S.V.Digital Library, Tirupati

Nyayamrithaha Sudha Chandrika

04.10.04

PDF Proofread

Front matter

--
are
॥ अथ श्रीमन्न्यायसुधा शेषवाक्यार्थचन्द्रिकाटिप्पणीसमेता प्रारभ्यते
॥ द्वितीयाध्यायस्य तृतीयः पादः॥
-

म
श्रीमदानन्दतीर्थभगवत्पादाचार्याः ।
Magat
(श्रीमन्मध्वाधार्याः)
*

कायतभक्ती ॥ श्रीगुरुभ्यो नमः ॥ हरिः ॥ अ०---अधाशेषसमाम्नायविरोधापाकृति प्रशुः ॥ करिष्यन्नधिदैवाधिभूतजीवपरात्मनाम् ॥ स्वरूपनिर्णयायैव वचनानां पर- स्परम् ॥ पादेनानेनाविरोधं दर्शयत्यमितद्युतिः ॥ अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम् ॥ एतत्सर्वं ततः सायं द्वारवै- य्यर्थ्यमेव च ।। दृष्टयुक्त्यनुसारित्वोक्तान्याविरोधतः । प्रसिद्धनामस्वीकारो बहुवाक्यानुवर्तिता ॥ लोकदृष्टानुसारित्वं जीव- साम्यमनादिता । तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा ॥ उत्पत्तिमत्वं स्वगुणाननुभूत्यल्पकल्पने ॥ नानाश्रुतिश्च वैचिव गुरुतयः पूर्वपक्षगाः ॥ व्यवस्थाऽनुपपत्तिश्च स्वातन्यमनुसारिता ॥ मुण्यता शक्तिमत्वं च वैकष्यं सर्वसङ्ग्रहः । गत्लादिविक्सिच सर्वमानविरोधिता। अभीष्टासिद्धिसुध्यक्ती शास्त्रासिद्धिविपर्ययः ॥ विशेषकारण लेति सिद्धान्तस्यैव लाधिकाः॥ सु०--न वियदश्रुतेरित्यादि पादमातिषाचं ससङ्गतिक दर्शयति ॥ अवेति । पशुः सूत्रकारोजेन ज्याविख्यासिताया बुद्धिसन्निहितेन तृतीयेन पादेन वैदिकानां वचनाला परस्परविरोषं विरोधाभावं दर्शयतीति प्रतिपाद्यकथनम् । अस्मान्तपिलक्षण सर्वानपि वेदविरोधान्परिहर्तु द्वितीयोऽयमध्याय आरब्धः । वैदिकानां वचनानां परस्परविरोधोऽपि तदन्तर्भूत एनेस्थतस्वदपाकरण- मिह सङ्गतमेवेति । आनन्तर्यलक्षणां सङ्गति दर्शयितुमथेत्युकाम् । अवसरमासौ प्राधान्यायुक्तिविरोधपरिहारस्य शापध्ये तत्मपन्या त्मकत्वेन समयविरोधपरिहारस्य तदानन्तर्ये सति श्रुतीनां परस्परविरोधपरिहारस्य भवत्ययमवसर इति । बन्येनं तात्य पादस्य चतुर्थपादा दो न स्यात् । तत्रापि वेदवचा परस्परविरोषस्यापाक्रियमाणत्वादित्यत उक्तमधिदैवेति । अधिदैवान्यन्यकतामाभि- मानिदेवताः। अधिभूतानि कार्यकारणोपेतानि वियदादिभूतानि। इदमुक्तं भवति । यद्यपि पादद्वये वेदवाक्याना परस्परविरोष एव निरस्यते । तथाऽपि विषयभेदाभेदो भविष्यति । इहाधिदेवादिविषयवाक्यानां चार्थे त्वध्यात्मविषयाणामिति । न चैवमत्स्य पाद. स्यानेकविषयत्वेनानेकत्वापत्तिः । अध्यात्मेतरविषयत्वेनैकत्वोषपत्तेरिति । अत्रापि क्रमनियमे हेतुमाचार्य एव वक्ष्यति । ननु च ०टि०० ११॥ न वेदवाक्यानां परस्परविरोधपरिहारः किमर्थः । मिथो विरुद्धानां प्रामाण्यानिययावत्मागाधनिथयार्थ इवि चेन एवं सत्यस्य तर्क- शास्त्रत्वप्रसङ्गेन मीमांसात्वव्याघातादिति । उच्यते।ब्रह्मणोऽशेषजगत्कारणत्वानिश्वयो वशेषजगत्स्वरूपनिणये तस्य कार्यत्वादिनिर्णये श०० রিও च सति स्यान्नान्यथा । न च तद्विषयाणां वाक्यानां मिथो व्याघाते तत्वस्मनिर्णयो भवति । सोऽधिदैवादिवस्तुसवावधारमार्थ ०१ एवायं मिथो विरोधपरिहारः । तदिदमप्युक्तं स्वरूपनिर्णयायैवेति । ननु किं कतिपयवचनानामन्योन्यविरोधः परिहियते उस साई- षाम् । नाद्यः । वैय्यात् । तत्रैव वचनान्तरविरोधसद्भावेनानिर्णयतादवस्थ्यात् । न द्वितीयः वेदवाक्यालाणनन्तत्वेन ज्ञातुमनक्य- वादित्यत उक्तममितद्युतिरिति । सर्वज्ञ इत्यर्थः । एतत्पादाधिकरणपूर्वपक्षसिद्धान्तयुक्त्तीः सपशाह ।। अनुभूतीति । दि०-अथेत्यादिभाष्यानीमाशङ्य पादप्रतिपाद्यसङ्गस्योरन्यतरमात्रप्रदर्शकत्वानुपपत्तेरुभयोपदर्शकतामाश्रित्य तत्सार्थक्यमाह ॥नेति।। पादप्रतिपाद्यमिति । पूर्वोत्तरपादाभ्यां भेदस्य स्वस्मिन्नेकवाक्यत्वस्य च सिद्धय इति शेषः । ससङ्गतिकमिति । पाइल्याध्यायस्य च या सड्म- तिस्तत्सहितमित्यर्थः । उभयप्रदर्शकत्वमपि न सर्वस्य किन्त्वंशभेदेनेत्यभिप्रेत्य तद्विवरणपूर्वकमंशभेदेन तदाह ॥ प्रचरित्यादिना । तृतीयपादस्य पूर्वत्राप्रकृतत्वात्प्रकृतपरामर्शेनेदंशब्देन तत्परामर्शानुषपत्तिमाशय न ग्रन्थप्रकृतत्वमेव प्रकृतत्वं किन्तु बुद्धिप्रकृतत्वमेव ग्रन्थप्रकृतत्वं तु तलिङ्ग- मेव । ततश्च तृतीयपादस्य बुद्धिप्रकृतत्वाद्युक्तस्तस्येदंशब्देन परामर्श इत्यभिप्रेत्य तदुपपादयति ॥ व्याविख्यासिततयति । यद्यपि वचनाना- मित्यस्य न नबर्थेन सम्बन्धो घटते बिरोधश्च समासे गुणभूतस्तथाऽपि बुद्धया विविक्तेन विरोधेन सम्बन्धो नानुपपन इत्याशयेनाह ॥ बचनानां परस्परमविरोध इति । नमोऽभावाद्यनेकार्थत्वात्तावदर्थतायाश्च प्रकृतेऽयुक्तत्वादभिमतमर्थमाह ॥ विरोधाभावमिति।अत्र च नविशिष्टेन विरोध पदेनाभावविशेषस्य लक्षणयोत्तरपदार्थप्राधान्यलाभात्तरपुरुषत्वोपपत्तिः । यद्यपि क्वचिदुत्तरपदार्थप्राधान्येऽपि तत्पुरुषादर्शनादसत्यप्युत्तरपदार्थप्राधान्ये तदर्शनात्तस्योत्तरपदार्थप्राधान्यासिद्धया न लक्षणाश्रयणमर्थवत्तथाऽपि तस्यौत्सर्गिकतया क्यचिद्बाधकेनापवादेऽप्यन्यत्राविकलतया लक्षणाश्रयणस्या- वश्यकत्वात् । वस्तुतस्तु तत्पुरुषमात्रस्य तदनिवमेऽपि नस्तत्पुरुषस्योत्तरपदार्थप्रधानताया भाष्यादिसिद्धत्वेनास्य च तत्पुरुषत्वेनोत्तरपदार्थप्राधान्य H मावश्यकर्मवति लक्षणाश्रयणमर्थवत् । यदत्र वक्तव्यं तदविरोधोऽत्र साध्यत इत्येतद्ग्रन्थव्याख्यानावसर एवोक्तमिति तत एव अतिपतिया ॥ अन्तर्भावति । अध्यायान्तर्भावत्यर्थः । अशेषपदस्य समाम्नायविशेषणतायां विरोधे साकल्यालाभेन सकलविरोधपरिहारत्य द्वितीयाध्यायात्वा- लाभात्तलाभाय विरोधविशेषणतामाश्रित्य योजयति ॥ अशेषाश्च त इत्यादिना । तर्हि युक्तिसमयविरोधयोः पूर्वमपाहतस्पेन मनिप्रवासा- वास्करिष्यन्निति कथमत्राशेपसमाम्नायविरोधापाकृतभविष्यत्त्वोक्तिरित्यतो भवेदेवं कथन्विबदि करिष्यनितीय भविष्यत्त्वोक्तिः पादोषमतमनापेक्षया स्यान्न चैवं किं तबध्यायोपक्रमसमयापेक्षयैव । ततश्चाशेषविरोधापाक कृतेरेतत्पादोपक्रमसमयापेक्षया भविष्यवाभावेऽप्यध्यायोपासमयापेक्षा भाद, व्यस्वान्नानुपपत्तिरित्याशयेनाह ॥ करिष्यनितीति । अन्तविलक्षणां सङ्गतिमित्येतदेव प्रपञ्चयति ॥ सूत्रकृतति ।। आनलायति । पाद- द्वयानन्तयेत्यर्थः ॥ प्राधान्यादिति । सर्वेषामपि विरोधानां युक्त्युपजीव्यत्वेन तद्विरोधस्य प्रबलत्वात्प्राधान्यमिति भावः तत्पश्चात्यकत्येति। इतरेषां चानुपलब्धेरिति सामान्यतो निराकरणं समयानां कृतं विशेषतो निराकरोत्यस्मिन्पाद इति भाप्योक्तेरिति भावः । पिलेवा पति विषये गताद्यर्थे वर्तमानस्याधिशब्दस्य गतिस्वाभावेऽपि प्रथमान्तेन दैवशब्देन कुगतिपादय इत्यत्र प्रादिग्रहणादधिगतानि दिवान्यापिनयामति प्रावित समासः । योग्यतयाऽव्यक्तादीनां विषयतया सम्बन्ध इत्यभिप्रेत्य तत्तात्पर्यमाह ॥ अध्यक्ताधभिमानिदेवता इति । समाधान प्रादि- समासो ग्रन्थकृतोऽत एव बहुवचनप्रयोगः । अधिभूतेत्यत्राप्यधिगतानि भूतानीति पूर्ववत्पादिसमासं योग्यतथा कार्यकारणयोर्विकाका सम्बन्ध चाभिप्रेत्य तत्तात्पर्यमाह ॥ कार्यकारणोपेतानि वियदादिभूतानीति । नन्वेवमपि न चतुर्थपादाझेदसिद्धिः । अधिदेवाचकविषयत्वेनेकपाद- स्वानुपपत्तिश्चाधिकेत्यत आह ॥ इदगुक्तं भवतीति । विषयभेदमेव दर्शयति ॥ इति । इतीदमिति पूर्वेणान्वयः । ननु तथाऽपादावध्यारो तरविचारोऽनन्तरमध्यात्मविचार इति क्रमनियमे हेतोरभावात्पादनमो न स्यादित्यत आह ॥ अनापीति । अध्यारोतरविषयतिविरोधपरिवार ज्ञानस्य पूर्वस्वमध्यात्मविषयश्रुतिविरोधपरिहारज्ञानस्य चरमत्वमिति क्रमनियोऽध्यात्मेतरविचारस्य बन्धमोक्षयोरन्तरङ्गत्वापावरूमधामविवारत्व तत्रान्तरङ्गत्वरूपं च हेतुं तस्य सन्निहितत्व इत्यादिना तृतीयस्य तृतीये आचार्य एव वक्ष्यतीत्यर्थः ॥ तर्कशास्त्रत्वासनेनेति । प्रमाणन्याय, ११ सुटि ॥२॥ अ०१ ब सच्छिक्षा क्रियते तर्कशाम्यत इति वचनादिति भावः । अ०-॥ ॐ न वियदश्रुतेः ॐ ॥ प्रकृतिः पुरुषः कालो वेदास्तदभिमानिनः ॥ महदाद्याश्च जायन्ते पराधीनविशेषिता । इदं सर्व ससर्जेति जनिमत्त्वमिहोदितम् ॥ शेचं सु०-|| ॐ न वियदश्रुतेः ॐ ॥ अत्राधिकरणेऽनादिर्वाध्यमाकाश इत्यादिश्रुतीनां गौणत्वयात्मन आकाशः सन्मूख द्वितृ० इत्यादिश्रुतीनां मुख्यत्वमुपादाय वियत उत्पत्तिः समर्थिता । तत्र वियत्पदं नाकाशमात्रपरं किन्नाम । अथ ह बाब नित्यानि पुरुषः प्रकृतिरात्मा काल इत्यादिश्रुतिविगानविषयाणां परमात्मातिरिक्तानां प्रकृत्यादीनामुपलक्षणार्थ ज्ञातव्यमित्याशयवानाह । प्रकृति रिति । प्रकृतिरचेतना पुरुषो जीवस्तदभिमानिनः प्रकृत्याधर घिभिमानिनः । महदाचा इति महदहङ्कारमने न्द्रियभूतमूक्ष्मतन्मात्रा. युच्यन्ते । प्रकृतस्योत्पत्त्यसम्भवस्य नेति प्रतिषेधे लब्धमर्थमाह ॥ जायन्त इति । अयमभिसन्धिः । न बादत्मकल्यादयो भन्स- रहिता एवाभ्युपग ( म्यत ) ता इति युक्तम् । प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः । यावद्विकारन्तु विभागो लोकयदि- त्युक्तानां प्रतिज्ञाहान्यादीनामत्रापि साम्यात् । अन्यथा तेषामनैकान्तिकत्वापातात् । नाप्यविगीतजन्यानः । श्रुतिविमानस्य एशि- तत्वात् । न चाधिकरणान्तरं तत्परमस्ति । तस्मादत्रैव वियत्पदेन तेषामुपलक्षणं युक्तम् । मातरिश्वप्रभृतिषु पुनरविकाबलानिरा- सायाधिकरणान्तरारम्भ इति । इहाकाशस्योक्तं जन्म घटादेरिवाभूत्वाभवनलक्षणमिति केचिदास्थिताः । चिराकरिष्यन्वयन तावदाह ॥ पराधीनेति । आत्मन आकाशः सम्भूतः स इदं सर्वमसूजतेत्यादिश्रुतिं विभक्तत्वादियुक्ति चाश्रित्य यदिशाधिकरणे वियतो जनिमत्त्वमुदितं तत्पराधीनातिशयलाभलक्षणं प्रतिपत्तव्यम् । अपूर्वविशेषोपजनने हि विशिष्टाकारोपजनोऽवश्यम्भावी विशि॥२॥ टाकारश्च वस्तुस्वरूपाभिन्न इति तस्यैवासावुपजनो भवति । देवदत्तः शरीरी जातो विद्वान् जात इति घटा संयुक्तो जातो विभक्तो जात इति चावस्थितस्वरूप एव वस्तुनि विशेषावाप्तिमात्रेण जननव्यवहारो दृश्यत एव । ननु परिणामवादे घटादेरप्येपैथोत्पत्तिर्यदय- न स्थितस्वरूपस्यैव मृदादेरप्याकारान्त ( रावाप्तिः ) रतापत्तिः । परैरपि परिणामवाद एवाङ्गीकृतो नारम्भवादः । अतो विवादाभा. * वाड्यर्थोऽयमारम्भः । यथा न व्यर्थस्तथाऽऽचार्य एव विवादविषयं स्पष्टयिष्यति । अत्रेदं सर्व ससर्जेति शु (त्याधुदा) त्युदाहरणं , श्रुत्यादावप्येवमेव जन्म व्याख्येयमिति ज्ञापनार्थम् । यच्च वियत्पदं प्रकृत्याधुपलक्षणपरमित्यभिप्रेतं तत्रोक्तरीत्योपपतिसूचनार्थ चेति । परोक्तरीत्या घटादिवदभूत्वाभवनलक्षणैवोत्पत्तिर्वियतः श्रुतिसूत्रविवक्षिता किन्न स्यादिति चेदत्र पृच्छामः । आकाशशब्देन किं विवक्षितं परेषां ( किं ) वैशेषिकादिवदवकाशमात्रमुत बाबानामिव मूर्ताभावः । टि०-ॐ न वियदश्रुतेः ॐ॥ इत्यादिश्रुतीनामित्यत्रादिशब्देन यावद्ब्रह्म विष्ठितं तावती वागित्यादिश्रुतेः परिग्रहः। ननु महदादीनामनित्यतया प्रसिद्धत्वानोक्तश्रुतिविगानविषयत्वमभ्युपगन्तुं शक्यमित्यत आह।। महदाद्या इतीत्यादि । सूक्ष्मशब्दः पूर्वोत्तरेण सम्बध्यते । तथा च महदादिभूतान्तानां यान्युपादानरूपाणि सूक्ष्माणि यानि च सूक्ष्मभूतानि तन्मात्राणि तान्येवात्र महदादिशब्दवाच्यतया विवक्षितानि तेषां च प्रकृतिशब्दवाच्यत्वादुक्तश्रुति- - विगानविषयत्वमुपपन्नमेव। प्रकृत्याद्यभिमानिनामपि श्रौतप्रकृत्यादिपदवाच्यतया विवक्षितत्वादुक्तश्रुतिविगानविषयत्वमेवेत्यवगन्तव्यम्। ननु प्रकृत्यादीनां जन्मराहित्यस्यैव वा जन्मवत्त्वेऽप्यविगीतजन्मत्वस्य वा विगीतजन्मत्वेऽपि वाऽधिकरणान्तरेणैव तेषां भगवज्जन्यत्वसिद्धिसम्भवाद्वियत्पदस्याकाश- मात्रपरत्वस्यैवोपपन्नत्वान्न प्रकृत्याद्युपलक्षणत्वमाश्रयितुं युक्तम् । उपलक्षणत्वे च मातरिश्वप्रभृतीनामपीहैवाधिकरणे भगवज्जन्यत्वस्य निश्चितत्वात्तदेतेन मातरिश्वेत्यधिकरणान्तरानारम्भः स्यादित्यत आह ॥ अयमिति । इतीत्यस्येत्ययमिति पूर्वेण सम्बन्धः ॥ केचिदिति । मायावादिन इत्यर्थः ॥ स्पष्टयिष्यतीति । स्थूलताभवः पूर्वशब्दविलोपश्चेत्यादिनेति शेषः । अयमर्थः । द्विविधस्तावद्विकारो भविष्यति विशेषावाप्तिर्विशेषपरिवर्तश्च । तत्र विशेषावाप्ति म धर्मिणस्तादवस्थ्ये सति धर्ममात्र एव परिवर्तः । अत एव न पूर्वशब्दविलोपो नापि शब्दान्तरापत्तिः । यथा श्यामत्य फलस्य पीतत्वापत्तिः । तत्र हि धर्मिणस्तादवस्थ्यं पीतत्वेऽपि फलव्यवहारानिवृत्तेः । श्यामत्वापगमेन सौरातपादिवशात्पीतत्वमुत्पद्यते । विशेषि- विपरिवर्तस्तु धर्मिस्वरूपस्यैव परिणामः । अत एव पूर्वशब्दविलोपः शब्दान्त न्तरापत्तिश्च । यथा क्षीरस्य दधिभावः । अत्र हि न धर्मिणस्तावस्थ्यं दधित्वापत्तौ क्षीरव्यवहारानुपलम्भात्किन्तु धर्मिभूतं क्षीरमेवातश्चनादिवशाइधिभूतम् । अत एव तत्र पूर्वशब्दविलोपः शान्तरापातिक । रास धर्मिणस्तादवस्थ्ये सति धर्ममात्रपरिवर्तरूपविकारस्याकाशेऽस्माभिरङ्गीकृतत्वेऽपि घटादिसाधारणो यो धर्मिस्वरूपस्यैव परिवरूपो विकार आकाशे परेणाभ्युपगम्यते नासावस्माकं तत्र सम्मत इति स एव विवादविषय इति ।। उक्तरीत्यति । प्रतिज्ञाहान्यादीनागनापि साम्यारिनतरीलगणः । सुगंटे० शे०० oিo अ०१ अ०---अवकाशमात्रमाकाशः कथमुत्पद्यतेऽन्यथा ॥ यधनाकाशता पूर्व किं मूर्तनिबिडं जगत् ॥ भूतलम्यूर्णता और चला काशता भवेत् ।। मूर्तद्रव्याणि चाकाशे स्थितान्येव हि सर्वदा ।। सु०---आचं दूषयति ॥ अवकाशमानमिति । अन्यथा पराधीनविशेषाप्तिजन्मत्यनङ्गीकृत्याभूत्वामान पत्नीलारे- वकाशमात्रमाकाश इति चाङ्गीकारे कथमसावुत्पद्यते । तस्योत्पचिनोपपद्यत इति यावत् । सोपादाना हि स (वा) सरिदेश न चाकाशोत्पत्तावुपादानमस्ति । न च ब्रह्मण उपादानत्वमुपपद्यत इति भकृत्यधिकरणे निर्दिष्टम् । यस वोपविलय भागमान भाव्यम् । न चाकाशस्य प्रागभावः सम्भवति । अनुपपामतीतिकत्वात् । अभावो हि प्रतीयमानोऽस्यामेति प्रतीयते मातु निक्षत्रयः । न चाकाशाभावस्याश्रयप्रतीतिरुपपद्यते । यदेवेइति निर्दिश्यते तस्यैवाकाशत्वात् । उपादानाशितायाववादेऽपि सदभावासपात- मतीत्युपपत्तिः । तथा च श्रुतिः । अभावो हि प्रदेशस्य न बत्राभाव इत्यपीति अनक्काशरूपं जलवाकाशस्य पूर्वावस्थामाणभावशो- च्यत इत्यपि ब्रह्मणोऽनुपादानत्वेन प्रत्युक्तम् । प्रतियोग्याश्रय एवाभावाश्रयः । न चाकाशस्याश्रयोऽस्तीति तदभावोज निराश योऽस्त्विति चेन्न । निराश्रयत्वे कार्यत्वानुपपत्तेः । किश्च प्रतीतावाकाशः स्वाश्रय इत्यतस्तदभावोऽप्याकाशाश्रयः मतांगेतील निरु- द्धमापद्यते । प्रकृतिराकाशस्य कारणमिति कश्चित् । तन्मते प्रकृतेरजन्यप्रसङ्गः। अथ तत्र पराधीनविशेषावाशिन्गालीक्रियते । तदाऽसम्भावितोत्पत्तिके वियदादावप्येवमेवाङ्गीकरणीयमिति । द्वितीयेऽपि किं प्रदेशरूपमाकाशमङ्गीकृत्येदमुच्यते उतावीनत्य । -- प्रथमे यस्य कस्यचिन्मूर्तद्रव्याभावस्योत्पत्तिर्वा सर्वस्य वा विवक्षिता। नाथः। तस्याः प्रत्यक्षादिसिद्धत्वेनाधिकरणानारम्भकत्वात् । द्वितीयं दूषयति ॥ यदीति । सर्वस्यापि मूर्ताभावस्य सृष्टावुत्पत्यङ्गीकारे प्रलयेऽवश्यं तदभावोऽभ्युपगनान्यः स्यात् । अत्यन्तसतो जन्मासम्भवात् । यदि च सृष्टेः पूर्व प्रलये नाकाशता सर्वस्य मूर्तद्रव्याभावस्याभावोऽङ्गीक्रियते । गर्हि किं तदा भूलनिविडं जगद- ङ्गीक्रियते । एतदेव स्पष्टयति ॥ मूर्तेति । यद्युक्तलक्षणाकाशाभावः प्रलये भवेत्तदा मूतेसम्पूर्णता भवेदेव । अभावाभावस्य भावानतिरेकात् । तद्व्याप्तत्वाद्वा । चशब्दोऽनुक्तसमुच्चयार्थः । सृष्टयुत्तरकालं मूर्तमात्रं च न स्यात् । एवं च सर्गप्रलयविपरिवर्तः स्यात् । अधिका च प्रलये मूर्तसम्पूर्तरापत्तिः । मूर्तद्रव्याभाव एवाकाशो न ततोऽतिरिक्तोऽस्तीति द्वितीयं निराकरोति ॥ मूर्त- द्रव्याणीति । तदभावश्चेति चार्थः । यो मूर्तद्रव्याणि तदभावांश्वाङ्गीकरोति तेनावश्यं तदतिरिक्ताकाशोऽङ्गीकर्तव्य एव । यस्सा- तानि सर्वदाऽऽकाशे स्थितानि तेनेति योजना । इदमुक्तं भवति । एकस्मिन्पतत्रिणि पतति द्वितीयेन पताणा कुन पतितव्यमिति वाच्यम् । यत्रासौ नास्ति तत्रेति चेत्तर्हि येनाधिकरणेनैकस्य पतत्रिणोऽभावः परस्य च भावो विशिष्यते तदर्थान्तरमशीकरणीयम् । स एव प्रदेशरूप आकाश इति कथं तदनभ्युपगमः । किञ्चह पक्षी नेह पक्षीति मूर्ततदभावाश्रयतया प्रदेशः साक्षिसिद्धः कथम- पन्होतुं शक्यते । अपि च किं मूर्तद्रव्यस्य मागभाव आकाशः किंवा प्रध्वंसो यहाऽत्यन्ताभावः । अथवाऽन्योन्याभावः । म प्रथमद्वितीयौ । सृष्टयत्तरकाले निराकाशत्वप्रसङ्गाव।मागभावप्रध्वंसाभावयोरुपादाननिष्ठत्वेन तत्राकाशबुद्धेरन्यत्र तदभावस्य चापत्तेः। न तृतीयः । क्वचित्कदाचिन्मूर्तसद्भावे तदत्यन्ताभावानुपपत्तेः । न चतुर्थः । घान्योन्याभावो हि पटस्तनिष्ठो वेति तमाकाश. धुद्धिप्रसङ्गात् । मूर्तद्रव्यसंसर्गाभावमात्रमाकाश इति चेत्तर्युत्पततः पतत्रिणः केन संसों येन तदभावस्याकाशत्वं सादित्यवश्या. श्रयणीयः प्रदेश इति । तदेवमाकाशस्याभूत्वाभवनरूपोत्पत्तिरयुक्तेति सिद्धम् । टि०--तत्कथमित्यत आकाशोत्पत्तावुपादानं भवद्ब्रह्म वा स्यादतिरिक्तं वेति विकल्प्याद्यं प्रत्याख्याति ॥ न चेति ॥ निष्टतिमिति । १** सु० दि० शेवं० गिन्तु अ०१ न च प्रकृतिशब्देन अझोपादानमुच्यत इत्यादिनेति शेषः । प्रागभावशून्यत्वादाकाशो नोस्पयत इत्यत्र न्यायविवरणोवाहतश्रुति प्रमाणयति * ॥ तथा चति । न प्रदेशः कथम्चनेति स्वरूपेण विकृतरूपेण वा नोदेतीति प्रतिज्ञाऽनुपपत्तौ युक्तिरियमुच्यते ॥ अभावो हीति । यस्योत्पत्ति- स्तस्य प्रागभावेन भाव्यम् । प्रदेशरूपस्यावकाशस्याभावः प्रागभावो न हि सम्भवतीत्यर्थः । कुतो नेत्यतोऽनुपपन्नप्रतीतिमत्वादिस्थाह ॥ धनोति । अपिपदेन ननोऽनुकर्षः । अभावो हि प्रतीयमानोऽस्यात्रेति प्रतीयते न तु निराश्रयः । न च प्रदेशाभावस्थाश्रयप्रतीतिरुपपद्यते यदेवात्रेति निर्दि- श्यते तस्यैवाकाशत्वादिति भावः । ननु प्रागभावो नाभावविशेषः । येनाभावो हि प्रतीयमान इत्यादिनोक्तदोपः स्यास्किन्त कार्यस्य स्वोपादान- गता पूर्वावस्थैव । तथा च प्रकृतेऽवस्थावस्थावतोरभेदेनोपादानभूतं ब्रह्मैवाकाशपूर्वावस्था प्रागभावश्चेति पर्यवसानानोक्तदोषः । गणवावकाश- भिन्नत्वान्न यदेवेहेति निर्दिश्यत इत्युक्तदोषोऽपीति कस्यचिन्मतमाशयोक्तदोषेण दूषयति ॥ अनवकाशरूपमित्यादिना ॥ प्रत्युक्तमिति । न च प्रकृतिशब्देन ब्रह्मोपादानमुच्यत इत्यादिनति शेषः ॥ कार्यत्वानुपपत्तरिति । कार्यस्य प्रवृत्तिमत्त्वनियमादिति भावः ॥ तदभावोऽपीति । न च घटे घटाभाववदाकाशाभावो न विरुद्ध इति वाच्यम् । घटे घटसत्वस्त्राप्रामाणिकत्वेन तत्र तदभावसम्भवेऽपीहाकाशमिति प्रतीत्याऽऽकाशे * आकाशसत्त्वस्य सिद्धस्वेन तत्र तदभावस्य विरुद्धत्वादिस्याशयः । आकाशोत्यती ब्रह्मातिरिक्तमेवोपादानमिति वितीयपदा राहते ॥ प्रकृतिरिति ॥ आजन्मप्रसङ्ग इति । तदुरपत्तावप्युपादानाभावेन घटादिसाधारण्येन जन्माभावप्रसङ्ग इत्यर्थः । न चेष्टापतिरिति वाच्यम् । प्रतिज्ञाहानि. रव्यतिरेकाच्छन्दभ्यो यावाद्वकारं तु विभागो लोकवादित्युक्तानां प्रतिज्ञाहान्यादीनामन्त्रापि साम्यादन्यथा तत्र तेषामनैकान्तिकत्वापातादित्यत्र तात्पर्यात् ॥ एवमेवाङ्गीकरणीयमिति । असम्भावितोत्पत्तिकस्वाविशेषेऽपि स्वचित्पराधीनविशेषावाप्तिर्जन्म । क्वचिद्घटादिवदभूतभवनमित्यर्ध- जरतीयानुपयत्तेरिति भावः ॥ द्वितीय इति । मूर्ताभाव एवाकाशपदेन विवक्षित इति द्वितीय इत्यर्थः ॥ कि प्रदेशरूपमाकाशमङ्गीकृत्येत्यादि। अत्र मूर्ताभाव आकाश इत्युक्तेर्निरवधारणस्वाभिप्राये तया मूर्ताभावस्थाकाशत्वप्राप्तावपि तदतिरिक्तप्रदेशस्याकाशत्वव्यावृत्तेरप्राप्तस्मादायपक्षलाभः । सावधारणत्वे च प्रदेशस्याकाशवव्यावृत्तेलाभामितीयपक्षस्य लाभ इति द्रष्टव्यम् । यद्वा स्वमतेनाथं बदतीति परस्य परस्मिनाबासात्सम्मावित- न तयाऽऽद्यपक्षस्य पराभ्युपगततया द्वितीयपक्षस्य प्रसक्तिरित द्रष्टव्यम् । प्रत्यक्षादिसिद्धत्वेनेति । ततश्चाधिकरणारम्भप्रयोजकीभूतसंशयाभावान तद्विषयतयैतदधिकरणारम्भ इति भावः ॥ सृष्टाविति । सृष्टिकाल इत्यर्थः । इष्टापत्तिं परिहरति ।। याद चेति । किं मूर्तनिबिडं जगदित्युक्तस्यैव मूर्तसम्पूर्णतेत्युत्तरवाक्येन प्रतिपादनात्पीनरवस्यमाशक्य परिहरति ॥ एतदेव स्पष्टयतीति । आपाधस्वरूपस्य पूर्ववायचे निष्कृष्यानुक्तस्वारिक- मनेनापादितं भवतीत्याशङ्कापरिहारः स्पष्टनस्य न प्रयोजनगिति भावः । प्रलथे मूर्तद्रव्याभावाभावसुद्भावेऽपि कुतो सूर्तसम्पूर्णताप्राप्तिरित्यतो नेप- कुवस्थानाविति निषेधस्यास्त्रीत्यस्य नदीसंज्ञाविधित्वदर्शनाद्दर्शनबलेन निषेधनिषेधस्य भावताया निषेधस्य निषेधोऽपि भाव एव बलाद्भवेदित्यादिना तृतीयस्य तृतीये व्यवस्थापितत्वेन मूर्तद्रव्याभावाभावस्य मूर्तद्रव्यस्वप्राप्तेर्युक्ता प्रलये मूर्तसम्पूर्णताप्राप्तिरित्याशयेगाह ॥ अभागाभागस्य भावानति- रेकादिति ।। तव्याप्तत्वादति । एतन्मते च तृतीयाभावस्य प्रथमाभावत्वान्नानवस्थेति भावः । अनुक्तसगुच्चयमेव दर्शयति ।। सृष्टयुत्तरकालं चति । स्थितिकाल इत्यर्थः । मूर्तद्रव्याभावस्यैव तन्त्र सत्त्वादिति भावः । प्रागुक्तप्रसङ्गद्वयेऽपष्टिापत्तिं परिहरति ।। एवन्येति । विपरिवर्ती व्यत्यासः । सर्गस्य प्रलयत्वं प्रलयस्य सर्गस्वमित्येवंरूप इत्यर्थः । बाधकान्तरं चाह ॥ अधिका चेति । सगांपेक्षोति शेषः । सर्गे कस्यचिन्म- तस्य कस्यचिन्मूर्ताभावस्य च सत्त्वेन तत्र मूर्तसम्पूर्तेरभावादिति भावः । ननु मूर्तद्रव्याणां तदभावस्य चाकाशास्तित्वमेवासिद्धमिति न तेन तदुः- भयातिरिक्ताकाशस्याङ्गीकत किर्तव्यतासिद्धिरित्यत आह ॥ इदमुक्तं भवतीति ॥ कुत्र पतितव्यमिति । न ता साबस्ति तत्रैव पतनं सम्भ- वति । मूर्तानां सामानाधिकरण्यस्य बाधितत्वादिति भावः । मूर्ताश्रयतयाऽतिरिक्साकाशसिद्धिमुपपाद्य मूर्तताना मलयाऽपि तसिद्धिमुपपादयति ॥ किश्चेति ॥ कथामिति । तथा सति साक्षिप्रत्यक्षविरोधः स्यादिति भावः ॥ दृष्टयुचरकाल इति । स्थितिमा पूर्तद्रव्यस्यैव सत्त्वेन तला- गभावप्रध्वंसयोस्तत्रासत्त्वादिति भावः ।। अत्यन्ताभावानुपपतेरिति । सार्वदेशिकसार्वकालिकनिषेधस्यैवात्यन्ताभावलादिति भावः ॥ तत्रा- काशबुद्धीति । पट आकाशः पटे आकाश इति वा न कस्यचिहुद्धिरतीति भावः । मूर्तदव्यत्य यः केनचिरसंसर्गस्तदभाव एवाकाशो न तु तत्प्रागभावादिविवक्षित इति नोक्तदोष इति शङ्कते ॥ मूर्तद्रव्योति ॥ राहीति । अत्र किंशब्द आक्षेपे न केनापीत्यर्थः । तथा च प्रतियोगि- जिला सुटि० ३०३ नोऽप्रसिद्धत्वेन तदभावस्याप्यप्रसिद्धत्वं स्यादती मूर्तद्रव्यसंसर्गाभावस्याकाशत्वं वदताऽवश्यं मूर्तद्रव्यस्य केनचित्संसर्गों वाच्यः । न चोपतात: पतत्रिणो मूर्तेन संसर्गः सम्भवति । तत्र मूर्ताभावात् । अतोऽभूतेनैव संसर्गो वाच्यः स एव चास्माकमाकाश इति भावः । यद्वा मूर्तद्रव्यसंसर्गा- भावस्यैवाकाशवे इह पतव्युत्पततीत्येवंरूपेण मूर्तद्रव्यस्योत्पततः पतत्रिणः संसर्ग निरूप्य तदभावस्याकाशत्वं त्वया वाच्यम् । न च तद्युक्तम् । रह पदार्थभूतस्य प्रदेशस्य त्वयाऽनङ्गीकारेणान्यस्य चेहपदार्थस्य तत्रासम्भवेन पतत्रिणस्तेन सह संसर्गस्यैव निरूपयितुमशष्यत्वेन तदभावस्थाका. शताया निरूपणायोगादिति भावः । केचित्तु किंशब्दः प्रश्ने कि मूर्तेन किंवा तदितेरणेति । नायः । तथा सति मूर्तस्यैव पतव्याधारवेन मूर्ता- भावस्य तद्विरहात्तस्याकाशत्वासिद्धेः । नान्त्यः । अमूर्तस्यैव तदाधारत्वेन तस्यैवाकाशत्वात् । उक्तं चैतन्मूर्तद्रव्याणि बाकाशे स्थितान्येव हि. सर्वदेत्याहुः । अ०-अत आकाशशब्दोक्तस्तद्देवोऽत्र विनायकः ॥ देहोत्पत्त्या समुत्पन्न इति श्रुत्याऽभिधीयते ॥ भूतमासिक दिन दृष्टिगोचरमेव तु ॥ उत्पद्यते व्याकृतं हि गगनं साक्षिगोचरम् ॥ प्रदेश इति विशेयं नित्यं नोत्पद्यते हि तत् ॥ तथाऽपि सूर्तसम्वन्ध्य. परतन्त्रविशेषयुक् ॥ खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम् ।। प्रकृतिः पुरुषः काल इत्येते च समस्ताः ॥ ईसाधीनविशेषण जन्या इत्येव शब्दिताः॥ कालप्रवाह एवैको नित्यो न तु विशेषवान् ॥ पुरुषाव्यक्तकालाना रसैवैकामिमानिनी॥शिसूक्षुत्वविशेष तत्साक्षाद्भगवदिच्छया ॥ प्राप्तैव सृष्टेत्युदिता प्रधानं विकृतेरपि ॥ पुमांसो देहसम्बन्धात्सृष्टिमन्त इतीरिताः ॥ १-३-६ ।। सु०-अस्त्वेवं परकृतमपन्याख्यानम् । कस्ताकाशशब्दार्थः का च तस्य पराधीनविशेषाप्तिरित्या आह ॥ अत इति । परकीयव्याख्यानस्यायुक्तत्वादित्यर्थः । तदेवो भूताकाशाभिमानीति विनायकस्याकाशशब्दवाच्यत्वोपपादनम् । अनामन आकाक्ष इत्यादिश्रुतौ । देहोत्पत्त्यति पराधीनविशेषा ( वा ) विवरणम् । वाक्यद्वयमेतदित्यतोऽत्रेति श्रुत्येति च युज्यते । श्रुतेविषयान्तर चाह ॥ भूतमपीति । भूतमप्याकाशशब्दोक्तं तच्च घटादिवदुत्पद्यत इति श्रुत्याभिधीयत इति सम्बन्धः । छुतो भूताकाशस्योत्प- त्तिमत्त्वमित्यत उक्तमसितमिति । रूपित्वादित्यर्थः । तथा च श्रुतिः । आकाशो नीलिमोदेतीति । तथा सति चाक्षुपत्वप्रसङ्ग इत्यत उक्तं दिव्येति । तुशब्देनानुभूतत्वविशेष सूचयति । इदमुक्तं भवति । किं चाक्षुषत्वमात्रमापाचमुतास्मदादीन्नति । माघे त्विष्टापादनम् । दिव्यदृष्टिगोचरत्वाभ्युपगमात् । द्वितीये तु भूतादिशरीरेषु व्याप्तिभङ्गः। तत्रानुद्भूतादिकल्पनेऽत्रापि तत्समानं श्रुति- मामाण्यादिति । नन्वाकाशस्याभूत्वाभवनलक्षणामुत्पत्तिमधुनैव निराकृत्यात्र पुनस्तदङ्गीकारे कथं पूर्वोत्तरव्याघातो न भवेदित्यत आह ॥ अव्याकृतमिति । यतोऽव्याकृतमेव गगनं नोत्पद्यत इत्युक्तं न तु भूतमतो न विरोधः । तस्यानुत्पत्ती हेत्वन्तरमप्याह॥ नित्यं हि तदिति । न चैतदसिद्धम् । विनाशकारणाभावात् । न हि कारणान्तरमनपेक्ष्येश्वरेच्छा विनाशहेतुर्दृष्टा । उत्पत्तिश्रुते- स्तदपि कल्पनीयमिति चेन । तस्या भूततदभिमानिविषयत्वेन सावकाशत्वात् । अवश्यं चैतदेवम् । आत्मन आकाशः सम्भूत इत्यादर्भूतप्रकरणत्वात् । नन्वव्याकृताकाशे प्रमाणमेव नास्ति । कस्यानुत्पत्तिरुच्यत इत्यत उक्तं साक्षीति । तत्कथमित्यत आह ।। प्रदेश इति । नन्वेतदेव भूताकाशमिति चेन्न । रूपित्वारूपित्वव्याकृतत्वाव्याकृतत्वपरिच्छिन्नत्वापरिच्छिन्नत्वश्रुतीनां सत्त्वात् । कि- श्वोत्पत्त्यनुत्पत्तिश्रुत्योर्विरोधोऽण्याकाशद्वैतमवगमयति । व्यवस्था थयाऽविरोधोपपत्तावनुत्पत्तिश्रुतेरौपचारिकत्वकल्पनायोगात् । न च प्रदे- शस्योत्पत्तिरुपपद्यत इत्युक्तं प्राक् । ननु सूत्रकृतैव गौण्यसम्भवादित्युक्तम् । सत्यम् । व्याख्यातं तद्भाष्यकृता । विकृतं चास्माभिः । नन्यव्याकृताकाशस्योत्पत्यभावे मा भूदाकाशः सम्भूत इति विरोधः । इदं सर्वमसृजतेत्यादिश्रुतिविरोधस्तु भविष्यतीति चेन्न । तस्याभूत्वाभवनलक्षणोत्पत्यसम्भवेऽपि पराधीनविशेषाप्तिरूपोत्पत्तिसद्भावादित्याह ॥तथाऽपीति। मूर्तसम्बन्धश्वासौ परतन्त्रविशेष- श्वेति विग्रहः । यदनादित्वेनोक्तं तदेव खमित्यर्थः । इदं सर्वमसृजतेति श्रुतिवाक्यं श्रुतिशब्दः । एवं श्रौता ( सौत्रा ) काशोत्पत्ति व्याख्यायोपलक्षितप्रकृत्याधुत्पत्ति व्याख्याति ॥प्रकृतिरिति । इत्येते च एतदादयश्च । ईश्वराधीनविशेषेणैव नाभूत्वाभाविनेत्यर्थः । कालस्य त्वभूत्वाभवनमप्यस्तीत्याह ॥ कालेति । विशेषवान्क्षणलवादिरूपः । उपपादितं चैतत्यागेव । प्राक् परिगणितानां प्रक- त्यादीनामीश्वराधीनविशेषावाप्तिरेव जन्मेत्युक्तम् । तत्र कस्य कीदृशी विशेषावाप्तिरित्यतः प्रकृत्यादित्रयाभिमानिदेवतायाः पराधी-

शचं०
तृ०
अॅ०१
नविशेषावाप्तिं विशदयति ।। पुरुषेति । यस्मात्पुरुषादीनां रमाऽभिमानिनी । सा चैकैच देहदेवादिभेदरहिता । तचमात्साक्षादग-
बदिच्छया सिमक्षुत्वविशेष प्राप्तव सृष्टत्युदिता । न तु विनायकायभिमानिवदेहोत्पचिमतीत्यर्थः । यद्यपि भगवत्या इच्छाऽपि
सुटि* नित्या तथाऽपि तदीयव्यक्तिरूपस्येश्वरपराधीनत्वाभिप्रायेणेदमुक्तमिति ज्ञातव्यम् । प्रकृतेः पराधीनविशेषावाप्तिं विटयोति ॥ प्रधा-
नमिति। प्रधानमपि विकृतेरीश्वराधीनायाः कारणादिदं सर्वमसृजतेत्यादौ सृष्टमित्युदितमित्यर्थः। यथोक्तम् । विकारो व्यक्तजन्म
हीति । पुरुषाणां पराधीनविशेषावाप्ति स्पष्टयति । पुमांस इति । कालप्रवाहस्य मवाहिजन्य महदादीनां चोपच्यावाप्तिर्विशेषलाध
इति स्पष्टत्वान्नात्रोक्तम् । एतेन ज्ञोऽत एव तथा प्राणा इत्यादिकमपि व्याख्यातं वेदितव्यम् ॥ २-३-१ ॥
टि०-॥ आकाशशब्दवाच्यत्वोपपादनामिति । तद्देव इत्यनेन विनायकस्याकाशाभिमानियोक्त्या सत्सत्त्वादिप्रयोजकत्वलाभात्तदधी-
नत्वादर्थवदिति न्यायेन तस्याकाशशब्दमुख्यवाच्यत्वसिद्धिरिति भावः । ननु पराधीनविशेषितेत्यादिना पूर्व पराधीनविशेषावाशेरेवोत्पत्तितयोक्त-
स्वाद्विनायकस्य देहोत्पत्त्योत्पन्नत्ववर्णने तद्विरोध इत्यतः कोऽसौ पराधीनविशेष इत्याकाङ्क्षायां देहोत्पत्तिलक्षण इति देहोत्पत्ययस्य प्रागुक्तपरा-
धीनविशेषावाप्तिविवरणरूपत्वान्न पूर्वविरोध इत्यभिप्रेत्याह ॥ देहोत्पत्त्येतीति ॥ आकाशो नीलिमोदेतीति । नीलरूपविशिष्ट आकाश उत्प-
यत इत्यर्थः ॥ श्रुतीति । आकाशो नीलिमोदेतीति श्रुतिप्रामाण्यादित्यर्थः ॥ भूततदभिमानिविषयत्वेनेति । न चैवमाकाशपदेन भूताकाशत-
देवता उच्यन्त इति टकिया विरोधः स्यादिति वाच्यम् । तत्र पराधीनविशेषावाप्त्यादिरूपोत्पत्तिसामान्यस्यैवाभिप्रेतत्वेन तथाक्तिसम्भवादन स्व-
भूत्वाभवनरूपोत्पत्तिविशेषस्यैवाभिप्रेतत्वेन द्वयोरेव ग्रहणस्य न्याय्यत्वात् । न चैवमभिमानिनोऽपि ग्रहणं न स्यादभूत्वाभवनस्पोत्पत्तेखत्र बाधित-
स्वादिति वाच्यम् । अभिमानिशब्देन तदेहस्य विवक्षितत्वादित्याशयात् ।। रूपित्वारूपित्वेत्यादि । अयं भावः । प्रदेशरूप आकाशो नीरूपः
साक्षिसिद्धश्च । अन्यथाऽवकाशवति गेहेऽन्धकारादौ हस्तचलनादिकं न स्यात् । भूताकाशं तु भूतमप्यसितं दिव्यदृष्टिगोचरमेव स्विति श्रुत्या रूप-
बदप्रत्यक्षं च । एवं भूताकाशं सर्व पञ्चभिराविष्टं भूतैरीश्वरबुद्धिनैः । पञ्चभूतात्मके देह इत्यादिस्मृतिभिर्देहाकारेण विकारि । आत्मन आकाशः
॥६॥

सम्भूत इत्यादिप्रकरणानुगृहीतश्रुतिभिस्तामसाच्च विकुर्वाणाद्भगवद्वीर्यचोदितात् । शब्दमात्रमभूत्तस्मान्नभः श्रोत्रं तु शब्दगमित्यादिस्मृतिभिश्च ताम- साहङ्कारकार्यवाव्याकृतम् । अवकाशस्तु कूटस्थनित्यत्वेन साक्षिसिद्धवादव्याकृतः । एवमेतदण्डं विशेषाख्यं क्रमानैर्दशोत्तरैः । तोयादिभिः परि- वृतमित्यादिस्मृतिभिर्भूतं परिच्छिन्नम् । प्रदेशस्त्वाकाशवत्सर्वगतश्च नित्यः । स यथाऽनन्तोऽयमाकाश इत्यादिश्रुतिभिरपरिच्छिन्न इति । उपलक्षणं , चैतत् । मृतिकाले जहत्येनं प्राणा भूतानि पञ्च च । भागशो भागशस्त्वेनमनुगच्छन्ति सर्वश इत्यादिस्मृतिभिभूतं गत्यादियोग्यभागवत् । प्रदेशस्तु न गस्यादियोग्यभागवान् । न हि प्रदेशविशेष एतद्देशं त्यक्त्वा देशान्तरं गच्छतीत्यतोऽपि वैलक्षण्यं बोध्यम् । श्रुतीनामिति बहुवचनमाद्यर्थे श्रुत्या- १ दीनामित्यर्थः ॥ उत्पत्यनुत्पत्तिश्रुत्योरिति । आकाशो नीलिमोदेत्यनादिर्वा अयमाकाश इति चाकाशोत्पत्त्यनुत्पत्तिश्रुत्योरित्यर्थः । नन्धनादिर्वा अयमाकाश इत्यनुत्पत्तिश्रुतरनादिरेवेत्यनादिरित्यौपचारिकत्वेनाप्युपपन्नत्वान्न श्रुतिद्वयविरोधेनाकाशद्वैतसिद्धिरित्यत आह । व्यवस्थयेति ।। नचति । नापीत्यर्थः ।। प्रागिति । उपादानभावात्प्रागभावाभावाच न प्रदेशस्योत्पत्तिरित्यवकाशमात्रमाकाशः कथमुत्पद्यतेऽन्यथेत्यादिना प्रामुक्तमित्यर्थः । ननु गौण्यसम्भवादित्यादिना सूत्रकृतवानादिरिवेत्यनादिरित्यनादित्वश्रुतेगौणत्वस्योक्तत्वात्तदनङ्गीकारेण व्यवस्थया श्रुतिद्वयविरोधाभिधाने तत्सूत्र- विरोधः स्यादिति शङ्कते॥ नन्विति । ननु भाप्येऽपि गौणीत्येवोक्तत्वान्न विवक्षितसिद्धिरित्यत आह ॥ वितं चति । आकाशपदेन भूताकाशत- देवता उच्यन्ते तत्र भूतं स्वरूपत एवोल्पद्यते । रूपित्वात् । नीलिमोदेतीति श्रुतेश्च । तदभिमानिनोऽपि शरीरोत्पत्तिद्वाराऽस्येवोत्पत्तिः । अवकाशतद- भिमानिनोरप्यस्ति पराधीनविशेषावाप्तिलक्षणोत्पत्तिरिति सर्वविषयत्वादुत्पत्तिश्रुतिर्मुख्यार्थाऽनादित्वश्रुतिस्तु न सर्वविषयेति भवति गौणी । भूते कथ- मप्यवृत्तेरित्यादिना टीकायामसर्वविषयस्वेन गौणत्वस्यैव सूत्रार्थतया विवरणेनानादिरिवानादिरित्येवंरूपानादित्वस्य सूत्रकारानभिप्रेतत्वान्न तद्विरोध इति भावः । मूले परतन्त्रविशेषयुगित्येतावतैव पूर्तमूर्तसम्बन्धेति विशेषणवैय्यर्थ्यमित्याशक्य कोऽसौ परतन्त्रो विशेष इत्याशङ्कापरिहाराय तद्विवरणार्थत्वान्मू- तसम्बन्धेत्यस्य न वैय्यर्थ्यमित्यभिप्रेत्य तदनुरूपं विग्रहं दर्शयति ॥ मूर्तसम्बन्धश्वासावित्यादिना ॥ श्रोताकाशति । सौत्रवियत्पदमुख्यार्था- काशोत्पत्तिमित्यर्थः ॥ उपलक्षितेति । सौत्रवियत्पदोपलक्षितेत्यर्थः । उपलक्षितप्रकृत्याद्युत्पत्तिव्याख्यानाय प्रवृत्तेऽत्र वाक्ये प्रकृतिपुरुषकालाना- सुटि० मिव महदादिसूक्ष्मभागानामपि वियत्पदोपलक्षितत्वेनावश्यं ग्राह्यत्वात्तदनुक्तिर्दोष इत्याशक्य कडाराः कर्मधारये सप्तमी शौण्डैरित्यादाविव बहुव- चनादेवाद्यार्थावगमान्न तदनुक्तिर्दोष इत्याशयेनेत्येते चेत्यनूद्य व्याख्याति ॥ एतदादयश्चति । जन्या इत्येवेत्यत्र यथाश्रुतैवकारस्य व्यर्थत्वे विरुद्धा- शेचं० र्थत्वप्रसङ्गाद्भिन्नक्रमतामाश्रित्य तदुभयं परिहरति ॥ ईशाधीनविशेषेणैवेति । ननु क्षणलवादिरूपस्य कालविशेषस्योपादाननिमित्तयोरभावेनाभू oি स्वाभवनरूपोत्पत्तेरसम्भवात्कथं तदभ्युपगम इत्यतो वैशेषिकपरीक्षायां विशेषाश्चैव कालस्य हरेरिच्छायशाः सदेत्यादिना ग्रन्थेन प्रकृतिहरीच्छा- *अ० २ रूपोपादाननिमित्तकथनेनाभूत्वाभवनलक्षणोत्पत्तेः समर्थितत्वान्नानुपपत्तिरित्य पपत्तिरित्याशयेनाह ॥ उपपादितं चेति । यथाश्रुतयोजनायामेवशब्दस्यैकशब्दस्य च वैय्यर्थ्य भवतीत्यतस्तदवैश्याय पुरुषेत्यादिवाक्यमन्यथा योजयति ॥ यस्मादित्यादिना । ननु तथाऽपि रमाया एकैवेत्येकमानत्वकथनस्य प्रयोजनाभावादुक्तदोषतादवस्थ्यमित्यतो विनायकाद्यभिमानिवद्रमाया अपि देहोत्पत्तिरूपोत्पत्तित्वसम्भवास्सिसक्षुत्वविशेष तदिति वक्ष्यमाणं प्रकारा- न्तराश्रयणमनर्थकमित्याशङ्कापरिहारार्थवादेकवेत्यस्य नानर्थक्यमित्यभिप्रेत्य कथमनेनोक्तशङ्कापरिहार इत्यतस्तदुपयोगितया तद्याचष्टे ॥ देहदेह्या- दिभेदरहितति । तथा च तदेहस्य स्वरूपत्वेन विनायकाद्यमिमानिवद्देदोत्पत्तेरपि तदुत्पत्तित्वासम्भवारप्रकारान्तराश्रयणमुपपन्नमिति भावः । प्राप्तैवेस्थेवशब्दव्यावर्यं दर्शयति ॥ नन्विति ॥ इच्छाऽपि नित्येति । तथा च न तस्या अपि भगवदिच्छायाः प्राप्तियुज्यत इति भावः । विकृतिवरप्रकारान्तरस्यापि प्रधाने उत्पन्नत्वव्यवहारनिदानस्याभावेन यथाश्रुतापिशब्दयोजनाया असम्भवेन भिन्नक्रमतया ते योजयति । प्रधान- मपीति । साकाङ्क्षत्वप्रयुक्तवाक्याभासत्वशङ्कापरिहाराय सृष्टिमन्त इतीरिता इत्युत्तरानुकर्ष योग्यतया वचनविपरिणामं चाश्रित्यापेक्षितपूरणेन तत्परिहरति ।। विकृतोरत्यादि । विकृतिः प्रकृतेर्जन्मेत्यत्र नियामकमाह ॥ यथोक्तमिति । ननु प्राक् परिगणितानां प्रकृत्यादीनां पराधीनवि- शेषावाप्तिलक्षणजन्मविशदीकरणाय प्रवृत्तेऽस्मिन्नन्थे प्रकृत्यादीनामिव कालप्रवाहस्य महदादिसूक्ष्मभागानां च प्राक् परिगणितत्वाविशेषेण तेषामपि पराधीनविशेषावाप्तेरवश्यं विशदीकरणतया तदनुक्स्या मूले न्यूनत्वमित्याशङ्कामनुक्तौ निमित्तकथनेन परिहरति ॥ कालेति ॥ २-३-१ ॥ अ०--॥ ॐ एतेन मातरिश्वा व्याख्यातः ॐ ॥ एवं प्रलयकालेऽपि प्रतिभातपरावरः ॥ मुख्यवायुनित्यसमः शरीरोत्पत्तिकार- णात् ॥ पराधीनविशेषेण जनिमानेव शब्दितः ॥ नैव किश्चित्ततो जन्मवर्जितं परमाहते॥ पराधीनविशेषत्वे जन्मनः स्थूलताभवः ॥ पूर्वशब्दविलोपश्च यदि जन्मेति कीर्त्यते ॥ रमाया नैव जन्मास्ति चैतन्यस्यापि केवलम् । प्रधानस्य च वेदस्य वेदस्यापीश्वरे- च्छया ॥ व्यक्तिर्नाम विशेषोऽस्ति तस्मात्तद्वशतैव हि ॥ उत्पत्तिरत्र कथिता ॥ २-३-२॥ सु०-॥ ॐ एतेन मातरिश्वा व्याख्यातः ॐ ॥ अतीताधिकरणे वियदादिविषयाणामुत्पत्त्यनुत्पत्तिश्रुतीनां व्यव स्थया विरोधः परिहृतः । इदानीं तेजोपन्नान्याकाश इति तान्यनित्यानि वायुर्वाव नित्य इति श्रुतौ व्यवस्थितनित्यत्वानित्य- त्ववन्तमप्याकाशमनित्यपक्षे निक्षिप्य वायोनित्यत्वाभिधानादाकाशदेवताया विनायकस्येव वायुदेवतायाः स्वरूपेण नित्यत्वं देहो- त्पत्त्यादिना जन्मादिमत्त्वमिति व्यवस्थानुपपत्तेमुख्यैवानुत्पत्तिरित्यधिकाशङ्कया पूर्वपक्षिते व्यवस्थातिदेशेनैव सिन्द्रान्तितम् । तत्र कीदृशी वायौ श्रुतीनां व्यवस्था । ययाधिकाशङ्कापरिहार: स्यादित्यतस्तां दर्शयति ॥ एवमिति । यथा वियदनादि जन्मवञ्चोक्त- मेवमित्यर्थः । प्रतिभातपरावरः शरीराभावेऽपि प्रातिभेनैव ज्ञानेन विषयीकृतातीतानागतो यतस्तस्मान्नित्यसम इति शब्दितः । शरी- रोत्पत्तिकारणात्पराधीनविशेषेणेत्येतयोर्हेतुहेतुमद्भावः । एक्शब्दस्य पराधीनविशेषेणैवेत्यन्वयः। मुख्यवायुरित्यनेन भूतप्रकरणेऽपि न भूतवायुविषयमिदं सूत्रम् । तत्राधिकाशङ्काभावात् । अत एव नावान्तराभिमानिविषयम् । किनाम तत्परमाभिमानिविषयमबति सूचयति । स्वरूपातिरिक्तस्य प्रातिभज्ञानस्याप्यनुपप्लवादाकाशदेवतातो विशेषो युज्यत इति भावः । यदुक्तमत्र प्रकरणे पराधीन- विशेषावाप्तिरेव जनि भूत्वाभवनमिति तदुपपत्त्यन्तरेणोपपादयन्नधिकरणार्थमुपसंहराति ॥ नैवेति । इति सिद्धमिति शेषः । एतच्च जन्मनः पराधीनविशेषलाभ ( स्वरूप ) त्व एवाङ्गीकृते सिध्यति न त्वभूत्वाभवनरूपत्व इत्यर्थः । नन्वव्याकृताकाशस्याभूत्वाभव- नानुपपत्तेरस्तु तत्र पराधीनविशेषावाप्तिर्जन्मशब्दार्थः । अन्यत्र त्यभूत्वाभवनमेवाङ्गीक्रियते चेत्को दोषः । बाधकभावाभावाभ्या मनेकार्थत्वकल्पनाविरोधत्वादित्यत आह ॥ स्थूलतेति । उपादानधर्मिणो धर्म्यन्तरात्मना परिवर्तः स्थूलताभावः । अत एव पूर्व- 4 २* सुटि ॥८॥ शब्दविलोपव पूर्वशब्दनिवृत्तौ शब्दान्तरप्रवृत्तिश्चेत्यर्थः । उदाहृतं चैतत्प्रकृत्यधिकरणे । अभूत्वाभवनं यदि जन्मेति कीर्त्यत इत्यु- क्तेऽसदनुवादः स्यात् । परिणामवादिभिः क्वाप्यभूत्वाभवनानभ्युपगमात् । अतो विमतिपदं दर्शयितुं स्थूलतेत्यायुक्तम् । रमाया जीवचैतन्यस्यापि प्रधानस्य वेदस्य चैवविध जन्म नैवास्तीत्यतः परमेश्वरादृते सबै जनिमदिति न सिद्धयेत् । तथा चेदं * ०० सर्वमसृजतेत्यादिप्रतिज्ञाहानिरात्मा वा इत्यादिशब्दविरोधो विभक्तत्वहेतोरनैकान्त्यं च स्यादिति वाक्यशेषः । एष चेतनया युक्तो ०२ जीव इत्यभिधीयत इत्यादिवचनाजीवशब्दो भूतादिसयाते वर्तते । तस्य चोक्तविधोत्पत्तिरस्त्येवेत्यतः केवलं चैतन्यस्येत्युक्तम् । * न हि क्षीरं दधि जातमितिवदिदं द्रव्यं स्मादित्वेन परि ( णतमि ) वृत्तमित्यत्र प्रमाणमस्ति । किन्तु द्वावेतौ नित्यमुक्ती नित्यौ * सर्वगतौ अजो नित्यः अजामेका यावब्रह्म विष्ठितं तावती वागित्यादिश्रुतिभ्योऽनादित्वमेवावगतम् । ननु वेदस्य कीदृशी पराधीन- विशेषाप्तिर्येन भवत्पक्षे प्रतिज्ञाहान्यादिकं न स्यादित्यत आह ॥ वेदस्यापीति । नियतविशिष्टानुपूर्वीकत्वेनार्थबोधकत्वशक्त्या- * विभावो व्यक्तिः । कालप्रवाहस्य नास्तित्वे दोषो वक्ष्यते । महदादिसूक्ष्मरूपनित्यता च श्रुत्या (दिन ) पि प्रसिद्धाऽतोऽपि पति- झाहान्यायनिस्तार इत्याशयवानुपसंहरति । तस्मादिति । तद्वशता परमेश्वरवशत्वविशेषलाभः । अत्र श्रुतिसूत्रयोः ॥ २-३-२॥ टि०-॥ ॐ एतेन मातरिश्वा व्याख्यातः ॐ ॥ नन्वेवं प्रलयकालेऽपीत्युत्तरवाक्यमनर्थकम् । न च वायुविषयाणामुत्पत्त्यनुत्पत्ति- श्रुतीनां व्यवस्थया विरोधपरिहारार्थमेतदिति वाच्यम् । अस्यातिदेशाधिकरणत्वेन तस्य चातिदेशो हि तादृश इत्युक्तरीत्याऽभ्यधिकाशङ्कासापेक्ष- स्वेन प्रकृते चाभ्यधिकाशङ्काया अनुक्तत्वेनाधिकरणारम्भस्यासिद्धौ व्यवस्थोपदर्शनस्यानवसरपराहतस्वादिस्यतो भाष्येऽभ्यधिकाशङ्काप्रदर्शनेना- धिकरणारम्भस्य समर्थितत्वादत्र तदनुक्तिर्न दोषायेत्यभिप्रेत्य भाष्यानुसारेण स्वयमभ्यधिकाशङ्कोपदर्शनेनाधिकरणारम्भोपपादनपूर्वकं व्यवस्थो- पदर्शकतयोत्तरवाक्य योजयितुं वृत्तमनुवदति ॥ अतीताधिकरण इत्यादिना ॥ प्रातिभेनैवेति । योगप्रभावलब्धातिशयविशेषमनोवृत्तिरूपेणे- त्यर्थः । यथाश्रुतवोजनायामेवशब्दस्य वैय्यादिप्रसङ्गाद्भिन्नक्रमतामाश्रित्य तत्परिहरति ॥ एक्शब्दस्येति ॥ अत एवेति । तत्राधिकाशङ्का- भावादेवेत्यर्थः । तथाऽपि व्यवस्थितनिस्यत्वानिस्यत्वमप्याकाशमनिस्यपक्षे निक्षिप्य वायोनित्यत्वामिधानस्य का गतिरुक्ता भवतीत्यतः प्रलयकाले प्रातिभेनेत्यादिना मूलोक्तमेव तत्परिहारं स्पष्टमाह ॥ स्वरूपति ॥ उपपादयनिति । उपपादयिष्यनित्यर्थः । ननु. तथा सति सकृच्छ्रुतस्याने- कार्थत्वापत्तिरेव दोषः स्यादित्यत आह ॥ बाधिकेति ॥ उदाहृतं चैतदिति । क्षीरादिवद्विकारः स्यादित्यादिनेति शेषः ॥ क्वाप्यभूत्वेति । अत्यन्तासत्कार्यवादानभ्युपगमादिति भावः ॥ एवंविधमिति । उपादानधर्मिणो धर्म्यन्तरात्मना परिवर्तरूपमित्यर्थः ॥ विभक्तत्वेति । अत्यल्प- शक्तित्वेत्यर्थः ॥ अनैकान्त्यमिति । रमादिभिरिति शेषः ॥ जीवशब्द इति । जीवशब्दस्य भूतादिसङ्घाते वृत्त्या तत्पर्यायस्य चेतनशब्दस्यापि तत्र वृत्तिर्लब्धैवेति भावः । ननु रमादीनामप्युक्तरूपस्थूलताभावलक्षणमेव जन्म किन्न स्यादित्यत आह ॥ न हीति ॥ किन्त्विति । द्वावेता- विति श्रुत्या चित्प्रकृतेरजो नित्य इति श्रुत्या पुरुषस्याजामेकामिति श्रुत्या जडप्रकृतेर्यावदिति श्रुत्या वेदस्यानादिस्वमवगम्यत इति विवेकोऽत्रानु- सन्धेयः ॥ नियतविशिष्टानुपूर्वीकत्वेनोत । अत्र नियतेति विशेषणं नियतत्वं नियतैकप्रकारत्वं तच्च पूर्वोत्तरकालेष्वेव विवक्षितमिति न भारता- दिसाधारण्यमिति जिज्ञासासूत्रोक्तनियतैकप्रकारस्वरूपवेदापौरुषेयत्वस्मारणेनानुपूर्व्याः स्वरूपकथनमेव बोद्धयम् । विशिष्टानुपूर्वीकत्वं च क्रमविशेष- विशिष्टवर्णानामेवाभिमतम् । अत्र विशेषग्रहणेन भारतादिव्यावृत्तिः । वर्णानां क्रमविशेषविशिष्टत्वं च विशिष्टक्रमोपेतबुद्धिविषयत्वमेवाभिमतम् । प्रकारान्तरेण क्रमवैशिष्टयस्य वर्णेष्वसम्भवात् । तथा हि । क्रमो वर्णनिष्ठो बोच्चारणनिष्ठो बोपलब्धिनिष्ठो वा वाच्यः । चतुर्थप्रकारानिरूपणात् । तत्राद्ये स किं देशतः कालतो वा देशकालानुपाधिकः पौर्वापर्यलक्षणो वर्णरूपवस्तुनिष्ठ एव वा । नाद्यः । वर्णानां सर्वगतत्वेन तदनुपपत्तेः । न द्वितीयः । वर्णानां नित्यस्वेन कालतोऽपि तदनुपपत्तेः । न तृतीयः । विरोधात् । न घुभयोरेकस्मिन्काले राजा जार इति प्रयोगसमये एकस्यैव जका- रस्य रेफापूर्वापरभाव एकदैव युक्तः । नापि द्वितीयः । उच्चारणतरक्रमयोः श्रोत्राविषयस्वात् । वेदस्य च श्रोत्रग्राह्यत्वात् । न तृतीयः । उपल- ब्धिनिष्ठत्ये चान्यधर्मत्वात्क्रमस्य वर्णानां तद्वत्त्वानुपपत्तेरिति । अत्र व्यक्तिविशेष एव वक्तव्ये यदधिकवचनं तद्वर्णवक्रमस्यापीश्वरबुद्धिधटितस्य कूटस्थतयाऽऽद्यन्तशून्यत्वसूचनेन तदीयार्थबोधकत्वशक्तेः सहजस्वसूचनेन च तदुभयावाप्तेः पराधीनविशेषावाप्तित्वासम्भवसूचनद्वारा द्विरूपोक्तपरा- /शे०५० | द्वित० सुटि धीनविशेषावाप्तिमात्रेणैव वर्णानामिंद सर्वमसृजतेति वाक्योक्तसृज्यकोटिनिविष्टस्योपपादनसम्भवे तदुपपादनाय व्यक्तिरूपविशेषाश्रयणं भाष्यकाराणा- मनर्थकमिति शङ्कानिराकरणार्थम् । ततश्चायमर्थः । यद्यपि वर्णाः कूटस्थतयाऽऽयन्तशून्यत्वान्नोत्पत्त्यादौ परापेक्षाः । नापि क्रमः । तस्यापीश्वर- बुद्धिघटितस्य वर्णवदेव कूटस्थतयाऽऽद्यन्तशून्यत्वस्य स्थितत्वात् । नापि तेषामर्थावबोधशक्तिः । तस्या अपि गायत्र्यधिकरणीयन्यायविवरणटीकाद्य- नुसारेण शब्दस्वभावत्वावगत्याऽनागन्तुकत्वेन पराधीनविशेषत्वायोगात् । तथाऽपि क्रमविशेषविशिष्टवर्णत्वेन रूपेण या वर्णानां सहनाऽर्थावबोध- अ०३ कशक्तिस्वदाविर्भावरूपा या व्यक्तिः सैव वर्णानां पराधीनो विशेष उपपद्यत इति ।। वक्ष्यत इति । कालाधीना हि मुक्तता । काल एवागमोऽ- प्याह मुक्ति कालनिवर्तने । मुक्तेरपि निवृत्तिः स्यान्नाकालावं ततो भवेदित्यादिना भक्तिपादे यदि कालोऽपि नेत्याह कदेति प्रश्न उत्तरम् । किं वक्ष्यति यदावस्था बदेसापेक्षतां व्रजेत् । अवस्थात्वादिति खेव हेतुः साऽपि कदेति च । पृष्टे कालश्च वक्तव्यो नाकालत्वं भवेदित्यादिनोत्क्रान्ति- पादे चेति शेषः ॥ २-३-२॥ ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ ॥ स्वतन्त्रत्वात्परमात्मनः ॥ नैवोत्पत्तिः कथमपि न स्वतन्त्रं ततो परम् ॥ २-३-३ ॥ सु०-॥ ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ ॥ असम्भाव्यमानजन्मनोगगनपवनयोरुत्पत्तायुक्तायामिदमाशङ्कयते । सदजायतेत्यादिश्रुतेर्ब्रह्मणोऽपि जन्मास्ति । न च श्रुत्यादिविरोधः । स्वरूपोत्पत्त्यभावेऽपि परायत्तविशेषावाप्तिरूपोत्पत्तिसम्भवाद्ग- गनपवनवदिति । तन्निवृत्त्यर्थमिदमधिकरणमारब्धम् । एतच्चायुक्तमिवाभाति । असम्भव इत्यनुत्पत्तिमात्रप्रतिज्ञानात् । तस्य च परेणाप्यङ्गीकृतत्वात् । नन्ववधारणार्थस्य तुशब्दस्य प्रयोगामायं दोषः । सत्यम् । तथाऽपि तत्र हेतोरनभिधानादयुक्तमेव । नन्व- नुपपत्तेरित्युक्तम् । सत्यम् । किं तस्यार्थो न ह्यसतः सदुत्पत्तेरदृष्टत्वादनुपपत्तेरिति । न चैतत्सर्वथाऽप्युत्पत्त्यभावमुपपादयितुमलम् । कारणविशेषप्रतिषेधात् । मैवम् । प्रसक्तकारणनिरासादन्यस्याप्रसङ्गात्कारणाभावस्यैव सिद्धेरिति स्थिते विभवादनुपपत्तेरिति हेतु प्रकारान्तरेण व्याचक्षाणः सूत्रामाह ॥ स्वतन्त्रत्वादिति ॥ कथमपीति । स्वरूपतो विशेषतश्चेत्यर्थः । कुतः परमात्मनः स्वा. अ०---॥

तन्त्र्यमिति चेन्मैवम् । किं स्वतन्त्रमेव वस्तु नाङ्गीक्रियते किंवाऽतोऽन्यत्स्वतन्त्रमङ्गीकृत्य तस्य स्वातन्त्र्यं निशक्रियते । नायः । अनवस्थितेरसम्भवाच्च । द्वितीयं प्रत्याह । नेति। प्रमाणाभावात् । भावे वा तदेवास्माभिः परमात्मतयाऽङ्गीकरिष्यत इति भावः। केचिदिदं सूत्रमन्यथा व्याचक्षते । प्राग्गुणिनां वियदादीनामुत्पत्तिरुक्ता । इदानीं रूपादीनां गुणानां दिकालादेशोत्पत्तिरुच्यते । सतो गुणादेरसम्भवो नोपपद्यते । प्रतिज्ञाहान्यादिनाऽनुपपत्तेरिति । तदसत् । वियत्पदेनैव सर्वस्योपलक्षणात् । अभ्यधिकाशङ्का- भावाच । वियत्पदस्य सजातीयभूतमात्रोपलक्षकत्वं न्याय्यम् । विजातीयगुणाद्युपलक्षकत्वमयुक्तमिति चेन । सङ्गतिरेषा नाभ्य- धिका शङ्का । रूपादीनामुत्पत्त्यश्रवणादिति चेन्न । प्रतिज्ञादिभ्यस्तदवगतेः । सङ्कोचस्तत्र कल्प्यत इति चेण । बाधकानुपन्यासा दिति । अन्ये त्वेवं व्याकुर्वते । ब्रह्मण एवासम्भवो न तु तद्व्यतिरिक्तस्य । प्रतिज्ञाहान्यादिप्रसङ्गेनानुपपोरिति । एतदप्यसत् । पूर्वेणैवास्यार्थस्य लब्धत्वात् । वियन्मातरिश्वनोरुत्पत्तिप्रतिपादनमुपलक्षणार्थमिति ज्ञापयितुमेतदिति चेन्न । प्रतिज्ञाहान्याशुपन्यास नैव तज्ज्ञापनसिद्धः। समानन्यायोपलक्षणस्य मीमांसायां सर्वत्र प्रसिद्धत्वात् । अन्यथाऽतिदेशेऽभ्यधिकाशङ्काभ्यूहनवैश्य दि. त्युक्त एव सूत्रार्थः । एतदेव ज्ञापयितुं भगवताऽऽचार्येण प्रागेव नैव किश्चिदित्युपसंहृतम् ॥ २-३-३ ॥ टि०-॥ ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ ॥ ननु स्वतन्त्रत्वादिस्युत्तरवाक्यमनर्थकम् । न चासम्भव हत्येतत्सूत्रव्याख्यानाथ तदिति वाच्यम् । सूत्रव्यावर्त्यशङ्काऽनुपदर्शनेन तदारम्भस्यैवासिद्ध्या तडाख्यानस्यानवसरपराहतत्वादित्यतो भाष्य एव सूत्रव्यावर्त्यशोपदर्शनेन तदारम्भस्य समर्थितस्वादत्र तदसमर्थनं न दोषायेत्यभिप्रेत्य स्वयं भाप्यानुसारेणैतद्यावय॑शङ्काप्रसञ्जककथनपूर्वकं तदुपदर्शनेनैतदधिकरणारम्भ * समर्थयते ॥ असम्भाव्यजन्मनोरिति । भाष्योक्तैतत्सूत्रव्याख्यानस्यानुपपन्नत्वात्स्वतन्त्रत्वात्परात्मन इति ग्रन्थकारीयं प्रकारान्तरेण सूनव्याख्यान- मिति भ्रमनिरासाय भाष्योक्तव्याख्यानं तत्र प्रसक्तानुपपत्तीरुद्भाव्य तत्परिहारेण समात्र प्रकारान्तरेण व्याख्याने हेतु कथयशेव तत्परतयोत्तर- ग्रन्थं योजयति ॥ एतच्चायुक्तमिवाभातीत्यादिना ॥ व्याचक्षाण झति । न स्वतन्त्रमित्युत्तरवाक्येनेति शेषः । सूत्रे सच्छन्दः सदाक्याची। २** CLASSET स०टि० ॥१०॥ म०३ सद्भावे साधुभावे च सदित्येव प्रयुज्यत इति गीतोक्तेः । सद्भावश्च सत्त्वमेव । सत्त्वं स्वातन्थ्यमुद्दिष्टमिति भारतोक्तेरिति भावेन सौत्रस्य सत इति हेस्वंशस्य स्वतन्त्रत्वादिति भाष्ये व्याख्यानं कृतमिति द्रष्टव्यम् । अनुपपत्तेरिति हेतोः प्रकारान्तरेण व्याख्यानपरं भाप्यं योजयितुमाक्षिपति ॥ कृत इति।। अनवस्थितेरसम्भवाच्चेति । यदि किमपि स्वतन्त्र नाङ्गीक्रियते प्रेरकपरम्परापरनिरपेक्षपरमेश्वरे न विश्राम्यतीत्युच्यत इति यावत्। शे०० द्वि० त० तदाऽनवस्था स्यात् । नियम्यत्वसाम्येन नियम्यनियामकमावासम्भवाच्चेत्यर्थः ॥ प्रमाणाभावादिति । अनेन प्रमाणाभावेन ततोऽन्यस्य स्वाल- व्यानुपपत्तेरित्यनुपपत्तेरिति सूत्रखण्डव्याख्यानं कृतं भवति । चिरन्तनवृत्तिकाराणां व्याख्यानमनूध दूषयति ॥ केचिदिति ॥ प्रतिज्ञाहान्या- दिनति । गुणादेब्रह्मकार्यस्वे ब्रह्मविज्ञानेन तद्विज्ञानसम्भवेन येनाश्रुतं श्रुतं भवतीत्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया मृदादिदृष्टान्तैः कार्यकारणाभेद- प्रतिपादनपरैरुक्तप्रतिज्ञासमर्थनस्य चोपपत्तावपि गुणादेब्रझकार्यस्वाभावेन तद्विज्ञानेन तद्विज्ञानासम्भवेनोक्तप्रतिशाहान्यादिप्रसङ्गेनासम्भवानुपपत्ते- रित्यर्थः ॥ वियत्पदेनैवेति । ततश्च वियस्पदोपलक्षितगुणादेब्रह्मकार्यत्वस्य वियदधिकरणेनैव सिद्धेस्तदर्थस्याधिकरणस्य वैयमिति भावः । ननु यथा भवन्मते वियत्पदोपलक्षितस्यापि वायोर्न वियदधिकरणेनं ब्रमकार्यस्वसिद्धिः । अत एव न तसिद्धयर्थस्य मातरिश्चाधिकरणस्य वैय्यर्थ्य * तथा मत्पक्षेऽपि वियस्पदोपलक्षितस्यापि रूपादेर्न वियदधिकरणेन ब्रह्मकार्यश्वसिद्धिः । नापि तरिसध्यर्थस्यास्याधिकरणस्य वैय्यर्थ्यमित्यतस्तेजोबना-14 न्याकाश इति तान्यनित्यानि वायुवि नित्य इति श्रुतौ व्यवस्थितनित्यत्वानित्यत्वमप्याकाशमनित्यत्वपक्षे निक्षिप्य वायोनित्यत्वाभिधानादाकाश- देवताया विनायकस्येव वायुदेवतायाः स्वरूपेण नित्यत्वं देहोत्पत्त्यादिना जन्मादिमत्त्वमिति व्यवस्थानुपपत्तेमुख्यैवानुत्पत्तिरित्यधिकाशङ्कया पूर्व- पक्षिते उक्तव्यवस्थातिदेशेन सिद्धार्थतया मातरिश्वाधिकरणसार्थक्यसम्भवेऽपि स्वपक्षे तादृशाभ्यधिकाशङ्काभावेन तशिरासार्थत्वानुपपत्तेवैय्यर्थ्य तादवस्थ्यमेवेस्याशयेनाह ॥ अभ्यधिकेति । अभ्यधिकाशययाऽधिकरणारम्भं समर्थयते ॥ वियच्छब्दस्येति ॥ सङ्गतिरिति । अन्तरङ्गत्वा- ॥१०॥ सजातीयोत्पत्तिविचार एव प्रथमं जिज्ञासाविषय इति वियत्पदेन सजातीयमेवोपलक्ष्य तदुत्पत्तिरेव पूर्वत्र विचारिता । अत्र तु विजातीयोत्पत्ति- विचारप्रतिबन्धकशिष्यजिज्ञासाया अपगमाद्विजातीयोत्पत्तिविचारस्यावसर इति सङ्गत्युपपादकमेव विजातीयवं नाभ्यधिकाशङ्काप्रापकम् । उक्त- हेत्वनाच्छादकत्वादित्यर्थः । ननु वियत उत्पत्तिमत्त्वे उत्पत्तिश्रवणं सिद्धान्तसाधको हेतुस्तस्य रूपादावसिद्धरस्स्येवोक्तहेत्वाच्छादकत्वामिति शङ्कते।। रूपादीनामिति ॥ प्रतिज्ञादिभ्य इति । येनाश्रुतं श्रुतं भवतीत्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञादिभ्य इत्यर्थः । तथा चैकविज्ञानेन सर्वविज्ञान- प्रतिज्ञान्ययानुपपत्त्यैव रूपादेरपि ब्रह्मकार्यस्वसिद्धेरधिकरणवैय्यर्थ्यमेवेति भावः । भवेदुक्तप्रतिज्ञादिभ्यो रूपादेब्रह्मकार्यत्वावगतिर्यद्युक्तप्रतिज्ञादिक मसङ्कुचितार्थ स्यान्न चैतदस्ति । तस्य रूपादिव्यतिरिक्तविषयकत्वेन सङ्कुचितार्थतया तेन तदसिद्धेरिति शङ्कते ॥ सङ्कोच इति । सङ्को- चस्य बाधकप्रमाणाधीनत्वेन प्रकृते च बाधकाभावेन न प्रतिज्ञादेः सङ्कुचितार्थत्वमिति प्रतिज्ञादिभ्यस्तत्कार्यत्वावगतिरवर्जनीयैवेत्याह । नेति । रामानुजीय व्याख्यानमनूध दूषयति॥ अन्ये विति ॥ तव्यतिरिक्तस्यति । ब्रह्मव्यतिरिक्तस्य महदहङ्कारादेरित्यर्थः ॥ प्रतिज्ञाहान्यादिप्रसङ्गे- नेति । महदादिप्रपञ्चस्य वियदधिकरणोक्तेरेकविज्ञानेन सर्वविज्ञानप्रतिज्ञादिन्यायैरवगतब्रमकार्यभावस्यानुत्पत्तेरनुपपत्तरित्यर्थः ॥ पूर्वेणवेति । वियदाद्यधिकरणेनैवेत्यर्थः । तथा चास्य वैय्यर्थ्य मिति भावः । उपलक्षणार्थ समानन्यायोपलक्षणार्थम् । असत्ये तस्मिन्वियन्मातरिश्चनोरुत्पत्तिप्रति- पादनस्य तन्मात्रपरस्यैव विज्ञानप्रसक्तेरिति भावः ॥ प्रतिज्ञाहान्यायुपन्यासेनैवेति । भवेदेतदेवं यद्यसत्ये तस्मिन्वियदाद्युत्पत्तिप्रतिपादनस्य तन्मात्रपरत्वं प्रतीयत इति स्यात् । न चैतदस्ति । तदधिकरणोक्तैरेकविज्ञानेन सर्वविज्ञानादिन्यायैरेव सामान्यन्यायोपलक्षकत्वस्य विज्ञानसिद्धे- रित्यर्थः । सर्वत्रेति । आनन्दमयाधिकरणादावित्यर्थः ॥ अन्यथेति । सूत्रोपात्तवियदादिपदानां तत्तन्मात्रपरस्वमङ्गीकृत्य समानन्यायानुप-* लक्षणत्व इत्यर्थः ॥ वैय्यर्थ्यादिति । प्रागनुक्ततत्तच्छब्दसमन्वयप्रतिपादकतयाऽर्थवत्त्वेन गतार्थत्वशङ्काया एवानुदयादिति भावः ॥ प्रागेवेति । मातरिश्वाधिकरण एवेत्यर्थः ॥ २-३-३ ॥ अ०--॥ ॐ न्यतिरेको गन्धवत्तथा च दर्शयति ॐ ॥ अच्छेधस्यापि जीवस्य विभागं बहुधा हरिः॥ कृत्वा भोगान्प्रदायैव चैक्य- मापादयेत्पुनः॥ अत ईशवशं सर्व चेतनाचेतनं जगत ॥ भविभागं विभागाय यदा नयति केशवः ॥ किमशक्यं परेशस्य तदेति शाभिधीयते ॥२-३-२३॥

बोल चं० DRUAR वि० तु. सुटिक अ०१३ सु०-- ॐ व्यतिरेको गन्धवत्तथा च दर्शयति ॐ ॥ अत्र योगिनां स्वरूपेणैवानेकत्वमुपपावते । तस्य चाधि- रोधश्चन्दनवदित्युक्तार्थोपपादकतया सङ्गतौ स्थितायामसम्भवस्तु सतोऽनुपपत्तेरिति यदीश्वरस्य सर्वस्वातन्त्र्यमुक्तं तदुषषा- दकत्वेनापि सङ्गतिं ज्ञापयंस्तथा सूत्र व्याचष्टे ॥ अच्छेद्यस्यापीति । भोगांश्चति सम्बन्धः । ऐक्यमेवेत्येवशब्दान्वयः । ऐक्य- मेकरूपत्वम् । स्वरूपैक्यस्य विभागेऽपि सत्त्वात् । सर्वमीशवशम् । तथा च स एव स्वतन्त्र इति वाक्यशेषः । नन्वन्य छेत्तुमशक्य छित्वा तेषामपि भागानां भोगशक्ति प्रदाय यदि पुनरेकतामापादयति हरिस्तहिं तत्र तस्य सामर्थ्य शायताम् । कार्यस्य कारण- शक्ति विनाऽनुपपत्तेः । सर्व जगदीशवशमिति तु कथमित्यत आह । अविभागमिति । यथा लोके किश्चिदद्भुत कार्य कृतध- तस्तथाभूतेऽन्यत्रापि कार्यशक्तिः सम्भाव्यते । तथाऽत्यन्ताघटितमिदं घटयतो जगन्नाथस्य सर्वत्रापि शक्तिसम्भावना युवराति भावः। नन्वत्र सूत्रे जीवस्यानेकत्वापत्तिमात्रमुच्यते न तु तस्याः परमेश्वरायत्तत्वम् । तत्कथमनेन तस्य सर्वेश्वर्याचगतिरित्त आइ॥ इति हीति । तं यथा यथेश्वरः प्रकुरुते तथा तथा भवति । सोऽचिन्त्यः परमो गरीयानचिन्त्ययेशशक्त्यैव कोऽवयसविसर्जितः। आत्मानं बहुधा कृत्वा क्रीडते योगसम्पदेति सूत्रोपाचाभ्यां श्रुतिस्मृतिभ्यां यस्मादेवमभिधीयते तस्माताशेणारशेवमाभिधीयते । प्रतिज्ञाप्रमाणयोरेकार्थताया आवश्यकत्वादिति ॥ २-३-१३ ॥ टि० ॥ ॐ व्यतिरेको गन्धवत्तथा च दर्शयति ॐ ॥ अव्यवहितपूर्वाधिकरणेन समतिमनभिधाय व्यवहितापिकरणेन तदभिवाणा- दस्याधिकरणस्याव्यवहिताधिकरणसङ्गस्यभावमाशक्य भवेदेतदेवं यद्यच्छेवस्येत्यादिभाष्यं व्यवहितमात्रसङ्गतिकथनपरं स्याश चैवम् । आगलहि- पूर्वाधिकरणोक्तार्थोपपादकतया तत्समतेरपि सद्भावास्किन्तु व्यवहितेनापि सङ्गतिरस्त्रीत्यभिप्रायकमेवोभयसङ्गतत्वेऽप्यव्यवहितवादेव तामि. करणसङ्गतेः स्पष्टज्ञानत्वादनुक्तिः । व्यवहितत्वाचासम्भवस्वित्यधिकरणेन सङ्गतेरस्पष्टज्ञानत्वात्तदुक्तिरित्यतो न कन्धिोष इत्यभिप्रेस सङ्गतिजिज्ञासोस्थापनस्यैतदधिकरण प्रतिपाद्यं वदन्नेव तस्याव्यवाहिताधिकरणसङ्गतिं च दर्शयन्नेव व्यवहितेनापि सङ्गतिरतीत्यभिप्रायकात्वं च भाष्यस्य सूचयन्नेव व्यवहितसङ्गत्युपदर्शनपरतया भाष्यं सङ्गमयति ॥ अत्रोत । स्वरूपेणैवति । न त्वौपाधिकभेदेनेत्यर्थः ॥ उक्तार्थोपपा- दकतयेति । चन्दनदृष्टान्तेन जीवस्यांशतो देहव्याप्तिप्रतिपादनेन यत्तस्यानेकांशत्वं लब्धं तदुपपादकतयेत्यर्थः ॥ भोगांश्चेतीति । अनेन चैक्यमान पादयेदित्यत्रत्यचशब्दस्य न यथाश्रुतसम्बन्धः किन्तु भोगांश्चेत्येवरूपेण भोगानित्यनेनैवेति न तस्य वैय्यर्थ्यमिति भावः । प्रदायैवेत्यत्रैवकारस्य वैय्यादिप्रसङ्गेन यथाश्रुतसम्बन्धानुपपत्तेस्तत्सार्थक्यं सूचयन् अपेक्षितसम्बन्धं दर्शयति ॥ ऐक्यमेवेति । ऐक्यशब्दस्य स्वरूपैक्यार्थता- भ्रान्तिपरिहारायार्थमाह ।। ऐक्यमेकरूपत्वमिति । अविभागवत्त्वमित्यर्थः । स्वरूपैक्यार्थत्वमेव किन्न स्यादित्यत आह ॥ स्वरूपैक्यस्यति । ततश्च तस्यापाद्यत्वानुपपत्तेरतदर्थतैक्यशब्दस्येति भावः । भगवतः स्वातन्त्र्यस्यात्रानुक्तेर्न तदुपपादकत्वमस्येत्यतोऽपक्षितशेषपूरणेन स्वातन्त्र्योपपाद- कतामुपपादयति ॥ तथा चेति ॥ इति तु कथमिति । सर्वत्र सामर्थ्यज्ञापकाभावादिति भावः॥ सम्भावनायुपतेरिति । वराहगृध्रादिषु दूरस्थ- शब्दरूपग्रहणसमर्थेष्वपि तथाविधरसादिग्रहणसामर्थ्यस्यादृष्टत्वेन योऽशक्यमेकं करोति स तथाविधमपरमपि करोत्येवेति व्याप्तेरभावेनानुमानत्वा- सम्भवात्सम्भावनात्वोक्तेरिति ध्येयम् ॥ २-३-१३ ॥ अ०-॥ ॐ पृथगुपदेशात् ॐ ॥ एवं स्थितेऽपि जीवैक्यं केचिदाहुः परात्मना ॥ तद्योऽहमिति पूर्वामिः श्रुतिभिश्चानुमावलात ॥ न तयुक्तं यतो विष्णुः पृथगेवाभिधीयते ॥ प्रशानेत्रो लोक इति मुक्तौ भेदोऽभिधीयते ॥ ॥ ॐ पृथगुपदेशात् ॐ ॥ अत्र जीवात्मनः परमात्मनाऽऽत्यन्तिको भेदः समर्थ्यते । स्यादेतत् । यथा हि प्रत्यक्षादिप्रमा (गैरव ) णावधृत (देवदत्त ) सिंह ( देवदत्त ) भेदस्य पुंसः सिंहो देवदत्त इति वाक्यश्रवणेऽपि न सिंहदेवदत्त- स्वरूपैक्यप्रतिपत्तिर्भवति । किनाम गौण एवायं प्रयोग इत्यध्यवस्यति । तथाऽथातो ब्रह्मजिज्ञासेत्यादिभिर्व्यतिरेको गन्धव- दित्यन्तैः सूत्रैजीवात्मपरमात्मभेदस्य प्रत्यक्षादिप्रमाणबलेनोपपादितत्वात्तत्वमस्यादिश्रुतिशतेनापि न तदभेदप्रतिपत्तिरुत्पत्तुमलम् । किन्तु गौणार्थ एव श्रुतय एव इति निश्चयो भवेत् । अतः प्रापकाभावान्नेदमधिकरणमारम्भणीयमित्यतोऽधिकाशङ्का दर्शयन्पूर्वपक्ष- . ३ कारच सुगरे० ॥ १२॥ SA यति ॥ एवं स्थितेऽपीति । एवमतीतग्रन्थोक्तन्यायेन जीवात्मपरमात्मनाभेदे निश्चितेऽपीत्यर्थः । स्मृतिभिश्चति चार्थोऽनुमानवला- चेति वा सम्बन्धः । एतदुक्तं भवति । यद्यपि भेदः प्राक् समर्थितस्तथाऽपि जीवः परमात्मनाऽभिन्न एव । तद्योऽहं सोऽसौ योऽ. सौ सोऽहम् । तत्त्वमसि । अहं ब्रह्मास्मीत्यादिश्रुतेः । अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम् । ईदृङ्मनो यस्य हित० नतस्य भूयो भवोद्भवा द्वन्दगदा भवन्तीत्यादिस्मृतेश्च । न चताः श्रुतयः स्मृतयश्च गौणार्था योज्याः । उपक्रमादिवलेन तात्पर्याव- 0 0 १४ धारणात् । बलवदाधकाभावाच्च । उपन्यस्तानि तु प्रमाणान्याविद्यकमिथ्याभेदविषयतयाऽपि सम्भवन्ति । तथा चानुमानम् । विमतो भेदो मिथ्या भेदत्वाच्चन्द्रभेदवदिति । न चास्मिन्नस्य च तद्योग शास्तीति मुक्तावपि भेदोक्तिबोधिका । तस्या अवा- न्तरविषयत्वोपपत्तेः । न च परममुक्तौ भेदे प्रमाणमस्ति । यत्र त्वस्य सर्वमात्मैवाभूत् । विभेदजनके ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति । आविमुक्तेस्तु भेदः स्याज्जीवस्य परमस्य च । ततः परं न भेदोऽस्ति भेदहेतोरभावत इत्यादिश्रुतिस्मृतयोऽपवदन्ति च परममुक्तौ जीवपरभेदमित्येवं केचिद्रादिनो वदन्ति । अतो युक्तस्तन्निराकरणायाधिकरणारम्भ इति । एवं पूर्वपक्षयित्वा सिद्धान्तयत्सूत्रं व्याचष्टे ॥ न तदिति । तज्जीवस्य परमात्मैवयं न युवतम् । किन्तु पृथगेव जीवात्मपरमात्मानौ । बुतः। यतो विष्णुजीवाजीवश्व विष्णोभिन्नोऽचिन्त्यः परमो जीवसङ्घादित्यादिश्रुति (स्मृति)भिः पृथगेवाभिधीयते तस्मादित्यर्थः नन्वेताः श्रुतिस्मृतयोऽविद्याकल्पितभेदविषयतयाऽन्यथासिद्धाः । न तात्त्विकभेदसिद्धयै प्रभवन्तीत्युक्तामिति चेत् । मा त्वरिष्ठा निराकरिष्यामः । श्रुत्यादेरतत्त्वावेदकत्वमित्याशयवानकल्पितभेदविषयां श्रुतिमुदाहरति ॥ प्रज्ञेति । एष ब्रह्मेष प्रजापतिरिन्द्र इत्यादिना विश्वप्रपञ्चमनूध सर्व तत्प्रज्ञानेत्रमिति तस्य प्रज्ञाख्य ब्रह्मनेतृकत्वमभिधाय नेतृनेतव्यभावस्य कल्पितत्वादित्याशङ्कानिवृत्त्यर्थ प्रज्ञानेत्रो लोक इति श्रुत्या मुक्तावपि जीवपरयो,दोऽभिधीयतेऽलोको मुक्तोऽपि प्रज्ञानेत्रो ब्रह्मनेतृक इति । नीयतेऽनेनेति नेत्रम् दाम्नीत्यादिसूत्रात् । प्रज्ञा च ब्रह्म । प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्मेति वाक्यशेषात् । न चात्र लोक इति पदं छेयम् । जनभुवनदेहरूपस्य लोकस्य प्रागेव ब्रह्मनेतृकत्वस्योक्तत्वेन पुनरुक्तिमसङ्गाद । न च नेतृनेतन्ययोरभेदः क्वचिदस्ति । न चावान्तरमुक्तिविषयेयं * श्रुतिः। तत्र लोकातीतताऽयोगात् । देहेन्द्रियादिवैकल्यं खल्बलोकत्वम् । परममुक्तौ चानुवर्तमानो भेदो नाविद्याकल्पितो भवितुम- इत्यतिप्रसङ्गादिति । टि०-ॐ पृथगुपदेशात् । अधिकरणप्रतिपाद्यमाह।। अत्रेति। नन्वेवं स्थितेऽपीत्युत्तरवाक्यमनर्थकम्। न चाभ्यधिकाशङ्काप्रकारप्रदर्शनेनाधिकर-2 जारम्भसमर्थनपरत्वान्न तदिति वाच्यम् । प्रागुक्तस्य जीवपरमात्मनोरात्यन्तिकभेदस्य समर्थनेनैवाधिकरणारम्भसिद्धया गतार्थताशङ्काऽनुदयेन तन्निरास- * काभ्यधिकाशङ्काया अनपेक्षितत्वेन तयाऽधिकरणारम्भसमर्थनस्याकर्तव्यत्वादित्याशङ्क्यातीतग्रन्थेन जीवपरमात्मनोरात्यन्तिकभेदस्य समर्थितत्वेन गतार्थ- शङ्कादयसम्भवेन तनिरासकाभ्यधिकाशङ्कयाऽधिकरणारम्भसमर्थनं युक्तमेवेत्यभिप्रेत्याभ्यधिकाशकोपदर्शकतयोत्तरग्रन्थं योजयितुं तत्प्रयोजकीभूतां गतार्थताशङ्कामुस्थापयति ॥ स्यादेतदिति । श्रुतिभिश्चेति चशब्दस्य यथाश्रुतसम्बन्धे उक्तसमुच्चायकत्वासम्भवादनुक्तसमुच्चयार्थतया पुराणानि च बाक्यानीत्युत्तरग्रन्थानुरोधेन तं व्याचष्टे ।। स्मृतिभिश्चेति चार्थ इति । अस्मिन्पक्षेऽनुक्तसमुच्चायकता भवतीत्यपरितोपादिनक्रमतामाश्रित्योक्त- * समुच्चायकतयाऽपि तं व्याचष्टे ।। अनुमानबलाचति वा सम्बन्ध इति । ननु जीवात्मपरमात्मभेदस्य प्रत्यक्षादिप्रमाणबलेनोपपादितत्वात्तदभे- दबोधकस्य तत्त्वमस्यादिवाक्यस्य सिंहो देवदत्त इत्यादिप्रयोगवद्गौणप्रयोगत्वादनुमानस्य च पावकशैत्यानुमानवकालात्ययापदिष्टत्वान्नाभेदप्रापकत्वमिति कथमियमभ्यधिकाशङ्केत्यत आह ॥ एतदुक्तं भवतीति ॥ गौणार्थी योज्या इति । योग्यताविरहेण मुख्यतो जीवात्मपरमात्मनोरभेदबोधकत्वा- सम्भवादिति भावः ॥ तात्पर्यवत्त्वावधारणादिति । तथा च नोपचरितार्थत्वकल्पना युक्तेति भावः । ननु सत्स्वपि तात्पर्यलिङ्गेषु प्रत्यक्षादि- प्रमाणविरोधात्प्रस्तरादिवाक्यवस्सोमेन यजेतेत्यादिवच्च न तत्त्वमस्यादिवाक्यानामद्वैतपरत्वम् । अन्यथा कुरूप शूरं चोद्दिश्याहो दर्शनीयेति शूर इति च शतकृत्वः प्रयुक्तस्य वाक्यस्यापि तत्परत्वप्रसङ्गादित्यतो बलवद्वाधकभावाभावाभ्यां वैषम्यान्न प्रतिबन्दीग्रहो युक्त इत्याह ॥ बलवद्वा- धकामावाच्चेति । ननु भेदग्राहकं प्रत्यक्षादिकमेव बलवबाधकं भविष्यतीति कथं तदभाव इत्यतस्तस्य भ्रमत्वान्न बाधकता सम्भवतीत्यभिप्रेत्य शेचं० তি अ०१४ सटि तस्य भ्रमतामुपपादयति ॥ उपन्यस्तानीति । भवेन्मिथ्याभूतभेदविषयतया प्रत्यक्षादेर्भमत्वकल्पनं यदि भेदस्य मिथ्यात्वमेव सिद्धं स्यान्न च तदस्त्रि तत्प्रमाणाभावादिस्यत आह ॥ तथा चेति । एतदनुमानविवरणं चोत्तरत्राकर एव स्पष्टम् । ननु नानेनानुमानेन जीवपरमात्मनोभ॑दमि- ध्यास्वसिद्धिः । अनुमानस्य तद्भेदश्रुतिबाधितत्वेन कालात्ययापदिष्टत्वात् । न च भेदश्रुतेमिथ्याभूतभेदप्रतिपादकत्वेनाप्रमाणत्वान्न बाधकत्वमिति वाच्यम् । एतमानन्दमयमात्मानमुपसङ्कम्येत्यादौ परमेश्वरसामीप्यस्य सोऽभुते सर्वान्कामान्सह ब्रह्मणा विपश्चितेत्यादौ तत्साहित्यस्य च भेापि- नाभूतस्य मुक्तावभिधानेन मुक्तावपि भेदसिद्धेः । मुक्तौ शिष्यमाणस्य च भेदस्यात्मस्वरूपवदमिथ्यावस्यैव वक्तव्यत्वेन भेदश्रुतेमिथ्याभूतभेदवि- षयत्वासम्भवेन पारमार्थिकभेदविषयत्वसिद्धया तबाधासम्भवादित्याशङ्कते ।। न चेति । अनुमानस्य परममुक्तौ भेदाभावविषयत्वादुदाहृतभेदश्रुते- श्वापरमुक्तिविषयत्वेन भिन्नविषयतया परस्परवार्तानभिज्ञयोर्विरोधस्यैवाभावेन बाध्यबाधकभावानुपपत्तरित्याशयेन परिहरति ॥ तस्या इति । अस्तु तर्हि परममुक्तावेव भेदप्रमाणबाधोऽभेदानुमानस्येत्यतो भवेदेवं यदि तादृशं प्रमाण स्यान्न च तदस्तीत्याह ॥ न चेति । न केवलं परममुक्ती भेदो न श्रौत इत्येव किन्तु तदभाव एव श्रौत इत्यभिप्रेत्य तत्र श्रुतिस्मृतीरुदाहरति ॥ यत्र वित्यादि । भिन्नो जीव इति भाष्यानुरोधेन यतो विष्णुरित्येतदुपलक्षणमित्यभिप्रेत्य व्याचष्टे ॥ यतो विष्णुजीवाजीवश्च विष्णोरित्यादिना ॥ निराकरिष्याम इति । अप्रामाण्यं यदा भेदवा- चकस्य भविष्यतीत्यादिनाऽस्मिन्नेवाधिकरण इति शेषः । कथं प्रज्ञानेत्रपदाब्रह्मनेतृकत्वस्य लाभ इत्यतो नेत्रशब्दार्थमाह ॥ निमीयतेऽनेनेति नेत्रमिति । णीम् प्रापण इत्यस्मात्करणे ष्ट्रन्प्रत्यये प्रत्ययादेः षस्य षःप्रत्ययस्येतीत्संज्ञायां तस्य लोप इति लोपे सार्वधातुकार्धधातुकयोरिति गुणे च सति नेत्रमिति रूपनिष्पत्तिरिति भावः । नयतेः करणे टून्प्रत्ययस्यालाक्षणिकत्वं परिहरति ॥ दाम्नीत्यादिसूत्रादिति । आदिपदेन शश- युजस्तुतुदसिचमिहपतदशनहः करण इति सूत्रशेषपरिग्रहः । दाबादिभ्यो धातुभ्यः करणे कारकेषु ष्ट्रन्प्रत्ययो भवतीत्युदाहृतसूत्रार्थः । ननु नेत्र- शब्दस्योक्तनिर्वचनाश्रयणेऽपि प्रज्ञानेतृकत्वमेव ततः सिद्धयेन्न ब्रह्मनेतृकत्वमित्यतोऽत्र वाक्ये प्रज्ञाशब्दस्य ब्रह्मपरत्वाद्युक्तोऽनेन ब्रह्मनेतृकत्वस्य लाभ इस्याशयवानाह ॥ प्रज्ञा चेति । कुतः सामान्यपदस्यास्य ब्रह्मरूपविशेषपरस्वमित्यतो घृतशब्दसन्निहिताक्ताशब्दस्य घृतरूपविशेषपरत्वदर्शनेन विशेषशब्दसन्निहितसामान्यशब्दस्य विशेषपरत्वनियमात्तत्सिद्धिरित्यभिप्रेत्य कथमत्र विशेषशब्दसन्निधानमित्यतो विशेषशब्दोपेतं वाक्यशेषसुदा- हरति ॥ प्रज्ञोत ॥ न चेति । तथा च मुक्तस्य ब्रह्मनेतृकत्वासिद्धेर्न मुक्तौ भेदाभिधायकत्वमस्येत्याशयः । नन्वनया श्रुत्या नेतृनेतव्यभावोक्तावपि । भेदानुक्तेः कथं भेदाभिधायकत्वमित्यतो नेतृनेतव्यभावस्य भेदाविनाभूतत्वा दाविनाभूतधर्माभिधायकस्य तव्यापकभेदगमकताया अपि सत्त्वान्नानु- पपत्तिरित्यभिप्रेत्य भवेदतदेवं यदि नेतृनेतव्यभावस्य भेदाविनाभावः सिद्धः स्यात्स एव तु कुतः सिद्ध इस्यतोऽव्यभिचारादेव तसिद्धिरित्याह । न चति । येनोक्तनियमो भज्येतेति भावः ॥ न चेति । ततश्चाविद्याकल्पितभेदविषयतयाऽन्यथासिद्धत्वादुदाहृतश्रुतेन तात्त्विकभेदसाधकतेति भावः । नन्यस्त्वस्याः परममुक्तिविषयत्वं तथाऽपि तत्र कल्पितभेदविषयत्वमेव किन्न स्यादित्यत आह ॥ परमेति ॥ अतिप्रसङ्गादिति । तत्रानुवर्तमा- नस्य ब्रह्मणोऽप्यविद्याकल्पितत्वं स्यादित्यतिप्रसङ्गादित्यर्थः । अ०-एतमानन्दमित्यन्या परमं लाम्यमित्यपि ॥ इदं ज्ञानमपाश्रित्य मम साधर्म्यमागताः ॥ सर्गेऽपि नोपजायन्ते प्रलरोन व्यथन्ति च ॥ उपसम्पद्यते ज्योतिः स्वरूपेणाभिपद्यते ॥ तत्र पयति जसंश्च क्रीडलपि सदा सुखी । माचक्ष्व मे परं मोक्षं धीरा यं प्रवदन्ति तम् ॥ इत्युक्त आह वाग्देवी परं मोक्षं प्रजापतेः।। शाखां शाखां महानद्यः संयान्ति परितः स्वाः । धानापूपामांस- कामाः सदा पायसकर्दमाः ॥ यस्मिन्नग्निमुखा देवाः सेन्द्राः समरुद्गणाः॥ ईजिरे ऋतुभिः श्रेष्टैस्तदक्षरमुपासते ॥ प्रविशन्ति परं देवं मुक्तास्तत्रैव भोगिनः॥ निर्गच्छन्ति यथाकामं परेशेनैव चोदिताः॥ भेदृष्ट्याभिमानेन निस्सङ्गेनापि कर्मणा ॥ कर्तृत्वा- सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिना ॥ जाते गुणव्यतिकरे यथापूर्व प्रजायते ॥ ऋची त्वः पोष- मास्ते च परेण प्रेरिताः सदा ॥ यत्कामस्तत्सृजत्यद्धवात्मना तत्सृजत्यपि। सहैव ब्रह्मणा कामान्भुङ्क्ते निस्तीर्णतद्गुणः।। दुःखा दींश्च परित्यज्य जगद्यापारवर्जितः। भुङ्क्ते भोगान्सदैवोच्चानित्याद्यागममानतः ॥ मुक्तस्य भेदावगतेः कथमेव भिन्नता। जीवेशयो नुमा च तदभेदं प्रमापयेत् ॥ सु०-ननु मु(क्तौ भेदाभावेने)क्तावभेदेऽनेकाः श्रुतयः स्मृतयश्च सन्ति । तत्कथमेकाकिनीयं श्रुतिर्मुक्तौ भेदसाधनायालमित्यतो बव्हीः श्रुतिस्मृतीरत्रोदाहरति ॥ एतमिति। एतमानन्दमयमात्मानमुपसङ्क्रम्येत्यन्याश्रुतिर्मुक्तस्य परस्मा दमाह । सामीप्यमानेराभिधा- ३* • सुश .org नात् । न चेयमवान्तरमुक्तिः । अस्माल्लोकात्मेत्येति विदेहत्ववचनात् । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैतीत्यपि श्रुति- मुक्तौ जीवस्य ब्रह्मणो भेदमाचष्टे । साम्यस्य भेदसमानाश्रयत्वात्। पुण्यपापाञ्जनात्याविद्याविभूननाभिधानादस्यापि परममुक्तिविषयत्वं ज्ञायते । इदं ज्ञानमिति भगवद्वाक्येऽपि मम साधर्म्यमागता इति भेदो ज्ञायते । सर्गप्रलययोरप्युपजननव्यथाभावोक्त्या परममुक्तित्वं च । शे०० उपसम्पद्यत इत्यनेन परज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पयते । स तत्र पयति जक्षन्क्रीडघ्रममाण इत्येतां श्रुतिमर्थतोनुवदति । १४ अत्रापि सामीप्यप्राप्त्यादिना भेदोऽवगम्यते। अस्माच्छरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यत इत्युक्त्या परममोक्षत्वं च। शाखांशाखा मिति महाभारतवाक्ये भेदावभासः स्फुट एव । तस्य च परममोक्षविषयताप्रदर्शनार्थमाचक्ष्वेत्यादिपूर्ववाक्यार्थसङ्ग्रहकथनम् । इत्युक्ते प्रजापतिनति पृष्टे । तस्य मध्ये वेतसः पुण्यगन्धः सहस्रशाखो विमलो विभाति । तस्य वेतसस्य शाखा शाखामाश्रित्य धानापूरवत्यः मांसकामवत्यः। अर्शआदिभ्योऽच् । पायसं कर्दमस्थानीयं यासां तास्तथोक्ताः । यसिल्लोके । ईजिरे यजन्ते च । तदक्षरं परमं ब्रह्म । तत्रैव * परमेश्वरान्तर एव । भेददृष्टयेति भागवतवाक्यस्यायमर्थः। आधः स्थिरचराणां यो वेदगर्भः सहर्षिभिः। योगेश्वरैः कुमाराधैः सिद्ध योगप्रवर्तकैः। स जीवेश्वरादिभेदज्ञानेनाभिमानेनेश्वरबहुमानेन निवृत्तकर्मणा च जगत्कर्तृत्वात्सार्वज्ञादिगुणोपेतं परमपुरुषाख्यं परं ब्रह्म सङ्गत्य मुक्तः सन्मविश्य पुनः कालाख्यपरमेश्वरमूर्त्या सृष्टिकाले जाते सत्यगुणव्यतिरेके सत्यादिगुणविक्रियाहीने विष्णु लोके पूर्व वत्सर्वमुक्ताधिपतिर्जायत इति । अत्र तु भेदः स्फुट एव । हिरण्यगर्भमुक्तित्वादेव परममुक्तित्वं च सिद्धम् । ऋचां त्वः पोषमास्ते । पुपुष्वान्गायत्रं त्यो गायति शक्वरीषु । ब्रह्मा त्यो वदति जातविद्यां यज्ञस्य मात्रां विममीत उत्व इति मन्त्रस्यायमर्थः । मुक्तिस्थाने त्वः कश्चिद्रह्मा ऋचा पोषं पुपुष्वानास्ते ऋचः पुष्टाः कुर्वन्नास्ते । त्यो ब्रह्मा शक्वरीषु ऋवारूढं गायत्रं साम गायति। वो ब्रह्मा जातविद्या पौरुपेयविद्या बदति । त्यो ब्रह्मा यज्ञस्य विष्णोर्मात्रामंशमेल विमिमीते ध्यायतीति । अत्रापि भेदः स्फुट एवावभासते ब्रह्मबाहुल्यश्रवणात्परममोक्षत्वं च । न चास्य ऋत्विग्विषयत्वम् । ब्रह्मणो जातविद्यावादित्वस्याप्रसिद्धत्वात् । चतुर्णामपि पादानां भी । होत्रादिभिन्नविषयत्वे तृतीयपादे त्व इति च व्यर्थं स्यात् । चशब्दो वाक्यशेषसमुच्चये । परेण प्रेरिताः सदेत्यनेन स वा एष ब्रह्म- निष्ठ इदं शरीरं मर्त्यमतिसृज्य ब्रह्माभिसम्पद्य ब्रह्मणा (भि) पश्यतीत्यादिश्रुतीः। यथेष्टं परिवर्तन्ते तस्यैवानुग्रहेरिता इत्यादिरमृती- श्योपादत्ते। यत्काम इत्यनेन न हास्य कर्म क्षीयतेऽस्माद्धयेवात्मनो यद्यत्कामयते तत्तत्सृजत इति श्रुतिरुपादीयते । मुक्तो यद्यत्कामयते तत्तद्वस्तु तत्कर्म सृजते । कथं यत्सृजते तदस्मादात्मन एव परमेश्वरानुग्रहद्वारैवेत्यर्थः । अझैवेति ह्येवशब्दार्थः । अत्रेश्वराज्जीवस्य भेदः स्पष्ट एव । कर्माक्षयवचनात्परममुक्तित्वं च । सहैवेत्यनेन सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चितेति श्रुतिमुपादत्ते । ब्रह्मणा ब्रह्मात्मकतया सर्वान्कामान्सह योगपद्येन भुङ्क्त इति व्याख्यानं तु श्रौताक्षराननुगुणं तत्सिद्धान्ताननुगुणं च । निस्तीर्णेत्यनेन ती! हि तदा सर्वान्शोकान्हृदयस्य भवतीति श्रुतिह्यते । तदा सर्वान् शोकांस्तीर्णो मुक्तो हृदयस्य ब्रह्मणः शेषभूतो भवतीत्यर्थः । हृदयनत्या- हृदयं ब्रह्म । तद्गुणा हृद्गुणा दुःखाद्याः । अत्र सर्वशोकतरणात्परममुक्तित्वमवगम्यते । दुःखादींश्च परित्यज्येत्यनेन ज्योतिर्मयेषु देहेषु स्वेच्छया विश्वमोक्षिणः । रञ्जते सुसुखान्येव न दुःखादीन्कदाचनेत्यादि (क) ब्रह्मवैवर्तवाक्यं गृहृते । अत्र बहुवचनेन भेदो दुःखाद्यभावेन परममुक्तित्वं चाव (सीयते) भासते। जगद्यापारेत्यनेन स्वाधिकानन्दसम्माप्तौ सृष्टयादिव्यापृतिष्वपि । मुक्तानां नैव कामः स्यादन्यान्कामांस्तु भुञ्जत इति वाराहवचनं गृह्यते । अत्र चैश्वर्यमर्यादया भेदो गम्यते । स्वपक्षसाधनमुपसंहरति ॥ इत्या- दीति । मुक्तस्य परब्रह्मण इति शेषः । इदानीं परपक्षं निराकरिष्यन्यदुक्तं श्रुतिभिश्चानुमावलादिति श्रुतिसाचिव्येनानुमानं तत्ता- बनिराकर्तुमुपक्रमते ॥ नानुमा चेति । चशब्दः स्वपक्षसाधनपरपक्षान (रसनसमु ) राससमुच्चयार्थः । प्रमापयेत्ममितं कुर्यात् । यद्वा जीवेश्वराभेदे परोपन्यस्तसमस्तप्रमाणनिरसनप्रतिज्ञेयम् । तथा च श्रुतिस्मृती चेति चार्थः । टि-नन्वेतमानन्दमित्यन्येत्याधुत्तरवाक्यजातमनर्थकम् । न च मुक्तभेदसाधकश्रुतिस्मृत्युपन्यासार्थवान्न तदिति वाच्यम् । प्रज्ञानेत्रो लोक इति श्रुत्या तस्य पूर्वमेव साधितत्वेन भेदसाधकश्रुत्यायुपन्यासस्याप्यनर्थकत्वात् । न च भेदसाधकश्रुस्यादेर्बाहुल्यज्ञापनार्थत्वान्न तदिति वाच्यम् ।

सुटि० अ०१४ तज्ज्ञापनस्याप्युपयोगाप्रतिभासादित्यतः प्रज्ञानेनो लोक इति श्रुत्या तस्य पूर्वमेव साधितत्वेन भेदसाधकश्रुत्याधुपन्यासस्याप्यनर्थकत्वात् । न च भेदसाधक- श्रुत्थादेर्बाहुल्यज्ञापनार्थत्वान्न तदिति वाच्यम् । तज्ज्ञापनस्याप्युपयोगाप्रतिभासादिस्यतः प्रज्ञानेत्रो लोक इति श्रुतेर्भेदसाधकस्वाभेदवाधकस्यानुपपत्तिशङ्काप- शो०० रिहारार्थत्वान्न तदिति भावेन तदनुपपत्तिशङ्कामुस्थापयति ॥ नन्विति । ननूदाहृतश्रुतौ भेदस्याश्रवणान्न भेदाभिधायकता सम्भवतीत्यतो भेदाविनागृतार्था द्वितः भिधायकतया भेदगमकत्वान्नानुपपत्तिरित्यभिप्रेत्य तदविनाभूतार्थाभिधायकतामाह ॥ सामाध्येति ॥ पुण्यपापेनि । पुण्यपापे विधूयेति पुण्यपापविधूननस्य निरञ्जन इत्यञ्जनशब्दवाच्याविद्याविधूननस्य चाभिधानादित्यर्थः। भेदो ज्ञायत इति । भेदसमानाश्रयसाधयाभिधायकतया भेदावगमकवादिति भावः। नन्वत्र परमात्मनोऽश्रवणात्कथमनेन मुक्तपरमात्मभेदसिद्धिरित्यतोऽत्र ममेत्यत्यैव भगवद्बोधकरवान्नानुपपत्तिरिति भावनोक्तं भगवद्वाक्य इति।।परममुक्ति- त्वं चेति । ज्ञायत इति पूर्वेण सम्बन्धः। उपसम्पद्य तज्ज्योतिरित्योदेरतमानन्दं परनं साम्यमित्यादेखि स्वरूपतः श्रुत्यनुवादकत्वासम्भवादाह ॥ उप- सम्पयेत्यनेनेति ।। सामीप्यप्राप्त्यादिनति । उपसम्पद्यति सामीप्यकथनेन स्वेन रूपेणाभिनिष्पद्यत इति स्वरूपाविर्भावादिकथनेन चेत्यर्थः । आचश्वेत्यादेख्दाहरिष्यमाणप्रमाणशेषत्वभ्रान्ति परिहरनेव किमनेन प्रमाणमुच्यत इस्याशङ्कां परिहरति । शाखामिति । तचिदवेत्यादिवाक्यानक्यामि-al स्यतोऽस्योदाहरिष्यमाणभारतवाक्यापूर्ववाक्यार्थसङ्ग्रहकथनार्थस्वान्न तदिति भावेन तत्कथनस्य प्रयोजनं दर्शयन्नेव तत्सार्थक्यमाह॥ तस्येति। अत्र वाक्ये शाखाशब्दो न यत्किञ्चिदृक्षशाखापरः किन्तु वेतसवृक्षशाखापर एवेति भावेन वेतसस्य प्रकृततां दर्शयितुं तत्पूर्ववाक्यमुदाहरति॥ तस्येति । यद्यपिवेतस- शब्दो जम्बूवृक्षेऽनार्याणां प्रसिद्धस्तथाऽप्यायप्रसिद्धया वजूलार्थ एवात्राश्रयणीयः । अप्सुजो वेतस इति वाक्यशेषानुसारित्वेन प्रबलयाऽऽर्यप्रसिद्धयाऽ- नार्यप्रसिद्विबाधेन वञ्जूलार्थत्वस्य शास्त्रस्था वा तन्निमित्तत्वादित्याधिकरणे भाष्यकारेण समर्थितत्वादिति ध्येयम् । नदीनां धानापूपादिस्वरूपताया बाधितत्वात्तथोक्तिरयुक्तेत्यत आह ॥धानाधूपबत्य इत्यादि । तर्हि मत्वर्थसम्बन्धबोधनाय तदर्थकप्रत्ययप्रयोगस्यावश्यकत्वात्तदप्रयोगो दोष इत्यतः शुक्लोऽस्यास्तीति शुक्ल इत्यादाविव घानापूाद्या आसां सन्ति तास्तथोक्ता इति मत्वर्थीयाचप्रत्ययान्ततयाऽत्र तदप्रयोगोऽसिद्ध इति भावेन मत्वर्थीयाच्- प्रत्ययविधायकं सूत्रं पठति ॥ अर्श आदिभ्योऽजिति । तदक्षरमित्युक्तस्याक्षरस्य यस्मिन्नित्यनेन परामर्शभ्रमं वारयति ॥ यस्मिन् लोक इति ।

तरव- स सङ्गत्येति तच्छब्दो न यत्किञ्चित्परः किन्तु हिरण्यगर्भपर इति भावेन तस्य प्रकृततासाधक पूर्ववाक्यमुदाहरति । आद्य इति । ब्रह्मण इत्यु- पलक्षणं चैतत् । यज्ञे जातविद्योपयोगाभावाचेत्यपि द्रष्टव्यम् । किञ्च नास्यः ऋत्विग्दिषयरवं कल्पयितुं शक्यम् । एकस्मिन्यशेऽनेकेषां ब्रह्मणाम- भावेन ब्रह्मबाहुल्यश्रवणविरोधात् । न च चतुर्णामपि पादानां होत्रादिभिन्नविषयत्वाङ्गीकारामबाहुल्यश्रवणासिद्धिरिति वाच्यम् । तथा सति तृतीयपादे ब्रह्मेति विशेष्यपदेनैव पूर्त्या स्व इत्यस्य वैय्यर्थ्यप्रसङ्गेन भिन्नाविषयत्वस्य कल्पयितुमशक्यत्वादित्याशयवानाह ॥ चतुर्णामपीति ॥ श्रौताक्षरेति । ब्रह्मणेति तृतीयया सहशब्दस्य साक्षात्सम्बन्धप्रतीत्या ब्रह्मसाहित्यस्यैव श्रौताक्षरानुगुणस्वेन ब्रह्मात्मकतायास्तदननुगुणत्वादिस्यर्थः ॥ तत्सिद्धान्तेति । परेण निर्विशेषचैतन्यस्य भोक्तृत्वानङ्गीकारादिति भावः ॥ चशब्द इति । स्वपक्षसाधनपरपक्षनिरसनयोमिलितयोरेव निर्णयाङ्गत्वादिति भावः । अनुमा तदभेदं न प्रमापयेचेति भिन्नक्रमत्वमाश्रयणीयं भवतीत्यपरितोषाधथास्थितान्वयमाश्रित्यापि तदर्थमाह ।। यद्दति ॥ -मिथ्यैव भेदो विमतो भेदत्वाच्चन्द्रभेदवत ।। इति चेत्साध्यधर्मोऽयं सनसन्वा न वोभयम् । यदि सनपसिद्धान्तः स एवासन्नितीरिते। नोभयं चेन सिद्धं तदिति मानस्य क्षणम् ॥ सु०-- तत्कथमित्यतोऽनुमानं तावदनुवदति ॥ मिथ्यैवेति । भेदो मिथ्येत्येतावत्युक्ते चेन्द्रभेदादिना सिद्धसाधनं स्यादि- त्यतो विमत इत्युक्तम् । जीवब्रह्मणोर्मेंद इति यावत् । स्तम्भकुम्भादिभेदस्य पक्षतुल्यत्वान्न तत्र भेदत्वहेतोयभिचारः शङ्कनीय इति ज्ञापनार्थ वा । यावान्कश्चिदिमतो भेदः स सर्वोऽपीति । भेदग्रहणं (वि) स्पष्टार्थम् । साध्यावधारणेनासिद्ध थाद्याभासोद्धार सूचयति । भेदमिथ्यात्वासिद्धावभेद एव वास्तवः सिध्यतीति भावः । दूषयितुं पृच्छति ॥ साध्येति । अयं जीवब्रह्मभेदस्य मिथ्यात्वलक्षणः । सन्निति स्वमतानुसारेण । ननु मिथ्यात्वं सच्चेत्त्यस्य तदापि सत्स्यात् । न हि सम्भवाति नास्ति धर्मी धर्मश्चा- स्तीति । तथा च वैपरी ( त्यमेव ) त्यम् । मैवम् । मिथ्यात्वं खल्वत्यन्ताभावप्रतियोगित्वं तच्च बुद्धिद्वारेणैव । अत्यन्तासतोऽपि प्रतीतिरङ्गीक्रियते । तथा च मिथ्यात्वमस्तीत्यस्य तत्प्रतियोगिकोऽत्यन्ताभावः सन्मित्यर्थः । न चात्र कोऽपि विरोधः । असन्चति माध्यमिकमतानुरोधेन । न हि प्रतिवादिन्याश्वासोऽस्ति । येनासौ स्वमतमतिप (ती) त्य न वदेदिति निश्चिनुमः । उभयं न वेति ३** सटिक ॥१६॥ सा द्वि०० अ०१४ प्रतिवादिमतानुसारेण । सदसद्विलक्षण इत्यर्थः । ननु सदसत्त्वमपि जैनादिरीत्या कुतो न विकल्पितम् । सदादिपक्षदूषणसाम्या- दिति ब्रूमः । यदोभयं ( वेति ) चेति तृतीयः पक्षः । नेति चतुर्थः । उभयं न वेत्यर्थः । आद्यं दूषयति ॥ यदीति । यद्ययं साध्यधर्मः सन्नित्युच्यते तदा मायावादिनोऽपसिद्धान्तः स्यात् । न हि जीवब्रह्मणोर्भेदस्य मिथ्यात्वं ब्रह्म येन तस्य सत्त्वेऽपि सद. द्वैतवादिनो नापसिद्धान्तः स्यात् । ब्रह्मणो निर्विकल्पकत्वात् । द्वितीये दोपमाह ॥ स एवेति । अपसिद्धान्त एव । मिथ्या- त्वस्यासत्त्वे ( अपि ) सत्वमेव जीवब्रह्मभेदस्य स्यात् । न चासत्प्रमाणविषय इति तेषां पक्षः । अनेन सदसत्त्वपक्षोऽपि निरस्तो बेदितव्यः । अन्तिममपाकरोति ॥ नोभयं चेदिति । तदुभयविलक्षणत्वं च जीवब्रह्मभेदमिथ्यात्वेऽन्यत्र वा क्यापि न सिद्धम् । नन्वनेन किमुक्तं स्यात् । अप्रसिद्धविशेषणत्वमिति चेन्न । सदसदैलक्षण्यस्य पक्षविशेषणत्वाभावात् । मिथ्यात्वमेव पक्षविशेषण- मुपन्यस्तं तद्धर्म एव सदसद्वैलक्षण्यम् । न च विमतं बुद्धिमत्कर्तृपूर्वकमितिबविशेषणविशेषणेनापि प्रसिद्धेन भाव्यमिति वाच्यम् । वैषम्यात् । यद्धि व्यापककोटिनिविष्ट विवादपदं च तस्य प्रसिद्धताऽवश्यम्भाविनी । अन्यथा व्याप्तिग्रहणपक्ष (त्व ) योरसम्भ- वात् । अस्ति च बुद्धिमत्त्वस्यापि व्यापककोटि ( टौ) निवेशादि न तु सदसदैलक्षण्यस्येति । उच्यते । यो ह्यर्थः प्रमाणसाध्यः स सम्भावितप्रकारेष्वन्यतमप्रकारवानुपलब्धः । इदं च जीवब्रह्मभेदस्य मिथ्यात्वं न सदादिप्रकारवदङ्गीकर्तुं शक्यं प्रकारत्रयस्याप- सिद्धान्तपराहतत्वात् । चतुर्थस्यामामाणिकत्वात् । न ह्यप्रामाणिकेन प्रकारेण प्रकारवत्किश्चिद्भवति । अतो व्यापकानुपलब्धिवा- धितं जीवब्रह्मणोर्भेदस्य मिथ्यात्वं न साधयितुं शक्यमिति समुदायार्थो विवक्षित इति न काचिदनुपपत्तिः । अनेनैवाभिप्रायेण टीकाऽपि नेतव्येति दूषणान्तरमाह ।। इति मानस्येति । मीयत इति मानम् । कृत्यल्युटो बहुलमिति बचनात् । मिथ्याशब्दार्थ विकल्प्याप्येवं दूषणमभिधानीयमित्यर्थः । तथा हि । किं मिथ्येत्यसत्त्वमुच्यते । किंवाऽनिर्वाच्यत्वम् । आधेऽपसिद्धान्तः । द्विती- येऽप्रसिद्ध विशेषणता पक्षस्येति । सत्त्वाभावो मिथ्यापदार्थ इति चेन्न । तस्यैवासत्त्व ( शब्दार्थ ) पदार्थत्वेनापसिद्धान्तानिस्तारा- 4% दिति । दोषान्तरमाह। इतीति । मानस्य लिङ्गस्य । भेदत्वहेतुरपि सनसन्या सदसन्याऽनिर्वाच्यो वेति विकल्प्यायेऽद्वैतवादिनोऽ- सिद्धिः । दृष्टान्तश्च साधनविकलः । द्वितीयतृतीययो योरपि । चतुर्थेऽद्वैतवादिन इति दूषणमभिधातव्यमित्यर्थः । न च सदसदादौ । भेदत्वसामान्यमस्ति । येन धूमवत्ववदयं हेतु: स्यात् । जीवो ब्रह्मणो न भिद्यते आत्मत्वाहमवदित्यादावनुमानान्तरेऽप्येवमेव विकल्प्य दूषणान्तरमभिधातव्यामित्याह ॥ इति मानस्येति । यद्वाऽद्वैतवादिप्रयुक्तेषु विरुद्धविषयेषु सर्वेष्वप्यनुमानेम्वेवं साध्य हेतुं च विकल्प्य दोषो वक्तव्य इत्यविदिशति ॥ इतीति । टि०-विमत इत्युक्तेः प्रयोजनान्तरमाह ॥ स्तम्भति । ज्ञापनार्थ वेत्यस्य विमत इत्युक्तमिति पूर्वेण सम्बन्धः । कथमनेन तज्ज्ञापन- * मित्यतस्तदनुकूलतया तयाख्याति ॥ यावानिति । तार्ह विमत इत्यनेनैव जीवब्रह्मभेदलाभाद्भेदग्रहणमनर्थकमित्यत आह ॥ भेदग्रहणमिति । मिथ्येवेति साध्यावधारणस्य वैय्यर्थ्यमाशङ्क्याह ॥ साध्यावधारणेनेति । यद्यपि यद्यानयो भेदोऽसिद्धः स्यात्तदा किमाश्रया विमतिः स्यात् । यदि वा विशेषणं मिथ्यात्वमप्रसिद्धं स्यात्तदा किमुल्लेखिनी विमतिः स्यात् । यदि वा भेदे मिथ्यात्वं सिद्धं बाधितं वा भवेत्तदाऽप्यन्यतरपक्षनिश्च- यान्न विमतिः स्यात् । अस्ति चेयं ततो नाश्रयासिद्धयादीति प्रतिज्ञाऽऽश्रयासिद्ध याद्याभासोद्धारो विमतग्रहणेनैव सिद्धस्तथाऽपि तस्यैवैवकारेण स्पष्टीकरणाभिप्रायेणेयमुक्तिरिति ध्येयम् । यद्वा विमतिग्रहणेन प्रतिज्ञाऽऽश्यदोषपरिहारसिद्धावपि हेत्वाश्रितदोषपरिहारासिद्धेस्तसिद्धयर्थमवधारण- मित्यवधेयम् ।। स्वमतानुसारेणेति । तत्त्ववादिमते मिथ्यात्वस्य सत्त्वादिति भावः । स्वमते मिथ्यात्वस्य सत्त्वे तद्धर्मिणः शुक्तिरजतादेरपि सत्त्व- प्रसङ्गान्न मिथ्यात्वत्य सत्यस्वमिति शिष्यः शङ्कते ॥ नन्विति । धर्मिणोऽसत्त्वेऽपि मिथ्यात्वस्य सत्त्वं किन्न स्यादित्यप्रयोजकत्वमाशडक्य परि. हरति ॥ न हीति । अस्तु तर्हि तद्धर्मिणः शुक्तिरजतादेरपि सत्त्वमित्यतस्तहि सत्यत्वमिथ्यात्वयोरेकत्र विरुद्धत्वात्तन्मिथ्यात्वसिद्धान्तभङ्ग इत्याह ॥ तथा चति। धर्म्यसत्त्वे धर्मासत्त्वनियमस्य धर्मिसत्तासापेक्षधर्मविषयत्वेन मिथ्यात्वस्य च तत्प्रतिकूलत्वेन रूपादिवत्तत्सत्तासापेक्षत्वाभावा- च्छुक्तिरजतादेर्मिणोऽसत्त्वेऽपि तद्धर्मस्य मिथ्यात्वस्य सत्त्वं नानुपपन्नमिरयाशयवान्मिथ्यात्वस्य तत्प्रतिकूलता दर्श ( सूच ) यितुं तत्स्वरूपमाह ॥

प्र ना शे० चं० द्विस्त अ०१४ 'सुटि० ॥१७॥ मिथ्यात्वं हीति । ननु प्रतियोगित्वमभावविरुद्धत्वमभावविरहत्वमभावाबधित्वं वाऽन्यस्यानिरूपणात्तदुभयमपि रूपादिवत्तद्धर्मिसत्तासापेक्षमेवेति कथं धर्मिणोऽसत्त्वे तस्सत्त्वमुपपद्यत इत्यतो नाभावविरहरवं प्रतियोगित्वं सादृश्यपृथक्त्वादिप्रतियोगिन्यव्याप्तेः । नाप्यभावावधित्वं निरवधिकात्य-28 न्ताभावप्रतियोगिन्यव्याप्तेः । किन्तु तज्ज्ञानहेतुज्ञानविशेषविषयत्वं न च विषयत्वं तद्धर्मिसत्तासापेक्षमिति न तस्य धर्म्यसत्त्वे सत्त्वानुपपत्तिरित्या- शयेनाह ॥ तच्च बुद्धिद्वारेणैवेति । नन्वसतोऽप्रतीतेः कयं तस्य तज्ज्ञानहेतुज्ञानविशेषविषयत्वमपत्यित आह ॥ असतोऽपीति । असद्वैलक्षण्य- ज्ञानानुरोधेनासतोऽपि शशशृङ्गादेः परोक्षज्ञानादिविषयत्वस्य सर्वसम्मतत्वादित्यर्थः । ननु नासति शशशृङ्गादौ परोक्षज्ञानादिविषयत्वमभ्युप- गम्यते किं तीसद्विषयकज्ञाने तद्विषयकत्वस्य सत्त्वमेवेति कथं धर्म्यसत्त्वेऽपि मिथ्यात्वस्य सत्त्वसमर्थनीयमित्यतस्तीत्रापि नासति प्रतियोगित्वस्य सत्त्वमस्माकं सम्मतं किन्रवत्यन्ताभावे तत्प्रतियोगिकत्वमेवेति भावेन मिथ्यात्वस्य सत्त्वोक्तेः पर्यवसितमर्थ दर्शयन्नुक्ताक्षेपपरिहारमुपसंहरति । तथा । चेति । यद्वा तच्च बुद्धिद्वारेणैवेत्यस्यायमर्थः । न प्रतियोगित्वं घटरूपादिवत्तत्तद्वस्तु हेतूकृतं नापि पाकजरूपादिवबुद्धिहेतु भिन्नागन्तुक- स्वहेतूकृतमभ्युपगच्छामो येन रूपादिवद्धर्मिसत्तासापेक्षं स्यात् । किन्तु बुद्धिहेतुकृतमेव । तथा च तादृशज्ञानसामग्यासादितायामत्य- न्ताभावगोचरात्तत्प्रतियोगिकस्वप्रतीतौ प्रतियोगित्वेनोल्लिखितत्वमेव प्रतियोगित्वमिति तस्य धर्मिसत्तासापेक्षतेति । प्रतीत्यगोचरस्यासतः कथं तत्प्रतियोगिकरवप्रतीतौ प्रतियोगित्वेनोल्लिखितत्वमपीस्यत आह ॥ असत इति । पर्यवसितं निगमपति ॥ तथा चेति ।। न चात्रेति । धर्म- सत्त्वस्य धर्मिसत्तापेक्षकत्ववदत्यन्ताभावसत्त्वस्य प्रतियोगिसत्त्वानक्षेपकस्वादिति भावः । प्रतिवादिमतानुसारेण मायिमतानुसारेण । सम्भावककाथ- नेन विधान्तरस्यापि सम्भाविततामुपदर्शयन्धिकल्प्य न्यूनतामाशङ्कते ॥ नन्विति । सदसत्पक्षदूषणेनैव दूषितत्वारपृथगविकल्पनमिति समाधत्ते ॥ सदादीति । अङ्गीकृत्य चैतदुक्तं वस्तुतस्तु पृथगविकल्पनमेवासिद्धमिति भावेन तत्सङ्ग्राहकतया विकल्पवाक्यं योजयति ॥ यद्वति । ननु भेदमिथ्यात्वस्य कुतो न ब्रह्मस्वरूपत्वमित्यतस्तस्य सोपाधिकरवान्द्रमकालानिश्चितत्वाद्ब्रह्मणश्च निरुपाधिकत्वाद्भमकालानिश्चितत्वाच्च तयोविरुद्ध- स्वभावत्वान्नाभेदो युक्त इत्याशयवान्विरुद्धस्वभावतामुपदर्शयितुमुपलक्षणत्वेन ब्रह्मणो निरुपाधिकतामाह ॥ ब्रह्मण इति ।। सत्त्वमेव स्यादिति ।

परस्परविरुद्धयोरन्यतरनिषेधस्यान्यतरविधिनान्तरीयकत्वात्सत्त्वमिथ्यात्वयोश्च परस्परविरुद्धत्वात्तन्मिध्यात्वस्यासत्त्वे भेदस्य सत्त्वं स्यात्तथा च सदद्वैत- भगो भेदस्य सोपाधिकत्वेन भ्रमकालानिश्चितत्वेन निरुपाधिकभ्रमकालनिश्चितब्रह्ममात्रत्वानुपपत्त्या तदतिरिक्तत्वावश्यम्भावादिति भावः । असतः प्रमाणाविषयत्वस्य स्वसिद्धान्तत्वान्मिथ्यात्वस्य प्रमाणविषयत्वेऽसतोऽपि प्रमाणविषयत्वापत्त्याऽपसिद्धान्त इति प्रकारान्तरेणाप्यपसिद्धान्तमुपपादयति ॥ न चेति ॥ अनेनेति । सत्त्वासत्त्वपक्षोक्तदूषणेनैवेत्यर्थः । अत एव पृथक् तददूषणमित्याशयः ॥ पक्षविशेषणत्वाभावादिति । अत्र पक्ष- शब्दस्तदेकदेशधर्मिपरो न तु साध्यधर्मविशिष्टधर्मिपरस्तथा सति मिथ्यात्वस्याश्रयकोटिनिविष्टत्वापत्त्या तस्य तद्विशिष्टधर्मिविशेषणस्वाभावेन सद- सद्विलक्षणस्वस्य पक्षविशेषणविशेषणस्वाभावप्रसङ्गादिति ध्येयम् ।। व्याप्तीति । व्याप्तेः ससम्बन्धिकपदार्थतया सम्बन्धिज्ञानाधीनज्ञानत्वेनासति सम्बन्धिज्ञाने ज्ञातुमशक्यत्वात् । सन्देहघटितस्वात्पक्षतायाः प्रकृते च साध्याप्रसिद्धौ कोटिस्मृत्यसम्भवेन सन्देहायोगादिति भावः । ननु व्याप- कानुपलब्धिबाधितं जीवब्रह्मभेदमिध्यावं न साधयितुं शक्यमित्यभिप्रायवर्णनमयुक्तम् । तथा सति सन्न्यायरत्नावलीविरोधापातात् । तथा हि । यदेतद्विमतभेदस्य चन्द्रभेदवन्मिथ्यात्वं साध्यते तत्किं सदसत्सदसद्विलक्षणं वा । न प्रथमद्वितीयावपसिद्धान्तात् । उभयविलक्षणत्वं चेत्तस्याप्रसि- द्धत्वेन पक्षोऽप्रसिद्धविशेषणः स्यादित्यादिना सदसद्वैलक्षण्यपक्षेऽप्रसिद्धविशेषणत्वस्यैवाभिधानादित्यत आह ॥ अनेनैवाभिप्रायेणेति । तस्यो- भयविलक्षणत्वस्याप्रसिद्धत्वादप्रामाणिकत्वेन साध्यस्याप्रामाणिकेनोभयविलक्षणस्वरूपप्रकारेण प्रकारवत्त्वासम्भवात्सत्त्वादिप्रकारस्य चापसिद्धान्तपरा- हतत्वात्सम्भावितप्रकारेष्वन्यतमप्रकारवत्त्वरूपव्यापकनिवृत्त्या मिथ्यात्वस्य साध्यत्वासम्भवेन पक्षोऽप्रसिद्धविशेषणः स्याहाधितविशेषणः स्यादित्याभि- प्रायेणैवेत्यर्थः । ननु ल्युट् च करणाधिकरणयोश्चेति भावे करणाधिकरणयोश्च ल्युविधानान्मीयत इति मानमिति कथं कर्मणि ल्युट् व्याख्यायत इत्यतः कर्तृकर्मादावपि ल्युटः स्मरणान्नानुपपत्तिरिति भावेन तत्र तद्विधायकं सूत्रं पठति ॥ कृत्यल्युटो बहुलमिति वचनादिति । अत्र कृत्य- ल्युट इति वचनादित्येव वक्तव्यं सूत्रारम्भसामर्थ्यादेव यत्रार्थे भावकर्मणोः कृत्या विहिता भावकरणाधिकरणेषु च ल्युविहितस्ततोऽन्यत्रापि कृत्य- ल्युटो भविष्यन्तीत्यस्यार्थस्य सिद्धत्वेन तदर्थ बहुलग्रहणस्याकर्तव्यत्वात् । तस्माद्बहुलमिति योगान्तरं तच्चान्येषामपि कृतां स्वस्वार्थव्यभिचारज्ञाप- ४

सुदि०
ॐ
अ०१४
॥ १८॥
नार्थमित्याकरे स्थितत्वादिति द्रष्टव्यम् ॥ अपसिद्धान्त इति । भेदस्यासद्विलक्षणतायास्तरिसद्धान्तत्वादिति भावः ॥ अप्रसिद्धति । एतदनु-
मानात्प्रागनिर्वचनीयत्वस्य क्वचिदप्यप्रसिद्धत्वादिति भावः ॥ तस्यैवेति । सत्वाभावस्पैवेत्यर्थः । शशशृगादीनां निरूपाख्यपदेनैव ख्यायमा-
नतया निरूपाख्यत्वस्य नित्यातीन्द्रियसाधारण्यादपरोक्षतोऽप्रतीयमानत्वस्य येन पुंसा शशशङ्गाभावो न निश्चितस्तस्य गोशृङ्गमस्तीति वाक्या- शे०००
द्वितः
दिव शशशृङ्गमस्त्रीति वाक्यासत्वेन प्रतीत्या सत्त्वेनाप्रतीयमानत्वस्यानिवाच्यत्वस्यासत्त्वनिरूप्यरधनान्योन्याश्यापत्त्या सदनिर्वाच्याभ्यामन्यत्वाय
शुक्तिरूप्यादौ शुद्धब्रह्मणि च सत्त्वेनार्थक्रियासामर्थ्याभावस्य मिथ्याभूतस्य स्वरूपेणैव त्रैकालिकनिषेध इति पक्षे तत्साधारणत्वेन निस्स्वरूपत्वस्य *
चासत्त्वस्यासम्भवेन सत्त्वाभावस्यैवासत्त्वपदार्थतयाऽभ्युपगमनीयत्वादिति भावः । मीयतेऽनेनति मानमिति करणसाधनतामाश्रित्याह ॥ मानस्य
लिङ्गस्येति ॥ आयेऽद्वैतवादिनोऽसिद्धिरिति । भेदत्वहेतोः सत्त्वाभ्युपगमेऽद्वैतहानिरिति भावेनाद्वैतवादिन इत्युक्तम् ॥ दृष्टान्तश्थति। मतद्वयेऽ.
पीति शेषः । मिथ्याभूतभेदस्यैव दृष्टान्तीकृतत्वेन तत्र सद्भेदत्वस्य वादिप्रतिवादिभ्यामनभ्युपगमादिति भावः ॥ द्वयोरपीति । वादिप्रतिवादि-
नोरित्यर्थः । असिद्धिदृष्टान्तश्च साधनविकल इति पूर्वेण सम्बन्धः । असद्धेदत्यस्य सदसद्धेदत्वस्य च पक्षे वादिप्रतिवाद्यसम्मतत्वादुभयरीत्याऽ-
सिद्धिः । साधनवैकल्यं स्वसद्धेदत्वपक्षे वादिमत एव तेन दृष्टान्ते तदनङ्गीकारात् । न तु प्रतिवादिमतेऽपि । तद्भेदस्यासत्त्वेनासद्भेदत्वस्य तन्मते
सत्त्वात्सदसद्धेदत्वपक्षे तु मतद्वयेऽपि साधनवैकल्यम् । वादिप्रतिवादिभ्यां दृष्टान्ताकृते भेदे तदनभ्युपगमादिति योजना द्रष्टव्या॥ द्वैतवादिन इति।
असिद्धिसाधनवैकल्ये इति पूर्ववत्सम्बन्धः । न बेमो वयं सदसदसदसदनिर्वचनीयं वा भेदत्वं हेतुरिति येनोक्तरीत्याऽसिद्धयादिकं स्यात् । किन्तु
भेदत्वसामान्यं तच्च भेदे वादिप्रतिवादिसम्मतमिति कथमसिद्धयादिकं भवेत् । साधारणप्रयुक्तहेतोश्च विशेषविकल्पेन निराकरणे च सर्वसाधन-
भङ्गप्रसङ्गः। तथा च धूमाद्भूमध्वजसाधनेऽपि किमनेतद्देशकालसलमो धूमो हेतुः किं वैतद्देशकालसंलम इति विकल्प्यासिद्धिराधे द्वितीये साधन-
शून्यं निदर्शनमिति शक्यते वक्तुम् । तत्र चाविवक्षितविशेष धूममात्रं हेतुरिस्येव परिहारः स च समः प्रकृत इत्याशङ्क्य स्यादयं धूमानुमाने
परिहारः । धूमद्वयेऽपि धमत्वसामान्यस्य बादिप्रतिवादिसम्मतत्वात् । न च सदसदादौ भेदत्वसामान्य वादिप्रतिवादिसम्मतमित्याशयवानाह । न
॥१८॥

चेति ॥ एवमेव विकल्पति । साध्यं हेतुं चेति शेषः । ब्रह्मभेदाभावः किं सन्किवाऽसन्यद्वा सदसन्नाहोस्विदनिर्वचनीयः । नाद्यः । अपसिद्धा- * न्तापातात् । न द्वितीयः । जीवब्रह्मभेदाभावस्यासत्त्वे जीवब्रह्मभेदस्य सत्वापत्त्याऽपसिद्धान्तापरिहारात् । अत एव न तृतीयः। सत्त्वासत्त्वपक्षोक्त- दोषात् । न चतुर्थः। तस्याप्रामाणिकत्वेन प्रकारवायोगादिति साध्यं विकल्प्य दूषणम् । आत्मत्वं किं सकिंवासद्यद्वा सदसदाहोस्विदनिर्वचनीयम्। * आये सदद्वैतभङोन वादिमतेऽसिद्धिदृष्टान्तस्य साधनवैकल्यं च । द्वितीयतृतीययोर्द्वयोरप्यसिद्धिदृष्टान्तस्य साधनवैकल्यं च । चतुर्थे द्वैतवादि. नोऽसिद्धिसाधनवैकल्ये स्यातामिति हेतुं विकल्प्य दूषणमभिधातव्यमित्यर्थः । विरुद्धविषयेषु सर्वेष्वप्यनुमानेविति । विमतं मिथ्या दृश्यत्वा- ज्जडत्वात्परिच्छिन्नत्वाच्छुक्तिरनतादिवदित्यादिष्वित्यर्थः । अ०--न च मानान्तरेणैतच्छक्यं साधयितुं क्वचित् ॥ अनुमानेन चेत्सव घनघस्था भविष्यति ॥ न चागमस्तदर्थोऽस्ति नासदासीन तद्वदेत् । परिशेषादनिर्वाच्यं यदि सिध्येत्परात्मनः ॥ अनिर्वाच्यत्वमेव स्यात्परिशिष्टो घसौ तदा ॥ न चान्य आगम स्तत्र सदसत्प्रतियोगिनि ॥ न च प्रत्यक्षमत्रास्ति न चार्थापत्तिरिष्यते ।। सु०-न सिद्धं तदित्ययुक्तम् । पक्षीकृते भेदे वा प्रपञ्चे चाऽविमायां वा शुक्तिरजतादौ वाऽनिर्वचनीयत्वस्य प्रमाणेन * साधयितुं शक्यत्वादित्यत आह ॥ न चेति । यदा भेदमिथ्यात्वस्य सत्त्वादिविकल्पेन दूषणाभिधानं तदान्तर शब्दो विशेषवचनः । यदा तु मिथ्याशब्दा ( 3 ) थविक (लप्य दू) स्पेन दूषणाभिधानं तदाऽन्यन्मानं मानान्तरम् । एतदनिर्वाच्यत्वम् । क्वचिदित्यु-* क्तस्थलेषु । तत्कथमिति चेदित्थम् । कस्यचित्पदार्थस्यानिर्वाच्यत्वे प्रत्यक्ष वा प्रमाणमुच्यतेऽनुमानं वाऽऽगमो वापत्तिवर्वोपमान / वाऽभावो वेति मनसि विकल्पान्निधाय पराङ्गीकारमाचुर्यानुरोधेनानुमानं तावदपाकरोति ॥ अनुमानेन चेदिति । विमतमनि-* वाच्यं वाध्यत्वादित्यायनुमानेन शुक्तिरजतादेरनिवाच्यत्वं साध्यते चेदनवस्था भविष्यति। कथं सैव प्रसिद्ध विशेषणतापारिहारार्था- नुमानपरम्पराद्वारिका प्रसिद्धैवेत्यर्थः। यदत्र वक्तव्यं तत्प्रथमसूत्र एवास्माभिरभिहितम् । आगममपाकरोति ॥ न चेति । तदर्थोऽ-* शे०० द्वित. सुटि अ०१४ निर्वचनीयार्थः । अनुपलम्भादिति भावः । ननु कथं नास्ति । नासदासीनोसदासीत्तदानीमित्यागमस्य विद्यमानत्वादित्यत आह ।। नासदिति । इत्यागम इति शेषः । तदनिर्वाच्यं वस्तु । अयं भावः । पदसमन्वयबलेन प्रतीतः पदार्थसंसर्गो हि वाक्यार्थो ना- परः । अन्यथाऽपित्त्यादेप्यागमान्तर्भावप्रसङ्गात् । अत्र च प्रलये सदायभावमात्रं वाक्यात्प्रतीयते न पुनरनिर्वाच्यं वस्तु । ततो नायमागमोऽनिर्वाच्यार्थ इति । मा भूदयमागमोऽनिर्वचनीयार्थः । तथाऽप्येतद्वचनबलेनानिर्वचनीयार्थः सेत्स्यति । तथा हि। अत्र तावत्सलये सदसदभावः प्रतिपाद्यते। तत्सामर्थ्यात्तदा विद्यमानस्यार्थस्य सस्थासत्त्वप्रतिषेधावगती परिशेषादनिर्वाच्यत्वावगतेः। न च तदा वस्तुमात्राभावः । पुनः सृष्टयनुपपत्तेः । अभावस्याङ्गीकार्यत्वाच । परिशेषश्चार्थापत्तिरनुमान वेत्याशङ्कत्ते ॥ परिशेषा- दिति । परिशेषादनिर्वाच्यं वस्तु सिध्येदिति यद्युच्यत इति सम्बन्धः । अत्र ब्रूमः । भवेदिदं यद्यत्र सदसच्छब्दी प्रतीतायौँ स्या- ताम् । न चैवम् । प्रत्यक्षाप्रत्यक्षपञ्चमहाभूतपरत्वात् । न सत्तन्नासदुच्यत इत्यादौ तत्र प्रयोगात् । कुत एतदिति चेत्प्रतीतार्थत्वेऽ- निष्टप्रसङ्गादित्याशयवानाह ॥ परात्मन इति । तर्हि सत्त्वेनाङ्गीकृतस्य परमात्मन एवानिर्वाच्यत्वं स्यादित्यर्थः । कुत इत्यत आह ॥ परिशिष्टो हीति । सदसत्प्रतिषेधसामर्थ्यात्सर्वकार्य ( प ) लयेऽवशिष्टस्य खल्बनिवाच्यत्वमेवेष्टव्यम् । असौ परमात्मा यस्मात्तदा प्रलयवेलायामलीनतयाऽवशिष्टस्तस्मात्स्यानिर्वाच्यत्वं भवदिति । न च वाच्यं यद्यपि प्रलये परमात्मा विद्यत एव । तथाऽपि तम आसीदित्यादिसन्निहितवाक्यात्तमोऽविद्याख्यं बुद्धिसन्निहितमिति तदुपरक्तायां बुद्धौ परिशेषप्रमाणमपि तमस एवानि- वाच्यतामाधास्यतीति । आनीदवातमिति वाक्येन ब्रह्मणोऽपि बुद्धिसन्निधानात् । सत्यं ज्ञानमिति तस्य सत्यत्वावगमादपवाद इति चेन्न । आसीदिति तमसोऽपि सत्वावगमादपवादः स्यात् । सांव्यावहारिक सत्वं तदिति चेत् । ब्रह्मणोऽपि तथा किन्न स्यात् किश्चास्मिन्व्याख्याने तदानीमिति व्यर्थं सदा तमसो निर्वाच्यत्वात् । अन्यपरं वाक्यमिति चेत् । तथाऽप्यसनासीदिति व्यर्थमेव प्राप्त्यभावात् । न तं विदाथ य इमा जजानान्यधुष्माकमन्तरं बभूव । नीहारेण प्रावृता जलप्या चासुलुप उक्थशासश्चरन्ति । त इमे सत्याः कामा अनृता पिधाना इत्याद्यागमस्त ज्ञानस्यानिर्वाच्यत्वे प्रमाणमित्यत आह ॥ न चेति । तत्रानिर्वाच्येऽथें मानमिति शेषः । अन्यानृतशब्दाभ्यामनिर्वचनीयाज्ञानाभिधानात्कथं नेत्यतोऽनिर्वाच्यत्वं निर्वक्ति ॥ सदसदिति । सदसती प्रतियोगिनी यस्य तत्तथोक्तम् । यन्न सन्नाप्यसत्चद्धयनिर्वाच्यम् । न चात्र तत्प्रतिपादकः शब्दोऽस्ति । अनृतादिशब्दस्य त्वन्यथा व्याख्या- नादिति । प्रत्यक्ष प्रतिक्षिपति ॥ न चेति । न हीदमनिर्वाच्यमिति कचिल्लौकिका परीक्षको वा चक्षुरादिनेक्षते । बाघोत्तरकालं , मिथ्यैव रजतं प्रत्यमादित्य नुवादात्कथं नेक्षत इति चेन्न। मिथ्याशब्दस्यातदर्थत्वात् । अर्थापत्तिमपाकरोति ॥न चेति। अनुमाना- त्पृथक् प्रामाणिकैरिति शेषः । अनुमान चामसिद्धविशेषणतया निरस्तमिति भावः । विश्च नारत्यसावनुपपद्यमानोऽर्थो येन कास्य- * चिदर्थस्यानिर्वाच्यतापत्तिः स्यात् । टि०-- ॥ दूषणाभिधानमिति । पूर्वग्रन्थार्थतया विवक्षितमिति शेषः । उक्तानुमानस्य भेदमिथ्यात्वसाधकत्वेन तदपेक्षया मानान्तर- त्वसम्भवेऽपि तस्य पूर्वानुमानसाध्यं यन्मिथ्यात्वं तद्धर्मभूतानिर्वचनीयत्वसाधकरवाभावेन तदपेक्षयाऽन्यन्मानं मानान्तरमित्यर्थस्थासम्भवादाह सदा- न्तरशब्दो विशेषवचन इति ॥ उक्तस्थलेष्विति । भेदप्रपञ्चादिष्वित्यर्थः ।। बाध्यत्वादित्याद्यनुमानेनेति । आदिपदेन प्राविषयत्वादित्या- दिव्यतिरेक्यन्तरपरिग्रहः । ननु सत्त्वासत्त्वे एकधर्मनिष्ठात्यन्ताभावप्रतियोगिनी धर्मत्वाद्रूपरसवदित्यनिर्धारितधर्मिनिष्ठतथा सामान्यतः सिद्धस्य सद- सद्वैलक्षण्यस्य केवलव्यतिरेकिणा रजतमिनिष्ठतयोपसंहारान्नाप्रसिद्धविशेषणत्वमित्यत आह ॥ यदत्र वक्तव्यमिति ॥ प्रथमसूत्र एवति । अनि- वचनीयख्यातिनिरासावसर इति शेषः ॥ पदसमन्वयबलेनेति । पदवृत्तिबलेनेत्यर्थः ॥ अपर इति । सामर्थ्यलब्ध इत्यर्थः । यचादियों न स चोदनार्थ इत्युक्तेरिति भावः ॥ अन्यथेति । सामर्थ्यलब्धस्याप्यागमार्थत्व इत्यर्थः । श्रुतार्थापत्तिस्थले बहिर्भावत्य जीवश्चैत्रो गृहे नास्तीति वाक्यस्थपदार्थसंसर्गरूपत्वामावेऽपि सम्भवादिस्थले च पञ्चाशत्वादेः शतमस्यास्तीत्यादिवाक्यस्थपदार्थसंसर्गरूपस्वाभावेऽपि तत्तद्वाक्यसामर्थ्यलब्ध- स्वेन तत्तदागमार्थस्वस्यैव सम्भवादिति भावः ॥ न पुनरिति । वस्तु सदसद्विलक्षणमित्यप्रतीतेरिति भावः ॥ आगमोऽनिर्वाच्यार्थ इति । आ- ४*

गमतया नोनिर्वाच्यप्रतिपादक इत्यर्थः । सत्त्वासत्त्वप्रतिषेधावगती प्रसवतानां सत्त्वासत्त्वादिप्रकाराणां नासदासीदिति सदसदभावाभिधानेन प्रति-
षेधावगतावित्यर्थः । सदसदभावाभिधानेन कथं सत्त्वासत्त्वाद्यभावसिद्धिरित्यत उक्तं तत्सामर्थ्यादिति ॥ परिशेषादनिर्धाच्यत्वावगतेरिति ।
श००
सुरि अन्यत्राप्रसङ्गात्परिशिष्यमाणे वस्तुनोऽनिर्वाच्यत्वस्यैव बुद्धेरित्यर्थः ।। प्रतीतार्थाविति । विद्यमानाविद्यमानवाचकावित्यर्थः । ननु सदसच्छन्द-
द्वितः
योः पारमार्थिकापारमार्थिकवाचकस्वात्तदर्थपरित्यागेन पञ्चमहाभूतपरत्वाश्रयणे तयोरमुख्यार्थरवप्रसङ्गो दोष इत्यतः सदसच्छन्दयोभूतेषु योगरूढि-अ०१४
सद्भावान्न तेषाममुख्यार्थतेत्यभिप्रेत्य तरकथमित्यतो योगव्युत्पादनाय सदसच्छब्दयौगिकार्यवत्तां दर्शयति ॥ प्रत्यक्षाप्रत्यक्षेति । रूढिव्युत्पादना-
याखण्डशक्तौ प्रमाणं प्रयोगं दर्शयति ॥ न सपनासदुच्यत इत्यादाविति । मूर्त सदिति सम्प्रोक्तममूर्तमसदुच्यते । मूर्तामूर्तेतरा न सत्त-
नासदुच्यते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यत इति श्रुतिस्मृत्योर्भूतेषु सदसच्छब्दप्रयोगादित्यर्थः । उपलक्षणं चैतत् । मूर्त सदिति सम्प्रो-
क्तमिति यदन्यद्वायोश्चान्तरिक्षाचैतत्सद्वायुरन्तरिक्षं चासदिति च सदसच्छब्दयोर्भूतपरतया व्याख्यानान्नासदादिति श्रौतसदसच्छब्दयोभूतवाच-
त्वनिश्चितप्रामाण्यव्याख्यानानुसारेणव व्याख्येयस्य नेयत्वात् । उग्रं वचोभयावधमित्यादिमन्त्रस्याशनापिपासे ह वा उग्रं वच इत्यादिब्राह्मणानु-
सारेण सत्यमित्यादेश्च सदिति प्राणस्तीत्यन्नं यमित्यसाबादिस्य इत्यादिव्याख्यानानुसारेणार्थविशेषनिष्ठताया दृष्टवादित्यपि द्रष्टव्यम् । अस्त्वेवं *
सदसच्छब्दयोभूतेष्वपि मुख्यत्वं तथाऽपि न चैवमिति पूर्ववाक्ये उक्तः सदसच्छब्दयोः परमार्थापरमार्थरूपवहुप्रयोगसिद्धसदसत्परत्वाभावः किन्निव-
न्धन इति पृच्छति ॥ कुत एतादति चेदिति ॥ सत्त्वेनाङ्गीकृतस्यति । सस्वेनागीकृतस्यैव परमात्मन इति सम्बन्धः ॥ तस्मादिति । उभ-*
योरपि परिशिष्टत्वेनावगततायामन्यतरस्मिसेब परिशेषेणानिवचीयत्वपाते नियामकाभावादिति भावः । अस्ति तमस्येव परिशेषप्रमाणेना निर्वचनी-
*
यतापाते नियामकं सन्निहितवाक्याहृद्धिसन्निधानमिति कथं तदभाव इत्याशक्य निषेधति ॥ न च वाच्यमिति । अनेन यत्तम आसीत्तदानी
सन्नासीत्तदानीमसन्नासीदिति वाक्ययोजना सूचिता भवति ।। सन्निधानादिति । तथा च पुनरविशेष एवेति भावः । अङ्गीकृत्य चैतदुक्तं वस्तु-
तस्तु तम आसीदिति वाक्यापेक्षयाऽऽनीदवातमित्यस्य सनिहितत्वादिति सन्निहितवाक्यादत्यन्तं बुद्धिसन्निहितत्वं ब्रह्मण एवेति तन्मात्रोपरक्तायां
॥२०॥

बुद्धौ परिशेषप्रमाणेन ब्रह्मण एवानिर्वाच्यत्वावधारणस्य न्याय्यत्वादित्यवधेयम् । सन्निहितत्वाविशेषेऽपि बाधितविषयत्वान्न परिशेषप्रमाणस्य तत्र प्रवृत्तिरित्याशङ्कते ॥ सत्यमिति । बाधितविषयत्वमप्यविशिष्टमित्याशयेनाह ॥ आसीदितीति । भिन्नविषयत्वान्न बाधितविषयतेति नाविशेष इत्याशङ्कते ॥ सांव्यवहारिकेति ।। तथोत । तथा च ब्रह्मण्यपि. बाधितविपयतेत्यविशेष एवेति भावः । अस्मिन्व्याख्यान इति । तमस्त- दानीं सन्नासत्तिदानीमसवासीदिति व्याख्यान इत्यर्थः । वैय्यर्थ्यमेवोपपादयति ।। सदेति । ननु तम आसीदिति वाक्यात्तमोऽविद्याख्यं बुद्धिस- निहितमिति नासदासीदिति तस्यैव तमसस्तदानीं सन्नासीदित्यादिरूपेण सत्त्वादिनिषेधात्परिशेषप्रमाणेनानिर्वचनीयस्वामिति नमो येन तमसः सदाऽ- * निर्वचनीयत्वात्तदानी मित्यस्य वैय्यर्थ्य स्यास्किन्तु तदानीं सन्नासीदसन्नासीदिति सदसद्रूपधर्मिनिषेध एव क्रियते तम आसीदिति च तमसः प्रलयेऽ- वस्थानमुच्यते न चैतदुभयं सम्भवतीत्यतस्तदुभयान्यथाऽनुपपत्त्या तमसोऽनिर्वचनीयस्वसिद्धिरिति कथं तदानीमित्यस्य वैय्यर्थ्यमित्याशङ्कते ।। अन्य- परामिति । प्रलये सदसदादिमिनिषेधपरमित्यर्थः। यद्यप्यस्मिन्पक्षे तमस इव ब्रह्मणोऽपि प्रलयावस्थितत्वादुक्तान्यथाऽनुपपत्त्यैवानिर्वचनीयत्वं स्यादिति पूर्व दोषाभिधानान्न पुनरियं शङ्कोन्मिपति तथाऽपि सत्येव तस्मिन्दोषे दोषान्तरं वक्तुं तदानीमिति व्यर्थमित्यव्यवहितपूर्वदोषपरिहारकतया पुनरुत्थानं कृत-* मिति द्रष्टव्यम्। उक्तयोजनायां घटादीनां सत्त्वस्य शशविषाणादीनामसत्त्वस्य च दृष्टत्वेन तमसि प्रसक्ततया तदुभयनिषेधसम्भवेनासन्नासीदित्यस्य सार्थ- क्यसम्भवेऽपि वाक्यस्य प्रलये सदसदादिधमिनिषेधपरत्वेन तमसि प्रसक्ततया तदुभयनिषेधपरत्वेऽसतः सत्त्वस्याप्राप्तत्वेनानिषेध्यत्वादसन्नासीदित्यस्य वैश्य-* यं स्यादिति समाधत्ते॥ तथाऽपीति । न च तद्वैक आहुरसदेवेदमग्र आसीदिति श्रुत्याऽसतः सत्त्वप्राप्ते प्रसक्तप्रतिषेधतेति वाच्यम्। श्रुत्या प्राप्तस्य श्रुत्या निषेधायोगात् । अन्यथा न हिंस्यादित्यहिंसाबाक्यस्यामीषोमीय पशुमालभेतेत्यग्नीषोमीयहिंसानिषेधकत्वं नातिरात्रे घोडशिनं गृह्णात त्यग्रहणवा- क्यस्यातिरात्रे षोडशिनं गृह्णातीति श्रुत्युक्तग्रहणनिषेधकत्वमसद्वेत्यादिवाक्यस्य सत्यं ज्ञानमिति श्रुत्युक्तब्रह्मसत्यत्वबाधकत्वमेदवाक्यस्याभेदनिषेध- कत्वं च स्यादित्यतिप्रसङ्गात् । न तं विदाथेति मन्त्रस्यायमर्थः । हे नरा यूयं तमीश्वरं न विदाथ न जानीय तस्मादीश्वरप्रतिपत्त्युपायं कुरुत । ईश्वरस्यासत्त्वादेवाप्रतिपत्ति स्मदपराधादित्याशङ्क्याह ॥ य इति । इमाः प्रजा जजान जनितवानुत्पादितवान् । कार्यलिङ्गेनेश्वरसिद्धेनं तदपलाप २०१४ * इति भावः । तत्किं परमाणुबदयोग्यत्वात्तदग्रहणमित्यत उक्तमन्तरामिति । युष्माकं ब्रह्मणश्चान्तरं व्यवधानं बभूव । ननु च तन्नास्यन्तमसदश्विर- स्वावरकत्वात् । नापि सद्बोधमात्रनिवयवात्तत्कथं तेनाच्छादनमित्यत उक्तमन्यदिति । सदसट्यामिति शेषः । सदसद्विलक्षणत्वादीश्वरत्वावरकरवं शे०५० बोधनिवर्त्यत्वं चोपपन्नमिति भावः । किं तदन्तरं किञ्च तस्कृत्यमित्यत्राह ॥ नीहारणेति । आच्छादकत्वसाम्यानीहारशब्दो ज्ञाने प्रयुक्तस्तेन द्वित. सुटि० प्रावृतत्वमाच्छादितपरिपूर्णस्वरूपत्वमतो विक्षेपविषया इत्याह ॥ जल्प्या इति । मनुष्यो ब्राह्मण इत्याद्यध्यासविषया इत्यर्थः । असून्प्राणानिन्द्रि- याणि तर्पयन्तीत्यसुतृपः । उक्थशब्देन कर्माङ्गाभिधानद्वारा कर्मोपलक्षितं तस्मिन् शास्यन्ते विधिवाक्यैर्ये पुमांसस्ते तथोक्ताः । चरन्ति संसार- चक्रे भ्रमन्तीत्यर्थ इति । अनृतशब्दवाच्यमिथ्याभूताज्ञानेनाच्छादितत्वमुत्तरवाक्यार्थः ॥ अन्यथाव्याख्यानादीति । ऋतं पिबन्तावित्यादौ सत्कर्मण्यनृतशब्दप्रयोगदर्शनादृतं सत्यं तथा धर्म इति स्मृतेश्चानृतशब्दो दुष्कर्मपरः । अनृतं परिणामत इति स्मृत्यनुसारात्परिणामिप्रधानपरो थे- त्यनृतशब्दस्यान्यथाव्याख्यानात्सत्यस्यापि पापादेः सेतुदर्शनादिना निवृत्तेर्दशनेन सत्यस्याप्यन्तरस्य बोधनिवर्यत्वोपपत्तेर्न तस्य सदसद्वैलक्षण्यम् । अन्यत्वोक्तिस्तु बोधनिवर्यतया प्रसिद्धव्यवधायकमित्यादिवलक्षण्यादित्येवरूपतयाऽन्यशब्दस्य व्याख्येयस्वादित्यर्थः । अत एवानृतादिशब्दस्य * त्वन्यथाज्याख्यानादिस्युक्तिः सङ्गच्छते । उभयोरप्यन्यथाव्याख्यातरवाभिप्राये स्वन्यानृतशब्दाभ्यामनिर्वचनीयाज्ञानाभिधानादिति पूर्वग्रन्थानुरोधा- दन्यादिशब्दस्य स्वन्यथाव्याख्यानादित्येवावक्ष्यत् । अस्मदुक्ताभिप्राये तु तस्यान्यथाऽव्याख्यातत्वात्तत्परित्यागेनानृतादित्वेन निर्देश इति बोध्यम् ननु नेदं रजतमिति चक्षुरादिव्यापारानन्तरं जायमानो बाधकप्रत्ययो लिङ्गाद्यजन्यस्वात्प्रत्यक्षरूप इति तावदविप्रतिपन्नं सर्वेषाम् । न चायं भ्रम इति शक्यते वक्तुम् । विपरीतप्रमाणानुपलम्भात् । स चायं बाधकप्रत्ययो रजतमिथ्यात्वयिषयक इत्यवश्यं वाच्यम् । उक्तरूपबाधकप्रत्यय समनन्तरं मिथ्यैव रजतं प्रत्यमादित्याप्तवाक्यस्यानुवाददर्शनात्तस्य च रजतमिथ्यात्वविषयकतया बाधकप्रत्ययस्य रजतमिथ्यात्वविषयकत्व एव सम्भ- वादन्यथाऽप्रतीतानुवादप्रसक्त्याऽऽप्तस्वभङ्गापातात् । न चैतावता वाधकप्रत्ययस्य रजतमिथ्यात्वविषयकत्वसिद्धावपि रजतानिर्वचनीयस्वविषयकत्वासि- द्धिः । मिथ्यैव रजतं प्रत्यभादित्यनुवादस्य रजतानिर्वचनीयत्वविषयकत्वाभावादिति वाच्यम् । मिथ्याशब्दस्यानिर्वचनीयवाचकतयाऽनुवादस्यानिर्वचनीय- न विषयकस्वसिद्धया तदनुरोधेन बाधकप्रत्ययस्य तद्विषयत्वसम्भवादत एवाहुः । यावदुक्तं भवत्यनिर्वचनीयमिति तावदुक्तं भवति मिथ्येति तदेवं नेदं रजतमि- ति बाधकप्रत्ययस्यैव रजतानिर्वचनीयताविषयकस्य तदनिर्वचनीयरवे प्रमाणत्वात्कथं प्रत्यक्षाभाव इति शङ्कते ॥ बाधोत्तरकालामति । व्याकरणाभिधाना- दिप्रमाणाभावाद्वादिसमयमात्रस्य चातिप्रसङ्गनानिश्चायकत्वेन मिथ्याशब्दस्यानिर्वचनीयवाचकत्वाभावेनासन्मात्रबाचित्वात्तदनुवादानुरोधेन बाधकमत्य- यस्यानिर्वचनीयविषयकत्वासिद्धेन तेन शुक्तिरजतस्यानिर्वचनीयत्वसिद्धिरित्याशयेन समाधत्ते ॥ मिथ्याशब्दस्यासदत्वादिति । मिथ्याशब्द- स्यासदर्थत्वव्युत्पादनं च टीकाकारैरेव मिथ्याशब्दस्त्वभाववाचीत्येतद्वाक्यव्याख्यानावसरे कृतमवधेयम् । नन्वर्थापत्तेः प्रमाणतायाः सर्वसम्मतस्वा. स्कथमपत्तिर्नेष्यत इत्युच्यते । न चानुमानतया तत्प्रामाण्यसम्मतावपि ततः पार्थक्येन तदसम्मतेस्तदभिप्रायेणेयमुक्तिरिति वाच्यम् । पृथक् प्रामा- ण्यस्यापि प्राभाकरादिभिरङ्गीकृतत्वेन तनिषेधायोगादित्यतोऽपेक्षितशेषपूरणेन वाक्यं योजयति ॥ अनुमानात्पृथक्मामाणिकैरिति शेष इति । * अस्तु तर्खनुमानतयैव प्रमाणमित्यत आह॥ अनुमानं चेति । ननु च बाधाभावात्सतत इत्यादिवाक्यजातमनर्थकम् । न चाापत्तिनिरासार्थ तदिति वाच्यम् । न चार्थापत्तिरिष्यत इत्यनेनैव तन्निरासस्य सिद्धवादिस्यतोऽनुमानतया प्रामाण्यमगीकृत्य पूर्वमापत्तिनिरासः कृत उत्तरत्र पृथक् प्रामाण्यमङ्गीकृत्य तन्निरासः क्रियत इत्यतो न वैय्यर्थ्यमित्यभिप्रेत्य तत्परतयोत्तरग्रन्थं योजयितुं तदुपयोगितया न चार्थापत्तिरिष्यत इत्येतदेव वाक्यं प्रकृतेऽर्थापत्यभावतया योजयति ॥ किञ्चेति । अनेन नेस्यस्य योग्यतयाऽर्थपदेन सम्बन्धः । सति हानुपपद्यमानार्थे तबलादापत्तिरनिर्व- चनीयत्वापत्तिः स्यात्स एव नास्तीति नानिर्वचनीयतापत्तिरिति वाक्यं तात्पर्यतो व्याख्यातं भवति । चशब्दो मूले दूषणान्तरपर इत्यभिप्रेत्य किश्चेत्युक्तम् । अ०-बाधायोगात्सत इति बाधाभावत एव हि ॥ इष्टापत्तिन हि भ्रान्तावपिः बाधोऽवगम्यते ॥ विषयस्य कुतो बाधो विद्यमानं हि बाध्यते ॥ न हि बन्ध्यासुतो बाध्यो यज्ञदत्तो हि वाध्यते ॥ बाधायोगात्सत इति व्याप्तिरेषा क्य रश्यते ॥ कश्चार्य बाध उद्दिष्टो न हि माशोऽसतो भवेत् ॥ निवृत्तिश्चाप्रवृत्तस्य कथमेवोपपद्यते ॥ न ४**

॥२२॥
द्वि० तु.
सु०-अथ मतम् । यदि वियदादिविश्व वा शुक्तिरजतादिकं वा सत्स्यात्तदा न वाध्येत । सतो बाधायोगात् । न
(संश्चिदात्मा ) सन्नात्मा बाध्यते । यदि वाऽसत्स्यात्तर्हि न प्रतीयेत । असत: प्रतीत्ययोगात् । न हि नरशृङ्ख भाति गवीव ।
सटि अतो बाधमतीत्योरनुपपत्त्याऽनिर्वाच्यत्वं गम्यत इत्यत आह ॥ बाधेति । अर्थापत्तिर्नेष्यत इति वर्तते । एकदेशोत्कीर्तनेनोक्त
शे०चं०
सर्वमुपात्तं वेदितव्यम् । सतो बाधायोगादित्यायुक्तार्थापत्ति निर्वाच्यत्वं गमयितुमलमित्यर्थः । वियदादेः सच्चे शुक्तिरजतादेवा- म०१४
सत्त्वेऽनुपपत्यभावादिति भावः । ननु यदि वियदादिकं सत्स्यात्तदा बाधो न स्यादित्युक्तमित्यत आह ॥ बाधामावत इति ।
वियदादेर्विश्वस्य बाधाभावत एव सन्चे बाधो न स्यादितीष्टापादानमेतत् । नेह नानास्तीति श्रौतनिषेधात्मा बाघोऽस्तीति ।
चेन्न । तस्य प्रा ( निषि ) गेव निषिद्धत्वात् । तदिदमाह हिशब्देन । अनेनाक्षेपकासिद्धिश्चोक्ता भवति । विमतं वाध्यं दृश्यत्वा-
भ्रान्तिवादति वियदादौ बाधः प्रमित इत्यत आह ॥ न हीति । तस्मादृष्टान्तः साध्यविकल इत्यर्थः । कथमिति चेत् । वक्तव्य
(हि क ) तहि कस्य बाध इति । किं ज्ञानस्योत विषयस्य । नाद्यः । अधिष्ठानज्ञाननाश्यत्वलक्षणस्य पराभिमतस्य बाधस्य तत्र
स्वभावभङ्गुरेऽभावात् । अन्यथा प्रमितेरपि तस्मसङ्गात् । परमते ज्ञानस्य साक्षित्वेन विनाशायोगाच । द्वितीयं प्रतिषेधति ।।
विषयस्येति । न कुतोऽपीत्यर्थः । कुतो नेति चेत् । विषयः कोऽभिमतः किं शुक्त्यादिः किंवा रजतादिः । आये हेतुमाह ॥
विद्यमानं हीति। न हि भ्रान्तावित्यतो मण्डूकप्लुत्या नेत्यनुवर्तते । विद्यमानं यथार्थज्ञानोदयानन्तरमप्यनुवर्तमानं न हि बाध्यते ।
तथा सत्यात्मनोऽपि बाधप्रसङ्गादिति भावः । द्वितीये ( युक्तिमा ) हेतुमाह ॥ विद्यमानं हीति । यत्पूर्व विद्यमानं तदेव केन-
चिनाश्यते (न त्ववि) नाविद्यमानम् । शुक्तिरजतादिकं चाविद्यमानमिति तस्य नाश्यत्वायोगाचद्विषयो बाधः सुलरामयुक्त इति ।
असतो नाश्यत्वं नास्ति किन्तु विद्यमानस्यैवेत्यत्र दृष्टान्तावाह ॥ न हीति । अयमत्र प्रयोगः । शुक्तिरजतं न नाश्यमसत्यात् ।
यदसत्तन्न नाश्यं यथा वन्ध्यासुतः । यद्वा यन्नाश्यं न तदसधथा यज्ञदत्त इति । स्यादेतत् । बाधानभ्युपगमे लौकिकवैदिकव्यव-
॥२२॥

हारविरोधोऽपसिद्धान्तश्च स्यादित्यतः सर्वथाऽङ्गीकर्तव्ये बाधे तदृष्टान्तेन वियदादर पि बाघसिद्धौ सतो बाधायोगात्सत्वानुपपत्ति- रित्यत आह ॥ बाधेति । क्वेत्याक्षेपे । इदमुक्तं भवति । सत्यमङ्गीक्रियत एव बाघोऽस्माभिः । किन्त्वन्यथाविज्ञातस्य सम्यग्वि- ज्ञानगोचरत्वलक्षणः । स तु भ्रान्ताविव वियदादावष्यस्त्येव । क्षणिकत्वब्रह्मपरिणामत्वादिरूपेण विज्ञातस्य स्थायित्वादिरूपेणाव- गमात् । अधिष्ठानयाथात्म्यज्ञाननाश्यत्वस्यैव प्रानिरस्तत्वात् । तत्साधने सिद्धसाधनता स्यात् । न च तेन वियदादी सत्त्व- प्रतिक्षेपः सम्भवति । यत्सत्तन्न बाध्यत इति व्याप्तेरनवगतत्वात् । स ( तोऽप्या) त्यस्याप्यात्मनोऽन्याकारेण विदितस्य सभ्य ग्विज्ञानगोचरत्वस्योभयसिद्धत्वात् । न चार्थापत्तेः पृथक् प्रमाणत्वे किं व्याप्त्येति वाच्यम् । न हि वयमनुपपद्यमानस्यार्थस्योपपा- दकेनार्थेन व्यानरमा चोदयामः । किन्तु सत्त्वस्य बाधाभावेन बाधस्य वा सत्त्वाभावेन । न हि बाध एवानुपपद्यमानोऽर्थः । किन्तु प्रतीतत्वे सति बाधः । तस्य चान्यथाऽनुपपत्ति व्युत्पादयता सर्वथाऽसत्वे बाधो न स्यादिति प्रसङ्गो वा बाधात्सम भवती- त्यनुमानं वा वाच्यम् । तदुभयं च व्याप्यपेक्षमेव । यदा तु प्रमाणद्वयविरोधोऽर्थापत्तिस्तदा स्पष्ट एव व्याप्त्यभाको दोष इति । ननु बाधायोगादिति पञ्चमी किमर्था । उच्यते । सतो बाधायोगाद्वाध्यमानमिदं न सदित्यनुमाने व्यातिरेषा क्य दृश्यत इति ध्या- ख्यायते । यद्वाऽस्मदभिमतबाधाभ्युपगमे बाधायोगात्सत इत्यादिकं नोपपद्यत इति ननोऽनुवृत्त्या व्याख्याय बुत इत्याशङ्कायां च्या- सिरित्यादिकं व्याख्येयम् । एवं विनाशलक्षणं बाधं सिद्धवत्कृत्य शुक्तिरजतादौ वियदादौ च बाघस्यासिद्धिभिहिता । इदानीं तामेव विवरितुं बाधस्वरूपं परं पृच्छति ॥ कश्चेति । योऽयं वियदादेः शुक्तिरजतादेश्च सस्वाभावसिद्धयर्थ बाध उदिष्टोऽयं कः । किं (वि) ज्ञानेन विनाशः किंवा निवृत्तिर्यदा नासीन्नास्ति न भविष्यतीति कालत्रयसत्तानिषेध इति भावः । ननु विनाशनिकृत्योः को भेदः । उच्यते । केचित्खलु मायावादिनो बदन्ति । अधिष्ठानयाथात्म्यज्ञानेन सविलासाऽविधा विनश्यति । यावन्ति ज्ञानानि तावत्यो द्यविद्या इति तन्मतरीत्या विनाश इत्युक्तम् । अपरे त्वेकवाविधा तदवस्थाविशेषा एव रजतायुपादानानि भवन्तीति मन्वाना अधिष्ठानतत्त्वज्ञानेन सह कार्यरविधा तिरोषत्त इति तत्समयानुसारेण निवृत्तिरित । यद्वाऽविद्याया विद्यया विनाशो भवति । कार्य तु रजतादिकमुपादानविनाशे स्वयमेव विलीयत इति परेषां मतम् । तदुभयानुसारेणदें कल्पद्वयम् । अथवाऽलौकिकरजतो- . शेचं० त्पादवादिनां मतमनुसृत्य विनाश इति । मायावादिना तु मतमनुरुद्धय निवृत्तिरिति । यदि वा विनाश इति मायावादिनां मतम् विन्त F० टि०/ विवेकाग्रहात्मवृत्तस्य विवेकाहे सति निवृत्तिरिति प्राभाकरमतमिति । आय दूषयति ॥ न हीति । असत इत्युपलक्षणम् । अस- देव रजतं प्रत्यभादित्युत्तरानुभवबलादसदेव तावच्छुक्तिरजतम् । न चासतः शविषाणवद्विनाशः सम्भवति । स्वरूपनिनिहि विनाशः । न चासतः स्वरूपमस्ति । व्याघातात् । नापि वियदादेविनाशः सम्भवति । नित्यत्वात् । घटादेरापि मुद्राभिघातादिनैव विनाशो नाधिष्ठानतत्त्वज्ञानेनेति । पूर्वोक्तं स्मारयितुमेतदुक्तिमिति हिशब्दः । द्वितीयं निराकरोति ॥ निवृत्तिति । तिरोभावा- दिरूपा निवृत्तिः खल्वाविर्भावादिरूपप्रवृत्तिमतो भवेत् । सद्धर्मश्चाविर्भावः । शुक्तिरजतादिकं चासदित्युक्तम् । अतोऽमहतस्य तस्य निवृत्तिश्च कथमेवोपपद्यते । यद्वाविद्यया प्रवृत्तस्य तदुपादानकस्य हि विद्यया निवृत्तिरुक्तरूपोपपद्यते । न च शुक्तिरजता- दिकमविद्योपादानकम् । असन्चात् । अतोऽप्रवृत्तस्य निवृत्तिश्च कथमेवोपपद्यते । एतेन वियदादावपि बाधासिद्धिरुषता घेदितव्या। माभाकर प्रति रजतार्थिताऽभावादिना प्रवृत्तस्य पुरुषस्य निवृत्तिनोपपद्यत इति तत्राच्यालेनेदं बाधलक्षणमिति च्याख्येयम् । टि०--|| वर्तत इति । अनुवर्तत इत्यर्थः । एकदेशोत्कीर्तनेन सर्वमुपात्तं वेदितव्यमित्युक्तमेव दर्शयन्वाक्यतारपर्यमाह ॥ सत इति । आदिपदेनासतः प्रतीत्ययोगादित्यस्य परामर्शः ॥ प्रागिति । प्रथमसूत्रे मिथ्यात्वं यदि दुःखादेस्तद्वाक्यस्यामतो भवेदित्यादिना प्रकृत्यधिकरणे अमरवे स्वियमुक्तिश्च तदन्तःपातनान्न हीत्यादिनेत्यर्थः ॥ अनेनेति । इष्टापत्तिव्युत्पादनेनेत्यर्थः ॥ आक्षेपकेति । बाध्यत्वरूपेत्यर्थः ॥ प्रमित इति । तथा च नेष्टापत्तिाप्याक्षेपकासिद्धिरिति भावः ॥ किं ज्ञानस्यति । परैर्भमस्यार्थज्ञानात्मकरवाङ्गीकारेण भ्रान्तिशब्देनोभयस्य प्रसक्त- स्वादस्त्येव विकल्पावकाश इति ज्ञेयम् । अन्यथाविज्ञातस्य सम्यग्विज्ञानरूपसिद्धान्त्यभिमतबाधस्य खभावभगुरेऽपि शाने सत्त्वात्कथं तदभाव इत्यत उक्तं पराभिमतस्येति ॥ तस्यैव विवरणमधिष्ठानेत्यादि । ज्ञाने पराभिमतस्य बाधस्याभावे हेतुमाह ।। स्वभावभङ्गुर इति । क्षणि- कत्वेन बाधानवतारेऽपि व्यासङ्गादित एव नष्ट इत्यर्थः । अन्यथोत्तरक्षण एवं बाधावतारनियमाभावात्तस्य क्षणिकस्वं न स्यादिति भावः । ज्ञान- नाश्यतामात्रेण रजतज्ञानस्य भ्रान्तित्वे उत्तरज्ञाननाश्यस्य सम्यग्ज्ञानस्यापि भ्रान्तित्वं स्यात्तथा च भ्रान्तित्वव्यवहारः स्यादित्यतिप्रसङ्गमाह ॥ अन्यथेति । रजतज्ञानस्य विनाशायोगे हेत्वन्तरमाह ॥ परमते ज्ञानस्य साक्षित्वेनेति । इन्द्रियेणाधिकरणग्रहणं रजतग्रहणं च साक्षिणेति वदता परेण रजतज्ञानस्य साक्षित्वाङ्गीकारात्तस्य च शुद्धचैतन्यरूपत्वेन विनाशानुपपत्तेरिति भावः । न च रजाताकाराविद्यावृत्तिप्रतिबिम्बितचैत- न्यस्यैव रजतज्ञानत्वं न शुद्धचैतन्यस्येति वाच्यम् । तथा सति रजतस्य ज्ञातैकसत्त्वाभावापत्त्या शुद्धचैतन्यस्यैव रजतज्ञानताया अवश्यं वाच्यत्वाद- विद्यावृत्तिप्रतिबिम्बितचैतन्यस्यैव ज्ञानवेऽनवस्थापत्त्या तदप्रतिबिम्बितस्यैव तज्ज्ञानत्वावश्यम्भावेन लाघवेन रनतं प्रत्येव शुद्धचैतन्यस्य तज्ज्ञानत्वा-2 भ्युपगमस्य युक्तस्वादित्याशयः । परिहारस्योत्तरत्राभावेन प्रश्नार्थत्वायोगादाक्षेपार्थतया व्याख्याति ॥ नेति । विषयस्य कुतो बाध इत्यत्राननुवृत्तस्य नेत्यस्य कथमस्मिन्वाक्येऽनुवृत्तिरित्यत उक्त मण्डूकप्लुत्येति । मण्ड्कप्लुतिन्यायेनेत्यर्थः । यथा मण्डूका उत्प्लुत्योरप्लुत्य गच्छन्स्पन्तरालं स्यजन्ति र तद्वन्न हि भ्रान्तावित्यत्रत्यो नकारो विषयस्य कुतो बाध इत्यत्राननुवर्तमानोऽपि तदुत्तरवाक्येऽनुवर्तत इत्यर्थः ॥ तथा सतीति । बाधोत्तरकाल- मनुवर्तमानस्यापि बाध्यस्व इत्यर्थः । अविशेषादिति भावः । तद्विशेषो नाशविशेष इत्यर्थः । सामान्याभावे विशेषाभावस्य कैमुतिकन्यायसिद्धत्वा- दिति भावः ॥ मूले वध्यत इति । यद्यपि हन्तेर्वधादेशस्य लुङि लिङि च परत एव विहितत्वान्न लटि परतो वधादेशो युक्तः। तथाऽपि हलन्तो बधिः प्रकृत्यन्तरमस्ति तस्यायं प्रयोग इत्यदोषः । अत एव जनिवज्योश्चेति सूत्रव्याख्यावसरे काशिकायामुक्तं हलन्तो बधिः प्रकृत्यन्तरमस्तीति ।। वध हिंसायामिति ॥ भुवादिपाठादिति । पदमन्तपश्चोक्तमित्यवधेयम् ॥ बाधानभ्युपगम इति । शुक्तिरजतादेरिति शेषः। गोचरत्वलक्षण इति । यद्यप्यन्यथाविज्ञातस्य सम्यग्विज्ञानलक्षणो बाध इत्येव वक्तव्यम् । तथाऽपि तस्य वियदादिसम्बन्धिताज्ञापमार्थ विज्ञानगोचरस्वलक्षण इत्यु- क्तमित्यवधेयम् । यदि प्रान्ती बाधोऽभ्युपेयते तर्हि न हि भ्रान्तावपि बाघोऽधिगम्यत इति पूर्वमन्थविरोधः । तत्र भ्रान्तौ बाधाभावस्य समर्थि- ५

शे०००
स०टि
॥२४॥
तत्वादित्यत आह ॥ अधिष्ठानेति । तर्हि दृश्यत्वेन वियदादिप्रपञ्चस्यान्यथाविज्ञातस्य सम्यग्विज्ञानगोचरत्वलक्षणं बाध्यत्वमेव साध्यमस्तु तस्य
भ्रान्तौ तवापि सम्मतत्वेन दृष्टान्ते साध्यवैकल्याभावादित्याशङ्क्याह ॥ तत्साधन इति ॥ सिद्धसाधनतेति । क्षणिकत्यादिना विज्ञातस्य
स्थायित्वादिरूपेण सम्यग्ज्ञानगोचरताया मयाऽप्यङ्गीकारादिति भावः । व्यर्थ च तस्साधनं परस्येत्यभिप्रेत्य प्रकृतानुपयोग दर्शयति ॥ न चेति ।
* द्वितृ०
कुतो नोक्तरूपस्य बाध्यत्वस्य सत्त्वप्रतिक्षेपसाधकत्वमित्यतो व्याप्तिरूपसाधनाङ्गसामर्थ्याभावादित्याह ।। यत्सत्तन्नेति । व्यापयनदगममेवोपपाद-
अ०१४
यति ॥ सतोऽपीति ॥ अनुपपद्यमानस्येति । प्रतीतत्वे सति बाधरूपस्येत्यर्थः । उपपादकेनेति । सदसद्वैलक्षण्येनेत्यर्थः । नन्वेवमनुपपद्यमान-
स्योपपादकेन व्याप्यभाव एव पर्यवसित इत्यत आह ॥ न हीति ॥ तदुभयं चेति । तथा चान्यथाऽनुपपत्तिव्युत्पादकप्रसङ्गानुमानयोरेव
व्याप्यभावो दोघतयोच्यते न वापत्तेरिति भावः ॥ यदा विति । विरुद्धयोः प्रमाणयोर्विषयव्यवस्थयाविरोधापादनमापत्तिरित्यस्मिन्पक्षे स्पष्ट
एव व्याप्स्यभावो दोषः । द्वयोः प्रमाणयोर्विरोधः कस्मादिति प्रश्ने तदुपपादनाय सत्त्वे बाघो न स्यादित्यादिस्तों वाच्यः स च व्याप्तिसापेक्ष
एवेत्याशयः । यद्वेदमसन्न प्रतीतस्वादिदं सन्न बाध्यत्वादित्यनुमानद्वयविरोधोऽर्थापत्तिरित्यस्मिन्पक्ष इत्यर्थः । अनुमानरूपप्रमाणद्वयस्य मूलभूतव्याप्ति-
सापेक्षत्वादिति भावः । व्याप्तिरेषा क्व दृश्यत इत्युक्तार्थे बाधायोगादित्यस्य हेतुत्वासम्भवास्पञ्चम्यनुपपत्तिरिति शङ्कते ॥ नन्विति ॥ बाधायो-
गात्सत इत्यादिकमिति । तथा च बाधायोगात्सत इति मूलं परकीयसम्मतानुमानप्रयोगोपलक्षकमिति भावः।। ननोऽनुवृत्त्येति । न हि वन्ध्या-
सुत इति पूर्ववाक्यादिति शेषः ॥ केचिदिति । इष्टसिद्धिकारा इत्यर्थः ॥ सविलासेति । कार्यसहितेत्यर्थः । ननु चैवं सति शुक्त्यधिष्ठान-
तत्त्वज्ञानेनैव सविलासाविद्याया निवृत्तत्वात्सद्यो मोक्षः स्यादित्यतः शुक्स्यज्ञानस्य तेन नाशेऽपि ब्रह्माज्ञानस्य तेनानाशान्न मोक्षप्रसङ्ग इत्याशयेन
हेतुकथनपूर्वकमज्ञानानामनन्ततामाह ॥ यावन्तीति । विवरणकारमतमाह ।। अपरे त्विति ॥ एकैवति । आत्माश्रयमात्मविषयं चाज्ञानमन्तरेणा-
स्मसु प्रतिविषयं भावरूपाज्ञानसद्भावे मानाभावादिति भावः । नन्वेवं शुक्तिज्ञानेनाज्ञाननिवृत्तौ सद्य एव मोक्षः स्यादनिवृत्तौ च रूप्यादेः सविला-
साविद्यानिवृत्तिरूपबाधो न स्यादित्यतो भवेदेवं कथञ्चिद्यदि मूलाज्ञानमेवास्मिन्मते रजताद्युपादानं स्थान्न चैवं किन्तु मूलाज्ञानस्यावस्थाविशेषा *
॥२४॥

एव रजताद्युपादानतयाऽभ्युपगम्यन्ते ते च शुक्तिज्ञानेन साध्याः सन्निवर्तन्त इस्यतो न मोक्षप्रसङ्गः । मूलाज्ञानस्यानिवृत्तत्वानापि बाधानुपपत्तिः । अवस्थाविशेषाणां सकार्याणां निवृत्तत्वादित्याशयेनाह ॥ तदवस्थाविशेषा एवेत्यादि । ग्रीष्मवर्षादिषु नदीनामपचयोपचयरूपा अवस्थाविशेषाः कार्यविशेषकरा दृष्टास्त्रथाऽविद्याऽवस्थाविशेषा एव कार्यविशेषकरा इत्यर्थः ॥ सह कायरित । रजततदाकाराविद्यावृत्त्यादिभिरित्यर्थः । अविद्या तिरोधत्त इति । अविद्यावस्थाविशेषास्तिरोभावं प्राप्नुवन्तीत्यर्थः ॥ तदुभयानुसारेणेति । विज्ञानेन विनाशो विनाशः । उपादाननिवृत्तौ स्वयमेव विलयनं निवृत्तिरिति पक्षद्वयमित्यर्थः ॥ अलौकिकरजतोत्पादवादिनामिति । तत्रैव तात्कालिकमुत्पन्नं सद्विनश्यतीत्येवंवादिना भास्कन रीयाणां मतमनुसृत्येत्यर्थः ॥ मायावादिनामिति ॥ अपरे त्विति । प्रागुपन्यस्तानामित्यर्थः ॥ मायावादिमतमिति । केचिदित्यादिना प्रागुदा- * हृतमायावादिमतमित्यर्थः ॥ असत इत्युपलक्षणमिति । वियदादेर्घटादेश्चेति शेषः । नन्वसतोऽपि शुक्तिरजतस्य विनाशोऽस्तु किं बाधकमित्यत- स्तथा सत्यविशेषाच्छशविषाणादेरपि तत्प्रसमान्न तस्य नाशः सम्भवतीत्याह ॥ न चासत इति । अस्तु तयसतः शशविषाणादेरपि विनाश- इत्यतस्तथा सति सखरूपत्वप्रसङ्गान्नैवमित्यभिप्रेत्याह ॥ स्वरूपति । अस्तु तीसतोऽपि सस्वरूपत्वमित्यत आह ॥न चेति ॥ व्याघातादिति। असतोऽपि सस्वरूपत्वे निस्वरूपत्वरूपासत्त्वव्याघातादित्यर्थः ॥ पूर्वोक्तं स्मारयितामिति । विद्यमानं हि बाध्यते । न हि बन्ध्यासुतो बच्यो यज्ञदत्तो हि वध्यत इत्यव्यवहितग्रन्थेऽसतो विनाशाभावस्य वियदधिकरणे वियदादेः स्वरूपेण नित्यत्वोक्त्या विनाशाभावस्य जिज्ञासाधिकरण- प्रकृत्यधिकरणयोविश्वसत्यत्वसमर्थनेन घटादेरप्यधिष्ठानज्ञाननाश्यत्वाभावस्योक्तत्वारिक पुनस्तद्वचनेनेति न वाच्यम् । उक्तस्यैव स्मारणेन पुनर्वचन- स्यार्थवत्त्वादित्यर्थः ॥ अप्रवृत्तस्येति । आविर्भावादिरूपप्रवृत्तिशून्यस्येत्यर्थः ॥ निवृत्तिरिति । ज्ञानप्रयोज्यतिरोभावादिरूपनिवृत्तिरित्यर्थः । अविद्यया प्रवृत्तस्येत्यस्यैव विवरणं तदुपादानकस्येति । अविद्योपादानकस्येत्यर्थः ॥ उक्तरूपति । उपादाननाशप्रयुक्तविनाशलक्षणेत्यर्थः। अप्रवृत्त- स्याविद्याऽनुपादानकस्य । निवृत्तिनिप्रयोज्यविनाशलक्षणेत्यर्थः ॥ एतेनेति । निवृत्तिश्चाप्रवृत्तस्येति मूलमन्थेनेत्यर्थः । नित्यस्य वियदादेः सर्व- दैकप्रकारत्वे नाविर्भावतिरोभावरूपयोर्वोत्पत्तिविनाशरूपयोर्वा प्रवृत्तिनिवृत्त्योरसम्भवात्सत्यस्य घटादेरुत्पत्त्यादिमत्त्वेऽप्यविद्ययोत्पत्तिर्विद्यया विनाश- *शेचं० द्वित सुटि० अ०१४ इत्येवंरूपयोः प्रवृत्तिनिवृत्त्योरसम्भवादिति भावः । रजतार्थिताभावादिनेत्यादिपदेन व्यासङ्गादिपरिग्रहः । तथा च यत्र रजतभ्रमानन्तरं रजतार्थि- * ताभावेन वा व्यासङ्गादिना वा प्रवृत्तिरेव नोत्पन्ना तत्र प्रयत्नविरोधियत्नान्तररूपा निवृत्तिर्न सम्भवतीति तस्या एव बाधत्वे तत्राव्याप्तिरित्याशयः। अ०-नासीदस्ति भविष्यच्च तदिति शानमेयता ॥ यदि बाधस्तदा सत्त्वं तेनैवाङ्गीकृतं पुनः॥ प्रतीति सत इति वदन्न ङ्गीकरोति ताम् ॥ निषेधो ह्यप्रतीतस्य कथञ्चिन्नोपपद्यते ॥ न चोपमा भवेदत्र प्रत्यक्षात्सत्त्वमेव च ॥ शास्त्रगम्यपरेशानाद्भेदः खात्मन ईयते ॥ अनुभूतिविरोधेन कथमेकत्वमुच्यते॥ सु०-तृतीयं दूषयितुमनुबदति ॥ नासीदिति । यदेतावन्तं कालं प्रत्यभात्तन्नासीनास्ति न भविष्यतीति त्रैकालिकसत्त्व- निषेधरूपज्ञानविषयता ( यदि ) बाध इत्यथैः । यद्यप्येवंविधं ज्ञानं बाध इति वक्तव्यं तथाऽपि तस्य रजतादिसम्बन्धिताज्ञापनार्थ ज्ञानमेयतेत्युक्तम् । दूषयति ॥ तदेति । यद्येवं त्रैकालिकसत्त्वनिषेधलक्षणो बाधो वियदादेः शुक्तिरजतादेवाङ्गीक्रियते । तदाऽ- 2 सबैलक्षण्यमुररीकुर्वता तेनैव पुनरसत्त्वमङ्गीकृतं स्यात् । सत्ताविरहन्यतिरेकेण शशविषाणादीनामध्यसत्त्वस्यानिरूपणात् । अपसिद्धा- न्तप्रसङ्गानायं बाधः परेणाङ्गीकर्तुं शक्यत इत्याशयः । असिद्धश्चायं बाधो वियदादाविति प्रागेवोक्तम् । ( ननु ) यदुक्तं शुक्ति- 12 रजतादेरसत्वान्न विनाशादिलक्षणो बाधः सम्भवतीति । तद ( सत् ) सिद्धम् । विमतं नासत्प्रतीयमानत्वायत्पतीयते तन्नासद्यथा पटः । यच्चासन्न तत्मतीयते यथा शशविषाणमिति प्रमाणेनासत्त्वविरहस्य निश्चितत्वात् । अत एवासत्त्वेऽनुपपत्यभावादापत्तेरन्य- थैवोपपत्तिरित्यपि प्रत्युक्तम् । प्रतीतेरेवानुपपत्तेः । यच्चोक्तं त्रैकालिकसत्त्वनिषेधेऽसत्त्वाङ्गीकारप्रसङ्ग इति तदप्यसत् । प्रतीतत्वेना- सत्त्वानुपपत्तौ निषेधस्य सत्त्वोत्सारणमात्र एव पर्यवसानोपपत्तेः । यदप्यत्रोक्तं सत्ताविरहव्यतिरेकेणासत्त्वं नाम दुर्निरूपमिति ॥२५॥ तच्चायुक्तम् । निरुपाख्यत्वमसत्त्वमिति निरूपणादिति चेन्न । असतः प्रतीत्यभावे खल्विदं सर्व स्यात् । न चैवम् । असतः प्रतीति निराकुर्वता त्वयैव तस्या अङ्गीकार्यत्वादित्याशयवानाह ॥ प्रतीतिरिति । वदनित्युपलक्षणम् । जानन्नित्यपि द्रष्टव्यम् । असतः प्रतीतिर्नास्तीति निषेधं कुर्वता कुतोऽसतः प्रतीतिरङ्गीकार्येत्यत आह ॥ निषेधो हीति । प्रतीति सत इति किमसतः प्रतीति- निषिध्यते किंवा प्रतीतेरसद्विषयत्वम् । आये प्रतिषेधविषयतया द्वितीये प्रतिषेध्यनिविष्टतयाऽवश्यमसतः प्रतीतिरङ्गीकरणीया । तस्मात्कथश्चिदुक्तप्रकारद्वयेनापतीतस्य सम्बन्धी निषेधो नोपपद्यते। न ह्यप्रतीते भूतले घटे वा भूतले घटो नास्तीति प्रतिषेधो दृष्टः । तदनेन विमतोऽसत्यतीतिमस्तित्सम्बन्धिनिषेधकर्तृत्वात्तव्यवहर्तृत्वाद्वा सम्मतवदिति प्रमाणं सूचितं भवति । अवश्यं च प्रामाणिक परीक्षकेणाभ्युपगन्तव्यम् । मनस्यभ्युपगमो वाचि निषेध इति स्वक्रियाविरोधो वाऽनेन सूचित इति । एवमर्थापत्तिं निरस्योपमानं च निरस्यति ॥ न चेति । अत्रानिर्वचनीयार्थसद्भावे प्रमाणमिति शेषः । तस्याः सादृश्यादिनियतविषयत्वादिति भावः । अभाव- मपाकरोति ॥ प्रत्यक्षादिति। वियदादौ शुक्तिरजतादौ वा प्रत्यक्षेणानुपलम्भेन वा सत्यासत्त्वयोरभावसिद्धावनिर्वचनीयासिद्धि- रिति वक्तव्यम् । न च तद्युक्तम् । यतो वियदादी प्रत्यक्षात्सत्वमेव निश्चीयते । चशब्दाच्छुक्तिरजतादावसत्त्वं च निश्चीयत इति गृह्यते । प्रत्यक्ष विपरीतमनुपलम्भश्वासिद्ध इत्यर्थः । एचमनुमानादीनां प्रत्येकं दूषणमभिधाय साधारणं दुषणमाह ॥ प्रत्यक्षादिति । प्रत्यक्षेण गगनादौ सत्त्वमेव शुक्तिरजतादौ त्वसत्त्वमेव निधीयते । सद्गगनम् । अस्ति मेऽज्ञानमसदेव रजतं प्रत्यभादिति सर्वलोकन साक्षिणः साक्षात्कारिपत्ययस्य दुरपन्हवत्वात् । अतस्तदनिर्वाच्यतायामाशक्यमानान्यनुमानादीनि प्रत्यक्षापहृतविषयाणीति नो. भयं चेन्न सिद्धं तदिति युक्तम् । यद्वा जीवेश्वरयो)दो मिथ्या भेदत्वादित्यायनुमानस्य दूषणान्तरमाह ॥ प्रत्यक्षादिति । जीचे- श्वरभेदस्यावधार्यत इति शेषः । ततः प्रत्यक्षविरुद्धत्वेन कालात्ययापदिष्टत्वं जीवेश्वरभेदमिथ्यात्वादिसाधकानुमानस्येति भावः । स्यादेतत् । ईश्वरस्तावन्न प्रत्यक्षसिद्धः । शास्त्रयोनित्वस्याभ्युपगतत्वात् । नापि सर्वे जीवाः परात्मनां परात्मानं प्रति प्रत्यक्षत्वस्या- नभ्युपगमात् । न चामत्यक्षवस्तुभेदः प्रत्यक्षसिद्धो दूरे तत्सत्यत्वमित्यत आह ॥ शास्त्रेति । ईयते प्रत्यक्षेणेति शेषः । उक्त तावनैक एव भेदोऽनेकत्र व्यासज्य वर्तते किन्त्वेकप्रतियोगिकोऽपरधर्मिक इति तत्प्रत्यक्षतायां च धर्मिण एव प्रत्यक्षतोपयुज्यते । ५* सुटि ॥२६॥ अ०१४ प्रतियोगिनस्त्वक्गममात्र तथा लोके दर्शनात् । तत्रेश्वरस्यात्मान्तराणां चाप्रत्यक्षत्वेन तद्धर्मिकस्य भेदस्य प्रत्यक्षेण ज्ञातुमशक्यत्वेऽपि परमेश्वरप्रतियोगिकः स्वात्मधर्मिको भेदः प्रत्यक्षेण ज्ञातुं शक्यत एव । स्वात्मनः प्रत्यक्षत्वात् । परेशानस्य च शास्त्रेणावगतत्वात् । यस्तु शास्त्रेणेश्वरं न जानाति तेन मा विज्ञायि तत्मातियोगिकः स्वात्मनो भेदः । शास्त्राद्विदितेश्वरस्यैव प्रत्यक्षं ततः स्वात्मनो भेदे शेचं० द्विन्तः प्रमाणमुक्तमिति । तथापि कथमनुमानस्य कालात्ययापदिष्टत्वं भेदग्राहकस्य प्रत्यक्षस्य प्राबल्यानिरूपणादित्यत आह ॥ अनु- भूतीति । अत्रानुभूतिशब्देन साक्षी गृह्यते । उच्यतेऽनुमीयते । परार्थानुमानप्रयोगस्य वचनात्मकत्वादुच्यत इत्युक्तम् । अनुमाने नेत्यध्याहारो वा । एतदुक्तं भवति । साक्षिप्रत्यक्षं खलु स्वात्मनः परमात्मभेदग्राहकमिष्टम् । तच्चानुमानतः प्रबलमेव । तत्स्व- रूपप्रामाण्ययोधर्मिकोटिनिविष्टस्य जीवस्य च ग्राहकत्वेनोपजीव्यत्वात् । अतस्तद्विरोधेन कारणेन जीवब्रह्मणोरेकत्वं नानुमातुं शक्यत इति । टि०-॥ प्रागेवेति। ज्ञानबाध्यत्वमपितुन सिद्ध प्रतिवादिन इत्यादिना जिज्ञासासूत्र इत्यर्थः। निषेधो ह्यप्रतिस्येत्युत्तरवाक्येऽसतः प्रती तिर्नास्तीति शानस्यासज्ज्ञानं विनाऽनुपपनतयाऽसरप्रीतिसाधकत्वकथनात्पूर्वत्र ज्ञानस्याविवक्षायां तदानर्थक्यप्रसङ्गात्तदनुरोधेन वदन्निस्यतत्तथाज्ञा- * नोपलक्षणमित्याह ॥ बदनित्युपलक्षणमिति । किमसतः प्रतीतिनिषिध्यत इत्यस्य किमसति प्रतीतिविषयत्वं निषिध्यत इत्यर्थः । आयेऽसति प्रतीतिविषयत्वं निषिध्यत इति पक्षे ॥ प्रतिषेधविषयतयेति । प्रतिषेधधर्मितयेत्यर्थः ॥ उक्तप्रकारद्वयेनति । असति प्रतीतिविषयत्वं नास्तीति । प्रतीतावसद्विषयत्वं नास्तीत्युक्तप्रकारद्वयेनेत्यर्थः ॥ अमतीतस्यार्थस्यासतः सम्बन्धीति । आयेऽसतोऽधिकरणत्वेन द्वितीये प्रतियोगिकोटिनि- ॥२६॥ विष्टत्वेन निषेधसम्बन्धित्वादिति भावः । प्रतीतिनसित इति जानन्निति मूलोक्तं हेतुमुक्त्वा प्रतीतिर्नासत इति वदन्निति मूलोक्तं हेतुमाह ।। व्यव- हर्तव्यत्वाद्वति ॥ यो यत्सम्बन्धिप्रतिषेधकर्ता स तत्प्रतीतिमानिति सामान्यव्याप्तिमभिप्रेत्य तत्र दृष्टान्तमाह ॥ सम्मतवादिति । भूतले घटो नास्तीति प्रतिषेधकर्तृवदित्यर्थः । दृष्टान्तव्युत्पादनं च न हीत्यादिपुर्वग्रन्थे कृतमवधेयम् । ननु तथाऽप्यसतः प्रतीतिनास्तीति निषेधं कुर्वता कुतोऽ- सतः प्रतीतिरङ्गीकर्तव्योति शङ्कायाः कः परिहार इत्यत आह ॥ अवश्यं चेति । प्रामाणिकस्याप्यनभ्युपगमे परीक्षकत्वं न स्यादित्यनिष्टसूचनाय परीक्षकेणे * स्युक्तम् । प्रमाणसूचकतया निषेधो हीति वाक्यं व्याख्याय स्वक्रियाविरोधसूचनपरतयाऽपि तद्योजयति ।। मनसीति ॥ स्वक्रियाविरोध इति । यथा मूकोऽ- हमिति वचनक्रियया मूकपदोक्तो वचन निषेधो विरुद्धयते । यथा वाऽऽस्मा पराधीनप्रकाशो नेत्यात्मसम्बन्धित्वेन पराधीनप्रकाशत्वनिषेधकात्मविषयक- ज्ञानक्रियया नेतिपदोक्तस्तन्निषेधो विरुद्धयते तथाऽसतः प्रतीतिर्नास्तीत्यसम्बन्धित्वेन प्रतीतिविषयत्वनिषेधकासद्विषयकज्ञानक्रियया नेतिपदोक्त- स्तन्निषेधो विरुद्धयत इत्यर्थः ॥ सादृश्यादीति । आदिपदेन संज्ञासंझिसम्बन्धपरिग्रहः । शाबरोपमानस्य सादृश्यमात्रविषयत्वेन नैयायिकोप- मानस्य संज्ञासंज्ञिसम्बन्धमात्रविषयस्वेनोपमानस्य नियतविषयत्वान्नानिर्वचनीयत्वे प्रमाणत्वसम्भावनाऽपीत्याशयः । अर्थापत्त्यादिवदवश्यं निरसनीय- स्याभावस्यांनिरासान्मूले न्यूनतामाशय प्रत्यक्षात्सत्त्वमेवं चेत्यनेनैव तन्निरासान्न तदिति भावेनाभावनिरासपरतया तावत्तद्योजयति ॥ अभाव- मपाकरोतीति । नन्वत्राभावनिरासो न प्रतीयते तत्कथमनेन तन्निराकरणमित्यतः किमभावस्यानुमानादिवत्साक्षादेवानिर्वचनीयत्वसाधकस्यामित्यभि- ** मृत किंवा सत्त्वासत्त्वाभावसिद्धिद्वारा तत्सिद्धावुपायत्वमिति विकल्पद्वयम् । नायः । उपमानवत्तस्याः भावरूपनियतविषयतया साक्षादनिर्वचनीयस्व- साधकत्वासम्भवादिति प्रथमपक्षदूषणं च मनसि निधाय द्वितीयपक्षदूषणपरतया मूलं योजयितुं तमङ्गीकारवति ॥ वियदादाविति । स्वमतानुसा- रेणाह ॥ प्रत्यक्षेणेति । परमतानुसारणाह ॥ अनुपलम्भन चति । व्यवहारे भट्टनय इति परेणाङ्गीकारादिति द्रष्टव्यम् । अस्तु तर्हि द्वितीय एवेत्यतस्तन्निषेधं प्रतिज्ञाय तदुपपादकतया मूलं योजयति ॥ न च तद्युक्तमित्यादिना । गगनादावित्यादिपदेनाज्ञानादिपरिग्रहः । ननु गगनादे रजतादेश्च सत्त्वासत्त्वग्राहकं प्रत्यक्षमेव नास्ति । अस्तु वा तत्तावताऽप्यनुमानादेः को दोषः । एतव्युत्पादनस्य च क्वोपयोग इत्याशङ्काः परि- हरन्सत्वासत्त्वग्राहकं प्रत्यक्षमभिनयेन दर्शयात ॥ सद्गनामिति । एतच्च पूर्वप्रतिज्ञातवियदादिप्रपञ्चपक्षकानिर्वचनीयत्वसाधनस्य बाधोपदर्शनायो. क्तम् । अविद्यापक्षकतत्साधनस्य तल्लाभावाह ॥ अस्तीति । अत्र दीकायामस्ति मेऽज्ञानमित्येव पाठो मूलकोशेषु दर्शनान्न स्वस्ति मेयज्ञानमित्येवं- रूपः । मूलकोशेष्वदर्शनात । रजतपक्षकतत्साधनस्य बाधलाभायाह ॥ असदेवेति ॥ सर्वलोकसाक्षिण इति । सर्वलोकानुभवसिद्धस्येत्यर्थः ।

सुटि० ॥२७॥ न न न चाप्रत्यक्षवस्तुभेद इति भेदो खनेकसम्बन्धितयाऽनुभूयमानत्वादनेकाश्रितः । न चानेकाश्रितोऽपि सामान्यादिवत्प्रत्येकपरिसमाप्तः । तथा सत्येक- गोव्यक्त्युपलम्भेऽपि गोत्वोपलम्भवद्धटपटान्यतरप्रतीतावेव भेदप्रतीतिप्रसङ्गात् । किन्तु द्वित्वादिवव्यासज्यवृत्तिरेव । तस्य च प्रत्यक्षतायां धर्मिप्रत्यक्षं शे ०० नियामक प्रकृते च तन्नास्तीति भेदप्रत्यक्ष सम्भवतीत्यर्थः। ननु चोक्तरीत्याऽनेकधर्मस्य भेदस्य प्रत्यक्षतायां कथं प्रत्यक्षता स्यादिस्यतो भवेदेतदेवं यदि তি भेदस्योभयधर्मत्वं स्यान्न चैतदस्तीत्याह ॥ उक्तं तावदिति । वैशेपिकपरीक्षायां संयोगश्च विभागश्च भेदश्चैव पृथक् पृथगित्यादिनेति शेषः । अ० १४ एकैकपर्यवसितत्वे घटस्वादिवदेकैकव्यक्त्युपलम्भेऽपि प्रतीतिः स्यादिति शङ्कते ।। किन्त्विति । अनेकधर्मस्वाभावेऽप्यनेकसम्बन्धित्वान्नैकैकज्ञानद- शायां तत्प्रतिभास इत्याशयेन समाधत्ते ॥ एकप्रतियोगिकोऽपरधर्मिक इति । नवस्तु भेदस्यैकधर्मिकत्वमपरप्रतियोगिकत्वं च तथाऽपि ससम्ब- न्धिकपदार्थप्रत्यक्षे सम्बन्धितावच्छेदकप्रकारकसम्बन्धिद्वयप्रत्यक्षस्य संयोगादिप्रत्यक्षे कारणस्वकल्पनाद्धर्मिप्रतियोगिप्रत्यक्षाभावे कथं भेदप्रत्यक्षं स्या- दिस्यतः संयोगादौ तथा दर्शनेऽपि न भेदप्रत्यक्षे तदुभयप्रत्यक्षापेक्षा । तथा सति स्तम्भः पिशाचो न भवतीति स्तम्भधर्मिकपिशाचप्रतियोगि- कभेदस्याप्रत्यक्षत्वापातात् । किन्तु फलबलेन धर्मिप्रत्यक्षप्रतियोगिस्मरणयोरेव तत्र कारणत्वमिति तत्सद्भावाद्भवेदेव स्वात्मधर्मिकेश्वरप्रतियोगिकभे- दप्रत्यक्षमित्याशयवानाह ॥ प्रत्यक्षतायां विति ॥ प्राबल्यानिरूपणादिति । तदनिरूपणेऽपि प्रत्यक्षस्यानुमानादिबाधकतायामनुमानादिकमेव प्रत्यक्षबाधकं स्यादित्यतिप्रसङ्गादिति भावः । नन्वत्राप्यनुभवविरोधमात्रमुच्यते न तु प्रत्यक्षस्यानुमानादिबाधकत्वोपयोगिप्राबल्यमिति कथमनेनो- क्तशङ्कापरिहार इत्यतोऽत्रानुभूतिशब्देन तत्सूचनान्नानुपपत्तिरित्यभिप्रेत्यानुभूतिशब्दं साक्षिपरतया व्याचष्टे ॥ अनुभूतिशब्देनेति । अनुभूति- शब्दस्य साक्षिपरत्वमात्रेण कथमुक्तशङ्कापरिहार इत्यत आह ॥ एतदिति । -किञ्चित्कर्ता च दुःखीति सर्वेरेवानुभूयते ॥ सर्वसो भगवान्विष्णुः सर्वशक्तिरिति श्रुतः ॥ अनुभूताद्धि भेदन श्रुतिरेषा घदत्यमुम् ॥ उपजीव्याविरुद्धं तु कथमैक्यं श्रुतिदेत ॥ सु०--अस्तु सालिमत्यक्षमनुमानात्मबलं तस्येश्वरात्स्वात्मनो भेदग्राहकत्वं तु कुतो निश्चितं येनानुमानं बाधितविषयं स्या- ॥२७॥ ama दित्यत आह ॥ किञ्चिदिति । उपलक्षणमेतत् । अल्पज्ञोऽल्पशक्तिश्चेत्यपि पूर्वार्धे ग्राह्यम् । तथा सर्वकर्ता निर्दुःख इत्यपरार्धे । अनुभूयते स्वात्मेति शेषः । श्रुतः यः सर्वज्ञः पराऽस्य शक्तिः स हि सर्वस्य कर्ता निरनिष्ट इत्यादाविति शेषः। अयमभिसन्धिः । यो हि यमर्थमव ( थि) गम्य तद्विरुद्धधर्माणं यमध्यक्षीकरोति स तस्मात्तस्य भेदं प्रत्यक्षतः पश्यत्येवेति सर्वसाक्षिकम् । यद्यपि भेदः प्रत्यक्षसिद्धस्तथापि प्रतियोगिनो वैधयेदर्शनं प्रत्यक्षसाचिव्यमाचरतीति न दोषः । दृष्टं हि रत्नतचसाक्षात्कारे शास्त्रीय- लक्षणज्ञानस्य साचिव्यम् । तदिहापि शास्त्रावगतसार्वज्ञादिमदीश्वरः पुरुषः स्वात्मानं तहिरुद्धाल्पज्ञत्वादिधर्मपन्त साक्षिणानुभव स्ततः स्वात्मनो भेदं कथं नाध्यक्षीकुर्यादिति । अस्त्वेकस्य जीवस्येश्वराझेदः साक्षिसिद्धः । तथाऽपि तं विहायान्यत्रेश्वराभेदानु | मानेन प्रत्यक्षबाध इत्यत उक्तं सर्वेरेवेति । एकमत्यक्षबाधाभावेऽपि तत्तत्मत्यक्षबाधो दुष्परिहर इति भावः । ननु जीवं पक्षीकृत्ये-* श्वराभेदसाधने भवेदयं प्रत्यक्षविरोधः । न चैवमनुमीयते । किन्वीश्वरं पक्षीकृत्य जीवाभेद इत्यत आह ॥ अनुभूताद्वीति । ईश्वरं पक्षीकुर्वता हि तत्सिद्धिरवश्यं वक्तव्या । न च प्रत्यक्षादिना स सिध्यतीति श्रुतिरेव तद्ग्राहिका नाया । एषा (हि ) च धर्मि- प्रमाणभूता यः सर्वज्ञ इत्यादिका श्रुतिरसुमीश्वरमल्पज्ञत्यादिनाऽनुभूताज्जीवाद्भेदन वदति । तस्मात्मत्यक्षवाधाभावेऽप्युपजीव्यश्रुति- विरोधेन कालात्ययापदिष्टता दुष्परिहरैव । सदावगताल्पशत्वादिमजीवस्वरूपं प्रति सार्वज्ञादिमदीश्वरस्वरूपं प्रतिपादयन्ती श्रुतिस्त- तस्तं भिन्नमेव प्रतिपादयति । अनुभवस्यापलपितुमशक्यत्वात् । अनेनैवोभयपक्षीकारोऽपि परास्तः । उपजीव्यप्रत्यक्षचतिवाधित- त्वादिति । एवमनुमानं निराकृत्येदानीं तद्योऽहमित्यादिश्रुतिं निराकरोति ॥ उपजीव्येति । तुशब्दो विशेषार्थः । दुष्टं अनुमान- मप्रमा (णमेव भ) णं भवति । श्रुतेस्तु प्रतीतार्थप्रच्यावनमात्रमिति । ऐक्यं जीवेश्वरयोः । श्रुत्या हि यदि जीवमन्य तस्येश्वरैक्यं । बोध्यते तदा जीवग्राहकं साक्षिप्रत्यक्षमुपजीव्यं स्यात् । तच्च भेदग्राहकमित्युक्तमित्युपजीव्यविरोधः । यदि चेश्वरानुवादेन तस्य जीवाभेदो विधीयते तदा यः सर्वज्ञ इत्यादिकं श्रुत्यन्तरमेवोपजीव्यं भवेत् । तच्च भेदग्राहकमित्युक्तत्वादुपगीव्यविरोध एव । यदि ५**

सुटि०
चोभयानुवादेनाभेदमात्रबोध्यं तदोभयमुपजीव्यमित्युपजीव्यप्रमाणविरोधः स्फुट एव । यद्यप्येतत्सर्व प्रथमसूत्र एवोक्तम् । तथापि
प्रपश्चनार्थ पुनरारभ्यत इत्यदोषः।
शे०चं०
टि-सर्वज्ञो भगवान्विष्णुः सर्वशक्तिरित्युत्तरत्राभिधानास्किश्चिस्कर्तेत्युपलक्षणमित्याह ।। अल्पज्ञ इति । किञ्चित्पतेरयादिपूर्वग्रन्थानुसा-
द्वि० तु.
रेण सर्वज्ञ इत्यादिकमुपलक्षणमित्याह ॥ तथेति ॥ न च प्रत्यक्षादिना स सिध्यतीति । प्रत्यक्षस्यापाततस्तदभावावेदकत्वेनानुमानस्य च प्रत्य-
अ०१४
नुमानपराहतस्वेन तत्साधकत्वासम्भवादिति भावः । तुशब्दोक्तं विशेषमेव दर्शयति ॥ दुष्टमिति ॥ प्रथममूत्र एवोक्तामति । सत्यत्वात्तेन -
दुःखादेः प्रत्यक्षेण विरोधतः । न ब्रह्मतां वदेद्वेदो जीवस्य हि कथञ्चनेत्यादिनेति शेषः ।। प्रपश्चार्थमिति । प्रपञ्चनं चात्राप्रामाण्यं यदा भेदवा-
चकस्य भविष्यतीत्यादिनोपजीव्यस्यैव प्राबल्यसमर्थनादिनेव्यवधेयम् ।
अ०--अप्रामाण्यं यदा भेद्वाचकस्य भविष्यति ॥ स एव धर्मिणो नाही तदभेदः कथं भवेत् ॥ यत्स्वरूपनहे मानं तद्धमें
न कथं भवेत् ॥
सु०-ननूपजीव्यविरोधेनोपजीवक बाध्यत इत्यत्र किं नियामकम् । येन प्रत्यक्षागमविरोधादनुमानागमयोरमामाण्यमुक्तम् ।
उच्यते । इह हि भेदाभेदविषययोरुपजीव्योपजीवकयोरुभयोरपि प्रामाण्यमेव वाऽप्रामाण्यमेव वा । एकस्य प्रामाण्यमपरस्यामामाण्यं
वा । तत्राप्युपजीवकस्य प्रामाण्यमुपजीव्यस्यामामाण्यं वा । उपजीव्यस्य प्रामाण्यमुपजीवकस्याप्रामाण्यामिति पक्षाः सम्भवन्ति । तत्र
न तावत्प्रथमः । विरुद्धयोः प्रामाण्यानुपपत्तेः । उपपत्ती वा वस्तुनो द्वैरूप्यापत्तेः । भ्रान्तिवायव्यवस्थाभावप्रसङ्गाच । न च भेदा-
भेदाभ्यामुपपत्तिः । निराकरिष्यमाणत्वात् । असार्वत्रिकत्वाच्च । न चानकान्तवादेन निस्तारः । द्वयोरपि सावधारणत्वासम्भवात् ।
नापि द्वितीयः । वस्तुनो निस्वभावत्वापत्तेः । न चानिवाच्यतास्वीकारेण निबाहः । ब्रह्मण्यपि सम्भवादिति पक्षद्वयमतिस्फुटदोष-
त्वादनिराकृत्य तृतीयं दूषयति ॥ अप्रामाण्यमिति । भेदवाचकस्यागमस्येत्युपलक्षणम् । भेदग्राहिणः प्रत्यक्षस्येत्यपि द्रष्टव्यम् ।
॥२८॥

एवं तदा स एवेत्यत्रापि व्याख्यातव्यम् । धर्मिणो जीवस्येश्वरस्य च । इतिशब्दोऽध्याहार्यः । कथं बोध्य इति शेषः । इदमुक्त भवति । यद्यज्ञानादिविशिष्टस्य जीवस्य सार्वज्ञादिविशिष्टस्य परमात्मनो ग्राहक प्रत्यक्षमागमवाक्यं वाऽप्रमाणं स्यात् । तदा जीवेश्वर- योरसिद्धौ तत्त्वमस्यायागमैरनुमानैश्च तदभेदबोधनं न स्यात् । निर्विषयत्वात् । तथा च कस्य विरोधात्प्रत्यक्षादेरमामाण्यं स्यात् । ज्ञापकश्चायमर्थो न कारकः । अखण्डार्थबोधनमपि लौकिकवाक्यन्यायमनुसृत्य पश्चाल्लक्षणया परेणाभ्युपगतम् । न पुनरेवमेव । अलौकिकप्रकारस्य बोधानङ्गत्वात्। तस्म तस्मादुपजीवकविरोधेनोपजीव्यस्य व्यस्याप्रामाण्यायोगात्परिशेषतश्चतुर्थभकार एव च सिध्यतीति। भवे. देवोपजीवकादुपजीव्यं बलवत्तद्विरोधे चोपजीवकस्यामामाण्यम् । किन्नामास्ति तत्र विशेषः । अनेकप्रकारो ग्रुपजीव्योपजीवकभावः । क्वचिद्धर्मिग्राहक(तयेति त्वेन । क्वचित्साध्यग्राहकतया । क्वचित्तद्ग्रहणोपयुक्ततया । क्यापि स्वरूपग्रहणेन । कुत्रचित्मामाण्योपपादनेन। क्वचियाप्त्याधङ्गप्रतिपादकत्वेनेति । तत्र सर्वत्रोपजीव्यविरुद्धमुपजीवक बाध्यत एव । आश्रयादिहीनस्योत्थानविरहापत्तेः । यत्र पुनः प्रतिषेधकस्योपजीवकस्य प्रतिषेध्यसमर्पकमुपजीव्यं भवति । तदा नायं न्यायः । तत्र चोपजीवकेनैवोपजीव्यस्य बाधः। निषे- घार्थमेव तेन तदुपजीवनात् । दृष्ट होद रजतमिति ज्ञानस्य नेदं रजतमिति ज्ञानेन बाध्यत्वम् । तदिहापि यदुक्तमभेदप्रमाणयोरनुमा- नागमयोरुपजीव्याभ्यां प्रत्यक्षागमाभ्यां विरोधादप्रामाण्यमिति तदयुक्तम् । प्रत्यक्षागमयोरनुमानागमौ प्रतिषेध्यसमर्पकतयोपजी- व्यत्वात् । भेदनिषेधो हि न तत्माप्ति विना सम्भवति । तेनात्रोपजीवकविरोधिनोरुपजीव्ययोः प्रत्यक्षागमयोरेवाप्रामाण्यमुचित- मित्यतो यः सर्वज्ञ इत्यादेरागमस्य तावदप्रामाण्यमपाकरोति ॥ अप्रामाण्यमिति । भेदवाचकस्य भेदकसार्वज्ञादिविशिष्टपरमात्म- प्रतिपादकस्यागमस्य । एतदुक्तं भवति । समुत्थानवता खल्वनुमानेनागमेन वा विरोधिना यः सर्वज्ञ इत्याद्यागमस्याषामाण्यमेष्टव्यम्। अस्याप्रामाण्ये त्वनुमानादेरुत्थानमेव दुर्लभम् । दुरे तद्बाधनम् । परमात्मलक्षणस्य धर्मिणस्तदेकगम्यत्वात् । निराश्रयस्यानुमानादेः प्रवृत्त्यनुपपत्तिरिति । नन्वेवं तर्हि नेदं रजतमिति ज्ञानविरोधे नेदं रजतमिति ज्ञानस्यात्रामाण्यं न स्यात् । न न स्यात्। नहि नेदं रजत-

तु
द्वितः
सुटि
॥२९॥
मिति ज्ञानं रजतताविशिष्टं वस्तु धर्माकृत्योत्पद्यते किन्तु स्वरूपमात्रम् । सर्वमपि हि ज्ञानं धर्मिणि प्रमाणं प्रकारे तु विपर्ययः। (धर्मि-
ण्यभ्रान्तमखिलं ज्ञानमिच्छन्ति वादिनः । विपर्ययं प्रकारे तु वदन्ति रजतादिके । इति सायनशिक्षाभाष्ये वार्तिकसारवचनम् ।
शेचर
अत्रापि तृतीयाध्याये चतुर्थपादे तथाऽन्येप्याहुः सर्व ज्ञानं धर्मिणि प्रमाणं प्रकारे तु विपर्यय इति )। तदत्रापदिं रजतमिति ज्ञान-
मिदमशे प्रमाणमिति तत्सिद्धमिदमाकारमाश्रित्य प्रवृत्तन वाधकमत्ययेन विरोधाद्रजतांशे पूर्वज्ञानस्याप्रामाण्यं युज्यत्त एव । नन्वनेनैव अ० १४
न्यायनामें
भेिदानुमानागमविरोधेन यः सर्वज्ञ इत्यादिश्रुतेरप्रामाण्यं शक्योपपादनम् । इयमपि श्रुतिर्ब्रह्मस्वरूपमात्रे प्रमाणमिति तन्मात्र-
मुपजीव्यानुमानागमाभ्यां सार्वज्ञादिभेदकधर्मवैशिष्टयांशेऽप्रमाणी करिष्यते । तथा च यद्धर्मिग्राहकं न तद्विरोधोऽनुमानादेः । यच्च
विरोधि न तद्धमिप्रमाणमित्यत आह ॥ यदिति । यच्छतिवाक्यं ब्रह्मस्वरूपग्रहणाथै मानमङ्गीक्रियते । तदमें सार्वज्ञादिधर्मवेशि-
ट्याकारे कथं न मानं भवेत् । अयमभिसन्धिः। शुक्तिरजतादिज्ञानं हीदमंशे प्रमाणं रजतवैशिष्टयांशे स्वप्रमाणगिति युक्तम् । वैशि-
यांशस्य बाधकामीणविरुदत्वात् । इदमाकारस्योत्तरत्राप्यनुत्तेः । इदं न रजतमिति बाधकज्ञानमुत्पद्यते न पुनर्नेदं रजतमिति । न
चायमत्र न्यायः । स्वरूपवद्विशिष्टांशेऽपि बाधकाभावात् । न चाभेदानुमानागमो बाधकौ । अन्योन्याश्रयत्वात् । बाधितत्वेन श्रुतेर-
प्रामाण्ये सत्युपजीव्यविरोधरहितस्यानुमानादेवोधकत्वं सति च तस्मिंस्तद्विरोधिन्याः श्रुतेरप्रामाण्यामिति । कथं चानुमानादेः श्रुति-
बाधकत्वम् । न तावद्विरोधित्वमात्रेण वैषरीत्यस्यापि सुवचत्वात् । नापि विरोध्युत्तरज्ञानत्वेन शुक्तिरियमिति ज्ञानानन्तरं रजतमिद-
मिति ज्ञानस्य दर्शनात् । अनुत्तरविरोधिज्ञानं बाधकमिदं तु सोत्तरमित्यपि न । कदाचिदनुत्तरस्यापि रजतज्ञानस्य सम्भवात् । किन्तु
यावच्छक्ति परीक्षितमुत्तरं विरोध्यपरीक्षितस्य पूर्वस्य बाधकं भवति । न चैवमत्रास्तीति ।
टि०--॥ भ्रान्तीति । तत्राप्युभयोः प्रामाण्यसम्भवादिति भावः । ननु विरुद्धयोर्द्वयोः प्रामाण्ये वस्तुनो द्वैरूप्यापादानमिष्टमेव । भया
जीवेश्वरयोमैदाभेदाङ्गीकारादित्याशक्य निराकरोति। न च भेदाभेदाभ्यामिति।। निराकरिष्यमाणत्वादिति । अत एव लोपमा सूर्यकादि-
॥२९॥

वदित्यधिकरण इति शेषः । जीवब्रह्मणोर्भेदाभेदाङ्गीकारेण तद्विषयकयोरुभयोः प्रामाण्योपपत्तावप्युपजीव्योपजीवकयोरुभयोरपि सर्वत्र प्रामाण्यानुप- पत्तिरेव सर्वत्रोपजीव्योपजीवकयोभेदाभेदविषयत्वस्यासम्भवेन तदभ्युपगमेनोभयप्रामाण्योपपादनानुपपत्तेरिस्याह ॥ असार्वत्रिकाच्चेति । यद्वा वलावुपजीव्योपजीवकप्रमाणविषययोरौष्ण्यानौष्ण्ययोरुभययोरङ्गीकर्तुमशक्यत्वेन तद्विषयतयोभयप्रामाण्योपपादनस्याशक्यत्वादित्यर्थः । ननु च स्वयोपजीव्योपजीवकयोर्भेदाभेदाभ्युपगमेन प्रामाण्योपपादनासम्भवोऽनैकान्त्यवादे सर्वत्र भेदाभेदसत्त्वादित्याशक्य निषेधति ॥ न चेति । भेदाभे- दप्रमाणयोः साबधारणस्वादभेदभेदनिषेधकत्वेन भेदाभेदाङ्गीकारानुपपत्त्या न ताभ्यामुभयप्रामाण्यसिद्धिरित्याह द्वयोरपीति । ननूपजीव्योपजीव- कयोरुभयोरप्रामाण्येऽपि न वस्तुनो निस्स्वभावत्वमापद्यते । अनिर्वचनीयस्वेन सस्वभावत्वसम्भवादित्याशक्य निषेधति ॥ न चेति ॥ ब्रह्मण्यपि सम्भवादिति । विरुद्धयोरुपजीव्योपजीवकप्रमाणयोरिति शेषः । तथा च ब्रह्म मिथ्या पदार्थत्वाद्विपदादिवदित्यनुमानत्य तत्सत्यमित्यादिरागमो धर्मिग्राहकत्वादुपजीव्यस्तन्मिथ्यास्वानुमान तूपजीवकमिति तदुभयाप्रामाण्ये ब्रह्मणोऽपि सदसद्विलक्षणत्वमापयेतेति भावः ॥ एवमिति । यथा भेद- वाचकपदं नागममात्रपरं किन्तु भेदग्राहिप्रत्यक्षपरमपीति व्याख्यातं तथा स एव धर्मिणो ग्राहीत्यत्रापि स एवेत्येतन धर्मिनायागममात्रपरं किन्तु धर्मिभेदग्राहिप्रत्यक्षपरमपीत्येवं व्याख्यातव्यमित्यर्थः । पूर्वार्धे यदेत्युक्तस्वात्तस्य तदेत्यनेन सापेक्षत्वात्तदुत्तरार्धे तदेत्यस्य लाभ इत्यभिप्रेत्य तदेत्य- नूदितम् । ननु साधकस्य स्वप्रवृत्तेः पूर्व निर्विषयत्वं गुण एवान्यथा स्वप्रवृत्तेः पूर्वमेव स्वविषयस्य सिद्धवास्वव्यापारवैश्यापत्तेः । एवञ्च पूर्व जीवेश्वरासिद्धावप्यस्त्वागमादिना तदभेदबोधनं निर्विशेषस्याप्रयोजकत्वादिस्यतः सत्यं कारके स्वप्रवृत्तेः पूर्व विषयासत्त्वं गुण इति न तु ज्ञापके धर्मिणि धर्मविशेषबोधनाय प्रवृत्तस्य तस्य धर्मिस्वरूपासिद्धौ धर्मविशेषबोधनरूपस्वकार्यस्य कर्तुमशक्यतया तदसिद्धेः स्वकार्यविघातकत्वेन तत्र दोप- स्वात् । प्रकृतागमानुमानयोश्च ज्ञापकत्वात्तत्र निर्विषयत्वं दोष एवेत्याह ॥ ज्ञापकश्चायमर्थ इति । केचित्तु ननु तदभेदः कथं भवेदिति मूले धर्म्य- भावेन तदभेदाभावस्यैवापादितत्वात्स एवापायोऽस्तु किं बोध्य इति शेषपूरणेनेत्यतो वस्तुतः कारक एव कारकरवाभावस्थापाथवादभेदागमस्य च ज्ञापकत्वात्कारकत्वाभावेन ज्ञापकत्वाभावस्यैव तत्रापाद्यत्वाद्युक्तमेव बोध्य इति शेषपूरणेनाबोधकत्वापादनमित्याशयेनाह ज्ञापकश्चायमर्थ इतीत्याहुः । ६ न टिक * द्वि०४० अन्ये तु धादिसिद्ध्यभावेऽपि धादीनां सत्तामात्रेणैवानुमानादिप्रवृत्त्युपपत्तिर्भविष्यतीत्याशक्य जीवो ब्रह्मणो न भिद्यते आत्मत्वाद्ब्रह्मवदि- त्यनुमानरूपो वा तत्त्वमसीत्याद्यागमरूपो वाऽर्थो ज्ञापक एव न कारको ज्ञापकश्च किञ्चिदनूध किञ्चिद्विधत्तेऽनुवादश्च सिद्धस्यैव सम्भवति । तथा দাঁ০০ च कास्कस्य सत्तामात्रेण कार्यजनकरवेऽपि ज्ञापकस्यानुमानादेर्धादिसिद्धबधीनत्वात्तसिद्धयभावे न प्रवृत्तिः सम्भवतीस्थाह ज्ञापकञ्चेतीत्याहुः । ननु वेदान्तानामखण्डचिन्मात्रबोधकत्वेन तदभेदाबोधकत्वादभेदबोधनं न स्यादितीष्टापादानमित्यत आह ॥ अखण्डार्थेति । अखण्डार्थबोधनमपि ० १४ पश्चादमेदबोधनेन भेदभ्रमनिरासानन्तरं मुख्यार्थानुपपत्त्यादिप्रतिसन्धाने सति लक्षणयाऽभ्युपगतमिति सम्बन्धः । तत्र नियामकमाह ॥ लौकिकेति । सोऽयं देवदत्त इति वाक्येऽभेदबोधनेन भेदभ्रमनिरासानन्तरं मुख्यार्थानुपपत्त्यादिप्रतिसन्धाने सति लक्षणया देवदत्तस्वरूपमात्रपरताया दृष्टत्वात्तदनु- सारेणेत्यर्थः । न पुनरेवमेवेति । लौकिकन्यायमनुसृत्याखण्डार्थनिष्ठत्वं नाभ्युपगतमित्यर्थः । तत्र हेतुमाह ।। अलौकिकस्येति । ततश्च भेद- बोधनस्य प्रथमं सर्वथाऽभ्युपगमनीयस्वान्नेष्टापत्तिरिति भावः । ननु यद्युपजीव्यमुपजीवकाबलवत्तद्विरोधे चोपजीवकस्याप्रामाण्यं चाभ्युपगम्यते तदा * भेदप्रत्यक्षागमयोरभेदानुमानागमौ प्रत्युपजीव्यत्वात्तद्विरोधिनोरुपजीवकयोरभेदानुमानागमयोरप्यप्रामाण्यं स्यादिति मदिष्टसिद्धिरित्याशङ्कते ॥ किन्नामेति अभेदानुमानागमयोर्मेंदग्राहकप्रत्यक्षागमयोश्च सत्यप्युपजीव्योपजीवकभावेन बाध्यबाधकभावः। तत्प्रयोजकस्योपजीव्योपजीवकभावस्यात्राभावात् । अत्र | विद्यमानस्य च तदप्रयोजकत्वादित्यभिप्रेत्य बाध्यबाधकभावप्रयोजकमुपजीव्योपजीवकभावं तदनेकत्वप्रतिज्ञापूर्वकं दर्शयति । अस्ति तत्र विशेष इत्या- दिना।।क्वचिद्धर्मिग्राहकत्वेनेति । घटो व्यापकः सत्त्वादिस्यत्राक्षस्य धर्मियाहकत्वेनोपजीव्यवमित्यर्थः ॥ क्वचित् साध्योत । नरशिरः कपालं शुचि प्राण्यङ्गत्वाच्छङ्खवदित्यत्र शब्दस्य शुचिस्वग्राहकत्वेनोपजीव्यस्वामित्यर्थः। क्वचित्तद्गुणग्रहणेति । वन्हिरनुष्णःपदार्थत्वादित्यत्रानौष्ण्यप्रतियोग्युष्णत्व- ग्राहकस्य साध्यग्रहणोपयोगित्वेनोपजीव्यवमित्यर्थः ॥ स्वरूपग्रहणेनेति । लिङ्गशब्दस्वरूपग्रहणेनेत्यर्थः । मनो विभु ज्ञानासमवाय्याधारत्वादित्य- * ॥३०॥ त्रानुमानस्य लिङ्गग्राहकत्वेन श्रोत्रस्य श्रुतिस्वरूपमर्थश्चेति वक्ष्यमाणरीत्या साक्षिणो वा शब्दस्वरूपग्राहकत्वेनोपजीव्यत्वम् । यद्वा लिङ्गशब्दजन्या- नुमितिशाब्दधीस्वरूपप्राहकत्वेनेत्यर्थः । तादृशं च साक्षिप्रत्यक्षमिति ज्ञेयम् ॥ प्रामाण्येति । अनुमितिशाब्दधीप्रामाण्यग्राहकत्वेन साक्षिप्रत्यक्षस्यो- पजीव्यत्वमित्यर्थः ॥ व्याप्त्याद्यङ्गेति । अनुमित्यगव्याप्त्यादिग्राहकत्वेनेत्यर्थः । व्याप्त्यादीत्यादिपदेन शाब्दधीहेतुभूतयोग्यतादिपरिग्रहः ॥ * तत्र सर्वत्रोत । धादिग्राहकतयोपजीव्योपजीवकभावस्थल इत्यर्थः । आश्रयादीत्यादिपदेन साध्यहेतुव्याप्त्यादिपरिग्रहः । एवं बाध्यबाधकभाव- प्रयोजकमुपजीव्योपजीवकभावमुदाहृत्य तदप्रयोजकं तमुदाहरति ॥ यत्र त्विति ॥ तत्र नायं न्याय इति । उपजीव्येनोपजीवकस्य न बाध इत्यर्थः । न केवलमुपजीव्येनोपजीवकस्य तत्र बाधो नेत्येव किन्तु विपरीत एव तत्र बाध्यबाधकभावः । अतः प्रत्यक्षागमयोरभेदानुमानागमबाध- कस्वाभावेऽपि ताभ्यामबाधितत्वात्स्वार्थनिश्चायकत्वं स्यादिति न शङ्कनीयमित्याशयेनाह ॥ तत्रोपजीवकेनेति । तत्रैव युक्तिमाह ॥ प्रतिषेधार्थ- मेवेति । इदानीं प्रकृते सङ्गमयति ॥ तदिहापीति । मूले भिद्यतेऽनेनेति भेदशब्दः करणसाधन इति भावेनाह ॥ भेदकसार्वज्ञार्दाति ॥ नन्वेवं तहीति । समुत्थानवता खलु विरोधिना नेदं रजतमिति ज्ञानेनेदं रजतमिति ज्ञानस्याप्रामाण्यमेष्टव्यम् । अस्याप्रामाण्ये तु नेदं रजतमिति * ज्ञानस्योत्थानमेव दुर्लभं दूरे तबाधनम् । रजतत्वविशिष्टधर्मिणस्तदेकगम्यत्वादिति वक्तुं शक्यत्वादित्यर्थः । ननु धयंशे प्रमाणस्यापीदं रजत- मिति ज्ञानस्य रजत्वैशिष्टयांशेऽप्रमाणवयंशे प्रमाणस्यापि यः सर्वज्ञ इत्यादिवाक्यस्य सार्वज्ञादिवैशिष्ट्याकारेऽप्रामाण्यं भवेदेव । अन्यथेदं * रजतमिति ज्ञानस्यापि तद्वैशिष्टयांशे प्रामाण्यं स्यादविशेषादित्यत आह ॥ अयमभिसन्धिरिति ॥ उत्तरत्रेति । बाधोत्तरकालमित्यर्थः । उत्तर- त्रानुवृत्तिमेव दर्शयति ॥ इदमिति । नन्वेवं यः सर्वज्ञ इत्यादिश्रुतेरप्यभेदानुमानादिबाधकत्वं न स्यात् । अबाधितत्वेन श्रुतेः प्रामाण्ये सत्युप- जीन्यविरोधादभेदानुमानादेरप्रामाण्यं सति च तस्मिन्बाधाभावाछुतेः प्रामाण्यमित्यन्योन्याश्रयस्य तुल्यत्वात् । किञ्चैवं नेदं रजतमिति ज्ञानस्या-* पीदं रजतमिति ज्ञानबाधकत्वं न स्यात् । सिद्धे हीदं रजतमिति ज्ञानस्य वैशिष्टयांशेऽप्रमाणत्वे बाधाभावान्नेदं रजतमिति ज्ञानस्य प्रामाण्यसिद्धिः । सति च तस्मिंस्तद्विरोधाद्वैशिष्टयांशे तज्ज्ञानस्याप्रामाण्यसिद्धिरित्यन्योन्याश्रयस्य तुल्यत्वादित्यतो यावच्छक्ति परीक्षायामित्यादिना वक्ष्यमाणपरीक्षित- स्वापरीक्षितस्वविभागस्य बाध्यबाधकभावप्रयोजक्ताया अत्राभिमतत्वान्नाविशेषसिद्धिरिति भावेन परिशेषेण तं दिदर्शयिषुरनुमानादेः श्रुतिबाधकतां निराकरोति ॥ कथं चेत्यादिना ॥ अनुत्तरस्यापीति । असञ्जातबाधस्यापीत्यर्थः । न चैवमत्रास्तीति । अयं भावः । यः सर्वज्ञ इत्यादि- शे०५० TKO सुरि० / श्रुतेरपौरुषेयत्वेन निर्दोषत्वात्परीक्षितत्वमिति न बाध्यता सम्भवति । न च परीक्षायामप्यनाचासो बीजाभावात । इत्यमेव च दोषाभावादिज्ञानखा- परीक्षायामनाश्वासे वेदस्यापौरुषेयत्वेन तज्ज्ञाने त्वदुक्तानुमाने च योग्यानुपलभ्भादिना हेत्वाभासज्ञानराहित्यज्ञानेऽनाथासः स्यादिति प्रामाण्यतदा. भासव्यवस्था न स्यात् । रजतादिवैशिष्टयज्ञानांशे तु न तस्य परीक्षितत्वम् । तथा हि । सजातीयविजातीयसंवादविसंवादाभावौ हि परीक्षा । न चात्र विशेषदर्शनजन्यस्वसमानविषयकज्ञानान्तररूपः सजातीयसंवादो वा रूप्यार्थक्रियादिरूपो विजातीयसंवादो वाऽस्ति प्रत्युत तद्विसंवाद एव । दृश्यते चोत्तरस्यैव संवादादिकमिति युक्तस्तत्र नेदं रजतमिति ज्ञानेनेदं रजतमिति ज्ञानबाधः । न स्वभेदानुमानादिना परीक्षितायाः श्रुतेर्बाध इति । यद्वाधकतावच्छेदकधर्मानाक्रान्तत्वाच्च नानुमानादेर्बाधकत्वमिति भावेन प्रसक्तप्रतिषेधपूर्वकं तदनाकान्ततां दर्शयितुं प्रतिमानीते ॥ कथं चेति इतिशब्दस्येत्ययमभिसन्धिरिति पूर्वेणान्वयः । 10--एकविज्ञानविज्ञप्त्या व्यं मानं भविष्यति ॥ न चेदेक प्रमाणं तवयमण्यत्र नो भवेत् ॥ धर्मिग्राहिविरोधस्तु तस्मान्मा- नस्य दूषणम् ।। नोपजीव्यो. ह्यभेदोऽत्र क्वचिद्रेदश्रुतेर्वलात् ।। सु०-न केवलं बाधकाभावसाम्यादयं विभागो न युक्तः किं तीत्यत आह ॥ एकति । एकविधमेवेदं यःसर्वज्ञ इत्यादि श्रुतिजनितं विज्ञानं न पुनः शुक्तिरजतादिज्ञानमिव स्वरूपमात्रे प्रमाणं विशिष्ट शिष्टाकारे स्वप्रमाणमित्यनेकविधामित्येवं परीक्षासहकृतसा- शिरूपविज्ञप्त्याऽपीदं ज्ञानद्वयं धर्मधर्मिद्वयगर्भ विशिष्टाकारं प्रत्यपि मानं भवत्येव । वक्ष्यते चायमर्थः प्रपञ्चेन । यद्वा द्वयं प्रतीतिद्वयं खरूपवद्धपीति योज्यम् । अथवा यः सर्वज्ञ इत्यादिश्रुतेब्रह्मस्वरूपमात्रे प्रामाण्यमप्रामाण्यं तु सार्वज्ञादिविशिष्टाकार इति बदतः कोऽभिप्रायः । किं शुक्तिरजतादिज्ञानमिवैकमेवेदं ज्ञानं विषयभेदेन प्रमाणमप्रमाणं चेति । किंवा ज्ञानद्वयमेतत्तत्रैक प्रमाणमपरं चाप्रमाणमिति । आय दूषयति ॥ यदिति । पूर्व एवाभिप्रायः । द्वितीयं निराकरोति ॥ एकति । एकमेवेदं विज्ञानमिति साक्षि- विज्ञप्त्या नानेकत्वं कल्प्यमिति शेषः । अन्यथा स्तम्भोऽयमित्यादावपि ज्ञानद्वयकल्पनापत्तिः । तथा च सामानाधिकरण्यं न के- नापि ज्ञायेत । अस्तु वेदं ज्ञानद्वयं तथाऽपि नैकस्याप्रामाण्यं वक्तुं शक्यते । स्वरूपज्ञानस्येव धर्मज्ञानस्याप्यबाधितत्वादित्याह ॥द्वय- मिति । ज्ञानयमपीत्यर्थः । धर्मज्ञानमपीति(च)वक्तव्ये द्वयमिति वचनं न्यायसाम्यसूचनार्थम् । एवं बाधाभावपरीक्षितत्वसाम्येऽपि श्रौतमेकं ज्ञानद्वयं वाऽङ्गीकृत्यांशतः प्रामाण्याप्रामाण्ये वदतोऽतिप्रसङ्गमाह ॥ न चेदिति । तच्छ्रौतं ज्ञानं यं विशिष्टाकारं पति म- माणं न चेत्तदाऽत्र विषये एक स्वरूपांशं प्रत्यपि प्रमाणं न भवेत् । अविशेषात् । तथा च पुनरनाश्रययोरनुमानागमयोरनुत्थानमेव । यद्दा तद्विज्ञानमत्र विषये एकं विशिष्टाकारं प्रति प्रमाणं न चेत्तदा द्वयं प्रत्यपि नो भवेत् । विशिष्टाकारवत्स्वरूपेऽपि प्रमाणं न भवेत् । अविशेषादिति यावत् । ज्ञानद्वयाङ्कीकारवादे त्वत्र ज्ञानद्वये तद्विशिष्टविषयं ज्ञानं प्रमाणं न चेत्तर्हि ज्ञानद्वयमापि प्रमाणं न भवेत् । विशिष्टज्ञानमिव स्वरूपज्ञानमप्यप्रमाणं स्यादविशेषादिति । एवमभेदानुमानागमी प्रति यः सर्वज्ञ इतिश्रुतेनिषेध्यसमर्षकत्वेनोपजीव्यत्वं प्रत्युक्तम् । तथाऽपि नानुमानागमयोरुपजीव्यप्रमाणविरोधोऽस्ति । यः सर्वज्ञ इत्यादिश्रुतिसिद्धब्रह्मस्वरूपमात्राश्रयणेन प्रवृत्तत्वात् । न हि सार्वज्ञादिविशिष्टाकारमवलम्ब्यानुमानादिना प्रवर्तितव्यमित्यत्र नियामकमस्ति । ततो विरुद्धाकारस्यानुपयोगितयाऽनुपजीवनादुपजी- व्यस्य च स्वरूपमात्रस्याविरोधित्वानोपजीव्यप्रमाणविरोधोऽनुमानादेः प्रमाणविरोधस्तु कथञ्चित्स्यादित्याशङ्का परिहरन्नुपसंहरति । धर्मीति । तुशब्दो विशेषार्थः । प्रमाणमात्रविरोधाब्यवच्छिनत्ति । धर्मिग्राहिण्या श्रुत्या विरोधः । मानस्याभेदप्रमाणस्यानुमानागम- रूपस्य । अयमाशयः । परमाणवः सावयवा इत्यादेरनुमानस्य वाक्यस्य च कथमुपजीव्यविरोध इति वक्तव्यम् । परमाणुग्राहकेण प्रमाणेन निरवयवतयैव तेषां सिद्धत्वादिति चेन । तत्रापि परमाणुत्वस्यानुपयोगिनोऽनुपजीव्यत्वं किन्तु स्वरूपमात्रस्येति वक्तुं शक्यत्वात् । नैवं युक्तम् । निरवयवत्वादिना विना परमाणोधर्मिक गोर्धर्मिकरणासम्भवात् । स्वरूपमात्रधर्मीकरणे सिद्धार्थतापत्तिरिति चेत् । समं प्रकृतेऽपि । न हि ब्रह्मापि सार्वज्ञादिना विना शक्यं धर्मीकर्तुम् । स्वरूपमात्रधर्मीकरणे सिद्धसाधनात् । आरोपितेन सार्वज्ञा- दिना व्यावृत्तस्य धर्मीकरणे को दोषः । योऽयं स्थाणुः स पुरुष इतिवदिति चेन्न । आरोपितेन निरवयवत्वादिना व्यावृत्तस्य ६*

सुदिक
॥ ३२॥
तत्रापि धर्मीकरणसम्भवात् । निरवयवत्वादिग्राहकं प्रमाणतयाऽवधृतम् । नारोपित इति चेत् । तुल्यमत्रापि । श्रुतेरापि प्रामाण्यनिश्च-
यात् । तदेवं प्रमाणसिद्धेन निरवयवत्वादिना विशिष्टस्यैव यथा धर्मीकरणं तथाञापि सार्वज्ञादिना पारमार्थिकेनैव विशिष्टस्यैव -
धर्मीकरणमित्यतो धर्मिग्राहिविरोधो दुष्परिहर इति । स्यादेतत् । यथा खल्बभेदप्रमाणयोरनुमानागमयोरुपजाव्याविरोधान्नाभेदसाध- शे००
कत्वं तथोदाहृताया भिन्नोऽचिन्त्य इत्यादिभेदश्रुतेरप्युपजीव्यविरोधाल भेदसाधकत्व सम्भवति । तादात्म्यप्रतियोगिकः प्रतिषेधो दि००
हि भेदो नाम । न चाप्राप्ते तादात्म्ये तत्प्रतिषेधवोधनं युक्तमित्यभेदभापकं प्रमाणामुपजीव्य प्रटचा भेदश्रुतिः कथं नोपजीव्याविरुद्धा।
किञ्च निर्भेदै स्वरूपमाश्रित्य तस्य भेदो बोधनीयः । तथा च कथं नोपजीव्यविरोधः । यथोक्तम् । अभेदं नोल्लिखन्ती धीन भेदो-
ल्लेखनक्षमा । तथा चाचे प्रमा स्थानान्ते स्वापेक्ष्यवैशसादित्यत आह । नेति । हिशब्दो युक्तिसूचकः । अभेद इति तद्ग्राहकम् ।
अत्र क्वचिदिति धर्मित्वादावित्यर्थः । तदयमर्थः । भेदश्रुतेहि न धर्मिसमर्पकत्वेनाभेदज्ञानोपजीवकत्वं तावत् । जीवेश्वरस्वरूपस्यैव
धर्मित्वात् । नापि स्वरूपमामाण्यवाहकत्वेन । प्रत्यक्षेणैव तसिद्धेः । अतो निषेध्यप्रापकतयति वक्तव्यम् । न च तद्विरोधोऽप्रा-
माण्यमावहति । निषेधशास्त्रापलापप्रसङ्गात् । न च प्रमाणप्राप्तस्यायं प्रतिषेधः । किन्तु तत्त्वमस्यादिश्रुतितात्पर्यापरिज्ञानप्राप्तस्यैव ।।
यदपि निभेदै स्वरूपमादाय भेदो बोद्धव्य इति । तत्रापि न ययोर्मेदो बोधनीयस्तयोरभेद आश्रयणीयः । किन्तु स्वगताभेदं वस्तु
धर्मितयोपादाय तस्यान्यतो भेदो बोध्यते । अतो जीवेशभेदश्रुतेस्तदभेदोपजीवनाभावादनपेक्षत्वलक्षणादलायुक्तं भेदसाधकत्वमिति
शेषः । किञ्च तिष्ठतु तावद्यः सर्वज्ञ इत्यादिश्रुतेरुपजीव्यत्वम् । तथाऽप्यभेदानुमानागमबाधकत्वं भवेदेव । इयं खलु श्रुतिः सार्वज्ञादि-
विशिष्टमीश्वरं प्रतिपादयन्ती न किञ्चिदपेक्षते । अनुमानागमौ तु सापेक्षौ । सापेक्षनिरपेक्षयोश्च निरपेक्षस्य पावल्यादित्याशयवानाह॥
नोपजीव्यो हीति । अत्र भेदाभेदप्रमाणयोर्मध्ये । भेदश्रुतेर्भेदकधर्मविशिष्टधर्मिश्रुतेः । अभेद इत्यभेदप्रमाणम् । अनपेक्षत्वोप-
लक्षणमेतत् । अतो बलादभेदप्रमाणबाधकत्वमिति शेषः ।
॥३२॥

टि०-॥बाधकाभावसाम्यादिति । स्वरूपवद्विशिष्टांशे बाधाभावादित्यर्थः । अयं विभागः स्वरूपमा प्रमाणं विशिष्टाकारे स्वप्रमाण- मिति विभागः । अस्वेवं बाधाभावादिना विशिष्टांशे सार्वज्ञादिवाक्यस्य प्रामाण्यं तथाऽपि विशिष्टाकारस्य धर्मित्वासिद्ध्या न प्रतिज्ञातस्योप- जीव्यप्रमाणविरोधस्य सिद्धिरित्यतो यथा नेदं रजतमिति ज्ञानं पुरोवर्तिनः स्वरूपमात्रं धर्मांकृत्य प्रवर्तते न तु रजतत्वविशिष्टाकारं न तथा तत्त्व- मस्यादिवाक्यं प्रवर्तितुमर्हति । तथा सति बोध्यस्य ब्रह्माहमस्मीति बोधानुपपत्तिप्रसङ्गात् । किन्नाम सर्वज्ञत्वादिविशिष्टं ब्रह्मस्वरूपं दुःखादिविशिष्टं जीवस्वरूप धाकृयैव । तथा च विशिष्टाकारस्यैव वार्नत्वाद्धर्मिग्राहकत्रमाणविरोधो दुष्परिहर एवेत्यर्थः । सर्व तदुपजीव्यैव प्रमाणं वर्तते यतः । कथं ब्रह्मेति तज्ज्ञेवं सर्वज्ञत्वादिलक्षणमित्यादिना तृतीयस्य चतुर्थे पादे आचार्येणैव वक्ष्यत इत्याह ॥ वक्ष्यते चेति । धभिग्राहिविरोधस्तु तस्मा- न्मानस्य दूषणमित्यादिनाऽनुपदमपि सङ्क्षेपणास्वार्थस्य वक्ष्यमाणत्वात्प्रपञ्चेनेत्युक्तम् । द्वयशब्दस्य विशेषणविशेष्यरूपद्वयगर्भविशिष्टाकारपर- स्वादस्वारस्यमित्यपरितोषादाह ॥ यद्वति ॥ पूर्व एवाभिप्राय इति । अयमभिसन्धिरित्यादिनोक्त एवेत्यर्थः ॥ न्यायेति । बाधाभावरूपन्याये-* स्यर्थः । एकविज्ञानविज्ञप्त्या द्वयं मानमित्यस्याद्ययोजनामाश्रित्य द्वषमित्येतद्याख्याति ॥ विशिष्टाकारं प्रतीति । विशेषव्याप्तेरभावेऽप्यविशेष- . लक्षणसामान्यव्याप्तिमाश्रित्य तर्कप्रवृत्तिरविकलेत्याशयेन तां सूचयति ॥ अविशेषादिति । इष्टापत्तिमाशङ्क्याह ॥ तथा चेति । एकविज्ञान- * विज्ञप्त्येत्यस्य यद्वत्युक्तयोजनानुसारेणैतन्मूलं योजयति ॥ यद्वति । तत्तात्पर्यमाह । विशिष्टाकारवदिति ॥ ज्ञानदयाङ्गीकारवादे विति । एकविज्ञानविज्ञप्त्येत्यस्याथवेत्यादिनोक्तयोजनायामित्यर्थः ॥ प्रमाणविरोधस्त्विति । प्रमाणबाध इत्यर्थः । प्राबल्यासि धो न सम्भवर्तात्या- 8 शयेनाह ॥ कथञ्चिदिति ॥ परमाणव इत्यादि । परमाणवः सावयवा इत्यादेरनुमानस्य परमाणवः सावयवा इत्यादेर्वाक्यस्य चेति योजना ॥ निरवयवतयैवेति । निरवयवत्वादिनेत्यर्थः ॥ निरवयवत्वादिनेति । निरवयवः क्रियावान्परमाणुरित्यादितलक्षणादिति भावः । स्वरूपमात्रोत । द्रव्यत्वादिमात्रेणेत्यर्थः ॥ स्वरूपमात्रेति । चेतनत्वादिमात्रेणेत्यर्थः । आरोपिताकारेण व्यावृत्तस्य धर्मीकरणे दृष्टान्तमाह ॥ योऽयामिति । यः स्थाणुस्वेनावगतः स पुरुष इत्यत्रैवेत्यर्थः । अभेदप्रमाणस्य भेदश्रुति प्रति प्रतिषेध्यसमर्पकतयोपजीव्यत्वेऽपि न तस्य भेदश्रुतिबाधकत्वमनेन रूपेणोप-

न
शेचं०
oি
सुगटे०
॥३३॥
अ०१४
जीव्यवस्य प्राबल्याहेतुतायाः पूर्व समर्थितत्वादित्यतो धर्मियाहकतयाऽप्युपजीव्यतामाह ॥ किश्चति ॥ निभेदामिति । भेदाभावविशिष्टं स्वरूप-
मित्यर्थः । अन्यथा सिद्धसाधनतापत्तेरिति भावः । अभेदप्रमाणस्य भेदप्रमाणं प्रति धर्मिग्राहकतयोपजीव्यत्वात्तविरुद्ध भेदप्रमाण न प्रमाणमित्य-
त्रार्थे खण्डनसम्मतिमाह ॥ यथोति । तद्वाक्यमुदाहरति ॥ अभेदमिति । अभेदमुल्लिखन्ती न सती धीभेदोल्लेखनक्षमा न भवति । तथा हि ।
स्वरूपभेदवादे धर्मिप्रतियोगिविशिष्टस्यैव भेदस्य वस्तुस्वभावत्वं वाच्यम् । ततश्च धर्मिप्रतियोगिनोरपि विशिष्टान्तर्भावः । विशेषणादिव्यतिरिक्त-
विशिष्टपदार्थानङ्गीकारात् । न च प्रतियोग्युपलक्षितस्य भेदस्य धर्मिस्वरूपताया धर्म्युपलक्षितस्य च तस्य प्रतियोगिस्वरूपताया अङ्गीकारान्न तयो-
भेदान्तर्भावप्रसङ्ग इति वाच्यम् । तथा सति तत्प्रतीतिमन्तरेणापि भेदप्रतीतिप्रसङ्गात् । काकविगमेऽपि देवदत्तगृहप्रतीतिदर्शनात् । न चैवं
प्रकृतेऽस्ति । अवश्य चैतदेवं धर्मिप्रतियोगिविशिष्टस्यैव भेदत्वात् । ततोऽन्यस्य वस्तुस्वभावत्वाभ्युपगमे स्वरूपस्यैव नामान्तरकरणप्रसङ्गात् ।
तस्माद्धर्मिप्रतियोगिविशिष्टस्य भेदस्य भावस्वभावत्वमभ्युपगन्तव्यम् । यदा च घटानेदः पटस्येत्येतावानर्थः पटादेः स्वरूपं प्रत्यक्षेण गृह्यते तदा पटोऽ.
पि घटात्मन्येव प्रविष्ट इति घटपटयोरैकात्म्यमेव भेदग्राहिणा प्रत्यक्षणावगतमिति विपरीतमापद्यते । ननु च विशिष्टभेदस्य वस्तुस्वरूपाभेदे तदन्त-
र्गतस्य विशेषणस्य धर्मिस्वरूपत्वमापद्यते विशेषणाचनतिरेकाद्विशिष्टस्येति युक्त्या विशिष्टभेदस्य स्वभावत्वे प्रत्यक्षमभेदोल्लेखांति यथाऽऽपाद्यते
तथा भेदोल्लेखिताया अपि युक्त्याऽऽपादयितुं शक्यत्वान्न वैपरीत्यम् । न चाभदोल्लेखस्य यौक्तिकत्वे तद्विरुद्धभेदोलेखनस्य न यौक्तिकत्यमिति वा-
च्यम् । अभेदे हि घट इत्येव वा पट इत्येव वा बुद्धिः स्यान्न तु घटादिन्नः पट इति । तथा च घट इति पटादिति च विलक्षणाकारविषयतया
सिद्धं भेदोल्लेखनमिति चेन्न। परमार्थतश्चन्द्रेक्येऽपि जलचन्द्राद्भिन्नः खस्थश्चन्द्र इतिवत्पटाभेदस्य पारमार्थिकत्वेऽण्याविद्यकभेदबलाद्विलक्षणप्रतीतिविषयत्व-
सम्भवात् । अस्त्वभेदप्रतीतिपुरःसरा भेदप्रतीतिः। ततः किमित्यत आह ॥ तथा चोति । सा धीराधेऽभेदे प्रमा स्यादन्त्ये भेदप्रमा न स्यादिस्यर्थः ।
ननु दूरस्थतरुगियोरभेदावभासे सत्यपि भेदः पारमार्थिको दृष्टः । तथा चात्राभेदः पारमार्थिको न भेद इति कुतो विपरीतमेव किन्न स्यादित्यत्राह
।। स्वापक्ष्योति । स्वापेक्ष्यस्योपजीव्याभेदस्य वैशसाद्वाधप्रसङ्गात् । न चैतद्युक्तम् । उपजीव्याभेदप्रतीतेरुपजीवकभेदप्रतीत्यपेक्षया प्रावल्यादित्यर्थः
न
॥३३॥

॥ युक्तिसूचक इति । अभेदप्रमाणस्य भेदश्रुति प्रति धादिग्राहकत्वेनोपजीव्यत्वाभायरूपप्रतिज्ञातार्थे तदयमर्थ इत्यादिना वक्ष्यमाणयुक्तिसूचक इत्यर्थः । ततश्च हिशब्देनैव युक्तेः सूचनान्नाय प्रतिज्ञामात्रस्यासाधकस्वादिति न्यायस्य विषय इति भावः । नन्वभेदप्रमाणस्य भेदश्रुतिं प्रत्युप- जीव्यत्वं शङ्कितं न त्वभेदस्य । ततश्चासदनुवादोऽयमित्याशक्य मूलेऽभेदशब्देन तत्प्रमाणोपलक्षणादभेदशब्दस्याभेदप्रमाणपरत्वेनाभेदपरवाभा-* वान्नानुपपत्तिरिति भावेनाह ॥ अभेद इति ॥ तद्ग्राहकामति । टीकायां धादावित्येव पाठो मूलकोशेषु दर्शनान्न तु धर्मित्वादाविति । आदिपदेन स्वरूपप्रामाण्यादिपरिग्रहः । हिशब्दसूचितां युक्तिमेवाह ॥ तदयमर्थ इति ॥ जीवेश्वरस्वरूपस्यैवति । ततश्च जीवस्य साक्षिप्रत्य- क्षेणेश्वरस्य च सार्वज्ञादिवाक्येन सिद्धत्वानाभेदश्रुतेनविश्वररूपधर्मिग्राहकश्वमिति भावः ॥ स्वरूपप्रामाण्येति । श्रुतिस्वरूपतज्जन्यज्ञानतत्प्रामाण्य-* ग्राहकत्वेनेत्यर्थः ॥ प्रत्यक्षेणैवेति । श्रुतिस्वरूपस्य श्रोत्रेण तज्जन्यशानतत्प्रामाण्ययोश्च साक्षिप्रत्यक्षेणैव सिद्धेरित्यर्थः । यद्वा श्रुतिस्वरूपस्य श्रोत्र-2 वेद्यत्वेऽपि श्रोत्रजनिततद्वात्तिप्रामाण्य यावन्न साक्षिणा गृह्यते तावत्पर्यन्तं तदसिद्धया श्रुतिस्त्वरूपाध्यवसायस्यापि साक्ष्यायत्तत्वात्साक्षिप्रस्यक्षेणैव श्रुति- स्वरूपतज्जनितज्ञानतस्प्रामाण्यानां सिद्धरित्यर्थः। न च तद्विरोध इति । प्रतिषेध्यसमर्पकतयोपजीव्यप्रमाणविरोधो नोपजीवकशास्त्राप्रामाण्यसम्पादक इत्यर्थः । तत्र हेतुमाह ॥ निषेधति । निषेध्यसमर्पक्तयोपजीव्यप्रमाणविरोधस्य तत्राप्यविशिष्टरवादिति भावः । अङ्गीकृत्यैव चाभेदश्रुतेः प्रति- पंध्याभेदसमर्पकतया भेदश्रुतिं प्रत्युपजीव्यत्वम् । तद्विरोधस्योपजीवकभेदश्रुत्यप्रामाण्यानापादकत्वमुक्तम् । वस्तुतस्त्वभेदश्रुतेर्न प्रतिषेध्यसमर्पकस्व- मिति न तद्विरोधस्योपजीव्या धस्योपजीव्यविरोधत्वमपीत्याशयेनाह ॥ न चेति । नापीत्यर्थः श्रुतिप्राप्तस्य श्रुत्या निषधे ग्रहणशास्त्रप्राप्तस्याग्रहणशास्त्रेण निषे- धापत्त्या विकल्पाभावप्रसङ्गादिति भावः । त.क्यस्याप्राप्तत्वात्कथं तस्प्रतिषेध इति पृच्छति । किन्त्विति । अस्ति प्रकारान्तरेण तत्प्राप्तिरिति * भावेन श्रुतितात्पर्यापरिज्ञानप्राप्तं चेति तत्त्वनिर्णयानुसारेण तत्प्राप्तिमुपदर्शयति ॥ तत्वमस्यादिश्रुतीति । तात्पर्यापरिज्ञानादीत्यादिपदेन वादिप्र- * सिद्धयादिपरिग्रहः । किञ्चत्युक्तदूषणमनूद्य तत्परिहारकतयाऽपि मूलं योजयति ॥ यदपीति ॥ आश्रयणीय इति । धर्मितावच्छेदकतयति शेषः ॥ स्वगताभेदमिति । स्वगुणादिप्रतियोगिकभेदाभावविशिष्टमित्यर्थः । एवं सार्वज्ञादिना विना ब्रह्मणो धर्मीकर्तुमशक्यत्वेन यः सर्वज्ञ इत्या- ६** स०टि न दिश्रुतिसिद्धब्रह्मस्वरूपमात्राश्रयणेनाभेदानुमानागमप्रवृत्त्यसम्भवात्तौ प्रति तदपेक्षितविशिष्टाकारग्राहकतया यः सर्वज्ञ इत्यादिश्रुतेरुपजीव्यत्वादुपजीव्यप्र- माणबाधितत्वमभेदानुमानादेरित्युपपादितम् । इदानीं वस्तुस्वरूपमात्राश्रयणेनानुमानादिप्रवृत्या यः सर्वज्ञ इत्यादेविशिष्टार्थप्रतिपादकस्यानुपजीव्यत्वं तथाऽपि तस्यानुमानादिबाधकरवं स्यादेव । न झुपजीव्यत्वमेव प्राबल्यहेतुरिति नियमः किन्तु तदपीत्येव । ततश्च निमित्तान्तरेण प्रवलाया यः शो०० द्वित० * सर्वज्ञ इत्यादिश्रुतेः कथं न बाधकतेत्यर्थप्रतिपादकतया धर्मियाहिविरोधस्तु तस्मान्मानस्वेत्यादिपूर्वग्रन्थसङ्गतत्वेनापि नोपजीव्य इत्येतं अन्य * योजयति । किञ्चति । टीकायां श्रुतेरनुपनीव्यत्वमिति पाठे तिष्ठतु तावदित्यस्यास्तु तावदित्यर्थः । उपजीव्यत्वमिति पाठे तु माऽस्तु ताबदि- स्यर्थः ॥ सापेक्षाविति । यः सर्वज्ञ इत्यादिश्रुतिसिद्धब्रह्मस्वरूपमात्राश्रयणेन प्रवृत्तत्वात्सापेक्षावित्यर्थः । भेदश्रुतेरप्यभेदश्रुतिबद्धर्मियाहिप्रमाण- सापेक्षत्वात्कथमनपेक्षत्वमित्यत आह ॥ भेदकधर्मोत । अभेदस्य भेदाभेदप्रमाणयोर्मध्येऽन्यतरस्वासम्भवादाह ॥ अभेद इतीति । अ०-न च मानान्तरोपेयं ब्रह्म तद्भवति क्वचित ॥ येन मानेन चोपेयं भेदस्तेनावगम्यते ॥ सर्वज्ञानुमयैवेशो यधुपेयः कथञ्चन ॥ सर्वज्ञत्वगुणेनैव तया भेदोऽवगम्यते ॥ न दुःखानुभवः क्वापि मिथ्यानुभवतां व्रजेत् ॥ सु०-स्यादेतत् । यः सर्वज्ञ इत्यादिश्रुतिर्ने जीवभेदकधर्मविशिष्टं ब्रह्म प्रतिपादयति । किन्त्वनुवदत्येव । अतो नानुमाना- देस्तद्वाध इत्यत आह ॥ न चेति । उपेयं ज्ञेयम् । तदिति सार्वज्ञाद्युपेतम् । क्वचिदिति भ्रान्तिप्रतिपन्नमपि न भवतीति सूचयति । न तावत्सार्वज्ञादिविशिष्टं ब्रह्म श्रुतिव्यतिरिक्तप्रमाणगम्यम् । शाखैकयोनित्वस्य समर्थितत्वात् । नापि भ्रान्तिप्रतिपन्नम् । क्वचि- समितस्यैवान्यत्रारोपात् । न च प्रमाणेन भ्रान्त्या वाऽप्राप्तस्यानुवादः सम्भवति । अतो नेयं श्रुतिरनुवादिनी । किनाम प्रतिपाद- यत्येवोक्तरूपं ब्रह्मेति । ननु तथापि नोपजीव्यप्रमाणविरोधोऽनुमानादेः । श्रुत्युपजीवने हि सः स्यात् । न चैवं तब्यतिरिक्तश्रमा-12॥३४॥ गोपजीवनादित्यत आह ।। न चेति । वस्तुव्यवहितो वह्निरधूमस्थले प्रत्यक्षाद्यवेद्योऽपि क्वचिद्देशे प्रत्यक्षणानुमानेन वाऽवगम्यते । प्राक् पतनोत्पत्तेरगम्यमपि गुरुत्वं क्वचित्कालेऽनुमानेन गम्यते । न चैवं ब्रह्म क्वचिन्मानान्तरोपेयम् । येन तदुपजीव्यानुमानादि- प्रवृत्तिः स्यात् । अस्तु वा ब्रह्म प्रमाणान्तरवेद्यम् । तथाऽप्य भेदानुमानादेरुपजीव्यप्रमाणविरोधो दुष्परिहरः । श्रुतिवत्तस्यापि प्रमाणस्य भेदप्रत्यायकत्वादित्यभिषायवानाह ॥ येनेति । उपेयं ब्रह्मेति शेषः । तत्कथमित्यत आह ॥ स (सा) वज्ञेति । धर्मा- दिकं कस्यचित्मत्यक्षं प्रमेयत्वाइटवदित्यादिकया सा (स ) वैज्ञसाधकयाऽनुमया । सर्वकर्तृत्वाद्यनुमानोपलक्षणं चैतत् । एवेति प्रत्यक्षं ब्यावर्तयति । कथश्चनेत्यभ्युपगमवादोऽयमिति सूचयति । सर्वज्ञत्वेत्युपलक्षणम् । तयैवेत्यन्वयः । ईश्वरे तावत्प्रत्यक्ष शङ्का- हेमेव न भवति । अतोऽनुमानमेव वक्तव्यम् । प्रतिपक्षादिना पराहत्तस्यापि तस्य कथञ्चिच्छङ्काहत्वात् । अनुमानं च किश्चित्केन- चिदिशिष्टमेव प्रतिपादयति । न तु निष्कृष्टं वस्तु । न च जीवादिसाधारणधर्मविशिष्टार्थसिद्धावीश्वरः सिध्यति । तस्माद्भेदकधर्म- शिष्टयेनैव तत्सिद्धिर्वक्तव्या। तथा चानुमानादेरुपजीव्यविरोधो वज्रलेपायितः । यद्यप्यनुमानं खतः श्रुतितो दुर्बलं तथाऽप्युपजी- व्यतया बाधकं भवत्येवेति तदनेनेश्वरग्राहिकायाः श्रुतेभेदकधर्मविशिष्टे तस्मिन्नामाण्यमुपपादितम् । इदानीं जीवग्राहकस्य प्रत्यक्षस्थे- श्वर (विध ) भेदकर्मिणि जीने प्रामाण्यं समर्थ्यते । तथा हि । भवतु श्रुतिरदुःखित्वसार्वज्ञादिमदीश्वरे प्रमाणम् । तथापि नाथे- दानुमानागमयोरुपजीव्यप्रमाणविरोधेनाप्रामाण्यम् । दुःखित्वादिरूपे हि जीवस्य तात्त्विके सति तथा स्यान्न चैवम् । अहं दुःखी- त्यादेरनुभवस्य मिथ्यानुभवत्वात् । अन्तःकरणगतो हि दुःखादिरनर्थः स्वरूपतो मिथ्याभूतो जपाकुसुमारुणिमेव स्फटिक चकास्ति । न च भ्रान्तिप्रतिपन्ने (नभे) (न) भेदकेन वस्तु भिद्यते इत्यत आह ॥ नेति ॥ क्वापीति । सर्वथेत्यर्थः । भवे- देतद्यद्यहं दुःखीत्याउनुभवो मिथ्यानुभवः स्यान्न च तथा । अपि तु प्रमाणमेव । यद्यपि दुःखादिकमन्तःकरणगतं तथापि स्वरूपेण सदेव । जीवात्मनश्च तद्भोक्तृत्वेन तद्वत्त्वं तात्त्विकमेव । अल्पशक्तित्वपारतन्व्यादिकं तु स्वरूपगतमेवेत्याशयः । टि-॥ क्वचित्ममितस्यैवेति। एतच्च न्यायमतमाश्रित्योक्तमिति झातव्यम् । सर्वक धनुमानोपलक्षणत्वे सार्वज्ञानुमयैवेत्यवधारणविरोधः । स्यादित्यतोऽनभिमतव्यवच्छेदकत्वात्तस्य न तद्विरोध इत्यभिप्रेत्य तळावच्छेचं दर्शयति ॥ एवेतीति ॥ अभ्युपगमवादोऽयमिति । सिद्धान्ते शेच द्वितः सुटिल ब्रह्मणः केवलानुमानगोचरत्वाभावादिति भावः ॥ सर्वज्ञत्वेत्युपलक्षणमिति । सर्वकर्तृत्वाधुपलक्षणमित्यर्थः । सर्वज्ञत्वस्येव सर्वकर्तृत्वादेरपि जीव- भेदकत्वेन सर्वज्ञत्वमात्रग्रहणे निमित्ताभावादिति भावः । तर्हि सर्वज्ञत्वगुणेनैवेत्येवकारविरोधः स्यादित्यतो भिन्नकमत्वालेवमित्याह ॥ तयैवेत्यन्वय इति ॥ शङ्काईमेव नेति । तस्यापाततस्तदभावावेदकस्वादिति भावः । कथञ्चिदित्युक्तमेवोपपादयति ॥ प्रतिपक्षादिना पराहतस्यापीति ।। निष्कृष्टमिति । अविशिष्टमित्यर्थः । अनुमितेर्व्यापकतावच्छेदकधर्मप्रकारकत्वनियमादिति भावः ॥ ईश्वरभेदकविधर्मिणीति । ईश्वरविरुद्धधर्म- वतीत्यर्थः । दुःखिरवादिरूपस्यापि जीवे तात्त्विकत्वादुपजीन्यप्रमाणविरोधेनाभेदानुमानादेरप्रामाण्यं स्यादेवेत्यतो मानाभावान्न दुःखित्वादिरूपस्य जीवे तात्त्विकत्वं सम्भवतीत्याह ॥ न चैवमिति । अहं दुःखीत्यादेरेव तत्र प्रमाणत्वात्कथं तदभाव इत्यत आह ॥ अहं दुःखीत्यादेरिति । कुतोऽस्य मिथ्यानुभवत्वमित्यतः स्वरूपेणात्मसम्बन्धित्वेन च दुःखादेर्मिथ्यात्वात्तत्सिद्धिरित्याह ॥ अन्तःकरणगतो हीति । अत्रान्तःकरणगतो दुःखादिरनों जपाकुसुमारुणिमेव स्फटिके चैतन्ये चकास्तीत्यनेनात्मसम्बन्धित्वेन दुःखादेर्मिथ्यात्वमुक्तं भवति । तरिक जपाकुसुमारुणिमा जपाकु- सुम इव दुःखादिरनर्थोऽप्यन्तःकरणे सत्य इत्यत उक्त स्वरूपतोऽपीति।। स्वरूपेणेति। स्वरूपत इत्यादादिभ्य उपसख्यानात्तृतीयान्तात्तसिः स्वरू- पेणान्तःकरणेऽध्यस्त इत्यर्थः ॥ न च भ्रान्तिप्रतिपनेनेति । भ्रान्तिप्रतिपन्नस्य भेदकस्य तात्त्विकभेदसिद्धयङ्गत्वं नास्तीत्यर्थः । अन्यथा तस्य सम्प्रतिपन्नैकात्मन्यपि सुवचत्वेन तात्त्विकभेदसाधकरवप्रसङ्गादिति भावः । स्वरूपेण सदेवेति । अन्तःकरण इति शेषः । दुःखादेरन्तःकरणे स्वरूपेणानध्यस्तस्वमुक्त्वाऽऽत्मसम्बन्धित्वेनापि तदाह ।। जीवात्मन इति ॥ तद्भोक्तुत्वेनेति । प्रकारे तृतीया भोक्तृत्वरूपं तद्वत्त्वमित्यर्थः । परमेश्वरायत्तमिति पूरणीयम् । जिज्ञासासूत्रीयग्रन्थानुरोधादिति द्रष्टव्यम् । अ०-न हि बाधः क्वचिद् दृष्टो दुःखाद्यनुभवस्य तु ॥ यदि दुःखानुभूतिश्च भ्रान्तिरित्यवसीयते ॥ अदुःखिताश्रुतिः केन न भ्रान्तिरिति गम्यते ॥ श्रुतिस्वरूपमर्थश्च मानेनैवावसीयते ॥ तचेन्मानं गृहीतं ते किं दुःखानुभवे भ्रमः ॥ न च बाधविशेषोऽस्ति यदबाधितमेव तत् ॥

सु०-कुत इत्यत आह ।। न हीति । तुशब्दोऽवधारणे नैवति सम्बन्धः । असञ्जातवाधभ्रमेषु व्यभिचारपरिहाराय क्व- चिदित्युक्तम् । न हि कदाचित्कुत्रचित्कश्चिन्नाह दुःखी किन्त्वन्तःकरणगतेनैव मिथ्यादुःखेन दुःखितयाऽऽत्मानममनिषी (पमि) ति बाधकप्रत्ययवान्दृश्यत इत्यर्थः । ननु विमुक्तश्च विमुच्यते तत्त्वमसीत्यादिश्रुतिरेवास्यानुभवस्य बाधिकाऽस्तीति कथं न दुःखानुभू- तिर्धान्तिः । अत्र हि दुःखाद्युपप्लवरहितमेवास्यात्मनस्ताविक रूपमिति प्रतिपाद्यत इत्यत आह ॥ यदीति । अवसीयते श्रुतिमा- श्रित्येति शेषः । केन कारणेन भ्रान्तिः स्वरूपतोऽर्थतश्च गम्यतेऽभ्युपगम्यते । अनुभवमाश्रित्येति शेषः । इदमुक्तं भवति । भवे- * देषा श्रुतिरस्यानुभवस्य बाधिका । यदि निश्चितप्रमाणभावा भवेन्न तथा । धर्मिग्राहकानुभवविरोधेनास्माभिस्तदप्रामाण्यस्य प्रति-* पाद्यमानत्वात् । परस्य च तत्परिहारायाद्यापि समुद्यतत्वात् । तथा च सति श्रुतिप्रामाण्यनिश्चयेऽनुभवस्य भ्रान्तित्वं तस्मिंश्च सति * श्रुतिप्रामाण्यानिश्चय इति परस्पराश्रयत्वप्रसङ्गः । नन्वनुभवविरोधेन श्रुत्यमामाण्याभिधानेअप समानमेतत् । न समानमनुभवस्यान- पेक्षत्वाछुतेस्तदपेक्षत्वात् । अन्यथा सर्वत्र धमिग्राहकविरोधोच्छेदापचेरिति । ननु तर्हि नेदं रजतमित्यस्यापि रजतामिदमिति ज्ञान प्रति ** बाधकत्वमयुक्तं स्यात् । न स्यात् । नेदं रजतमिति ज्ञानप्रामाण्यस्य साक्षिणा परीक्षया निश्चितत्वात् । इदं रजतमिति ज्ञानस्य तद- भावात् । परीक्षितप्रामाण्येनोपजीवकेनोपजीव्यस्यातथाभूतस्य बाधोपमगमात् । उपजीव्योपजीवकन्यायस्य तदन्यविषयत्वात् । प्रा- माण्यसन्देहे खलु न्यायानुसरणं निश्चिते तु प्रामाण्ये किमनेन । वक्ष्यति चैतदाचार्यः । एवं तर्हि श्रुतेरपि प्रामाण्यं परीक्षासहकृतेन साक्षिणा निश्चितमित्यनुभवबाधकत्वमुपपत्स्यत इत्याशयवानाशङ्कते॥ श्रुतीति। स्वरूपमर्थश्चेति विवक्षाभेदेन प्रामाण्यमेवोक्तम् । जी- वस्य निर्दुःखब्रह्मात्मताप्रतिपादकश्रुतिस्वरूपमस्याः श्रुतेः सोऽर्थ इत्युभयत्र फलतोऽर्थभेदाभावात् । एतदेव हि मामाण्यमपि। मानेन साक्षिणा । परिहरति ॥ तचेदिति । त इत्यव्ययं तृतीयाथें । ते मत इत्यध्याहारो वा । किं किनिमित्तम् । दुःखानुभवे भ्रम इति । दुःखानुभवस्य भ्रमत्व इति यावत् । अङ्गीक्रियत इति शेषः । तत्साक्षिलक्षणं मानं दुःखानुभवविषये भ्रमः कुतोऽङ्गीक्रियत इति SA न सुटि० अ०१४ YO वा । एतदुक्तं भवति । साक्षिणा श्रुतिप्रामाण्यं निश्चितामिति न परेणाङ्गीकर्तुं शक्यते । तथा सति तत्मामाण्यस्याङ्गीकर्तव्यत्वप्रस- ङ्गात् । इष्यते तदिति चेन्न । तथा सत्यहं दुःखीति दुःखादिविषयोऽपि स एवेति तस्य तत्रापि प्रामाण्यमेव ग्राय स्यान्न भ्रमत्वम् । न चेतिप्रामाण्यग्रहणे. भ्रमः स्यादिति । नन्वेकत्र प्रामाण्य विषयान्तरेऽपि प्रामाण्येन भाव्यं तत्राप्रामाण्य चान्यत्राप्यप्रामाण्येन शे० चं० द्वि० ४० भवितव्यमिति कृत एतत् । मा हि भूदेकस्य चक्षुरादेरयं नियम इत्यत आह ॥ न चेति । भवेदेवैकस्यापि क्वचित्मामाण्ये परत्रा- प्रामाण्यम् । कारणविशेषात् । स चोत्पत्तौ दोषो ज्ञप्तौ बाधः । दोषोऽपि बाधोनेय एव । यथोक्तम् । वलवत्प्रमागतश्चैव ज्ञेया दोषा न चान्यथेति । ततो बाध एव विशेषः । न च दुःखादिविषयस्य साक्ष्यनुभवस्य बाधरूपो विशेषोऽस्ति । येनासौ श्रुतिप्रामाण्ये प्रमाणभूतोऽपि दुःखादी भ्रमः स्यात् । यद्यस्मादेवं तत्तस्माच्छ्रुतिप्रामाण्यमिव तदात्मनो दुःखित्वादिकमप्यवाधितमेव सत्यमेवाङ्गी- कार्यमिति । यद्वा यद्यस्मादेवं तत्तस्मारिक दुःखानुभवे भ्रम इति पूर्वेणैव सम्बन्धः । नन्वेतच्छ्रुतिप्रामाण्यं दुःखादिकं च साक्षिगृही- तमेव । न चोभयत्र प्रामाण्यं साक्षिणो युक्तम् । परस्परविरोधात् । तत एकत्राप्रामाण्यावश्यम्भावे दुःखादावेव तदिति ग्रायम् । श्रुतिप्रामाण्यस्यापौरुषेयत्वादिपरीक्षासहकृतेन गृहीतत्वात् । अतो मिथ्यैव दुःखित्वादिकपिति चेन्न । दुःखादावपि सजातीयविजा- तीयसंवादरूपपरीक्षासद्भावात् । एवं तर्हि सन्देहान्न दुःखादिसत्यतानिश्चयो भवतां युक्त इति न श्रुतेरनुभवबाधो वक्तुं शक्यत इत्यत आह ॥ अबाधितमेवेति । तदुःखादिकं सत्यमेवेत्यवधारयतोऽयमभिसन्धिः । सत्यम् । श्वतिप्रामाण्यं दुःखादिकं च साक्षिगृही. तमेव । न चैकत्रापि बाधकमस्तीत्युभयत्रापि प्रमाणं साक्षी । न च विरोधः । अद्वैतसत्तामन्तरेण श्रुतिप्रामाण्यसत्तायाः सम्भवात् । न झपौरुषेयत्वादियुक्तयो विषयविशेषनियतप्रामाण्य निश्चये साक्षिणः साचिव्यमाचरन्ति । किन्तु प्रामाण्यमात्रनिश्चये । उपक्रमा- धास्तु तत्र तत्राभासीकृता एव । न च दुःखसत्तामन्तरेण तत्र प्रामाण्यस्य सम्भवोऽस्ति । न च दुःखसत्तया श्रुतिप्रामाण्यमात्रस्य विरोधोऽस्ति । विषयान्तरेऽपि तस्य सम्भवात् । अतः सत्यमेव दुःखादिकमिति । श्रुतिरनुभवस्य बाधिका न भवति । किन्तु धमिग्राहकतया प्रबलेनानुभवेनैव बाध्यत इत्युक्तम् । न केवलं धार्मिग्राहकतयाऽनुभवस्य पावल्यम् । किनाम श्रुतिस्वरूपप्रामाण्य- * ग्राहकत्वेनापीत्याशयवानाह ॥ श्रुतीति । अर्थ इत्यर्थवत्त्वं प्रामाण्यमिति यावत् । स्वरूपतः प्रामाण्यतश्चावसिता हि श्रुतिरभिप्रेत- सिद्धये प्रयोक्तव्या नान्यथा । श्रुतिस्वरूपं तत्मामाण्यं च मानेनैव साक्षिलक्षणेनावसीयते नान्येन । यद्यपि श्रुतिस्वरूपं श्रोत्रवेचं तथाऽपि श्रोत्रजनिततत्तिप्रामाण्यं यावन साक्षिणा गृह्यते तावन्न सिध्यतीत्यतः श्रुतिस्वरूपावसायोऽपि साक्षिण्येवायतते । यद्वा श्रुतिशब्देनैतज्जनितं ज्ञानमुच्यते । तत्र पृच्छामः । तस्य साक्षिणः प्रामाण्यं भवताऽप्यभ्युपगतं न वेति । नेति पक्षे श्रुतिस्वरूपाद्य- सिद्धेने तद्विरोधेन दुःखाद्यनुभवस्य भ्रमत्वं वक्तुं युक्तम् । आधं दूषयति ॥ तचेति । तत्साक्षि ( ख ) रूपं प्रमाणं त्वया गृहीतं , चेत्तदा दुःखानुभवस्य भ्रमत्वं किं कथं न कथञ्चित् । श्रुतिविरोधेन खलु तदुच्यते । सा तु स्वरूपप्रामाण्यवाहकतयोपजीव्येनानुभ- - वेन बाधिता कथं तद्वाधनाय प्रभवतीति । स्यादेतत् । श्रुतिस्वरूपमामाण्ययोः साक्षिणः प्रामाण्यमङ्गीक्रियते । दुःखादी तु विषया- न्तरे श्रुतिविरोधेनाप्रामाण्यमाश्रीयते । तत्कथमुक्तदोष इत्यत आह ॥ न चेति । बाधस्य बाधकत्वेनाभ्युपगतायाः श्रुतर्विशेषो बाध्यतयाऽभिमतात्साक्षिणोऽतिशयो नास्ति । अस्ति चोक्तवक्ष्यमाणरीत्या साक्षिण एव विशेष इति । शिष्टं स्पष्टम् । किश्चाई दुःखीत्यादिसाक्षिणो भ्रमत्वं वदन्प्रष्टव्यः । किं सर्वत्रापि साक्षिणो भ्रमत्वमङ्गीक्रियते । उत क्वचित्प्रामाण्यमपि। आये दोषमाह ।। श्रुतिस्वरूपमिति । मानेन साक्षिणैव । तथा च तस्य भ्रान्तित्वे तन्न सिध्येदिति भावः। परमार्थतो मा सैत्सीदिति न वाच्यम् । तत्त्वावेदकत्वस्याङ्गीकृतत्वात् । अथ श्रुतिस्वरूपादिविषये तन्मानत्वं स्वीक्रियत इति द्वितीयमनूद्योत्तरमाह ॥ तचेदिति । एकत्र * प्रामाण्ये परत्रापि प्रामाण्यमङ्गीकार्यमित्येतत्कुतोऽविशेषादित्याह ॥ न चोते । पूर्ववद्याख्यानम् । टि०-।। क्वचिदित्युक्तमिति । असञ्जातबाधनमेषु भ्रान्तस्य बाधज्ञानानुदयेऽप्यनेकेषां तदस्त्येवेति भावः । अत्र च बाधपदं विपरीत- प्रमाणपरम् । न तु बाधपरं तस्यान्यथाप्रतिपत्तिपूर्वकं तदुन्मूलनेन सम्यग्बोधरूपत्वाद्धान्तिसमानाधिकरणत्वनियमेन व्यधिकरणस्य सम्यग्बोधस्य अ०१४ हटि० बाधकस्वाभावादिति बोध्यम् । अन्तःकरणगतेनैवेत्यास्मीयवत्वेन मिथ्यात्वस्योपपादकम् । मिथ्याभूतेनैवेत्यन्तःकरणेऽपि स्वरूपेणाध्यस्तत्वोपपादनम्।। अनपेक्षत्वादिति । ततश्च श्रुत्यपेक्षयाऽनुभवस्यानपेक्षत्वेन प्राबल्यात्प्रबलस्य च दुर्बलविरोधपरिहारमनपेक्ष्यैव प्रामाण्यस्य स्थितत्वान्नानुभवविरो- शे०च० धेन श्रुत्यप्रामाण्याभिधानेऽन्योन्याश्रयस्त्वम् । श्रुतेस्तु सापेक्षत्वेनानुभवापेक्षया दुर्बलत्वाइबलत्वस्य च प्रबलविरोधपरिहारमपेक्ष्यैव प्रामाण्यस्य स्थित- द्वित खेन श्रुतिविरोधेनानुभवाप्रामाण्याभिधानेऽन्योन्याश्रयत्वमिति भावः । कुत इयं व्यवस्था स्थीयत इत्यत आह ॥ अन्यथेति ॥ सर्वत्रति । घटो व्यापकः सत्त्वादित्यादावित्यर्थः । तत्राप्यनुमानविरोधेनैव धमिंग्राहकाप्रामाण्यस्य वक्तुं शक्यत्वादित्यर्थः ॥ तहाँति । सापेक्षस्याबाधकत्व इत्यर्थः । तस्यापि सापेक्षत्वादिति भावः ॥ साक्षिणा परीक्षयेति । यद्यपि साक्ष्येव प्रामाण्यनिश्चायकस्तथाऽपि दोषाभावनिश्चयार्थ परीक्षापेक्षाभिप्रायेणेय- मुक्तिः । ततश्च परीक्षया दोषाभाव निश्चित्य साक्षिणा प्रामाण्यग्रहणादित्यर्थः ॥ अतथाभूतस्येति । अपरीक्षितप्रामाण्यस्येत्यर्थः । यदि परी- क्षितप्रामाण्येनोपजीवकेनातथाभूतस्योपजीव्यस्य बाधस्तदोपजीवकं नोपजीव्यबाधकमिति न्यायभङ्ग इत्यत आह ॥ उपजीव्येति ॥ तदन्य- विषयत्वादिति । यत्र विरुद्धयोयोनियोः परीक्षयाऽन्यतरप्रामाण्यस्य न निश्चयस्तद्विषयत्वादित्यर्थः । कुतोऽस्य न्यायस्य सङ्कुचितविषयत्व. कल्पनमित्यतोऽन्यथा न्यायत्वभङ्गप्रसङ्गादित्यभिप्रेत्य न्यायप्रवृत्तिविषयमुपदर्शयति ।। प्रामाण्यसन्देह इति । नानुपलब्धेन निणांतेऽर्थे न्यायः * प्रवर्ततेऽपि तु सन्दिग्धेऽर्थ इति न्यायभाष्यकृद्धचनादिति भावः ॥ निश्चिते विति । परीक्षयाऽन्यतरप्रामाण्ये निश्चिते सतीत्यर्थः । ननु परीक्षित- प्रामाण्येनोपजीवकेनोपजीव्यस्य बाधाभ्युपगमादित्युक्तम् । तत्र कुतस्तदभ्युपगमसिद्धिराचार्यस्येत्यतवद्वाक्यादेवेत्याह ॥ वक्ष्यति चैतादति । शानपादे यावच्छक्ति परीक्षायामुपजीव्यस्य बाधने । दोषो नाशोधिते दोष उपजीव्यत्वमस्वलमित्यादिनति शेषः ॥ तहीति निश्चितप्रामाण्यस्यो- पजीवकस्याप्युपजीव्यबाधकत्व इत्यर्थः । नन्वत्र श्रुतिस्वरूपस्य तदर्थस्य च साक्षिणा निश्चितत्वमुच्यते न तु प्रामाण्यस्य । अत्र तत्प्रापकपदाभा- ॥३७॥ वात् । ततश्चानेनोपजीवकश्रुतेः साक्षिणा निश्चितप्रामाण्यवासिद्धेर्न तदुपजीवनेनोक्तशङ्कावकाश इत्यतोऽत्र वाक्ये श्रुतिस्वरूपशब्देनार्थशब्देन च प्रामाण्यस्योक्तत्वाद्युक्तस्तत्प्रामाण्यस्य साक्षिणा निश्चितत्वलाभ इत्याशयवानाह । स्वरूपमिति ॥ विवक्षाभेदनोत । एका विषयिप्राधान्यविवक्षाऽ- ANA परा विषयप्राधान्यविवक्षा चेत्येवं विवक्षाभेदेनेत्यर्थः। तेर्विषयित्वात्तत्स्वरूपप्राधान्यविवक्षाऽऽद्या । अर्थस्य विषयत्वात्तत्प्राधान्यविवक्षा द्वितीयेति द्रष्टव्यम्। ननु श्रुतिस्वरूपशब्दस्य श्रुतिस्वरूपमात्रार्थस्वादर्थशब्दस्याप्यर्थमात्रार्थत्वादुभयोरपि भिन्नार्थत्वेन कथं प्रामाण्यरूपैकार्थप्रत्यायकतोभयोः स्यादित्यतोऽत्र श्रुतिस्वरूपशब्दस्य विशिष्टश्रुतिस्वरूपपरस्वादर्थशब्दस्यापि विशिष्टार्थपरत्वादुभयोरप्येकार्थस्वान्नानुपपत्तिरित्यभिप्रेत्य तयोविशिष्टार्थत्वोपदर्शनपूर्वकमे- * कार्थतामाह ॥ जीवस्येति । ननु विशेषणविशेष्यभेदेन विशिष्टार्थयोरपि भेदान्न तयोरेकार्थत्वं सम्भवतीत्यतो न स्वरूपेण तयोरेकार्थत्वमभिमतं किन्तु फलत एव तच्च विशेषणादिभेदेन विशिष्टार्थभदेऽप्यविकलमेवेत्याशयेनोक्तं फलत इति। ननु चोक्तरूपयोविशिष्टार्थयोर्न प्रामाण्यरूपतेति स्वरूपशब्दस्यार्थ- शब्दस्य च तत्प्रत्यायकत्वमित्यत उक्तरूपयोर्विशिष्टार्थयोः प्रामाण्यरूपत्वाभावेऽपि तदन्तर्भूतस्य विशिष्टार्थप्रतिपादकत्वस्य प्रामाण्यरूपत्वाद्विशि- ष्टार्थप्रतिपादकत्वस्य श्रुतिस्वरूपशब्दस्यार्थशब्दस्य च युक्तमेव विशिष्टार्थप्रतिपादकत्वरूपप्रामाण्यप्रत्यायकत्वामित्याशयवानाह ॥ एतदेव हि प्रामाण्यमपीति । ननु कर्तृकरणयोस्तृतीयेति प्राप्तां तृतीयां बाधित्वा कर्तृकर्मणोः कृतीति प्राप्तायाः षष्ठया न लोकाव्ययनिष्ठेति पुनः प्रतिपेधेऽधवा- दाभावे पुनरुत्सर्गस्य स्थितिरितिन्यायेन देवदत्तेन भुक्तमितिवत्त्वया गृहीतमिति तृतीयया भवितव्यं ते गृहीतमिति षष्ठी तु कथमित्यतस्त इत्यस्य तृतीयार्थत्वेन षष्ठीत्वाभावान्नानुपपत्तिरित्याशयेनाह ॥ त इति तृतीयार्थ इति । ननु च तेमयावेकवचनस्येति षष्ठ्येकवचनान्तस्य युष्मच्छब्दस्य * त इत्यादेशविधानेन त इत्यस्य षष्ठीस्वात्कथं तृतीयार्थतेत्यतो नायं षष्ठ्येकवचनान्तस्य युष्मच्छब्दस्यादेशस्तशब्दः किन्तु तत्प्रतिरूपकमव्ययमे- वेति युक्तं तृतीयार्थत्वमित्याशयेनोक्तमव्ययमिति । तेशब्दप्रतिरूपकस्य त इत्यव्ययस्याप्रसिद्धत्वान्न तदाश्रयण युक्तभित्यपरितोषात् षष्ठधेवयव-* नान्ततामेव तस्थाङ्गीकृत्य मतशब्देन सम्बन्धन निष्ठान्तेन गृहीतशब्देनासम्बन्धेनोक्तप्रतिषेधाप्राप्तेयुक्तैव त इति षष्ठीत्याशयेन मतशब्दमध्याह- रति ॥ मत इतीति । न च मतशब्दस्यापि निष्ठान्तत्वेनोक्तनिषेधतादवस्थ्यान्न षष्ठीनिर्वाह इति वाच्यम् । रूढया सिद्धान्तार्थकमतशब्दस्याच्यु- त्पन्नप्रातिपदिकतया निष्ठान्तस्वाभावेन तयोगाभावादुक्तनिषेधाप्रसङ्गात् । मत इत्यत्र मतिबुद्धिपूजार्थेभ्यश्चेति वर्तमाने क्तः । ततश्च क्तस्य च वर्त- मान इति वर्तमानार्थकक्तयोगे न लोकेति प्रतिषेधबाधकत्वेन षष्ठीविधानादेवदत्तस्येष्टमितिवत्तदुपपत्तेरित्यप्याहुः । इदं च समाधानद्वयं न लोकेति सुटि अ०१४ निषेधस्य षष्ठीमात्रनिषेधकत्वं नित्यत्वं चाभ्युपगम्यैव कृतम् । कारकषष्ठीमात्र निषेधकत्यमेव तस्य न शेषषष्ठीनिषेधकत्वमिति पक्षेऽनित्यत्वपक्षे च त इति यथास्थितषष्ठयुपपत्तायुक्तप्रकारद्वयकल्पनया तदुपपादनक्लेशवैय्यादिति द्रष्टव्यम् । अत्र पक्षे दुःखानुभव इति सप्तम्याः षष्ठयन्तत्वं भ्रम इत्यस्य भावप्रधानत्वं चाश्रयणीयं भवतीत्यपारितोषारप्रकारान्तरेण योजयति ॥ तत्साक्षिलक्षणमित्यादि ॥ दुःखानुभवविषय इति । दुखानु- शे०५० * द्वि०४० भवस्य यो' विषयो दुःखरूपस्तत्रेत्यर्थः । अत एव दुःखादिविषयोऽपि स एवेत्युत्तरग्रन्थः । यद्वा दुःखानुभवरूपो विषयोऽशस्तत्रेत्यर्थः । दुःखानु- भवो भ्रमः कुतोऽर्णाक्रियत इति यावत् । अत एव श्रुतिप्रामाण्यग्रहणेऽपीत्युत्तरग्रन्थः ॥ तत्रापीति । दुःखादावीत्यर्थः ॥ प्रामाण्यमेव ग्राह्य- मिति । प्रामाण्यमेवाङ्गीकर्तव्यमित्यर्थः ॥ मा हि भूदिति । न भवति होत्यर्थः । अन्यथा चक्षुरादेरपि रूपादौ प्रामाण्ये रसादावपि प्रामाण्यं तत्राप्रामाण्ये च रूपादावप्रामाण्यं स्थादिस्यतिप्रसङ्ग इति भावः ॥ भवेदेवेति । चक्षुरादेः क्यचित्प्रामाण्येऽप्यन्यत्राप्रामाण्यं भवेदेवेत्यर्थः ॥ दोषोऽपीति । यद्यपि स्वरूपासिद्धयादयोऽनुमानादिदोषाः प्रत्यक्षादिसिद्धास्तथाऽपीन्द्रियदोषमपेक्ष्यायं नियम इत्यवधेयम् । इन्द्रियदोषस्य बाधैकोने- यत्वे किं मानमित्यतस्तत्र ब्रह्मतर्कवाक्यमुदाहरति । यथोक्तमिति । यथा च नान्यथा ज्ञेयास्तथोपपादनप्रकारस्तत्त्वनिर्णयटीकानुसारेणानुसन्धेयः । तर्हि चक्षुरादेः क्वचित्प्रामाण्येऽप्यन्यत्राप्रामाण्यवच्छ्रुतिप्रामाण्ये प्रमाणभूतस्यापि साक्षिणो दुःखादिविषयेऽप्रमाणमस्वित्यत आह ॥ न चेति । एवं तीत्युस्थापिताकाङ्क्षायाः किं दुःखानुभवे भ्रम इति पूर्वानुवृत्यैव परिपूर्तिसम्भवादबाधितमेवेत्यस्य न तत्पूरकत्वेन योजना युक्तेत्यरुचिं मनसि निधाय पूर्वग्रन्थैकवाक्यतया योजयति ॥ यद्वति । तर्थबाधितमेवेति कारिकाखण्डवैय्यद्यमित्याशक्य शङ्कान्तरपरिहारकत्वात्तस्य न तदपरियमि- प्रेत्य तन्निवा शङ्कामुत्थापयति ॥ नन्वेतदित्यादिना । ननूक्तशोपमर्दकस्यात्र ग्रन्थेऽप्रतिभासान्नानेन ग्रन्थेन तत्परिहार इस्थत आह ॥ तदुः- खादिकं सत्यमेवेत्यवधारयतोऽयमभिसन्धिरिति ॥ विषयान्तरेऽपीति । तद्गुणसारत्वादित्युत्तरत्र वक्ष्यमाणसादृश्यादिरूपविषयान्तरेऽपीत्यर्थः । ॐ ॥३८॥ इतीत्यस्येत्ययमिति सम्बन्धः । शङ्कापरिहारत्वज्ञापकाभावात्तत्परत्वेन पूर्वोत्तरग्रन्थव्याख्यानं क्लिष्टमित्यभिप्रेत्य सिद्धान्तग्रन्थतयैव पूर्वग्रन्थसङ्गततया वाक्यद्वयं योजयितुं ग्रन्थार्थमनुवदति ॥ श्रुतिरिति ॥ उक्तमिति । उपजीव्यविरुद्धं स्विस्यादिनेति शेषः । ननु श्रुतिस्वरूपप्रामाण्यानिश्चयेना न किं प्रयोजनं येन तन्निश्चायकतयाऽनुभवस्य प्राबल्यं स्यादित्यतस्तत्प्रयोजनकथनेन तस्यावश्यकतां प्रथममुपपादयति ॥ स्वरूपत इति ॥ शिष्ट- मिति । अबाधितमेव तदित्येतत्पूर्वोक्तरीत्या व्याख्यातव्यमित्यर्थः । अत्रापि पक्षे नेति पक्षदूषण बहिरेव वक्तव्यं भवतीत्यपरितोषारप्रकारान्तरेणापि * व्याख्यातुं विकल्पयति ॥ किश्चेति ॥ पूर्ववद्याख्यानमिति । शङ्कासमाधानतयैतद्ग्रन्थयोजनायामिवास्यामपि योजनायां न चेत्यादिवाक्यव्या- ख्यानं द्रष्टव्यमित्यर्थः । अ०-बाधी यद्यनुभूतेऽर्थे कथं निर्णय ईयते ॥ कोऽपि ह्यौँ न निश्चेतुं शक्यते भ्रमवादिना ॥ भ्रमत्वमभ्रमत्वं च यदैवानु- भवोपंगम् ॥ एकस्य भ्रमता तत्र परस्याभ्रमता कुतः ॥ भ्रमत्वमभ्रमत्वं च सर्व वेद्यं हि साक्षिणा ॥ स चेत्साक्षी क्वचिद्दुष्टः कथं निर्णय ईयते ॥ विशेषाः सर्व एवैते साक्षिप्रत्यक्षगोचराः॥ ऊरीकृत्य च तान्सर्वान्व्यवहार प्रवर्तते ॥ सु०---एवं साक्षिणः प्रमाणान्तरसाधारणरूपत्वमुपेत्य बाधकाभावेनाहं दुःखीत्यादेभ्रंमत्वं नोपपद्यत इत्युक्तम् । इदानीं * साक्षिणो यथार्थत्वनियमाच न दुःखादिविषये भ्रमत्वशङ्कोपपद्यते । किं बाधकगवेषणादिनेत्याशयवान्साक्षिणो यथार्थत्वनियपं विपक्ष बाधकेन समर्थयते ॥ बाध इति । अनुभूते साक्षिप्रतीतेऽर्थे यदि बाधः प्रवर्तेत साक्षी यदि कुत्रचिदययार्थः स्यादिति यावत् । अयथार्थस्य बाधोनेयत्वादेवमुक्तम् । तदा कर्थ स्तम्भोऽयं कुम्भोऽयमिति पदार्थानां निर्णय ईयते । उपेयते । एतदेव प्रपञ्चयति ॥ कोऽपीति । भ्रमवादिना साक्षिणः क्वचिद्ममत्वं वदता यदि साक्षी क्वचिदयथार्थः स्याचदा पदार्थनिर्णयो न स्यादित्यर्थः । यथाऽऽहुरन्येऽपि । ज्ञानस्य व्यभिचारित्वे विश्वासः किंन्निबन्धन इति । ननु च निर्णयो निश्चय इति चावधारणात्मकं ज्ञानमुच्यते । तञ्च स्तम्भकुम्भादिष्वर्थेषु तत्तत्कारणसामग्रीवशादेवोत्पद्यते । निर्णायकाभावसहकृतसमानधर्मदर्शनादिना ह्यनवधारणात्मकं ज्ञानं संश- यपदवेदनीयं जन्यते । तद्विलक्षणया च सामग्यवधारणज्ञानम् । तत्र का साक्षिणो याथार्थ्यनियमस्योपयोगः । किञ्च तदभावे नापनेष्यते । उच्यते । न स्तम्भोऽयमित्येकाकारमतिनियतं ज्ञानं हि निर्णयादिशब्दैरभिधीयते । आपि तर्हि तदनन्तरभावी वस्तु वपयर सुटि० तथात्वाश्वासः । तथा हि । वक्तारो भवन्ति । स्तम्भ इति च प्रतीयते भवति चायं स्तम्भ इति वा वस्तुतत्वं तु न विद्य इति वेति । तत्कस्य हेतोः । एकाकारप्रतिनियतेष्वपि ज्ञानेषु केषाश्चिद्धमत्वस्य केषाश्चिभ्रमत्वस्य बहुलमुपलब्धत्वेनेदानीं जायमानेष्येका कारनियते ज्ञाने वस्तुतथात्वविश्वासायोगात् । भवतु वस्तुतथात्वावासो वस्तुदर्शनपृष्ठभावी निर्णयः । सोऽपि तस्य दर्शनस्य भ्रम शे०चं० Bিoৰুত वाभ्रमत्वनिर्णयमेवापेक्षते । यदि ज्ञानं भ्रमः स्यात्तदा वस्त्वतथाभूतमित्यवसीयते । यदि त्वभ्रमस्तदा तथाभूतमिति । एवञ्च किं । अ० १४ साक्षिणो याथायनियमेनोपनीयते । किञ्च तस्य भ्रमत्वेनापनीयत इत्यत आह ॥ भ्रमत्वमिति । सत्यं प्रत्ययानां भ्रमत्वाभ्रमत्य- निर्णयायचो वस्तुनिर्णय इति । सैव तत्र प्रत्ययेष्वेकस्य स्तम्भादौ पुरुषादिप्रत्ययस्य भ्रमताऽपरस्य स्तम्भादिप्रत्ययस्याभ्रमता च कुतो निर्णेतव्या न कुतोऽपि । कुतो यदा यतः प्रत्ययानां भ्रमत्वमभ्रमत्वं चानुभवोपगं साक्षिणैवाध्यवसेयमिति । स्यादेतत् । कर- णदोषबाधकमत्ययाधीनं प्रत्ययानां भ्रमत्वमभ्रमत्वं च संवादायत्तं भविष्यति । तत्कथं तदनवधारणमित्याशङ्कां परिहरनुक्तमर्थ । स्पष्टमाचष्टे ॥ भ्रमत्वमिति । प्रत्ययानां भ्रमत्वमभ्रमत्वं तदवधारणोपयुक्तं च सर्व करणदोषादिकं साक्षिणा निश्चयम् । अनिशि- तस्य भ्रमत्वाधवधारणानङ्गत्वात् । स चेत्साक्षी क्वचिद्विषये दुष्टोऽयथार्थः स्यात्तदा कथं करणदोपादेर्धमत्वादेवस्तुतथात्वादेर्वा निर्णय इयते । एतदुक्तं भवति । यद्यपि प्रत्ययानां भ्रमत्वावधारणं करणदोषाधायत्तं तथाऽपि साक्षिणो याथायनियमाभावे न सिद्धयेत् । न हि तत्स्वरूपेणोपयुक्तम् । अतिप्रसङ्गात् । किन्तु निश्चितमेव तन्निश्चयश्च साक्षात्परम्परया वा साक्षिण्यायतते । स हि करणदोषादिकं खयमेव वा तद्ग्राहकप्रामाण्यग्रहणेन वा निश्चित्य भ्रमत्वं निश्चिनोति । ततश्च तस्य क्वचिदयथार्थत्वेऽविश्वसनीयत्वा- पत्त्या न निर्णयः स्यात् । अभ्रमत्वनिश्चयस्तु न संवादाधीनः। तथा सत्यनवस्थादिदोषाः प्रादुष्युरिति झुक्तम् ।किन्तु केवलसाक्षि- दयथार्थत्वे तदुभयनिर्णयोऽपि न भवेदिति । ननु साक्षिणो यथार्थत्वनियमेऽपि प्रत्ययानां भ्रमत्वाभ्रमत्वनिर्णयो नोपपद्यते । न हि POS यान तु ***** याथार्थ्य स्वरूपेणैवोपयुक्तम् । अतिप्रसङ्गात् । किन्तु निश्चितमेव । न च तनिश्चयोपायोऽस्ति । अतस्तदनिश्चयात्करणदोषादेभ्रम- त्वादेः स्तम्भत्वादेरनिश्चय एवेत्यत आह ॥ विशेषा इति । विशिष्यन्ते एतैरिति विशेषाः करणदोपादयः । साक्षिमत्यक्षगोचरा एवेति सम्बन्धः । साक्षियाथार्थ्यस्य साक्षिणैव निश्चियोपपत्तेः । अस्यार्थस्य च वक्ष्यमाणव्यवहारान्यथाऽनुपपचिसिद्धत्वादिति भावः। यदि साक्षी क्वचियभिचरेत्तदा तेनाविश्वसनीयेन करणदोषादिनिश्चयो न स्यात् । तदभावे प्रत्ययानां भ्रमत्वादि न निधी- येत । तथा च वस्तुनिर्णयो न स्यात् । कारणाभावे कार्योदयायोगादित्युक्तम् । तत्र मा भूदैतत्सर्वमिति चेन्न । तथा सति हानो-* पादानादिसर्वव्यवहारविलोपप्रसङ्गात् । कथम् । सर्वव्यवहाराणामेतत्कार्यत्वादित्याह ॥ ऊरीकृत्य चेति । निश्वित्येत्यर्थः । चोऽ- वधारणे । तान्सर्वान्करणदोषादीनूरीकृत्य ( सर्व ) व्यवहारः प्रवर्तत इति गौणं समानकर्तृकत्वम् । यद्वोरीकृत्य कारणतयोपादाय कारणीकृत्वेति व्याख्येयम् । तथा हि । इदं रजतमिति भ्रान्त्या प्रवृत्त करणदोषं बाधकमत्ययं ( चा ) वाऽवधार्य तस्य ज्ञानस्य भ्रमत्वं निश्चित्य नेदं रजतं किन्तु शुक्तिरेवेति वस्तु व्यवस्थाप्य जहाति । तथा जलमेतदिति प्रतीत्य तस्य प्रत्ययस्यापातत एवा- न्यथात्वशङ्कायां संवादं निवेश्य तत्स्वरूपप्रामाण्ये गृहीत्वा चाभ्रमत्वं निश्चित्य जलमेतद्भवत्येवेत्यवधार्य तदुपादत्त इति । टि०-साक्षिसिद्धस्य बाध्यताया एवापादकत्वमिति प्रतीतिनिरासायाह ।। साक्षीति । तर्हि साक्षी यद्ययथार्थः स्यादित्येव वक्तव्यम् । किं साक्षिगृहीतस्य बाध्यत्वकथनेनेत्यतोऽयथार्थत्वस्य बाधोन्नेयत्वात्तदुन्नायकतया बाध्यत्वकथनमित्याह ॥ अयथार्थत्वस्येति । ज्ञानस्य ववचिद- यथार्थत्वे पदार्थनिर्णयो न स्यादित्येतत्प्राभाकरसम्मतं चेत्याह ॥ यथाऽऽहुरिति । तद्वाक्यं पठति ॥ ज्ञानस्योति । अयमर्थः । प्रदर्शिताकारव्य- भिचारे सर्वत्र ज्ञाने व्यभिचारशङ्का दुर्वारा स्यात् । तथा च न बाह्यानिन्हवो निराकर्तुं शक्यः । तथा हि । ज्ञानमेव खलु सर्वत्र वस्तुव्यव- स्थापकं नान्यत् । तच्चेत्क्वचिद्यभिचरति तदा तत्सर्वत्र शकितव्यभिचारमेव । न च तच्छङ्कापङ्कसक्षालनक्षमं किञ्चिदन्यविज्ञानात् । तच्च सक- लमपि शङ्काकलङ्कसङ्कोचितप्रभावं न प्रभवति । ततश्च कुतो बाह्यार्थप्रत्याशा । न च यथा पटादेः पार्थिवस्य वन्हिव्यभिचारेऽपि न धूमस्यापि न

॥४०॥ *
न
अ०१४
तथ्यभिचारः शक्यते । एवमेकज्ञानस्यार्थव्यभिचारेऽपि न सर्वत्र व्यभिचारशङ्केति वाच्यम् । वैषम्यात् । अस्ति हि तत्र पार्थिवत्वाविशेषेऽप्यव्याभि-
* चारनिश्चयोपायो धूमस्वादिरवान्तरो विशेषस्तेन तच्चोपपद्यते आश्वासः । प्रकृते तु न ज्ञानत्वावान्तरविशेषमनाश्वासनिरसनदक्षमीक्षामहे । न च *
सुटि०
बाथकभावाभावरूपविशेषाद्यवस्थेति वाच्यम् । बाधकस्यापि ज्ञानत्वेन शङ्कास्पदस्वात् । संवादभावाभावाभ्यां विशेष इत्यपि न । संवादकस्यापि
चं०
0ি 0
ज्ञानत्वेन शङ्कास्पदत्वात् । तत्रापि संवादकान्तरान्वेषणेऽनवस्था कुतो न भवेत् । नापि ज्ञानजन्यव्यवहारविसंवादाविसंवादकतो विशेषः । तद्वि-
शेषग्राहिण्यप्याश्वासकारणाभावादिति । यद्यप्यर्थतथाश्वासप्रयोजकतया ज्ञानयाथार्यमभ्युपगम्य तदयाथार्थ पैरैर्निराकृतमस्माभिस्तु ज्ञानप्रामाण्य-
ग्राहकस्य साक्षिण एव याथार्थ्यमभ्युपगम्य तदयाथायें निराकृतमिति वैषम्यं तथाऽप्यर्थबाहिरवतज्ज्ञानप्रामाण्यसाहित्वरूपावान्तरविशेषमविवक्ष्य ज्ञा-
नायाथायेंऽर्थतथास्वाश्वासाभावरूपमापाचं तेषामस्माकं सम्मतमेवेति भावेनेयं सम्मतिरुक्तेति द्रष्टव्यम् । साक्षियाथार्थ्यस्यावधारणज्ञानसामग्रीको-
टावनिवेशासाक्षिणोऽयथार्थत्वेऽप्यवधारणज्ञानसामग्रीमात्रेणावधारणज्ञानोपपत्तेरप्रयोजकत्वेनापाद्यापादकयोन्यतिरेवाभावान्न तदयाथार्थेन पदानिर्ण-
याभावापादनं सम्भवतीत्यभिप्रेत्य शङ्कते ॥ ननु चेति । निर्णयादीत्यादिपदेन निश्चयपरिग्रहः । एकाकारनियतज्ञानानन्तरं भाव्यर्थतथास्वाश्वास-
रूपं सप्रमाणकमभिनयेन दर्शयति ॥ तथा हीति । यद्यप्यत्राय स्तम्भ इति ज्ञानानन्तरं भवति चायं स्तम्भ इति प्रतीतेरनुभूयमानत्वादित्येव वक्तुं
युक्तं तथाऽपि तथानुभवे विप्रतिपद्यमानं प्रति किं तत्समर्थनायासेनेत्यभिप्रेत्य तत्कार्यव्यवहारानुसरणं कृतमिति द्रष्टव्यम् । निर्णयोत्तरभाविनम-
तथास्वानध्यवसायमपि सप्रमाणकमभिनयेन दर्शयति । वस्तुतत्त्वं न विद्म इति वेति । स्तम्भ इति प्रतीयते वस्तुतत्त्वं न विद्म इति प्रतिव-
क्तारो भवन्तीति पूर्वेणान्वयः । ततश्च यदि प्राथमिकमेकाकारनियतं ज्ञानमेवार्थतथात्वाश्वासरूपं स्यात्तयमर्थसंशयो न स्यादस्ति चायं तस्मादेका-
कारनियतज्ञानमेव न निर्णयः किन्त्वतिरिक्तमेवेत्युक्तं भवति । ननु निश्चिते कथं संशय इति पृच्छति ॥ तत्कस्य हेतोरिति । निमित्तकारण-
हेतुषु सर्वासां प्रायदर्शनमिति कात्यायनस्मरणास्कस्येति षष्ठी द्रष्टव्यम् । कस्माद्धेतोरित्यर्थः । ज्ञानत्वादिसाधारणधर्मदर्शनजनिततज्ज्ञानप्रामाण्य-
संशयानिश्चितेऽप्यर्थे संशय इति परिहरति । एकाकारैति । वस्तुतथात्वशब्देन प्रामाण्यं ग्राह्यम् । तथा च प्रामाण्यनिश्चयायोगादित्यर्थः । प्रा-
न
॥४॥

माण्यसंशयादिति यावत् । शङ्कते ॥ भवत्विति ॥ वस्तुनिर्णय इति । वस्तुनस्तथाभूतत्वातथाभूतत्वनिर्णय इस्यर्थः । यदाशब्दस्तु हेस्वर्थे कालार्थे चापि भण्यत इति वचनाद्यदा तदाहेत्यादाविव हेत्वर्थे यदाशब्द इत्याशयनाह ॥ यदा यत इति । साक्षिणैवाध्यवसयामति । तथा च साक्षिणः क्वचिदयथार्थत्वे साक्षिरूपस्य भ्रमत्वाभ्रमत्वनिश्चयस्याप्ययथार्थत्वापत्त्या तेनोक्तरूपवस्तुनिर्णयायोगात्तदुपपत्त्यर्थं नायथार्थत्वं तस्या- गीकामिति भावः ॥ स्यादेतदिति । भ्रमत्वाश्रमत्वनिश्चयस्यान्यथाऽनुपपत्तेर्न साक्षियाथार्थ्यस्योपयोग इत्याशयः । सर्वस्य साक्षिणा निश्चित- स्वोक्तेः प्रकृतानुपयोगात्प्रकृतोपयोगिसर्वपर एव सर्वशब्द इत्याह ॥ सर्व कारणदोषादिकमिति ॥ आदिशब्दसङ्ग्राह्यतावच्छेदककथनं तदवधारणोपयुक्तं चोत । भ्रमत्वाभ्रमत्वावधारणोपयुक्तमित्यर्थः। आदिशब्देन बाधकस्य संवादकस्य च परिग्रहः। वेयं हीति मूले हिशब्दवैय्यर्थ्य- माशक्य भिन्नक्रमतामाह ॥ साक्षिणा हीति । ततश्च भ्रमत्वादेः साक्षिणैव निश्चयत्वेऽपक्षितहेतुसूचनार्थस्वाद्भिशब्दस्य न धैय्यमिति भावः ॥ निर्णय ईयत इति । निर्णयोपक्रमाद्वेधशब्दस्तत्पर इत्याशयेनाह । निश्चयामिति । ननु कारणदोषादेः स्वरूपेणैव भ्रमत्वाद्यवधारकत्वसम्भवारिक तन्निश्चयेनेत्यत आह ।। अनिश्चितस्यति । अन्यथाऽतिप्रसङ्गादिति भावः। कारणदोषादेरियादिपदेन संवादकपरिग्रहः । भ्रमत्वादेरित्यादिपदे- नाश्रमत्वपरिग्रहः । वस्तुतथात्वादरित्यादिपदेन वस्त्वतथात्वपरिग्रहः । हिशब्दसूचितां युक्तिमुपदर्शयितुमाहैतदिति ॥ आतिप्रसङ्गादिति । तथा सति भ्रमस्थले सर्वत्र कारणदोषस्य सत्त्वेन भ्रमत्वावधारणापत्त्या ततः निश्शङ्कपवृत्त्यभावापत्तेरित्यतिप्रसङ्गादित्यर्थः ॥ साक्षादिति । क्वचिस्साक्षा- * देव क्वचिरपरम्परयैवेत्येवं व्यवस्थितविकल्प एवात्राभिमत इति बोध्यम् ।। साक्षिण्यायतत इति । अन्यस्य निश्चायकस्याभावादिति भावः । साक्षिणः साक्षा- स्परम्परया वा तनिश्चायकत्वमित्युक्तमेवोपपादयति ।। स हीति॥स्वयमेवोत।एतच दुष्टस्य मनसो लिङ्गज्ञानादेर्वा साक्षात्साक्षिविषयस्य यत्र करणत्वं तद- भिप्रायेणोक्त तत्र दोषनिश्चये द्वारानपेक्षणादिति द्रष्टव्यम् ॥तद्ग्राहकति । एतच्च यत्र करणस्य न साक्षात्साक्षिविषयता तदभिप्रायेण तत्र दोषनिश्चये दोषग्रा.* हकप्रामाण्यनिश्चयस्य द्वारत्वेनापेक्षणादिति द्रष्टव्यम् ॥ न निर्णय इति । कारणदोषादेर्भमत्वस्य चेति शेषः । ननुप्रामाण्यस्य स्वतस्त्वेन संवादागम्यत्वात्प्रा- माण्यावधारकसंवादनिश्चायक्तया साक्षिणो नियतयाथार्योपपादने कथं न सिद्धान्तविरोध इत्यतोऽङ्गीकृत्य प्रामाण्यस्य संवादगम्यत्वं निश्चायकतया ॥४॥ साक्षिण उक्तनियमसमर्थनादत्र न सिद्धान्तविरोध इत्यभिप्रेत्यागीकारवादतया ग्रन्थतात्पर्य वक्तुं वस्तुस्थिति तावदाह ॥ अभ्रमत्वनिश्चयस्त्विति ॥ अनवस्थादीति । संवादकस्यापि ज्ञानत्वेनोक्तशङ्काकलाश्तित्वेन तत्प्रामाण्यावधारणाय संवादकान्तरस्यापेक्षणादित्यर्थः । आदिपदेन व्यभिचार- शे०० परिग्रहः । धारावाहिकामे सत्यप्यन्योन्यसंवादे प्रामाण्यानवधारणादिति भावः ॥ उक्तमिति । अख्यातिवादपूर्वपक्ष इति शेषः । ननु संवादान्वय. द्वित० व्यतिरेकानुविधायित्वात्प्रामाण्यज्ञानस्य संवादजन्यत्वसिद्धेः कथं केवलसाक्षिनिश्चयत्वं प्रामाण्यस्येत्यतः संवादस्याप्रामाण्यशङ्कानिरासोपक्षीणत्वेना-० अ० १४ न्यथासिद्धतया कारणताग्राहकयोरन्यत्रानुपक्षीणकरणान्वयव्यतिरेकयोरभावेन प्रामाण्यज्ञानस्य संवादकार्यस्वाभावोपपत्ते नुपपत्तिरित्यभिप्रेस्य संवाद स्वान्यथासिद्धतामाह ॥ विपर्ययेति । एवं वस्तुस्थितिमुक्त्वाऽङ्गीकृत्य प्रामाण्यस्य संवादगम्यत्वं संवादनिश्चायकतथा साक्षिणो नियतयाथार्थ्य- स्वमुपपादयितुं स्वरूपेण संवादस्य प्रामाण्यावधारकरवान्न तन्निश्चयापेक्षेत्यतस्तन्निश्चयस्यावश्यकतां तावद् व्युत्पादयति ॥ न चति । नापीत्यर्थः । अन्यथाऽतिप्रसङ्गादिति भावः । अस्तु संवादस्य प्रमाणतया निश्चितस्य प्रामाण्यावधारकत्वं तनिश्चयस्तु संवादकान्तरेणैव भविष्यतीत्यतोऽनवस्थापत्त्या संवादप्रामाण्यनिश्चयः साक्ष्यधीन एव वाच्य इत्याशयेनाह ॥ तनिश्चयश्चेति ॥ तदुभयेति । अनमत्वसंवादरूपोभयेत्यर्थः । संवादनिश्चयस्याप्य- यथार्थस्वशङ्काकलङ्कितत्वेन तेनाभ्रमत्वनिश्चयसम्भवादिति भावः ॥ कुतः साक्षियाथार्थ्यस्य साक्षिणैव निश्चयसिद्धिरित्यत आह ॥ अस्यार्थस्येति ॥ वक्ष्यमाणति । ऊरीकृत्य च तान्सर्वानित्युत्तरवाक्य एव वक्ष्यमाणेत्यर्थः । ननु समानकर्तृकयोः पूर्वकाल इति क्रिययोः समानकर्तृकत्व एव क्स्वा प्रत्ययविधानादत्र निश्चयरूपोररीकरणक्रियायाश्चेतनकर्तृकत्वेन प्रवर्तनक्रियायाश्च व्यवहारकर्तृकत्वेन क्रिययोरसमानकर्तृकत्वेन क्त्वाप्रत्ययस्यै- बानुपपत्त्या तदादेशल्यपोऽप्यसम्भवादूरीकृत्येत्यनुपपनमित्यत आह ॥ गौणं समानककत्वमिति । उरीकरणक्रियास्वातन्त्र्यरूपस्य तस्क्रियाकर्तृ- * धर्मस्य वैवक्षिकस्य व्यवहारेऽपि सम्भवादिति भावः । इदं च क्रिययोः समानकर्तृकत्व एव क्वाप्रत्यय इति नियममङ्गीकृत्योक्तम् । वस्तुतस्तु यदोवंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यत इत्यादिप्रयोगदर्शनेन क्रिययोरसमानकर्तृकत्वेऽपि क्त्वाप्रत्ययदर्शनेन क्रिययोः समानकर्तृकत्वस्य प्रायिक- स्वस्थित्या तन्नियमाभावेन गौणसमानकर्तृकत्वाश्रयणे निमित्ताभावादिति द्रष्टव्यम् । गौणसमानकर्तृकत्वाश्रयणेऽपरितोषादाह ॥ यद्दति । ततश्च कारणीकरणक्रियायां प्रवर्तनक्रियायां च व्यवहारस्यैव कर्तत्वेन क्रियाद्वयस्य मुख्यमेव समानकर्तकत्वमिति भावः । अ०-साक्षिणो व्यवसायी तु व्यवहारोऽभिधीयते ॥ तस्मात्सर्वप्रसिद्धस्थ व्यवहारस्य सिद्धये ॥ साक्षी निर्दोष एवैक. सदाऽङ्गीकार्य एव नः ॥ शुद्धः साक्षी थदा सिद्धो दुःखित्वं वार्यते कथम् ॥ उपजीव्यप्रमाणं तद्भेदग्राहकमेव हि ॥ अतो जीवेशयो. भेदः श्रुतिसामर्थ्यसुस्थिरः॥ सु०-ननु नायमस्ति नियमो यदुक्तरीत्याऽर्थतथात्वाध्यवसायपूर्वक एव व्यवहार इति तत्सन्देहा (दिनापि ) दापि व्यव- हारदर्शनादित्यत आह । साक्षिण इति । व्यवसायी निश्शङ्कोऽविसंवा ( दिव्य ) दी (च) व्यवहारोऽस्माभिरुक्तरीत्या सा- क्षिणः कार्योऽभिधीयते न तु व्यवहारमात्रम् । न च विशिष्टो व्यवहारोऽर्थतथात्वाध्यवसायपूर्वकतां व्यभिचरतीति । अस्तु व्यव- हारविलोपः किन्नछिन्नमित्याशङ्कां परिहरन्नुक्तप्रसङ्गानां विपर्ययपर्यवसानमाह ॥ तस्मादिति । यस्मात्साक्षिणः क्वचिदयथार्थ त्वेऽविश्वसनीयत्वापत्या करणदोषाधनिश्चयप्रसङ्गेन ज्ञानानां भ्रमत्वाभ्रमत्वनिर्धारणाभावप्रसक्त्याऽर्थतथात्वातथात्वनिर्णयाभावा- नुषङ्गेण निश्शङ्कोऽविसंवादी ब्यवहारो लुप्येत । न च तल्लोपोऽङ्गीकर्तुं शक्यः । सर्वलोकमसिद्धत्वात् । तथाविधस्य (च) लौकिकैः परीक्षकैचोल्लङ्घनायोगात् । प्रमितार्थाननुमतावुन्यत्तत्वप्रसङ्गात् । तस्मात्सर्वलोकमसिद्धस्य निश्शङ्कस्यावि (सं) वादिना व्यवहारस्य कार्यभूतस्य सिद्धये वस्तुतथात्वातथात्वनिश्चयः ( कार ) करणीभूतोऽङ्गीकार्यः । तत्सिद्धये करणदोषादिनिश्चयद्वारा साक्षिणा ज्ञानानां भ्रमत्वाभ्रमत्वनिर्णयोऽङ्गीकार्यः । तत्सिद्धये च साक्षिणो विश्वसनीयत्वं तत्सिद्धये च साक्षी सदा निर्दोषो यथार्थ एव नः परीक्षकाणामङ्गीकार्य इति । नन्वेवं तर्हि प्राभाकरादिदिशा सर्वेषामपि प्रत्ययानां यथार्थनियमोऽस्त्वित्यत आह ॥ एक एवेति । एकस्यैव याथार्थ्यनियमेन सर्वस्योपपत्तौ किमप्रामाणिकेन प्रमाणविरुद्धेन सर्वप्रत्यययाथार्थ्यनियमेनति भावः । किमतो यद्येवं साक्षी नियमेनार्थाव्यभिचारीत्यत आह ॥ शुद्ध इति । दुःखि (त) त्वं तेन प्रती (त) त्वं जीवस्यति शेषः। ततश्च किमित्यत ८ सुटि० आह ॥ उपजीव्येति । श्रुत्यनुमानयोरुपजीव्यप्रमाणं तत्तस्मादिग्राहक भेदप्रमापकम् । तथा चोपजीव्यविरोधादभेदश्रुत्यादेरमा । माण्यमिति भावः । ततोऽपि किमित्यतः सूत्रार्थमुपसंहरति । अत इति । श्रुतिभिन्नोऽचिन्त्य इत्यादिका । सामथ्यंम (प्रति ) सत्यतिपक्षत्वम् । *०० द्वि० त० अ०--।। ॐ तद्गुणसारत्वात्तु तयपदेशः प्राज्ञवत् ॐ ॥ तथाऽपि तु चिदानन्दपूर्वास्तत्सदृशा गुणाः ।। सारस्वरूपमस्यापि मुक्ता अ० १४ वष्यवशिष्यते ॥ अतो भेदवदेवताः श्रुतयः प्रवदन्ति हि ॥ पौराणानि च वाक्यानि सादृश्याभेदसंश्रयात् ॥ सादृश्याच्च प्रधानत्वा- स्वातन्त्र्यादपि चाभिदाम् ॥ आहुरीशेन जीवस्य न स्वरूपाभिदां क्वचित् ।। स्थानैक्यमैकमत्यं च मुक्तस्य तु विशिष्यते ॥ सादृश्यं च विशेषेण जडानां द्वयमेव तु । भवेत्सादृश्यमत्यल्पं तृतीयं परमात्मना ॥ ईशरूपक्रियाणां च गुणानामपि सर्वशः ।। तथैवाक्य- वानां तत्स्वरूपैक्यं तु मुख्यतः ॥ यथोदकं दुर्ग वृष्टं पर्वतेषु विधावति ॥ एवं धर्मान्पृथक पश्यंस्तानेवानुविधावति ॥ इति श्रुतेनों भयं च भेदाभेदाख्यमिष्यते ॥ एकमेवाद्वितीयं तन्नेह नानाऽस्ति किञ्चन ॥ मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ इति झुताविवेत्यस्माद्भेदाभेदनिराकृतिः ॥ इवोभये च सादृश्य इति वाक् शब्दनिर्णये ।। २-३-१४ ॥ सु०--11 तद्गुणसारत्यात्तु तस्यपदेशः प्राज्ञवत् ॐ ॥ यद्येवं जीवेश्वरयोभेद एव पारमार्थिको व्यवस्थितस्तदा तत्त्वमस्याधद्वैतश्रुतीनामहं हरिरित्यादिस्मृतीनां च का गतिः । न हि तासामनुमानवत्सर्वथाऽप्रामाण्यं युक्तम् । अपौरुषेयत्वेनाप्तोक्त- स्वेन च तत्कारणाभावादित्याशङ्कापरिहाराय सूत्रम् । तद्गुणसारत्वात्तु तद्यपदेशः प्राज्ञवदिति । तयाचष्टे ॥ तथाऽपीति । यद्यपि जीवब्रह्मणोर्भेद एष तथाऽप्यभेदवदिति सम्बन्धः । तुशब्दो विशेषार्थः । तं च वक्ष्यामः । तत्सदृशाः परमात्मगुणसदृशाः । सार इत्यनुवादेन स्वरूपमिति व्याख्यानम्। अस्य जीवस्य । कुतो मुक्तावपि कैवल्येऽप्यवशिष्यते यतः । अभेदवदभेदमिव तत्र तस्ये. ॥४२॥ वेत्यत्रोपसङ्ख्येयमेतत् । शिष्टप्रयोगात् । यद्वाऽभेद इति तत्प्रतिपादकमुपलक्ष्यते । अत एवेति सम्बन्धः । एताः परोदाहृताः । हीति मुख्य बाधकं सूचयति । अत एवेत्यस्यैव विवरणं सादृश्येति । सादृश्यमेवाभेदः सादृश्याभेदः । सिंहो देवदत्त इत्यादिवगौ- तं Masti गोऽयं व्यपदेश इति वाक्यार्थः। अद्वैतवादिभिः खलु तत्वंपदयोर्विरुद्धस्वार्थंकदेशत्यागेनैकदेशलक्षणया सामानाधिकरण्यमात्र- मुख्यमङ्गीकृतम् । ततो वरं पदद्वयस्य मुख्यार्थत्वमभ्युपगम्य सामानाधिकरण्यमात्रस्य गौणत्वमभ्युपगन्तुम् । तात्पर्यलिङ्गानि च तत्र तत्रान्यथा नीतानि । उपलक्षणं चैतत् । सौत्रमभेदागमव्याख्यानमित्याशयवानुक्तानुवादेनार्थान्तरमध्याह ॥ साहश्याचेति । प्रधा- नत्वादपीत्यन्वयः । आहुः श्रुतयः । पौराणानि च वाक्यानीति वर्तते । उक्तानुवादः प्रतिपत्तिसौकर्यार्थः । प्रधानत्वं वैशिष्टयम् । तत्त्वमसीत्यादिव्यपदेशः सादृश्यागौण इत्युक्तम् । नान्योऽतोऽस्ति द्रष्टेत्यादि निर्देशस्तु प्राधान्यस्वातन्त्र्याभ्यां लाक्षणिकः । द्रष्टुपदेन । तत्रारोपितं वैशिष्टयं स्वातन्त्र्यं चोपलक्ष्यते । तथा च द्रष्टा विशिष्टः स्वतन्त्रश्चान्यो नास्तीत्यर्थः सम्पद्यते । यद्वा तत्त्वमसीत्यादिनि- देशोऽपि प्राधान्यस्वातन्त्र्याभ्यां लाक्षणिको व्याख्यायते । तथा हि । तच्छब्देन तदीये प्राधान्यस्वातन्त्र्ये लक्ष्यते । पुनस्ताभ्यां तद्विषयता लक्ष्यते । ततश्च तत्वधानकस्तत्तन्त्रश्चेति वाक्यार्थो भवति । एतदप्युपलक्षणम् । अतत्त्वमसीत्यादिव्याख्यानान्तरमप्यत्र * द्रष्टव्यम् । स्यादेतत् । तुशब्दो हि सौत्रोऽवधारणार्थस्तेन च सादृश्यातिरिक्तोऽर्थो निवत्येते । तत्कथमर्थान्तरवर्णनमित्यतोऽन्यथा व्याचष्टे । नेति । क्वचित्सदेशे । स्वरूपाभिदा नाहुरिति तुशब्दार्थः । न तु प्राधान्यादिनिवृत्तिरिति । अस्त्वेवं जीवस्य ब्रह्मैक्यं मुक्तस्य तत्कथं व्याख्येयम् । न च तदप्युक्तन्यायेनेति युक्तम् । तथा सति यत्र त्वस्येत्यादिविशेषोक्त्यनुपपत्तेरित्यत आह ।। स्थानक्यमिति । ईशेनेति वर्तते । न केवलमुक्तनिमित्तत्रयं किन्नामैतन्निमित्तद्वयं विशिष्यते । अतो विशेषेणाभेदोक्तिरुपपद्यते । तत्र स्थानक्येनैक्यव्यपदेशो लाक्षणिकः । स्थानगतस्यैकस्य स्थानिषु प्रयोगात् । ऐकमत्यनिमित्ते तु प्रयोगे लक्षितलक्षणा । विष- यक्यान्मत्यैक्यं ततश्च मतिमतामिति । किञ्च यत्सादृश्यं सज्जीवमात्रसाधारणतयोक्तं तत्संसारिण्यनभिव्यक्तं मुक्ते तु व्यक्तमिति तदभिप्रायेणापि विशेषतोऽभेदोक्तियुक्तेत्याशयवानाह ॥सादृश्यं चेति। मुक्तस्येशेनेति वर्तते । ननु सादृश्यादिकं जडेष्वपि विद्यते तत्कथं तेषां सर्वं खल्विदं ब्रह्म । भूतानि विष्णुभुवनानि विष्णुवनानि विष्णुर्गिरयो दिशश्चेत्यादी क्वचिदेव परमात्मैक्यव्यपदेशो सुटि. अ०१४ न पुनजींववत्याचुर्येणेत्यत आह ॥ जडानामिति । तत्प्रधानकं तत्तन्त्रत्वमेव । जडानां विति सम्बन्धः । सादृश्यस्यापि तृतीयस्य । विद्यमानत्वात्कथं द्वयमेवेत्यत आह ॥ भवेदिति । जडानामिति वर्तते । सत्यमस्ति सादृश्यं किन्तु तत्सत्तादिनैव । न तु जीव- দীর্ন बदानन्दादिना । अतो द्वयस्यैव सत्त्वादुपपन्नाऽप्रचुरोक्तिः । नन्वानन्दादिना सादृश्यं जीवेष्वपि नास्ति । केपाश्चिजीवानामत-हिन्त पताभ्युपगमादिति चेन्मा भूत् । न हि जीवमात्र प्रति तत्त्वमसीत्युच्यते । तस्य वेदानधिकारित्वात् । किन्तु मोक्षयोग्यं प्रतीत्यदोषः। अत्र स्थानक्यं च क्षीराब्धयादिस्थितभगवद्रूपापेक्षयोक्तमिति न जीवजडसाधारणम् । जडाभेदच्याख्यानेन प्राज्ञवदिति दृष्टान्तोऽपि च्या- ख्यातो भवति । सूत्रे प्राज्ञवदित्युक्तम् । तस्यायमर्थः । माझे यथाऽभेदव्यपदेशोऽमुख्यस्तथेति । तत्र प्रतियोगिविशेषानुक्तेविज्ञानमानन्द ब्रह्मेत्यादिरखिलोऽप्यभेदव्यपदेशो नित्यत्वादिसादृश्येनामुख्य इतिज्ञायेत तन्मा विज्ञायीत्याशयवानाह ॥ईशेति । रूपाणि मत्स्यादीनि। क्रियाः सृष्टयायाः। गुणा ज्ञानादयः। सर्वश इति प्रत्येक सम्बन्धः। तथाशब्दः समुच्चये। एक्शब्दस्य मुख्यत इत्यनेनान्वयः। अवयवा हस्तायाः। तत्स्वरूपैक्यमीश्वरस्वरूपैक्यं तत्प्रतिपादक वाक्यमिति यावत् । मुख्यत एवव्याख्येयमिति शेषः । तुशब्दो जडव्यावृत्यर्थः। तथा च जडविषय एवायं दृष्टान्त इति भावः । न चैवं साध्यसमत्वदोषः । जीवमात्राभेदवादिनं प्रत्यस्याधिकरणस्यारब्धत्वादिति । कुत एतदिति चे (त् ) न । तत्र भेददर्शने प्रत्यवायस्योक्तत्वादित्याह ॥ यथेति । पर्वतेषु दुर्गे शिखरे दृष्टसुदकं यथाऽयो विधा- वत्येवं पारमेश्वरान्धर्मास्ततः पृथक् पश्य॑स्तानेव तद्दर्शनमन्वेवाविलम्बेन नरकं विधावतीत्यर्थः । नन्वीश्वरधर्माणां भेदाभेदी भवतां तथा चात्यन्ताभेदोक्तिरमुख्येति सौत्रो दृष्टान्तोऽसङ्कुचितवृत्तिर्भविष्यति । इयं च श्रुतिरत्यन्तभेददर्शननिन्दापरा भवत्वित्यत आह॥ नोभयं चेति । इष्यते सूत्रकृतेति शेषः । भेदाभेदौ नेष्यते इति वक्तव्ये भेदाभेदाख्यमुभयमिति वचनं वक्ष्यमाणश्रुतिव्याख्यानानु. सारेणेति ज्ञातव्यम् । कुतो नेष्यत इत्यत आह ॥ एकमेवेति । एकमभिन्नम् । एकमापि घटादिकमवयवभेदवदुपलब्धमत एवेत्यु. क्तम् । अद्वितीयं समाधिकरहितम् । इह ब्रह्मणि किञ्चन गुणादिकमिति नानाभूतं नास्ति । यस्त्विह ब्रह्मणि विद्यमानं गुणादिकं न नाना भिन्नमिव शब्दादिभिन्नं च पश्यति । स मृत्योरनन्तरं मृत्यु नरकमामोति । इति श्रुताविवेत्यस्माच्छब्दात् । उपलक्षणं चैतत् । एवशब्दाच भेदाभेदनिराकृतिः कृता ज्ञायते । अतो नेष्यत इति योजना । इवशब्दप्रयोगात्कथमेतलभ्यत इत्यत आह ॥ इवेति । उभये यदुक्तं पूर्वपदेन तत्पतियोगिनि द्वितीय वर्तत इत्यर्थः । अत्र च नानोक्त्वा प्रयुक्त इवशब्दोऽनाना सङ्ग्रह्णातीति भेदाभेदा- ख्यमुभयं निराकृतं भवति । वागस्तीति शेषः । शब्दनिर्णयो नाम ग्रन्थविशेषः ॥ २-३-१४ ॥ टि०--॥ ॐ तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॐ ॥कोऽसौ विशेषो यदर्थस्तुशब्द इत्यत आह ॥ तं चेति । चिदानन्दपूर्व-* भगवद्गुणसदृशगुणानां न सर्वजविस्वरूपत्वं किन्तु सज्जीवस्वरूपस्वमित्येवंरूपं विशेष सादृश्यं च विशेषेण जडानां द्वयमेव तु भवेत्सादृश्यमत्यल्पं तृतीयं परमात्मनेत्येतद्याख्यानावसर इति शेषः ॥ व्याख्यानमिति । तेन नान्यतरवैय्यमिति भावः । ननु द्वितीयान्ताद्वतिविधायके तदर्हमिति सूत्रेहर्थि एव तद्विधानेनेवार्थे तदविधानादिवाथै तद्विधायके च तत्र तस्येवेति सूत्रे षष्ठीसप्तमीसमर्थयोरेव तद्विवानेन द्वितीयान्तात्तदविधानात्कथ- मभेदमिवेति द्वितीयान्ताद्वतियाल्यायत इत्यतोऽस्य योगस्याभियुक्तैः प्रायिकत्वेन व्याख्यातत्वात्प्रथमासमर्थादिव द्वितीयासमर्थादपि युक्त एवानेन बतिरिति सत्येव समाधाने विभवात्समाधानान्तरमाह ॥ तत्र तस्येवेत्यत्रेति । उपसङ्ख्याने निमित्तमाह ॥ शिष्टेति । उक्तप्रयोगस्य शिष्टप्रयो- * गत्वे विप्रतिपद्यमानं प्रति समाध्यन्तरमाह ॥ यद्वति । ततश्चाभेदप्रतिपादकैस्तुल्यं वर्तत इति प्रतिपादनं क्रियातौल्यविवक्षया तेन तुल्यं क्रिया चेद्वतिरिश्यनेनैवात्र वतिनं तु तत्र तस्येवेत्यनेनेत्युक्तं भवति ।। अत एवेति सम्बन्ध इति । एवकारस्य यथाश्रुतान्वये व्यर्थत्वविरुद्धार्थवयोः * प्रसङ्गाद्भिन्नक्रमत्वं तत्र चानभिमतव्यावर्तकतयाऽर्थवत्त्वान्नोक्तदोष इति भावः । एवं तर्हि त्वयाऽप्यमुख्यवृत्त्याश्रयणेन न मञ्याख्यानापेक्षया स्व- द्याख्यानस्य कश्चिद्विशेष इति कुतो मदुक्तार्थपरित्यागेन त्वदुक्तस्यैवोपादेयतेत्याशङ्क्यामुख्यवृत्त्याश्रयणेन मतद्वयसाम्येऽप्यवान्तरानेकवैलक्षण्यादेव * तसिद्धिरित्याशयेनानेकवैलक्षण्योक्त्याऽविशेष परिहरन्स्वव्याख्यानस्य समीचीनतामुपपादयति ॥ अद्वैतवादिभिरिति ॥ सामानाधिकरण्य- मात्रस्य गौणत्वामिति । विशेषविभक्तिसजातीयाविशेषणविभक्तिमात्रस्येत्यर्थः । नीले घटमानयेत्यादौ विशेष्यविभवस्या घदगतकर्मस्वादेरुक्स्या 9 ..

सुटि० विशेषणविभक्तेरेवाभेदार्थस्वेन तत्परित्यागेन सादृश्यार्थोपादाने तस्या एव मुख्यार्थपरित्यागेन गौणत्वप्राप्तेः । एवञ्च सामानाधिकरण्यस्थ गौणत्वेऽ- पि विभक्तिद्वयबाधेनानेकबाधादत्र मात्रेति पूर्वत्र पदद्वयस्येति चोक्तिरयुक्तेति निरस्तं भवति । अत्र च मात्रस्येति द्वयस्येति चैकवाक्यत्वानेकवा- क्यस्वरूपवैलक्षण्योक्तिः । पद्वयस्येति मात्रस्येति च प्रकृतिविशेषणविभक्तिरूपप्राधान्याप्राधान्यरूपतदुक्तिः । पदद्वयस्येत्यत्र पदशब्दस्य प्रकृत्य -०० र्थकत्वात्सामानाधिकरण्यशब्दस्य च विशेषविभक्त्यर्थकत्वात् । अमुख्यवृत्तिरित्येवोभयत्र वक्तव्ये गौणं लक्षणयेत्युक्तिगौण्यां सादृश्यस्यान्तर्गणि- *०१४ कभेदे सत्यपि सादृश्यस्वरूपेणानुगते तात्पर्यमित्येकार्थघटादिशब्दवत्तात्पर्यविषये द्राग्धीः। लक्षणानां तु क्वचित्सम्बन्धे तात्पर्य क्वचित्तद्वारा पूतत्वे क्व- चिच्छीतलादाविति वैरूप्यान्नानार्थाक्षादिशब्दवद्विलम्बेन तद्धीरिति गौण्यपेक्षया लक्षणाया जघन्यत्वसूचनाय । परोक्तजहदजहालक्षणार्थकथनपरत- त्वपदयोर्विरुद्धस्वाथैकदेशत्यागेनैकदेशलक्षणयेत्युक्त्या च प्राक् त्यक्तस्य स्वीकारस्त्वदुक्तलक्षणायां गौणापक्षे स्वत्यक्तस्य स इति तत्सूचयति । यद्यपि सिंहस्थाध्ययनामित्यादौ सिंहप्रातिपदिकस्यैव तत्साद्यश्यरूपामुख्यार्थत्वं तथाऽपि समानाधिकरणविशेष्यान्तराभावेनानन्थया गत्या तत्र तथा- त्वेऽपि प्रकृतेऽप्रधानविशेषणविभक्तरेवामुख्यार्थत्वोपपत्तौ प्रधानामुख्यतास्वकिारस्यानुचितत्वादिति प्रकृताभिप्रायेणैतद्ग्रन्थप्रवर्तनात् । तत्राप्यस्येति विशेष्याध्याहारे चेयमेव गतिः । अत एव सिंहो देवदत्त इत्यादिवदित्युक्तम् । न चाभेदस्यान्वयतया भानान्न विशेषणविभक्त्यर्थत्वमिति वाच्यम् । विशेषणविभक्तेः साधुत्वार्थमङ्गीकृस्यान्वयतयाऽभेदभानाभ्युपगमानौचित्यात् । अन्यथा राज्ञः पुरुष इत्यत्रापि षष्ठयाः साधुत्वार्थकत्वापत्त्याऽन्वय- तयैव सम्बन्धो भासत इत्यपि स्यादिति गुरवः (स्वामिनः ) । यद्वाऽत्र टीकायां सामानाधिकरण्यस्य गौणत्वोक्तस्तत्पदं सर्वकर्तृत्वादिविशिष्ट- ब्रह्मपरमेव । तत्त्वंपदयोः सामानाधिकरण्यं तु नाभेदपरं किन्तु सादृश्यपरमिति नाभिप्रायः । सिंहस्याध्ययनमित्यादौ सामानाधिकरण्याभावेऽपि सिंहप्रातिपदिकस्यैव सदृशे गौणत्वात् । सन्यायरत्नावल्या तत्त्वमसीत्यत्र जगस्त्रष्टुपरामर्शिनस्वच्छब्दस्यैव त्वंशब्दवाच्ये जीवे गुणवृत्त्याश्रयणेन तत्त्वं- पदयोरपि लक्षणाश्रयणस्य पराहत्वादियुक्तत्वाच्च । अपि तु तत्पदेनैव गुणवृत्त्या सादृश्ये लब्धे परस्परान्वितानेकप्रकृतिनिष्ठकविभक्तिरूपसामानाधि- करण्यार्थस्य मुख्यस्य तत्पदशक्यतावच्छेदकेन ब्रह्मत्वेन रूपेण ब्रह्माभेदस्य जीवेऽसत्त्वेऽप्यमुख्यस्य चेतनत्वादिरूपेणाभेदस्य सत्त्वात्सामानाधिकरण्ये- नामुख्यस्याभेदस्य लाभ इत्येवाभिप्रायः । अस्ति हि सिंहश्चैत्र इत्यत्रापि चैत्रे सिंहत्वेन रूपेणाभेदाभावेऽपि शूरत्वेन तदभेदः । यद्यपि च तच्छब्दस्य * तत्सादृश्येऽर्थे सति तस्य गौणार्थतावच्छेदकेनैव रूपेण त्वंपदार्थजीवाभेदो मुख्य एव सम्भवति । तथाऽपि शक्यतावच्छेइकेन ब्रह्मत्वेन रूपेण नाभेदो मुख्य इत्यभिप्रायेणार्य ग्रन्थ इति द्रष्टव्यम् । ननु तत्त्वमसीत्यस्योपक्रमादितात्पयलिङ्गैरभेदपरत्वनिर्णयान्न भेडपरत्वम् । अन्यथा तात्पर्यग्राहकलिङ्- गविरोधापातादित्यत एकविज्ञाने सर्वविज्ञानप्रतिज्ञारूपस्यैकमेवाद्वितीयमित्यादिरूपस्य चोपक्रमस्य स्वपरपक्षानुगुण्यानानुगुण्ययोः प्रकृत्यधिकरणे निपु- 12 णतरं प्रतिपादितत्वादैतदात्म्यामित्युपसंहारस्व तत्त्वमसीत्येतत्तुल्ययोगक्षेमत्वात् । तत्त्वमसि तत्त्वमसीत्यभ्यासस्य च सत्यत्वात्तेनेत्यादिना जिज्ञासा- सूत्रेऽत्र चाधिकरणे तयोः प्रतिपादितत्वादपूर्वतायाश्च पूर्वबात्र चाधिकरणे न च मानान्तरोपेयमित्या दिना तयोः प्रतिपादनात्सम्पत्स्यत इति तस्य तावदेव चिरमिति फलार्थवादयोश्च भेद एव खारस्यस्य स्पष्टत्वात्तत्त्वमसीत्यस्य परोक्तार्थ उपपत्तिविरोधस्य स्वोक्तार्थे तदानुगुण्यस्य चानेकेषु स्थ- * लेषु व्युत्पादनान तात्पर्यलिङ्गबलादपि तत्त्वमसीत्यस्याभेदपरत्वमित्याह ॥ तात्पर्यालिङ्गानीति । स्वातन्त्र्यादपि चेत्यत्र चापिशब्दयोरन्यतरे- गैव समुच्चयसिद्धयाऽन्यतरवैय्ययमित्याशक्य भिन्नक्रमतया सार्थक्यमाह ॥ प्रधानत्वादपीत्यन्वय इति ॥ प्रतिपत्तीति । सर्वेषामर्थानामना- यासेन प्रतिपत्त्यर्थमित्यर्थः । एकत्र सङ्कलय्य कथन एव च तस्याः सभ्भवात्तदर्थतया सङ्कलय्य कथनमिति भावः । प्रधानत्वं किमत्र विवक्षित- मित्यतः स्वातन्त्र्ये च विशिष्टत्व इति जिज्ञासासूत्रीयपूर्वग्रन्थानुसारेण तव्याख्याति ।। प्रधानत्वं वैशिष्टयमिति । अद्वैतवाक्यमात्रस्य सादृश्यादि- सर्वोपादानेन प्रवृत्तिरिति यत्किञ्चिदद्वैतश्रुतेः सादृश्यादिषु यत्किञ्चिदोपादानेन प्रवृत्तिर्न तु नियम इति च भ्रमनिरासाय नियममुपदर्शयन् सादृश्यनि- मित्तत्वे का वृत्तिः प्राधान्यादिनिमित्तत्वे च केत्यतो वृत्तिचिन्तां च तत्रैव करिष्याम इति स्वकीयपूर्वप्रतिज्ञानुरोधेन वृत्तिनियममुपदर्शयति ॥ तत्त्व- मसीत्यादीति । कस्तदा भवति वाक्यार्थ इत्यतस्त्रमाह ॥तथा चेति । लाक्षणिकत्वेऽप्यस्य न पूर्वस्यास्य चैकप्रकारत्वं प्रतिपत्तव्यम् । तत्र लक्ष- णामात्रस्यात्र च लक्षितलक्षणायाः सत्त्वादिस्याशयेन तामुपदर्शयितुं प्रतिमानीते ॥ तथा हीति । तदीये इति लक्षणाबीजसम्बन्धकथनम् ॥ पुन- स्ताभ्यामिति । अत्र प्राधान्यस्वातन्त्र्याभ्यां तद्विषयत्वं लक्ष्यत इति नाभिप्रायः । लक्षितलक्षणायाः शक्तिवत्पदवृत्तित्वेनार्थनिष्ठत्वाभावास्किन्व- सुटि० ॥४५॥ न्तरङ्गशक्यसम्बन्धलाभात्प्रथमतस्तच्छब्देन स्वातन्त्र्यप्राधान्ये लक्ष्यते । ततः पुनरपि मुख्यार्थस्येव लक्ष्यार्थस्याप्यनुपपत्त्या तत्सम्बन्ध्यर्थान्तरमपि तत्प- 2 देनैव लक्ष्यत इत्येवेत्यविरोध इत्यवधेयम् ॥ एतदपीति । न केवलं सौत्रपदमभेदागमव्याख्यानमुपलक्षणमित्येव किन्नाम भाष्यकारीयं सादृश्याचे- शे०० त्याद्यभेदागमव्याख्यानमपीत्यपिशब्दार्थः ॥ न विति । अनेन नरं च नारायणमेव चादावित्यादाविवानभिमतव्यावृत्तिरेवावधारणार्थ इत्युक्तं भवति। द्वित. विशेषोक्त्यनुपपत्तेविशेषतोऽभेदोक्त्यनुपपत्तेरित्यर्थः।। स्थानक्येनैक्यव्यपदेशो लाक्षणिक इति। अनेके एके सम्पधन्ते एकीभवन्तीति खल्वेकीभवन्ती- त्यस्यार्थः । अभूततद्भावार्थकच्चिप्रत्ययश्रवणात्ततश्चात्र गङ्गायां घोष इत्यत्र गङ्गापदस्य प्रवाहरूपमुख्यार्थेन नार्थवत्त्वम् । तथा सति प्रवाहस्य घोषानाधा- 20 रत्वेन बाधितार्थस्वप्रसङ्गात्तथैकशब्दस्य नैकत्वरूपविशिष्टरूपमुख्यार्थेन नार्थवत्वं सम्भवति । मुक्तेः पूर्वमिवानन्तरेऽप्येकत्वविशिष्टत्वसम्पायभावेना- नेके एके सम्पद्यन्त इत्यभूततद्भावार्थकच्चिप्रत्ययार्थस्य बाधितत्वात् । किन्तु यथा तत्र गङ्गापदस्य तीररूपलक्ष्यार्थेनार्थवत्त्वं तीरस्य घोषाधिकरणत्वसम्भ- वेन बाधाभावात्तथैकशब्दस्यापि मुख्यार्थभूतैकत्वविशिष्टस्थानसम्बन्धिनिवासरूपलक्ष्यार्थनार्थवत्त्वं व्यक्तिस्थानापेक्षया मुक्तेः प्रागितस्ततः स्थितानां तेषां मुक्स्यनन्तरं भगवयक्तिस्थाननिवाससद्भावेनानेके एके सम्पद्यन्त इत्यभूततद्भावरूपच्चिप्रत्ययस्याबाधादित्यर्थः । अस्वतन्त्रप्रयोगत्वेन प्रयोजनानपेक्षत्वान्न स्वायत्तन्यायविरोध इत्याशयेनाह ॥ स्थानेति । एकत्वविशिष्टस्थानवाचकेनैकशब्देन तत्र स्थितिलक्ष्यत इत्यर्थः ॥ प्रयोग इति । एकीभवन्ती- स्यस्मिन्प्रयोग इत्यर्थः ॥ लक्षितलक्षणेति । मुख्यार्थानुपपत्त्या तत्सम्बन्ध्यान्तरस्येव लक्ष्यार्थस्याप्यनुपपत्त्या तत्सम्बन्ध्यान्तरस्यैकशब्देन लक्ष्य- माणत्वालक्षितलक्षणेत्यर्थः । कोऽसौ मुख्यार्थः कस्य तत्सम्बन्धी लक्ष्योऽर्थः किं च तल्लक्ष्यसम्बन्ध्यर्थान्तरमित्यतस्तत्सूचयन्नेव लक्षितलक्षणामेव दर्श- यति ॥ विषयैक्यादिति । एकत्वविशिष्टवस्तुवाचकेनैकशब्देन मुख्यार्थानुपपत्या तत्सम्बन्धी प्रतिरूपोऽथों लक्ष्यते ततो लक्ष्यार्थयाप्यनुपपत्त्या तत्सम्बन्धी तद्रूपोऽर्थोऽप्येकशब्देन लक्ष्यत इत्यर्थः । अयं भावः । यथा ह्यत्रैकशब्देन मुख्यार्थनार्थवान्पूर्वमनेकेषां मुक्त्यनन्तरमेकत्वविशिष्ट- स्वसम्पत्त्यभावेनाभूततद्भावरूपच्चिप्रत्ययार्थवाधात्तथोक्तरूपमुख्यार्थसम्बन्धिना मतिरूपलक्ष्यार्थेनापि नार्थवान् । मुक्तेः पूर्वमेकविषयमत्यरूपाणां तेषां उक्त्यनन्तरमध्येकविषयमतित्वसम्पत्त्यभावेनाभूततद्भावरूपच्चिप्रत्ययार्थबाधात् । किन्तु लक्ष्यार्थभूतमतिसम्बन्धी मतिमद्रूपो योऽर्थस्तेनैव । मुक्तेः पूर्व भगवता भिन्नविषयमतिमतां तेषां मुक्त्यनन्तरं भगवतैकविषयमतिमत्त्वसम्पत्तिसद्भावेनाभूततद्भावार्थच्चिप्रत्ययस्वारस्यादिति । यद्यपि चात्रैकश- ब्देन मतिमन्मात्रलक्षणयाऽपि चिप्रत्ययोक्ताभूततद्भावलाभान्न लक्षणाद्वयस्य प्रयोजनं किश्चिदिति तदाश्रयणमनर्थक तथाऽप्येकपदमुख्यार्थस्य मति-* मद्भिर्मस्यद्वारकसम्बन्धानिरूपणादन्तरङ्गसम्बन्धलिप्सया लक्षणाद्वयमाश्रयणीयमिति द्रष्टव्यम् ॥ सादृश्यादिकं जढेष्वपि विद्यत इति । यद्यपि प्रयो- गानुसारेण निमित्तकल्पनं न तु निमित्तानुरोधेन प्रयोगोऽपीति निर्दलेयमाशङ्का तथाऽपि यत्र निमित्तं सामग्री तत्र निमित्तानुरोधेन प्रयोगस्याप्यङ्- गीकारात्सादृश्यादेस्तस्सामग्रीत्वाभिप्रायेणेयमाशङ्केति ध्येयम् । जडानां द्वयमेवेत्येतावता पूर्त्या तुशब्दस्यानर्थक्यमित्यतो भिन्नक्रममाश्रित्य तत्सार्थ- कतामाह ॥ जडानां त्विति सम्बन्ध इति ।। द्वयस्यैव सत्त्वादिति । सत्त्वादिना सतोऽपि सादृश्यस्याल्पत्वादल्परवे निःस्वप्रयोगदर्शनाचुक्त- * मवधारणमिति भावः ॥ न दोष इति । तस्यानन्दादिना भगवत्सादृश्यसद्भावादिति भावः । नन्वीश्वरस्य सर्वगतत्वात्तेनैकस्थाननिवासस्य मुक्ताना- मिव तदन्येषामपि जीवानां जडस्य च सद्भावात्कथमेतद्विशेषणाभेदाभिधाने निमित्तं स्यादित्यतः क्षीराब्ध्यादिस्थितभगवद्रूषापेक्षयैकस्थानस्थत्वं चेत्याचार्योक्ति मनसि निधाय तस्यासाधारण्यमुपदर्शयति । अत्रेति । ननु जीवाभेदवादिमतनिरासकेऽस्मिन्नधिकरणे तदभेदवाक्यानामेव गतिक- थनमुचितम् । तस्किमर्थ जडाभेदवाक्यगतिनिरूपणमित्यत आह || जडाभेद इति ॥ दृष्टान्तोऽपीति । न केवलं जडाभेदवाक्यमित्यपिशब्दः । ततश्च दृष्टान्ताव्याख्यानान्न भाष्ये न्यूनतेत्युक्तं भवति । गुणग्रहणेन रूपलाभाद्रूपशब्देन पृथक् तदभिधाने पौनरुक्त्यमित्यत आह || रूपाणि मत्स्यादीनीति ॥ सर्वश इति । बाहुल्यार्थाच्छस्कारकादन्यतरस्यामित्यर्थग्रहणात्पर्यायेभ्यो विशेषेभ्यश्च भवतीत्यर्थाश्रयणाद्भूरिश इत्यादाविव बहुशब्दपर्यायसर्वशब्दाच्छस्प्रत्ययः । यद्यपि कारकादेव स विहित इति बहूनां स्वामीतिबन्न शेषषष्ठयन्तायुक्तस्तथाऽपि सर्वे विधयश्छन्दसि विक- लप्यन्त इति वचनादकारकादपि शस् इति द्रष्टव्यम् ॥ प्रत्येक सम्बन्ध इति । न तु यत्र श्रवणं तत्रैव । सन्निधानापेक्षया योग्यताया बललब्ध- त्वादिति भावः । तद्येवशब्दस्य वैय्यर्थ्यमित्यतस्तस्य भिन्नक्रमतामाह ॥ एवति । नन्वत्र तस्वरूपैक्यस्य मुख्यत्वमुच्यते न तु तत्प्रतिपादकस्य * प्रमाणस्य मुख्याभेदव्यपदेशस्वमिति कथमनेनोक्तप्रतीतिनिरास इत्यत आह ॥ तत्प्रतिपादकमित्यादिना ॥ साध्यसमत्वेति । सर्वाद्वैतवादिन ** ॥४६॥ शे० चं० भ०१८ प्रति जडभेदस्यासिद्धत्वेन पक्षसमत्वान्न दृष्टान्ततेत्यर्थः । ननु प्राज्ञवदिति दृष्टान्तस्य प्राज्ञे यथा जडाभेदव्यपदेशो मुख्यस्तथेत्यर्थत्वं कुतः । प्रति- योगिविशेषानुक्तेर्विज्ञानमानन्दं ब्रह्मेत्यादिरखिलोऽप्यभेदव्यपदेशो नित्यत्वादिसादृश्येन यथाऽमुख्यस्तथेत्यर्थ इत्येव किन्न स्यादिति शङ्कते ॥ कुत सुटिश इति । असङ्कुचितवृत्तित्वसम्भवे तत्परित्यागेन सङ्कुचितवृत्तित्वाश्रयणमन्याव्यमिति भावः ॥ इयं चेति । एवं धर्मानिति श्रुतिश्चेत्यर्थः ॥ वक्ष्य- * माणश्रुतीति । नानेवेति श्रुतेरिवोभये च दृश्यत इति प्रमाणबलाद्वक्ष्यमाणं यद्याख्यानं भेदाभेदनिराकृतिरित्येवंरूपं तदनुसारेणेत्यर्थः । पूर्वपदे- नेति । इवशब्दापेक्षया पूर्वपदेनेत्यर्थः । अतिरोहितार्थमन्यत् ॥ २-३-१४ ॥ अ०--॥ ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके * ॥ भेदस्य मुक्तौ वचनादपि तत्पक्षनिग्रहः ॥ चेतनत्वा- दिसादृश्यं यद्यभेद इतीध्यते ॥ अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित् ॥ न केनचिदभेदोऽस्ति भेदाभेदोऽपि वा क्वचित ॥ समुदायमृते विष्णोः स्वगुणादीन्विनाऽपि वा ॥ इति श्रुतेन तस्यास्ति भेदाभेदोऽपि केनचित् ॥ सु०-॥ ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ ॥ केचिदिदमेवं व्याचक्षते । जीवः परमात्मनों शः। अंशत्वं च नारम्भकत्वम् । परमात्मनोऽनारब्धत्वात् । नापि खण्डत्वम् । अच्छेयत्वात् । न च प्रदेशत्वम् । घटादिवदनित्यत्वप्रसङ्गात् । किन्नाम भिन्नाभिन्नत्वम् । अत्र भेद औपाधिकोऽभेदस्तु स्वाभाविकः । उपाधिश्चानाधनिर्वाच्याऽविधे- स्येके । अन्ये तु सत्यमेवान्तःकरणादिकमिति । कुत एतत् । द्वा सुपणों नित्यो नित्यानामित्यादिनानाव्यपदेशात् । अन्यथा (चापि) तत्त्वमस्यहं ब्रह्मासीत्याद्यभेदव्यपदेशात् । न चैकस्य जीवस्य ब्रह्मणा भेदाभेदी किन्तु सर्वेषाम् । यतो ब्रह्मदाशा ब्रह्मकितवा इत्येके ब्रह्मणो दाशकितवादित्वमधीयत इत्यादि । तदिदमयुक्तम् । तथा हि । कोयमभेदः किं मुख्य एबोतामुख्यः सादृश्यादि- लक्षणः । आचं निराकरोति ॥ भेदस्येति । मुक्तावपीति सम्बन्धः । तत्पक्षो मुख्याभेदपक्षः । जीवस्यौपाधिक एव परमात्मनो भेदः । अभेदस्तु खाभाविक इति बदता मुक्ती भेदाभावो वाच्यः । तत्राविद्याया अन्तःकरणादेवाभावात् । न च तयुज्यते मुक्वान्नाप जीवनह्मणोर्भेदस्य मागुदाहृताभिः श्रुतिस्मृतिभिरभिहितत्वात् । अतः प्रमाणविरुद्धत्वादस्य पक्षस्य हेयत्वमेव । द्वितीय निराचष्टे ॥बेतनत्वादीलि। सादृश्यमित्युपलक्षणम् । तत्प्रधानकत्वाद्यपीति द्रष्टव्यम् । अभेदोऽङ्गीकृतश्चेत्कथं तत्पक्षनिग्रह इत्युक्त (मित्यत ) मत आह ॥ नेति । क्वचिदिति संसारे मुक्तौ चेत्यर्थः । न केवलं युक्तिविरुद्धो जीवब्रह्मणोर्भेदाभेदाङ्गीकारः किं तहि श्रुतिविरुद्धोऽपीत्याह ॥ न केनचिदिति । भेदेन सहितोऽभेदो भेदाभेदः । क्वचिदपीति सम्बन्धः । वाशब्दः समुच्चये । ऋतेयोगे द्वितीयाऽप्युपसङ्ख्यातव्या । श्रौतमयोगात् । अपिशब्दः समुच्चये । वाशब्दो विकल्पार्थः । स च व्यवस्थितो विकल्प: समुदायस्ते न के (न) चिद्भेदाभेदो (दोऽस्ति ) नास्ति । स्वगुणादीन्विनाऽभेदो नास्तीति । केनचिदपीत्यन्वयः । एतेन जीव. ब्रह्मणोभेदाभेदी द्वावापि स्वाभाविको । न तु भेदोऽविद्याधुपाघिनिवन्धनः । अतो मुक्तावपि भेदसद्भावानास्माकं मुक्तभेदवचन- विरोध इति वदन्यादवप्रकाशोऽपि निरस्तः । क्वचिकेनचिदिति विशेषश्रुतिविरोधादिति । टिक--॥ ॐ अशा नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ ॥ भेदस्य मुक्तौ वचनादित्युत्तरभाष्यस्यासू- वार्थव्याख्यानरूपत्वादानर्थक्यमित्याशक्य करिष्यमाणस्वकीयसूत्रव्याख्यानदाायोपोद्धातसङ्गत्या तदपव्याख्याननिरासार्थत्वान्न तदिति भावेन सूत्रा- पव्याख्याननिरासपरतयोत्तरग्रन्थं योजयितुं तदनुवदति ॥ केचिदिति । अद्वैतवादिन इत्यर्थः । किं तज्जीवस्य परमात्मानं प्रत्यंशस्वमित्यतः प्रस- क्तानभिमतांशस्वनिरासपूर्वकं स्वाभिमतमंशत्वं निर्वक्ति || अंशत्वं चेति । अत्रारम्भकादिषु लोकेंऽशस्वप्रसिद्धिः पक्षप्रसञ्जिकेति द्रष्टव्यम्। खण्ड- स्वं छिन्नभागत्वम् ॥ पटादिवदिति । न च गगनादौ सत्यपि सप्रदेशत्वेऽनित्यत्वाभावाव्यभिचार इति वाच्यम् । परमते गगनादिनिस्यताया बहु- कालावस्थायितामात्ररूपत्वेन वस्तुतस्तन्नित्यताया अभावादित्याशयात् । नाप्यत्यन्ताभिन्नत्वम् । पटाद्भिन्नेऽप्येकसिंस्तन्तौ पटांशत्वव्यवहारादिति - भावेन परिशिष्टं दर्शयति ॥ किन्नामेत्यादिना । नन्वेवमद्वैतवादविरोधो भेदाभेदयोः परस्परविरोधित्वादेकनासम्भवश्च जीवब्रह्मणोः सुखदुःखादि- व्यवस्थाऽनुपपत्तिश्चेत्यतो भेदस्यौपाधिकत्वेन स्वाभाविकभेदानगीकारानाद्वैतवादविरोधः । उभयोः स्वाभाविकत्वस्यौपाधिकत्वस्य वाऽनभ्युपगमा- शे०७० ॥४७॥ नैकवासम्भवोऽपि । जीवब्रह्मणोबिम्बप्रतिबिम्बभावाभ्युपगमान्मुखप्रतिमुखयोः श्यामतावदातत्यादिव्यवस्थावत्सुखदुःखादिव्यवस्थाऽत्रोपपद्यते उपाधेः प्रतिबिम्बपक्षपातित्वादिस्याशयेन भेदाभेदयोपाधिक्त्वस्वाभाविकत्वे आह ॥ तत्रति । एके मायावादिनः । अन्ये भास्करादयः । भवेज्जीवस्थ भिन्नाभिन्नत्वरूपमंशत्वं यदि जीवस्य परमात्मना भिन्नाभिन्नस्वमेव सिद्धं स्यात्तदेव कुत इति पृच्छति ॥ कुत एतदिति । परमात्मनाऽस्यन्ताभिन्नत्व- वि०० स्यैव वा तदत्यन्तभिन्नत्वस्यैव वा सम्भवेन भेदाभेदपर्यन्तधावने निमित्ताभावादिति भावः । नानाव्यपदेशान्नानास्वव्यपदेशात् । भेदत्वव्यपदेशादि- त्यर्थः । असति भेदे भेदनिर्देशानुपपत्ते त्यन्ताभेद इति भावः ॥ किन्तु सर्वेषामिति । एतच्चोदाव्हियमाणप्रमाणे हीनजन्तूदाहरणासिद्धमिति द्रष्टव्यम् । ब्रह्म दाशा इत्यादौ दाशा ग्राम कितवा ब्रह्मेत्यादियोजना द्रष्टव्या । ब्रह्मणो दाशकितवादिस्यमधीयत इत्यस्योक्तप्रतिज्ञानुरोधेन दाशादीना ब्रह्मत्वमयित इत्यर्थः । नन्वेवं भेदाभेदयोरुभयोरपि प्रामाणिकत्वाविशेषा शेषादभेदः स्वाभाविको भेदस्त्वौपाधिक इति कुतो वैपरीत्यस्यापि सुवच- स्वादिति चेदुच्यते । अनधिगतार्थावबोधकान्येव खलु सर्वाणि प्रमाणानि । अनधिगतार्थगन्तृ प्रमाणमिति तल्लक्षणात् । विशेषतस्तुशब्दस्तस्य परार्थत्वात्ततश्च भेदो लोकसिद्धत्वान्न शब्देन प्रतिपाथः । अभेदस्त्वनविगतत्वादधिगतभेदानुवादेन प्रतिपादनमर्हति । येन च वाक्यमुपक्रम्यते मध्ये * च परामृश्यतेऽन्ते चोपसलियते तत्रैव तस्य तात्पर्यम् । उपनिषदश्चाद्वैतोपक्रमतत्परामर्शतदुपसंहारा अद्वैतपरा एव युज्यन्ते । न च यत्परास्तदोष- चारिकमन्यच्च स्वाभाविकमिति युज्यत इत्यभेद एव स्वाभाविको न भेद इत्याशयात् । अभेदस्य सादृश्यादिरूपत्वे भेदस्येत्युत्तरभाष्यस्य मुख्या- भेदस्वे च चेतनत्वादीत्युत्तरभाष्यस्यासङ्गतिमाशङ्कय सम्भावितविकल्पप्रदर्शनपूर्वक तत्तत्पक्षदूषणपरत्वेनोत्तरभाष्य योजयितुमपव्याख्यानस्य दुष्टतां प्रतिजानीते ॥ तदिदामिति । यथास्थितान्वये वैय्यर्थ्यप्रसङ्गादपिशब्दस्य भिन्नक्रमतामाह ॥ मुक्तावपीति ॥ सम्बन्ध इति । माया- वादिमतानुसारेणाह ॥ अविधाया इति । भास्करादिमतेनाह || अन्तःकरणादेवेति । तत्प्रधानत्वादीत्यादिपदेन तत्तन्त्रत्वादिपरिग्रहः ॥ कथ- मिति । अभेदाङ्गीकारतरपक्षनिग्रहयोर्विरुद्धत्वादिति भावः । ननु भेदाभेद इति नेतरेतरद्वन्द्वः । तथा सति भेदाभेदाविति द्विवचनापत्त्यैकवच- नानुपपत्तेः । नापि समाहारद्वन्द्वः । तथा सति समाहारस्यैकरवादेकवचनं क्लीबता चेति नपुंसकत्वापत्त्या पुल्लिङ्गत्वानुपपत्तिरित्याशय शाकपार्थिन वादित्वान्मध्यमपदलोपी समासोऽयमित्याशयेनाह ॥ भेदेनेति । अपि वेत्यत्रान्यतरेणैव न केवलं न केनचिदभेदो नास्तीत्येव किन्तु केनचिढ़ेदा-* भेदोऽपि नास्तीति समुच्चयस्य सिद्धयाऽन्यतरवैय्ययमित्याशक्य वाशब्दस्योक्तरीत्या समुच्चयार्थत्वस्यापिशब्दस्य क्वचिदपीति भिन्नक्रमताया आश्रयणादुभयोरपि सार्थक्यमित्याह ।। क्वचिदपीति सम्बन्ध इत्यादिना । नन्वन्यारादितरत इति ऋतेशब्दयोगे पञ्चमी विधानाहते कृष्णादि- तिवत्समुदायादृत इति पञ्चम्या भवितव्यं समुदायमृत इति द्वितीया तु कथम् । न चोभसर्वतसोरित्युपपदविभक्तिविधौ ततोऽन्यत्रापि दृश्यत इत्य- * नेनोपपदान्तरयोगेऽपि द्वितीयाविधानादृतेशब्दयोगेऽपि द्वितीयोपपत्तिरिति वाच्यम् । अन्यत्रापि दृश्यत इत्युक्त्या प्राप्तोपपदानियमपरिहारायैवाभितः परितः समयानिकषाहाप्रतियोगेष्विस्यन्यत्रापीयुक्तान्येषां परिगणनेन तेनात्र द्वितीयाया अनिवाहादित्यतो विनाऽर्थस्य ऋतेशब्दस्यान्यनापीयुक्ता- #न्यपरिगणनायां वृत्त्यादावपरिगणितत्वेऽपि दृशिग्रहणस्य प्रयोगानुसारार्थत्वाच्चैत्रं यावच्छीतमित्यादी यावच्छीतमित्यादेवि समुदायमृत इति श्रौत- * प्रयोगस्यात्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययमित्यापप्रयोगस्यान्यत्रापि पुरुषाराधनमृत इत्यादिप्रयोगस्य च दर्शनादन्यपरिगणनवाक्ये ऋतेशब्द- * स्यापि परिगणनीयत्वाद्युक्तोऽनेन प्रतेशब्दयोगेऽपि द्वितीयाविधिरत एव कौमुद्यामाचार्यमृतेशब्दस्यापि तत्र परिगणनमृत द्वितीया चेति चान्द्रं सूत्रं *च सङ्गच्छत इत्याशयेनाह ॥ ऋतेयोगेऽपीत्यादिना । स्वगुणादीन्विनाऽपि वेत्यत्रापिशब्दवाशब्दयोरन्यतरेणेव न केवलं समुदायमृत इत्येव * किन्तु स्वगुणादीन्विनाऽपीति समुच्चयस्य सिद्धिसम्भवादन्यतरवैय्यमित्याशक्योभयोरर्थभेदमाह ॥ अपिशब्दः समुच्चय इत्यादिना । ताह समुदायमृते वा स्वगुणादीन्विना वा केनचिदभेदो नास्ति समुदायमृते वा स्वगुणादीन्विना वा केनचिद्भेदाभेदो नास्तीत्युक्तं स्यात् । ततश्च स्वगु- णादिभिरभेदस्येव भेदाभेदयोरनेकस्वरूपसमुदायेन भेदाभेदयोरिवात्यन्ताभेदस्य च प्रसङ्गाबहुविश्लवापत्तिरित्यतो भवेदेवं यद्यत्र वाशब्दोऽव्यवस्थित- विकल्पार्थः स्यान्न चैतदस्तीस्याह ॥ स चेति । व्यवस्थितविकल्पमेव दर्शयति ॥ समुदायमृत इत्यादिना । इतीत्यस्येति व्यवस्थित इति पूर्वेण सम्बन्धः ॥ केनचिदपीत्यन्वय इति । यद्यप्युदाहृतश्रुत्या समुदायमृतेऽन्येन केनचिद्भेदाभेदाभावस्येव स्वगुणान्विनाऽभेदाभावस्याप्यभिधाना- तदनुसारेण तस्य केनचिद्भेदाभेदोऽभेदश्च नास्तीत्यभेदसमुच्चयार्थतयाऽपि भेदाभेदोऽपि केनचिदित्यपिशब्दो योजयितुं शक्यते तथाऽपि जीव-

श०च०
तु०टि०
ब्राह्मणोर्भेदाभेदाङ्गीकारस्य श्रुतिविरुद्धरबोपदर्शनायोदाहृतश्रुतितारपर्यकथनपरे आचार्यवाक्ये तदभेदस्य श्रुतिविरुद्धत्वकथनस्य प्रक्रमासमतत्वात्स-
मुदायमृते केनचिदपि भेदाभेदो नास्तीति योजनायामर्थपुष्टिलाभाच्च भिन्नक्रमत्वाश्रयणमिति ध्येयम् । एतेनेत्युक्तमेव विशदयति ॥ क्वचिदित्यादि।
-अभेदश्रुतयोऽशत्वात्सादृश्यं चांशताऽस्य तु ॥ अंशस्तु द्विविधो शेयः स्वरूपांशोऽन्य एव च ॥विभिन्नांशोऽल्पशक्तिः द्वितृ०
स्यात्किञ्चित्सादृश्यमात्रयुक् ॥ अंशिनो यत्तु सामर्थ्य यत्स्वरूपं यथा स्थितिः॥ स एव चेत्स्वरूपांशः प्रादुर्भावा हरेर्यथा ॥ सूर्य-* अ० १८
मण्डलमान्ये कस्तत्प्रकाशाभिमानवान् ॥ सूर्योऽथ सप्तमाब्धेश्च बाह्योदस्य च वारिपः ॥ कठिनत्वेन मेर्वादेः पृथिव्या अपि देवता ॥ *
धरादेव्येवमेवैको भगवान्विष्णुरव्ययः ॥ नानावताररूपेण स्थितः पूर्णगुणः सदा ॥ विण्मूत्राद्यभिमानिन्यो यथाऽपभ्रष्टदेवताः ॥
सूर्यादिभ्यस्तथैवायं संसारी परमात्पृथक् ॥
सु०-यद्येवं जीवब्रह्मणोर्न भेदाभेदो कथं तर्हि सौत्रं भेदाभेदश्रुत्युदाहरणमित्यतः स्वमतेन सूत्रतात्पर्यमाह॥अभेदेति। उप-
लक्षणमेतत् । भेदश्रुतयश्चेत्यपि द्रष्टव्यम् । अंशत्वादेव युपपद्यन्त इति शेषः । अयमर्थः । जीवः परमात्मनोंऽश इति प्रतिज्ञातार्थेनाना
व्यपदेशादिति पुत्रभातृत्वादिनानाविधसम्बन्धव्यपदेश हेतुमभिधायान्यथा चापीत्यादिनाऽर्थापत्तिरप्युच्यते। तथा हि । जीवब्रह्मणो/- 2
दमभेदं च वदन्त्यः श्रुतयस्तावद्विधन्ते । ताश्च जीवस्य ब्रह्मांशत्वादेव ह्युपपद्यन्ते नान्यथा । यदि जीवो ब्रह्मणो घटइव पटादत्यन्तभिन्नः ।
स्यात्तदाऽभेदश्रुतय उपरुध्येरन्। यदि वा ब्रह्माभिन्नः स्यात्तर्हि भेदश्नुतयो बाध्येरन्। न च भेदाभेदाश्रयणेन श्रुतिद्वयसामञ्जस्यं वाच्यम्। न *
केनचिदित्युदाहृतश्रुतिविरोधात् । अतो भेदाभेदश्रुत्यन्यथाऽनुपपत्या जीवो ब्रह्मणोऽशोऽङ्गीकार्य इत्येव सूत्रार्थ इति । एतदर्थं च न
केनचिदित्येकवाक्यतया वा योज्यम् । यथोक्तम् । यतो भेदेन तस्यायमभेदेन च गीयते । अतश्चाशत्वमुद्दिष्टं भेदाभेदी न मुख्यत
इति । परमात्मशित्वं चेदुपगतं जीवस्य कथं तर्हि न भेदाभेदाङ्गीकारः। प्रकारान्तरेणांशत्वस्य निर्वक्तुमशक्यत्वात् । मत्स्यादिषु परमे-
श्वरांशेष्वभेदस्याङ्गीकृतत्वाच्चेत्यत आह । सादृश्यं चेति । अस्य जीवस्य परमेश्वरांशता तु तत्सादृश्यम्। चशब्दात्तदधीनसत्तादिमत्त्वं *
॥४८॥

चेत्यर्थः । एतेन पुंस्त्वादिवदित्यनेनैवेदं गतार्थमधिकरणमित्यपि निरस्तम् । यद्वा चशब्दोऽवधारणार्थः । सत्यम् । मत्स्यादिष्वभेद- निमित्तकोऽशशब्दः । तथाऽपि मुख्यांशसादृश्यं तत्सत्तयैव सत्तावत्वलक्षणमेव जीवस्यांशत्वं गौणोऽयमंशशब्द इति यावत् । अंश- शब्दस्यानेकार्थत्वं तत्र मत्स्यादीनां स्वरूपांशत्वं जीवानां त्वतथाभूतांशत्वमित्येतत्कुत इत्यतोऽत्रागमवाक्यं पठति ॥ अंशस्त्विति । द्विविध एवं न त्वेकविध एवेत्यन्वयः । किश्चित्सादृश्यमात्रयुगिति पुरोवदुभयथा व्याख्येयम् । सामर्थ्य सृष्टयादिकर्तृत्वादिलक्षणम्। खरूप पूर्णानन्दादिकम् । स्थितिः सर्वगतत्वादिपरिमाणम् । स एव चेत्तत्सामर्थ्यादियुक्तश्चेदंशस्तदासौ तत्स्वरूपांशो ज्ञातव्यः । प्रादुर्भावा इति तस्यैवोदाहरणम् । एवं जीवा यथेत्याधस्याप्युदाहरणं द्रष्टव्यम् । अनेन प्रकाशादिवन्नैवं पर इत्यस्य तात्पर्यमुक्तं भवति । मत्स्यादीनी जीवानां च परमेश्वरांशत्वसाम्येऽपि नैकमकारता किन्तु मत्स्यायाः स्वरूपांशा एव जीवा विभिन्नांशा एवे. त्यत्रासम्भावनानिरासाय प्रकाशवदिति सूत्रकृता दृष्टान्ता दत्ताः । ते चायुक्ता इव प्रतीयन्ते उभयत्र भेदाभेदसद्भावादित्याशङ्का- निरासाय भाष्यम् । अभिमानिदेवतापेक्षयतदिति । तदविस्पष्टमित्यतः सौत्रान्दृष्टान्तान्स्पष्टयति ।। सूर्येति । सूर्यमण्डलमान्यंशी सूर्यस्तत्वकाशाभिमानवस्तिदंशश्चक एव । यथेति सर्वत्रान्वीयते । अथशब्दः समुच्चये । बाह्योदस्याभिमान्यंशी वारिपः सप्तमाब्धे-* रभिमानी तर्दशश्चक एवं । पृथिव्याः पश्चाशत्कोटिविस्तीर्णाया अभिमानिन्यंशिभूता (देवता ध) धरादेवी मेवर्वादेरभिमानिनी देव- ताऽप्यशरूपैकैव । मेरुहिमवदादेः पुरुषा अभिमानिनः पुराणेषु प्रसिद्धा इत्यत उक्तं कठिणत्वेनेति । यत्कठि (नं) णं सा पृथि- वीति श्रुतेधरादेव्येव सर्वस्याः पृथिव्या अभिमानिन्यवान्तराभिमानिनस्त्वन्ये इति । अनेन स्वरूपांशो निदर्शितः । दान्तिक - दर्शयति ॥ एवमेवेति । भगवान्विष्णुरंशी नानावताररूपेण स्थितोऽशश्चक एवेति योजना । अव्ययः सदा पूर्णगुण इत्यागामि- सूत्रानुसारेणाभेदोपपादनम् । विभिन्नांशदृष्टान्तविवरणपूर्वकं दार्टान्तिकं विकृणोति ॥ विण्मूत्रेति । टि०-नन्वत्राभेदश्रुतीनामंशत्वादुपपत्तिकथनेऽपि भेदश्रुतीनां तदकथनान्न सौत्रभेदाभेदश्रुतिगतिकथनपरता भाष्यस्य युज्यत इत्यत उप-

अ०१८
सुरुटि
लक्षणतया भाष्यं व्याचष्टे ॥ उपलक्षणमेतदिति । भेदाभेदश्रुत्यन्यथाऽनुपपत्यांऽशस्वसिद्धर्भाष्यारूढतासिद्धयर्थमनुरूपं शेषं सम्पूर्य साकाङ्क्षतया
प्रसक्तां वाक्याभासतां परिहरति ॥ एतद्युपपद्यन्त इति शेष इति ॥ एतदर्थ चेति । अन्यथा चापीति सूत्रखण्डोक्तभेदाभेदश्रुत्यन्यथाऽनुपपत्ते- शे००
मैदाभेदाभ्यामन्यथोपपत्तिनिरासासिद्धयर्थ चेत्यर्थः ॥ एकवाक्यतया वेति । अन्यथा भेदाभेदाश्रुतिरन्यथाऽनुपपत्त्यसिद्धवा तया जीवल्यांशत्व-द्वितः
सिद्धययोगादिति भावः । भेदाभेदश्रुत्यन्यथाऽनुपपत्त्यांऽशो जीव इत्यत्र भाष्योदाहृतं प्रमाणवाक्यं सम्मतित्वेनाह ॥ यथोक्तमिति । वाराह- *
पुराण इति शेषः । ननु सादृश्यं चाशताऽस्य स्वित्युत्तरभाष्यमनर्थकमित्याशङ्क्यांशत्वाङ्गीकारप्रसक्तभेदाभेदाङ्ग कारपरिहाराय प्रकारान्तरेणां
शत्वनिर्वचनपरत्वात्तस्य नानर्थक्यमित्यभिप्रायेणांशत्वाङ्गीकारप्रयुक्तभेदाभेदाङ्गीकारशङ्कामुत्थापयति ॥ परमात्मांशत्वं चदिति । परमात्मा
शत्वाङ्गीकारेण कथं भेदाभेदाल्गीकारप्राप्तिरित्यतः परमात्मनोऽनारब्धस्वेन तदारम्भकत्वरूपस्याच्छेयरवेन खण्डत्वरूपस्य पटादिवदनित्यत्व-
प्रसक्या प्रदेशत्वरूपस्य चांशत्वस्यासम्भवेन जीवे भिन्नाभिन्नरवरूपस्यैव तस्य वाच्यत्वेन युक्तैव परमात्मांशत्वामीकारेण परमात्मना भेदाभेदाङ्गी-||
कारप्राप्तिरित्याह ॥ प्रकारान्तरेणेति । उत्तरग्रन्थस्य जीवेऽशशब्दप्रवृत्ती सादृश्यरूपनिमित्ताभिधानमुखेनांशशब्दस्य गौणत्वव्युत्पादनाभिप्राय
कत्वाच्च नानर्थक्यमिति भावेन किं तद्व्युत्पादनेनापीत्यतो मत्स्यादिवदभेदनिमित्तकांशशब्दवाच्यत्वेन प्रसक्तस्य परमात्माभेदस्य परिहारार्थत्वान्न
तदिति भावेन तत्परतयाऽप्युत्तरग्रन्थं सङ्गमयितुमंशशब्दवाच्यत्वेन जीवस्य परमात्माभेदसिार्द्ध मनसि निधाय दृष्टान्तासिद्धिं परिहरति ॥
मत्स्यादिष्विति । अङ्गीकृतत्वादिस्यत्रांशशब्दप्रवृत्तिनिमित्तत्वेनेति शेषः । नन्वत्र सादृश्यस्यांशतात्वमुच्यते न त्वंशत्वस्य सादृश्यरूपत्वं तत्कथ-
मनेनोक्तशङ्कापरिहार इत्यतो यथेदमंशस्वनिर्वचनपरं स्यात्तथा योजयति ॥ अस्येत्यादिना। तीस्य जीवस्य परमात्मांशतातत्सादृश्यमित्ये-
तावतैवांशस्वनिर्वचनसिद्ध्या भाष्ये चशब्दवैय्यर्थ्यमित्याशक्य नैतावन्मात्रमंशत्वं किन्त्वधिकमपि ततश्च तत्समाहकत्वाच्चशब्दस्य न वैयथ्ये-
मित्यभिप्रेत्य चशब्दसगृहीतमर्थ दर्शयति ॥ चशब्दादिति । ननु तत्सादृश्यमेवांशत्वमत्रांशशब्देन विवक्षितमस्तु किमंशत्वकोटावधिकविशेषण-
प्रक्षेपेणेस्यत आह ॥ एतेनेति । अधिकविशेषणप्रक्षेपणेत्यर्थः ॥ गतार्थमिति । एतदधिकरणव्युत्पाद्यस्य ज्ञानानन्दादिना जीवे परमात्मसादृश्यस्य
न
॥४९॥

तद्गुणसारस्वोपपादकेन पुंस्त्वादिवदित्यधिकरणेनैव सिद्धत्वादिति भावः । विशिष्टस्यांशपदार्थत्वे तु तस्य पूर्वमविचारितत्वान्न तदिति द्रष्टव्यम् । द्वितीयशङ्कापरिहारकत्वेनापि मूलं योजयति ॥ यद्वेति । सादृश्यनिमित्तकत्वमात्रेण जीवेंशशब्दस्य गौणत्वसिद्धेविशेषणान्तरस्यानपेक्षितस्वात्तास- मुच्चायकचशब्दवैय्यर्थ्यमित्यतो जीवेऽशशब्दप्रवृत्तौ सादृश्यमेव निमित्तम् । न तु मत्स्यादिष्विवाभेद इत्यभेदव्यावर्तनार्थत्वान्न तदिति भावेन * चशब्दमवधारणार्थतया व्याचष्टे ॥ चशब्द इति । तथापीति । अत्र मुख्यांशसादृश्यमेव जीवस्यांशवमंशपदवाच्यतायां निमित्तं न स्वभेद इत्यंशशब्दवाच्यत्वेन मुख्यांशसादृश्यसिद्धावपि नाभेदसिद्धिरित्येताक्तोक्ताक्षेपपरिहार इत्यस्तु किं तन्मुख्यार्थसादृश्यमित्याशङ्कापरिहाराय तत्स्वरूपनिरूपणपरमित्यवधेयम् । मूले सादृश्यस्य निमितत्वोक्तेस्तात्पर्यमाह ॥ गौणोऽयमंशशब्द इति यावदिति । यद्यपि मुख्यांशे मत्स्या- दावैश्यात्सत्तयोः स्वसत्तयैव सत्तावत्त्वं जीवे च तत्सत्ताधीनसत्तावत्त्वमित्यस्ति वैषम्यं तथाऽपि मुख्यांशे मत्स्यादावमुल्ये जीवे च भगवत्सत्तया सत्तावत्त्वं सामान्यमक्षतमेवेत्यभिप्रायेणैवमुक्तमिति ज्ञेयम् ॥ अनेकार्थत्वमिति । अभेदमुख्यांशसादृश्यरूपप्रवृत्तिनिमित्तभेदादिति भावः ॥ पुरोवदिति । सादृश्यं चाशताऽस्य स्विति पुरोवदित्यर्थः ॥ उभयथेति । अंशिभूतपरमेश्वरेण किञ्चिरसादृश्यमान्युगित्यंशशब्दमुख्यान मत्स्या-* दिना यत्किञ्चित्सादृश्य तत्सत्तयैव सत्तावत्वरूपं तन्मात्रयुगित्युभयथेत्यर्थः ॥ अयुक्ता इति । प्रकृतासङ्गता इत्यर्थः ॥ उभयत्रेति । काला-2 ग्न्यमृताब्धिमेरुषु खद्योतमूत्रविष्ठासु चेत्येवमुभयत्रेत्यर्थः ॥ भेदाभेदेति । कालामिखद्योतादीनां तेजःप्रभृतिभूतकार्यतयांऽशिभूतस्तेजआदिभिर्भेदा- * भेदसाम्यादित्यर्थः । ततश्च न तद्दष्टान्तेन मत्स्यादीनां जीवानां च स्वरूपांशत्वभिन्नांशस्वव्यवस्था सिध्यतीति भावः ॥ यथेति सर्वत्रान्वीयत इति । अनेन प्रादुर्भावा हरेर्यथेति पूर्वधाक्याद्यथेतिपदस्यात्र सर्वत्रानुवृत्तिरित्युक्तं भवति ॥ अन्य इति । पुरुषा इत्यर्थः ॥ आगामित्रानु- सारेणेति । न स्थानतोऽपीत्यभेदोपपादकागामिसूत्रानुसारेणेत्यर्थः । अनेन यत्क्वचिद्भाष्यादावभेदोपपादनं दृश्यते तदप्यागामिसूत्रानुसारेणैवेत्युक्तं भवति न तु तदेतदधिकरणप्रमेयम् । स्वरूपांशभिन्नांशयोबेलक्षण्यमात्रोपपादकतया तस्य तदभेदोपपादकत्वाभावादिति द्रष्टव्यम् । अ०-॥ ॐ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॐ ॥ देहदोषैश्च दुष्टत्वादपभ्रष्टाख्यदेवताः ॥ अन्यास्सूर्यादिदेवेभ्यो हानुमा- सुगटे ॥५०॥ न ह्याश्च तस्सदा ॥ एवमेव पराद्विष्णोः पृथक् संसारिणो मताः ॥ अनुमाद्याश्च तेनैव तत्प्रसादाच मोक्षिणः ॥ न तु मत्स्यादिरूपाणा- मनुग्राह्यत्वमिष्यते॥ सु०-अपभ्रष्टनामका देवता अंशरूपाः सूर्यादिभ्यः सूर्यवरुणपृथिवीभ्योऽशिभ्यो व्युत्क्रमेण यथा पृथक् । जीवांशानाम- शे०० द्वि०४० शिनः परमेश्वरात्पृथक्त्वं युक्तितः समर्थयितुं सूत्रम् ।। अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवदिति । अत्रापि दृष्टा- अ०१८ न्तानामसङ्गतिमाशङ्क्याभिमानिविषयतया व्याख्याति ॥ देहेति । परदेहगतदोषैः । देवतात्वं त्वन्तधोनादिशक्तियोगः । चशब्दो हेत्वोः समुच्चये । हि यस्मादनुग्राह्याश्च तैः सूर्यादिभिस्तलासादायत्तप्रतिबन्धनिवृत्तित्वाच्चेत्यपि द्रष्टव्यम् । अनुग्रावार्थत्यादौ यत इति शेषः । देहदोपलिशत्वादित्यापि ग्राह्यम् । नन्वनुज्ञादिहेतुत्रयं स्वरूपांशेषु मत्स्यादिष्वस्तीत्यनैकान्तिकं न जीवांशानां परमेश्वरा- देदं साधयितुमलमित्यत आह ।। न त्विति । अनुग्राह्यत्वमित्युपलक्षणम् । नेष्यते नैव ते जायन्ते इत्यादिश्रुतिबलेनेति शेषः। टि०-॥ ॐ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॐ ॥ ॥ व्युत्क्रमेणेति । पृथिवीवरुणसूर्येभ्य इति व्युत्क्रमेणेत्यर्थः । विमत्राक्ष्यभिमान्यपभ्रष्टदेवानां सूर्यवरुणपृथिवीभ्य इति निर्देशक्रमेण सूर्यादिभिन्नांशस्वस्य बाधितत्वादिति भावः ॥ असङ्गतिमिति । अनुज्ञाप- रिहारादेर्भाष्योक्ताक्ष्यादिजडेप्बसम्भवादिति भावः । सूर्यादिदेहदोषैर्दुष्टस्वस्य तस्त्वरूपांशेषु प्रकाशाद्यभिमानिषु सत्त्वादनैकान्तिकत्वमाशङ्क्याह ॥ परदेहेति । परदेहदुष्टस्त्वं च न देवानामस्ति । प्रेरका अपि पापानां न देवाः पापमाप्नुयुरित्युत्तरत्र बक्ष्यमाणत्वादिति भावः । ननु परदेहदोष- लिप्तानामपभ्रष्टानां कथं देवतात्वमित्यत आह ॥ देवतात्वं त्विति । देहदोषदुष्टत्वस्योक्तप्रतिज्ञायां हेतुत्वावगमकपञ्चमीविभक्तेरिव तैः सदाऽनुग्रा- ह्यत्वस्य तदवगमकविभक्तेरश्रवणास्कथं हेतुत्वसिद्धिरित्यतो हिशब्दबलात्तत्सिद्धिरित्यभिप्रेत्य हिशब्द हेत्वर्थतया व्याचष्टे ॥ हि यस्मादिति । ॥५०॥ दार्टान्तिके तत्प्रसादाच्च मोक्षिण इति श्रवणादाह ॥ तत्मसादति । अक्ष्यभिमानिनोऽपभ्रष्टदेवस्य प्रतिबन्धकस्तमोऽभिमानी श्लेष्माभिमानिनस्तु प्रतिबन्धकः पित्तधास्वभिमानिनी विष्ठाभिमानिनश्च प्रतिबन्धको रोगाभिमानी । एतन्निवृत्तिश्च तेषां स्वांशिप्रसादायत्तेत्यर्थः । अनुग्राह्याश्च तेनैवे- न त्यादिनोक्तस्य तेनैवानुग्राह्यत्वस्य तत्प्रसादान्मोक्षित्वस्य चोक्तप्रतिज्ञायां हेतुत्वलाभायापेक्षितं शेषमाह ॥ अनुग्राह्याश्चेत्यादाविति । देहदोषैश्व दुष्टत्वादिति दृष्टान्ते श्रवणादाह ॥ देहति ।। हेतुत्रयमिति । तदनुग्राह्यस्वतत्प्रसादायत्तप्रतिबन्धनिवृत्तित्वदेहदोपलिप्तत्वरूपमित्यर्थः । नन्वनेनानु- ग्राह्यत्वस्य व्यभिचारपरिहारेऽपीतरहेतुद्वयस्य न तत्परिहारसिद्धिरित्यतोऽत्र मूलेऽनुग्राह्यत्वमित्यस्येतरहेतुद्वयोपलक्षणत्वेनानुग्राह्यस्वमानपरत्वाभावा. व्यभिचारपरिहारसिद्धिरविकलैवेत्याशयेन हेतुद्वयोपलक्षणतया तव्याचष्टे ॥ अनुग्राह्यत्वमित्युपलक्षणमिति । नन्वेवं जीवानामपि तन्नेष्यत इति परेण वक्तुं शक्यत्वेन पक्षे हेत्वसिद्धया न तैर्भेदसाधनमपि स्यादित्यतोऽत्रेष्टिमूलभूतप्रमाणभावाभावाभ्यां विशेषाददोष इति भावेनानुरूपं शेषं यति ॥ नेष्यत इत्यादिना । अ0-1 असन्ततेश्चाव्यतिकरः ॐ गुणैरशेषैः पूर्णत्वान्मुख्याभेदो परैर्न च ॥ सु०--अत्रैव सूत्रम् ॥ असन्ततेश्चाव्यतिकर इति । तज्जीवांशानां परमेश्वराऽदमेव साधयत्प्रतीयते । न तु मत्स्यादा नामभेदमपि । तदु (अत उ) पलक्षणत्वेन व्याचष्टे । गुणैरिति । मत्स्यादिरूपाणामिति वर्तते । मुख्याभेदोशिना । अपरैजींवै- रीश्वरस्याभेदो न च तेषामपरिपूर्णगुणत्वाच्चेति। अनुज्ञापरिहारावित्येतदप्येवमुपलक्षणतया व्याख्येयम्। तदर्थ वा न तु मत्स्यादि- रूपाणामिति वाक्यं योज्यम् । टि०--॥ ॐ असन्ततेश्चाव्यतिकरः ॐ ॥ एवमुपलक्षणतया व्याख्येयमिति । मत्स्यादीनामनुशादिरहितत्वादित्यपि द्रष्टव्यमिति व्याख्येयमित्यर्थः । अन्यथा तेन जीवांशानां परमेश्वरानेदसिद्धावपि मस्यादीनामभेदासिद्धिप्रसङ्गादिति द्रष्टव्यम् ॥ तदर्थं वेति । उपलक्षणतया व्याख्यानार्थ बेत्यर्थः। आभास एव च ॐ ॥ अंशाभासाश्च सर्वेऽपि परस्यांशा न मुख्यतः ॥ यथैषा पुरुषेच्छाया एतस्मिन्नेतदाततम् ॥ न तु पुंपावत्पादा जीवा एते परात्मनः ॥ पूर्णास्तस्य गुणा एव प्रादुर्भावतया स्थिताः ॥ एवं जगाद परमा श्रुतिर्नारायणं परम् ॥ अ०---|| आभास एव च सुटि० ॥५१॥ tra मक्षयो भगवान्विष्णुलक्ष्म्यावासो लये स्थितः ॥ मुक्तस्सदा चिन्त्यमानो ब्रह्माद्यैस्तारतम्यगैः ॥ प्रकृतिः पुरुषः कालो वेदाश्चेति चतु- ष्टयम् ॥ नित्यं स्वरूपतो विष्णोर्विशेषावाप्तिमात्रतः ॥ उत्पत्तिमदिति प्रोक्तं लक्ष्मीस्तदभिमानिनी ॥ ततो जातः पुमान्नाम ब्रह्माऽ- स्यां वासुदेवतः ॥ सूत्रात्मा प्राणनामा च देव्यो प्रकृतिमानिनी ॥ ततो रूपं महन्नाम ब्रह्मणोऽहकृतिः शिवः ॥ ब्रह्मणो बुद्धिनाम्नोमा ०० तत इन्द्रो मनोमिधः ।। स्कन्दश्च तत एवान्ये सर्वे देवाः प्रजक्षिरे ॥ तत्र पूर्वतनः श्रेयान्गुणैस्सस्समस्तशः॥ तेभ्यश्च भगवान्विष्णु- द्वित० स्तदधीना हमें सदा ॥ जन्मस्थितिलयाज्ञाननियतिज्ञानसंसृतिः ॥ मोक्षश्च तदधीनत्वमेतेषां नैव हीयते ॥ मुक्तावपि स एवैकः । अ० १८ स्वतन्त्रः पूर्णसद्गुणः ॥ इति श्रुत्युपपत्तिभ्यां पादेऽस्मिन्प्रभुणोदितम् ।। २-३-१८॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य तृतीयः पादः ॥२-३॥छ ॥ छ । सु०-॥ ॐ आभास एव च ॐ ॥ एवमंशस्यापि जीवस्येश्वरानेदः प्रमाणैस्समर्थितः। यस्त्वंशत्वादभेदं साधयेत्तस्या शशब्दवाच्यत्वमात्रत्वं चेद्धेतुस्तदाऽनैकान्तिकत्वमुक्तमेव । मुख्यांशत्वं चेद्धेतुस्तदा सिद्धिरिति प्रतिपादयदाभास एव चेति सूत्र व्याचष्टे ॥ अंशेति ॥ सर्वेऽपि जीवाः । जीवानामंशाभासत्वं श्रुत्यन्तरेण द्रढयति ॥ यथेति । तथैतस्मिन्पुरुषोत्तमे एतज्जीवजा- तमाततमेतदेवास्य तदंशत्वमिति भावः । नन्वेतच्छ्रुतिविरुद्धं पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवीत्यस्मिन्मन्त्रवर्णेऽनन्तासन- श्वेतद्वीपवैकुण्ठेषु घुशब्दवाच्येष्ववस्थितरूपत्रयवद्धृतशब्दवाच्यानां जीवानामपि परमपुरुषपादत्वाभिधानादित्याशङ्कय विशेषचति- 4 बलेन पादशब्दस्यानेकार्थत्वकल्पनं न्याय्यमित्याशयवानाह ॥ न त्विति । पुंपादवत्पुरुषस्यामृतपादत्रयमिव । कुतः पूर्णाः । नारा- यणं प्रादुर्भावरूपम् । जीवांशेभ्यः परं विलक्षणम् । जगाद । अधिदैवादिस्वरूपनिर्णयाय पादोऽयमारब्ध इत्युक्तम् । तत्र कीदृशोऽत्र निर्णयो जात इत्यतस्तं बुद्धयारोहाय पिण्डीकृत्याह ॥ अक्षय इति । देहादिक्षयरहित एव प्रलये स्थितः । अनेनासम्भवस्तु सतोऽनुपपत्तेः । नात्मा श्रुतेनित्यत्वाच्च ताभ्य इत्यधिकरणतात्पर्यमुक्तं भवति । लक्ष्म्यावास इति। देव्या अपि प्रल- येऽवस्थानोक्त्या वियत्प ( देनोप ) दोपलक्षितायास्तस्या न जीववज्जननमिति । वियदादिपदोपादानेन तदभिमानित्वदशायामेव ब्रह्मादीनां देहाधुत्पत्तिर्न मुक्ताविति सूचितम् । तत्सूचयति ॥ मुक्तैरिति । तथाऽपि सृष्टिप्रलयक्रमसमर्थनेन सूचितं तारतम्यं तु तत्रापि नापैतीत्याशयेनोक्त तारतम्यगैरिति । विपर्ययेण तु क्रमोऽत इति सृष्टिक्रमविपर्ययेण प्रलये क्रमोऽभिहितः । तत्र का सृष्टौ क्रम * इत्यतस्तं दर्शयन्वियदधिकरणतात्पर्यमाह ॥प्रकृतिरिति तदभिमानिनी लक्ष्मीश्चैवमित्यर्थः। ततस्तदनन्तरम् । प्राणनामा सङ्कर्षणात् । देव्यौ सरस्वतीभारत्यौ । प्रकृतिमानिनी प्रकृतिमानिन्यौ । सुपा सुलुक् पूर्वसवर्णेति पूर्वसवर्णः। ततः प्रकृतिपुरुषाभ्याम् । ब्रह्मणो * महत्तत्त्वरूपत्वात् । ततोऽहङ्कारात् । तत एवेन्द्रस्कन्दाभ्याम् । अन्ये तत्त्वाभिमानिनः । अत्रोपलक्षितानामप्यधिकाशङ्कानिरासाय तथा प्राण इत्यादिना निर्णयः करिष्यत इत्यदोषः । सृष्टिभलययोः क्रमविपर्ययसमर्थनस्य तात्पर्यमाह ॥ तत्रेति। समस्तशस्सम- स्तेषु । तेजोऽतः। तदभिध्यानादित्यादेस्तात्पर्यमाह ॥ तेभ्यश्चेति । श्रेयानिति वर्तते । समस्तश इति पञ्चम्यन्तमत्र वा सम्बध्यते। सर्वस्य जन्मलयौ परमेश्वरायत्तावित्युक्तम् । परात्तु तच्छुतेरित्यादिना प्रवृत्तिश्च । तत्तात्पर्यमाह ॥ तदधीना इति । इमे जन्माया मोक्षान्ता भावाः । एतेषामिति वक्ष्यमाणमत्रापि सम्बध्यते । द्वन्द्वैकवद्भावेऽपि नपुंसकत्वाभाव छान्दसः। युवोरनाका. विति यथा । मुक्तौ जन्माभावेऽपि स्थित्यादौ भगवदधीनत्वमस्त्येवेत्याह । तदधीनत्वमिति । एतेषां ब्रह्मादीनाम् । परमप्रमे- यमाह ॥ स एवेति । उपसंहरति ॥ इतीति ॥ २-३-१८ ॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य मगुणजय- तीर्थाख्ययतिना ॥ कृतायां टीकायां विषमपदवाक्यार्थविकृती द्वितीयेऽध्यायेऽस्मिन्गगनचरणः पर्यवसितः ॥ २-३ ॥ छ ॥ छ । टि०--॥ ॐ आभास एव च ॐ ॥॥ अनैकान्तिकत्वमिति । अक्ष्याघभिमानिष्वपभ्रष्टेष्विति शेषः । उक्तमेवोक्तप्रायमेवेत्यर्थः परस्यांशाः सर्वेऽप्यंशाभासा इत्युक्त्या प्राप्तां मत्स्यादीनामप्यंशाभासत्वभ्रान्ति परिहरति ॥ सर्वेऽपि जीवा इति । अमृतपादत्रयमिवेत्युक्त्या पुंपा- दवदिति प्रथमान्ताद्वतिर्नियामक तूक्तमेवात्राप्यनुसन्धेयमित्युक्तं भवति । कुत इत्यतः परमित्यत आहेति पूर्णा इत्यतःपरमितीति च शेषः । मत्स्या- धावताराणां जीवापेक्षया बैलक्षण्यप्रतिपादकश्रुत्याभिप्रायकयनरूपस्य स्ववाक्यस्य श्रुतिविसंवादप्रसक्त्या यथाश्रुतार्थत्वासम्भवाच्छृश्यनुसारेण भाष्यम

सुटि०
॥५२॥
अ०१८
प्यवताराणां जीववैलक्षण्यपरतया व्याचष्टे ॥ नारायणमित्यादिना ॥ उक्तामिति । एतत्पादारम्भसमर्थनावसर इति शेषः । स्वरूपेणाक्षयत्वस्य
सर्वचेतनसाधारणत्वादेहादीत्युक्तम् ॥ अनेनेति । यद्यप्यत्र नात्मा श्रुतेरिस्येतदेवोदाहरणीयं तत्रैव देहाक्षयत्वसमर्थनात्तथाऽप्यसम्भवसूत्रस्य स्वात-
व्येण हेतुना परमात्मनो देहानुत्पत्तिकथनद्वारा तल्लयाभावोपपादकत्वमप्यस्तीस्यभिप्रेस्य तदप्युदाहृतमिति द्रष्टव्यम् । यद्वा लये स्थित इत्यसम्भवसूत्र-
साध्य देहादिक्षयरहित इति नात्मा श्रुतेरिति सूत्रसाध्यमित्यनेन प्रकारेण देहादिक्षयरहितस्यैव लयेऽवस्थितत्वरूपविशिष्टमधिकरणद्रपसाध्यमित्यभि- * शे० ०
प्रायेण सूत्रद्वयोपादानमित्यवधेयम् ।। जीववज्जननायिति । सूचितमिति शेषः ॥ वियदादिपदोपादानेति । सौत्रवियदादिपदैर्यब्रह्मादीनामुपा- वि० ०
दानं तेनेत्यर्थः ॥ सृष्टिलयक्रमसमर्थनेनेति । विपर्ययेण तु क्रमोऽत उपपद्यते च। अन्तरा विज्ञानमनसी क्रमणेत्यादिना सृष्टिलययोर्यः क्रमोऽनुरू-
पप्रतिरूपलक्षणस्तस्य समर्थनेनेत्यर्थः ॥ लक्ष्मीश्चैवमिति । विशेषावाप्तिमात्रेणोत्पात्तिमती प्रोक्तेत्येवमित्यर्थः । मूले वासुदेवत इत्युक्तत्वात्तत इत्य-
स्यानर्थक्यमाशङ्कयाह ॥ ततस्तदनन्तरंमिति । सूत्रारमाप्राणनामा चास्यां वासुदेवत एव जात इत्यन्यथाप्रतीतिनिरासायाह ॥ सङ्कर्षणादिति
॥ पूर्वसवर्ण इति । प्रथमाद्विवचनस्यौकारस्य पूर्वेण प्रकृतिमानिनी इति इकारेण सवर्णे ईकारे जातेऽकः सवर्णे दीर्घ इति सवर्णदीर्घतायां सत्या
प्रकृतिमानिनी इति प्रथमाद्विवचननिष्पत्तिरिति भावः । नन्येवं सर्वेषां तत्त्वाभिमानिनामत्रैवोत्पत्तिनिर्णयादिन्द्रियरूपतत्त्वाभिमान्युत्पत्तिनिर्णयस्या-
प्यत्रैव सिद्धत्वात्तत्प्रतिपादकानां तथा प्राणा इत्यायधिकरणानामानर्थक्यं स्वादित्यत आह ॥ अत्रेति। अभ्याधिकाशङ्कानिरासायोति । आगम-
गृहीतव्याप्स्यादिमत्त्वेनासिद्धयादिशङ्काविषयस्वशून्यतया प्रबलयुक्त्यनुगृहीतत्वेन स्पष्टार्थत्वादिना निरवकाशतया च प्रथलस्यादनादिवश्रुत्पवष्टम्भे-
नानादित्वमेव प्रमाणमित्याधिकाशङ्कानिरासायत्ययः । क्रमविपर्ययसमर्थनस्येत्यस्यानुरूपक्रमतद्विपर्ययसमर्थनस्येत्यर्थः । समस्तश इत्यस्य पञ्चम्यन्त.
स्खे सप्तम्यन्तेन तत्रेत्यनेन सामानाधिकरण्येनान्वयायोगात्सप्तम्यन्ततया व्याख्याति ॥ समस्तेविति । बाहुल्यार्थाच्छस्कारकादन्यतरस्यामित्यर्थ-
ग्रहणात्पर्यायेभ्यो विशेषेभ्यश्च भवतीत्यर्थाश्रयणारिश इत्यादाविव बहुशब्दपर्यायसमस्तशब्दात्सप्तमीकारकाच्छस्प्रत्ययः । ततश्च तेषु समस्तेष्विति
योजना सूचिता भवति ॥ तेजोऽतस्तदभिध्यानादेरिति । आये स्वातन्त्र्येण तेजआदिस्रष्टुत्वस्य द्वितीये च स्वातन्त्र्येण तत्संहर्तृत्वस्य च समर्थ-
॥५॥

नेन सर्वेभ्यो देवेभ्य उत्तमतायाः समर्थितत्वादिति भावः ॥ सम्बध्यत इति । अन्यथा सर्वोत्तमत्वाभावादिति भावः । सप्तम्यन्ततया व्याख्यातस्य तस्य पञ्चम्यन्तेन तेभ्य इत्यनेन सामानाधिकरण्येनान्वयः कथमित्यत उक्तं पञ्चम्यन्तमिति ॥ उक्तमिति । तेजोऽतस्तदभिध्यानादित्यादिनेति शेषः ॥ प्रवृत्तिश्योति । परमेश्वरायत्तेत्युक्तमिति सम्बन्धः ॥ इमे जन्माचा इति । अनेन मोक्षश्चेत्यनन्तरमितिशब्दोध्याहार्यः । ततश्चेतीम इत्यन्वय इति मूलयोजना सूचिता भवति । ननु जन्मस्थितिलयाज्ञाननियतिज्ञानसंसृतिरिति नेतरेतरयोगद्वन्द्वः । तथा सति बहुवचनप्रसक्त्यैकवचनानुपपत्तेः । नापि समाहारद्वन्द्वः । तथा सति स नपुंसकमिति तस्य नपुंसकत्वविधानेन नपुंसकलिङ्गप्रसक्त्या संसृतिरिति स्त्रीलिङ्गानुपपत्तिप्रसङ्गादित्यत आह ॥ इन्द्रकवद्भावेऽपीति । अत्रैवानुरूपं दृष्टान्तमाह ॥ युबोरनाकाविति यथेति। युबोरित्यत्र यथा द्वन्द्वैकवद्भावेऽपि नपुंसकत्वाभावश्छान्दसस्त- थाऽत्रापत्यिर्थः । अयमर्थः । युवोरिति नेतरेतरद्वन्द्व आश्रयितुं शक्यस्तथा सति द्विवचने यणादेशे च सति द्वयोर्वकारयोः प्रश्लिष्टतयोच्चारण-* सङ्गात् । न च लोपो व्योवलीति पूर्ववकारलोपान्न तत्प्रसङ्ग इति वाच्यम् । अचः परस्मिन्पूर्वविधाविति यणः स्थानिवद्भावेन बलोपाप्राप्त्या वकार- द्वयोच्चारणप्रसङ्गस्यावर्जनीयत्वात् । समाहारद्वन्द्वश्चेत्स नपुंसकामिति नपुंसकत्वे सति गुणवृद्धितृज्यद्भावेभ्यो नुम् पूर्वविप्रतिषेधेनेति वचनात् घेर्डि- तीति गुणं बाधित्वा नुमि सति युवन इति निर्देशप्रसङ्गात् । ततश्च युवोरिति पुलिशैकवचनानुपपत्तिरिति शङ्का द्वन्द्वैकवद्भावेऽपि नपुंसकत्वाभा- वस्य छान्दसत्वेन यथा परैः समाधीयते तथेति ॥ परमप्रमेयमिति । अधिदैवादिविषयवाक्यानां परस्परविरोधपरिहारस्य न प्रामाण्यनिश्चयार्थत्वम् । तथा सत्यस्य तर्कशास्त्रत्वप्रसङ्गेन मीमांसात्वव्याघातापातात् । किन्त्वविदैवादिवस्तुस्वरूपावधारणद्वारा ब्रह्मणो जगत्कारणवनिश्चयार्थत्वमेवेति तदेव मुख्यं प्रमेयं न तु प्रामाण्यमिति भावेन प्रमेयं परमतया विशेषितमित्यशेषमतिमङ्गलम् ॥ २-३-१८॥ ॥यद्वियाधीशगुरोः शुश्रूषाज्या न रोचते तस्मात् ॥ अस्वेषा भक्तियुक्ता श्रीविद्याधीशपादयोः सेवा ॥ ॥ इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां श्रीमत्सकलविद्वच्चक्रचुडामणीनां श्रीम- द्विद्याधीशपूज्यपादानां निजशिष्यस्य केशवस्य कृतौ श्रीमद्गुरुराजोपदिष्टमार्गानुवार्तन्यां श्रीमन्न्यायसुधाविषमपदवाक्यार्थावतौ शेषवाक्यार्थचन्द्रि- कायां द्वितीयाध्यायत्त्य तृतीयः पादः ॥२-३ ॥ छ ॥ छ ।

CO
॥ इति श्रीमन्न्यायसुधा शेषवाक्यार्थचन्द्रिकाटिप्पणीसमेता समाप्ता ॥
॥ द्वितीयाध्यायस्य तृतीयः पादः॥

॥अथ श्रीमन्न्यायसुधा शेषवाक्यार्थचन्द्रिकाटिप्पणीसमेता प्रारभ्यते॥
॥ द्वितीयाध्यायस्य चतुर्थः पादः॥
MERICA
COM

श्रीमदानन्दतीर्थभगवत्पादाचार्याः । HARYA (श्रीमन्मध्वाचार्याः) NA lok- ॥ श्रीगुरुभ्यो नमः ॥ हरिः ॐ ॥ म०-श्रुत्यर्थः श्रुतियुक्तिभ्यां विरुद्ध इव दृश्यते ॥ यत्र तनिर्णयं देवः सुविशिष्टोपपत्तिभिः ॥ करोयनेन पाइन तत्र स्पष्टार्थवच्छ्रुतिः ॥ विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणः ॥ दृष्टा युक्तिः समानत्वं कशक्तिविमिनिता ॥ युक्तयः पूर्वपक्षेषु सुनिर्णीतास्तु तादृशाः ॥ युक्तयो निर्णयस्यैव स्वयं भगवतोदिताः ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमह्म-* सूत्रानुव्याख्याने द्वितीयाध्यायस्य चतुर्थः पादः ।। २-४॥ छ । छ। सु०-यद्यपि चतुर्थपादेऽपि श्रुतिवचनानां परस्परविरोध एव परिहियते । तथाऽप्यध्यात्मविषयत्वेन भेदसिद्धिरिति मागेय सूचितम् । प्रकारान्तरेण पादभेदं दर्शयितुमाह ॥ श्रुत्यर्थ इति । यद्यपि श्रुतिरित्येवोक्तेऽपि सिद्धयत्यर्थ इति । वाक्यानामर्थतारैव विरोधस्थितेः । तथाऽप्यर्थनिर्णयायैव पादारम्भो न प्रामाण्यनिर्णयायातो न मीमांसात्वहानिरिति दर्शयितुमर्थ इत्युक्तम् । यद्यपि । युक्तयः पूर्वपादेपि सन्ति तथाऽप्यागमगृहीतव्याप्त्यादिमत्त्वेनात्र प्रवला इति विशेषः । पारमार्थिक विरोधे निर्णयो दुष्कर इत्यत इवेत्युक्तम् । यत्र प्राणादिविषये । श्रुत्यर्थो जन्मादिर्युक्त्युपसर्जनाभिः श्रुतिभिर्विरुद्ध इव दृश्यते । तन्निर्णयमिति योजना । युक्ति- सहितश्रुतिभिः पूर्वपक्षिते कथं श्रुतिमात्रेण तद्विपरीतार्थनिर्णय इत्यत उक्त सुविशिष्टति । अनेन बुद्धिसन्निहितेन । तथा प्राणा इत्यादीनां सूत्राणां भाष्य एवार्थो विस्पष्ट इत्यतः पूर्वोत्तरप(क्षीययु)क्षयुक्तीः सङ्ग्रह्याह ॥ तत्रेति । तत्र चतुर्थपाद । तादृशास्त- च्छब्दवाच्याः । निर्णयस्य सिद्धान्तस्य । तादृशाश्चेत्कथं निर्णयं कुर्युरित्यत उक्तं सुनिर्णीतास्त्विति । तादृशार्था इति शेषः । कुत एतदित्यत उक्तं स्वयमिति । स्वयमेवेति सम्बन्धः ॥ ॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीथाख्य- यतिना ॥ कृतायां टीकायां विषमपदवाक्यार्थविस्तौ द्वितीयेऽध्यायेऽस्मिंश्चरमचरणः पर्यवसितः ॥ २-४ ॥ इति श्रीमन्न्याय- सुधायां द्वितीयाध्यायस्य चतुर्थः पादः सम्पूर्णः ॥ समाप्तोऽयमध्यायः ॥ २॥ छ ॥ छ ।

सुटि० शे०० द्वि० ० न टि०- ननु श्रुत्यर्थः श्रुतियुक्तिभ्यामित्यादिभाप्यमनर्थकम् । न च श्रुतिविरोधपरिहारकरवेऽस्य पादश्य तृतीयपादाझेदो न स्यात्तत्रापि श्रुतीनां परस्परविरोधस्यापाकरणादिति पादभेदानुपपत्तिशङ्कापरिहारार्थ पादभेदकथनार्थरवान्नानश्क्यामिति वाच्यम् । अथाशेषसमाम्नायविरोधापा- कृर्ति प्रभुः । करिष्यन्नधिदेवाधिभूतजीवपरात्मनामित्यादिना पूर्वपाद एव पादद्वये श्रुतीनां परस्परविरोधस्यैव परिहारेऽपि तृतीयेऽध्यात्मेतरविषयश्रुति- * विरोधस्यात्र चाध्यात्मविषयश्रुतिविरोधस्य परिहारात्पादभेदस्य समर्थितत्वादित्यतः सत्येव तस्मिन्प्रकारे प्रकारान्तरेण पादभेदसमर्थनार्थत्वान्नानर्थ- क्यमिति भावेन प्रकारान्तरेण पादभेदाभिधायकतयैतद्भाप्य योजयितुं पादभेदानुपपत्तिशङ्कोस्थापनपूर्वकं प्रागुक्तं परिहार तावस्मारयति ॥ यद्यपी- त्यादिना ॥ युक्तय इति । वियदनुत्पत्तिमद्विभुवादित्याद्या इत्यर्थः । अत्र टीकायां प्रबला इति विशेष इत्येव पाठः। मूलकोशेषु दर्शनात् ।। विस्पष्टइ- त्यत इति । विस्पष्ट इत्यतः परमतो न तत्र वक्तव्यमत्ति परमाख्यविद्याव्याख्या करोमीति च प्रतिज्ञातमिति शेषः। इत्यत इत्यस्य तदुभयसिद्ध्यर्थमि- त्यर्थः । तादृशार्थी इति विशेष इत्येव पाठः । सुनिणीतार्था इत्यर्थः । अतो हतोर्युक्तं तासां निर्णयकारिवामित्याशयः । एतसिद्धान्तयुक्तीनां सुनिर्णीतार्थत्वमित्यर्थः । निर्णयस्यैवेत्येवशब्दस्य वैय्यर्थेन यथाश्रुतान्वयासम्भवाद्भिन्नक्रमतामाह ॥ स्वयमेवति सम्बन्ध इति । ततश्च स्वयमेव भगवता न तु परोपदेशमपेक्ष्य येन स्वतः सर्वज्ञत्वं न स्यादिति सूत्रकारस्य स्वतः सार्बश्यरूपविशेषसूचनद्वारा तदुपन्यस्तयुक्तीनां प्रान्त्यादिमूल. त्वाभावसूचनार्थत्वान्नैवशब्दवैयमित्याशय इस्यशेषमतिमङ्गलम् ॥ ॥ सर्वाभीष्टप्रदं रामं सर्वानिष्टनिवारकम् ॥ जानकीजानिमनिशं वन्दे सगु- रुवन्दितम् ॥ विद्वन्मत्तेभकुम्भाद्रिविपाटनविचक्षणः ।। विद्याधीशनृसिंहो मे गुरुर्नित्यं भवेन्मुद्दे ॥ यद्विद्याधीशगुरोः शुश्रूषाऽन्या न रोचते तस्मात् ॥ अस्त्वेषा भक्तियुक्ता श्रीविद्याधीशपादयोः सेवा ॥ ॥ इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां श्रीमत्सकलविद्वच्चक्रचूडामणीनां श्रीमद्विद्याधी- शतीर्थपूज्यपादानां निजशिष्यस्य केशवस्य कृतौ श्रीमद्गुरुराजोपदिष्टमार्गानुवर्तिन्यां श्रीमन्न्यायसुधायां विषमपदवाक्यार्थविवृतौ शेषवाक्यार्थचन्द्रि- कायां द्वितीयाध्यायस्य चतुर्थः पादः ॥२-४ ॥ समाप्तोऽयमध्यायः ॥ २ ॥ श्रीकृष्णार्पणमस्तु ॥ छ ॥ छ । R -

ԳՇ
ՎԵՆ ԵՒ
Աերոբի-Էբն-ն։

saina
+
।
16287
॥ इति श्रीमन्न्यायसुधा शेषवाक्यार्थचन्द्रिकाटिप्पणीसमेता समाप्ता ॥
॥ द्वितीयाध्यायस्य चतुर्थः पादः॥
.
.

No text on this page.

Nyayamrithaha Sudha Chandrika

Title
Nyayamrithaha Sudha Chandrika
File name
Nyayamrithaha Sudha Chandrika
Text
OCR done
Published
04.10.04
Language
Sanskrit
Pages
115
Library
S.V.Digital Library, Tirupati
DLI number
383528
Barcode
2040130049187.00
Scanning centre
S.V. Digital Library, Tirupati
Digital publisher
UDL TTD TIRUPATI
VMLT id
qJ7e9h65ZV2
Download PDF

Nyayamrithaha Sudha Chandrika