Bharatiya Vidya Bhavan Library, Mumbai

Vyasatatparyanirnay

Dikshit.,shrimad Ayyan · 2012/08

PDF Proofread

Front matter

11
disciple of Sri Sridhara Venkatesarya, otherwise
known as Ayyaval, who lived at Tiruvasanallore in
the Tanjore District and who was a contemporary of
the great Yogi Sadasivendra Sarasvati
My thanks are due to Brahmasri Kunigal
Ramasastrigal, Dharmadhikari of Mysore who
secured for me two Mss copies of this work and who
kindly went through the proofs as well
J K Balasubrahmanyam

॥ श्रीसद्गुरुभ्यो नमः ॥ ॥ व्यासतात्पर्यनिर्णयः॥ श्रीशाकृतीन्दुमकुटाकृति चोपसेव्य- मीशात्मकं तदुपसेवितृजीवरूपम् । विश्वात्मकं तदुपभोगपदं यदीडे तब्रह्म सत्यसुखयोधनिजस्वरूपम् ।। यद्वीक्षाखिललोककिल्बिपतमस्काण्डस्य चण्डद्युतिः सूक्तिर्यस्य विरक्तिभक्तिभगवद्बोधप्ररोहावनिः । ब्रह्मानन्दसुधाब्धिमन्यनगिरिर्यस्योपदेशक्रम- म्तस्मै श्रीधरवेङ्कटेशगुरवे कुर्वे गामायुतम् ।। श्रीवेङ्कटपतेः सूनुरल्यदेरनुजः कवः । अय्यपणदीक्षितः कुर्वे व्यासतारपर्यनिर्णयम् ॥ पक्षपातविनिर्मुक्तवैदिकलौकिकरपि तस्वजिज्ञासुभिस्तत्वमस्मिन्मन्थेऽवधार्यताम् ॥ 1 व्यासतात्पर्यनिर्णय इह खलु भगवान्नारायणः परमकारुणिकः सकललोकानु- महाय व्यासरूपेणावतीर्णः परस्परविरुद्धतया प्रतीयमानवेदा- न्तवाक्यार्थावयोधासमर्थानां मन्दमतीनां सकलोपनिषन्महा. तात्पर्यनिर्णयद्वारा परमपुरुषार्थसाधनीभूतपरतत्त्वावधारणाय त- सूचकानि । अथातो ब्रह्मजिज्ञासा' इत्यादीनि 'अनावृत्तिः शब्दात्' इत्यन्तानि सूत्राणि प्रणिनाय । तदुक्तं शैव एका- दशरुद्रसंहितायाम्-- ‘स च नारायणस्यांशो भगवान्बाद- रायणः। दृष्ट्वा मन्दमतीमान्कृपया परयान्वितः ॥ वेदा- न्तार्थस्तु सर्वेषां नाना भाति न चैकधा 1 अतस्तेन फथं ब्रह्म जानात्यल्पमतिः पुमान् ।। इति संचिन्त्य मतिमान्पुनः कारुणिकोत्तमः । सूत्रयामास वेदान्तवाक्यार्थ शंकराज्ञया ।' इति । तानि भगवद्ध्याससूत्राण्यनतिस्फुटाशयानि भगवत्पादभ- भास्करश्रीकण्ठाचार्ययादवप्रकाशरामानुजमध्वचित्प्रकाशवल्ल- भादयो भाष्यकाराः खखाभिमतार्थपरतया व्याचख्युः । तत्र भगवत्पादानां जीवब्रह्मणोरभेदः स्वाभाविकः पारमार्थिकश्च भेदस्त्वौपाधिकश्चापारमार्थिक इत्यभिमतार्थः । भट्टभास्कराणां तु जीवब्रह्मणोरभेदः स्वाभाविकः पारमार्थिकश्च; भेदस्त्वोपाधि- कोऽपि पारमार्थिक इत्यभिमतार्थः । यादवप्रकाशानां जीवब्रह्मणोः स्वाभाविक एव भेदोऽभेदश्चेति । श्रीकण्ठरामानुजाचार्ययोः स्वा- प्रथमः परिच्छेदः । भाविक एव जीवब्रह्मणोर्मेदो विशिष्टाद्वैतं चेति ; तथापि शिव- परमत्वविष्णुपारम्याभ्यां तन्मतयोर्विशेषः । मध्वाचार्याणां तु जीवब्रह्मणोर्भेद एव स्वाभाविक इति । अत्र स्थापयध्वमिमं मार्ग प्रयत्नेनापि हे द्विजाः । स्थापिते वैदिके मार्गे सकलं सु- स्थिरं भवेत् ॥ यो हि स्थापयितुं शक्तो न कुर्यान्मोहितो नरः । तस्व हन्ता न पापीयानिति वेदान्तनिर्णयः ॥ यः स्थापयितु- मुद्युक्तः श्रद्धयैवाक्षमोऽपि सन् । सर्वपापविनिर्मुक्तः साक्षाज्ज्ञा- नमवाप्नुयात् ॥ यस्तु विद्याभिमानेन वेदमार्गप्रवर्तकम् । छल- जात्यादिमिर्जीयारस महापातकी भवेत् ॥ इति स्कान्दवचन- पालोचनया वेदान्ततात्पर्यविषयीभूतार्थनिर्णयस्यावश्यकर्तव्य- स्वेन तन्निर्णयायदंपर्येण प्रवृत्तस्य व्यासस्य पूर्वोक्तभाष्यकारा- भिमतार्थानां मध्ये कस्तात्पर्यविषयीभूतार्थ इति संशये, केय- लाद्वैतमेवेति निर्णयः क्रियते ॥ ननु, 'द्वापरे द्वापरे विष्णुासरूपी महामुने । चतुर्भिः सह शिप्यैस्तु शंकरोऽवतरिष्यति ॥' इत्यादिपुराणवचनैः श्रीमच्छं- करभगवत्पादानां साक्षाच्छंकराक्ताररूपत्वावगमेन, तामष्टाद- शधा दृष्ट्वा शंकरः सूतसंहिताम् | चके शारीरक भाप्यं सर्व- श्रुतिमनोहरम् ॥' इत्यादिना तदीयशारीरकभाष्यस्य श्रीमत्सू- तसंहितामूलकत्वावगमेन च भगवत्पादाभिमतं केवलाद्वैतमेव ४ व्यासतात्पर्यनिर्णय व्यासतापर्यविषय इत्यर्थस्यैव प्रामाणिकत्वेन स्फुटं प्रतीयमा- नतया पुनस्तदवधारणाय ग्रन्थारम्भो व्यर्थ इति चेत् । सत्यम् । तथापि 'अनन्तः प्रथमं रूपं लक्ष्मणस्तु ततः परम् । बलभद्रस्तृतीयश्च कलौ कश्चिद्भविष्यति ॥' इत्यादिना रामानुजाचार्याणां शेषावताररूपत्वावगमेन 'भगवद्बोधायन- कृतां विस्तीणी ब्रह्मसूत्रवृत्ति पूर्वाचार्याः संचिक्षिपुः । तन्मता- नुसारेण सूत्राक्षराणि व्याख्यास्यन्ते- अथातो ब्रह्मजिज्ञासा' इत्यादितद्वाप्यसंदर्भण तद्भाप्यस्य बोधायनवृत्तिमूलकत्वावगमेन च रामानुजाचार्याभिमतार्थ एव व्यासतात्पर्यविषय इत्यर्थस्य प्रामाणिकत्व प्रतीयते । तथा 'प्रथमो हनुमानाम द्वितीयो भीमसेनकः। पूर्णप्रज्ञस्तृतीयम्तु भगवत्कार्यसाधकः ॥' इत्या- दिना मध्वाचार्याणां वाय्ववताररूपत्वावगमेन, तदीयमाप्यस्य तन्मतप्रसिद्धब्रह्मतर्कमूलरामायणादिमूलकत्वावगमेन च मध्वा- चार्याभिमतार्थ एव व्यासतात्पर्यविषय इत्यर्थस्य प्रामाणिकत्व प्रतीयते । तथा भट्टभास्करयादवप्रकाशश्रीकण्ठचित्सुखचिद्वि- वरणवल्लभादीनामपि तत्तन्मतप्रसिद्धवचनावगततत्तद्देवतावतार- रूपत्वेन, तीयभाष्याणां तत्तन्मतप्रसिद्धप्रमाणमूलकत्वावगमेन च तत्तदभिमतार्था एव व्यासतात्पर्यविषय इत्यर्थस्य च प्रामाणिकत्वं प्रतीयते । तथा च परस्परविरुद्धार्थप्रतिपादका- प्रथमः परिच्छेदः। - नेकभाप्यद्रष्टणां मन्दमतीनां व्यासतात्पर्यविषयेऽर्थे संशयसं- भवेन तन्निर्धारणायैतद्न्थारम्भस्योचितत्वेन वैयर्थ्यशङ्कानव- काशः॥ अत्रैवं सति, विचार्यते- सूतसंहिताबोधायनवृत्त्यादीना तन्मूलकमाप्याणां च व्यास- तात्पर्यविषयेऽर्थे सर्वेषां प्रामाण्यम् , उताप्रामाण्यम् , अथवैक- म्यैव प्रामाण्यमिति । तत्र यदि सर्वेषां प्रामाण्यम् , तदा वस्तुनो नानारूपतापत्तिः। न चैतत्संभवति, विरोधात् । यदि च सर्वेषा- मप्रामाण्यम् , तदा तादृशभाप्यप्रतिपाद्यभेदाभेदाद्यन्यतमावश्य- तात्पर्यकश्रुतिसूत्राणामप्यप्रामाण्यापत्त्या वेदान्तशास्त्रोच्छेदप्रस- ङ्गः । अत एकस्यैव प्रामाण्यमिति तृतीयकल्पोऽवशिप्यते । तच्च प्रमाणमिदमेवेति केनाप्यवधारयितुं न शक्यते । न च भगव- त्पादभट्टभास्करयादवप्रकाशश्रीकण्ठरामानुजमध्वचिद्विवरणवल्ल- भादिभाप्यग्रन्थान्पर्यालोच्य पूर्वमीमांसान्यायोपोहलिततत्तद्भा- प्योक्तोपक्रमोपसंहारादिषड्डिधतात्पयलिङ्गायुपेतश्रुतिसूत्रस्वारस्य- बलाबलानुसारेणायमेवार्थों व्यासतात्पर्यविषय इत्यध्यवसातुं शक्यत इति तत्प्रतिपादकभाप्यमेव प्रमाणमिति वाच्यम् । उक्ततात्पर्यलिङ्गाद्युपेतश्रुतिसूत्रस्वारस्यबलाबलानुसारेणैव सक- लमाप्येषु स्वस्वाभिमतार्थ एव व्यासतात्पर्यविषय इति निर्णी- ६ व्यासतात्पर्यनिर्णये तत्वेन तत्र विशिष्य बलाबलनिश्चयासंभवात् । न चास्मदादि- भिरेव युक्तिश्रुतिस्वारस्यबलाबलानुसारेणायमेवार्थो व्यासतात्प- यविषय इत्यध्यवसातुं शक्यत इति वाच्यम् । तत्र किं युक्ति- मात्रबलेनायमेवार्थो व्यासतात्पर्यविषय इति निर्णयः क्रियत इत्युच्यते, उत श्रुतिमात्रबलेन, श्रुतिसहकृतयुक्तिवलेन था ? नायो हृयः, विकल्पासहत्वात् । तत्रापि किमुपक्रमोपसंहारा- दिरूपयुक्त्या व्यासतात्पर्यनिर्णयः क्रियत इत्युच्यते, उतानु- मानविशेषरूपयुक्तिमात्ररलेन परतत्त्वम्वरूपं निश्चित्य तद्वारा स एवार्थों व्यासतात्पर्यविषय इत्यध्यवसातुं शक्यत इत्यु. च्यते ? नाद्य.; उपक्रमोपसंहारादियुक्तेः श्रुतिसहकारित्वेन तृतीयविकल्पाभेदपर्यवसन्नतया युक्तिमात्रेणेति पक्षस्योत्थिते- रेवासंभवात् , अस्य पक्षस्य वक्ष्यमाणतृतीयपक्षदूपणेनैव दूषि- तपायत्वाच्च । न द्वितीयः; नैषा तर्केण मतिरापनेया' तर्का- प्रतिष्ठानात् यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभि- युक्ततरैरन्यैरन्यथैवोपपाधते ।।' इति श्रुतिसूत्राभियुक्तवचनैर्वे- दान्तकाधिगम्यपरतत्त्वनिर्णये युक्तिमानोपायस्य निराकृतत्वेन तद्वारा स एवार्थों व्यासतात्पर्य विषय इत्यध्यवसातुं शक्यत इत्यस्य शशविषाणकल्पत्वात् । नापि द्वितीयः; 'अहं ब्रह्माम्मि' 'तत्त्वमसि' 'अयमात्मा ब्रह्म 'प्रज्ञानं ब्रह्म' 'आनन्दो 3 १ प्रथमः परिच्छेदः । ब्रह्म' 'एकमेवाद्वितीयं ब्रह्म' इत्याद्यभेदश्रुतीनाम्, 'पृथगात्मानं प्रेरितारं च मत्वा' 'द्वा सुपर्णी' इत्यादिभेदश्रुतीनां च तुल्यतया विद्यमानत्वेन श्रुतिमात्रबलेनायमेवार्थो न्यासतात्पर्य- विषय इति निर्णयासंभवात् । अत एव पूर्वमेवोदाहृतम् 'वेदान्तार्थस्तु सर्वेषां नाना भाति न चैकया। अतस्तेन कथं ब्रह्म जानात्यल्पमतिः पुमान् ।।' इति । नापि तृतीयः; उपक्रमो- पसंहारादिरूपयुक्तिसहकृतश्रुतिबलेनैव तत्तद्भाप्येषु सकल- भाष्यकारैः स्वस्वाभिमतार्थ एव व्यासतात्पर्यविषय इति निर्णी- तत्वेन तादृशभाप्यादिप्रन्थान्पर्यालोच्यास्मदाद्यपेक्षया सर्वशः प्राचीन ग्रन्थकारैरपि युक्तिसहकृतश्रुतिबलेन प्रतिवादिवास्त- मनपूर्वकं सकलजनहृदयंगमतयायमेवार्थो व्यासतात्पर्यविषय इत्यवधारणस्याकृतत्वेन च स्वस्वमतमात्राभिमानसंरम्भविन- म्मितोद्धोपमात्रप्रयोजनैः किंचिज्ज्ञैरस्मदादिभिरेव युक्तिसहकृत- श्रुतिबलेनायमेवार्थो व्यासतात्पर्यविषय इत्यध्यवसातुं शक्यत इत्यस्य भ्रान्तिविलसितत्वात् ।। ननु, एवं सति व्यासतात्पर्यविषयीभूतार्थनिर्णयकुतूहलिनः पुरुषधौरेयस्य प्रभुशिरोमणेः सभामागत्यैकदिनप्रभृति मासाव- धि द्वैताद्वैतविचारे सति तत्पक्षयोर्मध्य एकस्य प्रामाण्यामिति मध्यस्थमुखेन निश्चित्य तन्मतप्रवेश एवाङ्गीक्रियत इति पत्राव- व्यासतात्पर्यनिर्णय लम्बनपूर्वकं समयबन्धनं कृत्वा तत्समाप्रविष्टमध्यस्यविद्वत्सं- निधानबलेनास्मदादिभिरेव श्रुतियुक्तिबलस्वारस्यबलाबलानुसारे- णायमेवार्थो व्यासतात्पर्यविषय इत्यध्यवसातुं शक्यत इति चेत्, न; उक्तपमुरेव दुर्लभः । तल्लामेऽपि वक्ष्यमाणरीत्या मध्यस्थस्यैवाभावेन तत्संनिधाने परतत्त्वं निर्णीयत इत्यस्य प्रतिज्ञामात्रत्वात् । तत्र मध्यस्थत्वं नाम वादिप्रतिवाभिमत- पक्षद्वयेऽपि स्वपक्षत्वाभिमानशून्यत्वे सति तत्पक्षयोर्बलाबल- निर्णयकुशलत्वमिति वक्तव्यम् । एतच्च बाह्यमतप्रविष्टानां संभवत्तीत्युच्यत्ते, उत्त कपिलादितन्त्रप्रविष्टानां संभवति, आहो- स्विद्वेदान्तशास्त्रप्रविष्टानां संभवतीत्युच्यते । नायः बौद्धाई- तचार्वाकादिबाह्यमतप्रविष्टानां वेदाप्रामाण्यवादित्वेनोपनिषदध्य- यनाभावप्रयुक्ततद्गतोपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गस्वार- स्यबलाबलनिर्णयसामर्थ्याभावेन तेषां मध्यस्थत्वप्रसक्तेरेवाभा- वात् , वेदाक्षरश्रवणेऽप्यनधिकारिणां तेषां निकटे वेदान्तविचारस्य प्रत्यवायकरत्वाच। तदुक्तं गौतमधर्म अथाहास्य वेद- मुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रपूरणमुच्चारणे जिह्वाच्छेदो धारणे शरीरभेदः" इति । न द्वितीयः; कपिलकणादगौतमादि- मतप्रविष्टानामिदानी कुत्राप्यदर्शनेन तेषां मध्यस्थत्वकल्पन- स्यामितिचिनायमाणत्वात् , जीवानेकत्वप्रपञ्चसत्यत्वपरक्षेत्रज्ञ. .

प्रथमः परिच्छेदः। मेदवाभिमानेन पक्षपातितया तेषां पूर्वोक्तमध्यस्थत्वस्या- त्यन्तासंगतत्वाच । नापि तृतीयः, वेदान्तशास्त्रप्रवर्तकाने- कभाष्यकारमतपविष्टेपु. भगवत्पादरामानुजमध्वश्रीकण्ठमतच- तुष्टयप्रविष्टानामेव बाहुल्येन विद्यमानतया तेषामपि परस्परवि- रुद्धभेदाभेदाधन्यतमकोट्यवलम्बनेन तदुभयवादिसंप्रतिपन्नपूर्वो- क्तमध्यस्थत्वस्य गगनकुसुमायमानत्वात् , वादिप्रतिवादिज्ञान- तारतम्यनिर्णयमात्र प्रयोजनव्यायारे चरितार्थतया तत्त्वनिर्णय- पर्यन्तप्रयोजनव्यापारे तेषां परम्पराप्राप्तगुरूपदिष्टस्वमतहानि- 'प्रयुक्तदुराग्रहस्य निवारयितुमशक्यत्वाच । अत एव 'वादि- दौर्बल्यं विना न मतदौर्बल्यम्' इत्यामाणकोक्तिः संप्रतिपद्यते । तस्माद्युक्तिमात्रवलेन वा, श्रुतिमात्रबलेन वा, युक्तिसहकृतश्रुति- बलेन चा, मध्यस्थविद्वत्संनिधानबलेन वा, तत्तद्वादिमात्रसंप्रति- पन्नकूटसाक्षिवाक्यसदृशसूतसंहिताबोधायनवृत्त्याद्यनुगृहीतभग- वरपादरामानुजादिभाष्यग्रन्थपर्यालोचनया वा, अयमेवार्थो ब्या- सतात्पर्यविषय इति केनाप्यवधारयितुं न शक्यते । तर्हि त्वया वायमेवार्थो व्यासतात्पर्यविश्य इति कथमवधार्यत इति चेत् । उच्यते । यथा स्तोत्रमाष्ये हरिहरयोर्मध्ये कस्य सत्त्वाश्रय- त्वमिति संशये सति 'स्यान्नागरद्राविडवेसरं च क्रमेण वै सत्त्वरजस्तमांसि । महीसुरोर्वीपतिवैश्यकाश्च हरिश्च धाता हर १० व्यासतात्पर्यनिर्णये . आदिदेवः' इति मध्यस्थशिल्पशास्त्रवचनबलेन विष्णोरेव सत्वाश्रयत्वमिति वेदान्ताचार्येण प्रतिपादितम् ; यथा वा चतुर्वे- दतात्पर्यसंग्रहे शिवनारायणयोर्मध्ये कस्य नमःशेपित्वमिति सं- शये सति 'वजिण्या मुद्रया शक्रं पद्मिन्या दर्शयेद्विधिम् । शविन्या केशवं रुद्रं शिरस्यञ्जलिमुद्रया' इति मध्यस्थभरत- शास्त्रवचनबलमनुसृत्य ' या शहिनी भवति शंकर वज्रिणी या मुद्रा च या कमलिनी भरतोपदिष्टा । ताभिर्भवन्त्यभिनया विबुधान्तराणां मौलिस्पृशा करपुटाञ्जलिमुद्रया ते' इत्यनेन शिवस्यैव नमःशेषित्वमिति सुदर्शनाचार्येण प्रतिपादितम् । तदत्रापि पूर्वोक्तभगवत्पादरामानुजाद्यनेकभाष्यकाराभिमता- र्थानां मध्ये कस्मिन्नर्थे व्यासतात्पर्यमिति संशये सति तन्निर्णया- काहायामस्मदादीन्प्रति मध्यस्थत्वेन संप्रतिपन्नकपिलकणादगौ- तमपतञ्जलिजैमिनितन्त्रेषु सूत्रभाप्यवार्तिकवृत्तिग्रन्थेषु पाशुपत- पाञ्चरात्रबौद्धार्हतचार्वाकतन्त्रेष्यप्युक्तरीत्या दशसु तन्त्रेषु 'याव- त्परमतं न निराक्रियते तावत्स्वमतमप्रतिष्ठित भवति' इति न्यायेन खमतस्थापनाय परमतनिराकरणप्रस्तावे कपिलकणादादिभिः केवलाद्वैतमेव व्यासतात्पर्यविषय इति मत्वानूध निराकृतत्वेन तदेवाद्वैत व्यासतात्पर्यविषय इति निर्णीयते । तदुक्तं गौतममह- र्षिणा--- 'विप्रतिपत्तौ साक्षिनिमित्ता सत्यव्यवस्था' इति ।

११ प्रथमः परिच्छेदः । अतस्तत्प्रतिपादक श्रीमत्सूतसंहितामूलकभगवत्पादीयभाप्यमेव प्रमाणमिति पर्यवसितमिति ॥ ननु, जीवानेकत्वप्रपञ्चसत्यत्वपरक्षेत्रज्ञमेदाद्यभिमानेन कपि- लकणादगौतमप्रभृतीनां मध्यस्थत्वं नास्तीति पूर्वमुक्त्वा इदानीं तेषामविद्यमानं मध्यस्थत्वमङ्गीकृत्य तदनुवादबलादयमेवार्थो न्यासतात्पर्यविषय इति खवचनव्याहतिरिति चेत् , न; कपिल- कणादादीनां भेदाभेदप्रतिपादक श्रुत्यर्थविचारे मध्यस्थत्वाभावे- ऽपि तेषां व्यासमतानुवादतन्निराकरणपूर्वकस्वमतम्थापनाय न्या- ससिद्धान्तस्यावश्यं ज्ञातव्यत्वेन तत्सिद्धान्ते स्वपक्षत्वाभिमानशू- न्यत्वेन च व्यासतात्पर्यविषयीभूतार्थविचारे मध्यस्थत्वसंभवेन खवचोव्याहतिशङ्कानवकाशात् ।। न चास्मिन्प्रन्थे कपिलाद्यनुवादरूपयुक्तिबलेनायमेवार्थो सतात्पर्यविषय इति निश्चयसंभवे कम्यापि भाप्यप्रन्थादौ प्रय- तिर्न स्यादिति वाच्यम् । 'तं त्वौपनिषदं पुरुषं पृच्छामि' नावेदविन्मनुते तं बृहन्तम्' इत्यादिश्रुत्या पडिधतात्पर्यलि- ङ्गाद्युपेतश्रुतिबलेनैव परतत्त्वनिर्णयः कर्तव्य इत्यर्थस्य व्यास. तात्पर्यविषयत्वेन तदर्थप्रतिपादकतत्तद्भाप्यग्रन्थपर्यालोचनेनैव तन्निर्णयस्य कर्तव्यत्वे तत्र भगवत्पादभाप्यरीत्या तन्निर्णयो युक्तः, श्रीकण्ठरामानुजमध्वादिभाप्यरीत्या वेति वादिविप्रति- व्या- .

१२ व्यासतारपर्यनिर्णय पतिरूपसंशये प्राप्से, कपिलाद्यनुवादोपोहलितभगवत्पादमाप्यो- तोपक्रमोपसंहारादिपहिपतात्पर्यलिङ्गाद्युपेतश्रुतियलेनैव तनिर्ण- यो युक्त इति सर्वेषां भाष्यग्रन्थादी प्रवृत्तः संभवात् । तत्र यथा वेदान्तशास्त्रे 'रचनानुपपत्तेश्च नानुमानम्' इत्याध. धिकरणेषु भगवता व्यासेन सांख्यमतनिराकरणं कृतम्, तद्व- सांख्यतन्त्रेऽपि भगवता कपिलेन वेदान्तशास्त्राभिमतकेवलाद्वै- तभेदौपाधिकत्वमपश्चानिर्वचनीयत्वाद्यनुवादपूर्वकं निराकरणं कृ- तम् । तथा हि- सांख्यशास्त्रप्रथमाध्याये ‘नाविद्यातोऽप्य- वस्तुना यन्धायोगात्' वस्तुत्वे सिद्धान्तहानिः' 'विजातीय- द्वैतापत्तिश्च' 'विरुद्धोभयरूपा चेत्' 'न तादृक्पदार्थाप्रतीतेः'; तत्रैव ' उपाधिभेदेऽप्येकस्य नानायोग आकाशस्येव घटादिभिः' ' उपाधिर्मिद्यते न तु तद्वान्' 'एवमेकत्वेन परिवर्तमानस्य न विरुद्धधर्माध्यास.' 'अन्यधर्मत्वेऽपि नारोपातत्सिद्धिरेकत्वात्' 'नाद्वैतश्रुतिविरोधो जातिपरत्वात्' 'विदितबन्धकारणस्य दृष्ट्या तद्रूपम्' 'नान्धादृष्ट्या चक्षुप्मतामनुपलम्भः' 'वामदेवादिर्मु- तो नाद्वैतम्' 'अनादावद्य यावदभावाद्भविप्यदप्येवम्' 'इदा. नीमिव सर्वत्र नात्यन्तोच्छेदः'; पञ्चमाध्याये ‘नाविद्याशक्ति- योगो नि.सनस्य' ' तद्योगे तत्सिद्धावन्योन्याश्रयत्वम्' 'न बी- जाकुरवत्सादिसंसारश्रुतेः' 'विद्यातोऽन्यत्वे ब्रह्मवाधप्रसक्तेः' . .

१३ प्रथमः परिच्छेदः । . - . 'अबाधे नष्फल्यम्' अविद्याबाध्यत्वे जगतोऽप्येवम्'; 'तद्रूपत्वे सादित्वम्'; तत्रैव 'नानिर्वचनीयस्य तदभावात् ' तत्रैव 'नाद्वै- तमात्मनो लिङ्गात्तद्भेदप्रतीतेः' 'नानात्मनापि प्रत्यक्षबाधात्' नोभाभ्यां तेनेव' 'अन्यपरत्वमविवेकानां तत्र' 'नात्मावि- या नोभयं जगदुपादानकारण निःसङ्गत्वात् ' नैकस्यानन्दचि- दूपत्वे द्वयोर्मेदात्' तत्रैव 'नानन्दाभिव्यक्तिर्मुक्तिर्निर्धमत्वात् '; षष्ठाध्याये - उपाधिश्चेत्तत्सिद्धौ पुनतम् ' 'द्वाभ्यामपि प्रमाण- विरोधः' 'द्वाभ्यामप्यविरोधान्न पूर्वमुत्तरं च साधकाभावात्' प्रकाशतस्तसिद्धौ कर्मकर्तृविरोधः' 'जडन्यावृत्तो जडं प्रका- शयति चिद्रूपः' 'न श्रुतिविरोधो रागिणां वैराग्याय तसिद्धेः' 'जगत्सत्यत्वमदुष्टकारणजन्यत्वाद्वाधकाभावात्' एतेषु पर- मतनिराकरणार्थेषु कपिलसूत्रेषु केवलाद्वैतादेरतिस्फुटतया प्रती- यमानत्वेन तादृशवाद्याकालायां व्याससूत्रेषु परस्परविरुद्धा- र्थप्रतिपादकनानाभाप्यप्रचारेण संशये सति तनिर्णयाकालायां च सत्यां पतञ्जलिजैमिनिगौतमकणादादिसूत्रकाराणां पाशुप- तादितान्त्रिकमतप्रविष्टानां चार्वाकादिबाह्यमतप्रविष्टानां चाद्वै- तानभ्युपगमाद्वादित्वासंभवेन पारिशेषिकप्रमाणात्प्रकारान्तरेण तन्निर्णयाकाडानिवृत्त्यसंभवाच्च व्यास एव वादित्वेन पर्य- वस्यति । इतरथा व्यासमहर्षि विना यस्य कस्यचिदन्य- १४ व्यासतात्पर्यनिर्णय म्याप्रसिद्धस्य वादित्वाभ्युपगमे वाद्यन्तराभिमतकेवालाद्वैतस्य व्यासतात्पर्यविषयत्वाभावेऽपि भट्टभास्करयादवप्रकाशश्रीकण्ठ- रामानुजमध्यादिभाष्यकाराभिमतार्थानां मध्येऽयमेवार्थो व्या- मतात्पर्यविषय इति केनापि निर्णतुमशक्यत्वेन द्वैतवादिनां स्वपक्षस्थापनाभावप्रयुक्तवैताण्डकत्वदूषणमापद्येत । तस्मान्दु. भयाकाहाशान्तये व्यास एव वादीत्यकामेनाप्यभ्युपगन्तव्यम् । अयमेवार्थस्तटस्थानां निर्मत्सराणां हृदयंगमः ॥ अन केचिद्धेदवादिनः कपिलसूत्रगतकेवलाद्वैतानुवादब्रह्मा- स्त्रप्रतिक्रियां कर्तुमसमर्था अपि परम्पराप्राप्तभेदवासनाकलुपि. तान्तःकरणा निजमताभिमान परित्यक्तुमनीशाः सन्तः स्वोत्प्रे- क्षाकल्पितयुक्त्याभाससूचीशकलैः केवलाद्वैतानुवादब्रह्मास्त्रं परि- हर्तुमिच्छन्ति । तथा हि-साख्यशास्त्रानुसारेण केवलाद्वैते व्या सतात्पर्यविषय इत्येतदयुक्तम् , सांख्यसूत्राणामभियुक्तप्रन्थेषु कुत्राप्यनुदाहृतत्वेन कपिलोक्तत्वनिश्चयासंभवादिति प्रथमः पक्षः । प्राचीनाद्वैतमन्थेषु कपिलसूत्रोक्तेः केवलाद्वैतसाधकयु- क्तित्वेनानुपन्यासादिति द्वितीयः । प्राचीनकपिलमहर्षिणा- चोचीनव्यासप्रणीतसूत्रतात्पर्यविषयार्थम्यानुवादासमवादिति तृ- तीयः । उदाहृतसूलेषु कुत्रापि व्यासशब्दप्रयोगाभावेन व्यास- मतमनूयत इत्यस्यार्थस्य गगनकुसुमायमानत्वादिति चतुर्थः ।

प्रथमः परिच्छेदः। सांस्यसूत्रानूदितार्थस्य केवलाद्वैतादेर्वेदान्तसूत्रेषु काप्यप्रतीय- मानत्वेन प्रत्यभिज्ञाभावादिति पञ्चमः । यदि कपिलस्य व्यास- मतनिराकरणमवश्यं कर्तव्यं स्यात्तदा 'ईश्वरासिद्धेः' इत्यादि- सूत्रेषु व्यासाभिमतजगत्कारणीभूतेश्वरादिनिराकरणमात्रेण चरि- तार्थतया केवलाद्वैतानुवादसूत्राणामपि व्यासाभिमतार्थानुवाद- परत्वमेव कल्पनीयमिति निबन्धाभावादिति षष्ठः। केवलाद्वै- तवादिनः कस्यचिदभावेऽपि सांख्यसूत्रेषु स्वमतस्थापनाय स्वोत्प्रेक्षितपक्षतयाद्वैतमनूद्य तन्निराकरणसंभवादिति सप्तमः । तदानींतनस्य यस्य कस्यचित्केवलाद्वैतवादिनो मतमनूद्य तन्नि- राकरणसंभवादित्यष्टमः । सूतसंहिताविष्णुपुराणादिप्रसिद्धसू- तजडभरतादीनां केवलाद्वैतवादिनां मतस्य निराकरणसंभवा- दिति नवमः । व्याससूत्रेषु तदनन्यत्वमारम्भणशब्दादिभ्यः' इत्यादिनापातप्रतिपन्नाद्वैतानुवादोपपत्तेरिति दशमः । 'आत्मेति तूपगच्छन्ति ग्राहयन्ति च' इत्यादिसूत्रानुसारेण केवलाद्वैत- मेव व्यासतात्पर्यविषय इति भ्रान्तिमता कपिलेन तदनुवाद- संभवादित्येकादशः । सर्वज्ञेन कपिलेन भाविशंकराचार्याभिमत- केवलाद्वैतादेरनुवदितुं शक्यत्वादिति द्वादशः । वेदान्त्येक- देशिनामाश्मरथ्यौडुलोमिकाशकृत्ववादरीणां मध्ये यस्य कस्य- चिन्मतमनूद्य तन्निराकरणसंभवादिति त्रयोदशः पक्षः। तस्मा- .

व्यासतात्पर्यनिर्णये दुदाहृतसूत्रेषु केवलाद्वैतानुवादादेरन्यथोपपन्नतया व्यास एव वादित्वेन पर्यवस्यतीत्युक्तरयुक्तत्वेन केवलाद्वैतमेव व्यासता- त्पर्यविषय इत्युद्धोपोऽयमभित्तिचित्रायमाण इति ॥ अत्रोच्यते- यदुक्तं सांख्यसूत्राणामभियुक्तग्रन्थेषु कुत्रा- प्यनुदाहृतत्वेन कपिलोक्तत्वनिश्चयासंभवादिति, तदयुक्तम् । श्रीमत्सूतसंहिताब्याख्यायां तात्पर्यदीपिकायां विद्यारण्यगुरुच- रणैः :-अत एव सांख्यैरुच्यते 'सत्वरजस्तमसा साम्यावस्था प्रकृतिः' इत्यादिना, परिमलग्रन्थे आनुमानिकमप्येके- पाम्' इत्यधिकरणेऽप्पय्यदीक्षितचरणैः-- अत एव स्थूला- त्पञ्चतन्मात्रस्य' इत्यादीनि , संहतपरार्थत्वात्पुरुषस्य' इत्यन्तानि कपिलसूत्राणि इत्यादिना, पुरुषार्थरत्नाकरेऽपि बालकृष्णानन्द- चरणैः- मोक्षस्तु लक्षित' सांख्यैः 'अथ त्रिविधदुःखात्यन्त- निवृत्तिरत्यन्तपुरुषार्थः' इत्यादिना कपिलसूत्राणामुदाढतत्वात् । न चोक्तरीत्या कपिलसूत्रसद्भावेऽपि त्वदुदाहृतकेवलाद्वैतानुवाद- सूत्राणां न कपिलोक्तत्वसिद्धिरिति वाच्यम् । कपिलसूत्रव्या- ख्यातृभिरनिरुद्धाचार्यादिभिरेव 'अथ त्रिविधदुःखात्यन्तनिवृत्ति- रत्यन्तपुरुषार्थः' इत्यारभ्य ' यद्वा तद्वा तदुच्छित्तिः पुरुषार्थः इत्यन्तानां सर्वेषां सूत्राणां व्याख्यातत्वेन तन्मध्यपतिताना- मुदाहृतसूत्राणामपि कपिलप्रणीतत्वे विवादाभावात् । द्विती- . ' प्रथमः परिच्छेदः । यपक्षोऽपि न क्षोदक्षमः । अस्मद्भाप्यांदिप्राचीनग्रन्थेषु गौत- मकपिलादिसूत्रकाराणामेव प्रतिवादित्वेन लक्ष्यतया तन्मत- निराकरणप्रवृत्तानां भाष्यकारादीनामाधुनिकभेदवादिनिराकरणा- र्थकपिलानुवादयुक्तिपर्यन्तानुधावनानपेक्षणात् , अप्पय्यदीक्षित- चरणादिग्रन्थकाराणां तु स्वसमानयुक्तिप्रमाणोपन्याससमर्थभे- दवाद्यसंभवादेव कपिलसूत्रानुवादरूपप्रबलयुक्तिमनपेक्ष्यैव पर- मतनिराकरणसंभवात् , प्राचीनभन्थेष्वनुदाहरणमात्रेण सांख्या- नुवादस्य केवलाद्वैतसाधकयुक्तित्वं न संभवतीत्येतस्य मूर्खप्र- लपितत्वाच्च । तृतीयोऽपि न मनोज्ञः । व्यासकपिलादीनां प्रति- कल्पं लोकानुग्रहार्थमवतीर्णानां प्राचीनार्वाचीनत्वविभागाभावेन स्वस्वमतस्थापनाय परस्पराभिमतार्थानुवादोपपत्तेः । चतुर्थप- क्षोऽप्यसंगतः । कपिलसूत्रेषु केवलाद्वैतनिराकरणस्थले वाद्य- न्तराभावेन व्यास एव केवलाद्वैतवादीत्यवगन्तुं शक्यतया तत्र व्यासशब्दप्रयोगेणापि भवितव्यमित्यत्र नियामकाभावात् । इतरथा वेदान्तसूत्रेषु 'ईक्षतेन शब्दम्' इत्यादिषु सांख्यमत- निराकरणेऽपि कपिलशब्दप्रयोगापत्तेः । अत एव पञ्चमोऽकिं- चित्करः । कपिलसूत्रगतकेवलाद्वैतवाद्यभिमतार्थानुवादवलेनैवा- द्वैतं व्यासतात्पर्य विषय इति निश्चयसंभवे वेदान्तसूत्रेषु तत्प्र- त्यभिज्ञाया अनपेक्षितत्वात्प्रत्यभिज्ञाभावेऽद्वैतमव व्यासतात्पv 2 व्यासतात्पर्यनिर्णये - यविषय इति कथमध्य वसीयत इति चेत् प्रान्तोऽसि ; अन्यम्या- द्वैतवादिनोऽभावादेव व्यास एवाद्वैतवादीयुक्तत्वात् । यदि च वेदान्तसूत्रेवतिम्फुटतयाद्वैतादिकमेव प्रत्यभिज्ञायेत, तदा त्व- दीयभाप्यादिअन्यारम्भासंभवेन त्वबुद्धिपरिकल्पितविरुद्धशङ्का- कुरोन्मेपानवकाशः । अस्ति च भेदोपाधिकरवायंशे प्रत्यभिज्ञा ब्रह्मसूत्रषु । 'उपाधियोगेऽप्येकस्य नानायोग आकाशस्येव यथा घटादिभिः' इत्यादिकपिलसूत्रैरनूद्यमानस्यौपाधिकभेदस्य अत एव चोपमासूर्यकादिवत् ' 'भाभास एव च' इत्यादि- सूत्रेषु प्रतीयमानत्वात् । 'नात्माविद्या नोभयं जगदुपादान- कारणं निःसङ्गत्वात्' इति कपिलसूत्रेण निराक्रियमाणस्य ब्रह्म- गतजगदुपादानत्वस्य 'जन्माद्यस्य यतः' 'प्रकृतिश्च प्रति- ज्ञादृष्टान्तानुपरोधात्' इति सूत्रद्वये प्रतीयमानत्वाच । ननु, अनेन सूत्रेण निराक्रियमाणख्य प्रकृतिविशिष्टब्रह्मगतजगदुपा- दानत्वस्य श्रीकण्ठरामानुजादिमतसाधारणत्वेन कथं केवलाद्वैत- वाद्यभिमतजगदुपादानत्वस्यैवेयं प्रत्यभिज्ञेति चेत् , उच्यते । तस्मिन्सूत्रे केवलात्मा जगदुपादानम् , उताविद्या, तद्विशिष्टात्मा वेति त्रिधा विकल्प्य तन्निराकरणप्रस्तावेऽविद्याजगदुपादानत्व- निराकरणपक्षेऽवस्तुभूताविद्यैवाविद्याशब्दार्थ इति वक्तव्यम् ; इतरथा रामानुजाद्यभिमतनित्यप्रकृतिपरत्वे सांख्यैरपि तादृशन- १९ प्रथमः परिच्छेदः । . . कृतेरेव जगदुपादानत्वाभ्युपगमेन तन्निराकरणे स्वसिद्धान्तोच्छे- दप्रसङ्गात् , 'नाविद्यातोऽप्यवस्तुना बन्धायोगात्' इति प्रथमा- ध्यायसूत्रगताविद्याशब्दस्थावस्तुभूताविद्यापरतया निर्णीतत्वेन तत्प्रत्यभिज्ञानेन एतत्सूत्रगताविद्याशब्दस्याप्यवस्तुभूताविद्यापर- त्वौचित्याच्च । तथा च अवस्तुभूताविद्याविशिष्टब्रह्मगतजगदुपादा- नत्वनिराकरणस्यैवात्र वक्तव्यतया तस्य च जगदुपादानत्वस्य रा- मानुजादिमतसाधारणत्वाभावेन केवलाद्वैतवाद्यभिमतजगदुपादा- नत्वस्यैव पूर्वोक्तवेदान्तसूत्रद्वयेऽपि प्रत्यभिज्ञाने न विवाद इति । नापि षष्ठो गरिष्ठः । 'ईश्वरासिद्धेः' इत्यादिकपिलसूत्रै निराक्रि- यमाणस्येश्वरादेौतमादिमतसाधारणत्वेन तेषां सूत्राणां व्यास- मतमात्रनिराकरणपरत्वासंभवात् , तत्सूत्राणां नैय्यायिकाभिमत- मात्रनिरासपरत्वाच्च । अत एव अनिरुद्धवृत्तौ नैय्यायिकाभिमत- खण्डनाभिप्रायेणैव · ईश्वरासिद्धेः' इत्यादिसूत्राणि व्याख्याता- नि । केवलाद्वैतानुबादपरेप्वनेकेषु कपिलसूत्रेषु वाद्यन्तराभावेना- साधारण्येनावश्यकर्तव्यव्यासमतनिराकरणसंभवे मतान्तरसाघा- रणार्थनिराकरणपरैः 'ईश्वरासिद्धेः' इत्यादिसूत्रैरेव व्यासमतनि- राकरणचरितार्थत्वकल्पनस्यायुक्तत्वाच्च । नापि सप्तमः । 'वस्तु- त्वे सिद्धान्तहानिः' इति सूत्रे कस्यचिद्वादिनः सिद्धान्तं सिद्ध- वत्कृत्यैव तन्मतनिराकरणस्य प्रतीयमानत्वेनोत्पेक्षितपक्षमादाय व्यासतापर्यनिर्णये तन्निराकरणायोगात् । अष्टमोऽपि दुष्ट । तदानींतन केवलाद्वै तवादीयुक्त, स महर्षिा, अन्यो वा नाद्य । यदि महर्षिस्तदा कपिलकणादादिमतवत्तदीयमतस्यापि गुरुशिष्यपरम्परया प्रचा- रावश्यभावेन खिलत्वानुपपत्ते । न द्वितीय । अन्य केवलाद्वैत- वादी कश्चिदप्रसिद्धोऽस्तीत्यत्र मानाभावात् , प्रसिद्ध व्यासमहर्षि परित्यज्याप्रसिद्धाद्वैतवादिगवेषणासभवाच्च । नवमोऽप्यवम । सूतजडभरतादीना स्वातन्त्र्येण तन्त्राप्रवर्तकतया साख्यतन्त्र प्रवर्तककपिलप्रतिवादित्वासभवेन तन्मतनिराकरणानुपपत्ते किं च तेथा वादित्वाभ्युपगमे श्रीमत्सूतसहिताविष्णुपुराणादीना त्वयैव केवलाद्वैतपरत्वस्य साधनीयत्वेन तत्समानार्थकवेदान्ता नामपि केवलाद्वैतपरत्वस्य सिद्धतयास्मदिष्टसिद्धे । उक्त- रीत्या केवलाद्वैतप्रतिपादकस्य विष्णुपुराणादर्भेदपरत्वव्यवस्था पकाना भवद्भाप्यकारप्रभृतीना स्वयैव भ्रान्तिकल्पनेन त्वदनि टप्रसङ्गश्च । दशमो विषम , विकल्पासहत्वात् । आपातप्रति- पन्न केवलाद्वैतनिराकरणाभ्युपगमेऽनूद्यमान केवलाद्वैत व्यासस्य पूर्वपक्ष इत्युच्यते, सिद्धान्त इति वा। नाद्य , 'वस्तुत्वे सिद्धान्त- हानि' इति व्यास प्रति कपिलदूषणासामञ्जस्यात् , व्याससिद्धा न्तनिराकरणाय प्रवृत्तेन कपिलेन तत्पूर्वपक्षनिराकरणायोगाच्च । द्वितीये इष्टापत्ति 1 नाप्येकादश । स्वमतस्थापनाय परमतनि .

प्रथमः परिज्छेदः। २१ राकरणप्रस्तावे सकलतन्त्रसिद्धान्तार्थनिर्णयजागरूकस्य सर्व- ज्ञस्य कपिलस्येतरमतानुवादांशेऽनान्तस्य व्यासमत्तानुचादां- शमात्रे प्रान्तिकल्पनस्य प्रान्तिमूलकत्वात् । नापि द्वादश. गौत. मकणादपभृतिसूत्रकारमतनिराकरणप्रायपाठानुरोधेन व्यासम- तनिराकरणस्यैवाचितत्वेन तद्भाप्यकृद्भाविशंकराचार्यमतनिराक- रणस्यासंगतत्वात् । इतरथा रामानुजमध्वश्रीकण्ठादिभाष्यकृन्म- तानामपि निराकरणीयत्वप्रसङ्गः । न हि सांख्यसूत्रेषु रामानु- जादिमाप्यकारामिमतविशिष्टाद्वैतादिनिराकरणं काप्युपलभ्यते । अस्तु वा भाविशंकराचार्यपक्षनिराकरणम् ; तथापि नानुपपत्ति। व्यासतात्पर्यनिर्णयैदंपर्येण प्रवृत्तानां भाष्यकाराणां मध्ये विशि- प्य भगवत्पादपक्षमेव लक्ष्यीकृत्य निराकरणदर्शनेन तदमिमत- केवलाद्वैतमेव व्यासतात्पर्यविषय इत्यवधार्यत इति सिद्ध नः समीहितम् । नापि वेदान्तैकदेशिनामाश्मरथ्यौडुलोमिकाश- कृत्स्नवादरीणां मध्ये यस्य कम्यचिन्मतमनूद्य तन्निराकरणस- भवादिति त्रयोदशः । स्वतन्त्रतन्त्रप्रवर्तकगौतमकणादादि- मतनिराकरणप्रायपाठे प्रधानमल्लनिवर्हणन्यायेन वेदान्ततन्त्रम- वर्तकन्यासमतस्यैव निराकरणीयत्वौचित्येन तदेकदेशिभूता- इमरथ्यादिमतनिराकरणस्यान्याय्यत्वात्; अन्यथा 'ईक्षतेनाश- व्दम्' इत्यादिसूत्रेषु सख्यमतनिराकरणस्थलेऽपि तदेकदेश- २२ व्यासतात्पर्यनिर्णये 2 भूतपश्चशिखसनन्दनाचार्यादिमतानामेव निराकरणीयत्वापत्ते । न चेष्टापत्तिः । सकलभाष्यपु कपिलमतमेव लक्ष्यीकृत्य तन्म- तनिराकरणदर्शनेन तद्विरोधापत्तेः । यदि च कपिलोक्तकेव- लाद्वैतमतनिराकरणपरसकलसूत्राणां वेदान्तैकदेशभूताश्मरथ्या- दिमतनिराकरणपरत्वम् , तदा तत्र व्यासमतनिराकरणामा- वात् 'यावत्परमतं न निराक्रियते तावत्स्वमतमप्रतिष्ठित भवति' इति न्यायेन कपिलस्य खसिद्धान्तासिद्धिप्रसङ्गः। किं च । आश्मरथ्यादीना मध्ये कस्य मतं निराक्रियते ? न तावदाश्मरथ्यस्य 'वाक्यान्वयात्' इत्यधिकरणे भग- वत्पादश्रीकण्ठरामानुजभाप्येषु प्रतिज्ञासिद्धेर्लिगमाश्मरथ्य.' इति सूत्रव्याख्याने जीवब्रह्मणो कार्यकारणभावपयुक्तस्वाभा- विकभेदाभेद एव आश्मरथ्याभिमत इति प्रतिपादनेन श्रुतप्रका शिकायामय यादवपक्षोऽस्मिन्सूत्रे उपन्यस्तः । तत्र हि 'कार्या- स्मना कारणात्मना च जीवब्रह्मणोर्मेदाभेदी स्वाभाविको मती' इत्यादिना तदभिमतस्वाभाविकभेदाभेदस्य स्पष्टतया प्रतिपाद- नेन च तादृशस्वाभाविकभेदाभेदवादिनं प्रति ' उपाधियोगऽप्ये- कस्य नानायोग आकाशस्येव यथा घटादिमि' इत्यादिनौपाधिक- जीवमनूद्य एवमेकत्वेन परिवर्तमानस्य न विरुद्धधर्माध्यास इत्यादिना तन्निराकरणस्यानुचितत्वात् । अत एवौडुलोमिमत- . .

२३ प्रथमः परिच्छेदः । निराकरणपरमेतदित्यपि निरस्तम् । तस्मिन्नेवाधिकरणे 'उत्क- मिप्यत एवंभावादित्यौडुलोमिः' इति सूत्रस्वारस्यपालोचनया मुक्तेः पूर्व स्वाभाविकभेदः मुक्त्यनन्तरं स्वाभाविको भेदश्व औडुलोम्यभिमत इत्यस्य प्रतिपादनेन तं प्रति ‘एवमेकत्वेन-' इत्यादिसूत्रोक्तोपाधिभेदनिराकरणस्यानवकाशात् । अयं चार्थो भाप्यादिग्रन्थेषु स्पष्टः । तत्र रामानुजभाष्ये-- अस्य जीवात्मन उत्क्रान्तेः पूर्वमनेवभावः किं स्वाभाविकः, उतौपाधिकः, तत्रापि पारमार्थिकः, अपारमार्थिको वेति इत्यादिना विकल्प्यौडुलो- मिमतं निराकृतम् । श्रुतप्रकाशिकायां तु-संभावितपक्षयोः पराभिमतं परिशेपयितुं खाभाविकोपाधिकविकल्पः कृतः । शंकरभास्करोक्तपक्षद्वयस्यापि 'उत्क्रमिप्यतः-' इत्येकेनैव सू- त्रेण निराचिकीर्षितत्वज्ञापनाय पारमार्थिकापारमार्थिकविकल्पः कृत इत्यादिनीपाधिकभेदद्वयमपि भगवत्पादभट्टभास्कराभि- मतमिति स्थापनेन परिशेषात्स्वाभाविकभेद एवौडुलोमिसिद्धान्त इति तस्य भाप्यस्य तात्पर्य स्पष्टीकृतम् । अत एव अस्मद्भगव- त्पादभाप्येऽप्युक्तम्-औडुलोमिपक्षे स्पष्टमेवावस्थान्तरापेक्षौ भे- दाभेदाविति । वाचस्पत्येऽपि- जीवोऽपि परमात्मनोऽत्यन्ता- भिन्न एव । स तु देहेन्द्रियमनोबुद्धयुपाघिसंपर्कात्सर्वदा कलुषः तस्य ज्ञानध्यानादिसाधनसंपन्नस्य देहेन्द्रियसंघातादुत्क्रमिप्यत.

२४ व्यासतात्पर्यनिर्णये . परमात्मनैक्योपपत्तेरिति । फल्पतरुपन्थेऽपि- उपाधिसंपर्को हेतुः कालुप्ये, न जीवपरभेद इति । अनेन भाष्यवाचस्पत्य- कल्पतरुप्रन्थपर्यालोचनेनौडुलोमिमते मुक्तेः पूर्व स्वाभाविको भेदः, तदनन्तरमभेद इति स्पष्टीकृतम् । शिवार्कमणिदीपि- कायामपि संसारदशायां जीवस्य परमेश्वराद्भेदेऽपि मोक्षदशायां तद्भावप्रार्जीवशब्दैः परमेश्वराभिधानमित्यौडुलोमिमतमिति सूत्रं ब्वाचष्टे उत्क्रामिप्यत इत्यादिनावस्थाभेदे स्वाभाविकभे- दाभेद एवौडुलाम्यभिमत इति प्रतिपादितम् । तस्मादौडलोमि प्रति कपिलोक्तदूषणानवकाश । नापि काशकृत्स्नस्य । तत्र श्रीकण्ठरामानुजभाप्यरीत्या तन्मतमनूद्यत इत्युच्यते, अस्मद्भ- गवत्पादभाष्यरीत्या वा ? नाद्यः । तस्मिन्नेवाधिकरण । स्थितेरिति काशकृत्सः' इति सूत्रे श्रीकण्ठरामानुजभाष्ययो काशकृत्लस्य तदभिमतविशिष्टाद्वैतवादित्वप्रतिपादन त प्रति पूर्वोक्तकपिलदूषणानवकाशात् । तदुक्तं श्रीकण्ठभाये-- सर्व श्रुतिसामरम्यविचारे सर्वेषां चिदचिद्गस्तूनामन्तर्यामितयानुपवि- टः सर्वशरीर. सर्वशब्दवाच्य परमेश्वरः शिव इति विज्ञायते । अतः काशकृत्स्नमतमेव सर्वश्रुतिसूत्रमहाभियुक्तसंमतमिति । तथा रामानुजभाष्येऽपि स्वशरीरभूते जीवात्मन्यात्मतयावस्थिते: जीवशब्देन ब्रह्मप्रतिपादनमिति काशकृत्स्नाचार्यों मन्यते स्म। अव- .

२५ प्रथमः परिच्छेदः। जीवशन्दश्च जीवस्य परमात्मपर्यन्तस्यैव वाचको न जीवमात्र- स्येतीति । न द्वितीयः । यद्यप्यस्मद्भगवत्पादमाप्यरीत्या काश- फस्नः केवलाद्वैतवाद्येवेति तं प्रति पूर्वोक्तकपिलदूषणं सावका- शमेव, तथापि काशकृत्स्नमतमेव व्यासमतमिति सकलभाप्य- कारसंमतत्वेन तन्मतनिराकरणे व्यासमतस्यैव निराकृतत्वसिद्या व्यासः केवलाद्वैतवादीति सिद्धं नः समीहितम् । मध्वभाप्ये तु कृष्णद्वैपायनमतादेकदेशविदः परे बदन्ति यथाप्रज्ञं न विरोध इत्यादिना आश्मरथ्यौडुलोमिकाशकृत्स्नानां भेदवादित्वाङ्गी- कारेण कपिलोक्तदूपणप्रसक्तेरेवाभावान्न तेषां वादित्वकल्पना । नापि वादरिमतनिराकरणं भगवत्पादश्रीकण्ठरामानुजमध्वभा- प्येषु 'अमावं बादरिराह ह्येवम्' इतिसूत्रव्याख्याने मुक्तिद- शायां देहेन्द्रियाद्यभावमात्रस्यैव बादर्यभिमतत्वप्रतिपादनेन के- वलाद्वैतस्यापतिपादनात् । न हि शरीराभावप्रतिपादनमात्रेणा- भेदः सिध्यति; तथा सति नैय्यायिकादीनामपि मुक्तिदशायां तदीयग्रन्थेषु शरीराभावप्रतिपादनेन जीवनह्मणोरक्याभ्युपगमा- पत्तेः । तथा च तं प्रति कपिलोक्तदूपणमसमञ्जसमेय । तस्मा- दुक्तरीत्या कपिलसूत्रेषु केवलाद्वैतादेरतिम्फुटतया प्रतीयमानत्वेन तेषामन्यययितुमशक्यत्वात् , तादृशाद्वैतवाद्यन्तराभावात् अ- म्मिस्तन्त्रे तन्त्रान्तरेषु वा यत्र कुत्रचिढ़ेदवादित्वेन व्यासमहर्षि- व्यासतात्पर्यनिर्णय मुररीकृत्य तदभिमतभेदानुवादपूर्वकनिराकरणपरसूत्राणामभा- यात् व्याससूत्रेषु महता प्रयत्नेन असाधारण्येन कपिलमेव लक्ष्यीकृत्य तन्मतनिराकरणेन तद्वत्कपिलसूत्रप्वपि व्यासमेव लक्ष्यीकृत्य तन्मतस्य निराकरणीयत्वावश्यंभावाच्च न्यास एव यादित्वेन पर्यवस्यतीति सुष्ठूक्तमिति । तथैवानिरुद्धवृत्तावपि प्रथमाध्याये- एक आत्मेति वेदा- न्तिनः । तथा च 'नित्यः सर्वगतो ह्यात्मा कूटस्थो दोष- वर्जितः । एकः सन्भिद्यते भ्रान्त्या मायया न खभावतः' इत्यादिना श्रीमत्सूतसंहितावचनोपष्टम्भपूर्वकमात्मैकत्वं वेदान्त्य- भिमतमिति प्रतिपादितम् । तत्रैव पञ्चमाध्याये--- शुक्तिरज- तादिप्वनिर्वचनीयत्वमेव वेदान्त्यभिमतमिति ज्ञापयितुम् 'ना- निर्वचनीयं तदभावात्' इति सूत्रावतारिकायां वेदान्तिमतं दूषयति इत्युक्तम् । किं च यथा वेदान्तशास्त्रे ‘महद्दीर्घवद्वा हवपरिमण्डला- भ्याम्' इत्यधिकरण भगवता व्यासेन कणादमतनिराकरणं कृतम् , तद्वद्वैशेषिकतन्त्रेऽपि भगवता कणादेन व्यासाभिमत- केवलाद्वैतमेव निराकृतम् । तथा हि वैशेषिकतन्ले तृतीयाध्याये द्वितीयाहिके स्वसिद्धान्ते आत्मनो लिङ्गगम्यत्वं प्रतिपाद्य वेदा- न्त्यभिमतात्मानं खण्डयितुम् ‘तस्मादागामिकम्' इति सूत्रेण .

प्रथमः परिच्छेद । आगमैकसमधिगम्यमात्मानमनूद्य तस्यैवात्मन 'सुखदु खज्ञान निष्पत्त्यविशेषादेकात्म्यं सर्वशरीराणाम्' इति सूत्रेण तदभि- मतमेकत्वमप्यभूध 'नानात्मानो व्यवस्थात 'शास्त्रसामर्थ्याच' इति सूत्रद्वयेनात्मैकत्वनिराकरणपूर्वकमात्मनानात्व व्यवस्थापि तम् । अयं चार्थस्तत्सूत्रव्याख्यानादौ म्पष्ट । तद्यथा-- एव समधिगतस्यात्मनो नानात्वैकत्वसदेहे पूर्वपक्षमाह । सुखदु ख- ज्ञाननिष्पत्यविशेषादैकात्म्य सर्वशरीराणाम् , सर्वशरोरेप्वेक ए- वात्मा, तल्लिङ्गानां सुखदु खज्ञानादीना सर्वत्राविशेषात् , उक्तम् 'तल्लिङ्गाविशेषाद्विशेषलिङ्गाभावाच्चैको भाव ' इति सिद्धान्त. माह 'नानात्मानो व्यवस्थात' प्रतिशरीर नानात्मान । कुत व्यवस्थात । व्यवतिष्ठन्ते हि ज्ञानसुखादय प्रतिशरीरम् , नैकाधिकरण्येनानुसीयन्ते । ऐकात्म्ये तु एकशरीररूप एवा- नुसंधानप्रसङ्ग । हेत्वन्तरमाह शास्त्रसामर्थ्याच' शाम्ने- ऽप्येवं समर्थितानि भवन्ति । 'ज्ञाज्ञी द्वावजावीशानीशा' 'भोक्ता भोग्य प्रेरितार च मत्वा' 'द्वासपी सयुजा सखा. या' 'यथाने क्षुद्रा विम्फुलिङ्गा व्युच्चरन्त्येवमस्मादात्मानो व्युञ्चरन्ति' इत्यादयो जीवनानात्वज्ञापकश्रुतय । यो ब्रह्माण विदधाति पूर्वम् ' 'एको वशी सर्वभूतान्तरात्मा' 'नित्यो नित्याना चेतनश्चेतनानाम्' इत्यादीन्येकत्वशास्त्राणि 2 - २८ व्यासतात्पर्यनिर्णये त्वीश्वरविषयाणि । तस्मात्प्रतिशरीरं भिन्ना आत्मानः । इत्या- दिकणादसूत्रतद्याख्यानयोरप्यात्मैकत्वमेव वेदान्तशाम्बाभिमत- मित्यनूद्य निराकृतम् । किं च यथा वेदान्तशास्त्रे 'तर्काप्रतिष्ठानात्---' इत्यधि- करणे भगवता व्यासेन गौतममतनिराकरणं कृतं तद्वन्नयाय- तन्त्रेऽपि केवलाद्वैतमेव वेदान्तशास्त्राभिमसमित्यनूद्य निराकृत. मिति द्रष्टव्यम् । - . किं च यथा वेदान्तशास्त्रे 'एतेन योगः प्रत्युक्तः' इत्य. धिकरणे भगवता व्यासेन पतञ्जलिमतनिराकरणं कृतम् , तद्व- द्योगशास्तेऽपि केवलाद्वैतमेव वेदान्तशास्त्राभिमतपित्यनूद्य नि- राकृतम् । तथा हि, भोजवृत्ती । स्वरूपप्रतिष्ठा वा चिति- शक्ति.' इतिसूत्रव्याख्यानावसरे 'ये तु वेदान्तवादिनः चि- दानन्दमयत्वमात्मनो मोक्षं मन्यन्ते तेषां न युक्तः पक्षः । तथा हि आनन्दस्य सुखरूपत्वात् सुखस्य च सदैव संवेद्य. तयैव प्रतिभासात् संवेद्यमानत्वं च सवेदनव्यतिरेकेणानुपपन्न- मिति संवेदनसंवेद्ययोरभ्युपगमादद्वैतहानिः' इत्यादिना वेदान्त्य- भिमतत्वेन केवलाद्वैतमेवान्ध निराकृतम् । किं च यथा वेदान्तशास्त्रे 'फलमत उपपत्तेः' इत्यधिकरणे भगवता व्यासेन जैमिनिमतनिराफरणं कृतं तद्वन्मीमांसाशा- २९ प्रथम. परिच्छेद । - . स्त्रेऽपि केवलाद्वैतमेव वेदान्तशास्त्राभिमतमित्यनूद्य निराकृतम् । तथा हि-- तर्कपादे वार्तिके 'स्वय च शुद्धरूपत्वादभावाच्चा- न्यवन्तुनः । स्वप्नादिवदविद्याया प्रवृत्तिस्तस्य किंकृता । अन्ये- नोपप्लवेऽभीष्टे द्वैतवाद. प्रसज्यते । म्वाभाविकीमविद्या तु नो- च्छेत्तु किंचिदहति ॥ विलक्षणोपपाते हि नश्येत्स्वाभाविकी कचित् । न त्वेकात्माभ्युपायाना हेतुरस्ति विलक्षण ॥' इत्या- दिना भट्टपादैरपि केवलाद्वैतमेवानूद्य निराकृतम् ।। शास्त्रदीपिकाया तर्कपादे---" स्यान्मतम् आत्मैवैको जगदा- सीत्स एव स्वेच्छया व्योमादिप्रपञ्चरूपेण परिणमते बीजमिव वृक्षरूपेण । चिदेकरस कथ जडरूपेण परिणमते इति चेत् , न परमार्थत परिणाम ब्रूम , किं त्वपरिणतमेव परिणतवत् एकमेव सबनेकधा मुसमिवादशेप्वविद्यावशाद्विवर्तमानमात्मैव आत्म- नश्चिद्रूपमचिद्रूपमिव, अद्वितीय सद्वितीयमिव पश्यति सेयमवि- द्योपादाना म्वप्नप्रपञ्चवन्महदादिप्रपञ्चसृष्टि । तथा च 'सर्व ख- ल्विद ब्रह्म' ' आत्मैवेद सर्वम्' 'नेह नानास्ति किंचन' इत्यादयो बहवोऽद्वैतवादा । तथा 'इन्द्रो मायाभि पुरुरूप ईयते' इति भेदावगतेय॑क्तमेव मायानिवन्धनत्व दर्शितम् । तथा लोकास्त परादुर्योऽन्यत्रात्मनो लोकान्वेद' इत्यादिनानात्मदर्श- ननिन्दा, 'मृत्यो स मृत्युमामोति य इह नानेव पश्यति' .

व्यासतात्पर्यनिर्णये . इति च नानात्वदर्शननिन्दा, सर्वमिदमद्वितीयं ब्रह्मापरमनर्थ- करी भेददृष्टिः, सृष्टिश्चाविद्योपादानेत्येतमर्थ प्रकटयति" इत्या- दिना पार्थसारथिमित्रैरपि केवलाद्वैतमेव वेदान्तशास्त्राभिमतमि- त्यनूा निराकृतम् ॥ पाणिनितन्त्रेऽपि भर्तृहरिणोक्तम् । 'यत्र द्रष्टा च दृश्यं च दर्शनं चापि कल्पितम् | तस्यैवार्थस्य सत्यत्वमाहुस्त्रय्य- न्तवादिनः' इत्यादि । किं च यथा वेदान्तशास्त्र ‘पत्सुरसामञ्जस्यात्' इत्यधिकरणे भगवता व्यासेन पशुपतिमतनिराकरण कृतम् , तद्वच्छवागमे- ऽपि भगवता शिवेन केवलाद्वैतमेव वेदान्तशास्त्राभिमतमित्यनूद्य निराकृतम् । तथा हि-मृगेन्द्रसहितायां ज्ञानपादे द्वितीय- पटले 'भरद्वाज उवाच- वेदान्तसांख्यसदसद्वादाथिकमतादिषु । ससाधना मुक्तिरस्ति को विशेषः शिवागमे || शक उवाच- प्रणेत्रसर्वदर्शित्वान्न स्फुटो वस्तुसंग्रहः । उपायाः सफलास्तद्व- च्छेवे सर्वमिदंपरम् ।। वेदान्तेप्वेक एवारमा चिदचिव्यक्तिल- क्षित । आत्मैवेदं जगत्सर्व नेह नानास्ति किंचन । प्रतिज्ञामात्र- मेवेदं निश्चयः किंनिबन्धनः । अथ प्रमाणं तत्रात्मा प्रमेयत्वं प्रपद्यते ॥ यत्रैतदुभयं सत्र चतुष्टयमपि स्थितम् । अद्वैतहानिरेव स्यान्निष्प्रमाणकतान्यथा ॥ भोगसाम्याविमोक्षौ च यौ नेप्टावात्म- प्रथमः परिच्छेदः । .. वादिभिः । नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ॥' इति । अत्र वेदान्तसांख्याहतकाणादादिमतप्वपि मुक्तितत्साधनान्यपि सन्तीति । तन्मतापेक्षया शिवागमस्य को विशेष इतीन्द्रं प्रति भरद्वाजेन प्रश्ने कृते सति प्रणेत्रसर्वदर्शित्वादित्युत्तरवचनेन वेदान्तादिशास्त्रप्रणेतृणामसर्वज्ञत्वात्तन्मतेप्वर्थनिर्णयो न संभव- तीति सामान्यतो दूपयित्वा विशिप्य वेदान्तमतमादौ दूपयितुं वेदान्ते वित्यादिना निष्प्रपञ्चाद्वितीयात्मस्वरूपवेदान्तमतमनूध तन्निराकरणाय विकल्पः कृतः । किं वेदान्ताः प्रमाणम् उताप्रमा- णम् ? यदि प्रमाणं तदात्मा प्रमेय इति यस्तुद्वयम् , यत्र प्रमाणं प्रमेयश्च तत्र प्रमाता प्रमितिश्चेति पुनरपि वस्तुद्वयमिति वस्तुचतुष्टयापत्त्याद्वैतहानिः म्यात् । द्वितीये वेदान्तमतस्या- प्रामाणिकत्वमेव । आत्मन एकत्वात्मर्वेषां सुखाद्यनुभवसाम्य- मपि म्यात् , अविमोक्षप्रसङ्गश्चेत्येवंप्रकारेण निराकृतम् । एवं मृगे- न्द्रसंहिताव्याख्यातृभिर्भट्टनारायणपण्डितैः श्रीकण्ठाचार्यैस्तद्या- ख्यानव्याख्यातृभिरघोरशिवाचार्यैश्च वेदान्तमतानुवादतनिराक- रणप्रकारो विस्तरेण बहुधा प्रपश्चितः। तत्सर्वं ग्रन्थविम्तरभयान्नेह लिख्यते । तथापि ज्ञापनार्थ किंचिल्लिख्यते । तत्र भट्टनारायण- श्रीकण्ठाचार्यवृतिग्रन्थे । वेदान्तप्वेक एवेति' तथा 'एको वशी सर्वभूतान्तरात्मा एक विश्वं-यहुधा यः- -करोति' इत्यादि- ३२ व्यासतात्पयंनिर्णये 'यथा श्रुतिभिः परमात्मैव सकलचिदचिद्भावाविर्भावतिरोभावप्रकृति- भूतः परिपूर्णपाइगुण्यवैभवस्वतन्त्रः एकोऽपि सन् संसृत्यर्थ तत्तद्विविधमनोलक्षणोपाधिभेदस्वभावान्तरानुविधायी यथावदव- गतोऽभ्युदयाय भवतीति वेदान्तस्यैव तथा तथा वैचित्र्यणाव- स्थितः सत्यत्वादद्वतप्रतिभासस्य द्वैतप्रतिभानस्य द्विचन्द्रादि- ज्ञानवद्धान्तस्वात् । तथा चाह तत्रभवान्भर्तृहरिः- विशुद्धमाकाशं तिमिरोपप्लुतो जन. । संकीर्णमिव मात्राभि- श्चित्राभिरभिमन्यते ॥ तथैतदमृतं ब्रह्म निर्विकारमविद्यया । कलपत्वमिवापन्नं भेदरूपे प्रवर्तते ॥' । एवं चाभिन्नमेवे- दं परब्रह्मपरमात्मलक्षणं मनसा हि संसारधर्मः योगः, परमात्मा तु सूर्य इवाम्भःप्रतिबिम्बभेदेरुपाधिभिरभिन्नो- ऽपि भिन्न इव प्रतिभाति । 'यथा पय ज्योतिरात्मा विवखान- पो भिन्नो बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेवेवमजोऽयमात्मा ।।' तदेतन्नोपपद्यत इति । अपारशिवाचार्यकृततद्वृत्तिव्याख्यानेऽपि अथान्यदर्शनास्फु- टत्वप्रकाशनाय प्रथमं वेदान्तवादिमतम्याम्फुटत्त्वं सूचयित्वा दर्शयितुं वेदान्तेवित्यादिश्लोकार्थेन तन्मतमुपन्यस्यते । तदेव दर्शयति आत्मैवेदमित्यादिना । अविद्यानुवन्धतः सत्यरूप एव पशुमृगाधनन्तशरीरभेदेन यहुप्रकारोऽय जीवात्मभिदृश्यते स्वम सुखदुःखादिमि- प्रथमः परिच्छेदः । ३३ इव, स्वमे धनन्तपुरुपप्रकाशादिप्रकाशो दृश्यते । ततश्च द्विच- न्द्रप्रतिमासवदैतप्रतिभासोऽप्यसत्य इत्येक एवात्मा श्रुतितो युक्तितश्च सिद्ध इति । तस्मान्मृगेन्द्रसंहितातद्वृत्तितद्वया- ख्यानपर्यालोचनया केवलाद्वैतमेव वेदान्तशास्त्राभिमतमिति सिद्धम् ॥ तथा अगस्त्यमहर्षिप्रणीतशिवरहस्येऽपि तृतीयाशे पत्रिंशा- ध्याये-'न ते गीतमाकाशनित्यत्ववादो मतो वेदवेदान्ततत्व- ज्ञमूर्ते । न ते जैमिनेः शब्दनित्यत्ववादो न मिथ्यात्ववा- दोऽपि वेदान्तिनां ते ॥ न बन्धोऽपि मोक्षोऽपि वेदान्तशास्त्रे तथा दृष्टिसृष्टिप्रवादोऽपि दृष्टः । अविद्याविलासो न कोऽपीह कल्प्यो विलासर्यतम्ते जगजालमासीत् ॥ न चानन्तवेदान्त- वार्ताविचारे हराराधकारध्यभावाभिमान 1 न चेन्नाधुना कर्म मार्गो विनष्टः शिवाराधनामार्गवार्ता कुतः स्यात् ॥' इति ।। अन गौतमाभिमताकाशनित्यत्व जैमिन्यभिमतशब्दनित्यत्व वेदान्त्यभिमतप्रपञ्चमिथ्यात्वबन्धमोक्षव्यवस्थाराहित्यदृष्टिसृष्ट्या- दिकं चानूय निराकृतम् । एव च गौतमजैमिनिसूत्रकारपाय- पाठावेदान्तशब्दस्यापि ब्रह्मसूत्रप्रणेतृव्याममहर्षि परत्वस्व सिद्ध- खेन केवलाद्वैतमेव व्यासतात्पर्य विषय इति सिद्धम् ।। V 3 व्यासतात्पर्यनिर्णये किं च, यथा वेदान्तशास्त्रे 'उत्पत्त्यसंभवात्' 'समुदाय उभयहेतुकेऽपि तदप्राप्तिः' नैकस्मिन्नसंभवात्' 'एक आत्मनः शरीरे भावात् । इत्यधिकरणचतुष्टयेऽपि भगवता व्यासेन पा- श्चरात्रबौद्धार्हतचार्वाकतन्त्रचतुष्टयनिराकरणं कृतम् । तद्वत्पाञ्च- रात्रादितन्त्रचतुष्टयेऽपि केवलाद्वैतमेव वेदान्तशास्त्राभिमतमित्य- नूद्य निराकृतमिति द्रष्टव्यम् ॥ एवं च उक्तग्रन्थेषु तत्र तत्र केवलाद्वैतानुवादपूर्वकनिरा- करणम्थले केवलाद्वैतम्य वेदान्तिमतत्वप्रतिपादनेन तादृशाद्वै- तमेव वेदान्तशास्त्राभिप्रेतार्थ इति सिद्धौ व्यासस्य वेदान्तशा- स्त्रप्रवर्तकतया वेदान्तवादित्वावश्यंभावेन केवलाद्वैतमेव व्या- साभिमतमिति स्पष्टम् । तस्मात्सर्ववादिसंप्रतिपन्नकपिलकणाद- गौतमपतञ्जलिजैमिनितन्त्रेषु सूत्रभाप्यवार्तिकवृत्तिग्रन्थेषु पाशु- पतपाञ्चरात्रबौद्धाहततन्त्रेप्वप्युक्तरीत्या दशसु तन्त्रेषु वेदान्तिम- तनिराकरणप्रतावे केवलाद्वैतस्यैवानूद्यमानत्वात्प्रतिवादिवास्त- म्भनपूर्वकं सकलजनहृदयंगमतया तदेवाद्वैतं व्यासतात्पर्यविषय इति युक्तमुत्पश्यामः ।। एवं च सकलवेदान्तवाक्यार्थसूचकानां व्याससूत्राणामद्वि- तीये ब्रमणि तात्पर्येऽवधारिते तन्मूलभूतानां सर्वासामुपनिष- दामप्यद्वितीये ब्रमणि तात्पर्य सिद्धमेव । अत एवोक्तं श्रीम- प्रथमः परिच्छेदः। सूतसंहितायां यज्ञवैभवखण्डे दशमाध्याये- 'एकमेवाद्वितीयं न्यादित्याह श्रुतिरादरात् । मायामात्रमिदं द्वैतमिति चाह परा श्रुतिः ॥ एकत्वं पश्यतो मोह. कः शोक इति चाह हि । द्वितीयाद्वै भयं नाल्पे सुखमित्यपि चाह हि ॥ अतस्तर्कम- माणाभ्यां वम्त्वेकत्व सुनिश्चितम् । विदुषामनुभूत्या च वस्त्वे- कत्व सुनिश्चितम् ॥ वम्त्वेकत्व महावाक्यादेव जानन्ति ये द्विजा. । ते मुच्यन्तीह संसाराद्यथा म्वनाप्रबोधतः ॥ भेदद- नमाम्थाय मुक्तिं वाञ्छन्ति ये नराः । ते महाघोरस- मारे पतन्त्येव न संशयः ॥' इति । तत्रैवैकोनचत्वारिंशाध्या- ये- 'अथातः संप्रवक्ष्यामि समासेन न विस्तरात् । अविरोध तु वेदानामशेपाणां मुनीश्वरा ॥ द्विविधो वेदराशिस्तु मुनय संशितव्रता. 1 सत्याद्वैतपरः कश्चिद्वेदभागः समासतः ।। कल्पि- तद्वैतनिष्ठस्तु वेदभागोऽपरो द्विजाः । सत्यमेव सदाद्वैतमसत्यं द्वैतमास्तिकाः ॥ प्रत्यक्षादेरगम्यत्वादद्वैतस्य तु सर्वदा । तत्रै- वार्थवती साक्षादद्वतश्रुतिरान्तिकाः ॥ अन्तरेण श्रुतिं भेदो लो- कसिद्धः सदैव हि । तेन नार्थवती तत्र श्रुतिर्मानातिगामिनी ।' इति । तत्रैव ब्रह्मगीतायां पञ्चमाध्याये-'त्वशब्दार्थो य आ- भाति सोऽहंशब्दार्थ एव हि । योऽहंशब्दार्थ आभाति स स्वंशब्दार्थ एव हि । त्वमहशब्दलक्ष्यार्थः साक्षात्प्रत्यक्चितिः । , व्यासतात्पर्यनिर्णय सुरा । तच्छब्दस्यैव लक्ष्यार्थः स हि नात्र विचारणा ॥ त्व- महंशब्दवाच्यार्थस्तेन देहादिवस्तुनः । न तच्छब्दार्थतां पक्ति श्रुतिस्तत्त्वमसीति या ॥ तदर्थैक्यविरुद्धांशं त्यक्त्या वाच्यगतं श्रुति । अविरुद्धं चिदाकारं लक्षयित्वा ब्रवीति हि || तदर्थे च स्वमर्थेक्यविरुद्धांशं विनैव तु । कारणत्वादि वाच्यार्थ लक्षयि- त्वा तु केवलम् ॥ चिदाकारं पुनस्तम्य स्वमर्थक्यं ब्रवीति च । तत्त्वंशब्दार्थभूतस्य चिन्मात्रस्य परात्मनः ॥ एकत्वं यत्स्वतःसि- द्धं स हि वाक्यार्थ आस्तिकाः । इतोऽन्यथा यो वाक्यार्थ- सोऽवाक्यार्थो न संशयः ॥' इति । तत्रैव द्वादशाध्याये - 'वेदानामन्यथैवार्थ ये वदन्ति विमोहिताः । महासाहसिका एवं नेतरे हि न संशयः ।। मदुक्तार्थप्रकारेण विना ये प्रवद- न्ति ते । अन्धकूपे निरालम्बे पतन्त्येव न संशयः ॥ वेदार्थ परमाद्वैतं नेतरत्सुरपुंगवाः । न चेदत्रैव मे मूर्धा पतिप्यति न संशयः ।। अन्यथा वेदवाक्यानामर्थ इत्यतिशङ्कया। अनिश्चिता- र्थश्चेन्मूर्धा युप्माकं च पतिप्यति ।। इतः परं न वक्तव्यं विद्यते सुरपुंगवाः । सत्यमेव मया प्रोक्तं शंभोः पादं स्पृशाम्यहम् ।।' इति । एवं भगवद्गीताया अपि केवलाद्वैतपरत्वमेव अभ्युपगन्त- व्यम् । तत्र त्रयोदशाध्याये- क्षेत्रज्ञ चापि मां विद्धि । ।

प्रथमः परिच्छेदः। सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ।। सत्क्षेतं यच्च याक्च यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च तत्समासेन मे शृणु || ऋषिभिर्बहुधा गीतं छन्दो- भिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥' इत्यादिभगवद्वचनैः क्षेत्रज्ञशब्दितस्य जीवस्य मामिति ब्रह्मत्वं पतिपाद्य तस्यैवार्थस्य ब्रह्ममूत्रप्रतिपाद्यत्वामिधानेन ब्रह्मसूत्राणां च केवलाद्वैतपरत्वस्य निर्णीततया तत्समानार्थकभगवद्गीताया अपि केवलाद्वैतपरत्वावधारणात् । अत एव पाश्चरात्रे पाद्म- संहितायाम्- 'परक्षेत्रज्ञयोरक्यमात्मनः श्रुतिचोदितम् । क्षे- त्रज्ञस्य बहुत्वं हि देहभेदात्प्रतीयते ॥ एकस्यैव तु बिम्बस्य दर्पणेषु यथा भिदा । भूतपञ्चकसंघातं क्षेत्रं तत्र व्यवस्थितम् ।। जीवो यस्तं विदुः प्राज्ञाः क्षेत्रज परसंज्ञकम् ।' इत्यादिना परक्षेत्रज्ञयोरक्यमुक्तम । अत एव हनुमत्कृतपैशाचभाप्ये- ऽप्युक्तं द्वितीयाध्याये 'नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ।। असतः अविद्यमानम्य रज्जुसर्पवदृष्टनष्टस्वभावस्य जगतः भावः सत्ता न विद्यते । तथा परमार्थतः सत आत्मनश्चामावो- ऽविद्यमानता न विद्यते । सर्वत्राव्यभिचारात् । अनयोः सद. सतोः दृष्टनष्ट उपलभ्यः अन्तो निश्चयः तत्त्वदर्शिभिः आत्म- ।

व्यासतात्पर्यनिर्णये दर्शिभिरित्यर्थः । तम्मातत्त्वदर्शिनां दृष्टिमाश्रित्य शोकं मोहं च हित्वा शीतोष्णादीस्तितिक्षस्वेत्यभिप्रायः' इति । तत्रैवाष्टा- दशाध्याय--'भक्त्या मामभिजानाति यावान्यश्चास्मि तत्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ भक्त्या भज- नेन मां सर्वेश्वरमभिजानात्यवगच्छति यावानहमुपाधिकृतभिन्न- प्रपञ्चरूपेण यश्चास्मीत्यपास्तसमस्तोपाधिस्वरूपेणेति च। तत्त्वत. परमार्थत एवं ततो ज्ञात्वा ततो मां तदनन्तरं विशते प्रवि- शति ब्रह्मैव संपद्यत इत्यर्थः' इत्यादिना प्रपञ्चमिथ्यात्वप्रतिपा- दनपूर्वकं जीवब्रह्मणोरक्यं प्रतिपादितम् ।। तथा याज्ञवल्क्यस्मृतावपि-- 'आकाशमेकं हि यथा घटादिषु पृथग्भवेत् । तथात्मैको ह्यनेकश्च जलाधारेष्विवांशु- मान् ॥' इत्यादिवचनजातमपि केवलाद्वैतमेव प्रतिपादयति ।। एवं विष्णुपुराणेऽपि षष्ठांशे- 'तद्भावभावमापन्नस्तथासौ परमात्मनः । भवत्यभेदी भेदस्तु तस्याज्ञानकृतो भवेत् ॥ वि. भेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेद- मसन्तं कः करिष्यति ॥ ज्ञानखरूपमत्यन्तनिर्मलं परमार्थतः । तमेवार्थवरूपेण प्रान्तिदर्शनतः स्थितम् ॥ प्रत्यस्तमितभेदं य- सत्तामाप्रमगोचरम् । क्चसामात्मसंवेद्य तज्ज्ञानं प्रासंज्ञितम् ।। भहं ममेत्यविधेयं व्यवहारस्तथानया । परमार्थस्त्वसंलाप्यो ३९ प्णः-- प्रथमः परिच्छेदः। गोचरो वचसां न यः ॥' इति । तत्र तत्र प्रथमांशान्ते तु- 'अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम् । ईदृड्यनो यस्य न तस्य भूयो भवोद्भवा द्वन्द्वगदा भवन्ति ॥' इत्यादिवचनजातमपि केवलाद्वैतमेव प्रतिपादयति ।। श्रीभागवतेऽपि एकादशस्कन्धे एकादशाध्याये-'श्रीकृ. :--बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः । गु- णस्य मायामूलत्वान्न मे मोक्षो न बन्धनम् ॥ शोकमोही सुखं दुःखं देहोत्पत्तिश्च मायया । स्वप्ने यथात्मनः ख्यातिः संसृति- न तु वास्तवी ॥ विद्याविद्ये मम तनू विद्धयुद्धव शरीरिणाम् । मोक्षबन्धकरी आधे मायया मे विनिर्मिते । एकस्यैव ममांश- स्य जीवस्यैव महामते । बन्धोऽम्याविद्ययानादिर्विद्यया च तथे- तरः ॥' तृतीयस्कन्धे देवहूतिकपिलसंवादे अष्टाविंशाध्याये- सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । ईक्षेतानन्यभावेन मूतेप्विव तथात्मताम् ॥ खयोनिषु यथा ज्योतिरेकं नाना योनीनां गुणवैषम्यं तथात्मा प्रकृतिस्थितः । तस्मादिमा स्वां प्रकृतिं देवीं सदसदारिमकाम् । दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥' एकोनत्रिंशाध्याये-'अर्ध्या- दावर्चयेत्तावदीश्वरं मां स्वकर्मकृत् । यावन्न वेद स्वहृदि सर्व- भूतेप्ववस्थितम् ॥ आत्मनश्च परस्यापि यः करोत्यन्तरो- -- प्रतीयते ।

व्यासतात्पर्यनिर्णये दरम् । तस्य भिन्नशो मृत्युर्विदधे भयमुल्बणम् ।।' द्वा. त्रिशे 'ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान् । दृश्या- दिभिः पृथग्भावभंगवानेक ईयते ॥ एतावानेव योगेन समगे- गेह योगिनः। युज्यतेऽभिमतो ह्यर्थो यदसमस्तु कृत्लशः ॥ ज्ञानमेकं पराचीनरिन्द्रियम्रह्म निर्गुणम् । अवभात्यर्थरूपेण प्रान्त्या शब्दादिधर्मिणा ॥' त्रयस्त्रिंशे-- भक्तिप्रवाहयोगेन वैराग्येण बलीयसा । युक्तानुष्ठानयोगेन ज्ञानेन ब्रह्महेतुना ।। विशुद्धेन तथात्मानमात्मना विश्वतोमुखम् । स्वानुभूत्या तिरो- भूतमायागुणविशेषणम् ॥ ब्रह्मण्यवस्थितमतिर्मगवत्यात्मसंश्रये। निवृत्तजीवापत्तित्वाद्वीतक्लेशात्मनिर्यतिः ॥ नित्यारूढसमाधि- स्वारपरावृत्तगुणभ्रमः । न सम्मार तदात्मानं स्वमदृष्टमिवोत्थि- तः ॥' इत्यादिवचनजातमपि केवलाद्वैतमेव प्रतिपादयति ।। तथा च पूर्वोक्तरीत्या फपिलादिसूत्रगतकेवलाद्वैतानुवादो- पोहलितश्रुतिसूत्रम्मृतीतिहासपुराणानां केवलाद्वैतपरत्वम्यय नि- र्धारितत्वेन 'सत्याद्वतपरः कश्चिद्वदभागः समासतः । कल्पि. तद्वतनिष्ठन्तु वेदभागोऽपरो द्विजाः ॥' इति श्रीमत्सूतसंहि- तावचनानुमारेण तत्र तत्र भेदप्रतिपादकानां श्रुतिसूत्रम्मू- तीतिहासपुराणानां फरिपतद्वैतपरत्वमेवाधेियम् । अत एव साक्षा- स्परमेश्वरावताररूप. सौ. सफलश्रुनिसूत्रम्मृतीतिहामपुराणा- ४१ प्रथमः परिच्छेद.। गमसंहितादितात्पर्यविषयीभूतार्थावधारणधुरीणैः श्रीमद्भगवत्पा- दैः श्रुतिसूत्रगीतासनत्सुजातीयसहस्त्रनामादिभाष्येषु केवला- द्वैतमेव परमार्थ इति अतिम्फुटतया प्रतिपादितम् । अत एवो- तमादित्यपुराणे --- 'व्याकुर्वन्व्याससूत्राणि श्रुतेरथ यथोचि- वान् । स एवार्थः श्रुतेाह्य शकर' सवितानन ॥' इति । कूर्मपुराणेऽपि- करिष्यत्यवताराणि शकरो नीललोहितः । श्रौतम्मार्तप्रतिष्ठार्थ भक्तानां हितकाम्यया ॥ उपदेक्ष्यति त- च्छास्त्रं यज्जान ब्रह्मसंज्ञितम् ।' इति । तस्मात्सकल श्रुतिसू- वस्मृतीतिहासपुराणतात्पर्यविषयीभूत निरस्तसमस्तसजातीयवि- जातीयवगतभेदसत्ताकं नित्यशुद्धबुद्धमुक्तम्वभावं सचिदान न्दधनं निर्विशेष परं ब्रह्मेति सिद्धम् ॥ नन्वेवमपि केवलाद्वैतस्य व्यासतात्पर्यविषयत्वव्यवस्थापनेन रामानुजमध्वादिमतव्युदासेऽपि व्यासमहर्षिप्रतिवादिनां कपि लकणादादिसूत्रकाराणां केवलाद्वैतमतं निराकृत्य भेदमेवा- ङ्गीकुर्वाणानां मतस्य निराकरणमन्तरा केवलाद्वैतस्थापनं कथ- मिति चेत् ; न हि वय व्यासप्रतिवादिकपिलकणादादिमत- निराकरणाय केवलाद्वैतप्रमाणोपन्यासं कर्तुं प्रवर्तामहे । किं ताहि, कपिलायनुवादवलेन व्यासतात्पर्यविषयोभूतार्थावधार-. णायैव । तम्मिश्चावधारिते व्यासशिप्यैस्तत्तन्मतप्रवर्तके सर्वे.

४२ व्यासतात्पर्यनिर्णये रपि कपिलकणादादिमतनिराकरणपूर्वककेवलाद्वैतस्थापने यत्नः कर्तव्य इति नास्माकमेव निर्बन्धः । किं च, भाष्यविवरण- वाचस्पत्यपरिमलपञ्चदशीपकरणादिग्रन्थेष्वेव श्रुतियुक्त्यनुभव बलेन कपिलादिमतं निराकृत्य केवलाद्वैत व्यवस्थापितमेव । न चाभेदश्रुतियुक्त्यनुभववत् भेदश्रुतियुक्त्यनुभवानामपि विद्य- मानत्वेन केवलाद्वैतमेव श्रुतितात्पर्यविषय इति सूत्रभाष्यादिप्र. न्थेषु कथं व्यवस्थापितमिति वाच्यम् । 'द्वितीयाद्वै भयं जन्तो- र्भवतीत्याह हि श्रुतिः । को मोहः कस्तदा शोक एकत्वमनुप- श्यतः ॥ इति चाह हि सा साध्वी श्रुतिरद्वैतमास्तिकाः। एकत्व- मिति वाक्यार्थी नापरी मुनिसत्तमाः॥स्तुतिनिन्दे विरुद्धचेते यदि भेदो विवक्षितः ॥' इति श्रीमत्सूतसंहितावचनेन भेदनिन्दापूर्व- कमभेदस्य स्तूयमानत्वात् । अभेदश्रुतीनां षड्डिधतात्पर्यलिङ्गा- द्युपेतत्वेन प्रबलत्वात् । स च नारायणस्यांशो भगवान्बादरा- यणः' इत्यारभ्य सूत्रयामास वेदान्तवाक्यार्थ शंकराज्ञया' इत्यन्तेन पूर्वोक्तपुराणवचनेन 'अथातो ब्रह्मजिज्ञासा' इत्यादि- व्याससूत्राणामेवोपनिषदब्रह्मस्वरूपनिर्णयदंपर्येण प्रवृतत्वाच । त्र्यासाभिमतकेवलाद्वैतमेव सकलश्रुतिमहातात्पर्यविषय इत्यकामे- नाप्यभ्युपगन्तव्यत्वात् ।। ननु, कपिलकणादगौतमपतञ्जलिजैमिनिभिः सर्वज्ञरेव द्वत- . .

प्रथमः परिच्छेदः । तन्त्राणां प्रणीतत्वेन भूयोनुग्रहन्यायेन तदभिमतार्थस्यैव ग्राह्य- खेन कथं व्यासमानाभिमतकेवलाद्वैताभ्युपगमो युक्तः! न च 'शतमप्यन्धानां न पश्यति' इति न्यायेन तेषां भ्रान्ति कल्प्यत इति वाच्यम् । सर्वज्ञानां कपिलादिमहर्षीणां प्रान्ति- करुपनस्यानुचितत्वादिति चेत्, न; प्रकृतिपरमाण्वादिभिन्न- भिन्नजगत्कारणवादिनां कपिलकणादादीनां परम्परविरुद्धतन्त्र- प्रवर्तकतया ऐकमत्याभावन भूयोनुग्रहन्यायानवतारात् । अत एवोक्तमभियुक्तैः- 'कपिलो यदि सर्पज्ञः कणादो नेति का प्रमा । तावुभौ यदि सर्वज्ञौ मतभेदः कथं भवेत्' इति । किं च · कणादस्याक्षपादस्य व्यासस्य कपिलम्य च । पतञ्ज- लेमिनेश्व दर्शनानि भवन्ति पट्' इत्यादिमसिद्धकणादगौ- तमकपिलव्यासपतञ्जलिजैमिनितन्त्र सिद्धान्तानां मध्ये एक एच सिद्धान्तार्थो व्यासकपिलादिसकलमहर्पिसंमत इति स्वीकर्त- व्यम् । अन्यथा परस्परविरुद्धसकलतन्त्रसिद्धान्तानां तदभिम- तत्व तेषां व्यासकपिलादिसकलमहर्षीणां प्रान्तिरेव स्यात् । तत्र यस्मिन्नर्थेऽभ्युपगम्यमाने सर्वेषामभ्रान्तत्व सिध्यति, स एवार्थों ग्राह्यः । ततश्च कपिलकणादादितन्त्रासिद्धान्तस्य द्वै. तादेः श्रुतिविरुद्धत्वेन तदभ्युपगमे तेषां महर्षीणां भ्रान्त्या- पत्त्या सफलवेदान्ततात्पर्यविषयीमूतव्यासमहर्षिसिद्धान्तकेवला- - व्यासतात्पर्यनिर्णये द्वैतमेव तेषां सर्वेषां संमतमित्यस्मिन्नर्थे न विवादः ।। वस्तुतस्तु कपिलगौतमादिमहर्षीणामपि केवलाद्वैतमेवाभि- मतमिति श्रीमद्भागवतादिपुराणपर्यालोचनया निर्णीयते । तथा हि श्रीमद्भागवते तृतीयस्कन्धे---- 'ज्ञानमानं परं ब्रह्म पर- मात्मेश्वरः पुमान् । दृश्यादिभिः पृथग्भावैर्भगवानेक ईयते ।। ज्ञानमेकं पराचीनरिन्द्रियैब्रह्म निर्गुणम् । अवभात्यर्थरूपेण प्रान्त्या शब्दादिधर्मिणा ॥' इत्यादिपूर्वोदाहृतवचनैः कपिलस्य केवलाद्वैतमेवाभिमतमिति निश्चीयते । तथा ब्रह्मवैवर्ते गौतमः- 'नमो जप्येश्वरेशाय स्वान्यहीनाय शंभवे । तत्त्वानां परत- त्त्वाय स्वयंभानाय हेतवे | चिच्छक्तिर्जडशक्तिश्च तत्कार्याणि च तद्भिदा । तत्त्वतो यत्स्वरूपं हि विद्यते न पृथक्त्वतः ।। तस्मै जप्येश्वरेशाय नमोऽद्वैतम्वरूपिणे । उत्तमा मध्यमा हीना ये च जीवाः पृथग्विधाः ॥ तत्त्वतो नातिरिच्यन्ते यम्मात्साम्बान्महेश्वरात् । तस्मै पञ्चनदेशाय नमो वै सर्वसा- क्षिणे ।। यत्मता जगतः सत्ता यत्मत्तां न विना जगत् । यस्य भासा जगदानं यं विना न जगत्पृथक् ॥ आदित्यः सोम ममिश्च यद्भासा भान्ति नित्यशः । तम्मै जप्येश्वरेशाय नमो- ऽद्वतम्वरूपिण ॥ यदानन्दोऽखिलानन्दो विभाति स्वयमेव हि । यः शिवः परमानन्दो वर्तते सर्वजन्तुषु ॥ तम्मै जप्येश्वरेगाय । .

प्रथमः परिच्छेद.। नमो वै सर्वसाक्षिणे ।।' इत्यादिवचनैर्गीतमम्य केवलाद्वैतमेवा- भिमतमिति प्रतिपाद्यते । तथा शैवे एकादशरुद्रमंहितायां व्या- समिनिसंवादे-'अहं हि भवतः साक्षाच्छिप्यभूतः सुशि- क्षितः । तथापि मेऽपरोक्ष तु ज्ञान नास्ति महामुने ॥ तम्य मे मुक्त्युपायं तु वद कारुण्यतोऽञ्जसा । सूतः- इति पृष्टो मुनिः श्रीमान्महाकारुणिकोत्तमः । आहूय जैमिनि मां च रहस्खेतदु- वाच ह ॥ व्यासः-~साधु पृष्टं त्वया वत्स लोकानां च हित- प्रदम् । वदाम्यहमुपायं ते तवान्येषां च मुक्तिदम् । साम्बमूर्ति- प्रसादेन नाज्ञातं मम विद्यते । ज्ञानादेव विमुक्तिः म्यान्नान्य- था कर्मकोटिभिः ॥ ज्ञानं वेदान्तज ज्ञानमज्ञान चान्यदिप्य- ते । जीवब्रह्मैक्यविषय तदेव स्यान्न चेतरत् ॥ तच्च शंभो. प्रमादेन गुरोश्चैव प्रसादतः । तथा वेदान्तवाक्यनां तात्पर्यस्य विचारणात् ।। जायते तच्छिवज्ञान नान्यथा सत्यमीरितम् ।' इत्यादिवचन मिनेः केवलाद्वैतमेवाभिमतमित्यवधार्यते ।। तथा स्कान्दे शेषशिवसंवादे-- 'यथार्थ मत्स्वरूपस्य लो- कैरमिततेजसः । अतिगुह्यं स्वसंवेद्यं शृणु त्वं वदतो मम ।। शिवः--एप मायासमुत्पन्न. प्रसन्नः कर्मणि स्थितः । नैव जा- नाति मरणं सुख दुःख भय द्विपम् ॥ कल्प्यते नियतं कर्ता मृत्तिकायां यथा घटः । मायया मयि कल्प्यन्ते तथा सर्गादि- ४८ व्यामतात्पर्यनिर्णये स्तिक धर्मपथादपेतम् ॥ यथा हि चोर स तथा हि बुद्धस्त- थागत नास्तिकमत्र विद्धि । तस्माद्धि य शक्यतम प्रजाना न नास्तिकेनाभिमुखो बुध स्यात् ।। स्वत्तो जना पूर्वतरे- ऽवराश्च शुभानि कर्माणि बहूनि चक्रु । जित्वा सदेम च पर च लोक तस्माद्विजा स्वस्ति हुत कृत च ॥ धर्मे रता सत्पु- रुपै समेतास्तेजस्विनो दानगुणप्रधाना । अहिसका वीतम लाश्च लोके भवन्ति पूज्या मुनय प्रधाना ॥ इति ब्रुवन्त वचन सरोष राम महात्मानमदीनसत्त्वम् । उवाच तथ्य पुनरास्तिक च सत्य वच सानुनय च विप्र ॥ जाबालि न नास्तिकाना वचन ब्रवीम्यह न नास्तिकोऽह न च नास्ति किंचन । समीक्ष्य काल पुनरास्तिकोऽभव भवेय काल पुनरेव नास्तिक ॥ स चापि कालोऽयमुपागत शनै- यथा मया नास्तिकवागुदीरिता । निवर्तनार्थ तव राम कारणात्म सादनार्थ च मयतदीरितम् । क्रुद्धमाजाय राम तु वसिष्ट प्रत्यु वाच ह । जाबालिरपि जानीते लोकम्यास्य गतागतिम् ।। निवर्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् ।' इत्यादिजाबालि- श्रीरामवसिष्ठवचनैवम्तुतो धर्ममार्गप्रवर्तकेन जापालिमहर्षिणा श्रीरामनिवर्तनाथ नास्तिकपक्षमवलम्व्य धर्ममागे अनूद्य निरा- कृते सति तत्प्रयुक्तश्रीरामकोपानन्तर तम्य नास्तिकत्वाभाव प्रथम परिच्छेद । ४९ । प्रतिपादनेन जाबालिमहर्षे स्तिकपक्षम्थापनधर्ममार्गनिराकरण- योस्तात्पर्याभावेऽपि धर्ममार्गानुवादाशे तात्पर्यस्य मद्भावात् । तद्वत् कपिलकणादादीना द्वैतम्थापनाद्वैतनिराकरणयोतात्पर्या भावेऽपि केवलाद्वैतानुवादा तात्पर्योपपत्ते । अतस्तदनुवादव- लेनैव केवलाद्वैतम्य व्यासतात्पर्यविषयत्वसमर्थनमरम्मोऽस्माक सफल एव ।। न च वेदान्तविरुद्धार्थप्रतिपादकाना कपिलकणादादित न्त्राणा का गतिरिति वाच्यम् । वेदान्ततात्पर्यविषयकेवलाद्वैत- ज्ञानाय तदपेक्षितासङ्गोदासीनसाक्षिरूपत्व पदार्थविवेकप्रयोज नतया सारयाशास्त्रम्य तदपक्षितयमाद्यष्टाङ्गयोगप्रतिपादकतया योगशास्त्रम्य तदपेक्षितचित्तशुद्धिसपादकधर्मविचारपरतया जै- मिनिशास्त्रम्य तदपेक्षितपोडशपदार्थसप्तपदार्थोपपादनपूर्वकदशे न्द्रियादिव्यतिरिक्तात्मनिर्णयानुकूलतया गौतमकणादशास्त्रयोश्च उपयोगसभवात् । न च तथा सति केवलाद्वैतज्ञानोपयोगिपदार्थ- मात्रनिरूपणस्यैव कर्तव्यत्वेन तद्विरुद्धप्रपञ्चसत्यत्वादिकमपि तेषु शास्त्रेषु किमर्थं निरूपितमिति वाच्यम् । वेदान्तशास्त्रा- नधिकारिणा मन्दमतीना म्थूलारुन्धतीन्यायेन क्रमेण ब्रह्मसत्ता- धारणायैव तदनुकूलशास्त्रप्रवृत्तिमिद्ध्यर्थ वस्तुत प्रपञ्चसत्य- साभावेऽपि तत्तत्पुरुषवासनासिद्धप्रपञ्चसत्यत्वाद्युपदेशम्य प्रक व्यासतार्पयनिर्णये का. क्रियाः ॥ सकल निष्कलं चेति मम रूपद्वयं स्मृतम् सकलं चक्षुषा ग्राह्य ध्येयं च नियतात्मभिः ॥ निष्कलं तु निराकार निरञ्जनमनामयम् । न तदृश्यं न च ध्येयं नैवा- लोच्यं नृभिः फणिन् । तथापि तेऽपि पश्यन्ति ये बुद्ध्या मत्परायणाः । निर्द्वन्द्वा निरहंकारा निरस्तकलिकल्मषा: ॥ आशीविष फणीन्द्र त्वां ज्वलद्वहिविलोचनम् । सहस्रशिरसं दृष्ट्वा भवेल्लोको भयाकुलः ॥ अविनाम महातेजास्तथा दिव्य- तपोधनः । अनसूया च तत्पनी पुत्रं त्वां प्राप्नुमिच्छया ।। कमलाक्षमजं विष्णुं द्वावपूजयतां चिरम् । प्रददौ त्वां तयोः शेष सोऽपि देवः कृपानिधिः ॥ तदा जन्मभयाद्वालो लसत्प- चफणान्वितः । तत्पन्याः स्नानशुद्धाया दृष्टोऽभूम्त्वं कराञ्जलौ। पुत्राभिलापिण्यथ सा करम्थं बालरूपिणम् । विलोक्य सहसा भीता स्वाममुश्चन्महीतले । पतञ्जलिसमाख्याभूतदा तत्पतना- दुवि । अद्य त्वं तादृशो भूत्वा सहितः प्रज्ञयानया ॥ नाम्ना पतञ्चलि: ख्यातो ध्यायन्मां हृदि संततम् ॥' इत्यादिवचनैः पतञ्चले: केवलाद्वैतमेवाभिमतमित्य वसीयते । एवमेव कणाद- म्यापि केवलाद्वैतमेवाभिमतमिति द्रष्टव्यम् ।। तस्मात्कपिलकणादादीनां केवलाद्वैतमेवाभिमतमिति न क. म्यापि प्रान्तिकल्पना। न चोक्तरीत्या केवलाद्वैतम्य कपिलकणा- ४७ प्रथम: परिच्छेदः दाद्यभिमतत्वे तेषां व्यासाभिमताद्वैतनिराकरणायोगेन केवला- द्वैतानुवादबलेनैवाद्वैतम्य व्यासतात्पर्यविषयत्वसमर्थनसंरम्भो वि. फल: म्यादिति वाच्यम् । तेषां केवलाद्वैतस्य मुख्यतात्पर्यविषय- त्वेऽपि चिकीर्पितम्वम्वसिद्धान्ताभिनिवेशमात्रेण तन्निराकरण- मभवात् । कार्यान्तराभिनिवेशमात्रेण स्वाभिमतार्थनिराकर- णमभियुक्तानामपि दृश्यते । तथा हि श्रीमद्रामायणे श्रीराम- जाबालिसंवादे अष्टका पितृदेवत्यमित्ययं प्रसृतो जनः । अन्नस्योपद्रवं पश्य मृतो हि किमशिप्यति ।। यदि भुक्तमिहा- न्येन देह मन्यम्य गच्छति । दद्यात्पवसतः श्राद्ध न तत्पथ्यशनं भवेत् ॥ दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः । यजस्व देहि दीक्षम्वं तपम्तप्यम्ब संत्यज ॥ स नाम्ति परमित्येव कु- रु बुद्धिं महामते । प्रत्यक्षं यत्तदातिष्ठ परोक्ष पृष्ठतः कुरु ॥ सतां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शनीम । राज्य त्वं प्रतिय- हीप्य भरतेन प्रसादित ॥ श्रीराम सत्य च धर्म च परा- क्रमं च भूतानुकम्पा प्रियवादितां च । द्विजातिदेवातिथिपूज- नं च पन्थानमाहुस्त्रिदिवस्य सन्तः । तेनैवमाज्ञाय यथावदर्थमे- कोदय संप्रतिपद्य विप्राः । धर्म चरन्तः सकलं यथावत्कार- न्ति लोकागममप्रमत्ताः ॥ निन्दाम्यहं कर्म पितु. कृतं तद्य- म्त्वामगृहाद्विषमस्यबुद्धिम् । बुद्ध्यानयैवंविधया चरन्तं सुना- 1 ४८ व्यामतात्पर्यनिर्णये .. - स्तिकं धर्मपथादपेतम् ॥ यथा हि चोरः स तथा हि बुद्धस्त- थागतं नास्तिकमत्र विद्धि । तस्माद्धि यः शक्यतमः प्रजानां न नास्तिकेनाभिमुखो बुधः स्यात् ।। त्वत्तो जनाः पूर्वतरे- ऽवराश्च शुभानि कर्माणि यहूनि चक्रुः । जित्वा सदेमं च परं च लोकं तस्माद्विजाः स्वस्ति हुतं कृतं च ॥ धर्मे रताः सत्पु- रुपैः समेतास्तेजस्विनो दानगुणप्रधाना: । अहिंसका वीतम- लाश्च लोके भवन्ति पूज्या मुनयः प्रधानाः ॥ इति ब्रुवन्तं वचनं सरोप रामं महात्मानमदीनसत्त्वम् । उवाच तथ्यं पुनरास्तिकं च सत्यं वचः सानुनयं च विप्रः !! जाबालि:- न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किंचन । समीक्ष्य कालं पुनरास्तिकोंऽभवं भवेय काले पुनरेव नास्तिकः ॥ स चापि कालोऽयमुपागतः शनै- यथा मया नास्तिकवागुदीरिता1 निवर्तनाथ तव राम कारणाप्र- सादनार्थ च मयैतदीरितम् । क्रुद्धमाज्ञाय रामं तु वसिष्टः प्रत्यु वाच ह । जाबालिरपि जानीते लोकस्यास्य गतागतिम् ॥ निवर्तयितुकामम्तु त्वामेतद्वाक्यमुक्तवान् ॥' इत्यादिजाबालि- श्रीरामवसिष्ठवचनैर्वम्तुतो धर्ममार्गप्रवर्तकेन जाबालिमहर्षिणा श्रीरामनिवर्तनाथै नास्तिकपक्षमवलम्व्य धर्ममार्गे अनूद्य निरा- कृते सति तत्पयुक्तश्रीरामकोपानन्तरं तस्य नास्तिकत्वाभाव- प्रथम, परिच्छेदः। ४९ प्रतिपादनेन जावालिमहर्नास्तिकपक्षम्थापनधर्ममार्गनिराकरण- योस्तात्पर्याभावेऽपि धर्ममार्गानुवादाशे तात्पर्यस्य सद्भावात् । तद्वत् कपिलकणादादीना द्वैतम्थापनाद्वैतनिराकरणयोस्तात्पर्या- भावेऽपि केवलाद्वैतानुवादाशे तात्पर्योपपत्ते । अतस्तदनुवादब- लेनैव केवलाद्वैतम्य व्यासतात्पर्यविषयत्वसमर्थनसरम्भोऽस्माकं सफल एवं ॥ न च वेदान्तविरुद्धार्थप्रतिपादकाना कपिलकणादादित- न्त्राणा का गतिरिति वाच्यम् । वेदान्ततात्पर्यविषयकेवलाद्वैत- जानाय तदपेक्षितासङ्गोदासीनसाक्षिरूपत्व पदार्थविवेकप्रयोज- नतया साख्याशास्त्रम्य तदपेक्षितयमाद्यष्टाङ्गयोगप्रतिपादकतया योगशास्त्रम्य तदपेक्षितचित्तशुद्धिसपादकधर्मविचारपरतया जै- मिनिशास्त्रम्य तदपेक्षितषोडशपदार्थसप्तपदार्थोपपादनपूर्वकदशे न्द्रियादिव्यतिरिक्तात्मनिर्णयानुकूलतया गौतमकणादशास्त्रयोश्च उपयोगसभवात् । न च तथा सति केवलाद्वैतज्ञानोपयोगिपदार्थ- मात्रनिरूपणभ्यैव कर्तव्यत्वेन तद्विरुद्धप्रपञ्चसत्यत्वादिकमपि सेषु शास्त्रेषु किमर्थं निरूपितमिति वाच्यम् । वेदान्तशास्त्रा- नधिकारिणा मन्दमतीना म्थूलारुन्धतीन्यायेन क्रमेण ब्रह्मसत्ता- वधारणायैव तदनुकूलशास्त्रप्रवृत्तिपिच्यर्थ वस्तुत प्रपञ्चसत्य- त्वाभावेऽपि ततत्पुरुषवासनासिद्धप्रपञ्चमत्यत्वाद्युपदेशम्य प्रकृ.

व्यासतात्पर्यनिर्णय . तावश्यकत्वेन तन्निरूपणसंभवात् ।। एवमेव पाशुपतपाञ्चरात्रादितन्त्राणामपि तात्पर्य द्रष्टव्यम् , 'पाशुपतपाचरात्रतन्त्रप्रणेतृभिः शिवविष्ण्वादिभिः श्रुतिपुराणा- दिषु केवलाद्वतस्य म्फुटतया प्रतिपादनेन तदनुकूलतया तयां तन्त्राणामपि केवलाद्वैतपरत्वस्य सिद्धत्वात् । तत्र पाश्चरात्रपाशु. पतादितन्त्रेषु केवलाद्वैतम्य म्फुटतया प्रतिपादनाच्च । अत एव पूर्वमेवोक्तम्- परक्षेत्रज्ञयोरैक्यमात्मनोः श्रुति चोदितम्' इत्यादिना । तथा च तत्रत्यभेदवाक्यानां केवलाद्वैतज्ञानो- पयोगिशिवविष्ण्वाद्युपासनापरत्वमित्यवधेयम् ।। एवमेव बौद्धचार्वकादियाह्यतन्त्राणामपि तात्पर्य द्रष्टव्यम् , चौद्धचार्याकादिवाशतन्त्रप्रणेतृभिः भगवढुंद्धवृहस्पतिप्रभृतिभिः श्रीमत्सूतसंहितादिपुराणेषु केवलाद्वतमेवाभ्युपगतमिति प्रतिपा- दनेन तदीयतन्त्राणामपि तत्रैव तात्पर्यवर्णनस्य युक्तत्वात् । तत्र- त्यप्रपञ्चशून्यत्वप्रतिपादकवचनानां प्रपञ्चस्य हेयत्वसूचनद्वारा केवलाद्वैतज्ञानोपयोगिवैराग्यसंपादकतया चरितार्थत्वेन प्रपश्च- शून्यत्वे तात्पर्याभावात् देहात्मत्वादिविरुद्धांशप्रतिपादकवचना- नां तु अनेकजन्मार्जितदुरितवासनाक्रान्तपुरुषविशेषाणां झटिति देहविलक्षणात्मज्ञानासंभवेन स्थूलारुन्धतीन्यायेन देहविलक्षणा- त्मज्ञानोपयोगित्वात् ॥

प्रथमः परिच्छेदः । ननु सकल श्रुतिस्मृतिपुराणादिपु वैदिकव्यतिरिक्ततताणा- मराहत्वप्रतिपादनात् कथं तेषां वेदान्तशास्त्रोपयोगित्वोपपाद. नमिति चेत्--सत्यम् । तेषु तन्त्रेषु अवान्तरतात्पर्येण तत्तन्त्र- सिद्धान्तत्वेन प्रतिपाद्यमानस्य वेदान्तविरुद्धार्थस्यैव पारमार्थि- कत्वयुद्या तेषामनुपादेयत्वेऽपि उक्तरीत्या तपां तन्त्राणामपि परम्परया वेदान्त शास्त्रोपयोगित्वमिति बुद्धया उपादेयत्वेन तदुपपादनसंभवात् । तस्मात् बौद्धचार्वाकपाश्चरात्रपाशुपत- न्यायवैशेषिकपूर्वमीमांसामांख्ययोगतन्त्राणमप्युक्तरीत्या वेदा- न्तशास्त्रोपयोगित्वं संभवतीति न काप्यनुपपत्तिः ॥ अत एवोक्तं श्रीमत्सूतसंहितायां यज्ञवैभवखण्डे द्वाविंशा- ध्याये |--- अथात संप्रवक्ष्यामि मार्गप्रामाण्यनिर्णयम् । श्रद्धया सहिता यूयं श्रुणुध्वं मुनिपुंगवा ॥ वेदांश्च धर्मशास्त्राणि पुरा- णं भारतं तथा । वेदागान्युपवेदांश्च कामिकाद्यागमानपि । कापालं वातुलं चैव तयोर्भेदान् द्विजर्षभा. । तथा पाशुपतं सोम भैरवप्रमुखागमान् ॥ तेषामेवोपवेदांश्च शतशोऽथ सहस्रशः । विष्ण्वागमांस्तथा ब्राह्मान् बौद्धानार्हागमानपि ॥ लोकायत त- कशास्त्रं बहुविस्तरसंयुतम् । मीमांसामतिगम्भीरां सांख्ययोगं तथैव च ॥ अनेकभेदान्यन्यानि तथा शास्त्रान्तराण्यपि । नि. ममे शंकरः साक्षात्सर्वज्ञः संग्रहेण तु ॥ प्रसादादेव रुद्रस्य ब्र- 1810 व्यासतात्पर्यनिर्णये 1 यथा झविष्ण्वादय मुरा । सिद्धविद्याधरा यक्षा राक्षसाधास्तथैव च । मुनयश्च मनुष्याश्च यथाभाग द्विजोत्तमा । तान्येव विम्त- रेणैव सग्रहेणैव वा पुन ॥ कुर्वन्ति तानि मानानि कथितानि मनीषिभि । अधिकारिविभेदेन नैकम्यैव सदा द्विजा तरतेऽपि मार्गास्तु न हन्तव्या मनीषिभि तोयप्रवाहाणा समुद्र परमावधि ॥ तथैव सर्वमार्गाणा साक्षानिष्ठा महेश्वर । येन येन प्रकारेण जनयेमिरूपासित ॥ तत्तन्मार्गानुगुण्येन साधकत्वमुपैति स । तरप्रसादाक्रमान्मा- गान्विशिष्टानेति मानव ॥ तत्र तत्र स्थितो देव प्रसाद कुरुते- ऽम्य तु । सोपानक्रमतो देवो वेदमार्गस्य कारणम् ।। वेदमा गस्थितो देव साक्षान्मुक्तम्तु कारणम् । तत्रापि कर्ममार्गस्थो ज्ञानश्रद्धाप्रदो हर || ज्ञानभागस्थित शभुर्ज्ञानद्वारेण मोक्षद । एकरूपा परा मुक्तिस्ततम्तद्विषया मति ॥ एकरूपा भवेन्नैव नानारूपा भविष्यति । वेदान्त शकर साक्षानिर्विशेषाद्वया त्मना ।। वक्ति मार्गान्तरान्नैव ततो विद्या तु वेदजा । अतो मागी-तराज्जाता मतयो मतिमत्तरा ॥ अविद्या नैव विद्या स्यादिति सम्यनिरूपणम् । तस्मान्मार्गान्तराणा तु प्रामाण्य वंदवित्तमा ॥ मुक्तरन्यत्र नात्रैव क्रमेणैवात्ममानता। अतो वदान्तमार्गम्थो महादेवो चिरणे तु || मुक्तिं ददाति नान्य- प्रथमः परिच्छेदः। त्रास्थितः सोऽपि क्रमेण तु । ददाति परमां मुक्तिमित्यपा शाश्वती श्रुतिः ॥ अतो वेदाश्रयो मत्यो नान्यमार्ग समाश्रयेत् । वेदमार्गकनिष्ठानां न किंचिदपि दुर्लभम् ॥ अत्रैव परमा मुक्तिन चाप्यन्यत्र पुष्कला । अतोऽधिकारिभेदेन मार्गों मान न संशयः ॥ ईश्वरस्य स्वरूपे च बन्धहेती तथैव च । जगतः कारणे मुक्तो ज्ञानादौ च तथैव च ॥ मार्गाणां ये विरुद्धांशा वेदान्ते न विचक्षणा. । तेऽपि मन्दमतीनां च महामो- हाहतात्मनाम् । वाञ्छामात्रानुगुण्येन प्रवृत्ता न यथार्थतः । दर्श- यित्वा तृणं मो धावन्ती गां यथाग्रहीत् ॥ दर्शयित्वा तथा ने- पामिदं पूर्व महेश्वरः । पुण्यानां चानुगुण्येन ददाति ज्ञानमुत्तमम् ॥ तम्मादुक्तेन मार्गेण शिवेन कथिता अमरे। मार्गामानं न चामानं मृपावादी कथं शिवः ॥ महाकारुणिको देवः सर्वज्ञो निर्मल' खलु । तथापि वेदो मार्गाणामुत्तमः सर्वसाधकः ॥ सर्वमुक्तं समासेन मार्गप्रामाण्यनिर्णयम् । एवं वुद्धा श्रुतौ श्रद्धां कुरुध्व यलतो द्विजाः' इति । तम्मात् सकलश्रुतिसूत्रस्मृतीतिहासपु- राणागमतन्त्राणां व्यासाभिमतकेवलाद्वैत एव तात्पर्यस्यावधा- रितत्वेन तादृशाद्वैतमेव परमार्थ इति सिद्धम् ।। इति प्रथमः परिच्छेदः ॥

द्वितीयः परिच्छेदः॥ समस्तजगदाधारसगुणमानिर्णयम् । भगवत्पादसिद्धान्तमनुसृत्य करोम्यहम् ॥ अन्न केचिदप्पय्यदीक्षितचरणानामद्वैतविद्यानार्याणां परम- तात्पर्य विषयीभूतार्थमविज्ञाय तत्कृतशिवतत्त्वविवेकादिग्रन्थाना- लोक्य ब्रह्मशिवविष्ण्वपेक्षया तुरीयशिवम्य व्यावहारिकाधिक्यं वर्णयन्ति । तद्रमनिरासब्याजेन सगुणब्रह्मनिर्णयाय द्वितीय- परिच्छेद आरभ्यते ॥ . ननु, अस्तु व्यासतात्पर्यविषयीभूतकेवलाद्वैतम्वरूपं सत्य- ज्ञानानन्दात्मकं निर्विशेष परं ब्रह्म । तज्ज्ञानप्राप्तिः कथमिति चेत् , उच्यते--- 'नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैध वृणुते तेन लभ्यस्तम्यैष आत्मा विवृणुते तनूं स्वाम्' इति क्षेत्र तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्धावायोपपद्यते' ईश्वरा- नुग्रहादेव पुंसामद्वैतवासना । महाभयपरित्राणावित्राणामेव जायते ॥ अतीव शुद्धचित्तानां प्रसादादेव मे हरे । इच्छा- n .

द्वितीयः परिच्छेदः। ५५ सायुज्यरूपायां मुक्तौ सम्यग्विजायते ॥ मम प्रसादहीनानां साक्षान्मुक्तौ न जायते । वेदमार्गकनिष्ठानां मद्भक्तानां महात्म- नाम् ॥ प्रवृत्तिपर्यन्ता श्रद्धा साक्षान्मुक्ती विनायते । अनेक- जन्मसंसिद्ध श्रीतम्माानुवर्तिनाम् ॥ परमाद्वैतविज्ञानं जायते सुरपुंगवाः । युप्माकमपि सर्वेषा शिवम्य परमात्मन । परमाद्वै- तविज्ञानं प्रसादादेव नान्यथा' इत्यादिश्रुतिस्मृतिपुराणेषु परमे- श्वरप्रसादादेव केवलाद्वैतविज्ञानप्राप्तिरिति प्रतिपादनेन प्राचीन- बहुजन्मार्जितपुण्यपरिपाकविशुद्धचितम्य पुरुषम्य परमेश्वरम- सादादेव ताशब्रह्मज्ञान श्रवणादिद्वारा मंपद्यते । अन्येषा तु परमेश्वरप्रसादहीनाना गौतमदधीचिशापम- स्ताना महापापाम्बुधिनिमन्माना केवलाद्वैतवाने रुचिरपि न जायते । प्रत्युत प्रद्वेष एव जायते । अत एवोक्त श्रीमत्सूत- संहितायाम्-- गौतमम्य मुने. शापाद्दधीचिमुनिशापतः । पूर्वजन्मकृतात्पापादयमर्थो न रोचते ॥ महापापवतां नृणां परमाद्वैतवेदने। प्रद्वेषो जायते साक्षादिजन्ये शिवेऽपि च' इति । तस्मात्केवलाद्वैतज्ञानस्य परमेश्वरप्रसादाधीनत्वेन तत्प्र- सादाय तदुपासनमवश्य कर्तव्यम् ॥ कश्च परमेश्वरो यस्य प्रसादाबह्मज्ञानप्राप्तिरिति चेत्, अत्राभिधीयते- 'मायां तु प्रकृति विद्यान्मायिनं तु + अथ व्यासतात्पर्यनिर्णय . महेश्वरम् । अस्मान्मायी सृजते विश्वमेतत् ' 'ईश्वरी जगतः कर्ता मायया स्वीयया पुरा । अभेदेन स्थितः पूर्वकल्पवास- नयान्वितः ॥ कालकर्मानुगुण्येन स्वाभिन्नः स्वीयमायया । अभिन्नोऽपि तया' स्वस्य भेदं कल्पयति प्रभुः ॥ कल्पितोऽयं द्विजा भेदो नामेदं बाधते सदा । कल्पितानामसत्त्वाच्च न विरोधश्च सिध्यति ॥ पुनः पूर्वक्षणोत्पन्नवासनावलतोऽनघाः । ईक्षिता पूर्ववद्भूत्वा स्वशक्त्या परया युतः' इत्यादिश्रुति- पुराणपर्यालोचनया मायोपहितचैतन्यमेव परमेश्वर इत्युच्यते । तस्यैव परमेश्वरस्य 'यतो वा इमानि भूतानि जायन्ते' 'तदैक्षत बहु स्यां प्रजायेयेति' 'जन्माद्यस्य यतः' 'प्रकृ- तिश्च प्रतिज्ञादृष्टान्तानुपरोधात्' इत्यादिश्रुतिसूत्रेभ्यो जगज- न्मादिकारणत्वं प्रतिपाद्यते, सृष्टयादिषु मायासंबन्धमात्रस्यैव प्रयोजकत्वात् । जगज्जन्मादिकारणत्वं चाभिन्ननिमित्तोपादानत्वे पर्यवसन्नम् । तत्रोपादानत्वं च स्वाध्यस्तसमस्तप्रपञ्चाधिष्ठान-. त्वमिति वक्तव्यम् । एतच्चामूर्तव्यापकरूपेणैव परमेश्वरस्य संभवति ; न तु विग्रहोपहितपरिच्छन्नरूपेण, विग्रहस्य सर्वत्र प्रपञ्चेऽनुस्यूतत्वाभावात् । तस्यैव मायोपहितस्य सर्वज्ञत्वसर्वश- क्तित्वाधनन्तकल्याणगुणशालित्वमप्यभ्युपगम्यते । परास्य श- क्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च' इति श्रुतेः । - द्वितीय परिच्छेद । - , अत एव सपिता च तदर्शनात्' इत्यधिकरणे 'विकरण- त्वान्नेति चेचदुक्तम्' इति सूत्रस्य भाष्ये 'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षु स शृणोत्यकर्ण' इत्यकरणस्यापि ब्रह्मण सर्वसामर्थ्य दर्शयतीत्यादिना परमेश्वरस्य शरीरापेक्षा विनापि सकलसामर्थ्यमस्तीति सिद्धान्तितम् । तथा च पूर्वो- तजगजन्मादिकारणत्वरूपलक्षणलक्षितो मायाबिम्बभूत परमे- श्वर एक एव सर्वोपास्य । तत्प्रतिबिम्बो जीव उपासक । सोऽप्यन्त करणभेदादनेकरूपतया व्यवयिते । 'एक एव हि भूतात्मा भूते भूत व्यवस्थित । एकधा बहुधा चैव दृश्यते जल चन्द्रवत्' इत्यादिश्रुते । परमेश्वरम्वेक एव सन्भक्ता- नुग्रहार्थ खेच्छयैव ब्रह्मविष्णुशिवादि लीलाविग्रहान्परिगृहाती- त्यभ्युपगम्यते ॥ अमूर्तोपासनस्योत्तमाधिकारिविषयत्वेऽपि मायोपहितस्यामू- तम्य परमेश्वरस्य मन्दाधिकारिणा बुद्धयनारोहेण तदुपासनस्य ताहशै कर्तुमशक्यत्वात् । तदुक्त रामतापिन्याम्-~~ 'चिन्म यस्याद्वितीयम्य निष्कलस्याशरीरिण । उपासकाना कार्यार्थ ब्रह्मणो रूपकल्पना' इति । ज्ञानवासिष्ठेऽपि-- न देव पुण्डरीकाक्षो न च देवस्त्रिलोचन । न देवो देहरूपोऽमौ न देवश्चित्ररूपक ॥ अकृत्रिममनायन्त वेदन देव उच्यते व्यासतात्पर्यनिर्णये व्यजानात्' इत्यादिश्रुत्या सच्चिदानन्दास्खण्डब्रह्मस्वरूपत्वं ब्र. ह्मणः प्रतिपाद्यते । तस्य ब्रह्मणो निर्विशेषत्वाज्जगजन्मादिका- रणत्वं नोपपद्यत इति कृत्वा 'अस्मान्मायी सृजते विश्वमेतत्' 'मायिनं तु महेश्वरम्' इत्यादिश्रुत्या मायोपहितवेपेण जगज- न्मादिकारणत्वमुपपाद्यते । एतादृशमायोपहितब्रह्मण एव च्छा- न्दोग्यतरेयतैत्तिरीयशाखादिषु वाक्यान्तरमनपेक्ष्यैव सदादिप- दैरनूध सदादिपदवाच्यं ब्रह्मैव जगत्कारणमिति निश्चितत्वेन विशेषाकाहाभावात्सामान्यविशेषन्यायोऽत्रानुचित एव । किंच, अभेदपक्षे शिवस्य नारायणस्य वा जगत्कारणवमिति विचार एव न संभवति , उभयोर्भेदाभावात् । न च शिवनारायणयो खरूपकृतभेदाभावेऽपि तयोरौपाधिकभेदमङ्गीकृत्य च्छागपशु- न्यायावतारे बोध इति वाच्यम् । उपासनाप्रकरणे शिवना- रायणयोरौपाधिकभेदलेशोऽपि नास्तीत्यस्य बहुधा वक्ष्यमाण- त्वात् । न च तथापि शिवनारायणयोरन्यतरस्य जीवभावमेवाङ्गी- कृत्य तदितरस्य जगत्कारणत्वमस्त्विति वाच्यम् । ब्रह्मा विष्णु- श्च रुद्रश्च विभक्ता अपि: पण्डिताः । परमात्मविभागस्था न जीवव्यूहसंस्थिताः' इत्यादिबहुप्रमाणैत्रिमूर्तीनामीश्वरभावम्य व- क्ष्यमाणत्वात् किंच, ब्रह्मादिसामान्यशब्दाना शिवे नारायणे वा विशेषपर्यवसानमित्यभ्युपगमे 'सर्वाननशिरोग्रीवः द्वितीयः परिच्छेदः । . . सर्वभूतगुहाशयः । सर्वव्यापी च भगवांस्तस्मात्सर्वगतः शिवः ।। अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थित्तः' इत्यादिश्रुत्या शिवनारायणशब्दयोापकपरत्वमुच्यते ! 'उमासहायं परमे. श्वर प्रभु त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति भूतयोनि समस्तसाक्षि तमसः परस्तात् अथ पुनरेव नारा- यणः सोऽन्यत्कामं मनसाध्यायत । तस्स ध्यानान्तःस्थस्य ललाटाव्यक्षः शूलपाणिः पुरुषोऽजायत' इत्यादिश्रुत्या विप्र- हविशिष्टत्वमुच्यते वा? नाय'; 'सत्यं ज्ञानमनन्तं ब्रह्म' इति श्रुत्यन्तरगतब्रह्मपदेनैव चरितार्थत्वेन ब्रह्मशिवनारायण- शब्दानां हस्तकरपाणिशब्दवदव्यापकस्वरूपपर्यायत्वाद्विशेषा- कादाभावेन च्छागपशुन्यायस्यानवतारात् , ब्रह्मशिवनारायण- शब्दानामेकार्थपरत्वेऽपि ब्रह्मवादिनो वदन्ति' 'अधागे ब्रह्मजिजासा' 'यं ब्रह्म वेदान्तविदो वदन्ति' इत्यादिश्रुतिसू- पुराणेषु वेदान्तवादिनां ब्रह्मशब्दव्यवहारस्यैव सुप्रसिद्धत्वाच । न द्वितीयः, विकल्पासहत्वात् । तत्रापि कि केवलविग्रहस्य जगत्कारणत्वमुच्यते, उत केवलनह्मणः, तद्विशिष्टस्य वा। नाथ.; केवलविग्रहम्य मायाकार्यत्वाचेतनत्वाभावेन व्यापक- स्वाभावेन च निमित्तोपादानकारणद्वयरूपत्वासंभवात् । न च 'धृतकाठिन्यचद्विपाः केवलं कृपयैव तु । आविर्भूतं महानन्द- .

व्यामतात्पर्यनिर्णये अज्ञातशिवतत्त्वानां साकाराद्यर्चनं स्मृतम् ॥ योजनाध्वन्यश- क्तम्य क्रोशाध्वा परिकल्प्यते' इति । पाश्चरात्रेऽपि-- 'न ते रूपं न चाकारो नायुधानि न चास्पदम् । तथापि पुरुषा- कारो भक्तानां त्वं प्रकाशसे' इति । शिवागमेऽपि-'यतीनां मन्त्रिणां चैव ज्ञानिनां योगिनां तथा । ध्यानपूजानिमित्तं हि तनुं गृह्णाति चेच्छया' इति । अत एव 'अन्तस्तद्धर्मोपदे- शात्' इत्याद्यधिकरणेषु स्यात्परमेश्वरम्यापीच्छावशान्मायामयं रूपं साधकानुग्रहार्थम्' इत्यादिभाष्यसंदर्भणाशरीरस्यापि प- रमेश्वरस्यादित्यमण्डलाधन्तर्वतिहिरण्मयपुरुषादिक्रमेणोपाम्यत्व- मिति सिद्धान्तितम् ॥ ननु जगत्कारणस्य सदसद्रूपसाधारणतया वादिविप्रतिपत्ति- विपयत्वाच्छ्न्यवादव्यावृत्तये ‘सदेव सोम्येदमन आसीत्' इति श्रुत्या सद्रूपत्वं प्रतिपाद्यते । तस्य सद्रूपस्य जगत्कारणस्य चेत- नाचेतनसाधारणरूपतया वादिविप्रतिपत्तिविषयत्वात्सांख्यवैशे- पिकाद्यभिमतप्रकृतिपरमाण्वादिजगत्कारणवादव्यावृत्तये 'आत्मा चा इदमेक एवाग्र आमीत्' इति श्रुत्या चेतनत्वं प्रतिपाद्यते । तस्य सतश्चेतनस्य जगत्कारणस्य जीवब्रह्मसाधारणरूपतया वा- दिविप्रतिपत्तिविषयत्वात् । हिरण्यगर्मेन्द्रामिसूर्यादिजीवव्यावृत्तये ब्रह्म वा इदमेक एवान आसीत्' इति श्रुत्या ब्रह्मरूपत्वं .

द्वितीयः परिच्छेदः । . प्रतिपाद्यते । तम्य सतश्चेतनस्य ब्रह्मणो जगत्कारणस्य शिव- नारायणादिसाधारणरूपतया वादिविप्रतिपत्तिविषयत्वात् ।। व्यावृत्ये च्छागपशुन्यायेन 'यदा तमस्तन्न दिवा न ग- त्रिन सन्न चासच्छिव एव केवलः' इत्यादिश्रुत्या शिवरूपत्वं वा, ‘एको ह वै नारायण.' इत्यादिश्रुत्या विष्णुरूपत्व वा अस्त्विति चेत् , उच्यते- अत्र किं भेदपक्षमाश्रित्य शिवम्य विष्णोर्वा जगत्कारणत्व- मुच्यते, अभेदपक्षमाश्रित्य वा। नायः; प्रथमपरिच्छेद एव भेद- शापप्रक्षालनस्य कृतत्वेन पुनः पुनस्तद्धेदवादस्य लजावह- त्वात् । अत एव द्वितीयपरिच्छेदारम्भे रामानुजमध्वश्रीकण्ठादि- भेदप्रतिपादकभाष्याणाममूलकत्वज्ञापनाय भगवत्पादसिद्धान्तम- नुसृत्य सगुणब्रह्मनिर्णयं करोमीत्यम्माभिर्नान्दीश्लोके प्रतिपादि- तम् । न द्वितीयः, छागपशुन्यावस्खले अग्नीपोमीयं पशुमालभेत' इत्यत्र श्रुतस्य पशुशब्दम्य च्छागगवादिमाधारणतया सामान्य- स्यानुष्ठानायोगेन तदनुष्ठानाय विशेषाकाङ्क्षायाम् ‘अमीपोमाभ्या छागस्य वपाया मेदस.' इति मन्त्रवर्णपर्यालोचनया सामान्य- विशेषन्यायावतारेण विशेषपर्यवसानाभ्युपगमेऽपि प्रकृते ताह- शन्यायानवतारेण जगत्कारणस्य ब्रह्मणो देवताविशेषपर्यवसाना- भावात् । तथा हि-सत्यं ज्ञानमनन्तं ब्रह्म' 'आनन्दो ब्रह्मेति व्यासतात्पर्यनिर्णय ताण्डवं 'करुणालयम्' इत्यादिस्कान्दवचनमनुसृत्य घृतकाठि- न्यदृष्टान्तेन विग्रहविग्रहिणोरभेदमनीकृत्य तद्विग्रहस्य जग. स्कारणत्वे को दोप इति वाच्यम् ; विग्रहम्ग परिच्छिन्न- त्वाद्विग्रहिणोऽपरिच्छिन्नत्वाच तयोरभेदस्य वक्तुमशक्यत्वात् । न च विग्रहम्याप्यपरिच्छिन्नत्वे बाधकाभाव इति वाच्यम् ; विग्र. हस्य मावयवत्वेन तस्यापरिच्छिन्नत्वम्य वक्तुमशक्यत्वात् । 'सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एक इहा- म्य धत्ते । स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोतॄणां म्युः' इत्यादिभागवतपुराणादिवचनेषु भगवद्विग्रहस्य मायामयत्वेन प्रतिपादितत्वाच्च । न च विग्रह- विग्रहिणोरक्यप्रतिपादकस्कान्दपुराणादिवचनानां का गतिरिति वाच्यम् । पूर्वोक्तस्कान्दपुराणादिवचनानां बाधितार्थप्रतिपाद- कत्वेन स्वार्थे तात्पर्याभावेऽप्युपासकानां विश्वासोत्पादने तात्प- र्यमिति वक्तुं शक्यत्वात् । न द्वितीयः । तत्रापि किं माया- तीतशुद्धब्रह्मणो जगत्कारणत्वमुच्यते, मायोपहितस्य वा । नाद्यः; ' अस्मान्मायी सृजते विश्वमेतत् ' 'मायिनं तु महेश्व- रम्' इत्यादिश्रुत्यनुसारेण मायासंबन्धमन्तरा निर्विशेषस्य मायातीतब्रह्मणः प्रपञ्चहेतुत्वाभावात् । द्वितीये, इष्टापत्तेः त्वया विग्रहविशिष्टस्यैव जगत्कारणत्वाभ्युपगमेन त्वदनिष्टप्रसङ्गाच्च । ..

द्वितीयः परिच्छेदः । नापि तृतीय ; तत्रापि किं विग्रहविशिष्टस्य निमित्तत्वमुच्यते, उपादानत्वमुच्यते वा, पक्षद्वयेऽपि सिद्धान्तहानिप्रसङ्गात् । सत्त्वप्रधानमायोपहितवेषण ब्रह्मण. निमित्तत्व तमःप्रधानमायो- पहितवेपेण ब्रह्मण उपादानत्वमिति सकलग्रन्थकारै प्रति पादितत्वात् । तदुक्तं पञ्चदशीप्रकरणे विद्यारण्यगुरुचरण 'जगतो यदुपादानं मायामादाय तामसीम् । निमित्त शुद्ध- सत्त्वा तामुच्यते ब्रह्म तद्विरा' इति । न चैवं सति पुरुषसूक्तकैवल्यतापनीयादिश्रुतिषु विग्रहविशिष्टस्यैव जग- कारणलप्रतिपादनेन तच्छ्रुतीना का गतिरिति वच्यम् । 'कानिचिद्वेदवाक्यानि ब्राह्मणा वेदपारगा । रुद्रमूर्ति समाश्रित्य शिवे परमकारणे ।। पर्यवस्यन्ति विप्रेन्द्रास्तथा वाक्यानि कानि. चित् । विष्णुमूर्ति समाश्रित्य ब्रह्ममूर्ति च कानिचित् ॥ आमेयीं मूर्तिमाश्रित्य श्रुतिवाक्यानि कानिचित् । सूर्यमूर्ति मुनिश्रेष्ठास्त- थैवान्यानि कानिचित् ॥ पुराणैर्दशभिर्विप्रा प्रोक्तो रुद्रस्तथैव च । चतुर्मिभंगवान्विष्णुञभ्या ब्रह्मा प्रकीर्तित ॥ अमिरेकेन विप्रेन्द्रा स्तथैकेन दिवाकर । एवं मूर्त्यभिधानेन द्वारेणैव मुनीश्वरा ॥ प्रतिपाद्यो महादेव. स्थित सर्वासु मूर्तिपु । स एव मोचकः साक्षाच्छिव सत्यादिलक्षण.' इत्यादिवक्ष्यमाणस्कान्दादि- वचनेषु 'शिवे परमकारणे' स्थित सर्वासु मूर्तिपु' इत्युप- 1 व्यासतात्पर्यनिर्णये तस्य ललाटात्यक्षः . क्रमोपसंहारपालोचनया मायोपहितामूर्तपरमेश्वरगतजगत्कारण- त्वमेव शिवविवादिविग्रहोपासनाय तत्तद्विग्रविशिष्टेषु प्रति- पाद्यत इति पुरुपसूक्तकैवल्यतापनीयादिश्रुतितात्पर्यवर्णनोपपत्रः विग्रहविशिष्टस्यैव जगत्कारणत्वपक्षे शिवविग्रहविशिष्टम्य नारा- यणविग्रहविशिष्टम्य वा जगत्कारणत्वमिति विनिगमकामावाच । यदि श्वेताश्वतरावशिखादिश्रुत्या शिवविप्रहविशिष्टस्यैव सर्व- कारणत्वम्, तथा अथ पुनरेव नारायण. सोऽन्यत्कामो -मनसा ध्यायति । ध्यानान्त:स्थस्य शूलपाणिः पुरुषोऽजायत' इत्यादि महोपनिषदादिश्रुत्य- नुसारेण वैष्णवाभिमतविग्रहविशिष्टनारायणम्य सफल कारणत्वं किं न म्यात् ? न च ब्रह्मविष्णुरुदेन्द्रास्ते सप्रसूयन्ते ! कारण तु ध्येय. सर्वेश्वर्यसंपन्न सर्वेश्वर. शंभुराकाशमध्ये' इत्यादिश्रुत्या नारायणस्य शिवजन्यत्व प्रतिपाद्यत इति न तस्य सर्वकारणत्वमिति वच्यम् । 'नारायणाद्रुद्रोऽजयत' इत्यादि- श्रुत्या शिवस्यापि नारायणजन्यत्वप्रतिपादनेन तस्यापि सर्व- कारणत्वोपपत्तेस्तुल्या वात् । तस्माद्विनिगमनाविरहेण शिववि- प्ण्वाधभिन्न अस्सदभिमतमायोपहितामूर्तपरमेश्वर एव सर्व- कारणमित्यभ्युपेयम् । एतेन 'ब्रह्मविष्णुरुदेन्द्राम्ले सप्रसूयन्ते' इति श्रुत्या ब्रह्मादित्रिमूर्तीनामुत्पत्तिप्रतिपादनेन तेषां जीव .

द्वितीयः परिच्छेदः। भाव एव न ब्रह्मभाव इति कथमुपाम्यत्वमित्यपि शङ्का गलहस्तिता ॥ . अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ति-~~ नाभिहृदय कण्ठो मूर्धा च । अत्र चतुप्पाद ब्रह्म विभाति जागरिते ब्र- मा, स्वप्ने विष्णुः, सुषुप्तौ रुद्रः, तुरीयमक्षरम्' इति ब्रह्मोप- निपदादिवचनेन 'एक एव शिवः साक्षात्सृष्टिस्थित्यन्तसिद्धये । ब्रह्मविष्णुशिवाख्यामिः कल्पनाभिर्विनृम्भितः' 'ब्रह्मा विष्णुश्च रुद्रश्च विभक्ता अपि पण्डिताः । परमात्मविभागम्था न जीव- व्यूहसम्थिता ॥ पुण्यपापाता जीवा रागद्वेषमलावृताः । ज- न्मनाशाभिमूताश्च सदा संसारिणोऽवशाः ॥ ब्रह्मविष्णुमहेशा- नां तथा तेषां द्विजर्षभाः । आविर्भावविशेषाणां पुण्यपापादयो न हि ॥ आज्ञया परतत्त्वस्य जीवाना हितकाम्यया । आवि- र्भावतिरोभावी तेषां केवलमास्तिकाः ।। हरिब्रह्मा हरस्तेपामा- विर्भावाश्च सुव्रता.। सदा संसारिभि वैरुपास्या भुक्तिमुक्तये ।। सृष्टिस्थित्यन्तकरणी ब्रह्मविष्णुशिवात्मिकाम् । स संज्ञां याति भगवानेक एव जनार्दन ' ' सत्त्वं रजस्तम इति प्रकृतेर्गुणा- स्तैर्युक्त परः पुरुष एक इहाम्य धत्ते। स्थित्यादये हरिविरि- ञ्चिहरेति संज्ञा. श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः' इत्या- दिसतसंहिताविष्णुपुराणभागवतवचनैश्च ब्रह्मादित्रिमूर्तीनां प्र- व्यासतात्पर्यनिर्णय . हमकोटित्व मुमुक्षुपास्यत्वमाविर्भावतिरोभावादिकं च प्रतिपादि- तमिति न जीवत्वं नानुपास्यत्वं न जन्यत्वमिति तच्छकाङ्कुरा- नवकाशात् । ततश्च मायोपहितस्य जगत्कारणस्यैकस्यैव परमे- श्वरस्य म्वमायागतसत्त्वादिगुणोपाधितः स्वेच्छयैव ब्रह्मादित्रि- मूर्तिरूपतयाविर्भावाभ्युपगमेन 'ब्रह्मविष्णुरुद्रन्द्रास्ते संप्रसूयन्ते' इति श्रुतेस्तादृशाविर्भावपरत्वमेवाभ्युपगम्यते ॥ ननु कारण तु ध्येय सर्वेश्वर्यसंपन्नः सर्वेश्वर. शंभुराका- शमध्ये' इत्यादिश्रुतिबलेन शिवस्यैव सर्वकारणत्वमस्तु 'नारायणाद्रुद्रो जायते' इति श्रुतेर्गुणमूर्तिशिवपरत्वेन तुरीय शिवम्य सर्वकारणत्वे बाधकाभावात् ; इति चेत्, तत्र किं विग्रहोपहितरूपेण तुरीय शिवस्य सर्वकारणत्वमुच्यते, तदुपल- क्षितरूपेण वा । नाद्यः कल्पः कल्पकाना हृदयाकल्पमल्प- मपि कल्पयति ; तुरीयविग्रहस्यापि सावयवत्वेन कार्यत्वावश्य- भावितया तत्रापि विप्रहापहितकारणान्तरापेक्षायामनवस्थापत्तेः । न चानादिरेव परमेश्वरस्य विग्रह. कश्चिदस्तीति वाच्यम् । विग्रहमात्रस्य मायाजन्यत्वेनानादित्वे मानाभावात् ; 'अपाणि- पादो जवनो ग्रहीता पश्यत्यचक्षु स शृणोत्यकर्णः' 'विकर- णत्वान्नेति चेत्तदुक्तम्' ' अकरणम्यापि ब्रह्मणः सर्वसामर्थ्य दर्श- यति' इत्यादिश्रुतिसूत्रभाष्यविरोधप्रसङ्गात्, विग्रहोपहितरूपेण द्वितीय: परिच्छेदः । परमेश्वरस्य निमित्तोपादानत्वं नास्तीति पूर्वमेव निराकृतत्वाच्च । द्वितीये, विग्रहोपलक्षितरूपस्यैवास्मदभिमतमायोपहितचैतन्यरू- पत्वेन घट्टकुटीप्रभातवृत्तान्तन्यायेन तम्यैव सकलकारणत्वमि- त्यम्मदिष्टसिद्धिः । नन्वेवमपि जगत्सृष्टयाद्यर्थ तुरीयविग्रहान- भ्युपगमेऽपि 'कारणं तु ध्येयः सर्वेश्वर्यसंपन्नः सर्वेश्वरः शंभु- राकाशमध्ये' इत्यथर्वशिखावाक्यानुसारेणोपासनार्थ तुरीय- परमेश्वरशिवमूर्तिरभ्युपगम्यताम् ; अत एव ब्रह्मादित्रिमूर्त्यपे- क्षया तुरीयमूर्तिर्विशिष्टम्य परमशिवस्योत्कर्षोऽपि भवतीति चेत्, उच्यते- अथर्वशिरसि 'ध्यायीतेशानम् , प्रध्यायितव्य सर्वमिदम् , यतो ब्रह्मविष्णुरुद्रेन्द्रास्ते संप्रसूयन्ते सर्वाणि चेन्द्रियाणि सह भूतैः स कारणं कारणानां धाता ध्याता कारणं तु ध्येयः सर्वैश्वर्यसंपन्नः सर्वेश्वरः शभुराकाशमध्ये ' इत्यत्र 'ध्यायीतेशानम्' 'कारणं तु ध्येयः' इत्यनेन ईशाना- दिशब्दवाच्यस्य जगत्कारणीभूतस्य परमेश्वरस्य ध्येयत्वं विधी- यते। कारणत्वं च तस्य मायोपहितामूर्तरूपेणैवेत्यस्माभिः प्राकप्र- तिपादितम् । तदनुसारेण 'शंभुराकाशमध्ये' 'शिव एको ध्येयः' इत्यत्रापि शंभुशिवादिशब्दानामप्यमूर्तपरशियपरत्वमेव स्वी- कृत्य तादृशशिवस्यैव ध्येयत्वं विधीयत इत्यभ्युपगन्तव्यम् । ततश्च अथर्वशिखोपनिषदस्तादृशपरमेश्वरस्य ध्येयत्वप्रतिपादन- व्यासतात्पर्यनिर्णये . मानतात्पर्यकत्वेऽपि न तुरीयमूर्तिमतिपादने तात्पर्य सिध्यति । यदि च उमासहायं परमेश्वरं विभु त्रिलोचनम्' इत्यादि- कैवल्यश्रुतौ उमासहायत्वत्रिलोचनत्वनीलकण्ठत्वादिगुणविशि- टपरमेश्वरस्यैव ध्येयत्वावगमात् तदनुरोधेन गुणोपसंहार- न्यायेन तत्रापि तादृशशिवस्यैव ध्येयत्वं कल्पनीयमित्युच्यते, तथापि तादृशगुणमूर्तिशिवरूपेणोपासनार्थमारोपिततादृशशि- वरूपेण वा परमेश्वरोपासनं संभवतीति न तदर्थ तुरीयमूर्ति- कल्पना । यद्वा, ‘ध्यायीतेशानम् ' इत्यत्र गुणमूर्तिशिवम्यैव ध्येयत्वं विधाय तन्निर्वाहार्थमुपास्यभूतगुणमूर्तिशिवस्य परब्रह्म स्वल्यापनाय कारणं तु ध्येय ' इत्यादिना अमूर्तपरमेश्वर- रूपेण व्यवस्थापितं कारणत्वसर्वेश्वरत्वादिकं तदभिन्नतया गुण. मूर्तिशिवेऽपि प्रतिपाद्यते। 'ब्रह्मविष्णुरुद्रेन्द्रास्ते संप्रसूयन्ते' इति श्रुतेः परमेश्वरस्य खेच्छयैवाविर्भावपरत्वेनाप्युपपन्नतया तम्यैव गुणमूर्तिरुद्ररूपेणाविर्भाव अमूर्तरूपेण कारणत्वं चाविरुद्ध- मिति न काप्यनुपपत्ति । एवमेव स्कान्दादिशिवपुराणानाम- पि तात्पर्य द्रष्टव्यम् । अत एव स्कान्दे 'कानिचिद्वेदवाक्यानि ब्राह्मणा वेदपारगा । रुद्धमूर्ति समाश्रित्य शिवे परमकारणे । पर्यवस्यन्ति विप्रेन्दास्तथा वाक्यानि कानिचित् । विष्णुमूर्ति समाश्रित्य ब्रह्ममूर्ति च कानिचित् । आमेयी मूर्तिमाश्रित्य ' द्वितीयः परिच्छेदः । श्रुतिवाक्यानि कानिचित् । सूर्यमूर्ति समाश्रित्य तथैवान्यानि कानिचित् । पुराणैर्दशभिर्विप्राः प्रोक्तो' रुदस्तथैव च । चतुर्मिभगवान्विष्णुर्दाभ्यां ब्रह्मा प्रकीतितः । अमिरेकेन विप्रे. न्द्रास्तथैकेन दिवाकरः । एवं मूर्तिविधानेन द्वारेणैव मुनी- श्वराः । प्रतिपाद्यो महादेवः स्थितः सर्वासु मूर्तिपु । स एव मोचकः साक्षात् शिवः सत्यादिलक्षणः । ब्रह्मविष्णु- महादेवरुपास्यः सर्वदा द्विजाः' इति प्रागुक्तानि । अत्र ब्रह्मविष्ण्वादिमूर्ति विशिष्टरूपेण परमेश्वरोपासनार्थ ब्रह्मादि- सकलमूर्त्यनुस्यूतो जगत्कारणीभूतमायोपहितामूर्तरूप एव पर- मेश्वरः परमशिवमहादेवादिशब्दितः सन् कैश्चिद्वेदान्तैः पुराणैश्च रुद्रमूर्तिविशिष्टरूपेण कैश्चिद्विष्णुमूर्तिविशिष्टरूपेण कैश्चित् ब्र- झमूर्तिविशिष्टरूपेण कैश्चिदमिसूर्य मूर्तिविशिष्टरूपेण च प्रति- पाद्यत इत्ययमों ज्ञायते । ततश्च शिवपरत्वेन प्रसिद्धानि कैवल्याथर्वशिखादिश्रुतिवाक्यानि स्कान्दशैवादिपुराणानि च गुणमूर्तिशिवरूपेण परमेश्वरोपासनार्थमेव मायोपहितामूर्तपर- मेश्वरगतजगत्कारणत्वादिकं गुणमूर्तिशिवेऽपि प्रतिपादयन्तीति तात्पर्य स्पष्टीकृतम् । अत एव श्रीमद्विष्णुभागवते चतुर्थस्क- धेऽत्रिमहर्षितपश्चर्याप्रकरणे ' प्राणायामेन संयम्य मनो वर्षशतं मुनिः । अतिष्ठदेकपादेन निर्द्वन्द्वोऽनिलभोजनः ॥ शरणं ७० व्यामतात्पर्यनिर्णये तं प्रपद्येऽहं य एव जगदीश्वरः । प्रजामात्मसमां मह्यं प्रय च्छत्विति चिन्तयन्' इत्यारभ्य विश्वोद्भवस्थितिलयेषु विभ- ज्यमानर्मायागुणैरनुयुगं विगृहीतदेहाः । ते ब्रह्मविष्णुगिरि- शाः प्रणतोऽस्म्यहं वस्तेभ्यः क एव भगवान्न इहोपहूतः ॥ एको मयेह भगवान्विविधप्रधानैश्चित्तीकृतः प्रजननाय कथं नु यूयम् । अत्रागतास्तनुभृतां मनसोऽपि दूराः ब्रूत प्रसीदत महा- निह विस्मयो मे ॥ मैत्रेय:--- इति तस्य वचः श्रुत्वा त्रय- से विवुधर्षभा. । प्रत्यूचुः श्लक्ष्णया वाचा प्रहस्य तमूर्षि विभो ।। देवा:- यथा कृतस्ते संकल्पो भाव्यं तेनैव नान्यथा । सत्सं- कल्पस्य ते ब्रह्मन्यद्वै ध्यायति ते वयम् ॥ अथास्मदंशभूतास्ते आत्मजा लोकविश्रुता.। भवितारोऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यशः ॥ एवं कामवरं दत्त्वा प्रतिजग्मुः सुरेश्वराः' इत्यन्तेन वचनजातेन एकमेव जगदीश्वरमुद्दिश्य प्रजाथै तपस्यतः सत्यसंकल्पस्यात्रिमहन्नमविष्णुरुद्रात्मकमूर्तित्रयरूपेणैव प्रसन्नो जगदीश्वरस्तदभिलषितवरं दत्त्वा यथास्थानं गतः इति प्रति- पादनात्रिमूर्तिव्यतिरेकेण मूलभूतमूर्त्यन्तरं जगदीश्वरस्य ना- स्तीति तात्पर्य स्पष्टीकृतम् ।। नन्वेवं सति — अरूपस्य शिवम्यापि मूर्तिध्येयास्त्युपासकैः । उमाविग्रहा शुद्धा त्रिनेत्रा चन्द्रशेखरा ॥ नीलग्रीवा परा- . द्वितीयः परिच्छेदः । नन्दप्रमोदा ताण्डवप्रिया 1 ब्रह्मविष्णुमहादेवैरुपास्या गुणमू- तिभिः ॥ सर्वमूर्तिविहीनस्य सर्वभूताधिपस्य तु । तथाप्येषा परा मूर्तिरित्येषा शाश्वती श्रुतिः' इत्यादिस्कान्दवचनेषु तुरी- यशिवमूर्तेर्गुणमूर्युपाम्यत्वप्रतिपादनदर्शनातादृशवचनानां का गतिरिति चेत्, न; स्मृतिपुराणाद्यष्टादशविद्यानां वेदमूलक- त्वेन प्रवृत्तत्वेऽपि कचित्तचित्भदेशेषु वैदिकविरुद्धशैववैष्णवा- धागमानुसारेण तादृशाधिकारिणं प्रति प्रवृत्तत्वात् ; वेदिकानां तदंशो न ग्राह्य इति पुराणवचनैरेव तत्र तत्र व्यवस्थापि- तत्वात् । तदुक्तं श्रीमत्सूतसंहितायाम्- ‘परमेश्वर विज्ञाना- न्मुच्यते भवबन्धनात् । पारमेश्वरविज्ञानं वेदादेव न चान्य- तः ॥ आगमान्तरजन्यं तु ज्ञानं न ज्ञानमास्तिकाः । अष्टा- दशानां विद्यानां वेदादन्याश्च वित्तमा. ॥ विद्या वेदानुसारेण प्रवृत्ताः सर्वशोभनाः । तथापि तास सर्वामु कश्चिदंशः कचि- स्कचित् ।। शैवागमानुसारेण तत्प्रभेदानुसारतः । विष्ण्वागमा- नुसारेण तत्प्रभेदानुसारतः ॥ ब्रह्मागमानुसारेण तत्प्रभेदानु- सारतः । अधिकारिविभेदेन क्रमेणैव विमुक्तये । प्रवर्तते मुनि- श्रेष्ठाः सत्यमेव मयोदितम् ॥ ततत्तन्त्रेषु ये मा दीक्षिता मुनिसत्तमाः । सोऽशस्तैरेव संग्राह्य. सर्वथा नैव वैदिकः' इति । सौरसंहितायामपि- 'यस्तु वेदविरुद्धांशः पुराणेवखिलेषु ७२ व्यासतात्पर्यनिर्णय च । तदंशस्तु परित्याज्यः सर्वथा सकलैरपि ॥ तन्त्रावलम्बने- नैव पुराणानि च कानिचित् । साक्षाद्वेदविरुद्धार्थ प्रवदन्ति क्वचित्कचित् ।। अधिकारिविभेदेन नैव वेद परं प्रति' इति ।। अस्तु वा तुरीयशिवमूर्तिः; तथापि गुणमूर्त्यपेक्षया तुरी- यमूर्तिविशिष्टस्योत्कर्ष इत्येतदनुपपन्नम् ; तुरीयमूर्तेरिव गुणमूर्ती- नामपि परमेश्वरमूर्तित्वेन तदनुस्यूतस्य परमेश्वरस्यैकतया तर- तमभावासंभवात् । न च परमेश्वरविप्रहस्य गुणमूर्त्याविर्भावहे- तुत्वेन ब्रह्माद्यपेक्षया परमशिवस्योत्कर्ष इति वाच्यम् । सर्वासां परमेश्वरमूर्तीनामीश्वरोपाधिभूतमायामात्रप्रयुक्तत्वेन तुरीयमूर्ति- वद्गुणमूर्तीनामपि स्वेच्छाकल्पितत्वात् । अस्तु वा गुणमूर्तीनां तुरीयविग्रहादाविर्भावः । तथापि नानुपपत्तिः । यथा रामानुज- मतेऽपि रामकृष्णादीनां नारायणाविर्भावरूपत्वेऽपि नारायणा- पेक्षया तेषां नापकर्षः; तद्वत् ब्रह्मादिमूर्तीनां परमशिवापेक्षया नापकर्षः । अन्यथा 'नारायणाद्रुद्रोऽजायत' इति श्रुत्या रुद्र- स्य नारायणादाविर्भावप्रतिपादनेन शैवमते रुद्रस्य नाराय- णापेक्षयापकर्षापत्तेः । न चेष्टापत्तिः, परमशिववादिभिः रुद्र- स्य नारायणापेक्षयोत्कर्षस्यैवाङ्गीकारात् । ननु विष्णुशिवयो. रीश्वरभावसंभवेऽपि चतुर्मुखस्य ब्रह्मणो जीवसमष्टिरूपहिरण्य- गर्भत्वेन प्रसिद्धतया कथमीश्वरभाव इति चेत्, न; 'प्रतीताद्भौ- द्वितीयः परिच्छेदः। ॥ तासा तिकादस्माद्भूतानि मुनिपुंगवा । उत्कृष्टानि तथा तेभ्यो जी- वात्मा चेतनः प्रभुः ॥ समष्टिव्यष्टिभावेन सोऽपि भिन्न पर- म्परम् । व्यष्टयश्च तथाभिन्नास्ताश्च भावानुसारत. ॥ देवति- यमनुष्यादि शरीरं प्राप्नुवन्ति हि । आसा समष्टिभूतस्तु श्रेष्ठ सर्वात्मना बुधाः ॥ ततो विशिष्टा सकला ब्रह्मणम्तु विभूतयः । ताश्चान्योन्यविशिष्टा' म्युर्यथा जीवा मुनीश्वरा ब्रह्माधिकस्तस्माद्विष्णुः श्रेष्ठ प्रकीर्तित । सोऽपि म्वत्र्यष्टि- भूतेभ्यो वरिष्ठ परिकीर्तितः ॥ ततो रुद्रोऽधिक सोऽपि म्वव्यष्टिभ्योऽधिक स्मृत । ब्रह्मा विष्णुश्च रुद्रश्च परतत्त्ववि- भूतय ॥ तेषा त्रयाणामधिक सर्वकारणमीश्वर । ततोऽधिक पर तत्त्वं ज्ञानमानन्दमद्वयम्' इत्यादिश्रीमत्सूतसहितावचनेषु आसा समष्टिभूत इत्यनेन देवतिर्यमनुप्यादिसकलजीवसमष्टि रूपत्वेन हिरण्यगर्भस्य समष्टिजीवत्वं प्रतिपाद्य 'ततो विशि टा सकला ब्रह्मणस्तु विभूतय तासा ब्रह्माधिक ' इत्यनेन हिरण्यगर्भापेक्षया त्रिमूर्त्यन्तर्गतस्य ब्रह्मण तद्विभूतीना चोत्कर्षो- पपादनपूर्वक भिन्नतया प्रतिपादनेन तस्य ब्रह्मण 'ब्रह्मा विष्णु- श्व रुद्रश्च परतत्त्वविभूतय ' इति वचनानुसारेणेश्वरभाव सिद्धे । ननु ब्रह्मादित्रिमूर्तीनामीश्वरभावसत्त्वेऽपि उदाहृत- म्कान्दवचनेषु जीवानामिव ईश्वरकोटिप्रविष्टाना ब्रह्मादीना व्यासतात्पर्यनिर्णय . मध्ये शिवस्यैवाधिक्यप्रतिपादनेन तदुषासनस्यैवाधिक्यमस्त्वि- ति चेत् , न । तन किं विशेषणभूतविग्रहमानोपासनस्याधिक्य- मुच्यते, उत विशेष्यमात्रस्य, आहोस्विद्विमहविशिष्टस्य वा । नाद्यः; केवलविग्रहस्य मायाकार्यत्वेन चेतनत्वाभावादुपासका- नामभिमतफलदानसामर्थ्याभावेन 'प्रयोजनमनुद्दिश्य न मन्दो- ऽपि प्रवर्तते' इति न्यायेनानुपास्यमानकेवलविमहाधिक्यकल्प- नस्याप्रयोजकत्वात् । न द्वितीयः । तत्रापि किं मायातीतशुद्ध- ब्रह्मस्वरूपस्याधिक्यमुच्यते, मायोपहितम्य वा; पक्षद्वयोन्मेषा- नवकाशात् । 'एकमेवाद्वितीयम्' इत्यादिश्रुत्या मायातीतशुद्ध- ब्रह्मस्वरूपस्यैकरूपत्वात् । 'अम्मान्मायी सृजते विश्वमेतत्' इत्यादिश्रुत्या मायोपहितब्रह्मस्वरूपस्याप्येकत्वाच्च पदार्थद्वयम- न्तरा न्यूनाधिकभावकल्पनस्यामित्तिचित्रायमाणत्वात् । नापि तृतीयः । ततोपि किं विशेषणतारतम्याद्विशेष्यस्यापि तारतम्य- मभ्युपगम्यत इत्युच्यते, विशिष्टं पदार्थान्तरमिति कृत्वा प्रमा- णबलादुमाधविग्रहविशिष्टम्याधिक्यमुच्यते वा । नाद्यः । यथा एकस्यैव देवदत्तस्य तत्तद्यापारभेदेन याचकपाचकनर्तकपाठकभ- हादिसंज्ञामात्रभेद विना संज्ञिभेदव्यवहारः तत्प्रयुक्ततरतमभावो- ऽपि नास्ति, तद्वन्मायोपहितम्यैकस्यैव परमेश्वरस्य सत्त्वादितत्त- गुणवैशिष्टयभेदेन ब्रह्मविष्णुशिवादिसंज्ञामात्रभेदं विना संज्ञिभे- ।

द्वितीयः परिच्छेदः । दम्य तत्प्रयुक्ततरतमभावस्यापि वक्तुमशक्यत्वात् । तदुक्तं वि- प्णुपुराणे----'सृष्टिस्थित्यन्तकरिणी ब्रह्मविष्णुशिवात्मिकाम् । स संज्ञां याति भगवानेक एव जनार्दनः' इति । अन्यथा उपा- धिभेदादुपधेयभेदस्यावश्याभ्युपगमे सत्त्वप्रधानमायोपाधिना नि- मित्तत्वम् अन्यम्य तमःप्रधानमायोपाधिना उपादानत्वमन्यस्य इति कारणद्वयस्यावश्यमङ्गीकर्तव्यत्वेन पूर्वोक्ताभिन्ननिमित्तोपा- दानत्वसिद्धान्तहानिप्रसङ्गात् । किं च, परमेश्वरस्य संज्ञि- भेदमादाय तरतमभावाभ्युपगमे उत्तमाधममध्यमेश्वरप्रसनेन ईश्वरनानात्वापत्त्या 'यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति' इत्यादिपरमेश्वरैकत्वबोधकश्रुतिविरोधापत्तेः । न च पूर्वोक्ताभिन्ननिमित्तोपादानत्वस्य सृष्टिस्थितिसंहारकर्तृत्वस्य च विशेष्याभेदाभिप्रायेण चरितार्थतया · यतो वा इमानि' इत्यादिपरमेश्वरैकत्वबोधकश्रुतिविरोधो नास्तीति वाच्यम् । वि. शेप्यमात्रस्य निर्विशेषब्रह्मणः मायासंबन्धमन्तरा जगत्सृष्टया- दिसामर्थ्याभावेन विशष्यैक्यप्रतिपादनम्य व्यर्थत्वात् ।। ननु एवं सति उपाधिभेदादुपधेयभेदानभ्युपगमे जीवेश्व- रयोरप्युपाधिकृतभेदामाचेन तत्प्रयुक्ततारतम्यामावेन च सर्व- शस्वकिंचिज्जत्वव्यवस्वाभावात् जीवस्यापि जगत्कर्तृत्वमीश्व- रम्यापि संसारित्वमित्यायतिप्रसङ्ग इति चेत् , न । यथा वि. .

૭૬ व्यासतात्पर्यनिर्णय म्बप्रतिबिम्बयोरभेदेऽपि दर्पणगतपीतत्वश्यामत्वचलनत्वादिम- लिनधर्माकान्तत्वं प्रतिबिम्बस्यैव, बिम्बस्य तद्गतमालिन्यले- शोऽपि नास्ति , तद्वद्रजस्तमोऽभिभूतमलिनसत्त्वाना जीवाना तत्तदन्त करणोपाधिमेदकृततारतम्यसत्त्वेऽपि रजस्तमोऽनभिभू- तशुद्धसत्त्वप्रधानमायोपाधिकाना ब्रह्मादित्रिमूर्तीनाम् ईश्वरत्व- सर्वज्ञत्वनियामकत्ववशीकृतमायत्वानावृतचैतन्यत्वादींना तुल्य- त्वेन एकस्यैव देवदत्तस्य कम्बलदुकूलादिपरिधानवत् एकस्यैव परमेश्वरस्य सत्त्वादिगुणमूर्तिपरिग्रहसंमवेन मूर्तिभेदमात्रेण तर- तमभावासभवात्, 'यो ब्रह्मविष्णुरुद्राणा भेदमुत्तमभावत । साधयेदुदरव्याधियुक्तो भवति मानव इति शातातपम्मृत्या- दिवचन ब्रह्मादीना तरतमभावम्य निन्दितत्वाच्च । अस्तु वा विशेषणतारतम्याद्विशेप्यस्यापि तारतम्यम् । तथापि नानुप- पत्ति , वक्ष्यमाणरीत्या विष्णुत्वशिवत्वोपाधिभूतविशेषणोत्कर्ष- प्रतिपादकवचनाना तुल्यतया विद्यमानत्वेन तयोस्तारतम्यस्य वक्तुमशक्यत्वात् । ननु 'यम्य मायागत सत्त्व शरीर स्यात्त मोगुण । सहाराय त्रिमूर्तीना स रुद्र स्यान्न चापर || तथा यम्य तम साक्षाच्छरीर सात्त्विको गुण । पालनाय त्रिमूर्ती- ना स विष्णु स्यान्न चापर ॥ रजो यस्य शरीर म्यात्तदेवो- त्पादनाय च । निमूर्तीना तु स ब्रमा भवेद्विप्रा न चापर द्वितीयः परिच्छेदः । अम्ति रुद्रस्य विप्रेन्द्रा अन्तः सत्त्वं बहिस्तमः । विष्णोरन्त- स्तमः सत्त्वं बहिरस्ति रजोगुणः ॥ अन्तर्वहिश्च विप्रेन्द्रा अस्ति तस्य प्रजापतेः । ततोऽपेक्ष्य गुणं सत्त्वं मनुप्या विव- दन्ति हि ॥ हरिः श्रेष्ठो हरः श्रेष्ठ इति हा मोहवैभवम् । सत्त्वाभावात्प्रजानाथं वरिष्ठं नैव मन्यते' इत्यादिस्कान्दवचन- पर्यालोचनया यत्र यत्र मात्त्विकत्वेन विष्णूत्कर्षप्रतिपादकवच- नानि सन्ति, तान्युक्तरीत्या पालनादिगुणपरत्वपराणीत्यभ्युप- गन्तव्यम् । यत्र यत्र तामसत्वेन शिवनिकर्षप्रतिपादकवच- नानि सन्ति, तान्युक्तरीत्या संहारादिगुणपरत्वपराणीत्यभ्युपग- न्तव्यम् । ततश्च विष्णुत्वशिवत्वोपाधिद्वयतारतम्यविचारे तमो- गुणोपाधिकविष्ण्वपेक्षया सत्त्वगुणोपाधिकशिवम्योत्कर्षः स्यादि- ति चेत् , नैवम् । ‘सत्त्वं रजस्तम इति...सत्त्वतनोर्नृणां म्युः' इत्यादिभागवतवचनेऽपि सत्त्वं रजस्तम इत्यादिना प्रकृ- तिखरूपसत्त्वादिगुणत्रयमुपक्रम्य 'तैर्युक्तः...संज्ञाम्' इत्या दिना एक एव मायोपहितः सत्त्वादिगुणत्रययुक्तः सन् स्थि- त्युत्पत्तिसंहारव्यापारार्थ क्रमेण विष्णुब्रह्मशिवसंज्ञां लभत इति प्रतिपाद्य 'सत्त्वतनोतॄणां म्युः' इत्यादिना सत्त्वमयविन- हविशिष्टस्य विष्णोः सर्वातिशयज्ञापनात् सत्त्वरजस्तमो- गुणत्रयक्रमेण प्राप्तप्रायपाठानुरोधेन रजम्तमोमयविग्रह विशि- ७६ व्यासतात्पर्यनिर्णय - म्बप्रतिबिम्बयोरमेदेऽपि दर्पणगतपीतवश्यामत्वचलनत्वादिम- लिनधर्माकान्तत्व प्रतिविम्बस्यैव, बिम्बस्य तद्गतमालिन्यले. शोऽपि नास्ति , तद्वद्रजस्तमोऽभिमूतमलिनसत्वाना जीवाना तत्तदन्त करणोपाधिभेदकृततारतम्यसत्त्वेऽपि रजम्तमोऽनभिभू- तशुद्धसत्त्वप्रधानमायोपाधिकाना ब्रह्मादित्रिमूर्तीनाम् ईश्वरत्व- सर्वज्ञत्वनियामकत्ववशीकृतमायत्वानावृतचैतन्यत्वादीना तुल्य त्वेन एकस्यैव देवदत्तस्य कम्बलदुकूलादिपरिधानवत् एकस्यैव परमेश्वरस्य सत्त्वादिगुणमूर्तिपरिग्रहसभवेन मूर्तिभेदमात्रेण तर- तमभावासभवात् , ' यो ब्रह्मविष्णुरुद्राणा भेदमुत्तमभावत । साधयेदुदरव्याधियुक्तो भवति मानव इति शातातपम्मृत्या- दिवचन ब्रह्मादींना तरतमभावम्य निन्दितत्वाच्च । अस्तु वा विशेषणतारतम्याद्विशेष्यस्यापि तारतम्यम् । तथापिं नानुप- पत्ति , वक्ष्यमाणरीत्या विष्णुत्वशिवत्वोपाधिभूतविशेषणोत्कर्ष- प्रतिपादकवचनाना तुल्यतया विद्यमानत्वेन तयोस्तारतम्यस्य वक्तुमशक्यत्वात् । ननु 'यम्य मायागत सत्त्व शरीर स्यात्त मोगुण । सहाराय त्रिमूर्तीना स रुद्र यम्य तम साक्षाच्छरीर सात्त्विको गुण । पालनाय त्रिमूर्ती- ना स विष्णु स्यान्न चापर ॥ रजो यस्य शरीर म्यात्तदेवो त्पादनाय च । त्रिमूर्तीना तु स ब्रह्मा भवेद्विप्रा न चापर . स्यान्न चापर 11 तथा 11 द्वितीयः परिच्छेदः। अम्ति रुद्रस्य विप्रेन्द्रा अन्तः सत्त्वं पहिस्तमः । विष्णोरन्त- स्तमः सत्त्वं बहिरस्ति रजोगुणः ॥ अन्तर्बहिश्च विप्रेन्द्रा अस्ति तस्य प्रजापतेः । ततोऽपेक्ष्य गुणं सत्त्वं मनुप्या विव- दन्ति हि ॥ हरिः श्रेष्ठो हरः श्रेष्ठ इति हा मोहवैभवम् । सत्त्वाभावात्प्रजानाथं वरिष्ठं नैव मन्यते' इत्यादिस्कान्दवचन- पर्यालोचनया यत्र यत्र मात्त्विकत्वेन विष्णूत्कर्षप्रतिपादकवच- नानि सन्ति, तान्युक्तरीत्या पालनादिगुणपरत्वपराणीत्यभ्युप- गन्तव्यम् । यत्र यत्र तामसत्वेन शिवनिकर्षप्रतिपादकनन- नानि सन्ति, तान्युक्तरीत्या संहारादिगुणपरत्वपराणीत्यभ्युपग. न्तव्यम् । ततश्च विष्णुत्वशिवत्वोपाधिद्वयतारतम्यविचारे तमो- गुणोपाधिकविष्ण्वपेक्षया सत्त्वगुणोपाधिकशिवम्योत्कर्षः स्यादि- ति चेत् , नैवम् । 'सत्त्वं रजस्तम इति...सत्त्वतनोर्नृणां म्युः' इत्यादिभागवतवचनेऽपि सत्त्वं रजस्तम इत्यादिना प्रकृ- तिखरूपसत्त्वादिगुणत्रयमुपक्रम्य 'तैर्युक्तः...संज्ञाम्' इत्या. दिना एक एव मायोपहितः सत्त्वादिगुणत्रययुक्तः सन् स्थि- त्युत्पत्तिसंहारव्यापारार्थ क्रमेण विष्णुब्रह्मशिवसंज्ञां लभत इति प्रतिपाद्य · सत्त्वतनोतॄणां म्युः' इत्यादिना सत्त्वमयविन- हविशिष्टस्य विष्णोः सर्वातिशयज्ञापनात् सत्त्वरजम्तमो. गुणत्रयक्रमेण प्राप्तप्रायपाठानुरोधेन रजस्तमोमयविग्रहविशि- व्यासतात्पर्यनिर्णये टयोः ब्रह्माशिवयोः निकृष्टोपाधिकत्वात् निकर्षस्यावश्यमङ्गी- कर्तव्यत्वेन सत्त्वोपाधिकविष्णूत्कानीकारस्यापि तुल्यत्वात् । न च भागवतादिपुराणानां विष्णुपारम्यैदंपर्येण प्रवृत्त्वेन तत्प्रकरणे न हि निन्दान्यायेन तामसविग्रहविशिष्टशिवनिक- र्पोपपादनस्य विष्णुप्रशंसापरत्वादिति वाच्यम् । स्कान्दादिपु- राणानामपि शिवपारम्यैदंपर्येण प्रवृत्तत्वेन तत्प्रकरणेऽपि न हि निन्दान्यायेन तामसविग्रहविशिष्ट विष्णुनिकर्षापपादनस्य शिवप्रशंसापरत्वाविशेषात् । ननु भागवतादिषु तामसवि. प्रहविशिष्टत्वेन प्रतिपाद्यमानस्य शिवनिकर्षस्य 'कालमेघ- समच्छायः कन्थाशूलकपालधृत् । तेषामाविरभूच्छंभुः स्मय- मानमुखाम्बुजः इत्यादि ब्रह्माण्डपुराणवचनमनुसृत्य शिव- स्यावस्थान्तरपरिगृहीतनीलविग्रहविशिष्टत्वेन चरितार्थतया । स्फटिकसंकाशं चन्दलेखावतंसकम् । त्रिलोचनं चतुर्बाहुँ नीलग्रीव परात्परम् । ध्यायन्नित्यं सदा सोऽहमिति ब्रह्म- विदां वर' इत्यादि स्कान्दवचनपर्यालोचनया स्वाभावि कश्वेतविग्रहप्रयुक्तातिशयस्य सिद्धत्वादिति चेत् , न । स्का- न्दादिपुराणेष्वपि तामसविग्रहविशिष्टत्वेन प्रतिपाद्यमानस्य वि. ष्णुनिकर्षस्य 'आलोलतुलसीमालमारूढविनतासुतम्। ज्योति- रिन्दीवरश्याममाविरस्तु ममाग्रतः' इत्यादिपुराणवचनमनुसृत्य द्वितीय: परिच्छेदः। विष्णोरवसरान्तरपरिगृहीतनीलविग्रहविशिष्टत्वेन चरितार्थतया 'गोक्षीरामं पुण्डरीकायताक्षं चक्रान्जाढ्यं भूपणैभूपिताङ्गम् । श्रीभूमिभ्यामर्चितं योगपीठे ध्यायेद्देवं पूजयेत्पौरुषेण' इत्यादि बहुप्रमाणैः पुरुषसूक्तध्येयपुरुषवासुदेवनृसिंहध्यानादिषु म्वा- भाविकश्वेतविग्रहपरिग्रहप्रयुक्तातिशयस्य तुल्यत्वात् । प्रत्युत स्कान्दभागवतवचनतात्पर्यपालोचनया अन्तः सत्त्वबहिस्तम उपाधिविशिष्टशिवापेक्षया बाह्याभ्यन्तरसत्त्वोपाधि विशिष्ट विष्णू- स्कर्षस्यैव प्रतीयमानत्वात् ।। यदि 'अष्टमूर्तिरनेकात्मा सात्त्विकः शुद्धविग्रहः' इति अगस्त्योक्तशिवरहस्यवचनबलेन शिवस्यापि बाह्याभ्यन्तरसत्त्व- गुणोपाधिविशिष्टत्वमस्त्वित्युच्येत, तर्हि पूर्वोक्तरीत्या विष्णुशि- वयोर्विशेषणतारतम्यप्रतिपादकवचनानां तुल्यत्वेन हरिहरयोः साम्यापत्त्या अस्मदिष्टसिद्धिः ॥ न च उपधेयवदुपाधीनामप्यैकरूप्ये विष्णुरुद्रादिभेदव्यव- हारो नोपपद्यत इति वाच्यम् , लक्ष्मीपतित्वपार्वतीपतित्वादिवि. शिष्टविग्रहेण वा स्थित्यादिरूपव्यापारेण वा विष्णुरुद्रादिसंज्ञा- भेदप्रयोजकव्यवहारस्य व्यवस्थितत्वात् ।। नन्वेवं सति बाह्याभ्यन्तरसत्त्वोपाधिवशात्तुल्यत्वेन प्रतिपाः द्यमानविष्णुशिवापेक्षया 'रजो यस्य शरीर स्यात्तदेवोत्पादनाय .

व्यासतात्पर्यनिर्णय १ च । त्रिमूर्तीनां तु स ब्रह्मा भवेद्विप्रा न चापरः' इत्यादि पूर्वोदाहृतवचनरीत्या ब्रह्मणः सत्त्वसंवन्धमन्तरा बाह्याभ्यन्तर- रजोगुणविशिष्टत्वेन तम्य निकर्षापत्तिरिति चेत् , न; तुरीय- शिवम्यापि गुणसाम्यावस्थप्रकृत्युपाधिविशिष्टत्वेन हरिहरयोरिव केवलसत्त्वोपाधिविशिष्टत्वाभावेन रजस्तमोगुणशवलितसत्त्वोपा- धिप्रयुक्तनिकर्षम्य केनापि अनिवार्यत्वात् । न च बाह्याभ्यन्तरर. जोगुणोपाधिविशिष्टत्वाद्ब्रह्मणः सत्त्वगुणसंबन्धलेशाभावेन ब्रह्मा- पेक्षया गुणत्रयविशिष्टोपाधिकस्य तुरीयशिवस्य सत्त्वसंवन्धप्रयु- तातिशयम्य वक्तुमुचितत्वादिति वाच्यम् । गुणत्रयविशिष्टस्य तुरीयशिवम्य तमोगुणप्रयुक्तनिकर्षम्यैवावश्यभावेन तुरीयशि- वापेक्षया ब्रह्मणस्तमोगुणप्रयुक्तमालिन्याभावेन तथ्याप्युत्कृष्ट- त्वेन वक्तव्यत्वात् । न चेष्टापत्तिः । तुरीयशिवया- दिभि व्यष्टिगुणोपाधिकत्रिमूर्त्यपेक्षया गुणत्रयसपष्टिविशिष्ट- तुरीयशिवोत्कर्षम्यैवाङ्गीकारात् । तस्माद्विशेषणतारतम्यादीका- रानीफारपक्षयोरपि वशीहतमायत्यानावृतचैतन्यत्वादेरीश्वर- कोटिप्रविष्टानां प्रमादिनिम्तीनां मायोपहितविशेष्यस्वरूप- निष्ठत्वेन तत्र तारतम्योक्तिरयुषा 1 एवं च उतरीत्या तेषां ब्रह्मादीनां तरतमभायम्य बाधितस्वन उदाहतम्कान्द- बचनानां न प्रमादितिमूर्विचारसम्पप्रतिपादने सात्पर्यम् ।

द्वितीयः परिच्छेदः । किंतु अथातः संप्रवक्ष्यामि परात्परतरं पदम् । ततो- ऽधिकं परं तत्त्वं ज्ञानमानन्दमद्वयम्' इत्याद्युपक्रमोपसंहार- पर्यालोचनया निष्कृष्टरूपेण निर्विशेषब्रह्मप्रतिपादन एव ता- त्पर्यमित्यवगन्तव्यम् ॥ यदुक्तं विशिष्टं पदार्थान्तरमिति कृत्वा प्रमाणयलादुमावि- ग्रहविशिष्टम्यवाधिक्यमुच्यत इति, तदपि नोपपद्यते । विष्णु- शिवप्रतिपादकेषु सकल श्रुतिस्मृतिपुराणादिषु मुमुक्षूपास्यत्वज्ञा- नप्रदातृत्वादीनामुभयसाधारणत्वप्रतिपादनेन तयोस्तारतम्यक- रुपनमयुक्तमित्यस्य वक्ष्यमाणत्वात् । नन्वेवमपि यो ब्रह्माणं विदधाति पूर्व ... प्रपद्ये,' 'उमासहायं परस्तात्' इत्यादिश्रुतिभिः परमशिवस्य मुमुक्षपास्यत्वप्रतिपादनात् तम्य मोक्षप्रदान्त्वेन उत्कर्षः म्यादिति चेत्, सत्यम् । क्षीरोदार्ण- वशायिनं नृकेसरिविग्रहं योगिभ्येयं परं पदं साम जानीयायो जानीत सोऽमृतत्वं च गच्छति' 'अथ कस्मादुच्यते नमा- मीति यस्माद्यं सर्वे देवा नमन्ति मुमुक्षवो ब्रह्मवादिनश्च' 'आत्मैव नृसिंहो देवो ब्रह्म भवति । य एवं वेद । सोऽकामो निष्काम आप्तकाम आत्मकामो न तम्य प्राणा उकामन्त्यत्रव समवलीयन्ते। ब्रह्मैव सन्ब्रह्माप्येति' इत्यादिसिंहतापनीय- श्रुत्या सदा रामोऽहमित्येव तत्वतः प्रवदन्ति ये। न ते .. ।

व्यासतात्पर्यनिर्णये संसारिणो नूनं राम एव न संशयः ।। राम एव मुवि- ज्ञेयः सत्यानन्दश्चिदात्मक. । नमः पदं सुविज्ञेयं पूर्णानन्दैक- विग्रहम् ।। सदा नमन्ति हृदये सर्वे देवा मुमुक्षवः' इत्यादि- 'रामतापनीयश्रुत्या 'सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् । द्विभुजं वेणुमुद्राढ्य वनमालिनमीश्वरम् । गोपगोपाङ्गनोपेतं मुरद्रुमलताश्रयम् ॥ दिव्यालंकरणोपेतं रक्तपङ्कजमध्यगम् । कालिन्दीजलकल्लोलसङ्गिमारुतमेवितम् ॥ चिन्तयन् चेतसा कृ- प्णं मुक्तो भवति संसृतेः । कृष्ण एकोऽपि सन् बहुधा यो विभाति । तं पीठस्थं ये नु यजन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ नित्यो नित्यश्चेतनश्चेतनानामेको बहूनां यो विद- घाति कामान् । पीठस्थं ये नु यजन्ति विप्रास्तेषां सिद्धिः शाश्वती नेतरेषां ॥ यो ब्रह्माणं विदधाति पूर्व यो वै विद्यास्तस्मै गोपयति गायति स्म कृष्णः । तं देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वे शरणममुं ब्रजेत् । गोपालोऽहमिति भावयेत् स मोक्षम- इनुने म ब्रह्मत्वमधिगच्छति स ब्रह्मविद्भवति' इत्यादि गोपाल- तापनीयश्रुत्या 'शुद्धो देव एको नारायणी न द्वितीयोऽस्ति कश्चित् । य एवं वेद म विष्णुरेव भवति स विष्णुरेव भवति' इत्यादि नारायणोपनिषद्वचनेन 'अवजानन्ति मां मूढा मानुषी तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ।। मोपाशा द्वितीयः परिच्छेदः। मोधकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरी चैव प्रकृति मोहिनी श्रिताः । महात्मानम्तु मां पार्थ दैवी प्रकृतिमाश्रिता: भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ।। सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते' इत्यादिभगवद्गीतावचनैश्च विष्णोरपि मुमुक्षूपाम्य- त्वप्रतिपादनेन मोक्षप्रदातृत्वम्य सिद्धत्वात् ॥ न च “संसार- मोचकः साक्षाच्छिव एव न चापरः । अन्याश्च देवताः सर्वाः प्रणाड्यैव तु मोचकाः' इत्यादि स्कान्दवचनानुरोधेन परमशि- वस्य साक्षान्मोक्षसाधनत्वम् , विष्ण्वायुपासनम्य प्रणाड्या मो- क्षसाधनत्वमिति वाच्यम् । 'देवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते न मां दुप्कृतिनो मूढाः प्रपद्यन्त नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिताः' 'कामम्तैस्तैहतज्ञानाः प्रपद्यन्तेऽन्यदेवताः' * मद्भता यान्ति मामपि' 'ओमित्येकाक्षरं ब्रह्म' 'पुनर्जन्म न विद्यते' इत्यादि भगवद्गीतावचनानुसारेण विष्णूपासनस्यैव साक्षान्मोक्षसाधनत्वम् । शिवायुपासनम्य प्रणाड्या अर्थसाधन- स्वमित्यर्थम्याविशिष्टत्वात् । 'ब्रह्मविदामोति परम्' 'ब्रह्मविद्र- व भवति' 'नान्यः पन्था विद्यतऽयनाय' इत्यादिप्रबलश्रु. तिभिः ज्ञानम्यैव साक्षान्मोक्षसाधनस्वावगमेनोपासनामात्रस्य प्र.

२२ व्यासतात्पर्यनिर्णये . संसारिणो नूनं राम एव न संशयः ॥ राम एव सुवि- ज्ञेयः सत्यानन्दश्चिदात्मकः । नमः पदं सुविज्ञेयं पूर्णानन्दैक- विग्रहम् ।। सदा नमन्ति हृदये सर्वे देवा मुमुक्षवः' इत्यादि- 'रामतापनीयश्रुत्या 'सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् । द्विभुजं बेणमुद्राव्यं वनमालिनमीश्वरम् । गोपगोपानोपेतं सुरद्रुमलताश्रयम् ॥ दिव्यालंकरणोपेतं रक्तपङ्कजमध्यगम् । कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम् ॥ चिन्तयन् चेतसा कृ- प्णं मुक्तो भवति संसृतेः । कृष्ण एकोऽपि सन् बहुधा यो विभाति । तं पीठथं ये नु यजन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ नित्यो नित्यश्चेतनश्चेतनानामेको बहूनां यो विद- धाति कामान् । तं पीठस्थं ये नु यजन्ति विप्रास्तेषां सिद्धिः शाश्वती नेतरेषां । यो ब्रह्माणं विदधाति पूर्व यो वै विद्यास्तम्मै गोपयति गायति स्म कृष्णः । तं देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वे शरणममुं व्रजेत् । गोपालोऽहमिति भावयेत् स मोक्षम- इनुने म ब्रह्मत्वमधिगच्छति स ब्रह्मविद्भवति' इत्यादि गोपाल- तापनीयश्रुत्या 'शुद्धो देव एको नारायणी न द्वितीयोऽस्ति कश्चित् । य एवं वेद म विष्णुरेव भवति स विष्णुरेव भवति' इत्यादि नारायणोपनिषद्वचनन 'अवजानन्ति मां मूढा मानुषी तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ।। मोपाशा द्वितीयः परिच्छेदः । मोधकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृति मोहिनीं श्रिताः ।। महात्मानस्तु मां पार्थ दैवी प्रकृतिमाश्रिताः भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ सततं कीर्तयन्तो मा यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते' इत्यादिभगवद्गीतावचनैश्च विष्णोरपि मुमुक्षूपाम्य- त्वप्रतिपादनेन मोक्षप्रदातृत्वम्य सिद्धत्वात् ।। न च 'संसार- मोचकः माक्षाच्छिव एव न चापरः । अन्याश्च देवताः सर्वाः प्रणायैव तु मोचका.' इत्यादि म्कान्दवचनानुरोधेन परमशि- वस्य साक्षान्मोक्षसाधनत्वम् , विष्ण्वाद्युपासनम्य प्रणाड्या मो- क्षसाधनत्वमिति वाच्यम् । 'दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेता तरन्ति ते ॥ न मां दुप्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिता.' कामैम्तैम्तैहृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः' मद्भक्ता यान्ति मामपि' ‘ओमित्येकाक्षरं ब्रह्म' 'पुनर्जन्म न विद्यते' इत्यादि भगवद्गीतावचनानुसारेण विष्णूपासनस्यैव साक्षान्मोक्षसाधनत्वम् । शिवायुपासनस्य प्रणाड्या अर्थसाधन- त्वमित्यर्थम्याविशिष्टत्वात् । 'ब्रह्मविदामोति परम्' 'ब्रह्मविद्र- मेव भवति' 'नान्यः पन्या विद्यतेऽयनाय' इत्यादिप्रबलश्रु. तिभिः ज्ञानम्यैव साक्षान्मोक्षसाघनत्वावगमेनोपासनामात्रस्य प्र. . .

सप्तजन्मान्तरं नरः। तस्यैव तु प्रसादेन विष्णुभक्तिः प्रजायते ।। व्यासतात्पर्यनिर्णये णाड्या मोक्षसाधनत्वमित्यर्थस्यैव वक्तव्यत्वाच्च ।। नन्वेवमपि 'यां यां मूर्ति समाश्रित्य ब्रह्मभावनया जनाः । आराधयन्ति ते सर्वे क्रमाजानन्ति शंकरम् ॥ रुद्रस्य मूर्ति- माराध्य प्रसादात्कामवर्जिताः । अयलेनैव जानन्ति शिवं सर्वत्र संस्थितम्' इत्यादिस्कान्दवचनानुरोधेन शिवोपासनस्यैव सा. क्षाज्ज्ञानसाधकत्वम् । विष्णूपासनस्य शिवोपासनद्वारा ज्ञान- साधनत्वमिति चेत् , न; 'येषां त्वन्तगतं पापं जनानां पुण्य- कर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ जरा- मरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुः कृत्स्न- मध्यात्म कर्म चाखिलम् ॥ येऽप्यन्यदेवता भक्ता तश्च्यवन्ति ते' इत्यादिभगवद्वचनेन 'निराकृतत्वाच्छतियु. क्तिमानतो यथेन्दुभेदो दशदिग्भ्रमादयः । यावन्नपश्येदखिलं मदात्मकं तावन्मदाराधनतत्परो भवेत् । श्रद्धालरत्यूर्जितभक्ति- लक्षणो यस्तस्य दृश्योऽहमहर्निशं हृदि ।। रहस्यमेतच्छ्रुतिसार- संग्रहं मया विनिश्चित्य तवोदितं प्रियात्' इति श्रीरामवचनेन भास्करस्य तु यो भक्तः सप्तजन्मान्तरं नरः । तस्यैव तु प्रसादेन रुद्रभक्तिः प्रजायते ॥ शंकरस्य तु यो भक्तः वासुदेवस्य यो भक्तः सप्तजन्मान्तरं नरः । तस्यैव तु प्रसादेन तत्त्वेना- द्वितीयः परिच्छेदः । . वासुदेवे प्रलीयते' इत्यादि वामनपुराणानुसारेण च विष्णूपा- सनस्य साक्षाज्ज्ञानत्वम् , शिवायुपासनम्य तु विष्णूपासनद्वारा ज्ञानसाधनत्वमित्यर्थस्य तुल्यत्वात् ।। न च त्वं देवेषु ब्राह्मणोऽस्यहं मनुष्येषु ब्राह्मणो ब्राह्मणो व ब्राह्मणमुपधावत्युप त्वा धावामि' इति श्रुत्या शिवस्यैव ब्राह्मणोपास्यत्वं प्रतिपाद्यत इति वाच्यम् ; पूर्वोदाहृतनृसिंहगो- पालतापनीयादिश्रुतिभिः, 'किं पुनर्तामणाः पुण्याः' इत्यादि भगवद्गीतावचनैश्च विष्णोरपि ब्राह्मणोपास्यत्वमित्यर्थस्य समा. नत्वात् । तस्मात् शिवम्य तुरीयमूर्त्य भ्युपगमेऽपि स्वेच्छाक ल्पितसकलपरमेश्वरविप्रहेप्वनावृतचैतन्यत्वमुमुक्षूपास्यत्वज्ञानप्र- दातृत्वादिविशिष्टपरमेश्वरस्यैकरूपतया विद्यमानत्वेन तत्र तरत- मभावोक्तिरयुक्ता॥ किं च यथा प्रमाणयलेन शिवम्य तुरीयमूर्तिरभ्युपगम्यते, तद्वदेव विष्णोरपि तुरीयमूर्तिरभ्युपगन्तुं शक्यते । न च विष्णो- स्तुरीयमूर्तिसद्भावे प्रमाणाभाव इति वाच्यम् । ‘एको ह वै नारायण आसीत् । तत एते व्यजायन्त विश्वे हिरण्यगर्भोऽमि- र्यमवरुणविष्णुरुदेन्द्राः' इत्यादि पैझिरहस्यब्राह्मणेन 'नारायण कारणपुरुषम्' इत्यादि नारायणोपनिषद्वचनेन च, 'जागरिते ब्रह्मा स्वप्ने विष्णुः सुषुप्तौ रुद्रस्तुरीयमक्षरं स आदित्यो विष्णु- : . .

व्यासतात्पर्यनिर्णये श्च शिवश्च' इत्यादि ब्रह्मोपनिषद्वचनेन, 'यो वै नृसिहो देवो भगवान् यश्च ब्रह्मा यश्च विष्णुर्यश्च महेश्वरस्तम्मै वे नमो नमः' इत्यादि नृसिंहतापनीयोपनिषच्छृत्या, 'यो वै श्रीरामचन्द्रः स भगवानद्वैतपरमानन्दो यो ब्रह्मा विष्णुरीश्वर- म्तस्मै वै नमो नमः' इत्यादि रामतापनीयोपनिपच्छ्रुत्या, 'अ- धमात्रात्मकः कृष्णो यस्मिन्विश्वं प्रतिष्ठितम्। कृष्णात्मिका ज- गत्क: मूलप्रकृतिरुक्मिणी' इत्यादिगोपालतापनीयश्रुत्या च तुरीयनारायणनृसिंहश्रीरामगोपालानामपि प्रतिपादनात् ।। न च उक्तपैङ्गिरहस्यब्राह्मणादिषु नारायणादीनां मायोप- हितब्रह्माभेदाभिप्रायेण तत्र नारायणादिशब्दप्रयोग इति न तु- रीयनारायणप्रतिपादनमिति वाच्यम्; अथर्वशिखादिप्वपि शि- वम्य मायोपहितब्रक्षाभेदाभिप्रायेण शंभुशिवादिप्रयोगोपपत्तेस्तु- ल्यत्वात् । यदि चाथर्वशिखादिपु विरोधाभावाजगत्कारणब्रह्म- ण एवोपासनार्थ शंभुशिवादिशब्देन तुरीयशिवमूर्तिः प्रतिपा- द्यत इत्यभ्युपगम्यते, तर्हि पैदिरहम्यब्राह्मणादिबपि विरोधा- भावेन जगत्कारणब्रह्मण एवोपासनार्थ नारायणनृसिंहादिशब्दै- म्तुरीयनारायणादिमूर्तयः प्रतिपाद्यन्त इति प्रकृतेऽपि दीयतां दृष्टिः। ततश्च उक्तसकलप्रमाणानामविरोधमिच्छद्भिरच्छमनि- भिर्मात्सर्यमुत्सार्य · चिजडाना तु यो द्रष्टा मोऽच्युतो ज्ञानवि.

८७ द्वितीय: परिच्छेदः । प्रहः । म एव हि महादेवः स एव हि महादरिः ॥ यस्त्वां टेष्टि स मां द्वेष्टि यम्त्वामनु म मामनु । आवयोरन्तरं नास्ति शब्दै- रथैर्जगत्पते ॥ नामानि तव गोविन्द यानि लोके महान्ति च । तान्येव मम नामानि नात्र कार्या विचारणा ।। शिवाय विष्णु- रूपाय शिवरूपाय विष्णवे । यथान्तरं न पश्यामि तथा मे म्वम्तिरायुपि' इत्यादिश्रुतिभारतम्कान्दादिबहुप्रमाणानुसारेण सकलवैदिकसंमतभगवत्पादाभिमतकेवलाद्वैतमार्गमेवानुमृत्य है- रिहरयोरर्थतः शब्दतचाभेदमेवानीकृत्य विष्णूत्कर्षप्रतिपादकानां भिवोत्कर्षप्रतिपादकानां च सकलश्रुतिस्मृतीतिहासपुराणादीना- मविरोधः समर्थनीयः । तस्मात्तुरीयमूर्त्यनभ्युपगमपक्षे ब्रह्मवि- प्णुरुद्रादिगुणमूर्तिप्वनुम्यूतः परमेश्वर एक एवेति नोपाम्यदे- वेषु तरतमभावकल्पना युज्यने । अन्यथा एकस्यैव परमेश्वरम्य तरतमभावाभ्युपगमे नानात्वापत्त्या यतो वेत्यादिकारणैकत्व- योधकश्रुतिविरोधापत्तेः प्रागेवोक्तत्वात् । किं च मन्त्रशास्त्रे ब्रह्मरुद्रविष्णुगौरीसरस्वतीलक्ष्म्यादीनामीश्वरभाव प्रतिपाद्य यथा. भक्ति प्रधानतयोपासनविधानेन तच्छास्त्रविरोधापत्तिश्च । तदुक्तं मन्त्रशास्त्र एकः सर्वेश्वरो प्रान्त्या दृश्यते भिन्नवत्सदा । घटाकाशमठाकाशभेदेन तु यथा नभः ॥ भोगमोक्षप्रदो देवः परमात्मा जगन्मयः । नानोपास्यन्ति योगीन्द्रास्तमेवानन्दवि.

८८ व्यासतात्पर्यनिर्णये ग्रहम् ॥ महादेवो वासुदेवः शिवो विष्णुर्हरो हरिः । रुद्रो वि- रिचिः पाकारिरित्येतैः शब्दितः पुमान् ॥ प्रकृतिर्मोहिनी विद्या दक्षकन्यादिजा रमा । वाणी रुद्रागिरा काली गीस्तारा च जगत्प्रसूः ॥ गायत्री ब्रह्मविद्येति दैवतैका हि शब्दिता । एक- मेव परं ब्रह्म पुंस्त्रीरूपविभागतः ।। द्विधाभूतं तयोरेकमुपास्य सुखमाप्नुयात्' इति ॥ ननु नझविष्णुरुद्राणामीश्वरकोटिप्रविष्टत्वे परस्परमुपास्यो- पासकभावप्रतिपादकश्रुतिस्मृतीतिहासपुराणादीनां का गतिरिति चेत् , उच्यते । 'मया प्रमाणं हि कृतं लोकस्तदनुवर्तते । न हि देयोऽस्ति कश्चिन्मे परः पाण्डवनन्दन ॥ इति संचिन्त्य मनसा पुराहं विश्वमीश्वरम् । पुत्रार्थमाराधितवानहमात्मानमा- स्मना' इति मोक्षधर्मे पार्थ प्रति भगवद्वचनेन अवाप्तमकल- कामस्य श्रीकृष्णस्य शिवोपासनं लोकानुग्रहार्थमित्यभिगम्यते । अनेन न्यायेन शिवस्यापि कचिद्विष्णूपासनं लोकानुग्रहार्थमि- त्येव सिद्धम् । ततश्च शिवविष्ण्वादिपरस्परोपासनप्रतिपादक- वचनानां सर्वेषां तादृशप्रतिपादनद्वारा तत्तन्मूर्युपासनावश्यक- तव्यतापरत्वमेव । इतरथा ईश्वरकोटिप्रविष्टानां ब्रह्मादीनां स्व. योजनार्थमेव परम्परोपासनमित्यभ्युपगमे परमेश्वरखं नित्यमु- क्तत्वापहतपाप्मत्वादिविरोधापतेः ॥

द्वितीयः परिच्छेदः । नन्वेवं सति शिवतत्त्वविवेकब्रह्मतर्कस्तवादिनन्थेषु विष्णोः शिवापेक्षया निकर्षप्रतिपादनदर्शनेन रामाधवतारेषु कौसल्या- दिगर्भवासशोकमोहादिजीवलिङ्गदर्शनेन च विष्णोर्जीवभाव एव सदभिमत इति प्रतीतेस्तद्विरोधप्रसन्नः इति चेत्, न । तद्र- न्थकर्तृभिरप्पय्यदीक्षितचरणैः प्रतिवादिनिराकरणाय विष्णो शिवापेक्षया निकर्षप्रतिपादनेऽपि वस्तुतस्तत्र तात्पर्याभावेन तत्प्रतिपादनस्य नहिनिन्दान्यायेन शिवोपासनावश्यकर्तव्यताप- रत्वात् । अत एव तैरेवोक्तं मध्वमतविध्वंसने-- 'शिवं वा विष्णुं वा यद्यभिदधति शास्त्रस्य विषयं तदिष्टं प्राचं नः सगुण- मपि तद्रम भजताम् । विगेधो नातीव स्फुरति नहिनिन्दा- सूत्राणामर्थान्तरमपि भवद्वाक्यमुचितम्' । शि- वकर्णामृतेऽपि---'यत्तु नारायणपरं ब्रह्मेति तदपि नारायणम्य शिवाभेदपक्षे न किंचिद्विरुध्यते, भेढपक्षे तु नारायणस्य परव- झभावनासिद्धतद्भावोपवर्णनतया ज्ञेयम्' इति ॥ शिवानन्दल- हया सिद्धान्तलेशसंग्रहेऽपि न च परमेश्वरस्य रघुनाथाद्यवतारे तपस्वित्वदुःखसंसर्गादिश्रवणान्मुक्तानामीश्वरभावे पुनर्बन्धाप- त्तिः । तस्य विप्रशापामोपत्वादिस्वकृतमर्यादापरिपालनाय कथं- चिद्धृगुशापादिसत्यत्वं प्रत्याययितुं नरवदीश्वरस्य तदभिनयमा. त्रपरत्वात् । अन्यथा तस्य नित्यमुक्तत्वनिरवग्रहस्वातन्त्र्यसमा नयविदां न व्यासतात्पर्यनिर्णये भ्यधिकरराहित्यादिश्रुतिविरोधात्' इति । तस्माद्यासाभिमतकेव- लाद्वैतरूपसच्चिदानन्दाखण्डनिर्विशेषपरब्रह्मण एवं मायोपहिता- मूर्तरूपेण जगजन्मादिकारणत्वरूपेण ब्रह्मविष्णुरुद्ररामकृष्णा- दिरूपेण च मुमुक्षूपास्यत्वं तत्प्रसादादेव ब्रह्मज्ञानप्राप्तिश्चेति सबै रमणीयम् ।। व्यासतारपर्यनिर्णायिपूर्णचन्द्रप्रभामिमाम् । समाम्बाधाभिनन्दन्तु सन्मनीपिचकोरकाः ।। बादरायणसिद्धान्तकेवलाद्वैतडिण्डिमः । उद्घोप्यता म विद्वद्भिहद्भेदे भेदवादिनाम् ॥ इति श्रीमद्वेदान्तसिद्धान्तरहस्यार्थप्रकाशनधुरधरेण श्रीमदय्यण्णदीक्षितेन विरचितः व्यासतात्पनिर्णयः ममाप्त ॥ HTIYA E BORIBAY- 1840

Vyasatatparyanirnay

Author
Dikshit.,shrimad Ayyan
Title
Vyasatatparyanirnay
File name
Vyasatatparyanirnay
Text
OCR done
Citation
1910
Published
2012/08
Publisher
Vanivalas Mudra Yantralay
Language
Sanskrit
Pages
97
Library
Bharatiya Vidya Bhavan Library, Mumbai
DLI number
311531
Barcode
99999990320409.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
psaOqo1Gubn
Download PDF

Vyasatatparyanirnay