Sarnath Varanasi
Kuwalyanandkarikasthalankaranukramah
Front matter
प्रस्तावना छि. २२ २३ २४ २५ २८ २९ - २९ ३० ३० ३ ३१ अथ प्रकाश्यतेऽयं कुवलयानन्दकारिकाख्यो ग्रन्थः श्रीमदाशाधर- पण्डितप्रणीतसुबोधव्याख्यासमलंकृतः सहृदयहृदयानन्दथुमाविष्क- तुम् । एतज्जीवातुभूतकुवलयानन्दप्रणेतुः सुगृहीतनाम्रो विद्वदग्रेसरस्य श्रीमदापय्यदीक्षितस्येतिवृत्तं साधनवैधुर्याद्यथावन्नि”तुमशक्यमेव । एतद्विपयिणी किंवदन्ती चेत्थं श्रूयते--अयंहि पण्डितमूर्धन्यो द्राविडः औतस्माभियकर्मकाण्डकलापचणः सर्वतन्त्रस्वतन्त्रः त्रिविधाघौघप- रम्परानिवर्हणैकबद्धपरिकरायां वाराणस्यां गतः कदाचित् प्रभाते कृतभागीरथीस्नानो निर्वर्तितप्रातराह्निको निजनिकेतं प्रत्यागच्छन् हे शयानं रमणीयरमणीदत्ताशेपं प्रावृताखिलवर्माणमपि निर्मुक्त- परसाधवलशिखं कंचन पुरुषमद्राक्षीत् । अब्रवीच तं सप्रतिधवि. स्मयकरुणाभिभूतः 'किं निःशङ्ख शेपे शेषे वयसि त्वमागते मृदग।' इति । एतत्पद्यार्धमाकोज्झितप्रावरणः पद्योद्घोषकं भावदवलोकयति स शयालुस्तावदेनं पण्डितराज जगन्नाथरायं बुवा श्रीमदप्पय्यदीक्षितो झटित्युत्तरार्धमभाणीत्- 'अथवा सुखं शयीथा निकटे जागर्ति जाह्नवी 'तः ॥' इति । इत्यायेतियनास्य पण्डितराजसमकालीनत्वमवगम्यते। सच पण्डित- रिधुर राजः शहाजहानाख्ययवनसार्वभौमस्य सभास्त आसीत् । अधिगतवांश्च निजानेकविद्याकलाकन्द पचमत्कारतोपितात्तस्मादेव पण्डितराजपदवीम् । स्थितश्च प्रथमे वयसि प्रायस्तत्रैव तत्सूनी- राशिकोहस्य समीपे । शहाजहानरमहीपतिस्तु १६२८ तमे ख्रिस्ताब्दे नृपासनमधिरूढः, १६५८ तने ख्रिस्ताब्दे औरङ्गजेबसंज्ञेन स्वपुत्रेण कारागारे निवेशितः, ततः १६६६ तमे खिस्ताब्दे च पञ्चत्वमग- पत् । पण्डितराजोऽपि. वार्धके श्रीकाशीक्षेत्र एव समनोवाकायं जग- दीशपरिचरणव्यावृतोऽनैपीदायुःशेपभागम् । एवं च निस्ताब्दीयस- सदशशतकमध्ये एव पण्डितराज आसीदिति स्फुटमेवेति रसगङ्गा- ३१ ३२ ३ ३६ ३ . ३८ ३८ ३. -- .
२ कुवलयानन्दकारिकाणां वत्प्रस्तावे निर्णीतवान् जयपुरन जाश्रितः परि सवरो दुर्गाला- दशर्मा ! तेन कुवलयानन्दप्रणेतुः श्रीमदमातीक्षितस्य जीवनका लोऽपि लिस्तान्तीयसप्तदशशतकमेवेलवसीयते कुवलयानन्दस्य कोमलमतिबालाल दुरुहत्वात्केवलं कुवल्यान न्दकारिका एव पृथगुडुल श्रीमदाशाधरपण्डिलेन सरलनुरोधव्या- ख्यया सनाथीकृतमिदं पुस्तकं महतार प्रयासेन समाधास्माभिः पूर्व बुद्धितमासीत् तथापि तत्र पच्छे परतवर्णादिवैकल्यं मूल्यमप्य- धिकमित्यापन्निरलनायाधुनाधुनिकप्रणालिकया यथाव्वेतवालमनोवि- नोदावह स्यादिति व्याख्योदाहरणटिप्पण्यादिभिः श्लोकवर्णक्रमको- शेन च मण्डयित्वा पुस्तकरूपेण मुद्रितं सर्वेषामुपकारार्थ स्यादि. स्याशास्ते- दुनामावर पणशीकरोपाहो वासुदेवशर्मा।
श्रीः। कुवलयानन्दकारिकास्थालंकारानुक्रमः । पृष्ठं. २२ ... ... ... ... ... ... २५ ... ... ... २७ ... २८ २९ ... ... ... ... २९ ३० ३० ... ... ... ... ... ... ३१ ... ... विषय. पृष्ठं. विषयः लक्ष्यलक्षणप्रकरणम् १ तुल्ययोगिता मङ्गलाचरणम् १ | तुल्ययोगिताभेद मन्थप्रतिज्ञा २ | दीपकालंकार उपमालंकारः ३ | आवृत्तिदीपकालंकारः लुप्तोपमाष्टप्रकारा ४ प्रतिवस्तूपमालंकारः उपमानालंकारः ६ | दृष्टान्तालंकारः ... प्रतीपालंकारः निदर्शनालकारः प्रतीपभेदः ७ | निदर्शनाभेदाः रूपकालंकारः ९ व्यतिरेकालंकारः परिणामालंकारः ११ | सहोक्तिरलंकार. उल्लेखालंकारः विनोक्त्यलंकारः स्मृति-भ्रान्ति-संदेहालंकारः १२ | समासोक्त्यलंकार शुद्धापह्रत्यलकारः १३ परिकरालंकारः हेत्वपहृत्यलंकारः १३ | परिकराङ्कुरालंकार पर्यस्तापहृत्यलंकारः १४ श्लेषालंकारः भ्रान्तापहृत्यलंकारः १४ | अप्रस्तुतप्रशंसालंकारः कैतवापहृत्सलंकारः १५ प्रस्तुताकुरालंकार. छेकापहृत्यलंकारः १५ पर्यायोक्तालंकार संभावनालंकारः १६ | व्याजनिन्दालंकारः वस्तूत्प्रेक्षालंकारः १७ आक्षेपालंकार हेतूत्प्रेक्षालंकारः १७ | निषेधाभासोऽप्याक्षेपः फलोत्प्रेक्षालंकारः १८ | आक्षेपान्तरम् खरूपातिशयोक्तिः १९ विरोधाभासालकारः सापहवातिशयोक्तिः १९ । विभावनालंकारः भेदकातिशयोक्तिः २० कार्योत्पत्त्यलंकारः संबन्धातिशयोक्तिः २० अन्यकार्योत्पत्तिः अक्रमातिशयोक्तिः २१ | विभावनामेदः चपलातिशयोक्तिः २१ विभावनालंकारः अत्यन्तातिशयोक्तिः २२ विशेषोक्तिरलंकारः । ३१ ३२ ... ... ... ... WW ... ... ३८. .. ... ... ... ... ४ ... .. ४ ... ... ...
. R ४६ अक्जालंकारः 04 . Mirwaiamaste ॥ ला की १० CHE द 00 100 .. 200 ९० पूर्वरूपाचारः २: असदुगाकारः ... ५ अनुगुणालंकार ५२ मीलिताले AN ... apwmsungaparma 30. AN , ७८. 2. निचित्रालंकारः आधिकालंकारः अल्पालंकारः अन्योन्यालंकारः দিনানো विशेषनलंकारः व्याघातालंकारः ... कारणमाला एकावल्वलंकारः मालादीपकालंकारः सारालंकार: यथासंख्यालंकारः पर्यायालंकारः परिवृत्त्यलंकारः परिसंस्थालंकारः विकल्लंकारः समुच्चयालंकार कारकदीपकालंकारः समाध्यलंकारः प्रत्यनीकालंकारः काव्यार्थापत्त्यलंकारः काव्धलिङ्गालंकारः अर्थान्तरन्यासालंकारः विकस्बरालंकारः ठोक्यलंकारः संभावनालंकारः मिथ्या सित्यलंकार ललितालकारः प्रहर्षणालंकार 19. 6 40 - 34. 338 ५५ चित्रोत्तरालंकार ५६ सूक्ष्मालंकारः ५६. पिहितालंकार ५७ व्याजोत्पलं ५८ गृहोत्मक १८ बितोयलंद ५९ युत्यलंकारः ६० लोकोतयलंकारः छेकोतयलंकारः ६१वक्रोत्यलंकारः. काकुचकोतयलंबा ६२ स्वभावोत्यलंकाः .६२ भाविकालंकारः ६३ उदातालकार ६४ उदात्तेवतिः अत्युक्त्यलंकारः निरत्यलंकारः प्रतिषेधालंकारः .* 042 . ८३ . be ... विध्यलंकारः শুদ্ধান্ত । विषयः ... विद्यालंकारः ... लंकारमेदः.. अजानाकारः उदिवालंकारमा रमाइरस आरलतु, दयलंकारः बलवदलंका परिशेषप्रकरणम् ३ सोलंकारः कजलकारः अजामीभाव संकरः समाहितालंकारः ८९/समप्राधान्यसंकरः भादोदयालंकारः आवसंध्यलंकारः ८९ बायकाप्रवेशसंकरः ... ८९ चिरकर अवज्ञाकारः হানুজ্জামায়াত उपमानालंकारः खजबन्धादयः अनुप्रासश्चतुलित मानुप्रासः अर्धापरललकारः ক্লিামা संभचाकारः ९२ भालंकारः ... शुललंकारः ६२ । मुलरकप्रतीकाशालंकार: CA 1989 20.0 0.0 30 ". समाशेयं कुवलयानन्दशारि विषयानकमणिका श्रीः। कुवलयानन्दकारिकाः। अलंकारदीपिकाख्यव्याख्यासंवलिताः। लक्ष्यलक्षणप्रकरणम् । श्रीकृष्णाय नमः। शिवयोस्तनयं नत्वा गुरुं च धरणीधरम् । कुर्वे कुवलयानन्दकारिकादीपिकां मुदे ॥१॥ आशाधरेण कविना रामजीभट्टसूनुना । क्रियते कारिकाटीका बालानामुपकारिणी ॥ २ ॥ अथ तत्रभगवानप्पय्यदीक्षितनामा कविः सहृदयहृदयानन्दार्थ- मर्थालंकाराणां लक्ष्यलक्षणोपेताः कारिकाः कृत्वा तव्याख्यानरूपं कुवलयानन्दाख्यं ग्रन्थं कृतवान् । कारिकाश्च तत उद्धृत्य क्रमेण लिखितवान् । तत्र निःप्रत्यूहार्थं मङ्गलमाचरति- मङ्गलाचरणम्। परस्परतपःसंपत्फलायितपरस्परौ । प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ १॥ परस्परेति ॥ वयं परस्परस्य तपःसंपदा अन्योन्यतपोलक्ष्म्या फ- लायितं फलवदाचरितं परस्परं याभ्यां तौ तथोक्तौ । तपोलक्ष्मी लब्ध्वेव संबन्धतया भासमानौ वस्तुतस्तु नित्यसंबन्धावित्यर्थः । प्रपञ्चस्य विश्वस्य मातापितरौ जनकौ । प्रकृतिपुरुपरूपत्वादिति भावः। प्रकर्षण अञ्चतः पूजाविषयीभवत इति प्राञ्चौ ।अर्हादीनां पूजाविषयीभवनमर्थ इति धातुवृत्तिकारः । यद्वा प्रकर्ष अञ्चतो गच्छतस्तौ प्राञ्चौ । प्रकर्ष- युक्तावित्यर्थः । जायापती दम्पती पर्यायोक्तविधया पार्वतीपरमेश्वरावि- त्यर्थः । स्तुमः वर्णयामः । वर्णनं हि तेंदुत्कर्षकथनं स्वापकर्षकथनं च १ शब्दापशब्दज्ञानरहिता बाला नतु स्तनंधयाः । २ काव्यवासनापरिपक्वबुद्धयः सहृदयाः। ३ मत्तस्त्वमुत्कृष्टः श्रेष्ठः । त्वत्तोऽहं निकृष्ट इति ।
२ कुवलयानन्दकारिकाः। - वाचिकनमस्कारत्वेन परिणमतीति नमस्कारात्मकं मङ्गलमेतत् । 'अ- स्मदो द्वयोश्च' इति कर्तृबहुवचनं तदनुसारेण क्रियायाश्चेति संक्षेपः १ अध्येतृणां सिद्ध्यर्थं पुनर्मङ्गलमाचरति- अमरीकबरीभारभ्रमरीमुखरीकृतम् । दूरीकरोतु दुरितं गौरीचरणपङ्कजम् ॥ २॥ अमरीति ॥ अमरीणां देवीनां कबरीभारेपु वेणीगुम्फेषु या भ्रमर्यः सौरभलोभादवस्थितास्ताभिर्मुखरीकृतं शब्दायमानं कृतम् । योग्यत्वात्स्त्रीलिङ्गनिर्देशः पुंसां हि दूरे स्थितियुक्तेति । 'गौरीचरण- पङ्कजं गौर्याः पार्वत्याश्चरणमेव पङ्कजं पादपद्मम् । चरणत्वेन परिणतं पद्ममित्यर्थः । दुरितमन्तरायं दूरीकरोतु । हरत्वित्यर्थः । अत्रोत्तरपदार्थस्य पङ्कजस्य चरणत्वेन परिणत्या दुरितदूरीकरणोप- योगात्परिणामालंकागे नतु रूपकमुपमा वा पङ्कजस्य प्राधान्यायोगा- साधारणधर्मप्रयोगाचेति संक्षेपः । अत्र पङ्कजं स्वर्गङ्गासंबन्धि बो- ध्यम । नस्य जलक्रीडागतदेवीकेशस्थभ्रमरीसंबन्धोपपत्तेः । अन्यस्य भ्रमरीमात्रसंवन्धो घटते देवीकेशगतत्वं तु नैव ॥ २ ॥ ग्रन्थप्रतिज्ञा। चिकीर्पितं प्रतिज्ञानीते- अलंकारेषु बालानामवगाहनसिद्धये । ललितः क्रियते तेपां लक्ष्यलक्षणसंग्रहः ॥ ३ ॥ अलंकारेविति ।। बालानां वालसदृशानामल्पबुद्धीनामलंकारे- पूपमादिषु अवगाहनसिद्धये बुद्धिप्रवेशसिद्ध्यर्थ तेषामलंकाराणां ललितः सुन्दरः स्पष्ट इत्यर्थः । लक्ष्यलक्षणयोरुदाहरणम्वरूपकथनयोः संग्रहः सक्षेपः क्रियते । इहाम्माभिरिति शेषः । अलंकारलक्षणमाह १ केचित्तु परिणामालंकारम्य स्पटपतिपनये प्रकारान्तरेण विग्रहं कुर्वन्ति । चरण भुतं पर जमिनि म यमपदलोपी समागः । २ “विनोऽन्तराय. प्रन्यूद.' इत्यमर । ३ 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' । उपमेयं पुरुषादि व्याघ्रादिभिरूपमानपदैः सह गमम्यते । परं गाधारणधर्मप्रयोगाभावे । यथा पुरुषव्याघ्र इति ।
लक्ष्यलक्षणप्रकरणम् १ ३ दुण्डी काव्यशोभाकरान्धर्मानलंकारान्प्रचक्षते' इति । गुणानां शोभा- करत्वेऽपि रसधर्मत्वान्नातिव्याप्तिः । शब्दालंकारास्त्विह न लक्षिताः सुगमत्वात् ॥ ३ ॥ उपमालंकारः। -- मुख्यत्वादुपमास्वरूपमाह- उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः। हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते ॥ ४ ॥ उपमेति ॥ यत्र श्लोकादौ द्वयोर्वावर्ण्ययोरर्थयोः सादृश्य- लक्ष्मीः साधर्म्यशोभा । शोभाविशिष्टं साधर्म्यमित्यर्थः । पूर्वपदा- र्थस्य विशेष्य॑स्य प्राधान्यान्वये चमत्कारान् । यथा कुमारसंभवे- 'तव तस्थुः फणरत्नशोभा' इत्यत्र । नदुक्तं तर्कशास्त्रे - सविशेपणे हि विधिनिषेधी सति विशेष्ये बाधे विशेषणमुपसंक्रामतः । सति विशेपणे बाधे विशेष्यमुपसंक्रामतः' इति । उल्लसति अधिकं प्रकाशते १ 'ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥' इति तल्लक्षणम् । ते च माधुर्योजःप्रसादाख्याः । तत्र गुणस्थानमाह- 'गलितत्वमिवाहादपदव्या हृदये दधत् । माधुर्य नाम शृङ्गारे प्ररोहं गाहते गुणः ।। आह्लादकत्वं माधुर्य शृङ्गारे द्रुतिकारणम् । करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् ॥ ओजोलक्षणमाह- 'दीप्त्यात्मा विस्मृतेहेंतुरोजो वीररसस्थितेः । वीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण तु ।' यद्वगाज्वलितमिव मनो जायते तदोज इत्यर्थ. 1 प्रसादलक्षणमाह- 'शुष्कन्धनाग्निवत्स्वच्छजलवत्सहसैव यः । व्याप्नोत्यन्यत्प्रसादोऽसी सर्वत्र विहितस्थितिः ॥' स चीजसि शुन्वनाशिवस्पित । माधुर्य स्वच्छशर्कराजलवत् यो गुणो- ऽन्यन्यायं चित्तं सटिव रसेन च्याप्नोति रा प्रसाद । अयं सर्वपु रगेवावेयतया सर्वासु रचनामु पयतया स्थित.। २ अलक्ष्ये लक्षणगमनमतिच्याप्तिः । ३ 'गुणदोषी बुधो गृहन्निन्दुक्ष्वेडाविवेश्वरः । शिरसा श्लाघते पूर्व परं कण्ठे नियच्छति ॥' पूर्वपदार्थ विशेष्यं मत्वा तस्यैव प्राधान्येनान्वयस्वीकारे चमत्कारात् ।
कुवलयानन्दकारिकाः। ते तव , तत्रोपमा । यथाशब्दो निदर्शनार्थं सर्वत्र । यथा हे कृष्ण, कीर्तिः हंसीव वरटेव । 'वरटा वरला हंसी' इत्यभिधानात् । स्वर्गङ्गा नाकनदी अवगाहते प्रविशति । तत्र मज्जतां मुखेभ्यः प्रसरणादिति भावः । अत्र कृष्णेत्यस्याविद्यमानवत्त्वे हंसीवशब्दात्परस्य ते इत्या- देशः । सोहश्यलक्षणमाह रुद्रटः 'अन्योन्यधर्मवत्त्वं तु स्पष्टं साह- इयमुच्यते' इति । अत्र वर्ण्यमुपमेयं न्यूनगुणमवर्ण्यमुपमानमधिक- गुणम् । प्रसिद्धं च तद्धर्मयोरभेदाविवक्षायामिवादयो वाचका इति संप्रदायः ॥४॥ अस्योपमालंकारस्य चत्वारोऽवयवाः । उपमेयं उपमानं धर्मो वाचकश्चेति । तेषां निबन्धने पूर्णा, यथासंभवं गम्यत्वे च लुप्तेति सिद्धान्तः । तत्र पूर्णा दर्शिता । इदानी लुप्ताभेदानाह- वोपमानधर्माणामुपमावाचकस्य च । एकद्वित्र्यनुपादानभिन्ना लुप्तोपमाष्टधा ॥ ५ ॥ वयेति ॥ वोपमानधर्माणां उपमेयोपमानसाधारणधर्माणां उपमावाचकस्य सादृश्यद्योतकस्य इवादेर्वाचकस्य तुल्यादेर्वा चतुर्णा मध्ये । निर्धारणे पष्ठी । एकद्वियनुपादानैः । एकश्च द्वौ च त्रयश्च एक- द्वित्रयः तेषां अनुपादानैलॊपैरष्टधा भिन्ना लुप्तोपम्प भवति । लुप्तावयवा उपमा लुप्तोपमेति मध्यमपदलोपोऽत्र द्रष्टव्यः । एकादीनां विषयभे- देऽपि साहित्यविवक्षायां द्वन्द्वः । बहुव्रीहौ तु एकद्वित्रा इति स्यादिति संक्षेपः ॥ ५ ॥ उदाहरणान्याह-- तडिगौरीन्दुतुल्यास्या कर्पूरन्ती दृशोर्मम । कान्त्या स्मरवधूयन्ती दृष्टा तन्वी रहो मया ॥ ६ ॥ तडिगौरीति ॥ तडिदिव गौरी गौरवर्णा । अत्र समासे वाच- कलोप: 'उपमानानि सामान्यवचनैः' इति समासविधायकसूत्रमूलः । इन्दुतुल्यास्था इन्दुना तुल्यमास्यं मुखं यस्याः सा तथोक्ता । आह्लाद- कत्वेनेति शेपः । अत्र धर्मलोपोऽविवक्षामूलः। गम्यमानार्थस्याप्रयोग एव लोपोऽभिमतः' इति कैयटोक्तेः । 'अदर्शनं लोपः' इति संज्ञाप्रवृ- त्तेश्च । मम शोर्नेत्रयोः कर्पूरमिव आचरति कर्पूरति कर्पूरति सा क- १ 'आमन्त्रितं पूर्वमविद्यमानवत्' इति । २ तद्भिनत्वे सति तद्गतभूयोधर्मसजा- तीयभूयोधर्मवत्त्वं सादृश्यम् । - लक्ष्यलक्षणप्रकरणम् १ पूरन्ती। प्रथमायां निषेधेऽपि कचिदङ्गीकारात्विबन्ताल्लटः शत्रादेशः । अत्राप्याह्लादकत्वेनेति शेषः। तस्य धर्मस्य लोप ऐच्छिकः । वाचकस्य कि प्रत्ययस्येवशब्दस्य च शास्त्रकृतः । कान्त्या लावण्येन । आत्मान- मिति शेपः । स्मरवधूमिव रतिमिव आचरति मन्यते इति स्मरवधू- यति स्मरवधूयति सा तथोक्ता । स्वं रतितुल्यं मन्यमानेत्यर्थः । तन्वी कृशाङ्गी मया रहः रहसि । अव्ययमेतत् । दृष्टा । अत्र आत्मा- नमित्यस्य गम्यमानत्वादुपमेयलोप ऐच्छिकः । इवशब्दस्य तु. शा- स्वकृतः । कदाचित्काचिदिति शेपः ॥ ६ ॥ यत्तया मेलनं तत्र लाभो मे यश्च तद्रतेः । तदेतत्काकतालीयमवितर्कितसंभवम् ॥ ७ ॥ यदिति ॥ तत्र रहसि मे मम तया तन्व्या सह यन्मेलनं समागमः च* परं यः तद्रुतेः लाभः तत्पूर्वानुभूतं एतदधुना स्मर्यमाणं द्वयमपीति शेपः । अवितर्कितसंभवं अचिन्तितोपलम्भ हेतुभूतं विशेषणमेतत्काकतालीयम् । अत्र समासे स्त्रीसमागमोपमा तत्र वाचकोपमानलोपः । तद्धितार्थे च तदाम्वादोपमा तत्रोपमानमात्र- लोपः । तथाहि । काक इव तालमिव काकतालमिति इवार्थे तत्पु- रुपः । तत्रेवशब्दस्य 'उक्तार्थानामप्रयोगः' इति शास्त्रसिद्धो लोपः 'समासाच तद्विपयात्' इति ज्ञापकान । मयूरव्यंमकादयश्च' इति सूत्रप्राप्तिः ‘सह सुपा' इति वा । उपमानलोपस्तु कामिनीकामुकयो- मेलनं काकतालमित्युक्तेः । पुरुपागमनस्य काकागमनमुपमानं यो- पागमनस्य तालफलपतनमुपमानं तयोर्मेलनस्य च काकतालमेलन पमानं तस्य गम्यमानत्वाल्लोपः समामार्थानन्तर्गतत्वाच्छिकः । एवं समामार्थे वाचकोपमानलोपः । तद्धितार्थ तु काकतालमिव काकतालीयमिति इवार्थे छप्रत्ययः । तत्र काकतालसमागमजन्य आस्वादः कान्तकृतकामिन्युपभोगस्योपमानम् । तम्य गम्यमानत्वा- दैच्छिकलोपः । छप्रत्ययस्तृपमावाचकः । अवितर्कितसंभवामिति उभयत्र साधारणो धर्मः । काकतालशब्दयोर्निजकर्मणोलक्षणति संक्षेपः । चतुर्थे चरणे अभवतिक ब्रवीमि ते' इति पाठान्तरकल्पने समासार्थे धर्मोपमानवाचकलोपः । तद्धितार्थ च धर्मोपमानलोपः । अवितर्कित संभवमिति पदलोपान । पाठान्तरकल्पनाभावे तु मदीयं पद्यमुदाहरणीयम् । यथा रामस्य पथि राक्षस्याः सङ्गमस्तद्वधश्च यः । ।
w कुवलयानन्दकारिकाः । पुण्यैरजाकृपाणीयं मुनीनामभवद्वयम् ॥' इति । एतेऽष्टौ लुनाभेदाः संभवन्ति । तत्रैको भेदस्त्रिलोपपक्षे धर्मोपमानवाचकलुप्तेति १ द्विलोपपक्षे भेदचतुष्टयम् । धर्मवाचकलुप्ता २ वाचकोपमेयलुप्ता ३ वाचकोपमानलुप्ता ४ धर्मोपमानलुप्ता चेति ५। एकलोपपक्षे च त्रयो भेदाः।वाचकलुप्ता ६ धर्मलुप्ता ७ उपमानलुप्ता चेति ८ । लुप्तोपमापि तदर्थाध्याहारेण पूर्णोपमा भवति । एव सर्वालंकारमूलभूता । तदुक्तं चित्रमीमांसायाम्-'उपमैका शैलूपी संप्राप्ता चित्रभूमिकाभेदात् । रञ्ज- यति काव्यरङ्गे नृत्यन्ती तद्विदां चेतः॥ इति । अन्येऽपि भेदाः काव्य- प्रकाशकाव्यादर्शादिषु सन्ति । इह तु गादिपु सन्ति । इह तु विस्तरभयान्न लिखिताः॥७॥ उपमानालंकार । उपमानोपमेयत्वं यदेकस्यैव वस्तुनः । इन्दुरिन्दुरिव श्रीमानित्यादौ तदनन्वयः ॥ ८॥ उपमानेति॥एकस्यैव वर्ण्यस्य वस्तुनः यदुपमानोपमेयत्वं उप- मानत्वं कल्पितमुपमेयत्वं तु यथार्थमिति बोध्यम् । तदिन्दुश्चन्द्र इन्दुरिव चन्द्र इव श्रीमान सुन्दर इत्यादौ द्रष्टव्यमिति शेपः । अन- न्वयः नास्त्यन्वयः प्रकारद्वयसंबन्धो यस्मिन्स तथोक्तः । अत्रोपमे- यस्यातुल्यत्वे पर्यवसानम् ॥ ८ ॥ पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता। धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि ॥ ९ ॥ पर्यायेति ॥ द्वयोर्वावर्ण्ययोः पर्यायेण परिक्रमेण तत्तु उप- मानोपमेयत्वं चेत्तर्हि उपमेयोपमा मता। उपमेयाभ्यां उपमा उप- मेयोपमा इति व्युत्पत्तेः । कविभिरिति शेषः । परस्परतुल्यत्वेन इतरसादृश्यव्यवच्छेदः फलमस्याः । हे राजन्, त्वयि धर्मः सुकृतं १ विश्वामित्रादीनाम् । २ नर्तकी। ३ भिन्नभिन्नदेशान् । ४ रङ्गमण्डपे । ५ 'गगनं गगनाकारं सागरः सागरोपमः। रामरावणयोर्युद्धं रामरावणयोरिव ॥' इति । ६ पूर्वोदाहरणे श्रीमत्त्वस्य धर्मस्योपादानमस्ति इह तु गगनादेर्वैपुल्यादिधर्मस्य तन्नास्तीति विशेषः । ७ 'खमिव जलं जलमिव खं हंस इव चन्द्रश्चन्द्र इव हंसः। कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥' पूर्वत्र पूर्णश्रीरिति धर्म उपात्तः, इह निर्मलत्वादिधर्मो नोपात्त इति मेदः ।
लक्ष्यलक्षणप्रकरणम् १ . अर्थः समृद्धिरिव पूर्णश्रीः संपूर्णशोभा अस्तीति शेषः । अर्थश्च धर्म इव पूर्णश्रीः अस्तीत्यस्य गम्यमानत्वात्प्रायेणाप्रयोगः । 'अस्तिर्भव- न्तीपरः प्रथमपुरुषेऽग्रंयुज्यमानोऽप्यस्ति' इति भाष्योक्तेः । 'अनु- लोमो विलोमश्च क्रमः पर्याय इष्यते' इति शाश्वतः ॥ ९॥ प्रतीपालंकारः । प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम् । त्वल्लोचनसमं पद्मं त्वद्वसदृशो विधुः ॥ १० ॥ प्रतीपमिति ॥ उपमानस्य अधिकगुणस्य उपमेयत्वप्रकल्पनं न्यूनगुणत्ववर्णनं प्रतीपम् । प्रतिगच्छन्ति आपो यस्मिन्निति प्रतीपं निम्नोन्नतस्थलं तत्सादृश्यालंकारे लक्षणा । 'त्ररक्पूर्-' इत्यादिना समासान्तोऽकारप्रत्ययः। 'बन्तरुपसर्गेभ्योऽप ईत्' इति ईदादेशः। प्रतीपादयः स्वभावाद्गौणा एवेति प्राञ्चो वृद्धाः । पद्मं कमलं त्वल्लो- चनसमं त्वन्नेत्रतुल्यं रुचेति शेपः । अत्र पद्मस्य वर्ण्यत्वनिबन्धना- नेत्रस्य च तद्विपरीतत्वकल्पनाच लक्षणानुगमः । विधुश्चन्द्रस्त्वद्वक्र- सदृशः हे प्रिये, इति संबोधनं कल्प्यम् । चारुत्वद्योतनाथ पुनर- प्युदाहरणम् ॥ १०॥ प्रतीपभेद । अन्योपमेयलाभेन वर्ण्यस्यानादरश्च तत् । अलं गर्वेण ते वकान्त्या चन्द्रोऽपि तादृशः ॥ ११ ॥ अन्येति ॥ अन्योपमेयलाभेन अन्यस्य उपमेयत्वलाभेन वर्ण्यस्य प्रस्तुतस्यानादरश्च तत्प्रतीपम् । उपमानलाभकथनेन स्तुतिः पर्यव- सायिनी । हे प्रिये, ते वक्रकान्त्या मुखशोभया हेतुना गर्वेणालं न किंचित्साध्यम् । 'गम्यमानापि क्रिया कारकविभक्ती प्रयोजिका' १ 'यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेधैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी। येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमानमपि मे देवेन न क्षम्यते॥' अत्र कान्तीत्यादिधमापादानात्पूर्वोदाहरणवलक्षण्यं बोध्यम् । २ 'गर्वमसंभाव्यमिमं लोचनयुगलेन किं वहसि मुग्धे । सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ।' पूर्वादाहरणे कान्त्येति समाधानधोपादानमिह तु नेति मेद ।
८ कुंवलयानन्दकारिकाः। इति करणवात्तृतीया । अन्यथा चतुर्थी स्यात् । चन्द्रोऽपि तादृश- स्त्वद्वसदृशः । चन्द्रस्य न्यूनगुणत्वात्प्रतीपम् ॥ ११ ॥ वर्णोपमेयलाभेन तथान्यस्याप्यनादरः। कः क्रौर्यदर्पस्ते मृत्यो त्वत्तुल्याः सन्ति हि स्त्रियः॥१२॥ वयेति ॥वोपमेयलाभेन वयं च तदुपमेयं च वोपमेयं तस्य लाभेन प्राप्त्या । भावप्रधाननिर्देशो वा । अन्यस्यानादरोऽपि तथा प्रतीपमित्यर्थः । हे मृत्यो, ते तव क्रौर्यदर्पः क्रूरत्वगर्वः कः । प्रश्ने कुत्सायां वा किंशब्दः । 'कुत्साप्रश्नवितर्केपु क्षेपे किंशब्द उच्यते' इति शाश्वत: । हि यस्मात्स्त्रियः त्वत्तुल्याः त्वदुपमेयभूताः सन्ति । अतो निरुपमत्वगर्यो व्यर्थ इति भावः ॥ १२ ॥ वयेनान्यस्योपमाया अनिष्पत्तिवचश्च तत् । मुधोपवादो मुग्धाक्षि त्वन्मुखाभं किलाम्बुजम् ॥ १३ ॥ वण्येनेति ॥ वयेन सह अन्यस्य उपमायाः अनिष्पत्तिवचः असंभवोक्तिरपि तत्प्रतीपम् । हे मुग्धाक्षि, अम्बुजं त्वन्मुखाभं त्वद्वसदृशमिति मुधापवादो मिथ्याभिशापो नतु साम्यम् । किल प्रसिद्धम् ॥ १३ ॥ प्रतीपमुपमानस्य कैमर्थ्यमपि मन्यते । दृष्टं चेद्वदनं तस्याः किं पद्मेन किमिन्दुना ॥ १४ ॥ प्रतीपमिति ॥ उपमानस्य कैमर्थ्य व्यर्थत्वं मन्यते यत्तदपि प्रतीपम् । यत्तदोरध्याहारः । चेद्यदि तस्याः वदनं दृष्टं तर्हि पद्मेन किं इन्दुना च किम् । न किंचित्साध्यमित्यर्थः । क्षेपे किंशब्दः॥१४॥ १ 'अहमेव गुरुः सुदारुणानामिति हालाहल मा स्म तात दृप्यः। ननु सन्ति भवादशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम्॥' २ त्वं उपमेयभूतो यास ताः । ३ निरूपितत्वं तृतीयार्थः । वर्ण्यनिरूपिता यान्यस्यावर्ण्यस्योपमा तस्या इत्यर्थः । ४ 'आकर्णय सरोजाक्षि वचनीयमिदं भुवि । शशाङ्कस्तव वक्रेण पामरैरुपमीयते ॥' ५'तदोजसस्तयशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा । तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ॥'
लक्ष्यलक्षणप्रकरणम् १ ९ . रूपकालंकारः । विषय्यभेदताद्रूप्यरञ्जनं विषयस्य यत् । रूपकं तनिधाधिक्यन्यूनत्वानुभयोक्तिभिः ॥ १५ ॥ विषयीति ॥ यद्विषयस्य उपमेयस्य विपय्यभेदताद्रूप्यरञ्जनं विषयिण उपमानस्य अभेदताद्रूप्याभ्यां भेदाभावतद्रूपत्वाभ्यां रञ्जन रक्तीकरणं तद्रूपकम् । तदाधिक्यन्यूनत्वानुभयोक्तिभिः आधि- क्योक्त्या न्यूनत्वोक्त्या अनुभयोक्त्या च त्रिधा भवति । रूपव- स्करोति रूपयतीति रूपको लक्षणाविशेषः । रूपयुक्तं करोतीत्यर्थः । सोऽस्त्यस्मिन्निति रूपकमलंकारः । लेक्षणाप्रपञ्चस्तु मत्कृते कोवि- दानन्दे द्रष्टव्यः ॥ १५ ॥ अयं हि धूर्जटिः साक्षायेन दग्धाः पुरः क्षणात् । अंयमास्ते विना शंभुस्ताीयीकविलोचनम् ॥ १६ ।। अयमिति ॥ प्रतिलोमक्रमेणोदाहरणान्याह विवक्षायाः स्वात- त्र्यात् । 'वक्तुर्विवक्षापूर्विका शब्दार्थप्रतिपत्तिः' इति व्याडिवचनात् । अयं राजा साक्षार्जटिः प्रत्यक्षं शिव एव । हिशब्दो निश्चयार्थे । येने क्षणात पुरः । यद्यपि क्षणेनैवेति वक्तुं युक्तम 'अपवर्गे तृतीया' इति सूत्रात् । तथापि बुद्धिकल्पितापादानत्वस्वीकारात्पञ्चमी । दग्धाः रिपूणामिति शेपः । अत्र अनुभवाभेदरूपके राजा अयं तातीयीकविलोचनं विना तृतीयनेत्रं विना । तृतीयशब्दात्स्वार्थे 'चन्द्रज्योत्स्नाविशदपुलिने सैकतेऽस्मिन्सरय्वा वाछूतं चिरतरमभूत्सिद्धयूनोः कयोश्चित् । एको वक्ति प्रथमनिहतं कैटभं कंसमन्य स्तत्त्वं स त्वं कथय भगवन्को हतस्तत्र पूर्वम् ॥' अयं हीत्युदाहरणेऽभेदारोपहेतुभूतं पुरदाहकत्वरूपं साधर्म्यमुपात्तम् । इह तु जगद्रक्षकत्वादिकं तदम्यमानमिति भेदः । २ 'वेधा द्वेधा भ्रमं चक्रे कान्तासु कनकेषु च । तासु तेष्यप्यनासक्तः साक्षाद्भर्गो नराकृतिः ॥' अयमास्त इत्युदाहरणे शंभुसादृश्यं गम्यमानमिह त्वनासक्तिरूप नदुपात्तमिति भेदः। ३ राज्ञा । ४ 'अपवर्ग तृतीया' । अपवर्गः फलप्राप्तिरतस्यां योसाया काला- चनोरत्यन्तसंयोगे तृतीया स्यात् ।
कुवलयानन्दकारिकाः। ईकक्प्रत्ययः । शंभुरास्ते शिवो वर्तते । 'आस उपवेशने' इत्यस्य वृत्त्यर्थत्वं धातूनामनेकार्थत्वात् । न्यूनाभेदरूपकम् ॥ १६ ॥ शंभुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम् । अस्या मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना ॥ १७ ॥ शंभुरिति ॥ अद्येदानीम् । 'एषः' इति पाठे वर्णनीयोऽसौ राजा शंभुः समदृष्टितां द्विनेत्रत्वं स्वीकृत्य गृहीत्वा । समदृष्टिना स्वीकारस्तु भाललोचनस्य गोपनेन विवक्षितः । अन्यथा आधिक्यं न सिध्येत् । पूर्व विपमदृष्टित्वादिति भावः। विश्वमवति जगद्रक्षति नतु संहरतीति भावः । अत्राधिक्यभेदरूपकम् । ताद्रूप्योदाहरणान्याह । अस्याः कामिन्याः मुखेन्दुना वक्रचन्द्रेण नेत्रानन्दे लब्धे प्राप्ते सति इन्दुना किं प्रयोजनम् । न किंचिदित्यर्थः । अत्रानुभयताद्रूप्यरूपकम् ॥१७॥ साध्वीयमपरा लक्ष्मीरसुधासागरोदिता। अयं कलङ्किनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते ॥ १८ ॥ १ 'त्वय्यागते किमिति वेपत एव सिन्धु- स्त्वं सेतुमन्थकृदतः किमसौ बिमेति । द्वीपान्तरेऽपि नहि तेऽस्स्यवशंवदोऽद्य त्वां राजपुंगव निषेवत एव लक्ष्मीः ॥' शंभुर्विश्वमित्यत्र विश्वसंरक्षकत्वं सादृश्यमुपात्तम् । इह तु नेति भेदः । २ "किं पद्मस्य रुचि न हन्ति नयनानन्दं विधत्ते न किं वृद्धिं वा झपकेतनस्य कुरुते नालोकमात्रेण किम् । वकेन्दौ तव सत्ययं यदपरः शीतांशुरुजृम्भते दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥' अस्या मुखेन्दुनेत्रस्य किमिन्दुनेति पुनरुपादानमात्रं भेदविवक्षाज्ञापकम् । इह त्वपरशब्दस्याप्युपादानमिति विशेषः । ३ 'अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः। अभाललोचनः शंभुर्भगवान्बादरायणः ॥' ४ 'किमसुभिर्लपितैर्जड मन्यसे मयि निमजतु भीमसुतामनः । मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः॥' अत्र दमयन्तीकृतचन्द्रोपालम्मे प्रसिद्धचद्धो न निर्वाणकालिकमनःप्रवेशतात्पर्य- विषयः। 'मनश्चन्द्रे लीयते' इति श्रुतेः। किंतु नलमुखचन्द्र एवेति । ततोऽस्या- धिक्यप्रतिपादनादधिकताद्रूप्यरूपकम् । रूपकस्य साक्यवस्वनिरवयवसामेदप्रपञ्चनं तु चित्रमीमांसायां द्रष्टव्यम् ।
लक्ष्यलक्षणप्रकरणम् १ १ १ साध्वीति । इयं साध्वी पतिव्रता असुधासागरोदिता सुधास- मुद्रादनुत्पन्ना अपरा द्वितीया लक्ष्मीरिति न्यूनताद्रूप्यरूपकम् । अयं मुखचन्द्रः कलङ्किनश्चन्द्रादतिरिच्यते । निष्कलङ्कत्वादधिको भवती- त्यधिकताद्रूप्यरूपकम् ॥ १८ ॥ परिणामालंकारः। परिणामः क्रियार्थश्चेद्विषयी विषयात्मना । प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा ॥ १९ ॥ परिणाम इति ॥ विषयी आरोपविषययुक्तश्चन्द्रादिः विषया- त्मना विषयो मुखादिः तद्रूपेण । क्रियार्थः क्रियायै इति क्रियार्थः क्रियासाधकश्चेत्तर्हि परिणामः । उदाहरणम् । मदिरेक्षणा मादक- नेत्रा काचित्प्रसन्नेन दृगब्जेन दृग्भूतं अब्जं दृगब्जं तेन । मध्यम- पदलोपी समासः । नतु मयूरव्यंसकादिः । तस्य रूपकविपयत्वात् । वीक्षते पश्यति । कमलं हि स्वयं द्रष्टुमशक्तं नेत्ररूपं भूत्वा पश्यतीति परिणामः । अत्र अदृक् दृक् संपद्यते तथाभूतं दृग्भूतमिति प्रथमार्थे तत्पुरुपः । एवंच परिणामाभिव्यक्तिर्न तु मयूरव्यंसकादिः । समा- सान्तस्य रूपकविषयत्वादिति नव्याः । एवमन्यत्र ॥ १९ ॥ उल्लेखालंकार । बहुभिर्वहुधोल्लेखादेकस्योल्लेख इष्यते । स्त्रीभिः कामोऽर्थिभिः स्वर्दुः कालः शत्रुभिरैक्षि सः॥२०॥ बहुभिरिति ॥ एकस्य वन्तुनः बहुमिः कर्तृभिः बहुधा बहुभिः प्रकारैः उल्लेवाद्वितर्का तोरुल्लेखनामालंकार इप्यते । उदाहरणम् । स कृष्णः स्त्रीभिः कामः कंदर्परूपः ऐक्षि वितर्कितः । अर्थिभिर्या- चकैः स्वर्गद्रुमरूप ऐक्षिः । शत्रुभिः कालः मृत्युरूप ऐक्षि । अत्र रूपकमपि ज्ञेयम् ॥ २० ॥ १ 'तीर्खा भृतेशमालिजममरधुनीमात्मनासा तृतीय- स्तस्मै सौमित्रिमैत्रीमयमुपकृतवानातरं नाविकाय । व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं कृच्छादवीयमानः क्षणमचलमथो चित्रकूटं प्रतस्थ ॥' आतरे मूल्यम् । कौतुकेन उदशनी अक्षिणी गम्मिन्नमणि गथा तथा । २ 'गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवतैः । यथास्थितश्च बालाभिदृष्टः शौरिः सकौतुकम् ॥'
कुवलयानन्दकारिकाः । एकेन बहुधोल्लेखेऽप्यसौ विषयभेदतः। गुरुर्वचस्यर्जुनोऽयं कीतौँ भीष्मः शरासने ॥ २१ ॥ एकेनेति ॥ एकेन का एकस्येति शेषः । विषयभेदतः स्थान- कभेदात् । बहुधा उल्लेखेऽपि असावुल्लेखो ज्ञेयः । उदाहरणम् । अयं राजा वचसि वचन विषये गुरुर्महान्वाचस्पतिश्च । कीतौ यशसि अर्जुनः शुभ्रः पार्थश्च । शरासने धनुपि भीप्मो भयंकरो' गाङ्गे- यश्च । अत्र श्वेपो रूपकं च ज्ञेयम् ॥ २१ ॥ स्मृति-भ्रान्ति-संदेहालंकारः स्यात्स्मृतिभ्रान्तिसंदेहैस्तदङ्कालंकृतित्रयम् । पैङ्कजं पश्यतः कान्तामुखं मे गाहते. मनः ॥ २२ ॥ स्यादिति ॥ स्मृतिभ्रान्तिसंदेहैः स्मरणभ्रमसंशयैः करणैस्तद- झालंकृतित्रयं ते अङ्काः यस्य तत्तद्वं तद्वाचकशब्दयुक्तनामकं अलंकृ- तीनां त्रयं स्यात् । स्मृतिवर्णने स्मृतिमान् , भ्रान्तिवर्णने भ्रान्ति- मान् संदेहवर्णने संदेहः । मत्वर्थीयोऽकारप्रत्ययान्तः सदेह इति केचित् । प्रथमज्ञानमनुभवः तस्य पुनर्नवीभावः स्मृतिः । मिथ्या- ज्ञानं भ्रान्तिः अनुभवभ्रमयोगः संदेहः । उदाहरणम् । पङ्कजं पश्यतः मे मनः कान्तामुखं गाहते प्रविशति स्मरतीत्यर्थः ॥ २२ ॥ अयं प्रमत्तमधुपस्त्वन्मुखं वेत्ति पङ्कजम् । पङ्कजं वा सुधांशुर्वेत्यस्माकं तु न निर्णयः ॥ २३ ॥ १ 'अकृशं कुचयोः कृशं चिलने विपुलं चक्षुधि विस्तृतं नितम्बे। अधरेऽरुणमाविरस्तु चित्ते करुणाशालिकपालिभागधेयम् ॥' २ वितर्केऽपि । ३ 'दिव्यानामपि कृतविस्मयां पुरस्ता- दम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्ती- मस्मार्षीजलनिधिमन्थनस्य शौरिः॥' पूर्वत्र स्मृतिमदुदाहरणे सदृशस्यैव स्मृतिरत्र सदशलक्ष्मीस्मृतिपूर्वकं तत्संब- न्धिनो जलनिधिमन्थनस्थापि स्मृतिरिति भेदः । ४ 'पलाशकुसुमभ्रान्त्या शुकतुण्डे पतत्यलिः। सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ॥' अनान्योन्यविषयभ्रान्तिनिबन्धनः पूर्वोदाहरणाद्विशेषः । ५ 'जीवनग्रहणे नन्ना गृहीत्वा पुनरुन्नताः।
लक्ष्यलक्षणग्रकरणम् १ अयमिति ॥ अयं प्रमत्तमधुपः उन्मत्तभ्रमरः । मत्तो मद्यपश्चेति श्लेषः । त्वन्मुखं पङ्कजं वेत्ति । अस्माकं तु पङ्कजं वा सुधांशुर्वेति नि- गयो नास्ति किंतु संदेहद्वयमस्तीत्यर्थः । मधुपस्य तु भ्रान्तिरेव ॥२३॥ शुद्धापहृत्यलकार । शुद्धापह्नुतिरन्यस्यारोपार्थो धर्मनिह्नवः । नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम् ॥ २४ ॥ शुद्धेति ॥ अन्यस्याप्रस्तुतस्य आरोपार्थः आरोपहेतुको यो धर्मनिह्नवः अपलापः । निषेध इति यावत् । शुद्धा केवला अपह्नुति- रलंकृतिर्भवति । शुद्धत्व च निद्भुतस्य परम्मिन्नारोपाभावः । उदाह- रणम् । अयं दृश्यमानः सुधांशुः चन्द्रो न । तहि किम । व्योमगङ्गाम- रोरुहं स्वर्गगापुण्डरीकम् । अत्र सर्वनाम्ना धर्मनिर्देशः ॥ २४ ॥ हेत्वपहुल्यलंकारः। स एव युक्तिपूर्वश्चेदुच्यते हेत्वपह्नुतिः । नेन्दुस्तीत्रो न निश्यर्कः सिन्धोरोर्वोऽयमुत्थितः ॥२५॥ स इति ॥ स धर्मनिह्नवः युक्तिपूर्वो हेतुयुक्तश्चेत्तर्हि हेत्वपहु- तिरुच्यते । हेतुयुक्ता अपह्नुतिर्हेत्वपहृतिः । उदाहरणम् । दृश्यमानः किं कनिष्टाः किमु ज्येष्टा वटीयन्त्रस्य दुर्जनाः ॥' पूर्वोदाहतसंदेह प्रसिद्धकोटिक । अयं तु कल्पितकोटिक इति भेदः । १ अङ्क केऽपि शशशङ्किरे जलनिधेः पङ्क परे मेनिरे सारङ्ग कतिचिव संजगदिरे भृच्छायमैच्छन्परे । इन्दा यद्दलितेन्द्रनीलशकलश्यामं ददृश्यते तत्सान्द्रं निशि पीतयन्धतमसं कुक्षिस्थमाचक्ष्महे ॥ नाय सुधांशुरित्यत्र नेतिशब्दोपात्तत्वाच्छाब्दः । इह तु परमनपोकीनेन खानभिमतत्वसूचनादर्थगम्य इत्यर्थ एकनाने कापावर मनमायन चित्र बोध्यम् । केऽपि कवयः । आचक्ष्महे । वर्ग विनि शेषः । २ 'मन्थानभूमिधरमूलशिलासहस्र- संघट्टनवणकिणः स्फुरतीन्दुमध्ये । छाया मृगः शशक इत्यपि पामरोक्ति- स्तेषां कथंचिदपि तत्र नहि प्रभक्तिः ॥' मन्थानश्वासी भूमिवर य तस्य मूलनि तपा शिला. तासा राह तेन सम.. तस्य व्रणः तस्य किण.। कुव०२ कुवलयानन्दकारिकाः । तीव्रः संतापकारी अयमिन्दुर्न । निशि रात्रावर्कोऽपि न स्यात् । उदित इति शेषः। तर्हिः कः । सिन्धोरुत्थित और्वः । 'और्वस्तु वाडवो वडवा- नलः' इत्यमरः । हरिवंशे उर्वस्य मुनेः क्रोधाग्निः सागरे स्थापित इति प्रसिद्धम । कालिकापुराणे च कामदाहे हरक्रोधाग्निर्वाडवरूपेण ब्रह्मणा जठरे गृहीतोऽद्यापि समुद्रे रक्षित इति स्थितम् । तन्मध्ये प्रथमपक्षे उर्वाजात और्व इति व्युत्पत्तिः ।। २५ ।। पर्यस्तापहुल्यलंकारः। अन्यत्र तस्यारोपार्थः पर्यस्तापहृतिश्च सः । नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् ॥ २६ ॥ अन्यत्रेति ॥ अन्यत्र अन्यवस्तुनि तस्य प्रकृतस्यारोपार्थः यः धर्मनिह्नवः स पर्यस्तापह्नुतिः । उदाहरणम् । अयं सुधांशुश्चन्द्रो न तर्हि किं वस्तु सुधांशुरिति प्रश्नः । प्रेयसीमुखं सुधांशुरित्युत्तरम् । चन्द्रे चन्द्रत्वनिह्नवः प्रियामुखे तदारोपार्थः ॥ २६ ॥ भ्रान्तापहुयलङ्कारः । भ्रान्तापह्नुतिरन्यस्य शङ्कायां भ्रान्तिवारणे । तापं करोति सोत्कम्पं ज्वरः किं न सखि स्मरः ॥२७॥ १ 'हालाहलो नैव विषं विषं रमा जनाः परं व्यत्ययमत्र मन्यते । निपीय जागर्ति सुखेन तं शिवः स्पृशनिमां मुह्यति निद्रया हरिः॥' विषं रमेत्यत्र किंतु इत्यध्याहारः । परं केवलम् । व्यत्ययं वैपरीत्यम् । २ अत्र तापं करोतीति स्मरवृत्तान्ते कथिते तस्य ज्वरसाधारण्याजुवुद्ध्या सख्या ज्वर किमिति पृष्टे, न सखि इति तत्त्वोक्त्या भ्रान्तिवारणं कृतम् । यथा वा-- 'नागरिक समधिकोन्नतिरिह महिपः कोऽयमुभयतःपुच्छः । नहि नहि करिकलभोऽयं शुण्डादण्डोऽयमस्य न तु पुच्छः ॥' पूर्वोदाहरणे संदेहरूपभ्रान्ति विषयज्वरत्वापहवः । ज्वर: किमिति प्रश्नेन तद्विषयसंदेहावगमात् । इह तु महिषत्वनिश्चयरूपभ्रान्तिविषयस्य 'महि. पत्वस्येति ततो मेदः। जटा नेयं वेणीकृतकचकलापो न गरलं गले कस्तूरीयं शिरसि शशिरेखा न कुसुमम् ।
लक्ष्यलक्षणप्रकरणम् १ भ्रान्तेति ॥ अन्यस्य शङ्कायां · सत्यां प्रस्तुतेन भ्रान्तिवारणे कृते सति भ्रान्तापह्नुतिः । उदाहरणम् । हे सखि, सोत्कम्पं तापं कः करोति इति श्रुत्वा ज्वरः किमिति पृष्टे हे सखि, ज्वरो न किंतु स्मर इति सत्यमुत्तरं ज्वरत्वस्य निह्नवो भ्रान्तिवारणार्थः ॥ २७ ॥ कैतवापगुत्यलंकारः। कैतवापहुतिय॑क्तौ व्याजाद्यैर्निबुतैः पदैः । निर्यान्ति स्मरनाराचाः कान्तादृक्पातकैतवात् ॥ २८ ॥ कैतवेति ॥ व्याजाद्यैः पदैनिद्भुतेर्व्यक्तौ सत्यां कैनवापङ्गतिः । उदाहरणम् । कान्तादृक्पातकैतवान् कामिनीकटाक्षमिपात् स्मरना- राचाः कामबाणाः निर्यान्ति कटाक्षत्वं मिपमात्रं, कामबाणत्वं तु सत्यमित्यपह्नवः ॥ २८ ॥ छेकापलुल्यलंकारः। छेकापह्नुतिरन्यस्य शङ्कातस्तथ्यनिह्नवे । प्रैजल्पन्मत्पदे लग्नः कान्तः किं न हि नूपुरः ॥ २९ ॥ इयं भूतिनाङ्गे प्रियविरहजन्मा धवलिमा पुरारातिभ्रान्त्या कुसुमशर किं मां प्रहरसि ॥ दण्टी त्वत्र तत्त्वाख्यानोपमेत्युपमामेदं भेने। यदाह- 'न पद्मं मुखमेवेदं न भृङ्गो चक्षुषी इमे । इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमा मता ॥ इति । अत्र कल्पितम्रान्तिर्जटा नेय मिलादिनिषेधमात्रोनेगा पूर्ववत्मक्षामानात । निषेधस्य प्रसक्तिपूर्वकत्वादिति भाव । १ 'रिक्तेपुवारिकथया विपिनोदरेषु मध्याह्नजृम्भितमहातपनापतप्ताः । स्कन्धान्तरोत्थितदवाग्निशिखाच्छलेन जिह्वां प्रनार्य तरचो जलमर्थयन्ते ॥' २ व्याजाधरिति पदोपादानेन विपकपटच्छलच्छ सकतवादयो गधन्ते। ३ 'सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम् । नागरिकः किं मिलितो नहि नहि सखि हेमनः पवनः॥' प्रजल्पनित्युदाहरणे एकस्य वाक्यस्यान्यथा योजनाभित वनेकपामिति भेदः । 'पद्मे त्वन्नयने स्मरामि सततं भावो भवत्कुन्तले नीले मुहाति किं करोमि महितैः फ्रीतोऽस्मि ते विनमः।
कुवलयानन्दकारिकाः । छेकेति ॥ अन्यस्य शङ्कातः शङ्कायां सत्याम् । सप्तम्यास्तसिल् । तथ्यनिह्नवे सति छेकापह्नुतिः छेकस्य चतुरस्यापह्नुतिः । उदाहरणम् । प्रजल्पन्सन् मत्पदे लग्न इति नायिंकाया उक्तौ कान्तः किमिति सख्याः प्रश्नः । कान्तो महि नैव किंतु नूपुरो मञ्जीरः । 'मजीरो नूपुरोऽस्त्रियाम्' इत्यमरः । यद्यपि जल्पधातुर्व्यक्तायां वाचि प्रवर्तते तथापि धातूनामनेकार्थत्वादुपसर्गयोगाद्वा प्रजल्पन्निति नूपुर- विशेषः ॥ २९॥ संभावनालंकारः । संभावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना । उक्तानुक्तास्पदाधात्र सिद्धासिद्धास्पदे परे ॥ ३० ॥ संभावनेति ॥ वस्तुहेतुफलात्मना वस्तुहेतुफलस्वरूपेण तदन्ये- षामिति शेषः । संभावना उत्प्रेक्षा स्यात् । उत् ऊर्ध्वं गता प्रेक्षा दृष्टिः प्रज्ञा वा यस्यां सेति व्युत्पत्तेः । वितर्क कुर्वतो दृष्टिर्हि तथा प्र- सिद्धा ।वर्णनीयस्य वस्तुनः तदन्यवस्तुस्वरूपेण वितर्कः वस्तूत्प्रेक्षा स्व. रूपोत्प्रेक्षा चोच्यते। प्रकृतस्याहेतोर्हेतुत्वेनाफलस्य फलत्वेन च कल्पना क्रमेण हेतूत्प्रेक्षा फलोत्प्रेक्षा चोच्यते। हेतूत्प्रेक्षायां तृतीयान्तात्पञ्चम्य- न्ताद्वा पर इवादिशब्दः । फलोत्प्रेक्षायां चतुर्थ्यन्तात्तुमन्ताद्वा पर. इवादिरिति प्रायेण भेदः'। इवादिस्तु इव नूनं किं प्रायः ध्रुवं असंशयं किमु वा न ननु खलु स्वित् आहोस्वित् उत उताहो शङ्के वेद सत्यं क्रि- यापदं च वितर्कार्थमिति । एपामध्याहारे गम्योत्प्रेक्षा । अध्याहृतपद- स्यापि 'युष्मद्युपपदे' इत्यादिज्ञापकादन्वयो युक्तः । तद्भेदानाह । अ- त्राद्या वस्तूत्प्रेक्षा उक्तानुक्तास्पदा उक्तविपयाऽनुक्तविपया चेति द्वि- विधेत्यर्थः। परे द्वे सिद्धासिद्धास्पदे सिद्धविषये असिद्धविपये चेति प्रत्येकं द्विविधे । साधारणधर्मद्योतनं च संभावनामूलम् ॥ ३० ॥ इत्युत्स्वप्नवचो निशम्य सरुषा निभत्तिो राधया कृष्णस्तत्परमेव तद्ध्यपदिशन्क्रीडाविटः पातु वः ॥' 'वदन्ती जास्वृत्तान्तं पत्यौ धूर्ता सखीधिया। पति बुडा सखि ततः प्रबुद्धास्मीत्यपूरयत् ।' 'कुन्तले केशपाशे । जारवृत्तान्तं व कामुकवार्ताम् । धूर्ता काचित्कामिनी । सखीधिया सखीभ्रमेण । ततः उक्तवृत्तान्तानन्तरम् । प्रबुद्धा जागरणवती । अपूरयत् पूरितवती। । ॥
लक्ष्यलक्षणप्रकरणम् ? वस्तूत्प्रेक्षालंकारः। धूम स्तोमं तमः शङ्के कोकीविरहशुष्मणाम् । लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ॥ ३१ ॥ उदाहरणम्-धूमेति ॥ तमो ध्वान्तं कोकीविरहशुष्मणां चक्रवाकीविरहानीनाम् । 'चक्रवाके वृके कोकः' इति वैजयन्ती । 'बर्हिः शुष्मा कृष्णवां' इत्यमरः। धूमस्तोमं धूमपटलं शङ्के । अत्र तमो विपयः धूमस्तोमो विषयीत्युक्तास्पदा । तमः अङ्गानि लिम्पतीव व्याप्नोतीति शेपः। अत्र तमोव्यापनमध्याहृतविषयः । अङ्गलेपनं विपयीत्यनुक्तास्पदा । श्लोकपूरणार्थ पुनरप्युदाहरणमाह । नभ आकाशं अजनं कज्जलं वर्पतीच तमो व्याप्योतीति शेषः । ततो- ऽनुक्तास्पदेयम् । प्रथमोदाहरणे पदार्थोत्प्रेक्षा द्वितीयोदाहरणे वाक्या- र्थोत्प्रेक्षेति भेद इत्येके ॥ ३१ ॥ हेतूपेक्षालंकारः। रक्तौ तवाजी मृदुलौ भुवि विक्षेपणाद्रुवम् । त्वन्मुखाभेच्छया नूनं पौर्वैरायते शशी ॥ ३२ ॥ १ वालेन्दुवक्राण्यविकासभावाद्वभुः पलाशान्य तिलोहितानि । सद्यो वसन्तेन समागतानां नखक्षतानीव बनस्थलीनाम् ॥' अत्र पलाशमुकुलानां वकत्वलौहिन्यमबन्धेन निमित्तेन वमन्तनायकरामाग- तवनस्थलीसंबन्धि सद्य कृतनखशततादात्म्यं संभावना उत्तविषया वरू- पोत्प्रेक्षा । पूर्वोदाहरणे निमित्तभूतधर्मसवन्धो गम्यः । इह तूपात इति भेदः । नचेवशब्दस्य सादृश्यपरत्वेन प्रसिद्धतरन्बादुपमैवास्तु । लिम्पती नेत्यु- दाहरणे टेपनकर्तरुपमानत्वाइम्य क्रियोपसर्जनत्ववदिह नखक्षतानामन्योपमर्ज- नत्वस्योपमाबाधकस्याभावात् । 'पिनष्टीव तरङ्गाप्रैः समुद्रः फेनचन्दनम् । तदादाय करैरिन्दुर्लिम्पतीय दिगङ्गनाः ॥' अत्र तरजाप्रैः फेनचन्दनस्य प्रेरण पेपणतयोप्रेक्षते । गमुदायितस्य चन्द्रस्य प्रथमं समुद्रपूरे प्रसूतानां कराणा दिक्षु व्यापन च समुद्रोपात्तफेनचन्दनलतलेप- त्वेनोत्प्रेक्षते। २ 'रात्री रवेर्दिवा चेन्दोरभावादिव स प्रभुः। भूमौ प्रतापयशसी सृष्टवान्सततोदिते ॥' रात्रौ रवेर्दिवा चन्द्रस्याभावः समापि प्रतापयश सगे न हेतुरिति तस्य तमनुपसं- भावनासिद्धविपया हेतृत्प्रेक्षा । रक्तावित्युदाहरण भावरूपो हेतुरिद स्वभावरूप इति भेदः ।
१८ कुवलयानन्दकारिकाः । रक्ताविति ॥ हे प्रिये, तव मृदुलौ कोमलावञी चरणौ । 'पद- निश्चरणोऽस्त्रियाम्' इत्यमरः । भुवि विक्षेपणाद्भुवमारोपणात्किं रक्तौ स्त इति शेषः । सहजरक्तत्वेनाहेतोरपि विक्षेपणस्य हेतुत्वं कल्पितं विक्षेपणं च प्रत्यक्षसिद्धमिति सिद्धविपया हेतूत्प्रेक्षा । अत्र हेतुत्वा- भावोपेतं विक्षेपणं विपयः । हेतुत्वरूपो धर्मो विषयी बोध्यः । किंच शशी त्वन्मुखाभेच्छया त्वन्मुखकान्तिलिप्सया नूनं पझैः सह वैरा- यते वैरं करोति । अत्र चन्द्रस्य कामिनीमुखकान्तिलिप्सा नास्तीत्य- सिद्धविपया हेतूत्प्रेक्षा । इयं कारणोत्प्रेक्षेति वदन्ति । 'हेतुर्ना कारणं बीजम्' इत्यमरोक्तेः । अत्र हेतुत्वाभावविशिष्टा कान्तिलिप्सा वि. षयः । हेतुत्वरूपो धर्मश्च विपयी ॥ ३२ ॥ फलोत्प्रेक्षालंकारः। मध्यः किं कुचयोधृत्यै बद्धः कनकदामभिः । प्रायोऽब्जं त्वत्पदेनैक्यं प्राप्तुं तोये तपस्यति ॥ ३३ ॥ मध्य इति ॥ मध्यः कामिनीमध्यभागः कुचयोधृत्य किं कनक- 'विवस्वतानायिपतेव सिधाः स्वगोसहस्त्रेण समं जनानाम् । गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः ॥' अत्र विवखता कृतं किरणे. सह जनलोचनाना नयनमसदेव रात्रावान्ध्यं प्रति हेतुत्वेनोत्प्रेक्ष्यत इत्यसिद्धविषया हेतूप्रेक्षा । यथा गोपालेन परकीयाभिर्गो- भिर्मिश्रा. स्वीया गावो नीयन्ते । तथा गोपदवाच्यत्वसाजायेन मिश्रिता विवस्वतापि नीता इवेत्यर्थः । सलु सभावनायाम् । तेन नयनेन हेतुना इदमान्ध्यं न त्वन्धकार- रित्यन्वयः । अत्र चानायियतेवेति विषयोत्प्रेक्षणपूर्वक तस्य हेतुत्वेनोत्प्रेक्षणमिति पूर्वस्माद्भेद. । एवं पूर्वत्र इच्छयेति गुणरूपो हेतुस्तु क्रियारूप इत्यपि द्रष्टव्यम् । १ 'पूरं विधुर्वर्धयितुं पयोधेः शङ्केयमेणाङ्कमणि कियन्ति । पयांसि दोग्धि प्रियविप्रयोगे सशोककोकीनयने कियन्ति ॥' अत्र चन्द्रेण कृतं समुद्रस्य बृहणं सदेव तदा तेन कृतस्य चन्द्रकान्तद्रावणस्य कोकाशनाबाष्पस्रावणस्य च फलत्वेनोत्प्रेक्षेति सिद्धविषया फलोत्प्रेक्षा । २ 'रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् । उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥ रथस्थितानामिति । रवी रथे स्थिताना नियुक्तानां पुरातनाना वाहनाना अश्वाना परिवर्तनायेव तुरगोत्तमानां उत्पत्तिभूमावुत्तरस्या दिशि प्रतस्थ इत्यत्वयः । अत्रोत्तरायणस्याश्वपरिवर्तनफलमसदेव फलत्वेनोत्प्रेक्ष्यत. इत्यसिद्धविषया फलो- टोक्षा । प्रायोऽन्जामित्यत्र कोमलत्वस्य गुणस्य फलत्वेनोत्प्रेक्षणमिह तु परिवर्तन- क्रियाया इति ततो भेदः ।
लक्ष्यलक्षणप्रकरणम् १ १९ . दामभिः त्रिवलीरूपैः बद्धोऽस्ति । अत्र प्रत्यक्षसिद्धायाः कुचधृते: फलत्वेन कल्पना सिद्धविपया,फलोत्प्रेक्षा । अत्र फलत्वाभावर ती कु- चधृतिविपयः । फलत्वरूपो धर्मो विपयी । अब्जं पद्मं त्वत्पदन सह ऐक्यं प्राप्तुं प्रायः । अत्रापि रूपकातिशयोक्तिः । नोये जले तप- स्यति तपश्चरति । अत्र पद्मस्य प्रियापदसायुज्येच्छा नाम्तीत्यसिद्ध- विपया फलोत्प्रेक्षा इमां कार्योत्प्रेक्षामाहुः । 'कार्य फलं तथा पुष्टिः' इति कोशात् । 'उपमा दूरगस्यापि न तु संावना तथा । रूपके निश्चितारोप उत्प्रेक्षायां त्वनिश्चितः' इति ॥ ३३ ।। खरूपानिगयोनि । रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः। पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति शिताः शराः ॥३४॥ रूपकेति ॥ निगीर्य विषयमिति शेषः । विषयमनिबध्येत्यर्थः । अध्यवसानतः आहार्यनिश्चयात् बाधकालीनमिच्छाजन्यं ज्ञानमाहार्य- निश्चयः । विपयिरूपेण विषयस्वीकारादित्यर्थः । रूपकातिशयोक्ति- र्भवति । रूपकयुत्ताऽतिशयोक्तिरिति मध्यमपदलोपः । उदाहरणम । नीलोत्पलद्वन्द्वात नेत्रयुगलात शिनाः ताक्षणाः शगः कटाक्षाः नि:- सरन्ति । हे मित्र, त्वं पश्य । अत्र जीलोनान्गन नेत्रगुग.. शरशब्देन कटाक्षेपु च गाणी लक्षणा बोया । चिोपन्तु माकने कोविदानन्दे द्रष्टव्यः ॥ ३४ ॥ सापहवातिलायोक्तिः यद्यपहुतिगर्भवं जैव मापह्नवा मता । त्वत्सूक्तिषु सुधा राजन्भ्रान्ताः पश्यन्ति तां विधा ॥३५॥ यदीति ॥ यदि अपलतिगत्व स्वादिति शेषः । गति प-- १ 'वापी कापि स्पुति गगने तत्परं सक्षमपगा सोपानालीमधिगतवती का नीमन्दीली । अग्रे शैली सुकृतिसुगमो चन्दनच्छन्न देशी तत्रत्यानां मुलमममृतं संनिधानात्सुधांशोः ॥' वापी नाभी । सूक्ष्मपद्या केशालि । शा २ 'रविततो गजः मातगृह्यान्बाधितुं ध्रुवम् । सरो विशति न स्नातुं गजम्नानं हि निष्फलम ॥ अत्र गजस्य सरस्प्रवेशप्रति फो नाने फलयमा पचाने निविशितम् । ।
२० कुवलयानन्दकारिकाः । हवा सैव रूपकातिशयोक्तिर्मता बुधैरिति शेपः । उदाहरणम् । हे राजन् , त्यत्सूक्तिपु सुधा मधुरतारूपास्ति । भ्रान्तास्तां विधौ चन्द्रे पश्यन्ति । अत्र सुधाशब्देन मधुरतायां लक्षणा बोध्या । तस्या- श्चन्द्रेऽपह्नवोऽर्थसिद्धः ॥ ३५ ॥ भेदकातिशयोक्ति। भेदकातिशयोक्तिस्तु तस्यैवान्यत्ववर्णनम् । अन्यदेवास्य गाम्भीर्यमन्यद्धर्य महीपतेः ॥ ३६॥ भेदकेति ॥ तस्य प्रकृतस्यैव अन्यत्ववर्णनं अन्यतया कथनं तु भेदकातिशयोक्तिः। भेदकस्य लोकोत्तरत्वस्यातिश्यकथनात् । उदाहरणम् । अस्य महीपतेः गाम्भीर्यमन्यदेव लोकोत्तरमेव । धैर्य चान्यदेव ।। २६॥ *संवन्धातिशयोक्ति । संबन्धातिशयोक्तिः स्यादयोगे योगकल्पनम् । सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम् ॥ ३७ ।। संवन्धेति ॥ अयोगे असंबन्धे योगकल्पनं संबन्धातिशयोक्तिः स्यात् । उदाहरणम् । अस्य पुरस्य नगरस्य सौधाग्राणि सौधानां राज- गृहाणाम् । 'सौधोंऽस्त्री राजसदनम्' इत्यमरः । अग्राणि शिरोभागाः विधुमण्डलं चन्द्रविम्बं स्पृशन्ति ।। ३७ ॥ योगेऽप्ययोगः संबन्धातिशयोक्तिरितीर्यते । त्वयि दातरि राजेन्द्र स्वर्द्धमान्नाद्रियामहे ॥ ३८ ॥ योग इति ॥ योगेऽपि संबन्धेऽपि अयोगः असंबन्धकथनमपि १ 'अन्येयं रूपसंपत्तिरन्या वैदग्ध्यधोरणी । नैषा नलिनपत्राक्षी सृष्टिः साधारणी विधेः॥' वैदग्ध्यधोरणी । वैदग्ध्यं चातुर्यम् । धोरणी परिपाटी । २ 'कतिपयदिवसैः क्षयं प्रयायात्कनकगिरिः कृतवासरावसानः। इति मुदमुपयाति चक्रवाकी वितरणशालिनि वीररुद्रदेवे॥' अन चक्रवाक्याः सूर्यास्तमयकारकमहामेरुक्षयसंभावनाप्रयुक्तसंतोपात्सबन्धो वर्णितः ३ अनयोरनवद्याङ्गि स्तनयोजृम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ जृम्भमाणयोर्वर्धमानयोः।
तथा खङ्गे प्रकार भजति सति सः प्रकृष्ट कम्पं भजति । एवं खड़े लक्ष्यलक्षणप्रकरणम् १ २१ संबन्धातिशयोक्तिरितीर्यते कथ्यते । उदाहरणम् । हे राजेन्द्र राजन् , त्वयि दातरि सति स्वर्द्वमान्कल्पवृक्षान्नाद्रियामहे न गणयामः । अत्र कल्पवृक्षादरसंभवेऽपि निःस्पृह्त्वद्योतनायानादरोक्तिः ॥३८॥ अक्रमातिशयोक्तिः। अक्रमातिशयोक्तिः स्यात्सहत्वे हेतुकार्ययोः। आलिङ्गन्ति समं देव ज्यां शराश्च पराश्च ते ॥ ३९ ॥ अक्रमेति ॥ हेतुकार्ययोजनकजन्ययोः सहत्वे सहभावे अक्रमा- तिशयोक्तिः स्यात् । सहभावाभिधानेन क्रमरहितत्वात् । उदाहरणम् । हे देव राजन् , 'देवः सूरे घने राज्ञि' इत्यमरः । ते शराः बाणाः च परं पराः शत्रवः । 'परोऽरिपरमात्मनोः' इति विश्वः । समं सहैव । 'साकं सार्धं समं सह' इत्यमरः । ज्यां मौर्वी भूमिं च । 'मौर्वी ज्या. सिञ्जिनी गुणः' इत्यमरः ।. ज्या कुर्वसुमती महीं' इति चामरः । आलिङ्गन्ति स्पृशन्ति। शरसंधानकाले शत्रवः पतन्तीत्यर्थः॥ ३९॥ लातिशयोक्तिः। चपलातिशयोक्तिस्तु कार्य हेतुप्रसक्तिजे । यास्यामीत्युदिते तन्व्या बलयोऽभवदुर्मिका ॥ ४० ॥ चपलेति ॥ कार्ये जन्यवस्तुनि हेतुप्रसक्तिजे 'कारणप्रसङ्गजाते सति । चपलातिशयोक्तिः स्यात् । कारणप्रसङ्गमात्रेण कार्योत्पत्तिवर्ण- नाचपलत्वम् । उदाहरणम् । तन्व्याः कामिन्याः ऊर्मिका अङ्गुलीभूषणं प्रियेण यास्यामीत्युदिते वलयः कङ्कणरूपमभजत् । करस्यातिकृशतो- त्पत्तावङ्गुलीभूषणं कङ्कणस्थानीयतां गतमित्यर्थः ॥ ४० ॥ १ मुञ्चति मुञ्चति कोशं भजति च भजति प्रकम्पमरिवर्गः। हम्मीरवीरखतें त्यजति त्यजति क्षमामाशु॥ खड्ने कोशं पिधानं मुञ्चति सति अरिसमूहोऽपि कोशं भाण्डार मुञ्चति । क्षमा शान्ति त्यजति सति सोऽपि क्षमां पृथ्वी त्यजतीत्यर्थः । अत्र खड्सस्य कोशत्यागादिकाले एव रिपूणां धनत्यागादि वर्णितम् । २: 'यामि न यामीति धवे वदति पुरस्तात्क्षणेन तन्वङ्गया। गलितानि पुरो वलयान्यपराणि तथैव दलितानि ॥'
२२ कुवलयानन्दकारिकाः । अत्यन्तातिशयोक्तिः । अत्यन्तातिशयोक्तिस्तत्पौर्वापर्यव्यतिक्रमे । अग्रे मानो गतः पश्चादनुनीता प्रियेण सा ॥४१॥ अत्यन्तेति ॥ तत्पौर्वापर्यव्यतिक्रमे तयोः पौर्वापर्यव्यतिक्रमे कार्यस्य पूर्वत्वे कारणस्य चापरत्वे सतीत्यर्थः । अत्यन्तातिशयोक्तिः असंभाव्यत्वादत्यन्तत्वम् । असंभाव्यवर्णनमपि शीघ्रतातिशयद्योतना. चमत्कारहेतुः । उदाहरणम् । अग्रे आदौ । 'अग्रमाद्ये वने प्राप्ये' इति विश्वः । मानः कोपः गतः 'स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये' इति लक्षणात् । ततः सा मानिनी प्रियेण पश्चादनुनीता सा- न्त्विता ॥४१॥ तुल्ययोगिता। वानामितरेषां वा धर्मैक्यं तुल्ययोगिता । संकुचन्ति सरोजानि स्वैरिणीवदनानि च ॥ ४२ ॥ वानामिति ॥ वर्ष्यानां प्रकृतानां इतरेषामप्रस्तुतानां ध- मैक्यमेकधर्मान्वयः तुल्ययोगिता। तुल्या योगिताऽन्वयो यत्रेति व्युत्पत्तेः । उदाहरणम् । सरोजानि च परं स्वैरिणीवदनानि जारस्त्री- मुखानि संकुचन्ति निमीलन्ति । चन्द्रोदये इति शेषः । अत्र प्रस्तु- तानां संकोचक्रियारूपैकधर्मान्वयः ॥ ४२ ॥ ৭ জানান, নাজমুল श्चलपृङ्गासङ्गाकुलकरिमदामोद्मधुराः। अमी पश्चात्तेषामुपरि पतिता रुद्रनृपतेः कटाक्षाः क्षीरोनसरदुरुवीचीसहचराः॥' २ 'नाम्बुजैन कमलैरुपमेयं स्वैरिणीजनविलोचनयुग्मम् । नोदये दिनकरस्य न चेन्दोः केवले तमसि यस्य विकाशः॥' अस्तं याते दिवाना निशानाथे महोदयम् । उन्मीलन्ति कुमुदन्ति चकोरीनयनानि च ॥ इति काव्यविलासे । तथा । 'संजातपत्रप्रकरान्वितानि समुद्वहन्ति स्फुटपाटलत्वम् । विकस्वराण्यर्ककराभिमर्शादिनानि पद्मानि च वृद्धिमीयुः ।। संजातैः पत्राणां प्रकरैः समूहैरन्वितानि स्फुटा विकसिता. पाटला वृक्षवि. शेषा येषु तानि तेषां भावस्तत्त्वम् । समुद्वहन्तीति शत्रन्तम् । दधानानीत्यर्थः । पद्मपंक्षे तु स्फुटानि विकसितानि च तानि पाटलानि पाटलवर्णानि तेषां भावस्तत्त्व- लक्ष्यलक्षणप्रकरणम् १ २३ त्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते । मालंतीशशभृल्लेखाकदलीनां कठोरता ॥ ४३ ॥ त्वदङ्गेति ॥ हे प्रिये, त्वदङ्गमार्दवे त्वद्देहसौकुमार्ये दृष्टे सति कस्य चित्ते मालतीशशभृल्लेखाकदलीनां जातिपुष्पचन्द्रकलारम्भाणां कठोरता कठिनता न भासते । सर्वस्य चित्ते भासत इत्यर्थः । अत्राप्रस्तुतानामुपमानभूतानां काठिन्यगुणरूपैकधर्मान्वयः॥४३॥ तुल्ययोगिताभेद.। हिताहिते वृत्तितोल्यमपरा. तुल्ययोगिता । प्रदीयते पराभूतिर्मित्रशात्रवयोस्त्वया ॥४४॥ हितेति ॥ हिताहिते हितं चाहितं च हिताहितं तस्मिन् । 'सर्वोऽपि द्वन्द्वो बिभापयैकवद्भवति' इत्येकवद्भावः । वृत्तितौल्यं वृत्ते- र्व्यवहारस्य तौल्यं तुल्यत्वम् । युवादित्वादण प्रत्ययः । अपराऽन्या तुल्ययोगिता । उदाहरणम् । हे राजन् , त्वया मित्रशात्रवयोः हिताहितयोः शत्रुरेव शात्रवमित्यत्र प्रज्ञादित्वादण् प्रत्ययः। संप्रदान- संजाभावात् पष्ठी । पराभूतिः पराभवः उत्कृष्टसमृद्धिश्च प्रदीयते । अत्र पराभूतिशब्देऽर्थद्वयस्वैक्यारोपात्तुल्ययोगिता ॥ ४४ ॥ मित्यादि पूर्ववत् । एवमर्कस्य करैः किरणैरभिमर्शनाद्विकस्वराणि भासुराणि दिनानि पद्मानि तु विकासशालीनीत्यर्थ । अत्र ग्रीष्मवर्णनेन तदीयत्वेन प्रस्तुताना दिनानां पद्माना चैक क्रियान्वयः । विकस्वराणि विकसनशीलानि । १ 'नागेन्द्रहस्तस्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः। लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वीरुपमानबाह्याः॥' परिणाहि विशालतारूपम् । ऊरुवर्णनेनाग्रस्तुतानां करिकराणां कदलीना चैकगुणान्वयः। २ पूर्वोदाहरणं स्तुतिपर्यवसायि, इदं तु निन्दापर्यवसायीति मेदः । इयं तुल्ययोगिता च सरस्वतीकण्ठाभरणोक्ता । एतस्या उदाहरणान्तरं च यथा । यश्च निम्वं परशुना यश्चैनं मधुसर्पिषा। यश्चैर्न कटुमाल्याद्यैः सर्वस्य कटुरेव सः॥' अत्र परशुना वृश्चति, मधुसर्पिपा सिञ्चति, कटुमाल्यावैरर्चतीत्यध्याहारैवा- क्यानि पूरणीयानि ।
20 कुवलयानन्दकारिकाः। ॥ गुणोत्कृष्टैः समीकृत्य वचोऽन्या तुल्ययोगिता । लोकपालो यमः पाशी श्रीदः शक्रो भवानपि ॥४५॥ गुणेति ॥ गुणोत्कृष्टैः प्रसिद्धगुणैः समीकृत्य सदृशीकृत्य । वचः प्रस्तुतस्येति शेषः । अन्या तुल्ययोगिता । उदाहरणम् । यमो धर्म- राजः पाशी वरुणः श्रीदः कुबेरः शक्रः इन्द्रः भवांस्त्वमपि लोक- कपालः । लोकपालशब्दस्य प्रत्येकमन्वयः । तेन प्रकृतस्य राज्ञो यमादिसमीकरणं बोध्यम् । अत्र लोकपालत्वेन प्रकृताप्रकृतयोस्तु- ल्यत्वं वाच्यार्थः । प्रतापादिगुणोत्कर्षेण तुल्यत्वं तु व्यङ्ग्यार्थ इति विशेषः । दीपके तु व्यङ्ग्यार्थो नास्ति ॥ ४५ ॥ दीपकालंकारः। वदन्ति वावानां धर्मैक्यं दीपकं बुधाः। मैंदेन भाति कलभः प्रतापेन महीपतिः ॥ ४६॥ वदन्तीति ॥ वर्ष्यावानां प्रकृताप्रकृतानां धर्मैक्यं धर्म- साम्यं बुधाः दीपकं वदन्ति । दीपयतीति दीपकं इति व्युत्पत्तेः । उदाहरणम् । कलभः करिशावः । “कलभः करिशावकः' इत्यमरः। मदन दानेन भाति । महीपतिश्च प्रतापेन भाति शोभते । अत्र प्रकृताप्रकृतयोः शोभैकधर्मान्वयः ॥ ४६॥ १ 'संगतानि सृगाक्षीणां तडि हिलसितान्यपि । क्षणद्वयं न तिष्ठन्ति धनारब्धान्यपि स्वयम् ॥' इमां तुल्ययोगितां सिद्धिमिति केचियाजहुः । यदाह जयदेव । 'सिद्धिः ख्यातेपु चेन्नाम कीर्त्यते तुल्यतोक्तये । युवामेवेह विख्यातौ त्वं बलैर्जलधि लैः॥' २ प्रस्तुताप्रस्तुतानामेकधर्मान्वयो दीपकम् । यथा कलभमहीपालयोः प्रस्तुता- ऽप्रस्तुतयोर्भानक्रियान्वयः। अत्रापि क्रियाविशेषणीभूतयोविम्बप्रतिबिम्बाभावो बोध्यः। ३ मणिः शाणोल्लीढः समरविजयी हेतिदलितो 'मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नृपाः ॥' अत्र प्रस्तुतानां नृपाणामवानां मण्यादीनां शोभकधर्मान्वयः । पूर्वो- दाहरण आदिदीपकमिह त्वन्तदीपकमिति मेदः ।
लक्ष्यलक्षणप्रकरणम् १ आवृत्तिवीपकालकारः। त्रिविधं दीपकावृत्तौ भवेदावृत्तिदीपकम् । वर्षयम्बुदमालेयं वर्षत्येषा च शर्वरी ॥४७॥ त्रिविधमिति ॥ दीपकावृत्तौ देहलीदीपकन्यायेनानेकोपकार- कस्य पदस्यार्थस्योभयोर्वा आवृत्तौ पुनरभिधाने त्रिविधं त्रिप्रकारमा- वृत्तिदीपकं भवेत् । आवृत्तिप्रधानं दीपक मिति व्युत्पत्तेः । उदाहरणम् । इयमम्बुदमाला मेघपतिः वर्षति तोयं सिञ्चति । एषा शर्वरी रात्रिश्च वर्षति वर्षमिवाचरति । यद्यप्यत्र प्रथमं 'वृषु सेचने' इति धातोर्लटि रूपं द्वितीयं च वर्षशब्दस्याचारविबन्तस्येति पदभेदस्तथापि समानत्वे- नाभेदाध्यवसायात्पदावृत्तिः ॥ ४७ ॥ उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजद्रुमाः। माद्यन्ति चातकास्तृप्ता माद्यन्ति च शिखावलाः॥४८॥ उन्मीलन्तीति॥ कदम्बानि नीपकुसुमानि उन्मीलन्ति विकसन्ति .. 'सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः। शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥' अत्र प्रस्तुतानामप्रस्तुतानां च युगपद्धर्मान्वयः । शाणोलीढो निकषोपलघ- र्षितः। हेतिदलितो हेति भिरायुधैर्दलितो विशीर्णितः, इयानपुलिनाः श्यानानि शु- काणि पुलिनानि जलनिर्मुक्ततटानि यासां ताः। तनिम्ना तनोः कृशस्य भावस्तनिमा काश्यं तेन । गलितविभवाः गलितः संक्रान्तो विभवः समृद्धिर्येषां ते । १ 'उत्कण्ठयति मेघानां माला वर्ग कलापिनाम् । यूनां चोत्कण्ठयत्यद्य मानसं मकरध्वजः ॥' उत्कण्ठयति मेघाना भाला पतिः कलापिनां मयूराणां वर्ग समूहं उत्क- ण्ठयति ऊवं कण्ठो यस्य तादृशं करोति । तथा मकरध्वजः काम. यूनां तरुणानां मानसमुत्कण्ठयत्युत्सुकं करोतीत्यर्थभेदेऽपि शब्दावृत्तिः । २ 'शमयति जलधरधारा चातकयूनां तृषं चिरोपनताम् । क्षपयति च वधूलोचनजलधारा कामिनां प्रवासरुचिम् ॥' 'वदनेन निर्जितं तव निहीयते चन्द्रबिम्बमम्बुधरे । अरविन्दमपि च सुन्दरि निलीयते पाथसां पूरे ॥' एवं चावृत्तीनां प्रस्तुताप्रस्तुतोभयविषयत्वाभावेऽपि दीपकस्यापत्तिमात्रेण दीपकव्यपदेशः। कुव. ३ कुवलयानन्दकारिकाः। -- 'मील संश्लेपणे' इति धातोरुपसर्गयोगादर्थभेदः । किंच । कुटजद्रुमाः स्फुटन्ति विकसन्ति । लक्षणया तत्पुष्पाणि गृह्यन्ते । अत्र क्रियापद- द्वयस्यार्थमात्रावृत्तिः । चातकाः सारङ्गाख्यपक्षिणः तृप्ताः सन्तः मा- द्यन्ति दृष्यन्ति । शिखावलाः शिखिनश्च । शिखास्ति येपामिति मत्वर्थीयो वलच् प्रत्ययः । माद्यन्ति 'मदी हर्षे' इति धातोर्लटि रूप- द्वयमित्युभयावृत्तिः ॥ ४८ ॥ प्रतिवस्तूपमालंकारः। वाक्ययोरेकसामान्ये प्रतिवस्तूपमा मता। तापेन भ्राजते सूरः शूरश्चापेन राजते ॥ ४९ ॥ वाक्ययोरिति ॥ वाक्ययोः प्रकृताप्रकृतार्थयोः । एकसामान्ये समान एव सामान्यः एकश्चासौ सामान्यश्चेति कर्मधारयः । एकस्मि- न्समानधर्मत्वे सतीत्यर्थः । प्रतिवस्तूपमा मता। प्रतिवस्तु प्रत्यर्थमुपमा यस्यामिति व्युत्पत्तेः । उदाहरणम् । सूरः सूर्यः तापेन दीप्त्या भ्राजते शोभते । शूरस्तु चापेन धनुषा राजते शोभते । अत्र केषांचिदलंकाराणां परस्परं भेदः कुवलयानन्दे दर्शितः संक्षेपेणोच्यते । तुल्ययोगितायां द्वावप्यौँ कचिद्वर्णनीयौ । दीपके त्वेको वर्ण्य इतरस्त्ववर्ण्यः । आवृत्तिदीपकं च वर्ण्यविषयमेव । प्रतिवस्तूपमा चोभयविषया। तत्र धर्मस्य द्विरुपादानं दीपके तु न तथेति ॥४९॥ दृष्टान्तालंकार। चेद्विम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलंकृतिः । त्वमेव कीर्तिमानराजन्विधुरेव हि कान्तिमान् ॥ ५० ॥ १ 'तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति। स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेचुरसं हि वीक्षते ॥' अन यद्युपमेयवाक्येऽनिच्छा उपमानवाक्ये अवीक्षेति धर्मभेद. प्रतिभाति, तथापि वीक्षणमात्रस्यावर्जनीयस्य प्रतिषेधानहत्वादिच्छापूर्वकवीक्षाप्रतिषेधोऽयम- निच्छापर्यवसित एवेति धर्मेक्यमनुसंधेयम् । २ 'देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः। अब्धिर्लवित एव वानरभटैः किंत्वस्य गम्भीरता- मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः ॥'
लक्ष्यलक्ष्णप्रकरणम् १ २७ चेदिति ॥ चेद्यदि वाक्यार्थयोरिति शेषः । बिम्बप्रतिबिम्बत्व- माकारप्रत्याकारतुल्यत्वं तत्तर्हि दृष्टान्तो नामालंकृतिर्भवति । शब्द- द्वयमजहल्लिङ्गम् । उदाहरणम् । हे राजन् , अत्रेति शेषः । त्वमेव कीर्तिमान यशस्वी त्वत्तुल्यो नान्य इत्यर्थः। तथा विधुरेव कान्तिमान भूरिप्रभावः । विजातीयधर्मयोः साम्यं बिम्बप्रतिबिम्बभावः । सजा- तीयधर्मयोः साम्यं वस्तुप्रतिवस्तुभाव इति विवेकः ॥ ५० ॥ निदर्शनालंकारः। वाक्यार्थयोः सदृशयोरक्यारोपो निदर्शना । या दातुः सौम्यता सेयं पूर्णेन्दोरंकलङ्कता ॥ ५१॥ वाक्येति ॥ सदृशयोस्तुल्ययोर्वाक्यार्थयोरनेकपदार्थयोः । 'सु. प्तिङन्तचयो वाक्यं क्रिया वा कारकान्विता' इत्यमरः । यत्तद्भ्यामै- क्यारोपः अभेदारोपः निदर्शना निश्चित्य दर्शनं सादृश्यप्रकटनं नि- दर्शना । दृशेय॑न्तात् स्त्रियां भावे युच् । उदाहरणम् । या दातुः पुंसः सौम्यता सोम इव सोमः स एव सौम्यः तस्य भावः सौम्यता अक्रूरता सेयं पूर्णेन्दोः पूर्णचन्द्रस्य अकलङ्कता निष्कलङ्कता । इह यत्तच्छब्दाभ्यामैक्यारोपः स्पष्टः । यदिति पाठे शक्यं मांसः क्षुदप- नेतुमितिवत् सामान्ये नपुंसकत्वम् ॥ ५१ ॥ 'कामं नृपाः सन्ति सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् । नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः॥' पूर्वोदाहरणे कीर्तिकान्त्योर्विम्बप्रतिबिम्बभावप्रयोजकं मनोहारिवरूपं साह- श्यमार्थमिह तु राजज्योतिषोः प्राशस्त्यरूपं तच्छाब्दमिति भेदः । १ 'योऽभीतो वसतौ नाथ भवतः समुपागमः। मदीयभवने सोऽयमिन्दोरमृतनिझरः ॥' 'अरण्यरुदितं कृतं शवशरीरमुर्तितं स्थलेऽलमवरोपितं सुचिरमूषरे वर्षितम् । भ्वपुच्छमवनामितं बधिरकर्णजापः कृतो धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥' अनाबुधजनसेवाया अरण्यरोदनादीनां यत्तझ्यामैक्यारोपः॥ २ दातृ पुरुषसौम्यत्वस्योपमेयवाक्यार्थस्य पूर्णेन्दोरकलङ्कत्वस्योपमानवाक्यार्थस्य यत्तयामैक्यारोपः।
कुवलयानन्दकारिकाः । पदार्थवृत्तिमप्ये के वदन्त्यन्यां निदर्शनाम् । त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः ॥ ५२ ॥ पदार्थेति ॥ एके केचित् पदार्थवृत्तिमपि । पदार्थ वृनिरैक्या- रोपस्थितियम्यां तादृशीमपि अन्यां निदर्शनां वदन्ति । उदाहरणम् । हे प्रिये, त्वन्नेत्रयुगलं नीलाम्बुजन्मनोरिन्दीवरयोर्लीला शोभां धत्ते तत्सदृशीमित्यर्थः । पूर्वत्र यत्तच्छब्दाभ्याभैक्यारोपः इह तु परकी- यत्वेनेति भेदः ।। ५२ ।। अपरां बोधनं प्राहुः क्रियया सत्सदर्थयोः । नश्येद्राजविरोधीति क्षीणं चन्द्रोदये तमः ॥ ५३ ।। अपरामिति ॥ प्रकृतस्य क्रियया असत्यदर्थयोः असतोऽनि- ष्टस्य सतः इष्टस्य चार्थस्य च बोधनं अपरां तृतीयां निदर्शनां प्राहुः। उदाहरणम् । तमो ध्वान्तं चन्द्रोदये सति राजविरोधी चन्द्रद्वपि चेति शिष्टरूपकम् । राजा प्रभी तृपे चन्द्रे यक्षे क्षत्रियशक्रयोः' इति विश्वः। नश्येदिति बोधयत् क्षीणं भवतीत्यनिष्टार्थबोधनमे- तत् ।। ५३ ॥ उदयन्नेव सविता पझेष्वर्पयति श्रियम् । विभावयत्समृद्धीनां फलं सुहृदनुग्रहम् ॥ ५४ ॥ उदयन्निति ॥ सविता भानुरुदयन्द्रच्छन् । उत्पूर्वादयतेरात्म- नेपदस्यानित्यत्वालटः शनादेशः । पद्मपु श्रियं गोमा अर्पयति १ 'वियोगे गौडनारीणां यो गण्डतलपाण्डिमा । अदृश्यत स खजूरीमारीगर्भरेणुषु ।' पूर्वस्मिन्नुदाहरण उपमेय उपमानधर्मारोपः । इह तूपमान उपमेयधर्मारोप इति भेदः ॥ २ अत्र पद्ये नेत्रयुगले नीलाम्बुजगतलीलापदारोपो निदर्शना । ३ 'उन्नतं पदमवाप्य यो लघुहेलयैव स पतेदिति ध्रुवम् । शैलशेखरगतः पृषत्कणश्चारुमारुतधुतः पतत्यधः ॥' ४ 'चूडामणि पदे धत्ते यो देवं रविमागतम् । सतां कार्यातिथेयीति बोधयन्गृहमेधिनः ॥' यथायं पर्वतः समागतं रवि शिरसा संभावयति एवं गृहमेधी समागतं सन्तं पूजया संभावयेदिति ।
लक्ष्यलक्षणप्रकरणम् १ २९ निदधाति । किं कुर्वन् । सुहदनुग्रहं स्वजनोपकारं समृद्धीनां तेजोवृद्धीनां फलं फलस्वरूपं विभावयन् बोधयन् सन्नर्पयतीति पूर्व- त्रान्वयः । इष्टार्थबोधनमेतत् ।। ५४ ।। व्यतिरेकालंकार । व्यतिरेको विशेषश्चेदुपमानोपमेययोः । शैला इवोन्नताः सन्तः किं तु प्रकृतिकोमलाः ॥ ५५ ॥ व्यतिरेक इति ॥ उपमानोपमेययोः विशेषः न्यूनाधिकगुणत्वं चेद्वर्ण्यते तर्हि व्यतिरेको नामालंकारः । व्यतिरेकशब्दो भावे घ- अन्तः । उदाहरणम् । सन्तः पुमपाः शैला इव उन्नता उच्चस्तराः। किंतु प्रकृतिकोमलाः स्वभावमृटवः । शैलास्तु न तथेति विशेपः । अनोपमानोपमेयशब्दोपादानादुपमाविशपो व्यतिरेक इति सूचितः । तेन न्यूनाधिकरूपकयो निव्याप्तिः । तत्र विपयविपयिशब्दाभ्यां व्यवहारास्किंचिन्यूनरूपकमधिकरूपकं च व्यतिरेकस्यैव प्रपञ्च इत्याहुः ॥ ५५ ॥ महोत्तरलंकारः। सहोक्तिः सहभावश्चेद्धामते जनरञ्जनः । दिगन्तमगमत्तस्य कीर्तिः प्रत्यर्थिभिः सह ॥ ५६ ॥ सहोक्तिरिति ॥ चेयदि जनरञ्जनश्चमत्कारकारी सहभावः सहभवनं सहेव द्वयोरेकक्रियाकरणमित्यर्थः । भासते तर्हि सहोक्तिः स्पष्टम् । उदाहरणम् । तस्य कीर्तिः प्रत्यर्थिभिः सह दि- शामन्तमगमन । शत्रवो दिगन्तमगमन् । कीर्तिरपि तथेति नृपो- १ 'सुधैव वसुधा सत्यमानन्दयति माननम् । महान्तमपि किं त्वेषा संमोहयति संततम् ॥ अत्रोपमानभूतसुधात उपमेयभूतवमुधाया संमोहकत्वनैव विशेष इति भवति व्यतिरेकालंकार इति काव्यविलाये। २ 'छाया संश्रयले नलं विटपिनां श्रान्तेव पान्थैः समं मूलं याति सरोजलस्य जलता म्लानेव मीनैः सह । आचामत्यहिमांशुदीधितिर पस्तव लोकैः समं निद्रागर्भगृहं सह प्रविशति क्लान्तेव कान्ताजनैः॥' 'अमन्दपुण्यसंदोहसंपादितमनिन्दितम् । विना जन्मभृतां जन्म विना सुकृतसंचयम्॥' इति काव्यविलासे ।
३० कुवलयानन्दकारिकाः । त्कर्षव्यञ्जकत्वाचमत्कारः । सह शिष्ये गागनो गुमरित्यादौ नारित चमत्कारः ॥ ५६ ॥ विनोक्त्यलंकार । विनोक्तिश्चेद्विना किंचित्प्रस्तुतं हीनमुच्यते । विद्या हृद्यापि साऽवद्या विना विनयसंपदम् ॥ ५७ ।। विनोक्तिरिति ॥ चेद्यदि किंचिद्विना प्रस्तुतं वर्ण्य हीनमप- कृष्टमुच्यते तहि विनोक्तिः स्पष्टम । उदाहरणम् । विद्या हृद्यापि हृदयंगमापि हृदयम्य प्रिया हृद्या हृदयस्य हृद्-' इत्यादिना यत्प्रत्यये हृदादेशः । विनयसंपदं मौजन्याधिक्यं विना सावद्या सदोपा । 'अ. वद्यपण्य-' इत्यादिना गर्हार्थे ऽवद्य शब्दो निपातितः । विना शिष्येणा- गतो गुरुरित्यादौ हीनत्वानुक्तेर्नालंकारः ॥ ५७ ॥ तञ्चत्किंचिद्विना रम्यं विनोक्तिः सापि कथ्यते । विना खलैर्विभात्येषा राजेन्द्र भवतः सभा ॥ ५८ ॥ तदिति ॥ चेद्यदि तत्प्रकृतं किंचिद्विना रम्यमुत्कृष्टमुच्यते तर्हि सापि विनोक्तिः कथ्यते । विधेयप्राधान्यात्स्त्रीलिङ्गनिर्देशः । उदा- हरणम् । हे राजेन्द्र, एषा भवतः सभा खलैविना विशेषेण विभाति । अभक्ष्यं विना सर्वमश्नातीत्यत्र नालंकारः। रम्यत्वानुक्तेः ॥ ५८ ॥ समासोत्त्यलंकार । समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् । अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः ॥ ५९ ॥ १ 'आविर्भूते शशिनि तमसा मुच्यमानेव रात्रि- नॆशस्यार्चि नभुज इव च्छिन्नभूयिष्ठधूमा। मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्पा गङ्गारोधःपतनकलुषा गृह्णतीव प्रसादम् ॥ २ मयि मुकुलितमालतीलतायां स्थितवति यानि दिनानि संगतानि। अहह विधिविधानतोऽधुनैवं कथमपि तानि पुनर्न वीक्षितानि ॥' इति काव्यविलामे। 'व्यावलगत्कुचभारमाकुलकचं व्यालोलहारावलि प्रेकुत्कुण्डलशोभि गण्डयुगलं प्रस्वेदि वक्राम्बुजम् । शश्वदत्तकरप्रहारमधिकश्वासं रसादेतया यस्मात्कन्दुक सादरं सुभगया संसेव्यसे यत्कृती ॥'
लक्ष्यलक्षणप्रकरणम् १ समासोक्तिरिति ॥ चेद्यदि प्रस्तुते प्रकृतार्थे अप्रस्तुतस्य परि- स्फूर्तिः प्रतीतिः स्यात्तहि समासोक्तिः। समासेन संक्षेपेण अर्थद्वय- योक्तिरिति व्युत्पत्तेः । विशेषणमात्रस्यानेकार्थत्वात्संक्षेपः । विशे- प्यस्यापि तथात्वे तु श्लेप एव । उदाहरणम् । अयं पुरोवर्ती चन्द्रमाः कामुकश्च रक्तो लोहित आसक्तश्च सन् ऐन्द्री इन्द्रस्येयमैन्द्री प्राची परवनिता च तस्याः मुखं पुगेभागं वदनं च चुम्बति स्पृशति मुखे- नास्वादयति त्वं पश्य । अत्र रक्तादिपदशेपरलेन अग्रस्तुतयोः का- मुकपरवनितयोः परिस्फूर्तिरिति लक्षणानुगमः । विस्तरः कुवलया- नन्दे द्रष्टव्यः ॥ ५९ ॥ परिकरालंकार । अलंकारः परिकरः साभिप्राये विशेषणे । सुधांशुकलितोतंसस्तापं हरतु वः शिवः ॥ ६० ॥ अलंकार इति ॥ विशेषणे साभिप्राये साकूते व्यङ्ग्यार्थसहिते सतीत्यर्थः । परिकरो नामालंकारः । अलंकारशब्दस्य सर्वत्र प्रतीयमानत्वेऽपि ध्वनित्वनिपेधार्थमुपादानम् । परिकरोति प्रकृतार्थ- मुपकरोतीति परिकरः साभिप्रायशब्दः सोऽस्मिन्नस्तीति परिकरः । मत्वर्थीयोऽच प्रत्ययः । भूपणार्थाभावान्न सुडागमः । उदाहरणम् । मुधांशुकलितोत्तंसः सुधाकरनिबद्धावनमः शिवो वस्तापं हरतु । अत्र विशेषणेन शिवम्य तापहरणसमर्थत्वं गम्यते । अत्र विशेपणस्य व्यङ्गयार्थगर्भत्वेन प्रकृतोपयोगित्वं काव्य लिङ्गे तु वाच्यार्थस्यैव हेतु- त्वमिति तस्मादस्य भेदः । तत्रापि व्यङ्यार्थश्चेदुभयोः संकर इति नितिं कुवलयानन्दे ॥ ६० ॥ परिकराकुरालंकार.। साभिप्राये विशेष्ये तु भवेत्परिकराङ्कुरः। चतुर्णा पुरुषार्थानां दाता देवश्चतुर्भुजः ॥ ६१ ॥ १ सुधाशना कलित कृत उत्तंस शेखरो येन स इति । 'उत्तंस कर्णपरे स्याच्छेखरे चावतंसवत्' इति विश्वः । २ 'तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुर्या हरस्यापि पिनाकपाणेर्यच्युति के मम धन्विनोऽन्ये ॥ 'फणीन्द्रस्त गुणान्वक्तुं लिखितुं हैहयाधिपः । द्रष्टुमाखण्डलः शक्तः क्वाहमेप क्व गुणाः ॥' फणीन्द्र इत्यादि विशेषपदानि सहस्रबदनाद्यमिप्रायगर्भाणि । ते कुवलयानकारिकाः। साभिप्राय इति । विठोप्ये वर्णनीयनानि भाभिप्राये सति तु परिकराङ्कुरः । परिकरम्य अङ्कुर इति व्युत्पत्तेः । यथा वृक्षम्य अ- करो वृक्षान्नातिरिक्तस्तथायमपि परिकरान्नातिरिक्तः । विशेष्यपदस्यै- कत्वेन विस्ताराभावादङ्करन्थम । उदाहरणम् । चतुर्भुजो देवः विष्णुः चतुर्णा पुस्पार्थानां धर्मार्थकाममोक्षाणां दातास्ति । एकैकहस्तेनेकै- कम्य दाने विलम्बो न स्यादिति सद्यो दातृत्वं गम्यते । अन्न चतु- (जशब्दस्य 'वैकुण्ठो जलशायनश्चतुर्भुजश्च' इति हलायुधे । 'चक्र- पाणिश्चतुर्भुजः' इत्यमरकोशे च विष्णुनामत्वदर्शनात । देवशब्दार्थ प्रति विशेषणत्वेऽपि न दोपः । अत्र विशेष्यशब्देन नाम्न एव वि- वक्षितत्वात् । देवशब्दार्थ विनापि प्रयोगयोग्यत्वाच । यथाह वामनः । 'विशेपणमात्रप्रयोगो विशेष्यप्रतिपत्तो सागराम्बरादिवत्' इति । असाधारण विशेषणस्य विशेष्यनामधेयत्वादिति तदभिप्रायः ॥ ६१ ।। पालकार । नानार्थसंश्रयः श्लेषो वावोभयास्पदः । सर्वदोमाधवः पायात्स योगंगामदीधरत् ॥ ६२ ॥ नानार्थेति ॥ वावोभयाम्पदः प्रकृताप्रकृतोभयविषयः नानार्थसंश्रयः नानाभिधम्यार्थस्याश्रयणं नेपः श्लिप्यतोऽर्थावम्मिन्निति व्युत्पत्तेः । क्रमेणोदाहरणानि । सर्वदः स माधवः विष्णुः मायाः रमायाः धवः पतिः मधोर्गोतापला सिनि बा व्युत्पत्तेः । पायात रक्षतु । यो विष्णुः अगं मन्दर पर्वनं कमावतारेण, गोवर्धनं वा कृष्णावता- रेण, गां भूमि वराहावतारेण, अदीधरत् दधारेति हरिपक्षे । सर्वदा नित्यं स उमाधवः पार्वतीपतिः पायात । यः गगां नाकनदी जटा- यामदीधरदिति हरपक्षे । अयं प्रकृतश्पः हरिहरयोरुपास्यत्वेन प्रकृतत्वात् ।। ६२ ।। : १ 'त्रातः काकोदरो येन द्रोग्धापि करुणात्मना। पूतनामा रणख्यातः समेऽस्तु शरणं प्रभुः॥' त्रात इति । येन करुणायुक्तान्त करणेन द्रोहकर्तापि अदरो भयशून्य काकस्त्रातो रक्षितः नतु हतः स पवित्रनामा रणे लब्धवर्ण. ख्यातो विभू रामो मे शरण- मस्त्वित्यर्थः । कृष्णपक्षे तु काकोदरः कालियसर्पः, पूतनाया मारणेन ख्यात इति विशेषः । अत्र स्तोतव्यत्वेन प्रकृतयोः श्लेषः ।
लक्ष्यलक्षणप्रकरणम् १ अब्जेन त्वन्मुखं तुल्यं हरिणाहितसक्तिना। उच्चरद्भरिकीलालः शुशुभे वाहिनीपतिः ॥ ६३ ॥ अब्जेनेति ॥ त्वन्मुग्वं हरिणा हितसक्तिना मृगोत्पादितमं. गेन अब्जेन चन्द्रेण । 'अब्जो जैवातृकः सोमः' इति हैमः । तुल्यं सदृशं वर्तते । अथवा हरिणा सूर्येण आहितशक्तिना उत्पादितमा- मर्थेन । 'हरिर्वातार्कचन्द्रेणयमोपेन्द्रमरीचिपु' इति विश्वः । अब्जेन जलजेन तुल्यं इत्यप्रकृतश्लेषः । मुखस्य वर्ण्यत्वेन अब्जयोरप्रकृत- त्वात् श्लेपालंकारे सकारशकारयोरभेदोपचारः प्रसिद्ध एव । उच्च- रद्भरिकीलालः प्रस्रवद्वहुरुधिरो वाहिनीपतिः भीमः शुशुभे इति १ 'नीतानामाकुलीभावं लुब्धभूरिशिलीमुखैः । सदृशे वनवृद्धानां कमलानां त्वदीक्षणे ॥' नीतानामिति । दयिता प्रति नायकोक्ति । तव ईक्षणे नेत्रे कमलाना पाना हरिणाना च सदृशे त इत्यन्वयः । कीदृशानाम् । वने जले अरण्ये च वृद्धि प्राप्ताना तथा लुब्धैर्लोभशील रिभि शिलीमुखर्धमरैराकुलीभावं व्याप्तता नीता- नामिति पद्मपक्षे । हरिणपक्षे तु लुब्वाधः कर्तृभि रिशिलीमुखैवाण, करण- भूतैराकुलीभावं चपलता नीतानामित्यर्थ । 'मृगप्रमेदे कमले' इति विश्व । अत्रोपमानत्वेनाप्रकृतयो पद्महरिणयो ठप । 'असावुदयमारूढः कान्तिमान् रक्तमण्डलः । राजा हरति लोकस्य हृदयं मृदुलैः करैः ॥' असाविति । उदयं शैलममिवृद्धि च रक्तं रक्तवर्णमनुरक्तं च मण्डलं बिम्ब देशाश्च । राजा चन्द्रो नृपश्च । मृदुलर भिनवरत्पश्च । कर किरणग्राह्य वनैश्च इत्यर्थः । अत्र राजा हरति लोकस्यति वर्णनप्रकृतस्य प्रत्यग्रोदितचन्द्रस्याप्रकृतस्य नवाभि- षिक्तस्य नृपते. श्लेप । प्रत्यग्रोदितचन्द्रस्य अभिनवोदितचन्द्रस्येत्यर्थः । २ 'आवद्धकृत्रिमसटाजटिलांसभित्ति- रारोपितो मृगपतेः पदवीं यदि श्वा । मत्तेभकुम्भतटपाटनलम्पट स्य नाद करिष्यति कथं हरिणाधिपस्य ॥' आबद्धा. या. कृत्रिमाः सटा. स्कन्धलोमानि तैटिला व्याप्ता अंसभित्तिः स्कन्धदेशो यस्यैवंभूतः श्वा यदि मृगपतेः सिहस्य पदवीमारोपित. तथापि मत्ता- नामिभाना गजाना कुम्भतटस्य पाटने विदारणे लम्पटस्य व्यसनिनो हरिणा- नामधिषस्य नादं सिंहनादं कथं करिष्यतीत्यर्थः । अत्र शुनकस्य निन्दा निन्द्यत्वेन प्रस्तुते तत्सरूपे कृत्रिमवेषव्यवहारादिमात्रेण विद्वत्ताभिनयनवति वैधेये पर्यवस्यति ।
कुवलयानन्दकारिकाः । प्रकृतार्थः । उच्चरद्भरिकीलालः प्रस्रवद्वहुलोदकः । 'कीलालं रुधिराम्भ- सोः' इति शाश्वतः । वाहिनीपतिः नदीपतिः । 'नदी सेना च वा- हिनी' इति यादवः । शुशुभे इत्यप्रकृतार्थः । अत्र सभङ्गः शब्दश्लेषः । अभङ्गस्त्वर्थश्लेप इति केचित् । अत्र विशेपो मत्कृते कोविदानन्दे द्रष्टव्यः॥ ६३ ॥ अप्रस्तुतप्रशंसालंकार । अप्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुताश्रया । एकः कृती शकुन्तेषु योऽन्यं शक्रान्न याचते ॥६॥ अप्रस्तुतेति ॥ अप्रस्तुतप्रशंसानामालंकारः स्यात् । यत्र सा अप्रस्तुतार्थस्य प्रशंसा वर्णना प्रस्तुताश्रया प्रस्तुतमाश्रयतीति प्रस्तु- ताश्रया प्रकृतार्थपरा भवति । उदाहरणम् । शकुन्तेपु पक्षिषु । 'शकुन्तपक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः । एकः चातक एव कृती कृतमनेनेति कृती कृतार्थः । 'इष्टादिभ्यश्च' इतीनिप्रत्ययः । यः शक्रादन्यं । 'अन्यारात्-' इत्यादिना अन्यशब्दयोगे पञ्चमी । न याचते किंतु शक्रमेव याचते । अत्र याचकेष्वेक एव मनस्वी धन्यः यः सार्वभौमादन्यं न याचत इति तुल्ये प्रकृतार्थे पर्यवसा नम् ॥६४ ॥ कार्ये निमित्ते सामान्ये विशेष प्रस्तुते सति । तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ॥ ६५ ॥ १ सामान्यनिबन्धना यथा- 'विधाय वैरं सामर्षे नरोऽरी य उदासते । प्रक्षिप्योदर्चिपं कक्षे शेरते तेऽभिमारुतम् ॥' विधायेति । ये नरा मनुष्या सक्रोधेऽरो शत्रौ वरं विधायोदासीना भवन्ति ते कक्षे तृण उदर्चिषमग्निं निक्षिप्याभिमास्तं पवनाभिमुखं शेरते । निद्रां कुर्व- न्तीत्यर्थः । अत्र प्रागेव सामर्षे शिशुपाले रुक्मिणीहरणादिना वैर दृढीकृतवता कृष्णेन तस्मिन्नुदासितुमयुक्त मिति विशेष्यवक्तव्येऽर्थ प्रस्तुते तत्प्रत्यायनार्थ सामा- न्यमभिहितम् । विशेषनिबन्धना यथा- 'अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः । केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः ॥' भरेति । मृगलाञ्छन इत्युच्यत इति शेषः । निष्ठुरं क्षिप्तानि मृगयूथानि येन लक्ष्यलक्षणप्रकरणम् १ कार्य इति ॥ कार्ये प्रस्तुते सति तदन्यस्य कारणस्य वचःक- थननिमित्ते कारणे प्रस्तुते सति तदन्यस्य कार्यस्य । एवं सामान्ये विशेषस्य, विशेपे च सामान्यस्य, तुल्ये च तुल्यस्येत्यसौ पञ्चधा भवति । तत्र तुल्योदाहरणं दर्शितम् । अस्य श्लोकस्य प्रक्षिप्तत्वाद- न्यान्युदाहरणानि न सन्ति । ततो नूतनानि कृत्वा वालबोधाय प्रदर्यन्ते-'संसारानलतप्तोऽयं हरि शरणमिच्छति । हरेर्भक्ता हि बहवो मुक्ताः संसारबन्धनात् ॥ १ ॥' अत्र पूर्वार्ध संसारानलतप्तस्य तापशान्तिलक्षणमुक्तिरूपकार्ये प्रस्तुते हरिशरणरूपकारणमभिहितं ततः कार्यावगतिः। अत्र उत्तरार्धे च मुमुक्षुभिर्हरिभक्तिः सर्वथा कर्तव्येति कारणे प्रस्तुते सति भक्तजनमुक्तिरूपकार्यमभिहितं ततः कारणावगतिः ॥ १ ॥ 'अजामिलो दुराचारः स्मृतिमात्रामुच्यत । धन्यो नारायणं जल्पन्नज्ञानादपि मुक्तिभाक् ।। २ ॥' अत्र पूर्वार्ध नवविधभक्तिसामान्यमाहात्म्ये प्रस्तुते स्मृतिरूपविशेषमाहात्म्यम- नादृशः केसरी सिंहो मृगाधिप इत्युच्यत इति शेष । अत्र कृष्णप्रति बलभद्र- वाक्ये मार्दवं दूपणपरं पूर्वप्रस्तावनानुसारेण क्रूर एव ख्यातिभाग्भवति नतु मृदुरिति सामान्ये वक्तव्ये तत्प्रत्यायनार्थमप्रस्तुतो विशेषोऽभिहितः । कार्यनिवन्धना यथा- 'नाथ न्वदविनखधावनतोयलग्ना- स्तत्कान्तिलेशकणिका जलधि प्रविधाः । ता एव तस्य दहनेन घनीभवन्त्यो नूनं समुद्रनवनीतपदं प्रपन्नाः ॥' नाथेति । हे नाथ विष्णो, लचरणनखप्रक्षालनजले गलारूपे लग्ना तेषा नखानां कान्तिलेशकणिका समुद्रं प्राप्तास्ता एव च कणिकास्तस्य जलघेर्मथनेन सान्द्रतां प्राप्ता नूनं समुद्रसंबन्धिनवनीतम्य चन्द्रस्य पदं प्राप्ताः । चन्द्ररूपेण परि- गता इत्यर्थः । अत्र भगवत्पादाम्बुजक्षालनतोयरूपायां दिव्यमरिति अलक्तकर- सादिवल्लमानां तया सह समुद्रं प्रविष्टाना स्वकान्तिलेशकणिकाना परिणामतया संभाव्यमानेन समुद्रनवनीतपदवाच्येन चन्द्रेण कार्येण नखकान्त्युत्कर्परूपं कारणं प्रतीयते । कारणनिबन्धना यथा- 'हतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा। कृतमध्यविलं विलोक्यते धृतगम्भीरखनी खनीलिम ॥ अत्राप्राकरणिकेन्दुमण्डलगततयोत्प्रेक्ष्यमाणेन दमयन्तीवदननिर्माणार्थ सारांश हरणेन तत्कार्यस्पो वर्णनीयतया प्रस्तुतो दमयन्तीवदनगतो लोकोत्तरसौन्दर्य विशेषः प्रतीयते।
कुवलयानन्दकारिकाः। । भिहितं ततः सामान्यावगतिः । उत्तरार्धे च अजामिलो धन्य इति विशेपे वक्तव्ये मुक्तिभाक धन्य इति सामान्यमभिहितं ततो विशे- घावगतिः ॥२ ॥ 'हंसो धन्यो नदीरन्यास्त्यक्त्वा गङ्गां य आ- श्रितः । प्रक्षिप्तकारिक: प्रोक्ताः पञ्च भेदाः प्रदर्शिताः ॥ ३॥' अत्र भक्तो धन्यः यः क्षुद्रफलदा इतरदेवतोपासनास्त्यक्त्वा मुक्तिफलदां हरिभक्तिमेवाश्रित इति तुल्ये प्रस्तुते तत्तुल्यो वाक्यार्थोऽभिहितस्ततः प्रस्तुतावगतिः ॥ ३ ॥ ६५ ॥ प्रस्तुताकुरालकार । प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुताङ्कुरः । किं भृङ्ग सत्यां मालत्यां केतक्या कण्टकेद्धया॥६६॥ प्रस्तुतेनेति ॥ प्रस्तुतेन वाक्यार्थेन प्रस्तुतस्य वाक्यार्थस्य द्यो- तने कृते सति प्रस्तुताङ्कुरः । व्युत्पत्तिः स्पष्टा । उदाहरणम् । हे भृङ्ग, मालत्यां सत्याम् । 'सुमना मालती जातिः' इत्यमरः । मालती भिन्नति केचित् । कण्टकेद्धया केतक्या किं प्रयोजनं स्यात् । अत्र वाटिकायां कामुके शृण्वति सति भृङ्गं प्रतीयमुक्तिरित्युभयोः प्रस्तु- तत्वालक्षणानुगमः ॥ ६६ ।। पर्यायोक्तं तु गम्यस्य वचो भङ्गयन्तराश्रयम् । नमस्तस्मै कृतौ येन मुधा राहुक्धूकुचौ ॥ ६७ ॥ पर्यायेति ॥ गम्यम्य व्यङ्ग्यस्य भङ्ग्यन्तराश्रयं भङ्गयन्तरं प्र- कारान्तरमाश्रयतीति तथाभूतं वचस्तु पर्यायोक्तम् । व्युत्पत्तिः स्पष्टा । पर्यायशब्दः प्रकारान्तरवाची सादृश्यात् । उदाहरणम् । तस्मै नमः अस्तु । येन राहुक्धूकुचौ मुधा कृतौ मिथ्या कृतौ । राहुशरीरनाशनेन भोगरहितौ कृतावित्यर्थः । एतेन कृष्णाय नम- स्कारो गम्यते । राहुशरीरच्छेत्ता हि स एवेति लक्षणानुगमः ।। ६७ ।। १ 'अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु । बालामजातरजसं कलिकामकाले व्यर्थ कदर्थयसि किं नवमल्लिकायाः।' २ 'लोकं पश्यति यस्याङ्गिः स यस्याचि न पश्यति । ताभ्यामप्यपरिच्छेद्या विद्या विश्वगुरोस्तव ॥' अत्र गौतमः पतञ्जलिश्च स्वासाधारणरूपाभ्या गम्यौ रूपान्तराभ्यामभिहितौ ।
लक्ष्यलक्षणप्रकरणम् १ पर्यायोक्तालंकारः। पर्यायोक्तं तदप्याहुर्यव्याजेनेष्टसाधनम् । यामि चूतलतां द्रष्टुं युवाभ्यामास्यतामिह ॥ ६८ ॥ पर्यायेति ॥ व्याजेन कपटेन परस्य स्वस्य वा यदिष्टसाधनं तदपि पर्यायोक्तमाहुः । तत्रापि प्रकारान्तरकल्पनासत्त्वात् । उदा- हरणम् । अहं चूतलतां द्रष्टुं पुष्पिता न वेति निश्चेतुं यामि । युवा- भ्यां स्त्रीपुंसाभ्यामिह आस्यतां स्थीयताम् । रहःसंपादनाय दूत्याः कपटोक्तिरियमिति लक्षणानुगमः ॥ ६८ ॥ उक्ति-जस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयोः । कः स्वधुनि विवेकस्ते नयसे पापिनो दिवम् ॥ ६९ ॥ उक्तिरिति ॥ निन्दास्तुतिभ्यां निबद्धाभ्यां स्तुतिनिन्दयोर्गन्य- मानयोरुक्तिर्व्याजस्तुतिः । व्युत्पत्तिः स्पष्टा । उदाहरणम् । हे स्वधुनि गङ्गे । 'वाहिनी तटिनी धुनी' इति शाश्वतः । ते तव को विवेकः । यत् पापिनो दिवं नयसे । अत्र गङ्गाया निन्दाव्याजेन स्तु- तिर्गम्यते ॥ ६९ ॥ १ रमणीयेन व्याजेन मिषेण स्वस्य परस्य वा इटस्य यत्साधनं सपादनं तदपि पर्यायोक्तम् । २ अत्र नायिका नायकेन संगमय्य घृतलतादर्शनव्याजेन निर्गच्छन्त्या सख्या तत्वाच्छन्द्यसंपादनरूपेष्टसाधनं पर्यायोक्तम् । 'देहि मत्कन्दुकं राधे परिधाननिगूहितम् । इति विनंसयन्नीचीं तस्याः कृष्णो मुदेऽस्तु वः॥' पूर्वत्र परेष्टसाधनमत्र कन्दुकशोधनार्थ नीवी विस्रसनव्याजेनेष्टसाधनमिति भेद । परिधाननिगूहितं परिधानेनाधरवस्त्रेण निगृहितमाच्छादितमित्यर्थ. । ३ निन्दया स्तुतेः स्तुत्या निन्दाया वा अवगमनं व्याजस्तुतिः । ४ 'कस्ते शौर्यमदो योद्धं त्वय्येकं सप्तिमास्थिते । सप्तसप्तिसमारूढा भवन्ति परिपन्थिनः ॥' 'अर्ध दानववैरिणा गिरिजयाप्यर्ध शिवस्याहृतं देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति । गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं सर्वज्ञत्वमधीश्वरत्वमगमत्त्वां मां च भिक्षाटनम् ॥' अत्राद्योदाहरणे सप्तसप्तिगतश्लेषमूलनिन्दाव्याजेन स्तुतिर्गम्यते, द्वितीयोदाहरणे सर्वज्ञः सर्वेश्वरोऽसीति राज्ञः स्तुत्या व्याजरूपया मदीयवैदुष्यादि दारिद्यादि सर्व ज्ञातम् । कुव०४ ३८ कुवलयानन्दकारिकाः । साधु दूति पुनः साधु कर्तव्यं किमतः परम् । यन्मदर्थे विलूनासि दन्तैरपि नखैरपि ॥ ७० ॥ साध्विति ॥ हे दूति, साधु सम्यक् । अतः परं किं साधु पुनः कर्तव्यम । यद्यस्मान्मदर्थे । निमित्ते सप्तमी । दन्तै खैश्च विलू- नासि । अपिशव्दद्वयं समप्राधान्यसूचनार्थम् । अत्र कामिनीकृत- स्तुतिव्याजेन तत्पतिसक्तत्वद्योतनेन निन्दा गम्यते ॥ ७० ॥ व्याजनिन्दा । निन्दाया निन्दया व्यक्तियाजनिन्देति गीयते । विध स निन्द्यो यस्ते प्रागेकमेवाहरच्छिरः॥ ७१ ॥ निन्दाया इति ॥ निन्दया निन्दायाः व्यक्तिः सूचना व्या- जनिन्दा इति गीयते । उदाहरणम् । हे विधे हे ब्रह्मन् , स शिवो निन्द्यः । अत्र पर्यायोक्तेन शिवो गृह्यते । यः शिवः ते तव प्राक् पूर्वमेकमेव पञ्चमं शिरोऽहरत् । सर्वाण्यपि नाहरदित्येवकारार्थेन हरनिन्दया दुःखमयप्रपञ्चकर्तृत्वेन स्रष्टुनिन्दा गम्यते ॥ ७१ ।। आक्षेपालंकारः। आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात् । चन्द्र संदर्शयात्मानमथवास्ति प्रियामुखम् ॥ ७२ ॥ आक्षेप इति ॥ स्वयमुक्तस्यार्थस्य विचारणात् स्वयमेव प्रति- १ साधु दूतीत्युदाहरणे मदर्थ महान्तं क्लेशमनुभूतवत्यसीति व्याजरूपया निन्दया तत् । कितु रन्तुमेव गतासि धिक्त्वा दूतिकाधर्मविरुद्धकारिणीमिति निन्दावगम्यते। २ अत्र हरनिन्दया विपमविपाकं संसारं प्रवर्तयतो विघेरभिव्यङ्ग्या निन्दा व्याजनिन्दा। 'विधिरेव विशेषगहणीयः करट त्वं रट कस्तवापराधः। सहकारतरौ चकार यस्ते सहवासं सरलेन कोकिलेन ॥' 'शिखरिणि व नु नाम कियचिरं किमभिधानमसावकरोत्तपः। तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥' शिखरिणीति । नायिकां प्रति नायकस्योक्तिः। हे तरुणि, असौ शुकवालकः । नाम वितर्के । क्कनु कस्मिशिखरिणि पर्वते कियत्कालं चिरं किमभिधानं किनामकं तप. अकरोत् , येन हेतुना तवाधरवत्पाटलं रक्तवर्ण बिम्बफलं दशतीत्यन्वयः । अत्र शुकशावकस्तुत्या नायिकाधरसौभाग्यातिशयस्तुतिय॑ज्यते ।
लक्ष्यलक्षणप्रकरणम् १ षेध आक्षेपः स्पष्टम् । उदाहरणम् । हे चन्द्र, आत्मानं संदर्शयाऽथवा प्रियामुखमस्त्येव । आह्लादकत्वेन मुखमेव चन्द्र कार्यकारीति चन्द्रा- नादर आक्षेपः ॥ ७२ ॥ निषेधाभासमाक्षेपं बुधाः केचन मन्यते । नाहं दूती तनोस्तापस्तस्याः कालानलोपमः ॥ ७३ ॥ निषेधति ॥ केचन बुधाः पण्डिताः निषेधाभासं निपेधवद्भास- मानं वचः आक्षेपं आक्षेपालंकारं मन्वते । उदाहरणम् । अहं दूती न । मिथ्यावादिनी नेत्यर्थः। तस्यास्तनोः शरीरस्य कालानलोपमः कल्पान्तानिसमः । अतिदाहक इत्यर्थः । तापः कामज्वरो वर्तते । तस्मात्सा नोपेक्ष्येति भावः । नायकं प्रति दूतीवचनमिदम् । अत्र नाहं दूतीति निषेधस्य मिथ्यावादित्वे पर्यवसानादाभासत्वम् ॥७३॥ आक्षेपान्तरम् । आक्षेपोऽन्यो विधौ व्यक्ते निषेधे च तिरोहिते । गच्छ गच्छसि चेत्कान्त तत्रैव स्याजनिर्मम ॥ ७४ ॥ आक्षेप इति ॥ विधौ व्यक्ते प्रकटे सति निपेधे च तिरोहिते गूढे सति अन्यः प्रागुक्तभिन्नः आक्षेपः स्यात् । विधिः कर्त- व्योपदेशः । निपेधस्तु तद्विपरीतः । उदाहरणम् । हे कान्त, गच्छसि चेत् गच्छ । कामचारानुज्ञायां लोट् । मम जनिर्जन्म तत्रैव तम्मि- नेव देशे स्यात् भवेत् । संभावनायां लिङ् । अन्ते या मतिः सा गतिरिति न्यायेन त्वद्विरहाक्षमाया मम विरहजन्यमरणानन्तरं त्व- समागमयोग्ये देशे जन्म भविष्यतीत्यर्थः । मज्जीवनमिच्छसि चेत् मा गच्छेति निषेधो गूढः ॥ ७४ ॥ विरोधाभासालंकार। आभासत्वे विरोधस्य विरोधाभास इष्यते । विनापि तन्वि हारेण वक्षोजौ तव हारिणौ ॥ ७५ ॥ १ केचिदलंकारसर्वस्वकारादय इत्थमाहु -न निषेधमात्रमाक्षेप. कितु यो निषेधो बाधितः सन्नर्थान्तरपर्यवसितः किचिद्विशेषमाक्षिपति म आक्षेप दति । २ 'न चिरं मम तापाय तव यात्रा भविष्यति । यदि यास्यसि यातव्यमलमाशङ्कयापि ते ॥' अत्रापि न चिरं मम तापायेति स्वमरणस सूचनेन गमननिधो गीकृत । ३ आभासत इत्या भामः । विरोधश्चासावाभामश्चेति व्युत्पत्ने । ४ अत्र हाररहितावपि हारिणो हृयाविति लपमूलको विरोधाभाग. ।
कुवलयानन्दकारिकाः । आभासत्वे इति ॥ विरोधस्य आभासत्वे सति विरोधाभासो नामालंकार इष्यते । अस्माभिरिति शेपः ॥ अन्यैस्तु विरोध इति । उदाहरणम् । हे तन्वि, तव वक्षोजौ स्तनौ हारेण एकावल्यादिना विनापि हारिणी हारवन्ताविति विरोधः । हरतश्चित्तमिति व्युत्पत्त्या- र्थान्तरकल्पनेन तत्परिहारादाभासत्वम् । इदमुदाहरणं श्लेषसंकीर्ण प्रकारान्तरेणापि काव्यादर्शे दृश्यते । काव्यप्रकाशे तु जात्यादिभे- दाद्दशविधोऽयम् । वस्तुतस्तु श्लेषमूलश्चमत्कारकारीति स एवा. त्रोक्तः ॥ ७५ ॥ विभावनालंकारः। विभावना विनापि स्यात्कारणं कार्यजन्म चेत् । अपि लाक्षारसासितं रक्तं त्वच्चरणद्वयम् ॥ ७६ ॥ विभावनेति ॥ कारणं प्रसिद्धकारणोक्तिं विनेत्यर्थः । कार्यजन्म कार्योत्पत्तिरभिधीयते चेत्तर्हि विभावनालंकारः स्यात् । विभाव्यते विचार्यते कारणमस्यामिति व्युत्पत्तेः । बाहुलकादधिकरणे युच् । उदाहरणम् । त्वचरणद्वयं लाक्षारसासिक्तमप्यलक्तकाच्छुरितमपि । पाठान्तरे लाक्षारसेनासमन्तातिसक्तं न भवतीति रक्तमस्ति । स्वभा- वादेवेति भावः । पूर्वत्र विरोधोक्त्या चमत्कारः । इह तु कारणान्त- रोक्त्या चमत्कार इति भेदः । अत्र श्लेपमूलत्वं नास्तीत्यपरो विशेषः ॥ ७६ ॥ १ विभाव्यते कारणान्तरं यस्यामिति व्युत्पत्ते । कारणभावश्च । २ अत्र लाक्षारसासेकरूपकारणाभावेऽपि रक्तिमा कथित.। स्वाभाविकत्वेन विरोधपरिहारः । यथा वा- 'अपीतक्षीयकादम्बमसंमृष्टामलाम्बरम्। अप्रसादितशुद्धाम्बु जगदासीन्मनोहरम् ।।' शरद्वर्णनमेतत् । अपीतेति । अपीताः पानशून्याः क्षीवा मत्ता. कादम्बाः कल- हंसा यत्र तथा असंमृष्टं संमार्जनशून्यममलमम्बरमाकाशं यत्रैवमप्रसादित वस्त्रगाल- नकतकक्षोदप्रक्षेपादिना यत्प्रसादनं तच्छून्यं सूक्ष्मं लचम्बु यत्रैवंभूतं जगन्मनो- हरमासीदित्यन्वयः।
लक्ष्यलक्षणप्रकरणम् १ द्वितीया कार्यात्पत्तिविभावना । हेतूनामसमग्रत्वे कार्योत्पत्तिश्च सा मता। अस्त्रैरतीक्ष्णकठिनैर्जगज्जयति मन्मथः ॥ ७७ ॥ हेतूनामिति ॥ किंच हेतूनां कारणानामसमग्रत्वे अपुष्कलत्वे सत्यपि कार्योत्पत्तिः तद्वर्णनमित्यर्थः । सा विभावना मता । उदाहर- णम् । मन्मथः कामः अतीक्ष्णकठिनैः तीक्ष्णानि खगादीनि कठि- नानि गदादीनि तद्भिन्नैः पुष्परूपैः कोमलैरस्त्रैः जगद्विश्वं जयत्यभि- भवति । 'जि अभिभवे' इति धातोर्लट् । 'जि जये' त्वकर्मकः । अत्र अस्त्राणामनेकविधत्वाभावादपुष्कलत्वं तथाविधानामपि विधा- तृवरेण जगज्जयसाधनत्वमिति विधातृवरोर्जितस्य कामस्य प्रसिद्धा- स्वनिरपेक्षत्वेन सामग्र्यसंपादकत्वाभिधानाचमत्कार: । अत्रापि वि- रोधोक्तो तात्पर्य नास्ति ॥ ७७ ।। तृतीया कार्योत्पत्तिविभावना । कार्योत्पत्तिस्तृतीया सो सत्यपि प्रतिबन्धके । नरेन्द्रानेव ते राजन्दशत्यसिभुजङ्गमः ॥ ७८ ॥ कार्येति ॥ प्रतिवन्धके बाधकारणे सत्यपि कार्योत्पत्तिः तृतीया पूर्वोक्तप्रकारद्वयभिन्ना सा ज्ञेया। कार्योत्पत्तौ प्रतिबन्धकामावस्यापि कारणत्वेनाङ्गीकारात् । उदाहरणम् । हे राजन् , ते तव असिः खगः स एव भुजङ्गमः सर्पः नरेन्द्रानेव नृपान् विपवैद्यांश्चेति श्लिष्टरूप- कम् । 'नरेन्द्रो वार्तिके राज्ञि विपवैद्येऽपि वाच्यवत्' इति विश्वः । दशति लक्षणया हन्तीत्यर्थः । अत्र विषवैद्यत्वं दशनक्रियायाः प्रति- बन्धकत्वेऽपि सर्पस्य प्रवलत्वाभिव्यक्त्या चमत्कारः ॥ ७८ ।। १ अत्र जगज्जये साध्ये हेतूनामस्त्राणामसमग्रत्वतीक्ष्णत्वादिगुणवैकल्यम् । 'उद्यानमारुतोद्भूताश्चुतचम्पकरेणवः । उदनयन्ति पान्थानामस्पृशन्तोऽपि लोचने ॥' लोचने कर्मभूते उसयन्ति उद्गताश्रूणि कुर्वन्तीत्यर्थः । अत्र बाष्पोद्गमनहेतूना- मसमग्रत्वं स्पर्शनक्रियावैकल्यम् । २ स्यादित्यपि पाठ। ३ 'चित्रं तपति राजेन्द्र प्रतापतपनस्तव । अनातपत्रमुत्सृज्य सातपत्रं द्विषद्गणम् ॥' चित्रमिति । प्रताप एव तपनः सूर्यः । 'तपनः सविता रवि.' इत्यमरः । आतपत्रं छत्रं तद्रहितमनातपत्रं आतपत्रेण सहितं सातपत्रम् । : यथा वा-- कुवलयानन्दकारिकाः । चतुर्थी विभावना। अकारणात्कार्यजन्म चतुर्थी स्याद्विभावना । शाद्रीणानिनादोऽयमुदेति महदद्भुतम् ॥ ७९ ॥ अकारणादिति ॥ अकारणात् कारणसदृशात् वस्तुनः कार्य- जन्म चतुर्थी प्रागुक्तभिन्न प्रकारा विभावना स्यात् । उदाहरणम् । शबात् शङ्खत्वेनाध्यस्तात्कामिनीकण्ठादिति रूपकातिशयोक्तिः । अयं वीणानिनादः मधुरालाप एव । वीणानिनाद इत्यत्रापि रूपका- तिशयोक्तिः । उदेतीति महद्भुतमस्ति । घोरध्वनिकारणस्य शङ्खस्य मधुरालापकारणत्वमित्याश्चर्यम् । तत्रापि परकीयकार्यकारित्वमिति महत्त्वं वीणाशङ्खयोः शब्दकारणत्वेन सादृश्यं नञर्थः । यथाहुः शाब्दिकाः 'तत्साहश्यं तदन्यत्वं तदल्पत्वं विरोधिता । अप्राशस्त्यम- भावश्च नअर्थाः षट् प्रकीर्तिताः ॥' इति ॥ ७९ ॥ विभावनाभेद । विरुद्धात्कार्यसंपत्तिष्टा काचिद्विभावना। शीतांशुकिरणास्तन्वी हन्त संतापयन्ति ताम् ॥ ८० ॥ विरुद्धादिति ॥ विरुद्धात् प्रसिद्धकारणविरुद्धादित्यर्थः । का- यसंपत्तिः कार्योत्पत्तिः काचिद्विभावना दृष्टा । उदाहरणम् । हन्तेति खेदे । शीतांशुकिरणाः ऊष्मांशुविरुद्धा इति गम्यते । तां प्रोपितभ- र्तृकां तन्वी कामिनी संतापयन्ति । अत्र केपुचिच्छ्रोकेपु पादपूर- णार्थ प्रयुक्तान्यधिकान्यपि पदानि सन्ति । न तत्र दोपः शक्यः । प्र- कृतसङ्गनत्वात् । एवं चैववाहीत्यादीनामसंगतानामे वाधिकत्वे दोप- १ 'उदिते कुमारसूर्य कुवलयमुल्लसति भाति नक्षत्रम् । मुकुलीभवन्ति चित्रं परराजकुमारपाणिपद्मानि ॥' उदित इति । कस्यचिद्राजकुमारस्य प्रतापवर्णनम् । कुमाररूपे सूर्ये उदिते सति को. पृथिव्या. वलयं मण्डलमेव कुवलयं कुमुदमुल्लासं प्राप्नोति । क्षत्रं क्षत्रि- यकुलं न भाति, अथ च नक्षत्रं भातीति चित्रम् । तथा परेषां राजकुमाराणां पाणिकमलानि मुकुलीभवन्ति सकुचन्ति । अञ्जलिबन्धात्तदाकृतीनि भवन्तीत्यर्थः । 'तिलपुष्पात्समायाति वायुश्चन्दनसौरभः । इन्दीवरयुगाञ्चित्रं निःसरन्ति शिलीमुखाः ॥' २ 'अविवेकि कुचद्वन्द्वं हन्तु नाम जगत्रयम् । श्रुतिप्रणयिनोरक्ष्णोरयुक्तं जनमारणम् ॥ पूर्वोदाहरणयो कारणस्य कायविरोधित्वं स्वाभाविकम् । इह तु श्रुतिप्रणयित्व- रूपागन्तुकगुणप्रयुक्तमिति भेदः । - लक्ष्यलक्षणग्रकरणम् १ स्वीकारसत् । एवं क्वचिन्यूनपदत्वमपि न दोपः । आकासितपढाध्या- हारा लकलशास्त्र संमतत्वाच्छीवप्रतीताध्याहारे तु दोषः ॥ ८॥ विमानालंकार। कार्यात्कारणजन्मपि दृष्टा काचिद्विभावना । यशःपयोगशिरभूत्करकल्पतरोतब ॥ ८१ ॥ कार्यादिति । कार्यात् कार्यत्वेन प्रसिद्धात बस्तुनः कारण- जन्म कारणत्वेन प्रसिद्धस्योत्पत्तिः काचिद्वैपरीत्येन चगत्कारका- रेणी विभावना दृष्टा । उदाहरणम । हे नृप, तव करकल्पतरोः यशःपयोराशिरभूत । अत्र पयोराशिः कारणं कल्पतरुश्च कार्य- मिति प्रसिद्धिः । तद्विपरीतवर्णनान रूपकसकीण विभावना ! सं. कीर्णत्वे दोपो नास्तीत्यग्रे वक्ष्यामः ॥ ८१ ।। विशेषाक्तिरलकार । कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे । हेदि स्नेहक्षयो नाभूत्स्मरदीफे ज्वलत्यापि ॥ ८२ ॥ कार्येति ॥ पुष्कलकारणे पूर्णा; कटा यस्येति पुष्कलमन्यूना- शम् । पृषोद्गदित्वामाधुः । तथानिधे कारणे सत्यपि कार्यानि: कार्यानुत्पत्तक्तिविशेपोनिः विशेषष्य नवीनप्रकारश्योक्तिरिति व्यु. त्पत्तेः । उदाहरणम् । स्मर दीपे अनङ्गदीपक हदि हृदये । 'पदन्न' इत्यादिना हृदयस्य हृदादेशः । यद्वा हृदि मनसि । 'स्वान्त हन्मानस इत्यमरः । ज्वलति दीप्यमाने सत्यपि स्नेहक्षयः स्नेहः प्रीति- स्तैलं चेति श्लिष्टरूपकम् । 'स्नेहरतेलादिकरसे द्रव्ये स्यादृदयेऽपि च- इति विश्वः । तस्य नाशो माभून्न जातः । दीपज्वलने सत्यपि तेल' क्षयो न जात इत्यपिशब्दो विरोधद्योतकः । न चात्र विरोधाभामः शयः । कार्यकारणविषये तस्यानङ्गीकारात् । नापि विभावना । तम्याः कारणाभावप्रधानत्वात् । अस्यास्तु कार्याभावप्रधानत्वमिति ।।८२।। १ 'जाता लता हि शैले जातु लतायां न जायते शैलः । संप्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम् ॥ २ 'अनुरागवती संध्या दिवसस्तत्पुरःसरः। अहो देवातिश्चित्रा तथापि न समागमः ॥' पूर्वोदाहरणेऽतुक्तनिमित्ता इह देवगनिचिया निमीत्तगोपादानागानि- मित्तेतिभेदः। मनः' ४ कुवलयानन्दकारिकाः। असंभवालंकारः। असंभवोऽर्थनिष्पत्तेरसंभाव्यत्ववर्णनम् । को वेद गोपशिशुकः शैलमुत्पाटयिष्यति ॥ ८३ ॥ असंभव इति ॥ अर्थनिष्पत्तेः प्रकृतार्थसिद्धेः असंभाव्यत्वस्य आश्चर्यत्वस्य वर्णनमसंभवः । उदाहरणम् । गोपशिशुकः नन्दकु- मारः। स्वार्थे कः अल्पार्थे वा । शैलं गोवर्धनं उत्पाटयिष्यतीति को वेद । आश्चर्यमेतदित्यर्थः । गोपग्रहणं तपोमश्राद्यमावसूचनार्थम् ॥ ८३॥ असंगत्यलंकारः। विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः। विषं जलधरैः पीतं मूञ्छिताः पथिकाङ्गनाः ॥ ८४ ॥ विरुद्धमिति ॥ कार्यहेत्वोः कार्यकारणयोः। 'लक्षणहेत्वोः' इति ज्ञापकात् हेतुशब्दस्य परनिपातः । विरुद्धमप्रसिद्ध भिन्नदेशत्वं भिन्नौ देशौ ययोस्तौ भिन्नदेशौ तयोर्भावो भिन्न देशत्वं भिन्नदेशाव- स्थानवर्णनमित्यर्थः । असंगतिः । उदाहरणम् । यदा जलधरैर्मेधैर्विषं उदकं गरलं चेति लिष्टरूपकम् । 'विषं तु गरले जले' इति शाश्वतः । पीतमात्मनि निहितं तदा पथिकाङ्गनाः पान्थनियो मूछिताः मोहं प्राप्ताः । 'मूर्छा मोहसमुच्छ्राययोः' इति धातोः कर्तरि क्तः । अत्र विरुद्धमित्युक्तर्गृहस्थः क्षेत्रधान्यमुत्पाटयतीत्यत्र नासंगतिः ॥ ८४ ॥ । १ 'अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः। क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः॥' २ ययोः कार्य हेत्वोर्भिनदेशत्व विरुद्धं तयोस्तन्निबध्यमानमसंगत्यलंकारः। यथात्र विषपानमूर्च्छयोनिदेशत्वम् । 'अहो खलभुजङ्गस्य विपरीतो वधक्रमः। अन्यस्य दशति श्रोत्रमन्यः प्राणैर्वियुज्यते ॥ 'उपकारिमुखेन्दुस्थमन्यदेव वचोमृतम् । कचित्रवति कस्यापि जायते जीवितोदयः॥'
लक्ष्यलक्षणप्रकरणम् १ अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च सा। अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥ ८५ ॥ अन्यत्रेति ॥ अन्यत्र करणीयस्यार्थस्य ततोऽन्यत्र तस्मादन्य- स्थले कृतिः करणं साऽसंगतिः । अन्यत् क्रियमाणभिन्नं वस्तु कर्तु प्रवृत्तस्य तद्विरुद्धकृतिः तस्माद्विरुद्धार्थस्य करणं च तथा असंगतिरि- त्यपरो भेदः । अत्रैकस्मिन् श्लोके प्रक्रमभङ्गमनात्य भेदद्वयं लक्षितं उत्तरलोके च तदुदाहृतं परंतु प्रथमभेदोदाहरणानन्तरं द्वितीयभे- दस्य लक्षणोदाहरणे क्रमेण वक्तुं युक्ते अविलम्बेनार्थबोधे चमत्कारा- धिक्यात् ॥ ८५ ॥ अपारिजातां वसुधां चिकीर्षन्धा तथा कृथाः । गोत्रोद्धारप्रवृत्तो हि गोत्रोद्रेदं पुराकरोः ॥ ८६ ॥ अपारिजातामिति ॥ हे भगवन , वसुधां अपारिजातां अप- गतं अरिजातं शत्रुवृन्दं यस्यास्तादृशीं चिकीर्पन कर्तुमिच्छन द्यां दिवम् । 'सुरलोको द्योदिवौ द्वे स्त्रियाम्' इत्यमरः । तथा अपारिजा- १ अत्र कृष्णं प्रति शक्रस्य सोपालम्गवचने भुवि चिकीपितला नत्र करणी प अपारिजातत्वं दिवि कृतमित्येकासगति । पुरा गोत्राया उन्हारे प्रति दरा- पिणा तद्विरुद्धं गोत्राणा दलनं खुरकुनै नुतमिति द्विधि-पि पा गिता। २ 'त्वत्खगखण्डितसपत्नविलासिनीनां भूषा भवन्त्यभिनवा भुवनैकवीर । नेत्रेषु कङ्कणमथोरुपु पत्रवल्ली चोलेन्द्रसिंह तिलकं करपल्लवेपु ।' हे भुवनैकवीर, चोलदेशाधिप सिंहसदृश, तव खन खण्डिता ये सपनाः शत्रव- स्तद्विलासिनीनामभिनवा अदृष्टपूर्वा भूपा भूपणानि भवन्ति । यया नेत्रे करण जलकणमेव कङ्कणं वलयं भवतीत्यनुपङ्गः । अथेति ममुचये । ऊरुपु च पत्रयुक्ता वल्ली सैव पत्रिकारचना करपल्लवेयु तिलयुक्त कं जलमेर ललाट भुषणमिति लोकार्थ । 'मोहं जगत्रयभुवामपनेतुमेत- दादाय रूपमखिलेश्वरदेहभाजाम् । निःसीमकान्तिरसनीरधिनामुनैव मोहं प्रवर्धयसि मुग्धविलासिनीनाम् ॥' मोहमिति । हे अखिलेश्वर, जगत्रयवर्तिना देवधारिया मोदमपनेतुमेनप कृष्णशरीरमादाय मर्यादातिकान्तं कान्तिरूपरससमुद्रेणामुनैव रूपेण सुन्दरीणा मोहं प्रवर्धयसीत्यन्वयः। ।
कुवलयानन्दकारिकाः । तामकृथाः कृतवान् । पारिजातहरणेन नास्ति पारिजातो यस्यां सा तथोक्तामिति श्लिष्टरूपकं द्वितीयम् । उदाहरणम् । गोत्रोद्धारप्रवृत्तः गोत्रायाः पृथिव्याः उद्धारे समुद्रादुद्धृत्य स्थापने वराहरूपेण प्रवृत्तस्त्वं गोत्रोद्भेदं पर्वतोद्भेदं क्षित्यु दं च इति श्लिष्टरूपकम्। पुरा पूर्वमकरोः। यद्वा कृष्णावतारे गोत्रोद्धारप्रवृत्तः भुवो भारहरणेन स्थापने प्रवृ- तोऽपि गोत्रोद्भेदं गोवर्धनोद्भेदमिति । अथवा गोत्रस्य यदुकुलस्य उ. द्धारे विप्रशापनिवर्तनेन संकटादुद्धरणे प्रवृत्तस्त्वं गोत्रोद्भेदं कुलो- च्छेदमिति विरुद्धकृतिः ॥ ८६ ॥ विषमालंकारः। विषमं वर्ण्यते यत्र घटनाऽननुरूपयोः। केयं शिरीषमृद्धशी व तादृमदनज्वरः ॥ ८७ ॥ विषममिति ॥ यत्र द्वयोरर्थयोरननुरूपयोः सतोरसदृशत्वेन विवक्षितयोरित्यर्थः । घटना अनुरूपत्वनिषेधरूपा वर्ण्यते वैलक्षण्य- वाचकशब्दप्रयोगेण स्फुटीक्रियते तत्र विपमं समाद्विपरीतं विपम- मिति व्युत्पत्तेः । उदाहरणम् । शिरीषमृद्वङ्गी शिरीषकुसुमकोमलश- रीरेयं क । स इव दृश्यते इति ताक् अनिर्वचनीयः । यद्वा स इ- देति तादृक् 'ताहगादौ सूत्रमते कर्मकर्तरि कृत्स्मृतः। महाभाष्ये त्विवेत्यर्थे दृग्दृशौ तद्धितौ मतौ ॥' इति वामनः । मदनज्वरः मदन- कृतो ज्वरः संतापो मदनज्वर इति मध्यमपदलोपी समासः । क । नोभयं समत्वेन घटत इत्यर्थः । प्रायेणायं कशब्दद्वये सत्येव भवति विरुद्धकार्यस्योत्पत्तिरपरं विषमं मतम् । कीर्ति प्रसूते धवलां श्यामा तव कृपाणिका ॥ ८८ ॥ विरुद्धेति ॥ विरुद्धकायस्य कारणविरोधित्वेन प्रसिद्धस्य का- यस्य उत्पत्तिवर्णनमपरं विपमं मतम् । 'विरूपकार्यस्य' इति पाठे- प्ययमेवार्थः । विरुद्धं रूपं यस्य तत् । उदाहरणम् । तव श्यामा कृपाणिका तरवारिः धवलां शुभ्रां कीर्ति प्रसूते । अत्रासित्तायाः कृ- १ 'अभिलपसि यदीन्दो वक्रलक्ष्मी मृगाक्ष्याः पुनरपि सकृदब्धौ मज संक्षालयाङ्कम् । सुविमलमथ विम्बं पारिजातप्रसूनैः सुरभय वद् नोचेत्त्वं च तस्या मुखं व ॥'
लक्ष्यलक्षणप्रकरणम् १ पाणिकायाः सितत्वेन विरुद्धायाः कीर्तेरुत्पत्तिरुक्तेति लक्षणानुगमः। न चास्य कारणस्यापि विरुद्धत्वाद्विभावनायामन्तर्भावः । यत्र कार- गन्य प्रकृतविरुद्धत्वविवक्षा तत्र विभावना । यत्र च कार्यस्य तथा- त्वविवक्षा तत्र विषमम् । यत्र चोसयोस्तत्र संकर इति सिद्धान्तात् । वस्तुतस्तु नाग्यनाशकभावरूपं विरुद्धत्वं विभावनायां, प्रकारभेदरूपं विरुद्धत्वं विपमालंकारे इति भेदः । एवंच विरूपकार्यस्येति पाठः साधुः । विभिन्न भिन्नप्रकारं रूपं यस्येति विरूपं तादृशं च तत्कार्य चेति व्युत्पत्तिः ॥ ८८ ॥ विषमभेदः अनिष्टस्याप्यवाप्तिश्च तदिष्टार्थसमुद्यमात् । भक्ष्याशयाहिमश्रूषां दृष्ट्वाखुस्तन भक्षितः ॥ ८९ ॥ अनिष्टस्येति ॥ इष्टार्थममुद्यमात इष्टायेति इष्टार्थः स चासौ समुद्यमस्तस्मात् अनिष्टस्याप्यवाप्तिः । अपिशब्दादिष्टानवाप्तिश्च तद्वि- षमम् । उदाहरणम् । आखुर्मूषकः भक्ष्याशया मोदकादितृष्णया अहिमञ्जूषां सर्पपेटिकां दृष्ट्वा विलोक्य प्रविष्ट इति शेपः । 'दृष्ट्वा' इति पाठे विदार्येत्यर्थः । केचित्तु द्रति तृन्प्रत्ययान्तं तद्योगे मज- पाशब्दस्य 'न लोक-' इत्यादिना पाठीप्रतिषेधः । तादृशः स तेना- हिना भक्षितः । अत्र भक्ष्यलाभो न जातः स्वयं चाहिना भक्षित इति इष्टानवाप्तिपूर्विकाऽनिष्टावाग्निः । प्रकारान्तरमपि कुवलयानन्दे द्रष्टव्यम् ॥ ८९ ॥ समालंकारः। समं स्याद्वर्णनं यत्र द्वयोरप्यनुरूपयोः । स्वानुरूपं कृतं सझ हारेण कुचमण्डलम् ॥ ९० ॥ सममिति ॥ यत्रानुरूपयोः सदृशयोर्योग्ययोर्वा द्वयोरर्थयोर्व- १ 'दिधक्षन्मरुतः पुत्रं तमादीप्य दशाननः । आत्मीयस्य पुरस्यैव सद्यो दहनमन्वभूत् ॥' 'लोके कलङ्कमपहातुमयं मृगाङ्को जातो मुखं तव पुनस्तिलकच्छलेन । तत्रापि कल्पयसि तन्वि कलङ्करेखां नार्यः समाश्रितजनं हि कलङ्कयन्ति ॥' २ 'कौमुदीव तुहिनांशुमण्डलं जाह्नवीव शशिखण्डमण्डनम् । पश्य कीर्तिरनुरूपमाश्रिता त्वां विभाति नरसिंह भूपते ॥'
कुवलयानन्दकारिकाः। गनं तत्रापि सममलंकारः स्यात् । सह तुल्यतया मीयते इति सम- मिति व्युत्पत्तेः । 'मांसैरपि शक्यं क्षुद्पनेतुम्' इति भाध्यप्रयोगा. सामान्ये नपुंसकत्वम् । उदाहरणम् । हारेण गुच्छादिना कुचम- ण्डलं स्वानुरूपं स्वसदृशं स्वयोग्यं वा सद्म स्थानं कृतम् । अत्रोभयो- वर्तुलत्वरुचिरत्वाभ्यामनुरूपत्वम् ॥ ९० ॥ सारूप्यमपि कार्यस्य कारणेन समं विदुः । नीचप्रवणता लक्ष्मि जलजायास्तवोचिता ॥ ९१॥ सारूप्यमिति ॥ कार्यस्य कारणेन सह सारूप्यं समान रूपं ययोस्ते सरूपे तयोर्भावः सारूप्यं तुल्यरूपत्वमपि समं विदुः । उदाहरणम् । हे लक्ष्मि, जलजायाः सागरोदितत्वाजलजायास्तव नी- चप्रवणता नीचं प्रदेश अधमं च प्रकण वनति श्रयतीति नीचप्रव- णा । 'वन पण संभक्तौ' इति धातोः पचाद्यच् । तस्या भावो नीच- प्रवणता उचिता योग्या। 'उच समवाये' इति धातोः कर्मणि क्तः ॥ ९१ ॥ विनानिष्टं च तत्सिद्धिर्यमर्थ कर्तुमुद्यमः। युक्तो वारणलाभोऽयं शालते वारणार्थिनः ॥ ९२ ॥ विनेति ॥ यमर्थ कर्तुमुद्यमः क्रियते । अनिष्टमन्तरायं विनापि तत्सिद्धिश्च समम् । उदाहरणम् । वारणार्थिनो गजार्थिनो निपेधा- र्थिनश्चेति श्लिष्टरूपकम् । युक्तः उदितोऽयं वारणलाभः प्रतिबन्धप्रा- प्तिर्गजप्राप्तिश्चेति शिष्टरूपकम् । शालते शोभते । न चात्र प्रतिबन्ध- लाभस्यानिष्टत्वं शङ्यम् । लोकदृष्ट्या अनिष्टत्वेऽपि श्लेषभित्तिकाभे- दाध्यवसायेन तन्नास्तीति । यद्वा अर्थद्वयमनाश्रित्य ममालंकार- प्रवृत्तौ पुनः श्लेपालंकारप्रवृत्त्या चमत्कारातिशय इति बाधो नास्ती- ति । एवमन्यत्रापि बोध्यम् । लक्षणे 'यदर्थं कर्तुमुद्यमः' इति केषां- चित्पाठः स्पष्टार्थः ॥ ९२ ॥ १ 'दबदहनादुत्पन्नो धूमो धनतामुपेत्य वर्षेस्तम् । यच्छमयति तद्युक्तं सोऽपि हि दवमेव विनिहन्ति' ॥ २ 'उचैर्गजैरटनमर्थयमान एव त्वामाश्रयनिह चिरादुपितोऽस्मि राजन् । उञ्चाटनं त्वमपि लम्भयसे तदेव मामद्य नैव विफला महतां हि सेवा ॥'
लक्ष्यलक्षणप्रकरणम् १ ४९ विचित्रालंकार। विचित्रं तत्प्रयत्नश्चेद्विपरीतफलेच्छया । नमन्ति सन्तस्त्रैलोक्यादपि लब्धं समुन्नतिम् ॥१३॥ विचित्रमिति ॥ चेद्यदि विपरीतफलेच्छया प्रयत्नः स्यात्तर्हि विचित्रं स्पष्टम् । उदाहरणम् । सन्तः साधवः त्रैलोक्यादपि । त्रयो लोका एवं त्रैलोक्यमित्यत्र चातुर्वर्णादित्वात् ध्यञ् । 'पञ्चमी विभक्त' इति पञ्चमी । समुन्नतिं उत्कर्ष उच्चत्वं चेति श्लिष्टरूपकम् । लब्धुं नमन्ति प्रह्वीभवन्ति अनुद्धतस्वभावा भवन्ति चेति श्लिष्ट- रूपकम् । अत्र नमतिरकर्मकः वन्दनार्थस्तु सकर्मक इति प्रपञ्चितं रस बिन्दौ । ९३ ॥ अधिकालंकारः। अधिकं पृथुलाधारादाधेयाधिक्यवर्णनम् । ब्रह्माण्डानि जले यत्र तत्र मान्ति न ते गुणाः ॥१४॥ अधिकमिति ॥ पृथुलाधारात् विशालाधिकरणात् आधेयस्य वस्तुनः आधिक्यवर्णनमधिकत्वोक्तिरधिकम् । उदाहरणम । यत्र जले ब्रह्माण्डानि मान्ति तत्र तस्मिस्ते तव गुणाः न मान्तीति गुणा- नामाधिक्यवर्णनादधिकम् । अत्र गुणशब्देन तद्गणनार्थो वर्ण विन्या- मो लक्ष्यते ॥ ९४ ॥ पृथ्वाधेयाद्यदाधाराधिक्यं तदपि तन्मतम् । कियद्वाग्ब्रह्म यत्रैते विश्राम्यन्ति गुणास्तव ॥ ९५ ॥ पृथ्विति ॥ पृथ्वाधेयाद्विशालादाधेयात् यत् आधाराधिक्यं १ 'मलिनयितुं खलवदनं विमलयति जगन्ति देव कीर्तिस्ते । मित्रालादं कर्तुं मित्राय द्रुह्यति प्रतापोऽपि ॥' 'युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत । ममुस्तत्र न कैटभद्विप- स्तपोधनाभ्यागमसंभवा मुदः॥' ३ 'अहो विशालं भूपाल भुवनत्रितयोदरम् । माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ॥' तनौ कुव. ५ ५० कुवलयानन्दकारिकाः। ते तदपि तदधिकं मतम् । उदाहरणम् । वाग्ब्रह्म शब्दब्रह्म कियत् किं परिमाणमस्येति कियत् । 'किमिदंभ्यां वो घः' इति वतोर्वस्य घस्तस्य यादेशः । यत्रैते तव गुणाः विश्राम्यन्ति । गद्यपद्यात्मके हि शब्दब्रह्मणि वर्णितानां गुणानां विश्रामो भवति । एतच्छब्देन प्रत्य- क्षवाचिना असंख्यातत्वं विवक्षितमिति लक्षणानुगतिः ॥ ९५ ॥ अल्पालंकारः। अल्पं तु सूक्ष्मादाधेयाद्यदाधारस्य सूक्ष्मता । मणिमालोमिका तेऽद्य जपमालायते करे ॥ ९६ ॥ अल्पमिति ॥ सूक्ष्मादाधेयात् यत् आधारस्य सूक्ष्मता वर्ण्य- तत्तु अल्पमलंकारः । तुशब्दः पूर्वालंकारवैलक्षण्यद्योतकः । उदा- हरणम् । अद्य ते तव करे मणिमालोमिका मणिपतिखचितमुद्रिका जपमालायते । अतिविशाला भवतीत्यर्थः। तेन अङ्गुल्याः करस्य वा सूक्ष्मता गम्यते ॥ ९६॥ अन्योन्यालंकार. । अन्योन्यं नाम यत्र स्यादुपकारः परस्परम् । त्रियामा शशिना भाति शशी भाति त्रियामया॥९७॥ अन्योन्यमिति ॥ यत्र परस्परं क्रियाक्शेिपणमेतत् । उपकारः सत्कारः उपयोगो वा स्यात् तत्र अन्योन्यं नामालंकारः। उदाहर- णम् । नियामा रात्रिः। प्रथमयामस्य धर्मशास्त्रे दिवसतुल्यत्वाभिधा. नात्रियामात्वम् । अथवा द्विमुहूर्ता सायंसंध्या द्विमुहूर्ता च प्रातःसंध्या तदवशिष्टा च रात्रिरिति त्रियामत्वम् । शशिना चन्द्रेण भाति, शशी च त्रियामया भाति इत्यन्योन्यसत्कारपक्षे । उपयोगपक्षे तु 'अन्योन्यतः पथि बताविभतामिभोष्ट्रौ' इत्युदाहरणम् । अन्योन्य- स्मान्मेपावुपसरत इत्यत्र तु नालंकारः । चमत्काराभावात् ॥ ९७ ॥ 'यन्मध्यदेशादपि ते सूक्ष्म लोलाक्षि दृश्यते। मृणालसूत्रमपि ते नैव माति स्तनान्तरे ॥' यदिति । हे चञ्चलाक्षि, तव मध्यभागादपि यत्सूक्ष्मं दृश्यते तन्मृणालसूत्रमपि तव स्तनयोरन्तरे मध्ये न मातीत्यन्वयः । 'विनयैर्भाति विद्येयं विनयो भाति विद्यया । धनैराभान्ति दानानि दानैर्भान्ति धनान्यपि ॥' १ २ लक्ष्यलक्षणप्रकरणम् १ विशेषालंकार । विशेषः ख्यातमाधारं विनाप्याधेयवर्णनम् । गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः ॥९८॥ विशेष इति ॥ ख्यातं प्रसिद्धं आधारं विनापि आधेयवर्णनं विशेषः । स्पष्टम् । उदाहरणम् । सूर्ये गतेऽपि अस्तमिते दीपस्था- स्तत्करास्तत्किरणाः । 'सूर्यतेजः सायमग्नौ प्रविशति' इत्यागमः । तमो ध्वान्तं छिन्दन्ति नाशयन्ति । अत्र सूर्यकिरणानामाधारः सूर्य एव प्रसिद्धः । सूर्ये दूरं गतेऽपि तस्यैव करास्तमश्छिन्दन्ति इत्यग्र- सिद्धकथनं विशेषः ॥ ९८ ॥ विशेषमलंकार. । विशेषः सोऽपि यद्य वस्त्वनेकत्र वर्ण्यते । अन्तर्बहिः पुरः पश्चात्सर्वदिक्ष्वपि सैव मे ॥ ९९ ।। विशेष इति ॥ यदि एकं वस्तु अनेकत्र स्थितं वर्ण्यते तर्हि सोऽपि विशेषः । उदाहरणम् । अन्तर्मनसि बहिर्वाह्यप्रदेशे पुरः संमु- खप्रदेशे पश्चात्पृष्ठदेशे । किं बहुना, मे मम सर्वदिक्ष्वपि मैव प्रेयसी भासते । इत्येकस्याः कामिन्याः युगपदनेकदेशवर्तित्वकथनं वि- शेपः॥ ९९ ॥ किंचिदारम्भतोऽशक्यवस्त्वन्तरकृतिश्च सः । त्वां पश्यता मया लब्धं कल्पद्रुमनिरीक्षणम् ॥१००॥ १ 'दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः॥' दिवमिति । दिवमुपयातानामपि येपामनल्पगुणगणयुक्ता गिरः आकल्प कल्प- पर्यन्तं जगन्ति भुवनानि रमयन्तीत्यन्वयः। २ 'हृदयान्नापयातोऽसि दिक्षु सर्वासु दृश्यसे । वत्स राम गतोऽसीति संतापेनानुमीयसे ॥' ३ 'स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम् । विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ॥' स्फुरदिति । उत्कटः प्रतापरूपो ज्वलनोऽग्निर्यस्येत्यर्थः । उक्तविशेपणं त्वां सृजता विविना भुवि नवो मनोभवः ससृजे सृष्ट इति सत्यमित्यन्वयः ।
५२ कुवलयानन्दकारिकाः । किंचिदिति ॥ किंचिदारम्भतः कस्यचिदारम्भः किंचिदारम्भः । मयूरव्यंसकादित्वात्समासः । ततः पञ्चम्यास्तसिल । अशक्यवस्त्व- न्तरकृतिः अशक्यस्य वस्त्वन्तरस्यान्यवस्तुनः कृतिः करणं च सः। उदाहरणम् । हे राजन् , त्वां पश्यता मया कल्पद्रुमनिरीक्षणं देववृ- क्षावलोवनं लब्धम् । अत्र त्वमेव कल्पवृक्ष इति रूपकालंकारो व्य- ज्यते । तन्मूला च पृथिव्यां कर्तुमशक्यकल्पद्रुमावलोकनस्य कृति- रिति विशेषः ॥ १० ॥ व्यापातालंकार। स्याद्व्याघातोऽन्यथाकारि तथाकारि क्रियेत चेत् । यैर्जगत्प्रीयते हन्ति तैरेव कुसुमायुधः ॥ १०१ ॥ स्यादिति ॥ चेद्यदि तथाकारि प्रसिद्धार्थकर्तृ वस्तु अन्यथाकारि तद्विपरीतकारि क्रियेत निबध्येतेति यावत् । तर्हि व्याघातो नामालंकारः स्यात् । यैः पुष्पैः जगत्प्रीयते तुष्यति । प्रीणातेः कर्मकर्तरि लट् । तैरेव पुष्पैः कुसुमायुधः कामो हन्ति ताडयति । अत्र प्रीतिकरत्वेन प्रसिद्धानां कुसुमानां ताडनकरणत्वमन्यथाकारित्वं तानि कुसुमानि चोक्तानि नर्मदामाहात्म्ये । 'अशोकमरविन्दं च चूतं च नवम- ल्लिका । शिरीषकुसुमं चैते पञ्चवाणस्य सायकाः॥ वस्तुतस्तु शब्दा- दयः पञ्च विषया एव बाणत्वेन वर्ण्यन्ते इत्याहुः ॥ १०१ ॥ सौकर्येण निबद्धापि क्रिया कार्यविरोधिनी। दया चेद्वाल इति मय्यपरित्याज्य एव ते॥१०२ ॥ सौकर्येणेति ॥ यत्र सौकर्येण सुकरत्वेन । सुखकरत्वेनेत्यर्थः । निबद्धा प्रारब्धा क्रिया कार्यविरोधिनी सुकरत्वविरोधिनी दुःखका- रिणी भवति अत्रापि व्याघातः । उदाहरणम । हे राजन् , मयि बाल इति मत्वा दया चेत् अस्ति तर्हि रणे जिगमिपुणा ते तवाह- मपरित्याज्य एव गेहे न स्थापनीय एव । किंतु युद्धे सहैव नेतव्य १ 'दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः। विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥' २ 'लुब्धो न विसृजत्यर्थ नरो दारियशङ्कया। दातापि विसृजत्यर्थ तयैव ननु शङ्कया ॥'
लक्ष्यलक्षणप्रकरणम् १ इत्यर्थः । अत्र राज्ञा सुकरत्वेन प्रारब्धं गेहे रक्षणं शूरस्य कुमारस्य दुःखतरं जातमिति कार्यविरोधित्वम् ॥ १०२ ॥ कारणमालालंकारः। गुम्फः कारणमाला स्याद्यथाप्रक्रान्तकारणैः । नयेन श्रीः श्रिया त्यागस्त्यागेन विपुलं यशः॥१०३॥ गुरुफ इति । यथा प्रक्रान्तकारणैः प्रक्रान्तानि प्रथमोच्चरिता- न्यनतिक्रम्य इति यथाप्रक्रान्तं यथासक्रान्तमुक्तानि कारणानि यथा- प्रक्रान्तकारणानि । मध्यमपदलोपी समासः । तैस्तथोक्तैर्गुम्फो रचना कारणमाला स्यात् स्पष्टम् । उदाहरणम् । नयेन कारणेन श्रीः कार्य भवति । श्रिया कारणेन त्यागः कार्य भवति । तेन त्यागेन च विपुलं यशो भवति । अन्न यद्यपि कार्याणामपि माला विद्यते तथापि कारणगुणवर्णनमेव कविसंरम्भ इति विवक्षापूर्विका हि शब्दार्थन- तिपत्तिरिति न्यायेन कारणमालेत्यभिधानम् ॥ १०३ ॥ एकावल्यलंकार। गृहीतमुक्तरीत्यार्थश्रेणिरेकावली मता। नेत्रे कर्णान्तविश्रान्ते की दोस्तम्भदोलितो॥१०४॥ गृहीतेति ॥ गृहीतमुक्तरीत्या आदौ गृहीतं पश्चान्मुक्तमिति गृहीतमुक्तं तस्य रीत्या निबन्धनप्रकारेण । यद्वा गृहीतं मुक्तं यस्यां सा गृहीतमुक्ता सा चासौ रीतिश्चेति तथेति विग्रहः । अर्थश्रेणिः । १ उत्तरोत्तरकारणभूतपूर्वपूर्वैः पूर्वपूर्वकारणभूतोत्तरोत्तरैर्वा वस्तुमिः कृतो गुम्फः कारणमाला । यथा वा । 'भवन्ति नरकाः पापात्पापं दारिद्यसंभवम् । दारिद्यमप्यदानेन तस्माद्दानपरो भवेत् ॥' २ नेत्र इति । तस्य भूभुज इति सर्वत्र संबध्यते । दो स्तम्भयो जस्तम्भयोर्दी- लितमान्दोलनं ययोस्तौ । दोलनाविति पाठे दोला दोलनं ययोरस्तीति विग्रहः । 'मधूनि पने पिबति द्विरेफः पद्मं विभाति श्रवणे प्रियायाः। स्पृशत्यमुष्याः श्रवणं च नेत्रं निर्यान्ति नेत्राच्छरवत्कटाक्षाः॥ इति काव्यविलासे । उत्तरोत्तरस्य पूर्वपूर्वविशेषणभावः । पूर्वपूर्वस्योत्तरोत्तरस्य विशेषणभावो वा गृहीतमुक्तरीतिः ।
कुवलयानन्दकारिकाः। अर्थपतिः एकावली मता। एकावली हारविशेपः । तत्सदृशत्वात् । उदाहरणम् । तस्य महीभुज इत्युत्तरश्लोकादपकृष्यते । नेत्रे कर्णा- न्तविश्रान्ते कर्णपर्यन्तमायते । कर्णौ च दोस्तम्भदोलितौ भुजस्तम्भ- लम्विनौ । 'भुजबाहू प्रवेष्टो दोः' इत्यमरः ॥ १०४ ॥ दोस्तम्भी जानुपर्यन्तप्रलम्बनमनोहरौ। जानुनी रत्नमुकुराकारे तस्य महीभुजः ॥ १०५ ॥ दोस्तम्भाविति ॥ दोःस्तम्भौ जानुपर्यन्तप्रलम्बनमनोहरौ । जानुनी च रत्नमुकुराकारे रत्नदर्पणतुल्ये । 'मुकुरो मणिभेदे स्यान्म- ल्लिकायां च दर्पणे' इति केशवः । अत्र पूर्वपदानां विशेष्यत्वमुत्तरप- दानां च विशेपणत्वमिति संप्रदायः । प्रकारान्तरं च कुवलयानन्दे द्रष्टव्यम । अत्र केपांचित्पदानां पुनरुक्तत्वेऽपि दोपो नाशयः । सकलकविसंमतत्वाच्चमत्कारित्वाच । एवमावृत्तिदीपकेऽपि बो- ध्यम् ॥ १०५ ॥ मालादीपकालंकार। दीपकैकावलीयोगान्मालादीपकमुच्यते । स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः॥१०६॥ दीपकेति ॥ दीपकैकावलीयोगान् दीप इव दीपकम् । अनेको- 'न तजलं यत्र न चारु पङ्कजं न पङ्कजं तद्यदलीनपट्पदम् । 'न पट्पदोऽसौ कलकूजितो न यो न गुञ्जितं तन्न जहार यन्मनः॥ 'अद्य श्रयति पुण्येन विवेकं मतिरुद्गता। विवेकस्तु ममात्मानमात्मा हरिपदद्वयम् ॥' इति काव्यविलासे। २ 'संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥' संग्रामेति । कोदण्डेन धनुषा शराः समासादिताः शरै. शत्रुमस्तकं तेन शत्रु- मस्तकेनापि भूमण्डलं भूमण्डलेन त्वं पालक. समासादितः भवता कीर्तिरासादिता कीर्त्या च लोकत्रयं समासादितमित्यनुषङ्गेणान्वयः ।
लक्ष्यलक्षणप्रकरणम् १ पकारकपदं तस्य चैकावल्याश्च योगाद्धेतोर्मालादीपकं नामोच्यते । मालया एकावल्या युक्तं दीपकमिति व्युत्पत्तेः । स्मरेण तस्याः का. मिन्याः हृदये स्थितिः कृता । तेन च कामिनीमनसा त्वयि स्थितिः कृता । अत्र स्थिति पदस्यावृत्तेीपकत्वं हृदयशब्दस्य गृहीतमुक्तत्वा- देकावली चेत्युभयोोगः ॥ १०६ ॥ सारालंकारः । उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते। मधुरं मधु पीयूपं तस्मात्तस्मात्कवेर्वचः ॥ १०७ ॥ उत्तरोत्तरमिति ॥ उत्तरोत्तरं यथोत्तरमुत्कर्पः सार इत्यभिधी- १ 'सारा लोकेषु विद्धांसस्तेषु सारा विवेकिनः । तेष्वनुष्ठानकारस्तेषु शंभुपदानुगाः॥' इति काव्यविलासे। 'तृणाल्लघुतरस्तूलस्तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति ॥' 'गिरिमहान्गिरेरब्धिर्महानब्धेर्नभो महत् । नमसोऽपि सहहह्म ततोऽप्याशा महीयसी ॥' इति कुवलयानन्दे। 'शरणं किं प्रपन्नानि विषवन्मारयन्ति वा । न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत् ॥' शरणमिति । कृपणेन धनानि यन्न त्यज्यन्ते तत्कि तानि शरणं प्रपन्नानि गच्च न भुज्यन्ते तत्किं विपवन्मारयन्तीति क्रमेणान्वय । 'अन्तर्विष्णोत्रिलोकी निवसति फणिनामीश्वरे सोऽपि शेते सिंधोः सोऽप्येकदेशे तमपि चुलकयां कुम्भयोनिश्चकार । धत्ते खद्योतलीलामयमपि नभसि श्रीनृसिंहक्षितीन्द्र त्वत्कीर्तः कर्णनीलोत्पलसिदमपि च प्रेक्षणीयं विभाति ॥' अन्तरिति । विष्णोरन्तरुदरे त्रयाणां लोकानां समाहारस्त्रिलोकी । सोऽपि विष्णु- रपि फणिनां नागानामीश्वरे शेषे शेते निद्राति । सोऽपि शेपोऽपि सिधोरेकदेशे तिष्टतीति शेपः । तमपि सिंधुमपि कुम्भयोनिरगस्त्यश्चलकयाचकार पीतवान् । अयमगस्त्योऽपि नभसि गगने खद्योतशोभां धत्ते । इदं गगनमपि प्रेक्षणीयं सुन्दर वकीर्ते. कर्णभूषणं नीलोत्पलं विभातीत्यन्वय । इति सारालंकारः ।
कुवलयानन्दकारिकाः। । यते कथ्यते । उदाहरणम् । मधु क्षौद्रं मधुरं स्वादु' तस्माच पीयूप- ममृतं मधुरं तस्मात् कवेचो मधुरम् । ‘पञ्चमी विभक्ते' इति पञ्चमी ॥ १०७ ॥ यथासंख्यालंकारः। यथासंख्यं क्रमेणैव ऋमिकाणां समन्वयः । शत्रु मित्रं विपत्तिं च जय रञ्जय भञ्जय ॥ १०८ ॥ यथासंख्यमिति ।। क्रसिकाणां क्रमप्राप्तानां क्रमेणैव समन्वयो यथासंख्यं स्पष्टम् । उदाहरणम् । हे राजन् , त्वं शत्रु जय पराभव । 'जि अभिभावे' इति धातोर्लोट् । मित्रं च रञ्जय प्रीणय । विपत्तिं लोकानां कष्टं च भञ्जय । न चायं शब्दालंकारः । अन्वयकालेऽपि क्रमस्य विवक्षितत्वात् ।। १०८ ॥ पर्यायालंकारः। पर्यायो यदि पर्यायेणैकस्यानेकसंश्रयः । पद्मं मुक्त्वा गता चन्द्रं कामिनीवदनप्रभा ॥१०९॥ पर्याय इति ॥ यद्येकस्य वर्णनीयवस्तुनः पर्यायेणानुक्रमेण अनेकसंश्रयः अनेकपदार्थाश्रयणं निबध्यते तर्हि पर्यायः । परिपूर्वा- दयते वे घञ् । उदाहरणम् । कामिनीवदनप्रभा कान्तास्यकान्तिः पद्मं पङ्कजं मुक्त्वा चन्द्र ग्लावं गता रानाविति शेपः । निदर्शनासं- कीर्णमेतत् ॥ १०९॥ एकस्मिन्यधने वा पर्यायः सोऽपि संमतः । अधुना पुलिनं तत्र यत्र स्रोतः पुराऽजनि ॥११०॥ एकस्मिन्निति ॥ यदि वा एकस्मिन्पदार्थे अनेकं वस्तु वर्ण्यते सोऽपि पर्यायः संमतः । उदाहरणम् । यत्र यस्मिन् प्रदेशे पुरा १ 'नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥' नन्वाश्रयेति । हे कालकूट, उत्तरोत्तरविशिष्टमुत्कृष्टं पदं स्थानं यस्या तादृशी- यमाश्रयस्थितिस्तव केनोपदिष्टेल्यन्वयः ।
लक्ष्यलक्षणप्रकरणम् १ स्रोतः अजनि जायतेस्म। 'दीपजन' इत्यादिना कर्तरि च्लेश्चिण् । अधुना संप्रति तत्र पुलिनं वर्तते । अत्रैकस्मिन्सरित्प्रान्ते वर्षासु प्रवाहो ग्रीष्मे च पुलिनत्वमित्यनेकवर्णनम् । 'स्रोतोऽम्बुसरणं स्वतः' इति 'तोयो- त्थितं तत्पुलिनम्' इत्यमरः । नन्वने कशब्दस्यैकवचनमयुक्तं द्विबहु- वाचित्वादिति चेन्न । अभिधीयमानसमुदायस्यैकवचनबाधाभावात् । यथा माघे सेव्यतेऽनेकया सन्नतापाङ्गया' इति । 'भवन्त्यने के जल- धेरिवोर्मयः' इत्यत्र त्ववयवपरत्वात्समुदायबाहुल्यावहुत्वं युक्तमेवेति दिक् ॥ ११० ॥ परिवृत्त्यलंकार. । परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोमिथः । जग्राहैकं शरं मुक्त्वा कटाक्षात्स रिपुश्रियः ॥१११॥ परिवृत्तिरिति ॥ न्यूनाभ्यधिकयोः भ्राद्धयोः मिथः परस्प- रम् । 'मिथोऽन्योन्यं रहस्यपि' इत्यमरः । विनिमयो व्यत्ययः परि- वृत्तिः परिवर्तनं व्यत्ययकरणं परिवृत्तिरिति व्युत्पत्तेः । उदाहरणम् । स राजा एकं एकत्वसंख्याविशिष्टम । संख्यागुणवाचिना एकशब्देन तद्विशिष्टद्रव्ये लक्षणा । एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा । साधारणे समानऽल्पे संख्यायां च प्रयुज्यते ॥' इति मेदिनी । शरं रोपं मुक्त्वा रिपुं प्रति क्षित्वा दत्त्वा चेति शिष्टं रूपकम् । रिपु- श्रियः अरिलक्ष्म्याः गजतुरगादिसंपत्तिरूपायाः पद्मायाश्चेति श्लिष्ट- रूपकम् । 'शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरिव दृश्यते' इति केशवः । कटाक्षान तदीयवस्तुलाभानित्यर्थः । कृपासूचकत्वसादृश्येन तेषु कटाक्षत्वारोपात् बहूनित्यर्थः । 'बहुषु बहुवचनम्' इति सूत्राद्वहुश- व्दाभावेऽपि कटाक्षाणा वहुत्वं एकशब्दप्रयोगादे कवचनाच्च शर- स्यैकत्वमिति न्यूनाधिकभावः । जग्राह स्वीचकार, उपाददे चेति श्लिष्टरूपकम् । ततश्च राज्ञः शूरत्वं रिपूणां च पलायनं गम्यते ॥ १११॥ १ 'तस्य च प्रवयसो जटायुषः स्वर्गिणः किमिव शोच्यतेऽधुना। येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्वलं यशः ॥' तस्य चेति । प्रवयसोऽतिवृद्धस्य जटायुपो गृध्रविशेषस्य वर्ग गतवतः किमिव शोचनीयम् । न किचिदित्यर्थः । जर्जरं जीणं कलेवरं शरीरं तस्य व्ययो रावणेन सह युद्धे त्यागस्तस्माद्यश क्रीतम् । शरीरं दत्त्वा यशो गृहीतमित्यर्थः ।। ।
कुवलयानन्दकारिकाः। परिसंख्यालंकारः। परिसंख्या निषिध्यैकमेकस्मिन्वस्तुयन्त्रणम् । स्नेहक्षयः प्रदीपेषु न स्वान्तेषु नत वाम् ॥ ११२ ॥ परिसंख्येति ॥ एकस्मिन्प्रकृते एकं किंचिद्वस्तु निपिध्य यन्त्रणं तस्यान्यत्र नियमनं परिसंख्या । परित्यज्य संख्यानं नियमनं परि- संख्येति व्युत्पत्तेः । उदाहरणम् । स्नेहक्षयः तैलक्षयः प्रीतिक्षयश्चेति श्लिष्टरूपकं । प्रदीपेष्वेव भवति । नतभ्रुवां कामिनीनां स्वान्तेषु चि- तेषु तु न भवति । अत्र स्नेहक्षयस्य प्रदीपेपु नियमनं सुन्दरीस्वान्तेषु तन्निपेधस्पष्टीकारार्थमिति लक्षणानुगमः । स यथा सायं प्राता- शनमिति श्रुतावशनस्य सायंप्रातःकालयोनियमनेन अन्यकाले तन्निवृ- त्तिरर्थलभ्या। 'परिसंख्या विधेः फलम्' इति मीमांसकाः । तथा- त्रापि स्नेहक्षयस्य नियमादर्थलभ्योऽन्यत्र निषेधः स्पष्टप्रतिपत्तये निवद्ध इति परिसंख्याविधिसादृश्यात् परिसंख्यालंकाराभिधानम् । केचित्तु काव्यार्थापत्तिकाव्यलिङ्गयोरिव तात्रिकाभिमतविधिलक्ष- ण्याय काव्यपदं पूरणीयमित्याहुः। मुखं व्यादाय स्वपितीत्यादिवत् नियमनोत्तरकालं निपेधेऽपि निषिध्येत्यत्र क्त्वाप्रत्ययः पूर्वभावस्य बुद्धौ स्थापितत्वात् । एवं च कुवलयानन्दे संगतानि मृगाक्षीणामिति श्लोके स्त्रीसंगतस्य क्षणिकत्वोक्तेविरुद्धेति चेन्न । तत्र हि स्नेहस्य विपयभेदविवक्षा नतु नाशविवक्षेति ।। ११२ ।। विकल्पालंकार । रोधे तुल्यबलयोर्विकल्पालंकृतिमता। सद्यः शिरांसि चापान्वा नमयन्तु महीभुजः ॥११३॥ विरोध इति ॥ तुल्यवलयोः समप्राधान्ययोर्विरोधे बाध्यवा- धकभावे सति विकल्पालंकृतिः विकल्पनामालंकारः मता बुधैः स्वीकृता । उदाहरणम् । महीभुजो नृपाः सद्यः शिरांसि नमयन्तु । चक्रवर्तिनो विजययात्रारम्भमात्रेण त्वां संधि कुर्वन्त्वित्यर्थः । अथवा १ 'निपीय मदिरां' दुरोदरवशो बसापड्किलं सदात्ति पिशितं हितं न खलु वेद नैवाहितम् । अयं यतति धावति भ्रमति मृच्छति ध्यायति प्रताम्यति पलायते प्रजपति स्फुरत्यञ्चति ॥' इति काव्यविलासे।
लक्ष्यलक्षणप्रकरणम् १ ५९ चापाकोदण्डान् । 'अर्धर्चाः पुंसि च' इति पुंस्त्वम् । नमयन्तु नमने- नाधिज्यान्कृत्वा विग्रहं कुर्वन्त्वित्यर्थः। अत्र दूतवाक्ये संधिविग्रहयो- ध्यबाधकत्वाद्विरोधः । गम्यमानस्याप्यलंकृतिशब्दम्य पुनरुपादा- नात् चारुत्वाभावेनालंकारः। यथा 'शृंगालः काको वा स्पृशतु यदि वा पाण्डुतनयः' इत्यादी बाध्यबाधकभावो न चारूत्वहेतुः॥११३॥ समुच्चयालंकार। बहूनां युगपद्भावभाजां गुम्फः समुच्चयः । नश्यन्ति पश्चात्पश्यन्ति भ्रश्यन्ति च तव द्विषः ११४ बहूनामिति ॥ युगपद्भावभाजां युगपद्भवनं युगपद्भावः तद्भज- नशीलानां बहूनामर्थानां गुम्फः संदर्भः समुच्चयः । स्पष्टम । उदाह- रणम् । हे नृप, तव द्विपः नश्यन्ति पलायन्ते पश्चात्पश्यन्ति पृष्ठे निरीक्षन्ते । किंच भ्रश्यन्ति अधः पतन्ति । त्रासादिति भावः । अत्र पौर्वापर्ये सत्यपि शतपत्रपत्रशतभेदन्यायेन युगपद्भावो वोध्यः । अत्रापि चारुत्वानुवृत्तेः । हरिस्त्वां मां च रक्षत्वित्यत्र समुच्चयमात्रं नालंकारः ॥ ११४ ॥ अहंप्रथमिकाभाजामेककार्यान्वयोऽपि सः । कुलं रूपं वयो विद्या धनं च मदयत्यमुम् ॥ ११५ ॥ अहमिति ॥ अहं प्रथमो यस्यामित्यहंप्रथमिका । 'शेपाद्विभापा' इति कः समासान्तः । यद्वा अहंपूर्विकाशब्दस्य क्षीरस्वामिनोक्ता व्युत्पत्तिह्या । पूर्वप्रथमशब्दयोरभिन्नार्थत्वात् । तथाहि । अहं प्रथ- ममिति सर्वे यत्र ब्रुवते सा अहंप्रथमिका । स्वार्थे कन् । मत्वर्थीयो वा ठन् । एवं चाहंप्रथमिकाहपूर्विकानाम युगपदेककार्यकरणत्वरा सा च कुलादीनामचेतनत्वान्न संभवतीति तत्तुल्यायामन्वययोग्यता- यां लक्षणा तां भजन्तीति तथोक्तानामर्थानां परस्परोपमर्दनान्वय- योग्यानामित्यर्थः । एककार्यान्वयः एकक्रियासंबन्धोऽपि सः समु- १ 'कृतं प्राज्यं राज्यं जलधिपरिखे भूमिवलये मही भुक्ता मुक्ता निरवधि कृतं कार्यमखिलम् । इदानीं संप्राप्तं समुचितपदं वीरशयने शुगाल: काको वा स्पृशतु यदि वा पाण्डुतनयः॥'
कुवलयानन्दकारिकाः। . । चयः। उदाहरणम् । कुलं गोत्रम् । 'कुलं गोत्रे गणे गृहे' इति विश्वः। रूपं सौन्दर्य वयो यौवनं तस्यैव मदहेतुत्वात् विद्या श्रुत्यादिः धनं वसु च अमुं भाग्यवन्तं मदयति मदमुत्सेकं करोतीति मद्यति । 'तत्करोति तदाचष्टे' इति णिजन्ताकर्तरि लटो रूपम् । अत्र कुला- दीनां खलेकपोतन्यायेन समप्राधान्यं चारुत्वहेतुः ॥ ११५ ॥ कारकदीपकालंकारः। ऋमिकैकगतानां तु गुम्फः कारकदीपकम् । गच्छत्यागच्छति पुनः पान्थः पश्यति गच्छति ११६ ऋमिकेति ॥ ऋमिकैकगतानां क्रमप्राप्तानामेकाश्रयाणां च बहूनामर्थानां गुम्फो रचना कारकदीपकं कारकं कर्तृकर्मादि दीप इव दीपकम् । अनेकोपकारकं यत्रेति व्युत्पत्तेः । उदाहरणम् । पान्थः गच्छति पुनरागच्छति पश्यति पृच्छति च किंचिदिति शेषः । अत्र पान्थशब्दस्य कर्तृकारकस्यानेकक्रियान्वितत्वाद्दीपकसादृश्यम् । अत्र क्रियाणां योगपद्यं न विवक्षितमिति समुच्चयाद्भेदः ॥ ११६ ॥ समाध्यलंकारः। समाधिः कार्यसौकर्य कारणान्तरसंनिधेः । उत्कण्ठिता च कुलटा जगामास्तं च भानुमान् ११७ समाधिरिति ।। कारणान्तरसंनिवेः अन्यकारणमांनिध्यात् कार्यसौकर्य कार्योत्पत्तिलाघवं समाधिः सम्यगाधानमुत्पादनमिति व्युत्पत्तेः । उदाहरणम् । च यदा कुलटा पांसुला उत्कण्ठा उत्सुकता संजाता यस्या इत्युत्कण्ठिता । तारकादित्वादितच् । च तदा भानु- मानस्तं जगाम । अत्रौत्सुक्यमात्रस्य पांसुलेप्सितसंपादकत्वेऽपि सूर्यास्तोल्लसिततमोरूपकारणान्तरसांनिध्यात्सौकर्य जातमिति लक्ष- णानुगमः ॥ ११७ ॥ १ 'निद्राति नाति भुते चलति कचभराञ्शोषयन्त्यन्तरास्ते दीव्यत्यक्षैर्न चायं गदितुमवसरो भूय आयाहि याहि । इत्युद्दण्डैः प्रभूणामसकृदधिकृतैर्वारितान्द्वारि दीनान् पश्यामान्ये सरसिरुहरुचामन्तरजैरपाङ्गैः॥'
लक्ष्यलक्षणप्रकरणम् १ प्रत्यनीकालंकारः । प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः । जैत्रनेत्रानुगौ कर्णावुत्पलाभ्यामधः कृतौ ॥ ११८ ।। प्रत्यनीकमिति ॥ बलवतः शत्रोः पक्षे सहायबले । 'पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिपु' इत्यमरः । पराक्रमः पराभवः पीडनमिति यावत् । प्रत्यनीकं अनीके इति प्रत्यनीकम् । विभक्त्यर्थे- ऽव्ययीभावः । यद्वा अनीकं लक्षीकृत्येति प्रत्यनीकम् । 'लक्षणेना- भिप्रती आभिमुख्ये' इत्यव्ययीभावः । उदाहरणम् । उत्पलाभ्यां कमलाभ्यां जैत्रनेत्रानुगौ साधु यथा तथा जयतः ते जेतृणी । 'आ. केस्तच्छीलतद्धर्मतत्साधुकारिपु' इति साधुकारिणि तृन् प्रत्ययः । जेतृणी एव जैत्रे जैत्रे च ते नेत्रे च जैत्रनेत्रे तयोरनुगो समीपव- तिनौ सेवको चेति श्लिष्टरूपकम् । कर्णावधःकृती भारेणाक्रान्तौ तिरस्कृतौ चेति श्लिष्टरूपकेण लक्षणानुगमः । तेन चोत्पलयोर्विजि- गीषुत्वारोपो व्यज्यते इत्यलंकारेणालंकारध्वनिः । भेदान्तरं कुवल. यानन्दे द्रष्टव्यम् ॥ ११८ ।। काव्यापत्त्यलंकारः। कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते । सं जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहम् ॥ ११९ ॥ कैमुत्येनेति ॥ कैमुत्येन किमुतभावः कैमुत्यं तेन । किमुतशब्द- प्रयोगेणेत्यर्थः । अर्थसंसिद्धिः व्यङ्ग्यार्थप्रतिपत्तिः। काव्यार्थापत्तिः १ यत्र शत्रुर्वलीयान् वयं जेतुमशक्यः तत्र तत्पक्षाश्रितदुर्बलस्य विजयः कृत इति वर्णिते भवत्ययमलंकार । 'अशक्तोऽयं तावत्तव वदनसौन्दर्यविजये सुधाधामा धामप्रसररभसादेत्य सहसा। सरोजातं जातु स्फुटतदनुकारी ति मतितो निशायां सायाबावधि मलिनयत्येप सहसा ॥' इति काव्यविलासे । 'मधुव्रतौघः कुपितः स्वकीयमधुप्रपापानिमीलनेन । विम्बं समाक्रम्य बलात्सुधांशोः कलङ्कमङ्के ध्रुवमातनोति ॥ २ 'अधरोऽयमधीराक्ष्या बन्धुजीवप्रभाहरः। अन्यजीवप्रभां हन्त हरतीति किमद्भुतम् ॥' फुव०६ कुवलयानन्दकारिकाः । काव्यसंबन्धिन्यापत्तिः। काव्यपदं ताञिकार्थापत्तेर्वारणार्थं तस्याः प्रमाणालंकारेवन्तर्भावात् । इष्यते । बुधैरिति शेषः । उदाहरणम् । हे प्रिये, त्वन्मुखेन सः प्रसिद्धः पद्मसंकोचक इन्दुर्जितस्तर्हि सरसी- रुहं पड़ा जितमिति तु का वार्ता । वार्ता विनापि जातमेवेत्यर्थः । कैमुत्यशब्दस्योपलक्षणत्वात् तदर्थशब्दान्तरस्यापि प्रयोगे इत्याहुः । अत्र पद्मजेतरि चन्द्रे जिते पद्मं तु जितमेवेति दण्डापूपिकान्यायेन व्यङ्ग्याक्षेपः॥ ११९॥ काव्य लिजालंकार. । समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम् । जितोऽसि भन्द कन्दर्प मच्चित्तेऽस्ति त्रिलोचनः ॥१२॥ समर्थनीयस्येति ॥ समर्थनीयस्य समर्थनसापेक्षस्यार्थस्य सम- र्थनं दृढीकरणम् । हेतुपु दर्शनमिति यावत् । काव्यलिङ्गं काव्याभिमतं लिङ्गं तर्कशास्त्राभिमतलिङ्गव्यावर्तनीयं काव्यपदम् । 'न्यायोऽनुमानं हेतुश्च लिङ्गं युक्तिः समर्थका' इति गोवर्धनः । हेतुस्वरूपं चोक्तमग्नि- पुराणे-'सिसाधयिपितार्थस्य हेतुर्भवति साधकः । कारको ज्ञापक- श्चेति द्विधा सोऽप्युपदिश्यते ॥ इति । तत्र दण्डेन घट इत्यादिकार- कहेतौ चमत्काराभावान्न काव्यलिङ्गत्वम् । उदाहरणम् । हे मन्द मूर्ख कन्दर्प, मया जितोऽसि । त्वमिति शेषः । यतः मञ्चिते त्रिलोचनः शिवोऽस्ति । अत्र स्मरस्य जयो दुष्करत्वात्समर्थनसापेक्षः । तस्य समर्थनं च शिवसान्निध्योक्त्या कृतमिति बाक्यार्थहेतुकं काव्यलिङ्गम्। पदार्थहेतुकं तु प्रपञ्चितं कुवलयानन्दे । अत्र त्रिलोचनपदस्य साभि- प्रायत्वात्परिकराङ्कुरेण परिकरेण वा तस्य संकर इति दिक् ॥१२०॥ अर्थान्तरन्यासालंकारः। उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः । हनूमानब्धिमतरदुष्करं किं महात्मनाम् ॥ १२१ ॥ १ काव्यलिङ्गे तु पदार्थवाक्यार्थावेव हेतुभावं भजतः । ननु यद्यपि सुखाव- लोकोच्छेदिनीत्यादिपदार्थहेतुककाव्यलिङ्गोदाहरणे अग्रेऽप्यनतिमान्'इत्यादिवाक्या- र्थहेतुककाव्यलिशोदाहरणे च पदार्थवाक्यार्थीवेव हेतुभाव भजतस्तथापि 'पशुना- प्यपुरस्कृतेन' इति पदार्थहेतुकोदाहरणे 'मचित्तेऽस्ति त्रिलोचनः' इति वाक्यार्थहे. तुकोदाहरणे च प्रतीयमानार्थस्यापि हेतुको त्यनुप्रवेशो दृश्यते । पशुनेति ह्यविवे- कलाभिप्रायगर्भम् ।
लक्ष्यलक्षणप्रकरणम् १ DO उक्तिरिति ॥ सामान्यविशेषयोः बहुव्यापकाल्पव्यापकयोरर्थ- योरुक्तिः युगपदिति शेषः । अर्थान्तरन्यासः स्पष्टम् । उदाहरणम् । हनूमान् वाङ्गः अब्धि सागरमतरत् उल्लचितवान् । धातूनाम- नेकार्थत्वात् । तथा हि । महात्मनामलौकिकानां दुष्करं किम् । न किंचिदित्यर्थः । अत्र प्रकृतार्थविशेषम्य समर्थनार्थ सामा- न्यार्थोक्तिः । सामान्यविशेषत्वेनोक्तिरर्थान्तरन्यासः । हेतुहेतुमद्भा- वेनोक्तिः काव्यलिङ्गमिति निर्णयः कुवलयानन्दे । कार्यकार- णभावेनोक्तिस्तु काव्यलिङ्गेऽन्तर्भवति । अर्थान्तरन्यासे इति केचित् ॥ १२१ ॥ विशेपस्य सामान्येन समर्थनमुदाहृत्य सामान्यस्य विशेपेण मम- र्थनमुदाहरति- गुणवद्वस्तुसंसर्गाद्याति स्वल्पोऽपि गौरवम् । पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते ॥ १२२ ।। गुणवदिति ॥ गुणवद्वस्तुसंसर्गात् गुणयुक्तपदार्थयोगात् स्व- स्पोऽपि पदार्थो गौरवं महत्त्वं याति । तथाहि । सूत्रं कासादि- तन्तुः पुष्पमालानुपङ्गेण कुसुमपशिसङ्गेन शिरसि धार्यते । शिर:- शब्दोऽत्र कण्ठपरः । अत्र गन्धगुणयुक्तानां पुप्पाणामनुप- ङ्गात् सूत्रस्य लघुपदार्थस्य गौरवं भारवत्त्वमादरो वा जात इति लक्षणानुगमः । अत्र पुष्पाणां किञ्जल्कतन्तुशालित्वाद्गुणवत्त्वमिति केचित् । तन्तुग्रथितत्वादित्यन्ये । सुगन्धशालित्वादिति तु कुशलाः। गुणशब्दो हि प्रत्यञ्चारूपे तन्तौ प्रसिद्धो नतु किंजल्कादौ । तथाच केशवः - 'गुणोऽप्रधाने रूपादौ मौनी सूत्रे वृकोदरे । स्तम्भे सत्त्वादिसंध्यादिविद्यादिहरितादिपु ॥ इति ॥ १२२ ।। विकस्वरालंकारः। यस्मिन्विशेषसामान्यविशेपाः स विकस्वरः। सं न जिग्ये महान्तो हि दुर्धर्षाः सागरा इव ॥ १२३ ॥ १ 'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसंनिपाते निमजतीन्दोः किरणेविवाङ्कः॥'
कुवलयानन्दकारिकाः। : । यस्मिन्निति ॥ यस्मिन् विशेषसामान्यविशेपाः क्रमेण भवन्ति स विकस्वरः। विकसन् साधुकरोति विकस्वर इति व्युत्पत्तेः । 'कस् विकासे' इति धातोः साधुकारिणि करप् । शब्दविस्तारोऽर्थविस्तारश्च विकसनत्वेनाभिमतः । ततश्चमत्कारविस्तारोऽलंकारः । उदाहरणम् । स राजा परैर्न जिग्ये । हि यस्मान्महान्तो दुर्धर्षाः दुर्जया भवन्ति क इव । सागरा इव । यथा महत्त्वात्सागरा दुर्धर्पाः । अत्रोपमान- विधयार्थत्रयविन्यासः प्रकारान्तरमप्यस्ति कुवलयानन्दे । प्राचां मते त्वर्थान्तरन्यासयोः संकरोऽयं न त्वलंकारान्तरं तस्यैव नामान्तरं वा ॥ १२३ ॥ प्रौढोक्त्यलंकार। प्रौढोक्तिरुक्तार्थाहेतोस्तद्धेतुत्वप्रकल्पनम् । कचाः कलिन्दजातीरतमालस्तोममेचकाः॥ १२४ ॥ प्रौढोक्तिरिति । उक्तार्थाहेतोः उक्तार्थस्य प्रकृतार्थस्याहेतोः तद्धे- तुत्वप्रकल्पनं वर्णनीयकारणताभिधानं प्रौढोक्तिः । प्रौढानां धीमता- मुक्तिरिति व्युत्पत्तेः । विचित्रकल्पनाशालिनो हि धीमन्तः । उदा- हरणम् । कृष्णस्य कचाः केशाः कलिन्दजातीरतमालस्तोममेचकाः। कलिन्दजा कलिन्दपर्वतप्रसूता यमुना तस्यास्तीरे ये तमालस्तोमाः त इव मेचकाः श्यामाः । 'मेचकौ श्यामधूमलौ' इति केशवः । अत्र तमालानां श्यामलत्वे यमुनातीरोत्पन्नत्वं तु न हेतुरित्यहेतोस्तस्य श्यामसमीपस्थं श्यामं भवतीति युक्तिमाश्रित्य तमालविशेषणं कृत- मिति लक्षणानुगमः ॥ १२४ ॥ संभावनालंकारः। संभावनं यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये । यदि शेषो भवेद्वक्ता कथिताः स्युगुणास्तव ॥ १२५ ॥ संभावनमिति ॥ अन्यस्य व्यङ्ग्यार्थस्य वाच्यादन्यस्य सिद्धये । १ उत्कर्षस्याहेतावुत्कर्षहेतुल कल्पनं प्रौढोक्तिः । २ कस्तूरिकामृगाणामण्डाद्गन्धगुणमखिलमादाय । यदि पुनरहं विधिः स्यां खलजिह्वायां निवेशयिष्यामि ॥' कस्तूरिकेति । अहं यदि सृष्टिकर्ता स्यां तदा कस्तूरिकामृगाणामण्डादतिलं गन्धरूपं गुणमादाय खलजिह्वाया निवेशयिष्यामीत्यन्वयः ।
लक्ष्यलक्षणप्रकरणम् १ प्रतीतये यदीत्थं स्यादित्येवंविध ऊहो वितर्कः संभावनं स्पष्टम् । यद्यादिप्रयोगपूर्वकत कत्वाभिधानान्नातिव्याप्तिः । उदाहरणम् । हे देव, यदि वक्ता शेषः सहस्रमुखो भवेत् शेपो वा वक्ता भवेत् तर्हि तेन तव गुणाः कथिताः स्युः । अत्र यद्यादिप्रयोगपूर्वकवितर्केण गुणा- नामगण्यत्वसिद्धिः ॥ १२५ ।। मिथ्या व्यवसित्यलंकार। किंचिन्मिथ्यात्वसिद्ध्यर्थं मिथ्यार्थान्तरकल्पनम् । मिथ्याध्यवसितिर्वेश्यां वशयेत्खनजं वहन् ॥ १२६ ।। किंचिदिति ॥ कस्यचिन्मिथ्यात्वं किंचिन्मिथ्यात्वम् । पष्ठीत- त्पुरुषः । किमः सविभक्तिकात् स्वार्थे चिदिति निपातः प्रत्ययो वा । चिदन्तस्य तत्पुरुपे पठ्या लुक । तस्य सिद्धये इति सिद्ध्यर्थ मि- थ्यार्थान्तरकल्पनं मिथ्याभूतस्यार्थान्तरस्य कल्पनं मिथ्याभूतमध्य- वसानं मिथ्याध्यवसितिरिति व्युत्पत्तेः । उदाहरणम् । खस्रज गगनकुसुममालां वहन् सन् वेश्यां गणिकां वशयेत् वशीकुर्यात् । अत्र खपुष्पमालावहनोक्त्या वेश्यावशीकरणस्य मिथ्यात्वसिद्धिः । य- द्यादिप्रयोगाभावाच पूर्वस्माद्भेदः ।। १२६ ।। ललितालंकार । प्रस्तुते वर्ण्यवाक्यार्थप्रतिबिम्बस्य वर्णनम् । ललितं निर्गते नीरे सेतुमेषा चिकीर्षति ॥ १२७ ॥ 'अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया प्रज्ञाचक्षुरवेक्ष्यमाणबधिरथाव्याः किलाकीर्तयः। गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरा- न्मूकानां प्रकरण कूर्मरमणीदुग्धोदधे रोधसि ॥' अस्येति । परार्धपरया परार्धसंख्यामतिकान्तया लक्षीकृता उपलक्षिता प्रज्ञाचक्षुषा अन्धेनावेक्ष्यमाणाश्च ता बधिराव्याश्चेति कर्मधारय । कलयता कुर्वता । प्रकरण समूहेनाकूर्मरमणी कच्छपी। रोधसि तीरे। मिथ्याध्यवसितेरित्यस्य भेद इत्यत्रान्वयः। १ 'क्क सूर्यप्रभवो वंशः क्व चाल्पविपया मतिः। तितीर्षुर्दुस्तरं मोहादुडुपेनामि सागरम् ॥ अत्रापि निदर्शनाभ्रान्तिन कार्या। अल्पविषयया मत्या सूर्यवंशं वर्णयितुमिच्छुर- हमिति प्रस्तुतवृत्तान्तानुपन्यासात्तत्प्रतिबिम्बभूतस्य उडुपेन सागरं तितीर्घरस्मीत्यप्र- स्तुतवृत्तान्तस्य वर्णनेनादौ विषमालंकारविन्यसनेन च केवलं तत्र तात्पर्यस्य गम्य- मानखात्।
कुवलयानन्दकारिकाः । प्रस्तुत इति । प्रस्तुते प्रकृते वो वर्णनीयो यो वाक्यार्थ- स्तस्य प्रतिविम्बः प्रतिनिधिस्तस्य वर्णनं ललितं स्पष्टम् । उदाहरणम् । एपा नायिका नीरे निर्गते सति सेतुं पालिं चिकीर्पति कर्तुमिच्छति । अन प्रकृता नायिका तस्या नायके गते सति तदानयनं कर्तुमिच्छ- तीति वर्णनीयो वाक्यार्थः । तत्प्रतिनिधिभूतार्थवर्णनाल्लक्षणानुगतिः। एपेति प्रस्तुतनिर्देशाद्रूपकातिशयोक्तिप्रभृतितो भेदः ॥ १२७ ॥ प्रहर्षणालंकार। उत्कण्ठितार्थसंसिद्धिविना यत्न प्रहर्षणम् । तामेव ध्यायते तस्मै निसृष्टा सैव दूतिका ॥ १२८ ॥ उत्कण्ठितेति ॥ यत्नं प्रयासं विना उत्कण्ठितार्थसंसिद्धिः उ- स्कण्ठितम्य संजातोत्कण्ठस्यार्थिनः अर्थसंसिद्धिः कार्यनिष्पत्तिः प्रह- पणं स्पष्टम् । उदाहरणम् । तामेव प्रियानुनयकुशलतयाभीप्सितामेव दूतीं ध्यायते चिन्तयते तस्मै नायकाय । क्रियाग्रहणाचतुर्थी । तमु- दिश्येत्यर्थः । सैव तदभीष्टैव दूतिका चेटिका निसृष्टा प्रहिता सा मानिनी मां प्रत्यनुकूलां दूती कदा प्रेपयिष्यति इत्युत्कण्ठितस्य नाय- कस्य यत्नं विना दैवान्नायिकया सैव दूती प्रेषितेति लक्षणानुगमः । उत्कण्ठालक्षणं चोक्तं कुवलयानन्दे ।। १२८ ॥ वाञ्छितादधिकार्धस्य संसिद्धिश्च प्रहर्षणम् । दीपमुद्योतयेद्यावत्तावदभ्युदितो रविः ॥ १२९ ।। १ 'मेधैर्मदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै- नक्तं भीरुरयं त्वमेव तदिम राधे गृहं प्रापय । इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहाकेलयः॥' अत्र राधामाधवयोः परस्परमुत्कण्ठितप्रसिद्धतर अत्र ग्रन्थकारेण निवद्धमि. त्यत्रोदाहरणे लक्षणानुगतिः । २ 'चातकस्त्रिचतुरः पयःकणान्याचते जलधरं पिपासया। सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारताम् ॥ पश्येति शेषः।
लक्ष्यलक्षणप्रकरणम् १ वाञ्छितादिति ॥ वाञ्छितादीप्सितादधिकार्थस्याधिकगुण- स्यार्थान्तरस्य संसिद्धिाभश्च प्रहर्षणम् । चकारवलेन प्रतीतावपि पुनर्ग्रहणं चारुतरत्वार्थम् । उदाहरणम् । यावद्दीपं उद्योतयेत्ताबद्र- विरभ्युदितः । अत्र दीपेच्छोरर्कलाभः । प्रभातो यन्नं विना जात इति लक्षणानुगतिः ।। १२९ ॥ यत्नादुपायसिद्ध्यर्थात्साक्षालाभः फलस्य च । निध्यञ्जनौषधीमूलं खनतासादितो निधिः ॥ १३० ॥ यत्नादिति ॥ उपायसिद्ध्यर्थात्कारणलाभनिमित्ताद्यनात सा- क्षात्फलस्य कार्यस्य लाभश्च प्रहर्पणमिति संबध्यते । उदाहरणम् । निध्यञ्जनौपधीमूलं निधिबोधकमञ्जनं निध्यञ्जनं निध्यक्ष नार्थ ओपधी निध्यञ्जनौपधी । 'ओपध्यः फलपाकान्ताः' इति कोशात । 'कृदिकारादक्तिनः' इति डीपन्तोऽपि ओपधीशब्दोऽस्ति । हैमन्तु ओषधिः स्यादौपधी च फलपाकावसानिका' इत्याह । तस्याः मूलं खनता विदारयता पुंसा निधिर्धनसंचयः आसादितः प्राप्तः । निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः' इत्यमरः । अत्राञ्जनसंपादकमू- लिकाग्रहणाय भूमिं वनतस्तत्रैव निधेर्दर्शनं जातमिति लक्षणा- नुगमः ॥ १३०॥ विषादनालकार। इष्यमाणविरुद्धार्थसंप्राप्तिस्तु विषादनम् । दीपमुद्योतयेद्यावनिर्वाणस्तावदेव सः ॥ १३१ ॥ इष्यमाणेति ॥ इप्यमाणविरुद्धार्थसंप्राप्तिः इष्यमाणादीप्सिता- र्थात् विरुद्धो विपरीतो योऽर्थस्तस्य संप्राप्तिः सम्यग्लाभस्तु विपादनं स्पष्टम् । उदाहरणम् । यावदीपमुद्योतयेत् स्नेहार्पणेन प्रदीपयेत् तावदेव प्रदीपो निर्वाणो नष्टः । 'निर्वाणो वाते' इति निष्ठानत्वम् । 'निर्वाणं निर्वृतौ मोक्षे विनाशे गजमजने' इत्यमरः ॥ १३१ ॥ १ 'रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः। इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनी गज उज्जहार ॥'
कुवलयानन्दकारिकाः। - उल्लासालंकारः । एकस्य गुणदोषाभ्यामुल्लासोऽन्यस्य तौ यदि। अपि मां पावयेत्साध्वी स्नात्वेतीच्छति जाह्नवी ॥१३२॥ एकस्येति । एकस्य कस्यचिद्वस्तुनः गुणदोपाभ्यामुत्कर्पापकर्षा- भ्यां अन्यम्य वस्तुनो यदि तौ गुणदोपौ वयेते तदोल्लासः । स्पष्टम् । यद्यपि गुणदोपाभ्यामित्यत्र साहित्यासंभवात् द्वन्द्वममासो दुर्घटस्त- थापि भिन्नानि लक्ष्याणि बुद्धिस्थानि कृत्वा साहित्यं समाधेयम् । उदाहरणम् । साध्वी 'सती साध्वी पतिव्रता' इत्यमरः । स्नात्वा मामपि पावयेत् इति जाह्नवी नित्यमित्यच्छति । अत्र साव्याः पवित्रता- गुणेन जाह्नव्या स गुणो वर्णित इति लक्षणानुगमः ॥ १३२ ॥ दोपेण दोषो यथा- काठिन्यं कुचयोः सृष्टं वाञ्छन्त्यः पादपद्मयोः । निन्दन्ति विश्वधातारं त्वद्धाटीवरियोषितः ॥ १३३ ॥ १ 'यदयं रथसंक्षोभादसेनासौ निपीडितः। एकः कृती तदङ्गेषु शेषमङ्गं भुवो भरः॥' अत्र नायिकासौन्दर्यगुणेन तदङ्गनिपीडितस्य स्वासस्य कृतित्वगुणो वर्णितः। २ यत्र कस्य चिद्गुणेनान्यस्य गुणो दोषेण दोपो गुणेन दोषो दोषेण गुणो वा वर्ण्यते स उल्लासः । उदाहरणानि । 'लोकानन्दन चन्दनद्रुम सखे नास्मिन्वने स्थीयतां दुर्वशैः कठिनैरसारहृद्यराक्रान्तमेतद्वनम् । ते धन्योन्य निधर्पजातदहनज्वालावलीसंकुला न स्वान्येव कुलानि केवलमिदं सर्व दहेयुर्वनम् ॥' अत्र वेणूनां परस्परसंघर्षसंजातदहनसंकुलवदोषेण वननाशरूपदोषो वर्णितः । 'दानार्थिनो मधुकरा यदि कर्णतालै- दुरीकृताः करिवरेण मदान्धबुद्ध्या । तस्यैव गण्डयुगमण्डनहानिरेपा भृङ्गाः पुनर्विकचपद्मवने चरन्ति ॥ अत्र भ्रमराणामलंकारत्वगुणेन गजस्य तन्निक्षेपो दोषत्वेन वर्णित. । 'आघ्रातं परिचुम्बितं परि मुहुर्लीढं पुनश्चर्वितं त्यक्तं वा भुवि नीरसेन मनसा तत्र व्यथां मा कृथाः। हे सद्रन तवैतदेव कुशलं यद्वानरेणादरा- दन्तःसारविचारणव्यसनिना चूर्णीकृतं नाश्मना ।' अत्र वानरस्य चापलदोषेण रत्नस्य चूर्णताभावो गुणत्वेन वर्णितः। ..
लक्ष्यलक्षणप्रकरणम् १ काठिन्यमिति ॥ कुचयोः सृष्टं काठिन्यं पलायनकाले पाद- पद्मयोर्वाञ्छन्त्योऽरियोषितः निहतवैरिवनिताः त्वद्धाटीषु धाराभि- रटन्तीति धाट्यः । पृषोदरादित्वात्साधुः । वाजिवाहिन्यः तास्वागतासु विश्वधातारं ब्रह्माणं निन्दन्ति । भर्तृवधाजातवैधव्यानामस्माकं व्यर्थ कुचकाठिन्यं सृष्टवन्तं पलायनोपयोगिपादतलकाठिन्यं चामृष्टव- न्तमचतुरं विधातारं धिगिति दुःखागह यन्तीत्यर्थः । अत्र कुचका- ठिन्यव्यर्थत्वदोपेण विधातुर्निन्दादोपो वर्णितः ॥ १३३ ॥ गुणेन दोपो यथा- तदभाग्यं धनस्यैव यन्नाश्रयति सजनम् । लाभोऽयमेव भूपालसेवकानां न चेद्वधः ॥ १३४ ॥ तदिति ॥ तत् धनस्यैव अभाग्यं भाग्यहीनत्वम् । तत्किमित्यत आह । यद्यस्मात्सजनं साधुम् । 'साधुसभ्यार्यसज्जनाः' इत्यमरः । नाश्रयति न सेवते । अत्र सज्जनस्य सेव्यत्वगुणेन धनस्याभाग्यत्व- दोषो वर्णितः। दोपेण गुणो यथा-चेद्यदि भूपालसेवकानां वधो न भवेत्तर्हि धनप्राप्तिं विनाप्ययमेव जीवनरूप एव लाभः । अत्र राज्ञः क्रौर्यदोपेण सेवकानां वधाभावो गुणत्वेन वर्णितः । केचित्तु हे भूपालेति संबोध्य राजानं प्रति सेवकस्येयमुक्तिरित्याहुस्तन्न । सेव- कस्यैवंविधप्रागल्भ्यानौचित्यात् ॥ १३४ ।। अवज्ञालकारः । ताभ्यां तो यदि न स्यातामवज्ञालंकृतिस्तु सा । स्वल्पमेवाम्बु लभते प्रस्थं प्राप्यापि सागरम् । मीलन्ति यदि पद्मानि का हानिरमृतद्युतेः ॥ १३५ ॥ १ 'मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः किमस्या नाम स्यादलसपुरुपानादरभरैः । यथा यूनस्तइत्परमरमणीयापि रमणी कुमाराणामन्तःकरणहरणं नैव कुरुते ॥' मदुक्तिरिति । ममोक्ति कविता सुधियोऽन्त करणं सुधीभूयामृतीभूय चेन्मदयति तोपयति तदास्या मदुक्तररसाना नीरमाना पुरुपाणामनादरसमूहै: कि नाम स्यात्, कुवलयानन्दकारिकाः। ताभ्यामिति ।। यदि ताभ्यां गुणदोपाभ्यां तौ गुणदोषौ न स्यातां तर्हि सा अवज्ञालंकृतिः । अत्र गम्यमानोऽप्यलंकृतिशब्दश्व- मत्काराल्पत्वेऽपि बाधाभावद्योतनार्थः । उदाहरणम् । गुणेन गुणा- भावो यथा । प्रस्थं प्रस्थपरिमितजलपात्रं सागरं वारिधि प्राप्यापि स्वल्पमेवाम्बु सलिलं लभते । अत्र सागरस्य महत्त्वगुणेन प्रस्थस्या- धिकजललाभगुणाभावो वर्णितः। दोपे दोषाभावो यथा--मील- न्तीति ।। यदि चन्द्रोदये पद्मानि' मीलन्ति संकुचन्ति तर्हि अमृत- द्युतेः सुधांशोः का हानिः। अत्र पद्मनिमीलनदोषेण चन्द्रस्य हानिरूपदोपाभावो वर्णितः । सुधांशुत्वगुणबलेन पद्मद्वेपरूपदोषस्य तिरस्कारात् षट्पदी ।। १३५ ।। अनुज्ञालंकारः। दोषस्याभ्यर्थनानुज्ञा तत्रैव गुणदर्शनात् । विपदः सन्तु नः शश्वद्यासु संकीयते हरिः ॥ १३६ ॥ न किचिदित्यर्थ । कचिदलसेति पाठ परमरमणीयापि रमणी स्त्री यूनस्तरुणस्य यथाऽन्त करणं मदयति न तथा वालाना तद्वदित्यन्वय । 'त्वं चेत्संचरसे वृषेण लघुता का नाम दिग्दन्तिनां व्यालैः कङ्कणभूषणानि कुरुपे हानिन हेम्नामपि । मूर्धानं कुरुषे जलांशुमयशः किं नाम लोकत्रयी- दीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं महे ॥' त्वं चदिति शिवं प्रति कस्यापि कवक्ति । जलाशुं चद्रं पक्षे जडाशुम्। अम्बुज- बान्धव सूर्य.। अन्यत्स्पष्टम् । अनाद्ये कवितारमणीगुगान्यामलसबालहृदयोल्लामरू- पगुणाभावो वर्णित । द्वितीये परमेश्वरानङ्गीकारदोषेण दिग्गजादीना लघुतादिदो- पाभावो वर्णित । इत्ययज्ञालंकार । १ 'मय्येव जीर्णता यातु यत्त्वयोपकृतं कपे। नरःप्रत्युपकारार्थी विपत्तिमभिकाङ्क्षति ॥ इयं हनूमन्तं प्रति राघवस्यक्ति. । अत्र प्रत्युपकाराभावो दोपः तदभ्युपगमहेतु- गुणो विपत्त्याका काया अप्रसक्तिः : सा च व्यतिरेकमुखप्रयुक्तेन सामान्येन विशेषस- मर्थनरूपेणार्थान्तरन्यासेन दर्शिता । यथा वा- 'भजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसंपदं प्रमथनाथ नाथामहे । भवद्भवनदेहलीबहुलतुण्डदण्डाहति- त्रुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते ॥'
लक्ष्यलक्षणप्रकरणम् १ ८१ दोषस्येति ॥ दोपस्याप्रियस्याप्यभ्यर्थना अनुज्ञानामालंकृतिः । दोपाभ्यर्थनायां हेतुमाह । तत्रैव दोपे एव गुणदर्शनात् । गुणकल्प- नादित्यर्थः । उदाहरणम् । नोऽस्माकं भक्तानां शश्वन्नित्यं विपदः सन्तु । यासु विपत्सु हरिविष्णुः संकीर्त्यते । अत्र विपदोपप्रार्थना हरिकीर्तनगुणानुगुणत्वादिति लक्षणसंगतिः ॥ १३६ ॥ लेशालकार । लेशः स्याद्दोषगुणयोर्गुणदोषत्वकल्पनम् । अखिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु । शुक पञ्जरबन्धस्ते मधुराणां गिरां फलम् ॥ १३७ ।। लेश इति ॥ दोषगुणयोः असत्मदर्थयोः गुणदोपत्वकल्पनं दो- पस्य गुणत्वकल्पनं गुणस्य च दोषत्वकल्पनमित्यर्थः । लेयोऽलंकारः स्यात् । लेशः कल्पनालेशोऽस्त्यस्मिन्निति लेशः । रूपकादिग्विव सो- पपत्तिकल्पनाभावाल्लेशत्वम् । उदाहरणम् । हन्तेति खेदे । अखि- लेषु सर्वेषु विहङ्गेषु पक्षिषु स्वच्छन्दचारिपु स्वेच्छाविहारिपु सत्सु हे शुक, तव पञ्जरबन्धः पञ्जरारोपणरूपो बन्धः स मधुराणां प्रियाणां गिरां वाचां फलम् । अत्र सर्वपक्षिणामवाग्मित्वदोपो गुण. त्वेन शुकस्य वाग्मित्वगुणो दोपत्वेन च वर्णितः । अप्रस्तुतप्रशंसा- प्यत्र संभवति ॥ १३७ ॥ मुद्रालंकार । सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः । नितम्बंगुर्वी तरुणी दृग्युग्मविपुला च सा ॥ १३८ ॥ सूच्यार्थेति ।। प्रकृतार्थपरैः प्रस्तुतार्थप्रतिपादकैः पदैः सूच्या- ते १ दोपस्य गुणत्वकल्पनं गुणस्य दोषत्वकल्पनं च लेश । २ 'सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा । अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥' ३ 'अश्विनी वसतु भूप मन्दिरे मन्दिरे वसतु ते पुनर्वसु । रेवतीपतिकनिष्ठसेवया कृत्तिकातनयविक्रमो भव ॥'
कुवलयानन्दकारिकाः । र्थसूचनं व्यङ्गयार्थबोधनं मुद्रा मुद्रणम् । प्रकृतार्थे अप्रकृतार्थनिवे- शनं मुद्रेति व्युत्पत्तेः । उदाहरणम् । सा तरुणी युवतिः नितम्ब- गुर्वी नितम्बयोणुर्वी पीननितम्वेत्यर्थः । दृग्युग्मविपुला च विशाल- नयनयुगलेत्यर्थः । अत्र प्रस्तुतार्थपरे दृग्युग्मविपुलाशब्दे छेदेनानु- टुप्छन्दोविशेषाभिधानं सूच्यते । अस्य श्लोकस्य तद्विपयत्वात् । एवं हलायुधकृतायां छन्दःशास्त्रवृत्तौ सर्वच्छन्दोनामानि सूचितानि । विष्णुभक्तिकल्पलतायां च तिथिवारादिनामानि सूचितानि । तत्र मुद्रानामैवालंकारः ।। १३८ ।। रत्नावल्यलंकारः। क्रमिकाप्रकृतार्थानां न्यासं रत्नावली विदुः । चतुरास्यः पतिर्लक्ष्म्याः सर्वज्ञस्त्वं महीपते ॥ १३९ ॥ ऋमिकेति ॥ कमिकाप्रकृतार्थानां क्रमं प्राप्तानामप्रस्तुतवस्तूनां न्यासं निवेशनं रत्नावली विदुः । कथयन्तीत्यर्थः । गौणोऽयं रत्नावली- शब्दः । यथा रत्नपतिः सुवर्ण खचिता भवति तथा प्रस्तुतार्थपतिः प्रस्तुतवाक्ये निवेशिता यत्र भवतीति सादृश्यानुगमात् । उदाह- रणम् । हे महीपते, त्वं चतुरास्यः सुन्दरवदनः चतुर्मुखश्चेति श्लिष्ट- रूपकम् । लक्ष्म्याः पतिः संपत्तिशाली रमापतिश्चेति श्लिष्टरूपकम् । सर्वज्ञःसर्वविच्छंकरश्चेति श्लिष्टरूपकम् । सर्वज्ञत्रिपुरान्तकत्रिनयनः' इति हलायुधः । अत्र प्रकृते राज्ञि प्रसिद्धक्रमाणां ब्रह्मादीनामारोपः मुद्रालंकारे सूच्यार्थस्य प्रकृतान्वयो नास्ति इह सोऽस्तीति भेदः १३९ तद्गुणालंकार । तद्गुणः स्वगुणत्यागादन्यदीयगुणग्रहः । पंझरागायते नासामौक्तिकं तेऽधरत्विषा ॥ १४ ॥ १ 'रत्याप्तप्रियलाञ्छने कठिनतावासे रसालिङ्गिते प्रहादैकरसे क्रमादुपचिते भूभृकुरुत्वापहे। कोकस्पर्धिनि भोगभाजि जनितानङ्गे खलीनोन्मुखे भाति श्रीरमणावतारदशकं बाले भवत्याः स्तने ॥ जनितानङ्गे जनितं अनझं अगरहितं मौनादि येन तस्मिन् । इत्यनेन बौद्धा- चतारः सूचित.। २ 'वीर त्वद्रिपुरमणी परिधातुं पल्लवानि संस्पृश्य । न हरति वनभुवि निजकररुहरुचिखचितानि पाण्डुपत्रधिया।'
लक्ष्यलक्षणप्रकरणम् १ तद्गुण इति ॥ स्वगुणत्यागात् स्ववर्णपरिहारेण अन्यदीयगुण- ग्रहः परकीयवर्णग्रहणं तद्गुणः सः । परकीयगुणो यस्मिन्निति व्यु- त्पत्तेः । अत्र गुणशब्दो वर्णवाची । कोशस्तु प्रागुक्तः । उदाहरणम् । हे प्रिय, ते तव नासामौक्तिकं नासाभरणं मौक्तिकमिति मध्यमप- दलोपी समासः । अधरत्विपा अधरोष्ठकान्त्या पद्मरागायते कुरु- विन्दायते ! 'कर्तुः क्यङ्' इत्याचारे क्यड् प्रत्ययः । अत्र मौक्ति- कस्य शुक्लगुणत्यागेनाधरशोणवर्णग्रहणात् तद्गुणः । अत्र गृह्यमाण- गुणस्योत्कृष्टत्वमर्थसिद्धमिति नोक्तम् ।। १४० ॥ पूर्वरूपालंकारः। पुनः स्वगुणसंप्राप्तिः पूर्वरूपमुदाहृतम् । हरकण्ठांशुलिप्तोऽपि शेषस्त्वद्यशसा सितः ॥ १४१ ॥ पुनरिति ॥ पुनः स्वगुणसंप्राप्तिः स्वगुणस्य परेण तिरोहितस्य पुनः संप्राप्तिः पूर्वरूपम् । पूर्व प्राचीनं रूपं यस्मिन्निति व्युत्पत्तेः । उदाहृतमुदाहरणम् । हरकण्ठांशुलिप्तोऽपि हरकण्ठांशुभिर्नीलवण- वीरेति । हे वीर, त्वदरिका मिनी वनभुवि परिधानं कर्तु पल्लवानि करेण सस्पृश्य पाण्डुपत्रबुध्या न हरति न गृह्णाति । कीदृशानि । निजकररहाणां नवाना रुच्या श्वेतकान्या सचितानि व्याप्तानीत्यर्थः । १ 'विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या । रत्नैः पुनर्यत्र रुचा रुचं खामानिन्यिरे वंशकरीरनीलैः॥' विभिन्नेति । माघे रैवतकगिरिवर्णनमेतत् । गरुडाग्रजेनारुणेन विभिन्नवर्णा मिश्रित- वर्णा सूर्यस्य रथ्या अश्वा यत्र गिरी वंशाङ्कुरवन्नीले रत्नै परितः स्फुरन्त्या रुचा स्खा रुचं नीलद्युतिमानिन्थिरे आनीतवन्तः । रुचा विभिन्नवर्णा इति वान्वयः । 'द्वारं खगिभिरावृतं बहिरपि प्रस्विन्नगण्डैर्गजै- रन्तःकञ्चकिभिर्लसन्मणिधरैरध्यासिता भूमयः । आक्रान्तं महिषीभिरेव शयनं त्वद्विद्विषां मन्दिरे राजन्सैव चिरन्तनप्रणयिनी शून्येऽपि राज्यस्थितिः॥' द्वारमिति । हे राजन् , तव विद्विषां मन्दिरे शून्येऽपि चिरन्तन प्रणयो यस्याः सेव राज्यस्य स्थितिमर्यादास्तीति शेप । यतो द्वारं खझिभिर्गण्डकाख्यपशुभिरेव खड्गधारिभिरावृतं । बहिरपि भूमय मदाखिन्नगण्डैगजेरध्यासिताः। अन्त पुरभूमयः विलसन्मणिवारिभि. कक्षु किभिः सपैरेव सोविदल्लैरध्यासिताः शयनं तल्पं महि- षीभी राजवनिताभिरेव महिपत्रीभिराकान्तमित्यन्वयः । फुव. ७ कुवलयानन्दकारिकाः। . लिप्तोऽपि श्यामीकृतोऽपीत्यर्थः । शेषः फणिराजः त्वद्यशसा शुक्लेन पुनः सितो जातः । अमूर्तस्यापि यशसः सितत्वं कवयो वर्णयन्ति। तथाच वाग्भट्टः । 'अप्यदृश्यां सितां कीर्तिमकीर्ति च ततोऽन्यथा' इति । निवनीयादिति शेषः ।। १४१ ।। पूर्वावस्थानुवृत्तिश्च विकृते सति वस्तुनि । दीपे निर्वापितेऽप्यासीत्काञ्चीरत्नैर्महन्महः ॥ १४२ ॥ पूर्वेति ॥ वस्तुनि वर्ण्यमानपदार्थे विकृते विकारं प्राप्ते सति । विकारो द्विविधः । नाशो रूपान्तरापत्तिश्च, पूर्वावस्थानुवृत्तिः पूर्वा- वस्थाप्राप्तिश्च । चशब्देन पूर्वरूपमाकृष्यते । नृपसद्मनि दीपे निर्वा- पितेऽपि शमितेऽपि सुरतहियेति शेषः । काञ्चीरनै रशनामणिभिः महदधिकं महस्तेज आसीत् । अत्र दीपतेजोविकारेऽपि रत्नतेजसा सद्मनः पूर्वावस्थानुवृत्तिः विशेषालंकारे प्रकृतवस्तुनः स्थानान्तराव- स्थानवर्णनम् । इह तु वस्त्वन्तरेण तत्कार्यसिद्धिवर्णनमिति भेदः१४२ अतद्गुणालंकारः । संगतान्यगुणानङ्गीकारमाहुरतद्गुणम् । चिरं रागिणि मच्चित्ते निहितोऽपि न रज्यसे ॥ १४३ ॥ संगतेति ॥ संगतान्यगुणानङ्गीकारं संगतस्य मीलितस्यान्यस्य योगुणस्तस्यानङ्गीकारमग्रहणमतद्गुणं आहुः। तद्गुणविरुद्धत्वादित्यर्थः। उदाहरणम् । हे नाथ, चिरं चिरकालं रागिणि प्रेमयुक्त सिन्दूरादि- रागयुक्ते चेति श्लिष्टरूपकम् । मच्चित्ते मम हृदये निहितो निवेशि- तोऽपि न रज्यसे स्वयमेव रक्तो न भवसि । रोः कर्मकर्तरि १ 'गण्डाभोगे विहरति मदैः पिच्छिले दिग्गजानां वैरिस्त्रीणां नयनकमलेवानानि प्रमार्टि। यद्यप्येषा हिमकरकराद्वैतसौवस्तिकी ते कीर्तिर्दिक्षु स्फुरति तदपि श्रीनृसिंह क्षितीन्द्र ॥ गण्डेति । हे श्रीमनृसिंहाख्य भूपते, एषा तव कीर्तिः मदैः पिच्छिले पङ्किले दिग्गजानां गण्डप्रदेशे यद्यपि विहरति तथा वैरिस्त्रीणां नयनकमलेषु स्थितान्यञ्ज- नानि प्रमाष्टिं प्रोञ्छति तथापि दिक्षु हिमकरस्य चन्द्रस्य यत् किरणाद्वैतं तस्य सौवस्तिकी । खस्तीत्याहेत्यर्थे 'तदाहेति माशब्दादिभ्यष्ठग्वाच्यः' इत्यनेन ठक्प्रत्ययः। तत्सदृशीति यावत् । स्फुरति प्रकाशत इत्यर्थः ।
लक्ष्यलक्षणप्रकरणम् १ लट् । 'रज्यसि'इति पाठे रञ्जिर्दैवादिकोऽकर्मकः । अत्र रागिणि चेतसि निहितस्य रागाभाववर्णनमतद्गुणः। विशेषोक्तिसंकीर्णोऽयम् ॥१४२१ अनुगुणालंकारः। प्रासिद्धस्वगुणोत्कर्षोऽनुगुणः परसंनिधेः। नीलोत्पलानि दधते कटाक्षरतिनीलताम् ।। १४४॥ प्रागिति॥ परसंनिधेरन्यसांनिध्यात प्राक्सिद्धस्य पूर्वमेव स्वतः- सिद्धस्य स्वगुणस्योत्कर्षोऽनुगुणः । गुणमुपकारमनुगच्छतीत्यनुगुण इति व्युत्पत्तेः । उदाहरणम् । नीलोत्पलानि इन्दीवगणि कटाक्षः कटानि वक्राणि अक्षीणि अवलोकनानि कटाक्षाः वक्रप्रेक्षणानि तैः अतिनीलतां नेत्रमहसा नीलतमत्वं दधते । अत्र कर्णोत्पलानां पर- सांनिध्यात्स्वतःसिद्धगुणोत्कर्पो वर्णितः । समाध्यलंकारे च परसां- निध्याज्झटिति कार्योत्पत्तिरिति ततो भेदः ॥ १४४ ॥ मीलितालंकारः। मीलितं यदि सादृश्याझेद एव न लक्ष्यते । रसो नालक्षि लाक्षायाश्चरणे सहजारुणे ॥ १४५ ॥ मीलितमिति ॥ यदि सादृश्यावस्तुद्वयस्य भेदो द्वित्वमेव न लक्ष्यते तर्हि मीलितम् । नपुंसके भावे क्तः । उदाहरणम् । सह- जारुणे चरणे पादतले लाक्षाया रसो यावको नालक्षि भिन्नतया न ज्ञातः ॥ १४५ ॥ सामान्यालंकारः। सामान्यं यदि सादृश्याद्विशेषो नोपलक्ष्यते । पंझाकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम् ॥ १४६ ॥ १ 'कपिरपि च कापिशायनमदमत्तो वृश्चिकेन संदष्टः । अपिच पिशाचग्रस्तः किं ब्रूमो वैकृतं तस्य ।' अत्र कपित्वजात्या खत सिद्धवैकृतस्य मद्यसेवादिभिरुत्कर्ष. । २ 'लिजमशिष्यं लोकाश्रयत्वालिङ्गस्य' इति शेखरे। ३ 'मल्लिकामाल्यभारिण्यः सर्वाङ्गीणाईचन्दनाः। क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः॥' अत्रोदाहरणे चन्द्रिकाभिसारिकाणा धवलिमगुणसाम्या दानध्यवसाय । ४ 'रत्नस्तम्भेषु संक्रान्तप्रतिबिम्बशतैर्वृतः । लङ्केश्वरः सभामध्ये न ज्ञातो वालिसूनुना ॥' मीलितालंकारे एकेनापि परस्परभिन्न स्वरूपानवभासरूपं मीलनं क्रियते । सामा- न्यालंकारे तु भिन्नखरूपावभासेऽपि व्यावर्तकविशेषो नोपलक्ष्यत इति भेदः ।
कुवलयानन्दकारिकाः। .. सामान्यमिति ॥ यदि सादृश्याद्विशेपो भेदकधर्मविवेको नोपलक्ष्यते न ज्ञायते । द्वित्वातीतावपीति भावः । तर्हि सामान्य समानयोर्भावः सामान्यं इति व्युत्पत्तेः पद्माकरप्रविष्टानां तडागा- वगाहानाम् । यद्वा पद्मसमूहे प्रविष्टानाम् । ‘पद्माकरस्तडागः स्यात् इत्यमरः । सुभ्रुवां सुन्दरीणां मुखं नालक्षि । पद्मभेदे प्रतीयमाने- ऽपि हास्यादिभेदकधर्म विना मुखमेतदिति न ज्ञातम् ।। १४६ ॥ उन्मीलितविशेषको। भेदवैशिष्ट्ययोः स्फूर्तावुन्मीलितविशेषको । हिमाद्रिं त्वद्यशोमृष्टं सुराः शीतेन जानते । लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च ॥ १४७ ॥ भेदेति ॥ भेदवैशिष्ट्ययोः भिन्नत्वविशिष्टत्वयोः स्फूतौँ सत्या- मुन्मीलितविशेषको भवतः । भेदस्फूर्तावुन्मीलितं मीलितप्रतिद्वन्द्वी वैशिष्ट्यस्फूतौ च विशेषकः सामान्यप्रतिद्वन्द्वी । उदाहरणम् । उन्मीलितं यथा । हे राजन् , सुराः देवाः त्वद्यशोमृष्टं त्वद्यशसा धवलितम् । मृजेः शुद्ध्यर्थात्कर्मणि क्तः । मन्नमिति पाठे मरजेः कर्तरि क्तः । यशसि मग्नमिति सप्तमीतत्पुरुषः । हिमाद्रिं हिमाचलं शीतेन जाड्येन । 'शीतं गुणे तद्वदर्थाः' इत्यमरः । जानते शीतत्वादयं हिमाद्रिन तु यशोराशिरिति भेदेन विदन्तीत्यर्थः । लक्षितानीति ॥ विशेषको यथा । चन्द्रे उदिते सति पद्मानि मुखानि च लक्षितानि संकोचविशिष्टानि पद्मानि संकोचाभावविशिष्टानि च मुग्वानीति विविच्य ज्ञातानीत्यर्थः । पूर्वत्र भेदमात्रज्ञानमुत्तरत्र भेदज्ञानानन्तरं द्वयोर्लक्षणज्ञानमिति भेदः ॥ १४७ ॥ गूढोत्तरालंकार । किंचिदाकूतसहितं स्याद्गुढोत्तरमुत्तरम् । यत्रासौ वेतसी पान्थ तत्रेयं सुतरा सरित् ॥ १४८ ॥ १ सामान्यरीत्या विशेषास्फुरणे प्राप्ते कुतश्चित्कारणाद्विशेपस्फूतो तत्प्रतिद्वन्द्वी विशेषक.। २ 'इतः सरोजेषु सितेपुसंस्थितो न लक्ष्यते हंसगणः समन्ततः। कदाचिदायाति विभेदमप्यसौ पतद्विरेफप्रचलत्पतत्रकैः॥' इति काव्यविलासे । ३ 'काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः। वसन्तकाले संप्राप्ते काकः काकः पिकः पिकः ॥'
लक्ष्यलक्षणप्रकरणम् १ , किंचिदिति ॥ किंचिदाकूतसहितं किंचिच्च तदाकृतं चेति कर्मधारयः । तेन सहितं युक्तमुत्तरं गूढोत्तरं स्यात् स्पष्टम् । उदा- हरणम् । हे पान्थ पथिक, यत्रासो वेतसी तत्र इयं सरित् सुतरा सुखेन तीर्यतेऽसौ सुतरा । ईपहुरित्यादिना कर्मणि खल्प्रत्ययः । अत्र सरिदाधतार्थ पृच्छन्तं पान्थं प्रति वेतसीकुठे संकेतस्थानमा- वयोरित्यभिप्रायेणोत्तरमिति लक्षणानुगतिः । अत्र ध्वनित्वेऽप्यलं- कारत्वं न हीयते इति प्राञ्चः ॥ १४८ ।। चित्रोत्तरालंकार.। प्रश्नोत्तरान्तराभिन्नमुत्तरं चित्रमुत्तरम् । के दारपोषणरताः के खेटाः किं चलं वयः ॥ १४९ ॥ प्रति ।। प्रश्नोत्तरान्तराभिन्नं प्रश्नश्च उत्तरान्तरं चेति द्वन्द्वः । ताभ्यामभिन्नं यदुत्तरं तच्चित्रमुत्तरं चित्रोत्तरमित्यर्थः । यद्यप्यत्र वाक्येन संज्ञानवगमात्समासो युक्तस्तथापि सुरं द्विपन्नित्यादी क्वचिदसमासेऽपि संज्ञात्वमस्तीति न दोपः । तञ्च द्विविधं प्रश्नाभि- नमुत्तरान्तराभिन्नं चेति । आद्यं यथा । दारपोपणरताः पत्नीपोषण- तत्पराः के इति प्रश्नः। केदारपोपणरताःक्षेत्रपालनतत्परा इत्युत्तरम्। नञ्च प्रश्नाभिन्नं चित्रोत्तरम् । द्वितीयं यथा । खेटाः ग्वगाः के इत्येकः प्रश्नः । चलं लोलं किमिति द्वितीयः प्रश्नः । द्वयोरप्युत्तरं वयः पक्षिणः विशब्दस्य जसि रूपम् । किं च । वयो बाल्यादि । 'वयः पक्षिणि वाल्यादावपि' इत्यमरः । भेवयं श्लेषसंकीर्णम् ॥ १४९ ॥ सूक्ष्मालंकारः। सूक्ष्म पराशयाभिशेतरसाकूतचेष्टितम् । मंयि पश्यति सा केशैः सीमन्तमणिमावृणोत् ॥ १५० ॥ सूक्ष्ममिति ॥ पराशयाभिज्ञेतरसाकूतचेष्टितं पराशयाभिज्ञः परभाववेदी य इतरोऽन्यस्तस्य यत् साकूतचेष्टितं साभिप्रायक्रिया- 'ग्रामेऽस्मिन्प्रस्तरप्राये न किंचित्पान्थ विद्यते । पयोधरोन्नतिं दृष्ट्वा वस्तुमिच्छसि चेद्वस ।' आस्तरणादिकमर्थयमानं पान्थं प्रत्युक्तिरियम् । स्तनोन्नति दृष्ट्वा रन्तुमिच्छसि चेहम। १ 'संकेतकालमनसं विदं ज्ञात्वा विदग्धया । आसीन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥'
कुवलयानन्दकारिकाः करणं तत्सूक्ष्मम् । उदाहरणम् । सा कामिनी मयि पश्यति सति संकेतकालजिज्ञासया प्रेक्षमाणे सति केशैः सीमन्तमणि सीमन्तभू- पणरत्नं नभोमणिसमिति भावः । केशैः शिरोमहैरन्धकारमहशै- रिति भावः । आवृणोत् संवृणोतिस्म । सूर्ये तमसा संवृते त्वत्कार्य भविष्यतीत्यभिप्रायगर्भ चेष्टितं सहृदयमात्रसंवेद्यत्वात्सूक्ष्मम् । कश्चित्कराभ्यामुपगूढनालमित्यादौ परभावानभिज्ञत्वचेष्टितं तु नालं. कारः । नच तत्र चेष्ठितस्य साभिप्रायत्वम् । तत्र स्वमनोरथमात्र- जन्यत्वात् ।। १५० ॥ पिहितालंकारः। पिहितं परवृत्तान्तज्ञातुः साकूतचेष्टितम् । प्रिये गृहागते प्रातः कान्ता तल्पमकल्पयत् ॥ १५१॥ पिहितमिति ॥ परवृत्तान्तज्ञातुः परवार्तामर्मज्ञस्य साकूतचेष्टितं साभिप्रायं चेष्टनम् । मर्मज्ञानसूचकव्यापारकरणमित्यर्थः । पिहि- तम् । अपिपूर्वाद्दधाते वे क्तः । भागुरिमतेनापिशब्दस्याकारलोपः। उदाहरणम् । प्रातः प्रभाते प्रिये गृहागते सति कान्ता प्रिया तल्पं शय्याम् । 'तल्पं शय्याट्टदारेषु' इत्यमरः । अकल्पयदरचयत् । अत्र रात्रौ पुंश्चलीसंगतेन त्वया जारं कृतमिति च मया ज्ञातमिति शय्यारचनेन मर्मोद्घाटनं कृतं तच्च गूढत्वापिहितम् , सूक्ष्मालंकारे भाव्यर्थसाधनानुकूलं चेष्टितमिति नतो भेदः ॥ १५१ ॥ व्याजोक्त्यलंकारः। व्यांजोक्तिरन्यहेतूक्त्या यदाकारस्य गोपनम् । सखि पश्य गृहारामपरागैरस्मि धूसरा ॥१५२ ।। व्याजोक्तिरिति ॥ अन्यहेतूक्त्या हेत्वन्तरकथनेन । बाहुलकात् मयूरव्यंसकादिसूत्राप्रवृत्तिः । यत् आकारस्य गोपनमप्रकाशनं सा व्याजोक्तिः स्पष्टम । उदाहरणम् । हे सखि, त्वं पश्य अहं गृहाराम- १ नभोमणि. सूर्यः। २ 'वक्रस्पन्दिस्वेदविन्दुप्रबन्धैदृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे । पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ खगलेखां लिलेख॥' अत्र खेदानुमितं पुरुषायितं पुरुषोचितस्य खड्गलेखनेन प्रकाशितम् । ३ छेकापहृतेरस्याश्चायं विशेषः । यथा तस्यां वचनस्यान्यथानयनेनापह्नवः । अस्यामाकारस्य हेवन्तरवर्णनेन गोपनमिति । ।
लक्ष्यलक्षणप्रकरणम् १ । परागैः शवनवाटिकारजोभिः । 'परागः पुष्परजसि धूलिस्नानीययोर- पि' इति विश्वः । धूसरा मलिना अस्मि पश्य । वाक्यार्थः कर्म । 'प- श्यानवद्याङ्गि विभाति गङ्गा' इतिवत् । अत्र भूमौ जारोपभोगजन्य- धूसरस्य परागस्पर्शहेतुकत्वोक्त्या स्वमर्मगोपनं कृतम् ॥ १५२ ।। गूढोक्त्यलंकार। गूढोक्तिरन्योद्देश्यं चेद्यदन्यं प्रति कथ्यते । वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः ॥ १५३ ॥ शूढोक्तिरिति ॥ चेद्यदि अन्योद्देश्यं अन्यंप्रति वक्तुं योग्यं यत वाक्यं तत् अन्यं तद्भिन्नंप्रति कथ्यते तर्हि गूढोक्तिः । स्पष्टम । उदाहरणम् । हे वृप वलीवर्द, कामुक चेति शिष्टरूपकम । परक्षेत्रा- दन्यकेदारात् अन्यदारेभ्यश्चेति शिष्टरूपकम् । अपेहि दूरं गन्छ । क्षेत्ररक्षकः क्षेत्रपतिः आयाति । अत्र परदारासक्तं कामुकंप्रति वक्तव्यं वाक्यं परक्षेत्रप्रविष्टं वृपभमुद्दिश्योक्तं प्रस्तुताडरे श्लेपं विना- प्यन्यार्थप्रतीतिः । अत्र तु श्लेपमहिम्नेति ततो भेदः ॥ १५३ ।। विवृतोक्त्यलंकारः। विवृतोक्तिः श्लिष्टगुप्तं कविनाविष्कृतं यदि । वृषापेहि परक्षेत्रादिति वक्ति ससूचनम् ॥ १५४ ॥ विवृतोक्तिरिति ॥ यदि शिष्टगुप्तम् । श्लिष्टं च तद्गुप्तं चेति कर्मधारयः स्नातानुलिप्तवत् । वस्तु कविना आविष्कृतं वाक्ये नि- बद्धं भवति तर्हि विवृतोक्तिः । विवृतस्य प्रकाशितस्यार्थस्योक्ति- रिति व्युत्पत्तेः । उदाहरणम् । हे वृप बलीवर्द, हे पुरुषेति श्लिष्टरू- पकम 'परक्षेत्रात परावपनात् परत्रियाश्चेति श्लिष्टरूपकम् । अपेहि १ 'नाथो मे विपणि गतो न गणयत्येषा सपत्नी पुन- स्त्यक्त्वामामिह पुष्पिणीति गुरवः प्राप्तागृहाभ्यन्तरम् । शय्यामात्रसहायिनीं परिजनः श्रान्तो न मां सेवते स्वामिनागमलालनीय रजनी लक्ष्मीपते रक्ष माम् ॥ आगमेन वेदेन लालनीय स्तुत्य, पक्षे आगमेनागमनेन लालनीय खेलनीय । अत्र लक्ष्मीपतिनानो जारस्यागमनं प्रार्थयमानायास्तटस्थवञ्चनाय भगवन्तं प्रति आक्रोशस्य प्रत्यायनम् । २ 'दृष्ट्या केशव गोपरागहतया किंचिन्न दृष्टं मया तेनेह स्खलितास्मि नाथ पतितां किं नाम नालम्बसे एकस्त्वं विपमेषु खिन्नमनसां सर्वाबलानां गति- गौर्येवं गदितः सलेशमवताद्गोष्ठे हरिर्वश्चिरम् ॥
८० कुवलयानन्दकारिकाः। दूरं गच्छेति ससूचनं यथा तथा वक्ति । कचित्कश्चिदिति शेपः सूचनं चेत्थं, परक्षेत्रे सस्यानि चरतो बलीवर्दस्य शिक्षामिपेण पर- वनितामक्तमित्रस्योपदेशः क्रियते इति व्यङ्गयार्थस्य प्रकाशनात् मध्यमकाव्यमेतत् ॥ १५४ ॥ युक्त्यलंकारः । युक्तिः परातिसंधानं क्रियया मर्मगुप्तये । त्वामालिखन्ती दृष्ट्वान्यां धनुः पौष्पं करेऽलिखत् १५५ युक्तिरिति ॥ मर्मगुपये मर्मसदृशस्य गोप्यार्थस्य गुप्तये गोप- नाय क्रियया चेष्टया परातिसंधानं परस्य वञ्चनं युक्तिः । युज्यते- ऽसौ युक्तिरिति व्युत्पत्तेः । उदाहरणम् । हे सखे, सा त्वां आलि- खन्ती चित्रयन्ती अन्यां स्वसखीभिन्नां कांचिदृष्ट्वा करे चित्रस्य पाणौ पौप्पं धनुः अलिखत् । अत्र चित्रितस्य पुंसः पाणौ स्मरचि- ह्नपुष्पचापावलेखनक्रियया कामो मया चित्रित इति परवञ्चनं कृतं तेन वर्णनीयस्य कामसादृश्यं ध्वन्यते ॥ १५५ ॥ लोकोक्त्यलंकारः। लोकप्रवादानुकृतिर्लोकोक्तिरिति कथ्यते । सहस्व कतिचिन्मासान्मीलयित्वा विलोचने ॥१५६ ॥ लोकेति ॥ लोकप्रवादानुकृतिः लोके यः प्रवादः प्रसिद्धो वादः प्रवादः । 'कुगतिप्रादयः' इति समासः । तस्यानुकृतिरनुसरणम् । प्रवा- दानुसारिवाक्यमित्यर्थः । लोकोक्तिः लोकानामुक्तिः प्रवाद इति व्युत्पत्तेः । इति नाम्ना कथ्यते भण्यते । उदाहरणम् । विलोचने नेत्रे मीलयित्वा कतिचिन्मासान्सहस्व त्वरां मा कुरु । अत्र नेत्रनिमील- नपूर्वकसहनोक्तिर्लोकप्रवादानुसारिणी दीर्घकालं नेत्रनिमीलनं न संभवति । एवं झपं मारयित्वा तिष्ठतीत्यादावपि ज्ञेयम् ॥ १५६॥ छेकोक्त्यलंकारः । छेकोक्तियंत्र लोकोक्तेः स्यादर्थान्तरगर्भता । भुजङ्ग एव जानीते भुजङ्गचरणं सखे ॥ १५७ ॥ १ 'मलयमरुतां वाता याता विकासितमल्लिका परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि । घन घटय तं त्वं निःोहं य एव निवर्तने प्रभवति गवां किं न छिन्नं स एव धनंजयः॥' ।
लक्ष्यलक्षणप्रकरणम् १ छेकोक्तिरिति ॥ यत्र वाक्ये लोकोक्तेर्लोकप्रवादस्य अर्थान्तर- गर्भता भिन्नार्थयुक्तता स्यात्तत्र छेकोक्तिः । छेकस्य चतुरस्योक्तिरिति व्युत्पत्तेः । उदाहरणम् । हे सखे, भुजङ्गः सर्प एव भुजङ्गचरणं सर्पपादं जानीते । बहिरप्रकटत्वादन्यस्तु नेति लोकोक्तिः । तत्र च भुजं वक्रं गच्छतीति भुजङ्गः । खल एव भुजगचरणं खलचेष्टितं जानीते इत्यर्थान्तरयुक्तताप्यस्तीति लक्षणसंगतिः ॥ १५७ ॥ वक्रोक्त्यलंकार । वक्रोक्तिः श्लेषकाकुभ्यामपरार्थप्रकल्पनम् । भुञ्च मानं दिनं प्राप्तं नेह नन्दी हरान्तिके ॥ १५८ ॥ वक्रोक्तिरिति ॥ श्लेषकाकुभ्यां शेपेण काका चेत्यर्थः । अने- कलक्ष्मणां युगपद्बुद्धौ निवेशनात् । साहित्यसंभवेन द्वन्द्वसमायो युक्त एवेत्युक्तम् । अपरार्थप्रकल्पनं अपरस्परविवक्षितभिन्नार्थस्य प्रकल्पनं संपादनं वक्रोक्तिः । वक्रस्य वक्रा वा उक्तिरिति व्युत्पत्तेः । उदाहरणम् । श्वेपवक्रोक्तिर्यथा हे प्रिये, मानं मुञ्च दिनं प्राप्तं प्रात:- १ 'नाथ मयूरो नृत्यति तुरगाननवक्षसः कथं नृत्यम् । नहिन हि तत्र कलापी इह सुखलापी प्रिये कोऽस्ति ॥' इति वाग्भट्टालंकारे। 'अहो केनेडशी बुद्धिरुणा तव निर्मिता। त्रिगुणा श्रूयते वुद्धिन तु दारुमयी क्वचित् ॥ 'भवित्री रम्भोरु त्रिदशवदनम्लानिरधुना स ते रामः स्थाता न युधि पुरतो लक्ष्मणसखः । इयं यास्यत्युच्चैर्विपदमधुना वानरचमू- लधिष्ठेदं पाठाक्षरपरविलोपं पठ पुनः॥' मर्वमिदं शब्द लेषमूलाया वक्रोक्तेरुदाहरणम् । 'अङ्गुल्या कः कपाटं प्रहरति कुटिले माधवः किं वसन्तो नो चक्री किं कुलालो नहि धरणिधरः किं द्विजिह्वः फणीन्द्रः। नाहं घोराहिमर्दी किमसि खगपति! हरिः किं कपीन्द्र इत्थं राधाविवादप्रतिपदवचनः पातु वः पद्मनाभः ॥' 'भिक्षार्थी व प्रयातः सुतनु वलिमखे ताण्डवं वाद्य भद्रे मन्ये वृन्दावनान्ते व नु स मृगशिशु व जाने वराहम् । वाले कच्चिन्न दृष्टो जरठवृषपतिौंप एवात्र वेत्ता लीलासंलाप इत्थं जलनिधिहिमवत्कन्ययोस्त्रायतां नः॥'
कुवलयानन्दकारिकाः। कालो जात इति पुरुपस्योक्ती स्त्रिया इहात्र स्थले नन्दी न नन्दिर श्वरो न । 'नन्दिनौ नन्दिकेश्वरौं' इत्यमरः । किंतु हरान्तिके शिव समीपे सोऽस्तीति पेणार्थान्तरं कल्पितं प्राप्त हस्तगतं नन्दिनं र मुञ्चति मभङ्गः श्लेपः ॥ १५८ ।। काकुवक्रोक्तिर्यथा- असमालोच्य कोपस्ते नोचितोऽयमितीरिता । नवोचितोऽयमिति तं ताडयामास मालया ॥ १५९॥ असमालोच्येति ॥ हे प्रिये, ते तव असमालोच्य अविचा अयं कोपो नोचितः न युक्त इति कान्तेनेरिता प्रार्थिता काचित् अ कोपो नैवोचित इति काका विरुद्धार्थमुक्त्वा तं मालया माल्येन 'माला माल्यं सौमनस्यम्' इत्यमरः । ताडयामास रोपचिह्नमेतत् विपरीतार्थसंपादकः प्लुतोच्चारादिः शब्दविकारः काकुः । अत्र नका रैवकारयोः संधौ प्लुनोचारो विपरीतार्थद्योतकः । 'काकु: त्रिय विकारो यः शोकभीत्यादिभिर्वनेः' इत्यमरः । श्लेपवक्रोक्तिः शास्त्र सिद्धा काकुवक्रोक्तिस्त्वैच्छिकीति विशेपः ॥ १५९ ॥ स्वभावोत्यलंकारः। स्वभावोक्तिः स्वभावस्य जात्यादिस्थस्य वर्णनम् । कुरङ्गैरुत्तरङ्गाक्षैः स्तब्धकर्णैरुदीक्षितम् ॥ १६०॥ स्वभावोक्तिरिति । जात्यादिस्थस्य जातिगुणादिनियतस्य खभावस्य वर्णनं स्वभावोक्तिः स्पष्टम् । उदाहरणम् । उत्तरङ्गाः उत्तरङ्गाण्यधिकतरङ्गयुक्तान्यक्षीणि येषां तैः स्तव्धकर्णैः स्तब्धा जडीभूताः कर्णा येपां तैश्च कुरङ्गमगैः उदीक्षितं चञ्चलतया अ- धिकं विलोकितम् । नपुंसके भावे क्तः । मृगजातिस्थः स्वभावोऽयं तदवलोकनक्रियास्वभावो वा आदिशब्दाद्वयोवस्थाविकारादिस्वभावा १ 'आरूढक्षितिपालभालविगलत्स्वेदाम्बुसेकोद्धता मेरीझांकृतिचापटंकृतिचमत्कारोल्लसन्मानसाः। क्षुभ्यत्क्षोणितलं स्फुरत्खुरपुटं चञ्चञ्चलत्केसरं मन्दभ्रान्तविलोचनं प्रतिदिशं नृत्यन्ति वाजिवजाः॥' अत्र जलसेकेन वाजिनामौद्धत्यं स्वभाव एव नर्तनकाले चलत्केसरादिकमपि खभावः स चात्र वर्णित इति भवति खभावोक्तिरलंकार इति काव्यविलासे ।
लक्ष्यलक्षणप्रकरणम् १ । उन्नेयाः । प्राचां मते तु जातेरेव स्वभावोक्तिः । अतएव ‘म्वभावो- क्तिरमौ जातिः' इति वाग्भट्टेनास्या जातिरिति नामान्तरमुक्तम् १६० भाविकालकारः। भाविकं भूतभाव्यर्थसाक्षात्कारस्य वर्णनम् । अहं विलोकोऽद्यापि युध्यन्तेऽत्र सुरासुराः॥१६१ ।। भाविकमिति ॥ भूतभाव्यर्थमाक्षात्कारम्य भूतभाविनोरर्थयोः क्वचिद्भुतस्य कचिद्भाविनोऽर्थस्य यः साक्षात्कारोऽनुभवस्तस्य वर्णनं भाविकम् । भावाय साक्षात्काराय प्रभवतीति भाविकमिति व्युत्पत्तेः । उदाहरणम् । अत्र सुरासुराः सुरासुरविरोधस्य राज्यहेतुकत्वादाखु- बिटालादिवत् स्वाभाविकत्वाभावादेकवद्भावो न । युध्यन्ते इत्यह- मद्यापि विलोकये पश्यामि । भूतार्थसाक्षात्कारोऽयम । एवं भावि- नोऽप्युदाहरणमूह्यम् ॥ १६१ ॥ उदात्तालंकारः । उदात्तमृद्धिश्चरितं श्लाघ्यं चान्योपलक्षणम् । सानौ यस्याभवद्युद्धं तर्जटिकिरीटिनोः ॥ १६२ ॥ उदात्तमिति ॥ ऋद्धिः संपत्तिः शाध्यं स्तुत्यं चरितमवदातं च । 'अवदानं महत्कर्म' इत्यमरः। अन्योपलक्षणं अन्यस्य उपल- क्षणं श्लाध्यताबोधकं सत् उदात्तम् । उत्कर्पणादीयते गृह्यतेस्मेत्युदा- नम् । भावे कर्मणि क्तः । श्लाव्यशब्दस्य ऋद्धिविशेषणत्वे लिङ्गवि- परिणामो बोध्यः । उदाहरणम् । यस्य हिमाद्रेः सानौ शिखरे तत्प्र- सिद्धं धूर्जटिकिरीटिनोः धुरि अग्रे जटा यस्य धूर्जटिः शिवः । पृषो. दरादित्वात्साधुः। स च प्रशस्तं किरीटमिन्द्रदत्तमस्यास्तीति किरीटी धनंजयः स च तयोर्युद्धमभूत् । अत्र श्लाघ्यचरितं हिमाचललाध्य- ताबोधकमिति विलोमक्रमेणोदाहरणम् ॥ १६२ ।। ऋद्धिर्यथा--- रत्नस्तम्भेषु संक्रान्तैः प्रतिबिम्बशतैर्वृतः । ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ॥ १६३ ॥ रत्नस्तम्भेप्विति ॥ रत्नस्तम्भेपु रत्नमयस्तम्भेषु संक्रान्तः प्रविष्टैः प्रतिबिम्बानां शनैः समूहैः । बहुभिः प्रतिविम्बैरित्यर्थः । संख्यानु- पयोगाच्छब्दस्य बहुत्वे पर्यवसानम् । उक्तंच वेदनिघण्टौ 'शतं स- ८४ कुवलयानन्दकारिकाः। हस्रमिति बहोः' इति । वृतः परिवारितो लंकेश्वरो रावणः आञ्जनेयेन अञ्जनाया अपत्येन हनुमता तत्त्वतः परमार्थतः कृच्छ्रात् बातः । ल्यब्लोपे पञ्चमी । कृच्छं प्राप्य ज्ञात इत्यर्थः। अत्र साध्या संपत्तिः पौ- लम्त्यस्य महत्त्वं सूचयति । अत्र संबन्धातिशयोक्तिरप्यस्तीत्याह १६३ अत्युक्त्यलकारः। अत्युक्तिरद्भुतातथ्यशौर्यौदार्यादिवर्णनम् । त्वयि दातरि राजेन्द्र याचकाः कल्पशाखिनः ॥१६४॥ अत्युक्तिरिति ।। अद्भुतं आश्चर्यभूनं अतथ्यं मिथ्याभूतं यच्छौ- यौदार्यादिवर्णनं तदत्युक्तिः । उदाहरणम् । हे राजेन्द्र, त्वयि दातरि सति याचकाः कल्पशाखिनो भवन्ति । अत्र राज्ञः कल्पशाखितु- ल्यत्वेनाश्चर्य याचकानां तु तथात्वे चित्रमेवेत्यत्युक्तिः । संबन्धाति- शयोक्तेरतथ्यत्वमात्रं विशेषः । अतथ्यस्याप्यभिधानमद्भुतत्वेन चम- त्कारकारि । कचित्तु कल्पशाखिनोऽपि याचका भवन्तीत्यन्वयं म- न्यन्ते । कल्पद्रुमाणामपि याचकत्वे कैमुतिकन्यायेन सर्वेषां याच- कत्वमर्थसिद्धमिति दानात्युक्तिः ॥ १६४ ॥ निरुक्त्यलंकारः। निरुक्तियोगतो नाम्नामन्यार्थत्वप्रकल्पनम् । ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान् ॥ १६५ ॥ निरुक्तिरिति ॥ नाम्नामभिधानानां योगतो व्युत्पत्त्या अन्या- र्थत्वप्रकल्पनं भिन्नार्थपरतया योजनं निरुक्तिः । निश्चित्योक्तिः निरु- क्तिरिति व्युत्पत्तेः । उदाहरणम् । हे चन्द्र, ईदृशैविरहि दुःखसहै- श्वरितैः भवान् दोपाकर इति सत्यं जाने । अत्र दोपेति रात्रिवा- चकमव्ययम् । दोषा करोतीति दोपाकर इति प्रसिद्धोऽर्थः । दोषा- णामाकर इति तु तद्भिन्नः कल्पितोऽर्थ इति लक्षणानुगमः ।। १६५।। प्रतिषेधालंकार । प्रतिषेधः प्रसिद्धस्य निषेधस्यानुकीर्तनम् । न द्यूतमेतत्कितव क्रीडनं निशितैः शरैः ॥ १६६ ॥ प्रतिषेध इति ॥ प्रसिद्धस्य अनुक्तसिद्धस्य निषेधस्यानुकीर्तनं प्रतिषेधः । स्पष्टम् । उदाहरणम् । हे कितव हे द्यूतकार हे शकुने, एतड्यूतं न । किंतु निशितैः शरैः क्रीडनं खेलनम् । अत्र युद्धस्य लक्ष्यलक्षणप्रकरणम् १ ८५ द्यूतत्वाभाव उक्तिं विनापि प्रसिद्धः तस्य पुनर्निषेधेन तव द्यूतमात्रे कौशल्यमस्ति न तु युद्धे इति ध्वनयति ।। १६६ ॥ विध्यलंकार। सिद्धस्यैव विधानं यत्तदाहुर्विध्यलंकृतिम् । पञ्चमोदश्चने काले कोकिलः कोकिलो भवेत् ॥ १६७ ॥ सिद्धस्येति ॥ यत् सिद्धस्य उक्तिं विनापि ज्ञातस्यैव विधानं ज्ञापनं तत विध्यलंकृति विधिसंज्ञामलंकृतिमाहुः । प्रकरणगम्यत्वे- ऽप्यलंकृतिशब्दादग्निहोत्रं जुहोतीत्यादावपूर्वविधैर्नालंकारत्वम् । उदा- हरणम् । पञ्चमोदञ्चने पञ्चमस्वरप्रकटने काले वसन्तरूपे कोकिला पिकः कोकिलो मनोहरो भवेत् । अत्र स्वतःसिद्धस्यैव कोकिल- त्वस्य वसन्ते पुनर्विधानं मनोहरत्वबोधनाय ॥ १६७ ॥ हेत्वलकारः। हेतोहेतुमता साधं वर्णनं हेतुरुच्यते । असावुदेति शीतांशुमान च्छेदाय सुभ्रुवाम् ॥ १६८ ॥ हेतोरिति ॥ हेतोः का" कस्य ज्ञापकस्य वा हेतुमता हेतुसाध्येन सहै कस्मिन्वाक्ये वर्णनं तुर्नामालंकार उच्यते । कारणवाचको हेतुशब्दोऽलंकारे लाक्षणिकः तद्वर्णनप्रधानत्वात् । उदाहरणम् । अमौ शीतांशुश्चन्द्रः सुभ्रुवां सुन्दरीणां सुष्टु भ्रुवो यासामिति प्रशंसनेऽपि लक्षणया सर्वाङ्गप्रशंसा बोध्या । मानच्छेदाय मान- च्छेदं कर्तुमेवेत्यर्थः । 'तुमर्थाच्च भाववचनात्' इति चतुर्थी । उदेति। अत्र चन्द्रोदयो हेतुः मानच्छेदश्च हेतुमान तयोरेकवाक्ये निवेशनं फलान्तरनिषेधार्थम् । न चात्र लुप्तोत्प्रेक्षा शङ्ख्या एवकाराध्याहारात्। न चायं काव्यलिङ्गेऽन्तर्भवति समर्थ्यसमर्थकभावाभावात् । कारक- हेतोरिदमुदाहरणं । ज्ञापकहेतोस्तु कुमुदानि विकसन्ति कामिनीः सजयितुमित्यर्थः ।। १६८ ।। हेत्वलकारप्रकारान्तरम् । हेतुहेतुमतोरैक्यं हेतुं केचित्प्रचक्षते । लक्ष्मीविलासा विदुषां कटाक्षा वेङ्कटप्रभोः ॥ १६९ ॥ हेत्विति ॥ हेतुहेतुमतोः साधनसाध्ययोरैक्यमभेदं केचिदाल- कारिकाः हेतुं हेत्वलंकारं प्रचक्षते प्राहुः । उदाहरणम् । वेङ्कटप्रभोः करिगिरीश्वरस्य कटाक्षाः कृपापागावलोकाः विदुपां पण्डितानां भ्रमा- कुव० ८
८६
कुवलयानन्दकारिकाः ।
लक्ष्मीविलासाः संपत्प्रसारा एव । अत्र कटाक्षाणां हेतूनां विला-
सानां हेतुमतां चाभिन्न निर्देशन लक्षणसंगतिः । अभेदोक्तिश्च कार्य-
शैठ्यप्रत्यायनाय । न चायं रूपकेऽन्तर्भवति, ततोऽपि विच्छित्तिवि-
शेपदावात् । नाप्यतिशयोक्तौ, तद्भेदेभ्यो वैलक्षण्यसंभवात् । नापि
परिणामे, क्रियाया अतिवन्धनादित्यलमतिविस्तरेण ।। १६९ ॥
इत्थं शतमलंकारा लक्षयित्वा निदर्शिताः ।
प्राचामाधुनिकानां च मतान्यालोच्य सर्वशः॥ १७ ॥
इत्थमिति ॥ प्रकर्येण कालाधिक्येनाञ्चन्ति गच्छन्तिस्मेति
प्राञ्चः पूर्वकालवर्तिनस्तेपाम् । पुरातनानामित्यर्थः । आधुनिकानां
अधुना भवानां पण्डितानां च सर्वशः सर्वाणि मतान्यालोच्य शतं
शनसंख्याका अलंकाराः इत्थमनेन प्रकारेण लक्षयित्वा निरूप्य
निदर्शिताः । उदाहता इत्यर्थः । नन्वेतावतः प्रयत्नस्य फलमनुद्दिश्य
प्रवर्तितः कथं घटते इति चेत्सत्यम । एकः शब्दः सम्यक् ज्ञातः
सुप्रयुक्तः स्वर्गलोके कामधुग्भवति' इति भाप्यकारोक्तं शब्दप्रयोगस्य
पारलौकिक फलमस्त्येव । किंच 'काव्यं यशसेऽर्थकृते' इत्यादि प्रा-
माणिकपण्डितोक्तं राजप्रसादादिकमैहिकमपीति । एवं श्रूयते-अप्प-
ग्यदीक्षितो नाम द्राविडः पण्डितो रङ्गराजसूनुः । स पितुराज्ञया
वेङ्कटाद्रिराजमुपजगाम । स च राज्ञाभ्यर्थितश्चन्द्रालोकं नाम ग्रन्थं
चकार । राज्ञा वर्षासनं दत्त्वा प्रहितोऽलंकारविवेचनाय प्रार्थित-
श्वेमाः कारिकाः कुवलयानन्दं च कृत्वा वेङ्कटेश प्रसादयामासति ।
धरणीधरगुरुचरणशरणीकरणात्कुवलयानन्दे ।
स्फूर्तिर्मम सानुबन्धा इति सूचयितुं प्रयत्नोऽयम् ॥ १७० ॥
अथोदेशमात्रेणावशिष्टान्पञ्चदशालंकारानाह । यद्यपि तेषां ल-
क्ष्यलक्षणयोरपि रचनाहत्वमस्ति तथापि शास्त्रान्तरसाकासत्वेन
बालैर्दुर्घहत्वादुद्देशमात्रेणाभिधानं युक्तम् । तथाहि-
चत्वारो रसवत् प्रेय ऊर्जस्वी च समाहितम् ।
भावस्य चोदयः संधिः शवलत्वमिति त्रयः॥ १७१ ॥
चत्वार इति ॥ एवं क्रमादन्यानपि पञ्चदशालंकारान् बुधाः
विदुः लक्षणया कथयन्तीत्यर्थः । ते च रसवत् , प्रेय, ऊर्जस्वी,
समाहितमिति चत्वारः । किंच भावस्य उद्यः भावयोः संधिः
भावानां शबलत्वं चेति त्रयः प्रत्यक्षप्रमुखाः प्रत्यक्षादयः॥ १७१॥
उद्दिष्टालंकारप्रकरणम् २ अष्टौ प्रमाणालंकाराः प्रत्यक्षप्रमुखाः क्रमात् । एवं पञ्चदशाप्यन्यानलंकारान्विदुर्बुधाः॥१७२ ॥ इति श्रीमदद्वैतप्रतिष्ठापनधुरीणरङ्गराजाध्वरीन्द्र- सूनोरप्पय्यदीक्षितस्य कृतौ कुवलयानन्दे मूलकारिकाः समाप्ताः॥ अष्टौ प्रमाणालंकाराः प्रमाणान्येवालंकारा इति ।। २७२ ।। इति श्रीपदवाक्यप्रमाणपारावारीणरामजीभट्टात्मजाशाधरभट्टविर- चितायां कुवलयानन्दकारिकाव्याख्यायामलंकारदीपिका- समाख्यायां प्रथमं लक्ष्यलक्षणप्रकरणं समाप्तम् ।। उद्दिष्टालंकारप्रकरणम् २ एतेषां लक्षणं वक्ष्ये संक्षेपालक्ष्यसंयुतम् । वालानामुपकाराय संसृष्टेः संकरस्य च ॥१॥ एतेषामिति ॥ स्पष्टार्थः ॥ १ ॥ रसवदलकार। अन्याङ्गत्वे रसस्य स्याद्रसवन्नाम तद्यथा । अहो स्यूतशरीराधः शंभुर्देव्या वशीकृतः ॥ २ ॥ अन्येति ॥ रसस्य शृङ्गारादेः अन्याङ्गत्वेऽन्यस्य सजातीयस्य विजातीयस्य वा अङ्गत्वे उपकारकत्वे सति रसवत् रसोऽस्मिन्नस्तीति रसवत् नाम स्यात् । सामान्ये नपुंसकत्वम् । तद्यथा । यथाशब्दो निदर्शने । उदाहरणम् । अहो इत्याश्चर्ये । देव्या वशीकृतः शंभुः स्यूतशरीरार्धः स्पर्शसुखलोभात् संश्लिष्टशरीरा? जातः । शंभो- रप्येवं काममोहे तदन्येपां का गतिरित्याश्चर्यम् । अत्राद्भुतरसो मुख्यः शृङ्गारस्तु तस्याङ्गमिति रमवदलंकारः । रसम्वरूपमुक्तं काव्यप्रकाशे-'कारणान्यथ कार्याणि सहकारीणि यानि च रत्यादिस्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥ १॥' विभावा अनुभावाश्च कथं ते व्यभिचारिणः । व्यक्तः स तैर्विभावाद्यैः स्थायि- भावो रसः स्मृतः॥२॥ स्थायिभावश्च नवविधः। स यथा- रति- सिश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्साविस्मयशमाः स्थायि- भावाः प्रकीर्तिताः॥३॥ इति स्थायिभावश्च रसत्वं प्राप्य नवविधो ।
कुवलयानन्दकारिकाः।
भवति । स यथा--'शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीम-
त्साद्भुतशान्ताच्या नव नाट्ये रसाः स्मृताः' ॥ ४ ॥ इति । एषां
लक्षणादिविस्तरस्तु रसविलासे द्रष्टव्यः ॥ २ ॥
प्रेयोलकारः।
भावस्य चापराङ्गत्वे प्रेयोऽलंकार ईरितः।
धिक् तारुण्यमिदं यत्र प्रिया देवेन दूरिता ॥३॥
भावस्येति ॥ भावस्य वक्ष्यमाणस्वरूपस्य अपराङ्गत्वे सजाती-
यस्य विजातीयस्य वोपसर्जनत्वे प्रेयोऽलंकारः । अतिशयेन प्रिय-
मिति प्रेय इति व्युत्पत्तेः । ईरित उक्तः । उदाहरणम् । इदं मम
तारुण्यं यौवनं धिक । धिग्योगे द्वितीया । यत्र यस्मिन् प्रिया कान्ता
देवेन दुरदृष्टेन दूरिता दूरीकृता । अत्र निर्वेदाख्यो भावो विप्रलम्भश-
ङ्गारस्याङ्गमिति प्रेयोऽलंकारः । भावस्वरूपमुक्तं काव्यप्रकाशे---- रति-
देवादिविषया व्यभिचारितयाञ्चितः । भावः प्रोक्तस्तदाभासास्त्वनौ-
चित्यप्रवर्तिताः ॥ १॥ इति । व्यभिचारी च त्रयस्त्रिशद्भेदः । स
यथा-'निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः ॥ आलस्यं चैव
दैन्यं च चिन्ता मोहः स्मृतिधृतिः ॥ ब्रीडा चपलता हर्ष आवेगो
जडता तथा । गर्यो विषाद औत्सुक्यं निद्रापस्मार एव च । स्वप्नो
विवोधोऽमर्षश्चाप्यवहित्थमथोग्रता । मतियाधिस्तथोन्मादस्तथा मर-
णमेव च ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंश-
दमी भावाः समाख्यातास्तु नामतः ॥ इति । विस्तरन्तु काव्यग्र-
दीपे रसविलासे च द्रष्टव्यः ॥ ३ ॥
ऊर्जस्व्यलंकार.।
आभासस्याङ्गता यत्र तत्रोर्जस्वि मतं बुधैः ।
परदारस्तनस्पशी दिशः पश्यति कम्पितः॥४॥
आभासस्येति ॥ आभासस्य भावाभासस्य रसाभासस्य वा
यत्राङ्गता गौणता भवति बुधैस्तत्रोर्जस्वि मतम् । ऊर्जः शोभा
पाटवमस्यास्तीत्यूर्जस्वीति निरुक्तिः । उदाहरणम् । परदारस्तनस्पर्शी
कश्चन कामुकः कम्पितः संजातकम्पः सन् दिशः पश्यति । कश्चिन्म
पश्येदिति भयादिति भावः । अत्र शृङ्गाराभासो भयानकरसस्याङ्ग
अनौचित्येन प्रवृत्तः आभासलक्षणं तूक्तं प्राक् ॥ ४ ॥
उद्दिष्टालंकारप्रकरणम् २ समाहितालकारः। समाहितं तद्भावस्य शान्तेयंत्र पराङ्गता। मुक्तमाना स्वयं साभूत्तर्जिता धनगर्जितैः ॥ ५ ॥ समाहितमिति ॥ यत्र भासस्य शान्तेर्विरतेः पराङ्गता रसाद्य- ङ्गत्वं तत्समाहितं स्पष्टम् । उदाहरणम् । सा कान्ता घनगर्जितैस्त- र्जिता भीपिता इवेति गम्योत्प्रेक्षा । सती स्वयं मुक्तमाना स्वयमेव त्यक्तामा अभूत् । अमर्पकृतां वक्रतां हित्वा स्वयमेवाश्लिष्टवती- त्यर्थः । अत्रामाख्यभावस्य शान्तिः शृङ्गारस्याङ्गम् । अत्र प्रहर्ष- णालंकारोऽप्यस्ति ॥ ५ ॥ भावोदयालंकारः । भावोत्पत्तेः पराङ्गत्वे भावोदय इति स्मृतः। सा प्रियं वीक्ष्य नम्रास्या नाशकद्वतुमीप्सितम् ॥ ६॥ भावेति ॥ भावोत्पत्तेः पराङ्गत्वे सति भावोदय इति प्रसिद्धो- ऽलंकारः स्मृतः । बुधैर्गदित इत्यर्थः । उदाहरणम् । सा कान्ता प्रियं वीक्ष्य नम्रास्या लजयाऽधोमुखी सती ईप्सितमर्थं वक्तुं नाश- कत । अत्र ब्रीडाख्यभावस्योत्पत्तिः शृङ्गारस्याङ्गम् । नायिका तु लज्जाप्रधानत्वान्मुग्धा ॥ ६ ॥ भावसध्यलंकार । पराङ्गभावयोर्योगो भावसंधिरलंकृतिः । यान्ती वेलां प्रतीक्षन्ती विलम्ब्य प्रियमाप सा ॥ ७ ॥ पराङ्गामिति ॥ पराङ्गं रमाद्यङ्गभूतो यो द्वयो वयोर्योगः स भावसंधिर्नामालंकृतिः स्पष्टम् ॥ उदाहरणम् । सा नायिका यान्ती सती वेलां प्रतीक्षन्ती सती च विलम्ब्य प्रियं आप । अत्रौत्सुक्यस्य शङ्कायाश्च संधिः शृङ्गारस्याङ्गम् । 'अत्यारूढो हि नारीणामकालज्ञो मनोभवः' इति न्यायादौत्सुक्येन यान्त्यपि वेलामन्तरेण केलिगृहो प्रियसमागमो न स्यादिति मत्वा विलम्ब्य यातेति भावः ॥ ७ ॥ भावशबलालकारः। तद्भावशबलत्वं स्याद्बहूनां चेत्पराङ्गता । धिमां भोगरतं सन्तः किं वक्ष्यन्ति त्यजामि तान् ॥८॥ तदिति ॥ चेद्यदि बहूनां भावानां पराङ्गता स्यात्तर्हि भावशब-
कुवलयानन्दकारिकाः।
लत्वं नामालंकारः । 'चित्रं किर्मीरकल्मापशवलैताश्च कर्बुरे' इत्यमरः।
उदाहरणम । भोगरतं विषयासक्तं मां धिक् । विगिति निन्दायां
तद्योगे द्वितीया । निन्द्योऽहमम्मीत्यर्थः । सन्तः किं वक्ष्यन्ति सद-
सद्वेति न वेप्रीत्यर्थः । तस्माद्दुष्टान् तान् भोगान् त्यजामि । अत्र
विरक्तवाक्ये निर्वेदशङ्कामतीनां शान्तरसस्याङ्गत्वम् ॥ ८ ॥
प्रत्यक्षालंकार. ।
प्रत्यक्षमिन्द्रियज्ञानवर्णनं षड्विधं तु तत् ।
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च रसित्वाघ्राय यां जनः ।
मोदते धृतपक्वां तो शष्कुलीमर्पयामि ते ॥ ९ ॥
प्रत्यक्षमिति ॥ इन्द्रियज्ञानवर्णनं इन्द्रियजन्यज्ञानस्य वर्णन
प्रत्यक्षम । अक्ष्णः समीपे प्रत्यक्षमिति सामीप्यार्थेऽव्ययीभावः ।
अक्षाणां समीपे इति वा । तञ्च पडिधम् । श्रौत्रत्वाचाक्षुपरासन-
प्राणजसानसभेदात् । उदाहरणम् । जनः यां पचनकाले शब्दाय-
मानां श्रोत्रेण श्रुत्वा ततः त्वचा स्पृष्ट्वा चक्षुपा दृष्ट्वा रसनेन रसित्वा
नासया चाघ्राय मनसा मोदते सुखितोऽस्मीति वेत्ति । हे देव,
धृवपक्कां तां शकुली प्रसिद्धा ते तुभ्यं अर्पयामि । अनुक्रमेण षड्डिधस्या-
पीन्द्रियज्ञानस्य वर्णनमिति प्रत्यक्षालंकारः ।। षट्पदी गाथेयम् ॥ ९॥
प्रतीत्यलंकारः ।
प्रतीतिर्लिङ्गिनो लिङ्गादनुमानमदूपितात् ।
निःश्वासात्सोमणो ज्ञातं हृदि कामाग्निरस्ति ते ॥ १० ॥
प्रतीतिरिति ॥ अदूपितात् व्यभिचारादिदोपरहितात् लिङ्गाद-
साधारणचिह्नात् लिङ्गिनो लिङ्गवतोऽर्थस्य प्रतीतिरनुमानं स्पष्टम् ।
उदाहरणम् । हे सखे, ते तव हृदि कामाग्निरस्तीति सोमणो धर्म-
सहितान्निःश्वासाद्धेतोातम् । अत्र कामाग्निलिङ्गिनः सबाष्पनिःश्वा-
सरूपलिङ्गात् प्रतीतिरुक्तेत्यनुमानम् । न चात्र लिङ्गं दोपवदिति
शयम् । विलक्षणस्य लिङ्गिनो विलक्षणलिङ्गौचित्यात् । यथा तप्त-
तोयस्थवढेरुष्मण इति दिक् । एतत्प्रपञ्चस्तु न्यायशास्त्रे द्रष्टव्यः॥१०॥
उपमानालंकारः।
सादृश्यावस्तुनो भानमुपमान प्रकीर्तितम् ।
हिङ्गुलं पद्मरागाभं तद्वर्णा हिङ्गुलाम्बिका ॥ ११ ॥
उद्दिष्टालंकारप्रकरणम् २
९१
साश्यादिति ॥ सादृश्याद्वर्ण्यमानाद्वस्तुनः प्रकृतस्य इदमेव
तन्नामकमिति भानं प्रतीतिरुपमानं प्रकीर्तितं स्पष्टम् । उदाहरणम ।
पद्मरागाभं पद्मस्य कोकनदस्य राग इव रागो यस्येति पद्मरागो
माणिक्यं तस्याभा इव आभा यस्येति तथोक्तं रञ्जनं द्रव्यं हिङ्गुल-
संज्ञं तद्वर्णा तत्तुल्यरागा अम्बिका देवी हिङ्गुलेल्युक्ता । अत्रोपमा-
नत्रयसद्भावान्संसृष्टिः । हिङ्गुलवर्णधृतिकारणं पद्मपुराणस्थे आका-
शखण्डे द्रष्टव्यम् ॥ ११ ॥
शब्दालंकार. ।
श्रुत्यादिवाक्यविन्यासान्निश्चयः शब्द उच्यते ।
सांवशंभुः परं ब्रह्म कैवल्योपनिषच्छुतेः॥ १२ ॥
श्रुत्यादीति ॥ श्रुत्यादिवाक्यविन्यासाद्वेदादिवचनोपन्यासान्नि-
श्चयः शब्दः शब्दाख्यप्रमाणमुच्यते स्पष्टम् । उदाहरणम् । साम्ब-
शंभुः अम्बया सहितः शिव एव कैवल्योपनिषच्छ्रुतेः । तद्वाक्यश्रय-
णात्परं निर्गुणं ब्रह्मेति जानामि ॥ १२ ॥
ऐतिद्यालकार।
ऐतिचं किंवदन्ती चेत्प्रमाणत्वेन भण्यते ।
तिलमात्रमिदं लिङ्गं वर्षवर्ध विदुर्जनाः ॥ १३ ॥
ऐतिह्यमिति ॥ चेद्यदि किंवदन्ती जनवार्ता । 'किंबदन्ती
जनश्रुतिः' इत्यमरः । प्रमाणत्वेन भण्यते तर्हि ऐतिह्यं इतिह प्रसिद्धं
एव ऐतिह्यमिति व्युत्पत्तेः ।। उदाहरणम् । इदं पूर्ववर्ति शिवस्य लिङ्ग
तिलमात्र वर्षवर्ध व वर्धते तथाभूतं जनाः विदुः । कथयन्तीत्यर्थः।
अत्र शिवलिङ्गस्य वर्षे वर्षे तिलमात्रवृद्धौ जनवार्ता प्रमाणमिति
ऐतिह्यम् ॥ १३ ॥
अापत्त्यलंकारः ।
कल्पनं चान्यथासिद्ध्यार्थस्यार्थापत्तिरिष्यते ।
गङ्गा पतिव्रता साक्षादन्यथाग्निं विशेत्कथम् ॥ १४ ॥
कल्पनमिति || अन्यथासिद्ध्या प्रकारान्तरेण सिद्ध्या अर्थस्य
कल्पनमापत्तिः इष्यते । उदाहरणम् । पतिव्रता साक्षात् गङ्गा ।
अन्यथाग्निं कथं विशेत् । गङ्गात्वे तु वह्निप्रवेशो न दुर्घट इति
भावः ॥ १४ ॥
कुवलयानन्दकारिकाः । अलंक्रियालंकारः। प्रमाणत्वेन निर्दिष्टानुपलब्धिरलंक्रिया। अयशस्तव नास्तीति सत्यं यन्न श्रुतं क्वचित् ॥ १५ ॥ प्रमाणत्वेनेति ॥ प्रमाणत्वेन प्रमाणकरणत्वेन निर्दिष्टा निदर्शिता अनुपलब्धिरप्राप्तिः । अत्यन्ताभाव इति यावत् । अलंक्रियालंकारो भवति । उदाहरणम् । हे राजन , तवाऽयशो नास्तीति लोकवचः सत्यं यथार्थमेव । यद्यस्मात्वचिदपि न श्रुतमस्माभिरिति शेपः । अस्ति चेदयशः श्रूयेत इति भावः । अत्रायशसोऽभावं प्रति श्रवणाभावः प्रमाणत्वेन दर्शित इत्यनुपलब्धिः । अभावाख्यमेतत्प्रमाणमभावग्रा- हकमिति वेदान्तिनः ॥ १५ ॥ संभवालंकार.। संभवः स्यादलंकारः प्रमाणत्वं प्रयाति यः। स्यान्मे कदाचिदिन्द्रत्वं चित्रा कर्मगतिर्यतः ॥ १६ ॥ श्रुतिलिङ्गादयः शब्दाः प्रपश्यन्तेऽपि दर्शिताः । भेदाः कुवलयानन्दे संक्षेपात्तानपि ब्रुवे ॥ १७ ॥ संभव इति ॥ यः संभवः प्रमाणत्वं प्रकृतार्थनिर्णायकत्वं प्रयाति स संभवो नामालंकारः स्यात् । उदाहरणम् । मे मम कदा- चिदिन्द्रत्वं स्यात् भवेत् । संभावनायां लिङ् । यतः कर्मगतिः कर्म- फलप्राप्तिः चित्रा नानाविधा । ततः कस्यचित्कर्मणः फलमिन्द्रत्वमपि भवत्येवेति भावः । अत्र चत्वारि प्रमाणानि काणादादीनां । पटू वेदान्तिनां अष्टौ मीमांसकानामालंकारिकाणां चेति प्रसिद्धः पन्थाः॥ १६ ॥ १७ ॥ श्रुत्यलंकार। प्रकृतार्थस्य शब्देन निर्वाहो यत्र सा श्रुतिः। मृत्यु हरसि भक्तानां तुष्टोमृत्युंजयोऽसि यत् ॥ १८ ॥ प्रकृतार्थस्येति ॥ यत्र प्रकृतार्थस्य शब्देन प्रमाणभूतेन निर्वाहः समर्थनं सा श्रुतिः । उदाहरणम् । हे देव, त्वं तुष्टः सन् भक्तानां मृत्यु हरसि । मोक्षं ददासीत्यर्थः । अत्र प्रमाण दर्शयति । यद्यस्मा- न्मृत्युंजयोऽसि । प्रमाणभूतमृत्युंजयशब्दवाच्योऽसीत्यर्थः । मृत्यु- हरणसामर्थ्य विना मृत्युंजयशब्दवाच्यत्वं न स्यादिति प्रकृतार्थ- समर्थनम् ।। १८ ॥
उद्दिष्टालंकारप्रकरणम् २ लिङ्गालंकारसंकर। तल्लिङ्गं नाम यत्र स्याद्वर्ण्यचिह्ने प्रमाणता । त्रिलोक्याः शंकरः साक्षी त्रिभिनेत्रैः प्रतीयते ॥ १९ ॥ तदिति ॥ यत्र वर्ण्यचिह्न वर्ण्यस्य शिवादेः चिह्न त्रिनेत्रत्वादी प्रमाणता प्रमाणत्वेन प्रकृतोपयोगित्वं स्यात् तल्लिङ्गं नामालंकारः स्यात् । उदाहरणम् । शंकरः त्रिलोक्याः साक्षी । 'साक्षादृष्टरि संज्ञा- याम्' इति निपातनात्साधुः। त्रिभिर्नेत्रैः प्रतीयते ज्ञायते त्रिलोकी। नित्यसाक्षात्कारार्थमेव त्रिलोचनत्वमिति भावः । अत्र लिङ्गशब्दस्य चिह्नपरत्वात् अनुमानालंकारे नातिव्याप्तिः । वाक्यप्रमाणं तु दि- मात्रमुदाहृतं तस्य चान्येऽपि श्रौतम्मार्तपौराणिकत्वादयो भेदाः स्वयमूह्याः । प्रकरणस्थानसमाख्यानां त्रयाणां मीमांसकोक्तप्रमाणा- नामलंकारत्वं नास्ति । कुवलयानन्देऽनुदाहृतत्वात् ॥ १९ ॥ आचारालकार । प्रकृतार्थोपयोगित्वं यत्राचारस्य तत्र सः । गोपस्यापि दधि ग्राह्यं काश्यां भक्षन्ति सूरयः॥ २० ॥ प्रकृतेति ॥ यत्राचारस्य शिष्टाचारस्य प्रकृतोपयोगित्वं वर्ण्य- समर्थकत्वं तत्र स आचारो नामालंकारः । उदाहरणम् । गोपस्य नीचजातेरपि दधि काश्यां ग्राह्यमेवान्यत्र तु नेत्यर्थः । यतस्तत्र सूरयः पण्डिता अपि तद्भक्षन्ति तस्मात् 'यद्यदाचरति श्रेष्ठः' इति न्यायेन सर्वेपामपि तद्भक्षणे दोषो नास्तीति भावः । अयं च देश- ग्रामकुलाचारादिभेदादनेकविधः ॥ २० ॥ आत्मतुष्ट्यलंकार । आत्मतुष्टिरलंकारो यत्र स्यान्निर्णयस्तया । अष्टमे मासि सीमन्तो युक्तो मह्यं हि रोचते ॥ २१ ॥ इति श्रीपदवाक्यप्रमाणपारावारीणरामजीभट्टात्मजाशाधर- भट्टकृतमुद्दिष्टनामकं द्वितीयं प्रकरणं समाप्तम् ॥ आत्मेति ॥ तत्रात्मतुष्टिनाम प्रमाणालंकारः । यत्र तयात्म- तुष्ट्या निर्णयो निश्चयः स्यात् । उदाहरणम् । अष्टमे मासि सीमन्तो- नयनाख्यं कर्म नतु षष्ठे मासीत्यर्थः । तत्र प्रमाणं दर्शयति । हि यस्मान्मह्यं रोचते । 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानत्वाच्चतुर्थी । अत्र पण्डितानामेवात्मतुष्टिः प्रमाणं न तु सर्वेपाम् । तथाहि ।
. कुवलयानन्दकारिकाः। पष्ठेऽटमे वा सीमन्तः' इति याज्ञवल्क्यस्मृतौ विकल्पे सत्यपि तदु- त्तरं नियमानां सुकरत्वात् द्वितीयः पक्षो युक्तः श्लाघ्य इति प्रथम- पक्षस्वीकारे तु नियमा दुर्घटा इति । एवं 'गर्भाष्टमेऽष्टमे वादे ब्राह्मणस्योपनायनम्' इत्यादावपि ज्ञेयम् ॥ २१ ॥ एते प्रमाणालंकाराः प्रकृतार्थसमर्थनात् । काव्यलिङ्गप्रपञ्चत्वमुपयान्त्येव वस्तुतः ॥१॥ धरणीधरपादाब्जप्रसादासादितस्मृतेः । आशाधरस्य वागेपा तनोतु विदुषां मुदम् ॥ २ ॥ इति श्रीपदवाक्यप्रमाणपारावारीणरामजीभट्टात्मजाशाधरभट्टविर- चितायां कुवलयानन्दकारिकाव्याख्यायामलंकारदीपिकासमा- ख्यायां उद्दिष्टालंकारनामकं द्वितीयं प्रकरणं समाप्तम् ।। परिशेषप्रकरणम् ३ अथ मुक्ताप्रवालादिमिश्रहारादिसंनिभान् । अनुक्तान्पञ्च संक्षेपात्संसृष्श्यादीन्द्रवीम्यहम् ॥१॥ अथेति ॥ स्पष्टम् ॥ १॥ समृष्टिरलंकारः। संसृष्टिर्मियतैतेषां तिलतण्डुलवत्तु या। लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः ॥ २ ॥ संसृष्टिरिति । एतेपामलंकाराणां तिलतण्डुलवत् तिलतण्डुल- योरिव । 'तत्र तस्येव' इति वतिप्रत्ययः । तण्डुलशब्दस्य 'वृकणि- तनिताडिभ्यश्च उलच् तण्डश्च' इत्युणादिसूत्रेण सिद्धो डुकारमध्य इत्याहुः । या मिश्रिता सा संसृष्टिः । तिलतण्डुलदृष्टान्तेज परस्पर- निरपेक्षत्वं चोक्तम् । उदाहरणम् । लिम्पतीवेत्यादि । अत्रोत्प्रेक्षाद्वयं परस्परनिरपेक्षं स्पष्टम् ॥ २ ॥ अनाजीभावसंकर। उत्थाप्योत्थापकत्वे स्यादङ्गागीभावसंकरः। शङ्खाद्वीणानिनादोऽयमुदेति महदद्भुतम् ॥ ३ ॥ उत्थाप्येति ॥ उत्थाप्योत्थापकत्वे उपकार्योपकारकभावे सा- परिशेषप्रकरणम् ३ काङ्गत्वे सतीत्यर्थः । अङ्गाङ्गीभावसंकरः । अङ्ग उत्थापकं करचर- गादिवत् । अङ्गी तूत्थाप्यः । विप्रत्ययाभावे तु अङ्गाङ्गिनोर्भाव इति पष्ठीसमासः । तत्र दीर्घाभावेन छन्दोभङ्गभयात् विप्रत्यया- न्तपक्षः साधुः । तयोर्भावशब्दे परे च्चिप्रत्ययान्तत्वं बोध्यम् । स चासौ संकरश्चेति कर्मधारयः । उदाहरणम् । शङ्खादित्यादि । अत्र रूपकातिशयोक्तेरुत्थापकत्वं विभावनायाश्चोत्था यत्वमिति पररपर- साकारकम् ॥ ३ ॥ समप्राधान्यसकर । द्वयोरपि प्रधानत्वे समप्राधान्यसंकरः। रत्नस्तम्भेषु संक्रान्तप्रतिविम्बशतवृतः ॥ ४ ॥ द्वयोरिति ॥ द्वयोरप्यलंकारयोः प्रधानत्वे परस्परोपकारकत्वेन तुल्यत्वे समप्राधान्यसंकरो भवति । अङ्गागीभावव्यत्ययादिति भावः। उदाहरणम् । रत्नस्तम्भेष्वित्यादिना । अत्रोदात्तस्यातिशयोक्तेरङ्गत्वं तस्याश्चोदात्तालंकारस्येति समप्राधान्यम् ॥ ४ ॥ संदेहसंकर। इयोरन्यतरस्याभेदकः संदेहसंकरः । चतुर्णा पुरुषार्थानां दाता देवश्चतुर्भुजः ॥ ५ ॥ द्वयोरिति ॥ द्वयोरलंकारयोर्मध्ये अन्यतरस्य कस्यचिदभेदकः नास्ति भेदकं यस्मिन्स तथोक्तः संदेहसंकरः स्यात् । उदाहरणम । चतुर्णामिति । अत्र चतुर्भुजम्य देवविशेषणत्वे । परिकरालंकारः । नामान्यविशेपभावसंवन्धेनोभयोरपि भेदाद्विशेपत्वविवक्षायां तु दातेति विशेपणान्वयानुरोधात्परिकराङ्कुर इति भेदकाभावाट्टयोरेक- तरस्यानिश्चयः । आत्मतुष्टिप्रामाण्येन परिकरोदाहरणं कृतमिति बोध्यम् ॥ ५॥ वाचकानुप्रवेशसंकर। एकवाचकानुप्रवेशे संकरः स्यात्तथाविधः। तदेतत्काकतालीयमवितर्कितसंभवम् ॥ ६ ॥ एकेति॥ द्वयोरलंकारयोरेकवाचकानुप्रवेशे सामानाधिकरण्येना- वस्थाने तथाविधवाचकानुप्रवेशनामालंकारः । एकशब्दानुप्रवेश इति पाठान्तरकल्पनेनाक्षराधिक्यं परिहरणीयम् । उदाहरणम् । तदिति । ।
कुवलयानन्दकारिकाः। अकस्मिन् काकतालीये शब्दे उपमाद्वयं प्रविष्टं संसृष्टेस्त्वेकवा- क्यसमानाधिकरणेऽप्येकशब्दमात्रसामानाधिकरण्यं नास्ति ततो विशेषः ॥ ६ ॥ विचित्रसकर। एषां परस्परं योगे विचित्रः संकरो भवेत् । गुरुर्वचस्यर्जुनोऽयं की? भीष्मः शरासने ॥ ७ ॥ एपामिति ॥ एषां संसृष्ट्यादीनां परस्परं योगे सामानाधिकरण्ये सति विचित्रो विचित्रनामा नानाविधत्वात्संकरो भवेत् । उदाहर- णम् । गुरुरिति । अत्रोल्लेखालंकारस्य मालारूपकेण सह समप्राधा- न्यसंकरः । तत्रापि श्लेषरूपकयोरङ्गाङ्गिभावसंकरः । एवमन्यत्रापि सुधीभिरुदाहार्यम् ।। ७ ॥ एषां दोषा गतार्थत्वादर्थदोषतया पुनः। नोक्ताः कुवलयानन्दे शब्दानां चाप्यलंक्रियाः॥८॥ इति श्रीपदवाक्यप्रमाणपारावारीणरामजीभट्टात्मजा- शाधरभट्टविरचितं तृतीयं परिशेषप्रकरणं समाप्तम् ॥३॥ एपामिति ॥ एषामलंकाराणां दोषाः काव्यप्रकाशादावुदाहृताः ! पुनस्तु शब्दार्थे । अर्थदोपतया अर्थानयत्वेनेत्यर्थः । गतार्थत्वात् गनप्रयोजनत्वात् । अर्थदोपाणां हि काव्यनिरूपणे वक्तुमुचितत्वात अलंकारप्रकरणे तदभिधानापेक्षाभावादित्यर्थः । कुवलयानन्दे नोक्ताः। किंच । शब्दानामप्यलंक्रियाः यमकादयो नोक्ताः । तेषां केवलम- ध्यमकाव्यविपयत्वादिति भावः । न चालंकारेषु बालानामिति प्रति- ज्ञाभङ्गः शयः । तत्रालंकारशब्दस्योपमादिषु लाक्षणिकत्वात् ।।८।। आशाधरकवेर्वाचं वाचोयुक्तिविशारदाः । अनुगृह्णन्तु बालस्य काकली कस्य नो मुदे ॥ १ ॥ 'काकली तु कले सूक्ष्मे ध्वनौ च मधुराऽस्फुटे' इति विश्वः ।। इति श्रीपदवाक्यप्रमाणपारावारीणरामजीभट्टात्मजाशाधर- भट्टकृतायां कुवलयानन्दकारिकाव्याख्यायां तृतीयं परिशेषप्रकरणं समाप्तम् ।।
- शब्दालंकारप्रकरणम् ४ अथ शब्दालंकारप्रकरणम् ४ अथ शब्दालंकारा निमायन्ते । खगवन्धादयश्चित्रा गतप्रत्यागतादयः । पद्मबन्धादयश्चैव ज्ञेयाः श्लोका यथायथम् ॥ १॥ खङ्गेति ॥ खड्गबन्धादयो गतप्रत्यागतादयः पद्मबन्धादयश्च श्लोकाः चित्राः चित्रालंकारा ज्ञेयाः । शोकचरणेपु क्रमव्युत्क्रमपा- ठाभ्यां गतप्रत्यागतः आदिशब्देन एकाक्षरडाभरादिश्च । यथा 'मा- नमा नवमा रामा मारामा वनमानमा । ग्राति चामविभामाभा भामाभाविझचा तिया ॥१॥ अत्र व्युत्क्रमपाठेन प्रथमचरणात द्वि- तीयचरणं तृतीयचरणाचतुर्थ चरणं इति गतप्रत्यागतेन चित्रालंकारः । श्लोकार्थस्तु नमतीत्येवंशीला नमा ईदशी न भवतीत्यनमा अभिमा- निनी नवमा नवदीप्तिः । मारेण कामेनाभातीति माराभा वनाय जलमाहर्तुं मानसं चित्तं यस्या इति वनमानमा । तथा चारुविभया उत्तमदीप्त्या मावल्लक्ष्मीवत् भातीति चारु विभामाभा । भामा सत्य- भामा तस्या भावोऽभिप्रायोऽस्थामस्तीति भामाभाविनी सा चासौ रुक् चेति तया । विशिष्टा विशेषणे चात्र तृतीया । अयं भावः । यस्यां रुचि सत्यभामाया अपि भावस्तिष्ठति ममापीदृशी रुक् स्यात् तादृश्या तया विशिष्टा ईदशी या रामा सा अति अतिक्रम्य याति गच्छति ॥ १ ॥ अनुप्रासश्चतुर्विधः। स्फुटानुप्रासो लाटानुप्रासो वृत्त्यनुप्रासः छेकानुप्रासश्चेति । तत्राद्यः । पादादिषु पदावृत्त्या स्फुटो वर्णविभेदतः। योगी भोगीव संयाति पश्य त्वमुभयच्युतम् ॥२॥ पादादिग्विति ॥ पादस्यादौ मध्ये अन्ते वा वर्णस्य पदसंब- न्धिनो हलः स्वरस्य वा विभेदेन भिन्नत्वेन कृत्वा पदस्यावृत्त्या पुनः पुनर्निरूपणात् स्फुटानुप्रासालंकारः । उदाहरणम् । हे मित्र, अयं योगी गृहाश्रमत्यागपूर्व कृतयोगाभ्यासः पश्चाद्योगाच्युतो भोगीव भोगवान् गृहस्थ इव संयाति तमिममुभयलोकच्युतं त्वं पश्य । अत्र योगी भोगीति पूर्ववर्णविभेदेन पदावर्तनास्फुटानु- प्रासः । यथा वा शिवस्तोत्रे 'जनः कश्चित्कामी तव चरणगामी कुष. १ कुवलयानन्दकारिकाः। यदि तदा पदं ब्रह्मादीनामपि हर ति दीनाहितमिव । महेश त्वद्ध्या- यी यदि पुनरमायी तु पुरुपस्तदा किं निर्मायं नहि पदममायं भ- जति सः ॥' अत्र प्रतिचरणमेव कामी गामी दीना दीना ध्यायी मायी भायं मायं इति पूर्ववर्णविभेदेन पदावर्तनात् भवति स्फुटानु- प्रासाल कारः । कचित्पदे पूर्ववर्णविभेदः कचिन्मध्यवर्णविभेदः क्क- चिदन्त्यवर्णविभेदः अन्यत् सममिति बोध्यम् ॥ २ ॥ अथ द्वितीयो लाटानुप्रासः लाटानुप्रासभूर्भिन्नाभिप्राया पुनरुक्तता । देवेशवेशीक्षातो दुर्वासास्तोपमाप्तवान् ॥ ३॥ लाटेति ॥ यदा शब्देपु पुनरुक्तता भिन्नाभिप्राया अर्थभेदे नि- यन्त्रिता भवति तदा लाटानुप्रासः लाटानुप्रासालंकारः । उदाहरणम्। देवेश इन्द्रः तस्य बेशः शोभा पाटवं तस्य वीक्षातः वीक्षणेन दुर्वा- सगो मुनेस्तोषप्राप्तिर्जाता । स्वकीयं हारं च ददाविति शेपः । अत्र देवेशपदे भिन्नाभिप्रायस्यार्थस्य पुनरुक्त्या लाटानुप्रासः । यथा मा- धवचम्पूग्रन्थे--'आलीभिर्नलिनीर्दलैः प्रतिदिशं दूरीकृतालिब्रजै- मालाकारनया पुनःपुनरुपायातैः समासेविता । ईपद्वक्रितकंधरं प्रक- टितप्रेमोत्करं प्रेयसी किंचिचञ्चलचेलकाञ्चलचलन्नेत्राम्बुजं पश्य- ति ॥' अत्र चेलकाञ्चलचलदित्यत्र भिन्नाभिप्रायस्यार्थभेदे नियत्रि- तस्य चलचलशब्दस्य पुनरुत्तया भवति लाटानुप्रासालंकारः ॥३॥ अथ तृतीयो वृत्त्यनुप्रास:- आवृत्तवर्णसंपूर्ण वृत्त्यनुप्रासवद्वचः । जगजगन्निवासश्चेत्पाता नाकि वनेऽवनम् ॥ ४ ॥ आवृत्तेति ॥ यत्र आवृत्तेन पुनःपुनः कथितेन वर्णेनाक्षरमा- त्रेण संपूर्ण व्याप्तं वचो भवति तत्र वृत्त्यनुप्रासनामालंकारः । उदा- हरणम् । जगन्निवासः हरिः पाता रक्षकश्चेत्तर्हि वने यवनं रक्षणं तन्निमित्तं कदाचिदपि जगत् विश्वं अकि दुःखि न स्यात् । जगन्नि- वास इत्यत्र विशेपणमात्रप्रयोगो विशेष्यप्रतिपत्तौ सागराम्बरादि- वत् । 'अकं पापे च दुःखे च' इति विश्वः । अत्र जगजगदिति वने वने इति चैकस्वरयोरेकहलोः पुनरावृत्त्या वृत्त्यनुप्रासः । यथा वा 'नि:स्वेदाकुलनीलकुन्तललसत्कर्णान्तिपालीप्रियं किंचिन्नामितकन्ध- शब्दालंकारप्रकरणम् ४ ९९ राविगलितं वासः कराकर्षिणी । आयातं महिलाविलासनिपुणं प्रा- णप्रियं कामिनी किंचिल्लङ्घितचेलकाञ्चलचलन्नेत्राञ्चलं पश्यति ।।' अत्र लकारचकारयोरेकस्वरयोः भिन्नस्वरयोभिन्नहलोरकारेवर्णयोर- प्यनेकश आवृत्तिसत्त्वाद्भवति वृन्यनुप्रासनामालंकारः ।। ४ ।। अथ चतुर्थश्छेकानुप्रासः-- सव्यञ्जनस्वरावृत्तौ छेकानुप्रास इष्यते । भव्ये गव्ये वाडवानां रुचिर्मण्डे व्यजायत ॥५॥ सव्यानेति ॥ सव्यञ्जनानां स्वराणामावृत्तौ सत्यां छेकानुप्रा- सालंकारः । अयं भावः । यदलयुक्तौ योऽभिहितः तहलयुक्तस्य त- स्थावृत्तिरिति । अत्र तु स्वरावृत्तिरावश्यकी व्यञ्जनावृत्तिरयाद्यक्ष- रभिन्ना । लाटानुप्रासे तु सकलस्वरव्यञ्जनानामावृत्तिः शब्दपुनरु- क्ततयोक्तत्वादिति भेदः । उदाहरणम् । भव्ये सुन्दरे गव्ये गोसंब- न्धिनि मण्डे वस्तुनि तदर्शनादेव ब्राह्मणानां रूचिय॑जायत । पा- र्थयज्ञे इति शेषः । अत्र भव्ये गव्ये इति सव्यञ्जनस्वरावृत्या छ- कानुप्रासाख्योऽलंकारः । यथा हृदयकल्पलताशाम्-चञ्चन्नीलाइम- लीलाविधिविहितमहब्योमयात्रान्तराले धत्ते मत्तेभकुम्भ खलनपरि- लसन्मौक्तिकानीव भानि । सव्येऽसव्येऽथ हस्ते कलयति कलया व्याजनः शीतमानोः काश्मीरीरश्मिरीत्या स्फुरति मृगमदादामिनी कामिनीव ।।' अब नीला लीला धत्ते मत्ते काश्मीरी रश्मिरीत्यादि- पदेषु सव्यञ्जनस्वरावृत्तित्वाद्भवति छेकानुप्रासालंकारः ॥ ५ ।। अथ यमकालंकारः- सस्वरव्यञ्जनावृत्त्या स्तबकं यमकं भवेत । देवं नारायणं वन्दे रमणीरमणीयकम् ॥ ६॥ सस्वरेति ।। यदा सस्वराणां व्यञ्जनानामावृत्त्या कृत्वा स्त- वकं वर्णसमूहो भवति तदा यमकालंकारः । अत्रायं भावः । यद्यत्स्व- रयुक्तो यो यो हल्समुदायोऽभिहितस्तत्तत्स्वरयुक्तस्य भिन्नार्थस्य तत्त- द्धल्समुदायस्यावृत्तिरिति । उदाहरणम् । रमणी रामा रमणीया यस्य तं लक्ष्मीकान्तमित्यर्थः । समासान्तः कः। तथाभूतं नारायणं देवं श्रीहरिं वन्दे स्तौमि । अत्र भिन्नार्थस्य रमणीयपदस्यावृत्त्या यमकालंकारः। यथाहृदयकल्पलतायाम्-~~'पञ्चेषुपञ्चेषुभिराहताङ्गीसंगीतसंगीतप- - कुवलयानन्दकारिकाः। रम्परागी । पोव पद्मा ललितस्वहस्ता वामाक्षि वामाक्षिपतीक्षणा- न्तम् ।।' अत्र भिन्नार्थानां पञ्चेषुपञ्चेवित्यादिपढ़ानां मध्ये प्रति- चरणमेव मम्बरव्यञ्जनावृत्त्या वर्णसमूहत्वाद्भवति यमकालंकारः । अन बहुत्वमृचकं स्तबकमिति महिना यक्षरप्रभृतिपु ताहगावृत्ति- सत्वे यमकालंकारो ब्यक्षरावृत्तिसत्त्वे च लाटानुप्रास इत्येवायं भेदः ॥ ६॥ अथ पुनरुतप्रतीकाशो नामालंकारः पुनरुक्तप्रतीकाशं पुनरुक्तार्थसन्निभम् । केसरी कानने भाति बनेभातिविमर्दकः । भवान् सिंहासने भाति भाति सिंहासनेभवान् ॥७॥ पुनरिति ॥ वस्तुनः पुनरुक्तार्थकमिबापाततोऽवभासते यद्वा- क्यं तत्पुनरुक्तप्रतीकाशो नामालकारः । यथात्रैव केसरीति । अत्र कानने भाति बने भाति इति शब्दयोः पुनरुक्तार्थकत्वमापाततोऽव- भासते । वास्तवं तु नास्ति । तथा हि । कीदृशः केसरी । बनेभा- तिविमर्दकः वनसंबन्धिनामिभाना हस्तिनामत्यन्तं विमर्दको मर्दन- कर्नेति । एवं सिंहासने भाति भातिसिंहासने इति शब्दयोरपि पु- नरुक्तार्थकत्वमापालत एवावभासते नतु वास्तवमस्ति । तथा हि । किंभूगो भवान् भातिसिंहासनेभवान् भान्ति ते भाः सिंहासनं सिं- कृतवतुम्मोपवेशनं तदनिकान्तं यस्तेऽतिसिहासनाः । भाश्च तेऽ- तिसिहासनाश्चति कर्मधारयः । मिहेरपि ये हन्तुमाक्रमितुं वा न शक्यन्ते एतादृशा इभा हस्तिनोऽस्य सन्तीति भातिसिंहासनेभवान् इति पुनरुतार्थसन्निभसत्त्वादिह भवति पुनरुक्तप्रतीकाशमलंकारः ७ धीक्षणाय सदसद्विवे किनां शिक्षणाय लघुबुद्धिशालिनाम् । लक्षणैरिह विचिन्तनैर्मया लक्षिता स्वकृतपद्यपद्धतिः ।। १ ।। इति श्रीचिरंजीविभट्टाचार्यकृतकाव्यविलासे अलंकारमयी द्वितीया भङ्गी संपूर्णा ॥ । Q अथ कुवलयानन्दकारिकाणां टिप्पणीस्थपद्यानां च कोशः। विष.४६ मंग.१ निद. २७ पर्या. ३७ परि.३१ श्लोकः श्लोक पृष्ठं. अ अपीतक्षीवकादम्ब विभा ४० अकारणात्कार्यजन्म कार्यो.४२ अप्रस्तुतप्रशंसा श्यात् अप्र.३४ अकृशं कुचयोः कृशं. उल्ले. १२ अब्जेन त्वन्मुखं तुल्यं श्लेपा.३३ अक्रमातिशयोक्तिः अभिलषसि यदीन्दो अक्र.२१ अझं केऽपि शशङ्किरे. शुद्धाप. १३ | अमन्दपुण्यसंदोह. सहो २९ अबाधिरोपितमृगः अमरीकबरीभार. अप्र ३४ अरण्यरुदितं कृतं शव. अङ्गुल्या क. कपाट प्रहरति वको. ८१ अचतुर्वदनो ब्रह्मा. अयं प्रमत्तमधुपः भ्रान्ति.१२ रूपका. १० अत्यन्तातिशयोक्ति. अत्य. २२ अयं वारामेको असंभ. ४४ अत्युक्तिरद्भुतातथ्य. अत्यु. ८४ अयं हि धूर्जटिः साक्षात् रूप.९ अर्ध दानववैरिणा. अथ मुक्ताप्रवालादि. अलंकारः परिकरः अद्य श्रयति पुण्येन एका. ५४ अधरोऽयमभीराक्ष्या काव्या. ६१ अलंकारेषु बालानां प्रति.२ अधिकं पृथुलाधारात् अधि.४९ अल्पं तु सूक्ष्मादाधे. अल्पा.५० अनन्तरलप्रभवस्य विक. ६३ अविवेकि कुचद्वन्द्वं अनयोरनवद्यानि. अशक्तोऽयं तावत्तव प्रत्य. ६१ अनिष्टस्याप्यवाप्तिश्च विप.४७ अश्विनी वसतु भूप. मुद्रा. ७१ अनुरागवती सध्या. अष्टौ प्रमाणालंकाराः ८७ अन्तर्विप्नोस्त्रिलोकी सारा. ५५ असमालोच्य कोपस्ते काकु.८२ अन्यत्र करणीयस्य असंग.४५ असावुदयमारूढः अन्यत्र तस्यारोपार्थः पर्यस्ता.१४ असंभवोऽर्थनिष्पत्तेः असं.४४ अन्याङ्गत्वे रसस्य स्यात् रस.८७ अस्तं याते दिवानाथे. तुल्य. २२ अन्यासु तावदुपमर्द प्रस्तु. ३६ अस्य क्षोणिपते परा. संभा. ६५ अन्येयं रूपसपत्तिः. भेदका. २० अहंप्रथमिकाभाजां समु.५९ अन्योन्यं नामयत्र स्या अन्यो.५० अहमेव गुरु सुदारुणानां प्रती. ८ अन्योपमेयलाभेन प्रती.७ अहो केनेदृशी बुद्धिः वको. ८१ अपरां बोधनं प्राहुः निद.२८ अहो खलु भुजंगस्य असंग. ४४ अपारिजातां वसुधां असं.४५ | अहो विशालं भूपाल अधि. ४९ विभा. ४२ संबं. २० विशे. ४३ श्लेषा. ३३ १ अब मूलपद्याना स्थूलाक्षरैरुदाहृतीनां सूक्ष्मैर्विन्यासपरिपाटी ज्ञेया ।
१०२ कुवलयानन्दकारिकाणां श्लोकः पृष्ठं. श्लोकः पृष्ठं. ए ८७ स्वभा.८२ ऐ विनो. वृत्त्य.९८ इ संवं.२० आ उपमा यत्र सादृश्य उप.३ आकर्णय सरोजाक्षि. प्रती. ८ आक्षेपः स्वयमुक्तस्य आक्षे.३८ एकवाचकानुप्रवेशे वाच.९५ आक्षेपोऽन्योविधौव्य. आक्षे.३९ एकस्मिन्यधनेकं वा पर्या.५६ आघ्रातं परिचुम्बितं उल्ला. ६८ एकस्य गुणदोषाभ्यां. उल्ला.६८ आत्मतुष्टिरलंकारो. आत्म.९३ एकेन बहुधोल्लेखे उल्ले.११ आबद्धकृत्रिमसटा. श्लेपा. ३३ एतेषां लक्षणं वक्ष्ये आभासत्वे विरोधस्य विरो.३९ एषां दोषा गतार्थत्वात् आभासस्याङ्गता यत्र ऊर्ज.८८ एषां परस्परं योगे विचि.९६ आरूढक्षितिपालभाल आविर्भूते शशिनि ३० आवृत्तवर्णसंपूर्ण ऐतिचं किंवदन्ती चेत् ऐति.९१ आह्वादकत्वं माधुर्य. ओजो.३ क कतिपयदिवः क्षयं. इत. सरोजेपु सितेपु उन्मी. ७६ कपिरपि च कापिशायन, अनु. ७५ इत्थं शतमलंकाराः ८६ कल्पनं चान्यथासिद्धा अर्था.९१ कवीन्द्राणामासन् अत्यं. २२ इष्यमाणविरुद्धार्थ. विषाद.६७ कस्तूरिकामृगाणां उ कन्ते शौर्यमदो योद्ध उक्तिरर्थान्तरन्यासः अर्था.६२ काक कृष्ण पिक कृष्ण गूढो. ७६ उक्तिर्याजस्तुतिनि. व्याज.३७ काठिन्यं कुचयोः स्पृष्टं उल्ला.६८ उच्चैगजैरटनमर्थय कामं नृपाः सन्ति सह. उत्कण्ठयति मेघानां. आवृ. २५ कार्यात्कारणजन्मापि विभा.४३ उत्कण्ठितार्थसंसिद्धिः प्रह.६६ कार्याजनिर्विशेषोक्तिः विशे.४३ उत्तरोत्तरमुत्कर्षः सारा.५५ कार्यनिमित्ते सामान्ये अप्र.३४ उत्थाप्योत्थापकत्वे अगा.९४ कार्यात्पत्तिस्तृतीया. कार्यो.४१ उदयन्नेव सविता निद.२८ किंचिदाकृतसहितं गूढो.७६ उदात्तमृद्धिश्चरितं उदा.८३ | किंचिदारम्भतोशक्य विशे.५१ उदिते कुमारसूर्ये. किं पद्मस्य सचि. उद्यानमारुतोद्भूता. कार्यो. ४१ किमसुभिग्लपित. उन्नतं पदमवाप्य. निद. २८ किंचिन्मिथ्यात्वसि. मिथ्या.६५ उन्मीलन्ति कदम्बानि आवृ.२५ कृतं प्राज्यं राज्यं विक, ५९ उपकारिमुखेन्दुस्थ असङ्ग. ४४ कैतवापह्नुतिर्व्यक्ती उपमानोपमेयत्वं उप. ६ कैमुत्येनार्थसंसिद्धिः काव्या.६१ संभा. ६४ पर्या ३७ समा.४८ दृष्टा.२७ कार्यो ४२ रूप. १० रूप.१० कैत.१५ अकारादिवर्णक्रमः । १०३ विभा. ४३ संदे, १२ ललि.६५ उप परि. कार्या. ४२ श्लोकः पृष्ठं. श्लोकः पृष्ठं. कौमुदीव तुहिनांशु. समा.४७ जटा नेयं वेणीकृत. भ्रान्ता.१४ ऋमिकाप्रकृतार्थानां रत्ना.७२ जाता लता हि शैले. क्रमिकैकगतानां तु कार.६० जीवनग्रहणे नम्रा. क्क सूर्यप्रभवो वंशः त तच्चेस्किचिद्विना रम्यं विनो.३० खगबन्धादयश्चित्रा. शब्दा.९७ तडिगौरीन्दुतुल्यास्या उप. खमिव जलं जलमिव खं ६ तदभाग्यं धनस्यव उल्ला.६९ ग तहुणः स्वगुणत्यागात् तहु.७२ तदोजसस्तद्यशसः स्थिती प्रती. ८ गनन गगनाकारं. उप. ६ गजत्रातेति वृद्धाभिः उल्हे. ११ तद्भावशवलत्वं स्यात्. भाव.८९ गण्डाभोगे विहरति मदै तल्लिङ्गं नाम यत्र. लिङ्गा.९३ अत.७४ गर्वमसभाव्यमिमं प्रती. ७ तव प्रसादात्कुसुमा. ३१ गलितत्वमिवालाद. तवामृतस्यन्दिनि. प्रति. २६ गुण. ३ गिरिमहान्गिरेरब्धिः तस्य च प्रवयसो परिवृ. ५७ सारा.५५ गुणदोषी बुधो गृह्णन्, ३ | ताभ्यां तौ यदि न स्या. अव.६९ गुणवद्वस्तुसंसर्गात ६३ तिलपुष्पात्समायाति गुणोत्कृष्टैः समीकृत्य तुल्य.२४ | तीर्खा भूतेशमालि. परि. ११ गुम्फ: कारणमालास्या कार.५३ तृणालघुतरस्तृल. सास.५५ गूढोक्तिरन्योद्देश्यं चेत् गूढो.७९ बात काकोदरो येन गृहीतमुक्तरीत्यार्थ. एका.५३ त्रिविधं दीपकावृत्ती आवृ.२५ ग्रामेऽस्मिन्प्रस्तरप्राये गूढो. ७७ त्वं चेत्संचरसे वृषेण च त्वत्खड्गखण्डित. असंग. ४५ चत्वारो रसवत्प्रेय. चन्द्रज्योत्स्ना विशद. रूप. ९ त्वय्यागते किमिति रूप.१० चपलातिशयोक्तिस्तु चप. २१ द चातकस्त्रिचतुरः पय प्रहर्ष ६६ दवदहनादुत्पन्नो, समा.४८ चित्रं तपति राजेन्द्र. कार्यो. ४१ दानार्थिनो मधुकरा यदि उल्ला. ६८ चूडामणि पदे धत्ते. निद. २८ दिधक्षन्मरुतः पुत्रं चेद्विम्बप्रतिविम्बत्वं दृष्टां.२६ दिवमप्युपयाताना दिव्यानामपि कृतविस्मयां. स्मृति. १२ छाया सश्रयते तलं सहो. २९ । दीपकैकावलीयोगात् माला.५४ छेकापह्नुतिरन्यर छेका.१५ | दशा दग्ध मनसिज व्याघा.५२ छेकोक्तिर्यत्र लोकोके छेका.८० दृष्ट्या केशवगोपराग. विवृ.७९ लेपा. ३२ अव. ७० ८६ / त्वदङ्गमार्दवे हऐ तुल्य. २३ विष.४७ विशे. ५१ कुवलयानन्दकारिकाणां परि. ५७ फलो. १८ पर्या. ५६ श्लोकः पृष्ठं. श्लोकः पृष्ठं. देवी वाचमुपासते. दृष्टा. २६ परिवृत्तिर्विनिमयो देहि मत्कन्दुकं राधे पर्या. ३७ परिसंख्या निषिद्धैक. परि. ५८ दोषस्याभ्यर्थनानुज्ञा अनु.७० पर्यायेण द्वयोस्तञ्चेत् उप. ६ दोस्तम्भौ जानुपर्यन्त. एका.५४ पर्यायोक्तं तदप्याहुः पर्या. ३७ द्वयोरन्यतरस्याभेदक संदे.९५ | पर्यायोक्तं तु गम्यस्य. पर्या. ३६ द्वयोरपि प्रधानत्वे सम.९५ पर्यायो यदि पर्याये पर्या. ५६ द्वारं सङ्गिभिरावृतं पूर्व ७३ पलाशकुसुमभ्रान्त्या. भ्रान्ति. १२ ध पादादिषु पदावृत्त्या. अनु.९७ धूमस्तोमं तमाशङ्के वस्तूत्प्रे.१७ पिनष्टीव तरङ्गायै . वस्तू. १७ पिहितं परवृत्तान्त. पिहि.७८ न पुनरुक्तप्रतीकाशं आक्षे. ३९ पुन.१०० न चिरं मम तापाय. पुनःस्वगुणसंप्राप्ति. पूर्व. ७३ न तजलं यत्र न चारु एका.५४ पूरं विधुर्वर्धयितुं पयो. नन्वाश्रयस्थिति रियं न पद्मं मुखमेवेदं पूर्वावस्थानुवृत्तिश्च पूर्व. ७४ नान्ता. १५ नागरिक समधिको. पृथ्वाधेयाद्यदाधारा अधि.४९ भ्रान्ता.१४ नागेन्द्र हस्तस्त्वचि. प्रकृतार्थस्य शब्देन श्रुत्य.९३ तुल्य. २३ प्रकृतार्थापयोगित्वं. आचा.९३ नाथ वदशिनल अप्र.३५ प्रतिषेधः प्रसिद्धस्य. प्रति.८४ नाथ मयूरो नृत्यति वक्रो.८१ प्रतीतिर्लिनिनो लिङ्गा. प्रती.९० नाथो मे विपणि गतो गूढो. ७९ प्रती.७ नानार्थसंश्रयः श्लेपो श्लेपा.३२ प्रतीपमुपभानस्य प्रतीपमुपमानस्य प्रती.८ तुल्य, २२ प्रत्यक्षमिन्द्रियज्ञान. प्रत्य.९० निन्दाया निन्दया व्य. व्याज:३८ प्रत्यनीकं बलवतः निद्राति नाति भुते कारक.६० प्रमाणत्वेन निर्दिष्टा अलं. ९२ निपीय मदिरां दुरो. विक.५८ प्रश्नोत्तरान्तराभिन्न. चित्रो.७७ निरुक्तिोगतो नाना. निरु.८४ प्रस्तुतेन प्रस्तुतस्य प्रस्तु.३६ निषेधाभासमाक्षेपं आक्षे. ३९ प्रस्तुते वर्णवाक्यार्थ. ललि.६५ नीतानामाकुलीभावं श्लेपा. ३३ प्राक्सिद्धस्वगुणोत्कर्षो अनु.७५ प प्रौढोक्तिरुक्तार्थाहेतोः प्रौढो. ६४ पदार्थवृत्तिमप्येके व्यति.२८ फ पद्मे त्वन्नयने स्मरामि. छेका. १५ फणीन्द्रस्ते गुणान्वक्तुं परि.३१ परस्परतपःसंपत् मंगला. १ भाव.८९ पराङ्गभावयोर्योगे ब परिणामः क्रियार्थश्चेत् परि.११ बहुभिर्बहुधोल्लेखात् उल्ले.११ नाम्बुजन कमलैरुप. प्रत्य.६१ अकारादिवर्णक्रमः । दीप. फलो. १८ श्लोकः पृष्ठं. श्लोकः पृष्ठं. बहूनां युगपद्भाव. समु.५९ | यदयं रथसंक्षोभा. उल्ला.६८ बालेन्दुवक्राण्यपि. वस्तू १७ यद्यपप्लुतिगर्भत्वं साप.१९ यन्मध्यदेशादपि ते. अल्पा. ५० भ यश्च निम्बं परशुना. तुल्य. २३ भजेम भवदन्तिकं अनु यस्मिन्विशेषसामान्य. विक.६३ भवन्ति नरका. पापात् कारण ५३ यामि न यामीति धवे. चप.२१ नतो. ८१ भवित्री रम्भोरु त्रिदश. भावस्य चापराङ्गत्वे प्रेयो.८८ युक्तिः परातिसंबानं युक्त्य.८० ये रसस्याङ्गिनो धर्माः उप. ३ भाविकं भूतभावार्थ भावि. ८३ भिक्षार्थी व प्रयातः वक्रो. ८१ योगेऽप्ययोगः संबन्धाःसंबं२० यो भीतो वसतो नाथ. भेदकातिशयोक्तिस्तु भेद.२० निद. २७ भेदवैशिष्ट्ययोःस्फूर्ता उन्मी.७६ र भ्रान्तापह्नुतिरन्य. भ्रान्ताप.१४ रक्तौ तवांनी मृदुलौ हेतूत्प्रे.१७ रत्नस्तम्भेषु संक्रान्त. सामा. ७५ म रत्नस्तम्भेषु संक्रान्तैः ऋद्धि. ८३ मणिः शाणोल्लीढः समर. २४ रत्याप्तप्रियलाञ्छने. रत्ना.७२ मदुक्तिश्चेदन्तर्मदयति अव.६९ रथस्थितानां परिवर्त. मधुव्रतौघ. कुपितः प्रत्य.६१ रवितप्तो गजः पद्मान्. साप. १९ मधूनि पझे पिबति एका.५३ रात्रिर्गमिष्यति भविष्यति विषाद. ६७ मध्यः किं कुचयोः फलोत्प्रे.९८ रात्रौ रवेर्दिवा चेन्दो हेतू १७ मन्थानसूमियरशैल. हेत्वप. १३ रिक्तेषु वारिकथया. कैतवा. १५ मयि मुकुलितमाल. समा ३० रूपकातिशयोक्तिः स्वरू.१९ मय्येव जीर्णतां यातु. अनु. ७० ल मलयमरुता व्राता याता मलिनयितुं खलवदनं विचि. ४९ लाटानुप्रासभूर्भिन्ना लाटा.९८ मल्लिकामाल्यभारिण्य. मीलि. ७५ लुब्धो न विसृजत्यर्थ व्याघा.५२ मीलितं यदि साह. मीलि.७५ लेशः स्याद्दोषगुणयोः लेश.७१ मुञ्चति मुञ्चति कोशं. अक्र. २१ | लोकप्रवादानुकृतिः लोको. ८० मेधैर्मेदुरमम्बरं वन. प्रहर्ष. ६६ | लोकानन्दनचन्दनद्रुम. उल्ला. ६८ मोहं जगत्रयभुवा असंग. ४५ । लोके कलङ्कमपहातु. लोकं पश्यति यस्यानि य यत्तया मेलनं तत्र व यत्नादुपायसिद्ध्यर्थात् प्रह. ६७ वक्रस्यन्दि खेदबिन्दु पिहि. ७८ यत्त्वन्नेत्रसमानकान्ति. प्रती. ५ वक्रोक्तिः श्लेषकाकु. वक्रो.८१ यथासंख्यं कमेणैव यथा.५६ / वदनेन निर्जितं तव आयु.२५ छेको.८० विष. ४७ .
कुवलयानन्दकारिकाणां छ आवृ.२५ प्रसा. श्लोकः पृष्टं. श्लोकः पृष्ठं वदन्ति वर्ष्यावानां दीप.२४ वदन्ती जारवृत्तान्तं. छेका. १६ शंभुर्विश्वमवत्यद्य वर्ष्यानामितरेषां वा. तुल्य.२२ शमयति जलधरधारा. वयेनान्यस्योपमाया प्रती.८ | शरणं किं प्रपन्नानि सारा. ५५ वोपमानधर्माणां उप.४ शिखरिणि क्वनु नाम. व्याज, ३० वीपमेयलाभेन प्रती.८ शुद्धापह्नुतिरन्यस्य शुद्धाप. १३ वाक्ययोरेकसामान्ये प्रति. २६ शुक्रेन्धनाग्निवत्स्वच्छ. वाक्यार्थयोः सदृशयोः निद.२७ श्रुत्यादिवाक्यविन्या. शब्दा ९ः वाञ्छिनादधिकार्थस्य प्रह.६६ श्रुतिलिङ्गादयः शब्दाः संभा.९६ वापी कापि स्फुरति गगने स्वरू. १९ स विचित्रं तत्प्रयत्नश्चेत् विचि.४९ विधाय वैरं सामर्षे. अन ३४ स एव युक्तिपूर्वश्चेत् हेत्वप.१३ विधिरेव विशेषगीयो व्याज.३८ संकेतकालमनसं सूक्ष्मा. ७८ विनयभांति विद्येयं. अन्यो, ५० मगतानि मृगाक्षीणां तुल्य. २४ विनानिष्टं च तसिद्धिः समा४८ संगतान्यगुणानगी. अत.७४ विनोक्तिश्चेद्विनाकिंचित् वि.३० । संग्रामाङ्गणमागतेन माला.५४ संजातपत्रप्रकरान्वि. विनाधि विभावना तुल्य.२२ सन्त सच्चरितोदय. लेशा.७१ विभिन्नवर्णा गरुडाग्रजेन पूर्व. ७३ वियोगे गौडनारीणा निद. २८ संवन्धातिशयोक्तिः स्यात् २० विरुद्धं भिन्नदेशत्वं असंग.४४ संभवः स्यादलंकारः संभ.९२ विरुद्धकार्थस्योत्पत्ति विप. ६ संपावना स्यादुत्प्रेक्षा संभा.१६ विरुद्धात्कार्यसंपत्तिः निभा.४२ संभावनं यदीत्थं खात् संभा.६४ विरोधे तुल्यवलयोः विक. ५८ समर्थनीयस्यार्थस्य काव्य.६२ विवस्वतानायिपतेव. हेत, १८ समं स्याद्वर्तनं यत्र समा.४७ विवृतोक्तिः श्लिष्टगुप्तं विवृ.७९ समाधिः कार्यसौकय समा.६० विशेषः ख्यातमाघारं विशे. ५१ समाहितं तद्भावस्य समा.८९ विशेषः सोपि यद्येकं विशे. ५१ समासोक्तिःपरिस्फूर्तिःलमा.३० विषमं वर्ण्यते यत्र विष. ४६ सव्यञ्जनस्वरावृत्तौ छका.९९ विपय्यभेदताद्रूप्य. रूप.९ संसृष्टिमिश्रितैतेषां संस्कृ.९४ वीर त्वद्रिपुरमणी तद्गु. ७२ | सस्वरव्यञ्जनावृत्त्या यम.९९ वेधा द्वेधा भ्रमं चक्रे. रूप. ९ सहोक्तिः सहभावश्चेत् सहो.२९ व्यतिरेको विशेषश्चेत् व्यति.२९ सादृश्याद्वस्तुनो भान. उप.९० व्याजोक्तिरन्यहेतूतयाव्याजो७८ साधु दूति पुनः साधु व्याज.२८ व्यावल्गत्कुचभार. समा. ३० । साध्वीयमपरा लक्ष्मीः रूप.१० स्यात् वि.४०
अकारादिवर्णक्रमः ।
विशे. ५१
श्लोक
पृष्ठ.
श्लोकः
पृष्ठं.
साभिप्राये विशेष्ये तु परि.३१ स्फुरदद्भुतरूपमुत्प्र.
सामान्यं यदि सादृश्या सामा७९ स्यात्स्मृतिभ्रान्तिसं. स्मृति.१२
सारा लोकेषु विद्वांस. सारा. ५५ स्याद्याधातोऽन्यथा. व्याघा.५२
सारूप्यमपि कार्यस्थ समा.४८ स्वभावोक्तिः स्वभा.
स्वभा.८२
सिद्धस्यैव विधानं यत् विध्य.८२
सिद्धिः ख्यातेषु चेन्नाम
सिद्धि. २४ हालाहलो नैव विषं.
पर्यस्ता. १४
सीत्कारं शिक्षयति. छेका १५ हिताहिते वृत्तितौल्यं तुल्य. २३
सुधैव वसुधा सत्यं व्यति. २९ हेतुहेतुमतोरक्यं हेत्त्व.८५
सुवर्णपुष्पां पृथिवी
दीप. २५ हेतूनामसमग्रत्वे
कार्यो.४१
सूक्ष्म पराशयाभिशे सूक्ष्मा.७७ हेतोर्हेतुमता साधु हेत्व.८५
सूच्यार्थसूचनं मुद्रा मुद्रा.७१ हृतमारमिवन्दु.
अप्र.३५
सौकर्येण निबद्धापि व्याघा.५२ हृदयान्नापयातोऽसि
५१
विशे.
संपूर्णाचेयं कुवलयानन्दकारिकाणां वर्णानुक्रमणिका ।