Prakrit Bharati Academy, Jaipur
Shri Amritvimalcharitam
Front matter
No text on this page.
१ क क के को 5 H % 3. क ज म 3 का ७ म. ४२ आ श्रीकैलाससागरसूरि ज्ञानमन्दिर धारा सप्रेम भेट ता. ।। इति श्रीआमृतविमलचरितं समाप्तम् ।। क क - २ ७ ५७ * ५८ १० कट .
* मुद्रणस्थानः वसंत मुद्रणालय धीकांटारोड, घेलामाइनी वाडी-अमदावाद.
मुद्रका-चीमनलाल ईश्वरलाल महेता.
.
श्री अमृत चरि- तम् प्रेमाविर्भावपूर्वकं ग्रथितात्रभवतां कंठसमारोपिता भवतु, इत्याशास्महे वयम् । ॐनमो अर्ह सर्वतीर्थंकराणां पादकमलेषु मम नतिः सर्वदास्तु, शारदा बुद्धिवैशयं च सर्वदा ददातु । इतिश्रीपरमपूज्यदीर्घतपस्विवयोवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्र - देशोद्धारकपन्यासपदधारिगणिवर्यहिम्मतविमलशिष्यशान्तमूर्तिप्रवर्तकमुनिश्रीशान्ति- विमलविरचिते विमलगच्छाधीशधर्मधुरंधरशास्त्रविशारदसकलसिद्धान्तवाच- स्पतिविश्ववन्दनीयगणिवर्यामृतविमलचरिते दशमं प्रकरणम् ।। >tober SS हिम्मतविमलगणिवर्यस्योग्रतपस्वी मुनिराजहंसविमल आसीत् तस्य शिष्यत्रयमस्ति, तस्य प्रथमशिष्यः प्रेमवि- विमलनामधेयो द्वितीयोन्यायविमलनामा तृतीयो हर्षविमलनामकश्चास्ति ।पन्यासपदधारिणो हिम्मतविम- लगणिवर्यस्य द्वितीयशिष्यः शान्तिविमलो नाम्नास्ति, तस्यापि विनेयद्वयमस्ति, तत्र प्रथमशिष्यो रत्नविम- लाभिधेयो द्वितीयो देवविमलाभिधश्चास्ति । एवं विस्तृतशिष्यवर्गस्य सर्वोऽपि व्यवहारः पन्यासपदवीं धृतवतो हिम्मतविमलगणिवर्यस्याधीनोऽस्ति, सर्वे शिष्याः कथं विनीता भवेयुः कया च पद्धत्याऽऽगमशास्त्रकाव्य- न्यायादिशास्त्रेषु प्रवीणाः स्युरिति मनसि सर्वदा तेषां हितं चिन्तयति गुरुः, अत एव शिष्यवर्गीयां सर्वा धुरं स्वयमेक एवोदवहति, तस्य गणिवर्यस्य प्रकृतिः शान्ता सर्वजनहृदयंगमा व्यवहारकुशला च भवति, सर्वशिष्यवर्गस्यापि प्रियतरप्रभावा चास्ति । अद्य तस्य गणिवर्यस्य सेवायां सदाविरतः शान्तप्रकृतिगुरुवचन- पथप्रवर्तनशाली शान्तिविमलनामा मुनिरस्ति । गुरुदेवामृतविमलगणिवर्यस्य शरीरं कालधर्म प्राप्तम् , परं तस्यानुयायिविनेयवर्गोऽपि तस्य गृहिणः सेवकाश्च तस्य गुणवर्णनं कुर्वन्तस्तथा तेन कृतोपकाराज संस्म- रन्ति नित्यशः, परं च वहूनि वर्षाणि संजातानि । तथापि ते गुरोर्गुणगणान्मनागपि न विस्मरन्ति । आत्मा- स्ति मृतिशून्यः प्रेमपात्रं गुरुदेवस्तथा भवतामात्मा यन्न कुत्रापि स्यात्तत्रेयं शिष्येण कृता गुणवर्णनकुसुममाला ૧૫ २६ श्री अमृत- चरि- तम् कराणां गुणस्तुतिवर्णनस्तवनानि कवित्वख्यापनानि गुर्जररागनिर्मितपद्यानि बहुशवकार, जनेषु च धर्मरस- मुत्पादयांचकार । अस्मादितराण्यपि धर्मकार्याणि तेनादरपूर्वकं विदधे गणिवर्येण । इतिश्रीपरमपूज्यदीर्घतपस्विवयोवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्रदे - शोद्धारकपन्यासपदधारिगणिवर्य हिम्मतविमलशिष्यशान्तमूर्तिप्रवर्तकमुनिश्रीशान्तिविमलविरचिते श्रीविमलगच्छाधीशधर्मधुरंधरशास्त्रविशारदसकलसिद्धान्तवाचस्पतिविश्ववन्दनी- यगणिवर्यामृतविमलचरिते नवमं प्रकरणम् ॥ विक्रमार्कसमयातीतांबुधिदिनिध्यकपरिमिते वर्षे गणिवर्यस्य चतुर्मासी पालनपुरनगरे जाता। तत्र- त्यजना विमलगच्छीया वहवः सन्ति, तेषामतिप्रार्थनया मुनिस्तत्रैवोवास । तत्र मुनेश्चत्वारो मासा व्य- तीतास्तनंतरंगणिवर्यस्य कीर्ति देशव्यापिनीं श्रुत्वा मरुभूमिस्थितशिरोहीग्रामवास्तव्यहुकमचन्द्रस्यात्मजन्मा नाना हीरचन्द्रस्तत्रोपाश्रयमागच्छत्तत्समये व्याख्यानसमारंभः समजायत, ततो गणिवयों व्याख्यानपीठ- मारुह्य सर्वजनमनोन्धकारनिवारिणी देशनां सभासमक्षं दत्तवान् , तां देशनां श्रुत्वावसरं विलोक्य हीरचन्द्रः प्रश्नं विदधे "गुरो! बंधमोक्षयोः किं कारणमस्ति, तद्विषयेऽहमज्ञोऽत एव भवन्तं पृच्छामि, तद्वाणीं श्रुत्वा 25 जना योग्यतया सत्कुर्वन्तिस्म, परं तस्य चित्ते या जैनधर्मप्रवर्तनेच्छा सा संपूर्णा नासीत् । यत्र गणिवयों व्यहार्षीत्तत्र धर्मप्रचारमकरोत् । धर्मकार्येषु तथा महाजनवृन्देषु बहुक्लेशवत्सु तेषूपदेशं विधाय मुनिस्तेषां क्लेशान् वारयामास, प्रभूतेषु स्थानेषु धर्मः किं वस्त्वस्तीति जना न जानन्ति, तत्र गणिवों धर्मोपनि- पदम् बोधयित्वा जनान् धर्मकार्येषु प्रवर्तितवान् । प्रेम चाविर्भावयामास तत्र जैनजैनेतरेष्वपि सोऽमृत- विमलगणिवों धर्मकार्याणि कारयामास, स यत्र यत्र चतुर्मासीमकरोत्तत्र तत्र तस्य सुधासमानगिरा कर्षिता लोका जैनजैनेतरा अपि देशनां श्रुत्वा हर्षिता अभवन् । भिन्नभिन्नग्रामेषु पृथक् पृथक् स्वभाववतां जनानां परिचयेन पवित्रविहारेषु जनतादरेषु मुनिवर्यस्यापि बुद्धेः कषारूढत्वं संजातमभूत् । कथं तेभ्यो धर्मोप- देशो दातव्यो कार्याणि कारयितव्यानि चैत्योपाश्रयादिनिर्माणं विधापयितव्यं तेषाममृतकल्पया गिरा तुष्टिः संपादनीया चेति गणिवर्यस्य कर्तव्यमासीत् । अस्य गणिवर्यस्यामृतविमलस्य समये यः साधुसमुदाय आसीत् तत्समयेऽयं गणिवर्यः सुशीलः कृतागमाभ्यासस्तेजस्वी प्रतिभावान मनीषी चाभवत् । स्वस्य जीवनसमये तपस्याधर्मोपदेशोपधानादिव्रतानि चागमवतानि वार्षिकतपांसि घटवतानि शत्रुजयनवनव- तियात्रादि कारयामास । तेन धर्मोद्योतने स्वजीवनस्य सर्वोऽपि भागो गणिवर्यो दापयति स्म, तथा तीर्थ- 525252 श्री २५ अमृत- चरि तम् महाराजश्रीअमृतविमलगणिवर्योऽनेकदेशेषु विहारं विधाय तत्र स्थितानभव्यानपि स्वदेशनयाधर्म- कार्याण्युपदिश्य सुपथमारोहयित्वोपधानतपश्चर्यादि च कारयित्वा स्वजीवनोपयोगिनीमात्मकल्याणभावनां दृढीचकार । परमविद्वान् व्याख्यानवाचस्पतिगुरुवर्यपन्यासपदधारिदयाविमलगणिवर्यस्य पथा प्रचलनमृत- विमलगणिवर्योऽपि जैनशासनस्योन्नतिं यथाशक्ति विदधे । तस्यामृतविमलस्य पवित्रपदानि यत्र यत्र भूमौ पतितानि तत्र तत्र तस्यामृतकल्पया गिरा जनानां मनांसि धर्माकुरितानि जज्ञिरे। ततो महाराज- स्यान्तिमो निवासः श्रीराजनगर एवाभवत् । तस्य मुनेः शरीरे पक्षाघातनामकरोगः प्रादुरभूत् । तेनान्यत्र गमनशक्त्यभावात् सोपाननामकोपाश्रय एवोवास । तस्मिन् रोगग्रस्तशरीखानप्यातध्यानं नाकरोत् मना- गपि । ध्यानं चतुर्विधं रौद्रमात धर्मध्यानं शुक्लध्यानं च । धर्मध्यानेन स्वर्ग लभते, शुक्लेन कैवल्यं प्राप्नोति, रौद्रेण नरकमार्तेन ध्यानेन तिर्यक्त्वं च-इत्यागमवचनानुसरणं कृत्वा किंचिदप्यातध्यानं नाकापीत्। कर्मक- लनां विचार्य तपश्चरणमात्मस्मरणं च कृत्वा दिनानि गमयामास । तस्मिन् समये साध्वी जयश्रीः हुकमी- श्चन्द्रश्च काचवलयविक्रेता छोटालालश्च सार्थवाहशृङ्खलचन्द्रादयो गृहस्था अपि सम्यग् वैयावृत्यं चक्रुः । शरीरपक्षाघातोऽपि विंशतिवर्षपर्यन्तमस्थात् तस्य शरीरे। गणिवयों यत्र यत्र मासचतुष्टयमवसत्तत्र तत्र . मभूमिर्महद्भाग्यं चास्माकमिति मत्वा ते जनास्तस्मिन् विशेषतो भावं दधुः। अस्य गणिवर्यस्यैतादृशेन प्रभावेणेष महान् तपस्वी देवांशवान् पुरुष इति च विज्ञायते स्म । अामानामान्तरं गंतव्यं मुनिभिनॆकत्र स्थातव्यमिति वार्ताऽन्यैव, पुनश्च विहारकर्तृणां मुनीनां यत्र ग्रामे विहारः स्यात्तत्र तत्र धार्मिककृत्यानि कर्त- व्यानि,धर्मप्रवर्तनं विधातव्यम् , जनताकल्याणाय चित्तप्रवृत्तिः कर्तव्या, सर्वथा लोकस्थितिरपि ज्ञातव्या, शिष्ट- जनैः सह संस्तवो विधातव्यस्तेभ्योजनेभ्यो मानप्रतिष्ठा सम्यक् संपादनीया। एतादृशेन नियमेन विहरणं मुनीनां फलदायकमन्येषां च हितकरं भवति, अस्मिञ्जगति बुद्धिवर्धकं च। गुरुवर्यस्यामृतविमलगणिवर्यस्य सर्वेऽपि विहारा एतादृशी दृष्टिमवलंब्याभवन् इति विज्ञायते तस्य चरितैः॥ इतिश्रीपरमपूज्यदीर्घतपस्वियोवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्रदे- शोद्धारकपन्यासपदधारिगणिवर्यहिम्मतविमलशिष्यशान्तभूर्तिप्रवर्तकमुनिश्रीशान्तिविमलविरचिते श्रीविमलगच्छाधिपतिधर्मधुरंधरशास्त्रविशारदसकलसिद्धान्तवाचस्पतिविश्ववन्दनीय- गणिवर्यामृतविमलचरितेऽष्टमं प्रकरणम् ॥ १३ श्री २४ अमृत- चरि- तम् वचसा व्याख्यानं कर्तुमारेभे, ततो व्याख्यानमध्यसमयानन्तरं गुर्जरभाषया कविभिनिर्मितानि तीर्थ- करदेवयशोमिश्रितानि पद्यानि वनितान्दो मधुररागेण सदस्यगायतोचैस्तत्समयेऽनृतविमलगणिवों वाचनसमये स्वमुखबद्धां मुहपत्ति हस्तेकृत्य पुनः पुनः संममर्द, पुनर्व्याख्यानारम्भः समजायत । गुरुवर्यस्यैतां चेष्टां विलोक्य तवृत्तांतजिज्ञासुभिः श्रावकैर्व्याख्यानसमाप्त्यनन्तरं पपृच्छे "गुरुदेव ! अत्रमवान् मुहपत्तिं पाणौकृत्य कथं मदितवान् ? तदा तज्जनानां गणिवर्येण प्रश्नपतिवचनं ददे-पा- लिताननगराभ्यणे स्थितशत्रुञ्जयपर्वतोपरि भगवत आदिनाथस्य प्रासादे दीपशिखया वितानं ज्वलति स्म, तदनि शमयितुं मुहपत्तिर्मया पार्णीकृत्य मृदिता, तेन वितानस्थितोऽनलः शान्तः। महाराज- स्यैषा वार्ता सत्या किमिति निश्चेतुं जनजिज्ञासा संववृधे, तेषु कतिचिच्छावकास्तनिणेतुं विद्युयंत्रमुखेन स्वसंस्तववतो जनानेतं वृत्तान्तं प्रच्छयामासुस्तदा तन्निवासिजनैस्तेनैव यन्त्रेण सूचितम्-अयं सर्वोऽपि वृत्तान्तः सत्य एव कुतोऽस्माभिर्देवाराधकपुरुषाः पृष्टाः तैरक्तं वायुनिमित्तचलनेन वितानं दीपशिखां पस्पर्श, जज्वाल च, पश्चात् केन कारणेन शान्तोऽनल इति न ज्ञायतेऽस्माभिः। गणिवर्यस्यैतां चमत्कृति विलोक्य तत्रत्यजनास्तस्मिन् गुरौ श्रद्धावन्तोऽभवन् । एतादृशवचनसिद्धपुरुषस्य पादन्यासैः पवित्रितास्माकीनग्रा- 50.. * प्राप, धारासंपातलक्षणानि सर्वाण्यपि युगपत् संजातानि, विविधनादवती मेघगर्जनाप्यभूत् । तादृशी स्थिति विलोक्य जना भयभ्रांतचित्ता अभवन् । तदामृतविमलगणिवों मेघगंभीरया वाचा जनान सान्त्वयन्नुवाच "भो जनाः ! चित्तभ्रान्ततां परित्यज्य भगवतस्तीर्थंकरदेवस्य वरयात्रां निर्भयाः प्रसास्यन्तु भवंतः । एषा वरयात्रा सर्वनगरं भ्रमित्वा स्वस्थानं नागमिष्यति तावन्मेघस्य पृषतोऽपि न पतिष्यति”, गुरोरेतादृशानि प्रतापजनकानि वचांसि श्रुत्वा कतिपयानां जनानां मनःसु श्रद्धा पदं न दधी, भविष्यद्धारासंपातानां सर्वाणि चिन्हानि खगतानि स्पष्टतया लुलोकिरे, विद्युल्लतापि श्यामलितमाकाशं दीप्तिमचक्रे, भयोत्पादका घनस्वना अपि समजायन्त । एवमंबुदपातसमयेऽभ्यर्णे समागतेऽपि केचन गुरुवचनभाविकश्रावकास्तस्मिन् श्रद्धामभिसंधाय वरयात्रार्थ विचित्रवादित्रनादपूर्वकं निर्जग्मुरुषाश्रयात् । राजनगरस्य सर्वा अपि मुख्याः प्रतोलीवरयात्रां भ्रामयित्वा पुनः प्रत्यावर्तन्त जनास्तावद्गुरुवचनादेव मेघस्यैकोऽपि पृषतो नापतत् । श्रावकजनताश्चर्यवती संजाता गुरोर्वचनसिद्धिं प्रत्यक्षामवलोक्याधिकं श्रद्धावती समभवत् । वरयात्रासमा- गतजना यावत्स्वगृहं न प्राप्तास्तावन्मेघवृष्टिः समभूत् । यदा गुरुवर्यस्य चतुर्मासी उझानाम्नि ग्राम आसीत् तदा तत्पुरनिवासिभिर्जनवजैरुपाश्रयः संकीर्णोऽभवत् , महाराजो व्याख्यानपीठमाश्रित्य .
श्री मृत चरि- तम् मास, स्वस्यामृतकल्पया गिरा जनानां भवभवतापोशमनं विदधे गणिवर्यः ततो विहत्य म तारंगतीर्थ जगाम, यत्र पर्वतोपरि परमार्हतश्रीमद्गुर्जरनरेशकुमारपालेन पारलौकिकीमुन्नतिं विधातुं धन- व्ययेनाजितनाथभगवतस्तीर्थकरस्य भव्यः प्रासादो व्यरचि, यं विलोक्य जनाः स्वजनुपः साफल्यं मन्वते । तत्र प्रतिष्ठापितभगवतस्तीर्थकरस्याजितनाथस्य दर्शनं कृत्वा सशिष्यो मुनिः संजहर्ष । अत्र गणिवर्यस्यागमनं श्रुत्वा राजनगरीया श्रावकजना राजनगरगमनाय मुनि प्रार्थयांचऋः । ततस्तारंगपर्वतान्मुनी राजनगरं समाययौ, श्रावकैः सह तत्रागत्य गणिवयः सोपाननामकोपाश्रयं गतवान् , तत्रैव च मासचतुष्टयमुवास तदा स गणिवर्यश्चिंतितवान-क्लिष्टेभ्योऽपि क्लिष्टतमानि कर्माणि क्षपयितुं तप एव परमपन्थाः ॥ प्रभुमहा- वीरसमास्तीर्थकरा अपि क्लिष्टकर्मनिबर्हणाय तपसामेव मुख्यत्वं मेनिरे, तीर्थकरपदं प्राप्ताश्च, तथैवास्माभिरपि तपांसि संसाध्य क्लिष्टकर्मशमनं कृत्वा सिद्धिपदं प्राप्तव्यमिति विवेकं चकार। एवं विचार्य गणिवयेणापि मासक्षपणं चक्रे, एतत्तपोऽनन्तरं राजनगरीयश्रावकजनता तत्तपस उद्यापनायाष्टाहिकामहोत्सवो महता द्रव्य- व्ययेन कृतवती, तदोद्यापनविधिप्रदर्शिनी महतीं वरयात्रां निर्गमयितुं जनमनःसु प्रवृत्तिः संजाता, तत्समये समग्रमप्याकाशं मेघान्तरितमभूत् । तदा चपलापि तां वरयात्रां निरीक्षितुं प्रवृत्तव पुनःपुनर्जनदृग्गोचरतां A , सपूर्णिमावधि तत्र स्थित्वा ततो विजहार च वलभीपुरं समागतवान् । अत्र पुरे पंचचत्वारिंशदागमान् महामुनयो लिलिखुः । तत्रत्यजना मुन्यागमनसमये वादिननादपूर्वकं मुनेः सन्मानं कृत्वा स्वग्राम प्रति प्रवेशयामासुरुषाश्रयं गत्वा तन्निमित्ता बहुशः प्रभावनाश्चक्रुश्चान्नजलादिना सशिष्यं मुनि सत्कृतवन्तश्च, तेन मुनिनाऽत्र चतुर्मासी कृता, नागराञ् श्रावकान् घटवतं पश्चचत्वारिंशदागमत्रतं कारयित्वा धर्मोन्न- तिश्चके, ततो नागरा विहरणतत्परं गणिवरं विज्ञाय पुनरत्रैव चतुर्मासी कर्तु बहुशः प्रार्थनां चक्रुः । परं चा- मृतविमलगणिवर्यस्थ समयदेशेषु जैनधर्मप्रवृत्तिकर्तृत्वं प्रियतरमभवत् , साधुजनैरेकत्र स्थले न वस्तव्य- मिति मत्वा च पौरान सान्त्वयित्वा धर्मप्रवर्तनाय ततश्चचाल मुनिः । वलभीपुराद् विहृत्य मेवाडमाल- वादिदेशजिगमिषा समजायत, ततःप्रथमं रतलामनामकं ग्रामं मुनिः प्रतीयाय । तत आदिनाथस्य तीर्थस्थलं नाम्ना केसरियाजीति प्रसिद्धं वर्तते, तत्रादिनाथस्य जगदन्धतमसनिवारिणी श्यामला मूर्ति निरीक्ष्य बहुशो वन्दनं कृत्वा स्वात्मानं पवित्रीचकार, मेवाडदेशेऽपि कतिचित्समा विजहार मुनिः । ततो गुर्जरप्रजानां विनयं विलोक्याणहिलपत्तनादिप्रामेषु विहरन् विशनगरं समागत्य तत्रत्यजनताविनतिमाहत्य चतुर्मासी तत्रैवोवास, तत्राप्युपधानादितपांसि व्रतविशेषांश्च जनान कारया- श्रो २२ अमृत. चरि- तम् तथास्मिन्नुपधानतपसि प्रविष्टजनानां समाज एतादृशगुरूपासनया सूत्रमर्यादारहस्यतपश्चर्यारूपसाधनानि ज्ञात्वा जनुषां कृतार्थतां मेने। पालनपुरग्राम एतां चतुर्मासी कृत्वा निखिलगुर्जरभूमि पावयित्वा जनचित्तेषु धर्मवीजानि रोपयन कतिचिवर्षाणि तत्र विजहार । ततः शौर्यवतां धर्मात्मनां च पादरजोभिः पवित्रितां सौराष्ट्रभूभि सपगच्छत् । अस्मिन् समये तत्र प्रसृतं ढुंढकमतं विलोक्य तन्मतदृढाञ्जनाननादितीर्थक- रप्रतिपादितधर्मशासनसमालोचनया सत्पथं दर्शयित्वा पुनर्मूर्तिपूजनप्रकारे समतिष्ठिपद् गणिवर्योऽमृतवि- मलः । एवं गणिर्योपदेशेन ढुंढकमतं विहाय मुनेः सुधासमानवाणीं श्रुत्वा जैनधर्ममङ्गीचकुर्जनास्तदनंतरं यस्याः क्षितेःप्रभावात् कौटिल्यप्रकृतिमन्तःपापिनोऽपिजनाचंद्रशेखरादयोऽपि स्वजीवनपरिवर्तनं विधाय शुद्धाः संजाताः, यत्र परमभव्यजनसंतारका आदिनाथादयस्तीर्थकरादयश्च कोटिशो मुनयोऽपि प्रभूतवर्षाणितपांसि कृ- स्वात्मोन्नतिं साधयामासुस्तत्रभूमौ शत्रुजयगिरिराजतीर्थस्य यात्रार्थ गणिवर्योऽगच्छत् । अत्र शत्रुञ्जये स नव- नवतिकृत्वो यात्रां विधाय तीर्थकरभगवतांपुनःपुनदर्शनं कृत्वा स्वात्मानं विशेषतोनिर्मलीचकार। अत्र चतुर्मा स्यवधिमागतं विज्ञायान्यत्र गमनसमयोऽद्य नास्तीति मत्वा तत्र तीर्थ एव चतुर्मासी न्यवसत् । तत्र पालितानन गरेऽष्टाहिकमहोत्सवशान्तिस्नात्रादिधर्मकार्याण्यनेकशःकारयित्वा धर्मोद्योतं मुनिश्चकार । अन्ततः कार्तिकमा- ग्रामे प्रतिगृहमानन्द उल्ललास, तथा शान्तिस्नात्रादिकार्येभ्यः शासनशोभा समजायत जनेषु । अथ गणिपदप्राप्त्यनन्तरं गणिपदोपाधिधारिणा मुनिनामृतविमलगुरुणा मरुभूमिगतपवित्रतीर्थसेवनाभिलाषेण देवदिदृक्षया च पन्यासपदधारिश्रीहेतविजयमुनेराज्ञां प्राप्य घाणेरावपुरादन्यत्र विजहे । एवं मरुभूमौ कंचि- दनेहसं विहृत्य पवित्रतीर्थानां दर्शनं च कृत्वात्मानं पवित्रीचकार गणिवर्यः । तत्रतत्र प्राचीना चीनभूमि- गतपर्यावर्तनं विलोक्य तथासर्वेषां वस्तूनां क्षणभंगुरतां भावयन् तीव्रसंवेगवान् समजायत। एवममृतविमलगुरुं मरुभूमि विहरन्तं गणिवर्य पालनपुरवास्तव्यजना आदरपूर्वकं विनीतवन्तस्तदाग्रहान् मुनिवर्यस्तं ग्राममि- याय, तत्र मासचतुष्टयमपि न्यवसत् । यत्र ग्रामे जैनशासनप्रभावको गणिवर्यावनेकचैत्यालयकर्तृणां मुख्यौ श्रावकौत्तमौ वस्तुपालतेजपालनामानौ प्रादुरभूताम् । यदा गणिवर्यो जगाम तं ग्रामं तदा तत्रत्यजना वादित्रघोषपूर्वकं पुरप्रवेशमहं कृत्वोपाश्रयं गतवन्तो मुनि लाभयित्वा सत्कारं चकुः । तत्र बहूनि धर्मकार्याणि शासनोन्नतिप्रदर्शकानि कारयामास जनान् । अत्र गणिवर्य उपधानतपसामारंभं कारयति स्म । तत्र राज- नगरवटनगरमहीसाननगरादिवासिनो जनाः संयुयुजुः । यथा प्रशस्यगुरूपासनबलेनानेकमंत्रतंत्रविद्या- साधकोऽनेकमर्यादारहस्यसाधनानि संशिक्ष्य विद्याविच्छिष्यो कृतकृत्यो भवति तथाऽऽनन्दितश्च भवति, २१ अमृत- चरि तम् श्चिदपि स्थानेऽनाकलितं न भवतीति । भवादृशाः समताजुषो जना आत्मसंस्मरणलीना भवन्ति, परं चात्र सहस्थितत्वेन भवतां स्वभावो मया पर्यालोचितस्तेन मम तुभ्यं गणिपददित्सा संजायतेऽतोऽस्य ग्रामस्य जनसंमति गृहीत्वा तुभ्यं गणिपदं दास्य इति मेऽभिप्रायोऽस्ति । एवं परस्परं वातयित्वा घाणेरावसंघ- समस्तं समाहूय तमपृच्छत्-अद्य भवतां गृहांगणे महापंडित आगमवेत्ता पंचमहावतधारी भवतः सर्वान् पावयितुमागतोऽस्ति, तस्य वैदुष्यं तादृशांश्च गुणान् समवलोक्याहं परितुष्टो मम तस्य गणिपददित्सा वर्तते, भवतां कीदृशी रुचिरस्तीति मह्यं विज्ञापयन्तु । तदा संघसमस्तजनैरुदीरितं यथा तत्रभवतामिच्छा तथा कर्तुं वयं सर्वे तत्पराः स्मः । अस्माकं गृहांगण आगत एतादृशः समयो वन्ध्यो माभूत् । अतो यथा भवता- माज्ञा तथा यतिष्यामहे । तस्य ग्रामस्य संघसमस्तस्यामृतकल्पानि वचांसि श्रुत्वा पन्यासः संजहर्प, सद्य एव संघजनानष्टाहिकमहं कर्तुमादिदेश । महाराजस्याज्ञां प्राप्य तत्र जनैरुत्सवः समारेभे, तन्निर्मित आनन्दः सर्वत्र ग्रामे प्रतिगृहं प्रससार, अमृतविमलस्य गणिपदमहोत्सवे श्रीनगरात् संघवीत्युपाधिधारी श्रेष्ठिशृङ्खलच- न्द्रस्तथा जोइतारामनामा श्रेष्ठी तथान्ये च संघजनाअपि सूर्यमलश्रेष्ठ्यादयोऽप्यामंत्रिता गृहस्थाः समागच्छन् घाणेरावपुरम् । एवं सकलसंघजनसमक्षं शुभ मुहूर्ते मुनिराजामृतविमलाय गणिपदवी प्रदरा तदा तत्र वकाःस्वद्वादशवतपालने दृढवता बभूवुः । प्रत्याख्यानसामायकादिधर्मकार्येषु प्रेम्णा संयुयुजुः। इत्येवं तेषां मनसि धर्मबीजानि रोपयन मुनिः सर्वत्र विजहार । सर्वजनीनहितसमावेश आत्मनीनहितं समाविशतीति मत्वा सर्वजनकल्याणप्रवर्तन एव स्वमनीषोपयोग ददौ मुनिवर्यः । महाराजामृतविमलगुरोः परिचयवन्तो जना जातुचिदपि तं न विस्मरन्ति । तस्य स्वभावसौष्ठवतया संमीलनस्वभावतया च जनास्तस्मिन् स्नि- यन्ति स्मेत्थमनेकामेषु विहरन् गुरुरमृतविमलोऽनेकतीर्थदेवालयादिभिः पवित्रितं मरुभूमिस्थितं घाणे- रावग्रामं प्राप्तवान् । तत्समये तस्मिन् ग्रामे पन्यासपदधारी साधुशुद्धव्रतपालनतत्परो गणिवों देशनादान- जनानां जननमरणक्लेशं वारयन् हेतविजयमुनिर्विरराज । तं समागतं विज्ञाय गणिवयों बहुशस्तुतोष, सानन्दं स्वसन्निधौ चतुर्मासीं कर्तुमाग्रहं च कृतवान् , तस्य तदाग्रहं विज्ञाय मुनिवर्योऽप्येतादृशमहापुरुष- परिचये लाभः संजायते प्रेमाविर्भावोऽपि परस्परं संजायत इति विचार्य तेन गणिवर्येण सह तत्रैव चतु. मासी विधातुं निश्चिकाय । तत्रान्योन्यपरिचयेन पन्यासपदवीधारी हेतविमलगणिवर्योऽपि चामृतविमल- मुनेविवेकनम्रतासहिष्णुतादिगुणवर्गेण गुणगृह्यत्वं चावलोक्य सोऽतीव तुतोष तस्मिन् मुनौ, तस्य योगो- दहनादिधर्मकार्याणि कारयित्वा सूचितवानेव गणिवों गुणिजनानां गुणप्रसूनसौरभ्यमत्र जगति कस्मि- श्री अमृत- चरि- तम् इतिश्रीपरमपूज्यदीर्घतपस्विवृयोवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहा- राष्ट्रदेशोद्धारकपन्यासपदधारिगणिवर्यहिंमतविमलशिष्यशान्तमूर्तिप्रवर्तकमुनिश्रीशा- न्तिविमलविरचिते श्रीविमलगच्छाधिपतिधर्मधुरंधरशास्त्रविशारदसकलसिद्धान्तवाच- स्पतिविश्ववन्दनीयगणिवर्यामृतविमलचरिते सप्तमं प्रकरणम् ॥ अस्मिञ् जगति मुनिविहारो मुनिजनानां ज्ञानबाहुल्याय भवति, यथा जलप्रवाहो नैर्मल्यं प्राप्नोति प्रवाहरूपेण स्वयमन्यांश्च निर्मलान् करोति तथा विहरणशीला मुनयो ज्ञानोपदेशेन जनमनसां नैर्मल्यमात- न्वन्ति । महाराजश्रीअमृतविमलस्य विहारेण तस्य विद्यासंस्कारेषु प्राबल्यता समजनि । एवं राजनगरे जनताग्रहात्रिचतुर्मासी क्रमशो व्यतीयाय, ततो गुरू राजनगराचतुर्मास्यनन्तरं शुभ मुहूर्तेऽन्यजन्यपदवि- विरहणाय प्रचचाल। प्रथमं ततो निर्गत्य पाटणनगरे चतुर्मासी व्यधात् , ततो विशनगरे, ततः पालनपुरे, ततो ग्रामाद् ग्रामं विहरतस्तत्र जनानां सुधासमानदेशनया शान्ति विदधत् सर्वत्र विजहार मुनिः, सर्वत्र जनानां जैनधर्मोपनिषदमुपदिदेश, जनमनःसु धर्मस्थापनां च कारयामास । यत्र यत्र महाराजो विजहार तत्र तत्र तस्य कीर्ति श्रुत्वा जना वृन्दशो भूत्वा तस्य देशनां श्रातुं समाजग्मुर्गुरोर्मधुरवाणी च श्रुत्वा श्रा- तव्यं तेषामुपनिषदपि सम्यक्तया ज्ञातव्या, इति मत्वा शास्त्रतलस्पश्य॑भ्यासवान् समजायत । प्रत्यहं स शास्त्राभ्यासस्याग्रपथं ददौ, कथं जगति लोककल्याणायात्मनो शिवलक्ष्मीवरणाय च तेनाग्रे गंतव्यमासीत् । स मुनिः स्वाध्यायबलेन जगता निर्धारितमुच्चपदं प्राप्तः । विद्वज्जैनाचार्यनिर्मितग्रन्थानां तथा तथोत्तमपु- स्तकानां परिचयोऽवश्यं कर्तव्य इति महाराजामृतविमलस्य मुनेः प्रशंसनीया पद्धतिरभवत् । एवं दीक्षा- ग्रहणानन्तरं तत्र श्रीनगर एव वर्षत्रयं समतीतम् , तदा तस्य विचारशैली पूर्णतां प्राप्ता स्वाध्यायोऽपि प्रवलो जातस्तस्य ज्ञानदृष्टिरपि शास्त्रार्णवागाधतलस्पर्शतां प्राप, तर्कशक्ती सत्यशोधनसमालोचनाप्य- पूर्वासीत् । अस्मिञ् जगति साधनसंपन्ना जना यद्युत्साहवन्तः स्युस्तर्हि किं किं न कुर्वन्ति ? जनोऽयं जगति पांच तिककार्येषु चान्तरिकमनोविज्ञानशक्तिषु यादृग् विवर्धिषावाञ् जायते तादृशः संवर्धते निःसंशयम् । तस्यैवामृतविमलस्य मुनेः स्वाध्यायो यथा यथा समवर्धत तथा तथा तस्य कीर्तिरपि सर्व- जनपदे विस्तृतासीत् । यत्र यत्र जनवजैः प्रार्थितश्चतुर्मासी न्यवसत् तत्र तत्र तस्य विद्वत्ता यौवनतां प्राप । श्राविकाश्रावकवृन्दस्तस्य वचनमाधुर्यमयीं व्याख्यां श्रुत्वा स्वजन्मावन्ध्यतां मत्वा स्वात्मानं च धन्यं मेने ॥
१९ श्री चरि- तम् जानीयुरेतादृशेन गुरूपदेशेन सिद्धितपसो महान् महो जनैः समकारि, यस्योत्सवस्य व्यवस्था श्रेष्ठी अमृत- हुकमीचन्द्रो जोइतारामश्थाकुरुताम् । एवं त्रिवर्षमध्ये त्रिचतुर्मासी व्यदधान्मुनिः, तेषु मध्ये श्रीराजनग- रेऽनेकधर्मकार्याणि जनैः कारितवान् । तत्समये मुनिश्रीअमृतविमलस्य शास्त्राध्ययनशैली चागमानां चाभ्यासं विलोक्य तदानींतना जना मुमुदिरे, राजनगरीयसर्वप्रजा आगमोक्तवचनोपदेशेन धर्मसन्ना- हवत्योऽभवन् । इतो गणिवर्यस्य शब्दघोषमयी देशना प्रवर्ततेऽतोऽमृतविमलमुनेरभ्यासः संपूर्णतां प्राप्तः । अस्मिञ्जगति महान्ति प्रश्नप्रतिवचनानि प्रदातुं विद्यापीठेषु तथान्यासु पाठशालासु परीक्षा निष्णातताव- श्यकी नास्ति, कथं जनानां प्रश्नपतिवचनशक्तिर्न परीक्षातो भवति, किंतु ग्रन्थतलस्पय॑भ्यसनादेव जायते। निमितपाठ्यपुस्तकेषु निर्धारितपुस्तकस्येयत्प्रमाणं वाचनं कृत्वा परीक्षोत्तीर्णानामध्ययनरीतिर्न सत्या, कथं शास्त्रमर्यादया कस्यापि विषयस्य तलस्पयध्ययनमन्तरा जनाः शास्त्राणां पारंगमिनः प्रश्नपतिवचनदान- समर्था न जायन्ते । अस्मिन् समये मुनिश्रीअभृतविमलस्य बुद्धिरेतादृशी कुशाग्रीयाऽभवद्यथा प्रश्न- प्रतिवचनदानसमर्था जाता । अन्यच्च स यं यं विषयमंगीचकार तस्मिन् निष्णातो बभूव । स्वस्य स्वा- ध्यायार्थ विपुलानि साधनानि संरक्षणीयान्येवं तस्याकूतमभूत् । गणधरनिर्मितागमाभ्यासे पूर्णतया यति- rail मासी नावसत् परंतु शाहपुरनिवासिसंघजनरादरपूर्वकं कृतां विनतिं श्रुत्वान्यमासचतुष्टयं श्रीनगरस्थित- शाहपुरे मंगलश्रेष्ठिपाटकेऽकरोत् , तत्रापि चतुर्मासाभ्यन्तरे तत्रत्यजनान् सूक्ष्माणामपि तत्त्वानां निरूपकाणां ज्ञानपूर्णतादर्शकानां च महापुरुषाणां शासनाग्रयतासम्पादकानां पंचचत्वारिंशदागमानां व्रतं कारयित्वा "जनैख़ने कीगादरः कर्तव्य” इतिज्ञानमाहात्म्यं सम्यग् दर्शयित्वा तपश्चर्याप्रभावमपि सम्यक् संश्राव्य धर्मसूर्योद्योतेन जनमनःकमलान्युद्घाटयामासिवान् । तृतीयां चतुर्मासीमपि तत्र श्रीनगर एव सोपाना- श्रयनामकोपाश्रये तत्रपाटके पाटकजनाग्रहात् सशिष्यो मुनिरकरोत् । तस्य गणिवर्यस्य वाणीप्रवाह एता- दृशोऽभवत् तत्रत्यजना मुनी स्नेहला बभूवुस्तस्य ज्ञानागाधतां व्याख्यानपद्धतिं चालौकिकी विज्ञाय सर्वे मोहिताः संजाताः। अत्रत्यचतुर्मास्यां तत्रत्यजनान् सिद्धितपसः प्रभावं ज्ञापयित्वा सिद्धितपोऽचीकरत् । अस्मिन् सिद्धितपसि पंचशतं जनानां समुदितमभूत् । तेषामग्रे तत्तपसो महिमानं व्याचख्यौ । अस्मिन् जगति महालब्धयः प्रोन्नताः शक्तयश्च पूर्वाचार्यैर्महाप्रयत्नैः संपादिताः सन्ति तपोबलात् , यतो जनैर्यथा- शक्ति सिद्धितपसि यतितव्यं, तथैवैतानि तपांसि शास्त्रोक्तविधिना सौष्ठवेन साधर्मिकवात्सल्येन धर्मवत्स- लतया चोद्यापनीयानि, यामुद्यापनां दृष्ट्वा जना ज्ञानाय प्रवर्तेरन् तथैवाचरणमपि कुर्युस्तपोमहिमानमपि , श्री अमृत चरि- तम् १८ शुशुभाते । यथाकरोद्भूतमणीनां परीक्षा सत्यमणिकार एव करोति शाणघर्पणादिना तर्मों द्वावपि मुनिवेशसं- स्थितावनगारव्रतशाणोजितौ सत्यसाधुपदधारिपन्यासपदविभूपितस्य श्रीदयाविमलगणिवर्यस्य सन्निधी विनयविवेकवैराग्यशान्तिनिरवधिदयादाक्षिण्यादिगुणवृन्देन ततस्तावुपगुरुवर्यमध्ययनमार- भेताम् । आदी व्याकरणकाव्यकोशसाहित्यन्यायादिशास्त्राणामवलोकनं स्वबुद्धिशागल्भ्येन चक्रतुस्ततो मागधीभापया गणधरैर्विरचितान पंचचत्वारिंशदागमानपि सौष्ठवतया विशदान् मनसि धारयामासतुर्येषु साक्षाज्जैनमतं निरूपितं नवतत्त्वदर्शनं भवति लौकिकपदार्थानां दर्पणेष्विव । मुनिश्रीअमृतविमलमहाराज- स्तद्वन्धुः सुमतिविमलोऽपि चतुर्मासत्रयं पन्यासपदधारिगणिवर्यदयाविमलैः सहैव श्रीनगरे चक्रतुः । प्रथम मासचष्टयं हाजापटेलेतिप्रसिद्धनामके पाटके स्थितस्य सोपाननामकोपाश्रयस्य मध्ये चक्रतुः । तत्र गुरु- प्रभावतश्चतुर्मास्यां सर्वजना व्रतधर्मपालनतत्परा बभूवुः । दयाविमलगुरोर्वचनपयःप्रवाहेण जनचित्तालवाले' क्लिन्नेषतानि धर्मवीजान्यंकुरितानि संजातानि, पश्चात्स्वर्गमोक्षफलदान्यपि समजायन्त, तथान्ये जना गणिव- यस्य वचनेन प्राप्तसम्यक्त्वाः स्वीकृतश्रावकद्वादशवताः प्रत्यहं व्याख्यानसमये तच्छ्रवणेन च कृतमुनि- बहुमाना भक्तिमन्तो बभूवुस्ततोऽन्यचतुर्मासस्थित्यर्थं तत्रत्यजनैर्महाग्रहपूर्वकं विनीताऽपि मुनिवर्यस्तत्र चतु- समजायत । संसारतापोपशमनी गुरुच्छत्रच्छायामाश्रित्य द्वयोर्मुनिराजयोर्जीवनदशा क्वाप्यवर्णनीया संबभूव, पन्यासपदधारी दयाविमलगणिवर्योऽपि योग्यशिष्यतासंपादनदक्षौ गुरुपरिचर्याकुशलौ विद्यासंपादः ननिपुणौ शासनप्रभावको द्वौ शिष्यौ समजायेतां तेनाप्यात्मानं धन्यं मेने। अस्मिञ्जगति दैवं किमात- नोतीति न केनापि ज्ञायते ज्ञास्यते वा, कथमिन्द्रप्रस्थवास्तव्यस्य धनिकव्यवहारिणः पुत्रस्य चारित्रलक्ष्मीवरणं जनहितकरणं च क्व लोलुपतासक्तजनैवर्णितं गार्हस्थ्यसुखं च क्व, अनयोरंतरं निर्धार्य तेन सर्वधनिकवैभवं च परित्यज्य संसारसमुद्रतारिणी नौकासमा दीक्षा यद्गृहीता सैषा न स्वल्पा वार्ता, किंत्वतिमहज्जनचरित- मीहगेवास्ति । अस्मिञ्जगति दीक्षागृहीतारो जना मतिभेदेन बहवः सन्ति परममरचन्द्रवद्धनिकवैभवं त्यक्त्वा मायां च पदाहत्य चारित्र्यलक्ष्मी वरयितारः शासने विरलाः सन्ति । इतिश्रीपरमपूज्यदीर्घतपस्विवयोवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्र- देशोद्धारकपन्यासपदधारिगणिवर्यहिम्मतविमलशिष्यशान्तमूर्तिप्रवर्तकमुनिश्रीशान्तिविमलवि- रचिते श्रीविमलगच्छाधिपतिधर्मधुरंधरशास्त्रविशारदसकलसिद्धान्तवाचस्पतिविश्व- वन्दनीयगणिवर्यामृतविमलचरिते षष्ठं प्रकरणं समाप्तम् ॥
श्री अमृत चरि- तम् महती प्रतिष्ठाऽऽसीत् । तस्य पीयूषवर्षिणी संसारतापोपशमनी भव्यजनोद्वोधनदक्षां गिरं श्रुत्वा तत्स्था वहवो जना गणिवर्य प्रेमाविर्भावमातेनिरे। एकस्मिन् समये गणिवों जनसदसि जनशान्तिकर्तृ व्याख्यान- मुपानयमध्ये चकार, तच्छ्रवणाय बहवः पौरजनाः संमिलितास्तद्व्याख्यानं यदा समाप्तिमगच्छत्तदा नि- खिलाः श्रोतारो जनाः क्रमशो विशीर्णा बभूवुः । केवलममरचन्द्रः स्वभ्रात्रा सह तत्र निषण्णोऽभवत् । सर्वजनविशीर्णनानन्तरं तौ दौ भ्रातरावेव गणिवर्यस्य दृष्टिपथं गतौ । तौ दृष्ट्वा तयोः शुभसंकल्पं दृढ- वैराग्यं चाकलथ्य सर्ववस्तुनिःस्पृहो गुरुः “अस्ति किंचित्कार्य" मित्यपृच्छत् । तदा तत्पतिवचनेऽमरचन्द्र ऊचे-तत्र भवतां पीयूषवर्षिण्या वाचया चरितेन चावयोर्मनः परमं संतोषं प्राप्तम् . तत्रभवतो दीक्षाग्रहण- लालसा नौ वर्ततेऽतो भवमोचिनी दीक्षां देहीति तस्यामृतकल्पानि वांसि श्रुत्वा गुरुस्तयोदृढतां परीक्ष्य सर्वसंघस्य संमतिं गृहीत्वा शुभ मुहूर्तदिवसमवलोक्याष्टाहिकामहं कारयित्वोत्सवान्ते विक्रमसमयातीतव- स्वेकनिध्यकमिते वर्षे मार्गशीर्षमासे शुद्ध पक्षे तृतीयातिथौ विधिपूर्वकं वादिननादपूर्वकं ताभ्यां पारिवाज्यं विततार गुरुस्तयोर्मध्य एकोऽमरचन्द्रो नाम्नामृतविमलश्वान्यः शकुनराजो नाम्ना सुमतिविमलो बभूवा- न्ततः स्वशुभभावनायां पूर्णायां योग्यगुरुसंगमने संजाते नवीनमुनेरमृतविमलस्य मनसि महानानन्दः धितितीर्षया परमगुरूपदेशमयीं धर्मौकां मृगयितुमागौ स्वः । तादृशगुरोःसमीपे पारिवाज्यं गृहीत्वाऽऽ- त्मोन्नतिकरणाय निजगृहान्निर्गतौ स्वः। इत्येवं प्रश्नप्रतिवचनं ददावमरचन्द्रः,पश्चात् किंचित्कालं तत्र स्थित्वा गुरुवन्दनं कृत्वा स्वभ्रात्रा सह स्वावमोचनं प्रत्यायो। गुरुप्रथमदर्शनसमय एवामरचन्द्रस्य गुरूपरिपरं प्रेमा- विर्वभूव, पश्चाच्छनैह्रौं भ्रातरौ गणिवर्यस्य संगतिं विदधतुः। तस्य संसारनिवर्तनकरी देशनां पुनः पुनः श्रुत्वा तयोर्यथा यथागणिवर्यस्थ संगतिवर्धत तथा तथा गुरुं प्रति विशेषतः सद्भावना दृढीभूता समजायत । अमर- चन्द्रस्य हृदये दीक्षाग्रहणबीजं नवपल्लवितमभूत् । ताभ्यां निश्चितं च यदि दीक्षा स्वीकार्या चेदस्माद्गुरोरेव गृहणीया नान्यस्मात् । एतादृशशान्तमूर्तिसाधुलक्षणसंपन्नादस्माद्गुरोरेवास्माकं परमोद्धारो भविष्यति, अतो- ऽस्माद् गुरोरेव संसारोच्छेदकरी दीक्षा स्वीकार्य तस्य चरणकिकरौ भूत्वा तस्याश्रयच्छायामाश्रित्य शिवमनि यतितव्यं लोककल्याणमार्गेऽपि च । एवममरचन्द्रः स्वमनसि निश्चिकाय । अथ कोऽसौ दयाविमलगणिरित्या- कांक्षायां तस्यपट्टपरंपरां वक्ति-तपोगच्छपरंपरायाः षट्पञ्चाशत्तमे पट्टे स्थितस्यानन्दविमलसूरेः परंपरागतविभ- लगच्छस्थितपट्टधरः पन्यासपदधारी दयाविमलगणिरभवत् , तत्समये राजनगरवेष्ठिषु मुख्यतया गणनां प्राप्तः श्रेष्ठी मनसुखनामापरश्च यमुनाख्यश्च, तौ द्वौ दयाविमलगणेःवशंवदावभूताम्। गणिवर्यस्य तत्समये राजनगरे શ્રી अमृत- चरि- तम् स्था उत्थायोत्थायोपशमं गच्छन्तिस्म । अन्ततोऽमिरथो राजनगरं प्राप्य स्वस्थितिस्थाने स्थिरोऽभूत् । तदा तत्र निषण्णा जना युगपत् खलकपोतन्यायेन स्वस्वस्थानेभ्य उत्तीर्णास्तदा पान्थमारवाहिनः किंकरा वेत- नदानेन सर्वपान्थानामध्वनीनोपस्करं सर्वमनलरथस्थितिस्थानाद्वहिनिष्कासयामासुः। ततः पान्था हय- शकटसमुदायैः स्वस्वस्थानं प्रतिजग्मुः । अमरचन्द्रोऽपि शकुनराजेन सह तत्रासन्नविश्रामभुवनं प्राप्य निवासं चकार । परोलक्षपरिपूर्णजनवजराजनगरस्य संस्तव उभयोर्धात्रोर्यद्यपि नासीत्तथापि स्वबुद्धिप्रार- ल्येन तेजस्वितयामरचन्द्रः क्लेशं मनागपि नाप । अथैकस्मिन दिवसे द्वौ भ्रातरौ नगरे भ्रमन्तौ चैत्य- वन्दनं कुर्वन्तौ च राजनगरस्थितदेवशाहश्रेष्ठिनः पाटके स्थितं जैनोपाश्रयं गत्वा तत्र स्थितानां साधूनां वन्दनां चक्रतुः । तस्मिन् समये तत्रोपाश्रये भविजनसंतारकः सर्वांगमसंवेदी देशनादानचतुरस्तेजस्वी पन्यासपदधार्यनुयोगाचार्यों नाम्ना दयाविमलगणिवयों विरराज । कृपालुर्मुनिवरस्तदानी स्ववन्दन- कोंस्तयोः सुखसमागमपृच्छां विधाय कुतः समागतौ किमर्थ चेत्यादिप्रश्नान् पप्रच्छ, तदा तत्प्रश्नानुसा- रेणामरचन्द्रोऽपि भाषते स्म गुरो ! अहमिन्द्रप्रस्थवास्तव्योऽस्मि नाम्नामरचन्द्रस्तथाऽयमपि मद्भ्राताभि- धानेन शकुनराजोऽस्ति । आवां स्वकर्मणा निम्नोन्नतगतिं गछतां जीवानां परमकष्टदायिचतुर्गतिसंसारोदtar - नार्थमने के जना यथा समूहयन्ति तद्वदनापि जनसंमों महता प्रमाणेन विद्यते । धूमशकटस्य तृतीय- वर्गस्थानस्य नामधेयमांग्लभाषायां थर्डक्लास इति कथयन्ति जनाः । तत्र स्थाने केचन जनाः स्वस्वपादान प्रसार्य प्रस्वपन्ति, केचन नर्मकर्मकुशला नर्मवचांस्युच्चायन्ति, केचिद्विपंचाशत्पनात्मकं रक्तश्यामलित- मंकान्वितं क्रीडनकवस्तु गृहीत्वा परस्परं रमन्ते रात्रिनिर्गमाय, केचन नर्मवचस्यट्टहासेन निद्रितजना- नुषप्लवयन्तिस्म । धूमशकटस्य कनिष्ठवर्गस्थानं तु विविधस्वभाववज्जनसमुदायेन जगदर्पणमिव प्रतिभाति, नैकजनसमुदायेन येषामानन्दजिघृक्षा चेत्तत्रैव स्थातव्यम् । द्रष्टारोऽपि विविधस्वभाववतो जनाननुभवन्ति । एतादृशविविधस्वभावैर्मनुजैः पूर्णस्यामिरथस्य तृतीयवर्गे निषण्णोऽमरचन्द्रोऽपि स्वबंधुना शकुलराजेन सह पान्थतां विदधे । दीर्घप्रवासतया शकुनराजस्य सर्वसंकल्पशमनी निद्रा संपाला, अमरचन्द्रो जान- देवाभवत् , भाविचिन्तनां च चकार । अनलस्थः स्वगतिशीघ्रतया प्रस्रवणगिरिमुल्लंध्याग्रनिम्बमधुकप्रियं- गुपादपैः पूर्णा गुर्जरभूनि प्रविवेश, धूमशकटमार्गमुभयतः शाहलभूमिं सस्यपूर्णानि च क्षेत्राणि विलोक्य मरुभूमितः समागताः पान्थलोका जहषुरानन्दं च लेभिरे । अमरचन्द्रोऽपि स्वभ्रात्रा सहावर्णनीयगुर्जर- भूमिसौंदर्य विलोक्य ननन्द । शनैःशनै राजनगराभ्यर्णता समागता । तदामरचन्द्रस्य मनसि नवीनमनो- १५ श्री अमृत- चरि- तम् वरीतुमिच्छरिवोत्कण्ठिताभवत् , तांच विलोक्य पादपोपरिस्थविहगा अपि सुस्वरं विवाहगीतानि गायन्त इव शब्दानुच्चारयन्ति । एतादृशसमये शिवलक्ष्मीवरणायोत्सुकोऽमरचन्द्रः स्वभ्रानाशकुनराजेनसहामिरथस्य कनि- छवगैन्यपीदत् । अमिरथोऽपि लोहविशेषनिर्मिताध्वनि शीघ्रतया चचाल । अथ तत्रामिरथस्थितिभाजां पान्थ. जनानामुपवेशनार्थ मध्यमोत्कृष्टकनिष्ठवर्गत्रयमस्ति मार्गद्रव्यव्ययानुसारेण । अत्र जगत्यां स्वनिर्मितपुण्यकर्म- भी राजत्वं प्राता राजन्याश्च तथान्ये धनिनो व्यवहारकुशलास्तथा वादविषयनिपुणाश्च राजकार्य राज्ञां मतिप्रदा- तारो सचिवास्तथा वादविषयेऽन्यत्रापि रूप्यकपंचशतपरिमितं येषां वेतनमस्ति ते सर्वेऽपि धूमशकटस्योत्तम- वर्गे निषीदन्ति, तत्र सद्भाग्यवतां तेषां स्वशरीरसुखापादनमात्र एव धनव्ययं कुर्वतां मनःसंतोपार्थमुत्तमवर्गे विविधरचनायुक्ताः पर्यका विद्युत्मदीपाश खाश्च रचिताः सन्ति, मार्ग उदन्यावारणाय शीतलं जलमपि स्थापितं भवति, नत्र ते भाग्यवन्तस्त्रिगुणमूल्यं दत्त्वा निषीदन्ति । ये च मध्यमस्थितिमन्तस्ते द्विगुण- मूल्यं दत्वा मध्यमवगें स्थानं लभन्ते, तत्र पूर्वोक्तोत्तमवर्गात् किंचिन्न्यूनसोपस्करत्वमस्ति । ये चात्र जगति सामान्यजनाः सन्ति ते कनिष्ठवर्गे स्वल्पं मूल्यं दत्त्वा स्थानमर्जयन्ति, परं चोत्तममध्यमवर्गयोर्जनवाहुल्यं न वर्तते, किंच कनिष्ठवर्गे निपण्णानां जनानां महती जनवाहुल्यता वर्तते, यथाधुनिककाले सिनेमाप्रदर्श- तेन धर्मभावनां भावयता पितुः पवित्राचरणेन पथा प्रचलता वाणिज्यं कुर्वता स्वपूर्वोक्तनित्यकर्माणि परलोकगतस्य पितुः शान्त्यर्थ जातुचिदपि न विसस्मिरे । यैथ वाणिज्ये मनोरुचिः शैथिल्यं प्राप्ता स्वनगर- समागतसाधुजनानां मुखाजनिर्गतपरमवैराग्यवचांसि निशम्य प्रत्यहममरचन्द्रस्य चित्तं रंभात्वग्वदसारं संसारं भावयतो निर्विवेद । आत्मकल्याणाय च तस्य श्रमणधर्मजिघृक्षा समजायत, तेन तथाविधशुभभाव- नया स्ववाणिज्यमपि शनैः शनैः समाप्ति नीतम् । अनेनैव व्यवहारेण नगरवणिग्जनेषु विविधजनश्रुति- रभवत् । परं च तं जनापवादं मनस्यगणयता तेन स्वापणस्य सर्वामपि योग्यां व्यवस्था निर्ममे। ततोऽमरचन्द्रः स्वभ्रात्रा शकुनराजेन सह संसारमृगतृष्णिकाजलपिपासावारणाय योग्यताप्रापकायसाधुगुणविशिष्ट सद्गुर्वन्वे- षणाय च पारलौकिकाभ्युदयाय स्वनगराच्च शुभ मुहूर्तमवलोक्य गुर्जरदेशस्थितराजनगरगमनाय निर्ययो। स्वगृहाद धूमशकटनिर्गमनसमयमालोक्याग्निशकटगृहमागत्य स मूल्यं दत्त्वा राजनगरगमनपर्यन्तं प्रमाणपत्रं गृहीतवान् । ततो हस्तिनापुरसकाशात् कृशानुरथः समागतः, सायंसंध्यासमयश्चाभूत् । यथा लोके नवीना कन्या स्वभाग्योदयेन प्राप्तं वरं वरीतुं स्वशरीरपरिहितसर्वविभूषणशोभिता मातृगृहं प्राप्य मुदितो भवेत्तथा संध्यारुणिताकाशभागवस्त्रेण स्वीयं शरीरं भूषयित्वा तारकागणैः सहोदयं यान्तं रोहिणीरमणं फरहर ६ 20 श्री अमृत- चरि- तम् . किंच वीरसेनश्रेष्ठिनो वणिग्वर्गेषु महती प्रतिष्ठासीत्। तथा वाणिज्यकार्येऽनेकानि मित्राण्यप्यभवन केचन तस्य पितरि परमप्रेमवन्तोऽपि । एवं पितृकृतसर्वजनस्नेहमयी रज्जु द्रढयितुमनाः सुपुत्रोऽमरच- न्द्रस्तथैव प्रवर्तते स्मैवं स्वपित्रोपार्जितां कीर्तिममरचन्द्रो मनोनैश्चभ्येन ररक्ष । इत्येवं परलोकगतस्य पितुः शुभं भूयादिति मनसिकृत्य सर्वकृत्यानि सुपुत्रेण तेन कृतान्यभवन् । इतिश्रीपरमपूज्यदीर्घतपस्विव- योवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्र देशोद्धारकपन्यासपदधारिगणिव- यहिंमतविमलशिष्यशान्तमूर्तिप्रवर्तकमुनिश्रीशान्तिविमलविरचिते श्रीविमलगच्छाधिपतिधर्मधुरंधरशास्त्र- विशारदसकलसिद्धांतवाचस्पतिविश्ववन्दनीयगणिवर्यामृतविमलचरिते पंचमं प्रकरणम् ।। मनोरथप्रवाहेण नीयन्ते सर्वजन्तवः । प्रवाहं तं विभिचैव विधिरन्यत्तनोति च ॥१॥ ललाटलिखितां रेखां न माष्टुं प्रभवेज्जनः। इति विचार्य धीरेण वर्तितव्यं निरन्तरम् ।।२।। युवावस्थासमारम्भे तस्थुषो नागरिकवणिजां मध्येऽग्रगण्यतामनोरथपरम्परामारचयतो जनकयश औ. ज्वल्यलालसा सेवमानस्यामरचन्द्रस्य जीवनप्रवाहो वाणिज्यव्यवहाराच्छीघमन्यपथमेवाङ्गीचकार । तत्कारणं तु सामायकादीनि धर्मकार्याणि चैत्यवन्दनागुरुवन्दनादिसत्कर्माणि पितृपरम्पराप्राप्तानि मनागपि न तत्याज, ममरचन्द्रस्य संसारतापनिवारकपितृच्छत्रे विनष्टे यौवनप्रवेशात्प्रागेव सर्वचिन्ताशून्यायां कौमारावस्थायामे- वादृश्यतां गतम्, तस्य पित्राधाराः सर्वमनोरथा भन्नाः। जनकमृतेरनन्तरं परलोकगतस्य पितुः संतोषार्थ कार्याणि विदधता सहोदरान्प्रत्यौदार्य दर्शयता स्वसंबन्धिजनेषु शिष्टतां वर्धयता व्यवहारकार्यावलोकनं कुर्वता जनताशुभंकराणां कार्याणां योग्यायोग्यं विचारतया स्वात्मानमसत्पथानिवर्तयता सुपुत्रेणामरचन्द्रेणा- नुत्तरं पितृतर्पणमिति विज्ञायते स्म । परोपकाराय सतां विभूतय इति वाक्यममरचन्द्रः पितृपरंपरागतभागधे- यवत् संजग्राह, जनकात्मनः प्रीत्यर्थ शुभकार्याणि कर्तव्यानीति तस्य मनोरथो नोपशमङ्गतः । तच्छुभसं- कल्पपरंपरारूढः स लोकख्यात्यर्थ धर्मार्जनाय च पान्थजनोदन्यानिवारणाय सत्कूपादीनि कारयामास, चैत्य- जीर्णोद्धारं जनमनोज्ञानवृद्धयर्थ पाठशालाश्च, सदाविहरणशीलानां साधूनामाश्रयार्थमुपाश्रयाश्च तेन निर्मा- पिताः । अकारणदयावता तेन दीनजनोपरि दयां कृत्वाऽन्नादि दत्वा संतोषिताच दीना एवं सत्कार्यरूपा- अलिस्तेन पित्रेऽर्पिता । जनकाज्ञानुसरणं कुर्वतामरचन्द्रेण पितृयशःपरम्पराभ्युदयः स्वीकार्य एवेत्यपि पितृसंतोषजनककार्यममन्यत, जीवता मत्पित्रा यथा स्वव्यवहारकुशलत्वं संपादितं तथा मयापि कर्तव्यमिति स्वमनसि निश्चिकाय सः॥
श्री अमृत. चरि- तम् परमश्रावकस्य वीरसेनश्रेष्ठिनः प्रवृत्तेविभागस्य ज्ञानमस्माभिरतनप्रकरणेन विदितं तथा परमसुशी- लस्यामरचन्द्रस्य विद्याभ्यासः पूर्णतामाप तदा तं स्ववाणिज्यकार्ये नियोक्तुषिष्टवान श्रेष्ठी, तस्यारंभमपि बहुशश्चकार स स्वतनुजेनैव सह सर्वत्र जगामापणेऽपि स्वेन सत्रैव तं स्थापितवान् । व्यवहारिणां वणिजां व्यवहारप्रवृत्तावपि क्रयविक्रयरूपव्यवहारे तं युयोज । धर्मकार्यप्रवृत्त्यर्थ कदाचित् सभां गच्छेत् , जातचित् समागतानां साधूनां व्याख्यानं श्रोतुं सपुत्र एव व्याख्यानमण्डपमगच्छत् । वीरसेनश्रेष्ठिनो मनसीदृशी तीवेच्छा समजायत कदा बुद्धिमन्तं मत्पुत्रं व्यापारकलाकुशलं धर्मकार्यनिरतं परोपकारकरणशीलमुच्चजन- परिचयवन्तं सत्वरं करिष्ये, परं सेच्छा तस्य पूर्णतां नाप, कथं तदिच्छाविघातकीं तस्य शरीरे ज्वरपीडा प्रादुरभवत् । तस्य तां निवर्तयितुं कौटुम्बिकैभिषजां द्वारा वहव उपाया युयुजिरे, परंसव्याधिस्तस्य शरीरेऽ- न्तिमतां प्रापत् । स श्रेष्ठिनः शरीरं कालसादकरोत्। स्वीयान कौटुम्बिकजनानातजनांश्च मित्रवर्ग च परिदेवनवाछौं निक्षिप्य परलोकं गतवान् तस्यात्मा । वृक्षः पक्षिणां पुष्पपत्रछायाभिर्यथाश्रयदातास्ति तथा- ऽस्मिञ्जगति सर्वसंसारप्रवृत्त्यनभिज्ञानां सुखदुःखादिद्वन्द्वमजानतां बालानां धनवस्त्रादिदानेन पिताश्रयदाता पोषकश्चास्ति, अत एव चिन्ताशून्यमनसो बालाः पितृवृक्षच्छायामाश्रिताः सुखमनुभवन्ति, तत्सुख- 19525. तस्य मूल्यं तु न किमपि प्रतिपादयितुं शक्यते केनापि पितृजनपरंपरागतसुसंस्काराणां जनानां मन- स्यनेकाः सत्प्रवृत्तयः स्फुरन्ति, वयं तान गृहसंस्कारान् कथयामस्तादृशामनोवृत्तयः सत्कुलीनानामेव प्रभवन्ति। शिक्षणशालायां प्रतिभावतां दीनबालानां पितृद्वारा पुस्तकादिवस्तुदानं तथा पाठशालाप्राप्तशिक्षणकरस्य च कारयामास सः । एतादृशी मनोवृत्तिस्तस्य बाल्य एव प्राप्तेति श्रूयते जनकद्वारा, बालोऽप्यमरचन्द्रः सर्व- व्यसनेभ्यो निर्मुक्त एवाभवत् । ग्रहग्रस्त इव व्यसनाधीनो जातुचिदपि न बभूव । व्यसनशीलिनां छात्राणां सम्पर्कमपि स्वाभाविक्या मनस्वितया न सह इयं परिणतिरपि स्वगृहसंस्कारस्यैव फलम् । ऐहिकपारलौकि- कसहायकर्तृकधर्मवशंवदानां जनानां संतानेषु कदाप्येतादृशव्यसनं न भवेदेव । एवं मातापितृपरंपरा- गतसच्चरितानां सद्धर्मवतां जनानां हृदयेषु सुसंस्कारा दृढा भवन्ति, तेनैव तेषामपि प्रजासु स्वस्वभावानु- करणत्वं बालानां बाल्यदशायामेव सुप्रतिष्ठितं भवति सुसंस्काराणाम् ॥ इति श्रीपरमपूज्यदीर्घतपस्विवयो- वृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्रदेशोद्धारकपन्यासपदधारिगणिवर्य- हिंमतविमलशिष्यशान्तमूर्तिप्रवर्तकश्रीशान्तिविमलविरचिते श्रीविमलगच्छाधिपतिधर्मधुरंधरशास्त्रविशारद- सकलसिद्धांतवाचस्पतिविश्ववन्दनीयगणिवर्यामृतविमलचरिते चतुर्थ प्रकरणम् ।। ७ श्री १२ अमृत- चरि तम् विस्मृत्यात्मशक्तिविकसनमार्गे प्रवर्तितव्यं, स्वस्वभावे नम्रताङ्गीकरणीया, जनानां स्वाभाविकमनोनैवल्य- स्थितिप्रेरणयोदभूतानां दोपाणां निर्णाशहेतवे त्रपात्वमङ्गीकरणीयं मनसि, देववन्दनं सामायकातिक्रमणादि- धर्मसाधनं च साधयतां जनानां मनःसु मदमानादिदोषाः प्रवेष्टुमवकाशं न लभन्ते, ताशकार्याण्येवैता- दृशानि सन्ति हि ते दोषास्तेषु कार्येषु जनानुपद्रोतुं न प्रवर्तन्ते, प्रवृत्ताश्च वा धर्मकार्यप्रभावात् सत्वरं विध्वं- सेरन् । स्ववंशाचारे परंपरासमागतदेवपूजानन्तरं भाले केसरयुक्तचन्दनस्य चन्द्रकः कर्तव्यतया प्रतिदिनं प्रातः कर्तव्य एवेतिकर्तव्यताममरचन्द्रःस्वमनसि बालदशाया आरभ्य एव ज्ञातवान् । शिक्षणशालायाम- नेकप्रकृतिविलसिता बालाः समागच्छन्ति, तेषु बाल्यावस्थासाहजिकचापल्यादिदोपतयामरचन्द्रमाले चन्द्रकं दृष्ट्वा तविषये ते वाला विरुद्धचर्चा बभूवुः परं तैश्च कृतामवगणनामवधूय स्वकुलाचारं पोष्टुमनाः स्वपितृपरम्पराप्राप्तमाचारं दृढतया स्वीकृतवान् । आजन्म सम्प्राप्तां कुलाचारभावनां जातुचिदपि न तत्या- जामरचन्द्रः । एतादृशमानसिकवृत्तावेव जनानां संस्काराः प्रतिष्ठिता भवन्ति, तेपामेवांशेभ्यः स्ववंशकीर्ति- लब्धेराग्रहः स्ववाणिज्यप्रदर्शनकुशलता स्वज्ञातिजनप्रमोदकार्यकरत्वं स्वनिवासभूमिमहत्त्वख्यापनत्वं स्वदे- शपक्षपातप्रेमाता च समुद्भवति। तदुपरितनलाभोऽप्येतादृशमानसिकपवाहेणैव जनानामात्मवृत्तौ निष्पद्यते ॥
सह तादात्म्यं वबंध । पुरुषार्थचतुष्टयस्य भूमिर्यन्मानुषं शरीरं तदुत्पादयित्रोः पित्रोरुपरि तस्य परमपूज्यता परमादरश्च साहजिकः शरीरेण सहैवाजायत । सुश्रावकाणां सामायकादीनि नित्यकर्माणि प्रकृतिप्रतिबद्धानि, तथा नित्यकर्माङ्गवत् सायं प्राप्तो मातापित्रोरभिवादनं सुशीलतया विदधातिस्म, रात्रौ यदा स्वापं कर्तु गच्छति शय्यायां तदादौ पितृवन्दनं नित्यशः करोतिस्म । इत्येवं तस्य चित्तं धर्मकार्य सरागतामनुबभूव । मातृदेवो भव, पितृदेवो भवाचार्यदेवो भवेत्यादीनि वाक्यानि शास्त्रेषु बहुशः श्रूयन्ते जनमुखेभ्यश्च, परं तादृशसूत्रात्मकवोधपरिशीलिनाममरचन्द्रतुल्यानां केषांचिदेव सुपात्राणां हृदयेषु विलसितस्म सम्यग्योधः। वीरसेनराजकुमार्योधर्मभावनाप्रतिकृतिः कीदृगासीदिति तादृशपुत्रचरितवर्णने धर्मभावनावान् पुरुषः को न जानीयात् ? अन्यच्च तस्य गृहे देववन्दनप्रचारोऽप्यपूर्व एवाभवत् । शुद्धचित्तप्रदर्शकप्रभाते प्रत्यहमुत्थाय वीतरागप्रभुं संस्मृत्य स्नानादि कृत्वा शुद्धवस्त्राणि परिधाय चैत्यं गत्वा तत्र वीतरागदर्शनं कृत्वा तं संपूज्य चोपाश्रयं गत्वा यदि साधवःसमागतास्तदा तेषां दर्शनं कृत्वा भोजनं कर्तव्यमिति तस्य गृहे नियमोऽसूत् । कथं मनुष्यत्वलाभसंपादकजीवनदशायां प्रत्यहं भवार्णवतारकवीतरागमहावीरस्य ध्यानादि भवदावानलशान्तये श्रावकैरवश्यमेव कर्तव्यमिति ज्ञात्वा स प्रत्यहमकरोत् । शारीरिकशक्तीनां महत्त्व ३ ११ श्री अमृत- चरि- तम् णितं वस्तु सर्वमित्रेभ्यो ददातिस्म । विद्योपास्ति कृतवतोऽमरचन्द्रस्य पाठशालायामध्यापकेनैतादृशो नियमो विज्ञापितो-यः कश्चन च्छात्रः पाठशाला प्रथममेव समागच्छेत् स प्रथमांकस्थानमेवाश्रयेत्। तस्य प्रथमांक- संपादने मनस्येताहशी तीवेच्छा समजायत यथा प्रभात उत्थाय वीतरागप्रभुं स्मृत्वा स्नानादि नित्यकृत्यं विधाय भोजनादि कृत्वा प्रत्यहं शुद्धवस्त्राणि परिधाय सर्वच्छात्रेभ्यः प्रथममेव पाठशालां नित्यशो गच्छतिस्म, स एव प्रत्यहं पाठशालायां प्रथमांकमाददातिस्म । शनैः शनैरेवं सोऽप्यन्यासं विधाय पंचमपाठयपुस्तकाभ्यासं समाप्तवान् । अनया रीत्या तस्याभ्यासक्रम उज्वलतां प्राप्तः सर्वजनानां संतोषोद्भावकश्चाभूत् । तस्य पिता वीरसेनस्तस्य बुद्धिविकसनं यथा भवेत्तथाविधमेव प्रयलं चकार । किंच रमणीयताविलसितस्य नगरस्य गंधादिसिक्तं निधूलिकं राजपथं सायं भ्रमितुं सपुत्र एव प्रत्यहं जगाम । पथि प्रचलनसमये श्रेष्ठी स्वपुत्रेण यः पाठशालायामभ्यासः कृतस्तद्विषयकानेव प्रश्नान पप्रच्छ वालम् । एवं स्वपुत्रशिक्षणकार्ये प्रत्यहं स रसज्ञ आसीत् । यदाऽमरचन्द्रस्य शिक्षणं पूर्णतामवाप तावत्तस्य मानसिकप्रवृत्तीनामपि शुभतत्वानि शनैःशनैरुद्घाटितानि संजातानि, तदा सूक्ष्मा महती च प्रकृतिः शरीररचनया सहोद्भावतां प्राप्ता तस्य मनसि स्वतंत्रतया स्थिता रुचिररुचिरपि स्पष्टतथा शरीरेण मुमोच । तत्रस्थवालानां मनस्तुष्टये शर्कराप्रसृति भृत्वा भृत्वा सर्ववालेभ्यो ददातिस्म, तस्याध्यापकमपि चन्दनादिना संपूज्य तस्यान उपदां धृत्वा वालं वन्दयित्वा तत्र मुक्त्वा सदारः श्रेष्ठी स्वगृहमाजगाम । अध्यापकोऽपि तस्य शिक्षणाय पट्टिकायामक्षराणि लिखित्वा तस्मै ददौ, बालोऽप्यमरचन्द्रःस्वस्य बुद्धिप्राग- लभ्येन प्रत्यहं स्वस्याध्ययनकुशलतां दर्शयामासाध्यापकाय । तस्याध्ययनतीव्रतां बुद्धिमत्तां चावलोक्यो- पाध्यायस्यापि तदुपरि स्नेहाविर्भावोऽभूत् । तत्समयानुसारिणी पद्धतिमनुसृत्य तत्र पाठशालायां वाचना- कगणितक्रमे शनैः शनैश्चित्तं दत्त्वा सर्व स्वमनीषायां धारयामास । अमरचन्द्रोऽप्यन्येभ्यगृहस्थवालानां पंक्तिषु चाभूत् । अतएवोपाध्यायस्यापीतरगृहिबालेष्विव तस्मिन्नपि तादृगेव द्रष्टिरभवत् । पाठशालातो मध्यान्हविसर्जनसमये सर्वे बालाः पाठशालातो निर्गच्छन्ति तदा खाद्यपदार्थेषु भोजनरुचिर्जायते तनु स्वा- भाविकम् । तत्समयानुसारिणी पद्धतिमादृत्य श्रेष्ठीं स्वबालाय खाद्यमादातुं प्रत्यहमाणकद्वयं ददातिस्म। विद्योपार्जनशीलस्यामरचन्द्रस्य संवर्धनं कुलीनगृहस्थस्येवाभवत् । अत एव स्वस्मै पित्रा दत्तं यदाणकद्वयं तस्माखाद्यवस्त्वानीय तत्र स्वमित्राणि दायादांश्चक्ने । एतेनामरचन्द्र : स्वमनस्यानदं मेने। आनंदोऽप्ये- तादृशं वस्त्वस्ति हि तस्य व्यक्ततां विनातस्य भोग्यत्वं न जायते, अत एव तस्य व्यक्ततादर्शनाय स्वनी- श्री अमृत चरि- तम् 566.. तर्हि तादृशो महापुरुषो नाभविष्यत् । अन्यच्च यदा स्वपाटकाग्रे नटगारुडविद्याभिज्ञाः खेलां दर्शयितुं समा- गच्छन्ति जनान् तदामरचन्द्रः सवयोभिर्वालैः सह द्रष्टुमधावत् , तेऽपि नवीनवस्तुप्रदर्शनेन जनान ज यित्वा तेषां खेलादर्शनकर्तृणां जनानामग्रे स्वोदरपूर्तये पात्रं गृहीत्वा याचन्ते स्म तदा सोऽपि मातरं गत्वा तेभ्यो यत्किंचिदातुं प्रयततेस्मेदृशाः संस्कारास्तस्य मनसि बाल्य एवं पतिताः। अनया रीत्या प्रतिदिनं धर्मपरिणतचित्त इन्दुकलावद् वृद्धिमियाय सः इत्थं जननीजनकौ पुत्रमुखं दृष्ट्वा स्वीयान् सुखमयान् दि- वसान व्यतीयतुलस्य संवर्धनं प्रेम्णा नित्यशश्चक्रतुश्च । इतिश्रीपरमपूज्यदीर्घतपस्विवयोवृद्धविमलगच्छा- धीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्र देशोछारकपन्यासपदधारिगणिवर्यहिम्मतविमलशिप्य- . शान्तमूर्तिप्रवर्तकश्रीशान्तिविमलविरचिते श्रीविमलगच्छाधिपतिधर्मधुरंधरशास्त्रविशारदसकलसिद्धान्तवाच- स्पतिविश्ववन्दनीयगणिवर्यामृतविमलचरिते तृतीयं प्रकरणं समाप्तम् ॥ सर्वजीवसंघातायुःक्षपयितरिकाले स्वकार्य कुर्वति कौमारावस्थावस्थितामरचन्द्रमध्यापयितुं श्रेष्ठयैच्छत्त- दा ज्योतिर्विदं गणकमाहूय बालस्य पाठशालागमनमू हूर्त पप्रच्छ, तदा तदादिष्टकालमनुसृत्य शुभदिवस- शुभशकुनवारादि ज्ञात्वा वादित्रध्यानपूर्वकं स्वबांधवैः सह स्वयमेव श्रेष्ठी पाठशालां गत्वा वालमध्यापयितुं M 4 525 दुर्गुणा उत्पद्यन्ते, तादृशां प्रकृतिमतां जनानां बाहुल्येनास्मिञ्जगति धर्माधर्मप्रतीतिरपि दत्तजलांजलिः संभवेत् । ऐदानींतनराजन्यानांमध्ये ये विदेशगमनव्यसनिनः स्वमित्रैःसह तं विदेशं गत्वा प्रजावहिःपा- णभूतेन धनेन स्वशरीरेन्द्रियादिपोषणं कुर्वन्तो महता धनव्ययेन तत्रत्यपदार्थान् क्रीणित्वानेकजनानां वृत्ति ते पादैनन्ति, कुमित्रप्रसंगानेकव्यसनग्रहप्रस्तास्ते दिवानिशंक गच्छन्ति, इत्यपि न जानन्ति, ते च धनराशिसम्पन्नत्वात् वक्तव्यमात्रमहत्त्वात् कुमार्गस्थितत्वाच स्वमनोरश्मिग्रहणे न शक्नुवन्ति । कुसचि- वाधीनास्ते चास्माकीनराज्यस्थितिः कीदृशी भवतीति विलोकितुमपिन शक्नुवन्ति, तदा दीनप्रजाघोषण- श्रवणं तु तेषां दूरतरम् । एवं स्वच्छन्दविहारिणो राजानोऽद्य संजातास्तत्कारणमपि दुष्टजनसंसर्ग एवातएव गृहस्थैः स्वप्रजाः शिष्टगुणानुवर्तिनीः कर्तव्या येनान्येषामाधारभाजां जनानां सुखाप्तिर्भवेत् । अतएव मातृपित्रादयोऽपि विनयादिगुणेनैव स्वबालान् संवर्धयेयुस्तदैव बालाः सुसंस्कावन्तो भवन्ति, येन सर्वेषां कल्याणकरत्वं स्यात् । किशोरदशायां स्थितस्यामरचंद्रस्य तदवस्थायामेव मातापित्रोः सुसंस्काराः प्रतिवि- विता अभवन् । स्वभावोऽयं बालस्य यद्गृहे पितरावाचरतस्तदेवानुकरोति बालस्ततोऽयमपि बालो मातापि- जनुकारी संजात आगामिनि समये च महापुरुषः समजनि । यदि तस्य चेतस्येतादृशाः संस्कारा नापतिष्यन् 5:55 , , श्री अमृत- चरि- तम् हितान् वेपमानास्तेषां बालकान् दृष्ट्वा संजातातिकृपया स्वपरिहितवस्त्रमप्युत्तार्य तेभ्यो ददातिस्ग । एवमम- रचन्द्रस्य हृदयमावालं कृपासमलंकृतमेवाभूत् , इति विज्ञायते तस्य चरितेन । वीरसेनश्रेष्ठी यदा जिनालयं वोपाश्रयं देवगुरुवंदनार्थ गतवांस्तदा तं सहादायैव जगाम,देववन्दनं गुरुवंदनं च कुरुते स्म । अनया रीत्याऽमरचन्द्रस्य हृदये बाल्यावस्थायामेव साहजिकधर्मसंस्काराणां वीजवापः समज- नि, धर्मपथप्रवर्तनमपि। बालान् पितरौ शैशवादारभ्य यादृशान् विनयन्ते तादृशास्ते यौवने समुद्भवन्ति। अनु- तमस्वभाववतां कुटुंबिनां संस्कारा येषु वालेषु प्रतिबिम्बन्ति ते बालाअप्यातनकाले जगदुद्धरणक्षमा महापुरुषा जायन्ते,पुनश्च येन विदेशगमनकुशलाः परभाषाभिज्ञा धनसम्पादनदक्षा उत्तमव्यवहारिणय सर्वविदेशीयजन- स्वभावाभिज्ञाः साहसिकाश्च जायन्ते,इति पूर्वोक्तस्वभावनिष्पन्नकारणमेतावदेव भवति नान्यत्। प्रशस्यान्ववा- योत्पन्नानामद्यतनगृहस्थानां पद्धतिरियमस्ति-ह्यधमकुलोत्पन्नस्वभृत्यैः सह स्वीयान् वालान् वहिः परिभ्रमणाय पहिण्वन्ति, एवमेव वेतनदानसमर्थाः सर्वे धनिनः कुर्वन्ति। एतेन स्वस्य महत्त्वं यशस्वत्त्वं च मन्यते। अनेन सहवासेन कर्मकराणां यद् दौर्जन्यं तेषां मनसि प्रतिफलति, शतसंख्यत्रमाणेषु वालेषु नवनवतिप्रमाणा यौवने प्राप्ते कुप्रकृतयो भवन्तीति सर्वजनविदितमस्ति । कुत्सितस्वभाववतां संयर्केणान्येषामपि चेतःसु तादृशा किंतु बालानां सर्वन्द्रियाणां ज्ञानोपलब्धिर्यदा भवति तद्दिनादारभ्य बुद्धिविकसनारंभः संजायते। यथा शुद्धस्फटिकमणौ तस्य तस्य पदार्थस्य प्रतिबिंबं पतति, यस्य यस्य पदार्थस्य सांनिध्यं भवति तत्प्रतिच्छा- यया मणिरपि ताहगाकारो मनुजदृष्टौ दृश्यते, तथा बालानामपि यादृशामुत्तममध्यमजघन्यप्रकृतिमतां स- हवाससंयोगादिर्जायते तागाचरणा एव बाला अपि भवन्ति, इति सर्वजनीननयो विद्यते, अतएव शिक्षण- पद्धतिकुशलाः पंडिता अपि महता शब्दस्तोमेन जागरयन्ति जनवजान-भो जनाः ! स्वीयावालाजग- त्यनेकोपकारिसाहिजकधैर्यगांभीर्यादिदयादाक्षिण्यादिगुणविशिष्टैः पुरुषैः संसर्गयन्तु, अन्यथा पापपङ्कनिममा दुर्वृत्ता दुष्टपथवर्तिनो भविष्यन्ति निश्चितम् । अमरचन्द्रस्य दीनजनः कश्चन दृष्टिपथं समायाति तदा तस्य चित्तं दयाभावं भजति, मातरचापृच्छदिति-मातरिमे जनाः किमर्थ प्रतिगृहं प्रतिदिनं याचन्ते ? ते कवा- स्तव्यास्तेषां गृहाणि कुत्र सन्ति ? तादृशान् प्रश्नान् बालोऽप्यमरचन्द्रोऽकरोत् । एतत्पुत्रवचो निशम्य माताब्रवीत-पुत्र ! एतेषां गृहाणि न सन्ति, ते ग्रामे धर्मशालासु गृहवेदिकासु व वने वृक्षाणामधः स्वपन्ति रात्रौ, नगरखेटखटादिषु भ्रामं प्रामं जनेभ्योऽन्नमर्थयित्वा स्वीयां क्षुधां निर्वापयन्ति । अमरचन्द्रोऽपि जननीवचनं श्रुत्वा जातावर्णनीयदयो मात्रान्नादि याचकेभ्यो दापयति स्म । जातुविच्छिशिरकाले चैलर- ८ म श्री अमृत चरि- तम् यतां केषांचिदापातरमणीयतां बहुश आलोचितवान् । इदं क्रीडनकं किं मृण्मयं वा रीत्यादिधातुमयं वस्त्रनि- मितं वेति ज्ञातुमाकाक्षा प्रदार्शतवान्। एवं चिन्ताशून्यशैशवानुभवं कुर्वन्तं बालममरचन्द्र श्रेष्ठी वीरसेनस्तस्य मातृपार्थादाकार्य प्रेम्णा स्वांगुल्या तदंगुलिं स्वीकृत्य नगरस्य चतुष्पथराजितोपणस्य शोभां निरीक्षितुं निना- यासकृद्वालम् । एवं प्रत्यहं सांध्यानेहसि श्रेष्ठी बालं समादाय संसारसुखास्वादमास्वादमानो जहर्ष मनसि। वाल्यावस्थावस्थितामरचन्द्रस्य वाल्यावस्थायामनेकशः क्रीडाःसमभवन्। कदाचिद्रथ्यावालसमूहमाहूय तैःसमं विविधक्रीडाश्च कृतवान् , सक्योभिवलिः सह क्रीडितुं स्वस्य श्रेष्ठयं चाधिकतां दर्शयितुं सम्राज इव तस्य मनो- भिलाषोऽजायतान्येपामपि बालानां क्रीडनकानि स्वायत्तीकृत्य तदुपरिच्छिन्नभिन्नतानुभवं चकार तथापि तस्य तैःसह मित्रभावस्ताहगेवासीत् । स स्वपितुः सकाशाद् यद्भक्ष्यं वस्त्वानीतवान् तस्मिन् स्वमित्राणि संपूर्णतया दायादान कृतवान , जातुचित् स्वभागंगृहीत्वा सर्वमपि वस्तु सवयस एव यथाभाग दत्तवान्। अमरचन्द्रस्य यथा बुद्धिविकाशः स्यात्तथा श्रेष्ठी नियमिततया चिंतितवान् , माता राजकुमारी च स्वतनयशरीरपुष्टिर्यथा स्यात्तथाऽन्नादिना पोपितवती स्वपुत्रम् । पित्रोरेवं प्रणयपूर्वकं संरक्षणतायां वालोऽप्यमरचन्द्रो वधे, शैशवं विहाय च कौमारं प्रविवेश । जनानां यावज्जीवनोपयोगिवुद्धिविकसनं न शिक्षणशालायामेव प्रादुर्भवति, .
प्रवर्तनशीला अपि संबभूवुः। केचन तस्य साधून प्रति भक्तिं विलोक्प धन्योऽयं वणिगिति स्वचेतसि मेनिरे नागराः॥ इतिश्रीपरमपूज्यदीर्घतपस्विवयोवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षक- महाराष्ट्रदेशोद्धारकपन्यासपदधारिगणिवर्यहिम्मतविमलशिष्यशान्तमूर्तिप्रवर्तकश्रीशान्तिविमलविरचिते श्री विमलगच्छाधिपतिधर्मधुरंधरशास्त्रविशारदसकलसिद्धान्तवाचस्पतिविश्ववन्दनीयगणिवर्याभूतविमलचरिते द्वितीयं प्रकरणं समाप्तम् ॥ माविविज्ञानपात्रस्यामरचन्द्रस्य जनुर्यदा वसुनवनिध्यंकवर्षे जातं तदेन्द्रप्रस्थस्य व्यवहारिषु श्रेष्ठिजनेषु वीरसेनश्रेष्ठिनो नामधेयमग्रगण्यमभूत् ।। आर्हतमतप्रतिपादितधर्ममार्तडप्रकाशेन तस्य कुटुंबकमलोद्यानं विकसिततामातवञ्च । अमरचन्द्रस्य शैशवावस्थापि तस्मिन्नेव समये समारब्धा । बाल्य एवामरचन्द्रः प्रति- भावान् प्रभावशील उत्साहवान ओजस्वीत्यादिगुणालंकृत एव संजातस्तीबजिज्ञासावांश्च । तस्मिन्नमरचन्द्रे शिशुसाहजिका बाल्याग्रहोऽप्यासीत् । सवयोभी रथ्यामाणवकैः सत्रा तेषां क्रीडनकेषु विविधां क्रीडां वितेने। यस्मिन् दिवसे स्वजिज्ञासापूर्तये धनव्ययेन प्रभूतानि क्रीडनकानि क्रीणित्वा किंचित्कालं देवित्वा तस्मिन्ने- वदिने भक्त्वा निरस्तवान्। स कस्यचित् क्रीडनकस्योपरितनां शोभां कस्यचित् क्रीडनकस्याकारस्य रमणी- श्री अमृत चरि- तम् अनयोर्दपत्योर्वीतरागभगवति भक्तिभावना दृढासमजायत। अनया प्रणालिकयाश्रेष्ठी स्वात्मानमानंदितं मेने गार्हस्थ्यसाफल्यं च । यदासआपणाद्गृहमाजगाम तदा स्वीयतेजस्विनं वालमंके निधाय निवातकमलस्तिमि- तेन चक्षुषा पश्यत् कपोले तस्य चुचुम्ब। शिशुरप्यमरचन्द्रोऽजातदन्तमुखेनहास्यं कृत्वा जननीजनकयोर्मनसो- सुंदं ततान। गार्हस्थ्येऽयमेव परमो लामो गृहिणां यद्धर्षेण पुत्रमुखावलोकनं क्रियते दंपतीभ्याम् । तदा वीरसेनश्रेष्ठीन्द्रप्रस्थनगरे जैनसमुदाये धनादिवैभवेनाग्रगण्योऽभवत् सुखभाक् च । स्वान्तशान्तिकरणसमर्थेना- मरचन्द्रजन्मना बहुशः सुखमनुवभूव श्रेष्ठी। पादरजःपावितानेकप्रदेशा जैनसाधवो यदा यदेन्द्रप्रस्थं समा- यान्ति तदा तदा स श्रद्धाभावितान्तःकरणो भूत्वा मुन्यागमनश्रवणेन हर्षितमनाः सद्य एव सर्वाणि कार्याणि विमुच्य वन्दनार्थ गछति, तान् प्रासुकान्नजलादिदानेन प्रत्यलाभयच्छ्रेष्ठी । मुनीनामपि यानि यानि वस्तूनि कार्योपयोगीनि भवेयुस्तानि तानि सर्वाणि प्रदाय तेषां मनांसि प्रसन्नीकृतवान् सः । एवं प्रत्यहं साधुपैयावृत्यकरणेन पुण्यं परलोकपाथेयं चिकाय वणिग् । अन्यानपि शैत्योपमर्दितान् दीनजनानवलोक्य जातकृपोवीरसेनश्रेष्ठीतेभ्योवस्त्रजलान्नादिप्रदाय तेषामपि कष्ट निवारयामास।तस्मिन् समये वीरसेनश्रेष्ठिन औदार्य धर्मभावनाच नगरे विशेषतो वृद्धि प्राप्ता, यां दृष्ट्वा जना आर्द्रचित्ताः समजायन्त। केचन तस्य पथा समयातीतवसुनिधिवस्वेकवर्षे वैशाखशुक्लैकादशीदिने केन्द्रस्थानस्थितशुभग्रह उच्चराशिस्थितसूर्यादिग्रहे समये मैत्र्यादियुक्तशुभग्रहसूचितभाग्यसंपदं पुत्ररत्नमजीजनद्राजकुमारी । वीरसेनश्रेष्ठिगृहे पुत्रजन्मा- भूदित्युदन्तं सर्वनगरपजासु सर्वसंबंधिजनसमुदायेऽपि समस्तप्राणिप्राणनतत्परः पवनः प्रसारयामास, तेन सत्राप्यानंदोऽप्यवर्धत श्रोत्रजनमनःसु । यस्मिन् पुत्रजन्ममांगलिकप्रसंगे रसनारसवर्द्धिनीःशर्कराः प्रसृति भृत्वा भृत्वा श्रेष्ठी जनान दापयामास भृत्यैः । जिनमंदिरेष्वष्टाहिकामहं पूजाशान्तिस्नात्रादि धनव्ययेना- कारयत् । तेन दीनदारिद्रयनिवारकं दानं चादायि भोजनादिकमपि च । अनेनोत्सवेन श्रेष्ठितत्संबंधिसर्वजना आनंदितासमभवन् । पुत्रस्य नामधेयममरचद्रेति व्यधात् । दिनव्यत्ययेनामरचन्द्रः काकलिकया वाचा मातापित्रोरानन्दं वितेने। सर्वोषधीजीवनदायी निशाकरइव दिने दिने वृद्धि पुपोष बालकः । तयोर्दपत्यो- हाब्धिः पुत्रमुखं दृष्ट्वासुतरांववृधे। श्रेष्टिगृहेऽमरचन्द्रस्य पदपंकजेनपवित्रिते जाते तस्य क्रयविक्रयरूपव्यवहारे महान लाभः समजायत । पणायकार्ये धनलाभेन श्रेष्ठी चिंतितवान् । प्राप्तलक्ष्म्या अयमेव परमो लाभो यद्धर्मकार्ये व्ययःकर्तव्य इति मत्वा स सप्तक्षेत्र्यां धनव्ययमकरोत् । यथा प्रावृषि कृष्टे क्षेत्रे कृषीवलो महते लाभाय धान्यं वपति तथाऽयमपि तथैवाकरोत्। सुपात्रे दानं दयादानमपि धनव्ययेन धनवताजनेन विधातव्यम्। h ४ श्री ६ अमृत. चरि- तम् ब्रवीत्-स्वसः ! शृणु प्राप्तोऽयं स्वप्नो तव मनोरथपूरको भविष्यति, कुलदीपकःसुपुत्रो भावी जैनशासनसमुद्यो- तकच पित्रो मजगति प्रथयिष्यति, मुनिसुखनिर्गतान वाग्देवतावर्णान निशम्य जहर्ष राजकुमारी। गुरुवन्दनं कृत्वा स्वगृहं गतवती गृहकार्ये निममा चाभवत् ॥ जगतीतलनिवासिनां नयनीभूतः सर्वरसपरिपाकपरिणम- यिता सर्वाकाशप्रदेशविहरणेन श्रमं गत इव सर्वमनुजानां दिनभवक्लेशं शमयितुं यदा सविताऽस्तमगात्, सायंतनी संध्या च प्रवृत्ता तदा पटहझल्लरशंखघंटादिवादित्रपूर्वकं देवमन्दिरेषु भगवत्प्रतिमानां निराजना- न्यासन् , तदा वीरसेनश्रेष्ठी स्वापणं मुद्रयित्वा स्वनिकेतनमागतवान् , भोजनादिकं कृतापणिकं सर्व व्यव- हारं गणयित्वा सुन्दरविष्टर उपविश्य कृतलंवितपादो यदा विशश्राम तदावसराभिज्ञा राजकुमारी स्वपति गतरात्रिसमागतस्वप्नवा कथयितुं प्रवृत्ता । स्वामिन् ! मया रात्रौ स्वप्ने करिदर्शनं कृतं । प्रातरुत्थाय स्ना- नादि कृत्वा भगवदर्शनं विधायोपाश्रयं प्राप्य भानुचन्द्रं यति नत्वा रात्रिस्वप्नो मया निवेदितस्तदा तेन यतिना पुत्रप्राप्तिफलः स्वप्नोऽस्ति, पुत्रोऽपिजैनशासनोदीपको भविष्यतीति मह्यमभिदधे। तच्छ्रुत्वावीरसेनश्रेष्ठीजहर्प, तस्य हृदये धर्मे धर्माराधनफलेऽप्यधिकतरा श्रद्धासमुत्पेदे। समयः सद्य एवव्यत्येति अहंपूर्विकान्यायेन घस्राद् घस्रो व्यतीताय, स्वल्पेनानेहसा राजकुमारी गर्भ दधौ, तेन तौ दंपती स्वप्नं सत्यं मेनातेऽन्ततो विक्रमार्क- 2525 वीरसेनश्रेष्ठी तत्रवास्तव्य आसीत् ॥ तथैव प्रतिवताधर्मपरायणा पतिचित्तानुवर्तिनी साधुजनसेवापरायणा जैनधर्मदृढरुचिः समयोचितवतधारिणी नाम्ना राजकुमारी पत्नी बभूव ।। तौ दंपती स्वसमयं धर्माराधने साधुसत्कारे च व्यवहारकार्ये च निर्गमयांबभूवतुर्ययोश्च चित्तसंतुष्टिकारक वंशवृद्धिकरं किमप्यपत्यं नाभूत् ॥ पुरुषाणां मनसि तादृशी संततीच्छा न भवति यादृशी वनितानां मनसि जायेतजैनमते शासनदेवताप्रभावेणाश्रितजनानांकार्याणि सिध्यन्तीति मनसिकृत्य कथयति कदा शासनदे- वताअस्मासु प्रसीदेत्? प्रसन्नतां च प्राप्ता सा कदा संततिम दद्यात् ? नहिशासनदेवतानां किंचिदप्यकिंचित्कर- मस्तीतिचिन्तयित्वापुत्राभावनिमित्तविषादमकरोत् सा ॥ एतादृशं राजकुमार्या मनोरथमवबुद्धय शासनदे- वता प्रसन्नीभूय रात्रौ स्वप्नं ददौ प्रसन्ना चाभवत्। तदा धर्मपरायणा सती राजकुमारी स्वप्ने श्वेतनागं ददर्श। बा- लातपाटलीकृतजगल्लोके निजरश्मिनिरस्तसंतमसो लोकचक्षुर्भानुर्विभाभास्वरः प्राच्यामुदीयाय।तदा राजकु- मारी शय्यात उत्थाय महावीरस्मरणं कृत्वा कृतध्यानादिक्रियाधर्मध्यानं कृत्वा जिनालयं गत्वा तत्र तीर्थकरस्य वीतरागस्यभगवतो दर्शनं विधायतत उपाश्रयं प्राप्य तत्र स्थितंभानुचन्द्रयतीश्वरंनत्वापच्छत्-मुने!गतायां रात्री मया स्वप्नो लब्धस्तत्रश्वेतकरी दृष्टस्तेन मम किं फलं भावि ? राजकुमार्या इमं प्रश्नं कर्णप्राधूर्णिकं कृत्वा यतीन्द्रोऽ- श्री अमृत- चरि तम् भूत् । यस्मिन्नगरे पोपधशाला बहूनि चैत्यानि च स्थापितानि सन्ति । यत्र पादपांशुपवित्रितानेकजनवजाः शासनोन्नतिकारिणो भवभयहारिणीदेशनापीयूषाप्लावितजनान्तःकरणाः सर्वदर्शननिष्णाता आचार्योपा- ध्यायसाधवोऽत्र बहवो विहरन्ति स्म ।। यत्रास्माकीनकथानायकस्य प्रादुर्भावोऽभवत् ॥ इतिश्रीपरमपूज्य- दीर्घतपस्विवयावृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्रदेशोद्धारकपन्यासप- दधारिगणियहिम्मतविमलशिष्यशान्तमूर्तिप्रवर्तकश्रीशान्तिविमलविरचिते श्रीविमलगच्छाधिपतिधर्मधुरं- धरशास्त्रविशारदसकलसिद्धान्तवाचस्पतिविश्ववंदनीयगणिवर्यामृतविमलचरिते प्रथमं प्रकरणं समातम् ॥ ॥ अथ द्वितीयमकरणं प्रारभ्यते ॥ एवं विविधजनसुशोभितं पातशाहिराजधानीभूतत्वाद_लिहाणैः प्रासादैरन्येभ्यजनहम्युनगररभ्यप्राकारेण च ताजमहालजुमामसजिदसंज्ञकनानाधर्मस्थानेश्चान्यदर्शनकारा- णां स्थानैर्देशान्तरीयजनमानसाकर्षकैश्च दर्शनीयैः प्रदेशैरद्यापीन्द्रप्रस्थनगरं भारतभूमौ सुप्रसिद्धमस्ति । जैनधर्माश्रितानां जनानां बाहुल्यं यत्र वर्तते। यत्र स्वधर्मतत्परा देशनादानचतुराश्च आचार्योपाध्यायसाधवो यत्र गत्वा प्रभुमहावीरस्यादेशं जनान ज्ञापयन्ति पालयन्ति च ॥ एवंविधस्य यस्य नगरस्य वणिजां पाटके वणिजामुत्तमो जैनधर्मतत्परःसुश्रावकःसम्यक्त्वव्रतधारी द्वादशवतपालको देशविरतिपरायणो जैनधर्ममर्मज्ञाता एतादृश इन्द्रप्रस्थनगरेऽस्माकं कथानायकस्य परमपूज्यस्य गणिवर्यस्यामृतविमलगुरोः प्रादुर्भावो बभूव । पूर्ववर्णितसुषुमाविशिष्टस्य नगरस्याभ्यणे प्राकारस्पर्शिशीतजलविशिष्टाया यमस्वसुरुत्तुंगतरंगसंपर्केण शीतलीभूता यमुनाजलपानवर्धितानेकपादपप्रसूनचयगन्धवन्तो वायवो विषयान्तरागतसौन्दर्यनिरीक्षण- कौकिनां जनवृन्दानामितस्ततःपरिभ्रमणवशाजनितश्रमजातस्वेदलवानाचामन्ति । अस्य नगरस्य सर्व- शोभानिरीक्षणकारिभिः स्वरचितदेशयात्रानिबंधे बहुशःशोभा वर्णितास्ति । जगतीप्रसिद्धस्य यस्य नगरस्य मध्ये पातशाहिराज्येऽप्याचार्यदेशनया वात्यया प्रेरिता धर्मपताका इतस्ततः परिस्फुरन्तिस्म । चरमतीर्थकर- स्य महावीरस्य भवाब्धितारकमहामंत्रस्य प्रवर्तकाः पापपंकनिममजनतासमुद्धरणाय समर्था जैनाचार्यास्तत्स- मयेप्यपि व्यहरन् परं तत्र हैमोपमानां साधूनांमध्ये हीरक इव हीरसूरीश्वरो यदा पातशाहेहूं कपलं जैनधर्मोप- देशेनोबोधयामासोष्णदीधितिजमिव तदास धर्मोपनिषदं श्रुत्वा यवनोऽपि जैनधर्मकृतादर आचार्योप- देशात् सर्वजनानां यत्करादानं तन्निवारयामास । आर्यप्रजानामन्यदपि याचितं प्रसन्नतया ददौ ।। पर्युषणप- र्वणि चोमारिं प्रवर्तयामास । एवं जैनधर्मजिज्ञापयिषवो धर्मतत्त्वे श्रद्धोपपादकाः श्रीहीरसूरीश्वरादय आचार्याः खल्वपूर्वपुरुषो नरवीरा अस्मिन् धर्मे समजायन्त। यवनराजधानीसमयेऽप्यस्मिन्नगरे जैनधर्मस्य मध्यान्होऽ- 3 ४ श्री अमृत चरि- तम् वोधोऽदायि तत्तु प्रकरणेनानेनानुमीयते पातशाहेरककवरस्य पश्चात्तस्य प्रपौत्रशाहजानेति नीतिशाली राज्य- षडंगज्ञानवान् स्वजातीयजनेषु चेतरेष्वार्यजनेषु पक्षपातरहितया बुद्धयाऽवर्तत । यद्राज्ये स्वधर्मपालने सर्वा अपि प्रजाः स्वतंत्रा अभूवन ॥ केषांचिदपि स्वस्वधर्मपालने कोप्युपरोधो नासीत् । ते राजानोऽपि धर्म- तत्वमवगाहमानाः स्वस्वधर्मावलंबिनामार्यविदुषां वातं समाहूय स्वसदसि वादं विधाप्यार्यधर्म प्रति दर्शिता- दरा अजनिपत । पितर्युपरते यदा शाहजानो राज्यधुरामुवाह तदानीमपि यवनपातशाहीनां विभूतिवर्णनीया बभूव । येपां विभवानां समालोकनेच्छया चीनजापानजर्मनांग्लदेशीयाःसर्वा अपि प्रजाः स्वबुद्धिनिर्मिता- ग्निरथानलनौकादिसाधनान्यवलंब्य देवा विमानानीव समागच्छन्ति प्रतिसंवत्सरमायभूमाविन्द्रप्रस्थनग- रम् । यत्र शाहजानपातशाहिः स्वप्राणप्रियाया मुमताजनामकमहिष्याः कवरोपरि नवकोटिधनव्ययेन विभ- वानां साक्षात् प्रतिबिम्बमिव ताजमहालनामकं प्रासादमचीकरच्छिल्पिभिः, यस्य शोभां दर्शदर्श जनाः कौतु- किनो भवन्ति। एतादृशः प्रासाद आर्यभूमावन्यत्र कुत्रापि नास्ति, अस्यामार्यभूमाविदमेवावलोकनीयमस्त्य- न्यजनपदापेक्षयेति सर्वैरपि जनैर्मन्यते । तत्स्थानापेक्षयासाधारणानि यवनधर्मस्थानान चान्यधर्मस्थानान्यपि जनाश्चर्यकराणि भवन्ति, यैःस्थान प्राचीनवैभव आर्यभूमौ कीदृशोऽभूदित्यनया कार्यनिर्मित्यानुमीयते जनैः।
धर्मप्रतिपादनया गिरा नौकया तारितशरणागतजीवोऽनगारवृन्दजुष्टो धरित्र्यां विहरन भव्यांभोजविकसने सप्तसप्तिरिख भवदावानलदग्धानां जीवानां शरणागतानाममृतरश्मिरिवामृतकल्पया गिरा शीतलयन्ननेकदु- रितानलदग्धानां जीवानां चेतांसि सान्त्वयन्नेकदाऽकबरराजधानीविलसितं हस्तिनापुरनामकं नगरं हीरसूरीश्वरनामाचार्योऽयासीत् ॥ तदा चतुर्विधसंघजनेन वादित्रघोषपूर्वकं प्रत्युज्जग्मे, सादरं संघजनेन वन्दितः परमाचार्यों ग्रामं प्रविश्य ससंघ उपाश्रयं प्राप्तस्तदा श्रावकैः सोत्साहं प्रभावना कृता । स्वधर्मानुयायिनामन्येषां चाग्र आचार्येण जनहृदयान्धकारनिवारिणी देशनाभिदधे, पश्चाद् गृहिणः स्वस्वस्थानं गताः, साधवो जलानादिदानेन प्रतिलाभिता एष एव हि गृहिधर्मः पूज्यानामातिथ्यं करणीयम् पात्रे दानश्च ॥ एवंपुनःपुनराचार्यों हीरसूरीश्वरस्तत्पत्तनमाजगाम परंच प्रथमागमनसमय एव पातशाहेरकवरस्य मतिमुखावलोकनं जैनधर्मतत्त्वदर्पणे कारितवानाचार्यों हीरसूरीश्वरस्तेन तस्याचार्यो- परि बहुमानमासीत् । पुरातनेतिहासप्रकरणे बोधदायिनामग्रगण्य आचार्योऽमरकीर्तिमलभत, तदानीं स्वपरि- चयसमागतानां जीवानांमध्ये केचन तस्य पीयूषवर्षिण्या वाचया भूरिशोजना जैनधर्मतत्त्वं बुभुत्समानास्तस्य शरणमीयुस्ततः कतिपयजनाः प्राप्तसम्यक्त्वाः केचन स्वीकृतश्रावकधर्मा अभूवन ॥ तैराचार्यैः कीदृशो .
श्री अमृत- चरि- तम् दोपश्रवणे वधिरता परदोपकथने मूकता परवनितास्पर्शने जडता परसुन्दरीरूपदर्शनेऽन्धता सज्जनेष्वादरत्वं मतिपु पूज्यत्वं वात्सल्यं साधर्मिकेषु गौखता गुणिषु निरभिमानिता पितृभक्तौ सबीडता च नीचकायें उत्सा हता च प्रशस्तकायेंषु चाभूत् ॥ यस्योपकंठे यमस्वसुःसानिध्यं वर्तते सर्वदा, यस्याःस्रोतो वारुणीपानमदमत्तस्य हलधरस्य स्कंधदेशात् स्रस्तमुत्तरीयमिव पावृण्मेघश्यामलिताविलसितमाकाशमिव प्रतिभाति ॥ मरकतमणि- वद्धसोपाना पानीयपिपासासमागतानेकपक्षिवृन्दजुष्टा चूताशोकजम्बूप्लक्षन्यग्रोधादिवृक्षपरिवृता पादपोपरि निविष्टनानाविहगनादैः श्रमोदन्यावारणाय पान्थजनतामाह्वयतीव राजीवराजिविराजितशब्दायमानमधुकर- मुखेन प्राचीननरेशानां यशोगानं कुर्वतीव यमुनानदी यस्य संनिधी वर्तते तस्येन्द्रप्रस्थस्य भूमिः पुरा पुरातनपांडवकौरवाणां समये पाण्डवराजधानी बभूव । तदनंतरं पातशाहिराज्यमासीत् , यत्र पातशाहीना- मप्यवर्णनीया सम्राट्तासीत् । वैभवधनसमृद्धिरपि देवानामप्यवर्णनीयाजनिष्ट । तत्समये यवनसत्तासंपादक- आर्यधर्ममान्यशीलः पातशाहिरक्कवरो राज्यधुरामुवाह, येन भिन्नभिन्नधर्मावलंविभिः स्वमतप्रदर्शनपण्डितैः स्वमतमान्यपदार्थविवेककर्तृकैरनेककोविदार्यधर्मसमभ्यसितश्चक्रे ॥ एकदा जिनधर्मोक्तपदार्थतत्त्वविवेक्ता धर्मप्रवर्तकोऽनेकपापकर्मनक्रादियादःपरिपूर्णभववारिधीदशa , टुत्रिफलाशर्करारामगदिवस्तुवातगंधसुरभिवणिग्घटं कचिच नानाविधरीतिताम्रकांस्यलोहजर्मनधातुनि- मितानेकपात्रयविक्रयकर्तृणाम पंक्तितया स्थितानामापणानां व्रजैविलसितं क्वचिच्च मुद्गमाषगोधूमचणकव- ल्लराजमाषकोद्रवादिनेकविधधान्यराशिविलसितप्रदेशस्थितवणिगापणानां समूहै राजमानम् , क्वचिच्चानेक- विविधरंगरंजितस्त्रीपुंसपरिधानीयवस्त्रवातजुष्टाषणपंक्तियुक्तम् , कुत्रचित् नानादेशेभ्यो धूमशकटमार्गेभ्यस्त- थाजलपथेऽमिनौकाभिरागतै नादेशस्थितानेकपात्रवसनभैषज्योपनेत्रादियुक्तं तथा च छत्रदण्डादियुतम् , कंदुकक्रीडाकर्तृणामुपयुक्तवस्तुजातम् , शालभंजिकालोहचर्मताम्रनिर्मितमंजूषादिभिर्वस्तुभिर्व्यासानेकहट्टस्, नानाप्रामपत्तनागतप्रतिहट्टस्थितवस्तुचिक्रीपूणां सांराविणयुतानांजनानां वृन्देन शोभितमिन्द्रप्रस्थनामपत्तनम्।। यत्र नगरे निर्दयत्वं निस्त्रिंशेषु, मालिन्यं धूमेषु, वक्रिमा कामिनीकेशपाशेषु, वैचित्र्यं च प्रासाद- चित्तेषु, तरलता हHध्वजेषु, औद्धत्यं महिषेषु, पिशुनता मशकेषु, सेर्ग्यता यवासकेषु, न जनमनःसु चाभूत् ।। यत्र जनाः शौर्ये सेनानीसमा गांभीर्य पारावारकल्पा धैर्ये पार्वतीपितृदेश्याः क्षमायां भूधरनिभा आस्तिक्ये श्रावकदेशीया दाने कर्णसदृशाः सौजन्ये वारिदुग्धकल्पाः सौमात्रेऽश्विनीसमानाः सौन्दर्ये रतिपतितुल्या दाक्षिण्ये बृहस्पतिनिभा नीतौ चाणक्यसंनिभा गानकौशल्ये गंधर्वदेश्या अभवन् ॥ यत्र जनानां पर- २ श्री अमृत- चरि- तम् क्तिविराजितानां समूहैर्याप्तवसुंधरावलयं नानाविधकलाधारिणां जनानां वातैः शोभितम् , अनेकविधशिल्प- शास्त्रविधिनिर्मितानेकचैत्यदेवालयादिकं परिशीलितकाव्यनाटकभाणचंपुरसालंकारग्रंथैःसभाभूषणैविलोकि- तसांख्ययोगमीमांसान्यायादिषट्शास्त्रैः पंडितैः परिपूर्ण पाणिगृहीतकृपाणधारया विहितानेकशत्रुपराजयानां सम्राटपदवीधारिणां क्षत्रिययवनजातिषत्पन्नानां राज्ञां समूहेन व्याप्तं भारतमासीत् पूर्वकालेऽद्यापि भूतपूर्वरा- जन्यकीर्तिकौमुद्या प्रकाशितं गौरखतामादधाति सर्वदेशविपये । यत्र भारते वर्षे जैनधर्मतीर्थकरस्य महावी- रस्य प्रथमगणधरो गौतमोऽभवत् । तदनन्तरम् उमास्वातिविजयसेनसूरीश्वरादयोऽन्येप्याचार्या जैनधर्म सम- भवत्। सहस्रचतुःशतीमितग्रंथनिर्माताहरिभद्रसूरीश्वरश्च जनचित्तान्धकारनिवारकोऽपरतरणिखि श्रीसिद्धसेन दिवाकरश्चाभूत्। किंच यत्र भारते वर्षे तीबाराधनसंतुष्टवाग्देवताप्रसादात् सिद्धहैमत्रिपष्टिशलाकाचरित्रयोग- शास्त्रादिग्रन्थनिर्माता कलिकालसर्वज्ञेत्युपाधिधारी श्रीहेमचन्द्राचार्यश्चान्ये यशोविजयादिसूरीश्वरा जैनधर्म- देशनादुंदुभिनादेन सत्राऽहिंसादिपञ्चाणुनतस्तंभं निचख्नुः । येषां विभूतिविलसितानां तीव्रसंवेगानां सूरी- श्वराणां महान कालो व्यतीयाय परश्च तेषां कीर्तयो जैन नेतरेषु धवलितदिगंतरा अद्यापि प्रतीयन्ते ॥ एतादृशे भारते वर्षेऽस्ति च मृगमदमलयजागुरुनालिकेरपूगैलालवंगतमालपत्रजातिफलहरीतकीक- येनाकारि सहस्रवर्षमखिलं दिव्यं तपः सादरम् ॥ निर्दग्धा विषयाः समस्तजनतादुःखाकराः सर्वथा ।। कृत्वा घातिसमग्रकर्मनशनं प्रापे परं केवलम् ।। सोऽयं नाभितनूभवो वितनुतां नित्यं प्रभुमंगलम् ॥२॥ चतुर्विंशतिसंख्यायाः पूरकं पूर्णशान्तिदम् ॥ वर्धमानं जिनं वन्दे सर्वान्तःक्लेशनाशनम् ॥३॥ पूर्णिमाचन्द्रतुल्यास्ये युतिं शौक्लीं दधत्यलम् ॥ शारदा रसनाग्रं मे सदा तिष्ठतु याचिता ॥४॥ पन्यासपदवीं धत्ते योऽधुना मामको गुरुः ॥ वन्दे हिम्मतपूर्व तं विमलं शिरसादरात् ॥५॥ यस्य तु चरितं सर्वे परमगुरुवर्यस्यामृतविमलस्य ॥ तनोमि गद्यबंधेन तस्य प्रशिष्यशान्तिविमलः॥६॥ चतुर्दशराजलोकमध्यस्थितभूमंडले कुंडलाकारारुणनंदीश्वरक्षोदवरघृतवरक्षीरवरवारुणीवरपुष्करकालोद- धिलवणाभिधानसमुद्रैः परितो वलयाकार घेष्टिताः कुंडलारुणनंदीश्वरक्षोदवरघृतवरक्षीरखरखारुणीवरपुष्करखंड- धातकिखंडजंबुद्वोपनामानः खंडाः सन्ति। तत्र क्षारसमुद्रपरिवेष्टिते जंबुद्वोपेऽस्ति भारतं नाम वर्षम् ॥ यत्र भूमिस्थितविषयव्यापिकीर्तितया, अपरदेशापेक्षया विविधसलीलनिर्झरक्लेदितानेकौषधिवजव्याप- कपर्वतवातम् , अनेकविधनदनदीनां पयःपूरेण प्लावितकृषीवलभूमिप्रात्पन्नानेकजातीयधान्यराशिभिर्दत्तदारि- द्रयजलाञ्जलि, शिलीमुखताराराजिताजनयनैः प्रतिस्थलं मासौंदर्यमालोकयतामिव नदनदीसरसां सोपानपं: ,
॥ श्रीजिनाय नमः॥
अनुयोगाचार्य-गणिवयं-
श्री
अमृत-
चरि-
तम्
卐
ज
श्रीअमृतविमलजीमहाराजः
॥ श्रीअमृतविमलचरितम् ॥
॥ ॐ नमोऽहम् ।।
यन्नामनिर्मिती वर्णास्त्रयः प्रापुः सुपूज्यताम् ॥ तं नाभिनंदनं वन्दे ऋपभाख्यमहं प्रभुम् ॥१॥
या सप्रेम भेट ता. क क क C क क को क 80 क क ॥ श्रीअमृता श्री अमृतहिम्मतग्रन्थमाला पुष्पं ७ पं. दयाविमलजीसद्गुरुभ्यो नमः प्रवर्तकमुनिराजश्रीशान्तिविमलविरचितम् विमलचरितम् । श्रीपरमपूज्यव्याख्यानवाचस्पतिवयोटद्धदीर्घतपस्विपन्यासपदवीभृदनुयोगाचार्य हिम्मतविमलजीगणाधीशपशिष्य- विद्याप्रेमिमुनिराजरत्नविमलमुनिसदुपदेशतः कोशिलाववास्तव्यश्रेष्ठिहिम्मतमल्लतनुजन्मनः स्वर्गस्थललवानी- त्यवटंकश्रेष्ठिधनराजस्य द्रव्यसाहाय्येन प्राकाश्यं नीतम् ॥ विक्रमसंवत् १९९५ प्रथमावृत्तिः मूल्यं-सदुपयोगः सने १९३९ प्रतयः २५० काम 48 8 8 48 क ६० GO १
No text on this page.