ३ सुशोभित रङ्गाः सुशोभि-तरङ्गाश्च । ४ बहुधा अन्य ( श्रन्यविट), पक्षे बहु-धान्य- । ५-आशुकवि भूषणाः पक्षे शुक-विभूषणाः । ६ सुगन्धोनि द्रव्याणि पण्यमेषां ते सौगन्धिका वणिजः, कहाराणि च । ७ आरामै रामाभिश्च । ८ रम्यवयसां यूनां, विविधपक्षिणां च । ९ भक्तो भक्तिमान् । भक्तं चान्नम् । १० संनिधानं नैकटयम् । सम्बनिधिश्च ।
६८ निबन्धादशः व्याकरणोपसर्गषु न धनिनां धनेषु दानविच्छित्ति'रुन्माद्यत्करिकपोल- मण्डलेषु न त्यागिगृहेषु । भोगभङ्गोभुजङ्गेषु न विलासिलोकेषु स्नेह- क्षयो रजनिविरामविरमत्प्रदीपपात्रेषु न प्रतिपन्न जनहृदयेषु । कूट प्रयोगो गीततानविशेषेषु न व्यवहारेषु । वृत्तिकलहो वैयाकरणच्छा- त्रेषु न स्वामिभृत्येषु । किंबहुना त्रिदिवपुरसमृद्धिस्पर्द्धया भान्ति यस्यां सुरसदनशिखाग्रेष्वाग्रहग्रन्थिनद्धाः। नभसि पवनवेल्लत्पल्लवैरुल्लसद्धिः परममिह वहन्त्यो वैभवं वैजयन्त्यः ।। अपिच चार्वी सदा सदाचारसजसजनसेविता। नगरी न गरीयस्या सम्पदा सा विवर्जिता ॥ [नचलम्वा] १ मदशोभा, त्यागविच्छेदश्च । २ प्रतिपन्नानि परस्परप्रतीतानि । ३ गीतस्य ताना द्विविधाः । एके कूटाख्याः पञ्चत्रिंशत् । अन्ये च शुद्धाख्या- श्वतुदश ॥ कुट कपटं च । ४ सुराणां सदनानि प्रासादा विमानानि च आगृह्यन्त एभिरित्याग्रहा अङ्कट- कास्तेषु ये ग्रन्थयस्तैर्नद्धाः । वेल्लत्पल्लवैश्चलदञ्चलैः । सर्वोऽपि विजिगीषुद्ध परि- करः पताकां दर्शयतीति भावः ।
निबन्धादर्शः ६६ २०–दक्षिणदेशस्य वर्णनम् अस्ति विस्तीर्णमेदिनीमण्डलमण्डनायमानो नगनगरपुरविहारा- रामरमणीयः सीतासहायसञ्चरितरघुपतिपादपद्मपवित्रारण्यः पुण्यतर- तरङ्गगङ्गागोदावरीवारिवारितदुरितदावानलप्रसरः, मन्दर इव बलि. राज'जनितपरिवर्तनः२, कैलास इव महेश्वरलोककृतवसतिः, मेरुरिव सुवर्णप्रकृतिकमनीयः, यदुवंश इव दृष्टशूर पुरुषावतारः, सोमान्वय इव बुधप्रधानः, वेदपाठ इवानेकैः सवने रुपेतः, पर्वते पर्वते स्था. णुभिः, पुरे पुरे पुराणपुरुषैः५, जले जले कमलोद्भवैः', पदे पदे देव- कुलैः, वने वने वरुणः स्थाने स्थाने नन्दनोद्यानैः, अर्गलः स्वर्गस्य, तापी प्रायोऽप्यनुपतापो जनस्य, विन्ध्याद्रिमुद्रितायां दिशि देशाना- मुत्तरोऽपि दक्षिणो देशः। यत्र शास्त्रे शस्त्रे च वेदे वैद्ये च भरते भारते च कल्पे शिल्पे च प्रधानो, धनी, धन्यो, धान्यवान् , विदग्धो वाचि, मुग्धो मुखे, स्निग्धो मनसि, वसति निरन्तरभशोको लोकः । यत्र क्रुद्धधूर्जटिललाटलोचनानलज्वालाकवलनाकुलः, त्रासा दपा- गावलोकनमात्रनिर्जितपरमेश्वरमनसां विलासिनीनामुच्चकुचकुम्भयोः १ बली राजा भीमः, बलिराजो दैत्यश्च । २ परिपालनं भ्रमणं च । ३ शूरो विक्रमी वसुदेव पिता च । ४ स इति भिन्नम् । वनैः काननैः । पक्षे सवनैर्यज्ञैः। ५ पुराणपुरुषो वृद्धो विष्णुश्च । ६ कमलोद्भवैः कमलोत्पत्तिभिब्रह्मभिश्च । ७ वरुणो वृक्षो जलं वा । पक्षे प्रचेताः सूर्यो वा। ८ अधिकः । ६ तापी नदी, तापयत्यवश्यमिति च ।
निबन्धादर्शः शृङ्गारसर्वस्वम , अधरपल्लवेषु मधु, भ्रूभङ्गेषु धनुः, कटाक्षेषु पुष्पबा. णान्निधाय निलीनोऽङ्गषु जघनस्थलस्थापितरतिर्मकरकेतनः। यासां तारुण्यमेव सर्वाङ्गेषु शोभार्थमाभरणम् , उत्तुङ्गस्तनमण्ड- ललावण्यमेव मुखकमलावलोकनाय दर्पणः, तारतरनयनकान्तिरेच मुखमण्डलमण्डनाय चन्दनललाटिका, भ्रूभङ्गा एव विभ्रमाय मृगम- दपत्राङ्गाः, कटाक्षा एव युवजनजयाय परमात्राणि, बन्धूककुसुमका- न्तिदन्तच्छद एक लोकलोचनमनोमोहनाय माहेन्द्रमणिः, मुखकमल- परिमलागतमधुकरमधुरभंकार एव विनोदाय वीणाध्वनिः । किं बहुना। ता एव निर्बति स्थानमहं मन्ये मृगेक्षणाः । मुक्ता नामास्पदं येन तासामेव स्तनान्तरम् ॥ मन्ये च । ताभिरेव विविधनिथुवननिधानकुम्भीभिः कुम्भोद्धयोऽपि भगवान्प्रलोभितो भविष्यति, येनाद्यापि न मुञ्चति दक्षिणां दिशमेव । अथवा। देशो भवेत्कस्य न वल्लभोऽसौ, स्त्रीसंकुलः सुस्थितकामकोटिः । दग्धैककामं त्रिदिवं विहाय यस्मिन्कुमारोऽपि रतिञ्चकार ।। [नलचम्प्वाः] १ निर्वृतिर्मुक्तिः शर्म च । २ मुक्ता मुक्तात्मानो मौक्तिकानि च । ३ कामकोटिदेवी, कन्दर्प कोट्यश्च । ४ कार्तिकेयो डिम्भश्च ।
निबन्धादशः २१-कुण्डिननगरस्य वर्णनम् तस्यान्तर्भूतवैदर्भमण्डलस्यालंकारभूतम् , अनाकुलम २, अमर- पतिपुरप्रतिस्पधि, परितःपरिखाप्रान्तरूढौढहयोकानमालायक यितम , अदभ्रशुभ्राभ्रंलिहप्रासादशिखरशिखाभोगभग्नरविरथतुरङ्गवेगम एकत्राग्निहोत्रमन्त्रपवित्राहुतिहतसमदिव्यान्तरिक्षमामोत्पातसं- घातैः, कृतमन्युभिरपि मन्युशून्यः, उत्तसूक्तैरपि निरुक्त पर, सन्मार्गस्थैरपि गृहस्थैः, सकलपि ब्रह्मचारिभिः, अभ्यस्तताभ- रपि अतिथिकुशलः, सामप्रयोगप्रधानैरपि दण्डावलम्विभिः, शतपथा- नुसारिभिरप्येकमार्गः ब्राह्मणेरध्यासितम् । एकत्र कुरुभिरिव द्रोण पुरःसरैः, प्रासादेरिज तुला पारिभिः, नैयायिकैरिवानुमेयानुमाननिपुणैः, वैशेषिकैरिव द्रव्यानगुणकामविशेप पण्डितैः, वैयाकरण रिव. रूपसिद्धिप्रधान, रुद्रेरिवानेकप्रन्थिबद्धक- पर्दकैः५, विपणिवाणिग्जनैरधिष्ठितम् । एकत्र विटकौलदम्भदीक्षाभिरिव कुचरूपलोभितलोकाभिः१०, १ दक्षिणदेशस्य । २ निरुपद्रवम् । ३ कृतक्रतुभिः । ४ कोपशन्यैः। ५ निरुत्तः ग्रन्थविशेषो वचनाभावश्च । ६ एकमार्गेजुमिः। ७ द्रोणो मानं कौरवगुरुश्च । ८ सूत्रादिमानं गृहादीनां तिर्यग्धारणस्तम्भश्च तुला । १ कपर्दो वराटो जटाबन्धश्च । १० शाक्तदम्मदीक्षासु कुस्तेिन चरुणा मांसादिनोपलोभितलोकाः । कुचयो रूपेण लोभितलोकाश्च । , निबन्धादर्श कुकविकाव्यपद्धतिभिरिव भग्नयतिगणवृत्ताभिः, निशाचरीभिरिव रजनी रागिणीभिः कर्णाटचेटीभिर्भरितम् । एकत्र बालकमिव कुलाला कीर्णम् । एकत्र वृद्धमिव कुजराजि- तम् । एकत्र चित्रविद्ययेव प्रवर्धमानसकलशिशुशोभितया विन्यस्त- स्वस्तिकया सर्वतोभद्रभूषणया भवनमालयालक़तम् । एकत्र नाटकै- रिव पताकाङ्कसंधिसंगतैः, दुष्टकिरातैरिव दृष्टकूट"कर्मभिः, शस्त्ररिव सुधारैः६, विचित्रैरपि सचित्रः, सतुलैरप्यतुलै देवकुलैः सङ्कुलम् । विशालमपि शालासम्पन्नम् , चतुश्चरणसंयुक्तमपि चरण रहितम् , विट संभृतमपि शुचिमार्गम् , सर्वत्र चत्वरा'°धिकमपि स्थिरप्रकृति, मजन्महाराष्ट्रकुटुम्बिनीमुखमण्डलविधीयमानोत्फुल्लकमलशोभायास्तु- गतरङ्गरङ्गत्तरुणार्जुनराजीवराजमानराजहंसविराजितवारेवरदाया स्तीरे रामणीयकरसकुण्डं कुण्डिनं नाम नगरम् । यस्य नातिदूरे दर्शनदूरीकृतदुरितोपप्लवप्लवनजनितपातकभङ्गा गङ्गामुपहसन्ती स्वर्गमार्गाश्रयणनिश्रेणो पुण्यपयाः पयोष्णी वहति । - १ रजनी हरिद्रा निशा च । कर्णाटे हि हरिद्वैवाङ्गरागः । २ कुलालैः कुत्सितलालया च । ३ कुजैस्ताभो राजितम् । कुत्सित जरया च जितम् । * चित्रविद्यापक्षे शिशुः सकलः स्वस्तिको वर्धमानः सर्वतोभः इत्याख्यानि पञ्चप त्राणि ( १ यन्त्राणि)। ५ कूटं शिखरं कपटं च । ६ देवकुलाचे-सुत्रां लेपविशेषमिति प्राप्नुवन्ति । ७ तुला साम्यं धारणस्तम्भश्च । ८ चरणा ऋग्वेदादयः । च रण-इति च च्छेदः । ६ विशः वैश्याः । विट विष्ठा च । १० चत्वरं चतुपथम् । च त्वरा इति च विच्छः ।
निबन्धादर्शः ७३ यस्य च पश्चिमदेशे प्रणतसुरासुरमौलिनीलमणिमरीचिचश्चरीक- चक्रचुम्बितचरणाम्भोजस्य भोजकटकूप 'जन्मनो जरापातितययातेर प्रचण्डदण्डदाण्डिक्यदण्डनाडम्बरितगण्डपाषाणविदलितवैदर्भमण्ड- लस्य भगवतो भार्गव स्थाश्रमः । यत्र च विपत्त्राः" सन्ति साधवो न तु तरवः, विज़म्भमाणकम लानि सरांसि न जनमनांसि, कुवलया लङ्काराः क्रीडादीर्घिका न सीमन्तिन्यः, विपदाक्रान्तानि सरित्कूलानि न कुलानि । किंबहुना देशानां दक्षिणो देशस्तन वैदर्भमण्डलम् । तत्रापि वरदातीरमण्डलं कुण्डिनं मुरम् ॥ १ भोजकटकूपेति अधिष्ठाननाम । २ वृषपर्वदैत्यसुतां शर्मिष्ठां शुक्रसुतां देवयानी च ययातिनृपतिरुपयेमे । ततोऽसौ शर्मिष्ठाप्रीत्या देवयानीमवजानन् 'तवाङ्गे जरा पततु' इति शुक्रेण शप्तः । ३ दाण्डक्यो नाम भोजकट देशाधिपः शुक्रसुतामरजःसंज्ञां हठात्परिणीतवान् । ततः शुक्रेण मन्युना पातालशैलगण्डवृष्टिना वैदर्भदेशो हतः । ४ भार्गवः शुक्राचार्यः। ५ विपदस्त्रायन्ते इति विपत्वाः, पक्षे विगतपत्राः । ६ पक्षे-क-मलः कुत्सितो मला पापम् । ७ कुवलयं सरोज कुत्सितवलयं च । कूलपक्षे वीनां पदैराक्रान्तानि ।
७४ निबन्धादर्शः २२-उपःकालवर्णनम् अथ क्रमेण रजतकुम्भमम्भोभरणार्थमिवेन्दुमण्डलमादाय पश्चि- माम्भोनिधिपुलिनमनुसरन्त्यां तरुणकपोतकन्धरारोमराजिराजिन्यां रजन्याम् , अखिलकमलखण्डकमलिनीनां विनिद्रायमाणकमलकुड्म- लविलोचनेषु कज्जल रेखास्विवोल्लसन्तीयु भ्रमरराजिपु, राजीवराजिपु- ञ्जनिकुञ्ज शिक्षानमञ्जीरमञ्जुलमुन्नदत्सु शरदलाहकवलक्षपक्षविक्षेपप- वनतरलिततरुणतामरसेषु दीधिकावतंसेपु हंसेपु, क्रोझारयति च चक्र- वाकमिथुनमेलकमङ्गलमृदङ्ग इव रौप्यधर्मरबसरसं सारसकुले, अब- श्यायजलशिशिरशीकरिणि मन्दान्दोलितत्रिनिद्रद्रुममञ्जरीरजःकणक- षायिते तमःसर्पसंदष्टोजीवितजगन्निश्वासायमाने प्रस्खलति मरुति, मनोहारिहारीतहरितहये हरति तिमिरपटलपटींगगनलक्ष्म्याः करपरा- मृष्टपयोधरे रागवति सवितरि, मृगमदमिलितबहलकुकुममण्डनमल. रीभिरिव पिञ्जरिते पुरन्दरदिङमुख सुखप्रसुप्ता सा' स्वप्नमद्राक्षीत् । [ नलचम्वाः] aaNPATACHANA २३-प्रभातसमयवर्णनम क्रमेण च प्राच्यां सिच्यमानायामिव बहलकुसुम्भाम्भः कुम्भैः ककुभि, प्रधावति तारकोच्छेदनाय सुकुमारे रश्मिजाले, पूर्वाचलस्थ- लीमधिरोहति जगत्प्रबोधप्रारम्भमङ्गलकलशेंऽशुमालिमण्डले, ताण्ड- वाडम्बरिणि पुण्डरीकखण्डे, हिण्डमानासु दीधिकामण्डनमुण्डमालासु कारण्डवमण्डलीपु, विश्राम्यति श्रवणपुटेषु हृदयानन्दिनि बन्दिवृन्दा- १ भीमराजस्य पत्नी।
७५ निबन्धादर्शः रकवृन्दवन्दभारम्भरवे, रणयत्सु वीणावेणुकोणान्वैणिकवैणविकेषु कण्ठकुहरप्रेङ्खोलनालङ्कारकुशले तारतरं गायति ग्रामरागं गायनजने, जाते जरजपाप्रसूनभिन्नस्फुटस्फाटिककान्तिसमप्रभ प्रभातसमये, सा ( = भीम राजस्य पत्नी) समुत्थाय भूत्वा शुचिकिचनवनलिनगर्भ- मर्धाञ्जलिमवकीर्य भगवतः सवितुः स्तुतिमकरोत् । [ नलचम्प्वाः NARSANKA २४–विन्ध्यवनस्थलीवर्णनम् एवम् असौ ( = नलः ) क्रीडितानेकपामरा गिरीन्यामांश्च, बहुतरङ्गोप शोभिताः सरितः सीम्नश्च, व्यूढपत्ररथान पथः पादपांश्च लङ्घयन , सालसहिताः पुरी रीश्चसेवमानः, पच्यमानगोधूम श्या- मलाः क्षेत्रभुवो भिल्लपल्लीश्च परिहरन , विधवाः शत्रुसीमन्तिनीर- टवीश्चातिक्रामन्, परिवारीणि बन्धुकुलानि सरांसि च बहुमानयन् , १ वैणिकवैणविको वीणावेणुवादको । २ अनेकपा गला भमराश्चेति गिरिपक्षे, १क्षे पामरा ग्राम्याः । ३ बहुतर गोपैरिति सीम्नां पक्षे। ४ पत्राणि = वाहनानि रथाश्च । पक्षे पत्ररथः पक्षी । ५ सालेन प्राकारेण सहिताः। नार्यः सालसा हिताश्च । अलसशब्दोऽत्र भाव- वचनः। ६ पच्यमानः परिपाकं गच्छन् बहु लोभवन्यो गोधूमः ( गो मेधूमः ) तेन श्यामला इति पल्लीपक्षे । कृष्यावनी हि दग्धा समधिकं फलतीति प्रसिद्धिः । ७ विर्विगमे विशेषे च । धवो भर्ता तविशेषश्च । ८ परिवृण्वन्ति परिवारीभवन्ति परिवारीणि । अन्यत्र परि समन्ताद्वारि जलं येषु ।
निबन्धादर्शी नातिचिरेणरविरथतुरङ्गपरिहतविषमशिरःशिखरसहस्रमजस्रममरगण- गन्धर्वसिद्धरुद्धस्कन्धमव्यं विन्ध्याचलमनुससार । ततश्च । दिशि दिशि किमिमानि प्रच्यवन्तेऽन्तरिक्षा- दविरतमुत देवी भूतधात्री प्रसूते। इति शवरवधूभिस्तय॑माणान्तवापुः सपदि विपुलविन्ध्यस्कन्धमध्यं बलानि ॥ श्रुतशीलस्तु तुङ्गशृङ्गरङ्गत्सारङ्गाङ्गनासु नक्षत्रासनाकाशावकाश- विशद्वंशजालजटिलासु चलच्चित्रचित्रककरिकलभकदम्बकसंचारशब- लासु हारिहरिताकुररमणोयासु वनस्थलोषु निक्षिप्तचतुषमवलोक्य रा- जानमिदमवादीत् । देव! माद्यदन्तिकपोलपालिविगलदानाम्बुसिक्तद्रुमाः क्रोडकोडकुलार्धचर्वितपतन्मुस्तारसामोदिताः। अन्तःसुस्थितपान्थ-मन्थरमरुल्लोलल्लतामण्डपाः कस्यैता न हरन्ति हन्त हृदयं विन्ध्यस्थलीभूमयः ॥ इतश्च पश्यतु देवः। एषा सा विन्ध्यमध्यस्थलविपुलशिलोत्सारङ्गत्तरङ्गा संभोगान्ततीराश्रयशबरवधूशर्मदा नर्मदा च । यस्याः सान्द्रदुमालोललिततलमिलत्सुन्दरीसंनिरुद्वैः सिद्धैः सेव्यन्त एते मृगमृदितदलत्कन्दलाः कूलकच्छाः ॥ अपि च । अन्तरेऽप्यस्याः मजत्कुञ्जरकुम्भमण्डलगलदानाम्बुनः सौरभाद् भ्राम्यभृङ्गकुलावलीः कुवलयश्रेणोः' समाबिभ्रतः। १ भृङ्गकुलानां कुवलयानि उपमानम् ।
निबन्धादर्शः कल्लोलाः कलिकालकल्मषमुषः प्रोल्लोललीलाकृतः स्वःसोपानपरम्परा इव वियद्वीथीसलङ्कुर्वते ।। इतश्चास्यास्तीरे अंसस्रंसिजलाईजर्जरजटाजूटर्मनाड मन्थरास तिम्यत्तारवतन्तु निर्मितकुथत्कौपीनमात्रच्छदाः । शीतोत्कण्ट कितास्थिशेषतनवः स्नात्वोत्तरन्तः शनै- रेते पश्य पतन्ति पिच्छिलशिलाजाले जरत्तापसाः ।। इतोऽपि पश्यैताः करिकुम्भसंनिभकुचद्वन्द्वोल्लसद्वीचयः क्रीडन्त्यल्पविकासभासि पयसि स्वैरं पुलिन्दस्त्रियः । उन्मीलन्नवनीलनीरजधिया पक्ष्मान्तरे नेत्रयो- र्यासां हस्तलताहता अपि परिभ्राम्यन्ति भङ्गाङ्गनाः इतोऽप्यवलोकयतु देवः बालोन्मीलत्कुवलयवनं विस्तरद्गन्धरुद्ध- भ्राम्यभृङ्गैरनुकृतपयःपूर्णमेघान्धकारम् । हर्षात्पश्यत्ययमतितरां तीरचारी मयूरो मुग्धः पार्वे भ्रमति च भयाचक्रवचक्रवाकः ।। इदं च कुररभरसह सहसमालं मुदितमयूरचकोरचक्रवाकम् । क इह सुरुचिरं चिरं विलोक्य प्रवरमते ! रमते नरो न रोधः॥ १ तरुषु जातास्तारवाः।
निबन्धादर्शः
इत्तश्च।
वककृतनिनदं नदं न दम्भा-
स्कृतसवनं सवनं भजन्त एते ।
निरुपमविभवं भवं स्मरन्तः
प्रशमधना मुनयो नयोपपत्राः ।।
विधूतपाप्मानः खल्बमी महानुभावाः ।
तथाहि ।
मुहुरधिवसतां सतां मुनीना-
मपविपदा विपदाङ्कपङ्कभाञ्जि।
तटनिकट वनानि नर्मदायाः
कथमिभवन्ति भवन्ति कल्मषाणि ।।
इतश्च
क्वचित्प्रवरगेरिकासम समुल्लसत्पल्लवं
लवङ्गलवलीलतातलचलच्चकोरं क्वचित् ।
क्वचिद् गिरिसरित्तटीतरुणविस्फुरत्कन्दलं
दलनिचुलमञ्जरीमधुनिरुद्धभृङ्गं क्वचित् ।।
क्वचिञ्चटुलकोकिलाकुलितनूतचूताङ्कुरं
कुरङ्गकुलसेवितप्रबलसालमूल क्वचित् ।
१ सवनम् - स्नानम् ।
२ सह वनैः सवनं वनयुक्तम् ।
३ अपगता विपद्येभ्यस्तादृशां मुनीनाम् ।
४ वीनां पक्षिगां पदमको यत्र तथोक्तं पदं मजन्ते तानि ।
१ कर्मभूतानि वनानि अधिवसतां मुनीनां कल्मषाणि पापानि कथं भवन्ति ।
न भवत्येवेत्यर्थः।
२ असमम् = अप्रतिमम् ।
७६ निबन्धादर्शः क्वचित्प्रवरसञ्चरत्सुरबधूपदैः पावनं वन नयति विझियामिह मनो मुनीनामपि ॥ (युग्मम् ) तदिदमयतनं दिवसमस्य सैन्यस्याध्वमापनखेदापनुत्तिनिमित्त- मधिवसतु देवः। यत्र वायुस्कन्धमवष्टभ्य स्फारितैः पुष्पलोचनेः। वियद्विस्तारमेते हि वीक्षन्त इव पादपाः ॥ अपि च येषाम् स्कन्धशाखान्तरालेषु पश्य जीमूतपङ्क्तयः' । लम्बमाना विलोक्यन्ते चलद्वल्गुलिका इव ।। येपांच उच्चैःशाखाग्रसंलग्ना मन्ये नूनं वनौकसाम् । कुर्वन्ति पुष्पसंदेहं निशि नक्षत्रपङ्क्तयः ।। इतश्च एतेषु प्रचण्डपचनाहततरुतलगलितमुगन्धिविविधविकचकुसुमप्रक- रमकरन्दमापीय पुनः शिखरशाखाभिमुखमुत्पतन्त्यो विभान्ति दुरारो- हतया कृताः केनापि निश्रेणय इव श्रेणयो मधुलिहाम् । इतश्च निश्चलानां सैन्यभयेन तुङ्गतरुशिखरपञ्जर पुञ्जितगोलाङ्गुलमण्ड- लानां निर्यन्नवप्ररोहाकुराकारा' कुर्वन्ति वनदेवतानां क्रीडान्दोलन- दोलारज्जुशङ्कामधोविलम्बिलाङ्गेललतिकाः । इतश्च चकासत्युड्डीयमानास्तरुशिरःशिखरशाखाग्रस्खलनविलग्नग्रहगण - विमानपक्तिपताका इव विहगावलयो निश्चलम् । १ मेघावलयः। २ अतिलोमशत्वान्निर्यन्नवप्ररोहाङ्कुर आकारो यासाम् ।
निबन्धादर्शः इतश्च विकसितसितपुष्पपिण्डपाण्डुरशिखराः, सुधाधवलितोर्श्वभूमयो विलासप्रासादा इव कुसुमसायकस्य, जराधवलमौलयः कञ्चुकिन इव वनदेवतानाम् , उन्मादयन्ति मनोऽमन्दमुचुकुन्दपादपाः । तदेवंविधेषून्मिषन्मुकुलविगलितबहलमकरन्दसीकरासारसुरभित- भूतलेषु मुग्धमृगपरिहृतदावानलज्वालायमानोन्मदशबरसीमन्तिनीच- रणप्रहारविकसिताशोककाननेषु नवजलधरनिकुरम्बकान्तितमालतरु- शिरःस्थितशब्दानुमेयमाद्यन्मयूरभण्डलेषु मदनालसपुलिन्दराजसुन्दरी- शिक्ष्यमाणवनकपोतकुक्कुटकुक्कुहकुलकुहरितेषु कूजत्कुररपरिवारितस- रस्परिसरेषु चलञ्चकोरसारसरवरमणीयेषु विहरतु देवः सह सैन्येन नर्मदोर्मिमन्दानिलान्दोलितलतापल्लवेषु वनेषु । राजापि श्रुतशीलेन दर्शितांस्तांस्तानुद्देशानवलोक्य चिन्तितवान् । कृतक्रीडाः क्रोडैर्मदकलकुरङ्गीहतमृगाः परिभ्राम्यभृङ्गाः परभृतकुलाक्रान्ततरवः । वनोद्देशाः पौष्पैः सुरभितदिगन्ताः परिमलै- न चेतः कस्यैते विलसितविकारं विदधति ।। इतश्व वीचीनां निचयाः स्पृशन्ति जलदानुद्गन्धिसौगन्धिका नृत्यत्केकिकदम्बकानि विकसवीरुन्धि रोधांसि च । धत्ते सैकतमुन्नदन्मदकलक्रौञ्चावलीसारसा- नस्याः पद्मपरागपिङ्गमहसः सेव्यं च सिन्धोर्न किम् ॥ [नलचम्प्वाः] निबन्धादर्शक ८१ २५-चन्द्रोदयवर्णनम् अथ क्रमेण पूर्वपयोधिपुलिनाद्राजहंस इव गगनमन्दाकिनीमुञ्च- लितः, केसरिकिशोर इवोदयगिरिगुहागह्वरात्तिमिरकरियूथपपृष्ठलग्नः, स्फटिकमयः पूर्णकुम्भ इव जगद्विजयप्रस्थानस्थितस्य मङ्गलाय मंकर- केतोः केनापि सज्जीकृतः, श्रीखण्डपिण्ड इव मण्डनाय महेन्द्रदिशा हस्तश्लेषोपलालितः, शटिकापुष्पस्तवक इव गगनश्रिया श्रवणे संयो- जितः, कुम्भ इवैकः प्राचीवनविहारिसुरकरीन्द्रस्य प्रकटतां गतः, वासरविरामवल्लीमुल्लूय कन्द इवोद्धतो निशाशबरिकया, पाण्डुपु. ष्पाक्षतगुञ्जापुञ्ज इव सिद्धवधूभिरुदयाचलचतुष्पथे विरचितः, गण्ड- शैल इव कैलासशिखराल्लुठित्वागतः, सीमन्तमौक्तिकमिव पूर्वदिङ् मुखस्य, सितातपत्रमिव पूर्वाशाधिपतेः पुरन्दरस्य, क्रीडामौक्तिककन्दुक इव कालकुमारस्य, क्षीरडिण्डीरपिण्डसदृशो दृष्टिपथमवततार तारा- पतिः। तदनु च मदनमिति युवानं यौवराज्येऽभिषिञ्च- न्कृतकुमुदविकासो भासयन्दिङ्मुखानि । इमममृततरङ्गैः प्लावयजोवलोकं गगनमवजगाहे मन्दमन्दं मृगाङ्कः ।। तदनन्तरम् आप्लावितमिव मुक्तमर्यादेन दुग्धवारिधना, सिक्तभू- भागाङ्गणमिवामन्दचन्दनाम्बुच्छटाभिः, विलिप्तदिम्भितिकमिव सान्द्र- सुधापङ्कपिण्डितैः, पूरितमिवोत्सर्पिकर्पूरपांसुवृष्टया, प्रविष्टमिव स्फाटि- कमणिमहामन्दिरोदरदरीम् , उत्प्लवमानमिव द्रवीभूततुहिनाचलम- हाप्लवेन भुवनमासीत् । ततश्च कैलासायितमद्रिभिविटपिभिः श्वेतातपत्रायितं मृत्पङ्केन दधीयितं जलनिधौ दुग्धायितं वारिभिः। ६ नि० ८२ निबन्धादर्शः मुक्ताहारलतायितं व्रततिभिः शङ्खायितं श्रीफलैः श्वेतद्वीपजनायितं जनपदैर्जाते शशाङ्कोदये ।। अपि च सर्वेऽपि पक्षिणो हंसाःसर्वेऽप्यरावता गजाः । जाताश्चन्द्रांशुभिः सर्वे रौप्यपुञ्जाः शिलोच्चयाः॥ अपि च सुधापङ्कोपलिप्तेव बढेव स्फटिकोपलैः। विलीनहिमदिग्धेव मेदिनी ज्योत्स्नया कृता । [नलचम्प्वाः ] १६-वर्षासमयवर्णनम् एकदा तु कतिपयमासापगमे काकलीगायन इव समृद्धनिम्नगा- नदः, सायंतनसमय इव नर्तितनीलकण्ठः, कुमारमयूरइव समारूढ़शर- जन्मा, तपस्वीव प्रशमितरजःप्रसरः, तापस इव धृतजलदकरकः, प्रल- यकाल इव दर्शितानेकतरणिविभ्रमः, निरुपद्रवकाननप्रदेश इव घनो- सेकितसारङ्गा, रेवतीकरपल्लव इव हलधृतिकरः, लकेश्वर इव समेघ- नादः, विन्ध्य इव घनश्यामः, युवतिजन इव पीनपयोधरः समाजगाम वर्षासमयः। विभिन्नमेघनीलोत्पलकानननीले क्रीडासरसीव नभसि स्मरस्य कनकरत्ननौकेव, जलदकाललक्ष्मीमातङ्गकन्यानर्तनरज्जुरिव, नभःसौधतोरणरत्नमालिकेव, प्रवसता निदाघेन दिवः पयोधरे स्मार- णाय दत्ता नखपदावलिरिव, गगनलक्ष्मीबन्धुररशनामालेव, नभोम- न्दारसुन्दरकलिकेव, रतिनखमार्जनरत्नशलाकेव, रत्नमयी विलासयष्टि- रिव कुसुमकेतोरिन्द्रधनुर्लता रराज ।
निबन्धादर्श ८३ अतितृष्णावेगपीतजलनिधिजलशङ्खमालां वलाकाच्छलादुद्वमन्नि- वादृश्यत जलधरनिकरः । पीतहरितैः कृष्णकेदारिका कोष्ठिकासु समु- त्पतद्भिर्द१रशिशुकैर्जातुषैर्नयातैरिव चिक्रीड विद्युता समं घनकालः । रविदीपकज्जलितमेघनिकषोपले मेघसमयस्वर्णकारकषितस्वर्णरेखेव तडिदशोभत । विरहिणां हृदयं विदारयितुं कृतं करपत्रमिव कुसुमायु- धस्य केतकीपुष्पमभासत । जलदारुणि लोलतडिल्लताकरपत्रदारिते पवनवेगनिधूताश्चूर्णनिकरा इव जलकणा बभुः । विच्छिन्नदिग्वधूहार- मुक्तानिकरा इव, खरपवनवेगभ्रमितघनघरट्टघट्टनसंचूर्णिततारानिकरा- इव, त्रिभुवनविजिगीषोर्मकरध्वजस्य प्रस्थानलाजाञ्जलय इव करका व्यराजन्त । नवशाल सेन्द्रगोपं महीमहिलायाः शुकाङ्गश्यामलं लाक्षा- रसाङ्कितं स्तनोत्तरीयमिवालक्ष्यत । [वासवदत्तायाः] २७-प्रस्थानभेदः अथ सर्वेषां शास्त्राणां भगवत्येव तात्पर्य साक्षात्परम्परया वेति समासेन तेषां प्रस्थानभेदोऽत्रोद्दिश्यते । तथाहि- ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेद इति वेदाश्चत्वारः। शिक्षा व्याकरणं निरुक्तं छन्दो ज्यौतिषं कल्प इति वेदाङ्गानि षट् । पुराणन्या- यमीमांसाधर्मशास्त्राणि चेति चत्वार्युपाङ्गानि । अत्रोपपुराणानामपि पुराणेऽन्तर्भावः, वैशेषिकशास्त्रस्य न्याये, वेदान्तशास्त्रस्थमीमांसायाम् , महाभारतरामायणयोः सांख्यपातञ्जलपाशुपतवैष्णवादीनां च धर्म- शास्त्रे । एवं मिलित्वा चतुर्दशविद्याः । तथा चोक्तं याज्ञवल्क्येन- पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ इति ।
। निबन्धादर्शः एता एव चतुर्भिरुपवेदैः सहिता अष्टादश विद्या भवन्ति । आयु- वेदो धनुर्वेदो गन्धर्ववेदोऽर्थशास्त्रं चेति चत्वार उपवेदाः। सर्वेषां चास्तिकानामेतावन्त्येव शास्त्रप्रस्थानानि, अन्येषामप्येकदेशिनामेते. प्वेवान्तर्भावात् । ननु-नास्तिकानामपि प्रस्थानान्तराणि सन्ति, तान्येतेष्वनन्त - वात्पृथग्गणयितुमुचितानि । तथाहि- शून्यवादेनैकं प्रस्थानं माध्यमि- कानाम् । क्षणिकविज्ञानमात्रवादेनान्यद्योगाचाराणाम् । ज्ञानाकारानु- मेयक्षणिकबाह्यार्थवादेनापरं सौत्रान्तिकानाम् । प्रत्यक्षसलक्षणक्षणिक- बाह्यार्थवादेनापरं वैभाषिकाणाम् । एवं सौगतानां प्रस्थानचतुष्टयम् । तथा देहात्मवादेनैकं प्रस्थानं चार्वाकाणाम् । एवं देहातिरिक्तदेहपरि- माणात्मवादेन द्वितीयं प्रस्थानं दिगम्बराणाम् । एवं मिलित्वा नास्ति- कानां षट् प्रस्थानानि । तानि कस्मान्नोच्यन्ते । सत्यम् ; वेदबाह्यत्वा- त्तेषां म्लेच्छादिप्रस्थानवत्परम्परयापि पुरुषार्थानुपयोगित्वादुपेक्षणीय- त्वमेव । इह च साक्षाद्वा परम्परया वा पुमर्थोपयोगिनां वेदोपकरणा- नामेव प्रस्थानानां भेदो दर्शितः। ततो न न्यूनत्वशङ्कावकाशः । अथ संक्षेपेणैषां प्रस्थानानां स्वरूपभेदे हेतुः प्रयोजनभेद उच्यते बालानां व्युत्पत्तये- तत्र धर्मब्रह्मप्रतिपादकमपौरुषेयं प्रमाणवाक्यं वेदः। स च मन्त्र- ब्राह्मणात्मकः । तत्र मन्त्रा अनुष्ठानकारणभूतद्रव्यदेवताप्रकाशकाः । तेऽपि त्रिविधा ऋग्यजुःसामभेदात् । तत्र पादबद्धगायत्र्यादिच्छन्दों- विशिष्टा ऋचः “अग्निमीले पुरोहितम्" इत्याद्याः। ता एव गीतिवि- शिष्टाः सामानि । तदुभयविलक्षणानि यजूंषि । “अग्नीदग्नीन्विहर" इत्यादिसंबोधनरूपा निगदमन्त्रा अपि यजुरन्तर्भूता एव । तदेवं निरूपिता मन्त्राः। ब्राह्मणमपि त्रिविधं विधिरूपमर्थवादरूपं तदुभयविलक्षणरूपं चेति । तत्र शब्दभावना विधिरिति भाट्टाः । नियोगो विधिरिति प्राभा- " निबन्धादर्शः कराः । इष्टसाधनता विधिरिति तार्किकादयः सर्वे । विधिरपि चतुर्विध उत्पत्त्यधिकारविनयोगप्रयोगभेदात् । तत्र कर्मस्वरूपमात्रबोधको विधि- रुत्पत्तिविधिः, "आग्नेयोऽष्टाकपालो भवति" इत्यादिः । सेतिकर्तव्यता- कस्य करणस्य यागादेः फलसम्बन्धबोधको विधिरधिकारविधिः, "दर्श- पूर्णमासाभ्यां स्वर्गकामो यजेत” इत्यादिः । अङ्गसंबन्धबोधको विधि विनियोगविधिः, 'ब्रीहिभिर्यजेत", "समिधो यजति" इत्यादिः । साङ्ग- प्रधानकर्मप्रयोगैक्यबोधकः पूर्वोक्तविधित्रयमेलनरूपः प्रयोगविधिः। प्राशस्त्यनिन्दान्यतरलक्षणया विधिशेषभूतं वाक्यमर्थवादः। स च त्रिविधः-गुणवादोऽनुवादो भूतार्थवादश्चेति । तत्र प्रमाणान्तरविरुद्धार्थबोधको गुणवादः “आदित्यो यूपः" इत्यादिः। प्रमाणान्तरप्राप्तार्थबोधकोऽनुवादः “अग्निहिमस्य भेषजम्' इत्यादिः। प्रमाणान्तरविरोधतत्प्राप्तिरहितार्थबोधको भूतार्थवादः "इन्द्रो वृत्राय वज्रमुदयच्छत्” इत्यादिः। विध्यर्थवादोभयविलक्षणं तु वेदान्तवाक्यम् । तच्चाज्ञातज्ञापकत्वेऽ- प्यनुष्ठानाप्रतिपादकत्वान्न विधिः, स्वतःपुरुषार्थपरमानन्दज्ञानात्मक- ब्रह्मणि स्वार्थ उपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गवत्तया स्वतः प्रमाणभूतम् , सर्वानपि विधीनन्तःकरणशुद्धिद्वारा स्वशेषतापादयत् अन्यशेषत्वाभावाच्च नार्थवादः। तस्मादुभयविलक्षणमेव वेदान्तवा- क्यम् । तच्च क्वचिदज्ञातज्ञापकत्वमात्रेण विधिरिति व्यपदिश्यते,- विधिपदरहितप्रमाणवाक्यत्वेन क्वचिद् भूतार्थवाद' इति व्यवह्रियते इति न दोषः। तदेवं निरूपितं त्रिविधं ब्राह्मणम् । एवं च कर्मकाण्डब्रह्मकाण्डा. त्मको वेदो धर्मार्थकाममोक्षहेतुः । स च प्रयोगत्रयेण यज्ञनिर्वाहार्थमृग्यजुःसामभेदेन भिन्नः। तत्र- होत्रप्रयोगः ऋग्वेदेन, आध्वर्यवप्रयोगो यजुर्वेदेन, औद्गात्रप्रयोगः - ८६ निबन्धादर्शः सामवेदेन । ब्राह्मयाजमानप्रयोगौ त्वत्रैवान्तर्भूतौ । अथर्ववेदस्तु यज्ञा- नुपयुक्तः शान्तिपौष्टिकाभिचारादिकर्मप्रतिपादकत्वेनात्यन्तविलक्षण एव । एवं प्रवचनभेदात्प्रतिवेदं भिन्ना भूयस्यः शाखाः। एवं च कर्म- काण्डे व्यापारभेदेऽपि सर्वासां वेदशाखानामेकरूपत्वमेव ब्राह्मकाण्डे । इति चतुर्णा वेदानां प्रयोजनभेदेन भेद उक्तः । अथाङ्गानामुच्यते । तत्र शिक्षाया उदात्तानुदात्तस्वरितहस्वदीर्घ- प्लुतादिविशिष्टस्वरव्यञ्जनात्मकवर्णोच्चारणविशेषज्ञानं प्रयोजनम् , तदभावे मन्त्राणामनर्थकत्वात् । तथा चोक्तम्- मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ इति ।। तत्र सर्ववेदसाधारणी शिक्षा 'अथ शिक्षा प्रवक्ष्यामि" इत्यादि- पश्चखण्डात्मिका पाणिनिना प्रकाशिता, प्रतिवेदशाखं च भिन्नरूपा प्रातिशाख्यसंज्ञिता अन्यैरेव मुनिभिः प्रदर्शिता । एवं वैदिकपदसाधुत्वज्ञानेनोहादिकं व्याकरणस्य प्रयोजनम् । तच्च "वृद्धिरादैच" इत्याद्यध्यायाष्टकात्मकं महेश्वरप्रसादेन भगवता पाणि- निनैव प्रकाशितम् । तत्र कात्यायनेन मुनिना पाणिनीयसूत्रेषु वार्तिकं विरचितम् । तद्वात्तिकस्योपरि च भगवता मुनिना पतञ्जलिना महाभा- प्यमारचितम् । तदेतत्रिमुनिव्याकरणं वेदाङ्ग माहेश्वरमित्याख्यायते । कौमारादिव्याकरणानि तु न वेदाङ्गानि, किं तु लौकिकप्रयोगमात्रज्ञा- नार्थानीत्यवगन्तव्यम् । एवं शिक्षाव्याकरणाभ्यां वर्णोच्चारणपदसाधुत्वज्ञाने, वैदिकम- न्त्रपदानामर्थज्ञानाकाङ्क्षायां तदर्थ भगवता यास्केन "समाम्नायः समाम्नातः स व्याख्यातव्यः” इत्यादित्रयोदशाध्यायात्मकं निरुक्त- निबन्धादर्शः मारचितम् । तत्र च नामाख्यातनिपातोपसर्गभेदेन चतुर्विध पदजातं निरूप्य वैदिकमन्त्रपदानामर्थः प्रकाशितः । मन्त्राणां चानुष्ठेयार्थप्रका- शनद्वारेणैव करणत्वात्पदार्थज्ञानाधीनत्वाञ्च वाक्यार्थज्ञानस्य मन्त्रथ- पदार्थज्ञानाय निरुक्तमवश्यमपेक्षितम् , अन्यथानुष्ठानासंभवत् । "सृण्येवजभरी तुर्फरीतू" (ऋ० वे० १०।१०।६।६ । इत्यादिदुरूहाणां प्रकारान्तरेणार्थज्ञानस्यासंभावनीयत्वाच्च । एवं निवण्टवोऽपि वैदिकद्र- व्यदेवतात्मकपदार्थपर्यायशब्दात्मका निरुक्तान्तर्भूता एव । तत्रापि निघण्टुसंज्ञकः पश्चाध्याय्यात्मको ग्रन्थो भगवता यास्केनैव कृतः। एवमृङ्मन्त्राणां पादबद्धच्छन्दोविशेषविशिष्टत्वात्तदज्ञाने च निन्दा- श्रवणाच्छन्दोविशेषनिमित्तानुष्ठानविशेषविधानाच्च च्छन्दोज्ञानाका- क्षायां तत्प्रकाशनाय "धीः श्रीः स्त्रीम्" इत्याद्यष्टाध्याय्यात्मिका च्छ- न्दोविवृतिर्भगवता पिङ्गलेन विरचिता। “तत्राप्यलौकिकम्" इत्यादि- नाध्यायत्रयेण गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगतीति सप्त- च्छन्दांसि सावान्तरभेदानि निरूपितानि । “अथ लौकिकम्" इत्यार- भ्याध्यायपञ्चकेन पुराणेतिहासादावुपयोगीनि लौकिकानि च्छन्दांसि प्रसङ्गानिरूपितानि- व्याकरणे लौकिकपदनिरूपणवत् । एवं वैदिककर्माङ्गदर्शादिकालज्ञानाय ज्यौतिषं भगवतादित्येन गर्गादिभिश्च प्रणीतं बहुविधमेव । शाखान्तरीयगुणोपसंहारेण वैदिकानुष्ठानक्रमविशेषज्ञानाय कल्प- सूत्राणि । तानि च प्रयोगत्रयभेदात्रि विधानि । तत्र हौत्रप्रयोगप्रति- पादकान्याश्वलायनशाङ्खायनादिप्रणीतानि, श्राध्वर्यवप्रयोगप्रतिपाद- कानि बोधायनापस्तम्बकात्यायनादिप्रणीतानि औद्गात्रप्रयोगप्रतिपा- दकानि लाट्यायनद्राह्यायणादिप्रणीतानि । एवं निरूपितः षण्णामङ्गानां प्रयोजनभेदः। चतुर्णामुपाङ्गानाम- धुनोच्यते- तत्र सर्गप्रतिसर्गवंशमन्वन्तरवंशानुचरितप्रतिपादकानि भगवता निबन्धादर्शः बादरायणेन कृतानि पुराणानि । तानि च ब्राह्म पानं वैष्णवं शैवं भागवतं नारदीयं मार्कण्डेयमाग्नेयं भविष्यं ब्रह्मवैवर्त लैङ्ग वाराहं स्कान्दं वामनं कौम मात्स्यं गारुडं ब्राह्माण्डं चेत्यष्टादश । आद्यं सनत्कुमारेण प्रोक्तं वेदविदां वराः। द्वितीयं नारसिंहाख्यं तृतीयं नान्दमेव च ॥ चतुर्थं शिवधर्माख्यं दौर्वासं पञ्चमं विदुः। षष्ठं तु नारदीयाख्यं कापिलं सप्तमं विदुः॥ अष्टमं मानवं प्रोक्तं ततश्चोशनसेरितम् । ततो ब्रह्माण्डसंझं तु वारुणाख्यं ततः परम् ।। ततः कालीपुराणाख्यं वासिष्ठं मुनिपुंगवाः। ततो वासिष्ठलैङ्गाख्यं प्रोक्तं माहेश्वरं परम् ।। ततः साम्बपुराणाख्यं ततः सौरं महाद्भुतम् । पाराशरं ततः प्रोक्तं मारीचाख्यं ततः परम् ।। भार्गवाख्यं ततः प्रोक्तं सर्वधर्मार्थसाधकम् । एवमुपपुराणान्यनेकप्रकाराणि द्रष्टव्यानि । न्यायः आन्वीक्षिकी पञ्चाध्यायी गौतमेन प्रणीता । प्रमाणप्रमेय- संशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वा- भासच्छलजातिनिग्रहस्थानाख्यानां षोडशपदार्थानामुद्देशलक्षणपरी- क्षाभिस्तत्त्वज्ञानं तस्याः प्रयोजनम् । एवं दशाध्याय्यात्मकं शास्त्रं कणादेन प्रणीतम् । द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां पदार्थानामभावसप्तमानां साधर्म्यवैधाभ्यां व्युत्पादनं तस्य प्रयोज- नम् । एतदपि न्यायपदेनोक्तम् । एवं मीमांसा द्विविधा कर्ममीमांसा शारिरकमीमांसा चेति । तत्र द्वादशाध्यायी कर्ममीमांसा “अथातो धर्मजिज्ञासा" इत्यादिः “अन्वा. हार्ये च दर्शनात्" इत्यन्ता भगवता जैमिनिना प्रणीता। तत्र धर्म- प्रमाणम् , धर्मभेदाभेदो, शेषशेषिभावः, क्रत्वर्थभेदेन प्रयुक्तिविशेषः, निबन्धादर्शः श्रुत्यर्थपठनादिभिः क्रमभेदः, अधिकारविशेषः, सामान्यातिदेशः, विशे- षातिदेशः, ऊहः, बाधा, तन्त्रम् , प्रसङ्गश्चेति क्रमेण द्वादशानामध्या- यानामर्थः । तथा संकर्षणकाण्डमप्यध्यायचतुष्टयात्मकं जैमिनिप्रणी- तम् । तच्च देवताकाण्डसंज्ञया प्रसिद्धमप्युपासनाख्यकर्मप्रतिपादकत्वा- कर्ममीमांसान्तर्गतमेव । तथा चतुरध्यायी शारीरकमीमांसा "अथातो ब्रह्मजिज्ञासा" इत्यादिः "अनावृत्तिः शब्दात्" इत्यन्ता जीवब्रह्मैकत्वसाक्षात्कारहेतुः श्रवणाख्यविचारप्रतिपादकान्यायानुपदर्शयन्ती भगवता बादरायणेन कृता । तत्र सर्वेषामपि वेदान्तवाक्यानां साक्षात्परंपरया वा प्रत्यगभि- नाद्वितीये ब्रह्मणि तात्पर्य मिति समन्वयः प्रथमाध्यायेन प्रदर्शितः। एवं वेदान्तानामद्वितीये ब्रह्मणि सिद्ध समन्वये, तत्र संभावितं स्मृतितर्कादिविरोधमाशङ्कय तत्परिहारः क्रियत इत्यविरोधो द्वितीया- ध्यायेन दर्शितः। तृतीयेऽध्याये साधननिरूपणम् । चतुर्थेऽध्याये सगु- णनिर्गुणविद्ययोः फलविशेषनिर्णयः कृतः। इदमेव सर्वशास्त्राणां मूर्ध न्यम् । शास्त्रान्तरं सर्वमस्यैव शेपभूतमितीदमेव मुमुक्षुभिरादरणीयं श्रीशंकरभगवत्पादोक्तप्रकारेणेति रहस्यम् । एवं धर्मशास्त्राणि मनुयाज्ञवल्क्यविष्णुयमाङ्गिरोवसिष्ठदक्षसंवर्त- शातातपपराशरगौतमशङ्कलिखितहारीतापस्तम्बोशनोव्यासकात्यायन बृहस्पतिदेवलनारदपैठीनसिप्रभृतिभिः कृतानि वर्णाश्रमधर्मविशेषाणां विभागेन प्रतिपादकानि । एवं व्यासकृतं महाभारतं रामायणं च धर्म- शास्त्र एवान्तर्भूतं स्वयमितिहासत्वेन प्रसिद्धम् । सांख्यादीनां धर्मशा- नान्तर्भावेऽपीह स्वशब्देनैव निर्देशात्पृथगेव संगतिर्वाच्या। अथ वेदचतुष्टयस्य क्रमेण चत्वार उपवेदाः । तत्रायुर्वेदस्याष्टौ स्थानानि भवन्ति । सूत्रं शारीरमैन्द्रियं चिकित्सा निदानं विकल्पः सिद्धिश्चेति । ब्रह्मप्रजापत्यश्विधन्वन्तरीन्द्रभरद्वाजात्रेयाग्निवेश्यादि- भिरुपदिष्टश्चरकेण संक्षिप्तः। तत्रैव सुश्रुतेन पञ्चस्थानान्तरं कृतम् ।
६० निबन्धादर्शः एवं वाग्भटादिनापि बहुधेति न शास्त्रभेदः। कामशास्त्रमप्यायुर्वेदान्त- र्गतमेव, तत्रैव सुश्रुतेन वाजीकरणाख्यकामशास्त्राभिधानात् । तत्रवा- स्यायनेन पश्चाध्याय्यात्मकं कामशास्रं प्रणीतम् । तस्य च विषयवैरा- ग्यमेव प्रयोजनम् , शास्त्रोद्दीपितमार्गेणापि विषयभोगे दुःखमात्रपर्य- वसानात् । चिकित्साशास्त्रस्य रोगतत्साधनरोगनिवृत्तितत्साधानज्ञानं प्रयोजनम् । एवं धनुर्वेदः पादचतुष्टयात्मको विश्वामित्रप्रणीतः। तत्र प्रथमो दीक्षापादः, द्वितीयः संग्रहपादः, तृतीयः सिद्धिपादः, चतुर्थः प्रयोग- पादः। तत्र प्रथमे पादे धनुर्लक्षणमधिकारिनिरूपणं च कृतम् । अत्र धनुःशब्दश्चापें रूढोऽपि धनुविधायुधे प्रवर्तते । तच्चतुर्विधं मुक्तममुक्तं मुक्तामुक्तं यन्त्रमुक्तं चेति । मुक्तं चक्रादि । अमुक्तं खङ्गादि । मुक्तामुक्त शल्यावान्तरभेदादि । यन्त्रमुक्तं शरादि । तत्रमुक्तमस्त्रमुच्यते । अमुक्तं शस्त्रमित्युच्यते । तदपि ब्राह्मवैष्णवपाशुपतप्राजापत्याग्नेयादिभेदादने- कविधम् । सर्वेषां शस्त्रविशेषाणामाचार्यस्य च लक्षणपूर्वकं संग्रहण- प्रकारो दशितो द्वितीयपादे । गुरुसंप्रदायसिद्धानां पुनः पुनरभ्यासो मन्त्रदेवतासिद्धिकरणमपि निरूपितं तृतीयपादे । एवं देवतार्चनाभ्या- सादिभिः सिद्धानामस्त्रविशेषाणां प्रयोगश्चतुर्थपादे निरूपितः । क्षत्रि- याणां स्वधर्मयुद्धाचरणदुष्टस्य दण्डश्चोरादिभ्यः प्रजापालनं च धनु- र्वेदस्य प्रयोजनम् । एवं च ब्रह्मप्रजापत्यादिक्रमेण विश्वामित्रप्रणीतं धनुर्वदशास्त्रम् । एवं गान्धर्ववेदशास्त्रं भगवता भरतेन प्रणीतम् । गीतवाद्यनृत्तभे- देन बहुविधोऽर्थः। देवताराधननिर्विकल्पकसमाध्यादिसिद्धिश्व गान्ध. ववेदस्य प्रयोजनम् । एबमर्थशास्त्रं च बहुविधं नीतिशास्त्रमश्वशास्त्रं शिल्पशास्त्रं सूप- कारशास्त्रं चतुःषष्टिकलाशास्त्रं चेति । नानामुनिभिः प्रणीतं तत्सर्वम् । अस्य च सर्वस्य लौकिकवत्प्रयोजनभेदो द्रष्टव्यः ।
. निबन्धादर्शः एवमष्टादश विद्यालयीशब्देनोक्ताः, अन्यथा न्यूनताप्रसङ्गात् । तथा सांख्यशास्त्रं भगवता कपिलेन प्रणीतम् "श्रथ त्रिविधदुःखा- त्यन्तनिवृत्तिरत्यन्तपुरुषार्थः” इत्यादि षडध्याय्यात्मकम् । तत्र प्रथमेऽ ध्याये विषया निरूपिताः। द्वितीयेऽध्याये प्रधानकार्याणि । तृतीयेऽ ध्याये विषयेभ्यो वैराग्यम् । चतुर्थेऽध्याये विरक्तानां पिङ्गलाकुररादी- नामाख्यायिकाः। पञ्चमेऽध्याये परपक्षनिर्णयः। सर्वार्थसंक्षेपः। प्रकृति- पुरुषविवेकज्ञानं सांख्यशास्रस्य प्रयोजनम् । तथा योगशात्रं भगवता पतञ्जलिना प्रणीतम् “अथ योगानुशा- सनम्" इत्यादि पादचतुष्टयात्मकम् । तत्र प्रथमपादे चित्तवृत्तिनिरोधा- त्मकः समाधिरभ्यासवैराग्यरूपं च तत्साधनं निरूपितम् । द्वितीये पादे विक्षिप्तचित्तस्यापि समाधिसिद्धयर्थ यमनियमासनप्राणायामप्र. त्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि निरूपितानि । तृतीये पादे योगिविभूतयः । चतुर्थपादे कैवल्यमिति । तस्य च विजातीप्रत्ययनिरो. धद्वारेण निदिध्यासनसिद्धिः प्रयोजनम् । तथा पशुपतिमतं पाशुपतं शास्त्रं पशुपतिना पशुपाशविमोक्षणाय "श्रथातः पाशुपतं योगविधिं व्याख्यास्यामः” इत्यादि पञ्चाध्यायं विरचितम् । तम्राध्यायपश्चकेनापि कार्यरूपो जीवः पशुः, कारणं पशुपन तिरीश्वरः, योगः पशुपतौ चित्तसमाधानम् , विधिर्भस्मना त्रिषवण स्नानादिनिरूपितः, दुःखान्तान्तसंज्ञो मोक्षश्च प्रयोजनम् । एत एव कार्यकारणयोगविधिदुःखान्ता इत्याख्यायन्ते । एवं वैष्णवं नारदादिभिः कृतं पञ्चरात्रम् । तत्र वासुदेवसंकर्षण- प्रद्युम्नानिरुद्धाश्चत्वारः पदार्था निरूपिताः। भगवान्वासुदेवः सर्व- कारणं परमेश्वरः। तस्मादुत्पद्यते संकर्षणाख्यो जीवः। तस्मान्मनः प्रद्युम्नः। तस्मादनिरुद्धोऽहंकारः । सर्वे चैते भगवतो वासुदेवस्यैवांश- भूतास्तदभिन्ना एवेति भगवतो वासुदेवस्य मनोवाक्कायवृत्तिभि राराधनं कृत्वा कृतकृत्यो भवतीत्यादि च निरूपितम् ।
ER निबन्धादर्शः तदेवं दर्शितः प्रस्थानभेदः । सर्वेषां च संक्षेपेण त्रिविध एव प्रस्था- नभेदः, तत्रारम्भवाद एकः, परिणामवादो द्वितीयः, विवर्तवादस्तु- तीयः। पार्थिवाप्यतैजसवायवीयाश्चतुर्विधाः परमाणवो द्वयणुकादि- क्रमेण ब्रह्माण्डपर्यन्तं जगदारभन्ते, असदेव कार्य कारकव्यापारादु- त्पद्यत इति प्रथमस्तार्किकाणां मीमांसकानां च । सत्त्वरजस्तमोगुणा- त्मकं प्रधानमेव महदहंकारादिक्रमेण जगदाकारेण परिणमते, पूर्वमपि सूक्ष्मरूपेण सदेव कार्यकारणव्यापारेणाभिव्यज्यते इति द्वितीयः पक्षः सांख्ययोगपातञ्जलपाशुपतानाम् । ब्रह्मणः परिणामो जगदिति वैष्ण- वानाम् । स्वप्रकाशपरमानन्दाद्वितीयं ब्रह्म स्वमायावशान्मिथ्यैव जग- दाकारेण कल्पत इति तृतीयः पक्षो ब्रह्मवादिनाम् । सर्वेषां प्रस्थानक- र्तृणां मुनीनां विवर्तवादपर्यवसानेनाद्वितीये परमेश्वरे प्रतिपाद्ये तात्प- यम् । नहि ते मुनयो भ्रान्ताः, सर्वज्ञत्वात्तेषाम् । किं तु बहिर्विषयप्रव- णानामापाततः पुरुषार्थे प्रवेशो न संभवतीति नास्तिक्यवारणाय तैः प्रकारभेदाः प्रदर्शिताः। तत्र तेषां तात्पर्यमवुद्ध्वा वेदविरुद्धेऽप्यर्थे तात्पर्यमुत्प्रेक्षमाणास्तन्मतमेवोपादेयत्वेन गृह्णन्तो जना नानापथजुषो भवन्तीति सर्वमनवद्यम् । २८-वेदस्वरूपं वेदशाखाश्च अथ वेदो नाम वेद्यन्ते ज्ञाप्यन्ते धर्मार्थकाममोक्षा अनेनेति व्यु- त्पत्त्या चतुर्वर्गज्ञानसाधनभूतो ग्रन्थविशेषः। करणे घञ् बाहुलकात् । स च किंलक्षण इति चेत् 'मन्त्रब्राह्मणयोर्वेदनामधेयम्' ( प्रतिज्ञासूत्र- परिशिष्टे श२ ) इति भागमोक्तं तल्लक्षणं वेदितव्यम् । यो शव्यभिच- रितस्वरवर्णादिपठनपाठनकमागतः सन्सर्वकालं सर्वदेशेषु प्रतिशाख- विभागेन वर्तमानः स एको मन्त्रराशिः। अपरस्तु विधिनिन्दाप्रशंसा- निबन्धादर्शः सम्प्रश्नाख्यानादिभिस्तस्यैव प्रायो विनियोगप्रख्यापक उपव्याख्यान- भूतो वाक्यनिचयो ब्राह्मणराशिः । अनयोरेकसङ्ग्रहो वेद इत्यभि- धीयते । वेदनिबन्धेषु मन्त्रब्राह्मणभागौ परस्परमसम्मिश्रावेव प्रायः पठ्यते। क्वचित्तु ब्राह्मणसम्मिश्रितोऽपि मन्त्रभागः पठितोऽस्ति । एवमुभयात्म- कोऽपि विध्यर्थवादमन्त्ररूपेण त्रिधा व्यवस्थितोऽयं वेदराशिरेकमूल एककर्मलक्षण फलो महाकल्पवृक्षो वरीवर्ति । अस्य च फलभूतं कर्म विधिना विहितमर्थवादेन प्ररोचितं मन्त्रेण च स्मृतं सदभ्युदयकारि भवति । ननु प्रतिशाखं यज्ञकर्माणि भिद्यन्ते, तत्कथमेककर्मफलोऽयं वेद- कल्पवृक्ष इत्युच्यते । नैष दोषः। अवान्तराकृतिभेदेऽपि कर्मजातिव्य- ञ्जकप्रधानाकृतिभेदाभावात् । न कस्यां शाखायां विहितस्यादिकर्मणः स्थाने विजातीयस्य ग्रहयज्ञादेरपरस्यां शाखायां विधानमस्ति । तस्मान प्रतिशाखं कर्मभेद इति मन्तव्यम् । यदि प्रतिशाखं बदरामल- कादिवज्जात्यैव कर्मभेदः स्यात् तदा एकमूलाभावादादित एवारभ्य भिद्यमानत्वाद् वृक्षान्तरवद्वेदान्तराण्येवोच्येरन् न शाखान्तराणि । तस्मादेकमूलः समानफलोऽयं वेदकल्पशाखीत्याहुः । सर्वार्थवेदको वेदश्चतुर्धा भिद्यते क्रमात् । ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ।। इति । यद्यपि बहुषु श्रुतिस्मृत्यादिवाक्येषु वेदत्रयी संकीर्त्यते, न तु चतु- र्थोऽथर्वणवेदः । तथापि ब्रह्मवेदशब्देन चतुर्थस्याथर्वणवेदस्यापि मुण्ड- कोपनिषदि' श्रवणात् स्मृतिपुराणादिष्वपि बहुशः संकीर्तनाञ्च चतु- १ 'तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति हस्म यद् ब्रह्मविदो वदन्ति परा चैवापरा च । तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्या- करणं निरुक्तं ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ।' (मु० उ०१४-५)।
त्रयो अस्य पदा ४ निबन्धादर्शः द्धत्युक्तम् । तथा चरणव्यूहेऽपि 'अथातश्चरणव्यूह व्याख्यास्यामः । तत्र निरुक्तं चातुर्विद्य चत्वारो वेदा विज्ञाता भवन्ति (च० १) इति स्थितम् । तथा व्याकरणमहाभाष्ये पतञ्जलिनाप्युक्तम् महान शब्दस्य प्रयोगविषयः-सप्तद्वीषा वसुमती त्रयो लोकाश्चत्वारो वेदाः साङ्गाः सरहस्या बहुधाभिन्ना एकशतमध्वर्यु'शाखाः सहस्रव िसामवेद- एक विंशतिधा बह वृचा नवधाऽथर्वणो वेदः' (महा० पस्पशाह्नि) इति । एवं वेदस्य चातुर्विध्यं अष्टके-अध्याये १० वर्गे श्रूयमाणया ऋचाप्यभिधीयते। चत्वारि शृङ्गा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मत्यॊ ा विवेश ॥ ( ऋ०४।५८॥३) इति । अत्र निरुक्ते 'चत्वारि शृङ्गेति वेदा वा एते उक्ताः' (नि०परिशि०१३।७) इति यास्केनोक्तम् । वेदभाष्ये सायणा- चार्येणापि तथैव भाषितमित्यलम् । ऋग्वेदमानं तच्छाखाश्च तत्र तावदृग्वेदस्य मानमुक्तं चरणव्यूहे- ऋचा दश सहस्राणि ऋचां पञ्च शातानि च । ऋचामशीतिः पादश्च ( १०५८०) तत्पारायणमुच्यते ।। ( च० १) इति। अस्य च वेदस्य पञ्च शाखाः सन्ति । शाकला बाष्कला आश्वला- यनाः शाङ्खायना माण्डूकाश्चेति । तथा चोक्तं शौनकीये प्रातिशाख्ये । १ अध्वर्युर्यजुर्वेदः। २ 'बाहच्यम्' इति पाठभेदः । ३ शौनकीयऋग्वेदप्रातिशाख्यस्य मुद्रितपुस्तकेषु अयं पाठो नोपलभ्यते । -
निबन्धादर्श
ऋचा समूहो ऋग्वेदस्तमभ्यस्य प्रयत्नतः ।
पठितः शाकलेनादौ चतुर्भिस्तदनन्तरम् ।।
शाङ्खाश्वलायनौ चैव माण्डूको बाष्कलस्तथा ।
बचा ऋषयः सर्वे पश्चैते एकवेदिनः ॥
अत्र शाकलादिषु ऋषिशब्दो गौणो, न तु मुख्यः। आश्वलायनगृह्ये
देवाचार्यतर्पणविधिविधायके सूत्रे' शाकलादीनामृषिष्वपरिगणना-
दाचार्येषु गणनाच्च । एवमैतरेयि, कौषीतकि, शैशिरि पैङ्गीत्यादयोऽ-
न्येऽपि ऋग्वेदस्य शाखाभेदाः क्वचिदुपलभ्यन्ते । तथा विष्णुपुराणे-
ऽप्युक्तम्-
मुद्गलो गोकुलो वात्स्यः शैशिरः शिशिरस्तथा
पञ्चैते शाकलाः शिष्याः शाखाभेदप्रवर्तकाः ॥ इति ।
तथा व्याकरणमहाभाष्ये 'एकविंशतिधा बचाः' इति स्थितम्
एवं चाध्ययनसंप्रदायप्रवर्तकानामेषां शाकलादीनामाचार्याणां प्रवच-
नभेदः शाखाभेदव्यवहारे कारणम् । ततश्च मन्त्रब्राह्मणात्मकः स्वाध्या-
यैकः शाखेति पर्यवसितोऽर्थः। सा च शाखा अध्ययनभेदाद्वा सूत्र-
भेदाद्वा भिद्यते । एकस्मिन्नेव वेदे मन्त्रब्राह्मणयोरन्यतरभेदेन योऽवा-
न्तरशाखाभेदः, सोऽध्ययनभेदकृतः । यथा शाकलबाष्कलयोर्द्वयोः
शाखयोः स्वाध्यायो यत्किंचिद्भिद्यते सूत्रं तु भिन्नाध्ययनयोर्द्वयोरप्याश्व-
लायनीयमेकमेव । तथा च शाकलबाष्कलयो दोऽध्ययनभेदकृतः। अथै-
कस्यां समानपाठायामपि तैत्तिरीयशाखायामवान्तरशाखाभेदो बौधा-
यनापस्तम्बहिरण्यकेशिप्रभृतिसूत्रभेदकृतो वेदितव्यः। एवं प्रवचनभे-
दात् प्रतिवेदं भिन्ना
प्रवचनशब्दः सूत्रप्रातिशाख्यशिक्षाद्यङ्गवाचकः । तथा च ।
भूयस्यः शाखाः सन्ति ।
१ आश्व० गृ० ३१४॥४॥
६६
निबन्धादर्शः
अथाः सर्वेषु वेदेषु सर्वप्रवचनेषु च ।
श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः ।।
(मनु० ३।१८४) इति तृतीयाध्यायगतमनुवचनव्याख्यायां कुल्लूकभट्ट
आह 'प्रकर्षेणैवोच्यते वेदार्थ एभिरिति प्रवचनान्यङ्गानि' इति । एवं
प्रवचनशब्देन ब्राह्मणमप्युच्यते यतस्तेनापि प्रकर्षेण वेदार्थस्य परिभा-
षणादित्याहुः।
ऋग्वेदस्य सूक्तादिरूपेण विभागः
सूक्तादिस्वरूपविचारश्च
ऋग्वेदस्य सप्तदशाधिकमेकसहस्रं सूक्तानि । षडधिके द्वे सहस्र
वर्गाः । चतुःषष्टिरध्यायाः। दश मण्डलानि । अष्टौ अष्टकानि इत्येवं
विभागः परिकल्पितः।
तत्र सूक्तलक्षणं यथा बृहद्देवतायाम्'-
सम्पूर्णमृषिवाक्यं तु सूक्तमित्यभिधीयते ।
( बृ० दे० १११३) इति । सम्पूर्ण निराकाङ्क्ष यहषेर्वेदस्य वाक्यं
तत्सूक्तमिति तदर्थः। वैदिकं महावाक्यं सूक्तमिति यावत् । तच्च त्रिवि-
देवतसूक्तम् धम् । ऋषिसूक्तम् , छन्दःसूक्तमिति भेदात् । त्रयाणामेषा
लक्षणानिवृहदेवतायां यथा-
ऋषिसूक्तानि यावन्ति सूक्तान्येकस्य वै कृतिः।
स्तूयेतैकां तु यावस्तु तत्सूक्तं दैवतं विदुः।
समानच्छन्दसो मन्त्राश्छन्दःसूक्तं तदुच्यते॥
(cp. बृ० दे० १११२-१६) इति ।
तत्र ऋषिसूक्तं यथा-'अग्निमीळे' (ऋ० १।१।१) इत्यारभ्य 'इन्द्रं
विश्वा अवीवृधन्' दैवतसूक्तम् ( ऋ० ११११११) इत्यतः प्राग विंशति-
वर्गसमाप्यन्तमेकमृषिसूक्तम् । तावतीनामृचामेकेनर्षिणा इत्यष्टचं
द्वितीयमृषिसूक्तम् । तासामृचां मधुच्छन्दसः पुत्रेण जेत्रा दृष्टत्वात् ।
१ बृहदेवतानामको ग्रन्थः शौनकेन महर्षिणा कृतः ।
निबन्धादर्शः देवतासूक्तं यथा-'अग्निमीळे पुरोहितम्' इत्यादिनवर्चमग्निदेवता- कमाद्यं देवतासूक्तम् । यथा वा-'वायवा याहि दर्शत' (ऋ० १।२।१) इति नवचं वायव्यं द्वितीयं देवतासूक्तम् । छन्दसूक्तं यथा-'अग्निमीळे पुरोहितम्' इत्यारभ्याष्टादशवर्ग- पर्यन्तं 'गायन्ति त्वा गायत्रिणः' ( ऋ० १११०११) इत्यतः प्राग गायत्रीछन्दोबद्धमाद्यं छन्दःसूक्तम् । एवं यथायथमुदाहर्त्तव्यम् । त्रिविधानामप्येषां सूक्तानां कर्मसु विनियोगः श्रुत्या प्रतिपाद्यते । तथा हि 'उदु ब्रह्माण्यैरत अवस्येति ब्राह्मणाच्छंसी ब्रह्मण्वत्समृद्ध सूक्तमहरहः शंसन्ति' इति प्रकृत्य तदु वासिष्ठम् । एतेन वै वसिष्ठ इन्द्रस्य प्रियं धामोपागच्छत्' इति ऐतरेयब्राह्मणस्य पञ्चम पश्चिकाया- मुक्तम् । यथा देवतासूक्तस्य विनियोगोऽप्यैतरेयब्राह्मणस्य षष्टपञ्चिका. यामुपदिश्यते-'तस्मान्मत्रावरुणं मैत्रावरुणः प्रातःसवने शंसति' (ऐ० ब्रा० ६४ : इति । मैत्रावरुणनामक ऋत्विक् मैत्रावरुणं मित्रा. वरुणदेवताकं सूक्तं प्राःतसवनकमणि शंसतीती तदर्थः। एवमैतरेय ब्राह्मणस्य पञ्चमपश्चिकायाम् --'तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन' ( ऐ० ब्रा० ५।४) इति वाक्येन त्रिष्टुप्छन्दोघटितं छन्दस्सूक्तमुपदिश्यते । वर्गविभागोऽध्यायविभागश्चाध्यापकसम्प्रदायक्रमागत एवेति भाति, यतोऽनुगतं तयोः किंचिल्लक्षणं न पश्यामः । मण्डललक्षणं तु शक्यते उन्नेतुम्-तत्तदृषिदृष्टानां बहूनां सूक्ताना. मेकर्षिकर्तृकः सङ्ग्रहो मण्डलमिति । अत एव सर्वानुक्रमणिकाया- मुक्तं शौनकेन3-'य आङ्गिरसः शौनहोत्रो भूत्वा भार्गवः शौनकोऽभ- वत्स गृत्समदो द्वितीयं मण्डलमपश्यत्' ( ऋ० सर्वानु० २।१ ) इति । न हि द्वितीयमण्डलगतानि सर्वाणि सूक्तानि गृत्समद एव दृष्टवान् १ ब्राह्मणाच्छंसी ऋत्विग्विशेषः । २ मुद्रितपुस्तकेषु षष्ठपञ्चिकाया विंशतितमे खण्ड एवायं पाठः दृश्यते । ३ शौनकशिष्यः कात्यायन एवास्य ग्रन्थस्य कति तु प्रसिद्धिः । ७ निक 4 ६८ निबन्धादर्शः किंतु सङ्गृहीतवान् । अन्यथा क्रतुकूर्मादीनां तत्तत्सूक्तर्षित्वेन तत्रैवा- नुक्रमणिकाग्रन्थेऽभिधानस्यासंगतः । मण्डलर्षय आश्वालायनगृह्यसूत्रे उक्ता :-'शतचिनो माध्यमा गृत्समदो विश्वामित्रो वामदेवोऽत्रिभरद्वाजो वसिष्ठः प्रगाथाः पाव- मान्याः क्षुद्रसूक्ता महासूक्ताः' (आश्व० गृ० ३।४।१ ) इति । मधुच्छन्दःप्रभृतयोऽगस्त्यन्ता श्राद्यमण्डले । ये सन्ति ऋषयस्ते वै सर्वे प्रोक्ताः शतचिनः ।। शतर्चिपदस्य निर्वचनं कृतं पूर्वाचार्य ददर्शादौ मधुच्छन्दा द्वयधिकं यहचां शतम् । तत्साहचर्यादन्येऽपि विज्ञेयास्तु शतचिनः ॥ अच्छत्राश्छत्रिणकेन यथा ते छत्रिणोऽभवन् । इति । द्वयधिकेऽपि शतोक्तिर्बाहुल्यात् । अन्त्ये मण्डले क्षुद्रसूक्तानां महा- सूक्तानां च द्रष्टार ऋषयोऽपि लक्षणया क्षुद्रसूक्ता महासूक्ता इति ध्यपदिश्यन्ते । महासूक्तलक्षणं बृहद्देवतायामुक्तम् - दशर्चताया अधिकं महासूक्तं विदुर्बुधाः। इति । एतेन-एकर्चप्रभृतिदशर्चपर्यन्तं क्षुद्रसूक्तम्- इति क्षुद्रसूक्तलक्षण- मपि सूचितं भवति । मध्यमेषु द्वितीयादिनवमान्तेषु मण्डलेषु य ऋष- यस्ते माध्यमा व्यपदिश्यन्ते । तथा च प्रथमस्य मण्डलस्य शर्चिनः, द्वितीयस्य गृत्समदः, तृतीयस्य विश्वामित्रा, चतुर्थस्य वामदेवः, पञ्च- मस्यात्रिः षष्ठस्य भरद्वाजः, सप्तमस्य वसिष्टः, अष्टमस्य प्रगाथाः, नव- अस्य पावमान्याः, दशमस्य क्षुद्रसूक्ताश्चेति गृह्यसूत्रार्थः । ऋषीणां लक्षणादिविचारः अथैषामृषीणां चातुर्विध्यमुक्तं पूर्वाचार्य ऋषीणामृषिपुत्राणामृषिकाणां स्वयंभुवाम् । तथा' नामाभिजानीयाद्यथैषां मन्त्रदृष्टयः॥ १ यथा यतो हेतोरेषामृध्यादीनां मन्त्रदृष्टयो वर्तन्ते तथा ततो हेतोरेषामृषि रित्येव सामान्यतो नाम जानीयात् ।
8 निबन्धादर्शः प्रवरैय समाख्याता ऋषयस्त इति श्रुतिः । तत्पुत्रपौत्रनप्तार ऋषिपुत्रा इति स्मृताः ।। राजन्यवैश्या'ऋषिकाः स्त्रियस्तास्तिर्यग्योनयः। देवाऽदेवाप्सरोनद्यो गन्धर्वास्ते स्वयम्भुवः ॥ इति । एषामुदाहरणानि प्रदर्श्यन्ते । अत्र तृतीयमण्डलद्राष्टा विश्वामित्रः तस्य पुत्रो मधुच्छन्दाः पौत्रो जेता च मन्त्रद्रष्टाऽभवत् तस्माद्विश्वामित्र- ऋषिः, मधुच्छन्दःप्रभृतयश्च ऋपिपुत्राः। यथा वा अङ्गिरसः पुत्रो रहूगणः, पौत्रो गोतमो, नप्ता वामदेवः, प्रणप्ता बृहदुक्थ्यः त इमे सर्व मन्त्रद्रष्टारो बभूवुः; तस्मादगिरा ऋषिः, रहूगणादयो हि ऋषि- पुत्राः । ऋषिक इत्यत्राल्पार्थे कन् । अल्पऋषिरित्यर्थः। तत्र राजन्य ऋपिको यथा- तृतीयाष्टके 'मम द्विता' (ऋ० ४।४२१) इति दशर्चस्य सूक्तस्य पुरुकुत्सपुत्रस्त्रसदस्यु नामा राजर्षिः। यथा वा तदग्रिमस्य ‘क उ श्रवत् ( ऋ० ४४४।। । इति सप्तर्चस्य सूक्तस्य पुरमीढाजमीढौ सुहोत्राभिधस्य राज्ञः पुत्रावृषी। वैश्य ऋषिको यथा-अष्टमाष्टकस्य द्वितीयाध्याये 'अग्निरिन्द्र' (ऋ० १०।६५।१ इति पञ्चर्चस्य सूक्तस्य ‘देवान् हुवे' (ऋ० १०।६६३१ इति पञ्चदशर्चस्य सूक्तस्य च वसुनपुत्रो वसुकर्ण ऋषिः । स च वैश्य इति सम्प्रदायविद आहुः । युक्तं चैतत्-वसु धनं सुवर्णर- जतादि क्रीणातीति वसुक्र इति नामधेयपदस्य तथैव स्वारस्यावगमात् । । - १ प्रवरैमन्त्रदर्शिभिः पुत्रपौत्रादिभिर्ये समाख्याताः प्रसिद्धास्ते ऋषयः कथ्यन्त इति शेषः। नप्ता प्रपौत्रः। २ राजन्यवैश्याः, अपि च ताः स्त्रियः गोधाघोषाप्रभृतयो ब्रह्मवादिन्य इति प्रसिद्धाः ऋषिका इत्युच्यन्ते । ऋषिका इति पुंसि स्त्रिया च तन्त्रेण बहुवचनान्तं प्रयुक्तम् । तिर्यग्योनयः पशुजातयः । देवा अदेवा इत्यादयस्ते स्वयम्भुव इति व्यपदिश्यन्ते।
१०० निबन्धादर्शः त्रिय ऋषिका यथा- चतुर्थाष्टकस्य प्रथमाध्याये 'समिद्धो अग्नि' (ऋ० ५।२८।१ ) इति षडर्चस्य सूक्तस्यात्रिपुत्री विश्ववारानाम्नी ऋषिका । यथा वा अष्ट माष्टके षष्टाध्याये 'तेऽवदन्' ऋ० १०।- १०६।१ ) इति सप्तर्चस्य सूक्तस्य ब्रह्मजाया जुहूनाम्नी ऋषिका । स्वायम्भुवो यथा--'इन्द्रस्य दूतीरिषिता चरामि' ( ऋ० १०।- १०८।२) इति, 'नाहं तं वेद' ( ऋ० १०।१०८।४ । इति चैवमादीना- मष्टमाष्टकस्य षष्ठेऽध्याये पठितानां कासांचिहचां सरमानाम्नी देवशुनी ऋषिका। सा हि तिर्यग्योनिः। उपनयनाध्ययनाद्यभावेऽपि स्वयं तल्लक्षणं वेदितव्यम् । देवाद्या अप्युपनयनाद्यभाववन्तः स्वयंप्रतिभात- वेदा एवेति नैतल्लक्षणमतिवर्तन्ते । यथा वा अष्टमाष्टकस्य तृतीया- ध्याये 'अग्निः सप्तिं वाजम्' ( ऋ० १०।८०११ ) इति सप्तर्चस्य सूक्तस्य सौचीकोऽग्निर्देव ऋषिः । एवं यथा यथमुदाहार्यम् । स्पष्टश्चायमृषिसूक्तादिलक्षणविचारः शौनकीय ( ? कात्यायनीय ) सर्वानुक्रमणिकाभाष्ये। चतुर्विधानामप्येषां सामान्यलक्षणं तु 'मन्त्र- दृशः' इत्येव पूर्वाचार्यैरुदाहृतम् । दर्शनं ज्ञानम , तज्ञ परमेश्वरप्रसाद- लब्धं सर्वेषामविशेषात् । किश्च दर्शनं नाम सिद्धस्य वस्तुनो विषयी- करणं नतूत्पादनम् । एवं चर्षयो न वेदस्य कर्तारः, किन्तु द्रष्टार इति बोध्यम् । वेदानामृषिककत्वखण्डनम् स्यादेतत्- 'यस्य वाक्यं स ऋषिः। या तेनोच्यते सा देवता। यदक्षरपरिमाणं तच्छन्दः । अर्थेप्सव ऋषयो देवताश्छन्दोभिरुपाधा- वन्', (ऋ० सर्वानु० परिभाषा २।४-७ ) इति सर्वानुक्रमण्यां शौनको ( ? कात्यायनो) क्तेः, 'अर्थकाम ऋषिर्यस्यां देवतायामा- , . १ स्तुतवन्त इत्यर्थः।
निबन्धादर्शः १०१ र्थपत्य 'मिच्छन् स्तुतिम् प्रयुङ्क्ते स तदैवत्यो मन्त्रः' (नि० ७१।) कर्त्तार एव ऋषयः किं न स्युः। किञ्च मन्त्रलिङ्गादपि ऋषीणां मन्त्र- कर्तृत्वं प्रतीयते । तथाहि । 'सोम गोर्भिष्ट्वा वयं वर्धयामो वचोविदः' ( ऋ १।६।११) इति मन्त्रो 'हे सोम वचोविदो वयं त्वा त्वां गीर्भि- वर्द्धयामः स्तुमः' इत्यर्थकः, तथाबृहदेवतोक्तम् ऋषिसूक्तानि यावन्ति सूक्तान्येकस्य वै कृतिः ( बृ० दे० १३१४ ) इति ऋषिसूक्तलक्षणं च वेदवाक्यानि ऋषिकर्तृ काणि इत्यावेदयति इति चेत् । मैवम् । वेदानामपौरुषेयत्वस्य मीमांसाशास्र सिद्धान्तितत्वात् । तथाहि-प्रमाणान्तरेणार्थमुपलभ्य पुरुषनिर्मितत्वं हि पौरुषेयत्वम् । तब वेदस्य नास्ति । तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ ऋ० १०६०।६) इति ऋमन्त्रेण वेदस्य पौरुषेयत्वमवगम्यत इति वाच्यम् । उक्तमन्त्रेण वेदस्य यज्ञपुरुपादुत्पन्नत्वमात्रबोधनेऽपि प्रमा- णान्तरेणार्थमुपलभ्य रचितत्वाबोधनात् । ईश्वरः सर्वज्ञत्वाद् गतक- ल्पीयं वेदमस्मिन् कल्पे स्मृत्वोपदिशतीत्येतावतैव निर्वाहे पौरुषेयत्व- कल्पनानुपपत्तेश्च । 'धाता यथापूर्वमकल्पयत्' ( ऋ० १०।१६०।३ ) इति श्रुतिमूलकेन 'यः कल्पः स कल्पपूर्वकः' इति न्यायेन संसार- स्यानादित्वाच्च । काठकादिसमाख्यानमपि अध्ययनसम्प्रवर्तकत्वे- नोपपत्तेश्चेत्याहुः। अर्थस्य अभिलाषविषयस्य पतिः स्वामी, प्रदाने प्रभुरिति यावत् । अर्थप- तेर्भाव आर्थपत्यम् । २ सर्वैर्देवमनुष्यादिभिहूं यते इष्यते यस्तस्मात्सर्वहुतो यज्ञात् परमेश्वराहगादयो नजिर इत्यर्थः।
+- निबन्धादर्शः युक्तं चैतत् । अत एव युगान्तेऽन्तर्हितान्वेदान् सेतिहासान महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा ।। इति स्मर्यते। तथा तैत्तिरीययजुरारण्यके सहवउपनिशदि 'अजान ह वै पृश्नी स्तपस्यमानान् ब्रह्म स्वयम्भवम्यानर्ष त ऋषयोऽभवंस्तहषी- णामृषित्वम्' ( cp तै० आ० २६) श्रूयते । स्वयम्भु प्रमाणान्तर- मनुपजीव्य स्वयम्भूतं स्वतःप्रमाणभूतमिति यावत् । ब्रह्म वेदःतपश्च- रतोऽजान अयोनिसम्भवान् पृश्नीन पुरुषान् प्रति अभ्यानर्ष अभिज- गाम । ऋषी गतौ तुदादिः । परोक्षे लिट् । अतस्ते ऋषयोऽभवन्नित्या- दिस्तदर्थः । नैरुक्तग्रन्थे द्वितीयाध्याये 'ऋषिर्दर्शनात्स्तोमान् ददर्शत्यो- पमन्यवः' ( नि०२।११) इति वदन् यास्कमुनिरपि ऋषिशब्दप्रवृत्ति- निमित्तं वेदसम्बन्धि दर्शनमेव निर्णीतवान् । एवं च ऋषति वेदं पश्य- तीत्यृषिः। धातूनामनेकार्थकत्वादन ऋषेर्धातोर्दर्शने वृत्तिः, गत्यर्थकानां ज्ञानार्थकत्वाद्वा । प्रकृते हि दर्शनं प्रत्यक्षीकरणमेव, न तु चाक्षुषं ज्ञान- मिति भावः। किश्च अहे बुध्निय मन्त्रं मे गोपाय । यमृषयस्त्रविदा विदुः । ऋचः सामानि यजू पि । सा हि श्रीरमृता सताम् ॥ ( तै० ब्रा० २।१।२६ ) इति कृष्णयजुर्मन्त्रेण ऋषयो विदुरित्यक्तत्वा- तेषां वेदकर्तृत्वाभावो बोधितः । अन्यथा चक्रुरित्येव तत्र श्रुतं स्यात् । यत्तु ‘सोम गीर्भिष्टा वयमिति मन्त्रलिङ्ग कर्तृत्वसाधकतयोपन्य- स्तम् । तत्तु न तथा साधयति, 'वचोविद' इति विशेषणेन पूर्वसिद्धा- नामेव वेदवचसां वेत्तारो वयमित्यर्थस्य क्रोडीकारात् ( ? = करणात् ), १ विदा ऋषय ऋचः सामानि यजूंषीत्येवंरूपं यं विदुर्शातवन्तस्तं मे मन्त्रं वेदत्रयलक्षणं हे अहे बुध्निय त्वं गोपाय रक्षत्व । सा वेदत्रयी हि यतो हेतोः सता- ममृता अक्षया श्रीः सम्पत्तिरित्यर्थः।
निबन्धादर्शः 'गीभि रित्यस्य वेदवाणीरित्यर्थाञ्च । नन्वेवमपि वयमित्यस्मच्छब्द- प्रयोगाद् ‘वर्द्धयामः' इत्युत्तमपुरुषप्रयोगाच्चैवंविधमन्त्राणामृषिकर्तृ- कत्वं दुर्निवारम् । स्वप्रणीतेष्वेव वाक्येषु वयं स्तुमो वयमवोचाम इत्यादिप्रयोगदर्शनादिति चेत् । सत्यम् । परन्तु नैष दोषो वेदे सम्प्र- सरति, निजतपोमहिम्मा प्राप्तपरमेश्बरतादात्म्यानामृषीणां मुखतः प्रादुर्भूततथाविधवाक्यानामपि परमेश्वरप्रणीतत्वावधारणात् । तथा चोक्तं शतपथब्राह्मणे चतुर्दशप्रपाठकस्य चतुर्थाध्याये "ब्रह्म वा इदमग्र आसीत् । तदात्मानमेवावेदहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत् तद्यो देवानां प्रत्यबुध्यत स एव तदभवत् । तथर्षीणां तथा मनुष्याणाम् , तद्वैतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्चाहं कत्तीवां ऋषिरस्मि विप्रेती'त्यादि । 'अहं मनुरभवम्' (अ० ४।२६।१) इति सूक्तमृग्वेदे तृतीयाष्टकस्य षष्ठेऽध्याये पठ्यते । अनेन सूक्तेन वामदेव ऋपिविश्वरूपब्रह्मभावं साक्षात्कृतवतः स्वस्यानुभवमनुवदति । एवमैत- रेयकेऽपि श्रूयते ( ? ~'य एते खल्वमी मन्त्र दृशः सर्व एते परस्यैव विभूति'रिति । 'यस्य वाक्यं स ऋषिः' इति सर्वानुक्रमणीसूत्रस्य तु यस्य दृष्टं वाक्यमित्यर्थ इति न कोऽपि विरोधः एवं च 'गृत्समदो द्वितीयमण्डलमपश्यन्' (अ. सर्वानु० २।१) इति सर्वानुक्रमगतं सूत्रमपि सङ्गच्छते । अन्यथा स्वग्रन्थेनैव विरुध्येत । किंच बृहद्देवतोक्ते ऋषिसूक्तलक्षणे-'ऋषिसूक्तानि यावन्ति सूक्तान्येकस्य वै कृति' रित्यत्र कृतिरित्यस्य दर्शनक्रियेत्यर्थः सकलश्रुतिस्मृत्यनुरोधादवगन्तव्यः । १ अग्रे सृष्टेः पूर्वम् इदम् संप्रति दृश्यमानं विश्वम् ब्रह्मैवासीत् । वाशब्द एवार्थे । तद् ब्रह्म आत्मानमेवाहं ब्रह्मास्मीत्यवेत् साक्षादकरोत् । तस्मात् ततश्च तद् ब्रह्म सर्वे विश्वरूपमभवत् । तत् तस्मात् कारणात् देवानामृषीणां मनुष्याणां वामदेवः पुमान प्रत्यबुध्यत प्रत्यगात्मनो ब्रह्मभावं साक्षाद करोत् स एव पुमान् तत् विश्वरूपं ब्रह्माभवत् । अत्रार्थे वामदेवस्य महर्षेरनुभवं ऋग्वेदप्रसिद्धं संवादयन्त-अहं मनु- रित्यादिना ॥
१०४ निबन्धादर्शः अथ वेदस्य श्रुतिरिति संज्ञापि श्रूयत एवायं सर्वेर्न त्वस्य कश्चि- च्छरीरी कर्मोपलभ्यत इति तात्पर्यमवधारयति । एवं च पारम्पर्यक्र- मागतमेव वेदज्ञानं सर्वेषाम् , न तु ऋषयोऽपि तस्य स्वतन्त्राः कर्त्तार इति लभ्यते । अत एव ऋग्वेदे तृतीयाष्टकस्य चतुर्थाध्याये पठ्यते-- ''महो रुजामि बन्धुता वचोभिस्तन्मा पितुर्गोतमादन्वियाय' ( अ. ४।४।११) इति । तथा ऐतरेयब्राह्मणे पठ्यते 'प्रजापतिरकामयत प्रजा. येय भूयान्स्यामिति स तपोऽतप्यत स तपस्तप्त्वेमान लोकानसृजत पृथिवीमन्तरिक्षं विश्वम् । तान् लोकानभ्यतपत्। तेभ्योऽभितप्तेभ्य- स्त्रीणि ज्योतीष्यजायन्ताग्निरेव पृथिव्या अजायत वायुरन्तरिक्षादा- दित्यो दिवस्तानि ज्योतीष्यभ्यतपत् तेभ्योऽभितप्तेभ्यस्त्रयो वेदा अजा- यन्त ऋग्वेद एवाग्नेरजायत यजुर्वेदो वायोः सामवेद आदित्यात् । तान् वेदानभ्यतपत् तेभ्योऽभितप्तेभ्यस्त्रीणि शुक्राण्यजायन्त भूरित्येव ऋग्वेदादजायत भुव इति यजुर्वेदात् स्वरिति सामवेदात् । तानि शुक्राण्यभ्यतपत् तेभ्योऽभितप्तेभ्यस्त्रयो वर्णा अजायन्ताकार उकारो मकार इति । तानेकधा समधरत्तदेतदोमिति' ( ऐ० ब्रा०३२) इति । एतद्ब्राह्मणपर्यायलोचनया प्रजापतिरेवाने स्वतपःप्रभावेण सप्रणव- व्याहृतिका त्रयीमपश्यत् ततः परं यथायथं निजतपोवलेन तैस्तैऋषि. भिस्ते ते मन्त्रादिभागाः परमेश्वरप्रसादतो लब्ध्वा यथास्थितस्वरव- नुरूपं पठित्वा लोकेऽत्र प्रकटीकृता इति प्रतीयते इत्याहुः । ननु यदि सिद्धानामेव मन्त्राणां दर्शनं मधुच्छन्दःप्रभृतीनामृषित्व- १ हे अग्ने यदहं महा कमनीयं यथा स्यातथा बन्धुता त्वदीयत्वेन बन्धनशो- लत्वम् । द्वितीयार्थे व्यत्ययेन प्रथमा । वचोभिः कृत्वा रुजाभि संपादयामि । तदे- तत् मा मां प्रति गोतमात् पितुर्मजनकात् सकाशात् अन्वियाय अनुगतम् प्रास- मित्यर्थः। २ अभ्यतपत् स्वतपःप्रभावसंस्कृतान् अकरोदित्यर्थः । एवमग्रेऽपि बोध्यम् । प्रजापतितपःप्रभावेण तेभ्यस्तेभ्यस्तानि तानि वस्तून्यजायन्तेति भावः ।
निबन्धादर्शः १०५ सम्पादकम् , तहींदानींतनेषु श्रोत्रियेष्वपि ऋषित्वमतिप्रसज्येतेति चेत् । मैवम् । इह लोके स्वेतरैदृष्टपूर्वाणामेव श्रुतिवाक्यानां गुरुदेवताप्रसा- देन संजातदर्शनस्यैव स्वस्मिन्नृषित्वसम्पादकत्वादित्यलमनया प्रस- क्तानुप्रसक्तथा। प्रकृतमनुसराम:- यजुर्वेदमानं तच्छाखाश्च 'एकशतमध्वर्युशाखाः' ( महाभा० पस्पशा०) इति महाभाष्ये पतञ्जलिराह । 'यजुर्वेदस्य षडशीतिभेदा भवन्ति' (च० २) इति चरणव्यूहः । परन्त्वेषु शाखाभेदेषु कतिचिदुच्छिन्नाः सन्तो नामतोऽपि न ज्ञायन्ते । येषां हि नामानि ग्रन्थेषूपलभ्यन्ते तान् भेदान् वदामः- चरकाः, आह्वरकाः, कठाः, प्राच्यकठाः, कापिष्ठलकठाः, चारायणीयाः, वारतन्तवीयाः, श्वेताः, श्वेततराः, औपमन्यवाः, पाताण्डिनेयाः, मैत्राणीयाश्चेति । मैत्रायणीयानामपि षड् भेदा भवन्ति-मानवा वाराहा दुन्दुभाश्छागलेया हारिद्रवीयाः श्यामायनीयाश्चेति । तथा चरकविशेषाणां तैत्तिरीयकाणां द्वौ भेदौ भवतः-औखीयाः खाण्डि- कीयाश्चेति । खाण्डिकीया अपि पञ्चधा भिन्नाः-आपस्तम्बी बौधा- यनी सत्याषाढी हिरण्यकेशी शाटथायनी चेति । वारतन्तवीया औखीयाः खाण्डिकीयास्तैत्तिरीया इत्यत्र 'तित्तिरिवरतन्तुखण्डिको- खाच्छण' (अष्टा० ४।३।१०२) इति पाणिनीयसूत्रेण छएप्रत्ययः, आपस्तम्बीत्यादिपञ्चसु 'कलापिवैशम्पायनान्तेवासिभ्यश्च' (अष्टा० ४।३।१०४ ) इति सूत्रेण णिनिः। एषां सर्वेषां स्वाध्यायमानं चरण- व्यूहे प्रोक्तम् - अष्टादश सहस्राणि मन्त्रब्राह्मणयोः सह । यजूंषि यत्र पठ्यन्ते स यजुर्वेद उच्यते ॥ ( cp. च०२) इति । - निबन्धादर्शः सर्व एवैते भेदाः कृष्णयजुःशब्देन व्यवह्रियन्ते । वक्ष्यमाणाः काण्वमाध्यन्दिनादयस्तु शुक्लयजुःशब्देन । तत्कारणं सम्प्रदायविद एवमाहुः-वशैम्पायनो नाम यजुर्वेदाचार्यो येनाध्यापिता बहवः शिष्या वेदवेदाङ्गपारगाः संवृत्ताः। स कदाचित्केनचिनिमित्तेन ब्रह्महत्यापा- तकवान् संवृत्तः। ततो द्वादशवार्षिकं ब्रह्महत्यापापापहं व्रतं चरितुका- ममाचार्य प्रति शिष्याः प्रोचुः - भगवन् द्वादशवार्षिकस्यैतद्वतस्य पष्टयुत्तराणि त्रीणि शतानि प्राजापत्यानि भवन्ति तानि सवं वयं भवत्पापक्षयार्थं चराम इति । अनुमतं च तत्तथास्त्वित्याचार्यण । यदाह व्यासः- - वैशम्पायनशिष्यास्ते चरकाध्वर्यवोऽभवन् । यच्चेरुर्ब्रह्महत्यांहःक्षपणं स्वगुरोर्बतम् ।। इति ।। एवं व्रतं चरत्सु तेषु याज्ञवल्क्यनामा शिष्यो गुरुमभ्येत्य प्रोवाच- 'भो भगवन् किमेतेषां क्षुद्राणां व्रतचर्यया भविष्यति, नूनमहमेवैकः सुदुश्चरमपि भवद्वतं चरिष्ये' इति । तच्छ्रुत्वा कुपितो गुरुरुवाच- 'अलं त्वया ब्राह्मणावमानिनाभिमानिना, यद्धीतं मत्तस्तदाशु त्यजे' ति । सोपि 'किमहं निगीर्णमन्नमिवाधीतं वमामी'त्युपहासवादं वदन् गुरुणा 'तथैवास्त्विति प्रत्युक्तो यावच्छर्दितवांस्तावद्वाङ्मयं वेदज्यो- तिर्मुन खदिराङ्गारकल्पं पुरस्ताद् भुवि विप्रकीर्णमपश्यत् , स्वयं च न किञ्चिदधीतं सस्मार । ततो याज्ञवल्क्येन प्रच्छदितं वेदराशि गुर्व- नुज्ञया शिष्या जगृहुः । परं छर्दितस्यादनं विप्ररूपेणानुचितमपि मनसि निधाय तित्तिरयो भूत्वा गृहीतवन्तस्ते तदाप्रभृति तैत्तिरीया अभूवन् । अथ याज्ञवल्क्यो भगवन्तं भास्करं तपसा प्रसाद्य वाजिरूपधरात्तस्मा- दलोकविदितं यजुवदमधिगतवान् । सोऽयं यजुर्वेदः शुक्ल इत्यभिधी- यते । यतोऽत्र दर्शपौर्णमासप्रभृतिसर्वयज्ञेषूपयुक्तानां यजुर्मन्त्राणां ब्राह्मणासङ्कीर्णानां यथायोग्यक्रमेण विन्यासेन याज्ञिकानां व्यामोहाज- ननात् । प्राचीनयजुर्वेदस्य तु ब्राह्मणसङ्कीर्णत्वात् तत्तद्यज्ञियमन्त्राणाम निबन्धादर्शः १०७ प्यनुक्रमेण पाठाभावाच्च ततोयज्ञकर्मानुष्ठानमार्गस्य दुर्जेयत्वात् कृष्ण- त्वमिति । शुक्लयजुर्वेदस्य पञ्चदश भेदाः सन्ति । काण्वा माध्यन्दिना जाबाला बुधेयाः शाफेयास्तापनीयाः कपोलाः पौण्ढ़वत्सा आवटिकाः परमाव- टिकाः पाराशरीया वैनेया वैधेया औधेया गालवाश्चेति । सर्व एते वाजसनेयिन इति व्यपदिश्यन्ते । एतद्वेदस्य मानमुक्तं चरणव्यूहे- द्वे सहस्र शतन्यूने मन्त्रा वाजसनेयके । तावन्मानेन संख्यातं वालखिल्यं सशुक्रियम् ।। ब्राह्मणं तु समाख्यातं प्रोक्तमानाच्चतुर्गुणम् । (cp. च०२) इति । वाजसनेयिनां ब्राह्मणं शतपथसंज्ञकम् । तञ्चार्वाचीनमिति भट्टोजी- दीक्षितमतम् । सिद्धान्तकौमुद्यां 'पुराणाप्रोक्तेषु ब्राह्मणकल्पेषु' (अष्टा० ४।३।१०५) इति सूत्रे 'भाल्लविनः शाट्याय निन' इत्युदाहृत्य, 'पुराणेति किम् । याज्ञवल्क्यानि ब्राह्मणानीति प्रत्युदाहृतम् । तत्स्वारस्याद्यद्यपि याज्ञवल्क्यो न पुराणो मुनिरिति प्रतीयते । तथापि 'याज्ञवल्क्यादिभ्यः प्रतिपेधस्तुल्यकालत्वात्' ( वार्त्तिक० ४।३।१०५ । इति 'तद्विषयता च न' (महाभा० ४।२।६६) इति वचनमेतत्सूत्रभाष्ये पतञ्जलिनोपन्यस्तम् । तत्स्वारस्येन याज्ञवल्क्यः पुराण एवेति लभ्यते । अन्यथा वचनारम्भो व्यर्थः स्यात् । पुराणपदेनैव तद्वयावृत्तेः सिद्धत्वात् । याज्ञवल्क्यस्य वै. शम्पायनान्तेवासित्वेन शाटयायनादितुल्यकालभवत्वाच्च । स्पष्टं चेद- मत्रैव सूत्रे शब्देन्दुशेखरे इति दिक् । सामवेदमानं तच्छाखाश्च अथ सामवेदस्य सहस्रं शाखा आसन् । तत्रानध्यायवधीयाना बहवः शाखाध्यायिन इन्द्रेण शतबर्वणा निहतास्ततः प्रभृति बह्वयः १०८ निबन्धादर्शः शाखा उच्छिन्नाः। कतिचिदेवावशिष्टाः प्रचरन्ति । यथा-राणायनी- याः शाटयमुग्राः कापोला महाकापोला लाङ्गलिकाः शार्दूलाः कौथुमा- नां षड्भेदाः सन्ति । श्रासुरायणा वातायना प्राञ्जलयो वैनधृताः प्रा- चीनयोग्या नैगेयाश्चेति । एतन्मानमुक्तं चरणव्यूहे. अष्टी सामसहस्राणि सामानि च चतुर्दश। ऊह्यानि सरहस्यानीत्येतत्सामगणः स्मृत । (cf च०३) इति । अथर्ववदस्य मानं शाखाश्च आथर्वणवेदस्य नव भेदा भवन्ति-पप्पलादाः शौनकीया दामो- दास्तोत्तायना जायला ब्रह्मपलाशाः कुनखी देवदर्शी चारणविद्याश्चेति । एतन्मानमुक्तं चरणव्यूहे- द्वादशानि सहस्राणि मन्त्राणां त्रिशतानि च । गोपथं ब्राह्मणं वेदेऽथर्वणे शतपाठकम् ॥ (cf. च०४) इति । इदमत्र सम्प्रधार्यम्-मन्त्रब्राह्मणयोर्वेदत्वाविशेषेऽपि अत्र लोके प्रागवतरणं मन्त्रभागस्य ततः कालान्तरेण ब्राह्मणभागस्येति । सर्वत्र ब्राह्मणग्रन्थेषु तत्तद्वेदमन्त्राणां यज्ञकर्मसु यथायथमुपयोगस्य बहुधा प्रदर्शितत्वात् । मन्त्रभागेष्वपि ऋक्संहितायाः प्रथममवतरणं ततो यजुःसंहितादेः । यजुर्वेदे बहूनामृङमन्त्राणामनुवाददर्शनात् । ऋङमन्त्रानवलम्ब्यैव च सर्वेषां साम्नां गीयमानत्वात् । एवं वक्ष्यमा. णलक्षणानि कल्पसूत्राणि ब्राह्मणग्रन्थोत्तरकालानि । तेषां ब्राह्मणग्रन्थ- बोधितयज्ञादिकर्मकाण्डप्रपञ्चभूतत्वादिति बोध्यम् । [ आर्यविद्यासुधाकरात् ] १ शतपाठकमित्यर्थः।
निबन्धादर्शः १०६ २६-वेदाङ्गानि तदुपयोगश्च [ "ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयोज्ञेयश्च" इत्याह खलु पस्पशाहिके महाभाष्यकारो भगवान् पतञ्जलिः। अन्यानि चैवं. विधानि प्रमाणान्यत्र विषये दृश्यन्ते । तत्र तेषामङ्गानां स्वरूपोपयोग वर्णनपरः कश्चिदंशः सायणीयऋग्वेदभाष्यभूमिकातोऽत्र समुद् ध्रियते ।] अतिगम्भीरस्य वेदस्यार्थमवबोधयितुं शिक्षादीनि षडङ्गानि प्रवृ- त्तानि । अत एव तेषामपरविद्यारूपत्वं मुण्डकोपनिषद्याथर्वणिका आमनन्ति-'द्वे विद्यो वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति । परा चैवापरा च । तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ग्योतिषमिति । अथ परा यया तदक्षर- मधिगम्यते' (मु० उ० ११११४) इति । साधनभूतधर्मज्ञानहेतुत्वात्पडङ्गसहितानां कर्मकाण्डानामपरवि- द्यात्वम् । परमपुरुषार्थभूतब्रह्मज्ञानहेतुत्वादुपनिपां परविद्यात्वम् । वर्णस्वरायुच्चारणप्रकारो ययोपदिश्यते सा शिक्षा । तथा च तैत्तिरी- या उपनिषदारम्भे समामनन्ति-'शिक्षा व्याख्यास्यामः । वर्णः स्वरः मात्रा बलं साम संतान इत्युक्तः शीक्षाध्यायः' इति । वर्णोऽकारादिः स चाङ्गभूतशिक्षाग्रन्थे स्पष्टमुदीरितः- त्रिषष्टिश्चतुःषष्टिा वर्णाः संभवतो मताः। प्राकृते संस्कृते चापि स्वयं प्राक्ताः स्वयंभुवा ॥ इत्यादिना । स्वर उदात्तादिः । सोऽपि तत्रोक्तः उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः। मात्रा ह्रस्वादिः । सापि तत्रोक्ता- हस्वो दीर्घः प्लुत इति कालतो नियमा अपि। . - 44 ११० निबन्धादर्शः बलं स्थानप्रयत्नौ। तत्र 'अष्टौ स्थानानि वर्णानाम्' इत्यादिना स्थानमुक्तम् । 'अचोऽस्पृष्टा यणस्त्वीषद्' इत्यादिना प्रयत्न उक्तः । सामशब्देन साम्यमुक्तम् । अतिद्रुतातिविलम्बितगीत्यादिदोषराहित्येन माधुर्यादिगुणयुक्तत्वेनोञ्चारणं साम्यम् । 'गीती शीघ्री शिरःकम्पी' इत्यादिना 'उपांशुदष्टं त्वरितम्' इत्यादिना दोषा उक्ताः। 'माधुर्यम- क्षरव्यक्तिः' इत्यादिना गुणा उक्ताः। संतानः संहिता। वायवायाही- त्यत्रावादेशः । इन्द्राग्नी आगतमित्यत्र प्रकृतिभावः । एतच्च व्याकरणेऽ- भिहितत्वाच्छिक्षायामुपेक्षितम् । शिक्ष्यमाणवर्णादिवैकल्ये बाधस्तत्रोदाहृतः-- मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वनो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ।। 'इन्द्रशत्रुर्वर्धस्व' ( तै० सं० २।४।१२।१ ) इत्यस्मिन् मन्त्र इन्द्रस्य शत्रुर्घातक इत्यस्मिन् विवक्षितेऽर्थे तत्पुरुषसमासे 'समासस्य (अष्टा० ६।१२२३ .' इति सूत्रेण तत्पुरुषत्वादन्तोदात्तेन भवितव्यम् । आधु- दात्तस्तु प्रयुक्तः । तथा सति पूर्वपदप्रकृतिस्वरत्वेन बहुव्रीहित्वादिन्द्रो घातको यस्येत्यर्थः संपन्नः । तस्मात् स्वरवर्णाद्यपराधपरिहाराय शिक्षा- ग्रन्थोऽपेक्षितः। कल्पस्त्वाश्वलायनापस्तम्बबौधायनादिसूत्रम् । कल्प्यते समर्थ्यते याग- प्रयोगोऽत्रेति व्युत्पत्तेः। ननु आश्वलायनः किं मन्त्रकाण्डमनुसृत्य प्रवृत्तः, किंवा ब्राह्मण- मनुसृत्य । नाद्यः । 'दर्शपौर्णमासौ तु पूर्व व्याख्यास्यामः' ( आ० श्रौ० २११३ ) इत्येवन्तेनोपक्रान्तत्वात् । नह्यग्निमीळ इत्यादयो मन्त्रा दर्श- पौर्णमासयोः क्वचिद् विनियुक्ताः। न द्वितीयः। आग्नावैष्णवमेका- निबन्धादर्शः १११ दशकपालं पुरोडाशं निर्वपन्ति दीक्षणीयायाम्' इत्येवं दीक्षणीयेप्टेबर्बा- णोपक्रान्तत्वात् । अत्रोच्यते । मन्त्रकाण्डो ब्रह्मयज्ञादिजपक्रमेण प्रवृत्तो, न तु यागा- नुष्ठानक्रमेण । ब्रह्मयज्ञश्चैवं विहितः । “यत् स्वाध्यायमधीयीतैकाम- प्यूचं यजुः साम वा तद् ब्रह्मयज्ञः' ( तै० श्रा० २।१०।६) इति । सोऽयं ब्रह्मयज्ञजपोऽग्निमीळ इत्याम्नायक्रमेणैवानुष्ठेयः । तथा 'सर्वा ऋचः सर्वाणि यजूंषि सर्वाणि सामानि वाचः स्तोमे परिल्पवं शंसती' 'विधीयते । तथाश्विने संपत्स्यमाने 'सूर्यो नोदियादपि सर्वा दाशत- यीरनुयाति'दि विधीयते । तथा 'रिच्यत इव वा एष प्रेव रिच्यते यो याजयति यो वा प्रतिगृह्णाति याजयित्वा प्रतिगृह्य वानश्ननू त्रिः स्वाध्यायं वेदमधीयीते ति प्रायश्चित्तरूपं वेदपारायणं विहितम् । इत्यादिषु कृत्स्नमन्त्रकाण्डविनियोगेषु संप्रदायपारम्पर्यागत एव क्रम आदरणीयः। विशेषविनियोगं तु मन्त्रविशेषाणां श्रुतिलिङ्गवाक्यादि- प्रमाणान्युपजीव्याश्वलायनो दर्शयति। अतो मन्त्रकाण्डक्रमाभावेऽपि न कश्चिद् विरोधः। इथे त्वेत्यादिमन्त्रास्तु क्रत्वनुष्ठानक्रमेणैवाम्नाता इत्यापस्तम्बादय- स्तेनैव क्रमेण सूत्रनिर्माणे प्रवृत्ताः। आम्नातत्वादेव जपादिष्वपि स एव क्रमः। यद्यपि ब्राह्मणे दीक्षणीयेष्टिरुपक्रान्ता तथापि तस्या इष्टेर्द- शपौर्णमासविकृतित्वेन तदपेक्षत्वादाश्वलायनस्यादौ तव्याख्यानं युक्तम् । अतः कल्पसूत्रं मन्त्रविनियोगेन क्रत्वनुष्ठानसुपदिश्योपकरोति । तर्हि 'प्र वो वाजाः' इत्यादीनां सामिधेनीनामृचामेव विनियोग- माश्वलायनो ब्रवीतु । 'नमः प्रवक्त्रे' इत्यादयस्त्वनाम्नाताः कुतो विनियुज्यन्त इति चेत् । नायं दोषः । शाखान्तरसमाम्नातानां ब्राह्मणा- न्तरसिद्धस्य विनियोगस्य गुणोपसंहारन्यायेनात्र वक्तव्यत्वात् । सर्व शाखाप्रत्ययमेकं कर्मेति न्यायविदः । तस्माच्छितेव कल्पोऽप्यपेक्षितः।
११२ निबन्धादर्शः व्याकरणमपि प्रकृतिप्रत्ययाद्युपदेशेन पदस्वरूपतदर्थनिश्चयायोपयुज्यते । तथा चैन्द्रवायवग्रहब्राह्मणे समाम्नायते- 'वाग्वै पराच्यव्याकृता- वदत्ते देवा इन्द्रमब्रुवन्निमां नो वाचं ध्याकुविति । सोऽब्रवीद् वरं वृणे मांचैवैष वायवे च सह गृह्याता इति तस्मादैन्द्रवायवः सह गृह्यते । तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत् । तस्मादियं व्याकृता वागुद्यते' ( तै० सं० ६।४।७३ ) इति । अग्निमीळे पुरोहितमित्यादि- वाक्पूर्वस्मिन् काले पराची समुद्रादिध्वनिवदेकात्मिका सत्यव्याकृता प्रकृतिः प्रत्ययः पदं वाक्यमित्यादि विभागकारिग्रन्थरहितासीत् । तदानीं देवैः प्रार्थित इन्द्र एकस्मिन्नेव पात्रे वायोः स्वस्य च सोमरस- ग्रहणरूपेण वरेण तुष्टता मखण्डां वाचं मध्ये विच्छिद्य प्रकृतिप्रत्यया- दिविभागं सर्वत्राकरोत् । तस्मादियं वागिदानीमपि पाणिन्यादिमहर्षि- भिर्व्याकृता सर्वैः पठ्यत इत्यर्थः। तस्यैतस्य व्याकरणस्य प्रयोजनविशेषो वररुचिना वार्तिके दर्शितः। 'रक्षोहागमलध्वसंदेहाः प्रयोजनम्' इति । एतानि रक्षादिप्रयोजनानि प्रयोजनान्तराणि च महाभाष्ये पतञ्जलिना स्पष्टीकृतानि । रक्षार्थ वेदानामध्येयं व्याकरणम् । लोपागमवर्णविकारज्ञो हि सम्यग्वेदान् परिपालयिष्यति वेदार्थ चाध्यवस्यति । ऊहः खल्वपि । न सर्वैलिङ्गैन च सर्वाभिर्विभक्तिभिर्वेदे मन्त्रा निगदिताः। ते चावश्यं यज्ञाङ्गत्वेन यथायथं विपरिणमयितव्याः। तान्नावैयाकरणःशक्नोति विपरिणमयितुम् । तस्मादध्येयं व्याकरणम् । आगमः खल्वपि । ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽ- ध्येयो ज्ञेयश्चेति । प्रधानं च षट्वङ्गेषु व्याकरणम् । प्रधाने च कृतो यत्नः फलवान् भवति । लध्वर्थ चाध्येयं व्याकरणम् । बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दाना शब्दपारायणं प्रोवाच । नान्तं जगाम । बृह- स्पतिश्च वक्ता इन्द्रश्चाध्येता। दिव्यं वर्षसहस्रमध्ययनकालः। अन्तं निबन्धादर्शः ११३ च न जगाम । अद्यत्वे पुनर्यदि परमायुर्भवति स वर्षशतं जीवति । तत्र कुतः प्रतिपदपाठेन सकलपदावगमः । कुतस्तरां प्रयोगेण । असन्दोहार्थं चाध्येयं व्याकरणम् । याज्ञिकाः पठन्ति । स्थूलपृष. तीमाग्निवारुणीमनड्वाहीमालभेतेति । तत्र न ज्ञायते किं स्थूलानि पृषन्ति यस्याः सा स्थूलपृषती, किं वा स्थूला चासौ पृषती च स्थूल- पृषतीति । तान्नावैयाकरणः स्वरतोऽध्यवस्यति । यदि समासान्तोदा- तत्वं तदा कर्मधारयः। अथ पूर्वपदप्रकृतिस्वरत्वं ततो बहुव्रीहिरिति । इमानि च भूयः शब्दानुशासनस्य प्रयोजनानि । तेऽसुराः। दुष्टः शब्दः । यदधीतम् । यस्तु प्रयुङ्क्ते । अविद्वांसः। विभक्तिं कुर्वन्ति । यो वा इमाम् । चत्वारि । उत त्वः । सक्तुमिव । सारस्वतीम् । दशम्यां पुत्रस्य । सुदेवो असि वरुण । तेऽसुराः। तेऽसुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुः । तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै । म्लेच्छो ह वा एष यदपशब्द । म्लेच्छा मा भूमेत्यध्येयं व्याकरणम् । दुष्टः शब्दः। दुष्टः शब्दः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ।। दुष्टान् शब्दान् मा प्रयुक्ष्महीत्यध्येयं व्याकरणम् । यदधीतम् । यदधीतमविज्ञातं निगदेनैव शब्द्यते । अनमाविव शुष्कधो न तज्ज्वलति कर्हिचित् ॥ अविज्ञातार्थकं माधिगीष्महीत्यध्येयं व्याकरणम् । यस्तु प्रयुङ्क्ते ।। यस्तु प्रयुक्ते कुशलो विशेषे शब्दान् यथावद् व्यवहारकाले । सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद् दुष्यति चापशब्दैः ।। ८ नि० ११४ निबन्धाद कः । वाग्योगविदेव । यो हि शब्दाजानास्यपशब्दानप्यसो जानाति । यथैव शब्दज्ञाने धर्मः, एवमपशब्दज्ञानेऽप्यधर्मः प्राप्नोति । अथवा भूयानधर्मः प्राप्नोति । भूयांसोऽह्यपशब्दा अल्पीयांसः शब्दाः। एकैकस्य हि शब्दस्य बहवोऽपभ्रंशाः। यथा गौरित्येतस्य शब्दस्य गावी गोणी गोता गोपोतलिकेत्येवमादयः। अथ योऽवावाग्योगविदशनं तस्य शरणम् । विषम उपन्यासः। नात्यन्तायाज्ञानं शरणं भवितुम- हति । यो धजानन्वै ब्राह्मणं हन्यात् सुरां वा पिबेत् सोऽपि मन्ये पतितः स्यात् । एवं तर्हि कः । अवाग्योगविदेव । अथ यो वाग्योगवि. ज्ज्ञानं तस्य शरणम्। अविद्वांसः। अविद्वांसः प्रत्यभिवादे नाम्नो ये न प्लुतिं विदुः । कामं तेषु तु विप्रोष्य स्त्रीष्विवायमहं वदेन् ।। स्त्रीवन्मा भूमेत्यध्येयं व्याकरणम् । विभक्तिं कुर्वन्ति । याज्ञिकाः पठन्ति । प्रयाजाः सविभक्तिकाः कार्या इति । न चान्त- रेण व्याकरणं प्रयाजाः सविभक्तिकाः शक्याः कर्तुम् । तस्माद् अध्येयं व्याकरणम्। यो वा इमाम् । यो वा इमां पदशः स्वरशोऽक्षरशो वर्णशो वाचं विदधाति स आत्विजीनो भवति । आर्विजीनाः स्यामेत्यध्येयं व्याकरणम् । चत्वारि। चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो माँ श्राविवेश ॥
निबन्धादर्श ११५ चत्वारि शृङ्गा । चत्वारि पदजातानि । नामाख्यातोपसर्गनिपा- ताश्च । त्रयो अस्य पादाः त्रयः कालाः । द्वे शीर्ष । सुपस्तिश्च । सप्त हस्तासः । सप्त विभक्तयः। त्रिधा बद्धः। त्रिषु स्थानेषु बद्धः। उरसि कण्ठे शिरसि । वृषभो वर्षणात्कामानाम् । रोरवीति रौतिः शब्दकर्मा महो देवो मयाँ आविवेश । महता देवेन नस्तादात्म्यं यथा स्यादित्य. ध्येयं व्याकरणम् । अथवा। चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ।। ये मनीषिणः । मनस ईषिणो मनीषिणः। गुहायो त्रीणी निहि- तानि नेङ्गायन्ति न चेष्टन्ते । तुरीयं वाचो मनुष्या वदन्ति । तुरीयं ह वा एतद्वाचो यन्मनुष्येषु वर्तते। उत त्वः। उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् । उतो त्वस्मै तन्वं विसो जायेव पत्य उशती सुवासाः ।। अपि खल्वेकः पश्यन्नपि न पश्यति । शृण्वन्नपि न शृणोत्येनाम् । अविद्वांसमाहार्धम् । त्वस्मै अन्यस्मै तन्वं विसरे। तनुं विवृणुते । जायेव पत्य उशती सुवासाः । यथा जाया पत्ये कामयमाना सुवासाः स्वमात्मानं विवृणुते । एवं वाग वाग्विदे स्वमात्मानं विवृणुते । वाङ् नो विवृणुयादित्यध्येयं व्याकरणम् । सक्तुमिव । सक्तु मिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत । अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीनिहिताधि वाचि ॥ सक्तुः सचतेदुर्धावो भवति । कसतेर्वा स्याद्विपरीतस्य । विकसितो भवति । तितउ परिपवनं भवति । वतवद्वा तुन्नवद्वा। धीराः प्रज्ञान- ११६ निबन्धादर्शी वन्तो ध्यानवन्तो मनसा प्रज्ञानेन वाचमक्रत वाचमकृषत । अत्रा सखायः सख्यानि जानते । अत्र सखायः सख्यानि संजानते । सायु- ज्यानि जानते । क एष दुर्गमो मार्ग एकगम्यः। वाग्विषयः। के पुन- स्ते । वैयाकरणाः । कुत एतत् । भट्टैषां लक्ष्मीनिहिताधि वाचि। एषां वाचि भद्रा लक्ष्मीनिहिता भवति । सारस्वतीम् । याज्ञिकाः पठन्ति । आहिताग्निरपशब्दं प्रयुञ्जानः प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेत् इति । प्रायश्चित्तीया मा भूमेत्यध्येयं व्याक- रणम् । दशम्यां पुत्रस्य। दशम्यां पुत्रस्य जातस्य नाम विदध्याद्धोषवदाद्यन्तरन्तःस्थमभि- निष्ठानान्तं द्वथक्षरं चतुरक्षरं वा कृतं नाम कुर्यान्न तद्धितमिति । न चान्तरेण व्याकरणं कृतस्तद्धिता वा शक्या विज्ञातुम् । तस्मादध्येयं व्याकरणम्। सुदेवो असि। सुदेवो असि वरुण यस्य ते सप्त सिन्धवः । अनुक्षरन्ति काकुदं सूयं सुषिरामिव ।। सप्त सिन्धवः। सप्त विभक्तयः। काकुजिह्वा सास्मिन्विद्यत इति काकुदं तालु । सूमिः स्थूला लोहप्रतिमेति । एवं "सिद्धे शब्दार्थसंबन्धे' इत्यादिवार्तिकोक्तान्यत्रापि प्रयोजना- न्यनुसंधेयानि। अथ निरुक्तप्रयोजनमुच्यते । अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम् । 'गौः ग्मा ज्मा आमा क्षा क्षमे त्यारभ्य 'वसवः वाजिनः देवपल्यो देवपल्य' इत्यन्तो यः पदानां समाम्नातस्तस्मिन् प्रन्थे पदार्थावबोधाय परापेक्षा न विद्यते । एतावन्ति पृथिवीनामानि, निबन्धादर्श ११७ एतावन्ति हिरण्यनामानीत्येवं तत्र तत्र विस्पष्टमभिहित्वात् । तदेत- [निरुक्तं त्रिकाण्डम् । तच्चानुक्रमणिकाभाष्ये दर्शितम् आद्यं नैघण्टुकं काण्डं द्वितीयं नैगम तथा। तृतीयं दैवतं चेति समाम्नायरिंधा स्थितः।। गौराद्यपारपर्यन्तमाद्यं नैघण्टुकं मतम् । जहाद्युल्बमृबीसान्तं नैगमं संप्रचक्षते ।। अग्न्यादिदेवपल्यन्तं देवताकाण्डमुच्यते । अग्न्यादिदेवीऊर्जाहुत्यन्तः क्षितिगतो गणः।। वाय्वादयो भगान्ताः स्युरन्तरिक्षस्थदेवताः। सूर्यादिदेवपल्यन्ता गुस्थाना देवता इति ॥ गौरादिदेवपल्यन्तं समाम्नायमधीयते । इति । एकार्थवाचिनां पर्यायशब्दानां संघो यत्र प्रायेणोपदिश्यते तत्र निघण्टुशब्दः प्रसिद्धः। तादृशेष्यमरसिंहवैजयन्तीहलायुधादिषु दश निघण्टव इति व्यवहारात् । एवमत्रापि पर्यायशब्दसंघोपदेशादाद्य काण्डस्य नैघण्दुकत्वम् । तस्मिन् काण्डे त्रयोऽध्यायाः। तेषु प्रथमे पृथिव्यादिलोकदिक्कालादिद्रव्यविषयाणि नामानि । द्वितीये मनुष्यतद- वयवादिद्रव्यविषयाणि । तृतीये तदुभयद्रव्यगतबहुत्वहस्वत्वादिधर्नवि- षयाणि । निगमशब्दो वेदवाची। यास्केन तत्र तत्र 'अपि निगमो भवति'- इत्येवं वेदवाक्यानामवतारितत्वात् तस्मिन्निगम एव प्रायेण वर्तमा नानां शब्दानां चतुर्थाध्यायरूपे द्वितीयस्मिन् काण्ड उपदिष्टत्वात्तस्य काण्डस्य नैगमत्वम् । पञ्चमाध्यायरूपस्य तृतीयकाण्डस्य दैवत्वं विस्प- टम् । पञ्चाध्यायरूपकाण्डत्रयात्मक एतस्मिन्ग्रन्थे परनिरपेक्षतया पदा- र्थस्योक्तत्वात्तस्य ग्रन्थस्य निरुक्तत्वम् । तव्याख्यानं च 'समाम्नायः समाम्नातः' इत्यारभ्य 'तस्यास्तस्या- स्ताद्भाव्यमनुभवत्यनुभवतीत्यन्तैर्द्वादशभिरध्यायैर्यास्को निर्ममे ।
निबन्धादर्शः तदपि निरुक्तमित्युच्यते । एकैकस्य पदस्य संभाविता अवयवार्थास्तत्र निःशेषेणोच्यन्त इति व्युत्पत्तः। तत्र हि चत्वारि पदजातानि नामा- ख्याते चोपसर्गनिपाताश्चेति प्रतिज्ञायोच्चावचेष्वर्थेषु निपतन्तीति निपा- तस्वरूपं निरुच्यैवमुदाहृतम् । 'नेति प्रतिषेधार्थीयो भाषायामुभयमन्व- ध्यायम् । नेन्द्र देवममंसतेति प्रतिषेधार्थीय' इति । 'दुर्मदासो न सुरायामित्युपमा यः' (नि० ११४) इति च । यञ्च लोके केवलप्रति- षेधार्थीयस्यापि नकारस्य वेदे प्रतिषेधौपमालक्षणोभयार्थोदाहरणम- स्मिन्ग्रन्थेऽवगम्यते । एवं ग्रन्थकारेणोक्तास्तत्तत्पदनिर्वचनविशेषाः । न च निर्वचानां निर्मूलत्वं शङ्कनीयम् । एतद्वयुत्पत्त्यर्थमेव ब्राह्म- णेषु पदनिर्वचनानां केषांचिदुक्तत्वात् । 'तदाहुतीनामाहुतित्वमिति । तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते' ( ऐ० प्रा० २।४।३ ) इति । 'यद- प्रथयत्तत्पृथिव्याः पृथिवीत्वम्' (तै० ब्रा० ११३७) इति च । ग्रन्थ- कारोऽपि तत्र स्वोक्तनिर्वचनमूलभूतब्राह्मणान्युदाहरिष्यति । केषांचि- निर्वचनानां व्याकरणबलेन सिद्धावपि न सर्वेषां सिद्धिरस्ति । अत एव ग्रन्थकार आह । 'तदिदं विद्यास्थानं व्याकरणस्य कान्य स्वार्थ- साधकं च' (नि० ११५) इति । तस्माद्वेदार्थावबोधायौपयुक्तं निरुक्तम् । तथा छन्दोग्रन्थोऽप्युपयुज्यते । छन्दोविशेषाणां तत्र तत्र विहितत्वात् । तस्मात्सप्त चतुरुत्तराणि च्छन्दांसि प्रातरनुवाकेऽनूच्यन्त इति ह्याम्ना. तम् । गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगतीत्येतानि च्छन्दांसि । चतुर्विशत्यक्षरा गायत्री। ततोऽपि चतुर्भिरक्षरैरधिकाष्टा- विंशत्यक्षरोष्णिक । एवमुत्तरोत्तराधिका अनुष्टुबादयोऽवगन्तव्याः। तथान्यत्रापि श्रूयते । गायत्रीभिर्ब्राह्मणस्यादध्यात्, त्रिष्टुब्भी राज- न्यस्य, जगतीभिर्वैश्यस्येति । तत्र मगणयगणादिसाध्यो गायत्र्यादि- विवेकश्छन्दोग्रन्थमन्तरेण न सुविज्ञेयः। किंच 'यो ह वा अविदिता- यच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणु- बछति गर्ने वा पात्यते प्रमीयते वा पापीयान्भवति । तस्मादेतानि मन्ने मन्त्रे विद्यादिति श्रूयते । तस्मात्तद्वेदमाय छन्दोमन्य उपयुज्यते। सप्त निबन्धादर्शः ज्योतिषस्य प्रयोजनं तस्मिन्नेवं अन्थे विहितम्-'यज्ञकालार्थसिद्धये' इति । कालविशेषविधयश्च श्रूयन्ते । संवत्सरमेतद् व्रतं चरेत्संवत्सर- मुख्यं भृत्वेत्येवमादयः संवत्सरविधयः । वसन्ते ब्राह्मणोऽग्निमादधीत। ग्रीष्मे राजन्य श्रादधीत । शरदि वैश्य श्रादधीतेत्याद्या ऋतुविधयः। मासि मासि सत्रपृष्ठान्युपयन्ति । मासि मास्यतिग्राह्या गृह्यन्त इत्याद्या मासविधयः । यं कामयेत वसीयांन्स्यादिति तं पूर्वपक्षे याजयेदि- त्याद्याः पक्षविधयः। 'एकाष्टकायां दीक्षेरन् फल्गुनीपूर्णमासे दीक्षेरन्' ( तै० सं० १४८१) इत्याद्यास्तिथिविधयः। प्रातर्जुहोति सायं जुहो- तीत्याद्याः प्रातःकालादिविधयः। कृत्तिकास्वग्निमादधीत' (तै० ब्रा० १।१।२।१) इत्याद्या नक्षत्रविधयः। अतः कालविशेषानवगमयितुं ज्यो- तिषमुपयुज्यते। [ सायणीयऋग्वेदभाष्यभूमिकायाः] - ३०-वेदोपाङ्गानि अथ चत्वार्युपाङ्गानि वेदानां सम्प्रचक्षते । धर्मशास्त्रं पुराणं च मीमांसा न्यायविस्तरः ।। इति । तत्र धर्मशास्त्रं नाम आचाराद्यपदेशका मन्वादिप्रणीताः स्मृतिग्र- न्थाः । स्मृतिकाराश्च याज्ञवल्क्येनानुकीर्तिताः- मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोङ्गिराः। यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती॥ पराशरव्यासशङ्खलिखिता दक्षगौतमौ । शातासपो वसिष्ठश्च धर्मशास्त्रप्रवर्चका ।। (या० स्मृ० ११४-५) इति ।
१२० - निबन्धादर्शी ऋतुः सुमन्तुर्बोधायनो व्याघ्रपांदित्यादयोऽन्येऽपि स्मृतिकारा अभूवंस्तेषां प्रन्था उपस्मृतिशब्देन व्यपदिश्यन्ते । पुराणं नाम सृष्टिस्थितिप्रलयानां वेदप्रसिद्धानां मनुहरिश्चन्द्रप्रभृ. तीनां च वर्णनाय व्यासमुनिविरचितो ग्रन्थः। तच्च पुराणमष्टादश- विधम्- ब्राझं पानं वैष्णवं च शैवं लैङ्गं च गारुडम् । नारदीयं भागवतमाग्नेयं स्कान्दमेव च ॥ भविष्यं ब्रह्मवैवर्त मार्कण्डेयं च वामनम् । मात्स्यं कौमं च वाराहं तथा ब्रह्माण्डसंज्ञितम् ॥ अष्टादश पुराणानि व्यासोक्तानि विदुर्बुधाः । इति । मीमांसा नाम वेदवाक्यार्थविचारार्थकं शास्त्रम् । तच्च पूर्वमुत्तरं चेति द्विविधम् । तत्र पूर्वमीमांसा 'अथातो धर्मजिज्ञासे'त्यादिद्वादशा- ध्यायीरूपा धर्मामीमांसा भगवता जैमिनिना कृता। उत्तरा तु ब्रह्म मीमांसा 'अथातो ब्रह्म जिज्ञासे'त्यादिचतुरध्यायीरूपा भगवता व्यासेन कृतेत्याहुः। न्यायविस्तरो नाम प्रमाणैरर्थपरीक्षणोपदेशकं शास्त्रम् । गौतमेन कणादेन च मुनिना कृतम् । तदेवं वेदार्थविद्भिराचार्यैर्जनानां सुहृद्भावमुररीकृत्य वेदार्थज्ञापना- याङ्गानि चोपाङ्गानि च प्रवर्तितानि । तदनुसारेणैवार्वाचीनैः सर्वैर्व- दार्थो यथाकथञ्चित् विज्ञायते । नत्वन्यथा ज्ञातुं शक्यत । तथा चोक्तं पूर्वाचार्यैः-'न प्रत्यक्षमनृपेरस्ति मन्त्रः' । बृ० दे० ८।१२६ ) इति । सोऽयं साङ्गोपाङ्गो वेदः प्रवृत्तनिवृत्तलक्षणधर्मस्य नीतिव्यवहारादि- ज्ञापकविद्यानां च भूमिरित्याह याज्ञवल्क्यः- पुराणन्याममीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश.।। (या० स्मृ० १२३) इति ।
निबन्धादर्शक षडङ्गानि चत्वार्युपाङ्गानि चत्वारो वेदाश्चेत्येतानि चतुर्दशविद्यानां धर्मस्य च स्थानानि क्षेत्रभूमिरित्यर्थः । [ आर्यविद्यासुधाकरात् ] ३१-पुराणमतसंग्रहः अथ संक्षेपतो वच्मि पुराणादिनिरूपितं धर्मम् । तत्र तावत् पुराणानि ब्राह्मादीनि प्रथमप्रकाशे' नामतो निर्दि- ष्टानि । तेषु च वर्णाश्रमादिधर्माश्चित्तशुद्धिद्वारोपास्यदेवताराधनयो- ग्यतासम्पादकत्वानुष्ठेयाः परन्तु प्राधान्यं विष्णुविरश्चिशिवादिदेवता- भक्तिलक्षणधर्मस्यैव यतस्तत्तद्देवतानां सम्यगाराधनेनैवाशेषपुरुषार्थ- सिद्धिरिति प्रतिपाद्यते । तथा च पद्मपुराणे वैशाखमाहात्म्ये अम्बरीष- नारदसंवाद उक्तम्- अथ भक्ति प्रविक्ष्यामि विविधां पापनाशिनीम् । विविधा भक्तिरुद्दिष्टा मनोवाक्कायसम्भवा ।। लौकिकी वैदिकी वापि भवेदाध्यात्मिकी तथा। ध्यानधारणया बुद्ध्या देवानां स्मरणश्च यत् ।। विष्णुप्रीतिकरी चैषा मानसी भक्तिरुच्यते । मन्त्रवेदनमस्कारैरधिसन्ध्यं विचिन्तनैः॥ जाप्यैश्चारण्यकैश्चैव वाचिकी भक्तिरुच्यते । व्रतोपवासनियमैस्तथेन्द्रियनिरोधनैः कायिकी सातु निर्दिष्टा भक्तिः सर्वार्थसाधिका। भूषणेहेमरत्नाङ्कश्चित्राभिर्वाग्भिरेव वा॥ १ वेदोपाजानीति निबन्धोत्र द्रष्टव्यः।
%D - १२२ निबन्धादर्शः वासःप्रभृतिभिः सूत्रः पवनैय॑जनास्थितैः । नृत्यवादित्रगीतैश्च सर्वबल्युपहारकैः॥ भक्ष्यभोज्यानपानैश्च या पूजा क्रियते नरैः। नारायणं समुद्दिश्य भक्तिः सा लौकिकी मता ॥ ऋग्यजुःसामजाप्यानि संहिताध्ययनानि च । क्रियन्ते विष्णुमुद्दिश्य सा भक्तिर्वैदिको मता ॥ इष्टिवृत्तिः सोमपानं याज्ञिकं कर्म सर्वशः। अग्निभूम्यनिलाकाशजलशङ्करभास्करम् यमुद्दिश्य कृतं कर्म तत् सर्व विष्णुदैवतम् । आध्यात्मिकीयं विविधा ब्रह्मभक्तिः स्थिता नृप ।। इति ॥ तथा अग्निपुराणेऽप्युक्तम्- अग्निष्टोमादिककर्माणि सापायनि कलौ युगे । गङ्गास्नानं हरेर्नाम निरपायमिदं द्वयम् ॥ इति । सापायानि हिंसादोषसहितानि कलौ युग इत्यनेन युगान्तर- व्यवच्छेदः। तथा चायमर्थः पर्यवस्यति । कलावनुष्ठितान्यपि अग्नि- टोमादिमहाक्रतुरूपाणि कर्माणि न नियमतः श्रेयोजनकानि भवन्ति, किन्तु प्रत्यवायविमिश्राण्येव । कलिकालभवानां मानवानां युगान्तरी- यब्राह्मणादिवत् ज्ञानशक्त्यादेरभावेन यथाविधि कर्म कत्तुमशक्तत्वा- दिति । तथा चोक्तं विष्णुपुराणे- प्रायश्चित्तान्यशेषाणि तपः कत्मिकानि वै। यानि चेषामशेषाणां कृष्णानुस्मरणं परम् ॥ कृते पापेऽनुतापो हि यस्य पुंसः प्रजायते । प्रायश्चित्तन्तु तस्यैकं हरिसंस्मरणं परम् ।। प्रातर्निशि तथा सायं मध्याह्नादिषु संस्मरन् । नारायणमवाप्नोति सद्यः पापक्षयं नरः॥
। - - निबन्धादर्शः १२३ विष्णुस्मरणसंक्षीणसमस्तक्लेशसञ्चयः मुक्तं प्रयाति स्वर्गाप्तिस्तस्य विघ्नो निगद्यते ।। वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ।। इति ।। तथा ब्रह्मपुराणेऽपि- द्विजोवाराक्षसोवापिपापीवा धार्मिकोऽपि वा। राम रामेति यो वक्ति स मुक्तो भवबन्धनात् ।। राम रामेति रामेति ये वदन्ति दिवानिशम् । तेषां भुक्तिश्च मुक्तिश्च भविष्यति न संशयः ॥ इति ॥ तथा भगवद्गीतासु गीयते- महात्मानस्तु मां पार्थ देवी प्राकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ।। सततं कीर्तयन्तो मां यतन्तश्च दृढत्रताः। नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ इति । तदेवं सर्वत्र पुराणेषु प्रस्तुतदेवताभक्तिमाहात्म्यमुपवर्ण्यते । तदेव च द्रढयितुं वर्णनीयदेवतायाः परब्रह्माभिन्नत्वमवलम्ब्य तत एव जग- सृष्टिस्थितिप्रलयानां वर्णनं, मन्वन्तराणां, महर्षीणां, सूर्य सोमवंशीय राजर्षीणां धर्ममर्यादापालकाना, तेषामनुग्रहार्थं तत्तद्देवतावतारचरित्रा- णाञ्च ख्यापकानि नानाविधाख्यानानि तत्र तत्र वर्णितानि सन्ति । इति दिमात्रमिह प्रदर्शितम् । [ आर्यविद्यासुधाकरात् ] ३२-तान्त्रिकसाहित्यम् अथ तान्त्रिकमतमुच्यते । नानाविधदेवतोपासनामार्गप्रतिपादको ग्रन्थ विशेषस्तन्त्रम् । तत आगतं तान्त्रिकम् । प्रकारेण मन्त्रजपध्यान- पूजाबलिदानादिभिरुपासिता सती चतुर्विधानपि पुमर्थानुपासकेभ्यः प्रयच्छतीति तान्त्रिकमतडिएडिमः। तन्त्राणि त्रिविधानि समयाचारकुल मिश्रकभेदात् । तमवैदिक- मार्गमनुरुध्य श्रीविद्याप्रतिपादकानि तन्त्राणि समयाचारतन्त्राणि । तानि च वसिष्ठसंहिता, सनकसंहिता, सनन्दनसंहिता, सनत्कुमार- संहिता, शुकसंहिता चेति पञ्चविधानि । कुलतन्त्राणि तु महामाया- शम्बरतन्त्रादीनि चतुःषष्टिसंख्याकानि सन्ति । एषु कुलतन्त्रेषु मद्य- मांसाद्यपहारैतिबीभत्सदुराचारैरपि देवतार्चनमन्त्रमयानुष्ठानप्र कारा उपनिबद्धाः । कुलमार्गवेदमार्गोभयानुसारेण प्रवृत्तानि तन्त्राणि मिश्र- काणीत्युच्यन्ते । तानि च भुवनेश्वरीतन्त्रं दक्षिणामूर्तिसंहिता ज्योत्स्ना- पक्षतन्त्रं कलाविधितन्त्रमित्यादीन्यनेकविधानि सन्ति । तान्येतानि कौलतन्त्राणि मिश्रकतन्त्राणि च भगवता शिवेन ये ये शूद्रादयो वैदिकधर्मेध्वनधिकारिणस्तेषामैहिकामुष्मिकक्षुद्रवासना- नुसारितत्तदिष्टफलसाधनसिद्ध्युपायप्रदर्शनार्थ प्रणीतानि । तस्मान्नात्र त्रैवर्णिकानामधिकारोऽस्ति । श्रुतिस्मृतिनिषिद्धाचाररूपत्वात् । अत एव ज्ञानार्णवतन्त्रे स्पष्टमेवाभिहितं भगवता शिवेन-“कौल मिश्रक- मार्गे हि हेयौ गौरि द्विजातिभिः” इति । एवं सत्यपि ये द्विजातयः क्षुद्रफललिप्सया वैदिकविधिनिषेधानतिक्रम्यायोग्यानुष्ठानेषु मोहात्प्रव- तन्ते ते महान्तं प्रत्यवायभारं शिरसा वहन्तः सन्तः स्वयमेव प्रतारिता भवन्ति । तस्मात् प्राणिविप्रलम्भेच्छादिलक्षणपुरुषदोषायत्तं प्रतारकत्वं न महेश्वरस्यास्तीति ध्येयम् । स्पष्टश्चेदं "चतुःषष्ट्या तन्त्रैः सकलम- भिसन्धाय भुवनम्" इति सौन्दर्यलहरीस्तोत्रपद्यस्य गौरीकान्तभट्टा- चार्यकृतायां तरिनामकटीकायाम् ।
- निबन्धादर्शः १२५ कौलमार्गप्रतिपादकानि चतुःषष्टिस्तन्त्राणि वामकेश्वरतन्त्रे निर्दि- टानि । यथा- चतुःषष्टिश्च तन्त्राणि मातृणामुत्तमानि हि । महामायाशम्बरश्च योगिनीजालशम्बरम् ॥ तत्त्वशम्बरकञ्चैव भैरवाष्टकमेव च। बहुरूपाष्टकञ्चैव यामलाष्टकमेव च ॥ चन्द्रज्ञानं मालिनी च महासम्मोहनं तथा । वामजुष्टं महादेवं वातुलं वातुलोत्तरम् ।। हृद्भेदं तन्त्रभेदञ्च गुह्यतन्त्रश्च कामिकम् । कलावादं कलासारं तथान्यत् कुण्डिकामतम् ॥ मत्तोत्तरश्च वीणाख्यं त्रोतलं त्रोतलोत्तरम् । पञ्चामृतं रूपभेदं भूतोद्रामरमेव च ॥ कुलसारं कुलोद्देशं कुलचूडामणिस्तथा। सर्वज्ञानोत्तमश्चैव महाकालीमतं तथा॥ आरुणेशं मोदनीशं त्रिकुडीश्वरमेव च । पूर्वपश्चिमदक्षं च निरुत्तरम् ।। विमलं विमलोर्जञ्च देवीमतमतः परम् । इति । एतैस्तन्त्रैः पतिपाद्यं वस्तु संक्षिप्यात्र निरूप्यते । तत्रान्यस्मिन् पदार्थेऽन्यथाप्रतिभानरूपमायाप्रपञ्चरचनोपायप्रतिपादकमैन्द्रजालिक विद्यात्मकम् प्रथमं महामायाशम्बराख्यं तन्त्रम् । योगिनीसमूहदर्शनोपा- यप्रतिपादकं योगिनीजालशम्बराख्यं द्वितीयं तन्त्रम् । पृथिव्यादितत्त्वा- नामन्यत्रान्यबोधोपायप्रतिपादकं तत्वशम्बरतन्त्रम् । इदमपीन्द्रजालवि- द्याविशेषरूपमेव । भैरवाष्टकं यथा-सिद्धभैरवतन्त्रं मायिकभैरवतन्त्रं कङ्कालभैरवतन्त्रं कालाग्निभैरवतन्त्र शक्तिभैरवतन्त्रं योगिनीभैरव- तन्त्रं महाभैरवतन्त्रं भैरवनाथतन्त्रञ्चेति । एतान्यष्टौ तन्त्राणि कापा- लिकमतप्रतिपादकानि । उत्तरच - १२१ निबन्धादर्शी बहुरूपा नाम शक्तिस्तप्रतिपादकानामष्टानां तन्त्राणां गणो बहुरू- पाष्टकम् । तद्यथा- ब्राह्मीतन्त्रं माहेश्वरीतन्त्रं कौमारीशिवदूतीतन्त्र- तिमि । यामलाष्टकम्-रुद्रयामलादीन्यष्टौ तन्त्राणि कुलक्रमागतायाः शक्त्युपासनायाः एव प्रतिपादकानि । कामेश्वर्यादीनां षोडशनित्यानां चन्द्रकलान्तर्वतिनीनामुपासनाप्रतिपादक कापालिकमतप्रदर्शकञ्च चन्द्रज्ञानतन्त्रम् । समुद्रयानोपायप्रतिपादकं मालिनीतन्त्रम् । जाग्रतामपि जनानां निद्रितकरणोपायप्रतिपादकं महासम्मोहनतन्त्रम् । वामजुष्टं वामकेश्वरतन्त्रं तद्धि चतुःशतीत्यपि कथ्यते। अत्र सुरामांसाद्युपहारे- णोपासनामार्गः प्रतिपाद्यते । कुलाचारप्रदर्शनपूर्वकवटुकादिसिद्ध्यु- पायप्रतिपादकं महादेवतन्त्रम् वातुलं वातुलोत्तरं कामिकञ्चेति तन्त्रत्रयं क्षेत्रकर्षणादिविधिप्रतिपादकम् । हृद्भदतन्त्र कापालिकाचारप्रतिपादकम् । तन्त्रभेदगुह्यतन्त्रयोः प्रकाशं रहस्यं वा परकृतमन्त्रप्रयोगाणां परावृत्त्युपायाः प्रतिपाद्यन्ते । कलावादतन्त्रं कामशास्त्रम् । कलासारतन्त्रं रूपादिवृद्ध्युपायप्रदर्शकम् । कुण्डिकामततन्त्रं गुटिकासिद्धिप्रदर्शकम् । गुटिकेति पानपात्रस्य संज्ञा । मचोत्तरतन्त्रं रससिद्धिप्रतिपादकम् । वीणातन्त्रं हि वीणा नाम सम्भोगयक्षिणी तस्याः साधनोपायप्रदर्शकम् । त्रोतलतन्त्रे गुटिकामनपादुकादिसिद्धयः प्रतिपादिताः। श्रोतलो- त्तरतन्त्रे चतुःषष्टिसहस्रयोगिनीनां दर्शनोपाया उक्ताः । पञ्चामृततन्त्रे पृथिव्यादिभूतपञ्चकसाधनेनामरत्वसिद्धिः कापालिकसम्मता प्रति- पाद्यते रूपभेदादिषु पञ्चसु तन्त्रेषु जारणमारणमोहनोच्चाटनवशीकरणा दिप्रयोगाः प्रतिपाद्यन्ते सर्वज्ञानादितन्त्रपञ्चकं कापालिकसिद्धान्तैकदे- शिदिगम्बरमताचारप्रदर्शकम् । पूर्वतन्त्रादिदेवीमतपर्यन्तं तन्त्राष्टकं दिग- म्बरैकदेशिक्षपणकमताचारप्रदर्शकम् । इमानि तन्त्राणि शिवप्रोक्तानी- त्याहुः । इति तान्त्रिकमतसंग्रहः । [ आर्यविद्यासुधाकरात् ] ३३-संस्कृतकवीनां विषये प्राचीना उक्तयः वाल्मीकिः कवीन्दुं नौमि वाल्मीकिं यस्य रामायणी कथाम् । चन्द्रिकामिव चिन्वन्ति चकोरा इव साधवः॥ यस्मादियं प्रथमतः परमामृतौघ- निर्घोषि( प )णा सरससूक्तितरङ्गभङ्गिः। गङ्गेव धूर्जटिजटाञ्चलतः प्रवृत्ता वृत्तेन वाक्तमहमादिकविं भास्ववंशवतंसकीर्तिरमणीरङ्गप्रसङ्गस्तनद्- वादित्रप्रथमध्वनिर्विजयते वल्मीकजन्मा कविः । पीत्वा यद्वदनेन्दुमण्डलगलत्काव्यामृतान्धेः किम- प्याकल्पं कविनूतनाम्बुदमयी कादम्बिनी वर्षति ॥ प्रपद्ये॥ । व्यासः नमः सर्वविदे तस्मै व्यासाय कविवेधसे । चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ।। व्यासवाक्यजलौघेन कुतर्कतरुहारिणा। वेदशैलावतीर्णन नीरजस्का मही कृता । व्यासगिरां निर्यासं सारं विश्वस्य भारतं वन्दे । भूषणतयैव संज्ञा यदङ्कितां भारती वहति ।। पाणिनिः स्वस्ति पाणिनये तस्मै यस्य रुद्रप्रसादतः। आदी व्याकरणं काव्यमनु जाम्बवतीजयः॥
१२८
निबन्धादर्शः
भासः
सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकैः
सपताकैर्यशो लेभे भासो देवकुलैरिव ।।
गुणाढ्यः
शश्वद्वाणद्वितीयेन नमदाकारधारिणा।
धनुषेव गुणाढथेन निःशेषो :रञ्जितो जनः॥
समुद्दीपितकन्दर्पा कृतगौरीप्रसाधना।
हरलीलेव लोकस्य विस्मयाय
बृहत्कथा॥
मन्ये बृहत्कथाम्भोधेबिन्दुमादाय निर्मिता।
तेनेतरकथाकन्या विभाति
यदग्रतः॥
कालिदासः
कवयः कालिदासाद्याः कवयो वयमप्यमी।
पर्वते परमाणौ च पदार्थत्वं प्रतिष्ठितम् ।।
निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु ।
प्रतिमंधुरसान्द्रासु मञ्जरीष्विव
कविरमरः कविरचलः कविरभिनन्दश्च कालिदासश्च ।
अन्ये कवयः कपयश्चापलमात्रं परं दधति ॥
पुरा
कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठतकालिदासः।
अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ॥
जायते ॥
सुबन्धुः
कवीनामगलहो नूनं वासवदत्तया।
शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम् ।।
१२६ निबन्धादर्शः दण्डी जाते जगति वाल्मीको शब्द: कविरिति स्थितः। व्यासे जाते कवी चेति कवयश्चेति दण्डिनि ॥ त्रयोऽग्नयत्रयो वेदास्त्रयो देवास्त्रयो गुणाः। त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ।। बाणः हृदि लग्नेन बाणेन यन्मन्दोऽपि पदक्रमः । भवेत्कविकुरङ्गाणां चापलं तत्र कारणम् ।। शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरुच्यते। शीलाभट्टारिकावाचि बाणोक्तिषु च सा यदि ।। जाता शिखण्डिनी प्राग्यथा शिखण्डी तथावगच्छामि । प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति ।। श्लेषे केचन शब्दगुम्झविषये केचिद्रसे चापरेड- सङ्कारे कतिचित्सदर्थविषये चान्ये कथावर्णने । श्रा सर्वत्र गभीरधीरकविताविन्ध्याटवीचातुरी- सञ्चारी कविकुम्भिकुम्भभिदुरो बाणस्तु पश्चाननः ।। भवभूतिः सुकविद्वितयं मन्ये निखिलेऽपि महीतले । भवभूतिः शुकश्चायं वाल्मीकिस्तु तृतीयकः ।। भवभूतेः सम्बन्धाद् भूधरभूरेव भारती भाति । एतत्कृतकारुण्ये किमन्यथा रोदिति ग्रावा ।। रत्नावलीपूर्वकमन्यदास्तामसीमभोगस्य वचोमयस्य । पयोधरस्येव हिमाद्रिजायाः परं विभूषा भवभूतिरेव ।। नि०
१३०
निबन्धादर्शः
राजशेखरः
बभूव वल्मीकभवः कविः पुरा
ततः प्रपेदे भुवि भर्तृमेण्ठताम् ।
स्थितः पुनर्यो भवभूतिरेखया
स वर्तते सम्प्रति राजशेखरः।
पातुं श्रोत्ररसायनं रचयितुं वाचः सतां सम्मता
व्युत्पत्ति परमामवाप्तुमवधि लब्धं रसस्रोतसः ।
भोक्तुं स्वादु फलञ्च जीविततरोर्यद्यस्ति ते कौतुकं
तद् भ्रातः शृणु राजशेखरकवेः सूक्तीः सुधास्यन्दिनीः ।।
मुरारिः
भवभूतिमनादृत्य निर्वाणमतिना मया ।
मुरारिपदचिन्तायामिदमाधीयते मनः ।।
मुरारिपदभक्तिश्चेत्तदा माघे रतिं कुरु ।
मुरारिपदभक्तिश्चेत्तदा माऽधे रतिं कुरु ॥
देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं
जानीते नितरामसौ गुरुकुल क्लिष्टो मुरारिः कविः ।
अब्धिलजित एव वानरभटैः किं त्वस्य गम्भीरता.
मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः।
विजया-
निकाला
सरस्वतीव सही
यावसातौ।
या वैदर्भगिरां वासः जन्दासादनन्तरम् ॥
निबन्धादर्शः
१३१
१
विञ्जिका
नीलोत्पलदलश्यामां विज्जिका मामजानता ।
वृथैव दण्डिना प्रोक्तं सर्वशुक्ला सरस्वती ॥
पण्डितराजो जगन्नाथः
मधु द्राक्षा साक्षादमृतमथ वामाधरसुधा
कदाचित्केषांचित्खलु हि विदधीरन्नपि मुदम् ।
कथं ते जीवन्तोऽप्यहह मृतका मन्दमतयो
न येपामानन्दं जनयति जगन्नाथभणितिः ॥
विभिन्नकवयः।
उपमा
कालिदासस्य भारवेरर्थगौरवम् ।
दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ।।
माधेन विनितोत्साहा नोत्सहन्ते पदक्रमे ।
स्मरन्ते भारवेरेव कवयःकपयो यथा ।
रामायणभारतबृहत्कथानां कवीन्नमस्कुर्मः।
त्रिस्रोता इव सरसा सरस्वती स्फुरति यैभिन्ना ॥
प्राचेतसव्यासपराशराद्याः प्राश्चः कवीन्द्रा जगदश्चितास्ते ।
गोष्ठी नवीनापि महाकवीनां पूज्या गुणज्ञैर्भुवनोपकर्ती ।।
धन्वन्तरिक्षपणकामरसिंहशङ्कु-
वेतालभट्टघटखपरकालिदासाः।
ख्यातो वराहमिहिरो नृपतेः सभायां
रत्नानि वै वररुचिर्नव विक्रमस्य ।।
१३२
निबन्धादर्शः
यस्याश्चोरश्चिकुरनिकरः कर्णपूरो मयूरो
भासो हासः कविकुलगुरुः कालिदासो विलासः।
हर्षोहर्षो हृदयवसतिः पञ्चबाणस्तुबाणः
केषां नैषा कथय कविताकामिनी कौतुकाय ॥
वाचः पल्लवयत्युमापतिधरः संदभशुद्धिं गिरा
जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुतेः ।
शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन.
स्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयीकविक्ष्मापतिः ॥
माघश्चोरो मयूरो मुररिपुरपरो भारविः सारविद्यः
श्रीहर्षः कालिदासः कविरथ भवभूत्याहयो भोजराजः।
श्रीदण्डी डिण्डिमाख्याः श्रुतिमुकुटगुरुभल्लटो भट्टबाणः
ख्याताश्चान्ये सुबन्ध्वादय इह कृतिभिर्विश्वमाह्वादयन्ति ॥
चतुर्वेदि-संस्कृतरचनावली (म०म० श्री गिरिधरशर्मा चतुर्वेदी विरचित निबन्ध-संग्रह) प्रस्तुत पुस्तक में २३ निबन्ध हैं जो ५ खण्डों में विभाजित हैं. १. वेद-खण्ड, २. पुराण-खण्ड, ३. शब्दशान-खण्ड, ४. धर्मशास्त्र-खण्ड तथा ५. काव्य-साहित्य-खण्ड । वेदखण्ड में-(१.) ऋतं च सत्यं च' (२) 'वेदेषु विज्ञानं तस्य ऋमिको हासश्च' एवं (३) 'वेदेषु पितरः' ये तीन मुख्य प्रतिपाद्य निबन्ध हैं। इन निबन्धों में प्रास्य-पाचश्य उभय मतों का प्रतिपादन किया गया है। द्वितीय-खण्ड में-(१) 'पुराणेषु विकासवाद' (३) कूर्म- पुराणविषयालोचनम्' (३) 'मुद्गलपुराणविषयालोचनम्' (४) वेदेषु पुराण- महत्वम्' तथा (५) 'पुराण-लक्षणानि' ये पाँच निबन्ध हैं। तृतीय खण्ड में-'पुरातनानि व्याकरणानि वैयाकरणाच' इस प्रधान सन्दर्भ के अन्तर्गत ७ निबन्ध हैं-(१) प्रचलित शाकटायन-व्याकरणविचारः, (२) पाणिनेः पूर्वमपि व्याकरणसत्तासाधनम्, (३) प्रातिशाख्यानां पाणिनेश्च पौर्वापर्य- विचारः' (४) निरुक्तकृतः पौर्वापर्यम्, (५) पाणिनिदेशकालौ, (६) कात्या- यनदेशकालौ, तथा (७) पतञ्जलेदेशकालौ। तृतीय खण्ड में-(१) 'चातुर्वर्ण्यम्' (२) 'प्रमीतपतिकाधर्मालोचनम्' (३) 'स्पर्शादौ शास्त्रीया व्यवस्था' तथा (४) 'पितृविवेकः' नामक निबन्ध हैं। मूल्य २०-०० प्रबन्धरत्नाकरः (शास्त्री, आचार्य, बी. ए., एम. ए. आदि परीक्षोपयोगी शताधिक निबन्धों का अभूतपूर्व संग्रह ।) मूल्य १६-५० लेखक-डॉ० उमेशचन्द्र शुक्ल प्राध्यापक : संस्कृत विभाग, बारहसैनी कालेज, अलीगढ़ शुभाशंसक- (१) डॉ० सुरेन्द्रनाथ शास्त्री उपकुलपति : वाराणसेय संस्कृत विश्वविद्यालय, वाराणसी (२) पं. ब्रह्मानन्द शुक्ल एम. ए. प्रधानाचार्य : श्री राधाकृष्ण संस्कृत महाविद्यालय, खुर्जा (३) डॉ० रामसुरेश त्रिपाठी अध्यक्ष : संस्कृत विभाग, अलीगढ़ विश्वविद्यालय, अलीगढ़ प्राप्तिस्थानम्-चौखम्बा संस्कृत सीरीज आफिस, वाराणसी-१
No text on this page.