Library

Shriimadand-ubhaashhyama~ Faskiikyulasa~ 9

Shriishriivallabhaachaara~yaa · 2005-11-28

PDF Proofread

Front matter

UNIVERSAL
LIBRARY
OU_184320
LIBRARY
UNIVERSAL

No text on this page.

No text on this page.

No text on this page.

BENARES SANSKRIT SERIES; A COLLECTION OF SANSKRIT WORKS EDITED BY THE PANDITS OF THE BENARES SANSKRIT COLLEGE, UNDER THE SUPERINTENDENCE OF R. T. H. GRIFFITH, M. A.,C.I. E. AND G. THIBAUT, Pa. D. No. 119. श्रीमदणुभाष्यम् । श्रीश्रीवल्लभाचार्यविरचितम् । गोस्वामिश्रीपुरुषोत्तमजीमहाराजविरचितभाष्य- प्रकाशाख्यव्याख्यासमेतम् । श्रीमदाचार्यश्रीवल्लभाधीश्वरशुद्धाद्वैतसंप्रदायविदुषा रतगोपालभट्टेन संशोधितम् । ANU BHASHYA, ON BRAHMASŪTRA BY SRI VALLABRÂCHÂRYA, With the Commentary called Bhashya Prakasa, By Goswami Śrî Purushottamjee Maharaj. EDITED BY RATNA GOPAL BHATTA. Fasciculus IX. BENARES: ve Proprietors Messrs. Braj B. Das & Co., AND SOLD BY H. D. GUPTA, Chowkhamba Sanskrit Book Depot: sted at the Vidya Press, BENARES. Vilas 1906.

No text on this page.

OSMANIA UNIVERSITY LIBRARY
Call No.
LIBRARY
5181.48
Accession No. S11130
VI15
Author वक्राचार्य
Title Ottau amar Yasaiculus-9
This book should be returned on or before the dat] 906.
last marked below.

अथ द्वितीयाध्यायस्य चतुर्थः पादः । तथा प्राणः ॥ १ ॥ जीवशरीरवर्तिनां प्राणादीनां विचारार्थं पादारम्भः । तत्र जीवं निरूप्य तादृशधर्मवत्त्वं प्राणे अतिदिशति । माणशब्दप्रयोगः भियत्वाय प्राणा इन्द्रियाणि । तथा प्राणः ॥ पूर्वपादे जीवस्य स्थूलशरीरनिष्पादकानां भू- तानामुत्पत्तिक्रमादिकं विचार्य ततो जीवस्वरूपं विचारितम् । इ- न्द्रियादीनां तु स्वरूपादिकं न विचारितमिति तुरीये पादेवसर- सङ्गति बोधयन्तः पादप्रयोजनमाहुः । * जीवशरीरेत्यादि * । जी- षस्थूलशरीरमध्यवर्तिनां लिङ्गशरीरघटकानामन्तर्बहिरिन्द्रियाणां प्राणानां च विचारार्थ पादारम्भ इत्यर्थः । अप्रैतेषां शरीरान्तरव- तित्वोक्त्या शरीरान्वयव्यतिरेकानुविधायित्वं दर्शितम् । तत्र द्वयी विधा सम्भाव्यते । शरीरवदुत्पत्तिनाशशालित्वं वा जीववद्गत्या- गतिशालित्वं वा । आद्यायां वियदादिव ब्रह्मकार्यत्वम् । द्वितीयस्यां जीववद् ब्रह्मांशत्वम् । सर्वविज्ञानप्रतिक्षायास्तूभयथाऽपि सिद्धिर- तोत्रोभयोमध्ये किं विवक्षितमित्याकाङ्क्षायां प्राणादिनित्यताग- मकस्य श्रुतावनुपलम्भाद, एतस्माज्जायते प्राण इत्यत्र जन्मोपल- म्भाच्च कार्यत्वमेव विवक्षितमिति पूर्वपक्षे प्रवृत्तमिदं सूत्रमित्या- शयेन व्याचक्षते । * तत्र जीवमित्यादि * । अतीतपादान्ते अहष्टा- नियमेन परमतं निराकृतम् । यद्यपि तत्संनिहितं तथापि तद्वत् प्रा- णानां निराकार्यत्वाभावेनादृष्टधर्मस्यातिदेष्टव्यत्वाभावात् ततः पूर्व प्रकृतो यो जीवः स एव वियदाद्यपेक्षया सन्निहित इति जीवसमान- धर्मवत्वं प्राणेतिदिशतीत्यर्थः । नन्वान्तराणां सर्वेषामत्र विचा- यंत्वात् तथा करणानीति वक्तव्ये कथं प्राण एवात्रोक्त इत्यत - .. हुः * प्राणशब्देत्यादि । ननु तथापि मुख्ये तद्वाचके पदेऽनुक्ते कथं तेषामवगम इत्यत आहुः * प्राणा इन्द्रियाणीति * । अथ ह प्राणा २७ सप्रकाशे अणुभाष्ये। मनसो मुख्यत्वादेकवचनम् । उत्क्रान्तिगसागतीनामिसारभ्य सर्वो- पपत्तिरत्रातिदिष्टा, चिदंशस्यापि तिरोभाव इति पृथनिरूपणम् । ननु तद्गुणसारवादयः कथमुपदिश्यन्त इतिचेत् । न । ससम् अस्ति तत्रापि, ये प्राणं ब्रह्मोपासत इति ॥ १॥ अहं श्रेयसि न्यूहिर इत्यादिश्रुतौ प्राणशब्द इन्द्रियेषु प्रसिद्ध इति सोऽपि मुख्यप्राय इति ततोऽपि सुखेनावगम इत्यर्थः । तर्हि कथमे- कवचनप्रयोग इत्यत आहुः । * मनस इत्यादि * । लिङ्गशरीरे त- स्वैव प्राधान्यात् तथेत्यर्थः। ननु प्राणेषु वियदादिधर्मातिदेशे, स प्रा. णमसृजतेति श्रुत्युक्तं सृज्यत्वरूपं जन्यलिङ्गमतिदेशकम् । जीवध- तिदेशे किमतिदेशकमित्यतं आहुः । * उत्क्रान्तीत्यादि * । स यदाऽस्माच्छरीरादुत्क्रामति सहैवैतैः सर्वैरुकामति यथा महारा- जो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तत एवमेवैष एतत्प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्त्तते । स यदा प्र- तिबुध्यते । यथाऽग्नेर्वलतः सर्वा दिशो विस्फुलिङ्गाः प्रतिष्ठेरनवम- बैतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्त इत्यादिपूक्ता जीवसह- भावावबोधिका या सर्वानुपपत्तिः सैव, विप्रतिषिद्धधर्मसमवाये भूयसां स्यात् स्वधर्मत्वमिति पूर्वतन्त्रोक्तन्यायाजीवसमानधर्मातिदे- शकत्वेनोपदिष्टेत्यर्थः । ननु सर्वोपपत्तिंसाम्ये जीवधर्मातिदेशस्या- देव सिद्धेरिद सूत्रं पूर्वपाद एव प्रणीतं स्यात् पृथक्पादान्तरे वि. चारस्य किं प्रयोजनमत आहुः । * चिदंशत्यादि * । तथाच जड- त्वाद्वियदादितुल्यत्वं सम्भाव्यतेति तनिवृत्त्यर्थ पृथग्विचार इत्यर्थः। अन जीवसाम्यममन्वानः पृच्छति । * नन्वित्यादि * । ननु सर्वो- पपत्तिमध्ये तद्गुणसारत्वतव्यपदेशौ गुणानां यावदात्मभावित्व- मन्ये च धर्माः प्रविष्टास्ते च प्राणविषयका न प्रसिद्धास्ते कथमु- च्यन्ते इत्यर्थः । अत्र समादधने । * नेत्यादि * । अयं पर्यनुयोगो ने कार्यः । बृहदाण्यके, प्राणा वै सत्यं तेषामेष सत्यमिति श्रुत्युक्तं स- त्यमस्ति । तैत्तिरीये तत्र प्राणऽपि ये प्राणं ब्रह्मोपासत इति व्यपदे- शोस्ति । एवं षडाचार्यत्राह्मणे प्राणवाक्चक्षुःश्रोत्रमनोहदयेषु प्राणो २ अध्याये ४ पादः। गौण्यसम्भवात् ॥२॥ ननु उत्क्रान्सादिश्रुतिौणी भविष्यति । न । गौण्यसम्भवा- त् । मा श्रुतिर्गौणी न सम्भवाते । एकैच श्रुतेिर्जीवे मुख्या प्राणे गौणीति कथं सम्भवति ॥ २ ॥ तत्प्राक् श्रुतेश्च ॥ ३ ॥ वै ब्रह्म वाग् वै ब्रह्मेति व्यपदेशोऽस्ति । न प्राणेन नापानेन मयों जीवति कश्चन इतरण तु जीवन्ति यस्मिन्ननावुपाश्रितावित सर्व- प्राणनरूपो ब्रह्मगुणः प्राणेऽस्ति । चक्षुषश्चक्षुः श्रोत्रस्य श्रात्रमिति ते षां स्वम्वकार्यक्षमत्वमपि ब्रह्मगुण एव तत्तदिन्द्रियेष्वास्त । स एव च तेषु सारभूतो जडान्तरेभ्यो वैलक्षण्यसम्पादकत्वात् । स च ध. मो यावत्तस्थिति नेषु तिष्ठतीति कार्यबलादेवावगम्यते । इन्द्रियव- धस्तु कार्याक्षमत्वमेव, न नाशः । पुनः शरीरान्तरेऽपि मंत्रिधाना- त् । अतस्तद्गुणसारत्वादयस्तत्रोपदिश्यन्ते इतिं न पर्यनुयांगाव- काशः । तथाच जीवधर्माणां भूयस्त्वात् तेषामेवातिदेशो युक्तो न वियदादिधर्माणामित्यर्थः ॥ १॥ गोण्यसम्भवात् ॥ अतिदेशकमाक्षिपति । * नन्वित्यादि * | ननु नित्यत्वस्याश्रवणादुत्क्रान्त्यागतिश्रुति शोत्पनिपरतया सत्य- स्वादिश्रुतिश्वोपासनापरतया गौणी भविष्यतीति न नासामतिदेश- फत्वमित्यर्थः । अत्र समादधते * नेत्यादि * । कुतः ? गोण्या अ- सम्भवो गौण्यसम्भवस्तस्मात् । अत्र तथेति पूर्वस्मादनुवर्तते । ए- घमग्रेऽपि। तेन बुद्धिस्थहेतुशुद्ध्यर्थानि चत्वार्यग्रिमाणि मूत्राणीति फ- लति । असम्भवं व्युत्पादयन्ति । एकैवत्यादि । स यदाऽस्मादित्यत्र द्वितीया उत्क्रामतीतिं श्रुतिस्तु सर्वेषां सहभावं विधातुं पूर्वामेवा- क्रान्तिमनुवदत्यतः पूर्वोक्तकैव श्रुति व मुख्या प्राणेषु गौणीति युगपवृत्तिद्वयविरोधान्न सम्भवतीति न तासामतिदेशकत्वहानि- रित्यर्थः । एतेनैव जीवे गौणी, प्राणेषु मुख्येति वदन्त एकदेशिनोऽपि प्रत्युक्ताः । वैरूप्यस्य तौल्यादिति बोध्यम् ॥ २ ॥ तत्प्राक् श्रुतेश्च ॥ अत्रापि तथेत्यनुवर्तते । सूत्रप्रयोजनमा- सप्रकाशे अणुभाष्ये। जडत्वेनाधिकविचारोत्र क्रियते । सृष्टेः पूर्वमपि प्राणा- दीनां स्थितिः श्रूयते । असद् वा इदमग्र आसीत् तदाहुः, किं तदसदासीदित्य॒षयो वा व तेग्रे असदासीत् तदाहुः, के ते ऋषय इति प्राणा वा ऋषय इति । ननु सदेव सोम्येदमग्र आसीदेकमे- वाद्वितीयमिति विरोध इतिचेत् । न । स्वरूपोत्पत्तिरेवात्र निषि- यते । जीववत् । न तूद्गमः । उद्गमात् पूर्व तु सदेवेति श्रुतिः । चकारान्मोक्षे तस्यापि सम्पत्तिः श्रूयते स्थलान्तरे । एतस्माज्जा- यते प्राणो मनः सर्वेन्द्रियाणि चेति श्रुतिर्विस्फुलिङ्गसदृशी ॥ ३ ॥ हुः । * जडत्वेनेत्यादि * । जडानां भूतानां चिरस्थायित्वदर्शनात्ता- घतैव प्राणानामप्युत्क्रान्त्यादिः सम्भाव्यत इति तदभावाय प्राणानां नित्यत्वविचारः क्रियत इत्यर्थः। तमेवाहुः । * सृष्टरित्यादि । श्रु- तिस्तु वाजिनामग्निप्रकरणस्था । अत्र प्राणा इति बहुवचनमिन्द्रिया- णां गमकम् । छान्दोग्यविरोधमाशय परिहरन्ति । * नन्वित्या. दि *। * नेत्यादि च * । तथाच न तस्याः श्रुतेर्विरोधो, नाप्यनित्य- त्वमित्यर्थः । चकारप्रयोजनमाहुः । * चकारादित्यादि * । यथा सृ. टेःप्राक स्थित्या नित्यत्वं लभ्यते तथा मोक्षे तदीयप्राणादेब्रह्मसम्पत्तिः श्रूयते शारीरब्राह्मणे । न तस्मात् प्राणा उत्क्रामन्त्यत्रैव समवनीयते ब्रह्मैव सन् ब्रह्माऽप्येतीति । अत्रैव समवनीयन्त इति । उत्क्रमहेतूना- मविद्याकामकर्मणां निवृत्तत्वाद् ब्रह्मण्येव सम्पद्यन्ते इत्यर्थः । नचेयं जीवन्मुक्तव्यवस्थेति शङ्ख्यम् । तत्रोत्क्रमशङ्काया एवाभावन तदभा. वानुवादवैयर्थ्यप्रसङ्गात् । अग्रे अहिनिळयनीदृष्टान्तदर्शनेन स्थू. लदेहत्यागस्यैव तत्र लाभाच्च । अतो नित्यत्वार्थ साऽपि संगृह्यत इत्यर्थः । श्रुत्यन्तरपीडामाशय परिहरन्ति । * एतस्मादित्यादि * तथाच विस्फुलिङ्गवाक्ये यथा व्युश्चरणं, तथाऽत्र प्रादुर्भाव इति तत्साहश्यम् । स्वरूपोत्पत्तेरपि विभागानन्तरभावित्वात् खा. द्युत्पत्तेरपि न विरोधोऽतो न तस्या अपि पीडेत्यर्थः । विसर्ग: स्थापि विभागरूपत्वादयमेव न्यायः, स प्राणमसूजतेस्यत्रापि द्रष्टः २ अध्याये ४ पादः। ७७३ तत्पूर्वकत्वाद वाचः ॥ ४ ॥ मनः पूर्वरूपं वागुत्तररूपमिति । तस्य यजुरेव शिर इति । तथाच वेदानां स्वत उत्पत्त्यभावात् तत्पूर्वमनसः कयमुत्पत्तिः॥४॥ सप्तगतेर्विशेषितत्वाच्च ॥ ५ ॥ तमुत्क्रामन्तं प्राणोऽनूत्क्रामति पाणमनूत्क्रामन्तं सर्वे माणा - ॥ व्यः । एतेन श्रुत्यविरोधप्रतिपादनरूपत्वादध्यायसङ्गतिरपि स्मारि- ता शेया ॥३॥ तत्पूर्वकत्वाद्वाचः ॥ ननु सृष्टयादौ प्राणस्थितिश्रुतेरवान्तरप्र- लये प्रागवस्थितप्रजापतिप्राणसत्ताप्रतिपादनेनाऽप्युपपद्यमानत्वान तया प्राणनित्यत्वसिद्धिरिति शङ्कनयामिदं सूत्रमाहेत्याशयेन व्या- कुर्वन्ति । * मन इत्यादि * । पूर्वया श्रुत्या मनोवाचोः पूर्वोत्तरभा- वेऽन्यया च मनोमयस्य वेदात्मकत्वे बोधिते मनोवायोवृत्तिभेदा- देव भेदो, न तु स्वरूपत इति सिद्धौ, निश्वसितश्रुत्या, वाचा विरू- पनित्ययति ध्रुत्या च वेदानां निश्वसिरूपतया नित्यतया च स्वरूपत उत्पत्यभावादुद्गममात्रमेव । तथा सति तत्पूर्वरूपस्य मनसः कय- मुत्पत्तिः सम्भवति । तस्मान्न तस्याप्युत्पत्तिः किन्तूद्गममात्रमेवा- तस्तयोर्नित्यत्वसिद्धिरित्यर्थः । नन्वेवं भगवन्मनोवाचोर्निस्यत्वे जैवा- नां कथं नित्यत्वसिद्धिरितिचेत् । उच्यते । तद्व्यष्टित्वात् सिद्धि- रिति । अत एवाने श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्य स्यैवेतानि सर्वाणि निश्चसितानीत्युक्तम् । इदमेव चैकादशस्कन्धे स एष जीवो विवरप्रसूतिरित्यादिश्लोकत्रये स्फुटम् । तत एवा- चार्यरपि निबन्धे 'अस्मदादिमुखेनापि क्रीडार्थ सर्वतो हरिः । शब्द- भेदं वितनुते रुपेष्विव विनिश्चय'इत्युक्तम् ॥ ४॥ सप्तगतेर्विशेषितत्वाच्च ॥ एवं प्राणमनोवाक्ष्वतिदेशिकाया उ- पपत्तेः सिद्धावपि चक्षुरादिषु न सा स्फुटेत्यतस्तदर्य हेत्वन्तरं बद- तीस्याशयेन व्याकुर्वन्ति । * तमित्यादि । एताभ्यां वाक्याभ्या- म् । अथारूपक्ष इत्यादिषु पूर्ववाक्येयूक्तानां चक्षुरादीनां सप्तानां मु.

समकाशे अणुभाष्ये । अनून्क्रामन्तीति पूर्वोक्तानां चक्षुरादीनाम्, अथारूपनो भवतीये- कीभवति न पश्यतीसाहुरियादिमिर्जीवगतिः सप्तानां गतिभिर्वि- शेष्यते। सप्तगतयस्तेन विशेषिता एकीभवतीति । अतो जीवसमान- योगक्षेमत्वाज्जीवतुल्यतेति । चकारात् तत्तदुपाख्यानेषु चक्षुःमम- तीनां देवतात्वं संवादश्च । अतश्चेतनतुल्यत्वम् । ख्यप्राणगत्युत्तरं गतिरुच्यते । सा सप्तगतिः । यद्यपि पूर्ववाक्येव- टायुक्तास्तथापि मनोबुद्धयोवृत्तिभेदोऽन्तःकरणत्वेन ऐक्यमतः स- प्सत्वमिति सप्तगतिः । किञ्च तेन प्रद्योतेनैष आत्मा निष्कामति चक्षु- टोपा मूर्नो वेत्यादिना उत्तरवाक्येन वक्ष्यमाणाया जीवगतिः सा, अथारूपज्ञ इत्यादिषु पूर्ववाक्येषु सप्तानां गतिभिर्विशेष्यते एकीभ- वतीति सप्तगतयो वा सेन जीवगमनेन विशेषिता एकीभवतीति । अतः, अनश्वरभावस्याजन्यत्वेन तथेत्यर्थः चकारसूचितं हेत्वन्तर- माहुः । * चकारादित्यादि * * तत्तदुपाख्यानेविति * । व्रत- मीमांसाप्रभृतिषु । * चेतनतुल्यत्वमिति * । स्वरूपतोऽचेतनत्वा- त् । तदेषां प्राणानां विज्ञानेन विज्ञानमादायोति धर्मरूपज्ञानस्य श्रा- वणाश्च चेतनतुल्यत्वम् । एवमत्र प्राणपदवाच्यानां जीवतुल्यत्वं स- मर्थितम् । एतस्य सूत्रस्योत्तराधिकरणे सम्बन्धे तु, एतं हेतवो व्याख्यातरीत्या उत्सूत्रमेव बोध्याः । तेन न कापि न्यूनता । अत्र सर्वेऽपि वियदाधतिदेशमङ्गीकृत्य इन्द्रियाणामुत्पत्ति वदन्ति । सनिहितजीवातिदेशानङ्गीकारे तु केचन जीवस्यानुत्पत्तिरा- ख्याता, प्राणानां तूत्पत्तिराचिख्यासितत्यसम्बद्धत्वं हेतुं वदन्ति । अपरे तु, उत्पत्त्यनुत्पत्तिबोधकयोः श्रुत्योः सद्भावेऽप्युत्पत्ति- बोधकश्रुतीनां भूयस्त्वात् पूर्वतन्त्रं च, विप्रतिषिद्धधर्मसमवाये भूय- सां स्यात् स्वधर्मत्वमिति निर्णयं हेतुमाहुः । अन्य तु, असतिवाजिश्रुतिमपि ब्रह्मपरत्वेन व्याकुर्वन्तः, प्राणा वा ऋषय इति बहुत्वश्रुतिं च गौणी वदन्तः, सदेव सौम्यति शुतेब्रह्मातिरिक्तस्य प्रागवस्थानासम्भवमेव हेतुमाहुः ।

२ अध्याये ४ पादः। केचिदिदं सूत्रमुत्तरसूत्रपूर्वपक्षत्वेन योजयन्ति । तत्रायमर्थः। ते प्राणाः कतीसाकाङ्क्षायां, सप्त माणाः प्रभवन्ति तस्मात् सप्ता- इतरे तु, पतस्माज्जायते प्राण इति श्रुतिमेव हेतुमाहुः । तत् सर्वमरोचिष्णु । श्रुत्या व्युश्चरणस्य जीवप्राणादिसाधा. एण्येनोक्तत्वात् तस्य खरूपोत्पत्तिरूपत्वाभावेन तैत्तिरीये, तोयेन जीवान् व्यससर्जभूम्यामिति जीवेऽपि केवलविसर्गश्रावणात् तस्यापि पृथक्करणरूपतया व्युचरणानतिरेकेण जीववत् प्राणानामप्युत्पत्त्य- कावाज्जीववत् प्राणानामनुत्पत्तेरेवाचिख्यासिततया आद्यपक्षोक्ताया असम्बद्धताया अभावात् । असद्वति वाजिश्रुतौ मध्यप्राणेद्धान्यप्रा. गकृतसप्तपुरुषसृष्टयनन्तरं तदैक्यनिष्पादितस्यैकस्य पुरुषस्य प्रजा- पतित्वकथनेन तस्य प्राणानन्तरभावितया प्राणेषु तदीयत्वस्य व. तुमशक्यत्वेन तद्विरोधानपायाद् द्वितीयपक्षोक्तपूर्वतन्त्रन्यायस्या- स्मत्पक्षेऽप्यविरोधाश्च । एवञ्च, सदेव सोम्यति श्रुतिर्युच्चरणात पूर्व कालं परामृशति । व्युच्चरणोत्तरं भूतोत्पत्तेः पूर्व कालं वाजि- श्रुतिः परामृशतीति तयोर्विरोधाभावेन एतदग्रिमस्य योऽयं मध्य- पाण इत्यादिप्रन्थस्य विरोधेन च तृतीयपक्षोक्ताया प्राणा वा ऋषय इत्यत्र गौण्या अप्यप्रयोजकत्वात् । एतस्माजायत इत्यस्यास्तुरीयप- झोपन्यस्तायाः श्रुतेरपि व्युच्चरणश्रुतितुल्यत्वाच्च । सन्निहितजी- वातिदेशानङ्गीकारे बीजानुपलम्भेन सर्वेषामेव शिथिलत्वादिति । स्माद् भूतात्पत्तेः पूर्व जीवानामिन्द्रियाणां च व्युधरणं, न तूत्प- त्तरिति सिद्धम् । भिक्षुस्तूत्पत्तिक्रमविचारायैतदधिकरणम् । अतिदेशस्त्वन्तरा वेज्ञानमनसी इति सूत्रस्थयोर्विज्ञानमनसोरित्याह । तन्मन्दम् । अ. नयोरकतरसूत्रस्य वैयापत्तेः । विज्ञानमनसी इत्यत्रोपलक्षणवि- घया अन्येषामपि प्राणानां ग्रहीतुं शक्यत्वात् । अत्रापि प्राणमध्ये तयोरपि निविष्टत्वाच्चेति । एवमेतेनाधिकरणेन प्राणानां जीवतुल्यत्वं समार्थतम् । अतः परं तेषां संख्या निर्धार्यते । तत्र सप्तगतिसूत्रस्य सम्बन्ध केचन व. हन्ति । तदाहुः । * फेचिदित्यादि * । भाग्यं तु निद्याव्याख्यान समकाशे अणुभाष्ये । चिषः समिधा सप्तजिह्वाः । अष्टौ ग्रहा अष्टावतिग्रहा इति । सप्त इति । सप्त वै शीर्षण्याः प्राणा द्वाववाश्चाविति । नव वै पुरुषे पाणा नाभिर्दशमी । दश वै पशोः प्राणा आत्मैकादश इसेवमा- दिषु नानासंख्या प्राणानां प्रतीता । तत्र श्रुतिविप्रतिषेधे किं यु- तमिति संशये सप्तैवेति प्राप्तम् । कुतः ? । गतेः । सप्तानामेव गतिः श्रूयते । सप्त इह लोका येषु चन्ति प्राणा गुहाशया नि- हिताः सप्त सप्तेति । किञ्च । विशेषितत्वाच । जीवस्योत्क्रमणस- मये सप्तानामेव विशेषितत्वम् । अन्ये तु पुनरेतेषामेव वृत्तिभेदाद भेदा इसेवं प्राप्ते ॥५॥ उच्यते- हस्तादयस्तु स्थितेऽतो नैवम् ॥ ६ ॥ पूर्वसम्बन्धे उत्सूत्रं पूर्वपक्षः । तुशब्दः पूर्वपक्षं व्यावर्तयति । हस्तादयः सप्तभ्योऽधिकाः । हस्तौ चादातव्यं च, उपस्थश्चानन्द- यितव्यं च, पायुश्च विसर्जयितव्यं च, पादौ च गन्तव्यं चेति। चक्षुरादिगणनायामेतेऽपि चत्वार इन्द्रियत्वेन गणिताः । स्थिते सति, श्रुतौ गणनया चक्षुरादितुल्यत्वे सति । अतो हेतोः सप्त- वेति न, किन्त्वेकादश । अवान्तरगणना सूचनयाऽसम्भवाभिप्राया - तम् ॥५॥१॥ हस्तादयस्तु स्थितेऽतो नैवम् ॥ ननु सप्तगतिसूत्रस्य पूर्वाऽधि- करणशेषत्वे एतस्याधिकरणस्य कथं सिद्धिरित्यत आहुः । * पूर्वेत्या- दि * उक्तप्रकारक एव पूर्वपक्षः, सूत्रं विहाय उपरिष्टात् कर्त्तव्य- स्ततः सिद्धिरित्यर्थः । व्याकुर्वन्ति । * तुशब्द इत्यादि * । * अत इति * । चक्षुरादितुल्यत्वात्। मनु तर्हि सप्तादिगणनायाः किं प्रयो- जनमत आहुः * अवान्तरेत्यादि * सप्तगणना, चक्षुस्त्वग्घ्राणरसन- २ अध्याये ४ पादः। ७७७ अधिकसंख्याऽन्त:करणभेदादिति । एकादशैवेन्द्रियाणीति स्थि- तम् ॥६॥ श्रवणमनोवाचामितरेन्द्रियाणां बहूपकारकत्वेन प्राधान्यसूचनया । अष्टगणना ग्रहपदकथनात बन्धकत्वसूचनया । नवगणना अनावृत- नवद्वारसूचनया । दशगणना केवलद्वारमानसूचनयेत्येवं सम्भवा- भिप्राया । सम्भवन्ति ोकादशसंख्यायामेताः संख्या इत्यभिप्राया । चतुर्दशसंख्या त्वन्तःकरणस्य चतुर्विधत्वात् तदभिप्राया । तथाचै- तज्ज्ञापनं प्रयोजनमित्यर्थः । तत्रैकादशैवेति कथं निर्णय इत्यत आ- हुः । * एकादशेत्यादि * । गीतायां क्षेत्रकथने, 'ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदेश्चैव हेतुमद्भिर्विनिश्चितैरि'त्यु- क्त्वा, महाभूतान्यहङ्कनरो बुद्धिरव्यक्तमेव चेत्यहङ्कारादीन भिन्न- तयोक्त्वा, इन्द्रियाणि दशैकं चेति कथनाद् ब्रह्मसूत्रपदेष्वेकादशै- वेन्द्रियाणीति निर्णीतमित्यर्थः। नच पञ्च कर्मेन्द्रियाणि, पञ्च ज्ञाने- न्द्रियाणीति दशोक्ताः । एकं चेति भिन्नतया कथनात् संख्यापूरणस्य चानिन्द्रियेणापि मनसा, यजमानपश्चमा इडां भक्षयन्तीतिवत् स- म्भवान्न मनस इन्द्रियत्वमिति वाच्यम् । अनिन्द्रियत्वसिद्धेः पूर्व तथा संख्यापूरणस्यापादयितुमशक्यत्वात् । भेदेन कथनस्य तूभये- न्द्रियनायकतयोत्कर्षबोधनार्थत्वात् । अन्यथा पूर्वार्द्ध बुद्ध्यादिभिः सहैव क्रमापत्तः । यत्तु इन्द्रियेभ्यः परा ह्यर्थी ह्यर्थेभ्यश्च परं मन इति, बुद्धि तु सारथिं विद्धि मनः प्रग्रहमेव च, इन्द्रियाणि हयानाहुर्विषयांस्तस्य गोचरानित्यादिश्रुतौ इन्द्रियेभ्यः परं मनः । इन्द्रियाणि मनो बुद्धिः, मनसश्चेन्द्रियाणां च ऐकाग्यं परमं तप इत्यादिस्मृतौ च भेदेन निर्देशान्मनो नेन्द्रियम् । काचित्कमेकादशवचनं तु मनस इन्द्रिय- प्रवर्तकत्वेनोपचारात् । नचेन्द्रियेभ्यः परा इत्यादिषु गोबलीवईन्या- येन पृथग्वचनमिति वाच्यम् । इन्द्रियलक्षणस्य बुद्धयादावसम्भ- वात् । किं तलक्षणमितिचेत् । एकजातीयमात्रव्यापारकरणत्वमे- व । अन्यथा शरीरादीनामपीन्द्रियत्वप्रसङ्गात् । अन्तःकरणस्य तु चाक्षुषादिरूपनानाजातीयज्ञानकर्म प्रति करणत्वेनाऽस्य लक्षणस्या- ७७८ सपकाशे अणुभाष्ये । अणवश्च ॥ ७ ॥ सर्वे पाणा अणुपरिमाणाः । गतिमत्त्वेन निसले अणुत्वमेव । परिमाणप्रमाणाभावात् पुनर्वचनम् ॥ ७ ॥ धा, न्तःकरणे अभावादिति भिक्षुराह । तन्न । उक्तश्रुतिस्मृतीनां मनमो बलवत्त्ययोधनेनाप्युपपत्तेः । गीतायाम, इन्द्रियाणां मनसश्चास्मीति धाक्यन, पञ्चमस्कन्ध पुरजनोपाख्याने च, एकादशन्द्रियचमूः प- वसूनाविनोददिति वाक्यंन च मनस्यपीन्द्रियत्वसत्ताया निश्च- यात् । नच लक्षणाभावः । दहस्थत्वे सति ज्ञानक्रियान्यतरकरणत्वं तथात्वे सति स्वफलनात्मसत्ताज्ञापकत्वं वेति लक्षणस्य सम्भ- धात् । यद्वा इन्द्रियत्वमनिन्द्रियत्वं चेत्युभयमप्यस्तु । नच भावा- भावविरोधः । अनिन्द्रियत्वस्य अविद्यावद्धर्मान्तरत्वेनाप्युपगन्तुं श- क्यत्वात् । यमे देवत्वपितृत्वयोरिव मनसि क्रियाज्ञानमयत्वयोरि- वंतयोरप्युभयोर्निवशे बाधकाभावात्। विशेषविचारस्तुं प्रस्थानरत्ना- करे मया कृत इति नेह प्रपञ्च्यते । तस्मादन्येषां वृत्तिभेदत्वेना- ऽन्तःकरण एव निवेशादकादशैवेन्द्रियाणीति सिद्धम् । अन्यपि सर्व एकादशपक्षमेवाद्रियन्ते । मावास्तु । बुद्धिं निवेश्य द्वादशप्राणपक्षमङ्गीकुर्वन्ति । श्रुति च काश्चिल्लिखन्ति । इन्द्रियाणि कतीति न विचारयन्ति । तत्रोदा- सीना वयम् ॥६॥२॥ अणवश्च ॥ संख्यां निर्धार्य परिमाणं निर्धारयतीत्याशयेन ध्याकुर्वन्ति । * सर्व इत्यादि * । सर्वेषां प्राणानां पूर्वोक्तरीत्या नि. स्यत्वे सिद्ध गतिमत्त्वेनाणुत्वमवत्यर्थः । अयं च हेतुरतिदेशात् प्रा- प्तश्चकारण मूचितः। सूचनप्रयोजनमाहुः । * परिमाणेत्यादि * । सप्तानब्रह्मणे, त एते सर्व एव समाः सर्वेऽनन्ता इति यदानन्त्यश्र- वणं तत्तु कालत एव तथात्वबोधकम् । अनन्तमेव सलोकं जयती- ति फलाक्त्या तथाऽवसायातू । अतो जीवे यथाऽऽराप्रमात्रत्वं तथा प्राणेवश्रवणात् पुनर्वचनमित्यर्थः । एतेन शरीरपरिमाणत्वं सङ्को- विकाशशालिपरिमाणत्वं व्यापकत्वं च निवारितम् । तेन चक्षु- २ अध्याये ४ पादः। ७५९ श्रेष्ठश्च ॥ ८ ॥ मुख्यश्च प्राणो निसगतिमान् अणुपरिमाणश्च । चकाराद- मनोवाचां दूरगमनम् । स्वचः सर्वशरीरव्याप्तिश्च सामर्थन वा गुणव्याप्त्यावेति बोधितम्। मोक्षे च तपामपि सत्सम्पत्तिरिति च बोधितम् । नन्वतेषां को वा गुणो यो बहिः प्रसरतीति वक्तव्यम् । यदि न वक्तुं शक्यते तर्हि मिथ्येवायमुद्यम इतिचंन्न । चक्षुर्मनोवा- चां तेजोमयदेवताधिष्ठितत्वात् तदंशत्वाच रूपमेवेति वदामः। तेजो- मयीवागिति श्रुतेश्च । त्वचस्तु स्पर्श एव । अथवा । यन्न स्पृश- न्ति न विदुर्मनोबुद्धीन्द्रियासव इति पष्ठस्कन्ध नारदकृत उपदेशे मनःप्रभृतीनां ब्रह्मकर्मकस्पर्शज्ञानोनिषेधमुखेन तेषु स्पर्शज्ञानयो- रङ्गीकारात् स्पर्श एव सर्वत्र याचितो भवतु । नच तस्य प्रत्यक्षा- पत्तिः शया । अणुगुणत्वेनातीन्द्रियतया कार्यकानुमयत्वात् । इ- न्द्रियाणां प्राप्यप्रकाशकारित्वस्य नियतत्वादिति यत् पुनः सकल- देहव्यापिकार्यानुपपत्तिप्रसङ्गादणुत्वं मध्यमपरिमाणबोधकत्वेन व्या- ख्यातम् । तदप्येतेनैव निरस्तं ज्ञेयम् । झानवत्ता तु तदेषां प्राणा- नां विज्ञानेन विज्ञानमादायेति श्रावणाद् देवतात्वाच्च युक्तवति न कोऽपि शङ्कालेशः । भिक्षुस्त्वत्राणुपदेन तन्मात्राणि व्याख्याय तेषां पृथगुत्पत्तिविचारमत्राङ्गीचकार । तन्न । मैत्रेयोपनिषदि, पञ्च त- न्मात्राणि भूतशब्देनांच्यन्ते।अथ महाभूतानि भूतशब्देनोच्यन्ते इत्यु- त्या श्रुतौ भूतपद उभयसङ्ग्रहस्य बाधिनत्वेन पूर्वपादीयवियदाधु- त्पत्तिविचारादेव चारितार्थ्यन पृथग्विचारप्रयोजनाभावात् ॥७॥३॥ श्रेष्ठश्च ॥ इन्द्रियाणि विचार्येदानी मुख्यप्राणं विचारयति । तत्र मुख्यप्राणनित्यतायाः स्फुटमश्रवणात् प्रश्नोपनिषत्प्रभृतिषु, मा मोहमापद्यथा अहमेवैतत्पञ्चधात्मानं प्रविभज्येतद्वाणमवष्टभ्य वि- धारयामीत्यादिरूपे प्राणानां संवादे शरीरस्थितिहेतुतया श्रेष्ठत्वेन निर्णीतत्वाच्च सन्देहे श्रेष्ठ यस्य नित्यतागमकत्वे मानाभावादनित्य इति प्राप्त आहेत्याशयेन व्याकुर्वन्ति । * मुख्य इत्यादि * । मुख्यः .

७८० समकाशे अणुभाष्ये । तिदेशः । नासदासीदिसत्र, आनीदवातं स्वघया तदेकमिति अननात्मकस्य पूर्वसत्ता प्रदर्शिता ॥ ८॥ न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥ ननु मुख्यः प्राणो वायुरेव भविष्यति, इन्द्रियाणां क्रिया वा । एवं हि श्रूयते । यः प्राणः स वायुः । एष वायुः पञ्चविधः। प्राणोऽपानो व्यान उदानः समान इति । सामान्यकरणत्तिःप्रा- णाद्या वायवः पञ्चेति । तत्रान्तरीया आचक्षते । तदुभयमपि न । कुतः ? पृथगुपदेशात् । एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च, खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणीति प्राणवाय्वोः प्राणोऽपि नित्यो गतिमानणुपरिमाणश्च । तत्र हेतुरनिदेशप्राप्तश्चका- रादेव पूर्ववत् सूच्यते । नन्वस्य सृष्टेः पूर्व सत्तायां किं मानमत आहुः । * नासदित्यादि * । तथाचैवं सृष्टिप्राक्काले वातरूपता- निषेधपूर्वकमानीदिति कथनाद्भगवतोऽननात्मको यो धर्मः स एव मुख्यः प्राण इति तेन रूपेण सत्तायां सिद्धायाम्, एतस्माज्जायते प्राण इत्यत्रापि जीववद् व्युच्चरणमेव, न तृत्पत्तिः । सदेवति श्रु. तिस्तु ततोऽपि पूर्ववृत्तान्तपरति श्रुतिविरोधलेशस्याप्यभावादयमपि जीवसमानयोगक्षेमत्वादश एवेत्यर्थः ॥ ८ ॥ न वायुक्रिय पृथगुपदेशात् ॥ प्राणस्वरूप एव किश्चिदाशय परिहरतीत्याशयमस्याहुः । ॐ नन्वित्यादि । तत्रान्तरीयाः सांख्याः, सामान्येति तेषां सांख्यसप्ततौ कारिका। अर्थस्तु-पञ्च बुद्धीन्द्रि- याणि, पञ्च कर्मेन्द्रियाणि बाह्यानि । मनोबुद्ध्यहङ्कारास्त्रय आन्तराः। एवं त्रयोदशविधं करणम् । तस्य त्रयादविधस्यापि करणस्य या साधारणी वृत्तिः प्राणाद्याः प्राणनादिरूपा । भावे घञ् । सैव पञ्च वायवः प्राणादय इति व्यवहियत इत्यर्थः । तथाचोभयोर्मध्ये यत्किञ्चिदादर्तव्यं, न तु पृथग्विचारस्तस्य युक्त इत्याशङ्काशयः । परिहारं व्याचक्षते * तदुभयमपि नेत्यादि * । नन्येवं वायोः स- ।

२ अध्याये ४ पादः। ७८१ पृथगुपदेशात् । वृत्तिवृत्तिमतोरभेदेन ततोऽपि पृषगुपदेशा- च॥ ९॥ चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥ १० ॥ स प्राणः स्वतन्त्रः, परतन्त्रो वेति विचारे स्वतन्त्र इति ता- त् प्राप्तम् । सुप्तेषु वागादिषु प्राण एको मृत्युनानाप्तः प्राणः वर्गो वागादीन् संटङ्क्ते प्राण इतरान् प्राणान् रक्षति मातेव त्रानिति । इमामाशङ्कां निराकरोति तुशब्दः।चक्षुरादिवदयमपि प्राणो- शाद्भेदोऽस्तु, इन्द्रियक्रियातः कथं भेद इत्यत आहुः । * वृत्ती- पादि * : * ततोऽपीति * इन्द्रियताऽपि । तथाच पदार्थान्तरमेव ख्यः प्राणः । नच पदार्थान्तरत्वे, यः स वायुः, स एष वायुः पञ्च- वेध इति श्रुत्याविरोधः शयः । तस्य भूतात्मकवायुव्यतिरिक्तभगव- प्राणात्मकवायुपरत्वात् । नचात्र मानाभावः । बृहदारण्यक उद्गीथ- ह्मणे, अथ हेममासन्यं प्राणमूचुरित्यत्र तस्य प्राणादपि वैलक्षण्य- गवणात् ।नचाध्यात्मापत्त्या न लक्षण्यमिति वाच्यम् । तस्याः नस्य णेऽपि सत्त्वात् । अतोऽपहतपाप्मत्वरूपाद् वैलक्षण्यातू तत्त्वान्तर- वि। वायुसमानाकारत्वं च तस्य मैत्रेयोपनिषदि द्वितीयप्रपाठके, नोऽमन्यतैतासां प्रबोधनायाभ्यन्तरं विविशामीति स वायुरिवा- मानं कृत्वाऽभ्यन्तरं प्राविशत् स एको नाशकत् स पञ्चधात्मानं वि- ज्येत्यादिप्रजापतिमुपक्रम्य पठ्यते। अतो न विरोध इत्यर्थः । अन्ये त्वदं सूत्रमग्रिमाधिकरणे योजयन्ति ॥९॥४॥ चक्षुरादिवत्सु तत्सहशिष्टयादिभ्यः ॥ अधिकरणान्तरत्वं धयितुं संशयादिकमाहुः । * स प्राण इत्यादि * । * संवृक्क ति संगृह्णाति सङ्कसति च । * इमामिति * । एतासु श्रुतिषु मृ- युना अनाप्तत्वस्य वागादिसंवर्गत्वस्य इतरप्राणरक्षकत्वस्य च धाव. गात् प्राणः स्वतन्त्र इत्येताम्। सिद्धान्तं व्याकुर्वन्ति । * चक्षुरादि- ७८२ समकाशे अणुभाष्ये। ऽस्वतन्त्रः । मुख्यतो भगवदधीनः । व्यवहारे जीवाधीनः । कुतः ? । तत्सहशिष्ट्यादिभ्यः । चक्षुरादिवत् सह शासनात् । इन्द्रियजयवत् प्राणजयस्यापि दृष्टत्वात् । आदिशब्देन जड- स्वादयः ॥१०॥ अकरणत्वाच्च न दोषस्तथाहि दर्शयति ॥ ११ ॥ ननु प्राणस्य जीवोपकरणत्वेन तदुपकारकव्यापारवत्वमपे- क्ष्यते । तत्रैकादशैव वृत्तयस्तन्त्रान्तरेऽपि सिद्धाः । 'एकादशामी मनमोऽपि वृत्तय आकूतयः पञ्च धियोऽभिमानः। मात्राणि कर्मा- णि पुरञ्चतामां वदन्ति चैकादश वीर भूमी'रिति । तथा कश्चित् प्राणस्य व्यापारोऽस्तीतिचेत् । यदित्यादि * । मुख्यत इति * आसन्यत्वात् । * कुत इति * उक्त- श्रुतिभिः म्वतन्त्रता तु सिद्धा। अस्वान्त्र्यं कस्मात् प्रमाणादुच्यत इत्यर्थः । * इन्द्रियजवदित्यादि * । श्वेताश्वतरे, त्रिरुन्नतं स्थाप्य समं शरीरं हृीन्द्रियाणि मनसा सनिवेश्य । ब्रह्मोडुपेन प्रतरत विद्वान् नातांसि सर्वाणि भयावहानि । प्राणान् प्रपीड्यह स युक्त- चेष्टःक्षीण प्राणं नासिकयोः श्वसीतेति इन्द्रियाणां हृदि सनिवेशनेन जयवत् प्राणान् प्रपीड्येति प्राणायामेन तजयस्यापि श्रुतावेव दृष्ट- त्वात् । जिनन्द्रियस्य युक्तस्य जितश्वासस्य योगिन इति पुराणेऽपि दृष्टत्वात् । * जडत्वादय इति * ।आदिशब्देन जीवोपकरणत्वं प्राण- संवादादिषु सह शासन सर्वव्याख्यातं संगृह्यते । तथाच प्रश्नोप. निषदि प्राणोत्पत्त्युत्क्रमस्थितीनां ब्रह्माधीनत्वश्रावणादासन्यत्वेऽपि ब्रह्मतन्त्रः । व्यवहारे पूर्वोक्तश्रुतिभ्यो वागादिनियामकत्वेऽप्येतभ्यो जीवतन्त्र इत्यर्थः ॥ १० ॥ अकरणत्वाञ्च न दोषस्तथाहि दर्शयति ॥ उपकरणत्वं प्राण- स्य कथमित्याकाङ्क्षायां किश्चिदाशय परिहरॆस्तत् समर्थयतीत्याश- येन व्याकुर्वन्ति । * नन्वित्यादि * । * तन्त्रान्तर इति * ।

२ अध्याये ४ पादः। ७८३ नैष दोषः । कुनः ? । अकरणत्वात् । करणस्यैव हि व्या- पारोऽपेक्षितः । अन्यस्य कार्यमात्रमपेक्षितम् । तत्राह तथाहि का- यवत्वं युक्तं तच्छ्रुतिरेव दर्शयति । तस्मिन्नुत्क्रामयथेतर इसा- दिश्रुतिभिः । प्राणनिमित्तैव शरीरस्थितिरिति । तस्माद् व्यापा- राभावेऽपि स्वरूपस्थितिमात्रेण तस्योपकारित्वम् ॥ ११ ॥ पञ्चवृत्तर्मनोवद् व्यपदिश्यते ॥ १२ ॥ योगशास्त्र । श्लोकस्तु पञ्चमस्कन्धे जडभरतवाक्यपु । अर्थस्तु- आकृतयो विसर्गानन्दनादानगमनवचनाख्यकर्मजनका वाहाप्रयत्नाः पञ्च, धियः शब्दस्पर्शरसगन्धज्ञानानि पञ्च । एता दश स- द्वारकस्य मनसी वृत्तयः । अभिमानोऽहममति स्वीकारात्मकः साक्षान्मनसा वृत्तिः । एवमकादश मनसो वृत्तयः । द्वारभूतानाम- न्द्रियाणां तु प्रतिनियता एकैकजातीयाः । मात्राणि शब्दादयो धियां भूमयो विषयाः । कर्माणि विसादीनि आकृतीनां भूमया विषयाः । पुरं शरीरं, तच्च स्वसम्बन्धिनामप्युपलक्षकम् । तद्, अहंममत्यभि- मानाख्यमनोवृत्तर्विषयः । एवमेकादश तासां वृत्तीनां भूमीर बद- न्तीति । तथाच यथता जीवांपकरणभूतानां करणानां तत्तद्भोगरूप- कार्यार्थ व्यापारा आकृत्यादयः सन्ति तथा प्राणस्य जीवभागमाध- कः कश्चिद् व्यापारो नास्तीति कथं तस्य जीवोपकरणत्वमित्यर्थः । समाधिमत्राहुः । * नैष इत्यादि * I * एप इति * ।व्यापाराभावः। * तत्राति * । तादृशापेक्षाभंदे प्रमाणमाह । * तथा हीत्यादि * 'अकरणत्वे कार्यवत्त्वमात्रं युक्तं, न तु मव्यापारं, तच्छतिरेव दर्श- यतीत्यर्थः । श्रुतिमाहुः । * तस्मिन्नित्यादि * । प्रश्नोपनिषदि, त- स्मिन्नुत्क्रामत्यथैते सर्व एवात्क्रामन्ते तस्मिश्च प्रतिष्ठमान सर्व एव प्रतिष्ठन्ते तद्यथा मक्षिका मधुकरराजानमुकामन्तं सर्वा एवोत्क्रमन्ते तस्मिश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्त इति । * उपकारित्वमिति । तथाचोपकारित्वादुपकरणमित्यर्थः ॥ ११ ॥ पश्चवृत्तर्मनांवद् व्यपदिश्यते ॥ पुनः किश्चिदाराम परिहर- ७८४ समकाशे अणुभाष्ये। व्यापारव्यतिरेकेणोपकारित्वमसमञ्जसमितिचेत् तत्राह । प. श्चत्तेः । अहमेवैतत् पञ्चधात्मानं विभज्यैतदवाणमवष्टभ्य विधार- यामीति । यथा मनसो द्वारभेदेनैवैकादश वृत्तयः स्वरूपत एव । एवमेव प्राणस्यापि पञ्चधात्मानं विभज्य कार्यकारणं व्यप- दिश्यते ॥ १२॥ अणुश्च ॥ १३ ॥ अतिदेशेन प्राप्तमप्यणुत्वं पञ्चधात्मानं विभज्येति वचनात्म- न्दिग्धं पुनर्विधीयते । आसन्योऽप्यणुः । चकारात् पूर्वोक्तसर्वस- समुच्चयः ॥ १३॥ तीत्याशयेन व्याकुर्वन्ति । * व्यापारेत्यादि * । परिहारं विशदय- न्ति । * यथेत्यादि * । तथाच व्यपदेशप्रामाण्येन यथा मनसि इ- न्द्रियद्वारा साक्षाच्च वृत्तिस्वीकारस्तथा प्राणेऽपि व्यपदेशप्रामा- ण्येन साक्षादेव वृत्तिस्वीकारः । अतः कार्यमात्रात् स्वरूप एवोप- कारादुपकरणत्वमित्यर्थः। एतेन यत् परैः, प्रमाणविपर्ययविकल्पनि- द्रास्मृतय इति योगसूत्रानुसारेण मनसः पञ्चवृत्तित्वमङ्गीकृत्य प- नवृत्तिकत्वांशेऽपि मनांवदिति दृष्टान्त इत्युक्तम्, तदपि परास्तम् । उक्तवाक्य एकादशत्वस्य कण्ठोक्तत्वात् । योगोक्तवृत्तीनां तृतीय- स्कन्धे,संशयोऽथ विपर्यास इत्यत्र बुद्धिवृत्तित्वस्वीकाराच्च । श्रुत्यु- काः कामादयस्त्ववान्तरवृत्तित्वेनैकादशस्वेव प्रविशन्ति । योगसूत्रं तु निरोध्यत्वेन ता वक्तीति, न त्वन्या निराचष्ट इति न कोऽपि दोषः ॥ १२॥ अणुश्च ॥ * पूर्वोक्तसर्वसमुच्चय इति * । उत्क्रान्त्यादिवृत्त्य- न्तधर्मसंग्रहः । तथाच स्वसामर्थ्याद् वृत्तयो वृत्तिसामर्थ्यात् सर्व- शरीरव्याप्तिः । बहिर्भूयस्त्वेन प्रत्ययस्तु त्रिवृत्करणोत्तरमद्भिः पोष- णादुपपन्नः । तस्मादणुरवासन्यः प्राण इति सिद्धम् । यत्पुनः प्राण- मुपक्रम्य सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेणेति विभुत्वमुद्गीथ. ब्राह्मणे श्रावितम् । यच्च माणे सर्व प्रतिष्ठितमिति सर्वाधारत्वं प्र- २ अध्याये ४ पादः। ७८५ ज्योतिराधिष्ठानं तु तदामननात् ॥ १४ ॥ वागादीनां देवताधिष्ठानवतां प्रत्तिः,स्वत एव वा । जीवा- धिष्ठानब्रह्मप्रेरणयोर्विद्यमानत्वादिति संशयः । विशेषकार्याभावा- श्नोपनिषदि श्रावितं, सर्व हीदं प्राणेनावृतमिति श्रुत्यन्तरे । तत्तु, उत्क्रान्त्यादिश्रुतिभिर्निश्चिते परिच्छिन्नत्वे सर्वस्य प्राणिजातस्य प्राणा- यत्तस्थितिकत्वेनोपपद्यते इति रामानुजाचार्याः । तेन व्यापककार्य- करणात् तत्सिद्धिनिवन्धना गौणी तत्र फलति । शङ्कराचार्यभास्कराचार्याभ्यां तु-आधिदैविकेन समष्टिव्य- ष्टिरूपेण हरण्यगर्भेण प्राणन सूत्रात्मना तद्विभुत्वमिति न विरोध इत्युक्तम् । अस्माकमपीदमेव सम्मतं किञ्चिद्वलक्षण्यनेत्यग्रिमाधि- करण सत्स्यति । भिक्षुस्तु-अणुशब्देन तन्मा कार्य स्थूलमहाभूताणुं वैशेषि- कप्रतिपन्नत्र्यणुकस्थानीयं योगभाष्यानुसारेणाङ्गीकृत्य ततः स्थूलम- हाभूतोत्पत्तिमङ्गीचकार । तदपि व्यासानभिप्रेतमेव । अत्र तत्प्रस- ङ्गादर्शनात् । यदि हि तानणूनभिप्रेयात् तदा पूर्वपाद एव विपर्यय- सूत्रात् पूर्वमेव तानपि विचारयेत् । यदि च तत्र प्रामाणिकत्वमभि- प्रेयात्, श्रुतेरिति वा स्मृतेरिति वा हतुं च वदेत् । योगभाष्ये तदु. क्तिस्तु तत्सूत्रानुसारिणीति न तेषां श्रौतत्वं स्वाभिप्रेतत्वं वा आपा- दयितुं शक्नोतीति वृथाडम्बर इति दिक् ॥ १३॥ ५ ॥ ज्योतिराधिष्ठानं तु तदामननात् ॥ संशयाधुपन्यासमुखेन सूत्रयोजनं बोधयन्ति । * वागादीनामित्यादि * नच जडानां स्वतः प्रवृत्त्यदर्शनाद् देवताधिष्ठानमाक्षिप्तमिति संशय एव न घटत इ- स्वत आहुः । * जीवेत्यादि * अत्र जीवाधिष्ठानं द्वितीयकोटौ हेतुः । ब्रह्मप्रेरणं प्रथमकोटौ । अन्तर्यामिब्राह्मणे देवताधिष्ठितानामेव यमन- स्योक्तत्वादिति । तुशब्दव्याख्यानमुखेन पूर्वपक्षमाहुः * विशेषेत्यादि * । अन्तर्यामिब्राह्मणोक्तस्य यमनस्याण्डसृष्टिरूपविशेषकार्यार्थता- या, यः पृथिव्यां तिष्ठनित्यादिवाक्यसमभिव्याहारेणावगमादत्र च तद्भावेन देवताप्रयोजनाभावात् । भोगमात्रकार्यस्य तु प्रतिनियत- ७८६ समकाशे अणुभाष्ये। भदेवताऽपेक्षेति पूर्वपक्षं निराकरोति तुशब्दः। वागादीनां ज्योति- रादि अग्न्यादिरधिष्ठानमवश्यमङ्गीकर्तव्यम्। कुतः ? । तदामनना- त् । तथा आम्नायते अग्निर्वाग् भूत्वा मुखं प्राविशदिसादि । अयमर्थ:- योऽध्यात्मिकोऽयं पुरुषः सोऽसावेवाधिदैविकः । यस्तत्रोभयविच्छेदः स स्मृतो ह्याधिभौतिक इसाध्यात्मिका- दीनां स्वरूपं वागादयश्चानुरूपा नियाः। तत्र यदि त्रैविध्यं न क- ल्प्येत तदैकस्मिन्नेव शरीरे उपक्षीणं शरीरान्तरे न भवेत् । कल्प्य- तया जीवाधिष्ठानमात्रादेव सिद्धर्न देवतापेक्षेति पूर्वपक्षमित्यर्थः । * अधिष्ठान मिति * । नन्द्यादित्वात् कर्तरि ल्युः । नपुंसकं तु सा- मान्ये । तथाच शरीरेऽपि प्राणानां सर्वेषां स्वस्वकार्यार्थ ज्योतिरा- दिरधिष्ठातावश्यमङ्गीकार्य इत्यर्थः । * तदामननादिति * तस्य देवतारूपस्याधिष्ठातुः श्रुती कथनात् । अग्निर्वाग्भून्वेति श्रुतिस्तु ऐ- तरयोपनिषदि लोकानां लोकपालानां च सृष्टिमुपक्रम्याद्यः पुरुषो- खरणमुक्त्वा तत आलांचनान्तरेण तस्य मुखनिर्भदं मुखाद्वानि- भेंदं वाचोऽग्नर्निर्भेदमुक्त्वा तथैव नासिकाक्षिकर्णत्वग्हृदयनाभिशि- इनानां सेन्द्रियाणां सदेवानां निर्भेदं, ततस्तासां देवतानां प्रलयमहा- र्णव पातम्, अशनापिपासाभ्यां तासामावरणं, ताभिः स्वान्नभोगार्थ स्थानप्रार्थनं, ततो भगवता तासां स्थित्यर्थ पुरुषशरीरानयनं चोक्त्वा सतो भगवता यथायतनं प्रविशतेत्युक्ते, अग्निर्वाग्भूत्वा मुखं प्राविश- द् वायुः प्राणो भूत्वा नासिके प्राविशदित्येवं तस्यास्तस्या देवता- यास्तत्तदिन्द्रियरूपभवनेन तत्तदोलके प्रवेशं वक्ति, तस्मादित्यर्थः । ननु तासां देवतानां विराट्पुरुषशरीरीयतत्तद्गोलके प्रवेशः स्वस्वा- नभोगार्थो, न तु कार्यार्थः । अथेन्द्रियरूपेण भवनात कार्यार्थस्तदापि विराडिन्द्रियाणामेव कार्यार्थो न सर्वेषामतोऽनया श्रुत्या कथं सर्वत्र देवताधिष्ठानसिद्धिरित्याकाङ्क्षायां तां व्युत्पादयन्ति । * अयमर्थ इत्यादि * I * अयमर्थ इति * अयं वक्ष्यमाणः सौत्रतात्पर्यगोचरो- २ अध्याय ४ पादः। माने तु अनिर्देवतारूपोऽनेकरूपभवनसमर्थो वायूपो भूत्वा सर्वत्र प्रविष्ट इति सङ्गच्छते । ते चाग्न्यादयश्चेतना भगवदंशास्तिरोहिता- नन्दाः सामर्थ्ययुक्ता इति कार्यवशादवगम्यते । आध्यात्मिकाधिदैविकयोरेकत्वाद् बदनादिकार्यार्थमाध्यात्मि- का एव निरूपिताः । उद्गमने, एतस्माजायते प्राण इत्यादिषु ऽर्थः । योऽध्यात्मिक इति द्वितीयस्कन्धीयः श्लोकः । पुराणं च घे. दोपबृंहणमतस्तदनुसारणाव्याकुलत्वाय श्रुतिर्विचार्यते । अर्थस्तु- आत्मनीत्यध्यात्म तत्र भव आध्यात्मिकः । पमन्यावपि । उभयो- राध्यात्मिकाधिदैविकयोर्विच्छेदो द्वैधीभावो यस्मात् स उभयविच्छे. दः । तथाच श्रुतौ मुखादिनिर्भेदोत्तरमवेन्द्रियदेवतयोनिर्भेदकथना- देतच्छलोको कमाध्यात्मिकादिस्वरूपमाधिभौतिकोत्तरभाव्येवाभिप्रे- तम् । नंचाऽयं श्लोको जीवात्मपरमात्मशरीरं चेति त्रयमभिप्रेत्य तत्रोक्त इति कथमत्रतस्य योजनमिति शङ्कनीयम् । तत्र यथा जीवपरमात्मानावणू नित्यौ तथाऽत्र वागादयोऽष्यणुरूपा नित्याः। तत्र यदि विध्यं न कल्प्येत तदैकस्मिन् सशरीरे उपक्षीणं वागादिकं शरीरान्तरे न सम्बद्धं भवेत् । कल्प्यमाने तु त्रैविध्ये अग्निर्देवतारूपः परमात्मवदनेकरूपभवनसमर्थो वाग्रूपो भूत्वा सर्वे- धु शरीरेषु प्रविष्ट इति सङ्गच्छते । अतोऽर्थापत्त्यात्रापि तद्योजनम् । जीवशरीरान्तरवर्त्तिविषयतया सामानाधिकरण्याश्च । नचाग्न्या- दिषु तादृशसामर्थ्याभावादिकं शङ्कनीयम् । ते चाग्न्यादयश्चेतनाः । लोकपालकत्वालोचनेनोद्गमितत्वात् । भगवदंशाः कारणत्वेन भ- गवत एवोपक्रान्तत्वात् । तिरोहितानन्दाः, अन्नभोजनप्रार्थनाकारि- त्वात् । । सामर्थ्ययुक्ताः, वागादिरूपेण भवनादिल्यवंप्रकारकाः प्रवेशरूपकार्यवशादवगम्यन्ते । नन्वेवं मदा देवतासाहित्यं चेद एतस्माजायत इत्यत्र देवोद्गमः कुतो नोक्त इत्यत आहुः । * आ- ध्यात्मिकेत्यादि * । तथाच साक्षादनुक्ताप भङ्गयन्तरेणोक्त एवे- त्यर्थः । नन्वेवं दृष्टापत्तौ वागादिष्वेव तादृशं सामर्थ्य कल्प्यम् । आध्यात्मिकादिस्मृतिवाक्ययोजनेनाधिष्ठातृकल्पने किं मानमत आ- ७८८ सपकाशे अणुभाष्ये। वागादीनां नियमेन तत्तज्जीवसान्निध्यं, स्वतश्चानिर्गमनं मृत्युरूपश्र मेण तत्र लयः पुनरुद्गमनं समष्टिव्याष्टिभावश्च नोपपद्यत । आधिभौतिककृतश्चायं भेद इसने व्यक्तीकरिष्यते । एवमेव ब्रह्मणोऽपि । अनेन जीवेनात्मनानुप्रविश्येसपि निःसन्दिग्धं द्रष्ट- हुः । * वागादीनामित्यादि * । अन्यथा यद्येवं न कल्प्येत तदा आ- तभागब्राह्मणोक्तं ग्रहातिग्रहभावेन प्राणवागादीनां जीवसान्निध्यं तमुत्क्रामन्तं प्राणोनूत्क्रामतीत्यादिवाक्यावगतं स्वतोऽस्माजीवदेहा- दनिर्गमनं, व्रतमीमांसायां तानि मृत्युः श्रमो भूत्वोपयेम इत्यादिनो- क्तमृत्युरूपश्रमेणावगम्यमानः शरीरे लयः पुनरुद्गमनं, भुज्युब्राह्म- णे वायुरेव व्यष्टिर्वायुः समष्टिरित्यनेन बोधितो य आसन्यस्य सम- ष्टिव्यष्टिभावश्चकारात् तत्र तत्रोक्तं चेतनतुल्यत्वम एतत् सर्व नोप- पधेत। तथाच श्रुतार्थापत्तिरेव मानमित्यर्थः । समष्टिव्यष्टिपदयोरर्थ- स्तु, अशू व्याप्ती, सम्यग् एकेन रूपेण अनुगता अष्टिाप्तिर्यस्यासौ समष्टिः । विविधा नानारूपेण अष्टिाप्तिर्यस्यासी व्यष्टिरिति । य- धपि तत्र समष्टिव्यष्टिभावःप्राणस्यैवोक्तस्तथाप्यणुत्वादिसामान्यात प्राणान्तरेऽपि तुल्य इति न कोऽपि सन्देहः । एतस्य श्रौतस्य समष्टि- व्यष्टिभावस्य पौराणिकाध्यात्मिकादिभावानुगृहीतत्वेनात्रोक्तं वि- ध्यं सृष्टिदशायां सार्वत्रिकं सर्वत्रैवोपयुज्यत इत्यतन्निबन्धे सर्वनि- ये, आनन्त्येऽपि हि कार्याणामित्यादिकारिकाभिस्तव्याख्यया च प्रपश्चितमिति ततोऽवगन्तव्यम् । एतस्य व्यासाशयगोचरत्वं स्फुटी- कुर्वन्ति । * आधिभौतिकेत्यादि * । चोऽवधारणे । भेदो विभागः । अग्रे वैशेष्यसूत्रे व्यक्तीकरिष्यते । तत्र मनआदीनां तत्त्वान्तरत्वस्था- पनात् तेषामेवैतरेयेऽद्भयः पुरुषसमुद्धारं प्रकृत्य तस्य मुखादिगोल- कनिर्भेदोत्तरं मुखादिभ्यो वागादीन्द्रियाणामिन्द्रियेभ्योऽग्न्यादिदेवा- नां निर्भेदस्य तदुत्तरं देवानामनभोजनार्थ यथास्थानं तत्तद्गोलके प्रवेशस्य च श्रावितत्वात् तत्स्मारणेन स्फुटीकरिष्यत इत्यर्थः । अयमर्थः, संज्ञामूर्तिसूत्रेऽप्यस्तीति बोधयितुं तद्विषयवाक्यमुपन्यस्य- न्त एवमाध्यात्मिकाधिदैविकभावं ब्रह्मण्यप्यतिदिशन्ति । * एवमेव ब्रह्मणोऽपीति * । यथैतेषामाधिभौतिके प्रवेशोत्तरमाध्यात्मिकाधिदै- २ अध्याये ४ पादः। ७८९ व्यम् यदज्ञानात् सर्वविप्लववादिव्यामोहः ॥ १४ ॥ प्राणवता शब्दात् ॥ १५ ॥ यदधिष्ठानमग्न्यादि तत् किं स्वत एव, अन्यसहितं वेति सन्देहः । किं तावत् प्राप्तम् । स्वत एवेति । पूर्वोक्तन्यायेन ताव- तैव सिद्धेरनवस्थानाच्च देवतात्वव्याघातश्चेयेवं प्राप्ते उच्यते । प्राणवता अधिष्ठितं वागादि । कुतः ? । शब्दात् । सोऽयमग्निः परेण मृत्युनाऽतिक्रान्तो दीप्यत इसादि । अयमर्थः । द्वया ह विकत्वम्, एवमेव ब्रह्मणोऽपि तिसृषु देवतासु, अनेन जीवेनात्म- नानुप्रविश्यति प्रवेशकथनादत्रापि श्रुती निःसन्दिग्धं द्रष्टव्यम् । त- दनुप्रविश्य सच्च न्यच्चाभवदिति श्रुत्यन्तरे प्रवेशोत्तरमेव द्वैधीभा- वश्रावणात् । उक्तश्रीभागवतश्लोकस्याप्याश्रयरूपं परं ब्रह्मैव प्रकृत्य पठितत्वाच्च । यस्य भगवत्मामर्थ्यकृतस्याध्यात्मिकाधिदैविकभाव- स्याज्ञानातू सर्वविप्लवजनकमायावादरूपव्यामोहः । पवं ब्रह्मसाम- येऽवधारित उच्चनीचभावस्य जडचंतनभावस्य बन्धमोक्षव्यवस्था- याः शुद्धब्रह्माद्वैतस्य च सुखेन सम्भवादित्यर्थः ॥ १४ ॥ ६ ॥ प्राणवता शब्दात् ॥ अत्रापि पूर्ववत्सूत्रप्रयोजनं बोधयितुं सं. शयादिकमाहुः । * यदित्यादि *। * स्वत एव, अन्यसहितं वेति * स्वत एव वागादीनधितिष्ठति, मुख्यप्राणेन सहितं वा सद् अधिति- ष्ठतीति सन्देह इत्यर्थः । पूर्वपक्षे युक्तिमाहुः । * पूक्तित्यादि * । ज्योतिराद्यधिकरणेऽग्न्यादीनामेवाधिष्ठातृत्वसाधनात् तदधिष्ठानमा- त्रादेव वागादीनामिन्द्रियाणां व्यापारस्य सर्वजीवसान्निध्यादेःसिद्धया इतरसाहित्यप्रयोजनाभावात् तदङ्गीकरणे च तस्याप्यधिष्ठात्रन्तरा- पेक्षासम्भावनेनाऽग्रेऽप्यपेक्षानुपरमेणाप्रामाणिकानवस्थानाच्च । कि- ञ्चाधिष्ठेयत्वे तेषां देवतात्वव्याघातश्च । अधिष्ठातृत्वस्यैव देवता- त्वादित्यर्थः । सिद्धान्तं विवृण्वन्ति * प्राणवतेत्यादि * । मुख्यप्राण- सहितेनाम्यादिनाऽधिष्ठितं वागादीत्यर्थः । नन्वनेन शब्देन कथं प्राणसाहित्यसिद्धिरित्याकाङ्क्षायां तद्विवृण्वन्ति । * अयमर्थ इत्या- समकाशे अणुभाष्ये । भाजापसा इसत्राधिष्ठातृत्वमग्नीनामुक्तम् । देवा इसविशेषेणेन्द्रि- याधिष्ठाभ्योऽन्याश्च । तेषां प्रतिबन्धकाऽसुरातिक्रमेण स्वर्गलोके गमनेच्छा बभूव । तत्र यज्ञेनैव स्वर्ग इति । तत्र जनको ह वैदेह इति ब्राह्मणे केनाक्रमेण यजमानः स्वर्ग लोकमाक्रमत इत्युद्गात्र- विजा वायुना माणेनेति उद्गात्रैवाक्रमणमिति सिद्धम् । तत्रान्यो- न्योद्गातृत्ववरणे तथोद्गाने यो वाचि भोगस्तं देवेभ्य इसाम्नातम्। . दि * । इदं वाक्यमुद्गीथब्राह्मणस्थम् । तत्र हि छया ह प्राजापत्या देवाश्चासुराश्चेत्युपक्रम्यासुराणां प्राबल्यं देवानां नैर्बल्यं तेषाम, एषु भूलोकेषु वसतां स्पर्धा चोक्ता । सा तु चेतनधर्म इत्युभयेपि चे- तनाः । तत्र, के देवा इत्यपेक्षायां, ते ह वाचमुचुरित्यादिभिर- ग्रिमवाक्यैर्वागाद्यधिष्ठातार इति ज्ञायते । तेनात्राधिष्ठातृत्वमग्न्या- दीनामुकम् । यद्यपि तत्र वाग्घ्राणचक्षुःश्रोत्रमनसामेव देवता उक्ता- स्तथापि अत्र, देवा इत्यधिशेषेण कथनादुपलक्षणविधया इन्द्रिया- धिष्ठान्योऽन्या अपि बोध्याः । तेषां च देवानां प्रतिबन्धकासुरातिक- मेण स्वर्गलोके गमनेच्छा बभूव । तत्रेच्छायां सत्यां, स्वर्गकामो य- जेतेत्यादिश्रुतर्यज्ञनैव स्वर्ग इति विचार्य यज्ञं चक्रुरिति बोधनाय, ते ह देवा ऊचुः, हन्ताऽसुरान् यज्ञ उद्गीथेनात्ययामेत्युक्तम् । तत्र कथमुद्गीथनेवातिक्रम इत्यपेक्षायां जनको ह वदेह इति वक्ष्यमाणे ब्राह्मणे यदिदमन्तरिक्षमनारम्बणमिवाथ केनाक्रमेण यजमानः स्वर्ग लोकमाक्रमत इत्याश्वलेन प्रश्ने कृते याज्ञवल्क्येन उद्गात्रविजा वा- युना प्राणेनेति कथनादुद्गात्रैवाक्रमणमिति सिद्धम् । तत्र प्रकृते अन्योन्यस्य वागादेरुद्रातृत्वेन वरणे तथोद्गाने, ते ह वाचमूचुः त्वं न उद्गायेति तथेति तेभ्यो वागुदगायद् यो वाचि भोगस्तं देवेश्य आगायद् यत्कल्याणं वदति तदात्मन इत्यनेन यथेदानी ज्योतिष्टोम उदात्रा त्रिषु स्तोत्रेषु यजमानार्थमुद्गानं क्रियते. नवसु स्वार्थ तद्वत तत्रापि द्विविधम् उद्गानम्,तत्र यो वानिमित्तको भोगःसुखविशे. पस्तं देवेभ्य आगायद् आसमन्ताद् गानेन प्रापयितुमारेभे । यत् पुनः कल्याणं समीचीनं शास्त्रानुसारि वदति तदात्मने खार्थमागानेन प्रा.

२ अध्याये ४ पादः। तदनुश्रमरूपपाप्मना वेदानन्तरमप्रतिरूपं वदतीति निरूपितम्। सो- ऽपि दोषो देवानां प्राप्नोति । तच्छृतिविप्रतिषिद्धम् । न ह वै देवान् पापं गच्छतीति । तदनु प्राण एवोद्गाता सिद्धः । तेना- न्येषामपि पापसम्बन्धो निवारितः । ततः परेण, तस्य चेति मू- त्रेण मृत्युमतिक्रान्तो दीप्यत इति । अतो दीप्यमानस्यैवाधिष्ठात- त्वात् प्राणवतैवाधिष्ठानमिति सिद्धम् ॥ १५ ॥ ~ - पयितुमारेभे इत्याम्नातम् । तदा तेऽसुरा वितुरनेन वै न उद्गात्रात्ये- प्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन् । तत् ते असुरा शात्वा तथा घेधं कृतवन्तस्तत्र स पाप्मा को वेत्याकाङ्क्षायां, स यः म पाप्मेति स वेधकरणभूतो योऽग्रे व्रतमीमांसायामुच्यमानः श्रमरूपः स एव पाप्मेति सामान्यत उक्त्वा तदनुश्रमरूपपाप्मना वेधानन्तरं तत्परि- चायनाय यदेवेदमप्रतिरूपं वदति स एव पाप्मेति निरूपितम् । तथा च वेदाध्ययनभगवद्गुणगानादिष्वेव श्रमो न पुनलौकिकदु- दिकथन इति तत्परिचायकं निरूपितम् । सोऽप्येवं परिचायि- तो द्वितीयो दोषोऽपि देवानां प्राप्नोति । क्रमेण सर्वेषामेवादगातृत्वा- त् । तद् दोषरूपं पापं श्रुतिविप्रतिषिद्धं, न ह वै देवान् पापं गच्छती- ति श्रुत्यन्तरे पापासंसर्गश्रावणात् । तदनु इंन्द्रियाधिष्ठातृणां पाप- संसर्गोत्तरम्, अथ हममासन्यं प्राणमूचुरित्यादिना मुख्यः प्राण एवोद्गाता सिद्धः । तं यदा पाप्मनाविध्यंस्तदा यथाऽऽश्मानं प्राप्य लोष्टो विध्वस्तो भवति तथा सर्वेऽप्यसुरा नष्टा इति । तेन प्राणकृता- ऽसुरनाशनेनान्येषामपि पापसम्बन्धो निवारित इति द्वितीयदोषना- शाच्छतिविप्रतिषेधोऽपि निरस्तः । ततः सा वा एषा देवता एतासां देवतानां पाप्मानं मृत्युमपहत्याथैनां मृत्युमत्यहवत्, स वै वाचमेव प्रथमामत्यहवतू, सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्, सोऽय- मग्निः परेण मृत्युमतिकान्तो दीप्यत इत्यादिना मुख्यप्राणाश्रयव- शाद्देवानां वागाद्यधिष्ठातृणां मृत्युरूपश्रमात्मकपाप्मनिवृत्त्या प्रति- बन्धकासुरातिक्रमेण दीप्यमानत्वादिकमुक्तम् । अतः स्वस्वकार्यक्ष- मत्वेन दीप्यमानस्यैवाधिष्ठातृत्वात् प्राणवतैवाग्न्यादिना बागाद्य- ७९२ सप्रकाशे अणुभाष्ये। तस्य च नित्यत्वात् ॥ १६ ॥ अग्न्यादेः प्राणसम्बन्धो निस इति सर्वदाधिष्ठातृत्वम् । प्रा- णस्य तत्सम्बन्धस्य चेति चकारार्थः । प्राणसहायेनैव यथोचितव- र्णोद्गम इति लोके स्वामिभृसभावेन जीवे भोगः फलिष्यति ॥१६॥ धिष्ठानं न केवलेनेति सिद्धम् । तथाचाधिष्ठातृणामेव पापाभावो, न त्वधिष्ठेयानामस्मदादीन्द्रियाणामपीत्यतो, न किञ्चिच्चोद्यमित्य- र्थः । इयं श्रुतिः परैरन्यथा व्याख्यायते । तत्कल्पनायाहुल्यादसङ्गतं व्याख्यामिति बोध्यम् ॥ १५ ॥ तस्य च नित्यत्वात् ॥ सर्वदा प्राणसम्बन्धे हेतुं वदतीत्या- शयं स्फुटीकुर्वन्ति । * अग्न्यादेरित्यादि * । प्राणस्य नित्यत्वं, श्रेष्ठ- श्चेत्यधिकरण निर्णीतम् । सम्बन्धनित्यत्वं तु छान्दाग्ये प्राणानामहं- श्रेयसि विवादेऽन्येषां प्राणानां मुख्यप्राणं विना स्थातुमशक्त्या निर्णी- यते । तस्मादग्न्यादरासन्यस्य तत्सम्बन्धस्य च नित्यत्वात् प्रति- कल्पमनयैव रीत्याधिष्ठातृत्वमित्यर्थः । इदानीमपि प्रतिशरीरं प्राण- सहायेनैव कार्यक्षमत्वमित्यत्र गमकमाहुः । * प्राणत्यादि * । एव- मिन्द्रियान्तरेऽपि समानन्यायाद बोध्यम् । नन्वत्र प्राणवच्छब्दन प्रा- णजीवो व्याख्यायत । उचितं च तत् । जीवभोगप्रकारबांधनार्थ- मेव तत्परिकरविचारस्य प्रकृतत्वात् । अत्र च तस्याधिष्ठातृत्व अव्या- ख्याते तस्य भांगासिद्धी विचारवैयापात इत्याशङ्कायामाहुः । * लोक इत्यादि * । श्रुत्यन्तर, स यथा महाराजो जानपदान् गृहीत्वे- ति दृष्टान्तेन मुख्यप्राणांशभूतास्मत्प्राणानामपि जीवपरिकरत्वेन खामिभृत्यम्यायसिद्ध स्तेन न्यायेन जीवे भोगो मुख्यामात्यरूपप्राणा- धिष्ठानादपि फलिष्यतीति न विचारवैयर्थ्यम् । तथाच करणत्वांश एव तस्य तासां चाधिष्ठातृत्व, भोक्तृत्वेन तु जीवस्यैवाधिष्ठातृत्व- मित्यर्थः ॥ अथात्र प्रसङ्गाज्ज्ञानक्रियां वदामः । तत्र गीतायाम् 'अधि- छान तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक् चेष्टा देवं २ अध्याये ४ पादः। ७९३ चैवात्र पञ्चमम् । शरीरवाङ्मनोभियंत कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पश्चैते तत्र हेतव' इति भगवता जीवक्रियमाणकार्य प्रति पञ्चहेतव उक्ताः । तत्राधिष्ठानं शरीरम् । कर्ता जीवः, करणं बाह्यमान्तरं च नानाविधं, चेष्टा प्राणादिवायुफर्माणि, शरीराणि च, दैवंकालः, कर्म,भगवदिच्छा, अन्तर्यामी, मुख्यप्राणसहाया इन्द्रिया- धिष्ठातारश्च । एवं सति शानजनकमनःसंयोगादिहेतुभूतक्रियायाम- प्यतान्येव यथासम्भवं कारणानि । तत्रायं क्रमः । पूर्व भगवदिच्छया ईश्वरांशेनान्तर्यामिणा कालकर्मसाचिव्यादन्तःकरणं प्रेर्यते । तचतु- विधम् । तत्राहङ्कनरदेवता रुद्रः, तस्य च हदिन्द्रियाण्यसुर्योमेति वाक्यादेकादशस्थानानीति रुद्राधिष्ठितोऽहङ्कारो दैहिकेषु तेष्वभिमति जनयति । बुद्धिदेवता ब्रह्मा, तेनाधिष्ठिता बुद्धिर्ज्ञानेन्द्रियाण्यनुगृह्णा- ति । चित्तं तु सुषुप्ती अभेदेनात्मानं गृह्णात्यन्यदा तु लीनम् । मनस्तु चन्द्राधिष्ठितमुभयविधेन्द्रियनायकं तत्तदिन्द्रियप्रेरणाय तेन तेन तत्तदेवताधिष्ठितेनेन्द्रियण संसृज्यते । तदा तानि स्वस्वकार्य कुर्व- न्तीति साधारणी प्रक्रिया । ज्ञानेन्द्रियाणि तु मनःप्रेरितानि स्वस्व. विषयैः संसृज्य स्वसंसृष्टे मनसि पूर्व निर्विकल्पकमुत्पादयन्ति । तदा इन्द्रियदेशे मनसो वृत्तिर्भवति । सा यदा वुद्ध्या वृत्तिद्वाराऽनु- गृह्यते तदा सविकल्पकं भवति । तच्च प्रमेयानन्त्यादनन्तविधम् । तत्रापि कारणान्तरसमवधाने संशयविपर्यासप्रमाणस्मृतिभेदाजाग्र- ति भवन्ति । यथा सम्भवं स्वप्नपि । मविकल्पकजन्यहानोपादान- बुद्धौ तु विशेषः। इन्द्रियविषयाकृष्टैराक्षिप्तं ध्यायतां मनः।चेतनांहरत बुद्धस्तम्बस्तोयमिव हृदादिति चतुर्थस्कन्धे द्वाविंशे वाक्याद्विषयरि- न्द्रियाकर्षस्ततस्तैर्मनसस्तच्च कामादिहतमिति तत्र कामोत्पत्तावुपा- दानवुद्धिः । तादृशे मनसि द्वेषोत्पत्तौ तु हानबुद्धिः । नचात्र ध्याय- तामिति पदात् स्मृतानामेव विषयाणामिन्द्रियाकर्षकत्वं न प्रत्यक्षा- णामिति वाच्यम् । कामिनीकुचकुम्भदर्शनादी चक्षुपः, शीतादिका- लेपूष्णादिना त्वचो, रागादियुक्तगीतेन श्रवणस्य, चन्दनादिगन्धेन घ्राणस्य, भक्षितस्यापि दध्यादेः पुनरास्वादनेन रसनस्य, तैश्च आकर्षस्यानुभवसिद्धत्वात् । तेषामेव विषयाणां किञ्चित्प्रत्यक्षान्तरा- ये तेषामेव स्मृतत्वस्य सम्भवाच्च । मनसश्च रूपद्वयं बाह्यमान्तरं चेति तृतीयस्कन्धे तत्त्वस्तुती, पराहतान्तर्मनस इत्यस्य सुबोधिन्यां मनस ७९४ सप्रकाशे अणुभाष्ये । स्थितम् । तत्रान्तरं येन विषयेणेन्द्रियद्वाराऽऽकृष्यते तद्विपयिणी हा- नोपादानवुद्धिर्भवति, येन तु नाकृष्यते तद्विषयिण्युपेक्षावुद्धिरिति युगपन्नानाबुद्धिसत्त्वम् । नच तत्र वेगाद्योगपद्याभिमान एवंति वा- च्यम् । एकाग्यदशायां पुस्तकदर्शन युगपन्नानाऽक्षरापेक्षाज्ञानस्थल वंगाङ्गीकारस्यानुभवविरुद्धत्वात् । अतो रूपद्वयमेव युक्तमिति । यदा मनसोऽनाकर्षस्तदापेक्षाबुद्धिः । अत एव तस्या न स्थिरत्वम् । अभ्यामाद्यभावात् । अन्यासां तु स्थिरत्वमिति । बुद्धयाऽननुग्रह तु निर्विकल्पकमव । इन्द्रियाणि तु प्राप्य प्रकाशकारीणि । तत्र चक्षु- रिन्द्रिय स्वकिरणा, स्वाधिष्ठात्रादित्यसामर्थ्याद्वा, स्वगुणन रूपेण वा, स्पर्शेण वा विपयदेशं प्राप्नोति । तथैव तदारूढं मनोऽपि । तदा विषयदशावच्छंदन घटा भूमी. व्याम्नि तारा इत्यादिज्ञानमुत्पद्यते । तत्र किरणपक्ष नयनकिरणा विषयपर्यन्तं गच्छन्ति । इन्द्रियान्तर तु किरणाभावादिन्द्रियण सह विषयं मनः प्राप्नोति । तदा क्रमेण, स- हव वा निर्विकल्पक विकल्पकं च तदिन्द्रियसंसृष्टे मनम्मि उ- त्पद्यत । ज्ञानद्वयपि विषय विषयन्द्रियस्पर्शादिकं व्यापार: । नच नयनानां किरणाङ्गीकार चक्षुपां व्यापकत्वापत्त्या अणवश्चति सूत्रांव- रोधः शङ्कनीयः । अर्चीरूपाणां किरणानां मूर्यमण्डलाद्भदस्य, आदित्या वा पप इत्यनुवाक श्रावणात् तेरखिलमरूत्तरदशान् व्याप्नुवानम्यादि- त्यमण्डलस्य दशमहस्रयोजनपरिमाणस्मरणेन तपां तत्परिमाणावा- धकत्ववत् सूर्याध्यामिकचक्षुपः किरणानामपि तथान्वन सूत्रा- ऽविरोधात् । तथा प्राण इत्यत्र प्राणेषु जीवातिदेशस्य सिद्धान्तङ्गीका- रात् सर्वशरीर जीवस्यव सामर्थ्याद्वा, गुणाद्वा, व्याप्त्यङ्गीकारस्य द- क्तव्यत्वात् । गुणाद्वाऽऽलोकवदिति सूत्रे आलोकस्य गुणत्वाङ्गीका- रात् तेजसस्य चक्षुष आलोकरूपगुणव्याप्त्यङ्गीकारऽप्यन्दोपः । एव- मपि सूत्राविरोधचाक्षुपरूपकार्यसिद्धयोः सम्भयात् । अत एव त्वचः सकलशरीरव्यापित्वमपि देवतासामर्थ्यस्पर्शगुणाभ्यां युज्यते । अ- न्यथा तु मृत्रविरोधमार्वत्रिकस्पर्शानुभवयाधयारन्यतरदापद्यतेव । तस्मान्नयन करणगमनादिद्वारिकेव प्रत्यक्षप्रक्रिया साधायसी । या पुनरालोकन मायाकार्यतमांजननतिबन्धं कृते ज्योतीरूपसूर्यदेवत- या तदात्मकचक्षुपि सन्मुखाव्यवहितदेशस्थपृथुबुध्नादाराकाविशि- टरूपे प्रापिते सत्त्वप्रधानयुद्धरन्तरव तदाकारतासम्पत्ती अणुरूप २ अध्याये ४ पादः। जीवं प्रतिज्ञानाश्रिताध्यात्मिकघटाभिव्यक्तरेव चाक्षुषम् । दूरस्थग- न्धशब्दयोस्तु वायुना घ्राणश्रोत्रसमीपप्रापणेऽन्तःसत्त्वात्मकयुद्ध- स्तदाकारतासम्पत्ती ज्ञानाश्रिताध्यात्मिकगन्धशब्दाभिव्यक्तिरेव घ्रा- णजं श्रावणं च प्रत्यक्षमिति। आध्यात्मिकाधिभौतियोरभेदात्र याह्यघटाग्रहण निवन्धनो दोष इति केपाश्चित् प्रत्यक्षप्रक्रिया । तत्रा- लोकेन तमोजननप्रतिबन्धकथनमयुक्तम् । यदा हि भानारुदयो न- चक्षुषां तमा निहन्यादित्येकादशस्कन्धीयभगवद्धाक्यं नमोनिहन्तृ- त्वकथनात् । एवं ज्योतीरूपमूर्यदेवतायाः पुरुषचक्षुप विषयनि- ठरूपप्रापकत्वकथनमाप तथा। बहुपु पश्यन्सु तास्तान् प्रतिरूपे प्रापि- ते विषयस्य नीरूपताप्रसङ्गन पाश्चात्यानां तददर्शनप्रसङ्गात् । तद्द- र्शनार्थ तस्मिन् विपये पुना रूपान्तरोत्पादनाऽऽनयनादिरूपाऽप्रामा- णिककल्पनप्रसङ्गारुच । मन्ध्यायामम्तं गते सूर्य रूपमापकदेवता- या गतत्वात्तदानीं घटाद्यदर्शनापत्तंश्च । न च निाशननिचन्न सम्ब- न्धस्य यावद्दहभावित्वादिति तार्तीयीक मूत्र. अथ या पता हृदयम्य नाडन्य इति नाडीम्पक्रम्य, अमुप्मादादित्यात प्रतायन्तना आसु नाडि- घु सभा आयो नाडीभ्यः प्रतायन्नं तेऽमुष्मिन्नादित्य मृता इति दह- विद्यास्थथल्या रात्रावयादित्यश्मिसम्बन्धम्योक्तत्वात् तदानी मन्ध्यायां च नाडीग्मृप्तर्गश्मभिर्विषयरूपप्रापणान्न घटाद्यदर्शनप्रम- ङ्ग इति वाच्यम् । नाडासप्तरश्मीनां हृदयाग्रप्रद्योतनजीवात्क्रमण- मात्रकार्यार्थताया एव श्रावणेन तदाश्मीनां रूपप्रापकताया वक्तुम- शक्यत्वात् । तदानीमपि रूपमापकत्वाङ्गीकार तदानीं तत्सत्वाद- स्तमिने आदित्य, किंज्योनिरयं पुरुष इत्यादिज्योतिर्ब्राह्मणविरोध- स्य प्रत्यक्षविगंधस्य च दुष्परिहरन्वात् । अनी नेतृत्वं द्रव्यशब्दया- गित बहादित्यादिग्मीनां झपप्रापकन्यस्याशद्धगोचरत्वात् मृर्य- रूपवताया रू.पप्रापकत्वाङ्गीकारः मर्वथा न युक्तः । किश्च । चक्षुपि रुपमानिथ प्रतिविम्यभवनरूव । मा तु मायथा । ऋतऽथ यत् प्र- तीयान वाक्यात् । तस्या विशेषकत्वाच्च । पञ्च बुद्धयाकारमा मर्पकत्वमपि प्रतिविम्बस्व । आध्यात्मिकरूपाप मायामयम् । मनामयत्वात् । तस्य च न मत्यता । अर्थाक्रयाकारित्वमात्रं परम् । आधिदविकं तु शब्द कनिष्ठ भगवदात्मकं तत्सत्यमेव । आधिभौति- कं तु प्रपञ्चान्नकम् तस्य तु कार्यरूपत्वपि कारणरूपेणेव सत्यत्वं, व ७९६ सपकाशे अणुभाष्ये । तुखेन रूपेण विकाराणां वाचाऽऽरब्धत्वात, सदसद्ग्रन्थिरूपत्वाच्चा तदेव च लौकिकव्यवहारविषय इस्यवं चाक्षुषे बोध्यम् । स्पार्शने तु त्वमेव स्वगुणेन स्पर्शन सर्व शरीरं व्याप्नोति । न तु ततोऽने गच्छ- ति । घ्राणरसनश्रवणानि तु खखगोलके स्थित्वा सर्वस्मिन् शरीरे यथोचितं कार्य स्वगुणद्वारा वा खदेवतासामर्थ्यादेव वा कुर्वन्ति । कर्मेन्द्रियेषु तु वाचः स्पर्शो बहिर्गच्छति । अत एव न कश्चिन्मर्मणि स्पृशेदित्यादीनि धाक्यानि । माहागुलीयन्वशब्दे विद्युच्छब्दे च तत् स्पर्श न हृदयकम्पभित्तिपातादिकं युज्यते । पायूपस्थहस्तपादास्तु घ्राणादिवदेव स्वस्खगोलके स्थित्वा सर्वस्मिन् शरीरे यथोचितं का- ये कुर्वन्ति । अत एव हस्ताभ्यां चलनं, पद्भयां तालादिवादनं, शि- श्रेन मूत्रादिविसर्ग इत्यादिकं, द्विगोलकानामुभयत्रापि स्थितिश्च सङ्गच्छते । इदं च सर्व ज्ञानं कर्म च अन्तःकरणादध्यासाजीवा- त्मा स्वस्मिन्नभिमन्यत इत्यतो लौकिकानां नैयायिकादीनां क्षानेच्छा- दिष्वात्मधर्मत्वप्रवाद इति । अन्तःकरणाध्यासस्तु हृदयदशे जीव- स्यान्तःकरणानां च स्थितत्वात् तेषु तत्प्रतिबिम्ब तस्य प्रतिविम्ब- स्येन्द्रियेषु प्रतिबिम्बान्तरे इन्द्रियाध्यासस्तस्य देहे प्रतिबिम्ब देहा- ध्यासश्च भवति । प्रतिविम्बश्च तत्प्रकाशस्य तेषु क्रमेण भवति सूर्य- स्येव, न तु मुख्यस्येव सन्निधिमात्रणति निर्णीतम्, यथा जलस्थ आभास इत्यत्र तृतीयसप्तविंशाध्याये । एवञ्च पूर्वकृतस्य प्रारब्धक- मणः पक्कस्य जाग्रति फलभोगे क्रियमाण आहारश्रमादिभिर्यदा निद्रा भवति तदा स्वापः स्वप्नवृत्तिः । तत्रायं हृदयदेशानिःसृत्य हिताभिधानासु शुक्लनीलहरितंलोहितपीतरसभृतासु केशसहस्रभा- गयदण्वीषु नाडिषु द्वासप्ततिसहस्रसंख्यासु तस्यां तस्यां कचि- दीश्वरेच्छादिवशेनान्तर्बर्हिःकरणान्यादाय परिवर्त्तते । तदा चैतन्य सङ्कोचनन बहिरिन्द्रियेषु मनसि च प्रकाशासंक्रमात् प्रतिबिम्बो न भवति । बुद्ध्यहङ्कारयोरेव तु भवति । तदा बुद्धिसहिताऽहङ्कारा- ध्यासन स्वाप्नं सुखदुःखादि भुङ्क्तः । तत्र प्रकाशो भगवतो, विषय. श्च मायिकः । भोगे बुद्धिः करणं, भोगश्चाहङ्कारे । यदा पुनर्नि- द्रायां तमस उद्रेक ईश्वरेच्छादिवशात् तदाऽयं तैः सर्वैः सह पुरी- तति प्रविशति । पुण्डरीकाकारो मांसपिण्डो हृदयं, तद्वंष्टिता ना- ज्यः पुरीतच्छब्देनांच्यन्ते । तदा सुषुप्तिः । कदाचिद्भगवदिच्छया त- २ अध्याये ४ पादः। स्य हृदयस्यान्तर्य भाकाशशब्दवाच्यः परमात्मा तत्र सम्पद्य शेते। द्विविधायामपि सुषुप्तौ कर्मासंसर्गाद् दुःखाभावः । द्वितीयस्यां पर- मानन्द इति विशेषः । ततः पुनर्भगवादच्छादिवशेन परमात्मनः स- काशात् सर्वेषां प्राणादीनामात्मान्तानां व्युच्चरणम् । ततो जागरणे स्वस्थानस्थितिः पूर्वोक्तरीत्या तत्तदनुभवादिश्चेति । नैयायिकास्तु-आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रि- यमर्थनेति क्रमेणाऽऽत्मन्येव ज्ञानमुत्पद्यत इत्यात्मधर्मत्वं जन्यज्ञान- स्याहुः । तत्तु श्रुतिविरोधादेवापास्तम् । विभोर्निरवयवस्यात्मनः सं. योगं प्रति कर्तृत्वायोगाश्च । नचान्यतरकर्मज एव संयोगस्तत्रा- स्त्विति वाच्यम् । मनस एव कर्तृत्वापातात् । तस्यैव क्रियाश्रयत्वा- त् । जीवे गुणाधीनत्वे कर्तृत्वायोगादिनि । मायावादिनस्तु-ब्रह्मात्मकमकमेव ज्ञानं स्वीकृत्य वुद्धी तस्य प्रतिबिम्ब तस्यैव व्यावहारिक ज्ञानत्वं चाङ्गीकृत्य चिदुपरागावरण- भङ्गाभेदाभिव्यक्तिपक्षान् जीवस्य किश्चिज्ज्ञत्वायाहुः । तदप्यसङ्ग- तम् । प्रतिबिम्बस्य वक्तुमशक्यत्वात् । ब्रह्मणो नीरूपत्वात् । बुद्धे- श्चास्वच्छत्वात् । दर्पणवत् किश्चिद्देशावच्छिन्नस्वच्छत्वमङ्गीकृत्या- काशस्येव ब्रह्मणः प्रतिविम्बाङ्गीकारेऽपि ब्रह्मणः मच्चिदानन्दरूप- त्वेन सदानन्दयापि प्रतिविम्बापातात् । नचेष्टापत्तिः । ज्ञानवत तयोर्राप भानापत्तः । सर्वदा संर्वषामन्तःशरीरस्थसर्वज्ञानापत्तश्च । प्रतिविम्वाधारत्वयाग्यायां बुद्धी ज्ञानस्यैवान्तराणां नाड्यादीनां स- निहितत्वेन तत्प्रतिविम्बपि बाधकामावातू । किञ्चाविद्यायां ब्रह्म- प्रतिबिम्बभूतानां जीवानां व्यापकतया स्वतः सर्वपदार्थसंसृष्टत्वाद् याधकाभावनाविद्यायामपि सर्वप्रतिबिम्बसम्भवन तत्तसंसर्ग द्विगु- णीकृत्य जाते सर्वतादात्म्यापन्नस्य ब्रह्मण इव तंपापि सर्वसंसृष्ट- त्वात् साक्षि वाच्च वृत्ति विनव स्वरूपचैतन्यन सर्वावभासकतायाः शक्यवचनत्वेन ब्रह्मवत् सर्वेषां सर्वज्ञता स्यात् । नचान्तःकरणभेदेन प्रमातृभेदात् तदनापत्तिः । व्यापकत्वेन सर्वेषां सर्वान्तःकरणमंसृष्ट- तया प्रमातृभेदस्याप्यकिश्चित्करत्वात्।संमर्गतील्ये एकस्यैवान्तःकर- णवैशिष्टयं, नापरस्येत्यत्र हेन्वभावात् । अदृष्टादीनां तुताकल्पन- स्याप्यनेनैव न्यायन निरसितुं शक्यत्वात् । ननु दूषणग्रासान्मास्तु व्यापकानेकजीववादः, किन्तु व्यापकजीववादोऽस्तु । तथाच तस्य मप्रकाशे अणुभाष्ये । सर्वशतायामिष्टापत्तिरितिचेत् । सत्यमिष्टापनिः स्याद् यद्येकत्रैव स- वंशता स्यात् । नचवम् । अविशेषणेकस्यैव सर्वशरीराधिष्ठाने सर्वत्रा- विद्योपहितमाक्षिण एकत्वात् सर्वत्रोपाधौ सर्वप्रतिबिम्बंषु सृष्टत्वा- उच ब्रह्मण इव जीवस्यापि सर्वेषु प्रतिबिम्बेषु सर्वज्ञतायां बाधका- भावात् । न च ब्रह्माप्येकत्रैव सर्वशं न सर्वत्रेति वाच्यम्। ब्रह्मविष्णु- शिवादिशगंगवच्छेदेन सर्वज्ञताप्रतिपादकशास्त्रविरोधापातात् । नचाविद्योपाधी मर्वप्रतिबिम्बेऽप्यन्तःकरणभेदन प्रमातृभेदात् तन्नि- कटस्थस्य व ज्ञानं प्रमातुर्भविष्यतीति न सर्वत्र सार्वज्ञापत्तिरिति वाच्यम् । प्रमात्रभेद करणभेदस्यव साक्ष्यभेदे प्रमातृभेदस्याप्यप्र- योजकत्वात् । मर्वत्र साक्षिण एव भासकत्वात् । नच तस्याविद्यापं- हितरूपण न माक्षित्वं, किन्तु अन्तःकरणापहितरूपेण । तथाच रूप- भंदन माक्षिभेदान्न सार्वज्ञापत्तिरिति वाच्यम् । अप्रयोजकत्वात् । तथा मर्याप हृदयनाडीप्रभृतीनामान्तराणामन्तःकरणे प्रतिबिम्बि- तानां ज्ञानं तम्य निर्वामिन्यान्तरसर्वज्ञताया दुर्वारत्वात् । ननु स- वगं प्रतिविम्बा नास्माभिरङ्गीक्रियत इतिचन्मैवम् । यदयं न स्वीक्रियत कम्तत्र हेतुः । न तावदमन्निधिः । अविद्याया व्यापक- त्वात् । नापि बिम्बालोकसंयोगाभावः । सूर्यादविद्यमानत्वात् । अन्तःकरणस्थलऽप्यन्तःकरणस्यान्तरसन्निहितत्वात् । अन्तगृहगत- दर्पणप्रतिविम्बितसूर्यप्रकाशेनाऽऽन्तरवस्तूनां प्रतिम्बिवदर्शनादिहापि जीवचंतन्यप्रकाशितान्तःकरणसंसृष्टवान्तबिम्बप्वालोकान्तरमंयो- गानपेक्षणात् । जीवचतन्यनाऽऽन्तरप्रकाशाऽनङ्गीकारे माक्षान्संस- टान्तःकरणतद्धर्मादीनामप्यनवभासप्रसङ्गात् । मत च तदवभास तद्वदेव तत्संमृष्टानामप्यवभासादहङ्कगदिवद् हृदयनाडीप्रभृतीन्य- प्यनुमन्धीयरन् । संस्काराधायकस्यावभासस्य तुल्यत्वात् । अथै- कप्रतिबिम्बामद्धं दर्पणादावन्यस्य प्रतिविम्बादर्शनाद् व्यापकजीवा- वरुद्ध विद्यादावितरेषां प्रतिबिम्बो न भविष्यतीत्यवरोध एव प्रति- विम्बाभाव हेतुरिति विभाव्यते । तदप्यसङ्गतम् । एकप्रतिबिम्बावरु- धेऽन्यप्रतिविम्बस्तदा न भवति यदा बिम्बान्तरं पूर्वविम्बव्यवधयं भ- वति । इह तु ब्रह्मणो व्यापकत्वेन परिच्छिन्नानां सर्वेषां ब्रह्मान्तर्वतित्व- न तद्व्यवधयन्वाभावान्न जीवेन तत्प्रतिबिम्बावरोध इति दुर्वार एव सर्वेषां प्रतिबिम्ब इति । ननु भवतु सर्वेषां प्रतिबिम्बस्तथापि न जीवस्य - २ अध्याये ४ पादः। ७९९ सर्वज्ञतापत्तिर्भवित्री।जीवसाक्षिवादस्यानङ्गीकारात।तथा सति कू- टस्थचैतन्यं वा, जीवाभिन्नं सर्वप्रत्यग्भूतं शुद्धं ब्रह्मैव वा परमेश्वर- स्यैव रूपान्तरं वा साक्षी भविष्यति, तस्य तु सर्वज्ञत्वेऽप्यदोषः ।। जीवस्तु यथा सर्वगतं गोत्वसामान्यं स्वभावादश्वादिसङ्गित्वाभाव- ऽपि सास्नादिमव्यक्ती संसृज्यत. तथा विषयादौ सन्नपि जीवः स्व- भावादन्तःकरण एव संसृज्यते । यदा चान्तःकरणपरिणामा वृत्ति- रूपी नयनद्वारण निर्गत्य चक्षुश्मिवज्झटिति दीर्घप्रभाकारण परि- णम्य विषय प्राप्नोति तदा समुपारुह्य जीवस्तं विषयं गांचग्यति । कवलाऽन्यादाहास्य तृणादरयापिण्डसमारूढाग्निदाह्यत्ववत् केवल- जीवचनन्याप्रकाश्यस्यापि घटादेरन्तःकरणवृत्त्युपारूढतत्प्रकाश्यत्वं युक्तमिति चिदुपरागार्थत्वन वृििनगममपक्ष्य वृत्तिमंसृष्टविषय- मात्रावभासकन्वात् तस्य किञ्चिज्ज्ञत्वमुपपत्म्यत इतिचेन्मैवम् । एवं स्वभाववादन समाधानऽपि जीवस्य प्रकाशप्रतिविम्बत्वादाच्छन्नत्वं च ज्ञानरूपत्वात् स्वप्ने स्वयज्योतिष्टप्रतिपादनाच प्रकाशरूपाचन स्वप्न इव परोक्षवृत्ताविव च पूर्वपूर्वानादिमस्कारवशादवन्द्रियं विनव वृत्त्युपपत्तीन्द्रियाणि वृथव स्युः। किश्च । अयापिण्डममा- रोहण दाहकस्याऽग्न: माक्षात्नसृष्टदाहकत्वदर्शनाद् वृत्त्युपारोहण प्रकाशस्य जीवस्य साक्षादन्तःकरणसंमृष्टप्रकाशकत्वं सुतरां सुवच- मित्यन्तःकरण प्रतिविम्बितानां प्रकाशाऽस्य स्यादेवत्यधिकं तत्रानुप्रा- विशत् । वस्तुतस्त्वंवमपि गोत्वस्य सकलगोव्यक्तिविवेकस्यैव जी- वस्य मर्यान्तःकरणसमर्गस्य वक्तव्यत्वात् तथा सति तत्तदन्तःकर- णवृत्तिनिर्गमण तत्तद्विपयप्राप्ती तत्तवृत्त्युपारूढस्य जीवस्यापि तत्त- द्विपापगगसम्भवात् मर्ववृत्तिसंसृष्टविषयाणां गोचरीकरण वाध- कामावन किञ्चिज्ज्ञत्वस्यानुपपन्नत्वमेव । अतो विषयविर्षायभावी वा, विषयन्निहितजीवचतन्यतादात्म्यापन्नवृत्तिविषयसंयोगद्वार- को जीविषययाः परम्परासम्बन्धो वा, अन्तःकरणवृत्त्युपादानस्य जीवस्य वृत्तिविषयसंयोगर्जानतः कार्याकार्यसंयोगात् कारणाकार- णसंयोगात्मा साक्षात्संयोगो वा, अन्तःकरणोपहितस्य विषयावभा- सकतन्यस्य विषयतादात्म्यापनं ब्रह्मचैतन्याभदाभिव्यक्तिद्वारा विषयतादात्म्यसम्पादनं वा, अन्यद्वा यत्किञ्चन चिदुपरागत्वनाभि- धित्सितं तस्य सर्वस्य वृत्तिसंसर्गजनितत्वन वृत्तिजनकानां च अ- सप्रकाशे अणुभाष्ये । न्तःकरणानां सर्वशरीरव्यापकजीवसंसृपत्वेन सबैस्तैः सर्वज्ञतापत्तिर- निवार्येव । तत्राप्यनुपदोक्त विषयतादात्म्यसम्पादनपक्ष मैत्रस्य चैत्र- दर्शने,अहं चैत्र इत्याद्याकारकशानापत्तिरधिकाऽऽयातीति फल्गून्ये- वैतानि कल्पनानि । अथ जीवः सर्वगतोऽप्यविद्यावृतत्वात् स्वयमप्रकाशमानतया विषयाननवभासयन् विषयविशेष वृत्त्युपरागादावरणतिरोधानेन त. त्रैवाभिव्यक्तस्तमेव विषयं प्रकाशयतीत्यावरणभङ्गपक्षः किञ्चिज्ज्ञ- स्वार्थमालम्ब्यते । तदाप्यावरणस्य वृत्त्युपरागतिरोभाव्यत्वाजाते वृत्त्युपरागे तेनावरणभङ्गे सर्वान्तःकरणसंसृष्टो जीवस्तद्विषयेव- भिव्यक्तस्तं तं विषयं प्रकाशयदवेति न किञ्चिज्ज्ञत्वोपपत्तिः । एवञ्च चैतन्यमात्रावरकाज्ञानस्य खद्यांतप्रकाशन महान्धकारस्येव ज्ञानन- कदेशाशाननाशो वा, कटवत् मंवेष्टनं वा, भीतभटवदपसरणं वा, चैतन्यमात्रावरकस्याप्यज्ञानस्य तत्तदाकारवृत्तिसंसृष्टावस्थाविपयचे- तन्यानावरकत्वस्वाभाव्यं वा, मूलाज्ञानावस्थाभदरूपाशानान्तरनाशो वा, अन्यो वा यः कश्चनावरणभङ्गा निरुच्यता स सर्वोऽपि वृत्त्युप- रागजन्य एवेति जाते वृत्त्युपराग पूर्वोक्तरीत्या सकलान्तःकरणसं. मृष्टस्य जीवस्य सर्वशतवायातीति नैतेऽपि रोचिष्णवः पक्षाः । नन्धकस्मिन्नपि जीवे जन्मान्तरमापन्ने पूर्वजन्मानुसन्धाना- दर्शनाच्छरीरभेदस्य सुखाधननुसन्धानप्रयोजकत्वं फ्लप्तमिति स एव किञ्चिज्ज्ञताया अपि प्रयोजको भवतु। तथाच व्यापकस्यापि जी- यस्य शरीरान्तरे शरीरान्तरीयान्तःकरणवृत्त्यादिभिर्ज्ञानं न भवि- ज्यतीति न सर्वेषां सार्वज्ञापत्तिरितिचन्न । शरीरभेदस्याननुसन्धान- प्रयोजकताया योगिकायब्यूहे जातिस्मरे भूतादी च व्यभिचारेण तस्य किश्चियातायामप्यतन्त्रत्वात् । एतेनैव भांगायतनभेदस्य वि. श्लिष्टोपाधिभेदस्य चाननुसन्धानप्रयोजकत्वं परास्तं बोध्यम् । 'उ- घदायुधदोर्दण्डाः पतितस्वशिरोऽक्षिभिः । पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीन युधीति भारते भूतार्थवादाच्च । नच योगिप्रभृ- तिषु प्रभावविशेषेणानुसन्धानेऽपि पूर्वोक्तोपाधीनामुत्सर्गतस्तथ माननुसन्धानप्रयोजकत्वहानिरिति वाच्यम् । बहुषु व्यभिचारदर्श- नात् । एकत्र तथा दर्शने ह्यौत्सर्गिकाननुसन्धानतन्त्रत्वाद् विद्यातः प्रभावविशेषसमवधानवशात् कल्पयितुं शक्यते, न तु बहुषु तथा तथात्वा- २ अध्याये ४ पादः। ८०१ दर्शने । अतो मनुष्यविशेषेषु भूतेषु मनुष्यादुत्कृष्टयोनिषु सर्वेषु च पूर्वजन्मीनज्ञानस्य तत्र तत्रोक्तः शास्त्रस्य प्रामाण्याच्च, न पूर्वोक्तो- पाधीनामननुसन्धानतन्त्रत्वं साधीयः । नाप्यन्तःकरणभेदस्य तथा- स्वम् । दृष्टिसृष्टिवादे पूर्वपूर्वस्यान्तःकरणस्य नष्टत्वेनाप्रिमाग्रिमस्य सस्य भिन्नत्वात् पूर्वदृष्टानुसन्धानाभावप्रसङ्गात् । साक्ष्यैक्येन तत्स- मर्थने तु अन्तःकरणभेदस्याप्रयोजकत्वात् तत्तदन्तःकरणैरस्य सर्वश- ताया एवापत्तिः । अन्तःकरणवैजात्येन समर्थनं तु मजत्फेनालम्बन- कल्पत्वात् कदर्यमेव । पादेन स्पृशामि करणाभ्यां शृणोमि, चक्षुषा पश्यामीति बाह्यकरणभेदंऽप्येकस्य ज्ञानवत् तेन तेनान्तःकरणेन त. तज्ञानामीत्यादिज्ञानस्यान्त करणवैजात्येऽपि सुवचत्वात् । सृष्दृष्टि- घादमालम्ब्यान्तःकरणक्याङ्गीकारेण समर्थनऽपि बहिःकरणवैजा- त्यस्येवान्तःकरणवैजात्यस्याप्यप्रयोजकत्वादुक्तपणं निर्बाधमेव । नच फलबलान्नान्तःकरणभेदस्याप्रयोजकत्वमिति वाच्यम् । फलबलस्य साधनभेदकल्पनामात्रप्रयोजकत्वेनान्तःकरणभेदकल्पने अप्रयोजक- त्वात् । फलबलेन जीवभेदकल्पनेऽपि दोपाभावात् । अतो व्यापक एकः प्रतिबिम्बो जीव इति पक्षे कथमपि न सर्वज्ञतापत्तिपरिहारः । ननु तर्हास्तु नानाणुजीववादः । तथा सत्यन्तःकरण प्रतिबि- म्बितचैतन्यरूपस्य जीवस्य परिच्छिन्नत्वेन सर्वसंसर्गाभावान्न सर्वश- तापत्तिर्भवित्री। विषयप्रकाशस्तु विषयमंसृष्टवृत्तिद्वारा तडागसलि- लस्य कुल्याद्वारा केदारसलिलैक्यवजीवस्य विषयावच्छिन्नब्रह्मचैत- न्यकीभावात्मिकायामभेदाभिव्यक्ती भविष्यतीति किश्चित्वमुपप- स्स्यत इतिचेत् । नेदं युक्तं भाति । सलिल एको द्रष्टा भवतीति श्रु- त्या सुषुनावव जीवब्रह्मणोरेकीभावश्रावणात् तदिनरत्र तदुपगम श्रुतिविरोधाजाग्रदादी व्यावर्त्तकापार्विद्यमानत्वाश्च दर्पणमत्त्वं बिम्बयारिव जीवब्रह्मणोरभेदस्याशक्यवचनत्वात् । किञ्च । जीवन- णोरिदानोमभेदऽन्योन्यधर्मविनिमयाद् ब्रह्मणोऽल्पशताऽन्यस्य सर्वज्ञता चापत्स्यत इति नोक्तदूषणोद्धारसम्भवः । यदि च बिम्बभूतं विषया- धिष्ठानचेतन्यमेव साक्षादाध्यासिकसम्बन्धलाभाद् विषयप्रकाशक- मित्याध्यासिकसम्बन्धोपलक्षितचैतन्यात्मना जीवकीभावो, न तु विम्बत्वविशिष्टरूपेणेति भेदस्यापि सद्भावानोक्तदूषणापत्तिरिति वि- भाव्यत, तदापि विषयतादात्म्यापनब्रह्मत्वैकीभावो जात एवंति अहं सप्रकाशे अणुभाष्ये । घट हत्याकारकशानापत्तिः । अध्यासेनान्तःकरणतादात्म्यापत्त्याऽह- मिति ज्ञानवत् । अन्तःकरणधर्माणां सुखादीनां स्वस्मिन्नभिमानवदू विषयधर्माणामप्यभिमानप्रसङ्गः । अयं घट इत्यादिशानाभावश्च स्या- व । यदि च विषयावच्छिन्नं ब्रह्मचैतन्यं विषयसंसृष्टाया वृत्तरप- भागे विषयप्रकाशकं प्रतिबिम्बमर्पयति । तस्य प्रतिबिम्बस्य जीवन- कीभावो भेदाऽभिव्यक्तिस्तस्यां सत्यां विषयप्रमितिरिति विभाव्यते । तदा तु सुतरामसङ्गतम् । वस्त्वन्तरावरुद्ध दर्पणादौ प्रतिविम्बादर्श- मादू विषयसंसृष्टेऽग्रभागे प्रतिबिम्बायोगाद्विषयप्रकाशस्यवाभावप्रम- के। किश्च । प्रतिबिम्बार्पक चैतन्यं यदि विषयाद् हिस्तदा तस्य वृत्तिसंसृष्त्वात् प्रतिविम्बायोगः । यदि च विषयान्तस्तदापि विपये- ण व्यवधानात् तथा । यदि विषयादूरवर्ति तदा विषयावच्छिन्न- स्वस्यैवायोगः । किश्च । अन्तःकरणोपाधिपरिच्छिन्नप्रतिबिम्बस्याणु- स्वार्ध्वदर्शने पृत्तिद्वारा तस्य निर्गमात् प्राणानामपि निर्गमापत्तिः । समुत्क्रामन्तं प्राणोऽनूत्क्रामतीति श्रुतः । किश्चैवं कल्पनैकशरणत्व गोलकद्वारा तैजसस्य वंगवतो वृत्तिरूपपरिणामस्य निर्गमादव प्रमातृ. वृत्तिविषयचैतन्याभदसिद्ध्या विषयप्रकाशसम्भव गोलकातिरिक्तं- न्द्रियकल्पनापि वृथा स्यात् । तस्मादनादरणीया एवैते पक्षाः । एतेन प्रमाणचैतन्यस्य विषयावच्छिन्नचैतन्याभदो शानस्य प्रत्यक्षत्वप्रयो- जक इत्यपि निरस्तम् । किश्च । यत्र भ्रमघटो गृह्यतं तत्र वृत्त्युपर- अकस्य भ्रमणविषयनिष्ठत्वाभावेन ततश्चिदुपरागायोगात् तदग्रह- जापत्तिः । नच तत्रानिर्वचनीयं तजन्यत इति सुखेन तद्ब्रहणसम्भव इति वाच्यम् । वृत्त्या घटाकारिकया आवरणाभिभवन भ्रमणांशे विक्षेपस्याशक्यवचनत्वात् । किञ्च । वृत्त्या विषयचैतन्याभेदाभि- व्यक्तावपि विषयप्रकाशके ब्रह्मचैतन्ये तदभावान्नयनप्रदेश तदननु- भवनेन्द्रियेपि तदभावाद् वृत्तिमात्रजनकस्येन्द्रियसम्प्रयोगस्य वि- षयकारणत्वाक्लप्तेश्च सम्प्रयोगेणापि विषयेतदाधानायोगादन्तःकर- णावच्छिन्नेऽप्यहं भ्रमामीत्यननुभवात् स भ्रमः सर्वत्रालब्धसत्ताको घटेऽपि न स्यात् । क्वाप्यमन् घटदंशेऽनुभूयते, तस्मात् तदंशावच्छे- देन जायमाने मनोधर्मरूपे शानऽस्ति । तच्चत् प्रमातृविषयचैतन्या- भिन्नं स्यात् तदा स भ्रमः सर्वानुभवगोचरः स्यातू । यस्मानवं त- स्मात तज्ज्ञानं कार्यरूपं भिन्नमेवात निश्चयः । नच शुक्तिरजतादि- २ अध्याये ४ पादः। स्थले इदमाकारवृत्तौ सत्यामपि रजताध्यासदर्शनादंशत एवावर- णनाश इत्यंशान्तरेण भ्रमविक्षेपोऽपि भविष्यतीति न तदननुभवानु- पपत्तिरिति वाच्यम् । विषये तत्सत्त्वेऽन्येषामपि तदनुभवापत्तेः । अन्येषां घटद्रष्टणां प्रमाणवृत्त्या तदंशावरणनाशादस्यापि तदनुभ- वापत्तश्च विषयाश्रितावरणपक्षस्यैव वुष्टत्वात् । पुरुषाश्रितपक्षे तूक्तरात्या प्रमातरि प्रमाणे प्रमेये च धक्तुमशक्यत्वेन घटकुटीप्रभा- तवदननुभवस्य सर्वाऽनुभवगोचरत्वस्य वाऽऽपाताच्छुक्तिरजतस्या- ऽप्येतत्तुल्यत्वात् । एवं मूलाशानावस्थारूपाक्षानानां नानात्वमङ्गीकृत्य घटावरकाशानस्य घटाकारकवृत्त्या निवृत्तावपि नैश्चल्यावरकस्यानि- वृत्त्या भ्रमविज्ञपादरणेऽपि पूर्वोक्तरीत्या पुरुषनिष्ठनैव तस्य वाच्योति चेतन्याभेदस्य पूर्ववदेवासिद्धेः । वृत्त झानात्मकत्वमात्रकल्पनया त- स्योत्पत्तिनाशशालित्वमात्रेण निर्वाहे विषयावरणतन्नानात्वकल्पन- योर्गुरुत्वादप्राणिकत्वाच्च । एतनैव घटावरकाशानगतावरणशक्ति- मात्रनिवृत्तिन तु विक्षेपशक्तिनिवृत्तिरपीति पक्षी निरस्ती बोध्यः । नैश्चल्यावरणमन्तरेण भ्रमणविक्षेपासम्भवादावरणशक्तिनिवसकत- या अप्रयोजकत्वाच्च । जलप्रतिविम्बितवृक्षाधोऽग्रत्वभ्रमे तु प्रतिवि. म्यपदार्थस्यातिरिक्तत्वन मूलसमीपवीिन जलं मूलस्य ततो घि- प्रकृष्टेऽग्रस्य प्रतिबिम्बात् प्रतिबिम्बत्वनैवावगाहाद् भ्रमत्वस्यैव दुर्व- चत्वेन तत्रावरणादिकल्पनाया पवायोगाश्चति दिक । अता जन्यज्ञानस्यन्द्रियान्वयव्यतिरकानुसन्धानदर्शनाच्छक्ति- ग्राहकेषु फोशादिषु, प्रेक्षोपलब्धिश्चित्संविदिति चिदादिभिः सह वुद्धरैकार्थ्यन वृत्तेर्ज्ञानात्मकत्वनिश्चये तत्र शानोपचारपक्षस्यायुक्त- त्वाच्च जन्यज्ञानमतिरिक्तमेव । तदुत्पत्तिप्रनाडी च पूर्वोक्तरीतिकवे- ति निश्चयः । भगवत्माक्षात्कारे तु नेपा प्रनाडी । नस्य प्रम पबलादव भवनात् । नायमात्मेति श्रुतावितरसाधननिरामनापलक्षणविधया निरम्तत्वात् । उत्तरार्द्ध वरणस्य लाभमाधनत्वकथने स्वस्यैव ननु- विवरणमाघनत्वोक्तंश्च । वरणं वाऽनुग्रहः । स च धर्मान्तरमेय, न तु फलदित्मा । यस्यानुग्रहमिच्छामीति वाक्यात् । म च भक्ति- बीजभूतः । अतो भक्त्या मामभिजानाति, भक्त्या त्वनन्यया शक्यो, भक्त्याऽहमकया ग्राह्य इत्यादिषु न विरोधः । अवतारदशायां तु मां सर्व पश्यन्त्वित्याकारिकया सामान्येच्छयापि दर्शनम् । तत्रापि ८०४ सप्रकाशे अणुभाष्ये । तदिन्द्रियाणि तदव्यपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥ इदमत्र विचार्यते । इन्द्रियाणां प्राणाधीनमर्वव्यापारत्वात् तमामव्यपदेशाच्च प्राणत्तिरूपाणीन्द्रियाणि, तत्त्वान्तराणि वेति संशयः । तत्त्वान्तराण्येवेति सिद्धान्तः। तानीन्द्रियाणि तत्त्वा- न्तराणि । कुतः ? । तव्यपदेशात् । इन्द्रियशब्देन व्यपदेशात् । एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चेति भिन्नशब्दवाच्यानां - नानाविधाभिः । यथा, मल्लानामशनिरित्यादी। एवञ्च, भक्त्या सा- मान्येच्छया यति द्वधा दर्शनम् । उभयथापि प्रमेयबलमेव कारण- मिति न विरोधः । स्वसाधनसामग्यादिभिर्दर्शनशानं त्वभिमानमा- प्रात् । अत एव अविज्ञातं विजानतां विज्ञातमविजानतामित्यादिश्रु- तिः सङ्गच्छते । मनसैवानुद्रष्टव्य इत्यादावपि प्रमेयबलानुगृहीतमेव तदभिप्रेतमिति श्रुत्यन्तराऽविरोधायानुसन्धेयमिति शुभम् । प्रकृत- मनुसरामः ॥ १६ ॥ ७ ॥ तदिन्द्रियाणि तव्यपदेशादन्यत्र श्रेष्ठात् ।। सूत्रप्रयोजनमाहुः । * इदमित्यादिना * सिद्धान्त इत्यन्तेन * I पूर्वाधिकरणे इन्द्रि- याणां प्राणाधीनसर्वव्यापारकरणत्वं सिद्धम् । श्रुती च मुख्य प्राण- मिन्द्रियाणि चोपक्रम्य, हतास्यैव सर्व रूपं भवामति त एतस्यैव सर्व रूपमभवंस्तस्मादेत एतेनाख्यायन्ते प्राणा इति तनामव्यपदे- शाश्च प्राणवृत्तिरूपाणीन्द्रियाणि ? उत रूपभवनप्राक्कालेऽपि स- स्वात् तत्त्वान्तराणि वेति संशयः । तत्र पूर्व तत्त्वान्तरेऽपि पश्चादे- तद्रूपभवनश्रावणेन जन्मान्तरवत् पूर्वरूपत्यागालाभात् पूर्वोक्तयुक्ति- भ्यां चेदानी प्राणवृत्तिरूपाण्येवेति प्राप्ते, तत्त्वान्तराण्येवेति सिद्धा- न्त इत्यर्थः । तद् व्युत्पादनाय सूत्रं व्याकुर्वन्ति । * तानीत्यादि * । सूत्रे तदिति लुप्तविभक्तिकं पदं, तानीत्यनेन व्याख्यातम् । अन्ये तु त इति पठन्ति । * इन्द्रियशब्देनेत्यादि * । तथाच यथा श्रुतौ इ. न्द्रियाणीति व्यपदेशस्तथेदानीमपि लोके शास्त्रे च व्यपदेशः । अतो नात्रजन्मान्तरन्यायः सम्भवति । किन्तु भृत्यानां स्वामिखभावानु- सरणमिव प्राणस्वभासवनुारणमेव तद्रूपभवनम् । नच प्राणश- २ अध्याये ४ पादः। ८०५ कचिदेकशब्दवाच्यत्वेऽपि नैकत्वम् । आसन्येऽपि तर्हि भेदः स्यादिसत आह । अन्यत्र श्रेष्ठात् । तस्य ते यौगिकाः शब्दा इति ॥ १७ ॥ भेदश्रुतेः ॥ १८ ॥ यत्रापि प्राणशब्दप्रयोगस्तत्रापि भेदेन श्रूयते । तमुत्क्रामन्तं प्राणोऽनुत्क्रामति प्राणमनूत्क्रामन्तं सर्वे पाणा अनूत्क्रामन्तीति॥१८॥ वैलक्षण्याच्च ॥ १९॥ वैलक्षण्यं च प्राणस्य चेन्द्रियाणाञ्च। सुप्तेषु वागादिषु प्राणो जागर्ति । स्वामिसेवकाच्चानेकं वैलक्षण्यम् ॥ १९ ॥ संज्ञामूर्तिक्लप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २० ॥ भूतभौतिकसृष्टिः परमेश्वरादेवेति निर्णीय नामरूपव्याकरण- मपि परमेश्वरादेवेति निश्चयार्थमधिकरणारम्भः । लोके नामरूप- ब्दव्यपदेशविरोधः । द्रोणकर्णादिषु कुरुशब्दव्यपदेशवद् गोण्यापि तत्सम्भवात् । अतो भिन्नशब्दवाच्यानां कचिदेकशब्दवाच्यत्वेपि नैकत्वमिति सिद्धमित्यर्थः । अत्राशन्ते । * आमन्येऽपीत्यादि * । समादधते * तस्य ते इति *आमन्यस्य प्राणापानसामानव्यानोदान- शब्दाः पाचकपाठकांदिशब्दवद्यौगिका अतो न भेदका इत्यर्थः । उक्तोपाद्वलनाय सूत्रद्वयमित्याशयेनाहुः ॥ १७ ॥ भेदश्रुतेः ॥ वैलक्षण्याच्च ॥ एतत्सूत्रद्वयं तु निगव्याख्या- तेनैव भाष्येण व्याख्यातम् । प्राणस्य जागरणं तु प्राणानय एवैन- स्मिन् पुरुषेःजाग्रतीति प्रश्नोपनिषदि श्रावितम् । स्वामिसेवकवत् स्थितिस्तु. प्राणवंतत्यधिकरण एव सिद्धत्यनवद्यम् ॥ १८ ॥ १९ ॥ संज्ञामूर्तिक्लप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ अधिकरणप्र- योजनमाहुः । * भूतमौतिकेत्यादि * । नन्वत्र कुतः संशयो येनाय- मारम्भ इत्यत आहुः * लोक इत्यादि * । तथाच नामादिव्याकर- सप्रकाशे अणुभाष्ये । करणं कुलालादिजीवेषु प्रसिद्धमिति । अलौकिकेऽपि स्थावरज- ङ्गमे मयूरादिसंज्ञां मूर्ति च जीवादेव हिरण्यगर्भादेर्भविष्यतीति वह्वयादिदेवानां जीवरूपाणामेव वागादिरूपेणानुप्रवेशात् तत्सा- हचर्येण नामरूपयोरपि जीव एव कर्ता भविष्यतीत्याशङ्कां निरा- करोति तुशब्दः। संज्ञामूर्योः क्लुप्तिर्नामरूपयोर्निर्माणम् । त्रिवृत्कुर्वतः । यस्त्रि- वृत् करोति तस्मात् । सेयं देवतैक्षत हताऽहमिमास्तिस्रो देवता अ- णस्य उभयत्रापि शक्यवचनत्वात् मंशय इत्यर्थः । तुशब्दव्या- ख्यानमुखेन पूर्वपक्षमाहुः । * वह्नयादीत्यादि * । नामव्याकरणं वा. क्साध्यं. रूपव्याकरणं क्रियासाध्यम, उभयमप्यनुप्रवेशहेतुसमिति छान्दोग्ये सिद्धम् । ऐतरेये च वाग्रूपेणाग्नेरनुप्रवेश उक्तस्तथैव तेन तेन रूपेणान्येषां च । तत्र यद्यपीन्द्रो नोक्तस्तथापि समानन्यायात् सोऽपि बलरूपेण प्रविष्टो बोध्यः । एवं सति तेषां जीवानां तत्त- कार्यार्थमेवानुप्रवेशात् तत्साहचर्येण नामरूपयाकरणयोरपि स स जीव एव का । अथैकवचनव्याकोपान्नेदं रोचते, तदा जीवसम- टिरूपो हिरण्यगर्भ एव तत्कर्ताऽस्तु । ईक्षणप्रकारान्तःप्रविष्टा जी- बेनेति तृतीया तु, चारेण परबलं प्रविश्याकलयामीतिवदुपपत्स्यते । अतः परमेश्वरः प्रयोजको भातु । कर्ता तु तयोर्जीव एव प्रवेष्ट- त्वादित्याशङ्कां निराचष्टे तुशब्द इत्यर्थः । सिद्धान्तं वक्तुं सूत्रं व्या- कुर्वन्ति । * संशेत्यादि * । सत्यं जीवेपि लोकन्यायन सामर्थ्य- यशानामरूपव्याकर्तृत्वं वक्तुं शक्यते, तथापि श्रुतौ त्रिवृत्कर- णेन सहैव पूर्व नामरूपव्याकरणमुपदिष्टं, तदा न जीवस्य शरी- रसम्बन्ध इति तदानी जीवस्य तत्कर्तृत्वं न वक्तुं शक्यते। शरीर- सम्बन्धोत्तरमेव तस्य बाह्यक्रियाकर्तृत्वस्य दृष्टत्वात् । त्रिवृत्करणस- मये हिरण्यगर्भस्याप्यनुत्पन्नत्वात् । यत्पुनः पुराणेषु 'नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देश्य एवादी देवादीनां च- कार स' इति, 'सृजामि तनियुक्तोऽहं हरो हरति तद्वशः ।

२ अध्याये ४ पादः। ८०७ नेन जीवनात्मनाऽनुपविश्य नामरूपे व्याकरवाणीति । तासां त्रि- वृतं वितमेकैकं करवाणीति त्रिवृत्कर्ता परमेश्वरः । स एव ना- मरूपयोरपि कर्ता । कुतः ? । उपदेशान् । उप समीपे एकवाक्ये उभयकरणस्य प्रतिज्ञानात् । जीवस्य तु त्रिकरणानन्तरं शरीर- सम्बन्धे कर्तृत्वात् । तस्मानामरूपप्रपञ्चस्य भगवानेव कतीत सि- द्धम् ॥ २० ॥ मांसादिभौमं यथाशब्दमितरयोश्च ॥ २१ ॥ इदमिदानीं विचार्यते । अन्नमशितं त्रेधा विधीयते । नस्य यः स्थविष्ठो धातुम्तत पुरीपं भवति, यो मध्यमस्तन्मांम, योऽणिष्ठ- स्तन्मनः । आपः पीनास्त्रेधा विधीयन्ते । तासां यः स्थविष्ठो धा- तुस्तन्मूत्रं, यो मध्ममस्तल्लोहितं, योऽणिष्ठः स पाणः । तेजोशितं विश्वं पुरुषरूपेण परिपाति त्रिशक्तिगिति पठ्यते । तदपि पा- श्चात्यमेव वृत्तम् । यो ब्रह्माणं विद्धाति पूर्व यो वै वेदांश्च प्रहिणाति तस्मा इति श्रीतलिङ्गात् । वेदपाठनात् पूर्वमेव ब्रह्म- नामरूपयोःकरणात् । अत्रापि तेजोऽबन्नदेवतानां प्रागेव करणा- च्च । नच ब्रह्मणः प्रवेशाभावः शयः । द्वा सुपर्णादिश्रुतिसिद्धत्वा- स् । नच प्रवेशो शानेच्छाकृतिरूपमायावृत्त्योपाधिक इति शब्दयम् । शब्दादेवानुपपत्तिपरिहारेणीपाधिकत्वं मानाभावात् । अतः, सर्वा- णि रूपाणि विचिन्त्य धीरो नामानि कृत्वाभिवदन् यदास्त इति श्रुत्य- न्तरादू भगवानेव पूर्व नामरूपकर्ता । जीवानान्तु पश्चादव भगव- दाविष्टानां तथात्वम् । नचादिसृष्टी भगवतैव तत्करणे तदानीं जीव- प्रवेशवैयर्थ्यम् । तस्य भोक्तृत्वात् तदर्थमवैतत्करणेन तस्यावश्यक- त्वादिति । तस्माद् भगवानव नामरूपप्रपञ्चस्य कर्त्तति सिद्धमि- स्यर्थः ॥ २०॥९॥ मांसादिभौमं यथाशब्दमितरयोश्च ॥ अधिकरणप्रयोजनमा- हुः । * इदमित्यादि * । * इमिति * वक्ष्यमाणं वाक्यम् । संशय सपकाशे अणुभाष्ये । वेधा विधीयते । तस्य यः स्थविष्ठो धातुस्तदस्थि भवति, यो म. ध्यमः सा मज्जा, योऽणिष्ठः सा वाक् । अन्नमयं हि सौम्य मन आपोमयः प्राणस्तेजोमयी वागिति । तत्र संशयः । वाक्प्राणमनां- सि किं भौतिकानि ? आहोस्वित् स्वतन्त्राणीति ? एतस्माज्जायते माणो मनः सर्वेन्द्रियाणि चेति श्रुतिविप्रतिषेधात् संशयः । त्रि- करणप्रसङ्गेनोदितामाशङ्कां निरोते । तत्र पूर्वपक्षमाह ॥ मांसादि भौम, पुरीषमांसादि तेजोऽवनप्रकृतिकम् । कुतः ? ॥ यथाशब्द- म् ॥ अन्नमशितमियादिश्रुतितो निःमान्दग्धं प्रतिपादनात् । कि- मतो यद्येवं तदाह ॥ इतरयोश्च ॥ वाचि तुल्यत्वान्न सन्देहः । इ- तरयोमनःपाणयोरपि भौतिकत्वं यथाशब्दम् । उद्गमश्रुतिस्तु स्तुति- वेनानुवादपग भविष्यति । उपपादकश्रुतिवाधात् । तस्माद् भौ- तिकान्येव मनःप्रभृतीनीयेवं प्राप्ते ॥ २१ ।। तबीजं चाहुः । * तत्रत्यादि * । नन्विन्द्रियविचार एवेदं विचार- णीयम्, इहास्य कुतो विचार इत्यत आहुः । * त्रिवृदित्यादि * । उक्तश्रुतिविप्रतिषेधजनितामाशां त्रिवृत्करणप्रसङ्गनेदानी निराचष्ट इत्यर्थः । * तति * | सूत्र । ननु सूत्र तरोधकपदाभावात् कथ- मस्यैतद्विषयत्वमित्याकाङ्क्षायां मांसादीत्यादिपदेन तत्संग्रहादेतस्य विषयत्वावगम इत्याशयन व्याकुर्वन्ति । * मांसादीत्यादि * । भूमिः स्थितौ स्थानमात्र इति कोशादू भौमपदं स्वोत्पत्तिस्थानजन्यत्वपर- म् । तथाचात्रोक्तं तथेत्यर्थः । * वाचीत्यादि * । अत्र तेजोमयी वा- क, ऐतरेये, अग्निर्वाग् भूत्वति श्रुतिद्वयेऽपि वाचिं तेजोमयत्वस्य तुल्यत्वान्न सन्देहः । इतरयोर्मनः प्राणयोस्तु ऐतरेये, वायुः प्राणो भूत्वेति चन्द्रमा मनो भूत्वेत्यन्यथा श्रावणेऽपि भौतिकत्वं छान्दो- ग्यादितं शब्दमनतिक्रम्यैव मन्तव्यम् । नचोद्गमश्रुतिविरोधान्न भौ- तिकत्वमिति शब्दयम् । सा तु मुण्डके अक्षरात् परं स्तोतुं प्रवृत्ता, न तु वागादीनां स्वरूपं वक्तुम् । अतस्तुतित्वेनैतदनुवादपरा भविष्य- ति । एतदनुवादेनात्र ब्रह्मणः प्रयोजकत्वबोधनेऽप्युपपत्तेः । नच श्रु- २ अध्याये ४ पादः। उच्यते- वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२ ॥ अन्नादिभिर्विशेष्यते । मनःप्रभृति सम्यक् कार्यक्षमं भवति । तथा दर्शनादुपादानाच्च। अतो वैशेष्यादेव हेतोरन्नमयत्वादिवादः। ननु कथमेतदवगम्यते । वैशेप्याद गौणो वाद इत्युच्यते । अथात्मनोऽन्नाग्रमागायदिसत्र प्राण एव सर्वस्यानस्यात्ता निर्दि- ष्टः । स कथं तत्परिणामकार्य स्यात् । वागादयश्च तत्रान्मार्थमनु- तित्वाविशेषे कथं तस्या एवान्यथा नयनमिति शट्टयम् । उपपादक- स्य त्रेधा विधानम्य या श्रुतिस्तस्या बाधात् । एतरयोक्तानादरेऽपी- दमेव बीजम् । शपं स्फुटम् ॥ २१ ॥ वैशेष्यानु तद्वादस्तद्वादः ॥ सिद्धान्तमूत्रं व्याकुर्वन्ति । * अनादिभिरित्यादि * । यादृगन्नमनाति तागेवेशितुर्मनो भवतीति दर्शनं तथा दर्शनं, पञ्चदशाहानि माऽशीरित्यारभ्य, सान्निनोपम- माहिता प्राज्वालीदित्यन्तन पापणादव कार्यक्षमत्वोपपादनमुपपाद- नम्, ताभ्यां तथेति, वाक्प्राणस्थल उपपादनाभावपि समानन्या- यात् तेजोमयत्वापामयत्ववादी योध्यः । अतो विशेषणं विशेषस्तस्य भावो वैशेष्यं तस्मादव तथेत्यर्थः । अनुपपादितस्थले शङ्कते । * न- न्वित्यादि * । समादधते । * अथेत्यादि * । श्रुतिस्तूदीथब्राह्मण- स्था । अथात्मनऽन्नाद्यमागायद्यकिचान्नमद्यतेऽननव तदद्यते इह प्र- तितिष्ठतीति । अर्थस्तु यथा वागादिभिरात्मार्थमागानं कृतं तथा मुख्यः प्राणाऽपि त्रिपु पवमानेषु देवार्थ गानं कृत्वा, अथानन्तरम् अवंशिष्टेषु नवसु स्तोत्रष्वान्मन आत्मार्थम् । अन्नाद्यम्.अग्नं च तदाद्यं च आगायत् । तस्येदं निदर्शनम् । यत्किञ्चानं लोके प्राणिभिरद्यतंत- दन्नम् अनेनैव प्राणेनाद्यते तस्मात् स्वार्थमेवैतदागानमिति । ननु कथमेतनिश्चयं यत् प्राणनेवाद्यते इति । प्राणवद्वागादीनामप्यन्नक- तोपकारदर्शनादित्यत आह । इह प्रतितिष्ठतीति।अन्नम् इह प्राण एव प्रतिष्ठितम् । अतः प्राणद्वारक एव तेषामुपकार इति । अनमत्र १०२ सप्रकाशे अणुभाष्ये । प्रविष्टाः । सृष्टौ प्रथमतो भिन्नतया निर्देशात् । अतो न भौतिका- नि मनःप्रभृतीनि, किन्तु तत्त्वान्तराणीति सिद्धम् । तद्वाद इति वीप्सा अध्यायसमाप्तिमूचिका ॥ २२ ॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्ममूत्राणुभाष्ये द्वितीयाऽध्यायस्य चतुर्थः पादः ॥ २ ॥ ४॥ म पृथिवी, किन्त्वदनीयमात्रम् । तथाच योऽदनीयमात्रस्यात्ता स क- थम् अदनीयानामपां परिणामकार्य स्यात् । किञ्चैतरेये वागाद- योनार्थ मुखादिस्थानेषु प्रविष्टा उक्ताः सृष्टौ प्रथमतो भिन्नतया च निर्दिष्टाः । अतः कथमदनीयपरिणामभूताः स्युः । तस्मात् तत्त्वा- तराणीत्यव निश्चय इत्यर्थः । अन्ये तु संज्ञामूर्तिसूत्रमारण्य त्रिसूत्रमेकमाधिकरणमङ्गीक- स्य प्रथमसूत्रे नामरूपकरणं परमेश्वरादेवेति व्याख्याय, मांसादि- सूत्र यथाश्रुतमेव पुरीपादित्रयस्य भौमत्वं मूत्रादित्रयस्याऽऽप्यत्वम- स्थ्यादिश्रयस्य तेजसत्वमङ्गीकुर्वन्तः सिद्धान्तकोटावेव निक्षिपन्ति॥ अथ प्रसङ्गाद् द्वितीयस्कन्धसुबोधिन्युक्तदिशा सृष्टिप्रक्रिया नि- गद्यते । तत्र, सदेव सोम्यदमग्र आसीदेकमेवाद्वितीयं, तदक्षत बहु स्यां प्रजायेयेतीत्यादिजातीयकेषु वाक्येषु सृष्टिप्राक्काले केवलस्य - झण एवोक्तरूपाया इच्छायाः सृष्टिकारणत्वेन बोधनाद् ब्रह्मैव स्वे. छया पूर्व नाना भवति । तत उच्चनीचनानानेकभावेन भवति । न- चाप्रपदेन कालस्योक्तत्वादेवकारो नान्ययोगव्यवच्छेदक इति वा- व्यम् । विकल्पासहत्वात् । तथाहि । किमत्र कालसत्ता विधीयत उतानूद्यते, अथवा कालविशिष्टब्रह्मसत्तैव बोध्यते । तत्र नाद्यः । वाक्यभेदप्रसङ्गात् । नेतरः । एतेषां मृष्ट्यादिवृत्ता- म्तबोधकत्वेनतदपेक्षयाऽन्येषां पुरोवादत्वस्याशक्यवचनतयाऽत्रानु- वादत्वस्याशक्यवचनत्वात् । न तृतीयः । अप्रमाणिकगौरवप्रसङ्गा- तू । अन्यथा एकमेवेत्यऽवधारणान्तरविरोधापातात् । नचावधारणान्तरस्य मुख्यान्यसत्ता निवारकत्वान्न वि.

२ अध्याये ४ पादः। ८११ तू रोध इति वाच्यम् । तथा सति समाभ्यधिकराहित्यस्य सत एव सिद्धेयूँनद्वितीयसत्ताया उपगतत्वाशाऽद्वितीयपदव्याको पस्य दुर्निवारत्वापत्तेः । नच आत्मा वा इदमेक एवाग्र आसीधान्य- किञ्चन मिषदित्यत्रेवात्र मिषद्वितीयनिषेध एवास्त्विति वाच्यम्। तदापि येनाश्रुतं श्रुतं भवतीत्यादिप्रतिक्षाया मृत्पिण्डादिष्टान्ताना. मीक्षणविषयस्योत्तमपुरुषस्य, सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यदित्य- नुवीक्षणस्य च विरोधापत्तेवुर्निवारत्वात् । अतस्तत्र कालोक्तिः स- एयुत्तरव्यवहारे सर्वाधारतया प्रतीयमानस्य कालस्योपरअनेन शि- प्यस्य पूर्वकालवृत्तान्तबांधनाथैव । अन्यथा शिप्यस्य सृष्टिकाल- वर्तित्वात् कालसत्तामवधारयतः पूर्ववृत्तान्तबोधाभावेऽनुशासन- वैयर्थ्यप्रसङ्गात् । ननु कालस्य ब्रह्मणः पृथक्सत्ता बोधनार्था । उक्तदोपप्रसङ्गात् । तस्मात् सृष्टेः पूर्व केवलं ब्रह्मैवेति निश्चयः । तत् सर्वभवनसमर्थमतो धर्मरूपेण भवद् इच्छारूपणापि भवति । नव निमित्तान्तराभावे सर्वदा भवतीति शङ्कनीयम् । आपादनहेतु- भूतस्य कालस्याभावात् । जाते पुनः काले तस्यैव नियामकत्यान सर्वदा भविष्यति । कालश्च श्रुताविच्छादिविशेषणत्वेनोक्त इतीच्छा- दिभिः सहवाविर्भवति सहैव च तिरोभवतीति भगवर्मास्ौका- लिकाऽवाधविषयत्वात् कालवत् सर्वेऽपि नित्याः । नच सदेव सौ- म्येदमग्र इत्यत्र व्युत्पादितं कालोक्तेर्बोधनार्थत्वमिह ग्रहीतुं शक्य- म् । तन्नियामकस्याऽद्वितीयादिपदस्यहाभावात् । नापि,सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधीति श्रुत्या तस्य पाश्चात्यत्वं शङ्यम् । का- लावयवानामेव तत्रोक्तत्वात् । तैर्विशिष्टस्तु कालो भगवञ्चेष्टारूपो “योऽयं कालस्तस्य तेऽध्यक्तबन्धोश्चंटामाहुश्चंटते येन विश्वम् । नि- मेषादिर्वत्सरान्तो महीयानि"तिं वाक्यात् । अतोऽत्रयविभागरहि- तस्य तस्य कार्यापेक्षया रूपत्वात् तेनंव. सहच्छादीनामपि जातत्वा- तू सर्वान् स्वांशान् सर्दकरूपानेव भगवान् स्थापयतीति तं सर्वेऽप्य- धिकृता एवास्तिकवादिभिरङ्गीक्रियन्त । एवमिच्छारूपः सन् भेद- रूपया तया सच्चिदानन्दानपि धर्मत्वेन भिनत्ति । ते च धर्मरूपण स्वयं भिद्यमानाः स्वाश्रयमपि धर्मित्वेन भिन्दन्ति । तदा स भग- वान् सर्वतःपाणिपादान्तो भवति, साकारतां चापद्यते । एवं स- चिदानन्दरूपेण भिन्नोऽपि तयेच्छया मिलितोऽभिन्न इवाखण्डो भ- ८१२ सप्रकाशे अणुभाष्ये । पति । तदपेक्षया कार्यरूपस्याल्पत्वात् । तानि त्रीण्यपि रूपाणि पूर्णशब्देनोच्यन्ते । पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते, पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यत इति । अर्थस्तु-अदः परोक्षं शानक- धनम् अक्षरं ब्रह्म पूर्ण निरन्तरमाकाशवद् व्यापि । इदं परिदृश्य- मानं सद्रूपं क्षरं ब्रह्म पूर्ण पूर्ववत् । पूर्णात् पूर्णमतति व्याप्नोति । तादृशं तबुभयव्यापकं पूर्णमुत् पूर्णानन्दं ब्रह्म अच्यते, अञ्चु गतिपू- जनयोः, अच इत्येक इति धातुपाठादचधातुः पूजार्थकः, पूज्यते, पूर्वोक्ताभ्यां सच्चिद्रूपाभ्यां क्षराक्षराभ्यां सेव्यते । एवं ज्ञानादेः फलमाह । पूर्णस्यानुपदोक्तस्य पूर्ण ज्ञानादिधर्ममादाय तत्प्रसादेन प्राप्य पूर्णमेवावशिष्यते तत्सायुज्येन तदभिन्नो भवतीति । पूर्णत्वा- देव सद्रूपस्य प्रत्येकपर्यवसायित्वम् । एवं धर्मरूपेण शक्तिरूपेण धर्मिरूपेण च नानाभूय पश्चात् कार्यरूपेण नाना भवतीति बहु स्यामित्यस्य कार्यम् । एवञ्च बृहदारण्यकोक्तं व्युश्चरणं तैत्तिरीया- शुक्ताकाशादिसम्भूतिश्च तत एव । प्रजायेयेत्यस्य तु जननगत उ- चनीचभावः कार्यम् । अन्यथा बहुभवनस्य पूर्वाकारादेव प्राप्तत्वात तेनैव जननबाहुल्यस्यार्थबलादव प्राप्तेः को वा प्रकर्षपदार्थः स्यात् । पुरुषविधब्राह्मणे ब्रह्मक्षत्रादिरूपत्वविवृतिरपि विरुध्येत । उच्चनी- चभावस्याकस्मिकत्वं च स्यात् । अत उच्चनीचभाव एव प्रश- ब्दार्थः । स च धर्मभेदेन भवतीति भूम्न आनन्दरूपस्य सर्वोत्कृष्ट- त्वं, ततो नीचभावश्चिद्रुपस्याक्षरस्य, ततोऽपि सद्रूपस्य क्षरस्य । अत एव अक्षरात परतः पर इति । द्वाविमौ पुरुषा लोके, यस्मात् क्षरमतीतोऽहमित्यादिश्रुतिस्मृतयो ब्रह्मणः परत्वं प्रतिपादयन्ति । एवं त्रिरूपः सन् शक्तित्रयरूपेणाविर्भवति । तत्र संदंशस्य क्रियारूपा शक्तिः । चिदंशस्य व्यामोहिका माया । आनन्दरूपस्य जगत्कारण. भूता माया । एतत्त्रितयरूपा शक्तिः सच्चिदानन्दरूपस्य भावत्व- तलादिवाच्या । अत एव सदंशभूतेष्वष्टाविंशतितत्त्वेषु तत्त्वमिति व्यपदेशः । एवं यदा आनन्द उत्कृष्टो जातस्तदेतरौ तं सेवमानी जाती । ततश्च तयोर्धमी ज्ञानक्रिये भगवच्छक्तिरूपे जाते। तदा स आनन्दो ज्ञानक्रियाशक्तिमान् जातः । इत्येकस्वरूप उच्चनीचभावः । अथापरसदंशस्तु क्रियाशक्तेर्गतत्वादशेनाव्यक्ततामापद्यते।प्रकृतिस- पो भवति । पश्चान्मूलभूतक्रियांशाभिः क्रियाभिर्यथायथं श्रोतेन पौ.

२ अध्याये ४ पादः।
८१३
राणेन वा प्रकारेणाभिव्यज्यते । चिदंशस्तु शानधर्मस्यानन्दे गतत्वा-
दंशेन पुरुषो जीवसमष्टिरूपो मुख्यजीवो भवति । तदा चिदं-
शस्य शक्तिर्माया तं व्यामोहयति । तदा तया व्यामोहितो व्याकु-
लः सन् सदानन्दकृतसृष्टौ य आसन्यरूपः सूत्रात्मा दशविधः
प्राणस्तमवलम्ब्य तिष्ठति । ततो जीव इत्युच्यते प्राणधारणप्रयत्नव-
त्वात् । बोधरूपोऽप्ययम् । आनन्दस्य धर्मस्य पृथग्भूतत्वात्स्वरूपात्म-
कस्य च तिरोहितत्वादानन्दार्थ तया व्यामोहितस्तत्सम्बन्धादा-
नन्दो भविष्यतीति बुद्धया तया सम्बद्धयते । अन्यांशस्तु प्राशरू-
पोऽन्तर्यामिसमष्टिरूपो भवति । अतः परं सतः प्रपञ्च उच्यते । तत्र
क्रमो नानाविधः । मुण्डके, एतस्माज्जायते प्राण इति प्राणमनइन्द्रि-
याणामुत्पत्त्यनन्तरं खादिभूतोत्पत्तिः । प्रश्ने, प्राणः प्राणाच्छब्दा भूता-
नि इन्द्रियं मनोऽन्नमिति । बृहदारण्यके प्राणा लोका देवा भूतानीति ।
ऐतरेये, लोका लोकपाला इत्यादि । महोपनिषदि तु दर्शन्द्रियाणि मन-
स्तेजोऽहङ्कारः प्राणा बुद्धिस्तन्मात्रा महाभूतानीति। तत्र तेजो महान्
प्राणाः प्राणसमुदायः । तैत्तिरीयादी चाकाशादिक्रमेण सूक्ष्माणि म-
हान्ति च भूतानि समुत्पादयति । पञ्चतन्मात्रा भूतशब्देनोच्य-
न्ते । अथ पञ्च महाभूतानि भूतशब्देनोच्यन्ते इति मैत्रायणीयश्रुता-
वुभयोरपि भूतपदेन संग्रहात् । एवमन्यऽपि प्रकारा निबन्धे दर्शि-
ताः । अतो भूतानामेवैकविधः क्रमा, न प्राणन्द्रियादीनाम् । आत्म-
नां तु व्युच्चरणं पश्चात् । कदाचिदंहििशष्टा एवेन्द्रियाधिष्ठाता
रः, कदाचिदिन्द्रियानन्तमित्यवं कारणमृष्टिप्रक्रिया दर्शिता ।
विशिष्य तु द्वितीयस्कन्धसुबोधिनीतस्तत्प्रकाशान्मत्कृताच्चाव-
गन्तव्या ॥ २२॥ १०॥
इति श्रीमदलुभाऽऽचार्यचरणनखचन्द्रनिरस्तहृदयध्वान्तस्य
श्रीपीताम्बरात्मजम्य पुरुषोत्तमस्य कृती भाष्यप्रकाशे
द्वितीयाध्यायस्य चतुर्थः पादः ॥ २॥४॥
समाप्तश्चाऽयं द्वितीयोऽध्यायः ॥२॥

अथ तृतीयोऽध्यायः। तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्न- निरूपणाभ्याम् ॥ १ ॥ सर्वोपनिषदां सिद्धो ह्यविरोधे ममन्वयः । कथं बोधकता तासां सा तृतीये विचार्यते ॥ एकं वाक्यं प्रकरणं शाखाः सर्वाः सहैव वा। एका विद्यामनेकां वा जनयन्तीति चिन्यते ॥ सदन्तरप्रतिपत्ती रहति सम्परिप्यक्तः प्रश्ननिरूपणाभ्याम् । अथ तृतीयाध्यायं व्याचिख्यासवः सङ्गतिं वक्तुं पूर्वाध्यायाथै स्मा- रयन्तः प्रकृताध्यायार्थमाहुः । * सर्वेत्यादि * । तं त्वौपनिषदमित्या- दिश्रुतम्रह्मण्युपनिषद एव मुख्यं प्रमाणमिति प्रथमाध्याये सर्वोपनि- षदां ब्रह्मणि सम्यगन्वय आपाततः प्रतीतार्थनिराकरणेन तदेकता- नतारूपो यः प्रतिपादितः, स द्वितीयाध्याये विरुद्धस्मृतीनां निरा- करणेन श्रुतिवाक्यानां चेतरेतरविरोधनिरासेन चिन्तिते अविरोधे सिद्धो, मुख्यतया उपनिषद एव ब्रह्मवोधिकाः, नेतरदित्येवं दृढो जातः । अतः परं तृतीयाध्याये तासामुपनिषदां वोधकता निर्विचि- सशाब्दज्ञानेन ब्रह्मप्रमितिजनकना कथं केन प्रकारेणेत्याकासोदेति । ऋषिभिः स्वस्खबुद्ध्योपनिषदर्थस्य नानाप्रकारेण विचारितत्वात् । अतस्तनिवृत्त्यर्थं स तासां बोधकताप्रकारस्तृतीयेऽध्याये निरूप्यत इत्यर्थः । तथाच द्वितीयस्य प्रथमार्थशोधकत्वाद्यथोपोद्धातत्वं त- द्वत् तृतीयस्य प्रथमविषयभूतोपनिषनिष्ठयोधकताप्रकारशोधकत- या तच्छेषत्वात् तथात्वं सङ्गतिः। द्वितीयतृतीययोस्तूपजीव्योपजीवक- भाव एव सङ्गतिरिति बोधितम् । नन्वयं साधनाध्यायत्वेन प्रसिद्ध इति साधनविचारोऽत्रार्थत्वेन युक्तो, न तु बोधकताप्रकारविचार इति शङ्कनयां स्वोक्तं गमकमाहुः * एफमित्यादि * । गुरुमुखातु- ३ अध्याये १ पादः। ससाधने हि पुरुषे जन्मना कर्मणा शुचौ । केवले वा यथा योगे प्रथमं तद् विचार्यते ॥ विचारपूर्वकं तस्य ब्रह्मभावाप्तियोग्यता । अधिकारे ततः सिद्धे विषयावधृतिस्ततः ॥ पनिषद्भिः श्रुतं ब्रह्माध्यायद्वयोक्तरीत्या मत्वा निदिध्यामितव्यम् । तपायभूताश्वोपासनाः सर्वशाखासु क्वचिद्वाक्येन प्रकरणेन या बो- ध्यन्त इत्येकं वाक्यं प्रकरणं तत्प्रकारबोधनेन विद्यां जनयति । तां विद्यां ताहग्वाक्यादिमत्यः सर्वाः शाखाः सहैव सम्भूयैवैकां विद्या जनयन्ति, असम्भूय पार्थक्यनानेकां वा जनयन्तीति सर्ववेदान्तप्रत्य- याधिकरणे चिन्त्यते । पादं च यथाधिकारमनेकामेकांवा जनयन्तीति फलति । अतो यदि बोधकताप्रकारो न विचार्यः स्यात् तदोपास- नामात्रं चिन्तयेन तु विद्यकत्वानेकत्वं, प्रयोजनाभावात् । अतस्त- चिन्तनाद् बोधकताप्रकारविचार एवार्थ इति ज्ञायत इत्यर्थः । ननु यद्युपनिषनिष्ठबोधकताप्रकारचिन्तनमेतदध्यायार्थम्तदा संसारगति- प्रभेदः सन्ध्यसृश्यादियोधकानामधिकरणानां कथं सङ्गतिरित्याका- सायां पादानामस्त्रिभिराहुः ससाधन इत्यादि ब्रह्मविदामांति प- रमितिपरमाप्तिसाधनतया यज्ञानमुक्तं तदपरोक्षमेव विवक्षितम् ।त- स्मिन् हटेपरावरे,आत्मन्येवात्मानं पश्येत्, सर्व हि पश्यः पश्यतीत्या दिषु रशेः प्रयोगात् । तच्च न शब्दश्रवणमात्रादिति मननादिवि- धिभिरवसीयते। यत्र पुनः शब्दः श्रवणमात्रात् तत्रापि शुद्धिरवश्य- मस्तीति फलबलादेव शायते। ततः पूर्व शुद्धिर्मंग्या । हि अतो हेतोः जन्मना कर्मणा शुचौ विचाररूपसाधनसहित पुरुषे विद्यां जन- यन्ति,वा,अथवा, केवल जन्मकर्मावदातत्वाभावेऽपि वरणमात्रविषये। तत्र दृष्टान्तो, यथा योगे । अता, निर्विषयं नित्यं मनः कार्य मुमुक्षुणे- तिश्रुतेर्जन्मादिशुद्धिराहित्येऽपि केवले वरणविषये मनःशोधनपर च पुरुषे जनयन्ति । यदि शैलसमं पापं विस्तीर्ण योजनान् बहून्, भिद्यते ज्ञानयोगेनेति योगबोधकध्यानबिन्दुश्रुतेर्योगेनैव दहदंहो ना- न्यत् तत्र कदाचनोति श्रीभागवतवाक्येन तत्र साधनान्तरानपेक्षणा- मप्रकाशे अणुभाष्ये । अन्तरङ्गविचारेण गुणानामुपसंहृतिः । बहिरङ्गविचारण कर्मणामिति सा द्विधा । -- तू । एवं वरणेऽपि पापकर्पण इति । अपूतः पूतो भवति मां स्मृ- त्वेति तापनीयश्रुतेः 'कोटिजन्मार्जिते पाप कृषिः क्लेशे च वर्त्तते । भक्तानां णश्च निर्वाण तेन कृष्णःप्रकीर्तित' इति ब्रह्मवैवर्त्तवाक्याच्च भक्तानां पापनिवृत्तः शुद्धश्च भगवतैव सम्भवात्।एवंत्रिविधेयधिका- रिषु भगवदिच्छया मम्भवत्सु मुख्यमध्यमयोर्वरणयोगाभ्यामेव सि- द्विरिति तन्न विचार्यते, किन्तु प्रथमं प्रथमे पाद, ततू* जघन्याधिका- रिणां शुचित्वं विचार्यत तादृशषु दययव व्यासचरणानामतदुद्यमा- त् । तथाचापोद्घातः सहकारिसम्पत्तिरूपस्तदर्थः । ततो द्वितीय पादे जीवावस्थादिविचारपूर्वकं तस्य जीवस्य ब्रह्मभावप्राप्तियोग्यता स्वरूपतो योग्यत्वम् । ततस्तद्विचारण अधिकारे मुक्त्यधिकारे जी- वस्य सिद्ध विषयावधृतिर्विषयस्य ब्रह्मस्वरूपस्य यादृशं ब्रह्मस्वरूपं तस्य अवधृतिनिश्चया विचार्यते । ततस्तृतीये पादे अन्तरङ्गविचा- रेण सूक्ष्मदेहनिष्ठतया मुक्तिपर्यन्तमनुवर्तमानत्वेन, तं यथायथा- पासते तथा भवतीति, यथा क्रतुस्मिन् लोके पुरुषो भवति तथतः प्रेत्य भवतीति श्रुतेरवश्यफलसाधकतया चान्तरङ्गं यत् साधनकर्म- झानभक्तिमार्गीयमुपासनं तद्विचारेण गुणानां तत्तदुपासनोपयुक्तानां भगवद्गुणानाम् उपसंहतिः । तद्विधोपासने तन्नियमनम् । एतारशे उपासने एतादृशा गुणा एवं चिन्तनीया इति । ततस्तुरीये पादे बहिरङ्गविचारेण स्थूलदेहनिष्ठतया इतरसाधारणतया च बहिरङ्गाणि यानि साधनानि आश्रमादिरूपाणि तद्विचारेण कर्मणां पूर्वोत्तरकाण्डोक्तानां यज्ञतपःशमदमादिश्रवणादिभगवद्धर्मप्रभृता- नामुपसंहतिः । नित्यान्येव कार्याणि, तान्यपि ब्रह्मण्याध्याय, सङ्गं त्यक्त्वा कार्याणीत्यवं नियमनम् । एवं प्रकारेण सा उपसंहृतिद्धि- धा विचार्यत इति क्रियापदमत्रापि सम्बध्यते । तथाच जघन्याधि- कारिणां पूर्वपादोक्तरीत्या स्वरूपयोग्यतायाः सहकारियोग्यतायाश्च पूर्व सिद्धौ द्वितीयपादोक्तरीत्या विषयावधारणे यथाधिकारं तत्त- ३ अध्याये १ पादः। तस्मादधिकारिणो जन्मनिर्धारः । तदनु तस्य ब्रह्मभावयो. ग्यता । ततो गुणोपसंहारः । ततोऽङ्गविचार इति । तत्र प्रथमे पादे जीवस्य ब्रह्मज्ञानौपयिकं जन्म विचार्यते । तत्र पूर्वजन्मनि निष्कामयज्ञकर्तुर्ज्ञानरहितस्य मरणे ज्ञानाभावेन य- ज्ञाभिव्यत्त्यभावाद् भूतसंस्कारक एव यज्ञो जात इति, निष्काम- दूगुणकतत्तत्स्वरूपोपासनायां यज्ञादिसाहित्येन क्रियमाणायां तत्त- दुगुणकं ब्रह्म स्वरूपं बोध पन्ति । उत्तममध्यमयोस्तु द्वितीयपादोक्त- ब्रह्मभावाप्तियोग्यतायाः सत्त्वात् पूर्वपादोक्तयांग्यताविरहेऽपि यथा- धिकारं वरणयांगयोः सहकारेणावधृतब्रह्मस्वरूपयोस्तदुचितगुणक- स्वरूपांपासनायां तदुचितबहिरङ्गसाधनसाहित्येन तत्तन्मार्गरीत्या क्रियमाणायां यथाधिकारं बहिर्वाऽन्तर्वा तद्गुणकं ब्रह्मस्वरूपं घो- धयन्तीति प्रकारविशेषबोधननोपोद्घातः म सङ्गतिरित्यर्थः । एवं पादानामर्थानुक्त्वा प्रकारान्तरार्थशानरामाय निगमयन्ति । * तस्मादित्यादि * । यस्मादेवं माधनसम्पत्तावुपनिषदां विधाजनक. ता । अन्यथा सत्सम्प्रदायेऽपि परीक्षशानजनकतयव । तस्माचतो- रधिकारिणो जन्मनिर्धारः प्रथमार्थो, न तु वैराग्यार्थ मंमारगतिप्र- दर्शनमात्रम् । एवं द्वितीयेऽप्यवस्थाप्रदर्शनं ब्रह्मभावयोग्यत्वार्थ, न तु वैराग्यमानार्थम् । गुणाधुपसंहारप्रभृति तृपासनादिद्वारा विद्यार्थ स्फुटमेवेति उपनिषदां बोधकताप्रकारविचार एव तृतीयाध्याये प्रतिपाद्यततो न तेषामसङ्गतिरित्यर्थः । एवञ्च पादेषु प्रथमार्थस्य सर्वाग्रिमोपजीव्यत्वम् । द्वितीयार्थस्य तदग्रिमोपजीव्यत्वम् । तृती- यतुरीययोस्त्वेककार्यत्वमिति विशेषः सिद्ध्यति । एवं सर्व निगम- यित्वा प्रथमपादं व्याख्यातुं तदर्थमनुवन्ति । * तत्रत्यादि * । तेष्वर्थेषु जीवस्य ब्रह्मज्ञानापयिकं जन्म विचार्यते । गीतायाम्, 'अ- ग्निोतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाइति भगवता ब्रह्मविद एवार्चिरादिमार्गेण ब्रह्म- गतेरुक्तत्वात् तदनुसारेण व्युत्पाद्यत इत्यर्थः । तच्च छान्दोग्ये प- ञ्चाग्निविद्यायां सिद्धमिति प्रथमं तत्तात्पर्यमाहुः । * तत्र पूर्वेत्या- दि * । सा च सप्तमे प्रपाठके गौतमप्रवाहणसंवादे, यथा पञ्चम्या- ८१८ समकाशे अणुभाष्ये । स्वाञ्च तदधिकारिदेवाधीनान्येव भूतानीति ते देवास्तत्र तत्र हुन्वा तस्य शरीरं सम्पादयन्तीति पञ्चम्यामाहुतावापः पुरुपवचसो भव- न्तीति श्रुतिः । माहुतावापः पुरुषवचमो भवन्तीति प्रश्नप्रतिवचनभूतैरसो वा व लो- का गीतमाग्निरित्यादिभिरुता।असो वा व लोको गीतमाग्निस्तस्यादि- त्य एव समिद्रश्मयां धूमो ऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि वि- स्फुलिङ्गास्तस्मिन्नन्नी देवाः श्रद्धां जुह्वति तस्या आहुतः सामो राजा सम्भवताति । द्वितीय वाक्य पर्जन्यवाय्वभ्रविद्युदनिहादनयों विस्फुलिङ्गान्ताः. सोमा राजा होम्यो, वर्ष फलम् । तृतीय पृथिवीमं- वत्सराकाशरात्रिदिगवान्तर्गदशो विस्फुलिङ्गान्ता, वर्ष हाम्यमम्नं फलम् । चतुर्थ पुरुषवाक् प्रार्णाजह्वाचक्षुःश्रोत्राणि विस्फुलिङ्गान्ताः अग्नं होम्यं, रेतः फलम् । पञ्चम योपापस्थोपमन्त्रणयानितदन्तःकृ- त्यभिनन्दाः विस्फुलिङ्गान्ताः, रतो होम्यं, गर्भः फलम् । तदग्रे, इति तु पञ्चम्यामाहुतावापः पुरुषवचमा भवतीति उल्बावृतो गर्मी दश वा मासानन्तः शांयत्वा यावद्वाऽथ जायते स जाता यावदायुपं जीवति तं प्रतं दिमिताऽग्नय एव हरन्ति यत एवंती यतः स- म्भूनो भवतीत्यन्तम् । अर्थस्तु, हे गौतम असो वा व द्युलोक एव अग्निः । यथहाग्निहोत्राधिकरणमाहवनीयः । तस्याग्न लोकाख्यस्य आदित्य पव समित् । तन हीद्धा धुलोको दीप्यतेऽतः ममिन्धनात् समित् । रश्मयो धूमस्त दुत्थितत्वात् । समिद्धे अग्नी हि धूम उत्ति- ष्ठति । अहरर्चिः प्रकाशसामान्यादादित्यकार्यत्वाच्च । चन्द्रमा अ- झाराः । अहःप्रशमेऽभिव्यक्तः । अर्चिषः प्रशमे ह्यगारा अभिव्य- ज्यन्त इति । नक्षत्राणि विस्फुलिङ्गाः विप्रकीर्णत्वसामान्याच्चन्द्र- मसाऽवयवा इव । तस्मिन्नतस्मिन् यथाक्तलक्षणऽग्नी देवा लोक- पालाः कर्मसचिवाः श्रद्धां जुहति । श्रद्धा वा आप इति श्रुत्यन्तरा- द, आपः पुरुषवचमा भवन्तीति प्रश्नवाक्यादग्रे तथैव निगमनाच्च श्रद्धाशब्देनाप उच्यन्तं । ता जुह्वति । तस्या आहुतः सामो राजा सम्भवति । श्रद्धाशब्दवाच्यानां द्युलोकानी हुतानामपां परिणामः सोमो राजा सम्भवति । एवं हुताम्ता आपो द्युलोकस्थं चन्द्रमनुप्रवि- ३ अध्याय १ पादः। ८१९ श्यापूर्यमाणपक्षे पञ्चदशकलाभिः पोषणात् तमारगन्ते । एवमग्रेऽपि वृष्टयुपकरणमेघाभिमानिदेवताविशेषः पर्जन्यः । तस्मिन्ननी हुतः सोमो राजा वर्षरूपेण परिणमते । तच्च वर्ष पृथिव्यग्नौ हुतमन्न- रूपेण परिणमते । अन्नं च पुरुषाग्नौ हुतं रेतारूपेण परिणम- ते । रतश्च योषाग्नी हुतं गर्भरूपेण परिणमते । तदाह, इति तु पञ्च- म्यामाहुतावापः पुरुषवचसो भवन्तीति । वैराग्यार्थमाह । स उ- ल्वावृतो गर्भ इत्यादि । तं प्रेतं दिमतोऽग्नय एव हरम्तीति । तं पू- र्वोक्तं प्रतं मृतं दिष्टं निर्दिष्टमितो मरणस्थानाद्. अग्नय एवाग्न्यर्थ- मेव हरन्ति पुत्रा ऋत्विजा वा नयन्ति । यतोऽग्नेः सकाशादेव इत आगतः श्रद्धादिक्रमण, यतश्च पञ्चभ्या भूतभ्यः सम्भूत उत्पन्नो भ- वतीत्यवं मामान्यतो बाध्यः । अतः परं तात्पर्यम् उच्यते । गीतायां यज्ञः सात्त्विकादिभेदेन त्रिविध उक्तः । तत्र 'अफलाकाटिभिर्यो विधिदृष्टा य इज्यते । यष्टव्यमवति मनः समाधाय स सात्त्विक' इत्यनलक्षणको निष्कामयज्ञं यः पूर्वजन्मनि कृतवान्, उपनिषदर्थनि- श्चयाभायन शानरहितश्चासीत् तस्य पूर्वजन्यनि निष्कामयज्ञक - निहितम्य मरण ज्ञानाभावेन यज्ञाभिव्यक्त्यभावान्न मोक्षः, कामना- भावाच्च न स्वर्लोको मुख्यतया फलम् । तथा सति साङ्गाद्वदिक- कर्मणः Tः फलावश्यम्भावनियमात फल जननीये तत्र किं फलामत्याका- सायां, या दान तपश्चव पावनानि मनीषिणामिति गीतावाक्यात् तादृशयज्ञस्य पावनमय फलमिति भूतसंस्कारक एव यज्ञो जात इत्यका हेतुः । निष्कामत्वादिति द्वितीयः । स त्वित्थं शेयः । वयास दशन देवता विनवनी ! अतः पुरुषप्रयत्नेनाभिव्यक्ता यागाः स्वम्य करणत्वान्मध्ये देवताप्रीति जनयन्ति । अनी द्रव्यण प्रीता देवता व्यापार: । अष्टादिकं तु न व्यापार: । दृटस्य सम्भव तत्कल्पन- स्थान्याय्यत्वात् । याशिका हि देवतांदशेन द्रव्यत्यागं कुर्वन्तः स्व- दिकं साधयन्तो दृश्यन्ते । देवता च मन्त्राथवादादिभ्यो विग्रहा- दिपञ्चकवता । तत्र सहस्राक्षा गोत्रभिद् वझवाहुरिति विग्रहः । अग्निारदं हविरजुपति हविःस्वीकारः । अद्धीदिन्द्रप्रस्थितेमाहवाधी- ति हविर्भाजनम् । तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयतीति तृप्ति- प्रसादी । एवं विग्रहादिपञ्चकवत्त्वात् सेवितराजादिवद् देवताप्य- न्यदीयं हविधानेन गृहीत्वा किश्चिदुपकर्तुमुचिता भवति । लोके ८२० सप्रकाशे अणुभाष्ये । तत्र जीवेन्द्रियाणां होमाभावेनाशुद्धिमाशा तेषामपि होम वक्तुमिदमधिकरणमारभते । नच पञ्चाङतयो धूममार्ग एव । तत्र तथोपलब्धेः । देवान् भावयताऽनेन ते देवा भावयन्तु व इतिगीतायां प्रजापतिवाक्यानुवादात् । अग्नये जुष्टं निर्वपामि, यस्यै देवतायै ह- विनिरुप्तं स्यादित्यादी तादार्थकचतुर्थीनिर्देशात् । देवतोद्देशेन द्रव्यत्यागस्य यागत्वाच्च । अतः सैव हविर्गृहीत्वा प्रीतिद्वारा व्या- पारीभवितुमर्हति । सा च चेतना नित्या यथानुरूपं फलं नियमयितुं शक्ता तत्र यागकर्तुनिष्कामत्वे तया किंवा उपकर्तव्यमित्यपेक्षा- यां कर्मसचिवत्वेन यज्ञाधिकारिणां देवानामेवेन्द्रियाधिष्ठातृत्वा लोकपालत्वाश्च भूतानां तदधीनत्वमित्यपरो हेतुः । ताभ्यां हेतुभ्यां देवास्तत्र तत्र हुत्वा संस्कृतैर्भूतैस्तच्छरीरं ब्रह्मविद्याप्राप्तियोग्यं नि- कामत्वात् मम्पादयन्तीति तत्कृतमुपकारं पञ्चम्यामाहुतावापः पु. रुषवचसोः भवन्तीति श्रुतिर्वदति । शपं तु वैराग्याथै वदति । अ. न्यथा प्रथमप्रश्नचतुष्टयप्रतिवचनैरेव वैराग्यसिद्धरत्रैतावद्धोमकथन- स्य निष्प्रयोजनत्वं स्यादतोऽचिरादिमार्गेऽधिकारिविशेषबोधन एव तात्पर्यमित्यर्थः । एवं श्रुतितात्पर्यमुक्त्वा अधिकरणप्रयोजनमाहुः । * तत्र जीवेत्यादि * । तादृशयज्ञकर्त्तरि जीवादिशोधिकया आत्म- विद्याया आसन्योपासनायाश्चाभावे देवोमेन सम्पादितमपि तच्छ- रीरं ज्ञानानुपयोगाद् व्यर्थमिति होमोऽत्र शोधक इति तेषां होमाभा- वेनाशुद्धिमाशय तपामपि हामं वक्तुं जीवस्येतो लोकान्तरगमना- वसरे संस्कृतभूतसूक्ष्मेन्द्रियसाहित्यसाधनायेदमधिकरणमारभत इ- त्यर्थः । ननु नंदधिकरणप्रयोजनम् । वैराग्यार्थ संसारगतिप्रभेद- दर्शनस्यैव श्रुतौ मुख्यतया प्रतीयमानत्वेन, उपसंहारे तस्माज्जुगु- प्सेतेति संसारजुगुप्साश्रावणेन च झाने ताहशहोमकृतशुद्ध्यपेक्षायां मानाभावात् । वाजसनयके, ते वा एते आहुती हुते उत्क्रामतस्ते- ऽन्तरिक्षमाविशतस्ते तत आवर्ततेत इमामाविश्य तर्पयित्वा पुरुषमा- विशतस्ततः स्त्रियमाविश्येत्यादिना पुनरावृत्तरुक्तत्वात् तस्याश्च धू- मादिमार्ग एव दर्शनेनात्र तदुपयोगाभावाद् धूममार्ग एव ता आहुत य इति न तदर्थमिदमधिकरणमित्याशङ्कायामाहुः । * नचंत्यादि।

३ अध्याये १ पादः । ८२१ गमनागमनयोब विशेषश्रवणात् । तद् य इत्थं विदुर्ये चमे श्रद्धातप इत्युपासते तेऽचिषमभिसम्भवन्तीति तज्ज्ञानवतोऽपि यत्राचिःमा- प्तिस्तत्र तथा देवहुतानां कथं सा न स्यात् । ज्ञानार्थमेव च तथोत्प- स्थाद्वैराग्यमात्रार्थता, यदि धूममार्ग एव पञ्चाहुतयः स्युः । न त्वेवम् । कुतः। तत्र गमनागमनयार्बहुविशेषश्रवणात् । प्रश्नप्रतिलोमक्रमेण वक्तुमारब्धायां विद्यायां यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीत्यस्योत्तरत्वेन पूर्व पञ्चाग्न्यादिप्रपञ्चनं, तदनन्तरं यदतोऽधि- प्रजाः प्रयन्तीत्यस्योत्तरत्वेनाचिरादिमार्गकथनं, यथा पुनरावर्तन्त इ- त्यस्योत्तरत्वेन धूमादिमार्गकथनम् । देवपितृयानयोः पथाावृत्त्यु- त्तरत्वेन तयोः प्रपञ्चनम् । यथाऽसी लोको न सम्पूर्यत इत्यस्योत्तर- त्वेन, जायस्व म्रियस्वेति तृतीयस्थानकथनम् । तत्र, अर्चिरादिमा- !क्तगमनापेक्षया धूमादिमार्गोक्ते गमन आगमने च भूयसस्तारत- म्यस्य श्रवणात् । यदि हि धूममार्ग एव ताः स्युस्तदा तादृशदुःख- जनको भूयान् विशेषो न श्रूयत । तस्य पञ्चाहुतीविनापि वाजसने- यके पूर्व जीवद्दशाकृतयज्ञाहुतिभ्यां तर्पणकथनात्या बोधितत्वात् । तथाच पञ्चाग्निक्रमेण शरीरनिष्पादन चन्मुक्षुष्वनपेक्षितं स्यात्त- दास्मिन् प्रकरणेऽचिरादिमागे न ब्रूयात् । प्रश्नक्रमणोत्तरकथने शिष्यबोधसीकर्यात् । अथ स्वस्योत्तरदानसौकर्यार्थ व्युत्क्रमः । तथा सत्यूर्ध्वगतिप्रश्नोत्तरं प्रत्यप्यागतैव पञ्चाग्निविद्याया उपजीव्यता। सा च होमद्वारिकैव । अत एव तव्यवहितोत्तरमर्चिरादिमार्गेणो- दूर्ध्वगतिव्युत्पादनम्। तस्मात् केषाश्चिज्ज्ञानाधिकारिणामप्येतदपेक्षि- तमित्यधिकरणस्य तादर्थ्यमपि युक्तमेवेत्यर्थः । नन्वर्चिरादिमागों होतद्विद्याज्ञानवतामेव, न तु तथा निष्पादितशरीगणाम् । तद्य इत्थं विदुरिति विद्यावतामेव कथनादतस्तावतैवोपजीव्यत्वं, न तु होम- द्वारकमित्यत आहुः । * तद्य इत्यादि * । तथाच साधकोपपत्तेः प्रागुक्तत्वादू वाधकस्याभावाच्च कैमुतिकेनैव तदा तत्प्राप्तिरस्तु, तद्धे- तोरुक्तत्वादित्यर्थः । एवञ्च, तद्य इत्थं विदुरिति श्रुतावपि, य इत्यम् एवं प्रकारेण प्राप्तदेहास्त विदुः ब्रह्म जानन्ति । ये चमरण्ये श्रद्धा- सप्रकाशे अणुभाष्ये । तेः । पुनरावृत्तिः परं तुल्या । अथवा निष्काम एव धूममार्गः । योगी प्राप्य निवर्तत इति स्मरणात् । भोगार्थमेव धूमादिलोकाः । निप्पत्तिस्तु पञ्चाग्नावेव । अन्ने प्रविष्टानामन्येषामपि रेतोद्वारा योनित उत्पत्तिरिति कपूयचरणवर्णनम् । एवं त्रयीवर्ममनुप्रपन्ना गतागतं कामकामा लभन्त इति का- मनायां भिन्न एव प्रकारः । पृथगुपदेशात् । तस्माद्योग्यशरीरनि- - तप इत्युपासतेऽत्रापि विदुरिति पदं देहलीदीपवदन्तीति गीतावा- क्यस्वारस्याद् योध्यम् । नन्वचिंरादिमार्गस्य होमोपजीवकत्वमाहु- तिस्वभाविरुद्धम् । आहुतीनामावृत्तिस्वभावत्वादित्यत आहुः । * पुनरित्यादि * । अर्चिरादिमार्गेऽपि पुरुषभावपर्यन्तमावृत्तिस्तुल्या । अत आहुतिस्वभावविरोधाभावादाचरादिमार्गस्याऽप्युपजीवकत्वं यु- तमित्यर्थः । ननु ते वा एते आहुती इति श्रुती आहुतिभ्य एव यज्व- शरीरान्तरनिष्पत्तिश्रावणाद् धूममार्गेऽपि पञ्चाङ्गुत्यङ्गीकारेन किञ्चि- द् वाधमित्याकाङ्क्षायां तस्मिन् पक्षेऽपि ज्ञानयोग्यदेहसम्पादकत्वं हामस्य साधयन्ति * अर्थवत्यादि * । उक्तगीतावाक्यानिष्कामय- झकर्तर्यव धूमादिमार्गः । ब्रह्मगतिप्रतिवन्धकप्रारब्धभोगार्थमव धू- मादिलोकाः । तद्य इह रमणीयचरणा इत्यादिनोक्ता उत्तमदहनि- पत्तिस्तु पश्चाग्नावव । तथा सति निष्कामतया इष्टापूर्ताद्युपासने धूममार्गेणहागतस्य, न हि कल्याणकृत कश्चिदित्यादिना गीतायामु- तान्न्यायात् पुनरर्चिरादिमार्गण ब्रह्मगतिः । सापि, एतद्धि दुल- भतरमिति वाक्यादुत्तमाधिकार एवेति धूममार्गे एवाहुतीनामङ्गी- कारेऽपि निष्प्रत्यूहा ज्ञानयोग्यदेहनिष्पत्तिः । नच कपूय चरणावस्था- निरूपणविरोधः । स्वीय दुष्कर्मादिना अग्ने प्रविष्टानामन्यंपां दुष्क- र्मिणां जीवानामपि मैथुनादुत्पत्तिबोधनार्थ प्रासङ्गिकं तद्वर्णनम् । अतो धूममार्गेऽपि विलम्बाधिक्येन प्रकारभेदाद् योग्यदेहनिष्पादक- त्वमतस्तत्रैवाहुत्यङ्गीकारपक्षेपि प्रकृतसिद्धिरित्यर्थः । ननु बृहदार- ण्यके यज्ञादिना लोकजेतृणां धूममार्गकथनात् सकाम एव धूममा- र्गोऽस्त्वित आहुः * एवन्त्रयीत्यादि *। * पृथगुपदशादिति * बृह- ३ अध्याये १ पादः। ८२३ पत्तये स्वयमेव गच्छति भूतसहितः । श्रद्धाहोमानन्तरं सोमभावे वा सम्बन्ध इति संशयः । भिन्नपक्षे योनौ वेति । तत्र श्रोतऽर्थे श्रौतन्यायेनैव निर्णयस्योचितत्वादाहुतावपां गौणत्वापत्तेः। संस्कृत- भूतानामपामुपस्थापकत्वाभावाच्छरीवियोगे देवानां च तावद्विल- म्बे कारणाभावाच्च श्रद्धारूपा आप एव हृयन्ते । अतो न तैः परिष्वक्तो गच्छतीसेवं प्राप्ते उच्यते ॥ तदन्तरप्रतिपत्तौ रंहति स. । वा, दारण्यके भिन्नप्रकारेण, एवमेवानुपरिवर्तन्ते इति गीतोकप्रकारेण निगमनात् । तथाच प्रकारभेदात्तस्य नेतद्वाधकत्वमित्यर्थः । एवं श्रुत्यर्थानर्णयेनाधिकरणस्य तादर्थ्य सार्वायत्वाऽधिकरणप्रयोजक- संशयाकारमाहुः । * तस्मादित्यादि * । यस्मादस्ति ज्ञानार्थ योग्य- दहापेक्षा तस्मात्तदर्थमेवं संशय इत्यर्थः । * सम्बन्ध इति * । भू तसम्बन्धः । अङ्गुष्ठमात्रं पुरुपं निश्चकर्पति परिमाणबोधकस्मृतिस्त- मुत्क्रामन्तमित्युत्क्रमप्रकरणे भूतात्क्रभाश्रवणं च संशयबीजं यथा- यथम् । तत्र द्वितीयकोटी पक्षद्वयम् । * श्रद्धाहोमानन्तरं सोमभावे * भिन्न पक्षे योनीवति * पञ्चाहुतिभ्यो धूमादिमार्गेण गच्छतः मोमभावेऽपां द्रवीभावमापद्यात् तदा वा। ततो भिन्न सकामपक्ष प- चाहुत्यभावात् सकामान् यष्ट्रलोकालोकान्तरं मन एव कर्मसहितं नयति । शारीरब्राह्मणे काममयं पुरुषमुपक्रम्य, तदेव स तत्सहक- मति लिङ्गमनो यत्र निषक्तमस्य, प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करांत्ययम्, तस्मालोकात् पुनरेत्यस्मै लोकाय कर्मण इति श्रुतर्मनः कर्ममयं नृणामिन्द्रियः पञ्चभिर्युतम, लोकालोकं प्रयात्यन्य आत्मा तदनुवर्तत इत्यकादशस्कन्धवाक्याच्च । तस्मिन् पक्षे भूमिरूपायां योनी वेत्यर्थः । पूर्वपक्षमाहुः । * तत्र श्रीत इत्यादि * । प्रत्यक्षाद्यग- म्ये जीवाद्युत्क्रमणरूपे श्रीतेऽर्थे श्रुत्युक्तेन कर्मसाहित्यन्यायनव नि- र्णयस्य युक्तत्वात् । भूतसाहित्ये तु तैरेव शरीरनिष्पत्त्या अबाहुतेस्त- संस्कारकत्वेन अपामाहुती गुणकर्मत्वापत्तेः । अहष्टस्य दृष्टसामग्री विना अञ्चित्करतया संस्कृतभूतानामुपस्थापकस्याभावात् । यदि भू- ताऽभाव लिङ्गशरीरं वियुज्येत तदा मनसाऽप्यभावादुत्क्रमणं विरु- ८२४ सप्रकाशे अणुभाप्ये । म्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ तस्य जीवस्य यज्ञादिकर्तुरन्त- प्रतिपत्ती, अन्तरे मध्ये मुख्यप्रतिपत्तेमोक्षलक्षणाया अभंग यो- ग्यशरीरनिष्पत्त्यर्थम् । न हि वस्तुतो यज्ञानामिदं फलं भवति । अतो मुख्ये विलम्बात् प्रतिपत्तिरेपा । तस्य मुख्यफलस्य वा अ- येत, स तु नास्ति । शरीरवियोगे कारणस्य कर्माभावस्याभावात् । अप्सहकारीणि भूतानि यावदुपतिष्ठन्ते देवानां तावद्विलम्बे कार- गाभावाच शीघ्रमेवापो योग्यशरीरनिष्पत्त्यर्थ हूयन्ते । तथाच सो- मभावानन्तरं वा योनी वा भूतसम्बन्धी, न तु म्हणावसर इत्यर्थः । सूत्रमुपन्यस्य सिद्धान्तं व्याकुर्वन्ति । * तस्यत्यादि * । तच्छब्दस्य जीवपरामर्शित्वे हेतुः प्रश्ननिरूपणविवरणे विषयवाक्यस्थपुरुषपद. विचारे व्युत्पाद्यः । अन्तरपदं च मध्यवाचकम् । अन्तरमवकाशाव- धिपरिधानान्तर्द्धिभेदतादर्थ्य,छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरा- त्मनि चेति कोशात् । प्रतिपत्ताविति सप्तमी च तादर्थ्ये । चर्मणि द्वीपिनं हन्तीत्यादिवत् । शरीरनिष्पत्तः कुतो न मुख्यफलत्वमित्यत आहुः । * न हीत्यादि * । तमतं वेदानुवचनेनेत्यत्र विविदिषन्तीति पदस्य ज्ञानपर्यन्तत्वसमर्थनाज्ञानकर्मसमुच्चयपक्षस्य वक्तव्यत्वाच्च तथा । यज्ञानां हि मुख्यफलं भगवत्प्रादुर्भावः सहस्रसमे प्रसिद्धः । ततो ह ज भुवनस्य गोपाः, हिरण्मयः शकुनिर्ब्रह्मनामेति श्रुतेः । पृथुप्रभृतीनां यज्ञे भगवत्प्रादुर्भावस्य पुराणष्वपि कथनाच न शरीर- निष्पत्तर्मुख्यफलत्वमतस्तथेत्यर्थः । ननु तच्छब्दस्य जीवपरत्वे स- म्परिष्वक्तपदस्यानन्वयप्रसङ्ग इति तद्वारणाय सूत्रे, विचार्यत इति पदमध्याहार्यम् । तदन्तरप्रतिपत्ती विचार आरभ्यत इति स च गु- रुभूत इत्यतो व्याख्यानान्तरमाहुः * तस्य मुख्यफलस्य वेत्यादि * तथाच यथा अपः प्रणयति श्रद्धा वा आप इति विधाय, पृथिवी- ध्यानपूर्वकमपःप्रणयनं कार्यमिति वक्तुं, मनसा प्रणयतीयं वै मनो- ऽनयैवैनाः प्रणयतीत्यत्र पूर्वमनुक्तामपि पृथिवीं बुद्धिस्थामेव इयमन- येतिपदाभ्यां श्रुतिः परामृशति । नच श्रद्धवैताभ्यां परामृश्यत इति घाच्यम् । कल्पसूत्रकृता ब्राह्मणान्तरमनुसृत्य पृथिवीं ध्यायन्निति पृ- थिवीध्यानस्य विशेषणत्वेनोक्तत्वात्, सायणभाष्ये तथा व्याख्यानातू ३ अध्याये १ पादः। ८२५ न्तरे या प्रतिपत्तिस्तदर्थ वा तत्कारणभूतैः सम्परिष्वक्त एव रह- ति । मरणानन्तरमेव कर्मसमाप्तेः । सम्यग् भूतानि तदैव संस्कृता- नि प्रतिदिनसंस्कारार्थं च नैकव्यमपेक्षन्ते । अतः सम्यगेव च प- रिष्वक्तः । पूर्व शरीरेण व्यवधानाच्छरीरदाहे वा तद्गतानि भूतमू- क्ष्माणि सम्यम् तमेवासक्तानि । तं विद्याकर्मणी समन्वारभेते पूर्व- प्रज्ञा चेति । जीवपक्षे ज्ञानकर्मणी । कर्मणो हि स्वरूपभूता आ- - अतस्तत्रेवात्राऽपि तच्छब्देन मुख्यं फलमेव प्राथमिति बुद्धिस्थस्य मुख्यफलस्य परामर्शकं तत्पदमतस्तथेत्यर्थः । अन्ये तु तच्छब्देन संशामूर्तिक्लप्तिरिति पूर्वाध्यायान्त्यपादस्थ सूत्रोक्तं देहं परामृश- न्ति । अर्थस्तु तुल्यः । * तत्कारणभूतैरिति * शरीरकारणभूतैर्भूत- सूक्ष्मैः । संस्कृतानां भूतानां कारणतार्थ तत्परिष्वङ्गमुपपादयन्ति । * मरणेत्यादि *। * तदैवेति * । मृताग्निहोत्रकाले । * प्रतिदिन- संस्कारार्थमिति * साम्परायिकाविधी तथात्वार्थम् । तथाच समुप- सर्गोक्तं सम्यक्त्वं भूतविशेषणं सत् परिष्वङ्गविशेषणं भवतीत्यतः सम्परिप्वक्त इत्यर्थः । अस्य क्लिष्टत्वाद् व्याख्यानान्तरमाहुः । * श- रीरदाहेत्यादि * । एवं सम्परिवङ्गं साधयित्वा परिप्वक्तस्य होम्य- स्वाय तस्य भूतासाने हेतुमाहुः । * तमित्यादि * | बृहदारण्यके शारीरब्राह्मणे, अथैनमेते प्राणा अभिसमायन्तीत्यादिना प्राणः स- हितस्य जीवस्योत्क्रमणमुक्त्वा, स एष यक्षः स विज्ञानो भवति तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा चेत्यनेन जीवद्दशासम्बन्धिप्र- माणाप्रमाणेन्द्रियजनितं ज्ञानं कर्मेन्द्रियजनितं द्विविधं कर्म, मरणा- व्यवहितकालीना, यं यं वापि स्मरन् भावमित्याधुक्ता पूर्वबुद्धिश्च तदीयदेहारम्भकारणत्वेन श्राव्यत इति जीवस्य होम्यत्वपक्षे शानक- मणी आसञ्जिके । तथाच भूतपरिधक्त एव होम्य इत्यर्थः । अबाहु- तेगौणत्वं वारयन्ति *कर्मण इत्यादि * | हि यतो हेतो व्यरूपत्वात कर्मणः स्वरूपभूता आपः । तथाचात्राऽपां होम्यद्रव्यत्वेनोक्ततया क- मखरूपे प्रवेशेन केवलं संस्कार्यत्वेनाप्रवेशादत्राबाहुतेर्गौणत्वमि- १०४ ८२६ सप्रकाशे अणुभाष्ये । पः । तत्र हेतुः-प्रश्ननिरूपणाभ्याम् । वेत्थ यथा पञ्चम्यामाहुता- वापः पुरुषवचमो भवन्तीति प्रश्नः । असौ वा व लोको गौतमा- निस्तस्यादिस एव समिदिति निरूपणम् । प्रश्ने हि पुरुषत्वं वद. ति, न देहमात्रम् । तज्जीवाधिष्ठिनानामेव भवति । सिद्धवत्कार- वचनाच्च । निरूपणेऽपि चन्द्रो भवतीति । तत्रापि सोमो राजा चेतनः। न ह्यन्याधिष्ठाने धन्यस्य शरीरं भवेत् । तथान्तरेतोगर्भा- श्च । अन्यथापि विनियोगसम्भवात् । जीवमाहिसेऽप्यपामेव मु- त्यर्थः । अत्र प्रमाणं वदती याहुः । *. नत्र हनुरित्यादि * । अब्भोम- काले तासु जीवाधठान प्रतिपादन * प्रश्न होत्यादि * / * स- म्भवादित्यन्तम् * । तथा च छान्दाग्य प्राणों हि पिता प्राणी मातत्य- त्र प्राणविशिष्ट एत्र मानिादिशब्दप्रवृत्तिव्युत्पादनात् तस्य न्या- यस्य पुरुषपदऽपि तुल्यवान् गुरुपये जीवाधिष्ठितानामेव भवति । पुरुपौ चन्ममानवाधिति कोशेऽपि मानवपदन शरीरविशिष्ट एव पु. रुपपदशक्तिपाहणेनात्र तस्य सिद्धबदुक्त्या च प्रश्न सपरिकरीव- लाभात् । निरूपणं चार या चन्द्रमनः पूर्व सत्तामुक्त्वा आ- हुत्यनन्तरं मोमो राजा सम्भवतीत्यमोमसम्भूतकलावृद्धिकृतराज- स्वकथनतः प्रजारूपचेतनम्माहित्यसूचनेन तेषां चन्द्रसायुज्याङ्गी- कारऽपि यदा द्वितीयाद्याहुत्या वृष्टयादिरूपता तदा अन्याधिष्ठाना- दन्यदीयदेहासम्भवन वर्षस्योषरपातेऽन्नस्य मांसादिभावे रंतसो वृ- थापाते गर्भस्य नावादौ च पुरुषभावाभावेन तैः फलोपहितैः सर्वरपि सपरिकरजीवस्यैव होम्यत्वन लाभाञ्चत उत्क्रमेण मंस्कृतभूतैः सम्प- रिष्वक्त एव रहतीत्यर्थः । एवमत्र श्रीतन्यायदर्शनेन सम्परिष्वङ्ग- स्याप्योचित्यं साधितम् । ननु यद्युत्क्रमणमारभ्य जीवसाहित्यं तदा अपामेव कुतो होम्यत्वमुक्तमित्यत आहुः * जीवेत्यादि * । यथा वा- जसायनां षष्ठऽग्नौ पुरुषस्य होम्यत्वे शरीरस्य मुख्यत्वं तद्वत्र प्रथमहोमेऽपां मुख्यत्वमतस्तासामव होम्यत्वोक्तिरित्यर्थः । ननु त- चापि दुःखहेतुत्वादेव होमस्यापि वैराग्यहेतुत्वमव वक्तव्यमित्यत ३ अध्याये १ पादः। ८२७ ख्यत्वम् । शरीरवत् । अयं होमस्तत्र तथा तं जनयन्तीति न दुःख- हेतुः । तस्मात् प्रश्ननिरूपणान्यथानुपपत्त्या परिष्वक्त एव सं- स्कृतैर्भूत रहतीति सिद्धम् ॥ १ ॥ च्यात्मकत्वात्तु भयस्त्वात् ॥ २ ॥ ननु कथं भूतसंस्कारमात्रत्वमवगम्यते यावता प्रश्ननिरूपणा- आहुः । * अयमित्यादि * । अय देवैः कृतो होम. षष्ठे पर्याये ब्रह्म- लोकगमनयोग्यं भास्वरवर्ण पुरुषं देवा जनयन्तीति, मात्त्विकसुख- वत् परिणामसुखदत्वादनभिमानतयेव तत्र स्थितश्च न दुःखहतुर- तो नास्योपाख्यानस्य वैराग्यमात्रहतुत्वमित्यर्थः । नच जीवस्य चि- दूपत्वात् प्राणानां च देवरूपत्वनाशुद्धय भावान हामाहत्वमिति श- ड्यम् । तैत्तिरीयोपनिपदि विरजाहाम प्राणवृत्तारारभ्यान्मान्तग- त्मपरमात्मपर्यन्तं शोध्यत्वश्रावणात् । नच परमात्मनोऽन्तर्यामि- णः किं शोधनीयमिति शवयम् । प्रेरणस्यैव शोध्यत्वात् । अन्यथा असत्कार्येऽपि प्रेरयत् । इदं च तृतीयम्कन्ध विदुरवाक्ये हदिस्थि- तो यच्छति भक्तिपूत इत्यत्र सुबाधिन्यां व्याख्यातमता न शङ्का- लेशः। नच तर्हि विरजाहोमादेव शुद्धिरस्तु, किं पुनराहुत्यात शङ्ख्यम् । तत्र. विरजा विपाप्मेति पदाभ्यां रजम्तमानिवृत्तिरवाशा- सिता, न तु सत्त्वस्यापीति सत्त्वस्यापि निवृत्त्यर्थ तस्या आवश्यकत्वा- दिति । सिद्धमाहुः । * तस्मादित्यादि * । होमे अपां गाणवम्य प- रिहृतत्वाच्छ्रोतन्यायस्योपदर्शितत्वाद्धामप्रयोजकानां पूर्वजन्मीनानां निष्कामकर्मणामव संस्कृतसूक्ष्मभूनोपस्थापकत्वाद्. अभामम्य द्यु- लोकानावुक्तत्वेन तत्फलस्य सोमराजात्मकत्वेन च स्थूलशरीरार- म्भकस्थूलभूतसंस्कारकतया तत्प्रयोज कलिङ्गशरीरमापक्षत्वात्तद- नागमने प्रश्ननिरूपणानुपपत्या तदागमनस्यैव देवविलम्ब कारण- त्वात् संस्कृतैर्भूतैः सम्परिप्वक्त एव रंहति, न तु हामानन्तरं भूतस- म्बन्ध इति सिमित्यर्थः ॥ २॥ व्यात्मकत्वात्तु भूयस्त्वात् ॥ अत्रैव किश्चिदाशङ्य परिहरती- स्याशयेन तुशब्दं व्याकुर्वन्ति । * नन्वित्यादि * । * यावतेति * ८२८ सप्रकाशे अणुभाष्ये। भ्यामाप एवावगम्यन्ते । नच तावन्मात्रसंस्कारकत्वम् । नियाम- काभावात् । अस्थि चैव तेन मांसं च यजमानः संस्कुरुत इति वि- रोधश्चेति शङ्का निराकरोति तुशब्दः । अपामेव ग्रहणेन तेजोऽबन्नानि गृहीतानि सातव्यानि । कु- तः । श्यात्मकत्वात् । लोकादिनिर्माणानन्तरभावित्वात् । ता आपस्वित्कृता एव । अतस्त्रयोऽपि गृहीता अपां ग्रहणेन । उपल- क्षणत्वेऽप्यपामेव ग्रहणे हेत्वन्तरमाह । भूयस्त्वात् । शुद्धत्वाद् विशेषाभावान्मध्यभावाच्च दीक्षिततुल्यत्वेन भारूपत्वेनाग्रे वक्त- व्यत्वात् । शुद्धायामेवेदं शरीरं बहुहेतुकत्वमेव भूयस्त्वम् । बहुधा यतः। * अवगम्यन्त इति * होम्यतया संस्कार्यत्वेन शायन्ते * ता- वन्मात्रसंस्कारकत्वमिति * देवानां सर्वभूतसंस्कारकत्वम् । मातं कात्स्न्ये । तथाचोपलक्षणतया भूतान्तरावगमाङ्गीकारे नियामका- भावात्, अस्थीत्यादितैत्तिरीयश्रुत्यन्तरे स्थूलभूतरूपास्थ्यादिसंस्कार- स्य पूर्वमेव सिद्धतया तद्विरोधाच्च जलमात्रसंस्कार एवात्राङ्गी- कार्य इत्याशङ्कगमित्यर्थः । सिद्धान्तं व्याकुर्वन्ति । * अपामित्यादि। हेत्वन्तरप्रयोजनमाहुः । * उपलक्षणत्व इति * त्रिषु तुल्य इति शेषः । भूयस्त्वादित्यस्य नियामकभूयस्त्वमर्थ इति तानि व्याकुर्व- न्ति * शुद्धत्वादित्यादि * । आपः स्वभावतो मेध्या इति स्मृत्या- ऽपां स्वभावतः शुद्धत्वात् प्राणाप्यायकतया सर्वपोषकस्य साम्येन विशेषाभावाद रसमयतया तेजोऽन्नयोः सङ्ग्राहकत्वेन तदुभयम- ध्यभावाच्च अग्रे वृहदारण्यकोक्ते षष्ठे पर्याये भास्वरवर्णपुरुषतायां दीक्षिततुल्यत्वेन अब्जनकभारूपत्वेन वक्तव्यत्वादिदं प्रस्तुतं श. रीरं शुद्धापामेव शुद्धापप्रधानमेवेत्येकं नियामकम् । किश्च । पयः- सोमादिरूपबहुहेतुकत्वमपि भूयस्त्वम् । एवकारोऽप्यर्थे । फिश, वृष्टयनरेतःशोणितरूपेण बहुधा परिणामादपि भूयस्त्वम् । तथा द्रव्यभूयोवरेण द्रव्यभूयस्करत्वादपि भूयस्त्वम् । तस्मासंतोर्निया- मकानां भूयस्त्वादपामेव ग्रहणं, न तु भूतान्तरनिवृत्यर्थम् । नव ३ अध्याये १ पादः। ८२९ परिणामाच्च । द्रव्यभूयस्करत्वञ्च । तस्माभियामकानां भूयस्त्वा- दपामेव ग्रहणम् ॥ २॥ प्राणगतेश्च ॥ ३ ॥ वैदिकी युक्तिमुक्त्वा लौकिकीमाह । प्राणस्य गतिः प्राण- गतिः तमुत्क्रामन्तं प्राणोनूत्क्रामतीति प्राणाप्यायनजनकत्वादपा- म् । प्राणो गच्छन् स्वाप्यायकं गृहीत्वैव गच्छति । जलौकावद- न्यत्र देहसम्बन्धः । मुक्तौ न प्राणा गच्छन्ति । क्रममुक्तावपि दे. इसम्बन्ध इति पौराणिकाः । देवभाव इसौपनिषदाः । अतो दूरे श्रुत्यन्तरविरोधः । अस्थिमांसयोः स्थूलदेहनिवृत्तावेव निवृत्तत्वात् । अतोऽग्रिमदेहाथै सर्वसंस्कार एव युक्त इत्यर्थः ॥ २॥ प्राणगतेश्च ॥ सूत्रप्रयोजनमाहुः । * वैदिकीमित्यादि * । यु- क्तिमाहुः । * प्राणो गच्छनित्यादि * । काममपः पिब, आपोमयः प्राणः, पिबतो न विच्छेत्स्यतीत्यत्रापां प्राणाप्यायकत्वं सिद्धम्।लोके च पथिकः स्वाप्यायकं गृहीत्वैव गच्छतीत्येषा लौकिकी युक्तिरित्य- र्थः । एतेन वाङ्मनसी अपि खाप्यायकं गृहीत इत्यपि बोधितम् । तेन संस्कृतं भूतसूक्ष्मोपस्थापिका दृष्टसामग्री दर्शिता । लिङ्गशरीरा- ऽवियोगे कर्मसत्तारूपं कारणमपि सूचितम् । तेन देवकृतहोमे विल- म्बाभावोऽपि साधित इति सर्वाऽपि पूर्वपक्षयुक्तिः परिहतेति बोध्य- म् । ननु प्राणोत्क्रमणं त्वन्यत्रापि वर्तत इति, अत्रैव विशेषविचारः किमिति क्रियत इत्याकाङ्कायां विचार हेतुमाहुः । * जलौकावदि- त्यादि * । अन्यत्र पूर्वप्रज्ञाप्राधान्येन गमनं यत्रोच्यते तस्यां भुती यथा तृणजलायुका तृणस्यान्तं गत्वाऽऽत्मानमुपसंहरतीति दृष्टान्त- स्योक्तत्वात् तदानीमेव देहसम्बन्धः। सद्यो मुक्ती तु, न तस्मात प्राणा उत्कामन्तीतिश्रुतेन प्राणा गच्छन्ति । क्रममुक्तावपि, वैश्वानरं याति विहायसा गतः सुषुम्नया ब्रह्मपथेन शोचिषेत्यादिभिर्देहसम्बन्ध इति पुराणाचार्याः शुकादयः सूचयन्ति । उद्गीथब्राह्मणे तु प्राणानां ८३० सप्रकाशे अणुभाष्ये । प्राणगतिरत्रैव । अतोऽपां संश्लेषो वक्तव्यः । चकाराद् विद्याक- मणी समन्वारभेते पूर्वप्रज्ञा चेति स्वकर्मसहभावं बोधयति श्रुतिः । तस्मादद्भिः परिष्वक्तो गच्छति ॥ ३ ॥ अग्न्यादिगतिश्रुतेरितिचेन्न भाक्तत्वात् ॥ ४ ॥ श्रुतिविरोधं परिहरति । परस्परविरोधे व्यवस्था वा वोथ्य- ते । ननु यत्रास्य पुरुषस्य मृतस्याग्निर्वागप्येति वा तं प्राण इसादिना अग्न्यादिगतिः प्राणानां श्रूयते । नच ओषधीलर्लो- देवभावस्तदुपासनयेत्यौपनिषदा आहुः । अतो दूरे प्राणगतिरत्रैवा- स्मिन्नेव प्रकारे । अतः सद्योमुक्तिं विहाय सर्वत्र देहसम्बन्धोऽस्ती- त्यत्राप्यावश्यक इत्यपां संश्लंपो वक्तव्यः । श्रुतिश्च कर्मसहभावं बो- धयतीत्यतोऽपि तथेत्येतत्प्रयोजनं विशेषविचारस्येत्यर्थः । एतेन, उ- पाधिकल्पितावच्छेदः परमात्मैव जीवः, स च सूक्ष्मदेहपरिष्वक्तो रंहति । तस्य कर्मोपस्थापितप्राप्यदेहविषयाया भावनाया दीर्घाभा- यमा जलौकावदुपमीयत इत्येकदेशिमतम् । स्वर्ग नरके वा यत्र फलभोगस्तत्र ताहशां भूतमात्राणां सुलभत्वमात्मनां व्यापकत्वात् करणानां चाहङ्कगरिकत्वेन तथात्वात् तत्र वृत्तिलाभमात्रं, न तु क- स्यापि गमनमिति सांख्यमतम् । मनसो नित्यत्वात् तदेव भोगस्थान- पर्यन्तं गच्छतीन्द्रियाणि त्वभिनवानि जायन्ते । तदाऽऽत्मनस्तत्र वृत्तिलाभाद्भोग इति काणभुजमतम् । एवमन्येषां बाह्यानां च यानि मतानि जीव एषोत्प्लुत्य देहादेहान्तरं गच्छतीति देह एवात्मा च नश्यतीति न कस्यापि गमनमित्यादीनि तानि सर्वाण्यवापा- स्तानि ॥३॥ अग्न्यादिगतिश्रुतरितिचेन्न भाक्तत्वात् ॥ सूत्रप्रयोजनमाहुः । * श्रुतीत्यादि * । पक्षद्वयमपि सिद्धान्तविवरणे व्युत्पाद्यम् । पूर्वप- क्षांशं व्याकुर्वन्ति । * नन्वित्यादि * । विषयश्रुतिस्तु बृहदारण्यक आतभागब्राह्मणस्था । एकदेशिभिः प्रतिपादितमस्याः श्रुतेर्भाक्तत्वं निषेधन्ति । * नचेत्यादि * । लोमकेशयोरनप्ययवतोरप्ययकथनेन ३ अध्याये १ पादः। ८३१ मानि वनस्पतीन् केशा इसत्र प्रसाविरोधाद् बाधितविषयेयं श्रु- तिरिति वाच्यम् । आध्यात्मिकेन्द्रियमध्यपाताल्लोमकेशा अप्या- ध्यात्मिका एव ग्राह्याः । यैः कण्डूलावण्यप्रनीतिः । दृश्यमानानि तु गोलकस्थानानि । तस्मात् प्राणोत्क्रमणश्रुतिरग्न्यादिभावभुसा बाध्यत इतिचेन्न । भाक्तत्वात् । प्रकरणव्यतिरेकेणामुक्तविषये प्रत्ता भाक्ता भवति । अथ हैनं जारत्कारख आर्तभागः पप्रच्छे- सत्र ग्रानिरूपणानन्तरं मृत्यु पृष्ट्वा म्रियमाणप्रश्ने नामैव न जहा- सन्यज्जहातीति प्रतिज्ञाते, प्राणोत्क्रमणप्रश्ने, नेति प्रतिवचने वा- घाधितविषयत्वात् मा श्रनिर्मरणसमय इन्द्रियाधिष्ठातृक्रियमाणोप- काराभावात् कार्यमकुर्वदिन्द्रियजातम् अपीतमिव भवतीति गौण्या बोधयन्ती भाक्तंत्याहुस्तन्नेत्यर्थः । निषेध हेतुमाहुः ।* आध्यात्मिके- त्यादि * । तथाच प्रायपाठवलाल्लोमादीनामाध्यात्मिकत्वे निश्चिते दृश्यमानानां लोमादीनां गोलकान्तरवत् स्थितावपि श्रुतेर्वाधितविषय- त्वाभारान्न तया रीत्या भाक्तत्वमित्यर्थः । हेतुं विवृण्वन्तो विवक्षि- तं भाक्तत्वं स्फुटीकुर्वन्ति * प्रकरणेत्यादि * । उक्तश्रुती मरणाव- स्थासिद्धवदनूद्यते । मा च मुक्तामुक्तयोस्तुल्या । तत्र मुक्तस्येन्द्रि- याणाम्, अत्रैव समनीयन्त इति श्रुतेर्ब्रह्मणि लयो वा, स वाचमेव प्रथमामत्यवहदिति श्रुत्युक्तरीत्या देवभावो वा भवतीति देवभावप- क्षमादाय प्रवृत्तयं श्रुतिः प्रकरणव्यतिरेकेणामुक्तविषये त्वयोच्यत इति तत्र प्रवृत्ता अप्ययमिव बोधयन्ती भाक्ता भवतीत्यवं भाक्तत्व- मित्यर्थः । एवमविरोधपक्षो विकृतः । द्वितीयं विवरीतुं विषयश्रुतेः सर्वमर्थमाहुः । * अथेत्यादि * । * मृत्युं पृष्ट्वति * । कास्वित् सा देवता यस्यां मृत्युरनमित्यनेन मृत्युविषयकं प्रश्नं कृत्वा * प्राणोत्क्रम- णप्रश्ने, नेति प्रतिवचन इति * | उदस्मात् प्राणा: क्रमन्त्याहो नेति प्रश्नं, तत्र च, नेति प्रतिवचने । ततो यत्रास्य पुरुषस्य मृतस्येत्यादिना धागादीनामन्यादिभावानुवादस्ततः क्कायं तदा पुरुषो भवतीति प्रश्ने, आहर सौम्य हस्तमित्यादिना मन्त्रणाजीवस्य ब्रह्मभावोऽवगम्यते ।

८३२ सप्रकाशे अणुभाष्ये। गादीनामग्न्यादिभावानुवादः। ततो मन्त्रणाजीवस्य ब्रह्ममा- बोधगम्यते । सामग्य गतत्वात् । तौ ह यदृचतुरिति कर्मप्रशंसा भिनप्रश्नोत्तरा । उभयोर्वचनविधानात् । ब्रह्मविद्या च गोप्या। उत्क्रमणश्रुतिस्तु, स यत्राय: शारीर आत्मेति ब्राह्मणे जीवस्य परलोकविहारार्थ निष्क्रामति चक्षुषो वा मूों वेसादिना प्रा- णानां विहारसाधकानां निर्गमनमाह । अतो मुक्तामुक्तविषयभेद- स्य व्यवस्थापकस्य विद्यमानत्वादग्न्यादिभावश्रुति!त्क्रमणश्रु- तिबाधिका। तस्मादन्यत्र सिद्धो धर्मोऽन्यत्रावस्थासाम्याद् योज्यमानो भाक्तो भवति । अतः प्राणोत्क्रमणमस्ति । तस्मात् सम्परिष्वक्तो गच्छतीति सिद्धम् ॥ ४ ॥ प्रथमेऽश्रवणादितिचेन्न ता एव ह्युपपत्तेः ॥ ५ ॥ सांसारिकभोगसामग्या गतत्वात् । नच मन्त्रणव्याख्यानश्रुतौ क- मप्रशंसाया उक्तत्वान्मन्त्रणस्य न जीवब्रह्मभावबोधकत्वमिति श- यम् । तो होन्क्रम्य मन्त्रयाञ्चक्रतुरित्यनेनैव समापनात् । ततस्ती यदूचतुरित्यादिनोक्ता या कर्मप्रशंसा सा एतद्भिन्नप्रश्नोत्तरविषया । तो यदूचतुरित्युभयोर्वचनविधानात् । यदि हि मन्त्रणार्थ एव वि- घरणीयः स्यात् तदा तौ यन्मन्त्रयाञ्चक्रतुरित्येवमनुवदेन तु यदू- चतुरिति । नचैवं सति सा कुतो न विवृतेति शङ्यम् । ब्रह्मविद्या घाति गोप्येति । अत इदमप्यन्यन्मुक्तिप्रकरणलिङ्गम् । अन्यथा ए- कान्तगमनमनर्थकं स्यात् । कर्मणो गोप्यत्वाभावात् । ब्रह्मरूपाया एव देवताया अनतिप्रश्न्यत्वस्याग्रे गार्गी प्रति वक्तव्यत्वादिति । त- स्मादिदं मुक्तिप्रकरणमिति सिद्धम् । उत्क्रमणश्रुतिस्त्वमुक्तविषया। अतो विषयभेदान्न बाध्यबाधकभाव इत्यर्थः । एवं द्वितीयं प्रयोजन विवृतम् । तेन तन्मते भाक्तन्वं साधयन्तः सिद्धमाहुः । * तस्मादि- स्वादि * ॥४॥ प्रथमेश्रवणादितिचेन ता एव युपपत्तेः ॥ सूत्रप्रयोजनमाहुः।

३ अध्याये १ पादः। ८३३ किञ्चिदाशय परिहरति । असौ वा व लोको गौतमाग्नि- रिसत्र, देवाः श्रद्धां जुह्वतीति श्रुतेरापो न संकीर्तिताः । अपां हि पञ्चम्यामाहुतौ पुरुषवचनम् । श्रद्धा मनोधर्मः, स कथं हूयत इतिचेन्न । मनसा सह भविष्यति । तथाप्यरुणान्यायेन धर्ममुख्य- * किञ्चिदित्यादि * । आशङ्कगभागं व्याकुर्वन्ति । * असावित्यादि * । अत्र अपां हीत्यादिना तासामुपसंहारवाक्यगतत्वादुपसंहारस्य च सजातविरोधत्वेन उपक्रमापेक्षया नैर्बल्यान्न निर्णायकत्वमिति बोधयति । श्रद्धा मनोधर्म इत्यादिना श्रद्धाहोमवाक्यस्यायोग्यत्वा- दन्यथानुपपत्त्या अकल्पनमाशय, मनसा सह भविष्यतीत्यनेन परिहरति । मनसा प्रणयतीयं वै मन इत्यत्र पुरःस्फूर्तिकतया पूर्वो- क्तायाः श्रद्धाया इदमा ग्रहीतुं शक्यत्वेन तस्याश्च मनोधर्मत्वेन मन:- साहित्यस्य युक्तत्वादिति । नन्वेवं सति मनसो होम्यतया मुख्य- स्वाच्छ्रद्धाया गौणत्वापत्तिरिति शङ्कां निरस्यति * तथापीत्यादि * भयं न्यायः पूर्वतन्त्रे, तृतीयस्य प्रथमपादेऽस्ति । तत्न हवं विचा- रितम् । अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणातीति ज्योतिष्टोम- प्रकरणीयवाक्ये अरुणो गुणः क्रयसाधनं भवति, नवेति । तत्रारुण- पदस्यान्वयव्यतिरेकाभ्यांगुणे व्युत्पन्नत्वादूगुणस्य चामूर्ततया द्रव्य- त्वराहित्येन च क्रयसाधनत्वायोगात् तत्रत्यतृतीयाश्रुतेर्विनियोजक- स्वाभावेऽरुणशब्दो वाक्यात् पृथक्कृत्य प्रकरणे योजनीयः। तत्र च ग्रहचमसादयो बहवोऽर्था इत्यरुणिमा तेषु निविशते । तथा सत्यरु- णयेत्यस्य अरुणगुणयुक्तं करणमित्यर्थों भवति । तत् कस्येत्याका- सायां प्रकरणाज्ज्योतिष्टोमस्येति लभ्यते । तथाच ज्योतिष्टोमसाधन प्रहचमसादिकमरुणगुणयुक्तं कर्तव्यमिति तदर्थः । शेषं तु बहुवी- हिणा गोविशेषणं सत् सुखेन क्रयेऽन्वेष्यतीति पूर्वः पक्षः । सिद्धा- न्तस्तु । अरुणाशब्दः स्त्रीलिङ्गतया गुणिवचनः । तथा सत्यरुण- गुणः स्वयोगेन द्रव्यं व्यवच्छिन्दन द्रव्यद्वारा सुखेन क्रये करण- भाव प्राप्स्यतीति तृतीयाश्रुतेस्तहिनियोजकत्वमपि निर्वाधम् । नय प्राधान्यहानिः । इतरन्यावर्तकत्वेन तस्यैव साधनतायां मुख्यत्वात् । ।

८३४ सप्रकाशे अणुभाष्ये। त्वम् । वहि कथं प्रश्नोपसंहारौ । परोक्षवादाद् भविष्यति । चम- सवत् । श्रद्धा वा आप इति श्रुतेः । शुद्धिहेतुत्वसाम्यात् । चन्द्रमा मनमो जात इति श्रुतिश्चेखेवं परा भविष्यति । तस्मात प्रथमाहुतावपामधेवणान्न ताभिः सम्परिष्वक्तो गच्छतीतिचेन्न । सा एव आप एव श्रद्धाशब्देनोच्यन्ते । हि युक्तोऽयमर्थः । यथा एवं सति वाक्यभेदोऽपि न भविष्यति । नच यथा पिताश्यादिपदे समासवृत्त्या ताहशधर्मविशिष्टगोद्रव्यबोधफत्वं तथाऽरुणापदे द्र- व्यबोधककृदादिप्रत्ययात्मकवृत्त्यन्तरस्याभावात् स्त्रीत्वमात्रबोधकस्य रापश्च विवक्षितगांद्रव्यपरतानन्तरभावित्वात् पूर्व तत्परत्वाङ्गीकारे लक्षणापत्तिरिति वाच्यम् । तृतीयया बोधिते गुणस्य करणत्वे तद- भ्यथानुपपत्त्यां द्रव्यस्य द्वारत्वं कल्प्यते । अतो घटे निश्छिद्रत्ववद- बलादेव तस्य द्रव्यावच्छेदकत्वसिद्धेर्लक्षणाया अत्राभावात् । त- स्माद् द्रव्यावच्छेदकत्वेनारुणिम्नोऽपि करणत्वमिति । तथाच यथा तारुणधर्मस्य मुख्यत्वं, न गांस्तथाऽत्र होमे मनसो होम्यत्वेपि श्र- खाया एव मुख्यत्वं, न मनस इत्यर्थः । पुनरप्याशडन्ते * तह त्या- दि * । यदि श्रद्धापदेनापो न गृह्यन्ते तदा प्रश्न, उपसंहारे च या अबुक्तिः सा विरुद्धयेतेति तो फेन प्रकारेण सङ्गच्छेतामित्यर्थः । स- माधसे * परोक्षेत्यादि * । तथाच यथा अर्वाग्बिलश्च ऊर्ध्वबुध्न इत्यत्र शिरःप्रभृति चमसादिशब्दैः परोक्षवादेन गोण्या वृत्त्योच्यते, तथा श्रद्धा वा आप इति श्रुतेः शुद्धिहेतुत्वसाम्यादाप इति पदेन श्रद्धवोच्यत इत्यर्थः । नन्वेवमप्पदस्य श्रद्धापरत्वे,श्रद्धांजुह्वति तस्या आहुतेः सोमो राजा सम्भवतीति श्रद्धापरिणामत्वेन सोमस्य क- थनं विरुध्यतेत्याशय तत्परिहरति । - चन्द्रमा इत्यादि * / * एवं परोत * अनुकूला तथाच श्रद्धायां मनःसहभावात् तद्धोमेन चन्द्र- रूपस्य सोमस्य तत्परिणामतायां श्रुत्यन्तरानुकल्यान कश्चिद्दोष इत्यर्थः । सिद्धमाह । * तस्मादित्यादि * । सिद्धान्तभागं व्याचक्ष- ते * भाप एवेत्यादि * । युक्तत्वं स्फुटीकुर्वन्ति । * यथेस्यादि *। * अध्याये १ पादः। ८३५ कर्मकाण्डे आपः श्रद्धाशब्देनोच्यन्ते तथा प्रकृतेऽपि । परं नोप- चारः । उपपत्तेः । उपक्रमोपसंहारयोर्बलीयस्त्वाद । ननु मध्ये श्रुतेन श्रद्धाशब्देनोपक्रमोपसंहारावन्यथाकर्तुं युक्तौ । श्रद्धासह- भावः संस्कारेण संस्कृतेषु भूतेषु सिद्धः । तेन मनःस्थाने आप एव वाच्याः । चन्द्रमा मनसो जात. इति तु भिन्ना सृष्टिः । श्रद्धा- परं नोपचार इति। * वैदिके निघण्टी अदिति सत्यनाम । श्रत् सत्य दधातीति श्रद्धाशब्दस्य योगेनाऽप्सु प्रवृत्तिसौकर्यान्नोपचारः । त- याच, एतद्वा अपां नामधेयं गुह्यं यदाधावा इतिवत्, श्रद्धा वा आप इति श्रुतेरिदमपि योगरूढं, योगेन वा तद्वाचकमत. उपचारा- ऽभावाधुक्तत्वमित्यर्थः । एतेन यदन्यैस्तनुत्वेन श्रद्धासारूप्यात् सिंहो देवदत्त इतिवच्छ्रद्धापूर्वककर्मसमवायान्मश्चाः क्रोशन्तीत्यादी पुरु- षेषु मञ्चशब्दवद्, आपो ह्यस्मै श्रद्धा संनमन्ते पुण्याय कर्मण इत्यै- तरेयश्रुत्या श्रद्धाजनकत्वात् । यथा अन्नेष्टौ हुतस्य पुरुषस्य श्रद्धा- भक्तिमतो लिङ्गदेहादिरूपो रस एव श्रद्धापदेनोच्यते तथाप्सु श्र- खाशब्दो गौण्या लक्षणया चोपपादितस्तन्निरस्तम् । अत्र विनिगम- कं बोधयितुं हेतुं व्याकुर्वन्ति । * उपक्रमेत्यादि * । मन्धेव श्रद्धा- शब्दस्याब्वाचकरके श्रद्धासहभावः परित्यक्तः स्यात् तथा सत्यंत- रेयश्रुतिविरोध इत्यत आहुः । * श्रद्धासहेत्यादि * । तथाच पूर्व- जन्मनि यजमाना इदानी देवाश्च होतारो न श्रद्धाविरहिताः । यो वै श्रद्धामनारभ्य यज्ञेन यजते नास्यष्टाय श्रद्दधत इत्यादितैत्तिरीय- भ्रुतौ, अश्रद्धया हुतं दत्तमिति गीतास्मृती चाश्रद्धानिन्दया, श्रद्धा- या आवश्यकत्वबोधनात् । अस्कनहविर्भवति य एवं वेदेति श्रद्धा. पूर्वकत्वज्ञानफलबोधनाच्च नित्याग्निहोत्रादी होमरूपसंस्कारद्वारण संस्कृतेषु भूतेषु श्रद्धासहभावः प्रागेक सिद्धोऽता नैतरयविरोध इ. त्यर्थः । एवं श्रद्धापदस्याब्वाचकत्वं श्रद्धासाहित्वं च साधयित्वा- पूर्वपक्षिणं प्रत्याहुः । * तेनेत्यादि * । तेनेति * । उक्तोपपत्तित्रये- ण । चन्द्रमा इति श्रुतेरपि तन्मते प्रातिकूल्यं दर्शयन्ति । * चन्द्र- मा इत्यादि * । श्रद्धापदप्रयोगे हेतुं गृहन्ति । * श्रद्धेत्यादि ।

सप्रकाशे अणुभाष्ये । प्रयोगस्तु कामनाकृतव्यात्त्यर्थः । तत्र फल एव श्रद्धा, न क- मणि । यो यच्छ्रद्धः स एव स इति श्रद्धाया आश्रयस्य विषय- भावजनकत्वात् कर्तुः कर्मभावाय श्रद्धापयोगः । ततः संस्कृता आपो यजमानरूपा हूयमाना भवन्तीति सिद्धं भवति । तस्मात् प्रथमेऽप्यपामस्ति श्रवणम् ॥ ५॥ अश्रुतत्वादितिचेन्नेष्टादिकारिणां प्रतीतेः ॥ ६ ॥ स्थितमेतज्जीवः सम्परिष्वक्तो रहतीति । तत्र विचार्यते । सर्वे जीवाः सम्परिष्वक्ता गच्छन्याहोखिज्ज्ञानोपयोगिन इति वि- मर्शः। तत्र पश्चाइतिव्राह्मणेनाधिकारिणः श्रुताः। वेदे हिश्रुतानु- सारिणी कल्पना । अतो विशेषस्याश्रुतत्वात् सर्वेषामेव पञ्चाहुति- प्रकार इतिचेन । इष्टादिकारिणां प्रतीतेः । साधारणपक्षं दूषय- ति । कुतः ? । इष्टादिकारिणां प्रतीतेः । इष्टादिकारिणः प्रतीय- .. विभजन्ति । * तत्रेत्यादि । * तत्रेति * । सकामे यष्टरि फल एव श्रद्धा आदर उपादेयबुद्धिविशेष इति यावत्, न कर्मणि । तथाच श्रद्धाया अयं स्वभावो यत् स्वाश्रयं स्वविषयं करोतीति गीतावा. क्यादवधार्यते । अतो निष्कामस्य कर्मण्येव श्रद्धेति ताशकर्तुः कर्मात्मकत्वं बोधयितुं श्रद्धाप्रयोग इत्यर्थः । एवमुपपादनेन सिद्ध- माहुः । * तत इत्यादि * । सुत्रात् सिद्धमाहुः । * तस्मादि- त्यादि * ॥ ५॥ अश्रुतत्वादितिचेन्नेष्टादिकारिणां प्रतीतेः ॥ अस्या आहुतेः फलं विचारयितुं किश्चिदाशय परिहरतीत्याहुः । * स्थितमित्या. दि * 1 * स्थितमिति * निर्धारितम् । ननु निर्णीते संशयस्योच्छि- नत्वात् को विचारांश इत्यत आहुः । * सर्व इत्यादि * । संशय- बीजं तु विशेषाश्रवणम् । उपकारार्थ देवानां प्रवृत्तिश्च । पूर्वपक्षांशं व्याकुर्वन्ति । * तत्रत्यादि * । * नाधिकारिणः श्रुता इति * । न श्रुता इत्यन्वयः । सिद्धान्तांशं व्याकुर्वन्ति !* इष्टादिकारिण इत्या- ३ अध्याय १ पादः। ८३५ न्ते । श्रद्धापदेन देवकर्तृत्वेन च। सोमभावसाम्याच्च । इष्टादि- कारिणां धूममार्गव्युत्पादने सोमभाव उक्तः । अत्रापि प्रथमाहुति- फलं सोमभाव उच्यते । अतः श्रुतिसाम्यादपि इष्टादिकारिणो रहन्तीति सिद्धम् ॥ ६॥ भाक्तं वाऽनात्मविश्वात् तथाहि दर्शयति ॥ ७॥ किञ्चिद् दृषणं परिहरति । ननु यदि श्रुतिसाम्येन सोमभा- वादिष्टादिकारिणो रहन्तीत्युच्यते तदा सोमभावे तेषामप्यनिष्ट श्रूयते । तद्देवानामन्नं तं देवा भक्षयन्तीति समानश्रुतौ चाप्याय- स्वापक्षीयस्वेसेवमेतास्तत्र भक्षयन्तीति चन्द्रदृष्टान्तेन ते च भक्ष्य- न्ते । ततश्च देवाः स्वानं पर्जन्येनौ कथं जुडुवुः । अतः पश्चाहु- सभाव इसाशय परिहरति वाशब्दः । तेषां सोमभावो गौणः । दि * । * श्रद्धापदेन देवकर्तृत्वेन चेति * । यो वै श्रद्धामनारभ्य यशेन यजते नास्यष्टाय श्रद्दधत इत्यश्रद्धालुनिन्दया उभयेऽस्य देव- मनुष्या इष्टाय श्रद्दधते इति, श्रद्धालुस्तुत्या च श्रद्धावत एव यज्ञः फलमुख इति पूर्वकाण्डे लभ्यते । अत्र च श्रद्धापदेनोक्तरीत्या निकामकारो लभ्यन्ते । देवानां च प्रत्युपकारस्तेषामेवावश्यक इति होमं प्रति देवानां कर्तृत्वेन च त एव प्रतीयन्ते । सोमभावसा. म्याञ्चेति तृतीयं हेतुं गृहीत्वा विभजन्ते । * इष्टादिकारिणामित्या- दि * धूममार्गे आकाशाश्चन्द्रमसमेष सोमो राजेति, तस्या आहुतेः सोमो राजा सम्भवतीति चोच्यते । अतः श्रुतिसाम्यात् पूर्वोक्ते- धादिकारिण एव रहन्ति, न सर्व इति सिद्धमित्यर्थः॥ ६॥ भाक्तं वानात्मवित्त्वात् तथाहि दर्शयति ॥ सूत्रमवतारय- न्ति । * किञ्चिदित्यादि * । किं तदित्याकाङ्क्षायामाशङ्कामुखेन व्युत्पादयन्ति । * नन्वित्यादि । * तदिति * । सोमात्मकं द्रव्यम् । परिहारं व्याकुर्वन्ति । * तेषामित्यादि * | गौणत्वे हेतुमाहुः । * ८३८ सपकाशे अणुभाष्ये। भक्षणं च । प्रकृतेऽप्यकारत्वाच्चन्द्रमसः कथमाहुतिफलं भवेत् । सोमभावस्य भाक्तत्वमग्रे निरूपयिष्यामः । इदानीं भक्षणस्य गौ- णत्वं निरूपयति । अमभावे हि मुख्यं भक्षणं भवति । तदन्य- स्यानभावो नोपपद्यते । ब्रह्मज्ञाने तु भवति । स सर्व भवति । तद्वैतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्चेति । प्रकृते तु तन । अनात्मवित्त्वात् । तथा सति मोक्ष एव भवेत् । अतो भक्षणमपि गौणम् । तथाहि श्रुतिरेव गौणभावं शब्दस्य बो- धयति । अथ योऽन्यां देवतामुपास्त इसत्र यथा पशुशब्द एवम- त्रापि भक्षणं सहक्रीडनं सेवकभावः । चन्द्रतुल्यापदेशाय तथा प्रकृतेऽपीत्यादि * । तथाच चन्द्रमसः स गौणश्चेदेतेषां सुतरां गौ- ण इत्यर्थः । ननु सोमभावस्य गौणत्वं भान विवक्षितम् । सूत्रे भा- तपदस्य नपुंसकत्वादेकवचनत्वाञ्चेत्यत आहुः । * सोमभावस्ये- स्यादि * । अग्र इति । तथाच न सूत्रविरोध इत्यर्थः । गौणत्वमु- पपादयन्ति । * अन्नभाव इत्यादि * । अन्यस्येति * । शानिव्यति- रिक्तस्य । अनभावानुपपत्ति विभजन्ते । * ब्रह्मशाने त्वित्यादि * | तुरुपपत्तिशमनिरासे द्वितीयस्तुहेती । तथाच शानेन ब्रह्मभावे स- रुपता श्राव्यत इत्यनभावो शानिनोमुख्यः स्यात् । अज्ञानिनि तु त- रोपपद्यते । तत्र हेतुः । * अनात्मवित्त्वादिति * । यदि हि तेषामन्न- भावो मुख्यः स्याद् वामदेवादिवदात्मवित्त्वे सति मोक्ष एव स्यात् । सर्वभावस्य तल्लिङ्गत्वात् । अतोऽनभावस्यामुख्यत्वेऽनभावस्यांपि देहात्मभाववद्रौणत्वात् तद्भक्षणमपि गौणम् । अन्नस्यैव भक्ष्यत्वेन तेषां भक्ष्यत्वाभावादिति । उपष्टम्भकं व्याकुर्वन्ति । * तथाहीत्या- दि * । श्रुतिरिति * । यावत्सम्पातमुषित्वेत्यादिश्रुतिः । * पशुश- ब्द इति * । पशुतुल्यत्वबोधको गौण इति शेषः । * एवमत्रापी- त्यादि * । यथा स्त्रियं भुक्त इत्यत्राभ्यवहारो भोग एव, न तु च- वणादिकं तथाऽत्रापि भक्षणं क्रीडनादिकमित्यर्थः । नन्वेषमुपचार- स्य किं प्रयोजनम् । न हि प्रयोजनं विना उपचारोऽपि युक्त इत्याश- ३ अध्याये १ पादः। बचनम् । तथा सति तेषाममरत्वेन तथा स्तुतिः । चन्द्रस्य भक्षणन्तु क्षयादनुमीयते श्रुखा, प्रथमां पिबते वह्निरिसादिरूपया। देवाना- मभक्षणं भगवदवयवानामेव । अशनानशने तस्याविरुद्धे । आ. धिभौतिकानां देवानामशनमेव । तस्माद भक्षणस्य गौणत्वात् सोमभावे न काचिच्चिन्ता ॥ ७ ॥ क्षीयते पर्वते च, तथैतेपि पुनः पुनरावर्तमाना अमरतां चाप्नुव- म्तीत्येतदर्थ तवचनमित्यर्थः । नन्वाप्यायवेत्युक्तश्रुत्या चन्द्रस्यापि भक्षणं चेत् कथमेतेषां गौणमित्यत आहुः । * चन्द्रस्येत्यादि * । भुतिस्तु सोमोत्पत्तिनामकपरिशिष्टस्था । तथाच चन्द्रस्य भक्षणं तु श्रुत्यानुमानभ्यां सिद्धत्वान गौणमिति निश्चीयते । एतेषां तु न छ- न्द्रमस्येव परो येन पुनरेधेरन् । ततश्च तमाशे, यः श्रुत्यन्तरे भो- गसद्भावः प्रतिपाद्यते स सोमलोके विभूतिमनुभूय पुनरावर्तत :- ति । आनन्दमीमांसायां च, ते ये शतं पितॄणां चिरलोकलोकानामा- नन्दाः स एकः कर्मदेवानामानन्दः, ये कर्मणा देवानपियन्तीति वि- रुधेत । एतेनैव भिषक्तमप्यपास्तम् । अतस्तेषां तद्रोणमेवेत्यर्थः । ननु न वै देवा अश्नन्ति न पिबन्तीति श्रुत्यन्तरे देवानामशनं नि- धारितमतः पानश्रुतिरपि गौणीत्येवादरणीया तथा सत्येषां भक्षण- मपि गौणं सेत्स्यतीति वृथाऽयं प्रयास इत्याशङ्कायामाहुः । * देवा- नामित्यादि * । देवताविग्रहाधिकरणे देवतायाः शरीरसिद्धौ य- शादिहविर्भोक्तृत्वे सिद्धेऽशनं सिद्धमवेत्यनशनधुतिर्भगवदवयव- परैव भवितुं युक्ता । यथा, न ह वै देवान् पापं गच्छतीति श्रुतिः । अन्यथा, तस्याञ्जलिना ब्रह्महत्यामुपागृह्णादित्यादेविरोधापत्तेः । अ- तो देवभेदेन व्यवस्थैव श्रुत्योर्युक्ता । नव ऋतं पिबन्ती, अनभन्न- म्य इतिवद् देवषु श्रुतिद्वयाविरोधः सम्भवति । जीवत्वात् । तस्य ब्रह्मणस्तु विरुधर्माश्रयत्वादशनानशने अविरुखे । अत आधि- भौतिकानां कर्मसचिवानामशनमेवोचितमिति गौण्यभावान प्रया- सो व्यर्थ इत्यर्थः । सिखमाहुः । * तस्मादित्यादि * । यस्माच्च- म्हस्यैव मुख्यं भक्षणं नैतेषामत एषां सोमभावे वाधकाभावान ८४० सप्रकाशे अणुभाष्ये । कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ॥८॥ प्रथमाहुतिः सफला विचारिता । द्वितीयां विचारयितुमधि- करणारम्भः । सोमस्य पर्जन्यहोमे दृष्टित्वमिति । सोमाद् दृष्टि- भावे रूपरसादीनां हीनतया प्रतीयमानत्वाद् यागस्यावान्तरफलं तत्र भुक्त इति निश्चितम् । तत्र संशयः । किं सर्वमेवावान्तरफ- लं तत्र भुङ्क्ते, ? आहोस्विदनुशयवान दृष्टिर्भवतीति ?। सद्वासनयाग्रिमजन्मनि सदाचारयुक्त एव स्यादिति । आचा- रहीनं न पुनन्ति वेदा इति बाघोपलब्धेः । अतो विचार उचि- तः। तत्रावान्तरफलस्यावशेषे अवान्तरफलत्वबाधाज्ञानौपायक- कोऽपि दोष इत्यर्थः ॥ अनेनापि सूत्रणैतस्य विचारस्य केवलवैराग्यार्थता वारिता । अन्यथा व्याघ्रादिकृतभक्षणस्येवास्यापि सुतरांवैराग्यजनकतया तद्- गोणीत्वप्रतिपादनव्यर्थत्वप्रसङ्गादिति । तस्मादस्योभयार्थतैवेति निश्चयः ॥७॥१॥ कृतात्ययेऽनुशयवान् इष्टस्मृतिभ्यां यथेतमने च ॥ अधिकर- णप्रयोजनमाहुः *-प्रथमेत्यादि * । ननु द्वितीयस्यां किं विचारणी. य, येनायं संरम्भ इत्यत आहुः * सोमस्यत्यादि * l* सोमादिति * सोमभावानन्तरम् । * निश्चितमिति * सोमं राजानं जुह्वति तस्या आहुतेर्वर्ष सम्भवतीति सोमाद्धीनभावबोधिकया आहुतिफलश्रुत्यै- व निश्चितम् । * तत्र संशय इति * । तत्र भोगे संशयः * अनुश- यवानिति * अनुपश्चाच्छेते कर्मफलभोगानन्तरं तिष्ठति यः शेषः सोऽनुशयस्तद्वान् । नन्वेतद्विचारस्य किं प्रयोजनं, यथाकथञ्चिदस्त्वि- स्थत आहुः * सद्वासनयेत्यादि * । तथाच सर्वस्य स्वभावाधीनत- योभयविधं कर्म सम्भवति तत्र निरनुशयत्वे, पूर्वकृतदुष्कर्मभोग- स्यानुक्तत्वात् तदनुवृत्त्या कपूययोनित्वमापद्यतेति तद्विचार उचित इत्यर्थः । एवं विचारावश्यकत्वं समर्थयित्वा पूर्वपक्षमाहुः । * तत्रे- स्यादि * । अयमर्थः । आहुतिभिर्युलोके नीतानां धुलोकाग्नौ देवकृत- ३ अध्याये १ पादः। ८४१ - शरीरभावादेव सदाचारसिद्धः प्रयोजनाभावाच्च निरनुशय एव वृष्टिभावं प्रामोतीसेवं प्राप्ते, उच्यते- कृतासयेऽनुशयवान्॥कृतस्य सोमभावस्यासये नाशे सति अनुशय- वान् अवान्तरफलसाधकलेशसहित एव दृष्टिभावं प्राप्नोति । कुतः । दृष्टस्मृतिभ्याम् । दृष्टं तावद भोगसाधकमूलद्रव्यनाशेऽपि भोगसा- होमोत्तर सोमभावस्ततः पर्जन्याग्नी हुतानां तेषां वृष्टिभावः । स हि न तत्कालमेव, किन्तु कृतकर्मभोगान्ते इति चन्द्रमण्डलमारूढानां धूममार्गिणामवस्थाबोधिकया आकाशाच्चन्द्रमसमेष सोमो राजा त- हेवानामन्नं तं देवा भक्षयन्ति तस्मिन् यावत्सम्पातमुपित्वाथैतमे- घाऽध्वानं पुनर्निवर्तन्ते यथेतमाकाशाद्वायुमित्यादिकया श्रुत्यावसी- यते । सम्यक् पतत्युत्पतत्यस्मालोकात् स्वर्गलोकमिति व्युत्पत्त्या सम्पातपदेन कर्मबोधनात् । एवं सति सकामानां धूममार्गिणां सु. कृतभोगोत्तरं यथा आवृत्तिस्तथतेषां भोगोत्तरमेव वृष्टिभाव इति न्यायसाम्यात् सिध्यति । स च भोगः सकामानां मुख्यं फलं निष्का- मानामवतारफलम् । उभयथापि फलत्वस्याप्रच्यवातू सर्वस्य भोगः प्राप्नोति, न त्ववान्तरफलत्वे सशेषत्वम् । यदि तस्मिन् शेषोऽङ्गीक्रि- यते तदा तत्र अभुक्तेऽवान्तरफलस्यावशेषे यावत्सम्पातश्रुत्यनुरो- धेनाऽवान्तरफलत्वबाधः । नचानुशयाभावे सद्वासनाशून्यतायाम- ग्रिमजन्मनि सदाचाराभावप्रसङ्गादवशेषस्यावश्यकत्वं शङ्यम् । उक्तरूपेण देवकृतोद्यमेन ज्ञानौपयिकशरीरभावादेव घटे छिद्ररा. हित्यवत् सदाचारसिद्धर्न तस्य किश्चित्प्रयोजनम् । अत उक्तहेतुद्व- यानिरनुशय एव वृष्टिभावं प्राप्नोतीति । सिद्धान्तं व्याकुर्वन्ति * कृतेत्यादि * । कृतपदेनात्र सोमभाव एवोच्यते । प्रकृतप्रश्नपति- वचने प्रथमं तस्यैव देवकृतत्वेनोक्तत्वात् । न तु कर्म। तस्य मुख्य- फलावधिकत्वेनाऽवान्तरफलभोगतस्तदत्ययाभावादत्ययपदविरोधा- पत्तेः । अनुशयश्चात्रावान्तरफलसाधिका या सामग्री तस्या लेशः। अतः सोमभावनाशे तथेत्यर्थः । हेतुं व्याकुंर्वन्ति * इष्टमित्यादि ।

८४२ सप्रकाशे अणुभाष्ये । धकतादृशदेहवस्त्रादिसहित एव तस्मात् स्थानादपगच्छति । अन्य- था सय एव देहपातः स्यात् । अतो यथा लोके सानुशयस्तथा- त्रापि । स्मृतिश्च-'यद्यत्र नः स्वर्ग्यसुखावशेषितं स्विष्टस्य दत्तस्य कृतस्य शोभनम् । तेनाजनाभे स्मृतिमज्जन्म नः स्याद् वर्षे हरि- यद् भजतां शं तनोति' इति देवगाथा । अतो ज्ञानौपयिकजन्म अनुशयवत एव भवति । अन्यथा पूर्वजन्मस्मृसभावे विषयासक्तिः प्रसज्ज्यते। ननु, अनुशयसहकृत एव जीवो नाद्भिः परिष्वक्तो भवेदत * अन्यथा सद्य एव देहपातः स्यादिति * । उक्तरूपस्य लेशस्यापि कर्मजन्यत्वेन कर्मनाश एतन्नाशात् प्रारब्धकनिर्वाणो न्यपतत् पा- श्वभौतिक इतिवतू सद्य एव देहः पतेतू तथा सति गमनं न सम्भव- दतो यथा लोके मानुशयस्तथात्रापीत्यर्थः । नन्वेवं सत्यावश्यकत्वा- लाघवाश्च कर्मशेष एवानुशयोऽस्तु, न तु सामग्रीशेषोऽपीत्यत आहुः * स्मृतिरित्यादि * । तथाचाऽस्यां गाथायां शेषितं स्विष्टं दत्तं कृतमित्यनुक्त्वा यत् स्विष्टस्य दत्तस्य कृतस्य शोभनमिति स्विष्टा- दिसम्बन्धिसमीचीनमुक्तं. तेन कर्मजन्यो भोगसाधकसामग्रीलेश एव विवक्षित इति ज्ञायते, न कर्मशेषोऽतः स एवात्रानुशय इत्यर्थः । सिद्धमाहुः । * अत इत्यादि * । ननु 'कदाचित् सुकृतं कर्म कूट- स्थमिव तिष्ठति । मजमानस्य संसारे यावद् दुःखादू विमुच्यत इत्य- न्या स्मृतिः कर्मरूपमप्यनुशयं दर्शयतीति नैकान्तत उक्तरूपानुश- निश्चय इत्यत आहुः । * अन्यथेत्यादि * । उक्तरूपस्यानुशय- स्थाभावे पूर्वजन्मस्मारकस्याभावेन पूर्वजन्मस्मृत्यभावे सति विषया- सक्तिःप्रसज्ज्यत । अतः प्रकृते उक्तरूप एवानुशयां ग्राह्य इत्य- र्थः । पुनः शङ्कते * नन्वित्यादि * । अयमर्थः। पूर्वजन्मस्मारकं यद् हएं वक्तव्यं संस्कृतेन्द्रियप्रभृति, तदेहमन्तरेण खकार्यासमर्थ सद्देह- माक्षेप्स्यति । तथा सति तत एव सिखावपां परिष्वङ्गो निष्प्रयो- ज़न इति सोमभावनाशेऽपामपि साजात्यानाशापत्त्या प्रक्रान्तस्याग ३ अध्याये १ पादः। ८४३ आह ॥ यथेतम् ॥ यथागतम् । अन्यथा प्रश्ननिरूपणयोर्बाधः स्यात् । तर्हि तावदवान्तरफलसाधकसहितः स्यादत आह ॥ अने- वश्च ।। एवम्प्रकारयुक्तागमनं नास्ति । भोगस्य जातत्वात् । च- काराद वैराग्यसहितोऽपि । तस्मादनुशयवान् भिन्नप्रकाराद्भिः प- रिष्वक्तो देवकृपासहितो दृष्टिर्भवतीति ॥ ८॥ चरणादितिचेन्नोपलक्षणार्थेति कार्णाजिनिः ॥९॥ किश्चिदाशङ्का परिहरति । ननु नात्रोत्तमजन्मार्थमनुशयोऽपे- क्ष्यते, चरणादेव भविष्यति । तद् य इह, रमणीयचरणाअभ्याशी इ यत् ते रमणीयां योनिमापोरन्निसादिना यः पूर्वजन्मनि वि. हिताचरणं करोति स उत्तमं जन्म मामोति, यस्तु निषिद्धाचरणं करोति स वादियोनि प्राप्नोतीति साधुकारी साधुर्भवतीयादिश्रु- या च प्रतिपाद्यते । प्रकृते तु तस्य रमणीयचरणस्य चरणादेव ईहशोऽनुशये स्यादतोऽयमयुक्त इति पूर्वपक्ष्याशयः । सिद्धान्तमा- हुः । * यथागतमित्यादि * I धूममार्गे यथेतमित्युक्तम् । अत्राप्यग्रे वृष्टिभावादिरुच्यते । अतः प्रकारान्तरीयदेहाङ्गीकारे तद्विरुध्यतेत्य- तो न तथेत्यर्थः । शेष स्फुटम् । तेन सिद्धमाहुः । * तस्मादित्या- दि * । ए'गं भिन्नप्रकारत्वं तु भोगमानसाधिकाभ्यः पूर्वाभ्य इदा- नीन्तनानां वैराग्यसाहित्यातू संस्काराधिक्येन तत उत्कर्षाच्च बो- ध्यम् । अत्रैवं सूत्रार्थः सिद्ध्यति । कृतात्यये, देवकृतस्य सोमभा- घस्य नाशे मति, अनुशयवान् तच्छेषवान् । यथेतं पूर्ववदद्भिः स- परिष्वक्तः । अनेवं च, अपां संस्कृतत्वाद् भिन्नाकारेण नीचंष्टि- भावार्थ रहति । चकारो नीचैरागमनस्य द्योतकः । तत्र हेतुः । दृष्ट- स्मृतिभ्यामिति ॥८॥ चरणादितिचेन्नोपलक्षणार्थेति कार्णाजिनिः ॥ किञ्चिदित्या- दिना सूत्रमवतार्य पूर्वपक्षांशं व्याकुर्वन्ति * नन्वित्यादि * । श्रुती ८४४ सप्रकाशे अणुभाष्ये । तस्य सम्यग् जन्म भविष्यति किमनुशयसहभावेनेतिचेद्, नाचरण- श्रुतौ या योनिरुक्ता सा उपलक्षणार्धा, अनेन पूर्वजन्मनि समी- चीनं कृतमिति ज्ञापिका । न तु तस्मिन्नन्मनि समीचीनकरणे नि- यामिका । अन्यथा ब्राह्मणानां निपिद्धकरणं न स्यात् । तस्माद- नुशयोऽपेक्ष्यते ज्ञानोपयोगार्थमिति कार्णाजिनिराचार्यों मन्यते । कार्णाजिनिग्रहणं पश्चाग्निविधायां भिन्नप्रकारत्वज्ञापनार्थम् । तस्मादस्य स्वमते भिन्नत्वान्न शङ्का, नचोत्तरम् । न हि पञ्चाग्नि- विद्यायां पुरुपादन्यभावः सम्भवति । प्रकरणपरिगृहीता श्रुति - न्यत्र न्यायसम्पादिका ॥ ९ ॥ अभ्याशो हेतिं पदं क्षिथिकम् । यत्पदं तु क्रियाविशेषणं हेत्वर्थकं वा । तथाच यद्यप्येताभ्यां श्रुतिभ्यां यथायथमाचरतः कर्मतश्च ज- न्मातं, तथापि प्रकृते पञ्चाग्निप्रकरणे तु चरणादेवोक्तमतोऽत्र तदेव ग्राह्यमित्यर्थः । परिहाराशयमाहुः । * नेत्यादि । चरणस्य जन्मनि- यामकत्वोपगमेऽपि न तजन्मीनकर्मनियामकत्वम् । उक्तरूपनिषिद्ध- कर्मप्रत्यक्षविरोधात् । अतस्तदर्थमनुशयेऽवश्यं वाच्ये जन्मबोधिका- ऽपि चरणश्रुतिः, काकवहेवदत्तस्य गृहमितिवत् पूर्वजन्मकृतं समी- चीनकर्मोपलक्षयिष्यति । यद् ये रमणीयचरणास्ते रमणीयां योनिम् आसमन्तात् पोरन् । गत्यर्थपद्यतेर्शानार्थत्वात् तत्र विशेषावधारणे कर्मजन्यां तां योनि ज्ञापयेयुरित्यर्थः । अतः सिद्धमनुशयेनेति का- पूर्णाजिनराशयः । नामग्रहणप्रयोजनमाहुः । * कार्णाजिनीत्यादि * भिन्नप्रकारत्वं तु कर्मशेषरूपानुशयशून्यत्वम् । तेन सिद्धमाहुः । * तस्मादित्यादि * | कार्णाजिनिमतीयात् कर्मशेषरूपानुशयाद अस्य भोगसाधकमामग्रीशेषरूपस्य फलशेषस्यानुशयस्य भिन्नत्वा- तू तस्य च दृष्टस्मृतिभ्यां सिद्धतया चरणेन गतार्थताया आपादयि- तुमशक्यत्वान्नाशङ्का । तदभावादेव च नोत्तरमप्यपेक्षितमित्यर्थः । एतदेवोपपाद्य दर्शयन्ति । * न हीत्यादि * । पञ्चाग्निविद्यायां हि ३ अध्याये १ पादः। आनर्थक्यामितिचेन्न तदपेक्षत्वात् ॥ १० ॥ नन्वेवं सति चरणश्रुतिरनार्थका । ज्ञापनायां प्रयोजनामा- वात् । अतो विधायकत्वं श्रुतेरिष्टानिष्टफलबोधकश्रुतिवत् । अतः कर्मतारतम्येन फलविधानानिष्कामकर्मकर्तुआनोपयोगिदेहविधान भविष्यतीति अनुशयसहभावो व्यर्थ इति चेन्न । तदपेक्षत्वात् । धूमादिमार्गस्य तस्याः श्रुतेरपेक्षत्वात् काम्येष्टादिकारिणः फल- उक्तप्रकारेण देव तस्य प्रश्ननिरूपणाभ्यां पुरुषभावः प्रतिपादितो- ऽतः साङ्गाद्वदिककर्मणः फलाऽवश्यंभावनियमेन पुरुपादन्यभावो न सम्भवत्यताऽस्याः कर्मान्तराद्भिन्नप्रकारत्वम् । पञ्चाग्निश्रुतिश्च प्र- इनादिवोधितप्रकरणपरिगृहीता, न कर्मान्तरस्थल न्यायसम्पादिका। अती नात्र शङ्कगन्तरे, किन्त्वन्यत्रव ते इत्यर्थः ॥ ९ ॥ आनर्थक्यमितिचेन्न तदपेक्षत्वात् ॥ साधारणानुशयपक्षे कि- चिदाशय परिहरतीत्याशयन पूर्वपक्षांशं व्याकुर्वन्ति । * नन्वित्या- दि *। अयमर्थः । चरणश्रुतेः पूर्वजन्मीनकृत्युपलक्षकत्वं तस्या वैय- र्थ्यांपादकम् । न हि तस्मिन् ज्ञात इह जन्मनि कोऽपि पुमर्थः सि- यति । अतस्तदभावाय चरणेनैतजन्मविधायकत्वं, तस्या अङ्गीका- र्यम् । यथा, प्रतिष्ठन्ती ह वै य एता रात्रीरुपयन्तीति, केवलाद्यो भ- घति केवलादीत्यादौ प्रतिष्ठाऊंवलाद्यत्वादिवोधन रात्रिसत्रं कुर्या- तु, केवलादनं न कुर्यादिति कल्प्यते, तथा रमणीययोनिकामो रम- णीयाचरणं कुर्यादिति । अतः कर्मतारतम्येनात्र फलस्यव विधाना- निष्कामकर्तुआनोपयोगिदेहविधानं तादृशदेहोत्पत्तिश्चरणादेव प्राप्त भविष्यतीत्यनुशयसहभावो व्यर्थ इत्यर्थः । परिहारांशं व्याकुर्वन्ति । * धूमादीति * । अपेक्षत इत्यपेक्षः । पचाद्यच् । तस्या अपेक्षस्तदपे. क्षः । धूमादिमार्गस्य तथात्वादित्यर्थः । धूमादिमार्गस्य कथं चरण- श्रुत्यपेक्षत्वमित्याकाङ्क्षायां तद् व्युत्पादयन्ति * काम्येत्यादि * । द्वि- विधा हीष्टादिकारिणो, निष्कामाः सकामाश्च । तत्राद्यस्य फलसाम- प्रीशेषरूप एवानुशय इत्युक्तम् । द्वितीयस्य तु देवगाथोक्तबुद्ध्यभा- ८४६ सप्रकाशे अणुभाष्ये। भोगानन्तरमुत्पनौ मुखानन्तरं दुःखमिति न्यायेन पापस्यैवोपस्थि- तत्वादसमीचीनशरीरप्राप्तिा भवत्तिति रमणीयानुष्ठातृणां रम- णीयशरीरप्राप्तिरेव बोध्यते, न न्यायेनासमीचीनशरीरमिति । त- स्मादन्यनिषेधार्थ मार्थकत्वान्नानुशयप्रतिषेधिका । किञ्च । रमणीययोनिः किमाकस्मिकी, सकारणा बा। नाद्या वेदवादिनाम् । द्वितीये तु स्वकर्मणा पितृलोक इति वस्वादियरू- पता च वक्तव्या । प्रजामनुप्रजायन्ते श्मशानान्तक्रियाकृत इति च । विद्या मां सोमपा इसादिना इन्द्रलोकभोगानन्तरं तथैव पुनर्भवनं च वक्तव्यम् । नच सर्वेपामैक्यम् । भिन्नरूपत्वात् । स- स्मात् कर्मकर्तृवैचित्र्येण श्रुतिस्मृतिभेदाः समर्थयितव्या, न त्वेक- मपरत्र निविशते । उपरोधप्रसङ्गात् । तथाच प्रकृतेऽपि अनुश- वात् सुकृते भुक्ते तदनन्तरमुत्पत्ती सुखानन्तरं दुःखमिति न्यायेन पापस्यैवोपस्थितत्वादसमीचीनशरीरप्राप्तिरापद्यते । सा तस्य मा भव- त्वित्येतदर्थ रमणीयानुष्ठातृणां रमणीयशरीरप्राप्तिरव बाध्यते। ये सकामा इष्टादिकारिणस्ते. समीचीनाचरणात् समीचीनं शरीरमा- प्नुवन्तीति न न्यायेनासमीचीनं शरीरमिति । तस्मात् सकामानाम- ऽसमीचीनशरीरनिषेधार्थ तस्या उक्तत्वान्नानुशयस्य मा प्रतिषेधिका। धूममार्गमुपक्रम्य तस्या उक्तत्वात, तद्य इहेत्यनेन तन्मार्गीयाणामे- वोलेखाच्च धूममार्गस्यैव तदपेक्षत्वम् । इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीत्यादिना पञ्चाग्निविद्यायाः समापितत्वान्न तस्यां तदपेक्षति तथेत्यर्थः । ननु, तद्य इहेत्यत्रानादानां रेतःसिचामेवोलख. स्तथात्वं च निष्कामकारिष्वपि तुल्यमतस्तेष्वपि नानुशयापेक्षेत्यत आहुः । * किश्त्यादि * । यत्त्वं देहार्थमनुशयं नाङ्गीकरोषि तत् किं रमणीययोनिगकस्मिकी नवाभिप्रेता उत सकारणा। तत्राद्या कल्पना तु बाह्यत्वापादिका । अतो द्वितीयः पक्ष आदर्तव्यः । तत्र चरणमेव कारणत्वेन त्वया वाच्यम् । चरणं शीलम् । 'अक्रोधः स- भूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च ज्ञानं चशीलमेतद्विदुर्बुधा' ३ अध्याये १ पादः। ८४७ याभावे भक्षणभवनयोनियमो न स्यात् । ब्राह्मणादीनामप्यन्ने व- लिहरणे वचण्डालयोर्भक्षणम् ।ब्राह्मणभक्षणेऽपि मलभावे शूकर- भक्षणम् । अनुशयस्य नियामकत्वे तुपादिष्वनभाव एव यावत् इति स्मृत्युक्तं वा । शुचौ तु चरिते शीलमिति कोशावर्णाद्यविरुद्ध. मन्यद्वा स्वकर्म चरणपदेन ग्राह्यम् । तदा स्वकर्मणा पितृलांक इति वाक्यादग्निष्वात्तादिलोकस्तत्फलम् । तथा पैतृमंधिकेन संस्कृतानां सपिण्डीकरणवाक्यानुरोधाद्वस्वादिरूपता च वक्त व्या । तथा, प्रजा- मन्वितिवाक्यानुरोधात् पुत्रगृहे तत्पुत्ररूपेण जननमपि वक्तव्यम् । तथा, विद्यामामिति वाक्यान्मर्त्यलोके पूर्ववदव सोमपात्वेन भवनं वक्तव्यम् । नच सर्वेषां फलेफ्यम् । तेषां फलानां देशभेदन प्रकारभ- दन च भिन्नरूपत्वात् । तस्मात् फलभेदे कारणभेदस्यावश्यकत्वात् कर्मवैचित्र्येण भिन्नस्वभावकर्तृवैचित्र्येण च वाक्यभेदाः समर्थाय- तव्याः । इदं वाक्यमेताहशकर्मपरमेतादृशकर्तृपरमिति । 'शानं ज्ञेयं परिशाता त्रिविधा कर्मचोदना । करण कर्म कर्त्तति त्रिविधः कर्म- संग्रह' इति प्रतिज्ञाय गीतायां तद्भदानामुक्तत्वात् । एवं सिद्ध अस. नर्णत्वे तत्र तत्र तत्तत्फलभोगोत्तरमावृत्ती तजन्मीनकर्मनियमार्थ- मनुशयोऽवश्यं वक्तव्यः । एवं यथाऽन्यत्र तथाच प्रकृतेऽपि तथैव प्रकृतचरणवाक्येऽपि शब्दाताततः पूर्वस्मिन् धूममार्गवाक्ये च नाना- ऽन्नानां तद्भक्षणस्य नानायोनीनां चोक्तत्वादनुशयस्तत्रापि नियाम- कत्वेनावश्यमभ्युपेयः । तदभावे भक्षणभव नयमाभावापत्तः । नच भक्षणे तस्य न नियामकत्वमिति शङ्यम् । ब्राह्मणादीनामित्याधुक्तप्र- कारस्य दर्शनादनुशयाभावे भक्षितादप्यन्नात् समीचीनं रेतो न स्यात् । ताहशरंतसोऽभावे ततः समीचीनयोनेरप्यभावः । अतो रम- णीययोनि प्रति चरणस्य हेतुत्वं वदताप्यवश्यं नियामकन्वेनानुशयां- ऽङ्गीकार्यः । नचान्नभावेऽपि तत्र तुषस्यापि दर्शनात् ततः समीचीनर- तोऽनुत्पत्तिः शङ्ख्या । तस्य गोप्रभृतिभिर्भक्षणे ततो दुग्धरूपेणान्न- भावस्य सिद्धः । अद्यमानस्यैवान्नत्वादिति । एवं सिद्धे तस्यावश्य- फत्वे अनुसीव्यमानस्य तस्यैव चरणं प्रत्यपि नियामकत्वम् । अतः ८४८ सप्रकाशे अणुभाष्ये । समीचीनरेतोभावः । तस्मादुपलक्षणतैव चरणश्रुतेर्युक्ता । तस्माद- नुशयसहित एव दृष्टिभावं प्राप्नोतीति सिद्धम् ॥ १० ॥ सुकृतदुष्कृते एवेति तु बादरिः ॥ ११ ॥ फलांश एवानुशय इति तु स्वमतम् ।कर्म फलश्च द्वयमेवेश्व- रेच्छया नियतम् । कर्म पुनर्भगवत्स्वरूपमेव ब्रह्मवादे । सोऽभि- व्यक्तः फलपर्यन्तं तदादिसंयोग इति स्वमतम् । अन्तसंयोगपक्ष- सकाम एव धूममार्गे नानाफलानामुक्तत्वात् तत्रैव चरणापेक्षा, न तु निष्कामे पञ्चाग्निविधासम्पादितदेह । तस्मादत्र योन्यादिनिरूपण- द्वाराऽप्यनुशयोपलक्षणव चरणश्रुतेर्युक्त्यर्थः । सिद्धमाहुः । * त- स्मादनुशयेत्यादि * । * तस्मादिति * । सर्वत्राप्यनुशयस्यावश्य- कत्वात् ॥ १०॥ सुकृतदुष्कृते एवंति तु पादरिः ॥ एवं चरणादेव फलं भवि- प्यत्यनुशयाङ्गीकागे व्यर्थ इत्याशय कार्णाजिनिमतोपन्यासन तदु- पष्टम्भेन च धूमादिमार्गे कर्मात्मकानुशयस्याप्यवश्यकत्वं साधित- म् । अतः परं तस्य कियत्पर्यन्तमनुवृत्तिरित्याकाङ्क्षायां तद्विवक्तुमि- दं सूत्रं प्रववृत इति बोधयितुं सूत्रमवतारयन्ति । * फलांश इत्या- दि * । पञ्चमस्कन्धोक्तदेवगाथारूपस्मृती फलांशरूप एवानुशय इति सोऽन्तिमं भगवत्स्मृतियुक्तं जन्मोत्पाद्य निवर्त्तते । तदुत्तरं य- न्मोक्षसाधनमपेक्षितं तत्तु स्मरणपूर्वकं भजतां भगवानव सम्पादय- ति । यदि कथञ्चित् पापात्पत्तिस्तदापि 'स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परंशः । विकर्म यच्चीस्पतितं कथञ्चिद् धुनोति सर्व हदि संनिविष्ट' इति, यत् करोपि यदश्नासीत्यादिवाक्यात सा- क्षात् परम्परया वा भगवतंव निवार्यत इति न पूर्वोक्तानुशयाऽपेक्षे- ति स्वमतम् । किञ्च । कर्मात्मकानुशयपक्षेपि, कर्म तत्फलं चेति छयम, एप उ एवेत्यादिश्रुत्या ईश्वरच्छयव नियतम् । कर्म पुनर्भगवत्स्वरूप- मेव । ब्रह्मवादे 'द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । वासु.

३ अध्याये ? पादः। ८४९ माहेकदशित्वज्ञापनाय । सुकृतदुष्कृते एव विहितनिषिद्धकर्मणी अनुशय इति बादरिराचार्यों मन्यते । तेन मोक्षपर्यन्तमनुशयोऽनु- वर्तिष्यत इति सूत्रफलम् । तुशब्देन निरनुशयपक्षशळेच नास्ती- त्युक्तम् । एवं द्वितीयाऽऽहुतिनिर्धारिता ॥ ११ ॥ देवात् परो ब्रह्मन चान्योऽर्थोऽस्ति तत्त्वत' इति द्वितीयस्कन्धे ब्र. झवाक्यात् । स द्विविधकर्मस्वरूपो भगवान् फलपर्यन्तमभिव्यक्त- स्तिष्ठति । सम्पूर्णे फले जाते तिरोधत्ते । कर्मशेषात्मकोऽनुशयो नि. वर्तते । अतस्तस्य अभिव्यक्तिमारभ्य फलपर्यन्त संयोग इति स्वस्य बादरायणाचार्यस्य मतम् । तत्, कृतात्ययसूत्रव्याख्याने देवगाथास्मृ. त्या सूचितम् । तत्रान्येषां न संमतिरिति बोधयन्, आन्तं मोक्षावधि कर्मसम्बन्ध इत्याकारकमन्तसंयोगपक्षं बादरेरेकदेशित्वज्ञापनाया- हेत्यर्थः । एकदेशित्वं त्वनुशयमात्राङ्गीकाराज्ज्ञेयम् । सूत्रं व्याकुर्व- न्ति । * सुकृतेत्यादि * । अभुक्तफले ते इत्यर्थः । शेषोऽर्थस्तु निगद- व्याख्यात एव। अन्ये तु चरणसूत्रे उपलक्षणार्थेत्यस्य चरणश्रुतिर्लक्षणया कर्म- बोधिकेत्यर्थमाहुः । अग्रिमे तु, तर्हि चरणानर्थक्यमितिचेन्न, कर्मण आचारापेक्षत्वादित्यर्थमाहुः । तृतीये तु,धर्म चरतीत्यादिप्रयोगाचर. णशब्देन सुकृतदुष्कृते एवोच्येते इत्यर्थमाहुः । तत्राप्यन्ततो गत्वैक एवार्थः। सिद्धं निगमयन्ति । * एवमित्यादि * । अत्रेदं हृदयम् । नि- कामकर्माणि न स्वर्गादिजनकानि, किन्तु पावनान्येवेति तत्प्रकार- बोधनाय पञ्चाग्निविद्याप्रवृत्ति ज्ञापयितुमयं पादः । अन्यथा चन्द्रग- तेः सर्वसाधारण्यादेतखोमवैयर्थ्यमेव स्यात् । अतो निष्कामकर्माणि धुलोके यजमानमानीय तिरोदधति । तदनन्तरकार्य तु तद्व्यापार- भूता देवा एव कुर्वन्तीति न तत्र कर्मानुशयोऽपि तु फलानुशय एव । यः पुनः सकामकर्मात्मको मार्गस्तत्र तु कर्मानुशय एव । अत एवै. कादशे आत्मा च कर्मानुशयं विधूयेति भगवतोक्तम् । अतस्तन्मा- र्गीयानुशयं संग्रहीतुं मतान्तरोपन्यासः । अतो द्वितीया सोमाहुति- ८५० सरकाशे अणुभाष्ये । अनिष्टादिकारिणामपि च श्रुतम् ॥ १२ ॥ सुल्यत्वेन विचारे ऐक्ये वा पञ्चाहुतिधूममार्गयोः सोमभावं गतस्य पुनरावृत्त्युपसंहारे उपलक्षणेनापि पापाचारवतामुपसंहार- दर्शनात् तेषामप्याहुतिसम्बन्धो धूममार्गश्च माप्नोति । तन्निराकर- णार्थमधिकरणारम्भः । ननु अनिष्टादिकारिणामपि सोमभावः भूयते । इष्टादिकारिव्यतिरिक्तानां, ये वैके चास्माल्लोकात प्र- यान्ति चन्द्रमसमेव से सर्वे गच्छन्तीति कौषीतकिनः समामनन्ति । अत्र च कपूयां योनिमापधन्त इति पर्यवसानम् । तेन सर्वे चन्द्र- मसं गच्छन्ति । अयमाशयः । कर्माकर्मविकर्मेति त्रिविधकर्मविधा- यको वेदः । अग्निहोत्रं जुहुयात् । यस्य वेदश्च वेदी च विच्छि- " रेषमुक्तप्रकारेणानुशयवत एव वृष्टिभावं जनयति । अनुशयश्च यो- ग्यदेहसम्पत्तिपर्यन्तमनुवर्तते इति प्रकारेण निर्धारिता, न तु मता- न्तरोक्तप्रकारेणेत्यर्थः ॥ ११॥२॥ अनिष्टादिकारिणामपि च श्रुतम् ॥ ननु उक्ताधिकरणेन फल- पर्यन्तं विचारे कृते किमन्यदवशिष्टं येनाधिकरणप्रणयनमित्याका- शायां तत्प्रणयनप्रयोजनमाहुः । * तुल्यत्वेनेत्यादि * । सोमभावस्य पश्चाग्निविद्यायां धूममार्ग चोक्तत्वात् पञ्चाग्निप्रकारेण शरीरं प्रा- प्स्यतो धूममार्गिणश्चैकरीत्या विचारे सोमभावतील्यादैक्य वाऽङ्गीकृते मार्गद्वयेन सोमभावं गतयोः पुनरावृत्त्युपसंहारे कपूयचरणानाम- प्युक्ततया तेषामपि मार्गद्वयसम्बन्धः प्रामोति । स च वाक्यान्तर- विरोधान्नेष्ट इत्यस्यावशिष्टत्वात् तदर्थमधिकरणारम्भ इत्यर्थः । एव. मारम्भं समर्थयित्वा अस्य पूर्वपक्षसूत्रत्वं शापयन्तो व्याकुर्वन्ति * नम्वित्यादि * । ननु सर्वेषां सोमभावेऽप्याहुत्यादिसंसर्गः कथमित्या- काङ्कायां तदाशयमाहुः । * अयमित्यादि । कर्माकर्मविकर्मेति प्र- कारण कर्मवैविध्यं बोधयन् विधायको घेदस्त्रिविधः । अग्निहोत्रमि- त्यादिवाक्यत्रयं तत्रोदाहरणम् । तेम्वकर्मबोधकस्य कर्माकर्तृ- ३ अध्याये १ पादः। ८५. चेते विपूरुषम् । न हिंस्याद् भूतजातानि । ब्राह्मणादीनामपि त्रिविधकरणं सम्भवति । न हि सर्वोऽप्येकान्ततो विहितं वा प्र- तिषिद्धं वा करोति । ततो विहितकर्तुरपि त्रयसम्भवाज्ज्ञानाभावेन फलभोगनैयसात् सोमभावाऽनन्तरमेवाऽकर्मविकर्मभोगो वक्तव्यः। अत एवाविशेषोपसंहारौ । तस्मात् सोमभावानन्तरमेव सर्वेषां ज- न्मेति प्राप्तम् ॥ १२ ॥ संयमने वनुभूयेतरेषामारोहावरोही तदगतिदर्शनात् ॥ १३ ॥ तुशब्दः पक्षं व्यावर्तयति । विहितव्यतिरिक्तकर्तृणां संयमने यमसंनिधाने मुखं दुःखं वा अनुभूय आरोहावरौ । अनुभवार्थमा- निन्दया अकर्मनिषेधमुखेन तत्कर्मविधायकत्वम् । विकर्मबोधकस्य तु निषिद्धप्रागभावपरिपालनद्वारा तद्विधायकत्वम् । स चैवं विधि- धो वेदस्वर्णिकाधिकारिकः । तेषां च, न हीत्यादिनोक्तरीत्या प्रय- सम्भवात् । ज्ञानाभावेन फलभोगनैयत्यात् । विहितस्य यलिष्ठत्वेन पूर्व तद्भोगात् पूर्व सोमभावस्ततो भुक्ते तस्मिन्नन्ययोर्भागः, सच भूम्यादिष्वेवेति झापनायैव, तद्य इह रमणीयचरणा य इह कपूय- चरणा य इत्युभयोरविशेषेणोपसंहारावुक्तौ । तस्मात् सोमभा- पानन्तरमेव सर्वेषाम् अकर्मविकर्मभोगार्थ जन्म, सोमभावश्च पू- धोक्तरीत्या द्वाभ्यामेवेति सर्वेषामेव आहुत्यादिसम्बन्ध इति प्राप्त- म् । तथाच पूर्वाधिकरणे यः सर्वेषां सोमभाषाभावः प्रतिपादितो, पञ्च पञ्चाग्निसाधितदेहानां फलानुशय एवेति नितिं तदयुक्त- मित्यर्थः ॥ १२॥ संयमने त्वनुभूयेतरेषामारोहावरोही तद्गतिदर्शनात् ॥ * प- समिति * इष्टादिव्यतिरिक्तकारिणां सोमभावप्राप्तिपक्षम् । * अनु- भवार्थमिति * पुण्यफलाऽनुभवार्थम् । * अनुभूयेति * तत्तल्लोके पुण्यफलमनुभूय । तस्मात् स्यनादवरोहो, न तु चन्द्रगतिरित्यर्थः ।

८५२ सप्रकाशे अणुभाष्ये। रोहोऽनुभूयावरोहः । कुतः । तद्गतिदर्शनात् । तेषां गतिविस- हशी दृश्यते । वेदे हि प्रथमं विहिता द्वेधा गतिः, सकामा नि- कामा चेति । सकामा यथाकाममनन्तविधा । निष्कामा ज्ञानर- हिता द्विविधा वैदिकगृह्यस्मार्तभेदेन । तत्र गृह्यस्माते यमः । श्री- ते सोमभावः । तत्र त्रेताग्निविधानेन, निष्कामानामदम्भानां पु- ण्यं स्यादिसधिकारिविशेषणाद् । विशेषतः सामान्यतश्च प्रायश्चि- तविधानात् । यदर्वाचीनमेनो भरूणहसायास्तस्मान्मुच्यत इति । तरति ब्रह्महयामिति च सर्वप्रायश्चित्तविधानात् । ब्रह्मानुभवाभावे सोमगतिरेव । पूर्वजन्मधर्मस्य चित्तशुद्धावुपयोगः । तदानीन्तनस्य गङ्गा- स्नानादेः श्रोताङ्गत्वम् । अतः पापस्याभावात् पुण्यस्योपक्षीणत्वात् हेतुं व्याकुर्वन्ति । * तेषामित्यादि * । तेषां विहितव्यतिरिक्तकर्तृ- णां गतिः फलप्राप्तिदे विसदृशी सोमभावविलक्षणा हश्यत इत्य- र्थः । तद् व्युत्पादयन्ति * वेदे हीत्यादि * । अर्थस्तु स्पष्टः। श्रीते सोमभाव एवेत्यत्र किं नियामकमित्याकाङ्कायां विभजन्ते * तत्रेत्या- दि * । निष्कामानामिति वाक्यं तु स्मार्तम् । श्रुत्योस्तु तैत्तिरीय- खाध्यायब्राह्मणस्था प्रथमा । संहितापञ्चमाष्टकस्था द्वितीया । पुण्यः स्यादिति पुण्यो लोको भवेत् । विशेषतः प्रायश्चित्तविधानं. पूर्वस्या यदर्वाचीनमेन इति श्रुतावुक्तम् । सामान्यतस्तद्विधानं, द्वितीयस्यां तरतीति श्रुतौ । तथाच निष्कामानामदम्भानां पापस्योक्तप्रकारेण निवृत्तत्वाद् ब्रह्मानुभवाभावे मोक्षस्याभावात् सोमभावऽधिकारि- विशेषणं पापनिवृत्तिश्च नियामिकेत्यर्थः । नन्व धानिनां गृह्यस्मा- तधर्मस्यापि सत्त्वात् तेषां यमगतिरपि वक्तव्यति कथं सोमगति- रेवेत्युच्यत इत्याशङ्कायामाहुः । * पूर्वेत्यादि * । * पूर्वजन्मधर्म- स्थति * पूर्वजन्मीनस्मार्तधर्मस्य । तथाच श्रौतस्य बलिष्ठत्वेन गृह्य- स्मार्तस्यैवमुपयोगात सा नेत्यर्थः । तेन सिद्धमाहुः । * अत इ- ३ अध्याये १ पादः। ८५३ तस्य पञ्चाग्निप्रकार एक। ज्ञानोपयोगिजन्मनि पापसंश्लेषाभावोपा- यमग्रे वक्ष्यति । पितृमेधप्रथमाहुतिमन्त्रस्तु मन्त्रत्वाच्चमसवन गति- नियामकः । त्रेताग्निविद्यारहितानां पुण्यपापोपभोगो यम एव । वैवस्वते विविच्यन्ते यमे राजनि ते जनाः। ये चेह ससेनेच्छन्ते य उ चाऽनृतवादिन इति । यमगतेः पञ्चाग्निविद्यायाश्चैषा व्यवस्था । चित्तशुद्धिभावा- त्यादि * । ननु भवत्वेवं पूर्वनिवृत्तिस्तथाप्युत्तरया स संसर्गस्त्वनि- धार्य इति पञ्चाग्निप्रकारेऽप्यपायः सम्भाव्यत इति ज्ञानोत्पत्तिस्तु दुर्घ- टैवेत्यत आहुः । * ज्ञानेत्यादि * । * अग्र इति * । तदधिगम उत्तर- पूर्वाधयोरलंषविनाशावित्यत्र । ननु ब्रह्मतत्त्वज्ञस्याहिताग्नेर्दहनादि- संस्कारो ब्रह्ममेधस्तद्रहितस्याहिताग्नदहनादिसंस्कारः पितृमेधस्तस्य प्रथमाहुती, वैवस्वतं सय्यमनं जनानां यमं राजानमिति मन्त्रे यम- सम्बन्ध उक्त इति कथं वैदिकानां सोमगतिरेवेत्युच्यत इत्यत आ- हुः । * पितृमेधेत्यादि * । अयं मन्त्रस्त्वर्वाग्विलश्चमस ऊर्ध्वबुध्न इतिमन्त्रवत् सिद्धार्थबोधकत्वान्नाहिताग्निमात्रस्य यमगतिनियाम- कः । त्रेताग्निबोधकपदाभावात् । केवलगृह्यस्मा ग्निवत्खप्याहि- ताग्नित्वस्य तुल्यतया तैरेव चारितार्थ्याच्च । तस्मानिष्कामस्या- धिानिनोऽपि सोमगतिरेवेति निश्चयः । अतः परं गृह्यस्मार्तानां गर्ति विचारयन्ति । * तेत्यादि * | पापान्तराभावेऽपि श्रेताग्निरा- हित्येन विहिताननुष्ठानस्य जातत्वात् तथेत्यर्थः । तेन सिद्धमाहुः । * यमगतेरित्यादि * । तथाच यमगतेः पञ्चाग्निविद्यायाश्च एषा गृ. घस्मार्तश्रौतभेदेन भिन्ना व्यवस्थेत्यर्थः । ननु, वैवस्वते विविच्यन्त इति हि तैत्तिरीयाणां श्रुतिः । सा च वैदिकानपि सङ्ग्रहीप्यति । त- स्या गृह्यस्मातेकपरत्वे नियामकाभावादतो न पूर्वोक्ता व्यवस्था यु- तत्याशय पक्षान्तरमाहुः । * चित्तेत्यादि * । यस्य चित्तशुबिस्त- स्योत्तरकण्डोक्तः पञ्चाग्निसम्बन्धः । यस्य न सा तस्य, न साम्परा- यः प्रतिभाति बालं प्रमाद्यन्तं चित्तमोहेन मूढम्, अयं लोको ना- स्ति पर इति मानी पुनःपुनर्वशमापद्यते म इति यमवचनश्रुतेः पूर्व- ८२४ सप्रकाशे अणुभाष्ये । भावाभ्यां वा अपश्यं काण्डद्वयव्यवस्था । एकस्यैतद् वक्तव्यम् । सकामनिष्कामभेदो वा वेदान्तिनामपि पापार्थ यमापेक्षणात् सा गतिर्वक्तव्यैव । तस्मात्र सर्वेषां सोमगतिः ॥ १३ ॥ स्मरन्ति च ॥ १४ ॥ स्मरन्ति व्यासादयः । “यमेन पृष्टस्तत्राहं देवदेव जगत्पते । पूर्व त्वमशुभं भुत्व उताहो नृपते शुभम्" इसादि । चकारा- ल्लोकमसिद्धिः ॥ १४ ॥ अपि सप्त ॥ १५॥ काण्डोक्ता वैवस्वतगतिरित्येवं श्रौतपरत्वेनैव तदुमयव्यवस्था मन्त- ज्या। तत्र हेतुः । * अवश्यामित्यादि * । गतिहि पञ्चाग्नियमभेदेन काण्डद्वयेऽप्युक्ता । यदि तत्र व्यवस्था काचिन्नोरुच्येत तदा गतिव- यं सङ्कायेत । अतस्तदभावार्थमवश्यं काण्डद्वयस्य व्यवस्था । तत्रै- कस्य यन केनापि प्रकारेण जघन्यस्योत्तमस्य च यथा यथामेतद्वति- द्वयमसङ्कीर्ण वक्तव्यम् । सङ्गालयोस्त्याग एव यशादीनां पावनत्व- स्य गीतायामुक्तत्वात् । पूर्वोपपादितः सकामनिष्कामभेदो था तद- थं वक्तव्यः । अन्यथा एकतरश्रुतिव्याकोपस्य दुष्परिहरत्यादिति । ननु पूर्वकाण्ड एवेयं व्यवस्था भवतु । उत्तरकाण्डे तु ज्ञानस्य प्रा. चान्यात् तस्य च सर्वकर्मदाहकत्वाग्नतव्यवस्थोपयोग इत्याशङ्का- यामाहुः । * वेदान्तिनामित्यादि * । तथाच, सहशं चेटते स्वस्याः प्रकृतेर्शानवानपि, न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृदिति वाक्यात् कर्म तु नियतं, शानं तूपायसाध्यवान श्रवणमात्रात् सर्व- स्योत्पद्यते । अतस्तेषामपि सा वक्तव्यैवेति, ये चेति श्रुतिः पूर्वोक्त एव विषये सङ्कोच्येत्यर्थः ॥ १३ ॥ स्मरन्ति च ॥ अपि सप्त ॥ एतत्सूत्रद्वयभाष्यं प्रकटार्थम् । त- प्रापि, पूर्वसूत्रमाप्ये लोकप्रसिद्धिर्नामभ्राम्स्या यमदतनीतानां प्रत्या- गतानामनुभवस्य पौराणिकवाक्यसंवादरूपा बोध्या।

अध्याये १ पादः। ८५५ चेयनुवर्तते । पापोपभोगार्थ यमाऽऽलयगमनमङ्गीकर्तव्यम् । बतस्तत्र नरकाः सप्त सन्ति रौरवादयः। सप्तसंख्या संख्याभेदे- ववरकक्षा । सर्वथा निराकरणाभावाय सप्तग्रहणम् । तस्माद् य- मगतिरस्ति ॥ १५॥ तत्रापि च तद्व्यापारादविरोधः ॥ १६ ॥ किश्चिदाशङ्कय परिहरति । ननु नरकेषु चित्रगुप्तादयो भिन्ना एवाधिकारिणः सन्ति । तथा सति तृतीयः पक्षः स्यादत आह । तत्र नरकादिषु येऽधिकारिणस्ते यमायत्तास्तत्सेवकाः । अतो यम- स्यैव तत्रापि व्यापारान तृतीयपक्षमाप्तिः । चकारात् सुखदुःखभो- गेऽपि । तृतीयपक्ष एव विरोधः । द्वितीयसूत्रभाष्ये च * यमगतिरस्तीत्यस्य सोमगतेरतिरिक्तास्तीत्यर्थो बोध्यः ॥१४॥ १५ ॥ तत्रापि च तव्यापारादविरोधः॥ सूत्रमवतारयन्ति । * कि- चिदित्यादि * । आशङ्करं व्युत्पादयन्ति । * नन्वित्यादि * । यदि विलक्षणगतिदर्शनानुराधेन, ये केचेति श्रुति सङ्कोच्य फलाधिका- रिभ्यां यमगतिर्द्वितीयाङ्गीकृता, तदा नरकाणां चित्रगुप्तादीनां च ततोऽपि वैलक्षण्ये सति युक्तस्तौल्यात सोऽपि तृतीयः पक्षः स्या- त् । अन्यथा तु यमस्य नरकेम्वधिकारित्वाभावानियामकाभावन ततेरप्राप्त्या तयोधकस्मृतिविरोधापतरित्यर्थः । पारीहारं व्याकु- र्धन्ति । * तत्रेत्यादि * / * तत्रापीति * नरकादिषु । तथाचैवं नर- कगातप्राप्तिसिद्धौ तहतियोधकस्मृतिविरोधाभावेनातिरेकाङ्गीका- रस्य वैयान तृतीयपक्षप्राप्तिरित्यर्थः । चकारसूचितं दूषणान्तर माहुः । * चकारादित्यादि * । तथाच सोमयमगती श्रोते अङ्गी- कृत्य अस्य तथा तृतीयत्वमङ्गीक्रियते तदाऽस्याश्रीतस्य तृतीयत्वा- देव विरोधः । अथवा इयं यमगतिश्च चन्द्रगत्यवान्तरगतित्वनाङ्गी- क्रियते तदा मन्त्रलिङ्गविरोधाद्विरोध इत्यर्थः । यद्वा तद्भोगे चित्रगु- ८५६ सप्रकाशे अणुभाष्ये । अथवा यमगतेमन्त्रलिङ्गसिद्धे पापस्य च पौराणिकत्वे चन्द्रगति रेकैव स्यादिति विरोधः । तेषां यमसेवकत्वे तु मन्त्रलिङ्गपोषकत्वा- न्मार्गद्वयसिद्धरविरोधः । तस्माद् यमगतिरस्तीति सिद्धम् ॥ १६ ॥ विद्याकर्मणारिति तु प्रकृतत्वात् ॥ १७ ॥ साधारणत्वाभावाय पूर्वोक्तार्थसाधकमधिकरणमारभते । ननु, ये के चास्माल्लोकात् प्रयान्ति चन्द्रमसमेव ते सर्वे गच्छन्तीस- स्याः श्रुतेः का गतिः । पञ्चाग्निविद्याप्रस्तावे वा यमगतिः कु- तो नोक्ता । तस्माद् वेदविरोधान्न तृतीयपक्षसिद्धिरियाशङ्का प- माघधिकारवत् तेषां यमायत्तताया अपि स्मार्त्तत्वात् तस्या अन- ङ्गीकारे तृतीयपक्ष एव विराध इत्यर्थः । ननु स्मृतिविरोधः शिथि- लः । श्रुतिस्तु यथा न वक्ति तथा न निषेधति । अतोऽप्रतिषिमनु- मतं भवतीति न्यायेनातिरेकाङ्गीकारेऽपि को दोष इत्याशय पक्षा- न्तरमाहुः । * अथवेत्यादि * । तथाच निषेधाभावेनानुमतावपि श्रोतत्वं त्ववचनान्न शक्यवचनमतः पापतन्नियामकयोः पौराणिक- त्वमेव वाच्यम् । तथा सति कौशीतकिश्रुतावसङ्कोचाश्चन्द्रगतिरे- कैव त्वन्मते श्रौती स्यात् तदा यमगतेमन्त्रलिङ्गसिद्ध विरोधः श्रीत एवापतित इत्यर्थः । * मार्गद्वयसिद्धरिति * । चन्द्रगतियमगत्योः सिद्धः। तथाच तदा अस्यापि श्रीतमध्यपातादविरोध इत्यर्थः ॥ १६ ॥ विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ अधिकरणप्रयोजनमाहुः । * साधारणेत्यादि * । सोमगतेः सर्वजीवसाधारणत्वाभावाय य- मगतिसाधकं तदारभत इत्यर्थः । कथं साधकमित्यपेक्षायां तुशब्द- व्याख्यानमुखेन शङ्कनमुत्थाप्य तत्परिहारेण साधकमित्याशयेन सू- त्रं व्याकुर्वन्ति । * नन्वित्यादि * । तथाच यदि यमगतिरत्राभिप्रे- ता स्यात् तदा कौशीतकिश्रुती सर्वेषां चन्द्रगति!च्येत । पञ्चा- ग्निविद्याप्रस्तावेऽपि सांच्येत । अतो गतिबोधकस्थलद्वयेऽप्यनुक्त- त्वात् तदङ्गीकार पतदुभयविरोधान्न तस्यास्तृतीयस्या गतेः सिद्धि- ३ अध्याये १ पादः। रिहरति तुशब्दः । अत्र वेदान्ते गौणमुख्यफलदेहाथै विद्याकर्म- णोरेव हेतुत्वेन निरूपणं, विद्यया देवयानं कर्मणा सोमभाव इति तयोरेव, प्रकृतत्वात, कारणत्वात् । तेन कौपीतकिब्राह्मणेऽपि प्रकृतत्वात् कर्मिण एव सर्वशब्देनोक्ताः । अत्रापि न यममार्ग उ- क्तः । तस्माद् विद्याकर्मणोर्मुख्यत्वान्मार्गदयमेवोक्तम । नैतावता तृतीयवाधः ॥ १७॥ न तृतीयेऽतथोपलब्धेः ॥ १८ ॥ ननु द्वयोस्तुसर्थ यस्तृतीयो मार्ग उक्तः, अथैतयोः पथोर्न कतरेण च न तानीमानि क्षुद्राण्यसकृदावर्तीनि भृतानि भवन्ती- सादिना जुगुप्सेनेसन्तेन तृतीयनिन्दया द्रयोः स्तुतिरिति स एवं तृतीयोऽस्तु किं यममार्गेणेसन आह । न तृतीये मार्गे तथा पुण्यपापयोरुपभोग उपलभ्यते । यतः समानब्राह्मणे, कीट. पतङ्गो , रिति शङ्कगमित्यर्थः । परिहारं व्याकुर्वन्ति * अत्रेत्यादि * । * सो- मभाव इति * । प्रथमाहुतिफलात्मकः पितृयानात्मकधूममार्गोक्तश्च सामभावः । तयोरेव *प्रकृतत्वात् कारणत्वादिति । मुख्यफलार्थ, तद्य इत्थं विदुरिति विद्याया गोणफलार्थ, य इमे ग्राममित्यादिना कर्मणश्च कारणत्वेन प्रकृतत्वात्। तथाच प्रकृतत्वाभावात् तदनुक्तिन तु यमगत्यभावादित्यर्थः । एतदेव स्फुटीकुर्वन्तो द्वितीयामपि शङ्कां परिहरन्ति । * तेनेत्यादि । * मार्गद्वयमेवोक्तमिति * । इदं सांत्र- स्यतिशब्दस्य व्याख्यानं शेयम् ॥ १७ ॥ न तृतीयेऽतथोपलव्धेः ॥ किश्चिदाशय परिहरतीत्याशयेना- हुः । * ननु द्वयोरित्यादि * / * इत्यत आहति * यतः पूर्वसूत्रोक्ते- ऽर्थे एवमाशोत्पद्यते अतस्तन्निवर्तकं हेतुमाहेत्यर्थः । यद्वा । अत्र न तृतीयमार्ग इत्यादिकं सूत्रसिद्धार्थकथनम् । सूत्रयोजना त्वेवम् । न, यमार्गबाधो न । कुतः १ तृतीयेऽतथोपलब्धः । तानीमानीत्यादिनांक्त मार्गे यमगतिविलक्षणपापभोगोपलम्भादिति शेया । यतः * समान- ८५८ सप्रकाशे अणुभाष्ये । यदि दंदशूकमिति योनौ निस्तेविद्यमानत्वान्न महापापोपभोगः । नापि कीटादिषु महासुखोपभोगः । एकवाक्यता चोभयोर्युक्ता । यद्यपि महाराजादिराजदण्डादिषु तथोपभोगः सम्भवति तथापि । ब्राह्मण इत्यादिनोक्ते मार्गे यमगतिविलक्षणपापभोगोपलम्भादिति ज्ञया । यतः समानब्राह्मण इत्यादिना तदुपपादनम् । समानब्राह्मणं च बृहदारण्यकस्थम् । तत्र, कीट इत्यादिना क्षुद्राणि भूतानि निष्कृ- ज्यन्ते । तादृश्यां योनी निवृतिस्तु महाभारते, कीट इत्यादिना बोध्या। तथाच यममार्गे यादृशः सुखदुःखभोगस्तादृशो न छान्दोग्योक्ते तृतीयमार्गे इति न तेन तस्य गतार्थतेत्यर्थः । ननु योनिनिवृत्या पाप- भोगवलक्षण्यसाधनमयुक्तम् । 'नरकस्थोऽपि वै जन्तुर्न देहं मोक्तु- मिच्छति । नारक्यां निवृती सत्यां देवमायाविमोहित' इति तृतीय- स्कन्ध नरकपि निवृतिकथनात् । अतो न तृतीयस्य यममार्गाद्वैल- क्षण्यमित्यत आहुः । * एकवाक्यतेत्यादि * । तानीमानीत्यादिनो- क्तस्य उभयोर्देवयानपितृयानयारकवाक्यतैव प्रकरणाद्युक्ता । पूरण. प्रत्ययान्तस्य तृतीयाशब्दस्य संख्यापूरणार्थ मार्गद्वयसाकाङ्क्षत्वात् । मार्गद्वयवाक्यस्य च तत्स्तुत्यर्थ तृतीयसाकाङ्कत्वात् । यममार्गस्य तु भिन्नप्रक्रमपठितत्वेन मार्गद्वयापेक्षाराहित्यान्न छान्दोग्योक्तमार्ग- द्वयकवाक्यत्वमित्युपपादितम् । यद्ययं यमगत्यवैलक्षण्येन तदा- त्मकः स्यादस्याप्युभयकवाक्यता भज्येताऽतो न तदवलक्षण्यमित्य- र्थः । एतदुपष्टम्भाय युक्त्यन्तरमाहुः । * यद्यपीत्यादि *। * तथो- पभोगः सम्भवतीति * । जायस्वति मार्गऽपि महोपभोगः सम्भव- ति । तथाचैवमपि चैलक्षण्यानपायाद्यममार्ग एतस्माद्भिन्न इत्यर्थः । मनु तर्हि पश्चाग्निमार्ग एव यममार्गः प्रविशतु । पञ्चाग्निमार्गेऽपि य- ममार्ग इव देहान्तरप्राप्ते जडभरते दर्शनात् । अत एव पञ्चाग्निमा. र्गस्य ज्ञानोपयोगिदेहजनकत्वमप्यसङ्गतम् । तथा सति ज्ञानोदयेनाग्रे जन्मद्वयाभावापतेः । अथ शरीरमेव पञ्चम्याहुतिफलमित्युच्यते तदा तु रेतोभावस्य वारत्रयं भवनात् पुरुषभावस्य च विच्छेदेन वारद्वयं भवनादाहुतिक्रमभाव इति सर्वसामञ्जस्याय जायस्वति

३ अध्याये १ पादः।
८५९
रम्भादिसंयोगे नरके च यथा तथान सम्भवति । जडे तु पञ्चम्या-
हुतिर्भरत एव हीश्वरेच्छया जन्मद्वयमधिकम् । त्रिभिारति वचना.
त् । भरतोऽहमिति प्रतीतेश्च । ततः पूर्वमस्मरणाद वाल्यादिव-
देव जन्मत्रयम् । तस्माजायस्वेसादिवलक्षण्यादतिरिक्तो यममार्गः।
पञ्चाहुतिनियमाभावस्तु ज्ञानोपयोगिदेहेऽप्यंशावतरणे पुष्टिमार्ग-
त्वान्न तत्र दोषः ॥ १८ ॥
स्मर्यतेऽपि च लोके ॥ १९ ॥
साधकान्तरमाह । अपि च लोकेऽपि मूर्छादिपु यमलोक-
गमनसम्भापणपुनरागमनानि स्मर्यन्ते ॥ १९ ॥
मार्गस्यैव तृतीयत्वं भवतु
वैलक्षण्यस्य मार्गभेदकताया अप्रयोजक-
त्वादित्याशङ्कनयामाहुः । * जडे त्वित्यादि * । वचनं त्वकादश-
स्कन्ध नारदनार्षभान् प्रस्तुत्योक्तम् । स भुक्तभोगां त्यक्त्वंमां निर्ग-
स्तपसा हरिम् । उपासीनस्तत्पदवीं लभे वै जन्मभिस्त्रिभिरिति ।
अत्र या वैराग्यादिसम्पदुक्ता सैव तस्य पञ्चमाहुमिफलत्वस्येश्वरे-
च्छायाश्च झापिका । पञ्चमस्कन्धे प्रियव्रतं प्रति ब्रह्मवाक्येषु तथा
निर्धारात् । प्रारब्धपक्षेपि तस्या द्वारत्वान्न शङ्कालेशः । * प्रती-
तरिति * । पञ्चमस्कन्ध एव, अहं पुरा भरतो नाम राजतिं जडो-
क्तायाः प्रतीतेः । एतेन स्मृतिमज्जन्मज्ञापनात् तादृशानुशयवत्त्व-
मुक्तम् उक्तहेतुद्वयात् सिद्धम् । जन्मत्रयस्य स्वरूपमाहुः । * तत
इत्यादि * । * ततः पूर्वामिति * । भरतदेहात् पूर्वम् । तथाच म-
रतदेहस्यैव पञ्चमाहुतिफलत्वादग्रिमयोर्जन्मनारवस्थातुल्यत्वेन तद-
भेदान्नाहुतिक्रमभङ्गो, न वा तदेहस्य ज्ञानानुपयोगित्वमिति नात्र-
यममार्गप्रवेशः शक्यवचन इत्यर्थः । * तस्मादित्यादि । ननु मा.
स्त्वेवमाहुतिक्रमभङ्गस्तथापि विदुरार्जुनादौ सोमादिभावाभावात
संख्यानियमस्तु भग्न एवेत्यत आहुः * पश्चेत्यादि *। * तत्रति * ।
मर्यादामार्गे ॥ १८॥

८६० समकाशे अणुभाष्ये । दर्शनाच्च ॥ २० ॥ यमपुरुपा दृश्यन्तेऽपि कैश्चिदजामिलप्रभृतिभिः । चकारात् तेषां वाक्यादिश्रवणम् । तस्माद् वैवस्वतमार्गे न किमपि बाधक- मिति सिद्धम् ॥ २० ॥ तृतीये शब्दावरोधः संशोकजस्य ॥ २१ ॥ तृतीयामाहुति विचारयति । तत्र दृष्टेरनमिति तृतीयाहुतिः सफला । पूर्वद्रयं शब्दैकसमधिगम्यम् । दृष्टेरन्नमिति साधनफल- योः प्रसक्षत्वान्न दृष्टिमात्रेणान्नं भवति बीजव्यतिरेकेण । वीजस्य हि फलम् । न निमित्तमात्रेण तद्भावो वक्तुं शक्यते । तस्मादस- ङ्गतं दृष्टेरन्नमियाशङ्याह । तृतीये शब्दावरोधः । तृतीयाहुतौ श- व्दन शब्दसाम्येन कारणभूतस्य जलस्य अवरोधो ग्रहणम् । स- देव सोम्येदमग्र आमीदिसत्र, तत् तेज ऐक्षत, बहु स्यां प्रजाये- येति, तदपोऽस्जत, तस्माद्यत्र कच शोचति स्वेदते वा पुरुपस्ते- जस एव तदध्यापा जायन्त इसत्र कारणरूपापां निरूपणे शोकज- . स्मयतेऽपि च लोके ॥ दर्शनाच्च ॥ एतत्सूत्रद्वयभाष्यं त्व- ऽतिरोहितार्थम् । एवञ्च सिद्धे यममार्गे, जायस्वति तृतीयस्यापि वि- वेचकसापेक्षत्वात् तस्मिन्निवेशो, न तु तस्य जायस्वति मार्ग इति सिद्धमिति भावः ॥ १९ ॥ २०॥ तृतीयशब्दावरोधः संशोकजस्य ॥ अधिकरणप्रयोजनं वद- न्तोऽवतारयन्ति । * तृतीयामित्यादि * तथाच तृतीयाहुतावताहश- शोत्थानाद् विचारयतीत्यर्थः । सूत्रं व्याकुर्वन्ति * तृतीयाहुतावि- त्यादि *। * शब्दसाम्येनेति * । अन्नफलजनकहोम्यवाचकस्य वर्ष- शब्दस्य जलसंग्राहकतया कारणभूने कार्यभूते च जले तुल्यत्वेन । हेतुं व्याकुर्वन्ति । * सदेवेत्यादि * । * उक्तमित्यन्तेन * । * आ- सीदित्यति * अस्मिन् सन्दर्भ । * जायन्त इस्यति * । तस्मिन् ३ अध्याये १ पादः। ८६१ . त्वमपामुक्तम् । अग्रे च, तस्माद् यत्र कच वर्षति तदेव भूयिष्ठमन्नं भवती- ति । अतः पञ्चाग्निविद्यायामपि देवहोमात् कारणभूतैव दृष्टिर्जा- तेति नात्र बीजान्तरापेक्षा । शोकपदेन यदश्र्वश्रीयत तद्रजत हिरण्यमभवदिति सहायः मूचितः । यद्यपि तत्रानशब्देन पृथि- वी, तथाप्यत्र पृथिव्या अग्निसमिद्रूपत्वादन्नमेव । तस्मात् कार- णशक्तियुक्ताया दृष्टेरन्नं भवतीति न काप्यनुपपत्तिः ॥ २१ ॥ साऽऽभाव्यापत्तिरुपपत्तेः ॥ २२ ॥ किञ्चिदाशमा परिहरति । ननु कारणजलरूपप्टिरत्र व- क्तुं न शक्यते । यतः समानधूममार्गश्रुतौ वृष्टेरन्नभावे ऐक्ये वा तस्मिन् यावत्सम्पातमुपित्वा अथैतमेवाध्वानं पुनर्निवर्तते, यथेतमा- वाक्ये। तथाचात्र कारणभूतानामपां शोकजत्वकथनादित्यर्थः । ननु तासां शोकजत्वकथने कथं प्रकृत कारणरूपजलसिद्धिरित्यत आहुः। * अग्रे चेत्यादि * तथाच कारणरूपापां प्रक्रमातू पश्चादन्नकारण- त्वेन तत्कथनात्तत्सन्दष्टत्वेन शोकजानामपि कारणरूपत्वमेवाभिप्रे- तमित्यर्थः । * अत इति * । उक्तरीत्या कारणरूपापां वर्षेणान्तात्म- कफलकथनात् । अत्र च होतारो देवा अप्याधिदैविका भगबदवय- भूता एव बोध्याः । वैदिकसृष्टेरतिरिक्तत्वस्य प्रथमाध्याये एव व्यव- स्थापनादिति । नन्ववं सति शोकपदकथनस्य किं प्रयोजनमत आहुः। * शोकेत्यादि * इयं श्रुतिस्तु तैत्तिरीयसंहिताप्रथमाष्टकीयपञ्चमप्र- पाठकारम्भस्था । तथाच भौतिकानामप्यपां कारणत्वस्य श्रुत्यन्तरे- णोपष्टम्भाथै तथा कथनमित्यर्थः । * अग्निसमिद्रूपत्वादिति * छा- न्दोग्येऽग्निरूपत्वाद् बृहदारण्यके समिद्रूपत्वात् । शेषं स्फुटम् ॥२१॥ साऽऽभाव्यापत्तिरुपपत्तेः ॥ सूत्रमवतारयन्ति । * किञ्चिदि- त्यादि *। * ऐक्य इति * पश्चाग्निमार्गधूममार्गयोरभेदे । समाने ८६२ सप्रकाशे अणुभाष्ये । काशमियादिना तिलमाषा इति जायन्त इसन्तेन । तत्र यथेतमि- साकाश एव । आकाशाच्चन्द्रमसमिति पूर्वमुक्तवादकाशस्य मा- गतैव । वायुर्भूत्वा धूमो भवतीसादिषु तत्तद्भावः श्रूयते । ते च विकृताः । तदनन्तरभावित्वाद् दृष्टिरपि विकृतैव । तस्मान्न कार- णत्वमिसशङ्मय परिहरति । सा वाम्बादिरूपापत्तिराभाव्यापत्ति- रेख । वायुवदामा आभानं मध्ये वायुमण्डलमागच्छन्ती आहुति- युभवनशब्देनोच्यते । आकृतेरेव पदार्थत्वाद् व्यापत्तिशब्देन च तेजोभावापन्नस्य जलभावापत्तौ कान्तिनाशान्नाश इति द्यो- तयति । कुतः ? । उपपत्तेः । तथैवोपपद्यते । चित्रतुरगादिषु वि- ? . धूममार्गे ऐक्ये वा वृष्टेरन्नभाव इत्यन्वयः । * इत्यन्तेनेति * विरो- धादिति शेषः । विरोधं व्युत्पादयन्ति । * तत्र यथेत्यादि * तत्र श्रुती यथेतमित्यनेनोक्तं पुनर्निवर्त्तनम् आकाश एव । आकाशाच- न्द्रमसमिति पूर्वमारोहे उक्तत्वात् । नाग्रे । आरोहावरोहाध्वनार्भेद- दर्शनात् । अत आकाशस्य मार्गव, नतु जीवस्याकाशरूपेण भवनम- पि । तत्राकाशो भूत्वेत्यश्रवणात् । अग्रे तु वायुर्भूत्वेत्यादिषु तत्तद्भा- वः श्रूयते । ते च वाय्वादयो विकृता जन्याः । तदनन्तरभावित्वाद- तस्तथेत्यर्थः । परिहारं व्याकुर्वन्तो भावशब्दे परे समानशब्दस्य सादे- शः पाणिनीयविरुद्ध इत्यत एकदेशिकृतव्याख्यानं प्राञ्जलमपि परि- त्यज्य प्रकारान्तरेण व्याकुर्वन्ति * सेत्यादि * । ननु वाय्वादिवदा- भाने वाय्वादिभवनोक्तिविरोधस्य कथं परिहार इत्यत आहुः । * आकृतेरेव पदार्थत्वादिति * | सर्वाणि रूपाणि विचिन्त्येत्यादिश्रुत्या तानि तानि पदानि तस्यां तस्यामाकृतावेव व्यवहारार्थ भगवता निय- मितानि । अतस्तद्वदाभानेऽप्याकृतिसद्भावान्न भवनोक्तिविरोध इत्य- र्थः । नन्वयं गौण्यैव इत्यत्र किं गमकमित्याकाङ्क्षायां हेतुं व्याकुर्व- न्ति । * तथेत्यादि * तथाच यद्येवं न स्यात् तदा चित्रतुरगादावपि तुरगादिपदप्रयोगो मुख्यवृत्तः स्यात् तदा तुरगादिसाध्या अर्थक्रि- यापि तेन स्यात् । सा च न दृश्यत इति गौण्येव तत्र निश्चीयत ३ अध्याये १ पादः। कारस्य विकारन्तरापत्तावियमेव व्यवस्था। उपासनायां न तदपि । नच, भूत्वाश्रुतेर्बाधः। प्रतिनियतपदार्था हि ते । भवनावरोहाभ्या- मेव तथा वचनात् । अन्यस्यान्यभावं वदन्ती श्रुतिरेव गौणत्वं बदति । कारणांशभावव्यतिरिक्तस्थले तथैव प्रतीतेः । तस्मात् तदाकृतिमात्रेण न स्वरूपान्यथाभावः ॥ २२ ॥ नातिचिरेण विशेषात् ॥ २३ ॥ उपपत्त्यन्तरमाह । तद्रूपता च नातिचिरेण । न बहुकालं त- दूपता। कुतः ? । विशेषात् ।अन्नभावापन्नस्यैव वहुकालश्रवणात् । अतो वै खलु दुनिष्प्रपतरमिति । प्रापतरं प्रपतरं वा । वर्णलोप- इछान्दसः। अतस्तृतीयाहुतौ न चिरेणेसायाति । बहुकालस्थितौ इत्युपपत्तिरेव तद्गमिकेत्यर्थः । एतं न्यायमन्यत्राप्यतिदिशन्ति । * विकारस्येत्यादि * । * इयमिति * तत्तुल्याकृतिरूपा । यथा, विप्रो भूत्वाऽथ वृत्रहत्यादौ । * उपासनायामिति * वाचं धेनुमुपासीतेत्या- धुपासनायाम् । तथाच ताशस्थले किश्चिदाकृतिसादृश्येपि चेत् साक्प्रयोगस्तदा भूयःसादृश्य किं वाच्यमित्यर्थः । ननु तथापि त- द्भावाभावे, भूत्वाश्रुतिर्बाध्येताऽतो नात्र गौणी युज्यत इत्यत आहुः । * नचेत्यादि * प्रतिस्वरूपं नियतेषु वाय्वादिष्वाहिते निविष्टे जीवे ताद्रूप्यभवनायरोहाभ्यामव भूत्वेत्यस्य वचनात् । तदेव स्फुटीकुर्व. न्ति * अन्यस्येत्यादि । वदने हंतुमाहुः * कारणेत्यादि * । * त- थंवति * । आकृतिमात्रणेव । सिद्धमाहुः * तस्मादित्यादि * ।अतः कारणभूता एवापो वर्षन्तीति पूर्वोक्तं निर्वाधम् ॥ २२ ॥ नातिचरेण विशेषात् ॥ सूत्रप्रयोजनमाहुः । * उपेत्यादि * अन्न सूत्रे पूर्वसूत्रात् साभेत्यनुवर्तते । तथाच तद्रूपतायामुपपत्यन्तर- माहेत्यर्थः । * अतिचिरेणति * तृतीयाप्रतिरूपकं, न तु तदर्थकम् । अतो वै खलु दुनिष्प्रपतरमित्येतस्य, अतोऽनभावात् पुरुषभवनं दु- प्रापतरं दुर्गमतरं वेत्यर्थात् । यत् सिद्धं तदाहुः * अतस्तृतीय- सप्रकाशे अणुभाष्ये । हि तद्रूपता । कारणवशाद्देवानां मनुष्यभाववत् । भिन्नपक्षे न कोऽपि दोषः।ऐक्यपक्षेऽपि ज्ञानवतो गृहस्थस्य दुर्लभत्वादेवं वचन- म् । तस्माद् दृष्टेरनं भवतीति सिद्धम् ॥ २३ ॥ अन्याधिष्ठिते पूर्ववदभिलापात् ॥ २४ ॥ चतुर्थी आहुतिविचार्यते । ननु संसर्गजैः कर्मदोर्याति स्था- वरतां नर इति कथमस्यान्नत्वम् । अपूर्वान्नत्वेऽपि कण्डनपाका- दिषु क्लेशेन जीवस्यापगमात् कथं रेतोभावः । चर्वणौदर्यपाक- स्त्वावश्यक एव । नच जीवस्य जडभावः । मर्यादामङ्गप्रसङ्गात् । तस्मात् कथमन्नस्य रेतोभाव इसाशक्य परिहरति । अन्याधिष्ठिते त्यादि * । नन्वेवमवरोहक्लेशस्यात्र सिद्धी पञ्चाग्निप्रकारे को विशेपो धूममार्गादित्याशङ्कयामाहुः । * भिन्नपक्ष इत्यादि * धूममार्गाद्भि- नः पञ्चाग्निमार्ग इति पक्षे । न कोऽपि धूममार्गोक्तक्लंशसंसर्गदोपः । क्लेशस्य धूममार्ग एवाक्तत्त्वात् । तयारक्यपक्षे ज्ञानवतो गृहस्थस्य दुर्लभत्वादशानिनं लक्ष्यीकृत्यैतन्क्लेशवचनम् । न तु साधारण्यनेति, न पश्चाग्निमार्गे दोष इत्यर्थः ॥ २३ ॥ ५ ॥ अन्याधिष्ठिते पूर्ववदभिलापात् ॥ अधिकरणप्रयोजनमाहुः । * चतुर्थीत्यादि * अन्नाद्रेती भवतीति चतुर्थ्याः सफलाया आहुते- रत्र विचारः प्रयोजनमित्यर्थः । पुरुषाग्नावन्नं जुह्वतीति श्रुतावन्नस्य होम्यत्वमुक्तम् । स्मृतौ तु पापजन्यत्वमन्नस्योच्यते इति तदुपपद्यते, नवति, अन्नस्य च रेतोभाव उपपद्यते न वेति, जीवस्यानभाव क्लेशो भवति न वेति सन्देहाद्विचारं बोधयितुं सूत्रमवतारयन्ति * नन्वि- त्यादि *। * इति कथमस्थानत्वमिति * अस्माद्वाक्यादन्नभावस्य पापजन्यत्वे निश्चिते अस्य उक्ताहुतिप्रकारण शुद्धस्य जीवस्य कथमन्नत्यम् । * अपूर्वान्नत्व इति * प्रोक्षणादिनेव आहुतिभिः सं- स्कारस्य जातत्वादपूर्वान्नत्वे । परिहारं व्याकुर्वन्ति । * अन्याधिष्ठित इस्यादि *। उप्ते बीजे यदा वृष्टिर्जायते तदा जलभावापन्ना जीवास्तेन घनारससंस्कृतसीरीज़नानी वाराणसेयसंस्कृतपुस्तकावली । रु० आ. १ . १ इयं पुस्तकावली खण्डशो मुद्रिता भवति । अस्यां संस्कृतभाषा. निबद्वा बहवः प्राचीना दुर्लभा उत्तमोत्तमाः केचिदङ्गलभाषानुवा- दसहिताश्च ग्रन्था मुद्रिता भवन्ति । तांश्च ग्रन्थान् काशिकराजकी- यसंस्कृतपाठशालीयपण्डिता अन्ये ऽपि विद्वांसः शोधयन्ति । यैा- हकमहाशयैरियं पुस्तकावला नियमेनाविच्छेदेन संग्राह्या तैस्तदे- फैकस्य खण्डस्य ॥) मूल्यं प्रापण व्ययश्च =) देयः । अन्यम- हाशयर्यः कानिचित् खण्डानि संग्राह्याणि तैश्च प्रत्येकं खण्डानां १) मूल्यं प्रापणव्ययश्च =) देय इति ॥ तत्र मुद्रिता ग्रन्थाः। सिद्धान्ततत्त्वविवेकः खण्डानि ५ अर्थमङ्ग्रह अंग्रजीभापानुवादसहितः तन्त्रवार्तिकम् खण्डानि १३ १३ कात्यायनमहर्पिप्रणीतं शुक्लयजुःप्रातिशाख्यम् सभाप्यं ख० ६६ सांख्यकारिका चन्द्रिकाटीकागांडपादभाष्यसहिता वाक्यपदीयम् खण्डानि ५ (प्रथमभागः प्रथमद्वितीयकाण्डे पुण्यराजटीकासहित खण्ड ३ । द्वितीयभागः तृतीयाका- ण्डम् हेलाराजटीकासहित खण्ड २) रसगङ्गाधरः खण्डानि ९ परिभाषावृत्तिः खण्ड २ वैशेषिकदर्शनं किरणावलीटीकासंवलितप्रशस्तपादप्रणीत- भाष्यसहितम् खण्डे २ २ शिक्षासङ्ग्रहः खण्डानि ५ नैष्कर्म्यसिद्धिः खण्डानि ४ महर्षिकात्यायनप्रणीतं शुक्लयजुस्सर्वानुक्रमसूत्रम् सभाध्यम ३ ऋग्वेदीयशौनकप्रातिशाख्यं सभाष्यम् खण्डानि ४ (बृहत्) वैयाकरणभूषणम् पदार्थदीपिकासहितम् खण्डानि ४ ४ विवरणोपन्यासः सटीकवाक्यसुधासहितः खण्डे २ २ तत्त्वरीपनम् (पञ्चपादिकाविवरणस्य व्याख्यानम् ) ख० ८ वेदान्तदीपः (श्रीभगवद्रामानुजाचार्यविरचितः) खण्डानि ३ ३ टुप्टीका खण्डानि ४ ० ० ० ૨. ४ ४ ८ ४ ०. पातालदशनम्।श्रीरामानंन्दयतिकृतमणिप्रभाऽऽख्यवृर्ति स० १ व्याकरणमिताक्षरा । श्रीमदभट्टप्रणीता खण्डानि रसमजरी । व्यङ्गयार्थकौमुद्या प्रकाशेन च सहिता ख० ३३ भेदधिकारः व्याख्यासहितः श्रीमदप्पयदीक्षितकृत उपक्रमप. राक्रमसहितः खण्डे २ २ बोधसारो नरहरिकृतः तच्छिम्यदिवाकरकृतटीफयास० ख० १० ब्रह्मसूत्रदीपिका श्रीमच्छङ्करानन्दभगवद्विरचिता खण्डे २ २ दैवज्ञकामधेनुः अर्थात् प्राचीनज्योतिषग्रन्थः खण्डानि ३ श्रीमदणुभाष्यम् । श्रीश्रीवल्लभाचार्यविरचितम् । गोस्वामिश्रीपुरुषोत्तमजी महाराजविरचितभाष्यप्रकाशाख्य- व्याख्या समेतम् खण्डानि ९ तत्त्वशेखरः। श्रीभगवल्लोकाचार्यप्रणीतः । तथा-तत्त्वत्रयचुलुक. संग्रहः । कुमारवेदान्ताचार्यश्रीमवरदगुरुविरचितः । ३ ९ ब्रजभूषण दास और कम्पनी चांदनीचीफ के उत्तर नई सड़क बनारस +

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Shriimadand-ubhaashhyama~ Faskiikyulasa~ 9

Author
Shriishriivallabhaachaara~yaa
Title
Shriimadand-ubhaashhyama~ Faskiikyulasa~ 9
File name
Shriimadand-ubhaashhyama~ Faskiikyulasa~ 9
Text
OCR done
Citation
1906
Published
2005-11-28
Publisher
Vidya Vilaasa~ Presa~
Language
Sanskrit
Pages
111
Classification
Philosophy. Psychology
DLI number
369505
Barcode
2030020016324.00
Scanning centre
RMSC, IIIT-H
Digital publisher
Digital Library Of India
Rights
OUT_OF_COPYRIGHT
VMLT id
pNM436atQEU
Download PDF

Shriimadand-ubhaashhyama~ Faskiikyulasa~ 9